1. TxtSkt-rAGa-kalapadrumAnkura-1911-0036
Page 1
श्रीमद्
रागकल्पद्रुमांकुर:
पं० अपातुलस्युपाख्यकाशीनाथप्रणीतः
स च
मुंवय्यां
विष्णुशर्मणा
निर्णयसागरयंत्रालये वा. रा. घाणेकरद्वारा मुद्राक्षरैरंकयित्वा प्राकाश्यं नीतः कोलभाटवीथ्यां नं. २३
शके १८३३ सन १९११
सर्वेऽधिकारा: खायत्तीकृताः ।
Page 3
श्रीमद्
रागकल्पद्रुमांकुर:
पं० अपातुलस्युपाख्यकाशीनाथप्रणीतः
स च
मुंवय्यां
विष्णुशर्मणा
निर्णयसागरयंत्रालये बा. रा. घाणेकरद्वारा मुद्राक्षरैरंकयित्वा प्राकाश्यं नीतः कोलभाटवीथ्यां नं. २३
शके १८३३ सन १९११
सर्वेऽधिकारा: स्वायत्तीकृताः।
Page 4
Printed by B. R. Ghanekar, at the N. S. Press, 23, Kolbhat Lane, Bombay; and published by Vishnu Narayen Bhatkhande, Shantaram Narayen Vakil's Banglow, Malabar Hill, Bombay.
Page 5
3
श्रीगणेशाय नमः अथ श्रीमद्रागकल्पद्रुमांकुरः।
हेरंबं गिरिजां शिवं रघुवरं नत्वा गुरुन्मारुतिं संश्नित्योत्तरदेशसंप्रचलितं संगीतमार्ग श्रुतम्॥ वक्ष्ये भैरवरागतो ललितरागांतानहोरात्रगान् वाद्यादिस्वरलक्षितांस्तु कतिचिद्रागान् क्रमेण स्फुटम् ॥ १॥ स्वस्तिश्रीवैद्यनाथार्हणपरपरळीक्षेत्रवासी द्विजाग्यो राजाराम: समासीतुलसिकुलभवस्तत्सुतो रामचंद्रः।। तत्पुत्र: काशिनाथो विबुधविरचितं लक्ष्यसंगीतशास्त्रं भूयो भूयो विलोक्य प्रकटमिह परं रागतत्वं व्यनक्ति ॥ २॥ रागादिर्भैरवाख्यो मृदुऋषभमधस्तीव्रगांधारनिः स्या- द्वाद्यस्मिन्धैवतोसावृषभ इहतु संवादिरुपोडभिगीतः॥ आरोहेडल्पर्पभत्वं क्वचिदपि मृदुनिं प्राहुरेकेऽवरोहे प्रातःकाले स नित्यं जगति सुमतिभिर्गीयते मंजुतानैः ॥ ३ ॥ इति भैरव: ॥ संभेद: किल भैरवस्य कथितो बंगालसंज्ञो बुधै- रारोहेऽप्यवरोहणे च नियतं वर्ज्यो निषादस्वरः॥ अन्यभ्मैरवतुल्यमेव सकलं वक्रोऽवरोहे तु गो गायंति प्रचुरं प्रभातसमये पड़्ि: स्वरैर्गायकाः ॥४ ॥ इति बंगालभैरवः ॥ संस्थानकेस्मिन्यदि भैरवस्य तीव्रो भवेद्धैवत एष नित्यम्।। पूर्णस्तदानीमिह पड्डवादी ह्यानंदपूर्वोडयमवादि भैरवः ॥ ५ ॥
Page 6
4 (४)
इति आनंदभैरवः ॥ संस्थान एवाजनि भैरवस्य मिश्रस्वरूप: शिवभैरवोडसौ।। भेदस्त्वियान भैरवतोऽस्य दृष्टो- वरोहणे यन्निगयोर्मृदुत्वम् ॥ ६ ॥ इति शिवभैरव: ॥ संस्थाने किल भैरवस्य कथितो रागः प्रभाताभिध: संपूर्णस्वरमंडितश्च ललितांगेन प्रयुक्तः सदा॥ वादी मध्यम ईरितो मधुरसंवादी च षद्गस्वरो गायंति ध्रुवमेनमत्र सुधियः प्रत्यूषकाले मुदा॥७ ॥ इति प्रभातराग: ।। सौराष्ट्रोडयं भैरवस्यैव मेले मांश: पूर्णो धैवतद्वंद्वयोगी॥
प्रातर्गेयो दुर्बलोऽस्मिन्निषादः ॥८ ॥ इति सौराष्ट्र: ।। रागो रामकली तु यत्र रिमधाः स्युः कोमला धैवतो वादी रिस्तदमात्य ईरित इहारोहे मनी वर्जितौ। संपूर्ण त्ववरोहणं निगदितं कैश्चिन्निषादद्यं प्रत्यूपे मधुरस्वरं सुमतयो गायंति यं गायकाः ॥ ९ ॥ इति रामकली॥ गुणकली त्वियं मंद्रमध्यगा गनिविवर्जिता भैरवांगिनी ॥ ऋुषभधैवतौ मंत्रिवादिनौ सदसि गीयते प्रातरौडुवा ॥१० ॥ Ar इति गुणकली । पूर्वांगे किल भैरव: स्फुटतरं यत्रोत्तरांगे पुनः
Page 7
