Books / Totaka with Tika ( Sa Tika Totaka ) Jagadeeshwar Printing Press 1888

1. Totaka with Tika ( Sa Tika Totaka ) Jagadeeshwar Printing Press 1888

Page 3

अथ सटीकतोटक प्रारंभ:

Page 5

उपोद्घातः

एवंकिलोपारूयाय ते। हस्तामलकनामकंशिष्यंकृत्वा पद्मपादसुरेश्वराचार्यप्रभृतिभिः स हितोभगवान्श्रीशंकराचार्य:कदाचित् गृंगेरीपुरेगत्वा तत्रशारदांबाया:पूजांगवर्तयामा स। तत्रचनिजघर मंचारीभूतानुकंपी विनयोप पन्नोगुरुसेवातत्परोSतीवसमाहितचित्तो गि रिनामाकश्चिद्विनेय: श्रीशंकरभगवतोऽजनि यंतोटकाचार्यमुदाहरंति। कदाचनतस्मिन् विनेयवरे श्रीगुरूणांशाटीप्रक्षालनायनदींप्रतिगतवति व्याख्यानकर्मणितदागममीक्ष माणो भक्तेषुवत्सलतया भगवान्देशिकेंद्रोविललंब। अथासंख्येषुशिष्यवरेषु शान्ति पाठंकर्तुमुद्यतेष्वपि सदेशिकेन्द्रोभगवान् स्थीयतांगिरिर पिक्षणमात्रादेष्यतीतिगिर तिस्म। तांगुरूक्तिंश्रुत्वामन्दबुद्धित्वात्कुडचतुल्योजडः शास्त्रे Sनधिकार्य पिकिमर्थप्रती क्ष्यतेगुरोइतिपद्मपादमुनिना भीतिःसमद्शि। तस्यपद्मपादस्यप्रौढंगवंदूरीकर्तु स्वभ क्तेषुकरुणायाआधिक्याच्च सदेशिकेंद्रस्तत्क्षणएवतस्मैगिरिनाम्नेस्वशिष्यवराय च तुर्दशविद्यामनसाSSदिदेश। सगिरिनामाशिष्यस्तस्मिनक्षणेगुरोरनुग्रहादेवमाप्ताखि लविद्योSतिरम्याणिशिष्टपदानुविद्धानि गूढार्था निसंक्षेपेणवेदान्तार्थप्रतिपादकानि तोट कवृचान्युच्ारयनदे शिकवरंप्रत्यागतवान्। नवसुधामाधुरीधुरीणंतद्वाक्यसन्दर्भनिशम्य

Page 6

पद्मपादममुखाः सतीर्थवर्याःगर्वपरित्यज्य सविस्मयावभूवुः । तस्माद्ुरुप्रसादलभ्यो Sयंग्रन्थ:वेदान्तसिद्धांतप्रकाशकः श्रुतीनांसारार्थप्रकाशकत्वाच्च श्रुतिसारसमुद्धरण

सटीकंसंशोध्यमुंबापुयाजगदी-वरमुद्रालयेमुद्रा पितवन्तइ तिसर्वमनवद्यम्।। यहग्रंथ सन १८६७ का २९ कायदामूजव प्रसिद्धकर्तानें रजिष्टरकरायाहै और इसग्रंथके सबहक्क ग्रंथप्रसिद्धकर्तानें आपनेतावेमैं रखेहैं. यहपुस्तक और हरिमीडे हरितत्त्वमुक्तावलीनामटीकासहित मुकाममुंबईमारवा- डीबाजारका लिकादेवीकेरस्तेपर ज्येष्ठाराममुकुंदजीकीदुकानपर और हरिपसादभ- गीरथकीटुकानपर मिलेगा कींमत सटीकहरिमीडेकी॥= इसतोटककी॥= देशान्तर वासियोंको एकएकआनाभाडेकादेनापडेगा जिसदेशांतरवासिनें यहपुस्तक मंगावनेहोवें एककारडपर आपनापत्ताठिकाणा लिखकर मुंबईमें पूर्व लिखीदुकानोपर वाजगदीश्रवर छापेखानेके मालकको भेजकर वेल्युपेबलपारसलसेंमंगायलेवे डाकवाला उसकोआपने ठिकाणेपर पुगायदेवेगा हरिमीडेकीटीकाकापंद्रहआना तोटकका ग्यारहआनालेलेवेगा.

Page 7

श्रीगणेशायनमः ॥ विलसच्चितिवलतःस्फुरदखिलस्वकतमसा परिनिर्मितविपुल द्वयपिहितस्वकमहिमा ॥ व्यवहारिकवपुषाविधिवचनादिकविषयो मममानसनिलयो हरिरवताज्जगदखिलम् ॥ १ ॥ श्रीकृष्णंपत्यगात्मानंभक्तयानत्वागुरूनपि ॥ टीका महंकरिष्यामितोटक श्लोकगामिनीम् ॥२। त्रैलोक्यनाथहरिमित्यादिना SSद्यक्लोके

संबद्धंशास्त्रकार्यांतरेस्थितम्। आहुःप्रकरणं नामग्रंथभेदंविपश्चित" इतिस्मरणात्। ए कप्रयोजनंप्र तिनिबद्धार्थजातस्यकात्स्न्येनप्रतिपादको ग्रंथ:शास्त्र मिति हिशास्त्रलक्षणम्।

कासाधारणन्यायमात्रप्रतिपादकत्वात्। समन्वयाविरोधसाधनफलार्थचतुष्टयप्रतिपा दकत्वेसत्य पितथाशास्त्रकार्यांतरावस्थितत्वमप्यस्यास्त्येव। अनेनशास्त्रार्थस्यसंक्षेपतः

किमनेनविषयसंबंधप्रयोजनपृथगुपन्यासग्रयासेन। सत्यमेतत्। तथापिश्रोतृणांप्रवृत्त्यं

Page 8

तो० व्यइत्याशंकापदर्श्यते। ननुनेदंप्रकरणमारब्धव्यंविषयसंबंवप्रयाजनाभावात्। तदभा टी० वश्च ब्रह्मणःप्रसिद्धत्वेSप्रसिद्धत्वेचतदसंभवात्। तथाहि। यदिब्रह्मवेदांतशास्त्रमंतरेणा १ न्यतःप्रसिद्धं तदानास्यविषयः। योहियेनैवावगम्यतेसतस्यविषयोभवति। यथाचक्षुरा दीनांरूपादयः। अनन्यसाधारणोहिविषयइति। अथब्रह्मप्रमाणांतरेणाप्रसिद्धं तथास तिनत द्रगनकुसुमादिवच्छास्त्रेणपतिपाद यितुंशक्यं। तथाहि। यत्कदाचिदपिबुद्धावस सहसंबंधाभावः । अयोगव्यवच्छेदोहिसंबंधः । योहियेनावगम्यतएवनान्येनावगम्य तेतस्यतेनसंबंधोभवति। यथाव्याकरणेनशब्दसाधुत्वमवगम्यतएवेतितेनतस्यसंबंधः। नचैवंवेदातशास्त्रेणब्रह्मावगम्यतएव। तस्यात्यंताप्रसिद्धेः अशक्यप्रतिपादनत्वात्। तस्मादप्रसिद्धत्वेसंबंधाभावः । विषयसंबंधाभावेचप्रयोजनाभावःपसिद्धएवभवति त स्यतन्नियतत्वादिति। अत्रोच्यते स्यादयमुपालंभः यद्येकांततोब्रह्मणःप्रसिद्धचम सिद्धीस्यातां। नतुतेस्तः । तथादि। ब्रह्मादिपदेभ्योलोकतश्चब्रह्मणः प्रसिद्धत्वात्ना त्यंतमप्रसिद्धिरस्ति। ब्रह्मशब्दोहिबृहत्पदार्थान्वयेवर्तमानोदेशतःकालतोवस्तुतश्वानव १ च्छिन्नवस्तुव्यवस्थापयत्येव । तथालोकेप्यहमितिप्रत्यगात्मप्रसिद्धेः। तस्यचपरमार्थ तोब्रह्मत्वान्नैकांततोSप्रसिद्धिर्ब्रह्मणः । नाप्येकांततःप्रसिद्धिः प्रमाणतोSप्रसिद्धेः।

Page 9

तो० च्यते सएववेदातवाक्योत्थबुद्धिवृत्तिफ लकोपारूढचैतन्याहरणाद्धरिरित्युच्यते । क टी० स्यहरणाद्धरिरित्युच्यतेइत्यपेक्षायां तस्यैवाज्ञानस्येत्यर्थाल्लभ्यते । ततश्चत्रैलोक्यमन र्थः तद्धेतुरात्माज्ञानं पुरुषार्थोऽज्ञाननिवृत्तिस्तद्वेतुरात्मज्ञानमित्यनर्थतद्वेतुपुरुषार्थतद्धे तवः सूचिताभवंतीतिलाभांतरमिति । ईड्यंस्तुत्यं प्रतिपाद्यमितिवेदांतशास्त्रस्यप्र त्यगात्मनाप्रतिपाद्यप्रतिपादकलक्षण:संबंधो विषयश्चानन्यसाधारणतयानिर्दिष्टोभवति । एवमस्यश्लोकस्यप्करणारंभापेक्षितविषयसंबंध प्रयोजनकथनतात्पर्यमुपवर्णितं। इदा नीमक्षरयोजना। त्रैलोक्यनाथहरिंप्रणतोस्मीतिसंबंधः क्थभूतमितिविशेषणाकांक्षा यामन्यत्सर्वंसंबध्यते । ईड्यंस्तुत्यंवेदांतैरेव प्रतिपाद्यमित्यन्ययोगव्यवच्छेदेनविषय निर्देशः। तथावेदांतैःप्रतिपाद्यमेवेत्ययोगव्यच्छेदेन संबंधनिर्देशोप्यत्रैवद्रष्टव्यः । उदार

करणपरिणामरूपंज्ञानंभवतीतिसत्वशब्देनेहलक्षणयाज्ञानंलक्ष्यते । तच्चांतःकरणपरि णामरूपंज्ञानंसत्वकार्यं स्वरूपज्ञानव्याप्तंभवतीतिसत्वशब्दनलक्षितलक्षणान्यायेनस्व रूपज्ञानंलक्ष्यते तेनोदारसत्वंउदारचैतन्यमित्यर्थः तदस्येतिव्यपदेशिवद्रावेनबहुत्री २ हिः तमुदारसत्वं। शक्तेस्तनूजतनयं शक्तिर्मायाशक्तिस्तत्कार्यमेवास्यकार्यमितितत्त नूजतनयंपरमेष्टिकल्पं परमेष्ठिनंहिरण्यगर्भकल्पयतिसृजती तिपरमेष्ठिकल्पःविरंचिग्रमु

Page 10

नहिपदतोल्लोकतश्चप्रसिद्धिः प्रमाणतःप्रसिद्धिर्मवति। पदस्यस्मारकत्वात् लोकाख्यस सिद्धयभावाच्चसंबंधोपपत्तिः। विषयसंबंधोपप त्तश्वमयोजनोपपत्तिरितितदेतदाह। त्रै लोक्यनाथेति। तत्रत्रैलोक्यमित्याकाशादिमपंचोविवक्ष्यतेछत्रिन्यायेन। तस्यनाथः

दज्ञाननिवृत्तिःप्रकरणस्यप्रयोजनभित्युक्तंभवति। ननु "हरतेर्द्ृतिनाथयोःपशा " वि أفا ما وربر त्रैलोक्यना थहरिमी ड्यमुदारसत्वं

त्रैलोक्यनाथंहरतीतिव्याख्यानमसद्व्याख्यानम्।। तन्नकेचिदाहुः "चतुष्पादष्टाशफंषो डशकलंब्रह्मे "तिश्रुतेः परमात्मनोपिपुरुषस्यपशुत्वरूपकल्पनयापशुत्वोपपत्तेः।न्ै लोक्यनाथंहरतीतिव्युत्पत्त्यात्रैलोक्यनाथहरिरितिनिर्देशोभवत्येवेति। तद्युक्तमित्यन्ये क्विष्टकल्पनापरसंगात् । तस्मात्रैलोक्थनाथश्चासौहरिश्वेतिसमासः स्वाज्ञानप्रतिबिंबि तकूटस्थचैतन्यःपरमात्मान्नैलोक्यनाथः तस्यकारणत्वानियंतृत्वाच्चन्ैलोक्यनाथइत्यु

Page 11

खानामपिकारणत्वेनसर्वात्कृष्टमित्यर्थः। यदिसर्वकारणत्वेनसर्वोत्कृष्टत्त्वमुच्यते तर्हि

क्ंचतद्विमलांबरंचेति जीमूतमुक्तविमलांबरं तद्वचारुशोभनंवर्णस्वरूपमस्येतिजीमूत मुक्तविमलांबरचारुवर्णस्तं । यथाचांबरंमेघादौसत्यसतिचनिरवयवत्वादसंगंनिष्क्रि यंच तद्वदयमपिनिष्क्रियोनिःसंगश्चेत्यर्थः। ननु "तत्सृक्वतदेवानुपराविशत्। नान्योतो शक्तेस्तनूजतनयंपरमेष्ठिकल्पम् ॥ जीमूतमुक्तविमलांबरचारुवर्ण स्तिद्रष्टा। तत्त्वमसी" त्यादिश्रतेर्जीवपरयोरभेदश्रवणात् जीवात्मनश्चकर्तृत्वभोकतृत्वा धिनिबंधनत्वान्मैवमित्याह। वासिष्ठमिति । वसत्यस्मिन्नितिवासःशरीरंवासोस्यास्ती तिवासीशरीरीजीवस्तंनियंतृत्वेनाविद्यावस्थायांतिष्ठतीतिवासिष्ठःतं भ्रामकमणिवत्स त्निधिमात्रेणसकलकार्य कारणसंघात प्रवर्चकत्वात् निर्विकार त्वमुपपन्नमित्यर्थः । उदार सत्वमित्यत्रसूचितविज्ञानवनत्वंस्पष्टयति । उग्रतपसमिति । उग्रमुल्बणंअप्रसह्यंतपो

Page 12

सो० ज्ञानमस्येत्युग्रतपाः "यस्पज्ञानमयंतप"इतिमुंडकश्ततेः तंप्रज्ञानघनमित्यर्थः। एवंभूतं टी० त्रैलोक्यनाथहरिंनित्यंप्रणतोस्मीतिदेवतानमस्कारपक्षेयोजना। गुरुनमस्कारमात्रेत्वय ३ ग्भूवंत्रैलोक्यनाथहारें। "व्यासोनारायण:साक्षाच्छंकर:शंकरःस्वय" मितिपुराणप्रसि

वासिष्ठमुग्रतपसंप्रणतोस्मिनित्यम् ॥१॥

द्वत्त्वात्रैलोक्यनाथहरिर्व्यासस्तमुदारसत्वंसत्वगुणविशिष्टं उग्रतपसं उग्रमुल्बणंतपः पर्या लोचनमस्येत्युग्रतपास्तंसर्वज्ञमित्यर्थः । शक्तेस्तनूजस्यपराशरस्यतनयं परमेष्ठिकल्पं ३ परमेष्ठिसमानं जीमूतमुक्तविमलांबरचारुवर्ण श्यामतनुमित्यर्थः । अथवात्रैलोक्यनाथ हरिमीड्यंग्रणतोस्मीतिदेवतानमस्कारः । शिष्टेन गुरुनमस्कारइतिकेचित् ॥१॥

Page 13

एवमाद्यश्लोकेन प्रकरणारंभापेक्षितविषयसंबंध प्रयोजनान्यभिधायेदानीं "परीक्ष्यलो कान्कर्मचितान्बराह्मणोनिर्वेद मायान्नास्त्यकृतःकृते नतद्विज्ञानार्थस गुरुमेवाभिगच्छेत्स मित्पाणिःश्रोत्रियंब्रह्मनिष्ठम्। तस्मैसविद्वानुपसन्नायसम्यक्प्रशांतचित्तायशमान्विता

त्यानित्यविवेकादिसाधनचतुष्टपसंपन्नं ब्रह्मविद्याधिकारिणंसाधयति। सकलमिति।

सकलंमनसाक्रिययाजनितंसमवेक्ष्यविनाशितयातुजगत्।

क्रिययाजनितं चतुर्विधेनकर्मणापिसाधितंजगत्सकलं मनसाविनाशितयासमवेक्ष्य कर्मसाध्यंसकलंक्षणिकमितिनिश्चित्य कश्चित्सुकृतीपुमान् अखिलादाविरंच्यात्पपंचा त्निरविद्यतनिर्वेदगतवान्। कुतःकारणान्निवेदंगतवानित्यत्राह। अविनाशीति कृते नानुष्ठितेनकर्मणा अविनाशि विताशरहितंफलंनलभ्यमितियस्मात्तस्मात्कारणात्कर्म

Page 14

तो० साधनसाध्यात्सर्वस्माद्विर क्तोSधिकारीकिं कृतवानित्याशंकायामाह। प्रतिपित्सुरिति टी०

४ कारी यतिधर्मरतःसंन्यासिनांधर्मेषुरतःसन् विदितात्मसतत्वं विदितमात्मनःसतत्वं स्वरूपंयेन तं यति यत्नशीलंक्रोधादिरहितं कविंक्रांतदर्शिनंसर्वज्ञगुरुमुपत्य गुरुसमी

विदितात्मसतत्वमुपेत्यकविंप्रणिपत्यनिवेदितवान्स्वमतम् ॥३।।

कृपयाशरणागतमुद्दरमामनुशाध्युपसन्नमनन्यगतिम्॥४॥ पंगत्वाप्रणिपत्य स्वमतंनिवेदितवान्स्वाभिपायंविज्ञापितवानित्यर्थः ॥ ३॥ किंपुन स्तत्स्वमतमित्याकांक्षायांस्वमतंदर्शयति। भगवन्निति । हेभगवन्षङ्गणैशवर्यसंपन्न ४ मृतिजन्मजलेमुखदुःखझषेसंसारोदधौपतितंअतएवव्यथितं दुःखितं अनन्यगतिंशरणा ग

Page 15

एवंशिष्याभिप्रायश्रुतवान्गुरुरिदानीतमनुशास्ति । विनिवर्त्पेति । विषयेरतिंविनि

योनिमाप्तिहेतुभूतां विषयेरतिंत्यत्त्का शरीरनिबद्धमतिंपरिमुच्यदेहादिष्वात्मबुद्धिंपरि त्यज्य तदनंतरं परमात्मपदेनित्यरतोभव अनवरतंप्रत्यक्परवणोभूत्वाश्रवणादिनिष्ठो भवेत्यर्थः । ननुकेनसाधनेनमिथ्याज्ञानस्यपरिमोचनमितितत्राह । आत्ममतेरिति

परमात्मपदेअवनित्यरताजहिमाहमयंभ्रममात्ममतेः॥ ५॥ विसृजान्नमयादिषुपंचसुतामहमस्मिममेतिमतिसततम् । दृशिरूपमनंतमृतंविगुणंहृदयस्थमवेहिसदाहमिति ॥ ६ ॥ आत्मज्ञानेन मोहमयं अविद्याकार्यं भ्रमं देहेंद्रियादिष्वात्मबुद्धिंजहीत्यर्थः ॥ ५ ॥ यथोक्तमेवार्थप्रकटयति । विसृजेति। अन्नमयादिषु अन्नमयप्ाणमयमनोमयविज्ञा नमयानंदमयेषुपंचसुकोशेषुआत्मनःपरिछिन्नत्वहेतुभूतेषु अहंममेतिमतिंसत तंविसृज अन्नमयादिषुआत्मबुद्धिंआत्मीयबुद्धिंचपरित्यज पश्चाद्टशिरूपं ज्ञानस्वरूपं अनंतं देश तःकालतोवस्तुतश्चानवच्छिनं ऋतंसत्यमबाध्यं विगुणंगुणन्रयातीतं तदेवहृदयस्थं

Page 16

तो० बुद्धिसाक्षितयास्थितंयद्रह्म तदेवाहमस्मीतिअवेहिजानीहि "सत्यंज्ञानमनंतंब्रह्म। आनं टी० दोब्रह्मेतिव्यजानात् । आनंदआत्मा । अयमात्माब्रह्म । साक्षीचेताकेवलोनिर्गु णश्च " इत्यादिश्रुतिभिरहमेवब्रह्मेत्यवगच्छेत्यर्थः ॥ ६ ॥ ननुदृशिरूपमनंतमिति ब्रह्मणो यदानंत्यमुक्तंतदनुपपन्नं । ब्रह्मणआत्मत्वादात्मनश्चप्तिशरीरंजन्ममरणप्रति यमादिलिंगस्यव्यधिकरणासिद्धत्वमागमविरुद्धतांचाभिप्रेत्य लोकप्सिद्धभेदस्यभ्रां जलभेदकृताबहुतेवरवेर्घटिकादिकृतानभसोपियथा।

तिमात्रत्वंदृष्टांतद्वयेनोपपादयति । जलभेदकृतेति। एकस्यापिरवेःसूर्यस्य यथाजल भेदकृताबहुताअनेकता यथाचनभसोपिघटिकादिकृताबहुता घटाकाशोमठाकाशइति घटाद्युपाधिकृतमनेकत्वं तथासदाSविकृतस्य सर्वदाएकरूपस्य बुद्धिदृशो बुद्धिसाक्षि ५ कोदेव:सर्वभूतेषुगूढःसर्वव्यापी सर्वभूतांतरात्मा । कर्माव्यक्ष:सर्वभूताधिवासःसाक्षीचे ताकेवलोनिर्गुणश्च। एकःसन्बदुधाविचचार। एकंसंतबहुधाकल्पयंति। एकधैवानुद्रष्ट

