1. Tejabindu Upanishad
Page 1
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिरव्ययशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः ।
१
ॐ तेजोबिन्दु परं ध्यानं विश्वात्मं हृदि संस्थतम् । आणवं शाब्दवं शक्तं स्थूलं सूक्ष्मं परं च यत् ॥ १ ॥
२
दुःसाध्यं च दुराराध्यं दुष्प्रेक्ष्यं च मुक्तमव्यम् । दुलक्ष्यं दुस्स्तरं ध्यानं मुनीनां च मनीषिणाम् ॥ २ ॥
३
जिताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः । निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥ ३ ॥
४
अगम्यगम्यकार्ता च गुरुमानार्थमानसः । मुखानि त्रीणि विन्दन्ति त्रिधामा हंस उच्यते ॥ ४ ॥
५
परं गुह्यामिदं स्थानमव्यक्तं ब्रह्म निराश्रयम् । व्योमरूपं कलासूक्ष्मं विष्णोस्तत्परं पदम् ॥ ५ ॥
६
त्र्यम्बकं त्रिगुणं स्थानं त्रिधातु रूपवर्जितम् । निःश्वलं निर्विकल्पं च निराधारं निराश्रयम् ॥ ६ ॥
७
उपाधिरहितं स्थानं वाड्मनोदितीतगोचरम् । स्वभावभावनाग्राह्यं संघातैकपदोज्झितम् ॥ ७ ॥
५
आनन्दं नन्दनातीतं दुष्प्रेक्ष्यमजमव्ययम् । चित्तवृत्तिविनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥ ५ ॥
९
तद्ब्रह्माणं तदध्यात्मं तन्निष्ठा तत्परायणम् । आचित्तचित्तमात्मानं तद्ययोग परमं स्थितम् ॥ ९ ॥
Page 2
१०
शून्ये शून्यभावं च शून्यातीतमवस्थितम् । न ध्यानं न च वा ध्याता न ध्येयो ध्येय एव च ॥
११
सर्वं तु परमं शून्यं न परं परमात्परम् । अचिन्त्यमप्रबुद्ध च न च सत्यं न संविदुः ॥
१२
मुनिनां तत्वयुक्तं तु न देवा न परं विदुः । लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥
१३
शीतोष्णं क्षुत्पिपासं च संकल्पं च विकल्पकम । न ब्रह्मकुलदपं च न मुक्तिं ग्रन्थसंचयम ॥
१४
न भयं सुखदुःखं च तथा मानापमानयोः । एतज्ज्ञात्वा विनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परं ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर् व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुषा विश्ववेदाः । स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । ॐ शान्तिः शान्तिः शान्तिः ॥
इत्यथर्ववेदे तेजबिन्दूपनिषत्समाप्ता ॥