1. Tatva Prakasha Bhoja TSS 68 (Pasu Pata)
Page 1
irla Central Librarp PILANI (Jaipur State)
Class No :- $ / 87-4- Book No : 1346777 Accession No :- /6509
Page 2
2
Page 3
3
Page 4
TRIVA NDRUMS ES
तत्त्वभकाश: श्रीकमारूिर चिनया तात्पर्यदीपिकाख्यया व्येो पमा समेत:। THE
TATTVAPRAKASA
OF
SRÍ BHOJA DEV WITH THE COMMENTARYY FATPARYADIPIKA OF SRIKUMARA EDITED BY
MAHAMAHOPÁDHYÁYA T. GANAPATI SASTRT Curator ag the Liepartmirnt toe the pablication M Sansiadt Mawusenpt, Trirandirun.
PURLSAED ENDER THE ATTRORITY OF TRE GOVERNMEN! .F HIR HIGHNESS THE MAHARAJAH OF TRAVANCORK.
IBITANDRUM: PRINTRD BY TAE SUPERINTENDENT, GOVERNMENT PRES. 1320.
4
Page 5
5
Page 6
TRIVANDRUM SANSKRIT SERIES No. LXVIII
THE
TATTVAPRAKÂSA
OF
SRÎ BHOJA DEVA
WITH THE COMMENTARY TATPARYADIPIKA OF SRÎKUMÂRA
EDITED BY
MAHAMAHOPÂDHYÂYA T. GANAPATI SASTRI Curator of the Department for the publication of Sanakrit Manuscripts, Trivandrum.
PUBLISHED UNDER TRE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM: PRINTED BY THE SUPERINTENDENT AAVERNMENT PRESS. 1920.
(AU Rights Reserved.)
6
Page 7
7
Page 8
ग्रन्थाङ्क: ६८.
तत्त्वप्रकाशः श्रीभोजदेवप्रणीतः श्रीकुमारविरचितया तात्पर्यदीपिकाख्यया व्याख्यया समेतः।
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण महामहोपाध्यायेन त. गणपतिशास्नणा संशोधितः ।
स च अनन्तशयने महामहिमश्रीमूलकरामवर्मेकुलशेखरमहाराजशासनेन राजकीयमुद्रणयन्त्रालये तदध्यक्षेण सुद्रयित्वा प्रकाशितः।
शेळम्बाइडा: १•९५, वेस्ताब्डा: १९२०.
8
Page 9
9
Page 10
PREFACE.
Tattvaprakasa is a rare ancient work on the Saiva System of Philosophy. The author of the work is King Bhoja Deva. It is probable that he is the same as the Bhoja Deva, the reputed author of Sarasvatikanthabharana, Sringa- raprakasa, Patanjalasutravritti and other works, as the latter
learning. is well-known to have been a master of varied branches of There were three kings of the name of Bhoja in the Parmar Dynasty; one of them lived about 575 A. D., the other about 665 A. D., and the third about 1,044 A. D .; but it is not certain which of them is the present author. The work is cited as authority in the Saivadarsana of the Sarva- darsanasangraha. The author of the commentary Tatparyadipika is Sri- kumara. It is not known when and where this commentator lived, but it is certain that he is later than Paramesvarâcharya the anthor of the Laghu Brihmini, a commentary on the Laghustuti, as the Laghu Brihmini is quoted in the present commentary. The edition of this 'work with on the following three manuscripts :- commentary is based
-
(a) Lent by Mr. Anantakrishna Sastri of Ariya- nayakipuram. 2. (a) Belonging to Mr. Maheswaran Thiruvalla. Bhattathiri,
-
(ग) Do. Do. Do. All these manuscripts are in Malayalam characters on palm-leaves, and the first is an extremely worn-out one.
Trivandrum, 5th February 1920. 3 T. GANAPATI SÂSTRÎ.
10
Page 11
11
Page 12
निवेदना।
तश्यभकाशो नामायमपूर्वोपलव्ध: पुरातनो अन्थः पाशुपतदर्शन- गतानि तत्त्वानि संक्षिप्य प्रतिपादयति। अस्य अन्थस्य प्रणेता श्रीभोजदेवनृपतिः सरस्वतीकण्ठाभरण-
भोजदेवस्य सर्वतन्त्रस्वतन्त्रत्वख्यातिरस्ति। भोजदेवाश्च परमारवंश्यास्त्रय आसन् एक: ३१७७ तमे कलिवर्षे, अपरः ३७६७तमे, अन्यः ४१४६ तमे। तेषु प्रकृत: कतम इत्यनिश्रयः । किन्त्वयं अ्न्थः सर्वदर्शनसङ्गहे शैवदर्शने स्मर्यते। एतव्याख्यायास्तात्पर्यदीपिकायाः कर्ता श्रीकुमारः कुत्र कदा स्थित इति न ज्ञायते । किन्तु लघुस्तुतिव्याख्यां रुघुबृंहणीं स्मरन्नयं लघु- गृंहणीकारात परमेश्वराचार्यादर्वाचीनः । सव्याख्यस्य तत्त्वभकाशस्य संशोधनाधारभूतास्तु अ्रन्था एते- १. श्रीयुतैः (हरनायकीपुरम्) आर. अनन्तकृष्णशाखत्रिभिरुपकृतः क.संज्ञः (जीर्णत्रुटितपत्रः)। २. श्रीयुत-(तिरुवल्ला) महेश्वरभट्टतिरिसम्बन्धी ख.संज्ञः । ३. तथा ग.संज्ञः । सर्व एते केरलीयलिपयस्तालपत्रात्मकाश्च । अनन्तशयनम्। ५-१-१९२० त. गणपतिशासत्री.
12
Page 13
13
Page 14
विषयानुक्मणी।
प्रथम: परिच्छेद:। विषय: पुटम्. इष्टदेवतास्तुतिच्छंलेन सकलशास्त्रार्थसङ्गहः । म- थवा निष्कलस्य प्राप्यस्य शिवतत्त्वस्याभिधानम्। १-११ प्रथमललोकसूचिताया इष्टदेवतास्तुतेरुत्तर श्लोकेन विवरणम्। मथवा निष्कलशिवतत्त्वप्राप्त्युपायभूतस्य स- करस्य तेजसो ज्योतिर्लिन्रूपेणावस्थिति: । १२ शक्तिसहितस्यैव शिवस्यानुग्राहकत्वाद् अखिलभु- वनजनन्या मदेश्वर्याः स्तुतिः । ११-१७ विषयसम्बन्मप्रयोजनवतः शास्त्रस्य करणप्रति- शानम्। १८-२२ पतिपशुपाशात्मकतत्त्वत्रयनिरूपणम् २३-११ शिवप्रसादात् पशूनां मलादिपाश्चापगमे मुक्ति:, मुक्तानां शिवस्वभावत्वं, पञ्चमन्त्रात्मकस्य शिवस्यैकस्यैव नित्यमुक्तत्वम् । १२,४२ पतितत्त्वस्य लक्षणं परीक्षा च। अर्थात् सर्गादि- पञ्चकृत्यान्यथानुपपत्या महेश्वरसिद्धिनिरूपणम् । पशुनिरूपणम्। विज्ञानकलप्रलयाकलसकलमेदेन पशूनां त्रैविध्यम्। तत्र विज्ञानकलस्य मलयुतत्वं प्रलयाक- लस्य मलकर्मयुतत्वं च। ४६, ४७ ,सकलस्य मकमायाकर्मयुतत्वम्। एतेषु त्रिषु आदय- स्य विज्ञानफलस्य समाप्तकलषत्वासमाप्तकलपत्वमेदेन हवै- विध्यम्। तत्र समास्तकलुषाणां विज्ञानकलानां विधेश्वरस्थाने नियोजनम्, असमापकलृषाणां विज्ञानकलानां सप्तकोटि मन्त्रदेववात्वकरणं च।
14
Page 15
विषय: पुटम् प्रलयाकलसकलयो: स्वरूपनिर्णयः, पलयाकलेपु केषाञ्चित् पक्कमलकर्मणा भुवनपतित्वकरणं केषाबत्विद् गणेशत्वकरणं, सकलेपु केषाज्चित् पकमलकर्मणां मन्न्रे- श्रस्त्वकरणं, सर्वेषामेषां कर्मवशाद् देवमनुष्यादियोनिषु गमनं च। ५०, ५१ तत्र सकलेषु मण्डलिनामष्टकं, क्रोधादीनामष्टकं, वीरेशश्रीकण्ठयोर्द्विकं, रुद्राणां शतकमिति विभागक्रमः । ५२ संसरतां पशूनां मोक्षमार्गेऽवतारनिरूपणम् । ५१ सूक्ष्मदेहेन बद्धानां शेषाणां सकलानां विषयभु- वत्यर्थ देवादिस्थानेषु स्थूलदेहेन संयोजनम् । ५४ पाशानां लक्षणं परीक्षा च । मलकर्ममायीयति- रोधायकभेदेन पाशानां चतुर्विधत्वम्। ५५ मळाखयस्य पाशस्य लक्षणम्। ५१, ५७ कर्मार्यस्य पाशस्य लक्षणं, तद्विभागः, माया- स्यस्य पाशस्य स्वरूपनिरूपणं च । ५८-७२ तिरोघायिकाया विभो: शक्त्तेश्रतुर्थपाशत्वेनाभिधा- नम्। एवं त्रिविधतत्त्वनिरूपणेन प्रथमपरिच्छेदोपसंहारः । ७२
अथ द्वितीय: परिच्छेद:। पूर्वस्मिन परिच्छेदे संक्षेपेणोक्तानां पतिपशुपाशा- नामत्र विस्तरेणोपदेशः । तत्र शिवाल्यस्य शुद्धतत्त्वस्य शिवशक्तिसदाशिवेश्वर विद्याभेदेन पञ्चविधत्वं, शुद्धाशुद्ः तस्वस्य माया-तत्कार्यपश्चक-तद्ुपितपुरुषभेदेन सत्वि- धत्वं; मायात उदवश्र।
15
Page 16
विषय: पुरुषस्म पशोर्भोगार्थ त्रयोविशतेस्तत्त्वानामुत्पत्ति- पुटम्ं.
कथनम्। प्रथमोदिष्टस्य शियतत्त्वस्य लक्षणम्। ७५,७६ निष्कियस्य शिवतत्त्वस्य निखिलतत्त्वकारणत्वो- पपादनम् । द्वितीयस्य शक्तितत्त्वस्य लक्षणम् । ७७ -- ७९ तृतीयचसुर्थयोः सदाशिवेश्वरतत्त्वयोः सरूपनि- रूपणम् । ८0 पञ्चमस्य विद्यातत्वस्य स्वरूपवर्णनम्। ८१ शास्त्रान्तरप्रसिद्धयोर्नादबिन्दुतत्त्वयोः शिवतत्त्वे, विधेश्वरविद्यामन्त्रतरवानामीश्वरतत्त्वे चान्तर्भाववर्णनम्। ८२ पञ्चानामप्येषां शुद्धतत्त्वानां काल्पनिकक्रमस- द्वाववर्णनम्। <३ एकस्यापि शिवतत्त्वस्य शक्तिव्यापारोपाघिवशा- देव सदाशिवादिभेद्वर्णनम्। चितामचितां चानुगहकरणाय भगवतः पूर्वोक्त- रूपपरित्ह्वर्णनम्। सर्वानुआाहकस्य शम्भोः पाशवर्गा- नुगहकरणप्रकार: । ८५,८६ अनादिकर्मणो भोगप्रदानपूर्वकं चितां शिवसायुं- ज्यवक्षणस्यानुमहस्य वर्णनम्। भोगं विना कर्मनाशासम्भवादू भोगार्थमेव शरीरे- न्द्रियभुवननिष्पचिर्भगवतः, कार्यान्यथानुपपत्या कर्तुरुपा- दानकारणस्य करणस्य च सामान्येन सिद्धिनिरूपणम्। ८८ विशिष्य चानुमानांगमाभ्यां जगत्कर्तु: परमेश्वरस्य सद्भावबोधनेन द्वितीयपरिच्छेदोपसंहार: । ८ <- ११0
अथ तृतीय: परिच्छेद:। कार्यस्य जगतः, करणभूताना परमेश्वरशक्तीना- भपादानभूताया मीयायान्च स्वरूपनिरूपणम् ११-११४
16
Page 17
विषयः पुटम्. मायाया जगन्मूलोपादानत्वसिद्धिनिरूपणम् । ११४-११७ शम्भो: सवीयेच्छादिशक्तिभिः पुरुषस्य भोगार्थ शरीरेन्द्रियाद्याधानम्। मायातः प्रथमं कालतत्वोत्पादः । ११७,११८ मायात एवानन्तर नियतितत्वस्योत्पत्तिस्तल- क्षणं च। ११९ तत एवानन्तरं कलाख्यस्य तत्त्वस्यात्पत्तिस्तल्लक्षणं १२०
कालनियत्युपसृष्टया कलया मायाया अवन्यन्तका- र्यजातविधानम् । १२१ पुरुषस्य कर्तृशक्त्यभिव्यक्तिहेतुभूतायाः कलाया अशुद्धविद्यातत्त्वोत्पत्तिः। इह संसारमार्गेऽस्यैव विद्यात- त्वस्य प्रकृष्टकरणत्वम् । १२२ बुद्धितत्वेनैव विषयप्रदर्शनसिद्धेरतिरिक्तस्य विद्या- तस्वस्य परिकल्पने उपपत्तिनिरूपणम्। १२२,१२३ रागतत्वनिरूपणम्। १२४ ईश्वरस्य कालनियतिकलाविद्यारागाख्यरुक्तैः पञ्च- भिस्तत्वैः सम्बन्धात् पशुभावप्राप्त्या भोक्तृत्वावस्था- प्राप्तिः, पुरुषसंज्ञालाभः, शिवतत्त्वव्यतिरेकेण तत्त्वेषु गणना चेत्येवं तृतीयपरिच्छेदसमाप्तिः । १२५
अथ चतुर्थः परिच्छेद:। पुरुषस्य सुखाद्यनुभवाय मायातत्त्वादव्यक्कोत्पत्तिः, अव्यक्तपदस्यान्वर्थेत्वकथनं च । १२६ अव्यक्तादू वैषम्यात्मकगुणतत्त्वोत्पत्तिः । १२७ गुणत्रयाद् बुद्धितत्त्वोत्पत्तिः, बुद्धितत्वस्य लक्षणं तत्रैविध्यं च। १२७-१४३
17
Page 18
विषय: पुटम्. बुद्धितत्त्वादहक्करोत्पत्तिः नम्य जीवनसंरम्भगर्वभे- देन त्रेविध्यम्। १४४ तस्यैव सात्विकराजसतामसभेदेन पुनस्त्रैविध्यम्। १४५ एतम्मादेव त्रिविधादहक्कारादिन्द्रियतन्मात्रमनसां सृष्टिनिरूपणम्। मनसो ज्ञानेन्द्रियाणां च स्वरूपनिरू- पणम्। १४५-१४८ ज्ञानेन्द्रियाणां पञ्चानां विषयनिरूपणम्। ज्ञाने- न्द्रियाणां लक्षणं स्वरूपसिद्धिश्र। १४९ पञ्चानां कर्मेन्द्रियाणां सद्भावसिद्धिः, बुद्धहक्कार- मनोभेदेनान्तःकरणत्रैविध्यनिरूपणं च। १५०,१५१ बाह्येन्द्रियाणां दशविधत्वं तन्मात्रेभ्यः पञ्चमहदा- भूतोत्पत्तिश्र । १५२ तन्मात्राणां स्वरूपं तेभ्यो महाभूतोत्पत्तिप्रकारश्र। १५३,१५४ पञ्चानां भूतानां व्यापारः । एवं चतुर्थपरिच्छे- दोपसंहारः । १५५-१५९
अथ पञ्चम: परिच्छेद:।
प्रधानादुत्पन्नानां त्रयोविंशतेस्तत्त्वानां कार्यकार- णात्मना द्वैविध्यम्। तत्र कार्यस्य तन्मात्रपञ्चकभूतपञ्च- कात्मना दशविधत्वं, कारणस्य बाह्याभ्यन्तरभेदेन त्रयोदश- विधत्वं च। उक्तेषु षटूतत्रिशत्तत्त्वेषु शिवशक्तिसदाशिवश्व- रविधाख्यानां पश्चानां तत्त्वानां चिद्रूपत्वाच्छुद्धत्वं, माया- कालनियतिकलाविद्यारागपुरुषाख्यानां सप्तानां तत्त्वानां चिदचिदूपत्वाच्छुद्धाशुद्धत्वं, पधानादीनां चतुर्विशतेस्त- त्वानां चित्सम्बन्धरहितत्वादशुद्धत्वं च।
18
Page 19
विषयः पुटस्: भूततन्मात्रात्मके दशके भावसर्गाख्यविशेषनिरू पणम्। उक्कानां सर्वेषां तत्त्वानां सृष्टिक्रमेण मायायां ल- यनिरूपणम् । मायायाः परेषां शुद्धतत्त्वाना शक्तितत्वे लय:, तस्य शिवतत्त्वेनैक्यं, प्रलये मायापुरुषशिवानां ज. गत्कारणानां सद्भावात् पुनरि जगदुत्पत्तिसम्भवनिरू- पणम्। संसारतापतप्तानां सर्वेषां प्राणिनां विश्रान्त्ये महे- शवरस्य प्रलयनिर्माणं च। इत्थं पश्चमपरिच्छेदसमापि: ।. १६५
अथ पष्ठः परिच्छेद:। भोगेन कर्मबन्धनिवृत्तिद्वारा पशूनामपवर्गोपलम्भ- नार्थ देहेन्द्रियविषयसृष्टिनिरूपणम्। १६१ करुणानिधे: शम्भोः परिपकमलानां पशूनां दी- क्षाविधानेन बन्धमोचनकरणम्। १६६-१७१ पटत्रिशत्तत्वानां लक्षणकथनं, तर्वलक्षणानाक्त्ता- न्तत्वाच्छरीरघटादेस्तत्त्वान्तरत्वव्युदासः, प्रतिज्ञातार्थोप- संहारश्र। स्त्रीयशास्त्रस्वीकरणाय कर्तृनामनिर्देशेः। एवं षष्ठ- परिच्छेद समाप्तिः'
19
Page 20
तत्त्वप्रकाशव्याख्यायां स्मृता ग्रन्थाः ।
अथर्वशिखा २९. अथर्वशिर: 11 अध्वसिद्धि: ८४. आगम: १०९, १३६. आरणम् २९. इशावास्यम् ईश्वरगीता ७, ८, ९, १२, ११६. ऐतरेयोपनिषत् ११• किरणम् २०, २५, ३१, ५५, ५७, ११५, १२५. कौर्मम् १९. गुरुदेवपद्धविः ३३, १७७. चन्द्रज्ञानम् ८०, १५८, १५९. तैचिरीयम् ६. त्रेयम्चकाध्यायः ३. देवीमन्त्रकल्प: १४. नीळरुद्रसूक्तम् ३, २९. न्यायसूत्रम् १४६. पारमेश्वरम् २०, २५, ४३, ११९, १२३, १२४, १४३, १४७, १५५, १५७, १५८, १५९. पुराणागम: ८, १४. मयोगमज्जरी ३२. वृंहणी १७ बृहदारण्यकम् १५. भारतम् ३०.
20
Page 21
२
भुवनेश्वरीकल्प: १४. भूतशुद्धितन्त्रम् ६८. मानवम् १६. मोक्षधर्म: ११. रौद्रसक्तम् २९. लिङ्गोन्व: ४३. लैङ्म् ६, १५, १६, ४२, ५०, १२८, १३६. लैङ्गोपरिभाग: ३१. वायवीयम् ११, १७, २५, ४२, ४८, ८६, ८७. विष्णुपुराणम् ११६, १६३. वैशेषिकभाष्यम् १४६. शतरुद्रीयम् २९. शिवधर्मोत्तरम् १९, २६, ७६, ८६, १४७. शिवसूत्रम् ३. सैवरहस्यम् १८, २४, २५, ३२, ४५, ५२, ७४, ७५, १२२, १४५, १५८, १६१. शेवागम: २३, २५, ३०. श्रुतिः २, ३, ४, ५, ६, ७, ८, ११, १५, २१, २२, २९, ३१, १०४, १११, ११६. श्वेताश्वतरम् ३, ६, ७, १७, २२, २९, ७६. सनत्सुजातम् १७. सिद्धान्तह्ड्यम् १८, ३२, ४९, ५२, ५९, ७६, ८०, ८१. सिद्धान्तागमः 6२. स्मृतिः २, ३, ६, ७, ९, २२, ७१, १०५.
21
Page 22
तत्त्वप्रकाशव्याख्यायां स्मृता ग्रन्थकर्तारः।
अगस्त्य: ३०. अवधूतपाद: ५४. आर्योकार: ५. गुरुदेवाचार्य: १७४. दधीच: ३०. न्यायविद: ४, १०, ४७, ६६. पतअ्लि: १४२. बादरायण: १७. भगवान् विष्णु: १६३. भट्टपाद: १८, ७९. मनुः १३८. मातङ्ग: ६१, ७९, १२१, १२४, १४७, १५६, १५९. मार्कण्डेय: ३०. राम: वेदव्यास: ६२, ११४, १३५. वैशेषिक: ११८. शतककार: ७२. शिव: (सूत्रकर्ता) ३. शिवसूत्रवार्तिककत् ५५. सैवा: ६८. साकया: १४२, १४६, १४७, १४८. साख्याचार्या: १२, ६८, ११२, १२६, १२७.
22
Page 23
23
Page 24
॥ श्री:।। श्रीमोजदेकपणीत: तत्त्वप्रकाशः श्रीकुमारविरचितया तात्पर्यदीपिकाख्यया व्याख्यया समेतः ।
नमः शर्वाय देवाय कारणत्रयहेतवे। निर्मलाय सदानन्दचित्स्वरूपाय शम्भवे॥। शक्तिं सदाशिवं चेशं नत्वा देवी सरस्वतीम्। तत्त्वप्रकाशतात्पर्यदीपिका क्रियते मया॥ प्रारिप्सितस्यास्य शास्त्रस्याविन्नेन परिसमाप्तिप्रचय- गमनादर्थम् इष्टदेवतास्तुतिं करोति- चिद्धन एको व्यापी नित्यः सततोदितः प्रभुः शान्तः। जयति जगदेकबीजं सर्वानुगाहकः शम्भुः ॥१॥ इति। नन्विष्टदेवतास्तुतिनमरकारादेः शास्त्रपरिस- माप्तिप्रचयगमनादिहेतुता कुतोऽवगम्यते । शिष्टाचारानुमि- तादागमादिति ब्रूमः । शास्त्राध्यारम्भे शिष्टैरिष्टदेवतास्तुति- नमस्कारादेः क्रियमाणस्य तदिष्टपरिसमाप्त्यादिहेतुतां बिना न सम्भवः । तेनास्य तद्चेतुत्वम् । तच्चागमादेवावगम्यते। अन्यस्य प्रमाणस्यात्रासम्भवात्। तथा "मङ्गलाचारयुक्तानां, विनिपातो न विद्यते।" G.P. T. 2869. 500. 1-6-18. B
24
Page 25
२ तत्त्वप्रकाशे सव्याखये इति स्मृतेश्र तदवगमः । तथा परिसमाप्तेः कादाचित्क- तया कारणापेक्षा। तच्चान्यस्यासम्भवान्नमर्कारादिजनितो धर्मविशेष इति कल्प्यते। कथं तस्य तद्धेतुत्वमिति चेद्, उच्यते। नमस्कारादिः कायिको वाचिको मानसो वा धर्मविशेषं सम्पादयन् विध्नहेतुभूतमधर्म पर्यस्य परिसमा- प्त्यादिहेतुतामधिगच्छति, तस्येष्टत्वादिष्टहेतुत्वाच्च् धर्मस्ये- ति। कथं तर्हि क्वचित् कृते नमस्कारे परिसमाप्त्यभाव इति चेत्, तद्वैगुण्यादिति बूमः । यथा कारीर्यादौ वृष्ट्यादि- साधनेऽनुष्ठिते वृष्टयाद्यभावात् तह्ैगुण्यकल्पना, प्रतिबन्ध- काधर्मप्राचुर्यकल्पना वा। एवमत्रापीति न विरोधः। कथं तर्हि नमस्काराद्यभावे क्चित परिसमाप्तिः, कारणाभावे का- र्योत्पत्त्यसम्भवादिति चेद्, नैवम्। तत्र वाचिकनमसका- राभावेऽपि कायिकमानसादेरनुमेयत्वाद, अन्यथा परिसमा- प्तेरसम्भव इति। ननु तर्हि स एवास्त्वत्रापि, किं वाचिकेन ग्रन्थप्राचुर्यसम्पादकेनेति चद, नैवम्। वाचिके प्रयोजनान्त- रसम्भवेन तदुपादानात्। तथाहि - यस्तु विस्मृत्येष्टदेवता- स्तुतिनमस्कारादिं श्रवणे प्रवर्तते, तेनाप्याद्यशलोकत्रयपाठ- मात्रादेव नमस्कारः कृतो भवतीति प्रयोजनान्तरसम्भवात् तदुपादानमिति न कश्रिद् विरोधः । अथ पदार्थः- चिद्ध- न इति चैतन्यघनः, चैतन्यसारः, चिन्मात्र इति यावत् । "अथैष एव परमानन्दोऽनन्तरोऽपारो विज्ञानघन" इत्यादि- श्रुतेः, "आद्यन्तरहितं शुद्धं चिदानन्दमयं शिवम्"
25
Page 26
प्रथम: परिच्छेद: । ३
इत्यादिस्मृतेश्र भगवतः शम्भोश्रिद्रपत्वं सिद्धम्। तथा शिवेन सूत्रकरत्रा 'चैतन्यमात्मे'त्यनेन प्रथमसूत्रेणात्मनश्रैतन्यरूपत्व- मुपवर्णितमित्युपपन्नं चिह्न इति। एक इति अद्वितीय इत्यर्थः। 'एकमेवाद्वितीयम्', 'अहमेकः प्रथममासं वर्तामि च भविष्यामि च । नान्यः कश्चिन्मत्तो व्यतिरिक्तः' इत्यादिश्रुतेः। तथा 'एको रुद्रो न द्वितीयाय तस्थुरि'ति श्वेताश्चतरे। 'एक एव रुद्रो न द्वितीयाय तस्थे' इति त्रैयम्बकाध्याये। नलिरुद्रे च-'सर्वो रुद्रस्तस्मै रुद्राय नमोऽरित्व'त्यादिनाद्वितीयत्वप्रतिपादनादु- पपन्नं शिवाद्वितीयत्वमिति। न च प्रत्यक्षादिप्रमाणरनेकार्था- वभासादनुपपन्नं शिवाद्वितीयत्वमिति वाच्यम्। एकस्याप्यव- स्थानभेदेनानेकधा भासनोपपत्तेः।यथैकस्यैव मृत्पिण्डस्य घ- टशराव कुम्भकुड्यमृदङ्गाद्यात्मनावस्थानभदवशेनानेकधा भा- सनं, सुवर्णपिण्डस्यैकस्यैवाङ्गुलीयकरुचककटकमकुटाद्यव- स्थानभेदवशेन, एवमेकस्यैव सतो रुद्रस्य घटः सन् पटः सन् कुसूलः सन् अस्तीत्यादिप्रत्यक्षतोऽखिलरूपतयाव- भासस्य 'एकं सद् विप्रा बहुधा वदन्ति', 'एक सन्तं बहुधा
पपद्यत इति न प्रत्यक्षादि(विरोध)सम्भवः । अपौरुषेयतयास- स्भवद्दोषेण स्वतःप्रमाणभूतेन प्रबलेन वेदराशिना शिवाद्विती- य(त्व)स्य सिद्धत्वात् तद्विपरीतदुर्बलप्रत्यक्षादिसिद्धानेकत्वस्य बाध्यत्वाच्च। तथाहि वेदवाक्यानामपौरुषेयत्वं प्रतिपाद्यते। तेनाप्रामाण्यकारणानामज्ञानरागद्वेषादीनां वेदवाक्येऽसम्भवा- दप्रामाण्यासम्भवः । न हि शब्दे स्वतो दोषः सम्भवति
26
Page 27
४ तत्त्वप्रकाशे सव्याख्ये आप्तानाप्तवाक्ययोः प्रामाण्याप्रामाण्यनियमसम्भावनात्।न हि वक्तृगतदोषतदभावानुसारं बिना स्वतो दोषगुणाभ्यां प्रामाण्याप्रामाण्ययोरभ्युपगमे तन्नियमः सम्भवति, आप्त्यना- प्त्योस्तदकारणत्वात्। नित्यस्य वेदराशेरनाप्तकृतत्वाभावे- नाप्रामाण्यासम्भवात्, स्वतःप्रमाणत्वे सति तत्सिद्धशिवाद्दि- तीयत्वस्य प्रबलप्रमाणसिद्धत्वान्न प्रत्यक्षादिविरोधसम्भवः । न च कर्तभावेन गुणस्याप्यभावात् प्रामाण्यस्याप्यभाव इति वाच्यम्। व्युत्पन्नपदपदार्थस्य तद्ाक्यश्रवणसमनन्तरमेव त- दर्थविषयप्रमोत्पत्तेरुपलम्भात्। गुणसभ्भावश्च न प्रामाण्यका- रणम्, अप्रामाण्यकारणभूतदोषपरिहारार्थत्वादिति। तथा तत्परवेदसिद्धत्वाच्च शिवाद्वितीयत्वस्य न प्रत्यक्षादिबाधः । शिवाद्वितीयताप्रतिपादकस्य वाक्यस्य तत्र तात्पर्य षड्डिध- लिङ्गसन्भावादवगम्यते : तदुक्तं न्यायविद्वि :- "आदिमध्यान्तसङ्गानमभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ।" इति। एतानि लिङ्गानि रुद्राद्वितीयताप्रतिपादकश्रुतौ स- न्त्येव। तथाहि-'सर्वो वै रुद्रः', 'पुरुषो वै रुद्रः', 'सर्वो ह्येष रुद्र:' इत्यादिमध्यान्तसङ्गानाख्यं तात्पर्यलिङ्गमुपलभ्यते। तथा 'सर्वो वै रुद्रः', 'सर्वो ह्येष रुद्रः' इत्यसकृदुपदेशादभ्या- सलक्षणं च तात्पर्यलिङ्गं सिद्धम्। तथा 'विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं चयत् । सर्वो ह्येष रुद्रः' इत्या- दिश्रुतेरज्ञातार्थत्वरूपं च तात्पर्यलिङ्गं सिध्यति। तथा 'तमेवं विद्वानमृत इह भवति', 'विद्यया विन्दतेऽमृतम्', 'आत्मा
27
Page 28
प्रथम: परिच्छेद. । ५ ज्ञातव्यः', 'तरति शोकमात्मवित्', 'न च पुनरावर्तते', 'भूय- श्ान्ते विश्वमायानिवृत्तिः', 'य एवैक उ्जवे सम्भवे च', 'य एतं विदुरमृतास्ते भवन्ति' इत्यादिभिः शिवात्मैकत्वज्ञानस्य फलश्रवणात् तत्प्रतिपादकश्रुतीनां तत्र तात्पर्यसिद्धिः। 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इति स्तुत्यर्थवादस- आावादेकत्वे तच्छ्रुतेस्तात्पर्य सिध्यति। तथा 'य एतस्मिन्नुदर- मन्तरं कुरुते, अथ तस्य भयं भवति' अविदुषरत्वथ तस्य भयं भवतीत्यादिनिन्दार्थवादसव्ावाच्च तत्सिद्धिः । तथा 'सर्वो वै रुद्रः' इत्यादिवाक्यसिद्धं रुद्रस्य सर्वात्मकत्वं वाक्या- न तरेण 'पुरुष एवेदं सर्व, यदत यच्च भव्यमि'त्यनेन विरु- ध्येत। तत्र 'पुरुषो वै रुद्रः' इत्यविरोधोपपादनादुपपत्याख्यं च तात्पर्यलिङ्गं सिध्यति। तथा 'सदेव सोम्येदमग्र आसीदि'- त्यादिवाक्यान्तरसिद्धसदृद्वितीयत्वविरोधं च परिहरद् 'रुद्रः सन्नि'ति वाक्यमुपपादकम्। तथा 'वेदाहमेतं पुरुषं महा- न्तम्' इत्यादिना 'नान्यः पन्था अयनाय विद्यते' इत्यन्तेन श्रुतिवाक्येन सिद्धमहापुरुषाद्दयत्वविरोधं च 'रुद्रः सन् मह(?)' इति वाक्यं परिहरदुपपादकम्। तेन सुतरां रुद्राद्वितीयत्वे- डस्याः श्रुतेस्तात्पर्यसिद्धिः । तदेतदनुवादसिद्धं शिवाद्वितीय-
र्याकारेण- त्वमाश्रयणीयम् । अन्यथा तदानर्थक्यादिति। तदुक्तमा-
"अज्ञातोऽर्थः फलवानसकृत् सम्भावितश्र दष्टान्तैः। पौर्वापर्यानुगतः श्रुतः कथं कथ्यते तथा नेति ॥" इति। तस्मान्न प्रत्यक्षादिना दुर्बलेन बाधावकाश इति।
28
Page 29
६ तत्त्वप्रकाशे सव्याख्ये प्रधान इति वा, 'नवा ओजीयो रुद्र! त्वर्दास्ति', 'भी- षास्माद् वातः पवते। भीषोदेति सूर्यः। भीषास्मादमिश्रेन्द्रश्च। मृत्युर्धावति पञ्चमः' इत्यादितत्तिरीयात् श्वेताश्वतराज्च सर्व- प्राधान्यं भगवतो महेश्वरस्य रुद्रस्यावगम्यते। तथाहि-'य एवैको जालवानीशत इशनीभि: सर्वान् लोकानीशत ईश- नीभिरि'त्यादि। "सर्वस्मादधिकत्वं ये न वदन्ति पिनाकिनः । साधारणं स्मरन्त्येनं सदारस्त्वं समाविश ।।" इत्युक्तं लैङ्गे पुराणे। तस्मात् तत्प्राधान्यं श्रद्धातव्यमिति। व्यापीति । व्यापोऽस्यास्तीति व्यापी, सर्वगत इत्यर्थः ! अगत्वा सर्वमूर्तसंयोगित्वं सर्वगतत्वम् । अगमनं च सर्वत्र- सन्ावाद गगनवदिति, 'आकाशवत् सर्वगतश्र नित्यः' इत्या- दिश्रुतेः, "स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च। वसत्येको महावीर्यो नानाभावसमन्वितः ।।" इत्यादिस्मृतेश्च। न चाकाशवदेवास्य जडत्वमिति वाच्यम् । चिद्रूपताप्रतिपादकश्रुतिविरोधात्। अथवा व्यापित्वं सर्वस्व- रूपत्वमेकत्वे हेतुतयोक्तम् । तञ्च "स इज्ज्योतिः स यजमान आसीत् सो मातरिश्रा स उदेति सूर्यः । स चन्द्रमा: स पृथ्वी जलाषः स आकाशो विश्वा भुवना विवेश ॥" १. 'म' स. पाठः. २. 'से' ग. पाठ :.
29
Page 30
प्रथम: परिच्छेदः । इति मूर्त्यष्टकप्रतिपादकलिङ्गसूक्तिश्रुतिसिद्धम्। नित्य इति। अविनाशीत्यर्थः। 'क्षरं प्रधानममृताक्षरं हरः' इति श्वेताश्वतर- श्रुतेः । कालत्रयव्यापित्वं वा नित्यत्वं तद्राहित्यं वा। 'सर्वेषु कालेष्वनुसन्ततात्मे'त्यादिश्रुतेः, 'परस्त्रिकालादकलो हि दृष्ट' इत्यादिश्वेताश्वतरश्रुतेश्र तदवगमः । सततोदित इति। सततं सर्वदा उदयः प्रकाशो यस्यासौ तथोक्तः । अनुदितास्तमित- प्रकाशः, स्वयंप्रकाश इत्यर्थः । 'अन्रायं पुरुषः स्वयंज्योतिः' (इति श्रुतेः), 'सर्वगः पुरुषः पर' इतीश्वरगीतास्मृतेश्र तदव- गमः । प्रभुरिति। कर्तृकर्मकरणादिसकलकारकार्थवाहित्वरू- पाप्रतिहतैश्वर्य प्रभुत्वम्। तच्च 'यथोर्णनाभिः सृजत्येवमेवासौ सृजती'ति श्रुतेः, "संसारहेतुः संसारो मोक्षहेतुश्च निर्वृतः" "प्रजायसे जनयसि जन्यसे मुहुः" इत्यादिस्मृतितश्र सिद्धम्। करणादिं बिना सकलकार्यजन- कत्वं वा। तच्च 'आत्मा वा इदमेकमेवाग्र आसीन्नान्यत् किञ्चन मिषत्। स ईक्षत लोकान्नु सृजा इति। स इमा- ल्लोकानसृजत' इत्यादिश्रुत्यवगतम्। निष्क्रियकर्तृत्वं वा। "यथा मणिरयस्कान्तसान्निध्यादुपकारकः ।
यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते। मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ।।" १. ्मकर्तृकर' ग. पाठः. २. 'ते स ज' ख. पाठ :.
30
Page 31
तत्त्वप्रकाशे सव्याख्ये
इत्यादिपुराणागमादवगतं तस्य तत्प्रभुत्वं, श्रमाद्यसम्भ- वात्। सव्यापारकर्तृत्वस्याप्रभुत्वरूपता च श्रमादियोगात्। तत्र हेतुमाह-शान्त इति । सर्वव्यापाररहितः शिवो यतः, अतोऽसौ प्रभुरिति । अथवा जगत्सृष्टिस्थितिध्वं- सादिकर्मसम्बन्धवशात् कर्मवश्यशरीरादिप्रसङ्गेन या संसा- रित्वप्रसक्तिर्भगवतः, साच निषिध्यते शान्त इति। स- रवकरियारहिततयोदासीनस्वभावस्य परमेश्वरस्य सर्वज्ञस्य न परगतकिक्या संसारसम्भव इति। "निष्कलं निष्क्रियं शान्तं निर्गुणं तं निरञ्जेनम् ।" इत्यादिश्रुतेस्तदवगमात्। तथा "पश्यन्ति ऋषयो मुक्ताः स्वात्मानं परमार्थतः । विकारहीनं निर्दुःखानन्दमात्मानमव्ययम् ।" इतीश्वरगीतास्मृतेश्र। मुक्त इति वा। "तदेकमजमव्यक्तं नित्यलुप्तमलुप्तद्क्" इत्यादिश्रुतेः, "अहं ब्रह्माव्ययः शान्तो निर्मूलो निष्कियोऽव्ययः। एकाकी भगवान् मुक्तः केवलः परमेश्वरः ॥ " इत्यादिस्मृतेश्र तदवगमः । जयतीति। सर्वोष्कर्षेण वर्तत इत्यर्थः। 'यस्मात् परं नापरमस्ति किश्चित्' 'अणोरणीयान् महतो महीयानि'त्यादिश्रुतेस्तदवगमात्। "सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः । मनसश्राप्यहंकारः अहङ्कारान्महान् परः ॥ १. 'त स्व' ख. पाठः. २. 'न्तरम्' क. पाठः.
31
Page 32
प्रथम: परिच्छेदंः । महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ प्राणात् परतरं व्योम व्योमातीतोऽमिरीश्रवरः । ईश्वरान्न परं किञ्चित् ॥" इत्यादिस्मृतेश्र। (सो.स्वो)पासकानां श्रवणादुपजातपरमार्थ- दर्शने ज्ञानादेरभिभवादभिभवो वा जयतेरर्थः । तथा सर्वमा- त्मनो वशे कृत्वा वर्तत इति वशीकारो वा। तथा लयोदये निखिलकार्यजालं स्वात्मन्येव स्वीकृत्यास्त इति स्वीकारो वा। जगदेकबीजमिति। जगतः कालादेः कार्यजातस्य ए(तत्? कं) प्रधानं बीजं कारणं, मूलकारणमिति यावत् । अथवा जग- तामेकः कर्ता च बीजमुपादानं चेति जगदेकबीजं, निमि- च्ोपादानभूत इति यावत्। 'यतो वा इमानि भूतानि जा- यन्ते', 'यत् प्रयन्त्यभिसंविशन्ति', "एको रुद्रो मृत्युरव्यक्तमेकं बीजं विश्वमेकः स एव" इत्यादिश्रुतेः, "अस्माद्वि जायते सर्वमत्रैव प्रविलीयते" इतीश्वरगीतास्मृतेश्र परमेश्वरस्य जगदुपादानभावो गम्यते। तथा 'द्यावाभूमी जनयन् देव एकः', 'भुवनस्य पितरं गीर्भिराम: स विश्वकृद्विश्चविदात्मयोनिः' इत्यादिश्रुतेः, 'सर्गकाले च करोति सर्गम्' इत्यादिस्मृतेश्र तस्य नि- मित्तभावोऽवगम्य इति मायाशरीरस्य परमेश्वरस्य जग- न्चिमित्तत्वोपादानत्वे सम्भवत इति न विकारित्वादिप्रसङ्ग: । सर्वानुग्राहक इति। सर्वेषां चेतनानामचेतनानां चानु- ग्रहं मोक्षादं करोतीति तथोक्तः। वक्ष्यति च-भुक्ति
32
Page 33
१० तत्त्वप्रकाशे सव्याख्ये मुक्तिमणूनामिति। ननु यदि स्वप्रयोजनार्थमनुग्रहकरणं, तर्हि सर्वान(न्द)त्वहानिः, तत्साध्यसुखस्य तदुत्पत्तेः प्राग(स)- त्वात्। स्वप्रयोजनाभावे तु प्रवृत्त्यसम्भवः । तदुक्तं न्याय- विद्ि :- "प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते। यदि प्रयोजनोद्देशो हीयेतानन्दरूपता ।।" इति। नैवम्। करुणया स्वभावती वा प्र(वृ)त्त्युपपत्तेः। ननु यदि करुणयानुग्रहकरणं, तर्हि मोक्षमेवासौ सृजेत्, न संसा- रात्मकं जगत्सर्जनं, तस्यान्याय्यत्वात् । तथाहि-दु :- खदर्शनपूर्वकं करुणया प्रवर्तमानानां तद्दुःखसंप्रहाणायैव प्र- वृत्तिरुचिता, न तहुःखसम्पादनाय। अतो न युक्तं दुःखा- त्मकं जगत्सर्जनम्। नैव(म्।अ)ज्ञाननिवृत्त्यात्मकस्यापवर्गस्य ज्ञानतत्कारणाद्यपेक्षत्वेन जगत्सर्जनोपपत्तेः। तथाहि-ज्ञानं तावदपरोक्षभूतमपवर्गकारणम् । आपरोक्ष्यं च निदिध्यासने- नाविद्यासंस्कारतिरस्कारे सत्युद्भवति। निदिध्यासनं च श्रव- णमननाभ्यां शिवात्मज्ञाने सञ्जांते सम्भवति। ते चान्तःक- रणशुद्धितः सज्जायेते। सा काम्यप्रतिषिद्धकर्मपरिहारेण नि- त्यनैमित्तिककर्मानुष्ठानाद् भवति। तदनुष्ठानं पशुसस्यराज- रक्षादिपूर्वकम्। अतो यदिदं तत् सर्व मोक्षशेषमिति न व्यर्थ जगत्सर्जनम्। कामनाश्रुतयश्रैहिकफलाः 'चित्रया यजेत प- शुकाम' इत्यादय ऐहिकफलनिविष्टचित्तान् विपान् वैदिक- मार्गे प्रवर्तयितुं प्रवृत्ताः, स्वर्गफलाश्र तदुत्सुकानिति । ये च शत्रुनाशोत्सुकास्तान् वैदिकमार्गे प्रवर्तयितुं श्येना-
33
Page 34
प्रथम: परिच्छेदः । ११ (चि? जि) रादभिचारकर्मविधयश्रेति। ततश्र विहितस्ानपा- पक्षयकर्मानुष्ठानान्वाधानाभिहोत्रादिना क्रमान्मनरशुद्िसम्भवे सति कामनानिवृत्तौ नित्यनैमित्तिककर्मानुष्ठानाद् आत्मवि- विदिषारूपान्तःकरणशुद्धयुद्धवे श्रवणमननाभ्यां शिवात्मज्ञाने संजाते निदिध्यासनाभ्यासादविद्यातत्संरकारापनयना(न)न्तरं शिवात्मापरोक्ष्ये सति मोक्ष इति। तदुक्तं मोक्षधर्मादौ - "सर्वत्र विहितो धर्मः स्वर्गः सत्यफलोदयः । बहुद्दारस्य धर्मस्य नेहास्ति विफला क्रिया॥" इति । अत्र ये महेश्वरनियुक्ते श्रौते स्मार्ते वा कर्मणि प्रवर्तन्ते, ते मुच्यन्ते। ये तु न प्रवर्तन्ते, ते संसरन्ति। तदु- क्तमैतरेयोपनिषदादौ-"एष पन्था एतत्कर्म तस्मान्न प्रमा- द्येत नातीयात् न ह्यत्यायत् पूर्वे येऽत्यायंस्ते पराबभूवुः इ- त्यादि। अनुग्रहस्वभावत्वाद्दा प्रवृत्तिः । तदा च तस्य कार- णापेक्षितया न सकलजगन्मोक्षप्रसङ्गः। तदुक्तं श्रीवायवीये - "अनुग्रहस्वभावत्वे न सर्वान्मोचयेच्छिवः । स्वभावोऽपि हि भावानां भाविनोरऽर्थस्य कारणम्।। न हि स्वभावतोऽसन्तमर्थ कर्तैव साधयेत्। यथा विकासयत्येव रविः पद्मानि भानुभिः ।। समं न विकसन्त्येव स्वस्वभावानुरोधतः । एवं पक्कमलानेव मोचयेन्न शिवः परान्॥" इत्यादि। शम्भुरिति। शं सुखं तस्मिन् भवतीति शम्भु:, स्वयमानन्दरूप इत्यर्थः । 'विज्ञानमानन्दं ब्रह्मे'त्यादि- श्रुतेः, 'आानन्दमजमव्यक्त निष्कलं तदुदाहृताम'त्यादश्चिर-
34
Page 35
१२ तत्त्वप्रकाशे सत्याख्ये गीतास्मृतेश्च तदवगमः। ननु शिवस्यानन्दमयत्वे प्रीत्यात्मक- सत्त्वगुणरूपत्वेन सगुणत्वात् परिणामादिदोषप्रसङ्गः । तथा- हि सांख्याचार्यरुक्तं- "प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिशुनवृत्तयश्च गुणाः ।।" इति। नैतम्। प्रीत्यानन्दशब्दयोर्भिन्नार्थत्वात्। तथाहि - विषयेन्द्रियसम्प्रयोगजन्यानित्यसातिशयसुखं प्रीतिशब्देनो- च्यते, सततैकरूपनित्यनिरतिशयात्मस्वभावसुखमानन्दशब्द- वाच्यगिति नोक्तदोषावकाश इत्येके। अन्ये तु सतत्वगुणे निर्म- ले पुण्यहेतुना विषयेन्द्रियसंप्रयोगेण परिणते नित्यसुखमेव प्रतिबिम्बितं प्रीतिशब्देनोपदिष्टम्। "एतस्यैवानन्दस्यान्योनि- भृतानि मात्रामुपजीवन्ती"ति श्रुतेः सत्त्वगुणस्ये न सुखात्म- ता, सुखप्रतिबिम्बाश्रयतया सुखरूपत्वाभिधानमिति मन्यन्ते॥ अस्य प्रथमश्लोकस्य सकलशास्त्रार्थसंग्रहरूपत्वाद् एतत्सूचितामिष्टदेवतास्तुतिमुत्तरश्लोकेन विवृणोति। अथवा इष्टदेवतास्तुतिच्छलेन निष्कलं प्राप्यं शिवतत्त्वमभिधाय त- त्प्राप्त्युपायभूतं सकलनिप्कलात्मकं तेजो ज्योतिरलिद्गादि- रूपेणावस्थितं स्तौति - नोदयति यन्न नश्यति निर्वाति न निर्वृतिं प्रयच्छति च। ज्ञानक्रियास्वभावं तत् तेजः शाम्भवं जयति ॥ २ ॥ इति। अयमर्थः-यत् तेजो नोदयति नाविर्भ- वत्यादित्यादिवत्। न च नश्यति नारतं गच्छति। निर्वाति न
१ . 'न्या भू' क. पाठ :. २. 'स्यासु' ख. पाठ :. ३. 'तिलिन्नात् लिप्रा' क. पाठ :.
35
Page 36
प्रथम: परिच्छेदः । १३ न मुच्यते। अज्ञानतन्मूलरागद्देषतत्प्रयुक्तप्रवृत्तिधर्माधर्मतद्द- श्यशरीरेन्द्रियाद्यभावेन संसाराभावात्। अज्ञानाभावश्र सर्व- जञत्वात्। अपक्षयलक्षणविनाशप्रतिषेधो वा निर्वाणं, नितरां वानम् अपक्षयः न्यूनत्वं, तन्नारिति, सततैकरूपत्वात्। तच्च नित्यत्वात्। निर्वृति प्रयच्छति चेति। निर्वृतिर्मुक्ति: तां प्र- यच्छति प्रददाति स्वोपासकानामिति। ज्ञानक्रियास्वभावं ज्ञस्तृकर्तृरवभावं तच्छाम्भवं शम्भोरिदं शाम्भवं तेजः इतरते- जोनिकरेभ्यः उक्तैः कारणैरुत्कृष्टमिति। अथवा, शाम्भवं ते- जो रूपं मन्त्रात्मकं विग्रहं, तत्प्राप्त्युपायभूतं सकलमिति या- वत्। जयतीति। सर्वस्मादुपरि वर्तत इत्यर्थः । कुतः, अस्य विग्रहस्येतरविग्रहवदुत्पत्तिनाशाद्यभावात्। तच्च वेदमयत्वाद् वेदस्य च नित्यत्वादिति ॥ २ ॥ एवं महेश्रवरं स्तुत्वा महेश्वरीं महादेववल्लभामखिलभु- वनजननी नित्यसहिताम् "एष ते रुद्रभागः सह स्वस्राम्बि- कया तं जुषस्व" इत्यादिश्रुतिसिद्धपूजास्तुत्याददिसाहित्यप्रद- र्शनाय फलाप्तये च स्तौति- शक्तो यया स शम्भुर्भुक्तौ मुक्तौ च पशुगणस्यास्य। तामेकां चिद्रूपामाद्यां सर्वात्मनास्मि नतः ॥ ३ ॥ इति। अयमर्थः-यया शक्त्या भगवान् महेश्रवरः पशु- गणस्यास्य भुक्तिप्रदाने मुक्तिप्रदाने च शक्त: समर्थो भवति, तां नतोऽस्मीति महेश्वरीस्तुतिकर्तव्यता प्रतिपादिता। तया विना भगवतोऽनुग्राहकत्वासंभवात् । तथाहि - शिवस्य
36
Page 37
१४ तत्त्वप्रकाशे सव्याख्ये सर्वगतस्य केवलस्य निष्क्रियस्योदासीनतनोः पशुसमुदायं प्रति भुक्तिमुक्तिप्रदानासंभवाच्छक्तिमत एव तत्प्रदानोपप- त्तिः । अतः शक्तिसहितस्यैवानुग्राहकत्व्रमिति। एकामि- ति । अद्वितीयामित्यर्थः । ननु शिव एव सर्वमिति पूर्व शि- वाद्वितीयत्वं प्रतिपादितम् । अतः कथामेहाद्वितीयतावाचो- युक्तिरिति चेत्। सर्वस्यापि वस्तुनो देवीदेवात्मकत्वसद्भ्ा- वेनोभयाद्वितीयतावचनोपपत्तेरिति ब्रूमः । तथाहि -केव- लात्मावस्थानलक्षणस्यापवर्गस्य तावच्चिदानन्दरूपतया दे- वीदेवामता विद्यते। मोक्षस्यानन्दरूपत्वाभावे पुरुषार्थता हीयेत, सुखस्यैव मुख्यपुरुषार्थत्वात्। न च दुःखाभावस्यापि पुरुषार्थतयापवर्गस्यानन्दरूपत्वाभावेऽपि दुःखसंस्पर्शविरहेण पुरुषार्थत्वसंभव इति वाच्यम्। दुःखाभावस्य सुखानुग- णतया पुरुषैरथर्यमानत्वेन मुख्यपुरुषार्थन्वाभावात्। त- स्मात् सुखस्यैव मुख्यपुरुषार्थत्वेनानन्दरूपतापवर्गस्याश्रय- णीया। सा चाननुभूयमानो न पुरुषार्थतां भजत इति तद- नुभवोऽप्याश्रयणीय इति सुखचिदात्मको मोक्ष इति तस्य देवीदेवात्मकत्वसिद्धिः । तत्र परमानन्दसंविद् देवी संविदा- नन्दो देव इति, 'एषा विद्या ह्यहं वेद्य' इति पुराणागमात् तदवगमः । तथा देवीमन्त्रकल्पे चोक्तम्- "आदिनाथ ऋषिश्छन्दो दैवी गायत्रि उच्यते। देवता परमानन्दसंविदत्रोपदिश्यते ॥" इति। भुवनेश्वरीकल्पे च- १. 'ना पु' ख. ग. पाठ :.
