1. Tejo-Bindu Upanishad
Tejo-Bindu Upanishad (Part 1)
[ Sutra शान्ति मन्त्र ]
ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
shanthi mantra
· · ·
[ Sutra 1 ]
ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् । आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् ॥ १॥
· · ·
[ Sutra 2 ]
दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् । दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २॥
· · ·
[ Sutra 3 ]
यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः । निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥ ३॥
· · ·
[ Sutra 4 ]
अगम्यागमकर्ता यो गम्याऽगमयमानसः । मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते ॥ ४॥
· · ·
[ Sutra 5 ]
परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः । सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम् ॥ ५॥
· · ·
[ Sutra 6 ]
त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् । निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥ ६॥
· · ·
[ Sutra 7 ]
उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् । स्वभावं भावसङ्ग्राह्यमसङ्घातं पदाच्च्युतम् ॥ ७॥
· · ·
[ Sutra 8 ]
अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तिमव्ययम् । चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥ ८॥
· · ·
[ Sutra 9 ]
तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् । अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥ ९॥
· · ·
[ Sutra 10 ]
अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् । न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १०॥
· · ·
[ Sutra 11 ]
सर्वं च न परं शून्यं न परं नापरात्परम् । अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः ॥ ११॥
· · ·
[ Sutra 12 ]
मुनीनां सम्प्रयुक्तं च न देवा न परं विदुः । लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥ १२॥
· · ·
[ Sutra 13 ]
शीतोष्णे क्षुत्पिपासे च सङ्कल्पकविकल्पकम् । न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् ॥ १३॥
· · ·
[ Sutra 14 ]
न भयं न सुखं दुःखं तथा मानावमानयोः । एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् ॥ १४॥
· · ·
[ Sutra 15 ]
यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १५॥
· · ·
[ Sutra 16 ]
प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १६॥
· · ·
[ Sutra 17 ]
सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः । यमोऽऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १७॥
· · ·
[ Sutra 18 ]
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १८॥
· · ·
[ Sutra 19 ]
त्यागः प्रपञ्चरूपस्य सच्चिदात्मावलोकनात् । त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥ १९॥
· · ·
[ Sutra 20 ]
यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥ २०॥
· · ·
[ Sutra 21 ]
वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ २१॥
· · ·
[ Sutra 22 ]
इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् । गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २२॥
· · ·
[ Sutra 23 ]
आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ २३॥
· · ·
[ Sutra 24 ]
कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् ॥ २४॥
· · ·
[ Sutra 25 ]
सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥ २५॥
· · ·
[ Sutra 26 ]
सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् । यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ २६॥
· · ·
[ Sutra 27 ]
यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्योऽसौ ब्रह्मवादिनाम् ॥ २७॥
· · ·
[ Sutra 28 ]
अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते । नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ २८॥
· · ·
[ Sutra 29 ]
दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ २९॥
· · ·
[ Sutra 30 ]
द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ३०॥
· · ·
[ Sutra 31 ]
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ३१॥
· · ·
[ Sutra 32 ]
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥ ३२॥
· · ·
[ Sutra 33 ]
ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ ३३॥
· · ·
[ Sutra 34 ]
विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ॥ ३४॥
· · ·
[ Sutra 35 ]
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसा धारणं चैव धारणा सा परा मता ॥ ३५॥
· · ·
[ Sutra 36 ]
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्यातः परमानन्ददायकः ॥ ३६॥
· · ·
[ Sutra 37 ]
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥ ३७॥
· · ·
[ Sutra 38 ]
इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् ॥ ३८॥
· · ·
[ Sutra 39 ]
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वं रूपं भवेत्तस्य विषयो मनसो गिराम् ॥ ३९॥
· · ·
[ Sutra 40 ]
समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥ ४०॥
· · ·
[ Sutra 41 ]
लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः ॥ ४१॥
· · ·
[ Sutra 42 ]
भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥ ४२॥
· · ·
[ Sutra 43 ]
ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ ४३॥
· · ·
[ Sutra 44 ]
ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये । ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ ४४॥
· · ·
[ Sutra 45 ]
येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः । ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ ४५॥
· · ·
[ Sutra 46 ]
कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ ४६॥
· · ·
[ Sutra 47 ]
निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ ४७॥
· · ·
[ Sutra 48 ]
कारणं यस्य वै कार्यं कारणं तस्य जायते । कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः ॥ ४८॥
· · ·
[ Sutra 49 ]
अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् । उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ ४९॥
· · ·
[ Sutra 50 ]
भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् । दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥ ५०॥
· · ·
[ Sutra 50 ]
इति प्रथमोऽध्यायः ॥ १॥
· · ·
[ Sutra 1 ]
अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरस- चिन्मात्रस्वरूपमनुब्रूहीति । स होवाच परमः शिवः । अखण्डैकरसं दृश्यमखण्डैकरसं जगत् । अखण्डैकरसं भावमखण्डैकरसं स्वयम् ॥ १॥
· · ·
[ Sutra 2 ]
अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया । अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥ २॥
· · ·
[ Sutra 3 ]
अखण्डैकरसा भूमिरखण्डैकरसं वियत् । अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥ ३॥
· · ·
[ Sutra 4 ]
अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् । अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥ ४॥
· · ·
[ Sutra 5 ]
अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः । अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् ॥ ५॥
· · ·
[ Sutra 6 ]
अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः । अखण्डैकरसं लक्ष्यमखण्डैकरसं महः ॥ ६॥
· · ·
[ Sutra 7 ]
अखण्डैकरसो देह अखण्डैकरसं मनः । अखण्डैकरसं चित्तमखण्डैकरसं सुखम् ॥ ७॥
· · ·
[ Sutra 8 ]
अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः । अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥ ८॥
· · ·
[ Sutra 9 ]
अखण्डैकरसं किञ्चिदखण्डैकरसं परम् । अखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥ ९॥
· · ·
[ Sutra 10 ]
अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि । अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् ॥ १०॥
· · ·
[ Sutra 11 ]
अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् । अखण्डैकरसं वेद्यमखण्डैकरसो भवान् ॥ ११॥
· · ·
[ Sutra 12 ]
अखण्डैकरसं गुह्यमखण्डैकरसादिकम् । अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥ १२॥
· · ·
[ Sutra 13 ]
अखण्डैकरसा माता अखण्डैकररसः पिता । अखण्डैकरसो भ्राता अखण्डैकरसः पतिः ॥ १३॥
· · ·
[ Sutra 14 ]
अखण्डैकरसं सूत्रमखण्डैकरसो विराट् । अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥ १४॥
· · ·
[ Sutra 15 ]