5 (५) स्पष्टं भाति हरप्रिया भवति तद्रूपं विचित्रं ततः ॥ वादित्वं त्विह षड्ग एव निहितं संवादिता पंचमे द्वैरुप्येण हि गीयते सुमतिभी रागिण्यहीरी प्रगे ॥ ११ ॥ इति अहीरी॥ आरोहे न निरिह गस्तु वर्ज्य एव क्वाचित्को भवति च पंचमोऽवरोहे॥ पड्रोंडशो विलसति मध्यमश्च मंत्री सा योगिन्युपसि चकास्ति भैरवांगे ॥ १२ ॥ इति जोगिया ॥ विभास इह वर्ज्यमध्यमनिषादकस्त्वांडुयो रिकोमलधकोमलो भवति तीव्रगांधारक: ॥ अमात्य ऋषभस्वरो भवति धैवतोंऽशस्वरो मनो हरति शृ्वतामुपसि पंचमन्यासतः ॥ १३ ॥ इति विभास: ।। रागो वेलावली स्याद्यदि रिगधनयस्तीव्रकाः कोमलो मः पड्डांशः कैश्चिदुक्त: प्रकृतिसुरुचिरो वैवतांशो गमंत्री॥ आरोहेडल्पौ मनी स्तः क्वचिदपि च निषादस्य वक्रत्वमुक्त्तं प्रातःकाले सुवीणारवमधुरगलैः सुस्वरं गीयतेऽसौ ॥ १४॥ इति वेलावली।। मेले वेलावलीये प्रभवति रुचिरा शुकवेलावली य- त्पारोहे दुर्बलो रिः क्वचिदपि च मृदुः स्यान्निपादोऽवरोहे॥ वादित्वं मध्यमे स्यात्तदनु भवति संवादिता पड़ एव प्राह्ले गानं प्रदिष्टं सुनिपुणमतिभिर्मध्यमे न्यास इष्टः ॥ १५॥ इति शुक्कवेलावली ॥ मता यमनपूर्विका पुनरियं हि बेलावली प्रविष्ट इह तीव्रमध्यम इति स्वरूपे भिदा।
Page 8
(६ )
सपावभिहितौ बुधैरिह तु वादिसंवादिनौ मनोज्ञमधुरस्वरेरुपसि गीयते सांप्रतम् ॥ १६ ॥ इति यमनवेलावली॥ बेलावली स्यान्नटपूर्विकाऽपि श्रुतिप्रिया मध्यमवाद्यलंकृता । आरोहणे यत्र नटो विभाति प्रगीयते प्रातरियं सुधीभिः॥१७॥ इति नटवेलावली । वेलावलीमेलभवो हि देव- गिरिर्विलोमे धगदुर्बलोऽयम्॥ संपूर्णरागः किल षड्गवादी कल्याणमिश्रोऽभिमतः प्रभाते ॥ १८ ॥ इति देवगिरि: ॥ वेलावलीरागभवस्त्वल्हैया संवादिगांधारकवादिघैवतः॥ मृदुर्निषादोऽपि मतोऽत्र किंचि- दारोहणे मध्यमवर्जितोऽयम् ॥ १९॥ इत्यल्हैया । विभाति सरपर्दकः सकलमान्यतीव्रस्वरै- र्विलावलविशेष एव स इह प्रदिष्टो बुधैः ॥ सपावथ धगौ च कैश्चिदिह वादिसंवादिनौ स्मृतावुपसि गीयते सुमधुरस्वरं गायकैः ॥ २० ॥ इति सरपर्दा ॥ देशीकारस्त्वौडुवः शुद्धमेल: प्रोक्तो नित्यं वर्जितोऽसौ मनिभ्याम्॥ गः संवादी धैवतस्त्वत्र वादी पन्यासोडयं गीयते प्रातरेव ॥ २१॥।
Page 9
7 (७) इति देशीकारः ॥ वेलावल्या मेल एव प्रसिद्धो लच्छासागो धैवतांशो गमंत्री।। खंमाजांगेनैव यस्य प्रचारो नित्यं प्राह्ले गीयतेऽसौ सुधीभिः॥२२॥ इति लच्छासाग: ॥ वेलावल्या: प्रभेद: ककुभ इति मतो मान्यतीव्रस्वराज्यः संवादी चर्षभोऽस्मिन् विलसति नितरां पंचमो वादिपीठे। संमिश्रो जैजवंत्याभवदिति सुधियो यद्वदंति ध्ुवं तद् गायंति प्रातरेव प्रतिदिवसममुं गानशास्त्रप्रवीणाः ॥ २३।। इति ककुभ: ॥ माडो रागो भवति मरुमेवाडदेशप्रसिद्ध: संपूर्णोडयं परमरुचिरो मान्यतीव्रस्वरोत्थः।। प्रायो वक्रक्रम इह सपौ वादिसंवादिनौ रतः प्रारोहे दुर्बलधरिषभो गीयते सर्वकाले ॥ २४॥ इति माडराग: ॥। आभांत्यस्यां रिगमधनयः कोमलाः सोऽन्र वादी मः संवादी क्रचिदपि धगौ वादिसंवादिनौ स्तः। प्रातःकालेतिरुचिरतरा स्वैरिणी सर्वरम्या संपूर्णा संजनयति मुदं भैरवी रागिणीडयम् ॥ २५॥ इति भैरवी ॥ यस्यां तीव्रो भवति रिषभः कोमला एव सर्वे वादी यस्यां विलसति सदा मध्यमः सोऽस्त्यमात्य:।I एके प्राहुर्मृदुलमृषभं चावरोहे कदाचित् प्रातर्गेया परममधुरा भैरवी सिंधुपूर्वा ॥। २६॥ इति सिंधुभैरवी॥ भूपाल: स्यान्ैरवीमेलजन्यो
Page 10
