Books / TxtSkt-sangIta-samaya-sAra-Parsvadeva-Tvm-1925-0064

1. TxtSkt-sangIta-samaya-sAra-Parsvadeva-Tvm-1925-0064

Page 1

TRIVANDRUM SANSKRIT SERIES No. LXXXVII.

THE

SANGÎTASAMAYASARA

OF SANGÍTÁKARA SRÎ PÁRSVADEVA

EDITED BY MAHAMAHOPADIYAYA T. GANAPATI SASTKÎ

Htonorary Member of the Royal Asiatic Society of Great Britain and Irelamti Honorary Doctor of Philosophy, University of Tubingen, Curator of the Department for the Publication of Sunskrit Mamnseripts, Turundrum.

PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HER HIGHNESS THE MAHARANI REGENT OF TRAVANCORE.

TRIVANDRUM: PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS. 1925.

(All Rights Reserved.)

Page 3

अनन्तशयनसंस्कृतग्रन्थावलिः। ग्रन्थाङ्क: ८७.

सङ्गीताकरनामधेयश्रीपार्श्र्वदेवविरचितः

सङ्गीतसमयसारः

संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण

पिहेच् डि. (दूविज्जन्) पदसत्कृतेन महामहोपाध्यायेन त. गणपतिशास्त्रिणा संशोधितः ।

स च अनन्तशयने महामहिमश्री से तुलक्ष्मीम हाराज्ञीशासनेन राजकीयमुद्रणयन्त्रालये तदध्यक्षेण मुद्रयित्वा प्रकाशितः ।

फोलम्बाब्दा: ११०१, कैस्ताब्दा: १९२५.

Page 5

PREEACE.

Sangîtasamayasâra is the first work on music offered to the public in the Trivandrum Sanskrit Series. A manu- script of this work in Malayalam characters about two or three centuries old was obtained from the Punjar Palace in the year 1917; and as no other manuscript has been procured notwithstanding my long search for it, this edition is prepared with the help of the solitary manuscript. The author of the work is Parsvadeva as is evident from the co- lophon at the end of the manuscript, "इति श्रीमदभिनवभरताचार्य-

It is not known when and where the author lived, but it is probable that he was of Jain persuasion inasmuch as he bore the name of Parsvanatha, one of the Jain Tirthan- karas.

TRIVANDRUM, 22-2-1101. T. GAŅAPATI SÂSIRÍ.

Page 7

निवेदना।

अस्मत्संस्कृतग्रन्थावलौ सङ्गीतशास्त्रस्येदम्प्रथममेतद् ग्रथनम्। ग्रन्थश्चायं सङ्गीत- समयसार इत्याख्यातः। अस्यैकस्तालपत्रादर्शः केरलीयलिपिर्द्वित्रवर्षशतवृद्ध: १९१७ तमे वर्षे पूञ्वार राजगृहग्रन्थालयाद् मया समासादितः । कृतेऽपि चिरान्वेपणेऽस्य द्विती- यादर्शानुपलम्भाद् उपजाततदुपलम्भनैराश्येन तमेवैकमुपलब्धचरमादर्शमाश्रित्य ग्र- न्थोऽयं संशोधितः, उपलब्धभागावधिरधुना प्रकाश्यते। "इति श्रीमदभिनवभरताचार्य सरविमलहेर्मणार्यविद्यापुत्रश्रुतिज्ञानचक्रवर्तिसङ्गी- ताकरनामधेयपार्श्वदेवविरचिते" इति ग्रन्थान्तिमवाक्यात् पार्श्वदेवोऽस्य ग्रन्थस्य प्रणे- तेति जायते। तस्य कोऽभिजनदेशो जीवितकालो वेति नावगच्छामः। किन्तु स जैन इत्येतावदनुमातुं शक्नुमः, यतो जैनतीर्थङ्करेप्वन्यतमस्य पार्श्वनाथस्य तत्रभवतो नाम- धेयेनात्मानं व्यपदिशंस्तन्वक्तत्वमात्मन आविष्करोति।

अनन्तशयनम्, 1 न. गणपतिशास्त्री.

Page 9

सङ्गीतसमयसारविषयानुक्मणिका।

विषया: पृष्ठम्. विषया: पृष्टम्. प्रथमाधिकरणे- गुण्ड कृतिः १९ नादोत्पत्ति: १ गूर्जरं नादभेद: देशी " ध्व निस्व रूपं तज्वंदाश्च वेलाउली "१ "' मिश्रध्वनि: २ अन्धाली "१ शारोरलक्षणम् सायारो गीतलक्षणं, तज्जेदाश्च ३ फलमञ्जरो २० आलप्तिभेदाः, तल्लक्षणानि ललिता वर्णाश्रयालङ्गाराः कैशिकी "> नाटा द्वितीयाधिकरण- शुद्दवराटी ">

आलप्तिभेाः ५ श्रीकण्ठी " स्थ।यानामानि सैन्धववराटी २१ V स्थायानां करणानि कुन्तलव रार्ट। " "१

तेषां स्वरूपकथनम् अवस्थानवराठी प्रतापवराटी

तृतीयाधिकरणे- हतस्वरव राटी द्ाविडवराटा रागाङ्गानि १५ रामक्रि : स्वरव्यवस्था "> कम्भाती उपाङ्गरागा: १६ कर्णाटगौडः " क्रियाअरागा: देशालगौड: २२ रागलक्षणम् " द्राविडगौड: मध्यमादि १७ तोडि तुरुष्कगौड: महाराष्ट्रगूर्जरी "' बसन्त: सौराष्ट्रगूर्जस "> भैरव: दक्षिणगूर्जरी "१ श्रीराग: १८ द्राविडगूर्जरी

"१ छायानाड्टा : मालवश्रा: मल्हारी वराटी " मल्ह.रः २३ गौड: भैरव। धन्नासी भल्लाती

Page 10

विषया :. पृष्ठम्. विषया :. पृष्ठमू.

अंश: २३ विषमपाणिपाटः ४७

अवघटपाटः -- चतुर्था।धकरणे- नागबन्धपाटः ४८

ढेङ्गीसामान्यलक्षणम् समग्रहपाटः " " पादकरणम् बोल्लावर्णा ३१ बन्घकरणम् ३४ चलावणी

स्वरपदकरणम् चारुश्रवणिका ४९

।चेत्रकरणम् परिश्रवणिका

तेन्नकरणम् दण्डहरतः

मिश्रकरणम् समप्रहार:

वर्तनी ३५ घनरव:

विवतेनी अवनद्दम् ५१ " स्वरार्य: सुघनं वाद्यम् "' चतुर्विधवाद्यानि गद्यम् ३७

लम्भक: यत्यादय: प्रबन्धा: ५२ .. यतिः रासक:

एकताळी ओता

एकादश ध्रुवा: ३८ ओण्ठवणी

गानक्रम: ३९ अवच्छेद: ५२ कविते

पञन्माधिकरणे- जोडणी

चण्डणी ५३ वाद्यभेदाः, तल्लक्षणानि च ४० पद्म् "१ पताकादयो हस्ता: ४५ समहस्तः उत्फुल्ल: पैसार: " खलक: तुडुकु: पाण्यन्तरनिगृहकः ४६ ओत्वरम् " दण्डहस्त: झेक्कारः ५४ युगहस्त: देङ्कार: त।रहस्तः मलप: पिण्डहस्त: मलपाकम् ऊध्वहर नः पहरणम् समपाणिपाटः अन्तरी पाणिहस्तपाटः ४७ दुवक्करी " स्वस्तिकपाटः जवनिका "

Page 11

विषयाः पृष म्. विपयाः. पृष्ठम्.

पुष्पाञ्लि: ५५ सप्तमाधिकरण- तालस्वरूपम् ७५

षष्ठाधिकरणे- तालोद्देश: "१

अभिनयस्वरूपम् ताललक्षणम् ७८ ५६ नव शिरांसे ५७ अष्टमाधिकरणे- चत्वारि वक्षांसि ५८ वादनिर्णयः ८० परिभाषा चतुर्विशतिः संयुक्तहस्ताः वादाङ्गाने तल्लक्षणानि च ८१ ५९ त्रयोदश संयुक्तहस्ताः वादहेतव: ६१ चतुविधहस्तकरणम् वादिगुणदोषा: ८२ ६२

हस्तलक्षणम् ६४ नवमाधिकरण- चतुर्विध: पार्शच: प्रस्तार: १३ कटिलक्षणम् द्रुतसंख्या ९५ पञ्चविधपादतललक्षणम् ६५ लघुसख्या अष्टदर्शनलक्षणम उद्विष्टम् "१ देर्शास्थानलक्षणम् "'

पयपाललक्षणम् ६८ लघ्वेकद्यादिलघु क्रिया .. उत्प्लुतीकरणम् ७० अध्वयोगः ९६

Page 13

॥ श्रीः ॥ सङ्गीतसमयसारः

प्रथममधिकरणम् । नादोत्पत्तिर्यथाशास्त्रमिदानीमभिधीयते। स्वरो गीतं च वादं च तालश्रेति चतुष्टयम्॥ १ ॥ न सिध्यति विना नादं तम्मान्नादात्मकं जगत् । नादात्मानस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ २॥ नाभौ यद् ब्रह्मण: स्थानं ब्रह्मग्रन्थिश्च यो मतः । प्राणस्तन्मध्यवर्ती स्यादमेः प्राणात् समुद्धवः ॥ ३ ॥ अभनिमारुतयोर्योगाद् भवेन्नादस्य सम्भवः । नकारः प्राण इत्युक्तो दकारो वह्िरुच्यते ॥ ४ ॥ अर्थोडयं नादशब्दस्य संक्षेपात् परिकीर्तितः । स च पञ्चविधी नादो मतङ्गमुनिसम्मतः ॥५॥ अतिसूक्ष्मश्र सूक्ष्मक्ष पुष्टोऽपुष्ट्श्र कृत्रिमः । अतिसूक्ष्मो भवेन्नाभौ हृदि सूक्ष्मः प्रकाशते ॥ ६ ॥ पुष्टोडभिव्यज्यते कण्ठे त्वपुष्टः शिरसि स्मृतः । कृत्रिमो मुखदेशे तु स्थानभेदेन भासते ॥७॥ अव्यक्त: शिरसीत्युक्तः कैश्चित् तन्नोपपद्यते। बिन्दुरुत्पद्यते नादान्नादान्निखिलवाङ्मयम् ॥ ८॥ मन्त्रा(?)दिस्थानभेदेन यो नाद: स्फुरति स्फुटम्। आरोहिक्रमतस्तज्ज्ञैः स एव ध्वनिरुच्यते ॥ ९ ॥ काबुलो बम्बलश्चैव नाराटो मिश्रकस्तथा। ध्वनिश्चतुर्विधः प्रोक्तो गीतविद्याविशारदैः ॥ १० ॥ G. P. T. 45. 500. 25-5-100.

Page 14

सज्जीतसमयसार

:खापुलः स परिज्ञेयो गीतव्वनि(वि)शारदैः ॥ ११ ॥ एरण्डकाण्डवद् यत्र खणिकासंविवर्र्जितः । निस्सारो बम्बलः स्थोलो(?) बाहुलो न तु मध्यभाक् ॥ १२॥ बाहुल्यात् तारसंस्पर्शी माधुर्यगुणवर्जितः । नाराटोडयं परिज्ञेयो गीतध्वनिविशारदैः ॥ १३॥ एतद्ध्वनिगुणान्मिश्रो यत्र सोडयं तु मिश्रकः । नाराटखाबुलश्चेको मिश्रः खाबुलबम्बलः ॥ ६४ ॥ नाराटबम्बलश्चैव ध्वनिर्यत्र स मिश्रकः । इति मिश्रध्वनिः प्रोक्तशचतुर्घा गीतवेदिभिः ॥१५॥ अथ शारीरलक्षणम्। अन्तरेण यदभ्यासं रागव्यक्तिनिवन्धनम्। शरीरेण सहोत्पन्नं शारीरं तत् समीरितम् ॥ १६ ।। चतुर्विधं भवेत् तच्च कडाडं मधुरं तथा। पौशलं बहुभक्जीति चपां लक्षणमुच्यते ॥ १७ ॥ त्रिपु स्थानेपु मधुरं कडाडं परिकीर्तितम्। मन्द्रे मध्ये च माधुर्याच्छारीरं मधुरं मतम् ॥ १८॥ ज्ञेयं पौशलशारीरं तारे रागप्रकाशकम्। तच्छारीरगुणा मिश्रा यत्र तद् बहुभक्गिकम् ॥ १९॥ पृथगष्टविधो भेदस्त(न्यःःस्य) कण्ठगुणागुणेः । माधुर्यश्रावकत्वं च स्निग्धत्वं घनता तथा ॥ २० ॥ स्थानकत्रयशोभा च पञ्च(!) कण्ठगुणाः स्सृताः । खेटि: खेणिर्भमशब्दः कण्ठदोपा अमी त्रयः ॥ २१॥ माधुर्यगुणसंयुक्ते कण्ठे स्यान्मधुरो ध्वनिः । स्निग्धकण्ठे ध्वनिस्तारोऽप्यरूक्ष: सरसो भवेत् ॥ २२॥ सुस्वरश्रैव सान्द्रश्च घनक(ण्ठो?ण्ठे) भवेद् ध्वनिः । कण्ठे त्रिस्थानशोभे स्यात् त्रिस्थाने मधुरो ध्वनिः ॥ २३॥ 'काबुल' इति लक्ष्यनिर्देशे पठितः ।

Page 15

प्रथममविकरणम्। ३ खेटि( :! )क(ण्ठाःण्ठ) ध्वनिः स्थानत्रयस्पर्शी गुणोज्झितः । स्थानम्य पूरकः कृच्छरात् खेणि( :: )कण्ठे ध्वनिभवत् ॥ २४॥ वानरोष्ट्र(क: ख)रस्तुल्यो भग्न( :? ) कण्ठे भवेद् ध्वनिः । एते मेदा: परिज्ञेया: शारीरेऽपि विचक्षणैः ॥ २५॥ ध्वनिः क्षेत्रकाकूनां न भेद: स्यात्(१)। व्वनिः शारीरसक्जातविचित्(य :+्व) रवर्तनम् । छाया तदाश्रयाचायेर्गीतमित्यभिधीयते ॥ २६॥ अनिबद्धं निबद्धं च गीतं तद् द्विविधं मतम्। आलप्त्युघेनिबद्धः(?) स्यात् म्वररागविभेदतः ॥ २७॥ सालप्तिर्द्विविधा ज्ञेया विषमा प्राञ्जलेति च। साक्षरानक्षरा चेति द्विविधापि चतुर्विधा ॥ २८॥ वतुविधाप्यष्टविधा सतालातालभेदतः । सा पुनः पोडशविधा शुद्धसालकमेदतः ॥ २९ ॥ क्रमेण लक्षणं तासां वक्ष्ये लक्ष्यानुसारतः । स्थाय्यादिवर्णसंयुक्ता व्यक्ता स्थानन्रयेऽपि च ॥ ३० ॥ नानालक्कारसमिश्रैरक्षरैर्गमकैर्युता : विषमस्थापनायुक्ता ग्रहे मोक्षेऽप्यलक्षिता ॥ ३१ ।। आलप्तिः कथिता शुद्धे विपमा गायकोत्तमैः । चतुर्वर्णसमायुक्ता शुद्धरीतिविराजिता ॥ ३२ ॥ प्रयोगैः सुकरर्युक्ता स्थानकघयरज्जिता। यथासमुचितन्याससम्भावितचमत्कृतिः ॥ ३३ ।। एतैर्गुणै(यंथा ? र्युता) शुद्धे प्राज्जलालप्तिरीरिता। स्थानवर्णक्मावृत्ति(नि?नि)यमेन विवर्जिता ॥ ३४ ॥ कोमलैर्गमकैर्ु क्ताल क्वारैर्ललितैरपि। उचितस्थापनालप्तिः सालके विप(मे:भा) मता ॥ ३५॥ नानारीतियुता रागसत्त्वमात्रसमाश्रया । लीननादा च सोल्लासललितन्यासभूषिता ॥ ३६॥

Page 16

सङ्गातसमयसारे

एवंगुणयुतालप्ति: साल(को? के) प्राअला मता। तंहंशाआदनैर्वर्णेरथवा सुरजाक्षरैः ॥ ३७॥ गीताक्षरैश्र यद्वान्यैरक्षरैर्गणनैरपि। क्रियते यदि सालप्तिः साक्षरेति निगद्यते ॥ ३८॥ सैवाक्षरैर्विरहितानक्षरालप्तिरीरिता। ग्रहत्रयसमायुक्ता लयत्रयसमन्विता ॥ ३९ ॥ अनुब्जायिसमायुक्ता न्यासापन्या सभूषिता। विकृतांशलयोपेता विदारियतिरिच्छिता(?)।।४0॥। एवं गुणगणोपेता तालपठ्यालतिर्वरा(१)। अता(ला)लप्तिरुदिष्टा तालयोगविवर्जिता ॥ ४१॥ आलप्तिसंज्ञका वर्णाश्चत्वारोऽन्वर्थसंज्ञकाः । स्थायिसञ्चारिणौ चैव तथारोह्यवरोहणौ ॥ ४२ ॥ एकस्वरूपदेशीति स्थायिवर्णोडभिधीयते। सञ्चारी स्वरसञ्चारा(व?द)नवर्थावितरावपि ॥ ४३ ॥ वर्णाश्रयास्तु विज्ञेया ह्यलक्कारास्त्रयोदश। नामतो रूपतश्चैव संक्षेपेण ब्रवीमि तान् ।। ४४॥ प्रसन्नं पूर्वमुच्चार्य शनैः सन्दीपयेत् स्वरम् । प्रसन्नादिर्भवेदेवं प्रसन्नान्तो विलोमतः ॥ १५ ॥ एवं प्रसन्नमध्यश्च प्रसन्नाद्यन्त एव च । एते स्थायिन्यलङ्काराश्रत्वारः परिकीर्तिताः ॥ ४६ ॥ स्वश्रुतिस्थानसम्भूतां छायां थ्रुत्यन्तराश्रयाम् । स्वरो यद् गमयेद् गीते गमको डसौ निरूपितः ॥ ४७॥ स्फुरितः कम्पितो लीनस्तिरिपुश्ाहतस्तथा। आन्दोलितस्त्रिभिन्नश्च गमकाः सप्त कीर्तिताः ॥४८ ॥। आरोहिक्रमतो यत्र स्फुरन्ति श्रुतयः क्रमात्। अनुद्रुताय (?) वेगेन तमाहुः स्फुरितं बुधाः ॥ ४९ ॥ स्वरकम्पो भवेद् यत्र द्रुतद्विगुणवेगतः । कम्पितो नाम गमकः स विज्ञेयो मनीषिभिः ॥५०॥

Page 17

द्वितीयमधिकरणम्। ५ द्रुतमानेन मसृणः स्वरो यत्र विलीयते। स्वरान्तरक्रमेणैव स भवेल्लीनसंज्ञकः ॥५१॥ श्रुतयो यत्र वेगेन भ्रमन्त्यावर्तरूपवत्। तमाहुस्तिरिपुं नाम्ना गमकं गीतवेदिनः ॥ ५२।। स्वरः प्रवर्तते यत्र समाहत्याग्रहं स्वरम्। आरोहिक्रमतः सोऽयमाहतः परिकीर्तितः ॥ ५३॥ आन्दोलनं भवेद् यत्र स्वराणां लघुमानतः । आन्दोलिताख्यं गमकं गीतज्ञास्तं प्रचक्षते । ५४ ।। स्थानकत्रयसंस्पर्शी तत्तत्स्थानगुणैर्युतः । अविश्रान्तस्वरोपेतस्त्रिभिन्नगमकः स्मृतः ॥ ५५॥

समयसारे प्रथममधिकरणम् ॥।

अथ द्वितीयमधिकरणम्। भाण्डीकभाषयोदिष्टा भोजसोमेश्वरादिभिः । गेयलक्षणतः केचिद् वक्ष्यन्ते लक्ष्यसम्भवाः ॥ १ ॥ अथालप्तिर्द्विधा-रागालप्तिका रूपतालप्तिश्च । तत्र रागालप्तिः कथ्यते - स्वस्थाने प्रथमे कुर्यात् स्वरापापाडिक: परम्। रागाकारमपस्थाने वात्सुरागोत्थ उच्यते(?)।। २ ।। यस्य वंशध्वनौ स्निग्धे समीची रक्तिरूर्जिता । वांशिकं गीततत्वज्ञाः सुरागं कथयन्ति तम् ॥ ३॥ दिग्धं वासो रक्तपीतादिरागैर्ध्वानस्तद्वच्चित्ररागः स कश्चित्। गाने तज्ज्ञा येऽपरं श्राघमानास्तेषामेष स्वानुभूतिप्रसिद्धः ॥ ४ ॥ यस्मिन् स्वरे स्थायिनि चारुरागः स्वस्थानकं तत् क्रियते सुखेन। अपस्थितिः सौर्यविपर्ययेणच्छायान्तरास्तत्र भवन्ति रागे ॥५॥ सप्तस्वराणां मध्येऽपि स्वरे यस्मिन् सुरागताः । स जविस्वर इत्युक्ते अंशो वादी च कथ्यते(!) ॥ ६ ॥

Page 18

जीवस्वरस्य सदशः संवादी स्वर उच्यते। विवादी स्याद् विसदृशः सोऽनुवादी द्यात्मकः ॥७॥ अनुवादी संवादी जीवस्वरकेकला बहिः ++। बहुतमबहुतरबहवः कार्या रागा वि(लो? लौ)ल्येन ।। ८।। विजानता विवादी स स्वल्पः कार्योडथवा पुनः। प्रच्छादनीयो लोप्यो वा मनाक् स्पर्शः स्वरस्य यः ॥ ९ ॥ प्रच्छादनं तदेवाहुर्लोपः सर्वस्य निष्कृतिः । आदौ यस्मिन् स्वरे रागश्चाल्यते स ग्रहः स्मृतः ॥ १० ॥ चालयित्वा स्वरे यस्मिन् सन्यास उपवेश्यते। अपन्यासः स विज्ञेयो गीिलक्षणवेदिभिः ॥ ११॥ अवयवा अवयवो (!) यस्मिन् स्वरे यद्युपवेश्यते। सन्यासः कितो गानविद्यातत्त्वविचक्षणैः ॥ १२॥ स मन्द्रः सुतरां लभ्यो रागो यो मन्त्रसपके। यस्तारसप्तके रागः स्वरे तार उदाहृतः ॥ १३ ॥ उक्त: पाडब एकस्मिन् स्वरे लुस्ते विवादिनि। विवादिनि स्वरद्वन्द्वे लुप्ते त्वौडव इप्यते ॥ १४ ॥ वंशे न्यासस्वरं पूर्वै स्थायिनं रचयेत् ततः । तत्र स्थायिनि रागस्यारोपणं रागवक्रकम् ।। १५।। स्थायिन उपरि द्यर्षादयः कस्मिन्नपि स्वरे । चालयित्वा पुना रागं स्थायिन्ये(षो? वो)पवेशयेत् ॥ १६ ॥ तदेव प्रथमस्वस्थानमालसेः । अन्यासं द्यर्धमारभ्य चालयित्वा तु रागकम् । कुर्याद् द्वितीयस्वस्थानं गानलक्षणकोविदः ॥ १७ ॥ स्वरस्य स्थायिनो यस्य द्यर्धस्तुर्यस्वरः स्मृतः । स एव देवठायोति तज्ज्ञैस्तु व्यपदिश्यते ॥ १८।। द्विगुणस्यार्धो द्यर्ष इति व्युत्पत्ति: ।

Page 19

द्वितीयमधिकरणम् । अर्धस्थिते चालयित्वा रागं कस्मिन्नपि स्वरे। कुर्यात् तृतीयस्वस्थानन्यासान्तं गायकोत्तमः ॥ १९॥ द्यर्षद्विगुणयोर्मध्ये स्वरयोर्ये स्थिताः खराः। अर्धस्थितास्त एवोक्ता अर्धनीया इति स्फुटाः ॥ २० ॥ द्विगुणास्थायिपर्यस्तं चालयत्वा तु रागकम् । न्यासस्रोपवेशेन स्वस्थानं स्माच्च+र्धकम् ।। २१।। मन्द्रसप्तकमेवैतद्विगुणान्मध्यसप्के। तन्मध्यसप्तकं तारे द्विगुणं स्याद् यथाक्रमम् ॥ २२॥ स्थानानि प्रसृतैस्त्रीणि स्वरैः कुर्यात् तुरीयकम्। स्थानं समत्रशब्देन सारूढि रचयेत् पुनः ॥ २३ ॥ तनत्रैर्वलवहणीत्या(!)मारूढिरभिधीयते। चतुस्स्वस्थानकैः शुद्धरागस्याकार ईरितः ॥ २४ ॥ स्थाने स्थाने खरान् सम्यक् स्थापयंस्थापयन् क्रमात्। जीवस्वरप्रधानैश्च न्यासान्तैर्बहुधाकृतैः ॥२५॥ प्रसन्नैः शुद्धरागस्य स्थायिनि स्थापनोच्यते। इत्थ रागं स्थिरीकृत्यारोपयेद् वांशिकोत्तमः ॥ २६ ॥ तद्रागनिस्ररामोत्तां (!) धारयेत् समगायनः । न्यायस्वरस्थापेनन उच्चारोत्तोऽभिधीयते ॥२७॥ ततो गायनः पूर्वोक्तप्रकारेण रागस्याकारं स्थापनां च दध्यात्। रागालप्तिः क्षेत्रशुद्धियुता तालविवर्जिता । रागर्प शुद्धता क्षेत्रशुद्धिरित्यभिधीयते ॥ २८॥ गीतस्योत्पत्तिहेतुत्वाद् रागः क्षेत्रमिहोच्यते। ततो रूप+ रागेण तत्तालं नातिविस्तराम् ॥ २९॥ कृत्वालस्तिं सतालं च तद्रागद्विजनान्वितम्। रूपक गायनो गायन् तिक्तिना सहितं ततः ॥ ३० ॥ स्थायाया रूपके यस्मिस्तस्या नानाप्रकारतः । मुहुमुंहुग्रहो यत्तु प्रतिअहणमुच्यते ॥ ३१॥ यो यथा चालिन: स्थायस्तं तथैव निबेशयेत्। विचित्रस्य तु गीतस्य यथौचित्योपवेशनम् ॥ ३२॥।

Page 20

सङ्गीतसमयसारे स्थाया विधेया नतु सैकरूपा बहुप्रकारैर्विकृता विभाति। विचित्र रूपोडपि मयूरकण्ठो जगज्जनप्रीतिकरो यथा सः॥ ३३ ॥ स्थायानामानि कथ्यन्ते- वेण, गति, जायि, अनुजायि, ओयार, वलि, वहणि, (ढा?दाल), पसर, ललितगाढ, पोचचगाढ, अपखल्ल, निस्सरड, लङ्वित, दुर्वास, पेट्टोपेट्टि, फेल्लोफेलि, मोडामोडि, गुन्थागुन्थी, खचर, गाणा- चेठाय, तरहर, तत्तवण, विदारि, भ्रमरलीला, कालसचेठाय, चित्ताचेठाय, *जोडणे (करुणा) (गीताचेठाय) (जोडियचेठाय) शारीराचेठाय, सादाचेठाय, कर्तरि, (अर्धकर्तरि) (नखकर्तरि) कुरु (ले? ल)य, मुट्टेय, मुकुलित, उच्चनीच, (तिःनि)क्खायि, (उक्खायि) निरत, नि(किःगी)ति, व(त्त? तु)ड, परीवाडि, एसृत, उट् टुण्डल, हन्दुपायि, वहिल, अधिक, अङ्गखुड, नपायि, भरण, हरण, सनगिद, निकरड, भजवणे, निजवणे, सुभाव होलाव, रक्गरक्ति, रीति, अनु- करणे, धराण, धरिमेल्लि, विवन्धायि, (म? मि)एपि, (गीतज्योति) होम्भे, कला, छवि, छाया *स्वस्थान, *अवस्थान, +अपस्थान, नवणि, अंश, घटना, आक्रमणे, वक्र(म?)ता, कन्धरणे कलरव, (नेद!देव)ध्वनि, *घनत्व, आहत, अवतीर्ण, बोक्कल, सुकराभास, दुष्कराभास, *असाधारण, उचित, बुड्डाये, बैसिके। एवमुक्तस्थायाशब्देन किमभिधीयते - गत्या गमकयोगेन रागेणान्येन केन वा। स्वरैवृत्तिः स्वरवृत्तिष्ठाय इत्यिधीयते ॥ ३४ ॥ स्थायानां करणान्याहुश्षत्वारि स्थानतानके। गमको मानमेतेषां लक्षणान्यभिदध्महे॥ ३५॥ तत्र स्थाय्यादिवर्णानामाश्रगः स्वरमण्डलः । स्थानभित्युच्यते तस्मिन्नुदाहरणमुच्यते ॥ ३६ ॥ यथा वेलावल्यां ध निस रिग म पच्छायानाट्टायां स रि ग म प ध नि इत्यादि। तानो रागापेक्षया स्थानमित्युच्यते तज्ज्ञैः स्वरो यो गमकाश्रयः । यथा वेलावल्यामाह - तत्स्थाने धैवतः कम्पितस्थाने षड्जः, छायानाट्टायां कम्पितस्थाने गान्धारनिषादौ इत्यादि । गमकाः कम्पितादयः । स्वादुत्वानुगुणा भवन्ति (हि) यथा शाके रसाः षट् च ते रागव्यक्त्यनुकूलका हि गमका रागेऽपि सश्चारिणः । *एतदङ्गाङ्कितानामुपरि लक्षणं न दृश्यते।

