1. Tara-Sara Upanishad
Tara-Sara Upanishad
[ Sutra शान्ति मन्त्र ]
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥
· · ·
[ Sutra 1 ]
(अविमुक्तोपासनोपदेशः) बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र क्वचन गच्घ्छेत्तदेव मन्येतेति । इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षी भवति । तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ १॥
· · ·
[ Sutra 2 ]
(नारायणस्थूलाष्टाक्षरतारकम्) अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् । किं तारयतीति । स होवाच याज्ञवल्क्यः । ॐ नमो नारायणायेति तारकं चिदात्मकमित्युपासितव्यम् । ओमित्येकाक्षरमात्मस्वरूपम् । नम इति द्व्यक्षरं प्रकृतिस्वरूपम् । नारायणायेति पञ्चाक्षरं परंब्रह्मस्वरूपम् । इति य एवं वेद । सोऽमृतो भवति । ओमिति ब्रह्मा भवति । नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकार ईश्वरो भवति । रकारोऽण्डं विराड् भवति । यकारः पुरुषो भवति । णकारो भगवान्भवति । यकारः परमात्मा भवति । एतद्वै नारायणस्याष्टाक्षरं वेद परमपुरुषो भवति । अयमृग्वेदः प्रथमः पादः ॥ १॥
· · ·
[ Sutra 3 ]
(नारायणसूक्ष्माष्टाक्षरतारकम्) ॐइत्येतदक्षरं परं ब्रह्म । तदेवोपासितव्यम् । एतदेव सूक्ष्माष्टाक्षरं भवति । तदेतदष्टात्मकोऽष्टधा भवति । अकारः प्रथमाक्षरो भवति । उकारो द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति । बिन्दुस्तुरीयाक्षरो भवति । नादः पञ्चमाक्षरो भवति । कला षष्ठाक्षरो भवति । कलातीता सप्तमाक्षरो भवति । तत्परश्चाष्टमाक्षरो भवति । तारकत्त्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवोपासितव्यम् ॥ १॥
· · ·
[ Sutra 4 ]
(प्रणवावयवदेवताः) अत्रैते श्लोका भवन्ति ॥
· · ·
[ Sutra 1 ]
अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः । उकाराक्षरसंभूत उपेन्द्रो हरिनायकः ॥ १॥
· · ·
[ Sutra 2 ]
मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः । बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् ॥ २॥
· · ·
[ Sutra 3 ]
नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः । कलायाः पुरुषः साक्षाल्लक्ष्मणो धरणीधरः ॥ ३॥
· · ·
[ Sutra 4 ]
कलातीता भगवती स्वयं सीतेति संज्ञिता । तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥ ४॥
· · ·
[ Sutra 5 ]
(श्रीरामस्य सर्वात्मकत्वम्) ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताछन्दो ऋक्कलाशक्तिसृष्ट्यात्मकमिति । य एवं वेद । यजुर्वेदो द्वितीयः पादः ॥ २॥
· · ·
[ Sutra 6 ]
जाम्बवदाद्यष्टतनुमन्त्राः) अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि भगव इति । स होवाच याज्ञवल्क्यः ।
· · ·
[ Sutra 1 ]
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्योजाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १॥
· · ·
[ Sutra 2 ]
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्यउपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ २॥
· · ·
[ Sutra 3 ]
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यःशिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ३॥
· · ·
[ Sutra 4 ]
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपःशत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥
· · ·
[ Sutra 5 ]
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपोभरतो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ५॥
· · ·
[ Sutra 6 ]
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपोलक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥
· · ·
[ Sutra 7 ]
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीताभगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ७॥
· · ·
[ Sutra 8 ]
यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् । उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो भरतः ५ कलास्वरूपो लक्ष्मणः ६ कलातीता भगवती सीता चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य- परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि भूर्भुवः सुवस्तस्मै नमोनमः ॥ ८॥
· · ·
[ Sutra शान्ति मन्त्र ]
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