Page 17

व्यं। नेहनानास्तिर्किंचन । एकमेवाद्वितीयम् । एकएवहिभूतात्माभूतेभूतेव्यवस्थितः। एकधाबहुधाचैवदृश्यतेजलचंद्रवत् ।। अविभक्तंचभूतेषुविभक्तमिवचस्थित" मिति थाप्यात्मनःसंसारित्वात्कथमात्मनोव्रह्मत्वमित्याशंक्य अशेषसंसारधर्मविशिष्टांतः

दिनकृत्प्रभयासदृशेनसदाजनचित्तरतंसकलंस्वचिता। विदितंभवताSविकृतेनसदायतएवमतोSसितएवसदा॥।८।।

करणोपाधिनिबंधनत्वादात्मासंसारिवद्गाति परमार्थतोSसंसार्येवात्मेत्याह। दिनकृत्म नाविकृतेनभवता सकलंजनचित्तरतंसकलप्राणिनांधीचरितंसदाविदितंप्रकाशितमिति यतस्ततः कारणात्सदाकालत्रयेपि असितएव अविकारी षिञ्बंधनेइतिधातुः असं सार्येव सितोनभवतीत्यसितः बंधरहितइत्यर्थः ॥८॥

Page 18

सो० ननुयद्यात्माअविकृतःपरिणामीनभवति । कस्तर्हिअस्मिन्शरीरेपरिणामी । मति टी० रवपरिणामिनीनात्मेतितत्कस्मादित्यत्राह। उपरागमिति । अथवायद्यात्मा स्वप्रक शस्वरूपत्वात्स्वविषयरागादिप्रकाशनायनपरिणमते। तथाबुद्धिरपिप्रकाशस्वभाव ति। पदार्थांतरस्यपदार्थांतराकारभजनमुपरागः। सचकचित्ज्ञेयस्यज्ञेयांतरेणभव तियथास्फटिकस्यजपाकुसुमेन। क चिज्ज्ञातुर्ज्ेयेनोपरागोभवतियथासाक्षिणःसाक्ष्यण। / उपरागमपेक्ष्यमतिर्विषयैर्विषयावधृतिंकुरुतेतुयतः। ततएवमतेर्विदिताविदिता विषयास्तुततःपरिणामवती।९॥ बुद्धेर्वाबोद्धव्यार्थजातेन। तत्रनसाक्षिणः साक्ष्योपरागापेक्षया साक्ष्यसाध कत्वं किंतर्हि साक्ष्योपरागएवसाक्षिण स्तत्साधकत्वंस्वयंप्रकाशत्वा द्ुद्वेस्तुनबोद्धव्योपरागएवतत्साध

बुद्धेर्बोद्धव्योपरागः क्रमेणैवकतिपयैरेवचविषयैर्भवति। सचतत्क्रमवत्कतिपयविषयो पलब्धिकार्योन्नेयः सचक्रमवत्कतिपयोपरागोबुद्धेःक्रमवत्परिणाममंतरेणनघटते एवं सतिमतिःक्रमेणविषयैरुपरागमपेक्ष्यविषयाकारपरिणाममपेक्ष्य। विषयावधृतिकुरुते

Page 19

विषयनिश्चयंकरोति । ततएवमतेविषयाः केचनविदिताः केचनाविदिताः।यतएवमतः कारणान्मतिरेवपरिणामवतीनात्मापरिणामीत्यर्थः॥९ ॥ ननुबुद्धिवदात्मनोपिक्र मद्रष्टृत्वीलगेनस्वविषय बुद्धयादिप्रकाशनाय क्रमेणपरिणामोनुमीयतामित्याशंक्यबुद्धि तहटत्तीनामपर्यायक्रमेणात्मप्रकाश्यत्वान्मैवमित्याह। मतिवृत्तयइति। आत्मचिता सर्वा

यदिचात्मचितिःपरिणामवतीमतयोविदिताविदिता:स्युरिमा:१० चरितंतुधियःसकलंसततंविदितंभवतापरिशुद्धचिता। मतिभेदगुणोनहितेस्तिततीयतएवमतोऽसदृशस्तुधिया ११ नभवतीत्यर्थः । आत्मन:परिणामांगीकारेदोषमाह । यदिचात्मचितिरिति । आत्मचि तिःपरिणामवतीयदिचिदरूपआत्मापरिणामी तर्हिमतयोविदिताविदिताःस्यु:ज्ञाताज्ञाता

षोऽस्माकंतथैवोपलंभादितितत्राह। चरितमिति। धियोबुद्धेश्वरितंसकलंसततंवि

Page 20

सो० दितमितियतस्ततः कारणादिदंतवचोद्यंनिर्युक्तिकमित्यर्थः। सकलस्यापिधीचरितस्या त्मप्रकाश्यत्वेनात्मनो Sपरिणामित्वेसिद्धे बुध्यात्मनोःपरिणामित्वापरिणामित्वेनवैलक्ष टी०

७ ण्यंसिद्धमित्याह। मतिभेदेति। चिदात्मनानिखिलंधीचरितंसततंविदितमितियतस्त तएवबुद्धिद्ृशस्ते मतिभेदगुणोनास्ति मतिभेदस्यगुणः परिणामोनास्तियतस्ततस्त्वं तयाSसदृशो बुद्धयासमोनभवसिबुद्धेःपरिणामित्वादात्माबुद्धिविलक्षणइत्यर्थः ॥११। ननुबुद्धिविलक्षणआत्मेत्येतदयुक्तं बुद्धेरेवचग्राह्यग्राहकत्वसंभवात्। बुद्धिसाक्षिक विदितत्वमविप्रतिपन्नतयामतिषुप्रगतंविषयेषुयथा। यतएवमतःपरसंविदिताविदितत्वतएवयथाविषयाः ॥१२॥ श्िदात्माबुद्धिविलक्षणोना स्तीतिबुद्धमतानुसारिभिरंगीकारादित्यत्राह। विदितत्वमि ति। सौत्रांतिकवैभाषिकयोगाचारमाध्य मिकानांबौद्धानांमव्येसौत्रां तिकेन ग्रा ह्यग्राहक संवित्तिर्भेदव तीवलक्ष्यते इत्य स्मिन्बुद्धवाक्येबुद्धेग्राह्यग्राह कत्वांगीकारादविप्रतिपन्न तया विप्रतिपत्तिरहिततयाम तिषुविदितत्वंदृश्य त्वंप्रगतंपरसिद्धतरं । विषयेषुयथायद्वद्वटा ७

वादिसंप्रतिपन्नम्। ततःकिंफलमित्यत्राह। यतएवमिति। यस्मादेवंमतेर्द्दश्यत्वमुभयवा

Page 21

विदितत्वतएवेति। विदितत्वतएवदृश्यत्वादेव । अत्रदृष्टांतमाह । यथाविषयाइति । स्वव्यतिरिक्तेनसाक्षिणाबुद्धयोविदिताभवितुमह तिवेद्यत्वात्घटवदित्यर्थः ॥१२॥ तर्हिमतयः स्वसंवेद्याःपरसंवेद्याश्चभवंतु विरोधाभावादित्याशंक्याह । परेति। यथा अमीघटादयोविषयाः सततंपरसंविदिताः स्वव्यतिरिक्तेनविज्ञाताः संतः स्वंनविदुः । परसंविदिता:सततंहियतोनविदु:स्वममीविषयास्तुततः । मतयोपितथापरसंविदितानविदु:स्वममूर्विषयास्तुयथा१३ विषयाकृतिसंस्थितिरेकविधामनसस्तुसदाव्यवहारविधौ।

तथा अमू: मतयोपिपरसंविदिता: स्वंनविदुः स्वशव्देनमतयउच्यंतेस्वंनप्रकाशयंति एकस्यकर्मकतृभावविरोधात् यथाघठादयोविषयाइत्यर्थः । बुद्धितद्टृत्तीनांचघटादि वद्वेद्यत्वादन्यस्यवे दितुरवश्य मंगकर्तव्य त्वाद्ु द्विसाक्षिणंदद शि स्वरुपंअनंता मृ तत्विगुणं हृदयस्थंत्रह्माहमस्मीत्यवेहीतिपूर्वेणसंबंधः ॥ १३ ॥। ननुनिर्गुणंब्रह्मेत्ययुक्तं ब्रह्मण श्रात्मत्वादात्मनश्चाहं कार गुण कत्वादित्याशंक्याहंकारस्यबुद्धिपरिणामत्वान्मैवमिति प्र

Page 22

तो० टी० विधावृत्तिः । तत्रैकविधाविषयाकृतिसंस्थितिः विषयाकारेणदृश्याकारेणसंस्थितिरे ८ क,वधेत्यर्थः। अपरातद्विषया दृश्यघटादि विषयाघटमहमद्राक्षमित्येवमाकाराद्रष्टकारे

मतिवृत्तिरवमतिधर्मएवन त्वात्मधर्मइत्यर्थः ॥१४॥ तर्ह्वऽहंकारस्यात्मधर्मत्वेनप्रति पुरुषस्यतुधर्मवदुद्गवतिस्वरसेनमतेःस्वगुणोपियतः ।

यदिसानभवेज्जनमोहकरीव्यव हारमिमंनजनोनुभवेत्। विफलश्रतदाविषयानुअवोज्ञगुणोनहिसेतियदाविदिता॥१६।। भानंकथमित्याशंकायामध्यासादित्याह। पुरुषेति । अहंवृत्तिः स्वरसेनमतेः स्वगुणो

रीदेवानामपिव्यामोहकरीसाचाहंवृत्तिर्नभवेद्यदि तर्हिअहंकरोमिअहंजानामिइत्यादि

Page 23

कमिमंव्यवहारंजनोनानुभवेत् तस्मादSहंकारस्यापलापोनयुक्तइत्यर्थः । तर्हिव्यवहा रसिद्धचर्थमहंवृत्तिर्भवतु तस्याआत्मगुणत्वप्रतिभानंतुमाभूदात्मनःपरमार्थतोनिर्गुणत्वा

गुणोनेतिविदिता अध्यासमुखेनाहंवृत्तेरात्मधर्मत्वंयदानाभ्युपगम्यतेतदाविषयानुभवो विफलोभवेत्। एतदुक्ततंभवति।"आत्मनस्तुकामायसर्वप्रियंभवति। पिप्पलंस्वाद्वत्ति।

त्। तस्माद्वचवहारावस्थायांअध्यासमुखेनाहंकार स्यात्मधर्मत्वमभ्युपगंतव्यमितिभावः। ॥१६॥ विपक्षेदोषमुदीरयन्यथोक्तमेवार्थप्रपंचयत्युत्तरश्लोकद्वयेन । उपलभ्येति । म नसः संस्थितिरेकविधाविषयाकारवृत्तिरेवभवेत्यदि किंचघटादिनिभांमतिवृत्तिमपेक्ष्य

بحرية

Page 24

वो० ननुतथाSस्तुकानोहानिरित्यत्राह।अवगंत्रेति। अवगंत्र Sवगम्यचिदात्मवयोर्द्रष्टृदृश्यभा टी० वेनावस्थितयोश्चिदात्मधियोरहमित्यभिमानविहीनतयास्थितयोः सतोः अहमितिद्र् ९ कारपरिणामरहिततयास्थितयोरहंजानामिअहंकरोमीत्यभिमानपुरःसरकं व्यवहारपथं व्यवहारमार्गजनोनावतरेत्। अयंभावः । मतिवृत्तिर्द्विविधाद्रष्टराकारादृश्याकाराच तत्रचक्षुरादींद्रिय द्वारेणबुद्धेर्घटाद्यर्थै: सहसंबंधेसतिबुद्धिर्द् श्याकरारा पा रि ण मते । किं "अवगंत्रवगम्यचिदात्मधियोरहमित्यभिमानविहीनतया।

अहमीक्षइतिप्रथमंहिधियासुविचिंत्यततोविषयाभिमुखम्।

बुद्धौचिदात्मनः प्रतिबिंबितत्वाच्चिदाकारामरिणमतेतदाकार बुद्धिर्द्रष्टेत्युच्यते एवंसतिबु द्विसाक्षित्वेनबुद्धौप्रतिबिं बितात्मनिद्रष्ट्राकार परिणामस्यअध्यस्तत्वादात्माSपिद्रष्ट्राका रइवभवतितेन हेतुनाआत्मनोहंकरोम्यहंभोक्ष्यइत्यादिव्यवहारोप्यस्तीवभाति। नतुनि ९ रवयवस्यचिन्मात्रस्यात्मनः स्वतोव्यवहारोस्तीतिभावः ॥ १८ ॥ अहंकारपुरः सरो

Page 25

मिजिघ्रामीतिधियासुविचिंत्यसंकल्प्य ततःसंकल्पानंतरंनयनंस्वविषयंग्रतिप्राहणोति प्रेरयतितथान्यच्छूवणादिकमपिवियत्पमुख स्याकाशपमुख स्यगुणेशब्दादौप्रहिणोतिये रयतीत्यर्थः ॥१९। स्वानुभवग्रमाणसिद्धमर्थसंक्षिप्यकथयन्उपपादितमर्थमुपसंहरति। अपहायेति। लोकेकश्चिदपिजनः कदाचिदहंकरणमपहायपरित्यज्यव्यवहारंस्नानभो जनादिकंनोपैतीतियतस्ततः कारणान्मतेरहंवृत्तेर्वर्यवहारपथंगतिकारणतोपपन्नतरा सु

उपपन्नतराहिमतेस्तुततोव्यवहारपथंप्रतिकारणता २० चितिशक्तिगुणः किमहंकरणंकिसुबुद्धिगुणोऽथभवेदुभयोः। इतिचिंत्यमिदंमनसानलसैरुपपत्तिभिरात्महितंयतिभिः २१ तरामेवोपपन्नेत्यर्थः ॥ २० ॥ व्यवहारांगत्वेनाहंकारंप्रसाध्येदानींतस्यात्मधर्मत्वमुता

अहंकरणं चितिशक्तिगुणः किं।चिद्रूपस्यात्मनोगुणःकिं। किमुबुद्धेर्गुणः। अथवाबुद्धया

विचार्य । किमर्थमात्महितंआत्मनोहितायमोक्षायेत्यर्थः ॥ २१॥

Page 26

तो० उपपत्ति भिर्विचार्यमाणेकियुक्तमित्यार्काक्षायामात्मगुणत्वमयुक्तमित्याह। उपलभ्येति। अहंकरणंपुरुषस्यगुणोय दिभवेत्तर्हितदहंकरणंपुरुषेणोपलभ्यंनभवेत् आत्मनाप्रकाश्यं टी०

१० नभवेत् । तत्रहेतुमाह । गुणिरूपमिति । गुणः धर्मः गुणिरूपं गुणिस्वरूपंगुणिनो वयवंवाविहायगुणिनः सकाशात्पृथग्नतिष्ठति। यथापटगतंशौक्ल्यंपटंतदवयवभूतंतंतुं वाविहायपृथग्रतिष्ठति। तद्वदहंकारोपिआत्मगुणश्चेदात्मनःसकाशात्पृथङ्नतिष्ठति त

गुणिरूपमथावयवंगुणिनोनविहायगण:पृथगस्तियतः २२ नगुणोगुणिनिस्थितवान्गुणिनाविषयीक्रियतेनचतस्यगुणैः। नहिदेशकृतानचवस्तुकृतागुणिनोस्तिगुणस्यमिदातुयतः २३ थासतितयोरभेदात्पकाश्यप्रकाशकभावोनघटतइतिभावः ॥२२ ॥तर्हिगुणिन्येवस्थि तःसन्गुणोगुणिनातद्ुणैवापकाश्यतामित्यत्राह। नगुणेति । गुणिनिस्थितवान्गुणो गुणिनातस्यगुणैर्वानविषयीक्रिय तेनप्रकाश्यते अहंकाराख्यगुणोज्ञानगुणेननप्रकाश्यत १० इत्यर्थः । कुतः कारणाद्ुणिनागुणोनप्रकाश्यतइत्यत्राह। नहीति। गुणस्याहंकारग णस्यगुणिनआत्मनः सकाशाद्देशकृताभिदानास्त्यात्मनःसर्वगतत्वात्तथावस्तुकृताSपि

Page 27

भेदस्यधर्मिप्रतियो गिसापेक्षत्वाद्घटात्पटस्यभेद इतिधर्मिपतियोगिनोश्वभेदसापेक्षत्वाद न्योन्याश्रयादिदोषप्रसंगात्कस्यापिभेदोदुर्निरूपइतिभावः॥२३॥ ज्ञानगुणेनाहंकारो नप्रकाश्यतइत्यत्रहेतुमाह । नपरस्परमिति । अग्निगतोऽभ्निगुणःपरस्परमSन्योन्यंप काशाख्येनगुणेन उष्णगुणोवाउष्णगुणेनप्रकाश गुणोवाकदाचिद पिविषयत्वंनोपैति।य

नहिवन्हिरपिस्वगुणंस्वगतंविषयीकुरुतेस्वगुणेनभुवि २४ कणभुग्यमची क्ृपदात्मगुणं गुण पूगमनित्यमनात्मगुणम्। الى اددارل अनयैवदिशासनिराक्रियतांनहिनित्यमनित्यगुणेनगुणि २५ दिअग्निगतोग्निगुणः परस्परंप्रकाश्यप्रकाशकभावंनोपैति। तर्हिवन्हिंस्वयमेवस्वगतेन गुणेनगुणांतरंप्रकाशयत्वित्यत्राह। नहीति। भुविभूमौवन्हिरपिस्वगतंगुणंस्वगतेन प्रकाशा ख्येन गुणेननविषयीकुरुतेनप्रकाशयतिअदृष्टत्वात्त स्मादुणिनानगुणस्यवेद्यत्वं। अथवागुणिनोगुणैर्वावेद्यत्वंनसंभवतीत्यर्थः ॥२४॥ अहंकारस्यात्मगुणत्वेतस्यात्म नाप्रकाश्य त्वायोगादहंकारआत्मगुणोनभवतीत्युक्तं।तन्नेदमाशंकते। बुद्धिसुखदुःखेच्छा

Page 28

तो० टी० इत्यत्राह। कणभुगिति। परमार्थतोSनात्मगुणमनात्मनोबुद्धेगुणमनित्यंयावद्रव्यभा ११ विनंयंगुणपूगंगुणसमूहं कणभुकू कणादआत्मगुणमचीक्कपत्आत्मगुणत्वेनकल्पितवान्। सगुणपूग: अनयैव दिशासम्यकूनिराक्रियतां। यथाहंकारस्यात्मगुणत्वेत स्यात्मनापका

श्यत्वंनघटतइत्यनयादिशानिराक्रियतामित्यर्थः। किंचबुद्धयादेरनित्यत्वादपिनित्या वियतःप्रअवंगवदंतियतःश्रुतयोबहुशः खमनित्यमतः। उपमानमनित्यगुणंवियतोनहिनित्यमिहास्तिकणादकृते २६ त्मगुणत्वंनघटतइतिहेत्वंतरमाह। नहीति। नित्यमात्मवस्तुअनित्येनबुद्धयादिगुणेन गुणिनभवतीत्यर्थः ॥ २५ ॥ ननुनित्यस्याकाशस्यानित्येनशब्दगुणेनगुणित्वंदृष्टंतद्व दन्नापिभविष्यतीत्याशंक्याह। वियतइति। "तस्मादवाएतस्मादात्मनआकाशः संभूतः। नाभ्याआसीदंतरिक्षं" इत्याद्याःश्रुतयो बहुशोबहुवारंवियतआकाशस्यमभवमुत्पत्तिंप ११ वदंति यतोतःकारणात्खमाकाशमनित्यं अतःकारणादाकाशदष्टांतेनात्मनःअनित्य

Page 29

त्यद्रव्यमात्मनोऽनित्यगुणेनगुणित्वे दष्टातभूतंवशेषिकसमयेकिंचित्मसिद्धमस्तीत्याशं क्यपरिहरति। उपमानमिति। इहकणादकृतेकणादसिद्धांतेवियतोSन्यदनित्यगुणंक्षणि

त्यर्थः ॥२६॥ ननुयदिनित्यस्यानित्यगुणसंभवोनास्ति। तर्हिकथमात्ममनसोर्नभोमुस लयोमूर्त्तामू चयोरेवसंयोगाख्योगुण:इतिचेन्मैवं तस्याम्रसिद्धेरित्याह। मनसेति।।२७।। मनसापुरुष:पुरुषेणमनोनभसामुसलंमुसलेननअः ।

इहरज्जुघटादिहिसावयवंसमुपैतियुजामितरेतरतः। इतिदृष्टमतोन्यददृष्टमपिस्वयमूद्यमिदंनपरित्यजता २८ इहेति। सावयवंरज्जुघटादीतरेतरतःपर स्परयुजांयोगंसमुपैतीत्येतल्ठोकेदष्टयतोSतः

रित्यजताअविस्मृतवतापुरुषेणेत्यर्थः ॥ २८ ॥ ननुयदिदर्शनंप्रमाणंताहिसावयवनिरव

यत्वात्तत्समवायिनः संयोगस्यापितथात्वाद्दर्शनंग्रमाणंनभवेदित्याह। नहीति। साव

Page 30

तो० यवंवस्तुविगतावयवैः विगतावयवंचसावयवैर्युजांनोपैतिइद मेव लोकेदृष्ट्नतुसावयवनिर टी० वयवयोः संयोगः कुत्रापिदृष्टः येनदर्शनंग्रमाणंस्यात् । अयंभावः। नभोमुसलयोःसंयो १२ गःप्रत्यक्षोनभवतिसंयोगाश्रयस्यातींद्रिय त्वेसतिसंयोगस्यापितथात्वात्वायुवनस्पतिसं योगवदिति। तस्मान्मुसलनभसोः संयोगस्यातींद्रिय त्वेद्रष्टुमशक्यत्वात्अत्रापिदर्शनंग माणमितिपूर्ववादिनोक्तमतिचतुरमिति। यथोक्तन्यायेनसाधित मर्थमुपसंहरति। यतइति नहिसावयवंविगतावयवैर्विगतावयवंचनसावयवैः।

