Books / Taittiriya Upanisad Vanamala Achuta Krishnananda Tirtha Ed. Ramaswami Sastri G. Sri Vani Vilas Press

1. Taittiriya Upanisad Vanamala Achuta Krishnananda Tirtha Ed. Ramaswami Sastri G. Sri Vani Vilas Press

Page 1

UNIVERSITY OF TORONTO 3 1761 00095288 7

Page 3

Digitized by the Internet Archive in 2010 with funding from University of Toronto

http://www.archive.org/details/taittiryopaniadb00akar

Page 5

SRI VANI VILAS

SASTRA SERIES

No. 13.

SRIRANG

VANI VILA

Copyright Registered.

Page 7

॥ तैत्तिरीयोपनिषद्धाष्यम्॥

श्रीमत्स्वयंप्रकाशानन्दसरस्वती चरणारविन्दसंलग्नरजोभूतेन अच्युतकृष्णानन्दतीर्थेन विरचितया वनमालाख्यया व्याख्यया

समेतम् ॥

जी. रामस्वामिशास्त्रिणा सम्यक्परिशोधितम् ।।

श्रीरङ्गस्थ

संमुद्रितम्। १९१३

Page 8

LIBRARY

203 1972 NIVERSITY OF TORONTO

Page 9

PREFACE.

ANAMALA is the name given to this fine and hitherto unpublished commentary by SRI ACHYUTA KRISHNA- NANDA TIRTHA, on the Taittiriya Upanishad Bhashya of Sri Sankaracharya. . The Commentator is already known to the Sanskrit Literary world as the author of the commentary on Siddhantalesa Sangraha, the famous Vedantic work of Appaya Dikshita. A perusal of this Vanamala would show how clearly this commentary has brought out the meaning of the Bhashya and how very essential it is for a right understand- ing of several of the passages. In some places are found in the commentary excellent readings of the Bhashya which were not available up to now and for want of which much difficulty was felt in construing those passages. We are sure that all San- skrit scholars will justly appreciate the value of this commen- tary and will consider the unearthing of this as a distinct gair. to Sanskrit Literature. In the preparation of this precious work for the Press we had the help of several manuscripts received from the following :- The Government Oriental Library of Mysore, Brahmasri Rangavathiyar of Kalladakurichi, and Brahmasri Muthuswamy Sastrigal of Nallur. It has been the privilege of the Sri Vani Vilas Press to bring out a collected and uniform edition of all the works of Sri Sankaracharya in 20 Vols. These Volumes contain the ext only of his works. Several of the subscribers desired to

Page 10

ii

have commentaries on these works so that they may help them to understand the texts properly. In response to this call, I have great pleasure in bringing out, as the first instalment, the Taittiriya Upanishad Bhashya with this excellent commentary. The next volume which is now in the Press is the Vishnu- sahasranama Bhashya with the hitherto unpublished comment- ary of Taraka Brahmananda. God willing, it is hoped to publish one after another rare commentaries on all the works of Sri Sankaracharya.

-.

Page 11

। श्रीः ।।

॥ विषयानुक्रमणिका॥

पृष्ठम् शीक्षावल्ली १-९२

पथमोऽनुवाक: १-१४ ....

'यस्माजातम्' इति ल्लोकेन, उपनिषत्प्रतिपाद्यस्य ब्रह्मणो जगजन्मा- दिकारणत्वेन तटस्थलक्षणेन सामान्येनोपलक्षितस्य सत्यज्ञानादिना च स्वरूपलक्षणेन विशेषतो निर्धारितस्य नमस्कारच्छलेन संक्षेपतः प्रदर्शनम् ... 'यैरिमे' इति श्लोकेन, गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्याप. यितुं गुरुवन्दनम् ... २

'तैत्तिरीयकसारस्य इति ल्लोकेन चिकीर्षितस्य निर्देशः .. २

'नित्यानि' इत्यादिना कर्मकाण्डस्य ज्ञानकाण्डेन सह नियतपूर्वोत्तरभाव- प्रयुक्तं हेतुहेतुमन्भावलक्षणं संबन्धं दर्शयितुं कर्मकाण्डार्थनिरूपणम् २

'इदानीम्' इत्यादिना, यद्यपि नित्यकर्मणामुपात्तदुरितक्षयार्थत्वेन चित्त- शुद्धिद्वारा विद्यां प्रति साधनत्वेSपि काम्यानां पशुस्वर्गाद्यनित्यफलत्वे- न ब्रह्मज्ञानेSनुपयोगान्न हेतुहेतुमन्भ्रावसंबन्धः पूर्वोत्तरकाण्डयोः संभ- वति, तथापि सकामेनानुष्ठितानां फलार्थकत्वेऽपि निष्कामेनानुष्ठि तानां तेषां विद्यासाधनत्वादुक्तसंबन्धः संभवति; तथा च निष्का- मानुष्ठितकर्मवशादुपजातशुद्धबुद्धेः कर्मफलाद्विरक्तस्य मुमुक्षोर्बन्ध- कारणकर्मानुष्ठानहेतुकामपरिहारद्वारा मोक्षफलमात्मज्ञानं वक्तव्यमि- त्युपनिषदारभ्यत इति कथनम् ..

'प्रवर्तकत्वात्' इत्यनेन, कामस्य कर्महेतुत्वे, कामे सति प्रवृत्तिरित्यन्वय- प्रदर्शनम् W ..

*T.0

Page 12

(२ ]

'आप्तकामानां हि' इत्यादिना, प्राप्तस्वरूपानन्दानां स्वात्मनि स्वरूपा- नन्दे अवस्थानात्कामाभावे प्रवृत्यभाव इति व्यतिरेकप्रदर्शनम् ... ३

'आत्मकामत्वे च' इत्यादिना, स्वरूपानन्दप्राप्तावात्मकामत्वशब्दिता- त्मसाक्षात्कारो हेतुरिति कथनम् ... ३

'आत्मा च ब्रह्म' इत्यनेन, ब्रह्मविद्यैव स्वरूपानन्दप्रात्तौ हेतुः, न आ- त्मसाक्षात्कार इति शङ्कानिरासार्थमात्मब्रह्मणोरैक्यप्रतिपादनम् ... ३

'तद्विदो हि' इत्यादिना, ब्रह्मविदः स्वरूपानन्दप्राप्तौ मानप्रदर्शनम् ३

'अतः अविद्यानिवृत्तौ' इत्यादिना, स्वरूपानन्दस्य नित्यप्राप्तत्वाद्विद्य- या तत्प्राप्तिश्रुतिरनुपपन्नेति शङ्कायाम्, नित्यप्राप्तत्वेऽप्यविद्यावृत- त्वाद्विद्यया अविद्यानिवृत्तौ स्वात्मनि यदभेदेनावस्थानं तदेव परप्राप्तिर्विवक्षिता; अतो न विद्यावैयर्थ्यशक्का इति कथनम् ... ३

'अभयं प्रतिष्ठाम्' इत्यादिना, ब्रह्मविदः परप्राप्तावेव वाक्यद्वयस्य प्रमाणतया प्रदर्शनम् .. ४

'काम्यप्रतिषिद्धयोः' इत्यादिना, मुमुक्षुणा काम्यप्रतिषिद्धयोरनारम्भाद्दे- वताशरीरप्राप्तिस्तिर्यगादिशरीरप्राप्तिश्च न संभवति, सम्यङ्नित्यनैमि• त्तिकानुष्ठानेन प्रत्यवायानुत्पादान्न भाविजन्मप्राप्तिः, आरब्धफलयो- श्र पुण्ः पापयोरुपभोगेनैव नाशान्न ततोऽपि भाविजन्मप्राप्तिः ; तथा

रूपावसथानलक्षणो मोक्षो ब्रह्मज्ञानं विनैव सिध्यतीति मीमांसका- शङ्काप्र ्शनम् ४

'अथवा'त्यादिना, यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाध- नम्,र दशब्दवाच्याया निरतिशयप्रीतेर्मोक्षादन्यत्रासंभवात् ; तथा च निर, हायप्रीतिरूपस्य मोक्षस्य कर्महेतुकत्वात्कर्मभिरेव मोक्षः सि- व्यति किं विद्ययेति, मीमांसकस्यैव प्रकारान्तरेण शङ्कायाः प्रदर्शनम् ५

'न' इत्यादिना, यद्यपि मुमुक्षुर्वर्तमानदेहे काम्यं प्रतिषिद्धं वा बुद्धिपूर्वे नारभते, तथापि संचितानामनेकेषां कर्मणां संभवादागामिदेहहे- त्वभावो न सिध्यति, अनेकजन्मान्तरकृतानां सर्वेषामेव कर्मणां संभूय वर्तमानजन्मारम्भकत्वसंभवादनारब्घफलानि कर्माणि न सन्त्यवेंति न शङ्कनीयम्, स्वर्गनरकविरुद्धफलानां ज्योतिष्टोमब्रह्मह-

Page 13

[ ३ ]

त्यादीनामेकस्मिन्देहे भोगेन क्षयासंभवात्; तथा च सन्त्येव शेषक- र्माणीति मीमांसकाद्यपक्षस्य निराकरणम् .. ५

'कर्मशेषसन्द्ावसिद्धिश्च' इत्यादिना, संचितकर्मसन्भ्रावे प्रमाणतया श्रुतिस्मृत्योः प्रदर्शनम् .. 'इष्टानिष्टफलानाम्' इत्यादिना, संचितकर्मणां सत्त्वेऽपि तेषां नित्यानु- ष्ठानेन क्षयसंभवान्न तैर्भीविजन्मप्राप्तिः, अतो ज्ञानाभावेऽपि मोक्षो भवतीति शङ्का 'न ; अकरणे प्रत्यवायश्रवणात्' इत्यादिना, नित्याकरणहेतुकानर्थनि- वृत्तिरेव नित्यानुष्ठानफलमिति मीमांसकैरभिप्रेतत्वान्न नित्यानुष्ठानाद- नारब्धशुभाशुभनिवृत्तिः, स्वाभ्युपगमविरोधात् इति शङ्कापरिहारः 'यदि नाम' इत्यादिना, मुमुक्षुणानुष्ठितस्य नित्यकर्मणः संचितकर्मक्ष- यार्थत्वाभ्युपगमेऽपि परस्य नाभिमतसिद्धिः, अनारब्धफलस्य पाप- कर्मणो नित्यानुष्ठानेन नाशसंभवेSपि पुण्यस्य कर्मणस्ततो न नि० वृत्ति: अविरोधादिति कथनम् ६

'न हीष्टफलस्य' इत्यादिना, विरोधाभावसाधनम् w

'न च कर्महेतूनाम्' इत्यादिना, यदुक्त काम्यानि कर्माणि मुमुक्षुर्वर्जये- दिति तदप्यात्मज्ञानाभावे दुर्घटम्, कर्महेतोः कामस्याज्ञानकार्यत्वेन अज्ञाने सति कामोन्भ्रवस्य दुर्निवारत्वात्काम्यानुष्ठानमपि मुमुक्षोः प्रसज्येत तद्वशाच्च जन्म स्यादिति कथनम् ..

'अनात्मविदो हि' इत्यादिना, आत्मज्ञानं न कामनिवर्तकम् आत्मवि- दामपि कामदर्शनादिति शङ्कायाम्, सर्वमात्मेति पश्यतामात्मविदां तत्वतः स्वव्यतिरिक्तफलाभावादेव कामानुपपत्तिरिति तन्निरसनम् ६

'स्वात्मनि च' इत्यादिना, तर्हि स्वात्मन्येवानन्दरूपे कामोडस्त्विति चेत्, नित्याप्तत्वादात्मनः नात्मनि कामः संभवतीति कथनम् ... ७

'स्वस्यायमात्मा' इत्यादिना, आत्मविदामप्यर्चिरादिमार्गेण ब्रह्मप्राप्ति- कामनास्तीति न शङ्कनीयम्, आत्मविदामात्मत्वात् ब्रझ्मणSचिरा- दिमार्गेणाप्राप्यत्वादिति कथनम् ...

'नित्यानां चाकरणमभावः' इत्यादिना, नित्यानुष्ठानेन च प्रत्यवायाभा- वादिति वदता परेण प्रत्यवायस्य नित्याकरणजन्यत्वमुक्तं भवति,

Page 14

[8 ]

तन्न संभवति; प्रत्यवायशब्दितस्यागामिदुःखस्य निषिद्धाचरणज- न्यस्य भावरूपस्याभावनिमित्तकत्वाभावादिति मीमांसकदूषणम् ... 'अतः पूर्वोपचितदुरितेभ्यः' इत्यादिना, 'अकुर्वन्विहितं कर्म' इति वचनगतशतृप्रत्ययादकरणस्य प्रत्यवायहेतुत्वमवगम्यते, अकरणस्य प्रत्यवायहेतुत्वानभ्युपगमे शतृप्रत्ययानुपपत्तिरिति शङ्कायाम्, यदि यथावन्नित्यनैमित्तिकानुष्ठानं स्थात्तदा संचितदुरितक्षयोSपि भवेत्, न चायं विहितमकार्षीत्ततः प्रत्यवायी भविष्यतीति संचितप्रत्यवायः शिष्टैर्लक्ष्यत इति शतृप्रत्ययस्य लक्षणार्थत्वस्वीकारान्न तद्वलादकरणस्य प्रत्यवायहेतुत्वसिद्धिरिति समाधानम् 'अन्यथा' इत्यादिना, 'लक्षणहेत्वोः क्रियायाः' इति शतृप्रत्ययस्यो- भयत्र विधाने सति किमिति हेतुत्वमेव न ग्रह्यत इत्याक्षेपे, सर्वस्य भावरूपस्य कार्यस्य भावरूपं कारणमिति प्रत्यक्षादिभिरवधारित- त्वाच्छतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादिति समाधानम् ... ७

'अतोऽयन्तः' इत्यादिना, यस्मादकरणनिमित्तप्रत्यवायपरिहारार्थ न नित्यं कर्म, किंतु संचितदुरितक्षयफलकम, तस्मान्न यथोक्तचरि- तस्य मुक्तिरिति मीमांसकाद्यपक्षनिराकरणोपसंहार: .. 'तन्न' इत्यादिना, स्वर्गकामवाक्ये स्वर्गशब्देन निरतिशयप्रीतेर्मुक्तेरु- क्तत्वान्तद्वेतुत्वेन कर्मविधानात्कर्मसाध्यैव मुक्तिरिति मीमांसकद्वि- तीयपक्षस्य यच्चोक्तमित्यादिनानूद्य मोक्षस्य नित्यत्वान्न कर्मसाध्यत्वं संभवति, यदारब्घं तदनित्यमिति व्याप्तिदर्शनादिति निराकरणम् ८

'विद्यासहितानाम्' इत्यादिना, विद्यारहितस्य कर्मणोSनित्यफलजनक- त्वेऽपििका रहितकर्मणो नित्यमोक्षफलजननसामर्थ्यमस्तीति समुच्च यवादि हामो ... ८ 'न; विरेददिन कथन यादिना, विद्यासहितेनापि कर्मणा मोक्षश्रेदारभ्यते, तहि से सक वनित्यमिति न्यायान्मोक्षानित्यत्वं दुर्वारमिति शङ्का- निराकाशेम् ... 'यद्विनष्टम्' इत्यादिना, यद्धटादि विनष्ट तत्पुनर्नोत्पद्यत इति दर्शना- द्वटादिनाशरूपध्वंसस्यारब्धस्यापि नित्यत्वं निश्चीयते; एवं सति यदारब्धं तदनित्यमिति भवदुक्तव्याप्तर्भङ्गः; तथा च ध्वंसवन्नित्यो-

Page 15

[५]

डपि मोक्ष आरभ्य एवेति पूर्वपक्षः V

'न ; मोक्षस्य भावरूपत्वात्' इत्यनेन, यद्भावरूप कार्ये तदनित्यमिति व्याप्तेर्विवक्षितत्वान्नास्मदुक्तव्याप्तेर्भङ्गः, तथा च निरतिशयप्रीतिरूपा- या मुक्तेर्भवन्मतरीत्यापि भावरूपत्वात्तस्या आरभ्यत्वे स्यादेवानित्य- त्वमिति पूर्वपक्षखण्डनम् ९

'प्रध्वंसाभावोऽपि' इत्यादिना, ध्वंसात्मकाभावस्य कार्यत्वमभ्युपगम्य यन्द्रावरूपं कार्य तदनित्यमिति व्याप्तिर्विवक्षिता; वस्तुतस्तु ध्वंसस्य कार्यत्वमेव नास्ति, नैरुक्तैर्जनेभीवपदार्थधर्मत्वप्रतिपादनात्तद्विरोधेन ध्वंसात्मकाभावस्य भावरूपजन्माश्रयत्वायोगात्; तथा चाभावस्य निर्विशेषत्वात्कार्यत्वं कल्पनामात्रमिति कथनम् .. 'भावप्रतियोगी' इत्यादिना, अभावस्य भावविरोधित्वादपि न तस्य भावरूपो धर्मः संभवतीति कथनम् .. ९

'यथा हि' इत्यादिना, अभावस्य कथ निर्विशेषत्वम्, अभावे घटादि- प्रतियोगिकत्वस्य, संख्यारूपगुणस्योत्पत्यादिक्रियावत्त्वस्य च परैः स्वीकारादित्याक्षपे, भावप्रत्ययस्यैकाकारत्वाद्यथा एक एव भावः घटभाव: पटभाव इति रीत्या भिन्न इव घटादििर्विशेष्यते घटादि प्रतियोगिकत्वेन विकल्प्यते, तथा घटो नास्ति पटो नास्तीति प्रती- यमानाभावोऽप्येक एव घटादिप्रतियोगिकत्वेन विकल्प्यते ; एवमेक एवाभावः क्रियायोगाद्गुणयोगाह्गव्यादिवद्विकल्प्यते न तु तत्त्वतः स विशेष इति समाधानम् ... ९

'न हि' इत्यादिना, उत्पलादिवदभावो न घटादिरूपविशेषणाश्रयः विशेषणवत्वे भावरूपधर्माश्रयस्य भावत्वनियमेन अभावो भाव एव स्यात् इत्यभावस्य तत्वतः सविशेषत्वे बाधकप्रदर्शनम् ... ९०

'विद्याकर्मकर्तुः' इत्यादिना, साध्यस्य मोक्षस्य स्वरूपेण नित्यत्वाभा- वेपि विद्याकर्मकर्तुर्नित्यत्वेन तत्कृतविद्याकर्मरूनसाधनसांतत्यात्तज- नितस्य मोक्षस्यापि प्रवाहनित्यत्वं स्यादिति शङ्का ...

'न, कर्तृत्वस्य दुःखरूपत्वात्' इत्यादिना, कर्तृत्वस्य दुःखरूपत्वा- न्मुक्तिकालेSपि तस्यानुपरमे अनिर्मोक्षप्रसङ्गः, कर्तृत्वस्योपरमे च साधनसांतत्याभावान्मोक्षस्य विच्छित्तिरिति शङ्कासमाधानम ...

Page 16

[६ ]

'तस्मात्' इत्यादिना, काम्यप्रतिषिद्धवर्जनाद्युपायान्मोक्षस्य दुर्वचत्वा- दविद्यानिवृत्तौ स्वात्मन्यवस्थानलक्षणा मुक्तिर्ज्ञानादेवेत्युपसंहारः ... १०

'स्वयं चात्मा' इत्यादिना, ब्रह्मात्मनावस्थानमेव मोक्षः न स्वात्मन्यव- स्थानमिति शङ्कानिरासार्थ स्वात्मब्रह्मणोरैक्योक्ति: .... ९०

'तद्विज्ञानात्' इत्यादिना, यतः ब्रह्मात्मैकत्वज्ञानादेव संसारकारणावि- द्यानिवृत्तिः, अतः आत्मज्ञानार्थत्वेनोपनिषदारम्भ इत्यारम्भप्रतिज्ञोप संहार:

'उपनिषदिति विद्योच्यते' इत्यादिना, ब्रह्मविद्यायामुपनिषच्छब्दप्रसि- द्विरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्यभिप्रेत्य सकार- णस्य संसारस्य शिथिलीकरणान्नाशनाद्वा प्रत्यक्तया ब्रह्मप्रापयितृत्वा- द्वा ब्रह्मविद्या उपनिषच्छब्दवाच्येति उपनिषच्छद्दस्य वैयाकरणप्र सिद्धयनुसारेणार्थकथनम् .... ११

'उप निषण्णम्' इत्यादिना, परं श्रेयो ब्रह्म, अस्यां विद्यायां निमित्त- भूतायां जीवस्य स्वात्मतया उपनिषण्णमुपस्थितमिति वा ब्रह्मविद्या उपनिषच्छब्दवाच्येति व्युत्पत्यन्तरेणार्थकथनम् ... ११

'तदर्थत्वात्' इत्यादिना, विद्याप्रयोजनकत्वाद्रन्थेSप्युपनिषच्छब्दप्रयोग इति कथनम् ... ११

'शं सुखम्' इत्यादिना, शं नो मित्र इत्यादिमन्त्रव्याख्यानारम्भ :... १२

'तासु हि सुखकृत्सु' इत्यादिना, अध्यात्मप्राणकरणाभिमानिनीनां दे- वतानां सुखकृत्त्वप्रार्थनस्य विद्याश्रवणधारणादिप्रतिबन्धकनिवृत्तिः फलमिति कथनम् ... १२

'ब्रह्म विविदिषुणा' इत्यादिना, ब्रह्मजिज्ञासुना ब्रह्मविद्योपसर्गशान्त्यर्थे वायुरूपिणे ब्रह्मणे नमस्कारव्रह्मबदने कार्ये कर्मफलस्य सर्वस्य सू- त्रव्रह्माधीनत्वादिति 'नमो ब्रह्मणे' इत्यादेस्तात्पर्यकथनम् ... १३

'परोक्षप्रत्यक्षाभ्याम्' इत्यादिना, अन्यद्रह्म, अन्यश्च वायुः इति न शङ्कनीयम्, ब्रह्मशब्दितसूत्रात्मरूपेण वायोः परोक्षतया पारोक्ष्येण नमस्कार: कृतः, तस्यैव प्राणवायुरूपेण प्रत्यक्षत्वाद्वायुशव्देन प्रत्य- क्षतया निर्देशः कृतः; अतः परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते नान्य इति कथनम् ... १३

Page 17

[७]

'किं च त्वमेव' इत्यादिना, चक्षुरादि रूपदर्शनाद्यनुमेयत्वाद्वाह्यं व्य- वहितम्, प्राणस्त्वव्यवधानेन साक्षिवेद्यः संनिहितश्च भोक्तुरिति च- क्षुराद्यपेक्षया त्वमेव प्रत्यक्षः, प्राणकृतेनाशनादिना शरीरादेर्बेहण- प्रसिद्धेः ब्रह्मत्वं च तव व्यक्तम्; अतस्त्वमेव प्रत्यक्षं ब्रह्मासि इति 'त्वमेव प्रत्यक्षं ब्रह्मासि' इत्यस्य तात्पर्यकथनम् .. १२

'यस्मात्तस्मात्' इत्यादिना, 'त्वमेव प्रत्यक्ष ब्रह्मासि' 'त्वामेव प्रत्यक्ष ब्रह्म वदिष्यामि' इति वाक्यद्वयस्य हेतुहेतुमन्भावप्रदर्शनम् .. , १३

'ऋतं यथाशास्त्रम्' इत्यादिना, शास्त्रानुरोधेन कर्तव्यतया बुद्धौ नि- र्धारितं कर्म ऋतम्, तच्च त्वदधीनत्वात्वां वदिष्यामि, ऋतमेवानु- ष्ठीयमानं सत्यम्, तदपि त्वदधीनत्वात्वामेव वदिष्यामीति'ऋतं वदिष्यामि' इत्यादिवाक्यद्वयस्य तात्पर्यकथनम् ... १३

'तत्सर्वात्मकम्' इत्यादिना, उक्तप्रकारेण मया नमस्कृत स्तुतं च सर्वा- त्मकं ब्रह्म माम् आचार्य चावतु इति 'तन्मामवतु' इत्यादेरर्थ- कथनम् .. १३

'मामवतु' इत्यादिना, अवतु मामित्यादिपुनर्वचनस्य प्रयोजनकथनम् १३

'शान्तिः शान्तिः' इत्यादिना, विद्योपदेशार्थ प्रवृत्तस्याचार्यस्य विद्या- ग्रहणार्थ प्रवृत्तस्य शिष्यस्य च ज्वररोगाद्युपद्रवनिमित्त आध्यात्मि- कः, व्याघ्रचोराद्युपद्रवनिमित्त आधिभौतिकः, यक्षराक्षसाद्युपद्रव- निमित्त आधिदैविकश्च विन्नः संभाव्यते ; तस्य त्रिविधस्य विन्नस्य परिहारार्थ त्रिः शान्तिशब्द: पठ्यत इति त्रिर्वचनस्य प्रयोजनकथनम् १४

द्वितीयोऽनुवाक: .... १५-१६

'अर्थज्ञानप्रधानत्वात्' इत्यादिना, उपनिषद्न्थस्यार्थज्ञानप्रधानत्वा- दध्ययने स्वरादिष्वनास्थासंभवाद्विवक्षितार्थसिद्धिरेव न स्यात् ; अत- स्तन्निवृत्त्यर्थ शीक्षाध्यायप्रवृत्तिरिति प्रथमं शीक्षाध्यायारम्भे हेतु- कथनम् १५ 'शिक्ष्यते अनया' इत्यादिना, शीक्षाशब्दस्य द्विधा व्युत्पत्तिप्रदर्श- नपूर्वकं 'शीक्षां व्याख्यास्यामः' इत्यस्य विवरणम् १५ 'तत्र वर्णः अकारादिः' इत्यादिना, 'वर्णः स्वरः' इत्यादेर्व्यांकरणम् १६

Page 18

तृतीयोऽनुवाक: १७-२१ 'अधुना' इत्यादिना, संहितावर्णानां संनिकर्षः, तद्विषयमुपासन प्रथ- ममुच्यत इति 'अथातः संहितायाः' इत्यादेस्तात्पर्यवर्णनम् ... १७ 'तत्र संहिताद्युपनिषत्' इत्यादिना, समस्तोपनिषच्छेषः शं नो मित्र इत्याशीर्वादः स संवृत्तः, संप्रति संहितोपनिषच्छेषमाशीर्वादान्तरम् 'सह नौ यशः । सह नौ ब्रह्मवर्चसम्' इति वाक्यद्वयेनोच्यते, तस्य वाक्यद्वयस्य विवरणम् .. १७ 'शिष्यवचनम्' इत्यादिना, सहैवास्त्विति प्रार्थना शिष्यस्याचार्यस्य वेत्याकाङ्क्षायाम्, शिष्यस्याकृतार्थत्वात्तस्यैवेति कथनम् ... १७ 'यतः' इत्यादिना, अध्येतारो हि बहिरेव ग्रन्थे प्रतृत्तचित्तास्ते- घामर्थज्ञाने सूक्ष्मे प्रवेशसिध्यर्थ वस्तूपासनं हित्वा संहिताविषयमुपा- सनं स्थूलशब्दसंसृष्टमुच्यत इत्ययं प्रथमतः शब्दोपासनविधाने हेतुः 'अथातः' इत्यत्र अतःशब्देनोक्त इत्यतःशब्दार्थविवरणम् ... 'पञ्चस्वधिकरणेषु आश्रयेषु ' इत्यादिना, पञ्चस्वधिकरणेषु इति सप्त- म्या लोकादिषु संहितादृष्टिरिह विवक्षितेति प्रतीयते, तथा सति लोकानामेव सहितादृष्टया उपास्यत्वं स्थात्, तच्चोपक्रमोपसंहारविरु- द्धम्, 'अथातःसंहितायाः' इत्युपक्रमे, 'एवमेता महासंहिता व्या- ख्याता वेद' इत्युपसंहारे च संहिताया एवोपास्यत्वोपगमादिति शङ्कायाम्, पञ्चस्वधिकरणेषु इति सप्तमी तृतीयार्थपरा, अधि- करणशब्दश्च विषयपर्यायः; तथा च लोकाद्यात्मना संहितैवोपास्ये ति लभ्यते, अतो न विरोध इति पञ्चस्वधिकरणेषु इत्यस्यार्थ- कथनम् .. 'कानि तानि इत्यादिना, लोकादिष्वधिलोकादिविषयकं यद्दर्शनं तद- धिलोकादिशब्दवाच्यमिति अधिलोकादिशब्दादिकथनपूर्वक पञ्च- दर्शनानां प्रदर्शनम् १८ 'ता एताः इत्यादिना, विधित्सितानामुपासनानां स्तावकं यत् 'ता महासहिताः' इति वाक्यं तस्य विवरणम् ... १८ 'दर्शनक्रमविषयाः' इत्यादिना, कर्तुरेकत्वादनुष्ठेयानां बहुत्वादवश्यंभा- विनि क्रमे तद्विधानार्थाः अधिलोकमित्यादौ सर्वत्राथशब्दा इति अथशब्दार्थकथनम् ... १९

Page 19

[९ ]

'अथ तासाम्' इत्यादिना, संहितोपनिषदः कथं कर्तव्या इत्याका- ङ्क्षायाम, संहिताया यत्पूर्वमक्षरं तत्र पृथिवीदेवतादृष्टिः यच्चोत्तरं संहिताक्षरं तत्र दुलोकदेवतादृष्टिः अक्षरयोर्मध्यमं छिद्रं संधिस्तत्रा- काशदेवतादृष्टिः संधानशब्दवाच्यं यत्संहितायाः स्वरूपं तत्र वायुदे- वतादृष्टिश् कर्तव्येति 'पृथिवी पूर्वरूपम्' इत्यादेर्विवरणम् ... 'अथ' इत्यादिना, अधिज्यौतिषादिदर्शनेष्वपि एवमेव देवतादिदृष्टिः कार्येति सूचनम् .. २० 'इतीमाः' इत्यादिना, इतीमा महासंहिता इति वाक्यमुक्तोपासनानामुप- संहारार्थकमिति कथनम् ... २०

'यः कश्चित्' इत्यादिना, यथा दर्शादयः षड्यागाः समुच्चित्य फल- साघनत्वेनानुष्ठेयाः, तथा पञ्चोपनिषदः समुच्चिताः प्रजादिफलकाम- स्यानुष्ठेया इति 'य एवमेताः' इत्यादिवाक्यार्थकथनम् ... २०

'वेदेत्युपासनम्' इत्यादिना, इति प्राचीनयोग्योपास्स्वेति वचनेनोपा- सनाप्रकरणत्वावगमाद्वेदेत्यस्य उपासनमर्थ इति कथनम् ... २१

'उपासनं च' इत्यादिना, दृष्टान्तप्रदर्शनपुरःसरम् उपासनशब्दार्थकथनम् २१ 'स च' इत्यादिना, उक्तोपासनस्य फलवत्वदर्शनात् प्रकृतेऽ्युपासकः प्रजादिफलमाप्नोतीति फलप्रदर्शकत्वेन संधीयत इत्यादेर्विवरणम् २१

चतुर्थोऽनुवाक: २२-२९ 'यश्छन्दसाम्' इत्यादिना, मेधारहितस्य श्रुतग्रन्थार्थविस्मृतौ ब्रह्मज्ञा- नोदयासंभवात्, श्रीविह्ीनेन च चित्तशुद्धधर्थ यागादीनामनुष्ठातु- मशक्यत्वात्, मेधाकामस्य श्रीकामस्य च मेधादिसिद्धयर्था ज- प्या होमार्थाश्च मन्त्रा अस्मिन्ननुवाके उच्यन्त इति यश्छन्दसामि त्याद्यनुवाकस्य तात्पर्यवर्णनम् .. १ २३

'स मेन्द्रः' इत्यादिना, एवं तात्पर्यवर्णने हेतुप्रदर्शनम् .. २३ 'यश्छन्दसां वेदानाम्' इत्यादिना, छन्दःशब्दवाच्ये वेदत्रये ओंका- रस्य प्रधानत्वादोंकार ऋषभः श्रेष्ठः तस्य 'वाक्तन्तिः' इत्यादिश्रुत्या अर्थप्रपञ्चस्य शब्दात्मकवाच्यन्तर्भावात् 'तद्यथा शङ्कुना' इत्यादि- श्रुत्या औकारेण सर्ववाग्यासेः सर्वात्मकत्वावगमाद्विश्वरूपश्रासा- विति छन्दआदिपदत्रयस्यार्थकथनम् २१

*T.00

Page 20

[१०]

'अत एव' इत्यादिना, विश्वरूपत्वस्यापि ऋषभत्वे हेतुत्वकथनम् ... २३

'ओंकारः' इत्यादिना, ओंकारोSत्र ऋषभत्वादिना किमर्थ स्तूयत इति शङ्कायाम, उपास्यत्वादिति समाधानकथनम् ... २३ 'छन्दोभ्यो वेदेभ्यः' इत्यादिना, छन्दोभ्योऽधीत्यादेरर्थकथनम् २३

'न हि' इत्यादिना, संबभूवेति जन्मवाचके पदे श्रूयमाणे किमिति लोका- नभ्यतपदित्यादिश्रृत्यन्तरमनुसृत्य श्रेष्ठत्वेन प्रतिभानं व्याख्यायत इति शङ्कायाम्, प्रणवस्य वेदान्तर्भूतत्वेन वेदवन्नित्यत्वात् न तस्य मुख्यं जन्म संभवति, अतो न जन्मार्थकत्वेन व्याख्यात इत्याशयेन समाधानम् ... २४ 'स एवंभूतः' इत्यादिना, स मेन्द्र इत्यादेर्व्याख्यानम् .. २४

'किं च, शरीरं मे मम' इत्यादिना, यदि हि शरीरपाटवं न स्यात्त- दा मेधाफलस्यात्मज्ञानस्य सिद्धयर्थ श्रवणाद्यनुष्ठानयोग्यता न मे सिध्येत्, यदि च मदीयं वागिन्द्रियं परुषभाषणे व्याप्रियेत तदा ज्ञानोपदेष्टर्यपि तत्संभवान्न मे ज्ञानं संभवेत्, एवं कर्णयोर्बाधिर्यादि- दोषवत्वे विद्योत्पादकग्रन्थश्रवणं न मे स्यात्; अतः शरीरस्य पाटवं जिह्वाया मधुरभाषिणीत्वं श्रोत्रयोर्बाधिर्यराहित्येन ग्रन्थश्रवणयोग्यत्वं च प्रार्थ्यत इत्यभिप्रायेण 'शरीरं मे विचर्षणम्' इत्यादेर्विवरणम् २५ 'आत्मज्ञानयोग्यः' इत्यादिना, चक्षुरादेरपि ज्ञानं प्रत्यानुकूल्यं कुतो न प्रार्थ्यत इति शङ्कायाः समाधानार्थ कार्यकरणसंघातः आत्मज्ञान- योग्यो भवत्वित्यस्य 'शरीरं मे विचर्षणम्' इत्यादेरुपलक्षणत्वेन विवक्षितार्थस्य कथनम् २५ 'मेधा च तदर्थमेव' इत्यादिना, संघातनिष्ठयोग्यतैवात्मज्ञानाय प्रा- थर्यते चेत्किमर्थ तहि मेधा प्रार्थ्यत इति शङ्कायाम्, रोगादिप्रतिब- न्धरहितस्यापि मेधां विनात्मज्ञानासंभवात् सापि प्राधान्येनात्मज्ञा- नार्थमेव प्रार्थ्यत इति कथनम् २५ 'ब्रह्मणः परमात्मनः' इत्यादिना, ओंकारस्य शब्दमात्रत्वेनाचेतनत्वा- त्कथं मेधादिप्रदाने सामर्थ्यम्, कथं चेन्द्रशब्दवाच्यत्वमित्याशङ्कय, ओंकारस्य ब्रह्मप्रतीकत्वेन ओंकारे ब्रह्मोपलभ्यते; अतो ब्रह्मोपल. ब्धिस्थानत्वेन ब्रह्मसंनिकर्षाद्वल्माभेदविवक्षया सर्वमुपपन्नमित्योंकारस्य ब्रह्मकोशत्वसाधनपूर्वकं कथनम् .... २५

Page 21

[११ ]

'मेघया लौकिकप्रज्ञया' इत्यादिना, ब्रह्माभेदेन मुमुक्षूणामपेक्षितमेधा- दिदाने समर्थश्रेदोंकारस्तहि किमिति सर्वैरपि मेघाद्यर्थिभिरसौ नो- पास्यत इति शङ्कायाम्, शास्त्रजन्यज्ञानशून्यैर्बहिर्विषयासक्तचित्तै- रोंकारत्त्वस्याविदितत्वान्न सर्वैरुपास्यत इति समाधानम् ... २६ 'श्रुतं श्रवणपूर्वकम्' इत्यादिना, 'श्रुतं मे गोपाय' इत्यस्यार्थकथनम् ६२ 'जपार्थाः' इत्यादिना, वृत्तानुवादपूर्वकम् 'आवहन्ती वितन्वाना' इत्यादिमन्त्रावतरणम् .. २६

'आवहन्ती आनयन्ती' इत्यादिना, 'आवहन्ती वितन्वाना' इत्यादि होममन्त्राणां व्याख्यानम् .... २६ 'सर्वदा; एवमादीनि कुर्वाणा' इत्यादिना, आवदन्तीत्यादिपदत्रयस्य प्रथमान्तस्य द्वितीयान्तश्रीपदस्य च कथं विशेषणविशेष्यभावेनान्वय इति शङ्कायाम्, सर्वदा वासांसि, गाः, अन्नपाने चावइन्ती विस्ता- रयन्ती कुर्वाणा या श्रीः तामित्यध्याहरेणान्वयं प्रदर्श्य तत इत्यादे- रर्थकथनम् ... २७ 'अमेधसो हि' इत्यादिना, 'ततो मे श्रियम्' इत्यत्र तत इत्यस्य मेघानिर्वर्तनात्परमिति विवरणं कृतम्, कुतो मेधानिष्पत्यनन्तरमेव श्रीः प्रार्थ्यत इत्याशज्ञ्य, मेधाहीनस्यापात्नव्ययादिना धनादिकमन- र्थायैवेति प्रसिद्धम्; अतो मेधानन्तरमेव श्रीः प्रार्थ्यत इति कथनम् २७ 'अोमशाम् अजाव्यादियुक्ताम्' इत्यादिना, लोमशामित्यादेरर्थकथनम् २७ 'स्वाहाकारः' इत्यादिना, स्वाहाकारप्रयोगाभिप्रायकथनम् ... २७ 'आयन्तु' इत्यादिना, आ मा इत्यादेरन्वयप्रदर्शनम् ... २७

'यश: यशस्वी' इत्यादिना, 'आमायन्तु' इत्याद्युक्तानेकब्रह्मचार्याग- मनप्रार्थनाप्रयोजनप्रतिपादकस्य 'यशो जने' इति मन्त्रस्य विवर- णम् ... २७

'भेयान्प्रशस्यतरः' इत्यादिना, वसुर्वसनशीलः पराच्छादनशीलो वा, अतिशयेन वसुर्वसीयान् तस्माद्वसीयसः सकाशाच्छ्रेष्ठः स्याम्; यद्वा धनवाचिना वसुशब्देन वसुमाह्लाँक्ष्यते, अतिशयेन वसुमान्वसीयान् वसुमत्तरः तस्मादहं श्रेष्ठः स्यामिति श्रेयानित्यादेरर्थवर्णनम् ... २७ 'किं च' इत्यादिना, 'तं त्वा भग' इत्यादिवाक्यद्वयस्य विद्यातत्सा-

Page 22

[१२ ]

धनप्रार्थनानन्तरं विद्याप्रयोजनभूतं यदोंकारवाच्येन ब्रह्मणा सहै- कत्वं तत्प्रार्थनार्थकतया व्याख्यानम् .. २७ 'तस्मिस्त्वयि' इत्यादिना, शिवविष्ण्वाद्यनेकमूर्त्युपेतत्वन्द्जनेन पापं नाशयामीति 'तस्मिन्त्सहस्रशाखे' इत्यादिवाक्यद्वयस्यार्थकथनम् ... २८

'यथा लोके' इत्यादिना, यदुक्तं ब्रह्मचारिणो मामायनत्विति, तत्न श्रुत्या यथाप इत्यादिनोक्तस्य दार्ष्टान्तिकसमन्वययुक्तस्य दृष्टान्त- द्वयस्य विवरणम् ... २८ 'प्रतिवेश:' इत्यादिना, 'प्रतिवेशोऽसि' इत्यत्र प्रतिवेशशब्दार्थकथनपू- र्वक संनिहितगृहवदशेषदुःखनिवृत्तिहेतुस्त्वमिति वाक्यार्थस्य कथनम् २८

'अतो मां प्रति' इत्यादिना, यतस्त्वं त्वन्निष्ठानां सर्वदुःखापनयनस्था- नमसि, अतः सर्वदुःखापनयनाय मां प्रति त्वत्स्वरूपं प्रकटय, मां च त्वन्मयं कुरु इति 'प्र मा भाहि' इत्यादेर्विवरणम् ... २८

'श्रीकामोडस्मिन्' इत्यादिना, विद्यासंनिधौ श्रुतस्य श्रीकामस्य परं- परया विद्यायामुपयोगप्रदर्शनम् ... २८

'तथा च ' इत्यादिना, पापक्षयस्य विद्योत्पत्तिहेतुत्वे मानकथनम् ... २९

पञ्चमोऽनुवाक: .... ३०-३८ 'संहिताविषयम्' इत्यादिना, वृत्तानुवादपूर्वकमुत्तरानुवाकतात्पर्यक- थनम् ३१ 'इतीत्युक्तोपप्रदर्शनार्थः' इत्यादिना, भूर्भुवःसुवरित्यनेनोक्तानां व्या- हृतनिां पाठक्मलब्घक्रमानुवादार्थ श्रुतावितिशन्द इति कथनम् ३१ 'एतास्तिस्रः' इत्यादिना, प्रदर्शितक्रमोपेतव्याहृतिस्वरूपानुवादार्थम् एतास्तिस्रो व्याहतय इतीति कथनम् ... ३१

'परामृष्टाः' इत्यादिना, वैशब्दार्थकथनम् ... ३१

'तासामियं चतुर्थी' इत्यादिना, तासामित्यादिवाक्यत्नयविवरणम् ... ३१ 'माहाचमस्यग्रहणम्' इत्यादिना, उपासनाङ्जत्वेन ऋषिस्मरणं कर्तव्य- मिति सूचनार्थे श्रुतौ माहाचमस्यग्रहणमिति ऋषिनामग्रहृणस्य प्रयो- जनप्रदर्शनम् ... ३२ 'येयं माहाचमस्येन' इत्यादिना, तच्चतुर्थव्याहृतिस्वरूपं व्रम्मेत्युपास्य- तामिति तद्वद्ेत्यस्यार्थकथनम् ... ३२

Page 23

[१३ ]

'महद्धि किल ब्रह्म' इत्यादिना, मह इति व्याहतावङ्िब्मदृष्टिः कर्त- व्येत्युक्तम्, तत्र किं साम्यमित्याकाङ्क्षायां मह्त्त्वमेकम्; किंच, यथा देवदत्तस्य पादादीन्यङ्गानि, मध्यभागश्चाङ्गी, स चेतरेषामक्ञा- नामात्मा कथ्यते व्यापकत्वात्; तथा महोव्याहृतिर्हिरण्यगर्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्प्यते व्यापकत्वात्, इतराश्चाग्न्यादि- देवतारूपा व्याहृतयः पादाद्यवयवत्वेन कल्प्यन्ते, प्रथमा व्याहतिः पादौ, द्वितीया बाहू, तृतीया शिर इति। तथा च व्यापकत्वात्सिद्धं यदात्मत्वं तच्चापरं साम्यमिति कथनम् ... ३२ 'इतराश्च व्याहृतयः' इत्यादिना, महोव्याहृतेर्व्यापकत्वसाधनम् ... ३२ 'अङ्गानि' इत्यादिना, अग्न्यादिदेवतारूपासु भूरादिव्याहृतिषु पादा- द्यवयवदृष्टिः कर्तव्येति अङ्गान्यन्या इत्यादेर्विवरणम् ... ३३ 'देवताग्रहणम्' इत्यादिना, अञ्ञान्यन्या देवता इत्यत्र देवतापदं परि- शिष्टोपलक्षकमिति कथनम् .. ३३ 'मह इत्येतस्य' इत्यादिना, परिशिष्टोपलक्षणे कृते सिद्धस्य वाक्यार्थ- स्य कथनम् ... ३३ 'यतः' इत्यादिना, चतुर्थव्याहृतेर्व्यापकत्वेनात्मत्वं पूर्वमुक्तम्, अधुना तस्या आदित्याद्यात्मना लोकादिवृद्धिहेतुत्वादात्मत्वमिति कथनम् ३४ 'आत्मना हि' इत्यादिना, यथा देवदत्तस्य पादादीन्यक्गानि मध्यभा- गश्चाङ्गी, स तेषामङ्गानां वृद्धिहेतुत्वादात्मोच्यते, तथा महोव्याह- तिर्हिरण्यगर्भस्य लोकाद्यात्मकस्य मध्यभागः लोकादेरादित्याद्यात्म- ना वृद्धिहेतुत्वादात्मोच्यत इति दृष्टान्तेनोक्तार्थस्य साधनम् ... ४३ 'अयं लोकोडगनिः' इत्यादिना, व्याहृत्यवयवं ब्रह्मोपासीत इत्युत्पत्ति- विधिरुक्तः, इदानीं श्रुत्या 'भूरिति वा अयं लोकः' इत्यादिना व्याहृतिषु लोकादिदृष्टिर्विधीयते; तत्रैकैका व्याहृतिश्चतुष्प्रकारा अवगन्तव्येति तात्पर्यकथनम् .. ३५ 'महः' इत्यादिना, प्रतीकग्रहणपूर्वक ब्रह्मशब्दार्थकथनम् ... ३५ 'ता वा एताः' इत्यादिना, 'ता वा एताश्वतसश्चतुर्धा' इत्यादेरर्थ- कथनम् ३५ 'तासां यथाक्लप्तानाम्' इत्यादिना, व्याह्ृतिषु प्रत्येकं पदार्थचतुष्टय- दृष्टिविधायकेभ्यः 'भूरिति वा अयं लोकः' इत्यादिवाक्येभ्य एव

Page 24

[१४ ]

तासां प्रत्येकं चतुर्धात्वसिद्धेः 'चतस्रश्चतुर्धा' इति वाक्यं पुनरुक्त- मित्याशङ्कय, व्याहतीनां चतुर्विधत्वं नोच्यते, किंतु प्रत्येकं तासां चतुर्विधत्वेनैवोपासनं कर्तव्यमिति नियमार्थ चतस्त्रश्चतुर्घेति पुनर्वच- नमिति कथनम् .. . ३५ 'ता यथोक्ता व्याहतीः' इत्यादिना, अधिकारविधिवाक्यस्य 'ता यो वेद' इत्यादेर्विवरणम् ... ३५ 'ननु' इत्यादिना, तद्वहेति चतुर्थव्याहृत्यात्मकब्रह्मणो श्ञातत्वात् स वेद ब्रह्मेति पुनज्ञीनोपदेशे पौनरुक्त्यं स्यादिति शङ्का ... ३५

'न' इत्यादिना, तद्गह्ेति वाक्ये चतुर्थव्याहृत्यात्मकब्रह्ममात्नमवगतं न तु तद्गुणजातम्, एतदनुवाकोक्तव्रह्मोपासने गुणविधानमुत्तरानु- वाके भविष्यति; तथा चोत्तरानुवाकप्रदर्शितहृदयान्तरुपलभ्यमा- नत्वमनोमयत्वादिगुणविशिष्टमेव ब्रझ्मात्रोपास्यमिति सूचयितुं स वेद ब्रह्मेति पुनर्वचनम्, अतो न दोष इति समाधानम् ... ३६

'सत्यम्' इत्यादिना, संग्रद्विवरणम् ... ३६ 'यो हि' इत्यादिना, 'स वेद ब्रह्म' इति वाक्यस्याभिप्रायवर्णनम् ३६ 'अतः' इत्यादिना, अनुवाकद्वयेनैकस्यैवोपासनस्य विवक्षितत्वादुभयो- रनुवाकयोरेकवाक्यत्वमिति कथनम् ... ३६ 'लिङ्गाच्च' इत्यादिना, व्याहृत्यवयवं ब्रझ्ैवोत्तरानुवाके गुणविशिष्टतयो- पास्यमिति यद्यज्गीक्रियते, तदैव प्रथमव्याहृत्यात्मकेSग्रौ प्रतिष्ठा- भिधानं घटेत ; तस्माद्याहृत्यात्मकदेवताप्राप्यभिधानम् उपासनैकत्वे लिङ्गमिति कथनम् ... ३७ 'विधायकाभावाच्च' इत्यादिना, भिन्नोपासनाद्योतकस्यानुवाकभेदस्य सत्वात्कथमेकमेवोपासनमिति न शङ्कनीयम्; पूर्वानुवाके प्रधान- विद्याविधि: उत्तरानुवाके गुणविधिरित्य्गीकारादेवानुवाकभेदस्य चा- रितार्थ्यात्; तथा च भिन्नविद्याद्योतकानन्यथासिद्धप्रमाणाभावादेक- मेवोपासनमिति कथनम् ... ३७ 'व्याहृत्यनुवाके' इत्यादिना, 'ता यो वेद स वेद ब्रह्म' इत्यत्र स वेद व्रह्मेति वाक्यमुपासनाभेदकमस्त्विति शङ्कायाम्, तद्वाक्यस्या- न्यार्थत्वेन पूर्वमेवोक्तत्वाल शङ्कावकाश इति समाधानम् ... ३७

'सर्वे देवाः' इत्यादिना, 'सर्वेऽस्मै देवाः' इत्यादेर्विवरणम् ... ३७

Page 25

[१५ ]

षष्ठोऽनुवाक: .... ३९-४६

'भूर्भुवः सुवः' इत्यादिना, वृत्तानुवादपूर्वकमुत्तरानुवाकप्रतिपाद्या- र्थस्य हृदयाकाशस्थानस्य कथनम् ... ३ ९

'सालग्रामः' इत्यादिना, उपासनार्थ स्थानविशेषोपदेशे दृष्टान्तप्रदर्शनम् ४० 'तस्मिन्हि' इत्यादिना, साक्षादुपलबध्यर्थमित्युक्तस्य प्रपञ्चनम् ... ४०

'मार्गश्र' इत्यादिना, सर्वात्मभावप्रतिपत्तिमार्गप्रतिपादनार्थमप्युत्तरानु- वाकारम्भ इति कथनम् :... ४०

'स इति' इत्यादिना, स य एषः इत्यत्र तच्छब्दार्थस्यान्वयप्रदर्शनम् ४०

'य एषः' इत्यादिना, स य एष इत्यादेर्विवरणम् ... ४०

'पुरि शयनात्' इत्यादिना, पुरुषशब्दार्थकथनम् ... ४०

'मनोमयः' इत्यादिना, प्रतीकग्रहणपूर्वकं शशिस्थराहुवज्ज्ञानाकारप- रिणामिनि मनस्येवोपलभ्यमानत्वात्, विषयजातस्य मनसा मन- नाद्वा, अन्तःकरणाभिमानित्वाद्वा, जडस्य मनसः प्रवृत्ति दृष्ट्ा त. दधिष्ठातृतया ब्रह्मानुमीयत इति तल्लिङ्काद्वा मनोमय इति मनोम- यत्वस्यानेकधा साधनम् ... ४० 'अमृतः' इत्यादिना, अमृतो हिरण्मय इति शब्दद्वयस्यार्थकथनम् ४१

'तस्यैवं लक्षणस्य' इत्यादिना, अन्तरेणेत्यादिवाक्यावतरणम् ... ४१

'हृदयादूर्ध्वम्' इत्यादिना, ध्येयस्येन्द्रस्यापरब्रह्मणः प्राप्तये हृदया- दूर्ध्व प्रवृत्ता या सुषुम्ना नाडी सा सृतिरिति मार्गप्रदर्शनपर त्वेन अन्तरेणेत्यादेर्व्याख्यानम् .... ४१ 'तयैवं विद्वान्' इत्यादिना, उपासकः सुषुम्नामार्गेण मूझ्ों निष्क्रम्य भूरादिव्याहृतिस्व रूपाग्निवाय्वादित्याद्यङ्गदेवताभावं चतुर्थव्याद्दतिस्व- रूपाङ्गिव्रह्मभावं चाप्नोति, अज्वित्रह्मभावप्रयुक्तस्वाराज्यं च प्रतिपद्यत इति फलप्रदर्शनपरत्वेन भूरित्यादेर्विवरणम् ... ४२

'अङ्गभूतानाम्' इत्यादिना, स्वाराज्यं निरङ्कशमैश्वर्ये जगत्स्ष्टृत्वादि- लक्षण न भवति, किं तु सावधिकमैश्वर्यमेवेति सूचनपूर्वक फलस्य कथनम् ४२ 'आप्नोति मनसस्पतिम्' इत्यादिना, न केवलं स्वाराज्यप्राप्तिः किं तु सर्वप्राण्यात्मको भूत्वा सर्वदेहवर्तिमनोवागादीनामाधिपत्यमपि प्रा-

Page 26

[ १६ ]

प्रोतीति 'आप्नोति मनसस्पतिम्' इत्यादेर्व्याख्यानम् ... 'किं च ततोऽप्यधिकतरम्' इत्यादिना, 'एतत्ततो भवति' इत्यस्य व्याख्यानम् ... ४३ 'आकाशः शरीरमस्य' इत्यादिना, आकाशमधिष्ठानभूतस्य ब्रह्मणः शरीरं कल्पितं स्वरूपमित्याकाशशरीरम्, अथवा आकाशवत्सूक्ष्मं मूर्तिरहितं शरीरं स्वरूपं यस्य ब्रह्मणस्तदाकाशशरीरमिति 'आका- शशरीरं ब्रह्म' इत्यस्य विवरणम् .... ४३ 'सत्यं मूर्तामूर्तम्' इत्यादिना, सच्च त्यच्च सत्यम्, भूतपञ्चकं मूर्तामू- र्तात्मकं तदात्मा कल्पितं स्वरूपम्, सत्यमवितथम् आत्मा स्वभावो यस्य तद्रह्म सत्यात्म इति सत्यात्मेत्यस्यार्थकथनम् ... 'प्राणेष्वारमणम्' इत्यादिना, प्राणेषु सविषयेष्विन्द्रियेषु आक्रीडा यस्य, यत्र वा ब्रह्मणि प्राणानामारमणम् आक्रीडा उत्पत्यादिव्या- पारस्तद्रह्म प्राणाराममिति 'प्राणारामम्' इत्यस्यार्थकथनम् ... ४४ 'आनन्दभूतं सुखकृदेव' इत्यादिना, 'मन आनन्दम्' इत्यादेरर्थ- कथनम् .. ४४ 'एतच्चाधिक तरविशेषणम्' इत्यादिना, आकाशशरीरमित्यादिनोक्तान्या- काशशरीरत्वसत्यात्मत्वादीनि विशेषणानि मनोमयत्वादिविशिष्टत्वे- नेव आकाशशरीरत्वादिविशिष्टत्वेनापि ब्रह्मण उपासनार्थमुक्तानि, अत एतान्यपि मनोमय इत्यादौ द्रष्टव्यानीति कथनम् ... ४४

'एवम्' इत्यादिना, 'इति प्राचीनयोग्योपास्स्व' इत्यस्यार्थकथनम् ... ४४

'उपास्स्व इत्यादिना, यद्यप्युपासनस्य श्रुत्या स्वेन रूपेणोक्तावप्यनु- छानं सिध्यति, तथाप्युक्तविशेषणमपरं ब्रह्मात्मत्वेनोपास्यमिति शिष्यं प्रत्याचार्यनियोग उपासनानुष्ठाने आदरातिशयसिध्यर्थ इति 'इति प्राचीनयोग्योपास्स्व' इत्यस्य तात्पर्यवर्णनम् ..

सप्तमोऽनुवाक: ... ४७ -- ४९ 'यदेतत्' इत्यादिना, प्रकृतस्यैव ब्रह्मणो हिरण्यगर्भस्य पृथिव्यादि- पाङ्कस्वरूपेणोपासनं वक्तव्यमित्युत्तरानुवाकप्रवृत्तिरिति कथनम् ... ४७ 'पञ्चसंख्यायोगात्' इत्यादिना, पृथिव्यादेः कथं पाङ्कत्वमित्याकाङ्क्षा- याम्, 'पञ्चाक्षरा पङ्गिः' इति श्रुत्या पक्किच्छन्दः पञ्चसंख्योपेतम्,

Page 27

[१७ ]

तथा जगदपि पञ्चीकृतपञ्चभूततत्कार्यात्मकत्वात्पञ्चसंख्योपेतम् ; तथा च पञ्चसंख्यायोगसादृश्येन पृथिव्यादौ पङ्कयाख्यस्य छन्दसः संपा- दनात्पाङ्कत्वमिति कथनम् ... ४७

'पाकुश्र यज्ञः' इत्यनेन, न केवलं पञ्चसंख्यायोगात्पक्किच्छन्दःसंपाद- नम्, किंतु पत्नीयजमानपुत्रदैवमानुषवित्तैः संपाद्तया यशञस्य पाकक- त्वेन पृथिव्यादेर्यज्ञत्वसंपादनमपि कर्तु शक्यत इति कथनम् ... ४७

'पञ्चाक्षरा पङ्गिः' इत्यादिना, पञ्चसंख्यायुक्तच्छन्दसः पङ्कित्वे यशस्य च पाक्कत्वे क्रमेण श्रुतिप्रदर्शनम् ... ४७

'तेन यत्सर्वम्' इत्यादिना, जगतो यशञत्वसंपादनस्यैव प्रदर्शनम् ... ४८

'तेन यज्ञेन' इत्यादिना, सर्वे जगत् पक्किच्छन्दोरूपं यश्ञरूपं च परि- कल्प्य पाङ्कजगदात्मकयश्ञरूपप्रजापत्युपासनाजगदात्मानं प्रजापति- मेव प्राप्नोतीति फलकथनम् ... ४८ 'तत्कथम्' इत्यादिना, पाङ्कजगदुपासनस्य विशिष्टफलवत्वाजगतः पाङ्कत्वं वक्तव्यमिति प्रवृत्तस्योत्तरग्रन्थस्य प्रश्नपूर्वकमवतरणम् ... ४८

'पृथिवी' इत्यादिना, लोकादिपाङ्कत्रयप्रदर्शनम् ... ४८

'आत्मा' इत्यादिना, 'आप ओषधयः' इत्यादिस्थूलभूतप्रकरणादा- त्मशब्देन भूतमयो विराड्देह उच्यत इत्यात्मशब्दार्थकथनम् ... ४८

'इत्यविभूतम्' इत्यादिना, इत्यधिभूतमित्यत्र भूतग्रहणं देवतालोक- पाक्कयोरुपलक्षणार्थमिति कथनम् ... ४८

'अथ अनन्तरम्' इत्यादिना, अध्यात्मपाङ्कतयप्रदर्शनम् ... ४८

'एतावद्धि' इत्यादिना, पाङ्कषट्ककथनेन कथं सर्वजगतः पाङ्कत्व- मिति शङ्कायाम्, यद्वाह्यमध्यात्मं च पाङ्कषट्कं श्रुत्या प्रदर्शितम्, एतावदेव सर्व जगत् न ततोऽधिकम्, अतः सर्वजगतः पाङ्कत्व- मिति कथनम् ... ४८

'एतदेवमधिविधाय' इत्यादिना, 'ऋिर्वेदः यथोक्तदर्शनसंपन्नो वा कश्चिदेतजगत्पाङ्करूपेण परिकल्प्य पाङ्कमेव सर्व जगदिति दृष्ट्रा, इदं सर्वे जगत् पाङ्कात्मना आध्यात्मिकपाङ्कत्रयं बाह्यपाङ्कत्रयात्मना च विद्यात्, पाङ्कजगदात्मकं ब्रह्माहमस्मीति चिन्तयेदित्युक्तवानिति एतदधिविघाय' इत्यादेरर्थकथनम् .. ४९

*T.0 1

Page 28

[१८]

'एतदेवम्' इत्यादिना, उक्त्ोपासनस्य फलमप्यर्थात्कथितमिति प्रद- र्शनम् .. ४९

अष्टमोऽनुवाक: ५० -- ५३

'व्याहत्यात्मनो ब्रह्मणः' इत्यादिना, वृत्तानुवादपूर्वकमुत्तरानुवाकता- त्पर्यकथनम् ...

'परापरब्रह्मदृष्टया' इत्यादिना, ओंकारस्य शब्दमात्रस्याचेतनत्वादह- मनेनोपासित इति ज्ञानाभावात्कथं फलदातृत्वमिति शङ्कायाम्, प्र- तिमाद्यर्चन इव सर्वत्रेश्वरस्यैव फलदातृत्वान्नोक्तशक्कावकाश इति कथनम् ... ५०

'स ह्यालम्बनम् ' इत्यादिना, दृष्टान्तपूर्वकमोंकारस्य परापरव्रह्मदृष्टया- लम्बनत्वकथनम् ... 'एतेनैवायतनेन' इत्यादिना, परापरब्रह्मदृष्टयोपासितस्य प्रणवस्य परा- परब्रह्मप्राप्तिसाधनत्वे श्रुतिप्रदर्शनम् ... 'इतिशब्दः' इत्यादिना, ओमितीत्यत्र इतिशब्दार्थकथनम् ...

'ओमित्येतत्' इत्यादिना, 'ओमिति ब्रह्म' इत्यस्यार्थविवरणम् ... ५१

'यत ओमितीदं सर्वम्' इत्यनेन ओंकारे ब्रह्मदृष्टयध्यासे किं सादृश्य- मित्याकाङ्क्षायाम्, सर्वात्मकत्वमोंकारस्य ब्रह्मणा सादृश्यम् अत ओंकारे ब्रह्मद्ृष्टयध्यास इति 'ओमितीदं सर्वम्' इत्यस्यार्थकथनम् ५१ 'सर्व हि' इत्यादिना, ओंकारस्य कथं सर्वात्मकत्वं सर्वस्यातत्कार्यत्वा- दिति शङ्कायाम्, तन्निरासाय तस्य सर्वशब्दात्मकत्वकथनपूर्वकं स- र्वाभिधेयात्मकत्वकथनम् .. 'ओंकारस्तुत्यर्थः' इत्यादिना, ओंकारस्योपास्यत्वेन स्तुत्यहत्वादोंकार- स्तुत्यर्थम् 'ओमित्येतदनुकृति' इत्याद्युत्तरग्रन्थ इति तात्पर्यकथनम् ५२ 'ओमित्येतदनुकृति अनुकरणम्' इत्यादिना, 'ओमित्येतदनुकृति' इत्यत्रानुकृतिशब्देन ओमित्यस्य लोकवेदयोरनुज्ञारूपत्वप्रसिद्धिप्रद- र्शनम् ५२ 'अपि च' इत्यादिना, 'अप्यो श्रावय' इत्यादेरर्थकथनम् ... ५२ 'तथा ओमित्यध्वर्युः' इत्यादिना, अध्वर्युः प्रतिगरं होतारं प्रति

Page 29

[१९ ]

प्रोत्साहनद्योतकम् 'ओऽथामोद इव' इति शब्दं प्रतिगृणात्युच्चारय- तीति 'ओमित्यध्वर्युः प्रतिगरम्' इत्यादेरर्थकथनम् ... ५२

'ओमिति' इत्यादिना, 'ओमिति ब्रह्मा प्रसौति' इत्यादेरर्थकथनम् ५२

'ओमित्येव ब्राह्मणः' इत्यादिना, 'ओमिति ब्राह्मणः प्रवक्ष्यन्' इत्य स्यार्थविवरणम् ... ५३ 'ब्रह्म वेदम्' इत्यादिना, ब्राह्मणः किमभिसंधाय ओंकारपूर्वकं वेदा- ध्ययनमुपक्रमत इत्याकाङ्क्षायाम्, वेदं अ्रहीष्यामीत्यभिसंधिमान् ओमिति वदन्वेदमध्येतुमुपक्रमत इति कथनम् ... 'अथवा' इत्यादिना, ब्रह्मशब्दस्यार्थान्तरमुक्त्वा तत्रापि वाक्यस्य यो- जनम् ... ५३ 'ओंकारपूर्वप्रवृत्तानाम्' इत्यादिना, विवक्षितानुवाकार्थस्य संक्षेपेण कथनम् ५३

नवमोऽनुवाक: ५४ -- ५७ 'विज्ञानादेव' इत्यादिना, 'आप्नोति स्वाराज्यम्' इति उपासनादेव स्वाराज्यश्रवणात्कर्मणामानर्थक्यमाशङ्कय, तेषामुपासनासहकारित- या तत्फलेनैव फलवत्वप्रदर्शनार्थमस्मिन्ननुवाके तेषामुपन्यास इति व्यवहितानुवाकेनास्यानुवाकस्य संबन्धकथनम् ... ५४

'ऋतमिति' इत्यादिना, ऋतमित्यस्य व्याख्यातत्वप्रदर्शनपूर्वकं 'स्वा- ध्यायप्रवचने च' इत्यादीनां व्याख्यानम् ... ५५ 'सवरेतैः' इत्यादिना, पुनः पुनः स्वाध्यायप्रवचनग्रहणस्य तात्पर्य- प्रदर्शनम् ... ५६ 'स्वाध्यायाधीनं हि' इत्यादिना, स्वाध्यायप्रवचनयोर्यतेनानुष्ठेयत्वे हेतु- प्रदर्शनपूर्वकं तस्योपसंहरणम् ... ५६ 'सत्यमेवानुष्ठेयम्' इत्यादिना, 'सत्यमिति सत्यवचाः' इत्यादेर्विवरणम् ५६

'उक्तानामपि' इत्यादिना, सत्यं च स्वाध्यायेत्यादिना पूर्वमुक्तानामपि सत्यतपःस्वाध्यायादीनां पुनर्ग्रहणं मतभेदेन तेषामुत्तमकर्मत्वख्या- पनद्वारा तेष्वादरसूचनार्थमिति कथनम् ... ५७

दशमोऽनुवाक: ... ५८ -- ६१ 'अहं वृक्षस्य' इत्यादिना, 'अहं नृक्षस्य' इति मन्त्रास्नायो जपार्थः,

Page 30

[२0]

तजपश्र चित्तशुद्धिद्वारा विद्योत्पत्यर्थः, ब्रह्मविद्यासंनिधौ पाठात्; अन्यत्रविनियोजकस्य श्रुत्यादिप्रमाणस्यानुपलम्भान्नान्यार्थत्वमिति, 'अहं वृक्षस्य रेरिवा' इति मन्त्राम्रायस्य तात्पर्यवर्णनम् ... ५८

'स्वाध्यायेन च' इत्यादिना, स्वाध्यायस्य विद्योत्पत्तिहेतुत्वे द्वारसमर्पणम् ५८ 'अहं वृक्षस्योच्छेद्यात्मकस्य' इत्यादिना, 'अहं वृक्षत्य' इत्यादे- व्याख्यानम् ... ५८

'ब्रह्मज्ञानं वा' इत्यादिना, 'द्रविणर सवर्चसम्' इत्यस्यार्थान्तर- कथनम् .. ५९

'अस्मिन्पक्षे' इत्यादिना, मुक्तिसाधनभूतब्रह्मज्ञानं चेत्सवर्चसं द्रविणम्, तर्हि तदस्मीति पूर्ववदन्वयो न घटत इत्याशङ्कय, प्राप्तं मयेति पदद्वयाध्याहारेण योजनम् ... ६०

'सुमेधाः' इत्यादिना 'सुमेधा अमृतोक्षितः' इत्यत्र सुमेधःशब्दस्य अ्रन्थतदर्थधारणसामर्थ्यलक्षणमेघाविशिष्टत्वेन सार्वश्ञलक्षणमेघाविशि- ध्टत्वेन च व्याख्यानम् ... ६०

'संसारस्थिति' इत्यादिना, विदुषस्तादृशसार्वज्ञलक्षणमेघावत्वस्य साघनम् ६०

'अत एव' इत्यादिना, 'अमृतोक्षितः' इत्यस्य विवरणम् ... ६०

'इतीत्यादि' इत्यादिना, 'इति त्रिशङ्कोर्वेदानुवचनम्' इति वाक्यं ब्राह्मणमिति कथनम् .. . ६०

'एवं त्रिशङ्को:' इत्यादिना, यथा वामदेवस्य कृतकृत्यताख्यापनार्थम् 'अहं मनुरभवम्' इत्यादिवचनम्, तथा ऋषेस्त्रिशङ्कोर्ब्रझ्मभावं प्राप्तस्यात्मकत्वज्ञानप्राप्तिमनुवचनं कृतकृत्यताख्यापनार्थमिति 'इति त्रिशङ्को:' इत्यादेरर्थकथनम् ...

'त्रिशङ्कना' इत्यादिना, पूर्वम् 'अहं वृक्षस्य' इति मन्त्रस्य विद्या- प्रकरणमध्यपठितत्वाद्विद्याशेषत्वमुक्तम्, इदानीं त्रिशककुना आर्षेण दृष्टस्य मन्त्रस्य विद्याप्रकाशकत्वाद्विद्याप्रकाशनसामर्थ्यरूपाल्लिङ्गादपि मन्त्रजपस्य विद्याशेषत्वं वक्तुं शक्यत इत्याशयेन विवक्षितस्य मन्त्रार्थस्य कथनम् ... ६१

'अस्य च' इत्यादिना, मन्त्रस्य विद्याप्रकाशकत्वे फलितकथनम् ... ६१

'ऋतं च' इत्यादिना, ऋतं चेत्यादिकर्मोपन्यासानन्तरम ऋषेरात्म-

Page 31

[२१ ]

विषयदर्शनोपन्यासान्न केवलं जपेनैव ब्रह्मज्ञानं फलमुत्पद्यते, किं तु श्रौतस्मार्तेषु फलाभिसंधि विना प्रवृत्तस्य परं ब्रह्म विविदिषोर्मोक्षफलं ज्ञानमुपदेशानपेक्षं कर्मभिरपि प्रादुर्भवतीति कथनम् ... ६' एकादशोऽनुवाक: ६२-८९ 'वेदमनूच्य' इत्यादिना, मोक्षसाधनस्य ब्रह्मज्ञानस्योदयात्पूर्व नित्य- नैमित्तिकानि कर्माण्यवश्यमनुष्ठेयानीति नियमस्य वेदमनूच्येत्याद्यनु- वाकारम्भप्रयोजनस्य कथनम् ... ६२ 'पुरुषसंरकारार्थत्वात्' इत्यादिना, कर्मणां चित्तशुद्धिद्वारा विद्योत्पत्ति- हेतुत्वाद्विद्योत्पत्यर्थे विद्योदयात्पूर्व कर्माण्यवश्यानुष्ठेयानीति पूर्व कर्मणां कर्तव्यत्वे संग्रह्विवरणाभ्यां हेतुकथनम् ... ६३ 'तपसा कल्मषम्' इत्यादिना, कर्मणां विद्योत्पत्तिहेतुत्वे मानप्रदर्शनम् ६३ 'अतः' इत्यादिना, कर्मणामनुष्ठेयत्वस्योपसंहारः ... ६४ 'अनुशास्ति' इत्यादिना, अनुशास्तीत्यस्य तात्पर्यकथनम् .. ६४ 'प्रागुपन्यासाच्च कर्मणाम्' इत्यनेन प्रागेव कर्माण्यनुष्ठेयानीति नियमा- न्तरस्य 'वेदमनूच्य' इत्याद्यनुवाकारम्भप्रयोजनस्य कथनम् ... ६४ 'केवलब्रह्मविद्यारम्भाच्च, पूर्वम्' इत्यादिना, संग्रहवाक्यविवरणम् ... ६४ 'उदितायाम्' इत्यादिना, 'अभयं प्रतिष्ठाम्' इत्यादिश्रुतिभिर्ज्ञानो- दयादूर्ध्वे मुक्तिलाभश्रवणात्पूर्वमेव कर्माण्यनुष्ठेयानीति नियमस्य समर्थनम् ... ६४ 'अतः' इत्यादिना, उत्पन्ने ज्ञाने मोक्षस्य सिद्धत्वादुत्तरकालं कर्तव्या- भावात्प्रागेव कर्तव्यानि कर्माणीत्युपसंहारः ... ६५ 'मन्त्रवर्णाच्च' इत्यादिना, अविद्यया कर्मणा मृत्युं पाप्मानं तीर्त्वेति मन्त्रोडपि विद्योत्पत्तेः प्रागेव कर्मानुष्ठानं सूचयतीति कथनम् ... ६५ 'ऋतादीनाम्' इत्यादिना, 'ऋतं च' इत्यादौ कर्माण्येव कर्तव्यत्वे- नोक्तानि, 'वेदमनूच्य' इत्यादिप्रकृतश्रुतावपि तान्येव कर्तव्यत्वे- नोच्यन्ते, तेन पुनरुक्तिरित्याशङ्कय, उपासनादव स्वाराज्यश्रवणा दानर्थक्यं कर्मणामाशङ्कय तत्परिद्दारार्थम् 'ऋतं च' इत्यनुवाकः, 'वेदमनूच्य' इत्यादिस्तु नियमद्वयसिद्धयर्थ इति न पुनरुक्तिरिति कथनम् .. ६५

Page 32

[२२ ]

'वेदमनूच्याध्याप्य' इत्यादिना, एवमनुवाकतात्पर्यकथनानन्तरम् 'वे दमनूच्य' इत्यादेर्व्याख्यानम् ... ६५ 'अतोऽवगम्यते' इत्यादिना, धर्मविचारमकृत्वा गुरुकुलान्न निवर्ति- तव्यम्, किं त्वक्षरग्रहणानन्तरं धर्मविचारं कृत्वैव निवर्तितव्यमिति 'वेदमनूच्य' इति वाक्यस्य तात्पर्यवर्णनम् ... ६५

'बुड्ढा कर्माणि' इत्यादिना, धर्मविचारं कृत्वा गुरुकुलान्निवर्तितव्यमि- त्यत्र स्मृतिप्रदर्शनम् .... ६५ 'कथम्' इत्यादिना, सत्यं वदेत्यादेः सावतरणं व्याख्यानम् ... ६५ 'अनुत्पद्यमानेऽपि' इत्यादिना, 'ऋतं च' इत्यनुवाके 'प्रजा च स्वाध्यायप्रवचने च' इत्यादिना संततिविषय एव प्रजादित्रयनिर्दे- शबलात् पुत्रेऽनुत्पद्यमानेऽपि पुत्रकाम्यादिकर्मणा पुत्रोत्पत्तौ यत्ः कार्य इति श्रुत्यभिप्रायोऽवगम्यत इति 'प्रजातन्तुम्' इत्यादेरभि- प्रायवर्णनम् ६६ 'सयात्' इत्यादिना, सत्यान्न प्रमदितव्यमित्यस्यार्थकथनम् ६६ 'सत्याच्च प्रमदनम्' इत्यादिना, 'सत्यान्न प्रमदितव्यम्' इति सत्या- वप्रमादनिषेधवचनेन सत्यमेव वक्तव्यमित्यर्थो लभ्यते, तथा च 'सत्यं वद' इत्यनेन पुनरुक्तिरिति शङ्कायाम्, विस्मृत्याप्यनृतं न वक्तव्य- मित्यस्यार्थस्य प्रतिपत्त्यर्थ पुनरुक्तिरिति प्रमादशब्दसामर्थ्यादवग- म्यत इति 'सत्यान्न प्रमदितव्यम् इत्यस्य तात्पर्यकथनम् ... ६७ 'धर्मशब्दस्यानुष्ठेयविषयत्वात्' इत्यादिना, 'धर्मान्न प्रमदितव्यम्' इत्यादेर्विवरणम् . ६७ 'ये के चाविशेषिताः' इत्यादिना, 'ये के चास्मत्' इत्यादेर्व्याख्यानम् 'तेषां वा आसने' इत्यादिना, तस्यैवार्थान्तरकथनम् ... ६८ 'किं च, यत्किंचिद्देयम्' इत्यादिना, 'श्रद्धया देयम्' इत्यादेर्विवरणम् ६८ 'अथैवं वर्तमानस्य' इत्यादिना, एवं कर्तव्यमर्थमुपदिश्य अनुष्ठान- काले समुत्पन्नसंशयनिदृत्त्यर्थ शिष्टाचारः प्रमाणयितव्य इति 'अथ यदि' इत्यादेर्व्याख्यानम् ... ६९ 'यस्मादेवम्' इत्यादिना, यस्मात्सत्यवदनादिकम् एवं विध्यादिरूपमी- श्वराज्ञारूपं च, तस्मादेवमुक्तेन प्रकारेण प्रागुक्तं सत्यादि सर्वे कर्त- व्यमिति 'एवमुपासितव्यम्' इत्यस्य विवरणम् .... ७०

Page 33

[ २३ ]

'उपास्थम् उपास्यमेव' इत्यादिना, यथोक्तकर्मानुष्ठाने आदरसूचनार्थे पुनर्वचनमिति 'एवमु चैतदुपास्थम्' इत्यस्य पुनर्वचनस्य तात्पर्य- वर्णनम् .. ७० 'अत्रैतच्चिन्त्यते' इत्यादिना, 'केवलाया विद्याया मुक्तिसाधनत्वं ग्रन्थादौ साधितमपि विद्याकर्मणोः पृथक्फलत्वज्ञापनद्वारा स्फुटीकर्तु पुन- र्विचारप्रतिज्ञा ७० 'किं कर्मभ्यः' इत्यादिना, अनेकधा विप्रतिपत्तिप्रदर्शनम् ७० 'तत्न केवलेभ्यः' इत्यादिना, 'वेदः कृत्स्नोऽधिगन्तव्यः' इति स्मृत्या उपनिषदर्थज्ञानसहितसमस्तवेदार्थज्ञानवतः कर्माधिकारप्रतिपादनेना- त्मज्ञानस्य कर्मशेषत्वावगमात्, श्रतस्यापि तत्फलस्यार्थवादत्वात् कर्मभ्य एव परं श्रेय इत्याद्यपक्षसमर्थनम् ... ७० 'विद्वान्यजते' इत्यादिना, सर्वत्र वेदे 'विद्वान्यजते इत्यादिना वेदार्थ- ज्ञानरूपविद्ावत एव कर्मण्यधिकारप्रदर्शनात् आत्मज्ञानस्य कर्म- शेषत्वमिति विद्याया: कर्मशेषत्वे हेत्वन्तरप्रदर्शनम् .... ७१ 'ज्ञात्वानुष्ठानम्' इत्यनेन, समस्तवेदार्थज्ञानवतः कर्माधिकारे स्मृत्यन्त- रप्रदर्शनम् ७१ कृत्स्श्र' इत्यादिना, ज्ञानस्य कर्मशेषत्वे जैमिनिशबरस्वामिसं- ....

मतिप्रदर्शनम् ... ७१ 'कर्मभ्यश्चेत्' इत्यादिना, कर्मणां मुक्तिहेतुत्वानङ्गीकारे बाधकप्रदर्शनम् ७१ 'न ; नित्यत्वान्मोक्षस्य' इत्यादिना, 'न स पुनरावर्तते' इति श्रुत्या मोक्षो नित्य इत्यवगम्यते, तस्य कर्मसाध्यत्वे यजन्यं तदनित्यमिति व्याप्तिदर्शनेनानित्यत्वं स्यात्, तच्चानिष्टम् ; मुक्तस्यापि पुनः संसा- रप्रसक्गादित्याद्यपक्षखण्डनम् ... ७१ 'काम्यप्रतिषिद्धयोः' इत्यादिना, ग्रन्थारम्भे उक्तस्य मीमांसकपूर्व- पक्षस्य तन्निराकरणस्य चानुवाद: .. ७२ 'यच्च' इत्यादिना, उपनिषदर्थज्ञानस्य कर्मशेषत्वात्कर्मसाध्य एव मोक्ष इति पूर्वपक्ष्युक्तस्यानुवादः ... ७३ 'तच्च न' इत्यादिना श्रुतज्ञानशन्दितस्योपनिषदर्थज्ञानस्य कर्मशेषत्वे- डप्युपासनस्य श्रुतज्ञानातिरिक्तस्य मोक्षसाधनस्य सत्वान्न कर्मभ्य एव मोक्ष इति निराकरणम् .... ७३

Page 34

[२४ ]

'उपासनं च' इत्यादिना, अनुष्ठेयं तथाभूतं ब्रह्मोपासनमेव नास्ति मानाभावादिति न शङ्कनीयम्, श्रुतज्ञानादर्थान्तरभूतस्योपासनस्य श्रोतव्य इति श्रवणविधानानन्तरं मन्तव्यो निदिध्यासितव्य इति पृथग्विधानादिति कथनम् ... ७३ 'एवं तहि' इत्यादिना, केवलं कर्म मोक्षसाधनमिति पक्ष निरस्य, कर्म प्रधानम्, विद्या उपसर्जनमिति समुच्चयपक्षस्योत्थापनम् ... ७४

'विद्यासहितानां च' इत्यादिना, कार्यस्यानित्यत्वनियमाद्विद्यासहितक- रमारब्धस्यापि मोक्षस्य कथ नित्यत्वमित्याशक्कायाम्, विद्यारूपसह- कारिमहिम्रा आरब्धस्यापि मोक्षस्य नित्यत्वमिति सहकारिवैचित्र्या- त्कार्यवैचित्र्ये दृष्टान्तप्रदर्शनपूर्वकं पूर्वपक्षस्थापनम् ... ७४

'न, आरभ्यस्य' इत्यादिना, अस्तु सहकारिवैचित्र्यात्कार्यवैचचित्र्यम्, तथापि कार्यत्वस्यानपायात् यत्कृतकं तदनित्यममिति न्यायेनारब्घस्थ नित्यत्वं न संभवतीति निराकरणम् ... ७५

'वचनात्' इत्यादिना, 'न स पुनरावर्तते' इति वचनादारभ्योऽपि मोक्षो नित्य इति पुनराशङ्कनम् ... ७५

'न, ज्ञापकत्वाद्वचनस्य' इत्यादिना, वचनं नाम, प्रसिद्धं पदार्थयोग्य- त्वमुपादाय योग्यपदार्थज्ञापकम्; न त्वविद्यमानयोग्यत्वस्याधाय- कम्; न चारभ्यस्य नित्यत्वे योग्यत्वं प्रसिद्धमिति, अप्रसिद्धस्यापि योग्यत्वस्याधायकत्वे वचनस्य कारकत्वप्रसङ्गात्; न चेष्टापत्तिः, 'अन्धो मणिमविन्दत्' इत्यादिष्वपि वचनबलाद्योग्यताप्रसङ्गः स्यादिति शङ्कानिराकरणम् ... ७५ 'एतेन' इत्यादिना, अनित्यत्वादिदोषातिदेशेन समसमुच्चयपक्षस्यापि निराकरणम् ... ७५ 'विद्याकर्मणी' इत्यादिना, मोक्षप्रतिबन्धहेतुरविद्या, तन्निवर्तके विद्या- कर्मणी, नात्मस्वरूपमोक्षोत्पादके; अतो ब्रह्मस्वरूपमोक्षस्य नित्य- त्वेऽपि न क्षतिरिति शङ्का .. ७५ 'न ; कर्मणः' इत्यादिना, 'भिद्यते हृदयग्रन्थिः' इत्यादिश्रुतेः केव- लविद्यासाध्यैवाविद्यानिवृत्तिः, न तत्र विद्यायाः कर्मापेक्षा; कर्म- फलं त्वविद्यानिवृत्यपेक्षयान्यदेवोत्पत्तिसंस्कारादिरूपं प्रसिद्धमिति शङ्कानिराकरणम् ७५

Page 35

[२५ ]

'उत्पत्यादिफलविपरीतश्च' इत्यादिना, यदि कर्मफलमुत्पत्यादिकमेव तर्हि ब्रह्मस्वरूपमोक्षस्यैवोत्पत्याद्यन्यतमत्वमस्त्विति शङ्कायाम्, आ- त्मस्वरूपस्य मोक्षस्यानादित्वादनाधेयातिशयत्वादविकार्यत्वान्नित्या- प्त्वाच्च कर्मफलाद्विपरीतस्य नान्यतमत्वमिति समाधानम् ... ७६ 'गतिश्रुतेः' इत्यादिना, गतिश्रुतिमवलम््य ब्रह्मणः प्राप्यत्वरङ्का ... ७६ 'सूर्यद्वारेण' इत्यादिना, गतिश्रुतिनिर्देशपूर्वकं शङ्काया विवरणम् .. ७६ 'न ; सर्वगतत्वात्' इत्यादिना, लोके गन्तुः सकाशादन्यस्य परि- च्छिन्नस्य च प्राप्यता प्रसिद्धा, ब्रह्मणस्त्वाकाशादिकारणत्वेन सर्व- गतत्वात् गन्तृभ्योऽनन्यत्वाच्च न प्राप्यत्वमिति शङ्कानिराकरणम् ... ७६ 'गन्तुरन्यद्विभिन्नदेशम्' इत्यादिना, प्राप्यस्वरूपप्रदर्शनम् ७६

'न हि, येन' इत्यादिना, अनुभवेनानन्यस्य गन्तव्यत्वाभावप्रदर्शनम् ७७ 'तदनन्यत्वप्रसिद्धिश्च' इत्यादिना, ब्रह्मणो गन्तृभ्योऽनन्यत्वस्य श्रुत्या साधनम् .... ७७ 'गत्यैश्वर्यात्' इत्यादिना, कार्यब्रह्मप्राप्तिविषया गत्यादिश्रतिरिति संक्षे- पेण विवृ्त्या च शङ्काप्रदर्शनपूर्वकं गत्यादिश्रुतेस्तात्पर्यप्रदर्शनम् ... ७७ 'कारयें हि' इत्यादिना, सत्यलोकस्थकार्यब्रह्मप्राप्तिविषया एव गत्यादि- श्रुतयः, न परव्रह्मप्राप्तिविषया इत्यत्र किं विनिगमकमिति शङ्का- याम्, हिरण्यगर्भभावप्राप्तौ हि स्त्र्यादयो विषयाः सन्ति, न का- रणब्रह्मभावप्राप्तौ, विद्यया अविद्यातत्कार्यस्य निवृत्तत्वादित्येतदेव विनिगमकमिति विनिगमक प्रदर्शनम् .. ७७ 'एकमेवाद्वितीयम्' इत्यादिना, कारणे ब्रह्मणि अविद्याकार्यभोगाभावे प्रमाणप्रदर्शनम् ७८ 'विरोधाच्च' इत्यादिना, समुच्चयमभ्युपगम्य दूषणमुक्तम्; इदानीं वि- द्याकर्मणोर्विरोघात्सोऽपि न संभवतीति प्रतिपादनम् .. ७८

'प्रविलीनकर्त्रादि' इत्यादिना, विरोधस्यैव प्रपञ्चनम् ७८

'न हि' इत्यादिना, यद्यप्येक एवात्मा कर्तृत्वादिविशेषवत्वेन तच्छून्य- त्वेन च प्रमाणतोऽवगम्यते, तथापि परमार्थत एकं वस्तु उभयवत्तया प्रमाणतोSवगन्तुं न शक्यते विरोधात्; अतः परस्परविरुद्धयो रजत- त्वशुक्तित्वयोरन्यतरस्येव कर्तृत्वादिविशेषवत्त्वतच्छ्ून्यत्वयोरन्यतर *T.0 2

Page 36

[२६ ]

स्याध्यस्तत्वं वाच्यम्, अन्यतरस्याध्यस्तत्वे वक्तव्ये श्रुतिप्रामाण्यादा- विद्यकस्य कर्त्रादिद्वैतस्यैवाध्यस्तत्वं युक्तमिति कथनम् ... ७८

'यत्र हि' इत्यादिना, द्वैतस्य मिथ्यात्वे श्रुतिप्रदर्शनम् ... ७९

'सत्यत्वं च' इत्यादिना, एकत्वशब्दितनिर्विशेषत्वस्य सत्यत्वे श्रुत्यु- दाहरणम् ७९

'न च संप्रदानादिकारकभेदादर्शने' इत्यादिना, कर्त्रादिद्वैतस्योक्त- रीत्या निर्विशेषे ब्रह्मण्यध्यस्तत्वे ब्रह्मतत्त्वविद्यया सर्वद्वैतस्याप्युपमर्दात् जगन्देदादर्शने कर्मानुष्ठानं न संभवतीति कथनम् ... ८० 'अन्यत्वदर्शनापवादश्च' इत्यादिना, ब्रह्मतत्वज्ञानेन ब्रह्माध्यस्तद्वै- तोपमर्दे श्रुतयोऽपि सन्तीति कथनम् ८०

'अतो विरोधः' इत्यादिना, विद्याकर्मणोर्विरोधोपसंहारपूर्वकं तयोः समुच्चयासंभवोपसंहारः ... ८०

'अत्र यदुक्तम्' इत्यादिना, समुच्चयानुपपत्तौ फलितस्य कथनम् ... ८०

'विहितत्वात्' इत्यादिना, अद्वैतव्रह्मबोधकश्रुत्या कर्त्रादिकारकभेदस्य सत्यत्वांश बाधित्वा ब्रह्मज्ञानमुपदिश्यते चेत्, तदा कर्मश्रुतीनां कर्त्नादिकारकभेदरूपमिथ्यार्थबोधकत्वादप्रामाण्यं स्यादिति शङ्का ... ८१

'यद्युपमृद्य' इत्यादिना, शङ्काया विवरणम् ८१

'न; पुरुषार्थोपदेशपरत्वात्' इत्यादिना, विद्याकर्मश्रुतीनामध्ययनप- रिगृहीतानां पुरुषार्थप्रदर्शकत्वेनैव प्रामाण्यम्, न तु कर्त्रादिद्वैतस्य सत्यत्वेन ; ततश्र भ्रान्तिसिद्धं कारकादिभेदमर्थक्रियासमर्थमादाय पुरुषार्थोंपदेशे प्रवृत्तानां कर्मश्रुतीनां नाप्रामाण्यप्रसङ्ग इति समाधानम् ... ८१

'विद्योपदेशपरा' इत्यादिना, विद्याश्रुतीनां कर्मश्रुत्यविरुद्धपुरुषार्थों- पदर्शकत्वप्रदर्शनपूर्वक संग्रहवाक्यविवरणम् ... ८१

'एवमपि' इत्यादिना, शङ्कापूर्वकं कर्मश्रुतीनां विद्याश्रुत्यविरुद्धपुरुषा- थोपदेशपरत्वप्रदर्शनम् ... ८२

'उपचितदुरितप्रतिबन्धस्य' इत्यादिना, विद्यायामुपात्तदुरितक्षयद्वारा कर्मणामुपयोगस्य प्रदर्शनम् .. ८२

Page 37

[२७]

'अपि च' इत्यादिना, काम्यकामिविषयत्वेन विद्याकर्मणोर्विरोधकथनम् ८२ 'विरोधादेव च' इत्यादिना, विद्या प्रधानं कर्म चोपसर्जनमिति पक्षस्य निरसनम् .. ८३ 'स्वात्मलाभे तु' इत्यादिना, विरुद्धत्वाद्विद्या चत्कर्माणि स्वफले नापेक्षते, कुत्र तर्हि कर्मणामुपयोग इति शङ्कायाम्; स्वफले विद्यायाः कर्मा- पेक्षाभावेऽपि स्वोत्पत्तौ हेतुत्वेन विद्या कर्माण्यपेक्षत इति कर्मणा मुपयोगप्रदर्शनम् .. ८३ 'अत एव' इत्यादिना, कर्मणां विद्योत्पत्तौ मानस्य स्मारणम् .. ८४

'एवं च' इत्यादिना, कर्मणां चित्तशुद्धिद्वारा विद्याहेतुत्वे विद्याकर्म- श्रुतीनामविरोध इति फलितकथनम् ... ८४ 'अतः केवलायाः' इत्यादिना, परमप्रकृतस्योपसंह्ारः .. ८४

'एवं तहि' इत्यादिना, यदि कर्माणि विद्योत्पत्तौ साधनानि तह्यगनि- होत्रादिकर्मणां गार्हस्थ्य एव विहितत्वाद्गाईस्थ्यमेकमेवानुष्ठेयं स्या- त्; नाश्रमान्तरमिति कर्मिणामाक्षपस्य प्रदर्शनम् ... ८४

'अतश्च' इत्यादिना, अग्निहोत्नादिकर्मणामाश्रमान्तरेष्वभावादाश्रमा- न्तरानुष्ठानपक्षे सर्वेषां यावजीवं कर्मानुष्ठानाभावात् यावजीवा- दिश्रुतयोऽनुकूलतरा न स्युः ; गार्हस्थ्यस्यैवानुष्ठेयत्वे तु सर्वेषां याव- जीवं कर्मानुष्टानलाभात्ताः श्रुतयोऽनुकूलतरा भवन्तीति गाईस्थ्य- स्यैवानुष्ठेयत्वे श्रुत्यानुकूल्यरूपहेत्वन्तरस्य प्रदर्शनम् ... ८४

'न ; कर्मानेकत्वात्' इत्यादिना, श्रुतिस्मृत्यादिषु आश्रमान्तराणामपि विहितत्वाविशेषादाश्रमान्तरकर्मणामपि हिंसाद्यमिश्रितानां विद्या प्रति साधनतमत्वाच्च नैतस्याक्षेपस्यावकाश इति कथनम् .. ८५

'वक्ष्यति च' इत्यादिना, आश्रमान्तरकर्मणां विद्यासाधनत्वे मान- प्रदशनम् ८५ 'जन्मान्तरकृतकर्मभ्यश्च' इत्यादिना, कर्मणां विद्यासाधनत्वेऽपि न गाईस्थ्यमावश्यकं केषांचिद्दारपरिग्रहात्प्रागपि जन्मान्तरकृतकर्मभ्यो विद्योत्पत्तिसंभवादिति प्रतिपादनम् ... ८५ 'कर्मार्थत्वाच्च' इत्यादिना, उत्पन्नविद्यानामपि गार्ईस्थ्यप्राप्तिरस्त्वति न शङ्कनीयम्, गाईस्थ्यप्राप्तेः कर्मानुष्ठानार्थत्वात्कर्मफलभूतायां वि- द्यायां सिद्धायां तत्प्रासेरनर्थकत्वादिति कथनम् .. ८५

Page 38

[२८]

'लोकार्थत्वाच्च' इत्यादिना, पुत्रादिसाध्यलोकादर्थिनां कामिनां गाई- स्थ्यस्यानुष्ठेयत्वेऽपि न सर्वेषामनुष्ठेयत्वनिर्बन्ध इति कथनम् ८६

'प्रतिपन्नगारहस्थ्यस्यापि' इत्यादिना, गृहस्थस्यापि सतो विद्योदये न गाहस्थ्यापेक्षा, किंतु कर्मपरित्यागरूपसंन्यास एव; 'प्रव्रजिष्यन्वा' इ त्यादिश्रुतिलिङ्गदर्शनादिति कथनम् ... ८६

'कर्म प्रति श्रुतेः' इत्यादिना, न कर्मानेकत्वादित्यादिना कर्मणां विद्यासाधनत्वेSपि यथा विद्याकामेन गाईस्थ्यमनुष्ठातुं शक्यते, तथैवाश्रमान्तराण्यपि यथारुच्यनुष्टातुं शक्यन्ते, तेध्वपि विद्यासाधन- कर्मणां सत्वात्; अतो गारईस्थ्यस्यानावश्यकत्वादाश्रमाणां वैकल्पि- कमनुष्ठानमित्युक्तम ; तदयुक्तम्, 'एष आदेशः' इत्यादिवचनप- र्यालोचनया अग्निहोत्रादिकर्मण्येव श्रुतितात्पर्यातिशयावगमात् अग्नि- होत्रादिकर्मयुक्तं गार्हस्थ्यमेव प्रबलम; अतोऽतुल्यबलत्वेनाश्रमान्त- रैर्विकल्पासंभवादित्याक्षेपस्य प्रदर्शनम् ... ८७

'अग्निहोत्रादिकर्म' इत्यादिना, संग्रहस्य विवरणम् .. ८७

'महांश्र' इत्यादिना, गाईस्थ्यप्राबल्ये हेत्वन्तरस्याश्रमान्तरापेक्षया आ- यासबाहुल्यादेः प्रदर्शनम् ... ८७

'न' इत्यादिना, जन्मान्तरकृतकर्मजनितसंस्कारादेव विद्योत्पत्तिसंभवा- न्न गाईस्थ्यस्यावश्यकत्वमिति संग्रहेण शङ्कानिरसनम् ८७

'यदुक्तम्' इत्यादिना, यक्षाधिक्यायासबाहुल्यादीनामन्यथासिद्धत्वा- द्राईस्थ्य प्राबल्यप्रयोजकत्वमसिद्धमित्यभिप्रेत्य, जन्मनैव विरक्तानां कर्मसु प्रवृत्तानामविरक्तानां विद्याविद्वेषिणामुपलब्धेर्लिङ्गात् जन्मा- न्तरकृतकर्मजनितसंस्कारेभ्यः कर्मफलभूतायां विद्यायां विरक्तौ वा लब्धायां पारिव्राज्यप्राप्तिरेव, न पुनः कर्मानुष्ठानैकप्रयोजनगाईस्थ्य- प्राप्तिरिति संग्रहवाक्यविवरणम् .. ८७

'कर्मफलबाहुल्याच्च' इत्यादिना, यत्राधिक्यादेरन्यथासिद्धत्वप्रतिपादनम् ८८ 'आशिषाम्' इत्यादिना, कामबाहु्यस्यानुभवेन प्रदर्शनम् ... ८८

'उपायत्वाच्च' इत्यादिना, अग्निहोत्रादिकर्मणां विद्यां प्रत्युपायत्वा- त्तेषु यताधिक्यमित्यन्यथासिद्धौ हेत्वन्तरकथनम् ... ८८

'कर्मनिमित्तत्वात्' इत्यादिना, कर्मणां दुरितक्षयद्वारा विद्याहेतुत्वा-

Page 39

[२९ ]

त्कर्मभिरेव विद्योत्पत्तिसंभवे श्रवणादीनां वैयर्थ्यमिति समास- व्यासाभ्यामाशङ्का ... ८९ 'न; नियमाभावात्' इत्यादिना, कर्मकृतप्रतिबन्धक्षयादेव विद्योत्पद्यते, नान्यस्मादिति न नियम :; संन्यासाश्रमकर्मणामहिंसादीनां विद्यां प्रत्यन्तरङ्गसाधनत्वादिति शङ्कापरिहारः ८९ 'साक्षादेव च' इत्यादिना, अहिंसाद्यपेक्षयाप्यसंभावनादिलक्षणदृष्टप्रति- बन्धनिरासेन विद्यासाधनत्वाच्छवणादेरावश्यकतेति कथनम् ... ८९

'अतः सिद्धानि' इत्यादिना, आश्रमान्तरवैयर्थ्यशङ्कासमाधानोपसंहार: ८९ 'सर्वेषाम्' इत्यादिना, सर्वाश्रमकर्मणामपि विद्यासाघनत्वात्सर्वाश्रमाणां वैकल्पिकानुष्ठानत्वस्योपसंहारः ... ८९ 'परं च श्रेयः' इत्यादिना, विचारसमापिद्योतनार्थमुपसंहृतस्यापि समु- च्चयनिराकरणफलस्य पुनरुपसंहारः ... ८९

द्वादशोऽनुवाक: ९०-९२ 'शं नो मित्र:' इत्यादिना, शंनो मित्र इत्यादिशान्तेरादौ पठितत्वा- तपुनः पाठः किमर्थ इति शङ्कायाम्, पुनः पाठस्य वक्ष्यमाणब्रह्म- विद्याप्राप्त्युपसर्गप्रशमनार्थत्वेन प्रयोजनकथनम् ... ९०

'सह नाववतु' इत्यादिना, प्रतीकग्रहणपूर्वकम् 'सह नाववतु' इति शान्तेर्व्याख्यानम् ९१ 'वक्ष्यमाणविद्याविन्नप्रशमनार्था' इत्यादिना, 'सह नाववतु' इति शान्तेरपि वक्ष्यमाणविद्याशेषत्वकथनम् ९२ 'अविभ्नेन' इत्यादिना, विद्याविन्नप्रशमनार्थायाः शान्तेरावश्यकत्वप्रदर्शनम् ९२

आनन्दवल्ली .... ९३ -- २२९

प्रथमोऽनुवाक: ... ९३ -- १२६

'संहितादिविषयाणि' इत्यादिना, वृत्तानुवादपूर्वकमानन्दवल्ल्यास्ता- त्पर्यप्रतिपादनम् ९३ 'प्रयोजनं चास्याः' इत्यादिना, यथा 'आप्नाति स्वाराज्यम्' इत्यनेना- परविद्याफलं संसारगोचरमेव पूर्वमुक्तम्; तथा परविद्याफलमपि संसारगोचरमेवेत्याशङ्कय, निर्विशेषात्मविद्याया अविद्यानिवृत्तिद्वारा

Page 40

[३० ]

संसारनिवृत्ति: फलम्, न संसारगोचरं फलमित्यन्वयव्यतिरेकश्रुति- प्रमाणप्रदर्शनपूर्वकं साधनम् ... ९४

'अतोऽवगम्यते' इत्यादिना, साधितस्य ब्रह्मविद्याप्रयोजनस्योपसंहारः ९५

'स्वयमेव' इत्यादिना, आनन्दवल्ल्याद्यवाक्यस्य ब्रह्मविदाप्नोति परमि- त्यस्य संबन्धप्रयोजनज्ञापनार्थत्वेन तात्पर्यवर्णनम् .... ९५

'निर्ज्ञातयोर्हि' इत्यादिना, ब्रह्मविद्याप्रयोजनस्य, ब्रह्मविद्याप्रयोज- नयो: संबन्धस्य च आदावेव ज्ञापनं किमर्थमित्याशङ्कय, मुक्तिरूपफल- श्रवणान्मुक्त्यौपयिकब्रह्मज्ञानसाधने श्रवणादौ मुमुक्षुः प्रवर्तत इत्ये- तदर्थमादौ ज्ञापनमिति कथनम् ९५

'श्रवणादिपूर्वकं हि' इत्यादिना, साधनान्तरं परित्यज्य किमिति श्रव- गादौ प्रवर्तत इति चेत्, श्रवणादिपूर्वकस्यैवात्मज्ञानलाभस्य 'श्रोतव्यः' इत्यादिश्रुत्यावगमाच्छरवणादौ प्रवृत्तिरिति कथनम् ९६

'ब्रह्मवित्' इत्यादिना, 'ब्रह्मविदाप्नोति परम्' इति ब्राह्मणवाक्य स्य विवरणम् .. ९६ 'न ह्यन्यस्य' इत्यादिना, उत्कृष्टवाची परशब्दः कथ ब्रह्मपरत्वेन व्या- ख्यायत इति शङ्कायाम्, ब्रह्मैवात्र परशब्दवाच्यम्; ब्रह्मज्ञानाङ्ग ह्मणोन्यस्य प्राप्त्यसंभवादिति कथनम् ... ९६ 'स्पष्टं च' इत्यादिना, श्रुत्यन्तरानुसारेणापि ब्रह्मैवात्र परशब्दार्थ इति कथनम् ... ९६ 'ननु, सर्वगतम्' इत्यादिना, आप्नोतीत्यस्यौपचारिकमर्थ दर्शयितुं शङ्कामुखेन मुख्यार्थे बाधकप्रदर्शनम् ... ९६

'नायं दोषः' इत्यादिना, ज्ञानाज्ञाननिमित्तयोर्ब्रह्मण औपचारिकाप्त्य- नाप्त्योविवक्षितत्वान्मुख्यार्थबाघो न दोषावह इति संग्रहेण कथनम् ९७

'परमार्थतः' इत्यादिना, अदर्शननिमित्ताया अनासेः साधनारम्भः ९७ 'भूतमात्राकृत' इत्यादिना, स्वरूपभूते ब्रह्मणि विपर्ययप्रदर्शनम् ... ९७

'प्रकृतसंख्यापूरणस्य' इत्यादिना, स्वरूपेऽ्प्युक्तवक्ष्यमाणविपर्ययाग्रहणे भवत इत्यत्र द्ृष्टान्तप्रदर्शनम् ... ९७

'अन्नमयाद्यात्मभ्यः' इत्यादिना, स्वरूपभूते ब्रह्मण्यग्रहणप्रदर्शनम् .... ९८ 'एवमविद्यया' इत्यादिना, अदर्शननिमित्ताया अनासेरुपसंह्दारः ... ९८

Page 41

[२१ ]

'तस्यैवम्' इत्यादिना, दर्शननिमित्ताया अनास्तत्वभ्रमनिवृत्तिरूपाया औपचारिक्या आप्तेर्द्ृष्टान्तेन विवरणम् ... ९८ 'ब्रह्मविदाप्नोति' इत्यादिना, उत्तरग्रन्थस्याद्यवाक्यस्यैव विवरणरूप- त्वाद्वयाख्यानव्याख्येयभावोऽनयोः संबन्ध इति संगतिकथनम् ... १८ 'ब्रह्मवित्' इत्यादिना, 'सत्यं ज्ञानम्' इत्यादिमन्त्रस्य संक्षेपेणार्थक- थनपूर्वकमवतरणम् ... १९ 'तत्तस्मिन्' इत्यादिना, 'तदेषाभ्युक्ता' इत्यस्य विवरणम् ... ९९ 'सत्यं ज्ञानम्' इत्यादिना, मन्त्राद्यपादस्य तात्पर्यकथनम् ... 'सत्यादीनि हि त्रीणि' इत्यादिना, लक्षणवाक्यस्थपदानां विशेषण- विशेष्यभावेन विभजनम् .. १९ 'विशेष्यं ब्रह्म' इत्यादिना, ब्रह्मणो विशेष्यत्वे हेतुप्रदर्शनम् .. 'विशेषणविशेष्यत्वादेव' इत्यादिना, नीलं महत्सुगन्ध्युत्पलमित्यादौ नीलादिपदार्थानां विशेषणविशेष्यभावे सत्येव समानाधिकरणतयैक- विभक्त्यन्तानि नीलादिपदानि प्रसिद्धानि, एतान्यपि सत्यादीनि पदानि तथाभूतान्यर्थगतविशेषणविशेष्यभावनिवन्धनानीति गम्यते ; अतः सत्यादिपदार्थानां विशेषणविशेष्यभावे समानाधिकरणतयैक- विभक्त्यन्तानि सत्यादिपदानि रमकानीति गमकप्रदर्शनम् ... 100 'सत्यादिभिश्च' इत्यादिना, सत्यादिपदार्यैर्त्रह्मणि विशेषिते सत्यादि- विरुद्धेभ्यो व्यावृत्तं ब्रह्म सिध्यतीति सत्यादिपदार्थविशेषणत्वसाधन- फलकथनम् .. 900 'एवं हि' इत्यादिना, यथा नीलमुत्पलमित्यादिप्रयोगे व्यक्त्यन्तरेभ्यो व्यावृत्तमुत्पलमवगम्यते, तथा यद्यसत्यादिपदार्थेम्यो व्यावृत्तं ब्रह्मा- वधार्येत तदा ब्रह्म विशिष्य निर्णीतं भवतीति इतरव्यावृत्तिबोधस्य फलकथनम् ... 'ननु' इत्यादिना; विशेष्यमुत्पलत्वं शुक्करक्तोत्पलयोर्वर्तमानंसद्विशे- घणं नैल्यगुणं व्यभिचरति, अतो विवक्षितोत्पलस्य विपरीतोत्पले- भ्यो व्यावृत्तये नैल्यं विशेषणं घटते; न तथा सत्यत्वादिकं व्यभि- चरद्रह्मान्तरं लोके प्रसिद्धम्, अतः सजातीयव्यवच्छेद्यस्याभावाद्वि- शेषणविशेष्यभावो न घटत इति विशेषणविशेष्यभावाक्षेपणम् ... . १०0

Page 42

[ ३२ ]

'न; लक्षणार्थत्वात्' इत्यादिना, सत्यादिपदानां लक्षणार्थपरत्वेन स. जातीयमात्रव्यावर्तकमुख्यविशेषणपरत्वाभावात्, वस्तुतो ब्रह्मान्त- राणामभावेSपि कल्पितानामव्यकृतभूताकाशकालादिलक्षणानां व्या- पकत्वरूपवृद्धिमत्वेन ब्रह्मशब्दवाच्यानां ब्रह्मान्तराणां सत्वेन सत्या- दीनां सजातीयव्यावर्तकत्वरूपौपचारिकविशेषणत्वस्य संभवाच न चोद्यावकाश इति समाधानम् .. १०१

'नायं दोषः' इत्यादिना, संग्रहवाक्यविवरणम् .. १०१

'कः पुनः' इत्यादिना, प्रश्नपूर्वकं विशेषणस्य लक्षणस्य च लक्षण- कथनम् .. 'यथा' इत्यादिना, लक्षणलक्ष्ययोरुदाहरणप्रदर्शनम् .. १०२

'लक्षणार्थ च' इत्यादिना, सत्यादिवाक्यं समानाधिकरणवाक्यत्वेन नीलोत्पलवाक्यवन्नविशेषणविशिष्टार्थपरम्, तथा सति विशिष्टस्य परिच्छिन्नत्वेन आनन्त्यायोगात्; किं तु सोयं देवदत्त इति वाक्य- वदखण्डैकरसवस्तुपरमिति मत्वा प्रागेव ब्रह्मस्वरूपलक्षणार्थे वाक्य- मित्युक्तमिति कथनम् १.२ 'सत्यादिशब्दाः' इत्यादिना, आदिवाक्ये बेद्यतयोपात्तं ब्रह्म कीदृश- मित्याकाङ्क्षायां तत्स्वरूपविशेषसमर्पकत्वेन प्रवृत्तं सत्यादिपदत्रयं ब्रह्मण एव विशेषणम्, विशेष्यस्य प्रधानत्वेन विशेषणानां तदर्थ- त्वादन्योन्यनिरपेक्षत्वाच्च न ते सत्यादयो मिथः संबध्यन्ते, किं तु प्रत्येकमेव विशेष्येण ब्रह्मणा संबध्यन्त इति विशेषणविशेष्यभावप- क्षमवलम्ब्य कथनम् १.२ 'यद्रूपेण' इत्यादिना सत्यानृतपदार्थयोर्निर्वचनम् .. १०३

'अतो विकारः' इत्यादिना, फलितस्यानृतपदार्थस्य कथनम् ... १०३ 'वाचारम्भणम्' इत्यादिना, विकारस्यानृतत्वे प्रकृतेश्च सत्यत्वे श्रुत्यु- दाहरणम् ... १०३ 'अतः सत्यं ब्रह्म' इत्यादिना, ब्रह्मणो विकाराद्यावृत्तेः फलस्य कथनम् १०३ 'अतः कारणत्वम्' इत्यादिना, ब्रह्मणो विकाराद्वयावृत्तिसिद्धौ परिशे- षात्कारणत्वं प्राप्तम्, ततश्च वस्तुत्वान्मृदादिवजडत्वम्, कारणेषु कुलालादिषु कर्त्रादिकारकभावदर्शनात्कर्त्रादिकारकरूपत्वं च प्राप्त- मिति प्राप्तं दोषद्वय निराकर्तु ज्ञानरूपविशेषणमिति कथनम् ... १.३

Page 43

[ ३३ ]

'ज्ञानं श्ञप्तिः' इत्यादिना, कर्त्रादिव्युत्पत्तौ ज्ञानपदेन ब्रह्मणो ज्ञान- क्रियां प्रति कर्त्रादिकारकत्वावगमाज्ज्ञानविशेषणेनापि नोक्तदोषवा- रणं संभवतीत्याशङ्कय, ज्ञानस्य सत्यानन्ताभ्यां ब्रह्म प्रति विशेषण- त्वात् ज्ञानपदस्य कत्राद्यर्थत्वे सत्यत्वानन्त्ययोरनुपपत्तेर्भावव्युत्पत्तिक एवात्र ज्ञानशब्द इति कथनम् १०४ 'ज्ञानकर्तृत्वेन हि' इत्यादिना, ज्ञानकर्तृत्वं हि ज्ञानादिरूपेण विक्रिय- माणत्वम्, ज्ञानादिरूपेण विक्रियमाणस्य ब्रह्मणो विकारस्येव वि- कारिणोऽपि जडत्वनियमेन जडस्य चाध्यस्तत्वनियमेनानृतत्वावश्यं- भावात्सत्यत्वानुपपत्तिः; एवं कर्तृत्वस्य कर्मक्रियानिरूपितत्वेन ता- भ्यां कर्तुर्भेदावश्यंभावात् वस्तुपरिच्छेदराहित्यरूपानन्त्यानुपपत्ति- श्चेति ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वाद्यनुपपत्तिप्रपञ्चनम् १०४ 'यत्र नान्यत् इत्यादिना, ब्रह्मणो ज्ञानक्रियादिसर्वद्वैतराहित्ये श्रुत्यन्त- रसंमतिप्रदर्शनम् १०४ 'अथ यत्रान्यत्' इत्यादिना, ज्ञानक्रियाकर्तुरनन्तत्वाभावे श्रुतिप्रदर्श- नम् .. १०४ 'नान्यद्विजानाति' इत्यादिना, न विजानातीति ज्ञानकर्तृत्वसामान्य- निषेधमकृत्वा 'अन्यन्न विजानाति' इति विशेषनिषेघसाम- थ्यात्स्वज्ञातृत्वं भूम्रः श्रुत्यनुमतमित्यवगमान्नेयं श्रुतिर्व्रह्मणो द्वैतराहि- त्ये मानम्, अपि तु कर्तृत्व एवेति शङ्का ... १०४ 'न' इत्यादिना, 'भूमानं भगवो विजिज्ञासे' इति भूमस्वरूपलक्षण- जिज्ञासायामिदं वाक्यं प्रवृत्तम्, अतो भूमस्वरूपज्ञापनपरमेवेदं वाक्यं न स्वज्ञातृत्वपरमिति शङ्कानिराकरणम् १०५

'यत्र नान्यत्' इत्यादिना, भ्रान्तिसिद्धं ज्ञात्रादिद्वैतमनूद्य तद्वस्तुतो यत्र नास्ति स भूमेति भूमस्वरूपं वाक्येन बोध्यते, तथा चान्यग्रहणस्य प्रतिषेधशेषत्वान्न स्वज्ञातृत्वे तात्पर्यग्राहकतेति फलितार्थकथनपूर्वकं संग्रहविवरणम् . १०५ 'स्वात्मनि च' इत्यादिना, एकक्रियानिरूपितं कर्तृत्वं कर्मत्वं च विरुद्धत्वेन नैकाधिकरणम्, किंतु भिन्नाधिकरणं प्रसिद्धम् ; स्वात्मनि भेदाभावात्स्वकर्मकज्ञानकर्तृत्वे वाक्यस्य तात्पर्ये कल्पयितुं न शक्यत इति कथनम् .. १०५ *T. 0 3

Page 44

[३४ ]

'आत्मनश्च' इत्यादिना, प्रत्यगात्मरूपब्रह्मणो ज्ञानकर्मत्वमेवास्त्विति न शक्कनीयम्, ज्ञानकर्मत्वे ज्ञेयत्वेनैव विनियुक्तत्वेन श्ञात्रभावप्रसङ्गा- दिति कथनम् ... १०५

'एक एवात्मा' इत्यादिना, आत्मनश्चिजडरूपांशद्वयोपेतत्वेन चिदं- शेन ज्ञातृत्वस्य जडांशेन ज्ञेयत्वस्य च संभवान्न श्ात्रभावप्रसप्ग इति शङ्का ... १०५

'न ; युगपत्' इत्यादिना, 'निष्कलं निरञ्जनम्' इत्यादिश्रुत्या आत्म- नो निरवयवत्वावगमान्न युगपदेकज्ञाननिरूपितं कर्तृत्वं कर्मत्वं च संभवतीति शङ्कानिरसनम् ... १०५

'आत्मनश्च' इत्यादिना, आत्मनो ज्ञानकर्मत्वोपगमे तस्य घटादि- वत्प्रसिद्धस्य ज्ञानोपदेशानर्थक्यप्रसङ्गान्न भूमवाक्यस्य स्वज्ञातृत्वे तात्पर्यमिति कथनम् ... १०५

'तस्मात्' इत्यादिना, ज्ञातुर्शेयज्ञानाभ्यां विभक्तत्वाद्वह्मणो ज्ञातृत्वे आ- नन्त्यानुपपत्तिः, ज्ञानादिपरिणामवत्त्वरूपस्य ज्ञातृत्वस्योपगमे परिणा- मितया मिथ्यात्वप्रसङ्गात्सन्मात्नत्वानुपपत्तिरिति निगमनम् ... १०६

'सन्मात्त्वं च' इत्यादिना, सन्मात्रत्वानुपपत्तावपि मन्त्रोक्तसत्यत्वानु- पपत्तिरन भवतीति न शङ्कनीयम्, सन्मात्रसत्ययोरभेदादिति कथनम् १०६

'तत्सत्यम्' इत्यादिना, सन्मात्रसत्ययोरभेदे मानप्रदर्शनम् ... १०६

'तस्मात्' इत्यादिना, ब्रह्मणो ज्ञातृत्वे सत्यत्वानन्तत्वयोरयोगाज्ज्ञानपदं ज्ञप्तिपरमेवेत्युपसंहारः ... १०६

'ज्ञानं ब्रह्म' इत्यादिना, ज्ञानपदस्य ज्ञप्तिपरत्वे सिद्धे फलितकथनम् ... १.६ 'ज्ञानं व्रह्मेति वचनात्' इत्यादिना, ज्ञानपदस्य ज्ञप्तिपरत्वे अन्तःकर- णवृत्त्यात्मिकायास्तस्याः परिच्छिन्नत्वेन दृष्टायास्तद्रूपस्य ब्रह्मणोSपि परिच्छिन्नत्वं स्यादिति शङ्का ... १०७

'अतः' इत्यादिना, ब्रह्मणो वृत्तिरूपत्वे आनन्त्यायोगादानन्त्यसिद्धये कूटस्थरूपं चैतन्यज्ञानमिह विवक्षितम्, न तु क्रिया; अतः शङ्कि तदोषस्य नावकाश इति आनन्त्यविशेषणेन वारणम् ... १०७

'सत्यादीनाम्' इत्यादिना, विशेषणत्वपक्षे सत्यादीनामनृतादिव्यावट- त्यर्थत्वस्योक्तत्वात्, ब्रह्मशब्दार्थस्योत्पलादिशब्दार्थवल्लोके माना-

Page 45

[५]

न्तरासिद्धत्वात्, सत्यादिवाक्यम 'मृगतृष्णाम्भसि' इत्यादिवाक्य- वच्छून्यार्थकं स्यादिति शङ्का .. १०७

'न ; लक्षणार्थत्वात्' इत्यादिना, मिथ्याभूतस्यापि सर्पादेः रज्ज्वादि- सदधिष्ठानत्वदर्शनात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगत- स्य सदधिष्ठानत्वमनुमीयते, तस्य च प्रपञ्चाघिष्ठानतयानुमितस्य सतः स्वरूपविशेषलक्षणार्थकमिदं वाक्यं नासदर्थकमिति शङ्का- निरसनम् .. १०७

'विशेषणत्वेऽपि' इत्यादिना, सत्यमाकाशमित्यादौ सत्यादिपदस्य विशे- षणार्थत्वदर्शनादत्रापि तथा कि न स्यादिति शङ्कावारणाय सत्या- दिपदानां विशेषणार्थत्वेऽपि प्रत्यग्ब्रह्मणि विशेषणविशेष्यत्वस्य।बुभु- त्सितत्वेनात्र सत्यादिपदं बुभुत्सितस्वरूपलक्षणार्थमिति कथनम् ... १०७

'शून्ये हि' इत्यादिना, वाक्यस्य लक्षणार्थत्वेऽपि लक्ष्यं शून्यमेव कि न स्यादिति न शङ्कनीयम्, लक्ष्येऽसति सत्यादीनां लक्षणार्थत्वा- प्रसक्तेरिति कथनम् ... १०७ 'लक्षणार्थत्वान्मन्यामहे' इत्यादिना, वाक्यस्य लक्षणार्थत्वादसतश्चास- त्वादेव लक्ष्यत्वायोगात् न वाक्यस्य शून्यार्थत्वाशङ्का इत्युपसंहारः १०७

'विशेषणार्थत्वेऽपि च' इत्यादिना, नीलादिपदानां यथा स्वार्थनैल्या- • दिसमर्पणेन तद्विरुद्धव्यावर्तकत्वं प्रसिद्धम् तथा, सत्यादिपदानामपि स्वार्थसमर्पणेनैव तद्विरुद्धव्यावर्तकत्वान्न व्यावृत्तिमात्रपर्यवसानत्वमि- ति विशेषणार्थत्वमभ्युपगम्य समाधानकथनम् .. १०७ 'शून्यार्थत्वे हि' इत्यादिना, सत्यादिपदानां स्वार्थपरित्यागेनैव विशे- ष्यनियन्तृत्वमित्येतस्य व्यतिरेकेण साधनम् ... १०८ 'सत्याद्यर्थः' इत्यादिना, तस्यैवान्वयेन साधनम् .. १०८ 'ब्रह्मशब्दोऽपि' इत्यादिना, 'बृहबृद्दिवृद्धौ' इत्यस्माद्धातोर्निष्पन्नो ब्रह्म- शब्दो वृद्धं वस्त्वभिधत्ते, वृद्धिश्चात् निरतिशयमहत्त्वम् संकोचकप्र- करणोपपदयोरभावात्; तथा च निरतिशयमहावस्तुवाचित्वेन ब्रह्म. शब्दोऽप्यर्थवानेव; ततश्च न वाक्यस्य शून्यार्थत्वाशङ्केति कथनम् १०८ 'तत्रानन्तशब्दः' इत्यादिना अनन्तशब्दः परिच्छेदाभावबोधनद्वारा विशेषणम्; सत्यज्ञानशब्दौ तु स्वार्थ परमार्थे कूटस्थचैतन्यं च बो-

Page 46

[ ३६ ]

घयन्तौ तद्विपरीतं मिथ्यात्वं जडत्वं चार्थान्निवारयन्तौ विशेषणत्वं प्राप्नुत इति सत्यादिषु त्रिषु विशेषणेषु परस्परभेदकथनम् ...

