Books / Tejobindu Upanishad

1. Tejobindu Upanishad

Page 1

यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा । tतच्चिन्मात्रमषण्डैकरस् ब्रह्म भावाम्यहम् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । ते॒ज॒स्वि॒नाव॒धी॒तम॒स्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ तेजोबिन्दु: परं ध्यानं विश्वात्महृददिसंस्थितम् । आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् ॥ १॥

दुःखाद् च दुराराध्यं दुष्ट्रक्ष्यं मुक्तिमव्ययम् । दुर्लभं तत्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २॥

यताहारो जितकोधो जितसङ्गो जितेन्द्रियः । निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥ ३॥

अगम्यागमकतां यो गम्याडगमयमानसः । मुधे त्रीणि च विन्दन्ति त्रिधामा हंस उच्च्यते ॥ ४॥

परं गुह्यतमं विद्धि ह्यस्तनद्रो निराश्रयः । सोमरूपकला सूक्ष्मा विशिष्टोत्तरत्परम् पदम् ॥ ५॥

त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् । निःश्वासं निविकल्पं च निराकारं निराश्रयम् ॥ ६॥

उपाधिरहितं स्थानं वाड्निरोधतीतगोचरम् । स्वभावं भावसङ्ग्राह्यमसङ्ग्यातं पदाच्युतम् ॥ ७॥

अनानानन्दनातीतं दुष्ट्रक्ष्यं मुक्तिमव्ययम् । चिन्त्यमेवं विनिर्मुक्तं ग्राह्यतां धुवमच्युतम् ॥ ८॥

तद्ब्रह्मास्तदध्यात्मं तहिदृश्योत्तरत्परायणम् । अचिन्त्यं चिन्मयात्मानं यद्रोम परमं स्थितम् ॥ ९॥

१०

अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् । न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १०॥

११

सर्वं च न परं शून्यं न परं नापरात्परम् । अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः ॥ ११॥

१२

मुनीनां सम्प्रयुक्तं च न देवा न परं विदुः । लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥ १२॥

१३

शीतोष्णं क्षुत्पिपासे च सङ्कल्पकविकल्पकम् । न ब्रह्मकुलदपं च न मुक्तग्रन्थिसञ्जयम् ॥ १३॥ न भयं न सुखं दुःखं तथा मानावमानयोः ।

Page 2

१४

एतज्ज्ञावविनिर्मुक्तं तदग्राह्यं ब्रह्म तत्परम् । यमो हि नियमस्त्यागो मौनं देशे च कालतः ।

१५

आसनं मूलबन्धश्च देहसाम्यं च दृढस्थितिः । प्राणसंयमं चैव प्रत्याहारश्च धारणा ।

१६

आत्मध्यानं समाधिश्च प्रेक्षण्यक्क्षाणि वै क्रमात् । सर्वं ब्रह्मोति वै ज्ञानादिन्द्रियग्रामसंयमः ।

१७

यमोऽडयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः । सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।

१८

नियमो हि परानन्दो नियमात्क्रियते बुधैः । त्यागो हि महता पुण्यः सत्यो मोक्षप्रदायकः ।

१९

यस्माद्वाचो निवर्तन्ते आप्तव्य मनसा सह । यन्मौनं योगिभिर्गीयते तज्जेत्सर्वदा बुधः ।

२०

वाचो यस्मान्निवर्तन्ते तदक्षरं केन आक्यते । प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ।

२१

इति वा तद्वेन्तिर्नं सर्वं सहजसंस्थितम् । गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ।

२२

आदावन्ते च मध्ये च जनो यस्मिन्न विदिते । येनेऽं सततं व्याप्तं स देशो विजनः स्मृतः ।

२३

कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन निर्दिष्टो ह्याखण्डानन्दमद्वयम् ।

२४

सुषुप्तनेव भवेदस्मिन्नत्नजसं ब्रह्माचिन्तनम् । आसनं तद्विजानीयादन्यत्सुखविनाशनम् ।

२५

सिद्धये सर्वभूतादि विश्रान्तिस्थानमद्वयम् । यस्मिन्नसिद्धिं गतः सिद्धस्तत्सिद्धासनमुच्यते ।

२६

यन्त्रंूलं सर्वलोकानां यन्त्रूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योगीऽसो ब्रह्मवादिनाम् ।

२७

अज्ञानां समतां विद्यात्स्मै ब्रह्माणि लीयते । नो चेत्नैव समत्वमूर्जितं शुष्कवृक्षवत् ।

२८

दृष्टिं ज्ञानमयीं कृत्वा पश्येदब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ।

२९

दृष्टिदर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्थितस्त्रैव कर्तव्या न नासाग्रावलोकिनी ।

३०

चित्तादिसर्वभावेषु ब्रह्मैवैव भवनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ।

३१

निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः । ब्रह्मैवास्मीति या वृत्तिः पूरकः स उच्यते ।

३२

ब्रह्मैवास्मीति या वृत्तिः पूरकः स उच्यते ।

Page 3

33

ततस्तदृत्तिनैशल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रभुद्धानामज्ञानां ब्रह्मपीडनम् ॥

34

विषयेप्स्वात्मतां दृष्ट्वा मनससहिततरऋजकम् । प्रत्याहारः स विजेयोऽभ्यासनीयो मुहुर्मुहुः ॥

35

यत्र यत्र मनो याति ब्रह्मस्तत्र दर्शनेनात् । मनसा धारणं चैव धारणा सा परा मता ॥

36

ब्रह्मैवास्मीति सदृश्य निरालम्बतया स्थिति: । ध्यानशब्देन विश्यातः परमानन्ददायकः ॥

37

निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यकसमाधिरभिधीयते ॥

38

इमं चाकृतिमाननं तावत्साधु समभ्यसेत् । लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्तं समभवेत्स्वयम् ॥

39

ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वं रूपं भवेत्सत्य विषयो मनसो गिराम् ॥

40

समाधो क्रियमाणे तु विध्नान्न्यायान्ति वै बलात् । अनुसन्धानराहित्यालस्यं भोगलालसम् ॥

41

लयस्तम्भौ विक्षेप्तेजः स्वेदक्ष शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविचारदैः ॥

42

भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्मवृत्त्या हि पूणर्त्वं तया पूणर्त्वमभ्यसेत् ॥

43

ये हि वृत्तिं विहायेनां ब्रह्माक्ष्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिः समा नराः ॥

44

ये तु वृत्तिं विजानन्न्त ज्ञात्वा वै वर्धयन्ति ये । ते वै सत्पुरुषा धन्या धन्यास्ते भुवनत्रये ॥

45

येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः । ते वै सद्ब्रह्मतां प्राप्ता नितरे शब्दवादिनः ॥

46

कुशला ब्रह्मवार्तायां वृत्तिहीना: सुरागिणः । तेऽप्यज्ञाततया नूनं पुनरायान्ति यान्ति च ॥

47

निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सकलाश्चः शुकादयः ॥

48

कारणं यस्य वै कार्यं कारणं तस्य जायते । कारणं तत्वतो नश्येत्कार्याभावे विचारतः ॥

49

अथ शुद्धं भवेद्वस्तु यदैव वाचामगोचरम् । उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥

50

भावितं तीव्रवेगेन यदस्तु निश्चयात्मकम् । दृश्यं हृदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥

Page 4

॥ १॥

विद्यां चित्तं सुखे तिष्ठेद्द्वया चित्रसपूर्णया ॥ इति प्रथमोऽध्यायः ॥ १॥

॥ १॥

अथ ह कुमारः । शिवं पप्रच्छाऽखण्डैकरस-चिन्मात्रस्वरूपमनुब्रूहीति । स होवाच परमः शिवः । असण्डैकरसं दृश्यमखण्डैकरसं जगत् । असण्डैकरसं भावमखण्डैकरसं स्वयम् ॥१॥

॥ २॥

असण्डैकरसो मन्त्र अखण्डैकरसा क्रिया । असण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥ २ ॥

॥ ३॥

अखण्डैकरसा भूमिरखण्डैकरसं वियत् । असण्डैकरसं शास्त्रमखण्डैकरसा त्रियी ॥ ३॥

॥ ४॥

असण्डैकरसं ब्रह्मा असण्डैकरसं व्रतम् । असण्डैकरसो जीव अखण्डैकरसो हृदजः ॥ ४ ॥

॥ ५॥

अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः । अखण्डैकरसो रुद्र अखण्डैकरसोस्म्यहम् ॥ ५ ॥

॥ ६॥

अखण्डैकरसो ह्यात्मा अखण्डैकरसो गुरु: । असण्डैकरसं लक्ष्यमखण्डैकरसं महः ॥ ६ ॥

॥ ७॥

अखण्डैकरसो देह अखण्डैकरसं मनः । असण्डैकरसं चित्तमखण्डैकरसं सुखम् ॥ ७ ॥

॥ ८॥

अखण्डैकरसा विद्या अखण्डैकरसोडव्ययः । अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥ ८ ॥