अखण्डैकरसं चान्तरखण्डैकरसं बहिः । अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ॥ १५॥
· · ·
[ Sutra 16 ]
अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् । अखण्डैकरसं गोप्यमखण्डैकरसशशी ॥ १६॥
· · ·
[ Sutra 17 ]
अखण्डैकरसास्तारा अखण्डैकरसो रविः । अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा ॥ १७॥
· · ·
[ Sutra 18 ]
अखण्डैकरस शान्त अखण्डैकरसोऽगुणः । अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ १८॥
· · ·
[ Sutra 19 ]
अखण्डैकरसो बन्धुरखण्डैकरसः सखा । अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ १९॥
· · ·
[ Sutra 20 ]
अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः । अखण्डैकरसं तारमखण्डैकरसो जपः ॥ २०॥
· · ·
[ Sutra 21 ]
अखण्डैकरसं ध्यानमखण्डैकरसं पदम् । अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् ॥ २१॥
· · ·
[ Sutra 22 ]
अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् । अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ २२॥
· · ·
[ Sutra 23 ]
अखण्डैकरसो होम अखण्डैकरसो जपः । अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् ॥ २३॥
· · ·
[ Sutra 24 ]
अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् । चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥ २४॥
· · ·
[ Sutra 25 ]
भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि । इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि ॥ २५॥
· · ·
[ Sutra 26 ]
आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः । सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् ॥ २६॥
· · ·
[ Sutra 27 ]
आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः । यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि ॥ २७॥
· · ·
[ Sutra 28 ]
अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥ २८॥
· · ·
[ Sutra 29 ]
द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि ॥ २९॥
· · ·
[ Sutra 30 ]
सम्भाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥ ३०॥
· · ·
[ Sutra 31 ]
आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् । दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥ ३१॥
· · ·
[ Sutra 32 ]
सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि । लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते ॥ ३२॥
· · ·
[ Sutra 33 ]
अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् । पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥ ३३॥
· · ·
[ Sutra 34 ]
चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् । चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता ॥ ३४॥
· · ·
[ Sutra 35 ]
चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् । चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥ ३५॥
· · ·
[ Sutra 36 ]
चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् । चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥ ३६॥
· · ·
[ Sutra 37 ]
चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु । चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नस्त्यमौनकम् ॥ ३७॥
· · ·
[ Sutra 38 ]
चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि । यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ॥ ३८॥
· · ·
[ Sutra 39 ]
यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि । यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते ॥ ३९॥
· · ·
[ Sutra 40 ]
यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि । चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् ॥ ४०॥
· · ·
[ Sutra 41 ]
चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि । अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥ ४१॥
· · ·
[ Sutra 42 ]
शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् । इत्येकरूपतया यो वा जानात्यहं त्विति ॥ ४२॥
· · ·
[ Sutra 43 ]
सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥ ४३॥
· · ·
[ Sutra 1 ]
कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ । स होवाच परः शिवः । परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ॥ १॥
· · ·
[ Sutra 2 ]
केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् । केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ॥ २॥
· · ·
[ Sutra 3 ]
केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् । सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥ ३॥
· · ·
[ Sutra 4 ]
केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः । सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् ॥ ४॥
· · ·
[ Sutra 5 ]
केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥ ५॥
· · ·
[ Sutra 6 ]
निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः । सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः ॥ ६॥
· · ·
[ Sutra 7 ]
सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः । अपरिच्छिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् ॥ ७॥
· · ·
[ Sutra 8 ]
सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् । अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥ ८॥
· · ·
[ Sutra 9 ]
आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । आत्मारामस्वरूपोऽस्मि ह्ययमात्मा सदाशिवः ॥ ९॥
· · ·
[ Sutra 10 ]
आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् । आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् ॥ १०॥
· · ·
[ Sutra 11 ]
नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः । नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् ॥ १1॥
· · ·
[ Sutra 12 ]
नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥ १२॥
· · ·
[ Sutra 13 ]
भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा । सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ॥ १३॥
· · ·
[ Sutra 14 ]
देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा । चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥ १४॥
· · ·
[ Sutra 15 ]
सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि । सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥ १५॥
· · ·
[ Sutra 16 ]
अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि । अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् ॥ १६॥
· · ·
[ Sutra 17 ]
अहमेव महानात्मा ह्यहमेव परात्परः । अहमन्यवदाभामि ह्यहमेव शरीरवत् ॥ १७॥
· · ·
[ Sutra 18 ]
अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः । अहं कालत्रयातीत अहं वेदैरुपासितः ॥ १८॥
· · ·
[ Sutra 19 ]
अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः । मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च वा ॥ १९॥
· · ·
[ Sutra 20 ]
मयातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु । अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ॥ २०॥
· · ·
[ Sutra 21 ]
निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा । केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥ २१॥
· · ·
[ Sutra 22 ]
स्वयमेव स्वयं भामि स्वयमेव सदात्मकः । स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥ २२॥
· · ·
[ Sutra 23 ]
स्वयमेव स्वयं भञ्जे स्वयमेव स्वयं रमे । स्वयमेव स्वयं ज्योतिः स्वयमेव स्वयं महः ॥ २३॥
· · ·
[ Sutra 24 ]
स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये । स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः ॥ २४॥
· · ·
[ Sutra 25 ]
स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे । स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये ॥ २५॥
· · ·
[ Sutra 26 ]
चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् । आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् ॥ २६॥
· · ·
[ Sutra 27 ]
सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् । नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा ॥ २७॥
· · ·
[ Sutra 28 ]
अहमेव हृदाकाशश्चिदादित्यस्वरूपवान् । आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥ २८॥
· · ·
[ Sutra 29 ]
एकसङ्ख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् । आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववानहम् ॥ २९॥