Page 21

द्वितीयमधिकरणम्। तन्मात्रापरिमाणमेव सुतरां मानं वदन्त्यादरात्

प्रयोगैः कैश्चिदपरैः सरीसा रागचालना ॥ ३८॥ अन्यैस्तु सरि सङ्जीते (कण्ठल? सा वे)णेति ।निगदते। माधुर्यसहितो गीते श्रुतिमात्रस्तु केवलम् ॥ ३९ ॥ स्वराणां सन्निवेशो यश्चातुर्यात् सा गतिर्भवेत्। स्वरमात्रेण सदृशस्थानानतरनिवेशनम् ॥ ४० ॥ इति भेद: समुद्दिश्टे जायिनश्ानुजायिनः । स्वरमात्राधिको यस्मात् स्वरावृत्तिर्विधिक्रमात् ॥। ४१ ।। तदो(वा ? या)रं समुद्दिष्टं प्रायश्चारोहिसंश्रयम् । सुशरीरात् समुद्भूता श्रु(ति ? ती)नामावलिर्यथा ॥ ४२॥ चरेत् समीरणोद्भूततरक्कावलिवद् वली। मन्द्रादिस्थानमेदेन प्रवृतं श्रु(ति)कम्पनम् ॥ ४३ ॥ उरःकण्ठशिरःस्थाख्या(?) वहणि: क्रमतो भवेत् । वहणी द्वेधा-आवलप्तिवहणी शीतशीतवहणी च। पुन्द्विधा - खुत्ता उत्फुल्ला। प्रविशन्त इवान्तस्ते खरा यस्यां विभान्ति च ॥ ४४ ॥ खुत्ता सा कथ्यते गानविद्यालक्षणवेदिभिः । यस्या: स्वरा विराजन्ते निर्मच्छन्त इवोपरि ॥४५॥ गानलक्षणतत्त्वज्ञैरुत्फुल्ला परिकीर्त्यते। एवं वलिरपि वहणीव वेदितव्या। वृत्तमौक्तिकवत् काचभूतले विलसद्ध्वनौ॥ ४६ ॥ श्रुतिः प्रवर्तते क्षिप्रं यत्र दालं तदुच्यते। माधुर्ययुक्तो ललितः स्वरो यत्र प्रसार्यते ॥ ४७॥ स्वरान्तरस्य संयोगाद् पसरं तं प्रचक्षते। लालित्येन यदा नादस्तारस्थाने प्रवर्तते ॥ ४८॥ तदा ललितगाढं तं जगुर्गीतविशारदाः । क्रमेण गाढतां त्यक्त्वा ललितस्वरवर्तनम् ॥ ४९ ॥ C

Page 22

सङ्गततसमयसारे पोच्चगाढमिति प्रोक्तं गीतलक्षण को विदैः । यत्र प्रवर्तते मन्द्रस्थानेऽतिमधुरः स्वरः ॥ ५० ॥ अपखल्लः स विज्ञेयो गीतभाषाविशारदैः । क्रमेण परमं तारं गत्वातिमसृण: स्वरः ॥५१॥ पै(च्छ! च्छि)ल्यात् पातेतो मन्त्रे भवेन्निस्सरडाभिधः । ईषदाहतसंयुक्त: स्वरो यत्र विलङ्धयेत ।। ५२,। स्वरान्तरक्रमेणैव लङ्गितं तत् प्रचक्षते । इदमेव यदैकद्वित्रिस्वरान्तरितं भवेत ॥ ५३ ॥ तदा गीतकलाभिज्ञैः स्वरलङ्वितमीरितम् । तारमन्द्रसमायोगात् प्रयोगो यत्र दुष्करः ॥ ५४ ॥ वर्तते स तु गीतज्ञैर्दुर्वासः परिकीर्तितः । पुनरावर्तते यत्र प्रयोग: पूर्वमागतः ॥ ५५॥ तदानीमेव सा तज्ज्ञैः (पठो पेट्ठो)पेट्ठीति गद्यते। गाढत्वेन स्वरः सर्वे नुदेद् यत्र स्वरान्तरम् ॥ ५६ ॥ आरोहिक्रमतः सोक्ता फे(ला? लो)फेल्लीति नामतः । समुद्धृत्य स्वरोऽन्यत्र तेषामग्राण्यधः क्रभात् ॥ ५७ ॥ भज्यते सा परिज्ञेया मोडामोडीति संज्ञया। सप्त प्रयोगा एकत्र वर्तन्ते चेन्निरन्तरम् ॥ ५८ ॥ (स्व? स्र) गिवाभिज्ञरचिता *गुम्फागुम्फीते सोदिता। यत्र गाढ: स्वरः सम्य(गीा? ग)तुतारे प्रवर्तते ॥५९॥ खचरः स समुद्दिष्टो गीतभाषाविशारदैः । ठायं गमकसम्मिश्रं वर्तते य(ज?न्म)नोहरम् ॥ ६० ॥ गाणाचेठायसंज्ञं तदू गीतविद्धिरुद्वाहृतम् । आहत्या (द्रथ : द्रुत)या यत्र स्वराणां कम्पनं भवेत् ॥ ६१ ॥ ठायं तर(हरं) नाम्ना तमाहुर्गीतवेदिनः । गीतस्योपरि गीतज्ञैरालप्तिरतिकोमला ॥ ६२ ॥ तत्तत्प्रवणरचिता ठायं तत्तवणं विदुः । आलप्तिर्विलसत्तालकाला विश्लेषितस्वरा ॥ ६३ ॥ * 'गुन्थागुन्थी'ति लक्ष्ये दृश्यते।

Page 23

द्वितीयमाधिकरणम्। ११

वर्तते चेन्निरालम्बः स विदारीति गद्यते। यस्तारान्मन्द्रसंस्पर्शी विचरेत् पुनरूर्ध्वगः ॥ ६४ ॥ नादो माधुर्यसंयुक्त: स स्याद् भ्रमरलील(का?क):। प्रस्तुतेनैव रागेण वर्तते यत् सुखावहम्॥ ६५ ॥ तत्तु कालस(ले! चे)ठायं कथिंत गीतिकोविदैः । ठायं यद् वेधकत्वेन क्रियते तद्विचक्षणैः ॥ ६६ ॥ चित्ताचेठायमुदितं श्रोतुश्चित्तानुवर्तनात्। करुणारागयोगेन चित्तहीनतयाथवा ॥ ६७ ॥ करुणाकाकुसंयुक्ता ठा(यं सः यासा) करुणाभिधा। ठायं यद् वर्तते गीते तदाल(पो? प्त्या) कृतं यदि ॥ ६८॥ गीताचेठायमित्याहुस्तज्ज्ञा अन्वर्थसंज्ञकम् । प्रयोगोडभिगुणो यत्र पुनर्द्विगुणितो भवेत् ॥ ६९ ॥ स तु जोडियचेठायो दुष्करः कथितो बुधैः। लीलामात्रेण शारीरच्छविर्यत्र प्रवर्तते॥ ७० ॥ शारीराचेठाय उक्तः सोडयं गीतविशारदैः। भवेद् यत्र सुनादोऽन्ते तारस्थानगतध्वनैः ॥ ७१॥ सादाचेठाय (इत्युक्तः) स तु गीतविचक्षणैः । अङ्गुलीभिश्चतसृभिः प्रत्येकं हस्तयोर्द्वयोः ॥ ७२॥ बहिर्यद्धन्यते तन्त्री द्रुतं सा कर्तर्र, मता। कर्तरीसदृशः पाणिर्द्श्यते यत्र दक्षिणः ॥ ७३ ॥ तथा कोणहतिर्वामपाणिना सार्धकर्तरी। चतुर्मिर्नखरैर्यत्र दक्षिणेनैव पांणिना ॥ ७४॥ आहृति: क्रियते या तुसा ज्ञेया नखकर्तरी। वाद्यते यदि वेगेन मधुरं लबुथक्कुली(?)॥ ७५॥ श्रुतयस्तत्र सञ्जाता ज्ञेया: कुरुलयाख्यया। वंशे *मुद्दयमुक्तं तद् गात्रे मुकुलितं मतम् ॥ ७६ ॥ त(तो ? यो)र्गमकबाहुल्यं कर्तुनैव तु शक्यते। यौ प्रोक्तौ गीतभाषायां तारमन्द्रौ मनीषिभिः ॥७७॥। * 'मुट्टेयम्' इति लक्ष्ये पाठ :.

Page 24

सज्जीतसमयसार तावेव कथितौ लोकैरुच्चनीचसमाख्यया । स्फुरितादिस्वरो यत्र तारस्थानं तु संसपृशेत् ।७ ।। निक्खाययि: सा भवेत् स्थानव्यक्तिश्रोक्खायिका मता। विषमप्राञ्जलालत्तौ श्वाससयमन(स्व?त्व)तः ।। ७९।। ठायेतिर्गलहीनत्वं (?) निरतं परिकीर्तितम्। ठायं विवर्धमादाय(?)बलात् संस्थापने पुनः ॥ ८०॥ अन्यूनाधिकता (नज्ञैःतज्जै)र्निगीतिः परिगीयते। प्रयोगे वर्तते यस्तु मन्दवत्या(?) स वत्तुडः ॥८१॥ ख्यातः परिवडिर्नाम्ना स एवान्तनिरन्तरः । *एवसं तत् समाख्यातमवसं यत् प्रवर्तते ॥ ८२ ।। ठायमुट्टुण्डुलं ज्ञेयं गीते बैसिकिवर्जितम्। अतिद्रुतग्ति गीते वहिलाख्यां समादिशेत्॥। ८३ ।। हेलयापि भवत्येव गतिर्यातिविलग्जिता। श्रोतुश्चित्तमतिक्रम्य प्रवृत्तमधिकं विदुः ॥८४॥ असम्पूर्णस्वरं गानं ठायमुक्खुडमीरितम्। आलप्तौ रूपके वा स्यादपूर्वोडवणा यादे॥ ८५॥ नपायि: सा परिज्ञया गीतभाषाविशारदैः । यद् रूपकेऽथवालशौ वर्तते रागपूरणम् ॥ ८६॥। भरंणं तत् समुद्दिष्टं हरणं तद्विपर्ययः । भवेत् सनगि(ता ? दा)रवं तन्मधुरं यत् प्रवर्तते ॥ ८७ ॥। विपरीतमतो ज्ञेयं बुधैर्निकरडाह्यम्। रागव्यक्तिर्भजवणा सुशारीरसमुद्धवा ॥ ८८ ॥ जितश्चासतया यानं नाम्ना निजवण विदुः। सुभाव: कथितस्तज्ज्ञैः कोमलस्वरवर्तनम् ॥ ८९ ॥ होलावश्चित्तसार: स्याद् रागस्वान्दोलनं भवेत् । रक्तिस्वरूपं रागास्या(!) (रा)गच्छाया तदाश्रया॥९०।। सैव देशाश्रयत्वेन रीतिर्ज्ञैया विचक्षणैः । रागेषु मिश्ररागस्यच्छायासङ्करता यदि ॥ ९१ ॥ * 'एसृत' इति लक्ष्यनिर्देशे पठितम्। 5 'अब्खुडम्' इति लक्ष्ये पम्मते।

Page 25

द्वितीयमांधकरणम्। १३ भवेद् गीतकलाभिज्ञैः सैवानुकरणोच्यते। अनुतारात् परश्रुत्योहीनिश्रापश् +++(!)।।९२।। धनैः सुगाढता नज्ज्ञैर्धरणिः समुदाहृतः । धरिमेल्लीति विज्ञेयौ ग्रहमोक्षी ध्वनेरिह् । ९३ ॥ ध्वनिवैचित्र्यमुद्दिष्टं विव(न्ध इ. न्धायी)ति नामतः । ध्वनेरत्यन्तमाधुर्ये मिट्ठायीति निगद्यते ॥ ९४ ॥ +फुटनादोज्ज्वलत्वं तु गीतज्योतिरुदाहनय। हकारानुकृतिः स्फार। होम्फा वायुध्वनिः स्मृता ॥ ९५॥ कला सूक्ष्मीकृतः शब्दरछविः कोमलरुम्मती। काकुश्च भावना भाषा छाया र्ति: समर्थवान् ॥ ९६ ॥ रागकाकु: क्षेत्रकाकुर्यन्त्रकाकुः स्वरोद्भवः । काकुश्च देशकाकुश्च काकु: स्यादन्यरागजः ॥ ९७ ।। गीतबिद्यावि(शेष)ज्ञैः पाढा काकुरुदाहतः। रागस्य या निजच्छाया रागकाकुरितीरिता ॥ ९८ ॥ सा मुख्या प्रोच्यते भाषा गीतलक्षणवेदिभिः । स्वरस्य कस्यचिच्छायाविशेषः कश्रिदीक्ष्यते ॥ ९९॥ स्वरकाकुरिति प्रोक्तो गानलक्षणकोविदैः । देशाख्या देशकाकुश्च रागच्छाया निगद्यते ॥ १०० ॥ रागे रागान्तरच्छाया काकु: स्यादन्यरागजः । सैव उपरागभाषा ख्यायते। इयमेव लोके ठायेति प्रसिद्धा। कस्यचिद् गायनस्यैषा रागे कत्मिश्चिदीक्ष्य॥१०१॥ रक्तिस्वभावतस्तज्शैः क्षेत्रकाकुर्महीतले। कन्नरीवंशवाणासु रागच्छायेव दृश्यते॥ १०२ ॥ कथ्यते यन्त्रकाकु: सा गानलक्षणकोविदैः । स्निग्ध कोमलशब्दस्य विना यत्ने(न) कम्पनम् ॥ १०३ ॥ लघुत्वेन सहोक्तं तन्नमनं गानकोविदैः । सैव नवणि: ।

Page 26

१४ सङ्गातसमयसारं राग ्यावयवो रागे नोऽन्यस्यांशः स उच्यने॥ १०४ ।। कारणांशश्र कार्याशः सजातीयांश इत्यपि। ततः सदशरागोंडशो+विसदशरागजः ॥ १०५॥ अंशो मध्यस्थरागस्य स्यादंशांशश्र सप्तधा। अंशो जनकरागस्य कारणांश इतीरितः ॥ १०६॥ श्रीरागजनिते गौडे श्ररिागस्यांशको यथा। अंशोऽन्यरागस्य पुनः कार्योश इति कथ्यते॥ १०७॥ यथा भैरवजाताया भैरव्या अंशकः पुनः । भैरवे यदि वर्तेत कार्योश इति कथ्यते ॥ १०८॥ अंशेडवान्तरभेदम्य सजातीयांश इष्यत। यथा कर्णाटगौडांशो गौडे मालवनामनि ॥ १०९ ॥ सदृशांशो यथा शुद्धवराट्यामंशकः पुनः । दृश्यते शुद्धनाट्टायां संवादी च स कथ्यते ॥ ११० ॥ यथा।विसदृशांशश्र वेलावल्यां च गूर्जरी। विकृतांशो विवादी च दूरान्तरित एव सः ॥ १११ ॥ रागो नो यो विसदृशः सदृशो न च तस्य यः । अंशो मध्यस्थरागांशो देशाख्यांशो यथा भवेत् ॥ ११२ : वेलावल्यां गानविद्भिरनुवादी स चोच्यते । अंशान्तरं चांशमध्ये कथ्यतेंऽशांश एव सः ॥ ११३ ॥ रागोपरागानल्पांश इति न्यास: क्चित् पुनः । रागांशयो: समानत्वं दृश्यते गीतवोदीभिः ॥११४॥ रूपके कचिदंशोऽपि स्फुटं रागायते पुनः। कचिच्चांशायते रागो न क्वचिन्नियमस्तयोः ॥११५॥ शिल्पिभिर्घटिता यद्वत् ते स्थाया घटना मता। श्रूयमाणमभिक्रम्य प्रतिग्राह्यो ध्वनिर्यतः ॥ ११६ ॥ तदाक्रमणमित्युक्तं गीतलक्षणकोविदैः । यत्र शब्दस्य वलनं कुटिलं विद्युतो यथा ॥ ११७॥

Page 27

तृनीयमधिकरणम् । १५

वक्रता सैव गीतज्ञैर्यक्ायिरिति कथ्यते। स यत्र मधुरः शब्दो भूयात कलरवः स्मृतः ॥ ११८॥ वेदध्वनिरिवाभनि यत्र देवध्वनिः स्मृतः । आहतस्त्रिविध: प्रोक्तस्तिर्यगूर्ध्वमधस्तथा ॥ ११९ ।। (यो?य.) कण्ठनादवत् तारान्मन्द्रं यातोऽवतीर्णकः । स्याया स्वल्पपरीमाणा बोकलः स हि कथ्यते ॥ १२० ॥ दुष्करोऽपि हि यः श्रोतुर्भासते सुकरो यथा। उच्यतेऽपस्वरो (हा? भा)सो गीतविद्याविशारदैः ॥ १२१॥ यस्मादनन्तरं खाच(?) शोभते सोचिता स्मृता। बुङ्डायि: शिथिला गाढा वृद्धालप्तिश्च कथ्यते ॥ १२२॥ अकम्पा चार्धकम्पा च क(म्बा? म्पा)ढ्य। बैसिकी त्रिधा। रागस्याध: स्वरावृर्तेर्यथोचित्योपवेशनम् ॥ १२३ ।।

समयसार द्वितीयमधिकरणम् ॥

अथ तृतीयमधिकरणम्। अथ प्रबन्धसमुचितबहुविधदेशीरागान् षाडबौडबसम्पूर्णभेदेन साम- नाम कथयामि। तत्र कानिचन रागाङ्गानि कथ्यन्ते- रागच्छायानुका।रेत्वादू रागाङ्गानि विदुर्बुधाः । भाषाङ्ञानि तथैव र्पुर्भाषाछायानुकार(कः त): ॥। १ ॥ अङ्गच्छायानुकारित्वादुपाङ्गं कथ्यते बुवैः । तानानां करंणं तन्व्याः क्रियाभेदेन कथ्यते ॥ २ ॥ क्रियाया (व :य)द् भवेदङ्गं क्रियाङ्गं तदुदाहृतम्। षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ॥ ३ ॥ धैवतश्च निषादश्र स्वराः सप्तैव कार्तिताः । अथ स्वरव्यवस्था - द्ौ द्वौ निषादगान्धारौ त्रिस्त्रिश्वर्षभवैवतौ ॥ ४ ॥ चतुश्चतुश्च विज्ञयाः षड्जमध्यमपञ्चमाः ।

Page 28

१६ सङ्गीतसमयसार अथ रागाञ्रागा :- मध्यमादि, शङ्कराभरण, तोड्डि, देशी, हिन्दोला, शुद्धवक्गाल, आम्रपञ्च, घण्टारव, गूर्जरिसोमराग, मालवश्री, दीपराग, वराटि, इति द्वादश रागाञ्मम्पूर्णरागाः। गोडो देशी च पहानौ, धन्नासि देशाख्या च रिहीने इति चत्वारो रागङ्षाडबरागाः । भैरवश्रीरागौ रिपहीनौ, मार्गहिन्दो(ल)गुण्डकी धरिहीने इते चत्वारो रागाङ्गौडबरागा इति विंशतो रागाङ्गरागाः। कैशिकि, वेलाउल, शुद्धवराटि, आदिकामोद, नाट्टा, आभीरि, बृहद्दाक्षिणात्या, लध्वी दाक्षिमात्या, पौराली, भिन्नपौराली, मधुकरि, रकन्ति, गोरज्जि, प्रथममञ्जरि, सालवाहिनि, नट्टनारायण, उत्ली, वेगरञ्जि, तरक्ञिणि, ध्वनिः, नादान्तरि इति भाषाङ्कमम्पूर्णराणा एकविंशतिः। कर्णाटवज्ञाल, सावे- रिश्र पहीनौ। अन्धालि, श्रीकण्ठि, उत्पलि इति त्रयो गहीनाः । गौडी, शुद्धा- सौराष्ट्, भम्मानि इति चत्वारो गरिहीना:। सैन्धीरागो गहीनः । छाया- रागः सहीनः । इत्येकादश रागा भःपङ्वाडबाः । नागध्वनिः पधहोनः । आहीरिर्गरिहीनः! काम्बोिर्धरिहीन। पुरिन्दि गपहीनः । कच्छोलि गधहीनः । चोहारिगौल्ठी गनिहीनौ। गान्धारगातेः सपहीनः । ललिता, त्रावण, सैन्धवः, डोम्बकि, सन्धवि, कालेन्द्रि, खसिका इति सप्त रागाः परिहीनाः। इति पञ्चदश रागा भापाङ्ओडबाः इति सप्तचत्वारिंशद् रागा भाषाज्ञाः। अथ उपाङ्गरागाः -- सैन्धववराटि, अन्तलवराटटि, अवस्थानवरा- टि, द्राविडवराटि, प्रतापवरटे, स्वरवराटि, तुरुष्कतोड्डि, सौराष्ट्रगूर्जरी, दक्षिणगूर्जरी, द्राविडगूर्जरी, कर्णाटगौड, द्राबिडगौड, छायागौड, लाउली- गौड, भैरवि, संहलकामोद, देवाल, महुारे, छायानाट्टा इत्यष्टादश (?)उपाङ्क- सम्पूर्णरागाः। महाराष्ट्रगूजरि, खंभाति, गुरुज्जि, रामक्रि इति चत्वारो रागाः रिहीनाः । हुञ + + होना। मलारि गहीना। भल्लाति रेहीनः। एते सप्त रागा उपाक्षाडबाः। छायातोडि, देशालगौड, तुरुष्कगौड, प्रता- पवेलाउलि, पूर्णाट, एते पत्र रागाः परिहोनाः । मडहारः गनिहीनः। षडेते रागा उपाङ्कऔडवा इत्युपाङ्गरागा एकत्रिशत्॥ अथ क्रियाङ्गरागा :- देवकि, त्रिनेत्रकि, एतौ सम्पूर्णरागौ, स्वम- वक्री धैवतहीनषाडबः एते त्रयः क्रियाञ्गरागाः इत्येकोत्तरशतसंख्यापरि- गणितरागमध्ये लोकव्यवहारासेद्धानां केषाश्चिद् रागाणां लक्षणं वक्ष्ये - मध्यमादि च तोड्डी च वसन्तो भैरवस्तथा ॥ ५॥

Page 29

तृतीयमधिकरणम् । श्रीरागः शुद्धवज्ञालो मालवश्रीस्तथैव च। वराटी गौडघन्नासी गूण्डकी गूर्जरी तथा ॥ ६ ॥ देशाख्या देशिरित्येते रागाआ्ञान विदुर्दुधाः । वेलाउलिस्तथान्धाली सायाली फलमअरी ॥ ७॥ (य: ल)लिता कैशिकी नाट्टा तथा शुद्धा वरााटिका। श्रीकण्ठी चेति भाषाज् नव रागा: प्रकीर्तिताः ॥८।। षड् वराठ्यक्ष रामकेखम्भाती मलहरस्तथा। चतुश्रतुश्च विज्ञेया गौडगूर्जर्य एव च ।। ९ ॥ छायानाट्टा च महहारो मलातश्रैव मैरवी। अमी रागा निगद्यन्त उपाक्ञानाति कोविदैः ॥४०॥ देवकी सा च विज्ञेया क्रियाङ्गमिति सम्मता। मध्यमग्रामसम्भूता मध्यमांशग्रहान्विता ॥११।। मध्यमादिरिति ख्याता शरृङ्गारे विनियुज्यते। एतामेव प्रयुज्यादौ वैणिका वाशिकार तथा ॥ १२॥ पश्चादभिमतं रागं प्रकुर्वन्ति विचक्षणाः। ।। मव्यपादि:।। अङ्कं षाडबरागस्य सम्पूर्ण च समस्वरम् ॥ १३ ॥। षड्जतारा गमन्द्रा च न्यासांशग्रहमध्यमा। तोड्डी नाम प्रसिद्धोडयं रागो हर्षे नियुज्यते ॥ १४ ॥ ॥ तोड्डी॥ मार्गहि-दोलरागान्नं हिन्दोलो वेडिसंज्ञितः । अंशन्यासे ग्रहे षडजस्तस्य तारे तु मध्यमः ॥१५ ॥ षड्जस्वरो भवेन्मन्द्रे तोडितो रिववजितः । सपयोः कम्पितश्चैव शरृङ्कारे विनियुज्यते ॥ १६॥ अयमेव वसन्ताख्यः प्रक्तो रागविचक्षणैः । । वसन्त: । भिन्नषड्जसमुद्भूतो मन्यासो धांशभूषितः ॥ १७। समस्वरों रिपत्यक्तः प्रार्थने भैरवः स्मृतः । ॥ भैरव: ॥ D

Page 30

१८ सन्जीसमयसारे श्रीरागष्टक्करागाऊं मतारो मन्द्रगस्तथा ॥ १८ ॥। रिपश्चमविहीनोऽयं समशेषस्वराश्रयः । षड्जन्यासग्रहांशश्च रसे वीरे प्रयुज्यते॥ १९ ॥ ॥ श्रीरागः।। शुद्धषाडबरागाऊ्ं शुद्धवङ्गालसंज्ञकः । (ना : न्या)सांशो मध्यमेनास्य प्रहर्षे विनियोजनम् ॥ २० ॥ । शुद्धवङ्गाल: ॥ मालवादे(:) भवेदञ्ं कैशिकरय समस्वरा। सम्पूर्णा तारमन्त्रस्थषड्जस्वरविराजिता ॥ २१ ॥ षडजांशन्याससम्पन्ना मालवश्रीरियं मता। मूर्च्छना शुद्धमध्या चेत् सैव हर्षपुरी मता ॥ २२ ॥ शृङ्गारे विनियोग: स्यादनयोम्तु द्वयोरपि । । मालवश्रीः॥ विभाषा रागराजस्य पञ्चमस्य वराटिका ॥ २३ ॥ धांशा षडजग्रहन्यासा धतारा मन्द्रमध्यमा। समश्लेषस्वरा पूर्णा शृङ्गारे याष्टिकोदिता ॥ २४।। ।। वराटी ।। गौडः स्याट्टक्करागांङ्गं निन्यासांशग्रहान्वितः । वरितः पश्चमेनैव रसे वीरे नियुज्यते ॥ २५ ॥ रागे रङ्गनिषादिन्या वदन्ति न तु मे मतम्। । गौड: । अङ्ग धन्नासिका प्रोक्ता शुद्धकैशिकमध्यमे॥२६॥ षडजांशग्रहमन्यासा षाडबा ऋषभोज्झिता। गान्धारपश्चमस्वल्पा रसे वीरे नियुज्यते॥ २७ ॥ । धन्नासी ॥। देशिहिन्दोलरागाऊ्ं षड्जांशन्याससंयुता। रिधत्यक्ता गतारा च शेषैरान्दोलिता स्वरैः॥ २८॥

Page 31

तृतीयमधिकरणम्। पमन्द्रा हास्यश्क्कारे गेया गुण्डकृतिर्भवेत्। । गुण्डकृतिः ॥ रि्रहांशा च मन्यासा जाता पश्चमषाडवात् ॥ २९॥ ममन्द्रा च नितारा च रिधाभ्यामपि भूयसी। गूर्जरी ताडिता पूर्णा श्रृक्ञारे विनियुज्यते ॥ ३० ॥ । गूर्जरी । गान्धारपश्चमाज्जाता ऋषभेण विवर्जिता। ग्रहांशन्याससम्बन्धगान्धारा च समस्वरा ॥ ३१ ॥ निषादमन्द्रा गान्धारस्फुरितेन विराजिता। षाडबा यदि रागाऊं वंशे पूर्णे च दृश्यते ॥ ३२ ॥ देशाख्यः स्यादङ्गरेव(:) गुप्तस्य गमन्द्रा पञ्चमोज्झिता। ऋषभांशग्रहन्यासा तथा समनिभूयसी।। ३३॥ देशी नाम प्रयोक्तव्या रागोडयं करुणे रसे। । देशी॥ इति रागाक्कानि । ककुभप्रभवा भाषा या प्रोक्ता भोगवर्धनी ॥ ३४ ॥ वेलाउली तदकं स्यात् परिपूर्णसमस्वरा। घैवतांशग्रहन्यासा धतारा मन्द्रमध्यमा ॥ ३५॥ षड्जेन कम्पिता सेयं विप्रलम्भे नियुज्यते। । वेलाउली ॥ विभाषान्धालिका प्रोक्ता जाता मालवपञ्चमात् ॥ ३६ ॥। बृहती दाक्षिणात्योत्था गहीना मध्यमांशका। षाडबा षड्जमन्द्रा च ।नेधाल्पा मन्द्रमध्यभाक्॥ ३७ ॥ पञ्चमन्याससंयुक्ता रसे वोरे नियुज्यते। । अन्धाली ॥ ककुभोत्था रगन्त्यङ्गं धान्ता मध्यग्रहांशका ॥ ३८॥ गतारा स्वर्पषड्जा च पश्चमेन विवर्जिता। ममन्द्रा सायरी ज्ञेया कर्तव्या करुणे रसे ॥ ३९ ॥ । सायरी ।

Page 32

सङ्गीतममयसारे गमन्द्रा धरितारा च अ्रहांशस्य सपञ्कमा । गमाढ्या चाल्पशेषा च प्रोक्ता प्रथममञ्जरी ।। ४० ॥। पश्चमादिर्यतस्तस्मादुरसवे विनियुज्यते ।। फ ळमञ्जरी ॥ (ल!)गलिता टक्करागात् तु वदन्नं ललिता मता ॥ ४१ ॥ षटजांशन्यससंयुक्ता ज्ञेया वोरे।रंपोज्झिता। । ल लिता ।। मग्रहन्याससंयुक्ता सांशा तारेण वर्जिता ॥ ४२॥। समस्वरा रिपत्यक्ता समन्द्रा खसिका भवेत् । गान्धारादिर्यतस्तस्मात् सक्कार्णा करुणे भवेत् ॥ ४३ ॥ ॥ कैशिकी। ॥ षडजांशा च अ्हन्यासा सम्पर्ण च समस्वरा। तथातारा च मन्द्रा च यावदू गान्वारपख्चमी ।।४४ ।। भाषायः (!) ेञ्जरी तरया अञ्ञं नाट्ृाभिधीयते। ।। नाट्टा ।I सौवीरकस्य सौवीरमुरयभाषा च या रमृता ॥ ४५ । तदकं मोदकी नागता सैव शुद्धा वराटिका। अस्या न्यासांशयो: षड्जत्रचुरा धनिपास्तथा ॥ ४६ ॥ सम्पूर्णोडयं रसे शाते प्रयोगोऽस्याः प्रदश्यते । ॥ शुद्धवराटी ॥ श्रीकण्ठी मन्नषड्जोत्था गहीना षाडबा भवेत् ।। ४७ ।। (यां! बां)शन्यासग्रहोपेता तथा ैवतभूयसी। गुर्वाज्ञाकरणे यस्या विनियोग: प्रकीतितः ॥ ४८ ॥ । श्रीकरठी ।। भाषाज्ञानि । भाषा स्यात् सैन्धवी नाम जाता मालवकैशिकात्। तदझं गायकैनेया सैन्धवीयं बराटिका ॥ ४९॥

