Books / Tripadvibhuti Mayanarayana Upanishad

1. Tripadvibhuti Mayanarayana Upanishad

Page 1

1

यत्रापह्वतां याति स्वाविद्यापदविभ्रमः । तत्पात्रारायणाख्यं स्वामात्मवशिष्ठते ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यशेम देवहितं यदायुः ॥ अथ परमतत्त्वरहस्यं जिज्ञासुः परमेश्री देवमानेनन सहस्रसंवत्सरं तपश्चचार । सहस्रवर्षेऽतीते ऽत्यू प्रतिपीतव्रतपसा प्रसन्नं भगवान्तं महाविष्णुं ब्रह्मा परिपच्छति भगवान् परमतत्त्वरहस्यं मे बूहिीति । परमतत्त्वरहस्यवक्ता त्वमेव नान्यः । कश्चिदस्ति तत्त्वर्थमिति । तदेवोच्यते । त्वमेव सर्वज्ञः । त्वमेव सर्वशक्तिः । त्वमेव सर्वाधारः । त्वमेव सर्वस्वरूपः । त्वमेव सर्वेश्वरः । त्वमेव सर्वप्रवर्तकः । त्वमेव सर्वपालकः । त्वमेव सर्वनिवर्तकः । त्वमेव सदसदात्मकः । त्वमेव सदसद्विलक्षणः । त्वमेवान्तर्हित्यापकः । त्वमेवातीतसूक्ष्मतरः । त्वमेवातिमहतो महीयान् । त्वमेव सर्वमूलाविद्यानिवर्तकः । त्वमेवाविद्याधारकः । त्वमेव विद्यावेदः । त्वमेव विद्यास्वरूपः । त्वमेव विद्यातीतः । त्वमेव सर्वकरणहेतुः । त्वमेव सर्वकरणसमष्टिः । त्वमेव सर्वकरणव्यष्टिः । त्वमेवाखण्डानन्दः । त्वमेव परिपूर्णानन्दः । त्वमेव निरतिशयानानन्दः । त्वमेव तुरीयतुरीयः । त्वमेव तुरीयातीतः । त्वमेवान्तोपनिषदिमुग्यः । त्वमेवाखिलशास्त्रैर्विमुग्यः । त्वमेव ब्रह्मेशानपुरन्दरपुरोगमैरखिलामरैरखिलागमैर्विमुग्यः । त्वमेव सर्वमुखसूक्ष्मभिरविमुग्यः । त्वमेवामृतमयैर्विमुग्यः । त्वमेवामृतमयस्वमेवामृतमयस्वमेवामृतमयः । त्वमेव सर्वं त्वमेव सर्वम् । त्वमेव मोक्षस्त्वमेव मोक्षदस्त्वमेवाखिलमोक्षसाधनम् । न कश्चिदस्ति त्वद्व्यतिरिक्ततम् । त्वद्व्यतिरिक्तं यत्किचिच्चित्तप्रतीयेते तत्सवं वाधितमिति निश्चितम् । तस्मात्त्वमेव वक्ता त्वमेवगुरुस्वमेव पिता त्वमेव सर्वनियन्ता त्वमेव सर्वं त्वमेव सदा ध्येय इति सुनिश्चितः । परमतत्त्वजिज्ञासुवाच महान्तः प्रसन्नो भूत्वा साधुसाधिति साधुप्रशंसापूर्वं सर्वं परमतत्त्वरहस्यं ते कथयामि । सावधानेन श्रृणु । ब्रह्माद्देवदैत्याद्याख्याधर्णशाखायां परमतत्त्वरहस्याख्यार्थवर्ण-महानारायणोपनिषदि गुरुशिष्यसंवादः पुरातनः । प्रसिद्धतया जागर्ति । पुरा तत्त्वरूपज्ञानेन महान्तः सर्वं ब्रह्मभावं गताः । यस्य श्रवणेन सर्वबन्धः प्रविनश्यन्ति । यस्य ज्ञानेन सर्वरहस्यं विदितं भवति ।

Page 2

2

तत्त्वरूपं कथयति । शान्तो दान्तोऽतिविरक्तः सुशुद्धो गुरुभक्तस्तपोनिष्ठः शिष्यो ब्रह्मानिष्ठं गुरुमाश्रित्य प्रदक्षिणपूर्वकं दण्डवत्प्रणम्य प्राञ्जलिभूत्वा विनयेनोपसं गम्य भगवन् गुरो मे परमतत्त्वरहस्यं विविच्य वक्तव्यमिति । अत्यादरपूर्वकमिति हर्षेण शिष्यं बहूक्रृत्य गुरुवन्दति । परमतत्त्वरहस्योपनिषत्कम् । कथ्यते सावधानेन श्रूयताम् कथं ब्रह्म । कालत्रयाबाधितं ब्रह्म । सर्वकालाबाधितं ब्रह्म । सगुणनिर्गुणस्वरूपं ब्रह्म । आदिमध्यान्तशून्यं ब्रह्म । सर्व श्लिष्टं ब्रह्म । मायातीतं गुणातीतं ब्रह्म । अनन्तमप्रेमेयाक्ष्णडपरिपूर्ण ब्रह्म । अद्वितीयपरमानन्दशुद्धबुद्धमुक्तसत्यस्वरूपव्यापकाभिन्नापरिच्छन्नं ब्रह्म । सच्चिदानन्दस्वप्रकाशं ब्रह्म । मनोवाचामगोचरं ब्रह्म । अमितवेदान्तवेद्यं ब्रह्म । देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म । सर्वपरिपूर्ण ब्रह्म तुरीयं निराकारमेकं ब्रह्म । अद्वैतमनिर्वाच्यं ब्रह्म । प्रणवात्मकं ब्रह्म । प्रणवात्मकत्वेनोक्र्तं ब्रह्म । प्रणवाद्यक्षिलमन्वात्मक ब्रह्म । पादचतुष्ट्यात्मकं ब्रह्म । किं तत्त्वादचतुष्ट्यं ब्रह्म भवति । अविद्यापादः सुविद्यापादशानन्दपादस्तुरीयपादस्तुरीय इति । तुरीयपादस्तुरीयातुरीयं तुरीयातीतं च । कथं पादचतुष्ट्यस्य भेदः । अविद्याप्रः प्रथमः । पादो विद्यापादो द्वितीयः आनन्दपादस्तुरीयपादस्तुरीय इति । मूलाविद्या प्रथमपादे नान्वयत्र । विद्यानन्दतुरीयांशः सर्वेषु पादेषु व्याप्त तिष्ठन्ति । एवं तर्हि विद्यादीनां भेदः कथं भवति । तत्त्वप्रदेशे । वस्तुतस्त्वभेद एव । तत्त्वादस्तानमेकं पादमविद्याश्रयं भवति । उपरितनपादत्रयं शुद्धबोधानन्दलक्षणममृतं भवति । तच्चानिर्वाच्यमनिदेश्यमक्ष्णडानन्दैकरसात्मकं भवति । तत्र मध्यमपादमध्यप्रदेशेऽमित तेजःप्रवाहाकारतया नित्यवैकुण्ठं विभाति । तच्च निरतिशयानन्दाक्षण्डब्रह्मानन्दनिजमूर्त्याकारेण ज्वलति । अपरिच्छिन्नमण्डलानि यथा दृश्यन्ते तद्र्दक्षण्डानन्दामितवैष्णवदिव्यतेजोराश्यनन्तर्गतविलास्नमहाविष्णोः परमं पदं विराजते । दुर्ग्रोधोधिमध्यस्थितामृतामृतकलशवदृदृशणवं धाम परमं संदृश्यते । सुदर्शननदिव्यते जोड न्तर्गतः सुदर्शनपुरुषो यथा सूर्यमण्डलान्तर्गतः सूर्यनारायणोऽमितापरिच्छिन्नाद्दैतपरमानन्दलक्षणतेजोराश्यनन्तर्गत आदिनारायणस्थास संदृश्यते । स एव तुरीयं ब्रह्म स एव तुरीयातीत स एव विष्णुः स एव समस्तब्रह्मवाचकवाच्यः स एव परंज्योतिः स एव मायातीतः स एव गुणातीतः स एव कालातीतः

Page 3

3

स एव अखिलकर्मातीतः स एव सत्योपाधिरहितः स एव परमेश्वरः स एव चिरन्तनः पुरुषः प्रणवाद्यखिलमन्त्रवाचकवाच्य आदान्तशून्य आदिदेशकालवस्तुतुरीयसंज्ञानित्यपरिपूर्णः पूर्णः सत्यसंकल्प आत्मारामः कालत्रयावाधितनिजस्वरूपः सयंज्योतिः सयम्प्रकाशमयः स्वसमनाधिकरणशून्यः स्वसमनाधिकशून्यो न द्विरात्रिविभागो न संवत्सरादिकालविभागः स्वानन्दमयानन्ताचिन्त्यविभव आत्मान्तरात्मा परमात्मा ज्ञानात्मा तुरीयात्मेत्यादिवाचकवाच्योऽद्वैतपरमानन्दो विमुंक्तयो निष्कलङ्को निर्विकल्पो निरञ्जनो निराकार्यात् शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चिदिति य एवं वेद स पुरुषस्तदीयोपासनया तस्य सायुज्यमेतीत्यत्रसंशयमित्युपनिषत् ॥ इत्यर्थवर्णनमहानारायणोपनिषदि पादचतुष्टयस्वरूपनिरूपणं नाम प्रथमोऽध्यायः ॥ ॐ ॥

3

अर्थेति होवाच च्छात्रो गुरून् भगवान्तम् । भगवन्नेकुण्ठस्य नारायणस्य च नित्यत्वमुक्तत्वम् । स एव तुरीयमित्युक्तमेव । वैकुण्ठः साकारो नारायणः साकारस्थ । तुरीयं तु निराकारम् । साकारः सावयवो निरवयवं निराकारम् ॥ तस्मात्साकारमनित्यं निराकारमिति श्रुतेः । यद्यत्सावयवं तत्तदनित्यमित्यनुमानाच्चैति प्रत्यक्षेण दृष्टत्वाच्च । अतस्तयोरनित्यत्वमेव वक्तुमुचितं भवति । कथमुक्तं नित्यत्वमिति । तुरीयमक्षरमिति श्रुतेः । तुरीयस्य नित्यत्वं प्रसिद्धम् । नित्यत्वानित्यत्वे परस्परविरुद्धधर्मौ । तयोरे कस्मिन्नपि ब्रह्मण्यत्नविरुद्धं भवति । तस्मा

3

ब्रह्मविद्यासाकारस्वानन्दसाकार उभयात्मकसाकारश्वेति । त्रिविधसाकारोऽपि पुनर्द्विविधो भवति । नित्यसाकारस्त्वादान्तशून्यः शाश्वतः । उपासनया ये मुक्तिं गतास्तेषां साकारो मुक्तसाकारः । तस्याखण्डनज्ञानेनाविभावो भवति । सोऽपि शाश्वतः । मुक्तसाकारस्त्वैच्छिक इति । अन्ये वदन्ति शाश्वत्तत्त्वं कथमिति । अद्वैताखण्डपरिपूर्णनिरतिशयपरमानन्द-शुद्धबुद्धमुक्तसत्यात्मकब्रह्म चैतन्यसाकारत्वात् निरुपाधिकसाकारस्य नित्यत्वं सिद्धमेव । तस्मादेव निरुपाधिकसाकारस्य निरवयवत्वादात्मकतत्प्रकाशकम्पि दूरतो निरस्तमेव । निरवयवं ब्रह्मचैतन्यमिति सर्वोऽपनिषत्पु सर्वशास्त्रसिद्धान्तेषु श्रूयते । अथ च विद्यानन्दतुरीयाणामभेद एव श्रूयते । सर्वत्र विद्यादिसाकारभेदः कथमिति । सत्यमेवोक्तमिति देशिकः परिहरति । विद्याप्रधान्येनैव विद्यासाकारः