37
Page 38
प्रथम: परिच्छेद: । १५ "बोधस्वरूपवाची संवित् प्रोक्ता च देवता गुरुभिः" इति। तथा 'विज्ञानमानन्दं ब्रह्मे'त्यादिश्रुतेश्र तदवगमः। "यानुभूतिरजामेयानन्तात्मानन्दविग्रहा। महदादिजगन्मायाचित्रभित्ति नमामि ताम् ।।" इत्यभियुक्तवचनाच्च तदवगमः । न च संवित्सुखे पर- स्परमात्मनश्च भिन्ने आत्मगुणरूपे इति वाच्यम्। 'चि- दानन्दात्मकः शिवः' इत्यादिश्रुतिविरोधाद, भेदाभ्युपगमे तङ्गुणत्वासंभवप्रसङ्गाच्च। ननु चिदानन्दयोरभेदेऽन्यतस्त- दनुभवासंभवात् स्वयंप्रकाशतया मोक्षसंसारयोरवि शेषप्रस- ङ्ग: । नैवम्। संसारावस्थायां जपासन्निहितस्वयम्प्रभस्फ- टिकवदात्मनोऽसत्केल्पतयानन्दानुभवासंभवेनाविरोधादिति। तदिदमानन्दं व्रह्मणो रूपम्। तच्च मोक्षेऽभिव्यज्यत इति श्रुतिसिद्धम् । नन्वस्तु शुद्धतत््वस्य देवीदेवात्मती। कार- णैतत्वस्य मायाशबलितस्य कथं देवीदेवात्मतेति चेतू । नि- मित्तोपादानभावेनावस्थानादिति ब्रूमः। तदुक्तं लैङ्रे- "अस्याष्टमूर्तेः शर्वस्य शिवस्य गृहमेधिनः । गृहिणी प्रकृतिर्दिव्यों प्रजाश्च महदादयः ।" इति। कार्यतत्त्वस्य चात एवें चिदचिदात्मतया देवीदेवरू- पत्वम्। तथार्चं भूतानां चतुर्दशविधानां देहदेह्यात्मना है- रूप्याद् देवीदेवात्मता। ननु भूतानां कथं देवीदेवात्मकत्वम्। तद्विभूतित्वादिति बरूमः । तथाच बृहदारण्यकश्रुतिः-"ए-
१. 'ङ्क' ग. पाठः २. 'क' ख. पाठः. ३. 'णशब्दस्य मा', ४. 'न्य' ग. पाठ :. ५. 'व चिदा', ६. 'हि' क. पाठ :.
38
Page 39
१६ तत्त्वप्रकाशे सव्याख्ये काकी न रमते। स द्वितीयमैच्छत्। स हैतावानास। पुंसत्वं स्त्री- त्वं चापातयत्। पतनात् पतिः पत्नी च। सा गौरभवत्। ऋषभ इतरः। ताभ्यां गावः । सा बडवाभवद्श् इतरः। ताभ्यामश्वाः" इत्यादिवाक्यैरखिलजन्त्वात्मना देवदेव्योर्जगत्कारणयोरव- स्थानावभासादखिलस्य तद्विभूतित्वसिद्धिः । मानवे च - "द्विधाकृत्वात्मनो देहमर्धेन पुरुषोऽभवत्। अर्धेन नारी तस्यां च विराजमसृजत् प्रभुः ॥" "पुल्लिङ्मखिलं देवः स्त्रीलिङ्गं परमेश्वरी।" इति लैङ्गवचनाच्च तत्सिद्धिरिति। महेश्वरीमहेश्वरयोर्भेदा- भावेनोभयाद्वितीयत्ववचनम्। तथाहि-एकमेव शिवतत््वं
विध्यदर्शनेनास्यापि भावतयान्यतमरूपप्रसक्तौ तन्नियाम- कासंभवात्। तथाहि-शिवतत्त्वस्य स्त्रीत्वनपुंसकत्वयोर- भावेन घटस्य घटशब्देनेव महेश्वरशब्देन पुल्लिङ्गेन व्यवहा- रः । न च पुंस्त्वसन्भ्ावाद् घटस्य घटशब्देन व्यवहार इति वाच्यम्। पुस्त्वस्यात्यन्तमत्रानुपलम्भात्। तथापि तस्य सत्त्वा- भ्युपगमे शशविषाणादेरपि सत्त्वप्रसङ्गः । तथा पुंसत्वनपुंस- कत्वयोरप्यभावाच्छिवेति स्त्रीलिङ्गशब्देन व्यवहारः। न च तस्य स्त्रीत्वसन्भ्ावादिति वाच्यं, शालामालादिशब्दानां तद- भावेन स्वार्थे वृत्त्यभावप्रसङ्गात्। न च घटादौ स्त्रीलिङ्गश- ब्दस्यापि प्रवृत्तिप्रसङ्ग इति वाच्यं, पङ्कजशब्दस्येव कचि- देव प्रवृत्तेरिष्टत्वात्। एवं पुंरत्वस्त्रीत्वयोरप्यभावाच्छिवत- १. 'स्वभावा' क. पाठ :.
39
Page 40
प्रथम: परिच्छेद: । १७ स्वस्य नपुंसकलिड्गेन ब्रह्मेत्यनेन शव्देन व्यवहारः, न च नपुंसकत्वसन्भावात्, कुण्डमित्रादिशब्दानां तदभावेन स्वार्थे वृत्त्यभावप्रसङ्गात्। तथा पुरुषादिशव्दानामितररूपासत्वाद् निमित्तात् प्रवृत्तिर्ज्ञया, लाघवस्य सभ्वावादात्मनि च पुं-
भावादुपपन्नमुभयाद्वितीयत्ववचनमिति। तदुक्तं बृंहण्यां- "शिवो देवः शिवा दवी शिवं ज्योतिरिति त्रिधा। अलिङ्गमपि यत्तत्वं लिङ्गभेदेन कथ्यते ॥" इति। भगवता श्रीवादरायणेन सनत्सुजाते चोक्तं - "सा प्रतिष्ठा तदमृतं लोकास्ते व्रह्म तद् यशः। भूतानि जज्ञिरे तस्मात् प्रलयं यान्ति तत्र च ।।" इति। पुंस्त्वाद्यभावश्र "नैव स्त्री न पुमानेष नैव चायं नपुंसकः" इत्यादिश्वेताश्चतरश्रुतेः, "न च स्त्री न पुमानेष न चैवेदं नपुंसकम्" इत्यादिश्रीवायवीयागमाच्च सिद्धः । कथं तर्हि भेदेन नमस्कार इति चेतू। शिवोपलक्षितशक्ते: शक्त्युपलक्षितशिवाद् भेदोपप- चेरिति ब्रूम:। शक्तिशक्तिमतोरभेदादद्वितीयतोपपत्तिः । न च धर्मधर्मिभावेन शक्तितद्वतोरभेदासंभव इति वाच्यम्। केवल- भेदाभ्युपगमेऽस्यायं धर्म इति व्यपदेशाभावप्रसङ्गात्। न च स- म्बन्धसन्ावात् तदुपपत्तिरिति वाच्यम्।सम्बन्धस्यापि संब- न्धान्तराभ्युपगमेSनवस्थाप्रसङ्गात्। अनाश्रयणे च सम्बन्धस्य
१. 'स्त्वाहि' ग. पाठः. 1)
40
Page 41
१८ तत्त्वप्रकाशे सव्याख्ये सर्वसाधारण्येनास्यायमिति व्यपदेशाभावः । तस्माद् धर्मध- र्मिणोरभेदोऽम्युपगन्तव्य इति, कथच्चिद् भेदस्यापि सद्भावेन भेदव्यवहारो मुखोदरादिभेदव्यवहारवदिति। शिवशक्त्यो- रभेदे हेतुमाह- चिद्रूपामिति । शिवश्रिह्ननः, (इ)यं च चिद्रूपा चित्स्वरूपा चिन्मात्रेति न तयोर्भेद इति। अयमर्थः शैवरहस्ये चोक्त :- "अग्न्योष्ण्यवदद्वैधं द्वैधं च मिथः कथञ्चन दधाते। शक्तिशियौ वस्त्वैक्यं मणिप्रभावद् यतो युक्तम् ।।" इति। आद्यामिति । अखिलकारणतया प्रथमोह्मतामित्यर्थः। वक्ष्यति च - 'चिदचिदनुग्रहहेतोरि'ति । सिद्धान्तहेदये चोक्ं- "सिसृक्षोराध्य उन्मेषः शक्तिसाम्यात्मकोऽस्य यः। तदुपाधि: शिवः शक्तितत्त्वमित्यभिधीयते ।" इति। सर्वात्मनास्मि नत इति। मनसा वाचा कर्मणा प्रप- न्नोऽस्मीत्यर्थः ॥ ३ ॥ एव मिष्टदेवतास्तुत्यादिना निरस्तसमरतान्तरायः शा- स्त्रकर्ता विषयसंबन्धप्रयोजनवच्छास्त्रं कर्तु प्रतिजानीते - लोकानुग्रहहेतोः करुणारसनिर्भरेण चित्तेन। तत्त्वप्रकाश एप क्रियतेऽस्माभि: समासेन । ४ ॥ इति। लोकानुग्रहहेतोरिति। लोकानां पशूनामनुग्र- होऽपवर्गः, तदर्थमिति प्रयोजननिर्देशः। तदनभिधाने शास्त्र- स्याग्रहणं स्यादिति। तदुक्तं भगवता भट्टपादेन - "सर्वस्येव हि शास्त्रस्य कर्मणो वापि कस्यचित्। ववत् प्रयोजनंनोक्तं तावत् तत् केन गृह्यते ॥"
41
Page 42
प्रथम: परिच्छेदः । १९ इति। वक्ष्यति च-'चिदनुग्रहरत्वयं किल' इति। लोका- नुग्रहहेतोः एप तत्त्वप्रकाश इत्युक्ते: शास्त्रपयोजनयोः सा- ध्यसाधनभावसम्बन्धसिद्िः, अन्यथा तादर्थ्यासम्भवात् । तत््वानि प्रकाश्यन्ते प्रदर्श्यन्ते येन शास्त्रेण स तत्त्वप्र- काश इत्यनेनास्य शास्त्रस्य विपयः प्रतिपादितः। तत्वाना- मत्रे प्रतिपाद्यमानतया विपयत्वात। ननु च शास्त्रात् प्रति- पाद्यमानतत्त्व्रविपयज्ञानमुत्पय्यते । अतः कथमस्यापवर्ग- साधनत्वमिति चेदुच्यते। ततत्त्रज्ञानस्यावान्तरव्यापारत्वेन शास्त्रस्य तत्साधनत्वोपपत्तेः । तथाहि -शास्त्रश्रवणात् तत्त्वज्ञानं शास्त्रविषयमुत्पदयते। तस्मिन् सत्यज्ञानान्यथाज्ञा- नयोर्निवृत्तिः। ततस्नन्मूलरागाद्यभावः।ततस्तत्कार्या प्रवृत्ति- र्निवर्तते। ततो धर्माधर्मयोरनुत्पत्तिः । पूर्वोत्पन्नयोः सश्चि- तयोः दीक्षाकर्मणा विनाशः। आरब्धकार्ययोस्तयोरस्तशरवद् विनियुक्तत्वादुपभोगादेव प्रक्षयः । ततः शरीरादयुपाधिविरहा- ज्ीवात्मनः शिवस्त्रभावस्य घटाकाशस्य तदुपाधिघटविनाशे परमाकाश इव परमेश्वरे शिवे लयोऽपवर्गाख्यो भवतीति । एतदुक्तं श्रीकौर्मे- "घटाकाशमिवाकाशे सरित्तोयमिवार्णवे। जीवो मे बिलयं यातु शिवाख्ये परमात्मनि॥" इति। शिवधर्मोत्तरे च - "जगतस्तत्त्वसंबोधादज्ञानं विनिवर्तते। अज्ञानविनिवृत्तौ च रागादीनामसम्भवः ।। १. 'ध' क. पाठ:
42
Page 43
तत्त्वप्रकाशे सव्याख्ये रागादुपशमात् पुंसां पुण्यपापपरिक्षयः । ततक्षयाच्च शरीरेण न पुनः सम्प्रयुज्यते ।। अशरीरं च संक्केशैः सवैरव न बाध्यते। क्केशमुक्तः प्रसन्नात्मा मुक्त इत्यभिधीयते ॥" इत्यादि। तस्मात् शास्त्रात् तत्त्वज्ञानद्वारेणापवर्गो भवतीति सिद्धम् । ननु च यद्यस्मादेव शास्त्रात् तत्त्वज्ञानोत्पत्तिः, तर्हि शास्त्रकर्तुस्तत्त्वज्ञानोभावप्रसङ्ग:, प्राक् शास्त्राभावात्। न न शास्त्रकरणानन्तरं तच्छ्रवणात् तस्य तत्त्रज्ञानमिति वाच्यं, तज्ज्ञानाभावे तत्त्वप्रतिपादकशास्त्रकर्तृत्वस्यैवासम्भ- वात्। न ह्यज्ञातेऽर्ये शब्दप्रयोगो घटत इति। नैतदेवम्। किरणपारमेश्वरादिपु तत्वानां प्रतिपादितत्वेन तच्छ्रवणात् त- स्य तत््वज्ञानोपपत्तेः। न चास्मदादीनामपि तथा तत्त्वज्ञानो- पपत्तेरनारम्भणीयमिदं शास्त्रमिति वाच्यम्। अस्मदादनिां तथाविधप्रज्ञासामर्थ्याभावेन विप्रकीर्णतया विस्तरेण च प्रतिपाद्यमानतत्वविषयज्ञानस्याशक्यसम्पादनत्वात्। अथ तत््वज्ञानस्यापवर्गसाधनत्वे समुत्पन्नतत्वज्ञानास्त्वनन्तरमेव मुच्यन्त इति शास्त्रकरणतद्याख्यानाद्यसम्भवाद अस्मदा- दनिां तत्वज्ञानासम्भवः । अथ शास्त्रकर्ता तदर्थमवतिष्ठत एवेति चेतू। न तर्हि तत्त्वज्ञानमपवर्गे साधनम् । तज्ज्ञान- सभ्भावेऽप्यपवर्गाभावादिति। नैष दोषः । शिवात्मज्ञानस्या- परोक्षभूतस्यापवर्गजनकत्वाभ्युपगमात् । तथाहि - श्रौते तत्वज्ञाने संजातेऽपि न भवत्यपवर्गः । निदिध्यासनसम्भवस्य
१. 'न' ग. पाठः
43
Page 44
प्रथम: परिच्छेदः । २१ ज्ञानापरोक्ष्यस्य तदानीमभावात् । श्रौते हि तत्वज्ञाने सं- जाते मननसापेक्षपुनर्निदिध्यासनसंभवं शिवात्मैकत्ववि- षयम् अपरोक्षज्ञानं देहादिविषयापरोक्षभूताज्ञाननिरसना- त्मकमपवर्गमुपजनयति। तच्चापरोक्षभ्रमस्य परोक्षज्ञानेन नि- वृत्त्यसंभवात्। स चोदीच्यामुदित आदित्य इत्यपरोक्षदि- गभ्रमस्य तदुदयपूर्वकपूर्वदिक्त्वानुमानेन निवृत्त्यदर्शनादव- गम्यते। पुनश्ाभ्यासवशादपरोक्षज्ञानोञ्जवे निवृत्तिदर्शना- च्चेति। तथाहि श्रुतयः श्रुतिशिरसि वर्तमाना एकमेवार्थमु- पपाद्यन्ति। तथा च 'अरे आत्मा द्रष्टव्य' इति निर्द्ा- रेणापवर्गसाधनं शिवात्मदर्शनमेव विहितम्। तदुपायत्वेन श्रवणमनननिदिध्यासनानि विधीयन्ते 'श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति। तेन न श्रवणमात्रजनितं विज्ञानमप- वर्गसाधनम्। किन्तु निदिध्यासनसम्भवं शिवात्मदर्शनमिति गम्यते। एषां श्रवणादीनां सद्वारेण निर्द्धारिण चात्मदर्शनं प्रत्यङ्गत्वं, "श्रोतृव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः। ज्ञात्वा च सततं ध्येयः" इति "एते दर्शनहेतव" इति सिद्धं च i अतो न शास्त्रक़- रणतद्याख्यानाद्यसंभवः, तत्त्वज्ञानिनां यावदापरोक्ष्यमवस्था- नाभ्युपगमादिति। न च शरीरादिव्यतिरिक्तात्मासत््वेनाधिका- र्यभावात् स्वर्गापवर्गफलदमिदं शास्त्रमनारम्भणीयमिति वा- च्यम्। शरीरादिव्यतिरिक्तस्य नित्यस्य जीवात्मनः सद्वावस्य
१. 'ति' क. ख. पाठ. २. 'चाद' स. ग. पाठ :. ३. तय जीकफाा
44
Page 45
२२ तत्त्वप्रकाशे सव्याख्ये
वक्ष्यमाणत्वात्। न च मोक्षतत्साधनप्रतिपादकशास्त्रान्तरस- म्भावनादनारम्भणीयमिदं शास्त्रमिति वाच्यम्। शास्त्रान्त- राणां शिवतत्वाप्रतिपादकानां "यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥" इत्यारणवाक्येन श्वेताश्वतरेणापवर्गहेतुताप्रतिक्षेपाच्छिवप्रति- पादकानां चेतरतत्वव्यावृत्त्यात्मकशिवज्ञानविधायकवाक्यै- रपवर्गहतुता प्रतिक्षिप्ता। तथाहि- द्विविधमिह शिवज्ञान- मपवर्गकारणम् इतरव्यावृत्त्या स्वरूपतश्चेति । श्रुतिस्मृत्यो- स्तथा विधानात्। 'आत्मा ज्ञातव्यः', 'प्रकृतितो विवेक्तव्यः', 'अन्यदेव तद्विदिताद् अथो अविदिताद्' इत्याद्याः श्रुतयः इतरव्यावृत्या, 'सत्यं ज्ञानमनन्तम्', 'आनन्दं', 'प्रज्ञानं ब्रह्मे'- त्यादयः स्वरूपतोऽपि विज्ञानं प्रतिपादयन्ति । "नायं पृथ्वी न सलिलं न तेजः पवनो नभः। न प्राणो न मनोऽव्यक्तं न शब्दः स्पर्श एव वा ॥ न रूपरसगन्धाश्र नाहंकर्ता न वागपि। न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः!॥। ने कर्ता न च भोक्ता वा न च प्रकृतिपूरुषौ। न माया नैव च प्राणश्चैतन्यं परमार्थतः ।।" इत्याद्याः स्मृतय इतरव्यावृत्त्या,
१. 'न च क' क. ख. पाठः.
45
Page 46
प्रथम: परिच्छेदः । २३
"आत्मायं केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः । अस्ति सर्वान्तरः साक्षी चिन्मात्रस्तमसः परः ॥" इत्याद्याः स्वरूपतः शिवात्मज्ञानं प्रतिपाद्यन्तीत्युभयथा विज्ञानस्याश्रयणीयत्वात्। तथाविधविज्ञानसाधनमिदं शा- स्त्रमारम्भणीयमिति सिद्धम्। करुणारसनिर्भरेण चित्तेने- ति। करुणायाः संजातो रसः करुणारसः अनुजिघृक्षा । अ- थवा करुणा चामौ रसश्नेति। तेन निर्भरं विशृङ्कलं यत् तत् करुणारसनिर्भरं, तेन। चित्तेन मनसा। न ख्यातिलाभपूजार्थ शास्त्रकरणं, किन्तु केवलं करुणानुन्नमानसैरस्माभिः क्रियत इत्यर्थः। आत्मनि गुरुषु बहुवचनविधानादस्माभिरिति बहुवचननिर्देशः । समासेनेति शैवागमेषु विप्रकीर्णतया वि- स्तरेण चोक्तानां तत्वानां मन्दबुद्यनुग्रहार्थ समासेन संश्ले- पणेन, संक्षेपेण वेत्यर्थः ॥ ४ ॥ तत्त्वप्रकाशः क्रियत इत्युक्तं, तत्रेदमाशङ्कते - कानि तानि तच्वानि, कियन्ति चेति। एकादिषट्त्रिंशान्तं बहुभिराचार्यैर्बहुधा तत्त्वानां प्रतिपादितत्वादाशङ्कासमुङ्भवः। तामाशङ्गामपनेतुमाह- शैवागमेषु मुख्यं पतिपशुपाशा इति क्रमात् त्रितयम्। तत्र पतिः शिव उक्तः पशवो ह्यणवोर्ऽर्थपश्चकं पाशः ।। शैवेति। अयमभिप्रायः-एकादिषट्त्रिंशान्तेषु त- स्वपक्षविशेषेषु सर्वेष्वपि मुख्यत्वादनभ्युपगमे दोषप्रसङ्गाच्च
१. 'वी' ग. पाठ :.
46
Page 47
२४ तत्त्वप्रकाशे सव्यारुये पतिपशुपाशात्मकत्रैविध्यमाश्रयणीयम्। तथाहि-पशोःसं- सारिणोऽनभ्युपगमे धर्माधर्मजन्ममरणसुखदुःखानुभवलक्षण- स्ये संसारस्य तन्निवृत्तिलक्षणस्य चाश्रयाभावादसत्त्वं, तत्प्रति- पादकश्चतिस्मृतीतिहासपुराणादेश्च निर्विषयतयाप्रामाण्यप्रस- इश्च स्यात्। तथा पाशानां संसारहेतुभूतानां मलकर्ममाया- ख्यानामभावे शरीरादेरभावे स्वर्गनरकगमनजन्ममरणादेरभा- वप्रसङ्ग: । आत्मनो निष्क्रियस्य तदखिलासंभवात् । तथा पत्युः परमेश्वरस्याभावे जगत्सृष्टिस्थितिध्वंसधर्माधर्मबन्धमोक्ष- विचागदेरसंभवः, जीवानामसर्वज्ञानां शरीररहितानां तदसं- भवात्। तस्मात् तत्त्वत्रैविध्यं सर्वेष्वपि पक्षविशेषेष्वभ्युपेय- मिति। ननु तत््वैकत्वद्वित्वपक्षयोः कर्थं तदाश्रयणम् । उपा- धिभेदकृतमेदसभ्भावादिति वरूमः । तथाहि-एकमेव जल- तत्त्वमुपाधिवशात् तरङ्गफेनबुद्दुदात्मनाप्रच्युतस्वस्वभावं यथा त्रैविध्यभागवगम्यते, तथायं शिवोऽप्यप्रच्युतस्वस्वभावस्त्रै- विध्यं पतिपशु(भावा?पाशा)त्मकमनुभवति। तदुक्तं शैव- रहस्ये - "अनुभवति हि पशुभावं शिव एवाणवतिरोहितात्मगुणः। सोऽपि मलो यः कश्चन शक्तिलवः सर्वथा शार्वः ॥" इति। प्रकृतिपुरुषात्मना हैविध्ये प्रकृतितदुपहितानुपहिता- त्मना त्रैविध्यसम्भव इति षट्त्रिंशान्तेपु चतुष्टयादिषु चेत- रतच्वानामत्रैवान्तर्भावात् तवैविध्योपपत्तिः। तथाहि-पत्यौ शुद्धानां तच्वानामन्तर्भावः । मायाकार्याणां शुद्धाशुद्धानां १. 'णाभ्यु' क पाठः. २. 'स्य त' ख. ग. पाठ :.
47
Page 48
प्रथम: परिच्छेद: । २५ "पत्यौ शिवस्वभावाः सर्वे सर्वात्मना प्रकाशन्ते । केचन पाशेषु पशुषु चान्तर्दधते निरवशेषम्।।" इति। अत एवास्य त्रितयस्य मुख्यत्वम्, अन्येषामत्रैवा- न्तर्भावाद्। अथवा क्रमान्मुख्यत्वमिति। ननु कथमेतद- वगम्यत इत्यत आह-शैवागमेष्विति । ते च- "कामिकं योगजं चिन्त्यं कारणं त्वेजितं परम्। दीप्तं सूक्ष्मं सहमं च अंशुमान् सुप्रभेदकम्॥ विजयं चैव निःश्चासं स्वायम्भुवमतः परम् । वीरं च रौरवं चैव मकुटं बिरमेलं तथा ॥ चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा। सिद्धं सन्तानसर्वोक्तं पारमेश्वरमेव च।। किरणं वातुलं चैव त्वष्टाविंशतिसंहिताः । मूलभेदमिति ख्यातमसंख्यमुपभेदकम् ।" एपूक्तत्वादिति। तथाहि पारमेश्वरे तावत - "पाशयः पाशयिता पाशास्त्रयमेतद् व्यवस्थितम्।" इति। किरणे च- "पशुपाशपतिज्ञानविचारप्रतिपादकम् । किरणाख्यं महत् तन्त्रम्" इत्यादि। श्रीवायवीये च- "अजडं च जडं चैव नियन्तृ च तयोरपि। पशुः पाशः पतिश्रेति कथ्यते त्रितयं क्रमात् ॥" शैवेति शिवप्रणीतत्वविशेषणेनागमानां प्रामाण्यं सूचितम। तथाहि-शिवस्य सर्वज्ञतयाज्ञानान्यथाज्ञानरागद्ेषादेरप्रा- १. 'च', २. 'दुमं त' ख. पाठ :.
48
Page 49
२६ तत्वप्रकाशे सव्याख्ये माण्यवाक्यरचनाहेतोरभावात् तद्रचितानामागमानां सिध्य- त्येत प्रामाण्यम्। न हि सर्वज्ञस्याज्ञानं संभवतीत्यज्ञाना- दप्रमाणवाक्यरचनेति वक्तुं न शक्यते। अज्ञानाभावा- देव तन्मूलरागद्वेषादेरभावात् तन्मूलाप्रमाणवाक्यरचना- सम्भवः । तस्मात् क्षीणदोषतयाप्तेन महेश्चरेण रचितानां प्रामाण्यसभ्ावात् तदुक्तप्रमेयतथात्वमभ्युपेयमिति। तदुक्तं शिवधर्मोत्तरादौ - "विधिवाक्यमिदं शैवं नार्थवादः शिवात्मकम्। लोकानुग्रहकर्ता यः स मृषार्थ कथं वदेत् ॥ सर्वज्ञपरिपूर्णत्वादन्यथी केन हेतुना। बूयाद् वाक्यं शिवः शान्तः सर्वदोषविवर्जितः ॥ यद् यथावस्थितं वस्तु गुणदोपैः स्वभावतः । यावत्फलं च यत् पुण्यं सर्वज्ञस्तत् तथा वदेत् ॥ रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत्। ते चेश्वरे न विद्यन्ते ्रूयात् स कथमन्यथा। अपास्ताशेषदोषेण सर्वज्ञेन शिवेन यतू। प्रणीतममलं वाक्यं तत् प्रमाणं न संशयः ।। तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता। यथार्थ पुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥" इति। नन्वीश्वरप्रणीततागमानां कुतोऽवगम्यते। तदागमैरे- वेत्ति चेत्। तदेतरेतराश्रयता। अथागमस्य प्रमाणभूतस्या- सकर्त्रपेक्षायां तदन्यस्यातीन्द्रियार्थदर्शिनः कर्तृत्वासंभवाञ्च
१. 'थोक्तेन' ख. ग. पाठ :.
49
Page 50
प्रथम: परिछेदः । २७
सर्वेश्वरस्य सर्वकर्तुः सर्वज्ञस्यागमकर्तृत्वं निश्चीयते इति चेत्। नैवम्। आगमप्रामाण्यानिश्चयादेवं कल्पनानुपपत्तेः। तथा आप्तान्तराप्रणीतत्वे प्रमाणाभावादतीन्द्रियार्थदर्शिनः कर्तृत्वाविरोधाच्च न शिवप्रणीतत्वविशेषणस्यार्थवत्त्वमिति। नैतदेवम्। आगमस्य प्रतिपत्तिसामेर्थ्यात्मकातू प्रमाणान्त- रात् प्रामाण्यसिद्धेः। तथाहि-द्विविधो ह्यागमः, दष्टार्थोऽद- ष्टार्थश्रेति। तत्र दष्टार्थानां चित्रायागविधायकवाक्यसट- शानां तदुक्तकर्मानुष्ठानेन तदुक्तफलसंभवदर्शनात् प्रामा- ण्यमनुमाय तत्कर्तुरतीन्द्रियार्थदर्शित्वेन परमाप्तत्वनिश्चयेऽन्ये- षामदृष्टार्थानामपि तत्कर्तृकतया दष्टार्थवाक्यवत् प्रामाण्य- मनुमीयत इति। न च पूजाजपादिविशिष्टकर्मणां विशि- प्टतत्तत्फलसाधनतामध्यक्षतोऽवगच्छन्नागमकर्ता भवेदेसर्व- ज्ञः, एतद्दर्शिनो ह्यदृश्यवस्त्वन्तराभावात्। न चानुमाना- दिममर्थमुपलभ्य तत्र वाक्यरचनेति वाच्यम्। व्यापिग्र- हणलिङ्गादेरसम्भवात् । अनुमानं हि लिङ्गलिङ्गिनो: प्रत्यक्षतो व्याप्तिग्रहणे सति लिङ्गमात्रदर्शनादुपजायमानं लिङ्गि- ज्ञानम्। तथाहि -प्रत्यक्षतो महानसादौ धूमाग्न्योर्लिंङ्ग- लिड्गिनोरविनाभावे गृहीते देशान्तरे पर्वतादौ धूमदर्शना- दग्न्यनुमानं प्रवर्तमानं द्ष्टम्। तदत्र फलकर्मणोः साध्य- साधनभावस्य लिङ्गलिङ्गनोः प्रत्यक्षतया लिङ्गानुपलम्भाच्च व्याप्तिग्रहणासंभवान्नानुमानसंभव इत्यनुमानमूलता नागमा-
१. 'म्यात्म' स. पाठ :. २. 'त् स' क, पाठः,
50
Page 51
२८ तत्त्वप्रकाशे सव्यरव्ये नाम्। नाप्यागमान्तरमूलता। तस्यापि पौरुषेयत्वेनागमा- न्तरमूलताभ्युपगमेऽनवस्थाप्रसङ्गात्। न च वेदव्यतिरिक्त- मपौरुषेयं वाक्यं पश्यमः, येन तन्मूलता कल्प्येत। तस्मा- न्नागमान्तरमूलतागमानाम्। न च योगिनामतीन्द्रियार्थद- शिनामागमकर्तृत्वमिति वाच्यम्। तेषां महेश्रप्रसादापेक्षस- रवज्ञतया तदुपायदीक्षापूर्वकपूजाद्यावेदकागमानां सभ्जावस्य पागेवाश्रयणीयत्वाद् जगत्कर्तुः शिवादन्यस्यागमकर्तृत्व- कल्पनायां गौरवापाताच्च स एवागमानामपि कर्तेति क- ल्प्यते। न च परस्परविरुद्धधर्मप्रतिपादकागमानां एकाप्तकर्त्र- भ्युपगमासंभवादनेकाप्तकर्तभ्युपगमप्रसङ्ग इति वाच्यम्। वर्णाश्रमाद्यधिकारिभेदवशेन वेद्यस्य चैकस्यैव शिवस्य करु- णानिधेर्विरुद्धधर्मोपदेशोपतत्तेरिति नेतरेतराश्रयत्वादिदोपः । न च लोकपरिग्रहे स्यादन्योन्याश्रयत्वमिति वाच्यम्। तस्य प्रामाण्यपरिज्ञानमूलत्वाभावातू। तथाहि-प्रथमं तावद् आ- गमान् विरचय्य ब्रह्माणं स्वसुतं महेश्वरो ग्राह्यामास। ततः स्वसुतान् ब्रह्मा, ततस्तेषपि स्वसुतानिति, वेदपरिग्रहवदा- गमपरिग्रहोपपत्तेनोक्तदोषावकाशः । ननु शिवप्रणीततयाग- मप्रामाण्यं पूर्वमुपवर्णितम्। संप्रति प्रतिपत्तिसामर्थ्यादिति पूर्वापरविरोध इति चेद्, न उत्पत्तिज्ञप्त्यपेक्षया उभयोर- प्युपपत्तेः । तथाहि- शिवप्रणीततयागमानां प्रामाण्यमुप- जातं तत्प्रतिपत्तिसामर्थ्येनावगम्यत इति न कश्विद्विरोधः । वेदमूलत्वाद्वागमप्रामाण्यम्। तदानीमपि शिवप्रणीत्वादागम- १. 'ति वे' ग. पाठ :. २. 'त्वमाग' ख. ग. पाठ:
51
Page 52
प्रथम: परिच्छेदः । २९ प्रामाण्यं द्रढयति, शिवद्ष्टस्य वेदार्थस्याबाध्यत्वादिति।सचा- गमो द्वेधा, प्रत्यक्षश्तुतिमूलोऽनुमेयश्रुतिमूलश्रेति। तत्र प्रत्यक्ष- श्रुतिमूलानाम् आगमानां प्रत्यक्षश्रुतिमूलवत् प्रामाण्यम्,अनु- मेयश्रुतिमूलानाम् अष्टकादिश्चुतिमूलवदिति आगमेपु प्रति- पाद्यमानानामर्थानां श्रुतिपूपालम्भात तन्मूलतागमानामव- गम्यते। तथाहि-'रुद्रोऽवश्यं यष्टव्य' इति श्रुतिवाक्याद् रुद्रयागकर्तव्यतावभासते। तत्र करणादिकं मन्त्रार्थवादाव- गतमागमैः प्रतिपाद्यत इति तन्मूलतागमानाम्। तथाहि- 'तमु प्ुहि यः स्विषुः सुधन्वा य' इत्यत्र पूजास्तुतिनमस्कारादे रुद्रगोचरस्य महत्सौख्यनामकापवर्ग प्रति हेतुतावगम्यते। 'अन्तरिच्छन्ती'त्यत्र ध्यानजपौ रुद्रविषयौ कर्तव्यौ इत्य- वगम्यते। 'यज्ञं रुद्राय मीढुषे' इत्यत्र पान्तं पानीयं सोमाख्यमन्धो हवी रुद्राय हरध्वमित्यवगम्यते। एवं शत-
सूक्तारणादिप्वागमप्रतिपाद्यमानानामर्थानां सभ्व्ावो द्रष्टव्य इति। अत्र प्रयोगा :- विवादपदं तन्त्रशास्त्रं प्रमाणं, यथार्थ- त्वात् सम्प्रतिपन्नवाक्यवत्। तथा तन्त्रेशास्त्रं प्रमाणम्, आ- सोक्तत्वात्, यद्यदाप्तोक्तं तत्तत्प्रमाणं, यथा पुराणादि, त- थेदमाप्तोक्तं, तस्मात प्रमाणम्। तथागमाः शिवप्रणीताः, तद- न्याजन्यकार्यत्वाद्, यद्यत् तदन्याजन्यकार्य तत्तच्छिवप्र- णीतं, यथा प्रपञ्चः । तथा चैते । तस्माच्छिवप्रणीताः । तन्त्रशास्त्रं कार्य, वेदान्यवाक्यत्वात्, यद्यद् वेदव्यतिरिक्तं वा- क्यं तत्तज्जन्यं दष्टम्। यथा भारतादि। न च प्रपञ्चस्य १. 'री', २. 'त्र' ख. पाठः, १. 'न्यताका' ग. पाठः,
52
Page 53
३० तत्त्वप्रकाशे सव्याख्ये शिवप्रणीतत्वासिद्धे: साध्यविकलो दृष्टान्त इति वाच्यम्। तस्योपरिष्टादुपपाद्यमानत्वात्। तथा तन्त्रशास्त्रं प्रमाणं, वेदमूलत्वाद्, मन्वादिस्मृतिवत्। तद् वेदमूलं च, तदु- क्तार्थप्रतिपादकत्वाद्, मन्वादिस्मृतिवदिति। अथ, शास्त्र- मप्रमाणम् अनाप्तकृतत्वात्, सम्प्रतिपन्नवदिति प्रत्यनुमान- बाधादोषप्रसङ्ग इति चेद्, नैवम् । विकल्पानुपपत्तेः । तथाहि-अनाप्तकृतत्वादित्यस्य कोर्ऽर्थः। यद्याप्तेनाकृ- तत्वम्, आहोस्विदनाप्तेन कृतत्वं, यद्याद्यः पक्षः, तर्हि वेदवाक्यैर्व्यभिचारः, तेषां प्रमाणभूतानामेवाप्तेनाकृतत्व- हेतोः सन्भावात्। असिद्धाश्रायं हेतुः, आप्तकृतत्वस्य साधितत्वात्। यद्युत्तरः पक्षः, तदा चातकृतत्वादेवासिद्धता। न चानाप्तरचिता आगमाः, वेदविरुद्धत्वाद् बौद्धाद्यागमन- दिति साधयितुं शक्यत्वान्नासिद्धतेति वाच्यम्। वेदार्थप्रतिपा- दकतया वेदमूलानामागमानां वेदविरुद्धत्वस्याप्यसिद्धत्वात्। तस्माच्छवागमेपूक्तत्रैविध्यादिकं मार्कण्डेयागस्त्यरामदधीचा- दिसकलशिष्टजनैः परिगृहीतत्वाच्चादरणीयमिति। पतिपशुपा- शा इति। पतिश्च पशवश्च पाशाश्चेति तथोक्ताः । के ते इ- त्याकाङ्क्षायामाह-तत्र पतिः शिव उक्तः पशवो ह्यणवो- ऽर्यपञ्चकं पाशः इति। तत्र तेषां मध्ये पशूनां पालनात् पतिशब्देन शिव उक्तोऽभिहितः । पशवोह्यणवः अणुत्वस- म्पादकमलादिसंबन्धिनः । शिवस्वभावा जीवा: पशवः न
१. 'क्या' क. पाठः २. 'उजी' ख. पाठ :.
53
Page 54
प्रथम: परिच्छेदः । ३१ चतुष्पाद एव, द्विपदां च पशुत्वश्रवणात्। तथाहि- "एतावन्तो वै पशवो द्विपादश्चतुष्पादश्च। यो वामिन्द्राव- रुणा द्विपात्सु पशुपु यो वा चतुष्पात्सु पशुष्वि"त्यादिश्रुतेः। तेषामीश्वरत्वाद् भगवतः शिवस्य पशुपतित्वं, "येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदामि"ति श्रतेः । लै- ड्ोपरिभागे च- "ब्रह्माद्याः स्थानरान्ताश्र देवदेवस्य धीमतः । पशवः परिकीर्त्यन्ते संसारवशवर्तिनः ॥ तेषां पतित्वाद् भगवान् रुद्रः पशुपतिः स्मृतः ।" इति। ननु केन कारणेन जीवात्मनां शिवस्वभावानां मला- दिपाशसम्बन्ध इति चेदुच्यते। मलपाशसंबन्धात् कर्मपाशसं- बन्धः। तत्संबन्धान्मायापाशसम्बन्धः। मलपाशसंबन्धस्य त्व- नादित्वेन न कारणापेक्षा। यस्य वस्तुनः आदिमत्त्वं तस्यैव हि कारणापेक्षित्वम्। अस्य त्वनादित्वान्न कारणापेक्षेति। तदुक्तं किरणे- "अनादिमलसंबन्धान्मलिनत्वमणौ स्थितम्। अनादिमलमुक्तत्वान्निर्मलत्वं स्थितं शिवे।। आदिमत्वं यदा सिद्धं निमित्तं कथ्यते तदा। ईद्ग्रूपं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः । विशुद्ध: स्फटिकस्तस्मात् ताम्रं सकालिकम्। (?) यथास्मिन्न निमित्तं स्यात् तथा न स्याच्छिवात्मनोः" इति। ननु तर्हि पशूनां शिवत्वाभावप्रसङ्ग इति चेतू। नैवम्। तेषां शिवस्वभावत्वे श्रुत्यादिप्रमाणसन्वावस्य वक्ष्यमाणत्वात्। अत एव पाशबद्धत्वात् पशुत्वम्। तेन किश्चित्कर्तत्वादि-
54
Page 55
१२ तत्वप्रकाशे सव्याख्ये नाणुत्वं, न परमाणुवदवस्थानात्। तेषामव्यापकत्वेन तदसं- भवादिति। अर्थपञ्चकं पाश इति । अर्थानां मलकर्मसूक्ष्म- स्थूलमायापाशानुग्राहकशिवशक्तीनां पञ्चकमर्थपञ्चकं, तत्पा- शाख्यं तत्वमिति। तदुक्तं- "मलं कर्म च माया च मायोत्थमखिलं जगत्। तिरोधानकरी शक्तिरर्थपञ्चकमुच्यते ॥" इति। ननु अर्थपञ्चकं पाश इतीह प्रतिपादितम् ! शा- स्त्रान्तरे तु पाशानां त्रैविध्यमुक्तमिति विरोधः । तथाहि- शैवरहस्ये तावत्- "सहजमनादि मलं स्यात् पाशेषु त्रिष्वपि प्रधानतमम् । कर्म च माया च मले सति पाशतया प्रवर्तते ॥" इति। प्रयोगमअ्जर्या च-'पाशास्त्रयो निगलयन्ती'ति। नैवम्। ईश्वरशक्ते: पाशानुग्राहितयैव पाशत्वाभिधानान्मा- यापाशस्य स्थूलसूक्ष्मात्मना द्वैविध्येन च पञ्चधा भेदाभि- धानादिति। अध्वपञ्चकं पाश इति केचित् पठन्ति। तदा- ध्वनां षण्णां तत्त्ववर्णमन्त्रभुवनपदकलानां पञ्चकमध्वपञ्चकं पाश इति। तदुक्तं सिद्धान्तहृदये- "शिवः पशुपतिः प्रोक्तः पशवो ह्यणवो मताः । ते पाशबन्धात पशवः पाशः स्यादध्वपञ्चकम्। अध्वानस्तत्त्वभुवनकलार्णपदमन्त्रकाः । यैरमी पुरुषा बड्ा: संसरन्ति भवाद् भवम् ॥
१. 'द्वा: प' ग. पाठ :.
55
Page 56
प्रथम: परिच्छेदः । ३३
मलादिजा: षडध्वानः तत्त्वाद्यास्ते च पञ्चधा । निवृत्त्यादिविभागेन तदुक्तं ह्यध्वपञ्जकम् ।" इति। गुरुदेवपद्धतौ च- "अथाध्वानां क्रमादेषां व्याप्तिः सम्यङ् निगद्यते। पृथ्वीतत्वं क्षवर्णश्र मन्त्रौ हृदयसदकौ ।। कालामिरपि कूश्माण्डहाटकौ व्रह्मवैष्णवे। रौद्रं च भुवनान्यन्तर्व्रह्माण्डस्य भवन्ति षटू। अण्डाद् बहिः शतं रुद्रा दशदिक्षु व्यवस्थिताः । कपालीशो ह्यजो बुढो वज्रदेहः प्रमेर्दनः॥ विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः । प्राच्यां दिशि - अम्नी रुद्रो हुताशश्र पिङ्गलः खादको हरः॥ ज्वलनो दहनो बभ्रुः भस्मान्तश्र क्षयात्मकः । आमेय्यां दिशि - यमो मृत्युर्हरो धाता विधाता च तथापरः ॥ कर्ता चैव च संयोक्ता नियोक्ता धर्म एव च । तद्वद् धर्मापतिस्तत्र दशमो दक्षिणे स्थिताः ॥ निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः। उर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्टिणः ।। नैर्ऋत्यां- १. 'त' ख. पाठ :-
56
Page 57
३४ तत्वप्रकाशे सव्याख्ये
बलो ह्तिबलश्चैव पाशहस्तो महाबलः । श्वेतोऽथ जयमद्रश्र दीर्घहस्तो बलान्तक: ॥ वारुण्यां मेघनादश्र सुनादश्र प्रकीर्तितः । शीघ्रो वायुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः ॥ पञ्ञान्तकः पञ्ञशख: कपर्दी मेघवाहनः । वायव्यां- निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः॥ लक्ष्मीधरो रत्नधरः श्रीधरश्र प्रसाधनः । प्रकामो दशमश्रेति कौबेर्यां दिशि संस्थितां: ॥ विद्याधिपेशसर्वज्ञा ज्ञानभुग् वेदपारगः। सुरेशशर्वज्येष्ठाश्र भूतपालो बलिप्रियः ॥ ऐशान्यां - विषो विषधरोऽनन्तः क्रोधनो मारुताशनः। न्यग्रोधोदुम्बरीशश्च फणीद्रो वज्रदंष्टिणौ।। अधोभागे -
संवाहश्र विवाहृश्च नभोलिप्सुस्त्िलोचनः ॥। तेषामुपरि रुद्राणां वीरभद्रो व्यवस्थितः । भद्रकाल्याश्र भुवनमेवमष्टाधिकं शतम् ॥ भुवनानि क्रमोक्तानि रुद्राणां स्वाख्यया पृथक्। मन्त्रावसानिकपदान्महादेवपदावधि।। विलोमतः पदानि स्युरष्टाविंशतिसंख्यया। इत्यध्वपञ्चकं षष्ठया निवृत्तिकलया समम् ॥
57
Page 58
प्रंथम: परिच्छेदः। ३५ व्याप्तं सश्चिन्तनीयं स्यादध्वषटकं विभागतः । आपोऽभिर्वायुराकाशो गन्धश्र रसरूपके ।। स्पर्श: शब्दृश्र वाक्पाणी पादपायुभगानि च। श्रोत्रं त्वक्चक्षुषी जिह्वा घाणश्रेतीन्द्रियाणि च।।
सर्वेषां त्रिगुणाथ स्यात् प्रकृति: कारणं परा ॥ त्रयोविंशतितत्त्वानि विलोमादिति संख्यया। हादिटान्तास्ततो वर्णास्त्रयोविंशतिसंख्यकाः ॥ शिरश्र वामदेवाख्यो मन्त्रौ तद्वत पुराणि तु। षटूपञ्चाशत् क्रमेण स्युरमरेशादिनामभिः ॥ अमरेशं प्रभासं च नैमिशं पुष्कराषढी। डिण्डिमुण्डिर्भारभूतिरित्यष्टावम्बुतत्त्वके ।। हरिश्रन्द्रश्च श्रीशैलो जल्पीशाम्रातकेश्वरौ। मध्यमेशो महाकालः केदारो भैरवस्तथा। भुवनाष्टकमित्येतत् तेजस्तत्त्वे व्यवस्थितम्। गया चैव कुरुक्षेत्रं नोखलं कनखलं तथा। विमलेशोऽट्टहासश्र महेन्द्रं भीमकेश्वरम् । इत्यष्टौ भुवनानि स्युर्वायुतत्त्वगतानि तु।। वस्त्रापदो रुद्रकोटिरविमुक्तो महालयः । गोकर्णो भद्रकर्णश्र स्वर्णाक्षः स्थाणुरित्यपि।। भुवनाष्टकमाकाशसंज्ञतत्त्वे व्यवस्थितम् । छगलण्डो द्विरण्डश्र मार्को गोमण्डलेश्वरः ॥
58
Page 59
३६ तत्त्वप्रकाशे सव्याख्ये
कालअरं दारुवनं शङ्ककर्ण स्थलेश्वरम्। परभ्य गन्धतन्मात्रमहङ्कारान्तमध्वनि।। स्थितानि भुवनान्यष्टावेतानि तु यथाक्रमम् । पैशाचं राक्षसं याक्ष गान्धर्व चैन्द्रसौम्यके।। प्राजेशं व्राह्ममित्येतद् देवयोन्यष्टकं धियि। अकृतं च कृतं चैव भैरवं ब्राह्मवैष्णवे।। कौमारमौमं श्रीकण्ठमिति योन्यष्टकं स्मृतम् । गुणप्रकृतितत्त्वे तु स्थिरमेतत् तु भौवनम् ॥ अष्टकैः सप्तभिस्त्वेवं षद्पञ्चाशद् यथाकरमम् । भुवनानि स्थितान्येवं पादान्यप्येकविंशतिः ।। महेश्वाराख्यात् प्रारभ्य स्यादरूपिन्पदावधि। एवं पञ्चविधाध्वा स्मात् प्रतिष्ठाकलया समम् ॥ षछ्ठया व्याप्तं विचिन्त्यं स्यात् पोढाध्वव्याप्तिरीदशी। अथ विद्याकलायां तु पुरुषो राग एव च।। अशुद्धविद्या च कला नियतिः काल एव च । माया च सप्त ततत्वानि वर्णसप्तकसंयुतम् ॥ अकारादि घकारान्तं शिखाघोरौ च मन्त्रकौ। वामादिभुवनानि स्युः सप्तविंशतिसंख्यया ॥ वामो भीमस्तथैवोग्रो भवश्रेशान एव च। एकवीरश्र पुरुषः षडेते भुवनेश्वराः ॥ प्रचण्डोमापतिश्चाजो ह्वयनन्तश्रैकरुद्रकः । रागतत््वे स्थितं त्वेतद् भुबनानां तु पञ्चकम्॥ १. 'नकं श्रीकमि', २. 'वा' क. पाठ :. ३. 'यो' ग. पाठः.
59
Page 60
प्रथम: परिच्छेदः । १७
करोधचण्डावशुद्धायां विद्यायां तु व्यवस्थितौ। नियत्यां ज्योतिसंवर्ती ततः सूकरसंज्ञितः ॥ पञ्चान्तकैकवीरौ च शिवदश्र कलागताः । महादेवो वामदेव उद्वश्रैकपिङ्गलः ॥ एकनेत्रस्तथेशानो भुवनेशस्ततः परः। अङ्गुष्ठमात्र इति चाप्यष्टावेते स्थलेश्वराः ॥ कालतत््वे च मायायां भौवनी सप्तविंशतिः । व्यापिन्निति समारभ्य ध्यानाहारपदावधि॥ पदानां विंशतिश्रात्र स्याद् विद्याकलयाखिलम्। व्याप्तं सञ्चिन्तयेदेवं षड्विधाध्वव्यवस्थिति: ।। अथ शान्तिकलायां स्याच्छुद्धविद्येश्वरावधि। सदाशिवश्च तत्त्वानि त्रीणि तस्यां स्थितानि हि। वर्णास्त्रयः स्युर्गखका मन्त्री कबचपूरुषौ। अष्टादशैव भुवनान्यत्र वामादिसंज्ञया।। वामा ज्येष्ठा च रौद्री च काली कलविकारिणी। बले'विकरणी चैव बलप्रमथिनी तथा॥ सर्वभूतदमन्येका नवमी तु मनोन्मनी। शुद्धविद्याहये तत्त्वे स्थितान्येवमनुक्मात्।। अनन्तेशश्च सूक्ष्मश्र ततश्चापि शिवोत्तमः । एकनेत्रश्रैकरुद्रस्त्रिमूर्तिस्तु तथापरः ॥ श्रीकण्ठश्र शिखण्डी च भुवनानीश्वराह्ये।
१. 'व' ग. पाठः २. 'ल' क. पाठः.