Page 33

तृतीय मधिकरणम्। षड्जांशन्याससंयुक्ता ममन्द्रा सवकनपता। गान्वारबहुला तज्ज्ञैः श्रृआ्ारे।वेनियुज्यते ॥५० ॥ । सैन्धववरादी॥ निषादबहुला पूर्णा षड्जमन्द्रा च ताडिता। पूर्वोक्तविनियोगा च स्यात् कुन्तलवराटिका ॥ ५१ ॥ । कुन्तल वरादों ।। मनिधेषु भवेन्मन्द्रा षड्जाशन यासराजिता। परिपूर्णस्वरैः स्वैरव थानवराटिका ॥ ५२ ॥ ॥। अवस्थानवराटी ॥ कम्पिता पञ्चमे षड्जे धमन्द्रा भूरिपञ्चमा । षड्जांशन्याससम्पन्ना स्यात् प्रतापवराटिका ॥ ५३॥ ।। प्रतापवराटी ।। मन्द्रधैवतसंयुक्ता पञ्चमाहतकमिता। षड्जांश याससम्पन्ना हतस्वरवरटिका॥ ५४ ॥ ।। हतस्वरवराटी॥ ऋषभे स्फुरिता भूरि निमन्द्रेण विराजिता। षड्जांशन्याससंयुक्ता द्राविडीयं वरािका ॥ ५५ ॥ । द्राविडवराटो॥ टक्कारागोद्भवा भाषा योक्ता कोलाहलाख्यया। तदुपाङ्गं रामकृतिः षटजन्यासोपशोमिता॥ ५६।॥ मत्यमांशा पहांना च रसे वीरे नियुज्यते। ॥। राम क्रि: ॥ षाडबा ककुभोद्भूता धांशा सपविवर्जिता ॥५७ ॥ मध्यमेन निषादेन निहितान्दोलनक्रमा। शृङ्गारे विप्रलम्भाखये गेया कम्भातिका मता ॥५८॥ ॥ कम्भाती॥ स्वस्थाने ताडितः पूर्णः षड्जांशन्याससंयुतः । प्रोक्त: कर्णाटगौडडयं प्रतापपृथिवासुजा ।B ॥ कर्माटगौदः ।।

Page 34

१२ सङ्गीतसमयसारे षडजेनान्दोलितः संंङ्गं: पश्चमर्षभवर्जितः । देशवालाख्यगौडोऽयमौडब: परिकीर्तितेंः ॥६० ॥ ॥ देशालगौडः ।। स्फुरितं: पश्चमे षड्जे गान्धारे ।तिरिपुस्तथा। निन्यासांशसमायुक्तो द्राविडो गौड उच्यते ॥ ६१॥ ।। द्राविडगौडः । रिपर्हीनो।नेषादांशो गान्वारबहुलस्तथा। मन्द्रेण ताडितः प्रोक्तस्तारुष्को गौड ईरितः ॥ ६२ ॥ ॥ तुरुष्कगौडः ॥ गूर्जरी स्यान्महाराष्ट्री रिन्यासांशा च ताडिता। निमन्द्रा च पहीनेयमुत्सवे विनियुज्यते ॥ ६३ ॥ ।। महाराष्ट्रगुर्जेरी।। ऋुषभे कम्पिता ++सौराष्ट्री गूर्जरी भवेत्। ।। सौराष्ट्रगूर्जरी ।। मध्यमे कम्पिता पूर्णा स्वरेष्वन्येषु ताडिता ॥ ६४ ॥ सुर्रीति गूर्जरी गाने रम्या दक्षिणदेशजा। । दक्षिणगूर्जेरी॥ ऋषभान्मन्त्रताराभ्यां स्फुरिता द्राविडी भवेत् ॥ ६५ ॥ गूर्जरी परिपूर्णेयं प्रहर्षे विनियुज्यते। ।। द्राविडगू्जेरी II उपाङ्गत्वेन नाट्टायां छायानाट्टा समीरिता ॥ ६६ ॥ षड्जांशन्याससम्पन्ना गनिभ्यां कम्पिता तथा। पमन्द्रा परिपूर्णा च रसे वीरे नियुज्यते ॥ ६७ ॥ । छायानाट्टा ॥ अन्धालिकाङ्गमल्हारी मध्यमांशग्रहान्विता। शमिन्द्रा च गशून्या च शृक्कारे ताडितस्वरा ॥ ६८॥ ।। मल्दारो।।

Page 35

चतुर्थमधिकरणम्। लक्षणं विनियोगश्च भवेन्मल्हारिकासमम् । मल्हारस्य गनित्यागः पञ्चमस्फुरणं भवेत् ॥ ६९ ॥

॥ मल्हारः ॥ भिन्नषड्जसमुद्दूता धांशन्यासग्रहान्विता। समशेषस्वरा पूर्णा गान्विता तारमन्द्रयोः ॥ ७० ॥ देवादिप्रार्थनायां तु भैरवी विनियुज्यते। ॥ भैरवी ॥ हिन्दोलकस्यच्छेवाटी भाषा भल्लातिका भवेत् ॥ ७१ ॥ षड्जांशग्रहणन्यासारिहीना षाडबा भवेत्। घमन्द्रोपाङ्करूपा च शरृङ्गारे विनियुज्यते ॥ ७२॥ ।। भल्लाती॥ सामान्यं च विशेष च द्विविधं रागलक्षणम्। चतुर्विधं च सामान्यं विशेषं चांशकादिकम्॥ ७३ ॥ यस्मिन् वसति रागश्र यस्माच्चैव प्रवर्तते। नेता च तारमन्द्राणां योडर्थ चेज्ज्ञोपलभ्यते(?) ॥ ७४॥

परिचार्यमितो यश्च सोंडशः स्याद् दशलक्षणः ॥ ७५॥ अंश: इति सञ्जीताकरनामधेयश्रीपार्श्वदेवविरचिते सर्ङ्गांत- समयसारे तृतीयमधिकरणम्।

अथ चतुर्थमधिकरणम्। अथ वक्ष्ये निषिध्यं च विभागेन समासतः । प्रबन्धो रूपकं वस्तु निबद्धस्थाभिधात्रयम् । १।। चतुर्मिर्धातुभि: षड्भिश्चाऔर्यः स्यात् प्रबध्यते। तस्मात् प्रबन्धः कथितो गीतलक्षणकोविदैः ॥२॥

Page 36

रामान्य्यारोफणा नेतु(!) स्यादस्मन् रूपकाभिधा। उद्गाहाद्यास्तु चत्वारः स्वरादीनि च षट् तथा ॥ ३ ॥ वसन्ति यत्र स ज्ञेयः प्रबन्धो वस्तुसंज्ञया ! आदावुद्रह्ाते गातं येनोड्राहः स कार्तितः ॥ ४ ॥ प्रोक्तो मेलापकस्त-पैरुद्राह्रुवमेलनात्। प्रबन्धेष ध्रुवत्वेन ध्रुव इत्यभिधीयते ॥। ५॥ स्वयं यत्र प्रबन्ध स्यादनेनैव प्रपूरणम्। आमोगः कथितस्तेन परमर्दिमहीभुजा ॥ ६ ॥ वज्यौं मेलापकाभोगौ प्रबन्धेषु द्वेधातुषु। त्रिधातुकप्रबन्धेषु तयोरेकं विवर्जयेत्॥७॥ यलायां डेङकायां च स्यादन्ते नियमादिमे।। अन्येषु (तु) प्रबन्धेषु रातां गातानुसारतः ॥। ८ ।। अऋत्वमेषां केनापि यदुक्तं तन्न साम्प्रतम्। देहस्येव निबन्वस्य धारणादू धातवा वमे।। ९॥ द्विवातुर्वा त्रेधातुर्वा चतुर्धातुरथापि वा। प्रबन्धस्त्रिविधो ज्ञेयो गीतविद्याविशारदैः ॥ १० ॥ अङ्कानि तु प्रबन्धानां वदामः साम्प्रतं क्रमात्। नेत्रे करी च पादी, च षड़ञ्ञानि यथा तनोः ॥११ ॥ पादतेनौ च विरुदपाटौ तालस्वरौ तथा। मङलद्योतकत्तेनः पदमर्थप्रकाशकम् ॥१२॥ त स्मादङगत्वमनयोनैंत्रवत् प्रततिपादितम्। कराभ्यामुदयो यस्मात् पादस्य परुदस्य च ॥। १३ ॥। तेन कार्ये कारणवदुपचारो निरूपितः । स्याद् गति: स्वरतालाग्यां पादभ्वामिव देहिनः ॥ १४ । प्रबन्वस्य यदस्मा(दुः भिरु)क्तं पादत्वमेकयोः। एतेषां लक्षणमिदमिदानीगभिधायते॥ १५॥ स्वयं यो राजते नादः स्वरः स परिकीर्तितः । पदं स्वराधिकरणमर्थस्य प्रतिफादकम् ॥ १६ H

Page 37

चतुर्थमध्रिकरणम्। संस्कृतं प्राकृतं चैव अपभ्रंशमिति त्रिधा। विरुशब्दो विरुद्धार्थो महाराष्ट्रप्रसिद्धितः ॥ १७ । परेभ्यस्तत्प्रदानेन विरुदं सूरिभि: स्मृतम्। तद् वीररससंयुक्तं द्विषामुद्वेगदायकम् ॥ १८ ।। रसान्तरेण यद् युक्तं तत् पदं विरुदं मतम् । सन्दोहो वाद्यवर्णानां पाटस्तालानुगो भवेत् ॥ १९. । तेन्नतेन्नेति ये वर्णा गीतेऽसौ तेन्नको मतः । ताल: कालक्रेयामानं ज्यः सङ्गीतसङ्गतः ॥२०॥ च(म्बू? म्पू)श्व क(म्पि? वि)ता सेना नीतिश्चेति (य? त)था श्रुतिः । (तः) द्वयङ्गादीनां प्रबन्धानां जातयः पञ्च कीर्मिनाः ॥२१ ॥ गद्यपद्यमयी च(म्बूः? म्पू:), शक्तिवयुत्यात्तेरम्यासः कविता, हस्त्य. रथपदातयः सेना, भेदः परीक्षा विश्वासो वचनं मित्रकार्याणि नीतिः, शीक्षा- ज्योतिषनिरुक्तनिघण्टुच्छन्दोव्याकरणानि श्रुनिः । तारावल्यादयः संज्ञा जातीनां क्शिदीरिताः । अङ्गसं(कया? र्या) वियोगातु ने (वी वै)ताः सम्भता मम ॥२२॥ अनिर्युक्ताश् निर्युक्तास्तथा चैवोभया(त्मि ? तम)काः । प्रबन्धास्त्रिविधास्ते च प्रोक्ता गीतविशारदैः ॥ २२ ॥ अञ्जमात्रेण विहिता अनिर्युक्ता इतीरिताः । छन्दस्तालादिनियमान्निर्युक्तास्ते निरूपिताः ॥ २४ ॥ क्विदञं कचिच्छन्दो गीते यस्मिन् विराजते। उभयात्मकमित्याहुर्गीतं गीतविशारदाः ॥ २५।। तालार्णवो विचित्रं च मण्डनं राहडी तथा। लोम्लीठोम्लरिदन्ती स्याद(न्तिः नि)र्युक्ता: पतायुनाः ॥ २६॥ धवलश्चच्चरी चव वदनज्झम्पटस्तथा?। चरिजा त्रिपदी चैव सिंहपादस्तथैव च ।।२७।। पदं तालसमायुक्ता(?) मङ्गलं स्तवमञ्जरी। अमी सर्वप्रबन्धाश्च निर्युक्ता: परिकीर्तिताः ॥२८॥ तालतेन्नतयो रोपि(?) निर्युक्त: परिकीर्तितः । सवितासहितो वर्णो नन्दनस्ते वितायुनः ॥२९॥

Page 38

२६ मन्गातसमयसारे पतेतासहितः सोऽयमहिनन्दन उच्यते। पतावैर्हसलीला च विपातै रणरञ्रकः ॥ ३० ॥ पास्वतैर्नर्तनं चव अनिर्युक्ता भवन्त्यमी। तापसैरमङ्गलाचारो गद्ं चैवोभ या्मिकौ ॥ ३१ ॥ तापा( :? )स्वकैः शुकचन्चुः शुकः सारी च तैः स्मृतः । आमोद: म्यात सपातेतैस्तेपितापैः सुदर्शनः ॥ ३२ ॥ पातापिपैः कन्दुकश्च तैः स्मृतो हर्षवर्धनः । पवातेतैः प्रमोदश्च पावितेतैर्मनोरमः ॥३३॥ अक्कध्वनिस्तापतेतैरनियुक्ता अमी स्मृताः । तापिस्वतैस्त्रिपथकस्तापाविश्वैश्च वर्घटी॥ ३४॥ निर्युक्तो कथितावेतौ गीतविद्याविशारदैः । सपावितेतायुक्तोऽसौ सिंहललेति नामतः ॥ ३५॥ अनिर्युक्तो भवेदेष गीतिलक्षणकोविदे: । पदतालभ्वरैम्तेन्नविरुदाभ्यां च गीयते ॥ ३६ ॥ निर्युक्त: शरगलील: प्रबन्धः कथ्यते बुधैः । प्रतापवर्धनस्तस्मादुमातिलकसंज्ञक: ॥ ३७ ॥। पञ्चाननः पञ्चभङ्गी श्रीरङ्ग: श्रीविलासकः । अनिर्युक्ता अमी सर्वे षडङ्गानीति कीर्तिताः ॥ ३८ ॥ इति द्विधातुका: सर्वे कथितास्तदनन्तरभ्। त्रिधातुकानहं वक्ष्ये द्यङ्गादिक्रमभेदतः ॥ ३९॥ लम्भको रससन्दोहो हंसपादस्तथैव च। हरिर्विजयसंज्ञः स्यादेकताली तथैव च ॥ ४० ॥ ध्वनिकुट्टनिनामापि पदतालसमायुतः । पितायुतोऽडचारी स्यादनिर्युक्ता: समीरिताः ॥ ४१ ॥ विपदी च पदायुक्ता कन्दश्चैव विपायुतः । निर्युक्तौ कथितावेतौ गीतज्ञानविचक्षणैः ॥ ४२॥ जयमालाचक्रवालौ तथा रागकदम्बकः । कालार्णवो झोम्बटश्च रासकश्चोभयात्मिकाः ॥४३॥

Page 39

चतुर्थमधिकरणम्। २७ गीयन्ते पदतालाभ्याममी गीतविशारदैः । स्वरार्थस्ता(पि)सैर्ज्ञेयः स्यात् तथा सिंहविक्रमः ॥ ४४ ॥ कैवाडपाटकरणौ ताविवासहितावुभौ। तापिसैः स्वरकरणं पतेता ललि(ता) तथा ॥ ४५॥ तेपासैर्मिश्रकरणमनिर्युक्ता अमी स्मृताः । आर्यावृत्तद्विपथका ये गाथा दण्डका्विला:(?) ॥ ४६ ॥ एते स्युः स्वपतायुक्ता मातृका पवितायुता। थडः पतेतासहितो निर्युक्ता: कथिता अमी ॥ ४७ ॥ पपातासहितो ज्ञेयः सिंहविक्रान्तनामकः । कलहंसः क्रौश्चपदः स्वपतासहितावुमौ ॥४८॥ गीतविद्याविशेषज्ञः कथिता उभयात्मिकाः । श्रीवर्धन इति रयातः पातापिपतितो बुधैः ॥ ४९. ॥ विरुदस्वरपदतालै: स्वरपदकरणं स्वराङश्र। ज्ञेया सा गजलीला वर्तनी विवर्तनी च पञ्चापि()॥५०॥ विज्ञेयं बन्धकरणं सविपातायुतो बुधैः । प्रबन्धश्चित्रकरणं पञ्चतालेश्वरस्तथा ॥ ५१।। प्रबन्धस्तेन्नकरणं स्वतेतापियुतः स्मृतः । तेपासपयुतः प्राज्ञैश्चनुरञ्क इतीरितः ॥ ५२ ॥ अनिर्युक्ता अमी प्रोक्ता गतिशास्त्रविशारदैः । तातेपसयुता तज्ज्ञैर्निर्युक्ता सा चतुप्पदी ॥ ५३ ॥ सपितापयुता तज्झैहयलीला निगद्यते। पपातास्वयुतौ ज्ञेयास्त्रिभङ्गी चोभयात्मिकौ(?) ॥ ५४ ॥ स्वतापितेपसहितो जयश्रीरिति कीर्तितः । स्याद् वस्तु विजयश्रीश्र वर्णस्वरचतुर्मुखौ ॥५५॥ स्वपापतातेसहिता विज्ञेया गीनकोविदैः । प्रबन्धो वर्धनानन्दस्तथा हरविलासका ॥५६ ॥ कथ्यते सपितातेता सहिताविति कोविदैः । अनिर्युक्ता अमी सर्वे निर्युक्तो वस्तुसंज्ञकः ॥ ५७॥ इति त्रिधातुकप्रबन्धाः ।

Page 40

२८ सङ्गीतसमयसार पतायुक्ता ढेङ्किका च एला सापितायुता। गीतविद्याविशेषज्ञैः स्मृतौ तावुभयात्मिकौ ॥५८ ॥ प्रोक्ताविमौ चतुर्धात्र क्चिज्झोम्बडरासकौ। पुनः प्रबन्धास्त्रिविधास्ते कथ्यन्ते यथाक्रमम् ॥५९॥ सूडक्रमगताः केचित् केचिदालिक्रमस्थताः । तथान्ये विप्रकीर्णाख्या मुनिभिः प्रतिपादिताः ॥ ६० ॥ तत्र सूडक्रमः प्रोक्त: पञ्चधा गीतवेदिभिः । आदावतिजघन्यः स्याज्जघन्यस्तदनन्तरम् ॥ ६१॥ ततोऽपि मध्यमाख्या स्यादुत्तमाख्यास्ततः परम्। अत्युत्तमस्ततो ज्ञेयस्तेषां लक्षणमुच्यते ॥६२ ॥ झोम्बडो मदटतालेन ततो निस्सारु झोम्बडः । कुडुकेन ततो लम्भो लम्भो निस्सारुकेण च ॥ ६३ ।। झम्पतालेन लम्भश्र रासकश्चैकतालिका। असावतिजघन्याख्यः सूडो गायकसर्वतः ॥ ६४ ॥ ढेङ्की ततो द्वितीयेन भवेत् तालेन झोम्बडः । मट्टेन झोम्बडश्चाथ ततो निस्सारुझोम्बडाः ॥ ६५ ॥ लम्भकोऽथ कुडुकेन ततो निस्सारुलम्भकः । झम्पतालेन लम्भश्च रासकश्चैकतालिका ॥ ६६ ॥ सूडो जघन्यनामायं गीतज्ञैः समुदाहृतः । एलापूर्व ततो ढेक्की तस्माद् गारुगिझोम्वडः ॥ ६७ ॥ द्वितीयझोम्बडश्राथ ततो मट्टेन झोग्बडः । झोम्बडोऽथ तृतीयेन ततो निम्सारुझोम्बडः ॥ ६८ ॥ झोग्डो द्रुतानेस्सारो लम्भको झम्भया ततः । रासकश्चैकताली च सूडोडयं मध्यमः स्मृतः ॥ ६९ ॥ करणं प्रागथैला स्याड्ढोङ्किका तदनन्तरम्। गा(रा : रु)ग्या झोम्बडश्चाथ द्वितीयेनापि झोम्बडः ॥ ७० ॥ झोम्बडश्चैकतालेन ततो मट्टेन झोम्बडः । तृतायझोम्बडश्धाथ ततो निस्सारुझोम्बडः ॥ ७१॥

Page 41

चतुर्थमधिकरणम् । २९ झोम्बडोऽथ कुटुक्केन झम्पातालेन लम्भकः । रासकश्चकताली च सूडः स्यादुत्राभिधः ॥। ७२॥। गद्यं ततश्च् करणं वर्तन्येला च ढेक्किका। गारुग्या चोम्बडश्राथ द्वितीयेनापि झोम्बडः ॥ ७३ ॥। झोम्बडश्रैकतालेन प्रतिमट्टेन चोम्बडः । झोम्बडोऽथ तृतोयन ततो निस्सारुझोम्बडः ।। ७४॥ झोम्बडो द्रुतनिस्सारो झम्पातालेन लम्भकः । रासकश्चैकताली च सूडः स्यादुत्तमोत्तमः ॥ ७५ ॥ उत्तमोत्तमसू डान्तर्गणैलागा नमाद्ृतम् । रागस्य नियमाद् गातुर्नेतिरागान्तरेण तन ॥ ७६॥ तदुक्तं रसरागाभ्यमौचित्यात् सैव गीयते। प्रौढानेनैव रागेण सूडोडापे परिगीयते ॥ ७७॥ अत उत्तमसूडे तु रागस्य।नियमं बिना। छन्दस्वती सङ्करैला मात्रैला परिगीयते ॥ ७८॥। मध्ये मध्ये मङ्कुडस्य रागस्य नियमेन तु। वर्णैला वर्णमालैला देशाख्यैला च गीयते॥। ७९, ।। उत्तमोत्तमसूडे तु प्रथमं मातृका भवेत्। पञ्चतालेश्वरो यद्वा हृदं गद्यमथाि वा। ८०॥ आलिक्रमोऽयमेवोक्तः प्रतापपृथिवीभुजा । अस्मिन्नेला च ढेक्की च ततो गारुगितालतः ।। ८१ ।। द्वितीयेन च तालेन प्रतिमट्टाभिधेन च। ततो निस्सारुतालेन झाम्बडो लम्भकस्तथा ॥ ८२॥ रासकश्चैकताली च स्थायिनो नव कोर्तिताः । शेषा: सश्वारिणः षट् च परिवृत्तिसहिष्णवः ॥ ८३ ।। उत्तम: प्राक्स्व रार्थः स्यात स्वराक्को वा थढोऽथवा। करणं वा त्रिभङ्िर्वा यद्वा क्रौञ्चपदाभिधः ॥ ८४॥ भेवच्छरभलीलो वा पश्चभ्गिरथापि वा। तत्रैला ढेद्विका चैव ततो गारुगितालतः ।। ८५ ।। द्वितीयेन च तालेन ततो निस्सारुतालतः । साम्बडो लम्भको रासश्चैकतालीति कीर्तिताः ॥८६॥

Page 42

३० सङ्गीतसमयसारे स्थायिनोऽष्टापि हीन तु पश्च सव्वारिण: स्मृताः । एला स्यान्मध्यमे पूर्व ढेक्किका तदनन्तरम् ॥ ८७॥ ारुग्याख्येन तालेन द्वितायेन च झोम्बडः । ततो निस्सारुलम्भश्च रासकश्चैकतालिकः ॥ ८८ ॥ इति सप्त समुद्दिष्टाः प्रबन्धाः स्थायिनो बुघैः । क्रमेण शेषाश्चत्वारो यथाविधि समीरिताः ॥८९।। जघन्ये प्रथमे ढेक्की द्वितीयेन तु झोम्बडः । निस्सारुणा पितालेन लम्भा रासैकतालिका ॥ ९० ॥ पडेते रथायिनः प्रोक्तास्त्रयोऽन्ये तु यथारुचि। भवन्त्यतिजघन्ये तु मट्टतालेन झोम्बडः ॥ ९१ ॥ निस्सारु झोम्बडो लम्भो रासकश्चैकतालिका। पञ्चैते स्थायिनो ज्ेया द्वावन्यौ तु यथारुचि ॥ ९२ ॥। त्यक्त्वा कु + कनिस्सारु लम्भावादौ ध्रुवं न्यसेत्। अन्तरे चण्डनिस्सारुमद्टादि स्याद् ध्रुवादिकाः ॥९३॥ एक एव प्रबन्धश्चेन्मलरूपेण गीयते। तालेनेकेन नानार्थः स सूडो विप्रकीर्णेकः ॥ ९४ ॥। एकैकशोडपि गातव्यः प्रबन्धो विनियोगतः । अथ सूडकमाश्रितप्रबन्धलक्षणं वक्ष्ये - उद्गाहः प्रथमार्ध य ढेङ्किकायां विधीयते ॥ ९५॥ आवृत्त्या तच्ब गातव्यं समं वा विषमत्रहे। द्वितीयार्ध तु तेनैव सकृद्गीतेन गीयते ॥ ९६॥ मेलापकस्ततस्तालयुक्तो गेयो विकल्पतः । उद्राहे चैव मेलापे ढेळ्ितालो भवेद् यतः ॥ ९७ ॥ तस्मादस्य प्रबन्धस्य नाम ढेक्कीति कीर्तितम्। तालोऽत्रान्यो लयश्चान्यस्ततो वारद्वयं बुैः ॥ ९८॥ एकगीतध्रुवस्यादं सानुप्रासं पदद्वयम्। अन्यगीतेन गातस्य तृतीयोऽङ्म्रिध्रुवाश्रयः ।९९॥ आभोगं च सकृद् गीत्वा ध्रुवं गीत्वा ततः पुनः । उद्राहतालमानेन तस्य न्यासो विधीयते ॥ १०० ॥

Page 43

चतुथमधिकरणम्। ३१ ॥ ढेङ्कीसामान्यलक्षणम् । उद्गाहस्यादिमं भागं गायेद् वारद्वयं ततः । सकृदेव द्वितयिार्धे ततोऽपि गमकैर्युतम् ॥ १०१॥ मेलापकं विकल्पेन ततो बारद्वयं घ्रुवम्। आभोगं च सकृद् गीत्वा स्रावेण न्यास इष्यते ॥ १०२ ॥ भागोऽपि झोम्बडे कार्य इति केचित् प्रचक्षते। गीतेन प्रा क्तनेनैव यत्रोह्राहः पदान्तरैः ॥ १०३ ॥ विवक्षितार्थशेषस्य पूणत्वापादनाय च। अपरः क्रियते योडसौ स भागः परिकीर्तितः ॥ २०४॥ शरीरस्य यथा छाया भवत्यव्यय चारिणी। हासवृद्धियुता चैव झोम्बडे गमकस्थितिः ॥ १०५ ।। तारजोऽतारजश्वेति झोम्बडो जातियुग्मकम्। तारो व्वनिः समुद्दिष्टो गायकेः स्थानकाख्यया॥ १०६॥ तेन तारेण संयुक्तो झोम्बडस्तारजः स्मृतः । तारजस्य परिज्ञेयं तत्र भेदचतुष्टयम् ॥ १०७ ।। तच्च दुप्करमेवाक्तं गीतविद्याविशाग्दैः । आदौ प्रतापतिलको भवेत् प्रतापसङ्गमः ॥ १०८॥ ततोऽचलप्रतापः स्यात् तनः प्रतापवर्धनः । उद्ाहे. स्थानकस्थित्या प्रतापतिलको भवेत् ॥ १०९ ॥ प्रतापसङ्गो मेला(पं)स्थानकस्य निवेशनान्। स्मृतोऽचलप्रतापोडसौ प्रापे स्थानकनिर्मितेः ॥ ११० ॥ प्रतापवर्धनो ज्ञेय आभोगे स्थानकान्वयात्। ॥ तारज: ॥। ततः प्रभूतगमकस्ततोऽल्पगमकाभिधः ॥ १११।। त्रिधातुकस्तृतीय(श्र) स्यादल्पगमकाभिधः । त्रिधातुकस्तृर्तायः स्यादतारजभिधात्रयम् ॥ ११२ ॥ अनेकगमकत्वेन विपुलायासयोगतः । प्रभूतगमको नाम झोम्बडो दुप्करः स्मृतः ॥ ११३ ॥

Page 44

३२ सङ्गीतसमयसार अल्पैस्तु गमकैः क्लप्तः स्यादल्पगमकाभिधः । गमकानामबाहुहयादक्केशेन च गानतः ॥ ११४ ।। त्रिधातुक: परिज्ञेयो मेलापेन विवर्जितः । त्रिधातुकाल्पगमकौ सुकरौ परिकीर्तितौ ॥ ११५ ॥ सप्तैते कथिता भेदास्ताले गारुकिनामनि । एवं द्वितीयतालेडापे सम भेदा भवन्ति ये ॥ ११६॥ उद्यत्प्रतापः प्रथमं भवेत् स प्रतापयोग तदनन्तरं स्ान्। स्थिरः प्रतापश्च भवेन् प्रतापः सशे ्वरो दुष्करनामघेयः ॥ ११७ उद्यत्प्रतापमुद्ग्राहे स्थानकस्य निवेशनात्। प्रतापयोगमेलापे वदन्ति स्थानकस्थितेः ॥ ११८॥ ध्रुंव स्थिरप्रतापं च स्थानकस्य निवेशनात। प्रतापशेखरं प्राहुराभोंगे म्थानकान्वयात ॥ ११९ ॥ अन्योऽपि भूरिगमको गमकः सूक्ष्मपूर्वकः । त्रिधातुकश्र विज्ञेया दुष्कर: सुकरास्त्रयः ॥ १२०॥ प्रभूतगमकाद्येपु त्रिपु यल्लक्षणं कृतम्। तदेव भूरिगमकप्रभृतिप्ववगम्यताम् ॥ २१ ॥ केवलं तालभेदेन नामभेदः प्रकोर्तितः । अन्येऽपि भेदा विद्यन्ते झोम्बडस्य पुनस्त्रयः ॥ १२२॥ गद्यजः पद्यजश्चैव गद्यपद्यमयस्तथा। क्मेण लक्षणं तेषां यथावत् प्रतिपादते ॥ १२३ ॥ संस्कृतैर्देशजैर्वावि सानुप्रसः पदैर्भवेत्। गीतविद्धभिः स विज्ञेयो झोम्बडो गद्यजाह्यः ॥ १२४ ॥ छन्दसा येनकेनापि निबद्धः पद्जः स्मृतः । झोम्बडो गद्यपद्याभ्यां गद्यपद्यमयो भवेत् ॥ १२५॥ झोम्बडं दुष्करं त्यक्त्वा प्रभूतगमकं तथा। गद्यजं पद्यजं चैव गद्यपद्यमयं तथा ॥ १२६ ॥ लबुशेखरताले स्युरन्येऽल्पगमकादयः । प्रतिमट्टे तृतीये च मट्टे निस्मारुके तथा ॥ १२७ ॥।