· · ·
[ Sutra 30 ]
सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् । सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥ ३०॥
· · ·
[ Sutra 31 ]
सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् । विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः ॥ ३१॥
· · ·
[ Sutra 32 ]
ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन । तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ॥ ३२॥
· · ·
[ Sutra 33 ]
त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन । चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः ॥ ३३॥
· · ·
[ Sutra 34 ]
अतिभावस्वरूपोऽहमहमेव सुखात्मकः । साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा ॥ ३४॥
· · ·
[ Sutra 35 ]
केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः । अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥ ३५॥
· · ·
[ Sutra 36 ]
नामरूपविमुक्तोऽहमहमानन्दविग्रहः । इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥ ३६॥
· · ·
[ Sutra 37 ]
बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः । आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् ॥ ३७॥
· · ·
[ Sutra 38 ]
वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् । सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥ ३८॥
· · ·
[ Sutra 39 ]
सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् । एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः ॥ ३९॥
· · ·
[ Sutra 40 ]
सर्वशून्यस्वरूपोऽहं सकलागमगोचरः । मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ॥ ४०॥
· · ·
[ Sutra 41 ]
सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् ॥ ४१॥
· · ·
[ Sutra 42 ]
सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः । अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥ ४२॥
· · ·
[ Sutra 43 ]
ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् । चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ॥ ४३॥
· · ·
[ Sutra 44 ]
न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् । निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥ ४४॥
· · ·
[ Sutra 45 ]
न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् । न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् ॥ ४५॥
· · ·
[ Sutra 46 ]
न तापत्रयरूपोऽहं नेषणात्रयवानहम् । श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि ॥ ४६॥
· · ·
[ Sutra 47 ]
सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् । स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् ॥ ४७॥
· · ·
[ Sutra 48 ]
असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् । अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः ॥ ४८॥
· · ·
[ Sutra 49 ]
देहत्रयमसद्विद्धि कालत्रयमसत्सदा । गुणत्रयमसत्विद्धि ह्ययं सत्यात्मकः शुचिः ॥ ४९॥
· · ·
[ Sutra 50 ]
श्रुतं सर्वमसत्द्विद्धि वेदं सर्वमसत्सदा । शास्त्रं सर्वमसत्द्विद्धि ह्यहं सत्यचिदात्मकः ॥ ५०॥
· · ·
[ Sutra 51 ]
मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा । सर्वतत्त्वमसद्विद्धि ह्ययं भूमा सदाशिवः ॥ ५१॥
· · ·
[ Sutra 52 ]
गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः । यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५२॥
· · ·
[ Sutra 53 ]
यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा । यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५३॥
· · ·
[ Sutra 54 ]
सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति । दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् ॥ ५४॥
· · ·
[ Sutra 55 ]
कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् । दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् ॥ ५५॥
· · ·
[ Sutra 56 ]
पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् । लाभालाभावसद्विद्धि जयाजयमसन्मयम् ॥ ५६॥
· · ·
[ Sutra 57 ]
शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा । रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ॥ ५७॥
· · ·
[ Sutra 58 ]
गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् । असदेव सदा सर्वमसदेव भवोद्भवम् ॥ ५८॥
· · ·
[ Sutra 59 ]
असदेव गुणं सर्वं सन्मात्रमहमेव हि । स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥ ५९॥
· · ·
[ Sutra 60 ]
अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् ॥ ६०॥
· · ·
[ Sutra 61 ]
अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् ॥ ६१॥
· · ·
[ Sutra 62 ]
अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् ॥ ६२॥
· · ·
[ Sutra 63 ]
अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् ॥ ६३॥
· · ·
[ Sutra 64 ]
अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् ॥ ६४॥
· · ·
[ Sutra 65 ]
अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन्विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् ॥ ६५॥
· · ·
[ Sutra 66 ]
अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् । अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् ॥ ६६॥
· · ·
[ Sutra 67 ]
अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सङ्कल्पादीन्विनाशयेत् ॥ ६७॥
· · ·
[ Sutra 68 ]
अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् ॥ ६८॥
· · ·
[ Sutra 69 ]
अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः ॥ ६९॥
· · ·
[ Sutra 70 ]
अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुखप्रदः । अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति ॥ ७०॥
· · ·
[ Sutra 71 ]
अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः । अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगिरीन्हरेत् ॥ ७१॥
· · ·
[ Sutra 72 ]
अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति ॥ ७२॥
· · ·
[ Sutra 73 ]
अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्छति । सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् ॥ ७३॥
· · ·
[ Sutra 74 ]
सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् । सद्यो मोक्षमवाप्नोति नात्र सन्देहमण्वपि ॥ ७४॥
· · ·
[ Sutra 74 ]
इति तृतीयोध्यायः ॥ ३॥
· · ·
[ Sutra 1 ]
कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः स्थितिमनुब्रूहीति । स होवाच परः शिवः । चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ १॥
· · ·
[ Sutra 2 ]
देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते ॥ २॥
· · ·
[ Sutra 3 ]
आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् । यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ३॥
· · ·
[ Sutra 4 ]
यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते । चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् ॥ ४॥
· · ·
[ Sutra 5 ]
सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः । आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः ॥ ५॥
· · ·
[ Sutra 6 ]
शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः । नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः ॥ ६
· · ·
[ Sutra 7 ]
किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते । न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् ॥ ७॥
· · ·
[ Sutra 8 ]
न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् । न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् ॥ ८॥
· · ·
[ Sutra 9 ]
न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् । न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः ॥ ९॥
· · ·
[ Sutra 10 ]
न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः । न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥ १०॥
· · ·
[ Sutra 11 ]
न मे तुरीयमिति यः स जीवन्मुक्त उच्यते । इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ॥ ११॥
· · ·
[ Sutra 12 ]
न मे कालो न मे देशो न मे वस्तु न मे मतिः । न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् ॥ १२॥
· · ·
[ Sutra 13 ]
न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् । न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः ॥ १३॥