Page 4

8

आनन्दप्राभान्येनानान्दसाकार: उभयप्राभान्येनोभयात्मकसाकारखेति । प्राभान्येनात्र भेद एव । स भेदो वस्तुतस्त्वभेद एव । भगवान्‌खण्डद्वैतपरमानन्दलक्षणपरब्रह्माण: साकारनि‌राकारौ विरुद्धधर्मौ । विरुद्धोभयात्मकत्वं कथं मिति । सत्यमेवेति गुरु: परिहरति । यथा सर्वंगतस्य निराकारस्य महावायोस्तदात्मकस्य त्वक्प्रतित्येन प्रसिद्धस्य साकारस्य महावायुदेवस्य चाभेद एव श्रूयते सर्वत्र । यथा पृथिव्यादीनां व्यापकशरीराणां देवविशेषणां च तद्विलक्षणतदभिन्नव्यापक परिच्छिन्ना निजमूर्त्याकारदेवता: श्रूयन्ते सर्वत्र तद्वत्परब्रह्मण: सर्वात्मकस्य साकारनि‌राकारभेदविरोधो नास्त्येव विविधविविध्रान्तशक्ते: परब्रह्मण: स्वरूपज्ञानेनविरोधो न विद्यते ।

8

तदभावे सत्यनन्तविरोधो भवति । अथ च रामकृष्णाद्यवतारेषूद्वैतपरमानन्दलक्षणपरब्रह्मण: परमतत्त्वपरमविभवानुसन्धानं स्वीयत्वेन श्रूयते सर्वत्र । सर्वपरिपूर्णस्योद्वैतपरमानन्दलक्षणपरब्रह्माणस्तु किं वक्तव्यम् । अन्यथा सर्वपरिपूर्णस्य परब्रह्मण: परमार्थतः साकारं विना केवल निराकारत्वं यद्वाभिमतं तर्हि केवलनि‌राकारस्य गगनस्येव परब्रह्मणोडपि जडत्वमापद्येत । तस्मात्परब्रह्मण: परमार्थतः साकारनि‌राकारौ स्वभावसिद्धौ । तथाविधस्योद्वैतपरमानन्दलक्षणस्यादिनारायणस्योम्नेषनिमेषाभ्यां मूलाविद्योदयस्थितिलयौ जायन्ते ।

8

कदाचिदात्मारामस्याश्विलपरिपूर्णस्यादिनारायणस्य स्वेच्छानुसारेणोम्नेषो भवति । अव्यक्तान्मूलाविद्याविभावो मूलाविद्यावि‌र्भावोऽस्ति । तस्मादेव सच्छब्दवाच्यं ब्रह्मविद्याशबलं भवति । ततों महत् । महतोंडहंकार: । अहङ्कारात्पञ्चतन्मात्राणि । पञ्चतन्मात्रेभ्य: पञ्चमहाभूतानि । पञ्चमहाभूतेभ्यो ब्रह्माण्डं जायते । तत्र तत्त्वतो गुणातीतशुद्धसत्त्वमयो लीलागृहीतानिरतस्यायन्न्दलक्षणो मायोपाधिको नारायण आसीत् । स एव नित्यपरिपूर्ण: पादविभूतिवेकुण्ठनारायण: ।

8

स चानन्तकोटिब्रह्माण्डानामुदयस्थितिलयाद्यश्किलकार्यकरणजाल- परमकरणकारणभूतो महामायातीतस्तुरीय: परमेश्वरो जयति । तस्मात्स्थूलविराट्स्वरूपो जायते । स सर्वकारणमूलं विराट्स्वरूपो भवति ।

Page 5

5

स चानन्र्शीर्षा पुरुष अनन्ताक्षिपाणिपादो भवति । अनन्तश्रवणः सर्वमावृत्य तिष्ठति । सर्वव्यापको भवति । सगुणनिगुणस्वरूपो भवति । ज्ञानबलैश्वर्ययरक्तितेजःस्वरूपो भवति । विविधविचित्रानन्तजगदारो भवति । निरतिशयानि रडूशसर्वंशक्तिसर्वनियन्तृत्वाद्यनतकल्याणगुणाकारो भवति । वाचामगोचरानन्तदिव्येजोराश्याकारो भवति । समस्ताविद्याण्डव्यापको भवति । स चानन्तमहामायाविलासानामधिष्ठानविशेषनिरतिशयाद्वैतपरमानन्दलक्षणपरब्रह्मविलासविग्रहो भवति । अस्यैकैकरोमकूपान्तरेष्वनन्तकोटिब्रह्माण्डानि स्थावराणि च जायन्ते । तेषु वणडेषु सर्वेष्वैकनारायणावतारो जायते । नारायणादण्डविराट्स्वरूपो जायते । नारायणाद्दिरण्यगर्भो जायते । नारायणाद्विलोकसृष्टिप्रजापतयो जायन्ते । नारायणादेकादशरुद्राद्रा जायन्ते । नारायणाद्विलोकाश जायन्ते । नारायणादिन्द्रो जायते । नारायणात्सर्वेन्देवाद्रा जायन्ते । नारायणादद्वादशादित्या: सर्वे वसव: सर्वे ऋषय: सर्वाणि भूतानि सर्वाणि छन्दांसि नारायणादेव समुत्पद्यन्ते । नारायणात्प्रवर्तन्ते । नारायणे प्रलियन्ते । अथ नित्योदक्षर: परम: स्वराट् । ब्रह्मा नारायण: । शिवश नारायण: । शक्तिश नारायण: । दिशश नारायण: । विदिदिशश नारायण: । कालश नारायण: । कर्माश्रितलं च नारायण: । मृताममूर्तं च नारायण: । कारणात्मक: सर्वे कायात्मक: सकलं नारायण: । तदुभयविलक्षणो नारायण: । परंज्योति: स्वप्रकाशमयो ब्रह्मानन्दमयो नित्यो निर्विकार्यो निरञ्जनो निराक्यात् शुद्धो देव एको नारायणो न द्वितीयोडस्ति कश्चित् । न स समानाधिक इत्यंशायं परमार्थतो य एवं वेद । सकलबन्धांशच्छित्त्वा मृत्यं तीर्त्वा स मुक्तो भवति स मुक्तो भवति । य एवं विदित्वा सदा तमुपास्ते पुरुष: स नारायणो भवति स नारायणो भवतीत्युपनिषट् ॥

5

इत्याथर्वणमहानारायणोपनिषदि परब्रह्मण: साकारनिराकारस्वरूपनिरूपणं नाम द्वितीयोऽध्याय: ॥ २ ॥ अथ छात्रस्तथेतिहोवाच । भगवान्देशिक परमतत्त्वज्ञ

Page 6

6

सविलासमहामूलाविद्योदयक्रमः कथितः । तदु प्रपञ्चोत्पत्तिक्रमः कीदृशो भवति । विशेषेण कथनीयं । तस्य तत्वं वेदितुमिच्छामि । तथेत्युक्त्वा गुरुरित्युवाच ॥ र्थानादिसर्वप्रपञ्चो दृश्यते । नित्योऽनित्यो वेति संशय्यते । प्रपञ्चोऽपि द्विविधः । विद्याप्रपञ्चस्वाविद्याप्रपञ्चश्चेति । विद्याप्रपञ्चस्य नित्यत्वं सिद्धमेव । नित्यानन्दचिद्रिलासात्मकत्वात् । अथ च शुद्धबुद्धमुक्तसत्यानन्दस्वरूपाच्च । अविद्याप्रपञ्चस्य नित्यत्वं वा अनित्यत्वं वा कथमिति । प्रवाहतो नित्यत्वं वदन्ति केचन । प्रलयादिकं श्रूयमाणत्वादनित्यत्वं वदन्त्यन्ये । उभयं न भवति । पुनः कथमिति । संकोचविकासात्मकमहामायाविलासात्मक एव सर्वोऽप्यविद्याप्रपञ्चः । परमार्थतो न किंचिदस्ति क्षणशून्यानादिमूलाविद्याविलासत्वात् । तत्कथमिति । एकमेवाद्वितीयं ब्रह्म । नेह नानास्ति किंचन । तस्मादब्रह्मव्यतिरिक्तं सर्वं बाधितमेव । सत्यमेव परब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म । ततः सविलासमूलाविद्योपसंहारक्रमः कथमिति । अत्यादरपूर्वकमतिहर्षेण देशिक उपदिशति । चतुयुगसहस्राणि ब्रह्मणो दिवा भवति । तावता कालेन पुनस्तस्य रात्रिभवति । द्वे अहोरात्रे एकं दिनं भवति । तस्मिन्नेकस्मिन्दिने आसत्यलोकान्तमुदयस्थितिलयायै जायन्ते । पक्षदशादिनानि पक्षौ भवति । पक्षद्वयं मासो भवति । मासद्वयमृतुर्भवति । ऋतुत्रयमयनं भवति । अयनद्वयं वत्सरो भवति । वत्सरशतं ब्रह्मणेन ब्रह्मणः परमायु: प्रमाणम् । तावत्कालस्तस्य स्थितिरुच्यते । स्थित्यन्तेऽण्डविराट्पुरुषः स्वां शं हिरण्यगर्भमभ्येति । हिरण्यगर्भस्य कारणं परमात्मानमण्डपरिपालकनारायणमभ्येति । पुनर्वत्सरशतं तस्य प्रलयो भवति । तदा जीवा: सर्वे प्रकृतौ प्रलीयन्ते । प्रलयं सर्वशून्यं भवति । तस्य ब्रह्मणः स्थितिप्रलयावादिनारायणस्यांशेनावतीर्ण- स्पाण्डपरिपालकस्य महाविष्णोरहोरात्रिसंज्ञकौ । ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमास- संवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते स्वां शं महाविराट्पुरुषमभ्येति ।

Page 7

7

तत: सावरणं ब्रह्माण्डं विनाशयति । ब्रह्माण्डावरणं विनश्यति तद्‍द्वै विष्णो: स्वरूपम् । तस्य तावत्प्रलयो भवति । प्रलये सर्वेशून्यं भवति । अण्डपरिपालकमहाविष्णो: स्थितिप्रलयावादिविराटपुरुषस्याहोरात्रिसंज्ञकौ ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमाससंवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते आदिविराटपुरुष: स्वांशमायोपाधिकनारायणमभ्येति । तस्य विराटपुरुषस्य यावत्स्थितिकालस्तावत्प्रलयो भवति । प्रलये सर्वेशून्यं भवति । विराटस्थितिप्रलयो मूलाविद्याण्डपरिपालकस्यादिनारायणस्याहोरात्रिसंज्ञकौ । ते अहोरात्रे एकं दिनं भवति एवं दिनपक्षमाससंवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते त्रिपाद्विभूतिनारायणस्येच्छावशात्प्रेमेो जायते । तस्मान्मूलाविद्याण्डस्य सावरणस्य विलयो भवति । तत: सचिलासमूलविद्या सर्वकार्योपाधिसमन्विता सदसद्विलक्षणानिरवंच्यलक्षणगून्याविभ्रांतिरोमभावात्मिकानाद्यखिलकारणानन्तमहामायाविशेषणविशेषिता परमसूक्ष्ममूलकारणमव्यक्तं विरजति । अव्यक्तं विशेदब्रह्मणि निरिन्‍धनो वैश्वानरो यथा । तस्मान्मायोपाधिक आदिनारायणस्थां स्वस्वरूपं भजति । सर्वे जीवाश्च स्वस्वरूपं भजन्ते । यथा जपकुसुमसात्निध्याद्‍वक्त्रस्फटिकप्रतीतिसद्‍भावे शुद्धस्फटिकप्रतीति: । ब्रह्मणोपि मायोपाधिवशात्सगुणपरिच्छिन्नादिप्रतीतिरुपाधिविलयात्रिगुणनिरवयवादिप्रतीतिरित्यर्थवर्णमहानारायणोपनिषद् मूलाविद्याप्रलयस्वरूपं नाम तृतीयोऽध्याय: ॥ ३ ॥