Page 45

तुर्थमधिकरणम्। ३३ चण्डनिस्सारुके चैव चण्डपूर्वतृतीयके। पतेषु झोम्बडा गेया + + + लघुशेखरे ॥ १२८॥ कुटुकाख्येन तालेन झोम्बडो गीयते यदा। पदैरपि विना कार्या तदाभोगस्य कल्पना ॥ १२९ ॥ एवमष्टादश प्रोक्ता झोम्बडा गातवेदिभिः । । झे.म्बदः ॥ उद्गाहेऽकूध्रिद्यं प्रासैः प्रतिपादं गणाश्च षट्॥ १३०।। पादस्यान्ते प्रयोग: स्यात् पल्लवारयं पदं ततः । पल्लवाख्ये पदे नास्ति नियमो गणवर्णयोः ॥१३१॥ अनेनैव प्रकारेण द्वितीयाङ्घ्रे: प्रकल्पना। गीत्वा ततस्तृतीयाङ्ध्रिगेयो मेलापको भवेत् ॥ १३२॥ (तथा) पादत्रये गीतमेकमेव विधीयते। सप्रासोऽथ ध्रुवो गेयो वर्ण्यनाम्ना समन्वितः ॥ १३२॥ आभोगश्च ततो गेयो गातुर्नान्ना विराजितः । ध्रुवं गीत्वा ततो न्यास: सर्वैलासु प्रशस्यते ॥ १३४ ॥ । एला ।। स्वराख्यं करणं पूर्व पादाख्यं करणं तथा। तृतीयं बन्धकरणं तुर्य स्वरपदात्मिकम् ॥ १३५ ॥ पश्चमं चित्रकरणं षछ्ठं तेन्नकपूर्वकम्। सप्तमं मिश्रकरणं तेषां लक्षणमुच्यते ॥ १३६ ॥ धातुद्वयं स्वरैरेव नैरन्तर्येण गीयते। द्रुतशेखरतालेन करणे स्वरपूर्वके ।। १३७ ।। करणं कुरणास्येन तालेन किल गीयते। दृश्यते तन्न लक्ष्येषु युक्तियुक्ता त्रुटिप्पणे(?)॥ १३८ ॥ इष्टस्वरो ग्रहस्तस्मिन्नंशेन न्यास इष्यते। आभोगे वर्णनीयस्य नाम गातुश्च निक्षिपेस ॥ १३९ ॥। द्विर्गायेदादिमं त्वंशं सकदेव द्वितीयकम् । तृतीयं तु. सकृदू गीत्वा धुवं गायेदनन्तरम् ॥ १४० ॥ F

Page 46

३४ सज्जीतसमयसारे उद्राहेण ततो न्यास: करणे स्वरपूर्वके। गानप्रकारो यस्थैव मङ्जलारम्भकं हि तत् ॥ १४१ ॥ गीत्वा पूर्व द्विरुद्राहं सकृद् गायेद् ध्रुवं ततः । उद्गाहस्यान्तरं भागं गीत्वाभोगध्रुवं ततः ॥ १४२॥ उद्धाहेण पुनर्न्यासः क्रियते यत्र तद् भवेत् । करणं कीर्तिलहरि ज्ञं श्रुतिसुखावहम् ॥ १४३ ॥ उद्धाहध्ुवयोर्गानं पूर्ववद् यत्र दृश्यते। ध्रुवगरध ततो गेयमाभोगाद्यपि पूर्ववत् ॥१४४ ।। आनन्दवर्धनं नाम तदेतत् करणं मतम्।

स्वराख्ये करणे न्पष्टं तत् म्यादन्येष षटम्वपि। स्वरैः सहस्तपाटैश्र व्यत्यासराचतरपि ॥ १४६ ॥ धातुद्वये परिज्ञेयं तत्पा(ट?द)करणं द्विधा। । पादकरणम् । सरा मुरजपाटाश्च यत्र म्युर्धो युग्मके ॥ १४७ ॥ तद् बन्धकरणं नाम विज्ञय गी 1कोविदैः। । बन्धकरणम् ॥ धातुद्वयं भवेद् यत्र म्वरैरथ पदैरपि ॥ १४८ ।। तदुक्तं गीत रज्ञेः करणं पदपूर्वकम् । ॥ स्वरपदकरणम् ॥ स्वराश्च हस्तगाटाश्च समं स्युरमुग्जाक्षरैः ॥ १४९ ॥ पादैर्धाद्वये यत्र तच्चित्रकरणं मतम् । ।। चित्रकरणम् ॥ स्वराः सतेन्नका यत्र दृश्य-ते धानुयुग के ॥१५० ॥ तदुक्तं ते(नः न्न)करणं चा+ ++ सुध भुजा। ॥ तेन्नकरणम् ।। स्वरैः पाटैस्था तेन्नैर्यत्र धातुद्वयं भवेत् ॥१५१ H तन्मिश्नरणं ज्ञेयं प्रान्ते विरुद संयुतम्। । मिश्रकरणम् ॥ ॥ इति करणम् ॥

Page 47

गीत्वा द्विपादमुद्राहं ध्रुवाभोगावनन्तरम् ॥ १५२ ॥ ध्रुवकेण पुनर्मुक्तिर्वर्तन्यां सूत्रवेद् बुधः । प्रतितालो द्रुतो मट्टः कङ्कालश्च कुटुकुरः ॥ १५३॥ वर्तन्यां न भवन्त्येते तालास्त्वन्ये भवन्ति हि। स्वराख्यकरणाद् भेदो वर्तन्यामयमेव तत् ॥ १५४ ।। विलम्बितो लयस्तस्यां करणे तु द्रुतो लयः । । वर्तनी॥ प्रतितालादयः पञच वर्तन्यां ये निवारिताः ॥ १५५ ।। तैरेव गीयते या सा वर्तन्ये(व) विवर्तनी। आदौ यत्र स्वरालापः क्रियते तालवर्जित: ।१५६ ॥ वर्तन्यां ++++ + सा स्यादालापपूर्वका। । विवर्तनी । स्वरैरभीष्टो यत्रार्थः सप्तभिः प्रतिपाद्यने ॥ १५७ ॥ स्वरार्थोडसौ द्विधा ज्ञेयः शुद्धमिश्रविभेदतः । क्मेण व्युत्क्रमेणेति प्रत्येकं तौ द्विधा मतौ ॥ १५८ ॥ शुद्धया रागां(?) श्रुतिम्थानकृतया तम्य सम्भवः । शुद्ध: स्वरार्थो विज्ञेयः केवलैः सप्तभिः स्वरैः ॥ १५९॥ यत्र स्वराणां सप्तानामेकैकं प्रथमाक्षरम्। अक्षरान्तरसम्मिश्रं गीयते स तु मिश्रकः ॥१६० ॥ शशिस्तनाभिवेदेषुरसाश्चेति हिताभिधाः । एकादिस्वरभेदेन स्वरार्थः सप्तधा म्मृतः ॥ १६१ ॥ आभोगोऽन्यपदैश्वास्य ग्र(ह? हे)ैव प्रमुच्यते । ॥ स्वरार्थ: ॥ अपाद: पदसन्दोहो गद्यं षोढा तदिष्यते ॥ १६२॥ वृत्तगन्धि तथा चूर्णमन्यदुत्कलिकाभिधम्। कलितं च तथा खण्डं चित्रं तल्लक्ष्म कथ्यते ॥ १६३॥ पद्यभागान्वितं गद्यं वृत्तगन्धि निगद्यते। असमस्तैः समस्तैवा द्वन्नैस्ु चतुरैः पदैः ॥ १६४ ॥

Page 48

३६ सन्जीतसमयसार रचितं चूर्णमारन्यातं गद्यं गद्यविशारदैः । गौडरीत्या युतं गद्य प्रोक्तमुत्कलिकाभिधम्।। १६५।। समस्तैः पश्चषैर्बद्ध पदैर्ललितमीरितम्। प्रक्रान्तरीतिभज्ञेन बृहल्लपुपदैर्युतम् ॥ १६६ ॥ गद्यं खण्डमिति प्राहुर्गद्यभदविशारदाः। गद्यं चित्रमिति प्रोक्तं नानारीतिसमन्वितम् ॥ १३७॥ वृत्तग(न्धी ? न्घि)नि पाञ्चाली रीतिः शान्तो रसो भवेत्। वृत्तिश्च् भारती ज्ञेया सामवेदसमुद्धवे(त्ः) ॥ १६८ ॥ चूर्णे स्यात् सात्वती वृत्तिर्वैदर्भी रीतिरुत्तमा। शान्तो रसो विजानीयाद् गद्यविद्याविशारदैः (१॥१६९ ॥ उत्कलिकाहये रीतिर्गौडी वरिरसो भवेत्। वृत्तिरारभटी ज्ञेया गीततत्त्वविचक्षणैः ॥ १७० ॥ ललिते पाञ्चालंरीतिः स्यात् कैशिकी वृत्तिरुच्चमा ।

खण्डगद्ये रसो हास्यो वैदर्भी रीतिरिष्यते। सास्वती वृत्तिरिष्टा मे पूर्वशास्त्राविरोधतः ॥ १७२ ।। चित्रगद्ये च वैदर्भीरीतिर्वृत्तिश्र कैशिकी। रसः शृक्कारसंज्ञोऽयं गीतज्ञैः समुदाहृतः ॥ १७३॥ प्रणवाद्यं भवेद् गय गेयं तालविवर्जितम्। मिथः सयमकैः षड्भिरष्टभिर्वा समन्वितम् ॥ १७४॥ पदान्येतानि मेधावी गायेद् गीतानुसारतः । गधेऽनुयायिन: कार्यो गीतस्य नियमो बुघैः ॥ १७५॥ मध्ये मध्येऽत्र गमकाः सर्वे वर्णाश्र युक्तितः । गद्यरीत्या विधातव्यावविलम्बविलम्बितौ॥ १७६॥ अतालपदपर्यन्ते स्वरा ज्ञेया विचक्षणैः । मध्ये मध्ये तु गद्यस्य स्वराः प्रान्तेऽथवा मताः ॥१७७॥ ततः प्रबन्धनामाऊं सतालं पदयुग्मकम् । गुर्क्षराणामल्पत्वे द्वुतमध्या प्रकीर्तिता॥१७८ ।।

Page 49

चतुर्थमाधकरणम्। गुरुभिर्लघुभिर्मिश्रैज्ञेया मध्यविलम्बिता । प्रत्येकं षड्विधे गद्ये षट्प्रकारगतिर्भवेत् ॥ १७९॥ अतः षट्त्रिंशदेव स्युर्भेदा गद्यसमाश्रयाः । । गद्यम॥ लम्भकश्चोपलम्भश्च विलम्भश्चाथ लक्षणम् ॥१८० ॥ पदमेकं पदे द्वे वा किश्चिद्गमकसंयुते। सकृद् गीत्वा ततो गेयं द्वौ वारौ ध्रुवकाभिधम् ।।१८१॥ आभोगं च ततो गीत्वा ध्रुवेण न्यास इप्यते। इत्येष लम्भकः प्रोक्ता भागैर्द्विस्त्र्विभूषिता( ?) ।। १८२ ।। अतालालापयुक्त: प्राग् ध्रुवाभोगौ च तालभाक्। क्लिम्भकः परिज्ञेयो ध्रुवन्यासेन संयुतः ॥ १८३ ॥ पदैर्नानाविधैर्यस्मादेकगीतैः पुनः पुनः । उद्राहे वा ध्रुवे वापि द्वयोर्वाभोगवर्जितः ॥ १८४ ॥ उपलग्भ इति प्रोक्तः स नान्ना गीतकोविदै: ॥ लम्भक: ॥ आदितालसमायुक्ते गमकादिविवर्जिते ॥ १८५ ॥ रासके झोम्बडस्येव शेषं लक्षणमीरितम्। अन्यैर्यात्रिविधः प्रोक्तो गणमात्रादिभेदतः ॥ १८६॥ रासकः किन्नु कास्त्यस्य(!) लक्ष्ये कुत्रापि दर्शनम्। आलापं केचिदिच्छन्ति रासके प्रास्मनीषिण: ॥ १८७।। केचिदेकपदोह्ाहं रासकं प्रतिपेदिरे। । रासक: ॥ दविरुद्वाहं ध्रुवं द्विश्च गीत्वाभोगं सकृत् पुनः ॥१८८ ॥ श्रुवं गीत्वा ततः कार्यो न्यासो गीतविशारदैः । बनद्रुता घनप्रासा यत्या च घनया युता ॥ १८९।। एकतालाख्यतालेन गेया स्यादेकतालिका। अलापानिर्मित: कैश्विदस्या उद्राह इष्यते ॥ १९० ॥ । एकताली ।। ।। इति शुद्धसूडा:।

Page 50

सन्नीतसमयसा

अथ सालमूडक्रमं वक्ष्ये- आदौ ध्रुवा ततो मट्ठा (प्रति)मट्ठा च लम्भकः । अङ्डुताली रासकश्च एकतालीव कीर्तिताः ॥१९१॥ आदौ पादौ समगणयुतौ धातुसतम्यौ ततस्त- तुल्यो वाङ्घ्रिम्त्वधिक इतरो धातुनान्येन युक्तः । स्यादुन्गाहेडत्र पदसहितो गेय एष द्विवारं त्वङ्ध्री गी्वा सकृदपि पुनर्न्यस्थते चोड्रहे सः ॥ १९२॥ स ध्रुव एकादशधा - शशिहासहंसमाधवनीलोत्पलतापसपजानाथाः। हरिहरनरपतिशकरा एकादश ते क्रमादुक्ताः ॥ १९३ ॥ भवति शशाङ्कः क्रमशो मधुरतरो मन्द्रमध्यताराख्ये। तेषामपि विशदानां व्युत्क्मतो जायते *भासः ॥ १९४ ॥ तेषाममि स्फुटानां म्यादीनामसौ हंस:। सुकुमाराणां तेषां मध्यान्तानां वसन्ताखयः ॥ १९५ ॥ तेषां विकासभाजामभिदूर्वाक्को(!) भवेत् कुमुदः । तेषां प्रसन्नभाजां लीलानां तापसो भवति ॥ १९६ ।। प्रचुरम्फुरितैस्तैरपि सुव्यक्तो भवति कमलभवः । तैरेव तिरिपुबहलै. (कोमलयतिः कमलापति)नामको भवति ॥ १९७॥ तैरेव तिरिपुभिन्नैः शैलसुतावल्लभो भवति। तैरान्दोलनबहुलैर्जायेतासौ वसुन्धराधीशः ॥ १९८ ॥ तैरेव कम्पबहुलैः सहस्रनयनाभिधो भवति। । इत्येकादश घ्रुवाः॥

मट्ठा च प्रतिमट्ठा च लम्भकश्चाड्डनालिका ॥ १९९॥ रासकब्धैकताली च ध्रुवकेनापि गीयते। गेयः स्यात् सकृदुद्राहो द्विवारं ध्रुवकस्ततः ॥ २०० ॥ गीत्वाभोगं द्विरुद्राहो ध्रुवे लम्भकजातिकः । ममादितालपङ्ञन(?) यदा गायेत लम्भकः ॥ २०१॥ # 'हास' इति लक्ष्ये पठ्यते।

Page 51

चतुर्थमधिकरणम्। ३९ तत्ततालाभिधानेन लम्भ(कः?कं) कथयन्ति च। गण्डकी गूर्जरी चैव रामक्री (व! फ)लमख्जरी॥ २०२॥ छायागौडश्र देशाखूया वराटी कथिता तथा। बुषैः सालगनाट्टा च रागाः सालकसंज्ञिताः ॥ २०३॥ छायया अलमत्यर्थ गीयत इति छायालगः(?)। अथ गानकम: - एकैकशोऽपि गातव्यः प्रबन्धो विनियोगतः ॥ २०४ ॥ चमत्कारं जनयितुं विनादेषु सहापतेः(?)। अनुसारः सानुलारस्त(तो? थो)तराभिधः परः ॥२०५॥ खलोत्तरं च कुरुपुः पट्टान्तरन(ला? वा)नतरौ। उच्यते समयस्तस्माद् विज्ञेयं परिवर्तनम् ॥ २०६ ॥ नवधा रूपकं प्रोक्तं गीतविद्याविचक्षणैः । क्रमेण लक्षणं तेषां वक्ष्ये लक्ष्यानुसारतः ॥ २०७।। तालरागप्रमेयश्च सदृशं पूर्ववम्तुनः । नवं वस्त्वनुसाराख्यं दर्पेणे प्रतिबिम्बवत् ॥ २०८ इदमेव गुणैरीषत् सदृशं पूर्वव-तुनः । सानुसाराभिधं ज्ञेयं गीतिलक्षणकोविदैः ॥ २०९॥ सममात्रं विशिष्टार्थ किश्चित् तालविलम्बितम्। चडालश्रुतिसंयुक्तमुत्तरं गीतमुच्यते ॥ २१० ॥ स्वस्थानकपरित्यागात् स्थेया नैवादिरूपके। नीचोच्चस्थानकैरन्यगानं खलोत्तरं विदुः ॥ २११ ॥। एकस्यैव पदार्थम्य बहूनां वोपमादिभिः । स स्यादिष्टार्थनिर्वाहः कुरु(षुः१ पुः) परिकीर्तितः ॥ २१२।। पर्रा्ष्यमाणयोस्तज्ज्ञैरुमयोर्यदि वम्तुनोः। गुणाधिक्यमनिश्चेयं पट्टान्तरमिति स्मृतम् ॥ २१३ ॥ अर्थभाषाक्रियारागधादुमा (तु१ तृ)लयेषु च। रसरीत्योर्नवत्वं यन्नव इत्यभिधीयते ॥ २१४ ॥ गजाद्यारोहणादौ तु सम(यो: ये) नृपवर्णनम्। तदानीमेव रचित भवेत् तत् समयाभिधम् ॥ २१५॥

Page 52

सज्जीतसमयसारे रूपकं स्थानके रागे ताले गीयेत गायकैः । परिवृत्त्यान्यथा गीतं तदेव परिवर्तनम्॥ २११॥ रीतयः सन्ति कथेताः षडेव कथयामि ते। चोक्षगायनरीतिश्र योगिरीतिः कचिद् भवेत् ॥ २१७॥ मलिनगायनरीतिश्व गीतिः सा योषितां क्वचित् । कचित् पेरणरीतिश्च रीतिः कथकसंज्ञिता ॥ २१८॥ रीतिर्भभ्चिरिति प्रोक्ता रीतिलक्षणकोविदैः ॥ २१८३॥ इति सज्जीताकरनामधेयश्रीपार्श्वदेवविरचिते संज्गीत- समयसारे चतुर्थमधिकरणम्॥

अथ पश्चममधिकरणम्। अ(थ) गीतानुगामित्वाद् वाद्यमत्र प्रव(ज्यः णर्य)ते। उद्देशक्रमतः किश्चित् सर्वेलोकानुरञ्जनम् ॥ १ ॥ ततं ततोऽवनद्धं च घनं च सुषिरं तथा। चतुर्विधमिदं प्राहुरातोद्यं वाद्यवेदिनः ।२।। ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्टरम्। कांस्यं घनमिति प्रोक्तं सुषिरं सुषिरात्मकम् ॥ ३ ॥ वीणा चालावणी चैव किन्नरी लघुपूर्विका। बृहत्किन्नरिका चैव शकनीत्यादिगन्तरम् (३) ॥ ४ ॥ पटहश्र हुडडुका च ढक्का च तदनन्तरम्। मृदऊः करदेत्याद्यमवनद्धमुदाहनम् ॥५॥ तालश्र कांस्यतालश्र घण्टिका क्षुद्रघण्टिका। पदश् शुक्तिरित्यादं घनवाद्यमुदाहृतम् ॥ ६ ॥ वंशश्च महुरी चैव शङ्खः शृक्गं तभैव च। इत्याद्यनेकधा पोक्तं सुषिरं वाद्यवेदिभिः॥७॥ एकहस्तेन हस्ताभ्यां कोणेनाङ्गुलिभिस्तथा। नानाप्रकारैः फूत्कारैः श्रुतिसौख्यविधायिभि. ॥८ ।। बहुप्रकारमेवं स्याद् वादनं लोकरअ्जनम्। तत् सर्वै पश्चधा भूयः शुष्कं गीतानुगं तथा ॥ ९ ॥ १. 'नीत्यादिकं ततम्' इति पाठ्यं स्यात्।

Page 53

पश्चममधिकरणम्। ४१ नृत्यस्य चानुयायि स्यादुभयानुगमित्यपि। तन्त्र्याश्चानुगतं प्रोक्तं वाद्यविद्याविचक्षणैः ॥ १० ॥ विना गीतं विना नृत्तं वाययं शुप्कमुदाहृतम्। अन्वर्थसंज्ञया ज्ञेयं िष्टं वाद्यचतुष्टयम् ।। ११ ॥ क्रियाभेदादू वाद्यमेदात् तथैव व्याप्तिभेदतः । वीणाभेदाद् भवन्त्यन्ये तन्त्रीसिंख्यावशादपि । १२ ॥ भजते सर्ववीणानामेकतन्त्रीप्रधानता(!)। छन्दो धा(रा) कैकुटी च कङ्कालो वस्तुपूर्वकः ॥ १३ ॥ गजलीलाभिधानं च तथैवोपरिवादनम्। दण्डकं च तथा ज्ञेयं वाद्यं पक्षिरुताभिधम् ॥ १४ ॥। एतद् दशविधं नाम्ना वीणावाद्य समीरितम्। खसितेन समायुक्को बहुधा स्फुरितः करः ॥ १५ ॥ संस्पृ(ष्ट)तारं छन्दाख्यो यत्या च समलड्कृतः ! उत्क्षेपः परिवर्तश्र ताभ्यां स्याद् यत्र कर्तगी ॥ १६ ॥ रेफेण सहिता तद्वदुल्लेग्वो रेफसंयुतः । एवं समुदितं प्राहुर्धारास्यं वादनं बुधाः ॥ १७ ॥ सुखेन स्फुरितेनापि निर्घोषेण च पाणिना। संयुक्तं चार्धकर्तर्या संयुक्तं वादनं विद्ुः ॥ १८ ।। कर्तरीत्रयसंयुक्तं स्फुरितैर्मूर्छितैयुतम्। कक्कालनामकं वाद्यं प्राहुर्वैणिककोविदाः ॥ १९ ।। कर्तर्या खसितेनापि कुहरेण परिस्फुटम्। तारः संस्पृश्यते यत्र तद् वाद्यं वस्तुसंज्ञकम् ॥ २०॥ कर्तरीखसिताभ्यां यत् कुहरेण च संगतम्। निर्घोषरेफ(हुःभ्र)मरैस्तूर्ण तत् करणं विदुः ॥ २१ ॥ कर्तर्या खसितेनापि मूर्च्छितः स्फुरितैः करैः । विरच्यते तु (तः य)द्वादं गजलीलं तदीरितम् ॥ २२ ।। अधस्तादुपरिष्टाच्च यवयातः(?) करौ क्रमात्। रेफकर्तरिनिप्कोटैस्तलेनोपरिवाद्यकम् ॥ २३ ॥ १. लक्षणे पुनरस्याः स्थाने नामान्तरं पठितम्। २. लक्षणे तूर्णमिति दर्शनात् सूर्ण कमितीह पाठः स्यातू। G

Page 54

४२ सन्नीतसमयसारे निक्षिप्य परिवर्ताभ्यां कर्तर्या च सरेफया। मानेन खसितेनापि मण्डितं दण्डकं विदुः ॥ २४ ॥ समस्तहस्तसंयोगाद् वाद्यं पक्षिरुतं मतम् । इत्युक्तं दशधा वादयं गीतलक्षणवेदिभिः ॥ २५॥ सकलं निष्कलं चेति वाब्यमेतदु द्विधा भवेत्। कथितं शक्करेणेदमेकतन्त्रीसमाश्रयम् ॥ २६ ॥ तथा जीवा विधातव्या लभा नादे यथा भेवत् । यत् तया जी(य्य ! व्य)वे नादस्तेन जीवेति सा मता ॥२७॥ तन्त्रिका पत्रिकायां तु क्वचिल्लगति वाथवा। लमना सैव कला ज्ञेया वीणाप्रावीण्यशालिभिः ॥२८॥ तदुक्तं सकलं वाद्यं यतः स्थूलो भवेद् ध्वनिः । असंस्पर्शेन तर्जन्या दोरिकापत्रिकावधि ॥ २९ ॥ सार्यते तन्त्रिका यत्र सकलं तदपि स्मृतम्। विन्दोरु + यसिद्धयर्थ जीवा हीना विधीयते ॥ ३० ॥ निषादस्वरतोऽधस्तात् तन्त्रिका नैव सर्पति। यत्र स्यात् तर्जनीस्पर्शो निष्कलं तन्निगद्यते ॥ ३१ ॥ सन्निविष्टा तथोक्क्षिप्ता तृतीया चोभयात्मिका। सझं तन्त्याः परित्यज्य संसर्पेद् यत्र सारणा ॥ ३२ ॥ सन्निविष्टाभिधाना सा सारणा कथिता बुधैः। स्पर्श स्पर्श समुत्सृज्य तन्त्रीमुत्प्लुत्य सारणम्॥ ३३ ॥ यद् या(दि! ति) सोदितोत्क्षिप्ता निष्कले सकलेऽथवा। भवेत् कुत्रचिदुत्क्षिप्ता संस्पृष्टा कुत्रचिद् भवेद् ॥ ३४ ॥ इति करियादवयीयोगात् सारणा सोभयात्मिका। सारणा त्रिप्रकारेयमेकतन्त्रीसमाश्रिता ॥ ३५॥ अन्यासामपि वीणानां यथौचित्येन सारणा। घातः पातश्र सलेख उल्लेखश्चावलेखकः ॥ ३६ ॥ छिन्नसन्धितसंज्ञश्च भ्रमरश्रेति दक्षिणे। हस्ते यापारभेदाः स्युर्वामे स्फुरितघर्षणे ॥ ३७ ॥

Page 55

पश्चममधिकरणम् । ४३

मध्यमाक्रान्ततर्जन्या यदा तन्त्री निहन्यते। तदा(या ! घा)तो भवेत् पातस्तर्जन्यैवैकया पुनः ॥ ३८ ॥ तर्जन्यन्तरघातस्तु सल्लेखः समुदाहृतः । मध्यमान्तरघातस्तु भवेदुल्लेखसंज्ञकः ॥ ३९ ॥ मध्यमाबाह्यघातोऽसाववलेख इति स्पृतः । तर्जनीपार्श्रसंलभा ह(त?ता)नामिकया बहिः ॥ ४० ॥ तन्त्री यदा तदा ज्ञेया घातश्छिन्नाभिधानवान्। मध्यमानामिकाभ्यां तु बहिस्तन्त्री यदा हता ॥ ४१ ॥ तदा विचक्षणैरुक्तो घाताडमौ सन्धिताह्यः । अङ्कुलीभिश्चतसृभिरन्तराहननं द्रुतम् ॥ ४२ ॥ यदा विरच्यते घातस्तदा भ्रमरको भवेत्। तन्त्रीपृष्ठे तु संला वेपते यत्तु सारणा ॥ २३ ॥ ख्यातः स्फुरितसंज्ञोऽसौ घर्षणाद् (घसितः:) पुनः । अस्टुलीभिश्चतसृभिः प्रत्येकं हस्तयोद्वयोः ॥ ४४॥ बहिर्यद्धन्यते तन्त्री द्रुतं सा कर्तरी मता। चतुर्भिर्नखरैर्यत्तु दक्षिणेनैव पाणिना ।। ४५ ।। आहतिः क्रियते (य ! या) तु सा ज्ञेया नखकर्तरी। कर्तरीसदृशः पाणिर्द्ृश्यते यत्र दक्षिणः । ४६। तथा कोणहतिर्वामपाणिना सार्धकर्तरी। सातोऽनामिकयावन्तः सव्यमध्यमया बहिः (?)॥ ४७ ॥ तदासौ रेफनामा स्याद् वीणावादनकर्मणि । सारणायाः परित्यागे तर्जन्या यदि हन्यते ॥ ४८॥ तन्त्री नामस्समुद्धूतो (१) नाम्ना निष्कोटितस्तदा। तर्जन्यादं कनिष्ठादं द्विरूपं परिवर्तनम् ॥ ४९॥ तयोः पार्श्वेन संस्पर्शाद् भ्रमणारेचिते करे। यदा द्रुंत स्वरस्थाने कम्रिकाभ्येति सारिता ॥५० ॥ करसामूर्छनाभिर्यो (?) वैणिकैरभिधीयते। साक्कष्ठाः काचि + + + च्तस्रोऽकुलयो यदा ॥५१॥