· · ·
[ Sutra 14 ]
न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् । ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् ॥ १४॥
· · ·
[ Sutra 15 ]
न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः । न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः ॥ १५॥
· · ·
[ Sutra 16 ]
न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः । न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥ १६॥
· · ·
[ Sutra 17 ]
न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् । न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः ॥ १७॥
· · ·
[ Sutra 18 ]
न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः । न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा ॥ १८॥
· · ·
[ Sutra 19 ]
न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः । न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ॥ १९॥
· · ·
[ Sutra 20 ]
न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ॥ २०॥
· · ·
[ Sutra 21 ]
न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि । न मे भोगो न मे रागो न मे यागो न मे लयः ॥ २१॥
· · ·
[ Sutra 22 ]
न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् । न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥ २२॥
· · ·
[ Sutra 23 ]
न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः । अध्यारोपोऽपवादो वा न मे चैकं न मे बहु ॥ २३॥
· · ·
[ Sutra 24 ]
न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि । न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥ २४॥
· · ·
[ Sutra 25 ]
न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातु सप्तकम् । न मे शुक्लं न मे रक्तं न मे नीलं नमे पृथक् ॥ २५॥
· · ·
[ Sutra 26 ]
न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् । न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् ॥ २६॥
· · ·
[ Sutra 27 ]
न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः । न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥ २७॥
· · ·
[ Sutra 28 ]
न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् ॥ २८॥
· · ·
[ Sutra 29 ]
न मे जरा न मे बाल्यं न मे यौवनमण्वपि । अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥ २९॥
· · ·
[ Sutra 30 ]
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते । ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः ॥ ३०॥
· · ·
[ Sutra 31 ]
स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः । स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् ॥ ३१॥
· · ·
[ Sutra 32 ]
स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते । स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः ॥ ३२॥
· · ·
[ Sutra 33 ]
ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी । स्वच्छरूपो महामौनी वैदेही मुक्त एव सः ॥ ३३॥
· · ·
[ Sutra 34 ]
सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः । एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥ ३४॥
· · ·
[ Sutra 35 ]
अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः । लक्ष्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् ॥ ३५॥
· · ·
[ Sutra 36 ]
आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः । ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥ ३६॥
· · ·
[ Sutra 37 ]
चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ॥ ३७॥
· · ·
[ Sutra 38 ]
निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् । आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥ ३८॥
· · ·
[ Sutra 39 ]
सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः ॥ ३९॥
· · ·
[ Sutra 40 ]
किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ । तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ४०॥
· · ·
[ Sutra 41 ]
परमात्मा गुणातीतः सर्वात्मा भूतभावनः । कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ॥ ४१॥
· · ·
[ Sutra 42 ]
किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते । अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः ॥ ४२॥
· · ·
[ Sutra 43 ]
शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः । देवात्मादेवहीनात्मा मेयात्मा मेयवर्जितः ॥ ४३॥
· · ·
[ Sutra 44 ]
सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥ ४४॥
· · ·
[ Sutra 45 ]
केवलः परमात्माहं केवलो ज्ञानविग्रहः । सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्भयम् ॥ ४५॥
· · ·
[ Sutra 46 ]
जीवेश्वरेति वाक्क्वेति वेदशास्त्राद्यहं त्विति । इदं चैतन्यमेवेति अहं चैतन्यमित्यपि ॥ ४६॥
· · ·
[ Sutra 47 ]
इति निश्चयशून्यो यो वैदेही मुक्त एव सः । चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः ॥ ४७॥
· · ·
[ Sutra 48 ]
अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः । तुर्यतुर्या परानन्दो वैदेही मुक्त एव सः ॥ ४८॥
· · ·
[ Sutra 49 ]
नामरूपविहीनात्मा परसंवित्सुखात्मकः । तुरीयातीतरूपात्मा शुभाशुभविवर्जितः ॥ ४९॥
· · ·
[ Sutra 50 ]
योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः । गुणागुणविहीनात्मा देशकालादिवर्जितः ॥ ५०॥
· · ·
[ Sutra 51 ]
साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन । यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न ॥ ५१॥
· · ·
[ Sutra 52 ]
स्वस्वरूपे स्वयञ्ज्योतिः स्वस्वरूपे स्वयंरतिः । वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् ॥ ५२॥
· · ·
[ Sutra 53 ]
अतीतातीतभावो यो वैदेही मुक्त एव सः । चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः ॥ ५३॥
· · ·
[ Sutra 54 ]
सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः । तस्मिन्काले विदेहीति देहस्मरणवर्जितः ॥ ५४॥
· · ·
[ Sutra 55 ]
ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः । परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः ॥ ५५॥
· · ·
[ Sutra 56 ]
परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः । ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥ ५६॥
· · ·
[ Sutra 57 ]
ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् । ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥ ५७॥
· · ·
[ Sutra 58 ]
ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः । ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥ ५८॥
· · ·
[ Sutra 59 ]
ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः । ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः ॥ ५९॥
· · ·
[ Sutra 60 ]
ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः । ब्रह्मानन्दरसोद्बाहो ब्रह्मानन्दरसम्भरः ॥ ६०॥
· · ·
[ Sutra 61 ]
ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः । आत्मरूपमिदं सर्वमात्मनोऽन्यन्न कञ्चन ॥ ६१॥
· · ·
[ Sutra 62 ]
सर्वमात्माहमात्मास्मि परमात्मा परात्मकः । नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः ॥ ६२॥
· · ·
[ Sutra 63 ]
पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः । सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥ ६३॥
· · ·
[ Sutra 64 ]
निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः । शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः ॥ ६४॥
· · ·
[ Sutra 65 ]
जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः । मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ॥ ६५॥
· · ·
[ Sutra 66 ]
बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः । द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥ ६६॥
· · ·
[ Sutra 67 ]
सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः । मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥ ६७॥
· · ·
[ Sutra 68 ]
सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः । निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः ॥ ६८॥
· · ·
[ Sutra 69 ]
आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः । कालत्रयस्वरूपात्मा कालत्रयविवर्जितः ॥ ६९॥
· · ·
[ Sutra 70 ]
अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः । नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ॥ ७०॥
· · ·
[ Sutra 71 ]