Page 8

5

परिपूर्णानन्ददिव्यसौदामनीनिचयाकारम् । एवंमाकारमद्वितीयाश्रणडानन्दब्रह्मस्वरूपं निरूपितम् । अथ छात्रो वदति । भगवान्‍यादिभेदादिकं कथम्‍ कथंमद्वैतस्वरूपमिति सत्यम् । तथैवोक्तं च । न किंचिदास्ति । पादभेदादिकथनं तु ब्रह्मस्वरूपकथनमेव । तदेवोच्यते । पादचतुष्ट्यात्‍मकं ब्रह्म तदैकमविद्यापादम् । पादत्रयममृतं भवति । शाखान्तरोपनिषत्स्वरूपमेव निरूपितम् । तमसस्तु परं ज्योति: परमानन्दलक्षणम् । पादत्रयात्मकं ब्रह्म कैवल्यं शाश्वतं परमिति । वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तात् । तमेव विद्वानमृतैह भवति । नान्य: पन्था विद्यतेऽयनाय । सर्वेषां ज्योतिषां ज्योतिस्तमस: परमुच्यते । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं परंज्योतिस्तमस उपरि विभाति । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमस: परस्तात् । तदेव तद् सत्यमादुस्‍तेव सत्यं तदेव ब्रह्म परमं विशुद्धं कथ्यते । तमशशब्देनाविद्या । पादौडस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । त्रिपादूदृर्व उदैत्पुरुष: । पादौडस्‍येहाभवत्पुन: । ततो विश्वृद् व्यक्तरामत् । साशनाडनशने अभि । विद्यानन्दतुरीयाख्यपादत्रयममृतं भवति । अवशिष्टमविद्याश्रयमिति । आत्मारामस्यानादिरायणस्य कीडाश्‍चवन्‍मेषणनिमेषौ तयो: स्वरूपं कथमिति । गुरुर्‍वदति । परागदृष्टिरुमेष: । प्रत्यगदृष्टिनिमेष: । प्रत्यगदृष्ट्या स्वस्वरूपचिन्तनमेव निमेष: । परागदृष्ट्या स्वस्वरूपचिन्तनमेवोन्मेष: । यावद्‍नमेषकालस्तावन्‍मेषकालो भवति । अविद्यया: स्थितिर्‍नमेषकाले निमेषकाले तस्या: प्रलयो भवति । यथा उन्मेषो जायते तथा चिरन्‍नतातिसूक्ष्मवासनावलात्‍पुनर्‍विद्याया उदयो भवति । यथापूर्वमविद्याकार्याणि जायन्‍ते । कार्यकारणोपाधिभेदाज्‍जीवेश्‍वरभेदोडपि दृश्यते । कार्योपाधिरयं जीव: कारणोपाधिरीश्‍वर: । ईश्‍वरस्य महामाया तदाजावश्‍वर्‍वर्तिनी । तत्‍सङ्कल्पानुसारिणी विविधानन्‍तमहामाया-शक्तिसंसवेतिनानन्‍तमहामाया जालजननमन्‍दिरा महाविष्णो: कीडाशरीररूपिणी ब्रह्मादीनामगोचरा । एतां महामायां तरन्‍त्येव ये विष्णुमेव भजन्ति नान्ये तरन्‍ति कदाचन ।

Page 9

9

विविधोपयैरपि अविद्याकार्याण्यनतःकरणान्यतीत्य कालाननु तानि जायन्ते । ब्रह्मैवैतन्यं तेषु प्रतिबिम्बितं भवति । प्रतिबिम्बा एव जीवा इति कथ्यन्ते । अन्तःकरणोपाधिका: सर्वे जीवा इत्येवं वदन्ति । महाभूतोत्थसूक्ष्मशाङोपाधिका: सर्वे जीवा इत्यके वदन्ति । बुद्धिप्रतिबिम्बितचैतन्यं जीवा इत्यपरे मन्यन्ते । एतेषामुपाधीनामत्यान्तभेदो न विद्यते । सर्वपरिपूर्णो नारायणस्त्वनया निजया क्रिडया स्वेच्छया सदा । तदुद्भविद्यमानफलविषयसुखाशया: सर्वे जीवा: प्रभावन्यसारसंसारचक्रे । एवमनादिपरम्परा वर्तते॥नादिसंसारविपरीतधर्मादित्योपनिषत् ॥ इत्यथर्वणशाखायां त्रिपाद्विभूतिमहानारायणोपनिषदि महामायातीताखण्डद्वैतपरमानन्दलक्षणपरब्रह्मण: परमतत्त्वस्वरूपनिरूपणं नाम चतुर्थोऽध्याय: ॥ ४ ॥ पूर्वकाण्ड: समाप्त: ॥

9

अथ शिष्यो वदति गुरुं भगवान्तं नमस्कृत्य भगवान् सर्वान्तमना नष्टाया अविद्याया: पुनरुदय: कथं । सत्यमेवेति गुरुरिति होवाच । प्रावृद्वालप्रारम्भे यथा मण्डूकादीनां प्रादुर्भावस्तद्वत्सर्वान्तमना नष्टाया अविद्याया उन्मेषकाले पुनरुदयो भवति । भगवान् कथं जीवनामनादिसंसारभ्रम: । तन्निवृत्तिवां कथमिति । मोक्षमार्गस्वरूपं च । मोक्षसाधनं कथमिति । को वा मोक्षोपाय: । कीदृशं मोक्षस्वरूपं । का वा सायुज्यमुक्ति: । एतत्सर्वं तत्त्वतः कथनीयमिति । अत्यादरपूर्वकमतिहर्षेण शिष्यं बहूक्तित्वा गुरुवन्दति श्रूयतां सावधानेन । कृत्स्नानन्तजन्माभ्यस्तात्यन्तोत्कृष्ट- विविधविचित्रानन्तदुःखम्वासनाजालविशेषैर्देहात्मविवेको न जायते । तस्मादेव दृढतरदेहात्मभ्रमो भवति । अहं किञ्चिज्ज्ञोडहं जीबोडहमत्यन्तदु:खाकरो। अहमानादिसंसारीत भ्रमवासनाबलात्संसार एव प्रवृत्तिस्तत्रिवृत्त्युपाय: कदापि न विद्यते । मिथ्याभूतानस्वतुल्यन्वष्यभोगाननुभूय विविधान्संख्यान्तिदुर्लभान्मनोरथानवरतंमाशास्यमान: अतृप्त: सदा परिभावति । विविधविचित्रस्थूलसूक्ष्मोत्कृष्ट- निकृष्टानन्तदेहान्परिगृह्य तत्तदेहविहितविविधविचित्राडनेक-

Page 10

10

शुभाशुभप्रारब्धकर्माणु भूतं तत्तत्कर्मफलवासनाजालवासितान्तःकरणानां पुनःपुनस्तत्तत्कर्मफलविषयप्रवृत्तिरेव जायते । संसारनिवृत्तिमार्गप्रवृत्तिः कदापि न जायते । तस्मादनिष्टमेवेष्टमिव भाति । इष्टमेवाडनिष्टमिव भात्यनादिसंसारविपरीतभ्रमात् । तस्मात्सर्वेऽपि जीवानामिष्टविषये बुद्धिः सुखबुद्धिरेवःखबुद्धिर् भवति । परमार्थतस्त्वबाधितब्रह्मसुखविषये प्रवृत्तिरेव न जायते । तत्स्वरूपज्ञानाभावात् । तत्त्वज्ञानाभावाच् च । कथम् बन्धः कथम् मोक्ष इति विचाराभावाच्च । तत्कथमिति । अज्ञानप्राबल्यात् । कषायज्ञानप्राबल्यमिति । भक्तिज्ञानवैराग्यवासनाभावाच्च । तदभावः कथमिति । अत्यन्तान्तःकरणमलिनविशेषात् । अतः संसारतरणोपायः कथमिति । देशिकस्तमेव कथयति । सकलवेदशास्त्रसिद्धान्तरहस्यजन्माभ्यस्तान्तोत्कृष्टसुकृतपरिपाकवशात्सद्ग्रः सङ्गो जायते । तस्माद्धिनिषेधादिविवेको भवति । ततः सदाचारप्रवृत्तिजायते । सदाचारादक्षिलदुरितक्षयो भवति । तस्मादनःकरणमलितं भवति । ततः सद्गुरुकटाक्षमन्तःकरणमाकाड्क्षति । तस्मात्सद्गुरुकटाक्षलेशाविशेषेण सर्वसिद्धयः सिद्धयन्ति । सर्वबन्धाः प्रविनश्यन्ति । श्रेयोविघ्नाः सर्वे प्रलयं यान्ति । सर्वाणि श्रेयांसि स्वयमेवायान्ति । यथा जात्यान्धस्य रूपज्ञानं न विद्यते तथा गुरुपदेशेन विना कल्पकोटिभिस्तत्वज्ञानं न विद्यते । तस्मात्सद्गुरुकटाक्षलेशाविशेषणाचिरादेव तत्वज्ञानं भवति । यदा सद्गुरुकटाक्षो भवति तदा भगवत्कथाश्रवणध्यानादौ श्रद्धा जायते । तस्माद्धृदयस्थितानादिदुःखानांग्रन्थिविनाशो भवति । ततः हृदयस्थिताः कामाः सर्वे विनश्यन्ति । तस्माद्दृदयपुण्डरीकर्fणिकायां परमात्माविर्भावो भवति । ततः दृढतरा वैष्णवी भक्तिज्जायते । ततः वैराग्याद्द्धद्विज्ञानाविर्भावो भवति । अभ्यासात्तज्ज्ञानं क्रमेण परिपक्वं भवति । पक्वविज्ञानाज्जीवनमुक्तो भवति । ततः शुभाशुभकर्माणि सर्वाणि सवासनानि नश्यन्ति । ततः दृढतरशुद्धसात्त्विकवासनया भक्त्यतिशयो भवति । भक्त्यतिशयेन नारायणः सर्वमयः सर्वावस्थासु विभाति । सर्वाणि जगन्ति

Page 11

11

नारायणमयानी प्रविभान्ति । नारायणव्यतिरिक्तं न किंविददृष्टि इत्येतदूदूवा विहृत्युपासकः सर्वत्र । निरन्तरसमाधिपरम्पराभिज्ञगदीश्वराकारा: सर्वत्र सर्वावस्थासु प्रविभान्ति । अस्य महापुरुषस्य क्वचित्क्वचिदेश्वरसाक्षात्कारो भवति । अस्य देहत्यागेच्छा यदा भवति तदा वैकुण्ठपार्षदा: सर्वे समायान्ति ।ततो भगवान्पूर्वकं हृदयकमले व्यवस्थितमात्मानं सचित्य सम्यगुपचारैरभ्यर्च्य हंसमन्वमुच्चरन्त्सर्वाणि द्वाराणि संयम्य सम्यग्जूनो निरूध्य चोद्वद्वगेन वायुना सह प्रणवेन प्रणवानुसन्धानपूर्वकं शनै: शनैरब्रह्मान्नाद्वैधिनागत्य सोडहमिति मन्त्रेण द्वादशान्तस्थितज्ञानात्मनामेकीकृत्य पद्योपचारैरभ्यर्च्य पुन: सोडहमिति मन्त्रेण षोडशान्तस्थितज्ञानात्मनामेकीकृत्य सम्यगुपचारैरभ्यर्च्य प्राप्तिपूर्वकंदेहं परित्यज्य पुन:कल्पितमन्वमयशुद्धब्रह्मतेजोमयनिरतिशयानन्दमयमहाविष्णूसारूप्यविग्रहं परिगृह्य सूर्यमण्डलान्तर्गतानन्तदिव्यचरणारविन्दारूष्ठनिगन्तनिरतिशयानन्दमयापरनदीप्रवाहमाकृष्य भावनयात्र स्नात्वा वस्त्राभरणाद्युपचारैरातम्पूजां विधाय साक्षात्रायणो भूतवा ततोगुरुनमस्कारपूर्वकं प्रणवारुड ध्यात्वा ध्यानेनाविर्भूतमहाप्रणवगरुड पद्योपचारैराराध्य गुरुनुज्ञया प्रदक्षिणनमस्कारपूर्वकं प्रणवगरुडमारुह्य महाविष्णो: समस्तासाधारणचिह्नचिह्नितो महाविष्णो: समस्तासाधारणदिव्यभूषणाम्भूषित: सुदर्शनपुरुषं पुरस्कृत्य विष्वक्सेनपरिपालितो वैकुण्ठपार्षदै: परिवेष्टितो नभोमार्गमाविश्य पार्षदद्वयस्थितानेकपुण्यलोकानतिक्रम्य ततस्तये: पुण्यपुरैरभिपूजित: सत्यलोकमाविश्य ब्रह्माणमभ्यर्च्य ब्रह्माण च सत्यलोकवासिभि: सर्वैरभिपूजित: शैवमीशानकेवल्यमासाद्य शिवं ध्यात्वा शिवमभ्यर्च्य शिवगणै: सेवै: शिवेन चाभिपूजितो महर्षिमण्डलान्यतिक्रम्य सूर्यसोममण्डले भित्वा कीलकनारायणं ध्यात्वा ध्रुवमण्डलस्य दर्शनं कृत्वा भगवन्तं ध्रुवमभिपूज्य तत: शिशुमारचक्रं विविध शिशुमारप्रजापतिमभ्यर्च्य चक्रमध्यगतं सर्वाधारं सनातनं महाविष्णुमाराध्य तेन पूजितससत् उपर्युपरि गत्या परमानन्दं प्राप्य प्रकाशते ।

