1. Trishikhibraahmana Upanishad
Page 1
योगजानैकर्ससिद्धशिवतत्त्वयोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं परब्रह्म भवाम्यहम् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ त्रिशिखी ब्राह्मण आदित्यलोकं जगतं तं गतवोवाच ।
भगवन् किं देहः किं प्राणः किं कारणं किमात्मा स
होवाच सर्वमिदं शिव एव विजानीहि । किंतु नित्यः शुद्धो
निरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेद सर्व
दृष्ट्वा तप्तायःपिण्डवदेकं भिन्नवदवभासते ।
तद्वासकं किमिति चेदुच्यते । सच्छब्दवाच्य-
मविद्याशवलं ब्रह्म । ब्रह्मणोडव्यक्ततम् । अव्यक्तान्महत् ।
महतोऽहङ्कारः । अहङ्कारात्पञ्चतन्मात्राणि ।
पञ्चतन्मात्राभ्यः पञ्चमहाभूतानि ।
पञ्चमहाभूतेभ्योऽखिलं जगत् ॥
तदखिलं किमिति । भूतविकारविभागादिरिति । एकस्मिन्न्पिण्डे
पिण्डे कर्थं भूतविकारविभाग इति । तत्कार्यकरणभेदरूपे-
णाङ्गतत्त्ववाचकवाच्यस्थानभेदविषयदेवताकोश-
भेदविभागा भवन्ति । अथाकाशोऽन्तःकरणमनोबुद्धि-
चिताहङ्कारः । वायु: समनोदानवब्यानापानप्राणः ।
वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाह्म्राणानि । आपः शब्दसंस्पर्श-
रूपरसगन्धाः । पृथिवी वाक्पाणिपादपायूपस्थाः ।
ज्ञानसङ्कल्पनिश्वयानुन्धानाभिमाना आकाश-
कार्यन्तःकरणविषया: । समीकरणोत्त्रनयनग्रहण-
श्रवणेच्छुवासा वायुकार्यप्राणादिविषयाः ।
शब्दसस्पर्शरूपसगन्धा अग्निकार्यज्ञानेन्द्रिय-
विषया अबाष्श्रिता: । वचनादानगमनविसर्गानन्दा:
पृथिवीकार्यकर्मेन्द्रियविषयाः । कर्मेन्द्रिय-
विषयेषु प्राणतन्मात्रविषया अन्तर्भूताः ।
मनोबुद्ध्योश्चित्ताहङ्कारै चान्तर्भूतै ।
अवकाशविभूतदर्शनपिण्डीईकरणधारणा: सूक्ष्मतमा
जैवतन्मात्रविषयाः । एवं द्वादशाझ्ञानि
Page 2
१
आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि । अथ निशाकरचतुर्मुखदिग्वातर्कवरुणाश्वयगनीन्द्रपेनन्द्रप्रजापतियमा इत्यक्षराधिदेवतारूपैदश नाड्यन्तःप्रवृत्ताः प्राणा एवाझ्झानि अझ्झानं तदेव ज्ञातेति । अथ व्योमानीलानलजलात्रानां पञ्चीकरणमिति । ज्ञातुं तु समनयोगेन श्रोत्रद्वारा शब्दगुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्स्थितः । मनोऽनयानयोगेन त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो वायौ तिष्ठति वायुस्थितः । बुद्धिरुदानयोगेन चक्षुद्वारा रूपगुणः पादाधिष्ठितोऽग्नौ तिष्ठत्यग्निस्थितः । चित्तमपानयोगेन जिह्वाद्वारा रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्याप्स्थितान्ति । अहङ्कारः प्राणयोगेन घ्राणद्वारा गन्धगुणो गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवी तिष्ठति य एवं वेद ।