नहिकल्पितभागसमागमनंविगतावयवस्यघटेतकुतः। वितथत्वमतिःसुदृढातुयतःपरिकल्पितवस्तुषुनित्यमतः ३०

मुसलयोर्वासंयोग विभागौनभवत इति यन्मयापूर्वमुक्तंतदिदंसुस्थितमित्यर्थः ॥२९॥ ननुनिरवयवभप्युपचरितावयवैः संयोगमनुभविष्यतीतिचेन्मैवमित्याह। नहीति। वि १२ गतावयवस्यस्वतएवनिरवयवस्यवस्तुनः कल्पितभागसमागमनंकल्पितभागेनसमा गमनंसंयोगोनघटेत। तत्कुतइत्यत्राह। वितथत्वमतिरिति। परिकल्पितवस्तुषुवित

Page 31

थत्वमतिः मिथ्यात्वबुद्धिः सुदृढाथुक्तिरजतादौसम्यग्व्याप्ताअतः कारणात्कल्पितभाग

नित्यगुणेनगुणिइत्यस्यपक्षस्यासंभवएवेत्याह। इहेतिश्लोकद्वयेन। इहवेदांतमतेतदर्थ

इहवेदशिरस्सुतदर्थविदःप्रवदंतिसमस्तजगत्प्रकृतिम्। परमात्मपदंदृशिमात्रवपुर्ध्रुवमेकमतोन्यदनित्यमिति ३१

विदोवेदांततात्पर्यज्ञा "एकमेवाद्वितीयं। नित्यंविभुंसर्वगतंसुसूक्ष्मं। ब्रह्मैवेदंसव।आत्मै

स्सुपरमात्मपद मेववस्त्वितिअतोन्यत्अनित्यमितिवदंति कीदशंपरमात्मपदंसमस्तजग त्प्रकृति निखिलजगद्विवर्त्ताधिष्ठानंअतएवद्दशिमात्रवपुः केवलज्ञप्तिविग्रहंअतएवैकंना नात्वरहितं ध्रुवंसत्यंअतोऽन्यत्सर्वंजगदनित्यम् ॥। ३१॥।

Page 32

तो० अतएवपर स्यवैशेषिकस्यविना शिगुणंवस्तुनित्यंकिंचिदप्युदाहरणंनास्ति यतएवमतः टी०

१३ ।३ २॥ एवं्र संगादागतंकणादमतंनिर स्येदानीमहंकारस्यांतःकरणधर्मत्वमनुसंदधानस्त स्यात्मधर्मत्वमनुचित मित्याह।उपलभ्येति। अहंकरणमुपलभ्यंदृश्यंभ वितुंक्षमतेदशिरूप

अतएवनकिंचिदुदाहरणंध्रुवमस्तिपरस्यविनाशिगुणम्। यतएवमतःस्थितमुक्तमदोनहिनित्यमनित्य गुणेनगुणि ३२ उपलभ्यमहंकरणंभवितुंक्षमतेदृशिरूपगुणोनयतः । विषयाकृतिरंजितधीगुणवद्दिषयत्वमहंकरणस्यततः ३३

१३ घटतेततोहंकरणस्यापिविषयाकतिरंजितधीगुणवद्विषयत्वमेव ततआत्मगुणत्वंनसंभव तिकिंत्वंऽतःकरणधर्मत्वमेवेत्यर्थः ॥३३॥

Page 33

अहंकारस्यात्मगुणत्वनिराकरण पूर्वकंपरिशोधितस्यत्वंपदार्थस्यपरिशोधितेनतत्पदार्थे नैक्यलक्षणंवाक्यार्थकथयति। विषयेति। विषयम्कृतिपतिपभ्नवतींमतिवृत्तिंदृश्याका रांमतिवृत्तिंम तेर्द्रष्टकारपरिणा माहंकरणंचे त्येतदुभयंबुद्धिपरिणामंयःप्रत्यगात्माSविकृ तः सनपरिपश्यति। असौबुद्धिसाक्षीपुरुषः स्वयमेवपरमात्मसदुक्तिः परमात्मेत्युच्यते। "नाऽन्योऽतोऽस्तिद्रष्टा । तत्त्वमसी" त्यादिश्रुतेरित्यर्थः ॥ ३४ ॥ उक्त्तस विषय प्रकृतिप्रतिपन्नवतींमतिवृत्तिमहंकरणंचमतेः।

ननुदेहभृदेषकथंभवताऽभिहितःपरमात्मसदुक्तिरिति। नविरुद्धमवादिषमेतमहंश्रुतिरप्यमुमर्थमुवाचयतः ३५ मन्वयेग्रत्यक्षादिममाणांतरविरोधमाशंकते। नन्विति । एषदेहभृत्संसारित्वेनमरतीय मानोजीवस्तद्विरुद्धः परमात्मेतिभवताकथमभिहितइति। प्रतीयमानस्यसंसारस्यअंतः करणोपाधिनिबंधनत्वान्मैवमितिविरोधंपरिहरति । नेति। तत्त्वंपदार्थयोः किंचिज्ज्ञत्व सर्वज्ञ त्वादि विरुद्धधर्मस्यमायातत्कार्यांतःकरणोपाधिनिबंधनत्वेनविरोधाभावात्। उभ

Page 34

तो० टी० णलक्षित त्वेन विरोधासंभवात् ॥३५।।नकिंचिद पिविरुद्धमवादिषमित्यस्मिन्नर्थेश्रुतिंग्रमा १४ णयतिअमतमिति। "अमतंमंत्र Sविज्ञातंविज्ञातृइत्यक्षरब्राह्मणं। नमतेमंतारंमन्वीथाइत्यु षस्तब्राह्मणं। अमतोमंतेत्यंतर्यामिब्राह्मणं। तदेतद्रह्मापूर्वमनपरमनंतरमबाह्यमयमात्मा ब्रह्मेतिमधुब्राह्मणं। तत्त्वमसीतिछांदोग्यंच"।तदिहविवक्षितं।"इदंसर्वयदयमात्मेतिमैत्रे यीब्राह्मणं। यदेवेहतदमुत्रयदमुन्नतदन्विह मृत्योःसमृत्युमाप्नोतियइहनानेवपश्यतीतिकठ

कारः।कश्चिद्वीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्इतिकठवल्ली"। तथाचश्रु त्यंतरम्। "अंतर्याम्यमृतः । सयश्चायंपुरुषेयश्चासावादित्येसएकः। तत्त्वमसि। अहं ब्रह्मास्मि। अयमात्माब्रह्म। प्रज्ञानंब्रह्म। ब्रह्मैवेदममृतंपुरस्ताद्रह्मपश्चाद्रह्मदक्षिणतश्चो १४ त्तरेणअधश्चोर्घ्वचपसृतंब्रह्मैवेदंविश्वमिदंवरिष्ठम्। आत्मावाइदमेकएवाग्रआसीननान्य

Page 35

वत्। योSसौपुरुषःसोSहमस्मि। अन्यदेवतद्विदितादथोअविदितादSधि।अन्यत्रधर्मा

स्पर्शमरूपमव्ययंतथारसंनित्यमगंधवच्चयत्। अनाद्यनंतंमहतःपरंधुवंनिचाय्यतंमृत्युमु खात्पमुच्यते। यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रंतदपाणिपादं नित्यंविभुंस

यदनदिभ्युतवदनेनसदानयनेनचपश्यतियन्नसदा। श्रवणेनचयन्नशृणोतिसदामनसापिचयन्मनुतेनसदा ३७ स्कमप्राणममुखममात्रमनंतरमबाह्यंनतदश्नातिकिंचन नतदश्रातिकश्चन । ब्रह्मैवस

त्वंविद्धी" त्यादितलवकारश्रुतिंप्रकटयतिसार्द्धश्लोकद्वयेन। तत्र । "यद्वाचानभ्यु दितं। यच्चक्षुषानपश्यति। यच्छोत्रेणनगृणोति । यत्माणेननप्राणिति। यन्मनसान

Page 36

तो० मनुत"इतीमंभागंविवृणोति। यदनभ्युदितमिति। सदावदनेनवागिंद्रियेणयदात्मत टी० त्वमनभ्युदितंसाक्षादनभिहितं । सदानयनेनचक्षुरिंद्रियेणयत्तत्वंनपश्यतिजनः । १५ सदाश्रवणेनश्रोत्रेंद्रियेणयन्नगृणोति । सदामनसाअंतःकरणेनापियत्तत्वंनमनुते। रूपा

पदेशानर्थक्यमितिनमंतव्यं । अविवेकादात्मन्यारोपिताSतद्धर्मनिरसनेनात्मनोनित्य मुक्तत्वप्रतिपादकत्वादितिभावः ॥३७॥ " येनवागभ्युद्यते । येनचक्षूषिपश्यति । वदनंनयनंचतथाश्रवणंमनएवचयेनमतंसततम् । अवगच्छतदेवपदंपरमंत्वमितिश्रुतिरीक्षितुरुक्तवती ३८ येनश्रोत्रमिदंश्रुतम्। येनाहुर्मनोमतम् । येनपाणःप्रणीयते" इतीमंभागंविवृणोति।

विषयेप्रवर्तितुंक्षममित्यर्थः। "तदेवब्रह्मत्वंविद्धि" इतीमंभागंविवृणोति।अवगच्छेति। १५ त्वंतदेवपर मंपद मात्मत्वेनावगच्छेतीत्थंप्रकारेणश्रुतिरीक्षितुर्द्रट मिच्छोरधिकारिणःपु रुषस्यात्मतत्वमुक्तवतीउपदिष्टवतीत्यर्थः ॥३८॥

Page 37

दर्शितेत्यर्थः । एवंतलवकारश्रुतिंपपंचयित्वेदानींछांदोग्यश्रुतिंपपंचयति । अणि मादिगुणमिति। "सयएषोणिमैतदात्म्यमिदंसवंतत्सत्यंसआत्मातत्वमसिश्वेतकेतो"

परमात्मपदत्वइयंचमयाश्रुतिरल्पकणोक्तिरिहाभिहिता। अणिमादिगुणंसदितिप्रकृतंतदसित्वमितिश्रुतिरभ्यवदत् ३९ नभसोवयवोविकृतिश्र्वयथाघटिकादिनभोनभवेत्तुतथा । परमात्मनएषनचावयवोविकृतिश्र्वशरीरभृदित्यमृषा ४० तं "सदेवसौम्येदमग्रआसीदेकमेवाद्वितीयंतदैक्षततत्तेजोसृजते" त्यादिनानिखिलजग

Page 38

तो० मकत्वंचेतितत्राह। नभसइति। घटिकादिनभोघटाद्याकाशः नभसोS नच्छिन्ना क श स्य टी० अवयवोविकृतिश्चयथानभवेत्तथाएषशरीरभृदपिजीवपदार्थोपि परमात्मनोवयवोविकृति १६ श्वनभवेदित्येषाबुद्धिर्मृषानभवत्कंतुयथार्थेत्यर्थः ॥४०॥ यदिजीवपरयोरंशांशित्वादिल क्षण:कियान पिभेदोनास्तितहिजीवइतिना मभेदःकथमित्याशंक्याह । करकादीति ।

करकादिनिमित्तकमेवयथाकरकांबरनामभवेद्ियतः । परमात्मदृशेरपिनामतथापुरहेतुकमेवतुजीवइति ४१ जनितंवियद्ग्रणियेनजगत्परमात्मसदक्षरनामभृता।

मभवेत्तथापर मात्मदशेर पिहग्रूपस्यपरमात्मनोपिपुर हेतुकमेव शरीरहेतुकमेवजीवइति नामभेदोभवेत्नवस्तुतोभेदइत्यर्थः ॥४१ ॥ किंचाविकृतस्यैवब्रह्मणःप्रवेशश्रवणाच्चन विकारोSवयवोवाजीवइत्याह। जनितमिति। परमात्मसदक्षरनामभृतापरमात्मेति १६ सदित्यक्षरमितिच नाम बिभर्तीतिपर मात्मसदक्षरनामभृत्तेनपर मात्मसदक्षरनामभृताये

Page 39

वात्मनाप्रविवेश प्राविशत्। निरशस्यपरमात्मनः कथंप्रवेशइत्यत्राह। खमिति। घ टसटष्टिमनुयथाखमाकाशंघटंप्रविशतितद्वदित्यर्थः। निरवयवस्यसर्वगतस्यात्मनोबुद्धचा

तावत्। "तत्सृक्वहदेवानुमाविशत् । सएषइहपविष्टआनखाग्रेभ्यः । अंतःप्रविष्टः शास्ताजनाना" मितिपवेशवाक्याच्चतुर्विधेषुदेहेष्वंतः करणसाक्षितयापविष्ठस्यपरमा

उदपद्यतखप्रमुखंहिजगत्परमात्मनइत्यपियाःश्रुतयः। अवधार्यतआभिरभेदमतिःपरमात्मसतत्वसमर्पणतः ४३ नीमस्मिन्नर्थेसृष्टिवाक्यमपिप्रमाणमित्याह। उदिति। परमात्मनः सकाशात्खपमुखं

ज्यौतिरापश्चपृथिवी विश्वस्यधारिणी। तस्माद्वाएतस्मादात्मनआकाशःसंभूत" इत्यादि श्रुतिभिरप्यभेदमतिरेवावधार्यते।कथमवधार्यतइत्यत्राह। परमात्मसतत्वसमर्पणतइति। परमात्मकार्यस्यजगतस्तत्पविष्ठस्यजीव स्यापिपर मात्मसतत्वेनसमर्पणतःपरमात्मता वन्मान्नमतिपादनेनअभेदमतिरेवावधार्यतेप्रकाश्यते। "सर्वखल्विदंब्ह्म। वाचारंभणं

Page 40

तो० विकारोनामधेयंमृत्तिकेत्येवसत्यं। नान्योSतोSस्तिद्रष्ट।" इत्यादिश्रुतिभिरित्यर्थः टी० । ४३ ।। ननुसृष्टिवाक्यंसष्टिप्रतिपादनपर मेवनाभेदप्तिपादनपरमपिएकस्यवाक्य १७ स्यनानार्थतायाअन्याय्यत्वादित्याशंक्यविपक्षेदषणमाह। यदीति। वचनंसृष्टिवाक्यं

त्वमित्यत्राह। जगदित्थमिति । धातुविधातुःपरमेश्वराज्जगदित्थमजायतेतिश्रवणमा

जगदित्थमजायतधातुरितिश्रवणंपुरुषस्यफलायनहि ४४

स्य। "तरतिशोकमात्मवित्। ब्रह्मविदाप्नोतिपरं। नबिभेतिकुतश्चने" तिफलवत्व १७

Page 41

इतश्चसृष्टिवाक्यस्यसृष्टिपरत्वमयुक्तमित्याह । अनृतत्वमिति। विकृतेर्विकारस्यअसकृ द्धहुवारमनृतत्वमवादिमिथ्यात्वमुक्तं । किंचसदेवसत्यमितिनिरधारिनिर्धारितं। अन्र प्रमाणमाह।श्रुतिभिरिति। वाचारंभणंविकारोनामधेयमित्यारभ्यतत्सत्यंसआत्मातत्त्व मसीत्यादिश्रुतिभिर्बहुधाब हुपकारेणदृष्टांतेनकार्यस्यजगतोऽनित्यत्वंकारणस्यब्रह्मणः

श्रुतिभिर्बहुधैतद्तोवग तंजगतोनहिजन्मविधेयमिति ४५ नचतत्त्वमसीत्यसकृद्दचनंजगतोजनिमात्रविधौघटते।

क्यस्यसृष्टिपरत्वंकस्मान्नभवेदित्यत्राह। नचेति । जगतोजनिमात्रविधौतत्वमसिवा क्यस्यजन्ममात्र प्रतिपादनपरत्वेपिफलवज्ज्ञानस्यजनकत्वाभावात्तत्वमसीत्यसकृद्वचनं पुनःपुनरसकृदभ्यासोनघटत्तेअविव क्षितार्थस्यासकृदभ्यासासंभवात्। अयंभावः।"संभव त्येकवाक्यत्वेवाक्यभेदोहिनेष्यत" इतिन्यायात्सष्टिवाक्यस्यमहावाक्येनैकवाक्यत्वेसं

Page 42

तो० टी०

१८ नघटतेइत्यत्राह। परमात्मेति। पुरुषस्यप्रत्यगात्मनःपरमात्मपदानुमतिंब्रह्मत्वबु

क्यमपिघटतेविपरीतंचेन्नघटेतेत्यर्थः ॥ ४६ ॥ "यतोवाइमानिभूतानिजायंतेयेन जातानिजीवंतियत्मर्यंत्यभिसंविशंति। तत्सष्टातदेवानुपाविशात् । यआत्मनिविष्ठन्

परमात्मसदुक्तिरसावितियत्फणितंतद्धिष्ठियमित्थमहम् ४७ आत्मानमंतरोयमयती" त्यादिसृष्टिस्थितिपलयमंवेशनियमादेषांपंचविधार्थवादवा क्याना मभेदएवतात्पर्यमितिदर् यित्वेदानीमविरोधंनिगमयति । स्थिरेति । स्थिरजं १८ सौपुरुषःस्वयमेवपरमात्मसदु क्तिरितियत्पूर्वमयाफणितंत दित्थंमकारेणाहमधिष्ठियंप्रमा णविरोधपरिहारेणप्रतिष्ठापितवानस्मीत्यर्थः ।॥४७॥

Page 43

यथातत्वमसिवाक्यंजी वब्रह्मणोरंशांशित्व लक्षणमीषद्गेदमपिनसह तेतथा मकरोद कवद

दकयोरिवअक्षरतःब्रह्मण:सकाशात्पृथगेवभिन्नएव। नतुघटांबरवत्यथाघटाकाशस्य महाकाशादुपाधिकृतोभेद:यदानांगीक्रियतेतत्तवमसी तिवचनंकथंन विरोत्स्यतिजी चपरयोर्मत्स्योद कवत्पर मार्थभेदांगीकारेतत्त्वम सिवाक्य विरोध:स्यादेवेत्यर्थः ।।४८ ।। पृथगेवयदाSक्षर तोमतिविन्मकरोदकवन्नघटांबरवत्। नविरोत्स्यतितत्त्वमसीतितदावचनंकथमेषतइत्यपिच ४८ नतुवस्तुसतत्वविबोधनकृद्विनिवर्त्तयदप्रतिबोधमिदम् सदुपासनकर्मविधानपरंयतएवमतोनविरोत्स्यतिमे ४९ ननुवस्तुपरत्वेस तिभेदंनसहतेतत्त्वमस्यादिवाक्यं तस्यवस्तुपरत्वंनास्तिकिंतूपासनापर त्वमित्याशंकतेपूर्ववादी। नत्विति। अपबोधमज्ञानंविनिवर्त्तयदिदंतत्त्वमस्यादिवाक्यं नवस्तुसतत्वविबोधनकत्नतुवस्तुस्वरूपप्रत्तिपादनपरम्। तर्हि किंपरमित्यत्राह। सदुपा सनकर्मविधानपरं। अतःकारणाच्ततत्वमस्यादिवाक्यंनविरोत्स्यतिवाक्यस्योपासनावि धानपर त्वाद संडैकरसव स्तुपर त्वाभावा चड्ाक्यमस्मन्मतंप्रतिक्षेपुंनक्षमतेइतिभाव:।४९

Page 44

तो० वाक्यस्योपासनाविधिपरत्वंदृष्टांतेनसाधयति । मनइति। "मनोवह्मेत्युपासीत।आदि टी०

१९

पणं।तद्वदन्नापिबुद्धिस्त्वमसी तिवच नात्तत्वमसिवाक्येनइहत्वंपदार्थभूतेजीवेजीवत्वमपरि मनआदिषुकारणदृष्टिविधि:प्रतिमासुचदेवधियांकरणम्। स्वमतिमनपोह्ययथा तुतथात्वमसीहसदात्ममतिर्वचनात् ५० अथवात्वमितिध्वनिवाच्यमिदंसदसीतिवदेद्दचनंगुणतः।

त्यज्यसदात्ममतिविधीय तेसद्रपब्रह्मदृद प्टिर्विधीयते। एकत्वपर त्वेप्रमाणांतरविरोधात्सद हमस्मीतिचेतोधारणमेवविधीयतइत्यर्थः ॥५०॥ तत्त्वमसिवाक्यमुपासनाविधिपर मित्येकंपक्षंप्रदर्श्य इदानींगुणवादपरमथवास्तुतिपरमथवाविपरीतबोधकमितिपक्षांतरा ण्युदाहरतिपूर्ववादी ्लोकद्वयेन। अथवेति। इदंतत्त्वमसीतिवच नंत्वमितिध्वनिवाच्यंजी १९

वंगुणतोगुणवादनसदसीतिवदेत्। गुणवादपरत्वेद्ृष्टांतमाह । विभयमिति। विभयं

Page 45

स्तुतिपरत्वंदर्शयति। यदीति। यथादातारंपुरुषंमघवानिंद्रोसिविष्णुरसीतिस्तुवंतिया

धकत्वंदर्शयति। त्वमिति। अथवातत्त्वमसीतिवच नंसतःसद्वपस्यब्रह्मणस्त्वमितिध्वनि वाच्यसतत्वकतामेवत्वंपदवाच्यजीवात्मकतामेवव देत्ब्रह्मणोजीव त्वमेवबोधयेद्वाक्यमि यदिवास्तुतयेस दसीतिव देन्मघवानसिविष्णुरसीतियथा। त्वमितिश्रुतिवाच्यसतत्वकतामथवासतएववदेद्दचनम् ५२ यदितत्त्वमितिध्वनिनाभिहितःपरमात्मसतत्वकएवसदा। किमितिस्वकमेषनरूपमवेत्प्रतिबाध्यतएवयतोवचनैः ५३