60
Page 61
३८ तत्त्वप्रकाशे सव्याख्ये सदाशिवाख्यं भुवनं स्थित तत्वे सदाशिवे।। पदान्येकादशात्रैव नित्ययोगिन आदितः । व्योमव्यापिपदान्तानि स्थितान्येवं तु पञ्चधा।। षष्ठया तु शान्तिकलया व्याप्तान्येवं विचक्षणैः। षड्डिधाध्वमयी व्याप्तर्बोद्धव्या क्रमशो भवेत् ॥ तथैव शान्त्यतीतायां शिवतत्त्वं व्यवस्थितम्। वर्णाः षोडश सर्गाद्याः स्वराः स्युस्ते विलोमतः ॥ अस्त्रेशानौ तथा मूलमन्त्रो मन्त्रा भवन्ति हि। निवृत्यादीनि भुबनान्यत्र पञ्चदशैव हि।। निवृत्तिश्र प्रतिष्ठा च विद्या शान्तिस्तथैव च। शान्त्यतीतेति हि कला: स्युर्बिन्दौ भुवनानि हि। इन्धिका दीपिका रोचिर्मोचिका चोर्ध्वगा तथा। भुवनानीति पञ्च स्युस्तानि नादकला: खलु ॥ व्यापिनी व्योमरूपा चाप्यनन्ता चाप्यनाथया। अनश्रिता चेति कलाः शाक्ताः स्युर्भुवनान्यपि । मन्त्रादयं प्रणवं यत् तद् विलोमेनान्तकं तु तत्। पदमेकं भवेदेवमध्वायं पञ्चधोदितः। शान्त्यातीतकलाव्याप्तं विद्यादित्यध्वनां क्रमातू। षड्डिधा व्याप्तिरुद्दिष्टा शैवागमविनिर्णयात्।। षडध्वज्ञानवान्मुच्येन्मोचयेच्च भवार्णवात। एकत्राध्वा ष्डिधैकादश स्यु- र्मन्त्रास्त्वेकं चाप्यशीति: पदानि ।
61
Page 62
प्रथम: परिच्छेद; ।
षदूत्रिशञ्चाप्यत्र तत्त्वानि वर्णाः पञ्चाशत् स्युः पञ्चसंख्या कलेति।। अथ पदोद्धार :- प्राक्पदं प्रणवं तत् स्यादेकवर्ण शिवात्मकम्। व्योमव्यापि चतुर्थ्यन्तं द्वितीयं पञ्चवर्णकम् ॥ तृतीयं व्योमरूपाय पञ्चार्णमपरं तथा। सर्वव्यापि चतुर्थ्यन्तं. शिवायेत्यथ पञ्चमम् ॥ त्र्यक्षरं च विजानीयात् पञ्चाङ्गानि शिवस्य तु। अनन्तायेत्यनन्तस्य वाचकं चतुरक्षरम् ॥ अनोथायेति सूक्ष्मस्य पदं स्याच्तुरक्षरम्। अनाश्रिताय पञ्चार्ण पदं शिवतमस्य तु॥ ध्रुवायेति पदं त्र्यर्णमेकनेत्रस्य कीर्तितम्। शाश्वतायैकरुद्रस्य पदं स्याच्चतुरक्षरम् ॥ योगपीठसंस्थिताय चाष्टार्ण तु त्रिमूर्तिनः । श्रीकण्ठस्य पदं नित्ययोगिने पञ्चवर्णकम्॥ ध्यानाहाराय पञ्चार्ण पदमेतच्छिखण्डिनः । नमःशिवायेति पदं षड्र्ण प्रणवादिकम् ॥ सर्वप्रभुश्चतुर्थ्यन्तं पञ्चार्ण पदसन्ततौ। शिवाय पदमन्यच्च चतुर्थ्यन्तं त्रिवर्णकम्। पदमीशानमूर्धाय षडर्ण मुनिसत्तम!। तदीशानस्य बोद्धव्यं सप्तार्ण पूरुषस्य तु।।
१. 'नन्ताये ग. पाठ:
62
Page 63
४० तस्वप्रकाश सव्याख्ये स्यात् तत्पूरुषवक्त्राय अघोरहृदयाय च। सप्तार्ण बहुरूपस्य तद्दद् वामस्य कीर्तितम् ।। स्याद् वामदेवगुह्याय सदयस्याप्यथ कथ्यते। सदोजातमूर्तयेति सप्तवर्णमुदीरितम् ॥ प्रणवादि प्रयोक्तव्यं पञ्चार्ण च नमो नमः । गुह्यातिगुह्याय पदं पड्र्ण ह्र्णकं परम् ॥ गोप्त्रे पदं चतुर्वर्ण मातङ्गे निधनाय तत्। अकारपूर्व पञ्चार्ण चन्द्रज्ञाने प्रकीर्तितम् ॥ सर्वविद्याधिपायेति पदं स्यात् सप्तवर्णकम् । सर्वयोगाधिपूर्व तु गतायेत्यष्टवर्णकम् ॥ ज्योतीरूपाय पञ्चार्ण पदमेतत् सुशोभनम्। परमेश्वरपूर्व तु परायेत्यष्टवर्णकम् ॥ अचेतनाचेतनेति सप्तवर्ण पदं विदुः । व्योमिन्व्योमिंश्रतुर्वर्ण व्यापिन्व्यापिंस्तथा पदम् ॥ अरूपिंश्र द्विरभ्यस्य षड्गर्ण पदमीरितम् । प्रथमेति द्विरभ्यस्तं पड्वर्णमपरं तथा। तेजस्तेज इति प्रोक्तं चतुर्वर्ण पदं विभो: । ज्योतिर्ज्योतिःपदं तह्वद् विज्ञेयं चतुरक्षरम् ॥ त्यर्ण पदमरूपाख्यं तथानसे पदं शुभम्। त्रिवर्ण स्यादधूमाख्यमभस्माख्यं तथा पदम्।। अनादे त्र्यर्णमुदिष्टं नात्रयं धूत्रयं तथा। ओंभूस्तद् व्यक्षरं ज्ञेयमोंमुवश्च त्रियक्षरम्।।
63
Page 64
प्रथम: परिच्छेद:। ओंस्वोवर्णदयं चानिधनाख्यं चतुरक्षरम्। निधनाख्यं त्रिवर्ण स्यात् पञ्चार्ण निधनोद्भवम्।। द्यक्षरं स्याच्छिवपदं ह्वर्ण शर्वपदं विभो: । परमात्मंश्रतुर्वर्ण महेश्वरपदं तथा ॥ चतुर्वर्ण समुदिष्टं महादेवपदं हि यत्। सन्भावेश्वरसंज्ञं तु पञ्चार्ण मुनिसत्तम!॥ महातेज इति प्रोक्तं पदं वर्णचतुष्ट्यम्। पदं पञ्चार्णमुद्दिष्टं योगाधिपतिसंज्ञकम् ॥ मुञचमुञ्च चतुर्वर्ण षड्वर्ण प्रमथात्मकम्। शर्वशर्वपदं चात्र बोद्धव्यं चतुरक्षरम्॥ भवयुग्मं तथा तद्वद् भवोभ्भवपदं पुनः। पदमष्टाक्षरं चान्यत् सर्वभूतसुखप्रदम्।। सर्वसान्निध्यपूर्व ते करान्तं सप्तवर्णकम्। पदमष्टाक्षरं ब्रह्मविष्णुरुद्रपरम्परम्। अनर्चितं द्विरभ्यस्तमष्टार्ण पदमुच्यते। असंस्कृतपदं तद्दत् पूर्वस्थितपदं तथा॥ साक्षिस्तुरूपदे तद्वच्चतुर्वर्णे द्विरुक्तितः । षट् पतङ्गपदे वर्णाश्रत्वारः पिङ्गसंज्ञके ॥। तद्ज्ज्ञानपदं शब्दसूक्ष्माख्ये चतुरक्षरे। व्यक्षरं स्याच्छिवपदं तथा शर्वपदं विभो: ॥ घयक्षरं सर्वदपदं प्रणवादि नमोनमः । पञ्चवर्ण शिवायेति त्रियक्षरमुदीरितम् ।। १. 'तुं दकारान्तं सव' ख. ग. पाठ :.
64
Page 65
तत्त्वप्रकाशे सव्याख्ये नतियुग्मं पञ्चवर्ण सतारं पदमुत्तमम् ॥।" इति॥ ५॥ ननु पशूनां शिवस्वभावतया पतिव्यतिरेकासम्भवात् त्तद्द्वैविध्यप्रसङ्ग इत्याशङ्गयाह- मुक्तात्मानो हि शिवा: किन्त्वेते तत्प्रसादतो मुक्ताः। सोऽनादिमुक्त एको विज्ञेयः पश्चमन्त्रतनुः ॥६॥ मुक्त्तेति। अयमभिप्रायः-मुक्तात्मनामेव शिवस्व- भावत्वम्। किन्तु तेषामपि मुक्ते: प्राङ् न शिवात्मता, ताम्रा- दे: स्वर्णस्वभावाच्छादक*कालिमाकल्पमलादिपाशप्रच्छादित- शिवस्वभावतया पशुत्वात् । अत एव ते तत्प्रसादतो मु- क्ताः । स शिवसत्वनादिमुक्तः । एक इति। एक एव नि- त्यमुक्त इत्यर्थः । कालत्रयेऽपि मलादिसम्बन्धरहितत्वात्। तदुक्तं श्रीवायवीये - "अनादिमलसंश्लेषप्रागभावात् स्वभावतः। अत्यन्तपरिशुद्धात्मेत्यतोऽयं शिव उच्यते ॥" इति। पश्चमन्त्रतनुरिति। नादबिन्दुपदवर्णवाक्यात्मना प- आात्मकसकलमन्त्रशरीर इत्यर्थः । मन्त्रस्वरूप इति वा । तस्योष्णिग्लोमानि त्वग् गायत्री त्रिष्टुम्मांसमनुष्टुबू स्नावान- स्थि जगती पङ्क्तिर्मज्जा प्राणो बृहतीत्यादिश्चतेः वैदिका- दिमन्त्राणां धातुमयत्वप्रतिपादनाच्छिवस्य मन्त्रशरीरत्वाव- गमः । अथवा प्रणववेदचतुष्कात्मना पञ्चात्मकमन्त्रतनुरिति। तदुक्तं लैङ्गादौ - * 'कालिका' इति स्थात्।
65
Page 66
प्रथम: परिच्छेदः । "ओंकाररूपमृग्वऋं सामजिह्वासमन्वितम्। यजुर्वेद महाग्रीवमथर्वोष्ठमजं विभुम् ॥" इति।बीजबिन्दुनादशक्तिशान्तात्मना पञ्ञात्मकप्रणवतनुरिति वा। "ओमिति ब्रह्म, ओमित्यथो योऽसौ तपती"त्यादिश्रुतेः। पश्चाक्षरतनुरिति वा, निवृत्त्यादिपञ्चतत्त्वतनुरिति वा, पञ्चब्- झतनुरिति वा। तदुक्तं लिङ्गो्जवे - "अथ दृष्ट्ा कलावर्णमृग्यजुस्सामरूपिणम्। ईशानमीशमकुटं पुरुषास्यं पुरातनम् ॥। अघोरहृदयं हृदं वामगुह्यं सदाशिवम्। सद्यपादं महादेवं महायोगीन्द्रभूषणम् । निष्कलं सूक्ष्ममव्यक्तं सकलं च महेश्ररम् । सर्गप्रतिष्ठासंहारलीलार्थ लिङ्गरूपिणम्॥ प्रधानं लिङ्गन्माख्यातं लिङ्गी च परमेश्वरः ।" इत्यादि। पारमेश्वरे घ- "पञ्चमन्त्रतनुः श्रीमान् सकलं परिपठ्यते। योगयोगीश्वरः स्वामी स्वतन्त्रः पशुपाशहा ॥ ईशानमूर्धा पुंवक्त्रो ह्यघोरहृदयः प्रभुः । उच्यते वामगुह्योऽयं सधमूर्तिर्महेश्वरः ॥ एवं मन्त्रास्तु पञ्चैते यैर्निबद्धा तनुः शिवा।" इत्यादि। तस्मादेवं विज्ञेयः विशेषेण भेदेन पशुभ्यो ज्ञेयः शिव इति। न च परमेश्वरवाचकस्य वेदमन्त्रादेर्वाच्यात पर-
१. 'सौ यो त' क. ख. पाठः. २. 'ष' ख. ग, पाठ:
66
Page 67
तत्त्वप्रकाशे सव्याख्ये मेश्वराद् भेदसभ्ावेन तस्य वेदमयत्वाभाव इति वाच्यम्। तयोर्भेदे वाच्यवाचकनियमाभावप्रसङ्गात्। न च सम्बन्धात् त- न्नियमः।सम्बन्धस्य सम्बन्धान्तराश्रयणादनवस्थादिदोषस्यो- क्तत्वात्। न च वाचकत्वशक्तिर्नियामिकेति वाच्यम्। तस्या- श्र वाच्याद् भेदसन्ावेऽन्यशक्तिवदनियामकत्वात् । शक्तेर्वा- च्यासाधारण्यमप्यभेदव्यतिरिक्तं न संभवतीति वाच्यवाचक- योरेवाभेदोऽभ्युपगन्तव्यः । किमनया शक्तिकल्पनया। न च वाच्यवाचकभावस्य भिन्ननिष्ठतया तयोरभेदेऽसंभव इति वा- च्यम्। गुणगुणिभेदवद् भेदस्याप्यत्र सद्भावात्। न च भे- दाभेदयोर्विधिप्रतिषेधरूपत्वेन विरोधादेकत्रासम्भवः । वाच्य- वाचकभावान्यथानुपपत्तिप्रमाणसिद्धत्वात्। तथा घटोऽयं पटोऽयं शब्दोऽयमिति वाचकसंपृक्तेा्थप्रतिभासाद् घटश- ब्दोऽयमित्यसंपृक्तशब्दप्रतिभासाच्च शब्दार्थयोरैक्यमाश्रय- णीयम्। अत एव तत्त्वादिवाचकमन्त्रविन्यासात् तत््वादिसा- न्निध्यमिति सर्वमवदातम् ॥ ६॥। ननु पतिसन्ावे प्रमाणाभावात् तत्त्वत्रैविध्यासंभव इत्याशङ्कयाह- पश्चविधं तत्कृत्यं सृष्टिः स्थितिसंहृती तिरोभावः। तद्ददनुग्रहकरणं प्रोक्तं सततोदितस्यास्य ॥ ७॥ पश्चेति। अयमर्थ :- सर्गस्थितिसंहारतिरोभावानुग्रहा-
१. 'क्रियत', २. 'द' ख. पाठः. ३. 'पामाणिकत्वा' क. पाठ :- :. 'क्ताव् प' ग. पाठ :. ५. 'त्यर्थसं' क. ख. पाठः
67
Page 68
प्रथम: परिच्छेदः । ४५
त्मना पञ्चविधं पञ्चप्रकारं तत्कृत्यं महेश्वरकार्य तस्मिन् प्रमाणं, तस्यैव कर्तु शक्यत्वादिति। न चान्यो जीवो माया वा जगत्सष्ट्यादिकं कर्तु शक्ोति। पशोरुपादानोपकरण- विनियोगकमज्ञानाभावाद, मायायाश्राचेतनतया तदसम्भ- वादिति। स सर्गः पञ्चविधः। भावतत्वभुवनभूतप्रत्ययात्म- सृज्यस्य पञ्चविधत्वात्। तदुक्तं शैवरहस्ये- "भोगेन परिणमयितुं कर्माणि घृणानिधिः पतिः सृजति। भावं तत्वं भुवनं (भूतं) प्रा(त्यै?त्ययि)कमपि सर्गम्।" इति। विस्तरत उपरिष्टादुपपाद्यते । स्थितिः पालनम्। सं- हृतिर्विनाशः, स्वेषु स्वेष्वसाधारणकारणेषु कार्यस्य लयः, सू- क्षमरूपेणावस्थानमिति यावत्। आत्मनां पाशैः प्रच्छादनं तिरोभावः । अनुग्रहकरणं मोक्षादि । ननु विरुद्धमिदमुक्तं पाशैरात्मप्रच्छादनद्वारेण संसारहेतुत्वम् आत्मप्रच्छादनमला- दिपाशनिरसनेनापवर्गप्रदानं चेति चेत्। नैवम्। विषयभेदे- नानयोरविरोधात। येषां साधनचतुष्टयसंपत्तिः, तान् प्रत्य- नुग्रहकरणम्। येषां तन्नारिति, तान् प्रति संसारहेतुत्वमिति। प्रोक्तं सततोदितस्यास्येति। कर्त्रा विनाकार्योत्पत्त्यसंभवाद- न्यस्य कर्तृत्वासम्भवाच्चास्य महेश्ररस्य सततोदितस्य स्वयंप्र- काशचैतन्यमात्रस्य परिपूर्णस्य निर्व्यापारस्योदासीनस्यापि साक्षिणः परमेश्वरस्य सृष्ट्यादिषु कर्तृत्वं प्रोक्तम् अभिहित- मित्यर्थः। तदुक्तं -
१. 'नंकरण' ग. पाठः. २. 'ते' ख. पाठः.
68
Page 69
४६ तत्त्वपकाश्चे सव्यारये
"यथा ह्यविक्रियो वहिर्जलतण्डुलविक्रियाम्। तथा करोत्युदासीनः शम्भुर्मायादिविक्रियाम्।" इति ।७॥ एवमुद्देशक्रमेण पतितत्त्वस्य लक्षणं परीक्षां च कृत्वा- नन्तरप्राप्तपशुतत्वनिर्णयार्थमाह- पशवस्त्रिविधा जेया विज्ञानप्र(वि)लयाकलाः सकलाः । मलयुक्तस्तत्राद्यो मलकर्मयुतो द्वितीयश्च ॥८॥ पशव इत्यादि। पाशाः कथ्यन्ते, तैर्ये बद्धास्ते पशव इति। अथ शरीरादिव्यतिरिक्तस्येहलोकपरलोकसंचा- रिणः संसार्यात्मनः पशोः सभ्ावे प्रमाणाभावादाश्रयासिद्ध- मिदं पशुलक्षणमिति चेत्। नैवम्। शरीरव्यतिरिक्तस्य नि- त्यस्यात्मनो जातिस्मृत्यादिभिः प्रमाणैः सद्ावावगमात् । तथाहि-पूर्वजन्मनि निहितं निध्यादिकमपरास्मन् जन्म- नि मयेदमत्र निहितं पूर्वमित्युपादीयमानमुपलभ्यते। अतो देहातिरिक्तस्यैकस्य नित्यस्य निधिविन्यासकर्तुः पशोः स- द्ावः । अन्यथा तदुपादानासम्भवात्। न चान्यनिहितम- न्येनोपादीयत इति वाच्यम्। अन्यानुभूतेऽन्यस्य स्मरणासम्भ- वेन तत्पूर्वकोपादानासम्भवात्। न चासौ भ्रान्तिमूलेति वाच्यम्। बाधकाभावात्, प्रत्यक्षतस्तदुपलम्भेन संवादतः प्रामाण्यसिद्धेश्रेति। तथा 'योनिमन्ये प्रपद्यन्ते' इत्याद्या- गमाच्च पूर्वशरीरपरित्यागेन शरीरान्तरप्राप्तेरुपलम्भात् शरी- रव्यतिरिक्तात्मसिद्धिः । न च प्राण आत्मा, वायुरूपत्वाद्
69
Page 70
प्रथम: परिच्छेदः । ४७
बाह्यवायुवत्। मम प्राणा इति प्राणात्मनोर्मम वस्त्रमितिवद् भेदोपलम्भाच्च। आर्हतैकदेशीयोक्तामिन्द्रियात्मत्वं तत्तदि- न्द्रियानुभूतार्थेषु तत्तदिन्द्रियविनाशेऽपि स्मृतिदर्शनात् प्रत्य- स्तम्, अन्यानुभूतेऽन्यस्य स्मरणासंभवात । तथा नियतवि-
त्। तच्च योऽहं चक्षुषा रूपमन्व्रभवं, सोऽहमिदानी श्रोत्रेण शब्दमनुभवामीत्यनसन्धानसिद्धमिति। नापि मन आत्मा, करणत्वात् कुठारवत्, तथा परिमितत्वात् कार्यत्वाच्च घटा- दिवत्। तथात्मनि सिद्धे युगपदिन्द्रियार्थेषु युगपजज्ञानानु- त्पच्या मनसः पुनः सन्वावसिद्धेर्नात्मा मन इति। तथान्तः- करणवृत्तिरूपबुद्धयात्मत्वं बौद्धै: कल्पितं स्मरणासंभवप्रसङ्गेन निरसनीयम्। तथाहि-पूर्वबुद्धनुभूतेऽर्थे बुद्ध्न्तरस्या- न्यत्वेनानुभवाभावात् स्मरणासंभवः । न चाननुभूतेऽर्थे स्मृ- तिः संभवति, अनुपलम्भात् । न च सा बुद्धिरवतिष्ठत एवेति वाच्यम्। बुद्धेः प्रतिक्षणविनाशस्य सर्वादिसम्मतत्वात् । एकसन्तानत्वेन वासनानुगमात् तदुपपत्तिरिति चेतू। न। वासनासन्तानयोरपि क्षणिकत्वे पूर्वोक्तदोषापातात्। तथा तयोर्ज्ञानादव्यतिरेकेण परिहारः । अक्षणिकत्वे व्यतिरेके च स्वसिद्धान्तविरोधः । तदुक्तं न्यायविद्ि :- "अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम्।
१. 'वि' स्व. पाठः. २. 'द्धये यु' ग. पाठः. २. 'पज्ज्ञा', 'ति' ख. पाठ :.
70
Page 71
४< तत्वपकाशे सव्याख्ये उत्तिष्ठ भिक्षो! फलितास्तवाशाः सोऽयं समाप्त: क्षणभङ्गवांदः।" इति। विषयानन्द(मा? आ)त्मा अनन्यार्थत्वाद् अत्यन्त- प्रियबुद्धिविषयत्वाच्च्ेति केचित् । तदपि विषयेन्द्रियमनो- बुद्धात्मसंबन्धेनोत्पद्यमानं बुद्धिकल्पमित्युपेक्षणीयमेवेति । तस्माद् बुद्धीन्द्रियशरीरेभ्यो व्यतिरिक्त आत्मा पाशबद्द- त्वात् पशुरिति सिद्धम्। तदुक्तं श्रीवायवीये- "बुद्धीन्द्रियशरीरेभ्यो व्यतिरिक्तो विभुर्ध्रुवः। असत्येव कल्पितात्मेति हेतुस्तत्र सुदुर्गमः ॥ बुद्धीन्द्रियशरीराणां नात्मता सन्विरिष्यते। स्मृतेरनियतज्ञानादयावद्देहवेदनात्।।" इत्यादि। तदेवं प्रतिपादितानां पशूनां विभागमाह-त्रि- विधा ज्ञया इति। (त्रि)प्रकारा ज्ञातव्या इत्यर्थः । कथमि- त्यत आह-विज्ञानप्रलयाकलाः सकला इति। तेषां क्रमेण लक्षणमाह-मलयुक्त: मलपाशसंबद्धः । तत्र तेर्षां मध्ये। आद्यो विज्ञानकलः । मलकर्मयुतः मलकर्मात्मकपा- शद्यसंबद्ध: द्वितीयः ॥८॥ सकल इति सकललक्षणपूर्वकं विज्ञानकलविभा- गमाह- मलमायाकर्मयुतः सकलस्तेर्षुं द्विधा भवेदाघ्यः। आद्यः समाप्तकलुषोऽसमापकलषो द्वितीयः स्यात् ॥९॥
१. 'भावः I।', २. 'षां' स. पाठ :.
71
Page 72
प्रथम: परिच्छेदः । ४९ मलेति। मलश्र माया च कर्म च मलमायाकर्माणि, तैर्युक्तः संबद्ध: सकल इति तेषु त्रिषु आद्यो विज्ञानंकलो द्विविधो भवति-समाप्तकलुषोऽसमाप्तकलुषश्रेति। तत्राद्यः प्रथमः, अणूनां प्रथमत्वात्। समाप्तकलुष इति। मलशक्ति: कालुष्यं तत् समाप्तं नष्टं यस्य स समाप्तकलुषः । असमा- पकलुषो द्वितीयः। तेनासौ प्रच्छन्नज्ञानक्रियाशक्तिर्भव- तीति ॥ ९ ॥ ननु विज्ञानकलस्य द्विविधस्यापि मलपाशसम्बन्ध- सन्भावात् तन्निवृत्त्यात्मकं न शिवसायुज्यं, नापि स्वर्गन- रकमध्यस्थानेषु देवादिभेदेनावस्थानं, दीक्षया कर्मविनाशे सति श्रवणादिनानात्मन्यात्मबुद्धिरपाकृताविद्याकृतमाया- सम्बन्धाभावात् । अतः कुत्रास्यावस्थानमित्याशङ्गयाह- आद्याननुगह्य शिवो विद्येशत्वे नियोजयत्यष्टौ। मन्त्रांश्च करोत्यपरांस्ते चोक्ता: कोटयः सप्त ॥ १०॥ आद्यानिति। आद्यान् समाप्तकलुषान् विज्ञानकलान् अनुगृह्य दीक्षापूर्वकश्रवणमननाभ्यां परोक्षज्ञानप्रदानात्मक- मनुग्रहं कृत्वा। नोपरोक्षज्ञानप्रदानात्मकं, तस्य निदिध्यास- नमध्ये कर्मक्षयान्तरायनिपातेनोत्पातासंभवात्। विद्येशत्वे विद्येश्रपदेशत्वे मुक्तिकल्पे नियोजयत्यष्टौ विज्ञानकलान्। इनरान् मन्त्रान् मन्त्रदेवतारूपान् करोति भगवान् शिव इति। तदुक्तं सिद्धान्तहृदये - "विदयेश्वरान् करोत्यष्टावीशोऽन्यान् मनुदेवताः"
१. 'न प' क. पाठ :. २. 'ल्प' ख. पाठ :.
72
Page 73
५० तत्त्वप्रकाशे सव्यार्ये इति। कति मन्त्रा इत्याकांक्षायामाह-ते चोक्ताः कोटयः सप्तेति। ते च महामन्त्राः सप्तकोटिसंख्यया संख्याता इति॥ इदानीं प्रलयाकलसकलयोः स्वरूपनिर्णयार्थ श्लो- कत्रयमाह- प्रलयाकलेषु येषां पक्के मलकर्मणी व्रजन्त्यन्ये। पुर्यष्टकदेहयुता योनिषु निखिलासु कर्मवशात् ॥ ११ ॥ कांश्विदनुगह्य वितरति भुवनपतित्वं महेश्वरस्तेषाम्। स्यात् पुर्यष्टकमन्तःकरणं धीकर्मकरणानि ॥ १२ ॥ शेषा भवन्ति सकला: कलादियोगादहर्मुखे काले। शतमष्टादश तेषां कुरुते स्वयमेव मन्त्रेशान् ॥१३ ॥ इति । अयमभिप्रायः-प्रकर्पेण लयं गतं कालादि- धरान्ततत््वात्मकं शरीरं येषां ते प्रलयाकलाः । प्रलयावस्था- यां मलकर्ममात्रपाशसंबद्धा आत्मान इति यावत्। तेषु। येषां मलश्र कर्म च मलकर्मणी पक्के परिपाकं गते। ज्ञानाग्निना साहचर्यात्। तेपां महेश्वरो भुवनपतित्वं वितरति। तेभ्यः प्रयच्छति, ददातीत्यर्थः । तेषां तेप्वपि कांश्चित् पक्ककर्म- काननुगृह्य गणेशान् करोति। कांश्चित् पक्कमलान् मन्त्र- तन्त्रेश्वरान् करोति द्रष्टत्वेनेति। कति मन्त्रेश्वरा इत्याका- ङक्षायां शतमष्टादशेति।स्वयमेवेति। ब्रह्मादिसहायान्तरमन- पेक्ष्यैवेति। तदुक्तं लैङ्रे- "नाधिकान् न च हीनांस्तान् मानसानात्मनः समान् । सहस्रं हि सहस्राणामसृजत् कृत्तिवाससाम् ।।" १. 'न्त्रतन्त्रेशान्' ग. पाठ :.
73
Page 74
प्रथम: परिच्छेद । ५१ इत्यादि। एम्याऽन्ये ये पक्कमलकर्माणः शेषाः शिष्टास्ते स- कलाः भवन्ति, कलादितत्त्वयोगात्। अहर्मुखे काल इति। सृष्टिकाले सर्वमेतत् करोति भगवान् महेश्वर इति । पुर्यष्ट- कदेहयुतास्त एव निखिलासु योनिपु देवमनुष्यतिर्यगादिषु व्रजन्ति चरन्तीत्यर्थः। नन्वात्मनां व्यापकत्वादमूर्तत्वाच्च कथं निखिलयोनिगमनागमनसंभव इत्याशङ्कयाह-पुर्यष्टकदेह- युता इति। सूक्ष्मशरीरस्य पुर्यष्टकाख्यस्य जीवोपाधेः सं- भवात् तदनुसारेण पशोरपि क्षेत्रज्ञस्य गमनागमने संभ- वत एव। यथा घटाकाशस्य तदुपाधिभूतघटगमनागमना- भ्यां गमनागमने, तथात्राव्युपाधिघर्माणां गमनादीनामु- पहिते क्षेत्रज्ञे संभव उपपद्यत एवेति । कर्मवशादिति । कर्मानुरूपेणेत्यर्थः । ननु जीवोपाधिभूतं पुर्यष्टकं किमित्या- शङ्गयाह - स्यात् पुर्यष्टकमन्तःकरणं धीकर्मकरणानी- ति। पुरि स्थूलशरीरे वर्तमानं यदष्टकं तत् पुर्यष्टकम्। तत किमित्यत आह -अन्तःकरणं धीकर्मकरणानीति। बु- द्धयहंकारमनांस्यन्तःकरणं, धियः कर्म व्यापारो विषयनि- श्रयो धीकर्म, तत्करणानि तन्निमित्तानि शब्दादीनि च पु- र्यष्टकमिति केचित्। तदुक्तं- "शब्दः स्पर्शश्र रूपं च रसो गन्धश्र पञ्चमः । मनो बुद्धिरहंकारः पुर्यष्टकमुदीरितम् ।।" गुरवस्तु धीकर्म च करणानि च धीकर्मकरणानीति ब्रुवते। तत्राष्टकत्वं शब्दस्पर्शरपरसगन्धबुद्धीन्द्रियकर्मेन्द्रियान्तः १. 'सद्भावा' क. स. पाठः.
74
Page 75
५२ तत्त्वप्रकाशे सव्याख््ये करणात्मना विभागाद भवति। परे कर्मेन्द्रियबुद्धीन्द्रियान्तः-
नाष्टविधं पुर्यष्टकमित्याहुः। तथाचोक्तं- "कर्मेन्द्रियाणि खलु पञ्च तथापराणि बुद्धीन्द्रियाणि मनआदिचतुष्टयं च । प्राणादिपञ्चकमथो वियदादिकं च कामश्र कर्म च तमः पुनरष्टमी पूः ॥" इति ॥ ११, १२, १३ ॥ शतमष्टाद्श मन्त्रेश्वरा इत्युक्तम् । के त इत्याका- क्षायामाह- तत्राष्टौ मण्डलिन: क्रोधार्द्यास्तत्समाश्च वीरेशः। श्रीकण्ठः शतरुद्रः शतमित्यष्टौ दशाभ्यधिकम् ॥१४॥ इति। तत्र मन्त्रेश्वराणां मध्येऽष्टौ मण्डलिनः, क्रो- धाद्याः तत्समाः, अष्टावित्यर्थः । शिष्टा वीरेशादय इति। एतदुक्तं सिद्धान्तहृदये- "त्रिविधास्ते च विज्ञानकलाश्च प्रलयाकलाः । सकलाश्रेति तेष्वाद्या मलमात्रयुताः परे ॥ - मलकर्मयुता मायामलकर्मसमायुताः । सकला इति तेष्वाधा द्विविधाः पक्ककल्मषाः ॥ अपक्ककल्मषाश्रेति अत्राद्याननुगृह्य तु। विद्येश्वरान् करोत्यष्टावीशोऽन्यान् मनुदेवताः ॥ १. 'न्या', २. 'न्तरे ह्यष्टा' ग. पाठ :.
75
Page 76
प्रथम: परिच्छेद: । ५३
द्येकपक्कद्विपक्काः स्युश्चतुर्धा प्रलयाकलाः । पक्कोभयान् पुराधीशान् गणेशान् पक्ककर्मगान् ।। रुद्रान् पक्कमलानन्यानष्टादशशताधिकान्। सकलस्त्वष्टधा त्रिद्वयेकपक्वाश्च त्र्यपककाः ॥ हिरण्यगर्भ: +++सनकाद्याश्र योगिनः । आचार्याश्रैव देवांश्र क्रमात् तेष्वकरोत् प्रमुः॥"(?) इत्यादि। शैवरहस्ये च- "विज्ञानकलसंज्ञः (?) प्रलयाकलसंज्ञकोऽथ सकलाख्यः । त्रिविधोऽयं पुरुषः स्यादेकोत्तरबन्धसंबन्धात्।।" इति। "विज्ञानकलसंज्ञान् (?) समाप्तकलुषान् करोति विद्येशान् अष्टावनुगृह्य शिवो मन्त्रानपि सप्तकोटिभिदान् ॥ प्रलयाकलाश्च केचिद् भुवनेशा: पक्ककलुषकर्माणः । कर्मवशादवशिष्टा निखिलास्वपि योनिषु चरन्ति॥ सकलाः कलादियोगात् सृष्टिदशायां त एव निर्दिष्टाः। शतमष्टादश तेष्वपि मन्त्राणामीशितारः स्युः ॥ शतरुद्रा: क्रोधादिकमष्टकमङ्गुष्ठमात्रपूर्वमपि । वीरेशश्रीकण्ठौ मन्त्रेशत्वेन वर्तन्ते ॥" इत्यादि ॥ १४ ॥ नन्वेवं संसरतां पशूनां तर्हि मोक्षमार्गेऽवतारो न स्या- दित्याशङ्गयाह- परिपक्कमला ये तानुत्सादनहेतुशक्तिपातेन। योजयति परे तत्वे स दीक्षयाचार्यमूर्तिस्थः ॥ १५॥
76
Page 77
तत्वप्रकाशे सव्याख्ये इति। द्विविधा हि परमेश्वरस्य शक्तिः, बन्धकरा मोचिका चेति। तयोराद्यानादिकालमेव प्रवृत्ता पशून् पाश- जालैर्बभनाति। तस्यां कालवशात् कर्मसाम्येन विरोधादुपरत- व्यापारायां मोचिका शक्ति: स्वपतनकालमन्वेषयन्ती महेश्वरे वर्तमाना तेषु पशुषु निपतति। ततश्र संसारोत्सादनहेतुभू- तशक्त्यां निपतितायां भगवानाचार्यमूर्तिमास्थाय दीक्षां कृत्वा मलादिपाकं विधाय परमेश्वरतच्वे संयोजयतीति नासंपादो मोक्षमार्गेऽवतार इति। तदुक्तं- "समे कर्मणि सज्जाते कालान्तरवशात् पुनः । तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा॥ सर्वज्ञः स शिवो यद्दत् किश्चिज्ज्ञत्वविवर्जितः । शिवत्वव्यक्तिसम्पूर्णः संसारी न पुनस्तंदा ॥" इत्यादि। शक्तिद्वयं च भगवतावधूतपादेनोक्तं- बघ्नाति काचिदपि शक्तिरलुप्तशक्ते: क्षेत्रज्ञमप्रतिहता तव पाशजालैः। ज्ञानासिना च विनिकृत्य गुणानशेषा- नन्या करोत्यभिमुखं पुरुषं विमुक्तौ ।।" इति ॥ १५ ॥ इतरविनियोगपूर्वमुपसंहरति - बद्धाञ्छेषानाखिलान् विनियुङ्क्ते भोगभुक्तये पुंसः। तत्कर्मणामनुगमादित्येवं कीर्तिता: पशवः ॥ १६ ॥
१. 'स्स' स्व. पाठ :.
77
Page 78
प्रथम: परिच्छेदः । ५५ इति। सूक्ष्मदेहेन च पुर्यष्टकाख्येन बद्धान् शेषान् सकलान् भोगभुक्तये विषयभुक्त्यर्थ विनियुङ्के देवादिस्था- नेषु स्थूलदेहेन संयोजयतीत्यर्थ इति ॥ १६ ॥ इदानीमवसरप्राप्तानां पोशानां लक्षणपरीक्षार्थमाह- पाशाश्चतुर्विधा: स्युः पुंसो मलकर्मसंज्ञकौ प्रथमौ। मायीयतिरोधायकशिवशक्तिसमुन्भवौ चान्यौ ।। १७ ।। इति। पशूनां बन्धकाः पाशाः । ते च चतुर्विधाः चतु- ष्प्रकारा: स्युः । पुंसः पुरुषस्य पशोः। तेषु प्रथमौ आदौ। मलकर्मसंज्ञकौ मलकर्माख्यौ। तैत्रापि मलः प्रथमः पाशः, तत्पूर्वकत्वात् कर्मादीनाम् । सतु ज्ञानप्रागभाव इत्येके। परे तिमिरसदृशो जडात्मको भावरूपो ज्ञाननिवर्त्य इति। गुरव- स्तु अविद्यासंस्कारात्मक इत्याहुः । तदुक्तं "ज्ञानं बन्धः" इति शिवसूत्रवार्तिककृता- "अहं ममेदमिति यज्ज्ञानं भेदप्रथात्मकम् । शब्दानुवेधतो जातं मायीयं मलकारणम् ॥ तद् बन्धनं समाख्यातमविद्यावृत्तिलक्षणम्।" इति। किरणे च- "मलो ज्ञानं पशुत्वं च तिरस्कारकरस्तमः । अविद्या ह्याकृतिर्मूर्छा पर्यायास्तस्य वाचकाः ॥" इति। द्वितीयः कर्माख्यः पाशः । मायीयो मायाजन्यः सूक्ष्मस्थूलात्मकशरीरादिरूपः । स तृतीयः । तिरोधायकशि-
१. 'पशूनां', २. 'कृत्वा विम' ख. पाठः
78
Page 79
५६ तत्त्वप्रकाशे सव्यारुये वशक्तिसमुद्जवस्तत्स्वरूपश्रतुर्थ इति। बन्धस्य संसारस्य जन्ममरणादिलक्षणस्य बन्धकाभावेऽसंभवात् पाशसभ्भावसि- छिः। बन्धस्तु श्रुत्यादिप्रमाणसिद्ध इति। ननु मायाकार्य- त्वाद् मलकर्मणोर्मायायां प्रवृत्तायां तयोरुद्वः, प्रथमभूतयो- स्तयोरुद्वे मायायाः प्रवृत्तिरितीतरेतराश्रयप्रसङ्ग इति चेन्न। वीजाङ्करवदनादित्वेन तत्परिहारोपपत्तेरिति ॥१६॥ प्रथमोद्दिष्टस्य मलस्य लक्षणमाह - एको ह्यनेकशक्तिर्क्क्रिययोश्छादको मलः पुंसाम्। तुषकम्बुकवज्ज्ञेयस्ताम्राश्रितकालिमावद वा ॥ १७॥ इति। एकोडनेकशक्तिरिति मलस्य लक्षणम् । कर्म- मायीययोरनेकत्वात् तन्निवृत्त्यर्थमुक्तमेक इति। तिरोधायक- शक्तेरपि पाशत्वे सत्येकत्वाद् मलत्वप्रसङ्ग इति तन्निवृ- न्यर्थमनेकशक्तिरिति पदम्। नन्वविद्यासंस्काररूपतायां मल- स्यानेकत्वादयुक्तमेको मल इतीति चेन्न। जलनिधिनिमझा- नन्तनदीजलवदेषामप्यनन्तानां संसगदेवैकत्वोपपत्तेरित्ये- के। अन्ये तु जात्यपेक्षयैकत्ववचनम्। अवान्तरानेकजाति- सभ्ावान्मायाकर्मणोरनेकत्वम्। तदभावाद् वासनाया एकत्व- मिति बुवते। तथा ज्ञानाभावरूपतायां च जात्यपेक्षयैवैक- त्ववचनम् । अन्यथा कस्यचिज्ज्ञानोदये सति ज्ञानप्राग- भावनिवृत्तेः सकलजगन्मोक्षप्रसङ्गादिति। भावात्मकत्वे मुख्यमेवैकत्ववचनम्। एकस्य ज्ञानोदयेऽपि निवृत्त्यनिवृत्त्यो- स्तमोवदुपपत्तेः मलस्यानेकशक्तित्वाच्चैकस्य ज्ञानोदये तं
79
Page 80
प्रथम: परिच्छेदः । ५७ प्रत्येव प्रच्छादनशक्तेर्विना शादितरेषामपवर्गाभावः संभवत्येव। तस्मादेकोऽनेकशक्तिर्मल इति। तढुकं किरणे - "विभोरपि मलस्यास्य तच्छक्तेः क्रियते वधः । उपायाच्छक्तिसंरोध: करिंमश्रित् क्रियते मले ॥ शिवज्ञानं तथा तस्य शक्तिसंरोधकारकम्। यथाभेर्दाहिका शक्तिर्मन्त्रेणाशु निरुध्यते।। तद्वत् तच्छक्तिसंरोधः" इत्यादि। दक्किययोश्छादको मलः पुंसाम्। तुषकम्बुकवज्ज्ञे- य इति। यथा तुषकम्बुकौ तण्डुलेन सहैकीभूतौ मूला- ङ्कुराद्युत्पत्ते: कारणं, तथा मलोऽपि पशूनां स्वरूपभूतज्ञा- नक्रियाप्रच्छादकत्वेन कर्ममायादिमूलाङ्कुराद्युत्पत्तिकारण- तयात्मना सहैकीभूतस्तिष्ठतीति। तदुक्तं किरणे - "मलश्चिष्छादको नैजो विशुद्धिः शिवता स्वतः" इति। ताम्राश्रितकालिमावद्देति। यथा ताम्राश्रिता कालि- मा सहजातस्य स्वरूपभूतस्वर्णतां प्रच्छाद्य ताम्रतामभिव्य- ज्य चावतिष्ठते, तथा मलोऽप्यात्मनो ज्ञानक्रियात्मकं स्व- रूपं प्रच्छाध पशुत्वं चाभिव्यञ्जयन्नवतिष्ठत इति। ननु मलस्य सहजत्वे तत्क्षये तद्वतोऽपि विनाशप्रसङ्ग इति चेतू। नैवम्। ताम्राश्रितकालिमाविनाशे तत्स्वरूपाविनाशवत् सहजमलविनाशेऽप्यात्मस्वरूपाविनाशोपपत्तेः । तदुक्तं- "सहजा कालिमा ताम्रे ततक्षयान्न च ततक्षयः । क्षयस्ताम्रस्य यह्त् स्यात् पुरुषस्य मलक्षयः । १. 'फो' ग .. पाठ :. २. 'नो' ख. ग. पाठ:
80
Page 81
५८ तत्त्वप्रकाशे सव्या्ये
यथा तण्डुलकम्वूके प्रक्षीणे न च ततक्षयः ।"
इत्यादि ॥ १७ ॥
मलानन्तरं कर्ममायात्मकं पाशद्वयमुत्तरश्लोकपूर्वा- परार्धाभ्यां निरपयति - कर्मानादि प्रोक्तं धर्माधर्मात्मकं विचित्रं च। माया च वस्तुरूपा मूलं विश्वस्य नित्या सा॥१८।। इति। कर्मानादि। प्रवाहरूपेण, न चैकस्यैत कर्मणः सर्वदावस्थानेन। तथा सति भावरूपस्य कर्मणोऽनादित्वे- नात्मवन्नित्यतयानिर्मोक्षप्रसङ्गात्। न हि कर्माविनाशे संसा- रनिवृत्तिः संभवति। इत्येवं प्रोक्तं तत्वज्ञैः । धर्माधर्मात्मक- मिति धर्माधर्मरूपेण द्विविधमिति। विचित्रं चेति विविध- फलहेतुत्वाद् विचित्रमित्यर्थः। तथाहि-सुखासाधारण- कारणं धर्मः, दुःखासाधारणकारणमधर्म इत्येके। अन्ये तु चोदनालक्षणोऽर्थो धर्मः, तल्लक्षणोनर्थोऽधर्म इति बुवते। अपरे धर्मः पुरुपगुणः कर्तुः प्रियहितमोक्षहेतुः, तद्विपरीतो- डधर्म इति। अहिंसालक्षणो धर्म इति केचित्। चैत्यवन्द- नादिलक्षणो धर्म इति बौद्धाः । परे परोपकारलक्षणो धर्म इति। तत्रान्त्यं त्रयमनुपपन्नं, प्रमाणाभावात्। न च बौद्धा- द्यागमा: प्रमाणं, तेषां पौरुपेयतया मूलप्रमाणाभावे प्रामा- ण्याभावात्। न चैपां मूलप्रमाणं -किञ्चिदुपलभ्यते। प्रत्य- क्षादेर्धर्म प्रति प्रामाण्यासंभवस्योक्तत्वातू।न चोपकारलक्षणस्य
81
Page 82
प्रथम: परिच्छेदः ! ५९ धर्मत्वं, ब्राह्मणादिहिंसादेरपि तच्छत्रूपकारादिना धर्मत्वप्रस- झात्। नापि हिंसाया अधर्मत्वं, ब्रीह्यवघातदुष्टनिग्रहासीषो- मीयपशुहिंसादेरधर्मत्वप्रसङ्गादिति। स धर्मस्त्रिविधः, नित्यनै- मित्तिककाम्यात्मना तस्य भेदात्। तत्र 'यावजीवममिहोत्रं जुहुयात्', 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत', 'याबज्जीवं ज्योतिष्टोमेन यजेतेत्येवमादिवाक्यैनियमेन बिहिता नि- त्याः । निमिचादुपजायमाना नैमित्तिकाः । तद्यथा- 'वैश्वानरं द्वादशकपालं निर्वपेत्', 'पुत्रे जातेऽष्टका कर्त- व्ये'त्येवमादिविहिता जातेष्ट्यादयः। कामनापूर्वकाः काम्याः। 'अिहोत्रं जुहुयात् स्वर्गकामः', 'दर्शपूर्णमासाभ्यां स्वर्ग- कामो यजेत', 'ज्योतिष्टोमेन स्वर्गकामो यजतेत्येवमादि- वाक्यविहिताः। ते द्विविधाः-सविद्याः केवलाश्चेति। सविदया ईश्वरस्मरणपूर्वकाः । इतरास्तद्रहिता इति। एवंलक्षणो धर्मो द्विविध :- इष्टः पूर्तश्रेति। तत्रेशे वैदिकः, पूर्तस्तान्त्रिक इति। प्रतिषिद्धोऽधर्मः । तद्यथा-'ब्राह्मणो न हन्तव्यः', 'सुरां न पिबेत्', 'न शङ्खेन पिबेत तोयम्' इत्यादिवाक्यनिषिद्ठा ब्राह्मणहिंसादयः। अपरे त्वधर्मश्र त्रिविध इत्याहुः। नित्याकरणं नैमित्तिकाकरणं प्रतिषिद्धकरणं चेति। नित्यनैमित्तिकाभ्यां प्रत्यवायपरिहारः काम्यात् स्वर्गादिप्राप्तिः । अधर्मान्नरकादि- गमनमिति। एतदुक्तं सिद्धान्तहृदये- "क्रियायाः सूक्ष्मरूपं हि कर्माहुर्द्दिविधं च तत। इष्टं पूर्त च तत्रेषं वैदिकं तान्त्रिकं तथा॥ १. 'त्यादि', २. 'द्' ग. पाठ:
82
Page 83
६० तन्वप्रकाशे सव्याख्ये पूर्तमित्युच्यते सञ्िस्तत पुनस्त्निविधं मतम् । धर्मोऽधर्मस्तथा चित्रमिति धर्मो विधेः पदम् । स पुनस्त्रिविधः काम्यनित्यनैमित्तिकात्मना। निषिद्धोऽधर्म इतरच्चित्रं काम्यं पुनर्द्विधा॥ सविद्यं केवलं चेति विद्या चेश्वरचिन्तनम्। प्रत्यवायहतिर्वा स्यादुपात्तदुरितक्षयः । नित्यनैमित्तिकाभ्यां स्यादधर्मान्नारकी गतिः । अर्वाचीना मेनुष्यान्तु पाषाणान्ता सुदुस्तरा ॥ काम्यात् स्वर्गगतिस्तस्मादूर्ध्वा ब्रह्मावसानिका । सविद्या देवयानेन पुनरावृत्तिवर्जिता ॥ केवला पितृयानेन गतिः संसरणात्मिका। धर्माधर्माख्ययोः साम्ये मानुष्यं लभते पुमान्॥ कर्मणोः सर्वगामी स्याच्चित्राचित्रफलोदयः। कर्माख्योऽयं महापाशो दुर्मोचस्तेन जन्तवः ।। इतस्ततः समाकृष्य नीयन्ते पशवो यथा।" इत्यादि। एवं मलकर्मवशाद् महेश्वरेच्छ्या माया पुण्यापु- ण्यफलानुभवाय त्रिस्थानेपु देवादिशरीरेन्द्रियविषयात्मना पुनः पुनः परिणमते। तदुक्तं- "मलात् कर्तृत्वभोक्तृत्वे कर्तृत्वात् कर्म कर्मणः । भोगस्तदाक्षेपवशान्मायाबन्धस्ततस्तनुः ॥ भोगाधिकरणं भोग्या लोकाश्र करणानि च। इन्द्रियाणीति जायन्ते भोगसि्धै ततो मलः ॥ १. 'तु मानुष्यात् पा' ग. पाठः. २. 'या पु' क., ३. 'पुण्य' स. ग. पाठ :.
83
Page 84
प्रथम: परिच्छेदः । ६१
अभिलाषात्मकश्चेति बीजाङ्करफलादिवत्। अनादि: पाशजालोऽणून बध्नाति भवचक्रके ।।" इत्यादि। विचित्रं चेत्यनेन कर्मसद्भावे प्रमाणमप्युक्तम् । तथाहि-ईश्वरदरिद्रादिभेदभिन्नं विचित्रं जगद् विचित्र- कारणं विना न संभवति। तञ्च न दष्टमुपलभ्यत इत्यह- ष्टकारणकल्पनेति तत्सिद्धिः। तदुक्तं मातङ्गे-
"जगतः सुप्रसिद्धे ह्े धर्माधर्मो तु कर्मणी। अनादिकालसंरूढे ताभ्यां पुं वासितः सदा ॥" इत्यादि। तस्या मायायाश्र लक्षणमाह-विश्वस्य मूलमिति। विश्वस्य व्यक्तजातस्य कालादेर्मूलभूता उपादानभूता सा मायेति। तदुक्तं-'कालादीनां तत््वानामविवेको माये'ति। लक्षणपदेनैव तस्यां प्रमाणमप्युक्तम्। तथाहि -विश्वं जगद् एकोपादानजन्यम् एकाकारत्वाद् यद्यदेकाकारं तत्तदेकोपादा- नजन्यं, यथा घटकुम्भमृदङ्गशरावकुड्यवल्मीकादयः एका- कारा एकमृदुपादानजन्याः । तथेदमपि जडत्वादिनैका- कारं, तस्माद् एकोपादानजन्यमिति । यदत्र सकलकाला- दवनिपर्यन्ततत्वजाताविवेकात्मकमुपादानं, सा मायेति त- त्सिद्धि:। विस्तरेणैतदुपरिष्टादुपपादयिष्यामः। मायाशब्दवा- व्यतया तस्यापरमार्थत्वशङ्गा स्यादिति तन्निवृत्त्यर्थमाह-
१. 'ना सं' क. ग. पाठ :.
84
Page 85
६२ तत्त्वप्रकाशे सव्याख्ये वस्तुरूपेति। सा माया वस्तुरूपा परमार्थभूता विश्वमूलत्वा- दीश्वरवदिति। नित्या च सा माया। विश्वमूलत्वादीश्वर- वदेवेति। अनित्यत्वे तस्या मूलान्तराभ्युपगमे विश्वमूल- त्वाभावात्। न च माया महेश्वरमायाव्यतिरिक्तानामेव मूलमिति विश्वमूलत्वाभावस्तस्या इति वाच्यं, जन्यस्यैव मूलापेक्षत्वादजन्यमूलत्वाभावे विरोधाभावादिति। न च प- रमेश्वरस्य विश्वमूलत्वे प्रमाणाभावात् साधनहीन मुदाहरण- मिति वाच्यं, तस्य विश्वमूलत्वश्रवणात्। तथाहि-'यतो वा इमानि भूतानि जायन्ते', 'स इमाल्लोकानसृजत', 'आत्मन आकाशः सम्भूतः' इत्यादिभिर्वेदवाक्यैः परमेश्वरस्य जग- न्मूलत्वमवगम्यते। ततो न साधनविकलमुदाहरणमिति। तथा परमर्षिणा वेदव्यासेन सूत्रकृता परमेश्वरस्ये विश्वम- लत्वं 'जन्माद्यस्य यतः' (व्र० १. १. २) 'शास्त्रयोनित्वात्' (ब्र. १. १. ३) इति सूत्रद्वयेनोपवर्णितमिति । ननु तर्हि न मायाया विश्वमूलत्वं, परमेश्वरस्यैव विश्वमूलत्वादिति चेत्। नैवम्। परस्परसंसृष्टयोरेव मायामहेश्ररयोर्विश्वमूल- त्वेनोभयोरपि तदुपपत्तेः । तथाहि-माया तावन्न परमे- श्वरानधिष्ठिता जडा जगदुपादानं भवति। महेश्वरश्र चेत- नोऽपि न मायां बिना विश्वमूलतां भजते, निर्व्यापारोदा- सीनमात्रत्वादिति तयोः संसृष्टयोरेव जगन्मूलत्वम् अय :- पिण्डाग्न्योरिव कार्यकारणोदीति। माया चेति चशब्देन मायाकार्यस्य विश्वस्य वस्तुरूपत्वमुपवर्णितम्। न च प्रप-
१. 'स्यविश्वस्यवि', २. 'णा इति' क. पाठ :.
85
Page 86
प्रथम: परिच्छेदः । ६३ ऊचस्य मिथ्यात्वाद् एतदनुपपन्नमिति वाच्यं, तत्र प्रमाणा- भावात्। ननु विमतः प्रपञ्चो मिथ्या, दृश्यत्वाद् यद्द् दृश्यं तत्तन्मिथ्या, यथा शुक्तिरजतं, तथायमपि दृश्यः, तस्मान्मिथ्येत्यनुमानात् प्रपञ्चमिथ्यात्वसिद्धिरिति चेतू । नैवम्। शुक्तिरजतस्य तद्यतिरिक्तस्येदं रजतमिति भ्रान्ति- गोचरस्यापरमार्थभूतस्य सद्भावे प्रमाणाभावात्। ननु विमतं रजतज्ञानं रजतविपयं रजतज्ञानत्वात् सम्यग्रजतज्ञानव- दित्यनुमानात् तत्र शुक्तौ रजतसभ्भावः सिद्धः । नासौ सत्, तदानी भ्रान्तत्ववाध्यत्वयोरसंभवात् सम्यग्रजतवत् । नाप्यसत्, शशत्रिषाण इव ख्यातिबाधयोरसंभवप्रसङ्गात् । नापि सदसद्, विरुद्धत्वादिति सिद्धं तस्य सदसद्विलक्षण- त्वम्। तदेवानिरूपितरूपत्वं मिथ्यात्वं चेति। तदुक्तं- "सच्चे न आ्रन्तिबाधौ स्तां नासत्वे ख्यातिबाधकौ। सदसव्भयामनिर्वाच्याविद्या वेदैः सहभ्रमा ॥" इति। तदेतदसारम्। अलौकिकस्य रजतस्य परमार्थभूतस्य तत्र प्रतिभासात। तथाहि-द्विविधं हि रजतं लौकिक- मलौकिकं चेति। तत्र लौकिकं वलयकरणादिसमर्थम् । अ- लौकिकमत्र प्रतिभासमानं तदसमर्थम्। तस्य च द्वित्वादि- साम्येन परमार्थत्वान्न मिथ्यात्वम् । न च नेदं रजतमिति ज्ञानेनास्य बाधः, अपेक्षितलौकिकरजतविवेकख्यापकेत्वेना- स्याबाधकत्वात्। अथालौकिकरजतावबोधे लौकिकरजता- र्थिनस्तत्र प्रतृत््यभावप्रसङ्ग इति चेन्न। अलौकिकस्यापि १. 'धं र', २. 'न' ख. पाठः.