२
अत्रैते श्लोका भवन्ति । पृथग्भूते षोडश कलाः स्वार्थभागानपरान्क्रमात् । अन्तःकरणव्यनाक़्षरसपायुनभःॠमात् ॥ १॥ मुख्यात्पूर्वोत्तरैर्भाङ्गैर्भूतेभूते चतुष्टतः । पूर्व्वमाकाशमाश्रित्य पृथिव्यादिषु संस्थिता: ॥ २॥
३
मुख्यादूर्ध्वं परा जेया न परानुत्तरान्विदुः । एवंमश्रो ह्यभूतसम्मातेभ्याश्चो द्वैभूतथाः ॥ ३॥
४
तस्मादन्योन्यमाश्रित्य ह्येतत् प्रोतमनुक्रमात् । पञ्चभूतमयी भूमिः सा चेतनसमन्विता ॥ ४॥
५
तत ओषधयोडन्रं च ततः पिण्डास्तुरविभाः । रसासृज्जांसमेदोऽस्थिमजाशुक्राणि धातवः ॥ ५॥ केचित्तदयोगात् पिण्डा भूतेभ्यः संभवा: क्वचित् । तस्मिन्नन्नमयः पिण्डो नाभिमण्डलसंस्थितः ॥ ६॥
७
अस्य मध्येऽस्ति हृदयं नानालं पङ्कोषवत् । सत्त्वान्तर्वर्तिनो देवा: कर्णहृद्द्वारचेतनाः ॥ ७॥
८
अस्य बीजं तमःपिण्डं मोहुरूपं जडं घनम् । वर्त्तते कण्ठमाश्रित्य मिश्राभूतमिदं जगत् ॥ ५॥
९
प्रत्यगानन्दरूपात्मा मूर्ध्नि स्थाने परे पदे । अनन्तशक्तिसंयुक्तो जगद्रूपेण भासते ॥ ९॥
१०
सर्वत्र वर्त्तते जाग्रत्स्वप्नं जाग्रति वर्त्तते । सुप्तं च तुरीयं च नान्यावस्थासु कुतश्चित् ॥ १०॥ सर्वदेशेष्वनुस्यूतस्स्वरूपः शिवात्मकः ।
Page 3
११
यथा महाफले सर्वे रसा: सर्वप्रवर्तका: ।
१२
तथैवान्त्रमये कोशे कोशस्थितान्तन्ति चान्तरे ।
१२
यथा कोशस्थथा जीवो यथा जीवस्थथा शिव: ।
१३
कोशास्तस्य विकारास्ते ह्यवस्थासु प्रवर्तकाः ।
१४
यथा रसाये फेनं मथनादेव जायते ।
१४
मनो निर्माणादेव विकल्पा बहवस्तथा ।
१५
कर्मणा वर्तते कर्मी तत्वज्ञानान्तिमाप्नुयात् ।
१५
अयने दक्षिणे प्राप्ते प्रपञ्चाभिमुखं गतः ।
१६
अहङ्काराभिमानेन जीव: स्याद्द्वि सदाशिव: ।
१६
स चाविवेकप्रकृतिसङ्कृत्या तत् मुह्यते ।
१७
नानायोनिशृतं गत्वा शेतेऽसौ वासनावशात् ।
१७
विमोक्षात्संचरत्येव मत्स्य: कुलद्रुयं यथा ।
१८
तत: कालवशादेव ह्यात्मज्ञानविवेकतः ।
१८
उत्तराभिमुखो भूत्या स्थानात्स्थानान्तरं क्रमात् ।
१९
मूर्ध्यान्वायात् आत्मन: प्राणान् योगाभ्यासं स्थितधरन् ।
१९
योगात्सञ्जायते ज्ञानं ज्ञानाद्योग: प्रवर्तते ।
२०
योगज्ञानपरो नित्यं स योगी न प्रणश्यति ।
२०
विकारस्तं शिवं पश्येदितिकारं शिवेन तु ।
२१