॥ ९॥

अखण्डैकरसं किज्चिदखण्डैकरसं परम् । अखण्डैकरसादन्यन्नास्ति नास्ति षडनन ॥ ९॥

॥ १०॥

अखण्डैकरसात्रास्ति अखण्डैकरसात्र हि । अखण्डैकरसात्किज्चिदखण्डैकरसादहम् ॥ १०॥

॥ ११॥

अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् । अखण्डैकरसं वेदमखण्डैकरसो भवान् ॥ ११॥

॥ १२॥

अखण्डैकरसं गुह्यमखण्डैकरसादिकम् । अखण्डैकरसो ज्ञाता अखण्डैकरसा स्थितिः ॥ १२॥

॥ १३॥

अखण्डैकरसा माता अखण्डैकरसः पिता । अखण्डैकरसो भाता अखण्डैकरसः पतिः ॥ १३॥

॥ १४॥

अखण्डैकरसं सूत्रमखण्डैकरसो विराट् । अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥ १४ ॥

॥ १५॥

अखण्डैकरसं चान्तरखण्डैकरसं बहिः । अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ॥ १५ ॥

॥ १६॥

अखण्डैकरसं गोत्रमखण्डैकरसं गृहम् । अखण्डैकरसं गोप्यमखण्डैकरसग्यग्रही ॥ १६ ॥

Page 5

१७

अखण्डैकरसास्तारा अखण्डैकरसो रवि: । अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा ॥

१५

अखण्डैकरस शान्त अखण्डैकरसोगुण: । अखण्डैकरस: साक्षी अखण्डैकरस: सुहृत् ॥

१९

अखण्डैकरसो बन्धुरखण्डैकरस: सखा । अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥

२०

अखण्डैकरसं राज्यमखण्डैकरसा: प्रजा: । अखण्डैकरसं तारमखण्डैकरसो जप: ॥

२१

अखण्डैकरसं ध्यानमखण्डैकरसं पदम् । अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् ॥

२२

अखण्डैकरसं ज्योतिर्मखण्डैकरसं धनम् । अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥

२३

अखण्डैकरसो होम अखण्डैकरसो जप: । अखण्डैकरसं स्वर्गमखण्डैकरस: स्वयम् ॥

२४

अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत । चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥

२५

इदं च सर्वं चिन्मात्रं चिन्मयमेव हि । इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि ॥

२६

आत्मभावं च चिन्मात्रमखण्डैकरसं विदु: । सर्वलोकांश्च चिन्मात्रं वक्ता मत्ता च चिन्मयम् ॥

२७

आकाशो भूर्जलं वायुरमिनब्रह्माद्या हरि: शिव: । यत्किञ्चिद्विद्यते किञ्चित्सर्वं चिन्मात्रमेव हि ॥

२८

अखण्डैकरसं सर्वं यद्यचिच्चिन्मात्रमेव हि । भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥

२९

द्रव्यं कालं च चिन्मात्रं ज्ञानं जेयं चिदेव हि । ज्ञाता चिन्मात्ररूपश्च सर्वे चिन्मयमेव हि ॥

३०

संभावनं च चिन्मात्रं यद्यचिच्चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रमावयं चिन्मयं सदा ॥

३१

आदिरन्तत्वं चिन्मात्रं गुरु शिष्यादि चिन्मयम् । दृग्दृश्यं यदिचिन्मात्रं चैच्चिन्मयं सदा ॥

३२

सर्वांशयं हि चिन्मात्रं देहं चिन्मात्रमेव हि । लिङ्गं च कारणं चैव चिन्मात्राणि हि विद्याते ॥

३३

अहं त्वं चैव चिन्मात्रं मूलतां मोदिचिन्मयम् । पुण्यं पापं च चिन्मात्रं जीवदशिचन्मात्रिग्रह: ॥

३४

चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् । चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता ॥

Page 6

35

चिन्मात्रान्नास्ति दिक्पालादिचिन्मात्राद्भावहारिकम् । चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥ ३५ ॥

36

चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् । चिन्मात्रान्नास्ति मन्त्र्यं चिन्मात्रान्नास्ति सत्यकम् ॥ ३६ ॥

37

चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु । चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नास्त्यमौनकम् ॥ ३७ ॥

चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि । यच्च यावच्च चिन्मात्रं यच्च यावद्दृश्यते ॥ ३८ ॥

39

यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि । यच्च यावच्च भूतादि यच्च यावल्लक्ष्यते ॥ ३९ ॥

40

यच्च यावच्च वेदान्तः सर्वं चिन्मात्रमेव हि । चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् ॥ ४० ॥

41

चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि । अज्ञानैकरसं ब्रह्म चिन्मात्रं हि विदयते ॥ ४१ ॥

42

शास्त्रे मयि त्वयि शेषे च ज्ञानैकरसो भवान् । इत्येकरूपतया यो वा जानात्यहं त्वमिति ॥ ४२ ॥

43

सकृज्ज्ञानेन मुक्तिः स्यात्सम्पज्जाने स्वयं गुरु: । इति द्वितीयोऽध्यायः ॥ २ ॥

1

कुमारः पितरमात्मानुभवमुदूढहीति प्रपच्द । स होवाच परः शिवः ॥ परब्रह्मस्वरूपोडहं परमानन्दमस्म्यहम् । केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ॥ १ ॥

2

केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् । केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ॥ २ ॥

3

केवलं सत्त्वरूपोऽहं त्यकत्वाहमस्म्यहम् । सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥ ३ ॥

4

केवलं तुरीयरूपोऽस्मि तुयातीतोऽस्मि केवलः । सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् ॥ ४ ॥

5

केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥ ५ ॥

6

निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः । सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः ॥ ६ ॥

7

सदैकरसरूपोऽस्मि सदाऽचिन्मात्रविग्रहः । अपरिच्छिन्नरूपोऽस्मि ह्रस्वखण्डानन्दरूपवान् ॥ ७ ॥

8

सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् । अनन्तान्तररूपोऽहमवाद्वयानसगोचरः ॥ ८ ॥

Page 7

आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । आत्मारामस्वरूपोऽस्मि ह्यात्मा सदाशिव: ॥ ९ ॥

१०

आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहं । आदिमध्यान्तहीनोऽस्मि ह्याकाशवदृशोऽस्म्यहं ॥ १० ॥

११

नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्यय: । नित्यबुद्धिविशुद्धैकसच्चिदानन्दमस्यहं ॥ ११ ॥

१२

नित्यश्रेष्ठस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । रूपातीतस्वरूपोऽस्मि परमाकाशविग्रह: ॥ १२ ॥

१३

भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा । सर्वांधिष्ठानरूपोऽस्मि सर्वचिदघनोऽस्म्यहं ॥ १३ ॥

१४

देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा । चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहं ॥ १४ ॥

१५

सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहं हि । सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥ १५ ॥

१६

अहं ब्रह्मैव सर्व स्यादहं चैतन्यमेव हि । अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् ॥ १६ ॥

१७

अहमेव महानात्मा ह्याहमेव परात्पर: । अहमानन्यवादाभामि ह्याहमेव शरीरवत् ॥ १७ ॥

१८

अहं शिष्यवदाभामि ह्याहं लोकत्रयाश्रय: । अहं कालत्रयातीत अहं वेदैरुपासित: ॥ १८ ॥

१९

अहं शास्त्रैर्निर्णीत अहं चित्ते व्यवस्थित: । मत्यकतां नास्ति किज्चिद् मत्यकतां पृथिवी च वा ॥ १९ ॥

२०

मयातिरिक्तं यद्वा तत्तन्नास्तीति निश्शितिनु । अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ॥ २० ॥

२१

निर्गुण: केवलात्मास्मि निराकारोऽस्म्यहं सदा । केवलं ब्रह्ममात्रोऽस्मि ह्यजरोगमरोग्यहम् ॥ २१ ॥

२२

स्वयमेव स्वयंभामि स्वयमेव सदात्मक: । स्वयमेवात्मनि स्वस्थ: स्वयमेव परा गतिः ॥ २२ ॥

२३

स्वयमेव स्वयं भामि स्वयमेव स्वयम् रमे । स्वयमेव स्वयं ज्योति: स्वयमेव स्वयम् मह: ॥ २३ ॥

२४

स्वस्यात्मनि स्वयम् रंसे स्वात्मन्येव विलोकये । स्वात्मन्येव सुखासीन: स्वात्ममात्रावशेषक: ॥ २४ ॥

२५

स्वचैतन्ये स्वयम् स्थास्ये स्वात्मराज्ये सुखे रमे । स्वात्मसिंहासने स्थित्वा स्वात्मनोऽनन्यन्न चिन्तये ॥ २५ ॥