द्वाक्यमित्यत्राह। यदीति। तत्त्वमसिवाक्येत्वमितिध्व निनाभिहितोजीवःसदापरमात्म

स्वारसिकंनभवतीत्यर्थः ॥५३॥

Page 46

तो० उक्तमर्थनिगमयतिपूर्ववादी । अतइति। अतएववाक्यस्योपासनापरत्वादेवतत्त्वमसी टी० तिवचनंजीवस्यसदात्मकतांनवदेत्ब्रह्मत्वंनबोधयेत्। हियस्मादेवंतस्मादतोन्यदपी २० दृशंयद्वचनंम हावाक्यंतदप्यनयैव दिशाप्रथयेदुन्नयेत्इत्यर्थः ॥ ५४॥ तत्त्वमसिवा

अतएवहिजीवसदात्मकतांनहितत्त्वमसीतिवदेद्वचनम्। यदपीदृदशमन्यदतोवचनंतद पिप्रथयेदनयैवदिशा ५४ त्वदुदाहृतवाक्यविलक्षणतावचनस्यहितत्त्वमसीतियतः। अतएवनदृष्टिविधानपरंसतएवसदात्मकतागमकम् ५५

त्वमसीतिवचनस्यत्वदुदाहृतवाक्यविलक्षणता त्वयोदाहृतमनोब्रह्मेत्या दिवाक्याद्विल २० सतएवसदात्मकतागमकंजीवात्मनापविष्टस्यसत एव ब्रह्मणएवसदात्मकतागमकंब्रह्मत्व बोधकमित्यर्थः ॥ ५५॥

Page 47

तत्त्वमसिवाक्यस्योपासनावाक्याद्वैलक्षण्यंसाधयति। इतीति। इतिशब्दशिरस्कपदो क्तमतिर्विहितामनआदिषुमनआदित्यादिषुतैर्वचनैर्मनोब्रह्मेत्यादि भिर्वाक्यैविहिता। इ

क्यंसुविलक्षणंसुतरांविलक्षणमित्यर्थः ॥५६॥ यतुपासनावाक्यवैलक्षण्यात्तत्वमसि इतिशब्दशिरस्कपदोक्तमतिर्विहितामनआदिषुतैर्वचनैः । नविधानमिहास्तितथावचनेसुविलक्षणमेतदतोवचनात् ५६ मनसोवियतःसवितृप्रभृतेःप्रवदंतिनतानिसदात्मकताम्। मनआदिहिमुख्यमुपास्यतयाप्रवदंतियतोऽक्षरदृष्टियुतम् ५७

तांनप्रवदंतिमनआदेर्वह्मात्मकतांन प्रवदंतिनबोधयंति । तर्हिकिंकुर्वतीत्यत्राह । म

दिश्येत्यर्थः ॥५७॥

Page 48

नो० ननुब्रह्ममनसीःप्रकृतिविकृतिभावान्मृत्करकयोरिव तादात्म्योपदेशोवस्तुपरएवकस्मान्न टी० भवतीत्याशंक्याह। करकइति । यथाकरकःघटादिकंकार्यस्वकारणान्मृदःसकाशा २१

करकोनमृद:पृथगस्तियथामनआदिसतोस्तितथानपृथक। इतिवस्तुसतत्वकतातुयदाविधिशब्दइतिश्रवतदातुवृथा ५८ मनआदिसमानविभक्तितयाविधिशब्दमितिंचविहाययदि। जनकेनसतासहयोगमियादनृतंतदितिस्फुट मुक्तमभूत् ५९ वाक्यस्यवस्तुपरत्वमयुक्तंकिंतूपासनापर त्वमेवेत्यर्थः ॥५८॥ ननुविधिशब्दमितिश

स्तुपरमेवेतितत्राह । मनइति। समानविभक्तितयाएकविभक्तिकतयामनआदित्या २१ दिकंविधिशव्दमितिशब्दंच विहायजनकेनसतास्वकारणेनब्रह्मणासह योगमियात्सामा नाधिकरण्यंगच्छेद्यदि। तर्हितन्मनआदिअनृतमसत्यमितिस्फुटंत्वयोक्तमभूतइदानीं

Page 49

मनआदिजगन्मिथ्येतितव सिद्धांतःस्यात्तदयुक्तंतवापसिद्धांतप्रसंगादित्यर्थः । जडाज डयोर्वास्तिवतादात्म्यायोगादितिभावः ॥ ५९ ॥ ननुब्रह्मसामानाधिकरण्येयदिम नआदेरनृतत्वंभवेत् । तहिजीवस्यापितत्त्वमसिवाक्येब्रह्मसामानाधिकरण्यश्रवणाद नृतत्वंकथंनभवेदितिपूर्वपक्षीचोदयति । नन्विति । जीवसतोरपितत्त्वमित्येकविभ

ननुजीवसतोरपितत्त्वमितिस्फुटमेकविभत्त्यभिधानमिदम्। कथमस्यशरीरभृतोऽनृततानभवेदविभक्तविभक्तियुजः ६० प्रकृतेरभिधानपदेनयथाविकृतेरभिधानमुपैतियुजाम्। अनृतत्वमतिस्तुतदाविकृतौमृदयंघटइत्यभिधासुयथा ६१ विभक्तियुक्तस्यास्यशरीरभृतोजीवस्यमनआदिवदनृतताकरथंनभवेत् मिथ्यात्वंभवत्येवत नब्रह्मसामानाधिकरण्यमनृतत्वप्रयोजकमित्याहसिद्धांती। प्रकृतेरिति। यथामकृतेर भिधानपदेनकारणबोधकपदेनविकृतेर भिधानंकार्यवाचकंपदंयुजामुपैतिसामानाधिकर ण्यंगाप्नोतितदाविकृतावनृतत्वमतिर्भव तिकार्येमिथ्यात्वबुद्धिर्भवति । तत्रदृष्टांतमाह

Page 50

तो० टी० णपदयोःसामानाधिकरण्येकार्येSनृतत्वमतिरभवति । तद्वदत्रापियदिजीवपरयोःकार्य २२ कार्यकारणयोःसामानाधिकरण्येकार्येSनृतत्वमतिर्भव तुमनआदेस्तुसृष्टिपकरणेकार्यत्वा श्रवणादनृतत्वंनभवेदित्याशंक्य। मैवंतवबाधिर्यादित्याहसिद्धांती । विकृतत्वमि

अतएवसमानविभक्तितयामनआदिसुवेद्यमसत्यमिति ६२

ति। "एतस्माज्जायते प्राणोमनःसवेंद्रियाणिच। अन्नमशितंत्रेधाभिधीयतेतस्पयःस्थ विष्ठोधातुस्तत्पुरीषंभवतियोमध्यमस्तन्मांसंयोणिष्ठस्तन्मन" इत्यादिश्रुतिषु। मनःप्रभृ २२

त्वश्रवणात् ब्रह्मसामानाधिकरण्येमनआद्यनृतंभवेदित्यर्थः ॥६२॥

Page 51

भूतानिसर्वएतआत्मनोव्युच्चरंती" तिजीवोत्पत्तिश्रवणादित्याशंक्य। जीवस्यस्वरू

तःशरीरोपाधिकस्यजीवात्मनःजनकेनसतानिखिल जगत्कारणेनब्रह्मणाजनितत्व पुत्पा जनितत्वमवादिनहिश्रुतिभिर्जनकेनसतास्यशरीरभृतः । मनआदिविकारविलक्षणतांप्रतियंतिशरीरभृतस्तुततः ६३ यद्जीजनदंबरपूर्वमिदंजगदक्षरमीक्षणविग्रहकम्। اورار 6 प्रविवेशतदेवजगत्स्वकृतंसचजीवसमाख्यइतिश्रुतयः ६४ दितत्वंश्रुतिभिर्नावादिनगदितं । हियस्मादेवंततःकारणात्शरीरभृतोमनआदिविकार विलक्षणतांमनआदिकार्यवैलक्षण्यंविद्वज्जना:प्रतियंतिजानंति। तस्मान्मनआदिवज्जी वस्यब्रह्मसामानाधिकरण्येSनृतत्वंनभवेदित्यर्थः ॥६३-॥ जीवस्यब्रह्मविकारत्वंश्रुति षुप्रसिंद्धनचेत्किमात्मकत्वंतर्हिपसिद्धमित्यपेक्षायां । अविकृतब्रह्मात्मकत्वमेवेत्याह सिद्धांती। यदजीजनदिति। "तदैक्षतत त्तेजोसृजत। सईक्षांचक्रे। सत्यंज्ञानमनंतंब्रह्म।

Page 52

तो० टी० २३ द्याःश्रुतयःप्रवदंतीत्यर्थः ॥ ६४ ॥ एवंश्रुतिप्रामाण्याज्जीवस्याविकृतब्रह्मात्मत्वे सिद्धेप्रकृतेकिमायातमित्यपेक्षायां। जीवएवपर मात्मेत्यनेनहेतुना विभक्तबुद्धिर्नभवेदि परमात्मविकारविभक्तमतिर्नअवत्यतएवशरीरभृतः। यतएवविकारविभिन्नमतिर्नअवत्यतएवमृषात्वमतिः ६५ अविभक्तविभत्त्यभिधानकृतापरमात्मपदेनशरीरभृतः। नभवेदिहतत्त्वमसिप्रभृतौलवणंजलमित्यभिधासुयथा ६६ त्यायातमित्याह । परमेति। विकारविभक्तमतिर्नभव तिपरमात्म विकारत्वेनब्रह्मका र्यत्वेनहेतुनाब्रह्मणःसकाशाज्जीवोविभक्तइ तिबुद्धिर्नभव तिजविस्यब्रह्मकार्यरत्वाभावादि त्यर्थः । ततःकिंतवसिद्धमित्यत्राह । यतएवेतिसार्द्वश्लोकेन । यतएवविकार त्वेनविभिन्नम तिर्नभवतिअतएवइह तत्त्वम सिपभृतौतत्त्वमस्यादिवाक्येशरीरभृतःपरमा २३

Page 53

वेSनृतत्वबुद्धिर्नभवेत् । अन्रव्यतिरेकदृष्टांतमाह । लवणंजलमित्यभिधासुयथेति। यथालवणजलयोःकार्य कारणभावात्उदककार्यस्यलवणस्यानृतत्वंभवेत्तथाजीवस्यानृ तत्वंनभवेत्जीवब्रह्मणोः कार्यकारणत्वाभावादित्यर्थः ॥ ६५ ॥ ॥ ६६ ॥ ब्रह्म सर्वप्रकारेणब्रह्मविलक्षणतानिराकृतेत्याहसिद्वांती । परमात्मेति । अस्यशरीरभृतः परमात्मविकारनिराकरणंकृतमस्यशरीरभृतस्तुयंतः । परमेश्वररूपविलक्षणुतानमनागपिदेहभृतोस्तिततः ६७ ननुजीवसतोरणुमात्रमपिस्वगतंनविशेषणमस्तियदा। वदतत्त्वमसीतितदावच नंकिमुवक्तितथैयतइत्यपिच ६८

पविलक्षणतानमनागपिईषद पिनास्तिजीवस्याविकृतब्रह्मात्मतत्त्वश्रवणादित्यर्थः।६७ दस्यनिरस्तत्वाज्जीवपरयोरीषद पिभेदोनास्तीत्युपश्रुत्यपूर्वपक्षवादीचादय ति।नन्विति। जीव परयोरणुमात्रमपिस्वगतंविशेषणंभेदकंयदानास्तित दातत्वमसी तिवचनंकिवमुक्ति

Page 54

तो० किंबोधयति। एषतइत्यपिच "एषतआत्मांतर्याम्यमृत"इतिवच नंच किमुवक्तिजीवसतो टी० रीषदपिभेदाभावे पूर्व मेवअभेदस्यसिद्धत्वादुपदेशानर्थक्य मितिपूर्ववादिनोSभिपाय:।६८ २४ एतच्चोद्यंपरिहरतिसिद्धांती। स्वगतमिति। ईश्वरदेहभृतोरणुमात्रमपीश्वरगतंभेदकंइष्ट मभूद्यदिजीवपरयोःपरमार्थतःस्वगतभेदइष्यतेयदि तर्हिअदोभेदकंअमुनापरमात्मना

स्वगतंयदिभेदकमिष्टमभूदणुमात्रमपीश्वरदेहभृतोः। अपनेतुमशक्यमदोवचनैरमुनास्यपृथक्कनिषेधपरैः ६९ इहयस्यचयोगुणआत्मगतःस्वतएवनजातुअवेत्परतः । वच नेननतस्यनिराकरणंक्रियतेसगुणःसहजस्तुयतः ७० जीवपरयोःपर मार्थभेदांगी कारेत स्यवचनेननिराकरणमशक्यमित्युक्तम्। इदानींपर मार्थ भेदनिराकरणासंभवंसाधयति।इहेत्यादिना।इहव्यवहार दशायांयस्यपदार्थस्ययोगुणःस्व २४

Page 55

ननुवचनेनकिमितिसह जगुणनिराकरणनसंभवतिवचनस्यकारणत्वादित्यत्राह।वचनभि

वचनंत्ववबोधकमेवयतस्ततएवनवस्तुविपर्ययकृत्।

यतएवमतोविषयस्यगुणंविषयेणसहात्मनिमूढधिया। अधिरोपितमप्स्विवभूमिगुणंप्रतिषेधतितत्त्वमसीतिवच: ७२ कारणादित्यत्राह।अनवस्थितिदोषभयादित्यादिना। स्वस्यानवस्थानदोषभयात्सहज स्यनिराकरणेस्वस्यापिनाशप्रसंगादित्यर्थः । तथोक्तंसुरेश्वराचार्यैः। "नहिस्वभावो

दस्यसहजत्वेतस्यनिवृत्तिर्नसंभवतीत्यर्थः ॥ ७१॥ भेदस्यौपाधिकत्वेतस्यवचनेननि वृत्तिःसंभवतीतिदर्शयति। यतइति। स्वाभाविकमेदस्यनिवृत्तिनसंभवतीतियतस्ततः

Page 56

तो० कारणात्मूढधियाअविवेकिनाआत्मनिस्वस्मि नविषय स्यगुणंविषयेणसहारोपितमध्य टी

२५ र्शयति। आप्स्विवभूमिगुणमिति। भूमिगुणंगंधंअप्स्वारोपितंयथाप्रतिषेधतिवचः पृ थिव्याएवगंधवत्त्वात्तदवदत्राप्यस्मिन् "तत्त्वमसि। अहंब्ह्मास्मि। अस्थूलमनण्वहृस्व मशब्दमस्पर्शमि " त्यादिकंवचनमात्मन्य विवेकेनारोपितातद्वर्मनिषेधमुखेनाखंडैकव स्तुपरमित्यर्थः ॥ ७२ ॥ यस्मादेवंवाक्यस्यवस्तुपरत्वंसिद्धंतस्मादुपासनापरत्वंना अतएवनदृष्टिविधानपरंगुणवादपरंचनतद्दचनम्। स्तुतिवाद्यपिनैतदुपास्यतयाविधिरत्रनदेहभृतोस्तियतः ७३ स्तीतिसिद्धमित्याह। अतएवेति। अतएववाक्यस्याखंडवस्तुपरत्वादेवतद्वाक्यंनह ष्टिविधानपरंनतूपासनाविधिपरं उपासनाविधिषुनभवेत्। उपासनाविधिपरत्वाभावेहेतु

याविधिर्नास्ति लिङ् लोडादिपदंनास्तियतस्ततःकारणादुपासनापरंतथागुणवादपरंचन २५ भवेत्। मघवानसिविषणुरसीत्यादिवत्स्तुतिवाद्यपिनभवेत्स्तुतिपरंच नभवेत्मुख्यार्थसं भवगौणार्थकल्पनायाअनुचितत्वादित्यर्थः ॥७३॥

Page 57

एवंचसति विपरीतबोधकत्वंचनास्तीत्याह। सतइति । जगत्मकृतेस्सतएवजगत्कारण स्यब्रह्मणएव उपधानवशाच्छरीरद्वयोपाधिवशात् जीवइ तिना मभवतीतिय तोतएवप्रकृत स्यसतः "सदेवसौम्येदमग्रआसीदिति" जगत्कारणत्वेनप्रस्तुतस्यसतःब्रह्मणःजीवस तत्वकतांजीव रूपतांनप्रतिपादयति। किंतर्हिंजीव संज्ञांगाप्तस्यब्रह्मणःस्वारसिकंब्रह्मत्व मवबोधयतीत्यर्थः ॥ ७४ ॥ वक्ष्यमाणहेतोश्चवाक्यस्यविपरीतबोधकतानास्तीत्याह। सतएवहिनामजगत्प्रकृतेरुपधानवशादिहजीवइति। अतएवनजीवसतत्वकतांप्रकृतस्यसतःप्रतिपादयति ७४ यदिजीवसतत्वकतांगमयेदणिमादिगुणस्यजगत्पकृतेः। अणिमादिगुणोक्तिरतोऽस्यमृषायदिवास्यशरीरभृदात्मकता ७५

य दिवाणिमादिगुणोक्तिस्त्वभिहिता तर्ह्यस्यब्रह्मणःशरीरभृदात्मकताजीवसतत्वकतामृ

Page 58

तो० इतोपिविपरीतबोधकत्वंनास्तीत्याह। नचेति। परमेश्वरेपरमात्मानंआत्मतयाजीवत टी०

२६ वाक्यस्थपदसबंधपर्यालोचनयावाविपरीतबोधकत्वंनसंभवतीत्याह। त्वमिति। प्रथमं

नचसंसृति हेतुनिराकरणंकृतमस्यशरीरभृतोभिमतम्।

त्वमसीतिषदृद्दयमेतियुजांतदितिध्वनिनासहतत्त्वमिति।

त्वमसीतिपदद्वयंपर स्परंयुजामेतिपश्चात्तदेवपदद्वयंतदितिध्वनिनासह युजा मे तितत्पद लक्ष्यंवस्तुत्व मसीति। कुतःकारणादेवंक्रमेणवाक्यस्थपदानांसंबंधइत्याह। क्रिययेति। नामपदंसुबंतंपद क्रिययासहयुजायोगंसमीयातमापुयात्। तदपिकिंनिबंधनमित्यत्राह। २६

  • "साकांक्षवचनमनर्थक" मितिन्यायात्क्रियापदेसतिवाक्यंनिरपेक्षंभवेदित्यर्थ:॥७७॥

Page 59

क्रियाषदयुक्तेवाक्येनामपदानानैराकाक्ष्यमित्येतत्साधयति। नहीति। क्रिययारहितं चेद्वाक्यंतर्हिनामसह स्रम पिअने कमपिसुबंतपदकिम पिन प्रतिपायतिकंचिदर्थमपिबोध यितुंनपर्याप्तमित्यर्थः । तर्हिकिंपतिपादकमित्यत्राह। प्रतिपादकमिति। एषुवाक्य

पदंकस्यचिदर्थस्यप्रतिपादकंभवेत्। तदपिकथमित्यत्राह । विहित्तादिमतर्जनकंहिय नहिनामसहस्त्रमपिक्रिययारहितंकिमपिप्रतिपादयति। प्रतिपादकमेषुलिडादिभवेद्विहितादिमतेर्जनकंहियतः ७८ भगवानपिमध्यममेवयतोविनियच्छतियुष्मदिनित्यमतः। प्रथमंत्वमसीतिपदेसमितश्रवरमंत्वसिनासमियात्तदिति ७९

कंहियस्मादेवंत स्माद्वाक्यस्थपदानांसंबंधक्रमपर्यालोचनयाविपरीत बोधकत्वं नसंभवती त्यर्थः॥ ७८। प्रथ मंत्वमसी तिपदद्वयंपरस्परंयुजामुपैतीत्यस्मिन्नर्थेपाणिनीयंसूत्रसुपो द्लयति। भगवानिति । पाणिनिर्भगवानपिमध्यमंअसिभवसीत्यादिकंमव्यमपदंनि त्यंनियमेनयुष्मद्येवविनियच्छति। "युष्मद्युपपदेसमानाधिकरणेस्थानिन्यपिमध्य

Page 60

तो० टी०

२७ त्वमसीतिपदद्वयसंबंधानंतरमेवतदसीतिपदद्वयसंबंधइत्यत्रयुक्तिमाह । पुरुषइति ।

पुरुषोभिहितस्त्वम सीतियदाकिमसानिवदेति तदाभिमुखः। श्रवणायभवेद्णिमादिगुणंसदितिप्रकृतंतदसीतिव देव ८०

अवद्द्वचनंततएवसतोनहिजीवसतत्वकतांवदृति ८१

ष्यःकिमसानिकिंभवानितद्वदेतिश्रवणाभिमुखोभवेत्। तदनंतरंगुरुःसदितिपकृतंसदे वेत्यादिनाप्स्तुतंअणिमादिगुणयद्रह्मतदसी तिवदेदुपदिशेदित्यर्थः॥ ८०॥वाक्यस्य २७ विपरीतबोधकत्वासंभवमुपसंहरति। त्वमिति। तत्त्वमसीतिवचनंत्वमसीतिध्वनिनाभि

Page 61

विषयाभिमुखानिशरीरभृतःस्वरसेनसदाकरणानियतः। स्वकमेषनरूपमवैतिततःप्रतिबोध्यतएवततावचनैः ८२