अन्यहीनस्वभावात्मा अन्यहीनस्वयम्प्रभः । विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः ॥ ७१॥
· · ·
[ Sutra 72 ]
नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः । शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः ॥ ७२॥
· · ·
[ Sutra 73 ]
स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिविहीनात्मा तुरीयादिविवर्जितः ॥ ७३॥
· · ·
[ Sutra 74 ]
अन्नकोशविहीनात्मा प्राणकोशविवर्जितः । मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥ ७४॥
· · ·
[ Sutra 75 ]
आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः । निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥ ७५॥
· · ·
[ Sutra 76 ]
दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः । सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः ॥ ७६॥
· · ·
[ Sutra 77 ]
प्रज्ञानवाक्यहीनात्मा अहम्ब्रह्मास्मिवर्जितः । तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥ ७७॥
· · ·
[ Sutra 78 ]
ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः ॥ ७८॥
· · ·
[ Sutra 79 ]
आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः । भानाभानविहीनात्मा वैदेही मुक्त एव सः ॥ ७९॥
· · ·
[ Sutra 80 ]
आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् । स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन ॥ ८०॥
· · ·
[ Sutra 80 ]
इति चतुर्थोऽध्यायः ॥ ४॥
· · ·
[ Sutra 1 ]
निदाघो नाम वै मुनिः पप्रच्छ ऋभुं भगवन्तमात्मानात्मविवेकमनुब्रूहीति । स होवाच ऋभुः । सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः । सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १॥
· · ·
[ Sutra 2 ]
सर्वसङ्कल्परहितः सर्वनादमयः शिवः । सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥ २॥
· · ·
[ Sutra 3 ]
सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः । सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ ३॥
· · ·
[ Sutra 4 ]
सर्वनादकलातीत एष आत्माहमव्ययः । आत्मानात्मविवेकादिभेदाभेदविवर्जितः ॥ ४॥
· · ·
[ Sutra 5 ]
शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः । महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः ॥ ५॥
· · ·
[ Sutra 6 ]
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः । क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ ६॥
· · ·
[ Sutra 7 ]
अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः । सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ ७॥
· · ·
[ Sutra 8 ]
आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः । सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ ८॥
· · ·
[ Sutra 9 ]
स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः । यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च ॥ ९॥
· · ·
[ Sutra 10 ]
यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः । नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १०॥
· · ·
[ Sutra 11 ]
नामरूपादिकं नास्ति भोज्यं वा भोगभुक्च वा । सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् ॥ ११॥
· · ·
[ Sutra 12 ]
गुणं वा विगुणं वापि सम आत्मा न संशयः । यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १२॥
· · ·
[ Sutra 13 ]
गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः । यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि ॥ १३॥
· · ·
[ Sutra 14 ]
यत्र कालमकालं वा निश्चयः संशयो न हि । यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते ॥ १४॥
· · ·
[ Sutra 15 ]
द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् । अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा ॥ १५॥
· · ·
[ Sutra 16 ]
अनात्मेति जगद्वापि नास्ति नास्ति निश्चिनु । सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात् ॥ १६॥
· · ·
[ Sutra 17 ]
केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु । देहत्रयविहीनत्वात्कालत्रयविवर्जनात् ॥ १७॥
· · ·
[ Sutra 18 ]
जीवत्रयगुणाभावात्तापत्रयविवर्जनात् । लोकत्रयविहीनत्वात्सर्वमात्मेति शासनात् ॥ १८॥
· · ·
[ Sutra 19 ]
चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च । पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया न च ॥ १९॥
· · ·
[ Sutra 20 ]
मृत्युर्नास्ति जनाभावाद्बुद्ध्यभावात्सुखादिकम् । धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ॥ २०॥
· · ·
[ Sutra 21 ]
अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि । एकाभावे द्वितीयं न न द्वितीये न चैकता ॥ २१॥
· · ·
[ Sutra 22 ]
सत्यत्वमस्ति चेत्किञ्चिदसत्यं न च सम्भवेत् । असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥ २२॥
· · ·
[ Sutra 23 ]
शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते । भयं यद्यभवं विद्धि अभयाद्भयमापतेत् ॥ २३॥
· · ·
[ Sutra 24 ]
बन्धत्वमपि चेन्मोक्षो बन्धाभावे क्व मोक्षता । मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ २४॥
· · ·
[ Sutra 25 ]
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न । इदं यदि तदेवास्ति तदभादिदं न च ॥ २५॥
· · ·
[ Sutra 26 ]
अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन । कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ २६॥
· · ·
[ Sutra 27 ]
द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न ॥ २७॥
· · ·
[ Sutra 28 ]
अन्तर्यदि बहिः सत्यमन्ता भावे बहिर्न च । पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ २८॥
· · ·
[ Sutra 29 ]
तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् । नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे ॥ २९॥
· · ·
[ Sutra 30 ]
परम्ब्रह्माहमस्मीति स्मरणस्य मनो न हि । ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ॥ ३०॥
· · ·
[ Sutra 31 ]
चिन्मात्रं केवलं चाहं नास्त्यनात्म्येति निश्चिनु । इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् ॥ ३१॥
· · ·
[ Sutra 32 ]
चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा । न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः ॥ ३२॥
· · ·
[ Sutra 33 ]
मायाकार्यादिकं नास्ति माया नास्ति भयं नहि । कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि ॥ ३३॥
· · ·
[ Sutra 34 ]
समाधिद्वितयं नास्ति मातृमानादि नास्ति हि । अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन ॥ ३४॥
· · ·
[ Sutra 35 ]
अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न । न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ॥ ३५॥
· · ·
[ Sutra 36 ]
न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित् । न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् ॥ ३६॥
· · ·
[ Sutra 37 ]
न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम् । नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च ॥ ३७॥
· · ·
[ Sutra 38 ]
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा । जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ॥ ३८॥
· · ·
[ Sutra 39 ]
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि । चिदित्येवेति नास्त्येव चिदहम्भाषणं न हि ॥ ३९॥
· · ·
[ Sutra 40 ]
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् । वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित् ॥ ४०॥
· · ·
[ Sutra 41 ]
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि । योगी योगादिकं नास्ति सदा सर्वं सदा न च ॥ ४१॥
· · ·
[ Sutra 42 ]
अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि । भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु ॥ ४२॥
· · ·
[ Sutra 43 ]
वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ॥ ४३॥
· · ·
[ Sutra 44 ]
बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ ४४॥
· · ·
[ Sutra 45 ]
वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् । मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ॥ ४५॥
· · ·
[ Sutra 46 ]
बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् । शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते ॥ ४६॥
· · ·
[ Sutra 47 ]
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च । नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ ४७॥
· · ·
[ Sutra 48 ]