Page 12

12

ततो वैकुण्ठवासिनः सर्वे समायान्ति तान्त्सर्वान्सुसंपूज्य तैः सर्वैरभिपूजित-श्रोपयुपरि गत्वा विराजन्दीं प्राप्तं तत् स्नात्वा भगवदूयानपूर्वकं पुनर्निर्मज्ज्य तत्रापूर्वीकृतभूतोत्यं सूक्ष्माङ्गभोग-साधनं सूक्ष्मशरीरमुत्सृज्य केवलमन्त्रमयदिव्यतेजोमय-निरतिशयानन्दमयमहाविष्णुसारूप्यविग्रहं परिगृह्य तत् उन्मज्ज्यात्मपूजां विधाय प्रदक्षिणनमस्कारपूर्वकं ब्रह्ममयेवैकुण्ठमाविश्य ततस्त्यान्विषेधण संपूज्य तन्मध्ये च ब्रह्मानन्दमयानन्तप्रकारप्रासादतोरण-विमानोपवनावलिभिर्ज्वलच्छिखरैरुपलक्षितो निरुपमनित्यनिरवद्यनिरतिशयनिरवधिक-ब्रह्मानन्दाचलो विराजते । तदुपरि ज्वलति निरतिशयानन्ददिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने शुद्धबोधानन्दलक्षणं विभाति । तदन्तराले चिन्मयवेदिका आनान्दवेदिकानन्दनविभूषिता । तदभ्यन्तरे अमिततेजोराशिस्तदुपरि ज्वलति । परममङ्कलासनं विराजते । तत्पयकर्णिकायां शुद्धशेषभोगासनं विराजते । तस्योपरि समासीनमनानन्दपरिपालकमादिनारायणं ध्यात्वा तमेश्वरं विविधोपचारैराराध्य प्रदक्षिणनमस्कारान्विधाय तदनुज्ञातश्रोपयुपरि गत्वा पञ्चवैकुण्ठनान्तीत्यानन्दविराद्द्वैलं प्राप्य तं समाराधोपासकः परमानन्दं प्राप्येत्युपनिषत् ॥ इत्यार्थवर्णमहानारायणोपनिषद् संसारतरङ्गोपायकथनद्वारा परममोक्षमार्गेस्वरूपनिरूपण नाम पञ्चमोऽध्यायः ॥ ॥ ५ ॥ यत उपासकः परमानन्दं प्राप सावरणं ब्रह्माण्डं च भित्वा परितः समवलोक्य ब्रह्माण्डस्वरूपं निरीक्ष्य परमार्थतस्तत्त्वरूपं ब्रह्माजानेनावबुध्य समस्तवेदशास्त्रोतिहासपुराणानि समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे समस्ताः परमर्षयश्वाण्डाभ्यन्तरप्रजापत्कदेश्मेव वर्णयन्ति । अण्डस्वरूपं न जानन्ति । ब्रह्माण्डाद्द्वहिः प्रपञ्चज्ञानं न जानत्येव । कुतोऽणडान्तरर्बहिः प्रपञ्चज्ञानं दूरतो मोक्षप्रपञ्चज्ञानमविद्या चेति कथं ब्रह्माण्डस्वरूपमिति । कुक्कुटाण्डाकारं

Page 13

13

महदादिसमष्ट्याकारणमण्डं तपनीयमयं तप्तजाम्बूनदप्रभमुयत्कोटिदिवाकराभं चतुर्विधसृष्ट्युपलक्षितं महाभूतै: पञ्चभिरावृतं महदहङ्कितमोभिष्य मूलप्रकृत्या परिवेष्टितम् । अण्डभीतिविशालं सपादकोटियोजनप्रमाणम् । ऐकावारणं तथैव । अण्डप्रमाṇं परितोडयुतद्वयकोटियोजनप्रमाṇं महामण्डूकाद्यानन्तशक्तिभिरधिष्ठितं नारायणक्रीडाकतुंकं परमाणुवद्दृष्युलोकसुसंलग्नमदृष्टश्रुतविचित्रानन्तविचित्रान्तविशेषै रुपलक्षितम् । अस्य ब्रह्माण्डस्य समन्ततः स्थितान्येतादृशान्यनन्तकोटिब्रह्माण्डानि सावरणानि ज्वलन्ति । चतुर्मुखपञ्चमुखषण्मुखसप्तमुख-अष्टमुखादिसंख्याक्रमेण सहस्रावभिमुखा-नैतानारायणांशै रजोगुणप्रधानैरेकैकसृष्टि-कर्तृभिरधिष्ठितानि विष्णुमहेशराज्यैर्नारायणांशै: सात्त्वतमोगुणप्रधानैरेकैकस्थितिसंहारकर्तृभिरधिष्ठितानि महाजलौघमत्स्यबुद्धदान्तसड्‌डुवदभ्रमन्त्त । कीडासक्तजालकरतलामलकवृन्दवनमहाविष्णो: करतले विलसन्यानन्तकोटिब्रह्माण्डानि । जलयन्त्रवस्रघटमालिका-जालवन्त्रहाविष्णोरेकारोमकूपान्तरेष्वनन्तकोटिब्रह्माण्डानि सावरणानि भ्रमन्ति । समस्तब्रह्माण्डान्तर्वन्धि: प्रपञ्चरहस्यं ब्रह्मज्ञानेनावबुद्ध्य विविधविचित्रानन्तपरमविभूतिसमष्टि-विशेषण्त्समवलोक्यात्याश्र्यामृतसागरे निमज्ज्य निरतिशयानन्दपारावारो भूत्या समस्तब्रह्माण्डजालानि समुल्लड्ङ्‌यामितापरिच्छृङ्खलानन्ततम: सागरमृततीयं मूलाविद्यापुरं दृष्ट्वा विविधविचित्रानन्तमहामाया-विशेषै: परिवेष्टितामनन्तमहामायाशक्तिसमष्ट्याकारमनन्तदिव्य-तेजोज्वालाजालैरलब्धितमनन्तमहामायाविलसानां परमाधिष्ठानविशेषाकाराń शश्वदद्भुतानन्दाचलोपरि विहारिणीं मूलप्रकृतिजननीं विद्यालक्ष्मीमेवं ध्यात्वा विविधोपचारैराराध्य समस्तब्रह्माण्डसमष्टिजननीं वैष्णवीं महामायां नमस्कृत्य तथा चानुज्ञातश्वोपयुपरि गत्या महाविराट्पदं प्राप ॥ महाविराट्स्वरूपं कथमिति । समस्ताविद्यापादको विराट् । विश्वतश्शकुरुत विश्वतोमुखो विश्वतोहस्त

Page 14

14

उत् विश्वतस्पात् । संवातुभ्यां नमति संपतत्रेयांवापृथिवी जनयन्देव एकः । न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति । मनोवाचामगोचरमादिविराट्स्वरूपं ध्यात्वा विविधोपचारैराराध्य तदनुज्ञातश्रोपयुं परिगत्वा विविधविविधित्रान्तमूलाविद्याविलासानवलोक्योपासक: परमकौतुकं प्राप्त । अखण्डपरिपूर्णपरमानन्दलक्षण-परब्रह्मण: समस्तस्वरूपविरोधकारिण्यपरिच्छिन्न-तिरस्कारिण्याकारा वैष्णवी महायोगमाया मूर्तिमङ्ङिरनन्त-महामायाजालविशेषे: परिषेविता तस्या: पुरमतिकौतुक-मत्याश्र्यसागरानन्दलक्षणममृतं भवति । अविद्यासागरप्रतिबिम्बनित्यवैकुण्ठप्रतिवैकुण्ठमिव विभाति । उपासकस्तत्पुरं प्राप्य योगलक्ष्मीमिमगमायां ध्यात्वा विविधोपचारैरराराध्य तया संपूजितस्तदानुज्ञात-श्रोपयुं परि गतवान्तमायाविलासानवलोक्योपासक: परमकौतुकं प्राप्त ॥ तत् उपरि पादविभूतिवैकुण्ठपुर-माभाति । अत्याश्र्यानन्तविभूतिसमष्ट्याकार-माननदरसप्रवाहैरलङ्कृतमभितस्तरङ्ङण्या: प्रवाहैरतिमड्ढलं ब्रह्मतेजोविशेषाकारेरनन्त-ब्रह्मवनै रभितस्ततस्तमनन्तनित्यमुक्ते रभिव्याप्तमनन्त-चिन्मयप्रसादजालसं कुलमनादिपादविभूतिवैकुण्ठ-मेवमाभाति । तन्मध्ये च चिदानन्दाचलो विभाति ॥ तदुपरि ज्वलति निरतिशयानन्ददिव्यतेजोराशि: । तदभ्यन्तरे परमानन्दविमानं विभाति । तदभ्यन्तरस्थाने चिन्मयासनं विराजते । तत्त्वकरणिकायां निरतिशयदिव्यतेजोराश्यन्तर-समासीनमादिनारायणं ध्यात्वा विविधोपचारैस्तं समाराध्य तेनाभिपूजितस्तदानुज्ञातश्रोपयुं परिगत्वा सावरणविद्याण्डं च भित्वा विद्यापादमूल्लड्ढय विद्याविद्यो: सन्धौ विश्वसेनावैकुण्ठपुरमाभाति ॥ अनन्तदिव्यतेजोज्वालाजालैरभितोडनिकें प्रज्वलन्तमनन्त-बोधानन्तबोधाननद्वयैरभितस्ततं शुद्धबोध-बोधानन्दविमानावलिर्भिर्विराजितमनन्तानन्दपर्वते: परमकौतुक-माभाति । तन्मध्ये च कल्याणाचलोपरि शुद्धानन्द-विमानं विभाति । तदभ्यन्तरे दिव्यमण्ढलासनं विराजते ।

Page 15

14

तत्पयकर्णिकायां ब्रह्मतेजोराश्यभ्यन्तरसमासीनं भगवद्वदनन्तविभूतीविविधिनिषेधपरिपालकं सर्वप्रवृत्ति-सर्वहेतुनिमित्तिकं निरतिशयलक्षणमहाविष्णुस्वरूप- मखिलापवर्गपरिपालकममितविक्रममेवंविधं विश्वकसेनं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैराराध्य तदनुज्ञातश्रोपयुपरि गत्वा विद्याविभूतिं प्राप्य विद्यामयानन्तवैकुण्ठान्परितोऽवस्थितान्ब्रह्मादतेjomयानवलोक्योपासक: परमानन्दं प्राप ॥ विद्यामयानन्तसमुद्रानतिक्रम्य ब्रह्मविद्या-तरङ्गिणीमासाद्य तत्र स्नात्वा भगवद्द्यानपूर्वकं पुनर्निमज्ज्य मन्त्रमयशरीरमुत्सृज्य विद्यानन्द-मयामृतदिव्यशरीरं परिगृह्य नारायणसारूप्यं प्राप्यात्मपूजां विधाय ब्रह्ममयवैकुण्ठवासिभिः सर्वैनित्यमुक्तैः सुपूजितस्ततो ब्रह्मविद्याप्रवाहैरानन्द- रसनिर्भरैः कीडानन्तपर्वतैरन्तैरभिव्याप्तं ब्रह्मविद्यामहैः सहस्रपाकैरानन्दामृतमये- दिव्यगन्धस्वभावैश्चिन्मयैररनतब्रह्मवनैत्रतिशोभित- मुपासकस्वेवंविधं ब्रह्मविद्यावैकुण्ठमाविष्य तदभ्यन्तरस्थितात्यान्तोत्तमबोधानन्दप्रासादाग्रस्थित- प्रणवविमानोपरिस्थितामपारब्रह्मविद्यासाम्राज्याभिदेवता-ममोषनिजमन्दकटाक्षणानादिमूलाविद्याप्रलयकरीमद्वितीयामेकामनन्तमोक्षसाम्राज्यक्षेमेमेंव ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैराराध्य पुष्पाञ्जलिं समर्प्य स्तुत्वा स्तोत्रविशेषैस्तयाभिपूजित- स्तदनुगतश्रोपयुपरि गत्वा ब्रह्मविद्यातीरेऽपि गत्वा बोधानन्दमयाननन्तवैकुण्ठानवलोक्य निरतिशयानन्दं प्राप्य बोधानन्दमयाननन्तसमुद्रानतिक्रम्य गत्वागत्वा ब्रह्मावनेपु परममङ्गलाचलश्रोणीषु ततो बोधानन्दविमानपरम्परा- रूपासक: परमानन्दं प्राप ॥