86
Page 87
तत्त्वप्रकाशे सव्याखये लौकिकभेदाग्रहणेन प्रवृत्त्युपपत्तेः । अथवालौकिकस्य लौकि- कतां मन्यमानस्तत्र प्रवर्तत इति। तथानिर्वचनीयरजताव- बोधे च प्रवृत्त्यसम्भवाद् भवता च मदुक्तमार्गानुसार आ- श्रयणीय एव । अतो नानिर्वचनीयापरमार्थरजतसद्भाव इति दृष्टान्ताभावास्न प्रपञ्नमिथ्यात्वसिद्धिः । ननु भेदाग्रहणस्य प्रवर्तकत्वे नालौकिकरजतकल्पना सङ्गच्छते। शुक्तिरजत- योरेव गृह्यमाणस्मर्यमाणयोरभेंदाग्रहणाद् रजतार्थिनस्तत्र प्र- वृत्त्युपपत्तेः कल्पनागौरतप्रसङ्गात् । तथाहि - इदं र- जतमित्यत्र इदमनुभवः पुरोवर्तिशुक्तिविषयः । रजत- मिति तु सदृशदर्शनसमुद्ठुद्दसंसकारजं देशान्तरगतरजतवि- षयं स्मरणम्। तत्रानुभूयमानस्मर्यमाणयोः शुक्तिरजतयो- र्भेदाग्रहणादेव रजतार्थिनः पुरोवर्तिनि शुक्तिरजते प्रवृत्यु- पपत्तेर्नालौकिकरजतकल्पनमुपपन्नमिति । तत्र च न मि- थ्याभूत किञ्चिदस्तीति प्रपञ्चमिध्यात्वानुमानस्य दष्टान्ता- भावादप्रामाण्यमिति। नैवम्। तच्छब्दोल्लेखनशून्यतया रजतज्ञानस्य स्मृतिरूपत्वासंभवात् । तस्मादत्रालौकिकं र- जतं भासत इति। नैतदेवम्। अलौकिकरजतग्रहणस्य प्रवर्तक- त्वानुपपत्तेः। न चालौकिकस्य लौकिकतां मन्यमान: प्रवर्तत इति वाच्यम्। अन्यथाख्यातिवादप्रसङ्गात। न च लौकिकभे- दाग्रहणात् प्रवृत्तिः। स्वर्णभेदाग्रहणेन तदर्थिनस्तत्र प्रवृत्तिप्र- सङ्गात्। न च गृह्यमाणयोर्भेदाग्रहणं प्रवर्तकमिति स्वर्णा- ग्रहणेन तदर्थिनस्तत्र प्रवृत्त्यभाव इति वाच्यम्। लौकिकर-
१. 'मित्यनु' ग. पाठ :-
87
Page 88
प्रथम: परिच्छेदः ।
जतस्याप्यगृह्यमाणतया तदर्थिनस्तत्र प्रवृत्त्यसंभवात्। न चानेन रजतज्ञानेन तस्यापि ग्रहणमिति वाच्यं, देशान्तरस्थ- तयेन्द्रियगोचरत्वासंभवात्। न चेदं स्मृत्यनुभवात्मकं पु- रोवर्तिदेशान्तरगतरजतद्वयविषयं विज्ञानद्वयमिति वाच्यम्, इन्द्रिय संप्रयोगजन्यत्वरात् तच्छब्दोल्लेखशन्यत्वाच्च रजतज्ञा- नस्य स्मृतित्वासंभवात्। तस्मादत्र भासमानं रजतमसदिति शून्यवादिनो मिथ्यात्वं चासद्विपयत्वमिति प्रपञ्चमिथ्यात्वा- नुमानात् प्रपञ्चस्याप्यसत्त्वमिति। नैतदेवम्। असद्रजताव- बोधे रजतार्थिनस्तत्र प्रवृत्त्यनुपपत्तेः । अथासद्रजतस्य सद्र- जतभेदाग्रहात् तदभेदग्रहाद्वा प्रवृत्युपपत्तिरिति चेत्। नै- वम्। रजतशुक्त्योरेव भेदाग्रहणादभेदग्रहणाद्वा प्रवृत्युप- पत्तौ त्यतिरिक्तासद्रजतकल्पनासंभवात्। तस्मादत्र रजत- ज्ञानं स्वगतं रजताकारं बहिः शुक्तिमस्तके प्रकाशयतीत्या- त्मख्यातिवादिनः, असतः ख्यानायोगात् सतश्र देशान्तरस्थ- त्वाद् अरजतस्य रजतधीगोचरत्वासंभवाच्च ज्ञानगतरजता- कारस्य बाह्यतयावभासो भ्रम इति। जाग्रजज्ञानानि च स्वा- कारव्यतिरिक्तार्थशून्यानि ज्ञानत्वात् स्वप्नज्ञानवदिति ज्ञाना- द्वैतवादी, ज्ञानमात्रं सर्व तदन्यासत्त्वस्यानेनानुमानेनावगत- त्वादिति। नैवम्। अस्यानुमानस्य पक्षहेतुद्दष्टान्तादिग्राहक- ज्ञानै: स्वव्यतिरिक्तार्थवद्िर्व्यभिचारात्। तेषामग्राह्यत्वेऽस्या- नुमानस्याश्रयासिद्धिस्वरूपासिद्धिधर्म्य (?) सिद्धदृष्टान्तत्वादि-
१. 'यं ज्ञा' क. पाठ :. K
88
Page 89
६६ तत्त्वप्रकाशे सव्याख्ये
दोषप्रसङ्ग: । न च स्वप्नज्ञानानां स्वाकारग्राहकत्वं, विज्ञाना- नां साकारत्वे प्रमाणाभावात्। न च नीलज्ञानं पीतज्ञानमि- त्यादिप्रतिकर्मव्यवस्थान्यथानुपपतत्या तज्ज्ञानानां नीलपीता- द्याकारवत्त्वसिद्धिः। नीलपीतादेः कर्मकारकतया प्रामाण्यात्।. तस्मात् स्वाकारं बहीरूपतया न ख्यापयन्ति भ्रान्तय इत्या- त्मख्यात्यसंभवः । किं तर्हि भ्रान्तिज्ञानानां भ्रान्तत्वम्, अनादिवृद्दव्यवहारावगतस्वरविषयपरित्यागेन विषयान्तरोप- सर्पणमिति ब्रूमः । तत्र च प्रमाणं नेदं रजतम्, अपि तुशुक्ति- केति बाधकप्रत्ययानन्तरमिदं शुक्तिशकलं रजतरूपेण मया प्रत्याकलितमित्यबाध्यमानं प्रत्यभिज्ञात्मकं प्रत्यक्षमुपलभ्यत इति। तद्विपरीतानिर्वचनीयालौकिकाख्यात्यसत्ख्यात्यात्म- ख्यात्यादिप्रतिपादकानां प्रमाणानामग्न्यनुष्णत्वप्रतिपादककृ- तकत्वानुमानवदप्रामाण्यमिति। तदुक्तं न्यायविद्धि :-
"विज्ञानानां यथार्थत्वं सर्वेषां केचिदूचिरे। तद्साध्वन्यथाख्यातिर्मानस्या मीयते घिया॥"
इति। तथा अनुमानादप्यन्यथाख्यातिरत्रावगम्यते। तथा- हि-विमता रजतार्थिनां पुरोवर्तिनि शुक्तिशकले प्रवृत्तिः स्वगोचरे रजतज्ञानपूर्विका, रजतादित्साधीनप्रवृत्तित्वात्, सम्यग्रजतप्रवृत्तिवदिति। शुक्तिशकलं वा रजतज्ञानविषयः, रजतादित्साधीनप्रवृत्तिविषयत्वात्, सम्यग्रजतवदिति। तथा नेदं रजतम्, अपितु शुक्तिकेति बाधकप्रत्ययश्च पक्षान्तरेषु नोपपद्यते। शुक्ते रजतरूपताप्राप्त्यभावात्। प्रकारा-
89
Page 90
प्रथम: परिच्छेदः । ६७ न्तरेण बाधकप्रत्ययप्रसङ्गश्न-नेदं सद्रजतम्, अपित्वेस- द्रजतमिति, नात्र सद्रजतमस्ति, अपित्वन्यत्रेति वानिर्व- चनीयख्यातिपक्षे, नात्र वलयकरणसमर्थ रजतमस्ति (अ- पि?) अपित्वन्यत्रेति, नेदं वलयकरणसमर्थ रजतमपित्व- लौकिकमिति वा प्राभाकरैकदेशी(या ? यमीमां)सकपक्षे, नेदं सद्रजतम् अपि त्वसद्रजतमिति नात्र सद्रजतमस्ति अपित्व- न्यत्रेति वासत्ख्यातिपक्षे, नात्र रजतमस्त्यपपित्वान्तरमित्यात्म- ख्यातिपक्षे, रजताद् भिन्नमिदं शुक्तिशकलमिति भेदाग्रह- णपक्षे भवेदिति। तस्मादन्यथाख्यातिव्यतिरिक्तख्यातीना- मसंभव इति। रजतार्थिप्रवृत्त्यसंभवाच्च ख्यात्यन्तरासंभवः। अनन्तवस्तुभेदाग्रहणसन्भ्ावात् पुरोवर्तिनि तदर्थिनां प्रवृत्ति- प्रसङ्गः । न च गृह्यमाणयोरभेदाग्रहणात् प्रवृत्तिः । घटपट- योर्गह्यमाणयोस्तदानीम् भेदग्रहणाभावेन घटार्थिन: पटेप्रवृ- त्तिप्रसङ्गात्। न च धर्मिप्रतियोगिग्रहणवेलायां तज्जेदग्रह- णोपपत्तिः । उभयग्रहणपूर्वकत्वाद् भेदप्रवृत्तेरिति। अथ भेदस्य स्वरूपत्वात् स्वरूपप्रहणेन भेदस्यापि गृहीतत्वाद् भेदाग्रहणाभावेनाप्रवृत्तिरिति चेत् । न तर्हि रजतार्थिनः पुरोवर्तिनि शुक्तिशकले प्रवृत्तिः । स्वयम्प्रकाशमानयोर्ग्रह- णस्मरणयोरिदं रजतमिति ज्ञानयोर्गह्यमाणस्मर्यमाणयोश्च शुक्तिरजतयोः स्वरूपाग्रहणेन भेदाग्रहणासंभवात्। किञ्च भेदाग्रहणस्य प्रवर्तकत्वे शब्दार्थसंबन्धग्रहणासंभवप्रसङ्ग: । तथाहि- गामानयेति प्रयोजकवाक्यश्रवणसमनन्तरं प्र- १. 'त्वपरमार्थमि' ख. ग. पाठ :. २. 'घ' ग. पाठः,
90
Page 91
६८ तत्त्वप्रकाशे सव्याख्ये योज्यवृद्धप्रवृत्तिमुपलभमानो बाल एवमवगच्छति-अ- स्य गमनक्रियाहेतुः प्रयल्नो जोत इति, स्वात्मान गम- नादिक्रियायाः प्रयत्नपूर्वकत्वदर्शनात्। प्रयत्नकारणत्वेनेच्छां गमनानुमितप्रयलनेनानुमिनोति, इच्छाकारणत्वेन चेष्टसा- धनज्ञानकारणत्वेन च प्रयोजकवृद्धवाक्यं ज्ञानपूर्वकालवर्ति, तत्कारणवस्त्वन्तराभावात्। तत आनीयमानमर्थमुपलभ- मानोऽ्यमर्थसमुदायोऽनेन शब्दसमुदायादवगत इति जा- नाति। पश्चादावापोद्दापाभ्यां विशेषतोऽध्यवस्यति-अस्या- थेविशेषस्यायं शब्दविशेषो वाचक, अस्य पदविशेषस्या- यमर्थविशेषो वाच्य इति वा। अत्राग्रहणस्य ज्ञानप्रागभा- वरूपतयाशब्दजन्यत्वाच्छब्दशक्तिकल्पनानवकाशः, ज्ञान- द्वरेणेच्छाप्रयत्नावुत्पाद्य शब्दस्य प्रवर्तकत्वादिति चन्द्रद्वि- त्वशङ्गपीतिमाविभ्रमादिषु न भेदाग्रहणसंभव इति। तस्मान्न भेदाग्रहणात् प्रवृत्तिः, अपित्वन्यथाग्रहणाद्विति ब्रूमः । ननु शैवैः शास्त्रेऽन्यथाख्यातिराश्रीयत इति कुतोऽवगतं, भूतशु- द्वितन्त्रे उक्तत्वात्। तथाहि- "अन्यथाख्यामुपाश्रित्य सांख्यवच्छिवशासनम्। या अनिर्वचनीयेति तथा सिद्धान्तवादतः ।। वेदान्तवादिनां दृष्टिमाश्रितं वैष्णवं मतम्।" इति। सांख्यमिति च सेश्वरसांख्यं विवक्षितम् । इतरस्या- ख्यातिवादित्वात। तथाप्युक्तं सांख्याचार्येः-"विपर्ययो १. 'जायत' ग. पाठः
91
Page 92
मथम: परिच्छेदः। मिथ्याज्ञानमतद्रूपप्रतिष्ठैमि"ति सूत्रेणान्यथाख्यातिप्रतिपाद- नात्। तस्माच्छुक्त्यविद्यासमुद्भतस्य शुक्त्यधिष्ठितस्य शु- क्तिव्यतिरिक्तस्याधिष्ठानयाथात्म्यज्ञाननिवर्त्यस्य मिथ्याभू- तस्य रजतस्याभावातं प्रपञ्चमिथ्यात्वानुमानं धर्म्यसिद्धद्ृष्टा- न्ततया न प्रामाण्यसंपदमधिगच्छतीति। तथात्मनोऽपि स्वतः सिद्धस्य श्रुतिप्रमाणदृश्यत्वाद्देतोर्व्यभिचारः। किञ्च प्रपञ्चस्य धर्मिणो दृश्यत्वेन हेतुना यथा साध्यते, तथा द्ृश्यत्वस्य हेतोर्मिथ्यात्वस्य साध्यधर्मस्य मिथ्यात्वं यद्यनेनैवानुमानेन साध्येत, तदा हेतो: पक्षैकदेशतया पक्षे वृत्त्यभावादनिश्चित- पक्षवृत्तिरसिद्ध इत्यसिद्धत्वं प्रपञ्चमिथ्यात्वस्य धर्मिणोऽन्यैत्र प्रपञ्चवदसिद्धेराश्रयकदेशासिद्धत्वं च प्रसज्यते। तद्द्वयस्य मिथ्यात्वासाधने तत्र वर्तमानत्वाद् दृश्यत्वस्य व्यभिचारः। प्रमाणान्तरेण तन्मिथ्यात्वसाधने तन्मिथ्यात्वस्य मिथ्यात्वा- साधनात तत्र द्वयोर्व्यभिचारः। तस्यापि मिथ्यात्वसाधनेऽन्ति- मस्य मिथ्यात्वस्य मिथ्यात्वासाधनात् तत्र द्वयोर्व्यभिचारः। तस्यापि मिथ्यात्वासाधनेऽन्तिमस्य मिथ्यात्वस्य मिथ्यात्वा- साधनात् तत्र वर्तमानतया हेतोर्व्यभिचारः। तथा मिथ्यात्वं यद्यसत्वं तदा सन् घटः सन् पट इत्यादिप्रत्यक्षबाधः । प्रपञ्चस्य धर्मिणो मिथ्यात्वस्य धर्मस्य हेतोर्दश्यत्वस्य शुक्ति- रजतस्य दृष्टान्तस्य च शशविषाणकल्पत्वेनाश्रयासिद्धया- दिदोषप्रसङ्ग:। तेषां सभ्भावे हेतोर्व्यभिचारः। इत्युभयथा शून्यवादिनां न वादेऽधिकारः। तदुक्तम्- १. 'छठितमिति', २. 'मसिद्धं ह' ग. पाठः. ३. 'न्यप' स. पाठ:
92
Page 93
७० तत्त्वप्रकाशे सव्याख्ये "अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः"
इति। यदि ज्ञाननिवर्त्यत्वं, तदा च प्रत्यक्षादिविरोधः । प्रत्यक्षादिना मुद्गरप्रहारादिनिवर्त्यत्वोपलम्भेन कार्यकल्प्य- ज्ञाननिवर्तनयोग्यताया असंभवात्। न च कल्पकोटि- शतसहस्रवर्तिनां पदार्थानां कारणान्तरविनष्टानामज्ञानादवि- नाशो घटत इति। यदि सदसद्विलक्षणत्वं मिथ्यात्वं, तदापि प्रत्यक्षादिविरोधः। प्रत्यक्षादिना पदार्थानां सत्वासत्त्वयोरुप- लम्भात्। तथा विरुद्धत्वाच्च सदसत्त्ववदेकस्य पदार्थस्य न स- दसद्वैलक्षण्योपपत्तिः। देशकालभेदेन त्वर्थानां सदसत्त्वयोरुप- पत्तिः। उभयवैलक्षण्यं तुन कथञ्चिदुपपद्यत इति। अथ बाध्य- त्वमिति चेदस्तु। बाध्यत्वं यदि नाशित्वं, तदांशे सिद्धसाध्य- तांशे धर्मिग्राहकप्रमाणबाधा च। कालाद्यवनिपर्यन्ततत्वानां तत्कार्याणां च विनाशित्वस्य सिद्धत्वाद् मायायाः रवग्राह- कप्रमाणेन नित्यत्वस्य सिद्धत्वाच्चेति विश्वकार्यकलापस्थ का- रणापेक्षायां तन्मूलतैया मायासन्जावसिद्धिः । अतस्तस्या नि- त्यत्वं, विश्वकार्यकारणतयाकार्यत्वेनानित्यत्वासंभवात् तस्या- श्र कारणान्तरकल्पनायामनवस्थाप्रसङ्गाच्च। नित्यत्वं कस्यचि- दाश्रयणीयम्। तत् कल्पनागौरवपरिहाराय प्रथमभूताया मा- याया एवाभ्युपगतमिति धर्मिग्राहकेणैव प्रमाणेन तन्नित्य- त्वमपि सिद्धमिति (न) धर्मिग्राहकप्रमाणविरोधः। न चानेन तस्य बाघासंभवः । अस्य तन्मूलतया तद्भावे मायासन्ा-
१. 'वादत्वा', १ 'ता' क. पाठ :. ३. 'नासद्वत्वा' ख. पाठ :.
93
Page 94
प्रथम: परिच्छेदः। ७१ वसिद्धेराश्रयासिद्धि दोषप्रसङ्गात्। अथ बाधात्मकबोधविषय- त्वं बाध्यत्वं, तस्य शुक्तिरज्जादावुपजातरजतसर्पादिज्ञानेऽप्य- स्तीति न साध्यहीनमुदाहरणम्। तथाहि-अनादिसिद्ध- स्वविषयरजतादिपरित्यागेन विषयान्तरे शुक्त्यादावुपसर्पणा- न्मिथ्येदं ममोत्पन्नं रजतादिज्ञानमिति बाधात्मकबोधविषय- ता रजतादिज्ञानानामुपलभ्यते। तहृष्टान्तबलात् प्रपञ्चस्या- पि बाधात्मकबोधविषयत्वं साध्यत इति न कश्चिद् दोष इति चेतू। नैवम्। सिद्धसाध्यताप्रसङ्गात्। तथाहि-"सर्वो वै रुद्रः" इत्यादिश्रुतेः, "विचारतस्तु रुद्रस्य स्थूलमेतच्चराचरम्।" इत्यादिस्मृतेश्र शरीरशरीरिरूपतया सर्वस्य रुद्रात्मकत्वा- वगमात् सर्वेषामपि पदार्थानां रुद्रात्मकत्वावभासस्य भ्रम- रूपत्वं, तेन नायं प्रपञ्चोऽशिवात्मकः, किन्तु रुद्रात्मक एवेति बाधात्मकबोधविषयत्वस्य सिद्धत्वात् सिद्धसाध्यताप्रसङ्ग इति। अथाशिवात्मतागोचरा ये प्रत्ययाः प्रपञ्चविषयास्तषां मिथ्यात्वमन्यथाख्यातिरूपत्वं साध्यत इति चेत् । तर्हि सि- द्वं नः समीहितं, प्रपञ्चसत्यत्वाविरोधात्।नहि रज्जौ सर्पज्ञा- नोत्पादेन रज्जुसत्यत्वं विरुध्यत इति। तस्माद् युक्तमुक्तं माया च वस्तुरूपेति। अपरमार्थात् परमार्थवस्तूत्पादासम्भवाच्चेति। अपरे पुनर्माया च वस्तुरूपेत्येतद् वाक्यमन्यथा व्याचच- क्षिरे। तथाहि-माया वस्तुरूपा शिवरूपा तत्का(र्य -. त्वं ?र्य) च जगच्छिवरूपम् । शिवाद् भिन्नस्य कस्यचि- १. 'नेष्वप्य' ख. पाठ :.
94
Page 95
७२ -तत्त्वप्रकाशे सवखूय दसंभवात्। तथाहि -ज्ञानस्वभाव एवायमात्मा शिवो मायातत्कार्यात्मनावभासते। ततः स एव तदुभयमिति। न च तथा सति शिवस्य परिणामित्वमिति वाच्यं, विवर्तवा- दाश्रयणात्+ अप्रच्युतस्वस्त्रभावस्य वस्तुनोऽन्यथाभावो वि- वर्तः । यथा रज्जोः सर्पत्वम्। न हि रज्जौ सर्पभावकाले परिणामादि दष्टमिति महेश्वरस्यापि जगद्रपत्वे तद्वदेव परि- णामादिकासंभव इति शिव एव मायातत्कार्यात्मना भासत इति। तदुक्तमीश्ररगीतायां- "स एव मूलप्रकृतिः प्रधानः पुरुषोऽपि च। विकारा महदादीनि देवदेव: सनातनः ।।" इति। नहि रजतादेरन्यत्र विद्यमानस्य शुक्तिकादौ भ्रम- दर्शनादस्य प्रपञ्चस्यान्यत्रासंभवाद् भ्रमरूपत्वासंभव इति वाच्यम्। पूर्वदर्शनमात्रस्य भ्रमहेतुसंस्कारहेतुतया प्रयोजक- त्वेनान्यत्र विद्यमानतया अप्रयोजकत्वात्। तस्मात् पूर्वपू-
षु भ्रमसंभव इति न काश्रिद् दोषः। तदुक्तं शतककारेण- "सर्वविकल्पविहीनं शुद्धं शान्तं व्ययोदयविहीनम्। यत् परतत्त्वं तस्मिन् विभाति षट्त्रिंशदात्म जगत्। दर्पणबिम्बे यद्न्नगरग्रामादि चित्रमविभागि । भाति विभागेनैव च परस्परं दर्पणादपि च।।
*१. 'ज्जौ', २. 'र्वदि', ३. 'कल्मषादि' ख. पाठ :. ४. 'कल्मषादि' क. पाठ :.
95
Page 96
प्रथम: परिच्छेदः।
विमलतरपरमशाम्भवबोधात् तद्दद्विभागशून्यमपि। अन्योन्यं च ततोऽपि च विभक्तमाभाति शिवरूपम् ।।" इति ॥ १८ ॥ इदानीं शक्तिगणं निरूपयति- पाशानुग्राहित्वात् पुरुषतिरोधायिका विभो: शक्तिः । पाशत्वेनाभिहिता पाशाश्च चतुर्विधास्त्वेवम् ॥ १९ ॥ इति। मलकर्ममायाकार्याणां पाशानामचेतनतया परमेश्वरशक्त्यावेशं विना पशुबन्धनसामर्थ्याभावात् खावेशेन पाशानुग्रहं स्वकार्ये प्रवर्तन कुर्वती पुरुषतिरोधायिका पुरुषा- च्छादिका विभो: परमेश्वरस्य शक्तिः पाशतयोक्ता तत्वज्ञै- रिति। पाशाश्र चतुर्विधास्त्वेवमित्युपसंहरति। एवमुक्तेन प्र- कारेण पाशाश्रतुर्विधा इत्यर्थः । नन्वर्थपञ्चकं पाश इत्युपक्र- म्य पाशाश्रतुर्विधा इत्युपसंहारे पूर्वापरविरोध इति चेननैवम्। स्थूलसूक्ष्मविभागेनोक्ताया मायाया एकत्वविवक्षया चातुर्वि- ध्याभिधानादिति। पाशाश्र चतुर्विधास्त्वेवमित्युपसंहारवाक्य- स्थेन चशब्देन शास्त्रार्थोपसंहारो द्योतितः। एवं त्रिविधं तत्त्व- मिति ॥ १९ ॥
इति तत्वप्रफाशतात्पर्यदीपिकायां पतिपशुपाशात्मकविचार: प्रथम: परिच्छेद:।
,पूर्वमु क. पाठः.
96
Page 97
अथ द्वितीय: परिच्छेद:। अथ संक्षेपेणोक्तानां पतिपशुपाशानां विस्तारमुपदिशति- शुद्धानि पञ्च तत्त्वान्याद्यन्तेषु स्मरन्ति शिवतत्त्वम्। शक्तिसदाशिवतच्वे ईश्वरविद्याख्यतत्त्वे च ।। १॥। पुंसो ज्ञकर्तृतार्थं मायातस्तत्वपञ्चकं भवति। कालो नियततिश्च तथा कला च विद्या च रागश्च ॥ २॥ अव्यक्तं मायातो गुणतत्त्वं तदनु बुद्धयहंकारौ। चेनोधीकर्मेंन्द्रियतन्मान्राण्यपि च भूतानि ॥ ३॥ इति। अत्रादयं पञ्चकं शिवस्वरूपत्वाच्छुद्धं, मध्यमं सप्तकं शुद्धाशुद्धं, पशुरूपत्वात्। कथमत्र सप्तकत्वमित्यत आह-पुंसो ज्ञकर्तृतार्थ मायातस्तत्वपञ्चकं भवतीति। पुरु- षस्य ज्ञानार्थ कर्तृत्वार्थ च मायातः तत्त्वपञ्चकमुत्पद्यते। तेन कारणभूता माया कार्यभूतं पञ्चकं तदुपहितः पुरुषः सप्तमः इति सप्तकत्वम्। तदुक्तं शैवरहस्ये - "माया कालो नियतिः कला च विद्याभिलाषकृत् पुरुषः । क्लप्ानि सप्तधैवं शुद्धाशुद्धानि तत्वानि ॥" इति। शिष्टं केवलाशुद्धम् अव्यक्तादिपृथिव्यन्तम्। अव्य- क्तस्य मायात उद्भव:, अव्यक्ताद् गुणतत्त्वस्य, गुणतत्त्वा- द् बुद्े:, बुद्धितत्त्वादहंकारस्य, अहंकारान्मनोबुद्धीन्द्रियकर्मे- न्द्वियतन्मात्राणामुङ्जवः, तन्मात्रेभ्य आकाशादिपृथिव्यन्ता- नामिति ॥ १, २, ३ ।। किमर्थमेषामुत्पादः कृतो भगवता महेश्वरेणेत्याशञ- ्याह-
97
Page 98
द्वितीय: परिच्छेद: । ७५ पुरुषस्य हि भोगार्थ प्रधानतो विंशतिर्भवेत् त्र्यधिका। यस्मात् प्रकृतिगुणानां नात्यन्तं वस्तुतो भेदः ॥ ४ ॥ इति। पुरुषस्य पशोः स्वकृतपुण्यापुण्यफलभूतसु- खदुःखानुभवार्थमेषामुत्पत्तिः। भोगस्तु भोगायतनं भूतात्मकं शरीरं भोगसाधनानीन्द्रियाणि भोग्यान् शब्दादिविषयान् वि- ना न संभवतीति भोगार्थमेषां जन्मेति सिद्धम्। अव्य- क्तगुणतत्त्वयोरत्यन्तभेदाभावाद् न च तत्त्वाधिक्यमिति । एतदुक्तं शैवरहस्ये - "अव्यक्तबुद्धयहंकृतिमनांसि चत्वारि शब्दमात्राद्यम्। श्रोन्ादयं वागां वियदादं पञ्चकं च पृथक् ॥ तत्त्वचतुर्विशतिकं त्रिगुणात्मतयैव केवलाशुद्धम्।" इति ॥४ ॥ प्रथमोद्दिष्टं शिवतत्वं लक्षयति- व्यापकमेकं नित्यं कारणमखिलस्य तत्वजातस्य। ज्ञानक्रियास्वभावं शिवतत््वं जगदुराचार्याः ॥५॥ इति। व्यापकं, व्याप्तं सर्वगतमित्यर्थः । एकमद्वि- तीयं, सर्वभूतस्व रूपेणावस्थितमित्यर्थः । नित्यम् अनश्वरम् । अखिलतत्वजातस्य कालादिपथिव्यन्तस्य कारणमुत्पादकम्। ज्ञानक्रियास्वभावमिति। ज्ञानमात्रं क्रिया व्यापारः साक्षित्वं स्वभावो यस्य तत्त्वस्य, तत् शिवतत्त्वमिति तल्लक्षणम् । जगदुराहुः आचार्याः आगमविद इति। अथवा स्व्रव्य- तिरिक्तमस्ति चेत तदखिलं व्याप्नोतीति व्यापकमित्युक्तम् । स्वसमानासमानपुरुषान्तराभावादेकत्वम्। व्याप्त्येकत्वे चा-
98
Page 99
सत्त्वपकाशे सव्यार्ये
काशस्यापि स्त इति तन्निवृत्त्यर्थ नित्यपदोपादानम् । व्या- सिनित्यत्वैकत्वानि पशोरपि विद्यन्त इति तन्निवृत्त्यर्थ का- रणमखिलस्य तत््वजातस्येति पदम्। मायायाश्र व्यापकनि- त्यत्वैकत्वाखिलकारणत्वसभ्भ्ावात् तन्निवृत्त्यर्थ ज्ञानक्रिया- स्वभावमित्युक्तम् । अतो यद् व्यापकमेकं नित्यमखिलतत्त्व- कारणं ज्ञानक्रियास्वभावं, तच्छिवतत्त्वमिति। एतदुक्तं श्वे- ताश्वतरे- "सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः ।।" इति। शिवधर्मोत्तरे च- "आदिमध्यान्तनिर्मुक्त: स्वभावविमलः प्रभुः । सर्वज्ञः परिपूर्णश्र शिवो ज्ञेयः शिवागमे ॥।" इति। सिद्धान्तहृदये च- "कूटस्थममृतं ब्रह्म सत्यमेकमविक्रियम् । निष्प्रत्यनीकं चित्सौख्यं नित्यतृप्तमलुप्तद्दक्॥ अध्वातीतं परं व्योम विश्वव्यापि निरामयम्। अणीयोऽणोरजं नित्यमुक्तं च महतो महत् ॥ अप्रतर्क्यमरूपादि निरौपम्यमलक्षणम् । सदात्मकं स्वयंज्योतिरवाङ्मनसगोचरम्।। अतन्निषेधमार्गेण ज्ञायते यंच्च सूरिभिः। यच्च भ्रामकवत् कर्त ज्ञापकं च प्रदीपवत।। न्तफलोद' ख. पाठं:
99
Page 100
द्वितीय: परिच्छेद: ।
मायासहायं तत् प्राहुः शिवतत्वं मर्नषिणः ।" इति ॥ ५॥ ननु निष्क्रियस्य शिवतत्वस्य कथं निखिलतत्त्वका- रणत्वमित्याशङ्कयाह - अस्मिन्निलीय निखिला इच्छाद्ा:शक्तयः स्वकं कृत्यम्। कुर्वन्ति तेन तदिदं सर्वानुगाहकं प्राहुः ॥ ६॥ इति। आस्मिन् परमेश्वरतत्वे निलीनास्तत्तत्त्वमवल- म्ब्य स्थिता इच्छाद्या: शक्तयः स्वकार्य कुर्वन्ति, न स्वातन्त्र्येण। तासां शिवसामर्थ्यरूपत्वात्। तेनासौ शिवो निखिलतत्त्वका- रणम्, अत एव सर्वानुग्राहकश्च भवतीति। अस्य शिवतत्वस्य षडध्वव्याप्ति: । स्वराः षोडश वर्णाध्वा तारादं नवकं पदम्। मन्त्रौ षडर्णपञ्चार्णौ तत्त्वं तत्र शिवात्मकम् । नेन्तं नमःपरायाद्यं त्रिपञ्चभुवनान्यपि। निवृत्यादीनि पञ्चात्र शान्त्यतीतादयः कलाः ॥ सर्वत्रान्ते पदं योज्यं स्यात् षडध्वात्मने नमः ॥६॥ अथ शक्तितत्त्वमाह - चिदचिदनुग्रहहेतोरस्य सिसृक्षोर्य आद्य उन्मेषः । तच्छक्तितत्त्वमभिहितमविभागापन्नमस्यैव ।। ७।। इति। अयमर्थः-पशुपाशानुग्रहार्थ सिसृक्षोः परमे- धरस्याधो य उन्मेषः उन्निद्रभाव:, ईक्षणमिति यावत्। तच्छ-
"प' ख. ग. पाठ :.
100
Page 101
७< तत्त्वप्रकाशे सव्याख्ये
क्तितत्वमित्युक्तं, शिवतत्त्वादभिन्नं च, शक्तितद्वतोर्भेदासंभ- वादिति। ननु कथं शक्त: सद्भावावगमः । कार्यानुपपत्त्येति ब्रूमः । निष्क्रियस्य शिवस्य जगत्सृष्ट्यादिकं शक्त्यभावे ने संभवतीति तत्सिद्धिः । तथाहि-यथामेरङ्गुलिसंयोगे वि- धमानेऽपि (बन्धा? मण्या)दिप्रतिबन्धकसज्जावदशायां स्फोट- कार्यानुज्जवादग्न्यङ्गुलिसयोगव्यतिरिक्ता दाहिका शक्ति: क- ल्प्यते, तथात्रापि पञ्चविधकार्यान्यथानुपपच्या शक्तिसद्ाव- सिद्धिः । न चाग्न्यङ्गुलिसंयोग एव स्फोटहेतुरिति वाच्यम्। तस्य प्रतिबन्धाप्रतिबन्धावस्थयोः सव्वावेनाविशेषेण स्फोट- कार्योद्यप्रसङ्गात्। न च प्रतिबन्धकाभावात्मककारणाभावात् तदानी कार्यानुदयो न शत्त्यभावादिति वाच्यम्। प्रतिब- न्ध काभावस्याकारणत्वात्। भूतानां भविष्यतां देशान्तरे वर्त- मानानां च प्रतिबन्धकानामभावसव्भावेऽपि स्फोटकार्यानुत्प- च्तेस्तस्याकारणत्वसिद्धिः । न चैतस्य प्रतिबन्धकाभावस्य कारणत्वेन तद्यतिरिक्ताभावसन्ावेऽपि कार्यानुदयो घटत इति वाच्यम्। एतदभावस्य कारणत्वे प्रमाणाभावाद विपरी- तप्रमाणसभ्भावाच्च। तथाहि -विमतो भावः स्फोटाजनकः प्रतिबन्धकाभावत्वात् तदन्याभाववदिति। तथैतत्प्रतिबन्ध- कविगमने एतदभावसव्जावेऽपि प्रतिबन्धकान्तरसभ्ावे स्फो- टकार्यानुदयाच्चैतस्याकारणत्वसिद्धि: । न च सर्वेषां प्रति- बन्धकानामभावः कारणम्। उपरिदीपनयनस्याङ्करोत्पत्ति-
१. 'न तत् सं', १. 'ति त' ग. पाठः. ३. 'नुपपत्ते' ख. पाठः.
101
Page 102
द्वितीय: परिच्छेद: । ७९ प्रतिबन्धकस्यापनयने बीजादङ्कुरोत्पत्तिप्रसङ्गात् । अथ (न) दीपनयनप्रध्वंस: कारणं, तत्प्रागभावस्य कारणत्वात्।स चात्र नास्तीति तस्य तत्र नीतत्वादिति चेद्। नैवम् । उपरिदी-
कारणमिति वाच्यम्। उपरिनीतदीपेपु बीजाङ्करेप्वेतह्ीपन- यनप्रागभावस्य सजावात् तेभ्यो वािेभ्योऽङ्गरोत्पत्तिप्रस- डात्। अतो दपपिनयनादर्तान्द्रियं किमपि कारणं नष्टमित्य- वगम्यते। तदभावाप्रतिबन्धावस्थायां कार्यानुदयनप्रतिबन्ध- काभावस्याभावादिति। ननु शक्तर्विनाशे कारणाभावात् प्र- तिबन्धकावगमेऽमेः स्फोटकार्याभावो गतिस्तम्भने च सर्पा- देर्गमनाभावश्ष प्रसज्यते। मन्त्रेण नष्टशक्तित्वादिति चेद्। नैवम्। नष्टशक्तिज्वालानाशे पुनरुत्पद्यमानज्वालायाः शक्ति- नाशाभावेन स्फोटोदयोपपत्तेः । सर्पस्य तु ध्यातभारवशात् गमनाभावः, न शक्तिनाशादिति पुनर्गमनोपपत्तेः । तस्माद् कार्यान्यथानुपपतत्या शक्तिसभ्नावसिद्धिः। तदुक्तं भट्टपा- देन- "शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः" इति। सेयं परा शक्ति: परमेश्वरादभिन्ना। तस्या विकारा इच्छाद्याः शक्तयस्तदभिन्ना इति। तदुक्तं मातङ्गे- "पत्युः शक्तिः परा सूक्ष्मा जाग्रतो द्योतनक्षमा। तया प्रभुः प्रबुद्धात्मा स्वतन्त्रः स सदाशिवः ।।"
१. 'प' ख. पाठ :.
102
Page 103
८० तत्वपकाशे सव्यारये
इति। अस्य शक्तितत्त्वस्य षडध्वव्याप्ति :- "अनन्तायेति पूर्व यत पदानां तु चतुष्टयम्। तत्त्वशक्ति: कलातीता पूर्वस्मान्तु विशिष्यते"॥।७॥ अथेदानी सदाशिवादिशुद्धतत्त्वानां स्वरूपं निरू- पायतुमाह- ज्ञानक्रियाख्यशक्त्योरुत्कर्षनिकर्षयोरभावेन। यः प्रसरस्तं प्राहुः सदाशिवाख्यं बुधास्तत्त्वम् ॥८॥। इति। अयमभिप्रायः-पराशक्तिविकारभूतज्ञाने- च्छाक्रियाशक्तीनां प्रसरावस्थायां ज्ञानक्रियात्मकशक्तिद्वय- साम्ये सतीच्छोद्रेको यदा विवक्ष्यते, तदा शिवतत्वं सदाशि- वाभिधानमिति। तदुक्तं सिद्धान्तहृदये- "ज्ञानक्रियाख्ये न्यक्तुल्ये शक्तीच्छोद्रेकमश्नुते। यदा सदाशिवाख्यस्तु तदासौ शिव उच्यते ॥" इति। तत् तत्वं स्फटिकनिभम्। तदुक्तं चन्द्रज्ञाने - "सदाशिवाख्यं विमलं शुद्धस्फटिकसन्निभम्" इति। अस्य सदाशिवतत््वस्य षडध्वव्याप्तिः । वर्णाध्यात्र ककारः स्याच्छाश्वैतायादिकं त्रिकम्। पदाध्वा च स्वयं तत्त्वभुवने शान्तिरेव च ।। ८ ।। ईश्वरतत्त्वनिरूपणार्थमाह- न्यग्भवति यत्र शक्तिर्ज्ञानाख्योद्विक्ततां क्रिया भजते। ईश्वरतत्वं तदिह प्रोक्तं सर्वार्थकर्त सदा ॥ ९ ॥ १. 'ति तन् पूर्व प', २. 'स्व' ग. पाठः
103
Page 104
द्वितीय: परिच्छेदः । <१
इति। न्यग्भूतज्ञानेच्छात्मकशक्तिद्वयसाम्ये सति यदा क्रियोद्रेको भवति, तदा शिवततत्वमीश्वराभिधानं भव- ति। तत् सर्वतत्वानां कर्तृस्वभावं, क्रियोद्रेकात् । तत पाव- काभम्। तदुक्तम्- "अत ऊर्ध्वे भवेदन्यदीश्वरावरणं महत्। दीप्षपावकवर्णाभं विद्येशास्तत्र संस्थिताः ।।" इति। ननु ज्ञानेष्छान्यग्भावे क्रियाशक्तरसंभवः, तत्पूर्वक- त्वात् क्रियाया इति चेतु । नैवम्। ज्ञानेच्छान्यग्भावस्य स्वविषयं प्रकाश्य तूष्णीम्भावरूपत्वेनसत्वरूपत्वाभावात्। तदुक्तं सिद्धान्तहृदये - "ज्ञानेच्छे न्यक्समे शक्ती क्रियाधिक्यं यदाश्नुते ! तदासावीश्वराख्यां तु लभते परमेश्वरः ॥" इति । अस्य षडध्वव्याप्तिः-खकारो वर्णाध्चा। ध्यानाहा- रायेत्यादीनि त्रीणि पदानि। 'नं ईशानमूघ्ने', 'नमः शिवाये'- ति मन्त्रौ। स्वयं तत्त्वाध्या। अनेन्तादिशिखण्ड्यन्तानि भुव- नानि । विद्या कलाध्वा ॥ ९। विद्यातत्त्वं वर्णयति- - न्यग्भवति कर्तृशक्तिर्ज्ञानाख्योद्रेकमश्नुते यत्र। तत् तत्त्वं विद्याख्यं प्रकाशकं ज्ञानरूपत्वात् ॥ १० ॥ इति। न्यग्भूतेच्छाक्रियाशक्तिसाम्ये सति यदा ज्ञानो- द्रेको भवति, तदा शिवतत्वं विद्याख्यं भवति। तदप्युक्तम्- १. 'सिद्धत्व' ग. पाठः. २. 'नादि' क. पाठ :.
104
Page 105
८२ तन्त्वमकाशे सव्याख्ये "उद्विच्यते ज्ञानशक्तिः क्रियेच्छे न्यक्समे यदा। तदासौ शुद्धविद्याख्यः सर्वविद्यानिधिः शिवः ॥।" इति। प्रयोज़नमाह -प्रकाशकमिति। तत्र हेतुमाह- ज्ञानरूपत्वादिति। पद्मरागसमानवर्णा। तदुक्तं- "तद्वाह्ये शुद्धविद्या स्यात् कोटीनां शतलक्षका। सुदीप्ता निर्मला सूक्ष्मा पद्मरागसमप्रभा ।।" इति। अस्या: षडध्वव्याप्ति :- गकारो वर्णः । शिवायेत्या- दीनि त्रीणि पदानि। 'मं तत्पुरुषवक्राये'ति 'नमः शिवाये'- ति मन्त्रौ। शुद्धविद्या तत्त्वम्। वामाद्या नव भुवनानि। प्र- तिष्ठा कला ॥ १० ॥ ननु नादबिन्दू शास्त्रान्तरे तत्त्वमध्ये कथितौ। अत- स्तत्त्वाधिक्यमनयोरन्तर्भावो वा वक्तव्यः । तथाहि- "तदूर्ध्व बैन्दवं तत्त्वं निर्मलं सर्वतोमुखम्। परमं सर्वतत्वानामनन्तं ज्योतिरव्ययम् ।" इत्यादि। तथा विद्येश्वरविद्यामन्त्राणं सदाशिवे वृत्तिमन्ये म- न्यन्ते। ततस्तन्निरासार्थ तयोरन्तर्भावार्थ चाह- नादो बिन्दुः सकलौ सदा शिवं तत्वमाश्रितौ कथितौ। विद्येशाः पुनरीशे मन्त्रा विद्याश्च विद्याख्ये॥ ११ । इति। अयमभिप्रायः-नादबिन्दू कलावत्तया स- कलौ सदा सर्वदा शिवाख्यं तत्त्वमाश्रितौ, तदभिन्नौ कथि- तावित्यर्थः । केचित् सदाशिवं तत्त्वमाश्रितावित्याहुः । वि- घेशानन्तादयः ईश्वरतत्त्वे वर्तन्ते। तदुक्तं सिद्धान्तागमे-
105
Page 106
द्वितीय: परिच्छेद: । ८३ "अनन्तसूक्ष्मौ शिवतमैकनेत्रैकरुद्रकाः। त्रिमूर्तिपूर्वः श्रीकण्ठः शिखण्डी च ततोऽष्टमः ॥ एते विद्येश्वरास्त्वष्टावीश्वरे संप्रकीर्तिताः ।" इति। मन्त्राश्र विद्याश्र प्रकाशकतया प्रकाशकं विद्यातत्त्व- माश्रित्य वर्तन्त इति। तदुक्तं- "मन्त्रा विद्याश्र विद्यायां बीजभूता भवन्ति हि" इति ॥ ११ ॥ ननु नित्यतया विभुत्वेन चैषां क्रमासंभवात् कथं
पञ्चानामप्येषां न हि क्रमोऽस्तीह कालरहितत्वात्। व्यापारवशादेषां विहिता खल कल्पना शास्त्रे ॥ १२ ॥ इति। अयमभिप्रायः-देशकालकृतस्य प्रथमच- रमभावात्मकस्य क्रमस्यासंभवे(ति?ऽपि) शक्तिव्यापारभेदोन्ने- यभेदवशादेषां तत््वानां स्जाव आश्रीयत इति ॥ १२ ॥ ननु किमर्थ परमेश्वरतत्त्वस्य स्वत एवामी भेदा ना- भ्युपगम्यन्ते, येन शक्तिव्यापारोपाधिकृतभेदाश्रयणमित्या- शङ्कयाह - तत्त्वं वस्तुत एकं शिवसंज्ञं चित्रशक्तिशतखवचितम्। शक्तिव्यापृतिभेदात् तस्यैते कल्पिता भेदाः ॥१३ ॥। इति। यतः शिवतत्त्वस्य परमार्थतो भेदासंभवस्ततः शक्तिव्यापारोपाधिकृता एवामी पञ्च भेदाः। तञ्जेदासंभवश्र ईश्वरानेकत्वकल्पनासंभवादिति। भेदस्वरूपासंभवाद्दा। स १. 'न्ये' ख. पाठ :.
106
Page 107
८४ तज्त्वप्रकाशे सव्याख्ये चाश्रयासंभवात्। तथाहि-कोऽयं भेदाश्रयः । भिन्नो वा स्यादभिन्नो वा। यद्यभिन्ने वरतुनि भेदस्य वृत्तिः, तदैकप- दार्थाभावप्रसङ्ग:, भेदसमावेशात्। यदि भिन्ने भेदस्य वृत्तिः, किं तर्हि भेदेन प्रयोजनम् । वस्तुनः पूर्वमेव भिन्नत्वात्। अस्तु भेदवति भेदस्य वृत्तिः । तत्र यदि भदान्तरेण भिन्ने तड्त्त्यभ्युपगमः तदानवस्था। भदान्तरस्यापि भिन्नवृत्ति- त्वात्। न च स्वरेनैव भिन्ने स्वयं वर्तत इति वाच्यम्। आ- त्माश्रयप्रसङ्गात्। तस्मादभिन्न एव वस्तुनि भेदस्य व्र- त्तिरभ्युपगमनीया! तदो च तस्य चन्द्रभेदवदपरमार्थत्वम्, अभिन्नवृत्तित्वादिति। न च स्वरूपमेव भेदः । अयमस्माद् भिन्न इति सापेक्षस्य भेदप्रतिभासस्याभावप्रसङ्गात्। न च घट इत्यघटव्यावृत्तेरप्यवभास इति वाच्यं, पदार्थेपु वर्तमा- नताद्यवभासेनावर्तमानतादिव्यावृत्त्या क्षणिकत्वादिप्रसङ्गा- त्। तत्त्वं वस्तुतः परमार्थतः एकम् अभिन्नम् अद्वितीयम्। किं तदित्यत आह-शिवसंज्ञं शिवाख्यम् । "प्रमाता प्र- मितं च विश्वम् शिवः सदैको बहुधा चाकशीती"ति श्रुतेः । चित्रशक्तिशतखचितमिति नानारूपशक्तिसहस्रमुद्रितम्। तदुक्तमध्वसिद्धौ - "चित्रशक्तिसहस्राढ्यं शिवतत्वं समातिगम। विभक्तं पञ्चधा चैकं शक्त्युल्लासविभेदतः ॥" इति। तस्माच्छक्तिव्यापारभेदादेव तस्य महेश्वरस्यैंते स- दाशिवादिभेदा इति ॥ १२ ॥
'था हि त' ग. पाठ :-
107
Page 108
द्वितीय: परिच्छेदः। ८५ ननु किमर्थमेतानि रपाणि करोति भगवानित्याश- झयाह - चिदचिदनुग्रहहेतो रूपाण्येतानि स प्रभुः कृत्वा। कुरुते चितामनुग्रहमनादिमलरुद्द्रशक्तीनाम् ॥१४॥ इति। अनादिमलप्रच्छादितशिवस्वभावानां पशूनां पाशानां जडानां चानुग्रहं कर्तुमेतानि रूपाणि स भगवान् करोतीत्यर्थः । तदुक्तकं- "शिवात्मकमिदं विश्वं शिव आधारकारणम् । अस्य शक्तिर्विपक्री स्यान्नियन्ता च सदाशिव: ।। ईशः कर्ता कारकश्न शुद्धविद्या प्रकाशिका। एभिरीशोऽनुगृह्णाति क्लसैमेंदैश्रराचरम् ।" इति ॥ १४ ॥ चितामचितां च कीढशम् अनुग्रहं करोति भगवानि- त्याशङ्गयाह- भुक्ति मुक्तिमणूनां स्व्व्यापारे समर्थताधानम्। जडवर्गस्य विधत्ते सर्वानुग्राहकः शम्भुः ॥१५॥ इति। भुक्ति सुखदुःखानुभवरूपां मुक्ति नित्यानन्दानुभव- लक्षणा च अणूनां संसार्यात्मनाम्। स्वव्यापारसमर्थताधानं ज- डवर्गस्य पा्शवर्गस्य विधत्ते करोति। सर्वानुग्राहकः।अतः का- रणाच्छंभुरिति। ननु सुखदुःखानुभवप्रदानस्य कथमनुग्रहरूप- त्वं, नित्यनिरतिशयानन्दे विद्यमाने विषदृषितमध्वन्नकल्पसु- खलेशप्रदानस्यानुग्रहरूपत्वासम्भवात् । दुःखानुभवप्रदान- स्याननुग्रहरूपत्वं सर्वेषां सम्मतमेवेति चेत। उच्यते। सुखानु- १. 'प' ख. पाठ :.
108
Page 109
८६ तत्त्वप्रकाशे सव्यारिये भवस्य तथाभूतस्यापि नित्यसुखरागोत्पादद्वारेणापवर्गहेतुत- यानुग्रहरूपत्वम्। दुःखानुभवस्यापि संसारवैराग्योद्देगजनन द्वारेणापवर्गहेतुतयानुग्रहरूपत्वमिति तत्प्रदातुरेतुग्राहकेत्व्रम्। ननु तथाप्यस्य न सर्वानुग्राहकत्वं, दक्षाध्वरादौ दक्षादिनि- म्रहश्रवणात्। घृणानिधित्वं च तेनैव बाधितम् । नहि घृ- णावतः कदाचिद्पि प्राणिहिंसा दृष्टेति। रागादिमत्त्वं च ते- नैवानुमितम्। नहि रागादिरहितस्य प्राणिहिंसा दृष्टेति। नै- वम्। तन्निग्रहस्य दोषनिर्हरणार्थतया सर्वलोकपथ्यतया चा- नुग्रहरूपत्वात्। तदुक्तं श्रीवायवीये - "ये के च निग्रहा लोके ब्रह्मादिषु निदर्शिताः । तेऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना॥ सदोषा एव देवाद्या निगृहीता यथोचितम्। अतस्तेऽपि विपाप्मानः प्रजाश्च विगतज्वराः ।" इति। अत्रेश्वरनिन्दा दक्षादीनां दोषः । तस्या दोषत्वं "अथ य एनं ह्ेष्टि, स एव पापीयान् भवती"त्यादिश्रुतेरवगम्यते। एवेत्यवधारणा। अनन्तफलत्वं च तथा। "शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् । देवद्रव्यापहरणं गुरुद्रव्यविनाशनम्।। हरन्ति ये च संमूढा: शिवज्ञानस्य पुस्तकम् । सुमहापातकान्याहुरित्यनन्तफलानि पट् ।" इति शिवधर्मोत्तरागमाच्च तदवगमः। अतोऽनन्तफलस्यें शिवनिन्दादोषस्य फलानुभवलक्षणेन यमदण्डेन विनाशा- १. 'म' क. पाठः. २. 'कंन' ग. पाठः. ३. 'नु' क. पाठ: ४. 'स्य नि' ख. पाठः.
109
Page 110
द्वितीय: परिच्छेदः । ८७ संभवं मन्यमानो भगवान् करुणानुन्नहृदयो निग्रहेण द- क्षादीन् स्ववशान् कृत्वा स्वप्रणामात्मकं स्वनिन्दाप्राय- श्वित्तं कारयामास। नहि प्रायश्चित्तान्तरैः खद्योतकल्पैनै- शतमःकल्पमहेश्वरनिन्दादोषपरिहारो घटते। तेषां परिमित- विषयतया परिमितानामपरिमितमहेश्वरविषयापेिमितनिन्दा- परिहारासंभवात्। यथा नैशतमसोऽनन्तस्याप्यनन्तादित्यो- द्येन प्रबलेन विनाशस्तथा महेश्वरप्रणामेनानन्तेनानन्तत- न्निन्दाप्रतिक्षेप इति। तदुक्तं श्रीवायवीये - "निग्रहोऽपि स्वरूपेण विदुपां न जुगुप्सितः । अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्तये॥ सर्वोपि निग्रहो लोके न च विद्वेषपूर्वकः । नहि द्वेष्टि पिता पुत्रं यो निगृह्यापि शिक्षयेत् ॥ निदानज्ञस्य भिषजो रुग्णे हिंसां प्रयुञ्जतः । न किश्ञिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥।" इति। तस्मादुपपन्नं सर्वानुग्राहक इति ॥ १५ ॥ ननु तर्हि भुक्तिमुक्त्योरनुग्रह्योर्मुख्यतमं निःश्रेयस- मेवासौ विदध्यात्। नामुख्यं भोगात्मकमित्याशङ्गयाह- चिदनुग्रहस्त्वयं किल यन्मोक्षः शिवसमानतारूपः । सोऽनादित्वात्कर्मण इह भोगमृते न याति संसिद्धिम्।। इति। सत्यं संसारनिवृत्त्यात्मकापवर्गप्रदानमेव मुख्या- नुग्रहो न भोगप्रदानम्। तथापि जात्यायुर्भोगफलानां कर्मणा- मनादिभूतानां फलभोगं बिना नाशासंभवात् तन्नाशं विना १. 'नन्दह', २. 'यतयाप' ख. पाठ :.