इदमित्येव निर्दिष्टमयमित्येव कल्प्यते । त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च ॥ ४८॥
· · ·
[ Sutra 49 ]
यद्यत्सम्भाव्यते लोके सर्वसङ्कल्पसम्भ्रमः । सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ॥ ४९॥
· · ·
[ Sutra 50 ]
सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु । मदीयं च त्वदीयं च ममेति च तवेति च ॥ ५०॥
· · ·
[ Sutra 51 ]
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् । रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ॥ ५१॥
· · ·
[ Sutra 52 ]
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु । स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ॥ ५२॥
· · ·
[ Sutra 53 ]
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् । अन्तःकरणसद्भाव अविद्याश्च सम्भवः ॥ ५३॥
· · ·
[ Sutra 54 ]
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु । सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् ॥ ५४॥
· · ·
[ Sutra 55 ]
दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते । वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु ॥ ५५॥
· · ·
[ Sutra 56 ]
येन केनाक्षरेणोक्तं येन केन विनिश्चितम् । येन केनापि गदितं येन केनापि मोदितम् ॥ ५६॥
· · ·
[ Sutra 57 ]
येन केनापि यद्दत्तं येन केनापि यत्कृतम् । यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ॥ ५७॥
· · ·
[ Sutra 58 ]
यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु । त्वमेव परमात्मासि त्वमेव परमो गुरुः ॥ ५८॥
· · ·
[ Sutra 59 ]
त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा । त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः ॥ ५९॥
· · ·
[ Sutra 60 ]
कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः । सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि ॥ ६०॥
· · ·
[ Sutra 61 ]
सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि । देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥ ६१॥
· · ·
[ Sutra 62 ]
समोऽसि सच्चापि सनातनोऽसि सत्यादिवाक्यैः प्रतिबोधितोऽसि । सर्वाङ्गहीनोऽसि सदा स्थितोऽसि ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥ ६२॥
· · ·
[ Sutra 63 ]
सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु च भासितोऽसि । सर्वत्र सङ्कल्पविवर्जितोऽसि सर्वागमान्तार्थविभावितोऽसि ॥ ६३॥
· · ·
[ Sutra 64 ]
सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र गत्यादिविवर्जितोऽसि । सर्वत्र लक्ष्यादिविवर्जितोऽसि ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् ॥ ६४॥
· · ·
[ Sutra 65 ]
चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः ॥ ६५॥
· · ·
[ Sutra 66 ]
आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः । चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः ॥ ६६॥
· · ·
[ Sutra 67 ]
सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि । सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः ॥ ६७॥
· · ·
[ Sutra 68 ]
अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि । सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः ॥ ६८॥
· · ·
[ Sutra 69 ]
सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि । नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ ६९॥
· · ·
[ Sutra 70 ]
ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः । अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ७०॥
· · ·
[ Sutra 71 ]
लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः । सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥ ७१॥
· · ·
[ Sutra 72 ]
ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि । स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ ७२॥
· · ·
[ Sutra 73 ]
स्वात्मराज्ये स्वमेवासि स्वयम्भावविवर्जितः । शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि ॥ ७३॥
· · ·
[ Sutra 74 ]
स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि । स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु ॥ ७४॥
· · ·
[ Sutra 75 ]
इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ७५॥
· · ·
[ Sutra 76 ]
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम् ॥ ७६॥
· · ·
[ Sutra 77 ]
नाशो जन्म च सत्यं च पुण्यपापजयादिकम् । रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् ॥ ७७॥
· · ·
[ Sutra 78 ]
गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् । भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् ॥ ७८॥
· · ·
[ Sutra 79 ]
शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम् । यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥ ७९॥
· · ·
[ Sutra 80 ]
आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः । इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा ॥ ८०॥
· · ·
[ Sutra 81 ]
चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् । सजातीयं विजातीयं लोका भूरादयः क्रमात् ॥ ८१॥
· · ·
[ Sutra 82 ]
सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसङ्ग्रहम् । विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् ॥ ८२॥
· · ·
[ Sutra 83 ]
बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् । बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् ॥ ८३॥
· · ·
[ Sutra 84 ]
सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् । अनेकजीवसद्भावमेकजीवादिनिर्णयम् ॥ ८४॥
· · ·
[ Sutra 85 ]
यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्पते क्वचित् । बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् ॥ ८५॥
· · ·
[ Sutra 86 ]
यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् । यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक् ॥ ८६॥
· · ·
[ Sutra 87 ]
यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः । शिवः क्षरति लोकान्वै विष्णुः पाति जगत्त्रयम् ॥ ८७॥
· · ·
[ Sutra 88 ]
ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् । यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् ॥ ८८॥
· · ·
[ Sutra 89 ]
सर्वोपनिषदां भावं सर्वं शशविषाणवत् । देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम् ॥ ८९॥
· · ·
[ Sutra 90 ]
देहोऽहमिति सङ्कल्पो महत्संसार उच्यते । देहोऽहमिति सङ्कल्पस्तद्बन्धमिति चोच्यते ॥ ९०॥
· · ·
[ Sutra 91 ]
देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते । देहोऽहमिति यद्भानं तदेव नरकं स्मृतम् ॥ ९१॥
· · ·
[ Sutra 92 ]
देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते । देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितिः ॥ ९२॥
· · ·
[ Sutra 93 ]
देहोऽहमिति
Tejo-Bindu Upanishad (Part 2)
यज्ज्ञानं तदेवाज्ञानमुच्यते । देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च ॥ ९३॥
· · ·
[ Sutra 94 ]
देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते । देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ ९४॥
· · ·
[ Sutra 95 ]
देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि । देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ ९५॥
· · ·
[ Sutra 96 ]
देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् । देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ॥ ९६॥
· · ·
[ Sutra 97 ]
यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् । कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् । यत्किञ्चेदं सर्वसङ्कल्पजालं तत्किञ्चेदं मानसं सोम विद्धि ॥ ९७॥
· · ·
[ Sutra 98 ]
मन एव जगत्सर्वं मन एव महारिपुः । मन एव हि संसारो मन एव जगत्त्रयम् ॥ ९८॥
· · ·
[ Sutra 99 ]
मन एव महद्दुःखं मन एव जरादिकम् । मन एव हि कालश्च मन एव मलं तथा ॥ ९९॥
· · ·
[ Sutra 100 ]
मन एव हि सङ्कल्पो मन एव हि जीवकः । मन एव हि चित्तं च मनोऽहङ्कार एव च ॥ १००॥
· · ·
[ Sutra 101 ]
मन एव महद्बन्धं मनोऽन्तःकरणं च तत् । मन एव हि भूमिश्च मन एव हि तोयकम् ॥ १०१॥
· · ·
[ Sutra 102 ]
मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चाकाशं मन एव हि शब्दकम् ॥ १०२॥
· · ·
[ Sutra 103 ]
स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः । जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम् ॥ १०३॥
· · ·
[ Sutra 104 ]
दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः । दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ १०४॥
· · ·
[ Sutra 105 ]
सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु । नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् ॥ १०५॥
· · ·
[ Sutra 105 ]
इति पञ्चमोऽध्यायः ॥ ५॥
· · ·
[ Sutra 1 ]
ऋभुः ॥ सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् । सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् ॥ १॥
· · ·
[ Sutra 2 ]
सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् । सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ २॥
· · ·
[ Sutra 3 ]
सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् । मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥ ३॥
· · ·
[ Sutra 4 ]
न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् । न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ ४॥
· · ·
[ Sutra 5 ]
न मध्यं नादि नान्तं वा न सत्यं न निबन्धजम् । न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ५॥
· · ·
[ Sutra 6 ]
न देहं न मुखं घ्राणं न जिह्वा न च तालुनी । न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥ ६॥
· · ·
[ Sutra 7 ]
न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् । न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् ॥ ७॥
· · ·
[ Sutra 8 ]
न हस्तपादचलनं न शास्त्रं न च शासनम् । न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ८॥
· · ·
[ Sutra 9 ]
तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् । नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ९॥
· · ·
[ Sutra 10 ]
न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वरः । न गमागमचेष्टा च न नष्टं न प्रयोजनम् ॥ १०॥
· · ·
[ Sutra 11 ]
त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा । न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥ ११॥
· · ·
[ Sutra 12 ]
न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः । न ध्यानं योगसंसिद्धिर्न ब्रह्मवैश्यक्षत्रकम् ॥ १२॥
· · ·
[ Sutra 13 ]
न पक्षी न मृगो नाङ्गी न लोभो मोह एव च । न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ १३॥
· · ·
[ Sutra 14 ]
न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् । न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽति हि ॥ १४॥
· · ·
[ Sutra 15 ]
न लौकिको न लोको वा न व्यापारो न मूढता । न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् ॥ १५॥
· · ·
[ Sutra 16 ]
न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा । न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ १६॥
· · ·
[ Sutra 17 ]
न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः । न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥ १७॥
· · ·
[ Sutra 18 ]
न वारपक्षमासादि वत्सरं न च चञ्चलम् । न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः ॥ १८॥
· · ·
[ Sutra 19 ]
न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः । न यमो यमलोको वा न लोका लोकपालकाः ॥ १९॥
· · ·
[ Sutra 20 ]
न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् । नाविद्या न च विद्या च न माया प्रकृतिर्जडा ॥ २०॥
· · ·
[ Sutra 21 ]
न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् । न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् ॥ २१॥
· · ·
[ Sutra 22 ]
न पदार्था न पूजार्हं नाभिषेको न चार्चनम् । न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥ २२॥
· · ·
[ Sutra 23 ]
न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि । न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥ २३॥
· · ·
[ Sutra 24 ]
न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् । न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ २४॥
· · ·
[ Sutra 25 ]
न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः । न दुःसहं दुरालापं न किरातो न कैतवम् ॥ २५॥
· · ·
[ Sutra 26 ]
न पक्षपातं न पक्षं वा न विभूषणतस्करौ । न च दम्भो दाम्भिको वा न हीनो नाधिको नरः ॥ २६॥
· · ·
[ Sutra 27 ]
नैकं द्वयं त्रयं तुर्यं न महत्वं न चाल्पता । न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥ २७॥
· · ·
[ Sutra 28 ]
न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता । न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता ॥ २८॥
· · ·
[ Sutra 29 ]
न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः । न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ २९॥
· · ·
[ Sutra 30 ]
सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि । सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् ॥ ३०॥
· · ·
[ Sutra 31 ]
ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा । तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३१॥
· · ·
[ Sutra 32 ]
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः । ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियः ॥ ३२॥
· · ·
[ Sutra 33 ]
ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः । ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥ ३३॥
· · ·
[ Sutra 34 ]
ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः । ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥ ३४॥
· · ·
[ Sutra 35 ]
इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः । कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयम्प्रभम् ॥ ३५॥
· · ·
[ Sutra 36 ]
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् । दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः ॥ ३६॥
· · ·
[ Sutra 37 ]
लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३७॥
· · ·
[ Sutra 38 ]
जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् । सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३८॥
· · ·
[ Sutra 39 ]
स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन । सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ॥ ३९॥
· · ·
[ Sutra 40 ]
नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन । अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ४०॥
· · ·
[ Sutra 41 ]
अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् । अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥ ४१॥
· · ·
[ Sutra 42 ]
ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् । आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन ॥ ४२॥
· · ·
[ Sutra 43 ]
चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् । अहमेव जगत्सर्वमहमेव परं पदम् ॥ ४३॥
· · ·
[ Sutra 44 ]
अहमेव गुणातीत अहमेव परात्परः । अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ॥ ४४॥
· · ·
[ Sutra 45 ]
अहमेवाखिलाधार अहमेव सुखात्सुखम् । आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च ॥ ४५॥
· · ·
[ Sutra 46 ]
आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् । आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि ॥ ४६॥
· · ·
[ Sutra 47 ]
आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् । ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ ४७॥
· · ·
[ Sutra 48 ]
ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् । ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ ४८॥
· · ·
[ Sutra 49 ]
ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् । ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥ ४९॥
· · ·
[ Sutra 50 ]
ब्रह्मणोऽन्यदह नास्ति ब्रह्मणोऽन्यत्फलं नहि । ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि ॥ ५०॥
· · ·
[ Sutra 51 ]
ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः । ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् ॥ ५१॥
· · ·
[ Sutra 52 ]
स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन । यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥ ५२॥
· · ·
[ Sutra 53 ]
यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि । कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ॥ ५३॥
· · ·
[ Sutra 54 ]
लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् । कालभेदं देशभेदं वस्तुभेदं जयाजयम् ॥ ५४॥