(८) नित्यं यस्मिन्वज्यते मश्च निश्च॥ गः संवादी धैवतोऽस्त्यत्र वादी प्रातः काले गीयते मंजुकंठैः ॥ २७ ॥ इति भूपाल: ॥ सामंतोऽखिलकोमलस्वरयुतस्त्वारोहणे वर्जितो गांधारेण निषादकेन च तथा त्यक्तोऽवरोहे निना॥ वादी मध्यम एव षड् इह संवादी भवेन्निश्चितं प्रातर्नित्यमसौ सुशिक्षितजनैर्मेजुस्वरं गीयते ॥ २८ ॥ इति सामंत: । तोडीयं यदि कोमला धगरयस्तीव्रौ मनी धैवतो वादिस्थानगतः सदा विजयते गांधारसंवादिना॥ आरोहे ऋषभस्य दुर्वलतया पड़ग्रहन्यासतो गंभीरप्रकृतिर्विलंवितलयं संगीयते संगवे॥ २९ ॥ इति तोडी।। तोडिकैव किल गुर्जरी मता पंचमेन रहिता यदा भवेत्॥ संवददृषभधैवतांशतो गीयते सुमतिभिस्तु संगवे॥ ३० ॥ इति गुर्जरी॥ तोडीमेले कोमलो मध्यमोडयं किंचित्कैश्चिद्गीयते संप्रविष्टः ॥ लाचारीं तां तोडिकां धैवतांशां प्राहुः सर्वे गीतशास्त्रप्रवीणाः ॥ ३१।। इति लाचारी॥ रागिण्यासावरीयं मृदुगमधनिभिस्तीव्रकेणर्षभेण संयुक्तारोहणे या किल गनिरहिता चावरोहे तु पूर्णा।।
Page 11
(९) वादी स्याद्धैवतोऽस्यां श्रुतिरुचिरतरो गिश्च संवाद्यभीष्टो विष्वक्तानप्रसारैर्मृदुमधुरगलैगीयते संगवे सा । ३२॥। इत्यासावरी ।। प्रख्याता जौनपूरी मृदुगमधनिका रोहणे गेन हीना संपूर्णा चावरोहे नियतमभिहितश्चात्र वादी निषादः ॥ गांधारः स्यादमात्यः प्रकटयति सदाSSसावरीतुल्यरूपं गानं चास्या द्वितीयप्रहरसमुचितं प्राह्न एवोपदिष्टम् ॥३३॥ इति जौनपूरी ॥। स्वरैसावर्याः किल जगति देशी सुविदिता धगत्यक्ताSडरोहे विलसति वरोहे तु सकला॥ प्रसिद्धः संवादो भवति समयोरत्र मधुरः प्रभां सारंगस्य प्रकटयति पूर्वेडग इह सा ॥ ३४॥ इति देशी।। आसावर्याः स्वरेभ्यः प्रभवति रुचिरो देवगांधाररागः प्रारोहे वर्ज्यतोक्ता ध्रुवमिह रिधयोः पूर्णता चावरोहे॥ पूर्वागे सा धनाश्रीः प्रविलसति सदाSSसावरी चोत्तरांगे संवादी पंचमोंऽशः स इह सुमधुरं गीयते संगवे हि॥ ३५॥ इति देवगांधारः ॥ आसावर्याः स्वरेभ्यो ध्रुवमजनि खटो मिश्ररागोऽयमुक्तो धांशो गांधारमंत्री प्रकृतिचपलको मग्रहः पंचमांतः ॥ पूर्वांगे भैरवोऽस्य प्रविलसति सदाSSसावरी चोत्तरांगे गायंत्येनं हि सर्वे सुकुशलमतयः संगवे श्राव्यकंठाः ॥ ३६॥ इति खटराग: ।
देशाख्यरागो धगदुर्बलः स्यात्॥ वाद्यत्र षड़ः सहचारिमध्यमः सारंगभंग्या कुतुपेडभिगीयते॥ ३७॥ इति देशाख्यः ॥ रागक. १
Page 12
(१०) सूहारागः किल गमनिभि: कोमलैर्भाति युक्त: प्रारोहे धैवतविरहितश्चावरोहे तथैव। वादी मध्यः प्रविलसति संवादक: षड़ एव चंचत्तानैः कुतुपसमये गीयते गानधुर्यैः॥ ३८ ॥ इति सूहाराग:॥ सुग्राई स्यान्मृदुगमनिकारोहणे धैवतेन हीनेत्युक्ता पुनरभिहिता चावरोहे धयुक्ता।। संवादी तु प्रथित इह सः पंचमोऽस्त्यत्र वादी विष्वक्तानैः कुतुपसमये गीयते गीतविद्भिः॥३९॥ इति सुग्राईराग: ।। सारंगो धगवर्जितो मृदुमनिस्तीव्रर्षभः पंचमः संवादी किल वाद्यपीह ऋषभोऽसौ मध्यमादिर्मतः॥ आरोहे यदि धो भवेदिह तदा शुद्धोऽवरोहे तु धे वृंदावन्यपि तीव्रनिर्भवति वै गेयस्तु मध्येऽहनि ॥ ४० ॥ इति सारंग:॥ रागोडयं बडहंसको मृदुमनिर्गाधारहीन: सदा वादी त्वत्र हि पंचमो भवति संवादी च षड्जस्वरः॥ सारंगस्य हि भेद एष इति यं सर्वे वदंति ध्रुवं मध्याह्ने मधुरं च गीतिनिपुणैः षद्गि: स्वरैर्गीयते॥ ४१॥ इति बडहंस: ॥ सारंगो गौडपूर्वो द्विम इति विदितोऽन्यैस्तु तीव्रैरुपैतः प्रायः सर्वोऽपि वक्रो निरतिविरल एवात्र संदृश्यतेऽसौ।। गांधारो धैवतश्च प्रविलसत उभौ वादिसंवादिरूपौ केडप्याहुवैंपरीत्यं समयविद उतार्धात्परं गीयतेऽन्हः ॥४२॥ इति गौडसारंग:।। प्रोक्तेयं पटमंजरी गमनिभिर्युक्ता सदा कोमलै-
Page 13
(११)
