1. Turiyaatiita Upanishad
Page 1
ॐ तुरीयातीतोपनिषदं यत्परमाक्षरम् ।
ततुत्र्यांतीतचिन्मात्रं स्वमात्रं चिन्त्येऽन्वहम् ॥
तुरीयातीतसंज्ञासपरिब्रजाक्षमालिका ।
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुङ्किका ॥
हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
अथ तुरीयातीतावधूतानां कोटयं मार्गस्थेभां का स्थितिरिति पितामहो भगवान्तं पितरमादिनारायणं परिसमेत्योवाच ।
तमाह भगवान्नारायणो योऽयमवधूतमार्गस्थो लोके दुर्लभतरों नतु बाहुल्यो यद्येको भवति स एवं नित्यपूतः स एवं वैराग्यमूर्तिः स एवं ज्ञानाकारः स एवं वेदपुरुष इति ज्ञानिनो मन्यन्ते ।
महापुरुषो यस्तच्छित्तं मध्येवार्तिष्ठते ।
अहं च तस्मिन्नेवावस्थितः सोऽयमादौ तावत्क्रमेण कुटीचको बहूदकत्वं प्राप्तो बहूदको हंसत्वमवलम्य हंसः परमहंसो भूत्वा स्वरूपानुसन्धानेन सर्वप्रपञ्चं विदित्वा दण्डकमण्डलुलुटीसुक्त-कौपीनाच्छादनं स्वविध्युक्तक्रियादिकं सर्वमपि संन्यासस्य दिगम्बरो भूत्वा वर्णनजीर्णवल्कलाजिन-परिग्रहमपि सत्यज्य तदूद्र्ध्वं मन्त्रवदाचरणक्षौर-भ्यङ्गस्नानोर्ध्वपुण्ड्रादिकं विहाय लौकिकवैदिकम-प्युपसंहत्य सर्वत्र पुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि विहाय शीतोष्णसुखदुःखमानावमानं निर्जित्य वासनात्रय-पूर्वकं निन्दानिन्दागर्वमत्सरदम्भदपेक्षाकामक्रोधलोभ-मोहरागमार्गासूयात्मसंरक्षणादिकं दग्ध्वा स्ववपुः
कुण्डपाकारमिव पश्यनत्रयत्नेनानियमेन लाभालाभौ समौ कृत्वा गुरुत्व्या प्राणसंनिधारणं कृत्वा नित्यप्राप्तं तेनैव निर्लोभः सर्वविद्यापणिडत्यप्रपञ्चं भस्मीकृत्य स्वरूपं गोपयित्वा ज्येष्ठाज्येष्ठत्वानुपलापकः सर्वोत्तमत्व-सर्वात्मकत्वाद्वैतं कल्पयित्वा मत्तो व्यतिरिक्तः कश्चिन्ना-
Page 2
न्योऽस्तीत देवगुह्यादिधनमातन्युपसंहृत्य दु:खेन नोद्विग्न: सुष्टेन नानुमोदको रागे नि:स्पृह: सर्वत्र शुभाशुभयो-
रनभिस्नेह: सर्वेन्द्रियोपरम: स्वप्नावपनाश्रमाचारविद्या-
धर्मंग्राभवमनुस्मरन्त्यकतवर्णाश्रमाचार: सर्वदा दिवानक्तसमवनेनास्वप्न: सर्वदासंचारशीलो
देहमात्रवशिष्टो जलस्थलकमण्डलु: सर्वदानुनम्रो बालोन्मत्ततपिशाचवदेकाकी संचरन्संभाषणपर:
स्वरूपध्यानेन निरालम्बवलमब्य स्वात्मनिष्ठानुकूलेन सर्वे विस्मृत्य तुरीयातीतावधूतवेषेणोद्विग्ननिष्ठापर:
प्रणवात्मकत्वेन देहत्यागं करोति य: सोऽवधूत: स कृतकृत्यो भवतीत्युपनिषत् ॥
ॐ तत्सत् ॥
ॐ पूर्णमद: पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णामेवावशिष्यते ॥
ॐ शान्ति: शान्ति: शान्ति: ॥
इति तुरीयातीतोपनिषत्समाप्ता ॥