Books / Tattva Bodha Shankaracharya Mula Typed text

1. Tattva Bodha Shankaracharya Mula Typed text

Page 1

तत्त्व बोधः वासुदेवेन्द्र योगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् । मुमुक्षूणां हितार्थाय तत्त्वबोधोऽभिधीयते ।।

साधनचतुष्टयसम्पन्न अधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः । साधनचतुष्टयं किम् ? नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभोगविरागः । शमादिषट्कसम्पत्तिः। मुमुक्षुत्वं च इति। नित्यानित्यवस्तुविवेक: कः ? नित्यं वस्तु एकं ब्रह्म तद्व्यतिरिक्तं सर्वं अनित्यम् । अयमेव नित्यानित्यवस्तुविवेकः। विराग: कः? इहस्वर्गभोगेषु इच्छाराहित्यम्। शमादिषट्कसम्पत्तिः का? शमो दमः उपरमः तितिक्षा श्रद्धा समाधानं च इति। शमः कः? मनोनिग्रहः। दमः कः? चक्षुरादि बाह्येन्द्रियनिग्रहः। उपरमः कः? स्वधर्म अनुष्ठानमेव। तितिक्षा का? शीतोष्णसुखदुःखादिसहिष्णुत्वम् । श्रद्धा कीदृशी? गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा। समाधानं किम्? चित्तैकाग्रता। मुमुक्षुत्वं किम्? मोक्षो मे भूयादिति इच्छा। एतद् साधनचतुष्टयम् । ततः तत्त्वविवेक अधिकारिणो भवन्ति।

तत्त्वविवेक: कः? आत्मा सत्यं तदन्यत् सर्वं मिथ्या इति। आत्मा कः? स्थूलसूक्ष्मकारणशरीरात् व्यतिरिक्तं पंचकोशातीतः सन् अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन् यः तिष्ठति स आत्मा। स्थूलशरीरं किम्? पंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगायतनं शरीरम् अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यति इति षड्विकारवद् एतत् स्थूलशरीरम् । सूक्ष्मशरीरं किम्? अपंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पंचज्ञानेन्द्रियाणि पंचकर्मेन्द्रियाणि पंचप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशकलाभिः सह यः तिष्ठति तत् सूक्ष्मशरीरम् । श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पंचज्ञानेन्द्रियाणि। श्रोत्रस्य दिग्देवता। त्वचो वायुः। चक्षुषः सूर्यः। रसनायाः वरुणः। घ्राणस्य अश्विनौ। इति ज्ञानेन्द्रिय देवताः। श्रोत्रस्य विषयः शब्दग्रहणम् । त्वचो विषयः स्पर्शग्रहणम् । चक्षुषोः विषयः रूपग्रहणम्। रसनायाः विषयः रसग्रहणम्। घ्राणस्य विषयः गन्धग्रहणम्। वाक्पाणिपादपायु उपस्थानि इति पंचकर्मेन्द्रियाणि। वाचो देवता वहि। हस्तयोः इन्द्रः। पादयोः विष्णुः। पायोः मृत्युः। उपस्थस्य प्रजापतिः। इति कर्मेन्द्रियदेवताः। वाचो विषयः भाषणम्। पाण्योः विषयः वस्तुग्रहणम्। पादयोः विषयः गमनम्। पायोः विषयः मलत्यागः। उपस्थस्य विषयः आनन्दः।

Page 2

कारणशरीरम् किम्? अनिर्वाच्य अनादि अविद्यारूपं शरीरद्वयस्य कारणमात्रं स्वस्वरूप अज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम्। अवस्थात्रयं किम्? जाग्रत्स्वप्नसुषुप्त्यवस्थाः । जाग्रदवस्था का? श्रोत्रादिज्ञानेन्द्रियाणि शब्दादिविषयैश्च ज्ञायते इति यत् सा जाग्रदवस्था। स्थूलशरीराभिमानि आत्मा विश्व इत्युच्यते। स्वप्नावस्था का इति चेत् जाग्रदवस्थायां यद् दृष्टं यत्श्रुतं तज्जनित वासनया निद्रासमये यः प्रपंचः प्रतीयते सा स्वप्नावस्था। सूक्ष्माशरीराभिमानी आत्मा तैजसः इति उच्यते। अतः सुषुप्त्यवस्था का? अहं किमपि न जानामि सुखेन मया निद्रा अनुभूयते इति सुषुप्त्यवस्था। कारणशरीराभिमानी आत्मा प्राज्ञ इति उच्यते। पंचकोशाः के? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयः च इति। अन्नमयः कः? अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम्। प्राणमयः कः? प्राणाद्याः पंचवायवः वागादि इन्द्रियपंचकं प्राणमयः कोशः। मनोमयः कोशः कः? मनश्च ज्ञानेन्द्रियपंचकं मिलित्वा भवति स मनोमयः कोशः। विज्ञानमयः कः? बुद्धिश्च ज्ञानेन्द्रियपंचकं मिलित्वा भवति स विज्ञानमयः कोशः। आनन्दमयः कः? एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः। मदीयं शरीरं मदीयाः प्राणः मदीयं मनः च मदीया बुद्धिः मदीयं ज्ञानमिति स्वेनैव ज्ञायते तद्यथा- मदीयत्वेन ज्ञातं कटककुण्डलगृहादिकं स्वस्माद् भिन्नं तथा पंचकोशादिकं स्वस्माद् भिन्नं मदीयत्वेन ज्ञातमात्मा न भवति।