२६

चिदूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् । आनन्दघन एवाहं ब्रह्मास्मि केवलम् ॥ २६ ॥

Page 8

२७

सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहं । नित्यानन्दस्वरूपोऽहं नित्यदाऽऽत्माकाशोऽस्मि नित्यदा ॥ २७॥

२५

अह्मेव हृदाकाशऽऽविद्यात्यस्वरूपवान् । आत्मनाSSत्मनि तृप्तोऽस्मि ह्यरूपोऽस्यहंवययः ॥ २५॥

२९

एकसंख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् । आकाशादि सूक्ष्मोऽहं व्याप्यभाववानहं ॥ २९॥

३०

सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहं । सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥ ३०॥

३१

सत्याऽऽनन्दस्वरूपोऽहं ज्ञानाऽऽनन्दोऽस्म्यहं । विज्ञानमात्ररूपोऽहं सच्चिदाऽऽनन्दलक्षणः ॥ ३१॥

३२

ब्रह्ममात्रमिदं सर्वं ब्रह्माण्डं नान्यत् किञ्चन । तदेवाहं सदाऽऽनन्दं ब्रह्मैवाहं सनातनम् ॥३२॥

३३

त्वमित्येतत्तदित्येतन्न तोऽन्यन्नास्ति किञ्चन । चिच्चैतन्यस्वरूपोऽहंमहंमेव शिवः परः ॥ ३३॥

३४

अतिभावस्वरूपोऽहंमहंमेव सुखात्मकः । साक्षिसत्वविहीनत्वाऽऽक्षित्वं नास्ति मे सदाऽऽ ॥३४॥

३५

केवलं ब्रह्ममात्रत्वादात्मा सनातनः । अह्मेवऽदिशेषोऽहं शेषोऽहमेव हि ॥ ३५ ॥

३६

नामरूपविमुक्तोऽहंमहंमानन्दविग्रहः । इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥ ३६ ॥

३७

वन्धमुक्तिविहीनोऽहं शाश्वताऽऽनन्दविग्रहः । आदिचैतन्यमात्रोऽहंमहङ्के रसोऽस्म्यहं ॥ ३७ ॥

३८

वाङ्मनोङ्गोचरस्वाहं सर्वत्र सुखवानहं । सर्वत्र पूर्ष्णरूपोऽहं भूमाऽऽनन्दमयोऽस्म्यहं ॥ ३८ ॥

३९

सर्वत्र तृप्तिरूपोऽहं पराऽमृतरसोऽस्म्यहं । एकमेवाऽद्वितीयं सद्ब्रह्मैव न संशयः ॥ ३९॥

४०

सर्वशून्यस्वरूपोऽहं सकलागमगोचरः । मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ॥४०॥

४१

सत्यविज्ञानमात्रोऽहं सन्मात्राऽऽनन्दवानहं । तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् ॥ ४१॥

४२

सर्वदा ह्र्जरूपोऽहं नीरागोऽस्मि निरञ्जनः । अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहं ॥ ४२ ॥

४३

ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहं । चिदाकारस्वरूपोऽस्मि नाऽहमस्मि न सोऽस्म्यहं ॥ ४३॥

४४

न हि किञ्चित्स्वरूपोऽस्मि निर्व्याऽपारस्वरूपवान् । निरङ्गोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहं ॥ ४४ ॥

Page 9

45

न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहं । न जाग्रत्स्वप्नरुपोऽहं न सुषुप्तिस्वरुपवान् ॥ ४५ ॥ न तावत्रयरुपोऽहं नेष्टानिष्टववानहम् । श्रवणं नास्ति मे सिद्धिमननं च चिदात्मनि ॥ ४६ ॥ सजातीयं न मे किज्चिदजातीयं न मे क्वचित् । स्वगतं च न मे किज्चिद मे भेदत्रयं क्वचित् ॥ ४७ ॥ असत्यं हि मनोरुपमसत्यं बुद्धिरुपकम् । अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्याजः ॥ ४८ ॥ देहत्रयमसद्विद्धि कालत्रयमसत्सदा । गुणत्रयमसद्विद्धि ह्ययं सत्यात्मकः शुचिः ॥ ४९ ॥ श्रुतं सर्वमसत्सद्विद् वेदं सर्वमसत्सदा । शास्त्रं सर्वमसत्सद्विद् ह्याजं सत्यचिदात्मकः ॥ ५० ॥ मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा । सर्वतत्वमसद्विद्धि ह्याजं भूमासदाशिवः ॥ ५१ ॥ गुरुशिष्यमसद्विद्धि गुरोरन्त्रमसततत: । यदुश्रयं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५२ ॥ यच्चिन्त्यं तदसद्विद्धि यत्नायं तदसत्सदा । यद्दितं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५३ ॥ सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसद्व्वति । दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् ॥ ५४ ॥ कायांकायमसद्विद्धि नष्टं प्राप्तमसन्मयम् । दु:खादु:खमसद्विद्धि सर्वां सर्वमन्मयम् ॥ ५५ ॥ पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् । लाभालाभासद्विद्धि जयाजयमसन्मयम् ॥ ५६ ॥ शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा । रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ॥ ५७ ॥ गन्धं सर्वमसद्विद्धि सर्वां ज्ञानमसन्मयम् । असदेव सदा सर्वमसदेव भवोद्भवम् ॥ ५८ ॥ असदेव गुणं सर्वं सन्मात्रमहमेव हि । स्वात्ममन्तं सदा पश्येत्स्वात्ममन्तं सदाभ्यसेत् ॥ ५९ ॥ अहं ब्रह्मास्मि मन्त्रोडयं दृश्यपापं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोडयमन्यमन्त्रं विनाशयेत् ॥ ६० ॥ अहं ब्रह्मास्मि मन्त्रोडयं देहदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोडयं जन्मपापं विनाशयेत् ॥ ६१ ॥ अहं ब्रह्मास्मि मन्त्रोडयं मृत्युपाशं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोडयं द्वैतदु:खं विनाशयेत् ॥ ६२ ॥

Page 10

63

अहं ब्रह्मास्मि मन्त्रोडयं भेदबुद्धिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोडयं चिन्तादुःखं विनाशयेत् ॥ ६३॥

64

अहं ब्रह्मास्मि मन्त्रोडयं बुद्धिव्याधिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोडयं चित्तवन्थं विनाशयेत् ॥ ६४ ॥

65

अहं ब्रह्मास्मि मन्त्रोडयं सर्वव्याधीन्विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोडयं सर्वशोकं विनाशयेत् ॥ ६५ ॥

66

अहं ब्रह्मास्मि मन्त्रोडयं कामादीन्राशयेत्क्षणात् । अहं ब्रह्मास्मि मन्त्रोडयं क्रोधशक्तिं विनाशयेत् ॥ ६६ ॥

67

अहं ब्रह्मास्मि मन्त्रोडयं चित्तवृत्तिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोडयं सकूल्यपादीन्विनाशयेत् ॥ ६७ ॥

68

अहं ब्रह्मास्मि मन्त्रोडयं कोटिदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोडयं सर्वतनं विनाशयेत् ॥ ६८ ॥

69

अहं ब्रह्मास्मि मन्त्रोडयमात्माज्ञानं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोडयमात्मलोकजयप्रदः ॥ ६९ ॥

70

अहं ब्रह्मास्मि मन्त्रोडयमप्रतक्यंसुखप्रदः । अहं ब्रह्मास्मि मन्त्रोडयमजडत्वं प्रयच्छति ॥ ७० ॥

71

अहं ब्रह्मास्मि मन्त्रोडयमनात्मासुरमर्दनः । अहं ब्रह्मास्मि वज्रोऽयमनात्मास्व्यगिरिन्हरेत् ॥ ७१ ॥

72

अहं ब्रह्मास्मि मन्त्रोडयमनात्मासुरान्हरेत् । अहं ब्रह्मास्मि मन्त्रोडयं सर्वोस्तान्मोक्षयिष्यति ॥ ७२ ॥

73

अहं ब्रह्मास्मि मन्त्रोडयं ज्ञानानन्दं प्रयच्छति । सप्तकोटिमहान्तं जन्मकोटिशतप्रदम् ॥ ७३ ॥

74

सर्वमन्त्रान्समुत्थूज्य एतं मन्त्रं समाभ्यसेत् । सदो मोक्षमवाप्नोति नात्र सन्देहमण्वपि ॥ ७४ ॥ इति तृतीयोध्यायः ॥ ३ ॥

1

कुमारः परमेश्वरे पप्रच्छु जीवन्मुक्तविदेहमुक्तयोः । स्थितिमनुब्रूहीति । स होवाच परः शिवः ॥ १ ॥

2

चिदात्माहं परात्माहं निर्गुण्डौहं परात्परः । आत्मानात्रेण यस्स्थित्वेत् जीवन्मुक्त उच्यते ॥ २ ॥ देहत्रयातिरिक्तौडहं शुद्धचैतन्यमस्य्यह्म । ब्रह्माहमिति यस्यातः स जीवन्मुक्त उच्यते ॥ २ ॥