'तस्माद्वा' इत्यादिना, जीवस्य ब्रह्मव्यतिरिक्तस्य सत्वेन तन्भेदरूपस्य परिच्छेदस्य सत्वात्कथं त्रिविधपरिच्छेदराहित्यरूपानन्त्यं ब्रह्मण इत्याशङ्कय, 'तस्माद्वा एतस्मादात्मनः' इत्यात्मशब्दस्य ब्रह्मणि प्रयोगात्, आनन्दमयपदलक्षिते ब्रह्मण्यात्मशब्दप्रयोगात् ब्रह्मणो जीवभावेन प्रवेशश्रवणाच्च ब्रह्मात्मनोरैक्याध्यवसायान्नात्मना परि- च्छेदो ब्रह्मण इति कथनम् ... १०९

'अतः' इत्यादिना, आत्मब्रह्मणोरभेदस्योपसंहारः .. १०९

'एवं तहि' इत्यादिना, उक्तरीत्या ब्रह्मात्मनोरैक्यं चेद्विवक्षितम्, तर्हि जानातीति ज्ञानकर्तृत्वस्यात्मन्यनुभवसिद्धत्वाज्ज्ञानकर्ता आत्मा ब्र. ह्वेत्युक्तं भवति ; तथा 'सोऽकामयत' इति वचनमपि कामिनो ज्ञानकर्तृत्वप्रसिद्धेर्ब्रह्मणो ज्ञानकर्तृत्वं प्रापयति ; अतो ज्ञानपदस्य ज्ञप्तिपरत्वव्याख्यानमसंगतम्। कि च भावव्युत्पत्या ज्ञानक्रिरिया ज्ञा- नशब्देनोक्ता चेत्, तदा ज्ञानक्रियायाः परतन्त्रत्वादनित्यत्वाच्च ज्ञानं ब्रह्मेति सामानाधिकरण्येन ब्रह्मणोऽपि .तदभेदादनित्यत्वादि- प्रसङ्गः; अतश्च न ज्ञप्तिपरं ज्ञानपदम् किंतु जानातीति ज्ञानमिति कर्तृसाधनमेवेति ज्ञानस्य कार्यत्वमङ्गीकृत्याक्षेपः ... १०९

'न' इत्यादिना, कूटस्थात्मचैतन्यमेवात्र ज्ञपतिविवक्षिता न तु क्रिया- रूपा, अतो नानित्यत्वादिप्रसङ्गः ; ज्ञानस्य कार्यत्वाभावे कथं कार्यत्व- प्रतीतिरिति न शङ्कनीयम्, कार्यत्वोपचारादिति समाधानम् .... १०९

'आत्मनः' इत्यादिना, नित्यचैतन्यरूपमेवात्र ज्ञप्तिः; तथापि यथा तप्तायःपिण्डो वह्निव्याप्तान्विस्फुलिङ्गान्कुरुते, तथा चैतन्यव्याप्ता परिणामिनी प्रत्यगात्मोपाधिभूता बुद्धिः शब्दस्पर्शादिविषयावभा- सिका भावसाधनज्ञानशब्दवाच्याच्चैतन्यव्याप्ता नानाविधा वृत्ती: कुरुते; तादृशवृत्त्यविवेकाच्चैतन्ये वृत्तिगतान्येव जन्मनाशादिकार्या- णि कल्प्यन्ते ; वस्तुतश्चैतन्ये जन्मादयो न सन्ति, अतो वृत्त्युपाधि- कचैतन्ये कार्यत्वमारोपितम्; एवं बुद्धेर्वृत्यात्मकज्ञानकारित्वात् वृ- त्तिमदुद्धयुपाधिक आत्मनि कर्तृत्वमप्यारोपितम्, न त्वात्मनो ज्ञानं

Page 47

[३७ ]

प्रति स्वतः कर्तृत्वम्; ततश्षात्माभिन्नत्वेSपि ब्रह्मणो न कार्यत्वं नापि ज्ञातृत्वमिति संग्रहवाक्यविवरणम् .. ११० 'आत्मन एव' इत्यादिना, वृत्तिरूपज्ञानस्यात्मधर्मत्वनिराकरणम् १११

'यत्तु' इत्यादिना, ब्रह्मस्वरूपज्ञानस्य वृत्तिज्ञानाद्वैपरीत्यकथनम् ... १११

'सर्वभावानां च' इत्यादिना, ब्रह्मस्वरूपज्ञानं चेद्विवक्षितम्, तहि तस्याकार्यत्वेन ब्रह्मणस्तत्कर्तृत्वासंभवात्कथं ब्रह्मणः सर्वज्ञानकर्तृ- त्वरूपं सर्वज्ञत्वमित्याशङ्कय, सर्वजगत्कल्पनाधिष्ठानभूतस्य ब्रह्मणः स्वरूपज्ञानेन स्वाव्यवहितसर्वावभासकत्वात्सर्वविषयकज्ञानरूपे त- स्मिस्तत्कर्तृत्वं सविता प्रकाशत इत्यत्र प्रकाशकर्तृत्ववदुपचर्यत इति कथनम् 1११

'मन्त्रवर्णाच्च' इत्यादिना, कारकनिरपेक्ष स्वरूपज्ञानमस्तीत्यत्न मन्त्रब्रा- ह्मणसंमतिकथनम् ११२ 'विज्ञातृस्वरूपाव्यतिरेकात्' इत्यादिना, ब्रह्मानित्यं ज्ञानत्वालौकिक- ज्ञानवदिति शङ्कायाम्, लौकिकज्ञानस्य करणादिसापेक्षत्वेनानित्य- त्वेSपि आत्मस्वरूपज्ञानस्य करणादिसापेक्षत्वाभावेन लौकिकज्ञान-

स्य नित्यत्वसाधनम् ... ११२ 'अतः' इत्यादिना, नित्यत्वहेतुनात्मस्वरूपज्ञाने धात्वर्थत्वस्य, तस्मि न्नेव ब्रह्मणः कर्तृत्वस्य च निरसनम् ११२

'तस्मात्' इत्यादिना, लौकिकानित्यज्ञानविलक्षणत्वहेतुना ब्रह्मणो ज्ञा- नशब्दवाच्यत्वनिरसनम् .. ११३

'तथापि' इत्यादिना, ब्रह्मणो ज्ञानशब्दवाच्यत्वाभावे कथं ज्ञानं ब्रह्मेति सामानाधिकरण्यमित्याशङ्कय, सत्यानन्तपदाभ्यां ब्रह्मशब्दस्य सामा- नाधिकरण्येन ब्रह्मणो निर्विशेषत्वावगमात् शब्दप्रवृत्तिहेतुजात्यादि- रहितमेव ब्रह्म; अतो वृत्तिज्ञानवाचकज्ञानशब्दलक्ष्यमेव ब्रह्म, न वाच्यम्; अत एव सत्यशब्देनापि न वाच्यं ब्रह्म, किं तु सत्ता यस्यास्ति तत्सत्यम्, सत्ता च सामान्यं जातिरूपम्, तद्वाचकेन सत्यशब्देन बाधायोग्यं ब्रह्म लक्ष्यते; अतः सामानाधिकरण्यस्य नानुपपत्तिरिति कथनम् ... ११३

Page 48

[३८]

'एवम्' इत्यादिना, सत्यशब्दो ज्ञानानन्तशब्दाभ्यां नियमितः स्ववा- च्यार्थान्निवर्तमानो ब्रह्मणि पर्यवस्यति, न हि लौकिकसत्यवस्तुनः सत्यशब्दवाच्यस्य चिद्रूपत्वमपरिच्छिन्नत्वं वास्ति; ज्ञानशब्दोSपि सत्यानन्तशब्दाभ्यां नियममितः स्ववाच्याद्वत्तिरूपज्ञानान्निवर्तमान- श्रिद्रूपे ब्रह्मण्येवावतिष्ठते, अनन्तशव्दश्च सत्यज्ञानशब्दाभ्यां निय- मितः स्ववाच्याद्देशपरिच्छेदरहिताकाशान्निवर्तमानो ब्रह्म बोधयति; एवं परस्परनियमितानि त्रीणि सत्यादीनि पदानि कूटस्थचिद्रूपाद्वि- तीयव्रह्म लक्षयन्तीति वाक्यार्थकथनम् .. ११३

'अतः सिद्धम्' इत्यादिना, ब्रह्मावाच्यत्वमानप्रदर्शनपूर्वकं लक्षणवा- क्यार्थविचारोपसंहारः .. ११४ 'तद्यथाव्याख्यातम्' इत्यादिना, 'यो वेद' इत्यादेर्विवरणम् ... ११४

'गूहृते:' इत्यादिना, ज्ञातृज्ञानज्ञेयरूपत्रिपुटीव्यवहारस्य भ्रान्तिविवेका- भ्यां संपादितयोर्भोंगमोक्षयोर्वा बुद्धौ निगूढत्वाद्वुद्वेर्गुहात्वमिति संव- रणार्थकगुहूधातुनिष्पन्नस्य गुद्ाशब्दस्य द्वेधा बुद्धयर्थत्वेन विवरणम् ११४

'परमे प्रकृष्टे' इत्यादिना, 'परमे व्योमन्' इत्यस्य व्याख्यानम् ... ११४

'तद्वि' इत्यादिना, अव्याकृतशन्दितस्याज्ञानस्य जगत्कारणत्वात्, अक्षरब्राह्मणे तस्य साक्षाद्वह्मण्यध्यस्तत्वप्रतिपादनेन ब्रह्मसामीप्याव- गमाच्च परमत्वमिति परमत्वे हेतुप्रदर्शनम् ... ११४

'गुहायाम्' इत्यादिना, गुहायां व्योमन्निति पदद्वयस्य सामानाघिकर- ण्येनापि व्याख्यानम् ... ११५ 'तत्रापि' इत्यादिना, अव्याकृतस्य गुहात्वसाधनम् ... ११५

'सूक्ष्मतरत्वाच्च' इत्यादिना, स्वच्छत्वाहुद्धावुपलभ्यत्वेन ब्रह्मणस्तत्र निधानं संभवति, कथमव्याकृते तत्संभवतीति शङ्काया निरासाय स्व- च्छतरत्वहेतुप्रदर्शनपूर्वकमुत्तरान्वयप्रदर्शनम् ... ११५

'हार्दमेव तु' इत्यादिना,व्योमशब्दस्य हृदयावच्छिन्नभूताकाशपरत्वे- नैव व्याख्यानं युक्तम्, द्रष्ट्रभेदेन ब्रह्मण आपरोक्ष्यलाभात् ; सम- ष्टिरूपेडव्याकृते मायातत्वेSवस्थितं ब्रह्मेत्युक्ते ब्रह्मणः पारोक्ष्यं प्रस- ज्येत, पारोक्ष्येण ज्ञानं नापरोक्षसंसाराध्यासनिवर्तकम्; तस्मादपरो- क्षद्रष्टचैतन्याभेदेन ब्रह्मणो हृदये प्रत्यक्षताया विवक्षितत्वाङ्मदया- काशमेवात्र व्योमशब्दार्थ इति स्वाभिप्रायप्रदर्शनम् ... ११५

Page 49

[ ३९ ]

'विज्ञानाज्ञत्वेन' इत्यादिना, भूताकाशस्य कार्यत्वेऽपि हार्दस्य व्योम्न: सगुणब्रह्मोपासनाञ्गत्वेन विवक्षितत्वान्न तस्य परमत्वहानिरिति कथ- नम् ... ११५ 'यो वै' इत्यादिना, हार्दाकाशस्य विज्ञानान्गत्वेन यत्परमत्वं तस्य श्रुत्य। साधनम् .. ११५

तस्मिन्हार्दे' इत्यादिना, व्योमशब्दे हृदयाकाशपरत्वेन व्याख्याते फ- लितस्य वाक्यार्थस्य कथनम् .. ११६

'न हि' इत्यादिना, निधानार्थको निहितशब्द: स्फुटोपलम्भाभिप्रायेण कथं व्याख्यायत इति शङ्कायाम्, बुद्धिसंसर्गेण स्फुटतया द्रष्टत्व- श्रोतृत्वादिरूपेण ब्रह्मण उपलभ्यत्वमेव बुद्धौ निहितत्वं न तु नि- धानम्, सर्वगतत्वान्निर्विशेषत्वाच्च ब्रह्मणो देशविशेषाधेयत्वरूपस्य निधानस्यासंभवात्; अतो नोक्त शङ्कावकाश इति कथनम् .. ११६

'स एवम्' इत्यादिना, आकाङ्क्षापूर्वकम् 'सोऽर्नुते' इत्यादेर्वि- वरणम् ११६ 'किमस्मदादिवत्' इत्यादिना, किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण भुङ्ग इति प्रश्नमनूद्य ब्रह्मस्वरूपाव्यतिरिक्तया एकयोपलब्ध्या सर्व- प्राणिगतान्कामान्ब्रह्मभूतो विद्वान्युगपदश्नुते न पर्यायेणेत्युत्तरपरत्वे- न सहशब्दस्य व्याख्यानम् .. ११७

'ब्रह्मभूतः' इत्यादिना, ब्रह्मणेत्यस्यार्थकथनपूर्वकं वाक्यार्थस्य कथनम् ११७

'न तथा' इत्यादिना, यथा अज्ञः क्रमेण स्वकर्मफलभूतानि विवि- घानि शरीराणि गृहीत्वा उपाधिकृतेन जलसूर्यकादिवत्प्रतिबिम्बभू- तेन जीवरूपेणात्मना धर्मादिनिमित्तापेक्ष चक्षुरादिकरणापेक्षं च तं तं भोगमनुभवति, न तथा ब्रह्मात्मैकत्वविदनुभवति; किं तु सर्व- गतसर्वज्ञसर्वात्मब्रह्मस्वरूपेणैव धर्मादिनिमित्तानपेक्षान्सर्वप्राणिगता-

क्तार्थस्य प्रपञ्चनम् ११७

'विपश्चिता' इत्यादिना, विपश्चितेतिपदस्यार्थविवरणपूर्वकमन्वयप्रदर्श- नम् ... ११८

'इति' इत्यादिना, इतिशब्दार्थकथनम् ... ११८

'सर्व एव' इत्यादिना, वृत्तानुवादपूर्वकमुत्तरग्रन्थस्य संबन्धप्रदर्शनम्. ११८

Page 50

[४० ]

'तत्र च' इत्यादिना, 'तस्माद्वा इत्यादिसमनन्तरसृष्टिवाक्येनानन्त्य प्राधान्येन प्रपञच्यत इति तात्पर्ये दर्शयितुं मन्त्रोक्तस्यानुवाद: ... ११९

'तत्कथम्' इत्यादिना, सर्ववस्तूनां त्रिधा परिच्छिन्नत्वाद्गह्मणोSपि वस्तुत्वेन परिच्छिन्नत्वे सिद्धे तस्य सत्यत्वायोगात्, असत्यत्वादेव जडत्वादुक्तमन्त्रार्थों न सिध्यतीति शङ्का ... 'अतः' इत्यादिना, सर्वजगत्कारणत्वाङ्गह्मणस्त्रिविधमानन्त्यं सिध्यति, अतश्च सत्यत्वं ज्ञानत्वं च तस्मिन्नुपपद्यत इति समाधानपरं तस्माद्वा इत्यादिग्रन्थजातमिति कथनम् .. ११९

तत्र त्रिविधम्' इत्यादिना, सर्वकारणत्वकृतानन्त्यस्य प्रपञ्चनार्थमान- न्त्यस्य विभजनम् .. ११९

'तद्था' इत्यादिना, आकाशस्य देशवतां पृथिव्यादीनामुपादानत्वेन तेषामाकाशेन्तर्भावादाकाशस्य देशत आनन्त्यमित्युदाहरणार्थमा- काशे देशत आनन्त्यप्रदर्शनम् ... ११९

'न तु कालतः' इत्यादिना, आकाशस्य कार्यत्वान्न कालतः, वस्त्व- न्तरस्य ब्रह्मणः सत्वान्न वस्तुतश्चानन्त्यमिति कथनम् ... ११९

'नैवम्' इत्यादिना, कार्यस्यैव वस्तुनः कालेन परिच्छेदाद्वह्मणश्वाका- र्यत्वान्न कालतः परिच्छेदः, तथा ब्रह्मणः सर्वानन्यत्वान्न वस्तुतश्चेति ब्रह्मण: कालतो वस्तुतश्चानन्त्यमिति कथनम् ... ११९

'भिन्नं हि' इत्यादिना, भिन्नं पटत्वादिवस्तु घटत्वादेरन्तो भवति, पटत्वादिवस्त्वन्तराद्वटत्वादिबुद्धेर्निवर्तनात् ; यतो यस्य बुद्धेर्निवृत्तिः स तस्यान्तः, यथा अश्वत्वाद्गोत्वबुद्धिनिवर्तनादश्वत्वं गोत्वस्यान्तः ; स चान्तो भिन्नवस्तुष्वेव दृष्टः, न तु ब्रह्मणि, सर्वस्य जगतस्तदन- न्यत्वेन परमार्थतो ब्रह्मभिन्नस्याभावादिति भिन्नवस्तुष्वन्तवत्वसा- धनपूर्वकं ब्रह्मणो वस्तुतोऽप्यानन्त्यस्य साधनम् ... १२०

'कथं पुनः' इत्यादिना, ब्रह्मणः सर्वानन्यत्वे हेतुप्रश्नः ... १२०

'उच्यते' इत्यादिना, कालाकाशादिसर्ववस्तुकारणत्वाङ्गह्मणः सर्वान- न्यत्वमिति संग्रहविवरणाभ्यां हेतुकथनम् .. १२०

'कार्यापेक्षया' इत्यादिना, कार्येण कालाकाशादिना परिच्छिन्नस्य ब्र. हणो वस्तुतोऽन्तवत्वं स्थादिति शङ्का १२१

Page 51

[४१ ]

'न' इत्यादिना, आकाशादेः कार्यस्यानृतत्वेन कारणव्यतिरेकेण पर- मार्थतोSभावान्न तदपेक्षया ब्रह्मणोऽन्तवत्त्वमिति समासव्यासाभ्यां समाधानम् .... १२१ 'वाचारम्भणम्' इत्यादिना, कार्यस्य मिथ्यात्वे प्रमाणप्रदर्शनम् ... १२१

'तस्मात्' इत्यादिना, वस्तुत आनन्त्यनिरूपणस्योपसंहारः १२१

'आकाशो हि' इत्यादिना, देशतोऽनन्तस्याकाशस्य कारणत्वान्निरति- शयं ब्रह्मणो देशत आनन्त्यम्, अकार्यत्वाच्च कालतः, ब्रह्म यस्मा- द्वयावर्तेत तस्य ब्रह्मभिन्नस्य वस्तुनोऽभावात् कार्यस्योपादानादन्यत्र सत्वायोगाच्च वस्तुतोऽप्यानन्त्यं सिद्धमिति विस्तरेणोक्तस्यानन्त्यस्य संक्षेपण कथनम् .. १२१

'अत एव' इत्यादिना, निरतिशयानन्त्यादेव निरतिशयसत्यत्वमपि सिद्धमिति कथनम् ... १२२ 'तस्मात्' इत्यादिना, 'तस्माद्वा एतस्मादात्मनः' इति वाक्यघटक- तदेतच्छब्दयोरर्थकथनम् १२२ 'यङ्रह्म' इत्यादिना, उक्तसर्वनामद्वयार्थानुवादपूर्वक ब्रह्मण आत्म- शब्दार्थत्वकथनम् १२२

'आत्मा हि' इत्यादिना, प्रतीच एवात्मशब्दवाच्यत्वात्कथं ब्रह्मण आत्मशब्दवाच्यत्वमिति शङ्कायाम्, 'तत्सत्यं स आत्मा' इति श्रुत्यन्तराङ्गह्मण एव सर्वप्राणिप्रत्यक्स्वरूपत्वावगमेन तस्यैवात्म-

... १२२ 'तस्मात्' इत्यादिना, उक्तार्थानुवादपूर्वकमू 'आकाशः संभूतः' इत्य- स्यार्थकथनम् १२२ 'आकाशो नाम' इत्यादिना, आकाशलक्षणस्वरूपयोः कथनेनाकाशो जायमान: स्वगुणेन शब्देन सह जायत इति सूचनम् .... १२२ 'तस्माच्च' इत्यादिना, वाय्वादीनि भूतानि तु स्वगुणैः स्पर्शादिभिः, आकाशादिपूर्वपूर्वकारणसंबन्धेन कारणगुणैश्च सह जायत इति 'आकाशाद्वायुः' इत्यादेर्विवरणम् .. १२२

'पृथिव्याः' इत्यादिना, 'पृथिव्या ओषधयः' इत्यादेरर्थकथनम् ... १२३ 'अन्नात्' इत्यादिना, केवलादन्नातपुरुषोत्पत्तेरदृष्टत्वाद्रेतोरूपेण परिण- *T. 0 4

Page 52

[ ४२ ]

तादेव शिरःपाण्याद्याकृतिमाञ्जायत इति 'अन्नात्पुरुषः' इत्यस्य विवरणम् ... १२३

'स वै' इत्यादिना, 'स वा एष पुरुषः' इत्यादिवाक्यस्यार्थकथनम् १२३

'पुरुषाकृतिभावितं हि' इत्यादिना, अन्नरसशब्दितरेतसः पुरुषाकृति- जनकत्वे किं नियामकमित्याकाङ्क्षायाम्, यतः पुरुषाकृत्या भावितं सत् सर्वेभ्योऽङ्गेभ्यः संभूत रेतोबीजं भवति, अतः पुरुषाकृतिभा- विताद्रेतोबीजाद्यो जायते सोऽपि पुरुषाकृतिरेव भवति, तथा लोके दर्शनात् ; अतः पुरुषाकृतिभावितत्वमेव रेतसः पुरुषाकृतिजनकत्वे नियामकमिति कथनम् १२३

'सर्वेषाम्' इत्यादिना, पश्चादीनामप्यन्नरसविकारत्वाविशेषात्तान्विह्ाय कुतः पुरुष एव ग्रह्यत इत्याशङ्कय विधिनिषेधविवेकसाम्थ्योंपेत- त्वात्स्वर्गादिफलार्थित्वाच्च पुरुषस्यैव कर्मज्ञानाधिकारित्वरूपं प्राधा- न्यमस्तीति तस्यैव ग्रहणं युक्तम्, न तु पश्चादीनाम्, तेषां तदभा- वादिति पुरुषग्रहणस्य तात्पर्यवर्णनम् .. १२३

'पुरुषे तु' इत्यादिना, पुरुष एव यथोक्तसामर्थ्याद्युपेत इत्यत्र श्रुति- संमतिप्रदर्शनम् .. १२४ 'स हि' इत्यादिना, यस्य कर्मज्ञानयोरधिकारः स एवात्र विद्यया सर्वान्तरतमं ब्रह्म प्रापयितुमिष्ट इति प्रकृतायामपि ब्रह्मविद्यायां पुरु- षस्यैव ग्रहणमिति कथनम् ... १२४ 'तस्य च' इत्यादिना, ब्रह्मविद्ययात्र पुरुषः सर्वान्तरतमं ब्रह्म प्रापयि- तुमिष्टश्चेत्तर्हि उत्तरग्रन्थसंदर्भेण ब्रह्मविद्यैव वक्तव्या, कोशपञ्चकोप- न्यासस्तु वृथैवेति शङ्कायाम्, मुमुक्षोः पुरुषस्य बुद्धिरनादिकालमा- रभ्य देहादिष्वनात्मसु अहमित्यात्मभावनोपेतास्ति, सा च कंचिदु- पायविशेषमनालम्ब्य सहसा सर्वान्तरप्रत्यगात्मविषया पूर्वमात्मत्वेन गृहीतशरीराद्यालम्बनशून्या च कर्तुमशक्या; अतो यथा लोके च- न्द्रं बुबोधयिपुः शाखाग्रमालम्व्य बोधयति-शाखाग्रश्चन्द्र इति, बोद्धा च दिगन्तराणि त्यक्त्वा शाख्राग्रं पश्यंस्तद्वारा चन्द्रं पश्य- ति; तथा प्रथममन्नमयकोशे शरीरे आत्मत्वेनोपदिष्टे स शरीराति- रिक्तबाह्यपुत्रादावात्मत्वबुद्धि परित्यजति, अनन्तरं शिरआदिम- रवेन दृष्टस्य स्थूलशरीरस्य साम्यं प्राणमयादिषूपन्यस्य तेप्वेव को-

Page 53

[ ४२ ]

शेषु क्रमेणात्मत्वेनोपदिष्टेषु, पूर्वकोशेऽनमये तदनन्तरं प्राणमयादिषु चात्मत्वबुद्धिं परित्यजति ; एवं पूर्वपूर्वकोशे आत्मत्वबुद्धि परि- त्यज्य सर्वकोशाधिष्ठानभूत सर्वान्तरतमं ब्रह्माहमस्मीति प्रतिपद्यते ; तथा च ब्रह्मविद्योपायत्वेन कोशपरंपरा शाखाग्रस्थानीयोपदिश्यत इति कोशपञ्चकोपन्यासस्य तात्पर्यकथनम् ... १२४

'तस्य पुरुषस्य' इत्यादिना, 'तस्येदमेव शिरः' इत्यादेर्विवरणम् ... १२५

'प्राणमयादिषु' इत्यादिना, प्राथमिकेSन्नमयकोशे प्रसिद्धमेव शिरो ्राह्यम्, न प्राणमयादिष्विव कल्पितमिति दर्शवितुमिदमेवेत्यव- धारणमिति कथनम् ... १२५ 'एवम्' इत्यादिना, अयमेव दक्षिणः पक्ष इत्येवंरीत्यान्नमयपर्याये सर्वत्रावधारणं योजनीयमिति कथनम् ... १२५ 'अयम्' इत्यादिना, 'अयं दक्षिणः पक्षः' इत्यादेर्विवरणम् ... १२५ 'एतत्प्रकृत्य' इत्यादिना, यथान्तः प्रतिमाकारछिद्रवत्यां मूषायां निषिक्ततं द्रुतताम्रादिकं प्रतिमाकारं भवति, तथा शिरआदिमत्वल- क्षणपुरुषाकारवति अन्नमयकोशेऽन्तर्व्याप्य वर्तमानं प्राणमयादिक- मपि तदाकारं भवति, अतोऽन्नमयस्य पुरुषविघत्वमनुसृत्य प्राणम- यादीनां पुरुषविधत्वं सिध्यतीति कथनम् १२५

'तत्तस्मिन्नेवार्थे' इत्यादिना, 'तदप्येष श्लोको भवति' इत्यस्यार्थक- थनम् ... १२६

द्वितीयोऽनुवाक: .... १२७ -- १३२

'अन्नात्' इत्यादिना, 'अन्नाद्वै प्रजाः' इत्यादेर्व्याख्यानम् ... १२८

'कस्मात्' इत्यादिना, 'अन्नाद्वै प्रजाः' इत्याद्युक्तषु अन्नशब्दितवि- राजः सकाशात्प्रजानामुत्पत्यादिषु हेतुपरत्वेन प्रवृत्तस्य 'अन्नं हि' इत्यादिवाक्यस्य आकाङ्क्षापूर्वक विवरणम् ... १२८

'अन्नमयादीनाम्' इत्यादिना, अन्नशब्दितविराजः प्रथमजत्वे फलित- कथनम् ... १२८ 'यस्माच्चैवम्' इत्यादिना, यस्मादन्नजीवनाः प्रजास्तस्मात्सर्वौषधमन्नमु- च्यत इति 'तस्मात्सर्वोषधम्' इत्यादेर्विवरणम् ... .१२८

Page 54

[8४ ]

'अन्नब्रह्मविदः' इत्यादिना, 'सर्वे वै ते' इत्यादिवाक्यस्य तात्पर्य- कथनपूर्वकं विवरणम् ... १२८

'कथम्' इत्यादिना, कथमन्नस्य ब्रह्मत्वं कथं वा तदुपासनम् इति प्रश्नमनूद्य यस्मादन्नं प्रथमकोशजातस्योत्पत्तिस्थितिलयकारणं तस्मा- त्तद्वह्म, तच्चान्नात्मकं ब्रह्माहमस्मीति चिन्तयेदिति तन्त्रेणोत्तरकथनम् १२८ 'कुतः पुनः' इत्यादिना, अन्नव्रह्मविदः सर्वान्नप्राप्तौ को हेतुरिति हेत्वाकाङ्क्षारूपेण 'अन्नं हि' इत्यादिपुनर्वचनस्यावतरणम् ... १२९ 'उच्यते' इत्यादिना, भूतेभ्यः पूर्वे निष्पन्नत्वादन्नं भूतानां जन्मजी वनादिकारणम्, 'तस्मात्तत्सर्वौषधमुच्यते' इत्यर्थकेन पुनर्वचनेन विराडात्मनः स्वकार्येषु सर्वप्राणिषु व्यापतिस्तात्पर्येण प्रतिपाद्यते, लोके कारणस्य मृदादेः कार्येषु व्यासेः प्रसिद्धत्वात्; सा च व्यापिः विराडात्मभावमापन्नस्यान्नव्रह्मविदः सर्वप्राण्यात्मना सर्वान्नात्तुत्वे हेतुरिति हेतुपरत्वेन 'अन्नं हि' इत्यादेर्व्याख्यानम् .. १२९

'अन्नान्दूतानि' इत्यादिना, 'अन्नान्द्रूतानि' इत्यादिपुनर्वचनस्योपसं- हारार्थत्वेन तात्पर्यकथनम् १२९ 'इदानीम्' इत्यादिना, 'अद्यतेऽत्ति च' इत्यादिवाक्यद्वयस्य तात्पर्य- कथनपूर्वकं विवरणम् ... १२९ 'इतिशब्दः' इत्यादिना, इतिशब्दार्थकथनम् .. १२९ 'अन्नमयादिभ्यः' इत्यादिना, यथा लोके जनोऽनेकतुषकोद्रववितुषी- करणेन तदन्तर्गततण्डुलान्दर्शयति, तथा प्रत्यगात्मावरणभूताविद्याकृ- तपञ्चकोशापनयनेन तदन्तरतमं ब्रह्मकोशापनयनशब्दितविवेकजनि- तया विद्यया प्रत्यक्त्वेन दर्शयितुम् 'तस्माद्वा एतस्मात्' इत्यादि- प्राणमयादिकोशवाक्यप्रव्ृत्तिरिति 'तस्माद्वा' इत्यादिवाक्यस्य ता- त्पर्यकथनम् .. १३० 'तस्माद्वा एतस्मात्' इत्यादिना, 'तस्माद्वा एतस्मादन्नरसमयात्' इ- त्यादेर्विवरणम् .. १३० 'किम्' इत्यादिना, प्राणमयस्य निरवयवत्वाच्छिरःपाण्यादिम्त्वेन पुरु- षविधत्वं तस्य स्वतः कथ संभवतीति शङ्का १३१ 'नेत्याह' इत्यादिना, यद्यपि प्राणमयस्य स्व्रतः पुरुषविधत्वं न संभ- घति, तथापि स्थूलदेहृस्य पुरुषाकारत्वात्तदन्तर्गतस्य प्राणमयस्यापि

Page 55

[४५]

मूषानिषिक्त द्रुतताम्रादिवत्पुरुषविधत्वमित्यर्थकेन 'तस्य पुरुषविध- ताम्' इत्यादिना परिहार इति कथनम् .. १३१

'एवम्' इत्यादिना, प्राणमये दर्शितो न्यायः मनोमयादिष्वपि द्रष्ट- व्य इति कथनम् ... १३१

'कथम्' इत्यादिना, प्राणमयस्य पक्षपुच्छादिकल्पनाप्रकारः कथमिति प्रश्नद्वारा प्राण एव शिर इत्यादेरवतरणम् .. १३१

'तस्य प्राणमयस्य' इत्यादिना 'तस्य प्राण एव शिरः' इत्यादेर्विवर णम् .... १३१ 'य आकाशस्थः' इत्यादिना, 'आकाश आत्मा' इत्यत्राकाशपद- स्य शरीरमध्याकाशस्थसमानाख्यप्राणवृत्तिविशेष एव लक्षणया अ- र्थः, न तु भूताकाशः प्राणवृत्तिप्रकरणात्; स चात्मवदात्मा इतरा: पर्यन्ता वृत्तीरपेक्ष्य मध्यस्थत्वादिति 'आकाश आत्मा' इत्यस्य विवरणम् ... १३१ 'मध्यं हि' इत्यादिना, श्रुतिप्रसिद्ध्या मध्यस्थस्यात्मत्वसाधनम् ... १३२

'पृथिवी' इत्यादिना, 'पृथिवी पुच्छं प्रतिष्ठा' इत्यस्य विवरणम् ... १३२

'सैषा' इत्यादिना, पृथिवीदेवताया आध्यात्मिकप्राणस्थितिहेतुत्वे श्रु- त्यन्तरसंमतिकथनम् ... १३२ 'अन्यथा' इत्यादिना, प्राणस्य पृथिवीदेवताकृतावष्टम्भाभावे शरीर- स्योर्ध्वगमनादिकं स्यादित्यापादनम् १३२

'तस्मात्' इत्यादिना, पृथिवीदेवतायाः प्राणस्थितिहेतुत्वनिरूपणोप- संहारः ... १३२ 'तत्तस्मिन्नेव' इत्यादिना, 'तदप्येष श्रोको भवति' इत्यस्य विवरणम् १३२

वृतीयोऽनुवाक: ... १३३ -- १४१

'प्राणं देवाः' इत्यादिना, प्रतीकग्रहणपूर्वकम् 'प्राणं देवा अनु प्रा- णन्ति' इत्यस्य विवरणम् .. १३३ 'अध्यात्माधिकारात्' इत्यादिना, देवपदस्य सयुक्तिकमिन्द्रियपरत्व- माश्रित्य तस्यैव वाक्यस्य विवरणम् .. १३४ 'तथा' इत्यादिना, मनुष्याः पशवश्च' इत्यादिवाक्यस्य विवरणम् ... १३४

'अतश्च' इत्यादिना, परिच्छिन्नस्यान्नमयकोशस्य प्राणाधीनस्थितिक

Page 56

[ ४६ ]

त्वान्न तस्य वस्तुत आत्मत्वम्, किंतु तदन्तर्गतसर्वपिण्डव्यापिप्रा- णमयस्येति कथनम् ... १३४

'एवम्' इत्यादिना, आन्तरत्वेन निरूपणीय आत्मा प्राणमय एवेति शङ्कानिरासार्थ प्राणमयान्तर्गतानां मनोमयादीनामानन्दमयान्ताना- मविद्याकृतानामप्यात्मत्वकथनम् १३४ 'यथा' इत्यादिना, स्वतश्चैतन्यस्वरूपाणां प्राणिनामन्तर्बहिर्भावेनाव- रकतया पञ्चकोशसद्भावे दृष्टान्तप्रदर्शनम् ... १३५ 'तथा' इत्यादिना, अन्योऽन्तर आत्मान्योऽन्तर आत्मेति प्रकृत्य आन्तरत्वोक्तरानन्दमये परिसमापनेनानन्दमयस्यैव मुख्यात्मत्वप्रति- भानात् कथ तस्याविद्याकृतत्वोक्तिरिति शङ्कायाम्, सर्वकल्पनाघि- ्ठानस्य सत्यज्ञानानन्तलक्षणस्य पञ्चकोशातिगस्य ब्रह्मण एव मुख्य- मात्मत्वम्, 'अयमात्मा ब्रह्म' इत्यादिश्रुतिभिस्तस्यैव मुख्यात्मत्व- प्रतीतेः; ब्रह्मण्यानन्दमयादान्तरत्वोक्त्यभावेSपि तं प्रति ब्रह्मणः प्रतिष्ठात्वोक्तिसामर्थ्यादानन्दमयादप्यान्तरत्वप्रतीत्या ब्रह्मण एव मुख्यात्मत्वमत्राप्युक्तप्रायमेव; तस्मान्नानन्दमयस्य मुख्यात्मत्वमिति कथनम् ... १३५ 'प्राणं देवाः' इत्यादिना, प्राणस्य सर्वप्राणिचेष्टाहेतुत्वे कारणसमर्पक- त्वेन प्रवृत्तस्य 'प्राणो हि भूतानामायुः' इति वाक्यस्य प्रश्नपूर्वकं विवरणम् ... १३५ 'यावद्वि' इत्यादिना, प्राणस्य सर्वप्राणिजीवनहेतुत्वे श्रुतिसंवादकथनम् १३५ 'तस्मात्सर्वायुषम्' इत्यादिना, प्रतीकग्रहणपूर्वकमू 'तस्मात्सर्वायुषम्' इत्यस्य विवरणम् .. १३५ 'प्राणापगमे' इत्यादिना, प्राणस्य सर्वायुष्टे लोकप्रसिद्धिनिरूपणम् ... १३५ 'अतः' इत्यादिना, 'सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रझ्मोपासते' इति वाक्यद्वयस्यार्थक्रमेण विवरणम् .. १३६ 'शतम्' इत्यादिना, सर्वायुःशब्दस्य श्रुतिप्रसिद्धया शतवषार्थत्वकथनम् १३६ 'किं कारणम्' इत्यादिना, आयुष्टगुणकोपासनया आयुःप्राप्तौ को हेतुरिति प्रश्नमनूद्य 'प्राणो हि भूतानाम्' इत्यादिश्रुतिपुनरुक्ति- हेंतुप्रतिपादिका तस्योत्तरमिति कथनम् ... १३६ 'यो यद्रुणकम्' इत्यादिना, 'प्राणो हि' इत्यादिपुनर्वचनस्यैव यो

Page 57

[8७ ]

यद्रुणकमुपास्ते, स तद्गुणभाग्भवतीति न्यायेन आयुष्टगुणकोपासना- दायुःप्राप्तिरेव भवतीति हेतुसूचनार्थत्वेन तात्पर्यप्रदर्शनम् १३६

'तस्य पूर्वस्य' इत्यादिना, वृत्तिकारमतमाश्रित्य 'तस्यैष एव' इत्या- दिवाक्यस्य विवरणम् ... १३७

'तस्माद्वा' इत्यादिना, 'अन्योऽन्तर आत्मा मनोमयः' इति वाक्यं विना तस्माद्वा एतस्मात्प्राणमयादित्याद्यन्वयंपुरुषविध इत्यन्तस्य अ्रन्थस्य व्याख्यातत्वप्रदर्शनम् ... १३७ 'अन्योन्तर:' इत्यादिना, प्रतीकग्रहणपूर्वकम् 'अन्योऽन्तर आत्मा मनोमयः' इत्यस्य विवरणम् १३७ 'तस्य यजुरेव' इत्यादिना, 'तस्य यजुरेव शिरः' इत्यत्न विद्यमानस्य यजु:शब्दस्यार्थकथनम् १३७ 'तस्य शिरस्त्वम्' इत्यादिना, ऋक्सामनी विह्ाय यजुषः शिरस्त्व- कल्पने हेतुप्रदर्शनम् ... १३७ 'प्राधान्यं च' इत्यादिना, प्राधान्यस्य विवरणम् .. १३७

'वाचनिकी इत्यादिना, पौरुषेयकल्पनापेक्षया श्रुतिवचनस्य बलीय- स्त्वमङ्गीकृत्य शिरआदिकल्पना वाचनिकीति पक्षान्तरकथनम् ... १३७ 'मनसो हि' इत्यादिना, यजुःशब्दस्य बाह्यशब्दराशिविशेषार्थकत्वा- त्कथं तस्यान्तरमनोमयकोशं प्रति शिरस्त्वमित्याशङ्कय, बाह्यशब्द- राशिविशेषे यजुःशब्दस्य रूढत्वेSपि श्रुतिप्रामाण्याच्छन्दराशिवि- शेषविषयकमनोवृत्तिविशेषो यजुःशब्देन ग्राह्य इति समाधान- कथनम् .. १३८ 'एवम्' इत्यादिना, यजुष इव ऋगादेरपि तुल्न्यायेन मनोवृत्तित्व- कथनम् .. १३८ 'एवं च' इत्यादिना, यजुरादिमन्त्राणां मनोवृत्तिरूपत्वे तेषां मानसो जपो युज्यते, वृत्तेः क्रि्यात्वेनावृत्तियोग्यत्वात्, तेषां घटादिवद्वाह्य- द्रव्यत्वे, मनसो बाह्येडये स्वातन्त्र्याभावेन मनोविषयत्वसंभवात् घटादेरिव शब्दानामक्रियारूपाणामावर्तयितुमशक्यत्वाच्च मानसो जपो न सिध्येदिति मनोवृत्तिविशेष एव यजुःशब्दवाच्य इत्यत्र युक्तिप्रदर्शनम् ... १३८ 'मन्त्रावृत्तिश्चोद्ते' इत्यादिना, मन्त्रावृत्तिरेव मा भूदिति न शङ्कनी-

Page 58

[86]

यम्, 'त्रिः प्रथमाम्' इत्यादिश्रुतिभिर्मन्त्रावृत्तीनां चोद्यमानत्वा- दिति कथनम् .. १३९ 'अक्षरविषयस्मृत्यावृत्त्या' इत्यादिना, प्रकारान्तरेणावृत्त्युपपत्तिशङ्का ... १३९ 'न' इत्यादिना, मन्त्रेभ्यः स्मृतेरन्यत्वात्तदर्थत्वे मन्त्रावृत्तिशब्दस्य गौणार्थकत्वं प्रसज्येत, अतो न प्रकारान्तरेणोपपत्तिः संभवतीति कथनम् ... १३९ 'तस्मात्' इत्यादिना, मनोवृत्तिविशेषस्य यजुःशब्दवाच्यत्वे वृत्तेः क्षणिकत्वेन वेदानां नित्यत्वनिर्वाहः कथमिति शङ्कायाम्, वृत्ति- विशेषानुगतं चैतन्यमेव यजुःशब्दवाच्यम्; अतो न वेदानां नित्य- त्वहानिरिति शङ्कापरिहारपूर्वकमुपसंहारः .. १३९

'एवं च' इत्यादिना, येनाभिप्रायेण वेदस्य चैतन्यरूपत्वं दर्शितम्, तस्यैवाभिप्रायस्य प्रपञ्चनम् १४० 'अन्यथा' इत्यादिना, वेदानां चिद्रूपत्वानङ्गीकारे दोषप्रदर्शनम् ... १४० 'नैतत्' इत्यादिना, 'वाचा विरूपनित्यया' इत्यादिश्रुतिमव लब्म्य तत्रेष्टापत्तिवारणम् .. १४० 'सर्वे वेदाः' इत्यादिना, वेदानां चैतन्यरूपत्वे श्रुत्यन्तरानुकूल्यप्र- दर्शनम् ... १४० 'आदेशोऽत्र इत्यादिना, 'आदेश आत्मा' इत्यादेर्विवरणम् ... १४०

चतुर्थोऽनुवाक: .... १४२ -- १४६ 'तस्य पूर्वस्य' इत्यादिना, 'तत्यैष एव शारीर आत्मा' इत्यादेवि- वरणम् ... १४२ 'मनोमयो वेदात्मोक्तः' इत्यादिना, वेदार्थविषयकनिश्चयात्मकज्ञान- मेव विज्ञानमय इत्यत्र प्रकृत्यर्थ इत्युक्तानुवादपूर्वकं कथनम् ... १४३ 'तच्च' इत्यादिना, विज्ञानस्यात्मधर्मत्वशङ्कावारणार्थ विज्ञानम् अन्तः- करणस्यैव धर्म इति कथनम् ... १४३ 'तन्मयः' इत्यादिना, विज्ञानशब्दवाच्यं वेदार्थविषयकमन्तःकरणवृत्ति- रूपं ज्ञानम्, तन्मयत्वं तद्विकारत्वम्, तच्च कथमन्तःकरणस्य संभवतीति शङ्कायाम्, विशिष्टस्य विशेषणायत्तत्वेन प्रमाणस्वरूप- विज्ञानविशिष्टस्य विशेषणविकारत्वसंभवान्नोक्तशङ्कावकाश इति कथनम् ... १४३

Page 59

[४९ ]

'प्रमाणविज्ञानपूर्वकः' इत्यादिना, निश्चयरूपवेदार्थज्ञानमेव प्रकृत्यर्थ इत्यत्न हेत्वन्तरकथनम् ... १४४ 'यज्ञादिहेतुत्वं च' इत्यादिना, विज्ञानस्य यज्ञादिहेतुत्वे वक्ष्यमाणमन्त्र- संमतिप्रदर्शनम् .. १४४ 'निश्चयविज्ञानवतः' इत्यादिना, 'तस्य श्रद्धैव शिरः' इत्यादेर्व्याख्या- नम् ... १४४ 'आत्मवतो हि' इत्यादिना, योगो विज्ञानमयस्यात्मा मध्यकायः प्रसि- द्धदेहमध्यकाय इवेत्युक्तम् ; तत्र योगस्य देहमध्यकायस्य च किं साम्यमित्याकाङ्क्षायाम्, यथा हस्ताद्यङ्गानि देहमध्यमाश्रित्य स्व- व्यापारसमर्थानि भवन्ति, तथा सत्यादीनि योगाश्रयाणि सन्ति यथार्थशब्दितब्रह्मप्रतिपत्तौ समर्थानि भवन्तीति साम्यप्रतिपादनपूर्वकं विज्ञानमयस्यात्मा योग इत्यस्योपसंहार: ... १४५ 'मह इति' इत्यादिना, 'महः पुच्छं प्रतिष्ठा' इत्यत्न समष्टयन्तःकर- णाभिमानिहिरण्यगर्भों महःशब्दार्थ इति कथनम् .. १४५ 'महद्यक्षम् ' इत्यादिना, हिरण्यगर्भस्य महःशब्दार्थत्वे मानकथनम् ... १४५ 'पुच्छम्' इत्यादिना, प्रतिष्ठाशब्दस्याधारार्थत्वमभिसंधाय व्याप्त्युदाहर- णादिप्रदर्शनपूर्वकं हिरण्यगर्भस्य विज्ञानमयाधारत्वसाधनम् ... १४६ 'तदप्येषः' इत्यादिना, 'तदप्येष श्लोको भवति' इत्यस्य विवरणम् १४६ पश्चमोऽनुवाकः १४७ -- १५६ 'विज्ञानवान्हि' इत्यादिना, वेदार्थविषयकनिश्चयरूपविज्ञानस्य कथम् 'विज्ञानं यज्ञं तनुते' इति यज्ञादिकर्तृत्वमिति शङ्कायाम्, विज्ञान- विशिष्टस्य कर्तृत्वेSपि तत्र विशेषणीभूतविज्ञानस्य प्राधान्यादौपचा रिकं कर्तृत्वमिति शङ्कापरिहारपूर्वकम् 'विज्ञानं यज्ञं तनुते' इत्या- देर्विवरणम् ... १४७ 'यस्मात्' इत्यादिना, विज्ञानमयो हि वैदिकलौकिककर्माणि कुर्वन्नदृष्ट- द्वारा सर्वजगत्कारणम्, अतो 'विज्ञानं यज्ञं तनुते' इति वाक्योक्तं सर्वकर्मकर्तृत्वं सर्वजगत्कारणत्वसंपादनद्वारा विज्ञानमयेSपरब्रह्मारोप- निमित्तमिति कथनम् ... १४८ 'किं च' इत्यादिना, 'विज्ञानं देवाः सर्वे' इत्यादिवाक्यद्वयस्य विवरणम् १४८ *T. 0 5

Page 60

[५0]

'तस्मात्' इत्यादिना, पूर्व देवैर्ब्रह्मोपासनमनुष्ठितमित्यत्र देवत्वावस्था- यां ज्ञानादैश्वर्यदर्शन लिङ्गमिति कथनम् ... १४८

'तच्च' इत्यादिना, 'विज्ञानं ब्रह्म चेद्वेद' इत्यादेर्व्यांख्यानम् ... १४८

'आनन्दमय इति' इत्यादिना, आनन्दमयः परमात्मति वृत्तिकारैरु- क्तम्; तन्निषेधार्थमानन्दमयपदेन प्रकरणमयट्च्छरुतिभ्यां कार्यात्म- न एव प्रतीतिर्न कारणस्य परमात्मन इति समासव्यासाभ्यामान- न्दमयपदार्थविवरणम् .. १५०

'तस्मात्' इत्यादिना, आनन्दमयः कार्यात्मेत्युपसंहारः ... १५०

'संक्रमणाच्च' इत्यादिना, 'आनन्दमयमात्मानमुपसंक्रामति' इत्या- नन्दमयस्य संक्रमणं प्रति कर्मत्वश्रवणाच्च कार्यात्मत्वमित्यानन्द- मयस्य कार्यात्मत्वे हेत्वन्तरकथनम् ... १५० 'कार्यात्मनां च' इत्यादिना, अत्र प्रकरणे यत्र यत्र संक्रमणकर्मत्वं तत्र तत्र कार्यात्मत्वमिति व्याप्तिर्द्ृष्टेति व्याप्तेः कथनम् ... १५० 'संक्रमणकर्मत्वेन' इत्यादिना, हेतोः पक्षवृत्तित्वकंथनम् ... १५०

'यथा' इत्यादिना, दृष्टान्तकथनम् ... १५०

'न चात्मनः' इत्यादिना, अत्र संक्रमणमतिक्रमणं प्राप्तिर्वा, उभय- थापि आनन्दमस्य ब्रह्मत्वे संक्रमणकर्मत्वं न संभवति, संक्रमणकर्तु- रेवंविदःसकाशादन्यस्यैवान्नमयादेः संक्रमणकर्मत्वेन प्रकृतत्वात्; अत्र स्वस्यैव स्वेनोपसंक्रमणाभ्युपगमे भेदाधिकारविरोधात् एक- स्यैव कर्तृत्वकर्मत्वासंभवाच्चेति कथनम् १५०

'न हि' इत्यादिना, असंभवस्यैव विवरणम् .. १५१

'शिरआदि' इत्यादिना आनन्दमये शिरआदिकल्पनया सविशेषत्व- सिद्धेः, यथोक्तलक्षणे परस्मिन्ब्रह्मणि 'अदृश्येऽनात्म्ये' इत्यादि- श्रुतिभिनिर्विशेषत्वावगमात् न सविशेषस्यानन्दमयस्य ब्रह्मत्वमित्या- नन्दमयस्य ब्रह्मत्वासंभवे हेत्वन्तरकथनम् .. १५१

'मन्त्रोदाहरणानुपपत्तेश्च' इत्यादिना, आनन्दमयस्य ब्रह्मत्वे मन्त्रे तस्यैवासत्वाशङ्का वाच्या, सा च न संभवति, प्रियशिरआद्यवयव- विशिष्टस्य तस्य प्रत्यक्षतोऽनुभूयमानत्वेन तस्मिन्नस्ति नास्तीति संशयायोगात् ; अतो नानन्दमयस्य ब्रह्मत्वमिति कथनम् १५१

Page 61

[५१ ]

'ब्रह्म पुच्छम्' इत्यादिना, आनन्दमयस्य ब्रह्मत्वे ब्रह्मणोवयवित्वेन गृहीतत्वात्तस्यैव ब्रह्मणः पृथक्पुच्छत्वेन प्रतिष्ठात्वेन च ग्रहणमनु- पपन्नम्, एकत्रावयवावयविभावकल्पनाया अनुचितत्वादिति कथनम् १५२ 'तस्मात्' इत्यादिना, उक्तप्रकारेणानन्दमयस्य ब्रह्मत्वासंभवे फलितस्य कथनम् .. १५२

'आनन्द इति' इत्यादिना, आनन्दमय इत्यत्रोपासनाकर्मफलभूतः प्रियमोदादिलक्षण आनन्दः प्रकृत्यर्थः, विशिष्टस्य विशेषणकार्य- त्वात् प्रकृत्यर्थभूतानन्दविशिष्टात्मा मयडर्थ इति प्रकृतिप्रत्ययार्थयोः कथनम् .. १५२

'स च' इत्यादिना, कथ तस्य विज्ञानमयादान्तरत्वमित्याशङ्कय क- त्रपेक्षया फलस्योत्तरभावित्वेन प्रसिद्धस्य श्रत्युक्तत्वात्तस्यान्तरत्व- मिति कथनम् .. १५२

'ज्ञानकर्मणोर्हि' इत्यादिना, कर्तुर्विज्ञानमयस्य भोक्तृशब्दितसुखसाधन- त्वाज्ज्ञानकर्मफलभूत सुखं साधनभूतविज्ञानमयाद्यपेक्षया अन्तर- तमम्, तादृशसुखविशिष्टः सन्नानन्दमयः पूर्वेभ्यः कोशेभ्यः सुखसा- घनेभ्योऽन्तरतमो भवतीति श्रुत्युक्तस्यान्तरत्वस्योपपादनम् ... १५२

'विद्याकर्मणोः' इत्यादिना, विद्याकर्मफलभूतं प्रियाद्युद्दिश्य कर्ता विद्याकर्मणी अनुतिष्टति, अत उद्देश्यत्वादपि फलस्यान्तर्ये सिध्य- तीति कथनम् ... १५२

'तस्मात्' इत्यादिना, आनन्दमयस्यान्तरत्वप्रतिपादनस्योपसंहारः ... १५३

'प्रियादिवासनानिर्वर्तितः' इत्यादिना, प्रियादिविशिष्टस्यानन्दमयस्य स्वप्ने साक्षिणोपलभ्यत्वाच्च न तस्य ब्रह्मत् ति कथनम् ... १५३

'तस्यानन्दमयस्य' इत्यादिना, 'तस्य प्रियमेव शिरः' इत्यादि- वाक्यानां विवरणम् ... १५३

'आनन्द इति परं ब्रह्म' इत्यनेन, 'आनन्द आत्मा' इत्यत्रानन्द- पदार्थत्वेनोक्तस्य सुखसामान्यस्य जातिरूपत्वशङ्कावारणार्थम् आन- न्दपदस्य परव्रह्मपरत्वेन व्याख्यानम् ... १५३

'तद्धि' इत्यादिना, ब्रह्मस्वरूपसुखमेव शुभकर्मणोत्पद्यमाने पुत्रमित्रादि- विषयविशेषहेतुके प्रसन्नेऽन्तःकरणवृत्तिविशेषे अभिव्यक्तं सत्तेनैवो- *T.0 5a.

Page 62

[५२ ]

पहितं प्रियादिशब्दवाच्यं विषयजनितं सुखमिति प्रसिद्धम्, न तु विषय जनितमन्यत्सुखमस्तीति कथनम् .. १५३ 'तद्ृत्तिविशेषप्रत्युपस्थापकस्य' इत्यादिना, विषयसुखस्य ब्रह्मस्व- रूपत्वे क्षणिकत्वं न स्यात्, व्रह्मस्वरूपसुखस्य नित्यत्वादित्याशङ्कय, स्वरूपसुखव्यञ्जकवृत्तिविशेषोत्पादकस्य कर्मणः क्षणिकत्वाद्विषयसु- खस्यापि क्षणिकत्वमिति समाघानकथनम् ... १५४ 'तद्यदा' इत्यादिना, ब्रह्मस्वरूपसुखस्य व्ृत्तिविशेषेष्वभिव्यक्तस्याप्ये- करूपत्वात्कथं विषयसुखेषूत्कर्षतारतम्यमिति प्रश्ने, पुण्यकर्मादिना

रूपसुखस्यापि तरतमभावेनाभिव्यज्यमानतया विषयसुखेषूत्कर्षतार- तम्यमित्युत्तरकथनम् ... १५४ 'वक्ष्यति च' इत्यादिना. ब्रह्मण आनन्दस्वभावत्वे मानकथनम् ... १५४

'एवं च' इत्यादिना, अन्तःकरणशुद्धयुत्कर्षादेवानन्दस्य सातिशय- त्वमित्यत्र लिङ्गकथनम् ... १५५ 'एवं च' इत्यादिना, उक्तरीत्या विषयानन्दस्य प्रियािशब्दवाच्य- स्य सातिशयत्वे सति तद्विशिष्टस्यानन्दमयात्मनः प्रकृतं सत्यज्ञा- नानन्दलक्षणं परमेव ब्रह्म पुच्छं प्रतिष्ठा इति ब्रह्म पुच्छं प्रति- ष्ठेति वाक्यस्य विवरणम् .... १५५ 'तदेव च' इत्यादिना, प्रतिष्ठापदेन ब्रह्मण आनन्दमय प्रत्याधारत्वो- क्तौ पुच्छपदेन प्रौनरुक्यं प्रसज्येत, तेनापि तदाधारत्वस्य लक्ष- णीयत्वादिति शङ्कायाम्, यदद्वैत ब्रह्मानन्दमयस्य प्रतिष्ठात्वेन श्रुतं तत्सवस्यैव द्वैतस्याधिष्ठानभूतमिह विवक्षितमिति प्रतिष्ठापदस्य सर्व- द्वैताधारपरत्वान्नोक्ताशङ्गति कथनम् ... १५६ 'एकत्वावसानत्वात्' इत्यादिना, अविद्यापरिकाल्पतस्य द्वैतस्य एक- त्वशन्दिताद्वैतावसानत्वात्तदवसानभूत ब्रह्मास्तीति पुच्छवाक्यनिर्दि- ष्टव्रह्मास्तित्वसाधनपरत्वेन श्लोकमवतारयितुं तदस्तित्वनिर्देशः ... १५६ 'तदेतस्मिन्' इत्यादिना, 'तदप्येष श्लोको भवति' इत्यस्यार्थकथनम् १५६

पष्ठोऽनुवाक: ... १५७-१८१ 'असन्नेव' इत्यादिना, 'असन्नेव स भवति' इत्यादिश्लोकपूर्वार्धस्य विवरणम् ... १५७

Page 63

[५३ ]

'तद्विपर्ययेण' इत्यादिना, विमतं जगत्सदघिष्ठानम्, कल्पितत्वाद्रज्ुस- र्पवत् ; विमतं जगच्चेतनकर्तृकम्, कार्यत्वाद्वटवत्-इत्यादिरीत्या जगत्कल्पनाघिष्ठानत्वेन, जगत्कर्तृत्वेन, सर्वलयाघारत्वेन च ब्रह्मा- स्तित्वसिद्धिरिति ब्रह्मास्तित्वे लिङ्गसूचनद्वारा 'अस्ति ब्रह्मेति चेद्वेद' इत्याद्युत्तरार्धस्य विवरणम् १५८ 'का पुनः' इत्यादिना, यद्युक्तप्रमाणबलादस्ति ब्रह्म, कथ तर्हि नास्ति- त्वशङ्केत्याक्षेपः १५८ 'व्यवहारातीतत्वम्' इत्यादिना, लोके जनः जलाहरणचाक्षुषदर्शना- दिव्यवह्ारविषयं घटादिकमुद्दिश्य घटादिकमस्तीति वदति, तद्विपर्यये तु घटादिकं नास्तीति वक्ति, अतो व्यवहारवासनायुक्तः पुमान् व्यवहारातीतत्वसाम्याद्गह्मणोSपि नास्तित्वं मन्यत इति नास्तित्व- शक्का संभवतीति संग्रहविवरणाभ्यां समाधानम् ... १५८ 'तस्मात्' इत्यादिना, उक्तप्रकारेण ब्रह्मण्यसत्वशङ्काया जायमानत्वात्त- त्निराकरणार्थम् 'अस्ति ब्रह्मेति चेद्वेद' इत्यनेनास्तित्वमुच्यत इति कथनम् .. १५८ 'किं पुनः' इत्यादिना, 'सन्तमेनं ततो विदुरिति' इति वाक्यस्य प्रश्नद्वारा अवतरणं विवरणं च .. १५८ 'अथवा' इत्यादिना, 'असन्नेव स भवति' इत्यादेर्व्याख्यान्तरम् ... १५९ 'तस्मात्' इत्यादिना, विवक्षितवाक्यार्थस्य कथनम् .. १५९ 'तस्य पूर्वस्य' इत्यादिना, तस्यैष एव शारीरः' इत्यादेर्विवरणम् ... १५९ 'तं प्रति' इत्यादिना, 'असन्नेव' इति मन्त्रस्यानन्दमयविषयत्वं वृत्तिकारैरुक्तम्, तथा सति वृत्तिकारैरानन्दमयं प्रति नास्तित्वगो- चराशक्का वक्तव्या; साचन संभवति, प्रियादिविशिष्टस्य तस्य प्रत्यक्षसिद्धत्वात् ; अतो नानन्दमयविषयत्वं मन्त्रस्य, किं तु ब्रह्म- विषयत्वमेव; ब्रह्मणो निर्विशेषत्वेन सर्वजीवसाघारण्येन व्यवहार- विषयत्वाभावादसत्त्वशङ्काया युक्तत्वादिति निराकृतस्याप्यानन्दमय- विषयत्वस्य दारढ्यार्थ पुनर्निराकरणम् ... १५९ 'यस्मादेवम्' इत्यादिना, 'अथातोऽनुप्रश्नाः, इत्यस्यार्थकथनम् ... १५९ 'सामान्यं हि' इत्यादिना, सर्वजगत्कारणस्य जीवरूपेण देहेषु प्रविष्ट- स्य ब्रह्मणो विद्वदविद्वत्साधारणत्वेन विदुषस्तत्प्राप्तौ अविदुषोऽपि

Page 64

[५४ ]

तत्प्राप्तिराशङ्कयत इति तात्पर्यप्रदर्शनपूर्वकम् 'उताविद्वान्' इत्यादेः श्रौताद्यप्रश्नवाक्यस्य विवरणम् १६० 'किं वा न गच्छति' इत्यादिना, बहुवचनोपपत्यर्थमर्थसिद्धस्य द्वि- तीय प्रश्नस्य प्रदर्शनम् १६० 'विद्वांसं प्रति' इत्यादिना, विद्वद्विषयावपि द्वौ प्रश्नाविति कथनम् ... १६० 'यदि' इत्यादिना, अविदुषोऽप्राप्तौ विदुषोऽप्यप्राप्तिराशङ्कयत इति तात्पर्यप्रदर्शनपूर्वकम् 'आहो विद्वान्' इत्यादिश्रौतद्वितीयप्रश्नवा- क्यस्य विवरणम् .. १६०

'किं वा' इत्यादिना, अर्थसिद्धस्य विद्वद्विषयकप्रश्नान्तरस्य प्रदर्शनम् १६१ 'द्वावेव' इत्यादिना, श्रूयमाणौ विद्वदविद्वद्विषयौ द्वावेव प्रश्नौ, पूर्व- वाक्ये 'असद्वह्मेति वेद चेदस्ति ब्रह्मेति चेद्वेद' इति कोटिद्वयोप- न्यासेन तच्छवणसामर्थ्यप्राप्तो ब्रह्मास्तित्वविषयः प्रथमः प्रश्नः, अनेन पूर्वोक्तयो: समुच्चितत्वाद्वहुवचननिर्देश इति प्रकारान्तरेण प्रश्नोप- पादनम् .. १६१ 'एतेषाम्' इत्यादिना, उत्तरग्रन्थतात्पर्यकथनम् .. १६१ 'तत्रास्तित्वमेव' इत्यादिना, अव्यवहितस्य 'सोऽकामयत' इत्यादिग्र- न्थस्य तात्पर्यकथनम् ... १६१

'यच्चोक्तम्' इत्यादिना, 'ब्रह्मविदाप्नोति परम्' इति ब्राह्मणवाक्यसू- त्रितस्य 'सत्यं ज्ञानम् इति मन्त्रेण संक्षेपतो व्याख्यातस्यार्थत्य विस्तरेण व्याख्यानरूप उत्तरग्रन्थ इत्युक्तम्, तत्र मन्त्रघटकस्य कस्यांशस्य विस्तरतो व्याख्यानरूपः 'सोऽकामयत' इत्यादिग्रन्थ इति जिज्ञासायाम्, मन्त्रे संग्रहेणोक्तः सत्यत्वांशः 'सोऽकामयत' इति ग्रन्थेन विस्तरेणोच्यत इति मन्त्रमनूद्याकाङ्क्षापूर्वक कथनम् ... १६२ 'सत्त्वोक्त्यैव' इत्यादिना, ब्रह्मण्यसत्त्वशङ्कानिवृत्तिपरेण ग्रन्थेन सत्त्व- मेवोच्यते न तु सत्यत्वमित्याशङ्कय सत्सत्यशब्दयोः पर्यायत्वस्यो- क्तत्वान्नेक्तशङ्गेति कथनम् ... १६२

'कथमेवमर्थता' इत्यादिना, कथमुत्तरग्रन्थस्य सत्त्वसाधनपरत्वमिति प्रश्नमनूद्य 'तत्सत्यमित्याचक्षते' इत्यादयुत्तरवाक्यानां सत्त्वोपपाद- नपरत्वात्सत्वसाधनपरत्वमिति कथनम् ... १६२

Page 65

[५५]

'तत्रासदेव' इत्यादिना, ब्रह्मणः सत्त्वस्य साधने नामासत्वस्य व्यावृ- त्तिरेवेत्यभिप्रेत्य अगत्कारणस्य ब्रह्मणो विशेषतोऽनुपलम्भादसत्त्व- मित्यसत्वशङ्काया उत्तरग्रन्थव्यावत्याया उन्भावनम् ... १६२

'तन्न' इत्यादिना, आकाशादिवस्तु सत्पूर्वकम्, कार्यत्वाद्वटवत्- इति लौकिकव्याप्यवष्टम्भेन सत्कारणं तावदधिगतम्, तस्य देशा- दिकारणत्वेन देशाद्यनवच्छन्नत्वाङ्गह्मत्वं सिद्धम्, अतो न ब्रह्मण्यस- तवशङ्केति समासव्यासाभ्यां परिहारकथनम् ... १६२

'न चासतः' इत्यादिना, असत् न कारणम्, सत्ताह्दीनत्वाच्छशशृङ्ग- वत्, असतः कारणत्वे तस्य सत्ताहीनत्वेन तत्कार्यस्य जगतोऽपि सत्ताहीनत्वात्सत्वेन जगत उपलब्धिर्न स्यात्, सत्वेनोपलभ्यमानत्वान्न जगदुपादाने असत्वशङ्केति कथनम् १६३

'असतश्चेत्' इत्यादिना, असतश्चेत्कार्य जगजायते, तर्हि जायमानं जगदसदन्वितमेव जायेत, तथा ग्रह्यमाणमपि असदन्वितत्वेनैव गृह्येत, तथा अग्ृह्यमाणत्वान्नासत्वशङ्गेति प्रकारान्तरेण शङ्कानिरस- नम् ... १६३ 'तत्कथम्' इत्यादिना, श्रत्यन्तरबलादसतः कारणत्वासंभवप्रदर्शनपूर्वकं ब्रह्मास्तित्वसाघनस्योपसंहारः ... १६४ 'तद्यदि' इत्यादिना, प्रसङ्गाजगत्कारणस्याचेतनत्वशङ्काया प्रधानवा- दिनोऽनूद्य निराकरणम् ... १६४ 'न हि' इत्यादिना, सांख्यैः कामस्याचेतनधर्मतायाः स्वीकारात्कथं कामयितृत्वेन ब्रह्मणोSचितनत्वव्यावृत्तिरित्याशङ्कय, यत्कामयितृ त- च्चेतनमिति लौकिकव्यासिबलेनाचेतनत्वशङ्काव्यावृत्तिरिति कथनम् १६४

'सर्वज्ञं हि ब्रह्म' इत्यादिना, कामयितृत्वेन ब्रह्मणश्चेतनत्वसिद्धावपि सृष्टेः पूर्व शरीराद्यभावेन ज्ञानासंभवात्सृष्टयनुकूलकामानुपपत्तिरिति शङ्कायाम्, 'पश्यत्यचक्षुः' इत्यादिश्रुत्यवष्टम्भेन कारणाद्यनपेक्ष- ... १६४

'कामयितृत्वात्' इत्यादिना, ब्रह्मणः कामयितृत्वे तस्यानाप्तकामत्वं स्यादिति शङ्का ... १६४ 'न, स्वातन्त्र्यात्' इत्यादिना, अनाप्तकामत्वे कामयितृत्वं न प्रयोज- कम्, आप्तकामानामपि ब्रह्मविदां परानुग्रहार्थे विद्यासप्रदायप्वर्त-

Page 66

[ ५६]

नादौ कामयितृत्वदर्शनात्; कि तु कामवश्यत्वम्, तच्च ब्रह्मणो नास्ति, अतो नानाप्तकामत्वं ब्रह्मण इति समाधानम् ... १६४ 'कथं तहि' इत्यादिना, ब्रह्मणः कामास्तत्प्रवर्तका न भवन्ति चेत्तर्हि कथंभूता इति प्रश्नमनूद्य मायाप्रतिबिम्बितं ब्रह्म जगतः कारणम्, मायापरिणामैरेव कामैस्तत्कामयितृ, तेषां च परिणामानां चिद्धयाप्त- त्वात्सत्यज्ञानात्मकत्वम्, ब्रह्मतादात्म्याच्चाधर्माद्यस्पृष्टत्वेन शुद्धत्वमि- त्युत्तरकथनपूर्वक कामानां ब्रह्मप्रवर्तकत्वाभावस्योपसंहारः ... १६५ 'तेषां तु' इत्यादिना, ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्रापणा- नुकूला: स्युः स्वातन्त्र्यादित्याशङ्कायाम्, प्राणिकर्मापेक्षयैव ब्रह्म प्राणिकर्मफलप्रदानां कामानां प्रवर्तकं न तु प्राणिकर्मानपेक्षया ; अतो नोक्तशङ्गेति कथनम् ... १६५ 'तस्मात्' इत्यादिना, ब्रह्मणः स्वकामेषु प्राणिकर्मापेक्षत्वे कथ स्वा- तन्त्र्यमिति शङ्कायाम, लोके सेवापेक्षस्यापि राज्ञः स्वातन्त्र्यप्रसिद्धि- दर्शनाङ्वह्मणोऽपि स्वातन्त्र्योपपत्तिरिति कथनम् .. १६५ 'अतः' इत्यादिना, ब्रह्मकामानां ब्रह्मवश्यत्वान्नानाप्तकामत्वं ब्रह्मण इत्युक्तस्योपसंहार: ... १६५

'साधनान्तरानपेक्षत्वाच्च' इत्यादिना, कामस्य शरीरादिसंब्न्धजन्यत्वप्र- सिद्धेर्ब्रह्मणोSपि शरीरादिमत्वप्रसङ्ग इति नाशङ्कनीयम्, यतो ब्रह्मणः कामाः स्वात्मानतिरिक्ताः स्वात्ममात्रसाध्या न स्वात्मव्यतिरिक्तसा- धनापेक्षा इति समासव्यासाभ्यां कथनम् .. १६५

'तदेतत्' इत्यादिना, ब्रह्मवश्यत्वेन ब्रह्ममात्रसाध्यत्वेन च निरूपितं कामानां स्वरूपमभिप्रेत्य श्रुतिर्व्रह्मणः कामयितृत्वमाहेति कथनम् १६६

'सोऽकामयत' इत्यादिना, 'सोऽकामयत' इत्यादेर्विवरणम् ... १६६ 'कथम्' इत्यादिना, आकाशस्य घटाद्युपाध्यनुप्रवेशकृतं बहुभवनं दृष्टम्, अद्वितीयस्य तु ब्रह्मणः कथ बहुतेति शङ्कामनूद्य, पूर्वसिद्ध- स्य ब्रह्मण: स्वत उत्पत्ययोगात् उत्पद्यमानाकाशादर्थान्तरानुप्रवे- शेनैव तस्योत्पत्तिर्वाच्या; अतः 'प्रजायेय' इत्येतदर्थान्तरानुप्रवे- शेन बहुभवनस्योपपादकमिति प्रजायेये त्यस्योत्तरशङ्कापरिहारकत्वेन कथनम् ... १६६

Page 67

[५७]

'न हि' इत्यादिना, पितुरर्थान्तरभूतैः (भिन्नसत्ताकैः) पुत्रादिभियथा बहुभवनं तथा ब्रह्मणोडर्थान्तरभूतैराकाशादिविकारैन बहुभवनं विवक्षितम्, किं त्वात्मनि स्थिते पूर्वमनभिव्यक्ते नामरूपे पश्चात्स- र्गांदौ ब्रह्मतादात्म्येनैव व्याक्रियेते न ततो भेदेन; अतो यथा आकाशस्य बहुभवनं घटाद्युपाधिकृतम्, यथा वा रज्ज्वादेः सर्प- दण्डधारादिभावेन बहुभवनम्, तद्वत्स्वाध्यस्तनामरूपद्वारेणैव ब्रह्मणो बहुभवनम्, न तु मृदादेः सावयवस्य घटशरावादिरूपेणेव बहुभ- वनम्, निरवयवत्वाङ्गह्मणः इति कथनम् ... १६६

'न ह्यात्मनोऽन्यत्' इत्यादिना, कल्पितस्य नामरूपात्मकजगतोऽधि-

क्तदेशकालत्वमिति अप्रविभक्तदेशकालत्वसाधनम् ... १६७ 'अतः' इत्यादिना, नामरूपयोर्व्रह्मणि कल्पितत्वे फलितस्य कथनम् १६८

'न ब्रह्म' इत्यादिना, ब्रह्मण एव नामरूपाभ्यामात्मवत्वं कि न स्या- दिति शङ्कायाम्, नामरूपात्मकजगतो जडत्वेन प्रकाशरूपत्वाभा- वादध्यस्तस्य जडत्वनियमेन ब्रह्मणोSपि प्रकाशरूपत्वासंभवाच्च जगदान्ध्यं प्रसज्येत ; अतो ब्रह्म न नामरूपाभ्यामात्मवदिति कथनम् ... १६८ 'ते तत्प्रत्याख्याने' इत्यादिना, ब्रह्मसत्तां विना नामरूपे न स्त एवेति ते ब्रह्मात्मके उच्येते इति ब्रह्मणैवात्मवती इत्युक्तस्यैव विवरणम् ... १६८ 'ताभ्यां च' इत्यादिना, न केवलं ब्रह्मणो बहुभवनं नामरूपोपाधि- कम्, किं तु सर्वव्यवहारास्पदत्वमपीति कथनम् .... १६८ 'स आत्मा' इत्यादिना, ब्रह्मणो ज्ञानरूपस्यैव तपसः संभवे कृच्छूचा- न्द्रायणादिरूपस्य तपसोSसंभवे च क्रमेण श्रुतियुक्तिहेतुप्रदर्शनपूर्वकं तपःशब्दार्थकथनेन 'स तपोऽतप्यत' इत्यस्य विवरणम् .. १६८ 'स एवम्' हत्यादिना, 'स तपस्तप्त्वा' इत्यादेर्विवरणम् .. १६९ 'तल्नैतच्चिन्त्यम्' इत्यादिना, प्रवेशपदार्थनिर्णयार्थ विचारारम्भः .. १६९ 'किम्, यः' इत्यादिना, विमर्शस्यैव विवरणम् ... १६९ 'किं तावदयुक्तम्' इत्यादिना, सृष्टेति क्त्वाप्रत्ययेन सृष्टिप्रवेशयोः स- मानकर्तृकत्वावगमात्स्ष्टुरेव प्रवेश इति प्रथमं सिद्धान्तस्व कथनम् १६९ 'ननु न युक्तम्' इत्यादिना, यो मृत्पिण्डो घटाकारेण परिणतस्तस्यैव *T.0 6

Page 68

[५८]

पिण्डस्य यथा घटे प्रवेशो नोपपद्यते, तथा शरीराकारेण परिणत- स्य स्नष्टुस्तेष्वेव शरीरेषु पुनः प्रवेशो नोपपद्यत इति सिद्धान्त्युक्त- स्य निराकरणम् १६९ 'यथा घटे' इत्यादिना, ईश्वररूपेण प्रवेशाभावेSपि यथा मृत्पिण्डवि- कारे घटे पुनरन्या चूर्णरूपा मृत्प्रविशति, तथा जीवरूपेण प्रवेशः स्यादिति ब्रह्मणस्तेनैवात्मनानुप्रवेश इति सिद्धान्तं निराकृत्य अन्ये- नात्मनानुप्रवेश इति सदृष्टान्तमुक्तस्य पूर्वपक्षिमतस्य कथनम् ... १७० 'नैवं युक्तम्' इत्यादिना, संग्रहविवरणाभ्यां दृष्टान्तवैषम्यप्रदर्शनेन पूर्वपक्षिमत निराकरणम् १७० 'कथं तहि' इत्यादिना, 'तदेवानुप्राविशत्' इति श्रुतस्य प्रवेशस्या- वश्यनिर्वहणीयत्वे, पूर्वोक्तरीत्या प्रवेशासंभवे च कथं तन्निर्वाह इत्यालोच्य, यदि ब्रह्मणो निरवयवत्वे प्रवेशायोग्यत्वं तहि मृदादि- वत्सावयवत्वमेवास्तु ब्रह्मणः, सावयवत्वान्मुखे हस्तप्रवेशवन्नामरूप- कार्ये स्वावयवभूतजीवात्मना प्रवेशो निर्वहतीति पूर्वपक्षिण एवोक्ति: १७० 'न, अशून्यदेशत्वात्' इत्यादिना, उपादानत्वेन सर्वकार्यात्मना पूर्व- मेव परिणतस्य ब्रह्मणो नामरूपात्मकं कार्यमेव प्रदेशः, तद्वयतिरे- केणान्यस्य प्रवेष्टव्यस्य प्रदेशस्याभावात् कुत्र तजीवात्मना प्रविशे- दिति पूर्वपक्ष्युक्तस्य प्रवेशनिर्वाहस्य निराकरणम् .. १७१ 'कारणमेव व' इत्यादिना, यत्कारणं तस्मिन्कार्यविशेषस्य जीवस्य प्रवेशोऽस्त्विति शङ्कामनूद्य, जीवस्य स्वकारणप्रवेशे सदष्टान्तं बा- धकप्रदर्शनेन शङ्कानिरसनम् १७१ 'तदेव' इत्यादिना, 'तदेवानुप्राविशत्' इति श्रुत्या कार्यस्यैव प्रवेश- कर्मत्वावगमादपि न कारणे कार्यस्य प्रवेश इति कथनम् ... १७२ 'कार्यान्तरमेव' इत्यादिना, नामरूपात्मना परिणतं जीवात्मकं कार्ये पुनरहंकारादिलक्षणकार्यान्तराकारेण परिणमते, सोयं परिणामः प्रवेश इति पूर्वपक्षिण एव समासव्यासाभ्यां शङ्का ... १७२ 'न' इत्यादिना, घटस्य पुनर्घटान्तराकारपरिणामादर्शनान्न जीवस्याहं- काराद्यात्मत्वम्, किं च, जीवस्याहंकारादिकार्यभावे सति तस्य नाम- रूपकार्यव्यतिरेकं दर्शयन्तीनाम् 'अनेनजीवेनानुप्रविश्य' इत्या- दिश्रुतीनां विरोध: स्यादिति शङ्कानिराकरणम् ... १७२

Page 69

[५९ ]

'तदापत्तौ' इत्यादिना, जीवस्य देहादिलक्षणकार्यान्तरत्वापत्तौ देहादि- लक्षणाद्वन्धान्मोक्षोऽपि न संभवतीति सदृष्टान्तं बाधकान्तरकथनम् १७२ 'बाह्यान्तर्भेंदेन' इत्यादिना, व्रह्मैव प्रथमं जीवाधारभूतदेद्दाद्याकारेण परिणमते, पश्चात्तदाघयजीवरूपेण च परिणमते; तथा च ब्रह्मणो देहाद्याकारेण परिणतिः सृष्टिः, तदन्तर्जीवरूपेण परिणतिः प्रवेश इति पुनः संग्रहविवरणाभ्यां पूर्वपक्ष्याशङ्का .. १७३

'न' इत्यादिना, एवं सति प्रवेशशब्दस्य मुख्याथों न लभ्यत इति सदृष्टान्तं दूषणम् ... १७३

'जलसूर्यादि प्रतिबिम्बवत्' इत्यादिना, यथा सूर्यादेर्जलादौ प्रतिबिम्ब- भावलक्षणः प्रवेशस्तथा बुद्धयादौ ब्रह्मणः प्रतिबिम्बभाव एव प्रवेश इति सिद्धान्त्येकदेशिशङ्का ... १७३

'न' इत्यादिना, परिच्छिन्नो मूर्तश्र सूर्यबिम्बो विप्रकृष्टदेशस्थे जलादौ प्रतिबिम्वितो भवति, ब्रह्म तु न परिच्छिन्नम्, नापि मूर्तम्, न च ब्रह्मणो विप्रकृष्टदेशवर्ति किंचित्प्रतिबिम्बाधारभूतवस्त्वन्तरमरि्ति, व्यापकत्वाङ्गह्मणः, अतो नोक्तप्रकारेण प्रवेश उपपादयितुं शक्यत इति शङ्कानिरसनम् .. १७४ 'एवं तर्हि' इत्यादिना, यथोक्तानां प्रकाराणामन्यतमोऽपि प्रकारो दर्शितरीत्या नोपपद्यत इति चेत्तर्हि परस्य ब्रह्मणो न कथचिदपि प्रवेशो युज्यत इति पूर्वपक्षोपसंहारः ... १७४

'न च गत्यन्तरम्' इत्यादिना, प्रागुक्तान्प्रकारान्विह्ाय प्रकारान्तरेण प्रवेशवाक्यं समर्थ्यतामित्याशङ्कय प्रकारान्तरं न विद्म इति कथनम् १७४

'तदेवानुप्राविशत्' इत्यादिना, 'तदेवानुप्राविशत्' इति श्रुतिः सष्टः प्रवेशं वक्ति, सा चास्माकं प्रमाणम्, अतस्तद्विरोधेनान्यस्यापि प्रवेश: कल्पयितुं न शक्यत इति कथनम् ... १७४

'न च' इत्यादिना, तर्हि श्रुतिप्रामाण्याद्रह्मण एव यथाकर्थंचित्प्रवेश उच्यतामित्याशङ्कय, यत्नवतामप्यस्माकमस्माद्वाक्यादर्थज्ञानं नोत्प- द्यत इति कथनम् ... १७४

'हन्त तहि' इत्यादिना, तर्हि शिशुवाक्यवदर्थशून्यत्वादिदं वाक्यं त्या- ज्यमिति तटस्थस्य वचनम् ... १७५

Page 70

[६० ]

'न अन्यार्थत्वात्' इत्यादिना, प्राङ्निराकृतेभ्योऽर्येभ्यः सकाशादन्य- स्य प्रकरणापेक्षितस्यार्थस्य सत्वान्न वाक्यस्यार्थशून्यत्वं न वापोह्मतेति सिद्धान्तिनो वचनम् ... १७५ 'किमर्थमिदमस्थाने' इत्यादिना संग्रहविवरणम् ... १७५

'ब्रह्मविदाप्नोति परम्' इत्यादिना, कोऽसौ प्रकृतोऽर्थ इत्याकाङ्क्षायाम्, 'ब्रह्मविदान्नोति' इति सूत्रे 'सत्यं ज्ञानम्' इत्यादिमन्त्रे च ब्रह्मणः प्रत्यक्त्वेन ज्ञानमेव प्रकृतं विवक्षित च, अहं ब्रह्मेति ज्ञानस्यैव पर- प्राप्तिसाधनत्वादिति प्रकृतस्यार्थस्य प्रदर्शनम् .. १७५

'ब्रह्मस्वरूपावगमाय' इत्यादिना, कथं ब्रह्मात्मैकत्वज्ञानमेवात्र विव क्षितम्, कोशपञ्चकोपन्यासस्यापि दर्शनादित्याशङ्कय, ब्रह्मस्वरूपाव- गत्यर्थमवानन्दमयाद्यन्नमयान्तं कोशपञ्चकमुपन्यस्तम्, अतः कोश- प्चकवचनस्य ब्रह्मात्मैकत्वावगमोपायत्वेन उपेयभूततदवगमस्यानु- वृत्ततया ब्रह्मात्मैकत्वज्ञानमेव प्रकृतं विवक्षितं चेति कथनम् १७५

'तत्रान्नमयात्' इत्यादिना, ब्रह्मात्मैकत्वावगमप्रकारप्रदर्शनपूर्वकं तदः वगमार्थमेव बुद्धिगुह्ायां प्रवेशकल्पनमिति कथनम् .. १७५

'न हि' इत्यादिना, बुद्धेः सकाशादन्यत्र ब्रह्मचैतन्यं नोपलभ्यते, बु- द्विभिन्नव्यञ्जकपदार्थसंबन्धरहितत्वात्; अतो बुद्धावेवोपलब्घिसंभ- वात्तत्रैव प्रवेशोडभिधित्सित इति कथनम् .. १७६

'विशेषसंबन्धो हि' इत्यादिना, सदृष्टान्तं बुद्धिसंबन्धस्य व्रह्मोपलब्धिहे- तुत्वकथनम् .. १७६ 'संनिकर्षात्' इत्यादिना, बुद्धिरेव चैतन्योपलब्धिहेतुरिति न नियमः, घटः स्फुरतीत्यादौ बुद्धेरन्यत्रापि तस्योपलब्धिदर्शनादित्याशङ्कय, वृत्तिद्वारा बुद्धिसंबन्धादेव देहघटादिषु चैतन्याभिव्यक्तिः न स्वतः, बुद्धिश्चावभासकत्वादव्यवघानेनैव चैतन्याभिव्यञ्जिकेति कथनम् ... १७७ 'यथा च' इत्यादिना, सदष्टान्तं बुद्धिवृत्तेघटादौ चैतन्यव्यञ्जकत्वकथनम् १७७ 'तस्मात्' इत्यादिना, मन्त्रे 'गुहायां निहितम्' इति यत्प्रकृत गुहदा- निहितत्वं तदेव प्रवेशवाक्ये तद्ृत्तिस्थानीये 'प्राविशत्' इत्यनेनो- च्यत इति प्रकृतस्योपसंहारः .. १७७

'तदेवेदम्' इत्यादिना, यथा कश्चित्पुमान्गहं निर्माय तत्र प्रविश्या- न्तरुपलभ्यते, एवं ब्रह्माप्याकाशादिकार्ये सुष्टा तस्यान्तःप्रविष्टमिव

Page 71

[ ६१ ]

हृदयपुण्डरीकेSवस्थितायां बुद्धौ द्रष्टृश्नोतृमन्त्रित्येवं विशेषवदुपल- भ्यते, द्रष्टत्वादिरूपेणोपलन्धिरेवास्य प्रवेश इत्युपचर्यत इति प्रवे- शशब्दार्थस्य कथनम् ... १७७ 'तस्मादस्ति' इत्यादिना, तत्प्रकृतमाकाशादिकारणं ब्रह्म नास्तीति न, प्रवेष्टत्वात्, असतः प्रवेशादर्शनादिति प्रवेशवाक्यस्यापि व्रह्मास्ति त्वसाधने उपयोगप्रदर्शनम् ... १७८

'अतः' इत्यादिना, ब्रह्मणो नास्तित्वाभावे फलितस्य कथनम् ... १७८

'तत्कार्यमनुप्रविश्य' इत्यादिना, उत्पत्तेः प्रागव्याकृतनामरूपतया आत्मनि स्थिते आत्मतादात्म्यापन्ने मूर्तामूर्ते एव सर्गादौ स्वान्तर्ग- तेन परमात्मना व्याक्रियेते, अतो व्याकृतयोरपि तत्तादात्म्यमिति तत्कारणभूतात्मा ते अभवदित्युच्यत इति 'तदनुप्रविश्य सच्च त्य- च्ाभवत्' इत्यस्यार्थ तात्पर्यकथनम् ... 'किं च, निरुक्तम्' इत्यादिना, 'निरुक्त चानिरुक्तं च इत्यस्य वि- वरणम् ... 'निरुक्तानिरुक्ते अपि' इत्यादिना, यथा सच्छब्दवाच्यं भूतत्रयमपरोक्ष मूर्तस्य विशेषणम्, त्यच्छब्दवाच्यं च भूतद्वयं परोक्षममूर्तस्य वि- शेषणम्, तथा निरुक्तानिरुक्ते अपि तयोरेव विशेषणे इति निरु- क्तानिरुक्तयोः स्वातन्त्र्यनिरसनम् ... १७९ 'तथा निलयनम्' इत्यादिना, निरुक्तानिरुक्तयोरुक्तस्य न्यायस्य 'नि- लयनं चानिलयनं च' इत्यत्रापि योजनम् .. १७९

'निलयनं नीडम्' इत्यादिना, 'निलयनं चानिलयनं च' इत्यस्य विवरणम् ... १७९ 'त्यदनिरुक्तानिलयनानि' इत्यादिना, त्यदनिरुक्तानिलयनत्वानाममू- रतधर्मत्वे ब्रह्मधर्मत्वं स्यात् व्रह्मणोऽप्यमूर्तत्वादित्याशङ्कय, त्यदा- दीनि कार्यविशेषणान्येव, न कारणव्रह्मविशेषणानि; तेषां तद्विशेष- णत्वे सर्गात्प्रागपि सत्त्वापत्या सर्गोत्तरकालभावित्वश्रवणविरोधादिति कथनम् ... १७९ 'त्यदिति' इत्यादिना, व्याकृतविषयत्वस्यैव विवरणम् ... १७९ 'अतः' इत्यादिना, उत्तस्योपसंहारः .. १७९ 'विज्ञानम्' इत्यादिना, 'विज्ञानं चाविज्ञानं च' इत्यस्यार्थकथनम् . १७९

Page 72

[ ६२ ]

सत्यं च व्यवहारविषयम्' इत्यादिना, सत्यं चानृतं चेत्यत्र सत्यशब्देन व्यावहारिकसत्यमेवोच्यते न तु पारमार्थिकसत्यम्, सत्यदादिव्याव- हारिकपदार्थोक्तिप्रकरणात्; किं च, सत्यं चेत्यत्र परमार्थसत्यग्रह्णे सत्यमभवदित्यत्रापि तस्यैव गृहीतत्वात्परमार्थसत्यद्वयं प्रसज्येत, न चेष्टापत्तिः; एकस्यैव परमार्थसत्यस्य श्रत्यादिभिरवगमादिति कथनम् १७९ 'हह पुनः' इत्यादिना, उक्तस्यैव व्यावह्दारिकसत्यस्य विवरणम् ... १८०

'अनृतं च ' इत्यादिना, अनृतशव्दार्थकथनम् १८० 'किं पुनः' इत्यादिना, प्रश्नपूर्वकम् 'तत्सत्यमभवत्' इत्यस्य विव- रणम् .. १८० 'यस्मात्' इत्यादिना, यत्सत्त्यदादिशब्दरुपात्तम्, यच्चेदं विशिष्यानु- पात्तम्, तत्सर्वे परमार्थसत्यमभवदिति रीत्या 'यदिदं किं च' इति वाक्यस्य पूर्वेणैकवाक्यताप्रदर्शनपूर्वकम् 'तत्सत्यमित्याचक्षते' हत्यस्योपपत्तिप्रदर्शनम् ... १८०

'अस्ति नास्ति' इत्यादिना, वृत्तानुवादपूर्वकं सोऽकामयतेत्यादि- ग्रन्थस्य प्रकृतप्रश्ननिराकरणे तात्पर्यप्रदर्शनम् १८०

'तदेतस्मिन्' इत्यादिना, 'तदप्येष श्ोको भवति' इत्यस्य वि- वरणम् ... १८१

सप्तमोऽनुवाक: .... १८२-१९०

'असदिति' इत्यादिना, 'असद्वा हदमग्रे' इत्यत्रासच्छब्दस्या- र्थकथनम् ... १८२ 'न पुनः' इत्यादिना, शून्यस्य जगज्न्महेतुत्वासंभवादसच्छब्दस्य शून्यार्थत्वनिरसनम् ... १८३

'इदमिति' इत्याटिमा, 'इदमग्र आसीत्' इत्यस्यार्थकथनम् ... १८३

'ततोऽसतः' ६ यादिना, 'ततो वै सदजायत' इत्यस्यार्थकथनम् ... १८३

'कि ततः' इत्यादिना, प्रश्नपूर्वकम् 'तदात्मानं स्वयमकुरुत' इत्य- स्यावतरणं वेवरणं च १८३ 'यस्मादेवम् इत्यादिना, 'तस्मात्तत्सुकृतमुच्यत इति' वाक्यस्य वि- वरणम् ... १८३ 'यस्माद्वा' इत्यादिना, 'तदात्मानं स्वयमकुरुत। तस्मात्तत्सुकृतमु-

Page 73

[ ६३ ]

च्यत इति' वाक्यद्वययोजनपूर्वकं प्रकारान्तरेणापि ब्रह्मण एव सुकृतशब्दवाच्यत्वमिति कथनम् .. १८३

'सर्वथापि' इत्यादिना, यदि प्रसिद्धिबलात्पुण्यं सुकृतशब्दवाच्यम्, यदि वोक्तरीत्या ब्रह्म उभयथापि सुकृतशब्दवाच्यस्य लोकप्रसिद्धया फलसंबन्धादिकारणत्वं वाच्यम्, तच्चाशुतरविनाशिनो जडस्य पुण्य- कर्मण: स्वतः फलदातृत्वायोगान्नित्ये सर्वज्ञे ब्रह्मणि सत्येव उपप- द्यत इति सुकृतवाक्यस्य ब्रह्मास्तित्वसाधने उपयोगप्रदर्शनम् .. १८४

'तस्मात्' इत्यादिना, उक्तस्योपसंहारः १८४

'इतश्च' इत्यादिना, न केवलं सुकृतशब्दवाच्यस्य फलसंबन्धादिकारण- त्वप्रसिद्धेरेव ब्रह्मणोSस्तित्वम्, किं तु विद्वत्परितोषहेतुरसरूपत्वादपि ब्रह्मणः सत्त्वमभ्युपेयममिति कथनम् ... १८४

'कुतो रसत्वप्रसिद्धिः' इत्यादिना, ब्रह्मणो रसरूपत्वप्रसिद्धौ मानस्य प्रश्नपूर्वकं प्रदर्शनम् ... १८४ 'रसो नाम' इत्यादिना, प्रसिद्धरसशब्दार्थकथनमुखेन 'रस हि' इत्यादिवाक्यस्याथकथनम् .. १८४

'नासतः' इत्यादिना, असत आनन्दहेतुत्वायोगाद्वह्मणश्चानन्दकरत्वेन रसत्वादस्ति ब्रह्मेति ब्रह्मणि रसत्वस्य सत्त्वसाघकत्वकथनम् ... १८५

'बाह्यानन्दसाधनरहिताः' इत्यादिना, उक्तस्यैव सदृष्टान्तं स्पष्टतया क- थनम् .. १८५ 'तस्मादस्ति' इत्यादिना, ब्रह्मणः सत्त्वसाधनोपसंहारः .. १८५ 'इतश्च' इत्यादिना, ब्रह्मास्तित्वे हेत्वन्तरस्य प्रश्नपूर्वकं प्रदर्शनम् १८५ 'अयमपि हि' इत्यादिना, वायवीया ऐन्द्रियकाश्च चेष्टाः परार्थाः सं- इतैः कार्यकरणैनिर्वर्त्यमाना दृश्यन्ते, तच्चैकचेतनप्रयोजनसाधनत्वेन कार्यकरणानां संहननम्, यथा स्तम्भकुड्यादीनां संहननमसंहतं चेतनं स्वामिनमन्तरेण न संभवति, तथा स्वामिनमसंहतमन्तरेण न संभवति; स च स्वामी ब्रह्मैवेति तदस्तित्वसाधनम् ... १८५

'तदाह' इत्यादिना, उक्तेडर्ये 'को हि' इत्यादिवाक्य द्वयस्यावतरणमु- क्तार्थपरत्वेन विवरणं च .. १८६ 'तत्कृत एव' इत्यादिना, वैषयिकानन्दहेतुत्वादपि ब्रह्मास्तित्वस।- घनम् 1 ... १८६

Page 74

[६४ ]

'कुतः' इत्यादिना, प्रश्नपूर्वकम् 'एष ह्येवानन्दयाति' इति वाक्यस्य ब्रह्मणो वैषयिकानन्दहेतुत्वे प्रमाणपरत्वेन विवरणम् .. १८६ 'स एव' इत्यादिना, परस्यैवानन्दरूपत्वादानन्दहेतुत्वमयुक्तम्, भेदा- भावादित्याशङ्कय, स एवाविद्यया नानात्वेन परिच्छिन्नोऽ्नुभूयते, अतो नोक्तशङ्गेति कथनम् .... १८६ 'भयाभयहेतुत्वात्' इत्यादिना विदुषोऽभयप्राप्तिहेतुत्वादविदुषश्च भ- यप्राप्तिहेतुत्वाद्वह्मास्तीत्यस्तित्वसाधने 'यदा ह्येवैषः' इत्यादेस्ता- त्पर्यमिति तत्तात्पर्यप्रदर्शनम् ... १८६

'सद्वस्त्वाश्रयणे हि' इत्यादिना, असत एव भयनिवृत्तिरस्त्वत्याशङ्का-

कथनम् .. १८७ 'कथम्' इत्यादिना, ब्रह्मणो विद्वदभयहेतुत्वे प्रमाणत्वेन प्रश्नपूर्वकम् 'यदा हि' इत्यादिवाक्यस्यावतरणम् .. १८७

'यदा ह्येव' इत्यादिना, 'यदा ह्येवैषः' इत्यादेर्विवरणम् ... १८७

'अन्यस्य हि' इत्यादिना, विदुषोऽन्यदर्शनाभावेSपि कथ भयनिवृत्ति- रिति शङ्कायाम्, आत्मनोऽन्यस्मादात्मनो भयं युक्तम्, न त्वात्मन एव, अनुभवविरोधात् ; अन्यश्च विदुषो वस्तुतो नास्ति ; तस्मान्भ- यनिव्ृत्तिरुपपद्यत इति कथनम् .. १८८

'सर्वतो हि' इत्यादिना, विद्वदभयहेतुत्वादरिति ब्रह्मेति यदुक्तम्, तस्य विद्वदनुभवेन साधनम् ... १८८ 'कदासौ' इत्यादिना, उक्तार्थस्य प्रश्नपूर्वक संक्षेपेण कथनम् ... १८८

'यदा पुनः' इत्यादिना, 'यदा ह्येवैष एतस्मिन्नुदरमन्तरम्' इत्या- दिवाक्यद्वयस्य व्याख्यानम् ... १८८

'तस्मात्' इत्यादिना, उक्तार्थस्य संक्षेपेण कथनम् १८९ 'तदेतदाह' इत्यादिना, उक्तेऽर्ये 'तत्वेव भयम्' इत्याद्युत्तरवाक्य- स्यावतरणं विवरणं च ... १८९

'तस्माद्विद्वान्' इत्यादिना, ममाराध्यः परमेश्वरः तस्याहं दास इति भेदं विद्वान्कथमज्ञ इति शङ्कायाम्, यथा चन्द्रभेदं पश्यत्नविद्वानु- ज्यते अतत्वदर्शित्वात्तथेति कथनम् ... १८९

Page 75

[ ६५ ]

'उच्छेदहेतुदर्शनात्' इत्यादिना, अविदुषः स्वस्येश्वरान्भ्ेद पश्यतोSपि कथ भयसंभावनेति शङ्कायाम्, उच्छेदकारणवस्तुज्ञानादुच्छेद्यत्वेना- भिमतस्य प्राणिवर्गस्य भयं भवति ; उच्छेदकारणं च वस्तु ब्रह्मैव ; अतो नोक्तशङ्केति कथनम् ... १८९ 'अनुच्छेद्यं हि' इत्यादिना, कस्माद्वह्मैवोच्छेदहेतुरित्याशक्कय उच्छेदहे- तोरप्युच्छेद्यत्वेSनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यम्; तच्च ब्रह्मणोऽन्यत्र न संभाव्यते ; अतो ब्रह्ैवोच्छेदहेतुरिति कथनम् ... १८९

'तन्नासति' इत्यादिना, भेददर्शिनो भयकारणं ब्रह्मेति वदतो वाक्य- संदर्भस्य ब्रह्मास्तित्वसाधने तात्पर्यमिति संग्रहेणोक्तस्य तात्पर्यस्य प्रपञ्चनम् ... १८९ 'तदेतस्मिन्' इत्यादिना, 'तदप्येष ल्लोको भवति' इत्यस्यार्थ- कथनम् .. १९०

अष्टमोऽनुवाक: ... १९१-२२२

'भीषा भयेन' इत्यादिना, 'भीषास्मात्' इत्यादिल्लोकस्यार्थकथनम् १९३ 'वातादयो हि' इत्यादिना, श्लोकस्य भयकारणब्रह्मास्तित्वप्रदर्शने ता- त्पर्यकथनम् .. १९३ 'यस्माङ्रह्मणः' इत्यादिना, 'सैषानन्दस्य मीमाएसा भवति' इत्यस्य विवरणम् ... १९३ 'किमानन्दस्य' इत्यादिना, ब्रह्मस्वरूपतया श्रुत आनन्दो विषयानन्द- वजन्यो नित्यो वेति संशयनिवृत्त्यर्थमानन्दमीमांसेति प्रश्नपूर्वकं क- थनम् .... १९३ 'तत्र लौकिकः' इत्यादिना, ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता, किम- र्थस्तहि मानुषाद्यानन्दोपन्यास इति शङ्कायाम्, लौकिकानन्दः क्वचि त्काष्ठां प्राप्तः सातिशयत्वात् पारेमाणवदित्यानन्दतारतम्यावधि- त्वेन निरतिशयस्वाभाविकव्रह्मस्वरूपानन्दानुमानार्थे लौकिकानन्दो- पन्यासः; अतो नोक्तशङ्केति कथनम् .. १९४

'लौकिकोऽपि' इत्यादिना, ब्रह्मानन्दस्य योऽयं विषयविशेषादिकृत- वृत्तिविशेषोप्दितो भाग: स एव ब्रह्मानन्दमात्राशब्दितो लौकिका- नन्दः, स च हिरण्यगर्भादर्वागविद्यया तिरस्क्र्कियमाणे विवेके 'T.07

Page 76

[ ६६ ]

उत्कृष्यमाणायां चाविद्यायाम, तत्तत्कर्मादिवशात्तारतम्येन निकृष्टः ; स एव मनुष्यगन्घर्वाद्युत्तरोत्तरभूमिषु 'ब्रह्मण आनन्दः' इत्यन्तासु अविद्याद्यपकर्षतारतम्येन उत्कृष्टः; तथा च यथोक्ताः सर्वे लौकिका- नन्दा यस्य मात्रा: समुद्राम्भस इव विप्रुषः स स्वाभाविकानन्दो

इति प्रकारान्तरेण लौकिकानन्दानां ब्रह्मानन्दावगमोपायत्वकथनम् १९४ 'निरस्ते तु' इत्यादिना, मात्राभूतेन लौकिकानन्दजातेनावगन्तव्यस्य ब्रह्मस्वरूपानन्दस्य प्रदर्शनम् ... १९५ 'एतमर्थम्' इत्यादिना, उक्तार्थप्रतिपादकत्वेन 'युवा स्यात्' इत्या- दिश्रुतेरवतरणम् ... १९६ 'युवा प्रथमवयाः' इत्यादिना, 'युवा स्यात्' इत्यादेर्विवरणम् ... १९६ 'ते हि' इत्यादिना, मनुष्यगन्धर्वानन्दस्योत्कृष्टत्वे कारणप्रदर्शनम् ... १९६ 'एवं पूर्वस्याः' इत्यादिना, यथा मानुषानन्दान्मनुष्यगन्धर्वनन्दस्य शतगुणमाधिक्यं साधनबहुत्वकृतचित्तप्रसादादुक्तम्, एवं हिरण्य- गर्भपर्यन्तमुत्तरोत्तरभूमौ पूर्वपूर्वापेक्षया शतगुणित आनन्दः साधन- बहुत्वकृतचित्तप्रसादविशेषं निमित्तीकृत्यैव प्रवृत्तोऽस्तीत्यतिदेशेन कथनम् ... १९७ 'प्रथममकामहताग्रहणम्' इत्यादिना, यदि प्रथमपर्याय एवाकामहतो गृह्येत तदा तस्य सार्वभौमानन्देन तुल्य एवानन्दः स्यात्, ततश्च व्याघातः-मानुषानन्दे विरक्तः मानुषानन्दभोगभागी चीत; अतो मनुष्यगन्धर्वानन्देन तुल्यमानन्दं तस्य दर्शयितुं प्रथमपर्याये तदग्र- हणमिति तदग्रहणस्य कारणप्रदर्शनम् ... १९७

'साधुयुवाध्यायकः' इत्यादिना, 'साधुयुवाध्यायकः' इत्यत्र साधुप- दादयथोक्तकारित्वरूपमव्ृजिनत्वम्, अध्यायकपदेन श्रोत्रियत्वं च गृह्यत इति कथनम् .. १९८ 'ते ह्यविशिष्टे' इत्यादिना, श्रुतिगम्यानां श्रोत्रियत्वादीनामानन्दहेतूना- मेकरूपत्वाद्दितीयपर्यायमारभ्य श्रुतानां श्रोल्नियाणां मध्ये कस्यचि- न्मनुष्यगन्घर्वानन्दतुल्यानन्दः कस्यचिद्देवगन्घर्वानन्दतुल्यानन्द इ- त्यादिलक्षण आनन्दविशेष: किंकृत इति शङ्कायाम्, सर्वत्र श्रोत्रि- यत्वावृजिनत्वे एवाविशिष्टे न त्वकामहतत्वमपि, तत्तु प्रतिपर्यायं

Page 77

[ ६७ ]

भिद्यते; मनुष्यगन्धर्वपर्यायस्थश्रोत्रियस्य मानुषानन्दमात्रे कामा- भाव:, तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात्, एवमुत्तरत्रा- पि; तथा च कामस्य विषयबाहुल्यरूपोत्कर्षे सति तन्निवृत्तिरूप- स्याकामहतत्वस्यापकर्षरूपो विशेषः, कामस्य विषयाल्पत्वरूपापकर्षे सति तन्निवृत्तिरूपस्याकामहतत्वस्योत्कर्षरूपो विशेष इत्यकामहत- त्वोत्कर्षविशेषाधीनः श्रोत्रियाणामानन्दोत्कर्षविशेष इति साधनेषु विशेषकथनम् १९८ 'अतः' इत्यादिना, यावद्यावदकामहतत्वोत्कर्षस्तावत्तावच्छोत्नियानन्दो- त्कर्ष इति स्थिते सर्वात्मना कामोपशमे सति सर्वोत्कर्षः परमान- न्दः प्राप्तो भवतीत्यकामहतत्वग्रहणं तस्य परमानन्दप्राप्तिसाधन- त्वविधानार्थमिति फलितस्य श्रुतितात्पर्यस्य कथनम् ... १९९

'व्याख्यातम्' इत्यादिना, 'ते ये शतं मनुष्यगन्घर्वाणामानन्दाः' इत्यादे: प्रथमपर्यायव्याख्यानेनैव गतार्थत्वकथनम् ... १९९ 'देवगन्घर्वाः' इत्यादिना, देवगन्घर्वादिपदानां व्याख्यानम् ... १९९

'समष्टिव्यष्टिरूपः' इत्यादिना, यस्मिन्हिरण्यगर्भे प्रकृतानन्दविशेषाः सातिशया विश्राम्यन्ति यदानन्दहेतुर्धर्मस्ताद्विषयकं ज्ञानं च निरव- धिकम्, यस्य हिरण्यगर्भस्य स्वभूम्यपेक्षया पूर्वभूमीनां निकृष्टत्वेन तेषु कामासंभवात्स्वभूमे: प्रास्तत्वेन तस्यामपि कामासंभवात्स्वोत्कृ- ष्टभूमेरभावाच्चाकामहतत्वं च निरवधिकम्, स एष हिरण्यगर्भः 'स एको ब्रह्मण आनन्दः' इत्यत्र विद्यमानब्रह्मशब्दवाच्य इति कथनम् २०० 'तस्यैष आनन्दः' इत्यादिना, हिरण्यगर्भानन्दस्य तत्पर्यायस्थश्रो- त्रियप्रत्यक्षत्वकथनम् .... २००

'तस्मात्' इत्यादिना, मनुष्यस्य सतः श्रोत्रियस्य श्रोत्रियत्वादित्रितय- महिम्ना हिरण्यगर्भानन्दतुल्यानन्दकथनाश्रीण्येतान्यानन्दप्रास्तौ सा- घनानीति गम्यत इति 'श्रोत्रियस्याकामहतस्य' इति वाक्यलभ्य- स्यार्थस्य कथनम् ... २०१ 'तत्र' इत्यादिना, साधनेष्वकामहतत्वस्य विशेषकथनम् ... २०१

'तस्याकामहतत्वप्रकर्षतश्रः इत्यादिना, तस्य ब्रह्मणो हिरण्यगर्भस्या कामहतश्रोत्रियप्रत्यक्ष आनन्दः 'एतस्यैवानन्दस्य' इत्यादिश्रुत्यन्त-

Page 78

[६८]

रादस्य मात्रा, प्रागुपन्यस्तसार्वभौमाद्यानन्दोऽपि यस्य मात्रा सती उपाधितो नानात्वमापन्ना मुक्तिदशायामुपाधिविलये पुनर्यत्रैवैकतां गच्छति, यस्य सिद्धयर्थ मीमांसा चारब्धा, स एषः अद्वितीयः परमानन्दः स्वाभाविकः अकामहतविद्वत्प्रत्यक्षः सिध्यतीति वाक्य- स्य परमानन्दसिद्धौ तात्पर्यस्य प्रदर्शनम् ... २०१

'आनन्दानन्दिनोश्च' इत्यादिना, विद्वत्परमानन्दयोर्भेदात्कथमद्विती- यत्वं परमानन्दस्येति शङ्कायाम्, अविद्याकाल एवाविद्यको भेद: न विद्याकाले, विद्यया अविद्याया निरस्तत्वात् ; अतो ब्रह्मानन्दस्य नाद्वैतहानिरिति कथनम् ... २०१

'तदेतत्' इत्यादिना, मीमांसया यत्निरतिशयानन्दरूपं स्वाभाविकम- द्वितीयं ब्रह्मास्तीति निर्धारितं तदेतन्मीमांसासिद्धमुपसंहियत इत्युत्त- रवाक्यतात्पर्यकथनम् ... २०२

'यो गुहायां निहितः' इत्यादिना, 'स यश्चायं पुरुषे यश्चासावादित्ये' इति वाक्यद्वयस्य विवरणम् .. २.२

'स एकः' इत्यादिना, 'स यश्चायं पुरुषे' इति वाक्यनिर्दिष्टो बुद्धय- वच्छिन्नजीवरूपानन्दः, 'यश्चासावादित्ये' इति वाक्ये आदित्यान्त- स्स्थत्वेन निर्दिष्टो मायावच्छिन्नेश्वररूपपरमानन्दश्च वस्तुतोऽभिन्न एव, उपाधिवशाजीवः ईश्वरश्चेति भिन्न इव भासते ; तस्मात् 'स एकः' इति वाक्येनोपाधिनिरसनद्वारा घटाकाशमहाकाशयो- रिव जीवेश्वरयोरभिन्नत्वमुपदिश्यत इति 'स एकः' इति वाक्य- स्थार्थकथनम् .. २०३ 'ननु' इत्यादिना, 'यश्चायं पुरुषे' इति सामान्यतः शरीरस्थत्वेना- त्मनो निर्देशो न युक्तः, किंतु 'य एष एतस्मिन्मण्डले पुरुषः' 'यश्चायं दक्षिणेऽक्षन्पुरुषः इत्यादिश्रुत्यन्तरे मण्डलस्थस्य दक्षिणा- क्षिस्थेनैक्यस्य प्रसिद्धत्वादलापि तथा निर्देश एव युक्त इति शङ्का २०३ 'न' इत्यादिना, तत्र सोपाधिकस्य ब्रह्मण उपासनाया विवक्षितत्वेन तदर्थ स्थानविशेषनिर्देशेऽपि नात्र तद्विवक्षितम्, निरुपाधिकब्रह्म- प्रकरणात् ; अतो नोक्तशङ्केति कथनम् ... २०३ 'परो हि' इत्यादिना, परप्रकरणत्वस्यैव साधनम् ... २०३ 'नन्वानन्दस्य' इत्यादिना, मीमांस्यत्वेनोपक्रान्तस्यानन्दस्य 'स यश्चा-

Page 79

[ ६९ ]

यम्' इत्यादावद्वितीयत्वेनोपसंहारस्य कर्तव्यत्वादपि पर एवात्र निर्दिश्यत इति कथनम् ... २०४

'ननु तदनुरूपः' इत्यादिना, 'स यश्चायं पुरुषे' इत्याद्यविशेषतो निर्देशस्य स्वपक्षे आनुकूल्यप्रदर्शनम् .. २०४ 'नन्वेवमपि' इत्यादिना, 'तत्वमसि' इत्यादाविवेश्वरस्य शब्दान्तरेणैव ग्रहणसंभवादादित्यग्रहणं विफलमिति शङ्का .. २०४

· 'नानर्थकम्' इत्यादिना, आदित्यस्योतकृष्टोपाधित्वात्तदन्तरस्थत्वेन पर- मात्मनो निर्देशे तस्याप्युत्कर्षों निर्दिष्टो भवति, तथा च 'स यश्चायं पुरुषे इत्यनेन निकृष्टमात्मानमनूद्य 'यश्चासावादित्ये' इत्यनेनो- त्कृष्टमीश्वरं चानूद्य 'स एकः' इत्यनेन तयोर्निरुपाधिकपरमानन्द- स्वरूपेणैकत्वे बोधिते सति उपाधिकृतोत्कर्षापकर्षयोरपोह्ो भवतीति तदपोहप्रयोजनकत्वान्नानर्थक्यमिति शङ्कानिरसनम् .. २०४

'द्वैतस्य हि' इत्यादिना, आदित्योपाधेरुत्कृष्टत्वकथनम् ... २०५

'स चेत्' इत्यादिना, एकत्वज्ञानेनोत्कृष्टनिकृष्टोपाधिद्वयोपमर्दनद्वारा परमानन्दस्वरूपेणैकत्वमापन्नो भवति चेत् तादृशैकत्वलक्षणां गति गतस्य विदुषः सगुणमुक्तस्येवोत्कर्षों वा संसारिण इवापकर्षों वा न कश्चिदस्ति, किं त्वभयप्रापिर्भवतीति आत्मैकत्वविज्ञानेनोत्कर्षा- दयपोहे फलस्य कथनम् ... २०५

'अस्ति नास्ति' इत्यादिना, वृत्तानुवादपूर्वकमुत्तरग्रन्थस्यावतरणम् ... २०६

'मध्यमः' इत्यादिना, अविद्वान्ब्रह्म गच्छति न वेति मध्यमः प्रश्रो- Sवशिष्यत इत्याशङ्कय, अन्त्यप्रश्नापाकरण।देव सोऽप्यपाकृतो भव- तीति कथनम् ... २०६ 'स यः कश्चित्' इत्यादिना, 'स य एवंवित्' इत्यादेर्विवरणम् ... २०६

'अथैवंविददृश्ये' इत्यादिना, क्रमेणानन्दमयात्मोपसंक्रमणानन्तरमान- न्दमयं प्रति पुच्छप्रतिष्ठाभूतं सत्यज्ञानानन्तलक्षणं ब्रह्माहमस्मीति पश्यंस्तदेव प्राप्नोतीति फलस्य कथनम् ... २०७

'तत्रैतच्चिन्त्यम्' इत्यादिना, एवंवित्स्वरूपस्य संक्रमणस्वरूपस्य च निर्णयार्थे विचारारम्भ: ... २०७

'कि परस्मात्' इत्यादिना, कोऽयमेवंविदित्युक्तस्य विवरणम् ... २०७

Page 80

[७0]

'किं ततः' इत्यादिना, संदिग्धस्यैव विचार्यत्वादत्र पक्षद्वयेऽपि संश- यहेतुभूतानुपपत्तिः केति प्रश्नः ... २०७

'यद्यन्यः स्यात्' इत्यादिना, एवंवित्परस्मादन्य इति पक्षे 'तत्सृष्टा' इत्याद्यभेदश्रुतिविरोधः, भेदनिन्दाश्रुतिविरोधश्च; अनन्य इति पक्षे कर्मकर्तृत्वविरोधः; किं चास्मिन्नेव पक्षे जीवस्य परस्मिन्नन्त- र्भावे परव्यतिरेकेण जीवाभावादनुभूयमानसंसारित्वं परस्यैव स्यात्, परस्य जीवेऽन्तर्भावे जीवनियन्तृत्वेन श्रुतिसिद्धस्य परस्याभावः स्या- दिति पक्षद्वयेऽप्यनुपपत्तेः संशयकारणस्य प्रदर्शनम् ... २०७

'यद्युभयथा' इत्यादिना, पक्षद्वयेऽप्यपरिहार्यदोषं श्रुतवतो मध्यस्थस्य विचारवैयर्थ्यकथनम् .. २०८ 'अथान्यतरस्मिन्' इत्यादिना, यद्यभेदपक्षे यदि वा तृतीये भेदाभेदप- क्षे दोषाभावस्तदापि विचारवैयर्थ्यमिति तस्यैवोक्ति: .. २०८

'न' इत्यादिना, तेषां पक्षाणामन्यतमस्यादुष्टत्वनिर्धारणार्थे विचारः कर्तव्यः, विचारं विना निर्धारणासंभवात्; अतो न चिन्तावैयर्थ्य- मिति विचारारम्भवादिनो वचनम् .. २०८ 'सत्यं प्राप्तः'.इत्यादिना, तटस्थोक्तानुवादपूर्वकं संग्रह्विवरणम् ... २०८ 'सत्यमर्थवती' इत्यादिना, पुनरपि मध्यस्थस्यैव चिन्तावैयर्थ्यस्य कथनम् २०८ 'किं न निर्णेतव्यम्' इत्यादिना, तटस्थं प्रति विचारारम्भवादिनः प्रश्नः २०९ 'न' इत्यनेन, वेदवचनं न भवतीति तटस्थस्योत्तरम् .. २०९ 'कथं तर्हि' इत्यनेन, यदि न वेदवचनम्, तहि कथ न निर्णेष्यसीति वदसीति विचारारम्भवादिनो वचनम् ... २०९ 'बहुप्रतिपक्षत्वात्' इत्यादिना, अद्वैतस्यैव वेदोक्तत्वात्तत्साघनपरस्त्व- मेक एव, भेदवादिन: पुनरसंख्याताः; अतस्तेषु जीवत्सु त्वं न निर्णेष्यसीति ममाशङ्केति तटस्थोक्ति: ... २०९ 'एतदेव' इत्यादिना, यन्मामेकत्ववादिनं नानात्ववादिविरोधिनं च त्वं ब्रूषे, एतदेव मम स्वस्त्ययनं निर्णयसामर्थ्यसूचकम्; अतो जेष्यामी- त्यादि विचारारम्भवादिनो वचनम् ... २०९ 'स एव' इत्यादिना, औपाधिकभेदभिन्नोऽप्येवंवित् स्वतः पर एव स्यादिति सिद्धान्तस्योपक्रमः .. २०९ 'तन्म्ावस्य तु' इत्यादिना, न हि नष्टस्यानष्टस्य वान्यस्यान्यभावो यु-

Page 81

[७१]

ज्यते, घटे नष्टेऽनष्टे च पटभावानुपलम्भात्; अतः परभावस्यात्र विवक्षितत्वात् एवंवित्स्वतः पर एवेति 'एवंवित्स्वतः पर एव' इत्यत्र संग्रहविवरणाभ्यां हेतुप्रदर्शनम् .... २०९

'ननु तस्यापि' इत्यादिना, अभेदपक्षेऽप्यनुपपत्तिशक्का ... २१०

'न, अविद्याकृतातदात्मभावापोह्दार्थत्वात्' इत्यनेन, अविद्याध्यारोपि- ताव्रह्मत्वव्यावृत्तिरेव ब्रह्मभावापत्तिर्विवक्षिता, अतो नानुपपत्ति- रिति शक्कासमाधानम् ... २१० 'या हि' इत्यादिना, संग्रहस्य विवरणम् .. २१० 'कथमेवमर्थता' इत्यादिना, देवदत्तस्य ग्रामादिप्राप्तिवदत्र मुख्यां प्राप्तिं विहायामुख्यप्राप्त्यर्थकता फलवाक्यत्य केन हेतुनावगम्यत इति प्रश्नः .. २१० 'विद्यामात्रोपदेशात्' इत्यादिना, परप्राप्तिसाधनत्वेन विद्यामात्रोपदे- शात्सकार्याविद्यानिवृत्तेरेव विद्याकार्यत्वेन दृष्टत्वाच्चाविद्यानिवृत्ति- रव परप्राप्तिरिति गम्यत इत्युत्तरकथनम् ... २१० 'मार्गविज्ञानोपदेशवत्' इत्यादिना, मार्गविदाप्नोति ग्राममित्युप- देशात् यथा मार्गविदो गमनक्रियाद्वारा ग्रामप्राप्तिः, अवाप्यो ग्रामश्च मार्गविदो गन्तुः सकाशादन्यः, तथा 'ब्रह्मविदाप्नोति परम्' इत्यु- पदेशादपि ब्रह्मविद्यावतो ब्रह्मविद्याभ्यासद्वारा परप्राप्तिः, प्राप्तव्य परं च विद्यावतः सकाशादन्यत्स्यात्; तथा च मुख्यावाप्तिरेव सि- ध्यतीति संग्रहविवरणाभ्यां शङ्का ... २११ 'न वैधर्म्यात्' इत्यादिना, प्राप्तव्यं ग्रामं विषयीकृत्य त्वं ग्रामोSसीति ज्ञानं न तत्रोपदिश्यते, किं तु तत्प्राप्तिमार्गविषयक विज्ञानम्, अत्र तु प्राप्तव्यं ब्रह्म विषयीकृत्य सत्यज्ञानानन्तलक्षणं यद्रझ तत् त्वमसीति ज्ञानमेवोपदिश्यते, न तद्यतिरेकेण ज्ञानाभ्यासरूपसाधनान्तरस्योप- देशः; अत उपदेशवैषम्यान्न दृष्टान्तो युक्त इति शङ्कासमाघानम् २१२ 'उक्तकर्मादि' इत्यादिना, ब्रह्मविषयकज्ञानमात्रश्रवणेSपि न तन्मात्रं परप्राप्तिसाधनत्वेनोपदिश्यते, किं तु संहितोपनिषदुक्तकर्मादिसमुच्चि- तमेव ब्रह्मविज्ञानमुपदिश्यते; अतो ब्रह्मश्ञानमात्रोपदेशोSसिद्ध इति शङ्का .. २१२ 'न नित्यत्वात्' इत्यादिना, मोक्षस्य ज्ञानकर्मसमुच्चयजन्यत्वेऽनित्यत्व-

Page 82

[७२]

प्रसङ्गदोषस्य प्रागेवोक्तत्वान्नोक्तशक्केति समाधानम् .. २१२

'श्रुतिश्च' इत्यादिना, 'एवंवित्पर एव' इत्यत्र हेतुद्वयकथनम् ... २१२

'यदि हि' इत्यादिना, अभयप्रतिष्ठोपपत्तेरेव प्रपञ्चनम् ... २१२ 'अन्यस्य च' इत्यादिना, ईश्वरस्यानन्यत्वेSपि राजादेरन्यस्य सत्वा- त्कथं भयनिवृत्तिरित्याशङ्कय, राजादिप्रपञ्चस्याप्यविद्याकृतत्वे सति विदुषो विद्यया तस्मिन्नवस्तुत्वदर्शनमुपपद्यते, तथा चान्यत्वेन प्रती- यमानस्य प्रपञ्चस्य विद्वद्दष्टया असत्वान्न ततो भयप्रसक्तिरिति क- थनम् ... २१३ 'तद्धि' इत्यादिना, उक्तार्ये दृष्टान्तप्रदर्शनम् २१३ 'नैवम्' इत्यादिना, यथा दोषरहितचक्षुष्मता द्वितीयश्चन्द्रो न ग्रह्यते, एवं द्वैतं विदुषा न ग्रह्यत इति न, किं तु गृह्यत एव, अन्यथा विदुषः शास्त्रार्थोपदेशादी प्रवृत्त्यभावप्रसङ्गादिति दृष्टान्तवैषम्याशक्का २१३ 'न' इत्यादिना, जागरे विदुषो जगतो दर्शनेऽपि तस्याभासरूपत्वान्न तन्द्रयकारणम्, न हि मायावी स्वविरचितव्याघ्राभासाद्विभेति, किं च सुषुप्ताद्यवस्थायां न तावद्वैतस्य ग्रहोऽस्ति; अतो द्वैतस्य कदाचिब्रहेSपि कदाचिदग्रहणान्न वैषम्यमिति शक्कासमाधानम् ... २१३ 'सुषुप्ते अग्रहणम्' इत्यादिना, यथा इषुकारः इष्वासक्तमनस्तया तद्यतिरिक्तं विद्यमानमपि न पश्यति, तथा सुषुप्ेऽपि निरायास- सुखासक्तचित्ततया सदपि द्वैतं न पश्यति न त्वभावादिति सुषुपते द्वैताग्रहणं न तदसत्त्वप्रयुक्तमिति शङ्का ... २१३ 'न' इत्यादिना, अन्यासक्तस्य तद्वयतिरिक्तादर्शनेSपि तद्दर्शनमस्त्येव, सुषुसे तु न किंचिदवेदिषमिति प्रत्ययात्सुखस्यात्मतादात्म्यात्, अज्ञानस्य च व्यतिरिक्तत्वेनानिर्वचनीयत्वात्तात्विकद्वितीयाभावा- देवाग्रहणमिति दृष्टान्तवैषम्येण शङ्कानिराकरणम् २१३ 'जाग्रत्स्वप्नयोः' इत्यादिना, यदि सुषुपते द्वैतस्याग्रहणादसत्त्वम्, त्हि जाग्रत्स्वप्नयोर्ग्रहणात्तस्य सत्त्वं किं न स्यादिति शक्का ... २१३ 'न, अविद्याकृतत्वात्' इत्यादिना, अविद्याभावे द्वैतोपल्धिः तद- भावे च द्वैतोपलब्ध्यभाव इत्यन्वयव्यतिरेकाभ्यां द्वैतस्याविद्याकृत- त्वावगमान्न तस्य सत्त्वमिति शक्कापरिहारः .. २१४ 'सुषुप्ते Sग्रहणमपि' इत्यादिना, अविद्यायां सत्यां गृह्यमाणं द्वैतं यदि

Page 83

[ ७३ ]

कल्पितम, तर्हि सुषुप्ते स्वयमेव प्रकाशमानं ब्रह्मापि कल्पितं स्यात्, तदाप्यविद्यायाः सत्वादिति शङ्का २१४

'न' इत्यादिना, यथा मृदादिद्रव्यस्य यदविकृतं मृत्स्वरूपमस्ति तत्तस्य तत्त्वम् अनृतविलक्षणं स्वरूपम्, कुलालादिकारकानपेक्षत्वात् ; तस्यैव यद्विकृतं घटादिरूपं तत्तस्यातत्वमनृतम्, कारकापेक्षत्वात्; यथा वा शुक्त्यादेरन्यानपेक्षं यच्छुक्त्यादिस्वरूपं तत्तस्य तत्त्वम्, अज्ञानादिदोषापेक्षं यद्रजतादिरूपं तत्तस्यातत्वम् ; एवं ब्रह्मणो यदन्यानपेक्षं परमार्थसत्यमद्वैतं रूपं तत्तस्य तत्त्वम्; यदवि- द्यादिसापेक्षं विकारात्मकं जगद्रूप तदनृतम्; इदमेव मिथ्या- भूतं रूपं जागरत्स्वप्नयोः प्रत्यक्षादिना ग्रृह्यते न परमार्थसत्यम्, तथा च सुषुप्ते प्रकाशमानं ब्रह्म अन्यानपेक्षस्वभावत्वान्नाविद्याकृतमिति दृष्टान्तप्रदर्शनपूर्वकं संग्रहविवरणाभ्यां समाधानम् ... २१४

'यद्धि' इत्यादिना, द्रव्यस्य हीत्यादिना प्रपञ्चितस्यार्थस्य संक्षपेण कथनम् .. २१५ 'तस्मात्' इत्यादिना, उक्तस्योपसंहारः २१५

'येषां पुनः' इत्यादिना, येषां मते जीवादन्यः परः जगच्चान्यत् तेषां मते विदुषो भयनिवृत्तिर्न स्यात् भयह्ेतोरन्यस्येश्वरस्य सत्वात्, तथा च तत्पक्षे अभयप्रतिष्ठावचनं नोपपद्यत इति भेदपक्षे दोषकथनम् २१६

'सतश्च' इत्यादिना, परमार्थतोऽन्यस्यापि सत ईश्वरस्य विद्यया नाश- संभवात्स्यादेव भयनिवृत्तिरित्याशङ्कय, यथा शशशृङ्गादेरसत उत्प- त्तिर्न संभवति, एवं सत ईश्वरस्य नाशोऽपि नोपपद्यत इति कथनम् २१६

'सापेक्षस्यान्यस्य' इत्यादिना, अन्यस्य सत ईश्वरस्य न सत्ताम/त्रेण भयहेतुत्वम्, किं तु प्राणिकर्मसापेक्षस्यैव; विदुषस्तु कर्माभावाद- भयं भविष्यतीति शङ्का ... २१६

'न ; तस्यापि' इत्यादिना, सांख्यमने धर्मांदेः प्रकृतिपरिणामस्य प्रकृ- त्यात्मना नित्यत्वाभ्युपगमेन, नैयायिकादिमते धर्मादेर्जीवगतस्य जीवत्वादौ कारणे सति सत्त्वस्यावश्यमभ्युपेयत्वेन तस्यापीश्वरतुल्य- त्वान्न ततो भयनिवृत्तिः संभवतीति संग्रहविवरणाभ्यां शङ्कानिरा- करणम् ... २१६ 'आत्मद्दाने वा' इत्यादिना, यथा शशशृ्गस्यासतः सत्वापत्तौ अस- *T.08

Page 84

[७४]

त्स्वभाववैपरीत्यम्, एवं परमार्थसतोSपि धर्मादेर्नाशेनासत्वापत्तौ स्व- भाववैपरीत्यमापद्यते; तथा च सदसतोरितरेतरापत्तावभ्युपगम्यमा- नायाम् आकाशादेरपि असत्त्वप्रसङ्ग इति बाधकप्रदर्शनम् ... २१६ 'एकत्वपक्षे' इत्यादिना, जीवेश्वरभेदादिलक्षणस्य सनिमित्तस्य संसा- रस्य भ्रन्तिसिद्धत्वाद्विद्यया तन्निवृत्तावभयं विदुषः संभवतीति स्वमते भयनिवृत्त्यनुपपत्तिदोषो नास्तीति कथनम् ... २१७ 'तैमिरिकदृष्टस्य' इत्यादिना, जीवपरयोरभेदपक्षेऽपि पूर्वमसतः संसा- रस्याविद्यादिकारणवशात्सत्वापत्तिः, विद्यया सतश्रासत्वापत्तिरिति स्वभाववैपरीत्य प्रसङ्गदोषस्तुल्य इति शङ्कायाम्, चन्द्रद्वित्वादिवदनि- र्वचनीयस्यानादिकालमारभ्य स्थूलसूक्ष्मरूपेणानुवर्तमानस्य संसार-

पत्तिः असत उत्पत्यनुपगमात्; उत्पन्नस्यापि संसारस्यात्मवत्सत्वा- नुपगमाच्च नोक्तशङ्केति कथनम् ... २१७

'विद्याविद्ययोः' इत्यादिना, आत्मन्यविद्यया भयप्रतीतिर्विद्यया च तन्निवृत्तिरित्यङ्गीकारे विद्याविद्ययोरात्मधर्मत्वं स्वीकृतं स्यात्, तत- श्र विद्याविद्योत्पत्तिनाशाभ्यामात्मनो विकारित्वमनित्यत्वं च प्रस- ज्येतेति शङ्का ... २१७ 'न; प्रत्यक्षत्वात्' इत्यादिना, विद्याविद्ययोर्द्टश्यत्वान्न हय्रूपात्मधर्मत्वं संभवतीति शङ्कानिराकरणम् .. २१७

'विवेकाविवेकौ' इत्यादिना, विद्याविद्ययोः स्वरूपकथनपूर्वक प्रत्यक्ष- त्वहेतोः साधनम् .. २१७

'अविद्या च' इत्यादिना, विद्याविद्ययोः प्रत्यक्षेणोपलभ्यमानत्वस्य प्रपञ्चनम् २१८ 'तस्मात्' इत्यादिना, विद्याविद्ययोरन्तःकरणधर्मत्वप्रतिपादनपूर्वकमा- त्मधर्मत्वनिराकरणोपसंहारः .. २१८

'नामरूपयोः' इत्यादिना, नामरूपयोर्ब्रह्मणश्र मिथो विलक्षणत्वे श्रुति- प्रदर्शनम् ... २१८ 'ते च पुनः' इत्यादिना, अनाद्यविद्या अन्तःकरणरूपेण परिणमते, तच्चान्तःकरणं तामससात्विकावस्थाभेदेन भ्रान्तिसम्यग्ज्ञानाकारेण परिणमते; तस्मिन्प्रतिबिम्बित आत्मा स्वोपाधिधर्मेणैव भ्रान्तः

Page 85

[७५]

सम्यग्दर्शीति च व्यवह्ियते, न तस्य तश्वतो विद्याविद्यावत्वमिति सदष्टान्तं कथनम् .. २१९

'अभेदे इत्यादिना, जीवब्रह्मणोरभेदपक्षे 'एतमानन्दमयमात्मानमु- पसंक्रामति' इत्यत्र कर्मकर्तृत्वानुपपत्तिरिति पूर्वोक्तानुपपत्तिमनूद्य, अन्नमयादिष्वात्मत्वेन यो भ्रमस्तस्य ब्रह्मात्मैकत्वज्ञानेन निवृत्तिरे- वात्र संक्रमणं विवक्षितम्, न प्राप्त्यादिः; अतो न कर्मकर्तृत्वानु- पपत्तिरिति निरसनम् ... २१९ 'न जलूकावत्' इत्यादिना, संग्रद्विवरणम् ... २१९

'ननु' इत्यादिना, किमिति संक्रमणं गौण्या वृत्या ज्ञानकृतभ्रान्ति- निवृत्तिमात्रमिति व्याख्यातम्१ प्रसिद्धमेवोपसंक्रमणं किं न स्यात्- इति शङ्कामनूद्य, यथा एकतृणस्थाया जलूकायास्तृणान्तरप्राप्तिरूपं संक्रमणम्, यथा वा पक्ष्यादीनां नीडादिप्रवेशरूपं संक्रमणं दृश्यते, नैवं ब्रह्मविदः शरीरस्थस्य बाह्यादस्माल्लोकादन्नमयसंक्रमणं दृश्यते; अतः प्रसिद्धसंक्रमणासंभवादेवं व्याख्यातमिति संग्रहविवरणाभ्यां समाधानम् ... २१९

'मनोमयस्य' इत्यादिना, यथा मनो बुद्धिर्वा स्ववृत्तिद्वारेण विषयपर्य- न्तं गत्वा ततः प्रत्यावृत्त्य स्वात्मानमुपसंक्रामति, तथानन्दमयोSपि मनोद्वारा बहिर्भूत्वा ततो निष्क्रम्यात्मानं प्रविशतीति मुख्यसंक्रमण- संभवान्मुख्यमेव किं न स्यादिति शङ्का ... २१९ 'न; स्वात्मनि' इत्यादिना, कर्मकर्तृभावस्यैकत्र विरुद्धत्वान्नैवमिति शङ्कानिरसनम् ... २२० 'अन्योऽन्नमयम्' इत्यादिना, एवंविदन्नमयमुपसंक्रामतीति प्रकृत्य मनोमयो मनोमयमुपसंक्रामतीत्यर्थकल्पने प्रक्रमविरोधाच्च यथा म- नोमयादावात्मसंक्रमणं नोपपद्यते तथानन्दमयेऽपि नोपपद्यत इति कथनम् ... २२० 'तस्मात्' इत्यादिना, संक्रमणस्य प्राह्यादिरूपत्वनिराकरणोपसंहारः ... २२०

'नापि' इत्यादिना, स्वात्मनि क्रियाविरोधादानन्दमयसंक्रमणमानन्द- मयकर्तृकं न भवतीति चेत् तर्हि अन्नमयाद्यन्यतमकर्तृकमस्त्विति शङ्कायाम्, अन्नमयादिकोशान्यतमस्य कर्तृत्वेनाश्रवणान्न तत्कर्तृक- मिति शङ्कानिरसनम् .. २२० *T. 0 8a

Page 86

[७६]

'पारिशेष्यात्' इत्यादिना, प्रकृतसंक्रमणशब्दार्थस्योपपन्नत्वकथनम् ... २२० 'ज्ञानमात्ने च' इत्यादिना, वस्तुतः सर्वान्तरस्य ब्रह्मणो जगत्सुष्टानु- प्रविष्टत्वेन श्रुतस्य बुद्धिसंबन्धाद्योऽयमन्नमयादिष्वात्मत्वभ्रमः स मुमुक्षोः कोशविवेकक्रमेणात्मतत्वसाक्षात्काराद्यतः समूलो विन- श्यति, अतो विद्याफलत्वेन विवक्षितं संक्रमणमौपचारिकमेव न मुख्यम्, मुख्यार्थस्यानुपपत्तेरिति संक्रमणमौपचारिकमित्यत्नोपपत्ति- प्रदर्शनम् .. २२१ 'वस्त्वन्तराभावाच्च' इत्यनेन, विदुषः स्वव्यतिरिक्तवस्त्वभावान् विद्वत्कर्तृक मुख्यसंक्रमणं संभवतीति मुख्यसंक्रमणासंभवे हेत्वन्तर- कथनम् .. २२१ 'न च' इत्यादिना, स्वात्मकर्मकमेव तर्हि संक्रमणमसत्विति शङ्कायाः सोदाहरणं निराकरणम् २२१ 'तस्मात्सत्यम्' इत्यादिना, उपसंहारव्याजेन प्रकरणस्य मुख्यतात्पर्य- कथनम् २२२ 'तमेतम्' इत्यादिना, 'यतो वाचः' इति मन्त्रस्य विद्याफलप्रदर्शन- परत्वेनावतरणम् .. २२२ 'सर्वस्यैव' इत्यादिना, न केवलमयं मन्त्रो विद्याफलपरः, किं तु कृत्स्न- वल्ल्यर्थोपसंहारपरश्चेति तात्पर्यान्तरकथनम् २२२

नवमोऽनुवाक: .. २२३ -- २२९

'यतो यस्मात्' इत्यादिना, 'यतो वाचो निवर्तन्ते। अप्राप्य' इति श्लोकभागस्य विवरणम् ... २२३

'मन इति' इत्यादिना, 'मनसा सह' इत्यत्र विद्यमानस्य मनः- शब्दस्य शब्दजन्यज्ञानार्थकत्वेन विवरणम् .. २२४

'तच्च' इत्यादिना, 'मनसा सह' इत्यत्र सहशब्दोक्तस्य वाऊपनसयोः सहभावस्योपपादनम् ... २२४ 'तस्माद्वह्मप्रकाशनाय' इत्यादिना, वाब्बनसयोः सहैव निवृत्तेः कथनम् २२४ 'तं ब्रह्मण आनन्दम्' इत्यादिना, 'आनन्दं ब्रह्मणो विद्वान्' इत्या- देर्विवरणम् ... २२५ 'मनोमये च' इत्यादिना, विशुद्धब्रह्मप्रतिपादकोयं मन्त्रः कथमब्र- हणि मनोमये उदाहृतः, कथ वा तत्र भयनिमित्तनिषेघमकृत्वा

Page 87

['0]

भयमात्रनिषेधः कृत इति शङ्कायाम्, मनोमयशब्दवाच्यस्यास्मदा- दिमनसः ब्रह्मविज्ञानसाघनत्वेन मनसि ब्रह्मत्वमारोप्य मनोमयेSयं मन्त्र उदाहृतः ; 'मनो ब्रह्म' इति मनोमयोपासनस्य साक्षान्द्रय- निरसने सामर्थ्याभावान्मनोमयोपासनस्तुत्यर्थ भयमात्रं निषिद्धम्; इह त्वद्वितीयं ब्रह्मानन्दं प्रमाणेन विजानतो द्वैतावशेषासंभवान्भ्रय- कारणमेव नास्तीति भयनिमित्तनिषेध: कृतः ; अतो नोक्तशङ्केति कथनम् ... २२६ 'नन्वस्ति' इत्यादिना, 'न बिभेति कुतश्चन' इति यदुक्त तदयु- क्तम्, भयनिमित्तयोः साध्वकरणपापकरणयोः सत्वादित्याक्षेपपरि- द्ारपरत्वेनोत्तरवाक्यस्यावतरणं विवरणं च ... २२६

'कस्मातपुनः' इत्यादिना, विदुषस्तापाभावे हेतुप्रतिपादनपरत्वेन 'स य एवंविद्वान्' इत्यादिवाक्यस्य प्रश्नपूर्वकमवतरणं विवरणं च ... २२७ 'इति' इत्यादिना, 'इत्युपनिषत्' इत्यस्य विवरणम् .. २२८

'परं श्रेयः' इत्यादिना, उपनिषच्छब्दस्य प्रकारान्तरेणार्थकथनम् ... २२८

भृगुवल्ली ... २३०-२६७

प्रथमोऽनुवाक: २३०-२३६ 'सत्यं ज्ञानमनन्तम्' इत्यादिना, वृत्तानुवादपूर्वकं भृगुवल्ल्यास्तत्पर्य- कथनम् ... २३० 'आख्यायिका' इत्यादिना, विद्यास्तुत्यर्थमुपाख्यानमित्याख्यायिकाता त्पर्यकथनम् .. २३१ 'भृगु:' इत्यादिना, 'भृगुर्वे वारुणिः' इत्यादिवाक्यद्वयस्य व्याख्या नम् ... २३१ 'अधीहि' इत्यादिना, 'अधीहि इत्यादितृतीयवाक्यस्य मन्त्रात्मकस्य गुरूपसदने विनियोगप्रदर्शनम् .. २३२ 'स च पिता' हत्यादिना, 'तस्मा एतत्' इत्यादिवाक्यद्वयस्य विवर- णम् .. २३२ 'ब्रझ्मोपलब्धौ' इत्यादिना, ब्रह्म मां ज्ञापयेति प्रष्ट्रे भृगवे कथमन्नादि- संकीर्तनमिति शङ्कायाम्, शाखाग्रे चन्द्र इत्यत्र यथा चन्द्रदर्शने समीपवर्तिनी शाखा लक्षकत्वेन द्वारं तथान्नमयप्राणमयमनोमयको-

Page 88

[७८]

शोपादानकारणान्नप्राणमनांसि चक्षुरादीन्यपि गुद्ानिहितब्रह्मदर्शने तदुपलक्षकाणि द्वाराणि; अतो नोक्तशङ्केति कथनम् .. . २३२ 'उक्त्वा च' इत्यादिना, उक्तानुवादपूर्वकम् 'यतो वा' इत्यादे- स्तात्पर्यकथनं तद्विवरणं च ... २३२ 'उत्पत्तिस्थितिलयकालेषु' इत्यादिना, विवक्षितस्य लक्षणवाक्यार्थस्य कथनम् ... २३३ 'तङ्गह्म' इत्यादिना, 'तद्विजिज्ञासस्व' इत्यादेर्विवरणम् .. २३३

'यदेवं लक्षणम्' इत्यादिना, 'तद्विजिज्ञासस्व' इत्यादेस्तात्पर्यकथनम् २३३

'श्रुत्यन्तरं च' इत्यादिना, अन्नादेर्ब्रह्मोपलब्धिद्वारत्वे श्रुत्यन्तरसंमति- प्रदर्शनम् २३३ 'स भृगु:' इत्यादिना, 'स तपोऽतप्यत' इत्यस्यार्थकथनम् .... २३४

'कुतः पुनः' इत्यादिना, तपसो ब्रह्मविज्ञानसाधनत्वं पित्रा अनुक्तं कुतो भृगुणा निश्चितमिति प्रश्नः ... २३४

'सावशेषोक्त:' इत्यनेन पित्रानुक्तस्य तपसः ज्ञानसाघनत्वेन ग्रहणे कारणं सावशेषोक्तिरित्युत्तरकथनम् ... २३४

'अन्नादि' इत्यादिना, गुरूक्तार्थानुवादपूर्वकं हेतुतद्विवरणनिर्देशद्वारा तदुक्ते: सावशेषत्वसाधनम् .. . २३४ 'अतः' इत्यादिना, सावशेषोक्त्या ब्रह्मविज्ञाने साधनान्तरप्रतिपत्ति- प्रकारप्रदर्शनम् .. २३५ 'तपोविशेषप्रतिपत्तिः' इत्यादिना, ब्रह्मज्ञानं प्रति योग्यं साधनान्तरं पितुरपेक्षितमस्तु, तथापि तत्साधनान्तरं तप एव पितुराशयस्थ- मिति कस्मादवगतमित्याशङ्कय, तपोविशेषस्य ब्रह्मप्रतिपत्तौ साध- कतमत्वात्तप एव साधनान्तरमिति प्रतिपत्तिर्भृगोरिति कथनम् ... २३५

'सर्वेषां हि' इत्यादिना, तपसः साधकतमत्वस्य साघनपूर्वकं संग्रहवि- वरणम् .. २३५ 'तस्मात्' इत्यादिना, उक्तस्योपसंहारः २३५

'तच्च' इत्यादिना, तपः शब्दार्थस्य विवरणम् २३५ ...

'मनसश्च' इत्यादिना, बाह्यान्तःकरणसमाधानं तप इत्यत्र स्मृतिप्रद- र्शनम् ... २३६

Page 89

[७९]

'स च' इत्यादिना, 'स तपस्तप्त्वा' इत्यस्यानुवादः ... २३६ द्वितीयोऽनुवाक: .... २३७-२३९ 'अन्नं ब्रह्मेति' इत्यादिना, अन्नस्य यतो वा भूतानीति ब्रह्मलक्षणो- पेतत्वादन्नं ब्रह्मेति प्रतिपन्नवानिति 'अन्नं ब्रह्मेति व्यजानात्' इत्य- स्य विवरणम् ... २३७ 'कथम्' इत्यादिना, प्रश्नपूर्वकम् 'अन्नाद्धयेव' इत्यादिवाक्यानामन्ने ब्रह्मलक्षणसत्त्वसाधकत्वेन कथनम् ... २३७ 'तस्मात्' इत्यादिना, अन्नस्य ब्रह्मत्वसाधनोपसंहारः ... २३७ 'स एवम्' इत्यादिना, 'तद्विज्ञाय' इत्यादेर्व्यांख्यानम् .. २३७ 'तपसः पुनः पुनः' इत्यादिना, असकृत् 'तपसा ब्रह्म विजिज्ञासस्व' इति वचनस्य तात्पर्यप्रदर्शनम् ... २३७ 'एवं सर्वत्र' इत्यनेन, . प्रथमपर्यायस्थस्य 'तद्विज्ञाय' इत्यादिवाक्य- व्याख्यानस्यान्यत्रातिदेशः २३८ 'ऋज्वन्यत्' इत्यनेन 'प्राणो ब्रह्मेति व्यजानात्' इत्यादिवाक्यार्थस्य स्वयमेव बोद्धुं शक्यत्वान्न तानि वाक्यानि व्याख्यातानीति कथनम् २३८ तृतीयोऽनुवाक: २४० ... चतुर्थोऽनुवाक: २४१ .. पञ्चमोऽनुवाकः २४२ षष्ठोऽनुवाक: .... २४३ -- २४५ 'एवं तपसा' इत्यादिना, 'आनन्दो ब्रह्मति व्यजानात्' इत्यस्य विवरणम् ... २४३ 'तस्मात्' इत्यादिना, फलितस्य प्रकग्णार्थस्य कथनम् २४४ 'अधुना' इत्यादिना, 'सैषा' इत्यादिवाक्यद्वयस्य तात्पर्यकथनपूर्वकं व्याख्यानम् .... २४४ 'य एवम्' इत्यादिना, 'य एवं वेद ' इत्यादेर्विवरणम् ... २४४ 'दृष्ट च' इत्यादिना, अन्नवानित्यादेस्तात्पर्यकथनपूर्वकम् 'अन्नवान्' इत्यस्य विवरणम् .. २४५

Page 90

[८0]

'अन्यथा' इत्यादिना, अश्रुतं प्रभूतत्वविशेषणं कथं निक्षिप्यत इति शङ्कायाम्, प्रभूतत्वविशेषणं विना अन्नसत्तामाले विवक्षिते सर्वो- डपि जन्तुः शरीरस्थित्याक्षिप्तेनान्नेनान्नवानिति विद्यायाः फलवि- शेषोऽनुक्त: स्यात्; अतो विद्याबलाद्विदुषोSन्ने विशेषसिद्धयर्थ प्रभूतत्वविशेषणमावश्यकमिति कथनम् ... २४५ 'एवमन्नमत्ति' इत्यादिना, 'अन्नादो भवति' इत्यादेर्विवरणम् २४५

सप्तमोऽनुवाक: .. २४६-२४९

'किं चान्नेन द्वारभूतेन' इत्यादिना, अन्नस्य ब्रह्मज्ञानहेतुत्वेन गुरुवद- निन्दनमन्नोपासकस्य व्रतमिति 'अन्नं न निन्द्यात्' इत्यादिवाक्य- द्वयस्य तात्पर्यमिति कथनम् ... २४६

'व्रतोपदेशः' इत्यादिना, ब्रह्मविदः कर्तव्याभावात्कथं तस्यानुष्ठेयतय। व्रतस्योपदेश इति शङ्कायाम्, अन्नस्य ब्रह्मोपलब्ध्युपायत्वेन स्तुति- भाक्त्वात् स्तुत्यर्थ व्रतोपदेशः; अतो नोक्तशङ्केति कथनम् ... २४६ 'प्राणः' इत्यादिना, प्राणस्यान्नत्वकथनम् .. २४६ 'शरीरेडन्तर्भावात्' इत्यादिना, प्राणस्य कथमन्नत्वमित्याशङ्कय, यथा भुक्तमन्नं शरीरस्यान्तर्भवति तथा शरीरमध्ये प्राणस्यावस्थानादन्न- त्वमिति प्रसिद्धान्नद्टष्टान्तेन प्राणस्यान्नत्वसाघनम् ... २४६ "यद्यस्य' इत्यादिना, अत्र विवक्षितव्याप्तेः प्रदर्शनम् .. २४६

'शरीरे च' इत्यादिना, प्राणो वा अन्नम्' इत्यत्र हेतुप्रतिपादकस्य 'शरीरे प्राणः प्रतिष्ठितः' इति वाक्यस्य 'प्राणो वा अन्नम्' इति वाक्येन योजनम् .. २४७ 'तथा' इत्यादिना, 'प्राणे शरीरं प्रतिष्ठितम्' इति वाक्यसंगत्यर्थे श्रतावपेक्षितस्य पूरणम् ... २४७

'तन्निमित्तत्वात्' इत्यादिना, प्राणमध्ये शरीरस्यावस्थानाभावात्कथं शरीरस्यान्नत्वमित्याशङ्कय, प्राणे शरीरस्यान्तर्भावाभावेSपि प्राणाघी- नस्थितिकत्वमात्नेण शरीरस्यान्नत्वं विवक्षितमिति कथनम् ... २४७

'तस्मानदेतत्' इत्यादिना, 'तदेतदन्नमन्ने प्रतिष्ठितम्' इत्यस्य ग्या- ख्यानम् ... २४७ 'स य एवम्' इत्यादिना, 'स य एतदन्नमन्ने' इत्यादेर्विवरणम् ... २४७

Page 91

[८१]

अष्टमोऽनुवाकः २४८-२४९ 'अन्नं न परिचक्षीत' इत्यादिना, शरीरप्राणयोरन्नान्नादत्वेनोपासकस्य प्राप्तान्नाप्रत्याख्यानं व्रतमिति 'अन्नं न परिचक्षीत इत्यादिवाक्य- द्वयस्यार्थकथनम् २४८ 'पूर्ववत्' इत्यादिना, व्रतोपदेशः पूर्ववत्स्तुत्यर्थ इति कथनम् २४८ 'तदेव' इत्यादिना स्तुतिलाभप्रकारस्य प्रदर्शनम् २४८ 'एवं यथा' इत्यादिना, 'प्राणो वा अन्नम्' इत्यादिवाक्यव्याख्यान- प्रकारस्य 'आपो वा अन्नम्। ज्योतिरन्नादम्' इत्यादिष्वतिदेशः २४८

नवमोऽनुवाक: ... २५० 'अप्सु ज्योतिः' इत्यादिना, अपां ज्योतिषां चान्नान्नादत्वेनोपासकस्या- न्नबहूकरणं व्रतमिति 'अन्नं बहु कुर्वीत' इत्यादेरर्थकथनम् २५० दशमोऽनुवाक: ... २५१-२६७ 'तथा पृथिव्याकाशोपासकस्य' इत्यादिना, 'न कंचन वसतौ' इत्यादेर्व्याख्यानम् ... २५३ 'यस्मात्' इत्यादिना, बह्मन्नसंग्रहे वसत्यर्थमागतानाम प्रत्याख्यानरूपं व्रतमेको हेतुरुक्त :; तत्रैव विद्वदाचाररूपहेत्वन्तरप्रतिपादनपरत्वेन 'अराध्यस्मै' इति वाक्यस्य विवरणम् १५३ 'अपि च' इत्यादिना, यथावयः यथाश्रद्धं यथोपचारं दत्तमन्नं तथैव प्राप्नोतीत्यन्नदानविशेषस्य फलविशेषप्रदर्शनपरत्वेन 'एतद्वै मुखतः' इत्यादिवाक्यस्य तात्पर्यवर्णनम् ... २५३ 'एतद्वा अन्नम्' इत्यादिना, 'एतद्वा' इत्यादिवाक्यानां विव- रणम् २५३ 'इदानीम्' इत्यादिना, 'क्षेम इति वाचि' इत्यादेस्तात्पर्यकथनपूर्वकं व्याख्यानम् .. २५४ 'अथ अनन्तरम्' इत्यादिना, 'अथ दैवीः' इत्यादिवाक्यानां विवरणम् ... २५५ 'एवं पूर्वेष्वपि' इत्यादिना, 'क्षेम इति वाचि' इत्यादौ यत्फलं क्षेमा- दिक श्रुतं तद्रूपेण ब्रह्मैवोपास्यमित्युक्तम्, क्षेमादिरूपेण ब्रह्मोपास- *T.09

Page 92

नात्क्षेमादिमानेव भवतीति प्रतिष्ठागुणकब्रह्मोपासने दर्शितन्यायस्य पूर्वेष्वप्युपासनेषु प्रदर्शनम् ... २५५

'तं यथा' इत्यादिना, तत्तद्रुणविशिष्टत्वेनोपासनस्य तत्तत्फलं भवती- त्यत्र श्रुत्यन्तरसंमतिप्रदशर्नम् २५६

'तन्महः' इत्यादिना, 'तन्मह इत्युपासीत' इत्यादीनां विवरणम् ... २५६

'परिमर: परिम्रियन्ते' इत्यादिना, आकाशस्य परिमरत्वगुणोपपादनाय वायोरादौ संवर्गश्रुत्यवष्टम्भेन परिमरत्वकथनम् २५६

'स एवायम्' इत्यादिना, आकाशस्य परिमरत्वसाधनपूर्वकं वाक्या- र्थस्य कथनम् .. २५६

'परि एनम्' इत्यादिना, 'पर्येणं म्रियन्ते' इत्यादेर्विवरणम् २५६

'प्राणो वा अन्नम्' इत्यादिना 'प्राणो वा अन्नम्' इत्यारभ्य 'आका- शोऽन्ादः' इत्यन्तग्रन्थेन प्राणशरीरादेरन्नान्नादत्वमुक्तम्, तदुक्ते- स्तात्पर्ये कथयितुं तस्यानुवाद: २५७

'उक्तं नाम' इत्यादिना, उक्तमस्तु नाम, किं तेनोक्तेन तव प्रयोजन- मिति प्रश्नमनूद्य भोक्तृभोग्यभावादिरूपः सर्वोऽपि संसारः कार्या- त्मकोपाघिघर्म एव न त्वात्मधर्मः, आत्मनि तु भ्रान्त्योपचर्यत इति आत्मनो नित्यमुक्तत्वं सिध्यतत्युत्तरकथनम् २५७ 'नन्वात्मापि' इत्यादिना, यदि संसारस्य कार्यनिष्ठत्वम् त्हि जीवा- त्मनोऽप्यनौपाधिकं संसारित्वं युक्तम्, तस्यापि कार्यत्वादिति शङ्का २५७ 'न' इत्यादिना, असंसारिण: परस्यैव जीवरूपेण प्रवेशश्रवणेन परजी- वयोरेकत्वावगमान्नात्मनः कार्यत्वमिति शङ्कापरिहारः .. २५७

'तत्सृष्टा' इत्यादिना, संग्रहस्य विवरणम् ... २५७

'तस्मात्' इत्यादिना, परजीवयोरेकत्वस्योपसंहारः २५८

'सुष्टा' इत्यादिना, क्त्वाश्रुतिबलादपि जीवपरयोरेकत्वमिति संग्रहवि- वरणाभ्यां कथनम् २५८

'प्रविष्टस्य' इत्यादिना, बुद्यादिकार्येषूपादानतया सृष्टिसमय एव सि- द्धस्य परस्य जीवरूपभावान्तरात्मना परिणतिरेव प्रवेशः, अतो न प्रवेशश्रवणेन जीवस्य कार्यत्वहानिरिति शक्का ... २५८

Page 93

[ ८३ ]

'न' इत्यादिना, अस्य चोदयस्य निरासपूर्वकं परस्य बुद्धिसंबन्धाद्वष्ट- त्वादिरूपेण भानमेव प्रवेशपदार्थ इति प्रवेशपदस्यार्थान्तरपरत्वेन व्याख्यातत्वान्नोक्तशङ्केति कथनम् ... २५८ 'अनेन जीवेन' इत्यादिना, जीवरूपविकारात्मनैव परस्य प्रवेशः न त्वविकृतस्य, अन्यथा 'जीवेन' इति विशेषणवैयर्थ्यापत्तेरिति छान्दोग्यश्रुतिमवलम्ब्य शङ्का २५८ 'न' इत्यादिना, जीवस्य विकारत्वे वाक्यशेषे तस्य व्रह्मैक्योपदेशवि- रोघान्नोक्तशङ्गेति कथनम् २५८ 'भावान्तरापन्नस्य' इत्यादिना, भ्रान्त्या देहादिभावमापन्नस्य जीवस्य ब्रह्मव्यतिरिक्तस्यैव ब्रह्मदृष्टिरुपदिश्यते संसारित्वापोहार्था, अतः 'तत्वमसि' इत्युपदेशस्यान्यार्थत्वान्न जीवस्य पारमार्थिकमसंसारि- ब्रह्मात्मत्वमिति शक्का ... २५८ 'न' इत्यादिना' अबाधिततत्पदमुख्यसामानाधिकरण्यविरोधात्तत्वम- सीति वाक्यस्य संपदुपासनापरत्वं कल्पयितुं न शक्यत इति सभा- घानम् .. २५८ 'दृष्टम्' इत्यादिना, संसारित्वग्राहकप्रत्यक्षविरोघादबाघितत्वमसिद्ध- मिति शङ्का ... २५९ 'न उपलब्धुः' इत्यादिना, आत्मनः संसारोपलब्धृत्वान्न संसारधर्मक- त्वम्, उपलभ्यमानस्य नीलपीतादेरुपलब्धृघर्मत्वादर्शनादिति समा- घानम् ... २५९ 'संसारधर्मविशिष्टः' इत्यादिना, अहं सुखी दुःखीति संसारघर्मविशिष्ट आत्मानुभूयते, तादृशानुभवविरोधान्न शाब्दमसंसारित्वज्ञानं प्रमाण- मिति शङ्का .. २५९

'न धर्माणाम्' इत्यादिना, धर्माणां घर्मिणोऽ्व्यतिरेकेण कर्मकर्तृत्ववि- रोघान्नैतद्युक्तमिति समाधानम् .. २५९

'उष्णप्रकाशयोः' इत्यादिना, अभेदे कर्तृकर्मभावानुपपत्तिरित्यत्र दृष्टा- न्तप्रदर्शनम् ... २५९ 'त्रासादिदर्शनात्' इत्यादिना, प्रत्यक्षविरोघाभावेऽपि संसारित्वग्राहका- नुमानविरोधो भवतीति शङ्का ... २५९

Page 94

[८४ ]

'न त्रासादेः' इत्यादिना, त्रासादेस्तदनुमेयदुःखादेश्र दृश्यत्वेन द्रष्टघ- र्मत्वासंभवान्नानुमानविरोध इति समाधानम् .. २५९

'कापिल' इत्यादिना, ब्रह्मात्मक्यं प्रतिपादयतः शास्त्रस्य तर्कशास्त्र- विरोधादप्रामाण्यमिति शङ्का २६०

'न तेषाम्' इत्यादिना, कापिलादिशास्त्रस्य पौरुषेयस्य मूलप्रमाणशू- न्यत्वेन वेदवत्स्वतःप्रामाण्यायोगाद्वेदविरोधे च तस्यैवाप्रामाण्यमिति न तद्विरोधाच्छृत्य प्रामाण्यप्रसङ्क इति शङ्कानिराकरणम् ... २६० 'श्रुत्युपपत्तिभ्याम्' इत्यादिना, श्रुत्या उपपत्या आत्मनःपरेणैकत्वाच्च आत्मनोSसंसारित्वं सिद्धमित्युपपादितार्थस्योपसंहार: .. २६० 'कथम्' इत्यादिना, आत्मनो ब्रह्मणा सहैकत्वे प्रमाणत्वेनोत्तरग्रन्थस्थ प्रश्नपूर्वकमवतरणम् .. २६० 'स यश्चायं पुरुषे' इत्यादिना, आनन्दवल्लीस्थस्य 'स यश्चायम्' इत्यादेर्व्याख्यानस्यात्रातिदेशः .. २६०

'अन्नमयादिक्रमेण' इत्यादिना, अन्नमयादिक्रमेणोपसंक्रम्येत्यस्य व्यव. हितेन 'साम गायन्नास्ते' इत्यनेन संबन्धकथनम् .. २६०

'सत्यं ज्ञानमित्यस्याः' इत्यादिना, इमालोकानित्युत्तरग्रन्थस्य पूर्व- अ्रन्थेन संगति वक्तुं पूर्वग्रन्थे वृत्तस्यानुवादः ... २६०

'सोऽश्नुते' इत्यादिना, फलवचनार्थस्य विस्तरेणानुक्तत्वकथनम् ... २६१ 'के ते किंविषयाः' इत्यादिना, आकाङ्क्षापूर्वकमिमालोकानित्यादि- ग्रन्थस्यावतरणम् २६१

'तत्र' इत्यादिना, उत्तरग्रन्थस्य भृगुवल्लीपूर्वत्रन्थेनापि संगर्ति वक्तु भृगुवल्ल्यां वृत्तस्यार्थस्यानुवाद: २६१ 'एकत्वे पुनः' इत्यादिना, स्वस्य ब्रह्मणा एकत्वे साक्षात्कृते सति कामयितव्यस्य सर्वस्यात्मव्यतिरेकेणाभावात्कामान्प्रति कामित्वानुप- पत्तौ कथं युगपद्मह्मस्वरूपेण सर्वान्कामानेवंवित्समश्नुत इति फल- वचनमुपपद्यत इति फलवचने अनुपपत्तेरुद्भावनम् ... २६१ 'उच्यते' इत्यादिना, अविद्यालेशवशेन प्रपञ्चावभासमनुभवन्विद्वान् सर्वस्यात्माहमिति मन्यमानोऽणिमाद्ैश्वर्यभुजां योगिनां यत्कामा- त्नित्वं कामरूपित्वं चारिति, तन्ममैवेति पश्यन्युगपत्सर्वान्विषयान-

Page 95

[८५]

न्दानश्नुत इत्युपचर्यते; अतो न फलवचने उक्तानुपपत्तिरिति तात्पर्येण समाधानम् २६२

'कथम्' इत्यादिना, सर्वात्मत्वापत्तौ मानत्वेनोत्तरवाक्यस्य प्रश्नपूर्वक- मवतरणम् .. २६२

'पुरुषादित्यस्थ' इत्यादिना, 'इमालोकान्' इत्यादेर्व्याख्यानम् २६२

'कः पुनः' इत्यादिना, प्रश्नपूर्वकम् 'अह्मन्नम्' इत्यादेरवतरणं विवरणं च ... २६३

'त्रिरुक्तिः' इत्यादिना, अहमन्नमित्यादावभ्यासत्नितयस्य तात्पर्यकथनम् २६४

'अहमस्मि भवामि' इत्यादिना, 'अहमस्मि' इत्यादिवाक्यानां व्या-

ख्यानम् ... २६४

'अत्नाह' इत्यादिना, अन्नभूतं मामदत्त्वा भक्षयन्तमहमपि भक्षयामी त्युक्तत्वेन मुक्तेनादनीयो यो नास्तिकस्तस्य मुक्तोऽप्यदनीयो भवति, तस्यान्नभूतत्वात्; तथा च नास्तिकैर्व्याघ्रादिभिरिवाद्यस्य मुक्तस्य संसारादपि तीव्रतरं दुःखं प्रसज्येत; अतस्तदपेक्षया संसार एव कयानिति मुमुक्षो: श ... २६४

'मा भैषी:' इत्यादिना, सर्वकामाशनशब्दितस्यान्नान्नादभावलक्षणस्य सर्वात्मभावस्याविद्याकल्पितत्वादयं विद्वानविद्याकृतमन्नान्नादादिल क्षणं सर्वे विद्यया बाधित्वा ब्रह्मत्वमापन्नो वर्तते, अतो विद्वदृष्ठ्या वस्तुतो भयहेतोरभावान्न तस्य भयलेशोऽप्यस्तीति संग्रहविवरणाभ्यां शङ्कापरिहारः ... २६५

'एवं तर्हि' इत्यादिना, उक्तरीत्या मुक्तो यदि ब्रह्मभावमापन्नस्तर्हि हदम् 'अहमन्नमहमन्नादः' इति वचनं केनाभिप्रायेण प्रवृत्तमिति

पश्रः २६५

'उच्यते' इत्यादिना, ब्रह्मकारणकः अन्नान्नादादिलक्षणः प्रपञ्चः व्यव- हियमाणोSपि ब्रह्मव्यतिरेकेण वस्तुतो नास्तीति निश्चित्य स्थितस्य विदुषो विद्याफलभूतव्रझ्मभावस्य स्तुत्यर्थमन्नादिवचनमित्यन्नादिभा- वस्य संव्यवहारमात्रविषयत्वसाधनपूर्वकमन्नादिवचनस्य स्तुत्यभि- प्रायकत्वकथनम् .. २६५

'अतः' इत्यादिना, उक्तस्योपसंहारः ... . २६६

Page 96

[ ८ ६ ]

'अहं विश्वम्' इत्यादिना, 'अहं विश्वं भुवनम्' इत्यादेर्विवरणम् ... २६६

'इतीयम्' इत्यादिना, 'इत्युपनिषत्' इत्यस्यार्थकथनम् ... २६६

'तामेताम्' इत्यादिना, 'य एवं वेद' इत्यस्य विवरणम् .... २६६

क्रमेण भाष्यवाक्यानां वनमालानुसारतः । प्रायेण लिखितो भावः क्वचिदन्यानुसारतः ॥

प्रमादो यदि विद्येत बोधनीयो दयालुभिः। इति प्रार्थयतेऽत्यन्तं जी रामस्वामिनामकः ॥

Page 97

।। श्रीः ।।

।। उदाहरणस्थानसूचिका॥

उदाहृतवाक्यानि. श्रुत्यादीनां नामानि. तेषामध्यायखण्डादीनामङ्काः

अकुर्वन्विितं कर्म मनुस्मृतिः ९१. ४४.