योगप्रकाशकं योगेभ्यांयोगेच्चानन्य भावन: ।
२१
योगज्ञाने न विद्येते तस्य भावो न सिध्यति ।
२२
तस्मादभ्यासयोगेन मन: प्राणान्तिरोधयेत् ।
२२
योगी निश्शितधारेण क्षुरेणैव निकृन्तयेत् ।
२३
शिक्षा ज्ञानमयी वृत्तिर्यमाद्यष्टाङ्गसाधनै: ।
२३
ज्ञानयोग: कर्मयोग इति योगो द्विधा मत: ।
२४
क्रियायोगमथेदानीं श्रृणु ब्रह्मन्सत्तम ।
२४
अव्याकुलस्य चित्तस्य वन्धनं विषये कवचित् ।
२५
यत्संयोगो द्विजश्रेष्ठ स व द्विविध्यमश्नुते ।
२५
कर्मं कर्तव्यमित्येव विहितेष्वेव कर्मसु ।
२६
बन्धनं मनसो नित्यं कर्मयोग: स उच्यते ।
२६
यत् चित्तस्य सततर्मे श्रेयसि वन्धनम् ।
२७
ज्ञानयोग: स विज्ञेय: सर्वसिद्धिकर: शिव: ।
२७
यस्योक्तलक्षणे योगे द्विविधेऽप्यवययं मन: ।
२८
स याति परमं श्रेयो मोक्षलक्षणमञ्जसा ।
२९
देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधै: ।
२९
अनुरक्ति: परे तत्वे सत्तत् नियम: स्मृत: ।
Page 4
[SKIPPED page 4 - repeated NVIDIA JSON error]
Page 5
४७
कूर्परौ नाभिपार्श्वे तु स्थापयित्वा मयूरवत् ॥ ४७॥ समुन्नतशिरःपादं मयूरासनमिष्यते ।
४८
वामोरुमूले दक्षाङ्घ्रिं जान्वोर्वेष्टितपाणिना ॥ ४८॥ वामेन वामाङ्घ्रिं तु गृहीतं मत्स्यपीठकम् ।
४९
योनिं वामेन संपीड्य मेढ्रादुपरि दक्षिणं ॥ ४९॥ ऋजुकायः समासीनः सिद्धासनमुदीरितम् ।
५०
प्रसार्य भुवि पादौ तु दोर्भ्यामड्कुष्ठमादरात् ॥ ५०॥ जानूपरि ललाटं तु पृष्ठिमं तानमुच्यते ।
५१
येनकेन प्रकारेण सुखं धार्यं च जायते ॥ ५१॥ तत्सुखासनमित्युक्तमशक्तस्तत्समाचरेत् ।
५२
आसनं जितं येन जितं तेन जगतत्रयम् ॥ ५२॥ यमैष नियमैश्चैव आसनेषु सुसंयतः ।
५३
नाडीशुद्धिं च कृत्वादौ प्राणायामं समाचरेत् ॥ ५३॥ देहमानं स्वाङ्गुलिभिः षण्णवत्यङ्गुलायतं ।
५४
प्राणः शरीरादधिको द्वादशाङ्गुलिमानतः ॥ ५४॥ देहस्थमनिलं देहमुद्वर्तेन वद्धिना ।
५५
न्यूनेन संं वा योगेन कुर्वन्नब्रह्महाविदिष्यते ॥ ५५॥ देहमध्ये शिविस्थानं तप्तजाम्बूनदप्रभं ।
५६
त्रिकोणं द्विपदान्च्चतुरसं चतुष्पदं ॥ ५६॥ वृत्तं विहङ्गमानां तु षडसं सर्पजनन्मनाम् ।
५७
अष्टास्रं स्वेदजानां तु तस्मिन्द्वीपवदुज्ज्वलं । कन्दस्थानं मनुष्याणां देहमध्ये नवाङ्गुलं ॥ ५७॥ चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतं ।
५८
अण्डाकारृति तिर्यग्च हि द्विजानां च चतुष्पदां । तुन्दमध्ये तदिष्ठं वै तन्मध्ये नाभिरिप्यते ॥ ५८॥ तत्र चक्रं द्वादशारं तेषु विश्ववाडिमूर्त्तयः ।