110
Page 111
८८ तत्त्वप्रकाशे सव्याख्ये निःश्रेयसानुपपत्तेस्तदर्थमेव भोगप्रदानमाश्रयणीयम्।स मोक्षः किमात्मक इत्याशङ्गयाह-शिवसमानतारूप इति । शिवे- न समानता निर्विशेषताविवेकता रूपं स्वरूपं यस्य स शिव- समानतारूपः, सायुज्यलक्षण इति यावत् ॥ १६ ॥ ननु तर्हि कर्मफलभोग एव विधातव्यः, न जगदा- रम्भमित्याशङ्गयाह - तेन विभुस्तद्द्क्त्यै कुरुते तनुकरणभुवननिष्पत्तिम्। कर्त्रा बिना न कार्य न तथोपादानकरणाभ्याम् ॥१७॥ इति। यतो भोगं बिना न कर्मनाशः, अतस्तह्हुक्त्यै भ- गर्वांस्तनुकरणभुवननिप्पाद करोति। तनुः शरीरं, सृक्ष्मस्थूला- त्मना द्विप्रकारम्। करणं च द्विविधं बाह्यमान्तरं चेति। तत्र बाह्यं कर्मेन्द्रियज्ञानेन्द्रियात्मना दशविधम्। अन्तःकरणं त्रि- विधं मनोऽहंकारो बुद्धिश्रेति। भुवनशब्दन चतुर्विशत्यधिकश- तद्यलोका उच्यन्ते। तान्येतानि भगवान् महेश्वरः करोति भोगार्थमिति। ननु कस्मान्महश्ररस्तानि भुवनानि कृतवानि- त्युच्यते। भवतु तषां सर्वेश्चरेण विनोत्पाद इत्यत आह- कर्त्रा बिना न कार्य न तथोपादानकरणाभ्यामिति। यतः कर्तुरभावे न कार्यसंभवोऽतो महेश्रस्तनुकरणभुवनानि कृतवानित्युच्यते। तथा तद्वदुपादानकारणाभावे चन कार्य जायेत। अतस्तत्रोपादानकारणमपि किश्चिदाश्रयणीयम्। एवं करणाभावे न कार्यसंभव इति करणं चात्र किश्चिदभ्यु-
१. 'का' क. पाठः. २. 'नि कृ' क. ग. पाठ :.
111
Page 112
द्वितीय: परिच्छेदः। पेयमिति। तथाहि-घटादुत्पत्तौ तावत् कुलालादि: कर्ता, ह- स्तपादादिकं करणं, मृदाद्युपादानं, चक्राद्युपकरणमिति दष्ट, तेषामेकस्याप्यभावे कार्यस्य घटादेरुत्पादासंभवात्। अतो- पत्रापि तान्यवश्याश्रयणीयानि। अन्यथा जगदात्मकस्य का- र्यंस्योत्पादासंभवादिति। ननु किं जगत्कर्तृसद्भावे प्रमाणम्। अनुमानागमावस्मदादीनाम् । अस्मद्विलक्षणानां योगिनां प्रत्यक्षमपीति ब्रूमः । तथाहि -विमतं कालाद्यवनिपर्यन्तं कार्यजातं बुद्धिमत्कारणकं, कार्यत्वाद्, यद्यत् कार्य तत्तद् बुद्धिमत्कारणकं हष्टं, यथा घटः, तथदं कालाद्यवनिपर्यन्तं कार्य, तस्माद् बुद्धिमत्कारणकमिति। न च क्षित्यादीनां का- र्यत्वस्यानुपलम्भादनिश्चितपक्षत्रत्तिरसिद्ध इत्यसिद्धत्वं हेतो- रिति वाच्यम् । अनुमानागमाभ्यां तत्कार्यत्वसिद्धेः । त- थाहि-क्षित्यादि कार्य, मूलोपादानव्यतिरिक्तजडत्वाद्, य- धन्मूलोपादानव्यतिरिक्तं जडं तत्तत् कार्य, यथा घटः, तथेदं, तस्मात् तथेति।न च क्षित्यादेरेव परमाणुभावापन्नस्य मूलो- पादानत्वाभ्युपगमादसिद्धमम्माकं मूलोपादनातिरेकित्वविशे- षणमिति वाच्यम्। परमाणोर्मूलत्वप्रतिषेधस्य वक्ष्यमाणत्वात्। तथा क्षित्यादि कार्य, परतन्त्रत्वात्, त्रिगुणात्मकत्वात्, आत्ममूलान्यवस्तुत्वाच्च, घटादिवदिति। तथा "आत्मन आकाशः संभूतः, आकाशाद् वायुः, वायोरभिः, अग्नेरापः अद्भ्यः पृथिवी"त्यादिनागमेन क्षित्यादेः कार्यत्वमवगम्यते । तथा आत्मव्यतिरिक्तस्य सर्वस्य मायामूलत्वप्रतिपादनाच्। तथाहीश्वरगीतायां -
112
Page 113
तत्त्वप्रकाशे सव्याख्ये "चतुर्विशतितच्वानि मायाकर्मगुणा इति। एते पाशा: पशुपतेः केशाश्र पशुबन्धनाः ॥ एतेषामेव पाशानां माया कारणमुच्यते।" इति न स्वरूपासिद्धं क्षित्यादिषु कार्यत्वमिति। ननु विमतं जगद् सद् भासमानत्वात्, शुक्तिरजतवदित्यनुमानेन क्षित्यादेरसिद्धत्वनिश्रयात्, शशशृङ्गं तीक्ष्णं शृङ्गत्वात्, गो- शृङ्गवदिति वास्याश्रयासिद्धतेति चेद्। नैवम्। भ्रान्तिज्ञा- नस्य शुक्तिविषयतया तदन्यासद्रूपरजतगोचरत्वानुपपत्तेः, असद्रजतासंभवेनास्य धर्म्यसिद्धदृष्टान्ततयाप्रमाणत्वात्। कार्यत्वहे तोरिवास्याप्याश्रयासिद्धत्वसाम्याच्च। प्रत्यक्षतः क्षि- त्यादे: सत्वावगमेन प्रत्यक्षविरोधाच्चारयाप्रमाणत्वमिति। न च नियतिकालाव्यक्त गुणाहंकारादेरसिद्धत्वादाश्रयैकदेशासिद्धि- रिति वाच्यम। तेषामागमादिसिद्धत्वस्योक्तत्वात। न च कालाकाशाडे नैत्यत्वेन कार्यत्वस्याभावाद् भागासिद्धो हेतु- रिति वान्यम्। तत्कार्यत्वस्यानुमानागमाभ्यां साधितत्वात्।
णम्। तथाहि -बुद्धिमत्कारणवतत्वं क्षित्यादेर्भवता साधि- तम्। तदस्माकमपि सिद्धम्। बुद्धिमतामस्मदादीनामप्यदष्ट- द्वरेण कालादितत्त्वकलापं प्रति कर्तृत्वस्य सन्भावात्। न च पुण्यापुण्यात्मके कार्यान्तरे यत् कर्तृत्वं न तदेव जगदात्मके कर्तृत्वं भविष्यतीति वाच्यम्। कारणकारणतया तदुपपत्तेः। यथा (घःप)टकारणतन्तुसंयोगमात्रकर्तुः कुविन्दस्य पैटकर्त-
१. 'घ' क. पाठः-
113
Page 114
द्वितीय: परिच्छेद: । ९१
त्वं, शरादिक्षपतुर्वा शत्रुहिंसाकर्तृत्वम्, एवं जगत्कारणकर्मक- र्वुरेवारमदादेर्जगत्कर्तत्वोपपत्तेः सिद्धसाध्यताप्रसङ्ग इति।नै-
रणवत्त्वस्य बुद्धिमत्कारणत्वशब्देन विवक्षितत्वात। अतो- डस्मदादीनां तच्चतुष्ट्यविषयापरोक्षज्ञानाभावान्न मिद्धसाध्य- तेति। नन्वप्यंशे सिद्धसाध्यताप्रसङ्गः, त्र्यणुकाहि जन्यकार्या- णाम् उपादानं त्यणुकादिकं, भूतादिजन्यकार्नागामुपादानं भूतादिकं वास्मदादिप्रत्यक्षम्। अदृष्टदारण कत्वरं चास्मदा- दीनां सिद्धम्। उपकरणं च कालादि किश्चित प्रत्यक्षम्। संप्रदानभूताश्र देवदत्तादयः प्रत्यक्षसिद्धाः । प्रथोजनं च स्थानासनादिकं प्रत्यक्षमिति भवेदेवांशे सिद्धसाध्यतेति। नैवम्। विमतस्यैव क्षित्यादेस्तथाविधकर्तृमत्तासाधनाद् यत्र द्यणुकत्र्यणुकादीनामुपादानादि कालादीनां वा न प्रत्यक्षं, तत्र तथाविधकर्तृमत्तासाधनान्नक्तदोपावकाश इति। ननु च शक्यक्रियत्वमुपाधिः, तस्योपाधिलक्षणसभ्भावात्। त- थाहि -साधनाव्यापकः साध्यसमव्याप्तिरुपाधिरिति तस्य लक्षणम्। तदस्य घटादिषु सर्वेष्वनुगतत्वाद् मूलहेतुना का- र्यत्वेनासाध्यत्वाच्ास्तीति सोपाधित्वेनाप्रयोजकत्वात् कार्य- त्वस्य व्याप्यत्वासिद्धिरिति। नैवम्। शक्यक्रियत्वस्योपाधि- लक्षणाभावेनास्य सोपाधित्वाभावात्। स च साधनव्यापक- त्वात्। तथाहि-क्षित्यादि कस्यचित् शक्यक्रियं कार्यत्वाद घटादिवदिति मूलसाधनेन साधयितुं शक्यत्वात् साधनव्या- पकत्वमिति। न च क्षित्यादि कस्यचिच्छक्यक्रिय कार्यत्वाद्
114
Page 115
१२ तत्वप्रकाशे सव्यास्ये घढादिवदित्यस्यापि कर्तृमत्त्वाद्युपाधिवशादप्रयोजकत्वमिति वाच्यम्। शक्यक्रियत्वकर्तृमत्वादि यद्यदुपाधितया भवता प्रतिपाद्ते, तस्य सर्वस्याप्येकेनैव प्रयोगेण साध्यतया सा- धनव्यापकत्वेनोपाधित्वासंभवात्। तथा सर्वानुमानेषु समा- नत्वाच्च। तथाहि-पर्वतोऽभिमान् धूमवत्त्वाद् महानसादि- वदित्यत्रापि जायमानभस्मवत्त्वस्योपाधेः सज्वावाद् धूमानुमा- नस्याप्यप्रयोजकत्वप्रसङ्गः । अथ तत्र धूमवत्वेनैव जायमा- नभस्मवत्त्वस्यापि साध्यतया नोपाधित्वमित्यस्य नाप्रयोज- कत्वमिति चेत्। नैवम् । तत्राप्यमिमतत्वस्यैवोपाधेः सन्भा- वेन तत्साधनासंभवात्। अथ धूमवत्त्वादेव जायमानभस्मव- च्वाभनिमत्त्वादिसर्वोपाधेः साध्यतया साधनव्यापकत्वसभ्भावे- नानुपाधित्वान्नात्र तद्दोष इति चेत्। तर्हि कार्यत्वेनैवात्रापि सर्वस्य शङ्कितस्योपाधेः साध्यतया सोपाधित्वासंभवान्नोक्त- दोषावकाश इति। किञ्च शक्या क्रिया चलनलक्षणा यस्य तच्छक्यक्रियं, तस्य भावः शक्यक्रियत्वमिति यद्यभ्युपगमः, तदा परमाणुमनसोरपि नित्ययोर्भवत्पक्षे शक्यक्रियत्वसन्भ्ा- वात् साध्यसमव्याप्त्यभावेन तस्योपाधित्वाभावः । यदि शक्या क्रिया उत्पत्तिलक्षणा यस्य तच्छक्यक्रियं तस्य भावः शक्यक्रियत्वमित्यम्युपगमः, तदाधिकविशेषणत्वापरनामकं व्यर्थविशेषणत्वं प्रसज्यते। उत्पत्तेरेव कर्तृमत्त्वप्रयोजकत्वेन शक्यपदवैयर्थ्यात्। न चाङ़कुरादेरप्युत्पत्तिसन्भ्ावे कर्तश- न्यतया तद्यवच्छेदार्थ शक्यपदोपादानमिति वाच्यम्। तेषां च शक्योत्पादनतया व्यवच्छेदासंभवात्। तथेतरेतराश्रयप्र-
115
Page 116
द्वितीय: परिच्छेद:। सङ्गाच्च क्षित्यादेः, कर्तशून्यत्वे सिद्धे तद्यवच्छेदकशक्य- विशेषणसार्थती, विशेषणोपाधिसद्ावेन कार्यत्वस्याप्रयो- जकत्वे सिद्धे कर्तशून्यतासिद्धिरिति। तदुक्तं- "निश्चिते तदकर्तृत्वे सोपाधित्वं भवेदिह। सोपाधित्वेऽनुमानस्य कर्तृभावविनिश्चयः ॥।" इति। न च करचरणादिनोदनीयत्वमुपाधिः । प्रासा- दप्राकारादौ तदभावात्। प्राणादौ तदसव्भावेन च साध्य- समव्याप्त्यभावात् ! तथा क्षित्यादि कस्यचित् करचरणादि- नोदनीयं, कार्यत्वाद, घटादिवदिति साधनव्यापकत्वाच्चास्य नोपाधित्वमिति। न च करादिजन्यत्वमुपाधिः । अधिकवि- शेषणत्वात्। न च क्षित्यादेर्व्यवच्छेद्यत्वम् अन्योन्याश्रयप्र- सङ्गादित्युक्तमिति, सर्पाद्याकर्षणस्वदेहप्रेरणादौ सकर्तके कर- जन्यत्वाभावेन साध्यसमव्याप्त्यभावाच्चेति। न च कार्यविशे- षस्य कर्त्रा व्याप्तिरिति वाच्यम्। विशेषस्यानुपलम्भात्। ननु किश्चित् कार्यमुपलभमानरय सकर्तृकत्वबुद्धिर्भवति, कि- ख्विदुपलभमानस्य न भव्तीत्येतदन्यथानुपपत्या कार्यवि- शेषोऽभ्युपगन्तव्यः । स च विशेषो घटादिषु सकर्तृकेष्वनु- स्यूतस्तृणादिभ्यो ह्यकर्तृकेभ्यो व्यावृत्तः सन्नेव रसविशेषवद- निर्देश्यः। तदुक्तं- "सकर्तृकेष्वनुस्यूतो व्यावृत्तोऽन्येभ्य एव सः। किश्चित्कार्यविशेषोऽन्यैः स्वीकार्यो मतिभेदतः ॥
१. 'ता। सवि' ग. पाठ :.
116
Page 117
तज्वप्रकाशे सव्यार्ये किंरूप इति वादोऽयमिक्षुक्षीरगुलादिषु। माधुर्य भेदप्रत्यक्षदष्टान्तादुपशाम्यति ।।" इति। तस्मात् स एव कर्त्रा व्याप्यते, न कार्यसामान्यमि- ति। नैवम्। गर्तोन्नयनादिकार्ये सकर्तृके ताहशबुद्धभावे- नानेकान्तात्। तदुक्तं - "गर्तोन्नयनकार्यस्य चिरकालात्यये सति। सकर्तृकत्वधीगम्यभावो नैवोपलभ्यते ॥" इति। प्रसिद्धानुमानेऽपि समानोऽयं पर्थनुयोगः । तथा- हि-पर्वतादौ धूमदशिनोऽषि कस्यचिदग्निमत्त्वं नाव- गम्यते, असंभावनादिना प्रतिबन्धात् । अत एव हि पर्वतो-
न्यासः । तेन तत्रापि विशेषकल्पनया तस्यैवाग्निना व्याप- कत्वादप्रयोजकं धूमानुमानमापद्यत इति। अथ तत्र धूमवा- नग्निमानिति सामान्यव्याप्तिग्रहणबलादनुमानं प्रवर्तत इति चेद, अत्रापि तर्हि कार्य कर्तृपूर्वकमिति सामान्यव्याप्िग्रह- णबलादनुमानप्रवृत्तिराश्रयणीया विशेषाभावादिति। न च घटत्वं कर्तृमत्त्वे प्रयोजकम्। पटस्य तदभावेन कर्तृमत्त्वाभाव- प्रसङ्गात्। नापि पटत्वं, घटादेस्तदभावेनाकर्तृमत्त्वप्रसङ्गात्। न च घटत्वपटत्वकुड्यत्वादयः सर्व एव कर्तृप्रयोजका इति वाभ्यम्। प्रयोजकबहुत्वापातात्। न च तद् युक्तं,व्यक्तीना- मेव कर्तृप्रयोजकत्वप्रसङ्गेन घटान्तरस्याकर्तृमत्त्वप्रसङ्गात्। आनन्तेन कर्त्रा सह व्याप्तिग्रहणासंभवस्योभयत्रापि तुल्यत्वा- तू। तथा महानसत्वशालात्वादे: प्रयोजकत्वापातेन धूमवत्त्व-
117
Page 118
द्वितीय: परिच्छेदः । स्याप्रयोजकत्वप्रसङ्ग:। तदुक्त - "घटादिव्यक्तिमात्राणां कर्त्रा व्याप्तिर्न गृह्यते ; यथानन्त्यं तथा जातर्घटत्वादेः प्रतीयताम्॥" इति। ननु तर्हि प्रमेयत्वादेरेवाधिकव्याप्त्या कर्त्रा व्याति- राश्रयणीया, न कार्यत्वस्येति चेतू। न। अन्यथासिद्धत्वात्। स्वगोचरज्ञानमात्रेण प्रमेयत्वं सत्त्वं च कर्त्रभावेऽपि पदा- र्थानामभ्युपगतं भवता। अस्मत्पक्षेऽपि मायापुरुषशवानां कर्तृहीनानामपि प्रमेयत्वं सत्त्वं चाभ्युपगतम्। अतः प्रमेयत्वा- दे: कर्तृव्याप्त्यसंभव इति। कार्यत्वं तु कारणविशेषस्य कर्तुः कारणान्तरसम्पादकतया प्रधानभूतस्याभावे न संभवति। न हि मृद्दण्डचक्रादिसव्वावेऽपि तत्प्रयोक्तुः कुलालस्याभावे घटो- त्पादो घटते। कुलालसज्जावे तु कारणान्तरनिष्पत्या कार्यज- न्मोपपत्तिरिति कार्यत्वात् कर्तृसद्भावसिद्धिरिति । किञ्ञव का- र्यत्वं हि पदार्थानामुत्पत्तिः। सा च कारणक्रियामपेक्षते। सा च पुरुषव्यापारं बिना न भवति। स तु प्रयत्नाद्टते न स्यात्। स चेच्छां बिना न भवति। इच्छा चेष्टसाधनज्ञानं बिना न स्यादि तिकार्यत्वं बुद्धिमत्कारणाभावे न भवतीति तत्प्रयोजक- त्वान्नास्यासिद्धत्वमिति। नापि विरुद्धोऽयं हेतुः। पक्षविपक्षयो- रेव वर्तमानो विरुद्ध इत्युक्तवविरुद्धलक्षणाभावात्। तथाहि- सपक्षे घटादौ कार्यत्वस्य वर्तमानत्वाद् विपक्षे चाकर्तृके मू- लकारणशिवादौ कार्यत्वस्याभावादस्य पक्षविपक्षयोरेव वर्तमा- नत्वासंभवाद् विरुद्धत्वाभाव इति। ननु सर्वज्ञकर्तृकत्वं कषि-
१. 'वे: पट' क. पाठ:
118
Page 119
९६ तत्त्वप्रकाशे सव्यारये त्यादेः साध्यते, नान्यकर्तृकत्वम्। असर्वज्ञस्य प्रपश्चकर्तृत्वा- संभवात्। तथाहि-जगदुपादानादिचतुष्टयविनियोगक्रम- विषयप्रत्यक्षज्ञानवत एव कर्तृत्वं साध्यते। ततस्तस्य सर्वज्ञ- त्वम्। सर्वज्ञनिर्मितस्य चान्यस्य संप्रतिपन्नस्याभावात् सप- क्षाभाव इति सपक्षे सत्वाभावः। तेन कार्यत्वस्य क्षित्यादि- कालान्ते पक्षे वर्तमानस्य सर्वज्ञनिर्मितत्व्रसाध्यरहिततया विपक्षभूतघटादौ च वर्तमानतया पक्षविपक्षयोरेव वर्तमान- त्वाद् विरुद्धत्वमिति। तथा शरीरिकर्तृत्वस्याप्यङ्कुरादाव- सरवेनाशरीरिकर्तकत्वमपीह साध्यते। तत्र च सपक्षाभावेन सपक्षे सत्वाभावात् कार्यत्वस्य पक्षविपक्षयोरेव वर्तमानत्वाद् विरुद्धत्वमिति। नैवम्। सर्वज्ञाशरीरिकर्तृकत्वस्यात्रासाध्य- त्वात्। तथाहि-विप्रतिपत्त्यनुरूपेणात्र साध्यनिर्देशाद यदा किं सकर्तृकं क्षित्यादि अकर्तृकं वेति विप्रतिपत्तिः, तदा सकर्तृकं क्षित्यादीति साध्यनिर्देशः। यदा बुद्धिमत्पूर्वकं वा नवेति, तदा बुद्धिमत्पूर्वकं क्षित्यादीति साध्यनिर्देशः। यदा सोपादानोपकरणादिप्रत्यक्षवरता जन्यं वा नवेति, तदा उपादानादिप्रत्यक्षवता जन्यमिति साध्यनिर्देशान्न विरुद्धत्वं, घटादौ सपक्षे साध्यसाधनयोः सव्भावात्। न च कदाचिदपि सर्वज्ञाशरीरिकर्तकं क्षित्यादीति साध्यनिर्देशः, तथा विप्रति- पत्यभावात्।स चासवज्ञशरीरिकर्तकत्वस्य क्षित्यादीनां भव- द्विरनाश्रितत्वादिति। ननु तथा साध्यनिर्देशेऽपि तथाविध- कर्तुरभिप्रेततया कार्यत्वस्य विरुद्धत्वमिति चेद। न । सर्वानु- मानेषु समानत्वात्। तथाहि-पर्वतस्याभिमत्त्वं यः साधय
119
Page 120
द्वितीय: परिच्छेदः। ९७ नाभिप्रेतम् । किन्तु महानसादिगतवह्निव्यतिरिक्तपर्वतग-
नाभिमत्त्वमभिप्रेतम्। तस्य महानसादावभावाद् धूमानुमान- मपि विरुद्धमापद्येत। अथ तथापि तत्साध्यस्य शब्देनानुपा- दानात् पर्वतस्य स्वगताभमिनाभनिमत्वस्य साधनाच्च न वि- रोध इति चेत्। तर्हि प्रकृतेपि सर्वज्ञाशरीरिकर्तृकत्वस्य शब्देनानुपादानात् क्षित्यादेः स्वोपादानसमर्थकर्तृमत्त्वस्य साधनाच्च नोक्तदोषावकाश इति। न चौसर्वज्ञशरीरिव्याप्त- त्वात् कार्यत्वमपि शरीरिसर्वज्ञविशेषं प्रतिक्षिपतीति वाच्यम्। कार्यत्वस्य शरीरिकर्तृव्याप्त्यभावात्। स च तृणादौ तथा- विधकर्तुरभावेऽपि कार्यत्वोपलम्भादवगम्यते। तदुक्तं- "परोऽपि न शरीरस्य व्याप्तिमिच्छति वस्तुतः। प्रत्यक्षबाधया देही नाश्रितो यदिहाङ्कुरे ॥" इति। न च शरीरिकर्तुरभावे कर्तृमात्रस्यासत्त्वं, तस्यायो- ग्यत्वात्। तदुक्तं- "न चाशरीरिकर्तृत्वं बाध्यं देहे तु बाधिते। शरीरस्येव योग्यत्वं यतो नास्ति परात्मनः ॥" इति। ननु न कार्यत्वं स्वव्यापकशरीरिकर्तृविरुद्धत्वान्नाशरी- रिकर्तृनिषेधकं, किन्तु स्वव्यापककर्तृसामान्यविरुद्धत्वादिति बूमः । यत्र कुलालादौ कर्तृत्वं, तत्र नाशरीरितम्। यत्र मुक्तात्मन्यशरीरित्वं, तत्र न कर्तृत्वमिति कर्तृत्वाशरीरित्वयोः १. 'लाननु', २. 'च वि', ३. '्थै' ख. पाठ :- ४. 'च' क. पाठ:, ५. 'र' कु, ६. 'र', ७. 'र' ग. पाठ :.
120
Page 121
९८ तत्त्वप्रकाशे सव्याखये सहानवस्थानलक्षणविरोधसन्ावेन स्वव्यापककर्तृविरुद्धत्वाद् अशरीरिकर्तारं कार्यत्वमेव प्रतिक्षिपति। धूमवत्त्वमिवाशीत- भाखवरािव्यापं शीतान्धकाराभिमिति चेत्। नैवम्। कार्य- त्वस्य कर्तृसामान्येन व्याप्त्यभावे प्रतिक्षेपायोगात्। तथा च यदि कार्यत्वस्य कर्तृसामान्येन व्याप्तिः, तर्हि न कार्य- त्वव्यापक: कर्ता। तेन तद्विरुद्धत्वेऽप्यशरीरित्वं न प्रतिक्षि- पेत्। स्वाव्यापकाविरुद्धत्वात् तस्य। यदि कार्यत्वं कर्तृसा- मान्येन व्याप्तं, तदा च न प्रतिक्षेपः, कर्तसामान्यापर्यवसा- नलभ्यत्वाद् विशेषस्य। यथा पर्वते परिदृश्यमानधूमेनामि- सामान्यमनुमाय तदपर्यवसानान्महानसादावपरिद्टष्टोऽग्निवि- शेष: पर्वते कल्प्यते, तथैव प्रपञ्चे परिदृश्यमानं कार्यत्वं क- रतारं विनानुपपद्यमानं कर्तृसामान्यमवस्थापयत् तस्यापि विशे- षणद्वारेण सम्बन्धसिन्ध्र्थ शरीरिविशेषणमसंभवात् परिहत्य तद्विपरीतं सर्वज्ञमशरीरिविशेषं व्यवस्थापयत्येव। अन्यथा स्वव्यापककर्तृसामान्यव्यवस्थापनासंभवात्। न च तद्युक्तं, व्याप्यसच्भावे व्यापकासत्त्वस्यानुपपन्नत्वात्। नहि धूमस- द्ावेऽग्न्यभाव उपपद्यत इति। न चाव्याप्तत्वेऽपि व्याप्त्यु- पलम्भमात्रेण प्रतिक्षेप इति वाच्यम्। तस्याप्रमाणत्वात्। नहि कृतकत्वं नित्यताव्याप्तमिति केनचिदुक्ताप्रमाणवाक्य- सिद्धव्याप्त्यपेक्षया कृतकत्वेन तद्विरुद्धानित्यत्वप्रतिक्षेपो घट- त इति। न च कर्तृत्वमदेहि्त्वेप्रतिक्षेपकं, कार्यत्वेन साधि- १. 'र' क. ग. पाठ :. २. 'ए' ग. पाठ :. ३. ख. ग. पाठ :- ४. 'तवमदेहित्वप्र' ख. पाठः.
121
Page 122
द्वितीय: परिच्छेद: । ९९ तस्य कर्तृत्वस्याशरीरिविशेषाभावेऽनुपपन्नतया तस्याक्षेप्यत्वा- त्। न व शरीरिविशेषाक्षेपेणाशरीरिविशेषप्रतिक्षेपः । तस्य योग्यानुपलम्भनिरस्ततयाक्षेपासंभवात्। न च साधिनस्य क- र्तृत्वस्य विशेषद्वयराहित्यं संभवतीत्यशरीरिकर्त्रभयुपगम इति। नाप्यङ्कुरादाव साधितस्यादेहित्व प्रतिक्षेपकत्वम्, अविरो- धादिति। तथा मोक्षावस्थायां शरीरेन्द्रियाद्यभावेऽप्यात्मगु- णनित्यसुखविषयबुद्धिसन्ततिसंभवं भगवान् भट्टपादो मन्य- ते। तेनादेहित्वैबुद्धिमत्कारणत्वयोर्न विरोधः । पूर्वबुद्धिविशि- ष्टस्यात्मनः उत्तरबुद्धयुत्पत्तिहेतुत्वाभ्युपगमादिति । किञ्च य- दि जगत्कर्त्रनुमानस्यैवं विरोधोभ्भावनं, तदा परमाण्वनुमान- स्यापि भवताभ्युपगतस्य विरोधप्रसङ्गः । तथाहि-आद्यं कार्य स्वन्यूनानेकसमवायिकारणं, कार्यद्रव्यत्वाद् घटादिव- दिति परमाण्वनुमानम्। तेनाद्यकार्यकारणतया परमाणूना नि-
तत्राप्ययं दोषः सुव्यक्तः। यत्र भवत्पक्षे व्योमादौ नित्यत्वं, तत्रासर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वं नारिति । यत्र पुनर्ध- टादौ मूर्तत्वं, न तत्र नित्यत्वमिति मूर्तत्वनित्यत्वयोः सहा- नवस्थानलक्षणविरोधसन्भावात् परमाण्वनुमानमपि विरुद्धमा- पद्यते इति, तथा परात्मानुमानमपीति। तथाहि-परशरीरचे- ष्टा आत्मपूर्विका जीवच्छरीरचेष्टत्वाद् अस्मच्छरीरचेष्टावदि- ति परात्मानुमानम्। तत्रापि यत्रात्मत्वं स्वात्मनि तत्र न
१. 'तु' स. पाठः. २. 'र' ख. ग. पाठ :. ३. 'त्वबुद्धिबु' ख. पाठः
122
Page 123
१०० तत्वपकार सव्यारुये परत्वं, यत्र परत्वं घटादौ तत्र नात्मत्वमिति परत्वात्मत्वयो- र्विरोधात् परात्मानुमानासंभव इति । अथ यदि द्रव्यसम- वायिकारणस्य मूर्तस्य नित्यत्वमन्यत्र न हष्टं, तथाप्योद्यकार्य- कारणतया नित्यत्वं व्रस्याभ्युपेयम्। अन्यथानवस्थाप्रसङ्गात्। तस्य च नित्यत्वमर्थादवगम्यते। आद्यकार्यस्य स्वन्यूनसम- वायिकारणकत्वमात्रसाधनान्नात्र विरोधः । तथा परात्मानु- माने (ति?) परशरीरगतायाश्रेष्टाया आत्मपूर्वकत्वमात्रसाध- नात् स्वव्यापारस्य तत्र योग्यानुपलम्भनिरस्तत्वात् परत्वमर्था- दवगम्यते न शब्दत इति न विरोध इति चेत् । एवं तर्हि जगत्कर्त्रनुमानेऽपि सकलविनाशे सत्याद्यकार्यकारणस्य बुद्धि- मन्मात्रस्य साधने तस्यानित्यतायां कर्त्रन्तरकारर्णोन्तरकल्पन- यानवस्थानप्रसङ्गेन तस्य नित्यत्वमर्थादवगम्यते न शब्दंत इति। तथा कर्तृमात्रसाधने शरीरिणो योग्यानुपलम्भनिरस्त- त्वेनाशरीरिणोऽर्थादवगम्यमानतया च न विरोध इति समा- नः पन्थाः। ननु पक्षधर्मताव्याप्तिग्राहकप्रमाणाभ्यां प्राप्तयोर्वि- शेषयोर्विरोधे न कश्चिदर्थः सिध्यति। तथाहि-व्याप्तिबला- च्छरीर्य सर्वज्ञानीश्वरसंसारी कर्तीवगम्यते। पक्षधर्मतया च कार्यस्य तदुत्पादनसमर्थः सर्वज्ञोऽशरीरी नित्यो नित्यमुक्तः सर्वेश्वरः कर्तावगम्यते। तदनयोरितरेतरसापेक्षयोर्विरोधे न किश्चित् सिध्येत्। नैवम् । सर्वानुमानेषु समानत्वात्। तथा- हि-धूमानुमाने तावद् दष्टान्तभूमिगतप्रत्यक्षाननुमेयसंप्र-
१. 'पा', २. 'ति तथा प' क. पाठ :. २. 'का' ख. ग. पाठ: ४. 'त्रा' क. ग. पाठ:
123
Page 124
द्वितीय: परिच्छेद: । १०१
विशेषो व्याप्तिग्राहकप्रमाणेनावगम्यते। पक्षधर्मतया तु पर्वत-
शिष्टोऽवगम्यते। तत्रापि न किश्चित् सिध्येदिति। अथ धूमवा- नग्निमानिति सामान्येन व्याप्तिग्रहणं न विशेषत इत्यत्रानु- मानप्रवृत्तिराश्रीयत इति चेत्। तर्हि प्रकृतेऽपि कार्य बुद्धिम- त्कारणकमिति सामान्येनैव व्याप्तिग्रहणं न विशेषतः, अङ्कु- रादौ तथाविधकर्तृदर्शनादिति भवत्येवानुमानप्रवृत्तिरविशेषा- दिति। ननु किं तर्हि दृष्टान्तदष्टमाश्रयणीयं दार्श्टान्तिके इति चेद्, अविरुद्धमिति ब्रूमः । न च शरीरकरणनिवृत्त्या कर्तृ- त्वनिवृत्तिरिति वाच्यम्। स्वशरीरप्रेरणाकर्षणादिष्विवेच्छां- त्मककरणान्तरसन्भावादपि कर्तत्वोपपत्तेः। न च स्वशरीरप्रे- रणे प्रेर्यस्य शरीरस्य करणत्वं संभवति । कर्मणः करणत्वा- संभवात्। नह्यङ्गुल्यग्रेण तद्ग्रस्पर्शनमुपपद्यत इति। न च तत्र शरीरान्तरं करणमिति वाच्यम्। अनवस्थाप्रसङ्गात्। न चपक्षे देहैसंबन्धः सर्वत्राव्यभिचारेण करणमिति वाच्यम्। देहसंबन्धस्य हस्ताङ्गुल्यादिप्रेरणे कर्त्रानपेक्षितत्वात्। तथा- हि-हस्तस्योत्क्षपणमवक्षेपणं वा कुर्वन्नात्मा तत्सम्बन्धमेवा- पेक्षते, न तु पुनर्देहसंबन्धम्। तस्मिन् विद्यमाने हस्तसंबन्धवि- नाशे काष्ठीभूतेऽस्मिन् हस्तक्रियाकर्तृत्वादर्शनात्।अतः केवल- व्यतिरेकात् साक्षादिच्छानुविधायिक्रियाश्रयत्वयोग्यत्वमेवात्र १. 'न्त' क. ख. पाठ :. २. 'का' ख. पाठ :. ३. 'हवद्वन्घः' ग. पाठ:,
124
Page 125
१०२ तत्त्वप्रकाशे सव्यार्ये प्रयोजकम्। तत् प्रपश्चे भगवतोऽनुमानसिद्धम्। तथाहि- विमतं मूलकारणादि कस्यचित् साक्षादिच्छानुविधायिक्रियाश्र- यत्वयोग्यम् अचेतनत्वाद् देहवदिति।अत एवाशरीरित्वेऽपि पुराणोक्ताष्टमूर्तित्त्वविरोधः परिहतः । साक्षादिच्छानुविधायि- क्रियाश्रयतादेहलक्षणसभ्भावेन मूलाद्यवन्यन्ततत्त्वजातस्य म. हेश्वरदेहतया मूर्तिमत्वोपपत्तेः । ननु कथं तर्ह्यदेहित्ववच- नम्। उच्यते। यथोपादानभूतमृत्तत््वाद्यतिरिक्तं शरीरं कु- लालकुविन्दादेरुपलब्धं, तथा मूलकारणतत्कार्याद्यतिरिक्तमत्र शरीर नास्ति भगवत इत्यदेहित्वोपपत्तिरिति। नाप्यनैका- न्तिकत्वं, पक्षत्रयवृत्तिरनैकान्तिक इत्युक्ततल्लक्षणाभावात्। तथाहि-यदि कालाद्यवन्यन्तेषु विमत्यधिकरणतया स- न्दिग्धसाध्येषु पक्षेषु घटादिषु च निश्चितसाध्यतया सपक्ष- भृतेषु कार्यत्वस्य वृत्तिः तथापि निश्चितसाध्यव्यतिरेकतया विपक्षभूतेषु मायापुरुषशिवेषु कार्यत्वहेतोर्वृत्त्यभावात् पक्षत्र- यवृत्त्यभाव इति। नन्वङ्कुरादिषु कर्तृशून्येषु कार्यत्वस्योप- लम्भात् पक्षत्रयवृत्तित्वेन कार्यत्वस्यानेकान्तत्वमिति चेद्। न । अङ्कुरादेः पक्षत्वेन विपक्षत्वाभावात्। ननु नाङ्कु- रादे: पक्षत्वं, सन्दिग्धकर्तृकत्वाभावात्। तथाहि-सन्दि- ग्धसाध्यः पक्ष इति हि पक्षलक्षणम्। तदङ्कुरादेर्नास्ति। निश्चितसाध्यव्यतिरेकतया विपक्षत्वादिति चेद् । नैवम्। प- रस्य बुद्धिमतः साध्यस्य प्रत्यक्षानर्हत्वेनासत्वानिश्रयादङ्करादे:
१. 'र' ख. ग. पाठः. २. 'र्यव्यति' ग. पाठ :.
125
Page 126
द्वितीय: परिच्छेदः । १०३ सन्दिग्धसाध्यत्वोपपत्तेरिति। न च सन्दिग्धानैकान्तिकत्वं कार्यत्वस्याशङ्कनीयम् । विपर्यये बाधकतर्कस्योक्तत्वात्। तदुक्तं- "कारकाणां च सर्वेषां नियोक्तुर्यदि नासतिता। वैयर्थ्यं स्यात् तदा तेवां सतामप्यसतामिव ॥" इति। नाप्यनध्यवसितत्वं, साध्यासाधकपक्ष एव वर्तमा- नोऽनध्यवसित इति तल्लक्षणाभावात्। न हि नित्या भू: गन्धवत्त्वादितिवत् कार्यत्वस्य पक्ष एव वृत्तिः, सपक्षे घटादौ च वर्तमानत्वादिति। न चासौ कालात्ययापदिष्टः, प्रमाणेबा- धिते प्रतिज्ञातार्थे वर्तमानो हेतुः कालात्ययापदिष्ट इति प्रोक्ततल्लक्षणाभावात्। न चानुष्णोऽग्निः कृतकत्वाद् जलव- द्वितिवदस्य प्रत्यक्षविरुद्धकालात्ययापदिष्टत्वं, परात्मनो बुद्धि- मत्कारणस्य प्रत्यक्षानर्हत्वात्। प्रत्यक्षानर्हस्यापि तदनुपल- म्भेनासत््वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः। तथा घटादा- वपि कर्ता कुलालः प्रत्यक्षतो नावगम्यते। शरीरस्य कर- णभूतस्यैव प्रत्यक्षत्वात्। न तु शरीरस्य कर्तृत्वमचेतनत्वात् कुठारवदिति कुलालादिशरीरस्य कर्तृत्वे निषिद्े तद्य- त्मन: कर्तृत्वं शरीरस्य च करणत्वमवशिष्यत इति न क्. चिदपि कर्तुः प्रत्यक्षार्हत्वमिति न तदनुपलम्भेनासत्वमिति केचित्। अन्ये तु शरीरत्वेऽपि कर्तुः सूक्ष्मत्वदूरस्थत्वादिना- नुपलम्भसंभवात् कार्यदेशे तदनुपलम्भी नासत्वादिति ब्रु वते। तदुक्तं-
१. 'नव' क. ग. पाठ :. २. 'णा' ख. पाठः. ३. 'म्भे' क. पाठ:
126
Page 127
१०४ तत्त्वप्रकाशे सव्यारुये "यतः कार्यस्य कर्त्रा तु विना भावो न विद्यते। अतो देशान्तरस्थोऽयमिच्छया कुरुते जगत् ।" इति। द्विविधमिह कार्य कायिकव्यापारजन्यमिच्छामात्रजन्यं चेति। तत्र कायिकव्यापारजन्यं घटादि। तदेव शरीरस- न्निधानमपेक्षते। इच्छामात्रजन्यं त्वाकर्षणादि। न तच्छ- रीरसन्निधानमपेक्षते। योजनशतव्यवहितसर्पाद्याकर्षणस्य दू- रस्थैः क्रियमाणत्वादिति। अपरे तत्र वर्तमानस्य शरीरस्या- योग्यत्वात् प्रत्यक्षेणानुपलम्भो नाभावादिति ब्रुवते। त- दुक्तं- "अथवा दश्यमेवास्तु शरीरं चक्षुरादिवत्। श्रतिस्मृतिभ्यां तत् सिद्धं शशशृङ्गो न ताहशः ॥" इति। ननूक्तं शरीरस्यानित्यत्वे स्वयं निजशरीरस्य निर्मा- णमतिसाहसं, करत्रन्तरविनिष्पत्तावीश्वरानन्त्यमापतेदिति। सत्यम्। बीजाङ्कुरवद् देहस्यानादित्वेन न विरोध इति के. चित्। तदुक्तं - "पूर्वसिद्धेन देहेन शरीरान्तरकर्तृता। तच्च पूर्वेण देहेनेत्यनादित्वमिहाश्रितम् ।।" इति। एकब्रह्माण्डतद्वर्तिसकलकार्यविनाशे ब्रह्माण्डान्तरस- दावात् तत्र स्थित्वासौ कार्य करोतीति न कश्चिद् दोषः। अण्डानां बहुत्वं श्रुतिस्मृतिसिद्धम्। "यथा खल्वलाबूल- तायां विततानि फलानि, एवं महेश्वरशक्तौ ब्रह्माण्डसहस्रा- णीशति श्रुतेः, 'हि त' ख. पाठ :.
127
Page 128
द्वितीय: परिच्छेदः । ईदृशानां तथाण्डानां कोट्ो ज्ञया: सहस्रशः। तत्र तत्र चतुर्वकरा ब्रह्माणो हरयो भवाः ।" इति स्मृतेश्र तदवगमः । अन्ये नित्यं माहेश्वरं शरीरम् अ- नादित्वात्, तच्चानादिसृष्ट्यादिकर्तुर्महेश्रवरस्य देहानादित्व- स्याभ्युपगमनीयत्वात। तच्छरीरं मायेति चाहुः । अपरे श- ब्दुब्रह्मतनुत्वं भगवतो मन्यन्त इति। अथ प्रत्यनुमानबा- धितमिदमनुमानम। तथाहि- क्षित्याद्यसर्वज्ञकृतं कार्य- त्वादित्यनुमानात् सर्वज्ञकर्तृकत्वानुमानस्य सप्रतिसाधनत्व- मिति। तदसत्। विकल्पानुपपत्तेः । किं सर्वज्ञकर्तृनिषेधमात्रं विवक्षितं, किं वा किश्चिज्ज्ञकर्तृमत्त्वं, किं वा कर्तृशून्यत्वम्। नादः पक्षः । असर्वज्ञकर्त्रभ्युपगमप्रसङ्गाद् वामेनोक्षणा न पश्यतीति विशेषनिषेधवत्। विशेषनिषेधस्य शेषाभ्यनुज्ञा- विषयत्वात्। अथ परस्य सर्वज्ञकर्तृकत्वमभिमतमिति तन्नि- षेधमात्रमत्र क्रियत इति चेन्नैवम्। कर्तृमात्रनिषेधादेव सर्वज्ञ- कर्तृनिषेधसिद्धेस्तदेव निषेध्यं न विशेष इति। तथा घटा- दीनामप्यदष्टादिप्रेरणद्वारेण सर्वज्ञजगत्कर्तपूर्वकत्वस्याभ्युप- गमनीयत्वात् साध्यविकलदृष्टान्तता च भवेत्। न च त- त्रान्यः कर्ता। कर्तृभेदे प्रमाणाभावात्। न च कार्यमहत््वात् कर्तृबहुत्वकल्पनं कार्यमिति वाच्यम् । इच्छामात्रजन्ये कार्ये बहुत्वस्यानुपयोगित्वात्। कायिकव्यापारजन्ये तु तदुपादाना- दिनोदनमुपायान्तरेण यत्रैकस्यैव न स्यात् तत्रैव बहुत्वक- ल्पना। अथवा सर्वेष्वपि कार्येष्बेकस्यैव कर्तत्वान्न कचिदपि
१. 'न न' ख. पाठ :.
128
Page 129
१०६ तत्त्वप्रकाशे सव्याख्ये
बहुत्वकल्पना, एकाचार्यानुगमात्। बहुत्वेऽपीतरेषां वास्या- दिवदकर्तृत्वाद्दा। आचार्यानेकतायां च ज्ञानाधिक्यवशादे- कस्यैव कर्तृत्वं तत्साम्ये च कार्यभेदेन भागभेदेन वैककर्तृ- त्वोपपत्तिः। इतरथा तद्वैयर्थ्यापातादिति। तथा कार्यमहत्वस्य तु कर्तृमहत्त्वादप्युपपत्तेर्न बहुत्वकल्पनासंभवः। धर्मिकल्पानायां गौरवापातात्। तथा समाभिप्रायत्वे वैयर्थ्य, विरुद्धाभिप्रायत्वे कार्यवैशसप्रसङ्ग इति न सर्वथा कर्तृबहुत्वकल्पनोपपत्तिरिति। तथा घटाद्यदष्टव्यापारः क्षितिकर्तृविनिर्मितः अदृष्टव्यापा- रत्वात् क्षित्याद्यदष्टव्यापारवदित्येककर्तृत्वे सिद्धे तस्य स- रवज्ञसर्वेश्वरत्वादिसिद्धि: । अथ किश्ञिज्ज्ञकर्तृमत्त्वं विवक्षित- मिति चेन्न। अपसिद्धान्तताप्रसङ्गात्। नहि मीमांसकादयो जगतः कर्तृमात्रमभ्युपगच्छन्ति। अतो दूरनिरस्तं कि्चि- जज्ञकर्तृकत्वमिति। तथा किञ्चित््वस्य कार्योत्पादानुपयोगि- त्वाद् वैयर्थ्य च। तथासर्वज्ञस्य सर्वकर्तृत्वासंभवाद् माता मे वन्ध्येतिवत् प्रतिज्ञाविरोधप्रसङ्गः । यदि किञ्ञिज्ज्ञस्यापि कर्तृत्वं साध्येत, तदा सिद्धसाध्यता। क्षेत्रज्ञानामप्यदष्ट- द्वारेण जगत्कारणत्वाभ्युपगमात् । न च जीवानामेव कर्तृत्वसाधनात् परमेश्वरस्याकर्तृत्वमिति वाच्यम्। उपादा- नादभिज्ञकर्तुः पञ्चरूपवतानुमानेन साधितत्वात। न च जीवानां कर्तृत्वं, (मे?हे) तुत्वमात्रस्य विवक्षितत्वात्। अथा- कर्तृत्वं विवक्षितमिति चेन्नैवम्। घटादेः कर्तृमच्वेन सा- ध्यविकलदृष्टान्तत्वात्। मूलकारणद्दष्टान्तत्वे साधनविकलमु- दाहरणं, तत्र हेतोरभावात्। सत्वप्रमेयत्वादिसाधनोपन्यासे
129
Page 130
द्वितीय: परिच्छेद: । १०७
घटादिभिर्व्यिचारः। घटादेश्र पक्षतायां प्रत्यक्षविरोध इति धूमानुमानेऽप्ययं दोषः समानः । पर्वतो धर्मी अपर्वतगता- ग्निनाग्निमानिति साध्यो धर्मः धूमवत्वान्महानसवदिति वक्तुं शक्यत्वादिति। ननु महेश्वरः क्षित्यादिकर्ता न भवति अशरीरत्वात् पुरुषत्वाद्दा मुक्तात्मत्वाद्ास्मदादिवच्चेत्यनुमा- नविरोध इति चेन्नैवम्। भवतां जगत्कर्तृत्वसिद्धेराश्रयासि- द्धताप्रसङ्गात्। अथ भवत्पक्षे जगत्कर्तासिद्ध इति नाश्रया- सिद्धिदोष इति चेन्नैवम्। परसिद्धे प्रमाणमूलत्वे तेनैव धर्मि- ग्राहकेण प्रमाणेन बाध्यमानत्वात्।(न च) विपरीतानुमानस्या- नुत्थानान्नानेन तस्य बाध इति वाच्यम्। तस्य तन्मूलतया तद्वाधकत्वासंभवात् । तथापि यदि बाधाभ्युपगमः, तदा म- हेश्वरस्याप्रसिद्धत्वादस्याश्रयासिद्धताप्रसङ्गः। अथ न प्रमाण- मूला परप्रसिद्धिरिति चेन्न । तर्हि विपरीतानुमानोपन्यासः कार्यः। प्रमाणाभावादेव प्रमेयासिद्धेरस्याश्रयासिद्धिदोषप्रसं- गाच्चेति। ननु प्रमाणसिद्धस्यापि तस्य पक्षत्वमुपपद्यते। सि- इत्वादेवाश्रयासिद्धिदोषाभावादिति चेन्नैवम्। सुरभि गगन- कुसुमं कुसुमत्वात् सम्प्रतिपन्नवदित्यस्यापि गगनकुसुमश- ब्दसिद्धतया आश्रयासिद्धभावप्रसङ्गात् । न च पुरुषः क्षि- त्यादिकर्ता न भवति। पुरुषत्वादस्मदादिवदिति वाच्यम्। सिद्धसाध्यताप्रसङ्गात्। विशिष्टपुरुषपक्षीकरणेऽपि जगत्कर्तृ- त्वव्यतिरिक्तकर्तृविशेषणविशिष्टत्वे सिद्धसाध्यता। जगत्कर्तृ- त्वविशिष्टपुरुषपक्षीकरणे भवेदेवाश्रयासिद्ि:, धर्मिग्राहकप्र-
130
Page 131
१०८ तत्त्वप्रकाशे सव्यार्ये माणबाधो वेति। न च सर्वे पुरुषा: क्षित्यादिकर्तारो न भवन्ति पुरुषत्वात कुलालादिवदिति वाच्यम्। अंशे सिद्धसाध्यता- श्रयासिद्धिधर्मिग्राहकप्रमाणबाधात्मकदोषत्रयापाताद् इष्टा- न्ताभावाच्चेति। ननु विमतः पुरुषः क्षित्यादिकर्ता न भवति पुरुषत्वादित्यस्मिन् साध्ये न दोषत्रयावकाशः । न तावदा- श्रयासिद्धिः, आत्मनः पुरुषस्य सिद्धत्वात्। नापि सिद्धसा- ध्यताविप्रतिपत्तिः। अन्यपुरुषव्यवच्छेदात्। नापि धर्र्मिग्राह- कप्रमाणबाधः । तस्य जगत्कर्तृत्वानङ्गीकारेण सिद्धत्वादिति चेद्। नैवम्। पुरुषमात्रे विप्रतिपत्त्यभावात्। क्षित्यादिकार्यम- धिकृत्य विप्रतिपत्तिर्न पुरुषे। अस्तु वा पुरुषे विप्रतिपत्तिः। तथापि न पुरुषमात्रे। तस्य जगत्कर्तृत्वानभ्युपगात। विशि- ष्टे चेत्। केन विशेषणेन। विशिष्टे यदि किश्ञ्चिज्ज्ञत्वादिना विशिष्टे, तत्र च न विप्रतिपत्तिः । यदि सर्वज्ञत्वादिविशेष- णविशिष्टे, तत्र च न विप्रतिपत्तिः। जगत्कर्त्रनुमानप्रवृत्तेः प्राक् तस्याप्रसिद्धत्वात्। नह्यप्रतिपन्ने धर्मिणि धर्ममूला विप्रतिपत्तिर्युक्ता। जगत्कर्त्रनुमानप्रवृत्त्युत्तरतश्र न विप्रति- पत्तिः, तस्य प्रमाणसिद्धत्वात। तस्माद् न विप्रतिपत्तेर्व्यव- च्छेदकत्वमिति। तथेश्वरः शरीरादिमान् कर्तृत्वादित्यादयश्च निरसनीयाः, उक्तन्यायसाम्यादिति। अथ क्षित्यादि कर्तृशून्यं तद्यापकशर्रीररहितत्वात् यद् यद्यापकरहितं तत् तद्याप्ये- नापि रहितं, यथा जलं धूमव्यापकामिरहितं धूमेनापीत्यनु- मानविरोधाद् इति चेत। न। अस्यानुमानस्य विशेषणा- १. 'स्या' क. पाठ: २. 'न विशिष्टे । तत्र च नविप्रतिपातिः। जगत्कर्त्रनुमानप्' ग. पाठः.
131
Page 132
द्वितीय: परिच्छेदः । '१०९ सिद्धत्वेनाप्रामाण्यात। शरीरकर्तृत्वयोः व्याप्यव्यापकभावेन तद्यापकशरीररहितत्वस्यासिद्धत्वात्। अस्मदनुमानाप्रामाण्ये भवद्नुमानासिद्धिपरिहारः भवदनुमानबाधयास्मदनुमानाप्रा- माण्यमिति इतरेतराश्रयप्रसङ्गश्व। अस्मदनुमानस्य भवदनुमा- नस्याप्रामाण्यमन्तरेणापि रूपपञ्चकोपपत्तेर्निरपेक्षं प्रामाण्यमि- त्युभयोः परस्परविरुद्धयोर्बाध्यबाधकसाम्येऽपि भवदनुमान- स्य विशेषणासिद्धिर पदोषान्तरसभ्भावादबाधकत्वमिति। अथ क्षित्यादि कर्तृशून्यं शररिरहितत्वादिति हेतूपन्यासादसिद्धिप- रिहारो भवेदिति चेतु। न। घटादिव्यभिचारात्। घटादयो- पि शरीररहितास्तथापि कर्त्रशून्या इति। अथ शरीराजन्यत्वं विवक्षितमिति चेत्। न। शरीरविशेषणवैयर्थ्यात। अजन्य- त्वस्यैव कर्तृशून्यताव्याप्तत्वादिति। न च स एव हेतुरिति वाच्यम्। स्वरूपासिद्धताप्रसङ्गादिति। तथाग्नीषोमीयप- शुहिंसा धर्मफला हिंसात्वाद् ब्राह्मणहिंसावदितिवत्। नास्या- गमविरुद्धकालात्ययापदिष्टत्वम् कर्तृभावप्रतिपादकागमानु- पलम्भाव्। न च, "अकर्तालेपको नित्यो मध्यस्थः सर्वकर्मणाम्" इत्याद्यागमविरोधः । तस्य सव्यापारकर्तृत्वमात्रनिषेधत्वात्। तच्चागमान्तरैः "न तं विदाथ य इमा जजान मा नो हिं सीज्जनिता यः पृथिव्याः" इत्यादिभिः परमेश्वरस्य ज- गत्कर्तृत्वप्रतिपादनादवगम्यते। तस्मादयस्कान्तवन्निर्व्यापा- रकर्तृत्वमस्येति सिद्धमिति। न चासौ प्रकरणसमः, स्वपरप- क्षसिद्धावत्रिरूपो हेतुः प्रकरणसमः इत्युक्ततल्लक्षणाभावात। १. 'स्य व्य' ग. पाठ :.