अथ यत्रान्यत्पश्यति छान्दोग्योपनिषत् ७. २४. १. अदृश्येSनात्म्येSनिरुक्तेSनिलयने बृहदारण्यकोपनिषत् ३. ८. ८. अनेन जीवेनात्मनानुप्रविश्य छान्दोग्योपनिषत् ६. ३. २. अन्योSसावन्योSहमस्मीति बृहदारण्यकोपनिषत् १. ४. १०. अपाणिपादो जवनो श्वेताश्वतरोपनिषत् ३. १९. अविद्यया मृत्युं तीर्त्वा ईशोपनिषत् 2. असन्नेव स भवति बृहदारण्यकोपनिषत् २. ३. ६. आत्मैवेद५ सर्वे छान्दोग्योपनिषत् ७. २५. ९, उदरमन्तरं कुरुते छान्दोग्योपनिषत् ६. २. १. ऋचेSक्षरे परमे व्योमन् तैत्तिरीयब्राह्मणम् ३. १०. ९. एकमेवाद्वितीयं छान्दोग्योपनिषत् ६. २. १. एतस्मिन्खल्वक्षरे बृहदारण्यकोपनिषत् २. ८. ११. एतस्यैवानन्दस्यान्यानि " ४. ३. ३२. एतेनैवाय तेने नैकत र मन्वेति प्रश्नोपनिषत् ५. २. कथमसतः सजायेत छान्दोग्योपनिषत् ६. २. २. क्षेत्रज्ञं चापि मां विद्धि भगवद्गीता १३. २. ज्ञानमुत्पद्यते पुंसः भारते मोक्षधर्मः २०४. ८. तं यथा यथोपासते मुद्र लोपनिषत् ३. ततः शेषेण आपस्तम्बधर्मसूत्रम् २. २. ३. तत्केन कं पश्येत् बृददारण्यकोपनिषत् ४. ५. १५. तत्वमसि छान्दोग्योपनिषत् ६.८. ७. तत्सत्यम् ६. ८. ७.

Page 98

(२ )

तत्सृष्टा तदेवानुप्राविशत् बृहदारण्यकोपनिषत् ९. ४. १०.

तद्य इह रमणीयचरणा: छान्दोग्योपनिषत् ५. १०७.

तद्था शङ्कना " २. २३. ३. तपसा कल्मषं हन्ति पनुस्मृतिः १२. १०४. तयोर्ध्वमायन्नमृतत्वमेति कठापनिषत् ६. १६.

त्रिः प्रथमामन्वाह त्रिरुत्तमाम् तैत्तिरीयसंहिता २. ५. ७. न हि विज्ञातुर्विज्ञातेः बृहादारण्यकोपनिषत् ४. ३. ३०. नामरूपयोनिर्वहिता छान्दोग्योपनिषत् ८. १४. १. पञ्चाक्षरा पङ्गि: पाङ्को यशः तैत्तिरीयसहिता ६. १. १.

पुरुषे त्वेवाविस्तरामात्मा ऐतरेयोपनिषत् २. ३, २. ५. प्रव्रजिष्यन्वा अरे बृहदारण्य कोपनिषत् ४. ५. २.

प्राणस्य प्राणमुत बृहदारण्यकोपनिषत् . ४. ८.

बुद्धा कर्माणि कुर्वीत आपस्तम्बधर्मसूत्रम् २. २१ ५. ब्रह्मैवेदं सरवे नृसिंह तापनीयोपनिषत् २.

मध्यं ह्वेषामङ्गानामात्मा छान्दोग्योपनिषत् मनसश्चेन्द्रियाणां च भारते मोक्षधर्मः २५०. ४. महद्यक्षं प्रथमजं वेद बृहदारण्यकोपनिषत् ५. ४. १. मृत्योः स मृत्युमाप्नोति कठोपनिषत् २. १०.

यत्र नान्यत्पश्यति छान्दोग्योपनिषत् ७. २४. १.

यत्र नान्यद्विजानाति स भूमा " यत्र हि द्वैतमिव भवति बृहदारण्यकोपनिषत् ४. ५. १५.

यस्यं ज्ञानमयं तप: मुण्ड को पनिषत् १. १. ९. यावद् यस्मिक्शरीरे कौषीतक्युपनिषत् ३. २. यो वै स बहिर्धा छान्दोग्योपनिषत् ३. १२. ७.

वाचारम्भणं विकारो ६. ९. ४.

विद्वान्यजते तैत्तिरीय संहिता ९. ७. १.

विद्वान्याजयति ३. २. १. वेद: कृत्स्नोSधिगन्तव्यः मनुस्मृतिः २. १६५.

श्रातव्यः बृहदाराण्य कोपनिषत् २. ४. ५.

श्रोतव्यो मन्तव्यो " स एकघा छान्दोग्योपनिषत् ७. १६. २.

Page 99

( ३ )

सत्यं ज्ञानमनन्त ब्रह्म छान्दोग्योपनिषत् ६. ८. ७.

स यदि पितृलोककामः " ८. २. १. स यो ह वै तत्परमम् मुण्डकोपनिषत् ३. २. १. सर्वे वेदा यत्रैकं भवन्ति तैत्तिरीयारण्यकम् ३. २. ११. सूर्यद्वारेण ते विरजा मुण्डकोपनिषत् २. ११. सैषा पुरुषस्यापानमवष्टभ्य तलवकारोपनिषत् ३. ८. स्त्रीभिर्वा यानैर्वा छान्दोग्योपनिषत् ८. १२. ३.

Page 101

॥ तैत्तिरीयोपनिषत् ॥

यस्माज्जातं जगत्सर्व यस्मिन्नेव परलीयते। येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥ १॥

।। श्रीः ।।

विन्नेश्वरं विघ्नशान्त्यै वाणीं वाचः प्रवृत्तये। गुरून्गूढार्थभानाय प्रणमामि निरन्तरम् ॥ १॥

जगन्मङ्गलरूपाय सृष्टिस्थित्यन्तकारिणे। नमो लक्ष्मीसमेताय कृष्णाय परमात्मने ॥ २ ॥

परिपूर्ण नित्यशुद्धं निर्विशेषं स्वयंप्रभम्। सत्यानन्दस्वरूपं यत्तदहं ब्रह्म निर्भयम् ॥ ३॥

आचार्यस्य प्रसादेन पूर्वपुण्यैकजन्मना। तैत्तिरीयकभाष्यस्य व्याख्यां कुर्वेऽतिभक्तितः ॥४ ॥

तैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारः तत्प्रतिपादयं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन सामान्येनोपलक्षितं सत्यज्ञानादिना स्वरूपलक्षणेन विशेषतो निश्चितं नमस्करोति- यस्माज्जातमिति। ज्ञाना- त्मन इति स्वरूपलक्षणं सूचितम् ॥ १ ॥ *T.1

Page 102

२ तैत्तिरीयोपनिषदि [अनु.

यैरिमे गुरुभि: पूर्व पदवाक्यप्रमाणतः। व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ २ ॥ तैत्तिरीयकसारस्य मयाचार्यप्रसादतः । विस्पष्टार्थरुचीनां हि व्याख्येयं संप्रणीयते॥ ३॥

नित्यान्यधिगतानि कर्माणि उपात्तदुरितक्षयार्थानि, काम्यानि च

गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति- यै- रिति। इमे क्रमेण व्याख्येयत्वेन बुद्धिस्थाः । पदानि च वाक्यानि च प्रमा- णानि च पद्वाक्यप्रमाणानि। 'सोऽकामयत' इत्यादौ ब्रह्मसत्त्वसाधकतया विवक्षितान्यनुमानानि प्रमाणानि। तेषां पदवाक्यप्रमाणानां विवेचनपूर्वकं व्याख्याता इत्यर्थः । यद्वा पदं व्याकरणं तत्साधुत्वविचाररूपत्वात्, वाक्यं मीमांसा वेदवाक्यविचाररूपत्वात्, प्रमाणं न्यायशाखतरं प्राधान्येन प्रत्यक्षा- दिप्रमाणविचारात्मकत्वात्; ततश्च पदवाक्यप्रमाणैः साधनभूतैर्व्याख्याता इत्यर्थः ॥ २ ॥

चिकीर्षितं निर्दिशति-तैत्तिरीयकेति। ननु व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसंभवात्पदस्मारितपदार्थानां यथायोग्यं संबन्धस्यैव वाक्यार्थस्याव- गन्तुं शक्यत्वात्सूत्रकारेण वेदान्ततात्पर्यस्य निरूपितत्वाच्च व्यर्थः पृथगव्या- ख्यारम्भ इलाशङ्कयाह-विस्पष्टार्थेति। मन्दमतीनां स्वत एव निःशे- षपदार्थस्मरणासंभवादुपनिषद्वतनिःशेषपदार्थानां निःसंशयज्ञानं येभ्यो रोचते तेषामुपकारायेत्यर्थः ॥ ३॥

उपनिषद: कर्मकाण्डेन नियतपौर्वापर्यसूचितं संबन्धं विशिष्य खया- पयितुं कर्मकाण्डार्थ कीर्तयति- नित्यानीति। पूर्वस्मिन्प्रन्थे नित्यानि क- र्माणि संचितदुरितक्षयार्थत्वेनाधिगतानि; तैश्च नित्यैरिह जन्मनि जन्मा- न्तरेषु वानुष्ठितैः क्षीणपापस्य शुद्धान्तःकरणस्य कर्मानुष्ठानप्रयोजकाविद्याका- मपरिहारद्वारा मुक्तिसिद्धये इदानीमुपनिषदि ब्रह्मविद्या प्रस्तूयते निरूप्यत इत्यर्थः । तथा च कर्मणां ब्रह्मविद्यां प्रति चित्तशुद्धिद्वारा साधनत्वात्तत्प्रति-

Page 103

१.] शीक्षावल्ली। ३

फलार्थिनां पूर्वस्मिन्ग्रन्थे ; इदानीं कर्मोपादानहेतुपरिहाराय ब्रह्मविद्या प्रस्तूयते। कर्महेतुः कामः स्यात्, प्रवर्तकत्वात्। आप्तकामानां हि कामाभावे स्वात्मन्यवस्थानात्मवृत्त्यनुपपत्तिः । आत्मकामत्वे चाप्तका- मता। आत्मा च ब्रह्म। तद्विदो हि परपाप्तिं वक्ष्यति। अतः अविद्या-

पादकयोरपि कर्मकाण्डोपनिषदोः साध्यसाधनभावः संबन्ध इत्यर्थः । ननु कर्मकाण्डस्य चेत्पापक्षयद्वारा विद्यायां विनियोग:, तर्हि पशुस्वर्गादिसाधन- भूतानां काम्यकर्मणां तत्रोक्तिरसंगता तेषां विद्यासाधनत्वायोगादित्याश- क्कयाह-काम्यानि चेति। अयं भाव :- काम्यानां फलार्थत्वेऽपि फला- भिसंधि विना कृतानां तेषां विद्यासाधनत्वमप्यस्त्येव, विविदिषावाक्येन नित्यकाम्यसाधारण्येन कर्मणां विद्यायां विनियुक्तत्वात् 'अनाश्रितः कर्मफ- लम्' इत्यादिस्मृतिष्वपि तथोक्तत्वाच्च; कर्मकाण्डे फलार्थिनां काम्यकर्मविधा- नमपि विद्योपयोग्येवेति। कर्मोपादानहेतुपरिहारायेत्यत्र निर्दिष्टः कर्मप्रवृत्ति- हेतुः क इति जिज्ञासायामाह-कर्महेतुरिति। अत्र यद्यप्यविद्यापि कर्मो- पादानहेतुः, तथा च वक्ष्यति- 'तस्माद्विद्यादिकर्मोपादानहेतुनिवृत्तौ' इति, तथाप्यविद्याया: कामद्वारा कर्महेतुत्वात्कामो हेतुरित्युक्तम्। कामस्यैव प्राधान्येन कर्महेतुत्वं भगवता व्यासेनाप्युक्तम्- 'यदद्धि कुरुते जन्तुस्त- त्तत्कामस्य चेष्टितम्' इति। कामस्य कर्महेतुत्वेऽन्वयव्यतिरेकौ प्रमाणय- ति-प्रवर्तकत्वादिति। कामे सति प्राणिनां प्रवृत्तिदर्शनादित्यर्थः । आप्त- कामानां हीति। अनुपपत्तिपद्मभावपरम्। ततश्च आप्तकामानां प्राप्तस्वरूपा- नन्दानां स्वात्मनि स्वरूपानन्देऽवस्थानाद्धेतोः कामाभावे प्रवृत्त्यभावदर्शनादि- त्यर्थः । तेषां प्रवृत्त्यभावः प्रसिद्ध इति हि-शब्दार्थः। नन्वाप्तकामत्वे को हेतुः: तत्राह-आत्मकामत्वे चेति। आत्मैव काम आनन्दो यस्य साक्षात्कृतः सर आत्मकामः, तस्य भाव आत्मकामत्वम्, तस्मिन्सत्याप्तकामता भवतीत्यर्थः । ननु ब्रह्मविद्यवाप्तकामताहेतुः नात्मानन्दसाक्षात्कारवत्त्वम्; तत्राह-आत्मा च ब्रह्मेति। 'अयमातमा ब्रह्म' इति श्रुतेरिति भावः। ब्रह्म- विद आत्मानन्दप्राप्तौ मानमाह-तद्विदो हीति। हि यस्मात्परस्य स्वरूपानन्द-

Page 104

तैत्तिरीयोपनिषदि [अनु.

निवृत्तौ स्वात्मन्यवस्थानं परप्राप्तिः, 'अभयं प्रतिष्ठा विन्दते' 'एतमान- न्दमयमात्मानमुपसंक्रामति' इत्यादिश्रुतेः ॥

काम्यप्रतिषिद्धयोरनारम्भात् आरब्धफलयोश्चोपभोगेन क्षयात् नित्यानुष्ठानेन च प्रत्यवायाभावात् अयन्नत एव स्वात्मन्यवस्थानं मोक्ष :;

स्य प्राप्तिं ब्रह्मविदः 'ब्रह्मविदाप्नोति परम्' इति श्रुतिर्वक्ष्यति, तस्माद्रह्मविदाप्त- काम इत्यर्थः । नन्वात्मानन्दस्य नित्यप्राप्तत्वाद्विद्या तत्प्राप्तिश्रुतिरनुपपत्ना; नेत्याह- अत इति। आत्मस्वरूपत्वेऽ्यविद्यावृतत्वाद्विदयया तदावरणनिवृत्तौ स्वात्मानन्दे यदभेदेनावस्थानं तदत्र परप्राप्तिर्विवक्षिता; अतो न विद्यावैयर्थ्यश- क्केति भावः । व्रह्मविदः परप्राप्तावेवान्यदपि वाक्यद्वयं पठति-अभयमिति । ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठां स्वात्मभावेनावस्थानं यदा विन्दते तदैवाभयं गतो भवतीत्यर्थः । आनन्दमयं परमात्मानमुपसंक्रामति प्राप्नो- तीत्यर्थः । इदं च वृत्तिकारमताभिप्रायेणोदाहृतम्, स्वमते आनन्दमयख जीवत्वादिति बोध्यम्।

ननु जीवस्य शरीरेऽवस्थानं बन्धहेतुः, 'नह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति' इति श्रुतेः; आत्यन्तिकेन शरीरसंबन्धाभावेन युक्ते स्वस्वरूपेऽवस्थनं मोक्षः, 'अशरीरं बाव सन्तं न प्रियाप्रिये स्पृशतः' इति श्रुतेः; स चात्यन्तिकः शरीरसंवन्धाभावो व्रह्मात्मैकत्वविद्यां बिना कर्मभिरेव सिध्यति, किं विद्ययेति मीमांसकः शङ्कते-काम्येति। काम्यं कर्म देवादिश- रीरहेतुः, प्रतिषिद्धं कर्म तिर्यगादिशरीरहेतुः, नित्यनैमित्तिकाननुष्ठानं प्रत्यवा- योत्पादनद्वारा नारक्यादिजन्महेतुः । तथा च मुमुक्षुणा सर्वात्मना काम्यप्र- तिषिद्धयोरनारम्भात्सम्यङूनित्यनैमित्तिकानुष्ठानेन प्रत्यवायानुत्पादाच्च न भावि- जन्मप्राप्तिः, आरब्धफलयोश्च पुण्यपापयोरुपभोगेनैव नाशान्न ततोSपि भाविज- न्मप्राप्तिशक्का; तथा च विद्यासंपादनयत्नं विना मुमुक्षोरेवं वर्तमानस्यात्यन्ति- कशरीरसंबन्धाभावशब्दितः स्वात्मन्येवावस्थानलक्षणो सोक्षः सिध्यतीत्यर्थः ।

Page 105

१.] शीक्षावल्ली। ५

अथवा, निरतिशयायाः प्रीतेः स्वर्गशब्दवाच्यायाः कर्महेतुत्वात्कर्म- भ्य एव मोक्ष इति चेत्, न; कर्मानेकत्वात्। अनेकानि हि आ- रब्धफलानि अनारब्धफलानि च अनेकजन्मान्तरकृतानि विरुद्धफ- लानि कर्माणि संभवन्ति। अतः तेष्वनारब्धफलानामेकस्मिन्नेव जन्मन्युपभोगेन क्षयासंभवात् शेषकर्मनिमित्तशरीरारम्भोपपत्तिः - कर्मशेषसद्भावसिद्धिश्च 'तद्य इह रमणीयचरणाः-' 'ततः शेपेण-'

अत्र च शरीरसंबन्धस्य कर्मनिमित्तकत्वात् 'निमित्तापाये नैमित्तिकापायः' इति न्यायेन शरीरसंबन्धाभावरूपमोक्षस्य कर्मसाध्यत्वोक्तिरिति मन्तव्यम्। मीमांसक एव प्रकारान्तरमाह-अथवेति। यानि कर्माणि स्वर्गसाधनत्वेन श्रुतानि तान्येव मोक्षसाधनम्, स्वर्गशब्दवाच्यस्य निरतिशयसुखस्य स्वरूपानन्दल- क्षणान्मोक्षादन्यत्वासंभवात् 'यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्' इत्यर्थवादेन निरतिशयप्रीतेः स्व- गशव्दवाच्यत्वावगमात् त्रिविष्टपादिजनितसुखे दुःखासंभिन्नत्वादिविशेषणाना- मसंभवात्। तथा च निरतिशयप्रीतिरूपस्य मोक्षस्य कर्महेतुकत्वावगमात्क- र्मभ्य एव मोक्षः सिध्यति, किं विद्यासंपादनयत्नेनेत्यर्थः । तत्राद्यं मतं निरा- करोति-न ; कर्मानेकत्वादिति। कर्मणामनेकत्वसंभवान्न विद्या विना मो- क्षसिद्धिरित्यर्थः ! संग्रहं विवृणोति- अनेकानि हीति। कर्मानेकत्वप्रसि- द्विद्योतनार्थो हि-शब्दः। तेपु कर्मसु यान्यनार्धफलानि तेषामुपभोगेन क्ष- यासंभवात्तानि शेषकर्माणि तन्निमित्तशरीरारम्भ एवंवृत्तस्याप्युपपद्यत इत्य- र्थः। नन्वनेकजन्मान्तरकृतानां सर्वेषामेव कर्मणां संभूय वर्तमानजन्मारम्भ- कत्वसंभवादनारब्धफलानि कर्माणि न सन्त्येव; नेत्याह- विरुद्धफला- नीति। स्वर्गनरकादिरूपविरुद्धफलवतां ज्योतिष्ठोमत्रह्महत्यादीनां संभूयैकजन्मा- रम्भकत्वासंभवेनैकस्मिअ्जन्मन्युपभोगेन तेषां क्षयासंभवात्सन्त्येव शेषकर्मा- णीत्यर्थः । संचितकर्मसद्धावे मानमाह-कर्मशेषसन्भावसिद्धिश्चेति। तत्तत्र स्वर्गादवरोहतां मध्ये ये इहास्मिँल्लोके रमणीयचरणाः पुण्यकर्माणः ते रम- णीयां व्राह्मणादियोनिं प्रतिपद्यन्त इति श्रुत्यर्थः । प्रेत्य स्व्रकर्मफलमनुभूय ततः

Page 106

६ तैत्तिरीयोपनिषदि [अनु.

इत्यादिश्रुतिस्मृतिशतेभ्यः। इष्टानिष्टफलानामनारब्धानां क्षयार्थानि नित्यानि इति चेत्, न ; अकरणे प्रत्यवायश्रवणात्। नित्याकरणनिमि- त्तस्य प्रत्यवायस्यासुखरूपस्य आगामिन: परिहारार्थानि नित्यानीत्य- भ्युपगमात् न अनारब्धफलकर्मक्षयार्थानि। यदि नाम अनारब्धफलक र्मक्षयार्थानि नित्यानि, तथाप्यशुद्धमेव्र क्षपयेयुः, न शुद्धम्, विरोधाभा- वात्। न हि इष्टफलस्य कर्मणः शुद्धरूपत्वान्नित्यैर्विरोध उपपद्यते। शुद्धाशुद्धयोहिं विरोधो युक्तः । न च कर्महेतूनां कामानां ज्ञानाभावे निवृत्यसंभवादशेषकर्मक्षयोपपत्तिः। अनात्मविदो हि कामः, न आत्म-

शेषेण जन्म प्रतिपद्यन्त इति स्मृतिरपि स्वर्गादवरोहतां शेषकर्मसद्भावं दर्श- यतीत्यर्थः । ननु संचितकर्मणां सत्त्वेऽपि तेषां नित्यानुष्ठानेन क्षयान्न तैर्भा- विजन्मप्राप्तिरिति शङ्कते- इष्टानिष्टेति। नित्यानां संचितकर्मक्षयफलकत्वं मीमांसकस्य स्वाभ्युपगमविरुद्धमिति दूषयति- नेति। असुखरूपस्येति। दुःखसाधनस्येति यावत्। आगामिन इति। नित्याकरणानन्तरमेव प्रसक्त- स्येत्यर्थः । नित्यानां तदभ्युपगमेपि परस्थ नाभिमतसिद्धिरित्याह- यदि नामेति। नित्यान्यनारब्धफलकर्मक्षयार्थानि सन्तु नामेत्यर्थः । 'धर्मेण पाप- मपनुदति' इति शास्त्राच्छुद्धयशुद्धिरूपयोः सुकृतदुष्कृतयोरेव विरोधाञ्च नित्यानि पापमेव नाशयेयुः, न संचितपुण्यमपि; अतस्तत्पुण्यनिमित्तं भावि- जन्म मुमुक्षोरवश्यंभावीत्यर्थः । विरोधाभावमेव साधयति- न हीत्या- दिना। यदुक्तं काम्यप्रतिषिद्धयोरनारम्भादिति, तत्र जन्मारभ्य प्रायणपर्यन्तं सर्वात्मना प्रतिषिद्धवर्जनं पुरुषेण कर्तुमशक्यम् अतिनि- पुणानामपि सूक्ष्मापराधदर्शनात्, काम्यवर्जनमपि सर्वात्मना कर्तुमशक्यमि- त्याह-न चेति। आत्मज्ञानं हि कामानामशेषतो निवर्तकम्, 'रसोऽप्यस्य परं दृष्ट्ा निवर्तते' इति स्मरणात्; ज्ञानाभावे च सति कामावश्यंभावात् काम्यानुष्ठानमपि कदाचिन्मुमुक्षोः प्रसज्जते, तद्वशाञ्च जन्मापि स्यादित्यर्थः । अशेषकर्मक्षयोपपत्तिरन चेत्यन्वयः । ननु आत्मज्ञानं न कामानां निवर्तकम् आत्मविदोऽपि कामदर्शनादिति; नेत्याह-अनात्मविदो हीति। फलविष-

Page 107

१.] शीक्षावल्ली। ७

विदः, फलविषयत्वात्। स्ात्मनि च कामानुपपत्तिः, नित्यप्राप्तत्वात्। स्वस्यायमात्मा परं ब्रह्मेत्युक्तम्। नित्यानां च अकरणमभावः, ततः प्रत्यवायानुपपत्तिरित्यतः पूर्वोपचितदुरितेभ्यः पराप्यमाणायाः प्रत्यवाय- क्रियाया नित्याकरणं लक्षणमिति शतृप्रत्ययस्य नानुपपत्तिः- 'अकु- र्वन्विहितं कर्म' इति। अन्यथा हि अभावान्ावोत्पत्तिरिति सर्वप्रमाण-

यत्वादिति। आत्मव्यतिरिक्त्तं किंचिद्पि वस्तुतो नास्तीति मन्यमानस्यात्मविदः स्वव्यतिरिक्तफलाभावादिति भावः । तर्हि स्वात्मन्येवानन्दरूपे तस्य कामोऽस्तु; नेत्याह-स्वात्मनि चेति। नन्वात्मविदः प्राप्तस्वरूपानन्दस्यापि परत्रह्म- प्राप्तौ कामोडस्ति ; नेत्याह- स्वस्येति। विदुष इत्यर्थः । नित्यानुष्ठानेन च प्रत्यवायाभावादिति वदता त्वया यदि प्रत्यवायस्य नित्याकरणजन्यत्वं विवक्षि- तम्, तदा तद्पि न संभवतीत्याह-नित्यानां चेति। प्रत्यवायानुपपत्तिरिति। प्रत्यवायोत्पत्तिन संभवतीत्यर्थः । ननु 'अकुर्वन्विहितं कर्म निन्दितं च समा- चरन्। प्रसज्जंश्रेन्द्रियार्थेषु नरः पतनमृच्छति' इति वचनगतशतृप्रत्ययाद करणस्य प्रत्यवायहेतुत्वमवगम्यते; अकरणात्प्रत्यवायोत्पत्त्यनुपगमे च शतृ- प्रत्ययानुपपत्तिरिति; नेत्याह- इत्यत इति। वक्ष्यमाणरीत्या अकरणस्य प्रत्यवायाहेतुत्वादित्यर्थः । 'लक्षणहेत्वोः क्रियायाः' इति सूत्रेण हेताविव लक्षणे- डपि शतुर्विधानादत्र लक्षणार्थ एव स इत्यर्थः । नन्वकरणेन प्रत्यवायक्रिया कथं लक्ष्यते? उच्यते- यदि यथावन्नित्यानुष्ठानमभविष्यत्तदा संचितदुरितक्ष- योऽभविष्यत्, न चायं नित्यमकार्षीत्; ततः प्रत्यवायी भविष्यतीत्येवं नि- त्याकरणेन पूर्वजन्मसु संचितेभ्यो दुरितेभ्यः प्राप्यमाणा दुःखरूपा प्रत्यवाय- क्रिया शिष्टैर्लक्ष्यत इति। ननु लक्षणे हेनौ च साधारणाच्छतृप्रत्ययादकरणस्य प्रतीतं हेतुत्वमेव कस्मान्नोपेयते? तत्राह- अन्यथेति। अकरणस्य हेतुत्वे स्वीकृते सत्यभावाद्भाव उत्पद्यत इति प्रसज्जेत अकरणस्याभावरूपताया उक्तत्वादित्यर्थः । तत्रेष्टापत्ति वारयति- सर्वेति। अभावस भावध- माश्रयत्वायोग्यत्वं प्रत्यक्षादिप्रमाणसिद्धम्, अभावस्य कारणत्वरूपभावधर्मा- श्रयत्वस्वीकारे तु प्रत्यक्षादप्रमाणविरोधः स्यादित्यर्थः। न चैवमकरणस्य कथं

Page 108

८ तैत्तिरीयोपनिषदि [अनु.

व्याकोप इत्यतः अयन्नतः स्वात्मन्यवस्थानमित्यनुपपन्नम्। यच्चोक्तं निरतिशयप्रीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात्कर्मभ्य एव मोक्ष इति, तन्न; नित्यत्वान्मोक्षस्य। न हि नित्यं किंचिदारभ्यते लोके, यदारब्धं तदनित्यमिति। अतो न कर्मारभ्यो मोक्षः । विद्यासहितानां कर्मणां नित्यारम्भसामर्थ्यमिति चेत्, न; विरोधात्। नित्यं चारभ्यत इति विरुद्धम्। यद्विनष्टं तदेव नोत्पद्यत इति प्रध्वंसाभाववन्नित्योऽपि

ज्ञापकत्वं कथं वानुपलव्धेरभावज्ञापकत्वमिति वाच्यम्, अकरणानुपलब्ध्यो- ज्ञातयोरेव ज्ञापकत्वाभ्युपगमेन स्वरूपतस्तयोर्ज्ञानहेतुत्वाभावादित्यन्यत्र विस्त- रः। मीमांसक खाद्यप्रकारनिराकरणमुपसंहरति -- इत्यत इति। उक्तप्रका- रेण ब्रह्मज्ञानं विना यथावर्णितचरितस्यापि मुमुक्षोर्मोक्षासंभवादित्यर्थः । अथ वेत्यादयुक्तमप्यनूद्य निराकरोति- यच्चोक्तमित्यादिना। कि केवलकर्मणां मोक्षारम्भकत्वम्, विद्यासहितानां वा? नाद्य इत्याह -- तन्नेति। ननु नित्यत्वे- डपि कर्मसाध्यत्वं तस्य किं न स्यादिति; नेत्याह- न हीति। लोके यन्नित्यमात्मादि तत्कंचिदपि नारभ्यते, यद्धि घटाद्यारब्धं तदनित्यमिति व्या- प्तिदर्शनादित्यर्थः। द्वितीयकल्पमनूद्य निराकरोति-विद्यासहितानामिति। वि- द्यारूपसह कारिमहिम्रा कर्मारभ्यस्यापि मोक्षस्य नित्यत्वं भविष्यतीति शङ्कका- भिमानः । विरुद्धमिति। विद्यारूपसहकारिमहिम्रा तावत्कर्मसाध्ये मोक्षे कश्चिदतिशयो भविष्यति, 'यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति' इति श्रुतेः। स चातिशयो न नित्यत्वरूपः, 'यत्कृतकं तदनित्यम्' इति व्याप्ति- विरोधात् 'तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इत्यादिश्रुतिविरोधाच्च; किं तु तदतिरिक्त उत्कर्षरूप एव वक्तव्य इति भावः । किं च निरतिशयप्रीतेरात्मस्वरूपत्वेनारभ्यत्वायोगाच्च न विद्यासहितानां केवला- नां वा कर्मणां मोक्षः फलम्। न च स्वर्गकामश्रुतिविरोधः, तत्र निरतिशय- प्रीतिवाचकस्य स्वर्गशब्दस्य कर्मयोग्यतानुसारेण विषयजनितसुखविशेषे लाक्ष- णिकत्वोपपत्तेः । एत्च बृहदारण्यकषष्ठाध्यायवार्ततिके प्रपश्चितम्, तत्रैव द्रष्ट- व्यम्। शङकते- यद्विनष्टमिति। यद्वटादि विनष्टं तत्पुनर्नोत्पद्यत इति दर्श-

Page 109

१.] शीक्षावल्ली। ९

मोक्ष आरभ्यत एवेति चेत्, न ; मोक्षस्य भावरूपत्वात्। प्रध्वंसाभावो- डप्यारभ्यत इति न संभवति; अभावस्य विशेषाभावाद्विकल्पमात्रमेतत् । भावप्रतियोगी ह्यभावः। यथा ह्यभिन्नोऽपि भावो घटपटादिभिर्विशेष्यते भिन्न इव घटभावः पटभाव इति, एवं निर्विशेषोऽप्यभावः क्रियागुणयो-

नात् घटादिविनाशरूपस्य प्रध्वंसाभावस्य नित्यत्वं निश्चीयते, तस्यानित्यत्वे तु विनष्टस्य घटादेः पुनरुत्पत्तिप्रसङ्गः स्यात्; ध्वंसप्रागभावानधिकरणकालस्य प्रतियोगिकालत्वनियमादित्यर्थः । ततः किम्? तत्राह-प्रध्वंसाभाववदिति। प्रध्वंसाभावस्य कार्यत्वमुपेत्य यद्धावकार्य तदनित्यमिति व्याप्तिर्विवक्षिता; निरतिशयप्रीतिरूपा च मुक्तिर्भावरूपैव तवापि संमता, अतो न मुक्तेर्नित्यत्वं सिध्यतीति दूषयति -- नेति। परमार्थतस्तु प्रध्वंसस्य कार्यत्वं नास्तीत्याह -- प्रध्वंसाभावोऽपीति। प्रध्वंसाभावोऽप्यारभ्यत इति न संभवति, नैरुक्तैर्ज- नेभवपदार्थधर्मत्वप्रतिपादनविरोधेनाभावस्य भावरूपजन्माश्रयत्वायोगेन च प्रध्वंसाभावे जन्मरूपविशेषाभावाभ्युपगमादित्यर्थः । कथं तर्हि वादिनां प्रध्वं- साभावे जन्माश्रयत्वज्ञानमित्याशङ्क्य भ्रान्तिमात्रमेतदित्याह-विकल्पमात्र- मेतदिति। ननु प्रध्वंसाभावस्य प्रतियोगिजन्यत्वाभावे तत्प्रतियोगिकत्वं न स्यादित्याशक्कय प्रागभावात्यन्ताभावयोरिव तस्य तत्प्रतियोगिकत्वं संभवती त्याशयेनाह-भावप्रतियोगी ह्यभाव इति। अभावस्य भावप्रतियोगि- कत्वं घटाभावः पटाभाव इति व्यवहारसिद्धमिति हि-शब्दार्थः। नन्वभावे भावप्रतियोगिकत्वविशेषाभ्युपगमे तत्र जनिरूपविशेषोऽपि परमार्थोडस्त्विति न शङ्कनीयम्, भावप्रतियोगिकत्वस्यापि तत्न परमार्थत्वासिद्धेरित्येतत्सदृष्टान्त- माह -- यथा हीति। भावः सत्वम्, तच्च सर्वानुगतं सद्रूपं वस्तुतो निर्वि- शेषं व्रह्मैव नान्यत्; तद्यथा एकमपि घटसत्वं पटसत्त्वमिति रीत्या भिन्नमिव घटादिभिर्विशेष्यते घटादिप्रतियोगिकत्वेन कल्प्यते, तथा घटो नास्ति पटो ना- स्तीति प्रतीयमानाभावोऽप्येक एव, समवायसत्ताजात्यादिवत् लाघवात् ; स चा- भाव: सर्वविशेषरहितोऽपि भावेषु घटादिषु मुद्रराभिघातादिजनितक्रियायो- गाद्टादिप्रतियोगिकत्वेन जातत्वेन च वादिभिर्भ्रान्त्या परिकल्प्यते, द्वावभा- T. 2

Page 110

१० तैत्तिरीयोपनिषदि [अनु.

गाद्रव्यादिवद्विकल्प्यते। न ह्यभाव उत्पलादिवद्विशेषणसहभावी। विशे- षणवच्चे भाव एव स्यात्। विद्याकर्मकर्तुर्नित्यत्वात् विद्याकर्मसंतानज नितमोक्षस्य नित्यत्वमिति चेत्-गङ्गास्त्रोतोवत्; न, कर्तृत्वस्य दुःखस्वरूप- त्वात्, कर्तृत्वोपरमे च मोक्षविच्छेदात्। तस्मादविद्यादिकर्मोपादानहेतु- निवृत्तौ स्वात्मन्यवस्थानं मोक्षः । स्वयं चात्मा ब्रह्म। तद्विज्ञानादविद्या-

वावित्यादिव्यवहारात् संख्यागुणयोगमभावस्य मत्वा द्रव्यत्वेनाभावः केनचि- त्परिकल्प्यते। एतदुक्तं भवति-यथा ह्यभावस्य द्रव्यान्तर्भावमाशक्कमानस्या- भावे गुणाश्रयत्वद्रव्यत्वभ्रान्तिः, तथा वादिनामपि तत्र वस्तुतो भावप्रति- योगिकत्वजन्माश्रयत्वादिरस्तीति भ्रान्तिरिति। अभावस्य वस्तुतो जन्मा- दिरूपभावधर्माश्रयत्वे वाधकमाह-न ह्यभाव इत्यादिना। भावधर्माश्रयस्य भावत्वनियमप्रसिद्धिद्योतनार्थो हि-शब्दः। विशेषणसहभावीति। विशेषणाश्रय इत्यर्थः । नन्वेकस्याभावस्य जन्मादिकल्पनास्पदस्य ब्रह्मतुल्ययोगक्षेमस्याङ्गी- कारे द्वैतापत्तिरिति चेत्, नायं दोष: ; भावाद्वैताभिप्रायेणास्य भाष्यस्य प्रवृ- त्युपपत्तेः । वस्तुतस्तु अयमभावो न व्रह्मातिरिक्तः, ब्रह्मणि कल्पितघटादि-

साध्यस्य मोक्षस्य स्वरूपेण नित्यत्वायोगेऽपि प्रवाहनित्यत्वं संभवतीति शङ्कते- विद्याकर्मकर्तुरिति। कर्तुरात्मनो नित्यत्वादात्मा संततं विद्याकर्मणी कुर्वन्नेवा- स्ते; तथा च विद्याकर्मलक्षणसाधनसंतानजनितो मोक्षोऽपि संततोऽवतिष्ठते । प्रवाहनित्यत्वे दृष्टान्तमाह-गङ्गेति। नेति। मुक्तिकालेSपि साधनानुष्ठातृ- त्वरूपस्य कर्तृत्वस्यानुवृ्त्त्युपगमे मुक्त्युच्छेदः, तस्य दुःखात्मकत्वात्; एतद्दोष- परिहाराय तदा तदुपरमोपगमे च मोक्षस्यापि विच्छेदादनित्यत्वं तद्वस्थमेवे- त्यर्थः । तस्मादिति । मोक्षस्य साध्यत्वे नित्यत्वभङ्गप्रसङ्गादित्यर्थः । काम आदिपदार्थः । कर्मोपादानहेतोरविद्यादेर्निवृत्तौ सत्यामित्यर्थः । ननु ब्रह्मात्म- नावस्थानं मोक्षः 'ब्रह्म वेद व्रह्मैव भवति' इति श्रुतेः, न त्वात्मन्यवस्थान- मिति शङ्कां निराकरोति-स्वयं चेति। नन्वविद्यादिनिवृत्तिरेव कर्मसाध्या अस्तु, तथा च कर्मभिरेव मोक्ष इति ; नेत्याह -- तद्विज्ञानादिति। कर्मणाम-

Page 111

१.] शीक्षावल्ली। ११

निवृत्तिरिति। अतो ब्रह्मविद्यार्थोपनिषदारभ्यते। उपनिपदिति विद्यो च्यते, तच्छीलिनां गर्भजन्मजरादिनिशातनात्, तदवसादनाद्वा ब्रह्मणो वा उपनिगमयितृत्वात्; उप निषण्णं वा अस्यां परं श्रेय इति। तदर्थ-

ॐ शं नो मित्रः शं वरुणः। शं नो भवत्व- र्यमा। शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरु-

विद्यानिवर्तने सामर्थ्याभावादिति भावः । इति-शब्दो विचारसमाप्त्यर्थः । एवं कर्मणां मुक्तिहेतुत्वं निरस्य आदौ ब्रह्मविद्या प्रस्तूयत इति यदुक्तं तदेवोपसं- हरति -- अतो ब्रह्मविद्यार्थेति। ब्रह्मविद्याया एव मुक्तिसाधनत्वादित्यर्थः । ब्रह्म विद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमि- त्याशयेनोपनिषच्छव्दार्थमाह-उपनिषदितीति। अत्र सामीप्यवाचिना उ- पोपसर्गेण प्रतीचो ब्रह्मसामीव्यमुच्यते। तच्च सामीप्यं तयोरभेदरूपं विव- क्षितम्। नि-शब्दो निश्चयार्थः । तथा च उपसर्गद्वयेन तयोरभेदनिश्च- यरूपा विद्योच्यते। विशरणावसादनगतयो धात्वर्थाः । क्विप्प्रत्ययश्चात्र कर्तरि विवक्षितः । ततञ्च प्रत्यग्व्रह्मैक्यगोचरा विद्या विदुषामनर्थ शातयति अवसाद्यति वा तान्ब्रह्म गमयतीति वा उपनिषत्पदेन सफला ब्रह्मविद्यो- च्यत इत्यर्थः । एतदेव विवृणोति- तच्छीलिनामिति। ब्रह्मविद्याभ्यास- शीलवतामित्यर्थः । शातनं शिथिलीकरणम्, तेषां गर्भादीनामवसादनं नाशनम्। उपनिगमयितृत्वात् प्रत्यक्त्या प्रापयितृत्वादित्यर्थः । एवमुपनिषत्प- दस्य 'बद्ल विशरणगत्यवसाद्नेषु' इति वैयाकरणप्रसिद्धिमनुसृत्यार्थत्रयं दर्शितम्। इदानीं स्वयमर्थान्तरमाह- उप निषण्णं वेति। उप सामीप्येन विषयतया अस्यां विद्यायां ब्रह्मस्वरूपं परं श्रेयो नितरामबा- धिततया स्थितमित्यर्थः । उपनिषत्पदस्य ग्रन्थे प्रसिद्धिं घटयति- तद- र्थत्वादिति विद्याप्रयोजनकत्वाङ्गन्थोडप्युपनिषत्पदेन निरूढलक्षणया व्यव- हियत इत्यर्थः । अत्र व्याख्येयस्य ग्रन्थस्य ब्रह्मविद्यार्थत्वोक्त्या तस्य माना-

Page 112

१२ तैत्तिरीयोपनिषदि [भनु.

क्रमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्र- त्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु। अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः।।१।।

इति प्रथमोऽनुवाक:। शं सुखं प्राणवृत्तेरह्नश्चाभिमानी देवतात्मा मित्रः नः अस्माकं भवतु। तथैव अपानवृत्तेः रात्रेश्वाभिमानी वरुण :; चक्षुषि आदित्ये चार्यमा; वले इन्द्रः; वाचि बुद्धौ च बृहस्पतिः ; विष्णुः उरुक्रमः वि- स्तीर्णक्रमः पादयोरभिमानी; एवमाद्या अध्यात्मदेवताः शं नः; भवतु इति सर्वत्रानुषङ्गः । तासु हि सुखकृत्सु विद्याश्रवणधारणविनियोगादयः अप्रतिबन्धेन भविष्यन्तीति तत्सुखकृत्वं प्रार्थ्यते-शं नो भवतु इति।

न्तरानधिगतं ब्रह्म विषयः, तद्विदाद्वारा मुक्ति: प्रयोजनम्, तत्कामोऽधिका- रीति सूचितं भवति॥

एवं विषयादिमत्वादुपनिषदो व्याख्यारम्भं समर्थ्य व्याख्यामार- भते-शं सुखमित्यादिना। शमित्यस्य सुखकृदित्यर्थः । चक्षुषीति। चक्षुष्यादित्यमण्डले च वर्तमानस्तयोरभिमानीत्यर्थः । बल इति। बाह्वोर्बले- डभिमानित्वेन वर्तमानो देव इन्द्र इत्यर्थः । वाचि बुद्धौ वागभिमानी गुरु- रित्यर्थः । विस्तीर्णक्रम इति। त्रिविक्रमावतारे विस्तीर्णपादोपेत इत्यर्थः । शरीरस्थप्राणकरणाभिमानिनीनां देवतानां सुखकृत्त्वं किमिति प्रा्थ्यते? अत्राह-तासु हीति। विद्यार्थ श्रवणम्, श्रुतस्याविस्मरणं धारणम्, शिष्येभ्यः प्रतिपादनं विनियोगः । शमादिकमादिपदार्थः । नमो ब्रक्मण

Page 113

१.] शीक्षावल्ली। १२

ब्रह्म विविदिषुणा नमस्कारव्रह्मवदनक्रिये वायुविषये ब्रह्मविद्योपसर्गशा- न्त्यर्थ क्रियेते-सर्वक्रियाफलानां तदधीनत्वात्। ब्रह्म वायुः, तस्मै ब्रह्मणे नमः प्रहीभावं करोमि। नमः ते तुभ्यं हे वायो नमस्करोमि इति परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते। किं च, त्वमेव चक्षुराद्यपेक्ष्य बाह्यं संनिकृष्टमव्यवहितं प्रत्यक्षं व्रह्मासि यस्मात्, तस्मात् त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि; ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थ त्वदधीनत्वात् त्वां वदिष्यामि; सत्यमिति स एव वाक्कायाभ्यां संपाद्य- मान:, सोऽपि त्वदधीन एव संपाद्यत इति त्वामेव सत्यं वदिष्यामि। तत् सर्वात्मकं वाय्वाख्यं ब्रह्म मयैवं स्तुतं सत् विद्यार्थिनं माम् अवतु

इत्यादेस्तात्पर्यमाह- ब्रह्म विविदिषुणेति। त्वं ब्रह्मेति वदनक्रिया ब्रह्मव- दनक्रिया। परोक्षेति। नमो ब्रह्मण इत्यत्र वायो: संबोधनाभावात्परोक्षतया निर्देश इत्यर्थः । उत्तरवाक्ये वायुपदेन संबोधनात्प्रत्यक्षतया निर्देश इत्यर्थः । यद्वा व्रह्मेति पारोक्ष्येण निर्देशः, वायोव्रह्मशव्दितसूत्रात्मतारूपेण परोक्षत्ात्, वायुशब्देन च प्रत्यक्षतया निर्देशः, प्राणवायुरूपेण नमस्कार्यस्य वायो: प्रत्य- क्षत्वादित्यर्थः । किं चेत्यस्य त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीत्यनेन संब- न्धः । वायोः प्रत्यक्षत्रह्मत्ववदने हेतुपरं त्वमेवेति वाक्यं व्याचष्टे- त्वमेव चक्षुराद्यपेक्ष्येत्यादिना। बाह्यमप्रत्यक्षं चक्षुराद्यपेक्ष्य त्वमेव प्रत्यक्षं ब्रह्मासीति संबन्धः । प्रत्यक्षत्वे हेतुरव्यवहितत्वम् ; तदेव विवृणोति- संनिकृष्टमिति। त्वगिन्द्रिय संनिकृष्ठमित्यर्थः । वदिष्यामीति। वदामीत्यर्थः । ऋतसत्यशब्दयो- रपुनरुक्तमर्थ वदन्नेव तौ व्याचष्टे-ऋतमित्यादिना। स एवेति। शास्त्रा- नुसारेण कर्तव्यतया निश्चितार्थ एवेत्यर्थः । त्वद्धीन एवेति। कर्मसंपादनस्य प्राणवाय्वधीनत्वदर्शनादिति भावः । सर्वात्मकमिति। समष्टिव्यष्टथात्मक- मित्यर्थः । वायोः सूत्रात्मरूपेण समष्टिशब्दितं व्यापकत्वम्, अस्मदादिप्राणरू- पेण व्यष्टिशन्दितं परिकिछन्नत्वं चेत्युभयं परोक्षप्रत्यक्षनिर्देशाभ्यां प्रकृतमिति मत्वा तत्सर्वात्मकमिति सर्वनामप्रयोग इति मन्तव्यम्। एवं स्तुतमिति।

Page 114

१४ तैत्तिरीयोपनिषदि [अनु.

विद्यासंयोजनेन। तदेव ब्रह्म वक्तारम् आचार्य च वक्तृत्वसामर्थ्यसंयो- जनेन अवतु। अवतु माम् अवतु वक्तारम् इति पुनर्वचनमादरार्थम्। शान्तिः शान्तिः शान्तिः इति त्रिर्वचनम् आध्यात्मिकाधिभौतिकाधिदै- विकानां विद्यापाप्त्युपसर्गाणां प्रशमनार्थम्।। इति प्रथमानुवाकभाष्यम् ।।

उक्तप्रकारेण ब्रह्मवदनक्रियया स्तुतमित्यर्थः । इदमुपलक्षणम्। नमस्कृतं चेत्यपि द्रष्टव्यम्, तस्यापि पूर्व कृतत्वात्। आध्यात्मिकेति। ज्वरशिरोरोगा- दय आध्यात्मिकाः, चोरव्याघ्राद्युपद्रवा आधिभौतिकाः, यक्षराक्षसाधुपद्रवा आधिदैविका इति विभागः ॥

इति तैत्तिरीयोपनिषद्धाव्यव्याख्यायां वनमालाख्यायां शीक्षावल्लयां प्रथमोऽनुवाक: ॥

Page 115

द्वितीयोऽनुवाकः॥

अर्थज्ञानप्रधानत्वादुपनिषदः ग्रन्थपाठे यत्रोपरमो मा भूदिति शी- क्षाध्याय आरभ्यते- शीक्षां व्याख्यास्यामः । वर्णः स्वरः। मात्रा बलम्। साम संतानः । इत्युक्त: शीक्षाध्यायः॥ इति द्वितीयोऽनुवाकः॥ शिक्षा शिक्ष्यते अनयेति वर्णाद्युच्चारणलक्षणम्; शिक्ष्यन्त इति

शीक्षाध्यायारम्भस्य तात्पर्यमाह-अर्थज्ञानेत्यादिना। यत्रोपरम इति। अध्ययनकाले सवरादिष्वौदासीन्यमित्यर्थः । स्वरवर्णादिव्यत्यासे च सत्यन्यथार्थावबोधः प्रसज्जेत; ततश्चानर्थप्रसङ्ग: स्यात् 'मन्त्रो हीनः स्वरतो वर्णतो वा' इत्यादिशास्त्रादिति भावः। नन्वेवं सति कर्मकाण्डेडप्ययमध्यायो वक्तव्य इति चेत्, सत्यम्; अत एवोभयसाधारण्यायायं काण्डयोर्मध्ये पठितः । ननु तर्हि भाष्ये उपनिषद्गहणमनर्थकम्; नानर्थकम्, उपनिषत्पाठे यत्नाधिक्यद्योतनार्थत्वोपपत्तेः । तथा हि- कर्मकाण्डे क्वचिदन्यथार्थज्ञानपूर्व- कान्यथानुष्ठानस्य प्रायश्चित्तेन समाधानं संभवति, 'अनाज्ञातं यदाज्ञातम्' इत्यादिमन्त्रलिङ्गात्। ज्ञानकाण्डे तु सगुणनिर्गुणवाक्यानामन्यथार्थावबोधे सति सम्यगुपासनानुष्ठानतत्त्वज्ञानयोरलाभातपुरुषार्थासिद्धिरेव स्यात्, प्राय- श्वित्तेनात्र समाधानासंभवात्। अतो यथावद्गह्मबोधायोपनिषत्पाठे यत्नाधिक्यं कर्तव्यमिति द्योतनार्थत्वेनोपनिषद्रूहणसुपपद्यत इति।। शीक्षाशब्दस्य द्वेधा व्युत्पत्ति दर्शयति- शिक्ष्यत इत्यादिना। लक्ष- णपदम् 'अकुह्विसर्जनीयानां कण्ठः, इचुयशानां तालु, ऋटुरषाणां मूर्धा, लतुलसानां दन्ताः' इत्यादिशास्त्रपरम्। नन्वेवं सति वर्णाद्युच्चारणलक्षणं शि-

Page 116

१६ तैतिरीयोपनिषदि [अनु.

वा शिक्षाः वर्णादयः । शिक्षैव शीक्षा। दैर्ध्य छान्दसम्। तां शीक्षां व्याख्यास्यामः विस्पष्टम् आ समन्तात्कथयिष्यामः। चक्षिङः ख्यावा- दिष्टस्य व्याङ्पूर्वस्य व्यक्तवाक्कर्मण एतद्रूपम्। तत्र वर्णः अकारादिः। स्वरः उदात्तादिः। मात्रा: हस्वाद्याः। वलं प्रयत्नविशेषः । साम वर्णानां मध्यमदृत्त्योच्चारणं समता। संतान: संततिः, संहितेत्यर्थः । एप शिक्षि- तव्योऽर्थः, शिक्षा यस्मिन्नध्याये सोऽयं शीक्षाध्यायः, इति एवम् उक्तः उदितः। उक्त इत्युपसंहारार्थः ॥ इति द्वितीयानुवाकभाष्यम्।।

क्ष्यते Sनयेति व्युत्पत्तिरयुक्ता, तल्लक्षणस् शीक्षाशब्दितेऽध्याये शिक्षणादर्शना- दित्याशङ्कय व्युत्पत्त्यन्तरं दर्शयति- शिक्ष्यन्त इति। वेदनीयत्वेनोपदि- श्यन्त इत्यर्थः । चक्षिङ इति। 'चक्षिङः ख्यान्' इति सूत्रेण ख्याना- दिष्टो यस्य तस्येदं रूपम्, न तु 'ख्या प्रकथने' इत्यस्य, तस्यार्धधातुके प्रयोगाभावादित्यर्थः । व्यक्ता वाक्कम क्रिया अर्थो यस्य तस्येत्यर्थः । मध्यम- वृत्येति। अतिद्रुतत्वादिकं विनेत्यर्थः ॥

इति तैत्तिरीयोपनिषद्धाष्यव्याख्यायां वनमालाख्यायां शीक्षावल्लयां द्वितीयोऽनुवाकः ॥

Page 117

तृतीयोऽनुवाकः॥

सह नौ यशः। सह नौ ब्रह्मवर्चसम्। अथातः सपहिताया उपनिषदं व्याख्यास्यामः । पश्चस्व- धिकरणेषु। अधिलोकमधिज्योतिषमधिविद्यमधि- प्रजमध्यात्मम्। ता महास५हिता इत्याचक्षते। अथाधिलोकम्। प्ृथिवी पूर्वरूपम्। धौरुत्तररू- पम्। आकाशः संधिः ॥१॥

अधुना संहितोपनिषदुच्यते। तत्र संहिता दुपनिषत्परिज्ञाननिमित्तं यत् यशः प्राप्यते, तत् नौ आवयोः शिष्याचार्ययोः सहैव अस्तु। तन्निमित्तं च यत् ब्रह्मवर्चसं तेजः, तच्च सहैवास्तु इति शिष्यवचन- माशीः। शिष्यस्य हि अकृतार्थत्वात्मार्थनोपपद्यते; नाचार्यस्य, कृता-

अथातः संहिताया इत्यादेस्तात्पर्यमाह- अधुनेति। वर्णानामत्यन्त- सामीप्यं संहिता, तद्विषयोपनिषदुपासनमिदानीमुच्यत इत्यर्थः । शं नो मित्र इत्याशीर्वाद: कृत्स्नोपनिषच्छेषः । संहितोपनिषच्छेषमाशीर्वादान्तरं प्रथम- माह-तत्रेति। उपनिषत्परिज्ञानमुपासनविषयकं ज्ञानम्; तच् शिष्यस्या- चार्योपदेशजनितमाचार्यस्य च तदुपदेशप्रयोजकम्, तन्निमित्तकं यश इत्यर्थः । तेज इति। मुखकान्त्यादिरूपमुपनिषत्परिज्ञाननिमित्तकमित्यर्थः । ननु सहैवा- स्त्विति केन प्रार्थ्यते? तत्राह-शिष्यवचनमिति। तत्र विनिगमकमाह-शि- ष्यस्य हीति। तस्याकृतार्थत्वं प्रसिद्धमिति हि-शब्दार्थः। नन्वाचार्योप्यकृतार्थ *T.3

Page 118

१८ तैत्तिरीयोपनिषदि [अनु.

र्थत्वात्। कृतार्थो ह्याचार्यो नाम भवति। अथ अनन्तरम् अध्ययनल- क्षणविधानस्य पूर्ववृत्तस्य, अतः यतोऽत्यर्थ ग्रन्थभाविता बुद्धिर्न शक्यते सहसार्थज्ञानविषयेऽवतारयितुमित्यतः, संहितायाः उपनिपदं संहितावि- पयं दर्शनमित्येतत्, ग्रन्थसंनिकृष्टामेव व्याख्यास्यामः, पश्चसु अधिकर- णेषु आश्रयेषु, ज्ञानविषयेष्वित्यर्थः । कानि तानीत्यत आह-अधि- लोकं लोकेष्वधि यद्दर्शनम्, तदधिलोकम् ; तथा अधिज्योतिषम् अधि- विद्यम् अधिप्रजम् अध्यात्ममिति। ताः एताः पश्चविषया उपनिषदः लोकादिमहावस्तुविषयत्वात्संहिता विषयत्वाच्च महत्यश्च ताः संहिताश्र महा-

एव शिष्यसापेक्षत्वादिति ; नेत्याह-कृतार्थो हीति। न ह्याचार्यस्य स्वप्रयो- जनसिद्धधर्थ शिष्यापेक्षास्ति, किं तु केवलं तदनुग्रहार्थमेवाचार्यप्रवृत्तिरिति भावः। नन्वेवमाचार्यस्य शिष्येण किमर्थ यशआदि प्रार्थ्यते स्वार्थमेवेति ब्रूम:, यशस्विन: शिष्या हि लोके यशस्विनो भवन्ति; यशस्विनां च लाभ- पूजादिकं फलं प्रसिद्धम्; अतः स्ार्थमेव शिष्यो गुरोर्यशः प्रार्थयत इत्यन- वद्यम्। पूर्ववृत्तस्यानन्तरमिति संबन्धः । वस्तूपासनं हित्वा प्रथमतः शब्दो- पासनविधाने हेतुरतःशव्देनोक्त इत्याह-यतोऽत्यर्थमिति। ज्ञानमुपास- नम्, तदेव विषयः, तस्मिन्नित्यर्थः । ग्रन्थसंनिकृष्टामेवेति। संहितारूपग्रन्थ- प्रधानामेवेति यावत्। नन्वधिकरणेष्विति सप्तम्या लोकादिषु संहितादृष्टिवि- धिरिह विवक्षित इति प्रतीयते; तथा सति लोकानामेव संहितादृष्टयोपास्यत्वं स्यात् ; तच्चोपक्रमोपसंहारविरुद्धम्, 'अथातः संहितायाः' इत्युपक्मे 'य एव- मेता महासंहिता व्याख्याता वेद' इत्युपसंहारे च संहिताया एवोपास्यत्वाव- गमादित्याशक्कयाह-ज्ञानविषयेष्वित्यर्थ इति। अधिकरणपदस्य विषयपर- त्वोक्तिरुपलक्षणम् ; सप्तमी तृतीयार्थपरेत्यपि द्रष्टव्यम्। तथा च लोकाद्यात्मना संहितैवोपास्येति लभ्यते, अतो न विरोध इति भावः । लोकेष्वधीति। लोकविषयकमिति यावत्। एवमुत्तरत्रापि। अत्र विधित्सितानामुपासनानां स्तावकं ता महासंहिता इति वाक्यम् । तद्वयाचष्टे-ता एता इति।

Page 119

₹.] शीक्षावल्ली। १९

संहिताः इति आचक्षते कथयन्ति वेदविदः । दर्शनक्रमविषयाः अथ- शब्दाः। अथ तासां यथोपन्यस्तानां मध्ये अधिलोकं दर्शनमुच्यते। पृथिवी पूर्वरूपम् , पूर्वो वर्णः पूर्वरूपम्, संहितायाः पूर्ववर्णे पृथिवी- दृष्टिः कर्तव्येत्युक्तं भवति। तथा घौः उत्तररूपम् । आकाशः अन्तरिक्ष- लोक: संधिः मध्यं पूर्वोत्तररूपयोः, संधीयेते अस्मिन्पूर्वोत्तररूपे इति ।। वायुः संधानम्। इत्यधिलोकम्। अथाधि- ज्योतिषम्। अग्निः पूर्वरूपम्। आदित्य उत्तररू- पम्। आप: संधिः। वैद्युतः संधानम्। इत्यधि- ज्योतिषम्। अथाधिविद्यम् । अचार्यः पूर्वरूपम् ॥

अन्तेवास्युत्तररूपम् । विद्या संधिः । प्रवचन५ संधानम्। इत्यधिविद्यम्। अथाधिप्रजम्। माता पूर्वरूपम्। पितोत्तररूपम् । प्रजा संधिः। प्रजन- न५ संधानम्। इत्यधिप्रजम् ॥ ३॥

मेति। अन्नोपासनस्यैकत्वेन कर्तुरेकत्वाल्लोकादिभेदेन प्रयोगभेदाच्चावश्यंभा- विनि क्रमे तद्विधानार्था अथशब्दा इत्यर्थः । तत्राद्योऽथशब्द आरम्भार्थः, इतरे तन्निरूपितक्रमार्था इति भावः। उपनिषदः कथं कर्तव्या इत्याकाङ्का- यामाह-तासामित्यादिना। ननु संहितायाः पूर्ववर्णः पृथिवीति कथं सामानाधिकरण्यं तयोर्भेंदादित्याशङ्कयाह- पूर्ववर्ण इति। मनो ब्रह्म इत्या- दिवदत्र सामानाधिकरण्यमिति भावः। मध्यमिति। पूर्वोत्तररूपे संधीयेते अस्मिन्निति व्युत्पत्या यत्संधिशब्दवाच्यं पूर्वोत्तररूपयोर्मध्यम्, तत्रान्त- रिक्षलोकदृष्टिः कर्तव्येत्यर्थः ॥

Page 120

२० तैत्तिरीयोपनिषदि [अनु.

अथाध्यात्मम्। अधरा हनुः पूर्वरूपम्। उत्तरा हनुरुत्तररूपम्। वाक्संधिः। जिह्वा संधानम्। इत्य- ध्यात्मम्। इतीमा महास५हिताः। य एवमेता महास५हिता व्याख्याता वेद। संधीयते प्रजया पशुभिः। ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन।।

वायुः संधानम्। संधीयते अनेनेति संधानम्। इति अधिलोकं दर्शनमुक्तम्। अथाधिज्योतिषम् इत्यादि समानम्। इतीमा इति उक्ता उपप्रदर्श्यन्ते। यः कश्चित् एवम् एताः महासंहिता: व्याख्याताः वेद

वायुरिति। संधीयेते पूर्वोत्तररूपे अनेनेति व्युत्पत्या संधानशव्दवाच्यं यत्संहितारूपम्, तत्र वायुदृष्टिः कर्तव्येत्यर्थः । इदं च क्वचिदुदाहृत्य प्रदर्श्य- ते- 'इषे स्वा' इत्यत्र षकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपः; यश्चोपरितनस्तकार: स्र द्युलोकः; तयोर्वर्णयोर्मध्यदेशोऽन्तरिक्षलोकः ; तस्मि- न्देशे संहितानिमित्तो द्विर्भावेनापादितो योऽन्यस्तकारः स वायुरिति । समानमिति। अथाधिज्योतिषम्, अभिः पूर्वरूपम्, आदित्य उत्तररूपम्, आप: संधिः, वैद्युतः संधानम्, इत्यधिज्योतिषम्। ज्योतिःशब्देनात्र जह- ल्लक्षणया आपः संगृहीताः । विद्युदेव वैद्युतः । अथाधिविद्यम्, आचार्यः पूर्वरूपम्, अन्तेवास्युत्तररूपम्, विद्या संधिः, प्रवचनं संधानम्, इत्यधिवि- द्यम्। इत्यधिविद्यमित्यत्र विद्याशव्देन आचार्यादयो जहल्वक्षणयैव संगृहीता इति बोध्यम्। विद्याशब्दश्चाध्येतव्यग्रन्थपरः। ग्रन्थस्याध्ययनमध्यापनं वा प्रव- चनम्। अथाधिप्रजम्, माता पूर्वरूपम्, पितोत्तररूपम्, प्रजा संधिः, प्रजननं संधानम्, इत्यधिप्रजमित्यत्र प्रजाशव्दो मात्रादीनपि पूर्ववत्संगृह्दाति। प्रजननं प्रजाया उत्पत्तिः । अथाध्यात्मम् , अधरा हनुः पूर्वरूपम्, उत्तरा हनुरुत्त- ररूपम्, वाक्संधिः, जिह्वा संधानम्, इत्यध्यात्मम् । अन्नात्मा देहः, तदव- यवविषयमुपासनमध्यात्ममित्यर्थः । एतेषु समानं योजनमित्यर्थः । उपपदश्य-

Page 121

३.] शीक्षावल्ली। २१

उपास्ते ; वेदेत्युपासनं स्यात्, विज्ञानाधिकारात्, 'इति प्राचीनयोग्यो- पास्स्व' इति च वचनात्। उपासनं च यथाशास्त्रं तुल्यप्रत्ययसंतति- रसंकीर्णा च अतत्पत्ययैः शास्त्रोक्तालम्बनविषया च। प्रसिद्धश्वोपासन- शब्दार्थो लोके- 'गुरुमुपास्ते' 'राजानमुपास्ते' इति। यो हि गुर्वा- दीन्संततमुपचरति, स उपास्त इत्युच्यते। स च फलमामोत्युपासनस्य। अतोऽत्रापि य एवं वेद, संधीयते प्रजादिभिः स्वर्गान्तैः। प्रजादिफलं

इति तृतीयानुवाकभाष्यम्।।

न्त इति। उपसंह्ियन्त इति यावत्। वेदेत्यस्य ज्ञानवाचित्वात्कथं ज्ञानावृत्ति- रूपोपासनपरत्वमित्याशङ्कय तत्साधयति-वेदेत्युपासनं स्यादित्यादिना। विज्ञानाधिकारादिति। उपास्तिप्रकरणादित्यर्थः । तत्र मानमाह- इति प्राचीनेति। यथाशास्त्रमित्यनेन यत्राहंग्रहश्चोदितस्तत्राहंग्रहेण, अन्यत्र तं विनेति विवक्षितम्। तुल्यत्वमेकविषयकत्वम्। अतत्पत्ययैरिति। ध्येयान्यगोचरैः प्रत्ययैरित्यर्थः । एकवस्तुगोचरा विच्छेदरहिता प्रत्ययसंततिरुपासनमिति नि - षकर्षः । ननु सकृत्प्रत्यय एवोपासनमस्तु, किं तदावृत्त्येत्याशक्कय क्रियावृत्तावे- वोपासनशब्दः प्रसिद्धो लोके, न सकृत्क्रियायाम्, अतोऽत्र वेदेत्यनेन प्रत्यय- क्रियावृत्तिरेव लक्षणीयेत्याशयेनाह-प्रसिद्धश्चेत्यादिना । ननु तत्रापि सकृदुपचारक्रिकयैवोपासनम्; नेत्याह-यो हीति। पृथिवी पूर्वरूपमित्यादि- वेदनमात्रात्फलासंभवादप्युपासनमेवात्र विधेयम्, उपासनस्य तु योग्यतया वक्ष्यमाणं फलं संभवति, लोकेडप्युपासनस्य फलवतत्वसिद्धेरित्याशयेनाह- स चेति। गुर्वाद्युपासक इत्यर्थः । अतोऽत्ापीति। गुर्वाद्यपासनस्य लोके फलवत्वदर्शनात् अत्रापि संहिताविषयेपि, य एवं लोकादिद्ृष्ट्या संहिता उपास्त इत्यर्थः । संधीयत इति। संबध्यत इत्यर्थः । अत्र फलकामिना क्रि्यमा- णमुपासनं कामितफलाय भवति, फलाभिसंधिरहितेन तु क्रियमाणं तदेव विद्या- साधनं भवतीति ब्रह्मविद्यासंनिध्याम्नानवलात्कल्प्यत इति मन्तव्यम् ॥ इति सैत्तिरीयोपनिषद्धाष्यव्याख्यायां वनमालाख्यायां शीक्षावल्लयां तृतीयोऽनुवाक:॥

Page 122

चतुर्थोऽनुवाकः॥

यश्छब्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्य- मृतात्संवभूव। स मेन्द्रो मेधया स्पृणोतु। अमृत- स्य देव धारणो भूयासम् ! शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रुवम्। ब्रह्मण: कोशोऽसि मेधया पिहितः। श्रुतं मे गो- पाय। आवहन्ती वितन्वाना ॥ १ ॥

कुर्वाणाचीरमात्मनः । वासा५सि मम गा- वश्च। अन्नपाने च सर्वदा। ततो मे श्रियमावह। लोमशां पशुभिः सह स्वाहा। आमायन्तु ब्रह्म- चारिणः स्वाहा। विमायन्तु ब्रह्मचारिण: स्वाहा। प्रमायन्तु ब्रह्मचारिणः स्वाहा। दमायन्तु ब्रह्म- चारिणः स्वाहा। शमायन्तु ब्रह्मचारिणः स्वाहा॥

यशो जनेऽसानि स्वाहा। श्रेयान् वस्यसोऽसा- नि स्वाहा। तं त्वा भग प्रविशानि स्वाहा। स मा भग प्रविश स्वाहा। तस्मिन्सहस्रशाखे। निभगाहं

Page 123

४.] शीक्षावल्ली। २३

त्वयि मृजे स्वाहा। यथापः प्रवता यन्ति। यथा मासा अहर्जरम्। एवं मां ब्रह्मचारिणः । धातरा- यन्तु सर्वतः स्वाहा। प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥। ३ ॥

यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्माप्तिसाधनजपहो- मावुच्येते, 'स मेन्द्रो मेधया स्पृणोतु' 'ततो मे श्रियमावह' इति च लि- ददर्शनात्। यः छन्दसां वेदानाम् ऋषभ इव ऋषभः, प्राधान्यात्। विश्व- रूप: सर्वरूपः, सर्ववाग्व्याप्तेः 'तद्था शङ्कना' इति श्रुत्यन्तरात्। अत एव ऋषभत्वमोंकारस्य। ओंकारो ह्यत्रोपास्य इति ऋपभादिशब्दैः स्तुतिर्न्या- य्यैव ओंकारस्य। छन्दोभ्यः वेदेभ्यः, वेदा ह्यमृतम्, तस्मात् अमृतात्

ननु यश्छन्दसामित्यादयो मन्त्रा: किमर्थमान्नायन्ते! तत्राह- मेधे- ति। मेधाकामस्य मेधाप्राप्तिसाधनं जप उच्यते, श्रीकामस्य श्रीप्राप्तिसाधनं होम उच्यत इति विभागः । एवं तात्पर्यवर्णने कारणमाह-स मेन्द्र इत्या- दिना। ऋषभ इति। गवां मध्ये प्रधानत्वाद्यथा ऋषभः श्रेष्ठः, तथा वेदानां मध्ये प्रणवः श्रेष्ठः प्राधान्यादित्यर्थः । ननु कथमोंकारस्य सर्वरू- पत्वमित्याशङ्कयाह-सर्ववागव्यासेरिति। शब्दमात्रे कृत्स्स्याभिधेयस्या- न्तर्भावम् 'तस्य वाक्तन्तिः' इत्यादिश्रुत्युक्तकं सिद्धं कृत्वा तस्य सर्वशब्दा- त्मकत्वे प्रमाणमाह-तद्यथेति। 'तदथा शङ्कना सर्वाणि पर्णानि संतृ- ण्णान्येवमोंकारेण सर्वा वाक्संतृण्णा' इति श्रुत्यन्तरम्। तस्य चायमर्थ :- यथा लोके अश्वत्थपर्णानि शङ्कशब्दवाच्येन स्वगतशलाकाविशेषेण व्याप्तानि, तद्वदोंकारेण सर्वा शब्दासििका वाग्व्याप्ेति। अत एवेति। विश्वरूपत्वाच्च तस्य श्रेष्ठत्वमित्यर्थः । नन्वोंकारस्यात्र स्तुतिरन्याय्या; नेत्याह- ओंकारो ह्यत्रेति। अस्यां संहितोपनिषद्योंकारस्य 'ओमिति ब्रह्म' इत्यत्रोपासनं प्रसिद्धमिति हि-शब्दार्थः । ओंकारस्य सर्ववेदेषु प्राधान्यं कुत इत्याशक्कय

Page 124

२४ तैत्तिरीयोपनिषदि [अनु.

अधि संबभूव ; लोकदेववेदव्य।हृतिभ्यः सारिष्ठं जिघृक्षोः प्रजापतेस्तपस्यतः ओंकारः सारिष्ठत्वेन प्रत्यभादित्यर्थः । न हि नित्यस्य ओंकारस्य अञ्जसैवोत्पत्तिरव कल्पते। सः एवंभूत ओंकार: इन्द्रः सर्वकामेशः पर- मेश्वरः मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु, बलयतु वा, प्ज्ञाबलं

तद्धेतुप्रदर्शनपरं छन्दोभ्य इति वाक्यं व्याचष्टे- वेदेभ्य इत्यादिना। अमृतादिति वेद्विशेषणम् 'वेदा ह्यमृताः' इति श्रुत्यन्तरात्, एकवचनं च च्छान्दसमित्याशयेनाह- वेदा ह्यमृतमिति। वेदानाममृतत्वं नित्यत्वम्, तच्चावान्तरप्रलये नाशाभावरूपं विवक्षितम्। न त्वात्यन्तिकं नित्यत्वमस्ति वेदानाम् ; कल्पादौ सृष्टिश्रवणात्, महाप्रलये नाशाभ्युपगमाच्च। इदं च देव- ताधिकरणे विस्तरेण निरूपितं तत्रैव द्रष्टव्यम्। संघभूवेत्यस्यार्थमाह- लोकदेवेति। सारिष्ठमिति। सारतममित्यर्थः । तथा च श्रुतिः-'प्रजापति- लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्त्रवत्तामभ्यतपत्तस्या अभित- प्ाया एतान्यक्षराणि संप्रास्त्रवन्त भूर्भुवः सुवरिति तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ओंकार: संप्रास्त्रवत्' इति। अभ्यतपत् सारजिघृक्षया पर्यालोचितवानित्यर्थः । त्रयो वेदास्त्यी विद्या। यद्यप्यस्यां श्रुतौ लोकानन्तरं देवा न श्रूयन्ते, तथापि 'प्रजापतिलोकानभ्यतपत्तेषां तप्यमानानां रसान्प्राबृहृदमनिं पृथिव्या वायु मन्तरिक्षादादित्यं दिवः स एतास्तिस्त्रो देवता अभ्यतपत्तासां तप्यमानानां रसान्प्राबृहत्' इत्यत्र देवा अपि श्रूयन्त इत्यभिप्रेत्य देवग्रहणमिति मन्तव्यम् । प्राबृहृत् गृहीतवान्, सारत्वेन ज्ञातवानित्यर्थः । ननु संबभूवेति पदं जन्मपरत्वे- नैव कुतो न व्याख्यायते! तत्राह-न हीति। नित्यस्येति। अवान्तरप्रल- यावस्थायिन इत्यर्थः । प्रणवस्य वेदान्तर्भूतत्वेन वेदसमानयोगक्षेमख वेदेभ्यः सकाशान्मुख्यं जन्म न हि संभवतीत्याशयः। परमेश्वर इत्यस्य विवरणं सर्व- कामेश इति। ननु मेधाप्रदानेन यत्प्रीणनं तात्कालिकप्रीतिसंपादनं न तद्वि- द्याकामस्य विवक्षितं प्रयोजनमित्यस्वरसादाह-वलयतु वेति। अत्र विद्या- कामस्यापेक्षां दर्शयति- प्रज्ञाबलं हीति। प्रज्ञान्र मेधाशब्दार्थः । सा च

Page 125

४.] शीक्षावल्ली। २५

हि प्रार्थ्यते। अमृतस्य अमृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य, तदधिकारात्; हे देव, धारण: धारयिता भूयासं भवेयम्। कि च, शरीरं मे मम वि- चर्षणं विचक्षणं योग्यमित्येतत्, भूयादिति पुरुषविपरिणामः। जिह्रा मे मधुमत्तमा मधुमती, अतिशयेन मधुरभाषिणीत्यर्थः। कर्णाभ्यां श्रोत्रा- भ्यां भूरि बहु विश्रुवं व्यश्रवम्, श्रोता भूयासमित्यर्थः। आत्मज्ञान- योग्यः कार्यकरणसंघातोऽस्त्विति वाक्यार्थः। मेधा च तदर्थमेव हि प्रार्थ्यते । व्रह्मणः परमात्मनः कोशः असि, असेरिव उपलब्ध्यधि-

अ्रन्थतदर्थधारणशक्तिः, सैव बलम्। प्रज्ञाबलस्य च 'नायमात्मा बलहीनेन लभ्यः' इति श्रुतिसिद्धं विद्यासाधनत्वं द्योतयितुं हि-शब्दः । तदधिकारा- दिति। अमृतशब्दमुख्यार्थस्य ब्रह्मणो धारणासंभवादमृतशव्देन मुख्यार्था- दन्यदेव किंचिल्लक्षणीयम्; तच्चामृतशब्दितव्रह्मप्राप्तिसाधनं ब्रह्मज्ञानमेव वक्त- व्यम, तत्साधनप्रज्ञाप्रार्थनेन तस्यैव बुद्धिस्थत्वादित्यर्थः । पुरुषविपरिणाम इति। उत्तमपुरुषत्वेन पूर्वत्र प्रयुक्तस्य भूयासमित्यस्य भूयादिति प्रथमपुरुष- त्वेनात्र व्यत्यास: कर्तव्य इत्यर्थः । मधुरभाषिणीति। भूयादित्यनुषङ्गः । ननु चक्षुरादेरपि ज्ञानं त्रत्यानुकूल्यं कुतो न प्रार्थ्यते? प्रार्थ्यत एवेत्याशयेन शरीरं मे विचर्षणमित्यादेविवक्षितमर्थमाह- आत्मज्ञानेति। कार्य स्थूलश- रीरम्, करणानि चक्षुरादीनि, तेषां संघातः समुदाय इत्यर्थः । ननु संघातनि- ष्ठा योग्यता चेदात्मज्ञानाय प्रार्थ्यते, किमर्थ तर्हि मेधा प्रार्थ्यते? तत्राह- मेधा चेति। रोगादिप्रतिबन्धरहितस्य जितेन्द्रियस्यापि मेधां विनात्मज्ञानासं- भवात्सापि प्राधान्येनात्मज्ञानार्थमेव प्रार्थ्यत इत्यर्थः । आत्मज्ञानं प्रति प्र- ज्ञाया: प्रकृष्टसाधनत्वद्योतनार्थो हि-शब्दः । अत्राचेतनस्याप्योंकारस्य ब्रह्मा- भेदेन प्रार्थितदाने सामर्थ्यमवगन्तव्यम्। ननु कथं तस्य ब्रह्माभेदः! तत्प्रती- कत्वादिति ब्रूमः । कथं तस्य तत्प्रतीकत्वम्? तत्राह- ब्रह्मण: परमात्मन इति। नन्वसिं प्रति प्रसिद्धकोशस्येव व्रह्म प्रति प्रणवस्य स्वस्मिन्नन्तर्भा- वयितृत्वरक्षकत्वादेरभावान्न मुख्यं कोशत्वमस्ति ; तत्राह- उपलब्धीति । *T.4

Page 126

२६ तैत्तिरीयोपनिषदि [अनु.

ष्ठानत्वात् ; त्वं हि ब्रह्मणः प्रतीकम् ; त्वयि ब्रह्मोपलभ्यते। मेधया लौ- किकप्रज्ञया पिहितः आच्छादितः स त्वं सामान्यप्ज्ञैरविदितत्त्व इत्य- र्थः। त्रुतं श्रवणपूर्वकमात्मज्ञानादिकं विज्ञानं मे गोपाय रक्ष तत्मा- प्त्यविस्मरणादिना। जपार्था एते मन्त्रा मेधाकामस्य। होमार्थास्त्वधुना श्रीकामस्य मन्त्रा उच्यन्ते-आवहन्ती आनयन्ती; वितन्वाना विस्ता- रयन्ती, तनोतेस्तत्कर्मत्वात्; कुर्वाणा निर्वर्तयन्ती, अचीरम् अचिरं क्षिप्रमेव; चिरं वा कुर्वाणा आत्मनः मम; किमित्याह-वासांसि

यथासि: कोशे उपलभ्यते तथा ओंकारे ब्रह्मोपलभ्यते; ततश्चोपलब्धिस्थानत्व- साम्यात्कोशशब्दो गौण ओंकार इत्यर्थः । तदेव साम्यं विवृणोति-त्वं हीति। तस्य ब्रह्मप्रतीकत्वे श्रुत्यन्तरप्रसिद्धिद्योतनार्थो हि-शब्दः । प्रतीकमिति । दृष्टया- लम्बनमित्यर्थः । ब्रह्मदृष्टिफलमाह-त्वयीति। उपलब्धिः साक्षात्कारः । ननु यद्योंकार: प्रार्थितफलदाने समर्थस्तर्हि किमिति स सर्वैनोपास्यत इति शङ्कावारणार्थ मेधया पिहित इति वाक्यम्। तद्वयाचष्टे-मेधयेत्यादिना। ननु शास्त्राजनिता प्रज्ञा लौकिकप्रज्ञा, तस्या: करथ पीठादेरिव पिधायकत्वमि- त्याशङ्कषात्र विवक्षितं पिधानं कथयति-स त्वमिति। उक्तलौकिकप्रङ्ञामा- त्रयुक्ता: सामान्यप्रज्ञाः; स त्वं सामान्यप्रज्ञैरविदितमहिमासि; तस्मात्त्वं न सर्वैरुपास्यत इत्यर्थः । श्रवणपूर्वकमात्मज्ञानादिलक्षणं विज्ञानं श्रुतम्, तत्प्रा- प्त्यविस्मरणादिना गोपायेति योजना। प्रथमादिपदेन मननजनितं ज्ञानं संगृ- ह्यते। द्वितीयादिपदेन रागादिलक्षणप्रतिबन्धनिवृत्तिः संगृह्यते। तदुक्तं वार्ति- के- 'रागद्वेषादिहेतुभ्यः श्रुतं गोपाय मे प्रभो' इति । तत्कर्मत्वादिति । तनोतेर्धातोस्तदर्थकत्वादित्यर्थः । ममेति। ममान्नपानादिकं सर्वमानयन्ती सर्व- दा संपादयन्ती तथा संपादितं सर्वे विस्तारयन्ती वर्धयन्ती वर्धित सर्वे चिरं दीर्घकालं कुर्वाणा वर्तयन्ती, यथा विनष्ठं न भवति तथा कुर्वतीति यावत्। अचिरमिति चछेदः संभावनामात्रेण। दैध्य छान्दसम्। किमि- त्याहेति। किमावहन्तीत्याकाङ्कायामाहेत्यर्थः । अत्रावहन्तीत्यादिपदत्रयं श्रियो

Page 127

४.] शीक्षावल्ली। २७

वस्त्राणि, मम, गावश्च गाश्वेति यावत्; अन्नपाने च सर्वदा; एवमा- दीनि कुर्वाणा श्रीर्या, ताम्, ततः मेधानिर्वर्तनात्परम्, आवह आनय; अमेधसो हि श्रीरनर्थायेवेति। किंविशिष्टां च? लोमशाम् अजाव्यादियु- क्ताम् अन्यैश्च पशुभिः सह युक्ताम् आवहेति। अधिकारादोंकार एव संबोध्यते। स्व्राहाकारो होमार्थमन्त्रान्तज्ञापनार्थः । आ मा यन्तु । आयन्तु मामिति व्यवहितेन संबन्धः, व्रह्मचारिणः। यशः यशस्व्री जने जनेषु असानि भवानि। श्रेयान् प्रशस्यतरः, वस्यसः वसीयसः वसुमत्तराद्वा; तेपु मध्ये श्रेयानसानीत्यर्थः । किं च, तं ब्रह्मणः

विशेषणम्। नन्वावहन्तीत्यादिपदत्रयस्य प्रथमान्तस्य, द्वितीयान्तस्य श्रीपदस्य च कथं विशेषणविशेष्यभावेनान्वय इत्याशङ्कयाध्याहारेण योजयति- श्रीर्या तामिति। तामावहेत्युत्तरेणान्वयः । ततो मे श्रियमित्यत्र तत इत्यस्य व्याख्या मेधानिर्वर्तनात्परमिति। ननु मेधानिष्पत््यनन्तरमेव किमिति श्रीः प्रार्थ्यते? तत्राह-अमेधसो हीति। प्रज्ञाहीनस्यापात्रव्ययादिना धनादिकमनर्थायैवे- त्येतत्प्रसिद्धम्; अतो मेधानन्तरमेव श्रीः प्रार्थ्यत इत्यर्थः । किविशिष्टां चेति। पुनश्च किंविशिष्टामित्यर्थः । अजादीनां लोमशत्वात्तद्रूपा श्रीर्लोमशेति भावः । श्रियमावहेति कः संबोध्यते? तत्राह-अधिकारादिति। संनिधानादित्यर्थः । ओंकारस्य प्रार्थितश्रीप्रदाने योग्यतासूचनार्थो हि-शब्दः । मेधाविनः श्रीयुक्तस्य विद्याप्रदानाय शिष्यप्राप्तिप्रार्थनामन्त्र आ मा यनत्विति। तं व्याचष्टे-आयन्तु मामिति। स्वस्याचार्यत्वप्रयु क्तकीर्तिप्रार्थनामन्त्रो यशो जन इति। तं व्याचष्टे- यशस्वीति। 'वस निवासे' 'वस आच्छादने' इति धातुद्वयादुप्रत्ययः शीलार्थे। वेश्मसु वसनशीलः पराच्छादनशीलो वा वसुः, अतिशयेन वसुर्वसीयान्, तस्माद्वसीयसः । ईलोपश्छान्दसः । यद्वा धनवाचिना वसुशव्देन वसुमालॅल- क्ष्यते; तथा च अतिशयेन वसुमान्वसुमत्तरः, तस्मादित्यर्थ इत्याशयेनाह- वसुमत्तराद्वेति। तेष्विति। वसीयःसु वसुमत्तरेषु वेत्यर्थः । विद्यातत्साधन- प्रार्थनानन्तरं विद्याफलप्रार्थनां दर्शयति-किं चेति। नन्वत्र विदुषो त्रह्मरूपे

Page 128

२८ तैत्तिरीयोपनिषदि [अनु.

कोशभूतं त्वा त्वां हे भग भगवन् पूजावन्, प्रविशानि। प्रविश्य चान- न्यस्त्वदात्मैव भवानीत्यर्थः । सः त्वमपि मा मां भग, प्रविश; आवयोरेक- त्वमेवास्तु। तस्मिन् त्वयि सहस्त्रशाखे बहुभेदे, निमृजे शोधयामि अहं पा- पकृत्याम् । यथा आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति, यथा च मासा: अहर्जरम्, संवत्सरोऽहर्जरः, अहोभिः परिवर्तमानो लो- काञ्जरयतीति; अहानि वा अस्मिन् जीर्यन्ति अन्तर्भवन्तीत्यहर्जरः; तं यथा मासाः यन्ति, एवं मां ब्रह्मचारिणः हे धातः सर्वस्य विधातः, माम् आयन्तु आगच्छन्तु सर्वतः सर्वदिग्भ्यः। प्रतिवेशः श्रमापनयन- स्थानमासन्नं गृहमित्यर्थः। एवं त्वं प्रतिवेश इव त्वच्छीलिनां सर्व- पापदुःखापनयनस्थानमसि। अतो मां प्रति प्रभाहि प्रकाशयात्मानम्, म मा पद्यस्व प्रपद्यस्व च माम्। रसविद्धमिव लोहं त्वन्मयं त्वदा- त्मानं कुर्वित्यर्थः । श्रीकामोऽस्मिन्विद्यापकरणे अभिधीयमानो धनार्थ :;

प्रणवे मुख्यप्रवेशासंभवादहं व्रह्मास्मीति ज्ञानमेव तस्य तस्मिन्प्रवेशत्वेन विव- क्षणीयम्। तस्य चामृतस्य देव धारणो भूयासमित्यनेनैव प्रार्थितत्वात्पुनरुक्ति: स्यादित्याशङ्कय तात्पर्यमाह-प्रविश्य चेति। वाक्यद्वयस्य विवक्षितमर्थ संक्षिप्याह- आवयोरिति। भेदहेतुमज्ञानं नाशयेत्यर्थः; तयोरेकत्वस्य स्वतः सिद्धत्वादिति मन्तव्यम्। बहुभेद इति। शिवविष्णवाद्यनेकमूर्त्युपेते त्वयि पापं नाशयामि, त्वन्मूर्तिभजनेन पापं नाशयामीति यावत्। यदुक्कतं ब्रह्म- चारिणो मामायन्त्विति, तदेव दृष्ठान्तेन प्रपश्चयति- यथेति। अतो मामिति। त्वन्निष्ठायाः संसारश्रमापनयनस्थानत्वात्तदपनयाय मां प्रति स्वात्मानं तत्त्वतः प्रकाशयेत्यर्थः । आदरसूचनार्थमुक्तज्ञानं पुनः प्रार्थयित्वा मुक्तिमपि तदर्थमेव पुनः प्रार्थयते-प्रपद्यस्व चेति। रसविद्धो लोहो रस- मयो भवति, तद्वन्मां त्वन्मयं कुर्वित्यर्थः । विद्यासंनिधौ श्रुतस्य श्रीकामस्य प्रणाड्या विद्यायामुपयोगं दर्शयति- श्रीकामोऽस्मित्नित्यादिना। विद्या

Page 129

४.] शीक्षावल्ली। २९

धनं च कर्मार्थम्; कर्म च उपात्तदुरितक्षयार्थम्; तत्क्षये हि विद्या प्रकाशते । तथा च स्मृतिः- 'ज्ञानमुत्पद्यते पुंसः क्षयात्पापस्य कर्मणः। यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि' इति॥

इति चतुर्थानुवाकभाष्यम्॥

प्रकाशत इति। प्रकाशतेऽभिव्यज्यते, उत्पद्यत इति यावत्। यथा आद- शतले निर्मले प्रतिविम्बं स्फुटं पश्यति, तथा पापक्षयेण निर्मलादर्शतलतुल्ये- डन्तःकरणे ब्रह्मात्मानं पश्यतीति स्मृतेरुत्तरारधार्थः ॥

इति तैत्तिरीयोपनिषद्भाष्यव्याख्यायां वनमालाख्यायां शीक्षावल्लयां. चतुर्थोऽनुयाक:।।

Page 130

पश्चमोऽनुवाकः

भूर्भुवः सुवरिति वा एतास्तिस्त्रो व्याहृतयः। तासामु ह स्मैतां चतुर्थीम्। माहाचमस्यः प्रवेद- यते। मह इति। तड्रूह्म। स आत्मा। अङ्गान्यन्या देवताः। भूरिति वा अयं लोकः। भुव इत्यन्त- रिक्षम्। सुवरित्यसौ लोकः ॥ १ ॥

मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते। भूरिति वा अभ्निः। भुव इति वायुः। सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतीषि महीयन्ते। भूरिति वा ऋचः । भुव इति सामानि। सुवरिति य- जू५षि॥ २॥

मह इति ब्रह्म। ब्रह्मणा वाव सर्वे वेदा मही- यन्ते। भूरिति वै प्राणः। भुव इत्यपानः । सुव- रिति व्यानः । मह इत्यन्नम्। अन्नेन वाव सर्वे प्राणा महीयन्ते। ता वा एताश्चतस्त्रश्चतुर्धा। च-

Page 131

५.] शीक्षावल्ली। ३१

तस्रश्चतस्त्रो व्याहृतयः। ता यो वेद। स वेद ब्रह्म। सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥

इति पश्चमोऽनुवाक:॥

संहिताविषयमुपासनमुक्तम्। तदनु मेधाकामस्य श्रीकामस्य चा- नुकान्ता मन्त्राः । ते च पारम्पर्येण विद्योपयोगार्था एव। अनन्तरं व्याहृत्यात्मनो ब्रह्मणः अन्तरुपासनं स्वाराज्यफलं प्रस्तूयते। भूर्युवः सुव- रितीत्युक्तोपप्रदर्शनार्थः। एतास्तिस्र इति प्रदर्शितानां परामर्शार्थः । परा- मृष्टाः स्मर्यन्ते वै इत्यनेन। तिस्त्र एताः प्रसिद्धा व्याहृतयः स्मर्यन्ते तावद्। तासाम् इयं चतुर्थी व्याहतिर्मह इति; तामेतां चतुर्थी महाचमसस्यापत्यं

ना। संहितोपासनं फलाभिसंधिं विनानुष्ठितं चित्तशुद्धिद्वारा विद्योपयोगार्थ- मिति सूचयति- ते चेति। च-शब्दोऽप्यर्थः । संहितोपासनवत्तेऽपीत्यर्थः । अन्तरिति। व्याहतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धि- मारोहति। अतो व्याहृतिशरीरस्य ब्रह्मणो हृदयान्तरुपासनमुपदिश्यत इत्यर्थः। तात्पर्यमुक्त्वाक्षरव्याख्यानाय प्रतीकमादत्ते- भूर्भुवः सुवरिति । इतीत्यु- क्ेति। भूर्भुवःसुवरिति वाक्येनोक्तानां व्याहतीनां पाठक्रमलब्धक्रमानुवादार्थः श्रतावितिशब्द इत्यर्थः। प्रदर्शितानामिति। प्रदर्शितक्रमोपेतानां व्याह- तीनां स्वरूपानुवादार्थ एतास्तिस्त्रो व्याहृतय इति शब्द इत्यर्थः । ननु क्रमतः स्वरूपतश्च ताः किमर्थ परामृश्यन्ते? उत्राह- परामृष्टा इति। स्मृर्ति विधृ- णोति-तिस्र एता इति। स्मर्यन्ते तावदिति। तावच्छब्दः प्राथम्या र्थः। कर्मकाण्डे कर्माङ्गत्वेन प्रसिद्धव्याहृतयः इह प्रथमं स्मर्यन्ते वै-शब्देन तासु क्रमेणोपासनविधानार्थमित्यर्थः । सोमपानार्थ महांश्चमसो यस्य स महा- चमस इति वेदभाष्यकाराः। अपत्यमिति। गोत्रापत्यमित्यर्थः । तथा च वार्तिके दर्शितम्- 'महाचमसगोत्रत्वाद्गोत्रार्थस्तद्धितो भवेत्' इति। प्रवेदयत इति

Page 132

३२ तैत्तिरीयोपनिषदि [अनु.

माहाचमस्यः प्रवेदयते, उ ह स्म इत्येतेषां वृत्तानुकथनार्थत्वात् विदितवान् ददर्शेत्यर्थः। माहाचमस्यग्रहणमार्षानुस्मरणार्थम्। ऋष्यनुस्मरणम- प्युपासनाङ्गमिति गम्यते, इहोपदेशात्। येयं माहाचमस्येन दृष्टा व्या- हृतिः मह इति, तत् ब्रह्म । महृद्धि किल ब्रह्म ; महती च व्याहृतिः। किं पुनस्तत्! स आत्मा, आम्नोतेर्व्याप्तिकर्मणः आत्मा; इतराश्च व्याहृतयो लोका देवा वेदा: प्राणाश्च मह इत्यनेन व्याहत्यात्मना आदित्यच-

लटो भूतार्थपरत्वेन व्याख्याने हेतुमाह -- उ ह स्म इत्येतेषामिति। ऋषे- श्रतुर्थव्याहृतिविषयकं वेदनं योगप्रभावजनितं प्रत्यक्षमेवेति मत्वाह- दद- र्शेत्यर्थ इति। आर्षेति। ऋषिसंबन्ध्यनुस्मरणमार्षम, तस्यानुस्मरणस्य कर्त- व्यताद्योतनार्थमित्यर्थः । ननु तस्योपासनाङ्गत्वे सति कर्तव्यता सिध्यति, तदेव कुत इति; तत्राह-ऋष्यनुस्मरणमपीति। इहोपदेशादिति। उपासन- प्रकरणे ऋषे: संकीरतनादित्यर्थः। उत्तरत्रोपदेक्ष्यमाणाया गतेरपि चिन्तनमुपा- सनाङ्गत्वेन कर्तव्यमिहोपदेशाविशेषादित्यपेरर्थः । तद्रह्मेति। तच्चतुर्थव्याहृति- स्वरूपं ब्रह्मेति चिन्तयेदित्यर्थः । इतरव्याहृतित्यागेन चतुर्थव्याहृतिस्वरूपे ब्रह्म- दृष्टिविधाने नियामकमाह-महद्धि किल ब्रह्म महती च व्याहृतिरिति। महत्त्वं व्यापकत्वम्, तच्च ब्रह्मणः श्रुतिषु प्रसिद्धमिति द्योतनार्थौ हि किलेति निपातौ। चतुर्थव्याहृतेरितरव्याहृत्यपेक्षया व्यापकत्वं वक्ष्यति । तथा च व्यापकत्वसाम्येन चतुर्थव्याहृतिस्वरूपे ब्रह्मद्ृष्टिविधिरिति भावः । चतुर्थव्याहृतेर्व्यापकत्वं निरूपयितुं पृच्छति- किं पुनस्तदिति। मह इति व्याहृतिस्वरूपं ब्रह्मेत्युक्तम्, तद्वयाहृतिस्वरूपं पुनरपि किं कीदृशमि- त्यक्षरार्थः । अत्रोत्तरं स आत्मेति श्रुतिः । विधेयापेक्षया पुंलिङ्गनिर्देशः, स चतु- र्थव्याहृतिस्वरूपमात्मा इतरव्याहृत्यपेक्षया व्यापकमित्यर्थः । ननु चेतने रूढस्यात्मशब्दस्य कथं व्यापकत्वमर्थः१ योगेनेत्याह- आम्रोतेरिति । व्याप्ति: कर्म क्रिया अर्थो यस्य; ततश्च व्याप्तिवाचकादाप्नोतेः सकाशात्निष्प- न्नोऽयमात्मशब्दो व्यापकत्वबोधक इत्यर्थः । मह इति व्याहृतेरात्मश्रुत्युक्त मितरव्याहृत्यपेक्षया व्यापकत्वमुपपादयति- इतराश्चेत्यादिना यतोऽत

Page 133

4.] शीक्षावल्ली। ३३

न्द्रव्रह्मान्नभूतेन व्याप्यन्ते यतः, अतः अङ्गानि अवयवाः अन्या देवताः। देवताग्रहणमुपलक्षणार्थ लोकादीनाम्। मह इत्येतस्य व्याहृत्यात्मनो

इत्यन्तेन। च-शब्दोऽवधारणे। नन्वितरव्याहृतयो मह इत्यनेन व्या- व्यन्त इत्ययुक्तम्, इतरव्याहृतिषु मह इत्यस्याक्षरानुवृत्तेरदर्शनादित्याश- क्कयाह-आदित्यचन्द्रव्रह्मान्नभूतेनेति। मह इति व्याहृत्यात्मन आ- दित्यादिभूतत्वमित्थं श्रयते- 'मह इत्यादित्यः, मह इति चन्द्रमाः, मह इति ब्रह्म, मह इत्यन्नम्' इति। मह इति व्रह्मेत्यत्र ब्रह्मोंकार इति वक्ष्यति। नन्वादित्यादीनां लोकादिष्वेव व्याप्तिः, न व्याहृतिषु, अनुपल- म्भात् ; ततश्च कथमादित्यचन्द्रव्रह्मान्नभूतेन मह इत्यनेन इतरा व्याहतयो व्याप्यन्त इत्याशङ्कय तासामादित्यादिव्याप्यतासिद्धयर्थ लोकाद्यात्मकतामाह- लोका देवा वेदाः प्राणा्चेति। इतरव्याहृतयो लोकदेववेद्प्राणात्मिका इत्य- क्षरार्थः । तासामित्थं लोकाद्यात्मकत्वं श्रूयते- 'भूरिति वा अयं लोकः, भुव इत्यन्तरिक्षम्, सुवरित्यसौ लोकः ; भूरिति वा अग्निः, भुव इति वायुः, सुवरित्यादित्यः ; भूरिति वा ऋचः, भुव इति सामानि, सुवरिति यजूषि; भूरिति वै प्राण :; भुव इत्यपानः, सुवरिति व्यानः' इति। अत्र पृथिव्यन्तरि- क्षद्युलोकानामादित्यव्याप्यता प्रसिद्धा, अगनिवाय्वादित्यदेवतानां चन्द्रव्याप्यता प्रसिद्धैव, चन्द्रसूर्ययो: स्वदीप्त्या सर्वलोकव्यापकत्वात् ; वागात्मकानां वेदाना- मोंकारव्याप्यता 'तद्यथा शङ्कना' इत्यादिश्रुतिसिद्धा, प्राणानामन्नरसद्वारान्न- व्याप्यता प्रसिद्धा; तथा च लोकदेववेदप्राणात्मिका इतरव्याहृतयो यत आदि- त्यचन्द्रब्रह्मान्नभूतेन मह इत्यनेन व्याहृत्यात्मना व्याप्यन्ते, अतो मह इति व्या- हतेरितरापेक्षया व्यापकत्वमित्यर्थः इत्थं स आत्मेति वाक्यं व्या- ख्याय अनन्तरवाक्यमादत्ते-अङ्गानीति । नन्वन्या व्याहृतयो यथा देवतारूपत्वेन श्रुतास्तथा लोकादिरूपत्वेनापि श्रुताः; ततश्र कथमग्न्या- दिदेवतारूपाणामेव तासामङ्गत्ववचनम्? तत्राह- देवताग्रहणमिति । देवतापदमजहल्लक्षणया लोकादीनामपि ज्ञापनार्थम्; अतो नोक्तदोष इत्य- र्थः । लोकाद्युपलक्षणे कृते सति फलितम् 'अङ्गान्यन्या देवताः' इति T. 5

Page 134

३४ तैतिरीयोपनिषदि [अनु.

देवा लोकादयश्च सर्वे अवयवभूताः यत आदित्यादिभि्लोका- दयो महीयन्त इति । आत्मना ह्यङ्गानि महीयन्ते । महनं वृद्धि:

वाक्यार्थ दर्शयति- मह इत्येतस्येत्यादिना इतीत्यन्तेन। अत्रेति- शब्दोऽत इत्यर्थे, यत इत्युपक्र्मात्; तथा च यत आदित्यादिभिलों- कादयो महीयन्ते अतः सर्वे देवा लोकादयश्च मह इत्येतस्य व्या- हत्यात्मनोऽवयवभूता इति योजना। अत्र दष्ठान्तमाह- आत्मना हीति। प्रसिद्धशरीरस्य मध्यभागोSत्रात्मशब्दार्थः । तेन हस्तपादाद्यङ्गानि महीयन्ते। शरीरमध्यभागगतान्नादिना अङ्गानां वृद्धिः प्रसिद्धेति हि-शब्दार्थः । अयं भा- व :- यथा देवदत्तस्य मध्यमभागं प्रति पादादीन्यङ्गानि मध्यमभागाधीनवृद्धि- भाक्त्वात्, मध्यमभागश्चाङ्गी तद्वृद्धिहेतुत्वात्, तथा लोकाद्यात्मिका इतरव्या- हृतय: पादादिरूपाङ्गाणि, आदित्याद्यात्मकं चतुर्थव्याहृतिस्वरूपमङ्गीति कल्प्यते; मह इत्यस्यादित्याद्यात्मनेतरवृद्धिहेतुत्वेन वृद्धिहेतुत्वसाम्यात्, इतरव्याहतीनां च लोकाद्यात्मना तद्धीनवृद्धिभाक्त्वेन प्रसिद्धाङ्गवद्वद्धिभाक्त्वसाम्यात् ; त- त्रापि प्रथमा व्याहृति: पादौ, द्वितीया बाहू, तृतीया शिर इति विभाग: ; तथा च व्याहतिचतुष्टयं मिलित्वा शरीरं संपद्यते; तस्मिन्व्याहृतिमये शरीरे यद- ङ्वित्वेन कल्पितं चतुर्थव्याहृतिस्वरूपं तत्र तद्धह्मेति वाक्येन ब्रह्मदृष्टिर्विहिता ; तथा च वक्ष्यति- मह इत्यङ्गिनि ब्रह्मणीति। आदित्यादीनां च लोकादि- वृद्धिहेतुत्वमित्थं श्रूयते- 'आदित्येन वाव सर्वे लोका महीयन्ते, चन्द्र मसा वाव सर्वाणि ज्योतीषि महीयन्ते, ब्रह्मणा वाव सर्वे वेदा मही- यन्ते, अन्नेन वाव सर्वे प्राणा महीयन्ते' इति। अयमर्थ :- लोकास्तावदा- दित्येन प्रकाशिता: सन्तः प्राणिनां व्यवहार्यत्वलक्षणां वृद्धिं प्राप्रुवन्ति; अभि- वाय्वादित्यदेवतारूपाणि ज्योतींषि चन्द्रमसा वर्धन्त इत्येतत् 'प्रथमां पिबते वहिः' इत्यादिशास्त्रसिद्धम्, चन्द्रकलापानेन तेषां वृद्धेरावश्यकत्वात्; ब्रह्मणा प्रणवेन सर्वे वेदा वर्धन्ते वेदवृद्धेः प्रणवपूर्वकाध्ययनाधीनत्वात्, तथा च वक्ष्यति 'ओमिति ब्राह्मणः प्रवक्ष्यन्नाह इति; अन्नेन प्राणा वर्धन्त इत्येतत्प्र- सिद्धम्, श्रुतिश्चात्र भवति 'शुष्यति वै प्राण ऋतेऽन्नात्' इति। भूरिति वा भयं

Page 135

4.] शीक्षावल्ली। ३५

उपचयः। महीयन्ते वर्धन्त इत्यर्थः। अयं लोकः अग्निः ऋग्वेदः प्राण इति प्रथमा व्याहृतिः भूरिति; एवमुत्तरा एकैकशश्चतुर्धा भवन्ति। मह इति ब्रह्म ब्रह्मेत्योंकारः, शब्दाधिकारे अन्यस्यासंभवात्। उक्तार्थ- मन्यत्। ता वा एताश्चतस्त्रश्चतुर्घेति। ता वै एताः भूर्युवःसुवर्मह इति चतस्त्रः एकैकशः चतुर्धा चतुःप्रकाराः। धा-शब्दः प्रकारवचनः । चतस्र- श्वतस्त्रः सत्यः चतुर्धा भवन्तीत्यर्थः। तासां यथाक्लृप्तानां पुनरुपदेश- स्तथैवोपासननियमार्थः। ताः यथोक्ता व्याहतीः यः वेद, स वेद विजा- नाति। किम्? ब्रह्म । ननु, 'तङ्रह्म स आत्मा' इति ज्ञाते ब्रह्म-

लोक इत्यादावैकैका व्याहतिश्चतुष्प्रकारा ज्ञातव्येति तात्पर्यमाह-अयं लोक इत्यादिना। भूरितीति। चतुर्धा भवतीति शेषः । एवमुत्तरा इति । अन्त- रिक्षं वायुः सामान्यपान इति द्वितीया व्याहृतिर्भुव इति, सुवर्लोक आदित्यो यजूंषि व्यान इति तृतीया व्याहृतिः सुवरिति, आदित्यश्चन्द्रमा ओंकारोऽन्न- मिति चतुर्थी व्याह्ृतिर्मह इति; एवमेता उत्तरा व्याहृतयः प्रत्येकं चतुर्धा भवन्तीत्यर्थः । मह इति व्रह्मेत्यत्र ब्रह्मशब्दस्य मुख्यार्थपरत्वं वारयति -- त्रह्मेत्योंकार इति। भूरिति वा ऋच इत्यादिना वेदावयव भूतशब्दसंनिधाने मु- ख्यार्थग्रहणायोगात्, चतुर्थव्याहतौ पूर्वमेव मुख्यन्रह्मदृष्टेरुक्तत्वेन पौनरुक्त्यप्रस- क्राच्चेत्यपि द्रष्टव्यम्। धा-शव्दस्य प्रकारवचनत्वे सति चतस्त्रश्चतुर्धेति वाक्यस्य फलितमर्थ क्रियाध्याहारपूर्वकं दर्शयति- चतस्त्रश्चतस्त्रः सत्य इति। स्वरू- पेण चतस्रो व्याहतयो द्रष्टव्यलोकादिभेदेन प्रत्येकं चतस्त्रः सत्य इत्यर्थः । ननु व्याहृतिषु प्रत्येकं पदार्थचतुष्टयदृष्टिवाक्सेभ्य एव तासां प्रत्येकं चतुर्धात्वक्लप्ति- सिद्धेः चतस्त्रश्चतुर्धेति वाक्यं पुनरुक्तमिति ; नेत्याह- तार्सां यथाक्लृप्ताना- मिति। भूरिति वा अयं लोक इत्यादिवचनानां व्याहृतिस्तुतिपरत्वशङ्कानिरा- सेन तथैवोपासनकर्तव्यतावश्यकत्वद्योतनार्थ इत्यर्थः । चतस्त्रश्चतस्त्रो व्याहृतय इति वाक्यं तु निरूपितानां तासामुपसंहारार्थमिति भावः । ज्ञातस्य ब्रह्मणः पुनर्ज्ञानोपदेशे पौनरुक्त्यं स्यादिति शक्कते- नन्विति। तद्रह्मेति वाक्ये

Page 136

३६ तैत्तिरीयोपनिषदि [अनु.

णि, न वक्तव्यमविज्ञातवत् 'स वेद ब्रह्म' इति; न; तद्विशेष- विवक्षुत्वाददोपः । सत्यं विज्ञातं चतुर्थव्याहृत्यात्म ब्रह्मेति; न तु तद्वि- शेषो हृदयान्तरुपलभ्यत्वमनोमयत्वादिः शान्तिसमृद्धमित्येवमन्तो विशे- षणविशेष्यरूपो धर्मपूगो विज्ञायत इति; तद्विवक्षु हि शास्त्रमविज्ञातमिव ब्रह्म मत्वा 'स वेद ब्रह्म' इत्याह । अतो न दोषः । यो हि वक्ष्यमाणेन धर्मपूगेण विशिष्टं ब्रह्म वेद, स वेद ब्रह्म इत्यभिप्रायः । अतो वक्ष्यमा-

ब्रह्ममात्रमवगतं न तु तद्गुणजातम्, 'स वेद ब्रह्म' इति वाक्ये तु वक्ष्य- माणगुणविशिष्टत्वेन ज्ञातव्यत्वमुपदिश्यते। तथा च वक्ष्यमाणगुणविशिष्टत्वेन पूर्वमज्ञातत्वान्न पौनरुक्त्यमिति परिहरति-नेति। न च वक्ष्यमाणगुणाना मपि वक्ष्यमाणानुवाकेनैवावगन्तुं शक्यत्वादिदं वचनं व्यर्थमेव स्यादिति वा च्यम्; एतदनुवाकावगते चतुर्थव्याहृत्यात्मके ब्रह्मणि वक्ष्यमाणगुणवत्त्वावगम- स्यैतद्वचनाधीनत्वेन वैयर्थ्याप्रसक्तेरिति भावः । संग्रहं विवृणोति -- सत्य- मित्यादिना। न तु तद्विशेषो विज्ञायत इति संबन्धः । तस्य ब्रह्मणो विशेष- मेव विवृणोति- हृदयान्तरित्यादिना। योऽयमुत्तरानुवाकोपक्रमे दर्शितो हृदयान्तरुपलभ्यमानत्वमनोमयत्वादिरहहिरण्मयत्वान्तो गुणपूग: यश्च तदुपसंहारे प्रदर्शित आकाशशरित्वादिशान्तिसमृद्धमित्येवमन्तो धर्मपूगः, स न ज्ञायत इत्यर्थः । विशेषणविशेष्यरूप इत्यत्र विशेष्यपद्मविवक्षितार्थम्; अत एव धर्मपूगस्य विशेषणत्वमात्रमेव वक्ष्यति-धर्मपूगेण विशिष्टं ब्रह्मेति। यद्वा अत्र विशेषणानां पाठक्रमानुसारेण क्रमविशिष्टतया चिन्तनमभिप्रेत्य विशेषण- विशेष्यरूपत्वमुक्तम्; तच्च पूर्वापरीभूतत्वरूपम् । अत एव 'इति प्राचीनयोग्य' इत्यत्र इतिशब्देन प्रकारवाचिना क्रमविशिष्टतयैव गुणानामुपासनं प्रतीयत इति बोध्यम्। ननु तद्रह्म स आत्मेत्यत्रास्तु तद्विशेषाज्ञानम्; ततः किम्? तत्राह -तद्विवस्विति। एवं पौनरुक्त्यदोषं परिहृत्य स वेद व्रह्मेति वाक्य- स्यार्थ कथयति- यो हीति। ननु लोकादिदृष्टिपरिगृहीतव्याहतिशरीरव्रह्मो- पासनविधायकस्यास्यानुवाकस्य वक्ष्यमाणेनानुवाकेनैकवाक्यतां विना कथं तत- त्यगुणानामत्रान्वय इत्याशङ्कय वक्ष्यमाणगुणाकर्षकात्स वेद ब्रह्मेति वाक्या-

Page 137

५.] शीक्षावल्ली। ३७

णानुवाकेनैकवाक्यता अस्य, उभयोर्हयनुवाकयोरेकमुपासनम् । लिङ्गाच्च। 'भूरित्यग्रौ प्रतितिष्ठति' इत्यादिकं लिङ्गमुपासनैकत्वे। विधायकाभा- वाच्च। न हि वेद उपासीतेति वा विधायकः कश्चिच्छब्दोऽस्ति। व्या- हृत्यनुवाके 'ता यो वेद' इति तु वक्ष्यमाणार्थत्वान्नोपसनाभेदकः। वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम्। सर्वे देवाः अस्मै एवं विदुषे अङ्गभूताः आवहन्ति आनयन्ति बलिम्, स्वराज्यप्राप्तौ सत्या- मित्यर्थः ॥ इति पञ्चमानुवाकभाष्यम्॥।

देवानयोरेकवाक्यत्वं कल्प्यत इत्याशयेनाह-अतो वक्ष्यमाणेति। नन्वनुवा- कद्वये उपासनैक्यं विना कथमेकवाक्यत्वम्, अर्थैक्यनिबन्धनत्वादेकवाक्य- ताया इत्याशङ्कय, तद्पि वक्ष्यमाणगुणाकर्षकवाक्यबलादेव कल्प्यत इत्या- शयेनाह- उभयोरिति। लिङ्गाच्चोपासनमेकमेवेत्युक्तमेव विवृणोति- भूरित्यग्राविति। व्याहृत्यनुवाकोक्तानामग्न्यादिदृष्टीनां वक्ष्यमाणानुवाके फ- लकथनलिङ्गाद्वयाहृतिशरीरव्रह्मोपासनमुभयत्रैकमिति गम्यत इत्यर्थः । वि- धायकाभावाच्चेति। उपासनभेदकविध्यभावादित्यर्थः । तमेव विवृणोति- न हीति। ननु व्याहृत्यनुवाकस्थः 'ता यो वेद' इति विधिरेव तद्गेदकोऽस्तु; नेत्याह -- ता यो वेदेति त्विति। इतिशब्दो वेदेति विधिं परामृशति ; तथा च 'ता यो वेद' इत्ययं विधिनोपासनभेदक इति योजना। अयं भाव :- 'ता यो वेद' इत्यत्र व्याहतिशरीरस्य ब्रह्मणः प्रधानविद्याविधिरु- त्तरानुवाके गुणविधिरिति प्रकारेणोपासनैक्येऽपि 'ता यो वेद' इति विधि- संभवान्न तस्य विद्याभेदकत्वमिति। ननु तर्हि 'स वेद ब्रह्म' इति विधिरभे- दकोऽस्तु; नेत्याह -- वक्ष्यमाणार्थत्वान्नोपासनभेदक इति। 'स वेद ब्रह्म' इति वाक्यं व्याहृत्यनुवाकस्थे व्रह्मोपासने वक्ष्यमाणगुणाकर्षणार्थत्वान्न विद्यै- क्यविरोधि, किं तु तदनुकूलमेवेत्यर्थः। हेत्वसिद्धिं पूर्वोक्तार्थस्मारणेन निरा- चष्टे -- वक्ष्यमाणार्थत्वं चति। विदुषे देवा: कदा बलिं प्रयच्छन्तीत्याका- ह्वायां स्वाराज्यप्राप्त्यनन्तरमित्याशयेनाह-स्वाराज्योति। स्वयमेव राजा स्व.

Page 138

३८ तैत्तिरीयोपनिषदि [मनु.

राट्, तस्य भावः स्वाराज्यम्, अङ्गदेवताधिपतित्वमिति यावत्। तत्प्राप्त्यन- न्तरमेवाङ्गदेवताभिर्बल्युपहरणमुचितम्; अत एवार्थक्रमानुसारेण 'सर्वेडस्मै देवाः' इति वाक्यम् 'आप्नोति स्वाराज्यम्' इति वाक्यानन्तरं पठनीयम्। एतञ्चाग्रे स्फुटं वक्ष्यति-स्वयमेव राजाधिपतिर्भवत्यङ्गभूतानां देवतानां यथा ब्रह्म देवाश्च सर्वेडस्मै बलिमावहन्तीति। एतेनानुवाकयोः पृथक्फलश्रवणादु- पासनभेद इति शक्कापि निरस्ता भवति फलभेदश्रवणस्यैवासिद्धेरिति ।।

इति तैत्तिरीयोपनिषद्चाष्यव्याख्यायां वनमालाख्यायां शीक्षावल्लयां पञ्चमोऽनुवाक:॥

Page 139

षष्ठोऽनुवाकः ॥

स य एषोऽन्तर्हृदय आकाशः। तस्मिन्नयं पु- रुषो मनोमयः । अमृतो हिरण्मयः। अन्तरेण तालुके। य एष स्तन इवावलम्बते। सेन्द्रयो- निः। यत्रासौ केशान्तो विवर्तते। व्यपोह्य शीर्ष- कपाले। भूरित्यऔ प्रतितिष्ठति। भुव इति वायौ ॥ १ ॥

सुवरित्यादित्ये। मह इति ब्रह्मणि। आप्नोति स्वाराज्यम्। आप्नोति मनसस्पतिम्। वाक्पतिश्च- क्षुष्पतिः। श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भव- ति। आकाशशरीरं ब्रह्म। सत्यात्म प्राणारामं मन आनन्दम्। शान्तिसमृद्धममृतम्। इति प्रा- चीनयोग्योपास्स्व ॥२॥

इति षष्ठोऽनुवाक: ॥ भूर्युवःसुवःस्वरूपा मह इत्येतस्य व्याहृत्यात्मनो ब्रह्मणोडङ्गा- वृत्तानुवादपूर्वकमुत्तरानुवाकतात्पर्यमाह -- भूर्युवरित्यादिना। मह इवि

Page 140

80 तैत्तिरीयोपनिषदि [अनु.

न्यन्या देवता इत्युक्तम् । यस्य ता अङ्गभूताः, तस्यैतस्य ब्रह्मणः साक्षा- दुपलब्ध्यर्थमुपासनार्थ च हृदयाकाशः स्थानमुच्यते, सालग्राम इव वि- ष्णोः। तस्मिन्हि तड्रह्म उपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षादु- पलभ्यते, पाणाविवामलकम्। मार्गश्र सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते-स इति व्युत्क्रम्य अयं पुरुष इत्यनेन संब- ध्यते। य एषः अन्तर्हृदये हृदयस्यान्तः। हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेकनाडीसुषिर ऊर्ध्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते। तस्यान्तः य एप आकाशः प्रसिद्ध एव करकाकाशवत्, तस्मिन् सोऽयं पुरुषः, पुरे शयनात्, पूर्णत्वात्, पूर्णा वा भूरादयो लोका येनेति पुरुषः ; मनोमयः, मनो ज्ञानं मनुतेर्ज्ञा-

व्याहृत्यपेक्षया अन्या भूर्भुवःसुवःस्वरूपा व्याहतयो देवतादिरूपाश्चतुर्थव्याह- त्यात्मकस्य ब्रह्मणोऽङ्गानीत्युक्तमित्यर्थः । एतस्येति। स इति तच्छव्देनास्मि- न्ननुवाके समाकृष्टस्येत्यर्थः । पुरुषपदापेक्षया स इति पुंलिङ्गनिर्देश इति न त- द्विरोधः । उपासनार्थ साक्षादुपलब्ध्यर्थ चेत्यर्थक्रमः उपासनफलत्वात्साक्षात्का- रस्य। उपासनार्थ स्थानविशेषोपदेशे दृष्टान्तमाह -- सालग्राम इवेति। साक्षा- दुपलब्ध्यर्थमित्युक्तं प्रपश्चयति- तस्मिन्हीति। उपासकानामिदं प्रसिद्धमिति द्योतनार्थो हि-शब्दः । व्युत्क्रम्येति। संनिहितमाकाशमुल्लङ्गयेत्यर्थः । हृदयस्व- रूपमाह-पुण्डरीकेति। प्राणायतन इति। 'हृदि प्राणः' इति प्रसिद्धे रिति भावः । अनेकेति। अनेकनाड्याश्रयभूतानि सुषिराणि यस्येति विग्रहः । पुण्डरीका कारत्वाधोमुखत्वोर्ध्वनालत्वविशिष्टे मांसखण्डे मानमाह-विशस्य- मान इति। 'पद्मकोशप्रतीकाशं हृदय चाप्यधोमुखम्' इत्यादिश्रुतिप्रसिद्धो यथोक्तमांसखण्डो विशस्यमाने पशौ प्रत्यक्षत उपलभ्यत इत्यर्थः । प्रसिद्ध एवेति। 'योऽयमन्तर्हृदय आकाशः' इत्यादिश्रुतिष्विति शेषः । करकाकाशो यथा प्रसिद्ध इति दृष्टान्तयोजना। पुरि हृदये शरीरे वा शयनादवस्थाना- त्पुरुषः, पूर्णत्वाद्वा पुरुषः, भूरादयः पूर्णा येन स पुरुष इति वा। मननं

Page 141

६.] शीक्षावल्ली। ४१

नकर्मणः, तन्मयः तत्पायः, तदुपलभ्यत्वात् । मनुते अनेनेति वा मनः अन्तःकरणम् ; तदभिमानी तन्मयः, तल्िङ्गो वा। अमृतः अमरणधर्मा। हिरण्मयः ज्योतिर्मयः । तस्यैवंलक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्य इन्द्ररूपस्य ईदृटशस्वरूपप्रतिपत्तये मार्गोऽभिधीयते-हृदया- दूर्ध्व प्रवटत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु प्रसिद्धा। सा च अन्तरेण मध्ये तालुके तालुकयोर्गता। यश्चैष तालुकयोर्मध्ये स्तन इव अव- लम्वते मांसखण्डः, तस्य च अन्तरेणेत्येतत् । यत्र च केशान्तः केशानामन्तः अवसानं मूलं विवर्तते विभागेन वर्तते, मूर्धप्रदेश

मन इति भावव्युत्पत्तिमाश्रित्याह- मनो ज्ञानमिति। मननं ज्ञानमित्यत्र हेतुमाह- मनुतेरिति। ज्ञानं कर्म क्रिया वाच्यभूता यस्य तस्मान्मनुतेर्धा- तोर्निष्पन्नो मनःशब्दो यतो ज्ञानवाचीत्यर्थः । पुरुषस्य मनोविकारत्वाभावा- दाह-तत्पाय इति। मनःप्रधान इत्यर्थः । तत्र हेतुमाह- तदुपलभ्यत्वा- दिति। तेनोपासनसंस्कृतेन मनसोपलभ्यमानत्वादित्यर्थः । तल्लिङ्गो वेति। अस्मदादिमनसा अस्मदादिभिरनिवार्येण तन्नियन्तृतया ब्रह्मानुमानसंभवादिति भावः । ज्योतिर्मय इति। स्वप्रकाश इत्यर्थः । व्याहृतिशरीरे ब्रह्मणि मनोम- यत्वादिगुणवत्यहंग्रहमभिप्रेत्य विदुष आत्मभूतस्येत्युक्तम्, अहंग्रहं विना तद्भा- वायोगात् तद्भावं विना च स्वाराज्यप्राप्त्ययोगात्; अतः स्वाराज्यप्राप्तिवच- नानुरोधेन विदुषो ब्रह्मभावो ब्रह्मण्यहंग्रहश्च कल्प्यत इति भावः । तथा च श्रुति :- 'देवो भूत्वा देवानप्येति' इति। इहैव भावनया देवभावं प्राप्य देह- पातोत्तरकालं देवभावं प्राप्नोतीति तदर्थ । इन्द्ररूपस्येति। 'सेन्द्रयोनिः' इति वाक्यशेषदर्शनादिन्द्ररूपत्वमुक्तम्। 'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धा- नमभि निःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति' इति श्रुत्यन्तरमनुसृत्याह-हृद- यादूध्वमिति। श्रुतिप्रसिद्धायां शताधिकारयां नाड्यां नामान्तरेण योगशास्त्रप्र- सिद्धिं कथयति- सुपुम्नेति। स्तन इवेति। आस्यान्तरिति शेषः । तेनेति। तस्येत्यर्थः । तस्य चान्तरेण अन्तर्देशं प्राप्यमाणा शीर्षकपाले व्यपोह्य या *T. 6

Page 142

४२ तैत्तिरीयोपनिषदि [अनु०

इत्यर्थः; तं देशं प्राप्यमाणा तेनान्तरेण व्यपोह्य विभज्य विदार्य शीर्ष- कपाले शिरःकपाले, निर्गता या, सा इन्द्रयोनिः इन्द्रस्य ब्रह्मणः योनिः मार्ग:, स्वरूपप्रतिपत्तिद्वारमित्यर्थः । तया एवं विद्वान्मनोमयात्मदर्शी मूर्धो विनिष्क्रम्य अस्य लोकस्याधिष्ठाता भूरिति व्याहृतिरूपो योऽभनिः महतो ब्रह्मणोडङ्गभूतः, तस्मिन् अग्नौ प्रतितिष्ठति, अग्न्यात्मना इमं लोकं व्याप्नोतीत्यर्थः । तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ, प्रतिति- ष्ठतीत्यनुवर्तते। सुवरिति तृतीयव्याहृत्यात्मनि आदित्ये। मह इत्यङ्गिनि चतुर्थव्याहत्यात्मनि ब्रह्मणि प्रतितिष्ठतीति। नेष्वात्मभावेन स्थित्वा आ- म्ोति ब्रह्मभूतं स्वाराज्यं स्वराड्भाव स्वयमेव राजा अधिपतिर्भवति अ-

निर्गतेति योजना। विनिष्क्रम्य प्रतितिष्ठतीति संबन्धः । लोकस्येति। ऋग्वे- दस्य प्राणस्य चेत्यर्थः। इमं लोकमिति। ऋग्वेदं प्राणं चेत्यपि द्रष्टव्यम्। प्रथमव्याहृतौ लोकाम्निऋग्वेदप्राणानां चतुर्णी दष्टत्वेन लोकामनिभाववद्दग्वेद- प्राणभावस्यापि वक्तव्यत्वात्। न च प्रधान्रह्मोपासनफलवचनेन 'मह इति ब्रह्मणि' इत्यनेन सर्वात्मकव्रह्मभावे कथिते सति विदुष ऋग्वेदप्राणभावस्यापि सिद्धत्वान्न पृथक्तद्भावो वक्तव्य इति वाच्यम्; तथा सति लोकाभनिभाव- स्थापि तत एव सिद्धत्वेन 'अभ्नौ प्रतितिष्ठति' इति श्रुतिवचनमग्न्या- त्मनेमं लोकं व्याप्नोतीति भाष्यवचनं चानर्थकं स्यात्। एतेन भूरिति व्याहतौ ऋग्वेदप्राणदृष्टयोर्त्रह्मोपासनं प्रत्यङ्गतया प्रधानफलेनैव फल- वत्वाच्छूतौ भाष्ये च पृथक्तद्भाववचनाभाव इति शङ्कापि निरस्ता, तस्यां लोकामिदृष्टयोर्यङ्गत्वेन तत्फलस्याव्यवक्तव्यत्वापत्तेः। यदि चाङ्गानां प्रधान- फलेनैव फलवतत्वेऽप्यङ्गस्तुत्यर्थ पृथक्फलवचनमपेक्षितमित्युच्येत, तदा ऋग्वे- दादिदृष्टावपि तदर्थ पृथक्फलं वक्तव्यम्; एवमुत्तरत्रापि द्रष्टव्यमिति संक्षेपः । आत्मभावेन स्थित्वेति। अत्र क्रमकथनं पाठक्रममाश्रित्य। वस्तुतस्तु क्रमो न विवक्षितः, विदुषः सर्वात्मकब्रह्मभाव एवाग्न्यादिभावस्यान्तभविण क्रमाभा- वादिति मन्तव्यम्। ब्रह्मभूतमिति । 'मह इति ब्रह्मणि' इति वाक्योक्तव्रह्म-

Page 143

६.] शीक्षावल्ली। ४३

ङ्भूतानां देवतानां यथा ब्रह्म; देवाश्च सर्वे अस्मै अद्गिने बलिमावहन्ति अङ्गभूताः यथा ब्रह्मणे । आम्नोति मनसस्पतिम्, सर्वेषां हि मनसां पतिः, सर्वात्मकत्वाङ्रह्मणः; सवैहि मनोभिस्तन्मनुते। किं च, वाक्प- तिः सर्वासां वाचां पतिर्भवति । तथैव चक्षुष्पतिः चक्षुपां पतिः। श्रो- त्राणां च विज्ञानानां च पतिः, सर्वात्मकत्वात् । सर्वप्राणिनां करणै- स्तद्वान्भवतीत्यर्थः। किं च, ततोऽप्यधिकतरमेतद्भवति। किं तत्! उ- च्यते-आकाशशरीरम् आकाशः शरीरमस्य, आकाशवद्वा सूक्ष्मं शरी- रमस्येत्याकाशशरीरम्। किं तत्१ प्रकृतं ब्रह्म । सत्यात्म, सत्यं मूर्ता-

भावप्रयुक्तमित्यर्थः । उपासक: सर्वेषां हि मनसां पतिर्भवतीत्यत्र हि-शब्दसूचितं हेतुमाह-सर्वात्मकत्वाङ्र्ह्मण इति। ब्रह्मभूतस्य विदुषः सर्वजीवात्मकत्वा- दित्यर्थः । ननु ब्रह्मणः सर्वात्मकत्वे सिद्धे तद्भावमापन्नस्य विदुषः सर्वात्मकत्वं स्यात्, तदेव कुत इत्यत्राह-सर्वैहीति। तद्रह्म सर्वैरुपाधिभूतैर्मनोभि: प्रा- प्रजीवभावं सन्मनुते चक्षुरादिद्वारा रूपादिकमनुभवति। ब्रह्मणो जीवभावे मानत्वेन प्रवेशवाक्यादिसूचनार्थो हि-शव्दः । न केवलमुपासकः सर्व- मनसां पतिः, किं तु वागादीनामपीत्याह-किं चेति। सर्वात्मकत्वा- दिति । विदुष इति शेषः । ननु त्वगादिपतित्वमपि कुतो नोक्तमि- त्याशङ्कय आप्नोति मनसस्पतिमित्यादेर्विवक्षितमर्थमाह-सर्वपाणिनामिति। तद्वानिति। नियम्यनियामकभावसंबन्धो मत्वर्थः । न केवलमेतावदेव विदुषः फलं भवति, किं त्वितोऽपि बहु फलं भवतीत्याह- किं च ततोऽपीति। शरीरमस्येति। शरीरपदं स्वरूपपरम्; ततश्च आकाशमिष्ठानभूतस्य ब्रह्मणः कल्पितं स्वरूपमित्यर्थः । सूक्ष्ममिति। जलादिभिर्दुःखादिभिश्च संश्लेषायोग्य- त्वं सूक्ष्मत्वम्; तदाह भगवान्-'यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्य- ते। सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते' इति। सत्यमिति। सद्द्ूतत्र- यलक्षणं मूर्तम्, व्यद्वाय्वाकाशात्मकममूर्तम्, तदुभयं सच्च त्यच् सत्त्यमिति व्युत्पत्त्या सत्त्यशब्दवाच्यम्, तदात्मा कल्पितं रूपमस्येत्यर्थः। सत्यशब्दस्य

Page 144

४४ तैत्तिरीयोपनिषदि [अनु.