त्वंनजानीयादितियत्पूर्ववादिनापूर्वमुदीरितंतत्परिहरति । विषयेति । शरीरभृतो

Page 62

तो० टी०

२८

र्थः।स्मृतिंदर्शयत्युत्तरार्द्धेन। विषयेषुचेति। अंभसिनावमिवयथांभसिस्थितांनावंइतस्ततो वायुर्नयति। तथाविषयेषुचरतामिंद्रियाणांअनुयन्मनोनुविधीय तेब हिर्विषयंप्रतिगच्छ वचनंचपरांचिपुरःसरकंबहुवैदिकमत्रतथास्मरणम्। विषयेषुचनावमिवांअसियन्मनसेंद्रियरश्मिविनिग्रहवत ८३ तितन्मनोस्यनिर्भाग्यपुरुषस्यप्रज्ञांहरति । तस्माद्यस्येंद्रियाणिनिगृहीतानिविषयेभ्यः

हाबाहोनिगहीतानिसर्वशः। इंद्रियाणींद्रियार्थभ्यस्तस्यप्ज्ञागतिष्ठिते" तिपरमगुरोर २८ च्युतस्यवाक्यंविषयेषुनावमिवेतिसूचितं। तथा "मनसैवेंद्रियग्रामंविनियम्यसमंततः। शनैःशनैरुपर मेद्ुद्धयाधृतिग्ृहीतया"इतिवाक्यंमनसैवेतिसूचितं। "यदासंयच्छतेर

Page 63

शमीन्ज्ञानानिमनसासह। तदापकाशतेह्यात्माघटेदीपोज्वलन्निवे" तिवाक्यंइंद्रियररिमि

वात्मनोब्रह्मत्वमुपदेशमंतरेणनज्ञायतइत्यभिग्रायः॥८३॥ ननुयदिजीवस्त्रिष्वपिकाले

इयताहिनदेहभृतोस्तिभिदापरमात्मदशेरितिवाच्यमिदम्। स्थितिकालइहापिच सृष्टिमुखेसदनन्यतयाश्रुतएषयतः ८४

च्यंनवक्तव्यं। कुतोनवक्तव्यमित्यत्राह । स्थितिकालइति। इहस्थितेकालेपूर्वस ष्टिमु खेपुनःसंहारकालेउपदेशात्पूर्वंपश्चाद्वर्तमानकालेपिइतियाव त्ए पुत्रिष्वपिकालेषुएषजीवः सदनन्यतयाश्रुतःब्रह्मणःसकाशादनन्यतयाश्रुतः। "ब्रह्मैवसन्त्रह्माप्येति। विमुक्तश्र विमुच्यत" इति। तस्माज्जीवःपरमात्मनःसकाशादीषदपिभिन्नोनभवतीत्यर्थः॥८४॥

Page 64

तो० टी० माह। द्वयमिति। शरीरभृतोजीवस्यइदंद्वयमप्यविरोधीतिवचनीयंवक्तव्यं। किंतद २९ यमित्यपेक्षायांतद्वयंदर्शयति। उपदेशमपेक्ष्येति। श्रुत्याचार्योदेशापेक्षयासदात्मम तिःआत्मनोब्रह्मत्वबुद्धिःसदापरमात्मसतत्वकताचजीवस्यत्रिष्व पिकालेषुब्रह्मताचइत्ये तदुभयमविरुद्वंवक्तव्यं। तत्रदष्टांतमाह। रघुनंदनवदिति । यथाराघवस्यपरमार्थतो द्वयमप्यविरोधिशरीरभृतोवचनीयमिदंरघुनंदनवत्। उपदेशमपेक्ष्यसदात्ममतिःपरमात्मसतत्त्वकताचसदा ८५ सदुपासनमस्यविधेयतयावचनस्यममप्रतिभातियतः। अतएवनजीवसदात्मकतांप्रतिबोधयतीत्यवदत्तदसत् ८६ विष्णुत्वेपिरावणवधार्थमायामानुषोपाधिवशादहंदशरथ पुत्रोराघवोस्मीतिशरीराभिमा नीसनस्वस्यविष्णुत्वंनजानाति। पुनःकालांतरेरावणवधादूध्वब्रह्मादयोदेवाःसमागत्य २९

मुपपाद्येदानींसिंहाव लोकनन्यायेन उपासनाविधिपरत्वपक्षमनूदयदूषयति। सदिति। अ

Page 65

कुतःकारणादुपासनापरत्वमयुक्तं । विधिपदाश्रवणादित्याहसिद्धांती। सदिति । अ त्रतत्त्वमसिवाक्येसदुपास्वेतिविधिपदश्रवणंनास्ति। तर्हिकिमस्तीत्यत्राह। तदसीति। तदसित्वमित्थमियंव र्त्तमानोपदेशिनी श्रुतिरितियतस्ततःकारणात्सदुपासन कर्मणोवि सदुपास्वइतिश्रुतिरत्रनतेत दसित्वमितिश्रुतिरेवमियम्। य तएवमतोन विधित्सिततासदुपासनकर्मणइत्यमृषा ८७

पुरुषेणकृतस्ययतःश्रुतितानभवेदितिवेदविदांस्मरणम् ८८ धित्सिततानास्त्येवेत्येतद मृषामृषानभवेत्तस्माद्वाक्यमुपासनाविधिपरंनभवे दित्यर्थ: ८७ यद्येवं विधिपदाश्रवणादुपासनापरत्वंनास्ति ताह विधिपदमध्याहरिष्यतइत्यत्राह। यदी ति। तस्यविधिपदस्यकुतश्चित्प्देशादिहअस्मिन्वाक्येआनयनंक्रियतेयदि विधिपदम ध्याहरिष्यतेयदितर्हितद्विधिपदमनर्थकमेवभवेत्। विधिपदाध्याहारेतस्यानर्थक्यंकथ मित्यपेक्षायामाह। पुरुषेणकृतस्यविधिपदस्यश्चतितानभवेत्वेदस्यापौरुषेयत्वादितिवे

Page 66

तो० दविर्दास्मरणंतस्माद्विधिपदाध्याहारोनयुक्तइत्यर्थः॥८८॥ ननुतथापिवाक्यपरिपूर्ति टी० हेतुत्वादव्याहारस्यानर्थक्यंकथंभवेदित्यत्राह । किमिति । अरेइतिनीचसंबोधनंइदंत त्वमसिवच नंस्वकमर्थप्रत्य ग्वह्मणोरेकत्वंपुरुषमधिकारिणंप्रतिबोधयितुमशक्तंकिमसम ३० स्माद्विधिपदाध्याहारमंतरेणवाक्यस्यार्थपरिपूर्तिहे तुत्वादध्याहारापेक्षानास्तीत्यर्थ:८९ किमरेपुरुषंप्रतिबोधयितुंस्वकमर्थमशक्तमिदंवचनम्। यदतोन्यतआनयनंक्रियतअवताश्रवणेनविनापिविधे: ८९

पुनरपिविधिपदाध्याहारोनयुक्तइत्यत्रहेत्वंतरमाह। श्रुतिहानिरिति। इहविधिपदाध्या हारपक्षेSयमपिमहान्दोषः स्यात्श्रुतिहानिःयथाश्रुतार्थपरित्यागःअश्ुतक्ृप्तिरपिअश्रु ३० कारणात्श्रुतिभक्तिमताश्रुतौगौरवाच्छ तिवक्रगतश्रुतिमुखादुद्वतंयत्तदेवग्रहणीयंनतुबु द्विवशात्स्वमनीषयाकिंचिद पिनपरिकल्पयितव्यमित्यर्थः ॥९० ॥

Page 67

सनाविधिपरंनभवेत् किंतुअखंडैकरसवस्तुपर मितिसाधितं। तत्रे दमाशंक्यतेतत्त्त्वमसिवा

पुरुषस्यशरीरगतात्ममतिंमृतिसंभवहेतुमनर्थकरीम्। अपनीयसदात्ममतिंदधतीमहतेपुरुषस्याहितायभवेत् ९१ विनिवर्त्ततएवशरीरगताविपरीतमतिःपुरुषस्यतदा। वचनेनतुतत्त्वमसीतियदाप्रतिबोध्यतएषतइत्यपिच ९२ हसिद्धांती। पुरुषस्येति। पुरुषस्यानेकानर्थकरींमृतिसंभवहेतुंशरीरगतात्ममतिंअपनीय पुरुषस्यजीवस्यसदात्ममतिंदधती श्रुतिर्महते हितायभवेत्वाक्यजनितज्ञानस्यमोक्षहेतु त्वादित्यर्थः॥९१॥नन्वेवमपितत्त्वम सिवाक्यस्यपुरुषार्थहेतुत्वमनुपपन्नंमहताप्रयत्नेन अहर्निशंतत्त्वम सिवाक्यमसकृच्छ्रृतवतामप्यस्माकंअनर्थहेत्व ज्ञाननिवृत्तेरदर्शनादित्या शंक्य। पापाच्छन्बुद्धीनांकुतार्किकाणामेवैतत्। नतुभगवद्रक्तानांपर महंसानांतेषांक्षी

Page 68

तो० टी० र्त्ततइति। यस्मादधिकारिणःप्रमितिजनकोवेदस्तस्मात्।"तत्त्वमसि। अयमात्माब्रह्म। ३१ एषतआत्मा।प्रज्ञानंब्रह्मे" त्यादिमहावाक्यैर्येनयदाशिष्यत्वेनाभिमतःपुरुषएवंप्रतिबो ध्यते। नासित्वं देहेंद्रियपाणाहंकारसंघातःतेषांघटादिव दृश्यत्वान्नापिसंसारित्वं त्वयि प्रतीयमानस्यसुखदुःखादेरंतःकरणोपाधिनिबंधनत्वात्। किंतर्हिस्वरूपं। यत्सववेदांतम

यदिनापनयेच्छुतिरात्ममतिंपुरुषस्यशरीरगतामनृताम्। तद्हंमतिहेतुककर्मगतिसुखदुःखफलामवशोनुभवेत् ९३ ते। तदैवोत्तमाधिकारिणःशिष्यस्यशरीरगता विपरीतमतिर्विनिवर्ततएवअनात्मनिआ

३१ सारोदुर्निवार्य: स्यादितिविपक्षेदोषमाह। यदीति।पुरुषस्यशरीरगतामनृतामात्ममति श्रुतिर्नापनयेद्यदि अनात्मन्यात्ममतिननिवर्तयेद्यदि। तर्हिसुखदुःखफलामहंमतिदेतुक

Page 69

स्यकर्मणोगतिसुरनर तिर्यंगा दिप्राप्तिरूपामवशोनुभवेत्।तस्माद्वाक्यजन्यज्ञानेननिवृत्ता

द्यविधिपरत्वेतुवाक्यस्यफलाभावंद्शयति। यदीति। तत्त्वमसीतिवच नंसदुपास्वेतिस दु पासनालक्षणंकमवदेद्यदिनतत्त्वमसी तिजीवपरयोरेकत्वंबोधयेद्यदि। तर्हि बोपास यदितत्त्वमसीतिवदेद्दच नंस दुपासनकर्म नतत्त्वमिति। पुरुषस्थफलंसदुपासनतोविमृशामिभविष्यतिकीदृगिति ९४ पुरुषस्यतुमर्त्यगुणस्यभवत्सदुपासनयानसदात्मकता।

कस्यपुरुषस्यसदुपासनतःकीहकूफलंभविष्यती तिविमृशामिउपासनापर त्वेनकिंचिदपि फलंभविष्यतीत्यर्थः ॥९४ ॥ किमत्रविमर्शनेनब्रह्मोपासकस्यब्रह्मणोत्यंतभिन्नस्यापि ब्रह्मणैकत्वापत्तिरेवफलंभविष्यतीत्याशंक्याह। पुरुषस्येति । मर्त्यगुणस्यपरमार्थतो

माह। नकथंचिदपीति। इहकश्चिद पिसहजांनिजसिद्धांग्रकृतिस्वभावंनजहातिनपरि

Page 70

तो० टी० सनापरत्ववादिमतबंधस्यसत्यत्वावगमात् आत्मनोमर्त्यस्वभावस्याग्न्यौष्णवन्निवृत्त्य ३२ संभवादमृतलक्षणब्रह्मपाप्तिरुपासनाफलंनभवेदित्युक्तम्। इदानींयदिपुनःअभिनिवेश मात्रेण ब्रह्मप्राप्तिरेवउपासनाफलंकल्प्यते। तार्हजीवस्यस्वरूपहानिरत्यंतविरुद्धस्वभाव योरैक्यासंभवादित्याहसिद्धांती । यदीति। एषदेहभृज्जीवःसदुपासनयाब्रह्मोपासनयास दात्मकतांप्रगमिष्यतियदि । तर्हिअसौजीवःनिजंमर्त्यस्वभावंनजहास्यतिकिंतुप्रजहा यदिदेहभृदेषसदात्मकतांप्रगमिष्यतिवैसदुपासनया। नजहास्यतिरूपमसौहिनिजंयतऐक्यमतिर्नभवत्युभयो: ९६ स्यत्येवतत्रहेतुः। यतइति। उभयोरत्यंत विलक्षणयोविरुद्धस्वभावत्वादैक्यमतिर्नभव

स्व रूपस्यापिनाशप्रसंगात्जीवस्यब्रह्मत्वापच्तिरुपासनाफलमितिनवक्तव्यं मर्त्यस्वभाव परित्यागेचअन्यस्यअन्यात्मकताSयोगादुभयथा पिब्रह्मप्ाप्तिरुपासनाफलंनभवेदित्य ३२ थ्थः।तदुक्ततंआचार्यैः। "नान्यदन्यद्रवेत्तस्मान्नान्यदन्यद्विचिंतयेत् । अन्यस्यान्यात्मभावे

Page 71

ननुस्वरूपनाशेनविनापिलोकेरसविद्धस्यायसः कनकत्वपाप्तिदष्टांतवदत्रापिमर्त्यस्वभाव

विद्धमिति। रसविद्धमयःस्वनाशमंतरेणसह जांपकृतिमयस्त्वंपविहायकनकत्वंयथेया

पुरुषोपितथासदुपासनयाप्रतिपत्स्यतएवसदात्मकताम् ९७ अयसोवयवानभिभूयरसःस्थितवाननलानुगृहीतिमनु। कनकत्वमतिंजनयत्ययसिप्रतिपन्नमयोनतुकांचनताम् ९८

अयसइति। अयसोवयवानभिभूयआछाद्यस्थितवान्रसःअनलानुग्रहीतिमनु। अग्रौ प्रक्षेपणा नंतरंतदनुग्रहब लादय सिलोहे केव लंक नकत्वमतिंज नय तिभ्रांतानांतत्रस्वणबु

Page 72

तो० एतमेवार्थदृष्टांतेनस्पष्टयति । उदकइति। यथापयोदुग्धमतिंउदकावयवानभिभूयआ टी० छाद्यउदकेजनयति । यथाचकनकंरजतावयवानभिभूयरजतेकनकत्वमातिंजनयति। ३३ तथारसोप्ययसोवयवानभिभूयायसिहेमबुद्धिंजनयति । हेममतिमेवकेवलंजनयतिनतुहे मंकरोतियस्मादेवंतस्मादयसःकांचनत्वंभ्रांतिपरिगृहीतमित्यर्थः ॥९९ ॥ इतश्रायसः कांचनत्वंभ्रांतिमात्रंरसवीर्यविपाकनाशेकांचनप्रतीत्यभावात्। तद्गावस्यागंतुकस्या उदकावयवानभिभूयपयोरजतावयवांश्र्वयथाकनकम्। विपरीतमतिंजनयत्युदकेरजतेचतथायसिहेममतिम् ९९ रसवीर्यविपाकविनाशमनुप्रविनश्यतिकांचनताप्ययसः। कृतकंहिननित्यमितिप्रगतंसमवेतमवश्यमपैतियतः १०० ३३ वश्यंवस्त्रादिवदनित्यतानुमानादित्याह। रसवीर्येति। अयसःकांचनत्वभ्रांतिरपि रसवीर्यविपाक विनाशमनुप्रविनश्यति। रसवीर्यविपाकस्यविनाशेकांच नत्वपतीतिरपि नश्यति।तन्रहेतुंकथयति। समवेतमिति। समवेतंकार्यमवश्यमपैतिविनंक्ष्यतीतियतोतः।

Page 73

फलवदित्यत्राहसिद्धांती। अमृतत्वमिति। यजिवत्यागादिवत्पूर्वमसदेवामृतत्वंपुरुष स्यसदुपासनयाक्रिय तेसंपाद्यतेयदि तर्हिय जिकार्यवत्स्वर्गादिवदंतवदेवभवेत्। तत्रहे अमृतत्वमसत्पुरुषस्ययदिक्रियतसदुपासनयायजिवत्।

पुरुषस्यसतश्र्वविधर्मकयोःसदुपासनयानभवेत्समितिः। यदिसंगतिरिष्यतएवतयोरवियुक्ततयानचिरंवसतः २ तुमाह। कृतकस्येति। कृतकस्यकार्यस्यअध्रुवताअनित्यतास्वर्गादिफलेविदिताविज्ञा ता "तद्यथेहकर्मचितोलोकःक्षीयतेएव मेवामुत्रपुण्यचितोलोकःक्षीयते"। यद्धावत्वेसति कृतकंतदनित्यंयथाघट इतिश्रुत्यनुमानाभ्यांसिद्धंकृतकस्यानित्यत्वं।तस्मादमृतत्वस्य क्रियासाध्यत्वेतस्यविनाशित्वमवश्यंभवेदित्यर्थः॥१॥ ननुयागसाध्यस्वर्गादिवत्तन्मा भूदुपासनाफलं। जीव ब्रह्मणोःसंयोगार्यंफलंभविष्यतीत्याशंक्याह। पुरुषस्पेति। वि

Page 74

तो० धर्मकयोः संसारित्वासंसारित्वादि विरुद्धधर्मकयोःपुरुषस्यसतश्चइत्येतयोःसढुपासनया टी० ब्रह्मोपासनकर्मणासमितिःसंगतिःनभवेत्। विपक्षेदोषमाह। यदीति। तयोःसंगतिरिष्य ३४ तेयदितर्ह्यवियुक्ततयासयुक्ततयाचिरंनवसतः। "संयोगोविप्रयोगांत" इतिन्यायादुपास नापरत्वपक्षेविनाशरहितंफलंनास्तीत्यर्थः॥२।मोक्षस्यच तुर्विधक्रियाफलविलक्षणत्वादु पासनाख्यंकर्ममोक्षसाधनंनभवेदित्याह। फलमिति। सदुपासनतःब्रह्मोपासनकर्मणापुरु फलमीदृगिदंसदुपासनतःपुरुषस्यभविष्यतिनान्यदतः। नचतन्निरवद्यतयाभिमतंविदुषांबहुदोषसमीक्षणतः ३ सदुपासनकर्मविधानपरंनभवेदतएवहितद्चनम्। अहमस्मिशरीरमिदच ममेत्यविवेकम तिंविनिवर्तयति ४ षस्यउपासकस्यइदंईहकूए ताहशमेवफ लंभविष्यति अतोन्यन्नित्यंनास्ति। यद्यन्यत्फलं कल्प्येततदपिफ लंनिरवद्यतयानिर्दुष्टतयाविदुषांनाभिमतं। कुतोनाभिमतमित्यत्राह।ब हुदोषसमीक्षणतइति। साधनसाध्यस्यसर्वस्यानित्यत्वजडत्वादिदोषदर्शनादित्यर्थः।३। ३४ एवंतावत्तत्वमसिवाक्यस्योपासनाविधिपरत्वेसमीची नफ लाभावादुपासनापरत्वमयुक्त

Page 75

णमोक्षसाधनत्वमेवेत्याहसिद्धांती। सदुपेति। सतएवोपासनापरत्वेनिरवद्यफ लाभादा देवतद्वचनंतत्त्वमसिवाक्यंसदुपासनाकर्मविधानपरंनभवेत्। तर्हितद्वाक्यंकिंपरमित्यत्रा ह।अहमस्मीति। इदंशरीरमहमस्मीति मनुष्योहंब्राह्मणोहंक्षत्रियोहंव्रतीसंन्यासीतिश रीरादिव्वहंबुद्धिभिदंशरीरंमदीयमितिशरीरगतात्मबुद्धिंच विनिव र्त्तय तिअनात्मविवेच नतयाआत्मज्ञानमुत्पादयतीत्यर्थः॥४ ॥ एवंतत्वमसिवाक्यस्याखंडैकरसवस्तुपरत्वमु सकलोपनिषत्सुशरीरभृतःपरमात्मपदैकविभक्तितया। उपदेशवचांस्यनयैवदिशागमयेन्मतिमानभियुक्ततया ५ पपादितं। इदानींसर्वशास्त्रोपनिषद्रतानिमहावाक्यान्यप्यनयैव दिशायोजयितव्यानी त्याह। सकलइति। शरीरभृतोजीववाचकपदस्यपरमात्मपदैकविभक्तितयापरमात्मवा चकपदेनैकविभक्तित यासा मानाधिकरण्येनसक लोपनिषत्सु विद्यमानानियान्युपदेशवचां सिएकत्वप्रतिपादका निवाक्यानितान्यपिमतिमानुपनिषदांशक्तितात्पर्यज्ञःअनयैवदि शाउक्तेनमार्गेणयथातत्वम सिवाक्यस्यगुणवादस्तुतिविपरीतबोधकत्वोपासनापरत्वनि रासेनजीवपर योरेकत्वमुपपादितंतथाभियुक्ततया प्रामाण्येनगमयेत् उन्नयेदित्यर्थः।।५।।