132
Page 133
११० तत्त्वप्रकाशे सव्याख्ये तथाहि-यंथा क्षित्यादि बुद्धिमत्पूर्वकं कार्यत्वाद् घटवादि- त्यस्मिन् प्रयोगे अस्य कार्यत्वस्य पक्षधर्मत्वसपक्षसत्त्ववि- पक्षव्यावृत्यात्मकरूपत्रयसन्भावः, न तथा क्षित्यादि बु- द्विमत्पूर्व न भवति कार्यत्वान्मायावदिति परंपक्षसाधनेऽस्य रूपत्रयसभ्भावः, मायादौ कार्यत्वस्याभावेन सपक्षे सत्त्वाभा- वाद् घटादौ विपक्षे कार्यत्वसन्ावेन विपक्षाद् व्यावृत्त्यभा- वाच्चेति। तस्माद् रूपपञ्चकसन्भावाद् इदमनुमानं जगत्कर्तुः परमेश्वरस्य सभ्ावे प्रमाणमेवेति सिद्धम्। आगमाश्र 'वि- श्वतश्रक्षुरि'त्याद्याः परमेश्वरस्य जगत्कर्तुः सन्भावं बोधयन्ति। न च तेषां विधिशेषत्वात् स्वार्थेऽप्रामाण्यमिति वाच्यम्। वेदवाक्यत्वाद् विधिवाक्यवदिति। न च 'आदित्यो यूपः' इत्यादिवदौपचारिकत्वम् । स्वार्थे बाधाभावात्। तथा ब्रा- हणादौ तदुक्तमृषिणेति मन्त्राणां स्वार्थे प्रामाण्यप्रतिपाद- नाच्चेति। तस्मादनुमानागमाभ्याम् अस्मदादीनां सिद्धो म- हेश्वर इति। योगिनां तु करतलामलकवदखिलमवलोकयतां प्रत्यक्षतोऽपि सिद्धः । तथाहि-परमेश्वरः केषाश्चित् प्रत्य- क्षसमधिगम्यः प्रमेयत्वात् करतलामलकवदित्यनुमानान्म- हेश्वरस्य प्रत्यक्षगम्यत्वसिद्िः। योगिनां सव्वावश्च अस्मदा- द्यप्रत्यक्षा मूलकारणधर्माधर्मादयः प्रधानपुरुषप्रत्यक्षाः प्रमेय- त्वात् करतलामलकवदित्यनुमानसिद्धः । तत्र प्रधानपुरुषो महेश्वरोऽप्रधानपुरुषा योगिन इति तत्सिड्धिरिति ॥ १७ ॥ इति तत्त्वप्रकाशतात्पर्यदीपिकायां शुद्धवर्गविनिर्णयो द्वितीय: परिच्छेद: ॥
133
Page 134
अथ तृतीय: परिच्छेद:। अथेदानीं करणोपादानयोः स्वरूपनिरूपणार्थमाह- शक्तय इहास्य करणं मायोपादानमिष्यते सूक्ष्मा। एका नित्या व्यापिन्यनादिनिधना शिवा सोक्ता ।१॥। इति। अयमभिप्रायः-पराशक्तिविकारा: इच्छाद्या: शक्तयः परमेश्वरस्य करणं हस्तादिस्थानीयम् । "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इति श्रुतेः शक्तिकरणसज्वावसिद्धिः। मायोपादानं मृत्तन्त्वा- दिस्थानीयमिति "मायां तु प्रकृतिं विद्यादि"ति श्रुतेस्तदुपादा- नत्वसिद्धि: । तर्हि सा माया कस्मान्नोपलभ्यते घटवदित्यत- आह -सूक्ष्मेति। सूक्ष्मत्वादनुपलम्भो मायाया नासत्वा- दित्यर्थः । तथाहि-अतिदूरत्वातिसामीप्येन्द्रियघातमनो-
एवार्थस्यानुपलम्भकारणभूता लोके दष्टाः । उत्पतन् व्योस्नि पक्षी सन्नप्यतिदूरतया प्रत्यक्षतो नोपलभ्यते । अतिसामी- प्याच्चक्षुस्थमञ्जनं सदपि नाध्यक्षतोऽवगम्यते। मनोनवस्था- नात कामाद्युपप्ठुतचेताः परिषदादिकं न पश्यति । इन्द्रिय- घातादन्धत्वबधिरत्वादेर्घटरूपशब्दाद्यनुपलम्भो भवति। सौ- क्ष्म्यात् परमाण्वादिकं प्रणिहितचित्तोऽपि न पश्यति। व्य- वधानादन्तःस्थघटाद्यनुपलम्भः । आदित्यप्रभाभिभूतत्वाद् दिवा तारका नोपलभ्यन्ते। समानाभिहारात् तोयदमुक्तजल-
१. 'क' ख. पाठः.
134
Page 135
११२ तत्त्वप्रकाशे. सव्याख्ये धाराणां जलाशयेऽनुपलम्भः ।अंनुद्भवात् क्षीराद्यवस्थायां दृध्याधयनुपंलम्भ इत्येभि: कारणैः सत एवार्थस्यानुपलम्भ- दर्शनान्नानुपलम्भमात्रादसत्त्वनिश्रचयः। सप्तमरसस्य प्रमाणा- भावादसत्त्वेनानुपलम्भो नैभिः कारणैरिति। मायाया विद्य- मानायाः सूक्ष्मतयानुपलम्भः, कार्यस्य जगतः उत्पादनका- रणतया तत्सन्भावसिड्डेरिति। तदुक्तं सांख्याचार्यै:ः- "अतिदूरात् सामीप्यादिन्द्रियघातान्मनोनवस्थानात्। सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहाराच्। सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदनुपलब्धेः ।" इत्यादि। कालाद्यवनिपर्यन्ततत््वजातं स्वात्यन्तसदशोपादान- कारणवत् कार्यत्वाद् यद्यत्कार्य तत्तत् स्वात्यन्तसदशोपादा- नकारणवद् द्ृष्टम् । यथा घटशरावाद्यो मृन्मयाः स्वात्यन्त- सदशमृदुपादानजन्याः, तथेदं ततत्वजातं कार्यम्। तस्मात् स्वात्यन्तसदशोपादानकारणवदिति। यच्च सर्वेषां तच्वानां जडानां जडतया सदशमुपादानं तन्मायाख्यं तत्त्वमिति तत्सिद्धि: । तदुक्तं- "कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम्।" इति। तथा कालाधवनिपर्यन्तानि तत्त्वान्यपरिमितैकोपादा- नानि परिमितत्वाद् यद्यत् परिमितं तत्तदपरिमितैकोपादानं दष्टम् । यथा घटशरावादयः परिमिता अपरिमितैकमृदुपा- दानास्तथा कालादयः परिमिताः । तस्माद् अपरिमितैकोपा- दाना इति। यदत्रैकमेषामपरिमितमुपादानं सा मायेति। तथा कालादयः स्वाव्यक्तावस्थाकारणवन्तः, व्यक्तत्वात्,
135
Page 136
तृतीय: परिच्छेद: । ११३ कूर्माद् व्यज्यमानतदङ्गवदिति सिद्धा माया । एका सा, अनेकत्वे प्रमाणाभावात्। नन्वेकत्वे च प्रमाणाभावादनेक- त्वमिति चेत।नैवम्। एकत्वस्य सत्वमात्रेणैव सिद्धत्वात्। अनेकत्वस्य पुनः प्रमाणान्तरापेक्षया सन्वावसिद्धिरपि। सा नित्या च। तस्या उपादानान्तराभावेनाकार्यत्वात्। तदभा- (वश्च?वेचा)नवस्थाप्रसङ्ग: । "एतेषामेव पाशानां माया कारणमुच्यते। मूलप्रकृतिरव्यक्ता" इति मायाया मूलप्रकृतित्वोपादानाच् सिद्धा। व्यापिनी च सा स्वकार्येषु सर्वेष्वनुगमात्। अनादिनिधना उत्प- त्तिनाशरहितेत्यर्थः । शिवा शुद्धा, गुणबन्धशून्यत्वात्। सैवमुक्ता तत््वविद्विरिति। अथवा एकेत्यनेकोपादानजन्यतां प्रपञ्चस्यारम्भवाद्यभ्युपगतां प्रत्याचष्टे। तथाहि-पृथिव्य- पेजोवायुतदवयवादीनां चावयव (विभा)गेनापरमाण्वन्तो वि- नाश: सहारः। न च परमाणोर्विनाशः संभवति, अवयववि- भागासंभवात्। स चावयवाभावात्। स च परमाणुत्वात्। ततश्र सृष्टिदशायां परमाणुद्वयसंयोगादाद्यकार्यस्य द्यणुक- स्योत्पत्तिः । तत्र परमाणुद्दयमुपादानकारणं, कार्याश्रय- त्वात्। तत्संयोगोऽसमवायिकारणं, स्वाश्रये कार्यारम्भक- त्वात्। शेषमदष्टादि निमित्तकारणम्। ततो ह्यणुकैस्त्रिभिस्त्रय- णुकस्योत्पत्तिः । तत्र च द्वयणुकत्रयं समवायिकारणम् । त- त्संयोगोऽसमवायिकारणम्। शेषं निमित्तकारणमिति। ताव- देवमवगन्तव्यं, यावदन्त्यावयव्युत्पत्तिरित्यारम्भवादिनो वै- शेषिकनैयायिकभाट्टप्राभाकरादयः । पटादिषु स्वन्यूनानेको-
136
Page 137
११४ तत्त्वप्रकाशे सव्याख्ये पादानत्वापलम्भात् प्रपञ्चस्यापि रवन्यूनमनेकम् उपादान- मिति प्राहुः। तत् प्रत्याचष्टे- एकेति। एकस्मान्मृत्पिण्डोपा- दानादनेकघटशरावकुम्भमृदङ्गादयः, रुचकर्वस्तिकाङ्गुली- यकादयो वा स्वर्णपिण्डाद्, वृक्षाद्वा मअ्जूषाफलकादयः य- तोऽध्यक्षेणैव जायमाना उपलभ्यन्ते, अतो जगतः कार्यत्वे- नोपादानकारणकल्पनायां गौरवपरिहाराय तदेकत्वं कल्पनी- यममिति नानेकत्वं मूलोपादानस्येति। तदुक्तं भगवता वेद- व्यासेन - "एकस्माद् वृक्षाद् यज्ञपात्राणि तक्ष्यात् स्त्रुक् च द्रोणी बोडनी पीडनी च' इत्यादि। नित्या विनाशरहिता। व्यापिनी घटशरावकुम्भा- दिषु मृद्दत् स्वकार्येषु कालाद्यवन्यन्तेषु जडतयानुस्यूता इति। अनादिनिधना वृद्धिव्ययशन्या। अवयवोपचयो वृद्धिः, तदपचयो व्ययः । तद्वयरहितेत्यर्थः। एकत्वान्नित्यत्वात् सर्व- गतत्वाच्चेति । शिवासक्तेति केचित् पठन्ति। तदा शिवे आसक्ता आभीक्ष्ण्येन संबद्धा। शिवस्य विग्रहत्वेनावस्थि- तेत्यर्थः ॥ १॥ तस्या रूपमाह - साधारणी च पुंसां कारणमपि चेयमखिलभुवनानाम्। निखिलजनकर्मखचिता स्वभावतो मोहसअ्ञननी ॥ २॥ इति। अयमभिप्रायः-सकलजीवसाधारणी समाना। यतः सर्वजन्तुशरीरेन्द्रिय विषयात्मना परिणममाना सर्वपुरुषो- पभोग्या माया, अतोऽस्याः सर्वपुरुषसाधारण्यमिति। ननुसर्व- पुरुषसाधारण्ये मुक्तस्यापि पुरुषस्य शरीराद्यारम्भप्रसङ्ग इत्या-
137
Page 138
तृतीय: परिच्छेदः । ११५ शङ्गयाह - निखिलजनकर्मखचितेति। सकलामुक्तजन्तु- पुण्यापुण्यमुद्रिता। तेन मुक्तानां कर्माभावात् तन्निमित्तश- रीराद्यारम्भाभाव इति भावः । अथवा प्रलयावस्थायां कर्मणां कुत्र वृत्तिरिति वाच्यम्। न तावदात्मनि। तस्य स्वच्छचैत- न्यरूपतया निरञ्जनस्य तदाश्रयत्वानुपपत्तेः । तदुकं- "यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ।।" "यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् । अन्तःकरणजैर्भावैरात्मा तद्दन्न लिप्यते ॥" इति। न च तदां सूक्ष्मदेहाश्रितं कर्मेति वाच्यम्। तस्थ तदानी प्रकृतौ निलीनतयासत्त्वात्। न च तदानीं कर्मणा- मसत्वेनाश्रयत्वस्यानिरूपणीयतेति वाच्यम् । कर्मणामसत्वे निमित्ताभावेन पुनः सृष्ट्यभावप्रसङ्गात्। तस्मात् क्व तदानी कर्मणां वृत्तिरित्याशङ्कयाह-निखिलजनकर्मखचितेति। स्वभावतो मोहसञ्जननीति। स्वीयेन जडत्वभावेनात्मप्रच्छा- दनं कृत्वा स्वस्मिन्नात्मबुद्धिं कुर्वती पंशून् मोहयतीति। तदुक्तं किरणे - "माया विमोहनी प्रोक्ता विषयास्वादभोगतः । यत्र तत्र स्थितस्यास्य स्वकर्ममलहेतुतः ॥" इति। नन्वव्यक्तं सकलकार्योपादानकारणम्। अतस्ततो-
१. 'था' ख. पाठः २. 'ष्ट्या' क. पाठ :.
138
Page 139
११६ तत्वप्रकाशे सव्याख्ये डन्या माया न कल्पनीयेति चेत्। नैवम्। तस्य त्रिगुणात्मतया कार्यत्वेन तत्कारणभूतनित्योपादानान्तरस्यावश्यमाश्रयणीय- त्वात्। तथाहि-प्रधानं कार्य त्रिगुणात्मकत्वाद् घटादि- वदिति तस्य कार्यत्वसिद्धिः । न चाव्यक्तस्य त्रिगुणात्मक- त्वमसिद्धमिति वाच्यम्। सतत्वरजस्तमसां साम्यावस्थारूपत- या तस्य त्रिगुणात्मकत्वसिद्धेः । तथा 'अजामेकां लोहितशु- ककृष्णामि'त्यादिश्रुतेश्र तत्सिद्धिः । ननु "प्रकृतिः पुरुषश्चैव नित्यौ कालश्र सत्तम!" इत्याद्यागमबाधादयुक्तमेतदिति चेत्। नैवम्। 'अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवती ति वाक्यबोधितसुकृताक्षय्य- त्ववन्महदादिकालापेक्षयाधिककालसंबन्धस्य विवक्षितत्वात्। ननु तत्र अनित्यं चातुर्मास्यफलं कार्यत्वाद् इतरकर्मफलवदि- त्यनुमानादिना प्रमाणान्तरेण तदनित्यत्वसिद्धेर्युक्तमक्षय्यप- दस्य दीर्घकालसंबन्धपरत्वकल्पनमिति चेत । न। अत्राव्यव्य- क्तानित्यत्वबोधकसयानुमानस्योक्तत्वाद्, आगमस्य सन्भावाच्च। तथा - "अव्यक्तादभवत् कालः प्रधानं पुरुषः परः । तेभ्यः सर्वमिदं जातम्" इतीश्वरगीतायां प्रधानोत्पादप्रतिपादनात् तदनित्यत्वसिद्धिः, श्रीविष्णुपुराणे च प्रधान्पुरुषकालानामुत्पादप्रतिपादनाच्च्।। तथाहि - "विष्णोः स्वरूपात् परतो दितेऽन्ये रूपे प्रधानं पुरुषश्च विप्र!। तस्यैव तेडन्येन धृते वियुक्ते रूपं तु यत्तद्विज! कालसंज्ञम्।।"
139
Page 140
तृतीय: परिच्छेदः । ११७ इति। 'मायां तु प्रकृतिं विद्यादि'ति मायामूलोपादानत्वप्र- तिपादनाच्च तत्सिद्धिरिति। तस्मान्माया जगन्मूलोपादान- मिति सिद्धम्। सा माया हरितालनिभा। तदुक्तं- "तद्वाह्ये तु भवेन्माया हरितालाभसन्निभा" इति । अस्याः षडध्वव्याप्ति :- घकारो वर्णः । अघोरहृद- यायेत्यादीनि त्रीणि पदानि। शिम् अघोरहृदयाय पञ्चाणौ मन्त्रौ। माया तत्वम्। महातेजादि सप्त भुवनानि। निवृ्तिः कला ॥ २ ॥ ननु कथं भगवान् जगत् सृजति, कैः करणैः, कि- मर्थ चेत्याशङ्गयाह- कर्माण्यवेक्ष्य शम्भुर्मायां विक्षोभ्य शक्तिभि: स्वाभिः । प्रतिपुरुषं भोगार्थं वपूंषि करणानि चाधत्ते ॥ ३ ॥ इति। कर्मानुरूपेण प्रतिपुरुषं शरीरेन्द्रियाणि च शब्दा- दिविषयांश्र भोगार्थ शम्भुरिच्छाभिः स्वाभि: शक्तिभि: मायां विक्षोभ्य विविधं क्षोभं विकारं कृत्वेति। नह्युपादानादिकं कार- णं कर्त्राप्रेरितं कार्योत्पादने पर्याप्तमिति क्षोभसिड्धिरिति ॥ ३॥ अथेदानी सर्वकार्यकारणतया तेषु प्रथमोदिष्टं काल- तत्वं लक्षयति- नानाविधशक्तिमयी सा सृजति (हि) कालतत्त्वमेवादौ। भाविभव(द्?) भूतरूपं कलयति जगदेष कालोऽतः ॥ इति। इच्छादिबहुविधशक्तिप्रेरिता माया जनयति का- लाख्यं तत्त्वम्। आदौ प्रथमं, कालजन्यानां तत्वान्तराणां
140
Page 141
११८ तत्त्वप्रकाशे सव्याख्ये
कालानुत्पत्तौ जननासंभवात्। ततस्तत्वान्तराणि तज्जन्या- नीति। यथा घटोत्पादनाय तत्कारणभूतचक्रादिकं कुलालः प्रथममुत्पादयति, तदनुत्पत्तौ घटोत्पादनासंभवात्, तैथा(पि?) कालं प्रथमं सृजति माया, तस्य स्व(व्य)तिरिक्तसर्वकारण- त्वादिति। कालस्य तु स्वात्पत्तौ कालापेक्षायां कालान्तराभ्युप- गमेनानवस्थाप्रसङ्गात् तदुत्पत्तौ न कालापेक्षेति शिवशकक्तिक- ममायात्मकचतुष्कजन्यः काल इति। तस्य लक्षणमाह- भाविभतद्भूतरूपं कलयति जगदेष कालोऽत इति। यत् त- त्ववशात् पदार्थेषु भाविभवद्भूतरूपावभासं तत् कालाख्यं तत्त्वम्। अथवा यत् तत्त्वं भाविभवद्भृतरूपं जगत् कलयति बध्नाति, क्षणलवादिरूषेण संख्यापयति वा तत् कालाख्यं तत््वमिति। तथा वैशेषिकादिभिरप्युक्तं- "परापरव्यति- करचिरक्षिप्रादिप्रत्ययहेतुः कालः"' इति। यूनि दिक्कृतपरत्वाश्र- येऽपरत्वावभासः, स्थविरे च स्वकृतापरत्वाश्रये परत्वावभासः परापरव्यतिकरः तस्य, चिरव्यवहारस्य क्षिप्रव्यवहारस्य च, आदिशब्देन युगपत् करोति क्रमेण करोतीत्यादिव्यवहारस्य च यो हेतुः, स काल इति। अनेनैव लक्षणवाक्येन कालत. त्वे प्रमाणं चोपन्यस्तम्। तथाहि -भूतत्वादिविशिष्टा बुद्धिः विशेषणपूर्विका विशेष्यज्ञानत्वाद् यद्यद् विशेष्यज्ञानं तत्तद् विशेषणपूर्वकं, यथा दण्डी कुण्डली छत्रीत्यादि विशे- ष्यज्ञानं दण्डादिविशेषणपूर्वकं, तथा चेदं विशेष्यज्ञानम्।
१. 'अ' ख. पाठः. २. 'त्ौ का' क. पाठः.
141
Page 142
तृतीय: परिच्छेदः । ११९ तस्माद् विशेषणपूर्वकम् । यदत्र विशेषणं नियत्याद्यवनिप- र्यन्ततत्त्वव्यतिरिक्तं, तत कालतत्त्वमिति तत्सिद्धिः । तस्य चित्रं वर्णम्। तदुक्तं- "ततः कालनियत्याख्यः सम्पुटो व्याप्य चावृतः। शितिः श्यामोऽरुणः शुक्क: क्कचिद् व्यामिश्रकस्तथा॥" इति। अस्य षडध्वव्याप्ति :- डकारो वर्णः । ओं नमोनम इत्यादि ह्े पदे। वां वामदेवगुह्याय पञ्चार्णी मन्त्रौ। सुखदैक- वीरौ भुवने। शान्त्यतीता कला ॥४ ॥ अथ नियत्या लक्षणमाह - नियतिर्नियमनरूपा मायातः साप्यनन्तरं भवति। नियमयति येन निखिलं तेनेयं नियतिरुददिष्टा।। इति। मायातत्त्वादेव नियतिततत्वं कालतत्त्वादन- न्तरमुत्पद्यते। कालस्यापि नियत्युत्पत्तौ कारणत्वात्। तस्या निरुक्तिपूर्वकं लक्षणमाह-नियमयतीति। येन नियम- यति व्यवस्थापयति निखिलं, तेनेयं नियतिसंज्ञयोद्दिष्टा। अनेनैव वाक्येन तस्याः प्रमाणमप्युक्तम्। तथाहि- लोके तावत् तिलेषु तैलं, न सिक(तेषु?तासु)। व्रीहिषु तण्डलाः, न मुद्गादिषु। एवमूधसि पयो नान्यावयवेष्वित्यादिनियमो नि- यामकेन विना न संभवतीति तन्नियामकं किश्चिदुभ्युप- गन्तव्यम् । अन्यथा तन्नियमासंभवप्रसङ्गात्। यदत्र तन्नि- यामकं तन्नियतितत्त्वमिति तत्सिद्धि: । तदुक्तं पारमेश्वरे- "अथेदानी मुनिव्याघ्र! कारणस्यामितद्युते!।
142
Page 143
१२० तत्त्वप्रकाशे सव्याख्ये शक्तिर्नियामिका पुंसो महासत्वेन सर्पता ॥ नियामकेन भावेन नियमस्थितिहेतुना। ययाणुर्भोगसन्ताने नियम्य विनिवार्यते॥ व्यवस्थाकारिणी नान्या विद्यते तत्त्वसन्ततौ। कोटिद्वयमसंख्यातं धर्माधर्मात्मकं पशोः ॥ यदर्थ व्यक्तिमायाति शरीरं सर्वदेहिनाम्। तद्विपाकेष्वनायासं क्षत्रज्ञं सुनिरूप्य तु।। नियामयति यस्माद्वै तस्मान्नियतिरुच्यते। तयोरभ्यधिकं यच्च दुःखं वाप्यथवा सुखम्। न ददाति समं ध्ते स्ववीर्येणैव नान्यथा।" इत्यादि। नियतेश्र कालवद्वर्णम्। अस्याः षडध्वव्याप्ति :- चकारो वर्णः । गोप्ते निधनायेति हे पदे। यं सद्योजात- मूर्तये पञ्चार्णी मन्त्रौ। नियत्याख्यं तत्त्वम्। संवर्तज्योतिषी भुवने। शान्तिः कला ॥ ५ ॥ अथ कलातत्त्वं निरूपयति - मायातस्तदनु कलामलं नृणामेकतस्तु कलयित्वा। व्यअ्जयति कर्तृशक्तिं कलेति तेनेह कथिता सा।। इति। कालनियतितत्वादनन्तरं कलातत्त्वं मायात एवोत्पद्यते। येन पशूनामाणवं मलमेकस्मिन् प्रदेशे संकु- चय्य तेषां कर्तशक्तिर्व्यक्तीक्रियते, तत् कलातत्त्वम्। यतः कर्तृशक्तिरनेन व्यक्तीक्रियते; ततोऽस्याः सन्भावसि्धिः । तदुक्तं- १. 'स्वान' ग. पाठः.
143
Page 144
तृतीयः परिच्छेदः । १२१ "कलां तदनु माया सा कलयेत्वैकतो मलम्। कर्तृत्वव्येजजिकों नर्ते कर्तारं हि जडोज्जवैः ॥।" मातङ्गे च- "यथाभितप्तमृत्पात्रं जतुनालिङ्गने क्षमम्। तथाणुं कलया विद्वं भोगः शक्नोति वासितुम् ॥ भोगपात्री कला ज्ञेया तदाधारश्र पुद्रलः। भोगानामपि नान्योऽस्ति कलां त्यज्य समाश्रयः ॥ ततोऽयं नियतः स्पष्टः संसारोऽतिदुरुत्तरः।" इत्यादि। तस्मात् कैलाख्यं तत्त्वमभ्युपेयमिति ॥ ६॥ तत्त्वत्रयं सर्वत्रोपयुज्यत इत्याह- कालेन नियत्या चाप्युपसर्जनतामुपेतया सततम्। विद्धाति व्यापारं (नि?नी)मेषाद्यवनिपर्यन्तम् ॥७॥ इति। यया कालनियतिसहितया माया मात्राव- स्थानाधवन्यन्तकार्यजातं विदधाति करोति, सेयं कलेति। वर्णश्चास्याः श्रेतपीतारुणकृष्णमिश्रात्मकः । तदुक्तं- "कलातत्त्वं परं तस्माद् विद्यातत्वादशोभनम्। श्ेतपीतारुणं कृष्णं मिश्रवर्ण क्वचित् तथा॥" इति। अस्या: षडध्वव्याप्ति :- ऐकारो वर्णः । सर्वयोगा- धिगतायेत्यादि ह्े पदे। यं अस्त्राय पञ्चार्ण मन्त्रौ। क- लाख्यं तत्वम् । पञ्चान्तकसूकरौ भुवने । विद्या कलाः॥
१. 'व्यक्तितो न' क. पाठ :. २. 'तां', ३. 'वम्' ख. पाठः ४. 'का' ग., 'व' ख. पाठ :. ५. 'ङ' ग. पाठ :.
144
Page 145
१२२ तत्त्वप्रकाश सव्यारये
इदानीमशुद्धविद्यास्वरूपमाह - उद्बुद्धकर्तृशक्ते: पुंसो विषयप्रदर्शननिमित्तम्। विद्यातत्वं सूत्रे प्रकाशरूपं कलैवैषा ॥। ८ ।। इति। कलयाभिव्यक्तकर्तृशक्ते: पुरुषस्य विषयानुभ- वार्थ कला विद्यातत्त्वं जनयति। तस्या: प्रकाशरूपत्वेन विषयप्रदर्शनहेतुत्वसम्भव इति। अन्ये तु मायात एव विद्योत्पत्ति ब्रुवते। तदुक्तं शैवरहस्ये- "सुखदुःखमोहवपुषो भोग्या या व्यज्जिका च सौ बुद्धेः। मायात एव विद्या प्रकाशरूपा समुभ्जवति ॥" इति ॥८॥ तस्या विषयप्रदर्शनप्रकारमाह- आवरणं भित्वैषा ज्ञानाख्यायाः स्वकर्मणा शक्तेः। दर्शयति विषयजातं करणं सेहात्मनः परमम् ॥९॥ इति। एषा विद्या स्वसामर्थ्येनैव पुद्रलस्य ज्ञान- शक्तेस्तिरोधानं सम्भिद्य विषयसमूहं दर्शयतीति सा विदयेह संसारमार्गे पशोरात्मनः प्रकृष्टं करणमिति ॥ ९॥ ननु शब्दादिविषयाध्यवसायो बुद्धिः । अतस्तयैव विषयप्रदर्शने सिद्धे किमर्थ विद्यातत्त्वपरिकल्पनमित्याश- ङ्याह - बुद्धिर्यदास्य भोग्या सुखादिरूपा तदा भवेत् करणम्। विद्येयं करणं स्याद विषयग्रहणे पुनर्बुद्धि: ।। १० ।। १. 'सं' ग. पाठ :-
145
Page 146
तृतीय: परिच्छेदः । १२३ इति। यदा सत्वरजस्तमोगुणात्मिका बुद्धि: सुखदु :- खमोहरूपेण परिणता भोक्तुरात्मनो भोग्या भवति, तदेयं विद्या करणं भवेत् । विषयग्रहणे तु बुद्धिरेव करणं भवि- ष्यतीति बुद्ध्याध्यवसितमर्थ पुरुषश्चेतयतीति । तदयुक्तं, पुरुषस्य चितेरक्रियात्मकत्वाद् विरुद्धक्रियत्वाच्च्ेति। तस्माद् बुद्धयाध्यवसितमशुद्धविद्ययानुभवति पुरुष इति युक्तम्। पुरु- षाद् भिन्नत्वान्मायाकार्यत्वाच्चाशुद्धविद्याया: परिणामादिसंभ- वादिति।न चबुद्धि: स्वप्रकाशात्मिका कार्यत्वात् सगुणत्वाद् घटादिवदिति बु्धे: स्वव्यतिरिक्तप्रकाश्यत्वसिद्धिः । तथा बु- दिःप्रकाश्या जडत्वाद, जडा च सा कार्यत्वाद् घटादिवदिति। न च बुद्ध्यन्तरग्राह्या बुद्धि: । तदभावात् । न च वृत्त्य- न्तरेण तद्रहणम् । बुद्धेरेकदैव वृत्तिद्वयासम्भवात् । न चा- शुद्धं शुद्धविद्या वेदयतीति। यदशुद्धावेदकं परं तदशुद्धवि- द्याख्यं तत्त्वमिति तत्सिद्धिः । तदुक्तं पारमेश्वरे- "प्रतिपच्त्यागतान् भोगान् क्रमशो व्यूढगोचरान्। भोगभुक् प्रतिजानाति विद्ययात्मनिषण्णया।। ख्यातिः प्राधानिकान् भावान् विवेचयितुमुद्यता। यदा तदात्मवर्तिन्या विद्यया सुनिरूप्यताम् ।।"
इति। अशुद्धं बुद्धितत्त्वं वेदयतीत्यशुद्धविद्या, अशुद्धा चासौ विद्येति वा, मलादिनाशुद्स्य क्षेत्रज्ञस्य विद्येति वा तस्या: सिद्धि: शुद्धविद्यातः शुद्धविद्यायाः शिवाव्यतिरिक्तया स्वयम्प्रकाशया परमशक्त्येति शैवसिद्धान्तः ।
146
Page 147
१२४ तत्त्वप्रकाशे सव्यारूये "विद्येयं सर्वभावानामशुद्धार्थप्रदायिका। शिवसभ्भावकुशला विद्यान्या शुद्धगोचरा॥" इत्याद्युक्तत्वात्। तस्या वर्णमिन्द्रगोपनिभम्। तदुक्तं - "विद्यातत्वं परं रागादशुद्धं पशुमोहनम् । इन्द्रगोपकसंकाशं कचिच्चामीकरप्रभम् ।" इति । अस्या: षडध्वव्याप्ति :- जकारो वर्णः । ज्योतीरूपाये- त्यादि ह्वे पदे। वां नेत्रत्रयाय पञ्चोर्णो मन्त्रौ। अशुद्धविद्याखयं तत्वम्। चण्डक्रोधौ भुवने । प्रतिष्ठा कला ॥ १० ॥ इदानीं रागतत्त्वं निरूपयति - रागोऽभिष्वङ्गात्मा विषयच्छेदं विनैव सामान्यः। पुरुषप्रवृत्तिहेतुर्विलक्षणो बुद्धिधर्मेभ्यः । ११ ॥ इति। अभिष्वङ्गात्मा रागो विषयमन्तरेण पुरुषप्रवृत्तेः सामान्यो हेतुः। केचिद् रागतत्त्वस्य बुद्धिधर्मत्वमिच्छन्ति। त- न्निरस्यति-विलक्षणो बुद्धिधर्मेभ्य इति। विषयप्रदर्शनद्वारण पुरुषप्रवृत्तिहेतुभूतो बुद्धिधर्मो रागः । अस्य विषयावभासेन विना पुरुषप्रवृत्तिहेतुत्वाद् बुद्धिधर्मवैलक्षण्यसिद्धिः । मुमुक्षो- र्विषयतृष्णस्य तत्साधने विषयावभासेन विना प्रवृत्तिर्दष्टा। अतस्तत्प्रवृत्तिहेतुभूतं रागतत्वमभ्युपेतव्यम्। तदुक्तं मतङ्ग- पारमेश्वरे - "अथाणोर्विसृतस्यास्य कलाविद्धस्य वेगतः । प्रवृत्तस्याभिलाषेण विद्ययोन्मीलितस्य च।। १. 'भा' ग. पाठ :. २. 'अविद्याणौ' क. पाठः.
147
Page 148
तृतीय: परिच्छेदः । १२५ येनासौ रज्जितः क्षिप्रं भोगभुग भोगतत्परः । रागोऽन्योऽपि परः सूक्ष्मो विशिष्टोऽस्मान्मदात्मकात् ॥ येन नैःश्रेयसे पुंसां प्रवृत्तिरुपजायते । दृश्यते च विरक्तानां नराणां बन्धगोचरात्। आचार्यान्वेषणे रागः शिवमुद्दिश्य सादरम् ॥" इत्यादि। किरणे च - "रागरज्ञितचिद्धर्म+युक्तश्च त्रिभिर्गुणैः । बुद्धयादिकरणानीकसम्बन्धाद् बध्यते पशुः ॥" इत्यादि। तस्माद् रागतत्वसभ्ावेः सिद्धः । तस्य वर्ण कुङ्कु- माभम्। तदुक्तं- "तह्वाह्ये रागतत्वं तु कुङ्कुमोदरसन्निभम्।" इति। अस्य षडध्वव्याप्ति :- झकारो वर्णः । परमात्मन्नि- त्यादि द्े पदे। शिं कवचाय पञ्चार्णी मन्त्रौ। रागा- ख्यं तत्वम् । प्रचण्डादीनि पञ्च भुवनानि । निवृत्तिः कला ॥ ११ ॥ अथेदानीं पुरुषतत्त्वस्वरूपमाह-
तत््वैरेभि: कलितो भोक्तृत्वदशां यदा पशुर्नीतः। २
पुरुषाख्यतां तदायं लभते तत्त्वेषु गणनां च ।। १२।। इति। यदायमीश्वरः एभिः कालनियतिकलाविद्यारा- गाख्यैः पञ्चभिस्तत्त्वैः सम्बन्धात् पशुभावं प्राप्य भोक्तृत्वा-
'वसिद्धिः', २. 'र्निरस्तः' ख. पाठः
148
Page 149
१२६ तत्त्वप्रकाशे सव्याख्ये वस्थां प्राप्नोति, तदा व्यक्तादिचतुर्विशतितत्त्वमये पुरि शय- नात् पुरुषसंज्ञां च लभते, शिवतत्त्वव्यतिरेकेण तत्त्वेषु गणानां चेति। तस्य वर्णः स्वतः शुद्धः, उपाधितोऽनेकवर्णः । अस्य षडध्वव्याप्ति :- जकारो वर्णः । व्योमि्चित्यादि दे पदे। मं शिखायै पञ्चारणी मन्त्रौ। पुरुषाख्यं तत्वम् । वामादीनि षड् भुवनानि। शान्त्यतीता कला ॥ १२ ॥ इति तत्त्वप्रकाशतात्पर्यदीपिकायां शुद्धाशुद्धविनिर्णयः तृतीय: परिच्छेद: ।
अथ चतुर्थः परिच्छेद: । अथेदानीमव्यक्तस्वरूपनिरूपणार्थमाह- पुरुषस्य हि भोगार्थं किलैव तस्मात् प्रसूयतेऽव्यक्तम्। अनभिव्यक्तगुणत्वादव्यपदेशं तदव्यक्तम्॥ १॥ इति। पुरुषस्य सुखाद्यनुभवाय मायातत्त्वादेवाव्यक्त- मुत्पद्यते। अव्यक्तपदप्रवृन्तिनिमित्तमाह-अनभिव्यक्त- सत्त्वादिगुणवतत्वादिदं तत्त्वमव्यक्तमित्युच्यते। सत्त्वरजस्त- मसां साम्यावस्था प्रकृतिरिति सांख्याचार्या आहुः। अतोऽन- भिव्यक्तगुणत्वमस्य सम्भवति। भूततन्मात्रेन्द्रियमनोहङ्गारबु- द्ीनामव्यक्तकार्याणां सुखदुःखमोहहेतुतया त्रिगुणात्मक- त्वात् तत्कारणस्याव्यक्तस्य त्रिगुणात्मकत्वसिद्धिः । तस्ये स्वरूपमप्रतर्क्यम्। तदुक्तं- "तद्वाह्ये तु भवेदन्यदव्यक्तं तत्त्वमुत्तमम् । अप्रतर्क्यमविज्ञेयं निर्वाणवदवस्थितम्।" १. 'सि', २. 'स्य रू' ग. पाठ :.
149
Page 150
चतुर्थः परिच्छेदः । १२७ इति। अस्य षडध्वव्याप्ति :- टकारो वर्णः । अरूपिन्नि- त्यादि द्े पदे। नं शिरसे पञ्चार्णी मन्त्रौ। गुणप्रकृत्याख्यं तत्त्वम्। कृताकृतादीन्यष्टौ भुवनानि। शान्तिः कला ॥ १ ॥ गुणतत्त्वं लक्षयति - अव्यक्ताद गुणतत्त्वं प्रख्याव्यापारनियमरूपमिह। सत्त्वं रजस्तमोऽपि च सुखदुःखं मोह इति च ॥ २ ॥ इति। गुणसाम्यस्वभावाद्व्यक्ताद् गुणतत्त्वं वैषम्यात्मकं जायते। प्रख्याव्यापारनियमरूपं तहत्तिकम्। प्रख्या प्रका- शो ज्ञानं वृत्तिः, सत्त्वगुणस्य निर्मलत्वात्। व्यापारः क्रिया रजसो वृत्तिः, चलत्वात् । नियमो नियमनं वृत्तिस्तमसः, गुरुत्वादिति सत्त्वरजस्तमोनामकं च सुखदुःखमोहस्वरूपकं च गुणतत्त्वमिति। तदुक्तं सांख्यै :- "सच्चं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।।" इति। अस्य गुणतत्त्वस्य वणे शुककरक्तकृष्णात्मकम्। तदुक्तं - "तद्वाह्ये तु भवेदन्यद् गुणावरणसंज्ञितम्। इन्द्रनीलमहारत्नशुद्धस्फटिकसन्निभम् ॥" इति ॥ २ ॥ इदानीं बुद्धितत््वं निरूप्यते - भवति गुणत्रयतो धीर्विषयाध्यवसायरूपिणी चेति। सापि त्रिविधा गुणतः प्राक्तनकर्मानुसारेण ॥ ३ ॥ १. 'कं-बा' ख. ग. पाठ :.
150
Page 151
१२८ तत्त्वप्रकाशे सव्याख्ये इति। गुणानां सत्त्वरजस्तमसां त्रयं गुणत्रयं तस्माद् बुद्धिरुत्पद्यते। तस्या लक्षणमाह -विषयाध्यवसायरूपिणी चेति। विषयेषु शब्दादिष्वध्यवसायो निश्चयो रूपं वृत्तिर्यस्याः सा तथोक्ता। चकाराद् धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्या- नैश्वर्यात्मनाष्टविधवृत्तिमत््वं बुद्धे: सूचितम् । तदुक्तम्- "अध्यवसायो बुद्धिर्धर्मों ज्ञानं विरागमैश्वर्यम् । सातत्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम्॥।" इति। तत्राभ्युदयनिःश्रेयसयोर्यों हेतुः, स धर्मः । तत्र कामनापूर्वयागाद्यनुष्ठानजनितो धर्मोऽम्युदयस्य स्वर्गादिसु- खस्य हेतुः। तद्रहितयागादष्टाङ्गयोगानुष्ठानजनितो धर्मो निःश्रेयसस्ये हेतुः । योगलक्षणमुपरिष्टाद् वक्ष्यामः । ज्ञानं सम्यग्ज्ञानम्। तद् द्विविधं- प्रमाणं च स्मृतिश्रेति। अ- नुभूतविषयासंप्रमोष: स्मृतिः । तद्यथा -सा मे माता, स मे पिता, तद् गृहमित्यादि हि ज्ञानं पूर्वानुभवजनित- संस्कारमात्रमुन्भवति। सम्यगनुभवः प्रमाणम्। तदुक्तम्- "अनुभूतिः प्रमाणं सा स्मृतेरन्या तु सा स्मृतिः । पूर्वानुभवसंसकारमात्रजं ज्ञानमुच्यते ॥" इति। सम्यक्पदेनात्र विकल्पविपर्ययादिव्युदास: क्रियते। अनुभवपदेन स्मरणं व्युदस्तम्। तद् द्विविधम्-तत्वा- वेदकमतत्वावेदकं चेति। तत्रात्मानात्मविवेकज्ञानं तत्वावे- दकम्। तदुक्तं लैङ्गे- १. 'य' ग. पाठ :. २. 'स्य धर्मो हे' ख. पाठ :.
151
Page 152
चतुर्थ: परिच्छेदः । १२९ "अव्यक्ताधे विशेषान्ते विकारेऽस्मिन्नचेतने। चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते।।" इति। अनात्मविषयं प्रमाणज्ञानमतत्त्वावेदकम्। तदुक्तं- "द्वे विद्ये वेदितव्येऽत्र परा चैवापरा तथा। कर्मा(ति?दि)विद्या ह्यपरा परा चोपनिषद्गता॥।" इति। तदेतत् प्रत्यक्षमेवेति चार्वाकः । स्पष्टास्पष्टात्मना द्विविधमित्यार्हताः । प्रत्यक्षानुमानात्मना द्विविधं प्रमाण- मिति बौद्धवृद्धवैशेषिकौ। तत्रागमस्याप्रामाण्याद् द्वैविध्यं बौद्धैः कल्पितम्। शब्दादीनामप्यनुमानेऽन्तर्भावाद् द्वैविध्य- मितरो बरूते। सशाब्दं चैतत् प्रमाणमिति साङ्यनूतनवै- शेषिकभूषणकाराः । तत्रयमुपमानसहितं वृद्धनैयायिकः । सा- र्थापत्ति तच्चतुष्कं प्रभाकराचार्यो ब्रूते। साभावं तत्पञ्ञकं भट्टपादोपनिषदः । ऐतिहासिकपौराणिका ऐतिह्यसम्भवचेष्टा- विरोधसहितं तत्षट्कमाहुः। तदुक्तं - "चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं तह्ैतं पारमर्षः सहितमुपमया तत्रयं चाक्षपादः । सार्थापत्ति प्रभाकृद् वदति तदखिलं पञ्ञकं त्च भाट्टः साभावं दे प्रमाणे दिनपतिसमये स्पष्टतास्पष्टता चं ॥" S
152
Page 153
१२० तत्त्वप्रकाशे सव्यार्ये
इति। "अन्यथाख्यामुपाश्रित्य सांख्यवच्छिवशासनम्" इति वचनादस्माकं तत् त्रिविधमेव प्रत्यक्षमनुमानमागम इति। परे चाहु :- तत्रैविध्यमैन्द्रियकं लैड्रिकं शाब्दं चेति। अर्थेन्द्रियसंप्रयोगात् संप्रयुक्तेऽर्थे विज्ञानं प्रत्यक्षम् । विज्ञानं प्रत्यक्षमित्युक्ते विकल्पे व्यभिचारः । तन्निवृत्त्यर्थ- मर्थ इति पदम् । अर्थे ज्ञानमित्युक्ते विपर्यये व्यभिचारः । तत्निवृत्त्यर्थ संप्रयुक्त इति पदम् । अनुमानादिव्यवच्छेदा- र्थम् अर्थेन्द्रियसंप्रयोगादिति पदम्। तद् द्विविधं-नि- र्विकल्पकं सविकल्पकं चेति। तत्र नामजात्युल्लेखशून्यं प्र- त्यक्षज्ञानं निर्विकल्पकं, यथा प्रथमाक्षसन्निपातजं वस्तुमा- त्रावभासकं विज्ञानम् । तदुक्तम्- "अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदशं शुद्धवस्तुजम् ।" इति। नामादिसम्बन्धोल्लेखि प्रत्यक्षज्ञानं सविकल्पकम् । तद्यथा -देवदत्तेति नामविकल्पः। दण्डी कुण्डलीत्यादयो द्रव्यविकल्पाः । शुक्कः कृष्णो महानित्यादयो गुणविक- ल्पाः। गच्छत्यागच्छति पततीत्यादयः क्रियाविकल्पाः । म- नुष्यः पशुर्घट इत्यादयो जातिविकल्पाः । इति पञ्चविधं सविकल्पकमिति। तत् पुनार्द्विविधं-योगिप्रत्यक्षमयोगि- प्रत्यक्षं चेति। देशकालस्वभावविप्रकृष्टार्थविषयमपरोक्षज्ञानं योगिप्रत्यक्षम्। तद्विपरीतमयोगिप्रत्यक्षम्। तद्यथा-दे- शविप्रकृष्टा मेर्वादयः । कालविप्रकृष्टा रावणाद्यः । स्वभा-
153
Page 154
चतुर्थः परिच्छेदः । १३१ वविप्रकृष्टा मूलकारणोन्द्रियादयः। तेषु यदपरोक्षं विज्ञानं योगिनां, तद् योगिप्रत्यक्षम् । इतरस्योदाहरणमुक्तमिति। लिङ्गादुपजायमानं लिङ्गिविज्ञानमनुमानम् । निरुपाधिकसा- ध्यसंबन्धि लिङ्गम्। तत् त्रिविधं पूर्ववत् शेषवत् सामा- न्यतोदृष्ट चति। कारणेन कार्यानुमानं पूर्ववत्, यथा वि- शिष्टमेघोन्नत्या भविष्यति वृष्टिरिति विज्ञानम्। तदुक्तं न्या- यविद्धि :- "सविद्युतां विदधतां गर्जाडम्बरमम्बरे। घनानामुन्नतिर्दष्टा न वृष्टव्यभिचारिणी॥
वृष्टिं व्यभिचरन्त्येते नैवंप्रायाः पयोमुचः॥" तथा - "शिखण्डिमण्डलारब्धचण्डताण्डवडम्बरैः । प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥" इति। कार्येण कारणानुमानं शेषवत्। तधथा-नदपूरणे- नोपरिष्टाद् वृष्टयनुमानम्। तदन्यत् सामान्यतोद्ृष्टम्। तद्य- था-रसाद् रूपविषयं विज्ञानमिति। अपरे दष्टस्वलक्ष- णसामान्यविषयं पूर्ववत्। तद्यथा-धूमादिलिङ्गदर्शनादध्य- क्षयोग्येऽग्नावनध्यक्षे संजायमानं विज्ञानम्। सामान्यतोट- ष्टम् अदृष्टस्वलक्षणसामान्यविषयम्। तद्यथा-रूपाद्युपल- ब्धिः करणजन्या क्रियात्वात छिदिक्रियावदितीन्द्रियसाधक- मनुमानम्। इन्द्रियत्वस्यानुमानविषयस्य स्वलक्षणं पूर्व न
१. 'षटाः का', २. 'के' ग. पाठः.
154
Page 155
१३२ तत्त्वप्रकाशे सव्यारुये प्रसिद्धमिति नास्य पूर्ववत्वम्। अनयोरन्वयमुखेन प्रवर्तमान- त्वाद् वीतत्वम्। व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम्। तदेव शेषवदनुमानम्। शिष्यत इति शेषः। स विषयतया- स्त्यस्यानुमानस्येति शषवदिति। तदुक्तं-प्रसक्तप्रतिषे- धेऽन्यत्रोप्रसङ्गाच्छिष्यमाणे संप्रत्ययः, तच्छेषतरदनुमानमिति। तद्यथा-सर्वे कार्य सर्वज्ञनिर्मितं, कादाचित्कत्वात्। यद्यत् सर्वज्ञनिर्मितं न भवति तत्तत् कादाचित्कमपि न भवति; यथा मायादि। न च तथेदमकादाचित्कम्। तस्मात् सर्वज्ञा- निर्मितमपि न भवतीति। तत् पुनर्द्विविधं स्वार्थ परार्थ चेति। तदुक्तं- "परोपदेशानपेक्षं स्वार्थ स्वस्यानुमापकम् । परोपदेशसापेक्षं परार्थमभिधीयते॥" इति। परोपदेशः पञ्चावयवं वाक्यम्। प्रतिज्ञाहेतूदाहरणोप- नयनिगमनान्यवयवाः पञ्चेति तार्किकाः । प्रतिज्ञाहेतूदाहर- णाख्यास्त्रय इति मीमांसकाः। उदाहरणोपनयौ द्वाविति बौ- छः। तत्र प्रतिपिपाद्यिषया पक्षवचनं प्रतिज्ञा, यथाभि- मान् पर्वत इति। साधनत्वख्यापक लिङ्गवचनं हेतुः, यथा धूमवत्वादिति। स त्रिविध :- अन्वयव्यतिरेकी केवलान्व- यी केवलव्यतिरेकी चेति। तत्र पञ्चरूपोऽन्वयव्यतिरेकी। रूपाणि तु पक्षधर्मत्वं, सपक्षे सत्वं, विपक्षाद् व्यावृत्तिरबाधि- तविषयत्वम्, असत्प्रतिपक्षत्वं चेति। तत्र साध्यधर्मविशिष्टो
१. 'त्र' ख. पाठ :. २. 'कारसा', ३. 'ज्ञावचनं, य' ग. पाठ :. ४. 'की । त' ख. पाठ :.
155
Page 156
चतुर्थः परिच्छेदः । १३२
धर्मी पक्षः। तत्र व्याप्यवृत्तित्वं हेतोः पक्षधर्मत्वम्। साध्य- समानधर्मा धर्मी सपक्षः । तत्र सर्वस्मिन्नेकदेशे वा हेतोर्वृत्ति: सपक्षे सत्त्वम्। साध्यव्यावृत्तधर्मा धर्मी विपक्षः । तत्र हेतो- रवृत्तिर्विपक्षाद् व्यावृत्तिः । प्रमाणाविरोधिनी प्रतिज्ञातार्थे हेतोर्वृत्तिरबाधितविषयत्वम। स्वपरपक्षसिद्धावत्रैरूप्यमसत्प्र- तिपक्षत्वमिति। तद्यथा-क्षित्यादि बुद्धिमत्पूर्व कार्यत्वाद् घटादिवदित्यादि। पक्षसपक्षवृत्तिरविद्यमानविपक्षः केवला- न्वयी। तघथा-विवादास्पदमटष्टादि कस्यचित् प्रत्यक्षं प्रमेयत्वात् करतलादिवदिति। पक्षवृत्तिरविद्यमानसपक्षो वि- पक्षाद् व्यावृत्तः केवलव्यतिरेकी। तस्योदाहरणम् अवी- तानुमानमिति। तथाहि-विमतं कालादिकं मायातो न भिद्यते मायाकार्यत्वाद, यत्तु भिद्यते न तन्मायाकार्य, य- था पुरुषशियौ। (न?) तथा न मायाकार्य कालादि। तस्मान्न मायातो भिद्यते इति। एवं हेतुलक्षणोत्त्या हेत्वाभासा नि- राकृताः। ते चासिद्धविरुद्धानैकान्तिकानध्यवसितकालात्यया- पदिष्टप्रकरणसमाः पक्षधर्मत्वादिरूपाभावाद् भवन्ति। तत्रानि- श्चितपक्षवृत्तिरसिद्धः। यथा-शब्दो नित्यश्चाक्षुषत्वादित्यादि। पक्षविपक्षयोरेव वर्तमानो विरुद्धः । यथा-आकाशविशेष- गुणः शब्द: प्रमेयत्वादित्यविद्यमानसपक्षः । क्षित्यादिकाला- न्तं नित्यं कार्यत्वादिति विद्यमानसपक्षः । पक्षत्रयवृत्तिरनै- कान्तिकः । यथा -नित्यः शब्दः प्रमेयत्वादिति साध्या- साधकः । पक्ष एव वर्तमानोऽनध्यवसितः । तद्यथा-नित्या
156
Page 157
१३४ तत्त्वप्रकाशे सव्यार्ये
भू : गन्धवत्वादिति विद्यमानसपक्षः । सर्व क्षणिकं सत्वादित्यविद्यमानसपक्षः । प्रमाणबाधिते प्रतिज्ञातार्थे वर्त- मानो हेतुः कालात्ययापदिष्टः । शुचि नरशिरःकपालं प्राण्य- इत्वात् शङ्कवदित्यागमविरुद्धः । उलूको दिवा रूपं पश्य- ति, चक्षुष्मत्त्वादित्यनुमानविरुद्धः । रूपदर्शनाविनाभाविचे- ष्टाभावेन रूपदर्शनाभावानुमानादिति । अनुष्णोऽभिः म- थनजन्यत्वाद् नवनीतवदिति प्रत्यक्षविरुद्धः । स्वपरपक्षसि- द्ावभिरूपो हेतुः प्रकरणसमः । तद्यथा -अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् घटादिवदित्यस्य नित्यः शब्दः पक्ष- सपक्षयोरन्यतरत्वाद् मायावदित्यत्रापि त्रैरूप्यसद्भावादिति। सम्यग्दृष्टान्ताभिधानमुदाहरणम् । व्याप्तिग्रहणभूमिर्दष्टान्तः । तद्यथा-यो यो धूमवान् स सोडभिमान् यथा महानस इति साधर्म्योदाहरणम्, अन्वयमुखेन दष्टान्ताभिधानत्वात् यस्त्वनिमान्न भवति स धूमवानपि न भवति, यथा जल- मिति वैधम्योदाहरणं, व्यतिरेकमुखेन दष्टान्ताभिधानत्वात्। अनेनोदाहरणाभासा व्युदस्ताः । तथाच नित्यं मनः मूर्त- त्वाद् यद्यन्मूर्त तत्तन्नित्यं यथा घट इति साध्यविकलः, य- थात्मेति साधनविकल:, यथा कर्मेत्युभयविकलः, यथा खपुष्प- मित्याश्रयहीनः।यन्नित्यं न तन्मूर्त यथात्मेति साध्याव्यावृत्तः, यथा घट इति साधनाव्यावृत्तः, यथा मायेत्युभयाव्यावृत्तः ।
१. 'दम् ।' ख. पाठ :.