मूर्तम् अवित्थं स्वरूपं वा आत्मा स्वभावो यस्य, तदिदं सत्यात्म। प्राणारामम्, प्राणेष्वारमणमाक्रीडा यस्य तत्माणारामम्; पाणानां वा आरामो यस्मिन्, तत्पाणारामम् । मनआनन्दम्, आनन्दभूतं सुख- कृदेव यस्य मनः, तन्मनआनन्दम्। शान्तिसमृद्धम्, शान्तिरुपशमः, शान्तिश्र तत्समृद्ध च शान्तिसमृद्धम्; शान्त्या वा समृद्धवदुपलभ्यत इति शान्तिसमृद्धम्। अमृतम् अमरणधर्म ; एतच्चाधिकतरविशेषणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति। एवं मनोमयत्वादिधमैंर्विशिष्टं यथोक्तं

परमार्थवस्तुनि रूढिमाश्रित्याह-अवितथमिति। प्राणेष्विति। सविषये- ष्विन्द्रियेष्वित्यर्थः । इदं च व्याख्यानं ब्रह्मणो जीवभावाभिप्रायम्। केवल- ब्रह्मपरत्वेनापि व्याचष्टे-प्राणानां वेति। यस्मिन्निति। यस्मिन्त्रह्मणि नियन्तृरूपे सतीत्यर्थः । मनआनन्दमिति पदं ब्रह्मणो जीवभावाभिप्रायेणैव व्याचष्टे-मन इत्यादिना। शान्तिश्चेति। सर्वद्वैतनिवृत्तिरूपमित्यर्थः । अज्ञानतत्कार्यध्वंसस्याधिष्ठानव्रह्मानतिरेकादिति भावः । समृद्धं चेति। सम्य- गात्मभावेन ऋदद्धिं व्याप्तिं गतं समृद्धम्, सर्वव्यापकमित्यर्थः । शान्त्या वेति। सर्ववृत्त्युपरमलक्षणया समाधिशव्दितया शान्त्या समृद्धवत्पूर्णान- न्दरूपेण योगिभिरुपलभ्यत इत्यर्थः । एतच्चेति। ननु फलत्वेनोक्तस्याधि- कतरविशेषणस्य कथमुपास्यगुणान्तर्भाव उच्यते? नैष दोषः, 'तं यथा यथो- पासते' इति श्रुत्या फलत्वेनावगतस्यापि विशेषणजातस्य ध्येयत्वावगमात्, विशिष्यात्र व्यवहितसंनिहितिसकलगुणपूगलक्षण प्रकारपरामर्शिनेतिपदेनाधिक- तरविशेषणस्याप्युपास्तिं प्रति विषयतया समर्पणाच्च। न चैवम् 'आप्नोति स्वाराज्यम्' इत्यादावुक्तानां सर्वदेवाधिपतित्वसर्वदेवपूज्यत्व सर्वकरणपतित्वा- नामपि फलरूपाणामुपास्यगुणत्वप्रसङ्ग इति वाच्यम्; इष्टत्वात्। त- त्संग्रहार्थ एवैतच्ेत्यत्र चकार इति संक्षेपः । ननु उपासनस्य श्रुत्या स्वेन रूपेणोक्तावप्यनुष्ठानसतिद्धेः आचार्योक्तिकल्पनं मुधा, नेत्याह-आद-

Page 145

६.] शीक्षावल्ली। ४५

ब्रह्म हे प्राचीनयोग्य, उपास्स्व इत्याचार्यवचनोक्तिरादरार्था। उक्त एवोपासनशब्दार्थः ॥

इति षष्ठानुवाकभाष्यम् ।।

रार्थेति! उपासनानुष्ठाने आदरातिशयसिद्यर्थेत्यर्थः। उक्त एवेति। उपासनं च यथाशास्त्रमित्यादाविति शेषः। नन्वत्र किमपरं ब्रह्मोपास्यं कि वा परं ब्रझ्मे- ति? किमत्र संशयकारणम्? परं चापरं च त्रह्मेत्यादावुभयत्र ब्रह्मशब्दप्रयो- गदर्शनमेव। अत्र केचिदपरमेव ध्येयमिति वदन्ति। तथाहि- प्राणारामत्व- मनआनन्दत्वयोः सूत्रात्मनि हिरण्यगर्भे स्वारख्ान्मनोमयपदस्य मनोभि- मानीति भाष्यदर्शनेन भाष्यकारस्यापि तत्रानुमत्यवगमाच्च, अन्येषामपि विशेषणानां तस्मिन्नेव यथाकथंचिदुपपादनसंभवाच्चापरमेवात्र विवक्षितमिति। अन्ये तु परमीश्वररूपमेवात्र ब्रह्म ध्येयमिति वदन्ति। तथा हि- परं ब्रह्मै- वात्र विवक्षितम् , ब्रह्मशब्दस्य तत्र मुख्यत्वात्; नापरम्, तत्र तस्यामुख्य- त्वात्; तदुक्तं सूत्रकारेण 'सामीप्यात्तु तद्वयपदेशः' इति। परत्रह्मसामीप्यादेव सूत्रात्मनि ब्रह्मशब्दप्रयोगो न मुख्यवृत्त्येति तदर्थः । तथा अमृतत्वं परस्यैव ब्रह्मणो लिङ्गम्। न च 'सैषानस्तमिता देवता' इत्यादावपरस्यापि नाशरा- हित्यरूपममृतत्वं श्रूयत इति वाच्यम्; तस्यावान्तरप्रलये नाशाभावश्रवणेऽपि महाप्रलये नाशश्रवणेन मुख्यामतत्वासंभवात्। न च 'प्राणारामं मनआनन्दम्' इति लिङ्गद्वयानुरोधेनापेक्षिकमेवामृतत्वमिहास्त्विति वाच्यम्; ब्रह्मश्रुत्य- नुरोधेन मुख्यामृतत्वग्रहणसंभवे दुर्बललिङ्गानुरोधेनापेक्षिकामृतत्वग्रहणायोगा-

मृतत्वस् तद्रहितप्राणारामत्वादिलिङ्गादुरोधेनान्यथानयनायोगाच्च। तथा पुरुषप- दोदितं पूर्णत्वं हिरण्मयपदोदितं स्वयंज्योतिष्टमिन्द्रपदोदितं पारमैश्व्वर्यमाका- शशरीरपदोदितमाकाशदेहत्वं सूक्ष्मत्वं वा सत्यात्मपदोदितमवितथस्वभावत्वं शान्तिसमृद्धपदोदितं सर्वप्रपश्चोपशमात्मकत्वमित्येतेपां लिङ्गानां परत्रह्मण्येव स्वारस्यान्च। मनोमयपदस्याप्यर्थत्रयं भाष्ये दर्शितम्। तत्र प्रथमतृतीयार्थौ परापरब्रह्मणोः साधारणौ। मनोभिमानीत्यर्थप्रदर्शनमात्रमपरश्रह्मपक्षपाति। तथा

Page 146

४६ तैत्तिरीयोपनिषदि [अनु.

प्राणारामत्वमनआनन्दत्वे अपि। न चैतावता हिरण्यगर्भारयं ब्रह्म श्रुतिभाष्य- योरभिप्रेतमिति निश्चेतुं शक्यते। शाण्डिल्यविद्यादौ मनोमयत्वप्राणशरीरत्वव- दत्रापि ब्रह्मणः सार्वात्म्यप्रयुक्त्ततया तेषामपि परस्मिन्त्रह्मण्युपपत्तेः सार्वात्म्यं च प्रकृतस्य ब्रह्मणो दर्शितम्। न चैतत्परव्रह्मणोऽन्यत्र मुख्यं संभवति। तस्मात्परमेव व्रह्मात्रोपास्यमिति संक्षेपः ।

इति तैत्तिरीयोपनिषद्धाव्यव्याख्यायां वनमालाख्यायां शीक्षावल्लयां पष्ठोऽनुवाक: ॥

Page 147

सप्तमोऽनुवाकः॥

पृथिव्यन्तरिक्षं दयौर्दिशोऽवान्तरदिशः । अग्नि- रवायुरादित्यश्चन्द्रमा नक्षलाणि। आप ओषधयो वनस्पतय आकाश आत्मा। इत्यधिभूतम्। अ- थाध्यात्मम्। प्राणो व्यानोऽपान उदानः समानः। चक्षुः श्रोत्रं मनो वाक् त्वक्। चर्म मा५स५ स्ना- वास्थि मज्जा। एतदधिविधाय ऋषिरवोचत् । पाङ़कं वा इद५ सर्वम्। पाङ्गेनैव पाङ५ स्पृणो- तीति॥ १ ॥

इति सप्तमोऽनुवाक: ॥

यदेतव्याहृत्यात्मकं व्रह्मोपास्यमुक्तम् तस्यैव पृथिव्यादिपाङ्क- स्वरूपेणोपासनमुच्यते- पश्चसंख्यायोगात्पक्गिच्छन्दःसंपत्तिः; ततः पाङगत्वं सर्वस्य । पाङ्मश्व यज्ञ:, 'पञ्चाक्षरा पङ्गिः पाङ्गो यज्ञः'

उत्तरोऽप्यनुवाक: प्रकारान्तरेण व्रह्मोपासनविषय इत्याह- यदेतदि- त्यादिना। पृथिव्यादिजगतः कथं पाङ्कत्वमित्याकाङ्कायां पङ्कयाख्यस्य च्छ- न्दसः पृथिव्यादौ संपादनादित्याह- पञ्चसंख्येति । न केवलं पञ्च- संख्यायोगात्पक्किच्छन्दःसंपादनम्, यज्ञत्वसंपादनमपि कर्तु शक्यत इत्याह- पाङ्गश् यज्ञ इति। पत्नीयजमानपुत्रदैवमानुषवित्तैः पश्भिर्योगाद्यज्ञः

Page 148

४८ तैत्तिरीयोपनिषदि [अनु.

इति भ्रुतेः । तेन यत्सर्वे लोकाद्यात्मान्तं च पाङं परिकल्पयति, यज्ञमेव तत्परिकल्पयति। तेन यज्ञेन परिकल्पितेन पाङ्गात्मकं प्रजापति- मभिसंपद्यते। तत्कथ पाङ्गम् इदं सर्वमित्यत आह- पृथिवी अन्तरिक्षं द्यौः दिशः अवान्तरदिशः इति लोकपाङ्गम्। अग्निः वायुः आदित्यः चन्द्रमाः नक्षत्राणि इति देवतापाङ्गम्। आपः ओषधयः वनस्पतयः आ- काशः आत्मा इति भूतपाङ्म्। आत्मेनि विराद, भूताधिकारात्। इत्यधि- भूतमिति अधिलोकाधिदैवतपाङ्कद्योपलक्षणार्थम्, लोकदेवतापाङ्गयो- श्चाभिहितत्वात् । अथ अनन्तरम् अध्यात्मपाङ्गत्यमुच्यते-प्राणादि वायुपाङ्कम्। चक्षुरादि इन्द्रियपाङ्कम्। चर्मादि धातुपाङ्गम्। एतावद्धीदं

पाङ्ग इत्यर्थः। दैववित्तमुपासनं मानुषवित्तं गवादीति विभागः । पङ्कि- च्छन्दसो यज्ञस्य च पश्चसंख्यायोगात्पाङ्कत्वे क्रमेण श्रतीर्दशयति-पश्चा- क्षरेति। जगतो यज्ञत्वसंपादनमेव दर्शयति- तेनेति। पञ्चसंख्यायोगलक्ष- णेन यज्ञसाम्येनेत्यर्थः । लोकाद्यात्मान्तं चेति। प्राणादिमज्जान्तं चेति चका- रार्थः। परिकल्पयति, श्रुतिरिति शेषः। एवं ब्रह्मोपाधिभूतं सर्वै जगत्पङ्किच्छ- न्दोरूपं यज्ञरूपं च परिकल्प्य तादक्पाङ्कजगदात्मकं प्रकृतं ब्रह्माहमस्मीति चि- न्तयतः किं फलं भवतीत्याकाङ्कायामाह -- तेन यज्ञेनेति। प्रजापतिमिति । स्थूलसर्वप्रपश्चोपाधिकस्य ब्रह्मणः प्जापतिरूपत्वात् 'तं यथा यथोपासते' इति न्यायेन जगदात्मव्रह्मोपासनाज्जगदात्मानं प्रजापतिमेव प्राप्नोतीत्यर्थः । एवं ता- त्पर्यमुक्त्वा पृथिव्यादिजगतः पश्वसंख्यायोगात्पाङ्कस्वरूपत्वं प्रश्नपूर्वकं श्रुत्या दर्शयति- तत्कथमित्यादिना। विराडिति। 'आप ओषधयः' इत्यादिस्थू- लभूताधिकाराद्भतमयो विराड्देह इहात्मशब्दार्थ इत्यर्थः। इत्यधिभूतमित्युपसं-

रवचनयोरुपलक्षणार्थमित्यत्र हेतुमाह-लोकदेवतापाङ्गयोश्चेति। तयोरपि पूर्व- मुक्तत्वादित्यर्थः । अध्यात्ममिति। आत्मा देहः, तमधिकृत्य वर्तमानमध्यात्म- मित्यर्थः। ननु पाङ्कषट्ककथनेन कथं सर्वस्य जगतः पाङ्कत्वमुक्तम्? तत्राह-

Page 149

७.] शीक्षावल्ली। ४९

सर्वमध्यात्मं बाह्यं च पाङ्कमेवेति। एतदेवम् अधिविधाय परिकल्प्य ऋषिः वेदः एतद्दर्शनसंपन्नो वा कश्चिदृषिः, अवोचत् उक्तवान्। किमित्याह- पाङं वा इदं सर्वे पाङ्गेनैव आध्यात्मिकेन, संख्यासामान्यात्, पाङकं बाह्यं स्पृणोति पूरयति एकात्मतयोपलभत इति। एतदेवं पाङ्कमिदं सर्वमिति यो वेद, स पराजापत्यात्मैव भवतीत्यभाणि॥

इति सप्तमानुवाकभाष्यम्।।

एतावद्धीति। यद्वाह्यमध्यात्मं च पाङ्कं श्रुत्या दर्शितम् एतावदेवेदं सर्व जगत्, न ततोSधिकमस्तीत्यवगन्तव्यमित्यर्थः । श्रुतिप्रदर्शितपाङ्कषट्के कृत्स्स्य जगतो- डन्तर्भाव: प्रसिद्ध इति हि-शब्दार्थः । उपासनाविधिं दर्शयति- एतदेवमि- ति। एतज्जगदेवं पाङ्करूपेणेत्यर्थः । उक्तवानित्यस्येतिशब्देन संबन्धः । संख्यासामान्यादिति। आध्यात्मिकमपि पाङ्कन्नयं बाह्यमपि पाङ्कन्नयमि- त्यस्मात्सामान्यादाध्यात्मिकेन पाङ्केन बाह्यपाङ्कस्य पूरणमित्यर्थः । ननु तेन तस्य पूरणं कुसूलादेरिव धान्यादिना न संभवतीत्याशङ्कयाह -- एकात्मतये- ति। बाह्यमाध्यात्मिकं च सर्वे पाङ्गजातमेकात्मत्वेनोपलभते, पाङ्कजगदात्मकं ब्रह्माहमस्मीति चिन्तयेदित्युक्तवानिति यावत्। एतदधिविधायेत्यादिनोक्तमुपा- सनमनूद्य तस्य फलमुपक्रमे कथितमित्याह -- एतदेवमिति।

इति तैत्तिरीयोपनिषज्वाष्यव्याख्यायां वनमालाख्यायां शीक्षावल्लयां सप्तमोऽनुवाकः ॥

*T. 7

Page 150

अष्टमोऽनुवाकः॥

ओमिति ब्रह्म। ओमितीद५ सर्वम्। ओमित्ये- तदनुकृति ह स्म वा अध्यो श्रावयेत्याश्रावयन्ति। ओमिति सामानि गायन्ति। ओ५ शोमिति श- स्त्राणि श५सन्ति। ओमित्यध्वर्युः प्रतिगरं प्रतिग- णाति। ओमिति ब्रह्मा प्रसौति। ओमित्यग्निहोत्र- मनुजानाति। ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्र- ह्मोपान्नवानीति। ब्रह्मैवोपाप्नोति ॥१॥

इति अष्टमोऽनुवाकः॥

व्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम्। अनन्तरं च पाङ्स्वरूपेण। इदानीं सर्वोपासनाङ्गभूतस्य ओंकारस्योपासनं विधित्स्यते। परापर-

उत्तरानुवाकस्य संगति वृत्तानुवादपूर्वकं दर्शयति- व्याहृत्यात्मन इति। अनन्तरं चेति। अव्यवहितपूर्वानुवाक इत्यर्थः । इदानीमिति। उक्त- वक्ष्यमाणसर्वोपासनानां कर्मणां चाङ्गभूतो य ओंकारस्तस्योपासनमिदानीं वि- धीयते; तथा च पूर्वोक्तोपासनेष्वङ्गत्वेनोपस्थितस्य प्रणवस्यात्रोपासनविधाना तसंगतिरिति भावः । न चोंकारस्य सर्ववैदिककर्मोपासनाङ्गत्वे मानाभाव इति वाच्यम्; 'तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रि्ियाः प्रवर्तन्ते विधानो- क्ताः सततं ब्रह्मवादिनाम्' इति भगवद्वचनस्यैव मानत्वात्। ब्रह्मवा- दिनां वेदवादिनामित्यर्थः । ननु शब्दमात्ररूपस्योंकारस्याचेतनतया फल-

Page 151

८.] शीक्षावल्ली। ५१

ब्रह्मदृष्टया हि उपास्यमान ओंकारः शब्दमात्रोऽपि परापरपाप्तिसाधनं भवति; स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च, प्रतिमेव विष्णोः, 'एते- नैवायतनेनैकतरमन्वेति' इति श्रुतेः । ओमिति, इति-शब्दः स्वरूपपरि- च्छेदार्थ :; ॐ इत्येतच्छब्दरूपं ब्रह्म इति मनसा धारयेत्; यत ओमितीदं सर्वम् ; सर्वे हि शब्दस्वरूपमोंकारेण व्याप्तम्, 'तद्यथा शङ्कना' इति श्रुत्यन्तरात्। अभिधानतत्रं ह्यभिधेयम् इत्यत इदं सर्वमोंकार इत्यु-

दातृत्वासंभवात्कथ मुपास्यत्वमित्याशङ्कयाह-परापरेति। प्रतिमाद्यर्चन इव ब्रह्मैव फलदात्रिति भावः। ब्रह्मण एव सर्वत्र फलदातृत्वम् 'फलमत उपपत्तेः' इत्यधिकरणे प्रसिद्धमिति द्योतनार्थो दृष्ट्या हीत्यत्र हि-शब्दः । प्रणवस्य परापरब्रह्मदृष्ठयालम्वनत्वं प्रसिद्धमिति सदृष्टान्तमाह-स ही- ति। प्रणवस्य परापरत्रह्मदृष्टयालम्बनत्वे तदृष्टयोपासितस्य तस्य परा- परप्राप्तिसाधनत्वे च श्रतिमाह- एतेनैवेति। ओंकारेणैवायतनेन प्रा- प्तिसाधनेन परमपरं वा प्राप्नोतीत्यर्थः। एवं तात्पर्यमुक्त्वा अक्षराणि व्याचष्टे- इतीत्यादिना। परिच्छेदार्थ इति। संग्रहार्थ इत्यर्थः । ओंकारस्य परापरब्रह्मदृष्ट्यालम्बनत्वेन श्रुतिषु प्रसिद्धत्वेऽपि प्रकृते मुख्य- त्वात्परव्रह्मदृटष्टिरेवोंकारे विवक्षितेति मत्वा तत्र व्रह्मदष्टचध्यासे किं साह- श्यमित्याकाङ्कायामाह-यत ओमितीदं सर्वमिति। यत ओंकारः सर्वा- त्मकः ततः सर्वात्मकत्वसादृश्यादोंकारे सर्वात्मकत्रह्मटृष्टिर्युक्तेति भावः । ननु ब्रह्मण: सर्वात्मकत्वम् 'सर्वे खल्विदं त्रह्म' इत्यादिश्रुतिसिद्धम्; ओंक।- रस्य तु कथं सार्वात्म्यमित्याशङ्कयाह-सर्वे हीति। नन्वोंकारस्य सर्व- शब्दात्मकत्वेऽपि कथमर्थप्रपश्चात्मकत्वमित्याशक्कय शब्दद्वारेत्याह- अ- भिधानतन्त्रं हीति। अभिधेयजातस्याभिधानाधीनसिद्धिकत्वाद्वाच्यवाचक योस्तादात्म्यस्वीकाराच्चाभिधेयजातस्याभिधानेऽन्तर्भावः संभवतीत्यर्थः । अत इदमिति। प्रणवसार्वात्म्यस्यापि श्रुत्यादिसिद्धत्वादिदं सर्वमोंकार इति प्र- सिद्धवदुपदिश्यते ओमितीदं सर्वमिति वचसेत्यर्थः । ननु प्रथमवाक्येन

Page 152

५२ तैत्तिरीयोपनिषदि [अनु.

च्यते। ओंकारस्तुत्यर्थ उत्तरो ग्रन्थः, उपास्यत्वात्तस्य। ॐ इत्येतत् अनु- कृति अनुकरणम् । करोमि यास्यामि वेति कृतमुक्तमोमित्यनुकरोत्य- न्यः, अतः ओंकारोऽनुकतिः। ह स्म वै इति प्रसिद्धावद्योतकाः । प्र- सिद्धं ह्योंकारस्यानुकृतित्वम्। अपि च ओ श्रावय इति प्रैपपूर्वकमाश्रा- वयन्ति प्रतिश्रावयन्ति। तथा ॐ इति सामानि गायन्ति सामगाः । ॐ शोमिति शस्त्राणि शंसन्ति शस्त्रशंसितारोऽपि। तथा ॐ इति अध्वर्युः प्रतिगरं प्रतिगृणाति। ॐ इति ब्रह्मा प्रसौति अनुजानाति। ॐ इति अ- प्निहोत्रम् अनुजानाति, जुहोमीत्युक्ते ॐ इत्येव अनुज्ञां प्रयच्छति। ॐ

प्रणवे त्रह्मट्ृष्टिर्विहिता, तत्र तदृष्टिकरणे नियामकं द्वितीयवाक्येन दर्शितम्, अतो विवक्षितार्थस्य सिद्धत्वात्किमुत्तरग्रन्थेनेत्याशक्कयाह- ओंकारस्तुत्यर्थ इति। अनुकरणमिति। अनुज्ञारूपमिति यावत्। केनचित्करोमीत्युक्त्वा कृतं कर्मान्य ओमित्यनुकरोति अनुजानाति, तथा यास्यामि विष्ण्वालयमित्युक्त- मन्य ओमित्यनुकरोतीति योजना। प्रसिद्धं हीति। प्रसिद्धिश्च करोमी- त्यादिना पूर्व प्रदर्शितैव। अप्यो श्रावयेत्यत्र अपि-शब्दो वक्ष्यमाणोदाहरणस- मुच्चयार्थ इति मत्वाह-अपि चेति। प्रैषपूर्वकमिति। 'ओ श्रावय' इति मन्त्रगतेनोंकारेणाग्नीध्रसंबोधनपूर्वकमित्यर्थः । तदुक्तं वेदभाष्ये- 'मन्त्रगत ओंकार आग्रीध्रसंबोधनार्थः । हे आग्रीध्र देवान्प्रति हविःप्रदानावसरं श्राव- येति मन्त्रार्थः' इति। आश्रावयन्तीत्यस्यार्थमाह-प्रतिश्रावयन्तीति। प्रति- श्रवं कारयन्ति, प्रत्याश्रवणं कारयन्तीति यावत् । शस्त्रशंसितारो होतारः, तेडपि 'शों सावोम्' इत्युपक्रम्य शस्त्राणि शंसन्ति, तान्योमिति समापयन्ति चेत्यर्थः। प्रतिगरमिति। 'ओऽथामोद इव' इति मन्त्रमित्यर्थः । ओकारेण होता संबोध्यते; हे होतः अथ अर्धर्चशंसनानन्तरमस्माकमामोद इव हर्ष एव संपन्न इति तदर्थः। ब्रह्मेति। ऋत्विग्विशेषो ब्रह्मा यदा अन्येषामृत्विजामनुज्ञां प्रय- च्छति तदा ओं प्रोक्षेत्यादिरूपेण प्रणवपुरःसरमेव प्रसौति। तस्यार्थमाह -- अनुजानातीति। जुहोमीत्युक्तवन्तं प्रत्यन्य ओमित्येवानुज्ञां प्रयच्छतीत्यर्थः ।

Page 153

८.] शीक्षावल्ली। ५३

इत्येव ब्राह्मणः प्रवक्ष्यन् प्रवचनं करिष्यन् अध्येष्यमाणः ओमित्येवाह ओमिति प्रतिपद्यते अध्येतुमित्यर्थः; ब्रह्म वेदम् उपाप्नवानि उपाप्तुयां ग्रहीष्यामीति ; उपाप्नोत्येव ब्रह्म। अथवा, ब्रह्म परमात्मानम् उपाप्रवा- नीत्यात्मानं प्रवक्ष्यन् पापयिष्यन् ओमित्येवाह। स च तेनोंकारेण ब्रह्म प्राम्नोत्येव। ओंकारपूर्वपवृत्तानां क्रिियाणां फलवच्वं यस्मात्, तस्मा- दोंकारं ब्रह्मेत्युपासीतेति वाक्यार्थः ॥

इति अष्टमानुवाकभाष्यम्॥

प्रवचनं करिष्यन्निति। प्रवक्ष्यन्निति 'वच परिभाषणे' इत्यस्य रूपमस्मि- न्वयाख्याने; द्वितीयव्याख्याने तु 'वह प्रापणे' इत्यस्यान्तर्भावितण्यर्थख रू- पमिति भेदः । वेदमिति। वेदं म्रहीष्यामीत्यभिसंधिमानादावोमित्येवाध्येतुं ब्राह्मण उपक्रमत इत्यर्थः । अध्ययनफलभूतां वेदावाप्तिं कथयति व्रै- वोपाप्नोतीति ; तद्योजयति- उपाप्नोत्येवेति। प्रापयिष्यन्निति । परमा- त्मानमुपाप्नवानि प्रत्यक्त्वेन प्राप्नुयामित्यभिसंधिमान्व्राह्मण आत्मानं ब्रह्म प्रापयिष्यन्नात्मनो ब्रह्मभावप्राप्त्युपायमन्विष्यन्नोमित्याहेत्यर्थः । स चेति । स च ब्राह्मणस्तेनोंकारेण आत्मज्ञानलक्षणमुपायं लब्ध्वा ब्रह्म प्राप्नोत्ये- वेत्यर्थः । विवक्षितमनुवाकार्थ संक्षिप्य दर्शयति- ओंकारपूर्वेति । अत्र यद्यपि 'ओ श्रावय' इति मन्त्रे 'ओऽथामोद इव' इति प्रतिगरनामक- मन्त्रे च ओकार एव श्रयते न त्वोंकारः, तथाप्योकारस्योंकारैकदेशत्वात्तत्पू- र्वप्रवृत्तानामप्योंकारपूर्वकत्वमुपचारादुक्तमिति मन्तव्यम् ।।

इति तैत्तिरीयोपनिषद्धाष्यव्याख्यायां वनमालाख्यायां शीक्षावल्लयामष्टमोऽनुवाक:॥

Page 154

नवमोऽनुवाकः॥

ऋतं च स्वाध्यायप्रवचने च। सत्यं च स्वाध्या- यप्रवचने च। तपश्च स्वाध्यायप्रवचने च। दमश्च स्वाध्यायप्रवचने च। शमश्च स्वाध्यायप्रवचने च। अग्नयश्च स्वाध्यायप्रवचने च। अग्निहोत्रं च स्वा- ध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च। मानुषं च स्वाध्यायप्रवचने च। प्रजा च स्वाध्यायप्रवचने च। प्रजनश्च स्वाध्यायप्रवचने च। प्रजातिश्च स्वाध्यायप्रवचने च। सत्यमिति सत्यवचा राथीतरः। तप इति तपोनित्यः पौरु- शिष्टिः। स्वाध्यायप्रवचने एवेति नाको मौद्रल्यः। ताद्धि तपस्तद्धि तपः ॥ १॥

इति नवमोऽनुवाक: ॥ विज्ञानादेवाप्नोति स्वराज्यमित्युक्तत्वात् श्रौतस्मार्तानां कर्मणामा-

उत्तरानुवाकस्य व्यवहितानुवाकेन संबन्धमाह- विज्ञानादेवेत्या- दिना। कर्मणां स्वाराज्यप्राप्तावनुपयोगः प्राप्त इति शङ्कार्थः। उपासनसहका- रितया तत्फलेन स्वाराज्येन कर्मणां फलवत्त्वसिद्धर्थमस्मित्रनुवाके तेषामुप-

Page 155

९.] शीक्षावल्ली। ५५

नर्थक्यं प्राप्तमित्यतस्तन्मा प्रापदिति कर्मणां पुरुषार्थ प्रति साधनत्वपद- र्शनार्थमिहोपन्यासः। ऋतमिति व्याख्यातम्। स्वाध्यायः अध्ययनम्। प्रवचनमध्यापनं ब्रह्मयज्ञो वा। एतानि ऋतादीनि, अनुष्ठेयानि इति वाक्यशेषः । सत्यं च सत्यवचनम्, यथाव्याख्यातार्थ वा । तपः कृच्छादि । दमः बाह्यकरणोपशमः । शमः अन्तःकरणोपशमः । अग्नयश्च आधातव्याः। अग्निहोत्रं च होतव्यम्। अतिथयश्च पूज्याः । मानुषमिति लौकिक: संव्यवहारः। तच्च यथापाप्तमनुष्ठेयम्। पजाश्चोत्पाद्याः। प्रज-

न्यास इति परिहारार्थः । पुरुषार्थपदं स्व्राराज्यपरम्, कर्मणामुपासनसहकारि- तया तत्फलं प्रत्युपयोगप्रकारश्चेत्थम्-उपासकेन स्वकर्माननुष्ठाने तदकरणसू- चितेन प्रत्यवायेन प्रतिबद्धमुपासनं फलपर्यवसायि न भवेत्; अतः प्रति- बन्धापनयद्वारा कर्मणां तत्नोपयोग इति। तथा च श्रुतिः- 'अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इति। अविद्यया कर्मणा प्रतिवन्धकपापल- क्षणं मृत्युं नाशयित्वा विद्यया उपासनलक्षणया स्वाराज्यलक्षणममृतमश्नुत इति हि तदर्थः। व्याख्यातमिति। शास्त्रान्निश्चितावस्थं दर्शादिकर्मजात- मृतशब्दवाच्यमिति ऋतं वदिष्यामीत्यत्र व्याख्यातमित्यर्थः। उपासकस्या- ध्यापने प्रवृत्तावुपासनानुष्ठानासंभवाद्ध्यापनस्य काम्यत्वेन तदकरणे प्रत्यवा- याभावाच्च प्रवचनमध्यापनमिति व्याख्यानमयुक्तमित्यस्वरसादाह- ब्रह्मयज्ञो वेति। यथाव्याख्यातार्थ वेति। शास्त्रात्कर्तव्यतया बुद्धौ विनिश्चित- मेव कर्म वाक्कायाभ्यां संपाद्यमानं सत् सत्यशब्दवाच्यमिति सत्यं वदिष्या- मीत्यत्र व्याख्यातार्थकं वात्र सत्यपद्मित्यर्थः । कृच्छ्रादीति। आदिपदं चा- न्द्रायणादिसंग्रहार्थम्। न चाशनपरित्यागप्रधाने कृच्छादौ प्रवृत्तस्य कथं स्वाराज्यफलकोपासनानुष्ठानं संभवतीति वाच्यम्; शक्तस्य तदुभयानुष्ठा- नसंभवात्, अशक्तस्य तु धनिनो धनदानरूपं सर्वसाधारण्येन मिता- शनादिरूपं वा तपो भविष्यति। तथा च श्रुतिः- 'एतत्खलु वाव तप इत्याहुर्य: स्वं ददाति' इति। 'हितमितमेध्याशनं तपः' इति योगशास्त्रे मिता- शनादितपसोऽप्युक्तत्वात्। विवाहादौ बन्ध्वादुपचारो लौकिक: संव्यवहारः ।

Page 156

५६ तैचिरीयोपनिषदि [अनु.

नः प्रजननम्; ऋतौ भार्यागमनमित्यर्थः । प्रजातिः पौत्रोत्पत्तिः; पुत्रो निवेशयितव्य इत्येतत्। सवैरेतैः कर्मभिर्युक्तस्यापि स्वाध्यायप्रवचने यत्रतोऽनुष्टेये इत्येवमर्थ सर्वेण सह स्वाध्यायपवचनग्रहणम्। स्वाध्याया- धीनं ह्यर्थज्ञानम्। अर्थज्ञानायत्तं च परं श्रेयः। प्रवचनं च तदविस्मर- णार्थ धर्मवृद्ध्यर्थ च। अतः स्वाध्यायप्रवचनयोरादरः कार्यः । सत्यमिति सत्यमेवानुष्ठेयमिति सत्यवचाः सत्यमेव वचो यस्य सोऽयं सत्यवचाः, नाम वा तत् तस्य ; राथीतरः रथीतरगोत्ः राथीतर आचार्यो मन्यते। तप इति तप एव कर्तव्यमिति तपोनित्यः तपसि नित्यः तपःपरः, तपो- नित्य इति वा नाम; पौरुशिष्टिः पुरुशिष्टस्यापत्यं पौरुशिष्टिराचार्यो मन्यते। स्वाध्यायप्रवचने एव अनुष्ठेये इति नाको नामतः मुद्रलस्यापत्यं मौद्रल्य आचार्यो मन्यते। तद्धि तपस्तद्धि तपः। यस्मात्स्वाध्यायपवचने

प्रजाश्चोत्पाद्या इति। प्रजोत्पतत्यर्थाः पुत्रकामेष्टयादयः कर्तव्या इत्यर्थः । निवे- शयितव्य इति। निवेशो विवाहः। पुनः पुनः स्वाध्यायग्रहणस्य तात्पर्यमाह- सवैरित्यादिना। यत्नतोऽनुष्ठेये इत्यत्र हेतुमाह -- स्वाध्यायाधीनं हीति। अध्ययनाधीनमित्यर्थः । अध्ययनस्यार्थज्ञानपर्यन्तत्वं पूर्वतन्त्रप्रसिद्धमिति द्योत- नार्थो हि-शब्दः। अर्थज्ञानायत्तं चेति। प्रणाड्या कर्मकाण्डार्थज्ञानायत्तं परं श्रेयः, साक्षादेव ज्ञानकाण्डार्थज्ञानायत्तं परं श्रेय इति विभागसूचनार्थश्चकारः । अत इति। स्वाध्यायस्यार्थज्ञानद्वारा परमश्रेयःसाधनत्वात्प्रवचनस्याविस्मरण- दिसाधनत्वाच्चेत्यर्थः । सत्यमेवेति। अनुष्ठेयानां मध्ये सत्यमेव प्रशस्तं कर्मेति राथीतरस्य मतमिति भावः । तथा च वचनम्- 'अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्त्रात्तु सत्यमेव विशिष्यते' इति। अत्र द्वितीयनाम- शब्द: प्रसिद्धिद्योतकः । तप एवेति। कच्छ्रचान्द्रायणादिमिताशनधनदानरूपं तप एव प्रशस्तं कर्मेति पौरुशिष्टेर्मतम्। तस्य प्राशस्त्यं चोत्तमलोकप्राप्तिसाध- नत्वात्। तथा च श्रुति :-- 'तपसर्षयः सुवरन्वविन्दन्' इति। मौद्रल्याभिमते स्वाध्यायप्रवचनयोरुत्तमकर्मत्वे हेतुमाह श्रुति :- तद्धि तप इति। हि-शब्दार्थ

Page 157

९.] तैत्तिरीयोपनिषदि ५७

एव तपः, तस्मात्ते एवानुष्ठेये इति। उक्तानामपि सत्यतपःस्वाध्यायपव- चनानां पुनर्ग्रहणमादरार्थम्।।

इति नवमानुवाकभाष्यम्।।

कथनम्-यस्मादिति। तत्र स्वाध्यायशब्दितत्याध्ययनस्य नियमोपेतत्वात्तप :- शब्दवाच्यत्वम्। तदुक्तम्-'नियमेषु तपःशब्दः' इति। प्रवचनशब्दितस्य च ब्रह्मयज्ञस्य तपस्त्वम् 'तपो हि स्वाध्यायः' इत्यादिश्रुतिप्रसिद्धमिति मत्वा तपस्त्वं तयोरुत्तमकर्मत्वे हेतुतयोक्तमित्यनुसंधेयम्। उक्तानामपीति। 'सत्यं च स्वा- व्यायप्रवचने च तपश्च स्वाध्यायप्रवचने च' इत्यत्ोक्तानामपीत्यर्थः। आदरार्थ- मिति। आदरसूचनद्वारा मतभेदेनोत्तमकर्मत्वख्यापनार्थमित्यर्थः ।

इति तैत्तिरीयोपनिषद्धाष्यव्याख्यायां वनमालाख्यायां शीक्षावल्लयां नवमोऽनुवाकः॥

"T. 8

Page 158

दशमोऽनुवाकः ॥

अहं वृक्षस्य रेरिवा। कीर्ततिः पृष्ठं गिरेरिव। ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि। द्रविण सवर्चसम्। सुमेधा अमृतोक्षितः । इति त्रिशङ्को- र्वेदानुवचनम् ॥ १ ॥

इति दशमोऽनुवाक: ॥

अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः। स्वाध्यायश्च विद्योत्पत्तये, प्रकरणात्। विद्यार्थ हीदं प्रकरणम्; न च अन्यार्थत्वम- वगम्यते। स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्पते। अहं वृक्षस्य उच्छेद्यात्मकस्य संसारव्ृक्षस्य रेरिवा पेरयिता अन्तर्याम्यात्म-

नन्वहं वृक्षस्येत्यादिमन्त्रपाठः किमर्थ इत्याशङ्कयाह- स्वाध्यायार्थ इति। जपार्थ इत्यर्थः । ननु तज्जपस्य क्वोपयोगः ? तत्राह- स्वाध्यायश्चेति। प्रकरणादिति हेतुं विवृणोति- विद्यार्थ हीति। प्रकरणस्य संहितोपनिषद्गत- मन्त्रब्राह्मणजातस्य विद्याप्रयोजनकत्वादित्यर्थः । ब्रह्मविद्यासंनिधौ पाठादिति भाव:। अहं वृक्षस्येत्यादिमन्त्राम्नायस्य कर्मशेषत्वशङ्कां निराकरोति-न चेति। तदवगमकश्रुतिलिङ्गादेरदर्शनादिति भावः । स्वाध्यायो विद्योत्पत्तये भवतीत्यु- कम्; तत्र विवक्षितं द्वारं समर्पयति-स्वाध्यायेन चेति। जपादिरूपस्य धर्मस्य पापक्षयरूपशुद्धिद्वारा विद्योत्पत्तिहेतुत्वम् 'तपसा कल्मषं हन्ति' इत्या- दिशास्त्रसिद्धमिति विशेषसूचनार्थश्चकारः। अहमिति। साक्षात्कृतब्रह्मतत्त्वस्त्रि- शङ्कनामा ऋषिः भहंशब्दार्थः । उच्छेद्यात्मकस्येति। उच्छेद्यस्वभावस्येत्यर्थः ।

Page 159

१०.] शीक्षावल्ली। ५९

ना। कीर्ततिः ख्यातिः गिरेः पृष्ठमिव उच्छिरता मम। ऊर्ध्वे कारणं पवित्रं पावनं ज्ञानपकाश्यं परं ब्रह्म यस्य सर्वात्मनो मम, सोऽहमूर्ध्वपवित्रः; वाजिनि इव वाजवतीव, वाजमन्नम्, तद्वति सवितरीत्यर्थः; यथा सवि- तरि अमृतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्यः, एवं स्वमृतं शो- भनं विशुद्धमात्मतत्वम् अस्मि भवामि। द्रविणं धनं सवर्चसं दीप्तिमत् तदेव आत्मतत्त्वम्, अस्मीत्यनुवर्तते । ब्रह्मज्ञानं वा अमृतत्वप्रकाशक-

संसारवृक्षस्येति। विद्याप्रतिपादके मन्त्रे प्रसिद्धवृक्षग्रहणायोगात्संसार एवो- च्छेद्यस्वभावत्वसाम्याद्वृक्षशब्देन गृह्यत इति भावः । जगदात्मकस्य संसारवृक्ष- स्य प्रेरयिता परमेश्वर एव, न ब्रह्मविदिति, तत्राह- अन्तर्याम्यात्मनेति। ब्रह्मविदः सर्वात्मकत्वादिति भावः । कीर्त्तिरिति। मेरो: शृङ्गमिव मम ब्रह्म- विद: कीर्तिः प्रसिद्धिः स्वर्गलोकव्यापिनीत्यर्थः । उपरिभागवाचिनोर्ध्वशब्देन संसारमण्डलादुपरि वर्तमानं जगत्कारणत्वोपलक्षितं ब्रह्म लक्ष्यत इत्याशये- नाह- ऊर्ध्व कारणमिति। वस्तुतः संसारासपृष्टमिति यावत्। अत एवाह-पवित्रमिति। नन्वेवंभूतमपि ब्रह्म सर्वप्राणिसाधारणमेव, वस्तुत एकात्मकत्वात्सर्वप्राणिनामिति, तत्राह- ज्ञानप्काश्यमिति। अन्येषां ज्ञा- नाभावादिति भावः । ब्रह्मेत्यनन्तरं स्वरूपभूतमिति शेषः । अन्नमिति। कर्मफलरूपं वस्वादिदेवभोग्यममृतमन्नम्; तद्वत््वमादित्यस्य मधुविद्यायां प्रसति- द्धमिति बोध्यम्। यथा सवितरि श्रुतिस्मृतिशतेभ्यो विशुद्धममृतमात्मतत्त्वं प्रसिद्धम्, एवं मय्यपि पुरुषे श्रुतिस्मृतिशतेभ्य एव विशुद्धमात्मतत्वं प्रसि- द्धमस्ति। इत्थमुभयत्र प्रसिद्धमात्मतत्त्वं स्वमृतशब्दितमस्मीत्यर्थः । तथा च श्रुतय :- 'स यश्चायं पुरुषे, यश्चासावादित्ये, स एकः' इत्याद्याः, स्मृतयश्च- 'आदित्ये शुद्धममृतमात्मतत्त्वं यथा स्थितम् । विद्याधिकारिणि तथा पुरुषेऽपि तदस्ति भोः' इत्याद्या द्रष्टव्याः । धनमिति। लौकिकस्य रत्नादिकं धनम्; ब्रह्मविद्स्तु निरतिशयानन्दमात्मतत्त्वमेव धनम, तच्च स्वप्रकाशत्वाह्दीप्तिमदि- त्यर्थः । साकाङ्कत्वादाह -- अस्मीत्यनुवर्तत इति। द्रविणं सवर्चसमित्यस्या- र्थान्तरमाह-ब्रह्मज्ञानं वेति। त्रह्मज्ञानं वा द्रविणमिति संबन्धः । ब्रह्मज्ञा-

Page 160

६० तैत्तिरीयोपनिषदि [अनु.

त्वात्सवर्चसम्, द्रविणमिव द्रविणम्, मोक्षसुखहेतुत्वात् । अस्मिन्पक्षे प्राप्तं मयेत्यध्याहार: कर्तव्यः। सुमेधाः शोभना मेधा सार्वश्यळक्षणा यस्य मम, सोऽहं सुमेधाः; संसारस्थित्युत्पन्युपसंहारकौशलयोगात्सुमेधस्त्वम्; अत एव अमृतः अमरणधर्मा, अक्षितः अक्षीणः अव्ययः अक्षतो वा ; अमृतेन वा उक्षितः सिक्तः अमृतोक्षितोऽहम् । इतीत्यादि ब्राह्मणम्। इति एवं त्रिशङ्गो: ऋषेः ब्रह्मभूतस्य ब्रह्मविदः वेदः वेदनम् आत्मैकत्वविज्ञानं तस्य पाप्तिमनु वचनं वेदानुवचनम्; आत्मनः कृत-

नस्य सवर्चसत्वे हेतुमाह-अमृतत्वेति। अमृतत्वं ब्रह्म, तदावरणनिवर्तनद्वारा तत्प्रकाशकत्वात् ; ब्रह्मणि 'अहं ब्रह्मास्मि' इति व्यवहार्यतापादकत्वादित्यर्थः । मोक्षेति। प्रकृताभिप्रायं मोक्षग्रहणम्। पुरुषार्थहेतुत्वसाम्याद्दविणशब्दो ब्रह्म- ज्ञाने प्रयुक्त इत्यर्थः । त्रह्मस्वरूपव्यञ्जकं मुक्तिसाधनभूतं ब्रह्मज्ञानं चेत्सवर्चसं द्रविणम्, तर्हि तदस्मीति पूर्ववदन्वयो न घटते; तत्राह- अस्मिन्पक्ष इति। शोभनेति। शोभना ब्रह्मज्ञानोपयोगिनी मेधा ग्रन्थतदर्थधारणसामर्थ्यलक्षणा यस्य सोऽहं सुमेधा इत्यर्थः। सार्वश्येति। सार्वज्यलक्षणा वा मेधा यस्य गोडह- मित्यर्थः । विदुषः सर्वज्ञत्वलक्षणमेधावत्वं साधयति-संसारेति। संसारो जगत्। जगज्जन्मादिहेतुत्वं च ब्रह्मभूतस्य विदुषो वाजसनेयके श्रूयते -- 'अस्माद्येवात्मनो यद्यत्कामयते तत्तत्सृजते' इति। अस्मादित्यस्य स्राक्षात्कृता- दित्यर्थः । छान्दोग्येऽपि श्रूयते- 'एवं विजानत आत्मनः प्राणा;' इत्यादिना। तथा विदुषः सर्वज्ञत्वमपि प्रश्नोपनिषदि श्रयते- 'स सर्वज्ञः सर्वमेवाविवेश' इति। अत एवेति। जगद्धेतुत्वादेवेत्यर्थः। जगत्कारणस्य ब्रह्मचैतन्यस्य नित्यत्वात्तद्रूपस्य विदुषो नास्ति मरणमित्यर्थः । अव्यय इति। अवयवाप- चयो व्ययः, तद्रहित इत्यर्थः । अक्षतो वेति। शस्त्रादिकृतक्षतरहित इत्यर्थः । निरवयवत्वादिति भावः। अमृतेन वेति। स्वरूपानन्दानुभवेन सदा व्याप्त इति यावत्। इतीत्यादीति। इति त्रिशङ्कोर्वेदानुवचनमिति वाक्यं ब्राह्मणमित्यर्थः । कृतकृत्यतेति। यथा वामदेवस्य कृतकृत्यताख्यापनार्थम् 'अहं मनुरभवम्' इत्यादिवचनम्, तथा त्रिशङ्कोरपि वेदानुवचनं तत्ख्यापनार्थम्; तत्ख्यापनं च

Page 161

१०.] शीक्षावल्ली।

कृत्यताख्यापनार्थ वामदेववत्रिशङकुना आर्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः। अस्य च जपो विद्योत्पत्यर्थोऽवगम्यते ऋतं चेत्यादि कर्मोपन्यासादनन्तरं च वेदानुवचनपाठादेतदवगम्यते- एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विविदिषो- रार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति।

इति दशमानुवाकभाष्यम्।।

मुमुक्षूणां कृतकत्यतासंपादके ब्रह्मविचारे प्रवृत्त्यर्थमिति बोध्यम्। पूर्वम् 'अहं वृक्षस्य' इति मन्त्रस्य विद्याप्रयोजनकप्रकरणमध्यपठितत्वाद्विद्याशेषत्वमुक्तम्। इदानीं लिङ्गादपि तस्य तच्छेषत्वं वक्तु शक्यत इत्याशयेन विवक्षितं मन्बार्थ कथयति- त्रिशङ्कनेति। आर्षेणेति। तपःप्रभावजनितेनेत्यर्थः । मन्त्रस्य विद्याप्रकाशकत्वे फलितमाह-अस्य चेति। विद्याप्रकाशनसामर्थ्यरूपाल्ि- काश्चेति चकारार्थः । पूर्वानुवाके कर्माण्युपन्यस्यानन्तरमेव ऋषेरात्मविषयदर्श- नोपन्यासे श्रुतेः कोडभिप्राय इत्याकाङ्कायामाह-ऋतं चेत्यादिना। अन- न्तरं चेति। चकारोऽवधारणार्थः । सकामस्य पितृलोकप्राप्तिरेव 'कर्मणा पितृलोक:' इति श्रुतेः, नात्मदर्शनमित्याशयेनाह-निष्कामस्येति। सांसा- रिकफलेषु निःस्पृहस्यापि विद्यामकामयमानस्य न विद्योत्पत्तिः, किं तु प्रत्य- वायनिवृत्तिमात्रमित्याशयेनाह- ब्रह्म विविदिषोरिति। आर्षाणीति। नित्यनैमित्तिककर्मस्वपि 'तपसा कल्मषं हन्ति' इत्यादौ तपस्त्वप्रसिद्धेस्तञ्ज- न्यानामपि दर्शनानामार्षत्वमुक्तमिति मन्तव्यम् ॥।

इति तैत्तिरीयोपनिषद्धाव्यव्याख्यायां वनमालाख्यायां शीक्षावल्लर्या दशमोऽनुवाक: ॥

Page 162

एकादशोऽनुवाकः॥

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति। सत्यं वद। धर्म चर। स्वाध्यायान्मा प्रमदः । आचा- र्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छे- त्सीः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदि- तव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रम- दितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदित- व्यम्॥ १ ॥

देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अति- थिदेवो भव। यान्यनवद्यानि कर्माणि। तानि सेवितव्यानि। नो इतराणि। यान्यस्माक५ सुच- रितानि। तानि त्वयोपास्यानि ॥ २ ॥

नो इतराणि। ये के चास्मच्छ्रेयाएसो ब्रा- ह्मणाः। तेषां त्वयासनेन प्रश्वसितव्यम्। श्रद्धया देयम्। अश्रद्धयादेयम्। श्रिया देयम्। हिया

Page 163

११.] शीक्षावल्ली। ६३

देयम्। भिया देयम्। संविदा देयम्। अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्॥

ये तल ब्राह्मणा: संमर्शिनः । युक्ता अयुक्ताः । अलूक्षा धर्मकामा: स्युः। यथा ते तत् वर्तेरन्। तथा तत्र वर्तेथाः। अथाभ्याख्यातेषु। ये तत्र ब्राह्मणाः संमर्शिनः। युक्ता अयुक्ताः । अलूक्षा धर्मकामा: स्युः। यथा ते तेषु वर्तेरन्। तथा तेषु वर्तेथाः। एष आदेशः। एष उपदेशः। एषा वेदो- पनिषत्। एतदनुशासनम्। एवमुपासितव्यम्। एवमु चैतदुपास्यम् ॥४ ॥ इति एकादशोऽनुवाक:॥ वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ह्मविज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमर्थः, पुरुषसंस्कारार्थत्वात्। संस्कृतस्य हि विशुद्धसत्वस्य आत्मविज्ञानमञ्जसैवोत्पद्यते। 'तपसा

उत्तरानुवाके कर्मणां कर्तव्यता किमर्थमुपदिश्यत इत्याकाङ्कायामाह- वेदमनूच्येत्यादिना। ज्ञानात्पूर्व कर्मणां ज्ञानार्थिनावश्यं कर्तव्यत्वे हेतुमाह- पुरुषेति। संस्कारस्वरूपं कथयन्संस्कारद्वारा तेषां ब्रह्म विज्ञानसाधनत्वमाह- संस्कृतस्य हीति। सत्वस्यान्तःकरणस्य विशिष्टा या शुद्धिः सैव संस्कार इति भावः । अञ्जसैवेति। अप्रतिबन्धेनैवेत्यर्थः पापरूपस्य चित्तमालिन्यस्य ज्ञानोत्पत्तिप्रतिबन्धकत्वात्, शुद्धिद्वारा कर्मणां विद्योदयहेतुत्वे हि-शब्दसूचितं मानमाह-तपसेति। तपसा कर्मणा कल्मषनिवृत्तौ विद्या भवति, तया

Page 164

६४ तैततिरीयोपनिषदि [अनु.

कल्मषं हन्ति विद्ययामृतमश्नुते' इति हि स्मृतिः। वक्ष्यति च-'तपसा ब्रह्म विजिज्ञासस्' इति। अतो विद्योत्पच्यर्थमनुष्ठेयानि कर्माणीति। अनुशास्तीत्यनुशासनशब्दात्, अनुशासनातिक्रमे हि दोषोत्पत्तिः । प्रा- गुपन्यासाच्च कर्मणाम्, केवलब्रह्मविद्यारम्भाच्च, पूर्व कर्माण्युपन्यस्तानि। उदितायां च ब्रह्मविद्यायाम् 'अभयं प्रतिष्ठां विन्दते' 'न विभेति कुत-

विद्यया अमृतमश्नुत इति स्मृत्यर्थः । इति हि स्मृतिरिति। इति स्मृतेरित्यर्थः । ननु कर्मभिर्विशुद्धसतत्वस्यापि तत्त्त्रचिन्तां विना कथमात्मविज्ञानमञ्जसैवोत्पद्ेतः तत्राह-वक्ष्यति चेति। तत्वचिन्तामपि विद्यासाधनत्वेन श्रतिर्वक्ष्यतीत्यर्थः। श्रुतौ तपःशब्दस्तत्त्वविचारपर इत्येतदप्रे स्फुटीकरिष्यते। उपसंहरति- अत इति। पुरुषसंस्कारद्वारा कर्मणां विद्यासाधनत्वादित्यर्थः। ननु उपदिशतीत्यनुक्त्वा राजेवानुशास्तीति किमर्थ वदति श्रुतिरित्याशङ्कय गुरूपदेशातिक्रमे महान- नर्थो भवेदिति सूचनार्थमित्याह-अनुशासनशब्दादिति। तदतिक्मे दोषो भवतीति गम्यत इति शेषः। तत्रोपपत्तिमाह- अनुशासनेति। लोके राजानुशासनातिक्रमे दोषोत्पत्तिप्रसिद्धेरिति हि-शब्दार्थः । ननु यथा ज्ञाना- त्पूर्व कर्माणि ज्ञानार्थ कर्तव्यानि तथा ज्ञानोदयानन्तरमपि मुक्त्यर्थ तानि कर्तव्यानि, ज्ञानकर्मसमुच्चयस्यैव मुक्तिसाधनत्वात्; तथा च स्मृति :- 'त- स्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने' इति; नेत्याह-भरागुपन्यासा- चेति। च-शब्दः शङ्कानिरासार्थः। कर्मणां विद्यारम्भात्प्रागुपन्यासाद्धेतो- विद्योदयानन्तरं न तान्यनुष्ठेयानीत्यर्थः । केवलेति। ब्रह्मविदाप्नोति परमि- वयत्र परप्राप्तिसाधनत्वेन विद्यामात्नारम्भाच्च हेतोर्न विद्योदयानन्तरं तान्यनुष्ठे- यानीत्यर्थः । प्रागुपन्यासं विवृणोति- पूर्वमिति। ब्रह्मविदाप्नोति परमिति विद्यारम्भात्पूर्व संहितोपनिषद्येव ऋतं चेत्यादावुपन्यस्तानीत्यर्थः । विद्योदयान- न्तरमेव मुक्तिलाभश्रवणात्तदनन्तरं कर्मणां नैष्फल्यश्रवणाच्च न मुक्तिसाधनत्वं कर्मणामित्याशयेनाह- उदितायां चेति। यदा ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठामात्मभावं विद्यया विन्दते तदैवाभयं गतो भवति। ब्रह्मणः स्वरू- पभूतमानन्दं विद्वान्न बिभेति कुतश्चन, भयहेत्वविद्याया विद्योदयकाल एव

Page 165

११.] शीक्षावल्ली। ६५

श्रन' 'किमहं साधु नाकरवम्' इत्यादिना कर्मनैष्किंचन्यं दर्शयिष्यति। अतः अवगम्यते -- पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पच्यर्थानि कर्मा- णीति ; मन्त्रवर्णाच्च- 'अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इति। ऋतादीनां पूर्वत्रोपदेशः आनर्थक्यपरिहारार्थः; इह तु ज्ञानोत्पच्यर्थत्वा- त्कर्तव्यतानियमार्थः। वेदम् अनूच्य अध्याप्य आचार्यः अन्तेवासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थ ग्राहयती- त्यर्थः। अतोऽवगम्यते अधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति। 'बुद्धा कर्माणि कुर्वीत' इति स्मृतेश्र। कथमनुशा- स्तीत्याह-सत्यं वद यथाप्रमाणावगतं वक्तव्यं च वद। तद्वत् धर्म

निवृत्तत्वादित्यर्थः । किमहमिति। विदुषः साधुकर्माकरणप्रयुक्तसंतापाभावोक्त्या तं प्रति कर्मणामाकिचन्यं फलाभावः प्रतीयत इत्यर्थः। समुच्चयस्य श्रुतिबाध्य- त्वमुपसंहरति- अत इति। प्रागुपन्यासादिहेतोरित्यर्थः । विद्येति । विद्यो- त्पत्यर्थान्येव न मुक्त्यर्थानीति गम्यत इत्यर्थः । इतश्र दुरितक्षयद्वारा विद्यो- त्प्यर्थान्येवेत्याह- मन्त्रेति। अविद्यया कर्मणा मृत्युं पाप्मानं तीर्त्वेति कर्मणां दुरितक्षयफलकत्वप्रतिपादनपूर्वकं विद्यामात्रस्य मुक्तिहेतुत्वप्रतिपादक- मन्त्रवर्णाच्चेत्यर्थः । एवं च सति तत्प्राप्तिहेतुरिति स्मृतिवचनं क्रमसमुच्चयपरम्, न यौगपद्येन विद्याकर्मणोः समुच्चयपरमिति मन्तव्यम्। पौनरुक्त्यं परिहरति- ऋतादीनामिति। कर्मणां विद्याफले स्वाराज्येऽनुपयोगमाशक्कय तत्रोपयोग- कथनाभिप्रायेण पूर्वत्रोपदेश इत्यर्थः । अनुशब्दार्थमाह-ग्रन्थेति। वेदमध्या- व्यानन्तरमेव तदर्थमप्युपदिशतीति वदन्त्याः श्रुतेस्तात्पर्यमाह -- अत इति। धर्मजिज्ञासा कर्मविचारः। इतश्च धर्मजिज्ञासां कृत्वैव गुरुकुलान्निवर्तितव्य- मित्याह -- बुद्धेति। न च वेदाध्ययनानन्तरमाचार्येणानुज्ञातो दारानाहत्य मीमांसया कर्मावबोधं संपादयतु, तदा तत्संपादनेऽपि न 'बुद्धा-' इतिस्मृति- विरोध इति वाच्यम्, दारसंग्रहानन्तरं नित्यनैमित्तिकानुष्ठानावश्यंभावेन पुन- स्तस्य गुरुकुलवासासंभवात्; अतः प्रागेव कर्मावबोधः संपादनीय इति भावः । यथाप्रमाणावगतमपि परस्याहितं न वाच्यमित्याह- वक्तव्यं चेति। वच- *T. 9

Page 166

६६ तैत्तिरीयोपनिषदि [अनु.

चर; धर्म इत्यनुष्ठेयानां सामान्यवचनम्, सत्यादिविशेषनिर्देशात्। स्वा- ध्यायादध्ययनात् मा प्रमदः प्रमादं मा कार्षीः । आचार्याय आचा- र्यार्थ प्रियम् इष्टं धनम् आहृत्य आनीय दत्वा विद्यानिष्क्यार्थम्, आचा- र्येण च अनुज्ञातः अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासंतानं मा व्यव- च्छेत्सी :; प्रजासंततेर्विच्छित्तिर्न कर्तव्या; अनुत्पद्यमानेऽपि पुत्रे पुत्रका- म्यादिकर्मणा तदुत्पत्तौ यत्र: कर्तव्य इत्यभिपायः, प्रजापजनम्रजातित्रय- निर्देशसामर्थ्यात्; अन्यथा प्रजनश्रेत्येतदेकमेवावक्ष्यत्। सत्यात् न पम-

नार्हमित्यर्थः । तदाह भगवान्- 'अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्' इति। सामान्यवचनमिति। अनुष्ठेयसामान्यवाचकमपि धर्मपदं सत्यादिरूप- धर्मविशेषनिर्देशसंनिधानात्तदतिरिक्तानुष्ठेयपरमित्यर्थः। स्वाध्यायादध्यय- नादिति। अध्ययनेन गृहीतस्य स्वाध्यायस्य प्रमादो विस्मरणम्, तन्मा कुर्वित्यर्थः ; 'व्रह्मोज्झे मे किल्बिषम्' इति मन्त्रवर्णेन 'व्रह्महत्यासमं ज्ञेय- मधीतस्य विनाशनम्' इति स्मरणेन च वेदविस्मरणे प्रत्यवायावगमात् । मे मम किल्बिषं ब्रह्मोज्झे वेदविस्मरणवति पुरुषे गच्छत्विति मन्त्रार्थः । ननु न कर्तव्येति कथम्, संततिप्राप्तेर्देवाधीनत्वादित्याशङ्कयाह-अनुत्पद्य- मानेऽपीति। इतश्च्ैवमेव श्रुतेरभिप्राय इत्याह- प्रजेति। ऋतं चेत्यनुवाके 'प्रजा च स्वाध्यायप्रवचने च, प्रजनश्च स्वाध्यायप्रवचने च, प्रजातिश्र स्वाध्यायप्रवचने च' इति संततिविषय एव प्रजादित्रयनिर्देशबलाच्चेत्यर्थः । अन्यथेति। श्रुतेः संतत्यर्थयन्ने तात्पर्याभाव इत्यर्थः। ऋतुकालगमनाभावे प्रत्यवायस्मरणात्तावन्मात्रमेव श्रुतिरवक्ष्यदित्यर्थः । न च श्रुत्या तात्पर्येण संततिः संपादनीयेति किमर्थमुच्यत इति वाच्यम्, पितृऋणस्य परलोक- प्राप्तिप्रतिबन्धकत्वेन तदपाकरणद्वारा परलोकप्राप्तिसाधनत्वात्; तथा च श्रुति :- 'नापुत्रस्य लोकोडस्ति' इति। न केवलं पितृऋणं परलोकप्रतिबन्ध- कम्, किं तु मोक्षस्यापि; तथा च मनुः -- 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य चैतानि मोक्षमिच्छन्व्रजत्यधः' इति। तथा च मुमुक्षुणापि संततियत्नः कर्तव्य इति। ननु सत्यात्प्रमादनिषेधवचनस्य

Page 167

११.] शीक्षावल्ली। ६७

दितव्यं प्रमादो न कर्तर्व्यः; सत्याच्च प्रमदनमनृतप्सङ्ग: ; प्रमादशब्दसा- मर्थ्यात् विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः; अन्यथासत्यवदनप्रतिषेध एव स्यात्। धर्मात् न प्रमदितव्यम्, धर्मशब्दस्यानुष्ठेयविशेषविषयत्वा- दननुष्ठानं प्रमाद:, स न कर्तव्यः; अनुष्टातव्य एव । कुशलात् आत्मरक्षणार्थात्कर्मणः न प्रमदितव्यम् । भूतिः विभूतिः, तस्यै भूत्यै भूत्यर्थान्मङ्गलार्थात्कर्मणः न प्रमदितव्यम्। स्वाध्यायप्रवचनाभ्या न प्रम- दितव्यम्, ते हि नियमेन कर्तव्ये इत्यर्थः । देवपितृकार्याभ्यां न प्रमदि- तव्यम्, दैवपित्रये कर्मणी कर्तव्ये। मातृदेवः माता देवो यस्य सः, त्वं मातृदेव: भव स्याः । एवं पितृदेवः, आचार्यदेवः, अतिथिदेवो भव; देवतावदुपास्या एते इत्यर्थः। यान्यपि च अन्यानि अनवद्यानि अनि-

यदि सत्यमेव वक्तव्यमित्यथों विवक्षितः, तदा 'सत्यं वद' इत्यनेन पौनरुक्तयं स्यादित्याशङ्कयाह -- सत्याच्चेति। च-शब्दः शक्कानिरासार्थः । ननु यद्यत्रा- नृतवदननिषेधो विवक्षितः तर्ह्यनृतं न वक्तव्यमित्यनुक्त्वा प्रमादश्दप्रयोगे कोडभिप्रायः श्रुतेरित्याशङ्कयाह -- प्रमादशब्दसामर्थ्यादिति । अनृतवद- नविषये विस्मृत्यानृतवदनेऽपि दोषाधिक्यमेव, 'समूलो वा एष परिशुष्यति योऽनृतमभिवदति' इति श्रुतेः 'नानृतात्पातकं किंचित्' इति स्मृतेश्च् । तस्मादनृतवर्जने सदा जागरूकेणैव भवितव्यमिति भावः। अन्यथेति। विस्मृ- त्यानृतवदनेपि दोषातिशयाभावे सतीत्यर्थः । असत्येति च्छेदः । अननुष्ठा- नमिति। अनुष्ठेयस्वरूपस्य धर्मस्यालस्यादिकृतमननुष्ठानं प्रमाद इत्यर्थः । अनु- प्ठातव्य एवेति। धर्म इति शेषः। आत्मरक्षणार्थादिति। शरीररक्षणार्थाच्चिकि- त्सादिरूपादित्यर्थः । मङ्गलार्थादिति। 'वायव्यं श्व्वेतमालभेत' इत्यादौ विहि- ताद्वैदिकात् लौकिकात्प्रतिप्रहादेश्चेत्यर्थः । देवेति। देवकार्य यागादि, पितृकार्य श्राद्धादीति विभागः । मात्रादीनां वस्तुतो देवत्वाभावादाह- देवतावदिति। श्रौतस्मार्तकर्मजातमुपदिश्याचारप्रमाणकानि कमोणि विशेषोक्तिपूर्वकमुपदिशति -यान्यपि चेति। अषि च यानीति योजना। आचार्यकृतानां कर्मणां

Page 168

६८ तैत्तिरीयोपनिषदि [भनु.

न्दितानि शिष्टाचारलक्षणानि कर्माणि, तानि सेवितव्यानि कर्तव्यानि त्वया। नो अकर्तव्यानि इतराणि सावद्यानि शिष्टकृतान्यपि। यान्य- स्माकमाचार्याणां सुचरितानि शोभनचरितानि आम्नायाद्यविरुद्धानि, तान्येव त्वया उपास्यानि, नियमेन कर्तव्यानीत्येतत्। नो इतराणि विप- रीतान्याचार्यकृतान्यपि। ये के चाविशेषिता आचार्यत्वादिधर्मैः अस्मत् अस्मत्तः श्रेयांसः प्रशस्यतराः, ते च ब्राह्मणाः, न क्षत्रियादयः, तेषाम् आसनेन आसनादिना त्वया प्रश्वसितव्यम्, प्रश्वसनं प्रश्वासः श्रमा- पनयः; तेषां श्रमास्त्वया अपनेतव्या इत्यर्थः । तेषां वा आसने गो- ष्ठीनिमित्ते समुदिते, न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः; केवलं तदु- क्तसारग्राहिणा भवितव्यम्। किं च, यत्किंचिद्देयम्, तत् श्रद्धयैव दातव्य- म्। अश्रद्धया अदेयं न दातव्यम्। श्रिया विभूत्या देयम्। हिया लज्जया

साकल्येनोपादेयत्वमिति विशेषमाशङ्कयाह- यान्यस्माकमिति। विपरी- तानीति। शापप्रदानादीनीत्यर्थः । आचार्यत्वादीति। आदिपदं मातृत्व- पितृत्वादिसंग्रहार्थम्। आचार्यादिभिन्ना इत्यर्थः । प्रशस्यतरा इति। सगुण- निर्गुणब्रह्मनिष्ठादियुक्ता इत्यर्थः । श्रुतस्य ब्राह्मण्यस्याविवक्षायां कारणाभावं मत्वाह- न क्षत्त्रियेति। आसनादिनेति। शुश्रूषान्नपानादिसंग्रहार्थ- मादिपदम्। गोष्ठीति। शास्त्रार्थनिर्णयाय क्रियमाणो व्यवहारोऽत्र गो- ष्ठी, सा निमित्तमुद्देश्यतया कारणं यस्य समुदितस्य समुदायस्य त- स्मिन्नित्यर्थः । प्रश्वासोऽपि न कर्तव्य इति। किमु वक्तव्यं पण्डितंम- न्यतया विस्रम्भेण वार्त्तादिकं न कार्यमितीति भावः। तर्हि तेषां समुदिते गत्वा किं कर्तव्यं मयेत्याशङ्कयाह- केवलमिति। श्रद्धयैवेति। अवर्जनीयतया प्राप्नेष्वपात्रेष्वपत्यर्थः । तदुक्तं वार्ततिके 'श्रद्धयैव च दातव्यमश्रद्धाभाजने- ष्वपि' इति। न दातव्यमिति। 'अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह' इति भगवतोक्तत्वादिति भावः । स्वविभूत्यनुसारेण देयमित्याह- श्रियेति। बहु ददतापि मया कियहीयत

Page 169

११.] शीक्षावल्ली। ६९

देयम्। भिया च, संविदा च, संविन्मित्रादिकार्यम्। अथ एवं वर्तमानस्य यदि कदाचित् ते तव श्रौते स्मार्ते वा कर्मणि, वृत्ते वा आचारलक्षणे, विचिकित्सा संशयः स्यात् भवेत्, ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः, तत्र कर्मादौ युक्ता इति व्यवहितेन संबन्धः कर्तव्यः; संमर्शिनः विचा रक्षमा:, युक्ता: अभियुक्ताः कर्मणि वृत्ते वा, आयुक्ताः अपरप्रयुक्ताः, अलूक्षा: अरूक्षाः अक्रूरमतयः, धर्मकामाः अदृष्टार्थिनः अकामहता इत्ये- तत् ; ते यथा तत्न तस्मिन्कर्मणि वृत्ते वा वर्तेरन्, तथा त्वमपि वर्तेथाः । अथ अभ्याख्यातेषु, अभ्याख्याता अभ्युक्ता: दोषेण संदिह्यमानेन संयोजिताः केनचित्, तेषु यथोक्तं सर्वमुपनयेत्। ये तत्नेत्यादि समानम् । एषः आदेशः विधिः। एषः उपदेशः पुत्रादिभ्यः पित्रादीनाम् । एषा

इति लज्जावता दातव्यमित्याह-लज्जयेति। परलोकभयेन देयमित्याह -- भियेति। मित्रेति। मित्रसुहृदादेर्यत्कार्य तेनापि निमित्तेन देयमित्यर्थः । तत्र कर्मादाविति। देशाद्यर्थकस्य तत्रशव्दस्य युक्ता इत्यनेनान्वय उक्त: ; कस्मि- न्विषये युक्ता इत्याकाङ्कायां कर्मादावित्युक्तमिति विवेचनीयम्। अभियुक्ता इति। कर्मादावभियोगो विधिवत्तदनुष्ठानम्, अनुष्ठेयार्थनिर्णयस्य संमर्शिन इत्य- नेन लब्धत्वादिति मन्तव्यम्। अपरप्रयुक्ता इति। स्वतन्त्रा इत्यर्थः । अकाम- हता इति। लाभपूजादिकामोपहता न भवन्तीत्यर्थः । तथा त्वमपीति। उदितहोमादिविषये संदेहे सति स्व्स्ववंशस्थितानामेतादृटशानामाचाराद्वयवस्थां निश्चित्य तथा वर्तेथा इत्यर्थः । केनचिदिति। स्वर्णस्तेयादिरूपेणेत्यर्थः । संदिह्यमानेनेति विशेषणात्पातकित्वेन निश्चितानामभ्याख्यातपदेन ग्रहणं ना- स्तीति गम्यते तेषामसंव्यवहार्यत्वनिश्चयेन तद्विषये विचाराप्रसक्त्तेरिति मत्वा तद्वषावृत्तिः कृतेति मन्तव्यम्। तेष्वििति। पातकित्वसंशयास्पदेषु पुरुषेषु यथोक्तं तस्मिन्देशे काले वेत्यादिकं सर्वमुपनयेद्योजयेदित्यर्थः । एवं ये तत्रे- त्यादिवाक्यजातस्य तात्पर्यमुक्त्वा अक्षरार्थकथनप्रसक्तावाह- ये तत्नेत्यादि समानमिति। ये तत्रेत्यादिवाक्यजातं पूर्वेण ये तत्रेत्यादिवाक्यजातेन समा नार्थम्, अतो न प्रृथग्व्याख्येयमित्यर्थः। उक्मनुशासनमुपसंहरति- एष

Page 170

७० तैत्तिरीयोपनिषदि [भनु.

वेदोपनिपत् वेदरहस्यम्, वेदार्थ इत्येतत्। एतदनुशासनम् ईश्वरवच- नम्: आदेशवाच्यस्य विधेरुक्तत्वात्। सर्वेषां वा प्रमाणभूतानामनुशा- सनमेतत्। यस्मादेवम्, तस्मात् एवं यथोक्तं सर्वम् उपासितव्यं कर्त- व्यम्। एवमु च एतत् उपास्यम् उपास्यमेव चैतत् नानुपास्यम् इत्यादरार्थ पुनर्वचनम्।। अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थम्-किं कर्मभ्य एव केव- लेभ्यः परं श्रेयः, उत विद्यासव्यपेक्षेभ्यः, आहोस्विद्विद्याकर्मभ्यां संह- ताभ्याम्, विद्यया वा कर्मापेक्षया, उत केवलयैव विद्यया इति। तत्न

इत्यादिना। सत्यं वदेत्यादिग्रन्थसंदर्भ एतच्छब्दार्थः । पुत्रेति। पुत्रादिभ्यः शुकादिभ्यः पित्रादीनां व्यासादीनां य उपदेश इतिहासादौ प्रसिद्धः सोऽप्येष एवेत्यर्थः । अयमेवार्थ इतिहासादावुक्त इति भावः । कर्मकाण्डस्य कृत्स्खा- व्यत्रैव तात्पर्यमिति वक्तुमेषा वेदोपनिषदिति वाक्यम्; तद्वथाचष्टे-वेदर- हस्यमिति। एषा वेदोपनिषदित्यत्रैतच्छब्दः प्रकृतकर्मसंहतिपरः । ईश्वरव- चनमिति। 'श्रुतिस्मृती ममैवाज्ञे' इति स्मरणादिति भावः । नन्वनुशास्रनं विधिरिति कुतो नोच्यते? तत्राह-आदेशवाच्यस्येति। आदेशपदेन विधे- रुक्ततया पौनरुक्त्यापत्तेरिति भावः। अनुशासनपदस्यार्थान्तरमाह-सर्वेषां वेति। आदरार्थमिति। यथोक्तकर्मानुष्ठाने यत्नाधिक्यसिद्धयर्थमित्यर्थः ॥

आद्यवादे केवलाया विद्याया मुक्तिसाधनत्वं साधितमपि विशिष्य समु- च्चयनिराकरणेन पुनः साधयितुं चिन्तामुपक्रमते-अत्रैतदिति। विद्या- कर्मणो: फलभेदज्ञानार्थमेतद्वक्ष्यमाणं वस्तु चिन्त्यत इत्यर्थः। एवकारस्य व्याख्यानम्- केवलेभ्य इति। उत विद्येति। विद्या परव्रह्मविद्या, उपसर्ज- नतया तत्सापेक्षेभ्य इत्यर्थः । विद्याकर्मणोः समप्राधान्यपक्षमाह-आहोस्विि- दिति। विद्याप्राधान्यकोटिमाह-विद्यया वेति। सिद्धान्तकोटिमाह-उत केवलयैवेति। पूर्वपक्षमाह- तत्रेत्यादिना । 'वेदमनूच्य' इत्यादौ श्रुतेः कर्मस्वत्यन्तादरदर्शनात् 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इति भग-

Page 171

११.] शीक्षावल्ली। ७१

केवलेभ्य एव कर्मभ्यः स्यात्, समस्तवेदार्थज्ञानवतः कर्माधिकारात्, 'वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना' इति स्मरणात्! अधिगमश्च सहोपनिषदर्थेनात्मज्ञानादिना। 'विद्वान्यजते' 'विद्वान्याज- यति' इति च विदुप एव कर्मण्यधिकारः प्रदर्श्यते सर्वत्र; 'ज्ञात्वानुष्ठा- नम्' इति च। कृत्स्श्च वेद: कर्मार्थ इति हि मन्यन्ते केचित्। कर्मभ्य- श्वेत्परं श्रेयो नाप्यते, वेदोऽनर्थकः स्यात्। न; नित्यत्वान्मोक्षस्य ।

वद्वचनदर्शनाच्च कर्मभ्य एव परं श्रेयः; न च विद्यावैयध्ये शक्कनीयम्, तस्याः कर्मशेषत्वाभ्युपगमात्, तत्फलवचनस्यात एवार्थवादत्वान्र तद्विरोधोऽपीति भावः। उप.षज्जन्याया विद्याया: कर्मशेषत्वे हेतुमाह-समस्तेति। समस्तवेदार्थज्ञान- वतः कर्माधिकारे मानमाह-वेद इति। रहस्यान्युपनिषदः। समस्तवेदार्थज्ञानवतः कर्माधिकारेऽप्युपनिषदर्थज्ञानस्य कर्माङ्गत्वे किमायातम्! तत्राह- अधिगम- श्वेति। सरहस्य इति विशेषणादुपनिषत्प्रयोजनभूतेनात्मविज्ञानेन सहैव वेदार्था- वगमो गुरुकुले संपादनीय इति स्मृत्यर्थोडवगम्यते; तथा च कर्मकाण्डार्थज्ञानव- द्वेदान्तार्थज्ञानस्यापि कर्माङ्गत्वमायातीति भावः। आत्मविद्याया: कर्माङ्गत्वे हेत्वन्तरमाह -- विद्वानिति। सर्वत्र वेदे विद्वान्यजते विद्वान्याजयति इति सम- स्तवेदार्थज्ञानरूपविद्यावत एव यतोऽधिकारः प्रदुर्श्यते, ततोऽप्यात्मज्ञानस्य कर्मशेषत्वमित्यर्थः । समस्तवेदार्थज्ञानवतः कर्माधिकारे स्मृत्यन्तरमाह- ज्ञात्वे- ति। 'ज्ञात्वानुष्ठानम्' इति स्मृत्या च विदुष एव कर्मण्यधिकारः प्रदर्श्यंत इति योजना। एवमौपनिषदात्मज्ञानस्य तत्फलवचनख च कर्मशेषत्वप्रदर्शनेन कृ- त्स्नस्य वेदस्य कर्मपरत्वमुक्तम्। तत्र जैमिनिशवरस्वामिसंमतिमाह-कृत्स्नश्चेति। तदुकं जैमिनिना- 'आन्रायस्य क्रियार्थत्वात् -- ' इति; शबरस्वामिना चोक्तम्- 'दृष्टो हि तस्यार्थः कर्मावबोधनम्' इति। तस्य वेदस्यार्थः प्रयो- जनम्। एवं कर्मणामेव मुक्तिहेतुत्वं प्रसाध्य विपक्षे दण्डमाह- कर्मभ्यश्रे- दिति। अनर्थकः स्यादिति। परमपुरुषार्थपर्यवसायी न स्यात्। न चेष्टा- पत्तिः, अध्ययनविधिविरोधप्रसङ्गात्। अध्ययनांवधिना हि समस्तस्य वेदस्या- भयुद्य निःश्रेयसफलवदर्थावबोधपरत्वमापादितम्। तस्मात्कर्ममात्रसाध्यो मोक्ष

Page 172

७२ तैत्तिरीयोपनिषदि [अनु.

नित्यो हि मोक्ष इष्यते। कर्मकार्यस्य चानित्यत्वं प्रसिद्धं लोके। कर्म- भ्यश्चेच्छेयोऽनित्यं स्यात्; तच्चानिष्टम्। काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च कर्मण उपभोगेन क्षयात् नित्यानुष्ठानाच प्रत्यवायानु- त्पत्तेः ज्ञाननिरपेक्ष एव मोक्ष इति चेत्, तच्च न; शेषकर्मसंभवात्तत्नि

इति स्वीकर्तव्यमिति स्थितम्। विद्याया मुक्तिहेतुत्वेऽपि न केवलायास्तस्या- स्तद्धेतुत्वम्, 'विद्यां चाविद्यां च' इति श्रुत्या विद्याकर्मसमुच्चयस्य मुक्ति- हेतुत्वावगमात्। समुच्चयेऽपि 'कर्मणैव हि संसिद्धिम्-' इत्यादिवचना- नुरोधेन कर्मप्राधान्यपक्षः, 'तत्प्राप्तिहेतु्विज्ञानं कर्म चोक्तं महामुने' इत्या- दिवचनानुरोधेन समप्राधान्यपक्षः, 'ब्रह्मविदाप्नोदि परम्' इत्यादिवचना- नुरोधेन विद्याप्राधान्यपक्ष इति विभागः। इदं च समुच्चयपक्षोपपादनं र्प- ष्टत्वादुपेक्षितं भाष्यकारेणेति मन्तव्यम्। तत्र केवलकर्मजन्यो मोक्ष इति पक्षं निराकरोति-नेत्यादिना। नित्यो हीति। मोक्षस्य नित्यत्वे 'न स पुनराव- तेते' इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः। कर्मकार्यस्यापि तस्य नित्यत्वं किन स्यादित्याशङ्कयाह- कर्मकार्यस्य चेति। ततः किम्? तत्राह-कर्मभ्यश्चे- दिति। अनित्यमिति च्छेदः । अनित्यत्वे इष्टापत्ति वारयति- तच्चेति। मुक्तस्यापि पुनः संसारप्रसक्गादिति भावः । पूर्ववादी प्रकारान्तरेण मोक्षस्य विद्यानैरपेक्ष्यं शङ्कते-काम्येति। मुमुक्षुणा जन्मप्रायणयोरन्तराले सर्वा- त्मना काम्यनिषिद्धयोरनारम्भान्न तस्य तन्निमित्ता भाविजन्मप्राप्तिः ; पूर्वजन्मसु संचितस्य कर्माशयस्य सर्वस्यैव वर्तमानदेहारम्भकत्वाभ्युपगमेनारब्धफलस्य तस्य कर्मण उपभोगेन क्षयात् न तन्निमित्ता च भाविजन्मप्राप्तिः ; नित्यनैमित्ति- कानां साकल्येनानुष्ठानात्प्रत्यवायानुत्पत्तौ प्रत्यवायनिमित्ता च न जन्मप्राप्तिः ; न चान्यज्जन्मनिमित्तमस्ति; तस्माद्विद्यानपेक्षो मोक्ष इत्यर्थः । निराकरोति- तच्च नेति। मुमुक्षोवर्तमानदेहारम्भसमये कानिचिदेव कर्माणि वर्तमानदेहमा- रभन्ते न सर्वाणि, स्वर्गनरकमनुष्यादिविरुद्धफलानां कर्मणामेकदेहारम्भक- त्वासंभवात्; अतः शेषकर्मसंभवात्तदपि मतं न संभवतीत्यर्थः । ननु शेष- कर्मसंभवेऽपि यथावर्णितचरितस्य मुमुक्षोज्ञनिनिरपेक्ष एव जन्माभावलक्षणो

Page 173

११.] शीक्षावल्ली। ७

मित्ता शरीरान्तरोत्पत्तिः प्राम्नोतीति प्रत्युक्तम् ; कर्मशेषस्य च नित्यानुष्ठा- नेनाविरोधात्क्षयातुपपत्तिरिति च । यच्चोक्तं समस्तवेदार्थज्ञानवतः कर्मा- धिकारादित्यादि, तच्च न ; श्रुतज्ञानव्यतिरेकादुपासनस्य। श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते, नोपासनमपेक्षते। उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते मोक्षफलम् ; अर्थान्तरमसिद्धिश्च स्यात्; 'श्रोतव्यः' इत्युक्त्वा

मोक्षः सिध्यतीति मतं कुतो न संभवति? तत्राह- तन्निमित्तेति। शेषक- ्मनिमित्तेत्यर्थः । प्रत्युक्तमिति। आद्यवाद इति शेषः । नन्वस्तु शेषकर्मसं- भवः, तथापि तस्य नित्यानुष्ठानेन नाशसंभवान्न तन्निमित्ता शरीरोत्पत्तिरिति, तन्न; नित्यानुष्ठानेन दुरितस्य क्षयसंभवेडपि न सुकृतस्य तेन क्षयः संभवति, नित्यानुष्ठानसंचितसुकृतयोरुभयोरपि शुद्धिरूपत्वेन विरोधाभावात्; अतः संचि- तसुकृतनिमित्ता शरीरोत्पत्तिरपरिहार्येति मत्वाह- कर्मशेषस्य चेति। इति चेति। इति चाद्यवादे नित्यानुष्ठानस्य सुकृतक्षयहेतुत्वं प्रत्युक्तमित्यर्थः । अतो ज्ञानं विना संचितकर्मक्षयासंभवाज्ज्ञानापेक्ष एव मोक्षो न तन्निरपेक्ष इति भावः। उपनिषदर्थज्ञानस्यापि कर्मशेषत्वात्कर्मसाध्य एव मोक्ष इत्युक्तमनूद्य निराकरोति -यच्चोक्तमित्यादिना। श्रुतज्ञानेति। गुरुकुले वेदान्तजनितं ज्ञानं श्रुतज्ञानम्, तस्य कर्मशेषत्वेSपि तदतिरिक्तोपासनस मोक्षसाधनस्य सतत्वान्न कर्मसाध्यो मोक्ष इत्यर्थः । ननु 'वेद: कृत्स्नोधिगन्तव्यः' इति वचनाद्यथा श्रुतज्ञानं कर्माधिका- रिविशेषणतया कर्मशेषस्तथा मननाद्यात्मकमुपासनमपि तच्छेषोडस्त्विति शङ्कां वारयति-श्रुतज्ञानमात्रेण हीति। मात्रपद्व्यवच्छेद्यमाह-नोपासनमपेक्षत इति। मानाभावादिति शेषः । ननु श्रुतज्ञानादर्थान्तरभूतमुपासनं वेदान्तेषु मोक्ष- फलकत्वेन न क्वापि विधीयते, अतो नोपासनसाध्यो मोक्ष इति वदन्तं प्रत्याह- उपासनं चेति। 'मन्तव्यो निदिध्यासितव्यः' इत्युपासनविधानानन्तरमुप- संहारे 'एतावदरे खल्वमृतत्वम्' इति श्रवणाद्मृतत्वसाधनतया तत्रोपासनवि- धिः प्रतीयत इति भावः। ननु मननादिरूपमुपासनमपि श्रुतज्ञानान्नातिरिच्यते ब्रह्म प्रत्ययत्वाविशेषादिति; नेत्याह-अर्थान्तरप्रसिद्धिश्च स्यादिति। मनननि- दिध्यासनयोर्ब्रह्मप्रत्ययत्वेऽपि श्रुतज्ञानादर्थान्तरत्वं प्रसिद्धमेव भवति, तयोर्वि- *T. 10

Page 174

७४ तै्तिरीयोपनिषदि [अनु.

तद्यतिरेकेण 'मन्तव्यो निदिध्यासितव्यः' इति यत्रान्तरविधानात्, मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानादर्थान्तरत्वम्। एवं तर्हि वि- द्यासव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः; विदासहितानां च कर्मणां भवे- त्कार्यान्तरारम्भसामर्थ्यम्; यथा स्वतो मरणज्वरादिकार्यारम्भसमर्था-

जातीयत्वात्पृथग्विधानाच्चेत्यर्थः । एतदेव विवृणोति- श्रोतव्य इत्युक्त्वेति। मनननिदिध्यासनयोश्चेति। चकारोऽवधारणार्थः सन्प्रसिद्धपदेन संबध्यते। वस्तुतस्तु श्रुतज्ञानस्यापि नास्ति कर्मशेषत्वे मानम्। न चाध्ययनविधि- बलाद्गुरुकुले संपादितसमस्तवेदार्थज्ञानमध्यपातिनस्तस्यापि कर्मज्ञानवत्कर्मा- ऋत्वं प्रतीयत इत्युक्तमिति वाच्यम्; अःययनविधेरक्षरावाप्तिमात्रफल- कत्वेनार्थावबोधपर्यन्तत्वासिद्वेः । न च तथा सति विचारविध्यभावात्पूर्वोत्तर- मीमांसयोरप्रवृत्तिप्रसङ्ग इति वाच्यम् ; अर्थज्ञानं विनानुष्ठानासंभवेन तत्तत्क्र- तुविधिभिरेव पूर्वमीमांसाप्रवृत्त्युपपत्तेः, उत्तरमीमांसाप्रवृत्तेः श्रोतव्यविधिप्र- युक्तत्वस्य ब्रह्मजिज्ञासासूत्रे स्फुटत्वात्, 'विद्वान्यजते' इति वचनस्य कर्मका-

ज्ञानस्य कर्मानुष्ठानप्रतिकूलताया वक्ष्यमाणत्वेन तच्छेषत्वानुपपत्तेश्र, 'आम्ना- यस्य क्रियार्थत्वात्-' इत्यादिवृद्धवचनजातस्य कर्मविचारप्रकरणगतत्वेन कर्म- काण्डमात्रविषयतायाः समन्वयसूत्रे स्पष्टत्वाच्च। तस्माच्छतज्ञानमपि न कर्म- शेषः । अत एवात्मज्ञानफलश्रवणमर्थवाद इति शङ्कापि निरालम्बनेति बोध्यम्। इत्थं केवलकर्मभ्यः परं श्रेय इति पक्षं निरस्य कर्म प्रधानं विद्या चोपसर्ज- नमिति समुच्चयपक्षमुत्थापयति- एवं तर्हीति। ननु नित्यस्य मोक्षस्य कर्मारभ्यत्वं न संभवति, कार्यस्यानित्यत्वनियमादित्युक्त कथं तस्य विद्यास- हितकर्मकार्यत्वशङ्का? तत्राह- विद्यासहितानां चेति। च-शब्दः शङ्कानि- रासार्थः । विद्यालक्षणसहकारिमहित्रा नित्यस्याप्यारम्भः संभवतीति भावः । कार्यान्तरेति। नित्यकार्येत्यर्थः । सहकारिसामध्यात्कार्यवैचित्र्यमात्रे दृष्टान्त- माह-यथेति। यथा स्वतो मरणरूपकार्यारम्भसामर्थ्यवतोऽपि विषस्य म- न्त्रसंयुक्तस्य पुष्टिरूपकार्यान्तरारम्भसामर्थ्यम्, यथा वा दघ्नः समयविशेषे

Page 175

११.] शीक्षावल्ली। ७५

नामपि विषदध्यादीनां मन्रशर्करादिसंयुक्तानों कार्यान्तरारम्भसामर्थ्यम्, एवं विद्यासहितैः कर्मभिः मोक्ष आरभ्यत इति चेत्, न ; आरभ्यस्या- नित्यत्वादित्युक्तो दोषः । वचनादारभ्योऽपि नित्य एवेति चेत्, न ; ज्ञापकत्वादचनस्य। वचनं नाम यथाभूतस्यार्थस्य ज्ञापकम्, नाविद्यमा- नस्य करत। न हि वचनशतेनापि नित्यमारभ्यते, आरब्धं वा अविनाशि भवेत्। एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम्॥ विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके इति चेत्, न; कर्मणः

ज्वररूपकार्यारम्भसामर्थ्यवतोऽपि तदा गुडशर्करादिसंयुक्तस्य तस्य तृप्तिमात्रार- म्भसामर्थ्यम्, यथा वा वेतबीजस्य दावदग्धस्य कदल्यारम्भसामर्थ्यम्, एवं प्रकृतेऽपीत्यर्थः। अस्तु सहकारिवैचित्र्यात्कार्यवैचित्रयम्, तावता आरभ्यस्यापि मोक्षस्यानित्यत्वप्रसङ्गदोषे किमागतमिति दूषयति -- नारभ्यस्येति। 'य- त्कृतकं तद्नित्यम्' इति न्यायविरोधान्नित्यस्यारम्भो न संभवतीत्यर्थः । 'न स पुनरावर्तते' इति वचनादारभ्यस्यापि मोक्षस्य नित्यत्वमविरुद्धमिति शङ्कते- वचनादिति। वचनस्यानधिगतयोग्यार्थज्ञापकत्वेन पदार्थयोग्यतानाधायकत्वा- न्न वचनबलादारभ्यस्य नित्यत्वं सिध्यतीति दूषयति-नेति। संग्रहवाक्यं विवृणोति- वचनं नामेत्यादिना। ननु वचनमेवारभ्यस्य मोक्षस्य नित्यत्वं प्रति योग्यतामविद्यमानामप्याधाय पश्चान्नित्यत्वं तस्य ज्ञापयतीति; नेत्याह- नाविद्यमानस्य क्त्रिति। कुत इत्यत आह-न हीति । नित्यमिति। आत्मस्वरूपमिति शेषः । आरब्धं वेति। घटादीति शेषः । हि यस्माद्वचन- शतेनापि नित्यस्यारम्भो लोके न दृश्यते तस्मान्नाविद्यमानस्य कत्रिति योजना। अन्यथा 'अन्धो मणिमविन्दत्' इत्यादावपि वचनबलादेव योग्यताप्रसङ्ग इति भावः । समसमुच्चयपक्षमप्यतिदेशेन निराकरोति- एतेनेति। अनि- त्यत्वप्रसङ्गेनेत्यर्थः ॥

प्रतीचो ब्रह्मत्वरूपमोक्षस्य नित्यत्वेन समुच्चयाजन्यत्वेऽपि तदावारका- विद्यानिवृत्तिहेतुत्वमेव समुच्चयस्यास्त्व्रिति शक्कते- विद्याकर्मणी इति। आव-

Page 176

७६ तैत्तिरीयोपनिषदि [अनु.

फलान्तरदर्शनात्। उत्पत्तिसंस्कारविकाराप्तयो हि फलं कर्मणो दृश्यते । उत्पच्यादिफलविपरीतश्र मोक्षः । गतिश्रुतेराप्य इति चेत्- 'सूर्यद्वारेण ते विरजाः प्रयान्ति' 'तयोर्ध्वमायन्नमृतत्वमेति' इत्येवमादिगतिश्रुति- भ्यः प्राप्यो मोक्ष इति चेत्, न; सर्वगतत्वात् गन्तृभिश्वानन्यत्वात्। आकाशादिकारणत्वात्सर्वगतं ब्रह्म, ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञाना- त्मान :; तेन नाप्यो मोक्षः । गन्तुरन्यद्विभिन्नदेशं च भवति गन्तव्यम् ।

रणरूपप्रतिबन्धहेतोरविद्याया निवृत्तौ विद्यामात्रस्यैवापेक्षितत्वेन कर्मणोऽनपे- क्षितत्वात्र समुच्चयाधीना मुक्तिरिति मत्वाह- नेति। कर्मणामविद्यानिवृत्त्य- पेक्षया फलान्तरस्यैव लोके प्रसिद्धत्वाच्च न प्रतिबन्धहेतुनिवृत्तौ कर्मापेक्षे- त्याह-कर्मण इति। तदेव विवृणोति-उत्पत्तीति। उत्पत्तिः पुरोडाशादेः, संस्कारो व्रीह्यादेः, विकारः सोमस्याभिषवलक्षणः, आप्तिः पयसः, इत्येवं कर्मण: फलं प्रसिद्धमित्यर्थः । ननु यद्यविद्यानिवृत्तौ न कर्मापेक्षा, कर्मफलं चोत्पत्त्यादिकमेव, तर्हि ब्रह्मस्वरूपमोक्षस्यैवोत्पत्त्याद्यन्यतमत्वमस्तु; नेत्याह- उत्पन्यादिफलविपरीतश्चेति। ब्रह्मस्वरूपस्य तु मोक्षस्यानादित्वादनाधेयाति- शयत्वाद्विकार्यत्वान्नित्याप्तत्वाच्च कर्मफलवैपरीत्यम्; एतेषां हेतूनां श्रुतिसि- द्धत्वाच्च नासिद्धिशङ्का कार्येति भावः । प्रत्यगात्मतया नित्यप्राप्तस्यापि ब्रह्मणो गतिश्रुतिमवलम्व्य प्राप्यत्वमाशङ्कते-गतीति। शङ्कां विवृण्वन्गतिश्रुतीरुदा- हरति-सूर्येति। विरजा निष्कल्मषा ब्रह्मविद इत्यर्थः । तयेति। सुषुम्ना- ख्यया नाड्येत्यर्थः । आदिपदात् 'तेऽरचिषमभिसंभवन्ति' इत्यादिश्रुतयो गृह्य- न्ते। गतिश्रुतीनामन्यविषयत्वमभिप्रेत्य परव्रह्मणो गतिप्राप्यत्वं निराकरोति- न सर्वगतत्वादिति। लोके गन्तुः सकाशादन्यस्य परिच्छिन्नस्य च प्राप्यता प्रसिद्धा ; ब्रह्मणस्तु तदुभयाभावान्न प्राप्यतेत्यर्थः । सर्वगतत्वं साधयति- आकाशादीति। ब्रह्मणो गन्तृभिर्जीविरभिन्नत्वं विवृणोति -- ब्रह्माव्यतिरि- क्ताश्चेति। चकारोऽवधारणे। तेनेति। सर्वगतत्वादिनेत्यर्थः । ननु यदि सर्वगतं गन्तुरनन्यच्च न प्राप्यम्, तर्हि कीदृशं गन्तव्यम्? अत आह- गन्तुरिति। अनन्यस्य गन्तव्यत्वाभावमनुभवेन साधयति- न हि

Page 177

११.] शीक्षावल्ली। ७७

न हि, येनैवाव्यतिरिक्तं यत्, तत्तेन गम्यते। तदनन्यत्वप्रसिद्धिश्च 'तत्सृष्टा तदेवानुपाविशत्' 'क्षेत्रज्ञं चापि मां विद्धि' इत्येवमादिश्रुति- स्मृतिशतेभ्यः । गत्यैश्वर्यादिश्रुतिविरोध इति चेत्- अथापि स्यात् यद्यपाप्यो मोक्षः, गतिश्रुतीनाम् 'स एकधा' 'स यदि पितृलो- ककाम:' 'स्त्रीभिर्वा यानैर्वा' इत्यादिश्रुतीनां च कोपः स्यात् इति चेत्, न; कार्यब्रह्मविषयत्वात्तासाम्। कार्ये हि ब्रह्मणि स्त्रया-

येनैवेति। गन्तृभिरनन्यत्वं साधयति-तदनन्यत्वप्रसिद्धिश्चेति। तस्य ब्रह्मणो गन्तृभिरनन्यत्वं च श्रुत्यादिभ्यः सिध्यतीत्यर्थः । व्रह्मण एव जीवभावेन प्रवेशश्रवणात्क्षेत्रज्ञस जीवस्य ब्रह्मत्वश्रवणाच्चेत्यर्थः। 'अहं ब्रह्म' इत्यादिश्रुतयः 'आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति' इत्यादिस्मृतयश्च आदिपदग्राह्या विवक्षिताः । गतिश्रुतीनां गति पृच्छति- गत्यैश्वर्यादीति। यथा ब्रह्मविदो गतिः श्रूयते तथा तस्यैश्वर्यमपि श्रूयते, ब्रह्मणो नित्यप्राप्तत्वाद्यथा तस्य प्राप्यता न संभवति तथा परत्रह्मविदो मुक्तस्य निरुपाधिकत्वादैश्वर्यमपि न सं- भवति; ततश्च तुल्यन्यायत्वादैश्वर्यश्रुतीनामपि गतिप्रश्न इति मन्तव्यम् । प्रश्नं प्रपश्चयति- अथापि स्यादिति। गतिश्रुतयः पूर्वमुदाहृता इत्याशयेनै- श्ववर्यश्रुतीरुदाहरति-स एकधेत्यादिना। 'स एकधा भवति त्रिधा भवति' इत्यादिश्रुतिर्मुक्तस्यानेकशरीरयोगं दर्शयति; 'स यदि पितृलोककामो भवति' इत्यादिश्रुतिस्तु मुक्तस्य संकल्पमात्नसमुत्थान्पित्रादिभोगान्दर्शयति; तथा 'स्त्रीभिर्वा' इत्यादिश्रुतिरपि तस्यैश्व्वर्यमावेदयतीत्यर्थः । 'कार्य बादरिः' इत्य- धिकरणन्यायेन तासां श्रुतीनां गतिमाह-न कार्येति। ननु सगुणन्रह्मो- पासकस्य सत्यलोकस्थकार्यव्रह्मप्राप्तिविषयास्ताः श्रुतयो न निर्गुणब्रह्मविदः पर- ब्रह्मप्राप्तिविषया इत्यत्र किं विनिगमकमित्याशङ्कयाह- कार्ये हीति। कार्ये हिरण्यगर्भाख्ये ब्रह्मणि प्राप्ते सति तल्लोके स्त्र्यादयो विषयाः सन्ति, न कार- णत्वोपलक्षिते निर्गुणविद्याप्राप्ये विशुद्धे ब्रह्मणि विषयाः सन्ति, विद्यया अ- विद्यातत्कार्यजातस्य सर्वस्य निवृत्तत्वात् निर्गुणमुक्तस्य निरुपाधिकत्वेन भोक्तृ- त्वायोगाच्चेत्यर्थः । कार्यत्रह्मलोके स्त्रयादिविषयाः सन्तीत्यत्र 'स यदि स्त्रीलो-

Page 178

७८ तैत्तिरीयोपनिषदि [अनु.

दय: स्युः, न कारणे; 'एकमेवाद्वितीयम्' 'यत्र नान्यत्पश्यति' 'तत्केन कं पश्येत्' इत्यादिश्रुतिभ्यः । विरोधाच्च विद्याकर्मणोः समुच्च- यानुपपत्तिः। प्रविलीनकर्त्रादिकारकविशेषतत्वविषया हि विद्या तद्विप- रीतिकारकसाध्येन कर्मणा विरुध्यते। न ह्येकं वस्तु परमार्थतः कर्तृत्वा-

ककामो भवति संकल्पादेवास्य त्रियः समुत्तिष्ठन्ति' इत्यादिश्रुतिप्रसिद्धिद्योत- नार्थो हि-शब्दः । परममुक्तौ भोगाभावे मानमाह-एकमेवेत्यादिना। स- जातीयविजातीयस्वगतभेदरहितं ब्रह्मेत्यर्थः । यत्रेति। अन्योऽन्यत्पश्यतीत्येवमा- त्मकं प्रसिद्धं द्वैतं यत्र वस्तुतो नास्ति स भूमेत्यर्थः । तत्केनेति। तत्तदा विदेह- कैवल्यसमये केन करणेन के विषयं पश्येदित्यर्थः । एतेन निर्गुणविद्याप्रक- रणगतानाम् 'स एकधा भवति' 'स्त्रीभिर्वा यानैर्वा' इत्यादैश्व्वर्यश्रुतीनां सगुणमुक्तविषयत्वकल्पनमयुक्तमिति शङ्कापि निरस्ता, परममुक्तौ भोगासंभ- वस्य 'तत्केन कम्' इत्यादिश्रुतिसिद्धत्वात्, 'मात्रासंसर्गस्त्वस्य भवति' इत्या- दिश्रत्या मुक्तस्य सर्वोपाध्यभावप्रतिपादनेन विषयभोगासंभवाच्च। तथा चैश्व- ्श्रुतीनां प्रकरणे निवेशासंभवात्कार्यव्रह्मप्राप्तानामैश्वर्यसंभवाच्च सामर्थ्यानु- सारेण प्रकरणमुल्लङ्म्य सगुणविद्याशेषत्वकल्पनद्वारा सगुणमुक्तविषयत्वक- ल्पनं युक्तमेवेति। एवमविद्यानिवृत्तौ कर्मणामनुपयोगाद्वह्मभावलक्षणमोक्षस्य कर्मसाध्यत्वाभावाच्च मुक्तौ विद्यैव हेतुर्न विद्याकर्मणोः समुच्चय इति प्रति- पादितम्। इदानीं समुच्चयासंभवे हेत्वन्तरमाह- विरोधाच्चेति। विरोधमेव प्रपश्चयति-प्रविलीनेति। कत्रादिकारकलक्षणा विशेषा: प्रविलीना यस्मि- न्व्रह्मणि तत्तथा, निर्विशेषमिति यावत्। तादृशव्रह्मविषया विद्या यथोक्तत्- ह्मविपरीतेन कत्रादिकारकजातेन साध्यं यत्कर्म तेन विरुध्यते। हि प्रसिद्ध- मेतदित्यर्थः । ननु ब्रह्मणो निर्विशेषत्वे सिद्धे तद्विषयविद्यया क्त्रादिद्वैतबा- धावश्यंभावात्कर्मानुष्ठानं न संभवतीति विद्याकर्मणोर्विरोधः स्यात्, न तु तत्सिद्धमित्याशक्कय तस्य निर्विशेषत्वं साधयति- न ह्येकमित्यादिना । ब्रह्मणो जगदुपादानत्वश्रुत्यनुरोधेन कत्रादिसकलद्वैतास्पदत्वं प्रतीयते 'नेति ने- ति' इत्यादिनिषेधश्रुतिभिस्तस्य सर्वविशेषशून्यत्वं च प्रतीयते; न चैंकं वस्तु

Page 179

११.] शीक्षावल्ली। ७९

दिविशेषवत् तच्छून्यं चेति उभयथा द्रष्ठुं शक्यते। अवश्यं ह्यन्यतरन्मि- थ्या स्यात्। अन्यतरस्य च मिथ्यात्वपसङ्गे युक्तं यत्स्वाभाविकाज्ञान- विषयस्य द्वैतस्य मिथ्यात्वम्; 'यत्र हि द्वैतमित भवति' 'मृत्योः स मृत्युमाप्नोति' 'अथ यत्रान्यत्पश्यति तदल्पम्' 'अन्योऽसावन्योऽह- मस्मीति न स वेद' 'उदरमन्तरं कुरुते अथ तस्य भयं भवति' इत्या- दिश्रुतिशतेभ्यः। सत्यत्वं च एकत्वस्य 'एकधैवानुद्रष्टव्यम्'एकमेवाद्वि-

परमार्थत उभयवत्तया प्रमाणतो निश्चेतुं शक्यत इत्यर्थः । तत्र विरोधादिति युक्तिसूचनार्थो हि-शब्दः । ततः किम? तत्राह-अवश्यं हीति। लोके पुरोवर्तिनि प्रतीतयोः रजतत्वशुक्तित्वयोविरुद्धयोरन्यतरस्य मिध्यात्वदर्श- नादिति हि-शब्दार्थः । नन्त्रन्यतरस्य मिथ्यात्वावश्यंभावेऽपि ब्रह्मणो निर्विशेष- त्वमेव मिथ्यास्तु; तत्राह-अन्यतरस्य चेति। स्वाभाविकमनादि यदज्ञानं तद्विषयस्य तद्विषयव्रह्मकार्यस्य द्वैतस्य स्वकारणाज्ञानसहितस्य यन्मिध्यात्वं तद्युक्तमित्यर्थः । द्वैतस्य मिथ्यात्वे मानमाह- यत्र हीत्यादिना। यत्रावि- द्याकाले द्वैतशब्दितं जगल्लब्धात्मकं भवति, तदा इतर इतरं पश्यतीति श्रुत्य- र्थः। श्रुताविवकारो मिथ्यात्ववाची, न सादृश्यवाची, उपमेयानुपलम्भादिति भाव: । य इह ब्रह्मणि नानाभूतं वस्तुतः कल्पितं जगत्परमार्थ पश्यति, स मृत्योर्मरणान्मृत्युं मरणमेव प्राप्नोतीति द्वैतसत्यत्वदर्शिनोSनर्थपरम्पराप्राप्त्यभि- धानादपि तस्य मिथ्यात्वमेव युक्तमित्यर्थः । अथ भूमलक्षणोक्त्यनन्तरं तद्वि परीतस्याल्पस्य लक्षणमुच्यते भूमलक्षणदार्ढ्याय-यत्र जगति अन्यदन्यः पश्यति तदल्पम्; अतो यत्र दर्शनादिद्वैताभावस्तस्य भूमरूपता युक्तेत्यर्थः ; द्वैतसाल्प- त्वात्स्वप्नद्वैतवन्मिथ्यात्वमिति भावः। यः परमेश्वरमन्योऽसावन्योऽहमस्मीति चिन्तयति स न परमात्मनस्तत्त्वं वेदेति श्रुत्या जीवस्य परमात्माभेदविरोधि- संसारलक्षणद्वैतस्य मिध्यात्वमवगम्यत इति भावः । यस्तु स्वस्येश्वरादल्पमपि भेदं पश्यति, तस्य तदानीमेव भयं भवतीति श्रुत्या जीवेश्वरभेदोपलक्षितस्य जगतो मिध्यात्वं भातीति भावः । 'सर्व तं परादाद्योऽन्यतात्मनः सर्व वेद' इत्यादिश्रुतिसंप्रहार्थमादिपदम्। एकत्वशब्दितस्य निर्विशेषत्रह्मणः सत्यत्वं च

Page 180

८० तैत्तिरीयोपनिषदि [अनु.

तीयम्' 'व्रह्मैवेद" सर्वम्' 'आत्मैवेद< सर्वम्' इत्यादिश्रुतिशतेभ्यः । न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते। अन्यत्वदर्शनापवादश्च विद्याविषये सहस्त्रशः श्रूयते। अतो विरोधो विद्याकर्मणोः । अतश्च समुच्चयानुपपत्तिः । अत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इत्य- नुपपन्नं तत्।।

युक्तमित्यत्र हेतुत्वेन श्रुतीरुदाहरति - एकधैवेति। एकरूपेणैव ब्रह्म आचा- र्योपदेशमनु साक्षात्कर्तव्यमित्यर्थः । अन्रैकरूपत्वं निर्विशेषचैतन्यरूपत्वम्, 'प्रज्ञानघन एव' इति वाक्यशेषदर्शनादिति भावः । 'व्रह्मैवेदं सर्वम्' इति सामानाधिकरण्यं ब्रह्मव्यतिरेकेण सर्वे वस्तुतो नास्ति; ततश्च ब्रह्म निर्विशेषमित्येतदभिप्रायकम् ; एतद्भिप्रायकत्वं चास्य सामानाधिकरण्यस्य भाष्यकारर्द्युभ्वाद्यधिकरणे प्रपश्चितम्; नेह विस्तरभयात्तल्लिख्यते। सर्वमि- त्यादीत्यादिपदेन 'सत्यं ज्ञानमनन्तं ब्रह्म' 'तत्सत्यमित्याचक्षते' 'तत्सत्यं स आत्मा' इत्यादिश्रुतयो गृह्यन्ते। ननूक्तरीत्या सर्वस्य दृश्यजातस्य चिदे- करसे ब्रह्मण्यध्यस्ततया सर्वाधिष्ठानभूतव्रह्मतत्वविद्यया सर्वस्य द्वैतस्य वाधि- तत्वाद्वस्तुतो जगद्गेदादर्शनेपि विदुषः कर्मानुष्ठानं कुतो न संभवति, यतो विद्याकर्मणोर्विरोधो भवेदित्याशङ्कयाह-न चेति। संप्रदानं कर्मण्युद्देश्या देवता। कर्तृकरणादिसंग्रहार्थमादिपदम्। स्वप्नवज्जगति मायामात्रत्वनिश्चये सति न प्रवृत्तिरुपपद्यत इति भावः। रज्जुतत्त्वसाक्षात्कारेण रज्जा- वध्यस्तसर्पस्येव ब्रह्मतत्त्व्रसाक्षात्कारेण ब्रह्मण्यध्यस्तद्वैतस्योपमर्दे युक्तििद्धे श्रुतयोऽपि सन्तीत्याह-अन्यत्वदर्शनापवादश्चेति। अधिष्ठानयाथात्म्यज्ञा- नस्याध्यासनिवर्तकत्वनियमदर्शनरूपयुक्तिसमुच्चय र्थश्चकारः। विद्याविषये ब्रह्म- णि विद्यासाम्थ्याह्वैतदर्शनबाधः 'तत्केन कं पश्येत्' इत्यादिश्रुतिषूपलभ्यत इत्यर्थः । तदुक्तं सूत्रकारेण 'उपमर्द च' इति। विद्यया कर्मसाधनकारकजा- तस्योपमर्द वाजसनेयिन आमनन्तीति सूत्रार्थः । अत इति। कर्मसाधनानां विद्ययोपमर्दितत्वादित्यर्थः । अतश्चेति। विरोधाच्चेत्यर्थः । समुच्चयानुपपत्तौ फलितमाह-अत्र यदुक्तमिति। मोक्ष इत्यनुपपन्नमित्यनन्तरं तद्युक्तमि-

Page 181

११.] शीक्षावल्ली। ८१

विहितत्वात्कर्मणां श्रुतिविरोध इति चेत्- यधुपमृद कर्त्रादिका- रकविशेषमात्मैकत्वविज्ञानं विधीयते सर्पादिभ्रान्तिविज्ञानोपमर्दकरज्वा- दिविषयविज्ञानवत्, तर्हि प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः; विहितानि च कर्माणि; स च विरोधो न युक्त:, प्रमाणत्वाच्छुतीनामि- ति चेत्, न ; पुरुषार्थोपदेशपरत्वाच्छुतीनाम्। विद्योपदेशपरा तावच्छुतिः संसारात्पुरुषो मोक्षयितव्य इति संसारहेतोरविद्यायाः विद्यया निवृत्तिः

त्यपि क्वचित्पाठो दृश्यते। तदानीमित्थं योजना-संहताभ्यां विद्याकर्मभ्यां मोक्ष इति कृत्वा केवलविद्याया मोक्षहेतुत्वमनुपपन्नमिति यदुक्तं तद्युक्कमिति॥। द्वैतस्य मिध्यात्वे कर्मश्रुतीनामप्रामाण्यं स्यादिति शङ्कते-विहित- त्वादिति। शङ्कां विवृणोति- यद्युपमृद्येत्यादिना। उपमर्दो मिध्यात्वबो- धनम्। विधीयते उपदिश्यते। सर्पादीति। रज्जौ सर्पोडयमिति भ्रान्तं प्रति मिध्यैव सपों न वस्तुतः सर्पोडस्ति रज्जुरेवैषेत्याप्तेन यथा रज्जुतत्त्वविषयकं वि- ज्ञानमुपदिश्यते तथेत्यर्थः । शुक्त्यादिसंग्रहार्थ द्वितायमादिपदम्। प्रथमं तु र जतादिसंग्रहार्थमिति विभागः । निर्विषयत्वादिति। सत्यविषयरहितत्वादित्य- र्थः। कल्पितद्वैतस्य रज्जुसर्पादेरित्र कार्याक्षमत्वादिति भावः । विहितित्वादिति हेतुरपि प्रतिपन्न इत्याह- विहितानि चेति। कर्मश्रुतिविरोधापादने इष्टापतति वारयति-स चेति। तथा च द्वैतसापेक्षकर्मश्रुतीनामद्वैतब्रह्म- बोधकविद्याश्रुतीनां च परस्परविरोधादप्रामाण्यप्रसङ्ग इति भावः । विद्याकर्म- श्रुतीनां परस्परमविरोधेन पुरुषार्थोपदेशमात्रे प्रवृत्तत्वान्नाप्रामाण्यप्रसङ्क इति समाधत्ते-नेत्यादिना। तत्र प्रथमं विद्याश्रुतीनां कर्मश्रुत्यविरुद्धपुरुषार्थो- पदेशे प्रवृत्ति दर्शयति-विद्योपदेशेति। विद्योपदेशपरा तावच्छतिर्विद्याप्रका- शकत्वेन प्रवृत्तेति संबन्धः । श्रतौ विद्यानिरूपणस प्रयोजनमाह- संसार- हेतोरिति। कर्तव्येतीति। अत्रेतिपदानन्तरं कृत्वेति शेषः। संसारहेत्वविद्या- निवतकां विद्यां प्रकाशयन्त्याः श्रुतेराशयं दर्शयति- संसारादिति। तथा घ मुमुक्षोरमोक्षसाधनविद्यालक्षणपुरुषार्थोपदेशाय प्रवृत्ता विद्याश्रुतिः, अतो न विद्याश्रुतेः कर्मश्रुत्या विरोध इत्यर्थः। इदानी विद्याश्त्यविरुद्धपुरुषार्थोपदे- *T.11

Page 182

८२ तैत्तिरीयोपनिषदि [अनु.

कर्तव्येति विद्याप्काशकत्वेन प्रतृत्तेति न विरोधः । एवमपि कर्तरादिका- रकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत एवेति चेत्, न ; यथापाप्तमेव कारकास्तित्वमुपादाय उपात्तदुरितक्षयार्थ कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे व्यापियते। उपचितदुरित- प्रतिबन्धस्य हि विद्योत्पत्तिर्नावकल्पते, तत्क्षये च विद्योत्पत्तिः स्यात्, ततश्राविद्यानिवृत्तिः, तत आत्यन्तिकः संसारोपरमः । अपि च,

शपरत्वं कर्मश्रुतीनामाशङ्कापूर्वकं दर्शयति- एवमपीत्यादिना। एवमपी- त्यस्य विद्याश्रुतेः कर्मश्रुत्या विरोधाभावेऽपीत्यर्थः । विरुध्यत एवेति। द्वैतसत्यत्वापहारिण्या विद्याश्रुत्या तत्सत्यत्वपरा कर्मश्रुतिर्विरुध्यत एवेति शङ्कार्थः । श्रेयःसाधनरूपपुरुषार्थोपदेशपरायाः कर्मश्रुतेः कारकाद्दि दवैतास्तत्वे डपि तात्पर्याभावान्न विरोध इति परिहरति- न यथापाप्तमेवेति। भ्रान्तिप्राप्तमेवेत्यर्थः । फलेति। स्वर्गपश्वादिफलार्थिनां फलसाधनं च विदधच्छास्त्रमित्यर्थः । व्याप्रियत इति। गौरवादिति भावः । न च द्वैतस्य मिथ्यात्वे शुक्तिरूप्यादिवदर्थक्रियासामर्थ्याभावात्कारकादेः फलसाध- नतादिकं न स्यादिति वाच्यम्; वियदादिप्रपश्वस्य मिध्यात्वेऽपि शुक्तिरज- तादिवैलक्षण्येन यावत्तत्वज्ञानमर्थक्रियासामर्थ्याङ्गीकारात्। इदं चारम्भ- णाधिकरणादौ प्रपश्चितं तत्रैवानुसंधेयमिति भावः । ननु मुमुक्षूणां मोक्षसा- धनीभूता विद्या शास्त्रेण विधातव्या न तु दुरितक्षयार्थ कर्माणि, विद्यायां मोक्षे वा उपात्तदुरितक्षयस्यानुपयोगादित्याशङ्कयाह-उपचितेति। प्रति- बन्धस्य हीति। प्रतिबन्धवतः पुंसः इत्यर्थः । 'ज्ञानमुत्पद्यते पुंसां क्षयात्पा- पस्य कर्मणः' इत्यादिशास्त्रप्रसिद्धिद्योतनार्थो हि-शब्दः । ततश्चेति। विद्योद- यादित्यर्थः । च-शब्दो विद्याया: कर्मासमुच्चितत्वरूपकैवल्यार्थः । तत आत्य- न्तिक इति। तथा च कर्मकाण्डस्य निःश्रेयसपर्यवसायिनो दुरितक्षयस्य स्वर्गा- दिफलस् च साधनत्वेन कर्मणामुपदेशे तात्पर्यमिति कर्मश्रुतीनां पुरुषार्थो- पदेशपरत्वं प्रदर्शितमिति बोध्यम्। एवं द्वैतमिथ्यात्वसाधनप्रसङ्गप्राप्तं विद्या- कर्मश्रुतीनां परस्परविरोधं परिहृत्य प्रकृतायां विद्याकर्मणोः समुच्चयानुपपत्तौ

Page 183

११.] शीक्षावल्ली। ८३

अनात्मदर्शिनो ह्यनात्मविषयः कामः; कामयमानश्च करोति कर्माणि; ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः। तद्यतिरेकेणात्मै- कत्वदर्शिनो विषयाभावात्कामानुपपत्तिः, आत्मनि चानन्यत्वात्कामानु- पपत्तौ स्वात्मन्यवस्थानं मोक्ष इत्यतोऽपि विद्याकर्मणोर्विरोधः । विरोधा- देव च विद्या न मोक्षं प्रति कर्माण्यपेक्षते, स्वात्मलाभे तु; पूर्वोपचितदु-

प्रकारान्तरेण विरोधं हेतुमाह-अपि चेति। विद्यावतः कर्मासंभवं वक्तुं कर्मण: काममूलत्वमाह-अनात्मदर्शिनो हीति। अनात्मनि देहादावात्मत्व- दर्शिन: स्वव्यतिरिक्तान्कामयितव्यपदार्थान्पश्यतस्तद्विषयः कामो भवति। हि प्रसिद्धमित्यर्थः । ततः किम्? तत्राह- कामयमानश्च करोतीति । तदुक्तं भगवता व्यासेन- 'यद्द्वि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्' इति। कर्मणां संसारफलकत्व्राच्च विदुषः कर्मानुष्ठानं न संभवतीत्या- शयेन कर्मफलं दर्शयति- तत्फलेति। संसार इति । कामिन इति शेषः । विद्यावतस्तु कामाभावान्न कर्मानुष्ठानमित्याह-तद्टयतिरेके- णेत्यादिना। आत्मैकत्वदर्शिनस्तद्वयतिरेकेण आत्मैकत्वव्यतिरेकेण काम- यितव्यविषयाभावादनात्मगोचरकामानुपपत्तिरित्यर्थः । ननु तर्ह्यात्मन्येव का- मोडस्त्वानन्दरूपत्वादात्मनः, तथा च तत्कामनया विदुषोऽपि कर्मानुष्ठानं स्या- दिति ; नेत्याह-आत्मनि चेति। कामस्यात्मान्यविषयत्वादात्मानन्दे च विदु- षोऽन्यत्वभ्रान्तेर्निवृत्तत्वादात्मनि कामानुपपत्तिः, तद्नुपपत्तौ च विदुषो मुक्ति- रेव पर्यवस्ति ; तथा च मुक्तस्य न कर्मानुष्ठानप्रत्याशेति भावः । फलित- माह-अतोऽपीति। विदुषः कामाभावेन कर्मानुष्ठानासंभवादपीत्यर्थः। विरोध इति। एकदैकत्र पुरुषे सहानवस्थानलक्षण इत्यर्थः । तथा च समुच्चयवादिमते कर्मविद्याश्रुतीनामप्येकदैकपुरुषविषयत्वासंभवलक्षणविरोधोडपि तद्निष्टः प्राप्नो- तीति भावः । विद्या प्रधानं कर्म चोपसर्जनमिति पक्षोऽपि समप्राधान्यपक्षव- दत एव निरस्त इत्याह- विरोधादेव चेति। स्वमते कर्मविद्याश्रुतीनां क्रम- समुच्चयपरत्वेनाविरोधं वक्तुं पूर्वोक्तमर्थ स्मारवति -- स्वात्मलाभे त्विति। स्वात्मलाभे तु स्वोत्पत्तौ तु विद्या कर्माण्यपेक्षत इति योजना। एतदेव विवृ.

Page 184

८४ तैत्तिरीयोपनिषदि [भनु.

रितमतिबन्धापनयनद्वारेण विद्याया हेतुत्वं प्रतिपद्यन्ते कर्माणि नित्या- नीति। अत एवास्मिन्पकरणे उपन्यस्तानि कर्माणीत्यवोचाम। एवं च अविरोधः कर्मविधिश्रुतीनाम्। अतः केवलाया विद्याया: परं श्रेय इति सिद्धम्॥ एवं तहिं आश्रमान्तरानुपपत्तिः, कर्मनिमित्तत्वाद्विद्योत्पत्तेः । गाईस्थ्ये च विहितानि कर्माणीत्यैकाश्रम्यमेव। अतश्र यावज्जीवादिश्रु-

णोति -- पूर्वोपचितेति। कर्मणां विद्याहेतुत्वे मानमाह-अत एवेति। विद्योदयहेतुत्वादेवेत्यर्थः । कर्मणां शुद्धिद्वारा विद्याहेतुत्वे फलितमाह -- एवं चेति। एतेन 'विद्यां चाविद्यां च' इति वचनं क्रमसमुच्चयाभिप्रायम्, उपास- नकर्मणोर्योगपद्येन समुच्चयाभिप्रायं वा भविष्यति; 'कर्मणैव हि' इति वचन- मपि कर्मणैव चित्तशुद्धधादिक्रमेण मुक्तिं प्राप्ता इत्यभिप्रायकं भविष्यति ; 'तत्प्राप्तिहेतुर्विज्ञानम्' इति वचनमपि क्रमसमुच्चयाभिप्रायमेवेति सूचितमिति ध्येयम्। परमप्रकृतमुपसंहरति- अत इति। मोक्षे केवलकर्मसाध्यत्वस्य समुच्चयसाध्यत्वस्य च निरस्तत्वादित्यर्थः ॥ कर्मणां विद्यासाधनत्वनिरूपणमुपश्रुत्य लब्धावकाश आश्रमान्तराण्या- क्षिपति- एवं तहीति। यदि कर्माणि विद्योत्पत्तौ निमित्तानि, तर्ह्याश्रमा- न्तराणां नैष्ठिकवानप्रस्थपारित्राज्यलक्षणानामनुपपत्तिरननुष्ठेयता स्यादित्यर्थः । विद्योत्पत्तेः कर्मनिमित्तकत्व्रेपि कथमाश्रमान्तरानुपपत्तिः? अत आह- गाईस्थ्ये चेति। गार्हस्थ्य एवाग्निहोत्रादीनि कर्माणि विहितानि नाश्रमान्तरेषु, अतो गार्हस्थ्य मेकमेवानुष्ठेयमित्यर्थः । गारईस्थ्यस्यैवानुष्ठेयत्वे हेत्वन्तरमाह- अतश्चेति। अत एवानुकूलतरा भवन्तीति योजना। आश्रमान्तराणामनुष्ठान- पक्षे सर्वेषामधिकारिणां यावजजीवं कर्मानुष्ठानालाभाद्यावज्जीवादिश्रुतयो नानु- कूलतरा: स्युरित्यर्थः । आश्रमान्तरानुष्ठानपक्षेऽपि यावज्जीवादिश्रुतयोऽनुकूला भवन्त्येव, कर्मणां विद्याहेतुत्वेऽपि विद्यामकामयमानैर्गृहस्थैः प्रत्यवायपरिहा- रार्थ यावजजीवं कर्मणामनुष्ठानात्, इदानीं तु विद्याकामैरपि विद्योत्पत्तये याव- जीवं गाईस्थ्य एव स्थित्वा कर्माण्यनुष्ठेयानीति विशेषलाभादनुकूलतराः स्यु-

Page 185

११.] शीक्षावल्ली। ८५

तयः अनुकूलतराः स्युः। न; कर्मानेकत्वात्। न ह्यग्निहोत्रादीन्येव कर्माणि; ब्रह्मचर्य तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि कर्माणि इतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसंकीर्णानि विद्य- न्ते ध्यानधारणादिलक्षणानि च । वक्ष्यति च- 'तपसा ब्रह्म विजि- ज्ञासस्व' इति। जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्ईस्थ्याद्विद्योत्पत्तिसंभ- वात्, कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां च विद्यायां सत्यां

रित्युक्तमिति मन्तव्यम्। आदिपदेन 'वीरहा वा एष देवानां योडगिमुद्वासयते' इत्याद्या आश्रमान्तरनिषेधश्रुतयो गृह्यन्ते। अत्र किमाश्रमान्तराणामविहितत्वाद- ननुष्ठेयत्वम्, किं वा तेषां प्रतिषेधात्, अथ वा तेषु विद्याहेतुकर्माभावात् नादः, श्रुतिस्मृत्योराश्रमान्तराणां विधिदर्शनात्। न द्वितीयः, निषेधश्रुतेर्यावज्जीवादि- श्रुतेश्चाविरक्तविषयतया संकोचोपपत्तेः, अन्यथा सांसारिकफलाद्विरक्तस्य 'यद- हरेव विरजेत्' इत्यादिसंन्यासविधिविरोधप्रसङ्गात्। न तृतीय इत्याह -- न कर्मानेकत्वादिति। विद्याहेतुभूतानां कर्मणां नानाविधत्वादाश्रमान्तरेष्वपि सन्त्येव विद्यासाधनानि कर्माणि, अतो नाश्रमान्तरानुपपत्तिरित्यर्थः । ननु यानि गाहस्थ्ये विहितानि तान्येव कर्माणि, नाश्रमान्तरेषु विहितानि ब्रह्मचर्या- दीनीत्याशक्कयाह- न हीति। न ह्यम्िहोत्रादीन्येव कर्माणि, किं तु ब्रह्मचर्यादीन्यपि कर्माणि भवन्त्येव अनुष्ठेयत्वाविशेषादित्यर्थः । तान्येवाश्रमा- न्तरेषु श्रुत्यादिसिद्धानि कर्माणि प्रपश्चयन्विद्योत्पत्ति प्रति तेषां गार्हस्थ्ये विहितकर्मभ्यः सकाशादतिशयं दर्शयति-ब्रह्मचर्य तप इत्यादिना। असं- कीर्णानीति। हिंसानृतवचनादिदोषैरसंकीर्णानीत्यर्थः । आश्रमान्तरस्थानां चित्तैका्यतत्त्वविचारादिकर्मणां विद्यासाधनत्वे मानमाह-वक्ष्यति चेति। 'सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्' इत्यादिश्रुतिसं्रहार्थश्रकारः । इतश्र कर्मणां विद्यासाधनत्वेऽपि न गा- ईस्थ्यमावश्यिकम्, अतो नैकाश्रम्यनिर्बन्ध इत्याशयेनाह -- जन्मान्तरेति। केषांचिज्जन्मान्तरकृतकर्मभ्य एव दारसंग्रहतप्रागपि विद्योदयसंभवात्तेषां

Page 186

८६ तैत्तिरीयोपनिषदि [अनु.

गाहस्थ्यप्रतिपत्तिरनर्थिकैव। लोकार्थत्वाच्च पुत्रादीनाम्। पुत्रादिसाध्ये- भ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य, नित्य- सिद्धात्मलोकदर्शिनः, कर्मणि प्रयोजनमपश्यतः, कथ प्रवृत्तिरुपपद्यते? प्रतिपन्नगाहस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयो- जनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात्। 'प्रव्रजिष्यन्वा अरेऽहमस्मा-

कर्मार्थत्वाच्चेति। 'जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय' इत्यादिश्रुतिपर्यालोचनया गाईस्थ्यप्राप्तेः कर्मानुष्ठानार्थत्वस्यैवावग- मात्कर्मफलभूतायां विद्यायां सिद्धायां तत्प्राप्तिरनर्थिकैवेत्यर्थः । कर्मसाध्यायां चेति। कर्मभिः साधनीयायामित्यर्थः । चकारो विदुषः कर्मासंभवसूचनार्थः । सर्वेषां गार्हस्थ्यनिर्बन्धाभावे हेत्वन्तरमाह-लोकार्थत्वाच्चेति। ननु पुत्र- कर्मापरविद्यानां गाईस्थ्ये संपादनीयानां लोकत्रयार्थत्वेऽपि जन्मान्तरकृतक- मभिरुत्पन्नविद्येन पुंसा गार्हस्थ्यं प्राप्तव्यमेव, तस्यापि लोकार्थत्वादिति; ने- त्याह- पुत्रादीति। 'अयं लोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्यया देवलोक:' इति श्रुत्या पृथिवीलोकादीनां पुत्रादिसाध्यत्वमवगम्यते। एतेभ्यश्च पुत्रादिसाध्येभ्यो लोकेभ्यो व्यावृत्तकामत्वान्न तस्यात्मदर्शिनः कर्मानुष्ठा- नोपयोगिनि गाईस्थ्ये प्रवृत्तिरुपपद्यते। नित्यसिद्ध आत्मैव लोकनं लोक इति व्युत्पत्या लोक: लोकनं चैतन्यम्। इदं च नित्यसिद्धात्मलोकदर्शित्वं व्यावृत्तका- मत्वे हेतुतयोपात्तम्। तदुक्ततं भगवता-'रसोऽप्यस्य परं दृष्ट्रा निवर्तते' इति। रसो रागः । एवं ब्रह्मचर्याश्रम एवोत्पन्नविद्यानां न गाईस्थ्यमपेक्षितमित्युक्तम्। इदानीं गृहस्थस्य सतो विद्योद्येऽपि गार्ईस्थ्यपरित्याग एव न्याय्य इत्याह- प्रतिपन्नेति। विद्याया: परिपाकः प्रतिबन्धराहित्यम्; अप्रतिबन्धात्मविद्याबलेन कर्मफलेभ्यो नितरां विरक्तस्येत्यर्थः । निवृत्तिरेवेति। विधिना कर्मपरित्याग- रूपसंन्यास एव स्यादित्यर्थः । अरे मैत्रेयि, अस्मात्प्रत्यक्षात्स्थानाद्राईस्थ्यात् प्रव्रजिष्यन्नेवास्मि त्यक्त्वेदं गार्हस्थ्यं पारिव्राज्यं करिष्यत्नस्मीति प्रतिज्ञापूर्वकं याज्ञवल्क्यः प्रवव्राजेति विदुषो याज्ञवल्क्यस्य पारिव्राज्ये प्रवृत्तिदर्शनाल्लिङ्गा- दित्यर्थः । एवमादीत्यादिपदेन 'आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वि-

Page 187

११.] शीक्षावल्ली। ८७

तस्थानादस्मि' इत्येवमादिश्रुतिलिङ्गदर्शनात्। कर्म प्रति श्रुतेर्यत्नाधिक्य- दर्शनादयुक्तमिति चेत्, -- अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्रः; महांश्र कर्मण्यायासः, अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम् ; तपोव्रह्म- चर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादनन्यसाधनापेक्ष- त्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्य इति चेत्, न ; ज- न्मान्तरकृतानुग्रहात्। यदुक्तं कर्मणि श्रुतेरधिको यत्र इत्यादि नासौ

त्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यै चरन्ति' इत्यादीनि श्रुति- लिङ्गानि गृह्यन्ते। न कर्मानेकत्वादित्यादिना कर्मणां विद्यासाधनत्वेऽपि यथा विद्याकामेन गारहस्थ्यमनुष्ठातुं शक्यते तथैवाश्रमान्तराण्यपि यथारुच्यनुष्ठातुं शक्यन्ते, तेष्वपि विद्यासाधनकर्मणां सत्वात्। तथा च वचनम् 'तस्याश्रम- विकल्पमेके समामनन्ति' इति। अत्र च वचने तच्छब्दो ब्रह्मचारिपरः । अनन्तरं च जन्मान्तरकृतेत्यादिना विदुषः पारिव्राज्यमेवेत्युक्तम्। इत्थं गाहस्थ्यस्यानावश्यिकत्वादाश्रमाणां वैकल्पिकमनुष्ठानमुक्तमाक्षिपति- कर्म

र्थः । आक्षेपं विवृणोति- अग्निहोत्रादीति। अधिको यत्नः तात्पर्यातिशयः । 'एष आदेशः' इत्यादिवचनपर्यालोचनया श्रुतर्यत्नाधिक्यावगमादिति भावः । गाईस्थ्यस्य प्रावल्ये हेत्वन्तरमाह-महाँश्रेति। इतश्च तस्य प्राबल्यमि- त्याह -- तपोव्रह्मचर्यादीनां चेति। यानि चाश्रमान्तरस्थानि कर्माणि तान्यपि यथासंभवं गृहस्थानां सन्त्येव, परं त्वम्निहोत्रादीन्यधिकानि; तथा च गार्हस्थ्यस्य धर्मबाहुल्यात्प्राबल्यमित्यर्थः। इतराश्रमकर्मणामायासाधि क्याभावे हेतुमाह- अनन्येति। ऋत्विग्वित्तादिसाधनापेक्षत्वाभावादि- त्यर्थः । तस्येति। गृहस्थस्येत्यर्थः । यत्राधिक्यायासबाहुल्यधर्मबाहुल्याना- मन्यथासिद्धत्वाद्गाईस्थ्यप्राबल्यप्रयोजकत्वमसिद्धमिति मन्वानः कर्मफलभू- तायां विद्यायां विरक्तो वा लब्धायां पुनः कर्मानुष्ठानैकप्रयोजने गार्ईस्थ्ये प्रवृत्तिर्विफलेति परिहरति-न जन्मान्तरकृतानुग्रहादिति। संभ्रह्वाक्यं वि-

Page 188

८८ तैत्तिरीयोपनिषदि [अनु.