रारोहे धगदुर्बला निगदिता पूर्णाऽवरोहे पुनः॥ वादी स्यादिह षड्ड एव किल संवादी मतः पंचमो मध्याह्वात्परमेव सुस्वरमसौ संगीयते गायकैः ॥ ४३॥ इति पटमंजरी।। स्वरास्तु मृदवोऽखिला ऋषभधौ च नारोहणे- वरोहसमये भवेयुरथ यत्र सर्वेऽपि च।। समुल्लसति पंचमोंडश इह षड्डसंवादिना- पराह्लसमयेषु निग्रहयुता धनाश्रीरियम् ॥४४ ॥। इति धनाश्री: ।। प्रोक्ता भीमपलाशिका गमनिभिर्या कोमलैर्मडिता प्रारोहे रिधवर्जिता प्रकथिता पूर्णाऽवरोहे पुनः॥ वादी मध्यम ईरितो भवति संवादी तु षड्रस्वरो यामे चेह तृतीयकेऽहनि बुधैर्गीता मनोज्ञस्वरैः ॥ ४५॥ इति भीमपलाशिका।। हरप्रियामेलभवापवादिनी रिधौ परित्यज्य समारूहंती॥ पूर्णावरोहा किल हंसकंकणी द्विगा तृतीयप्रहरेऽहि गीयते ॥४६॥ इति हंसकंकणी।I यस्यां तीव्रौ मनी स्तः खलु ऋषभधगाः कोमला भांति यत्र प्रख्यातः पंचमोंऽशः स्फुरति सहचरोऽप्यत्र षड्गोऽभिगीतः ॥ आरोहे वर्जितौ तौ भवत इह रिधौ स्युश्च सर्वेडवरोहे प्रायः कालेऽपराले सुचतुरमतिभिर्गीयते मूलतानी॥ ४७ ॥ इति मूलतानी।। मतः पीलूरागः सकलमृदुतीव्रस्वरयुतो मृदुर्गाधारोंऽशः राहचरति तीव्रस्तु निरिह॥
Page 14
(१२) प्रसिद्ध: सर्वत्र: प्रचुरतरसंचाररुचिर: सदा गेय सर्वार्भकतरुणवृद्धैः परिचित: ॥४८ ॥ इति पीलु: ॥ द्वौ गौ द्वौ धौ द्वौ च नी कोमलो म- स्तीव्रो यस्मिंश्चर्षभो भाति पूर्णः।। वादी रिः संवादिना पंचमेन बर्वारागो गीयते सर्वकालम् ॥ ४९ ॥ इति बरवाराग: ।। रागेऽस्मिन्मारुसंज्ञे किल गमधनयस्तीव्रकाः स्युर्मृदूरि र्वादी चात्रर्षभोडयं ध्रुवमनुभवतो लक्ष्ययोगानुरोधात्।। संवादी धैवतश्च स्फुटमिह गमनं साध्यतेऽतिश्रमेण संगीताभ्यासशीलैर्नियतमविरतं गीयते सायमेव ॥ ५० ॥ इति मारु: ॥ मालीगौरः परमरुचिरो मारुसंस्थानजन्यः संपूर्णोऽसाविह किल रिधौ वादिसंवादिनौ स्तः । श्रीसंमिश्रो विलसति सदा पूरियामिश्रितश्च सायंगीतो मधुरनिनदैर्मद्रमध्यप्रचारः॥५१॥ इति मालीगौरः ॥ वराटीति राग: स्मृतो मारुमेले गवादी धसंवादियुक्तो विभाति॥ सदा पंचमेनाभियुक्त: सुपूर्ण: स सायं बुधैर्गीयते मंजुगीतैः ॥५२॥ इति वराटी।। जैत्रो रागो मारुसंस्थानजन्यः प्रोक्तो नित्यं वर्जितोऽयं मनिभ्याम्।।
Page 15
13 (१३)
वादी चास्मिन्पंचमः संग्रदिष्टः षड्डोऽमात्यो गीयते सायमेव ॥ ५३॥ इति जत्र: ।। प्रख्याता मालवश्रीः सगमपनियुता धर्षभाभ्यां विहीना प्रारोहे चावरोहेऽप्यमृदुगमनिका भ्राजते सौडुवैव॥ प्रोक्तोऽस्यां पंचमोंऽशः प्रविलसति च संवादिरूपस्तु षङ्ग: षङ्गोद्राहा सदेयं सुरुचिरमतिभिर्गीयते सायमेव ॥ ५४॥ इति मालवश्रीः ।। पूर्वीराग: सकलविदितः कोमलाभ्यां रिधाभ्यां मध्यस्तीव्रो मृदुरपि सदैवात्र तीव्रौ गनी स्तः । गो वाद्यत्र प्रविलसति तत्साहचर्ये निषादः संपूर्णोडसौ सरसविवुधैः सायमेव प्रगीतः ॥ ५५॥ इति पूर्वी।। पूर्वीस्वरैरेव युता त्रिवेणी सदा विहीना खलु मध्यमेन ।।
भिगीयते पंचम एव सायम् ॥५६॥ इति त्रिवेणी॥ पूर्वीमेले संस्थिता सा तु टंकी संपूर्णाSसौ पंचमांशा प्रसिद्धा॥ संवाद्यस्यां प्रोच्यते चर्षभोडयं सायंकाले गीयते गीत्यभिज्ञैः ॥५७॥ इति टंकी।। पूर्वीपूर्यामिश्रिता साजगीरी गांधारांशा पूर्णरोहावरोहा।। ईषच्छुद्धो मध्यमो घैवतौ द्वौ प्रोक्तौ यस्यां गीयते सायमेव ॥ ५८ ॥ इति साजगिरी॥
Page 16
14 (१४) पूर्वीमेले भाति वर्ज्या मनिभ्यां पड्डांशा वा गांशिका कैश्चिदुक्त्ता।। संवाद्यस्यां पंचमः संप्रदिष्टः सेयं रेवा सायमेवाभिगीता॥ ५९॥ इति रेवा।। पूर्वीसंस्थानजन्याSखिलविबुधमता मालवी रागिणीयं प्रारोहे निर्निषादा भवति विकलिता धैवतेनावरोहे॥ वादी यत्रर्षभः संप्रविलसति तथा पंचमोऽमात्य इष्टः संगत्या गस्य पस्याप्यतिरुचिरतरा गीयते सायमेव॥ ६० ॥ इति मालवी । जैत्रश्रीरिह वर्णिता गमनयस्तीव्रा मृदू धर्षभा- वारोहे रिधवर्जिता पुनरियं पूर्णावरोहे मता॥ गांधारस्य निषादकस्य च सदा संवादसंभूषिता गीतालापविचारचारुमतिभिः सायं मुदा गीयते ॥ ६१॥ इति जैत्रश्रीः॥ उक्ता पूर्याधनाश्रीरमृदुगमनिका कोमलौ धर्षभौ च विभ्राणा पंचमांशा ऋषभसहचरी पूर्णरोहावरोहा।। योगं पूर्वीधनाश्रीत्यभिहितविलसद्रागयोर्यद्दधाति नाम्ना रागदयं संग्रकटयति बुधैर्गीयतेऽसौ दिनांते ॥ ६२॥ इति पूर्व्याधनाश्री: ॥ श्रीरागः कथितोऽत्र तीव्रनिगमोऽस्मिन्कोमलौ धर्षभौ वादी पंचम ईरितो मधुरसंवादी मतश्चर्षभः॥ आरोहे तु धगौ न संस्पृशति संपूर्णोSवरोहे सदा गीतोऽवश्यमसौ दिनांत्यसमये संभुक्तिमुक्तिप्रदः ॥६३ ।। इति श्रीरागः ॥ गौरीराग: प्रकटतरमाभाति तुल्यः श्रियैव भेद: किंचिद्भवति च परं वादिसंवादितोऽस्य॥
Page 17
15 (१५) वादी चात्रर्षभ इति जगुः पंचमोSमात्यवर्यः सायं गीतः सुखयति मनो मंद्रनी रक्तिदोऽस्मिन् ॥ ६४॥ इति गौरी॥ मेले पूर्व्या दीपकः षडवादी प्रारोहे संवर्ज्यतेSत्रर्षभो हि॥ वर्ज्यः प्रोक्तश्चावरोहे निषाद: सायंकाले गीयते गानधुर्यैः ॥ ६५॥ इति दीपकः ॥ कल्याणो यमनो विभाति सकलैस्तीतैः स्वरैर्मडितो गांधारः कथितोऽत्र वाद्यथ च संवादी निषादस्वरः॥ शेषा: स्युस्त्वनुवादिन: क्वचिदिह स्यात्कोमलो मध्यमो गेयो रात्रिमुखे मनीषिभिरसौ संपूर्णरागो मतः ॥ ६६॥ इति यमनकल्याणः ॥। कल्याण: शुद्धपूर्वः किल सरिगपधैस्तीव्रकैरौडुवोडय- मारोहेऽथावरोहे निधपमगरिसैस्तीव्रकैरेव पूर्णः ॥ वादी गांधार एवात्र भवति सह संवादिना धैवतेन गेयोऽसौ पूर्वयामे निशि सकलबुधैर्मेद्रमध्यस्वरेषु॥ ६७॥ इति शुद्धकल्याण: । भूपाली नाम रागस्त्विह सरिगपधैः पंचतीव्रस्वरैः स्या- दारोहे चावरोहेडपि च स खलु पुननैव भेदं प्रपेदे॥ गांधारो धैवतोऽत्र प्रविलसत उभौ वादिसंवादिनौ तौ प्रख्यातश्चौडयोऽयं निशि गुणिनिकरैर्गीयते पूर्वयामे॥ ६८॥ इति भूपाली॥। हंमीर: परिपूर्णराग इह गांधारग्रहो धांशकः केचित्पांशमिमं जगुः कतिपरे षड्डग्रहांशं विदु:॥ आरोहे रिनिदुर्बलो निगदितो वक्रोऽवरोहे गतो रात्र्याद्यप्रहरे द्विमध्यमलसत्तीव्स्वरैर्गीयते॥ ६९॥ इति हंमीरः॥
Page 18
16 (१६ )
श्यामो रागो भवति विलसन्मद्वयश्चान्यतीत्रः प्रारोहे धैवतविरहितः षड्ुवादी तथाऽस्मिन्॥ संवादी च प्रकृतिरुचिरो मध्यमः संप्रदिष्टः पूर्वे यामे सरसमतिभिर्गीयतेऽसौ निशायाम्॥७०॥ इति श्याम: ॥ कामोदो भाति युक्त: किलरिगधनिभिस्तीव्रकैमदयेन वादी चात्र प्रसिद्धः प्रविलसति सदा पंचमो रिसत्यमात्य:। स्तोकोऽमुष्मिन्निषादः प्रकटयति रुचिं वक्रगश्चावरोहे सानंदं पूर्वयामे निशि विबुधजनैर्गीयते मंजुकंठैः॥७१॥ इति कामोदः ।। हेम: कल्याणभेदोऽस्त्यनतिपरिचितो मान्यतीव्रस्वरोऽसौ संपूर्ण: षड़वादी ह्यनिरपि गदितो मंत्रिणा पंचमेन ॥ आरोहे वर्ज्यते धः सरसरुचिकरो मंद्रमध्यस्वरेषु सर्वेषां रक्तिदोऽयं प्रथमनिशि सदा गीयते गीत्यभिज्ञैः॥७२ इति हेमकल्याणः ॥ तीव्रस्वरैरिह विभाति स चंद्रकांतः प्रारोहणे मरहितः सकलोऽवरोहे॥ गांधारवाद्ययममात्यनिषादयुक्त: कल्याणभेद इति गीतिविदो वदति॥ ७३ ॥ इति चंद्रकांतः ॥ प्रख्यातो नटराग एष मृदुमस्तीव्रस्वरैर्मेतरै- रारोहे परिपूर्णताऽस्य धगयोस्त्यागोऽवरोहे मतः ॥ वादी दीव्यति मध्यमो लसति संवादी तु षड़स्वरो धीमद्भिः प्रहरात्परं सुमधुरं रात्रावसौ गीयते॥७४॥ इति नटराग: ॥ छायानाटः प्रकृतिरुचिरः पंचमांशो न्यमात्यो मद्ंद्वी चामृदुरिगधनिः पंचमाद्रौ प्रपाती॥
Page 19