157
Page 158
चतुर्थ: परिच्छेदः । १३९ शिवतत्वाद् न्यूनतया मायाया मूर्तत्वम्। व्याप्तिस्तु स्वकार्य- व्याप्ततयैवोच्यते। यथा खपुष्पमित्याश्रयहीनः, असौ महाराज्यं करिष्यति सोमवंशोह्भूतत्वाद् भविष्यद्राजपुत्रवदिति सन्दि- ग्घाश्रय इत्यादि। द्ष्टान्ते प्रसिद्धव्याप्तिकस्य हेतोर्द्वष्टान्तोपमा- नेन पक्षे व्याप्तिख्यापकं वचनमुपनयः । तथाचायं धूम- वानिति साधर्म्योपनयः । न च तथा धूमवानयं पर्वत इति वैधर्म्योपनयः । उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं नि- गमनं तस्मादभनिमानेवेति। तदुक्तं भगवता वेदव्यासेन -
"पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्। उत्तरोत्तरवक्ता च व्रुवतोऽपि बृहस्पतेः ॥"
करूपत्रयवानन्वयव्यतिरेकी। पक्षादिलक्षणं च सन्दिग्ध- साध्यः पक्षः।सन्देहश्र विप्रतिपत्तेः । निश्चितसाध्यः सपक्षः । निश्चितसाध्यव्यतिरेको विपक्ष इत्यतोऽग्न्यनुष्णतासाधकस्य कृतकत्वस्य विपक्षाद्दयावृत्तिरूपाभावेनागमकतया बाधित- विषयत्वस्य विपक्षाद्दयावृत्तावन्तर्भावेः । स्वपरपक्षसिद्धावेक- स्य त्रैरूप्यासंभवादसत्प्रतिपक्षत्वरूपाभावः । पक्षसपक्षयो- रन्यतरत्वस्य चैकस्यासंभवात्। तदुक्तं- "यच्ानुमेयसंबन्धं प्रसिद्धं च तदन्विते। तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥
१. 'णः', २. 'वात् । ख' क. पाठः.
158
Page 159
१३६ तत्त्वप्रकाशे सव्यार्ये
विपरीतमतो यत् स्यादेकेन द्वितयेन वा। विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽबरवीत् ॥"
इति। एवं केवलान्वयी च रूपद्वयवान् विपक्षाह्यावृत्ति- रूपाभावात् । व्यतिरेकी च तथा, सपक्षाभावेन सपक्षे सत्वरूपाभावादिति मन्यन्ते इति। शब्दजन्यं सम्यग्ज्ञा- नमागमः । स द्विविध :- पौरुषेयवाक्यजन्योऽपौरुषेयवा- क्यजन्यश्चेति। तत्र तन्त्रेतिहासपुराणमन्वादिवाक्यानि पौ- रुषेयाणि। वेदवाक्यान्यपौरुषेयाणीति। ननु वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद् भारतादिवाक्यवदित्यनुमानात् तेषां पौरुषेयत्वसिद्धिरिति चेत्। नैवम् । "तस्मै नूनमभिद्यवे वाचा विरूप! नित्यया"
इत्यागमेन वेदनित्यत्वसिद्धेरस्य कालात्ययापदिष्टतयाप्रा- माण्यात्। "प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे । एकोऽहं संस्थितो देवि! न द्वितीयोऽस्ति कुत्रचित् ।।
तस्मिन् वेदाश्च शास्त्राणि मन्त्रे पञ्चाक्षरे स्थिताः। ते नाशं नैव सम्प्राप्ता मच्छक्तया ह्यनुपालिताः।।"
इति लैङ्गागमविरोधाच्चेति। न च प्रत्युच्चारणं वेदस्योत्प- त्तिनाशोपलम्भाद् अनुपपन्नं तन्नित्यत्वमिति वाच्यम्। उच्चारणाया अभिव्यञ्ञकत्वेन तदुभयाभावात्। तच्च
159
Page 160
चतुर्थः परिच्छेद: । स एवायं वेद इति स एवायं स्तम्भ इतिवत् प्रत्यभिज्ञाप्पत्य- क्षेण प्रागपीदानीमुपलभ्यमानस्य वेदस्य सत्त्वावगमादव- गम्यते। न च प्रलयावस्थायां वेदधारणसमर्थपुरुषाभावेन वेदस्य विनाशे पुनः सर्गादौ वेदानां परमेश्वरैरचि(ते? तत्वे)- नानित्यत्वमिति वाच्यम्। द्विजातीनां वेदधर्तृणामभावेऽपि परमेश्वरस्य वेदधर्तुः सभ्ावात्। तथाहि-सर्गादावुत्प- ननस्य वेदस्य यावत्प्रलयमवस्थानं वैशेषिकादिभिर्वेदानित्य- त्ववादिभिरभ्युपगम्यते। ततस्तत्र न विवादः । प्रलयकाले वु सन्भावः साध्यते। तथाहि-प्रलयकालो वेदवित्पुरुष- समन्वितः कालत्वादितरकालवदिति । न च भूभूधरादिस- च्वमपि तेनैव न्यायेनानुमातुं शक्यत्वादतिप्रसङ्ग इति वा- च्यम्। भूभूधरादिशून्यकालस्य प्रलयत्वेन तस्य तद्दत्तासा- धने माता मे वन्ध्येतिवत् प्रतिज्ञाविरोधप्रसङ्गात्। एकब्र- ह्माण्डवर्तिसकलवैदिकपुरुषविनाशेऽपि ब्रह्माण्डान्तरवर्त्यन- न्तवैदिकपुरुषसद्धावाञ् वेदनित्यत्वम्। ब्रह्माण्डान्तराण्य- प्येतद्वेद्वन्ति ब्रह्माण्डत्वात् संप्रतिपन्नवदिति सर्वत्र वे- दैकत्वम्। वेदानित्यत्वपक्षेऽनन्तशाखाविततानन्तवेदजन- ननाशतत्कारणकल्पनायां कल्पनागौरवप्रसङ्ग: । नित्य- त्वे तु सिद्धस्य वेदस्य नित्यत्वमात्रकल्पनाया लाघवान्न क- श्रिद् दोष इति। तथा वेदकर्तुरसम्भैवाच्च न वेदपौरुषेयत्वम्। तथाहि-नेश्वरः कर्ता वेदस्य। पूर्ववेदपरित्यागे कार- णाभावात्। न च पूर्वकल्पे वेदाभाव इति वाच्यम्। १. 'रचि' स्. ग. पाठः. २. 'दोषप्र', ३. 'द्रा' क. पाठ :.
160
Page 161
१३८ तत्त्वपकाशे सम्मार्मे पूर्वकल्पे वेदसन्भावस्यानुमानसिद्धत्वात्। तथाहिं-पूर्वः सर्वोऽपि कल्पो वेदवैदिकयुक्तः कल्पत्वादिदानीन्तनकल्पव- दिति। न चेदानीन्तनकल्पवदेव भावानामद्यतनानामपि कल्पान्तरे सन्भावानुमानादतिप्रसङ्ग इति वाच्यम्। प्रमा- णाविरुद्धभावसभ्भ्ावस्येष्टत्वात्। तदुक्तं भगवता मनुना - "यथ(र्तु)व्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा "ब्रह्मा हरादिषु।।"- इति। तस्मादपौरुषेयो वेदराशिरिति सिद्धम्। वेदाः प्रमाणम् अनाप्तकृतशब्दत्वात् सम्प्रतिपन्नवत्। विमतं वेदाध्ययनं तद्वेदाध्ययनपूर्वकं वेदाध्ययनत्वाद् इदानीन्तनवेदाध्ययन- वदिति। उपमोपमानम्। गोसहशो गवय इति वाक्यं तज्जनितं वा विज्ञानं यद्युपमानं, तदागम एव न प्रमाणान्तरम्। यो- डयमस्य गोसदशस्य गवयशब्दो वाचक इति संज्ञासंजि- संबन्धविषयः प्रत्ययः, स चानुमानमेव। तथाहि-गोस- दशस्यास्य गवयशब्दो वाचकः, तत्र वृद्धैः प्रयुज्यमानत्वात्। यो हि शब्दो यत्र वृद्दैः प्रयुज्यते, सोऽसति वृत्त्यन्तरे तस्य वाचकः । यथा गोशब्दो गोत्वे प्रथुज्यमानस्तस्य वाचकः। तथा प्रयुज्यते चायं गवयशब्दो गोसहशे। तस्मात् तस्य वाचक इति ज्ञानमनुमानान्न भिद्यत इति। यश्च प्रत्यक्षे ग- वये गोसादृश्यप्रत्ययः, सोऽक्षसंयोगजत्वात प्रत्यक्षान्तर्भूतः । तथैव प्रत्यक्षमेव स्मर्यमाणायां गवि गवयसादृश्यज्ञानम्। * भावा युगादिषु' इति देवताषिकरणस्वशाह्रभाष्यपाठ:।
161
Page 162
चतुर्थ: परिच्छेद:। १३९ तस्यैकतया प्रत्यक्षगम्यत्वाविरोधात्। तथाहि- भूयोवय- वसामान्ययोगो जात्यन्तरवर्ती जात्यन्तरे साहृश्यमुच्यते। तस्यैकतया गवये प्रत्यक्षगम्यस्य गोस्मरणानन्तरं गवि प्र- त्यक्षत्वाविरोध इति पूर्ववत्निर्विकल्पकानुभूतत्वेन स्मर्यमाण वा गवि गवयसादृश्यमिति नोपमानवेदयं किश्िदस्तीति न प्रमाणान्तरमिति। एवं जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्य प्रमाणान्तरानवगतस्य परिकल्पनात्मिकार्थाप- चिरपि न प्रमाणान्तरम्, अनुमानत्वात्। सदेव यदेकत्र नास्ति, तदन्यत्रारति। सन्नेवाव्यापको यदेकत्रास्ति, तद- न्यत्रास्तीति स्वशरीर एव व्याप्तिग्रहणसंभवात् । तथाच दे- वदत्तो बहिर्देशसंबन्धी सत्त्वे सति गृहेऽविद्यमानत्वात् ब- हिःस्थवृक्षादिवदिति गहाभावे लिङ्गेन बहिर्भावज्ञानमनुमा- नमेवेति। न च सत्त्वमात्रावेदकगृहासत्वावेदकप्रमाणयोः ज्योतिःशास्त्रप्रत्यक्षयोः परस्परविरोधादेकं विषयव्यवस्थया- र्थापत्तिरिति वाच्यम्। अनवच्छिन्नावच्छिन्नयोः सत्वमात्रगृ- हासत्त्वयोर्विरोधाभावेनाविरोधापादनासंभवात्। नहि यत्र कचन सत्त्वस्य गृहासत्त्वेन विरोधः संभवति । भिन्नविषय- त्वात्। न च निश्चितो गृहाभावः पाक्षिकतया सांशयिकेन गृहसत्वेन प्रतिक्षिप्यते, प्रबलत्वादसतत्वस्य। न च देश- सामान्येन पाक्षिकमस्य गृहसत्त्वं प्रतिक्षिपन् गृहाभावः स- व्वमात्रं प्रतिक्षेत्तुं सांशयिकत्वं वा नेतुं शक्नोति । तस्य तत्रौदासीन्यादिति। सतत्वमात्रगहासत्त्वयोर्विरोधाभावादवि-
162
Page 163
१४० तत्त्वप्रकाशे सव्याख्ये रोधापादनं नार्थापत्त्या क्रियत इति न सा प्रमाणान्तर- मिति। न च भावान्तरादन्योऽस्त्यभावः, यत्सिच्धर्थमभा- वाख्यं प्रमाणमाश्रीयेत। नहि भूतलपरिणामविशेषात् कैव- ल्यलक्षणादन्यो घटाभावो नाम। प्रतिक्षणपरिणामिनो हि सर्वे भावा ऋते चितिशक्ते: परमेश्वरादिति स परिणामभेद इन्द्रियसिद्ध इति। अथवा भवतु भावान्तराद् व्यतिरिक्तो- डभावः । तथापि प्रत्यक्षादिप्रमाणसिद्धत्वात् तत्सिद्धयर्थ न प्रमाणान्तरमभ्युपगन्तव्यम् । तथाहि - चक्षुर्विष्फारणान्व- यव्यतिरेकानुविधानादिह भूतले घटो नास्तीत्यभावज्ञानस्यै- न्द्रियकत्वम् । तथा बहिःस्थत्वेन घटादीनां गृहासत्त्वं स्व- शरीरवदनुमीयते। तथा भारतपुरुषाणामभावो भारतागमे- नावगम्यत इति। तस्मान्नाभावाख्यं प्रमाणान्तरमस्तीति । सम्भवस्तु खार्या द्रोणाढकप्रस्थावगमः । स चानुमानं, खा- रीत्वस्य द्रोणादिव्याप्ततया तेन तदनुमानादिति। यच्चा- निर्दिष्टप्रवक्तृकं प्रवादमात्रमिति होचुर्वृद्ा इत्यैतिहं, यथेह वटे यक्षः प्रतिवसतीत्यादि, इदं न प्रमाणान्तरम् । आप्तोक्त्यनिश्चयेन सांशयिकत्वात् । आप्तवक्तनिश्चये त्वा- गम एवेति न प्रमाणान्तरमिति। चेष्टा चाभिनयः । स च समयबलेन परोक्षानुभवसाधनत्वादागम एवेति न प्रमाणा- न्तरमिति। एवं विरोधोऽपि। हदमध्येऽग्न्यभावज्ञानं तदनु- मानमेव। जलाग्न्योः परस्परविरुद्धयोरेकत्नासम्भवेनेतरेतरा- भावव्याप्तत्वादिति त्रीण्येव प्रमाणानीति। तदुक्तं- १. 'नाद् ना', २. 'तिं' ख. पाठ :.
163
Page 164
चतुर्थः परिच्छेदः । १४१ "ृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वाव। त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धि: प्रमाणाद्दि।। प्रतिविषयाध्यवसायो हष्टं त्रिविधमनुमानमाख्यातम् ।
सामान्यतस्तु दष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात्। तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ।।" इति। ऐहिकामुत्रिकविषयवितृष्णस्य वशीकारसंज्ञावैराग्यं न रागाभावः। तदैहिकामुत्रिकविषयाणामनित्यत्वसातिश- यत्वादिदोषदर्शनादुपजायत इति। अविघातकरणमैश्वर्यम्। तदष्टविधम्- "अणिमा माहमा चैव लघिमा गरिमा तथा। ईशित्वं च वशित्वंच प्राप्तिः प्राकाम्येमेव च ।" तत्राणुत्वमणिमा परमाणुवदवस्थानम् । महत्त्वं महिमा याव- दिच्छं स्थूलीभावः । लघिमा लघुत्वं, यतः सूर्यमरी- चीनालम्ब्य सूर्यलोकं गच्छति। गुरुत्वं गरिमा अन्यैरचाल्य- त्वेनावस्थानम् । ईशित्वमीशभावः भूतभौतिकानां प्रभ- वादिहेतुत्वम्। वशित्वं वशीकरणभावः सर्वस्य स्वेच्छावश- वर्तित्वम्। प्राप्ति: प्रापणं, येनाङ्गल्यग्रेण स्पृशति चन्द्र- मसम्। प्राकाम्यमिच्छानभिघातः, भूमौ चोन्मज्जति नि- मज्जति यथोदक इति। सत्यसङ्कल्पतेत्यपरे। यथास्य सङ्कल्पो भवति, तथैव भूतानि भवन्तीति। अस्मदादीनां निश्चयाः
१. 'श्य' क. पाठ :-
164
Page 165
तरवप्रकाशे सव्याधये. प(रा? दा)र्थानुरूपाः, योगिनां तु निश्यानुविधायिनः प- (रा? दा)्था इत्येतञ्चवुष्कं समासतः सातत्विकं, सस्वादुत्पन्नं रूपमिति। चत्वारस्तामसाश्र विपरीताः अधर्माज्ञानावै- राग्यानैश्वर्याभिधाना इति। तामसास्तमस उत्पन्नाः । अध- र्मोऽनम्युदयानिःश्रेयसहेतुः । अज्ञानं ज्ञानविपर्ययः, अस- म्यग्ज्ञानमिति यावत्। तत् त्रिविधं-विपर्ययो विकल्पो निद्रा चेति। विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठं शुक्ति- कादौ रजतादिज्ञानम्। शब्दज्ञानानुपाती वस्तुशून्यो विक- ल्पः। तदथा-शशविषाणादिशब्दश्रवणानन्तरं तदर्थविष-
बुद्धिवृत्तिरुद्भवति, सा निद्रा। तदुक्तं पतञ्जलिना भगवता- "अभावप्रत्ययालम्बना निद्रा" इति सूत्रेण। अवैराग्यं च दष्टानुश्रविकविषयरागः । अणिमादिप्रादुर्भावविरोधी बुद्धिध- र्मोडनैश्वर्यमिति। अन्ये तु परमेश्वरतत्त्वावेदकं ज्ञानं तदन्यद- ज्ञानमिति बुवते। एतदुक्तं साङ्कयैः-
"धर्मेण गमनमूर्ध्व गमनमधस्ताद् भवत्यधर्मेण। ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ वैराग्यात् प्रकृतिलयः संसारो राजसाद् भवति रागात्। ऐश्वर्यादविघातो विपर्ययात् तद्विपर्यासः ।।"
इति। विषयाध्यवसायरूपिणीत्यनेन बुद्धे: सन्वावश्च प्रतिपा- दितः । तथाहि-विषयाध्यवसायादिवृत्ते: परिदृश्यमानाया
165
Page 166
चतुर्ज: परिच्छेद: । १४२ मूलभूतं वृत्तिमह्ठुद्धितत्त्वमभ्युपगन्तव्यम् । अन्यथा वृत्त्य- भावप्रसङ्गादिति। तदुक्तं पारमेश्वरे - "अथ बुद्धेर्विकासो यः स्वधर्मेणानुमीयते। क्षुब्घेभ्यः सहसा पूर्व गुणेभ्यो भृतगोचरा । बुद्धिरध्यवसायेन भावानां जननी शुभा। वर्ण्यतेऽष्टगुणोपेता संविभज्य यथाक्रमम् ।।" इत्यादि। तस्या विभागमाह-सापि त्रिविधेति। सो बु- द्िविस्त्रिप्रकारा। कुत इत्यत आह-गुणतः प्राक्तनकर्मा- नुसारेणेति। पुरुषस्य पूर्वजन्मनि कृतपुण्यापुण्यात्मककर्मानु- सारेण गुणभेदादिति। तदुक्तं-"बुद्धि: कर्मानुसारिणी" इति। तथाहि-पुण्येनैकेन सात्विकी बुद्धिरपुण्येन तामसी मिश्रेण राजसीति। तथा जाग्रत्स्वप्नसुषुप्त्यात्मना च कर्मा- नुसारेण गुणभेदात् त्रिविधा बुद्धिरिति वा। तथाहि- स्थू- लकर्मनिमित्तं सात्विकी बुद्धिर्जागर्ति। सूक्ष्मकर्मवशाद् रा- जसी स्वप्ं गच्छति। जाग्रत्स्वप्रवृत्त्यभावहेतुभूततमःप्रकर्ष- मवलम्बमाना बुद्धि: सुषुप्तिमुपगच्छति। विश्रमार्थमात्मनः सर्वदैकस्वभावस्य सर्वगतस्य चिन्मात्रस्य जाग्रत्स्वप्रसुषुप्ति- साक्षिणो जाग्रदादित्रयाभावाद् बुद्धेर्विकारवतोऽवस्थात्रयवत्त्व- मिति। तस्या वर्णमादित्योदयनिभम्। तटुक्तम्- "अहक्कारस्य बाह्येऽपि बुद्धितत्वं व्यवस्थितम्। आदित्योदयसंकाशं बोधयन्तमिवाखिलम् ।।" १. 'क्षयभ्य:' क. पाठः. २. 'सापि दु', ३. 'ण मे' स. पाठः.
166
Page 167
सत्त्वप्रकासे सव्यारूये इति। तस्या: षडध्वव्याप्ति :- ठकारो वर्णः । तेजस्तेज इत्यादि ह्े पदे। तारहृदयपञ्चार्णमन्त्रः । बुद्याख्यं तत्त्वम्। पैशाचाद्यष्टभुवनानि । विद्या कला॥ ३९ ॥ इदानीमहंकारतत््वं निरूपयति- स्यात् त्रिविधोऽहंकारो जीवनसंरम्भगर्वरूपोऽयम्। संभेदादस्य सतो विषयो व्यवहार्यतामेति॥ ४० ॥ इति। बुद्धितत्वादहंकारात्मकं तत्त्वमुत्पदयते। अहंकृ- तिरहङ्कारः। अहमित्येवंरूपव्यापारवानित्यर्थः। विभागमाह- त्रिविध इति। केन रूपेणेत्याशङ्गयाह-जीवनसंरम्भगर्व- रूपोऽयमिति। जीवनाहङ्गारः संरम्भाहङ्कारो गर्वाहङ्कारश्रेति। तत्र जीवामीत्याकारो जीवनाहङ्कारः । अहं करोमीति संर- म्भाहङ्कारः। प्रबलोऽस्मि रूपवानित्यादि गर्वाहङ्गारः । एतानि रूपाणि यस्य स तथोक्त इति। प्रमाणमाह- संभेदादि- त्यादि। अहङ्कारसंबन्धाच्छब्दादिविषयो व्यवहार्यतामनुभ- वार्हतां यातीति। तथाहि-आत्मा तावन्निर्गुणो निष्किरि- यश्चिन्मात्र उदासीनस्वभावः । तस्मादसौ न शृणोति, न च पश्यति, न च वक्ति, न च करोतीत्ययमहङ्कारः श्रोत्रा- दिकृतश्रवणादिकं वागादिकृतवचनादिकं बुद्धिकृताध्यवसा- यादिकं चित्तकृतसंशयादिकं चाहं शणोमीत्यादिभिरहं वच्मी- त्यादिभिरहमध्यव(स्य?स्यामि) इत्यादिभिश्र वृत्तिभिरात्मनि साक्षिणि संबन्नाति। तेनाहङ्गाराख्यं तत्त्वमभ्युपगन्तव्यम्।
१. 'श्र' ग. पाठः-
167
Page 168
चतुर्थः परिच्छेदः । १४५ अन्यथा देवदत्तकृतस्य यज्ञदत्त इव श्रोत्रादिकृतस्य श्रव- णादेरात्म(नि)संबन्धाभावप्रसङ्ग इति। तदुक्तं शैवरहस्ये- "संबन्धेप्रतिभासो ज्ञातुर्ज्ञयेन देशकालाभ्याम्। सुलभोऽभिमाननामा व्यापारोऽहङ्कृतेरस्याः ॥" इति ॥४ ॥ तस्यैव प्रकारान्तरेण त्रैविध्यमाह- सास्विकराजसतामसभेदेन स जायते पुनस्त्रेधा: स च वैकारिकतेजसभूतादिकनामभि: समुच्छसिति॥ इति। सत्वरजस्तमोविकारतया सात्त्विकराजसतामस- भेदवानहङ्कारस्त्रिविधो भवति। स पुनरहङ्गारो वैकारिकतै- जसभूतादिकनामभिस्त्रिविधो भवतीति। सत्वोद्रिक्तः सा- च्विको वैकारिकाख्यः।रजोद्रिक्तस्तैजसः। केचिद् वैपरीत्यमि- च्छन्ति, स च तैजसवैकारिकभूतादिकेति ग्रन्थपाठश्चेत्याहुः । तमोद्रिक्तस्तामसः। स भूतादिनामेति गुणतो नामतश्र त्रैवि- ध्यमहङ्कारस्य भवतीति ॥५॥ कार्यमाह- तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षीणि। भूतादेस्तन्मांत्राण्येषां सर्गक्रमोऽयमेतस्मात् ॥ ६ ॥ इति। एतस्मादेव त्रिविधादहङ्काराद् एषां ज्ञानकर्मे- न्द्रियतन्मान्नमनसां षोडशानां सर्गः । किमात्मकान्मनस उत्पत्तिः, किरूपादिन्द्रियाणां, कथंभूतात् तन्मात्राणामित्या-
१. 'नधे' क. पाठ :.
168
Page 169
१४६ तत्त्वप्रकाश सव्याख्ये शङ्कय तेषामुत्पत्ति विभागेनाह -तैजसत इत्यादि। तैर्जसा- ख्यादहङ्काराद् राजसाच्चलैस्वभावं मन उत्पद्यते, वैकारिकात् सात्विकात् प्रकाशलाघवोपेतमिन्द्रियदशकम्। भूतादेस्ताम- सात् तमोबहुलानां तन्मात्राणामुज्जव इति। तैजसात् सा्वि- कात् स्वच्छं लघूत्पद्यते मन इत्यन्ये। सात्विकसहकृताद् वैका- रिकाद् राजसाद् बुद्धीन्द्रियाणामुत्पत्तिः, ज्ञानसाधनत्वात् । तामससहकृताद् वैकारिकात् कर्मेन्द्रियाणामिति। सांख्याः सात्त्विकादेवाहङ्गारादेकादशेन्द्रियाणां, तामसात् तन्मात्राण- मुत्पत्ति मन्यन्ते। सत्वतमसोर्निष्क्रियतया स्वयमुत्पादना- सामर्थ्याच्चलस्वभावेन रजसा प्रेरितयोस्तयोः कारणत्वमि- त्युभयमपि रजसा निमित्तेनोत्पद्यत इति न तु तस्योपादा- नत्वं, तत् सत्त्वतमसोरेवेति बुवते। तथाहि- "साच्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्। भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥" इति। एषां सर्गक्रमोऽयमेतस्मादित्यनेन पुनरुक्तेन पञ्चभूतेभ्यः पञ्ञानां बुद्धीन्द्रियाणामुद्भवं तार्किकाद्यभिमतं निरस्यति। तथाहि - "घ्राणरसनचक्षुसत्वक्श्रोत्रेन्द्रियाणि भूतेभ्यः" इति न्यायसूत्रम्। 'भूतानां बाह्यैकैकेन्द्रियग्राह्यविशेषगुणव- त्वेन्द्रियप्रकृतित्वे साधर्म्यमि'ति प्रशस्तपादीयं वैशेषिकभाष्यं च पृथिव्यादिभ्य इन्द्रियाणां घराणादीनां शब्दादीनां च स- मुद्भवमभधत्ते। मनश्र नित्यमिति तार्किकमीमांसका आहुः।
१. 'लं म' क. पाठ :.
169
Page 170
चतुर्थ: परिच्छेदः । १४७ तदेतदागमविरुद्धत्वादनुपपन्नम् । तथाहि-पारमेश्वरे ता- वत्, "सत्त्वधर्मस्त्रिघा तावदहंकारस्य सुव्रत!। वैकारिकरतैजसश्च भूतादिश्चेति स त्रिधा॥ सच्वेनोत्करृष्टवीर्येण गर्वो वैकारिकः स्मृतः । रजसा भूरिसंपृक्तसतैजसः परिकीर्तितः ।। भृतादिस्तमसोत्कृष्टस्तेषां वक्ष्यामि वृत्तयः। वैकारिकोऽक्षसेनायाः कारणं योनिरुच्यते॥ · मिशुनाज्जायते गर्वान्मनश्रैवोभयात्मकम् । तस्माद् वैकारिकादेव गर्वात् कर्मेन्द्रियाण्यपि । व्यक्तिमायान्ति संक्षोभात् सिसृक्षोः कारणात्मनः । भृतादेरव्यहङ्कारात् तन्मात्राणि भवन्ति हि ॥" इत्यादि। शिवधर्मोत्तरे च - "प्रधानादभवद् बुद्धिर्जगडेतुः शिवेच्छया। बुद्धेरपि च संक्षोभादहङ्कारस्त्रिधाभवत् । अहङ्काराच सूक्ष्माणि तन्मात्राणीन्द्रियाणि च।" इति। अनुमानाच्च ! तथाहि - विमतानीन्द्रियाणि भौति- कानि न भवन्ति इन्द्रियत्वान्मनोवदिति। अनित्यं मनः इन्द्रियत्वाच्चक्षुरादिवत्, सर्वाणीन्द्रियाणि जन्यानि आत्ममू- लकारणव्यतिरिक्तवस्तुत्वान्मूलकारणातिरोकजडत्वात् सगु-
१. 'क', २. 'नि भ' ग. पाठ :.
170
Page 171
१४८ तत्वप्रकाशे सव्याज्ये णत्वान्मूर्तत्वाद्दा घटादिवदित्याद्यनुमानादभौतिकत्वकार्यत्व- सिद्धाविन्द्रियाणां कारणापेक्षायामागमबलादहङ्कारस्य कार- णत्वमाश्रीयत इति। अत एव नाहङ्गारिकाणीन्द्रियाणीन्द्रिय- त्वान्मनोवदित्यनुमानस्य कालात्ययापदिष्टत्वात् साध्यवैकल्या- चाप्रामाण्यमिति। तथा पृथिव्यप्तेजोवायवो गन्धरसरूपस्पर्शो- पादाना न भवन्ति भूतत्वाद् व्योमवत्, व्योम च न श- ब्दोपादानं भृतत्वात् पृथिवीवदिति, शब्दादीन्युपादानकार- णवन्ति कार्यत्वात्, कार्याणि च मूलकारणातिरि(क्त?क्तानि) जडत्वाद् घटादिवद् इत्यनुमानाद् भूतव्यतिरिक्ततदुपादाना- हङ्गारसन्भावसिद्धिः । तस्य वर्ण पावकनिभम्। तदुक्तं- "तद्वाह्ये तु भवेत् तत्वमहङ्काराख्यमव्ययम्। दीप्षपावकसंकाशं भीमरूपं दुरासदम् ।।" इति अस्य षडध्वव्याप्ति :- धकारो वर्णः । अरूपेत्यादि हे पदे। ईशानपञ्चाणौ मन्त्रौ। अहङ्काराख्यं तत्त्वम्। छगल ण्डद्विरण्डौ? भुबने। प्रतिष्ठा कला ॥ ६ ॥ अथ मनःपूर्वाणामिन्द्रियाणां स्वरूपमाह- इच्छारूपं हि मनो व्यापारस्तस्य भवति सङ्कल्पः । बुद्धाक्षाणि श्रोत्रं त्वग हगू जिद्दा च नासा च।। इति। इच्छारूपं प्रार्थनारूपं, मन इति। व्यापारः वृ- त्तिस्तस्य मनसः सङ्कल्पः अनिर्धारितविशेषरूपः संशयरूप- इति यावत्। अनेन लक्षणमुक्तम्। सन्ावश्च संशयात्मि-
१. 'गो' ग. पाठः
171
Page 172
चतुर्थः परिच्छेदः । १४९ कया वृत्त्या वृत्तिमतोऽनुमानादिति। तथा चक्षुरादिकरणस- म्बन्घेष्टविषयेषु युगपज्ज्ञानानुत्पादनाच्चक्षुरादिव्यतिरिक्तं कर. णान्तरमस्तीत्यवगम्यते। यदि तन्न स्याद् युगपद्रूपादिज्ञानं जायेत। अतः करणान्तरमस्तीति तन्मन इति तत्सिद्धिः । तस्याणुकल्पत्वं त्वयुगपद् ज्ञानादेवावगम्यत इति विभुत्वानु- मानं कौमारिलोक्तं धर्मिग्राहकप्रमाणविरुद्धत्वादप्रमाणमिति। बुद्धक्षाणि बुद्धिवृत्तिसाधनानीन्द्रियाणणि। कानि तानीत्यत आह-श्रोत्रं त्वग दग् जिह्ना च नासा चेति॥ ७॥ तेषां विषयमाह- ग्राह्यास्तेषां शब्द: स्पर्शो रूपं रसश्च गन्धश्च। इत्येतेषां विषयाः क्रमेण पञ्चापि पञ्चानाम्।८॥। इति। बुद्धीन्द्रियाणां श्रोत्रादीना पञ्चानामेते पञ्च शब्दादयो विषया यतो ग्राह्या अतस्ते विषयाः।तान् क्रमेण दर्शयति-शब्दः रपर्शो रूपं रसश्च गन्धश्रेति ॥८॥ बुद्धीन्द्रियाणां स्वरूपं चाह- शब्दादीनां ग्रहणं व्यापारः कीर्तितः क्रमादेषाम्। वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाणि स्युः ॥ ९ ॥ इति। शब्द आदिर्येषां ते शब्दादयः तेषां ग्रहणं तदा- कारभजनम् एषामिन्द्रियाणां व्यापारः उक्तः, तत्वज्ञैरित्यर्थः । क्रमादित्यन्यस्यान्यंग्रहणं न संभवति। अनेन लक्षणमुक्तंप्रत्येकं
१. 'स्य' ग. पाठः.
172
Page 173
१५० तत्त्वप्रकाशे सव्याख्ये श्रोादीनामिति परीक्षापरं चेदं वाक्यम्। तथाहि-शब्दग्रहणं करणजन्यं क्रियात्वात् छिदिक्रियावदिति श्रोत्रसन्ावसिद्धिः। एवं स्पर्शरूपरसगन्धग्रहणकरणतया त्वगादीन्द्रियसिद्धिरव- गन्तव्या। तथाहि-वर्णावर्णात्मना द्विविधशब्दग्रहणं श्रोत्रेण करणेन विना नोपपद्यते । बधिरस्य तद्रहणादर्श- नात्। एवं शीतोप्णमृदुकठिनद्रवतीक्ष्णादिस्पर्शग्रहणं च त्वगिन्द्रियेण बिना न स्यात। त्वग्दोषदूषितस्य तदनुपल-
र्वादिभेदेभिन्नरूपग्रहण चक्षुः करणं बिना न संभवति। अ- न्धस्य तद्दर्शनासंभवात्। एवं मधुराम्लतिक्तलवणकटुकषा- यात्मना षड्डिधरसग्रहणमपि तत्प्रवर्तकरसनकरणेन विना न स्यात्। जाड्योपप्लुतरसनेन्द्रियवतस्तरदैनवगमात् । तथा सुरभ्यसुरभ्यात्मना द्विविधगन्धग्रहणं च तत्करणनाससिकाक- रणं विना न संभवति। अध्रातृत्वदृषितेन्द्वियस्य तदनुपल- ब्धेरिति ॥ ९॥ कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानीति पञ्च भ- वन्ति। तेषां व्यापारमन्तःकरणानां विभागं चोत्तरश्लोके- नाह - वचनादानविहरणोत्सर्गानन्दाश्च कर्मैषाम्। अन्तःकरणं त्रिविधं बुद्धिरहंकारचेतसी चेति॥ १० ॥
१. 'म्। प' ग. पाठः. २. 'दअ' ख. पाठ :. ३. 'दव' क. पाठ :. ४. 'ल' ख. पाठ :.
173
Page 174
चतुर्थः परिच्छेदः । १५१ इति। एषा कर्मसाधनतया कर्मेन्द्रियाणां वचनादीनि कर्माणि। परीक्षार्थ चेदं वाक्यम्। तथाहि -शब्दोच्चारणान्य थानुपपत्त्या तत्करणभूतवागिन्ट्रियसव्जावोऽग्यते । न तद्धिष्ठानं वागिन्द्रियमिति वाच्यम्। मूकस्यापि शब्दोच्चा- रणप्रसङ्गादिति। एतदिन्द्रियान्तरेप्वप्यवगन्तव्यम्। अन्यथा कौण्यपङ्गुत्वोदावर्तक्कैव्यात्मकेन्द्रियवतः आदानादिप्रसङ्गात्। तदुक्तं सांख्यै: - "बाधिर्यं कुष्ठितान्धत्वं जडताजिघ्रता तथा। मूकता काण्यपङ्गुत्वं कैव्योदावर्तमन्दताः ।।"
नश्चिह्नत्वेनेन्द्रियशब्दवाच्यानां सभ्जावः सिद्ध इति । विम- तानीन्द्रियाण्यतीन्द्रियाणि इन्द्रियत्वान्मनोवदिति च तेषा- (मि ? मती)न्द्रियत्वसिद्धिरिति । आभ्यन्तरं करणमन्तःकरणं त्रिविधं केन रूपेणेत्यत आह-बुद्धिरहंकारचेतसी चेतीति। बुद्धिरहङ्कारो मनश्चेति। अथवा अन्तःकरणमेकैकं त्रिविधं भूतभविष्य द्वर्तमानविषयभेदात्। तदुक्तं मातङ्गे- "यदन्तःकरणं नाम त्रिकालविषर्यात्मकम्। यतोऽवसीयते तस्माच्चिरकालानुसश्चितम् ।। वर्तमानमतीतं च यच्चेष्यमनुमानतः ।।" इति। तथा साङ्गयैश्र- "साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्" इति ॥ २० ॥ १. 'यं मतम्' ख. गं. पाठ :.
174
Page 175
१५२ तत्त्वपकाशे सव्याख्ये बाह्यकरणभेदं तन्मात्रवृत्ति चाह- बुद्धीन्द्रियकर्मेन्द्रियभेदाद बाह्यं पुनर्दशधा। तन्मात्रेभ्यः खपवनतेजोम्भःक्ष्मेति पश्च भूतानि ॥११॥ इति। बाह्यं करणं दशविधं-पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणीति। अथवा अन्तःकरणं बुन्धहंकारमनो- रूपम्। कर्मेन्द्रियबुद्दीन्द्रियात्मकं बाह्यं च कार्यभेदात् त्रि- विधं च। अन्तःकरणस्य प्राणादिवृत्त्या शरीरधारणलक्षणं, बुद्धीन्द्रियाणां प्रकाशः, कर्मेन्द्रियाणामाहरणमिति।तदुक्तं- "करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्" इति। मनःपूर्वाणामिन्द्रियाणां षडध्वव्याप्ति: क्रमेणोच्यते- उकारो वर्णः । आधूमेत्यादि ह्े पदे। तत्पुरुषपञ्चार्णो मन्त्रौ। मनस्तत्वम् । माकोटाख्यं भुवनम् । निवृत्ति: कला। न- कारो वर्णः । शर्वमहेश्वरौ पदे। कबचपञ्चार्णी मन्त्रौ।श्रोत्रा- ख्यं तत्त्वम्। मण्डलेश्वरं भुवनम्। शान्त्यतीता कला। प- कारो वर्णः । महादेवेत्यादि द्वे पदे। शिखापञ्चारणी मन्त्रौ। त्वगात्मकं तत्त्वम् । कालज्जरं भुवनम्। शान्तिः कला। ढै- कारो वर्णः। महातेजादि द्े पदे। शिरःपञ्चार्ण मन्त्रौ। चक्षु- राख्यं तत्त्वम् । शङ्कुकर्ण भुवनम् । विद्या कला। बकारो वर्णः । मुञ्च मुन्नेत्यादि हे पदे। हृदयपञ्चार्णौ मन्त्रौ। वागा- त्मकं तत्वम् । मण्डलेश्वरं भुवनम् । शान्त्यतीता कला। यकारो वर्णः। सर्वसान्निध्यकरणेत्यादि हे पदे। अघोरपञ्चारणो
१. 'अ' क. पाठ :. २. 'ज्य', ३. 'फ', ४ 'रेत्या' ख. पाठः.
175
Page 176
चतुर्थः परिच्छेद: । १५३ मन्त्रौ। पाण्यात्मकं तत्त्वम्। कालअ्रं भुवनम्। शान्तिः कला। र इति वर्णः । अनर्चितेत्यादि ह्े पदे। वामदेव- पञ्चार्णो मन्त्रौ। पादात्मकं तत्वम् । शङ्कुकर्ण भुवनम् । विद्या कला। लकारो वर्णः । पूर्वस्थितेत्यादि हे पदे। स- दयोजातपञ्चार्णी मन्त्रौ। पाय्वात्मकं तत्त्वम्। स्थूलेशं भुवनम् । प्रतिष्ठा कला। वकारो वर्णः । तुरु तुर्वित्यादि ह्े पदे। अस्त्रपञ्चार्णी मन्त्रौ। उपस्थात्मकं तत्त्वम् । स्थलेश्वरं भुवनम्। निवृत्तिः कला ॥ ११ ॥ तन्मात्रेभ्य इत्यत्र कानि तन्मात्राणि तेभ्यः कथं भू- तानामुत्पाद इत्यत आह- तन्मात्राण्यविशेषा: शब्दादीनां प्रकीर्तिता: पञ्च। भूतानि पञ्च तेभ्यो भवन्ति तान्येकगुणवृद्धया ॥१२॥ इति। अविशेषा: सूक्ष्माः शब्दादयः पञ्च तन्मात्राणी- त्युच्यन्ते। मात्रशब्देन भूतसंश्रेषो भूतभावेन परिणामो वा व्युदस्तः । केवलाः शब्दादयः सूक्ष्मत्वेनावस्थितास्तन्मा- त्राणीत्यर्थः । तेभ्यस्तन्मात्रेभ्यः पञ्चम्यः पञ्चभूतान्येकैक- गुणवृद्या भवन्तीति। तथाहि - शब्दतन्मात्राच्छब्दैकगुण- माकाशमुत्पद्यते। शब्दतन्मात्रसहितात् स्पर्शतन्मात्राच्छब्द- स्पर्शमणो वायुः। उक्ततन्मात्रद्दयसहिताद् रूपतन्मात्राच्छब्द- स्पर्शरूपगुणं तेजः। उक्ततन्मात्रसहिताद् रसतन्मात्राच्चतुर्गुणा आपः। शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रोपा
१. 'रू' ग. पाठ :-
176
Page 177
१९४ तत्त्वप्रकाशे सव्याखये दानकारणाच्छब्दस्पर्शरूपरसगन्धात्मकपश्चगुणा पृथिवी समु त्पद्यत इति। अपरे केवलेभ्यस्तन्मात्रेभ्यः केवलानि भूता- नीत्याहुः। अन्ये तु शब्दतन्मात्रादाकाशस्पर्शतन्मात्रावुत्प- देते। स्पर्शतन्मात्राद् वायुरूपतन्मात्री। रूपतन्मात्रात् तेजो- रसतन्मात्रौ। रसतन्मात्राज्जलगन्धतन्मात्रौ। गन्धतन्मात्रात केवला पृथिवीति। तदुक्तं- "तामसतो भूतादेरहंकृतेर्भवति शब्दतन्मात्रम्। तस्मादपि तन्मात्रादाकाशः स्पर्शतन्मात्रः ।। रूपरसगन्धमात्रं पवनाधैः सह यथोत्तरं भवति। पूर्वस्मात तन्मात्रात् केवलतो गन्धतः पृथिवी॥" इति। परे शब्दतन्मात्रादाकाशः, तह्यसहितात् स्पर्शत- न्मात्राद् वायुः। तव्नयसहिताद् रूपतन्मात्रातू तेजः, तच्चतुष्क- साहताद् रसतन्मात्रादापः, तत्पञ्चकसहिताद् गन्धतन्मात्रात पृथिवीत्याहुः। अपरे शब्दतन्मात्रादाकाशः, तस्मात् स्पर्श- तन्मात्रं, तस्माद् वायुः, तस्माद् रूपतन्मात्रं, तस्मात् तेजः, तस्माद् रसतन्मात्रं, तस्मादापः, ताभ्यो गन्धतन्मात्रं, तस्मात् पृथिवीति ब्रुवत इति। तन्मात्राणां षडध्वव्याप्ति :- णकारो वर्णः । अनादेत्यादि ह्े पदे। अघोरपञ्चार्णौ मन्त्री। शब्द- तन्मात्रं तत्वम्। मण्डलेश्वरं भुवनम्। शान्त्यतीता कला। तकारो वर्णः । धूत्रयादि ह्वे पदे। वामदेवपञ्चार्णो मन्त्रौ। स्पर्शतन्मात्रं तत्त्वम् । कालज्जरं भुवनम्। शान्त्यतीता कला। थकारो वर्णः । ओं भुब इत्यादि है पदे। सघो- जातपञ्चार्णो मन्त्रौ। रूपतन्मात्रं तत्वम्। शङ्कुकर्ण
177
Page 178
चतुर्थः पंरिच्छेदः । १५५ नम्। विद्या कला। दकारो वर्णः । अनिधनादि द्े पदे। अस्त्रपश्चार्णौ मन्त्रौ। रसतन्मात्रं तत्त्वम् । स्थूलेशं भुवनम्। प्रतिष्ठा कला। धकरो वर्णः । निधनोभ्जवेति पदम् । नेत्रप- ञचार्णौ मन्त्रौ। गन्धतन्मान्नं तत्त्वम् । स्थलेश्वरं भुवनम्। निवृत्ति: कलेति ॥ १२ ॥ अथ पञ्चानां भूतानां व्यापारमाह- अवकाशव्यूहनपाचनसंग्रहधारणं क्रमादेषाम्। व्यापारो भूतानां व्योमादीनां समुदिष्टः ॥ १३॥ इति। अवकाशः स्थानप्रदानं व्योग्नो व्यापारः, भेदकारणत्वात्। व्यूहनं विविधवहनं वायोर्व्यापारः, पुस्जी- करणं वा। पाचनं परिपाककरणं तेजसो व्यापारः। संग्रहः संश्लेषणमपां व्यापारः, क्ेदनं वा। धारणं सम्भरणं पृथिव्या व्यापार इति। तदुक्तं- "वयोम्नोऽवकाशदानं व्यूहो वायोर्हविर्भुजः पाकः। संग्रहणमपां धारणमुर्व्याः सर्वात्मना वृत्तिः ।।" इति। आकाशमत्र परमं भूतं, तच्छब्दगुणं, शब्दतन्मात्रा- दुत्पन्नत्वात। यथा मृदुत्पन्नो घटो मृद्गुणः, कार्पासादु- त्पन्नस्तन्तुः कार्पासगुणः एवं शब्दादुत्पन्न आकाशः शब्द- गुण इति। तदिदं भूतमवश्याश्रयणीयम्। अन्यथा मूर्तव- सुनो गमनागमनवृद्िसंरोहणव्यायामादिसर्वव्यापाराभाव- प्रसक्गादिति। तदुक्तं पारमेश्वरे- १. 'धा', २. 'हगण' रव. पाठ :.
178
Page 179
१५६ वत्त्वप्रकाशे सव्यारूये
"आकाशं शब्दतन्मात्रादवकाशकलक्षणम् । व्यक्तं व्यक्तिकरं विप्! पृथक् संस्थानसिद्धये ॥" इति। तदेकममूर्तमूर्तघटकुम्भमठकूपाद्युपाधिभेदादनेकभेद- भिन्नम्। तस्य वर्णमनिर्देश्यं शुद्धस्फटिकसन्निभमिति। अ- परे चन्द्रमण्डलाकारं मण्डलमिति। तदुक्तं- "तद्वाह्ये तु भवेद् व्योम भूतत्त्वे संव्यवस्थितम्। अप्रतर्क्यमविज्ञेयं मोक्षस्थानमितापरम् ॥" इति। अस्य षडध्वव्याप्ति :- शकारो वर्णः । पिङ्गपिङ्गेत्यादि ह्वे पदे। नेत्रपञ्चार्णी मन्त्रौ। आकाशात्मकं तत्त्वम् । वस्त्रा- पदादष्टौ भुवनानि। शान्त्यतीता कला। नीरूपस्पर्शवान् वायुः । स शब्दस्पर्शगुणः। 'आकाशाद् वायुरि'त्यागमबलात् परमाणोरुत्पत्तिर्बाघिता। स त्रिविधः शरीरं प्राणो विषय- श्चति। यातनादे: शरीरस्य वायवीयत्वं तदाधिक्याद्,न ता- वन्मात्रत्वात्। प्राणः शरीरस्थोऽन्तःकरणसामान्यवृत्तिरूपः । तदुक्तं- "स्वालक्षण्या वृत्तिस्त्रयस्य सैषा भवत्यसामान्य'। सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ।" इति। इतरो विषयवायुः। तदुक्तं मातङ्गे- "येनाविष्टं जगत् कृत्सं स्फुरते बुद्धिमेति च। यत्र बद्धा विमानानां कोटयोऽष्टी च विंशति: ।। भ्रमन्ति चक्रवत् सोऽयं वायुः प्राणभृतां वरः।" इति। "अस्याञ्जननिभं वर्ण वृत्तं षड्बिन्दुमण्डलम्।"
179
Page 180
चतुर्थः परिच्छेदः । १५७ तदुक्तं - "तद्वाह्ये वायुतत्त्वं तु भिन्नाज्जनसमप्रभम् । घर्घरारावमुखरं महाबलजनाकुलम् ।" इति। अस्य षडध्वव्याप्ति :- षकारो वर्णः । शब्दशब्देत्यादि हे पदे। कवचपञ्चारणी मन्त्रौ। वाय्वात्मकं ततत्वम्। गया- दष्टौ भुवनानि। शान्तिः कला। भारवररूपं तेजः । तद् द्विविधम् आभ्यन्तरं बाह्यं चेति। शरीरान्तर्वर्तिमुक्ताहा- रपाकसाधनमाभ्यन्तरम्, इतरद् बाह्यम्। तच् द्विविधं शरीर विषय इति। देवर्षीणां देहस्तैजसः। "तैज सानि शरीराणि भवन्त्यह्जुतकर्मणाम्" इति वचना। इतरत् सूर्यसोमवह्निविद्युदादि। तस्य वर्ण विद्युन्निभम्। तदुक्तं- "तेजस्तत्वं तु तद्वाह्ये विद्युत्कोटिसमप्रभम् । मेघस्तनितनिर्घोषं तेजोरूपं जनाकुलम् ।i" इति। मण्डलं स्वस्तिकलाञ्छितं त्रिकोणम् । अस्य षडध्व- व्याप्ति :- सकारो वर्णः । शिवशर्वेति पदम् । शिखाप- ज्ार्णो मन्त्रौ। तैजसं तत्त्वम्ं। श्रीशैलाधष्टौ भुवनानि। विद्या कला। स्वतोद्रवा आपः शब्दस्पर्शरूपरसगुणाः । तत्र स्वकीयो रसगुणः । त्रयोऽन्ये सङ्करजाः। तदुक्तं पा- रमेश्वरे - "रसः स्वाख्योSत्र बोद्धव्यस्त्रयोऽन्ये संकरोज्जवाः" इति। तद् द्विविधं शरीरं विषय इति। शरीरं वरुण- १. 'पवत्तेजः' ग. पाठ :.
180
Page 181
१५८ तत्वप्रकाशे सव्यार्ये लोकस्थानाम। विषयभूतमितरद्; भोग्यत्वाद्। स्फटिक- वर्ण चैतत्। तदुक्तं चन्द्रज्ञाने - "पृथिवीतत्त्वमाक्रम्य जलं दशगुणं बहिः। ब्रह्माण्डाधारभूतं तु शुद्धस्फटिकसन्निभम् ॥" इति। अस्य षडध्वव्याप्ति :- हकारो वर्णः । सर्वदादि द्े पदे। शिरःपञ्चार्णो मन्त्रौ। अबात्मकं तत्त्वम् । अमरेशा- घष्टौ भुवनानि । प्रतिष्ठा कला। गन्धवती पृथिवी, पञ्च- गुणा च। तदुक्तं पारमेश्वरे- "संक्षुब्धाद् गन्धतन्मात्राद् गुणैः पञ्चभिरन्विता। स्वाख्योऽस्या गन्ध एवोक्तश्चत्वारोऽन्येऽनुषङ्गजा: ।। सारं तावत् परा काष्ठा नखदन्तास्थिजातेयः।" इत्यादि।सा चेयं शरीर विषय इति द्विविधा। शरीरं च स्था- वरजङ्गमात्मना द्विविधम्। स्थावरं तृणादिवृक्षान्तम्। जङ्गनमं चतुर्विधं जरायुजमण्डजं स्वेदजमयोनिजं चेति। मनु- व्यपशुमृगाणां जरायुजम्। पक्षिसरीसृपाणामण्डजम्। यूक- मत्कुणपतङ्गादनिां स्वेदजम्। भुवनेशदेवर्षीणामयोनिजं
रकतावत्संख्यविमानादयः पुराणशतेतिहाससिद्धा विषयाः, भोग्यत्वादिति। अण्डात्मकं क्षितितत्त्वं शतकोटियोजनविस्तृ- तम्। तंदुक्तं शैवरहस्ये - "पार्थिवमन्तिमतत्त्वं ब्रह्माण्डात्मकमखण्डमपि तावतू। विस्तारायामाभ्यामुक्तं शतकोटियोजनम्" १. 'र्वादि', २. 'यतः ।' ग. पाठ.