दोषः, यतो जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्ति प्रति; येन जन्मनैव विरक्ता दृश्यन्ते केचित्; केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः ; तस्माज्जन्मा- न्तरकृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरप्राप्तिरेवेष्यते। कर्मफलबाडु ल्याच्च। पुत्र स्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासंख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थ श्रुतेरधिको यत्र: कर्मसूपपद्यते, आशिषां बाहुल्यदर्शनात्-इदं मे स्यादिदं मे स्यादिति। उपायत्वाच्च। उपायभू-

वृणोति -- यदुक्तमित्यादिना। ब्रह्मचर्यादिलक्षणं चेति। आश्रमान्त- रस्थमिति शेषः। जन्मान्तरकृतशुभाशुभकर्मणामस्मि ्जन्मनि स्वफलोत्पादकत्वे लिङ्गमाह -- येनेति। कर्मसु प्रवृत्तौ हेतुं सूचयति -- अविरक्ता इति। अत एवाह-विद्याविद्वेषिण इति। विद्यायाः सांसारिकभोगविरोधित्वात्तत्र रागिणां वैमुख्यं युक्तम्। इदं च वैमुख्यमशुभकर्मफलमनर्थपरम्परावहत्वात्। येन जन्मनैव वैराग्यादिकं केषांचिदृश्यते तेन जन्मान्तरकृतमप्यनुग्राहकं भ- वति; यतो जन्मान्तरकृतमप्यनुग्राहकं भवति, तस्माज्जन्मान्तरकृतकर्मजनित- संस्कारेभ्यो विरक्तानामुत्पन्नविद्यानामनुत्पन्नविद्यानां च पारिव्राज्यप्राप्तिरेवेष्यते न गाईस्थ्यप्राप्तिः, कर्मप्रयोजनस्य सिद्धत्वादित्यर्थः । इदानीं यत्राधिक्यादेरन्य- थासिद्धिमाह -- कर्मफलबाहुल्याच्चेति। यद्वा जन्मान्तरकृतानुप्रहादित्यनेन

दिकर्मसु श्रुतेर्यत्नाधिक्यादिकमुपपद्यत इति यत्राधिक्यादेरन्यथासिद्धावेको हे- तुरुक्तः। हेत्वन्तरमाह -- कर्मफलबाहुल्याच्चेति। कामबाहुल्यादित्युक्तमनुभवेन साधयति -- आशिषामिति। अभ्युदयफलानामसंख्येयत्वादेव तत्साधनकर्मा- नुष्ठानोपयोगिनि गृहाश्रमे कर्मबाहुल्यं कर्मणामायासबाहुल्यं चेति भावः । अग्िहोत्रादीनां विद्यां प्रत्युपायत्वाच्च तत्र यत्नाधिक्यादिकमित्यन्यथासिद्धौ हेत्वन्तरमाह-उपायत्वाच्चेति। उपेयं फलम्। तथा च गार्हस्थ्यप्राबल्ये मानाभावादाश्रमान्तरस्थकर्मणां विद्या प्रति साधकतमत्वेनाश्रमान्तराणामेव प्राबल्यसंभवार विरक्त्तानां कर्मानुष्ठानसामथ्ये सत्यपि पारिव्राज्यमेव युक्तमिति

Page 189

११.] शीक्षावल्ली। ८९

तानि हि कर्माणि विद्यां प्रति इत्यवोचाम। उपाये च अधिको यब्रः कर्तव्यः, न उपेये। कर्मनिमित्तत्वाद्विदयाया यत्रान्तरानर्थक्यमिति चेत्- कर्मभ्य एव पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विदोत्पद्यते चेत् कर्मभ्यः पृथगुपनिषच्छूवणादियत्नोऽनर्थक इति चेत्, न ; नियमाभावात्। न हि 'प्रतिबन्धक्षयादेव विद्योत्पद्यते, न त्वीश्वरपसादतपोध्यानाद्यनुष्ठानात्' इति नियमोऽस्ति ; अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात्, साक्षादेव च कारणत्वाच्छूवणमनननिदिध्यासनानाम् । अतः सिद्धा- न्याश्रमान्तराणि, सर्वेपां चाधिकारो विद्यायाम्। परं श्रेय: केवलाया विद्याया एवेति सिद्धम्॥ इति एकादशानुवाकभाष्यम्।।

भावः। पूर्व स्वात्मलाभे त्वित्यादावम्िहोत्रादिकर्मणां प्रतिबन्धकदुरितक्षयद्वारा विद्याहेतुत्वमुक्तम् ; तदुपश्रुत्य शङ्कते -- कर्मनिमित्तत्वादिति। किं तद्यत्नान्त- रमित्याकाङ्कायां संग्रहं विवृणोति -- कर्मभ्य एवेति। श्रवणादिवैय्ध्य परिहरति- न, नियमाभावादिति। ईश्वरप्रसादपदेन तद्धेतुभूतोपनिषच्छवणादियत्नो ल- क्ष्यते, ईश्वरप्रसादस्याननुष्ठेयत्वाच्छवणादियत्नस्य प्रकृतत्वाच्च। तथा च लोके कर्मकृतात्प्रतिबन्धक्षयादेव विद्या जायते न तु श्रवणाद्यनुष्ठानादिति नियमो नास्ति, नास्माभिस्तथाभ्युपगम्यते चेत्यर्थः । कुत इत्यत आह- अहिंसेति। संन्यासाश्रमकर्मणामहिंसादीनामपि विद्यां प्रत्यन्तरङ्रसाधनत्वेन तैविना कर्म- भिः क्षीणपापस्यापि विद्योदयासंभवादित्यर्थः । अहिंसाद्यपेक्षयापि श्रवणादौ विशेषमभिप्रेत्याह-साक्षादेवेति। प्रमाणाद्यसंभावनादिलक्षणदृष्टप्रतिबन्ध- निरासेन विद्यासाधनत्वाच्छवणादेरावश्यकतेत्यर्थः । उपसंहरति -- अतः सिद्धानीति। विहितत्वाविशेषादियुक्तेरित्यतःशब्दार्थः । विद्यायामिति। वि- द्यासाधनकर्मसु सर्वेषामाश्रमिणामधिकारः सिद्ध इत्यर्थः । समुच्चयनिराकर- णफलमुपसंहृतमपि पुनरुपसंहरति चिन्तासमाप्तिद्योतनार्थम्- परं श्रेय इति। विद्याया इति पश्चमी ॥ इति तैत्तिरीयोपनिषद्धाष्यव्याख्यायां वनमालारयायां शीक्षावल्लयां एकादशोऽनुवाक:।। *T.12

Page 190

द्वादशोऽनुवाकः॥

शं नो मित्र: शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो वृहस्पतिः। शं नो विष्णुरुरुक्र्कमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षं ब्रह्मावादिषम्। ऋत- मवादिषम्। सत्यमवादिषम्। तन्मामावीत् । तद्वक्तारमावीत्। आवीन्माम्। आवीद्वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः।

सह नाववतु। सह नौ भुनक्त। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषा- वहै॥ ॐ शान्तिः शान्तिः शान्तिः॥

इति द्ादशोऽनुवाकः॥ शं नो मित्र इत्याद्यतीतविद्याप्राप्त्युपसर्गप्रशमनार्था शान्तिः पठिता। इदानीं तु वक्ष्यमाणव्रह्मविद्यापाप्त्युपसर्गप्रशमनार्था शान्तिः पठ्यते-

ननु 'शं नो मित्रः' इत्यादिशान्तेरादावेव पठितत्वादिदानीं पुनः कि- मर्थ पठ्यते? तत्राह-शं नो मित्र इत्याद्यतीतेति। मंहितोपनिषद्यतीतानां विद्यानां प्राप्तौ ये उपसर्गाः विघ्रास्तेषामुपशमनाय 'शंनो मित्रः' इत्याद्या शान्तिरादौ पठितेत्यर्थः । पुनः पाठ उत्तरार्थ इत्याह- इदानीमिति। य-

Page 191

१२.] शीक्षावल्ली। ९१

शं नो मित्र इति, सह नाववत्विति च। सह नाववतु, नौ शिष्याचार्यों सहैव अवतु रक्षतु। सह नौ भुनक्तु भोजयतु। सह वीर्य विद्यानिमित्तं सामर्थ्ये करवावहै निर्वर्तयावहै। तेजस्वि नौ आवयोः अधीतम्, स्व- धीतम् अस्तु अर्थज्ञानयोग्यमस्त्वित्यर्थः। मा विद्विषावहै, विद्याग्रहण- निमित्तं शिष्यस्य आचार्यस्य वा पमादकृतादपराधाद्विद्वेषः प्राप्तः; तच्छ- मनायेयमाशी :- मा विद्विषावहै इति। मैव इतरेतरं विद्वेषमापद्यावहै।

द्यषि पुनःपाठस्यापि पूर्वशेषत्वमेव प्रतीयते 'आवीन्माम्' इत्यादिलिङ्गात्, तथाप्यतीतविद्योपसर्गप्रशमनरूपस्य प्रार्थनाप्रयोजनस्य सिद्धत्वादुपक्रमे 'शं नो भवत्वर्यमा' इति प्रार्थनालिङ्गाञ्च पुनःपाठस्योत्तरविद्याशेषत्वमुक्तमति मन्तव्यम् ; तथा च 'तन्मामावीत्' इत्यादौ तत् वाय्वाख्यमपरं ब्रह्म माम् अपरविद्यार्थिनम् आवीत् अरक्षत् इदानीं परविद्यार्थिनं मामवत्वित्यादिप्रकारेण परव्रह्मविद्याशेषत्वानुगुणमुपपादनं कर्तव्यमिति भावः । 'सह नाववतु' इति शान्ति प्रतीकग्रहणपूर्वकं व्याचष्टे- सह नाववत्वित्यादिना। गुरो: कृतार्थ- त्वाच्छिष्य एव गुरो: स्वस्य च क्षेमं प्रार्थयत इत्याह- रक्षत्विरिति। ब्रह्मेति शेषः। भोजयत्वििति। पालयत्वित्यर्थः। यथा गुरुर्निरालस्य उपदिशति यथा चा- ह्मुपदिष्टमर्थमप्रतिपत्तिविप्रतिपत्त्यादिरहितो गृह्ामि तथा पालयत्विति भावः । विद्यानिमित्तमिति। मम विद्योदयं प्रति निमित्ततया यदावयोः सामर्थ्यमपेक्षि- तमूहापोहादिलक्षणं तत्सहितावेव निर्वर्तयावहै इत्यर्थः । अधीतमिति। आवयोः संबन्धि यदधीतमुपनिषद्गन्थजातं तत्तेजस्व्यस्त्विति योजना। अधीतस्य तेजस्वि- त्वं सौध्ठवमित्याह-स्धीतमिति। अपेक्षितब्रह्मविद्योपयोगिलेन तदव सौष्ठवं निरूपयति -- अर्थज्ञानेति। ननु शिष्याचार्ययोर्द्वेषो न प्रसज्यते परस्परमत्य- न्तहितैषित्वादित्याशङ्गयाह-विद्येति। विद्याग्रहणं निमित्तीकृत्य कदाचिद्वैम- नस्यरूपो द्वेषो प्रसज्यत इत्यर्थः । तस्थापि स्त्रारसिकत्वं व्यावर्तयति- प्रमादेति। अन्यकृतदुर्बोधनादिना शिष्यस्याचार्यविषयेSनादररूपोऽपराधो भवति, तथा आचार्यस्यापि शिष्यविषये ताहृग्विध एवापराधो भवति, इदं च लोके प्रसिद्धमिति भावः। शिष्येण तावत्स्व्विषये आचार्यकर्तृकद्वेषोऽवश्यं

Page 192

९२ तैप्तिरीयोपनिषदि [भनु.

शान्तिः शान्तिः शान्तिरिि त्रिर्वचनमुक्तार्थम्। वक्ष्यमाणविद्याविघ्नपश मनार्था चेयं शान्तिः। अविघ्नेन ह्यात्मविद्यापाप्तिराशास्यते, तन्मूलं हि परं श्रेय इति॥

इति द्वादशानुवाकभाष्यम्।।

परिहर्तव्यः, इतरथा अविद्यानिवृत्तिपर्यन्तविद्योदयासंभवात्; तदुक्तं वार्तिके- 'स्याज्ज्ञानं फलवद्यस्माच्छान्तान्तःकरणे गुरौ' इति; तथा स्वस्याचार्यविषय- कद्वेषोऽपि सम्यक्परिहर्तव्यः, तस्य तद्धक्तिविघटकत्वेन भक्तिहीनस्य तादू- शविद्योदयासंभवात्। तथा च श्रुति :- 'यश्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' इतीति भावः । उक्तार्थमिति। त्रिर्वचनमाध्यात्मिकाधिभौतिकािदैविकानां विद्याप्राप्युपसर्गा- णां प्रशमनार्थमिति ग्रन्थेनेति शेषः। सह नाववत्विति शान्तेर्वक्ष्यमाणविद्याशे- षत्वं निर्विवादमित्याशयेनाह-वक्ष्यमाणोते।'श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः' इत्यादिवचनैरात्मविद्याप्राप्तौ विन्नबाहुल्या- वगमात्तन्निवृत्तिरवश्यं प्रार्थनीयेत्याह -- अविव्नेन हीति। इतरथा तत्प्रा- प्त्यभाव: प्रसिद्ध इति हि-शव्दार्थः । ननु मुमुक्षुणा आत्मविद्याप्राप्तिः किमर्थ- माशास्यते? तत्राह -- तन्मूलं हीति। प्रकृष्ठश्रेयसो मोक्षस्यात्मविद्यामूलकत्वे 'तरति शोकमात्मवित्' इत्यादिश्रुतिप्रस्तिद्धिसूचनार्थो हि-शब्दः ॥

नन्दतीर्थस्य कृतौ वनमालाख्यायां तैत्तिरीयोपनिषद्भाष्यव्याख्यायां संहितोपनिषद्धाष्यव्याख्या समाप्ता।।

Page 193

।। आनन्दवल्ी॥

ब्रह्मविदाप्नोति परम्। तदेषाभ्युक्ता। सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितं गुहायां परमे व्योमन्। सोऽश्षुते सर्वान्कामान्सह। ब्रह्मणा विपश्चितेति। तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरझिनिः । अग्नेरापः । अद्भथः पृथिवी। पृथिव्या ओषधयः । ओषधी- भ्योऽन्नम्। अन्नात्पुरुषः । स वा एष पुरुषोऽ्न्न- रसमयः । तस्येदमेव शिरः। अयं दक्षिणः पक्षः। अयमुत्तरः पक्षः। अयमात्मा। इदं पुच्छं प्रतिष्ठा। तदप्येष श्ोको भवति ॥ १ ॥

इति प्रथमाऽनुवाक: ॥ संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि। अनन्तरं च अन्तः सोपाधिकात्मदर्शनमुक्तं व्याहृतिद्वारेण स्वाराज्यफलम्। न

वृत्तानुवादपूर्वकमानन्दवल्ल्यास्तात्पर्यमाह- संहितादीत्यादिना । वक्ष्यमाणविद्यावैलक्षण्यार्थमाह-कर्मभिरविरुद्धानीति। कर्मभिरविरुद्धमे- वान्यदप्युपासनमुक्त्कमित्याह-अनन्तरं चेति। ननु कर्मससुश्चितेन व्याह-

Page 194

९४ तैसिरीयोपनिषदि [अनु.

चैतावता अशेषतः संसारवीजस्य उपमर्दनमस्ति। अतः अशेषोपद्रववी- जस्य अज्ञानस्य निवृत्त्यर्थ विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते - ब्रह्मविदाप्नोति परमित्यादि। प्रयोजनं चास्या ब्रह्मविद्याया अवि.

तिशरीरब्रह्मोपासनेन स्वाराज्यप्रापकेणैव सवीजस्य संसारम्य निवृत्तिसंभवार्तिक निरुपाधिकब्रह्मविद्यारम्भेणेत्याशङ्कयाह-न चैतावतेति। कर्मसमुद्चिते- नापि सोपाधिकात्मदर्शनेनत्यर्थः । अत इति। सोपाधिकात्मदर्शनस्याधिष्ठान -

ननु निर्विशेषात्मदर्शनादप्यज्ञानस्य निवृत्तिन संभवति तस्यानादित्वादित्या- शङकय विरोधिसंनिपाते सत्यनादेरपि निवृत्तिः संभवत्येव, प्रागभावस्यानादे- रपि निवृत्तिदर्शनात्, गौरवेण भावत्वविशेषणायोगादित्याशयनाह-प्रयोजनं चेति। ननु विरोधिविद्यावशादविद्या कामवस्थामापद्यते ? असत्त्वावस्थामाप- द्यत इति ब्रूमः। तथा हि- यथा मुद्रपातादिरूपविरोधिसंनिपातात्पूर्वे मृ- दादिदेशन मुहूर्तादिकालेन जलाहरणादिकार्येण च संबन्धयोग्यं सद्वटादिस्व-

तथा विद्योदयरूपविरोधिसंनिपातात्पूर्व चैतन्यरूपदेशेन ईश्वराद्यात्मककालेन संसाररूपकार्येण च संबन्धयोग्यं सद्विद्यास्वरूपं विरोधिविद्योदय संनिपाताचै तन्यादिना संबन्धायोग्यत्व्रलक्षणमसत्त्वमापद्यते। नतु विरोधिसंनिपाते सति वटादेध्वैसो जायत इति चत्; किमेतावता? न हि घटादिरेव ध्वंसरूपाभावो भवति; अत एव प्रागुत्पत्तेर्नाशादूर्ध्व च कार्यमसदिति वैशेषिकादिराद्धान्तः । ध्वंसोऽपि जन्मवत्क्रणिको विकारो न पराभिमताभावरूप इति व्यवस्थापितं शास्त्रसिद्धान्तलेशसंग्रहादौ। नतु सिद्धान्ते विरोधिसंनिपाते सति कार्यस्य स्वपरिणाम्युपादाने सूक्ष्मावस्थारूपनाशाभ्युपगमान्नष्टस्यापि घटादिकार्यस्य सू- क्षमरूपतामापन्नस्यास्ति देशादिसंबन्धयोग्यतेति चेत्, न ; सिद्धान्तेपि कार्य- गतस्थूलावस्थाया विरोधिसंनिपातेन निरुक्तासत्त्वोपगमात् । विद्योदये सत्यवि- द्यायास्तुच्छत्वापत्तिर्वार्ततिक का रैरुक्ता -'प्रत्यग्व्रह्मणि विज्ञाते नासीदस्ति भवि- ष्यति' इति। पश्चदश्यामप्युक्तम् -- 'विद्यादृष्टया श्रुतं तुच्छम्' इति। वि- द्यारूपया तत््वदष्टया मूलाविद्यायास्तुच्छत्वापत्तिः श्रुतिसिद्धेति तदर्थः । तस्मा-

Page 195

१.] आनन्दवल्ली। ९५

द्यानिवृत्तिः, ततश्च आत्यन्तिकः संसाराभावः। वक्ष्यति च- 'विद्वान्न बिभेति कुतश्चन' इति। संसारनिवृत्तावसत्याम् 'अभयं प्रतिष्ठां विन्दते' इत्यनुपपन्नम्, 'कृताकृते पुण्यपापे न तपतः' इति च। अतोऽवग म्यते अस्माद्विज्ञानान्सर्वात्मब्रह्मविषयादात्यन्तिकः संसागभाव इति । स्वयमेवाह प्रयोजनम् 'ब्रह्मविदान्नोति परम्' इत्यादावेव संबन्धप्रयोज- नज्ञापनार्थम्। निर्ज्ञातयोर्हि संवन्धपयोजनयोः विद्याश्रवणग्रहणधारणा-

द्विद्योदये सति चैतन्यमात्रमवशिष्यते, नाविद्या नापि तत्कार्यमिति संक्षेपः । नन्वविद्यानिवृत्तिरन प्रयोजनम असत्वापत्तिरूपायास्तस्याः सुखदुःखाभावेतर- त्वादित्यत आह- ततश्चेति। अविद्यानिवृत्तिवशादेव तत्कार्यसंसारस्य दुः स्ात्मकस्यात्यन्तिकी निवृत्तिर्भवति; तथा चाविद्यानिवृत्तिद्वारा संसारदुःख- निवृत्तिरूपा मुक्तिर्विद्यायाः प्रयोजनमित्यर्थः । तत्र मानमाह- वक्ष्यति चेति। भयोपलक्षितं संसारदुःखं न प्राप्नोति विद्वानित्यर्थः । अत्रैव पुनर्व- चनद्वयमाह-संसारेति। विद्ययात्यन्तिकसंसारनिवृत्तौ सत्यामेवाभयप्रति- ष्ठावचनं पुण्यपापयोरकरणकरणानुसंधानप्रयुक्तसंतापाभाववचनं चोपपन्नमित्य- र्थः । साितं ब्रह्मविद्याप्रयोजनं सप्रमाणमुपसंहरति- अतोऽवगम्यत इति। उदाहृतव चनजातादित्यतःशब्दार्थः । अस्माद्विज्ञानादिति । विधूतसर्वोपाधी- त्यत्र प्रकृतादित्यर्थः । एवमानन्दवल्ल्यास्तात्पर्यमुपवर्ण्याद्यवाक्यस्य तात्पर्य- माह-स्वयमेवेति। स्वयमेव श्रुतिः 'ब्रह्मविदाप्नोति परम' इति वाक्येन ब्रह्मविद्यायाः प्रयोजनं संबन्धं च किमर्थमाहेत्याशक्कगाह-आदावेवेति। तत्र 'आप्नोति परम' इत्यनेन प्रयोजननिर्देशः, 'ब्रह्मवित' इत्यनेन ब्रह्म- विद्याया निर्देशः, ताभ्यामेव समभिव्याहृताभ्यां विद्याप्रयोजनयोः प्रयो- जनप्रयोजनिभावलक्षणसंबन्धनिर्देश इति विभागः । नन्वादावेव तयोर्ञापनं किमर्थम? तत्राह-निर्ज्ञातयोर्हीति। मुमुक्षोरुपनिषत्सु स्वप्रयोजनमुक्तिसा- धनविद्यासाधनत्वज्ञानं विना उपनिषच्छूवणादौ प्रवृ्त्त्ययोगात्तदर्थमादावेव प्र- योजनादिकं वक्तव्यमित्यर्थः । तत्र वृद्धसंमतिसूचनार्थो हि-शब्दः। तदुक्तं वृद्धैः- 'सिद्धार्थ सिद्धमंबन्धं श्रोतुं श्रोता प्रवर्तते। शाबादौ तेन

Page 196

९६ [जनु.

भ्यासार्थ प्रवर्तते। श्रवणादिपूर्वकं हि विद्याफलम्, 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिश्रुत्यन्तरेभ्यः । ब्रह्मवित्, ब्रह्मेति वक्ष्यमाण- लक्षणम, वृद्धतमत्वात् ब्रह्म, तद्रेत्ति विजानातीति ब्रह्मवित्, आप्रोति प्राम्नोति परं निरतिशयम् ; तदेव ब्रह्म परम्; न ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः। स्पष्टं च श्रुत्यन्तरं ब्रह्मपाप्तिमेव ब्रह्मविदो दर्शयति- 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' इत्यादि। ननु, सर्वगतं सर्वस्य

वक्तव्यः संबन्धः सप्रयोजनः' इति। विद्यामुद्दिश्य गुरुमुखात्प्रथमं श्र- वणम, श्रुतस्यार्थस्याप्रतिपत्त्यादिनिरासेन प्रहणम, गृहीतस्यार्थस्य धारणम्, वृतस्यार्थस्य युक्तिभिरनुचिन्तनरूपोऽभ्यासः, तदर्थमित्यर्थः । नन्वधीत- साङ्स्वाध्यायस्य वेदान्तेभ्य एव विद्यारूपफलोदयसंभवाच्छवणादिकं व्यर्थ- मिति, नेत्याह -- श्रवणादिपूर्वकं हीति। तत्र हि-शब्दसूचितं मानमाह- श्रोतव्य इति। प्रमाणप्रमेयासंभावनयोर्निरासाय श्रवणमनने आवश्यके इति भाव:। 'पाण्डित्यं निर्विद्य' इत्यादिश्रुतिसंप्रहार्थमादिपदम्। इदानीं प्रतीकग्रहणपूर्वकमक्षराणि व्याचष्टे-ब्रह्मविदित्यादिना। वक्ष्यमाणलक्षणं व्रह्मात्र ब्रह्मेति पदेनाभिधीयते न जात्यादिकमित्यत्र हेतुमाह-दृद्धतमत्वा- दिति। ब्रह्मपदेन 'वृहि वृद्धौ' इति व्युत्पत्तिबलाद्वृद्धिमद्वस्तु कथ्यते; सा च वृद्धि: संकोचकाभावान्निरतिशयमहत्वे पर्यवस्यति; तथ्व निरतिशयमहत्त्वं वक्ष्यमाणलक्षण एव ब्रह्मणि संभवति नान्यत्रेति भावः। परं निरतिशयमि- ति। न चोत्कृष्टवाचिना परशब्देन खर्गादेरवि ग्रहणसंभवात्कथं निरतिशयो- त्कृष्टं ब्रह्मैवात्र परशब्दार्थः स्यादिति वाच्यम्; ब्रह्मशब्दस्येव परशब्दखापि सं- कोचकाभावेन परमानन्दरूपतया निरतिशयोत्कृष्टे ब्रह्मण्येव पर्यवसानसंभवा- दिति भावः। ब्रह्मवेदनमात्रादब्रह्मप्राध्यसंभवादपि तदेव परशब्दार्थ इत्याह -- न ह्न्यस्येति। लोके कौन्तेयस्य सतो राधेयत्वभ्रमवत आप्नोपदेशजनितात 'कौन्तेयोहम' इति ज्ञानात्कौन्तेय एव प्राप्यो नान्य इति प्रसिद्धिसूचनार्थों हि-शब्दः। श्रत्यन्तरानुसारादप्येवमेवेव्याह- स्पष्टं चेति। तत्प्रकृतं परं ब्रक्म यो वेद स ब्रह्ैव भवति ह वै प्रसिद्धमेतद्विदुषामिति श्रृत्यन्तरार्थः । आप्नोती-

Page 197

१.] आनन्दवल्ली। ९७

चात्मभूतं ब्रह्म वक्ष्यति। अतो नाप्यम्। आप्तिश्च अन्यस्यान्येन परिच्छिन्नस्य परिच्छिन्नेन दृष्टा। अपरिच्छिन्नं सर्वात्मं ब्रमे त्यतः परिच्छिन्नवत् अनात्मवच्च तस्याप्तिरतुपपन्ना। नायं दोषः। कथम्? दर्शनादर्शनापेक्षत्वाड्रह्मण आप्त्यनाप्त्योः, परमार्थतो ब्रह्मस्वरू पस्यापि सतः अस्य जीवस्य भूतमात्राकृतवाह्यपरिच्छिन्नान्नमयाद्यात्म- दर्शिनः तदासक्तचेतसः प्रकृतसंख्यापूरणस्यात्मनः अव्यवहितस्यापि

त्यस्य विवक्षितमर्थ दर्शयितुमाक्षिपति -- नन्विति। वक्ष्यतीति। आनन्त्या- दिवचनेनेति शेषः । ततः किम्? अत आह- अत इति। सर्वगतत्वात्सर्वा- त्मकत्वाच्चेत्यर्थः। एवंभूतस्याप्याप्यत्वं किं न स्यादित्याशक्कय तत्र लौकिक- व्याप्तिविरोधं मत्वा तामाह-आप्तिश्वेति। लोके प्राप्यत्वेन-प्रसिद्धप्रामादि- वैलक्षण्यं ब्रह्मणो दर्शयति -- अपरिच्छिन्नमिति। फलितमाह -- अत इति। उक्तानुपपत्तेरदोषत्वं कथमिति पृच्छति -- कथमिति। मुख्याप्तेरत्राविवक्षित- त्वादनुपपत्तिर्न दोष इत्याशयेनाह- दर्शनेति। अदर्शननिमित्तामप्राप्तिं स्ाधयति- परमार्थत इत्यादिना। भूतमात्राभिः पश्चीकृतापश्वीकृतभूतांशैः कृता ये आत्मस्वरूपापेक्षया बाह्याः परिच्छिन्नाश्चान्नमयाद्यः कोशाः तेष्वा- त्मदर्शिनो जीवस्य या अविद्या तया स जीवो नान्योऽहमस्मीत्यभिमन्यत इति योजना। तदासक्तचेतसः तेष्वेवासक्तं चेतो यस्य तथाभूतस्य । आसक्तिरत्र कोशाभिमानप्रयुक्तदुःखादिमत्ता विवक्षिता। परमार्थ ब्रह्मस्वरूपं नास्तीत्यभावदर्शनं लक्षणं लिङ्गं यस्याः सा तथा, तयेत्यर्थः । 'अन्नमयादीन्' इत्यादिद्वितीया षष्ठयर्थे। अन्नमयाद्यात्मभ्योऽन्योऽहमस्मीति नाभिमन्यते को- शव्यतिरिक्ततं परमार्थस्वरूपं न जानातीत्यर्थः । अत्र नाभिमन्यत इत्यनेन स्व्र- रूपभूतेऽपि त्रह्मणि ग्रहणाभाव उक्तः । अन्नमयाद्यात्मदर्शिन इत्यनेन तस्मि- न्देहाद्यात्मत्वगोचरो विपर्यय उक्तः। अविद्ययेत्यनेनावरणसमर्था मूलाविद्या दर्शिता। स्वरूपेऽप्यग्रहणादयो भवन्तीत्यत्र दृष्टान्तमाह- प्रकृतेति। प्रकृ- ताया दशसंख्यायाः पूरणे समर्थस्यात्मनः स्वस्य देवदत्तस्य संनिकृष्रस्यापि स्वा- पेक्षया बाह्या ये नव संख्येयाः तद्विषयासक्तचित्ततया स्वात्मानं विहाय तेष्वेव .T. 13

Page 198

९८ तैत्तिरीयोपनिषदि [अनु.

बाह्यसंख्येयविषयासक्तचित्ततया स्वरूपाभावदर्शनवत् परमार्थब्रह्मस्वरू- पाभावदर्शनलक्षणया अविद्यया अन्नमयादीन्वाह्याननात्मन आत्मत्वेन प्रतिपन्नत्वात् अन्नमयाद्यात्मभ्यो नान्योऽहमस्मीत्यभिमन्यते। एवमवि- द्यया आत्मभूतमपि ब्रह्म अनाप्तं स्यात्। तस्यैवमविद्यया अनाप्तब्रह्मस्व- रूपस्य प्रकृतसंख्यापूरणस्यात्मनः अविद्ययानाप्तस्य सतः केनचित्सा- रितस्य पुनस्तस्यैव विद्यया आप्तिर्यथा, तथा श्रुत्युपदिष्टस्य सर्वात्मत्रह्मण आत्मत्वदर्शनेन विद्यया आप्तिरुपपद्यत एव। ब्रह्मविदाननोति परमिति वाक्यं सूत्रभूतं सर्वस्य वल्ल्यर्थस्य। ब्रह्मविदान्नोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्मणोऽनिर्धारितस्वरूपविशेषस्य सर्वतो व्यावृत्त- स्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणाय अ-

पुनः पुनः परिगणनव्यासक्तचित्ततया स्वात्मभूतोऽपि दशमो नास्तीत्यभाव- दर्शनम्, तद्धेतुभूतं दशमं न जानामीत्यनुभूयमानमावरणम्, नवैव वर्तामह इति विपर्ययश्च यथा दशमस्य स्वरूपेऽपि दृश्यन्ते तथेत्यर्थः । अदर्शननिमित्तां ब्रह्मणोडनाप्तिमुपसंहरति- एवमिति। इदानीं दर्शननिमित्तां तदाप्तिं दृष्टा- न्तेन विवृणोति- तस्यैवमिति। केनचिदिति। 'दशमस्त्वमसि' इत्या- पेन स्मारितस्वरूपस्येत्यर्थः । तस्यैवेति । यद्दशमस्वरूपमविद्ययानाप्तमासी- त्तस्यैवेत्यर्थः । श्रुतीति। श्रुत्युपदिष्टस्य सर्वात्मकर ब्रह्मणो यदात्मत्वेन दर्शनं तदेव विद्या, तया आप्तिरनाप्तत्वभ्रमनिवृत्तिरूपा उपपद्यत इत्यर्थः । इत्थमादयं व्राह्मणवाक्यं व्याख्याय अनेन वाक्येनोत्तरसंदर्भस्य संगति- माह-ब्रह्मविदाननोतीति। सूत्रभूतमिति। संग्राहकमित्यर्थः । अनेना- द्यवाक्यस्यैव विवरणरूपत्वादुत्तरप्रन्थस्य व्याख्यानव्याख्येयभावेनानयोः संग- तिरित्यर्थः । इत्थमाद्यवाक्यविवरणरूपमुत्तरं मन्त्रत्राह्मणवाक्यजातमिति तात्प- र्यमुक्त्वा 'सत्यं ज्ञानम्' इति मन्त्रं संक्षेपतोऽर्थकथनपूर्वकमवतारयति- ब्रह्मविदान्नोति परमित्यनेनेत्यादिना। अनिर्धारितेति। बृहत््वाद्वह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्विति प्रतीयते, न तु तदूलेन ब्रह्मण: स्वरूपविशेषोऽपि प्रतीयत इति भावः । सर्वतो व्यावृत्तो यः स्वरूपविशेष-

Page 199

१.] आनन्दवल्ली। ९९

विशेषेण च उक्तवेदनस्य व्रह्मणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगा- त्मतया अनन्यरूपेण विज्ञेयत्वाय, ब्रह्मविद्याफलं च ब्रह्मविदो यत्परप्रा- प्तिलक्षणमुक्तम्, तत् सर्वात्मभावः सर्वसंसारधर्मातीतव्रह्मस्वरूपमेव, नान्यदित्येतत्प्रदर्शनाय एषा ऋगुदाहियते। तत् तस्मिन्नेव ब्राह्मणवा- क्योक्तार्थे एपा ऋक् अभ्युक्ता आम्नाता-सत्यं ज्ञानमनन्तं ब्रह्मेति। ब्रह्मणो लक्षणार्थ वाक्यम्। सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्रह्मणः। विशेष्यं ब्रह्म, विवक्षितत्वाद्वेद्यतया।

स्तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायेषा ऋगुदाहि- यत इति संबन्धः । ब्रह्मविदित्यनेन अविशेषेण 'अस्ति व्रह्म' 'अहं व्रह्म' इति वेदनद्वयसाधारण्येनोक्तं वेदनं यस्य ब्रह्मणः तस्येत्यर्थः । वक्ष्यमाणं लक्षणं सच्चिदानन्त्यरूपं यस्य तस्येत्यर्थः । विशेषेणेत्यस्य विवरणमनन्यरूपे- णेति। तस्य पर्यवरसितमर्थमाह- प्रत्यगात्मतयेति। 'अहं ब्रह्म' इत्येवमा- कारेण ब्रह्मणो विज्ञेयत्वाय चैषा ऋगुदाह्नियत इति संबन्धः । तत्सर्वा- त्मभाव इति। सर्वसंसारास्पृष्ठब्रह्मस्वरूपभूतसर्वात्मभाव एव नान्यतस्व- रगादिकमित्यर्थः । इत्थं मन्त्रमवतार्य तदाद्यपादतात्पर्यमाह- ब्रह्मण इति। ब्रह्मण: स्वरूपलक्षणार्थकमिदं वाक्यमित्यर्थः । लक्षणवाक्यस्थपदानि वि- भजते-सत्यादीनि हीति। सत्यादिपदत्रयं विशेषणसमर्पकमित्यर्थः । ब्रह्मपद्समभिव्याहतानां सत्यादिपदानां वुभुत्सितं ब्रह्म प्रति विशेषणसम- र्पकत्वाभावे ब्रह्मस्वरूपविशेषनिर्णयायोगादिति युक्तिसूचनार्थो हि-शब्दः । वेद्यतयेति। आद्यवाक्ये वेद्यतयोक्तं ब्रह्म विशेष्यम्; तस्यैव प्राधान्येनात्र वक्तुमिष्टत्वादित्यर्थः । न च लक्षणं सजातीयविजातीयव्यावर्तकम्, विशेषणं तु विशेष्यस्य तत्सजातीयमात्रव्यावर्तकमिति वक्ष्यति, तथा च लक्षणविशेषण- रयोर्भेदात्कथं लक्षणार्थ वाक्यमित्युपक्रम्य विशेषणाद्यर्थकतया वाक्यं व्याख्या- यत इति वाच्यम् ; सजातीय विजांतीयव्यावर्तकम्य सतो लक्षणस्य विशेषणस्येव सजातीयव्यावर्तकत्वांशोपि विद्यत इत्येतावतात्र विशेषणत्वव्यवहारस्वीकारेण

Page 200

१०० तैत्तिरीयोपनिषदि [अनु.

विशेषणविशेष्यत्वादेव सत्यादीनि एकविभक्त्यन्तानि पदानि समा- नाधिकरणानि। सत्यादिभिश्च त्रिभिर्विशेषणैर्विशेष्यमाणं ब्रह्म विशे- ष्यान्तरेभ्यो निर्धार्यते। एवं हि तज्ज्ञातं भवति, यद्यन्येभ्यो नि- र्धारितम् ; यथा लोके नीलं महत्सुगन्ध्युत्पलमिति। ननु, विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते, यथा नीलं रक्तं चोत्पलमिति; यदा ह्यनेकानि द्रव्याणि एकजातीयान्यनेकविशेषणयोगीनि च, तदा

समानजातीयमात्रनिवर्तकत्व रूपमुख्यविशेषणत्वस्यान्राविवक्षितत्वात्। न चैवमपि ब्रह्मण: स्वरूपभूतं सत्यादिकं कथं लक्षणम्, व्यावर्तकधर्मस्यैव वादिभिर्लक्ष- णत्वाभ्युपगमादिति वाच्यम्; गौरवेण धर्मत्वांशस्य तत्र प्रवेशायोगात्, व्या- वर्तकमात्रस्य स्वरूपेऽपि संभवात्। न च सत्यादेर्लक्ष्यत्रह्मस्वरूपत्वात्कथमेक- स्यैव लक्षणत्वं लक्ष्यत्वं च संभवतीति वाच्यम्; लक्ष्यस्वरूपस्यापि सतः सत्या- देर्ज्ञातस्य इतरव्यावृत्तिबोधोपयुक्ततया लक्षणत्वम्, सत्यादिस्वरूपखैव सतो ब्रह्मण इतरव्यावृत्ततया ज्ञाप्यमानत्वरूपं लक्ष्यत्वमित्येकत्रापि रूपभेदेनोपपत्ते- रित्यन्यत्र विस्तरः । सत्यादिपदार्थानां विशेषणविशेष्यभावे लिङ्गमाह-वि- शेषणविशेष्यत्वादेवेति। 'नीलं महत्सुगन्ध्युत्पलम्' इत्यादौ सत्येव विशेष- णविशेष्यभावे समानाधिकरणतयैकविभक्त्यन्तानि नीलादिपदानि प्रसिद्धानि; प्रकृते च सत्यादिपदानि तथाभूतानि; ततोऽर्थगतविशेषणविशेष्यभावनिबन्ध नानीति गम्यत इत्यर्थः । सत्यादिपदार्थानां विशेषणत्वप्रसाधनफलमाह -- सत्या- दिभिश्चेति। विशेष्यमाणमिति। संबध्यमानमित्यर्थः । निर्धार्यते व्यावर्त्यते। इतरव्यावृत्तिबोधफलमाह- एवं हीति। यदि ब्रह्मान्येभ्यो निर्धारितं स्या- देवं सति तद्रह्म ज्ञातं विशिष्य निर्णीतं भवतीत्यर्थः । बुभुत्सितस्य वस्तुनो वि- शेषणैर्विशेषतो निर्धारणे हि-शब्दसूचितं दृष्ठान्तमाह -- यथेति। उक्तं विशेष- णविशेष्यभावमाक्षिपति-नन्विति। यत्र विशेष्यजातीयं वस्तु विशेषणान्तरं व्यभिचरद्वर्तते तत्र विशेष्यजातीयं विशेष्यते विशेषणैरित्यत्रोदाहरणम्-यथेति। उत्पलजातीयं नीलं रक्तं चास्तीति कृत्वा नैल्येन विशेष्यते 'नीलमुत्पलम्' इति यथेत्यर्थः । एतदेव प्रपश्चयति- यदा हीति। अर्थवत्वमिति। स्यादिति

Page 201

१.] आनन्दवल्ली। १०१

विशेषणस्यार्थवत्वम्; न ह्येकस्मिन्नेव वस्तुनि, विशेषणान्तरायोगात्; यथासावेक आदित्यः, तथैकमेव ब्रह्म, न ब्रह्मान्तराणि, येभ्यो विशेष्येत नीलोत्पलवत्। न ; लक्षणार्थत्वाद्विशेषणानाम्। नायं दोपः । कस्मात्! लक्षणार्थप्रधानानि विशेषणानि, न विशेषणप्रधानान्येव। कः

शेषः। तत्र व्यतिरेकमाह-न हीति। एकस्मिन्नेव वस्तुनि विशेषणान्तरा- योगाद्धेतोर्विशेषणस्यार्थवत्त्वं न हि संभवतीत्यर्थः । अत्रोदाहरणमाह- यथा- साविति। विशेषणान्तरयोगिन आदित्यजातीयस्यान्यस्याभावादादित्यस्य विशे- षणमर्थवन्न भवति यथेत्यर्थः । ततः किम्? तत्राह- तथैकमेवेति। ब्रह्मणो- Sद्वितीयत्वश्रवणादिति भावः । किमत्र सत्याद्यर्थानां समानजातीयमात्रव्याव- तकत्वरूपं मुख्यविशेषणत्वमाक्षिप्यते कि वा समानजातीयव्यावर्तकत्वमात्ररूप- मौपचारिकमपिः नान्त्यः, तस्येहापि संभवात्; न च त्रह्मणः समानजातीया- नां ब्रह्मान्तराणामभावात्कथं तत्संभवतीति वाच्यम्; वस्तुतो ब्रह्मान्तराणाम- भावेऽपि कल्पितानामव्याकृतभूताकाशकालादिलक्षणन्रह्मान्तराणां सत्वात्तेषा- मपि व्यापकत्वरूपवृद्धिमत्त्वेन ब्रह्मशब्दवाच्यत्वोपपत्तेः; तथा च ब्रह्मसमान- जातीयानामव्याकृतादीनां व्यावर्त्यानां सतत्वात्सत्याद्यर्थानां समानजातीयव्याव- तकत्वमात्ररूपमौपचारिकविशेषणत्वं निष्प्रत्यूहम्, यथा बिम्बप्रतिबिम्बभावेना- दित्यस्य कल्पितं नानात्वमादाय 'अम्बरस्थः सविता सत्यः' इति सत्यविशेषण- स्य जलादौ कल्पितादित्यव्यावर्तनेनार्थवत्वम्; नाद्ः, इष्टापत्तेरित्याशयेनाह -- नेति। स्वरूपलक्षणसमर्पकत्वाद्विशेषणपदानामित्यर्थः । संग्रहवाक्यं वि- वृणोति-नायं दोष इत्यादिना। विशेषणानीति। सत्यादीनि विशेषणप- दानि यतो लक्षणरूपार्थपराण्येव, न मुख्यविशेषणपराणि, तथा सति ब्रह्मणः सत्यादिविशेषणैः समानजातीयाद्वयावृत्तिलाभेऽपि प्रकृते विवक्षितायाः स- र्वतो व्यावृत्तेरलाभप्रसङ्कात्, ततश्च स्वरूपविशेषनिर्धारणाभावप्रसङ्ग इत्य- र्थः । ननु प्रसिद्धविशेषणानां सजातीयमात्रव्यावर्तकत्वं लक्षणस्य तु सर्वतो व्यावर्तकत्वमित्ययं विशेष एव कुतः यतोऽत सत्यादीनां लक्षणत्वमु- पेत्य विशेषणत्वं प्रतिषिध्यते न विशेषणप्रधानानीत्याक्षिपति-कः पुनरिति।

Page 202

१०२ तैत्तिरीयोपनिषदि [भनु.

पुनर्लक्षणलक्ष्ययोर्विशेषणविशेष्ययोर्वा विशेषः१ उच्यते-सजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य; लक्षणं तु सर्वत एव, यथा अवकाशप्रदात्नाकाशमिति। लक्षणार्थ च वाक्यमित्यवोचाम।। सत्यादिशब्दा न परस्परं संवध्यन्ते, परार्थत्वात्; विशेष्यार्था हि ते। अत एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्दने

अनुभवमाश्रित्याह- उच्यत इति। सर्वत इति। सजातीयाद्विजातीयाश्चे- त्यर्थः। यथेति। यथा भूतत्वेन सदृशात्पृथिव्यादेर्विसदृशादात्मादेश्च सका- शादाकाशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः । ननु सत्यादिवाक्यं विशेषण- विशेष्यसंसर्गपरं समानाधिकरणवाक्यत्वान्नीलोत्पलवाक्यवदिति, नेत्याह- लक्षणार्थ चेति। देवदत्तस्वरूपैक्यपरे 'सोऽयं देवदत्तः' इति वाक्ये व्यभि- चारात्सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थत्वे विशिष्टस्य तस्य

विशिष्वस्य वागादिगोचरत्वनियमात्तस्मान्न नीलोत्पलवाक्यवत् न संसर्गपरं सत्यादिवाक्यं कि त्वखण्डैकरसवम्तुपरमिति मत्वा प्रागेव ब्रह्मणो लक्षणार्थ वाक्यमित्यवोचामेत्यर्थः ॥

ननु प्राक्सत्याद्यर्थानां त्रयाणामपि ब्रह्मविशेषणत्वमित्युक्तम ; तद्युक्तम्, संनिधानान्तेषां परस्परविशेषणविशेष्यभावसंभवादिति, नेत्याह-सत्यादि- शब्दा इति। हेतुं साधयति -- विशेष्यार्था हि त इति। आद्यवाक्ये वेद्य- तयोपात्तं ब्रह्म कीटृशमित्याकाङ्कायां तत्स्वरूपविशेषसमर्पकत्वेन प्रवृत्तं सत्या- दिपदत्रयं ब्रह्मण एव विशेषणम्, संनिधानादाकाङ्कायाः प्रबलत्वाद्विशेष्यस्य प्रधानत्वेन विशेषणानां तदर्थत्वाच्च, प्रधानसंबन्धस्याभ्यर्हितत्वाद्विशेषणानां समत्वेन परस्परं गुणप्रधानभावलक्षणविशेषणविशेष्यभावे विनिगमकाभावाच्य। अस्मित्नथें वृद्धसंमतिसूचनार्थों हि.शब्दः । तदुक्तं जैमिनिना -- 'आनन्तर्य- मचोदना' 'गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति। आकाङ्ा- विरुद्धमानन्तर्य संनिधानमचोदना अन्वये कारणं न भवतीत्याद्यसूत्रार्थः । अत इति। परस्परसंबन्धायोगादित्यर्थः । तत्र सत्यपदार्थमाह- यद्रूपेणे-

Page 203

१.] आनन्दवल्ली। १०३

संवध्यते- सत्यं ब्रह्म, ज्ञानं ब्रह्म, अनन्तं ब्रह्मेति। सत्यमिति। यद्रूपेण यन्निश्चितं तत् तदूपं न व्यभिचरति, तत्सत्यम्। यद्रपेण यन्निश्चितं तत् त- दूपं व्यभिचरति, तदनृतमित्युच्यते। अतो विकारोऽनृतम्, 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्', एवं सदेव सत्यमित्यवधारणात्। अतः 'सत्यं ब्रह्म' इति ब्रह्म विकारान्निवर्तयति। अतः कारणत्वं प्रासं ब्रह्मणः । कारणस्य च कारकत्वम्, वस्तुत्वात् मृद्रत् अचिद्रूपता च

ति। रज्जुत्वेन रूपेण निश्चितं रज्जात्मकं वस्तु न कदाचिद्रज्जुत्वरूपं परित्यज- तीति तत्तेन रूपेण सत्यमित्युच्यते, तथा तदेव रज्जात्मकं वस्तु सर्पत्वेन रूपेण निश्चितं कालान्तरे तद्रूपं परित्यजतीति तेन रूपेण तदनृतमुच्यते। एतदुक्तं भ- वति -- यद्यस्य कादाचित्कं रूपं तत्तस्यानृतं यथा रज्जवादेः सर्पादिरूपं यथा वा मृदादेर्घटादिरूपमिति। फलितमनृतशब्दार्थमाह-अत इति। रज्ज्वादौ सर्पादेरिव प्रकृतिषु विकाराणामपि कादाचित्कत्वाविशेषादित्यर्थः । उक्तयुक्ति- सिद्धविकारानृतत्वानुवादिनीं श्रुतिमाह- वाचारम्भणमिति। घटशरावा- दिविकारो नामधेयं नाममात्रम्, अनृतमिति यावत्; तत्र हेतुर्वाचेति; विका- रसत्यत्वस्य वागालम्बनमात्रत्वात्, कारणसत्त्वव्यतिरेकेण दुर्निरूपत्वादित्यर्थः। न चैवमर्थकल्पनायां मानाभाव इति वाच्यम्; कारणमात्रसत्यत्वावधारणस्यैव मानत्वात्। 'एवं सोम्य स आदेशो भवति' इति दार्टान्तिकश्रुतिमर्थतः पठ- ति-एवं सदेवेति। आदिश्यत उपदिश्यत इत्यादेशः परमात्मा सच्छब्द- वाच्यः एवं मृदादिवत्सत्यं परमार्थो भवति ब्रह्म, विकारस्तु प्रपश्चो मृद्धिकार- वदनृत एवेत्यर्थः । एवं विकारस्यानृतत्वं कारणस्य सत्यत्वं च प्रसाध्य सत्यविशेषणफलमाह- अत इति । विकारस्य सत्यत्वाभावादित्यर्थः । ननु सत्यविशेषणेन त्रह्मणो विकाराद्वयावृत्तिसिद्धावतः परिशेषात्कारणत्वं प्राप्तं चेत्; अस्तु, को दोष:१ तत्राह- कारणस्य चेति। कार- कत्वमिति। कर्त्रादिकारकरूपत्वमित्यर्थः। कारणेषु कुलालादिषु कर्त्रा- दिकारकभावदर्शनादिति भावः। ब्रह्माचेतनं वस्तुत्वान्मृदादिवदित्याह -- वस्तुत्वादिति। ननु ज्ञानविशेषणेन ब्रह्मणः कारकत्वनिवृत्तिर्न लभ्यते

Page 204

१०४ तैत्तिरीयोपनिषदि [अनु.

प्राप्ता ; अत इदमुच्यते -- ज्ञानं ब्रह्मेति। ज्ञानं ज्ञप्तिः अवबोध :-- भावसाधनो ज्ञानशब्दः व्रह्मविशेषणत्वात्सत्यानन्ताभ्यां सह। न हि सत्यता अनन्तता च ज्ञानकर्तृत्वे सत्युपपद्यते। ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेत्, अनन्तं च? यद्धि न कुतश्चित्मविभ- ज्यते, तदनन्तम्। ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात्, 'यत्र नान्यद्विजानाति स भूमा, अथ यत्रान्यद्विजानाति तदल्पम्' इति श्रुत्यन्तरात्। 'नान्यद्विजानाति' इति विशेषप्रतिषेधात् आत्मानं

कर्तृसाधनज्ञानपदेन तम्य ज्ञानक्रियां प्रति कर्तृकारकत्वावगमादिति, ने- त्याह-ज्ञानं ज्ञप्तिरिति। ज्ञानपदस्य ज्ञप्तिपरत्वे हेतुमाह -- ब्रह्मे- ति। ननु ज्ञानस्य सत्यानन्त्याभ्यां सह ब्रह्म प्रति विशेषणत्वेऽपि ब्रह्म ज्ञानकर्तृ किं न स्यादित्याशङ्कयाह -- न हीति। ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वाद्यनुपपत्ति प्रपश्चयति-ज्ञानकर्तृत्वेन हीति। ज्ञानकर्तृत्वं हि ज्ञानं तदनुकूलक्रिया च।न च ज्ञानादिरूपेण विक्रियमाणस्य ब्रह्मणः सत्यत्वं संभवति। विकारजातस्येव विकारिणोपि जडत्वनियमात् जडस्य च चित्यध्यस्तत्वनिय- मेनानृतत्वावश्यंभावादिति युक्तिसूचनार्थो हि-शब्दः । अनन्तं चेति। कथं भवेदित्यनुषङ्गः। तत्र हेतु :-- यद्धीति। प्रविभज्यते भिद्यते। ननु ज्ञानकर्तृत्वे- डपि ब्रह्मणो नास्ति कुतश्चित्प्रविभागः, तत्राह-ज्ञानकर्तृत्वे चेति। च-शब्दः श- क्वानिरासार्थः। कर्तृत्वस्य कर्मक्रियानिरूपितत्व्रात्ताभ्यां कर्तुर्भेदाभावे कर्त्रादिव्य- वस्थायोगात्, तस्माद्रह्मणोSनन्ततायै ज्ञात्रादिद्वैतराहित्यं वक्तव्यमित्यर्थः । तस्य सर्वद्वैतराहित्ये श्रुत्यन्तरमाह- यत्रेति। ज्ञानक्रियाकर्तृभूतस्य वस्तुतोऽनन्त- त्वाभावेऽपि श्रुतिमाह -- यत्रान्यदिति। यत्रेत्यस्य यदित्यर्थः । शङ्कते -- विशेषप्रतिषेधादिति। न विजानातीति ज्ञानकर्तृत्वसामान्यनिषेधमकृत्वा

त्वं भूम्र: अ्रत्यनुमतमिति गम्यते; तथा च यः स्वात्मानं विजानाति स भूमेति वाक्यार्थपर्यवसानाङ्रह्मणो द्वैतराहित्येनेयं श्रतिर्मानमित्यर्थः । 'भूमानं भगवो विजिज्ञासे' इति भूमस्वरूपलक्षणजिज्ञास्रायां सत्यामिदं वाक्यं प्रवृत्तम्,

Page 205

१.] आनन्दवल्ली। १०५

विजानातीति चेत्, न ; भूमलक्षणविधिपरत्वाद्वाक्यस्य। 'यत्र नान्य- त्पश्यति' इत्यादि भूम्नो लक्षणविधिपरं वाक्यम्। यथाप्रसिद्धमेव अन्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति स भूमा इति भूमस्वरूपं तत्र ज्ञाप्यते। अन्यग्रहणस्य प्राप्तपतिषेधार्थत्वात् न स्वात्मनि क्रियास्ति- त्वपरं वाक्यम्। स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः। आत्मनश्र विज्ञेयत्वे ज्ञात्रभावप्रसङ्ग:, ज्ञेयत्वेनैव विनियुक्तत्वाद्।।

एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन च उभयथा भवतीति चेत्, न ; युगपद नंशत्वात्। न हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः। आत्मनश्व

अतो न स्वज्ञातृत्वपरमिदं वाक्यमिति दूषयति नेति। संग्रहवाक्यं विवृणो- ति- यत्र नान्यदित्यादिना। भूम्रो लक्षणविधिपरमेव वाक्यं न स्वात्मनि क्रियास्तित्वपरमिति संबन्धः। बुभुत्सितभूमस्वरूपज्ञापनपरमेव तत् न स्वकर्मकज्ञानक्रियाकर्तृत्वसद्भावपरम्, तस्याबुभुत्सितत्वादित्यर्थः। वाक्यस्य स्वज्ञातृत्वपरत्वाभावे फलितं वाक्यार्थमाह यथाप्रसिद्धमेवेति। भ्रान्ति- सिद्धमेव ज्ञात्रादिद्वैतमनूद्य तद्यत्र वस्तुतो नास्ति स्र भूमेति भूमस्वरूपं लक्ष- णवाक्येन बोध्यते एवमन्यग्रहणस्य प्रतिषेधशेषत्वान्न स्वज्ञातृत्वे वाक्यतात्पर्य- म्राह्कतेत्यर्थः । विरोधादृपि न स्वज्ञातृत्वे भूमलक्षणवाक्यतात्पर्यमित्याह- स्वात्मनि चेति। एकक्रियानिरूपितं कर्तृत्वं कर्मत्वं चैकदैकत्र विरुद्धत्वेन प्रसिद्धम् ; तथा च स्वात्मनि ब्रह्मणि भेदाभावात्त्वकर्मकज्ञानकर्तृत्वानुपपत्ति- रित्यर्थः । ननु तर्हिं प्रत्यगात्मरूपस्य ब्रह्मणो ज्ञानकर्मत्वमेवास्तु; तत्राह- आत्मनश्चेति। च-शब्दः शङ्कानिरासार्थः ॥

नन्वात्मनश्चिज्जडरूपांशद्वयोपेतत्वाचिदंशेन ज्ञाता जडांशेन ज्ञेयश्च भ- विष्यति, अतो न ज्ञात्रभावप्रसङ्ग इति भट्टमतमाशङ्कय निषेधति -- एक एवेति। नेति। निष्कलश्रुत्या आत्मनो निरवयवत्वावगमात्सावयवस्यानित्य- त्वनियमाच्च तन्मतं न युक्तमित्यर्थः। ननु निरवयवस्यापि युगपदेकज्ञानक्रिया- निरूपितं कर्तृत्वं कर्मत्वं च कि न स्यादित्याशङ्कय स्वात्मनि चेत्यल्रोक्तामेवा- *T. 14

Page 206

१०६ तैत्तिरीयोपनिषदि [अनु.

घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम्। न हि घटादिवत्मसिद्धस्य ज्ञानो- पदेशः अर्थवान्। तस्मात् ज्ञातृत्वे सति आनन्त्यानुपपत्तिः। सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवच्वे सति ; सन्मात्रं च सत्यम्, 'तत्स- त्यम्' इति श्रुत्यन्तरात्। तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः। 'ज्ञानं ब्रह्म' इति कर्त्रा-

नुपपरत्ति स्मारयति-न हीति। स्वात्मनो लौकिकज्ञानकर्मत्वोपगमे तदुप- देशानर्थक्यप्रसङ्गाच्च न स्वज्ञातृत्वे भूमवाक्यस्य 'सत्यं ज्ञानम्' इत्यत्र ज्ञानपदस्य च तात्पर्यमित्याह -- आत्मनश्ेति। तस्मादिति। ज्ञातुर्ेय- ज्ञानाभ्यां प्रविभक्तत्वादित्यर्थः । व्रह्मणो ज्ञातृत्वे सत्यत्वानुपपत्तिमप्युक्त्कां स्मारयति-सन्मात्रत्वं चेति। ज्ञानकर्तृत्वादिविशेषवत्त्वं ज्ञानतदनुकूल- क्रियादिरूपपरिणामवतत्वं परिणामिनश्च मिथ्यात्वावश्यंभावाद्वाधायोग्यत्वरूपं सन्मात्रत्वमनुपपन्नमित्यर्थः । ननु सन्मात्रत्वानुपपत्तावपि मन्त्रोक्तसत्य- त्वानुपपत्ती किमागतमित्यत आह -- सन्मात्रं च सत्यमिति। सद्वस्तु प्रकृत्य 'तत्सत्यम्' इति वदता श्रुत्यन्तरेण सन्मात्रसत्ययोरभेदप्रतिपादनात्सन्मात्र- त्वानुपपत्तिः सत्यत्वानुपपत्तिरेवेत्यर्थः । ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वानन्तत्वयो- रयोगाज्ज्ञानशब्दस्य भावंसाधनत्वमेवेत्युपसंहरति- तस्मादिति। ज्ञानपदस्य ज्ञप्तिपरत्वे सिद्धे फलितमाह- ज्ञानमिति। यदुक्कं सत्यविशेषणेन ब्रह्मणो विकाराद्वयावृत्तिसिद्धौ विकारभिन्नत्वात्कारणत्वं प्राप्तम्, कारणस्य च कारक- त्वं मृदादिवद्चिद्रूपता च प्राप्ता, अत इदमुच्यते ज्ञानं व्रह्मेतीति, ज्ञानविशेष- णफलं तदत्र सिद्धमिति बोध्यम्। ज्ञानशब्दस्य ज्ञानकर्तृपरत्वनिराकरणपरेण अ्रन्थेनार्थाज्ज्ञायते यत्तज्ज्ञानमिति कर्मव्युत्पत्तिप्राप्तं कर्मकारकत्वमपि स्वात्मनि च भेदाभावादित्यादिना निरस्तम्; एवं ज्ञायतेSनेनेति व्युत्पत्तिप्राप्तं करणका- रकत्वमपि ब्रह्मरूपस्यात्मनो न संभवति, तस्य करणत्वे ज्ञात्रभावप्रसङ्गात्, इदमपि प्रागात्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्ग इत्यत्रोक्तप्रायमेव; तथा ज्ञान- कर्तृत्वनिराकरणेनाधिकरणकारकत्वमपि निरस्तम्; एवं ज्ञानपदस्य कारका- न्तरपरत्वनिराकरणमपि सिद्धवत्कृत्य करत्रादीत्यादिग्रहणमिति मन्तव्यम् ।

Page 207

१.] आनन्दवल्ली। १०७

दिकारकनिव्ृत्त्यर्थ मृदादिवदचिद्ूपतानिवृत्त्यर्थ च प्रयुज्यते। 'ज्ञानं ब्रह्म' इति वचनात्माप्तमन्तवत्वम्, लौकिकस्य ज्ञानस्य अन्तवत्वदर्श- नात्। अतः तन्निृत्त्यर्थमाह-अनन्तमिति। सत्यादीनामनृतादिधर्म- निवृत्तिपरलाद्विशेष्यस्य च ब्रह्मणः उत्पलादिवदपसिद्ध्वात् 'मृगतृष्णा- म्भसि स्नातः खपुष्पकृतशेखरः। एष वन्ध्यासुतो याति शशभृङ्गधनु- र्धरः' इतिवत् शून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत्, न ; लक्षणा- र्थत्वात्। विशेषणत्वेऽपि च सत्यादीनां लक्षणार्थपाधान्यमित्यवोचाम। शून्ये हि लक्ष्ये अनर्थकं लक्षणवचनम्। अतः लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति। विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव।

निवृत्त्यर्थ चेति। यद्यपि भावसाधनो ज्ञानशब्दो ज्ञप्तिक्रियावाची सा च क्रिकिया जडरूपा वृत्तिरिति वक्ष्यते, तथापि ज्ञानपदस्य चैतन्यलक्षकत्वं वक्ष्य- माणमभिप्रेत्याचिद्रूपतानिवृत्त्यर्थ चेत्युक्तमिति मन्तव्यम्। ज्ञानपदस्य वाच्या- र्थमादाय शङ्कते-ज्ञानं ब्रह्मेति वचनादिति। अनन्तमितीति। ब्रह्मणो ज्ञप्तिक्रियारूपत्वे सत्यानन्त्यायोगादानन्त्यसिद्धये ज्ञानपदेन चैतन्यमात्रं लक्ष-

सत्यादिपदवाच्यत्वेनोक्तेति मत्वा शङ्कते-सत्यादीनामिति। ब्रह्मपद- मप्यसदर्थकमेव, ब्रह्मणो मानान्तरासिद्धत्वेन तत्सत्वे मानाभावादि त्याह-विशेष्यस्य चेति। पदचतुष्टयस्याप्यसदर्थकत्वे फलितं सदृष्टा न्तमाह-मृगतृष्णेति। न चानृतादिव्यावृत्तेरन्योन्याभावरूपत्वेन शश- शृक्गादिवदसत्वाभावात्कथं शून्यार्थकतेति वाच्यम्; सिद्धान्त्यभिमतवाक्यार्थ- निषेधमात्रस्यात्र विवक्षितत्वात्। परिहरति-नेति। ननु व्यावृत्त्यर्थत्वस्यो- कत्वात्कथं लक्षणार्थत्वमित्याशङ्कय संग्रहवाक्यं विवृणोति- विशेषणत्वेऽपि चेति। च-शब्द: शङ्कानिरासार्थः । सत्यादिपदत्रयस्य विशेषणत्वेऽपि व्यावृ- स्यर्थत्वेपि न व्यावृत्तेः शाब्दत्वमुपेयते, व्यावृत्तेरार्िकत्वोपपत्तेः, अतो ल- क्षणरूपार्थपरत्वमेवेत्युक्तमित्यर्थः । अत एव ब्रह्मपद्मपि नासदर्थकमित्याह- शून्ये हीति। विशेषणत्वेऽपि च सत्यादीनां नासदर्थतेत्युक्तमेव प्रपथ्चयति-

Page 208

१०८ तैत्तिरीयोपनिषदि [भनु.

शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः । सत्याद्यर्थै- रर्थवच्वे तु तद्विपरीतधर्मवद्धो विशेष्येभ्यो ब्रह्मणो विशेष्यस्य नियन्तृत्व- सुपपद्यते। ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेव। तत्र अनन्तशब्दः अन्तवच्व- प्रतिषेधद्वारेण विशेषणम्। सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः ॥

विशेषणार्थत्वेऽपि चेत्यादिना। सत्यादिपदानां व्यावृत्तिप्रयोजनकत्वेऽपि स्वार्थस्य सन्मात्रादेः परित्यागो नास्त्येव । कुत इत्यत आह- शून्यार्थत्वे हीति। सत्यादिपदानां शून्यार्थत्वे स्वार्थपरित्यागे सति विशेष्यं प्रति नियन्तृ- त्वानुपपत्तिः इतरव्यावृत्तिप्रयोजनकत्वस्य पूर्ववाद्यभिमतस्यानुपपत्तिः सत्या- दिपद्व्रह्मणि व्यावर्तकस्वरूपविशेषासमर्पणात् लोके नीलादिपदैरुत्पले नैल्या- दिरूपविशेषे समर्पिते सत्येव रक्तादिव्यावृत्तिबोधदर्शनादिति हि-शब्दार्थः । एवं व्यतिरेकमुक्त्वान्वयमाह-सत्याद्यर्थैरिति। सत्यादिपदानामिति शेषः। तद्विपरीतेति। सत्यत्वादिधर्मविपरीता अनृतत्वादिधर्माः, तद्वन्तोऽनृतजडपरि- च्छिन्ना: पदार्थाः, तेभ्य इत्यर्थः । ब्रह्मणः विशेष्यस्य इति षष्ठयौ द्विती- यार्थे। यदुक्तं विशेष्यस्य ब्रह्मण उत्पलादिवद्प्रसिद्धत्वादसत्त्वमिति, तत्राह- ब्रह्मशब्दोऽपीति। स्वार्थेनेति। वृद्धिमत्वेनेत्यर्थः । न च पदमात्रस्याप्रमाणत्वा दुत्पलादिवन्मानान्तराप्रसिद्धत्वाच्च न तख सतत्वसिद्धिरिति वाच्यम्, मिथ्या- र्थस्य रज्जुसर्पादे: सदधिष्ठानत्वदर्शनात्प्रपश्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वे- नावगतस्य सदधिष्ठानत्वमनुमीयते, एवं सर्वाधिष्ठानतयानुमानोपस्थिते वृद्धि- मति ब्रह्मशब्दस्य शक्तिप्रहाभ्युपगमान्न तस्यासत्त्वशङ्का, न चैवमनुमानादेव ब्रह्मसिद्धेः श्रुत्यादिवैयर्थ्यमिति वाच्यम्, तस्य स्वरूपविशेषावगतेः श्रु- त्यधीनत्वाभ्युपगमादिति भावः । ब्रह्मस्वरूपलक्षणसमर्पकेषु सत्यादिपदेधु त्रिष्ववान्तरभेदमाह -- तत्रेति । अनन्तशब्द: परिच्छेदाभावबोधनद्वारा ब्रह्मणो विशेषणं परिच्छिन्नाद्वयावर्तकमित्यर्थः सत्यज्ञानशब्दौ त्विति। अनन्तशब्दस्येव सत्यज्ञानशब्दयोरभावबोधद्वारकत्व्रं नास्तीति विशेषार्थक- स्तु-शब्दः। तमेव विशेषं विवृणोति- स्वार्थेति। सच्चिद्वूपत्वलक्षणस्वा- थंबोधनद्वारेणैव विशेषणे भवतः अनृतादिव्यावर्तकौ भवतः नाभावसमर्पण

Page 209

१.] १०९

'तस्माद्वा एतस्मादात्मनः' इति ब्रह्मण्येव आत्मशब्दमयोगात् वेदितुरात्मा ब्रह्म। 'एतमानन्दमयमात्मानमुपसंक्रामति' इति च आत्मतां दर्शयति। तत्म्वेशाच्च; 'तत्सृष्टा तदेवानुमाविशत्' इति च तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति। अतो वेदितुः स्वरूपं ब्रह्म। एवं तर्हि, आत्मत्वाज्ज्ञानकर्तृत्वम् ; आत्मा ज्ञाता इति हि प्रसिद्धम, 'सोडका- मयत' इति च, कामिनो ज्ञानकर्तृत्वपरसिद्धिः; अतो ज्ञानकर्तृत्वात् ज्ञप्ति- ्रह्मेत्ययुक्तम् ; अनित्यत्वपसङ्गश्; यदि नाम ज्ञप्तिर्ज्ञानमिति भावरूपता

द्वारेणेत्यर्थः । अत्र ब्रह्मण्यनन्तपदसमर्पितः परिच्छेदाभावो ब्रह्मस्वरूपमेव, परिच्छेदस्य कल्पितत्वेन कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति म- न्तव्यम्॥ ननु जीवस्याकल्पिततया तत्प्रतियोगिकभेदरूपस्य परिच्छेदस्याकल्पित- त्वादनन्तपदेन कथं तन्निषेध इति चेत्, न ; जीवव्रह्मणोर्भेदस्यैवासिद्धे- रित्याशयेनाह- तस्माद्वा इति। आत्मशब्दस्य जीववाचित्वादिति भावः । आनन्दमयपदलक्षिते ब्रह्मण्यात्मशब्दप्रयोगाच्चैवमित्याह- एतमिति। आ- त्मतामिति। ब्रह्मण इति शेषः । ब्रह्मण एव जीवभावे हेत्वन्तरमाह- तत्म- वशाच्चोती। ननु प्रवेशश्रवणं जीवभावेनेत्यत्र किं विनिगमकमित्याशक्कच श्त्यन्तरानुसारादित्याशयेन विवृणोति- तत्सृष्टेति। श्रुतौ तच्छब्दौ ब्रह्म- परौ। अत इति। ब्रह्मणो जीवभावेन प्रवेशश्रवणादित्यर्थः । शङ्कते- एवं तहीति। यद्ुक्तरीत्या जीवात्मैव ब्रह्म तर्हि ब्रह्मण आत्माभिन्नत्वाज्ज्ञानकर्तृत्वं प्राप्तमित्यर्थः। नन्वसङ्गत्वादात्मन एव ज्ञानकर्तृत्वं नास्ति, कुतस्तदभेदाङ्गह्मणस्त- त्प्रसक्तिरित्याशङ्काह-आत्मा ज्ञातोति हीति। जानामीति ज्ञानकर्तृत्व- स्यात्मन्यनुभवसिद्धत्वादसङ्गत्वश्रुतिरन्यपरेति भावः । यथा जीवाभिन्नत्ववच- नानि ब्रह्मणो ज्ञानकर्तृत्वं प्रापयन्ति तथा 'सोऽकामयत' इति वचनमपि तत्प्रापयतीत्यत्र हेतुमाह-कामिन इति। ब्रह्मणो ज्ञानकर्तृत्वप्राप्तौ फलितं दोषमाह-अत इति। 'ज्ञानं ब्रह्म' इति वचनात्प्राप्तमन्तवत्त्वमित्यत्रोक्तमनि- त्यत्वप्रसङ्गं प्रपथ्वयन्नितश्च ज्ञप्तिर्व्रद्मेत्ययुक्तमित्याह- अनित्यत्वेति ।. ननु

Page 210

११० तैचिरीयोपनिषदि [भनु.

ब्रह्मणः, तथाप्यनित्यत्वं प्रसज्येत; पारतन्त्र्यं च, धात्वर्थानां कारका- पेक्षत्वात्, ज्ञानं च धात्वर्थः; अतोऽस्य अनित्यत्वं परतन्नता च। न; स्वरूपाव्यतिरेके कार्यत्वोपचारात्। आत्मनः स्वरूपं ज्ञप्तिः न ततो व्यतिरिच्यते। अतो नित्यैव। तथापि बुद्धेरुपाधिलक्षणायाश्चक्षुरादिद्वारै- र्विषयाकारपरिणामिन्याः ये शब्दाद्याकारावभासाः, ते आत्मविज्ञानस्य

ब्रह्मणो ज्ञप्तिरूपत्वेऽपि कथमनित्यत्वं ज्ञप्नेर्नित्य चैतन्यरूपत्वादित्याशकय हेत्व- सिद्धिमाह- यदि नामेति। यदि नामाभ्युपगम्यत इत्यर्थः । लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात्तदतिररिक्तनित्यज्ञानाभावाक्चेति भावः। पारतन्त्रयं जन्य- त्वम्। अनित्यत्व्रादिप्रसङ्गाज्ज्ञप्तिर्व्रह्मेत्ययुक्तमित्युपसंहरति- अतोऽस्येति। ज्ञानस्येत्यर्थः । आत्मनो नित्यचैतन्यरूपतायाः श्रुतियुक्तिसिद्धत्वाज्ज्ञप्तिर्रह्ेत्य- न्रात्मचैतन्यमेव ज्ञप्तिर्विवक्षिता, अतो नानित्यत्वादिप्रसङ्गः; आत्मनश्च 'साक्षी चेता केवलो निर्गुणश्च' इति वचनाज्ज्ञानकर्तृत्वमसिद्धम्; जानामीत्यनुभवस्तु बुद्धितादात्म्यकृतः, 'ध्यायतीव लेलायतीव' इति श्रुतेः ; तथा च नात्माभि- अ्त्वाद्रक्मणो ज्ञानकर्तृत्वप्रसङ्गः, कामयितृत्ववचनमपि ब्रह्मणो मायोपाधिप्रयु- कमेव, न स्वत इत्याशयेन समाधत्ते -- नेति। ज्ञप्रेरात्मस्वरूपाव्यतिरेकत्वे सति तस्यां जञप्रौ कार्यत्वस्योपचारमात्नत्वाजज्ञप्तिरूपस्य ब्रह्मणो नानित्यत्वादि- प्रसङ्क इत्यर्थः । उक्तं विवृणोति- आत्मन इति। चैतन्यरूपा ज्ञप्तिरात्मनो न भिद्यते मानाभावात्, अतो नित्यात्मस्वरूपत्वादिह विवक्षिता झप्तिर्नित्यैवे- त्यर्थः । नतु तहि विषयावभासिकायां झप्ौ कथं कार्यत्वप्रसिद्धिरित्याशक्कष कार्यत्वोपचारादित्याह-तथापीति। कार्यवृत्तिसंसर्गात्कार्यत्वेनोपचर्यत इति शेषः । वृत्तेः कार्यत्वं साधयति- बुद्धेरुपाधिलक्षणाया इति। प्रत्यगात्मो- पाधिभूताया इत्यर्थः । शब्दाद्याकारेति। शब्दादिविषयगोचराः शब्दाघव- भासकत्वेन प्रसिद्धाः परिणामास्ते आत्मस्वरूपस्य विज्ञानस्य विषयावभा- सरकचैतन्यस्य विषयभूता उपाधिभूता इत्यर्थः । तथा चोपाधिभूत- वृत्तितादात्म्यादात्मस्वरूपभूतायां ज्ञप्ौ कार्यत्वोपचार इति भावः । आत्मवि- ज्ञानस्य विषयभूता ये शब्दाद्ाकारावभास्रा: ते उत्पद्यमाना: सन्त भात्मवि-

Page 211

१.] आानन्दवळी।

विषयभूता उत्पद्यमाना एव आत्मविज्ञानेन व्याप्ता उत्पद्यन्ते। तस्मादात्मवि- ज्ञानभास्याश्च विज्ञानशब्दवाच्याश्च ते धात्वर्थभूता आत्मन एव धर्मा विक्रि- यारूपा इत्यविवेकिभिः परिकल्प्यन्ते। यत्तु ब्रह्मणो विज्ञानम्, तत् सवि- तृपकाशवत् अग्न्युष्णत्ववच्च ब्रह्मस्वरूपाव्यतिरिक्तं स्वरूपमेव्र । तन्न का- रणान्तरसव्यपेक्षम्, नित्यात्मस्वरूपत्वात्, सर्वभावानां च तेनाविभक्त-

ज्ञानव्याप्ता एवोत्पद्यन्त इति योजना। अत्र वृत्तीनामात्मविज्ञानेन व्याप्तिर्वृत्ति चैतन्ययोरवभास्यावभासकभाव प्रयोजकतादात्म्य संबन्धरूपा विवक्षि - व्दार्थः । भावसाधनज्ञानशब्दवाच्यत्वमपि वृत्तीनामेवेत्याह-विज्ञानेति। जानातीत्यत्र धात्वर्थत्वमपि तासामेव कारकपारतन्त्यादित्याह-ते धात्वर्थ- भूता इति। ननु चक्षुरादिकरणजन्यानां ज्ञानानां वैशेषिकादिभिरा- त्मधर्मत्वाङ्गीकाराब्वुद्धिधर्मत्वमयुक्तम्, अत आह-आत्मन एवेति। आत्मनो विकाररूपा: सन्तस्तस्यैव धर्मा गुणा इति श्रुतितात्पर्यानभिज्ञैः कल्प्यन्ते न तु परमार्थत आत्मधर्मत्वं तेषाम् 'कामः संकल्पः' इत्यादिश्रुत्या जन्यज्ञानादीनां मनोधर्मत्वप्रतिपादनादात्मनो निर्गुणत्वप्रतिपादनाच्चेत्यर्थः। एवं लौकिकज्ञान- स्य कारकपारतन्त्रयादिकं निरूप्य स्वरूपज्ञानस्य तद्वेपरीत्यमुपपादयति -- य- च्विति। तु-शब्दः स्वरूपज्ञानस्य वृत्तिवैलक्षण्यार्थः । 'सत्यं ज्ञानम्' इत्यत्र ज्ञानपद्लब्धं यज्ज्ञानं तत्सवित्रादेः प्रकाशादिकमिव ब्रह्मस्वरूपादात्मनोऽव्यति- रिक्तमात्मस्व्रूपमिति यावत्। अतो ब्रह्मणः स्वरूपमेवेत्यर्थः । नन्वात्मस्वरू- पत्वेऽपि ज्ञानस्य कथं ब्रह्मस्वरूपत्वं कारकापेक्षस्य तस्य ब्रह्मत्वायोगादि- त्याशङ्कयाह -- तन्न कारणान्तरेति। नित्यात्मस्वरूपादिति हेत्वर्थः । ननु ज्ञानस्य ब्रह्मरूपत्वे सर्वज्ञत्वश्रुतिविरोधः, तस्याकार्यतया ब्रह्मणस्तत्र कर्तृत्वासं- भवात् ; न च बुद्धिवृत्त्युपहितत्वेन स्वरूपज्ञानेऽपि कार्यत्वोपचार उक्त इति वाच्यम्, तावता बुद्धयुपाधिकस्य जीवस ज्ञानकर्तृत्वलाभेडपि ब्रह्मणस्तदला- भात् ; जीवब्रह्मणोरभेदेऽपि कल्पितभेदाभ्युपगमेन धर्मसांकर्यायोगादित्या- शक्क्थ ब्रह्मण: सर्वज्ञत्वं सर्वसाक्षित्वरूपमेवास्तु, कर्तृत्वश्रुतेरपचारिकत्वोपप-

Page 212

११२ तैत्तिरीयोपनिषदि [भनु.

देशकालत्वात्, कालाकाशादिकारणत्वात्, निरतिशयसूक्ष्मत्वाच्च न त- स्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विपकृष्टं भूतं भवन्भविष्यद्वा अस्ति । तस्मात्तु सर्वज्ञं तङ्रह्म। मन्त्रवर्णाच्च 'अपाणिपादो जवनो ग्रहीता पश्य- त्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाह्ुरग्र्यं पुरुषं महान्तम्' इति। 'न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशि- त्वात्, न तु तद्वितीयमस्ति' इत्यादिश्रुतेश्च। विज्ञातस्वरूपाव्यतिरेकात्क- रणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिः । अतो नैव धात्वर्थस्तत्, अविक्रियारूपत्वात्। अत एव च न ज्ञानकर्तृ;

त्तेरित्याशयेन सर्वसाक्षित्वमुपपादयति -- सर्वभावानां चेत्यादिना। तेनेति। तेन ब्रह्मणा अविभक्तौ विभागरहितौ देशकालौ येषां ते तथोक्तास्तेषां भावस्तत्वं तस्मान्न तस्य विप्रकृष्ठादिकमस्तत्यर्थः । सर्वपदार्थानां ब्रह्माविभ- क्तत्वे हेतु :- कालाकाशादीति। सर्वकल्पनाधिष्ठानत्वादित्यर्थः । स्वप्र- काशचिद्रूपतया ब्रह्मणोऽतिस्वच्छत्वान्न तस्याप्रकाश्यं किंचित्सूक्ष्ममस्ती्याह -- निरतिशयेति। तस्माच्विति। सर्वपदार्थसंसर्गित्वादित्यर्थः । वस्तु- तस्तु जीवस्य बुद्धयुपाधिवशान्मुख्यज्ञातृत्वादिवद्रह्मणोऽपि मायोपाधिव- शान्मुख्यमेव सर्वज्ञत्वं कामयितृत्वादिकं च संभवतीति विशेषसंग्रहा- र्थस्तु-शब्दः। तदुक्तं वाक्यवृत्तावाचार्यैरेव- 'मायोपाधिर्जगद्योनिः स- र्वज्ञत्वादिलक्षणः' इति। कारकनिरपेक्षं स्वरूपज्ञानमस्तीत्यत्र मन्त्रव्राह्मणवा- क्यानि प्रमाणयति-मन्त्रेत्यादिना। अपाणिर्भ्रहीता अपादो जवनः । परस्य नान्योऽवभासकोडस्ति, तस्य स्वप्रकाशत्वादित्याह -- न चेति। अग्रे सृष्टेः पूर्वकाले भवमत्यम् । विज्ञातुरात्मनो या विज्ञातिः स्वरूपभूता संवित् तस्या विपरिलोपो विनाशो नास्ति, अविनाशित्वात् नाशसामग्रीशून्यत्वादित्यर्थः ।

आत्मस्वरूपं ज्ञानम्। न घात्वर्थ इत्यत्र अतःशब्दोक्तं हेतुमाह-अविक्रि- येति। नित्यत्वादित्यर्थः । कारकसापेक्षक्रियाया एव धात्वर्थत्वादिति भावः । अत एवोते। ज्ञानस्य नित्यत्वादेव तत्र ज्ञाने ब्रह्मणः कर्तृत्वमप्यापाद्यितु

Page 213

१.] आनन्दवल्ली। ११३

तस्मादेव च न ज्ञानशब्दवाच्यमपि तङ्रह्म। तथापि तदाभासवाचकेन बु- द्विधर्मविषयेण ज्ञानशब्देन तल्लक्ष्यते; न तूच्यते, शब्दपव्टत्तिहेतुजात्यादि- धर्मरहितत्वात् सत्यानन्तशब्दाभ्यां सामानाधिकरण्यात्। तथा सत्य- शब्देनापि ; सर्वविशेषप्रत्यस्तमितस्वरूपत्वाङ्र्रह्मणः, बाह्यसत्तासामान्यवि- षयेण सत्यशब्देन लक्ष्यते 'सत्यं ब्रह्म' इति; न तु सत्यशब्दवाच्यं ब्रह्म। एवं सत्यादिशब्दा इतरेतरसंनिधावन्योन्यनियम्यनियामकाः

मशक्यमित्यर्थः । तस्मादेव चेति। तन् ज्ञानस्वरूपं ब्रह्म ज्ञानपद्वाच्यलौ- किकज्ञानविलक्षणत्वादेव ज्ञानपदवाच्यमपि नेत्यर्थः । कथं तहिं 'ज्ञानं ब्रक्म' इति सामानाधिकरण्यम्? तव्नाह- तथापीति। वाच्यत्वाभावेऽपीत्यर्थः । तदाभासेति। ज्ञानाभासवाचकेनेत्यर्थः । कोडसौ ज्ञानाभास इत्याकाङ्कायां तदेव विवृणोति- बुद्धीति । बुद्धिपरिणामरूपवृत्तिज्ञानवाचकेनेत्यर्थः । वृत्तेर्जडाया श्च्वन्तादा्म् म्तरेण विषया भास कत्वयो गाउज्ञाना भास त्वमि ति भावः । पूर्वोक्तं वाच्यत्वाभावमनूद तत्र हेत्वन्तरमाह-न तूच्यत इत्यादिना। अर्थेषु शब्दानां प्रवृत्तिहेतुत्वेन प्रसिद्धा ये जात्यादयो धर्मा- स्तद्रहितत्वाद्रह्मण इत्यर्थः । तद्रहितत्वे हेतुमाह -- सत्यानन्तेति। सामाना- धिकरण्यादित्यनन्तरं ब्रह्मशब्दस्येति शेषः। सत्यानन्तपदाभ्यां बाधायोग्यत्व- त्रिविधपरिच्छेदराहित्यसमर्पकाभ्यां ब्रह्मणो निर्विशेषत्वावगमादित्यर्थः । अत एव सत्यशब्दस्यापि न वाच्यं ब्रह्मेत्याह -- तथा सत्यशब्देनापीति। सर्वेति। सर्वविशेषरहितस्व्ररूपत्वादेवेत्यर्थः। कथं तार्है 'सत्यं त्रह्म' इति सामानाधिकरण्य- म्? तत्राह-बाह्येति। बाह्यं लोकसिद्धं यत्सत्तासामान्यं सत्ताजातिस्वरूपं तद्वा चकेन सत्यशब्देन बाधायोग्यं वस्तु लक्ष्यत इत्यर्थः । यद्वा पूर्व विकारेष्वव्य- भिचारितया वर्तमाने वस्तुनि रज्जादौ सत्यशब्दप्रसिद्धेरुक्तत्वाल्लौकिकसत्यव- स्तुवाचिना सत्यशब्देन परमार्थभूतं वस्तु लक्ष्यते, अतः 'सत्यं ब्रह्म' इति सामानाधिकरण्यमुपपद्यत इति बोध्यम्। न त्विति। केवलस्य परमार्थवस्तुनः प्रागनुपस्थितत्वेन शक्तिग्रहाभावादिति भावः। सत्यादिपदत्रयव्याख्यानमुप- संहरति -- एवमिति। नियम्यनियामकभावकळमाह-सत्यादीति। स्व्र- .T. 15

Page 214

११४ तैत्तिरीयोपनिषदि [अनु.

सन्तः सत्यादिशब्दवाच्यात् निवर्तकाः, ब्रह्मणः लक्षणार्थाश्च भवन्तीति। अतः सिद्धम् 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' 'अनिरुक्ते- Sनिलयने' इति च अवाच्यत्वम्, नीलोत्पलवदवाक्यार्थत्वं च ब्रह्मणः॥

तद्यथाव्याख्यातं ब्रह्म यः वेद विजानाति निहितं स्थित गुहायाम्, गूहते: संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः, निगूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा, तस्याम्; परमे पकृष्टे व्योमन् व्योम्नि आकाशे अव्याकृताख्ये; तद्धि परमं व्योम, 'एतस्मिन्खल्वक्षरे

स्ववाच्यार्थान्निवर्तकाश्च भूत्वा ब्रक्मणो लक्षणस्य सच्चिदृद्वितीयस्वरूपस्य सम- र्पका भवन्तीत्यर्थः । लक्षणवाक्यार्थविचारमुपसंहरति- अतः सिद्धमिति। निरुक्तं वाच्यम्, तद्धिन्नमनिरुक्तम्। नीलोत्पलवदिति। सत्यत्वादिविशेषण विशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थतायाः 'न विशेषणप्रधानान्येव' इत्यत्र 'लक्षणार्थ च वाक्यमित्यवोचाम' इत्यक्ष च तात्पर्यतो निरस्तत्वाद्वह्णो नी- लोत्पलवाक्यार्थवैलक्षण्यं च सिद्धमित्यर्थः । सच्िदेकरसं ब्रह्म प्रकृतं भेद- वर्जितम्। मन्त्रस्य प्रथमे पादे तात्पर्येण निरूपितम् ।

गूहतेरिति। गूहतेः संवरणार्थस्य गुहेति रूपमिति भावः । गुहाश- कदखावारकार्थकत्वेऽपि प्रकृते का गुहा विवक्षिता! तत्राह- निगूढा इत्यादिना। ज्ञात्रादिपदार्थानां बुद्धिपरिणामत्वपक्षमाश्रित्य तत्र तेषां निगू- ढत्वमुक्तम्। बुद्धिनिरोधावसरे ज्ञात्रादिपदार्थानां भेदेनानुपलम्भात्तेषां तत्र निगूढत्वमवगन्तव यम्। तेषां मायापरिणामत्वपक्षमाश्रित्याह-निगूढाविति। भोगो दुःखादिः, अपवर्गों ज्ञानम्, तदुभयं बुद्धिपरिणामत्वात्तत्र निगूढमि- त्यर्थः । भूताकाशं व्यावर्तयति -- अव्याकृताख्य इति। अव्याकृतमज्ञानम्। तस्य परमतवे कारणं हि-शब्देनाह -- तद्धीति। जगत्कारणत्वादिति हि-श- ब्दार्थः । इतश्चाव्याकृतं परममित्याह- एतस्मिन्निति। अक्षरे ब्रह्मणि हे गार्गि कालत्रयापरिच्छिन्नं जगदुपादानमाकाशशब्दितमव्याकृतं साक्षादध्यस्त- मिति श्रुत्यर्थः । संनिकर्ष: साक्षात्संबन्धः । अज्ञानव्यतिरि कपदार्था ना म क्षाते

Page 215

१.] मानन्दवक्ली। ११५

गार्ग्याकाशः' इत्यक्षरसंनिकर्षात्; 'गुह्ायां व्योमन्' इति वा सामाना- धिकरण्य।दव्यांकृताकाशमेव गुहा; तत्रापि निगूढाः सर्वे पदार्थास्त्रिपु कालेषु, कारणत्वात् सूक्ष्मतरत्वाच्च; तस्मिनन्तर्निहितं तत् ब्रह्म। हार्दमेव तु परमं व्योमेति न्याय्यम्, विज्ञानाङ्गत्वेन व्योम्नो विवक्षितत्वात्। 'यो

ब्रह्मण्यध्यस्ततया अज्ञानद्वारक एव ब्रह्मणा संनिकर्ष इति भावः । एवमव्या- कृताख्ये परमे व्योम्रि कारणभूते या कार्यभूता बुद्धिगुद्दा तस्यां निहितं ब्रक्मेति रीत्या 'गुहायाम्' 'व्योमन्' इति सप्तम्योवैयधिकरण्यमुक्तम्। इदानीं तयोः सामानाधिकरण्यमाह-गुहयामिति। न बुद्धिरित्येवकारार्थः । अव्याकृते- डपि गुहाशब्दप्रवृत्तिनिमित्तमाह- तत्रापीति। सृष्टिस्थितिसंहारकाले्वि- त्यर्थः । ननु बुद्धेः स्वच्छत्वात्तत्र ब्रह्मणो निधानं संभवति, कथमव्याकृते तत्संभवतीत्याशक्कयाह-सूक्ष्मतरत्वाच्चेति । अतिस्वच्छत्वादित्यर्थः । च- शब्द: शङ्कानिरासार्थः । वस्तुतस्तु परमे व्योम्रि या गुहा बुद्धि: तस्यां निहितिमिति सप्तम्योवैयधिकरण्येन व्या्यानमेव युक्तम्, बुद्धयु- पहितजीवाभेदेन ब्रम्मण आपरोक्ष्यलाभात् 'अहं ब्रह्मास्मि' इत्यादिश्रुत्यन्त- रैकार्थ्यलाभात् प्रवेशवाक्येन वृत्तिस्थानीयेनास्य गुहानिहितिवाक्यस्यैका- धर्यलाभाष। सामानाधिकरण्यपक्षे त्वव्याकृतस्य विक्षेपशक्तिमदज्ञानांशरू पस्य परोक्षत्वात्तत्र निहितिस्य ब्रह्मण आपरोक्ष्यादिकं न लभ्यते। अनेनैवाभि- प्रायेण बुद्धेरेव गुहात्वं स्वीकृत्य तत्र निधानमोपचारिकमिति वक्ष्यतीति मन्त- व्यम्। 'परमे व्योमन्' इत्यत्र व्योमपदं पराभिप्रायेण व्याख्याय स्वाभि- प्रायेण व्याचष्टे-हार्दमेव त्विति। भूताकाशमेत्र व्योमेत्यत्र हेतु :- न्याय्यमिति। रूळ्यनुसारस्य न्याय्यत्वादित्यर्थः । परं तूक्तरीत्या बुद्धेरेवात्र गुहात्वात्तदधिकरणत्वलाभाय हार्दमित्युक्तम्। हृदयमध्यस्थमित्यर्थः । परमत्ववि- शेषणमपि तस्य संभवतीति सूचनार्थस्तु-शब्दः। अव्याकृतवारणायावधार णम्। ननु भूताकाशस् कार्यत्वात्कथं परमत्वं संभवतिः तत्राह- विज्ञानाङ्गत्वनेति। सगुणत्रह्मोपासनस्थानतया हार्दस्य व्योम्ो गायत्रीविद्यादौ विवक्षितत्वात्कार्यस्यापि तस्योत्कर्षरूपं परमत्वं संभवतीत्यर्थः । न हि कारण-

Page 216

११६ तैत्तिरीयोपनिषदि [मनु.

वै स बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयमन्त- र्हृदय आकाशः' इति श्रुत्यन्तरात्मसिद्धं हार्दस्य व्योम्नः परमत्वम् । तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा, तस्यां निहितं ब्रह्म तदृत्या विविक्त- तयोपलभ्यत इति। न ह्यन्यथा विशिष्टदेशकालसंबन्धोऽस्ति ब्रह्मणः, सर्वगतत्वान्निर्विशेषत्वाच्च। स एवं ब्रह्म विजानन् किमित्याह- अश्षुते

त्वप्रयुक्त एवोत्कर्ष इति नियमोडस्ति, भूतकार्यस्यापि सूर्यमण्डलादेः स्वकार- णापेक्षयोत्कर्षस्य मूर्तामूर्तब्राह्मणादौ प्रसिद्धत्वादिति भावः । हार्दव्योम्नो वि- ज्ञानाङ्गत्वेन परमत्वमेव साधयति-यो वै स इति। पुरुषाच्छरीरात् यो बहिर्धा बहिराकाशः यो वा अन्तः पुरुषे शरीरे आकाशः स इत्युपक्र्म्य 'योऽयमन्तर्हृदय आकाशः' इति श्रुत्यन्तराद्गायत्त्रीविद्याप्रकरणस्थाद्रायत्त्री- पदलक्षित व्रह्मोपासनस्थानतया हार्दाकाशस्य ब्रह्मविज्ञानाङ्गत्ववोधकात् हार्दस्य व्योन्नः परमत्वं प्रसिद्धं निश्चितमित्यर्थः । तद्टृत्येति। बुद्धिवृ्त्त्या 'तत्वमसि' इति श्रुतिजनितया बुद्धपादिभ्यः सकाशाद्विविक्ततया गृह्यत इत्यर्थः । यद्वा बुद्धिवृत्त्या बुद्धिसंसर्गेण विविक्ततया स्फुटतया द्रष्टृत्वश्रोतृत्वमन्तृत्वादि- रूपेण ब्रह्मोपलभ्यत इत्यर्थः । तथा च गुहानिहितवाक्यं प्रति वृत्तिस्था- नीयस्य प्रवेशवाक्यस्यार्थवर्णनावसरे वक्ष्यति- 'गुहायां बुद्धौ द्रष्ट श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते' इति। ननु निहितशब्दः स्थिति ब्रूते, ततश्च कथमन्यथा निधानं व्याख्यायते? तत्राह- न ह्यन्यथेति। अत्र संब- न्धपद्माधेयत्वपरम् ; तथा च अन्यथा उपलम्भव्यतिरेकेण देशविशेषाद्याधेय- त्वरूपं निधानं ब्रह्मणो न ह्यस्तीत्यर्थः । सर्वगतत्वादिति। न चाकाशस्य सर्व- गतत्वेऽपि स्वकारणमायादौ स्थितिरस्तीति वाच्यम्; कार्यस्याकाशस्य लोक- प्रसिद्धषा सर्वगतत्वेऽपि वस्तुतः सर्वगतत्वाभावादिति भावः । कि च 'यत्रा- धेयत्वं तत्र सविशेषत्वम्' इति व्याप्तिर्दश्यते, ब्रह्मणि च व्यापकसविशे- पत्वनिवृत्त्या व्याप्याधेयत्वनिवृत्तिरित्याशयेनाह-निर्विशेषत्वाच्चेति। यद्ा विशेषपद्माधारपरम्, ततश्च आधारराहित्यश्रवणाच् न तस्याधेयत्वमित्यर्थः । एवं गुहानिहितवाक्यं व्याख्यायानन्तरवाक्यमाकाङ्कापूर्व व्याचष्टे- स

Page 217

१.) आनन्दवल्ली। ११७

भुक्के सर्वान् निरवशिष्टान् कामान् काम्यान्भोगानित्यर्थः । किमस्मदादिवत्पृ- त्रस्वर्गादीन्पर्यायेण? नेत्याह- सह युगपत् एकक्षणोपारूढानेवैकयो- पलब्ध्या सवितृप्रकाशवन्नित्यया ब्रह्मस्वरूपाव्यतिरिक्तया, यामवोचाम ज्ञानमिति। तदुच्यते- ब्रह्मणा सहेति। ब्रह्मभूतो विद्वान् ब्रह्म- स्वरूपेणैव सर्वान्कामान् सह अश्रुते। न तथा यथोपाधिकृतेन स्वरूपेणात्मनो जलसूर्यकादिवत्प्रतिविम्बभूतेन सांसारिकेण धर्मादिनि-

एवमित्यादिना। यो ज्रह्म गुहायां प्रत्यक्तया स्थितम् 'अहं व्रह्म' इति वेद विजानाति स एवं विजानन्किं लभत इत्याकाङ्कायामाहेत्यर्थः । भुङ्के अनुभ- वति। सर्वशब्दस्यासंकुचितं साकल्यमर्थतया दर्शयति- निरवशिष्टानिति। कामशब्दस्येच्छापरत्वं व्यावतयति- काम्यानिति। तानेव विशिष्य दर्श- यति -- भोगानित्यर्थ इति। भुज्यत इति व्युत्पत्या भोगपदमानन्दपर- मिति भावः । सहशब्दमवतारयति- किमिति। यथास्मदादिः पुत्रस्वर्गादी- न्पर्यायेण क्रमेण भुङ्के तथैव विद्वानपि कि कामान्भुङ्क इति योजना। एक- क्षणेति। एकक्षणावच्छिन्नानित्यर्थः । ननु सुखव्यश्जकानां सत्त्ववृत्तिविशेषाणां कमिकत्वात्कथमेकदैवानन्दानामनुभवो विदुषः सिध्यति तत्राह- एक- येति। वृत्तिकृतानन्दानुभवो नात्र विवक्षित इति भावः । यामिति। 'सरत्यं ज्ञानम्' इत्यत्र ज्ञानमिति पदेन लक्षणीयतया यामुपलब्धिमवोचाम तया म्रह्मस्वरूपाव्यतिरिक्तया कामानश्नुत इति योजना । तदुच्यत इति। यत्सर्वकामानामनुभवे यौगपद्यमुक्त तदेव ब्रह्मणा सहेत्यत्र सहशब्देनो- च्यते न साहित्यमित्यर्थः । नन्वत्र तृतीयया साहित्यमेव सहशब्दार्थ- तया भातीत्याशङ्कयाह-ब्रह्मभूत इति। इत्थंभावे तृतीयेयं न साहित्यप्र- तियोगित्ववाचिनीति भावः । पूर्वोक्तव्यतिरेकदृष्टान्तविवरणपूर्वकमुक्त्तमर्थ प्रप- ध्वयति- न तथेत्यादिना। अन्रोपाधिकृतेनेत्याद्या अपि तृतीया इत्थंभावे द्रष्टव्याः; तथा च परमात्मनो जलसूर्यवत्प्रतिबिम्बभतं घटाकाशवद्वच्छिन्नं वा उपाधिकृतं सांसारिकं संसारधर्मकं यत्स्वरूपं तदात्मा लोको यथा धर्मादिसा- धनापेक्षान्कामान्पर्यायेणाश्नुत इत्यर्थः । विदुषः कामाशनप्रकारं पृच्छति-

Page 218

११८ तैसतिरीयोपनिषदि [भनु.

मित्तापेक्षांश्रक्षुरादिकरणापेक्षांश्र सर्वान्कामान्पर्यायेणाश्रुते लोकः। कथं तहि! यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन आ्ात्मना नित्यब्रह्मस्वरूपे- ण धर्मादिनिमित्तानपेक्षान् चक्षुरादिकरणानपेक्षांत्र सर्वान्कामान्सहाक्षुत इत्यर्थः। विपश्चिता मेधाविना सर्वज्ञेन। तद्धि वैपश्चित्यम्, यत्सर्वज्ञत्वम्। तेन सर्वज्ञस्वरूपेण ब्रह्मणा अश्रुते। इतिशब्दो मन्रपरिसमाप्त्यर्थः ॥

सर्व एव वल्ल्यर्थः 'ब्रह्मविदामोति परम्' इति ब्राह्मणवाक्येन

कथं तर्हीति। पूर्वोक्तेनैव प्रकारेणेत्याह -- यथोक्ेनेति। सर्वज्ञेनेति। सर्व- साक्षिणेत्यर्थः । सर्वगतेन हीति। सर्वप्राणिसुखानुगतेन विदुष आत्मभूतेने- त्यर्थः। सर्वगतत्वादिकं श्रुतिषु प्रसिद्धमिति हि-शब्दार्थः । सर्वज्ञादिरूपस्य विद्वदात्मनः सेश्वरसांख्यमत इव ताटस्थ्यं वारयति -- नित्यब्रह्मस्वरूपेणेति। धर्मादीति। स्वकीयधर्माद्यनपेक्षानित्यर्थः ; यथाश्रुते प्रतिप्राणिवर्तिनां कामानां तत्तद्वर्माद्यपेक्षत्वादसांगत्यापत्तेः। एवमप्रेपि। तद्धीति। ब्रह्मणः प्रसिद्ध सर्व- साक्षित्वमेव विपश्चित्वम, नान्यदित्यर्थः । इदं च विशेषणं विदुषो ब्रम्मान- न्दानुभवकाले समुद्राम्भसि विप्रुषामिव ब्रह्मानन्देऽन्तर्भूतानां सर्वप्राणिगता- नामानन्दानां सर्वसाक्षिचैतन्यरूपेणैवाशनमत्र विवक्षितं न प्रकारन्तरेणेत्येत- स्यार्थस्य गमकमित्याशयेनाह- तेन सर्वज्ञस्वरूपेणेति। ननु यः सत्यज्ञाना- नन्तलक्षणं ब्रह्म प्रत्यक्त्वेन वेद सोऽर्चिरादिवर्तर्मना ब्रह्मलोकं गत्वा तत्रस्थेन सर्वज्ञेन ब्रह्मणा सह दिव्यान्कामानश्नुत इति ऋज्वर्थ एवात्र किमिति न वि- वक्षित इति चेत्, न ; ब्रह्मणा सहेत्यन्वयस्य 'सोऽश्नुते सर्वान्कामान्सह' इत्यत्राध्ययनसंप्रदायप्राप्तवाक्यविच्छेदाननुगुणत्वात् परब्रह्मविदो गत्युत्कान्त्या- दभावस्य चतुर्थाध्याये साधितत्वात् 'अशरीरं वाव सन्तम्' इत्यादिश्रुत्या मुक्तस्य शरीरसंबन्धप्रतिषेधात् 'तत्केन कं पश्येत्' इत्यादिश्रत्या तस्य विशे- षविज्ञानप्रतिषेधाच् 'ब्रह्म वेद ब्रह्मैव भवति' इति श्रत्या सावधारणया ब्रह्मस्व- रूपव्यतिरिक्तस्य प्राप्यत्वप्रतिषेधाष ; तस्माद्र ऋज्वर्थाविवक्षेत्यन्यत्र विस्तरः ॥

घृत्तानुवादपूर्वकमुत्तरसंदर्भमवतारयति- सर्व एवेत्यादिना। तबृ-

Page 219

१.] आनन्दवल्ली। ११९

मूत्रितः । स च सूत्रितोऽर्यः संक्षेपतो मञ्रेण व्याख्यातः । पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्तदृत्तिस्थानीयो ग्रन्थ आरभ्यते- तस्माद्वा एतस्मादित्यादिः। तत्र च 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्युक्तं मध्रादौ; तत्कथं सत्यमनन्तं चेत्यत आह। तत्र त्रिविधं ह्यानन्त्यम्- देशतः कालतो वस्तुतश्च। तद्था-देशतोऽनन्त आकाशः; न हि देशतस्तस्य परिच्छेदोऽस्ति, न तु कालत आनन्त्यं वस्तुतश्व । कस्मात्? कार्यत्वात्। नैवं ब्रह्मण आकाशवत्कालतोऽन्तवच्वम्, अ- कार्यत्वात्। कार्य हि वस्तु कालेन परिच्छिद्ते। अकार्य च ब्रह्म।

त्तीति। तस्य सूत्रस्य धृत्तिर्विस्तरतो व्याख्या तत्स्थानीय इत्यर्थः । तत्र सृष्टिवाक्येनानन्त्ं प्राधान्येन प्रपकच्यत इति तात्पर्य दर्शयितुं पूर्वोक्तेष्वर्थ- विशेषमनुवद्ति- तत्र चेति। आहेत्यनन्तरम् 'तस्माद्वै' इत्याद्िश्रुतिरिति शेषः । नन्वन्तशब्दस्य नाशे प्रसिद्धत्वादनन्तत्वं नित्यत्वम्; तच्चाकाशादि-

जत्ववदाकाशादिकारणत्वोपपत्तेरित्याशक्कय आनन्त्यं विभजते-तत्र त्रिविध हीति। तथा च त्रिविधे आनन्त्ये यद्वस्तुत आनन्त्यं तदेव सृष्टिवाक्येन तात्पर्यतो निरूप्यत इति भावः । तत्र देशत आनन्त्यस्य हि-शब्दसू- चितां प्रसिद्धिमाकाशे दर्शयति -- तद्यथेति। न हीति। अवकाशा- समना सर्वत्रावस्थानादित्यर्थः । अभावः परिच्छेदः । ननु किं कालतो वस्तु- श्चानन्त्यमप्याकाशे प्रसिद्धम्: नेत्याह-न त्विति। कालत आनन्त्याभावे हेतुं पृच्छति- कस्मादिति। यद्वा आकाशस्य नित्यत्वमभिप्रेत्य नैयायिक: शक्कते -- कस्मादिति। 'आात्मन आकाशः संभूतः' इति श्रुतिमाश्रित्य परि- हरति- कार्यत्वादिति। तथा च कार्याकाशस्यानित्यत्वात्कालत आनन्त्यं नाहत। वाय्वादेराकाशसमसत्ताकस्य वस्तुनः सत्वाद्वस्तुत आनन्त्यमपि तस्य नास्तीति भावः । ननु नित्यत्वेन प्रसिद्धस्य चेदाकाशरुग कालत आनन्त्यं नास्ति, तर्हि ब्रह्मणोऽपि तन्नास्त्येव, नेत्याह-नैवमिति। नन्वकार्यत्वम- सिद्धं त्रह्मणः कारणत्वादाकाशादितदिति, नेत्याह-अकार्य चेति। च-

Page 220

१२० तैत्तिरीयोपनिषदि [अनु.

तस्मात्कालतोऽप्यनन्तम्। तथा वस्तुतश्व। कथ पुनर्वस्तुत आनन्त्यम्? सर्वानन्यत्वात्। भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भवति ; वस्त्वन्तर- बुद्धिर्हिं मसक्ता वस्त्वन्तरान्निवर्तते। यतो यस्य बुद्धिनिवृत्तिः, स तस्या- न्तः। तद्यथा गोत्ववुद्धिरश्वत्वान्निवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति। स चान्तो भिन्नेषु वस्तुपु दृष्टः। नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्यानन्त्यम्। कथ पुनः सर्वानन्यत्वं ब्रह्मण इति, उच्यते --

शब्द: शङ्कानिरासार्थः। आकाशादेरिव त्रह्मणः सृष्टिप्रलययोरश्रवणान्मूलकारण- स्यापि ब्रह्मणः कार्यत्वे कारणानवस्थाप्रसङ्गेनोक्तकारणत्वानुमानस्याप्रयोजक- त्वात् 'सर्वगतश्च नित्यः' इत्यादौ नित्यत्वश्रवणात् ब्रह्मण उत्पत्तौ सामग्र्यनि- रूपणादेश्च हेतोरकार्य ब्रह्मेत्यर्थः । तथेति। तथा वस्तुतश्चानन्तं त्रह्मेत्यर्थः । ननु वस्तुतो ब्रह्मातिरिक्तस्य जगतः सत्त्वात्तस्य वस्तुत आनन्त्यमसिद्धमित्या- क्षिपति- कथ पुनरिति। जगतो ब्रह्मापेक्षया वस्त्वन्तरत्वमसिद्धं कल्पित- त्वादित्याशयेनाह-सर्वानन्यत्वादिति। ननु सर्वस्य जगतो ब्रह्मानन्यत्वे- डपि ब्रह्मणस्तत्कृतः परिच्छेदः किं न स्यादित्याशङ्कयाह- भिन्नं हीति। भिन्नस्यान्तत्वं प्रसिद्धमित्युक्तम्, तदेव प्रपश्चयति- वस्त्वन्तरबुद्धिहींति। गांत्वसंनिकर्षदशायां गोत्वरूपस्याश्वत्वाद्यपेक्षया वस्त्वन्तरस्य बुद्धिर्जारयते ; सा गोसंनिहितायामश्वादिव्यक्तावपि गौरयमपीत्येवमाकारेण प्रसक्ता सती तत्रा- श्वत्वं दृष्टा निवर्तते नायं गौरिति हि प्रसिद्धमेतदित्यर्थः । ततः किम्? तत्राह -- यत इति। उक्तं सामान्यन्यायं स्वयमेवोदाहरणनिष्ठतया योज- यति- तद्यथेति। अश्वत्वान्तमिति। गोत्वमश्चत्वान्तमश्चत्वावधिकमनु- भूयत इति कृत्वा गोत्वमन्तवद्धवतीत्यर्थः । उक्तस्य वस्तुपरिच्छेदस्य घट- त्वादिसाधारण्येन प्रसिद्धिमाह-स चेति। एवं वस्त्वन्तरस्यान्तवत्वं प्र० साध्य प्रकृतमाह -- नैवमिति। भेदपदं भिन्नवस्तुपरम्। अत इति। पर- मार्थतो ब्रह्मभिन्नवस्त्वभावादित्यर्थः । सर्वस्यैव जगतो ब्रह्मानन्यत्वस्य पूर्वम- भिहितत्वादिति भावः । सर्वानन्यत्वे हेतुं पृच्छति -- कथमिति। 'आत्मन आकाश: संभूतः' इति सृष्टिवाक्येनोत्तरमाह-उच्यत इति। ननु कालप-

Page 221

१.] आनन्दवल्ली। १२१

सर्ववस्तुकारणत्वात्। सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म। कार्यापेक्षया वस्तुतोऽन्तवत्वमिति चेत्, न ; अनृतत्वात्कार्यवस्तुनः। न हि कारणव्यतिरेकेण कार्य नाम वस्तुतोऽस्ति, यतः कारणबुद्धि- निवर्तेत: 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येत्र सत्यम्' एवं सदेव सत्यमिति श्रुत्यन्तरात्। तस्मादाकाशादिकारणत्वाद्वस्तुतस्तावद नन्तं ब्रह्म। आकाशो ह्यनन्त इति पसिद्धं देशतः; तस्य चायं कारणम् ; तस्मा- तिसिद्धं देशत आत्मन आनन्त्यम्। न ह्यसर्वगतात्सर्वगतं किंचिदुत्पद्यमानं

रमाण्वादीनां नित्यत्वात्सर्ववस्तुकारणत्व्रमसिद्धमित्याशक्कयाह-सर्वेषां हीति। कालादेरपि कार्यत्वं वियद्धिकरणन्यायसिद्धमिति सूचनार्थो हि-शब्दः । 'चिद्विद्यासंबन्धः कालः' विष्णुपुराणोक्तरीत्या 'त्रह्मण एव रूपभेदः कालः' इति पक्षयोः कालस्यानादित्वेन कार्यत्वाभावेऽपि न क्षतिः, आद्यपक्षे कालस्याविद्यावत्कल्पितत्वेन वस्त्वन्तरत्वाभावात्, द्वितीये कालस्य ब्रह्मस्वरूपत्वादेव वस्त्वन्तरत्व्राभावादिति मन्तव्यम्। त्रह्मवद्रह्मकार्यस्यापि परमार्थत्वं मन्वानः शङते- कार्यापेक्षयेति। आरम्भणाधिकरणन्या- येन परिहरति-नानृतत्वादिति। यत इति। यतः पृथक्सत्वाद्धेतोः कारणबुद्धि: कार्यान्निवर्तेत तत्पृथकसत्वं कार्यस्य नास्तीत्यर्थः । अत एव 'मुद्टः' 'मृच्छरावम्' इति विकारेषु कारणबुद्धिरनुवर्तते, तथा जगत्यपि 'सन्घटः' 'सन्पटः' इत्यादिरूपेण सद्रूपत्रह्मबुद्धिरनुवर्तते, न हि प्रृथक्सत्व- युक्तयोर्घटपटयोर्मध्ये घटबुद्धि: पढे पटवुद्धिर्वा घटेऽनुवर्तत इति भावः । कार्यस्य कारणात्प्रथक्सत्वाभावे श्रुतिमाह- वाचारम्भणमिति। वस्तुत आनन्त्यनिरूपणमुपसंहरति- तस्मादिति। देशत इति पाठेपि देशपदं वस्तुपरम्। ब्रह्मणो देशत आनन्त्यं कैमुतिकन्यायेन साधयति- आकाशो हीत्यादिना। आकाशस्य देशत आनन्त्यं प्रसिद्धमित्ययमर्थः प्रागेवोक्त इति सूचनार्थो हि-शब्दः। ननु सर्वगतमाकाशं प्ति ब्रह्मण उपादानकारणत्वेऽपि कथं तस्याकाशापेक्षयापि महत्त्वं सिध्यति खन्यूनपरिमाणट्रव्यस्याप्युपादानत्वसं भवादित्याशङ्कां निराकरोति-न हीति। कार्यद्रव्ये स्त्रन्यूनपरियाणइ्व्यार- *T.16

Page 222

१२२ सैसिरीयोपनिषदि [अनु.

लोके दृश्यते। अतो निरतिशयमात्मन आनन्त्यं देशतः । तथा अकार्य- त्वात्कालतः; तद्भिस्रवस्त्वन्तराभावाच्च वस्तुतः । अत एव निरतिशय सत्यत्वम्। तस्मात् इति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते; एतस्मात् इति मश्चवाक्येन अनन्तरं यथालक्षितम्। यङ्रह्म आदौ ब्राह्मणवाक्येन मृति तम्, यच्च 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यनन्तरमेव लक्षितम्, तस्मादेतस्मा- ह्रह्मण आत्मनः आत्मशब्दवाच्यात्: आत्मा हि तत् सर्वस्य, 'तत्सत्यं स आत्मा' इति श्षुत्यन्तरात् ; अतो ब्रह्म आत्मा; तस्मादेतस्माद्वह्म्ण आरत्मस्वरूपात् आकाशः संभूतः समुत्पन्नः। आकाशो नाम शब्दगुणः अवकाशकरो मूर्तद्रव्याणाम्। तस्माच्चाकाशात् स्वेन स्पर्शगुणेन पूर्वेण च

भ्यत्त्रनियमस्य दीर्घविस्तृतदुककूलाध्यारब्धरउ्वादौ व्यभिचारात्सर्वगतस्या काशा

धिकपरिमाणादेवोत्पत्तिः सिध्यतीत्यर्थः । 'जयायानाकाशात्' इत्यादिश्षुत्या व श्रह्मणो निरतिशयमहस्वं सिद्धमित्याशयेन कलितमाह-अत इति। अत प्वेति। त्रिविधपरिच्छेदशून्यत्वादेवेत्यर्थः । निरतिशयमिति। त्रैक्ालिकबा घशूनसत्वलक्षणमित्यर्थः ॥

हत्थं सृष्टिवाक्यतात्पर्यार्थमानन्त्यं निरुप्याक्षराणि व्याचष्टे-तस्मा- दित्यादिना। यथालक्षितमिति। पगमृश्यत इत्यनुषक्रः। उर्ततं सर्वनाम- द्वयाथमनुवष्त्नेव वाक्यार्थमाह-यदित्यादिना। ननु प्रतीघ एवात्मशब्द- वाच्यत्वात्कथं ब्रह्मण आत्मशब्दवाच्यत्वसित्याशक्कयाह -- आत्मा हीति। सन् म्रह्म सर्वक्य भोक्तृषर्गख् आत्मा वास्तवं स्वरूपित्यर्थः । तत्र हि-शब्द- सूचितं मानमाह -- तत्सत्यमिति। आत्मेति। आत्मशब्दवाच्यमित्यर्थः । क्षाकाशस्य लक्षणं स्वरूपं चाह -- आकाशो नामेत्यादिना। तस्माच्चेति। चकार आत्मसमुच्चयार्थः । तथा च आकाशतादात्म्यापन्नादात्मनः सकाशा देव वायुः संभूत इत्यर्थः । एवमुन्तरत्रामि पूर्वपूर्वभूतसादात्स्यापम्रादुत्तरोस्त-

Page 223

आनन्दवली। १२३

आकाशगुणेन शब्देन द्विगुणः वायुः, संभूत इत्यनुवर्तते। वायोश्र स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणः अग्निः संभूतः । अग्नेः सेन रसगुणेन पूर्वेश् त्रिभिः चतुर्गुणा आपः संभूताः। अद्ः स्वेन गन्धगुणेन पूर्वेश्र- तुर्भि: पञ्चगुणा पृथिवी संभूता। पृथिव्याः ओषधयः । ओषधीभ्य: अन्नम्। अन्नात् रेतोरूपेण परिणतात् पुरुषः शिरःपाण्याद्याकृतिमान्। स वै एष पुरुषः अन्नरसमयः अन्नरसविकारः, पुरुपाकृतिभावितं हि सर्वेभ्योऽक्रेभ्यस्तेजःसंभूतं रेतो बीजम्। तस्माद्यो जायते, सोपि तथा पुरुषाकृतिरेव स्यात् ; सर्वजातिषु जायमानानां जनकाकृतिनियमदर्श- नात्। सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे च अविशिष्टे, कस्मात्पुरुष एव गृह्यते! प्राधान्यात्। किं पुनः प्राधान्यम्! कर्मज्ञानाधिकारः। पुरुष

रभूतस्योत्पत्तिरवगन्तव्या 'तदभिध्यानादेव तु' इत्यादौ तथा व्यवस्थापित- त्वादिति मन्तव्यम्। अभ्िशव्दस्तेजःसामान्यपरः । पृथिव्या इति। अन्न पश्चम्याः प्रकृत्यर्थत्वात्पूर्वत्रापि पश्चम्यः प्रकृत्यर्था एवेति मन्तत्यम । ओषधयः संभूताः, अम्नं संभूतम, पुरुषः संभूत इति सर्वत्र क्रियापदं द्रश्ट- व्यम। 'अझ्नातपुरुषः' इति वाक्योकतं पुरुषस्यान्नविकारत्वं व्यारयातुम 'म वा एषः' इत्युत्तरवाक्यं प्रवृत्तम अतो न पौनरक्त्यमिति मन्तव्यम्। रस- शब्दितस्य रेतसः पुरुषाकृतिनियामकत्वमाह-पुरुषाकृतीति। पितुः पुरु- षाकृत्या भातितं संस्कृतं सत पितुरक्रेभ्यः मकाशात्संभृतमित्यर्थः । तेज इति। सर्वेषामक्गानां सारभूतमित्यर्थः। तथा च श्रति :- 'यदेतद्रेतस्तदेतत्मर्वेभ्योSक्रे- भ्यस्तेजः संभूतम' इति। तस्मादिति। पुरुषाकृतिभाविताद्रेतोरूपाद्वीज।दि- त्यर्थः । पुरुषत्रह्णस्य तात्पर्य वक्तुमाक्षेपमवतारयति-सर्वेषामपीति । पश्चादीनामपीत्यर्थः । क्रमेण म्रह्मविकारत्वं ब्रह्मवंश्यत्व्रम। समाधत्े-प्राधा- न्यादिति। यदि प्राधान्यं भक्षणादिविषये तदा पश्चादीनामेव प्राधान्यं स्या- दित्याशयेन शङ्कते-कि पुनरिति। कर्मज्ञानाधिकारित्वमत्र प्राधान्यम, तब मनुष्यम्यैव न पश्चादीनामित्याह-कर्मेति। तदुक सूत्रकारेण --: मनुष्या-

Page 224

१२४ तैसिरीयोपनिषाि [भनु.

एव हि शक्तत्वादर्थित्वाव्च कर्मज्ञानयोरधिक्रियते, 'पुरुषे त्वेवाविस्तरा मात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीप्सति एवं संपन्नः अथेतरेषां पशू- नामशनायापिपासे एवाभिविज्ञानम्' इति श्ृत्यन्तरदर्शनात्। स हि पुरुषः इह विद्यया आन्तरतमं ब्रह्म संक्रामायेतुमिष्टः । तस्य च वाह्याका- रविशेषेष्वनात्मसु आत्मभाविताबुद्धिः अनालम्व्य विशेषं कंचित् सहसा आन्तरतमपत्यगात्मविषया निरालम्वना च कर्तुमशक्येति दृष्टशरीरात्म-

धिकारत्वात्' इति। अधिकारमेव साधयति- पुरुष एव हीति। हि-शब्द- सूचितान्हेतूनाह-शक्तत्वादर्थित्वाच्चेति। विधिनिषेधविवेकसामथ्योपेत- त्वाच्छास्त्रोक्तसवर्गादिफलार्थित्व संभवादित्यर्थः। अपर्युदस्तत्वादिहेत्वन्तर संग्रहार्थ- श्रकारः। पुरुषस्य यथोक्तसामर्थ्याद्युपेतत्वे श्रुतिमाह-पुरुषे त्वेवेति। ब्राह्म- ण्यादिजातिमति मनुष्यदेह एवाविस्तरामतिशयेन प्रकट आत्मा ज्ञानाद्यतिशय- वानित्यर्थः । एतदेवानुभवेन साधयति -- स हीत्यादिना। श्वस्तनं परेद्युर्भावि- नम्। लोको भोग्यः, तत्साधनमलोकः। मर्त्येन विनाशार्हेण ज्ञानकर्मादिसा- धनेनाक्षयं फलमामुमिच्छतीत्यर्थः । साधितं ज्ञानातिशयमुपसंहरति -- एवं संपन्न इति। येन ज्ञानाद्यतिशयेन पुरुषस् प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह -- अथेतरेषामिति। तेषां बुभुक्षादिविषयकज्ञानमेवास्ति न पूर्वो- क्मित्यर्थः । प्रकृतायामपि ब्रह्मविद्यायां पुरुषस्यैवाधिकारित्वाच्चात्र पुरुषग्रहण- मित्याशयेनाह-स हीति। ननु यद्यत्र सर्वान्तिरं ब्रह्म प्रापयितुमिष्टः पुरुषस्ताह तं प्रति तादृशब्रह्मोपन्यास एवोत्तरसंदर्भे कार्यो न कोशोपन्यास इत्याशङ्कच तदुपन्यासस्य तात्पर्यमाह- तस्य चेति। विद्याधिकारिण: पुरुषस्येत्यर्थः। चकारोवधारणार्थः सन्सप्रम्या संबध्यते। चिदात्मापेक्षया बाह्या येSचिदात्मान: कल्पिताकारविशेषा: कोशास्तेष्वेवानात्मस्वनादिकालमा- रभ्याहमित्यात्मत्वभावनोपेता बुद्धि: कंचिदुपायविशेषमनालम्व्य सहसा सर्वा- न्तरप्रत्यगात्मविषया पूर्वमात्मत्वेन गृहीतकोशरूपालम्बनशून्या च कर्तुमशक्येति कृत्वा प्राणमयादिषु शिरआदिमश्वेन दृष्टस्थूलशरीरसाम्योपन्यासेन अन्योइन्तर

Page 225

१.] १२५

सामान्यकल्पनया शाखाग्रचन्द्रदर्शनवदन्तः प्रवेशयन्नाह -- तस्येदमेव शिरः। तस्य पुरुषस्यान्नरसमयस्य इदमेव शिरः प्रसिद्धम्। प्राणमयादि- ष्वशिरसां शिरस्त्वदर्शनादिहापि तत्मसङ्गो मा भूदिति इदमेव शिर इत्यु- च्यते! एवं पक्षादिपु योजना। अर्य दक्षिणो वाहुः पूर्दाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो वाहुः उत्तरः पक्षः। अयं मध्यमो देहभागः आत्मा अङ्गानाम्, 'मध्यं ह्येपामङ्गानामात्मा' इति श्रुतेः । इदमिति नाभेरधस्ताद्दङ्गम्, तत् पुच्छम्, प्रतिष्ठा प्रतितिष्ठत्यनयेति प्रतिष्ठा। पुच्छमिव पुच्छम्, अधोलम्वनसामान्यात्, यथा गो: पुच्छम्। एतत्म-

आत्मान्योऽन्तर आत्मेत्यादिनान्तः प्रवेशयन्नाहेत्यर्थः । यथा लोके चन्द्रं बुबो. धयिषुः शाखाम्रमालम्व्य बोधयति 'शाखाम्रं चन्द्रः' इति सच बोद्धा दिगन्तरा णि त्यक्त्वा शाखापं पश्यन् तह्वारा चन्द्रं पश्यति, तद्वदन्रमयादिषु कोशेषु क्रमेणात्मत्वेनोपदिष्टेषु सत्सु बाह्ये पुत्रादौ पूर्वपूर्वकोशे चात्मत्वबुद्धिं क्रमेण परि- व्यज्य सर्वकोशाधिष्ठानभूतं सर्वान्तरं ब्रह्माहमस्मीति प्रतिपद्यते मुमुक्षुरित्यर्थः। व्रक्मविद्योपायविशेषत्वेन कोशपरम्परा शाखात्रस्थानीयोपदिश्यत इति दष्टान्त दार्ष्टान्तिकयो: संगतिः। एवं कोशेषु पक्षपुच्छादिमत्त्वोपन्यासात्सुपर्णांकारत- योपास्तयो विधीयन्ते। ता अप्युपास्तयश्चित्तिकाय्र्यद्वारा ब्रह्मविद्याशेषभूता एव न स्वतन्त्रा:। तासु फलश्रवणं प्रयाजाद्यङ्गवाक्येषु फलश्रवणवदर्थवादमा- त्रमित्यादिकं वार्ततिकादौ द्रष्टव्यमिति संक्षेपः । अन्नमयस्य प्रसिद्धं शिर एव शिर इत्यत्रावधारणस्य तात्पर्यमाह-प्राणमयादिष्वििति। एवमिति। अय- मेव दक्षिणः पक्ष इत्यादिप्रकारेणान्नमयपर्याये सर्वत्रावधारणं योजनीयमि- त्यर्थः। ननु बाह्वोर्दक्षिणत्वादेरनियतत्वात्क्थं दक्षिणो बाहुरित्युच्यते? तत्राह- पूर्वाभिमुखस्येति। श्रौतस्मार्तेषु कर्मसु पूर्वाभिमुखत्वस्यौत्सर्गिकत्वादिति भावः। आत्मेति। अयं मध्यमो देहभागोडङ्गानामात्मेत्यवगन्तव्यमित्यत्र श्रुत्य- न्तरमाह-मध्यं हीति। मध्यमभागस्य सर्ताङ्गस्पर्शितया सर्वाङ्गव्यापकत्व- रूपमात्मत्वं तस्य युक्तकमिति हि-शब्दार्थः । प्रतिष्ठापदं स्थितिसाधनत्वं वददा- धारपरमित्याह-प्रतितिष्ठतीति। नाभेरधोभागे पुच्छदृष्टिकरणे इवशब्दसं-

Page 226

१२१ तैसतिरीयोपनिषदि [भनु.

कृत्य उत्तरेषां प्राणमयादीनां रूपकत्वसिद्धि:, मृषानिषिक्तष्ठुतताम्रादि प्रतिमावत्। तदप्येष श्लोको भवति। तत् तस्मिन्नेवार्ये ब्राह्मणोक्ते अम्- मयात्मप्रकाशक: एष श्रोकः मन्त्रः भवति ॥

इति प्रथमानुवाकभाष्यम्।।

गृहीतं सामान्यमाह-अधोलम्वनेति। एतत्प्रकृत्येति। अन्नमयस्य पुरुष- विधत्वं शिरआविमत्वलक्षणं प्रकृत्य 'तस्य पुरुषविधताम्, अन्वयं पुरुष- विधः' इति वक्ष्यमाणं पुरुषविधत्वं प्राणमयादीनां सिध्यतीत्यर्थः । मूषेति। अन्तः प्रतिमाकारच्छिद्रवती मृन्मयी प्रतिकृतिमूषा, तस्यां निषिकं द्रुतं वाब्रा- दिकं यथा प्रतिमाकारं भवति, तथा शिरआदिमत्यन्नमयकोशेऽन्तर्व्याव्य बिथ्व- मानं प्राणमयादिकमपि तदाकारं भवतीत्यर्थः । अन्नान्नमयकोशस्य विराबात्म नोपास्यत्वं विवभ्ितमिति मत्वा विराडात्मन्यन्नमयकोशे मन्त्रमवतारयति- तदप्येष इति।

आानव्द्वहर्या प्रथमोऽनुबाक:॥

Page 227

द्वितीयोऽनुवाकः॥

अन्नाद्वै प्रजाः प्रजायन्ते। याः काश्च पृथि- पीर श्रिताः । अथो अन्नेनैव जीवन्ति। अथैन- दपि यन्त्यन्ततः । अन्न५ हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते। सर्व वै तेऽन्नमाप्नुवन्ति। येऽन्नं ब्रह्मोपासते। अन्न५ हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । अन्नाद्द्ूतानि जायन्ते । जातान्यन्नेन वर्धन्ते। अद्यतेऽत्ति च भूतानि। त- स्मादन्नं तदुच्यत इति। तस्माद्वा एतस्मादन्नर- समयात्। अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्त पुरुषविध- ताम्। अन्वयं पुरुषविधः। तस्य प्राण एव शिरः। व्यानो दक्षिणः पक्षः। अपान उत्तरः पक्षः। आ० काश आत्मा। परृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥ १ ॥

इति द्वितीयोऽनुवाक:।

Page 228

१२८ तैत्तिरीयोपनिषदि [अनु.

अन्नात् रसादिभावपरिणतात्, वै इति स्मरणार्थः, प्रजाः स्थावर- जङ्गमाः, प्रजायन्ते। याः काश्च अवशिष्टाः पृथिवीं श्रिताः पृथिवीमा- श्रिताः, ताः सर्वा अन्नादेव प्रजायन्ते। अथो अपि, जाताः अन्नेनैव जीवन्ति प्राणान्धारयन्ति, वर्धन्त इत्यर्थः । अथ अपि, एनत् अन्नम्, अपियन्ति अपिगच्छन्ति, अपि-शब्दः प्रतिशब्दार्थे, अन्नं प्रति लीयन्त इत्यर्थः; अन्ततः अन्ते जीवनलक्षणाया वृद्धे: परिसमाप्तौ। कस्मात्? अन्नं हि यस्मात् भूतानां पाणिनां ज्येष्ठं प्रथमजम्। अन्नमयादीनां हि इतरेषां भूतानां कारणमन्नम्; अतः अन्नप्रभवा अन्नजीवना अन्नप्रलयाश्च सर्वा: प्रजाः। यस्माच्वैवम्, तस्मात् सर्वोषधं सर्वमाणिनां दाहमशमन- मन्मुच्यते। अन्नव्रह्मविदः फलमुच्यते -- सर्वे वै ते समस्तमन्रजातम् आमु- वन्ति। के? ये अन्नं ब्रह्म यथोक्तम् उपासते। कथम्! अन्नजोऽन्नात्मा-

अन्नादिति। विराडात्मकादित्यर्थः। स्थावरेति। व्यष्टयन्नमयकोशा इत्यर्थः । कदा लीयन्त इत्याकाङ्कायामाह- अन्त इति। विराजोऽस्मदादि- कारणत्वे हेतुपरमन्नं हीति वाक्यं हि-शब्दयोगादिति मत्वा तदाकाङ्कापूर्वकम- बतार्य व्याचष्टे-कस्मादित्यादिना। अन्नशब्दितस्य विराजः प्रथमजत्वे फलितमाह-अन्नमयादीनां हीति। प्राणमयादीनामन्नविकारत्वाभावेऽप्य- त्नोपचितत्वमस्तीति मत्वात्रादिपद प्रयुक्तम्। अन्नं विराडात्मकं यतः प्रथम- मेव जातं सत्स्वव्यतिरिक्तानां भूतानां कारण कारणत्वयोग्यम् अतोऽन्नप्रभ- घा इत्यर्थः । प्रथममुत्पन्नस्य पश्चादुत्पद्यमानकार्य प्रति कारणत्वयोग्यतासं- भवसूचनार्थों हि-शब्दः। यस्माच्चैवमिति। चोडवधारणे। यस्मादन्नजीवना एव प्रजाशब्दवाच्या: प्राणिन इत्यर्थः । दाहेति। जाठरकृता क्षुद्दाहः, सत्प्रशामकमित्यर्थः ॥ उत्तरवाक्यतात्पर्यमाह-अन्नब्रह्मविद इति। ननु कथमन्नस्य ब्रह्मत्वं लथं वा तद्गुपासनमिति पृच्छति- कथमिति। उत्तरम्- अन्नज इत्यादि।

Page 229

२.] आनन्दवल्ली। १२९

स्रमलयोऽहम्, तस्मादन्नं ब्रह्म इति। कुतः पुनः सर्वान्नमाप्तिफलमन्ना- त्मोपासनमिति, उच्यते -- अन्नं हि भूतानां ज्येष्ठं भूतेभ्यः पूर्व निष्पन्न- त्वाज्ज्येष्ठं हि यस्मात्, तस्मात्सवौषधमुच्यते; तस्मादुपपन्ना अन्नात्मो पासकस्य सर्वान्नपाप्तिः । अन्नान्भूतानि जायन्ते, जातान्यन्नेन वर्धन्ते इति उपसंहारार्थ पुनर्वचनम्। इदानीमन्नशब्दनिर्वचनमुच्यते -- अद्यते भूतैः अत्ति च भूतानि यस्मात्, तस्मात् अन्नं तत् उच्यते। इतिशब्द:

यस्मादभनं प्रथमकोशजातस्य जन्मस्थितिप्रलयकारणं तस्मादन्नं ब्रह्म, तच्चान्नात्मकं ब्रह्माहमस्मीति चिन्तयेत्, उपास्यविराड्देवभावापत्ति विना सर्वान्नप्राध्यसंभ- वात् देवभावस्य चाहंग्रहं विना प्रापतुमशक्यत्वादित्यर्थः । अन्नं हीति पुनर्वच- नमन्नत्रह्मविदः सर्वान्नप्राप्तौ हेतुपरमिति मत्वा तद्वतारयति- कुतः पुन- रिति। अन्नस्य ज्येष्ठत्वे हेतुमाह -- भूतेभ्य इति। भूतेभ्यः पूर्व निष्पन्नत्वा- दन्नं ज्येष्ठम्, तच्च ज्येष्ठमन्नं हि यस्माद्गूतानां जन्मजीवनादिकारणं तस्मादन्नं सर्वोषधमुच्यते लोकैरिति योजना। अनेन हि पुनर्वचनेन अन्नदेवतात्मनो विराज: स्वकार्येषु सर्वप्राणिषु व्याप्तिस्तात्पर्येण प्रतिपाद्यते लोके कारणस्य मृदादे: कार्येषु व्याप्तेः प्रसिद्धत्वात्। सा च व्याप्तिर्विराडात्मभावमापन्नस्या- न्रत्रह्मविदः सर्वप्राण्यात्मना सर्वान्नात्तृत्वे हेतुर्भवतीति मत्वाह- तस्मादिति। अन्नब्रह्मविदो विराडात्मना सर्वप्राणिव्यापित्वादित्यर्थः । अस्य पुनर्वचनस्याय- मभिप्रायो वार्ततिके स्पष्टमभिहित :-- 'कार्य सर्वे यतो व्याप्तं कारणेनात्तरू- पिणा। इति हेतूपदेशाय त्वन्नं हीत्युच्यते पुनः' इति। ननु 'अन्नाद्वै प्रजाः प्रजायन्ते इत्युक्तत्वात्पुनः 'अन्नाद्भूतानि जायन्ते' इत्यादिवचनं व्यर्थ- मित्याशककयाह-उपसंहारारथमिति। अद्यत इत्यादेस्तात्पर्यमाह-इदा-

धानार्थमिति मन्तव्यम्। यस्मात्प्रकृतं त्रीहियवादिलक्षणं वस्तु भूतैरद्यते तस्मादन्नशब्दवाच्यं भवति, यस्माच्च तद्दूतान्यत्ति संहरति तस्मादृपि तद- न्नमुच्यते; अन्नस्य चापध्यादिरूपस्य प्राणिसंहारसाधनत्वं लोके प्रसिद्धमिति मन्तव्यम्। इत्थमन्नमयकोशं निरूप्य तस्यानात्मत्वसिद्धये प्राणमयकोशवा- 'T. 17

Page 230

१३० तैत्तिरीयोपनिषदि [अनु

प्रथमकोशपरिसमाप्त्यर्थः । अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्यः अभ्यन्तरतमं ब्रह्म विद्यया प्रत्यगात्मत्वेन दिदर्शयिषु शास्त्रम् अविद्या- कृतपश्चकोशापनयनेन अनेकतुषकोद्रववितुषीकरणेनेवें तत्तण्डुलान् पस्तौ- ति -- तस्माद्वा एतस्मादन्नरसमयादित्यादि। तस्माद्वा एतस्मात् यथो- क्तात् अन्नरसमयात्पिण्डात् अन्यः व्यतिरिक्तः अन्तरः अभ्यन्तरः आत्मा पिण्डवदेव मिथ्यापरिकल्पित आत्मत्वेन प्राणमयः, प्राणः वायुः, तन्मयः तत्मायः। तेन प्राणमयेन एषः अन्नरसमय आत्मा पूर्णः वायु-

क्यप्रवृत्तिः; एवमुत्तरत्रापीति तात्पर्यमाह -- अन्नमयादिभ्य इति। आत्म- भ्य इति। कल्पितात्मभ्य इत्यर्थः । अत एवाह -- अविद्याकृतेति। यथा लोकोऽनेकतुषकोद्रववितुषीकरणेन कोद्रवतण्डुलान्दर्शयितुं प्रवर्तते तथा प्र०

अन्तरतमं ब्रह्म कोशापनयनशद्दितविवेकजनितया विद्यया प्रत्यक्तया दर्शयितुमिच्छु शास्त्रं प्रस्तौति प्रवर्तत इत्यर्थः । तस्माद्वा एतस्माध- थोक्तादिति । अत्र 'अन्नाद्वै प्रजाः प्रजायन्ते' इत्यादौ दूरदेशे भू- तकारणत्वेन प्रकृतं विराजं वै-शब्देन स्मारितं तस्मादित्यनेनानूद्य एत- स्मादित्यनेनान्नमयकोशस्य विराडात्मत्वं प्रबोध्यते। एवमुत्तरत्रापि। तदुक्तं वार्त्तिके- 'वैशवदेनैत्र संस्मार्य दवीयोदेशवर्तिनम्। तस्माच्छब्देन वैराजमा- दायाध्यात्मरूपिणः । एतस्मादिति शब्देन वैराजत्वं प्रबोध्यते। कार्याणां कार- णात्मत्वमेवं स्यादुत्तरेष्तपि' इति। कार्याण्याध्यात्मिकाः कोशाः, तेषां विराडा-

न्दमयपर्याये तु तदेतच्छब्दयोरुक्तार्थपरत्वेपि न चिन्तनविवक्षास्ति, किं त्वथ्या-

विवेकमात्रं विवक्षितम्; तत्पर्याये पक्षपुच्छादिकल्पनस्यान्यदेव प्रयोजनमिति वक्ष्यते। यथोक्तादित्यस्य सुपर्णाकरेणोक्तादित्यर्थः । आत्मत्वेन परिकल्पित इति योजना। वायुरिति। अत्र हिरण्यगर्भोपाधिभूते समष्टिकारणात्मनि क्रिया- शक्तिमदंशः प्राणो विवक्षित इति मत्त्रा वायुरित्युक्तम्। तत्रैव ज्ञानशक्तिमदं-

Page 231

२.] आनन्दवल्ली। ३१

नेव इतिः। स वा एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव शिर:पक्षादिभिः। कि स्वयमेव? नेत्याह- प्रसिद्धं तावदन्नरसमयस्या- त्मनः पुरुषविधत्वम्; तस्य अन्नरसमयस्य पुरुषविधताम् अनु अयं प्राण- मयः पुरुषविधः मूषानिषिक्तपतिमावत्, न स्वत एव। एवं पूर्वस्य पूर्वस्य पुरुषविधतामनु उत्तरोत्तर: पुरुषविधो भवति, पूर्वः पूर्वश्रोत्तरेणोत्तरेण पूर्णः। कथं पुरुषविधतास्य? उच्यते -- तस्य प्राणमयस्य वायुविका रस्य प्राण: मुखनासिकानिःसरणो वृत्तिविशेषः शिर इति कल्प्यते वच- नात्। सर्वत्र वचनादेव पक्षादिकल्पना। व्यानः व्यानवृत्तिः दक्षिणः पक्षः। अपानः उत्तरः पक्षः । आकाश आत्मा, य आकाशस्थो वृत्ति- विशेषः समानाख्यः, स आत्मेव आत्मा, प्राणवृत्त्यधिकारात्। मध्यस्थ-

शभूतं समष्टथन्तःकरणं मनोमय इत्यत्र मनःशब्दार्थ इत्यपि बोध्यम्। तत्पाय इति। तद्विकार इत्यर्थः । अत एवानुवादावसरे वक्ष्यति-वायुविकारस्येति। प्राणमयस्यान्नमयं प्रत्यात्मत्वं तद्वयापित्वादित्युपपादनार्थम् 'तेनैष पूर्णः' इत्यु- कम्। तत्र प्राणेन देहो व्याप्त इत्यत्रानुरूपं दृष्टान्तमाह -- वायुनेवेति। शिर:पक्षादिभिरिति। शिर:पक्षपुच्छादिकल्पनालम्बनभूतैरवयवैः पुरुषा- कारः प्राण इत्यर्थः । ननु पश्चवृत्तेः प्राणस्यामूर्तत्वात्स्वयमेव तस्य पुरुषविध- त्वं न संभवतीति शङ्कते- किं स्वयमेवेति। 'तस्य पुरुषविधताम्' इति श्रुत्या परिहरति-नेत्याहेति। श्रुतिरिति शेषः । नन्वन्नमयस्य वा कथं पुरुषविधत्वम्: तत्राह -- प्रसिद्धमिति। प्राणमये उक्तं न्यायं मनोमया- दिष्वतिदिशति- एवमिति। कथं पुरुषविधतास्येति। अस्य प्राण- मयस्य यद्यपि पुरुषविधता सिद्धा तथापि कथं पक्षपुच्छादिकल्पनाप्रकार इत्यर्थः । वृत्तिविशेष इति। वृत्तिमतः प्राणस्यावयवित्वेन विवक्षितत्वादिति भावः । ननु प्राणवृत्तौ शिरस्त्वकल्पनायां किं नियामकम्? तत्राह- वच- नादिति। उत्तरत्रापि वचनमेव नियामकमित्याह-सर्वत्रेति। यद्वा सर्व- पर्यायेष्वपि वस्तुगत्या वचनमेव तत्कल्पने नियामकमित्याह-सर्वत्रेति।

Page 232

१३२ तैत्तिरीयोपनिषदि [अनु.