५९
अहं तत्र स्थितशक्रं ब्रामयामि स्वमायया ॥ ५९॥ अरेपु भ्रमते जीवः क्रेमेण द्विजसत्तम ।
६०
तन्तुपञ्जरमध्येस्था यथा भ्रमति लूतिका ॥ ६०॥ प्राणाधिरूढश्वरति जीवस्तेन विना न हि ।
६१
तस्योध्र्वं कुण्डलीस्थानं नाभोस्तिर्यङ्गथोर्ध्वतः ॥ ६१॥ अष्टप्रकृतिरूपा सा चाष्टषा कुण्डलीकृता ।
६२
यथावद्वायुसं च ज्वलनादि च नित्यशः ॥ ६२ परितः कन्दपार्श्वे तु निरुध्येव सदा स्थिता ।
६३
मुखेनैव समावेश्य ब्रह्मारन्ध्रमुखं तथा ॥ ६३॥ योगकाले न मरुता सङ्गिरना बोधिता सती ।
Page 6
६२
स्फुरिता हृदयाकाशे नागारूपा महोज्ज्वला ॥ ६२ ॥ अपानाद्दयकुलादूर्ध्वमभो मेढ्रस्य तावता । देहमध्यं मनुष्याणां हन्मध्यं तु चतुष्पदाम्
६३
इतरेषां तुन्दमध्ये प्राणापानसमायुता: । चतुष्प्रकारद्वयुते देहमध्ये सुषुम्नया ॥ ६३ ॥ कन्दमध्ये स्थिता नाड़ी सुषुम्ना सुप्रतिष्ठिता । पद्मसूत्रप्रतीकाशा ऋजुर्ध्वप्रवर्तिनी ॥ ६४ ॥
६५
ब्रह्माणो विवरं यावद्दिव्युद्भासानलकम् । वैष्णवी ब्रह्मनाड़ी च निर्वाणप्राप्तिप्रद्वृतिः ॥ ६५ ॥ इडा च पिङ्गला चैव तस्या: सच्चेतरे स्थिते । इडा समुत्तिथा कनदाद्धोमनासापुटावधि ॥ ६६ ॥
६७
पिङ्गला चोत्तिथा तस्माद्धक्षणनासापुटावधि । गान्धारी हस्तिजिह्वा च दृशौ चान्ये नाडिके स्थिते ॥ ६७ ॥ पुरतः पृष्ठतस्तस्य वामेतरदृशौ प्रति । पूषा यशस्विनी नाडौ तस्मादेव समुस्थिते ॥ ६८ ॥
६९
सव्येतरश्रुत्यवधि पायुमूलादलम्बुना । अधोगता शुभा नाड़ी मेदान्तावधिरायता ॥ ६९ ॥ पादाङुष्ठावधि: कनदाद्धोयाता च कौशिकी । दशप्रकारभूतास्ता: कथिता: कन्दसम्भवा: ॥ ७० ॥
७१
तन्मूला बहवो नाड्र्र: स्थूलसूक्ष्माघ्र नाडिकाः । द्वासप्ततिसहस्राणि स्थूलाः सूक्ष्माघ्र नाडयः ॥ ७१ ॥ संख्यातं न शक्यन्ते स्थूलमूलाः पृथग्विधाः । यथाक्वात्यदले सूक्ष्माः स्थूलाश्र विततास्तथा ॥ ७२ ॥
७२
प्राणापानौ समानश्र उदानो व्यान एव च । नागः कूर्मश्र कृकरो देवदत्तो धनञ्जयः ॥ ७२ ॥ चरन्ति दशनाडीषु दश प्राणादिवायवः । प्राणादिपञ्चकं तेषु प्रधनं तत्र च द्वयम् ॥ ७३ ॥
७३
प्राण एवाथवा ज्येष्ठो जीवात्मनं बिभर्ति यः । आस्त्यानासिकयोर्मध्ये हृदयं नाभिमण्डलम् ॥ ७४ ॥ पादाङुष्ठमिति प्राणस्थानानि द्विसत्तम । अपानश्ररति ब्रह्मग्रुदमेढ़ोरजानुशु ॥ ७५ ॥
७४
समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः । उदानः सर्वसन्धिषु पादयोर्हस्तयोः शु ॥ ८० ॥ व्यानः श्रोत्रोत्रुकव्यान् च गुल्फस्कन्धगलेषु च । नागादिवायवः पञ्च त्वग्स्थादिषु संस्थिता: ॥ ८१ ॥