Page 76

तो० संप्रदाय विद्वचनमप्यत्रप्रमाणमित्याह। द्रविडइति। द्रविडाचार्यश्चउपदेशसाहरूपां। टी० "श्रुतिस्तत्त्वमसीत्याहश्रोतुर्मोहापनुत्तये" इत्यादिनातत्त्वमसीतिवचःतत्त्वमसीतिवा ३५ क्यमज्ञानस्यनिव र्त्तकमेवेतिनिरूपितवान्। तत्रदष्टांसंदर्शयति।शवरेणेति। कुतश्चित्का

न्मवित्य:शवरःतस्योक्तिःयथाराजपुत्र स्यराजपुत्रत्वाज्ञाननिवर्त्तका। तन्निदर्शनतःत द्रविडोपिच तत्त्वमसीतिव चोविनिवर्त्तकमेवनिरूपितवान्। शवरेणविवर्द्वितराजशिशोर्निजजन्मविदुक्तिनिदर्शनतः ६ यतएवमतःस्वशरीरगतामहमित्यविवेकमतिंसुदृढाम्। प्रविहाययदक्षरमद्दयकंत्वमवेहितदक्षरमात्मतया॥७॥

ततत्त्वमसिवाक्यमज्ञाननिव र्त्तकंतस्मात्वंदेहा दिष्व हंममाभिमानंपरित्य ज्याखंडवाक्यार्थ ज्ञानानुकूलतयावर्त्तस्वेतिशिष्यंशिक्षयतिगुरुः। यतइति। यतएवंयस्मादेवंवाक्यम ३५

Page 77

त्मतयाअवेहिस्वस्वरूपत्वेनजानीहीत्यर्थः ॥७ ॥ त्वमवेहितदक्षरमात्मतयेतिप्रत्यग्ब

रित्यादिश्लोकद्वयेनतत्पदार्थपरिशोधनंक्रियते। तत्राद्यश्लोकेनतत्पदलक्ष्यस्यब्रह्मणो मनआदिवैलक्षण्यंसाधयति । द्वितीय श्लोके नमनआदिनासंबंधराहित्यंदर्शयतीति विभा नमनोनमतिःकरणानिचनोनरजोनतमोनचसत्त्वमपि। नमहीनजलंनचवन्हिरपिश्वसनोननअश्रपदंपरमम् ८ अमनस्कमधीकमनिंद्रियकंविरजस्कमसत्त्वतमस्कमपि। अमहीजलवन्ह्यनिलांबरकंपरमक्षरमात्मतयाश्रयभ: ९ गः। नेति। नमनोनमतिरित्यादिश्लोकद्वयस्यायंभावः। मनआदिकमात्मानभवतिह

रंतदाश्रयात्मतयाइत्युपदेशप्रकारः ॥८।९॥

Page 78

तो० इदानीत्वंपदार्थपरिशोधनायजागरितावस्थांदरशयति। करणानीति। मतिःकरणानीं टी०

३६ नीहीत्यर्थः ॥१०॥ इदानीस्वप्रावस्थांदशयति। करणानीति । जाग्रत्स्थितिनिमि

करणानिहियद्विषयाभिमुखंप्रगमय्यमतिर्विषयेषुचरेत्। तदुजागरितंप्रवदंतिबुधानतदस्तिममेत्यवगच्छदृदशेः १० करणानियदोपरतानितदाविक्या नुभवाहितवासनया। विषयेणविनाविषय प्रतिमंस्फुरणस्वपनंप्रवदतिबुधा: ११

येणविनाकेव लंविषयानुभवाहितवासनयाअनुभवजनितसंस्कार मात्रेणविषय ग्रतिमंस्फुर ३६

षयंज्ञानंस्वप्रमित्यर्थः ॥११॥

Page 79

इदानीसुषुप्त्यवस्थादर्शयति। करणस्पेति। करणस्यधियःअंतःकरणरूपायाबुद्धे्वि षयाकृतिकेनविषयाकारेणस्फुरणेनविना यास्थितताअमुंनिर्विषयांस्थितिंसुषुप्तिंवदंति

करणस्यधियःस्फुरणेनविनाविषयाकृतिकेनतुयास्थितता।

नकदाचिद्पित्रयमस्तिममेत्यवगच्छसदास्मितुरीयमिति १३ त्यन्वयः । बुद्धेःस्वकारणोपरमंसुषुप्तनिंपवदंतीत्यर्थः ॥ १२ ॥ एवमवस्थात्रयंदर्शयित्वा इदानींतत्साक्षिणश्चिदात्मनोवस्थान्रयराहित्यंदर्शयति। इतीति।इत्थंक्रमतोSक्रमतश्चया श्िदात्मनोममकदाचिद पिइदमवस्थात्रयंनास्तीत्यवगच्छ । किंचसदादेहेंद्रियमनसांग सारे प्रशांताव पिस्वयंप्रकाशपर मानंद चिद्घनमवस्थान्रयातीतंतुरीयंपदंतदेवाहमस्मीत्य

Page 80

तो० टी० स्वतश्चतेषांपरतोप्यसत्त्ववस्तुरीयएवास्मिसदाहगद्वय" इत्येवंजानीहीत्यर्थः ॥ १३ ॥ ३७

मूढ धियाअविवेकिनाप्रत्यगात्मनियज्जागरितप्रभृतित्रितयंपरिकल्पितं तदवस्थान्रयम यदुजागरितप्रभृतित्रितयंपरिकल्पितमात्मनिमूढधिया। अभिधानमिदंतदपेक्ष्यअवेत्परमात्मपदस्यतुरीयमिति १४ यदपेक्ष्यभवेदभिधानमिदंपरमात्मपदस्यतुरीयमिति। तद्सत्यमसत्यगुणश्र्वततःपरिनिर्मितवारणचेष्टितवत् १५ पेक्ष्यपरमात्मपदस्यतुरीयमितिइदमभिधानंभवेत्। यस्मात्तुरीयत्वंसाकांक्षतस्मान्तुरीय

द्वनंपर मात्मतत्वंतुरीयशब्देनविवक्ष्यते । नतुतुरीयमित्यवस्थांतरंततश्वात्मानिर्विशेषः ३७ सिद्धचतीत्यभिप्रायः ॥ १४ ॥ नन्ववस्थात्रयमपेक्ष्यतुरीयत्वंभवतुतथापितत्सत्यं भविष्यतीत्याशंक्य। अवस्थान्नयस्यमायामयत्वात्तदपेक्षितंतुरीयत्वमपितथाविधमेवे

Page 81

त्यभिप्रेत्याह । यदिति । यदवस्थात्रयमपेक्ष्यपरमात्मपदस्यपरमात्मवस्तुनः तुरी यमिदमभिधानंभवेत्तदवस्थात्रयमसत्यम्। अवस्थात्रयस्यासत्वेहेतुमाह। असत्यगु णइति। असत्यस्यमनसोगुणोधर्मइतियस्मात्तस्मादवस्थात्रयमसत्यम्। असत्य धर्मस्यासत्यत्वेदृष्टांतमाह। परिनिर्मितेति। मत्तगजाकीर्णेवनप्रदेशेसंचरतागजभी

गगनप्रमुखंपृथिवी चरमंविषयेंद्रियबुद्धिमन:सहितम्। जनिम ज्गदेतदभूतमितिश्रुतयःप्रवदंत्युपमानशतैः १६

तंचयद्वदसत्यं। तद्वन्मायामयस्यमनसोगुणत्वादवस्थात्रयमप्यसत्यं। तथाचतदपेक्षितं तुरीयत्वमपिपरमात्मव्यतिरेकेणवस्तुतोनास्तीत्यभिपायः ॥१५ ॥ असत्यमनोधर्म त्वाज्जागरितादित्रयमप्यसत्यमित्युक्तं। इदानींतत्साधनायमनआदिजगतोऽसत्यत्वंसा धयति । गगनेति। गगनप्रमुखंपृथिवीचरमंआकाशमारभ्यपृथिव्यंतंविषयेन्द्रियबु

Page 82

तो० टी०

ध्यते। इदंशरीरंकुत्सितंकुशरीरंयथासततंकफपित्तसमीरणधातुधृतवातपित्त ल्लेष्मा ३८ र्य स्यधातोःवैषम्येसति शरीर स्पनाशदर्शना त्रिधातुवैषम्याभावेच स्वास्थ्यदर्शनात्शरी रंकफपित्तसमीरणधातुधृतमित्युच्यते। यथायंदष्टांतःतथामभवप्रभृतिप्रलयांतमिदंजग कफपित्तसमीरणधातुधृतंकुशरीरमिदंसततंहियथा। प्रभवप्रभृतिप्रलयांतमिंदजगदग्निरवींदुधृतंहितथा १७ जगतःस्थितिकारणमित्थमिदप्रथितंरविवन्हिशशित्रितयम् । स्मृतिवेदजनेषुभृशंप्रथितंश्रुतिरीरितवत्यनृतंतदिति १८

कुशरीरधार कधातु त्रितय वज्जगद्धारकस्याग्न्यादित्रितय स्यासत्यत्वंश्रुतिर्द्ृष्टांतेनोक्तव ३८

Page 83

तिष्ठतः। अहंवैश्वानरोभूत्वामाणिनांदेहमाश्रितः। प्राणापानसमायुक्तःपचाम्यन्नंचतुर्विधं।

तदुतैजसमाप्यमथान्नमितिब्ुवतीत्रयमेवतुसत्यमिति १९ वदच्छुतिरप्निदिवाकरचंद्रमसामित्यंतेनग्रंथेन । यदिति । "यदग्रेरोहितंरूपंतेज सस्त द्रूपंयच्छककंतदपांयत्कृष्णंतदन्नस्ये" तिछांदोग्यश्रुतिर्ज्वलनादिषुअनुगतं यद्रों हितशुक्क कृष्ण मिदरूपंजनोवैतिजानाति । तेषांरूपाणांमध्येय द्रोहितंरूपंत त्तैजसंतेजः संबंधितत्तेजसःकारणंरोहितमित्यर्थः । तेषांमध्येयच्छुक्कंतदाप्यंअप्संबंधित दभेदेनामृत

यच्छुऊंरूपमितियावत् । तेषांमध्येयत्कृष्णंरूपंभास्वरं कृष्णवर्णत देवान्नसंबंधिअन्नशब्दे

Page 84

तो० टी० न्नशब्देनलक्षितोदिवाकर:तस्यकारणंसुकृष्णमितियावत्। "आकृष्णेनरजसावर्त्तमा ३९ नोनिवेशयन्नमृतंमर्त्यंच । हिरण्मयेनसवितारथेनदवोयातिभुवनानिपश्यत्नि" तिश्रु

कृष्णकार्यत्वंब्रुवतीश्रुतिःत्र यमेव तुसत्यमित्युक्तवती। कारणभूतमरुणा दित्रयमेवसत्यंत त्कार्यमग्न्यादित्रयमसत्यभिति सिद्धेत दृष्टांतेनकार्यस्यमनआदिजगतोमिथ्यात्वंकारण रुचकप्रमुखंकनकादिमयंरुचकाद्यभिधाननिमित्तमपि। असदित्यवगम्यतएवयतोव्यभिचारवतीरुचकादिमतिः २० स्यब्रह्मणःसत्यत्वंसाधयितुंशक्यमित्यभिपायः ॥१९॥ एवंकारणस्यारुणादेःसत्यत्वं

णादित्रिकस्यसत्यत्वंचोक्तमित्याकांक्षायां। अत्रदष्टांतंदर्शयितुंकनकादेःसत्यत्वंरुच कादेरसत्यत्वंचसाधयत्युत्तर श्लोकद्वयेन । तत्रद्येनरुचकादेरसत्यत्वंदर्शयति । रुचक ३९ प्रमुखमिति। कनकादिमयंकनकादिकार्यरूच कममुखंरुच काद्यभिधाननिमित्तंयद्यपित थापिअसदित्येवावगम्यतेरुचकादिकमसत्यमितिज्ञायते। कुतस्तदित्यत्राह। यत

Page 85

कनककार्येरुच कादौसर्वत्राप्यनुस्यूतेतिय स्मातृतस्मात्कनकादिसत्यतयाभिमतं। उ क्तहेतुनिगमयति। विपर्ययएषुनहीति। एषुकनकादिपुरुच कादिषुचविपर्ययानहिव्य नकदाचिद्पिव्यभिचारवतीकनकादिमतिःपुरुषस्ययतः । ततएवहिसत्यतयाभिमतंकनकादिविपर्ययएषुनहि २१ रुचकादिसमंज्वलनादिभवेदनृतत्वगुणेनतुसत्यतया। अरुणप्रमुखंज्वलनप्रभृतिप्रकृतित्रितयंकनकादिसमम् २२ त्यासोनास्तियस्मात्तस्मात्कनकादिसत्यंरुचकाद्यसत्यमित्यर्थः ॥२१॥ तर्हिदृष्टांतदा ष्टांतिकयोर्मध्येकस्थकेनसाम्यमित्यपेक्षायामाह। रुचकादीति। ज्वलनादिअग्र्यादि त्रितयंरुचकादिसमंभवेत्। तत्रहेतुंकथयति। अनृतत्वगुणेनत्विति। अनृतत्वगुणवत्वा

वकनकादिसमम् ॥२२॥

Page 86

तो टी० श्रुतिरित्याह। अनयेति। "यथासौम्यैकेनमृत्पिडेनसर्व मृन्मयं विज्ञातंस्याद्वाचारंभणं ४० विकारोनामधेयंमृत्ति के त्येवसत्यंयथासौम्यैकेन लोहमणिनासरवंलोहमयं विज्ञातंस्याद्वाचा रंभणंविकारोनामधेयंलोहमित्येवसत्यं" इत्यादिनानिखिलस्यकार्यस्यकारणतावन्मान्न त्वंवदतिश्रुतिः। अनयोपमयाकनकरुचकादिद्टष्टांतेनअग्निदिवाकरचंद्रमसांअनृततामव अनयोपमयानृततामवदच्छ्रतिरग्निदिवाकर चंद्रमसाम् । अमृषात्वमपिश्रुतिरुक्तवतीत्रितयस्यतुरक्तपुरस्सरिण: २३ अनृतत्वमिदंज्वलनप्रभृतेर्यदवादिभवेत्तदुदाहरणम्। वितथाविकृतिःसततंसकलानतथाप्रकृतिःश्रुतिनिश्र्वयतः २४

उपमानशतैर्मनआदिजगतोनृतत्वंश्रुतिरुक्तवती ति पूर्वमुक्तंइदानीतदुपमानशतंविविच्य दर्शयति। अनृतत्वमिति। रुचकादिद्ष्टांतेनज्वलनप्रभृतेर्यदनृतत्वमवादितदिदमुदाहर ४० णंभवेत्। तत्कथमित्यत्राह। वितथेति। विकृतिमात्रंसवंवितथमेवमिथ्यैवरुचकादिव दित्यर्थः।नतथाकारणंकारणंतुतथाविधंनभवेत् किंतुसत्यमेवेतिश्रुतिनिश्चयतःश्रुत्यानि

Page 87

अ्वयेनोक्तमित्यर्थः ॥२४॥ कारणद्रव्यापकर्षणंकार्यद्रव्यस्यानृतत्वसाधकमित्येतल्ठो केपिदृष्टमित्याह। प्रदिदर्शयिषुरिति। वसनस्यवस्त्रस्यवितथत्वंप्रदिदर्शयिषुःपुरुषस्तं तुसयंत्रितयंकारणभूतमरुणादित्रितयमपकृष्यस्वीकृत्य ज्वलनप्रमुखस्याग्न्यादिन्नितय स्यमिथ्यात्वमुक्तवतीत्यर्थः ॥२५ ॥ एवमग्न्यादिद्ष्टांतेनमनआदिजगतोमिथ्यात्वं

अपकृष्यतुतंतुसमंत्रितयंज्वलनप्रमुखस्यतथोक्तवती २५ अवनिप्रमुखंवियदंतमिदंविकृतिस्तुपरस्यभवत्यपरम् । अनृतंत्वपरविकृतिस्तुयतोऽवितथंतुपरंप्रकृतिस्तुयतः २६ अरुणादिदृष्टांतेनब्रह्मणःसत्यत्वंच श्रुत्याविवक्षित मित्युक्तम्। इदानींतन्नहेत्वाकांक्षायां कार्यत्वात्कारणत्वाच्चेत्युभयत्रहेतुमाह । अवनिप्रमुखमिति । अवनिप्रमुखंवियदंतमि दंअपर मर्वाची नंपर स्यब्रह्मणोविकृतिःकार्यभ्वत। किमतस्तवफलितमित्यन्नाह। अनृ तमिति। अपरदृश्यतयाप्रतीयमानंजगत्सक लंअनृतंपरस्यब्रह्मणोविकृतिस्तुयतःकार्यं तुयतःअतःकारणादनृतं । परंतुकारणंब्रह्मतुअवितर्थंवितर्थंनभवति । कृतइत्यत्राह।

Page 88

तो० प्रकृतिस्तुयतइति। कारणंतुयस्मात्तस्मादवितर्थसत्यमित्यर्थः । अयंभावः। दृश्यंमन टो.

४१ दरुणादिवत्। अग्यादित्रितयमसत्यंभवितुमह तिकार्यत्वाळ्ठचकादिवत् । अरुणप्रमुखं त्रितयंसत्यंभवितुमर्ह तिकारणत्वात्कनकादिव दितिसमुदायार्थः ॥२६॥ यथोक्तेन हे तुनासाधितमर्थमुपसंहरति । अतइति। कारणंसत्यंकार्यमसत्यमितियस्मात्तस्मात्सदु

इतिसिद्धमतोयदवादिमयाजनिमज्जगदेतदभूतमिति २७ मनसोप्यनृतत्वमसेध्यमुतःप्रतिपादितहेतुतएवभवेत्। चरितंचतदीयमसत्यमतःपरिनिर्मितवारण चेष्टितवत् २८ क्तिपरंब्रह्मनमृषामृषानभवेत् । ततोऽन्यत्तुमृषात स्माद्वह्मणोऽन्यत्सर्वमृषाअसत्यमित्ये तदसेधिसिद्धं। ततः किमितितत्राह । इतिसिद्धमिति। जनिमज्जगदेतदभूतमितिम यायत्पूर्वमवादितदिदंसिद्धमित्यर्थः ॥२७ ॥ ननूक्तहेतुनाजगतोमिथ्यात्वंभवतुमनस ४१ स्तच्चरितस्यवाजागरितादेश्वनमिथ्यात्वंसिद्धमित्यत्राह। मनसइति। अमुतःप्रतिपादि वह्ेतुतएव मनसोप्यनृतत्वमसेधिकार्यत्वादित्यनेनैव हेतुनामनसोप्यनृतत्वंसिद्धभित्यर्थः।

Page 89

यस्मान्मनसोनृतत्वंततएवतदीयंचरितअवस्थात्रयमप्यनृतंभवेत्। तत्रदष्टांतमाह। प रिनिर्मितेति। यथापरिनिर्मितवारणचेष्टितमसत्यंअसत्यधर्मत्वात्। तद्वदत्राप्यसत्यध मत्वादवस्थात्रयमसत्यमित्यर्थः ॥२८। ननुमनसःकार्यत्वेसिद्धेमनोSनृतंस्यात्तदेव नास्तिअश्रुतत्वादितिशंकतेपूर्ववादी। नन्विति। सतःपरमात्मनःसकाशान्मनसःउद्र वनंश्रुतिर्नाभ्यवदत् खप्रमुखादुद्गवनंमनसोनाभ्यवदत्। तस्मादस्यमनसोनृतत्वगतिःअ

कथमस्यभवेदनृतत्वगतिर्मनसोभगवन्वदनिश्वयतः २९ ननुसप्तमआत्मनउद्गवनंमनसोभिदधावसुनापिसह। कथमस्यअवेदमृषात्वगतिर्मनसोविकृतित्वगुणस्यवद ३० सत्यत्वावगतिःकथंभवत्भोभगवन्विचार्यवदेत्यर्थः ॥२९॥ ननुनैतच्ोद्यंघटतेछांदो ग्यसप्तमे "आत्मतोमन" इतिमनसःपरमात्मकार्यत्वश्रवणादित्याहसिद्धांती। नन्वि ति। छांदोगोपनिषदिसप्तमाध्यायेआत्मनःसकाशाद सुनापिसहमाणेनचसह मनसउद्रवनं

सत्यत्वावगतिःकथंभवेत् । तस्मात्परमात्मकार्यत्वश्रवणान्मनसोनृतत्वमित्यर्थः॥३०॥

Page 90

तो० मुंडकेपिमनसउद्गवनंपरमात्मनःश्रुतमित्याह। असुनेति। "एतस्माज्जायतेप्राणोमनः टी० ४२ सर्वेंद्रियाणिच।खंवायु ज्योतिरापश्चपृथ्वीविश्वस्यधारिणी"। इत्यादिमुंडकेपिअसुनामा णेनकर णैरिंद्रियैर्गग नम मुखैराकाशा दिभिश्चसह पुरुषात्पर मात्मनःसकाशान्मनसःउद्गव

मनसोन्नमयत्वमवादियतस्ततएवहिभूतमयत्वगतिः। कुशरीरवदेवततोपिभृशंवितथंमनइत्यवधारयभो: ३२

परमात्मकार्यत्वश्रवणान्मनसोनृतत्वमुक्तमिदानींभौतिकत्वश्रवणाद पिमनसोनृतत्वंसि द्धमित्याह मनसइति। "अन्नमयंहिसौम्यमनःआपोमयःप्राणः। अन्नमशितंत्रेधाविधीय ४२ तेतस्ययोणिष्ठोभागस्तन्मन" इतिमनसोन्नमयत्वंअन्नकार्यत्वमवादियतोतएवकुशरीरव दृतमयत्वगतिःभूतकार्यत्वावगतिस्ततोमनोपिवितथमसत्य मित्यवधारयेत्यर्थः ॥ ३२॥