Page 16

15

विमानजलैररलङ्कृतममितेजोराशयन्तर्गंतदिव्यतेjorāśi-viśeṣamupasṛastvamākārṃ तुलसीवैकुण्ठं प्रविश्य तदन्तर्गतदिव्यविमानोपरिस्थितां सर्वंरिपुर्णस्य महाविष्णोः सर्वाङ्गेषु विद्यारिणीं निरतिशयसौन्दर्यंलावण्ययाधिदेवतां बोधानन्दमयैररन्तनित्यपरिजनैः परिषेवितां श्रीसक्रीं तुलसीमेवं लक्ष्मीं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैरराध्य स्तुत्वा स्तोत्रविग्रैषस्त्याभिपूजित-स्तदानुज्ञातश्शोपर्युंरिगत्या परमानन्दतरङ्गिण्यास्तीरे गत्बा तत्र परितोडवस्थिताज्छु्द्धबोधानन्दमयानानन्त-वैकुण्ठानवलोक्य निरतिशयानन्दं प्राप्य तत्क्षैतैयैष्ठपूपैः पुराणपुरैषैश्वाभिपूजितस्तस्ततो गत्बागत्बा ब्रह्माणेप्सु दिव्यगन्धानन्दपुष्पवृष्टिभिः समन्वितेषु दिव्य-मण्लालयेषु निरतिशयानन्दामृतसागरेष्वमिततेजोरा-श्याकारेषु कल्लोलवनसंकुलेषु ततोडनन्तशु्द्धबोध-विमानजालसंकुलानन्दावलश्रोणीषूपासकस्तत उपरि गत्बा विमानपरम्परास्वनन्ततेजःपर्वतराजिध्वेवं क्रमेण प्राप्य विद्यानन्दमयोः सन्थि तत्रानदतरङ्गिण्याः प्रवाहेषु स्नात्वा बोधानन्दवनं प्राप्य शु्द्धबोधपरमानन्दानन्दाकारवनं सन्ततामृतपुष्पवृष्टिभिः परिवेष्टितं परमानन्दप्रवाहैरभिव्याप्तं मूर्तिमद्भिः परममड्ललैः परमकौतुकमपरिच्छिन्नानन्द-सागराकारं कीडानन्दपर्वतैरभिशोभितं तन्मध्ये च शु्द्धबोधानन्दवैकुण्ठं यदेव ब्रह्मविद्यापादवैकुण्ठं सहस्रानन्दप्राकारैः समुज्ज्वलति । अनन्तानन्दविमानजालसंकुलमनन्तबोधसौध-विशेषैरभितोडनिरिः प्रज्वलन्तं कीडानन्तमण्डप-विशेषैर्विशेषितं बोधानन्दमयानन्तपरमच्छुत्न-ध्वजामरवितानतोरणैलकृतं परमानन्दव्यूहे-नित्यमुक्तैरभितस्ततमानन्ददिव्यतेजःपर्वतसमृद्याकार-मपरिच्छिन्नानन्तशु्द्धबोधानन्तमण्डलं वाचामगोचरानन्दब्रह्मतेजोराशिमण्डलमाखण्डलविशेषं शु्द्धानन्दसमष्टिमण्डलविशेषमखण्डचिदघनानन्द-विशेषमेवं तेजोमण्डलविर्धं बोधानन्दवैकुण्ठमुपासकः प्रविश्य ततत्रैः सर्वैरभिपूजितः परमानन्दाचलोपर्यखण्ड-बोधविमानं प्रज्वलति । तदभ्यन्तरे चिन्मयासनं विराजते । तदुपरि विभात्यखण्डानन्दतेजोमण्डलम् । तदभ्यन्तरे समासीन-

Page 17

17

मादिनारायणं ध्यात्वा प्रदक्षिणनमस्कारान्निधाय विविधोपचारैः सुसंपूज्य पुष्पाञ्जलिं सम्प्र्य स्तुत्वा स्तोत्रविशेषे: स्वरूपणावस्थितमुपासकमवलोक्य तमुपासक- मादिनारायणः स्वसिंहासने सुसंस्थाप्य तं द्वैकुण्ठवासिभिः सर्वैः समन्वितः समस्तमोक्षसाम्राज्यपद्टाभिषेकमुदिश्य मन्त्रपूरैतर्पासकमानन्दकलशैरभिषिच्य दिव्यमणडल- महावाडपुरःसरं विविधोपचारैरभ्यर्च्य मूर्तिमणडल- सर्वैः स्वचिह्नैरलंकृत्य प्रदक्षिणनमस्कारान्निधाय तं व्रह्मासि अहं ब्रह्मासिम आवयोरन्तरं न विद्यते त्वमेवाहम् अहमेवत्वम् इत्यभिधायेत्युक्त्वादिनारायणस्तिरोधधे तदेतद्यपनिषत् ॥ इत्यार्थवर्णमहानारायणनिषदिः परममोक्षमार्गस্বরূপनिरूपणं नाम षष्ठोऽध्यायः ॥ ६॥ अथोपासकस्तदाज्ञया नित्यं गरुडमारुह्य वैकुण्ठवासिभिः सर्वैः परिवेष्टितो महासुदर्शनं पुरस्कृत्य विश्वक्सेनपरिपालितश्वोपर्युपरि गत्या ब्रह्मानन्दविभूतिं प्राप्य सर्वत्रावस्थितब्रह्मानन्द- मयानन्नवैकुण्ठानवलोक्य निरतिशयानन्दसागरो भूतात्मारामानानन्दविभूतिपुरुषानानन्तानवलोक्य तान्सर्वानुपचारैः समभ्यर्च्य तैः सर्वैरभिपूजित- श्वोपासकस्तत उपर्युपरि गत्या ब्रह्मानन्दविभूतिं प्राप्यानन्ददिव्यतेजःपवंतेरलकूटान्तपरमानन्द- लहरीवानशोभितानसंख्या कानानन्दसमुद्रानतिक्रम्य विविधव विचित्रानन्तपरमतत्त्वविभूतिसमष्टिविशेषा- न्परमकौतुकान्ब्रह्मानन्दविभूतिविशेषणतिक्रम्योपासकः परमकौतुकं प्राप् ॥ ततः सुदर्शनवैकुण्ठपुरमाभाति नित्यमणडलमनन्तविभवं सहस्रानन्दप्रकारपरिवेष्टितमयुक्तकुञ्जयुपलक्षित- मन्त्रोत्कटज्वलदरमण्डलं निरतिशयदिव्यतेजोमण्डलं वृन्दारकपरमानन्दं शुद्धबुद्धस्वरूपमनन्तानन्द- सौदामिनीवपरमविलासं निरतिशयपरमानन्दपारावार- मनन्तैरानन्दपुऱशेषिद्रूपैरधिष्ठितम् । तन्मध्ये च सुदर्शनं महाचक्रम् । चरणं पवित्रं विततं पुराणं येन पूतसतरति हुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमानं महुस्वत् । अमृतस्य धारा बहुधा दुहमानम् । चरणौ नो लोके सुधितां दधातु । अयुतारं

Page 18

15

ज्वलन्तमयुतरस्म्याकारं निरतिशयाविक्रमविलासमनन्तदिव्यायुद्धदिव्यशक्तिसमष्टिरूपं महाविष्णोरनर्गलप्रतापविग्रहमयुतायुतकोटियोजनविशालमनन्तज्वालजालेरलड्कृतं समस्तदिव्यमण्डलनिदानमनन्तदिव्यतेजोतीर्थानां निजमन्दिरमेवं सुदर्शनं महाचक्रं प्रज्वलति । तस्य नाभिमण्डलसंस्थाने उपलक्ष्यते निरतिशयानन्ददिव्यतेजोराशिः । तन्मध्ये च सहस्रारचक्रं प्रज्वलति । तदक्षण्डदिव्यतेजोमण्डलाकारं परमानन्दसौदामिनीनिचयोज्ज्वलम् । तदभ्यन्तरसंस्थाने षट्शतारचक्रं प्रज्वलति । तस्यामितपरमतेजः परमविहारसंस्थानविशेषविज्ञानघनस्वरूपम् । तदन्तराले त्रिशतारचक्रं विभाति । तच्च परमकल्याणविलासविशेषमनन्तचिदादित्यसमष्ट्याकारम् । तदभ्यन्तरे षटारचक्रमाभाति । तच्च परमतेजोमण्डलविशेषम् । तन्मध्ये षट्चारचक्रमाभाति । तच्च ब्रह्मतेजःपरमविलासविशेषम् । तदभ्यन्तरसंस्थाने शङ्खचक्रं प्रज्वलति । तच्चापरिच्छिन्नानन्तदिव्यतेजोराश्याकारम् । तदभ्यन्तरे महानन्दपदं विभाति । तत्कर्णिकायां सूर्येन्दुद्वह्निमण्डलानि चिन्मयानी ज्वलन्ति । तत्रोलक्ष्यते निरतिशयदिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने युगपदुदितानन्तकोटिरविप्रकाशः सुदर्शनपुरुषो विराजते । सुदर्शनपुरुषो महाविष्णुरेव । महाविष्णोः समस्तासाधारणचिह्नचिह्नितः । एवमुपासकः सुदर्शनपुरुषं ध्यात्वा विविधोपचारैराराध्य प्रदक्षिणनमस्कारानुबन्धायोपासकत्वेनाभिपूजितस्तदनुज्ञातश्रोप्युपरि गत्वा परमानन्दमयानन्तवैकुण्ठानवलोक्योपासकः परमानन्दं प्राप । तत् उपरि विविधविविधित्रानन्तचिद्धिलासविभूति विशेषान्तिक्रम्यनन्तपरमानन्दविभूतिसमष्टिस्थविशेषान्तनिरतिशयानान्तसमुद्रानतीत्योपासकः क्रमेणान्तत्स्थानं प्राप ।

15

अवर्णानन्दस्वरूपमनिर्वाच्यमतिबोधसागरममितानन्दसमुद्रं विजातीयविशेषवर्जितं सजातीयविशेषविशिष्टं निरवयं निराधारं निर्विकारं निरञ्जनमनन्तब्रह्मानन्दसमष्टिकानन्दं परमचिद्धिलाससमष्ट्याकारं निर्मलं निरवयं निराश्रयमतिनिर्मलानन्तकोटिरविप्रकाशकस्फुलिङ्गमनन्तोपनिषदर्थस्वरूपमक्षितप्रमाणातीतं मनोवाचामगोचरं नित्यमुक्तस्वरूपमनाधार

Page 19

19

मादिमध्यान्तशून्यं केवल्यं परमं शान्तं सूक्ष्मतरं महतो महत्तरमपरिमितानन्दविशेषं शुद्धबोधानन्दविभूति विशेषमनन्तानन्दविभूति विशेषसमष्टिरूपमक्षरमनिर्देश्यं कूटस्थमचलं ध्रुवमदिग्देशकालमनन्तर्बहिष् तत्वं व्याप्य परिपूर्णं परमयोगिभिर्ॐमृग्यं देशतः कालतो वस्तुतः परिच्छेदरहितं निरन्तराभिनवं नित्यपरिपूर्णमसण्ड़ानन्दामृतविशेषं शाश्वतं परमं पदं निरतिशयानन्दानन्ततटित्प्रवंताकारमद्वितीयं स्वयम्प्रकाशमनिशं ज्वलति । परमानन्दलक्षणापरिच्छिन्नानन्तपरंज्योति: शाश्वतं शाश्वद्विभाति ।