Page 56

४४ सङ्गीतसमयसारे कनिष्ठाङ्गष्ठयोः स्पर्शात् कथितः कुहरः करः । अङ्गुष्ठपार्श्वमिलिता कर्तरी च प्रहन्यते ॥ १२॥ कनिष्ठासारणाभ्यां च तदा निर्घोष उच्यते। उत्क्षिप्य हन्यते तन्त्री शीघ्रं सारणया यदि ॥ ५३॥ दक्षिणे कर्तरीयुक्तस्तदा स्वसितको भवेत्। तर्जन्यङ्ुष्ठयोरग्रागामात्रेण (?) घर्षणम् ॥५४ ॥ तन्त्या यदा तदा ज्ञयः शुकवक्राभिधः करः । तर्जन्या धार्यते नादो घातोऽनामिकया बहिः॥५५॥ यदा तदा परिज्ञेयो बिन्दुनाम्ना विचक्षणैः । जितेन्द्रियः प्रगल्भश्च म्थिरासनपरिग्रहः ॥ ५६॥ शरीरसौष्ठवोपेतः करयोर्विजितश्रमः । सुशारीरो भयं त्यक्तो रागरागाङ्गतत्त्ववित् ॥ ५७ ॥। गीतवादनदक्षश्र वैणिकः कथितो वरः। वाद्यलावणिकातज्ज्ञैर्निप्कलक्रमयोगतः (?) ॥ ५८ ॥ मन्द्रे मध्ये च तारे च बिन्दुः म्यात् स्थानकत्रये। आलावण्यां विधातव्यो मुक्तको मध्यमः करः ॥ ५९॥ गमकस्तस्य तर्जन्यां जायते पञ्चमः स्वरः। धैवतो मध्यमाङ्गुल्या निषादः स्यात् कनिष्ठया ॥ ६० ॥ ततस्तु मुक्तकः कार्य: स्वरः षड्जाभिधानवान्। ऋषभः पञ्चमस्थाने तर्जन्या तदनन्तरम् ॥ ६१॥ गान्धारो धैवतस्थाने मध्यमाङ्गुलिको भवेत्। अथ दक्षिणहस्तेन सारणामूर्च्छनाक्रमात् ॥ ६२॥ गम्यते सप्तकद्वन्द्वमारोहिण्यवरोहिणी। स्वराणां नियमाद् रागेष्वङ्ुलीनियमेन हि॥ ६३॥ द्वितुम्बा किन्नरी लध्वी बृहती तु त्रितुम्बिका। कथिता पश्चतन्त्रीति(च्छ ? श)कनी वाद्यवदिभिः ॥६४॥ तत्तदन्त्रवशादासां वाद्यभेदस्त्वनेकधा । ततं वाद्यमिति प्रोक्तमवनद्धमथोच्यते ॥ ६५॥

Page 57

पश्रममधिकरणम्। ४५ झेद्कारं मद्दलीजातं देक्कारं कबलोद्धवम्। प्राहुरेवं विभागेन वाद्यविद्याविशारदाः ॥ ६६ ॥ कवर्गश्र तवर्गश्र टवर्गश्र ढवर्जितः । भवेयुः पटहे वर्णा रहाभ्यां सह षोडश ॥ ६७॥ वादनाय हुडुकायामक्षराणि प्रचक्ष्महे। तवर्गश्र टवर्गश्च रहाभ्यां सहितावुभो ॥ ६८ ॥ कवर्ग: पश्चमन्यूनः प्रोक्तान्येतानि षोडश । झेक्कारस्य हुडुकागं सञ्चमुख्यं (!) प्रकीर्तितम् ॥ ६९।। ढक्कावर्णादिकं सर्व हुडुकासममिष्यते। वादनाय ततो वाद्यवस्तूनां कथ्यतेऽघुना॥ ७० ॥ हस्तलक्षणमेतेषां व्यक्तोदाहरणैः सह। उत्फुल्ल्श्वांलकश्चैव पाण्यन्तरनिकुट्टकः ॥ ७१ ॥ दण्डहस्तोऽथ युग्मः स्यात् तोरहस्तस्ततः परम्। पिण्डहस्तः स्मृतश्चोर्ध्वहस्त इत्यष्टधा बुैः ॥७२॥ अथैतेषां प्रवक्ष्यामि लक्षणं च प्रयोगतः । हस्तेभ्यः शब्दनिष्पत्ति्जायते हि परिस्फुटम् ॥७३॥ शब्देभ्यः पदनिष्पत्तिः पदेभ्यः पाटसम्भवः । पाटेभ्यो जायते वाद्यवस्तुवर्गो यथाक्रमम् ॥ ७४॥ ये पताकादयो हस्ता नाट्यशास्त्रे व्यवस्थिताः । तेषु केचन कथ्यन्ते हस्तवाद्योपयोगिनः ॥ ७५॥ अलपद्माहयो हस्तो यदा वाद्ये निबेश्यते। लघु पाटे नखाघातादुत्फुल्लोऽसौ तदा भवेत्॥ ७६ ॥ यथा-कग्रों कग्रोम्। ।। उत्फुल्ल: ।। यदा प्रसारिताङ्लुष्ठः शुकतुण्डो विधीयते। विरलाङ्कुलिघातेन क्रमेण खलकस्तथा॥ ७७॥ थोड्टकिटत किटाम्॥ ॥ खलक: ॥ १. वक्ष्यमाणलक्षणानुरोधेन तु 'उत्फुल: खलकश्चैवे'ति पाठः. सभाव्यते।

Page 58

४६ सङ्गीतसमयसारे वामेन तस्य हस्तस्य तर्जन्यक्कष्ठघातकः । परिज्ञेयो बुधैर्हस्तः पाण्यन्तरनिगूहकः ॥ ७८॥ यथा -डेडिटतक्विट ढक्किट तड्विट त्व। ।। पाण्यन्तरनिगूहक:॥ पताकाकारहस्ताभ्यामुभाभ्यामूर्ध्वेताडनात्। दण्डहस्ताभिंधं हस्तं विदुर्वाद्यविश्यारदाः ॥ ७९॥ यथा - था था था था। । दण्डहस्त: ॥ विरलाङ्कुलिघातेन पताकाभ्यां यदा भवेत् । रेफैरेवोर्ध्वहस्ताभ्यां ताडनाद् युगहस्तकः ॥ ८०॥ यथा-ररर र्। ॥ युगहस्तः ॥ ऊर्ध्वपादद्वयं कृत्वा तलपातेन हन्यते। पटहस्य पद(द्व)न्द्वं तोरहस्तस्तदा भवेत् (:)।l८१ ।। यथा-देन्दें दोहडें। ॥ (थो १ तो)रहस्तः॥ रेफह(स्त! सते) कृते पूर्वमूर्ध्वहस्ते च कल्पिते । पिण्डहस्ताभिधो हस्तः कथितो वाद्यवेदिभिः ॥८२॥ यथा- तरफिट तरकिट झें झें। । पिण्डहस्तः ॥ प्रहारे तलहस्तेन दक्षिणेन च पाणिना । दृढं विरचिते विद्यादूर्ध्वहस्तं विचक्षणः ॥ ८३ ॥ यथा थर् थर तुथर् थर तुथर् तुथर तुथर थर तुथर तुथर तुथर थर् थतु। ।। ऊर्ध्वहस्तः ॥ चतुर्मिश्चाष्टमात्राभिः समपाणिर्विधीयते। । समपाणिपाटः ॥ विरलाक्लुलिभिर्यत्र चरितैः कीर्तिरित्यपि (?) ॥। ८४ ॥ १. 'पाण्यन्तरनिकुट्टक' इति लक्ष्यनिर्देशे पठितम्।

Page 59

पञचममधिकरणम् । अभिघातः प्रयुक्तोऽयं पाणिहस्तोऽभिधीयते। यथा-किट किट, किट किट्ट, किट्ट किट, किट्ट किट, कट्टकिट, किट किट। चतुर्भिश्चाष्टमात्राभिर्युक्तो वा पाणिहस्तकः ॥ ८५॥ यथा - किट किट्ट किट किट्ठ, किट्ट किर किर किट्ट, किट किट किट्ट, किट्ट किट, किट किट किट किट्ट ॥ पाणिहस्तपाटः ।। बथा-थों थों थों नाकिपिटतक्या समन्वितः । एकत्र स्वस्तिकाकारकराभ्यां स्वस्तिको भवेत् । यथा-थों धां धोनकिट किटतकि, थोनकिट तकिट थोन किट किट ताकि, थोनकिट तकिट तकिट तकिट, थोनकिट थोनकिट, थों धों किटत, थोनकिट, किट किटतकि, थों धों किट, तत्थों धों धों धों किटतकि, थोनकिट, किट- तकि, थोनकिट, किटतकि, थोनकिट, किटतकि, थोनकिट। यत्र षोडशमात्राभिर्युक्तोडयं स्वस्तिको भवेत् ॥ ८६ ॥ ॥ स्वस्तिकपाटः ।। अग्राष्टुलिसमायोगाद् व्यत्यया(त्) करयोरिह। गिरकिटझेन्नशब्दैस्ततो गिनकिरादिभिः ॥। ८७॥ करटैः संयु(तै:त): पाटैः पाटो विषमपाणिकः । यथा - गिरुकिटदनन गिन किर गिड र, गिरुकिट्ट, नगिन, गिरुकिट दनगिनकिट्ट, शेनकिट, गिरुकिट, दनगिन, गिरर्, गिरुकिट, दनझेनकिट, गिरुकिट दनझेनकिटि, नकिट गिनकिट झेनकिटकिट्। । विषमपाणिपाटः ॥। धरिकिटैर्गिरिकिटैरभः शब्दैस्तदुन्धोकैस्तथा (?)॥l ८८॥। भेदेन हस्तयोरेष पाटोऽवघटसंज्ञकः। धरकिट घरकिट तकथो तधिरुकिट, दिकििकि धरुकिटकिट घिरु फिट किट, किटतकिधरकिट किट, तकिधरकिट, घिरु किट घिरु किट दिरु- फिट दिकि दिकि। अवघटस्त्वष्टमात्राभि: षोडशैर्वाः युतो भवेत् ॥ ८९॥ ॥ अवघटपाद:।।

Page 60

४८ सज्गीतसमयसारे

आसज्यते करौ यत्र व्यत्ययात् पुटयोद्वयोः । नागबन्धः स विज्ञेयः शब्दैर्ननगिडादिभिः ॥ ९० ॥ ननकिट किटतकि, किटतकि, ननगिड ननगिड ननगिड, किटतकि, ननकिट, किटताकि, ननकिट किट, तकिट तकिननकिट, किटतकि।। नागबन्धो भवेदष्टमात्राभिः सहितः सदा । । नागवन्धपाटः ।। आसज्यते समं यस्मात् करयोरुभयोस्तलौ (१) ॥ ९ १ ॥ साङ्गुष्ठाङ्गुलिमिर्हस्तपाटः स स्यात् समग्रहः । पाटोऽसावष्टमात्राभि: शब्दैर्दहतनित्यपि ॥ ९२॥ पुनस्तकुकुरिक्या च संयुतेऽसा समग्रहः । दहतरिरकिरकिरर, तकुतरि, किरकिट्ट, दहदह तकतक तकररि- किकिट्ट, दहतरि कित्तकित्त, कितटटि, दह, दह, तर्क्क, तर्क्क, तरिकिकिटि । । समग्रहपाटः ॥ । हस्तपाटा: ।। बोल्लावणी(चलावणी)चारुश्रवणिका परम् ॥ ९३ ।। परिश्रवणिकालमौ दण्डहस्तौ दुचावपि। समप्रहारसंज्ञश्च ततः कुडुबचारुणा ॥ ९४ ॥ कलचारणापि तद्वत् स्यात् तथान्यापि कुडुहिणी (?)। भवेद् घनरवश्चैवं वाद्योद्देशः प्रदर्शितः ॥ ९५ ॥ क्रमेण कथयाम्येषामिदानीं लक्षणान्यहम्। पाटादौ पाटमध्ये च पाटान्ते टेङ्कृतिर्भवेत् ॥ ९६ ॥ इत्येककरसम्पन्ना प्रोक्ता बोल्लावणी बुधैः । यथा-दें दें गितकतकथट्टिका, थंधीिकतथटि, + ++ तक दे दें गि देंगि, ।। बोल्लावणी ॥ थोंतत्तकिटशब्देन मुद्दलीचालना स्फुटम् ॥ ९७ ॥ वोल्लावणीसमं शेषं सा मतेह चलावणी। यथा-थों धों किट, थों थो थो किट थोकिट, तकि थोंतोतोकिट थोंकि भोंकिट तोतो किट, थोकिट, थों थों किट दंतों किटथो। । चलाबणी ।I

Page 61

पश्चममधिकरणम्। ४5 झेंकारसहिसं हस्तपाटमूलाक्षरैर्युतम् ॥ ९८ ।। क्रमेण युगपद्वापि वाद्यं हस्तद्येन तु।

चारुश्रवणिका सेयं प्राहुर्वाद्यविशारदाः । यथा-झेंघरिरिर दरकिट थर थर: ।। चारुश्रवणिका । (क)तर्यवघटाभ्यां या मिश्रा च समपाणिना ॥ १०० ॥ चतुर्विशतिमात्राभि: परिश्रवणिका मता। यथा-थर, थर थर, रिरि, थट्टिकुदरगिड, दरुगिड, तकडोक इत्यादि- श्रतुर्विश(ति)मात्रा। ।। परिश्रवणिका ॥ कर्तरीपाणिहस्ताभ्यां कुडुबेनैव वाद्यते॥ १०१ ॥ उत्सृज्य कुण्डलस्पिर्शमलमः सम्प्रकीर्तितः । यथा-किरर थरकिर, किट्हे कुथकथ टिकु, किटकिकिट, किटकुटकु- थटिक, किट्किट, तकुथटि, तकतट्टिकु, तततटिकु, तत्तटिकु, थक थटिकु भर थर, तुथटकुत्तकुत, कुतकुथ कुत कुथद्रित, ।। दण्ड हस्तः ॥ वामदक्षिणइस्ताभ्यां शब्दैर्विषमपाणिजैः ॥१०२॥ क्रियते यत्र वादयज्ञैर्षादं तदुडुचं विदुः। मथा- गिरिकिट, ननमिन गिणाकरर, किटवटटकिटघटि, तुकिटमाटीक- तुकिट गिरुगिड झ्ेंतटि गिरुकिट, ननगिनगिरुकिट, तकुझे। उड्च: सम्प्रहारेण वाद्यं सभग्रहैर्युत्तम् ॥ १०३॥। मात्रा(पि! भि): षोडशैर्वापि वाद्यः समप्रहारजः । यथा- तथहथ, शिकेथरि श्रर थर व्रु इत्यादि षोडशमात्र: । ॥ समग्रहारः ।। नानापाटाक्षरोद्ूतैः शब्दैः कुड्डुबताडितैः ॥ १०४ ॥ कृतामृश्या तु गारुभ्यां स्मृता कुडुबचारुणा। मथा-झेन किशर, अरिगिम, गिरिफिट, तफिनन, गिनगिन इत्यादि:। II

Page 62

५० सन्गीतसमयसारे

केवलैईस्तपाटानां नादानां च चतुश्शत(!) ।। १०५ ।। मात्राभिश्व कृता शेषा स्मर्यते कलचारणा। थर थर् थर् थर्, रिरिरर थरीरररी इत्यादिः ॥ १०१॥ कालकाख्येन हस्तेन कुकारप्रचुरेण यत्। मात्राभि: षोडशैर्वापि द्वात्रिशद्गिः सुकुम्भिनी ॥ १०७।। द्विविघा सा च विज्ञेया शुद्धा मिश्रेति सूरिमिः । शुद्धा षोडशमात्राभिरन्याभिरितरा युता ॥१०८॥ यथा- कुकुन्त कुन्त कुकुन्त, कुन्त कुकुकुकु इत्यादिः। अच्छिन्नपाटः पा(टि? णि)भ्यां मात्रामि: षोडशैः क्रमात्। उक्तो घनर(वे! वो) ज्ञेयो वाद्यविद्याविशारदैः ॥ १०९॥ यथा -- तकतो हों, तोकिटतकिथोहोतो, किटतकि, थोहोंतो, दरगिड इति षोडशमात्रा। घनरवः ।। इति द्वादश वाद्यानि पटहे कथितानि च। तकारश्र धिकारश्र थोह्कारष्टेंकृतिस्तथा ॥ ११० ॥ झेज्ारश् नदेंकार: पाटवर्णा मृदञजाः । मसृणे वादने प्रौढा गीतवाद्यविशार(दा! दै):॥ १११ ॥ वाद्यानुयानिनः सम्यक् प्रोक्ता माद्दलिका वराः । सरलश्चौपटश्रैव किरिविलश्च घणायिलः(१)॥ ११२ ॥ गतिस्थश्चेति पञ्चैव मृदङ्गे वादकोत्तमाः । यो वादयति मधुरं कोमलं प्राञ्ञलम् ऋजुः ॥११३॥ तमाहुर्भरताभिज्ञाः सरलं विरलं जनम्। विनावयवहीनित्वाच्छब्देडल्पे अल्पवादकः ॥ ११४ ॥ विबन्धगतिसुव्यक्त: सुवाहे किरिविलपटुः(१)। विषमं प्राञ्जलं चैव गुन्धागुन्धि समायुतम् ।।११५ ।। वादयेट्ठवणादीनां कुशलश्चौपटः स्मृतः। सरलघणायिलचापटाकरिविलघटितानि शब्दबन्दानि। मसृणानि सन्िवेशैर्निरवधिकं वादयेद् गतिस्थः सः ॥११६॥

Page 63

पञ्चममधिकरणम् । बादे निबद्धशब्दानां करलीभेदनं विना ॥ १८७॥ यो वादयति निरतः कथ्यतेऽसौ घणायि(ला?लः) । अग्ं चैवाश्रयाऊं च द्विविधं गीतवादनम् ॥ ११८॥ अज्गं तत् पञ्चधा ज्ञेयमाश्रयाक्कं च पञ्चा। तालधातुपदावृत्तिगतिरा(गा? गै)श्र पञ्चघा ॥ ११९ ॥ शुद्धमिश्रविभेदेन गीताऊं वाद्यते बुधैः। जतिर्दुवकुझेशब्दः काकुः पहरणाभिधः ॥ १२०॥ इति पञ्चविधं प्राहुराश्रयाऋं विचक्षणाः । करटा: पाटवर्णाः स्युः करटेति पुनः पुनः ॥ १२१॥ ॥ अवनद्धम् ॥ सुसक्षौ(?) सुस्वरौ तालौ तज्जैः शक्तिशिवों स्मृतौ। आकारादेशवशतो बिन्दुनादसमुद्भवौ॥ १२२॥ लघुगुर्वादिभिर्मानैर्वादयेद् बहुभन्निभिः । वर्णा झेनगिटास्तज्जैः कथताः कांस्यतालयोः ॥१२३॥ मनोहराश्च सूक्ष्माश्च सुस्वराः क्षुद्रघण्टिकाः । तास्तु घर्घरिका लोके प्रसिद्धा रज्जुसंयुताः ॥ १२४ ॥ घनवाद्यमिति प्रोक्तं सुषिरं वाद्यमुच्यते। ।। सुघनं वाद्यम्।। जयशच विजयो नन्दो महानन्दो यथाक्रमम् ॥ १२५॥ वंशाश्चतुर्दशद्वादशैकादशदशाङ्गुलाः। द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः ॥ १२६ ॥ कम्पमानार्षमुक्ता च (:) व्यक्तमुक्ताहुलीवहाः। अङ्लुलीचारणा: सम्यग् गमकेषु च सप्तसु ॥१२७।। ताग्रेण कलधौतेन कर्तव्या कनकेन वा (!) । धुर्धूरकुसुमाकारबसना सुषिरान्तरा ॥ १२८॥ (भ !ह)स्तत्रयकृतायामा हाहावर्णा च काहला। बिरुदान्यपि वाद्यन्ते वीराणां पुरतस्तया ॥ १२९, । ।। इति चतुर्विधवाद्यानि।

Page 64

५१ यत्यादीनां प्रबन्धानामधुना लक्ष्म कथ्यते। यतिरोतोऽप्यवच्छेदो जोडणी चण्डणी पदम् ॥ १३०।। समहस्तोऽपि पैरांसस्तुडुकुस्तु तथा परुः। ओत्वरोऽपि चे देह्वारघल्लणा(!) मदप्तथा ॥ १३१ ॥ मलपाङ्गं पहरणा चान्तरी च दुवकरः । जवणिका पुषपाञ्जलिरिघवणी(?) व निगमले ॥ १३२ ॥ प्रबन्धा विशतिः प्रोक्ता वाद्यविद्याविशारकैः । क्रमेण तेषां लक्ष्मैतदिदानी प्रतिपाधते ॥ १३३ ॥ तालच्छन्दोवगत्यर्थविरामो यः श्रुतिप्रियः । गद्यते वाद्यहीनं सा यतिरित्यभिधीयते ॥ १३४ ॥ ।। (ज १ य)तिः।। ताल: शतसमैर्वर्णैः क्रियते पाटसम्भवैः । मोताख्योऽसौ प्रबन्ध: स्यात् केदार इति चोच्यते ॥१३५॥ ॥ ओ(ता? तः) ॥

(बि! द्वि)रुद्ग्राहो भवेद् यत्तु सक्लिम्बलयं चा यः ॥ १२६॥ भोतानां कर्मयन्त्यन्बे देङ्गार इति मृत्तिकन् ()। पषा दो(ण्ठ) वणीनाक केचिद +प्यधीयते ॥ १३७॥ ।। (ओ? दो) ठचपी ॥ उद्ग्राहयुगलं यत्र वारमेकं धुकस्तथा।

॥ अवच्छेद:॥ बदन्ति केचिदस्यैव कम्पितेत्यभिधां पुनः (कनिते)। पाटानां पृथगुक्तानां यत्रैकत्र विमिश्रणम् ॥ १३९ ॥ जोढणी सम्परिज्ञेया संज्ञया वाधवेदिभिः । ॥ जोदरणी ॥

१. 'पैसार' इति लक्षणे दृश्यते। २ 'च झेकारो देज्वरे बाळप' इनि लक्ष णानुसारेण पाठ्यम्।

Page 65

वादयं विमुच्यते येव चण्डणः स निगद्यते ॥१४०॥ ।। चण्डणी ॥I गीतानुगस्य वाद्यस्य चण्डण: स चतुर्विधः । सुक्तासुक्तिस्तु तत प्रोक्ता मो(ड! डा)मोडिस्तथैव च ।। १४१ ।। अर्धस्थितिस्ततस्तस्मात् स्वरपूर्वश्च चण्डणः । स्तोकस्तोकेन कार्यं (स्याद्) वादनं लघुपाणिना ॥ १४२ ॥ गीतावसाने न्यास: स्यात् सुक्तासुक्तीति नामतः । गीतमानाधिकं वायं गीतमानेन चण्डणम् । १४३ ।। मोडामोडीति विज्ञेया न्यासो वाद्यविशारदैः। मानेन गायको गायन् यत्र मानं विमुश्चति।। १४४।। वादकेन कृतो न्यासस्तदर्वस्थितिरीरितः । गीतं वादं च युगपम्न्यस्यले यदि मानतः ।१४५ ।। सुभावण तिसंयुक्तो विशेय: स्वर्चण्डणः । प्रथमं वादयित्वा तु यतिः षादेन मुच्यते ॥ १४१ ॥ मध्ये वाद्यप्रबन्धस्थ फदं तत् परिकीर्तितम्। । पदस्। तकार: प्रचुरं दोर्भ्यी य्थौचचित्येन मानतः ॥ १४७ ॥ वाद्यते यत् त्रिराकृत्या समहस्तः स्मृप्तो बुैः। ॥ समहस्ताः । यत्रातोद्यपि वाद्यन्ते समभणि बिजैर्निजैः()॥१४८॥ पादैश् समुदायैक पै्ार इलि कथ्याके। । पैसाट: ।।

हस्तलाघवको वल् स्वास् तुटुका सा निमनते।:

ईषद्विलम्बमानन मम्भीरमपुरं यभा॥१५॥॥ मृखआथावनं मनूदोल्मरं त्वक्षमात्राकम्।. l ओत्काम्: I।

Page 66

सज्जीतसमयसारे आदौ झेंकारमुल्लासं विधायाच्च (!) समन्वितम् ॥ १५१॥ अथवाच्च(?) विहीनं च द्विधा झेंक्कार उच्यते। ॥ झेङ्ारः । स्तोकस्तोकस्य शब्दस्य योऽवसाने स देङ्कृतिः ॥ १५२ ॥ सयावनियमेनापि देक्कारो वाद्यते बुधैः । ॥ देङारः।। यत्रोद्गाहः सकृदू द्विर्वा ध्रुवको विविधस्तथा ॥१५३ ॥ स्यादेव तद् द्विर्देंकारव यापकाक्षरसङ्जतम्। निरन्तरयंतिप्रायं मलपं कथयन्ति तत् ॥ १५४ ।। । मळप: ॥ वादयितुं मलपाङ्गं कथाऊं वायते पुनः। नतो(!) मलपवादयं यन्मलपाऊं तदुच्यते ॥ १५५॥ ॥। मळपाङ्म् ॥ येनकेनापि वादेन मात्रा द्वादश षोडश। यादयेत् पल्लवद्वन्द्वं सोडयं पहरणाभिधः ॥ १५६ ॥ । पहरणम् ॥ आरब्धं सानुसारेण यच्छन्दो गीतवाद्ययोः। निबद्धमन्तरा वाद्यं क्रियते सान्तरा स्मृता ॥१५७ ॥ ॥। अन्तरी ।। यतिरेवाक्षरद्वन्द्वा वाद्यते स दुवक्कुरः । ।। दुवकरी ।। स्थिरमानेन सोल्लासं चतुर्मा(त्रा!त्रं) च देड्क(तिः:तिम) ॥ वारहूयं वादयित्वा ततः कुर्याच्च जोडणम्। ततो मात्राष्टकच्छेदो महलाशब्दवादने ॥ १५९ ॥ पुनर्मात्राष्टकं शब्दं करटायाश्च वादने। त्रिरावृत्या वादितस्य शब्द: स्यात् सावसानतः ॥ १६० ॥ समा यवनिकापाताच्छब्दो यवनिका(न्व ? ह)यः । ॥ जवनिका ॥

Page 67

पश्मममधिकरणम्। ५५ आदौ स्यादष्टमात्रो वाथवा द्वादशमान्रिकम् ॥ १६१ ॥ अन्तरीद्वितये चैव प्रत्येकं चाष्टमात्रिकम्। चतुर्मात्रं चाष्टमात्रं तकाके वादनं भवेत् ॥ १६२ ॥

वेवर्तमानुगं वाद्यपरिवृत्तिर्मृदङ्गजा ॥ १६३ ॥। द्विवार परिवृत्य स्यादन्तरीद्वयशब्दयोः । तकारादौ चतुर्मात्रे द्विवारं परिवर्तनम् ॥ १६४ ॥ एकवारं त्वष्टमात्रं वार्दायत्वा सदेङ्कृति( :! )। शब्द: पुष्पाञ्जलौ युक्तों हुडुका करटान्तरी॥ १६५ ।। इतरे चान्तरी शब्दा नैव ताः सम्मता मम। अनेकवाद्यमिलनं पैसारादिषु दश्यते ॥ १६६ ॥ पुष्पाञ्जलिरयं शब्द: किश्चिद् भेदवशादिह। ॥। पुष्पाञ्जलि:॥ सैव प्रोक्ता किञ्चवणी(?) वाद्यविद्याविशारदैः ॥ १६७ ॥ पुनः पुनर्यतिर्वादये खण्डशो यत्र वाद्यते। स खण्डयतिराख्या(तो? ता) पदावाद्यन्तराश्रयात्(:)॥ १६८।। हुडुका च मृदश्च करटा काहलास्तथा। कांस्यतालश्च (पञ्चै)ते गुणलोप्रतिनिर्मिताः ॥ १६९ ॥ अनिबद्धं निबद्धं च वाद्यजं द्विविधं मतम् । नियमादप्यनियमादनिबद्धं द्विघा भवेत् ॥ १७० ॥ जोडणी च प्रबन्धश्च निबद्धमपि तद् द्विधा। अनुजायियुतः शब्दो वाद्यते यः पुनः पुनः ॥१७१॥ येनकेनापि तालेन सोडयं नियमशब्दकः । भ्रुत्तौ घनध्वनेर्वाद्यशब्दन्यासस्तु यो भवेत् ॥ १७२ ॥ तज्जैः स ठवणेत्युक्ता प्रयोगा वलयान्विता(!)। शब्दानन्दनकश्रुत्या ठवणा म(ठठःटट)सम्भवा ॥१७३ ॥ म(ठठ:हू)ताले प्रयोक्तव्या गीतेन त्रिलयैस्तथा। मुकुन्दानन्दनभुत्या(ठ)वणा गारुकीभवा ।। १७४।।

Page 68

सन्ीतसमयसारे गारुका विषमेजैव संयोज्या त्रिलयैरषि। ईश्वरानन्दनश्रुत्या झम्पातारुसमुद्रषा म १७५ ।। ठवणास्मिन् भवेत् तालत्रितये: सा समग्रहा । भास्करानन्दनश्रुत्या क्रीडता(ले:रु) समसया ॥। १७६।। ठवणास्मिन् प्रमोक्तव्या(ती? गी) लेनैव त्रिभिर्लमैः । शशाङ्कानन्दनश्ुत्या एकतालसमुद्धवा।। १७७।। ठवणा चैकसाले तु प्रयोक्तव्या त्रिमिर्कयैः । आहत्यालोकने योज्या ठवणा सानुसारिथि:।। १७८।।

निय (म: मा) टृवणास्त्यकत्या ससालमनुथाभिमिः ॥१७९ ॥ वरतेते चेदनियमान्निबन्धं तत् प्रकीर्तितम्। क्रमेण व्युत्क्रमेणार्घतदर्धादर्धभेदसः ।। १८० ॥ चतुरश्रादितालेन वाधते ओवणो स्फुटम् । उचुपलारूयठक्कण्यां विद्यते जोवणीकिया ॥ १८१ ॥ मात्राणामसमर्थेन नैव सा जोडणी मता। उड्का(हा)द्न्बितं वादयं प्रबन्धार्यं प्रबन्धवत् ॥ १८२।। तालवाद्यं चन्द्रकलापटहादिसमाश्रयम् # १८२३।।

समयसारे पञ्चममधिकरणम ।।

अथ षष्ठमघिकरणम्। नृत्तमुक्तं पुरानेकशास्र्यद् बहुविस्तरैः । संक्षिप्य तान्यतिव्यक्तं नृत्तसारं निरूप्यते ॥ ॥ नृत्तं स्याद् गात्रविक्षपोऽवस्थानुकृतिलक्षणः । तालभावलयायत्तो वागज्ञाहार्यसत्वजः ॥ २ ॥ नाव्यस्याभिनयांस्तत्र वाचिकाहार्यसार्विकान्। त्यक्त्वा नृत्तादियोग्यं तं वक्ष्ये त्रिविधमान्ञिकम् ॥ ३॥ णीञूषातुरभिपूर्वो यतू स्वेष्टार्थप्रतिपादकः । तत्प्रयोगानभाष्टिार्थान् नयतीत्यभिभयः स्ृतः ॥ v॥