Page 91

मनआदिजगतोनृतत्वंसाधयितव्यमितिशिष्यंशिक्षयति। कुर्विति। गगनप्रमुखंजनिम त्सकलंजगत्सत्यंनभवती तिपक्षंकुरुप्रतिज्ञांकुरु। तत्रहेतुंकथयति। प्रथमंचरमंचनचा स्तियतइति। तत्रदष्टांतमाह। रुचकादिवदित्युपमांचवदेति ॥३३ ॥ कनक

कुरुपक्षमिमंगगन प्रमुखंजनिमत्सकलंनहिसत्यमिति। प्रथमंचरमंचनचास्तियतोरुच कादिवदित्युपमांचवद ३३ कनकेरुचकादिन पूर्वमभूच्चरमंचनविद्यतइत्यनृतम् । अधुनापितथैवसमस्तमिदंजनिमद्वियदादिभवेदनृतम् ३४

रुचकादिद्ृष्टांतदाष्टातिकार्थान्प्पंचयति। कनकइति। कारणभूतेकनकेरुचकादिकं कार्यप्रथमंनाभूच्चर मंचनविद्यते। "आदावंतेचयन्नास्तिवर्त्तमानेपितत्तथा " इतिन्या यात्। अधुनाव र्त्तमानकालेपिकनकव्य तिरेकेणरुचका दिनविद्यतेयथा। तथाजनिमद्विय दादि समस्तमिदजगदनृतमसत्यंभवेदित्यर्थः ॥३४॥

Page 92

सो० टी०

४३ बंधनइतिवैशेषिकादयस्तान्प्रत्याह। कनकादिष्विति। कनका दिरूपजातंरुचक प्रमुखंत तःकनकादेःसकाशात्पृथ गेवाभूदयदि। तर्हिअमीषुरुच कादिषुअधिकंपरिमाणंगुरुत्वंकु

अधिकंपरिमाणममीषुकुतोनभवेदितिवाच्यमवश्यमिदम् ३५ कनकप्रभृतेर्व्यतिरिक्तमतोरुचकादिनविद्यतएवकुतः। पृथगग्रहणात्कनकप्रभृतेरितिकारणमेवसदन्यदसव् ३६

तोनभवेदिति पृष्टेसति कुश लैस्तार्किकैरिद मवश्यंवाच्यंअस्यम्रश्नस्योत्तरंव कुंनशक्यतइ त्यर्थ:॥३५॥इतश्रकार्यकारणयोमेंदोनयुक्तइत्याह। कनकइति। कनकादिरूपजातंअतो ४३ रुचकादिकनकप्रभृतेर्व्यतिरिक्तंनविद्यते। तत्कुतइत्यत्राह। पृथगिति। कनकप्रभृतेःपृ

Page 93

ननुतथापिनाम रूपाकारैःकार्यकारणयोर्भेदएवयुक्तइतिशंक तेपूर्ववादी। नन्विति। प्रक

थगेव। यतएवंअतःकारणात्मकृतेःसकाशाद्विकृतेरव्यतिरिक्ततयावगमःकथ कार्यकार

ननुनामपृथग्विकृतेःप्रकृतेरथरूपमथापिचकार्यमतः । कथमव्यतिरिक्ततयावगम:प्रकृतेर्विकृतेरितिवाच्यमिदम् ३७ इहवीरणतंतुसुवर्णमृद:कटशाटकहारघटाकृतयः । उपलब्धजनैरुपलब्धमतोनभिदास्तिततःप्रकृतर्विकृतेः ३८

दात्कार्यभेदाच्चेति॥३७॥ एतदनुमानंप्रत्यक्षविरुद्धमित्याहसिद्धांती। इहेति। इह व्यवहारदशायांउपलब्धजनैर्वीरणतंतुसुवर्णमृदएव कटशाटकहारघटाकृतय:कटाद्या कारेणउपलब्धंअतःकारणात् रूपंवीरणतंत्वादिकमेवकटव स्राभरणादिरूपेणदष्टमितिय तस्ततःकारणादेव प्रकृतेःसकाशाद्विकृतेर्भेदोनास्तीत्पर्थः ॥ ३८॥

Page 94

तो० यथोक्तमर्थविवृणोति। विकतिरिति। प्रकृतेःसकाशाद्विकृतिःपृथकूनास्तियदि। तर्हि टी० अभिधाप्रभृतेः भिदापिनघटेतनामरूपकार्यभेदोपिनघटेतइतितवयाधीःसाविफला कार्य ४४ कारणभेदसाधिकानभवेत्। कुतोनभवेदित्यत्राह। नयनेनेति। प्रत्यक्षेणकार्यस्यघटा देमृदाद्यभिधाकारणादभेदःजनैविविदेविदितइ तियेन तेनहेतुनातवधीर्विफ लास्यादित्य

इतिधीर्विफलातवयेनजनैर्विविदेनयनेनमृदाद्यभिदा ३९ ननुरूपमथोअपिकार्यमथोअभिधापिनटस्यपृथग्विदिता। नपृथक्त्वमुपैतिनट:किमितिप्रतिवाच्यमवश्यमिदंकुशलैः ४०

र्थः॥। ३९ ॥ नकेव लंतवानुमानंपरत्यक्ष विरुद्धंकिंतुअनैकांतिकंचे त्याहसिद्धांती। नन्विति । रूपंकार्यचअभिधापितस्यनटस्यपृथग्विदितायद्यपि। नटःपृथक्त्वंकिमितिनोपैतिइ ४४ तिमयापृष्टेसति कुशलैन्ययिकुशलैर्भव द्विरिदमवश्यंप्रतिवाच्यंग्रतिवक्तव्यमस्योत्तरंतव

Page 95

स्तीत्युत्तरेणकतिपयग्रंथेनाह । असतोनकथंचनजन्मभवेदित्यादिना । तत्रासदितिवै शेषिकमतं। सदितिसांख्यमतं। सदसदितिदिगंबरमतं । तत्रप्रथमंवैशेषिकमतंनिरा करोति। असतइति। उत्पत्तेःप्रागसतःकार्यस्यनकथंचनजन्मभवेत्। तन्रहेतुमाह। तदसत्वतएवेति। कार्यस्यात्यंतमसत्वादेवखपुष्पमिवाकाशपुष्पव दित्यर्थः । यद्यसतो

असतोनकथंचनजन्मभवेत्तदसत्वतएवखपुष्पमिव।

जन्मनसंभवेत्तहिंसतोजन्मास्तीतिसांख्यास्तन्मतंदूषयति। नसतोस्तीति । उत्पत्तेः प्रागेवसतःविद्यमानस्पकार्यस्यभवोजन्मनसंभवतीति। कुतोनसंभवतीत्यत्राह। पुरतो पिभवादिति। उत्पत्तेःप्रागेवसत्वादात्मवत्। नतवात्रविप्रतिपत्तिरित्याह। यतआत्म वदेवसदिष्टमिति। सत्कार्यसर्वदासदेवे ष्टमितिपर मार्थत्वंयस्मादेवंतस्मात्सदसतोर्जन्मन संभवतीत्यर्थः ॥४१॥

Page 96

तो० टी० लामुरीति। कपिलासुरिपंचशिखादिमतं। पंचशिखशब्देनकश्चित्पूर्वमीमांसकउच्यते। ४५ आदिशव्देनसांख्यचार्वाकमीमांसका उच्यंते।सांख्यचार्वाकमी मांसकार्नामतंपरिगृह्यक

नेति। नकदाचनसतोजन्मवदामि। तर्हिकिंवदसीत्यत्राह। पवदामीति। यत्मवदा

नकदाचनजन्मवदामिसतःप्रवदामितुयच्छृणुतत्त्वमपि ४२ प्रकृताववशिष्टतयायदभूदधुनातुतदेवविशेषयुतम्।

मितत्त्वमपिश्ृणुसावधानमतिर्भवेत्यर्थः ॥ ४२ ॥ अहंयत्पवदामितत्त्वमपिशृण्वितियत् सत्कार्यवादिनोक्तंइदानींतत्प्वदति। प्रकृताविति । प्रागेवविद्यमानंयत्कार्यपकृतावव शिष्टतयाभूत् कारणेनिर्विशेषतयास्थितंत देवाधुनाउत्पत्तिसमयेविशेषयुतंसविशेषमासी ४५

Page 97

अत्रविरोधंवदेत्युपश्रुत्यसिद्धांतीविकल्प्यविरोधमाह। सदिति। सत्कार्यमुत्पत्तिसमये

थमपक्षेदूषणमाह । यदिविद्यतइति। सतुविशेषःपुरापकृतौविद्यतेयदितर्ह्वधुनाविशेषयु तमितित्वयोक्तंतदसदयुक्तमित्यर्थः ॥ ४४ ॥ नास्तीतिद्वितीयंपक्षंदूषयति। यदीति। सगुण:सतुविशेष:पुराप्रकृतौकारणेनास्तियदि । तर्ह्यसदुद्रवनंभवतोभिमतंस्यात्कार्यवा सद्युज्यतयेनगुणेनपुरा प्रकृतौसइहास्तिनवेतिवद। यदिविद्यतएवपुराप्रकृतावधुनापिविशेषयुतत्वमसद् ४४ यदिनास्तिपुरासगुण: प्रकृतावसदुद्गवनंभवतोभिमतम्। जननेनचसत्वमुपात्तवतोजनिमत्त्वतएवविनष्टिरपि ४५ दिनाभवताSसदुत्पत्तिरंगीकृतास्यात्तथासतितवापसिद्धांतः प्रसज्येत । नकेवलमसदु त्पत्तेरंगीकारः। सद्विनाशश्चमाप्नोतीतिदूषणांतरमाह। जननेनेति। जननेनजन्मनासत्व

यांगीकृतःस्यादित्यर्थः ॥४५॥

Page 98

सो० टी० भवतोभिमतमंगी कृतमिदमसदुद्गवनंसतोविनशनंचकथं चनपरिहर्तुनशक्यतइत्यमुतोहे ४६ नैःप्राप्तमित्यर्थः ॥४६॥ तर्हिकणादमतंकिमित्याकांक्षायांतन्मतंदर्शयति। असत

अवतोभिमतंपरिहर्तुमिदंनकथंचनशक्यतइत्यमुतः। कणअक्षमतेनसमत्वमिदंभवतोभिमतंशनकैरगमत् ४६ असतोभवनंनशनंचसतःकणभोजिमतंविदितंकविभिः। उपपत्तिविरुद्धतयासुभृशंतद्भाणिमयापिविरुद्धतया ४७ नंचेतिकणभोजिमतंकविभिःपूर्वाचारयैविदितम्। अस्तुनामैवंकणादमतंततःकिमायात मित्यत्राह।उपपत्तीति। उपपत्तिविरुद्धतयान्यायविरुद्धतयाSसतोजन्मसतोनशनंचेत्ये तदुभयंसुतरांयुक्तिविरुद्धतयाSभाणिभणितंचाचार्यैः। कार्यस्यानिर्वचनीय त्ववादिनाम ४६

मयाप्युक्तमित्यर्थः ॥ ४७॥

Page 99

इतश्चकारणादिदमयुक्तमित्याह। प्रतिषिद्धमिति। समस्तगुरोर्गुरुणाहरिणा"नासतो विद्यतेभावोनाभावोविद्य तेसत"इत्यमुनावचनेनइदंकणभोजिमतंप्रतिषिद्ंनिरस्तम्। न न्वर्जुनंपलोभयितुंहरिणाकणादमतंनिराकृतं नतुहितोपदेशकर्तुमितिचेन्मैवमित्याह।

शंकुर्वताहरिणाकणभोजिमतंनिरस्तमित्यर्थः ॥४८॥ एवंसदसतोर्जन्मनिरस्तमनूध

प्रतिषिद्वमिदंकणभोजिमतंहरिणापिसमस्तगुरोर्गुरुणा। वचनेनतुनासतइत्यमुनाबुवताचपृथातनयायहितम् ४८ असतश्रसतश्र्वनजन्मअवेदितिपूर्वमवाद्युपपत्तियुतम्। सद्सच्चनजायतएवकुतोनहिवस्तुतथाविधमस्तियतः ४९ दिगंबरमतंनिरस्यति। असतइति। असतश्चसतश्चनजन्मभवेदितिपूर्वमुपपत्तियुतंयुक्ति सहितमयावादिगदित। सदसच्चसदसदात्मकंकार्यनजायते। तत्रहेतुंपृच्छति।कुतइति। हेतुंकथयतिसिद्धांती। नहीति। तथाविधंसदसदात्मकंवस्त्वेवनास्तीतियतःअतस्त स्यजन्मापिदूरोत्सारितमित्यर्थः ॥४९॥

Page 100

तो० सदसत्सदसतांउत्पत्त्य संभवेपारिशेष्यात्कार्यस्यानिर्वीच्यत्वंसिद्धमित्याहसिद्धांती। सद टी०

४७ खस्यजगतउत्पत्ति विनाश श्रवणाच्चजन्मविनाशान्यथातुपपत्त्याSनिर्वचनीयत्वंसिद्धमि त्यर्थ: ॥५० ॥ सदसद्वादिनांदुलभत्वमुपलभ्यपौढिवादे नाह सिद्धांती। यदीति। वःयु सदसत्त्वमतीत्यमन:प्रभृतेर्नकथंचनवृत्तिरिहास्तियतः। ततएवमनःप्रमुखस्यभवानभवेदितिसर्वसुवेद्यमिति ५० यदिनामकथंचिद्मुष्यभवःसदसत्त्वमपेक्ष्यभविष्यतिवः। अमृषात्वममुष्यतथापिनतुश्रुतिरस्यमृषात्वमुवाचयतः ५१ ष्माकंमते Sमुष्यमनआदेःसदसत्त्व मपेक्ष्यसदसत्त्वयोरन्यतरंपक्षमपेक्ष्याश्रित्य कथचिद्ग वोजन्मभविष्य तिर्यादनामतथाप्यमुष्यमनआदेरमृषात्वंसत्यत्वंनास्तीति । तत्रहेतुमाह /श्रुतिरिति। "आत्मैवेदंसवं। ब्र ह्मैवेदंविश्वं। सर्वख ल्विदंब्रह्म। वाचारंभणंविकारोनामधे ४७

भावपरिहारेणश्रुक्तिकारजतादिवन्मिथ्यात्वमित्यर्थः ॥५१॥

Page 101

मनआदेर्मिथ्यात्वेसिद्धेयत्फलितंतदाह। मनसइति। श्रुत्यामनसोSनृततामिथ्यात्वम वादियतस्ततएवतस्यमनसश्चरितंअवस्थात्रयमपिमृषाभवेत्। मनसश्चरितंमृषेतियतस्त तएवपुरोदितसिद्धिरभूत् ॥ ५२ ॥ किंपुनस्तत्पुरोदि तमित्यपेक्षायांतद्दर्शयति। यदि

मनसोनृततैवमवादियतस्ततएवहितस्यमृषाचरितम् । यतएवमृषामनसश्र्वरितंततएवपुरोदितसिद्धिरभूत् ५२ यदपेक्ष्यतुनामअवेत्रितयंपरमात्मपदस्यतुरीयमिति। तदसत्यमसत्यगुणस्तुयतःपरिनिर्मितसर्पविसर्पणवत् ५३

त्यं। तत्रहेतुमाह । असत्यगुणस्तुयतइति । असत्यस्यमनसःगुणोवस्थात्रयमितिय स्मात्तस्मात्तदवस्थात्रयमसत्यम्। तत्रदष्टांतमाह। परिनिर्मितसर्पविसपणवदिति। यथा रज्ज्वामारोपितस्यसूर्पस्यासत्यत्वात्तद्विसर्पणस्याप्यसत्यत्वं। तद्वन्मनसोऽसत्यत्वात्त द्वर्मस्यजागरितादरेप्यसत्यत्वमित्यर्थः ॥५३॥

Page 102

तो० टी० त्युक्तमिदानींपरमप्रमेयमुपसंहरति। निखिलस्येति। मनःप्रमुखस्यनिखिलस्यजगतो ४८ वितथत्वंमयापूर्वश्रुतियुक्ति बलेनअवादीतियतस्ततःकारणादद्वयकंपर मक्षरमेवसत्सत्यं । अन्यत्सर्वकार्यकारणात्मकंद्वैतमसत्असत्यमित्यर्थः॥ ५४॥ब्रह्मव्यतिरिक्तंस वैमाया मयत्वादसत्यमित्येतच्छृतियुक्तिभ्यांसिद्ध मित्युक्तमिदानींकासौश्रुतिरित्यपेक्षा यां "त निखिलस्यमनःप्रमुखस्यय तोवितथ त्वमवादिपुरातुमया। श्रुतियुक्तिबलेनततोऽद्दयकंपरमक्षरमेवसदन्यदसत् ५४ यदपूर्वमबाह्यमनंतरकंनचकिंचनतस्यअवत्यपरम्। इतिवेदवचोनुशशासयतोवितथंपरतोन्यदतःप्रगतम् ५५ देतद्रह्मापूर्वंमनपरमनंतरमबाह्यम्। अयमात्माब्रह्मे" त्यादिकेत्याहश्लोकद्वयेन। यदि ति। पूर्वकारणंतद्रहितमपूर्वस्वयंसिद्धत्वात् कारणर हितम्। किंचाबाह्यंजात्यादिरहितं अनंतरंनानात्वरहितंयदेव निर्विशेषंपर मात्मपदं तस्यापरंकिंचिन्नास्तिस्वव्यतिरिक्तंकि ४८ चिद पिनास्ती तिएवंवेदव चोनुशशासेतिय तातएवपरतःपरस्मादक्षरादन्यद्वोघघनादन्य तुअसत्यंवितथ मितिमगतंप्रकर्षेणावगतमिति ॥ ५५॥

Page 103

नत्वंलवणैकरसत्वनिदर्शनतःयथासलिलकार्यलवणंस लिलमात्रम्। तथापरमात्मविवत्त जगद पिपरमात्मैवइत्यात्मनोSवबोधघनत्वंउक्तवतीश्रुतिः। "अपूर्वमनपरम्। सयथासैं धवघन" इत्यादिकाश्रुतिरात्मनोनिर्विशेषत्वमुक्तवतीत्यर्थः ॥५६॥॥ एवंनिविशेषव प्रतिषिध्ययताबहिरंतरपिस्वविलक्षणमात्मनउक्तवती। अवबोधघनत्वमतोन्यदसल्लवणैकरसत्वनिदर्शनतः ५६ लवणैकरसत्वसमंफणितंस्वविलक्षणवस्तुनिषेधनतः। अवबोधघनंपरमात्मपदंत्वमवेहितदस्मिसदाहमिति ५७

कार्यकारणसंबंधरहितं अवबोधघनंयत्परमात्मपदं तदहमस्मीतित्वंसदानिरंतरमवेहिहे

Page 104

तो० टी०

४९ अनेनश्लोकेनतत्पदार्थपाधान्येनअखंडवाक्यार्थप्रपंच्य त्वंपदार्थपाधान्येनप्रपंचयति । अणुनोनच तद्विपरीतगुणानच हस्वमतोनचदीर्वमपि।

प्रतिपन्नतमान्प्रविहायशनैद्शिमात्रमवेहिसदाहमिति ५९

ख्याकान्असुबुद्धिशरीरगुणान् अशनायापिपासाशोकमोहजरामरणादिलक्षणाननात्म ४९ धर्मतयापविहायहित्वा। शनैःक्रमेणावशिष्टंदशिमात्रंकेव लंज्योतिःस्वरूपंपत्यगात्मान महमित्यवेहिजानीहीत्यर्थः ॥५९॥

Page 105

एवमखंडवाक्यार्थोदर्शितः । इदानीमेवंभूतवाक्यार्थज्ञानंयथादृढतरंभवतितथापारब्ध

रूपपरितृप्तिलक्षणं वाक्यार्थजंज्ञानफलंपाप्तोभविष्यतीतिदष्टांतेनदर्शयतिश्लोक द्वयेन। अहिनिरिति। "अहि निर्ल्वयनीवल्मी केमृतापत्यस्ताशयी तएव मेवेदंशरीरंशेत" इति जीवन्मुक्तिश्रुतेः। यथाअहिःसर्पःपरिमाक्षणतःपुराअहि निर्ल्वयनींभुजंगनिर्मोकंआत्मत अहिनिर्ल्वयनीमहिरात्मतयाजगृहेपरिमोक्षणतस्तुपुरा। परिमुच्यतुतामुरगःस्वबिलेनपुनःसमवेक्षतआत्मतया ६०

अहिवत्त्यजदेहमिमंत्वमपिप्रतिपद्यचिदात्मकमात्मतया ६१ याजग्रहेग्नहीतवान्। पुनःकालांतरेसउरग:अहि निल्वयनींकंचुकंस्वविलेपरिमुचयपुन रात्मत्वेननसमीक्षतेनपश्यति। तथाभवतापिइदंकुशरीर मन्नमयादिकंचुकम विवेकतआ त्मानात्म विवेकाभावेनात्मतयाविदितमहिवदि तियस्मात्तस्मात्वमपिचिदात्मकंज्ञानात्म

Page 106

तो० टी० धोस्तीत्याशंक्यनेत्याह। रजनीति। रवेःसूर्यस्यरजनीदिवसौनभवतः। तत्रहेतुमाह। ५० हशेस्तवा पिरवेरिवअविवेक विवेकगुणौनसंभवतःज्ञानाज्ञानगुणौनसंभवतइत्यर्थः॥६२।। रजनीदिवसौनरवेर्भवतःप्रभयासततंयुतएषयतः। अविवेकविवेकगुणावपि तौभवतानरवेरिवनित्यदृशे: ६२ परिशुद्धविबुद्धविभुक्तदशेरविवेकविवेकविवर्जनतः। ममबंधविमोक्षगुणौभवतोनकदाचिदपीत्यवगच्छभृशम् ६३ आात्मनिज्ञानाज्ञानयोरसंभवाद्वंधमोक्षावपिनभवतइत्याह। परिशुद्धेति । परिशुद्धविबु द्धविमुक्तहशे:सदाशुद्धबुद्धमुक्तस्वभावस्य चिन्मान्नज्योतिषोमम। अविवेकविवेकविवर्ज ५० नतःज्ञानाज्ञानविवर्जनतः बंधमोक्षगुणौकदाचिदपिनसंभवतइतिभृशंतात्पर्येणावगच्छ जानीहीत्यर्थः ॥ ६३॥