त्वादितराः पर्यन्ता वृत्तीरपेक्ष्य आत्मा; 'मध्यं ह्येषामङ्गानामात्मा' इति प्रसिद्धं मध्यस्थस्यात्मत्वम्। पृथिवी पुच्छं प्रतिष्ठा। पृथिवीति पृथिवी- देवता आध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात्। 'सैपा पुरुष- स्यापानमवष्टभ्य' इति श्रुत्यन्तरात्। अन्यथा उदानवृत्या ऊर्ध्वगमनं गुरुत्वात्पतनं वा स्याच्छरीरस्य। तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्य आत्मनः । तत् तस्मिन्नेवार्थे प्राणमयात्मविषये एष श्रोको भवति।।

इति द्वितीयानुवाकभाष्यम्।

आकाशपदेन शरीरमध्याकाशस्थसमानलक्षणायां कारणमाह- प्राणवृत्त्य- धिकारादिति। समानस्य मध्यभागत्वरूपात्मत्वकल्पनायां युक्तिमाह-मध्य- स्थत्वादिति। इतरा: पर्यन्ता वृत्तीरपक्ष्य मध्यस्थत्वात्समान आत्मेति योज- ना। ननु मध्यस्थस्यापि कथमात्मत्वम्? तत्राह-मध्यं हीति। पृथि- वीदेवतेति। न च प्राणवृत्त्यधिकाराविशेषात्पृथिवीशव्देनोदानग्रहणं न्या- य्यमिति वाच्यम्; प्रतिष्ठात्वलिङ्गविरोधेन प्रकरणस्यानादरणीयत्वात् । न ह्युदानवृत्तेरवृत्तिमन्तं प्राणमयं प्रति प्रतिष्ठात्वं संभवति। स्थितिहेतुत्वादिति। पृथिवीदेवताया आध्यात्मिकप्राणस्थितिहेतुत्वस्य श्रुत्यन्तरादवगतत्वादित्यर्थः । श्तावपानपदं प्राणमयकोशपरम्। अन्यथेति। देवताकृतावष्ठम्भनाभाव इत्यर्थः । उदानवृत्तेरूर्ध्वगमनहेतुत्वम् 'अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम्' इत्यादिश्रुत्यन्तरादेव सिद्धमिति मन्तव्यम्, उदानवृत्तेः कालविशेषापेक्षत्वेन सदोर्ध्वगमनप्रसक्त्यभावेडपि च्छिन्नकदलीस्तम्भादेरिव भूमौ पतनं वा प्रसज्यत इत्यर्थः ॥

इति तैत्तिरीयेपनिषद्धाष्यव्याख्यायां वनमालाख्यायाम् आनन्दवल्लयां द्वितीयोऽनुवाक: ॥

Page 233

तृतीयोऽनुवाकः॥

प्राणं देवा अनु प्राणन्ति। मनुष्या: पशवश्च ये। प्राणो हि भूतानामायुः। तस्मात्सर्वायुष- मुच्यते। सर्वमेव त आयुर्यन्ति। ये प्राणं ब्रह्मो- पासते। प्राणो हि भूतानामायुः। तस्मात्सर्वा- युषमुच्यत इति। तस्यैष एव शारीर आत्मा। यः पूर्वस्य। तस्माद्वा एतस्मात्प्राणमयात्। अन्यो- डन्तर आत्मा मनोमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरु- षविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः। सामोत्तर: पक्षः । आदेश आत्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥ १॥ इति तृतीयोऽनुवाकः॥ पाणं देवा अनु प्राणन्ति। अग्न्यादयः देवाः प्राणं वाय्वात्मानं माणनशक्तिमन्तम् अनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति,

तदात्मभूता इति। सूत्रात्मभूता इत्यर्थः । अग्न्यादिदेवानां सूत्रात्मवि- भूतितया तदात्मकतायाः शाकल्यब्राह्मणसिद्धत्वादिति मन्तव्यम्। यद्वा सूत्रा-

Page 234

१३४ तैत्तिरीयोपनिषदि [अनु.

प्राणनक्रियया क्रियावन्तो भवन्ति। अध्यात्माधिकारातु देवाः इन्द्रिया- णि प्राणमनु प्राणन्ति मुख्यमाणमनु चेष्टन्त इति वा । तथा मनुष्या: पशवश्च ये, ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति। अतश्च नान्नमये- नैव परिच्छिन्नेनात्मना आत्मवन्तः प्राणिनः। किं तर्हि? तदन्तर्गतमाण- मयेनापि साधारणेनैव सर्वपिण्डव्यापिना आत्मवन्तो मनुष्यादयः । एवं मनोमयादिभि: पूर्वपूर्वव्यापिभिः उत्तरोत्तरैः सूक्ष्मैः आनन्दमयान्तै-

त्मोपास्त्या तदात्मक्तां प्राप्ता इत्यर्थः । अथवा अस्मदादय इवाग्न्यादयो- डपि तदात्मभूता: क्रियाशक्तिमत्प्राणोपाधिकाः सन्त इत्यर्थः । देवशब्दस्य प्रसिद्धिमाश्रित्याग्न्यादिपरत्वमुक्तम्; इदानीमिन्द्रियपरो देवशब्द इति सयु- क्तिकमाह-अध्यात्माधिकारात्विति। तु-शब्दोऽवधारणार्थः सन्निन्द्रिया- णीत्यत्र संबध्यते। प्राणमयकोशाधिकारादित्यर्थः । मुख्यपाणमन्विति। त- स्मिभ्निरुद्धे इन्द्रियाणां प्रवृत्तयदर्शनादिति भावः । न केवलमिन्द्रियाणामेव प्राणाधीना चेष्ठा, अपि तु शरीरादीनामपीत्याह-तथा मनुष्या इति। 'प्राणं देवा अनु प्राणन्ति' इत्यादिना केवलदेहात्मवादो निरस्त इति तात्प- र्यमाह-अतश्चेति। प्राणाधीनचेष्टाकत्वाच्छरीराणामित्यर्थः । तस्य वस्तुतो- डनात्मत्वं सूचयति- परिच्छिन्नेनेति। आत्मशब्द: म्वरूपपरः । नन्वन्न- मयातिरिकं स्वरूपं नोपलभ्यत इति शङ्कते- किं तहीति। 'प्राणं देवा अनु प्राणन्ति' इत्यादिश्रुतिमाश्रित्याह-तदन्तर्गतेति। तस्य पिण्डव- त्परिच्छेदं व्यावर्तयन्साधारणपदं व्याचष्टे- सर्वपिण्डेति। सर्वपदमे- कैकस्यैव पिण्डस्यावयवसाकल्याभिप्रायम्। अथ वा सूत्रात्मरूपेण प्रा- णमयस्य सर्वपिण्डव्यापित्वमुक्तमिति मन्तव्यम्। एवमान्तरत्वेन निरूपणीय आत्मा प्राणमय एवेति शङ्कानिरासार्थमुत्तरकोशानामप्यात्मतामाह-एवं मनोमयादिभिरिति। अत्रापि प्राणमयाद्यन्तर्गतैरिति मनोमयादेविशेषणं द्रष्ट- व्यम्, तदन्तर्गतेति प्राणमयस्योक्तत्वात् प्रतिपर्यायं श्रुतावन्तरशब्दप्रयोगाब। तथा चोत्तरोत्तरकोशेषु पूर्वपूर्वापेक्षयान्तरत्वसूक्ष्मत्वव्यापित्व विशेषणानि तानि यत्र काष्ठां गच्छन्ति, स एव मुख्य आत्मेति ज्ञापनार्थानीति मन्तव्यम्।

Page 235

आनन्दवल्ली। १३५

शकाशादिभूतारब्धैरविद्याकृतैः आत्मवन्तः सर्वे प्राणिनः । यथानेकतुष- कोद्रवः, तथा स्वाभाविकेनाप्याकाशादिकारणेन नित्येनाविकृतेन सर्व- गतेन सत्यज्ञानानन्तलक्षणेन सर्वात्मना आत्मवन्तः; स हि परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति। माणं देवा अनु पाणन्तीत्या- घुक्तम् ; तत्कस्मादित्याह -- प्राणः हि यस्मात् भूतानां प्राणिनाम् आयुः जीवनम्, 'यावद्यस्मिञ्शरीरे माणो वसति तावदेवायुः' इति श्रृत्य- न्तरात्। तस्मात्सर्वायुषम्, सर्वेषामायुः सर्वायुः, सर्वायुरेव सर्वायुषम्,

अविद्योपाधिकस्यानन्दमयशव्दितजीवस्यापि प्रियादिविशिष्टत्वाकारेण कार्यत्वं मत्वाह-आकाशादीति। कोशानां स्व्कारणैराकाशादिभूतैः सह मिथ्या- त्वं सूचयति- अविद्याकृतैरिति। स्वतश्चैतन्यस्वरूपाणां प्राणिनामन्तर्बहि- भावेनावारकतया पञ्चकोशसद्धावे दष्टान्तमाह- यथेति। ननु अन्योऽन्तर आत्मा अन्योऽन्तर आत्मेति प्रकृत्य आन्तरत्वोक्तेरानन्दमये परिसमापनादान- नदमय एव परमात्मा, तथा च तस्याविद्याकृतत्वोक्तिरयुक्ता; नेत्याह- तथा स्वाभाविकेनापीति। स्वाभाविकत्वमकल्पितत्वम्। तत्र हेतुं सूचयति- आकाशादीति। सर्वकल्पनाधिष्ठानभूतेनेत्यर्थः । तस्य विनाशित्वपरिच्छिन्नत्व- परिणामित्वानि वारयति -- नित्येनेत्यादिना विशेषणत्रयेण। तस्य प्रकरणित्वं सूचयति -- सत्येति। आनन्त्यविवरणरूपाणि नित्येन सर्वगतेन सर्वात्मने- स्येतानि श्रीणि विशेषणानि। आत्मवन्तः मुख्यस्व्ररूपवन्तः । सर्वे प्राणिन इत्यत्र हेतुमाह-स हीति। 'अयमात्मा ब्रह्म' इत्यादिश्रुतिभिर्यथोक्तातमैव परमार्थत आत्मा प्रतीयते यत इत्यर्थः । अर्थादिति। ब्रह्मण्यानन्दमया- दान्तरत्वोक्त्यभावेऽपि तं प्रति ब्रह्मणः प्रतिष्ठात्वोक्तिसामर्ध्यादानन्दमयाद- व्यान्तरत्वं प्रतीयते; तत एतदपि पुच्छवाक्यनिर्दिष्टस्य ब्रह्मणो मुख्यात्मत्वम- प्यत्र कथितप्रायमेव भवति, तस्मान्नानन्दमयस्य मुख्यात्मत्वमिति भावः । तत्कस्मादित्याहेति। तन् प्राणस्य सर्वप्राणिचेष्ठाहेतुत्वं कस्मादित्याकाङ्काया- माहेत्यर्थः । प्राणस्य सर्वभूतजीवनहेतुत्वे कौषीतकिश्रुतिसंवादमाह- याव- अयस्पिम्चिति। 'तस्मात्सर्वायुषमुच्यते' इति वाक्येन प्राणस्य सर्वायुष्दे

Page 236

१३६ तैत्तिरीयोपनिषदि [अनु.

इत्युच्यते ; माणापगमे मरणप्रसिद्धेः! प्रसिद्धं हि लोके सर्वायुष्ं प्राण- स्य। अतः अस्माद्वाह्यादसाधारणादन्नमयादात्मनोऽपक्रम्य अन्तः साधारणं प्राणमयमात्मानं ब्रह्म उपासते ये 'अहमस्मि प्राणः सर्वभूता- नामात्मा आयुः, जीवनहेतुत्वात्' इति, ते सर्वमेव आयुः अस्मिँल्लोके यन्ति; नापमृत्युना म्रियन्ते पाक्पाप्तादायुप इत्यर्थः। शतं वर्षाणीति तु युक्तं सर्वमायुरिति, श्रुतिप्रसिद्धेः। किं कारणम् ?- प्राणो हि भूतानामायुः तस्मात्सर्वायुषमुच्यत इति। यो यद्ुणकं ब्रह्मोपास्ते, स

लोकप्रसिद्धिरुच्यत इत्यभिप्रेत्य तां विवृणोति-प्राणापगम इति। 'सर्व- मेव त आयुर्यन्ति' 'ये प्राणं त्रह्मोपासते' इति वाक्यद्वयमर्थक्रमेणावतार्य व्याचष्टे-अत इत्यादिना। प्राणमयस्यान्नमयं प्रत्यात्मत्वात्सर्वभूतायुष्दा- चेत्यतःशब्दार्थः । अस्मादित्यस्य चाक्षुषप्रत्यक्षसिद्धादित्यर्थः । असाधारणा- दिति। परिच्छिन्नादित्यर्थः । अपक्रम्येति। अपक्रमणमात्मत्वबुद्धिपरित्यागः ; तत्र हेतुत्वेन चाक्षुषत्वबाह्यत्वपरिच्छिन्नत्वविशेषणान्युपात्तानीति मन्तव्यम्। सर्वभूतात्मत्वं सूत्रात्मरूपेण बोध्यम्, तेन रूपेण प्राणमयकोशस्येहोपास्य- त्वात्। आयुद्टमुपास्यो गुण इति मत्वाह- आयुरिति। तस्य तद्गुणकत्वे हेतुः- जीवनहेतुत्वादिति। तद्धेतुत्वस्य श्रुत्यनुभवसिद्धत्वादित्यर्थः । प्रा- गिति। वर्तमानदेहारम्भसमये यावदायुः सप्तत्यशीत्यादिलक्षणं विधिना कल्पितं तावदायुः प्राप्तायुःशब्दार्थः । सर्वमायुरितीति। 'सर्वमेत्र त आयु- यन्ति' इत्यत्र सर्वशब्दसामर्थ्याच्छतं वर्षाणि यन्तीत्येव युक्तमित्यर्थः । परार्ध- संख्यां विहाय शतमित्यत्र हेतुमाह -- श्रुतिप्रसिद्धेरिति। 'शतायुः पुरुषः' इति श्रुतिप्रसिद्धेरित्यर्थः । आयुष्टगुणकोपासनया आयुरेव प्राप्तव्यमित्यत्न किं विनिगमकमिति पृच्छति- किं कारणमिति। श्रुतिरुत्तरमित्याशयेनाह- प्राणो हीति। नन्वत्र किं नियामकं सूचितं भवतीत्यत आह -- यो यद्ुण- कमिति। 'तं यथा यथोपासते तदेव भवति' इति न्यायेनायुद्टगुणकोपासना- दायुःप्राप्तिलक्षणं फलं युक्तमित्येवं विद्याफलप्राप्तौ हेतुसूचनार्थमिदम् 'प्राणो हि' इत्यादिपुनर्वचनमित्यर्थः । 'तस्यैष एव' इति वाक्यमानन्दमयो ब्रह्मेति

Page 237

३.] आनन्दवल्ली। १३७

तक्रुणभाग्भवतीति विद्याफलपाप्तौ हेत्वर्थ पुनर्वचनम् -- पाणो हीत्यादि। तस्य पूर्वस्य अन्नमयस्य एष एव शरीरे अन्नमये भवः शारीरः आत्मा। कः? य एप पाणमयः। तस्माद्वा एतस्मादित्याययुक्तार्थमन्यत्। अन्योन्तर आत्मा मनोमयः। मन इति संकल्पविकल्पात्मकमन्तःकरणम्, तन्मयो मनोमयो यथान्नमयः; सोडयं प्राणमयस्याभ्यन्तर आत्मा। तस्य यजुरेव शिरः। यजुरिति अनियताक्षरपादावसानो मन्त्रविशेषः; तज्जातीयव- चनो यजुःशब्दः; तस्य शिरस्त्वम्, प्राधान्यात्। प्राधान्यं च यागादौ संनिपत्योपकारकत्वात्, यजुपा हि हविर्दीयते स्वाहाकारादिना। वाच-

वदतां वृत्तिकाराणां मतेन व्याचष्टे -- तस्य पूर्वस्येति। अत एवानन्दमयाधि- करणे वृत्तिकारमते स्थित्वा आनन्दमयपर्यायस्थमिदं वाक्यं तस्य पूर्वस्येति पदयोरित्थमेव व्यवहितान्वयप्रदर्शनेन व्याख्यातमाचार्यैः । विवक्षितार्थस्तु- पूर्वस्यान्नमयस्य कल्पितखय यः परमार्थरूप आत्मा आकाशादिद्वारा तत्का- रणत्वेन प्रकृतः, एष एव तस्य 'अन्योन्तर आत्मा प्रागमयः' इति ब्राह्मणो- कस्य प्राणमयस्य मुख्य आत्मा; अस्य च शारीरत्वं शरीरे साक्षितयोपलभ्य- मानत्वादुपपद्ते; एवं च सति प्रकृतप्रधानपरामर्शकैत छब्द आत्मशब्दश्च मुख्यार्थो भवतः; वस्तुतः स्वरूपान्तरव्यवच्छेदकमवधारणं च संगच्छते; श- रीरस्वामित्वरूपं मुख्यशारीरत्वं प्राणमयेऽपि न संभवतीति मन्तव्यम्। अत एन वार्तिके यथाभाष्यमिदं वाक्यं योजयित्वा पश्चादियं योजना मुख्यत्वेन प्रदर्शिता-'सत्यादिलक्षणो वात्मा गौणो ह्यात्ण ततोऽपरः। सर्वान्तरत्वा- न्न्याय्येयं यः पूर्वस्येति हि श्रतिः' इति। एवमुत्तरपर्यायेष्वपि द्रष्टव्यमिति संक्षेपः । अन्यदिति। मनोमयपदव्यतिरिक्तमित्यर्थः । मयटो विकारार्थत्वे दष्टान्त :- यथेति। यजुःशन्दस्य प्रसिद्धमर्थमाह- यजुरितीत्यादिना। मन्त्रपदात्पूर्वे य इति शेषः । प्राधान्यादिति। शरीराङ्गाणां मध्ये शिरस इव वेदानां मध्ये यजुषः प्राधान्यादित्यर्थः। संनिपत्येति। यागादौ स्वरूपोपकार्यङ्गत्वादित्यर्थः । तदेव विवृणोति- यजुषा हीति। शस्त्रा- त्मिका ऋक् स्तोत्रात्मकं साम च स्तुतिद्वारा आरादुपकारकत्वादपधान- "T.18

Page 238

१३८ तैत्तिरीयोपनिषदि [भनु.

निकी वा शिरआदिकल्पना सर्वत्र। मनसो हि स्थानप्रयत्ननादस्वरवर्ण- पदवाक्यविषया तत्संकल्पनात्मिका तद्भाविता वृत्तिः श्रोत्रकरणद्वारा यजु:संकेतविशिष्टा यजुरित्युच्यते। एवम् ऋकू; एवं साम। एवं च मनोवृत्तिले मश्राणाम्, वृत्तिरेव आवर्त्यत इति मानसो जप उपपद्यते।

मिति भावः । ननु देवतोद्देशेन द्रव्यत्यागात्मकस्य यागस्य स्वरूपोत्पत्ति- रमन्त्रं विनापि संभवत्येव, परं त्वपूर्वीयस्य तस्य तेन विनोत्पत्तिर्न संभवति ; तथा च विवक्षितविवेकेन यजुषोपि ऋक्सामयोरिवादष्टार्थत्वपर्यवसानाद- जुष: प्राधान्यमसिद्धम्, प्रत्युत 'वेदानां सामवेदोऽस्म' इति भगवतोक्तत्वा- प्स्यैव प्राधान्यं युक्तमित्यस्वरसात्पूर्वोक्तां वस्तुगति स्मारयति- वाचनिकी वेति। ननु यजुःशब्दस्य शव्दराशिविशेषे प्रसिद्धत्वात्तस्य च शब्दराशिविशे- षस्य मनोमयकोशं प्रत्यवयवत्वाभावात्कथं प्रसिद्धयजुषि शिरस्त्वकल्पनम्, पूर्वोत्तरपर्यायेषु प्रायेण कोशावयवेष्वेव शिरस्त्वादिकल्पनादर्शनादित्याश- क्कय, तहि यजुरादौ मनोमयं प्रति शिरआदिदष्टिविधिबलादेव वेदानां मनोवृत्तिविशेषरूपत्वेन तद्वयवत्वं कल्प्यते प्रमाणभूतायाः श्रुतेरनतिश- ङवनीयत्वादित्याशयेनाह- मनसो हीत्यादिना । हि-शब्दः प्रसिद्धिद्योत- नार्थ: अवधारणार्थो वा। तथा च मनसोऽवयवत्वेन प्रसिद्धा वृत्तिरेव यजु- रित्युच्यत इति संबन्धः । तामेव वृत्ति विशिनष्टि-स्थानेत्यादिना। ता- ल्वादिस्थानेषु वाय्वभिघातानुकूलेन प्रयत्नेन जनितो यो नादो ध्वनिः तद्वय- ङ्वचा ये उदात्तादिस्वरयुक्ता वर्णाः ते च पदानि च वाक्यानि च विषया यस्यां वृत्तौ सा तथोक्ता। तत्संकल्पनात्मिकेति। तेषु वर्णपदवाक्येषु पूर्वो- कानियताक्षरपादावसानत्वसंकल्परूपेत्यर्थः । तद्भावितेति। यजुर्वेदोऽयमित्या- कारोपेतेत्यर्थः । श्रोत्राख्यं करणं द्वारं यस्या: सा तथोक्ता। प्रथमं शब्दराशि- विशेषे गृहीतोऽपि संकेतः पश्चात्तद्विषयकवृत्तिविशेषविषयतया कल्प्यते, यथा प्रथमं चक्षुरादिशब्दानां गोलकेषु गृहीतोऽपि संकेतस्तदतिरिक्तचक्षुरादीन्द्रिय- विषयतया पश्चात्कल्यते तद्वदित्याशयेनाह -- यजुःसंकेतविशिष्टेति। यजुष इव ऋगादेरपि तुल्यन्यायतया मनोवृत्तिविशेषरूपत्वमाह -- एवमिति।

Page 239

३.] आनन्दवल्ली। १३९

अन्यथा अविषयत्वान्मत्रो नावर्तयितुं शक्यः घटादिवत् इति मानसो जपो नोपपद्यते। मश्रावृत्तिश्वोदते बहुशः कर्मसु। अक्षरविषयस्मृत्या- वृत्या मश्रावृत्तिः स्यात् इति चेत्, न ; मुख्यार्थासंभवात्। 'त्रिः प्रथमा- मन्वाह त्रिरुत्तमाम्' इति ऋगावृत्तिः श्रूयते। तत्र ऋचोऽविषयत्वे तद्विष- यस्मृत्यावृत्तौ च क्रियमाणायाम् 'त्रिः प्रथमामन्वाह' इति ऋगावृत्तिर्मु- ख्योऽर्थश्रोदितः परित्यक्तः स्यात्। तस्मान्मनोवृत्युपाधिपरिच्छिन्नं

ऋक्सामप्रहणमथर्ववेदस्याप्युपलक्षणम्। श्रुत्यनुग्राहिकां युक्तिमाह -- एवं चेति। एवंशब्दार्थमेवाह -- मनोवृत्तित्वे मन्त्राणामिति । अन्यथेति। तेषां मानसक्रियारूपत्वानुपगम इत्यर्थः। मन्त्रो नावतयितुं शक्य इत्यत्र हेतु :- अविषयत्वादिति। आवृत्तिविषयत्वादर्शनादित्यर्थः । मास्तु मन्त्रा- वृत्तिरिति वदन्तं प्रत्याह -- मन्त्रावृत्तिश्चोद्त इति। मन्त्राणां घटादिव- द्वाहयद्रव्यत्वे तेषामावृत्तिर्नोपपद्यते लोके क्रियाया एवावर्त्यत्वदर्शनात् अत आवृत्तिविध्यनुपपत्या मन्त्राणां क्रिरयात्वं वाच्यमित्युक्तम्। तत्रान्यथाप्युपपत्ति शङकते- अक्षरविषयेति। अन्यथोपपत्ति दूषयति -- न, मुख्यार्थेति। ननु कोडसौ मुख्यार्थः कथं वा तद्संभवप्रसङ्ग इत्याकाङ्कायामाह-त्रिः प्रथमा- मित्यादिना। तत्रोति। आवृत्तावित्यर्थः । अविषयत्व इति च्छेदः । नन्वे- वम् 'स्वाध्यायोऽध्येतव्यः' इत्यादौ वाचनिके जपे च मन्त्राणामुच्चारणं तदा- पृत्तिश्चावगम्यते; तेषां मनोवृत्तित्वपक्षे कथमुच्चारणकर्मत्वं संभवतिः तथा चाध्ययनविध्यादेर्मुख्यार्थपरित्यागप्रसङ्ग इति चेत्, न ; मानसजपविध्यनुसा- रेण मनोवृत्तिरूपवेदानामध्ययनादेर्वाह्यशब्दद्वारकतया गौणत्वोपपत्तेः । न पात्र विनिगमनाविरह इति वाच्यम; मानसजपस्य फलाधिक्यश्रवणेन तस्यैव मुख्यताया न्याय्यत्वात्। अनेनैवाशयेन मानसो जपो नोपपद्यत इति प्रागु- कम्। वार्ततिकेऽप्येतदर्शितम् -- 'भूयोल्पीयःफलत्वं च बाह्यमानसयोर्जपे। अतो मानसमुख्यत्वमितरस्यास्तु गौणता' इति। नन्वस्मिन्पक्षे कथं वेदानां नित्यत्वनिर्वाह: वृत्तेः क्षणिकत्वादित्याशक्कां परिहरत्रुपसंहरति-तस्मादिति। वृत्तिविशेषानुगतं चैतन्यमेव वेदा इत्यर्थः । यया वृश्या बाह्यो वेदो विषयी-

Page 240

१४० तैत्तिरीयोपनिषदि [मनु.

आत्मविज्ञानं मन्त्रा इति। एवं च नित्यत्वोपपत्तिर्वेदानाम्। अन्यथा- विषयत्वे रूपादिवदनित्यत्वं च स्यात्; नैतद्युक्तम्। 'सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा जनानाम्' इति श्रुतिः नित्यात्मनैकत्वं ब्रुवती ऋगादीनां नित्यत्वे समञ्जसा स्यात्। 'ऋचोऽक्षरे परमे व्यो मन्यस्मिन्देवा अधि विश्वे निषेदुः' इति च मन्त्रवर्णः । आदेशः अत्र

क्रियते तद्वृ्त्त्यनुगतचैतन्येनापि स विषयीक्रियत इति प्रसिद्धवेदविषयकं चैत- न्यमेव मुख्यवेदश्चैतन्यख तदुपाधिभूतवृत्तेश्च कल्पिततादात्म्यसत्वाद्वेदानां सृष्टिप्रलयादिश्रवणं पूर्वोक्तावृत्त्यादिकं सर्वे चैतन्यस्यैव भवतीति न पूर्वग्रन्थ- विरोधोऽपीति भावः । येनाभिप्रायेण वेदानां चैतन्यरूपत्वमुपसंहारावसरे दर्शितं तमेवाभिप्रायं प्रपश्चयति- एवं चेति। चैतन्यरूपत्वे सतीत्यर्थः । वेदानां चैतन्यरूपत्वाविशेषेडप्युपाधिभूतवृत्तिभेदाद्यजुरादिभेद इत्यादिकमूह्यम्। अन्यथेति। अन्यथा मनोवृत्तिमात्रत्वे शब्दमात्रत्वे वा वेदानां विषयत्वश- बिदितं जडत्वं प्रसज्येत, सति च विषयत्वे रूपादिवदनित्यत्वं भवेदित्यर्थः । 'अतोऽन्यदार्तम्' इत्यादिश्रुत्या चैतन्यातिरिक्तस्य सर्वस्य विनाशित्वावगमा- दिति युक्तिसूचनार्थश्चकारः । तत्रेष्टापत्ति वारयति -- नैतद्युक्तमिति। एत- द्वेदानित्यत्वं न युक्तम् 'वाचा विरूप नित्यया' 'अनादिनिधना नित्या' इत्यादिश्रुतिस्मृतिविरोधप्रसङ्गादित्यर्थः । वेदानां चैतन्यरूपत्वे श्रुत्यन्तरम- नुकूलयति-सर्वे वेदा इति। यत्र चिदेकरसे आत्मनि एकम् ए- कतां गच्छन्ति स मानसीनः मनसि साक्षितया वर्तमानः सर्वेषां जनानाम् आत्मा वास्तवस्व्ररूपमित्यर्थः । ऋगादीनां कार्यत्वेनानित्यत्वेऽपि कार्यकारणयोस्तादात्म्यादेकं भवन्तीति वचनं कथचिदुपपद्यते; तेषां नित्य- त्वेन स्वरूपैक्ये तु जीवत्रह्मणोरिवैकत्ववचनं मुख्यार्थमेव भवतीत्याशयेनाह- समञ्जसेति। सर्वकारणत्वात्परमे विभुत्वादिभिर्व्योमसदशे अक्षरे नाशरहिते यस्मिन्व्रह्मणि देवा ब्रह्मादयः सर्वे अधिनिषेदुः उपरिभावेन स्थिताः, सर्वसं- सारास्परष्टे ब्रह्मणि स्वरूपत्वेन स्थिता इति यावत्; तथैव ऋचो वेदास्तस्मि- निस्थिता इति मन्त्रार्थः । अतिदेष्टव्यविशेषान्कर्तव्यविशेषान् इदमेवं कर्तव्य-

Page 241

₹.) आनन्दवल्ली। १४१

ब्राह्मणम्, अतिदेष्टव्यविशेषानतिदिशतीति। अथर्वणाङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणं च शान्तिकपौष्टिका दिप्तिष्ठा हेतुकर्मप्रधानास्तत्पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति मनोमयात्मपकाशकः पूर्ववत्॥

इति तृतीयानुवाकभाष्यम्।।

मिति अतिदिशति उपदिशतीत्यर्थः। ननु व्राह्मणं चेति ब्राह्मणस्यापि प्रतिष्ठा- त्वेन भ्रहणं न युक्तम् आदेशपदेन ब्राह्मणस्यात्मत्वेन समर्पितत्वादित्याशक्कष अत्र ब्राह्मणपदं तद्विशेषपरम् अतो नोक्तदोष इत्याशयेन ब्राह्मणमपि विशि- नष्टि-शान्तीत्यादिना। प्रधाना इति पुंलिङ्गनिर्देशो मन्त्रपदाभिप्रायः, तदिति निर्देश: पुच्छपदाभिप्राय इति विभागः । मनोमयात्मप्रकाशक इति। मनोमयावयवयजुरादिप्रकाशक इत्यर्थः ॥

इति तैत्तिरीयोपनिषद्धाष्यव्याख्यार्या वनमालाख्यायाम् आानन्दुवल्लर्या तृतीयोऽनुवाक: ॥

Page 242

चतुर्थोऽनुवाक:

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न विभेति कदाचनेति। तस्यैष एव शारीर आत्मा। यः पूर्वस्व। तस्माद्वा एतस्मान्मनोमयात्। अन्योऽन्तर आत्मा विज्ञान- मयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य श्रद्धैव शिरः। ऋतं दक्षिणः पक्षः। सत्यमुत्तरः पक्षः। योग आत्मा। महः पुच्छं प्रतिष्ठा। तद- व्येष श्लोको भवति ॥ १ ॥

इति चतुर्थोऽनुवाक:॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादि। तस्य पूर्वस्य प्राणमयस्य एष एव आत्मा शारीरः शरीरे माणमये भवः शारीर:।

तथा च यतश्चिदेकरसादानन्दान्मनसा सह वाचस्तमप्राप्य निवर्तन्ते सं ब्रह्मण: स्वरूपभूतमानन्दं मनोमयस्य शिर:पक्षादिरूप विद्वानुपासीनः कदापि न बिभेतीति योजना। यद्वा मनोमयात्मप्रकाशक इति भाष्यं यथाश्रुत- मेब। न चैवमत्रह्मस्वरूपस्य मनोमयात्मनः श्ोकप्रतिपाद्यत्रझ्मात्मत्वासंभवा- दसंगतिरिति वाच्यम्; अम्रह्मण्यपि तस्मिन्त्रह्मत्वमध्यारोव्य श्रोकप्रवृत्यु-

Page 243

४.] आनन्दवल्ली । १४३

कः१ य एष मनोमयः। तस्माद्वा एतस्मादिति पूर्ववत्। अन्योऽन्तर आत्मा विज्ञानमयः मनोमयस्याभ्यन्तरो विज्ञानमयः। मनोमयो वेदा- त्मोक्तः। वेदार्थविषया बुद्धिर्निश्रयात्मिका विज्ञानम्, तच्चाध्यवसायल- क्षणमन्तःकरणस्य धर्मः, तन्मयः निश्चयविज्ञानैः प्रमाणस्वरूपैर्निर्वर्तितः

पपत्तेः। न चारोपे निमित्तप्रयोजनयोरभाव इति वाच्यम; ब्रह्मविज्ञान- साधनत्वेन निमित्तेन तस्मिन्त्रह्मत्वारोपाभ्युपगमादारोपस्य चात्रोपास्यस्य मनोमयकोशस्य स्तुिरूपप्रयोजनसंभव्राच्च; तथा च वक्ष्यति- 'मनोमये चोदाहतो मन्त्रो मनसो ब्रह्मविज्ञानसाधनत्वात्तत्र ब्रह्मत्वमध्यारोप्येति'; तथा व अवाखानसगोचरब्रह्मत्वेन स्तुतस्य मनोमयस्य स्वरूपं यजुराद्यवयवोपेतं विद्वानुपासीनः सौत्रं पदं प्राप्य आनन्दमनुभवन्न बिभेति कदाचनेत्यध्याहारेण योजना। अथ वा मन्त्रे ब्रह्मण इति मनस एव निर्देशः। मनोमयकोशस्यान्नापर- म्रह्मदृष्टिभाक्त्वेन विवक्षितत्वात् वागाद्यगोचरत्वं च तस्यैव विशेषणम्, मनसः साक्षि प्रत्यक्षसिद्धस्याज्ञातत्वाभावेन शब्दगम्यत्वाभावात् स्वस्य स्वविषयत्वाभा- वेन मनोगोचरत्वाभावाथ। तथा च अवाऊ्मनसगोचरस्य मनोमयाख्यस्य ब्र. झणः स्वरूपं विद्वान् क्रमेणानन्दं प्राप्य न बिभेतीति योजना पूर्ववदेव द्रष्टव्या। वेदात्मनि मनोमय उक्ते सति वेदार्थस्य बुद्धिस्थत्व्राद्विज्ञानमय इत्यत्र वेदार्थ- ज्ञानमेव प्रकृत्यर्थ इत्याशयेनाह-वेदात्मोक्त इति। ननु मनोमयावयवत्वेन निर्दिष्टं यजुरादि तदवयवभूतवृत्तिविशेषानुगतं चैतन्यमेव नान्यदित्युक्तम्, तथा च वेदार्थविषयकं निश्चयरूपं विज्ञानमपि चैतन्यमेवेति विज्ञानमयोऽपि वेदात्मा स्यादिति मन्दशक्कां वारयति-तच्चेति। यद्वा वेदार्थगोचरविज्ञानस्यात्मघ- रमत्वाद्वक्ष्यमाणरीत्या तन्मयत्वमन्तःकरणस्य कथमित्याशङ्कय हेत्वसिद्धिमाह- तच्चेति। धर्म इति। अत्र प्रकृत्यर्थत्व्रेन विवक्षितं विज्ञानमन्तःकरणधर्म एव न चैतन्यमित्यर्थः । यद्वा अन्तःकरणस्यैव धर्मो नात्मनः तस्य कूटस्थनित्यत्वा- दित्यर्थः । तन्मय इति। ननु विज्ञानमयत्वं विज्ञानविकारत्वम्, तच्च कथ- मन्तःकरणस्य तद्धर्मिणश्चतुर्थकोशत्वेनात्र विवक्षितस्य संभवतीत्याशङ्गयाह- निश्चयेति। यद्यपि मनोमयकोशोऽ्यन्तःकरणमेव तथापि संशयधृत्त्यवस्थ-

Page 244

१४४ [अनु.

आत्मा विज्ञानमयः प्रमाणविज्ञानपूर्वको हि यज्ञादिः तायते। यज्ञादि- हेतुत्वं च वक्ष्यति श्लोकेन। तस्य निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु

मन्तःकरणं मनोमयः निश्चयवृत्त्यवस्थमन्तःकरणमेव विज्ञानमय इत्यवस्थाभे- देन भेद इति भावः। यद्वा केवलमन्तःकरणं मनोमयः तप्तायःपिण्डवच्चैतन्यता- दात्म्यापन्नं तदेव विज्ञानमय इति भेदः। प्रमाणस्व्ररूपैरिति। प्रमारूपैर्विज्ञा- नैर्विशेषणभूतैस्तद्विशिष्टतया निर्वर्तितो निष्पादितोऽन्तःकरणात्मा धर्मी विज्ञान- मयशब्दवाच्यतामापन्नः सन्मनोमयस्याभ्यन्तर आत्मा भवतीत्यर्थः । विशिष्ठ- रूपस्य विशेषणायत्तत्वानुभवाद्विशिष्वस्य विशेषणविकारत्वं संभवतीति भावः । निश्चयरूपं वेदार्थविज्ञानमेव प्रकृत्यर्थ इत्यत्र हेत्वन्तरमाह- प्रमाणविज्ञाने- ति। तायते, तनोतेरिदं रूपम्; विस्तार्यत इत्यर्थः । ततः किम्? अत आह- यज्ञादीति। 'विज्ञानं यज्ञं तनुते' इति मन्त्रेण विज्ञानस्य यज्ञादिहेतुताया वक्ष्यमाणत्वादत्र ब्राह्मणडपि विज्ञानं यज्ञानुष्ठानहेतुवेदार्थज्ञानमेवेत्यर्थः । एतेन अन्नमयप्राणमयमनोमयशब्देषु प्रकृत्यर्थतया आधिदेविकानामन्नप्राणमनसां गृ- हीतत्वात् भृगुवल्ल्यां कोशवाक्यगतात्नप्राणमनोविज्ञानपदोपात्तानामाधिदैवि- कान्नादीनामिह प्रकृतिभिः प्रत्यभिज्ञायमानत्वाच्च विज्ञानमय इत्यत्र प्रकृत्यर्थ- तया निश्चयावस्थं समष्टथन्तःकरणमेव ग्राह्यम्, एवं सति मयडर्थभूत- विकारत्वमप्यस्मदाद्यन्तःकरणस्य मुख्यमेव संभवतीति शङ्का निरस्ता; अत्रै- कार्थविषयतया प्रवृत्तयोर्मन्त्रत्राह्मणयोः श्रतस्य विज्ञानपदस्यावश्यमेकार्थताया वर्तव्यत्वान्मन्त्रे च विज्ञानपदस्य वेदार्थज्ञानपरत्वस्य निश्चितत्वात् मन्त्रे णैव प्रकृत्यर्थस्यान्यथा व्याख्याने क्रियमाणे सति पूर्वोक्ताधिदैविकप्रायपाठा- देरकिंचित्करत्वादिति भावः । यद्वा विज्ञानपदस्याधिदैविकविज्ञानपरत्व- मुक्तप्रमाणसिद्धं कृत्वा वेदार्थविज्ञानपरतयापि व्याख्यानं संभवतीत्याश- येनास्य भाष्यस्य प्रवृत्तिरुपपादनीया, मन्त्रत्राह्मणयोरेककोशोपास्तिविषय- त्वमात्रेण संगत्युपपत्तेः; अत एव कोशवाक्यविवरणरूपयोर्भाव्यवार्त्तिक योस्तात्पर्यनिरूपणावसरे श्रीमदानन्दगिर्याचार्येरुक्म् -'अत्र प्राणो मनो विज्ञानं चेति प्रकृत्यर्थभूतं कोशत्यं सूत्रात्मरूपमन्नं विराठ् कोश आनन्दः कारणकोशः' इति। एतेन तुल्यन्यायतया आनन्दमय इत्यत्रापि प्रकृत्यर्थतया

Page 245

४.] आनन्दवल्ली। १४५

पूर्व या श्रद्धा उत्पद्यते सा तस्य सर्वकर्तव्यानां प्राथम्यात् शिर इव शिरः। ऋतसत्ये यथाव्याख्याते एव। योगः युक्ति: समाधानम् आत्मेव आत्मा। आत्मवतो हि युक्तस्य समाधानवतः अङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति। तस्मात्समाधानं योग आत्मा विज्ञान- मयस्य। महः पुच्छं प्रतिष्ठा। मह इति महत्तत्वं प्रथमजम्, 'महद्यक्षं

प्रियमोदादिग्रहणं व्याख्यानान्तराभिप्रायमेवेति सूचितं भवति। वस्तुतस्तु- भृगुवल्ल्यां पश्चमपर्याये सर्वभूतकारणत्वेन वक्ष्यमाणमानन्दरूपं ब्रह्मैव कारणत्वविशिष्टवेषेणानन्दमय इत्यत्र प्रकृत्यर्थः; 'आनन्द आत्मा' इ- त्यत्र च कारणत्वप्रयोजकमायोपहितत्ववेषेण तदेवानन्दपदार्थ इति सर्व- मनवद्यम्। तस्येति। वेदार्थनिश्चयवतो या पूर्व श्रद्धोत्पद्यते सा तस्य प्रकृतस्य विज्ञानमयस्य शिर इव शिर इति योजना। श्रद्धां विना वेदार्था- नुष्ठानं विफलमिति शास्त्रीयप्रसिद्धिसूचनार्थो विज्ञानवतो हीति हि-शब्दः । यथाव्याख्याते इति। 'ऋतं वदिष्यामि, सत्यं वदिष्यामि' इत्यत्र यथाव्या- खयाते एव ऋतसत्ये विज्ञानमयस्य दक्षिणोत्तरपक्षावित्यर्थः । समाधानमिति। समाधानं समाधिः, सच तस्य आत्मा मध्यकायः। तत्र दृष्टान्तः- आत्मेवेति। प्रसिद्धदेहमध्यकाय इवेत्यर्थः। समाधानस्य प्रसिद्धदेहमध्यकायस्य च किं साम्यम्: अत आह -- आत्मवतो हीति। यथा आत्मवत आत्मश- ब्दितमध्यकायवतः प्रसिद्धदेहस्याङ्गानि शिरआदीनि स्वकार्यक्षमाणि भवन्ति हि प्रसिद्धमेतत्, तथा मुमुक्षोर्युक्त्स्य श्रद्धा ऋतसत्यानि यथार्थश्दितब्रह्मप्रति- पत्तिरूपस्वकार्यक्षमाणि भवन्तीत्यर्थः । एतदुक्तं भवति- देहावयवानां मध्ये मध्यकायस्य प्राधान्यं ब्रह्मप्रतिपत्तिसाधनश्रद्धादीनां मध्ये समाधेः प्रा- धान्यमित्यनेन साम्येन समाधौ मध्यकायत्वदृाष्टिरत्र विवक्षितेति। एतच्च यत्र किंचिन्नियामकं संभाव्यते तत्र न त्यक्तव्यमित्याशयेनोक्तम्। वस्तु- गतिस्तु प्रागेवासकृद्दर्शिता वाचनिकी वा शिरआदिकल्पना सर्वलेति। मह- त्तत्वमिति। समष्ठयन्तःकरणाभिमानी हिरण्यगर्भ इत्यर्थः । हिरण्यगर्भस्य विराडपेक्षयापि प्रथममुत्पन्नत्वात्प्रथमजत्वम्। तत्र मानमाह-महद्यक्ष- *T. 19

Page 246

१४६ तैत्तिरीयोपनिषदि [अनु.

प्रथमजं वेद' इति श्रुत्यन्तरात्, पुच्छं प्रतिष्ठा कारणत्वात्। कारणं हि कार्याणां प्रतिष्ठा, यथा वृक्षवीरुधां पृथिवी। सर्वबुद्धिविज्ञानानां च महत्तत्वं कारणम्। तेन तद्विज्ञानमयस्यात्मनः प्रतिष्ठा। तदप्येष श्लोको भवति पूर्ववत्। यथा अन्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्रोका:, एवं विज्ञानमयस्यापि॥

इति चतुर्थानुवाकभाष्यम्।।

मिति। यक्षं पूज्यम्। ननु कारणत्वेपि क्थं प्रतिष्ठात्त्रम्! तत्राह-कारणं हीति। हि-शब्दसूचितां प्रसिद्धिमुदाहरणेन दर्शयति -- यथेति। नन्वस्म- दादिबुद्धिरूपाणां विज्ञानमयकोशानां हिरण्यगर्भः कारणं चेदस्तु तस्य प्रति- ष्ठात्वम्, तदेवासिद्धमित्याशङ्कयाह-सर्वबुद्धीति। 'आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत' इत्यादिशास्त्रेण हिरण्यगर्भस्य सर्वभूतकारणत्वमवगम्यते; न च भूतानां स्वतः कार्यत्वमस्ति; अतो भूतशब्दितजीवोपाधिभूतानां लिङ्गश- रीराणां ब्रह्मा कारणं सिद्धमिति भावः । फलितमाह- तेनेति। कारणत्वे- नेत्यर्थः। पूर्ववदित्युक्तं विवृणोति-यथेति। विज्ञानमयस्यापीति। प्रकाशकः श्रोको भवतीति शेष: ।l

इति तैत्तिरीयोपनिषद्धाव्यव्याख्यायां वनमालाख्यायाम् भानन्दवल्लयां चतुर्थोऽनुवाकः॥

Page 247

पञ्चमोऽनुवाकः॥

  • 8-

विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च। विज्ञानं देवा: सर्वे। ब्रह्म ज्येष्ठमुपासते। विज्ञानं ब्रह्म चेद्वेद। तस्माच्चेन्न प्रमाद्यति। शरीरे पाप्म- नो हित्वा। सर्वान्कामान्समश्रुत इति। तस्यैष एव शारीर आत्मा। यः पूर्वस्य। तस्माद्वा एत- स्माद्विज्ञानमयात्। अन्योऽन्तर आत्मानन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः । तस्य प्रिय- मेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्रह्म पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥१॥

इति पश्चमोऽनुवाकः ॥

विज्ञानं यज्ञं तनुते, विज्ञानवान्हि यज्ञं तनोति श्रद्धादिपूर्वकम् ; अतो

ननु विज्ञानं नाम वेदार्थविषयो निश्चय इत्युक्तम्, अतस्तस्य कथं कर्तृत्वनिर्देश इत्याशक्कथ, उपचारादित्याह- विज्ञानवान्हीति। 'य एवं विद्वान्यजत' इत्यादौ वेदार्थज्ञानवतो यज्ञादिकर्तृत्वं प्रसिद्धमिति सूचनार्थो

Page 248

१४८ तैत्तिरीयोपनिषदि [अनु.

विज्ञानस्य कर्तृत्वं तनुत इति । कर्माणि च तनुते। यस्माद्विज्ञानकर्तृकं सर्वम्, तस्माद्युक्तं विज्ञानमय आत्मा ब्रह्मेति। कि च, विज्ञानं ब्रह्म सर्वे देवा: इन्द्रादयः ज्येष्ठम्, प्रथमजत्वात्; सर्वपव्ृत्तीनां वा तत्पूर्वकत्वात्म- थमजम् , विज्ञानं ब्रह्म उपासते ध्यायन्ति, तस्मिन्विज्ञानमये ब्रह्मण्यभि- मानं कृत्वा उपासत इत्यर्थः । तस्मात्ते महतो ब्रह्मण उपासनात् ज्ञानैश्व- र्यवन्तो भवन्ति। तच्च विज्ञानं ब्रह्म चेत् यदि वेद विजानाति; न केवलं वेदैव, तस्मात् ब्रह्मणः चेत् न प्रमाद्यतति; वाह्येष्वप्यनात्मस्वात्मभावित-

हि-शब्द: । कर्माणि चेति। ळौकिकानीति शेषः, वैदिककर्मणां यज्ञशब्देन संगृहीतत्वात्। अत्र विज्ञानमयस्य मुख्यं लौकिकवैदिककर्मकर्तृत्वम्, विज्ञा- नस्य तु तदौपचारिकमिति व्यवस्था दर्शिता। स च विज्ञानमयो नानावि- धानि कर्माण्युपासनानि च कुर्वन्नपरत्रह्मवज्जगतः कारणं भवति। इयांस्तु विशेष :- विज्ञानमयो ह्यदष्टद्वारा कारणम्, अपरब्रह्म तु साक्षादेवेश्वरव- त्कारणमिति। तथा च 'विज्ञानं यज्ञं तनुते' इति वाक्योक्तं सर्वकर्मक- र्तृत्वं विज्ञानमयकोशे जगत्कारणत्वसाम्यसंपादनद्वारा अपरब्रह्मारोपे निमि- त्तमित्याशयेनाह- यस्मादिति। विज्ञानपदं कोशपरम्। इतश्च विज्ञानम- योSपरब्रह्माभेदेनोपास्य इत्याह- किंच विज्ञानमिति। विज्ञानमयमित्यर्थः । ज्येष्ठपदं कारणपरं वेत्याह-सर्वप्रवृत्तीनामिति। सर्वप्राणिचेष्टानां सूत्ररू- पव्रह्मकारणकत्वाद्वा ब्रह्म ज्येष्ठमित्यर्थः । ध्यायन्तीति। पूर्वजन्मनि यजमा- नावस्थायामिति शेषः । अभिमानमिति। अहंबुद्धिमित्यर्थः । पूर्व व्रह्मोपा- सनं देवैरनुष्ठितमित्यत्र देवत्वावस्थायां ज्ञानाधैश्वर्यदर्शनं लिङ्गमित्याशयेनाह- तस्मादिति। इदानीमुपासनविधिं दर्शयति- तच्च विज्ञानमिति। विज्ञान- मयमित्यर्थः । अन्र चेच्छव्दः प्रकृतोपासनदौर्लभ्यसूचनार्थः, कथंचिदुपासने प्रवृत्तावपि तत्र प्रमादसंभवस्यावश्यकत्वात्। अप्रमाददौर्लभ्यसूचनार्थो द्वि- तीयश्चेच्छब्दः । प्रमादप्रसक्तिमाह-बाह्येष्विति। विज्ञानमयापेक्षया बाह्या- नां मनोमयप्राणमयान्नमयानामपि पूर्वमात्मत्वेन भावितत्वादित्यर्थः । प्रमदन- मिति। विज्ञानमये ब्रह्मण्यात्मभावनायाः सकाशात्प्रमदनं नाम पूर्वकोशेषु

Page 249

4.] आनन्दवल्ली। १४९

त्वात्माप्तं विज्ञानमये ब्रह्मण्यात्मभावनायाः प्रमदनम्; अतः तन्निवृत्त्यर्थ- मुच्यते -- तस्माच्चेन्न प्रमाद्यतीति। अन्नमयादिष्वात्मभावं हिला केवले विज्ञानमये ब्रह्मण्यात्मलं भावयन्नास्ते चेदित्यर्थः । ततः कि स्यादिति, उच्यते -- शरीरे पाप्मनो हित्वा; शरीराभिमाननिमित्ता हि सर्वे पाप्मानः; तेपां च विज्ञानमये ब्रह्मण्यात्माभिमानात् निमित्तापाये हान- सुपपद्यते, छत्रापाय इव च्छायायाः। तस्मात् शरीराभिमाननिमित्तान्स- र्वान् पाप्मनः शरीरपभवान् शरीरे एव हित्वा विज्ञानमयब्रह्मस्वरूपापन्नः तत्स्थान् सर्वान् कामान् विज्ञानमयेनैवात्मना समश्ुते सम्यग्भुङ्के इत्यर्थः। तस्य पूर्वस्य मनोमयस्य आत्मा एप एव शरीरे मनोमये भवः शारीरः। कः! य एष विज्ञानमयः । तस्माद्वा एतस्मादित्युक्तार्थम् ॥

पुनरात्मभावनमित्यर्थः। फलितमाह -- अन्नमयादिष्व्रिति। सूक्ष्मशारीरा- भिन्ने ब्रह्मणि विषये क्रियमाणादुपासनात्पाप्महानं भवतीत्यत्र युक्तिमाह -- शर्रीराभिमाननिमित्ता हीति। मनुष्यत्वव्राह्मणत्वगृहस्थत्वादिधर्मवति शरीरे 'मनुष्योऽहम्' 'ब्राह्मणोऽहम्' 'गृहस्थोऽहम्' इत्याद्यभिमानं निमित्तीकृत्य मनुष्यादीनां प्रतिषिद्वैः कर्मभिः पाप्मानो भवन्ति। अत्रार्थे लोकवेदप्रसि- द्विद्योतको हि-शब्दः । ततः किम्? तत्राह -- तेषां चेति। चोऽवारणे। तेषां हानमुपपद्यत इति संबन्धः । विज्ञानमयन्रह्मण्येवाहमभिमानात्पाप्म- निमित्तस्य शरीरात्माभिमानस्यापाये सतीत्यर्थः । निमित्तापाये नैमित्तिका- पाय इत्यत्र दृष्टान्तमाह- छत्रापाय इति। एवं पाप्महानफलवचन- स्योपपत्तिमुक्त्वा तस्यार्थमाह -- तस्मादिति। शरीरात्माभिमानस्य निमि- त्तस्य निवृत्तत्वादित्यर्थः । शरीर एवेति। जीवद्दशायामेवेति यावत्। विज्ञानमयेनैवात्मनेति। इहैव साक्षात्कारेण विज्ञानमयब्रह्मस्वरूपापत्रो वि० द्वान्सर्वान्पाप्मनो हित्वा देहपातानन्तरं विज्ञानमयव्रह्मात्मभावेनैव स्थि- त्वा तल्लोकस्थान्सर्वान्भोग्याननुभवतीत्यर्थः ॥ अन्नानन्दमयः प्रकरणी पर एव न संसारीति केचित्; तान्प्रत्याह --

Page 250

१५० तैत्तिरीयोपनिषदि [अनु.

आनन्दमय इति कार्यात्मप्रतीतिः, अधिकारात् मयद्शब्दाच्च। अ- न्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः। तदधिकारपतितश्राय- मानन्दमयः । मयद् चात्र विकारार्थे दृष्टः, यथा अन्नमय इत्यत्र । तस्मा- त्कार्यात्मा आनन्दमयः प्रत्येतव्यः।संक्रमणाच्च।'आनन्दमयमात्मानमुप- संक्रामति' इति वक्ष्यति। कार्यात्मनां च संक्रमणमनात्मनां दृष्टम्। संक्र- मणकर्मत्वेन च आनन्दमय आत्मा श्रूयते, यथा 'अन्नमयमात्मानमुपसंक्रा- मति' इति। न चात्मन एवोपसंक्रमणम्, अधिकारविरोधात्, असंभवाच्च।

आनन्दमय इतीति। आनन्दमय इति पदेन कार्यात्मन एव प्रतीतिर्भवति न तु कारणस्य परमात्मन इत्यर्थः । यद्यप्यानन्दमयो न कार्यभूतः अविद्योपाधिकस्य जीवस्यानन्दमयत्वाभ्युपगमेनानादित्वात्, तथापि मयडर्थवर्णनावसरे तस्य प्रि- यमोदादिविशिष्टतया प्रकृत्यर्थभूतानन्दविकारत्वस्य वक्ष्यमाणत्वात्कार्यात्मेत्यु- क्तम्। अधिकारं विवृणोति -- अन्नादिमया हीति। तेषां कार्यात्मत्वं प्रसिद्ध- मिति हि-शब्दार्थः। नन्वानन्दमय इत्यत्न मयटः प्राचुर्यार्थकत्वाभ्युपगमान्न तस्य मयट्च्छत्या कार्यात्मत्वमित्याशङ्कय द्वितीयहेतुमपि विवृणोति- मयद् चेति। प्राचुर्यार्थत्वपक्षे प्राचुर्यस्य प्रतियोग्यल्पतापेक्षत्वादानन्दप्रचुरस्य ब्रह्मणो दुःखा- ल्पत्वमपि प्रसज्येत, तस्माद्विकारार्थ एव मयट् न प्राचुर्यार्थ इत्यर्थः । किं च विकारे प्राचुर्ये च मयटो विधानाविशेषात्संशये विकारार्थकमयटूप्रवाहपतितत्वा- द्विकारार्थकत्वमेवात्र निश्चीयत इत्याशयेनाह-यथेति। एवमनात्मप्रायपाठा- द्विकारार्थकमयट्च्छृतिबलाच्चानन्दमयः कार्यात्मेत्युपसंहरति-तस्मादिति। संक्रमणाच्चेति। आनन्दमयस्य संक्रमणं प्रति कर्मत्वश्रवणाच्च कार्यात्मत्वमि- त्यर्थः । हेत्वसिद्धिं परिहरति- आनन्दमयमिति। व्याप्तिमाह-कार्या- त्मनां चेति। चोवधारणे। अत्र प्रकरणे यत्र यत्र संक्रमणकर्मत्वं तत्र तत्र कार्यात्मत्वमेवेति व्याप्तिर्द्ृष्टेत्यर्थः । अनात्मनामिति। मुख्यात्मभिन्नानामन्न- मयादीनामिति यावत्। हेतोः पक्षधर्मत्वमाह-संक्रमणकर्मत्वेन चेति। तदेव दृष्टान्तेन साधयति- यथेति। आनन्दमयस्य संक्रमणकर्मत्वलिङ्गेना- ब्रह्मत्वमुक्तम्। विपक्षे बाधकं वदन्नप्रयोजकत्वशङ्कां निराकरोति-न चात्मन

Page 251

4.] आनन्दवल्ली। १५१

न ह्यात्मनैव आत्मन उपसंक्रमणं संभवति, स्वात्मनि भेदाभावात् ; आत्म- भूतं च ब्रह्म संक्रमितुः। शिरआदिकल्पनानुपपत्तेश्र। न हि यथोक्तलक्षणे आकाशादिकारणे अकार्यपतिते शिरआद्यवयवरूपककल्पना उपपद्यते। 'अदृश्येSनात्म्येऽनिरुक्तेऽनिलयने' 'अस्थूलमनणु' 'नेति नेत्यात्मा' इत्यादिविशेषापोहश्रुतिभ्यश्। मन्त्रोदाहरणानुपपत्तेश्र। न हि, प्रियशिर- आद्यवयववििष्टे प्रत्यक्षतोऽनुभूयमाने आनन्दमये आत्मनि ब्रह्मणि ना- स्ति ब्रह्मे त्याशङ्काभावात् 'असन्नेव स भवति असद्रह्मेति वेद चेत्' इति म-

एवेति। संक्रमितुरेवंविदः परब्रह्मस्वरूपत्वादानन्दमयस्यापि ब्रह्मत्वे स्वस्यैव स्वेनोपसंक्रमणमिति प्रस्ज्जेत, तच्च न युक्तमित्यर्थः । अधिकारेति। संक्रम- णकर्तुरेवंविदः सकाशादन्यस्यैवान्नमयादेः संक्रमणकर्मत्वं प्रकृतम्; अत्र स्वस्यैव स्वेनोपसंक्रमणाभ्युपगमे कर्तृकर्मणोर्भेदाधिकारविरोध इत्यर्थः । असंभवं विवृ- णोति-न हीति। एवंविद्धह्मणोर्भेदमाशङ्कचाह-आत्मभूतं चेति। अत्र संक्रमणं प्राप्तिर्बाधो वा, उभयथाप्यानन्दमयस्य ब्रह्मत्वे संक्रमणकर्मत्वायोगा- तकार्यात्मत्वमेवेति भावः । आनन्दमयस्य कार्यात्मत्वे हेत्वन्तरमाह- शिर आदीति। ननु ब्रह्मण्यप्युपासनार्थ शिरआदिकल्पनमुपपद्यत इत्याशङ्कयानु- पपत्तिमेव साधयति-न हि यथोक्तलक्षण इति। सत्यज्ञानानन्ताख्यस्व- रूपलक्षणवतीत्यर्थः। तटस्थलक्षणमप्याह- आकाशादीति। कार्यकोटिप्र- विष्ट एवान्नमयादौ शिरआदिकल्पनदर्शनाच्च तद्विलक्षणे ब्रह्मणि न तत्कल्पन- सुपपद्यत इत्याशयेनाह-अकार्यपतित इति। इत्थं मुमुक्षुज्ञेये निर्विशेषे ब्रह्म- ण्यनुपास्ये शिरआदिकल्पनमनुपपन्नम्, निर्विशेषत्वे च यथोक्तलक्षण इत्या- दिनोपक्रमस्वारखं प्रमाणत्वेन सूचितम्। तत्रैव वाक्यशेषं श्रुत्यन्तराणि च प्रमाणयति -- अदृश्य इत्यादिना। आनन्दमयः कार्यात्मा शिरआदिकल्प- नावस्वादन्नमयादिवत्, विपक्षे हेतूच्छित्तिरेव बाधिकेति निष्कर्षः । आन- न्दुमयस्य ब्रह्मत्वे विवक्षिते सति तद्विषयश्षोके तस्यैवासत्त्वाशङ्का वाच्या, साचन संभवति, अतो नानन्दमयो बरह्मेत्याह -- मन्त्रदाहरणेति। न हि मन्त्रोदाहरणमुपपद्यत इति संबन्धः । इतश्र नाननदमयो व्रद्मेत्याइ --

Page 252

१५२ तैत्तिरीयोपनिषदि [अनु.

न्त्रोदाहरणमुपपद्यते। 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यपि चानुपपन्नं पृथग्ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम्। तस्मात्कार्यपतित एवानन्दमयः, न पर एव । आनन्द इति विद्याकर्मणोः फलम्, तद्विकार आनन्दमयः। सच विज्ञा- नमयादान्तरः, यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः। ज्ञानकर्मणोर्हि फलं भोक्तर्थत्वादन्तरतमं स्यात्; अन्तरतमश्च आनन्दमय आत्मा पूर्वे- भ्यः। विद्याकर्मणोः प्रियादयर्थत्वाच्च। प्रियादिपयुक्ते हि विद्याकर्मणी;

ब्रह्म पुच्छमिति। आनन्दमयस्य ब्रह्मत्वे ब्रह्मणोऽवयवित्व्रेन गृहीतत्वा- त्पृथक्तस्यैव ब्रह्मणः पुच्छत्वेन प्रतिष्ठात्वेन च ग्रहणमनुपपन्नम् एकत्रावयवा- वयविभावादिकल्पनस्यानुचितत्वादिति भावः । तस्मादिति। उक्तहेतुसमुदा- यादित्यर्थः । न पर एवेति। न साक्षात्परमात्मैवानन्दमय इत्यर्थः । आनन्द- मय इत्यत्र प्रकृत्यर्थमाह- आनन्द इतीति। आनन्द इति प्रकृत्यंशेनोपा- सनाकर्मफलभूतं प्रियमोदादिलक्षणं सुखमुच्यते आनन्दपदस्य लोके विषय- सुखेषु प्रसिद्धत्वादित्यर्थः। मयडर्थमाह -- तद्विकार इति। विशिष्टस्य विशेषणविकारत्वात्प्रकृत्यर्थभूतानन्दविशिष्ट आत्मा तद्विकार इत्यर्थः । आ- नन्दमयस्य विज्ञानमयादान्तरत्वं श्रुत्युक्तमुपपादयति -- ज्ञानकर्मणोर्हि फल- मिति। तयो: फलशव्दितसुखसाधनत्वं प्रसिद्धमिति हि-शब्दार्थः । भोक्त्र- र्थत्वादित्यत्र भोक्तृपदं भावप्रधानं सत्फलत्वेन विवक्षितं सुखरूपं भो- गमाह; तथा च कर्तुर्विज्ञानमयस्य भोक्तृशब्दितफलसाधनत्वाज्ज्ञान- कर्मफलभूतं सुखं साधनभूतविज्ञानमयाद्यपेक्षया अन्तरतममित्यर्थः । तथा- व्यानन्दमयस्यान्तरत्वे किमायातम्? तत्राह-अन्तरतमश्रेति। चोऽव- धारणार्थः । अन्तरतमफलविशिष्टः सन्नानन्दमय आत्मा पूर्वेभ्यो विज्ञान- मयान्तेभ्यः कोशेभ्योऽन्तरतमो भवत्येवेत्यर्थः । नन्वानन्दमयो न विद्याकर्म- फलविशिष्टः किं तु प्रियादिविशिष्टः 'तस्य प्रियमेव शिरः' इत्यादिश्रवणादि- त्याशङ्कयाह-विद्याकर्मणोः प्ियाद्यर्थत्वाच्चेति। च-शब्दः शङ्कानिवृत्त्य- र्थः। प्रियादेः सुखरूपत्वान्न विद्याकर्मफलात्प्रियादेर्भेद इति भावः । तयोः प्रियाद्युर्थत्वं प्रसिद्धमित्याह- प्रियादिप्रयुक्ते हीति। प्रियाधयुद्देश्यके इत्यर्थः।

Page 253

4.] आनन्दवल्ली। १५३

तस्मात्प्रियादीनां फलरूपाणामात्मसंनिकर्षात् विज्ञानमयादस्याभ्यन्तर- त्वसुपपद्यते; मियादिवासनानिर्वर्तितो ह्यात्मा आनन्दमयो विज्ञानमया- श्रिते रवनने उपलभ्यते। तस्य आनन्दमयस्यात्मनः इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः, प्राधान्यात्। मोद इति प्रियलाभनिमित्तो हर्षः। स एव च प्रकृष्टो हर्षः प्रमोदः। आनन्द इति सुखसामान्यम् आत्मा पिया- दीनां सुखावयवानाम्, तेष्वनुस्यूतत्वात्। आनन्द इति परं ब्रह्म ; तद्धि

आनन्दमयस्यान्तरत्वप्रतिपादनमुपसंहरति -- तस्मादिति। आत्मसंनिक- र्षादिति। आत्मविशेषणत्वादिति यावत्। अस्येति। आन्तरैः प्रियादिभिर्वि- शिष्टस्यात्मन इत्यर्थः । इत्थमानन्दमयस्य विज्ञानमयादभ्यन्तरत्वं प्रसाध्य तस्मादन्यत्वं साधयति-पियादिवासनेति। जाग्रति प्रियाद्यनुभवजनिताभि- र्वासनाभिनिर्वर्तितः; वासनाविशिष्ट इति यावत्। एवंभूत आनन्दमय आत्मा विज्ञानमयाश्रिते खप्ने प्रियादिविशिष्टतयोपलभ्यते। स च विज्ञानमया- दन्यः विज्ञानमयस्य जाग्रति यज्ञादिकर्मकर्तृत्वेन व्यवस्थितत्वात् रवप्ने चा- त्मन: कर्मकर्तृत्वाभावात् रवप्ने कर्मकरणादिव्यापारस्य वासनामात्रत्वात्। किं

विषयत्वेनैवोपक्षीणः; ततो विषयभूताद्विज्ञानमयादानन्दमयस्य स्वप्रद्रष्टुरन्य- त्वमावश्यकमित्याशयेन विज्ञानमयाश्रिते स्प्न इत्युक्तमिति मन्तव्यम् । स एव चेति। लाभनिमित्त एव हर्षो लब्धस्योपभोगादिना प्रकर्ष प्राप्तः सन्प्रमो- दशब्दवाच्यो भवतीत्यर्थः । आनन्द इति पदेन सुखसामान्यमुच्यते; तथ्च शिरआद्यवयवरूपेण कल्पितानां प्रियादीनामात्मा मध्यकाय इत्यर्थः। आनन्दस्य सामान्यरूपत्वरे युक्तिमाह- तेष्व्रिति। प्रियादिषु सुखविशेषेष्वित्यर्थः । ननु सुखसामान्यं नाम किं जातिरूपम्? नेत्याह-आनन्द इतीति। सुखसा- मान्यवाचिना आनन्द इति पदेन परं सुखरूपतयोत्कृष्ं व्रह्मोच्यत इत्यर्थः । यथा घटादयुपहितानि चिछद्राण्याकाशविशेषा: तेषु स्वरूपेणानुस्यू तमाकाशमा- काशसामान्यमिति प्रसिद्धम्, तथा वृत्तिविशेषोपहितानि ब्रह्मस्वरूपसुखा- न्येव सुखविशेषा: तेषु स्वरूपेणानुस्यूतं ब्रह्मसुखमेव सुखसामान्यमुच्यते, *T. 20

Page 254

१५४ तैत्तिरीयोपनिषदि [अनु.

शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधौ अन्तःकरण- वृत्तिविशेषे तमसा अप्रच्छाद्यमाने प्रसन्ने अभिव्यज्यते। तद्विपयसुखमिति प्रसिद्धं लोके। तवृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात् सुखस्य क्षणिकत्वम्। तद्यदान्तःकरणं तपसा तमोघ्नेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्मलत्वमापद्यते यावद्यावत्, तावत्तावद्विविक्ते प्रसन्नेऽन्तःक- रणे आनन्दविशेष उत्कृष्यते विपुलीभवति। वक्ष्यति च -- 'रसो वै सः, रस५हेवायं लब्बानन्दी भवति, एव ह्येवानन्दयाति' इति। 'एतस्यैवा-

न जातिरूपभिति भावः। वृत्तिविशेषैरभिव्यक्तं तदुपहितस्वरूपसुखमेव विषयसुखं सदत्र प्रियमोदादिशव्दैरभिधीयत इतीममेवाभिप्रायं प्रकट- यति-तद्धीत्यादिना। प्रत्युपस्थाध्यमान इति पदं वृत्तिविशेष इत्य- स्य विशेषणम्; उत्पद्यमान इत्यर्थः । समस्तपाठे प्रत्युपस्थाप्यमानाः प्राव्यमाणा: पुत्रमित्ादिविषयविशेषा उपाधयः कारणानि यस्य वृत्ति- विशेषस्येति विग्रहः । क्रोधादिवृत्तिवलक्षण्यरूपं वृत्तेर्विशेषमेवाह-तमसेति। अप्रच्छादनफलमाह-प्रसन्न इति। अभिव्यज्यत इति। निवृत्तावरणं भवतीत्यर्थः । ततः किमित्यत आह-तद्विषयेति। तद्वृत्तिविशेषोपहितं तेनैवाभिव्यक्तं व्रह्मस्वरूपसुखमेव लोके विषयजनितं सुखमिति प्रसिद्ं न तु वस्तुगत्या विषयजनितमन्यत्सुखमस्तीत्यर्थः । ननु विषयसुखस्य ब्रह्मा- नन्दस्वरूपत्वे क्षणिकत्वं न स्यात् ब्रह्मानन्दस्य नित्यत्वादित्याशङ्कयाह- तह्ृत्तीति। स्वरूपसुखव्यञ्जकवृत्तिविशेषोत्पादककर्मणः क्षणिकत्वादित्यर्थः । नन्वेवमपि स्वरूपसुखस्य वृत्तिविशेषेष्वभिव्य क्तस्याप्येकरूपत्वात्कथं विषयसुखे- पूत्कर्षतारतम्यमित्याशङ्कयाह-तद्यदेति। तमोन्नत्वविशेषणं दमादिसाधारणं बोध्यम्। विद्यया उपास्त्या। विविक्त इति। तमसेति शेषः। अन्तःकरणशुद्धि- तारतम्यात्तारतम्योपेतास्तद्वत्तयो भवन्ति, वृत्तितारतम्याच्च तद्भिव्यङ्गय्यमात्म- सुखमपि तरतमभावेनाभिव्यज्यत इत्यर्थः । आनन्दविशेष इति। वृत्तिविशे- षोपहितानन्द इत्यर्थः । विषयसुखानां ब्रह्मसुखावयवत्वे मानमाह -- वक्ष्यति चेति। सः प्रकृतः परमात्मा रसः सारः आनन्द इत्यर्थः । अयमिति। ब्रम्मा-

Page 255

4.] आनन्दवल्ली। १५५

नन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति च श्रुत्यन्तरात्। एवं च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्ष: आनन्दस्य वक्ष्यते। एवं च उत्कृष्यमाणस्य आनन्दमयस्यात्मनः परमार्थव्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्प्रकृतं सत्यज्ञानानन्तलक्षणम्, यस्य च प्रतिपत्यर्थ पञ्च अन्ना- दिमयाः कोशा उपन्यस्ताः, यच्च तेभ्य आभ्यन्तरम्, येन च ते सर्वे

दिस्तम्बपर्यन्तो लोक इत्यर्थः। एष ह्येवेति। आनन्दरूपः पर एव निजेनान- न्देनानन्दयतीत्यर्थः । वाजसनेयश्रुतिमाह-एतस्यैवेति। आत्मानन्दस्यैवेत्य- र्थः। आत्मानं ब्रह्मणः सकाशादन्यत्वेन मन्यमानानि भूतानि प्राणिनो मात्रां लेशमेवानुभवन्तीत्यर्थः । सुखतारतम्यस्य चित्तशुद्धितारतम्यानुरोधित्वे सत्येव वाक्यशेषोऽपयुपपद्यत इत्याशयेनाह- एवं चेति। कामोपशमः शुद्धिः। वक्ष्यत इति। 'श्रोव्नियस्य चाकामहतस्य' इत्यत्रेत्यर्थः। 'व्रह्म पुच्छं प्रतिष्ठा' इति वाक्यं व्याचष्टे-एवं चेति। उक्तरीत्यैवोत्कृष्यमाणस्य उत्कर्षतारतम्योपेत- प्रियादिविशिष्टस्यानन्दमयात्मनः परमेव व्रह्म पुच्छं प्रतिष्ठेति संबन्धः । नन्वान- नदमयं प्रति ब्रह्मणः प्रतिष्ठात्वं किमर्थमुपदिश्यते? तत्राह -- परमार्थेति। पर- मार्थस्य ब्रह्मण: सर्वान्तरत्वज्ञानार्थमित्यर्थः । पुच्छशब्दप्रयोगेऽपि ब्रह्मणोSत्र प्राधान्यसूचनार्थ प्रकरणित्वमाह -- यत्पकृतमिति। ब्रह्मप्रकरणस्य कोश- वाक्यैर्विच्छेदमाशङ्कय तेषां प्रकरणि्रह्मसंबन्धित्वमाह -- यस्य चेति। यस्य म्रह्मणः सर्वान्तरत्वप्रतिपत्त्यर्थमन्तर्बहिर्भावेन पञ्व कोशाः श्रुत्योपन्यस्ता इत्यर्थः। ननु सर्वान्तरत्वमानन्दमयकोशस्यैव न पुच्छब्रह्मणः तस्यान्तरत्वा- श्रवणादित्याशङ्कयाह -- यच्चेति। अन्नमयादिवदानन्दमयस्यापि कार्यात्मक- तायाः प्राक्साधितत्वान्न तस्य सर्वान्तरत्वम्; पुच्छब्रह्मण्यान्तरत्ववाचिपदा- भावेऽपि प्रतिष्ठात्वलिङ्गेनानन्दमयान्तकोशजातं प्रत्यान्तरत्वरूपं सर्वान्तरत्वं सिध्यतीति भावः । 'आत्मन आकाशः' इत्यादौ ब्रह्मण्येवात्मशब्दप्रयोगा- त्तदेव कोशानां वास्तवं स्वरूपमित्याह-येन चेति। ननु प्रतिष्ठापदेन ब्रह्मण आनन्दमयं प्रत्याधारत्वोक्तौ पुच्छपदेन पौनरुक्त्यं प्रसज्येत ते- नापि तदाधारस्य लक्षणीयत्वादित्याशङ्कय प्रतिष्ठापदस्यानन्दमयोपलक्षितस-

Page 256

१५६ तैपिरीयोपनिषदि [भनु.

आत्मवन्तः, तत् ब्रह्म पुच्छं प्रतिष्ठा, तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्य अवसानभूतम् अद्वैतं ब्रह्म पतिष्ठा आनन्दमयस्य, एकत्वावसान. त्वादस्ति तदेकमविद्याकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा पुच्छम्। तदेतस्मिन्नप्यर्थे एप श्लोको भवाति ॥ इति पञ्चमानुवाकभाष्यम् ॥।

वद्वैताधारपरत्वमाह -- तदेव चेति। आनन्दमयस्येि। यदद्वैतं ब्रम्म आनन्दमयस्य प्रतिष्ठा प्रतिष्ठात्वेन श्रुतं तत्सर्वस्यैव द्वैतस्य अवसानभूतम- धिष्ठानभूतमिह विवक्षितमित्यर्थः । द्वैतस्य सर्वस्य साधिष्ठानत्वे युक्ति सूच- यति- अविद्यापरिकल्पितस्येति। शुक्तिरूप्यादिवन्मिथ्याभूतस्येत्यर्थः । पुच्छवाक्यनिर्दिष्टव्रह्मास्तित्वसाधनपरत्वेन श्रोकमवतारयितुं तदस्तित्वमुपक्षि- पति -- एकलावसानत्वादस्तीत्यादिना। एकत्वमद्वैतमविद्यापरिकल्पितस्य द्वैतस्याद्वैतावसानत्वाद्धेतोर्यत्तस्यावसानभूतमद्वैतं ब्रह्म पुच्छप्रतिष्ठाशव्दितं तदे- कमस्तीति योजना। ननु पुच्छपदेन ब्रह्मण आनन्दमयं प्रत्यवयवत्वावगमा- त्कथं श्रोकस्य तद्विषयत्वं पूर्वपर्यायेषु श्रोकानामवयविकोशविषयत्वदर्श- नादिति चेत्, न ; पूर्वत्रापि मनोमयपर्यायस्थख 'यतो वाचः' इति श्लोकस्य मनोमयावयवभूतयजुरादिविषयलेन तथा नियमाभावात् पुच्छपदस्यापि प्रिया- दिविशिष्टानन्दमयाधारमात्रलक्षकस्यावयवपरत्वाभावेन तेन ब्रह्मणोऽवयवत्व- प्रतीत्यभावाच्च। न च ब्रह्मणि पुच्छदृष्टिलक्षकस्य पुच्छपदस्य कथमाधारल- क्षकत्वमिति वाच्यम्; अत्र पर्याये पूर्वपर्यायेष्विवोपासनाविधिफलश्रवणयोर- भावेनानन्दमयकोशस्यानुपास्यत्वात् प्रियादिषु शिरःपक्षादिकल्पनस्यानन्दमये कार्यात्मत्वप्रतिपत्तिमात्रप्रयोजनकत्वोपपत्तेः। एतच्च प्रयोजनं प्रागेव भाष्ये शि- रआदिकल्पनानुपपत्तेश्च्वेत्यादिना प्रपश्चितम् । अतोSत्र पुच्छवाक्यनिर्दिष्टस्य ब्रह्मण एव प्राधान्यात् 'असन्नेव स भवति' इति श्रोकस्य तद्विषयत्वे नानु- पपत्तिः; प्रत्युत तस्यानन्दमयविषयत्व एवानुपपत्तिरुक्ता वक्ष्यते चेति संक्षेपः । इति तैत्तिरीयोपनिषद्धाष्यव्याख्यायां वनमालाख्यायाम् भानन्दवक्ल्या पञ्ञचमोऽनुवाक:॥

Page 257

षष्ठोऽनुवाकः ॥

असन्नेव स अ्नवति। असद्दह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुरिति। तस्यैष एव शारीर आत्मा। यः पूर्वस्य। अथातो- डनुप्रश्नाः। उताविद्वानमुं लोकं प्रेत्य। कश्चन गच्छती३। आहो विद्वानमुं लोकं प्रेत्य। कश्चि- त्समश्रुता उ। सोडकामयत। बहु स्यां प्रजा- येयेति। स तपोऽतप्यत। स तपस्तप्त्वा। इद५ सर्वमसृजत। यदिदं किं च। तत्सृक्टा। तदेवानुप्रा- विशत्। तदनुप्रविश्य। सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च। निलयनं चानिलयनं च। विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत्। यदिदं किं च। तत्सत्यमित्याचक्षते। तदप्येष श्लोको भवति ॥ १॥ इति षष्टोऽनुवाकः ॥ असन्नेव असत्सम एव भवति, यथा असन् अपुरुषार्थसंबन्धी,

असत्सम एव भवतीति। वन्ध्यापुत्रसम एव भवतीत्यर्थः। तदेव

Page 258

१५८ तैत्तिरीयोपनिषदि [भनु.

एवं सः अपुरुषार्थसंबन्धी। कोऽसौ! यः असत् अविद्यमानं ब्रह्म इति वेद विजानाति चेत् यदि। तद्विपर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्ति- बीजं सर्वविशेषप्रत्यस्तमितमपि, अस्ति तत् ब्रह्म इति वेद चेत्, का पुनराशङ्का तन्नास्तित्वे? व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः। व्यवहारवि- पये हि वाचारम्भणमात्रे अस्तित्वभाविता बुद्धि: तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्येत यथा घटादिर्व्यवहारविषयतामापन्नः सन्, तद्विपरीतः असन्निति प्रसिद्धम्, एवं तत्सामान्यादिहापीति स्याङ्रह्मणो नास्तित्वं प्रत्याशङ्का। तस्मादुच्यते-अस्ति ब्रह्मति चेद्वेदेति। किं पुनः

साम्यं प्रपश्वयति- यथेति। ब्रह्मणो नास्तित्वे स्वयमपि नास्त्येवेति पर्यव- स्यति, सर्वेषां तत्स्वरूपत्वात्, तथा च असत्त्वमापन्नस्य व्रह्मासत्ववेदिनो युक्त्तमेव वन्ध्यापुत्रस्येव भोगाद्यसंबन्धित्वापादनमिति मन्तव्यम्। तद्विपर्ययेण अस्ति व्रह्मेति वेद चेदिति संबन्धः । तदस्तित्वे लिङ्गं सूचयति -- सर्वेविक- इ्पास्पदमिति। सर्वस्य विकल्पस्य द्वैतस्याधिष्ठानमित्यर्थः । विमतं जगत्सद्- धिष्ठानं कल्पितत्वाद्रज्जुसर्पादिवदिति लिङ्गेन तदस्तित्वसिद्धिरिति भावः । तत्रैव लिङ्गान्तरं सूचयति -- सर्वप्रवृत्तिवीजमिति। सर्वसृष्टिकर्त्रित्यर्थः । क्षित्यादिकं चेतनकर्तृकं कार्यत्वाद्वटवदिति रीत्या सर्वजगत्कर्तृत्वेन च तद- स्तित्वसिद्धिरिति भावः । सर्वलयाधारत्वेनापि तदस्तित्वं सूचयति- सर्व- विशेषेति। सर्वे विशेषाः प्रत्यस्तमिता विलीना यस्मिन्निति विभ्रहः । ननु यद्युक्तप्रमाणबलादस्ति ब्रह्म कथं तत्र नास्तित्वाशङ्का हेत्वभावादि- त्याक्षिप्य समाधत्ते-का पुनरित्यादिना। तदेव प्रपश्चयति-व्यव- हारविषये हीत्यादिना। विकारमात्रे अस्तित्वभावनोपेता लोकबुद्धि: व्यव- हारविषये अस्तित्वमित्र तद्विपरीते शशशृङ्गादौ नास्तित्वमपि व्यवहारकाले निश्चिनुयादित्यर्थः । अस्मिन्नर्थे हि-शब्दसूचितां प्रसिद्धिमुदाहृत्य दर्शयति -- यथा घटादिरिति। एवमिति। तैः शशशृङ्गादिभिः सह इहापि ब्रह्मण्यपि व्यवहारातीतत्वख्य समानत्वादेवं शशशृक्गादीनामिव ब्रह्मणोऽपि नास्तित्वमिति निश्चयो भवतीत्यर्थः । तस्मादुच्यत इति। यस्माद्वह्मण्यसत्वाशक्का जायते

Page 259

६.] आनन्दवल्ी। १५९

स्यात्तदस्तीति विजानतः१ तदाह-सन्तं विद्यमानं ब्रह्मस्वरूपेण परमा- र्थसदात्मापन्नम् एनम् एवंविदं विदुः ब्रह्मविदः। ततः तस्मात् अस्तित्व- वेदनात् सः अन्येषां ब्रह्मविद्विज्ञयो भवतीत्यर्थः। अथ वा यो नास्ति ब्रह्मेति मन्यते, स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्य नास्तित्वं प्रतिपद्यते; ब्रह्मपतिपत्यर्थत्वात्तस्य। अतः नास्तिकः सः असन् असाधुरुच्यते लोके। तद्विपरीतः सन् यः अस्ति ब्रह्मेति चेद्वेद, स तद्व- ह्मपतिपत्तिहेतुं सन्मार्ग वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथाव- त्पतिपद्यते यस्मात्, ततः तस्मात् सन्तं साधुमार्गस्थम् एनं विदुः साधवः। तस्मादस्तीत्येव ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः । तस्य पूर्वस्य विज्ञान- मयस्य एष एव शरीरे विज्ञानमये भवः शारीरः आत्मा। कोडसौ? य एष आनन्दमयः। तं प्रति कास्त्याशङ्का नास्तित्वे? अपोढसर्वविशेषत्वासु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता ; सर्वसमत्वाच्च ब्रह्मणः। यस्मादेवम्,

तस्मात्तन्निराकरणार्थमस्तित्वमुच्यत इत्यर्थः । स इति। सर्वप्रत्यग्भूतं ब्रह्मा- स्तीति श्रुत्युपपत्तिभ्यां यो विजानाति स ब्रह्मवित्वेनान्येषां वेदनीयो भवती- त्यर्थः। ननु वस्तुतः सद्रूपे ब्रह्मण्यसत्त्ववेदनमात्राद्वेदितुरसत्वं नोपपद्यत इत्यस्व- रसादाह-अथ वेति। सन्मार्गस्य नास्तित्वमेव निश्चिनुयादित्यत्र हेतुमाह- ब्रह्मेति। सन्मार्गेण निष्कामनयानुष्ठितेन प्राप्तव्यं यन्मोक्षरूपं फलं तद्वल्लैव, तदपलापे नास्तिकः स्यादित्यर्थः । तस्मादिति। ब्रह्मनास्तित्ववेदिनो नास्तिकत्वाद्यापत्तेरित्यर्थः । अस्य मन्त्रस्यानन्दमयविषयत्वं वृत्तिकाराभिमतं निराकृतमपि दाढ्यार्थ पुनर्निराकरोति-तं प्रतीति। आनन्दमयं प्रति या आशक्का आनन्दमयनास्तित्वगोचरा वृत्तिकारिर्वक्त्या सा कास्ति नास्त्येव, प्रियादिविशिष्ठस्य तस्य प्रत्यक्षसिद्धत्वादित्यर्थः । तस्य स्वाभिमतं पुच्छवाक्य- निर्दिष्टव्रह्मविषयकत्वं निष्प्रत्यूहं त्रह्मण्यानन्दमयविलक्षणे नास्तित्वशङ्काया उप- पादितत्वादित्याशयेनाह -- अपोढेति। ननु ब्रह्मणि सर्वत्यवहारापोहोSसिद्धः

Page 260

१६० तैत्तिरीयोपनिषदि [अनु.

अतः तस्मात् अथ अनन्तरं श्रोतुः शिष्यस्य अनुमश्नाः आचार्योक्तिमनु एते प्रश्नाः। सामान्यं हि ब्रह्म आकाशादिकारणत्वात् विदुषः अविदुषश्र अतः अविदुपोऽपि ब्रह्मपाप्तिराशङ्कयते -- उत अपि अविद्वान् अमुं लोकं परमात्मानम् इतः प्रेत्य कक्वन, चनशब्दः अप्यर्थे, अविद्वानपि गच्छति प्राप्नोति? 'कि वा न गच्छति?' इति द्वितीयोऽपि प्रश्नो द्वष्ट- व्यः, अनुपश्ना इति बहुवचनात्। विद्वांसं पत्यन्यौ द्वौ- यद्यविद्वा- नसामान्यं कारणमपि ब्रम्म न गच्छति, अतो विदुषोऽपि ब्रह्मागमनमा-

निरासार्थः । ब्रह्मणः सर्वजीवसाधारणत्वात्सर्वान्प्रति तस्य व्यवहार्यत्वं स्यात्, न चैतदस्तीत्यतः सर्वसाधारण्येन व्यवहारविषयत्वाभवात्तत्रासत्त्वशङ्का युक्ते- त्यर्थः। यस्मादेवमिति। सर्वसमं ब्रह्मेत्येवंशब्दार्थः । अतस्तस्मादिति। अय- मतःशब्द: श्रुतिगत इति बोद्धव्यम्। आचार्योक्तिमिति। ब्रह्मविद्धह्य प्राप्नोति, विद्याप्राप्यं च ब्रह्म सर्वकारणं सर्वात्मकमित्येवमाद्याचार्योपदेशमित्यर्थः । श्रुतावविदुषो ब्रह्मप्राप्तिप्रश्नो दृश्यते, तस्यालम्वनमतःशब्दोपात्तं विवृणोति- सामान्यं हीति। समानमित्यर्थः । विद्वद्विदुषोः समानं व्रह्मेत्यत्र हि-शब्द- सूचितं हेतुमाह- आकाशादीति। प्रकृतस्याकाशादिकारणभूतत्रह्मणः सर्व- प्रत्यक्तया पुच्छवाक्ये प्रतिष्ठापदेनोक्तत्वादित्यर्थः । यद्वा आकाशादिक्रमेण स- वभूतकारणत्वात्कार्यभूतानां विदुषामविदुषा च साधारणं त्रह्मेत्यर्थः। जीवानां स्वतः कार्यत्वाभावेऽपि स्थूलसूक्ष्मोपाधिविशिष्टतया कार्यत्वाभ्युपगमादिति भावः । अमुमिति। बुद्यादिसाक्षितया प्रत्यक्षसिद्धस्यापि परमात्मन इन्द्रिया- गोचरत्वविव्रक्षया अदःशब्देन परोक्षतया निर्देश इति बोध्यम्। लोकमिति। लोकनं लोक इति व्युत्पत्या चैतन्यैकरस्रमित्यर्थः । इतः प्रेत्येति। मृत्वेत्य- र्थः । नन्त्रविद्वानपि किं त्रह्म गच्छति किं वान गच्छतीति कोटिद्वयोपेतः प्रश्न एक एव यथा विष्णुमित्रो विष्ण्वालयं गच्छति न वेत्यादौ, ततश्र कर्थ तस्य द्वित्वकल्पनमित्याशङ्कय बहुवचनानुरोधादित्याह-अनुपश्ना इतीति। अन्यौ द्वाविति। न्यायसाम्यादिति भावः । नतु विदुषो ब्रह्मप्राप्त्यभावशङ्का निराल- म्वनेत्याशङ्कयाह-यद्यविद्वानिति। विष्णुमित्रविषयकप्रश्नन्यायमनुसरति-

Page 261

६.] आनन्दवल्ली। १६१

शङ्यते; अतस्तं प्रति प्रश्नः- आहो विद्वानिति । विद्वान् ब्रह्मवि- दपि कश्रित् इतः प्रेत्य अमुं लोकं समश्रुते प्राम्नोति। समश्रुते उ इत्येवं स्थिते, अयादेशे यलोपे च कृते, अकारस्य प्रुतिः -- समश्षुता३ उ इति। विद्वान्समश्रुते अमुं लोकम्; किं वा, यथा अविद्वान्, एवं विद्वानपि न समश्रुते इत्यपरः प्रश्नः। द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयौ ; बहुवचनं तु सामर्थ्यप्राप्तपश्नान्तरापेक्षया। 'असद्रह्मेति वेद चेत्' 'अस्ति ब्रह्मेति चेद्वेद' इति श्रवणादस्ति नास्तीति संशयः । ततः अर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः । ब्रह्मणः अपक्षपातित्वात् अविद्वान्गच्छति न गच्छतीति द्वितीयः । ब्रह्मणः समत्वेऽपि अविदुष इव विदुषोऽप्यग- मनमाशङ्कयते किं विद्वान्समश्षुते न समश्रुते इति तृतीयोऽनुपश्नः ।। एतेषां प्रतिवचनार्थ उत्तरो ग्रन्थ आरभ्यते। तत्रास्तित्वमेव ताव-

द्वाविति। बहुवचनस्य गतिमाह- वहिति। पूर्वत्रास्तित्वनास्तित्वरूपकोटि- द्वूयश्रवणसामर्थ्यप्राप्तं प्रश्नान्तरमपेक्ष्य बहुवचनं भविष्यतीत्यर्थः । तु-शब्दो- डस्य पक्षस्य श्रुत्यभिमतत्वरूपविशेषद्योतनार्थः। प्रथमव्याख्याने हि 'सोऽका- मयत' इत्यारभ्यैव विद्वद्विद्वद्विषयप्रश्ननिर्णय एव कर्तव्यतया प्राप्नोति; न चासौ 'सोऽकामयत' इत्यारभ्य दृश्यते, तस्मात् 'सोऽकामयत' इत्यादेरसंग- तत्वपरिहारायायमेव पक्षः श्रुत्यभिमत इति गम्यत इति मन्तव्यम्। सामर्थ्य- प्राप्तत्येतदेव विवृणोति- असदित्यादिना। यद्यपि पूर्वत्रासत्ववेदने दोषा- भिधानेन सत्त्ववेदने गुणाभिधानेन च ब्रह्मणः सत्वं निर्णीतं निर्णीतत्वाच्च न संशयो नापि तन्मूलकः प्रश्नो घटते, तथापि तर्केषु प्रवीणस्य ब्रह्मजिज्ञा- सोरल्पोपपत्तिमात्रेणापरितुष्यतः श्रुत्युपदर्शितास्तित्वनास्तित्वरूपकोटिद्वयं चो- पशृण्वतः संशयो न निवर्तत इति तन्मूलकः प्रश्नः श्रुत्यभिमत इति भावः । अपक्षपातित्वादिति। विद्वदविद्वत्साधारणत्वादित्यर्थः ।। उत्तरप्रन्थेऽप्यव्यवहितस्य 'सोडकामयत' इत्यादेरवान्तरतात्पर्यमाह- तत्नास्तित्वमेवेति। तावच्छ=दः प्राथस्यार्थः । ननु 'ब्रह्मविद्ाप्नोति परम्' *T.21

Page 262

१६२ तैत्तिरीयोपनिषदि [अनु.

दुच्यते। यच्चोक्तम् 'सत्यं ज्ञानमनन्तं ब्रह्म' इति तत्र च कथं सत्यत्वमि- त्येतद्वक्तव्यम्। उक्तं हि सदेव सत्यमिति; तस्मात्स्त्वोत्तयैव सत्यत्वमुच्यते। कथमेवमर्थता अवगम्यते उत्तरग्रन्थस्य! शब्दानुगमात्। अनेनैव ह्यर्थेना- न्वितानि उत्तरवाक्यानि -- 'तत्सत्यमित्याचक्षते' 'यदेष आकाश आ- नन्दो न स्यात्' इत्यादीनि। तत्रासदेव ब्रह्मेत्याशङ्कयते। कस्मात्? यदस्ति, तद्विशेषतो ग्रह्यते; यथा घटादि। यत्नास्ति, तन्नोपलभ्यते; यथा शश- विषाणादि। तथा नोपलभ्यते ब्रह्म; तस्माद्विशेषतः अग्रहणान्नास्तीति। तन्न, आकाशादिकारणत्वाङ्गह्मणः। न नास्ति ब्रह्म। कस्मात्? आका- शादि हि सर्वे कार्य ब्रह्मणो जातं ग्रृह्यते; यस्माच्च जायते किंचित्,

इति सूत्रस्य संक्षेपतो व्याख्यानरूपेण 'सत्यं ज्ञानम्-' इति मन्त्रेण सह सूत्रं प्रति विस्तरतो व्याख्यानरूपस्यास्य अ्रन्थस्य समानार्थताया वक्तव्य- त्वात्केनांशेन मन्त्रस्य 'सोऽकामयत' इत्यादिव्राह्मणस्य च विवरणविवरणि- भावेन समानार्थत्वमिति जिज्ञास्रायां तद्दर्शयितुमनुवदति- यच्चोक्तमिति। तत्रेति। तत्र मन्त्रे संप्रहेणोक्तं सत्यत्वं कथमित्याकाङ्कायामेतद्विस्तरेण वक्तव्य- मित्यर्थः । ननु ब्रह्मण्यसत्वशङ्कानिवृत्तिपरे ग्रन्थे सत्त्वमेवोच्यते न सत्यत्व- मित्याशङ्कय सत्सत्यशब्दयोः पर्यायत्वमुक्तं स्मारयति-उक्तं हीति। हि-श- व्दस्तयोः पर्यायत्त्रप्रसिद्धिद्योतकः; तथा च सतत्वसत्यत्वयोरेकत्वान्नोक्तशङ्का- वकाश इत्याशयेनाह-तस्मादिति। एवमर्थतेति। सत्वसाधनपरतेत्यर्थः । शब्दानुगमादिति परिहारं विवृगोति -- अनेनैवेति। सत्वलक्षणेनैवार्थेन, न तु विद्वद् विदुषोर्ञ्रक्वप्राप्त्यप्राप्तिलक्षणेनेत्यर्थः । इत्थं तात्पर्यमुपवर्ण्याक्षराणि व्या- चिख्यासुरुत्तरप्रन्थव्याव्त्ये पूर्वपक्षमुद्धावयति- तत्रासदेवेति। पूर्वोक्तसंशये सतीत्यर्थः । विशेषत इति। व्यवहारगोचरत्वनेत्यर्थः । 'इदं सर्वमसृजत, यदिदं किं च' इति श्रत्युक्तं त्रह्मणो जगत्कारणत्वमवलम्व्य शङ्गां निराकरो- ति-तन्नेति। तन्नेति प्रतिज्ञां विवृणोति-न नास्ति ब्रह्मेति। आकाङ्कापूर्वकं हेतु विवृणोति -- कस्मादित्यादिना। कस्मादित्यनन्तरमाका शादिकारणत्वा

Page 263

६.] आनन्दवल्ली। १६३

तदस्तीति दृष्टं लोके यथा घटाङ्कुरादिकारणं मृद्धीजादि ; तस्मादाका- शादिकारणत्वादस्ति ब्रह्म। न चासतो जातं किंचिद्ृह्यते लोके कार्यम्। असतश्चेनामरूपादि कार्यम्, निरात्मकत्वान्नोपलभ्येत; उपलभ्यते तु; तस्मादस्ति ब्रह्म। असतश्चेत्कार्य ग्ृह्यमाणमपि असदन्वितमेव

दिति शेष:। हेतुं साधयति -- आकाशादि हीति। कार्यत्वेनाभिमतमाका- शादिकं सर्वे ब्रह्मणः सकाशाज्जातत्वेन 'इदं सर्वमसृजत' इति श्रुत्या गृह्यते, अतो व्रह्मणि नाकाशादिकारणत्वहेतोरसिद्धिरित्यर्थः । आकाशादेर्व्रह्मकार्यत्वे श्रुत्यन्तरप्रसिद्धिसूचनार्थो हि-शव्दः । इदानीं व्याप्तिमाह- यस्माच्चेति। च-शब्दोऽवधारणार्थः सन्नस्तीत्यनेन संबध्यते। लोके किंचिद्यस्माज्जायते तद- स्त्येवेति दष्टमित्यर्थः । यद्धावकार्य तत्सदुपादानकमिति व्याप्तिनिष्कर्षः । निग- मयति-तस्मादिति। उक्तव्याप्तिबलादित्यर्थः; अत्र विमतं जगत्सदुपादानकं कार्यत्वात्संमतवदिति सृष्टिश्रुत्यभिमतानुमाननिष्कर्षः । तच्च जगदुपादानभूतं सद्धह्वैव तदतिरिक्तस्य सर्वस्य कल्पिततायाः प्रागेव तत्र तत्र साधितत्वात्; तथा च न ब्रह्मण्यसत्त्वशक्कति भावः। नन्वस्तु ब्रह्मण आकाशादि- कारणत्वं मास्तु सत्त्वमित्यप्रयोजकत्वशङ्कां निराचष्टे-न चासत इति। ननु लोके कार्यस्यासज्जन्यत्वाग्रहेऽपि सर्गाद्यकार्यमसदुपादानकमेवास्तु; ने- त्याह-असतश्चेदिति। कार्यमित्यनन्तरं जायेतेति शेषः। कार्यस्य ह्युपा- दानमात्मा सत्ताप्रदमिति यावत्; तथा च असत उपादानत्वे नामरूपकर्मा- त्मकस्य जगतो निरात्मकत्वात्सत्ताहीनत्वात्सत्वेन रूपेण जगन्नोपलभ्येते- त्यर्थः । तर्कस्य विपर्यये पर्यवसानमाह-उपलभ्यते त्विति। 'सन्घटः' 'सन्पटः' इत्येवं सत््वेनैव जगदुपलभ्यत इत्यर्थः । फलितमाह- तस्मा- दिति। हेतोरप्रयोजकत्वासंभवादित्यर्थः । यद्वा कारणत्वादित्यर्थः । विपक्षे बाधकान्तरप्रदर्शनपूर्वकं पुनस्तदस्तित्वमुपसंहरति- असतश्चेत्कार्यमित्या- दिना। असत उपादानभूतात्कार्ये जगज्जायेत चेत्ताह यथा जायमानं जगद- सदन्वितं जायते तथा गृह्यमाणमप्यसदन्वितत्वेनैव गृह्येतासज्जगदिति, यथा मृद्विकारजातं मृदन्वितत्वेनैव गृह्यते तद्वत् ; न चैवं गृह्मते जगत्, तस्माज्ज-

Page 264

१६४ तैत्तिरीयोपनिषदि [भनु.

स्यात्; न चैवम्; तस्मादस्ति ब्रह्म। 'कथमसतः सज्जायेत' इति श्रुत्यन्तरमसतः सज्जन्मासंभवमन्वाचष्टे न्यायतः। तस्मात्सदेव ब्रह्मेति युक्तम्। तद्यदि मृद्धीजादिवत् कारणं स्यात्, अचेतनं तहि। न ; काम- यितृत्वात्। न हि कामयित्रचेतनमस्ति लोके। सर्वजं ब्रह्मेत्यवोचाम; अतः कामयतृत्वोपपत्तिः। कामयितृत्वादस्मदादिवदनाप्तकाममिति चेत्, न; स्वातन्त्र्यात्। यथान्यान्परवशीकृत्य कामदोषाः प्रवर्तयन्ति, न

गति सदुपादानकत्वानुमानस्याप्रयोजकत्वाभावात्कारणं ब्रह्मास्तीत्यर्थः । न्या- यत इति। असदन्वयादर्शनादियुक्तित इत्यर्थः । तस्मादिति। श्रुत्यन्तरबला - दपीत्यर्थः। मान्त्रवर्णिकसत्यत्वविवरणवन्मान्त्रवर्णिक चेतनत्वविवरणमप्यत्र कामयितृत्ववचनेन क्रियत इत्याशयेन तद्वचनाभिप्रायं शक्कापूर्वकं कथयति- तद्यदीत्यादिना। तङ्रह्म। ननु कामस्याचेतनधर्मतायाः श्रुतिस्मृतिसिद्धत्वा- त्कथं कामेन ब्रह्मणोऽचेतनत्वव्यावृत्तिर्लभ्यत इत्याशङ्कय लौकिकव्याप्तिबलेने- व्याशयेनाह-न हीति। यद्वा प्रसङ्गात्सांख्यशङ्कामुद्गाव्य कामश्रुत्या नि- राकरोति- तद्यदीत्यादिना। तदाह सूत्रकार :- 'कामाञ्च नानुमानापे- क्षा' इति। अनुमानशब्दितं प्रधानं कारणत्वेन नापेक्षितव्यं कारणस्य 'सत्यं ज्ञानम् -- ' इति चिद्रूपत्वश्रवणात्कामयितृत्वश्रवणाच्चेति तदर्थः । मन्त्रे- डपि संग्रहेण ब्रह्मणश्चेतनत्वमुक्तमित्याह-सर्वज्ञममिति। अवोचामेति। म- न्त्रगतज्ञानपद्विवेचनावसर इत्यर्थः । यद्वा कामयितृत्ववचनादिना ब्रह्मणश्रे- तनत्वसिद्धावपि सृष्टेः पूर्व शरीराद्यभावेन ज्ञानासंभवात्सृष्टयनुकूलकामानुप- पत्तिरित्याशक्कयाह- सर्वज्ञमिति। 'पश्यत्यचक्षुः' इत्यादिश्रुत्या परमेश्वर- ज्ञानस्य चैतन्यरूपस्य मायावृत्तिरूपस्य वा करणाद्यनपेक्षत्वश्रवणान्नोक्तङ्का- वकाश इति भावः । अत इति। चेतनत्वात्सर्वज्ञत्वराद्वेत्यर्थः । ब्रह्मणः काम- यितृत्वे तस्याप्तकामत्वश्रुतिविरोधमाशक्कते-कामयितृत्वादिति। अनाप्तका- मत्वे कामयितृत्वं न प्रयोजकम् आप्तकामानामपि ब्रह्मविदां परानुम्रहार्थ विद्यासंप्रदायप्रवर्तनादौ कामयितृत्वदर्शनात्; किं तु कामवश्यत्वम्, तथ म्रह्मणो नास्ति, अतो नाप्तकामत्वश्रुत्या सह कामयितृत्वश्रुतेर्विरोध इति परि-

Page 265

आनन्दवक्ली। १६५

तथा ब्रह्मणः प्रवर्तकाः कामाः। कथं तर्हि? सत्यज्ञानलक्षणाः स्वात्म- भूतत्वाद्विशुद्धाः । न तैर्ब्रह्म प्रर्वत्येत; तेषां तु तत्पवर्तकं ब्रह्म प्राणिक- र्मापेक्षया। तस्मात्स्ातन्त्रयं कामेषु ब्रह्मणः; अतो न अनाप्तकामं ब्रह्म। साधनान्तरानपेक्षत्वाच्च। किं च यथा अन्येषामनात्मभूता धर्मादिनिमि-

हरति-न ; स्वातन्त्र्यादिति। ब्रह्मणः कामेषु स्वातन्त्रयमस्मदादिकामवै- लक्षण्योक्तिपूर्वकं प्रपश्वयति- यथान्यानित्यादिना। ननु ब्रह्मकामा दोष- रूपा ब्रह्मप्रवर्तकाश्च न भवन्ति चेत्ताहै ते कर्थंभूता यतस्तैर्व्रह्म न प्रवर्त्यत इति पृच्छति- कथं तहीति। विशुद्धा इत्युत्तरम्। ब्रह्मकामानां विशुद्धत्वे ब्रह्मैवोपमानमित्याशयेनाह-सत्यज्ञानलक्षणा इति। 'सत्यं ज्ञानम्' इति मन्त्रोक्तव्रह्मण इव लक्षणं दोषरहितं स्वरूपं येषां ते तथोक्ताः। तेषां विशुद्धत्वे हेतुमाह-स्वात्मभूतत्वादिति। स्वस्य ब्रह्मण आत्मभूता या माया तत्व्रात् तत्परिणामत्वादिति यावत्। आत्मभूतत्वं च मायायास्तादात्म्यापन्न- त्वमुपाधित्वं वा। एतदुक्तं भवति- ब्रह्मोपाधिभूतमायाया विशुद्धत्वात्तत्प- रिणामरूपाणां कामानां विशुद्धत्वं मायाया ब्रह्मवश्यत्वात्कामानामपि तद्वश्यत्वं चेति। ननु तहि त्रह्मण: कामाः पुण्यकारिणामप्यनिष्ठफलप्राप्त्यनुकूलाः स्यु: स्वातन्त्रयादित्याशङ्कयाह-तेषां त्विति। तु-शब्दोडत्रधारणार्थः । तद्रक्म प्राणिकर्मापेक्षयैव प्राणिकर्मफलप्रदानां स्वकामानां प्रवर्तकं न प्राणिकर्मानपे- क्षया, यथा सेवकानां कर्मापेक्षया राजा स्वकामानां सेवकफलप्रदानां प्रवर्तकस्तथेत्यर्थः। एतेन ब्रह्मणः स्वकामेषु सापेक्षत्वे कथं स्वातन्त्रय- मिति शङ्कापि निरस्ता, लोके सेवापेक्षस्यापि राज्ञः स्वातन्त्रयप्रसिद्धिद- शंनेन ब्रह्मणोऽपि 'सर्वेश्वरः' इत्यादिश्रुतिसिद्धस्वातन्त्रयोपपत्तेरित्याशयेनाह- तस्मादिति। कामानां विशुद्धत्वादित्यर्थः । अत इति। स्वातन्त्र्यादित्यर्थः । साधनान्तरेति। ब्रह्मण: स्वकामेपु स्वकीयसाधनान्तरानपेक्षत्वाच्च नानाप्त- कामं व्रह्मेति प्रतिपत्तव्यमित्यर्थः । साधनान्तरानपेक्षत्वमेव व्यतिरेकोदाहरणेन प्रपध्वयति -- किं चेत्यादिना। अनात्मभूता इति। अस्वाधीना इत्यर्थः । यद्वा दोषरूपा इत्यर्थः । अथ वा आत्मव्यतिरिक्त्साधनोद्गरता इत्यर्थः ।

Page 266

१६६ सैत्तिरीयोपनिषदि [अनु.

त्तापेक्षा: कामाः स्वात्मव्यतिरिक्तकार्यकारणसाधनान्तरापेक्षाश्च, न तथा ब्रह्मणः निमित्ताद्यपेक्षत्वम्। किं तर्हि? स्वात्मनोऽनन्याः। तदेतदाइ- सोऽकामयत। स आत्मा यस्मादाकाशः संभूतः, अकामयत कामितवान्। कथम्! बहु प्रभूत स्यां भवेयम्। कथमेकस्यार्थान्तराननुभवेशे बहुत्वं स्या- दिति, उच्यते-प्रजायेय उत्पद्येय। न हि पुत्रोत्पच्येवार्थान्तरविषयं

अस्मिन्पक्षेडस्यैव विवरणम्- धर्मादीत्यादि। कामानां साधनापेक्षत्वे हि साधनविलम्बात्कामितार्थालाभप्रसक्त्या ब्रह्मणोSनाप्तकामत्वं स्यात्, साधना- न्तरानपेक्षत्वे तु नायं दोष इति भावः। कार्य स्थूलशरीरम्, कारणं लिङ्गश- रीरम्, स्वात्मव्यतिरिक्तानि कार्यकारणान्येव स्वात्मापेक्षया साधनान्तरा णीत्यर्थः । न तथा ब्रह्मण इति। कामानामिति शेषः । किं तहीति। यदि ब्रह्मण: कामा: स्वात्मव्यतिरिक्तसाधनापेक्षा न भवन्ति तर्हि किं तेषां साधनमित्यर्थः । उत्तरमाह -- स्वात्मनोऽनन्या इति। स्वात्ममात्रसाध्या ब्रह्मण: कामा इत्यर्थः। तदेतदिति। तद्विशुद्धत्वेन निरूपितमेततस्वा- त्ममान्रसाध्यत्वेन च निरूपितं कामानां स्वरूपमभिप्रेत्य ब्रह्मणः का- मयितृत्वमाह श्रुतिरित्यर्थः । प्रकृते ब्रह्मणि स इति पुंलिङ्गनिर्देशो न संनिहि- तब्रह्मपदापेक्षः, किं तु 'आत्मन आकाशः संभूतः' इत्यादौ व्यवहितात्म- पदापेक्ष इत्याशयेनाह -- स आत्मेति। कामनाप्रकारं प्रश्नपूर्वकं दर्शयति- कथमित्यादिना। एकस्य बहुभवनं विरुद्धमिति शङ्कते- कथमेकस्येति। नन्वेकस्यापि मृद्धस्तुनो विकारात्मना बहुभवनं दृष्टमित्याशक्कयाह-अर्था. न्तराननुपरवेश इति। यद्यप्यर्थान्तरानुप्रवेशाभावे सत्येकस्य बहुत्वं विरुद्ध तथापि प्रकृते न बहुभवनस्यानुपपत्तिः अर्थान्तरानुप्रवेशेनैव बहुत्वस्य विव- क्षितत्वादिति परिहरति -- उच्यत इति। उत्पद्येयेति। पूर्वसिद्धस्य ब्रह्मणः

प्रजायेयेत्येतदर्थान्तरानुप्रवेशेन बहुभवनस्योपपादकमिति भावः । ननु पि- तुरर्थान्तरभूतैः पुत्रादिभिर्यथा तस्य बहुभवनं तथा किं ब्रह्मणोऽर्या- न्तरभूतैराकाशादिविकारैर्बह्ुभवनं विवक्षितम् नेत्याह-न हीति। अर्था-

Page 267

६.] आनन्दवल्ली। १६७

बहुभवनम्। कथं तहि? आत्मस्थानभिव्यक्तनामरूपाभिव्यक्तया । यदा आत्मस्थे अनभिव्यक्ते नामरूपे आत्मस्वरूपापरित्यागेनैव ब्रह्मणोSपरविभक्तदेशकाले सर्वावस्थासु व्याक्रियेते। तदा तनामरूप- व्याकरणं ब्रह्मणो बहुभवनम्। नान्यथा निरवयवस्य ब्रह्मणो बहुत्वा- पत्तिरुपपद्यते अल्पत्वं वा, यथा आकाशस्याल्पत्वं बहुत्वं च वस्त्वन्तर- कृतम् एवम्। अतस्तद्वारेणैवात्मा बहु भवति। न ह्यात्मनोऽन्यदनात्मभूतं

न्तरपद भिन्नसत्ताकवस्तुपरम्, तत्प्रयुक्तस्य बहुभवनस्यामुख्यत्वेन प्रकृते तद्हणे हेत्वभावादिति भावः । नन्वसङ्गस्वभावस्य ब्रह्मण आकाशादि- विकारतादात्म्यमादायापि बहुभवनं न संभवतीत्यभिप्रायेण शङ्कते-कथं तहींति। वस्तुतस्तदसंभवेऽपि काल्पनिकं तादात्म्यमादाय तदुपपद्यत इत्या- शयेन परिहरति- आत्मस्थेति। आत्मनि स्थिते अनभिव्यके ये नामरूपे तयो: सर्गादावभिव्यक्त्या आभिमुख्येन तादात्म्येन व्यक्त्या स्थूलीभावापत्या नामरूपाधिष्ठानभूतस्यात्मनो बहुभवनमित्यर्थः । उक्तं विवृणोति -- यदेति। आत्मस्व्ररूपापरित्यागेनैवेति। कारणभूतात्मतादात्म्येनैव, न ततो भेदेनेत्यर्थः। तमेवापरित्यागं विवृणोति- ब्रह्मगोऽपविभक्तेति। ब्रह्मणः सकाशादप्रवि- भक्तौ प्रविभागरहितौ देशकालौ ययोरिति विग्रहः। तन्मात्रावस्था स्थूलभूता- वस्था अण्डावस्था तदन्तर्वर्तिविकारावस्था चेत्येताः कार्यगता अवस्थाः सर्वावस्थाशव्देनोच्यन्ते। नान्यथेति। अन्यथा विविधपरिणामिविकारतया बहुतवापत्तिनोपपद्यत इत्यत्र हेतुं सूचयति- निरवयवस्येति। लोके साव- यवस्यैव मृदादेः परिणामित्वदर्शनादिति भावः । अल्पत्वं वेति दृष्टान्तार्थम् । एवं परिणामितया बहुत्वादिकं निरस्य नामरूपोपाधिकृतमेव ब्रह्मणस्तदित्यत्र दृष्टान्तमाह-यथेति। वस्त्वन्तरकृतमिति। घढद्युपाधिकृतमित्यर्थः । इदं च त्रह्मणो नानाजीवभावेन बहुभवने उदाहरणमिति बोध्यम्। जगदात्मना बहु- भवने तु रज्ज्वादेः सर्पदण्डधारादिभावेन बह्भवनमुदाहर्तव्यम्। अतस्त- द्वारेणैवेति। परिणामितया बहुत्वासंभवात्स्वाध्यस्तनामरूपद्वारेणैवात्म। बहुत्वमापद्यत इत्यर्थः। नामरूपयोरप्रविभक्तकेशकालत्वं साधयति-न

Page 268

१६८ तैत्िरीयोपनिषदि [अनु.

तत्मविभक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्विष्यद्वा वस्तु विद्यते। अतः नामरूपे सर्वावस्थे ब्रह्मणैवात्मवती। न ब्रह्म तदात्मकम्। ते तत्मत्याख्याने न स्त एवेति तदात्मके उच्येते। ताभ्यां च उपाधि- भ्यां ज्ञातृज्ञानज्ञेयशब्दार्थादिसर्वव्यवहारभाग्व्रह्म। सः आत्मा एवंकाम: सन् तपः अतप्यत। तप इति ज्ञानमुच्यते, 'यस्य ज्ञानमयं तपः' इति श्रुत्यन्तरात्। आप्तकामात्वाच्च इतरस्य असंभव एव तपसः।

हीति। अन्यदित्यस्य विवरणमनात्मभूतमिति। यत्सूक्ष्मं व्यवहितं विप्रकृष्ठ भूतवर्तमानभ विष्य दादिरूपं वात्मनोऽन्यज्जगद्वस्तु तत्तस्माद्रह्मणः सकाशात्प्रवि- भक्तदेशकालं यथा भवति तथा न हि विद्यत इति योजना। कल्पितस्य जग-

कल्पितत्वे स्थिते फलितमाह-अत इति। ब्रह्मणैवात्मवती इति। ब्रह्मसत्त- यैव सत्तावती इत्यर्थः । न स्वतः सत्तावती इत्येवकारार्थः । वैपरीत्यं निषे- धति -- न ब्रह्मेति। स्वप्रकाशस्य ब्रह्मणो नामरूपात्मके जगत्यध्यस्तत्वेन तत्सत्तया सत्तावत्वे स्वीकृते सति जगदान्ध्यं प्रसज्येत, जगतः स्वतः प्रका- शात्मकत्वाभावाद्ध्यस्तस्य जडत्वनियमेन ब्रह्मणोऽपि स्व्रप्रकाशत्वासंभवाच्; तस्माद्गह्म नामरूपसत्तया सत्तावन्न भवतीत्यर्थः। ब्रह्मणैवात्मवती इत्युक्तक सहे- तुकं विवृणोति -- ते तदिति। तत्प्रत्याख्याने ब्रह्मप्रत्याख्याने, ब्रह्मसत्तां वि- नेति यावत्, ते नामरूपे न स्त एवेति कृत्वा ते तदात्मके ब्रह्मात्मके उच्येते इत्यर्थः । व्रह्मणो नामरूपोपाधिकबहुभवनं कीदशमित्याकाङ्कायामाह -- ता- भ्यां चेति। ताभ्यामेव न स्वत इत्यर्थः । तत्रायं विभाग :-- बुद्धय्नुपा- धिकं ब्रह्म ज्ञातृव्यवहारभाक् बुद्धिवृत्त्युपाधिकं ब्रह्म ज्ञानमिति व्यव- हारभाक्, विषयोपाधिकं ब्रह्म ज्ञेयव्यवहारभाक, नामोपाधिकं त्रक्ष शब्दव्यवहारभाक्, सामान्यतो जडोपाधिकं ब्रह्मार्थव्यवहारभागिति। आ- दिपदं कर्मादिसंप्रहार्थम्। एवं सर्वव्यवहारभाग्न्नह्मेत्यर्थः । श्रृत्यन्तरे मयट् स्वार्थिक इति भावः । इतरस्य कायक्लेशादिरूपस्य तपसः संभव एव नास्तीत्यत्र हेत्वन्तरमाह-आप्कामत्वाच्चेति। इदमुपलक्षणम्; प्राकसृष्ठे-

Page 269

६.J आानन्दवल्ली। १६९

तत्तपः अतप्यत तप्तवान्, सज्यमानजगद्रचनादिविषयामालोचनामक- रोदात्मेत्यर्थः । सः एवमालोच्य तपः तप्त्वा प्राणिकर्मादिनिमित्तानुरू- पम् इदं सर्व जगत् देशतः कालतः नाम्ना रूपेण च यथानुभवं सवैंः माणिभिः सर्वावस्थैरनुभूयमानम् असृजत सष्टवान् यदिदं किं च यर्त्कि- चेदमवशिष्टम्। तत् इदं जगत् सष्टा, किमकरोदिति, उच्यने-तदेव छष्टं जगत् अनुमाविशदिति॥

तत्नैतच्चिन्त्यम् -- कथमनुप्ाविशदिति। किम्, यः स्रष्टा, स तेनै- वात्मनानुपाविशत्, उत अन्येनेति? किं तावद्युक्तम्? क्त्वाप्रत्ययश्रव- णात् यः स््रष्टा स एवानुमाविशदिति। ननु न युक्तं मृद्धच्चेत्कारणं

व्रह्मण: कायाभावाश्चेत्यपि द्रष्टव्यम्। आलोचनमित्यनेन :तप आ- लोचने' इति वैयाकरणप्रसिद्धिरपि प्रकृते तपो ज्ञानमित्यत्र हेतुरिति सूचितं भवति। सृज्यमानजगद्वैचिउये निमित्तं सूचयति-प्राणिकर्मादीति। उपा- सनादिलक्षणं श्रुतमादिपदार्थः, 'यथाकर्म यथाश्रुतम्' इति श्रुतेः । आतु- रूप्यमेव विवृणोति- देशत इत्यादिना। सर्वादस्थैरिति। देवत्वमनुष्यत्व- तिर्यक्त्वाद्यवस्थैरित्यर्थः । यर्तिंक चेदमवशिष्टं जगत् तत्स्वै सृष्ठवानिति योजना। 'तत्सृष्टा तदेवानुप्राविशत्, तद्नुप्रविश्य' इयेषु वाक्येषु तच्छ- ब्दा जगत्पराः ॥

प्रवेशपदार्थनिर्णयप्रयोजनकं विचारमारभते-तत्नैतच्चिन्त्यमित्या- दिना। कर्थंशब्दसूचितं विमर्शमेव विवृणोति- किमिति। किं परमात्मा स्वेनैवात्मनानुप्राविशत्, किं वा स्वविकाराद्यात्मनानुप्राविशदित्यर्थः । तत्र प्रथमं सिद्धान्तमाह-किं तावद्युक्तमित्यादिना। अन्येनात्मना प्रवेश इति स्वमतमुत्थापयितुं प्रथमं पूर्ववादिसिद्धान्तं निराकरोति- ननु न यु- क्तमित्यादिना। कार्यस्य बुद्धयादेरुत्पत्तिप्रभृतिकारणात्मकत्वात्कारणेन व्याप्न- स्वात्कार्यभूतदेहादुत्पत्तिव्यतिरेकेण कार्ये देहादौ प्रवेश इत्येतन्न युक्कमि- T. 22

Page 270

१७० तैत्तिरीयोपनिषदि [मनु.

ब्रह्म, तदात्मकत्वात्कार्यस्य, कारणमेव हि कार्यात्मना परिणतमिति; ततः अप्रविष्टस्येव कार्योत्पत्तेरूर्ध्व पृथक्कारणस्य पुनः प्रवेशोऽनुपपन्नः।न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति। यथा घटे चूर्णात्मना मृदोऽनुप्रवेशः, एवमन्येन आत्मना नामरूपकार्ये अनुप्रवेश आत्मनः इति चेत्, श्रुत्यन्तराच्च 'अनेन जीवेनात्मनानुपविश्य' इति; नैवं युक्तम्, एकत्वाङ्रह्मणः। मृदात्मनस्त्वनेकत्वात् सावयवत्वाच्च युक्तो घटे चूर्णा- त्मनानुमवेश:, चूर्णस्य अप्रविष्टदेशवत्वाच्च। न त्वात्मन एकत्वे सति निरवयवत्वादप्रविष्टदेशाभावाच्च प्रवेश उपपद्यते; कथं तर्हि प्रवेशः

त्यर्थः। उक्तमेव विवृणोति- कारणमेव हीति। कारणमेव कार्यात्मना प० रिणतमिति प्रसिद्धमित्यर्थः । ततः किम्? अत आह- तत इति। कारणेन कार्यस्य जन्मप्रभृति व्याप्तत्वादित्यर्थः । अप्रविष्टस्येवेति । देवदत्तादरिति शेषः। उपादानकारणस्य कार्याकारपरिणतिव्यतिरेकेण काये प्रवेशो नास्तीत्यत्र दष्टान्तमाह-न हीति। एवं ब्रह्मणस्ते- नैवात्मनानुप्रवेश इति सिद्धान्तं निराकृत्यान्येनात्मनानुप्रवेश इति स्वमतं दष्टान्तेनाह- यथा घट इत्यादिना। पार्थिवानि रजांस्यत्र चूर्ण- शब्दार्थः । घटोपादानभूताया मृदो मृज्जातीयचूर्णात्मना घटे यथानु- प्रवेश: तथा परस्यान्येन जीवेनात्मनानुप्रवेश इह विवक्षित इत्यर्थः । अत्रार्थे छन्दोगश्रुतिसंवादमाह-ध्रुत्यन्तराच्चेति। सिद्धान्ती निराकरोति -- नैवं युक्तमेकत्वाद्वह्मण इति। परमात्मनो जीवेनैक्याच्चूर्णस्य मृदन्यत्ववज्जीवस्य ब्रह्मान्यत्वं नास्ति, तथा च मृदश्चूर्णात्मनेव त्रह्मणोडन्येन जीवेनात्मना प्रवे- शकल्पनं न युक्तमेवेत्यर्थः । श्रुत्यन्तरेऽपि जीवस्यान्यत्वाश्रवणात् 'तत्त्वमसति' इत्यभेदस्यैव श्रवणाच्च अन्येनात्मनेति वदतः पूर्ववादिनो न तदप्यनुकूलमिति भाव: । संग्रह्वाक्यं दष्टान्तवैषम्योक्तिपूर्वकं विवृणोति -- मृदात्मनस्त्वित्या- दिना। मृज्जातीयस्य त्वित्यर्थः । सावयवत्वाच्चेति। सावयवस्य मूर्ततया प्र० वेशयोग्यत्वाच्चेत्यर्थः । चूर्णस्येति। तस्य स्वेनाप्रविष्टदेशवत्त्वाच्चेत्यर्थः । एकत्वे सतीति। एकत्वादित्यर्थः । ननु यदि जीवस्य ब्रम्मानन्यत्वाद्वह्मणश्च स्वतो

Page 271

६.) आनन्दवल्ली। १७१

स्यात्! युक्तश् प्रवेशः, श्रुतत्वात् -- 'तदेवानुपाविशत्' इति। साव- यवमेवास्तु तर्हि सावयवत्वात् मुखे हस्तपरवेशवत् नामरूपकार्ये जीवात्म- नानुप्रवेशो युक्त एवेति चेत्, न; अशून्यत्वात्। न हि कार्यात्मना परिणतनामरूपकार्यदेशव्यतिरेकेण आत्मशून्यः प्रदेशोऽस्ति, यं प्रविशे- ज्जीवात्मना। कारणमेव चेत्पविशेत्, जीवात्मत्वं जह्यात्, यथा घटो

व्यापकत्वादित्यादियुक्त्या अन्येनात्मना प्रवेशस्त्वया निराक्रियते, तर्हि तवापि कथं प्रवेशनिर्वाहः तेनैवात्मनानुप्रवेशासंभवस्याप्युक्तत्वादिति मत्वा पूर्ववादी पृच्छति-कथं तहींति। मास्तु प्रवेश इति त्वयापि वक्तुं न शक्यत इत्याह- युक्तश्रेति। तस्मादन्येनात्मनानुप्रवेश इति वदता मयैव प्रवेशनिर्वाहः कर्तव्य इति भावः। कथमित्याशङ्कयाह पूर्ववादी- सावयवमेवास्तु तर्हीति। यदि ब्रह्मणो निरवयवत्वे प्रवेशायोग्यता तहि सावयवमेव ब्रह्मास्तु उपादान- त्वान्मृदादिवत्। ततश्च प्रवेशोपपत्तिरित्याह- सावयवल्ादिति। यथा शिरःपाण्यादिमतो देवदत्तस्य हस्तादिरवयवः तथा नामरूपशब्दितकार्यप्रप- व्वाकारेण परिणममानस्य व्रह्मणोऽप्यवयवविशेषो जीवः; तथा च देवदत्तस्य हस्तात्मना मुखबिले प्रवेशवत्स्वावयवभूतजीवात्मना ब्रह्मणः शरीरलक्षणकार्ये प्रवेश उपपद्यत इत्यर्थः । उक्तं पूर्ववादिना प्रवेशनिर्वाहं सिद्धान्ती निराकरो- ति-नाशून्यत्वादिति। प्रवेष्ठव्यप्रदेशशून्यत्वाद्गह्मणो नोक्तवविधयापि प्र- बेशो युक्त इत्यर्थः । उक्तमेव विवृणोति- न हीति। कार्यात्मना परिणतस्य ब्रह्मणस्तावन्नामरूपात्मककार्यदेशे प्रवेशो व्तुं न शक्यते, मृत्कार्यस्य मृदा तद्वयवैरिव च ब्रह्मकार्यस्य सर्वस्य ब्रह्मणा तद्वयवजीवैश्च जन्मप्रभृत्येव व्याप्तत्वात्, नापि तद्तिरेकेणात्मना शून्यः कश्चित्प्रदेशोडस्ति यं प्रदेशं स्वावयवभूतेन जीवेनात्मना ब्रह्म प्रविशेदित्यर्थः । निष्कलश्रुत्या विरोधेन ब्रह्मणः सावयवत्वस्ाधकानुमानानुत्थानाच्चेत्यपि द्रष्टव्यम्। इत्थमन्येनात्मना म्रह्मण: कार्ये प्रवेश इति वदतः पूर्ववादिनो निरासं श्रुत्वा तदेकदेशी प्रत्यवतिष्ठ- ते-कारणमेव चेत्मविशेदिति। नात्र कारणस्य कार्ये प्रवेशः कथ्यते, किं तु कार्यविशेषस्य जीवस्य कारणे, तस्य च परिच्छिभत्वात्प्रवेष्टत्वोपपत्तिरिति

Page 272

१७२ [अनु.

मृत्मवेशे घटत्वं जहाति। 'तदेवानुभाविशत्' इति च ध्रुतेर्न कारणानु- प्रवेशो युक्तः। कार्यान्तरमेव स्यादिति चेत्- तदेवानुमाविशदिति जीवात्मरूपं कार्य नामरूपपरिणतं कार्यान्तरमेव आपद्यत इति चेत्, न; विरोधात्। न हि घटो घटान्तरमापद्यते। व्यतिरेकश्रुतिविरोधाच्च। जी- वस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन् । तदापतौ

घेदित्यर्थः । सिद्धान्ती तमपि निराकरोति- जीवात्मत्वं जह्यादिति । यदि जीव: स्वकारणे प्रविशेत्तदा स्वकीयं जीवात्मत्वमेव जह्यात्परित्यजेदित्यर्थः । जीवस्वरूपस्यैव विलयनप्रसक्गादिति यावत्। विकारस्य प्रकृतौ प्रवेशे लय एव स्यादित्यत्रोदाहरणमाह- यथेति। इतश्च न कारणे कार्यस्यानुप्रवेशो युक इत्याह- तदेवेति। तच्छद्दोपात्तस्य कार्यस्यैव प्रवेशकर्मत्वश्रवणादि- स्यर्थः । एवं पूर्ववाद्येकदेशिनि निरस्ते पुनः पूर्ववादी प्रकारान्तरेण प्रवेश- निर्वाहकमाशङ्कते-कार्यान्तरमेव स्यादिति। तदेव विवृणोति- तदेवे- ति। 'तदेवानुप्राविशत्' इत्यत्र नामरूपात्मना परिणतं ब्रह्म जीवात्मरूप कार्ये सहेहादिरूपं कार्यान्तरमेवापद्यत इत्ययमर्थो विवक्षितः, 'स्थूलोऽहम्' कृशोडहम्' इत्यादिरूपेणाइंशब्दार्थस्य जीवस्य शरीराद्यभेदानुभवादनुभवानु- सारेण श्त्यर्थवर्णनस्य न्याय्यत्वात्, तथा च ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति सिद्धमिति भावः । सिद्धान्ती निराकरोति -- न, विरोधादिति। कार्या- न्तरस्य कार्यान्तरतापत्तेविरुद्धत्वादित्यर्थः । अत्रोदाहरणमाह -- न हीति। जीवस्य देहादिभावो वास्तव इति पक्षे विरोधान्तरमाह -- व्यतिरेकेति। जीवस्यावस्थात्रये बाल्यादिषु चानुवृत्तिरवस्थात्रयस्य बाल्यादीनां च व्यावृत्ति- श्रानुभवसिद्धा; तथा चानुवृत्तिव्यावृत्तिलक्षणाभ्यामन्वयव्यतिरेकाभ्यामेव जी- वस्य देहादिभ्यः सकाशादो व्यतिरेक: सिद्धः तदुपोद्वलकतया तं व्यतिरेक- मनुवदन्त्यः 'योऽयं विज्ञानमयः' इत्याद्याः श्रुतयो विरुध्येरन्नित्यर्थः । अत एव 'स्थूलोडहम्' इत्यादिप्रतीतेर प्रमात्वान्न तदनुसारेण प्रवेशवाक्यार्थकल्पनं युज्यत इति भावः । जीवस्य देहादिभावो वास्तव इत्यत्रैव बाधकान्तरमाह- तदापत्ताविति। जीवस्य देहादिलक्षणकार्यान्तरतापत्तावित्यर्थः। असंभवमेव

Page 273

६.] आनन्दव्ली। १०

मोक्षासंभवाच्च। न हहि यतो सुच्यमानः, तदेव आपदते। न हि भृक्कला- पत्तिः वद्धस्य तस्करादेः। वाह्यान्तर्भेदेन परिणतमिति चेत्-तदेव कारणं ब्रह्म शरीराद्याधारत्वेन तदन्तर्जीवात्मना आधेयत्वेन च परि- णतमिति चेत्, न ; वहिष्ठप्रवेशोपपत्तेः । न हि यो यस्यान्तःस्थः स एव तत्मविष्ट इत्युच्यते। बहिठ्ठस्यानुप्रवेशः स्यात्, प्रवेशशब्दार्थस्यैवं दष्टत्वात्- यथा गृहं कृत्वा पाविशदिति। जलसूर्यादिप्रतिबिम्बवत्

विवृणोति-न हीति। यत इति। देह्दादिलक्षणादवन्धादित्यर्थः। दृष्टान्तमाह- न हीति। यथा शृङ्धलया बद्धस्य चोरदेर्या शृङ्गलापत्तिर्विद्यते सैव तस्करा- देर्न हि मोक्षो भवति तद्वदित्यर्थः । ननु यदि जीवस्य देहादिभावापत्तौ व्य- तिरेकश्रुतिविरोध: प्रसज्येत तर्हि तद्विरुद्ध एव प्रवेशोडस्त्विति पूर्ववादी प्रत्य- वतिष्ठते-बाह्यान्तर्भेदेनेति। एतदेव प्रपश्चयति -- तदेवेति। प्रकृतमा- काशादिकारणं ब्रह्मैव प्रथमं जीवं प्रत्याधारभूतदेहाद्याकारेण परिणमते पश्चा- रेहादावाधारे तदाधेयजीवरूपेण च परिणमते; तथा च ब्रह्मणो देहाद्याकारेण परिणतिः सृष्टिः जीवरूपेण परिणतिः प्रवेश इति सृष्टिप्रवेशक्रिययोर्भेदः समान- कर्तृकत्वं च सिध्यति, ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति स्वाभिमतार्थोऽपि सिध्यतीत्यर्थः । येयं शरीराद्यन्तर्जीवात्मना परिणतिः सा किं ब्रह्मणो मुख्य- प्रवेशत्वेन त्वदभिमता कि वौपचारिकप्रवेशत्वेन? नाद्य इत्याह-न; वहि- ष्ठेत्यादिना। न द्वितीयः, ब्रह्मणः परिणामित्वस्यासंभवात्। एतच ब्रह्मणः परिणामित्वनिराकरणं स्मृतिपादे विस्तरेण कृतमित्याशयेनात्राचारयैन कृतम्। सूचितं चात्रापि संग्रहेण प्राक् 'नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुप- पद्यते' इत्यत्र। तस्मादन्येनात्मना ब्रह्मणः प्रवेश इति पूर्ववादिमतमनुपपत्र- मेवेति स्थितम्। इत्थं पूर्ववादिनं निराकृत्य सिद्धान्ती स्वैकदेशिनमप्युत्थाप्य निराकरोति -- जलसूर्येत्यादिना। यथा सूर्यांदेरजलादौ प्रतिबिम्बभावल- क्षण: प्रवेशोडस्ति, तथा बुद्धयादौ ब्रह्मण: प्रतिबिम्बभाव एव प्रवेशपदार्थः 'यथा झयं श्योतिरात्मा विवस्वान्' इत्यादिश्रुतिषु 'आभास एव घ'

Page 274

१७४ वैचतिरीयोपनिषदि [भनु.