3

आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यह्म । यस्य देहादिकं नास्ति यस्य ब्रह्मैति निश्चयः ॥ ३ ॥ परमानन्दपूर्णोऽस्मि यः स जीवन्मुक्त उच्यते ॥ ३ ॥

4

यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते । चैतन्यमात्रो यस्यान्तःस्थिन्मात्रैकस्वरूपवान् ॥ ४ ॥

Page 11

सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः । आनन्दरतरव्यक्तः परिपूर्णख्विदात्मकः ॥ ५ ॥

शुद्धचैतन्यरूपात्मा सर्वसङ्कल्पवर्जितः । नित्यानन्दः प्रसन्नात्मा ध्यानचिन्ताविवर्जितः ॥ ६

किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते । न मे चित्तं न मे बुद्धिनाङ्ङारो न चेन्त्रियं ॥ ७॥

न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् । न मे माया न मे कामो न मे कोधः परोडस्म्यहं ॥ ८ ॥

न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् । न मे दोषो न मे लिङ्गं न मे चक्षुर्‌ने मे मनः ॥ ९॥

१०

न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः । न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥ १०॥

११

न मे तुरीयमिति यः स जीवन्मुक्त उच्यते । इदं सर्वं न मे किञ्चिदयं न मे क्वचित् ॥ ११॥

१२

न मे कालो न मे देशो न मे वस्तु न मे मतिः । न मे स्नानं न मे सन्ध्या न मे देवं न मे स्थलं ॥ १२॥

१३

न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदं । न मे बन्धो न मे जन्म न मे वाक्यं न मे रवि: ॥ १३॥

१४

न मे पुण्यं न मे पापं न मे कार्यं न मे शुभं । न मे जीव इति स्वात्मा न मे किञ्चिज्जगत्‌व्ययं ॥ १८ ॥

१५

न मे मोक्षो न मे दृश्तं न मे वेदो न मे विधिः । न मेsन्तिकं न मे दूरं न मे बोधो न मे रहः ॥ १५ ॥

१६

न मे गुरुर्‌ने मे शिष्यो न मे हीनो न चाधिकः । न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥ १६ ॥

१७

न मे पृथ्वी न मे तोयं न मे वायुर्‌ने वियत् । न मे वर्णिन्‌ने मे गोत्रं न मे लक्ष्यं न मे भवः ॥ १७ ॥

१८

न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनः । न मे शीतं न मे ष्णं न मे तृष्णा न मे क्षुधा ॥ १५ ॥

१९

न मे मित्रं न मे शत्रुं न मे मोहो न मे जयः । न मे पूर्वं न मे पश्चात् मे चोदयं न मे दिशः ॥ १९ ॥

२०

न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे गन्तव्यमीशद्वा न मे ध्यातव्यमण्वपि ॥ २०॥

२१

न मे भोक्तव्यमीशद्वा न मे स्मर्तव्यमण्वपि । न मे भोगो न मे रागो न मे यागो न मे लयः ॥ २१ ॥

२२

न मे मोक्ष्यं न मे शान्तं न मे बन्धो न मे प्रियम् । न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशं ॥ २२ ॥

Page 12

23

न मे दीर्घं न मे ह्रस्वं न मे वृद्धिरन मे क्षय: । अध्यारोपोडपवादो वा न मे चैकं न मे बहु ॥

24

न मे आनन्द्यं न मे मान्यं न मे पट्टिवदमण्वपि । न मे मांसं न मे रक्तं न मे मेदो न मे ह्रासुकं ॥

25

न मे मज्जा न मेऽस्थि वा न मे त्वग्भातु सप्तकं । न मे शुक्रं न मे रक्तं न मे नीलं नमे पृथक् ॥

26

न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् । न मे भ्रान्तिरन मे स्थैर्यं न मे गुहां न मे कुलम् ॥

27

न मे त्याग्यं न मे ग्राह्यं न मे हास्यं न मे नय: । न मे वृतं न मे गलानिनो मे शोष्यं न मे सुखं ॥

28

न मे जाता न मे ज्ञानं न मे जेयं न मे स्वयम् । न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहं ॥

29

न मे जरा न मे वाल्यं न मे यौवनमण्वपि । अहं ब्रह्मास्म्यहं ब्रह्माहं ब्रह्मोति निश्चय: ॥

30

चिदहं चिदहं चेति स जीवन्मुक्त उच्यते । ब्रह्मैवाहं चिदेवाहं परो वाहं न संशय: ॥

31

स्वयमेव स्वयं हंस: स्वयमेव स्वयं स्थित: । स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् ॥

32

स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते । स्वयमेवकवीरोडग्रे स्वयमेव प्रभुः स्मृत: ॥

33

ब्रह्माभूत: प्रशान्तात्मा ब्रह्मानन्दमय: सुखी । स्वच्छरूपो महामौनी वैदेही मुक्त एव स: ॥

34

सर्वात्मा समरुपात्मा शुद्धात्मा त्वहमुत्थित: । एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रक: ॥

35

अजातात्मा चामृतात्माहं स्वयमात्माहमव्यय: । लक्ष्यात्मा ललितात्माहं तृष्णीमत्मस्वभाववान् ॥

36

आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा वन्धवर्जित: । ब्रह्मैवाहं चिदेवाहं वापि न चिन्त्यते ॥

37

चिन्मात्रेणैव यस्तिष्ठेद्देहो मुक्त एव स: । निश्चयं च परित्यज्य अहं ब्रह्मोति निश्चयं ॥

38

आनन्दभरितस्वान्तो वैदेही मुक्त एव स: । सवैमस्स्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ॥

39

अहं ब्रह्मास्मि नास्तीति सच्चिदानन्दमात्रक: । किञ्चित्स्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ ॥

40

तृष्णींमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन । परमात्मा गुणातीत: सर्वात्मा भूतभावन: ॥

Page 13

४१

कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् । किञ्चिद्रेदं न तस्यास्ति किञ्चिद्वैपि न विद्यते ।

४२

अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः । शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः ।

४३

देवात्मादेवहीनात्मा मेयात्मा मेयवर्जितः । सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।

४४

सर्वसङ्कल्पहीनात्मा चिन्मात्रोदस्मृति सर्वदा । केवलः परमात्माहं केवलो ज्ञानविग्रहः ।

४५

सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगड्ग्रहयम् । जीवेश्वरौ इति वाक्क्वेति वेदशास्त्राद्याहं त्विति ।

४६

इदं चैतन्यमेवेति अहं चैतन्यमित्यपि । इति निश्चययुक्तो यो वैदेहि मुक्त एव सः ।

४७

चैतन्यमात्रसिद्धः स्वात्मारामः सुखासनः । अपरिच्छिन्नरूपात्मा अगुष्मूलादिवर्जितः ।

४८

तुर्यतुर्यो परानन्दो वैदेही मुक्त एव सः । नामरूपविहीनात्मा परसंवित्सुखात्मकः ।

४९

तुरीयातीतरूपात्मा शुभाशुभविवर्जितः । योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः ।

५०

गुणागुणविहीनात्मा देशकालादिवर्जितः । साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किंचन ।

५१

यस्य प्रपञ्चमात्रं न ब्रह्माकारमपीह न । स्वस्वरूपे स्वयंज्योति स्वस्वरूपे स्वयंरतिः ।

५२

वाङ्मगोचरानन्दो वाड्मनोगोचरः स्वयम् । अतीतातीतभावो यो वैदेहि मुक्त एव सः ।

५३

चित्तवृत्तिरतेरती यो यथितवृत्त्यभावकः । सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः ।

५४

तस्मिन्काले विदेहीति देहस्मरणवर्जितः । ईशनादि स्मृति चेद्यस्तदा सर्वसमन्वतः ।

५५

परैरदृष्टबाह्यात्मा परमानन्दचित्तन । परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः ।

५६

ब्रह्मामृतरसास्वादो ब्रह्मामृतरसाशनः । ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् ।

५७

ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चन । ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः ।

५८

ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः । ब्रह्मानन्दपरं ज्योतिरब्रह्मानन्दनिरन्तरः ।