17 (१७ ) आरोहे संस्पृशति च न निं योऽवरोहे गवक्र: पूर्वे यामे निशि सुमतिभिगीयते चारुगीतैः॥७५॥ इति छायानाटः। केदारस्त्वभिवर्णितो रिगनिधैस्तीव्रैः सदाऽलंकृतो वादी कोमलमध्यमो भवति संवादी च षड़स्वरः॥ तीव्रोऽपि क्वचिदत्र मध्यम इहारोहे रिगौ वर्जितौ यामे च प्रथमे निशासु मधुरं वीणारवैगीयते॥ ७६॥ इति केदार: ॥ केदारस्य प्रभेदो विलसति मलुहा मेतरैः सर्वतीत्रैः संयुक्तो मध्यमांशः सहजरुचिरसंवादिपड़ाभिराम:। आरोहे प्रायशोसावृषभधरहितः श्यामकामोदमिश्रो गीतः पूर्वे हि यामे निशि कुशलजनैर्मेद्रमोद्राहपूर्वम्।।७७।। इति मलुहा ॥ केदारेऽस्मिंस्तीव्रमस्य प्रयोगो भूयान् स्तोकं कोमलो निर्यदि स्यात्। हंमीरांगं दृश्यते यत्र किंचि- त्तं केदारं चांदनीपूर्वमाहुः॥।७८॥ इति चांदनीकेदारः ॥ पूरिया तु पाडवा रिकोमलान्यतीव्रका मंद्रमध्यचारिणी सुरक्तिदा पवर्जिता।। मंदगामिनी मता गवादिनी निसंवदा स्निग्धमंजुलस्वरैर्निशासु गीयते बुघैः॥७९॥ इति पूरिया॥ विहंग इह गीयते ममृदुरन्यतीव्रस्वरो रिधौ त्यजति रोहणे स्पृशति चावरोहे पुनः॥ तथा निगदितौ गनी रुचिरवादिसंवादिनौ निशीथसमये सदा श्रुतिमनोहरं गीयते॥ ८०॥ इति विहंग: ॥ रागक. ३
Page 20
( १८) प्रसिद्ध इह शंकरो भवति पाडवो वर्ज्यमः सपावभिमतौ सदा मधुरवादिसंवादिनौ।। परैस्तु रिमवर्जितः कथित औडुवोऽपि क्वचि- न्निशीथसमयेऽभिगीत इह चारुतीव्रस्वरैः ॥ ८१॥ इति शंकर: ॥ खंमाजो यत्र तीव्रा ऋषभगधनयो मो मृदुर्निर्मृदुः स्या- दारोहे रिर्निषिद्धो भवति च परिपूर्णोवरोहे पवक्रः॥ वादी गांधार एव प्रविलसति तथा संवदानो निषादो रात्रौ यामे द्वितीये प्रमदयति मनः श्रोतृणामेष रागः॥८२। इति खंमाज: ॥ खंवावती मृदुमनी रिगधैश्च तीव्रै- र्युक्तार्षभेण नियतं रहितावरोहे॥ गांशा निषादसहचारिसमाश्रिता च गायंति तां किल निशि प्रहरे द्वितीये ॥८३॥ इति खंबावती॥ रागेश्वर्यपि पंचमेन रहिता खंमाजसंस्थानजा प्रारोहे ऋषभं न संस्पृशति धो वक्रोऽवरोहे मतः ॥ षड़ो वाद्यथ मध्यमेन सततं संवादिना रोचते यामिन्यां प्रहरात्परं सुमतिभिर्मजुस्वरं गीयते॥ ८४॥ इति रागेश्वरी ॥ खंमाजसंस्थानभवास्ति दुर्गा नित्यं परिभ्यां परिवर्जितेयम्।। गांशा धसंवादिविराजमाना द्वितीययामे निशि गीयमाना ॥८५॥ इति दुर्गा ॥ तिलंग इह वर्णितो मृदुमनिस्तथा तीव्रगः सदैव रिधवर्जितो भवति गांशकश्चौडुवः॥
Page 21
19
(१९) निषाद इह संवदत्यथ च नीपयोः संगति- र्निशि ग्रहरतः परं समभिगीयते गायनैः ॥८६॥ इति तिलंग: ॥ झिंझूटीत्येष राग: सकलजनमतः कोमलाभ्यां मनिभ्या- मन्ये तीव्राः प्रयुक्ता: क्वचिदपि मृदुगस्तीव्रनिश्चापि गेयः ॥ वादी गांधार उक्तः श्रुतिरुचिरतरो धैवतः संप्रवादी प्रारोहेडल्पौ निगौ स्तो निशि मधुरगलैर्मेद्रमध्याभिगीतः ॥८७॥ इति झिंझूटी।I पाहाडिका भवति मेतरसर्वतीव्रा मन्यल्पका सततसंश्रितमंद्रमध्या। वादी तु पड्ड इह पंचममंत्रियुक्त: संगीयते सुचतुरैः खलु सर्वदाऽसौ॥८८॥ इति पाहाडिका ।। यदा तु रिगधाः स्वरा निगदिताश्च तीव्रास्तथा मृदुर्भवति मध्यमो विलसतो निषादावुभौ।l मतावृषभधैवतौ सरसवादिसंवादिनौ धगौ न यदि रोहणे निशि तदा मता सोरटी॥८९॥ इति सोरटी। रागो देस: पंचमांशोर्यमात्यः संपूर्णोडयं सोरटी तुल्य एव।। किंचिद्वेदाच्चावरोहे रिवक्रो रात्रौ यामादुत्तरं गीयतेऽसौ ॥ ९० ॥ इति देसरागः । प्रोक्तेयं जयजयवंतिका तु पूर्णा गौ नी द्वावपि मृदुमो रिधौ च तीव्रौ।। वादी रिर्विलसति पंचमोहि मंत्री सोरव्यंगत इह गीयते निशायाम् ॥ ९१॥ इति जयजयवंती।।
Page 22