Page 107

आत्मनिबंधमोक्षयोर भावे पिग्रहणोज्झने स्वपरकर्तृकेसंभवतइत्याशंक्याह। नेति। दृशे विज्ञ प्तिमात्रस्य निरवयवस्य ममग्रहणोज्झनंनास्तिमयान्येनवोपादानंपरिमोचनंवानास्ती तिभवान्निश्चिनु। ममग्रहणोज्झनंनास्तीत्यत्रहेतुमाह। नहीति। कस्यचिदात्मनिस्वस्मि न्कर्मनभवेत्विषय विषयिभावोनभवेत्एकस्मिन्वस्तुनिकर्तकर्मभावविरोधादित्यर्थः परेणाप्यात्मनिहानोपादानेनस्तइत्यत्रहेतुमाह। नचेति। इहलोकेमदन्यःकश्चिदात्मा नममग्रहणोज्झनमस्तिमयानपरेणद्शेरितिनिश्िनुभोः।

अहमस्मिचरस्थिर देहधियांचरितस्यसदेक्षकएकइति। नभवे दतएव मदन्यइतित्वमवेहिसुमेधइदंसुदृढम् ६५ नास्तीतितत्रममाणाभावादित्यर्थः ॥ ६४॥ ननुब्रह्मादिस्थावरांतेषुशरीरेष्वात्मभेदा न्मदन्य:कश्चिदात्मानास्तीत्येतत्कथंघटतइत्यत्राह। अहमिति । चरस्थिर देहधियां चरितस्याहमेकएवसदाईक्षकःसाक्षीयतोतएवमदन्यःस्वात्मनोन्योन अन्यस्यानुपलंभा

Page 108

तो० टी० दित्याशंक्याह। गगनइति। विमलेगगनेजलदादिमलेसतिवाSसतिवायथाभिदाभेदोना ५१

स्यादित्याशंक्याह।अनृतमिति। पुराबव्ही भिर्युक्तिभिर्द्वैतजगदनृतमित्यवदामउक्तवंवो गगनेविमलेजलदादिमलेसतिवासतिवानभिदास्तियथा।

अनृतेननसत्यमुपैतियुजांनमरीचिजलेननदीहूदिनी ६७

तमित्युक्तं। यस्मादेवंतस्मादनृतेनद्वैतेनसत्यमात्मवस्तुयुजांयोगनोपैति। तन्रदष्टांतमाह सिद्धांती। नमरीचिजलेनेति। व्हदिनीनदीअगाधजलसंपूर्णजलानदीअसत्येनमरीचि ५१

जलेनयथायुजांनोपैति। तद्वदात्माप्यसत्येनद्वैतेनसंबंधनोपैतीत्यर्थः ॥ ६७॥

Page 109

एवंमहतापरयत्नेनाभिहितनकिमु क्रियतेकिंपरयाजनंततःकारणादत्र संग्रहंवदामिउक्तमेवा बहुनाभिहितेनकिमुक्रिय तेशृणुसंग्रहमत्रवदामितव। त्वयिजागरितप्रभृतित्रितयंपरिकल्पितमित्यसदेवसदा ६८

उपपत्तिभिरेवचसिद्धमतोभवतोन्यदशेषमभूतमिति ६९

तत्साक्षिणित्वयिपरिकल्पितम विवेकात्तस्मादारोपितंसर्वमसदेवअसत्यमेव। सर्वकल्पना

Page 110

तो० एवंत्वंपदार्थपरिशोध्यतत्पदार्थपरिशाधयति। पदिति । अबाह्यंजात्यादिरहितंअनं टी० तरंनिरवधिकंएकरसंकेव लंचिदानंदस्वरूपं। यदकार्यमकार णंकार्यकारणास्पृष्ट। अद्व ५२ यकंसजातीयविजातीयस्वगतभेदरहितं । यदशेषविशेषविहीनतरंकर्तृत्वभोकृत्वादि विशेषरहितंद शिरूपंपरज्ञानघनं। अनंतदेशतः कालतोवस्तुतश्वापरिच्छिन्नं ऋतंसत्यंय यदबाह्यमनंतरमेकरसंयदकार्यमकारणमद्दयकम् । यदशेषविशेषविहीन तरंदृशिरूपमनंतमृतंतद्सि ७०

इतिपिप्पलभक्षइवाभ्यवददवशिष्टमतिंविनिवारयितुम् ७१

क्यार्थमुपदिश्यगुरुःकिंकृतवानित्यपेक्षायामाह। इयदिति। पिप्पलादःयथासुकेशादी न्शिष्यान्म्रत्यवदत्तथाभ्यवददित्यर्थः । किमर्थमियदेवेत्युक्तवानित्यत्राह। अवशि ५२ ष्टमतिंविनिवारयितुमिति । गुरुणानुपदिष्टांशिष्येणापेक्षितामव शिष्टात्ममतिविनिवर्त यितुमित्यर्थः ॥७१॥

Page 111

फलंदर्शयति। इतरइति। भोभगवन्मृतिजन्मजलंसुखदुःखझषमिमंसंसाराब्धिमवबोध तरेणज्ञानपुवेनसंसारोदधौपतितंमांसुखेनतारितवानसीतिएव मितरोपिशिष्य:गुरुंप्रणि पत्यजगौविज्ञापितवान् ॥ ७२ ॥ अधुनेति। अधुनासुनिर्वृतोस्मिसर्वदात्मरतिःअतएव इतरोपिगुरुंप्रणिपत्यजगौभगवन्नितितारितवानसिमाम् । अवबोधतरेणसमुद्रमिमंमृतिजन्मजलंसुखदुःखझषम् ७२ अधुनास्मिसुनिर्वृतआत्मरतिःकृतकृत्यउपेक्षकएकमनाः । प्रहसन्विषयान्मृगतोयसमान्विचरामिमहींभवतासहित: ७३ तवदास्यमहंभृशमामरणात्प्रतिपद्यशरीरधृतिंअगवन् ।

कल्पितान्महसन्भवतासहितोम हींविचरामीत्युक्तवानित्यर्थः ॥ ७३ ॥" यावदायुस योवंद्यावेदांतोगुरुरीश्वरः। आदौविद्यापसिध्यर्थकृतघ्नत्वापनुत्तय" इतिशिवशासनात्।

Page 112

तो० टी०

५३ वदास्यंभृशंकरवाणिकरिष्यामि। मयाशकनीयंशक्य मिद मेवअतोन्यत्कर्तुमशक्यमात्म

विदेहान्ददामिमांचापिसहदास्याये" तिश्रुतेःयथापूर्वयाज्ञवल्क्यायतत्त्वापदेष्ट्रेजनकः

कृतमित्थमवैतियए तदसौनपतत्युदधौमृतिजन्मजले ७५ स्वराज्यंदत्त्वातदनंतरंस्वदेहम पिगुरवेदत्तवान्इमम भिप्रायंमनसिकृत्वामयाप्येवंकर्तव्य मित्युक्तवानित्यर्थः ॥७४॥ यएतत्पकरणार्थसम्यग्जानातितस्यसंसारनिवृत्तिरेवफ लमितिदर्शयति। गुरुशिष्येति। श्रुतिव द्रुरुशिष्यकथाश्रवणेनगुरुशिष्ययोःकथात त्वनिर्णयफलातस्याःश्रवणेनगुरुशिष्यसंवाद रूपेणइत्थंकृतंश्रुतेःसारसमुद्धरणमुपदेश ५३

वीत्यर्थः ॥ ७५ ॥

Page 113

गुरुदेव ताभक्तियुक्तानांपर महंसानामस्मिन्मकरणेधिकारोनान्येषामित्याह। भगवद्ि

चतुष्टयसंपत्तिर हितैरपाठ्यं गुरुभक्तिमतएव गुरुणोक्तमुपदिष्टंप्रतिभातिसफ लंभवतिअतो न्यभजन् विषयेष्वासक्तबु द्धिर्नपठेदित्यर्थः ॥ ७६ ॥ गुरुभक्तिम द्विरेवसंन्यासिभिरिदंप ठितव्य मित्युक्तंतत्र किंपरमाणमित्याकांक्षायाम्। "अत्याश्रमिभ्यःपरमंपवित्रंमोवाचस

निगमोपिचय स्यइतिप्रभृतिर्गरुअक्तिमतःकथितंगुरुणा। प्रतिभातिमहात्मनइत्यवदत्पठितव्यमतोगुरुभक्तियुतैः ७७ म्यगृषिसंघजुष्टम्। यस्यदेवेपराभक्तिर्यथादेवेतथागुरौ। तस्यैतेकथिताह्यर्थाःप्रकाशंते महात्मन" इतिश्रुतिरेवप्रमाणमित्याह। निगमोपीति। गुरौस्नेहवतोविश्वासयुक्तस्य वदतूउ क्तवान्तस्माहुरुभक्तिमतैव पठितव्य मित्यर्थः॥७७॥

Page 114

तो० टी० रून्नमस्करोतिलोकशिक्षार्थं। येषांधासूर्यदी प्येति। मेममजन्ममरणसंतानदोलाधिरुढेः ५४ दोलावधिरूढवदितस्ततःसंचारशीलस्यस्वांत स्यमनसोहेतुःध्वांतमज्ञानंतदज्ञानंयेषांगु रूणांधीसूर्यदीह्याधी रूपसूर्य प्रकाशेनप्रतिहतमभिभूयएकांततोत्यंतनाशमगमत्।किंच। येषांधीसूर्यदी त्याप्रतिहतमगमन्नाशमेकांततोमे

येषांपादौप्रपन्नाःश्रुतिशमविनयैर्भूिताःशिष्यसंघाः

दौप्रपत्नाःसंतःसद्योमुक्ताः स्थितास्तान्यतिवर महितान्यतीनांमध्येवराःपूज्यत्वेनश्रेष्ठ स्तेषामपिपूज्यानेवंविशिष्टान् गुरून्भगवत्पादाख्यान्यावदायुर्नमामियावज्जीवंनमामी ५४

त्यर्थ: । ७८ ।1

Page 115

गुरुभक्तिवद्रगवद्गक्तिर प्यात्मज्ञानस्यातरंगसाधन मितिदर्शयितुंविराड्रूपंनारायणंनम स्करोति। भूःपादाविति। विष्णुंनमामीतियोजना विष्णुंव्यापनशीलंत्रिभुवनवपुषंत्रि

भूमि"रितिश्रुतेःयस्यविष्णोःपादौभूः। यस्योदरंखमाकाशं। यस्यअसुःप्राणःअनिलोवा भू:पादौयस्य खंचोदरमसुरनिल श्रवंद्रसूर्यौचनेत्रे

अंतस्थयस्यविश्वंसुरनरखगगोभोगिगंधर्वदैत्यैः चित्रंरंरम्यतेतंत्रिभुवनवपुषंविष्णुमीशंनमामि १७९

धंविश्वंरंरम्यतेअतिशयेनर म्यतेतमेताद्दशंत्रिभुव नव पुषईशंनियंतारं "सहस्रशीर्षे" त्या दिश्रुतिसिद्धंविष्णुंमुमुक्षुरहंनमामीत्यर्थः ॥१७९ ॥ इतिश्रीपूज्यपादयोगींद्रशिष्येणस च्चिदानंदयोगिनारचि तातत्त्वदीपिका तोटक श्लोकदीपिकासमाप्ता ।ॐ नमःश्रीशंकराय।।

Page 116

अथ शुद्धिपत्रम्

पत्रं पृष्ठपक्ति अशुद्धपाठः शुद्धपाठः पत्रं पृछ्ठपंक्ति अशुद्धपाठः शुद्धपाठः ४ १११ निवाशरहितं विनाशरहितं २० १ ८ तच्घमिति तत्वमिति ७११२ तहत्तीनां २१ २ ३ पृथङ्गास्ति पृथङ्गास्ति ८ ३ एकावधे तहत्तीनां एकविधे २२ १ यथाविकृते यदाविकृत V ८ ४ आत्मचित्ता आत्मचिता १ १२ यथाप्रकृते यदापकृते ८ २/११ स्वगुणोप स्वगुणोपि २४ १ ९ तथैयते तथैषते १० १ प्राहणोति प्रहिणोति २४ १ १४ किवमुक्ति किमुवक्ति १० ११ नगुणेति नगुणइति २४ २ १४ भेदायो भेदाख्यो १४ १ ४ अविकृतःसन अविकृत:सन् २६ १० इत्याह इत्यत्राह १४ १ १४ सदानद सदानन्द ४२ १२ व द्वूत १५ १ १ योऽसौ योSसावसौ वद्त ४४ १ ४ कथ कथं १७ २ ११ फलवत्व फलवत्त्व ४५/२/१३ गच्छासि गच्छसि

Page 117

अथहस्तामलकवार्तिकंप्रारभ्यते. ॐश्रीगणेशायनमः अथश्रीशङ्कराचार्य्योबा लंपप्रच्छयत्नतः कस्त्वंशिशोकिमर्थवाजड वद्वर्तसेवद१इतिश्रुत्वावचोभाष्यकारस्यमनसाशिशुः तंसविज्ञायसर्वज्ञंसर्वब्रह्मविदांवरम् २ स्वानुभूतिवचांस्यद्धावेदान्तार्थमयानिच ब्रह्मैक्यनिष्ठान्यात्मज्ञःप्रोवाचगुणसागरः ३ नवर्णोविप्राद्योमयिनचजडत्वादिकलना जडोयंदेहादिःप्रभवतिमदाधारचलनः अ स्योहंबुद्धचासुदृगपिनवाचानकरणै मंदायत्ताःसर्वेमतिवचनचक्षुःप्रभृतयः अवेद्यस्याख णडानुभववपुषोमेनवरतं धियाब्रह्मानन्देनिरवधिमहिम्नोविहरणम् ५ गतौधर्माधर्मौल यमथगतौस्वर्गनरकौ गतौरागद्वेषौप्रविलयमुदारात्मवपुषः गतौभेदाभेदौविगलितमहा मोहतमसो ममस्वात्मानन्देनिरवधिमहित्रोविहरणम् ६ अविद्याकामादिःप्रभवतिन यत्रात्मनिपरे विवत्तीय स्यैतेवियद निलतेजोंSव्ववनयःनसंसारोयस्मिभ्जनिमृतिमयोदुः त्मरसिको निराधारोज्योतिर्भ्रमरचितसंबन्धरहितः श्रुतीनांसिद्धांतोSपरिमितवपुः स्वानुभवतः सनित्योबोधात्मानिरवधिरहंसौख्यजलधि: ८स्वतःशुद्धोबुद्धःसमरसपरान

Page 118

ह० न्दविततो धियांसाक्षीवृत्ते:प्रलयमुदयंवेत्तिसततं क्रिर्यायःकर्त्तारंविषयमजआभासयति वा० च स्वयंज्योतिःसोहंहृदयकमलार्कोस्मिसुखदः ९ पथार्कोनेत्राणांनभ।सगतएकोपिब १ हुधा प्रकाशंसंधत्तेयुगपदयमात्माखिलधियां हृदाकाशेस्थित्वावपुषिघनएकोपिजग तां तथाभानंधत्तेसच सुखघनात्माहमजड: १० पुरासृष्टेरेकःस्वयमकलआसीदनिमि षो नतेजोन ध्वान्तंगुणकृतकलाख्यादिरहितः स्वशर्कतिंमायाख्याम खिलजनिमाश्रित्य सहसा ससर्जेदंयोसौसचसुखघनात्माहमजड: २१ प्रियोवित्तात्पुत्रादसुतनुमतिभ्यःभि यइति श्रुतेर्युक्तेःसिद्धोह्यनुभववशात्सर्वजगतां असन्दिग्धोनित्योहगविषयआत्माचल वपु र्यआनन्दःसोहंनिरवधिसमज्ञानजलधिः १२ नदृश्यंनोद्रष्टानचकरणसाध्यंनविम तें नजीवोनोपाधिर्नचजनिमृतीनैवचजरा नस्ष्टिर्नोस्ष्टानचसुकृतपापेसमुदिते चिदा नन्देयत्रानिशमिहममाक्रीडनमलम् १३ शिवाद्याःसंर्वज्ञानिखिलमुनयोब्रह्मरसिका वि राजन्तेयत्राचलनिजमहि न्निस्वरसतः परेभूमानन्देसमरसपदेतत्रसततं विशालाक्रीडामे भवतिसुरवन्द्याऽमृतमयी १४ यमाहुवेदान्ताःपरमपदमीशोपिवचनै रखण्डब्रह्मार्यंवि धिमुखनिषेघैरविरतं सएवाहंबालोविधिहरिहरात्मातिविमलो निजानन्दकीडोविगत कलनोभ्रांतिरहित: १५ इतिश्रीहस्तामलक्वार्ततिकंसमाप्तम्.

Page 119

एवंकिलपारंपर्येण स्वामिभ्यःश्रूयते। निखिलकर्मन्दिवृन्दैःस्वगुरुत्वेनमान्याःब्रह्मविद्वरि छ्ठत्वेनपरोपकारासक्तचित्तत्वेनच जेगीयमाननिखिलवसुधाकीतयः अनेकभूपालपरिव

चार्या:संन्यासिमंडल्यधिष्ठातारोवभूवुः । तेचतन्तदेशस्थमुमुक्षुजनो द्वारार्थतीर्थयात्रार् ा चानेकदेशाटनं कुर्वन्तःप्रबलेन पारब्धेन कर्मणाकदाचिन्नेन्रव्यथांगराप्तास्तन्निवृत्तये श्रीभा गीरथ्या:स्तवंचक्रुः । तेनाल्पेनैवस्तवेनतुष्टश्रीजान्हवी स्वभक्तषुवत्सलतयातन्नेत्रव्य थांशमयामास। तत्समयेश्रीमदाचार्याणांसमीपिस्थैःशिष्यवरैः सस्तवोलिखितःसचैषः ॐ श्रीगणेशायनमः । गंगेहेनिजपादपद्मनिरतंनेन्नाधिनापीडितं दीनदीनदयारतेति विमलेससारकारागृहं नीतंराजनिभेन तेनबलिनापूर्वाजितेनाधुनामारब्धाख्यकथांगतेन गुरुणानैजेनवैकर्मणा ॥ १ ॥ दत्वास्वांधिसराजरेणुरतिदांभक्तिंपरांपावनींरागाद्युग्र

तिदेगंगेSसिसर्वात्मके बाह्मीहैमवतीरमेत्यभिधयात्वंदेविविभ्राजसे त्वत्तोन्यज्जगतीत लेनहि शुभेजानामिभागीरथि त्वल्लीलास्थिरजंगमाख्यमखिलंत्वत्त: परंनापरम् ॥ ३ ॥

Page 120

भा० सत्तामात्रक लेवरेमुसुखदेहादान्धकारापहे दिव्येशम्भुजटाविलासनिरतेवाक्यार्थविज्ञान स्व० दे अध्यस्ताखिललोकलोकनकरेसंसारकाराजरे भक्ताभीष्टरकरेमुलोकफलदेस्वगापगेते १ नमः ॥४ ॥ शुद्धान्तःकरणेविवेचनरतंभक्त्यास्वयासाधकं कृत्वामांनिजपादपद्ममधुपं ज्ञानेच्छयासंयुतं दृष्टयापावनयापवित्रवपुरषंध्यानैकनिषठंपरं नित्यानित्य विवेचनप्रथम कंसंपाद्यवैसाधनम् ॥ ५॥ यावेदान्तविचारणासुकथिताव्यासेनशारीरके ब्रह्मज्ञानफ लास्वरूपरतिदासंसाररोगाप हा पूर्वोपार्जितपुण्य पुंजजनितासद्योSपवर्गार्थदा तांसंपा द्यचजाह्नवीड्य मतिदांज्ञानैकनिष्ठाफ लम् ॥ ६ ॥तल्लुब्धार्थ विरोधितर्क विनुद श्रौतेष्ठतर्का त्मकं यच्छृत्यामननात्मनापकथितलभ्यंमनीषावतां नैदिव्यासननामधेयमपरंध्यानंच संकीतितं सत्सम्पाद्यचजन्हुजेSववितत मेपुण्यैकलभ्यनरैः ॥ ७॥ तलुभ्यामतिमानुजां सुमहतींसाज्ञानकार्यापहां दृष्टिंदानवमानवाभिलषितांदत्वापरांध्वान्तहां मांमातनिजबा लकंचविगुणंध्वान्तनसंछादनात् अन्धत्वेनच विव्हलंस्वविमुखंमत्वा शुभेपा हिमाम् ॥। ८ ।। स्तवोभागीरथ्याभवजलधिपाताद्दढतर: स्वधीतोगीतोयःपरमगतिदःपावनकरः सुधा १ घारासारोवृजिनदहनोदैन्यदलन श्विदानन्दाकारेभजतुविर तिंब्रह्मणिपरे ।। ९ ॥ इवि श्रीमत्परमहंसपरिव्राजकाचार्यस्वाम्यादित्यगिरिग्रणीतः श्रीभागीरथीस्तवःसमापः ॥

Page 121

मुंबई, "जगदीश्वर" छापेखानेमे छपवाया संवत १९४४ आश्विनमास

Page 122

इति सटीकतोटकं समाप्तम्