Page 14

५९

ब्रह्मानन्दरसात्रादो ब्रह्मानन्दकुटुम्बकः ॥ ५९॥

ब्रह्मानन्दरसारूढो ब्रह्मान्दैकचिद्द्रुन ।

६०

ब्रह्मानन्दसोदाहो ब्रह्मानन्दरसाम्भरः ॥ ६० ॥

ब्रह्मानन्दजनेयुक्तो ब्रह्मान्दात्मनि स्थितः ।

६१

आत्मरूपमिदं सर्वमात्मनोऽनन्यन कञ्चन ॥ ६१॥

सर्वमात्माहमात्मास्मि परमात्मा परात्कः ।

६२

नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः ॥ ६२॥

पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्कः ।

६३

सर्वान्त्योमिरूपात्मा निर्मलात्मा निरात्कः ॥ ६३॥

निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः ।

६४

शान्ताशान्तस्वरूपात्मा नैका त्मतविवर्जितः ॥ ६४॥

जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः ।

६५

मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ॥ ६५॥

बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः ।

६६

द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥ ६६॥

सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः ।

६७

मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥ ६७॥

सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः ।

६८

निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः ॥ ६८॥

आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः ।

६९

कालत्रयस्वरूपात्मा कालत्रयविवर्जितः ॥ ६९॥

अखिलात्मा ह्यमेयात्मा मानवात्मा मानवर्जितः ।

७०

नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ॥ ७०॥

अन्यहीनस्वभावात्मा अन्यहीनस्वयम्प्रभः ।

७१

विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः ॥ ७१॥

नित्यानित्यविहीनात्मा नित्यामृतविवर्जितः ।

७२

श्रमादिदृशुन्यात्मा मुमुक्षुत्वादिवर्जितः ॥ ७२॥

स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः ।

७३

कारणादिविहीनात्मा तुरीयादिविवर्जितः ॥ ७३॥

अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।

७४

मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥ ७४॥

आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः ।

७५

निर्विकल्पस्वरूपात्मा सर्विकल्पविवर्जितः ॥ ७५॥

दृश्यनुविद्धहीनात्मा शब्दविद्धविवर्जितः ।

७६

सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः ॥ ७६॥

प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः ।

Page 15

७७

तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ।

७८

ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः ।

७८

अवस्थात्रयहीनात्मा अजरातमा चिदात्मकः ।

७९

आत्मजेयादिहीनात्मा यत्किञ्चिदविदमात्मकः ।

७९

भानाभानविहीनात्मा वैदेही मुक्त एव सः ।

८०

आत्मानमेव वीक्ष्य स्व आत्मानं बोधय स्वकम् ।

८०

स्वमात्मानं स्वयं भुड्क्ष्व स्वस्थो भव षडानन ॥ ८० ॥

स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर ।

आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ॥

इति चतुर्थोऽध्यायः ॥ ३ ॥

निदाघो नाम वै मुनिः प्रपच्छ ऋभुं

भगवन्तमात्मानात्मविवेकमनुब्रूहीति ।

स होवाच ऋभुः ।

सर्ववाचोडवधितब्रह्म सर्वविन्तावधिगुरुः ।

सर्वकरणकायात्मा कार्यकारणवर्जितः ॥ १ ॥

सर्वसङ्कल्परहितः सर्वनादमयः शिवः ।

सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥ २ ॥

सर्वते्जःप्रकाशात्मा नादानन्दमयात्मकः ।

सर्वानुभवनिर्मुक्तः सर्वधनाविवर्जितः ॥ ३ ॥

सर्वनादकलातीत एष आत्महमव्ययः ।

आत्मानात्मविवेकादिभेदाभेदविवर्जितः ॥ ४ ॥

शान्ताशान्तादिहीनात्मा नादान्तज्योतिरीपकः ।

महावाक्यार्थतो दूरे ब्रह्मस्मीत्यतिदूरतः ॥ ५ ॥

तच्छब्दवर्ज्यस्वसंवित्तिहीनो वाक्यार्थवर्जितः ।

क्षराक्षरविहीनो यो नादान्तज्योतिरीव सः ॥ ६ ॥

अखण्डैकरसो वाहमानन्दोडस्मीति वज्रितः ।

सर्वांतीतस्वभावात्मा नादान्तज्योतिरीव सः ॥ ७ ॥

आत्मैति शब्दहीनो य एतैवात्मा सनातनः ।

सच्चिदानन्दहीनो य एष वेदवाक्यैरगम्यत: ।

स निर्द्वन्द्वःशक्यो यो वेदवाक्यैरगम्यत: ।

यस्य किञ्चिद्वहिनास्ति किञ्चिद्वान्तः कियत्न च ॥ ९ ॥

१०

यस्य लिङ्गं प्रपञ्चं वा ब्रह्मोवात्मा न संशयः ।

१०

नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकं ॥ १० ॥

११

नामरूपादिकं नास्ति भोज्यं वा भोगभुक् च वा ।

११

सद्रूपसद्रा स्थितिर्वापि यस्य नास्ति क्षराक्षरं ॥ ११ ॥

गुणं वा विगुणं वापि समम आत्मा न संशयः ।

Page 16

१२

यस्य वाच्यं वाचकं वा श्रवणं मननं च वा । गुरुशिष्यादिभेदं वा देवतोकाः सुरासुराः । यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि ॥ १३॥ यत्र कालमकालं वा निध्यः संश्रयो न हि । यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते ॥ १४॥ दृष्टादर्शनदृश्यं वा ईशनमात्रं कालात्मकम् । अनात्मनि प्रसज्जो वा हुनातमेति मनोडपि वा ॥ १५॥ अनात्मनि जगद्वापि नास्ति नास्ति निषिधुनु । सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात् ॥ १६॥ केवलं ब्रह्ममात्रत्वात्रास्त्यनात्मनि निषिधुनु । देहत्रयविहीनत्वात्कालत्रयविवर्जनात् ॥ १७॥ जीवत्रयगुणाभावात्तापत्रयविवर्जनात् । लोकत्रयविहीनत्वात्सर्वमात्मनि शासनात् ॥ १८॥ चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च । पादाभावाद्व्रतिनांस्ति हस्ताभावात्क्रिया न च ॥ १९॥ मृत्युरनास्ति जनाभावाद्दूयभावात्सुखादिकम् । धर्मो नास्ति शुचिनांस्ति सत्यं नास्ति भयं न च ॥ २०॥ अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि । एकाभावे द्वितीयं न न द्वितीये न चैकता ॥ २१॥ सत्यत्वमस्ति चेत्किज्ज्ञवदस्त्यं न च संबवेत् । असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥ २२॥ शुभं यद्गुभं विद्धि अशुभाभासुभमिष्यते । भयं यद्भयं विद्धि अभयाइध्यमापतेतत् ॥ २३॥

२४

वन्धत्वमपि चेन्मोक्षो वन्धभावे कव मोक्षता । मरणं यदि चेज्जन्म जन्मभावे मृतितर्न च ॥ २४॥ त्वमित्यपि भवेच्छाहं त्वं नो चेदहमेव न । इदं यदि तदेवास्ति तदभिदं न च ॥ २५॥ अस्तीतिं चेद्रास्ति तदा नास्ति चेदस्ति किज्ज्वन । कार्यं चेत्कारणं किज्ज्वत्कार्याभावे न कारणम् ॥ २६॥ द्वैतं यदि तदाड्द्वैतं द्वैताभावे द्वयं न च । दृश्यं यदि दृग्प्रास्ति दृश्याभावे दृगेन न ॥ २७॥ अन्तर्यदि बहिः सत्यमन्यता भावो बहिन्न च । पूर्णत्वमस्ति चेत्किज्ज्ञदपूर्णत्वं प्रसज्यते ॥ २८॥ तस्मादेतत्क्वचिन्नास्ति तच्चाहं वा इमे इदम् । नास्ति दृष्टान्तिकं सत्ये नास्ति दाष्टान्तिकं द्वैजे ॥ २९॥ परंब्रह्माहमस्मीति स्मरणास्य मनो न हि ।

Page 17

३०

ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् । चिन्मात्रं केवलं चाहं नास्त्यनात्म्येति निश्चिनु ।

३१

इदं प्रपञ्चं नास्त्येव नो स्यात्प्रत् नो स्थितं क्वचित् । चित्तं प्रपञ्चमित्याहुःनास्त्येव सर्वदा ।

३२

न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः ।

३३

मायाकार्यादिकं नास्ति माया नास्ति भयं नहि । कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि ।

३४

समाधिद्वितयं नास्ति मात्रुमानादि नास्ति हि । अज्ञानं वापि नास्त्येव ह्यविवेकं कदाचन ।

३५

अनुबन्धचतुष्टयं न सम्बन्धस्त्रयमेव न । न गङ्गा न गয়া सेतुर्न भूतं नान्यदस्ति हि ।

३६

न भूमिर् न जलं नग्निर्न वायुर् न च खं क्वचित् । न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् ।

३७

न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थिततम् । नोद्द्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च ।

३८

बन्धमोक्षादिकं नास्ति सद्वैसद्वा सुखादि वा । जातिनास्ति गतिनास्ति वर्णा नास्ति न लौकिकम् ।

३९

सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि । चिदित्येवैति नास्त्येव चिदहंभावषणं न हि ।

४०

अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् । वाचा यदुच्यते किञ्चिन्न मनुते क्वचित् ।