प्रवेशः स्यादिति चेत्, न ; अपरिच्छिन्नत्वादमूर्तत्वाच्च। परिच्छिन्नस्य मूर्तस्य अन्यत्र प्रसादस्वभावके जलादौ सूर्यादेः प्रतिविम्बोदयः स्यात्; न त्वात्मनः, अमूर्तत्वात्, आकाशादिकारणत्वात्, व्याप- कत्वात्, तद्विपकृष्टदेशपतिविम्बाधारवस्त्वन्तराभावाच्च प्रतिविम्बव- त्प्रवेशो युक्तः । एवं तर्हि नैवास्ति प्रवेशः; न च गत्यन्तरमुपल- भामहे, 'तदेवानुपाविशत्' इति श्रुतेः । ध्रुतिश्च नोऽतीन्द्रियविषये वि- ज्ञानोत्पत्तो निमित्तम्। न चास्माद्वाक्यात् यत्रवतामपि विज्ञानसुत्पधते।

इत्यादिसूत्रेषु च ब्रह्मणः प्रतिविम्बभावस्य प्रसिद्धत्वेन तस्यैव प्रवेश- पदार्थत्वकल्पने बाधकाभावादित्याशयः । अपरिच्छिन्नत्वादिति। व्यापक- त्वादित्यर्थः । अमूर्तत्वाच्चेति। मूर्तिरवयव संस्थानविशेष :, त्रहि तत्वात् , नि - रवययद्रव्यत्वादिति यावत्। व्यापकत्वे हेतुं पूर्ववाक्येनाह -- आकाशादी- ति। ननु निरवयवत्वव्यापकत्वादिना प्रसिद्धस्य गगनस्य मेघालोकादवच्छे- देन जलादौ प्रतिबिम्बोद्यदर्शनादात्मनोऽपि तथा कि न स्यादित्याशककुपाह- तद्विप्रकृष्टेति। लोके बिम्बसूर्याद्यपेक्षया विप्रकृष्टदेशवद्रूपवच् प्रतिबिम्बोद्य- योग्यं जलादिकं यथास्ति, न तथा ब्रह्मणः प्रतिबिम्बाधारवस्त्वस्ति, बुद्धया- देर्व्यापकात्मापेक्षया विप्रकृष्ठदेशत्वाभावात् उद्धतरूपरहितत्वाच्चेत्यर्थः। अत एव पूर्वोदाहृतश्रुतिसूत्राणामनयैव रीत्या प्रतिबिम्बभावपरत्वं निरस्यार्थान्तरे तात्पर्यम् 'वृद्धिह्वासभाक्त्वम्' इति सूत्रतद्भाष्ययोर्महता प्रपश्वेन प्रति- पादितमिति न तद्विरोध इति भावः । प्रतिबिम्बभावलक्षणस्य प्रवेशस्य निराकरणे प्रवेशवाक्यं निर्विषयं स्यादिति सिद्धान्त्येकदेश्याह -- एवं तहीति। प्रकारान्तरेण प्रवेशवाक्यस्य विषयमाशक्कय प्रकारान्तराणां निरस्तत्वादित्या शयेनाह-न चेति। प्रवेशवाक्यस्य निर्विषयत्वमयुक्कतं श्रुतिवाक्यत्वादि- त्याह- तदेवेति। प्रवेशादेरतीन्द्रियत्वेन तत्राज्ञाते श्रुतिप्रामाण्यस्यावाभ्यां स्वीकृतत्वाचेत्याह- श्रुतिश्चेति। तर्ह्यस्तु प्रवेशवाक्यादतीन्द्रियार्थबोध इत्या- शङ्कयाह-न चास्मादिति। प्रतिबिम्बभावानुपगमे सत्येतद्वाक्यार्थबोधे यम्रवतामप्यस्माकमस्माद्वाक्यादर्थज्ञानं न चोत्पथते, तस्मात्प्रतिबिम्बभाव-

Page 275

आनन्दवल्ली। १७५

इन्त तर्ह्यनर्थकत्वादपोह्यमेव तद्वाक्यम् 'तत्सष्टा तदेवानुमाविशत्' इति; न, अन्यार्थत्वात्। किमर्थमिदमस्थाने, प्रकृतो ह्यन्यो विवक्षितोऽस्य वाक्यार्थोऽस्ति; स स्मर्तव्य :- 'ब्रह्मविदान्नोति परम्' 'सत्यं ज्ञान- मनन्तं ब्रह्म, यो वेद निहितं गुहायाम्' इति। तद्विज्ञानं च विवक्षि- तम् ; प्रकृतं च तत्। ब्रह्मस्वरूपावगमाय च आकाशाद्नमयान्तं कार्य पदर्शितम् ; ब्रह्मावगमश्च आरब्धः। तत्नाभ्रमयादात्मनोऽन्योऽन्तर आत्मा पाणमयः, तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायाँ प्रवेशितः;

निराकरणे प्रवेशवाक्यं निर्विषयं स्यादित्यर्थः । एवमेकदेशिना प्रवेशवाक्यस्य निर्विषयत्वापादने कृते तच्छूत्वा तटस्थ आह -- हन्त तहीति। इदानों सिद्धान्ती प्रवेशवाक्यस्य निर्विषयत्वादिकमपाकरोति- न, अन्यार्थत्वा- दिति। प्राड् निराकृतेभ्योऽर्येभ्यः सकाशादन्यस्य प्रकरणाविरुद्धस्य प्रक- रणापेक्षितस्य चार्थस्य सत्वान्न वाक्यस्य निर्विषयत्वप्रसङ्गो न वापोह्यते- त्यर्थः । संग्रह्वाक्यं विवृणोति -- किमर्थमिति। वाक्यस्य निर्विषयत्वाद्या पादनमस्थाने न युक्तम्, अत इदं किमर्थ क्रियत इत्यर्थः। निर्विषय- त्वाद्यापादनस्यायुक्तत्वे हेतुमाह- प्रकृतो हीति । हि-शब्दो हेत्वर्थः । प्रकृतस्यात्र स्मर्तु योग्यस्यार्थान्तरस्य सत्वादित्यर्थः । कोऽसौ प्रकृतोऽर्थ इत्याकाङ्कायां तं दर्शयति -- ब्रह्मविदिति । 'ब्रह्मविदाप्नोति .... ' ' इति सूत्रे 'सत्यं ज्ञानम् ... ' इति मन्त्रे च तस्य ब्रह्मणः प्रत्यक्त्वेन विज्ञानं प्रक्र- तम्, न केवलं प्रकृतं विवक्षितं च तत्। 'अहं ब्रह्म' इति ज्ञानस्यैव परप्रा- प्तिसाधनत्वादित्यर्थः । एवं सूत्रमन्त्रयोः प्रकृतस्य ब्रह्मावगमस्य प्रवेशवाक्य- पर्यन्तमनुवृत्तिमाह-ब्रह्मस्वरूपेत्यादिना। त्रह्मावगमश्चेति। 'आत्मन आकाश: संभूत:' इत्यादिवाक्ये यतो ब्रह्मस्वरूपावगमायैव शरीरान्तं कार्य प्रदर्शितम् अतस्तद्वाक्येऽपि ब्रह्मावगम आरब्धोऽनुवृत्त इत्यर्थः । एवं सृष्टिवाक्येऽनुघृत्तस्य च तस्य विज्ञानमयवाक्येऽनुदृत्तिमाह- तत्रान्न- मयादिति। कोशवाक्येषु मध्य इति तत्रशब्दार्थः। स्थूलसूक्ष्मक्रमेण कोशानामान्तरत्वोपदेशस्य सर्वान्तरत्रम्मप्रतिपत्तिशेषत्वाद्विज्ञानशब्दलक्षितायां

Page 276

१७६ तैत्तिरीयोपनिषदि [बनु.

तत्र च आनन्दमयो विशिष्ट आत्मा प्रदर्शितः । ततः परम् आन- न्दमयलिङ्गाधिगमद्वारेण आनन्दवृद्ध्यवसान आत्मा ब्रह्म पुच्छं प- तिष्ठा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते। न ह्यन्यत्रोपलभ्यते ब्रह्म, निर्विशेषत्वात्; विशे-

बुद्धिगुहायां ब्रह्मावगमस्यानुवृत्तिर्युक्ता । अत्र प्रवेशवाक्यपर्यन्तमनुवृत्ति- कथनावसरे प्राणमये प्रवेशितो मनोमये प्रवेशित इत्यनुक्त्वा विज्ञान- मयपर्याये प्रवेशित इत्युक्ते: कोडभिप्राय इत्याकाङ्कायां तमभिप्रायं गुहाशब्द- प्रयोगेण सूचयति। एतदुक्त भवति -- 'यो वेद निहितं गुहायां परमे व्यो- मन्' इत्यत्र हार्दाकाशनिष्ठा गुहा केत्याकाङ्कायां सा गुहा विज्ञानमयपर्याये बुद्धिरूपेण निरूप्यते, अतो बुद्धौ निहितत्वेन ब्रह्मणोऽवगमः संपादनीय इति गुहानिहितवाक्यतात्पर्यसूचनार्थ विज्ञानगुह्ायां प्रवेशित इत्युक्तिरिति। नन्वे- वमानन्दमयस्य मुख्यात्मत्वं सिध्येत् 'अन्योऽन्तर आत्मानन्दमयः' इति वा- क्येन तस्यैव बुद्धिगुहास्थत्वाभिधानादित्याशङ्कयाह-तत्नेति। प्रियादिवि शिष्ट एवात्मा तत्र प्रवेशितः न शुद्धचिद्धातुः विशिष्टश्चामुख्य आत्मेत्युक्तमित्य- र्थः। कथं तर्हि बुद्धिगुहानिहि तत्वेन शुद्धब्रह्मावगमसिद्धिरित्याशङ्कयाह-ततः परमिति। आनन्दमयाधिगमानन्तरमित्यर्थः। नन्वानन्दमयाधिगमस्यानन्त- रयोक्तिसिद्धविशुद्धत्रह्माधिगमोपायत्वं कथमित्वत आह -- आनन्दमयलिङ्गेति। आनन्दमय एव विशिष्टोरऽर्थो विशेष्यस्य शुद्धचिद्धातोर्लिङ्गम्, विशिष्टस्य विशेष्याव्यभिचारित्वदर्शनात्। आनन्देति। आनन्दवृद्धेर्वक्ष्यमाणाया अव- सान: अवधिभूतः, निरतिशयानन्दरूप इत्यर्थः प्रतिष्ठाशब्दार्थमाह- सर्वविकल्पेति। सर्वकल्पनाधिष्ठानत्वादेव वस्तुतो निर्विशेषत्व्रमाह- निर्विकल्प इति। तथा च आनन्दमयरूपलिङ्गाधिगमद्वारेणानन्दवृद्धघ्- वसानभूत आत्मा यथोक्तोऽस्यामेवानन्दमयगुहायामेवाधिगन्तव्य इत्य- भिप्रेत्य बुद्धौ द्रष्टत्वादिरूपेणोपलब्धिरेव तस्य ब्रह्मणः प्रवेशत्वेन प्रवेश- वाक्ये कल्प्यते गौण्या वृत्त्योपचर्यत इत्यर्थः । तथा च वक्ष्यति- तदनु• प्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्ट श्रोतृ मन्तृ विज्ञानृ हृत्येवं विशेषवदुपलभ्यते

Page 277

६.] आनन्दवल्ली। १७७

पसंबन्धो हयुपलब्धिहेतुर्द्ृष्ट :- यथा राहोश्रन्द्रार्कविशेषसंबन्धः। एव- मन्तःकरणगुहासंबन्धो ब्रह्मण उपलब्धिहेतुः, संनिकर्षात्, अव- भासात्मकत्वाच्च अन्तःकरणस्य। यथा च आलोकविशिष्टघटाद्युप- लब्धिः, एवं बुद्धिपत्ययालोकविशिष्टात्मोपलब्धिः स्यात्; तस्मात् उपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव। वृत्तिस्थानीये त्विह पुनस्तत्सृद्टा तदेवातुपाविशदित्युच्यते ।।

तदेवेदमाकाशादिकारणं कार्य सृष्ट्रा तदनुपविष्टमिवान्तर्गुहायां

तदेव तस्य प्रवेश इति। बुद्धावेव प्रवेशकल्पने हेतुमाह -- न ह्यन्यत्रेति। बुद्धे: सकाशादन्यत्र ब्रह्मचैतन्यस्यानुपलम्भादित्यर्थः । तत्र हेतुमाह- निर्विशेषत्वादिति। व्यञ्ञकपदार्थरूपो यो विशेषस्तत्संबन्धरहितत्वादित्यर्थः । बुद्धिसंबन्धस्य व्रह्मोपलव्धिहेतुत्वं सदष्टान्तमाह- विशेषसंबन्धो हीति। व्यञजकपदार्थों विशेषपदस्यार्थः । ननु बुद्धावेव ब्रह्मचैतन्यस्योपलब्धिरिति न नियमः, घटः स्फुरति पटः स्फुरतीत्यादिप्रकारेण बुद्धेरन्यत्रापि तस्योपल- विधिदर्शनादित्याशङ्कयाह- संनिकर्षादिति। वृत्तिद्वारा बुद्धिसरबन्धादेव तत्राप्युपलब्धिरित्यर्थः । बुद्धेश्च्ैतन्यव्यञकत्वे युक्तिमाह- अवभासात्मक- त्वाच्चेति। प्रकाशात्मकत्वादित्यर्थः । अन्तःकरणस्य प्रकाशात्मकत्वमालोकादे- रिव स्वाभाविकमेव, न तु तप्तायःपिण्डादेरिवान्यकृतमिति सूचनार्थश्चकारः । बुद्धिवृत्तेर्घटादिषु चैतन्यव्य ्जकत्वं सदष्ठान्तमाह -- यथा चेति। आदिपदं नीलपीतादिसंग्रहार्थम्। यथा नीलपीताद्युपलन्धिरालोकसंबन्धकृता तथा विषयेष्वात्मनः स्फुरणरूपेणोपलब्धिरन्तःकरणवृत्तिलक्षणालोकसंबन्ध प्रयुक्तेत्य- र्थः । एवमन्वयव्यतिरेकाभ्यां बुद्धेरेव न्रह्मोपलब्धिसाधनत्वमिति प्रसाध्य प्रकृतमुपसंहरति -- तस्मादिति। मन्त्रे यद्गुहायां निहितिमिति गुहानिहितत्वं प्रकृतं तदेव प्राविशदित्यनेन पुनरुच्यत इत्यर्थः । तर्हि पौनरुक्त्यं स्यादिति शङ्कां वारयति -- वृत्तिस्थानीय इति। वृत्तिर्व्याख्या। तथा च व्याख्यान- व्याख्येयभावापन्नयोर्गुहानिहित प्रवेशवाक्ययोर्न पौनरुक्त्यदोष इति भावः । 'T. 23

Page 278

१७८ तैत्तिरीयोपनिषदि [अनु.

बुद्धौ द्रष्ट श्रोत मन्तृ विज्ञात्रित्येवं विशेषवदुपलभ्यते। तदेव तस्य प्रवेशः; तस्मादस्ति तत्कारणं ब्रह्म। अतः अस्तीत्येवोपलब्धव्य- म्। तत् कार्यमनुप्रविश्य; किम्१ सच्च मूर्तम्, त्यच्च अमूर्तम् अभ- वत्। मूर्ताभूर्ते ह्यव्याकृतनामरूपे आत्मस्थे अन्तर्गतेन आत्मना व्या क्रियेते। व्याकृते च मूर्तामूर्तशब्दवाच्ये ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वा आत्मा ते अभवदित्युच्यते। किं च, निरुक्तं चानिरुक्त च,

इदानीं प्रवेशशब्दार्थ कथयति- तदेवेदमित्यादिना। यदाकाशादि- कारणं प्रकृतं तदेव ब्रह्म इदं प्रत्यक्षादिसंनिधापितं कार्य सृष्टेरेत्यर्थः । अनुप्रविष्टमिवेति। गृहादावनुप्रविष्टं देवदत्तादिवस्तु यथा तदन्तरुपलभ्यते तथा ब्रह्मापि बुद्धेरन्तरुपलभ्यते, तथा चान्तरुपलभ्यमानत्वसाम्यात्प्रवेशश- ब्दो गौण इत्यर्थः । द्रष्टृत्वादिरूपेणोपलब्धिलक्षणे विवक्षिते प्रवेशे बुद्धयुप- हितचैतन्यरूपस्य जीवस्यैव कर्तृत्वेऽपि जीवब्रह्मणोर्वास्तिवैक्यमादाय सृष्टि- प्रवेशक्रिययोः समानकर्तृत्वस्वात् यः स्रष्टा स एवानुप्राविशत् क्त्वाप्रत्य- यश्रवणादिति सिद्धान्तो निष्प्रत्यूह इति भावः । एवमक्षराणि व्याख्याय प्रवेशवाक्यस्यापि ब्रह्मसतत्वसाधने उपयोगं कथयति -- तस्मादस्तीति। तत्प्रकृतमाकाशादिकारणं ब्रह्म अस्ति नास्तीति न, प्रवेष्टत्वात् असतः प्रवे- शादर्शनादित्यर्थः । ब्रह्मणो नास्तित्वाभावे फलितमाह -- अत इति। पृथि- व्यादिभूतत्रयं मूर्तमवशिष्टं भूतद्वयममूर्तमिति विभागो बोध्यः । ब्रह्मैव मूर्ता- मूर्ते अभवदित्यनेन तंयोर्ज्रह्मतादात्म्यमुच्यते, तत्रोपपत्तिमाह- मूर्तामूर्ते हीति। प्रागुत्पत्तेरव्याकृतनामरूपतयात्मनि स्थिते मूर्तामूर्ते एव सर्गादौ स्व :- न्तर्गतेन परमात्मना व्याक्रियेते इत्यर्थः। तयोरव्याकृतनामरूपतया प्रागव- स्थाने 'तद्वेदं तर्ह्यव्याकृतमासीत्' इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः । ततः किम्? अत आह-व्याकृते चेति। आत्मना त्विति। परमात्मना अविभक्त देशकाले परमात्मना तादात्म्यापन्ने एव, प्रागुत्पत्तेरात्मनोSद्वितीयत्वश्रवणादिति भावः। एतदुक्तं भवति- मूर्तामूर्तयोरव्याकृतयोरात्मतादात्म्यात्तयोरेव व्याक. तयोरपि तत्तादात्म्यमुपपद्यत एवेति कृत्वा तत्कारणभूत आत्मा ते मूर्तामूर्ते अभ-

Page 279

६.] आनन्दवल्ली। १७९

निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यः देशकालविशिष्टतया इदं तदित्युक्तम्; अनिरुक्तं तद्विपरीतम्; निरुक्तानिरुक्ते अपि मूर्तामूर्त- योरेव विशेषणे, यथा सच्च त्यच्च प्रत्यक्षपरोक्षे; तथा निलयनं चानिलयनं च। निलयनं नीडम् आश्रयः मूर्तस्यैव धर्मः; अनिलयनं तद्विपरीतम् अमूर्तस्यैव धर्मः। त्यदनिरुक्तानिलयनानि अमूर्तधर्मत्वेऽपि व्याकृतवि- षयाण्येव, सर्गोत्तरकालभावश्रवणात् । त्यदिति प्राणाद्यनिरुक्तं तदेवा- निलयनं च। अतो विशेषणानि अमूर्तस्य व्याकृतविषयाण्येवैतानि। विज्ञानं चेतनम्; अविज्ञानं तद्रहितमचेतनं पाषाणादि। सत्यं च व्यव- हारविषयम्, अधिकारात्; न परमार्थसत्यम्; एकमेव हि परमार्थसत्यं

वदिति श्रुत्योच्यत इति। इदं तदित्युक्तमिति। यत्त्वया पृष्ठं तदिदमिति निर्दि- ष्टमित्यर्थः। इहेदानीमयं विष्णुमित्र इत्यादिप्रकारेण निरूपितं वस्त्वित्यर्थः। विशे- षणे इति। निरुक्तं मूर्तस्यैवाभेदेन विशेषणम् अनिरुक्तममूर्तस्यैवाभेदेन विशेष णमिति विभागः । यथेति। यथा सच्छब्दवाच्यं प्रत्यक्षं भूतत्रयं मूर्तस्याभे- देन विशेषणं त्यच्छब्दवाच्यं च परोक्षं भूतद्वयनमूर्तख्ाभेदेन विशेषणं तथा निरुक्तानिरुक्ते अपीत्यर्थः । तथेति। निलयनं च तथा निरुक्तवन्मूर्तस्यैव धर्म इति संबन्धः । धर्म इति। तथा च सन्निरुक्तनिलयनानि मूर्तधर्माः, त्यदनि- रुक्तानिलयनान्यमूर्तधर्मा इति विभाग: कृत इति बोध्यम्। ननु त्यदादी- नाममूर्तधर्मत्वे स्रति ब्रह्मधर्मत्वं प्रस्ज्येत ब्रह्मणोऽप्यमूर्तत्वादिति, नेत्याह -- त्यदनिरुक्तेति। व्याकृतेति। व्याकृतं कार्यम्, तद्विशेषणान्येव न कारण- ब्रह्मविशेषणानि, तेषां तद्विशेषणत्वे सर्गात्प्रागपि सत्वापत्या तदुत्तरकाल- भावित्वश्रवणविरोधादित्यर्थः । व्याकृतविषयत्वमेव विवृणोति- त्यदिती- त्यादिना। प्राणो वायुः, आकाशसंग्रहार्थमादिपदम्। अत इति। त्यद्नि- रुक्तानिलय नशब्दैरभिहितस्य प्राणादेः कार्यत्वादेतान्यमूर्तस्य विशेषणानि व्या- कृतविषयाण्येवेति योजना। सत्यं चेति। 'सत्यं चानृतं च' इत्यत्र सत्यश- व्देन व्यावहारिकसत्यमेवोच्यते न तु परमार्थसत्यमित्यत्र हेतु :-- अधिकारा-

Page 280

१८० तैत्तिरीयोपनिषदि [अनु.

ब्रह्म। इह पुनः व्यवहारविषयमापेक्षिकं मृगतृष्णिकाद्यनृतापेक्षया उद- कादि सत्यमुच्यते। अनृत च तद्विपरीतम्। किं पुनरेतत्सर्वम्१ सत्यमभ- वत् परमार्थसत्यम्; किं पुनस्तत् ! ब्रह्म, 'सत्यं ज्ञानमनन्तं व्रह्म' इति प्रकृतत्वात्। यस्मात् सत्यदादिकं मूर्तामूर्तधर्मजातं यत्किंचेदं सर्वमवि शिष्टं विकारजातमेकमेव सच्छब्दवाच्यं ब्रह्माभवत्, तद्तिरेकेणाभा- वान्नामरूपविकारस्य, तस्मात् तत् ब्रह्म सत्यमित्याचक्षते ब्रह्मविदः । अस्ति नास्तीत्यनुप्रश्नः प्रकृतः; तस्य प्रतिवचनविषये एतदुक्तम्-

दिति। सच्च त्यच्चेत्यादीनां व्यवहारविषयाणामेव विकाराणां प्रकरणादित्यर्थः । किं च 'सत्यं च' इत्यत्र परमार्थसत्यग्रहणे परमार्थद्वयं प्रसज्येत, 'सत्यमभवत्' इत्यत्रापि परमार्थसत्यस्य गृहीतत्वात्। भवत्विति चेत्, तत्राह- एकमेव हीति। परमार्थसत्यस्याद्वितीयत्वं श्रुतिस्मृतिन्यायसहस्त्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः, अतो न परमार्थद्वये इष्टापत्तिरिति भावः । ननु व्यवहारविषया- काशादिप्रपश्वस्य कल्पितत्वात्कथं तत्र सत्यशब्दप्रवृत्तिरिति शङ्कां निराकुर्व- न्सत्यं च व्यवहारविषयमित्युक्तं विवृणोति-इह पुनरिति। 'सत्यं चानृतं च' इत्यत्रेत्यर्थः। आपेक्षिकं सत्यमुच्यत इति संबन्धः । किमपेक्षयोदकादि- लक्षणस्य सत्यस्यापेक्षिकत्वमित्याकाङ्कायामाह -- मृगतृष्णिकादीति। 'सत्यं चानृतं च' इत्यक्ष व्यावहारिकं वस्तु सत्यशब्दार्थः प्रातिभासिकं वस्त्वनृतश- ब्दार्थ इति निष्कर्षः । किं पुनरिति। एतत्प्रकृतं निरुक्तादिकं सर्वै कि- मिति प्रश्ने सत्यमभवदिति प्रतिवचनम् । तत्र सत्यं विशिनष्टि -- परमा- र्थेति। इदं च विशेषणं सत्यं चेत्यत्र गृहीतसत्यव्यावृत्त्यर्थमिति प्रागेव व्यक्तम्। परमार्थसत्यस्रूपं प्रश्नपूर्वकं विशिष्य दर्शयति -- किं पुनस्तदित्यादिना। यत्सत्यादिशब्दैरुपात्तं यच्चेदं किं चाविशेषितं विशिष्यानुपात्तं तत्सवै परमार्थ- सत्यमभवदिति रीत्या श्रुतौ 'यदिदं किं च' इति वाक्यस्य पूर्वेणैकवाक्यता बोध्या। इमामेवैकवाक्यतां प्रदर्शयन् 'तत्सत्यमित्याचक्षते' इत्यस्योपपत्ति- माह-यस्मादित्यादिना। पूर्व्रन्थस्य विवक्षितमर्थ दर्शयितुं तत्र वृत्तमनु- वदति-अस्तीत्यादिना। इदानीं तत्र विवक्षितं कथयति -- तस्मादिति।

Page 281

६.] आनन्दवल्ली। १८१

'आत्माकामयत बहु स्याम्' इति। स यथाकामं च आकाशादिकार्य सच्यदादिलक्षणं सृष्टा तदनुपविश्य पश्यन् शृण्वन्मन्वानो विजानन् वह- भवत्; तस्मात् तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन् हृदयगु- हायां निहितं तत्प्रत्ययावभासमानविशेषोपलभ्यमानमस्तीति विजा- नीयादित्युक्तं भवति। तत् एतस्मिन्नर्थे ब्राह्मणोक्ते एपः श्लोक: मन्त्रः भवति। यथा पूर्वेष्वत्नमयाद्यात्मप्रकाशकाः पञ्चसु, एवं सर्वा- न्तरतमात्मास्तिलप्रकाशकोऽपि मन्त्र: कार्यद्वारेण भवति॥

इति षष्ठानुवाकभाष्यम्॥।

श्रुत्या ब्रह्मण्यसतत्वाशक्कानिराकरणपूर्वकं सत्वप्रतिपादनायैव तख् भोक्तभो- ग्यात्मनावस्थानप्रतिपादनादित्यर्थः । अस्य हेतोरस्तीति विजानीयादित्यनेन संबन्धः। तद़ेवेति। ब्रह्मैवेत्यर्थः । इदंशब्दार्थमेवाह -- कार्यस्थमिति। कार्यक- रणसंघाते साक्षितया स्थितमित्यर्थः । बुद्धौ विशिष्य तस्योपलब्धिमभिप्रेत्याह- परम इत्यादिना। व्योम्नि या गुहा तस्यामिति सप्तम्योवैयधिकरण्यम्। हा- दमेवाकाशं परमं व्योमेति च प्रागेव दर्शितम्। मुख्यस्य निधानस्यासंभवं मनसि निधाय हृदयगुहायां निहितमित्यस्यार्थमाह -- तत्पत्ययेति। तस्मि- न्हृदयगुहाशब्दिते प्रत्यये साक्षिणा प्रतीयमानेऽन्तःकरणे योडयमात्मचै- तन्यव्ावभासमानो विशेषः 'पश्यन् एण्वन्' इत्यादिभाष्येण प्रदर्शितो द्रष्ट- त्वादिरूपभेदस्तेन रूपभेदेनोपलभ्यमानं प्रकाशमानं ब्रह्मेत्यर्थः । ननु 'असद्वा इदम्-' इति श्ोको न सर्वान्तरात्मास्तित्वप्रतिपादकः तदस्तित्ववाचिपदाभा- वात्, प्रत्युत आकाशादिकारणे वस्तुन्यसच्छब्दश्रवणेन तदसत्त्वस्यैव प्रतीते- श्रवेव्याशङ्कय विशिनष्टि-कार्यद्वारेणेति। असतः कार्यकारणत्वासंभवादस च्छब्दनिर्दिष्टस्यापि कारणस्य सतत्वं सिध्यतीत्याशयः ॥

इति तैत्तिरीयोपनिषद्भाष्यव्याख्यायां वनमालाख्यायाम् आनन्दवल्ल्यां पष्ठोऽनुवाक: ॥

Page 282

सप्तमोऽनुवाकः ॥

--

असद्वा इदमग्र आसीत्। ततो वै सदजा- यत। तदात्मान५ स्वयमकुरुत। तस्मात्तत्सुकृत- मुच्यत इति। यद्वै तत्सुकृतम्। रसो वै सः। रस५ ह्येवायं लब्ध्वानन्दी भवति। को ह्येवान्या- त्कः प्राण्यात्। यदेष आकाश आनन्दो न स्या- त्। एष ह्येवानन्दयाति। यदा ह्येवैष एतस्मिन्न- दृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽयं प्रतिष्ठां वि- न्दते। अथ सोऽभयं गतो भवति। यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भव- ति। तत्वेव भयं विदुषो मन्वानस्य। तदप्येष श्लोको भवति ॥१॥ इति सप्तमोऽनुवाक: ॥ असद्वा इदमग्र आसीत्। असदीति व्याकृतनामरूपविशेषविपरी

असदिति पदेनाव्याकृतं व्रह्मोच्यत इति संबन्धः । तत्रासच्छब्दप्रयोगे हेतुमाह- व्याकृतेति। व्याकृतौ व्यक्तीकृतौ नामरूपात्मकौ विशेषौ यस्य जगतस्तस्मिन्सच्छब्दस्य प्रसिद्धत्वात्तद्विपरीते कारणे ब्रह्मण्यसच्छन्द- प्रयोग इत्यर्थः । नन्वसत्पदस्य शून्यवाचित्वमेव किं न स्यात् तत्राह-

Page 283

७.] आनन्दवल्ली। १८३

तम् अव्याकृतं ब्रह्म उच्यते; न पुनरत्यन्तमेवासत्, न ह्यसतः सज्जन्मास्ति। इदम् इति नामरूपविशेषवद्याकृतं जगत् ; अग्रे पूर्व प्रागु- त्पत्तेः, ब्रह्मैव असच्छब्दवाच्यमासीत्। ततः असतः वै सत् प्रविभक्त- नामरूपविशेषम् अजायत उत्पन्नम् । किं ततः प्रविभक्तं पितु- रिव पुत्रः१ नेत्याह। तत् असच्छब्दवाच्यं स्वयमेत्र आत्मानम् अक्कुरुत कृतवद्। यस्मादेवम्, तस्मात् तत् ब्रह्मैव सुकृतं स्वयं कतै उच्यते। स्वयं कर्त ब्रह्मेति प्रसिद्धं लोके सर्वकारणत्वात् । यस्माद्वा स्वयमेवाकरोत्सर्व सर्वात्मना, तस्मात्पुण्यरूपेणापि तदेव ब्रह्म

न पुनरिति। तत्र हेतु :-- न हीति । हि यस्मादसतः सकाशात्सतः कार्यस्य जन्म लोके नास्ति तस्मादत्र सज्जन्महेतुत्वेन श्रूयमाणमसदत्यन्तासन्न भवतीत्यर्थः । इदमिति पदस्यार्थमाह-नामरूपेति। तत इति। कारणा- दित्यर्थः । स्वयमिति। स्वयमन्यानधिष्ठितं सदात्मानमेव जगदात्मना कृत- वदित्यर्थः । यस्मादेवमिति । यस्माद्रह्म स्वयमे कृतद्दितित्र्थः । सू र्स्य शोभनवाचिन: स्वयंशब्दनिर्दिष्ठमपरतन्त्रत्वलक्षणं शोभनमर्थः । कर्मार्थकस्या- पि क्त्प्रत्ययस्य चछान्दस्या प्रक्रियय। कर्तृत्ववाचित्वस्व्रीकारात्कृतमित्यस्य कर्त्र- थः। तथा च तस्मादिति हेतुवचनानुसारेण स्वयं कर्तृत्ववेषेण त्र्मैव सुकृत- मित्युच्यत इत्यर्थः । ननु ब्रह्मण एव स्वयं कर्तृत्वात्सुकृतशब्दवाच्यत्वमित्य युक्तं ब्रह्मान्यस्यापि कस्यचित्स्वयं कर्तृत्वसंभवादित्याशङ्कचाह -- स्वयमिति। लोकशब्दिते शास्त्रे समस्तजगत्कारणत्वाद्गह्मैव स्वयमन्यानधिष्ठिततया जग- त्कत्रिति प्रसिद्धं नान्यत्, अतो नातिप्रसङ्ग इति भावः । 'तदात्मानं स्वय- मकुरुत' 'तस्मात्तत्सुकृतमुच्यते' इति वाक्यद्वयं पुनरपि योजयन्प्रकारान्तरेण ब्रह्मण: सुकृतशब्दवाच्यत्वमाह-यस्माद्वेति। यद्वा ब्रह्म स्वयमात्मानमेव स- वे जगदकरोत् यस्मादात्मानमेव सर्वजगदात्मनाकरोत्तस्मात्तदेव कारणं ब्रह्म पुण्य रूपेणाव्यवस्थितं सत्सुकृतमुच्यत इति योजना। 'असद्वा इदमग्र आसीत्' इति प्रकृतश्ोके 'तस्मात्तत्सुकृतमुच्यते' इति भागस्य त्रह्मणः सुकृतशबदवा-

Page 284

१८४ तैत्तिरीयोपनिषदि [अनु.

कारणं सुकृतम् उच्यते। सर्वथापि तु फलसंवन्धादिकारणं सुकृतशब्द- वाच्यं प्रसिद्धं लोके। यदि पुण्यं यदि वा अन्यत् सा प्रसिद्धिः नित्ये चेतनकारणे सति उपपद्यते, तस्मादस्ति ब्रह्म, सुकृतप्रसिद्धेः । इत- श्रास्ति ; कुतः१ रसत्वात्। कुतो रसत्वप्रसिद्धिर्व्रह्मण इत्यत आह- यद्वै तत्सुकतं रसो वै सः। रसो नाम तृप्तिहेतुः आनन्दकरो मधुरा- म्लादि: प्रसिद्धो लोके। रसमिवायं लब्ध्वा प्राप्य आनन्दी सुखी

च्यत्वसाधने न तात्पर्य वैफल्यात्, किंतु ब्रह्मास्तित्वसाधन एव तात्पर्ये तत्परतयैवास्य श्रोकस्यावतारितत्वादित्याशयेन सुकृतशब्दवाच्येSनास्थां प्रदर्श- यन्त्रह्मास्तित्वसाधने उपयोगं सुकृतवाक्यस्य दर्शयति -- सर्वथापि त्वि- त्यादिना। यदि प्रसिद्धिबलात्पुण्यं सुकृतशब्द्वाच्यं यदि वास्मदुक्तरीत्या ब्रह्म उभयथापि सुकृतशब्द्वाच्यं स्वर्गादिफलसंबन्धादिकारणं लोकशब्दिते शास्त्रे प्रसिद्धमित्यर्थः । तत्र पुण्यस् फलसंबन्धतत्साधनदिव्यदेहादिसंबन्धका- रणत्वं कर्मकाण्डे प्रसिद्धम्, स्वयं कर्तृतया सुकृतशब्दवाच्यस्य ब्रह्मणोऽपि फलसंबन्धादिकारणत्वम् 'श्रुतत्वाञ्च' इति सूत्रोदाहृतश्रुतिप्रसिद्धमिति वि- भागः । फलदातृत्वस्य श्रुतिसिद्धत्वादुपपत्तेश्र व्रह्मैव फलदातृ, न कर्म आशु- तरविनाशित्वादिति सूत्रार्थः । ततः किम्? अत आह -- सा प्रसिद्धिरिति । सुकृतशब्दवाच्यपुण्यस्य सा फलसंबन्धादिकारणत्वप्रसिद्धि: आशुतरविनाशिनो जडस्य पुण्यकर्मणः स्वतः फलदातृत्वायोगान्नित्ये सर्वज्ञे ब्रह्मणि सत्येवोपपद्यत इत्यर्थः । त्रह्मणः सुकृतशब्द्वाच्यत्वपक्षे तु सा ब्रह्मणि फलसंबन्धादिकारण- त्वप्रसिद्धिस्तस्यासत्वे नोपपद्यत इति बहिरेव द्रष्टव्यम्। उपसंहरति -- तस्मादिति। सुकृतस्य फलसंबन्धादिकारणत्वप्रसिद्धेरित्यर्थः । रसत्वादिति । आनन्दत्वादिति यावत्। यत्सुकृतशब्दवाचयत्वेन प्रसिद्धं ब्रह्म तदेव रसः । विधेयापेक्षया पुंलिङ्गनिर्देशः । रसशब्दो ब्रह्मानन्दे गौण इति मत्वा गुणज्ञा- नाय मुख्यार्थमाह-रसो नामेति। तृप्तिपदं तुष्टिपरम्। एवं ब्रह्मानन्दोऽपि सत्त्वप्रधानेऽन्तःकरणेडभिव्यक्तः सन्प्राणिनामानन्दकर इति प्रागभिहितम् ; तथा चानन्दकरत्वसाम्याद्रसशब्दो ब्रह्मानन्दे गौण इति भावः । रसमिवाय-

Page 285

७.] आनन्दवल्ली। १८५

भवति। नासत आनन्दहेतुत्वं दृष्ट लोके। बाह्यानन्दसाधनरहिता अपि निरीहा निरेषणा ब्राह्मणा बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसः ; नूनं व्रह्मैव रसस्तेषाम्। तस्मादस्ति तत्तेपामानन्दकारणं रसवद्र्ह्म। इतश्रास्ति ; कुतः ? पाणनादिक्रियादर्शनात्। अयमपि हि पिण्डो जीवतः प्राणेन प्राणिति अपानेन अपानितीत्येवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैनिर्वर्त्यमाना दृश्यन्ते। तच्चैकार्थवृत्तित्वेन संहननं

मिति। अयं लोकः प्रसिद्धरससदशमात्मानन्दं वृत्तिद्वारा ल्ध्वेत्यर्थः । सुखी भवतीति। तथा चानन्दकरत्वादानन्दुरूपं ब्रह्मास्तीति भावः। ननु ब्रह्मण: सत्त्वाभावेडप्यानन्दहंतुत्वमस्तु ; नत्याह -- नासत इति। ननु विष- याणामेवानन्दहेतुत्वं न ब्रह्मानन्दस्येत्याशक्कय विषयशून्यानामप्यानन्ददर्शना- न्मैव्रमित्याह-बाह्येति। बाह्यत्वं साधनविशंषणम्। निरीहाः समस्तकरण- घेष्टावर्जिताः, समाधिनिष्ठा इति यावत्। निरेषणाः नीरागा विद्वांसः, साक्षात्कृतव्रह्मतत्वा इति यावत्। तेषामानन्दकारणं व्रह्मैवेति निश्चीयत इत्याह- नूनमिति। एवं विषयाभाव्रेडप्यानन्ददर्शनाद्विषयानुसंधानस्थ लेडपि विषयाणां वृत्तिविशेषद्वारा स्वरूपानन्दव्यञ्जकत्वमेव, नाविदमानानन्द - स्वरूपोत्पादकत्वमिति प्रागावेदितम; अतः सर्वप्राण्यानन्दहेतुत्वादस्ति तदा- नन्दकारणं व्रह्मेत्युपसंहरति- तस्मादिति। तेषामित्युपलक्षणम्, सर्वप्राणि- नामित्यर्थः । इतश्चेति। वक्ष्यमाणहेतोरपि त्रह्मास्ति। तमेव हेतुमाकाङ्कापूर्व- कमाह-कुत इत्यादिना। हतुं साधयति-अयमपि हीति। अपिशब्दो- डनुक्तसमुच्चयार्थ:सन्नाधिदैविकादिपिण्ड संग्रहार्थः। अध्यात्माधिभूताधिदैवि- केषु पिण्डेषु प्राणनादिक्रिया प्रत्यक्षानुमानादिप्रसिद्धेति सूचनार्थो हि-शब्दः । मृतदेहं व्यावर्तयति- जीवत इति। 'को ह्येवान्यात्कः प्राण्यात्' इति श्रुतौ प्राणापानग्रहणमुपलक्षणमित्याशयेनाह -- इत्येवमिति। सं- हतैरिति। यथा मृहारुतृणादीनि गृहप्रासादादिभावेन संहन्यन्ते तथा शरीरभावेन कार्यकरणानि संहन्यन्त इति भावः । ततः किमित्यत आह -- तच्चैकार्थेति। कार्यकरणानामेकस्य चेतनस्यार्थ प्रयोजनं प्रति साधनत्वेन *T. 24

Page 286

१८६ तैच्तिरीयोपनिषदि [अनु.

नान्तरेण चेतनमसंहतं संभवति, अन्यत्रादर्शनात्। तदाह-यत् यदि एपः आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यात् न भवेत्, को ह्येव लोके अन्यात् अपानचेष्टां कुर्यादित्यर्थः। कः पाण्यात् प्राणनंवा कुर्यात् ; तस्मादस्ति तड्रह्म, यदर्थाः कार्यकरणपाणनादिचेष्टाः; तत्कृत एव च आनन्दो लोकस्य। कुतः? एष हेव पर आत्मा आनन्दयाति आ- नन्दयति सुखयति लोकं धर्मानुरूपम्। स एवात्मा आनन्दरूपोSविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः। भयाभयहेतुत्वाद्विद्वदविदुषोरस्ति

मेलनमित्यर्थः । असंहतमिति। संहृतकार्यकरणव्यतिरिक्तमित्यर्थः । अन्य- त्रेति। गृहप्रासादादिषु स्वतन्त्रं चेतनं स्वामिनमन्तरेण संहननस्यादर्शनात्का- र्यकरणसंघातेSपि तद्विलक्षणः स्वामी चेतनोऽस्तीति निश्चीयते। स च चेतनः प्रतिशरीरं भेदेSनन्यथासििद्धप्रमाणाभावात्सर्वात्मकं ब्रह्मैवेति तदस्तित्वस्तिद्धि रित्यर्थः । इतश्चेत्यादिना प्रसाधितेऽर्ये वाक्यमवतारयति-तदाहेति। त- तकार्यकरणचेष्टाशेषित्वेन ब्रह्मणोऽस्तित्वमाह श्रुतिरित्यर्थः । ननु 'आकाश आनन्दो न स्यात्' इत्यत्राकाशानन्दपदयोः सामानाधिकरण्यमुचितम्, योगे- न निरूढ्या वा आकाशपदस्य ब्रह्मण्यपि प्रयोगसंभवात्, अत एव 'आका-

वणाद्वह्मपरत्वमाचार्यैरेव दर्शितम्; तथापि गुहानिहितवाक्यानुसारात् रूढ्य- नुसाराच्च वैयधिकरण्यमुक्तमिति मन्तव्यम्। न भवेदिति। सन्न स्यादित्यर्थः । अपानचेष्टां निःश्वासमिति यावत्। यदर्था इति। कार्यकरणानां प्राणना छुपलक्षिता: सर्वाश्चेष्टा यदर्थाः यस्यासंहतस्य चेतनस्य भोगार्थाः स चेत- नोऽस्त्येव अन्यथा भोक्तुरभावेन कार्यकरणचेष्टानां वैयर्थ्र्यप्रसङ्गात् तस्य च चेतनस्य वस्तुगत्या ब्रह्मत्वादस्ति तद्गह्मेत्युक्तम्। तत्कृत एव चेति। आत्मा- नन्दकृत एव लोकस्यानन्दश्चेत्वर्थः । ननु परस्यैवानन्दरूपत्वादानन्दहेतुत्व- मयुक्तम् आनन्दभेदाभावादित्याशङ्कयाह-स एवेति। अविद्ययेति। भ्रान्त्या नानात्वेनानुभूयत इत्यर्थः । 'यदा ह्येवैषः' इत्यादेस्तात्पर्यमाह- भयाभयेति। नन्वसतः सकाशादेव भयनिवृत्तिरस्तु; नेत्याह -- सद्व-

Page 287

v.] आनन्दवल्ली। १८७

तद्रह्म। सद्वस्त्वाश्रयणे हि अभयं भवति; नासद्वस्त्वाश्रयणे भयनिवृत्ति- रुपपद्यते। कथमभयहेतुत्वमिति, उच्यते -- यदा ह्येव यस्मात् एपः साध- कः एतस्मिन् ब्रह्मणि-किंविशिष्टे? अदृश्ये, दृश्यं नाम द्रष्टव्यं विकारः, दर्शनार्थत्वाद्विकारस्य; न दृश्यम् अदृश्यम्, अविकार इत्यर्थः । एत- स्मिन्नदृश्ये अविकारेSविषयभूते, अनात्म्ये अशरीरे, यस्मादद्टश्यं तस्मा- दनात्म्यम्, यस्माच्चानात्म्यं तस्मादनिरुक्तम् ; विशेषो हि निरुच्यते; विशेषश्च विकारः; अविकारं च ब्रह्म, सर्वविकारहेतुत्वात्; तस्मात् अनिरुक्तम्। यत एवम्, तस्मादनिलयनं निलयनं नीड आश्रयः न निलयनम् अनिलयनम् अनाधारम् ; तस्मिन् एतस्मिन् अदृश्येऽनात्म्ये- Sनिरुक्तेऽनिलयने सर्वकार्यविलक्षणे ब्रह्मणीति वाक्यार्थः। अभय- मिति क्रियाविशेषणम्। अभयामिति वा लिङ्गान्तरं परिणम्यते। प्रतिष्ठां

स्लाश्रयण इति। लोके श्रीरामादेः सत एव भयनिवृत्तिहेतुत्वप्रसिद्धेरसतः

झणो विद्वद्भयहेतुत्वे मानं प्रश्नपूर्वकं दर्शयति -- कथमित्यादिना। विकार इति। अध्यस्तमिति यावत्। अविषयीभूत इति। सर्वदृश्यवर्जित इति यावत्। आत्म्यपदेनात्मीयं शरीरमुच्यत इत्याशयेनाह -- अशरीर इति। यस्माच्चेति। च-शब्दोऽवधारणार्थः । यस्माद्वेतोरनात्म्यं ब्रह्म तस्मादेव हेतो- रनिरुक्तमपीत्यर्थः । अत्रात्म्यनिरुक्तनिलयनानां दृश्यविशेषत्वाद्दृश्यसामान्य- निषेधस् 'व्यापकनिवृत्त्या व्याप्यनिवृत्तिः' इति न्यायेनात्म्यनिरुक्तनिलयन- निषेधहेतुत्वमत्र विवक्षितमिति मन्तव्यम्। विशेषो हीति। स विशेषः पदार्थ इत्यर्थः । निरुच्यते समानासमानजातीयेभ्यो निष्कृष्योच्यत इत्यर्थः। घटा- दिरत्रोदाहरणम्। यत एवमिति। यतः अदृश्यत्वाद्वेतोरनिरुक्तं ब्रह्म तस्मा- देव हेतोरनिळयनम् आधाररहितमित्यर्थः। यद्वा यथाश्रुतानुरोधेन पूर्वपूर्वनिषे- धस्यैवोत्तरोत्तर निषेधहेतुत्वं बोध्यम्। एवं व्याख्यातानि पदान्यनूद्य वाक्या- र्थमाह -- तस्मिन्नेतस्मिम्तित्यादिना। सर्वकार्यपदं दृश्यमात्रोपलक्षणार्थम्,

Page 288

१८८ तैत्तिर्रायोपनिषदि [अनु.

स्थितिमात्मभावं विन्दते लभते। अथ तदा सः तस्मिन्नानात्वस्य भयहे- तोरविद्याकृतस्यादर्शनादभयं गतो भवति। स्वरूपप्रतिष्ठो ह्यसौ तदा भवति, यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति। अन्यस्य ह्यन्यतो भयं भवति, नात्मन एव आत्मनो भयं युक्तम्; तस्मात् अना- त्मैवात्मनो भयकारणम्। सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते सत्सु भयहेतुषु; तच्चायुक्तमसति भयत्राणे ब्रह्मणि। तस्मात्तेषामभयदर्शना- दस्ति तदभयकारणं ब्रह्मेति। कदासावभयं गतो भवति साधकः? यदा नान्यत्पश्यति आत्मनि च अन्तरं भेदं न कुरुते, तदा अभयं गतो भवतीत्यभिप्ायः । यदा पुनरविद्यावस्थायां हि यस्मात् एपः अ-

अन्यथा मूलाविद्यादिवैलक्षण्यसिद्धयभावप्रसङ्गादिति बोध्यम्। क्रिया- विशेषणमिति। अभयं यथा भवति तथा विन्दत इति लाभक्रियावि- शेषणमित्यर्थः । प्रतिष्ठाविशेषणं वेत्याह- अभयामिति वेति। आत्मभाव- मिति। सर्वविशेषरहितं व्रह्माहमिति साक्षात्काराभिव्यङ्गयमिति शेषः । अद- र्शनादिति। वस्तुत इति शेषः । विदुषोऽपि बाधितद्वैतदर्शनाभ्युपगमादिति मन्तव्यम्। अभयप्राप्तिमेव विवृणोति-स्वरूपप्रतिष्ठो हीति। यत्र यस्मि- नस्वरूपे स्थितो विद्वान्वस्तुतोऽन्यन्न पश्यति अन्यन्न शृणोति अन्यन्न विजा- नाति च, तादशस्वरूपप्रतिष्ठोऽसौ विद्वान् तदा विद्याकाले भवतीति मन्त- व्यमित्यर्थः; अद्वितीयं ब्रह्मैव तदा भवतीति यावत्। तत्र 'ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतिप्रसिद्धिसूचनार्थो हि-शब्दः। ननु विदुषोन्यद- र्शनाभावेऽपि कथं भयनिवृत्तिरित्यत आह- अन्यस्य हीति। ननु स्वस्मा- दपि स्वस्य भयं किं न स्यादित्याशङ्कयाह-नात्मन इति। तथा सति 'द्वितीयाद्वै भयं भवति' इति श्रुतिविरोधप्रसङ्गादनुभवविरोधप्रसङ्गाच्चेति भावः । अनात्मैवेति। स च विदुषो वस्तुतो नास्ति, अतः 'अथ सोऽभयं गतो भवति' इति वचनमुपपन्नमिति भावः। यदुक्त वि- द्वदभयहेतुत्वादस्ति ब्रह्मेति तदनुभवेन साधयति-सर्वत इति। ब्राह्मणा ब्रह्मविदः । भयहेतुष्विति । शरीरप्रतिकूलेषु सर्पव्याब्रादिष्वित्यर्थः । उक्तमर्थ

Page 289

".] आनन्दवल्ली। १८९

विद्यावान् अविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीय चन्द्रवत्पश्य- ति, आत्मनि च एतस्मिन् ब्रह्मणि, उत् अपि, अरम् अल्पमपि, अन्तरं छिद्रं भेदं भेददर्शनं कुरुते; भेददर्शनमेव हि भयकारणम्; अल्पमपि भेदं पश्यतीत्यर्थः । अथ तस्माद्वेददर्शनाद्धेतोः तस्य भेददर्शिनः अत्मनो भयं भवति। तस्मादात्मैवात्मनो भयकारणमविदुषः; तदेतदाह- तत् ब्रह्म त्वेव भयं भेददर्शिनो विदुषः ईश्वरोऽन्यो मत्तः अहमन्यः संसा- रीत्येवंविदुषः भेददृष्टमीश्वराख्यं तदेव ब्रह्म अल्पमप्यन्तरं कुर्वतः भयं भवति एकत्वेन अमन्वानस्य। तस्मात् विद्वानप्यविद्वानेव सः, योऽ्य- मेकमभिन्नमात्मतत्त्वं न पश्यति। उच्छेदहेतुदर्शनादुच्छेद्याभिमतस्य भयं भवति; अतुच्छेद्यं द्युच्छेदहेतु :; तन्नासत्युच्छेदहेतावतुच्छेद्ये तद-

संक्षिप्य प्रश्नपूर्वकमाह-कदासावित्यादिना। तैमिरिकेति। यथा तैमिरि- को दुष्टनेत्नः पुरुषो वस्तुत एकस्मिन्नेव चन्द्रे चन्द्रभेदं पश्यति तथा एतस्मिन्नेवात्मस्वरूपे ब्रह्मण्यविद्यया कल्पितं भेदरूप वस्तु यदा पश्यती- त्यर्थः। अविद्याप्रत्युपस्थापितभेदवस्तुदर्शनमेवाक्षरव्याख्यानपूर्वकं विवृणो-

कुरुत इत्यनुपपत्नमित्याशक्कयाह-भेददर्शनमिति। इतश्चान्तरपदं भेदद- शनपरमेव न भेदपरमित्याह-भेददर्शनमेव हीति। अल्पमपीति। उपा- स्योपासकभावोपेतमपीत्यर्थः । आत्मन इति। भेदेन दृष्टादीश्वरादित्यर्थः । उक्तमर्थ संक्षिप्याह-तस्मादिति। स्वरूपभूतोऽपि परमात्मा तद्भेददर्शिनो भयकारणमित्युक्तं भवतीत्यर्थः । अस्मिन्नर्थे उत्तरवाक्यमवतार्य व्याचष्े- तदेतदाहेति। विद्वानपीति। य एकरूपमद्वितीयमात्मनस्तत्त्वं न पश्यति, सोडयं विद्वानपि सकलवेदशास्त्रविदृपि अविद्वानेव भयमध्यस्थत्वादित्यर्थः । नन्वविदुष: स्वस्येश्वराद्वेदं पश्यतोपि कथं भयसंभावना? तत्राह- उच्छे- देति। उच्छेदो नाशपीडादिः, तत्कारणवस्तुज्षानादुच्छेद्यत्वेनाभिमतस्य प्राणि- बर्गस्य भयं भवतीत्यर्थः । तञ्व सर्वोच्छेदहेतुभूतं वस्तु ब्रह्मैवेत्याशयः। कुत

Page 290

१९० तैत्तिरीयोपनिषदि [भनु.

र्शनकार्य भयं युक्तम्। सर्वे च जगन्भय वद्ृश्यते। तस्माज्जगतो भयदर्श- नाद्रम्यते-जूनं तदस्ति भयकारणमुच्छेदहेतुरनुच्छेदात्मकम्, यतो जगद्विभेतीति। तत् एतस्मिन्नप्यर्थे एपः श्लोकः भवति॥

इति सप्तमानुवाकभाष्यम् ।

इत्यत आह- अनुच्छेद्यं हीति। उच्छेदहेतोरप्युच्छेद्यत्वे तस्य तस्यान्य उच्छेदहेतुर्वक्तव्य इत्यनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यम्; तच् ब्रक्मणोऽन्यत्र न संभाव्यते, 'अतोऽन्यदार्तम्' इति श्रुत्या तदतिरिक्तस्य सर्वस्य नाशप्रतिपा- दनादिति भावः। एवं भेददर्शिनः प्राणिवर्गस्य भयकारणं ब्रक्मेति वदतो वाक्यसंदर्भस्य ब्रह्मास्तित्वसाधने तात्पर्यमादौ संगृहीतं प्रपथ्यति- तभा- सतीति। तस्मादुच्छेदहेतुदर्शनकार्य भयं जगतो दृश्यमानं स्वयमनुच्छेद- स्वभावे परेषामुच्छेदहेतावसति न युक्तमिति योजना। ननु तदर्शनकार्य भयं जगतो नास्तीति वदन्तं प्रत्याह- सर्व चेति। अनुच्छेदात्मकमिति। नित्यमिति यावत्। यत इति। यतो जगद्विभेति तङ्गयकारणमस्ति नूनं निश्रय इत्यर्थ: ।

इति सैत्तिरीयोपनिषद्धाष्यव्याख्यायां वनमाळारयायाम् आनन्दवल्लयां सप्तमोऽनुवाक:॥

Page 291

अष्टमोऽनुवाकः ॥

भीषास्माद्वातः पवते। भीषोदेति सूर्यः । भीषास्मादभिश्चेन्द्रश्च। मृत्युर्धावति पश्चम इति। सैषानन्दस्य मीमापसा भवति। युवा स्यात्साधु- युवाध्यायकः । आशिष्ठो द्रढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्ात्। स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ स एको मनुष्यगन्धर्वाणामानन्दः। श्रोत्रि- यस्य चाकामहतस्य। ते ये शतं मनुष्यगन्धर्वा- णामानन्दाः। स एको देवगन्धर्वाणामानन्दः। श्रोलियस्य चाकामहतस्य। ते ये शतं देवगन्ध- र्वाणामानन्दाः। स एकः पितृणां चिरलोकलो- कानामानन्दः । श्रोत्रियस्य चाकामहतस्य। ते ये शतं पितृणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः ।। २।। श्रोत्रियस्य चाकामहतस्य। ते ये शतमाजा- नजानां देवानामानन्दाः। स एक: कर्मदेवानां

Page 292

१९२ तैच्तिरीयोपनिषदि [अनु.

देवानामानन्दः। ये कर्मणा देवानपियन्ति। श्रो- त्रियस्य चाकामहतस्य। ते ये शतं कर्मदेवानां देवानामानन्दाः। स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवानामा- नन्दाः। स एक इन्द्रस्यानन्दः ॥ ३ ॥ श्रोत्रियस्य चाकामहतस्य। ते ये शतमिन्द्र- स्यानन्दाः । स एको बृहस्पतेरानन्दः। श्रोत्रि- यस्य चाकामहतस्य। ते ये शतं बृहस्पतेरानन्दाः। स एक: प्रजापतेरानन्दः। श्रोत्रियस्य चाकाम- हतस्य। ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य।।४।।

स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः । स य एवंवित्। अस्माल्लोकात्प्रेत्य। एतमन्नमयमा- त्मानमुपसंक्रामति। एतं प्राणमयमात्मानमुपसं- क्रामति। एतं मनोमयमात्मानमुपसंक्रामति। एतं विज्ञानमयमात्मानमुपसंक्रामति। एतमान- न्दमयमात्मानमुपसंक्रामति। तदप्येष श्र्ोको अवति॥५॥ इति अष्टमोऽनुवाकः।

Page 293

आनन्दवल्ली। १९३

भीषा भयेन अस्मात् वातः पवते। भीषोदेति सूर्यः । भीषा अस्मात् अगनिश्ेन्द्रश्। मृत्युर्धावति पञ्चम इति। वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वायासबहुलेपु नियताः प्रवर्तन्ते; सद्युक्तं प्रशास्तरि सति अन्यस्मिन् नियमेन तेषां प्रवर्तनम्; तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म यतस्ते भृत्या इव राजः । यस्मात् ब्रह्मणः भयेन भवर्तन्ते यच्च भयकारणमानन्दं ब्रह्म तस्य अस्य ब्रह्मणः आ- नन्दस्य एपा मीमांसा विचारणा भवति। किमानन्दस्य मीमांस्यमिति, उच्यते- किमानन्दो विषयविषयिसंबन्धेन जनितः लौकिकानन्दवत्,

अस्मादिति। प्रकृताङ्गह्मण इत्यर्थः । अभनिश्चेन्द्रश्च स्वस्वकार्यमनुतिष्ठत इत्यर्थः । धावतीति। समाप्तायुष: प्रतीति शेषः । पश्चमः पश्चत्वसंख्यापू- रक इत्यर्थः । श्रोकस्य भयकारणत्रह्मास्तित्वे तात्पर्य दर्शयति- वातादयो हीति। महार्हा इति। पूज्यतमा इत्यर्थः । यदा वाय्वादीनामपि भयकारणं ब्रह्म तदान्येषां किमु वक्तव्यमित्याशयेन श्रुतौ वातादय उदाहृताः, तमाशयं प्रकटयितुं महार्हत्वादिविशेषणमिति मन्तव्यम्। ननु स्वयं दिगीश्वराणामपि ते- षां नियता प्रवृत्ति: स्व्त एवास्तु यथेश्वरस्य सृष्टयादौ नियता प्रवृत्तिरनन्यायत्ता तद्वद्विति; नेत्याह-तद्युक्तमिति। बहूनां दिक्पालानां प्रायेण तुल्यैश्व्वर्याणां वि- रुद्धेपु कार्येषु प्रवर्तमानानां विनिगमनाविरहादिना लोकवदेव कलहप्रवृत्तेराव- शयकत्वान्नियतं तेषां प्रवर्तनमस्त्यन्यस्मिन्नियन्तरि न युक्त्कमित्यर्थः । यत इति। यतस्ते वातादयो राज्ञो भृत्या इव विभ्यति तत्तेषां नियन्तृ त्रह्मास्तीति योजना। ननु सैषा ब्रह्मणो मीमांसा भवतीति वक्तव्यं तस्यैव भयादिहेतुत्वेन प्रकृतत्वात् नानन्दस्येत्याशङ्कां वारयन्मीमांसावाक्यमवतारयति -- यस्मादि- त्यादिना। आनन्दं ब्रह्मेति। 'यदेष आकाश आनन्दो न स्यात्' इति ब्रह्मण एवानन्दरूपत्वस्योक्तत्वान्नासंगतिरिति भावः । नन्वानन्दस्वरूपस्य दुःखादिस्वरूपवत्प्रसिद्धत्वादानन्दस्वरूपं न विचारणीयमिति मत्वा शङ्कते -- किमानन्दस्येति। ब्रह्मस्वरूपतया श्रत आनन्दो विषयानन्दवज्जन्यो नित्यो .T.25

Page 294

१९४ तैच्तिरीयोपनिषदि [अनु.

आहोस्वित् स्वाभाविकः, इत्येवमेषा आनन्दस्य मीमांसा ।

तत्र लौकिक आनन्दो वाह्याध्यात्मिकसाधनसंपत्तिनिमित्त उत्क- छ्टः। सः य एष निर्दिश्यते ब्रह्मानन्दानुगमार्थम्। अनेन हि प्रसिद्धेन आनन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते। लौकिको- डप्यानन्दः व्रह्मानन्दस्यैव मात्रा; अविद्यया तिरस्क्रियमाणे विज्ञाने उत्कृष्यमाणायां च अविद्यायां ब्रह्मादिभिः कर्मवशात् यथाविज्ञानं

वेति संशयनिवृत्त्यर्था मीमांसेत्याह-उच्यत इति। स्रक्चन्दनादिर्विषयः, तदनुभविता पुरुषो विषयी, तयोः संबन्धेनेत्यर्थः ॥

ननु ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि मानुषाद्यानन्दो- पन्यासः१ तत्राह- तत्र लौकिक इति। बाह्यसाधनानि विषयाः, आध्या- त्मिकानि साधनानि देहमधिकृत्य वर्तमानानि यौवनादीनि, तेषां द्विविधानां साधनानां संपत्तिर्मेलनं निमित्तं यस्यानन्दस्य स तथा। अत एवानन्दस्यो- त्कर्षों निर्दिश्यते 'स एको मानुषः' इत्यादिनेति शेषः। ब्रह्मानन्दानुगमा- र्थमिति। लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परिमाणवदित्या- नन्दतारतम्यावधित्वेन निरतिशयस्वाभाविकानन्दरूपव्रह्मानन्दानुमानार्थ लौ- किक आनन्दो निर्दिश्यत इत्यर्थः । अनुगममेव विशदयति- अनेन हीति। ब्रह्मानन्दस्य विषयानुसंधानविमुखविद्वद्धुद्विविषयत्वाच्च न विषयविषयिसरंबन्ध- जनितत्वमित्याशयेनाह-व्यावृत्तेति। व्यावृत्ता निवृत्ता विषया यस्या बुद्धेः सकाशात्सा तथा। प्रकारान्तरेण लौकिकानन्दानां ब्रह्मानन्दावगमोपायत्वम- भिप्रेत्याह-लौकिकोऽपीति। मात्रा अवयवः। लौकिकानन्दानां हिरण्यग- र्भानन्दादर्वाक्तारतम्येन निकर्षः, मानुषानन्दादूर्ध्व तारतम्येनोत्कर्ष इति व्य- वस्था। तत्र लौकिकानन्दस्य ब्रह्मानन्दमात्रारूपत्वं प्रपश्चयन्नादौ तत्र निकर्ष- प्रयोजकमाह-अविद्ययेति। तिरस्क्रियमाणे विज्ञान इति। विवेके तारतम्ये- नाभिभूयमान इत्यर्थः; तथा च विवेकाभिभव एको निकर्षप्रयोजक इति भावः । तत्र प्रयोजकान्तरं सूचयति-उत्कृष्यमाणायां चेति। कामक्रो-

Page 295

८.] आनन्दवल्ली। १९५

विषयादिसाधनसंबन्धवशाच् विभाव्यमानश्चलोऽनवस्थितो लौकिकः संपद्यते; स एव अविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु अकामहतविद्वच्छोत्रियप्रत्यक्षो विभाव्यते शतगुणोत्तरोत्तरोत्कर्षेण याव- द्धिरण्यगर्भस्य ब्रह्मण आनन्द इति॥

निरस्ते त्वविद्याकृते विषयविषयिविभागे विद्यया, स्वाभाविकः

धादिलक्षणैः स्वकार्यविशेषैर्निबिडायामित्यर्थः। कर्मापकर्षतारतम्यमप्यप- कर्षप्रयोजकमित्याशयेनाह-कर्मवशादिति। यथाविज्ञानं विभाव्यमान इति संबन्धः । विषयापकर्षादिकमपि तत्र प्रयोजकमित्याशयेनाह- विषयादीति। चलः क्षणिकः, अनवस्थितः अनेकरूपः, अपकर्षतारत- म्योपेत इति यावत्। संपद्यते, ब्रह्मानन्दो लौकिकः संपद्यत इत्यर्थः । योऽयं ब्रह्मानन्दस्य विषयविशेषादिकृतवृत्त्युपहितो भागः एष एव मात्ाशब्दितो लौकिकानन्द इति भावः । स एवेति। व्यावृत्तविषयबुद्धिगम्य इत्यत्र अका- महतविद्वच्छोत्रियप्रत्यक्षगम्यत्वेन प्रकृतो ब्रह्मानन्द एव मनुष्यगन्धर्वाद्युत्तरो- त्तरभूमिषु ब्रह्मण आनन्द इत्यन्तासु शतगुणोत्तरोत्कर्षेण विभाव्यत इति संबन्धः । उत्तरोत्तरमानन्दोत्कर्षे पूर्वोक्तानाम विद्यादीनामपकर्षतारतम्यं प्रयो- जकमाह-अविद्याकामकर्मापकर्षेणेति। अकामहतेति। अकामहतविद्व- च्छोत्रियपदानां कर्मधारयः । 'श्रोत्रियस्य चाकामहतस्य' इत्यत्राकामहतत्वं सातिशयमिति वक्ष्यति, तद्वदत्रापीति शङ्कानिरासार्थ विद्वत्पदम्, तच्च ब्रह्म- साक्षात्कारवत्परमिति मन्तव्यम्। ब्रह्मण इत्यस्य विवरणम्- हिरण्यगर्भ- स्येति।

मात्राभूतेन लौकिकानन्दजातेनावगन्तव्यं ब्रह्मानन्दं दर्शयति- नि- रस्ते त्विति। साधनसंपत्तिकृतवृत्तिविशेषोपहितस्वरूपानन्दो विषयः, तद- नुभविता जीवो विषयी, तयोर्विभागो मलाविद्याप्रयुक्त :; तस्मिन्नविद्याकृते ब्रह्मात्मैक्यविद्यया निरस्ते सति य आनन्दः समाधावभिव्यज्यते स एव स्वाभाविक: परिपूर्ण एकरूपो ब्रह्मानन्द इत्यवगतो भवतीत्यर्थः। एतदुक्तं

Page 296

१९६ तैत्तिरीयोपनिषदि [अनु.

परिपूर्णः एक: आनन्दः अद्वैतः भवतीत्येतमर्थ विभावयिष्यब्राह- युवा प्रथमवयाः; साधुयुवेति साधुश्वासौ युवा चेति यूनो विशेषणम्; युवाप्यसाधुर्भवति साधुरप्ययुवा, अतो विशेषणं युवा स्यात्साधुयुवेति; अध्यायकः अधीतवेदः । आशिष्ठः आशुतमः; द्रहिष्ठः दृढतमः; बलिष्ठः वलवत्तमः; एवमाध्यात्मिकसाधनसंपन्नः । तस्येयं पृथिवी सर्वा वित्तस्य चित्तेनोपभोगसाधनेन दृष्टार्थेनादृटष्टार्थेन च कर्मसाधनेन संपन्ना पूर्णा; राजा पृथिवीपतिरित्यर्थः । तस्य य आनन्दः, सः एक: मा- नुपः मनुष्याणां प्रकृष्टः एक आनन्दः । ते ये शतं मानुषा आनन्दाः, स एको मनुष्यगन्धर्वाणामानन्दः; मानुपानन्दात् शतगुणेनोत्कृष्टः मनुष्यगन्धर्वाणामानन्दः भवति। मनुष्याः सन्तः कर्मविद्याविशेषात् गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः। ते ह्यन्तर्धानादिशक्तिसंपन्नाः सूक्ष्मकार्य-

भवति -- यथोक्ताः सर्वे लौकिकानन्दा यस्य मात्राः समुद्राम्भस इव विप्रुषः, स स्वाभाविक आनन्दो विद्वत्प्रत्यक्षसिद्धोडस्ति, स एव ब्रह्मानन्द इत्येवं मात्रारूपलौकिकानन्दैनित्यो ब्रह्मानन्दो विदितो भवतीति। एतमर्थमिति। अद्वैतानन्दावगमोपायभूतं लौकिकानन्दं विभावयिष्यनप्रदर्शयिष्यत्राह श्रु- तिरित्यर्थः । प्रथमवया इति। पूर्ववया इत्यर्थः। साधुर्यथोक्तकारी। आशुतम इति। भोग्येषु वस्तुषु यथाकालमविलम्वेन प्रवृत्तिमानिति यावत् । दृढतम इति। युद्धादिषु प्रवृत्तौ मनोधैर्यवानित्यर्थः । व- लवत्तम इति। कायिकबलातिशयविशेषवानित्यर्थः । 'युवा स्यात्' इत्यादेः पिण्डितार्थमाह-एवमाध्यात्मिकेति। आत्मानं देहमधिकृत्य यानि साध- नानि संभाव्यन्ते तैः सर्वैः संपन्न इत्यर्थः । वित्तस्य दृष्टार्थत्वमेव विवृणोति- उपभोगेति। अदृष्टार्थत्व्रविवरणम्- कर्मेति। मनुष्याः सन्त इति। अ- स्मिन्कल्पे मनुष्या: सन्त इत्यर्थः । तेषामानन्दोत्कर्षे हेतुमाह- ते हीति। आकाशगमनादिशक्तिसंग्रहार्थमादिग्रहणम्। उक्कशक्त्यादिसंपत्तिः शास्त्रप्रसि- द्धेति सूचनार्थो हि-शब्दः। कार्यकरणानां सूक्ष्मत्वं प्रायेण शीतोष्णादिद्वन्द्वा-

Page 297

<. ] आनन्दवल्ली। १९७

करणा :; तस्मात्पतिघाताल्पत्वं तेपां द्वन्द्वपतिघातशक्ति: साधनसंपत्तिश्र। अतः अप्रतिहन्यमानस्य पतीकारवतः मनुष्यगन्धर्वस्य स्याच्चित्तप्सादः । तत्प्रसादविशेषात्सुखविशेषाभिव्यक्तिः । एवं पूर्वस्याः पूर्वस्या भूमे- रुत्तरस्यामुत्तरस्यां भूमौ प्रसादविशेपतः शतगुणानन्दोत्कर्ष उपप- दते। प्रथमं अकामहताग्रहणं मनुष्यविषयभोगकामानभिहृतस्य श्रो- त्रियस्य मनुष्यानन्दात् शतगुणानन्दोत्कर्षः मनुष्यगन्धर्वेण तुल्यो

भिघातायोग्यत्वम्। तस्मादिति। सूक्ष्मकार्यकरणवत्वादित्यर्थः । द्वन्द्वेति। अल्पानां द्वन्द्वानां प्राप्तावषि तेषां प्रतिघाते निवारणे या शक्तिः या च स्त्रक्च- न्दनादीनामानन्दसाधनानां संपत्तिः सा चास्तीत्यर्थः । फलितमाह-अत इति। प्रसादो विक्षेपराहित्यम्, शुद्धिविशेष इति यावत्। मनुष्यगन्धर्वाणां स्वरूपं वार्ततिके दर्शितम्-'सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः । नृत्तगीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः' इति। देवगन्धर्वादीनामपि यथो- क्तसामग्रयुत्कर्षतारतम्यकृतचित्तप्रसादविशेष आनन्दोत्कर्षतारतम्यप्रयोजक इ- त्यतिदिशति- एवमिति। भूमिः पदम्, देवगन्धर्वत्वाद्यवस्थेति यावत्। 'स एको मानुष आनन्दः' इत्यत्र प्रथमपर्याये 'श्रोत्रियस्य चाकामहतस्य' इति कुतो न पठ्यते? तत्राह-प्रथममिति। मनुष्येति। मनुष्यस्य सार्व- भौमस्य यो विषयभोगः विषयानन्दः तद्गोचरकामरहितस्य मनुष्यगन्धर्वान- न्दप्राप्तिसाधनसंपत्ति विनैव तमानन्दमत्रैव लोके कामयमानस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणितेन मनुष्यगन्धर्वानन्देन तुल्यः सन्नानन्दो भवतीति वक्तव्यमित्येतदर्थमित्यर्थः । मानुषानन्दे कामाभावप्रयोजकविवेकोपयोगित्वेन मनुष्यगन्धर्वानन्दे कामोपयोगिगुणदर्शनोपयोगित्वेन च साङ्गाध्ययनवत्त्वरूपं श्रोत्रियत्वमुपात्तमिति मन्तव्यम्। ननु मनुष्यगन्धर्वस्य नृत्तगीतादिसामप्री- विशेषमहित्रा यो हर्षविशेषो भवति स कथमन्नैवाकामहतश्रोत्रियस्य भवे- दिति चेत्, अत्राहु :-- मा भूदयं हर्षविशेषः तस्य क्षणिकस्य मुख्यानन्द- त्वाभावात्, कस्तार्ह तस्य मुख्यानन्दः? उच्यते- मनुष्यगन्धर्वस्य स्वोचि- तविषयप्राप्त्या तदिच्छायां शान्तायां नृत्तगीतादिजनितहर्षविशेषेषु च शान्तेषु

Page 298

१९८ तैत्तिरीयोपनिषदि [अनु.

वक्तव्य इत्येवमर्थम्। साधुयुवा अध्यायक इति श्रोत्रियत्वाद्टजिनत्वे गृह्ोते। ते ह्यविशिष्टे सर्वत्र। अकामहतत्वं तु विषयोत्कर्षापकर्षतः

या तृप्तिरनुगच्छति सैव मुख्य आनन्दः, तथा च स्मर्यते -- 'यञ्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोड- शी कलाम्' इति। स च तृप्तिरूपो मुख्यानन्दो मनुष्यगन्धर्वेण स- मानः श्रोत्रियस्य संभवति। न चास्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दे कामनावत्वान्न तृष्णाक्षय इति वाच्यम्, तथापि मनुष्यगन्धर्वाणां तत्पर्या- यपठितश्रोत्रियस्य च मानुषानन्दगोचरतृष्णाक्षयसाम्येन तृप्तिलक्षणानन्दसाम्ये बाधकाभावादिति। मनुष्यगन्धर्वपर्याये पठितस्य श्रोत्रियस्य मनुष्यगन्धर्वा- नन्दगोचरकामनावत्त्वम् 'मनुष्यविषयभोग-' इति भाष्ये मनुष्यप्रहणसू- चितम्, वार्त्तिकेऽपि स्पष्टमेव दर्शितम्- 'मार्त्याद्भोगाद्विरक्तस्य ह्युत्तराह्वाद- कामिन:' इति। एवमुत्तरत्रापि तत्तत्पर्यायपठितस्य श्रोत्रियस्य तत्पूर्वपूर्वभूम्य- न्तानन्देषु कामानभिभूतत्वं तत्तद्भमिगतानन्दकामनावत्त्वं चोहनीयम्। ननु सार्वभौमस्याश्रोत्रियत्वात्पूर्वे वयस्यतिक्रान्तमर्यादत्वाच्च न तस्य मानुषानन्दः संपूर्ण इत्याशङ्कावारणायोक्तं स्मारयति- साध्विति। साधुपदाद्यथोक्तका- रित्वरूपमवृजिनत्वं गृह्यते, ततो न तस्यातिक्रान्तमर्यादत्वाशक्का, तथा अध्यायकपदाच्छरोत्रियत्वं गृह्यत इत्यर्थः । एवम् 'श्रोत्रियस्य चाकामहतस्य' इति प्रतिपर्यायं श्रुतस्य श्रोत्रियस्यापि यथोक्तकारित्वरूपमवृजिनत्वमपेक्षितम्, अन्यथा अधीतसाङ्गस्वाध्यायत्वेन श्रोत्रियस्यापि तस्य यथोक्तकारिभिः श्रोत्रि- यैनिन्द्यमानस्य मनुष्यगन्धर्वादितुल्यानन्दप्राप्त्यसंभवप्रसक्कात्, अत एव श्रुत्य- न्तरे तदपि पठ्यते-'यश्च श्रोत्रियोऽवृजिनोऽकामहतः' इति। ननु द्वितीयप- र्यायमारभ्य श्रुतानां श्रोत्रियाणां मध्ये कस्यचिन्मनुष्यगन्धर्वानन्देन तुल्य आन- न्दः कस्यचित्तु देवगन्धर्वानन्देनेत्यादिलक्षणो विशेष: किंकृतः श्रोत्नियत्वावृजि- नत्वाकामहतत्वानामानन्दसाधनानामेकरूपत्वादिति ; नेत्याह -- ते हीति। हि- शब्दोSवधारणार्थः । सर्वत्र सर्वेषु श्रोत्रियेषु श्रोत्रियत्वावृजिनत्वे एवाविशिष्टे तुल्ये, न त्वकामहतत्वमपि, तत्तु तत्तत्पर्यायगतस्य श्रोत्रियस्य विशिष्यते भिद्यते।

Page 299

८.] आनन्दवल्ली। १९९

विशिष्यते। अतः अकामहतग्रहणम्, तद्विशेषतः शतगुणसुखो- त्कर्षोपलब्धेः अकामहतत्वस्य परमानन्दपाप्तिसाधनत्वविधानार्थम् । व्याख्यातमन्यत्। देवगन्धर्वा जातित एव। चिरलोकलोकानामिति पितृणां विशेषणम्। चिरकालस्थायी लोको येषां पितृणाम्, ते चिरलोकलोकाः। आजान इति देवलोकः तस्मिन्नाजाने जाता आजानजा देवा:, स्मार्तकर्मविशेषतो देवस्थानेषु जाताः। कर्मदेवा ये वैदिकेन कर्मणा अग्निहोत्ादिना केवलेन देवानपियन्ति। देवा इति

तद्वेदे हेतु :- विषयेति। मनुष्यगन्धर्वपर्यायस्थश्रोत्रियस्य मानुषानन्दमात्रे कामाभावः तस्य तद्तिरिक्तानन्देषु सर्वत्र साभिलाषत्वात्, तथा देवगन्धर्वपर्या- यस्थस्य श्रोत्रियस्य मानुषानन्दे मनुष्यगन्धर्वानन्दे च विषये कामाभावः तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात्। एवमुत्तरत्रापि। एतदुक्तं भवति- कामस्य विषयबाहुल्यरूपोत्कर्षे सति तन्निवृत्तिरूपस्याकामहतत्वस्यापकर्षरूपो विशेषो भवति, कामस्य विषयाल्पत्वरूपापकर्षे सति तन्निवृत्तिरूपस्याकामहत- त्वस्योत्कर्षरूपो विशेषो भवतीति। तथा चाकामहतत्वोत्कर्षादुत्तरोत्तरमानन्दो- त्कर्ष: श्रोत्रियाणामिति स्थितम्। एवं यावद्यावद कामहतत्वोत्कर्षस्तावत्तावच्छो- त्रियानन्दोत्कर्ष इति श्रुत्यर्थे स्थिते फलितं श्रुतितात्पर्यमाह-अत इति। तद्वि- शेषत इति। अकामहतत्वविशेषतः श्रोत्रियेष्वानन्दोत्कर्षॉपलब्ध्या सर्वात्मना कामोपशमे सति सर्वोत्कृष्टः परमानन्दः प्राप्तो भवेदिति यतः प्रतिभाति अतः अकामहतग्रहणं निरतिशयस्याकामहतत्वस्य परमानन्दप्राप्तिसाधनत्ववि- धानार्थमिति गम्यत इत्यर्थः । 'ते ये शतं मनुष्यगन्धर्वाणामानन्दाः' इत्यादिपद्जातं न व्याख्येयं प्रथमपर्यायव्याख्यानेन गतार्थत्वादित्या- शयेनाह-व्याख्यातमन्यदिति । जातित इति । जन्मत इत्यर्थः । एतदुक्तं भवति -- कल्पादावेव देवलोके जाता गायका देवगन्धर्वा इति। कर्मदेवत्वं विवृणोति- ये वैदिकेनेति। केवलेनेति। उपासनासमुच्चयर- हितेनेत्यर्थः । देवानपियन्ति देवैश्चन्द्रादिभिरधिष्ठिताल्लीकान्यान्तीत्यर्थः । 'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्दः' इत्यत्रा-

Page 300

२०० तैत्तिरीयोपनिषदि [अनु.

त्रयस्त्रिंशद्धविर्भुजः; इन्द्रस्तेपां स्वामी; तस्य आचार्यो बृहस्पतिः । प्रजापतिः विराद् त्रैलोक्यशरीरः। ब्रह्मा समष्टिव्यष्टिरूपः संसारमण्डल- व्यापी यत्नैते आनन्दभेदा एकतां गच्छन्ति, धर्मश्र तन्निमित्तः ज्ञानं च तद्विषयम् अकामहतत्वं च निरतिशयं यत्र, स एप हिरण्यगर्भो ब्रह्मा, तस्यैष आनन्दः श्रोत्रियेण अदटजिनेन अकामहतेन च प्रत्यक्षमुप-

नन्दस्य परिमाणकथनलिङ्गेन ब्रह्मशव्दस्य हिरण्यगर्भपरत्वमाह-सम- ष्टीत्यादिना । समष्टिव्यष्टिरूपः व्याप्यव्यापकरूपः । तत्र कार्यात्मना व्याप्यः कारणालमना व्यापक इत्यर्थः । तदीयव्याप्तेरवधिमाह -- संसा- रेति। ब्रह्माण्डव्यापत्यर्थः । यत्रैत इति। यत्र हिरण्यगर्भे प्रकृता आनन्दविशेषा: परिमाणत एकत्वमिव गच्छन्ति सांसारिकानन्दोत्कर्षसर्वस्वं यत्रेत्यर्थः । तन्निमित्त इति। तस्यानन्दोत्कर्पसर्वश्वभूतस्य फलस्य निमित्त- भूतो धर्मश्च यत्र निरवधिक इत्यर्थः। तद्विपयमिति। यथोक्तफलतन्निमित्तध- र्मादिविषयकं ज्ञानं च यत्र निरतिशयमित्यर्थः । अकामहतत्वं चेति। हिर- व्यगर्भस्य तावत्पूर्वभूमिषु नास्ति कामना, स्वभूम्यपेक्षया तासामत्यन्तनिकृष्ट- त्वात्; स्वभूमावपि नास्ति कामना, तस्या: प्राप्तत्वात्, अप्राप्तवस्तुगोचरत्वा- त्कामनायाः; अतस्तत्याकामहतत्त्रमपि निरतिशयमित्यर्थः । तथा च स्मृति :- 'ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्थ चैव धर्मश्च सह सिद्धं च- तुष्टयम्' इति। नतु मानुषानन्दोऽस्माकं प्रसिद्ध एव, मनुष्यस्य प्रत्यक्षत्वेन मुखप्रसादादिलिङ्गैस्तदीयानन्दस्योत्प्रेक्षितुं शक्यत्त्रात्, अन्ये त्वस्माकमप्रसि द्धा इति कथं तद्वारा त्रह्मानन्दानुगमसिद्धिः अप्रसिद्धेनाप्रसिद्धबोधनायोगात्, अतोऽन्यैरप्यानन्दैः प्रसिद्वैरेव सवितव्यम्, तेपां प्रसिद्धिमाश्रित्य ब्रह्मानन्दा- नुगम इत्ययमर्थः प्रागाचार्यैरेव दर्शितः 'अनेन हि प्रसिद्धेनानन्देन व्यावृ- त्तविषयबुद्धिगम्य आनन्दोडनुगन्तुं शक्यते इत्यादिना। नैष दोषः, मनुष्यग- न्धर्वाद्यानन्दानां प्रसिद्धिसंपादनायैव प्रतिपर्यायं मनुष्यलोकस्थश्रोत्रियप्रत्यक्ष- त्वकथनात्। इममेवाभिप्रायं प्रकटयितुं हिरण्यगर्भानन्दस्य तत्पर्यायस्थश्रोत्रि- यप्रत्यक्षत्वमाह- तस्यैप आनन्द इति। हिरण्यगर्भाद्यानन्दस्य न्रक्मान-

Page 301

८.] आनन्दवल्ली। २०१

लभ्यते। तस्मादेतानि त्रीणि साधनानीत्यवगम्यते। तत्र श्रोत्रियत्वातृ- जिनत्वे नियते, अकामहतत्वं तु उत्कृष्यत इति प्रकृष्टसाधनता अवग- म्यते। तस्य अकामहतत्वप्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दः यस्य परमानन्दस्य मात्रा एकदेशः, 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्षत्यन्तरात्। स एष आनन्दः यस्य मात्रा समुद्राम्भस इव विप्रुद् प्रविभक्ता यत्रैकर्ता गता, स एष परमानन्दः स्वाभाविकः, अद्वैतत्वात्; आनन्दानन्दिनोश्च अवि- भागोऽत्र ।

न्दावगमोपायत्वसिद्धच्युपयोगितया प्रसिद्धत्वकथनपरेण 'श्रोत्रियस्य चाकामह- तस्य' इति वाक्यजातेनान्यदृपि सिध्यतीत्याह -- तस्मादिति। मनुष्यस्य सतः श्रोत्रियस्य श्रोत्रियत्वादित्नितयमहित्रा हिरण्यगर्भादितुल्यानन्दकथनाश्री- व्यप्येतान्यानन्दप्राप्तौ साधनानीति गम्यत इत्यर्थः । त्रिषु मध्ये विशेषमाह- तन्नेति। सर्वेषां श्रोत्रियाणां श्रोब्नियत्वावृजिनत्वे नियते साधारणे, अकामह- तत्वमेवोत्कृष्यमाणं सदानन्दोत्कर्षे कारणमित्यतः प्रकृष्ठसाधनता अकामहत- त्वस्यावगम्यत इत्यर्थः । यदुकं प्रकारान्तरेण ब्रह्मानन्दानुगमप्रदर्शनाय लौ- किकोडप्यानन्दो ब्रह्मानन्दस्यैव मात्रेति, तमेव प्रकारान्तरेण ब्रह्मानन्दानुगम- मिदानी लौकिकानन्दानां ब्रह्मानन्दमात्रात्वप्रदर्शनपूर्वकं दर्शयति-तस्ये- त्यादिना। तस्य ब्रह्मण इति संबन्धः । आनन्द इत्यनन्तरमपिशब्दोऽथ्या- हर्तव्यः। स च पूर्वोक्तानन्दानामनुक्तानां च संग्रहार्थ इति मन्तव्यम्। सर्वे- पामेव लौकिकानन्दानां ब्रह्मानन्दैकदेशत्वे मानमाह-एतस्यैदेति। अन्या- नीति। न्रह्मणः सकाशादात्मानमन्यत्वेन मन्यमानानि भूतानि प्राणिन इत्यर्थः । लौकिकानन्दस्य परमानन्दमात्रात्वे मानसिद्धे फलितमाह-स एष इति। पूर्वोक्तो लौकिकानन्दो यस्य मात्रा यस्मादुपाधितो भिन्नो यत्रैवो- पाधिविलये पुनरेकतां गच्छति स आनन्दः स्वाभाविको नित्योऽस्तीत्यत्र हेतु- माह-अद्वैतत्वादिति। 'अथ यदल्पं तन्मर्त्यम्' इति श्रुत्या परिच्छिन्नस्या- नित्यत्वप्रतिपादनादद्वैतत्वं नित्यत्वसाधने समर्थमिति मन्तव्यम्। ननु ब्रह्मा- *T.26

Page 302

२०२ तैत्तिरीयोपनिषदि [अनु.

तदेतन्मीमांसाफलमुपसंहियते-स यश्चायं पुरुष इति। यो गुहायां निहितः परमे व्योम्नि, आकाशादिकार्य सृष्टा अन्नमयान्तम् तदेवानुप्र- विष्टः, सः य इति निर्दिश्यते। कोऽसौ? अयं पुरुपे। यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टः, यस्यैकदेशं ब्रह्मादीनि भूतानि

नन्दस्याद्वैतत्वमसिद्धम् 'रसं ह्येवायं लब्ध्वानन्दी भवति' इत्यानन्दानन्दि भावेन ब्रह्मानन्दजीवयोर्भेदावगमादित्यत आह-आनन्दानन्दिनोश्चेति। च-शब्दः शङ्कानिरासार्थः । अत्रेत्यस्य विद्याकाल इत्यर्थः । ततश्चाविद्याकाल एवाविधिको भेदो न विद्याकाले विद्यया भेदकोपाधेरविद्याया निरस्तत्वादि- त्यर्थः । एतदुक्तं भवति- व्रह्मानन्दजीवयोरविद्याकल्पितो विभागो न वा- स्तवः, अतो ब्रह्मानन्दस्य नाद्वैतत्वहानिरिति॥

एवम् 'सैषानन्दस्य मीमांसा भवति' इत्युपक्रम्य श्रुत्या मात्राभूत- स्ातिशयानन्दोपन्यासद्वारा सूचितया 'लौकिकानन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्' 'लौकिकानन्दो यस्य मात्रा समुद्राम्भस इव विप्रुट्' इत्या- दिलक्षणया मीमांसया 'अस्त्यद्वितीयः परमानन्दः' इति निर्णयः कृत इति प्रदर्श्य इदानीमुत्तरवाक्यतात्पर्यमाह-तदेतदिति। तदेतत् ब्रह्मानन्दस्या- द्वितीयत्वस्वाभाविकत्वादिलक्षणं मीमांसाफलं मीमांसया निर्णीतमित्यर्थः । 'स यश्चायम्' इत्यत्र स इति शब्देन गुहानिहितवाक्ये तद्टृत्तिस्थानीये प्रवे- शवाक्ये वव निर्दिष्टः प्रत्यगात्मा निर्दिश्यत इत्याह-यो गुहायामिति। आकाशे या गुहा तस्यामित्यन्वयः । योऽन्नमयान्तमाकाशादिकार्य सृष्टा तदेव कार्यमनुप्रविष्ट इत्यर्थः । अयमित्यनेन तस्यापरोक्षत्वमुच्यत इत्याशयेनाह- कोऽसावित्यादिना। पुरुष इति। शरीर इत्यर्थः । श्रोत्रियप्रत्यक्ष इति। यद्यपि लौकिकानन्दानामेव पूर्वत्र श्रोत्रियप्रत्यक्षत्वं निर्दिष्टं न परमान-

मिति तद्भिप्रायोडयं ग्रन्थः, अकामहतत्वस्य निरतिशयोत्कर्षे सति विदुषः परमानन्दप्राप्तेः प्रागुपपादितत्वादिति मन्तव्यम्। यो विद्वत्प्रत्यक्षत्वेन ब्रह्मा- दिसर्वभूतोपजीव्यानन्दानुगम्यत्वेन च प्रकृतः परमानन्दः, सोऽसावादित्यदे-

Page 303

<. ] आनन्दवल्ली। २०३

सुखार्हाण्युपजीवन्ति, सः यश्चासावादित्ये इति निर्दिश्यते। स एक: भिन्नप्रदेशस्थघटाकाशाकाशैकत्ववत्। नतु तन्निर्देशे स यश्चायं पुरुष इत्य- विशेषतोऽध्यात्मं न युक्तो निर्देशः; यश्चायं दक्षिणेऽक्षन्निति तु युक्त:, प्रसिद्धत्वात्। न, पराधिकारात्। परो ह्यात्मा अत्र अधिकृतः, निर्दिश्यते 'अदृश्येऽनात्म्ये' 'भीषास्माद्वातः पवते' 'सैषानन्दस्य मीमांसा' इति। न ह्यकस्मादप्रकृतो युक्तो निर्देष्ठुम् ; परमात्मविज्ञानं च विवक्षितम्। तस्मात्

वताधेयत्वेन निर्दिश्यत इत्यर्थः । स एक इति। 'स यश्चायं पुरुषे' इति वाक्यनिर्दिष्टस्य बुद्धयवच्छिन्नजीवरूपानन्दस्य 'यश्चासावादित्ये इति वाक्ये आदित्यान्तःस्थत्व्रेन निर्दिष्ठस्य मायावच्छिन्नपरमानन्दस्य च 'स एकः' इति वाक्येनोपाधिद्वयनिरसनपूर्वकं स्वाभाविकमभिन्नत्वमुपदिश्यते । अस्मिन्नर्थे इत्थमक्षरयोजना- सः द्विविधोऽप्यानन्दो वस्तुत एक एवेति। भिन्नप्रदेशस्थयोर्घटाकाशाकाशयोराकाशस्वरूपेण यथैकत्वमिति दृष्टान्तार्थः । ननु 'स यश्चायं पुरुषे' इति सामान्यतः शरीरस्थत्वेनात्मनो निर्देशो न युक्त: प्रसिद्धिविरोधादिति शङ्कते-नन्विति। तन्निर्देश इति। तस्यात्मनोऽध्यात्म- निर्देशे विवक्षिते सतीत्यर्थः। कथं तर्हि निर्देशः कर्तव्य इत्याकाङ्कायामाह- यश्चायं दक्षिण इति। 'य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्ष- न्पुरुषः' इति श्रुत्यन्तरे दक्षिणाक्षिग्रहणस्य प्रसिद्धत्वात्तदैकरूप्यायात्रापि तथा निर्देश एव युक्त इत्यर्थः । तत्र सोपाधिकस्य ब्रह्मण उपासनार्थ स्थानविशेष- निर्देशेSपि नात्र तदपेक्षेति परिहरति-न, पराधिकारादिति। निरुपाधि- कात्मप्रकरणादित्यर्थः । हेतुं साधयति- परो हीत्यादिना। ननु परस्य प्रकृतत्वेऽपि 'यश्चासावादित्ये' इत्यादौ सोपाधिकमुपास्यमेव निर्दिश्यता- मिति; नेत्याह-न ह्यकस्मादिति। परमात्मनि प्रकृते सति 'स यश्चा- यम्' इत्यादौ प्रकृतपरमात्माकर्षकसर्वनामश्रुतिषु च सतीषु कथमकस्माद्धेतुं विनात्र सोपाधिको निर्देषुं युक्त: तस्याप्रकृतत्वादित्यर्थः । ननु ताई परस्यैव ध्यानार्थमादित्यादिस्थाननिर्देशोडत्रास्तु; नेत्याह- परमात्मविज्ञानं चेति। च-शब्दः शङ्कानिरासार्थः । निरुपाधिकस्य 'तदेव ब्रह्म त्वं विद्धि नेदं

Page 304

२०४ तैत्तिरीयोपनिषदि [अनु.

पर एव निर्दिश्यते एक इति। नन्वानन्दस्य मीमांसा प्रकृता; तस्या अप फलमुपसंहर्तव्यम्। अभिन्नस्वभावकः आनन्दः परमात्मैव, न विषय विपयिसंबन्धजनित इति। ननु तदनुरूप एव अयं निर्देश :- 'स यश्चायं पुरुषे यश्चासावादित्ये स एक:' इति भिन्नाधिकरणस्थविशेषो- पमर्देन। नन्वेवमप्यादित्यविशेषग्रहणमनर्थकम्; नानर्थकम्, उत्कर्षाप-

यदिदमुपासते' इत्यादौ ध्याननिषेधादत्र तद्धधानविवक्षायां मानाभावाच्चे- त्यर्थः । उपसंहरति- तस्मादिति। पराधिकारात्पर एव निर्दिश्यते नापरः, अतो नाक्षिस्थाननिर्देशापेक्षेत्यर्थः । इतश्चात्र पर एव निर्दिश्यत इत्याह सिद्धान्ती-नन्वानन्दस्येति। फलस्वरूपमेव कथयति -- अभिन्नस्वभावक इत्यादिना। न च मीमांसाफलस्यानुपसंहारे कानुपपत्तिरिति वाच्यम्, मीमांखत्वेनोपक्रान्तस्यानन्दस्य 'स यश्चायम्' इत्यादावद्वितीयत्वेनोपसंहारा- भावे चरमपर्यायनिर्दिष्टे विषयविषयिसंबन्धजनिते सातिशये हिरण्यगर्भानन्द एव मीमांसापर्यवसानापत्या तदद्वितीयत्वनिर्णयालाभलक्षणाया अनुपपत्तेः सश्वात्। सिद्धान्त्येव स्वपक्षे पुरुष इत्याद्यविशेषतो निर्देशस्यानुकूल्यमाह- ननु तदनुरूप एवेति। 'स यश्चायम्' इति वाक्यं जीवानुवादकम्, आदित्यवाक्यमीश्वरानुवादकम्, 'स एकः' इति तु तयोर्भिन्नाधिकरणस्थ- योरुपाधिविशेषनिरसनद्वारा एकत्व्रबोधकमिति रीत्या निर्देशस्यानुरूप्यम्। ते च भिन्ने अधिकरणे आदित्यः शरीरं चेति मन्तव्यम्। अत्रोपासनविव- क्षाभावे सत्यादिग्रहणं विफलम्, 'तत्वमसि' इत्यादाविवेश्वरस्य शब्दान्तरे- णैव निर्देशसंभवादिति मत्वा शङ्कते -- नन्वेवमपीति। उक्तरीत्या परमात्म- निर्देशादेरवश्यकत्वेSपीत्यर्थः । आदित्यदेवताया उत्कृष्टोपाधिकत्वात्तदन्तःस्थ- त्वेन परमात्मनो निर्देशे तस्याप्युत्कृष्टोपाधिकत्वेनार्थादुत्कर्षो निर्दिष्टो भवति ; तथा च 'स यश्चायम्' इत्यनेन निकृष्टमात्मानमनूद्य 'यश्चासावादित्ये' इत्यनेनोत्कृष्टमीश्वरं चानूद 'स एकः' इत्यनेन तयोर्निरुपाधिकपरमानन्द- स्वरूपेणैकत्वे बोधिते सत्युपाधितत्कृतोत्कर्षापकर्षाणामपोह्ो भवति। एव- मुत्कर्षप्रत्यायनद्वारा तदपोहप्रयोजनकत्वादादित्यग्रहणं नानर्थकमिति परि-

Page 305

<. ] आनन्दवल्ली। २०५

कर्षापोहार्थत्वात्। द्वैतस्य हि मूर्तामूर्तलक्षणस्य पर उत्कर्षः सवित्र- भ्यन्तर्गतः, स चेत्पुरुषगतविशेषोपमर्देन परमानन्दमपेक्ष्य समो भवति न कश्चिदुत्कर्षोऽपकर्षो वा तां गति गतस्येत्यभयं प्रतिष्ठां विन्दत इत्युपपन्नम्॥

हरति-नानर्थकमिति। उत्कर्षस्यापकर्षनिरूपकत्वादुत्कर्षापोहे निकर्षा- पोहोडपि भवतीति मत्वा निकर्षापोहोऽप्यादित्यग्रहणप्रयोजनत्वेनोक्त इति मन्तव्यम्। आदित्यदेवतोपाधेरुत्कृष्टत्वे मानमाह- द्वैतस्य हीति। अत्र सवितृशब्दो मण्डलपरः तदन्तर्गतश्च समष्टिलिङ्गदेहोऽपि विवक्षितः । तत्र मण्डलात्मकः सविता मूर्तस्य पर उत्कर्षः सार इति यावत्, तथा तदन्तर्गतो लिङ्गात्मा अमूर्तस्य पर उत्कर्षः, तदुभयमादित्यदेवतोपाधिभूतं मूर्तामूर्तलक्षणस्य द्वैतस्य सारभूतमित्येतद्वाजसनेयके प्रसिद्धमिति द्योतनार्थो हि-शब्दः। ननु ब्रह्मात्मैकत्वविज्ञानेनोत्कर्षाद्यपोहे सति किं फलतीत्याशङ्कचा- ह-स चेदिति। सवित्ादिद्वारा बुद्धिस्थः सर्वोत्कृष्टः परमेश्वर इत्यर्थः । तथा च सोपाधिक ईश्वरः स्वोपाधिभूतं विशेषं परित्यजन् शरीरगतलिङ्गात्म- कजीवोपाध्युपमर्दनेन परमानन्द्मपेक्ष्य परमानन्दस्वरूपेण सम एकत्वमापन्नो भवति चेदित्यर्थः । ततः किमित्यत आह -- न कश्चिदिति। निर्विशेषपरमा- नन्दब्रह्मणा सहैकत्वलक्षणाम् 'स एकः' इति वाक्ये प्रकृतां गति गतस्य विदुषः सगुणमुक्तस्येवोत्कर्षो वा संसारिण इवापकर्षो वा न कश्च्िदस्तीति सिध्यतीत्यर्थः । ननु निकर्षस्य हेयत्वेऽपि परममुक्तस्योत्कर्षः किमिति हेयः, सूर्यादेरिवोत्कर्ष प्राप्तस्यापि तस्य कृतार्थत्वसंभवात्, तथा चोत्कर्षापोहप्रयो- जनकमादित्यग्रहणमसंगतमिति; नेत्याह -- अभयमिति। मुक्तस्योत्कर्षप्राप्त्यु- पगमे तत्प्रयोजकेनोपाधिनापि भवितव्यम्, तथा च सोपाधिकस्य मुक्तस्य परमानन्दरूपादीश्वराद्वेदावश्यंभावात्सूर्यवायवादेरिव भयमावश्यकमित्येकत्व- ज्ञानेन मुक्तिं प्राप्तस्य 'अभयं प्रतिष्ठां विन्दते' इति वचनमनुपपन्नमेव स्यात्, ततो न विदुष उत्कर्षप्राप्तिरिष्ठेति तदपोहप्रयोजनकमादित्यप्रहणं संगतमेवेति भाव: ।।

Page 306

२०६ तैत्तिरीयोपनिषदि [अनु.

अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः । कार्यरसलाभप्राणनाभय- प्रतिष्ठाभयदर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्रह्मेत्यपाकृतः अ- नुप्रश्न एक: ; द्वावन्यानुप्रश्नौ विद्वदविदुपोर्व्रह्मप्राप्त्यप्राप्तिविषयौ; तत्र विद्वान्समश्रुते न समश्रुत इत्यनुम्रश्नोऽन्त्यः; तदपाकरणायोच्यते । मध्यमोऽनुप्रश्नः अन्त्यापाकरणादेव अपाकृत इति तदपाकरणाय न यत्यते। स यः कश्चित् एवं यथोक्तं ब्रह्म उत्सज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीत्येवं वेत्तीति एवंवित्; एवंशब्दस्य प्रकृतपरामर्शार्थत्वात्। स किम्१ अस्मालोकात्प्रेत्य दृष्टादृष्टेष्टविषयसमुदायो हि अयं लोक:, तस्मादस्माल्लोकात्प्रेत्य प्रत्यावटत्य निरपेक्षो भूत्वा एतं यथोक्तम् अन्नमय-

वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति- अस्ति नास्तीत्यादिना। व्याख्यातो निराकृत इत्यर्थः । कथं निराकृत इत्याकाङ्कायामाह -- कार्येति। कार्यै च रसलाभश्च प्राणनं चाभयप्रतिष्ठा च भयदर्शनं च, एतान्येवोपपत्तय इत्यर्थः । विषयाविति। अवशिष्ठाविति शेषः । उच्यत इति। 'स य एवंवित्' इत्यादिना ब्रह्मप्राप्तिर्विदुष उच्यत इत्यर्थः । ननु तार्हि मध्यमोऽनुप्रश्नो विशि- ष्येत; नेत्याह -- मध्यम इति। विदुषो ब्रह्मप्राप्तिप्रतिपादनेनान्त्यप्रश्नापाकरणे कृते सति अर्थाद्विदुषस्तत्प्राप्तिर्नास्तीति निर्णयलाभान्मध्यमप्रश्नो निराक- र्तव्यत्वेन नावशिष्यते, अतो न तदपाकरणाय श्रुत्या प्रयत्नः कृत इत्यर्थः । इदमुपलक्षणम् ; अविदुषो ब्रह्मप्राप्तिप्रश्नस्यातिफल्गुत्वाच्च तद्पाकरणाय श्रुत्या न यत्यत इत्यपि द्रष्टव्यम्। वेदनस्योत्कर्षादिरहिताद्वितीय स्वप्रकाशब्रह्म- विषयकत्वलाभे हेतुमाह- एवंशब्दस्येति। लोकशव्दस्य प्रत्यक्षसि- द्धभोग्यमान्नपरत्वं व्यावर्तयति- दृष्टादृष्टेेति 'अस्माल्लोकात्प्रेत्य' इत्यनेन सर्वस्मात्कर्मफलाद्वैराग्यं विवक्षितमित्याह- निरपेक्षो भूत्वेति। अन्र येन क्रमेणैव वेदनं प्राप्तं तत्क्रमानुवादपूर्वकमेवं वेदनफलमुच्यत इति प्रती यते, तां प्रतीतिमाश्रित्य व्याख्यानमिदम्; विवक्षितं तु व्याख्यानं करि- व्यमाणचिन्तावसाने भविष्यतीति मन्तव्यम्। एवं विरक्तो भूत्वा प्रथमं पुमान्कि करोति? तत्राह -- एतमिति। यथोक्तमिति। 'स वा एष

Page 307

<. ] आनन्दवल्ली। २०७

मात्मानसुपसंक्रामति विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं न प- श्यति, सर्व स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः । ततः अभ्यन्तरमेतं प्राणमयं सर्वात्नमयात्मस्थमविभक्तम्। अथैतं मनोमयं विज्ञानमयमानन्द-

प्रतिष्ठां विन्दते। तत्रैतचिन्त्यम्-कोऽयमेवंवित्, कर्थ वा संक्रामतीति; किं पर- स्मादात्मनोऽन्यः संक्रमणकर्ता प्रविभक्त:, उत स एवेति। किं ततः ? यद्यन्यः स्यात्, श्रुतिविरोधः- 'तत्सृष्टा तदेवानुपाविशत्' 'अन्यो-

पुरुषोऽन्नरसमयः' इत्यत्रान्नरसविकारत्वेनोक्तमित्यर्थः । विषयजातमित्यनेन व्यष्टिपिण्डव्यतिरिक्तः समष्टिपिण्डात्मा विराडुच्यते। विराजं व्यष्टिपिण्डव्य- तिरिक्तं न पश्यति चेत्कथं तर्हि पश्यतीत्याकाङ्कायां तद्दर्शयन्नुपसंक्रामतीत्य- स्यार्थमाह -- सर्वमिति। समष्टिस्थूलात्मानं विराजमन्नमयात्मानं पश्यति समष्टिव्यष्टथात्मकमन्नलक्षणं ब्रह्माहमिति पश्यतीति यावत् । तत इति। विराडात्मकादन्नमयकोशादान्तरमित्यर्थः । एतमिति। 'अन्योऽन्तर आत्मा प्राणमयः' इत्यत्र प्रकृतमित्यर्थः । अविभक्तमिति । सूत्रात्मना एकीभूत- मित्यर्थः । अत एव सर्वपिण्डव्यापित्वरूपं सर्वान्नमयात्मस्थत्वविशेषणं प्राण- मयस्योपपद्यते। तथा चान्नमयात्मदर्शनानन्तरं तद्धित्वा यथोक्तं प्राणमया- त्मानं पश्यतीत्यर्थः । एवमुत्तरत्रापि योजनीयम्। उपसंक्रामतीति। एवं कमेणानन्दमयमात्मानसुपसंक्रम्यानन्तरमानन्दमयं प्रति पुच्छप्रतिष्ठाभूतमुत्क- र्षादिरहितं सत्यज्ञानानन्तलक्षणं व्रह्माहमस्मीति पश्यंस्तदेव प्राप्तोतीति भावः । अथेति। एवंविदेवं वेदनानन्तरमित्यर्थः ॥ तत्रैतच्चिन्त्यमिति। 'स य एवंवित्' इत्यत्र 'उपसंक्रामति' इत्यत्र च एवंवित्स्वरूपं संक्रमणस्वरूपं च विचारणीयमित्यर्थः । कोऽयमेवंविदि- त्युक्तक विवृणोति- किमिति। अन्य इत्यस्य विवरणं प्रविभक्तक इति। पक्ष- द्वयेऽप्यनुपपत्त्यभावात्संशयो न घटत इति जत्वा पृच्छति- कि तत इति।

Page 308

२०८ तैत्तिरीयोपनिषदि [अनु.

Sसावन्योऽहमस्मीति न स वेद''एकमेवाद्वितीयम्' 'तत्वमसि' इति। अथ स एव आनन्दमयमात्मानमुपसंक्रामतीति, कर्मकर्तृत्वानुपपत्तिः। परस्यैव संसारित्वं पराभावो वा। यद्युभयथा प्राप्तो दोषो न परिहर्तु शक्यत इति, व्यर्था चिन्ता। अथान्यतरस्मिन्पक्षे दोषाप्ाप्तिः, तृतीये वादुष्टे पक्षे, स एव शास्त्रार्थ इति व्यर्थैव चिन्ता; न, तन्निर्धारणेनार्थ- त्वात्। सत्यं प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरस्मिन् तृतीये वा पक्षे अदुष्टे अवधृते व्यर्था चिन्ता स्थात्; न तु सोऽवधृत इति तदवधा- रणार्थत्वादर्थवत्येवैषा चिन्ता। सत्यमर्थवती चिन्ता, शास्त्रार्थावधारणा-

पक्षद्वयेऽप्यनुपपत्ति संशयकारणभूतामाह -- यद्यन्यः स्यादित्यादिना । 'अन्योऽसौ' इत्यनया श्रुत्या जीवपरभेद्चिन्तनस्याज्ञानप्रयुक्तत्वप्रतिपादना- त्तयो: स्वाभाविकमन्यत्वमेतच्छतिविरुद्धं चेत्यर्थः । आनन्दमयमिति। उप- संक्रमणस्य प्राप्तिरूपत्वमाश्रित्येदमुदाहरणम् ; तथा च एवंवित्परयोरभेदे तयोः प्राप्तिं प्रति कर्तृकर्मभावो नोपपद्यत इत्यर्थः । किं च, तयोरभेदपक्षे किं जीवस्य परस्मिन्नन्तर्भावः किं वा परस्य जीवे? नाद्यः, तथा सति परव्यतिरेकेण जी- वाभावाद्चेतनानां संसारित्व्रासंभवाच्चानुभूयमानं संसारित्वं परमात्मन एव प्ररुज्येतेत्याह -- परस्यैवेति। द्वितीये दोषमाह-पराभावो वेति। जीवनिय- न्वृत्वेन श्रुतिसिद्धस्य परस्याभावः प्रसज्येतेत्यर्थः । पक्षद्वयेऽप्यपरिहार्य दोषं श्रुत्वा मध्यस्थश्चिन्तामाक्षिपति-यदुभयथेति।जीवस्य परस्मादन्यत्वेऽनन्यत्वे चेत्यर्थः। नन्त्रभेदपक्षे प्राप्तो दोषो वक्ष्यमाणरीत्या परिहर्तु शक्यत इति वदन्तं चिन्तारम्भवादिनं प्रति मध्यस्थ एवाह- अथान्यतरस्मिन्निति। परापरयो- र्वास्तवौ भेदाभेदाविति पक्षान्तरं निर्दुषं मन्यमानस्य भास्करादेरभिप्रायमनूद्य तस्मिन्नपि पक्षे चिन्तावैयर्थ्यमाह-तृतीये वेति। अदुष्ट इति च्छेदः। सिद्धान्ती चिन्तावैय्थ्य निराकरोति-न, तन्निर्धारणेनेति। तेषां पक्षाणा- मन्यतमस्यादुष्टत्वनिर्धारणेनेत्यर्थः । चिन्तां बिना निर्धारणासंभवादिति भावः । संग्रहवाक्यं तटस्थोक्तानुवादपूर्वकं विवृणोति- सत्यमित्यादिना। न शक्य

Page 309

८.] आनन्दवल्ली। २०९

र्थलात्। चिन्तयसि त्वम्, नतु निर्णेष्यसि; किं न निर्णेतव्यमिति वेदवचनम्! न; कथं तहि? बहुप्रतिपक्षत्वात् एकत्ववादी त्वम्, वेदा- र्थपरत्वात्; बहवो हि नानात्ववादिनो वेदवाह्याः त्वत्प्रतिपक्षाः; अतो ममाशङ्का-न निर्णेष्यसीति। एतदेव मे स्वस्त्ययनं यन्मामेकयोगिन मनेकयोगिबहुप्रतिपक्षमात्थ। अतो जेष्यामि सर्वान्; आरभे च चिन्ताम्। स एव तु स्यात्, तन्भावस्य तु विवक्षितत्वात्। तद्विज्ञानेन पर-

इत्यत्र यदिशब्दोऽध्याहर्तव्यः । पुनरपि मध्यस्थश्चिन्तावैयर्थ्यमाह -- सत्य· मर्थवतीति ।न तु निर्णेष्यसीति। त्वया निर्णेतुमशक्यमित्यभिसंधिः । अभिसंधिमानेव तटस्थं निराकरोति -- किमिति। निर्णयस्याशक्यत्वमसिद्ध- मित्यारम्भवादिनोऽपि गूढोडभिसंधिः। यथाश्रुतमुपालम्भं तटस्थः परिहरति- नेति। व्रेदवचनं न भवतीत्यर्थः। आरम्भवादी न तु निर्णेष्यसीत्यत्र हेतुं पृच्छ- ति -- कथं तर्हीति। यदि न वेदवचनं तर्हि कथ न निर्णेष्यसीति वदसीत्य- र्थः। निर्णयस्याशक्यत्वे स्वाभिसंहिते हेतुमाह -- बहनिति। अद्वैतस्यैव वेदा- र्थत्वात्तत्साधनपरस्त्वमेक एव, भेदवादिनः पुनरसंख्याताः, ततश्च कथं तेषु जीवत्सु तव निर्णयसिद्धिरित्यर्थः । 'शतमप्यन्धानां न पश्यति' इति न्यायमाश्रित्यारम्भवादी परिहरति- एतद्ेवेति। एकयोगिनमिति। एकत्ववादिनमित्यर्थः । अनेकयोगिनो नानात्ववादिनो बहवः प्रतिपक्षा यस्य स तथा, तमित्यर्थः। त्वदीयं यदेकत्ववादीत्यादिवचनमेतदेव मम स्वस्त्ययनं निर्णयसामर्थ्यसूचकमित्यर्थः । नानात्ववादिनां बहुत्वेऽपि न तेषां प्राबल्यशङ्का, नानात्वस्य मानशून्यतायास्तत्र तत्रोक्तत्वाद्वक्ष्यमाणत्व्रा- च्चेति भावः। तेषां दौर्बल्याभिप्राये स्थिते फलितमाह-अत इति एवमात्मैकत्वस्य वादिविप्रतिपस्या संदिग्धत्वात्तन्निर्णयस्य मुक्तिफलकत्वाच्च वि- षयप्रयोजनवतीमात्मतत्वगोचरां चिन्तामारभते-आरभे च चिन्तामिति।। भेदपक्ष भेदाभेदपक्षं चावधारणतुशव्दाभ्यां क्रमेण निराकुर्वन्नेव सिद्धान्तमाह-स एव तु स्यादिति। न तावज्जीवत्रह्मणोर्भेदोडस्ति माना- .T. 27

Page 310

२१० तैत्तिरीयोपनिषदि [अनु.

मात्मभावो अत्र विवक्षित :- 'ब्रह्मविदान्नोति परम्' इति। न हि अन्यस्य अन्यभावापत्तिरुपपद्यते। ननु तस्यापि तन्ावापत्तिरनुपपन्नैव। न, अविद्याकृतातदात्मभावापोहार्थत्वात्। या हि ब्रह्मविद्यया स्वात्म- प्राप्तिरुपदिश्यते, सा अविद्याकृतस्य अन्नादिविशेषात्मनः आत्मत्वेना- ध्यारोपितस्य अनात्मनः अपोहार्था। कथमेवमर्थता अवगम्यते? विद्या-

भावात्। न चाभेदे परस्यैव संसारित्वं पराभावो वा स्यादिति वाच्यम्, चिदात्मनः परमार्थत एकत्वेऽपि बुद्धच्ुपहितश्चिदात्मा जीवः बुद्धिकारणीभूता- विद्योपहितश्चिदात्मा परमेश्वर इत्येवं भेदकल्पनया संसारित्वासंसारित्वव्यव- स्थोपपादनसंभवात्; तथा च श्रुति :- 'कार्योपाधिरयं जीवः कारणोपाधि- रीश्वरः' इति। एतेन नाहमीश्वर इति भेदप्रत्यक्षस्य सुखदुःखादिवैित्र्वादेश्च जीवेश्वरभेदसाधकत्वं निरस्तम् औपाधिकभेदेनैवोक्तप्रत्यक्षाघ्युपपच्या वास्तवभे- दसाधने तत्प्रत्यक्षादेः सामर्ध्याभावात्। अत एव तयोर्वास्तवौ भेदाभेदाविति पक्षोऽपि निरस्तः, एकत्र वस्तुतो भेदाभेदयोर्विरुद्धत्वाच्च। तस्माद्वस्तुतो जीवः पराभिन्नः, 'अन्योऽसौ' इत्यत्र भेदृदृष्ठेनिन्दितत्वात् 'एकमेवाद्वितीयम्' 'तत्वमसि' इत्याद्यभेद्श्रुतेश्चेति भावः। एवंवित्पर एव स्यादित्यत्र हेत्वन्त- रमाह-तन्भावस्य त्विति। तु.शब्दश्चार्थः सन्पश्चम्या संबध्यते। विवृणो- ति -- तद्विज्ञानेनेति। परव्रह्मविज्ञानेनेत्यर्थः । ननु परस्यैवंविद्धिन्नत्वेऽपि 'ब्रह्मविदाप्नोति परम्' इत्यत्र विवक्षिता परभावापत्तिरेवंविदः कि न स्यादि- ति; नेत्याह -- न हीति। अन्यस्य स्वरूपे स्थिते नष्टे वा अन्यात्मकत्वं न ह्युपपद्यत इत्यर्थः । अभेदपक्षेऽप्यनुपपत्तितौल्यमाशक्कते-नन्विति। यद्यपि ब्रह्मस्वरूपस्य सतो ब्रह्मविदस्तद्गावापत्तिर्मुख्या न संभवति, तथाप्यौपचारिकी सा संभवतीत्याह -- न, अविद्याकृतेति। अविद्याकृतो योऽयमतदात्मभाव- स्तदपोह एवार्थः पुरुषार्थः तत्स्वरूपत्वात्तद्वावापत्तेः न तद्भावानुपपत्तिरित्यर्थः । हेतुं विवृणोति-या ही्यादिना। उपदिश्यते 'ब्रह्मविदाप्नोति परम्' इत्या- दिश्रुत्येति शेषः। अध्यारोपितस्येति। एतेन संग्रहवाक्यगतातदात्म- भावशब्देन प्रत्यगात्मन्यभेदेनाध्यस्तोऽन्मयादिरनात्मा विवक्षित इति सू-

Page 311

८.] आनन्दवल्ली। २११

मात्रोपदेशात्। विद्यायाश्च दृष्टं कार्यमविद्यानिव्ृत्तिः; तच्चेह विद्यामात्र- मात्मप्राप्तौ साधनमुपदिश्यते। मार्गविज्ञानोपदेशवदिति चेत्, तदा- त्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः। कस्मात्! देशान्तरप्राप्तौ मार्ग-

चितम्। अन्नमयादेरविद्याकृतत्वविशेषणेन विद्यया अविद्यापोहद्वारा तत्कृ- तान्नमयादेरपोह इति सूचितम्, प्रत्यगात्मन्यध्यस्तस्य कार्यवर्गस्य सा- क्षाद्विद्यापोह्यत्वाभावात्; तदुक्तं पश्चपादिकायाम्-'यतो ज्ञानमज्ञा- नस्यैव निवर्तकम्' इति। देवदत्तस्य आ्र्रमादिप्राप्तिवदत्र मुख्यां प्राप्तिं विहा- यामुख्यप्रात्यर्थकता फलवाक्यस्य केन हेतुनावगम्यत इति पृच्छति- कथ- मिति। परप्राप्तिसाधनत्वेन 'ब्रह्मवित्' इति विद्यामात्रोपदेशात्सकार्याविद्या- निवृत्तिरेव परप्राप्तिरिति गम्यत इत्याह-विद्यामात्रेति। नन्वप्राप्तप्राप्तिरपि विद्यामान्रफलं किं न स्यादिति; नेत्याह- विद्यायाश्रेति। च-शब्दः शङ्का- निरासार्थ: अवधारणार्थों वा। लोके शुक्तितत्वादिगोचरविद्यायाः सकार्या- विद्यानिवृत्तिरेव कार्यत्वेन दष्टा, नाप्राप्तप्राप्तिरपीत्यर्थः । ननु सर्वमस्येदं दृष्टं भवति 'य एवं वेद' इत्यादाविव 'ब्रह्मवित्' इत्यत्रापि विदेर्विद्यावृत्तिरूपो- पास्तिवाचित्वाद्विद्यामात्रोपदेशोSसिद्ध इति; नेत्याह- तच्चेहेति। विदेरुक्तो- पास्तिपरत्वे लक्षणाप्रसङ्गाद्विद्यामात्नमेव तदर्थ इति नासिद्धिशङ्का, उदाहृत- श्रतौ च 'यां देवतामुपास्से' इत्युपक्रमानुसारादिलिङ्गबलाल्लक्षणा न दुष्य- तीति विशेष इति भावः । ननु 'ब्रह्मविदाप्नोति परम्' इत्युपदेशस्य 'मार्ग- विदाप्नोति ग्रामम्' इत्युपदेशतुल्यत्वाद्यथा तत्र मार्गविदः क्रियाद्वारा ग्रामप्राप्तिः अवाप्यो प्रामश्च मार्गविदो गन्तुः सकाशादन्यः, तथात्रापि ब्रह्मविद्यावतो विद्यावृत्तिलक्षणोपास्तिद्वारा परप्राप्तिः प्राप्तव्यं परं च ब्रह्मविदः सकाशादन्य- त्खात् ; तथा चाविद्यानिवृत्तिरूपापरप्राप्तिरनुपपत्ना, उपास्तेरविद्यानिवर्तकत्वा- भावादिति शङ्कते-मार्गेति। शङ्कामेव विवृणोति- तदात्मत्व इति। अ- विद्यानिवृत्तिमात्ररूपे परात्मभाव इत्यर्थः । 'ब्रह्मविदाप्नोति' इत्यत्र व्रह्मविद्या 'अहं ब्रह्म' इत्याकारा विवक्षिता, गुहदानिहितित्ववचनेन प्रवेशवाक्येन च तथा निर्णीतत्वात्; अत एव प्राप्यं परं ब्रह्मापि ब्रह्मविदो न भिन्नम्; तथा चोप-

Page 312

२१२ तैत्तिरीयोपनिषदि [अनु.

विज्ञानोपदेशदर्शनात्। न हि ग्राम एव गन्तेति चेत्, न; वैधर्म्यात्। तत्र हि ग्रामविषयं ज्ञानं नोपदिश्यते, तत्पाप्तिमार्गविषयमेवोपदिश्यते वि- ज्ञानम् ; न तथेह ब्रह्मविज्ञानव्यतिरेकेण साधनान्तरविषयं विज्ञानमुप- दिश्यते। उक्तकर्मादिसाधनापेक्ष ब्रह्मविज्ञानं परपाप्तौ साधनमुपदिश्यत इति चेत्, न; नित्यत्वान्मोक्षस्येत्यादिना प्रत्युक्तत्वात्। श्रुतिश्व 'तत्सृष्टा तदेवानुाविशत्' इति कार्यस्थस्य तदात्मत्वं दर्शयति। अभयप्रतिष्ठोपपत्तेश्र। यदि हि विद्यावान् स्वात्मनोऽन्यन्न पश्यति, ततः

देशवैषम्यान्नायं दृष्टान्तो युक्त इत्याह-नेति। तत्र हीति। यः प्राप्तव्यो ग्रामः तद्विषयं ज्ञानं न ह्युपदिश्यते 'त्वं ग्रामोऽसि' इत्यनुक्तेरित्यर्थः । न तथे- हेति। प्राप्तव्यं यत्परं ब्रह्म तद्विषयमेव ज्ञानम् 'ब्रह्मवित्-' इत्युपदिश्यते, न तद्वयतिरेकेण तदावृत्तिलक्षणस्य साधनान्तरस्य तद्विज्ञानस्य वात्रोपदेशोऽस्ति, 'वेद' इत्यस्य साधनान्तरादिपरत्वे लक्षणाप्रसङ्गादिति भावः । ननु 'ब्रह्म- विदाप्नोति परम्' इत्यत्र विद्यामान्नश्नवणेऽपि न तन्मात्रं परप्राप्तिसा- धनत्वेनोपदिश्यते, किं तु संहितोपनिषद्युक्तैः कर्मज्ञानैः समुच्चितमेव व्र- ह्वविज्ञानम्, अतो विद्यामात्रोपदेशोडसिद्ध इति पुनः शङ्कते-उक्तक- मादीति। अविद्यानिवृत्तिमात्रे मोक्षे ब्रह्मविज्ञानव्यतिरिक्तसाधनापेक्षाभा- वात्समुच्चयवादिना ब्रह्मभावलक्षणोऽन्यो वा मोक्षो ज्ञानकर्मसमुच्चयजन्यो वाच्यः, तत्र चानित्यत्वप्रसङ्गदोषः प्रागेवोक्त इत्याह- न नित्यत्वादि- ति। 'ब्रह्मविदाप्नोति' इत्यत्र समुच्चयोपदेशो न विवक्षित इति प्रति- ज्ञार्थः। प्रत्युक्तत्वादिति । समुच्चयपक्षस्येति शेषः । एवम् 'तद्भावस्य तु विवक्षितत्वात्' इत्यादिना एवंवित्पर एव स्यादित्यत्र परप्राप्तिवचनं प्र- माणमित्युपपादितम्। तत्रैव हेत्वन्तरमाह- श्रुतिश्चेति। कार्यस्थ- स्येति। देहादिसंघातलक्षणे कार्ये साक्षित्वेन स्थितस्य प्रत्यगात्मनो ब्रह्मखरूपत्वं दर्शयतीत्यर्थः । एवंवित्पर एवेत्यत्र हेत्वन्तरमाह- अभयेति। अभयप्रतिष्ठावचनोपपत्तिमेव प्रपश्चयति- यदि हीति। यदा एवंवित्स्वस्मा- द्विन्नमीश्वरं न पश्यति ततस्तदा सकलजगद्गयहेतोः परमेश्वरस्य स्वस्मादन्य-

Page 313

८.] आनन्दवल्ली। २१३

अभयं प्रतिष्ठा विन्दत इति स्यात्, भयहेतोः परस्य अन्यस्य अभावात्। अन्यस्य च अविद्याकृतत्वे विद्यया अवस्तुत्वदर्शनोपपत्तिः; तद्धि द्विती- यस्य चन्द्रस्य असत्वम् यदतैमिरिकेण चक्षुष्मता न गरृह्यते। नैवं न गरह्यत इति चेत्, न ; सुषुप्तसमाहितयोरग्रइणात्। सुषुप्तेऽग्रहणमन्यास- क्तवदिति चेत्, न; सर्वाग्रहणात्। जाग्रत्स्वप्नयोरन्यस्य ग्रहणात्सत्त्व-

स्याभावाद्विदुषोऽ्भयं प्रतिष्ठां विन्दत इति फलवचनमुपपन्नं स्यादिति योजना। विदुषः सकाशात्परमेश्वरस्यान्यत्वे तस्मादख भयावश्यंभावादभयप्रतिष्ठावच- नोपपस्तये तयोरनन्यत्वं निश्चीयत इति निष्कर्षः । नन्वी्विरस्यानन्यत्वेऽपि राजादेरन्यस्य सत्वात्कथमभयसिद्धिरित्याशङ्कय जीवपरान्यत्ववद्राजादिजग- दप्यसदेवेत्याह -- अन्यस्य चेति। राजादिप्रपश्वस्याप्यन्यत्वेन प्रतीयमान- स्योक्तवक्ष्यमाणश्रुतिन्यायैरविद्याकृतत्वे सिद्धे सति विदुषो विद्यया सर्वे जग- दवस्त्वेवेति दर्शनमुपपद्यते, तथा च न जगतोऽपि विदुषो भयप्रसक्तिरित्यर्थः। एतदुक्तं भवति- श्रुत्यादिप्रमाणजनितया तत्त्वदृष्टया द्वैतस्यात्रहणादसत्व- मिति। अस्मिन्नर्थे द्ृष्टान्तमाह- तद्धीति। दृष्टान्तवैषम्यमाशङ्कते- नैव- मिति। यथा तिमिराख्यदोषरहितचक्षुष्मता द्वितीयश्चन्द्रो न गृह्यते एवं द्वैतं विदुषा न गृह्यत इति न, किं तु गृह्यत एव, अन्यथा विदुषः शास्त्रार्थोपदे- शादौ प्रवृत्त्यभावप्रसङ्गादित्यर्थः । व्यवहारकाले विदुषा तद्गहणेऽपि समाध्यव- स्थायामग्रहणादविद्वत्साधारण्येन सुषुप्तावग्रहणाच्च न वैषम्यमित्याशयेन परि- हरति-न, सुपुप्तेति। सुधुप्तादौ द्वैता्रहणं द्वैतासत्वप्रयुक्तं न भवतीति शङ्कते -- सुषुप्त इति। यथा इुकार इष्वासक्तमनस्तया इषुव्यतिरिक्त्तं विद्य- मानमपि न पश्यति, एवं विद्यमानमेव द्वैतं सुषुप्तौ समाधौ च न पश्यती- त्यर्थः। दृष्टान्तवैषम्येण निराकरोति-न, सर्वाग्रहणादिति। इषुकारस्य हि सर्वाग्रहणं नास्ति इषुग्रहणस्यैव सत्वात्, सुषुप्त्यादौ तुन कस्यापि विशे- षस्य ग्रहणमस्ति, अतो द्वितीयचन्द्रस्येव द्वैतस्य कदाचिद्ग्रहणादस्त्वमेव वक्तव्यमित्यर्थः । ननु द्वैतस्य सुषुप्तादौ चेदनुपलम्भादसत्त्वं तर्हि जाग्रदादा- वुपलम्भात्सत्त्वमेव किं न स्यादिति शक्कते-जाग्रदिति। उपलभ्यमानत्व-

Page 314

२१४ तैत्तिरीयोपनिषदि [अनु.

मेवेति चेत्, न ; अविद्याकृतलात् जाग्रत्स्वप्नयोः; यदन्यग्रहणं जाग्रत्स्व- पयोः, तदविद्याकृतम्, अविद्याभावे भावात्। सुपुप्ते अग्रहणमपि अवि- द्याकृतमिति चेत्, न; स्वाभाविकलात्। द्रव्यस्य हि तत्वमविक्रिया, परानपेक्षलात्; विक्रिया न तत्त्वम्, परापेक्षत्वात्। न हि कारकापेक्षं

मात्रं न सत्वप्रयोजकम्, तथा सति शुक्तिरूप्यद्वितीयचन्द्रादेरपि सत्वप्र- सङ्गात्, किं तु बाधायोग्यत्वादिकमन्यदेव सत्वप्रयोजकम्, तथ्व द्वैतस्य नास्ति 'नेह नानास्ति किंचन' इत्यादौ सहस्रशो बाधदर्शनादित्यभिप्रेत्य द्वैतस्य शुक्तिरूप्यादेरिवान्वयव्यतिरेकाभ्यामविद्याकार्यत्वं दर्शयति- न, अविद्याकृतत्वादिति। संग्रहं विवृणोति- यदन्यग्रहणमिति। यदन्यत्वेन गृह्यमाणं जगदित्यर्थः । अन्वयमाह- अविद्याभाव इति। मुक्ावविद्याया अभावे जगतोऽभावादिति व्यतिरेको बहिरेव द्रष्टव्यः । न चात्र माना- भाव: शङ्कनीयः, 'सत्किंचिदवशिष्यते' इत्यादेमुक्तिप्रतिपादकशास्त्स्य मा. नत्वात्। नन्वविद्यायां सत्यां गृह्यमाणं द्वैतं यद्यसत्तर्हि सुषुप्ते स्व- यमेव प्रकाशमानमद्वैतमपि परमार्थ न स्यात्, तदाप्यविद्यायाः सत्वा- दिति मत्वा शङ्कते-सुषुप्तेऽग्रहणमपीति। न विद्यते त्रहणं स्वेनान्येन वा यस्य तद्ग्रहणम्, स्वयंज्योतिःस्वभावमद्वैतमिति यावत्। अविद्या- कालीनस्याप्यद्वैतस्य न कल्पितत्वम् अन्यानपेक्षस्वभावत्वादिति परिहर- ति-नेति। संगृहीतमर्थ दृष्टान्तपूर्वकं विवृणोति- द्रव्यस्य हीत्या- दिना। लोके प्रसिद्धस्य मृदादिद्रव्यस्य अविक्रिया यत्कुलालादिकारकैरविकृतं मृत्स्वरूपमस्ति तत्तस्य तत्त्वम् अनृतविलक्षणं स्वरूपम् उक्तकारकानपेक्षत्वात्, तस्यैव मृदादिद्रव्यस्य या विक्रिया घटादिविकारावस्था सा तस्य अतत्त्वम् अनृतं रूपमित्यर्थः । ननु मृद्धस्तुनः कारकापेक्षमपि विकाररूप वास्तवं कि न स्यादिति चेत् ; नेत्याह-न हीति। कारकापेक्षं विकारजातं वस्तुनो मृदादे- स्तन्वं वास्तवं रूपं न भवति कादाचित्कत्वाच्छुक्तिरूप्यादिवदित्यर्थः । 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति श्रुतिप्रसतिद्धिसं- प्रहार्थो हि-शब्दः। एवं जगत्कारणस्य ब्रह्मणः परानपेक्षस्वभावत्वान्मृ-

Page 315

आनन्दवल्ली। २१५

वस्तुनस्त्च्वम् ; सतो विशेषः कारकापेक्षः; विशेषश्च विक्रिया; जाग्रतस्व- प्रयोश्च ग्रहणं विशेषः । यद्धि सस्य नान्यापेक्षं स्वरूपम्, तत्तस्य तत्त्व- म्: यदन्यापेक्षम्, न तत्तत्वम् ; अन्याभावे अभावात् । तस्मात् स्व्रा- भाविकत्वात् जाग्रत्स्वमवत् न सुपुप्ते विशेषः । येषां पुनः ईश्वरोऽन्य

दादिद्रव्यस्येव सत्यत्वमभिप्रेत्य मृदादिविकारस्येव ब्रह्मविकारस्य जगतो- ऽनृतत्वमाह- सत इति। ननु सतः सत्सामान्यरूपस्य ब्रह्मणो विशेषो नाम कः यस्य कारकापेक्षत्वेन मिथ्यात्वमुच्यते? तत्राह- विशेषश्च विक्रियेति। विक्रिया विकारात्मकं जगदित्यर्थः । अयमेव मिथ्याभूतो विशेष: प्रत्यक्षादिना गृह्यते, न केवलं परमार्थसत्यमद्वैतमित्याशयेनाह- जाग्रदिति। ग्रहणपदं गृह्यमाणार्थकम्। एवं द्रव्यस्य हीत्यादिना प्रपश्चितमर्थ संक्षिप्याह-यद्धि यस्येति। अन्याभाव इति। यद्यपि मृदादेः कारकापेक्षं घटादिरूपं कारकाभावेपि तिष्ठति तथापि शुक्त्यादेरज्ञानादिसापेक्ष रजता- दिरूपं तद्भावे न तिष्ठति, तथा सद्रूपस्य त्रह्मणोऽपि मूलाविद्यादिसापेक्षं जगद्रूपं तद्भावे न तिष्ठतीति प्रायिकाभिप्रायेण तदुक्तिः । वित्रक्षितार्थस्तु- यद्धि यस्य कादाचित्कं रूपं न तत्तस्य तत्त्वं यथा शुक्त्यादे रूप्यादि, यथा वा मृदादेर्घटादि; यद्धि यस्याव्यभिचारिरूपं तत्तस्य वास्तवं रूपम्, परं तु मृदादिस्वरूपमापेक्षिकसत्यम्, ब्रह्म तु पारमार्थिकसत्यं कदापि व्य- भिचाराभावादिति। इममेव विभागमभिप्रेत्य परमार्थसत्यस्य व्रह्मणो लौकिकसत्यं मृदादिभ्ुतौ दृष्ठान्तत्वेनोपादीयते। एतेनानाद्यज्ञानादेरपि मि- थ्यात्वं व्याख्यातम्, अज्ञानादेरपि चैतन्ये कादाचित्कत्वात्। न च हेत्वसिद्धिः, अज्ञानतत्संबन्धजीवत्वादीनां विद्यया निवृत्तिश्रवणादित्यन्यत्र विस्तरः। उपसं- हरति- तस्मादिति। यथा जाग्रत्स्वप्रयोरनुभूयमानो विशेष: कादाचित्क- त्वाद्विद्याकृतः तथा सुषुप्ते सुधुध्यादिसाधकत्वेन प्रकाशमानं सदद्वयं वस्तु नाविद्याकृतम् अन्यानपेक्षस्वभावत्वादित्यर्थः । एवं स्वमते भयहेतो- रन्यस्य परस्याभावाद्भयं प्रतिष्ठां विन्दत इत्युपपाद्य एवंवित्परस्मादन्य इति पक्षे तद्संभवमिदानीमाह-येषामित्यादिना। येषां मते परमार्थत एन

Page 316

२१६ तैत्तिरीयोपनिषदि [अनु.

आत्मनः, कार्य च अन्यत्, तेषां भयानिवृत्तिः, भयस्य अन्यनिमित्त त्वात्; सतश्च अन्यस्य आत्महानानुपपत्तिः । न चासत आत्मलाभः । सापेक्षस्य अन्यस्य भयहेतुत्वमिति चेत्, न; तस्यापि तुल्यत्वात्। यद्धर्मा- द्यन्यत् सहायभूतं नित्यमनित्यं वा निमित्तमपेक्ष्य अन्यद्भयकारणं स्यात्, तस्यापि तथाभूतस्य आत्महानाभावात् भयानिवृत्तिः; आत्महाने वा

जीवादन्यः परो जगच्चान्यत्, तेषां मते विदुषो भयनिवृत्तिन स्याद्भयहेतो. रन्यस्येश्वरस्य सत्वादित्यर्थः । ननु परमार्थतोऽन्यस्यापि सत ईश्वरस्य विद्यया नाशसंभवात्स्यादेव भयनिवृत्तिरिति; नेत्याह- सतश्चेति। च-शब्दः शङ्का- निरासार्थः । आत्महानं स्वरूपनाशः । तत्र दृष्टान्तमाह -- न चासत आ- त्मलाभ इति। यथा शशशरृङ्गादेरसत आत्मलाभशव्दितोत्पत्तिर्न संभवति तथैवेश्वरस्य परमार्थसतो नाशो नोपपद्यत इत्यर्थः। न च परमार्थस्यापि पटा देनाशो दृष्ट इति वाच्यम्, पटादौ परमार्थत्वासंप्रतिपत्ते: भिन्नेश्वरवादिभिरी- श्वरनाशेन विदुषो भयनिवृत्त्यनभ्युपगमाच्चेति भावः । नन्वीश्वरस्य प्राणि- कर्मसापेक्षस्यैवास्माभिर्भयहेतुत्वमुपेयते न सत्तामात्रेण, विदुषस्तु कर्माभा- वाद्भयं भविष्यतीति शङ्कते-सापेक्षस्येति। निराकरोति-न त- स्यापीति। ईश्वरं प्रति सहायभूतस्य धर्मादेरपि त्वया परमार्थसत्यत्वा- भ्युपगमादीश्वरस्येवात्महानं न संभवति; तथा चास्मिन्नपि पक्षे विदुषो मयानिवृत्तिदाषस्य तुल्यत्वान्नायं परिहारो युक्त इत्यर्थः। संग्रहं विवृ- णोति- यद्धमादीति। नित्यमनित्यं वा यदन्यद्धर्मादिलक्षणं निमित्त- मपेक्ष्यान्यद्वह्म भयकारणं स्यात्तस्यापि तथाभूत्स्येश्वरवत्परमार्थभूतस्य ध- मांदेरात्मनाशाभावादित्यर्थः । निमित्तपदव्याख्यानम्- सहायभूतमिति। नित्यमिति सांख्यमताभिप्रायम्, तन्भते धर्मादेः प्रकृतिपरिणामस्य प्रकृत्या- त्मना नित्यत्वाभ्युपगमात्। परमार्थसतोऽपि धर्मादेरात्महानोपगमे बाधक- माह-आत्महाने वेति। यथा शशशृङ्गादेरसतः सत्त्वापत्तावसत्स्वभाववै- परीत्यं तथा सतः परमार्थस्यापि नाशेनासत्वापत्तौ सत्स्भाववैपरीत्यमापद्ये- त; एवं सदसतोरितरेतरतापत्तावुपगम्यमानायामात्माकाशादावपि त्वत्पक्षे

Page 317

<. ] आनन्दवल्ली। २१७

सदसतोरितरेतरापत्तौ सर्वत्र अनाश्वास एव त्वत्पक्षे। एकत्वपक्षे पुनः सनिमित्तस्य संसारस्य अविद्याकल्पितत्वाददोषः । तैमिरिकदष्टस्य हि द्वि- तीयचन्द्रस्य न आत्मलाभो नाशो वा अस्ति। विद्याविद्ययोः तद्धर्मत्व- मिति चेद्, न; प्रत्यक्षत्वात्। वरिवेकाविवेकौ रूपादिवत् प्रत्यक्षावुपलभ्येते

आश्वासो न स्यात्, आत्माकाशादेरव्यसत्त्वप्रसङ्क इत्यर्थः; तस्मादीश्वरस्य तत्सहायभूतधर्मादेश्च नाशासंभवादभयवचनं भिन्नेश्वरवादे न संभवतीति स्थितम्। समते तु नोक्तदोष इत्याह- एकत्वपक्ष इति। निमित्तमविद्या, तया सहैव जीवेश्वरविभागादिलक्षणस्य संसारस्य भ्रान्तिसिद्धत्वाद्विद्यया तन्निवृत्तौ सत्यामभयं विदुषः संभवतीति स्वमते भयनिवृत्त्यनुपपत्तिदोषो नास्तीत्यर्थः । ननु जीवपरयोरेकत्वपक्षेऽपि पूर्वमसतः संसारस्याविद्यादिकार- णवशात्सत्वापत्तिरविद्यया चासत्वापत्तिरिति स्वभाववैपरीत्यप्रसङ्गदोषस्तुल्य इत्याशक्क्याह-तैमिरिकदृष्टस्य हीति। दोषवता पुरुषेण दृष्टस्य द्वितीय- चन्द्रादेरनिर्वचनीयत्त्राद्वस्तुत उत्पत्तिर्विनाशो वा नासति, हि प्रसिद्धमित्यर्थः । अयं भाव :- चन्द्रद्वित्वादिवदनिर्वचनीयस्य स्थूलसूक्ष्मात्मनानादिकालमार- भ्यानुवर्तमानस्य संसारस्याविद्यादिकारणबलेन सर्गादावात्मलाभोपगमेडपि नासतः सत्त्वापत्तिः असत उत्पत्त्यनुपगमादुत्पन्नस्यापि संसारस्यात्म- वत्सत्त्वानुपगमाच्च; अत एव विद्याबलात्संसारस्यासत्वापत्तावपि न स- तोऽसत्वापत्तिरूपस्वभाववैपरीत्यं संसारस्य सत्त्वानभ्युपगमादेवेति। ननु संसारकारणभूताया अविद्याया आत्मधर्मत्वमेवाभ्युपगन्तव्यं धर्म्यन्त- रानुपलम्भात्, तथा तन्निवर्तिकाया विद्याया अपि तत्सामानाधिकरण्य- लाभायात्मधर्मत्वमेवोपेयमित्यविद्यािधर्मवता पुरुषेण निर्धर्मकस्य परस्या- भिन्नत्वमिति पक्षः कथं संभाव्यत इति मन्वानः शङ्कते- विद्यावि- दययोरिति। किं तयोरात्मधर्मत्वं काल्पनिकं विवक्षितं वास्तवं वा? आद्ये न परापरयोरेकत्वानुपपत्तिरिति मत्वा द्वितीयं निराकरोति-न, प्रत्य- क्षत्वादिति। प्रत्यक्षत्वं साक्षिप्रत्यक्षविषयत्वम्, द्ृश्यत्वमिति यावत्। तथा च विद्याविद्ययोर्द्दश्यत्वाह्ग्रूपात्मधर्मत्वं तयोर्वस्तुतो न संभवतीत्यर्थः । तयोः 'T. 28

Page 318

२१८ तैत्तिरीयोपनिषदि [अनु.