Page 69

पष्टमधिकरणम्। नृत्तं शाखाङ्कुरं चेति त्रिधासौ + करादिभिः । नृततं स्यादाज्ञिकं कर्म शाखापाञ्जमक्कुरम् ()॥५॥ शिरो वक्ष: करः पार्श्वः कटिश्चरण इत्यपि। अज्गान्येतानि नृत्तज्वैः षडेव काथेतानि हि ॥ ६ ॥ तत्र त्रयोदशविधं शिरो वक्षस्तु पञ्चधा । हस्तभेदाश्चतुष्षष्टिर्हस्तचारा त्रिधा मता ॥ ७॥ चतुर्धा हस्तकरणं हस्तकर्माणि विशतिः । पा(श्व! श्र्वे) तु पश्चधा तद्त् कटिः पादस्तु षड्विधः ॥ ८ ॥ उपाक्ञानि भ्रुवौ नेत्रे नासागण्डस्थला(धराः)। चिबुकं चेति षट् प्राहुर्नृत्तविद्याविशारदाः ॥ ९।। भ्रूकर्म सप्तधा तत्र षट्त्रिंशद् दृष्टयः स्मृताः । तारा नवविधा तद्वत् पुटकर्म समीरितम् ॥ १० ॥ भवन्ति दर्शनान्यष्टौ नासागण्डस्थलाघराः । प्रत्येकं षड्विधा ज्ञयाश्चि(न्दुः बु)कं सप्तधा मतम् ॥११॥ प्रत्यङ्ञानि पुनर्ग्रीवा बाहू पृष्ठं तथोदरम्। ऊरू जङ्ायुगं चेति षडडुक्तानि मनीषिभि: ॥ १२॥ ततो ग्रीवा नवषिधा बाहवो दश पश्च च। पृष्ठं त्रिधोदरं पश्च ऊरूजके च पञ्चधा ॥ १३ ॥ स्थानानि नवधा चार्यो द्वात्रेशन्मण्डलानि तु। विशती रेचकाश्चैव चत्वारः करणानि तु ॥ १४ ॥ शतमष्टोत्तरं त्वञ्रहारा द्वात्रिंशदीरिताः । ना(न्ये? ट्ये) नृत्ये च नृत्ते च नियुद्धे च यथोचितम् ॥। १५।। इत्यज्ञाभिनयाः सर्वे प्रयोज्यास्तु विचक्षणैः । अञ्जविक्षेपमात्रं च यत् ताललयसंश्रयम् ॥ १६ ।। नृत्यं देशाश्रयत्वेन बहुधा तत् प्रकीर्तितम्। शिरांसि नव वक्षांसि चत्वारि कथितानि च ॥ १७ ॥ चतुष्षष्टि: कराः प्रोक्ता: पा(दंःश्र्वै) तच्च चतुर्विधम्। कटिः पश्चविधा तद्वत् पाद: पश्चविध: स्मृतः ॥ १८ ॥ आकम्पितं कम्पितं च धुतमाधूतमेव च। अवधूतं चाश्चितं च निहश्चितमथापरम् ॥ १९॥ I

Page 70

५4 उत्क्षिप्ताधोगतं चेति शिरांस्याहुर्मनीषिणः । सकृदूर्ध्वाधोनयनाच्छनैराकम्पितम् ऋजु ॥ २० ॥ पृच्छासंज्ञास्वभावोक्तिनिर्देशावहनादिषु। द्रुतं तदेव बहुशः कृतं स्यात् कम्पितं शिरः ॥ २१ ॥ वितर्करोषविज्ञानप्रतिज्ञातर्जनादिषु। धुतं शिरः शनैस्तिर्यक् शिरसो रेचनं सकृत् ॥ २२॥ पार्श्चावलोकने खेदे निषेधे।विस्मयादिषु। सकृत् तिर्यक् समुत्षिप्तमाधूतं मस्तकं मतम् ॥ २३ ॥ पार्श्वस्थितोर्ध्वसंप्रेक्षणात्मसम्भावनादिषु। एकदाधोग(सं१ ति) प्राप्तमवधूतं विचिन्तने ॥ २४ ॥ अधस्तिर्यग बिलस्थादिप्रेक्ष्यातादियु (!) लक्ष्यते । अचिन्तं ग्रीवमुत्क्षिप्तं (!) बाहुशीर्ष निहब्चितम् ॥ २५॥ गर्वे स्तम्भे च कान्तानां नानाशृक्कारवृत्तिपु।

अघोगतमधोवकरं लज्जाधः प्रेक्षणादिषु। ।। इति श्विरांसि नव ।। सममुद्दाहितं चैव निर्ममं च प्रकम्पितम् ।२७॥ वक्षश्चतुर्विधं प्रोक्तं नाट्यविधाविशारदैः । समलैरअविन्यासै:(?) समैः सौष्ठवसंयुतैः ॥२८॥ स्वभावावस्थितं वक्षः समनामना प्रकार्तितम्। उद्धाहितं स्यादुद्गतं जुम्भ(मा?)णोच्छूसनादिषु ॥ २९॥ प्रोन्नतं प्रोन्नताऊं च निर्भुमं गर्वितादिषु। निरन्तरोध्वविक्षेपैः प्रकम्पं हसितादिप ॥ ३०॥ । वक्षासि चत्वारि ॥ ज्येष्ठाक्ष्ठाभिधानादया तर्जना स्यात् प्रदेशनी। मध्यमा मध्यमा तुर्यानाभिकान्त्या कनीयसी ॥ ३१॥ मणिवन्घाह्नय: पाणिमूलं कूर्परमुच्यते । बाहुमध्यं तयोर्मध्यं प्रकोष्ठोंऽसो भुजाशिरः ॥ ३२ ॥ १. 'प्रेक्षणादिग' इति स्यात्। २. 'निर्भुमामे'ति लक्षणे पव्यते।

Page 71

षष्मधिकरणम्। ५९ अंसकूर्परयोर्मध्यं प्रकाण्डं पण्डिता विदुः । अवतानम(थो! धो)वक्रं तलमुत्तानमसलम् (!) ॥३३॥ अब्चितं स्यात् प्रसारित कुञ्चितं तूंपसंहृतम्। आविद्धमन्तस्सम्भ्रान्तमपविद्धो विपर्ययात् ॥३४ ।। ।। इति परिभाषा ॥ पताक्तिरिपताकश्र कर्तरी चतुरस्तथा। हंसपक्षोऽर्धचन्द्रश्च सर्पास्यो मृगशीर्ष(कः) ॥ ३५॥ अराल: शुकतुण्डश्च सन्दंशो भ्रमरः करः । पद्मकोशस्तूर्णनाभोऽलपय्ो मुकुल: करः ॥ ३६ ॥ हंसास्यहस्तः कांशूल: स्यान्मुष्टिः शिखरः करः । कित्थः कटकास्यश्र सूच्यास्यस्ताम्रचूडकः ॥ ३७ ॥ चतुर्विशतिरित्येवम संयुतकरा युतः । प्रत्येकं नाट्यलोके च वर्ततेऽभिनयाश्रयः ॥ ३८॥ आद्याख्या कुन्चिता किञ्चित् तर्जन्याद्याः प्रसारिताः । पताक: पातसंक्षोभवारणे वादनादिय॥ ३९ ॥ पताकेSनामिका वक्रा त्रिपताकोऽश्रुमार्जने। ललाटरचनाद्रव्यस्पर्शनाचम नादिपु ।। ४०॥। यद्यत्र तर्जनी मध्यापरभागावलोकिनी। कर्तर्या(द्यो! ख्यो) वित्के स्याद् दंष्र्रयोर्दर्शनादिषु॥ ४१॥

पृष्ठभागाचतुरसत्वल्पेनोकेतौ नयनादिषु(ः)।।४२॥ हंसपक्ष: पताके चेत् पृष्टगा स्यात् कनायसी। भोजने स्पर्शने लेपे दूरसन्देशनादिपु॥ ४३॥ आद्यापसृत्य वक्रादाश्चापवत् कुन्चिता युताः (?)।

यधर्वेन्दौ युताः सर्वा अङ्कुल्यः सर्पशीर्षकः । भुजकमगतौ तोयसेचनालालनादिष॥ ४५॥ ज्येष्ठाकनिष्ठे प्रोत्क्षिप्ते यद्यस्मिन् मृगशीर्षकः । स्वोल्लासनाक्षविक्षेपस्वेदापनयनादिषु ॥। ४६॥ १ 'पृष्ठगा चतुरस्तु' इति स्थात्।

Page 72

सर्न्नातसमयसार सर्पास्ये तर्जनी वक्रा यद्यरालो हितोक्तिषु। (हा ? स्या)दाशीर्वादने धैर्यवीर्यसङ्कीर्तनादिपु॥ ४७॥ चेद् वक्रानामिकाराले शुकतुण्डो विसर्जने। न त्वं नाहं न कर्तव्यं धिगित्यादिषु लक्ष्यते ।। ४८ ।।

ध्याने पुष्पापचाये च स्तोके निष्पीडनादिषु ॥ ४९॥ सन्दंशस्त्रिप्रकारः स्यात् पार्श्वजो मुखजोऽग्रजः । इत्यनेकप्रयोगेषु दिगम्ब(र)मतोदितः ॥ ५० ॥ मध्यमाद्याग्रयोगश्चेदराले भ्रमरः करः । केर्णपूरा यदाब्जादिग्रहादौ(!) चित्रकर्मणि ॥ ५१॥ ऊ्धर्वास्याः कुश्चिताः सर्वा अङ्गुल्यो विरला यदि। पद्मकोश: कपित्थस्त्रीस्तनोत्फुल्लाम्बुजादिषु॥ ५२ ॥ पद्मकोशे कराङ्तुल्यो वक्राश्वेदूर्णनाभकः । कुष्ठरोगिणि शार्दूले शिर:कण्डूयनादिषु ॥ ५३ ॥ आव(र्तनो? तिन्यो)ऽन्तरङ्ुल्यः पद्मकोशे भवन्ति चेत्। अलपद्मस्तु शून्योक्तौ शून्यो + + + कीर्तने ॥ ५४॥ पद्मकोशे युताग्राश्चेदह्गुल्पो मुककुल: करः ।

हंसास्यो मुकुलान्त्ये चेदङ्गुल्यौ सम्प्रसारिते। तप्तमाषग्रहासारनिग्धसम्मर्दनादिपु(?) ॥५६॥ चुल्लीचिलाकं(!) ज्येष्ठादित्रयमन्त्या प्रसारिता। कांशूलोऽनामिका वक्रा स्तोके बालास्तनादियु ॥ ५७ ॥ तर्जन्याद्यास्तलस्थाग्रा उपर्यङ्गष्ठपीडिताः । यदि मुष्टिः प्रहारासिग्रहनिष्पीडनादिषु ॥५८॥ ऊर्ध्वे प्रसारितोऽद्ुष्ठो मुष्टौ चेच्छिखरः करः । स्यादधररञ्जनादौ धनुर्दण्डग्रहादिषु ॥ ५९॥

१. कर्णपूरोत्पलाब्जादिग्रहाद्रौ' इति स्यात्। २. 'त्रेतामिसस्थिता मध्यातर्जन्य. हुष्ठका यदा' इति नाट्यशास्रम्।

Page 73

षश्रमाधकरणम् । तर्जन्युत्क्षिप्य वक्रा चेच्छिखरेऽङ्गु पीडिता। कपित्थः स्मरणे चक्रगूहे निष्पीडनादिषु ॥६०॥ कपित्थेऽ(न्ते? न्त्ये) समुत्क्षिप्य वक्रे चेत् कटकामुखः। प्रग्रह्यकर्षणादर्शधारणादिषु लभ्यते ॥ ६१ ॥ सूच्यास्यः कटका(स्यो: स्ये) स्यात् तर्जनी चेत् प्रसारिता । साधुवादे प्रदर्शने प्रयोज्यस्तर्जनादिषु ॥ ६२॥ अ्रम(र? रेड)नत्ये तलस्थाग्रे स्यातां चेत् ताम्रचूडकः । स शीघ्रतालपातादौ बुधै(रये?र्ह)स्तः प्रयुज्यते ॥ ६३ ॥

हस्तोऽल्ललि: कपोतश्च कर्कटो वर्धमानकः । कटकावर्धमानश्र स्वस्तिको गजदन्तकः ॥ ६४ ॥ दोलोऽवहित्थश्रोत्सङ्गो निषधः पुष्पपुटः करः । मकरश्रेति संयुक्ता हस्तास्ते च त्रयोदश ॥ ६५ ॥ पैताकस्वलयोः (?) ल्लेषादञ्जलक्षानादिपु। महेशगुरुपूज्यानामयं स्यादभिवादने ॥ ६६ ॥ सर्पशीर्षद्वय श्लेषात् कपोतोऽङ्गलिघर्षणे। प्रणामाभयशीतार्ते गुरुसम्भावनादिषु ॥ ६७ ॥ पद्मकोशयुगाङ्गुल्य (अ: स्त्व)नयोन्यान्तरनिर्गताः । चेत् कर्कटोऽ्स (र्वदलह? म्मर्दगल) शङ्गग्रहादिषु ॥ ६८॥ वर्धमान: कपित्थेन वेष्टितो मुकुलो यदि। सर्वसङ्गह(सं)क्षिप्तसत यवाक्यादिषु स्मृतः ॥ ६९ ॥ कटके न्यस्तकटकः कटकावर्धमानकः । कुन्तादायुधसंग्राहकाहलावादनादिपु ॥ ७०॥

खस्तिकः सर्वसंकीर्णबन्धनानयनादिषु ॥ ७१॥ पुरः प्रसारितौ किश्चिदुत्तानौ सर्पशीर्षकौ। गजदन्तः शिलावत्स(मु! गु)रुभारत्रहादिषु ॥ ७२॥

१. 'पताकहस्तयोः' इति, 'पताकतलयोः' इति वा स्यात्।

Page 74

दोलाहस्तः पताकौ द्वौ प्रलम्बितभुजौ यदि।

अवहि (त्यः? त्थः) शुकतुण्डौ (दव?) वक्षसोऽभिमुखौ युतौ। शनैरधोमुखाविद्धौ दौर्बल्यात् खण्डितादिषु ॥ ७४॥ पैराङमुखावरा+ +मूर्ध्वास्यौ सकतौ यदि। उत्सङ्ग: स्यात् (प्रियात्?) प्रियाश्लेषकन्दुकादिनिवारणे ॥७॥ निषधो दक्षिणो मुष्टिर्वामकूर्परमध्यगः । प्रकाण्डो दक्षिणो वा +द्ृतौ गर्वादिदर्शने ॥ ७६ ॥ कनिष्ठापार्श्वसंक्िष्टा(दु. वु) ततली सर्पशीर्षकौ। पुप्पपुटः पुष्पाञ्जलिजलदानादिकर्मसु ॥ ७७॥ मणिबन्धे युतावुत्तानावतानौ पताककौ। मकरः सिंहशार्दू लमकराभिनयादिषु ॥ ७८॥ ।। इति संयुतहस्तास्त्रयोदश ।। चतुरश्रावुद्वृत्ती च करो स्व्रास्तिक (वि १ व)द् युतौ। सूचीमुखौ तलास्यौ च रेचितावर्धरेचितौ।। ७९।। आविद्धबक्री पल्लवावरालकटकामुखौ। नितम्बौ केशबन्धौ च हस्तावुत्तानव्चितौ ॥ ८० ॥ लताख्यौ करिहस्त, च पक्षवञ्चितकौ करौ। पक्षप्रद्योतकौ दण्डपक्षौ गरुडपक्षकौ ।। ८१ ॥ मुष्टि कस्वस्तिका दूर्ध्वपार्श्वेमण्डित(कौ) करौ। उरोमण्डलिनौ हस्तावुर:पार्श्ार्धमण्डलौ । ८२॥ नलिनीपद्म कोशाख्यावुल्बणै, ललितौ करौ। वलिताविति हस्ताः स्युर्नृत्यगाः सप्तविंशतिः ॥ ८३ ॥ कटकास्यावभिमुखौ सूचीमुखकर, वरौ। चतुरश्रकरौ हंसपक्षावन्योन्यसम्मुखी । ८४॥ तिर्यग् वक्षःस्थलस्थौ तु करौ तलमुखौ मतौ। प्रसारितोत्तानतलौ द्रुत द्रुमौ + रेचितौ ॥। ८५ ॥ चतुरश्र + + + चेदत्रैकस्त्वर्धरेचितौ। प्रकाण्डकुटिलाविद्वौ करावाविद्धवक्रकौ ॥ ८६ ॥ १. 'मव्याधि' इति पाठः स्यात्। २. 'पराङ्मुखावरालौ द्वावूर्वास्यौ' इति स्यातू।

Page 75

षष्ठमधिकरणमू।

मणिबन्धनमुक्तौ द्वौ पताकौ पछ्लवौ स्मृतौ। अरालकटकौ हस्तावरालकटकामुखौ॥ ८७ ॥ नितम्बौ पार्श्वयो रुद्धौ बाहुशीर्षा(द्) विनिर्गतौ। केशदेशाद् विनिष्क्रान्तौ पार्श्वद्वयसमुद्गतौ ॥। ८८ ॥ केशबन्वी करौ प्रोक्तौ तौ दिगम्वरसूरिणा। उत्तानवञ्चितौ किञ्चित् पार्श्वगी त्रिपताकरौ । ८९।। प्रसारितौ लताख्यौ च राम्यक् ।तिर्यक् प्रसारितौ। विलोलितौ (तं पाश्चात्८) पार्श्व लताहस्तः समुन्नतः ॥९०॥ कर्म + स्त्रिपताकोऽन्यः करिहस्तः प्रकीरतितः । कनि + + निविष्टाग्रौ पताकौ पक्षवञ्चितौ ॥ ९१॥ परावृत्तौ पुनस्तौ द्ौ पक्षप्रद्योतकौ करौ। तिर्यकूप्रसारितभुजौ व्यावर्तपरिवर्तितौ ॥ ९२ ॥ हंसपक्षकरौ दण्डपक्षावुक्तौ दिगम्बरैः । अधोमुखतलाविद्धौ किञ्चित् तिर्यक्प्रसारितौ ॥ ९३॥ इंसपक्षकरौ स्यातां तौ द्वौ गरुडपक्षकी। स्वस्तिका कटकास्यौ द्वौ कुञ्चितावञ्चितौ (करौ) ॥ ९४ ॥ एकधा बहुशो वाथ मुष्टिकस्वास्तिकौ मतौ। मूर्भि पार्श्वद्वये चैव मण्डलावृत्तिवर्तनात् ॥ ९५॥ भा शाम्बरमतादूर्ध्वपार्श्वमण्डलिनौ करौ। बहुशो वक्षसोऽन्योन्यौ वेष्टनोद्वेष्टनक्रमात् ॥ ९६ ॥ भूमिम(पिट? णडलि)नौ हस्तौ पुरोम (प्डि!ण्डलि)नौ मतौ।

भ्रान्तौ म(ण्डि!ण्डलि)नौ हस्तावुरःपार्श्वार्घमण्डलौ। व्यावर्तपरिवर्तौ च पद्मकोशाभिधौ करौं ॥ ९८ ॥ स्यातां जानुसमीपस्थौ नलिनोपद्मकोश कौ।

मस्तकौ देशसम्प्राप्तौ पल्लवौ ललितौ मतौ। कूर्परस्वस्तिकगतौ लताख्यौ ललिताविति ॥ १००॥

Page 76

१४ सज्जीतसमयसारे लोकव्यबहतौ युद्धे नियुद्धे नर्तनादिषु। नानाप्रयोगदर्शनादिहस्तो नास्ति कश्चन ॥ १०१॥

रणादावर्तितं हस्ते लभते परिवर्तितम् ॥ १०२ ॥ (श्वेषः । ?)

आवेष्टितं यथोद्वेष्टिताख्यमुद्वेष्टनाद् बहिः॥१०३॥ आवर्त्यन्तेऽन्तरहुल्यः कनिष्ठादा यदि क्रमात्। व्यावर्तितं बहिर्वृत्तेस्तथासौ परिवर्तितः ॥ १०४ ।। ।। चतुर्विधं हस्तकरणम् ॥

स्युर्मण्डलस्वस्तिका +++िद्वा दशेति ते ॥ १०५॥ ॥ हस्तलक्षणम् ॥ हस्तसंख्या प्रसिद्धाहं हस्तलक्षणमत्रुवम्। देशीनृत्ते तु नान्वेष्याः सर्वहस्ता जगज्जनैः ॥ १०६ ॥ समुन्नतं नतं चव प्रसारितमथापरम् । (हा ! व्या)वृत्तं चेति पार्श्वस्य चतुर्धा भेद ईरितः ।। १०७ ।। समुन्नतैः कटिपार्श्वभुजांशैरुन्नतं भवेत्। नताभिधानं तत् पार्श्वे कितं नाट्यवेदिभिः ॥१०८॥ आयामनात् प्रसारीति पार्श्चाभ्यां तु प्रसारितम् । त्रिकस्य परिवर्तस्य स्याद् व्यावृत्तमपोहनात् ॥ १०९ ॥ ।। इति चतुर्विध: पार्श्ः॥ निवृत्ता रचिता छिन्ना कम्पितोद्वाहिता तथा। इति पञ्चविधा प्रोक्ता कटिर्नाव्यविशारदैः॥११०॥ निवृत्ता सा कटी ज्ञेया सम्मुखी वा पराङ्मुखी। परितो भ्रमणाज्ज्ञेया संज्ञेया रचिता कटिः ॥१११॥ तिर्यङ्मध्यस्थवलनाच्छिन्ना नाम्ना कटिर्भवेत्। क्षिप्रं गतागतैस्तिर्यक् कम्पिता कथिता गतौ ॥ ११२ ॥

Page 77

षष्ठ मधिकरणम्। उद्धाहिता शनैः पार्श्वनितम्बोद्वाहनात् कटिः। ।। कटिळक्षणम् ॥

इति पञ्चविध: पाद: समः स्वाभाविकः क्रमः । पादाग्रस्ेन चेत् पार्षिणः सकृदू भूमौ निपात्यते ॥ ११४ ॥ प्रयोगेणासकृद् द्वाभ्यामुद्घट्टितपदं समे। कुब्चिता(अे? अ)तलं भूस्था समे चेत् पार्ष्ण(मु: रु)च्यते॥ कुञ्चि (ता? तो) भिनयायत्ते(पू! वू) दा चगमनादिषु। अञ्चिताङ्ुलिपादाग्रमुत्किष(सं? प्ा) चेत् समेऽञ्चितः ॥ ११६ ॥

समे चेत् पाष्णिरुत्क्षिप्ता स्यादग्रतलसञ्चरः ॥११७ ।। पार्णिणक्ष तगतिआ्रान्तिक्षोणी संघट्टनादिषु। इति पञ्चविधपादतललक्षणम् ॥ अ(थो ! था)पाञदर्शनान्येव सादरं निरूपयामः । तत्र मुख्यत्वात्- समं सा (स्य ! च्य)नुवृत्तं च आलोकितविलोकिते ॥ ११८ ॥ प्रतिलोकितमुल्लोकितं चावलोकितमष्टधा ।। (भ)वन्ति दर्शनान्येवं पृथङ् नोक्तानि लक्षणैः ॥ ११९ ॥ पुटपक्ष्मात्रकर्माणि लोचनानुगतान्यतः । समं (संत्यश्र सापि : सत्यश्रकं साचि)रूपनिर्वर्ण(ता! ना)यतम्। अनुवृत्तं स्याद् दर्शनं सहसालोकितं मतम् (!) । + + पृष्ठनः स्याद् विलोकितम् ॥ १२१ ॥ ऊर्ध्वे(क!)क्षणमुलोकितमधः प्रेक्षावलोकितम्। इत्यष्टदर्शनलक्षणम् ।। पदजङ्गोरुकरणं समं का (र्य : यै) प्रयोक्तृमिः ॥१२२॥ पादस्य करणं सर्वे जङ्मोरुकृतमिष्यते। यथा (पादः? पदं) प्रसर्पितं तथवोरु प्रवर्तते ॥ १२३॥ अनयोः समानकरणात् पादचारी प्रयोजयेत्। यतः पादस्तंतो हस्तो यतो हस्तस्ततमिकम् ॥ १२४ ॥। K

Page 78

६६ सज्जीतसमयसारे पादस्य निर्गमं ज्ञात्वा ततोऽपा(ज्ानि ? कं नि)योजयेत्। पादचार्या यथा पादो धरणीमेव गच्छति ॥१२५।। एवं हस्तश्रित्वा तु कटीदे(शे ? शं) समाश्रयेत्। भाङ्गिकाभिनयाः सर्वे सार्थाः सर्वत्र जागति ॥ १२६ ॥ देशिनृत्ये तु सार्थत्वं नेो विचार्य विपश्चिता। प्रायो लोकप्रसिद्धानि कथ्य(ते?नते) तेषु कानिचित ॥ १२७॥ पेरणं प्पेक्खणं चैव गुण्डिली दण्डरासकः । अथैतानि समाश्रित्य वक्ष्यन्ते स्थानकादयः ॥ १२८॥ नन्धावर्त(म? क)वर्धमानसमपात्तत् स्वस्तिकं वैष्णवं पार्ष्ण्याविद्धकपार्ण्णिपार्श्वकपरावृत्तानि तद् गारुडम् । सूनीखण्ड(पःपा)दोत्तरा समयुता सूची त्रिभक्जीयुतं पार्ष्णी चैकपदोत्तरौ (च) चतुरश्रं सूचिकं वैषमम् ॥ १२९ ॥ पद्मासनं नागबन्धो विषमान्तरपूर्वके। पद्मासनं तदा प्रोक्तं कूर्मासनमथापरम् ॥ १३० ॥ वर्धमानं यदि स्थानं षडह्ुलिकृतान्तरम् । नन्द्यावर्त तदेव स्यान्नृत्यभेदविशारदैः ॥१३१॥ तिरश्चीनमुखौ पादौ पार्णि्णभ्यां यत्र सञ्जतौ(?)। स्थानकं वर्धमानाखयं तत्तदुन्नृत्यकोविदैः ॥ १३२॥

अंङ्कल्योर्युगं वि+ (?) बाहुयुगलं स्वाभाविकं सौष्ठवम् । कर्णाग्रात् कटिगुल्फदेशसमता नाट्येडकुरः कीडशः(!) स्थानं तत् समुदाहृतं समपदं पुष्पाञ्जलिक्षेपणे ॥ १३३ ॥ मक्जरिस्थानसंलमे मिथःक्रिष्टकनिष्ठिकौ। कुन्चितौ चरणौ यत्र स्थानं तत् स्वास्ति(कर्मकम्ः कं मतम्) ॥ सममेकपंदं भूमावन्यत् किश्चिच्च कुन्चितम् । पुरःप्रसारितस्तिर्यक्स्थानकं वैष्णवं विदुः ॥ १३९ ॥ पार्ष्ण्यद्रष्ठसमायोगात् स्थानकं पाष्णिविद्धकम्। पार्श्वस्यान्तर्गता पा्ष्णः कीर्तितं पार्ष्णिपार्श्रकम् ॥ १३६ ॥

Page 79

षष्ठमधिकरणम् । ६७

पार्ष्ण्यह्रष्ठः समो यत्र तथा पार्ष्ण्यकनिष्ठकम् (?) । परावृत्तं परिज्ञेयं स्थानं स्थानककोविदैः ॥ १३७॥ आकुब्चितोऽङ्घरिर्वामश्रेत् तदन्यो जानुना भुवि। पश्धान्न्यस्तस्तदाख्यातं स्थानकं गारुडं बुघैः ॥१३८॥ चरण: कुञ्चितस्त्वेकस्तिर्यगन्यः प्रसारितः । ऊरुपाष्णिस्थितो भूमौ (खथिते? कथितं) खण्डसूचिकम् ॥ १३९ ॥ भूलमः पाण्णिजद्गोरु तिर्यक् पादौ प्रसारितौ। यत्र तत् स्थानकं प्राहुः समसूचीति नामतः ॥ १४० ॥ न्य(न्तः ञ्व)द्वामकपोलकं समपदं वा(म? मा) कटी निर्गता किञ्चित् तिर्यगिति स्थितोऽन्यचरणा वामाऊलम्बान्वितः । यदू वक्त्रं कटिपादमस्तकतलं नारीलसन्नर्तने विज्ञेयं ललितं त्रिभज्गिकामिति स्थानं च तत्कोविदैः ॥ १४१ ॥ एकपादः समो यत्र बहिस्तिर्यङ्मुखोऽपरः । स्थानकं तत समुददिष्टमेकपार्ष्ण्याभिधं बुधैः ॥ १४२ ॥ एक: समोऽड्धिर्यस्य स्येस्तद्दानुमस्तको (१)। बाह्यपा्शकृता श्लेषमेकपादाभिधं बुधैः ॥१४३ ॥ नन्धावते यदा सार्ध तालं चरणयोर्भवेत्। स्थानकं चतुरश्रं तत् कथयन्ति विचक्षणाः ॥ १४४॥ पुरः पश्चाच चरणौ सूचिलक्षणलक्षितौ। तदा विषमसूचीति स्थानकं कथित बुघैः ॥ १४५॥ समसूचिस्थितौ नृत्तैः पादयोर्ब + नं यदा। क(रे ? रो)ति नर्तकी तच्च पद्मासनमिति स्मृतम् ॥ १४६ ॥ उपविष्टेऽस्य वामो + पृष्ठे स्याद् दक्षिणा यदा। जङ्घास्थानं समेत्तस्यां नागबन्धाभिधं तदा (१) ।। १४७ ।। तदेवान्तरपआ्मासनमाभाति कृतं यदि। पादयोर्विषमं तच्च पद्मासनमुदीरितम् ॥१४८॥ उद्घुत्यापि प्रसार्याद्धी यस्तयोर्षन्ध अन्तरे। पश्मासनं तदेव स्यादन्तरं कथितं बुषैः ॥ १४९॥