७५
तुन्दस्थजलमत्रं च रसादीनी समीकृतम् ।
Page 7
५२
तुन्द्मध्यगतं प्राणस्थानं कुर्यात्पृथक्पृथक् ॥ ५२ ॥
५३
इत्यादिचेष्टनं प्राणः करोति च पृथकस्थितम् । अपानवायुमूत्रांदे: करोति च विसर्जनम् ॥ ५३ ॥
५४
प्राणापानादिचेष्टादि क्रियते व्यानवायुना । उज्जीयंते शरीरस्थमुदानेन नभस्वता ॥ ५४ ॥
५५
पोषणादिशरीरस्य समाना: कुरुते सदा । उद्धारादिक्रियो नाग: कूर्मोऽक्षादिनिमीलन: ॥ ५५ ॥
५६
कृकर: क्षुतयो: कर्ता दचो निद्रादिकर्मकृत् । मृतगात्रस्य शोभादर्शनजय उदाहृत: ॥ ५६ ॥
५७
नाडीभेदं मरुद्रुदं मरुतां स्थानमेव च । चेष्टाषु विविधास्तेषां ज्ञात्वैव निजसत्तमं ॥ ५७ ॥
५८
शुद्धौ यतेत नाडीना पूर्वोक्तज्ञानसंयुत: । विविक्तदेशमासाद्य सर्वसंवन्धवर्जित: ॥ ५८ ॥
५९
योगाङ्गद्रव्यसंपूर्ण तत् दारुमये शुभे । आसने कल्पते दर्भकुशाग्रिनाजिनादिभि: ॥ ५९ ॥
६०
तावदासनमुत्सृज्ये तावदृश्यसमायते । उपविश्यासनं सम्यक्स्वस्तिकादि यथारुचि ॥ ६० ॥
६१
बध्वा प्रागासनं विप्रो ऋजुकाय: समाहित: । नासाग्रन्यास्यनयनो दन्तैदन्तानसंप्रुषण ॥ ६१ ॥
६२
रसनां तालुनि न्यस्य स्वस्थचित्तो निरामय: । आकुঞ্চितशिर: किंचित्प्रवध्नयोगमुद्रया ॥ ६२ ॥
६३
हस्तौ यथोक्तविधिना प्राणायामं समाचरेत् । रेचनं पूरणं वायो: शोधनं रेचनं तथा ॥ ६३ ॥
६४
चतुर्भि: क्लेशनं वायो: प्राणायाम उदीर्यते । हस्तेन दक्षिणेनैव पीडयेत्कासिकापुटम् ॥ ६४ ॥
६५
शने: शनैरथ बहि: प्रक्षिपेत्पिधृलानिलम् । इडया वायुमापूर्यं ब्रह्मग्रन्थिंसमात्रया ॥ ६५ ॥
६६
पूरितं कुम्भयेत्पश्चाच्चतुःषष्ठा तु मातृया । द्वात्रिंशन्मात्रया सम्प्रेचयेत्पिधृलानिलम् ॥ ६६ ॥
६७
एवं पुन: पुन: कायं व्युत्क्रमानुक्रमेण तु । संपूर्णकुम्भवदेहं कुम्भयेन्तारिर्ष्वना ॥ ६७ ॥
६८
पूर्णाण्ट्राडय: सर्वो: पूर्यन्ते मातृरिष्वना । एवं कृते सति ब्रह्मग्रन्थित दश वायव: ॥ ६८ ॥
६९
हृदयाम्भोरुहं चापि व्याकोचं भवति स्फुटम् । तत्र पश्येत्परात्मानं वासुदेवमकल्मषम् ॥ ६९ ॥
प्रातर्मध्यान्दिने सायंर्ध्यात्रे च कुम्भकान् ।
Page 8
१००
शनैरशीतपर्यन्तं चतुर्वारं समभ्यसेत् । एकाहमात्रं कुर्वाणः सर्वपापैः प्रमुच्यते ॥ १०० ॥
१०१
संवत्सत्रययादूर्ध्वं प्राणायामपरो नरः । योगसिद्धो भवेद्योगी वायुजिद्द्विजितेन्द्रियः ॥ १०१ ॥
१०२
अल्पाशी स्वल्पनिद्रः सन् तेजस्वी बलवान्भवेत् । अपमृत्युमतिक्रम्य दीर्घमायुरवाप्नुयात् ॥ १०२ ॥
१०३