19

तदभ्यन्तरसंस्‍थानेऽमितानन्दचिद्रूपाचलमसण्ड़परमानन्दविशेषं बोधानन्दमहोज्ज्वलं नित्यमड्‌ऱलमन्‍दिरं चिन्मात्राविभूतं चित्सारमनन्ताश्‍यरममिततेजोराश्यन्तर्गततेजोविशेषमनन्तान्तप्रवाहैरळकृतं निरतिशयानन्दपारावारकारं निरुपमनित्यानिरवद्यनिरतिशयानिरवधिकते जोराशिविशेषं निरतिशयानन्दसहस्रप्रकारैरैलळकृतं शुद्धबोधसौधावलिविशेषैरळकृतं चिदानन्दमयानन्तदिव्यारामै: सुशोभितं शाश्वददमितपुष्पवृष्टिभि: समन्वत: सन्ततम् । तदेव त्रिपाद्विभूति वैकुण्ठस्थानं तदेव परमकैवल्यम् । तदेवावधितपरमतत्त्वम् । तदेवान्तो-पनिषद्विमृग्यम् । तदेव परमयोगिभिर्मुमुक्षिभि: सर्वैराशास्यमानम् । तदेव सद्घनम् । तदेव चिद्घनम् । तदेव शुद्धबोधघनविशेषमसण्ड़ानन्दब्रह्मचैतन्याधिदेवतारूपम् ।

19

सर्वाधिष्ठानमद्वयपरब्रह्माविहारमण्ड़लं निरतिशयानन्दते जomसण्ड़मद्वैतपरमानन्दलक्षणपरब्रह्मण: परमाधिष्ठानमण्ड़लं निरतिशयपरमानन्दपरममूर्त्तिविशेषमसण्ड़लमनन्तपरममूर्तिसमष्टिमण्ड़लं निरतिशयपरमानन्दलक्षणपरब्रह्मण: परममूर्तिंपरमतत्त्वविलासविशेषमण्ड़लं बोधानन्दमयान्तपरमविलासविभूतिविशेषसमष्टिमण्‍डलमनन्तचिद्विलासविभूतिविशेषसमष्टिमण्‍डलमसण्ड़शुद्धचैतन्यनिजमूर्तिं विशेषविग्रहं

Page 20

20

वाचामगोचरानन्थशुद्धबोधविशेषविग्रह्मानन्तानन्दसमुद्रसमष्याकारमनन्तबोधाचलैरधिष्ठितं निरतिशयानन्द्परमझु़लविशेषसमष्याकारमषण्डौदैत्परमानन्द्लक्षणपरब्रह्मण: परममूर्ति- परम्तेज:पुञ्जपिण्डविशेषं चिदूपादित्यमण्डलं द्वात्रिंशद्रूहमेदैरधिष्ठितम् । व्यूहमेदैश्च केशवादिचतुर्विंशति: । सुदर्शनादिन्यासम्ना: । सुदर्शनादि यन्त्रोद्धार: । अनन्तगरुडविश्वक्सेनाष निर्तिशयानन्द्दाष । आनन्द्व्यूहमध्ये सहस्रकोटियोजनायतोग्रत- चिन्मयप्रासाद् ब्रह्मानन्द्मयविमानकोटिभि- रतिमझूल्मनन्तोपनिषदर्थारामजालसंकुलं साम्हंसकूजितै रतिथोभितमानन्द्मयानन्तशिखरै- रलंकृतं चिदानन्दरसनिधैरै रभिव्याप्तमसण्डा- नन्द्तेजोराश्यनतरस्थितमनन्तानन्द्दाष्यन्सागरं तदभ्यन्तरसंस्थानोऽनन्तकोटिरविप्रकाशातिशय- प्राकारं निरतिशयानन्द्लक्षणं प्रणवाक्षयं विमानं विराजते । शतकोटिशिखरैरानन्द्मयै: समुज्ज्वलति । तदन्तराले बोधानन्दाचलोपरिष्ठाक्षरी- मण्टपो विभाति । तन्मध्ये च चिदानन्द्मयवेदिकानन्द- वनविभूषिता । तदुपरि ज्वलति निरतिशयानन्द्तेजोराशि: । तदभ्यन्तरसंस्थानोऽषाक्षीपसाविभूषितं चिन्मयासनं विराजते । प्रणवकर्णिकायां सूर्येन्दु- वहिमण्डलानि चिन्मयानि ज्वलन्ति । तत्स्रवषण्डानन्द- तेजोराश्यन्तर्गतं परममझ़लाकारमनन्तासनं विराजते । तस्योपरि च महान्तं प्रज्वलति । निरतिशय- ब्रह्मानन्द्परममूर्तिंमहायन्त्रं समस्तब्रह्म- तेजोराशिसमष्टिरूपं चिद्व्वरूपं निरञ्जनं परब्रह्म- स्वरूपं परब्रह्मण: परममहस्यकैवल्यं महान्त्रमय- परमवैकुण्ठनारायणयं विजयते । तत्स्वरूपं कथमिति । देशिकस्तथेति होवाच । आदौ षड्दोणचक्रम् । तन्मध्ये षट्दलपद्मं । तत्कर्णिकायां प्रणव ऋ॒ङ्ङिति । प्रणवमध्ये नारायणबीजमिति । तत्साध्यगर्भितं मम सर्वाभीष्टसिद्धिं कुरुकुरु स्वाहेति । तत्प्रसादलेपु विष्णुनुसिंहषडक्षर- मन्त्रौ ॐ नमो विष्णवे एँ क्लीं श्रीं ह्रीं क्षौं फट् । तद्लकपोलेषु रामकृष्णषडक्षरमन्त्रौ । रां

Page 21

21

रामाय नमः । क्लीं कृष्णाय नमः । षड्भुणेक्षु सुदर्शनषडक्षरमन्त्रः । सहस्रार हुं फडिति । षड्भोणकपोलेषु प्रणवयुक्तशिवपञ्चाक्षरमन्त्रः । ॐ नमः शिवायेतिं । तद्वहिः प्रणवमालायुक्तं वृत्तम् । वृत्ताद्धिरष्टदलपङ्क्तिसम् । तेषु दलेषु नारायणनृसिंहअष्टाक्षरमन्त्रौ । ॐ नमो नारायणाय । जयजय नरसिंह । तद्लसन्धिषु रामकृष्णश्रीकराष्टाक्षरमन्त्राः । ॐ रामाय हुं फट् स्वाहा । क्लीं दामोदराय नमः । उत्तिष्ठ श्रीकरस्वाहा । तद्वहिः प्रणवमालायुक्तं वृत्तम् । वृत्ताद्धिनवदलपङ्क्तिसम् । तेषु दलेषु रामकृष्णहयग्रीवनवाक्षरमन्त्राः । ॐ रामचन्द्राय नमॐ । क्लीं कृष्णाय गोविन्दाय क्लीम् । हौं हयग्रीवाय नमो हौं । तद्लकपोलेषु दिक्षणामूर्तिरिङ्गरम् । तद्वहिनारायणबीजयुक्तं वृत्तम् । वृत्ताद्धिहिन्देशदलपङ्क्तिसम् । तेषु दलेषु रामकृष्णादशाक्षरमन्त्रौ । हुं जानकीवल्लभाय स्वाहा । गोपीजनवल्लभाय स्वाहा । तद्लसन्धिषु नृसिंहमालामन्त्रः । ॐ नमो भगवते श्रीमहानृसिंहाय करालदंष्ट्रवदनाय मम विद्विनात्पचपच स्वाहा । तद्वहिर्नृसिहैकाक्षरयुक्तं वृत्तम् । क्षौं इत्येकाक्षरम् । वृत्ताद्धिहिन्दादशदलपङ्क्तिसम् । तेषु दलेषु नारायणवासुदेवादशाक्षरमन्त्रौ । ॐ नमो भगवते नारायणाय । ॐ नमो भगवते वासुदेवाय । तद्लकपोलेषु महाविष्णुद्वादशाक्षरमन्त्राः । ॐ नमो भगवते महाविष्णवे । ॐ ह्रीं भारताग्रज राम क्लीं स्वाहा । श्रीं ह्रीं क्लीं कृष्णाय गोविन्दाय नमः । तद्वहिज्जंगन्मोहनबीजयुक्तं वृत्तं क्लीं इति । वृत्ताद्धिह्वष्टतुर्दशदलपङ्क्तिसम् । तेषु दलेषु लक्ष्मीनारायणहयग्रीवगोपालद्वादशवामन्त्राः । ॐ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मीसुदेवाय नमः । ॐ नमः सर्वकोटिसर्वविद्याराजाय क्लीं कृष्णाय गोपालचूडामणये स्वाहा । ॐ नमो भगवते दधिवामनाय ॐ । तद्लसन्धिष्वष्टनपूणेङ्करीमन्त्रः । ह्रीं पद्मावत्यन्रपूर्णेमाहेश्वरी स्वाहा । तद्वहिः प्रणवमालायुक्तं वृत्तम् । वृत्ताद्धिः षोडशदलपङ्क्तिसम् । तेषु दलेषु श्रीकृष्णसुदर्शनषोडशाक्षरमन्त्रौ च । ॐ नमो भगवते रुक्मिणीवल्लभाय स्वाहा । ॐ नमो भगवते महासुदर्शनाय हुं फट् । तद्लसन्धिषु स्वराः सुदर्शनमालामन्त्राश्च ।

Page 22

22

अ आ इ ई उ ऊ ऋ ॠ लृ लॄ ए ऐ ओ औ अं अः । सुदर्शनमहाचक्राय दीप्तारूपाय सर्वतो मां रक्षरक्ष सहस्रार हुं फट् स्वाहा । तद्वहिव्राह्मविजयुक्तं वृत्तम् । तदूर्मिति । वृत्तद्वहिरष्टादशलपस्म । तेषु दलेपु श्रीकृष्णवामनाष्टाक्षरमन्त्रौ । कलिं कृष्णाय गोविन्दाय गोपीज नववल्लभाय स्वाहा । ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा । तद्लकपोलेषु गरुडपञ्चाक्षरीमन्त्रो गरुडमालामन्त्रश्च । क्षिप् ॐ स्वाहा । ॐ नमः पञ्चिराजाय सर्वविष्णूत्करक्षः-कृत्यादिभेदनाय सर्वेष्टसाधकाय स्वाहा । तद्वहिराम्बावीजयुक्तं वृत्तम् । वृत्तद्वहिः पुनरष्टदलपस्म । तेषु दलेपु श्रीकृष्णवामनाष्टाक्षरमन्त्रौ । ॐ नमो दामोदराय । ॐ वामनाय नमः ॐ । तद्लकपोलेषु नीलकण्ठप्रक्षरीगरुडपञ्चाक्षरीमन्त्रौ च । प्रें रीं ठः । नमोऽण्डजाय । तद्वहिर्मन्थथबीजयुक्तं वृत्तम् वृत्तद्वहिःतुविँशतिदलपस्म । तेषु दलेपु शरणागत-नारायणमन्त्रौ नारायणहयग्रीवगायत्री मन्त्रौ च । श्रीमन्रारायणचरणौ शरणं प्रपद्यो श्रीमते नारायणाय नमः । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् । वागीश्वराय विद्महे हयग्रीवाय धीमहि । तन्नो हंसः प्रचोदयात् । तद्लकपोलेषु नृसिंहसुदर्शनगायत्रीमन्त्राश्च । वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नृसिंहः प्रचोदयात् । सुदर्शनाय विद्महे हेतिराजाय धीमहि । तन्नश्शक्रः प्रचोदयात् । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । तद्वहिहयग्रीवेकाक्षरयुक्तं वृत्तं ह्लोोर्हसौमिति । वृत्ताद्वहिद्वादशशशलपद्यम् । तेषु दलेपु नृसिंहहयग्रीवानुष्टुभमन्त्रौ उप्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युं मृत्युँ नमाम्यहम् । ऋग्यजुःसामरूपाय वेदाहरनकर्मणे ।