Page 80

सज्भीतसमयसारे A

दक्षिणो जानुगुल्फेन पादस्पृष्टमहीतलः । गामपादश्च यत्र स्यात् स्थानं कूर्मासनं स्मृतम् ॥ १५० ॥ इति देशिस्थानलक्षणम्।। सरिकार्धपुराडी च स्वस्तिकः स्फुरिकस्तथा । निकुट्टकस्तलोत्क्षेपः पृष्ठोत्क्षेपश्च वेष्टनम् ॥ १५१ ॥ अर्धस्खलतिका लुचा वराटी प्रावृतं तथा। उद्वेष्टनं ततोल्लाल: समस्खलतिका तथा ॥ १५२ ॥ लताक्षेपो डमरुको विक्षेपः कर्तरी तथा। तथळो(!) गारुडः पक्षो ललाटतिलकस्तथा ॥ १५३ ॥ फेलणालगपालौ च पालो निस्सरसस्ततः । पञ्चविशतिपालाः स्युः कथिता लक्षणान्विताः ॥ १५४॥ भूघराः खेचराश्चेति भेदस्तत्र समीरितः । पाला उप्परपालाश्च नाम तेषामुदाहतम् ॥ १५५ ॥ केनाप्येकेन पादेन सरसं सरिका भवेत्। स्थितोद्वृच्निकुट्टेन पादेनाभ्य(व)कुट्टनम् ॥१५६ ॥ यदुप्रचस्य(!) पादस्य सा ज्ञेयार्धपुराटिका । स्वस्तिकाकारघटना पादयो: स्वस्तिका भवेत् ॥ १५७ ॥ अहुलीपृष्ठभागेन पादाभ्यां गमनं तु यत्। पुरतः पृष्ठतो वापि पार्श्रतः स्फुरिका भवेत् ॥ १५८। सा पुरिति प्रसिद्धा। सम(रु! कु)श्वि(त)पादाओे स्थितिर्ज्ञेया निकुट्टनी। पृष्ठतः पुरतो वापि कुश्चितेनाङ्घ्रिणा यदि ॥ १५९ ॥ जानुमात्रसमुत्क्षेपात् तलोत्क्षेपः स कथ्यते। पृष्ठतोऽड्य्रेः समुत्क्षेपात् पृष्ठात्क्षेपश्च कथ्यते ॥ १६० ॥ स भरणीपुट इति प्रसिद्धः । एकाकूध्रिणा यदन्यस्य वेष्टनादेव वेष्टनः । स्खलनात् तिर्यगेकाछ्घ्रेरर्घस्खलतिका भवेत् ॥ १६१ ॥ पदाग्रेणाहतिर्भूमे (!) खुचा नाम प्रकीर्तिता। तद्वृत्तां विनिकुट्टेन मिथा प्रोक्ता पुराटिका (!) ॥। १६२ ।।

Page 81

वष्ठमधिकरणम् ।

उद्वृत्त्े यम्य पाद: स्यात् सलीलं ललितं विदुः। प्रावृतं नाम विज्ञेयं कीडास्थानं मनोभुवः ॥ १६३ ॥। पश्चात् प्रापणमद्म्रेर्यदुद्वेष्टनमुदीरितम्। उल्लोलाउध्ि क्रमणोक्ध्रि युग्मं सोलुल इष्यते (?) ॥ १६४ ॥ पुरतः पृष्ठतस्तिर्यक् पादयोः स्खलनं समः । समे स्खलतिका नाम पाद: प्रोक्तो विचक्षणैः ॥ ११५ ॥ एकस्य पृष्ठतः कृत्वा पुरतोऽक्प्रिं प्रसार्य च। निकुट्टने कृते तेन लताक्षेपः स कथ्यते ॥ १६६ ॥ एकाङ्घ्रिणा क्षितौ स्थित्वा आ्रमयित्वेतरं पदम्। स्थापने तस्य जा + तु इतरेणोरुता ++॥१६७॥ + ण्डिका भाषाकुशलैः पादो डमरुकः स्मृतः । पा्ष्णि तालान्तरं पार्श्च पुरोदेशं स्थिते पदे ॥ १६८ ॥

विधाय चरणावेतौ कर्तरीयत्पुरस्थितौ (!)॥ १६९ ॥ पाद: कर्तरिसंज्ञेयो नृत्यशास्त्रविशारदैः। नृष्ते च करणे कार्या तदूरोरन्यपादतः ॥ १७० ॥ प्रधार्यतासनं तज्ज्ैस्तट्टाल इति कथ्यते। कथ्यते गारुड: पक्षः समसूची पुरीयुता ।। १७१ ।। अरमयित्वैकचरणं स्थापने तस्य लाघवात्। पादावानीय नर्तक्या पृष्ठतोऽलुष्ठसङमम् ॥ १७२ ॥ कलाटेऽभिमुखं याते ललाटतिलकः स्मृतः । गतिः कुरुलयार्धेन चरणाभ्यां मनोहरा (१)॥। १७३॥। फेल्लणापाल इत्येष कथितो नृत्यकोविदैः । ऊरौ तदन्यपादेन सन्मो लगपालकः ॥। १७४ ॥ पुरीडिधावच्चरुणस्तदन्यः (!) कुरुलयान्वितः । पालो विन्धवणः प्रोक्तो नृत्यविद्याविशारदैः ॥ १५९॥ पिच्छिलापसृतं यद्वन्नर्तक्या नर्तने तथा। तिर्यक्पादापसरणं पादो निस्सरडाभिघ: । १७६ ।।

Page 82

सज्ञीतसमयसारे पादौ समनखौ क्िष्टौ विश्िष्टौ च प्रयोगतः । बेच्चारी समपादाख्या नानास्थानसमाश्रया॥ १७७ ॥ इति (पय!) पाललक्षणम् । अथोत्प्लुर्ताकरणम्। (र ! क)थ्यते दर्पसरणं बिन्दुः सा लोहली तथा। अश्वितश्च्ेति चत्वारि योगभेदस्तदान्तरे ॥ १७८॥ वैष्णवस्थानके स्थित्वा तिर्यगावर्ति(ता प्रिम्? ताङ्घ्रिकम्)। तदुक्तं दर्पसरणं करणं नृत्तवेदिभिः ॥ १७९॥ बामं कूर्परमानिधाय भुवि तद् यत्तोत्तलस्थं शिरो- निक्षिप्ताहितदीर्षकाः कटितटीकान्नूरुजङ्गा: क्षितौ। कृत्वान्यं चरणं तदूर्ध्वफलके तज्जानुमत्तस्थितौ बाहुस्तज्जलशायि नाम करणं यत् कथ्यते कोविदेः ॥ १८० ॥ स्थित्वा समपदेनैव पुरः प्ुत्योपवेशनम्। पुरोवलितदोःकाण्डं दिण्डुस्तत् करण मतम् ॥१८१ ॥ तदेव दिण्डुकरणम(व)सानस्थितं यदि। अलगं किन्चिदुद्वकं तदेवोर्ध्वालिगं मतम् ॥ १८२॥ अलगं नतपृष्ठं चेन्नित म्बालम्बिमस्तकम् । उत्तानस्थानकोपेतमतेरालगमुच्यते (?)॥१८३॥ (मा! ना)भीबाह्ोरसक्ञेन शिरःसपृष्टमहीतलम्। स्पृष्टा पदाभ्यामत्तनं(?) कपालं चूर्णनं भवेत् ॥ १८४।। समपादस्थितेरूर्ध्व यत्र त्रिकविवर्तनम्। उत्पत्य पतनं तिर्यग् लोहडी सैव कथ्यते ॥ १८५॥ लोहडीपतने यत्र स्फुरितेनाभिपातनम्। करणं तत् षरभृत + + + निगधते ॥ १८६ ॥ उत्छुत्य समपादेन परावृत्य समस्थितिः । पश्चात् दयवि + भ भमब्चितं करणं विदुः (१)॥ १८७॥ (अ)श्विते पतनं तिर्यक् परावृत्योपवेशनम् । करणं नृत्ततत्त्वजञैर्लब्वादहनमीरितम् ॥ १८८ ।। अश्चितस्थानके यत् स्मान्नितम्बालम्बिमस्तकम् । बेड्ोलं पाष्णि (!) चद्द्राय द्रायबेळ्कोलमुच्यते ॥ १८९॥

Page 83

षष्ठमधिकरणम्। एकपादां च, कर्तव्य, त, (?) भैरवान्चित, दण्डप्रणामग, स्वेच्छाकरण, पद्मासान, समसूचि, विषमसूचि, गण्डसूचि, गरुडासन, कूर्मासन, गोमुखा- सन, जानुभजत, नागबन्ध इति बहुविधस्थानकानि करणानामुपरि समे- तानि चेत् स्थानकसहितानि करणनामानि भवन्ति । छत्रभ्रमरिका चैव चक्रभ्रमरिका तथा। अन्तर्भ्रमरिका चैव बाहुभ्रमरिका तथा ॥ १९० ॥ कपालभ्रमरी चेति पञ्च भ्रमरिका: स्मृताः । अथ पूर्वेरनुक्तानि देव्यक्कानि वदाम्यहम् ॥ १९१ ॥ मुखर (ब्धः: सः)सौष्ठवं च ललिभावौ च तूकली। अनुमानं प्रमाणं च झङ्का रेवा सुरेखता ॥ १९२ ॥। अफ्गाण्ं ततो धालं धीलायि नवणिम्तथा । कितु(तरहरोल्ला) सौ वेवर्तनमतः परम ॥ १९३ ॥ स्थापनं च क्रमादेषां लक्षणं प्रतिपाद्यते।

प्रमोदप्रभवा वक्रकान्तिर्मुखरसाभिधः ।

गात्रं यदि स्थितं सम्यक् सौष्ठवं तदुदाहृतम्। नहि सौष्ठवहीनाञं शोभते नाट्यनृत्तयोः ॥ १९६ ॥ नाट्यं नृतं च सर्वे हि सौष्ठवे सम्प्रतिष्ठितम्। सक्जीतसुखसञ्जातो लावण्यरसपोषकः ॥ १९७ ॥ हर्षोत्कर्षस्तु भावज्ञैर्ललिरित्यभिधीयते। यदि मानं समार(्य? भ्य) वाद्यतालसमुद्गवम् ॥ १९८॥ नर्तनौत्सुक्यजश्च्ित्विकारो भाव उच्यते। स्थानकेन मनोज्ञेन स्थित्वा गम्भीरभावतः ॥ १९९ ॥ अजस्यान्दोलनं (ता),लसमानं सूकली भवेत्। यत्याभिनययोगाय नर्तकीचित्तदोलनम् ॥ २०० ॥ अनुमानं समुद्दिष्टं प्रमाणं साम्यमुच्यते। वामे वा दक्षिणे वापि किश्विदुद्धृतभावतः ॥ २०१ ॥

Page 84

सन्जीतसमयसारे अश्नस्य चालना नृत्ये झद्केति परिकीर्तिता । शिरस्मपाञ्योश्चैव पिश्चितुल्लोलता यदि (१)॥ २०२ ॥ दृश्यते भावमाधुर्यात् सोक्ता रेवा विचक्षणैः । आज्ञिकाभिनयो नृत्ये विकटान्विवर्जितम् ॥ २०३ ॥। यदि प्रवर्तते तज्ज्ञैः सुरेखत्वं तदीरितम्। ताण्डवादिषु नृत्तेषु प्रस्तुतेषु पृथक् पृथक् ॥। २०४ ।। उक्तोऽज्मनमुद्दिष्टमणऊं त्वन्यसंश्रयम्। ललिताभिनया: सर्वे ललि(ता) भावसमाश्रयाः ॥ २०५॥ नर्तकीचित्तसारस्यात् तस्माड्ढालं तदुच्यते। सपाने वा मन्दगमने नर्तक्यां यदि वक्ष्यते ॥ २०६॥ लकितं गात्रशैथिल्यं घिल्लायीति निगद्यते। यदि घर्माज्ञनमनमनायासेन वर्तते ॥ २०७॥ विषमेषु प्रयोगेषु तवणिः समुदाहृता। भुजयो: स्तनयुग्मे वा तालपादसमं यदि ॥ २०८॥ (स्य ! स्प)नदनं सुकुमारं स्यादेतत् कित्तु निगधते। नर्तने यदि मर्तक्याः स्तनयोः क्षिप्रकम्पनम् ॥ २०९॥ लक्ष्यते बाहुपर्यन्तमेतत् तरहरं विदुः । यदि वाद्यो + सदशं नर्तक्यअं मुहुर्मुद्दुः ॥ २१०॥ यदुल्लसति भावेन तमुल्लासं प्रचक्षते। आज्िकाभिनयो वाद्यपादानामुचितः समः ॥ २११॥ यदि प्रवर्तते तज्जैस्तद् वैवर्तनमीरितम्। करणाभिनयस्यान्ते विषमस्यापरस्य वा ॥ २१२ ॥ रूपसौध्ठवरेखाभिः स्थितिः स्थापनमुच्यते। क्रमेण पेरणादीनां पद्धतिः कथ्यतेऽघुना ॥ २१३ ॥ नृतं ततश्च कैवारो घर्घरो वागडस्तथा। गीतं चेति बुधाः प्राहुः पेरणस्यान्पञ्चकम् ॥ २१४ ॥ नृत्ं तद् द्विविष ज्ञेयं ताण्डवं लास्यमित्यपि। तत्राप्युपलयान्नः स्यात् प्रायस्ताललयाश्रयम् ।। २१५।।

Page 85

षष्ठमधिकरणम्। वर्णयित्वा गुणान् पूर्णान् पुरातनमहीभुजाम्। तत्तद्गुणसमारोपः कैवारः स्यात् सभापतेः ॥२१६॥ ठवणे वशतः क्षुद्रघण्टिकापयपालनाः । नालपाठ्याथवा प्रोक्ता घर्धरेति विचक्षणैः ॥ २१७॥ यन्मर्कटपिशाचादिहास्यवेषसमाश्रयम् । तिकटाभिनयोपेतं वागडं तत् प्रचक्षते ॥। २१८ ।। +धैः सक्कीर्णरागैर्वा + + स्तालप्तिसंयुतम्। गीयते गीतमुक्तं तत् सभ्यचित्तानुरञ्जनम् ॥ २१९ ॥ रड्गे स्थितान्तरान् वाद्यसमुदायत्रये कमात् (?)। उद्गाहादित्रयं यत्र गानं श्रेष्ठं तदीरितम् ॥ २२० ।। समहस्तं भवेदादौ ततो रिप्पवणी भवेत् । ततः परं पदं ज्ञेयं वेसारं तदनन्तरम् ॥ २२१ ॥ तुडडुकाख्यं ततो वादं ततः पहरणाभिधम्। वाद्यपद्धतिरित्युक्ता पेरणस्य विचक्षणैः ॥ २२२ ॥ झेद्वारं वादयेत् पूर्व घल्लणं च ततः परम्। ततो वादयं च कपितामन्तरां च ततः क्रमात् ॥ २२३॥ अवझामलपं चेति पेक्खणे वाद्यपद्धतिः । समहस्तं पहरणा ततम्त्वारभटाह्यः ॥ २२४ ।। मुखवाद्यं ततो ज्ञेयं तकारं तदनन्तरम्। झेद्वारं च ततः पश्चाद् दुवक्करसमाह्ृयम् ॥ २२५॥ ततो रिघमणि(वाः र्बा)द्यं ततः पहरणाभिधः । तुडुकश्चेति विज्ञेया गुण्डलीवाद्यपद्धतिः ॥ २२६ ।। पेरणादित्रये गीतपद्धतिः कथ्यतेऽधुना। वाद्येन सह गीताया मेलायां तदनन्तरम् ॥ २२७ ॥ तेनैव खलु तालेन वाद्यते गुष्कमन्तरा(१)। प्रतिरूपकपर्यन्तं यत्र सा शुद्ध(पद्ध)तिः ॥२२८।। प्रथमं पाटकरणं बन्धाख्यं चित्रसंज्ञकम् । कैवारो वर्णसरकस्त्वन्ये वा पाटमिभिताः ॥ २२९॥ L

Page 86

UY सङ्गीतसमयसारे प्रबन्धा यत्र गीयन्ते वाद्यन्ते च यथाक्षरम् । यथाक्षरं च नृत्यन्ते सा चित्रा शुद्धपद्धतिः ॥ २३० ॥ ध्रुवा मट्टश्र निस्सारुश्चण्डनिस्सारुकस्तथा । अड़ढताली रासकिश्च ततः स्यादेकतालिका ॥ २३१॥ इत्येषा पद्धतिर्ज्ञेया सालगाख्या विचक्षणैः । पेरण्याख्या च मण्डल्या शुद्धे छायालगे तथा ॥ २३२ ॥ दुवक्करं पहरणा यतिश्चान्तरवादनम्। पद्धतित्रितये शुद्धचित्रे सालगसंज्ञके ॥ २३३ ॥ तत्तत्पद्धतिभेदेन वाद्यं कुर्याद् यथोचितम् । यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः ॥ २३४॥ यनो मनस्ततो भावो यतो भावस्ततो रसः । यत्र व्यग्रावुभौ तत्र + + दृष्टिविलोकितैः ॥ २३५॥ ब्रीलितेडमिनयं कुर्याद् विमतैरर्धदर्शनैः । अङ्गेनालम्बयेद् गीतं हस्तेनार्थ प्रदर्शयेत् ॥ २३६॥ चक्षुर्भ्यो भावयेद् भावं पादाभ्यां तालनिर्णयम् । तालश्च कांस्यतालश्च घण्टिका जयपूर्विका ॥ २३७।। पटहश्च हुडुका च मृदफ़ः करटा ततः । इत्यादिवाद्यसन्दोहो वाद्यते दण्डरासके ॥ २३८॥ रूपयौवनवर्णैस्तु समाना दीर्घलोचनाः । (शुक : कृश)मध्या नितम्बाढ्या: पीनावृत्तपयोधराः ॥ २३९ ।। चल्लणः कञ्चुकैर्युक्ता नानावर्णविचित्रितैः । p + 1r+itt नुपुरालङ्कृताङ्घ्रयः ॥२४०॥ माल्यानुलेपसम्पन्नाः सर्वाभरणभूषिताः । सावधाना: प्रगल्भाश्र स्त्रियः पात्रं प्रकल्पिताः ॥ २४१ ।। पात्रद्वयं समारभ्य द्वे द्वे पात्रे विवर्धयेत्। भवेयुरषद्वन्द्वानि यावत् तावद् यथारुचि ॥। २४२।। अन्योन्या(वः)भिमुख वापि परावृत्तमुखं तथा। मुखो दण्डानुविद्धं च (?)वाद्यतालसमन्वितम् ॥२४३॥

Page 87

सप्तममधिकरणम् । ७५ स्थानकै+++ र्हस्तचलनैर्वर्तनैर्युतम्। नानाबन्धैः समायुक्तं लयत्र(य)समन्वितम् ॥ २४४ ।। दण्डरायमिति प्रोक्तं नृत्तभेदविचक्षणैः ॥ २४४३॥ इति सभीताकरनामधेयश्रीपार्श्वदवविरचिते सङ्गीतसमयसार नृतलक्षणं नाम षत्रमधिकरणम् ।। - अथ सप्तममधिकरणम्! गीतं वादं च नृतं च लयं ता(लं? ले) विराजते। तम्मात् तालस्वरूपं च वक्ष्ये लक्ष्यानुसारतः । १ ।। उपर्युपरिविन्यस्तपद्मपत्रशते सकृत् । यः काल: सूचिसम्भेदात् तत् क्षणं सादजं प्रति (!)॥ २ ॥। लव: क्षणैरष्टभिः स्यात् काष्ठा चाष्टलवात्मिका। अष्टौ काष्ठा निमेष: स्यात् कालस्त्वष्टनिमेषकैः ॥ ३ ॥ कालैस्ुटिश्रतुर्भिः स्यात् ताभ्यामर्धद्रुतं भवेत्। अर्धद्रुताभ्यां बिन्दुः स्याद् बिन्दुभ्यां तु लघुर्भवेत् ॥ ४ ॥ लघुभ्यां तु गुरु: प्रोक्तो लैस्त्रिभि: प्लुत एव च । इति मानगतः प्रोक्तो मनोगा तालवेदिभिः ॥५॥ आवापादिधृवादिर्वा + + + परिकीर्तिनाः । तत्रावा(पे ? पो)ऽथ निष्कामो विक्षेपोऽथ प्रवेशनम् ॥ ६ ॥ शम्या तालश्र विज्ञेयाः सन्निपातश्च सप्तमः । आवापसंज्ञकं ज्ञेयमुत्तानाङ्गुलिकुश्चनम ॥७॥ अतस्तलेन हस्तेन निष्क्रामाख्यं प्रसारणम्। तस्य दक्ष(ग)तः क्षेपो विक्षेपः परिभाष्यते ॥ ८ ।। भूयश्चाकुश्चनं ज्ञेयं प्रवेशाख्यमतस्तलम् । शम्या दक्षिणपातस्तु तालो वामस्तु कीर्तितः ॥। ९।। उभयोईस्तयो: पातः सन्निपात इति स्मृतः । ध्रुवका सर्पिणी कृष्या बन्धिनी च वि(वःस) ्जिता ॥ १० ॥ विक्षिप्ता च पताका च पतिता चाष्टमी मता। घनाभिघातो ध्रुवकः सर्पिण्यग्रे प्रसारिता ॥ ११ ॥

Page 88

सङ्गीतसमयसारे

कृष्या कुश्चनमात्रा च बन्धाकारा च बन्धिनी। विसर्जितोपरिष्ठेन विक्षिप्तोत्तानवामतः ।। १२ ॥ ऊर्ध्वाङ्कलि: पताका स्यात् पतिता पतिता पुनः । लध्वक्षराणां पञ्चानां मानमुच्चारणे हि यत् ।। १३ ।। तत्प्रमाणपरिज्ञेया मात्रा तालगता बुबै। द्विमात्रा स्यात् कला चित्रे चतुर्मात्रानुवर्तिके ॥ १४ । अष्टमात्रा च विद्वद्भिर्दक्षिणे समुदाहृता। तालान्तरालवर्ती यः कालोऽसौ लयनाल्लयः ॥ १५॥ त्रिविध: स च विज्ञेयो द्रुतो मध्यो विलम्बितः । लययानाद् यतिः प्रोक्तश्चित्रादिषु यथाकरमम् ॥ १६ ॥ समा स्रोतवहाख्या च गोपुच्छा चेति सा त्रिधा। अथ देशीगता नार्गा वक्ष्यन्ते लक्षसम्भवाः ॥१७ ॥ तत्र चित्रतरश्चैकस्तथा चित्रतमोऽपरः । अतिचित्रतमश्चेति तत्स्वरूपं निरूप्यते ॥ ६८॥ मात्रा चित्रतरा ज्ञेया द्यर्ध चित्रतमे मता। अतिचित्रतमे मार्गे कला नु द्रुतसंज्ञिता ॥ १०. ॥ अथ चित्रादिमार्गेषु स ताल: म्याच्चनुर्विधः । चतुरश्रम्तथा व्यश्रो मिश्रः खण्डननामकः ॥ २० ॥ तत्र चच्चत्पुटः प्रोक्तश्रतुरश्रो मनीपिभिः । स त्रिधैककल: पूर्वे द्विकलश्र चतुष्कलः ॥ २१ ॥ तथा चाचपुटसचश्रो युग्मो + + च मिश्रणात्। विश्विष्टैरप्य(वि)श्रिषैस्तालाक्ैर्यो द्ुतादिभिः ॥ २२ ॥ क्रियते बहुभग्गीभिः स तालः खण्डसंज्ञकः । खण्डोऽपि चतुरश्राख्यस्रयश्रो मिश्रस्तथैव च ॥ २३ ॥ सङ्कीर्णश्चेति निर्दिष्टश्चतुर्धा तालवेदिभिः । अथ तालोद्देश: - चच्चत्पुटश्चाचपुटः षट्पितापुत्रकस्तथा ॥ २४ ॥ सम्पर्केष्टक उद्घट्ट आदितालश्च दर्पणः । चचरी सिंहलीलश्ष कन्दर्पः सिंहविक्रमः ॥ २५ ।

Page 89

सप्तममधिकरणम् । श्रीरओ्ो रतिशीलश्च रक्रताल: परिक्रमः । प्रत्यक्नो गजलीलश्च त्रिभिन्नो वीरविक्रमः ॥ २६ ॥ इंसलीलो वर्णराजश्चूडामणिवरस्ततः । रज्ोद्योतो राजताल: सिंहविक्रीडितस्त+ः ॥ २७ ॥ वनमाली वर्णतालस्ततो रक्कप्रदीपकः । हंसनादः सिंहनादो मल्लिकामोदसंज्ञकः ॥ २८॥ भवेच्छरभलीलश्च रक्काभरण एव च । ततस्तुरगलील: म्यात् स्यात् ततः सिंहनन्दनः ॥ २९ ॥। जयश्रीर्विजयानन्दः प्रतितालो द्वितीयकः । मकरन्दः कीर्ततितालो विजयो जयमहगलः ॥ ३० ॥ राजविद्याधरो मट्टो जयतालः कुड्डुक्ककः । ततो निस्सारुकः क्रीडा त्रिभद्रि: केरलप्रियः ॥ ३१ ॥ श्रीकर्तिर्बिन्दुमाली च समतालश्र नन्दनः । उदीक्ष(माः)णो म(टिक्का? ट्टिका) च ढेक्विका वणुमट्टिका ॥३२॥ अभिनन्दो नरक्ीडा मल्लतालश्च दीपकः । अनञ्ञतालो विषमो नान्दीपुक्कुन्दकन्दकौ ॥ ३३ ॥ एकतालश्व कक्कालश्षतुस्तालश्च डोम्बुली। अह्ङगारायबेङ्कोलस्तथैव लघुशेखरः ॥ ३४ ॥ प्रतापशेखरश्चान्यो जगझम्पा चतुर्मुखः । झम्पा च प्रतिमद्टृ्श्च तथा तालस्तृतयिकः ॥ ३५ ॥ तस्मादुपरि विज्ञेयो वमतौ ललिनो रतिः । करणाख्ययतिश्चैव षट्टालो वर्धनस्तथा ॥ ३६॥ ततो वर्णयतिश्चैव राजनारायणः स्मृतः । मदनश्चैव विज्ञेयः पार्वतीलोचनस्ततः ॥ ३७॥ ततो गारुकिताल: स्यात् ततः श्रीनन्दनो जयः । कीलाविलोकितश्चान्यो ललितप्रियसावच (?) ॥ ३८॥ जनकट्ठेश्चवलक्ष्मीको रागवर्धनसंज्ञक: (?) । उत्सवश्चेति तालानामे(को! के)नाभ्यधिकं शतम्॥ ३९ ॥

Page 90

सङ्गीतसमयसारे चतुरश्रादितालानां मध्ये व्यवहारयोग्यताललक्षणं प्रस्तारसहितं वक्ष्ये- प्रस्तारे तालसम्बन्धि ह्यक्षरं स्याच्चतुर्विधम्। संज्ञया तत् परिज्ञेयं द्रुतं लघु गुरु छुतम् ॥४०॥ प्रत्येकं च द्रुतादीनां भवेत् पर्यायपश्चकम्। अर्धमात्रं द्रुतं व्योम व्यञ्जनं बिन्दुकं तथा ॥। ४१ ॥ मात्रिकं सरलं हस्वं लघु व्यापकमित्यपि। द्विमात्रिकं कला वक्रं गुरु दीर्घमिति स्मृतम् ॥ ४२ ॥ सामोद्भवं पुतं दीप्षं तथा त्र्यञ्ञं त्रिमात्रिकम् । अथ द्रुतादिनिष्पन्नांस्तालान् वक्ष्यामि साम्प्रतम् ॥ ४३ ॥ ताले चच्चत्पुटे ज्ञेयं गुरुद्वन्द्वं लघु प्लुतम् । गुरुर्लघू गुरुश्चैव भवेच्चाचपुटाभिधे ॥। ४४ ॥ पलगा गलपाश्चैव षट्पितापुत्रके स्मृताः । मगणाधन्तं पुतं ज्ञेयं सम्पर्केष्टकसंज्ञकम् ॥ ४५॥ उद्घट्टे मगणस्त्वेक आदितालेश्र दघु स्मृतः (?)। अष्टकृत्वस्तु चच्चर्यो विरामान्तो द्रुतौ लघु (?) ॥। ४६ ।। सिंहलीले विधातव्यं लध्वाद्यन्तद्रुतत्रयम् । सिंहविक्रमताले स्युर्मगणो लपला गपौ ।। ४७ ।। लचतुष्कं विरामान्तं गजलीले प्रकीर्तितम्। सविरामं लघुद्वन्द्वं ताले स्याद्धसलीलके ।।४८।। राजचूडामणे(?) ताले द्रुतौ नश्च द्रुतौ लगौ। द्वितयं यगणं चैव सिंहविक्रीडिते लपौ ॥ ४९ ॥ यगणाल्लो गुरुश्चैव सिंहनादे निरूपिताः । लघुद्रुतचतुष्कं लौ स्यातां शरभलीलके ॥ ५० ॥ तुरलीलताले स्याद् द्रुतद्वन्द्वं लघुस्ततः । तपो लगो द्ुतौ गौलः पलपाकश्च लदूयम् ॥५१॥ निश्शब्दलचतुष्कं च ताले म्यात् सिंहनन्दने। लो द्रुतौ प्रतिताल: स्याद् द्ुतौ लक्ष द्वितीयके ।। ५२॥

Page 91

सप्तममधिकरणम्। धकारश्र सकारश्च जयमज्लनामनि। सकारान्मटटताले स्यान्निश्शब्दं च चतुष्टयम् ॥ ५३ ॥ द्रुतद्वयं लघुद्वन्द्वं भवेत् ताले कुटुकके। लघुद्वन्दवं विरामान्तं ताले निस्सारुके भवेद् ॥५४ ॥ मट्टिकायां विधातव्या गुरुबिन्दुः प्ुतः क्रमात्। ढेङ्किका रगणे न स्यात् केषाश्चित् सैव योजना ॥ ५५ ॥ एकेनैव द्रुतेन स्यादेकतालेति संज्ञया। चतुस्ताले गुरु: पूर्व ततो बिन्दुत्रयं भवेत् ॥ ५६ ॥ ए(कै) केन विरामेण लघुणा लघुशेखरः । प्रतापशेखरे त्र्यक्का विरामान्तद्रुतद्वयम् ॥ ५७॥ व्योमद्वयं विरामान्तं लश्च झम्पाभिधे भवेत्। गलौ तु प्रतिमद्ृश्च ताललक्षणकोविदैः ॥ ५८ ॥ तृतीयताले बिन्दुः स्याद् विरामान्तं द्रुतत्रयम् । ताले करणय(प्या? त्या)ख्ये नेयं बिन्दुचतुष्टयम ॥ ५९ ॥ गररुगिट् कथ्यते तज्ज्ञैर्विरामान्तं चतुर्द्रुतम् । गरुषो + + + + + द्वा्न्रिशल्लवगस्तथा ॥६० ॥