प्रस्वेदजननं यस्मात् प्राणायामस्तु सोऽधमः । कम्पनं वपुषो यस्मात् प्राणायामेषु मध्यमः ॥ १०३ ॥
१०४
उत्थानं वपुषो यस्मात् स उत्तम उदाहृतः । अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः ॥ १०४ ॥
१०५
पापरोगमहाव्याधिनाशः स्यादुतमे पुनः । अल्पमुत्कोऽल्पविश्र्वष्ट लघुदेहो मिताशनः ॥ १०५ ॥
१०६
पद्मवत्स्थिरः पद्मस्थः कालत्रयविदात्मवान् । रेचकं पूरकं मुक्त्वा कुंभिकरणमेव यः ॥ १०६ ॥
१०७
करोति त्रिषु कालेषु नैव तस्यास्ति दुर्लंभम् । नाभिकन्दे च नासाग्रे पादाङ्कुष्टे च यत्नवान् ॥ १०७ ॥
१०८
धारयेत् मनसा प्राणान् स्न्ध्याकालेपु वा सदा । सर्वरोगैर्निर्मुक्तो जीवेदीयोगी गतक्लमः ॥ १०८ ॥
१०९
कुष्टरोगविनाशः स्याद् नाभिकन्दे धारणात् । नासाग्रे धारणादीर्घेमायु स्यादेहलाघवम् ॥ १०९ ॥
११०
ब्रह्मे मुहुर्ते संप्राप्ते वायुमाक्रुश्य जिह्वया । पिबतस्त्रिपु मासेषु वाक्सिद्धिर्भवेत् ॥ ११० ॥
१११
अभ्यासात् तस्य षण्मासान् महारोगविनाशनम् । यत्र यत्र धृतो वायुरुदरे रोगादिदूषिते ॥ १११ ॥
११२
धारणादेव मरणस्तत्तदरोग्यमश्नुते । मनसो धारणादेव पवनो धारितो भवेत् ॥ ११२ ॥
११३
मनसः स्थापने हेतुर्यते द्विजपुङ्गव । करणानि समाहृत्य विषयेभ्यः समाहितः ॥ ११३ ॥
११४
अपानमूर्ध्वमाकृष्येदरोधरि धारयेत् । बन्धनकरांभ्यां श्रोत्रादिकरणानि यथातथम् ॥ ११४ ॥
११५
युञ्जानस्य यथोक्तेन वत्र्मना स्ववशं मनः । मनोवशात् प्राणवायु: स्ववशे स्थाप्यते सदा ॥ ११५ ॥
११६
नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते । तिम्रश्र नाडिकास्तासु स यावन्तं चरत्ययम् ॥ ११६ ॥
११७
शब्दिनीवीवरे याम्ये प्राणाः प्राणभृतां सताम् । तावन्तं च पुनः कालं सेव्ये चरति सन्ततम् ॥ ११७ ॥
Page 9
1
18
इत्यं क्रमेण चरता वायुना वायोजित्तरः ॥ १९८ ॥
1
19
अहष्र रात्रीं पक्षं च माससमृत्वयानादिकम् । अन्तमुंखो विजानीयात्कालभेदं समाहितः ॥ १९९ ॥
1
20
अकूष्मादिस्वावयवस्फुरणादशनेरपि । अरिष्टेरजीवितस्यापि जानीयात्क्षयमात्मनः ॥१२०॥
1
21
ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः । पादाङुष्टे कराङुष्टे स्फुरणं यस्य न श्रुति: ॥ १२१ ॥
1
22
तस्य संवत्सरादूर्ध्वं जीवितस्य क्षयो भवेत् । मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति ॥ १२२ ॥
1
23
षण्मासावधिरेतस्य जीवितस्य स्थितिभवेत् । कुपरे स्फुरणं यस्य तस्य त्रैमासिकी स्थिति: ॥ १२३ ॥
1
24