Page 23

23

प्रणवोत्रीथवपुषे महाव्यशिरसे नमः ।

23

तद्लकपोलेशु रामकृष्णानुष्टुभमन्त्रौ ।

23

रामभद्र महेश्वास रघुवीर नृपोत्तम ।

23

भो दशास्यानतकास्माकं रक्षां देहि श्रियं च मे ।

23

देवकीसुत गोविन्द वासुदेव जगत्पते ।

23

देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।

23

तद्वाहुः प्रणवसंपुटिताग्निबीजयुक्तं वृत्तम् ।

23

ॐ रमोमिति । वृत्तद्विहः षट्त्रंश्रहलपयम् ।

23

तेषु दलेषु हयग्रीवर्षद्विंशदक्षरमन्त्रः

23

पुनराष्टत्रिंशदक्षर मन्त्रश्च । हंसः ।

23

विश्वोतीर्णस्वरूपाय चिन्मयानन्दरूपिणे ।

23

तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे । सोऽहम् ।

23

ह्रौं ॐ नमो भगवते हयग्रीवाय सर्ववागीश्वरेश्वराय

23

सर्ववेदमयाय सर्वविद्या मे देहि स्वाहा ।

23

तद्लकपोलेशु प्रणवादिमोन्ताश्र तुथ्यन्ता:

23

केशवादिचतुर्विंशतिमन्त्राः

23

अवशिष्टद्वादशस्यानेपु रामकृष्णगायत्रीद्वय-

23

वर्णचतुष्टयमेकैकस्थले ।

23

ॐ केशवाय नमः । ॐ नारायणाय नमः ।

23

ॐ माधवाय नमः । ॐ गोविन्दाय नमः ।

23

ॐ विष्णवे नमः । ॐ मधुसूदनाय नमः ।

23

ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः ।

23

ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः ।

23

ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः ।

23

ॐ संकर्षणाय नमः । ॐ वासुदेवाय नमः ।

23

ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः ।

23

ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः ।

23

ॐ नारसिंहाय नमः । ॐ अच्युताय नमः ।

23

ॐ जनार्दनाय नमः । ॐ उपेन्द्राय नमः ।

23

ॐ हरये नमः । ॐ श्रीकृष्णाय नमः ।

23

दाशरथाय विदेहे सीतावल्लभाय धीमहि ।

23

तन्नो रामः प्रचोदयात्

23

दामोदराय विदेहे वासुदेवाय धीमहि ।

23

तन्नः कृष्णः प्रचोदयात् ।

23

तद्वाहुः प्रणवसंपुटितादुष्ट्रवर्णबीजयुक्तं वृत्तम् । ॐ क्रोमिति ।

23

तद्वाहुः पुनर्वृतं तन्मध्ये द्वादशकुङ्क्षिस्थानानि सान्तरालानि ।

Page 24

28

तेषु कौस्तुभवनमालाश्रीवत्सुदर्शनगरुडपदध्वजानन्तशार्ङ्गदाश्रृङ्गनन्दकमन्त्रा: प्रणवादिनमोऽन्तासतुथ्यन्ता: ऋमेण । ॐ कौस्तुभाय नमः । ॐ वनमालाय नमः । ॐ श्रीवत्साय नमः । ॐ सुदर्शनाय नमः । ॐ गरुडाय नमः । ॐ पद्माय नमः । ॐ ध्वजाय नमः । ॐ अनन्ताय नमः । ॐ शार्ङ्गाय नमः । ॐ गदायै नमः । ॐ नन्दकाय नमः । तदनन्तरालेऽनु— ॐ विष्वक्सेनाय नमः । ॐ आचक्राय स्वाहा । ॐ विचक्राय स्वाहा । ॐ सुचक्राय स्वाहा । ॐ धीचक्राय स्वाहा । ॐ संञ्चक्राय स्वाहा । ॐ ज्वालचक्राय स्वाहा । ॐ कुन्दोल्काय स्वाहा । ॐ महोल्काय स्वाहा । ॐ वीर्योल्काय स्वाहा । ॐ द्युल्काय स्वाहा । ॐ सहस्रोल्काय स्वाहा । इति प्रणवादी मन्त्रा: । तद्वदहि: प्रणवसंपुटितगरुडपञ्चाक्षरयुक्तं वृत्तम् । ॐ क्षिप ॐ स्वाहाम् । ॐ तच्च द्वादशवज्रै: सान्तरालैरलंकृतम् । तेषु वज्रेषु ॐ पद्मनिधये नमः । ॐ महापद्मनिधये नमः । ॐ गरुडनिधये नमः । ॐ शङ्खनिधये नमः । ॐ मकरनिधये नमः । ॐ कच्छपनिधये नमः । ॐ विच्यानिधये नमः । ॐ परमानन्दनिधये नमः । ॐ मोक्षनिधये नमः । ॐ लक्ष्मीनिधये नमः । ॐ ब्रह्मनिधये नमः । ॐ श्रीमुकुन्दनिधये नमः । ॐ वैकुण्ठनिधये नमः । तत्सन्निधानेऽनु— ॐ विद्याकल्पकतरवे नमः । ॐ मुक्क्तिकल्पकतरवे नमः । ॐ आनन्दकल्पकतरवे नमः । ॐ ब्रह्मकल्पकतरवे नमः । ॐ मुक्क्तिकल्पकतरवे नमः । ॐ अमृतकल्पकतरवे नमः । ॐ बोधकल्पकतरवे नमः । ॐ विभूतिकल्पकतरवे नमः । ॐ वैकुण्ठकल्पकतरवे नमः । ॐ वेदकल्पकतरवे नमः । ॐ योगकल्पकतरवे नमः । ॐ यज्ञकल्पकतरवे नमः । ॐ पशुकल्पकतरवे नमः । तच्च शिवगायत्रीपरब्रह्ममन्त्राणां वर्णैर्वृत्ताकारेगण संवेेष्ट्य । तत्पुरुषाय विसहे महादेवाय धीमहि ।

Page 25

25

तन्नो रुद्रः प्रचोदयात् । श्रिअमन्नारायणो ज्योतिरात्मा नारायणः परः । नारायणं ब्रह्म नारायण नमोऽस्तु ते । तद्वहिः प्रणवसंपुटितश्रीबीजयुक्तं वृत्तम् । ॐ श्रीमोमिति । वृत्ताद्विहृतत्वारिंशदहलपदम् । तेषु दलेषु व्याहृतिशिरःसंपुटितवेदगायत्री- पादचतुष्टयसूर्याष्टाक्षरमन्त्रौ । ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यम् । ॐ तत्सवितुवरेण्यम् । ॐ भर्गो देवस्य धीमहि । ॐ धियो यो नः प्रचोदयात् । ॐ परोरजसे सावदोम् । ॐ आपोज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् । ॐ घृणिः सूर्य आदित्यः । तदहलसन्धिषु प्रणवश्रीबीजसंपुटितनारायणबीजं सर्वत्र । ॐ श्रीं श्रीमोम् । तद्वहिरष्टशूलालाढ्यितभूचक्रम् । चक्रान्तरक्षरुदिक्षु हंसःसोऽहंमन्त्रौ प्रणवसंपुटिता नारायणास्त्रमन्त्राश्च । ॐ हंसः सोहम् । ॐ नमो नारायणाय हुं फट् । तद्वहिः प्रणवमालासंयुक्तं वृत्तम् । वृत्ताद्वहिः पञ्चाशदहलपद्मम् । तेषु दलेषु मात्रका पञ्चाशदक्षरमाला लकारवज्यां । तदहलसन्धिषु प्रणवश्रीबीजसंपुटितरामकृष्णमालामन्त्रौ । ॐ श्रीमों नमो भगवते रघुनन्दनाय रक्षोघ्नविशदाय मधुप्रसक्तनवदानायामित तेजसे बलाय रामाय विष्णवे नमः । श्रीमों नमः कृष्णाय देवकीपुत्राय वासुदेवाय निर्गलच्छेदनाय सर्वलोकाधिपतये सर्वजगन्मोहनाय विष्णवे कामितार्थदाय स्वाहा श्रीमोम् । तद्वहिरष्टशूलालाढ्यितभूचक्रम् । तेषु प्रणवसंपुटितमहानीलकण्ठमन्त्रवर्णान्नि । ॐमों नमो नीलकण्ठाय । ॐ शूलाग्रेशु लोकपालमन्त्राः प्रणवादिनोऽन्त्राः तुध्यान्ताः क्रमेण । ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निरृतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ सोमाय नमः । ॐ ईशानाय नमः । तद्वहिः प्रणवमालायुक्तं वृत्तत्रयम् । तद्वहिरभ्रपुरचतुष्टयं चतुद्रारयुक्तं चक्रकोणचतुष्टयमहावज्रादिविभूषितम् तेषु वज्रेशु प्रणवश्रीबीजसंपुटितामृतबीजद्वयम् ।

Page 26

26

ॐ श्रीं ठं वं श्रीोमिति । बहिर्भूपुरवीध्याम् -- ॐ आधारशक्त्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ आदिकूमौं नमः । ॐ अनन्ताय नमः । ॐ पृथिव्यै नमः । मध्यभुपुरवीध्याम्-- ॐ क्षीरसमुद्राय नमः । ॐ रत्नदीपाय नमः । ॐ मणिमण्डपाय नमः । ॐ श्वेतच्छत्राय नमः । ॐ कल्पवृक्षाय नमः । ॐ रत्नसिंहासनाय नमः । प्रथमभूपुरवीध्यामों धर्मज्ञानवैराग्यैश्व-र्यसत्वरजस्तमोमायाअ-नन्तवृतववीध्यामोनमुग्रहायै नमः । ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोग-योगपीठात्मने नमः । कूटवकाशेषु-- बीजं प्राणं च शक्तिं च दृष्टि वश्यादिकं तथा । मन्त्रयन्त्राभ्यगायत्रीप्राणस्थापनमेव च । भूतदिक्पालबीजानि यन्त्रस्याङ्गानि वै दश । मूलमन्त्रमालामन्त्रकवचिदिग्बन्धनमन्त्राश्च । एवंविधमेतद्यन्त्रं महामन्त्रंयं योगधीरान्ते: परमन्त्रैरलंकृतं शोडशोपचारैरभ्यर्चितं जपहोमादिना साधितमेतद्यन्त्रं शुद्धब्रह्मतेजोमय सर्वांभयङ्करं समस्तदुरितक्षयकरं सर्वाभीष्ट-संपादकं सायुज्यमुक्तिप्रदमेतत्परमवैक्रुण्ठ-महानारायणयन्त्रं प्रज्वलति । तस्योपरि च निरतिशयानन्द-तेजोराश्यभ्यन्तरस्मासीनं वाचामगोचरानन्द-तेजोराश्याकारं चित्साराविर्भूतानन्दविग्रहं बोधानन्द-स्वरूपं निरतिशयसौन्द्यपारावारं तुरीयस्वरूपं तुरीयातीतं चैद्वैतपरमानन्दनिरन्तरातीततुरीयनिरतिशय-सौन्दर्यांनन्दपारावारं लावण्यवाहिनीकल्लोलटङ्कड्झासुरं दिव्यमङ्गलविग्रहं मूर्तिमद्रि: परममङ्गलैरूपसेव्यमानं चिदानन्दमैरनन्तकोटिरविप्रकाशैरन्नतभूषणैरलंकृतं सुदर्शनपाञ्चजन्यपसगदासिआईमुसलपरिघाद्यै-शिन्मयैरनेकायुधगणैर्मूर्तिमद्रि: सुसेवितम् । बाह्यावृतववीध्यां विमलोत्कर्षिणी ज्ञान क्रिया योग प्रह्ही सत्येशाना प्रणवादिनोत्ताश्वतुथ्यंन्ता: क्रमेंण । श्रीवत्सकौस्तुभवनमालाङ्कितवक्षसं ब्रह्मकल्पवनामृत-पुष्पवृष्टिभि: सन्ततमानन्दं ब्रह्मानन्दरसनिर्भरै-