(२० ) कामोदस्तिलकादिरत्र मृदुमस्तीव्रेतर: सांशकः संवादी किल पंचमो मत इहारोहे च धो वर्जितः॥ सोरव्यंगयुतोऽवरोहमृदुनिर्वक्रर्षभालंकृतः सानंदं निशि गीयते सुमतिभिर्यामात् परं सुस्वरम्॥ ९२॥ इति तिलककामोदः ॥ रागो मल्लारसंज्ञः सरिमपधइतिप्रोक्तपंचस्वराठ्य- स्तीव्रावस्मिन् रिधौ स्तो भवति सहचरः पंचमः सोऽन्र वादी॥ यद्रागाकालगानोभ्वदुरितमयं हंति तस्मादवश्यं गेयो वर्षासु नित्यं भुवि सकलजनैरौडुवः कल्मपन्नः॥९३॥ इति मलारः ॥ मल्लारमेले यदि कोमलो निः क्वचित्तु तीव्रोऽपि च संप्रयुक्त:॥ षड्जांशमेवेह वदति सर्वे तं मेघमह्लारमिति स्वरज्ञाः॥ ९४॥ इति मेघमल्लारः ॥ मह्ारो यः सूरपूर्वोडभिगीतो द्वावत्र प्रच्छादनीयौ धगौ स्तः॥ पड्जो वादी मध्यम: संप्रवादी रागाभिज्ञैगीयते प्रावृपीह॥ ९५॥ इति सुरमल्ारः ॥ मीयामह्लार इति विदितो यस्तु कर्णाटमिश्र: पड्जो वादी रुचिर इह संवादिना पंचमेन।। गांधारस्य स्फुटविलसदांदोलनं निद्यं च प्रच्छन्नो धो विलसति सदा मध्यमाद्रौ प्रपातः॥९६॥ इति मीयामह्लारः ॥ संपूर्णोडयं गौंडमल्लाररागो न्यल्पारोहस्तीत्रमान्यस्वरो यः ।
Page 23
(२१) 21
मांश: संवादी तु पड्जो मतोऽस्मिन् गायंति ज्ञा: प्रावृषि प्रायशोऽमुम्॥९७॥ इति गौंडमार: ॥ काफीरागोस्त्यमृदुलरिधः कोमलाभ्यां गमाभ्यां द्वाभ्यां निभ्यां परममधुरः पंचमो वादिरूप:॥ संवादी स्यात्स इह कतिचिद्वादिनं गं वदति सांद्रस्निग्धं सरसमतिभिर्गीयतेऽसौ निशायाम्॥ ९८॥ इति काफी ॥ काफीमेले सिंधुरोऽस्ति प्रसिद्धः आारोहे गांधारवर्ज्योऽवरोहे॥ पूर्णः पड्जो वाद्यमात्य: प एव प्रेक्षावञ्िर्गीयते सर्वकालम् ॥ ९९॥ इति सिंधुरः ॥ धानी प्रोक्ता मृदुगमनिका वर्जिता धर्पभाभ्या- मारोहेऽस्याः सगमपनयः स्युस्त एवावरोहे॥ वादी गांधार इह निसखः प्रोच्यते ह्यौडुवेयं चंचच्चारुस्वरसुरुचिरं गीयते सर्वकालम्॥१०० ॥ इति धानी ।। नीलांवर्यपि कोमलैर्गमनिभिर्युक्ता क्वचित्तीत्रगा सोद्ाहोत्तमवादिपंचमयुता स्यात्पड्जसंवादिका॥ आरोहे धविवर्जिता निगदिता पूर्णाऽवरोहे पुन- श्चारूद्वानधुरंधरैः सुमतिभिः सा गीयते सर्वदा ॥ १०१॥ इति नीलांबरी॥ गारारागो भवति मृदुमस्तीव्ररिस्तीव्रधश्च द्वौ गांधारौ विलसत इह द्वौ निषादौ तथैव। तीव्रावारोहण इतरके कोमलौ तौ गनी स्तः षडूजो वादी परमरुचिरो गीयते सर्वकालम्॥ १०२॥ इति गाराराग: ॥
Page 24
22 (२२ ) प्रोक्त: कर्णाटरागो मृदुगमधनिको मंद्रमध्यस्वरस्थो वादी तीव्रर्षभोऽत्र श्रवणमधुरसंवादिना पंचमेन।I आरोहे दुर्बलो गः प्रविलसति सदांदोलनं गे प्रयुक्तं धो वर्ज्यश्चावरोहे सुरुचिरगमकैगीयते प्राङ्डिशीथात्॥१०३ इति कर्णाटकः । कर्णाटसंस्थानभवो हि नायकी संवादिपट्ज: खलु मध्यमांशः॥ प्रोक्त: सदा धैवतवर्जितो वै द्वितीययामे निशि गीयतेऽसौ ॥ १०४ ॥ इति नायकी। हुसेनी च कर्णाटकस्यैव भेदो भवेत्तारपड्रजांशको मोद्रह्श्च।। युतः पंचमेनैव संवादिनाडयं प्रयुक्तो निशायां द्वितीये हि यामे ॥१०५॥ इति हुसेनी॥। कौशी च कर्णाटकभेद एव संपूर्णरागः खलु मध्यमांशः।। मिश्रस्तु किंचित्स हि मालकौशिना निशीथकाले मधुरं प्रगीयते ॥ १०६॥ इति कौशी।। रागोडडाण: प्रसिद्धो मृदुनिगमयुतस्तीव्रधस्तीव्ररिश्च तारः षड्जोडत्र वादी सहचरति सदा पंचमो मध्यसंस्थ:॥ आरोहे दुर्वलौ तौ भवत इह धगौ धं मृदुं केचिदाहु: कर्णाटस्यैव भेद: सरससुमधुरं गीयतेडसौ निशीथे॥१०७॥ इत्यड्डाण: ॥ सहानारागोडयं मृदुगमनिकस्तीव्रधरिको न धः स्यादारोहे विलसति विलोमे तु स मनाक्।।
Page 25