४१

बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि । योगी योगादिकं नास्ति सदा सर्वं सदा न च ।

४२

अहोरात्रादिकं नास्ति स्थानध्यानादिकं नहि । भ्रान्तरभ्रान्तरनास्त्येव नास्त्यनात्मनि निश्चिनु ।

४३

वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनस्त्वैकं सर्वं मिथ्या न संशयः ।

४४

बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ।

४५

वाचा वदति यत्किञ्चित्सद्भ्रपैः कल्प्यते च यत् । मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ।

४६

बुद्धया निश्चीयते किञ्चिच्छते निश्चीयते क्वचित् । शास्त्रैः प्रपञ्च्यते यद्यदेव निरीक्ष्यते ।

४७

श्रोत्राभ्यां श्रूयते यद्यदन्यत्रैत्सङ्गावमेव च । नेत्रं श्रोत्रं गात्रमेव मध्येति च सुनिश्चितम् ।

इदमित्येव निर्दिष्टमयमित्येव कल्प्यते ।

Page 18

४८

त्वमहं तदिदं सोऽहमन्यत्सङ्झावमेव च ॥

४९

यदात्संभवते लोके सर्वसङ्कल्पसंभ्रमः । सर्वाङ्ग्यांसि सर्वगोप्यं सर्वभोगप्रभेदकम् ॥

५०

सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु । मदीयं च त्वदीयं च ममेति च तवेति च ॥

५१

मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् । रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ॥

५२

संहारे रुद्र इत्येवं सर्वमध्येति निश्चिनु । स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ॥

५३

मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् । अन्तःकरणसङ्घाव अविद्याश्रव संभवः ॥

५४

अनेककोटिब्रह्माण्डं सर्वं मध्येति निश्चिनु । सर्वदेशिकवाक्योक्तियोक्तियेन केनापि निश्चिततम् ॥

५५

दृश्यते जगति यद्यद्रज्जगति दीक्ष्यते । वर्तते जगति यत्सर्वं मध्येति निश्चिनु ॥

५६

येन केनाक्षरेणोक्तं येन केन विनिश्चितम् । येन केनापि गदितं येन केनापि मोदितम् ॥

५७

येन केनापि यदुक्तं येन केनापि यत्कृतम् । यत्न यत्न शुभं कर्म यत्न यत्न च दुष्कृतम् ॥

५८

यद्यत्करोषि सत्येन सर्वं मध्येति निश्चिनु । त्वमेव परमात्मासि त्वमेव परमो गुरुः ॥

५९

त्वमेवाकाशरूपोऽसि साक्षीहीनोऽसि सर्वदा । त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः ॥

६०

कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः । सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि ॥

६१

सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि । देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥

६२

समोऽसि सच्च्वापि सनातनोऽसि सत्यादिवाक्यैः प्रतिबोधितोऽसि । सर्वाङ्ङहीनोऽसि सदा स्थितोऽसि ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥

सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु च भाषितोऽसि । सर्वत्र सङ्कल्पविवर्जितोऽसि

Page 19

63

सर्वांगमान्तःस्थविभावितोऽसि । सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र गत्यादिविवर्जितोऽसि । सर्वत्र लक्ष्यादिविवर्जितोऽसि । ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् ॥ ६३ ॥

64

चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरञ्जनः । आत्मन्येव स्थितोऽसि त्वं सर्वगून्योऽसि निर्गुणः ॥ ६४ ॥

65

आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः । चिदघनानन्दरुपोऽसि परिपूर्णस्वरूपकः ॥ ६५ ॥

66

सदसि त्वमसि झोऽसि सोऽसि जानासि वीक्षसि । सच्चिदानन्दरुपोऽसि वासुदेवोऽसि वै प्रभुः ॥ ६६ ॥

67

अमृतोऽसि विभुषासि चञ्चलो हृचचलो ह्यसि । सर्वोऽसि सर्वहीनोऽसि ज्ञानाशान्तविवर्जितः ॥ ६७ ॥

68

सत्तामात्रप्रकाशोऽसि सततासामान्यको ह्यसि । नित्यसिद्धस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ ६८ ॥

69

ईशनमात्रविश्रुन्योऽसि अणुमात्रविवर्जितः । अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ६९ ॥

70

लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः । सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥ ७० ॥

71

ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि । स्वस्वरूपावग्रेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ ७१ ॥

72

स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः । शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि ॥ ७२ ॥

73

स्वस्वरूपपात्र वलसि स्वस्वरूपेण झुम्भसि । स्वस्वरूपादनन्योऽसि ह्यहमेवासि निष्ठितः ॥ ७३ ॥

74

इदं प्रपञ्चं यत्किञ्चिद्वयज्जगति विद्यते । दृश्यरूपं च दृश्यरूपं सर्वं प्राशविषाणवत् ॥ ७४ ॥

75

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कारस्तेजस्त्र लोकं भुवनमण्डलम् ॥ ७५ ॥

76

नाशो जन्म च सत्यं च पुण्यपापजयादिकम् । रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणाः परम् ॥ ७६ ॥

77

गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् । भूतं भविष्यत् वर्तमानं लक्ष्यं लक्षणमद्वयम् ॥ ७७ ॥

78

श्रमो विचारः सन्तोषो भोक्तृभोज्यादिरुपकम् । यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥ ७८ ॥

79

आदिमध्यान्तरहिं च ग्राह्यं त्याज्यं हरिः शिवः ।

Page 20

50

इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा । चतुविंशतितत्त्वं च साधनानां चतुष्टयम् ।

51

सजातीयं विजातीयं लोकां भूरादयः क्रमात् ।

52

सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसंग्रहम् । विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् ।

53

बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् । बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् ।

54

सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् । अनेकजीवसङ्घावमेकजीवादिनिर्णयम् ।

55

यदद्ध्यायायति चित्तेन यदृच्छाकूल्पते क्वचित् । बुद्ध्या निश्चीयते यद्दृशं तु दृश्या संशुणोति यत् ।

56

यदद्वाचो व्याकरोति यदाचार्यभाषणम् । यदात्मवरेन्द्रियैर्भाव्यं यन्मनमीमांसते पृथक् ।

57

यदज्ञायायेन निर्णयं महर्षींवेदपारगेः । शिवः क्षरति लोकान्वै विष्णुः पाति जगत्‌त्रयम् ।

58

ब्रह्मा सृजति लोकान्वै एवं मादिक्रियादिकम् । यददस्ति पुराणेषु यद्वेदेषु निर्णयम् ।

59

सर्वोपनिषदां भावं सर्वं शास्त्राविषाणवत् । देहोऽहमिति सङ्कल्पं तदनःकरणं स्मृतम् ।

60

देहोऽहमिति सङ्कल्पो महत्संसार उच्यते ।

61

देहोऽहमिति सङ्कल्पस्तद्धर्ममिति चोच्यते ।

62

देहोऽहमिति सङ्कल्पस्तद्धर्म्मिति चोच्यते ।

63

देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् ।

64

देहोऽहमिति सङ्कल्पो जगत्सर्वमितीयंते ।

65

देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः ।

66

देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते ।

67

देहोऽहमिति यज्ज्ञानं तदसङ्गावमेव च ।

68

देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते ।

69

देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ।

70

देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि ।

71

देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ।

72

देहोऽहमिति सङ्कल्पो महापापमिति स्कुटम् ।

73

देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ।

74

यत्किञ्चिदपि सङ्कल्पस्तत्पत्रयमितीरितम् ।

कामं क्रोधं बन्धनं सर्वदुःखं विषं दोषं कालनानास्वरूपम् ।

Page 21

९७

यत्किञ्चेदं सर्वसङ्कल्पजालं तत्किञ्चेदं मानस सोम विद्धि ॥ ९७ ॥ मन एव जगत्स्वं मन एव महारिपुः ।

९५

मन एव हि संसारो मन एव जगत्नयम् ॥ ९५ ॥ मन एव महादुःखं मन एव जरादिकम् ।

९९

मन एव हि कालश्र मन एव मलं तथा ॥ ९९ ॥ मन एव हि सङ्कल्पो मन एव हि जीवकः ।

१००

मन एव हि चित्तं च मनोद्वार एव च ॥ १०० ॥ मन एव महद्बन्धं मनोऽन्तःकरणं च तत् ।

१०१

मन एव हि भूमिष्ठं मन एव हि तोयकम् ॥ १०१ ॥ मन एव हि तेजस्वि मन एव मरुत्स्महन् ।

१०२

मन एव हि चाकाशं मन एव हि शब्दकम् ॥ १०२ ॥ स्पर्शं रूपं रसं गन्धं कोषः पञ्च मनोभवा: ।

१०३

जाग्रत्स्वप्नसुपुशुप्त्यादि मनोमयरितीरितम् ॥ १०३ ॥ दिक्पाला वसवो रुद्रा आदित्याश्च मनोमया: ।