अन्तःकरणस्थौ। न हि रूपस्य प्रत्यक्षस्य सतो द्रष्टधर्मत्वम्। अविद्या च स्वानुभवेन निरूप्यते -- मूढोडहं अविविक्तं मम विज्ञानम् इति। तथा विद्याविवेको अनुभूयते, उपदिशति च अन्येभ्य आत्मनो विद्यां बु- ड्वा, तथा अन्ये अवधारयन्ति। तस्मात् नामरूपपक्षस्यैव विद्याविद्ये; नामरूपे च न आत्मधर्मौ, 'नामरूपयोरनिर्वहिता ते यदन्तरा तद्रह्म'

स्वरूपकथनपूर्वकं हेतुं साधयति -- विवेकेति। सर्वदृश्यविविक्तात्मतत्वगो- चरा तत्त्वमस्यादिश्रुतिजनिता वृत्तिर्विवेक: तन्निवर्त्या मूलाविद्या अविवेकः । ननु दृश्ययोरपि तयोर्द्रष्टृधर्मत्वं किं न स्यादित्याशक्कय अन्यत्रादर्शना- दित्याह-न हीति। विद्याविद्ययोः प्रत्यक्षत उपलभ्यमानत्वं प्रपथ्- यति- अविद्या चेत्यादिना। चकारोऽवधारणार्थः । किमात्मतत्वं जा- नासीति गुरुणा पृष्टेन शिष्येण आत्मतत्वविषये मूढ एवाहं मम स्वरू- पभूतं विज्ञानमविविक्तं विविच्य न ज्ञातमित्येवं स्वानुभवेन सिद्धा मूला- विद्या निरूप्यते, तथा विद्योपदेशे प्रवृत्तेन गुरुणा प्रथमं स्वकीया विद्या- नुभूयते, पश्चाद्नुभवसिद्धां तां शिष्येभ्य उपदिशति, शिष्याश्च ता गृहीत्वा उपपत्तिभिरवधारयन्तीत्यर्थः । विद्याविद्ययोर्द्टश्यत्वे नास्ति विवादावसर इत्या- शयः। तयोरात्मधर्मत्वनिराकरणमुपसंहरति-तस्मादिति। आत्मधर्मत्वासं- भवान्मूढोSहं विद्वानहमित्यनुभवानुसारेण नामरूपान्तर्भूतान्तःकरणस्यैव वि- द्याविद्ये धर्मत्वेनावशिष्येते। तदुक्त प्रागेवान्तःकरणस्थाविति। ननु वृत्ति- रूपाया विद्याया अन्तःकरणधर्मत्वेऽपि नाविद्यायास्तद्वर्मत्वम् अविद्याकार्य- स्यान्त:करणस्याविद्याश्रयत्वायोगादिति चेत्; नायं दोषः, अविद्यायाश्चैतन्या- श्रितत्वेऽपि प्रतीतितः कामादिपरिणाम्यन्तःकरणधर्मत्ववर्णनस्यात्र विवक्षितत्वा- त्, जीव चैतन्यस्याविद्यावत्वेऽपि वस्तुतस्तद्राहित्यान्न व्रह्मैक्यानुपपत्तिरित्यावे- दितमधस्तादिति संक्षेपः । ननु विद्याविद्ययोनमिरूपान्तर्गतान्तःकरणधर्मत्वेऽपि नामरूपयोरेवात्मधर्मत्वमस्तु; नेत्याह-नामरूपे चेति। नामरूपे चिदात्म- नः कल्पितधर्मावेव न वास्तवधमौं, चिदात्मनि तयोः शतशो निषेधोपलम्भात् तयोरर्थान्तरत्वाच्चेति भावः । नामरूपे आत्मधर्मो न भवत इत्यक्षरार्थः ।

Page 319

<. ] आनन्दवल्ली। २१९

इति श्रुत्यन्तरात्। ते च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते; न परमार्थतो विद्यमाने। अभेदे 'एतमानन्दमयमात्मानमुपसंक्रामति' इति कर्मकर्तृत्वानुपपत्तिरिति चेत्, न ; विज्ञानमात्रत्वात् संक्रमणस्य। न ज- लूकावत् संक्रमणमिहोपदिश्यते; किं तर्हि, विज्ञानमात्रं संक्रमणश्रुतेरर्थः। ननु मुख्यमेव संक्रमणं श्रूयते-उपसंक्रामतीति इति चेत्, न ; अन्न- मये अदर्शनात्। न मुख्यमेव संक्रमणम्, न हि अन्नमयमुपसंक्रामतः बाह्यादस्माल्लोकात् जलूकावत् संक्रमणं दृश्यते, अन्यथा वा । मनोम-

सयोश्चिविदात्मनः सकाशादर्थान्तरत्वे श्रुतिमाह- नामरूपयोरिति। ते नाम- रूपे यदन्तरा यस्माद्विन्ने तन्नामरूपनिर्वहित्राकाशं ब्रद्मेत्यर्थः। नामरूपशब्दि- तस्य प्रपश्वस्यात्मनि कल्पितधर्मत्वं सदष्टान्तमाह-ते च पुनरिति। उदया- स्तमयवर्जिते सवितरि यथा तौ कल्प्येते तथेत्यर्थः। एवं बहुप्रपश्वेनैवंवित्पर एवेति साधितम्। तत्र पूर्वोक्तामनुपपत्तिमुद्धाव्य निराकरोति -- अभेद इ- त्यादिना। नेति। न तावदानन्दमयः परमात्मा तस्य कार्यात्मतायाः प्रागे- वोक्तत्वात्; नापि तत्प्राप्ति: संक्रमणं प्राप्तेः संक्रमणार्थताया निरसिष्यमाण- त्वात्, कि तु ब्रह्मात्मैकत्वविज्ञानमात्रकृता भ्रमनिवृत्तिरत्र संक्रमणम्, अतो नोकानुपपत्तिरित्यर्थः । संग्रहं विवृणोति- न, जलूकावदित्यादिना। सं . क्रमणस्य प्राप्तिरूपत्वनिराकरणार्थमाशक्कामुद्गावयति-नन्विति। 'आनन्द- मयमात्मानमुपसंक्रामति' इत्युपसंक्रमण श्रूयते; तच्चान्नमय इवानन्दमयेऽपि मुख्यमेव किं न स्यादिति शङ्कार्थः । दृष्ठान्तासिद्धया निराकरोति -- नेति। सं- ग्रहं विवृणोति -- न मुख्यमेवेत्यादिना। आनन्दमयपर्याये संक्रमणं मुखूयं न भवत्येवेति प्रतिज्ञार्थः । न हीति। बाह्यात्पुत्रभार्यादिलक्षणादस्मादपरोक्षा-

क्रमण न हि दृश्यत इत्यर्थः । यथा एकतृणस्थाया जलूकायास्तृणान्तरप्राप्ति- रूपं संक्रमणं दृश्यते, नैवमेवंविदः शरीरस्थस्यान्नमयसंक्रमणं दृश्यत इति यावत्। अतो नानन्दमयेऽपि संक्रमणं प्राप्तिरिति भावः। ब्रह्मविदः शरीरस्थ- त्वादेव प्रकारान्तरेण संक्रमणमपि निरस्तमित्याशयेनाह -- अन्यथा वेति।

Page 320

२२० तैत्तिरीयोपनिषदि [अनु.

यस्य वहिनिर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्यात्मसंक्रमण- मिति चेत्, न; स्वात्मनि क्रियाविरोधात्। अन्योऽन्नमयमन्यमुपसंक्राम- तीति प्रकृत्य मनोमयो विज्ञानमयो वा स्वात्मानमेवोपसंक्रामतीति वि- रोध: स्यात्। तथा नानन्दमयस्य आत्मसंक्रमणमुपपद्यते। तस्मात् न प्राप्तिः संक्रमणम्, नापि अन्नमयान्यतमकर्तकम् । पारिशेष्याद-

नीडे पक्षिप्रवेशवद्वान्नमये संक्रमणं न दृश्यत इत्यर्थः। नन्वेवंवित्परयोरभेदेऽपि तस्य प्रवेशादिरूप परं प्रति संक्रमणं संभवति, मनोमयविज्ञानमययोरात्मसंक्रम- णस्य तथाविधस्य दष्टत्वादिति मन्वानः शङ्कत-मनोमयस्येति। संशयात्म- कवृत्तिमदन्तःकरणं मनोमयः निश्चयात्मकवृत्तिमदन्तःकरणं विज्ञानमय इति विभागः । दृष्टान्तासिद्धया निराकरोति- नेति। तत्र संशयनिश्चयरूपयो- र्वृत्त्योरेव वहिर्विषयदेशे चक्षुरादिद्वारा निर्गमनं पुनः स्वाश्रयं प्रत्यागमनरूपं संक्रमणं च दृश्यते, न तु साक्षान्मनोमयविज्ञानमययोर्बहिर्निर्गमनं स्वात्मानं प्रत्यागमनरूपं च संक्रमणं दृश्यते, न च संभवति, स्वात्मनि स्वस्यैव प्रवे- शादिक्रियाया विरुद्धत्वादित्यर्थः । मनोमयो मनोमयमेवोपसंक्रामति विज्ञान- मयो विज्ञानमयमेवोपसंक्रामतीत्यर्थकल्पनं प्रक्रमविरुद्धं चेत्याह- अन्य इति। एवंविदित्यर्थः । एवं दृष्टान्तं निरस्य दार्ष्टान्तिकं निराकरोति- तथेति। आनन्दमय एव सन्नेवंविदानन्दमयं स्वात्मानमुपसंक्रामति प्राप्नोति प्रविशतीति वा नोपपद्यते, स्वात्मनि क्रियाविरोधात्प्रक्रमविरोधाच्चेत्यर्थः । संक्रमणस्य प्राप्त्यादिरूपत्वनिराकरणमुपसंहरति- तस्मादिति। ननु स्वा- त्मनि क्रियाविरोधादानन्दमयसंक्रमणमानन्दमयकर्तृकं न भवति चेत्, तर्हि अन्नमयाद्यन्यतमकर्तृकमस्तु; नेत्याह -- नापीति । 'भानन्दमयमालान- मुपसंक्रामति' इत्यत्रान्नमयाद्यन्यतमस्य कर्तृत्वेनाश्रवणादिति भावः । फलित- माह-पारिशेष्यादिति। प्रसक्त्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः परिशेषः, परिशेष एव पारिशेष्यम्, तस्मादित्यर्थः । एतदुक्क भवति- आ- नन्दमयसंक्रमणे तावदहमनुभवगोचरः कर्तेति निर्विवादम्; तच्च कर्तृत्वमन्न- मयादिष्वपि प्रसक्तम् अन्नमयादीनामप्यह्मनुभवगोचरत्वात् ; तत्प्रतिषेधे स-

Page 321

<. ] आानन्दवल्ली। २२१

न्नमयाद्यानन्दमयान्तात्मव्यतिरिक्तकर्तकं ज्ञानमात्रं च संक्रमणसुपपद्यते। ज्ञानमात्रे च आनन्दमयान्तःस्थस्यैव सर्वान्तरस्य आकाशाद्न्नमयान्तं कार्य सृष्टा अनुपविष्टस्य हृदयगुहाभिसंबन्धादन्नमयादिषु अनात्मसु आत्मविभ्रमः क्रमेणात्मविवेकविज्ञानोत्पच्या विनश्यति। तदेतस्मि- न्नविद्याविभ्रमनाशे संक्रमणशब्द उपचर्यते; न ह्यञ्जसा सर्वगतस्य आ- त्मन: संक्रमणमुपपद्यते। वस्त्वन्तराभावाच्च। न च स्वात्मन एव संक्र-

त्यक्षमनुभवगोचरादन्यत्र स्तम्भादिषु तत्कर्तृत्वाप्रसक्तेः शिष्यमाणे चिदात्मन्ये- वंवित्वेन प्रकृते बुद्धयुपाधिसंबन्धादानन्दमयसंक्रमणकर्तृत्वमस्तीति प्रमारूपः संप्रत्ययो भवति; तादृशसंप्रत्यय रूपात्परिशेषात्कोशपश्वकव्यतिरिक्तकर्तृकमान- न्दमयसंक्रमणमित्युपपद्यते; एवमन्नमयादिसंक्रमणेSप्येवंविदेव कर्ता, तस्यैव सर्वश्र संक्रमणे कर्तृत्वेन प्रकृतत्वादिति। ज्ञानमात्रं चेति। तह्वज्ञानमात्रकृतं भ्रान्तिनाशरूपमेव संक्रमणमिति चोपपद्यत इत्यर्थः । ननु संक्रमशब्दस्य भ्रम- नाशे प्रसिद्धचभावात्कथमुपपत्तिरित्याशङ्कयाह-ज्ञानमात्ने चेति। ज्ञानमात्र- कृते विभ्रमनाशे संक्रमशब्द उपचर्यते न मुख्यस्तत्र, अतो न प्रसिद्धधपेक्षेति भाव:। एतदेव विशद्यति -- आनन्दमयेत्यादिना। वस्तुतः सर्वान्तरख व्र.

मूलाविद्यःकृतः, स मुमुक्षोः कोशविवेकक्मेणात्मतत्त्वसाक्षात्कारोत्पतत्या समूलो विनश्यति। ततः किम्? अत आह- तदेतस्मिन्निति। एतदुक्त भवति- तत्तत्कोशगोचरविभ्रमनाशस्तत्र तत्र संक्रमो विवक्षित इति। एवमुपचारे नि- यामिकां मुख्यार्थानुपपत्तिमुक्तां स्मारयति -- न ह्यञ्जसेति। सर्वगतस्येति। पूर्णत्वेनात्मानं मन्यमानस्य विदुष इत्यर्थः । वस्त्वन्तरेति। अत्रोपसंक्रमणक-

वाच्चेत्यर्थः । नन्वत्यन्तभेद्विप्रकर्षाद्यभावेऽपि मुख्यप्राप्यता कि न स्यादित्या- शङ्कयाह -- न च स्वात्मन एवेति। न हि रज्जोः स्वाध्यस्तसर्पसंक्रमणं मुख्यं दृष्टमित्यर्थः । यद्वा विदुषः स्वव्यतिरिक्तवस्त्वभावाच्च न विद्वत्कर्तृकं संक्रमणं मुख्यं संभवतीत्याह- वस्त्वन्तरेति। स्वात्मकर्मकमेव तर्हि मुख्यसंक्रम

Page 322

२२२ तैत्तिरीयोपनिषदि [अनु.

णम्। न हि जलूका आत्मानमेव संक्रामति। तस्मात् 'सत्यं ज्ञानमनन्तं ब्रह्म' इति यथोक्तलक्षणात्मप्रतिपत्यर्थमेव बहुभवनसर्गप्रवेशरसलाभा भयसंक्रमणादि परिकल्प्यते ब्रह्मणि संव्यवहारविषये; न तु परमार्थतो निर्विकल्पे ब्रह्मणि कश्विदपि विकल्प उपपद्यते। तमेतं निर्विकल्पमात्मा- नम् एवं क्रमेणोपसंक्रम्य विदित्वा न विभेति कुतश्चन अभयं प्रतिष्ठा विन्दत इत्येतस्मिन्नर्थेऽपि एषः श्रोकः भवति। सर्वस्यैव अस्य प्रकर- णस्य आनन्दवल्ल्यर्थस्य संक्षेपतः प्रकाशनाय एष मश्रो भवति॥

इति अष्टमानुवाकभाष्यम्॥

णमस्तु; नेत्याह-न च स्वात्मन एवेति। तत्रोदाहरणमाह-न हीति। इत्थमेवंवित्परयोरभेदसाधनेन संक्रमणमौपचारिकमिति व्याख्याय प्रकरणस्य महातात्पर्यमुपसंहारव्याजेनाह-तस्मादिति। आनन्दमीमांसासंग्रहार्थमा- दिग्रहणम्। संव्यवहारविषयत्वयोग्यं यदज्ञातं ब्रह्म, तस्मिन्व्रह्मणि सर्गादिकं लोकभ्रान्तिसिद्धमुपदिश्यते शुद्धब्रह्मप्रतिपत्त्यर्थमेव, न तु श्रत्या तात्पर्येण प्रतिपाद्यते, सर्गादेर्मायामात्नत्वादित्यर्थः । 'यतो वाचः ... ' इति मन्त्रो विद्याफलविषय इत्याह-तमेतमिति। एवं विदित्वा क्रमेण कोशानुपसंक्र- म्येति योजना। यद्यपि कोशानामुपसंक्रमणं नाम भ्रमनिवृत्तिरूपो बाध इत्यु- क्तम, स च बाधस्तत्त्वज्ञानबलेन युगपदेव संभवति रज्जुतत्त्वज्ञानबलेनेव तत्रा- ध्यस्तसर्पधारादीनाम्; तथापि तत््वप्रतिपत्युपायभूते कोशविवेचने क्रमस्य प्रागुक्तत्वात्तत्फल प्राप्तावपि स एव कमोऽनूदितः श्रुत्येति मन्तव्यम्। न केवलं विद्याफलविषय एवायं मन्त्रः, किं तु कृत्स्वल्ल्यर्थोपसंहारपरश्चेति तात्पर्या- न्तरमाह-सर्वस्यैवेति।।

इति तैप्तिरीयोपनिषद्भाष्यव्याख्यायां वनमालारयायाम् आानम्दवल्लयाम् अष्टमोऽनुवाकः ।

Page 323

नवमोऽनुवाकः॥

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न विभेति कुतश्च- नेति। एत ह वाव न तपति। किमह५ साधु नाकरवम्। किमहं पापमकरवमिति। स य एवं विद्वानेते आत्मान५ स्पृणुते। उभे ह्येवैष एते आ- त्मान५ स्पृणुते। य एवं वेद। इत्युपनिषत् ॥ १॥ इति नवमोऽनुवाक:॥

यतः यस्मात् निर्विकल्पात् यथोक्तलक्षणात् अदूयादानन्दात्मनः, वाचः अभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्नि

'अदृश्येऽनात्म्ये' इत्यादिनिषेधश्रुतिमभिप्रेत्याह-निर्िकल्पादिति। सर्वविशेषरहितादित्यर्थः । 'सत्यं ज्ञानमनन्तम्' इति लक्षणवाक्यमभिप्रेत्याह- यथोक्तलक्षणादिति। आनन्त्यविवरणपराम् 'आत्मन आकाशः संभूतः' इति सृष्टिश्रुतिमभिप्रेत्याह- अदयादिति। यद्वा विशेष्यमाह- अद्वया- दिति। ब्रह्मण इत्यर्थः । मत्रे 'आनन्दं ब्रह्मणः' इति भेदनिर्देशः 'राहोः शिरः' इतिवदौपचारिक इति मत्व्राह- आनन्दात्मन इति। आनन्दस्वरू- पादित्यर्थः । 'आनन्दादात्मनः' इति व्यस्तपाठेऽप्ययमेवार्थः । अभिधानानि वाचकपदानि। तेषां मुख्यविषयत्व्रमाह-द्रव्यादीति। गुणादिसंग्रहार्थमा- दिग्रहणम्। सविशेषवस्तुविषयाणीति निष्कर्षः । ननु तेषां निर्विशेषे ब्र- ह्मणि प्राप्तेरप्रसक्तत्वात्कथं प्रतिषेध इत्याशक्कयाह-वस्तुसामान्यादिति।

Page 324

२२४ तैत्तिरीयोपनिषदि [अनु.

र्विकल्पे अद्येऽ्पि ब्रह्मणि प्रयोक्तृभिः प्रकाशनाय प्रयुज्यमानानि, अ- प्राप्य अप्रकाश्यैव निवर्तन्ते स्वसामर्थ्याद्धीयन्ते। मन इति प्रत्ययो वि- ज्ञानम्। तच्च, यत्राभिधानं पवृत्तमतीन्द्रियेऽप्यर्थे, तदत्रैव प्रवर्तते प्रका शनाय। यत्र च विज्ञानम्, तत्र वाचः प्रवृत्तिः । तस्मात् सहैव वाऊ नसयोः अभिधानप्रत्यययोः पवृत्तिः सर्वत्र। तस्मात् ब्रह्मपकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचः यस्मादप्रत्ययविषयादन-

वस्तुत्वसामान्यादित्यर्थः । नन्वप्रकाश्येत्यनुपपन्नम् उपनिषच्छब्दैरवश्यं निर्ि- कल्पस्य ब्रह्मणः प्रकाशनीयत्वात् अन्यथा 'तं त्वौपनिषद्म्' इत्युपनिषत्प्र- काश्यत्वश्रुतिविरोधप्रसङ्गादित्याशङ्कय प्राप्तिनिषेधश्रुतेस्तात्पर्यमाह- स्व्सा- मर्थ्याद्धीयन्त इति। सामर्थ्य शक्तिः, तद्विषयत्वमेवात्र निषिध्यते, न लक्षणाविषयत्वमपि; अतो न श्रुत्यन्तरविरोध इति भावः । मनसा सहाप्राप्ये- ति संबन्धाद्रह्मणि मनःप्रकाश्यत्त्रमपि निषिध्यते, स्वप्रकाशस्य तस्य मनःप्रका- श्यत्वायोगात्। तत्र सहशब्देन वाचां मनसश्च सहभाव उच्यते। तमुपपा दयति-मन इतीत्यादिना। मन इति पदेन प्रत्ययोडभिधीयते, स च प्रत्य- यो ज्ञानसामान्यरूपो न भवति, किं तु वाच इत्यनेन समभिव्याहाराच्छब्द- शक्तिजनितं विज्ञानं पर्यवस्यति। ततः किमत आह- तच्चेति। यत्र शव्दशक्तिविषयत्वं प्रथममेव प्रवृत्तमस्ति तत्र तद्नु शब्दशक्तिजनितविज्ञान- प्रकाश्यत्वमपि भवति; यत्र च तादृशज्ञानप्रकाशयत्वं तत्र शब्दशक्तिविषय- त्वमप्यस्त्येवरेति कृत्वा सहभाव उक्त इति निष्कर्षः । तदुक्तं वार्ततिके- 'उद्पादि च यच्छ्दैर्ज्ञानमाकारवद्धियः । स्वतो बुद्धं तद्प्राप्य नाम्रा सह निवर्तते' इति। धियः अन्तःकरणस्य परिणामरूपं सप्रकारं यज्ज्ञानं शब्दैः शक्त्या उत्पादितम्, तदित्यर्थः । स्वतो बुद्धमित्यस्य स्वप्रकाशमित्यर्थः । अतीन्द्रियेऽपीति। जगत्कारणाद्यतीन्द्रियार्थेऽपीत्यर्थः । तस्मादिति। उक्त- रीत्या सहैव प्रवृत्तिदर्शनादित्यर्थः । एवं वाब्बनसयोः सहैव प्रवृत्तिमुक्त्वा निवृत्तिरपि सहैवेत्याह -- तस्मादित्यादिना। अप्रत्ययविषयादिति ।

Page 325

९.] आनन्दवल्ली। २२५

भिधेयाददृश्यादिविशेषणात् सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते, तं ब्रह्मण आनन्दं श्रोत्रियस्य अवृजिनस्य अकामहतस्य सवैं- षणाविनिर्मुक्तस्य आत्मभूतं विषयविषयिसंबन्धविनिर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं विद्वान् यथोक्तेन विधिना न विभेति कुतश्रन, निमित्ताभावात्। न हि तस्माद्विदुषः अन्यद्वस्त्वन्तरमस्ति भिन्नं यतो बिभेति। अविद्यया यदा उदरमन्तरं करुते, अथ तस्य भयं भवतीति हि उक्तम्। विदुषस्तु अविद्याकार्यस्य तैमिरिकदृष्टद्वितीयचन्द्र-

प्रत्ययविषयत्वायोग्यादित्यर्थः । अनभिधेयादिति। शब्दशक्त्ययोग्यादि- त्यर्थः। उभयत्र हेतुं सूचयति -- अदृश्यादिविशेषणादिति। निर्विशेष- त्वात्स्वप्रकाशत्वाच्चेत्यर्थः । सर्वप्रकाशनसमर्थेनेति। अग्नितप्तायःपिण्डवच्चै- तन्यव्यापं वृत्तिज्ञानं समस्तस्य सविशेषस्य प्रकाशने समर्थमपि स्वप्रकाश- त्रह्मप्रकाशने सामर्थ्याभावात्निवर्तत इति भावः । शब्दशक्तिजनितविज्ञानस्य निर्विशेषव्रह्मगोचरत्वयोग्यताराहित्यात्तदप्रकाश्यैव निवृत्तिरित्यपि मन्तव्यम् । अस्यानन्दस्य पारोक्ष्यवारणाय विद्वत्प्रत्यक्षत्वमाह -- श्रोत्रियस्येति। अवृ- जिनत्वं पापराहित्यम्। आनन्दमीमांसावाक्यनिर्दिष्वश्रोत्रिय निरासायात्राकाम- हतत्वं निरङ्कुशमित्याशयेनाह-सर्वैषणेति। सातिशयानन्दवैलक्षण्यं प्रकृ- तानन्दस्य दर्शयति -- विषयेति। विषयादिसंबन्धजनितत्वाभावेऽपि गगना- देरिवोत्पत्तिमाशक्कयाह-स्वाभाविकमिति। अनादिमित्यर्थः । अनादेरप्य- विद्यादेरिव नाशमाशङ्कयाह-नित्यमिति। सर्वेषु शरीरेषु तस्यैक्यमाह- अविभक्तमिति। अत एवास्यानन्दस्य परमत्वमित्याशयेनाह -- परमानन्द- मिति। यथोक्तनेति। अन्योऽन्तर आत्मान्योडन्तर आत्मेत्याद्युक्तेन प्रकारेण यथोक्तमानन्दमातमत्वेन साक्षात्कृतवानित्यर्थः । भयनिमित्ताभावात्कुतोऽपि न बिभेतीत्युक्तमेव विशदयति -- न हीति। विदुषो भयनिमित्तं वस्त्वन्तरं नास्तीत्यत्र युक्तिमाह-अविद्ययेत्यादिना। ततः किम्? अत आह -- विदुषस्त्विति। भयनिमित्तस्य अविद्याकार्यस्य नाशादिति संबन्धः । अधि- .T. 29

Page 326

२२६ तैत्तिरीयोपनिषदि [अनु.

वत् नाशान्भ्यनिमित्तस्य न विभेति कुतश्वनेति युज्यते। मनोमये च उदाहृतः मत्रः, मनसो ब्रह्मविज्ञानसाधनत्वात् तत्र ब्रह्मत्वमध्यारोप्य तत्स्तुत्यर्थ न विभेति कदाचनेति भयमात्रं प्रतिषिद्धम् ; इह त्वद्वैतविषये न विभेति कुतश्रनेति भयनिमित्तमेव प्रतिषिध्यते। नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च। नैवम्। कथमिति, उच्यते-एतं यथोक्त मेवंविदम्, ह वाब इत्यवधारणार्थो, न तपति नोद्वेजयति न संतापयति। कर्थं पुनः साध्वकरणं पापक्रिया च तपतीति, उच्यते-अहमेवं किं कस्मात् साधु शोभनं कर्म नाकरवं कृतवानस्मि इति पश्चात्संतापो भवति आसन्ने मरणकाले; तथा किं कस्मात् पापं प्रतिषिद्धं कर्म अकरवं

ष्ानयाथात्म्यगोचरविद्यया अध्यस्तवस्तुनाशे दृष्टान्तमाह- तैमिरिकेति। तैमिरिकदृष्टस्य द्वितीयचन्द्रस्य चन्द्रैकत्वविद्यया नाशवदित्यर्थः । ननु विशुद्ध- ब्रह्मप्रतिपादकोडयं मन्त्रः कथमत्रह्मणि मनोमये उदाहृतः कथं वा तत्र भयनिमित्तनिषेधमकृत्वा भयमात्रनिषेध: कृत इत्याशक्कयाह-मनोमये चेति। मनोमयशब्दवाच्यस्यास्मदादिमनसो ब्रह्मविज्ञानसाधनत्वात्तत्र मनसि ब्रह्म- त्वमध्यारोप्य मनोमये चायं मन्त्र उदाहृत इति योजना; अतो नोदाहरणानु- पपत्तिरिति भावः। तत्स्तुत्यर्थमिति। मनोमयोपासनस्य ब्रह्मविद्याशेषत्वेन फलस्याविवक्षितत्वात्तदुपासरनस्य साक्षाद्गयनिमित्तनिरसने सामर्थ्याभावाच् म- नोमयोपासनस्तुतये तत्र भयमात्रं निषिद्धमित्यर्थः । प्रकृते तद्वैषम्यमाह- इह त्विति। अद्वैते विद्याविषये ब्रह्मणि द्वैतावशेषासंभवाङ्गयनिमित्तनिषेध उपपद्यत इत्यर्थः । भयनिमित्तनिषेधमाक्षिपति-नन्वस्तीति। परिहरति- नैवमिति। विदुषः साध्वकरणं पापकरणं च भयकारणमस्तीत्येवं न वक्त- व्यमित्यर्थः । तत्र हेतुं पृच्छति- कथमिति। श्रुत्या हेतुमाह -- उच्यत इत्यादिना। यथोक्तमिति। 'आनन्दं ब्रह्मणो विद्वान्' इत्यादिपूर्वप्रन्थे प्रकृतमित्यर्थः। कथं पुनरिति। साध्वकरणादिकं कथ संतापयत्सदेवंविद्मेव न संतापयतीति प्रश्नार्थः। अहमेवमिति। अविदुषामासन्ने मरणकाले एवं

Page 327

आनन्दवल्ली। २२७

कृतवानस्मि इति च नरकपतनादिदुःखभयात् तापो भवति। ते एते साध्वकरणपापक्रिये एवमेतं न तपतः, यथा अविद्वांसं तपतः । कस्मा- त्पुनर्विद्वांसं न तपत इति, उच्यते-स य एवंविद्वान् एते साध्वसा- धुनी तापहेतू इति आत्मानं स्पृणुते प्रीणयति बलयति वा, परमात्म- भावेनोभे पश्यतीत्यर्थः । उभे पुण्यपापे हि यस्मात् एष विद्वान् एते आत्मस्वरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वा आत्मानं स्पृ-

श्त्युक्तप्रकारेण संतापो भवतीति योजना। एवमविदुषां पापकरणनिमित्तको- डपि पश्चात्संतापो भवतीत्याह- तथेति। विदुषस्तद्भावमाह-ते एते इति। एवंशब्दार्थमेव विवृणोति- यथेति। पुण्यपापयोरात्ममात्रत्वेन दर्शनं विदुषः संतापाभावे हेतुरिति प्रश्नपूर्वकमाह -- कस्मात्पुनरित्यादिना। एते इति सर्वनाम्रः प्रकृतसाध्वकरणादिपरत्वं व्यावर्तयति- साध्वसाधुनी इति। तापहेतू इतीति इति-शब्दः प्रकारवचनः । अकरणकरणद्वारा ताप- हेतुत्वेनोक्ते इत्यर्थः। नन्वत्र एते आत्मानमिति सामानाधिकरण्यात्पुण्यपाप- योरात्माभिन्नत्वं भाति, ततश्चात्माभिन्नत्वकृतं पुण्यपापयोः प्रीणनं बलनं वा वाक्यार्थः स्यात्; न च तत्संभवति, तयोः प्रीत्यादिमत्त्वायोगात्; न चात्मनः पुण्यपापाभिन्नत्वबोधनद्वारा तत्कृतं प्रीणनादिकमात्मनो भवतीति वा क्यार्थ इह विवक्षित इति वाच्यम्, आत्मनि तापककर्मात्मकत्वस्य प्रीत्यादि- हेतुत्वासंभवात्, तस्य प्रीतिबलनहेतुत्वोक्तावपि भयनिवृत्तिहेतुत्वानभिधानाञ्चे- त्याशङ्कय विवक्षितं वाक्यार्थमाह-परमात्मभावेनोभे पश्यतीत्यर्थ इति। 'स य एवं विद्वानेते आत्मानं स्पृणुते' इति वाक्योक्तं पुण्यपापयोरात्ममात्रत्वदर्श- नमुत्तरवाक्येनानूद्य तस् विदुषि तापाभावहेतुत्वं प्रतिपाद्यते हि-शब्दयुक्तत्वादु- त्तरवाक्य स्येत्याशयेनाह-उभे इत्यादिना। एवकारमात्मपदेन योजयति- आत्मस्वरूपेणैवेति। पश्यतीति शेषः। ननु ज्योतिष्टोमकल ्जभक्षणादिलक्षणं कर्मास्ति प्रकाशत इत्यनुभवानुरोधात्पुण्यपापयोः सर्वानुगतः सबिदंश इतर- व्यावृत्तो जडांशश्रास्ति, तथा च चिज्जडोभयरूपयोस्तयोः कथं चिदेकरसात्म-

Page 328

२२८ तैत्तिरीयोपनिषदि [अनु.

णुत एव । क:१ य एवं वेद यथोक्तमद्वैतमानन्दं ब्रह्म वेद, तस्य आत्मभावेन दृष्टे पुण्यपापे निर्वीर्ये जन्मारम्भके न भवतः । इति यस्मादेवं तस्माद्यथोक्ता अस्यां वल्ल्यां ब्रह्मविद्योपनिषत्, सर्वाभ्यो विद्याभ्यः परमरहस्यं दर्शितमित्यर्थः- परं श्रेयः अस्यामुपनिषण्ण- मिति वा॥

इति नवमानुवाकभाष्यम्।।

भावेन दर्शनमित्याशङ्कचाह -- स्वेनेति। सीयं यद्विशेषरूपं जडांशः तेन हीने कृत्वा अनुसंधायेत्यर्थः । आत्मानं स्पृणुत एवेति। पुण्यपापे चिदंशा- भिप्रायेणात्मरूपेणैव पश्यतीत्यर्थः । एष एते उभे आत्मानमेव स्पृणुत इत्यु- क्तम्, तत्र एतच्छब्दार्थ पृच्छति -- क इति। श्रुत्योत्तरमाह-य इति। एवमित्यस् व्याख्यानम् -- यथोक्तमिति। 'सत्यं ज्ञानम्' इत्यादिमत्रब्रा- ह्वणजातेन यथानिरूपितमित्यर्थः । यथोक्तं स्वरूपमेव संक्षिप्याह- अद्वैत- मानन्दमिति। यः सर्वात्मकमानन्दरूपं व्रह्मात्मत्वेन वेद स पुण्यपापे अप्या- त्मस्वरूपेणैव पश्यतीत्यर्थः । तस्येत्यतः प्राक्तस्मादिति शेषः, हि यस्मादित्युप- कमात्। ननु नास्तिकतमख मरणकाले संनिहितेऽपि नास्ति साध्वकरणादि- कृतः संतापः, तावता पारलौकिकं भयं तख परिहृतं न भवति; तथा सर्वा- त्मैकत्वदर्शिनः पुण्यपापयोरप्यात्मभावं पश्यतो मारत्विदानीं भयम्, पारलौ- किकं तु कर्मनिमित्तं भयं भविष्यतीत्यविज्ञातमेव; नेत्याह- निर्वीर्य इति। भर्जितबीजवदिति भावः । निर्वीर्यत्वफलमाह-जन्मारम्भके न भवत इति। अतो न विदुषः पारलौकिकभयप्रसक्तिरित्यर्थः । इत्युपनिषदित्यस्यार्थमाह- इतीत्यादिना। इतिशब्दपरामृष्टा यथोक्ता ब्रह्मविद्या उपनिषत्परमरहस्यम्, तच् परमरहस्यमस्यां वल्ल्यां दर्शशितमित्यन्वयः। परमरहस्यत्वे हेतु :- यस्मादेवं तस्मादिति। यस्माद्यथोक्ता विद्या एवं मुक्तिफला तस्मादित्यर्थः । इतरासां सर्वासां विद्यानां रहस्यभूतानामपि न मुक्तिफलकत्वम्, अतो न परमत्व- मिति भावः। उपनिषत्पदस्यार्थान्तराभिप्रायेणाह-परं श्रेय इति। अस्यां

Page 329

९.] आनन्दवल्ली। २२९

विद्यायां सत्यामस्य विदुषः परं श्रेयो ब्रह्मस्वरूपभूतम् उप सामीप्येन प्रत्य- क्त्वेन निषण्णं नितरां स्थितं भवति यतः, अत इयं विद्या उपनिषदित्यर्थः । इति-शब्दो ब्रह्मवल्लीविवरणसमाप्त्यर्थः ॥

नन्दतीर्थस्य कृतौ वनमालाख्यायां तैत्तिरीयोपनिषद्धाष्यव्याख्यायां ब्रह्मवल्लीभाष्यव्याख्या समाप्ता।

Page 330

।। भृगुवल्ी॥

सत्यं ज्ञानमनन्तं ब्रह्म आकाशादिकार्यमन्नमयान्तं सृष्ा तदेवानु- प्विष्टं विशेषवदिवोपलभ्यमानं यस्मात्, तस्मात् सर्वकार्यविलक्षणम् अदृभ्यादिधर्मकमेव आनन्दं तदेवाहमिति विजानीयात्, अनुभवेशस्य तदर्थत्वात्; तस्यैनं विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवतः इत्येवमानन्दवल्ल्यां विवक्षितोऽर्यः । परिसमाप्ता च ब्रह्मविद्या।

वृत्तानुवादपूर्वकमुत्तरवल्लीमवतारयति- सत्यं ज्ञानमित्यादिना। अनुप्रविष्टशब्देन विवक्षितमर्थमाह-विशेषवदिवेति। सांसारिकधर्मजातं विशेषः; तस्यावास्तवत्वज्ञापनार्थ इवकारः; तथा च श्रुतिः- 'ध्यायतीव लेलायतीव' इति। प्रवेशवाक्येन ब्रह्मणो जीवभावोक्तेस्तात्पर्यमाह- यस्मा- दिति। यस्माद्वह्मैव संसारित्वेनोपलभ्यत इत्युक्तं तस्मादहं यथोक्तं ्रझ्मै- वेति विजानीयादिति तात्पर्यतः प्रदर्शित भवति। जीवभावेनानुप्रवेशकथनस्य अहं ब्रद्मेति ज्ञानैकप्रयोजनकत्वादित्यर्थः । न हि व्रह्मैव संसारित्वं प्राप्त- मिति ज्ञानार्तिकचित्प्रयोजनं लभ्यते। प्रतीयमानसंसारित्वनिरसनपूर्वकमहं प्रह्मेति ज्ञानविवक्षायां तु मुक्तिः प्रयोजनं लभ्यत इति जीवस्य ब्र- झत्वज्ञान एव प्रवेशवाक्यस्य तात्पर्यम्। एतेनाभेदबोधकवाक्याभावादत्राहं म्रह्मास्मीति ज्ञानमविवक्षितमिति शक्कापि निरस्ता वेदितव्या, तात्पर्यतो गुहा- निहितिवाक्यस्य प्रवेशवाक्यस्य चाभेदज्ञानपरत्वात। अभेदज्ञानफलमप्युक्त- मनुवदति-तस्यैवमिति । 'इत्युपनिषत्' इत्युपसंहारवाक्यार्थमप्यनुवद- ति -- परिसमाप्ता च ब्रह्मविद्येति। नन्वेवं वक्तव्यानवशेषणादुत्तरवल्ली

Page 331

१.] भृगुवल्ली। २३१

अतः परं ब्रह्मविद्यासाधनं तपो वक्तव्यम् ; अन्नादिविषयाणि च उपास- नान्यनुक्तानि, अतः इदमारभ्यते-

भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अ- धीहि भगवो ब्रह्मेति। तस्मा एतत्प्रोवाच। अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति। त५ होवाच। यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति । तद्विजि- ज्ञासस्व। तद्दूह्मेति। स तपोऽतप्यत। स तप- स्तप्त्वा ॥ १ ॥

इति प्रथमोऽनुवाक: ॥

आख्यायिका विद्यास्तुतये, पियाय पुत्राय पित्रोक्तेति-भृ- गुवैं वारुणि: । वै-शब्दः प्रसिद्धानुस्मारकः, भृगुरित्येवंनामा प्रसि- द्धो अनुस्मर्यते, वारुणिः वरुणस्यापत्यं वरुणं पितरं ब्रह्म जि-

व्यर्था; नेत्याह-अतः परमिति । विद्योक्त्यनन्तरमित्यर्थः । न च कोशपश्वकविवेचनरूपस्य वक्ष्यमाणस्य तपसोऽपि प्रागभिहितत्वात्पुनस्तदु- क्तिव्यर्थेति वाच्यम्, तस्यैव तपसो त्रह्मलक्षणमुखेन कर्तव्यत्वरूपविशेषक- थनपूर्वकमुत्तरवल्लयाः प्रपश्चाथर्त्वेन पौनरुक्त्याभावात्। इतश्च न पौनरुक्त्य- मित्याशयेनाह -- अन्नादीति॥

ननु तर्हि तपआदिकमेव वक्तव्यं न त्वाख्यायिकापि; तव्राह- आख्यायिकेति। नन्वाख्यायिकया कथं स्तुतिलाभः? तत्राह- प्रिया- येति। पिता प्रियाय पुत्राय प्रशस्तामेव विद्यामुपदिशेन्नान्यामिति रीत्या

Page 332

२३२ तैत्तिरीयोपनिषादि [अनु

ज्ञासुः उपससार उपगतवान्- अधीहि भगवो ब्रह्म इत्यनेन मन्त्रेण। स च पिता विधिवदुपसन्नाय तस्मै प्ुत्राय एतत् वचनं प्रोवाच-अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचम् इति। अन्नं शरीरं तदभ्यन्तरं च प्राणम् अत्तारम् उपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचम् इत्येतानि व्रह्मोपलब्धौ द्वाराण्युक्तवान्। उत्तवा च द्वारभूतान्येतान्यन्नादीनि तं भृगुं होवाच ब्रह्मणो लक्षणम्। किं तत्? यतः यस्मात् वा इमानि ब्रह्मादीनि स्तम्वपर्यन्तानि भूतानि जायन्ते, येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते, विनाशकाले च यत्प- यन्ति यद्रह्म प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रतिपद्यन्ते,

विद्यायाः प्रकर्षो लभ्यत इत्यर्थः । हे भगवन् व्रम्माधीहि स्मर उपदिशेति यावदिति मन्त्रार्थः। अत्तारमिति। शरीरेSन्नशब्दप्रयोगात्तदभ्यन्तरस्य प्राण- स्यात्तृत्वमुपचारेणोक्तमिति मन्तव्यम्। यद्वा अन्नशब्देन विराडात्मकं शरीरं विवक्षितम्, तदभ्यन्तरः प्राणश्च सूत्रात्मरूपो हिरण्यगर्भो विवक्षित इति कृत्वा प्राणस्यात्तृत्वमुक्तमिति मन्तव्यम् । नन्वन्नप्राणयोरुक्तिः 'अन्नं ब्रह्मेति व्य- जानात्' 'प्राणो ब्रह्मेति व्यजानात्' इति करिष्यमाणे विचार उपयुज्यते, रूपाद्युपलन्धिसाधनानां चक्षुरादीनामुक्तिः क्वोपयुज्यते? तत्राह- ब्रह्मो- पलब्धौ द्वाराणीति। अत्र मनःशव्देन 'मनो ब्रह्मेति व्यजानात्' इत्यत्र वक्ष्यमाणमाधिदैविकं मनो गृह्यते। एतच्च 'विज्ञानं व्रह्मेति व्यजानात्' इत्यत्र वक्ष्यमाणस्याधिदैविकविज्ञानस्याप्युपलक्षणम्। वागादीनां चक्षुरादीनां च यथा- यथं प्राणादिकोशेष्वन्तर्भूतानां ब्रह्मोपलब्धिद्वारत्वं विवक्षितमिति न चक्षुरा- दिकथनवैयर्थ्यमिति भावः। उक्तानुवादपूर्वकम् 'यतो वै' इत्यादेस्तात्पर्य- माह-उक्त्वा चेत्यादिना। निर्विशेषस्य ब्रह्मणो धर्मरूप लक्षणं न संभव- तीत्याक्षिपति- किं तदिति। काल्पनिकं धर्मरूपं जगत्कारणत्वं तस्य लक्षणं वितक्षितम् अतो नासंभव इति श्रुत्या परिहरति -- यत इति। प्रयन्ती- त्यस्य विवरणमभिसंविशन्तीति। तत्राभीत्युपसर्गार्थमाभिमुख्यं विवृणोति-

Page 333

२.] भृगुबल्ली। २३३

उत्पत्तिस्थितिलयकालेषु यदात्मकर्ता न जहति भूतानि, तदेतद्रह्मणो लक्षणम्, तङ्रह्म विजिज्ञासस्व विशेषेण ज्ञातुमिच्छस्व; यदेवंलक्षणं ब्रह्म तदन्नादिद्वारेण प्रतिपद्यस्वेत्यर्थः । श्रुत्यन्तरम्- 'माणस्य प्राण

तादात्म्यमेवेति। ब्रह्मणि लीयन्त इत्येव विवक्षितार्थः । अत्र ब्रह्मणो भूतल- याधारत्वश्रवणात्प्रकृतित्वरूपं कारणत्वं विवक्षितमित्याशयेनाह-उत्पत्तीति। प्रकृतिरेव हि विकाराणामात्मा स्वरूपमिति स्थापितमारम्भणाधिकरणे, अतो यदात्मकतामित्युक्तम्। यद्यपि ब्रह्मादिस्तम्बपर्यन्तानां भूतानां स्वत उत्पतत्या- दयो न सन्ति, तथापि स्थूलसूक्ष्मोपाधिविशिष्टत्वाकारेण तेषामपि ते सन्तीति भावः । नन्वत्र महाभूतानामाकाशादीनां ग्रहणं कुतो न क्रिियते प्राणिष्विवाकाशादिष्वपि भूतशब्दस्य प्रसिद्धत्वात्: अत एव 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' इत्यत्र भूतशब्देन महाभूतानां प्रहण- माचार्यैरेव कृतम्, तथा जन्मादिसूत्रे द्विविधान्यपि भूतानि गृहीतानि; सथा च कथमत्र प्राणिनामेव ग्रहणमिति चेत्, उच्यते-भूतशब्दस्योभयत्र रूढत्वेSपि प्राणधारणकर्तृवाचिजीवन्तीत्युपपदानुसारेण प्राणिरूढेरेवोन्मेषो न महाभूतविषयरूढेरिति नात्राकाशादिग्रहणप्रसक्तिः 'सर्वाणि ह वा इमानि भूतानि' इत्यत्र च 'अस्य लोकस्य का गतिः' इति पृथिवीलोकादिकारण प्रश्नानुसारेण महाभूतरूढेरेवोन्मेषो न प्राणिरूढेः; जन्मादिसूत्रे च ज- गत्कारणवाक्यानां सर्वेषामेवोदाहरणत्वाद्वाक्यान्तरानुसारेण द्विविधान्यपि भू- तानि गृह्दीतानीति न किंचिद्वद्यम्। अत्र विवक्षितं लक्षणमाह -- तदेत- दिति। भूतकारणत्वमित्यर्थः । श्रुतौ तद्ग्म तद्विजिज्ञासस्वेत्यर्थक्रमो बोध्यः । यद्वा, ननु ब्रह्म जिज्ञासवे कथं जगत्कारणं जिज्ञास्यत्वेनोपदिश्यते? तत्राह श्रुति :- तद्रह्मेति। अस्मिन्पक्षे यथाश्रुत एवार्थक्रमः । ननु विजिज्ञास- स्वेति पित्रा न वक्तव्यम्, स्वरूपविशेषजिज्ञासायाः प्रागेव सिद्धत्वादित्याश-

मित्याह -- श्रुत्यन्तरमिति। षष्ठचन्तप्राणादिशब्दोपात्तस्य कार्यकरणसंघात- जातस्याधिष्ठानतया सत्तास्फूर्तिप्रदं द्वितीयान्तप्राणादिशब्दोपात्तं प्रत्यगात्मानं *T. 30

Page 334

२३४ तैसतिरीयोपनिषदि [अनु.

मुत चक्षुपश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचि- क्युर्ब्रह्म पुराणमग्रथम्' इति ब्रह्मोपलब्धौ द्वाराण्येतानीति दर्शयति। स भृगु: ब्रह्मोपलब्धिद्वाराणि ब्रह्मलक्षणं च श्रुत्वा पितुः, तपः ब्रह्मोपल- ब्धिसाधनत्वेन अतप्यत तप्तवान् । कुतः पुनरतुपदिष्टस्यैव तपसः साध- नत्वप्रतिपत्तिर्भृगोः१ सावशेषोक्तः । अन्नादि ब्रह्मणः प्रतिपत्तौ द्वारम्, लक्षणं च यतो वा इमानि इत्याद्युक्तवान् । सावशेषं हि तत्, साक्षा- ड्रह्मणोऽनिर्देशात्। अन्यथा हि स्वरूपेणैव ब्रह्म निर्देष्टव्यं जि. ज्ञासचे स्वपुत्राय इदमित्थंरूपं ब्रह्म इति; न चैवं निरदिशत्; किं

ये श्रुतिन्यायाभ्यां विदुः ते सृष्टेः पूर्वकालेडपि स्थितं कूटस्थं ब्रह्म आत्मत्वेन निचिक्युर्जानीयुः नेतरे प्रत्यगात्मस्वरूपज्ञानरहिता इति श्रृत्यन्तरार्थः । यो- डन्नादेरधिष्ठानतया सत्ताप्रकाशरूप: प्रत्यगात्मा स ब्रह्मैवेत्येवंप्रकारेण ब्रह्मोप- लव्धिद्वारत्वं तत्रावगम्यत इति भावः । पितुरिति पश्चमी। तस्माच्छत्वेति योजना। ननु पित्रा तपसा ब्रह्म विजिज्ञासस्वेत्यनुक्तत्वात्कथं तपसि ब्रह्म- विज्ञानसाधनत्वं भृगुणा विनिश्चितम्? न हि तन्निश्चयं विना तत्र प्रवृत्ति- स्तस्य संभवतीति शक्कते- कुतः पुनरिति। परिहरति- सावशेषोक्ते- रिति। सावशेषोक्तेस्तपसि व्रह्मविज्ञानसाधनत्वप्रतिपत्तिर्भृगोरभूदित्यर्थः । गुरूक्तार्थानुवादपूर्वकं तदुक्तेः सावशेषत्वं साधयति -- अन्नादीत्यादिना । ब्रह्मणः प्रतिपत्तौ द्वारभूतमन्नादिकम् 'अन्नं प्राणम्' इत्यादिनोक्तवानित्यर्थः । सावशेषं हि तदिति। यद्भूतजन्मादिकारणं तद्रह्म, तत्प्रतिपत्तौ चान्नादि द्वारमित्येतादृशमुपदेशनं सावशेषमिति। अत्र हि-शव्दोक्तं हेतुमाह- साक्षादिति। त्वं व्रह्मेत्यपरोक्षतया ब्रह्मणो निर्देशाभावादित्यर्थः । नन्वेतावता कथं गुरूक्ते: सावशेषत्वं सिध्यति? तत्राह- अन्यथा हीति। सावशेषत्वा- भावे हीत्यर्थः । स्वरूपेणैवेति। प्रत्यक्त्वेनैवेत्यर्थः । वस्तुतः प्रत्यगात्मस्वरूप- त्वाद्रह्मण इति भावः। भृगोर्वास्तवस्वरूपज्ञाने ताटस्थ्यं वारयति- जिज्ञासव इति। गुरोर्वास्तवस्वरूपबोधने उपेक्षां वारयति -- स्वपुत्रायेति।

Page 335

१.] भृगुवल्ली। २३५

तर्हिं, सावशेषमेवोक्तवान्। अतोऽवगम्यते नूनं साधनान्तरमपेक्षते पिता ब्रह्मविज्ञानं प्रतीति। तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमलात्; सर्वेषां हि नियतसाध्यविषयाणां साधनानां तप एव साधकतमं साधन- मिति प्रसिद्धं लोके। तस्मात् पित्रा अनुपदिष्टमपि ब्रह्मविज्ञानसाध- नत्वेन तपः प्रतिपेदे भृगुः । तच्च तपः वाह्यान्तःकरणसमाधानम्, तद्वार-

निर्देशस्वरूपमेव दर्शयति-इदमित्थंरूपमिति। इदं त्वया पृष्ठं ब्रह्म इत्थं- रूपं तव देहे बुद्यादिसाक्षितयोपलभ्यमानचैतन्यरूपमिति निर्देष्टव्यमिति योजना। ननु तथैव पित्रा निर्दिष्ठं ब्रह्म ; नेत्याह -- न चैवमिति। अनुपल- म्भादिति भावः । ननु तर्हि कीदृशं व्रह्मोक्तवानिति पृच्छति- किं तहींति। परोक्षतयैव व्रह्मोक्तवानित्याह-सावशेषमेवेति। इत्थं सावशेषोक्तेरिति हेतुं प्रसाध्य तेन तपसि ब्रह्मज्ञानसाधनत्वप्रतिपत्तिप्रकारमाह-अत इति। साव- शेषोक्तेरित्यर्थः । साधनान्तरमिति। स्व्रस्मिन्विधिवदुपसदनादिलक्षणं यत्सा- धनमस्ति तदपेक्षयान्यत्साधनमित्यर्थः । ननु परोक्षतया त्रह्मोपदेशस्य वस्तुतः सावशेषत्वेSपि तस्य तत्सावशेषत्वं शिष्येण कथं ज्ञातम्, प्रत्यगात्मैव् व्रह्मेति ज्ञानं विना तदुपदेशस्य सावशेषत्वज्ञानासंभवादिति चेत् ; नैवम्, ब्रह्मवित्स- भायां तदीयव्यवहारादिना सामान्यतो जीव्रो व्रह्मेति ज्ञात्वा तदैक्यापरोक्ष्याय गुरूपसद्नसंभवेन परोक्षोपदेशस्य सावशेषत्वज्ञानसंभवात्। ननु त्रह्मात्मैक्य- साक्षात्कारं प्रति चित्तगतप्रतिवन्धनिवृत्तिद्वारा तत्संपादनसमर्थ साधनान्तरं ममापेक्षते पिता नूनं निश्चय इत्यनेन प्रकारेण स्वस्यानुष्ठेयं सामान्यतः साधनान्तरं निश्चितमित्यस्तु, तच्च साधनान्तरं तप एव पितुराशयस्थमिति कथं निश्चितमित्याशङ्क्य योग्यताविशेषादित्याह- तपोविशेषेति। तपोरू- पसाधनविशेषेत्यर्थः । सर्वेति। सर्वेषां ज्ञानसाधनानां मध्ये तपसो ज्ञानं प्रत्य- तिशयितसाधनत्वेन ब्रह्मविध्यवहारे प्रसिद्धत्वादित्यर्थः । संग्रहवाक्यं विवृणो- ति-सर्वेषां हीति। साध्यपदं ज्ञानपरम्, तस्य नियतत्वमैकान्तिकफल- त्वम् ; तेन नियतसाध्येन सह साधनतया संबद्धानामित्यर्थः । तस्मादिति । सावशेषोक्त्यादिलिक्गादित्यर्थः। तपस्ः स्वरूपं दर्शयति-तच्चेति। समाधा-

Page 336

२३६ तैत्तिरीयोपनिषंदि [अनु.

कत्वाड्रह्मप्रतिपत्तेः, 'मनसश्चेन्द्रियाणां च हैकाग्रयं परमं तपः। तज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते' इति स्मृतेः। स च तपस्तप्त्वा॥

इति प्रथमानुवाकभाष्यम्॥।

नमिति। उदाहरिष्यमाणस्मृतिगतस्यैकावयपदस्य व्याख्यानं समाधानमिति। तत्र वाह्यकरणानां समाधानं विषयेभ्यो व्यावृत्तत्वरूपं विवक्षितम्, अन्त :- करणस्य समाधानं तत्वे स्थापनमिति विभागः । स्मृतौ तपसः परमत्वविवर- णमुत्तराधे। तपः सर्वधर्माणां मध्ये वस्तुगत्या ज्यायो भवति; सच तपोरूपो धर्मः पर इति विद्वद्धिरप्युच्यत इति तदर्थः । परमार्थतस्तु श्रुतौ स्मृतौ च तपःपदं भाष्यगतसमाधानपदं च तत्त्वचिन्तापरम्, न समाधिपरम्, 'तप आलोचने' इति स्मरणात् महावाक्यार्थज्ञानं प्रति त्वंपदार्थशोधनरूपस्या- लोचनस्यैव साधकतमत्वाच्च, अत्र गुरूपदिष्टस्य ब्रह्मलक्षणस्यापि क्रमेण कोशेभ्यः सकाशादात्मततत्वस्य विवेचन एवोपयोगाच ब्रह्म जिज्ञासोर्भृगोर्जि- झ्ासिते ब्रह्मण विचार विना जिज्ञासानिवर्तकनिर्णयायोगाज्च। अत एव 'तद्विजिज्ञासस्व' इति श्रुतिमूलके जिज्ञासासूत्रे ब्रह्म जिज्ञासोर्विचार एव कर्तव्यत्वेनोपदिष्टः । अत एव चात्र भाष्यवार्ततिके प्रथमं यथाश्रुतभाष्यादिक- मनुरुध्य पश्चात्तपःशब्दो विचारपरत्वेनोपपत्तिपूर्वकं योजितः । तथा च वार्त्तिकम्- 'अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत्। अहं ब्रह्मेति वाक्यार्थबोधायालमिदं यतः' इति। सूतस्रहितायां परमेश्वरेणाप्युक्तम्- 'कोडहं मुक्ति: कथं केन संसारं प्रतिपन्नवान्। इत्यालोचनमर्थज्ञास्तपः शंसन्ति पण्डिताः' इति ॥

इति तैत्तिरीयोप निषद्धाष्यव्याख्यायां वनमालाख्यायां भृगुवल्लयां प्रथमोऽनुवाक: ॥

Page 337

द्वितीयोऽनुवाकः॥

अन्नं ब्रह्मेति व्यजानात्। अन्नाद्धयेव खल्वि- मानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति। अन्नं प्रयन्त्यभ्निसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। त५ होवाच। तपसा ब्रह्म विजिज्ञासख। तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा ॥ १॥

इति द्वितीयोऽनुवाक:॥

अन्नं ब्रह्मेति व्यजानात् विज्ञातवान्। तद्धि यथोक्तलक्षणोपेतम्। कथम्? अन्नाध्ध्येव खलु इमानि भूतानि जायन्ते। अश्रेन जातानि जीवन्ति। अन्नं प्रयन्त्यभिसंविशन्तीति। तस्माद्युक्तमन्नस्य ब्रह्मत्वमित्य- भिप्रायः। स एवं तपस्तप्त्वा, अन्नं ब्रह्मेति विज्ञाय लक्षणेन उपपच्या च, पुनरेव संशयमापन्नः वरुणं पितरमुपससार-अधीहि भगवो ब्रह्मेति। कः पुनः संशयहेतुरस्येति, उच्यते -- अन्नस्योत्पत्तिदर्शनात्। तपसः

तद्धीति। अन्नं हीत्यर्थः । अन्नाद्धयेवेति । इंदं वाक्यमानन्दवल्ली- गतेन 'अन्नाद्वै प्रजाः प्रजायन्ते' इति वाक्येन समानार्थमिति नास्य व्या- र्याने व्याप्रियते। तस्मादिति। व्रह्मलक्षणोपेतत्वादित्यर्थः । 'तद्विज्ञाय' इत्यस्यार्थमाह-स एवमिति। उपपच्या चेति। अन्नश्दितस्य विराजः श्रुतिषूपास्यत्वश्रवणादत्रह्मण उपास्यत्वायोगादित्याद्युपपत्या चेत्यर्थः । उपप-

Page 338

२३८ तैत्तिरीयोपनिषदि [अनु.

पुनः पुनरुपदेशः साधनातिशयत्वावधारणार्थः। यावड्रह्मणो लक्षणं निरतिशयं न भवति, यावच् जिज्ञासा न निवर्तते, तावत्तप एव ते साधनम् ; तपसैव ब्रह्म विजिज्ञासस्वेत्यर्थः। एवं सर्वत्र। ऋज्वन्यत्। इति द्वितीयानुवाकभाष्यम्।।

त्या चान्नं व्रह्मेति विज्ञायेति योजना। उत्पत्तिदर्शनादिति। ब्रह्मणस्तावदुत्प- त्तिर्नास्ति तस्य नित्यत्वश्रवणात् अन्नस्त च हिरण्यगर्भादुत्पत्तेः श्रुतिषु दर्शना- तपृथिव्यादिस्थूलभूतात्मकस्यान्नस्य भूतकारणत्वस्यापि दर्शनाच्चेत्यादिकमालो- चयतस्तम्यान्नं ब्रह्म न वेति संशय उत्पन्न इत्यर्थः । असकृत् 'तपसा ब्रह्म विजिज्ञासस्व' इत्युपदेशस्य तात्पर्यप्रदर्शनपूर्वकमर्थमाह-तपस इत्यादिना। निरतिशयमिति। संपूर्णमित्यर्थः । तावत्तप एवेति। विचारं विना जिज्ञा- सानिवृत्त्ययोगादिति भावः । श्रुतौ 'तपो ब्रह्म' इति वाक्यं विधित्सितस्य तपसो ब्रह्मत्वेन स्तुत्यर्थमिति मन्तव्यम्। प्रथमपर्यायस्थम् 'तद्विज्ञाय' इत्या- दिवाक्यव्याख्यानमन्यत्राप्यतिदिशति-एवं सर्वत्रेति। 'प्राणो ब्रह्मेति व्यजानात्' इत्यादिवाक्यमभिप्रेत्याह-ऋज्वन्यदिति । स एव ऋज्वर्थः प्रदर्श्यते, तथा हि-स तपः अतप्यत, अन्नस्य सूत्रात्मरूपप्राणपरतन्त्रस्य न ब्रह्मलक्षणं निरपेक्षं संभाव्यते प्राणस्य तु स्वातन्त्रयादिसतत्वात्तत्संभवती त्यादिलक्षणं विचारं कृतवान्। एवं तपः कृत्वा प्राणो व्रह्मेति नि- श्रितवान्, तन्निश्चयोपयोगित्वेनप्राणे ब्रह्मलक्षणं च योजितवानित्या- शयेनाह श्रुतिः प्राणाद्धयेवेत्यादिना। अन्नस्य प्राणाधीनत्वादन्राजायमाना- नि भूतानि प्राणादेव जायन्त इत्ययमर्थों युक्त एवेति द्योतनार्थो हि-शब्दः । तद्विज्ञाय लक्षणोपपत्तिभ्यां प्राणो ब्रह्मेति विज्ञाय पुनरेव प्राणत्रह्मणि संशय- मापन्नो वरुणं पितरमुपगतवान्। संशयकारणं तु प्राणस्यापि मनःपारत- कयं ज्ञानशक्तिराहित्यादिकमूहनीयम्। इत्थं प्राणत्रह्मणि संशयमापन्नो मुख्यं ब्रह्मान्यदन्वेषमाणो भृगुः पुनर्वविचारं कृततान्-प्राणस्य मनसा निरो- धदर्शनेन प्राणापेक्षया मनसः स्त्रातन्त्रयाज्ज्ञानशक्तिमस्वात्, अत एव मनसि ब्रह्मलक्षणसंभवाच्च आधिदैविक समष्ठचन्तःकरणमेव व्रह्मेति निश्चि-

Page 339

२.] भृगुवल्ली। २३९

तवान्। एवं मनो ब्रह्मेति विज्ञाय पुनस्तत्रापि संशयमापत्रो वरुणमुपगतवा- नित्यादि समानम्। संशयकारणं त्वस्मदादिमनोवदाधिदैविकमनोऽपि करण- कोटिप्रविष्टत्वाद्विज्ञानशब्दितकर्तृपरतन्त्रं भवति। न हि परतन्त्रस्य ब्रह्मलक्षणं मुख्यं संभवतीत्यादिदोषदर्शनमिति बोध्यम्। एवं मनसति ब्रह्मलक्षणायोगात्क- तरि च स्वातन्त्रयेण तद्योगादित्यादिविचारं कृत्वा विज्ञानमाधिदैविकं महत्तत्वं ब्रह्मेति निश्चितवानित्यादि समानम्। पुनश्च विज्ञान्रह्मण्यपि तस्य जन्मना- शादिश्रवणलिङ्गेन संशयमापन्नो वरुणमुपगतवानित्याध्यूहनीयम् । इति तैत्तिरीयोपनिषद्धाष्यव्याख्यायां वनमालाख्यायां भृगुवल्लयां द्वितीयोऽनुवाक:॥

Page 340

तृतीयोऽनुवाकः॥ -8 -- प्राणो ब्रह्मेति व्यजानात्। प्राणाद्धयेव खल्वि- मानि भूतानि जायन्ते। प्राणेन जातानि जीव- न्ति। प्राणं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। त५ होवाच। तपसा ब्रह्म विजिज्ञासख। तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा ॥

इति तृतीयोऽनुवाक:।

Page 341

चतुर्थोऽनुवाकः॥

मनो ब्रह्मेति व्यजानात्। मनसो ह्येव खल्वि- मानि भूतानि जायन्ते। मनसा जातानि जीव- न्ति। मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। त५ होवाच। तपसा ब्रह्म विजिज्ञासख। तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा।

इति चतुर्थोऽनुवाकः॥

*T. 31

Page 342

पञ्चमोऽनुवाकः॥ -*-

विज्ञानं ब्रह्मेति व्यजानात्। विज्ञानाद्धयेव खल्विमानि भूतानि जायन्ते। विज्ञानेन जातानि जीवन्ति। विज्ञानं प्रयन्त्यभिसंविशन्तीति। त- द्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। त५होवाच। तपसा ब्रह्म विजि- ज्ञासस्व। तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा ॥ १ ॥

इति पञ्चमोऽनुवाक: ॥

Page 343

षष्ठोऽनुवाकः॥

आनन्दो ब्रह्मेति व्यजानात्। आनन्दाद्धचेव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्यभिसंविशन्तीति । सैषा भार्गवी वारुणी विद्या। परमे व्योमन् प्रतिष्ठिता। स य एवं वेद प्रतितिष्ठति। अन्नवा- नन्नादो भवति। महान् भवति प्रजया पशु- भिर्ब्रह्मवर्चसेन। महान् कीर्त्या।। १।।

इति षष्ठोऽनुवाक: ॥

एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्रह्मलक्षणमपश्यन् शनैः शनैरन्तरनुप्विश्य आन्तरतममानन्दं ब्रह्म विज्ञातवान् तपसैव

'आनन्दो ब्रह्मेति व्यजानात्' इत्यादि व्याख्यातुमुपक्रमते- एवं तपसेत्यादिना। विशुद्धात्मेति। विशुद्धान्तःकरण इत्यर्थः । अत्र विशुद्धि रन्नप्राणादिषु ब्रह्मलक्षणस्य साकल्येन दर्शनविरोधिदोषदर्शनरूपा विवक्षिता प्रकृतत्वादिति बोध्यम्। शनैः शनैरन्तरतुप्रविश्येति। आध्यात्मिक कोशाना- मिवाधिदैविकानामन्न प्राणादिकोशानामप्युत्तरोत्तरस्य पूर्वपूर्वापेक्षया कमेणान्त- रत्वं निश्चित्येत्यर्थः । आन्तरतममिति । सर्वान्तरतममित्यर्थः । स्थूलसूक्ष्मका- रणात्मकस्य सर्वस्य दृश्यजातस्य विचारेणैव मिथ्यात्वं तदधिष्ठानभूतस्य प्र० त्यगानन्दृस्य सर्वान्तरत्वं सर्वकारणत्वं च निश्चित्य तदेवानन्दरूपं ब्रह्माहमिति

Page 344

२४४ [अनु.

साधनेन भृगु: ; तस्मात् ब्रह्म िजिज्ञासुना बाह्यान्तःकरणसमाधानलक्षणं परमं तपः साधनमनुष्ठेयमिति प्रकरणार्थः । अधुना आख्यायिकातोऽप- सृत्य श्रुतिः स्वरेन वचनेन आख्यायिकानिर्व्टत्तमर्थमाचष्टे। सैषा भार्गवी भृगुणा विदिता वारुणी वरुणेन प्रोक्ता विद्या परमे व्योमन् हृदयाकाशे गुहायामानन्देऽद्वैते प्रतिष्ठिता परिसमाप्ता अन्नमयादात्मनोऽधि प्रवृत्ता। य एवमन्योऽपि तपसैव साधनेन अनेनैव क्रमेण अनुपविश्य आनन्दं ब्रह्म वेद, स एवं विद्यापतिष्ठानात् प्रतितिष्ठति आनन्दे परमे ब्रह्मणि,

साक्षात्कृतवानित्यर्थः । भृगोस्तपसैव ज्ञानमुत्पन्नमिति वदन्त्याः श्रुतेस्तात्पर्य माह-तस्मादिति। तपसैव ज्ञानोदयदर्शनादित्यर्थः । समाधानपदं विचा- रपरमिति प्रागुक्तमत्राप्यनुसंधेयम्। प्रकरणार्थ इति। तपसा भृगोर्ज्ञानमुत्प- न्नमिति यथाश्रुतार्थे प्रयोजनाभावेन प्रकरणस्य तत्र तात्पर्यायोगादिति भावः। श्रुतौ आनन्दं प्रयन्त्यभिसंविशन्तीति, तस्माद्युक्तमानन्दस्येदं लक्षणमि- त्यभिप्रायः । 'सैषा भार्गवी' इत्यादिवचनं न पितुर्न वा पुत्रस्येत्यसंगति- माशक्कयाह- अधुनेति। आख्यायिकातोऽपसत्येति। कथारूपत्व्रं परि- त्यज्येत्यर्थः । सा पूर्ववल्ल्यां प्रकृता। एषा अस्यां वल्ल्यां संनिहिता। विदिता प्राप्ता। व्योमस्वरूपमाह-हृदयाकाश इति। हृदयाकाशाख्ये परमे व्योम्नि या गुहा बुद्धिः तस्यां य आनन्दः तस्य कारणत्वादद्वैतत्वम; तस्मि- न्प्रतिष्ठितेत्यर्थः । ननु कस्मादारभ्य प्रवृत्ताया विद्यायाः प्रत्यगानन्दे परिस- माप्तिरुच्यते? तत्राह- अन्नमयादिति। 'अन्नं ब्रह्म' इत्यारभ्य पूर्वपूर्वप्र- हाणेनोपरि प्रवृत्तेत्यर्थः । तथा चान्नमयादिकोशजातादान्तरतममानन्दरूपम- द्वितीयं वस्तु व्रह्मेत्ययमर्थ आख्यायिकायां निष्पन्न इत्यनया श्रुत्या दर्शितं भवतीति भावः । 'य एवं वेद' इत्यादेरर्थमाह-य एवमन्योऽपीत्या- दिना। अनेनैव क्रमेणेति। अन्नादिषु ब्रह्मलक्षणयोजनारूपेणैव प्रकारेणे- त्यर्थः । अनुप्रविश्येति। अन्नादिषु ब्रह्मत्वबुद्धिपरित्यागपूर्वकं सर्वान्तरमानन्दं कारणत्वेन संभाव्य तमानन्दं ब्रह्मभूतमात्मत्वेन यो वेदेत्यर्थः । विदुषो ब्रक्मा- नन्दे प्रतिष्ठारूपफलकीर्तने तत्क्रतुन्यायं सूचयति-विद्याप्रतिष्ठानादिति।

Page 345

६.] भृगुवल्ली। २४५

ब्रह्मैव भवतीत्यर्थः। दृष्टं च फलं तस्योच्यते- अन्नवान् परभूतमत्नमस्य विद्यत इत्यन्नवान्; अन्यथा सत्तामात्रेण सर्वो अन्नवानिति विद्याया विशेषो न स्यात् । एवमन्नमत्तीत्यन्नादः, दीप्ताग्निर्भवतीत्यर्थः। महान्भ- वति। केन महत्त्वमित्यत आह-प्रजया पुत्रादिना पशुभिः गवा- दिभिः ब्रह्मवर्चसेन शमदमज्ञानादिनिमित्तेन तेजसा। महान्भवति कीर्त्या ख्यात्या शुभाचारनिमित्तया॥

इति षष्ठानुवाकभाष्यम्॥।

विद्याया ब्रह्मानन्दे प्रतिष्ठितत्वात्तादशमानन्दं विद्वानपि तत्र प्रतितिष्ठतीति युक्तमित्यर्थः । विवक्षितमर्थ दर्शयति- व्रह्मैवेति। नन्वश्रुतं प्रभूतत्वविशे- षणं कथं निक्षिप्यते? तत्राह-अन्यथेति। प्रभूतत्वविशेषणं विना अन्न- सामान्यमात्रेणैवान्नवत्वे विवक्षिते सति सर्वोपि जन्तुः शरीरस्थित्याक्षिप्ते- नान्नेनान्नवानेवेति कृत्वा विद्याबलाद्विदुषोडन्ने विशेषो न स्यात्, अतः प्रभू- तत्वविशेषणमावश्यकमित्यर्थः । ननु सर्वोडपि जन्तुरन्नमत्त्येव; तत्राह- दीप्तान्निरिति। अन्नवत्त्वं दीप्ताम्नित्वं बिना व्यर्थमिति भावः । ननु कृतकृ- त्यस्य ब्रह्मविदो नेदं फलं भवितुमर्हति, न वा ब्रह्मविद इदं फलं नियमेन

कल्पयितुं शक्यते तस्य पुनर्जन्माभावात्, तस्मादसंगतमिदं फलवचनमिति चेत् ; उच्यते -- यथा भूमविद्यायाम् 'स एकधा भवति' इत्यादिना सगु- णविद्याफलं भूमविद्याफलत्वेन संकीर्त्यते भूमविद्यास्तुत्यर्थम्, तथा वक्ष्यमा- णान्नान्नादत्वोपासनफलं प्रकृतव्रह्मविद्याफलत्वेन संकीर्त्यते तत्स्तुत्यर्थमित्य- दोषः । एतञ्च व्रतोपदेशस्यान्नस्तुत्यर्थत्ववर्णनेन भाष्ये वर्णितप्रायमेवेति मन्तव्यम् ॥

इति तैत्तिरीयोपनिषद्धाष्यव्याह्यायां वनमालाख्यायां भृगुवल्ल्यां पष्ठोऽनुवाक: ॥।

Page 346

सप्तमोऽ्नुवाक: ॥ -*-

अन्नं न निन्धात्। तड्रतम्। प्राणो वा अन्नम्। शरीरमन्नादम्। प्राणे शरीरं प्रतिष्ठितम्। शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्न- वानन्नादो भवति। महान् भवति प्रजया पशु- भिर्ब्रह्मवर्चसेन। महान् कीर्त्या।। १॥

इति सप्तमोऽनुवाक:।

किं च अन्नेन द्वारभूतेन ब्रह्म विज्ञातं यस्मात्, तस्मात् गुरुमिव अलं न निन्धात् ; तत् अस्य एवं ब्रह्मविदो व्रतम् उपदिश्यते। व्रतो- पदेशः अन्नस्तुतये, स्तुतिभाक्त्वं च अन्नस्य व्रह्मोपलब्ध्युपायत्वात्। प्राणो वा अन्नम्, शरीरेऽन्तर्भावात्प्राणस्य। यद्यस्यान्तः परतिष्ठितं

न निन्द्यादिति। अपकृष्टमन्नं प्राप्तं न निन्धादित्यर्थः, 'यदृच्छया चोपपन्नमद्याच्छेष्ठमुतावरम्' इति स्मृतिदर्शनान्। ननु ब्रह्मविदः कर्तव्या- भावात्कथं तस्यानुष्ठेयतया व्रतमुपदिश्यते? तत्राह- व्रतोपदेश इति। ननु विदुषा निरसनीयस्यान्नस्य कर्थ स्तुत्यर्थत्वम्? तत्राह- स्तुतिभाक्त्वं चेति। शरीरमनआदिरूपेण परिणतिद्वारा अन्नस्य विद्यासाधनत्वादित्यर्थः । प्रसङ्गा- त्काम्यान्युपासनान्याह-प्राणो वा इत्यादिना। तेषां सकामानां प्रजा- दिफलसंपादकत्वेऽपि निष्कामनयानुष्टितानां चित्तैकाव्यद्वारा विद्यासाधन-

Page 347

७.] भृगुवल्ली। २४७

भवति, तत्तस्यान्नं भवतीति। शरीरे च प्राणः प्रतिष्ठितः, तस्मात् प्राणो Sनं शरीरमन्नादम्। तथा शरीरमप्यन्नं प्राणोऽन्नादः। कस्मात्? प्राणे शरीरं प्रतिष्ठितम्, तन्निमित्तत्वाच्छरीरस्थितेः। तत्तस्मात्तदेतत् उभयं शरीरं प्राणश्च अन्नमन्नादं च। येनान्योन्यस्मिन्पतिष्ठितं तेनान्नम्; येना- न्योन्यस्य प्रतिष्ठा तेनान्नादः। तस्मात् पाणः शरीरं च उभयमन्नमन्नादं च। सय एवम् एतदत्रमन्ने प्रतिष्ठितं वेद प्रतितिष्ठुति अन्ान्नादात्मनैव। किं च, अन्नवानन्नादो भवतीत्यादि पूर्ववत्।।

इति सप्तमानुवाकभाष्यम्॥

त्वाद्विद्याप्रकरणे संगतिरिति वा मन्तव्यम्। ननु प्राणस्य कथमन्नत्वमित्या-

विवृणोति- यद्यस्येति। तत्तस्यान्नमितीह विवक्षितमित्यर्थः । 'प्राणो वा अन्नम्' इत्यत्र हेतुप्रतिपादकत्वेन 'शरीरे प्राणः प्रतिष्ठितः' इति वाक्यमा- कृष्य योजयति-शरीरे चेति। तस्मादिति। प्राणस्य शरीरे प्रतिष्ठितत्व्रा- दित्यर्थः ।'प्राणे शरीरं प्रतिष्ठितम्' इति वाक्यसंगत्यर्थ श्रुतावपेक्षितं पूरय- ति-तथेति। प्राणे शरीरस्यान्तर्भावाभावेऽपि प्राणाधीनस्थितिकत्वमात्रेणा- प्रत्वविवक्षेति भावः । 'प्राणो वा अन्रम्' इत्यादेः फलितार्थकथनपरम् 'तदे- तद्न्नम्' इति वाक्यं व्याचष्टे-तत्तस्मादिति। उभयमिति। प्रकृतत्वावि- शेषादिति भावः । श्रुतावपेक्षितं पूरयति- अन्नादं चेति। यत उभयमप्य- न्नमन्नादं च तस्मादन्नमन्ने प्रतिष्ठितम् अन्नादश्चाभ्नादे प्रतिष्ठित इति पर्यवसि- तार्थ इति भावः। उभयोरप्यन्नत्वे अन्नादत्वे च श्रुत्युक्तं नियामकं विशदयति- येनेति। फलितं स्वयमुपसंहरति- तस्मादिति। उभयोरत्रान्नादत्वगोचर- मुपासनं विधत्ते -- स य इति। अन्नान्नादात्मनैवेति। शरीरप्राणात्मनैवे- त्यर्थः । प्रतितिष्ठति, चिरं जीवतीति यावत्॥

इति तैत्तिरीयोपनिषद्धाष्यव्याख्याय। वनमालाख्यायां भृगुवल्ल्यां सप्तमोडलुवाक: ।

Page 348

अष्टमोऽनुवाकः ॥ - अन्नं न परिचक्षीत। तद्ूतम्। आपो वा अ- न्नम्। ज्योतिरन्नादम्। अप्सु ज्योतिः प्रतिष्ठि- तम्। ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्र- तितिष्ठति। अन्नवानन्नादो भवति। महान्भ- वति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान्कीर्त्या।। इति अष्टमोऽनुवाक:॥ अन्नं न परिचक्षीत न परिहरेत्। तद्कतं पूर्ववत्स्तुत्यर्थम्। तदेव शुभाशुभकल्पनया अपरिहरियमाणं स्तुतं महीकृतमन्नं स्यात्। एवं यथो- क्तमुत्तरेष्वपि आपो वा अन्नम् इत्यादिषु योजयेत्।। इति अष्टमानुवाकभाष्यम्।।

क्षिते सत्यर्थादन्नस्तुतिरपि पूर्ववल्लभ्यत इत्याशयेनाह- पूर्ववत्स्तुत्यर्थमिति। आर्थिकस्तुतिलाभप्रकारमेव दर्शयति- तदेवेति। तदेवान्नमपरिहियमाणं सत्स्तुतं स्यादिति संबन्धः । स्तुतमित्यस्य विवरणम् -- महीकृतमिति। लोको हन्ने शुभाशुभशब्दितौ गुणदोषौ कल्पयित्वा गुणवदत्रमुपादत्ते दोषवदन्नं परि. हरति, तथा न परिहरेदिति व्रतोपदेशः। अत्राशुभपद्मन्नगतावरत्वरूपदोषपरं न शास्त्रीयदोषपरम्, तस्मिन्सति परिहारावश्यंभावादिति मन्तव्यम्। 'प्राणो वा अन्नम्' इत्यादिवाक्यव्याख्यानप्रकारमन्यत्रातिदिशति-एवं यथोक्त-

Page 349

<. ] भृगुवल्ली। २४९

मिति। 'आपो वा अन्नम्, ज्योतिरन्नादम्' इत्यत्र शरीरादिसंघातान्तःप्रवि- ष्टमेव जलं तेजश्च गृह्यते प्राणशरीरसमभिव्याहारात्। एवम् 'पृथिवी वा अन्नम्, आकाशोऽन्रदः' इत्यत्रापि पृथिव्याकाशयोः शरीरादिसंघातान्तःप्र- विष्ठयोरेव ग्रहणं विवक्षितमिति मन्तव्यम् ॥

इति तैत्तिरीयोपंनिषन्वाष्यव्याख्यायां वनमालाख्यायां भृगुधल्ल्याम् अष्टमोऽनुवाकः॥

'T. 32

Page 350

नवमोऽनुवाकः॥ -

अन्नं बहु कुर्वीत। तद्ूतम्। पृथिवी वा अ- न्नम्। आकशोऽन्नादः। पृथिव्यामाकाशः प्रति- ष्ठितः। आकाशे पृथिवी प्रतिष्ठिता। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्र- तितिष्ठति। अन्नवानन्नादो भवति। महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान्कीर्त्या॥ इति नवमोऽनुवाक:॥ अब्ज्योतिषः अन्नान्नादगुणत्वेनोपासकस्य अन्नस्य बहूकरणं व्रतम्॥ इति नवमानुवाकभाष्यम्।।

Page 351

दशमोऽनुवाकः ॥

-*-

न कंचन वसतौ प्रत्याचक्षीत। तद्रतम्। त- स्माद्यया कया च विधया बह्नन्नं प्राप्तुयात्। अ- राध्यस्मा अन्नमित्याचक्षते। एतद्वै मुखतोऽ्न्र५ राद्म्। मुखतोऽस्मा अन्न५ राध्यते। एतद्वै मध्य- तोऽन्न राद्म्। मध्यतोऽस्मा अन्नर राध्यते। एतद्वा अन्ततोऽन्नण राद्म्। अन्ततोऽस्मा अन्न५ राध्यते ॥ १॥

य एवं वेद । क्षेम इति वाचि। योगक्षेम इति प्राणापानयोः। कर्मेति हस्तयोः । गतिरिति पादयोः। विमुक्तिरिति पायौ। इति मानुषी: समाज्ञाः। अथ दैवीः। तृप्तिरिति वृष्टौ। बल- मिति विद्युति ॥ २॥

यश इति पशुषु। ज्योतिरिति नक्षत्रेषु। प्र- जातिरमृतमानन्द इत्युपस्थे। सर्वमित्याकाशे। तत्प्रतिष्ठेत्युपासीत। प्रतिष्ठावान्भवति। तन्मह

Page 352

२५२ तैत्तिरीयोपनिषदि [अनु.

इत्युपासीत। महान् भवति। तन्मन इत्युपासी- त। मानवान् भवति॥ ३ ॥

तन्नम इत्युपासीत। नम्यन्तेऽस्मै कामाः । तद्ह्मेत्युपासीत। ब्रह्मवान् भवति। तड्रह्मणः प- रिमर इत्युपासीत। पर्येणं म्रियन्ते द्विषन्तः स- पत्नाः। परि येऽप्रिया आ्रातृव्याः । स यश्चायं पु- रुषे। यश्चासावादित्ये। स एक: ॥ ४ ॥

स य एवंवित् । अस्माल्ोकात्प्रेत्य। एतमन्न- मयमात्मानमुपसंक्रम्य। एतं प्राणमयमात्मान- मुपसंक्रम्य। एतं मनोमयमात्मानमुपसंक्रम्य। एतं विज्ञानमयमात्मानमुपसंक्रम्य। एतमानन्द- मयमात्मानमुपसंक्रम्य। इमाल्लोकान्कामान्नी कामरूप्यनुसंचरन्। एतत्साम गायन्नास्ते। हाश्वु हाशवु हाशवु ॥ ५॥

अहमन्नमहमन्नमहमन्नम्। अहमन्नादो३ऽहम- न्नादो३5हमन्नादः। अह५ श्लोककृदह५ श्ोककृ- दह५ श्लोककृत्। अहमस्मि प्रथमजा ऋता३स्। पूर्व देवेभ्योऽमृतस्य ना३्भायि। यो मा ददाति

Page 353

१०.] भृगुवल्ली। [ २५३

स इदेव मा३वाः। अहमन्नमन्नमदन्तमा३्रि। अहं विश्वं भुवनमभ्यभवा३म्। सुवर्न ज्योतीः। य एवं वेद। इत्युपनिषत् ॥ ६ ॥

इति दशमोऽनुवाक:॥

तथा पृथिव्याकाशोपासकस्य वसतौ वसतिनिमित्तं कंचन कंचि- दपि न प्रत्याचक्षीत न प्रत्याख्यानं कुर्वीत, वसत्यर्थमागतं न निवारयेदि- त्यर्थः। वासे च दत्ते ह्यवश्यमन्नं दातव्यम्। तस्माद्यया कया च विधया येन केन प्रकारेण बहनं प्राप्तुयात् बह्न्नसंग्रहं कुर्यादित्यर्थः। यस्माद- न्नवन्तो विद्वांसः अभ्यागताय अन्नार्थिने अराधि संसिद्धम् अस्मै अन्नम् इत्याचक्षते, न नास्तीति प्रत्याख्यानं कुर्वन्ति, तस्माच्च हेतो: वह्न्नं प्रा- प्नुयादिति पूर्वेण संबन्धः। अपि चान्नदानस्य माहात्म्यम्-यथा यत्कालं प्रयच्छत्यन्नम्, तथा तत्कालमेव प्रत्युपनमते। कथमिति तदेतदाह- एतद्वै अन्नं मुखतः मुख्ये प्रथमे वयसि मुख्यया वृत्या पूजापुरःसर- मभ्यागतायान्नार्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः। तस्य किं फलं स्यादिति, उच्यते-मुखतः पूर्वे वयसि मुख्यया वृत्या

तथेति। अन्नान्नादृत्वगुणकत्वेन पृथिव्याकाशद्वयोपासकस्य स्वगृहे वासार्थमागतं न निवारयेदित्येतद्वतमित्यर्थः । बह्वन्नसंग्रहे वसत्यर्थमागतानाम- प्रत्याख्यानरूपं व्रतमेको हेतुरुक्तः; तत्रैव विद्वदाचाररूपं हेत्वन्तरमाह- यस्मादिति। एवं संगृहीतमन्नं सर्वदा पूजापुरःसरमेवार्थिभ्यो देयं नान्यथा 'श्रद्धया देयम्' इत्यादिदर्शनादित्याशयेनाह-अपि चान्नदानस्येति। तत्र मानं पृच्छति-कथमितीति। श्रुत्योत्तरमाह- तदेतदाहेति। मुख्यामेव वृत्ति विधृणोति- पूजेति॥

Page 354

२५४ तैत्तिरीयोपनिषदि [अनु.

अस्मै अन्नदाय अन्नं राध्यते; यथादत्तमुपतिष्ठत इत्यर्थः। एवं मध्यतो मध्यमे वयसि मध्यमेन उपचारेण; तथा अन्ततः अन्ते वयसि जघ- न्येन उपचारेण परिभवेन तथैवास्मै राध्यते संसिध्यत्यन्नम् ॥ य एवं वेद य एवमन्नस्य यथोक्तं माहात्म्यं वेद तद्दानस्य च फलम्, तस्य यथोक्तं फलमुपनमते। इदानीं ब्रह्मण उपासनप्रकार: उच्यते -- क्षेम इति वाचि। क्षेमो नाम उपात्तपरिरक्षणम्। ब्रह्म वाचि क्षेमरूपेण प्रतिष्ठितमित्युपास्यम्। योगक्षेम इति, योगः अनुपात्तस्यो- पादानम्। तौ हि योगक्षेमौ प्राणापानयोः सतोर्भवतः, तथापि न प्राणापाननिमित्तावेव; किं तर्हि, ब्रह्मनिमित्तौ। तस्माङ्रह्म यो- गक्षेनात्मना प्राणापानयोः प्रतिष्ठितमित्युपास्यम् । एवमुत्तरेष्वन्येषु तेन तेन आत्मना ब्रह्मैवोपास्यम्। कर्मणो ब्रह्मनिर्वर्त्यत्वात् हस्तयोः कर्मा- त्मना ब्रह्म प्रतिष्ठितमित्युपास्यम् । गतिरिति पादयोः । विम्रुक्तिरिति पायौ। इत्येता मानुषीः मनुष्येषु भवा मानुष्यः समाज्ञाः, आध्यात्मि-

यथोक्तमिति। कार्यकरणसंघातोपचयादिद्वारा ब्रह्मविद्यासाधनत्वरू- पमित्यर्थः । फलं च वेदेति संबन्धः । श्रुतौ 'य एवं वेद' इत्यस्यापेक्षितं पूर- यति -- तस्येति। यथोक्तम् अन्नदानादिफलमित्यर्थः । 'प्राणो वा अन्नम्' इत्यारभ्याव्रह्मोपासनान्युक्तानीति सूचयति- इदानीमिति। उपात्तपरिरक्ष- णमिति। स्थितपरिपालनमित्यर्थः । योगक्षेम इतीति। प्राणे योगरूपेण अपाने क्षेमरूपेण च ब्रह्म प्रतिष्ठितमित्युपास्यमिति विभागः । प्राणापानयोरयों- गक्षेमरूपेण ब्रह्मद्ष्टयालम्बनत्वे हेतुमाह-तौ हीति। ननु यदि प्राणापा- नाधीनौ योगक्षेमौ तहि तावेव प्राणापानयोर्द्रष्टव्यौ न तु ब्रह्मेत्याशङ्कयाह- तथापीति। प्राणापाननिमित्तकत्वेऽपीत्यर्थः । ब्रह्मनिमित्ताविति। ब्रह्मनि- मित्तावपीत्यर्थः । ब्रह्मणः सर्वफलदातृत्वस्य शास्त्रसिद्धत्वादिति भावः । ब्रह्म- निर्वर्त्यत्वादिति। व्रह्मणः कारयितृत्वादिति भावः । विमुक्तिर्विसर्गः । मा- नुष्य इत्यस्य पर्यवसानमाह- आध्यात्मिक्य इति।।

Page 355

१०.] भृगुवल्ली। २५५

क्यः समाज्ञा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः । अथ अनन्तरं दैवीः दैव्य: देवेषु भवाः समाज्ञा उच्यन्ते। तृप्तिरिति दृष्टौ। दृष्टेरन्नादिद्वारेण वृप्तिहेतुत्वाद्गह्मैव तृप्त्यात्मना दृष्टौ व्यवस्थितमित्युपास्यम्; तथा अन्येपु तेन तेनात्मना व्रह्मैवोपास्थम्। तथा वलरूपेण विद्युति॥

यशोरूपेण पशुपु। ज्योतीरूपेण नक्षत्रेषु। प्रजातिः अमृतम् अमृतत्वपाप्तिः पुत्रेण ऋणविमोक्षद्वारेण, आनन्दः सुखमित्येतत्सर्वमुप- स्थनिमित्तं व्रह्मैव अनेनात्मना उपस्थे प्रतिष्ठितमित्युपास्यम् । सर्वे हि आकाशे प्रतिष्ठितम् ; अतो यत्सर्वमाकाशे तद्वह्ैवेत्युपास्यम्; तच्चाकाशं ब्रह्मैव। तस्मात् तत् सर्वस्य प्रतिष्ठेत्युपासीत। प्रतिष्ठागुणोपासनात् प्रति- ष्ठावान् भवति। एवं सर्वेष्वपि। यद्यत्राधिगतं फलम्, तत् ब्रह्मैव ; तदु-

पुत्रेणेति। पुत्रजन्मना पितृऋणमोक्षद्वारेण या पितुरमृतत्वप्राप्तिः सा अत्रामृतपदेन विवक्षितेत्यर्थः। उपस्थनिमित्तमिति। यस्मादेतत्सर्वमुपस्थहेतुकं तस्मादनेनैव रूपेण ब्रह्म तत्र स्थितमित्युपास्यमित्यर्थः । इदमुपासनम् 'विमु- क्तिरिति पायौ' इत्यत्रैव द्रष्टव्यम्। आध्यात्मिकत्वात्। सर्वे हीति। हि यस्मा- तसर्वमाकाशे प्रतिष्ठितं तस्माद्यत्सर्वमाकाशे वर्तते तत्सर्वरूपेणाकाशे त्रहैव प्रतिष्ठितमित्युपास्यमित्यर्थः । 'तत्प्रतिष्ठा-' इत्यत्र व्रह्माभिन्नमाकाशमुपास्यं केवलस्याकाशस्योपास्यत्वायोगादित्याशयेन तस्य ब्रह्माभिन्नत्वमाह -- तच्चेति। सर्वाश्रयत्वेन प्रकृतमित्यर्थः । तस्मात्तदिति। व्यापकत्वनिर्लेपत्वनिरवयवत्व- सूक्ष्मत्वसर्वाश्रयत्वादिरूपलक्षणसाम्येनाकाशस्य ब्रह्माभिन्नत्वसंभवात्तद्रह्मभूत- माकाशमित्यर्थः । प्रतिष्ठावानिति । अन्नपानादिभिः स्थितिमानित्यर्थः । ननु 'क्षेम इति वाचि' इत्यादौ फलाश्रवणात्कर्थं तदुपासनेषु प्रवृत्तिरित्याशङ्कयाह- यद्यत्रेति। यत्र वागादौ यत्फलं कार्य क्षेमादिकं श्रुतं तद्रूपेण त्रह्मैवोपास्यमि- त्युक्तकमित्यर्थः । ततः किम्? अत आह- तदुपासनादिति। क्षेमादिगुणेन ब्रह्मोपासनात्क्रेमादिमानेव भवत्यौचित्यादिति द्रष्टव्यमित्यर्थः । अत्रार्थे श्रुति-

Page 356

२५६ तैत्तिरीयोपनिषदि [भनु.

पासनात्तद्वान्भवतीति द्रष्टव्यम्; श्रुत्यन्तराच्च-'तं यथा यथोपासते तदेव भवति' इति। तन्मह इत्युपासीत। महः महत्त्वगुणवत् तदुपासी- त। मननं मनः। मानवान्भवति मननसमर्थो भवति॥

तन्नम इत्युपासीत नमनं नमः नमनगुणवत् तदुपासीत। नम्यन्ते प्रह्वीभवन्ति अस्मै उपासित्रे कामाः काम्यन्त इति कामाः भोग्या विषया इत्यर्थः। तद्रह्मेत्युपासीत। ब्रह्म परिवृढतममित्युपासीत। ब्रह्मवान् तह्रुणो भवति। तङ्रह्मणः परिमर इत्युपासीत ब्रह्मणः परस्य परिमरः परिम्रि- यन्तेऽस्मिन्पश्च देवता विद्युद्धष्टिशन्द्रमा आदित्योऽग्निरित्येताः। अतः वायुः परिमरः, श्रुत्यन्तरपसिद्धेः। स एवायं वायुराकाशेनानन्य इत्या- काशो ब्रह्मणः परिमरः; तमाकाशं वाय्वात्मानं ब्रह्मणः परिमर इत्यु- पासीत। परि एनम् एवंविदं प्रतिस्पर्धिनः, द्विपन्तः अद्विषन्तोऽपि च

मध्याह-श्रुत्यन्तराच्चेति। तदेवेति। तदनुरूपमेव फलं भवतीत्यर्थः । 'तन्महः' इत्यादौ तत्पदं ब्रह्मपरम्; तथा च वार्ततिकम्- 'तद्रह्म मह इत्ये- वसुपास्रीत ततः फलम्' इत्यादि ॥

परिबृढतममिति। विराडात्मकमित्यर्थः । ब्रह्मवानिति। ब्रह्मणो विराजो यो गुणो भोगः तद्वान्भवतीत्यर्थः । परस्येति। परस्य मायोपाधि- कस्य ब्रह्मण: स्वरूपतयोक्तं यदाकाशं तदाकाशं परिमरत्वगुणकमुपासीते- त्यर्थः। आकाशस्य परिमरत्वगुणोपपादनाय प्रथमं वायोः परिमरत्वमाह- परिमर इत्यादिना। श्रुत्यन्तरेति। वायुं प्रकृत्य 'तमेताः पश्च देवता अपियन्ति' इत्यादिश्रुत्यन्तरप्रसिद्धेरित्यर्थः । इदानीमाकाशस्य परिमरत्वं सा- धयति-स एवायमिति। वायुं प्रत्याकाशस्य कारणत्वाद्वाय्वनन्यत्वमि- त्यर्थः। तं वाय्वात्मानमाकाशं त्रह्मणः स्वरूपभूतं परिमरत्वगुणकमुपासीते- त्यर्थः । सपत्ना द्विविधा :- द्विषन्तोडद्विषन्तश्च; ततः सपन्नानां द्विषन्त इति विशेषणमित्याह-द्विषन्त इत्यादिना। अद्विषन्तोऽपि चेति। एनम- द्विषन्तोऽपीत्यर्थः ॥

Page 357

१०.] भृगुवल्ली। २५७

सपन्ना यतो भवन्ति, अतो विशेष्यन्ते द्विषन्तः सपन्ना इति। य एनं द्विष- न्तः सपन्नाः ते परिम्रियन्ते प्राणान् जहति। किं च, ये च अमिया अस्य भ्रातृव्या अद्विषन्तोऽपि ते च परिम्रियन्ते।

'प्राणो वा अन्नं शरीरमन्नादम्' इत्यारभ्य आकाशान्तस्य कार्य- स्यैव अन्नान्नादत्वमुक्तम्। उक्तं नाम; कि तेन? तेनैतत्सिद्धं भवति- कार्यविषय एव भोग्यभोक्तृत्वकृतः संसारः, न त्वात्मनीति। आत्मनि तु भ्रान्त्या उपचर्यते। नन्वात्मापि परमात्मनः कार्यम्, ततो युक्तः तस्य संसार इति ; न असंसारिण एव प्रवेशश्रुतेः । 'तत्सृष्टा तदेवानुमावि शत्' इत्याकाशादिकारणस्य हि असंसारिण एव परमात्मनः कार्येष्व-

प्राणशरीरादेरत्नान्नादत्वनिरूपणस्य विवक्षितं तात्पर्य कथयितुं व्यव- हितं तदनुवदति- प्राणो वा अन्नमित्यादिना- 'आपो वा अन्नम्, ज्यो- तिरन्नादम्' इत्यत्र आपः शरीरारम्भिका विवक्षिताः, ज्योतिश्च जाठरं शरी- रारम्भकं वा विवक्षितम्। एवं पृथिव्याकाशावपि शरीरारम्भकावेव विवक्षि- तौ, प्राणशरीरसमभिव्याहरेणाबादीनामाध्यात्मिकत्वावगमात्; ततश्च शरी- रप्राणादीनां प्रत्यगात्मोपाधिभूतानामेव 'प्राणो वा अन्नम्' इत्यादिना भोग- साधनत्वरूपमन्नत्वं भोक्तृत्वरूपमन्नादत्वं चोक्तमित्यर्थः । उक्त्तं नाम, किं तेनेति। उक्तमस्तु नाम, तेनोक्तेन किं तव प्रयोजनं सिध्यति यदर्थ तदिहानू- दितमित्यर्थः । तदुक्तिसतिद्धं प्रयोजनं कथयति- तेनैतदिति । भोक्तृभोग्य- भावादिरूपः सर्वोडपि संसार: कार्यात्मकोपाधिधर्म एव नात्मधर्म इत्यात्मनो नित्यमुक्तत्वं सिध्यतीत्यर्थः । ननु यदि संसारस्य कार्यनिष्ठत्वं श्रुत्यभिमतं तदा जीवात्मापि शरीरप्राणादिवत्कार्यविशेष एवेति तस्य स्वाभाविकः संसारो न भ्रान्तिसिद्ध इति शक्कते-नन्वात्मापीति। आत्मा कार्य विभक्तत्वादाका- शादिवदित्यर्थः । आगमबाधितमनुमानमित्याशयेन निराकरोति -- नेति। असंसारिण: परस्यैव जीवरूपेण प्रवेशश्रवणात्परजीवयोरेकत्वमवगम्यते, ततो नात्मन: कार्यत्वमित्यर्थः । संग्रहं विवृणोति- तत्सष्टेत्यादिना। न केवल- 'T. 33

Page 358

२५८ तैत्तिरीयोपनिषदि [अनु.

नुपवेशः श्रूयते। तस्मात्कार्यानुपविष्टो जीव आत्मा पर एव असंसारी; सृष्टा अनुभाविशदिति समानकर्तृत्वोपपत्तेश्र। सर्गप्रवेशक्रिययोश्वैकश्े- त्कर्ता, ततः क्त्वाप्त्ययो युक्तः। प्रविष्टस्य तु भावान्तरापत्तिरिति चेत्, न; प्रवेशस्यान्यार्थत्वेन प्रत्याख्यातत्वात्। 'अनेन जीवेन' इति विशे- षश्रुतेः धर्मान्तरेणानुपवेश इति चेत्, न; 'त्त्वमसि' इति पुनस्तद्भा- वोक्तेः। भावान्तरापन्नस्यैव तदपोहार्था संपदिति चेत्, न; 'तत्सत्यम्'

मसंसारिणो जीवरूपेण प्रवेशश्रवणाल्लिङ्गात्परेतरात्मनोरेकत्वनिश्चयः, किंत्ु क्त्वाश्रुतिबलादपीत्याह -- सृष्ट्ेति । स्रष्टा तावत्परमात्मेति निर्विवादम्; प्रविष्टस्य च 'पश्यमशृण्वन्मन्वानः' इत्यादौ संसारित्वश्रवणात्प्रवेशे जीवः कर्ता सिद्धः; तथा च क्त्वाश्रुत्या तयोरेकत्वं निश्चीयते, इतरथा कत्रैक्याभा- वेन क्त्वाश्रुतिविरोधप्रसङ्गादित्यर्थः । यदुक्तमसंसारिण एव प्रवेशश्रवणात्परे- तरात्मनोरेकत्वमिति, तत्र शक्कते- प्रविष्टस्येति। प्रविष्टस्य बुद्धयादिकार्ये- षूपादानतया सृष्टिसमय एव सिद्धस्य परस्य जीवरूपभावान्तरात्मना परिण- तिरेव प्रवेशो विवक्षितः, अतो न प्रवेशलिङ्गात्तयोरेकत्वसिद्धिरित्यर्थः । अस्ब चोधस्य प्रागेव निरासपूर्वकं प्रवेशपदस्यार्थान्तरपरत्वेन व्याख्यातत्वान्नैवमिति परिहरति-न, प्रवेशस्येति। ननु जीवरूपेण परिणामं विनैव परस्य बुद्धिसंबन्धात्संसारित्वेन भानमेव प्रवेशपदार्थ इति पूर्वव्याख्यानमयुक्तमिति शङ्कते-अनेनेति। धर्मान्तरेणेति। जीवरूपविकारान्तरात्मनैव प्रवेशो न त्वविकृतस्यैव परस्य, अन्यथा जीवेनेति विशेषणवैयर्ध्यापत्तेरित्यर्थः । यदि जीवेनेति विशेषणबलाज्जीवस्य ब्रह्मविकारत्वं तत्राभिप्रेतं स्यात्तदा वाक्यशेषवि- रोध: प्रसज्येतेति दूषयति-न, तच्वमसीतीति। जीवस्याकाशादिवद्विकार- त्वे तस्य व्रह्मैक्योपदेशविरोध इत्यर्थः । अभेदोपदेशस्यान्यथासिद्धिमाशङ्कते -- भावान्तरेति। जीवलक्षणं भावान्तरं विकारान्तरमापन्नस्यैव सतः परस्य संसारित्वप्राप्तौ तदपोहार्था जीवपरयोरभेदध्यानलक्षणा संपत् 'तत्त्वमसि' इत्युपदिश्यते, न पुनर्जीवख ब्रह्मविकारत्वविरुद्धमैक्यमुपदिश्यते, अतो न वाक्यशेषविरोध इत्यर्थः । 'ततत्वमसि' इति वाक्यस्य संपदुपासनापरत्वे मा-

Page 359

१०.] भृगुवल्ली। २५९

'स आत्मा' 'तत्त्वमसि' इति सामानाधिकरण्यात्। दृष्टं जीवस्य सं- सारित्वमिति चेत्, न; उपलब्धृरूपत्वात् । संसारधर्मविशिष्ट आ- त्मोपलभ्यत इति चेत्, न ; धर्माणां धर्मिणोऽव्यतिरेकात् कर्मत्वानु-

त्वाद्यनुमीयत इति चेत्, न; त्रासादेर्दुःखस्य च उपलभ्यमानत्वात् नो-

नाभावाज्जीवस्य विकारत्वे नाशापत्या 'न जीवो म्रियते' इति वाक्यशेषवि- रोधाद्वास्तवस संसारस्य संपदापोहासंभवाच्य 'तत्त्वमसि' इत्यैक्योपदेश एव 'सोडयं देवदत्तः' इतिवदिति परिहरति-न, तत्सत्यमिति। ननु जीवस्य ब्रझ्मत्वं संसारित्व्रानुभवविरुद्धम्, अतो जीवस्य विकारत्वाभावेऽपि ब्रह्मभिन्न- त्वात्संपत्परमेव 'तत्त्वमसि' इति वाक्यमित्याशयेन शक्कते- दृष्टमिति। आत्मन: संसारोपलव्धृत्वान्न संसारधर्मकत्वमुपलभ्यमानस्य नीलपीतादेरुपल- ब्धृधर्मत्वादर्शनादित्यर्थः । संसारस्य रूपादिवैलक्षण्यं शङ्कते-संसारधर्मेति। 'अहं सुखदुःखादिमान्' इति संसारस्यात्मधर्मत्वमनुभूयते; स चानुभवो बाधकाभावात्प्रमैव; 'गौरोऽहम्' 'नीलोऽहम्' इत्याद्यनुभवस्तु जीवस्य देह- व्यतिरिक्तत्वसाधकश्रुतियुक्तिबाधितः; अतो न रूपादितुल्यत्वं संसारस्ये- त्यर्थः । आत्मनि संसारस्याप्यसङ्गत्वादिश्रुतिबाधितत्वस्य समानत्वान्नात्मनः संसारित्वं परमार्थम्, अतो नाभेद्श्रुत्यनुपपत्तिरित्याशयेन परिहरति- नेति। किं चात्मधर्मत्वेनाभिमतस्य सुखदुःखादेरात्मना सहाभेदो भेदो वा? आदे न संसारस्यात्मधर्मतयोपलभ्यमानता सिध्यतीत्याह-धर्माणामिति। अव्यतिरेकादिति। अव्यतिरेकाभ्युपगमादित्यर्थः । अभेदपक्षे धर्माणामुपल- ब्धिकर्तृ कोटिप्रविष्ठत्वादुपलब्धिकर्मत्वानुपपत्तिरित्यर्थः । भेदृपक्षे न संसारस्या- तमधर्मत्वं सिध्यति। तयोः संबन्धानिरूपणात् समवायस्य सूत्रकारेणैव निर- स्तत्वादित्यन्यत्र विस्तरः । अभेदे कर्तृकर्मभावानुपपत्तिरित्यत्र दृष्ठान्तमाह- उष्णेति। 'तत्वमसि' इत्यभेदोपदेशस्यात्मनि संसारित्वग्राह्कप्रत्यक्षविरोधं परिहृत्य तब्र तद्राहकानुमानविरोधमाशङ्कष परिहरति -- त्रासादिदर्शना- दित्यादिना। त्रासादेस्तदनुमेयदुःखादेश्र दृश्यत्वेन वस्तुतो द्रष्ट्धर्मत्वासंभ.

Page 360

२६० तैत्तिरीयोपनिषदि [अनु.

पलब्धृधर्मत्वम्। कापिलकाणादादितर्कशास्त्रविरोध इति चेत्, न ; तेपां मूलाभावे वेदविरोधे च भ्रान्तत्वोपपत्तेः । श्रुत्युपपत्तिभ्यां च सि- द्धम् आत्मनोऽसंसारित्वम्, एकत्वाच्च। कथमेकत्वमिति? उच्यते-स यश्चायं पुरुषे यश्चासावादित्ये स एक: इत्येवमादि पूर्ववत् ॥

स एवमन्नमयादिक्रमेण आनन्दमयमात्मानमुपसंक्रम्य एतत्साम गायन्नास्ते। 'सत्यं ज्ञानम्' इत्यस्या ऋचः अर्थः व्याख्यातः विस्तरेण

वस्य प्रागेवोक्तत्वादित्याशयेनाह-न, त्रासादेरिति। 'तत्वमसि' इत्यभे- दोपदेशस्य शास्त्रान्तरविरोधमाशङ्कय निराकरोति -- कापिलेत्यादिना । कापिलादिशास्त्रे हि प्रतिशरीरं वस्तुत आत्मभेदः, तेषां च परमार्थ एव ब्रह्मभेदः, संसारित्वं च तेषां वास्तवसित्यादिप्रक्रिया दृश्यते; ततो निष्प्रपभ्व- म्रह्मात्मैक्यं प्रतिपाद्यत आगमस्य तर्कशास्त्रविरोधादप्रामाण्यं स्यादिति शक्कार्थः । कापिलादितर्कशास्त्राणां मूलप्रमाणशून्यत्वस्य तर्कपादे प्रतिष्ठापित- त्वात्पौरुषेयाणां तेषां वेदवत्स्वतःप्रामाण्यायोगाच्चेत्याशयेनाह-मूलाभाव इति। श्रुतिविरोधे स्मृत्यप्रामाण्यस्य पूर्वतन्त्रे व्यवस्थापितत्वाच्च न तद्विरोधा- च्छत्यप्रामाण्यप्रसङ्क इत्याशयेनाह- वेदविरोधे चेति। भ्रान्तत्वमप्रामा- ण्यम्। उपपादितमर्थमुपसंहरति- श्रुत्युपपत्तिभ्यां चेति! रवमविकृतस्यैव ब्रह्मणो जीवभावेन प्रवेशादिश्रुत्या दृश्यत्वाद्युपपत्या च निश्चितमसंसारित्व- मात्मन इत्यर्थः । एकत्वाच्चेति। आत्मनः परेणैकत्वाच्चासंसारित्वं परस्यासं- सारित्वादित्यर्थः । एकत्वे मानं पृच्छति -- कथमिति। उत्तरश्रुतिरेव मान- मित्याशयेनाह -- उच्यत इति॥ उपसंक्रम्येति। विद्यया कोशेष्वात्मत्वभ्रममपोह्येति यावत्। उपसं- क्रम्येत्यस्य व्यवहितेन संबन्धमाह- एतत्सामेति। 'इमालोकान्' इत्यादेः संगतिकथनाय व्यवहितमनुवदति- सत्यमित्यादिना। 'सत्यं ज्ञानम्-' इति मन्त्रस्य पूर्वार्धार्थो विस्तरेण व्याख्यात इत्यर्थः । 'स य एवं वित्' इत्यादिना विद्ुषो वागाद्यगोचरब्रह्मानन्दप्राप्तेरुक्तत्वादर्थाद्वअ्मवल्ल्यामपि सर्वा-

Page 361

१०.] भृगुवल्ली। २६१

तद्विवरणभूतायां आनन्दवल्ल्याम्। 'सोऽशनुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता' इत्येतस्य फलवचनस्य अर्थः विस्तरेण नोक्तः। के ते ? किंवि- पया वा सर्वे कामा :? कथ वा ब्रह्मणा सह समश्नुते ?- इत्येतद्वक्त- व्यमितीदमिदानीमारभ्यते। तत्र पितापुत्राख्यायिकायां पूर्वविद्याशेषभू- तायां तपः ब्रह्मविद्यासाधनमुक्तम्, प्राणदेराकाशान्तस्य च कार्यस्य अन्नाभ्नादत्वेन विनियोगश्च उक्त :; ब्रह्मविषयोपासनानि च। ये च सर्वे कामा: प्रतिनियता अनेकसाधनसाध्या आकाशादिकार्यभेदविषया एव ते दर्शिताः । एकत्वे पुनः कामकामित्वानुपपत्तिः, भेदजातस्य सर्व-

त्मकब्रह्मभावापत्तिप्रयुक्ता सर्वकामाप्तिः संग्रहेणोक्तवेति मत्वाह -- विस्तरे- णेति। इत्थं वृत्तमनूद्याकाङ्कापूर्वकम् 'इमाँल्ोकान्' इत्यादिकमवतारयति- के त इत्यादिना। तत्र कामानां स्वरूपे आकाड्कां दर्शयति- के त इति। कामानां कारणे तां दर्शयति- किंविषया इति। साहित्ये कामानामशने घर तां दर्शयति-क्थ वेति। इत्याकाङ्कायां सत्यामेतद्विद्याफलं विस्तरेण वक्तव्यमित्याशयेनोत्तरं वाक्यजातं पठयत इत्यर्थः । एवमुत्तरप्रन्थस्य व्यव हितया आनन्दवल्ल्या संगतिमुक्त्वा अव्यवहितभृगुवल्लयापि संगति वक्तुम् 'भृगुर्वै वारुणिः' इत्यादौ वृत्तं कीर्तयति- तत्नेत्यादिना। अन्नान्नादत्वे- नेति। अन्नान्नादभावेनोपासने उपयोगश्चोक्त इत्यर्थः । 'क्षेम इति वाचि' इत्यादावुक्तमनुवदति -- ब्रह्मविषयेति। तेषूपासनेषु वित्रक्षितान्फलविशेषान पि कामशब्देनानुवदति-ये चेति। प्रतिनियता इति। तत्तदुपासनभेदेन व्यवस्थिता इत्यर्थः । तेषां मुक्तिवैलक्षण्यं सूचयति -- अनेकेति। नानावि- धोपायसाध्या इत्यर्थः । अत एव तेषामविद्याकालिकत्वमाह-आकाशादी- ति। आकाशादयो ये अविद्यायाः कार्यभेदास्तद्विषयास्तत्साध्या एव ते अविद्यावस्थायां दर्शिताः, न तु विद्यावस्थायाम्, विद्यावस्थायां त्वत्रापि वल्लयाम् 'स एकः, स य एवंवित्'_इत्यदौ पूर्वोक्तमेव 'सोऽश्नुते सर्वान्का- मान्सह' इति फलं तात्पर्यतो दर्शितमिति भावः । इत्थमस्यामपि वल्लयां वृत्तानुवादेन फलवच्नानुवृत्तिं सूचयित्वा तत्रानुपपत्तिमुद्धावयति -- एकत्वे

Page 362

२६२ तैचिरीयोपनिषदि [भनु.

स्य आत्मभूतत्वात्। तत्र कथं युगपङ्रह्मस्वरूपेण सर्वान्कामान् एवंवि- त्समश्तुत इति, उच्यते-सर्वात्मत्वापत्तेः। कथं सर्वात्मत्वापत्तिरि- ति, तत्राह-पुरुषादित्य स्थात्मैकत्व विज्ञानेनापोह्योत्कर्षापकर्षावत्नमया- दीन् आत्मनोऽविद्याकल्पितान् क्रमेणोपसंक्रम्य आनन्दमयान्तान् सत्यं ज्ञानमनन्तं ब्रह्म अदृश्यादिधर्मकं स्वाभाविकमानन्दमजममृतमभयमद्ैतं फलभूतमापन्नः इमाँलोकान्भूरादीननुसंचरन्निति व्यवहितेन संबन्धः।

पुनरिति। स्वस्य ब्रह्मणा एकत्वे साक्षात्कृते सति कामयितव्यस्याकाशादि- भेद्जातस्य तत्साध्यकामजातस्य च सर्वस्यात्मव्यतिरेकेणाभावात्पूर्वावस्थाया- मिव पुनः कामान्प्रति कामित्वानुपपत्तेरित्यर्थः । एवमेकत्वे कामित्वानुपपत्तौ सत्यां फलितमाह-तत्र कथमिति। एकत्वं कामित्वानुपपत्तिर्विद्यावस्था वा तत्र-शब्दार्थः । अविद्यालेशवशेन प्रपश्वाभासमनुभवन्विद्वान् 'सर्वस्यात्मा हम्' इति मन्यमानोऽणिमादैश्वर्यभुजां योगिनां यत्कामान्नित्वं कामरूपित्वं चास्त तन्ममैवेति पश्यन्युगपत्सर्वान्विषयानन्दानश्नुत इत्युपचर्यते। वि- वक्षितं तु विद्याफलं सर्वात्मकव्रह्मभावमात्रम्। अत एव श्त्यन्तरम्- 'ब्रह्मैव भवति' इति। अतो न फलवचने त्वदुक्तानुपपत्तिर्दोष इत्युत्तरप्रन्थ- तात्पर्येण समाधत्ते -- उच्यत इति। तत्राहेति। श्रुतिरिति शेषः । पूर्वभ्र- न्थेऽपि विदुषः सार्वात्म्यमर्थसिद्धमिति दर्शयन् 'स यश्चायम्' इत्यादौ वृत्तं कीर्तयति -- पुरुषेत्यादिना। पुरुषस्थस्य जीवात्मन आदित्यस्थस्य परमात्म- नश्चोत्कर्षापकर्षौ तत्प्रयोजकोपाधी च निरस्यैकत्वविज्ञानेनाविद्याकल्पितानभ- मयादीनानन्दमयान्ताननात्मनः क्रमेणोपसंक्रम्य सत्यज्ञानादिलक्षणं फलभूत- मद्वैतमापन्नः सर्वात्मा सन्निति योजना। अद्वैतस्य व्रह्मणः फलभूतत्वसिद्धये सुखरूपत्वमाह-आनन्दमिति। तस्य तदर्थमेवानर्थास्पृष्टत्वमाह-अज- ममृतमभयमिति। तस्य परमार्थत्वमाह -- स्वाभाविर्कानति। तदर्थ नि- र्विशेषत्वमाह- अदृश्यादीति। सविशेषस्य दृश्यत्वनियमेन मिध्यात्वा- दिति भावः । तस्य विकारत्वजडत्वपरिच्छेदान्व्यावर्तयति -- सत्यं ज्ञा- नमनन्तमिति। ननु विदुषः सर्वलोकसंधारो न नियत इत्याशङचाह-

Page 363

१०. भृगुवल्ली। २६३

कथमनुसंचरन्! कामान्ी कामतोऽन्नमस्येति कामात्री; तथा कामतो रूपाण्यस्येति कामरूपी; अनुसंचरन् सर्वात्मना इमान् लोकानात्मत्वे- नानुभवन्। किम्१ एतत्साम। समत्वाद्वह्मैव साम सर्वानन्यत्वरूपं गायन् शब्दयन् आत्मैकत्वं प्रख्यापयन् लोकानुग्रहार्थ तद्विज्ञानफलं च अतीव कृतार्थत्वं गायन् आस्ते तिष्ठति । कथम्? हाश्वु हावु

कः पुनरसौ विस्मय इति, उच्यते- अद्वैत आत्मा निरञ्जनो- 5पि सन् अहमेवान्मन्नादश्। कि च, अहमेव श्रोककृत् । अन्नानादयोः संघातस्य कर्ता चेतनावान्। अथवा अन्नस्यैव परा-

आत्मत्वेनानुभवन्निति। एतत्प्रकृतं ब्रह्म समत्वात्साम। समत्वमेवाह- सर्वानन्यत्वरूपमिति। सर्वव्यापिस्वरूपभूतमित्यर्थः । स्वानुभवसिद्धस्या- समैकत्वस्य तव्ज्ञानफलस्य कृतार्थत्वस्य च ख्यापनं निष्फलमित्याशङ्कचाह- लोकानुग्रहार्थमिति। आत्मैकत्वज्ञानं बिना न संसारदावानलशान्तिः, अतो यत्नतस्तत्संपादनीयं सर्वैरिति ज्ञापनं लोकानुग्रहः। गानप्रकारमेव प्रश्नपूर्वक- माह-कथमित्यादिना। हावुशब्दो विस्मयार्थः अभ्यासस्तु तत्रातिशयार्थ इति मत्वाह- अत्यन्तेति।

क इति। किंकृत इत्यर्थः । सार्वात्म्यप्राप्तिकृतो विदुषो विस्मय इत्याह -- उच्यत इति। ननु नित्यशुद्धादिरूपस्य विदुषः कथमन्नान्नादरूपेण सार्वात्म्यमित्याशक्कय विक्षेपशक्तिम द्विद्यालेशमहित्रेत्याशयेनाह-निरञ्जनो- Sपि सन्निति। अन्नं भोग्यजातम्, अन्नादो भोक्ता, तयोः संघातो नाम भोक्तृभोग्यभावलक्षणः संबन्धः, तत्कर्ता, सर्वकर्मफलदातेति यावत्। तत्र सामर्थ्य सूचयति -- चेतनावानिति। सर्वज्ञ इत्यर्थः । अथवेति। अथ वा अन्नस्यैव संघातकृदिति योजना। नन्वनेकेषां मृत्तृणकाष्ठादीनां गृहप्रासा दादिरूपेण संघातकरणं दृष्टम्, तत्कथमेकस्यान्नस्यादनीयत्य संघातकरणमि-

Page 364

२६४ तैत्तिरीयोपनिषादि [अनु.

र्थस्य अन्नादार्थस्य सतोऽनेकात्मकस्य पारार्थ्येन हेतुना संघा- नकृत्। त्रिरुक्ति: विस्मयख्यापनार्था। अहमस्मि भवामि। प्रथमजाः प्रथमजः प्रथमोत्पन्नः, ऋतस्य सत्यस्य मूर्तामूर्तस्यास्य जगतो देवेभ्यश्व पूर्वम् अमृतस्य अमृतत्वस्य नाभिः मध्यम्, मत्संस्थम् अमृतत्वं प्राणि- नामित्यर्थः । यः कश्चित् मा माम् अन्नमर्थिभ्यो ददाति प्रयच्छति- अन्नात्मना व्रवीति, सः इत् इत्थमेवेत्यर्थ :; एवमविनष्टं यथाभूतं माम् आवा अवतीत्यर्थः । यः पुनरन्यो मामदत्वा अर्थिभ्यः काले प्राप्तेऽन्न- मत्ति तमन्नमदन्तमहमन्नमेव सन् अदि प्रत्यगनि। अत्राह-एवं तर्हि

त्याशक्कय विशिनष्टि-अनेकात्मकस्येति। शरीरेन्द्रियादिरूपेण परिणति- द्वारा अनेकात्मकस्य तस्य संहतिकरणमुपपन्नमित्यर्थः । शरीरप्राणादीनां मेल- नरूपं संघातं किमर्थमयं करोति? तत्राह-पाराथ्येनेति। परस्य चेतनस्यार्थों भोगादि: तत्सिद्धच्र्थत्वेनेत्यर्थः। ननु शरीरादिरूपेण परिणतस्यान्नस्य परार्थत्वे सिद्धे सति तादर्भर्येन संहतिकरणमित्युपपद्यते, तदेव कुतः सिद्धम्? अत आह -परार्थस्येति। तद्विशद्यति -- अन्नादार्थस्य सत इति। भोक्त्र्थस्य सत इत्यर्थः । जडस्य शरीरप्राणादेः काष्ठतृणादेरिव स्वार्थत्वायोगाच्चेतनार्थत्वं वक्त व्यमिति भावः । सतत्यस्येति सच्च त्यच्च सत्त्यम्, सन्मूर्त त्यदमूर्तमिति मूर्ता- मूर्तात्मकस्य ऋतशन्दितस्य जगत उत्पत्तेः पूर्वमेवोत्पन्नो हिरण्यगर्भश्चाह्मस्मी- त्यर्थः। देवेभ्यश्च पूर्वमिति। हिरण्यगरभोतपत्यनन्तरिन्द्रादिदेवेभ्यः पूर्वमुत्पन्नो विराट्पुरुषश्चाहमस्मीत्यर्थः । अमृतस्य नाभिश्चाहमस्मीति श्रुतौ योजनां मत्वा विवृणोति -- अमृतत्वस्येति। सर्वेषां मुमुक्षूणां प्राप्तव्यं यद्मृतत्वं तन्मत्सं स्थ मत्स्वरूपमेव मम परमानन्दस्वरूपत्वादित्यर्थः । ननु मां ददातीत्यनुपप- न्नम्, चिदेकरसस्य विदुषो देयत्वायोगादित्याशङ्कां वारयति-अन्नात्मने- ति। 'अह्मन्नम्' इति प्रागुक्तत्वादन्नात्मना स्थित्वा तथात्रवीदित्यर्थः । इत्थ- मित्यस्य व्याख्यानम्- यथा भूतमिति। अन्नभूतमित्यर्थः । अन्नभूतं मां यो ददाति स एवं ददत्सन्मामविनष्टं यथा भवति तथावतीत्यर्थः । दातुरन्नं वर्धत इत्यभिप्रायः। अदत्वेति। लोभादिनेति शेषः । प्रत्यभ्रीति। भक्षयामी-

Page 365

१०.] भृंगुवल्ली। २६५

बिभेमि सर्वात्मत्वपाप्तर्मोक्षात्; अस्तु संसार एव, यतो मुक्तोऽप्यहम् अन्रभूतः अद्यः स्याम् अन्नस्यैव। मा भैषीः; संव्यवहारविषयत्वात् सर्वकामाशनस्य; अतीत्यायं संव्यवहारविषयमन्नान्नादलक्षणमविद्या- कृतं विद्यया ब्रह्मतमापन्नः विद्वान्; तस्य नैव वस्त्वन्तरमस्ति, यतो विभेति; अतो न भेतव्यं मोक्षात् । एवं तर्हि किमिदम्- अहमत्रम- हमन्ाद इतति? उच्यते- योऽ्यमन्नान्नादलक्षणः संव्यवहारः कार्य- भूतः, स संव्यवहारमात्रमेव; न परमार्थवस्तु। स एवंभूतोऽपि ब्रह्मनि-

स्यर्थः । वैश्वदेवावसाने प्राप्तेभ्योडतिथिभ्यो यथाशक्त्यन्नमदृत्वा भुख्जानस्य गृहस्थस्य नरकपातो भव्रेदिति विवक्षितार्थः, अन्नभूतं मामदत्वा भक्षयन्तम हमपि भक्षयामीत्युक्तत्वात्। मुक्तं प्रत्यदनीयतया अन्नभूतो यो नास्तिकः तस्यान्नस्यैव सतो मुक्तोऽप्यदनीयो भवत्येवान्नभूतत्वात्, तथा च नास्तिकैर्व्या- बादिभिरिवाद्यस्य मुक्तत्य संसारादपि तीव्रतरं दुःखं प्रसज्येत। तथा च तद- पेक्षया संसार एव श्रेयानिति मुमुक्षुः शङ्कते-अत्राहेति। परिहरति- मा भैषीरिति। सर्वकामाशनशब्दितस्यान्नान्नादभावलक्षणस्य सर्वात्मभावस्य संव्यवहारविषयत्वात्कल्पनामात्रत्वान्न मुक्तस्य भयलेशोऽ्यस्तीत्यर्थः । अन्नादि- भावस्य संव्यवहारविषयत्वेऽपि कथं मुक्त भयाभाव इत्याशङ्कय संग्रह- वाक्यं विवृणोति-अतीत्यायमित्यादिना। विद्वहृष्टया वस्तुतो भयहे- तोरभावान्न तस्य भयमित्यर्थः । अयं विद्वानविद्याकृतं सर्वे विद्ययातीत्य वाधित्वा ब्रह्मत्वमापन्नो वर्तत इति योजना। ननु यदि मुक्तो ब्रह्मभावमापन्न एवोक्तरीत्या, तर्हीदम् 'अहमन्नादः' इत्यादिवचनं केनाभिप्रायेण प्रवृत्तमिति पृच्छति -- एवं तहि किमिति। ब्रह्मभावलक्षणमुक्तिस्तुत्यभिप्रायेणेदं वचनं प्रवृत्तमिति परिहरति-उच्यत इति। प्रथममन्नादिभावस्य संव्यवहारवि- षयत्वादित्युक्तं मिध्यात्वं साधयति- योऽ्यमित्यादिना। न परमार्थेति।

दिवचनस्य विषृणोति-स एवंभूतोऽपीति। ब्रहमनिमित्तः ब्रह्मकारणको- *T. 34

Page 366

२६६ तैत्तिरीयोपनिषदि [अनु.

मित्तो ब्रह्मव्यतिरेकेणासन्निति कृत्वा ब्रह्मविद्याकार्यस्य ब्रह्मभावस्य स्तुत्यर्थमुच्यते- 'अहमन्नमहमन्नमहमन्नम्। अहमन्नादोऽहमन्नादोऽहम- न्नादः' इत्यादि। अतः भयादिदोषगन्धोऽपि अविद्यानिमित्तः अवि- दोच्छेदाङ्रह्मभूतस्य नास्तीति। अहं विश्वं समस्तं भुवनं भूतैः संभज- नीयं ब्रह्मादिभिः, भवन्तीति वा अस्मिन् भूतानीति भुवनम्, अभ्यभवाम् अभिभवामि परेणेश्वरेण स्वरूपेण। सुवर्न ज्योतीः सुवः आदित्यः; आदित्य इवासकृद्विभातं मदीर्य ज्योनी: ज्योतिः, प्रकाश इत्यर्थः । इतीयं वल्लीद्रयविहिता उपनिषत् परमात्मज्ञानम्; तामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा भृगुवत् तपो महदास्थाय य एवं वेद, तस्येदं फलं यथोक्तमोमिति।।

इति दशमानुवाकभाष्यम्।।

Sन्नान्नादभावलक्षणः प्रपथ्ो व्यवहियमाणोपि व्रम्मव्यतिरेकेण वस्तुगत्यास- न्निति कृत्वा निश्चित्य स्थितस्य विदुषो योऽयं विद्याफलभूतो ब्रह्म- भाव: तस्य स्तुत्यर्थमन्नादिवचनेन सार्वात्म्यं सर्वकामाशनरूपमुच्यते, न त्व- न्ादिभावस्तस्य मुख्य इत्यर्थः । उपसंहरति -- अत इति। विद्याबलादवि- द्योच्छेदाद्वह्मभूतस्य विदुषो नास्त्यविद्यानिमित्तो भयदुःखादिदोषलेशोऽपी- त्यर्थः। एवं मोक्षस्यापुरुषार्थत्वशङ्कां निराकृत्य पुनविदुषः स्तुत्यर्थमुपक्षिप्तं सर्वात्मभावमेवानुसरत्नुत्तरवाक्यमादत्ते- अहं विश्वमिति । भुवनमिति। भूरादिलोक जातमित्यर्थः । ईश्वरेणेति। सर्वजगत्संहर्तृरुद्र रूपेणाह्मेवाभि भ वा मि संहरामीत्यर्थः । सुवर्न इत्यत्र नकार इवार्थ इत्याशयेनाह- आदित्य इवेति। असकृदिति। सदेत्यर्थः । ज्योतिःपदं चैतन्यप्रकाशपरम्। 'इत्युपनि- षत्' इत्यस्यार्थमाह-इतीयमिति। विहिता निरूपिता। 'य एवं वेद' इत्यत्र एवंशब्दार्थमाह-भृगुवदिति। वेद, संपादयतीत्यर्थः । यथोक्तमि- ति। जझ्यभावलक्षणमित्यर्थः । मङ्कलार्थमोंकारमुषारयति-ओमितीति॥

Page 367

[१०. भृगुवल्ली। २६७

अभ्नप्राणमनोबुद्धिसुखैः पश्चभिरुज्ज्वला । भगवत्यर्पिता जीयाद्वनमाला कृतिर्मम ॥ १ ॥

नारायणपद्द्वन्द्वं नारदादिभिराद्ृतम्। नमामि शतशो नित्यं नमतां मुक्तिदायकम् ॥ २ ॥

नन्दतीर्थस्य कृतौ वनमालाख्यायां तैत्तिरीयोपनिषद्धाष्यव्याख्यायां भृगुवल्लीभाष्यव्याख्या समाप्ता ।

Page 369

। श्रीः ।।

उपनिषन्मन्त्राणां

॥ वर्णानुक्रमणिका॥

पृष्ठम् पृष्ठम् अ अधाध्यात्मम् २० देवपितृकार्याभ्यां ६२ अन्तेवास्युत्तररूपम् १९ न अनं न निन्द्यात् २४६ न कंचन वसतौ २५१ अन्नं न परिचक्षीत २४८ नो इतराणि ६२ अलं बड्ु कुर्वीत २४९ प अलनं बहेति व्यजानात् २३७ पृथिव्यन्तरिक्षं ४७ अन्नाद्वै प्रजाः प्रजायन्ते १२७ प्राणं देवा अनुप्राणन्ति १३३ असद्वा इदमग्र आसीत् १८२ प्राणो प्रह्ेति व्यजानात् २४० असन्नेव स भवति १५७ अहं वृक्षस्य रेरिवा ५८ ब्रह्मविदाप्नोति परम् अह्मन्नमहमन्न २५२ भ

आ भीषास्माद्वातः पवते १९१ आनन्दो ब्रह्मेति व्यजानात् २४३ भूर्भुवः सुवरिति ३०

ऋ भृगुर्वे वारुणि: २३१ ऋतं च स्वाध्यायप्रवचने ५४ म ओ मनो व्रह्मेति व्यजानात् २४१ ओमिति ब्रझ्म मह इति ब्रह्म ३०

क मह इत्यादित्य: ३१ कुर्वाणा चीरमात्मन: २२ य

त य एवं वेद २५१

तल्नम इत्युपासीत २५२ यतो वाचो निबर्तन्ते १४२

Page 370

२७० उपनिषण्मन्त्रानुक्रमणिका।

पृष्ठम् पृष्ठम् यतो वाचो निवर्तन्ते २२३ शं नो मित्र: ९० यश इति पशुषु २५१ शीक्षां व्याख्यास्यामः १५ यशो जनेSसानि स्वाहा २२ श्रोत्रियस्य चाकामहतस्य १९१ यश्छन्दसामृषभो विश्वरूपः २२ " १९२ ये तत्र ब्राह्मणाः संमर्शिन: ६३ स

व स एको मनुष्यगन्धर्वा० १९१ वायु: संधानम् १९ स य एवंवित् २५२ विज्ञानं ब्रह्मेति व्यजानात् २४२ स य एषोऽन्तर्हृदय ३८ विज्ञानं यशं तनुते १४७ स यश्षायं पुरुषे १९२ वेदमनूच्याचार्यो ६२ सह नाववत ९०

श सह नौ यशः १७ शं नो मित्रः ११ सुवरित्यादित्ये ३८

Page 371

MEMORIAL EDITION

OF THE WORKS OF

Sri Sankaracharya

॥ श्रीशांकरग्रन्थावलिः॥

20 Vols. Crown 8vo. in a teak case.

CONTENTS :- Sutra Bhashya 3 Vols., Upanishad Bhashya 7 Vols., Gita Bhashya 2 Vols., Sahasranama and Sanatsujatiya Bhashya 1 Vol., Prakaranas 3 Vols., Stotras 2 Vols., and Prapanchasara 2 Vols.

All the volumes are printed in the best style possible, illustrated with splendid half-tone and Coloured Pictures and are bound in cloth with a very attractive and elaborate design in gold. The twenty volumes are placed in a neat teak case and each case containing one complete set is priced at Rupees Fifty only. Carriage extra.

An Edition de Luxe, strictly limited to one hundred sets is printed in very superior first quality Art paper and is bound in morocco with gilt edges and sides. This is the most sumptuous edition of any Sanskrit book hitherto published and is priced at Rupees One Hundred only per case of twenty volumes.

Page 372

Works by Sri Sadasivendra Sarasvati.

Brahmasutravritti named Brahmatattva Prakasika (ब्रह्मतत्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः) with a half-tone portrait and a life sketch of the author in English. Cr. 8vo. Cloth gilt. ... ... Rs. 2-0-0

Yogasutravritti named Yogasudhakara (योगसुधाकरो नाम योगसूत्रवृत्ति:) with a half-tone portrait of the author and a life sketch in Sanskrit. Cr. 8vo. Cloth gilt ... Rs. 1-8-0

Siddhantakalpavalli with the commentary called Kesaravalli by the author himself. (केसरवल्ल्यार्य- व्याख्यासहिता सिद्धानतकल्पवल्ली). This is a poetical version of the famous Siddhantalesa Sangraha of Appaya Dikshita Cr. 8vo. Art wrapper. As. 0-8.0

Atma Vidya Vilasa (आात्मविद्याविलासः) This book contains not only the 62 well known slokas in Arya metre but also 45 further slokas in differ-

ent metres. Cr. 8vo. wrapper. .. As. 0-2-0

Kirtanas (कीर्तनानि) containing nineteen of his famous, sweet and melodius kirtanas. Printed in 2

colours in the Precious Gem Booklet Series. As. 0-3-0

THE ,MANAGER,

Bookselling Department,

SRI VANI VILAS PRESS, SRIRANGAM.

Page 375

PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET

UNIVERSITY OF TORONTO LIBRARY

BI Sankaracarya 1120 Taittiriyopanisadbhasyam T352S3

Page 376

UTL AT DOWNSVIEW D RANGE BAY SHLF POS ITEM C 39 14 12 11 10 011 7