Page 27

29

रसंस्वैयरतिमडलं शेषयुक्तफणाजालविपुलच्छत्रंत्रशोभितं तत्फणामण्डलोदर्चिमण्डलविद्योतितविग्रहं तदृक् कान्तिनिझरैस्ततं निरतिशयब्रह्मागन्धस्वरूपं निरतिशयायानन्दब्रह्मागन्धविशेषकारमनन्तब्रह्मागन्धाकर्षसमृद्धिविशेषमनानन्दतुलसीमाल्यैर्भिनवं चिदानन्दमयानन्दपुष्पमाल्यैर्विराजमानं तेजःप्रवाहतरङ्क्तत्पराभिज्ज्वलन्तं निरतिशायानन्द कान्तिविशेषावतैर्भितोज्ज्वलं प्रज्वलन्तं बोधानन्दमयानन्द धूपदीपावलिनिरतिशोभितं निरतिशायानन्दचामरविशेषैः परिसेवितं निरन्तरनिरुपमनिरतिशायोत्कटज्ञानानन्दानन्तगुच्छफैलरलकृतं चिन्मयानन्ददिव्यविमानच्छत्रश्रृङ्गाराजिभिर्विराजमानं परमाकुलानन्तदिव्यते जोभिज्ज्वलन्तमनिशं वाचामगोचरमनन्ततेजोराश्यन्तर्गतर्मध्मात्रात्मकं तुरीयं ध्वन्यात्मकं तुरीयातीतमवाच्यं नादबिन्दुकलाध्याात्मस्वरूपं चेत्याध्यानताकेयणावस्थितं निर्गुणं निष्क्रियं निर्मलं निरवयं निरञ्जनं निराकारं निराश्रयं निरतिशायोद्भतपरमानन्दलक्षणमादियाणं ध्यायेदित्युपनिषत् ॥ इत्यार्थवर्णनमहानारायणोपनिषद परममोक्षस्वरूपनिरूपणद्वारा त्रिपाद्विभूतिपरमवैकुण्ठमहानारायणयन्त्रस्वरूपनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥ ततः पितामहः परिपृच्छति भगवान् महाविष्णु भगवञ्छुद्धद्वैतपरमानन्दलक्षणपरब्रह्मणस्तव कथं विरुद्धवैकुण्ठप्रसादप्राकारविमानाद्यानन्तवस्तुभेदः । सत्यमेवोक्तमिति भगवान्महाविष्णुः परिहरति । यथा शुद्धसुवर्णस्य कटकमुकुटादिभेदः । यथा समुद्रसलिलस्य स्थूलसूक्ष्मतरङ्क्फेनबुद्बुदअदकरलवणपाषाणाद्यानन्तवस्तुभेदः । यथा भूयें पर्वतवृक्षतृणगुल्मलताद्यानन्तवस्तुभेदः । तथैवोद्भतपरमानन्दलक्षणपरब्रह्मणो मम सकृद्विभातमुपपत्तं भवत्येव । मत्स्वरूपमेव सर्व मज्जातिरिकतमपुमात्रं न विद्यते । पुनः पितामहः परिपृच्छति । भगवान् परमवैकुण्ठ एव परममोक्षः । परममोक्षस्त्वेक एव श्रूयते सर्वत्र । कथमनन्तवैकुण्ठाश्रयानन्तानन्दसमुद्रादयस्थान्तर्मृत्यः सन्तीति । तथेहति होवाच भगवान्महाविष्णुः । एकस्मिन्नेविद्यापादेऽनन्तकोटिब्रह्माण्डानि सावरणानि श्रूयन्ते । तस्मिन्नेकस्मिन्नण्डे बहवो लोकाः बहवो वैकुण्ठाश्रयानन्तविभूतयश्र सन्त्येव । सर्वाण्डेष्व्यानन्तलोकाश्रयानन्त

Page 28

25

वैकुण्ठ: सन्नीति सर्वेषां श्ल्वभिमततम् । पादत्रयेडपि कि वक्तव्यं निरतिशयानन्दाविर्भांवो मोक्ष इति मोक्षलक्षणं पादत्रये वर्तते । तस्मात्पादत्रयं परममोक्ष: । पादत्रयं परमकेवल्यमिति । तत: शुद्धचिदानन्दब्रह्माविलासानन्दाशानन्तपरमानन्दविभूतयश्वानन्तवैकुण्ठाशानन्तपरमानन्दसमुद्रादय: सन्त्येव । उपासकस्ततोऽभ्येत्तैयैवंविधं नारायणं ध्यात्वा प्रदक्षिणं नमस्कारान्विधाय विविधोपचारैरभ्यर्च्य निरतिशयाद्वैतपरमानन्दलक्षणो भूत्या तदग्रे सावधानेनोपविश्याद्वैतयोगमास्थाय सर्वद्वैतपरमानन्दलक्षण-खण्डामितते जोराश्याकारां विभाव्योपासक: स्वयං शुद्ध-बोधानन्दमयामृतनिरतिशयानन्दते जोराश्याकारो भूत्या महावाक्यार्थमनुस्मरन् ब्रह्माहमस्मि अहंमस्मि ब्रह्माहमस्मि अहंमेवाहं मां जुहोमि स्वाहा । अहं ब्रह्मेति भावनया यथा परमते जोमहानदी-प्रवाहपरमते: पारावारे प्रविशति । यथा परमते: पारावर-तरङ्गा: परमते: पारावारे प्रविशन्ति । तथैव सच्चिदान-न्दात्मोपासक: सर्वपरिपूर्णद्वैतपरमानन्दलक्षणे परब्रह्मणि नारायणे मयि सच्चिदात्मकोडहमजोडहं परिपूर्णोडहमस्मीति प्रविवेश । तत उपासको निस्तरङ्गद्वैतापारनिरतिशयसच्चिदानन्द समुद्रो बभूव । यस्त्वनेन मार्गेण सम्यगाचारति स नारायणो भवत्यसंश्रायमेव । अनेन मार्गेण सर्वे मुनय: सिद्धिं गताः । असंख्याता: परमयोगिनश्व सिद्धिं गताः: । तत: शिष्यो गुरुं परिपृच्छति । भगवन्त्सालम्ब-निरालम्बयोगौ कथमिति बूहीति । सालम्बस्तु समस्तकर्मान्त-दीरतया करचरणादिमूर्तिविशिष्ट मण्डलाद्यालम्बनं सालम्बयोग: । निरालम्बस्तु समस्तनामरूपकर्मान्तीदीरतया सर्वकामाद्यन्त: करणद्वित्तिसाक्षितया तदालम्बनशून्यतया च भावनं निरालम्बयोग: । अथ च निरालम्बयोगाधिकारि कीदृशो भवति । अमानित्वादिलक्षणोपलक्षितो व: पुरुष: स एव निरालम्बयोगाधिकारी कार्य: कषिदासस्ति । तस्मात्सर्वेषा-मधिकारीणामनधिकारीणां भक्तियोग एव प्रशस्यते । भक्तियोगो निरुपद्रव: । भक्तियोगान्मुक्ति: । बुद्धिमतमानायासेनाचिरादेव तत्त्वज्ञानं भवति । तत्कथमिति । भक्तवत्सल: स्वयमेव सर्वेभ्यो मोक्षविघ्नेभ्यो भक्तिनिष्ठान्सर्वान्परिपालयति । सर्वाभीष्टा-न्प्रयच्छति । मोक्षं दापयति । चतुर्मुखादीनां सर्वेषामपि

Page 29

29

विना विष्णुभक्त्या कल्पकोटिभिर्मोक्षो न विद्यते । कारणेन विना कार्यं नोदेति । भक्त्या विना ब्रह्मज्ञानं कदापि न जायते । तस्मात्त्वमपि सर्वोपायैः परित्यज्य भक्तिमाश्रय । भक्तिनिष्ठो भव । भक्तिनिष्ठो भव । भक्त्या सर्वसिद्धयः सिध्यन्ति । भक्त्याडS साध्यं न किंचिदस्ति । एवंविधं गुरुपदेशमाकर्ण्य सर्वं परमत्वरहस्यमवदुध्य सर्वसंसारोपरि बुद्धया क्षिप्रमेव मोक्षं साधयामिति निश्चित्य ततः शिष्यः समुत्थाय प्रदक्षिणं नमस्कारं कृत्वा गुरुयो गुरुपूजां विधाय गुरुनुज्ञया ऋमेण भक्तिनिष्ठो भूत्वा भक्त्यतिशयेन पक्वं विज्ञानं प्राप्य तस्मदानुगासन शिष्यः क्षिप्रमेव साक्षात्कारायणो बभूवेत्युपनिषत् ॥

29

ततः प्रवाचत्त भगवां महाविष्णुस्तुरुमुखमवलोक्य ब्रह्मान् परमत्त्वरहस्यं ते सर्वं कथितम् । तत्स्मरण मात्रेण मोक्षो भवति । तदनुष्ठानेन सर्वमविदितं विदितं भवति । यत्स्वरूपज्ञानिनः सर्वमविदितं विदितं भवति । तत्सर्वं परमरहस्यं कथितम् । गुरु: क इति । गुरु: साक्षादादिनारायण: पुरुष: इ । स आदिनारायणोऽहमेव । तस्मान्मामेकं शरणं ब्रज । मद्भक्तिनिष्ठो भव । मदीयोपासनां कुरु । मामेव प्राप्यसि । मद्व्यातिरिक्तं सर्वं बाधितम् । मद्व्यातिरिकतमबाधितं न किंचिदस्ति । निरतिशयानन्ददितीयोऽहमेव । सर्वपरिपूर्णोऽहमेव । वाचामगोचरनिरीकारपरब्रह्मस्वरूपोऽहमेव । मद्व्यातिरिक्तमणुमात्रं न विद्यते । इत्थ्येवं महाविष्णो: परमिमं उपदेशं लब्ध्वा पितामह: परमानन्दं प्राप । विष्णो: कराभिमर्शनन दिव्यज्ञानं प्राप्य पितामहस्तत् समुत्थाय प्रदक्षिणं नमस्कार निविधाय विविधोपचारैर्महाविष्णुं प्रपूज्य प्राञ्जलिर्भूत्वा विनयेनोपसंगम्य भगवन् भक्तिनिष्ठां मां प्रयच्छ । त्वदभिन्नं मां परिपालय कृपालय । तथैव साधुसाध्विति साधुप्रशंसापूर्वकं महाविष्णो: प्रोवाच । मदुपासक: सर्वोत्तम: स भवति । मदुपासनया सर्वमऋलालिन भवन्ति । मदुपासनया सर्वं जयति । मदुपासक: सर्ववन्द्यो भवति । मदीयोपासकस्य साध्यं न किंचिदस्ति । सर्वे बन्धा: प्रविनश्यन्ति । सदूर्तमिव सर्वे देवान् सेवते । महाश्रेयांसि च सेवते । मदुपासकस्तस्मादभिरतिं त्याजेत्परमानन्दलक्षणपरब्रह्म भवति । यस्तु परमत्त्वरहस्यार्थवर्णमहानारायणोपनिषदमधीते सर्वेभ्य: पापेभ्यो मुक्तो भवति । ज्ञानाज्ञानकृतेभ्य: पातकेभ्यो

Page 30

30

मुक्तो भवति । महापातकेभ्यः पूतो भवति । रहस्यकृत्प्रकाशकृत्चिरकालात्यन्तकृतेभ्यस्तेभ्यः सर्वेभ्यः पापेभ्यो मुक्तो भवति । स सकललोकाज्जयति । स सकलमन्त्रजपनिष्ठो भवति । स सकलवेदान्तरहस्याधिगतपरमार्थज्ञो भवति । स सकलभोगभुग्भवति । स सकलयोगविद्भवति । स सकलजगत्परिपालको भवति । सौड्वैतपरमानन्दलक्षणं परब्रह्म भवति । इदं परमतत्त्वरहस्यं न वाच्यं गुरुभक्तिविहीनाय । न चाशुश्रूषवे वाच्यम् । न तपोविहीनाय नास्तिकाय । न दाम्भिकाय मृडक्तिविहीनाय । मात्सर्यांक्रिततनवे वाच्यम् । न वाच्यं मदपूयापराय कृतघ्नाय । इदं परमरहस्यं यो मृडक्तेष्टभिधास्यति । मृडक्तिनिष्ठो भूत्या मामेव प्राप्स्यति । आवयोरेव इमं संवadamमध्येsष्यति । स नरो ब्रह्मानिष्ठो भवति । श्रद्धावाननसूयुः श्रुणुयात्पठेत वा य इमं संवadamावयोः स पुरुषो मत्सायुज्यमेति । तततो महाविष्णुस्स्तिरोदधे । तततो ब्रह्म स्वस्थानं जगamet्युपनिषत । इत्यार्थवर्णमहानारायणोपनिषद परमसायुज्यमुक्तिस्वरूपनिरूपणं नामाष्टमोऽध्यायः ॥ ५ ॥ इति त्रिपाद्विभूतिमहानारायणोपनिषत्समाप्ता ॥