कुक्क्षिमेहनपार्श्वे च स्फुरणानुपलम्भने । मासावधिरजीवितस्य तदर्धस्य तु दर्शनने ॥ १२४ ॥
1
25
आश्रिते जठरद्वारे दिनानि दश जीवितम् । ज्योति: खद्योतवद्वस्य तदर्धं तस्य जीवितम् ॥ १२५ ॥
1
26
जिह्वाग्रादर्शनं व्रीणी दिनानि स्थितिरात्मनः । ज्वालाया दर्शनने मृत्युर्दिने भवति ध्रुवम् ॥ १२६ ॥
1
27
एवमादीन्यरिष्टानि दृष्ट्वा क्षयकारणम् । iनि:श्रेयसाय युज्जीत जपध्यानपरायण: ॥ १२७ ॥
1
28
मनसा परमात्मानं ध्यात्वा तदूपतामियात् । यद्यष्टादशभेदेषु मर्मस्थानेपु धारणम् ॥ १२५ ॥
1
29
स्थानात्स्थानं समाक्ष्य प्रत्याहारः स उच्यते । pादाङुष्टं तथा गुल्फं जङ्घामध्यं तथैव च ॥ १२९ ॥
1
30
मध्यमूर्वोश्र मूलं पायुर्हृदयमेव च । मेहनं देहमध्यं च नाभिं च गलकूर्परम् ॥ १३० ॥
1
31
तालुमूलं च मूलं च ग्राणास्याक्ष्णोश्र मण्डलम् । भ्रुवोर्मध्ये ललाटं च मूलमूर्ध्वं च जानुनी ॥ १३९ ॥
1
32
मूलं च करयोर्मूलं महान्त्येतानि वै द्विज । pञ्चभूतमये देहे भूतेषु पञ्चसु ॥ १३२ ॥
1
33
मनसो धारणं यत्तदुक्तस्य च यमादिभिः । धारणा सा च संसारसागरोत्तरकारणम् ॥ १३३ ॥
1
34
आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते । pित्तला चतुरस्त्रा च वसुधा वज्रलाञ्छिता ॥ १३४ ॥
1
35
स्मर्तव्या पञ्चघटिकास्तत्रारोप्यप्रभञ्जनम् । आजानुकटिपर्यन्तमपां स्थानं प्रकीर्तितम् ॥ १३५ ॥
1
36
अर्धचन्द्रसमाकारं श्वेतमर्जुनलाञ्छितम् ।
Page 10
१३६
स्मर्तव्यमभः श्वसनमारोप्य दशनानाडिका: ॥ १३६ ॥ आदेहमध्यगतन्तमगिनस्थानमुदाहृतम् ।
१३७
तत्र सिन्दूरवर्णोंडगिनर्ज्वलन् दशपञ्च च ॥ १३७ ॥ स्मर्तव्यो नाडिका: प्राणं कृत्वा कुम्भे तथेरितम् ।
१३८
नामेरुपरि नासान्तं वायुस्थानं तु तत् वै ॥ १३८ ॥ वेदिकाकारवद्धूमो बलवान्भूतमारुतः ।
१३९
स्मर्तव्य: कुम्भकैनैव प्राणमारोप्य मारुतम् ॥ १३९ ॥ घटिकाविंशतिस्तस्माद्ग्राणाद्ब्रह्माविलावधि ।
१४०
व्योमस्थानं नभस्तत्र भिन्नाजनसमप्रभम् ॥ १४० ॥ व्योम्नि मारुतमारोप्य कुम्भकैनैव यत्नवान् ।
१४१
पृथिव्यंशे तु देहं च चतुष्पादं किरीटिनम् ॥ १४१ ॥ अनिरुद्धं हरिं योगी यतेत भवमुक्तये ।
१४२
अवंशे पूरयेद्योगी नारायणमुदग्रधी: ॥ १४२ ॥ प्रधुम्नमग्नौ वाय्यंशे सङ्कर्षणमत: परम् ।
१४३
व्योमांशे परमात्मानं वासुदेवं सदा स्मरेत् ॥ १४३ ॥ अचिरादेव तत्राप्तिर्यज्ज्ञानस्य न संशय: ।
१४४
बद्ध्वा योगासनं पूर्वं हस्ते हृदयाज्जलि: ॥ १४४ ॥ नासाग्रन्यासथाननयो जिह्वां कृत्वा च तालुनि ।
१४५