आत्मा तर्हि कः? सच्चिदानन्द स्वरूपः। सत्किम्? कालत्रयेऽपि तिष्ठति इति सत्। चित् किम्? ज्ञानस्वरूपः । आनन्दः कः? सुखस्वरूपः।

अथ चतुविंशतितत्त्वोत्पत्ति प्रकारं वक्ष्यामः। ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति। ततः आकाशः सम्भूतः। आकाशाद् वायुः। वायोस्तेजः। तेजसः आपः। अद्भ्यः पृथिवी। एतेषां पंचतत्त्वानां मध्ये आकाशस्य सात्त्विकांशात् श्रोत्रेन्द्रियं सम्भूतम्। वायोः सात्त्विकांशात् त्वगेन्द्रियं सम्भूतम्। अग्नेः सात्त्विकांशात् चक्षुरिन्द्रियं सम्भूतम्। जलस्य सात्त्विकांशात् रसनेन्द्रियं सम्भूतम्। पृथिव्यां सात्त्विकांशात् घ्राणेन्द्रियं सम्भूतम्। एतेषां पंचतत्त्वानां समष्टिसात्त्विकांशात् मनोबुद्धिअहंकारचित्तान्तः करणानि सम्भूतानि। संकल्पविकल्पात्मकं मनः। निश्चयात्मिका बुद्धि। अहंकर्ता अहंकारः। चिन्तकर्तृ चित्त्म्। मनसो देवता चन्द्रमाः। बुद्धेः ब्रह्मा। अहंकारस्य रुद्रः। चित्तस्य वासुदेवः।

Page 3

एतेषां पंचतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम्। वायोः राजसांशात् पाणीन्द्रियं सम्भूतम्। वहूने: राजसांशात् पादेन्द्रियं सम्भूतम्। जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम्। पृथिव्याराजसांशात् गुदेन्द्रियं सम्भूतम्। एतेषां समष्टि राजसांशात् पंचप्राणाः सम्भूताः । पंचीकरणं कथम् इति चेत्? एतेषां पंचमहाभूतानां तामसांशस्वरूपम् एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक् व्यवस्थाप्य अपरं अपरं अर्धं चतुर्धा विभज्य स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम्। तदा पंचीकरणं भवति। एतेभ्यः पंचीकृमपंचमहाभूतैः स्थूलशरीरं भवति। एवं पिण्डब्रह्माण्डयोः ऐक्यं सम्भूतम्।

स्थूलशरीराभिमानि जीवनात्मकं ब्रह्मप्रतिबिम्बं भवति। स एव जीवः प्रदडत्या स्वस्मात् इश्वरं भिन्नत्वेन जानाति। अविद्या उपाधि: सन् आत्मा जीवः इति उच्यते। मायोपाधि: सन् ईश्वरः इति उच्यते। एवमेव उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत् पर्यन्तं तिष्ठति तावत्पर्यन्तं जन्ममरणादिकं संसारः न निवर्तते। तस्मात् कारणात् जीवेश्वरयोः भेदबुद्धिः न स्वीकार्याः। ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात् कथं अभेदबुद्धि स्यात् उभयोः। विरुद्धधर्माक्रान्तत्वात्। इति चेन्न। स्थूलसूक्ष्मशरीराभिमानी त्वम्पदवाच्यार्थः। उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं त्वम्पदलक्ष्यार्थः । एवं सर्वज्ञत्वादिविशिष्ट: ईश्वरः तत्पदवाच्यार्थः । उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः । एवं च जीवेश्वरयोः चैतन्यरूपेण अभेदे बाधक अभावः।

एवं च वेदान्त वाक्येः सद्गुरु उपदेशेन च सर्वेष्वपि भूतेषु येषां ब्रह्मबुद्धिः उत्पन्ना ते जीवन्मुक्ताः इत्यर्थः। ननु जीवन्मुक्तः कः? यथा देहोऽहं पुरुषेऽहं ब्राह्मणोऽहं शूद्रोऽहं अस्मि इति दृढनिश्चयः तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असंगः सच्चिदानन्दस्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽम् अस्मि इति दृढनिश्चयरूपः अपरोक्षज्ञानवान् जीवन्मुक्तः। ब्रह्मैवाहमस्मि इति अपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात्। कर्माणि कतिविधानि सन्ति इति चेत् आगामिसंचितप्रारब्धभेदेन त्रिविधानि सन्ति। ज्ञानोत्पत्ति अनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म यदस्ति तत् आगामि इति अभिधीयते। संचित कर्म किम्? अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं तिष्ठति तत् संचितं ज्ञेयम्। प्रारब्धं कर्म किम् इति चेत्। इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षयं इति। संचित कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति। आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति। किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति ज्ञानिकृतम् आगामि पुण्यं गच्छति। ये ज्ञानिनं निन्दन्ति द्विषन्ति तान्प्रति ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यंकर्म पापात्मकं तद् गच्छति। सुहृदः पुण्यकृत्यान् दुर्हृदः पापकृत्यान् गृह्णन्ति।। तथा च आत्मवित्संसारं तीर्त्वा ब्रह्मानन्दं इह एव प्राप्नोति। तरति शोकम् आत्मवित् इति श्रुतेः। Web Site : http://www.vmission.org/ E-mail : [email protected]