23 (२३ ) समान्नातः पांशो भवति सहकारी तु स इह स्फुरत्तानैगींतो जनयति निशीथे मुदमसौ ॥ १०८ ॥ इति सहाना ॥। तीव्रौ रिधौ गमनयो मृदवो हि यस्यां संवादिषड्डसहिता खलु मध्यमांशा॥ आरोहणे परहिता सकलाऽवरोहे वागीश्वरी सुमतिभिः कथितार्धरात्रे ॥ १०९ ॥ इति वागीश्वरी॥ बहाररागो निगमैस्तु कोमलै- रस्मिन्समौ संवदतः परस्परम्॥ आरोहणे रिर्न न धोडवरोहणे ऋतौ वसंते मधुरं स गीयते ॥. ११० ॥ इति बहारराग: ।। रागाग्यो मालकौशिर्मृदुलगमधनिः प्रौढपंचस्वराढ्यो गंभीरोच्चस्वभावस्त्यजति स ऋषभं पंचमं चापि नित्यम् ।। वाद्यस्मिन्मध्यमः संप्रविलसति भृशं पडसंवादियुक्त: प्रख्यातस्त्वौंडुवोडयं प्रकटयति रुचिं यो निशीथात्परस्तात्।१११।। इति मालकौशिः । हिंदोलोऽसावौडुबः सर्वतीव्रो नित्यं ह्ीन: पंचमेनर्षभेण॥ वादी गांधारस्वरो धैवतः सं- वादी गेयः सर्वकालं वसंते ॥ ११२ ॥ इति हिंदोल: ।। वसंतर्तौ गेयो मृदुलऋपभस्तीव्रसकलः पहीनो मद्वंद्वः समगपुनरावृत्तिरुचिरः॥ सवादी मामात्योऽप्यहनि निशि चाव्याहतगतिः स्थितस्तारे पड़े स जगति वसंतो विजयते ॥ ११३ ॥ इति वसंतः ॥
Page 26
(२४ )
मेलाद्वासंतिकाद्वै प्रभवति रुचिरो भट्टिहारोऽपि रागः संपूर्णो मध्यमांशः परममधुरसंवादिषड्स्वरो हि॥ मिश्रा यस्मिन् त्रयोऽमी परजललितकालिंगका इत्थमूचू रात्रौ यामे तृतीये सुकुशलमतिभिर्गीयते मंजुतानैः ॥११४॥ इति भट्टिहारः ॥ भंखाररागस्तु वसंतमेले संपूर्णरूप: खलु पंचमांशः। द्विमध्यमोऽसौ मृदुलर्पभश्च रात्रौ तृतीये प्रहरेऽभिगीयते॥ ११५ ॥ इति भंखारः ॥ रागः पंचम एष सर्वविदितो युक्तो वसंतस्वरैः वादी मध्यम एव यत्र विलसत्संवादिषड्गो मतः ॥ आरोहे ऋपभं न संस्पृशति यो घर्ज्यर्पभोऽपि क्वचि- द्रान्रावंतिमयामके सुभतिभिर्मजुस्वरं गीयते ॥ ११६॥ इति पंचमरागः ।। रागोडयं परजाभिधो निगदित: पूर्णो बहूनां मते तीव्रौ यत्र गनी मृदू किल रिधौ तीव्रो मृदुर्मध्यमः॥ तारः पड़ इहांश इत्यभिहित: स्यात्पंचमोऽमात्यको रात्रावंतिमयाम एव सुखदो विद्वद्वरैगीयते ॥ ११७ ॥ इति परज: ॥ यत्र स्यादृपभो मृदुर्निधमगास्तीव्राः स्वराः पंचमो वर्ज्यः स्यादथ मध्यमो निगदितः क्वापि क्वचित्कोमलः ॥ वादी धैवत उच्यते सहचरो गांधारकः कथ्यते रात्र्यामंतिमयामके सुमधुरं सा गीयते सोहनी ॥ ११८ ॥ इति सोहनी।। AL रागः प्रोक्त: कलिंगो मृदुरिमधयुतस्तीव्रगांधारनिः स्या- द्वादी गांधारकोऽस्मिन्सरलगतिरसौ धैवतो मंत्रिवर्यः॥
Page 27
25 (२५ ) पूर्णारोहावरोहः प्रकृतिसुरुचिरः सर्वलोकप्रसिद्ध- स्तुर्ये यामे निशाथां सकलबुधवरैगीयते मंजुतानैः ॥११९॥ इति कलिंग: ॥ असौ ललितपंचमो भवति भैरवस्य स्वर- र्द्विमध्यमविभूषितः परहितः सदारोहणे॥ मतोंऽश इह मध्यमः सरसषड्संवादिना निशाचरमयाम एघ ललितांगतो गीयते ॥ १२०॥ इति ललितपंचम: ॥ भैरवस्य मेल एव मेघरंजनी मता पंचमेन धैवतेन वर्जिता सदौडुवा। पडमंत्रिणी समीरिता च वादिमध्यमा गीयते विलंवितं बुधैर्निशांत्ययामके ॥ १२१ ॥ इति मेधरंजनी ॥ गीतांतेऽसौ भवति ललितः कोमलेनर्पभेण युक्तस्तीव्रैस्तुगमधनिभिः कोमलेनापि मेन ॥। मांश: पड्जोऽत्र तु सहचरः पंचमो वर्ज्यतेऽस्मं- स्तुर्ये यामे निशि सुमतिभिगीयते मंगलाहः ॥ १२२ ॥ इति ललितः ॥ काशीनाथतुलस्यपाविरचितः कल्पद्रुमांकूरको विंशत्युत्तरमुख्यरागशतसच्छ्रोकैः समालंकृतः॥ रामाग्निद्विपभूविरोधकृति यश्चैत्र्यां समापूरितः सोयं पुष्पफलैः समृद्धिमुपयात्वस्मिन्जगन्मंडले ॥ १२३ ॥ एवं रागाह्यनंता रघुवरनृपतेः सद्गुणा अप्यनंता गातुं ज्ञातुं च सर्वान्दशशतवदनः स्यादनंतो न शक्तः ।। गेयं सर्वैस्तथापि स्वमतिपरिमितं सदयशो राघवस्य योगाद्यागाद्विरागात्प्रियमधिक तया रामचंद्रस्य गानम् ।। १२४।। ॥ श्रीरामचंद्रार्पणमस्तु ॥