दन्तैर्दन्तानसंप्रुष्य ऊर्ध्वेकाय: समाहित: ॥ १४५ ॥ संयमेच्चेन्द्रियग्राममात्मबुद्धया विशुद्धया ।
१४६
चिन्तनं वासुदेवस्य परस्य परमात्मन: ॥ १४६ ॥ स्वरूपव्याप्तरूपस्य ध्यानं कैवल्यसिद्धिदम् ।
१४७
याममात्रं वासुदेवं चिन्तयेत्कुम्भकेन य: ॥ १४७ ॥ सप्तजन्मार्जितं पापं तस्य नश्यति योगिन: ।
१४८
नाभिकन्दात्समारभ्य यावदूदयगोचरम् ॥ १४८ ॥ जाग्रद्वृत्तिं विजानीयात्स्थस्थं स्वप्नवतन्तम् ।
१४९
सुषुप्तं तालुमध्यस्थं तुयं भूमध्यसंस्थितम् ॥ १४९ ॥ तुर्यांतितं परं ब्रह्म ब्रह्मांशे तु लक्ष्येत ।
१५०
जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्माविलान्तरम् ॥ १५० ॥ तत्रात्मयं तुरीयस्य तुयांत्ने विष्णुरुच्यते ।
१५१
ध्यानेनैव समायुक्तो व्योम्नि चात्यन्तनिर्मलमे ॥ १५१ ॥ सूर्यकोटिद्युतिरथं नित्योदितमधोक्षजम् ।
१५२
हृदयाम्बुरुहासीनं ध्यायेद्वा विश्वरूपिणम् ॥ १५२ ॥ अनेकाकारश्चित्मनेकवदान्वितम् ।
१५३
अनेकभुजसंयुक्तमनेकायुधमण्डितम् ॥ १५३ ॥ ननावर्णधरं देवं शातमुप्रमुदायुधम् ।
Page 11
१५
८
अनेकनयानाकीनं सूर्यकोटिसमप्रभम् । ध्यायातो योगिनः सर्वमनोवृत्तिविनाश्यति ।
१५
९
हत्पुण्डरीकमध्यस्थं चेतनाज्योतिरवयवयम् । कमलवगोलाकारं तुयांतीतं परात्परम् ।
१५
१०
अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् । निवातदीपसदृशमकृत्रिममणिप्रभम् ।
१५
११
ध्यायातो योगिनस्तस्य मुक्तिः करतले स्थिता । विश्वरूपस्य देवस्य रूपं यत्किज्चिदेव हि ।
१५
१२
स्थिवीः सूक्ष्ममन्यद्वा पश्यन्नहृदयपङ्कजे । ध्यायातो योगिनो यस्तु साक्षादेव प्रकाशते ।
१५
१३
अणिमादिफलं चैव सूक्ष्मे नৈवोपजायते । जीवात्मनः परस्यापि यदेवमुख्योरपि ।
१५
१४
अहमेव परंब्रह्म ब्रह्माहमिति संस्थितिः । समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः ।
१५
१५
ब्रह्म सम्पद्यते योगी न भूयः संसृतिं ब्रजेत् । एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा ।
१५
१६
यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति । ग्राद्याभावे मनः प्राणो निश्वयजानसंयुतः ।
१५
१७
शुद्धसत्त्वे परे लीनो जीवः सैन्थवपिण्डवत् । मोहजालकसङ्घातो विझं पश्यति स्वप्नवत् ।
१५
१८
सुषुप्तिवदधश्रति स्वभावपरिनिष्ठितः । निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुते इत्युपनिषत् ।
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति त्रिशिखिब्राह्मणोपनिषत्समाप्ता ॥