181
Page 182
चतुर्थः परिच्छेदः । १५९ इति। मतङ्गपारमेश्वरे च- "एवं कोटिशतं पूर्ण पार्थिवं तत्त्वमत्र तु। अस्माद् दशगुणं तोयं तोयादभिस्ततोऽनिलः ॥ वायोः खं खादहङ्गारस्तस्माच्च परतो महान् । महतः परतो ज्ञेयं गुणानां त्रितयं मुने!॥ गुणत्रयात् प्रधानास्यं तत्त्वं दशगुणोत्तरम् । शतोत्तरगुणानि स्युर्मायान्तान्यपि रागतः ।। सहस्रवृद्धं विद्याख्यं लक्षमेशं ततस्ततः । कोट्या विवर्धितं भूयः शिवतत्त्वं प्रकीर्तितम् ॥। अनन्तरमनन्तं स्यादप्रमेयं च शाश्चतम्।" इति। एतत् क्षितितत्त्वं स्वर्णनिभम्। तदुक्तं चन्द्रज्ञाने- "सौवर्ण पृथिवीतत्त्वं सूर्यकोटिसमप्रभम्। कुक्कुटाण्डनिभं चैतद् ब्रह्माण्डं परिकीर्तितम् ।।" इति। चतुरश्रं वज्रलाञ्छितं चन्द्रमण्डलम्। "ब्रह्माधा देवता ज्ञेयाः क्ष्मादीनां पञ्च वै क्रमात्। शिवादिपृथिव्यन्तेषु तत्वेषु सकलेष्वपि।। भुवनानि चतुर्विशत्यधिकं तु शतद्दयम्।" अस्याः षडध्वव्याप्ति :- क्षकारो वर्णः । शिवायों नेमो नम इति पदम्। हृदयपञ्चार्णो मन्त्रौ। पार्थिवं तत्त्वम् । कालाग्न्यादिभद्रकाल्यन्तान्यष्टोत्तरशतं भुवनानि। निवृत्तिः कला इति ॥ १३॥ इति तत्त्वप्रकाशतात्पर्यदीपिकायामशुद्धवर्गविनिर्णयः धतुर्थः पंरिच्छेद:।
'पि' ₹. 'नम' ख. पाठ:
182
Page 183
अथ पञ्चैम: परिच्छेद्:। अथैवं गुणसाम्यात्मकात् प्रधानादुत्पन्नानि त्रयोविं- शतितत्वानि कार्यकारणात्मना द्विविधानि। तत्र तन्मात्रा- पश्चकभूतपञ्चकात्मना दशविधं कार्यम्। बाह्याभ्यन्तरभे- देन त्रयोदशविधं कारणम्। तयोर्विनियोगं दर्शयति- कार्यमिदं दशधा यत् तत् करणैः कार्यते समाविश्य। करणान्यसमर्थत्वात् कार्यं संश्रित्य चेष्टन्ते॥ १॥ इति। अयमभिप्रायः-दशविधं यत् कार्य तत् करणै: कार्यते स्वीक्रियते गरृह्यत इति यावत् । कार्य शरीरं सूक्ष्मस्थूलात्मना दशविधम्। समाविश्य संश्रित्य। आश्रयं विना तेषां चेष्टितुमशक्यत्वादित्यर्थः । अथवा कार्य विष- यम्(?)। दशविधमिदम् । तत् करणैः विषयीक्रियते। समा- विश्य सम्बध्येति॥ १॥ तदेवं षटूत्रिंशत्तत्वानां स्वरूपमभिधाय साम्प्रतं शुद्धानीत्यादिना सूचितं शुद्धत्वं शुद्धाशुद्धत्वमशुद्धत्वं च प्रतिपादयितुं तड्डेतुमाह - पञ्चानामाद्यानां चिद्ूपतयान्वयः परेषां तु। मायाद्यानां द्वेधा सप्तानां कीर्तितः शैवे ॥ २ ॥ अव्यक्तप्रभृतीनां गुणैस्तु सुखदुःखमोहरूपतया। अन्वय इह निखिलानां दशके ह्यन्ते विशोषोऽयम्॥३॥ इति । अयमभिप्रायः-एकजातिसमावेशोऽन्वयः समानरूपत्वम् ऐकात्म्यमिति यावत्। तत्र पञ्चानामाधानां
१. 'योर्योगं' ख. पाठः.
183
Page 184
पञ्चम: परिच्छेदः । १११ शिवशक्तिसदाशिवेश्वरविद्यातत्वानां चिद्रूपतयान्वयः । तेन कारणेन तेषां शुद्धत्वं, ज्ञानरूपस्याज्ञानमलसम्बन्धासंभ- वात्। मायाकालनियतिकलाविद्यारागपुरुषाणां सप्तानां द्वेधा चिदचिद्रूपेतयान्वयः । चिदनुविद्धाचिद्रूपत्वाद् मायादीनां पुरुषव्यतिरिक्तानां द्वेधा समन्वयः। पुरुषस्य चित्स्वभावस्यो- पाधिकृताचिद्रूपत्वादिति ! यथा जपासन्निधानात् स्वतः शुद्धस्य स्फटिकस्य रागः, तथा पुरुषस्याप्युपाधिधर्माध्यारो- पादचिद्रूपत्वमिति। तेन सप्तानां मायादीनां शुद्धाशुद्धत्व- मिति। अव्यक्तादीनां बाह्यतया चित्संबन्धरहितानां सुख- दुःखमोहरूपत्वेन गुणैरन्वयः । तेन तेषां केवलाशुद्धत्व- मिति ॥ ३ ॥ अन्ते दशके भूततन्मात्रात्मके वक्ष्यमाणो(यं?यो) वि- शेष: स किंलक्षण इत्यत आह- शब्दादेर्गुणसाम्ये तुल्यत्वेनान्वयोऽत्र विज्ञेयः । अङ्गाद्गिभावविहितो भवति विशषस्तु केषाश्चित् ॥४॥ इति। शब्दादीनां सगुणत्वसाम्ये सत्यप्यसमतया सम्बन्धो वेदितव्यः । अङ्गाङ्गिभावः कार्यकारणभावः, तेन विहितः प्रतिपल्नो भावसर्गाख्यो विशेषः केषांचित् कार्य- रूपाणां कालाद्यवन्यन्तानां विज्ञेय इति। कार्याणां स्व- साधारणकारणेषु सतत्वं भावसर्गः । तदुक्तं शवरहस्ये - "पतिस्विकेषु हेतुषु तत्तत्तत्त्वात्मकस्य सूक्ष्मस्य । कार्यस्यावस्थानं भावः सत्कार्यवादिमते ॥"
१. 'पान्व', १. 'स्य तु चि', २. 'शब्दगु' ख. पाठ :. W
184
Page 185
तत्त्वप्रकाशे सव्याखये इति। सोऽयं भावसर्गः कार्यकारणभावेनावगम्यते। तथा- हि-कार्यकारणभावसंबन्धो नासति संबन्ध्यन्तरे कार्ये सम्भवतीत्यसतः खरविषाणादेरदर्शनात्। विमतानि कार्या- णि कारणेषु सन्त्येव, उत्पत्तिमत्त्वात् । यत् कारणेष्वविद्य- मानं न तदुत्पत्तिमत् यथा खरविषाणम्। नच तथैता- नि नोत्पत्तिमन्ति। तस्मात् कारणेषु सन्त्येव इति। तथा उपादानकारणस्वीकाराच्च। यदि तिलेषु तैलं न स्यात्, तर्हि तैलार्थिनः सिकतेष्विव तिलेष्वपि स्वीकारो न स्यात् । न तदस्तीति तिलेषु तैलसन्भावसिद्धिः । एतैस्मादेव कार- णात् सर्वस्भावाच्च सदेव कार्यम्। यदि कारणेष्वसत् कार्य जायेत, तर्हि तस्मादेवाखिलकार्यसंभवप्रसङ्ग:, असत्त्वस्य सर्वत्राविशेषात्। न च तदस्तीति सदेवोत्पद्यत इति। श- क्तात् कारणाच्छक्यकार्यजननाच्च। यदि कारणेष्वविद्यमानं कार्य जायेत, तर्ह्यशक्तादपि तदुङ्जवप्रसङ्ग:, असत्त्वे शक्ति- कल्पनावैयर्थ्यात् । तथा शक्ते: कार्यसूक्ष्मावस्थारूपत्वाच्च सत् कार्यम्। तथा यद्यसत्कार्यमशक्यमपि तदा कार्य जा- येत, कारणस्य शक्तत्वात् न चासति कार्ये तत्रैव शक्तिरिति- वक्तुं न शक्यते, असत्त्वेनाविशेषादिति। कारणत्वाच्च सत् कार्यम्। यदि कार्य कारणे न स्यात् तदास्य कारणत्वमपि न स्याद् इतरसाधारण्यात्। तद् दष्टमतः सत् कार्यमिति। तदुक्तम् - "असदकरणादुपादानग्रहणात् सर्वसंभवाभावात्। शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ।" १. 'क' ख. पाठ :.
185
Page 186
पञन्चम: परिच्छेद: । १६३ इति। नच सत्कार्यवादे कारणवैयर्थ्यप्रसङ्ग इति वाच्यम्। कारणानामभिव्यक्त्यर्थत्वात। यथावघातदोहनापीडनैः तण्डु- लक्षीरतैलानामुत्पत्तिः, तथा कालाद्यवन्यन्ततत्वानां तद्विका- रभूतघटादीनां चोभ्जव इति। विनाशश्र तेषां तिरोभाव एव, नासत्वमिति। नचाभिव्यक्तेरभिव्यक्त्यन्तराभ्युपगमे- ऽनवस्थेति वाच्यम्। उत्पत्तेरपि समानत्वात्। तथा पटो- त्पत्तिः स्वकारणसमवायः स्वसत्तासमवायो वा नोत्पद्यते। तथापि तदर्थानि कारकाणि व्यापार्यन्ते। एवं सत एव घ- टादे: स्वत एवाविर्भावाय कारणापेक्षेति युक्तम्। तदुक्तं भगवता विष्णुना - "नासतो विद्यते भावो नाभावो विद्यते सतः" इति। श्रीविष्णुपुराणे च- "तदेतदक्षयं नित्यं जगुर्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ।।" इति। अथवा अङ्गाङ्गिभावविहितः कल्पितो विशेषः, हेतुम- च्वान्नित्यत्वात्। व्यापित्वसत्क्रियत्वानेकत्वाश्रितत्वलिङ्गत्व- सावयवत्वपरतन्त्रत्वादिधर्मः कालाद्यवन्यन्तानां व्यक्तानां वि- द्यत इति त्रिगुणत्वाविवेकित्वविषयत्वसामान्यत्वाचेतनत्वप्र- सवधर्मित्वा(द्य?न्य)व्यक्ताख्यस्य मायातत्त्वस्यापि सन्ति। चिन्मात्रस्य शिवस्य पुंसो हेतुमत्वादिकं त्रिगुणत्वादिकं च
१. 'या त' ग. पाठः. २. 'गन्मुनि' ख. पाठः. २. 'वर्गः का', ४. 'सिद्दिध' क. पाठः.
186
Page 187
१६४ सत्त्वप्रकाशे सव्यारये नास्ति। तयोः कार्यकारणभावविहितयोः कार्यकारणत्वशून्ये पुरुषेऽसंभवादिति केषांचिदेवायं धर्म इति। तदुक्तं- "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्। सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् । त्रिगुणमविवेकिविषयं सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ।।" इति। अथवा अङ्गमचेतनं चेतनार्थत्वात्। तस्याङ्गी चेतनः शेषित्वाव तस्य। तयोर्भावः संबन्धः । तद्विपरीतो विशेषः इतरेतराध्यासोऽङ्गाङ्गिभावविहितो विशेष इति। तदुक्तं- "तस्मात् तत्सयोगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ।।" इति। अथवा अङ्गाङ्गिभावः प्रधानाप्रधानभावः । बुद्धि: प्रधानभूता, पुरुषस्यातिसन्निकृष्टत्वात्। तस्यास्तेनाङ्गित्वम्। बाह्येन्द्रियाण्यङ्गानि अप्रधानानि, तत्साध्यत्वात्। तयोर्भाव- विहितो विशेषः केषांचित् कारणानामस्तीति। तदुक्तम्- "एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषात्। कृत्सं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥" सर्व प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुदद्धि:। सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ।।" इति। तस्मादेव तत््वानामुत्पत्तिरिति॥ ४ ॥। एवं तत््वानां सृष्टिकमं स्थितिं चोत्तवा संहारक्रममाह- १. 'पि' ग. पाठ :.
187
Page 188
पञ्चम: परिच्छेदः । ११५ तत्वानां स्थितिरेषा कथिता सृष्टिकमेण सर्वेषाम्। प्रतिलोमं परिणामान्मायायां तानि लीयन्ते ॥ ५ ॥ इति। एतेषां तत्वानामुक्तेन प्रकारेण सृष्टिः स्वे स्वे कारणे स्थितिश्र कथिता। परिणामप्रतिलोमेन मायायां तानि से स्वे कारणे लयं प्राप्य लीयन्त इति ॥ ५॥ मायायाः परस्ताद यानि तत्त्वानि तेषां कुत्र लय इत्याशङ्गयाह- मायायाः परतोऽध्वा शुद्धः शक्तौ निलीयते सकलः। सर्वात्मनि सापि शिवे तिष्ठत्यविभागमापन्ना ॥ ६ ॥ इति। मायायाः परतो यस्तत्त्वाध्वा शुद्धाख्यः, स सर्वो- डपि शक्तितत्त्वे लयं याति। सा शक्तिः शिवेनैक्यं प्राप्य तिष्ठति। निलीयत इति, "आनीदवातं स्वधया तदेकमिति श्रुतेस्तद्वगमात् ॥ ६ ॥ ननु संहारदशायां सकलस्य विनाशेन पुनरुत्पादा- संभव इत्याशङ्कयाह- माया पुरुषः शिव इत्येतत् त्रितयं महार्थसंहारे। अवशिष्यते पुनस्तत् प्रवर्तते पूर्ववत् सृष्टौ॥ ७॥ इति। महार्थानां कालाद्यवन्यन्ततत्वानां शुद्धानां च विद्येशसदाशिवानां संहारे मायापुरुषशवानां जगत्कारणानां सभ्ावाल् पुनरपि जगदुत्पत्तिः संभवत्येव पूर्ववदिति॥७।। ननु तर्हि किं प्रलयेनेत्याशङ्गयाह- संसारे खिन्नानां सर्वेषां प्राणिनां प्रभु: कृपया। कुरुते महार्थसंहृतिमेतेषामेव विश्रान्त्यै ।।८ ।।
188
Page 189
१६६ तत्त्वप्रकाशे सव्याख्ये इति। अनवरतमुपजायमानशरीरन्द्रियविषयसंपर्क- जातसुखदुःखानुभवव्यापारसञ्जतश्रमाणां प्राणिनां विश्रा- न्त्यर्थ करुणानुन्नहृदयः प्रमुर्महार्थसंहारं करोतीति। तदुक्तं- "कार्यव्यासक्तचित्तानां विश्रान्त्यै रजनी यथा। संहारं भवखिन्नाना कृपया कुरुते शिवः ।।" इति॥८॥ इति तत्त्वप्रकाशतात्पर्यदीपिकायां सामान्यवाद: पञ्चमः परिच्छेदः ।
अथ षष्ठः परिच्छेद:। अथ तर्हि पुनः सर्गकारणमयुक्तं, विश्रामस्यैव पुरु- षार्थत्वादित्याशङ्गयाह- कर्मविपाचनहता: पशुदयया पुनरपीह परमेशः। सृष्टिं विधाय कर्माण्येवं पाचयति देहभताम् ॥ १ ॥
निरतिशयानन्दात्मकापवर्गविहीनान पशुतयानधिगतपुरुषा- र्थान् कर्मबद्धान् दयार्हान् पशूनवलोकयन् भगवान् भोगेन कर्मबन्धविनिवृत्तये तत्साधनदेहेन्द्रियविषयसृष्टिं विधत्ते। तेषां कर्मबन्धविनिवृत्तिश्र मोक्षार्थेति मोक्षार्था सृष्टिरुपपन्ने- त्यर्थः ॥ १ ॥ ननु केन तर्हि कर्मपाकः, कथं वा मोक्षसंभव इत्यत आह- भोगेन कर्मपाकं विधाय दीक्षां शिवः शक्त्ा। मोचयति पशूनखिलान् करुणैकनिधिः सदा शंभुः॥२॥ १. 'हा' ख. पाठ :.
189
Page 190
पष्ठः परिच्छेद: । १६७ इति। अयमाशय :- भोगेन कर्मणः पाकं विनाशं कुर्वन् भगवान् कालं प्रतीक्षमाणः कर्मसाम्ये सति शक्तिर्मो- चिकां ? पाचयित्वाचार्यो भूत्वा दीक्षां विधायापवर्गार्हान् पशूनखिलान् सर्वदा सदा परमकारुणिकः शंभुर्मोचय- तीति। ननु न मोक्षाख्यः पुरुषार्थोऽस्ति, नापि स्वर्गाख्यः, तयोः सन्ावे प्रमाणाभावात्। न चानुमानागमाभ्यां तयोः सन्ावसिद्धिरिति वाच्यम्। अनुमानागमयोरप्रामाण्यात्। तत्रानुमानस्याप्रामाण्यं व्याप्तिग्रहणसापेक्षस्यानुमानस्य तदसं- भवात् । स च देशान्तरकालान्तरगततयानध्यक्षयोः साध्य- माधनयोः, साहित्य नियमात्मकस्याविनाभावस्याध्यक्षतो ग्रह- गासंभवात्। नचानुमानात् तदविनाभावग्रहणमिति वाच्यम्। अन्योन्याश्रयप्रसङ्गाद्, व्याप्तिग्रहणे सत्यनुमानप्रंवृंत्तिः, अनु- मानप्रवृत्तौ व्याप्तिग्रहणमिति। नचानुमानान्तरेण व्या- सिग्रहणम्। अनवस्थाप्रसङ्गात्। नचागमाद् व्यापिग्रहणम्। तस्य सन्दिग्धत्वात् तदनुपलम्भाच्चेति। नचागृहीताविना- भावात् साधनात् साध्यसिद्धिरिति वाच्यम् । अतिप्रसङ्गात्। तस्मात् प्रत्यक्षमेव प्रमाणम् । तन्न स्वर्गापवर्गौ नावगमय- तीति काम एव मुख्यः पुरुषार्थः, अर्थश्र तत्साधनत्वादिति। तदुक्तं-"वृत्तिसाध्या प्रीतिः पुरुषार्थः, स काम एव ना- न्यो मोक्षादिः, दृष्टहान्यदष्टकल्पनाप्रसङ्गादिति। तथा पृथि- व्यप्तेजोवायव एव तत््वानि, शरीरेन्द्रियविषयाणां तत्समुदा- यरूपतया तत्त्वान्तराभावात्। नच ज्ञानं तत्वान्तरम् । तस्य १. 'ूयं' ग. पाठ :.
190
Page 191
१६८ तत्त्वप्रकाशे सव्यार्ये रजनीचूर्णसंबन्धादुपजायमानरागवद् भूतसमवायजन्यतया तद्धर्मत्वनिश्चयादिति चार्वाकः। तदयुक्तम् । अनुमानागमा- प्रामाण्ये सन्दिग्धं विपर्यस्तं वा प्रतिपादं प्रति प्रतिपादकस्य शब्दप्रयोगासंभवप्रसङ्गात्। तथाहि-अस्याज्ञानं सन्देहो विपर्यासो वा विद्यत इति प्रतिपाद्यशब्दादिना लिङ्गनानु- -माय मयोच्चारितेन शब्देनास्य यथार्थप्रतिपत्तिर्भविष्यति। सा तदज्ञानादिकं निर्णुदस्यती?त्याद्यनुमानपूर्वको हि परं प्रति- पादं प्रति प्रतिपादकस्य शब्दप्रयोगः। अतत्पूर्वकत्वे शब्द- प्रयोक्तुरुन्मत्तवदुपेक्षणीयताप्रसङ्गेन च परगताज्ञानसन्देहवि- पर्यासाः प्रत्यक्षतोऽवगन्तुं शक्यन्ते। अतोऽनिच्छतापि चार्वा- केणानुमानस्य चागमस्य च प्रामाण्यमभ्युपेतव्यम्। शब्द- स्याप्रमासाधकत्वे प्रयोगासंभवप्रसङ्गात्। नच व्याप्तिग्रह- णासंभवादनुमानाप्रामाण्यम्। सामान्योपग्राहकव शादखिल- व्यक्तिषु संबन्धग्रहणवत् तदुपपत्ते: । तथाहि-व्याप्तिग्रहण- वेलायामल्पत्वादिविशषं परित्यज्य धूमजातयिमभिजातयिं न व्यभिचरतीति सामान्योपग्राहकवशादजातातिवृत्तप्रत्युत्पन्ना- खिलव्यक्तीनां तत्तज्जातीयतया तथा व्याप्तिग्रहणे व्याप्तेर्गृही- तत्वान्न व्याप्तिग्रहणासंभव इति। सामान्ययोरेव व्याप्तिग्रहणम्, अधिकरणसिद्धान्तन्यायेन विशेषसिद्धेरिति। तदपास्तम् । "विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात्। तद्वतोऽनुपपन्नत्वाद् अनुमानकथा कुतः ॥" इति। यतो व्याप्तिग्रहणादिसंभवस्योक्तत्वातू। तथा भोज- १. 'त्पत्तेः', २. 'णँसं' ग. पाठः.
191
Page 192
षष्ठः परिच्छेदः । १६९ नादिसर्वक्रियासंभवश्र।तासामनुमानपूर्वकत्वात्। किञ्च, अव- गताविनाभावस्य पुरुषस्य धूमदर्शनादमनिज्ञानमुपलभ्यते। तत् किंरूपमास्थेयम्। न तावद् विपर्ययरूपम्। बाधकाभावात्, प्र- त्यक्षस(म्भा!म्भ)वाच्च।नापि विकल्परूपम्।"शब्दज्ञानानुपाती वस्तुशून्यो विकल्प" इत्युक्ततल्लक्षणाभावात्। नापि निद्रा। सुषुप्त्यभावात्। न च स्मृतिरूपम्। धूमादिसंभवसंसकारमात्रज- न्यत्वाभावादिदन्तया भासमानत्वात् तथाविधपूर्वानुभवाभा- वाच्चेति। नापि संशयरूपम् । अनवधारणज्ञानं संशय इत्यु- क्तसंशयलक्षणाभावात्। तस्मादेतज्ज्ञानं प्रमाणमेव। न च तत् प्रत्यक्षम्। अर्थेन्द्रियसंप्रयोगाजन्यत्वात्। न चामेरर्थस्य चक्षुरादिना सम्प्रयोगोऽस्ति, आवृतत्वाद् इत्यभिज्ञानकारणधू- मज्ञाननिष्पादनार्थ चक्षुर्विज्ञानमग्निज्ञानार्थम्। स्वर्गादिज्ञा- नकारणशब्दज्ञानार्थश्रोत्रव्यापारवदिति। न चानुमितानुमा- नादौ चक्षुराद्यपेक्षेति प्रमाणान्तरमेवानुमानाख्यमिति सिद्धम- नुमानमिति। आगमप्रामाण्यं च पूर्वमुपवर्णितमित्यलमतिप्र- सङ्गेन। तथाहि-शरीरेन्द्रियवृत्तिसङ्गातः परार्थः भोग- साधनत्वात्, भोगसाधनं च जडत्वात्, जडं च कार्यत्वात्, गृहक्षेत्रादिवदिति भूतव्यतिरिक्तः पर आत्मा सिद्धः। तस्य नित्यत्वं, शरीरनाशे(त्य?ऽप्य)विनाशात्। स च जातिस्मृत्या- दिनावगम्यते। तस्य मोक्षो बद्धत्वात्। अतो मोक्षस्य कादा- चित्कतया कारणापेक्षा। कारणं च हिंसालक्षणधर्माधर्मसंयुताद्
१. 'म्पादाच्च' ग. पाठः. २. 'सम्भवा' ख. पाठ :. ३. 'यस' ग. पाठ :.
192
Page 193
१७० तत्त्वपकाशे सव्यास्ये
इति। तथाहि-नित्य(भा!ता)यां ग्रह अनित्यत्वे च द्वेष इत्यु- भयपरिहारार्थानेकान्तभावना। तथाहि - घटादिः मृदादि- रूपेण नित्यः, सर्वावस्थासूपलम्भात्। घटादिरूपतया अनित्यः, तदपायात्। एवं स्वदेशकालकारणाधारतया सत्त्वमर्थानामन्य- देशादिष्वसत्वं, स्वकार्ये कर्तृत्वं कार्यान्तरे चाकर्तृत्वं, स्वशब्दे- नाभिधेयत्वम्, अन्यशब्देनानभभिधेयत्वमित्याद्यूह्यमर्थानामने- कान्तत्वमिति दिगम्बराः। तदिद्मनुपपन्नम्। अनेकान्तभाव- नायां मिथ्यारूपतयापवर्गसाधनत्वासंभवात्। तञ्च स्वदेशादिषु सत्वादिनियतरूपस्यैवोपलम्भात। तथा घटादेश्र कार्यस्य नित्यत्वान्मृदादेः कारणस्य च नियमेन नित्यत्वाच्च नोभया- त्मकत्वम्। एवं स्वशब्देनाभिधेयत्वमेवान्यशब्देन चाभिधे- यत्वमेवेति नानेकान्तत्वमिति। या चेयमुभयरूपता प्रोक्ता तत्र विवादः। इतरेतराभावाभ्युपगमेनास्माभिरप्यभ्युपगत- त्वात्। यदि च स्वदेशादिष्वप्यसत्वादिकं स्यात्, तदा स्या- दर्थानामनेकान्तता। न च तदरिति। तस्मान्नानेकान्तत्वम- र्थानामिति मिथ्याभूतत्वान्नापवर्गकारणमनेकान्तज्ञानमिति । न चानेकान्तताभावनावशाद् विशिष्टप्रदेशे अक्षयशरीरादि- प्राप्तौ प्रमाणमरिति। न च तेषामागमः प्रमाणम्। तस्य प्रमाण- मूलत्वाभावात्। न च प्रत्यक्षानुमाननित्यागमा मूलानामनि- न्यागमानु(?)शब्दानां प्रामाण्यं संभवतीत्युक्तम् ।न च
१. 'कार्याप' ग. पाठः. २. 'म' ख. पाठः २. 'माशन' ग. पाठः.
193
Page 194
षष्ठः परिच्छेद: । १७१ शरीरेन्द्रियविषयाणां कार्याणां नित्यत्वं संभवति। अतिप्रस- झात्। यच्च शरीरपरिमितस्यात्मनः शरीरनाशे नक्षत्रादिवद- वस्थानं निःश्रेयसमित्यार्हतैकदेशीयैरुक्तं, तदपि न चतुरश्रम्। देहपरिमितस्यात्मनो देहवन्मूर्ततयानित्यत्वप्रसङ्गात् । तथा गजशरीरावस्थितस्य मशकशररिप्रवेशे मृदङ्गपिहितप्रदीपप्र- भाया घटपिधान इव संङ्कोचविकासाश्रयणेन परिणामित्व- प्रसङ्ग:। तस्माद् रूपरसगन्धस्पर्शशब्दज्ञानात्मकेषु षट्पदा- र्थेपु यद् दुःखसमुदायनिरोधमार्गार्यं पदार्थचतुष्कं तस्मिन् क्षणिकादिभावनापवर्गकारणं, शुद्धचित्तसन्तानोत्पत्तिरपवर्ग इति सौगता: । दुःखं रूपादिस्कन्धपञ्चकम्। तच्च रूपस्क- न्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्क- न्धश्रेति स्कन्धपञ्चकम् । तत्र वर्णगन्धरसस्पर्शात्मना चतु- र्विधो रूपस्कन्धः। सुखा वेदना दुःखा वेदना मध्यमा वेदनेति त्रिविधो वेदनास्कन्धः। चक्षुःसंज्ञा जिह्वासंज्ञा श्रोत्रसंज्ञा घ्रा- णसंज्ञा स्पर्शसंज्ञेति षट्प्रकारः संज्ञास्कन्धः । संस्कारस्कन्धो द्विप्रकारः कुशलाकुशलभेदात्। तत्राकुशलो दशविधो मनो- वाक्कायभेदैः । तत्र मानसा मिथ्यादर्शनाभिलाषप्रद्वेषास्त्रयः। वाचिका अनृतवचनपैशुन्यपरनिन्दाविप्रलम्भवचनानि च- त्वारि। कायिका हिंसापरस्वहरणमैथुनयोगास्त्रयः । इ(ति ?- त्य)कुशलाः । कुशलाश्र दश विपरीताः। एवं संस्कारस्कन्धो विंशतिप्रकारः । चक्षुर्विज्ञानं श्रोत्रविज्ञानं घाणविज्ञानं स्प- र्शविज्ञानं जिह्वाविज्ञानं मनोविज्ञानं चेति षट्प्रकारो विज्ञा- नस्कन्धः । इत्येष दुःखकारणत्वात् दुःखमिश्रत्वात् सुखमपि
194
Page 195
१७२ तत्त्वपकाशे सव्याख्ये
दुःखम् । तस्य कारणं समुदायः । तयोर्निरोधो विनाशः, तस्योपायो मार्गः। क्षणिकादिभावेनैष क्षणिकमिति भावनाव- शात् (प्रा?रा)गादिनिवृत्तिः । ममेदमिति सम्बन्घाभावात्। तथा निरात्मकभावनातश्र रागादिनिवृत्तिः, स्वपरसम्बन्धा- भावात्। एवं सर्वे शून्यमिति भावनया रागादिनिवृत्तिः, असत्त्वात्। नहि गगनकुसुमवन्ध्यासुतादौ रागादिसम्भैव
ज्ञानाद्वतवादिनो बौद्धाः। शुद्धचित्तसन्ततेरपि विनाशोऽपवर्ग इति शून्यवादिनः । तदिदमनुपपन्नम्। क्षणिकादिभावनानां मिथ्यारूपतया निःश्रेयससाधनत्वासंभवात्। न च सर्वे भावाः क्षणिकाः सत्वाद् विज्ञानवदित्यनुमानात् पदार्था(नां) रूपर- सगन्धस्पर्शविज्ञानानां क्षणिकत्वसिद्धे: क्षणिकत्वभावनाया न मिथ्यात्वमिति वाच्यम्। तस्याग्न्यनुष्णतासा(घ)ककृतकत्वा- नुमानवत् स एवायं घट इत्यादिप्रत्यक्षबाधया प्रामाण्यात्। न च स एवायं नखः, त एवामी केशा इत्यादिप्रत्यभिज्ञाव- दस्यापि न प्रामाण्यमिति वाच्यम् । अस्य बाधकाभावात्। न चानेनैवानुमानेनास्य बाध इति वाच्यम्। अनुमानस्य प्रत्यक्षमूलस्य रवमूलबाधकत्वासम्भवात्। न चौनुष्णतासाध- केनोष्णताग्राहिप्रत्यक्षं बाध्यत इति। तथा विज्ञानस्य त्रिक्ष- णस्थायितया क्षणिकत्वाभावात् साध्यविकलो दष्टान्त इति।
१. 'म्बन्घ इ' क. पाठः. २. 'र्ह' ख. पाठ :. ३. 'घ', ४. 'बाधक' ग. पाठ :.
195
Page 196
षछ्ठः परिचछेदः । इति। अयमर्थः-शिवाद्यवनिपर्यन्तानां निखिला- नां तत््वानां व्यवस्थिति: कथिता। तथा निखिलानां तत्वाना- मापूरकमाभीक्ष्ण्येन पूरकमध्वातीतं शिवाख्यं निष्कलं रूपं च कथितम्। "तेनेदं पूर्ण पुरुषेण सर्वम्" इति श्रुतेः। यतो भवति यत् तत्त्वं यत् कारणं चापूरकमुपकरणं वा, तच्च क- थितमिति ॥ ५॥ शास्त्रस्वीकरणाय कर्तारं स्वात्मानमभिद्योतयति - तत्त्वानामपि तत्त्वं येनाखिलमेव हेलया कथितम्। श्रीभोजदेवनृपतिर्व्यधत्त तत्त्वप्रकाशं सः ॥ ५॥ इति। तत्त्वानामपि तत्त्वं स्वरूपं येनाखखिलं कृत्स्- मेव हेलयाश्रमेण पूर्व कथितं, स एव तत्त्वप्रकाशं व्यधत्त विभागेन कृतवानिति। नन्वाप्तकृतत्व्ावबोधेन (न) शास्त्रस्व्री- कारः। शास्त्रस्वीकारस्य युक्तियुक्तावबोधपूर्वकत्वात्। तदुक्तं भट्टाचार्येण- "कणान् वा भक्षयेत् कामं माहिषाणि दधीनि वा। युक्तियुक्तनिबन्धश्रेत् तद्धि ग्राह्यं मनीषिभिः ॥" इति। नैतदेवम्। इतरेतराश्रयदोषप्रसङ्गात्ं। श्रवणे प्रवर्त- मानस्य युक्तियुक्तावबोधः, युक्तियुक्तावबोधे सत्येव श्रवणे प्रवृत्तिरिति। तस्मादाप्तकृतत्वावबोध एवादौ श्रवणे प्रवृत्ति- हेतुः । यैथा हि मनुना प्रणीतं व्यासेन प्रणीतमित्यादिक- १. 'ख्या' क. पाठ :. २. 'त् । तथा श्र', ३. 'त्युपश्र' ग. पाठः. 8. 'त' ख. पाठ :. x2
196
Page 197
१७१ सत्त्वप्रकाशे सव्यार्ये र्वबहुमानाव प्रवृत्तिरिति युक्तं कर्तसंकीर्तनमिति। अत्र नि- वृत्तिः कलाध्वा। तत्त्वाध्वा पृथिवी। भद्रकाल्यादिकालाग्न्य- न्तान्यष्टोत्तरशतं भुवनाध्वा। क्षकारो वर्णाध्वा। ळकारो वा- ष्टाविंशतिपदानि पदाध्वा। सद्योजातहृदयाख्यौ मन्त्राध्वा । पदोद्ार उच्यते - "चतुर्वर्ण समुद्दिष्टं महादेवपदं हि यत्। सव्ावेश्वरसंज्ञं तु पञ्चार्ण मुनिसत्तम!॥ महातेज इति प्रोक्तं पदं वर्णचतुष्ट्यम्। पदं पञ्चार्णमुद्दिष्टं योगाधिपतिसंज्ञितम् । मुञ्चमुञ्चचतुर्वर्ण षड्वर्ण प्रथमात्मकम् । शर्वशर्वपदं चात्र बोद्धव्यं नतुरक्षरम् ॥ भवयुग्मं तथा तद्वद् भवोभ्वपदं पुनः । पदमष्टाक्षरं चान्यत् सर्वभूतसुखप्रदम्। सर्वसान्निध्यपूर्व तु करान्तं सप्तवर्णकम। पदमष्टाक्षरं ब्रह्मविष्णुरुद्रप ।रम् ॥ अनर्चितं द्विरभ्यस्तमष्टर्ण पदमुच्यते। असंस्कृतपदं तद्वत पूर्वस्थितपदं तथा ॥ साक्षिन्तुरुपदे तद्वच्चतुर्वणे द्विरुक्तितः । षट्पतङ्गपदे वर्णाश्रत्वारः पिङ्गसंज्ञके।। तद्वज्ज्ञानपदं शब्दसूक्ष्माख्ये चतुरक्षरे। द्यक्षरं स्याच्छिवपदं तथा शर्वपदं विभो: ॥ १. 'देन इ' ग. पाठ :. २. 'जकम्' क. पाठः. ३. 'दु', ४. 'क्षि', ५. 'गैर्द्विरु' ग. पाठः.
197
Page 198
षष्ठः परिच्छेद: । १७२
सत्त्वं पृथिव्यादिक्षणिकतां साधयेत्। तथाहि-क्षणिको यदि से निष्पाद्यं सर्वे युगपदेव करोति, नह्युत्तरादिक्षणेष्वपि। तदेव सर्वे ज्ञायत (?) तत्कारणस्य विद्यमानत्वात्। नहि कारणे सति कार्यानुत्पत्तिर्घटत इति। नापि क्रमेण। प्रथमक्षण एवो- त्तरादिक्षणभाविनां कार्याणां कारणभूतस्यास्य सन्ज्ावेन विल- म्बनासंभवात्। न च सहकारिप्राप्त्यनुरूपेण कार्यजनन- मिति वाच्यम्। सहकारिणां क्रियमाणस्य कारणातिशयविना- शस्य वा कारणाद् भिन्नत्वे तदितरविश्ववदुपेक्ष्यत्वात्। तथा- नतिशयनििवृत्त्यतिशयाधानहेतुत्वे सहकार्यपेक्षकारणिन्नत्वे- उतदुत्पत्तौ तदुत्पादप्रसङ्गः। अतिशयाधानानतिशयानिव- रतकत्वे तदितरविश्ववत् सहकारिणामप्युपेक्ष्यत्वप्रसङ्ग इति।
अत्र प्रयोग :- यत् (कमा)कमाभ्यामजनकं तन्नास्ति यथा खरविषाणम्। कमाक्रमाभ्यामजनकाश्राक्षणिका इति। तस्मात् पृथिव्यादिषु पक्षभूतेषूपलभ्यमानं सत्त्वं विपक्षे वृत्त्यसम्भ- वात् सपक्षाभावेऽपि क्षणिकत्वं साधयतीति। नैवेम्। अक्षणि- कानामपि क्रमाक्रमाभ्यां सहकारिप्रास्तौ तथैव जनकत्वोपप- त्तेः। ननूक्तं सहकारिणातिशयाधानं तदनतिशयनिवृत्तिर्वेति विकल्पोक्तं स(च्व?त्वा)दनुपपन्नमस्यैवातिशयत्वात्। यद् यस्य सन्भावे कार्य करोति, स तस्यातिशय इति मृदादिकारणं
१. 'हि -अक्ष', २. 'स्व', ३. 'णां' ख. पाठ :. ४. 'णे', ५. 'वं, क्ष' ग. पाठः. ६. 'क्तसत्युप' ख. पाठ :.
198
Page 199
१७४ तत्त्वप्रकाशे सव्यार्ये
चक्रादिसहकारिसमवधाने घटादिकार्यजनकमुपलब्धमिति तत् तदतिशय इति ॥ २ ॥ ननु न षट्त्रिंशत् तत्वानीतति शक्यते वक्तुं, शरीरघ- टादेरपि सन्ावादित्याशङ्गयाह - आप्रलयं तिष्ठति यत् सर्वेषां भोगदायि भूतानाम्। तत् तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः ॥३॥ इति। अयमभिप्रायः-शरीरघटादेस्तत्वलक्षणा- भावान्न तत्सद्भावेन तत्त्वाधिक्यम्। तथाहि -यद् आप्र- लयावस्थायि सर्वभूतभोगकारणं तत्वमिति तत्त्वलक्षणं न श- रीरघटादेरस्ति। तद्देशतत्कालव्याप्त्यभावात्। तथा शरीरघ- टादीनां पृथिव्यादितत्त्ववृत्तिरूपतया बुद्धिवृतत्तिरूपाध्यवसा- यादिवत् तत््वान्तरत्वासम्भवाच्च न तत्त्वाधिक्यमिति। तदुक्तं गुरुदेवाचार्येण- "ततत्वात् सन्ततत्वाच्च तत्वानीति ततो विदुः । ततत्वं देशतो व्याप्तिः सन्ततत्वं च कालतः ॥ लक्षादियोजनव्यापि तत्वमा प्रलयात् स्थितम्। अन्यथा स्तम्भकुम्भादिरपि तैत्वं प्रसज्यते ॥" इति॥ ३ ॥ प्रतिज्ञातार्थेमुपसंहरति- तत्वं यतो भवेद यत् कारणमापूरकं च तत्वस्य । कथिता व्यवस्थितिर्यन्निखिलानामेव तत्त्वानाम् ॥४॥। १. 'तद्याप्त्य', २. 'स्य सम्भ' ख. पाठः- ३. 'स' ग. पाठ :.
199
Page 200
षष्ठः परिच्छेदः । १७७
त्यक्षरं सर्वदपदं प्रणवादि नमो नमः । पञ्चवर्ण शिवायेति त्र्यक्षरं समुदीरितम् ॥ नतियुग्मं पञ्चवर्ण सतारं पदमुत्तमेम् ।" इति। ननु कुतः कथं कलानामुत्पत्तिः । शिवेच्छया बिन्दो- रिति ब्रूमः। तदुक्तं गुरुदेवपद्ती- "बिन्दोर्नादात्मकात् तस्माच्छिवेच्छातः प्रवर्तिताः । कलाः पञ्ञच निवृत्त्याद्या यासु विश्वं प्रतिष्ठितम् ॥ मन्त्राः पदैस्तानि वर्णैर्व्याप्तानीह समन्ततः । वर्णास्तु भुवनैर्व्याप्तास्तत्त्वैर्व्याप्तानि तानि च।। कलाभिस्तानि तत्त्वानि व्याप्तानीह कलाः क्रमात् । सदाशिवादिभूम्यन्तं शक्तितत्त्वं व्यवस्थितम् ॥ सदाशिवादिकं त्वेवं स्वकार्य व्याप्य संस्थितम् । चतुर्युगमहापादं पृथिवीतत्त्वकन्दरम् ॥ कालतत्वात्तनाभं तत् पञ्चाशन्ावकण्टकम्। मायातत्त्ववृहद्धन्थि शुद्धविद्याब्जेशोभितम् । विद्येश्वरदलच्छन्नं शक्तिकेसरसंयुतम् । पीठमेवंविधं कल्प्यं मातृकाबीजसंभवम् ।" इति। "कलाध्वोक्ताङ्गसम्पूर्णो भुवनाध्वोक्तरोमधृक्। वर्णाध्वोक्तत्वचोपेतो मन्त्राध्वरुधिरान्वितः ।। पदाध्वोक्तसिरामांसशुक्कमज्जोस्थितत्वगः ।। सदाशिवषडध्वात्मा तस्य प्राणः शिवः स्मृतः। १. 'र' ग. पाठ :. २. '्द' क. स. पाठः.
200
Page 201
१७८ तत्त्वप्रकाशे सव्याखये परावरो महादेवो ध्याने सकलरूपधृक् ।। निष्कलस्तदभावे तु अष्टात्रेंशत्कलात्मकः । आसनें मूर्तिरावाह्यमेतत् त्रितयमध्वनि।। व्याप्यव्यापकभावेन ज्ञात्वा यजनमारभेत्। आसनं शुद्धविद्यान्तं मूर्तिः शक्त्यन्तगोचरा। आवाह्यं शिवतत्त्वं स्यादेतच्छैवानुशासनम् ।" इति । इति तत्त्वप्रकाशतात्पर्यदीपिकायां निवृत्त्याख्यः पष्ठः परिच्छद:।
यस्याखिलं करतलामलकक्रमेण देवस्य विष्फुरति चेतसि तत्त्वजातम् । श्रीभोजदेवनपतिः स शिवागमार्थ- तत्त्वप्रकाशमसमानमिदं व्यधत्त।। नमस्तस्मै भगवते भोजायाक्िष्टकर्मणे। शिवाय शिवभक्ताय शिवैकाहितचेतसे. ॥ नमः सर्वजगज्जन्मस्थितिभङ्गैकहेतवे। सर्वदैकस्वभावाय शिवाय शिवदायिने॥। तत्त्वप्रकाशव्याख्यानं भक्तिनिर्भरचेतसा । अविज्ञाय कृतं यत्तु सन्तस्तत क्षन्तुमर्हथ ॥ इति भारद्वाजकुलालङ्करणभूतेन शक्करसूनुना विधिविहित- सोमरसास्वादनपरितोषिणा शिवाङ्त्िकमलद्वयासक्त- मधुकरायमाणमानसेन श्रीमता श्रीकुमारेण रचिता तत्त्वप्रकाशतात्पर्यदीपिका परिपूर्णा ।।
शुभं भूयात्।
201
Page 202
शुद्धिपत्रम्।
रृष्ठम्. पक्चि: भशुद्धम्· शुद्धम्.
५६ १६ १७ (एतदनुसारेण विंश- कोकमभिव्याप्य संख्या शोध्या ।)
४०
1४८ १९ दया १७५
202
Page 203
203
Page 204
READY FOR SALE.
RS. AS. P. afemrft (Stuti) by H. H. Svâti Sri Râma Varma Mahârâjah. 100
Trivandrum Sanskrit Series.
No. 1-2au : (Vyakarana) by Deva with Puru- shakara of Krishnalilasukamuni. 10 0 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवा by Krıshnalîlâsukamuni. 0 2 0
No. 3-नळाभ्युदय: (Kavya) by Vamana Bhatta Bâna (Second Edition). 4 0
No. 1-शिवलीळार्णव: (Kavya) by Nilakantha Dik- shita. 2 0 0
No. 5-व्यश्तिविवेक: (Alankara) by Mahina Bhata with commentary. 2 12
No. 6-gizRr: (Vyakarana) by Saranadeva. 0
No. 7-अह्यतत्वप्रकाशिका ( Vedânta) by Sada- sivendra Sarasvati 2 4 0 No. 8-ageyanH ( Nataka) by Ravi Varma Bhûpa. 1 0 0 No. 9-विरूपाक्षपखाशिका (Vedanta) by Virupaksha- natha with the commentary of Vidyâ- chakravartin. 0 C No. 10-mramoter (Gajalakshana) by Nilakantha. () 8 0 No. 11-तपतीसंबरणम् (Nataka) by Kulasekhara Varma with the commentary of Siva- C râma. 2 4 No. 12-qmimn (Vedanta) by Bhagavad Adi- sesha with the commentary of Raghav- ananda. 0 8 0 No. 13-gaaragag (Nataka) by Kulasekhara Varma with the commentary of Siva- rama 2 0 0
204
Page 205
2
RS. AS. P. No. 14-aaR: (Niti) by Kamandaka, with the commentary of Sankararya. 3 8 0
No. 15-स्वप्रवासवदत्तम् (Nataka) by Bhasa. (Second Edition) 1
No. 16-प्रतिज्ञायोगन्धरायणम् (Nataba) by Bhasa. 1 8 0
No. 17-पञ्चरात्रम् Do. Do. 1 0 0
No. 18-नारायणीयम् (Stuti) by Narayana Bhatta with the commentary of Desamangala Varya. 4 0 0
No. 19-मानमेयोदयः ( Mimamsa ) by Nârayana Bhatta and Narayana Pandita. 1 4 0
No. 20-अविमारकम् (Nataka) by Bhasa. 1 C
No. 21-बालचरितम् Do. Do. 1 0 0
No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारोरुभ क्ञानि (Nataka) by Bhâsa. 1 8 0
No. 23-नानार्थार्णवसंक्षेप: (Kosa) by Kesavaswamin (Part I. Ist & 2nd Kândas) 1 12 0
No. 24-जानकीपरिणय: (Kavya) by Chakrakavi. 1 0 0
No. 25-काणादसिद्धान्तचन्द्रिका (Nvava) by Ganga- dharasuri. 0 12 0
No. 26 -- अभिषेकनाटकम् (Nataka) bv Bhasa. 0 12
No. 27-कुमारसम्भवः (Kavya) by Kalidasa with the two commentaries, Prakâsikâ of Arunagirinâtha and Vivarana of Nârâ- vana Pandita (Part I. Ist & 2nd Sargas). 1 12
No. 28-वैखानसधर्मप्रशः (Dharmastitra) by Vikhanas. 0 8 0
No. 29-नानार्थार्णवसंक्षेप: (Kosa) by Kesavaswamin (Part II. 3rd Kânda). 2 4 0
No. 30-वास्तुविद्या (Silpa). 0 12 0
No 31-नानार्थार्णवसंक्षेप: (Kosa) by Kesavaswamin (Part III. 4th, 5th & 6th Kândas). 1 0 0
205
Page 206
3
No. 32-pamenra: (Kâvya) by Kâlidâsa with the RS. AS. P.
two commentaries, Prakâsika of Aruna- girinatha and Vivarana of Narayana Pandita (Part II. 3rd, 4th & 5th Sargas) 2 No. 33-angwdug: (Vyakarana) with the com- mentary Dipaprabha of Narayana. 0 8 0 No. 34-अणिदर्पण: (शब्दपरिच्छेदः) (Nyaya) by Raja- chûdâmanimakhin. 1 4 0 No. 35-मणिसार: (अनुमानखण्डः) (Nyaya) by Gopi- nâtha. 1 8 0 No. 36-Fmramna: (Kâvya) by Kalidâsa with the two commentaries, Prakâsika of Aru- nagirinatha and Vivarana of Narfyana Pandita (Part III. 6th, 7th & 8th Sargas). 3 0 0 No. 37-nmarea (Smriti) by Vararuchi with commentary. O No. 38-नामलिङ्गानुशासनम् (Kosa) by Amarasimha with the commentary Tikasarvasva of Vandyaghatîya Sarvananda (Part I. 1st Kânda). 2 0 0 No. 39-चारुदत्तम् (Nataka) by Bhasa. 0 12 0 No. 40-aua (Alankara) by Rajanaka Sri Ruyyaka with the Alankarasarvaswa of Sri Mankhuka and its commentary by Samudrabandha. 2 8 0
No. 41-remaozon (Kalpa) by Apastamba with Vivarana of Srî Sankara Bhagavat Pada. 0 4 0
No. 42-प्रतिमानाटकम् (Nataka) by Bhasa. 1 8 0
No. 43-नामलिङ्रानुशासनम् (Kosa) by Amarasimha with the two commentaries, Amarakoso- dghatana of Kshiraswamin and Tikâ- sarvaswa of Vandyaghatiya Sarvananda (Part II, 2nd Kanda 1-6 Vargas). 2 8 0
206
Page 207
4
RS. AS. P. No. 44-agan (Tantra) by Bhattaraka Sri Ve- dottama. 0 4 0 No. 45-अपब्रहृद्यम् (Prapanchahridaya). 1 0
No. 46-परिभाषावृत्ति: (Vyakarana) by Nilakantha Dîkshita. 0 8 0 No. 47-सिद्धान्तसिद्धाजनम् (Vedanta) by Sri Krishnananda Sarasvati. (Part I.) 1 12 U
No. 48- Do. Do. (Part II.) 2 0
No. 49-गोळर्दीपिका (Jyotisha) by Parameswara. 0 4 0
No. 50-रसार्णवसुधाकर: ( Alankara ) by Singa Bhûpâla. 3 0 0
No. 51-नामलिङ्गानुशासनम् (Kosa) by Amarasimha with the two commentaries, A marakoso- dghatana of Kshiraswamin and Tikâ- sarvaswa of Vandyaghatiya Sarvananda (Part III. 2nd Kanda 7 -- 10 Vargas) 2 C No. 52-नामलिङ्गानुशासनम् (Kosa) by Amarasimha with the commentary Tikasarvaswa of Vandyaghatiya Sarvananda (Part IV. 3rd Kanda) 1 8 0 No. 53 -- शाब्दनिर्णय: (Vedanta) by Prakasatmava- tîndra 0 12 0 No. 54-स्फोटसिद्धिन्यायविचार: (Vyakarana) 0 4 0 No. 55-मत्तविलासप्रहसनम् (Nataka) by Sri Mahendravikramavarman. 0 8 0
No. 56-मनुष्यालयचन्द्रिका (Silpa). 0 8 0 No. 57-रघुवीरचरितम् (Kavya). 1 4 No. 58-सिद्धान्तसिद्धाञ्जनम् (Vedanta) by Sri Krishnananda Saraswati (Part III.) 2 0 0
No. 59-नागानन्दम् (Nataka) by Sriharshadeva with the commentary Nâgânanda- vimarsini of Sivarâma. 3 4 0
No. 60-लघुस्तुति: (Stuti) by Sri Laghubhattaraka with the commentary of Sri Ragha- vânanda. 0 8 0
207
Page 208
5 BS. AS. P. No. 61-सिद्ान्तसिद्धाअनम् (Vedanta) by Sri Krishna- nanda Sarasvati (Part IV.) 1 8 0 No. 62-सर्वमतसंग्रहः (Sarvamatasangraha) 0 8 0 No. 63-किरातार्जुनीयम् (Kavya) by Bharavi with the commentary Sabdarthadipika of Chitra- bhanu (1, 2 and 3 Sargas) 2 8 C No. 64-मेघसन्देशः (Kavya) by Kalidasa with the commentary Pradipa of Dakshinavarta- natha. 1 0 0 No. 65-मयमतम् (Silpa) hy Mayamuni 3 0
No. 66-महार्थमज्जरी (Darsana) with the commentary Parimala of Maheswa- rânanda 2 80 No. 67- त्रसमुच्चय: (Tantra) by Narayana with the commentary Vimarsini of Sankara (Part I. 1-6 Patalas) 3 440 No. 68-तत्वप्रकाश: (Agama) by Sri Bhojadeva with the Commentary Tâtparya- dipika of Sri Kumara 200
Apply to :- The Agent for the sale of Government Sanskrit Publications, Trivandrum.
208
Page 209
IN THE PRESS.
F. fantrasamuchchaya . (Tantra) of Narayana with com- tentary by Sankara (Part I1). 2. Isanasivagurudevapaddhati (Tantia) of İsânasivaguru- devamisra. 3. Stiparatna (Sitpa) of Sri Kumâra. 4. Manjusrimtlakalpa. Yajnavalkyasmriti with the commentary, Balakrida of Visvarûpachârya.
Undertaken for Publication.
- Arthasâstra of Kautilya. 2. Axvalayanagrihya with the commeutary Anavila' of Haradatta. 3. Do. with Devasvamin's Bhâchya 4. Pramanalakshana (Mimâmsa) by Sarvagnatmapâda. 5. Sarasvatikanthâbharana (Vyakarana) of Bhoja with the Vritti of Narayana. 6. Vishnusamhità (Agama). 7. U'ttaragârgya (Agama). 8. Kâvyaprakâs (Alankara) with the commentary Sampra- dayaprakâsini of Sri VidyAcmakratartin.
209
Page 210
210
Page 211
DATE OF ISSUE This book must be returned within 3, 7, 14 days of its issue. A fine of ONE ANNA per day will be charged if the beok is ovordue.
21
Page 212
Class No.S./.8):4 Book No. Vol. B56777:
Antho: B.HOJB DEVA Tiue .. I .. A.T.V.A.P.R.AK.ASA Acc. No. 16 509
6 MrG 1
212
Page 213
213