१०८

दृश्यं जडं द्रव्दजातमज्ञानं मानस स्मृतम् ॥ १०८ ॥ सद्कल्पमेव यत्किञ्चित्तत्रास्तीति निश्चिनु ।

१०५

नास्ति नास्ति जगत्स्वं गुरु शिष्यादिकं नहोत्युपनिषत् ॥ १०५ ॥ इति पञ्चमोऽध्यायः ॥

ऋभुः ॥ सर्वे सच्चिदानन्दमयं विद्धि सर्वे सच्चिदानन्दमयं तत् ।

सच्चिदानन्दमेवतं सच्चिदानन्दमद्वयम् ॥ १ ॥ सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।

सच्चिदानन्दरूपो हि सच्चिदानन्दमेव खम् ॥ २ ॥ सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् ।

मनोबुद्धिरहङ्कारचित्तसङ्कातका अमी ॥ ३ ॥ न त्वं नाहं न चान्यद्वा सर्व ब्रह्मैव केवलम् ।

न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ ४ ॥ न मध्यं नादि नान्तं वा न सत्यं न निवन्धजम् ।

न दु:खं न सुखं भावं न माया प्रकृतिस्थथा ॥ ५ ॥ न देहं न मुखं ग्राणं न जिह्वा न च तालुनी ।

न दन्तोष्ठौ ललाटं च निस्वासोच्छ्वास एव च ॥ ६ ॥ न स्वेदामस्थि मांसं च न रक्तं न च मूत्ककम् ।

न दूरं नान्तिकं नादूरं न कि़रीटकम् ॥ ७ ॥ न हस्तपादचलनं न शस्त्रं न च शासनम् ।

न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ५ ॥ तुर्यातीतं न मे किञ्चित्सर्व सच्चिदानन्दमयं तत् ।

Page 22

नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् । न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेś्वरः ।

१०

न गमागमंचेष्टा च न नष्टं न प्रयोजनम् । त्याज्यं ग्राह्यं न दृष्यं वा ह्यमेध्यामेध्यकं तथा ।

११

न पीयं न कुषं क्लेदं न कालं देशभाषणम् । न सर्वं न भयं द्वैतं न वृक्षतृणपरवता: ।

१२

न ध्यानं योगसंसिद्धिं ब्रह्मवैशेष्यकतृकम् । न पक्षी न मृगो नाक्षी न लोभो मोह्ह एव च ।

१३

न मदो न च मात्सर्यं कामक्रोधादय:स्थथा । न स्त्रीशूद्रब्रिडालादि भक्ष्यभोज्यादिकं च यत् ।

१४

न प्रौढहीनो नास्तिक्यं न वातामवरोदिति हि । न लौकिको न लोको वा न व्यापारो न मूढता ।

१५

न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् । न शत्रुमित्रपुत्रादिं माता न पिता स्वसा ।

१६

न जन्म न मृतिद्वैतं देहोऽहंमिति भ्रमः । न शून्यं नापि चाशून्यं नान्त:करणसंस्थितिः ।

१७

न रात्रिनं दिवा नक्तं न ब्रह्मा न हरिः शिवः । न वारपक्षमासादि वत्सरं न च चत्सलम् ।

१८

न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः । न स्वर्गों न च देवेन्द्रों नागिनलोको न चाग्निकः ।

१९

न यमो यमलोको वा न लोकाः लोकपालकाः । न भूरादिस्वस्तैलोक्यं न पातालं न भूतलम् ।

२०

नाविद्या न च विद्या च न माया प्रकृतिजडा । न स्थिंरं क्षणिकं नाशं न गतीर्नं च भावनम् ।

२१

न ध्यातव्यं न मे ध्यानं न मन्त्रो न जप: क्वचित् । न पदार्थान न पूजाहि नाभिषेको न चार्चनम् ।

२२

न पुष्पं न फलं पात्रं गन्धपुष्पादिभूपकम् । न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि ।

२३

न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् । न होमो न च कर्माणि न दुरैक्यं सुभाषणम् ।

२४

न गायत्री न वा सन्ध्या मनस्यं न दु:स्थिथतिः । न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः ।

२५

न दु:सहं दुरालापं न किरातो न कैतवम् । न पक्षपातं न पक्षं वा न विभूषणतस्करौ ।

२६

न च दम्भो दम्भिको वा न हीनो नाधिको नरः । नैकं द्वयं त्रयं तुयं न महत्‌वं न चात्पता ।

Page 23

२७

न पूणं न परिच्छिन्नं न काष्ठी न व्रतं तपः । न गोत्रं न कुलं सूत्रं न विभूतं न शून्यता ।

२५

न स्त्री न योषित्रो वृद्धिा न कन्या न वितन्तुता ॥

२९

न सूतर्क न जातिर्वा नान्तर्मुखसुविर्भ्रमः । न महावाक्यमेक्यं वा नानिमादिविभूतयः ॥

३०

सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि । सर्व सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् ॥

३१

ब्रह्मैव सर्व नान्योऽस्ति तदहं तदहं तथा । तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥

३२

ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः । ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेतन्रियः ॥

३३

ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः । ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥

३४

ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः । ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥

३५

इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः । कालो ब्रह्म कला ब्रह्म सूक्ष्मं ब्रह्म स्वयम्प्रभम् ॥

३६

एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शामादिकम् । doषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः ॥

३७

लोको ब्रह्म गुरुर्‌ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्वं ब्रह्म परं ब्रह्म शुद्ध ब्रह्म शुभाशुभम् ॥

३८

जीव एव सदा ब्रह्म सच्चिदानन्दमस्य्यहम् । सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥

३९

स्वयं ब्रह्म न सन्देहः स्वस्मादन्यत्र किंचन । सर्वमात्रैव शुद्धात्मा सर्वं चिन्मात्रदृश्यम् ॥

४०

नित्यनिर्‌मलरूपात्मा ह्यात्मनोऽन्यन्न किंचन । अणुमात्रसदृपमणुमात्रिमदं जगत् ॥

४१

अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् । अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥

४२

ब्रह्मैव सर्व चिन्मात्रं ब्रह्ममात्रं जगत्नयम् । आनन्दं परमानन्दमन्यत्किञ्चित्तु किझ्चन ॥

४३

चैतन्यमात्रमोक्षारं ब्रह्मैव सकलं स्वयम् । अहमेव जगत्सर्वमहंमेव परं पदम् ॥

४४

अहमेव गुणातीत अहमेव परात्परः । अहमेव परं ब्रह्म अहमेव गुरोगुरुः ॥

अहमेवाक्षिलाधार अहमेव सुखात्मसुखम् ।

Page 24

45

आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यात्सुखं न च ॥ ४५॥

आत्मनोऽन्या गतिनास्ति सर्वमात्ममयं जगत् ।

46

आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यात्त्रुएण नहि ॥ ४६॥

आत्मनोऽन्यात्त्रुएण नास्ति सर्वमात्ममयं जगत् ।

47

ब्रह्मामात्रं हि सर्वं ब्रह्मामात्रं हि सत्यम् ॥ ४७॥

ब्रह्मामात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् ।

48

ब्रह्मामात्रं वृतं सर्वं ब्रह्मामात्रं रसं सुखम् ॥ ४८॥

ब्रह्मामात्रं चिदाकाशं सच्चिदानन्दमव्ययम् ।

49

ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥ ४९॥

ब्रह्मणोऽन्यदहं नास्ति ब्रह्मणोऽन्यात्फलं नहि ।

50

ब्रह्मणोऽन्यात्त्रुएणं नास्ति ब्रह्मणोऽन्यात्पदं नहि ॥५०॥

ब्रह्मणोऽन्यत्‌पुरन्नास्ति ब्रह्मणोऽन्यमसद्‌द्रुपः ।

51

ब्रह्मणोऽन्यन्न चाहन्ता तत्त्वेदन्ते नहि क्वचित् ॥ ५१॥

स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किंचन ।

52

यत्किञ्चिद्दृश्यते लोक यत्किञ्चिद्द्रियते जने: ॥ ५२॥

यत्किञ्चिद्दृश्यते क्वापि तत्त्वं हि मसदेव हि ।

53

कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ।

54

लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ॥ ५४॥

कालभेदं देशभेदं वस्तुभेदं जयाजयम् ।

55

यदृृङ्गदं च तत्सर्वमसदेव हि केवलम् ॥ ५५॥

असदन्तःकरणकमसदेविन्द्रियादिकम् ।

56

अस्त्राणादिकं सर्वं सदृङ्गातमसदात्मकम् ॥ ५६॥

असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवता: ।

57

असत्यं षड्विकारादि असत्यममिरवर्गकम् ॥ ५७॥

असत्यं षड्रुतुष्टैव असत्यं षड्‌रसस्तथा ।

58

सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।

59

आत्मैवाहं परं सत्यं नान्यः संसारदुःखयः ॥ ५९॥

सत्यमात्ररूपोऽहं चिद्‌घनानन्दविग्रहः ।

60

अहमेव परानन्द अहमेव परात्परः ॥ ६०॥

ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः ।

61

सर्वप्रकाशरूपोऽहं सर्वाभासस्वरूपकम् ॥ ६१॥

अहमेव सदा भूमित्येवं रूपं कृतोऽप्यसत् ।

62

त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥ ६२॥

चिदाकाशं चिदाकारं चिदेव परमं सुखम् ।

63

आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरु: परः ॥ ६३॥

सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।

Page 25

63

कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न । अहमेव हरिः साक्षादहमेव सदाशिवः ॥ ६३॥