· · ·
[ Sutra 55 ]
यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् । असदन्तःकरणकमसदेवेन्द्रियादिकम् ॥ ५५॥
· · ·
[ Sutra 56 ]
असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् । असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥ ५६॥
· · ·
[ Sutra 57 ]
असत्यं षड्विकारादि असत्यमरिवर्गकम् । असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा ॥ ५७॥
· · ·
[ Sutra 58 ]
सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः ॥ ५८॥
· · ·
[ Sutra 59 ]
सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः । अहमेव परानन्द अहमेव परात्परः ॥ ५९॥
· · ·
[ Sutra 60 ]
ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः । सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकम् ॥ ६०॥
· · ·
[ Sutra 61 ]
अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् । त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥ ६१॥
· · ·
[ Sutra 62 ]
चिदाकारं चिदाकाशं चिदेव परमं सुखम् । आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥ ६२॥
· · ·
[ Sutra 63 ]
सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न ॥ ६३॥
· · ·
[ Sutra 64 ]
अहमेव हरिः साक्षादहमेव सदाशिवः । शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः ॥ ६४॥
· · ·
[ Sutra 65 ]
अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥ ६५॥
· · ·
[ Sutra 66 ]
सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् । सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः ॥ ६६॥
· · ·
[ Sutra 67 ]
परमात्मा परं ज्योतिः परं धाम परा गतिः । सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः ॥ ६७॥
· · ·
[ Sutra 68 ]
योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः । सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः ॥ ६८॥
· · ·
[ Sutra 69 ]
तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः । चिदक्ष्रोऽन् सत्योऽहं वासुदवोऽजररोऽमरः ॥ ६९॥
· · ·
[ Sutra 70 ]
अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् । शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् ॥ ७०॥
· · ·
[ Sutra 71 ]
सच्चिदानन्दरूपोऽहमनुन्त्पन्नमिदं जगत् । सत्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् ॥ ७१॥
· · ·
[ Sutra 72 ]
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् । अनन्तमव्ययं शान्तमेकरूपमनामयम् ॥ ७२॥
· · ·
[ Sutra 73 ]
मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका । वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन ॥ ७३॥
· · ·
[ Sutra 74 ]
शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् । मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥ ७४॥
· · ·
[ Sutra 75 ]
नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा ॥ ७५॥
· · ·
[ Sutra 76 ]
गगने नीलिमासत्ये जगत्सत्यं भविष्यति । शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् ॥ ७६॥
· · ·
[ Sutra 77 ]
रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः । जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् ॥ ७७॥
· · ·
[ Sutra 78 ]
विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः । रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् ॥ ७८॥
· · ·
[ Sutra 79 ]
सद्यः कुमारिकरूपैः पाके सिद्धे जगद्भवेत् । चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् ॥ ७९॥
· · ·
[ Sutra 80 ]
मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् । तक्रं क्षीरस्वरूपं चेत्क्वचिन्नित्यं जगद्भवेत् ॥ ८०॥
· · ·
[ Sutra 81 ]
गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् । भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ॥ ८१॥
· · ·
[ Sutra 82 ]
कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे । नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् ॥ ८२॥
· · ·
[ Sutra 83 ]
तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् । अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ॥ ८३॥
· · ·
[ Sutra 84 ]
ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् । ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् ॥ ८४॥
· · ·
[ Sutra 85 ]
महच्छैलेन्द्रनीलं वा सम्भवच्चेदिदं जगत् । मेरुरागत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ॥ ८५॥
· · ·
[ Sutra 86 ]
निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् । मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥ ८६॥
· · ·
[ Sutra 87 ]
अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् । तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् ॥ ८७॥
· · ·
[ Sutra 88 ]
स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः । नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् ॥ ८८॥
· · ·
[ Sutra 89 ]
क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् । जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा ॥ ८९॥
· · ·
[ Sutra 90 ]
नपुंसककुमारस्य स्त्रीसुखं चेद्भवज्जगत् । निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् ॥ ९०॥
· · ·
[ Sutra 91 ]
सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् । वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् ॥ ९१॥
· · ·
[ Sutra 92 ]
काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् । महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः ॥ ९२॥
· · ·
[ Sutra 93 ]
महाखरो गजगतिं गतश्चेज्जगदस्तु तत् । सम्पूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् ॥ ९३॥
· · ·
[ Sutra 94 ]
चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् । भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् ॥ ९४॥
· · ·
[ Sutra 95 ]
दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् । शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा ॥ ९५॥
· · ·
[ Sutra 96 ]
ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा । श्वानेन सागरे पीते निःशेषेण मनो भवेत् ॥ ९६॥
· · ·
[ Sutra 97 ]
शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् । भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥ ९७॥
· · ·
[ Sutra 98 ]
शुद्धाकाशे वने जाते चलिते तु तदा जगत् । केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ९८॥
· · ·
[ Sutra 99 ]
अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नहि । सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ९९॥
· · ·
[ Sutra 100 ]
मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् । देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥ १००॥
· · ·
[ Sutra 101 ]
हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मचक्रकम् । संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ॥ १०१॥
· · ·
[ Sutra 102 ]
अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ १०२॥
· · ·
[ Sutra 103 ]
एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् । ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज ॥ १०३॥
· · ·
[ Sutra 104 ]
अहं ब्रह्मेति निश्चित्य अहम्भावं परित्यज । सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् ॥ १०४॥
· · ·
[ Sutra 105 ]
न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् । न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥ १०५॥
· · ·
[ Sutra 106 ]
लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् । सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय ॥ १०६॥
· · ·
[ Sutra 107 ]
अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् । सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज ॥ १०७॥
· · ·
[ Sutra 108 ]
शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् । नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ १०८॥
· · ·
[ Sutra 109 ]
गुरुभक्तिविशुद्धान्तःकरणाय महात्मने । सम्यक्परीक्ष्य दातव्यं मासं षाण्मासवत्सरम् ॥ १०९॥
· · ·
[ Sutra 110 ]
सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् । तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा ॥ ११०॥
· · ·
[ Sutra शान्ति मन्त्र ]
ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