64

शुद्धचेतन्यभावोऽहं शुद्धसत्त्वानुभावनः । अद्वयानन्दमात्रोऽहं चिदघनकरसोदस्म्यहम् ॥ ६४॥

65

सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् ॥ ६५॥

66

सर्वान्तर्योगिरूपोऽहं सर्वसाक्षित्वलक्षणः । परमात्मा परं ज्योतिः परं धाम परा गतिः ॥ ६६॥

67

सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः । योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः ॥ ६७॥

68

सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः । तुरीयातुरीप्रकाशोऽस्मि तुरीयातुरीयादिवर्जितः ॥ ६८॥

69

चिदेकरोऽनं सत्योंऽहं वासुदेवोऽजररोऽमरः । अहं ब्रह्म चिदाकार्षं नित्यं ब्रह्म निरञ्जनम् ॥ ६९॥

70

शुद्धं बुद्धं सदामुक्तनामकमरूपकम् । सच्चिदानन्दरूपोऽहं नित्यपूर्णमिदं जगत् ॥ ७०॥

71

सत्यासत्यं जगन्नास्ति सद्भूत्प्रकलनादिकम् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ७१॥

72

अनन्तमव्ययं शान्तमेकरपमानमाययम् । मत्तोऽन्यदास्ति चेन् मिथ्या यथा मरुमरीचिका ॥ ७२॥

73

वनध्याकुमारवचने भीतेश्वदस्ति किञ्चन । शशशृङ्गोण नागेन्रो मृगतृष्णाजगदस्ति तत् ॥ ७३॥

74

मृगतृष्णाजलं पीत्वा तृप्तश्वदस्तिवदं जगत् । नरशृङ्गोण नष्टश्वेत्कसिद्धस्त्वमेव हि ॥ ७४॥

75

गन्धर्वनगरे सत्ये जगद्वति सर्वदा । गगने नीलिमासत्ये जगत्सत्यं भविष्यति ॥ ७५॥

76

शुक्तिकारजतं सत्यं भूतं संश्रुतिः । जातरूपेण वाणेन ज्वालाग्नौ नाशिते जगत् ॥ ७६॥

77

विन्ध्याटव्यां पायसान्नमस्ति चैज्जगदूद्भवः । रम्भास्तम्भेन काठेन पाकसिद्धौ जगद्वेत् ॥ ७७॥

78

सदः कुमारिकारूपे पाके सिद्धं जगद्वेत् । चित्रस्थदीपिस्थमसो नाशश्वदस्तिवदं जगत् ॥ ७८॥

79

मासात्पूर्वं मृतो मत्यों ह्यागतश्वेज्जगद्वेत् । तत्र क्षीरस्वरूपं चेत्कवचित्त्यं जगद्वेत् ॥ ७९॥

80

गोस्तनादुग्धं क्षीरं पुनरारोपणं जगत् ।

Page 26

५१

भूरजोऽभौ समुत्पन्ने जगडवतु सर्वदा ॥ ५१॥

५२

कूर्मरोम्ना गजे बद्ध जगदस्तु मदोत्कटे । नालस्थतन्तुना मेरुशैलतेज्जगडवत ॥ ५२ ॥

५३

तरड्मालया सिन्धुवन्दरदस्त्वदं जगत् । अग्नेरभ्रेऽज्ज्वलनं जगडवतु सर्वदा ॥ ५३ ॥

५४

ज्वालावहि: श्रीतलशेदास्तरुपमिदं जगत् । ज्वालाग्निमण्डले पद्मवृत्तेऽज्जगदस्त्वदं ॥ ५४ ॥

५५

महच्छिलेनद्रनील वा सम्भवच्चेदिदं जगत् । मेरुरागत्य पदाक्रान्ते स्थितभेदस्त्वदं जगत् ॥ ५५ ॥

५६

निगिरेच्छेदड्कसुनुमेरुं चलदस्त्वदं । मशकेन हते सिंहे जगत्वत्यं तदास्तु ते ॥ ५६ ॥

५७

अणुकोटरविस्तीर्णे त्रैलोक्यं चेङ्जगडवत । तृणानलस्थ नित्यश्वेतक्षणिकं तज्जगडवत ॥ ५७ ॥

५८

स्वप्नदृष्ट च यद्दस्तु जागरे चेङ्जगडव: । नदीवेगो निश्शलश्वेतनापीदं भवेज्जगत ॥ ५८ ॥

५९

ऋधितस्याग्निमभौज्ज्वे: निमिषं कल्पितं भवेत् । जात्यन्धे रत्नविषय: सुज्ञातशेज्जगत्सदा ॥ ५९ ॥

९०

नपुंसकुमारस्य स्त्रीसुखं चेङ्डवज्जगत् । निर्मित: शशशृङ्गेण रथशेज्जगदस्ति तत् ॥ ९० ॥

९१

सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत । वन्ध्या गर्भोभ्पत्तत्सौख्यं ज्ञाता चेदस्त्वदं जगत् ॥ ९१ ॥

९२

काको वा हंसवदच्छेऽज्जगडवतु निश्शलम । महाश्वरो वा सिंहेन युद्धते चेङ्जगत्स्थिति: ॥ ९२ ॥

९३

महाश्वरो गजगतिं गतशेज्जगदस्तु तत् । सम्पूर्णचन्द्रसूर्यशेज्जगडातु स्वयंजडम ॥ ९३ ॥

९४

चन्द्रसूर्यौदिको त्यक्त्वा राहुशेदूशृश्यते जगत् । भ्रष्टवीजसमुत्पन्नवृदृशेज्जगदस्तु सत् ॥ ९४ ॥

९५

दरिद्रो धनिकानां च सुरतं भूृते तदा जगत । शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा ॥ ९५ ॥

९६

जानिनो हृदयं मूढैर्जातं चेत्कल्पनं तदा । स्थानेन सागरे पीते न:ोषेण मनो भवेत ॥ ९६ ॥

९७

शुद्धाकाशो मनुष्यषु पतितश्वेतदा जगत् । भूमौ वा पतितं व्योम पुंषन् सुगन्धकम ॥ ९७ ॥

९८

शुद्धाकाशे वने जाते चलिते तु तदा जगत । केवलं दर्पणे नास्ति प्रतिबिम्बं तदा जगत ॥ ९८ ॥

अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगत्रहि ।

Page 27

९९

सर्वथा भेदकलनं द्वैतद्वैतं न विद्यते । मायाकार्यमिदं भेदर्मास्ति चेदब्रह्मभावनम् ।

१००

देहोऽहंमिति दु:खं चेदब्रह्माहमिति निश्चय: । हृदयग्रन्थिरसित्वे च्छिद्यते ब्रह्मचक्रकम् ।

१०१

संशये समनुप्राप्ते ब्रह्मनिष्ठयमाश्रयेत । अनात्मरूपचोरखेदात्मरत्नस्य रक्षणम् ।

१०२

नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् । एवमादिसुदृष्टान्तै: साधितं ब्रह्मात्मक्रम् ।

१०३

ब्रह्मैव सर्वभवनं भुवनं नाम सन्न्यज । अहं ब्रह्मेति निश्चित्य आहंभावं परित्यज ।

१०४

सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत । न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् ।

१०५

न भूतं न च कार्यं च न चावस्थाचतुष्टयम । लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् ।

१०६

सर्वव्यापारमुक्तस्य ब्रह्मेति ब्रह्मेति भावय । अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् ।

१०७

सच्चिदानन्दमात्रोडहंमिति निश्चित्य तत्वज । शाब्दरीयं महाशास्त्रं न दीयं यस्सचिचत् ।

१०८

नास्तिकाय कृतघ्नाय दुरवृत्ताय दुरात्मने । गुरुभक्तिविशुद्धान्त:करणाय महात्मने ।

१०९

सम्यक्परीक्ष्य दातव्यं मासं षण्मासवत्सरम । सर्वोपनिषदभ्यांसं दूरतस्त्यज्य सादरम् ।

११०

तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा । सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् । ब्रह्मैव भवति स्वयमित्युपनिषत् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ इति तेजोबिन्दूपनिषत्समाप्ता ॥