आक्षिप्तक: ॥ सप्त गुर्वक्षराण्यादौ दश लध्वक्षराणि च ॥ ६१ ॥ (अहे ? अन्ते) च गुरुणी यत्र मद्रकः सोऽभिधीयते। भग्गः, उपभङ्ग:, विभन्नः, चच्चतपुट, चाचपुट, उद्धट, षट्पिता- पुत्रक, सम्पर्केष्टक, हेलात्रिगता, मनत्कुट, नत्कुटी, खञ्ज, खञ्चिक, आक्री- डितविलम्बा (तु तिः इति)द्वादश भङ्गाः(!)। आकुटिला, आक्षिप्तिका, S्यश्रा, चतुरश्रा, चटुला, मिश्रा षडेते उप(भोगा ? भङ्गाः)। इतरे विभङ्गाः ॥ तालमूलानि गेयानि ताले सर्व प्रतिष्ठितम् ॥ ६२ ।। तालहीनानि गेयानि मन्त्रहीना यथाहुतिः ॥६२३॥ इति सन्ीताकरनामधेयश्रीपार्श्वदेवविरचिते सज्गांतसमयसारे ताललक्षणं नाम सप्तममधिकरणम्।।

Page 92

सन्जीतसमयसारे

अथाष्टममधिकरणम। गीते वाद्ये च नृत्ते च तत्तद्विदयाः परस्परम् । भवे(यु )र्वादिनस्तस्मादू वक्ष्यते (पः वा)दनिर्णयः ॥ १ ॥ परस्परसमाक्षेपो यो वादिप्रतिवादिनोः । स्वपक्षपरपक्षाभ्यां वादः स(ह!) इति कीर्तितः ॥ २ ॥ सभापतिश्च स(भा? भ्या)श्र तौ वादिप्रतिवादिनौ। इति प्रोक्तं मतक्काद्यैर्वादस्याङ्कचतुष्टयम् ॥ ३ ॥ कथयामि क्रमादेषां लक्षणं च समासतः । आस्थानमण्डपे रम्ये सर्वलक्षणसंयुले ॥४ ॥ चित्राभासविचित्राल्य(१)चित्रचित्रोपशोभिते। चन्दनागरुकर्पूरधूपैस्तु परिवासिते । ५।। बहुवर्णपटीपटटवितानपरिशोभिते। नानारत्नसम।कीरणे नानालक्वारशोभितम् ॥ ६ । सिंहासनं पूर्वमुखं मध्यतो विनिवेशयेत्। श्रीमान् दाता गुणग्राही भावज्ञः कीर्तिलम्पटः ॥७।। सज्जीतगुणदोषज्ञः सर्वभाषाविचक्षणः । प्रियवा(ग्) वा(द)मध्यस्थः पारितोषिकदायकः ॥ ८ ॥ सभ्यवादी च शृक्गारी मार्गदेशीप्रभेदवित् । धीमान् सर्वकलादक्षस्तदध्यासिनभूपतिः ॥९।। रूपयौवनसम्पन्ना सदा श्रृक्कारलोलुपा। सौभाग्यशालिनी भर्तुश्चित्तनेत्रानुसारिणी ॥ १० ॥ देवी चोप(वे: वि) शे (तु! द् भर्तुः) वामभागे महीपतेः। रूपयौवनसम्पन्नाः सर्वाभरणभूषिताः ॥ ११॥ भावाभावविलासाढ्या विभ्रमादिगुणान्विताः । विलासिनीर्महीपस्य पश्चाद्गागे निवेशयेत् ॥ १२ ॥ कार्याकार्यविभागज्ञा नीतिशास्त्रविशारदाः । स्वामिभक्त्ताश्च सचिवाः सर्वकार्यकृतिक्षमाः ॥१३॥

Page 93

अष्टममधिकरणम्।

स(भा :! भ्याः) सङ्गीतशास्त्रज्ञास्तल्लक्ष्यज्ञा अनुद्धताः । मध्यस्था वादसमये गुणदोषनिरूपकाः ॥ १४ ॥ कवयो रसभावज्ञाश्छन्दोल्कारवेदिनः । अमन्दाः प्रतिभायुक्ता रीतिनिर्वाहकोविदाः ॥। १५।। काव्यनाटकसञ्जातरसास्वादनलम्पटाः । रसिका: सूक्ष्मभावार्थज्ञानानन्दितचेतसः ॥१६ ॥ एते सर्वे यथायोग्यं भवेयुस्तस्य दक्षिणे। वाग्गेयकारकविताकारा ये नर्तकादयः ॥ १७॥ लक्ष्यलक्षणदक्षाश्र सङ्गीताङ्गविचक्षणाः । वामभागे महीपस्य स्यात् तेषामुपवेशनम् ॥ १८॥ अन्येऽपि ये यथायोग्यास्तत्तद्विद्याविशारदाः । भवेयुस्तस्य भूपस्य नातिदूरोपवेशिनः ॥ १९ ॥ अनुवाददृढप्रज्ञः खशात्त्रश्रवणान्वितः । परोक्तदूषणोद्धर्ता वादी स्यात् पक्षसाधकः ॥ २० ॥। वक्तारं शास्त्रवेत्तारं बुद्धिमन्तं ++++1 वादिप(क्षे! क्ष)निहन्तारं तं विद्यात प्रतिवादिनम् ॥ २१ ।। निर्वाहाधिक्यवाञ्छा च मत्सरः स्वामिकौतुकम्। स्वैरगोष्ठीपरिभवः कारणान्तरवैरता ॥ २२ ॥ प्रतिपत्तिः स्पृहासूया कीर्तिव्यसनता तथा। विद्यामदश्ष निर्दिष्टास्तज्ज्ञैर्वादस्य हेतवः ॥ २३ ॥

विनीतोद्धतयोः खिन्नतुष्टमानसयोरपि ॥ २४ ॥ शि(ष्टो? ष्यो)पाध्याययोर्भिन्नविद्ययोर्भीरुशूरयोः । न वादोऽभिहित: सद्भिर्वादहेतुषु सत्स्वपि॥ २५॥ वित्ेन विद्यया रूढ्या समयोवाद इष्यते। तस्मादत्र प्रवक्ष्यन्ते गुणा दोषाश्च वादिनाम् ॥ २६ ॥ अ्रन्थार्थस्य परिज्ञानं तात्पर्यार्थनिरूपणम्। आधन्तमध्यव्याख्यानशक्तिः शास्रविदो गुणाः ॥२७॥ M

Page 94

पूर्वापरविरोधानामज्ञ(तः! त्व)मविदग्धता। निरुतरत्वं प्रश्नेषु सम्प्रदायविहीनता ॥ २८॥ इत्यादयस्तु शास्त्रज्ैर्दोषा: सद्धिरुदाहृताः । लक्षलक्ष्यं च यो वेतति मार्गदेशीसमाश्रयम् ॥२९ ॥ उत्तमः स परिज्ञेयः शास्त्रज्ञेषु मनाषिभिः। वेत्ति मार्गाश्रयं लक्ष्यं लक्षणं यः स मध्यमः ॥ ३०॥ सभ्यग् जानाति यो देशीलक्ष्म लक्षं च सोऽधमः । शास्त्रवादे समुत्पन्ने गुणदोषैस्तदीयकैः ॥ ३१ ॥ तारतम्यं तयोर्ज्ञात्वा दद्या(न्त?ज्ज)यपराजयौ। शब्दशास्त्रपरिज्ञानं छन्दोविचितिनैपुणम् ॥ ३२ ॥ अभिधानेषु दक्षत्वं कलानामपि कौशलम्। सप्तगीतिप्रवीणत्वं चातुर्ये रसभावयोः ॥३३॥ अलङ्कारेषु चातुर्ये सु(र?)तालत्वं सुरागता। सुस्वरत्वं सुगेयत्वं देशीरागेष्वभिज्ञता ॥ ३४॥ देशभाषापरिज्ञानं प्रभुचित्तानुवर्तनम्। नृत्ते वाद्ये प्रवीणत्वं तथैवास्थानशूरता ॥ ३५॥ प्रतिभानं वचस्वित्वं सभ्यचित्तानुरञ्जनम्। अनिबद्धस्वरज्ञानं चतुर्धातुषु पा(द ?ट)वम् ॥ ३६ ॥ सर्वप्रबन्धबोधश्र मुक्तिकाले प्रदक्षता । त्रिस्थानव्याप्तिसुभगः प्रयोगः कोपवर्जनम् ॥ ३७॥ आदिष्टार्थस्य निर्वाहः साश्चर्यकविता तथा। यथोचितपदन्यासप्रागल्म्यं वश्यक(रणः ण्ठता) ॥ ३८॥। सावधानत्वमेकाञप्रौढिर्वक्त्रे प्रसन्नता। एते वाग्गेयकारस्य गुणा: सद्धिरुदाहताः ॥ ३९॥ आाम्योक्तिरपशब्दश्च तद्वदप्रस्तुतस्तुतिः । गमके च पदे जाड्यं प्रबन्धज्ञानहीनता ॥ ४० ॥ रसानुरूपरागाणामज्ञत्वमविदग्धता। क्रियानिर्वह्णाज्ञत्वं मन्दशारीरता तथा ॥ ४१ ॥

Page 95

अष्टममधिकरणम्।

माने न्यूनाधिकाज्ञत्वं रीतिभअं तथा पुनः। छायापरिच्युतिस्तद्वद् गानं चांसमये तथा ॥ ४२ ॥ अश्राव्यं लक्षणं त्यक्त्वा धातुत्रातूकरोति यः । दोषैरेतैरुपेतो यो निन्धवाग्गेयकारकः ॥ ४३ ॥ सूडक्रमवशादेषां तारतम्यमथोच्यते। शुद्धसालगयोः सूडं विषमं प्राब्जलं तथा॥ ४४ ॥ करोति (ब!गे)यकारो यः स भवेदुत्तमोत्तमः । कर्ता विषमसूलस्य तयोरुत्तममध्यमः ॥ ४५ ।। तयो: प्राब्जलसूडम्य कर्ता स्यादुत्तमाधमः । यः कुर्यात् सालगे सूडं विषमं प्राञ्जलं तथा॥ ४६ ॥ जघन्येषूत्तम: सोडयमुद्दिष्टो(यं! गे)यकारकः। कर्ता विषमसूडस्य सालगे तेषु मध्यमः ॥ ४७॥ सालगे प्राञ्जलस्यैव कर्ता तेष्वधमः स्मृतः । अधमो मातुकारश्र मध्यम + + + + + 11 8 6 H धातु(त्रा)तुक्रियायुक्त उत्तम: परिकीर्तितः । वाग्गेयकारयोर्वादे सूडं गातुं प्रदापयेत् ॥ ४९ ॥ उत्तारं बन्धगीतं वा वट्टान्तरमथापि बा । कुरुपुअ़ं ततस्तद्वद् गुणदोषान् निरूपयेत्॥ ५० ॥ तारतम्यं तयोज्ञात्वा दद्याज्जयपराजयौ। अनिन्दयाश्चैव निन्दाश्च द्विविधा गायका मताः ॥५१॥ क्मेण वक्ष्यते तेषां लक्ष्मोद्देशपुरस्सरम्। क्रियापर: क्रमस्थश्च गतिस्थः सुघटस्तथा ॥ ५२॥ सुसश्वः शिकषश्र(व) रसिको भावकस्तथा। रर्वक: पररीतिज्ञ: सुगन्धोऽनियमस्तथा॥५३॥ आलप्तिगायनो गीतगायणश्चोपणस्तथा। वितालश्च विबन्धश्च मिश्रश्चानिन्द्यगायकाः ॥५४ ॥ सथाशास्त्र प्रयोगेण मार्गदेशीयमेव च। यो गायति विना दोषान् कथ्यते स क्रियापरः ॥ ५५॥ * लक्षणकपने 'शिकाकार' इति 'रजक' इति व पठ्यते।

Page 96

उत्तमोत्तमसूडादि सूडान् गायति य: क्रमात्। प्रतिरूपकपर्यन्तं क्रमस्थः स उदाहृतः ॥ ५६ ॥ वश्यकण्ठतया सम्यग् गमकान् यः पृथक् पृथक्। गमयेल्लक्षणोपेतं गतिस्थः स तु कीर्तितः ॥५७ ॥ स्वरो वर्णश्र तालश्र व्यक्तं पाटयति त्रयम्। शोभनध्वनिसंयुक्तं सुघटं तं प्रचक्षते ॥। ५८ ॥ सुशारीरवशात् तत्तद्रागं च (स्व)कृतिक्ष(म):। अनायासेन गीतज्ञः सुसञ्चः परिकीर्तितः ॥ ५९॥ द्रुतं यः शिक्षते गीतं विषमं प्राञ्जलं तथा। शुद्धे छायालगे सम्यक् शिकाकारः स कथ्यते ॥ ६० ॥ सुश्रयं गीतमाकर्ण्य भवेद् यः पुलकान्वितः । आनन्दाश्रुकणाकीर्णः सोडयं रसिकगायकः ॥ ६१ ॥ निरसं (स)रसं कुर्वन् निभावं भावसंयुतम्। श्रोतुश्चितं परिज्ञाय यो गायेत् स तु भावकः ॥ ६२ ॥ चेतोहरेण गीेन विदित्वा श्रोतुराशयम्। रझं गीते विधत्ते यो र(ज?ञ्ज)कः सोऽभिधीयते ॥६३॥ गतिशारीरचेष्टा(ना)मालतौ चानुकारकृत्। गीतोत्तमगुणैर्युक्त: पररीतिज्ञ हष्यते ॥ ६४ ॥ विषमं प्राञ्जलं वापि सुचिरं यस्य गायतः । कण्ठे न याति माधुर्य सुगन्धः स तु कीर्तितः ॥ ६५॥ विषमं प्राञ्जलं वापि गतिस्त्ववधिवर्जिता । वर्तते यत्र गतिज्ञैरनियमः स तु कीर्तितः ॥ ६६ ॥ गीादपि यदालप्तिः श्रुतौ सौख्यविधायिनी। आलप्तिगायनः सोडयं निर्दिष्टो गीतवोदिभिः ॥६७॥ आलप्तेरपि यद् गीतं भवेदतिमनोहरम्। उक्तो गायकमेदज्ञैः सोडयं रूपकगायणः ॥ ६८।। शुद्धे छायलके चैव गीतमालप्तिसंयुतम् । यो गायि (वसि ?स वि)ज्ञेयश्चोप(टो!णी) गीतवेदिभि: ।।

Page 97

अष्टममधिकरणम्। ध्वनिशारीरयोर्यस्य नानादेशेषु रीतयः । विलगन्ति स विज्ञेयो वितालो गीतवेदिभिः ॥७0 ॥ नानाविध विभक्तं च ध्वनौ यश्चि(त्तः न्त)येद् गतिम्। विबन्धः स परिज्ञेयो गीततत्त्वविचक्षणैः ॥ ७१ ॥ रागे +++++ + + + + द् दोषवर्जितम्। प्रवीणत्वेन यो गायेत् सो(डयं) (श्रम. मिश्र उ)दाहतः ॥ सन्दष्टः कपिलो भीतः श्कितः सानुनासिकः । उद्घृष्टश्च तथा काकी शूत्कारी चाव्यवस्थितः ॥ ७३ ॥ कराली झोम्बको (वक्री प्रसारी च) निमीलकः । तथा निरववानश्च वि(त्तः ता)लश्षोष्ट्रकी तथा॥ ७४॥ उद्धडो मिश्रकश्चेति निन्धा एकोनविंशतिः । (स ! द)नतसन्दष्टतो गाता सन्दष्टः परिकीर्तितः ॥ ७९॥ न्यूनाधिकै: स्वरैर्गाता कपिलः समुदाहृतः । यो गाय(ति भ)या(विष्ट)स्तं भीतं गायणं विदुः ॥ ७६ ॥ शक्काकुलस्तु यो गायेत् स शक्कित उदाहृतः । गीतं नासिकया गायेद् विज्ञेयः सानुनासिकः ॥ ७७॥ उद्घृष्टः सर्वतः क्षुब्धो गायन् गायण इष्यते। काकस्येव स्वरो यस्य स काकी परिकीर्तितः ॥७८॥ शूत्कारी शूत्कृतिप्रायो गायकः कथितो बुधैः। अव्यवस्थित इत्युक्तः स्थानकेष्वव्यवस्थितः ॥ ७९॥ उद्धाट्य वदनं गायन् करालीति निगद्यते। उत्फुल्लगल्लनयननासिको झोम्बकः स्मृतः ॥ ८० ॥ गायन् वक्रीकृतग्रीवो नाम्ना वक्री प्रकीर्तितः । गीतस्यातिप्रसारेण प्रसारीति निगद्यते ॥ ८१ ॥ निमील्य नयने गायन् कथितोऽसौ निमीलक़ः । गीतावधानरहितः स स्यान्निरवधानकः ॥ ८२॥। वितालो गायकः प्रोक्तो वितालं यस्तु गायति। गायन्नुष्ट्रवदासीन उष्टरकी संप्रकीर्तितः ।। ८३ ।।

Page 98

सज्जीतसमय सारे

हनुसंचलनाद् गायञ्छागवद् गमकान्वितः । उद्धडः सोपहा + + + कीर्तितो गीतवेदिभिः ॥ ८४॥ करोति शुद्धरागस्यच्छायागलविमिश्रणम्। मिश्रकः स परिज्ञेयो गीततत्त्वार्थदर्शिभिः ॥५॥ (वा १ ए)कलो यमलौ चैव सामुदायिक इत्यपि। गायत्यन्यानपेक्षो यः सुगीतं लक्षणान्वितम् । ८६ ।। एकलो गायकः स स्याद् द्वौ चेद् यमलगायकौ। मिलित्वा बहुभिर्यस्तु गीतं गायति गायणः ॥ ८७ ।। स बृन्दगायणस्तेषां पूर्वः पूर्वो भवेद् वरः। गुणैर्बहुभिरल्पैश्च तारतम्यमथोच्यते ॥ ८८॥ विविधालप्तिचातुर्य ग्रहे मोक्षे च दक्षता। स्थानत्रयप्रयोगश्च गम्भीरमधुरध्वनिः ॥ ८९।। सर्ववस्तुषु गातृत्वं तालज्ञत्वं सुरेखता। प्रयोगे (घु : सु)घटत्वं च रागरागाङ्गकौशलम् ।। ९०।। जितश्रमत्वं कण्ठस्य वश्यत्वमवधारणा। मध्ये मध्ये च रागस्य प्रौढौचित्योपवेशनम्।।९१॥ शिक्षा च तदुपाध्यायादुत्तमे गायके गुणाः । (ये: ए)षां मध्ये गुणैर्द्वित्रैर्विहीनो मध्यमः स्मृतः॥१२॥ चतुर्मि: पञ्चभिर्वापि गुणैर्हीनः कनिष्ठकः । उत्तमोत्तमपूर्व च भेदजातमथोच्यते ॥ ९३ ॥ शुद्धं छायालगं चैव गीतमालप्तिसंयुतम् । स्थानत्रयेण यो गायेद् गीतौ स्यादुत्तमोत्तमः ।। ९४ । स्थानकद्वितयेनैतद् गायन्नुत्तममध्यमः । स्थानेनैकेन यो गायेत् स भवेन्मध्यमाघमः ॥९५॥ गीतं छायालगं सभ्यक् सम्यगालप्तिमीद्दशीम्। स्थानत्रयेण यो गायेत् स कनिष्ठोत्तमः स्मृतः ॥ ९६॥ स्थानद्वयेन यो गायेत् स कनिष्ठेषु मध्यमः । स्थानेनैकेन यो गायेत् स कनिष्ठाधमः स्मृतः ॥९७॥

Page 99

अष्टममधिकरणम्। जाते नायकयोर्वेदे शुद्धच्छायालगेऽथवा। सूडौ ठायौ तयोरत्र प्रवक्ष्येते यथाक्रमम् ॥ ९८.॥ एळा विषमकालस्य झोम्बडं च प्रदापयेत्। आलतिं तादशीमेव थायीमेकादशाङ्गुलम् ॥ ९९॥ सूडं छायालगे दद्यादू धुवादिविषमं तथा। + +++ + +++ थायीमपि दशाङ्कुलम् ॥ १००॥ गायन्या यदि वाद: स्याच्छुद्धे छायालगेऽथवा। स्थाय्यामेव विशेषोडास्ति सूडालपिस्तु पूर्ववत् ॥ १०१ ॥ चतुर्दशाङ्कुला स्थायी शुद्धे दद्याद् विचक्षणैः । श्राव्ये छायालगे (द)दाद् द्वादशाङ्गुलसम्मिता ॥ १०२ ॥ अत्युच्चस्थानकं गीतं तालपादैरलङ्कृतम्। प्रयोगबहुलं रूक्षविषमं वादिवल्लभम् ॥ १०३ ॥। जयश्र विजयो नन्दो महानन्दाभिधस्तथा। वंशाश्चत्वार इत्युक्ता वादेषु भरतर्षिणा ॥ १०४ ॥ अथ सूडाश्च थार्यश्च वामे नियमकल्पना। इत्युक्ेन प्रकारेण ++++ निरूप्य चi. १०५ । तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ। जितेन्द्रियः प्रगल्भश्च स्थिरासनपरित्रहः ॥ १०६॥ शरीर सौष्ठवोपेतः करयोर्विजितश्रमः । सावधानो भयत्यक्तो रागरागाङ्गतत्त्ववित् ॥१०७।। गीतवादनदक्षश्र वैणिकः कथितो वरः । वृत्तित्रयानवगतिरवधानविद्दीनता॥ १०८॥ अलक्कारस्वराज्ञत्वं विकलाङ्गत्वमेव च। रागगीतस्वराणां च वादनेष्वसमर्थता॥ १०९॥ इत्यादय: समुद्दिष्टा दोषा वैणिकसंश्रयाः । पौरत्वं सुस्वरत्वं च घनत्वं फूत्कृते गुणाः ॥ ११० ॥

अट्टकीसारणा गम्यगमकेषु च सप्सु ॥ १११ ।।

Page 100

16 सन्गीतसमयसारे

स्वस्थानता सुरागत्वं दक्षता गतिवादने। क्रियाभाषाविभाषासु रागरागाङ्कयोरपि ॥ ११२॥ स्वस्थाने चाप्यवस्थाने रागनिर्माणनैपुणम्। गातणां स्थानदातृत्वं तद्दोषच्छादनं तथा ॥ ११३ ॥ एवमादिगुणैर्युक्तो वांशिक: प्रवरो मतः ।

निन्दनीया इमे प्रोक्ता वंशविद्याविशारदैः । वहणि: कम्पितो मूर्धस्वस्थानाप्राप्तिरेव च ।। ११५ ।। मिथ्याप्रयोगप्राचुर्यमज्ञत्वं गीतवादने। एते दोषा विशेषेण वांशिकस्य प्रकीर्तिताः ॥११६।। रागं च गमकं गीतं सुद्धे छायालगेडथवा। यो वादयेत् स विज्ञयो वादकैरुत्तमोत्तमः ॥ ११७॥ वाद्यन्ते रागगमका येन रागश्च केवलाः । तावुभौ च क्रमाद् ज्ञेयावुतमे मध्यमाधमौ ॥ ११८॥ रागं च गमकं गीतं शुद्धे यो वादयेत् तथा। वादकः स परिज्ञेयो गीतज्ञैर्मध्यमोत्तमः ॥ ११९ ॥। वाद्यन्ते रागगमका येन रागश्च केवलाः। तावुभौ च क्रमाज् ज्ञेयौ मध्यमे मध्यमाधमौ ॥ १२० ॥ रागं च गमकं गीतं (ता? सा)लगे यश्च वादयेत्। वादकः स परिज्ञेयो जघन्येषूत्तमो बुधैः ॥ १२१ ॥ वादन्ते रागगमका येन रागश्च केवलाः । तावुभौ च क्रमाज्ज्ञेयौ जघन्ये मध्यमाधमौ ॥ १२२॥ प्रत्येकं नवधा ज्ञेयावित्थं वैणिकवांशिकौ। वादे वैणिकयोर्जाते तथा वांशिकयोरपि ॥ १२३ ॥ वादने रागगमकौ तालपाठ्याः प्रदापयेत्। शुद्धमालगयोः सूडौ पूर्ववच्च परस्परम् ॥ १२४ ॥ तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ। विद्वान् कुलीनो मतिमान् नीरोगो रूपवाब्छुचि: ॥ १२५।।

Page 101

अष्टममधिकरणम्। षण्मार्गकालभेदज्ञो यतिग्राहविशारदः । आलापादिक्रियाज्ञश्र तथैव ध्रुवकादिवित् ॥ १२६ ॥ यथा वाद्याक्षराणां च पाटप्रकटने पटुः । कर्ता कुलकवाद्यस्य तालवाद्यविधानवित् ॥ १२७ ॥ यथाक्षरविनिष्पत्िस्तथैव यतिपूरकः । चतुरश्रादितालेषु बन्धवाद्यकृतिक्षमः ॥ १२८॥ वाद्याक्षराणां सम्बन्धेष्वर्थोत्पादनकोविदः । प्रशस्तकविताकारो गुणैरेभिः समन्वितः ॥ १२९ । एभ्यो ये विपरीतास्ते दोषा: सद्गिरुदाहृताः । अर्थयुक्तस्य वाद्यस्य कर्ता स्यादत्तमाभिधः ॥ १३० ॥ तथैव बन्धवाद्यस्य कर्ता मध्यम इष्यते । कर्ता कुलकवाद्यस्य कनिष्ठः कथितो++॥ १३१ ॥ कविताकारयोर्वादे गुणदोषैस्तदीयकैः। तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ ॥ १३२ ॥ सर्वेन्द्रियेष्वविकलो निपुणो निश्चलः स्वयम् । अङ्गदोषपरित्यक्त आलापस्य प्रमाणवित् ॥ १३३ ।। सुस्वरातोद्य(वादित्र)वादिता सांप्रदायिकः । नादवृद्धिक्षयज्ञश्र ग्रहमोक्षेऽप्यलक्षितः ॥ १३४ ॥ तालप्रपञ्चकुशलः समादिग्रह्वेदिता। न्यासापन्यासकालज्ञस्तालकोणप्रहारवित् ॥ १३५ ।। लघुहस्तो वितानज्ञः कालवेत्ता जितश्रमः । तालानुगो लयज्ञश्च तालगीतानुगस्तथा ॥ १३६॥ ज्ञाता कुलकवाद्यस्य न्यासापन्यासकोविदः । गीते वाद्ये च नृत्ते चच्छिद्रावरणपण्डितः ॥ १३७ ॥ दृढप्रहारोऽप्यक्षुब्धो रञ्जको वादकः शुभः । स्विन्नाङ्गत्वं जडत्वं च भीतिर्निरवधानता । १३८ ।। चञन्चलस्वमदक्षत्वमप्रगल्भत्वमेव च। रागरागाधिकत्वं च शास्त्रश्रवणह्दीनता ।। १३९ ॥। N

Page 102

सज्ञीतसमयसारे इत्यादयः समुद्दिष्टा दोषा वादकसंश्रयाः । स्कन्धस्य मणिबन्धस्य कूर्पराङ्ुष्ठयोरपि ॥१४०॥ वामस्य चरणस्यापि कम्पात् सञ्चस्तु पञ्चधा। सश्चभेदात् पाटहिकस्तिधा हौडडककोडपिच ॥ १४१ ॥ उत्तमादिप्रकारेण तत्स्वरूपं निरूप्यते। अद्ठष्ठमणिबन्धोद्य(स?ञ्व्ि ुभः ॥ १४२ ॥ सञ्चात् कूर्पर(जो? तो) जातान्मगेबन्धाच्च मध्यमः । स्कन्धकूर्परसश्चेन यो वादयति सोडघमः ॥१४३॥ त्रिसन्धिचालनाज्जातसञ्चाद्धीडुककः शुभः । सञ्चात् कूर्रतो जातान्मणिबन्धाच्च मध्यमः ॥१४४॥

दक्षिणे वार्तिके तालवाद्यं नैवावगच्छति ॥ १४५ ॥ शेषलक्षणसंयुक्त: स भवेदुत्तमावमः । शुद्धसालगगीतानां येन नृतत्रयरय च ॥। १४६ ॥ तत्त(ल्ल)क्ष्मानुसारण स स्यान्मध्यममध्यनः । येन सालगर्गीतानां नृत्तानां प्राकौशलम् ॥ १४७ ॥ वाद्यते लक्षणोपेतं स भवेन्मध्यमाधमः । + ++ पेरणाख्यस्य गुण्डल्या: पेक्खणस्य च ॥ १४८ । येन लक्षणसं +++ जघन्योत्तम: स्मृतः । पेरणस्य च गुण्डल्या वादकस्तेषु मध्यमः ॥ १४९ ॥ + ++++कस्तज्ज्ञैरधमः परिकीर्तितः । यदि वादो भवेत् तालवा द्यवादकयोस्तदा ॥ १५० ।। तालवाद्यं चन्द्रकलां त्रिगुणां च प्रदापयेत्। गीतवादकयोरवीदे सूडमेकादिसंज्ञकम् ॥ १५१ ॥ चित्रां च पद्धतिं दद्याद् वादन्यायः पुरोदितः । नृत्तवादकयोरवांदे वाद्यमोतादि दापयेत् ।। १५२ ।। तत्तद्विद्या वशादेव मान्यानपि परीक्ष्य च। तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ॥ १५३ ॥

Page 103

अष्टममधिकरणम्। ११ सर्वप्रयोगकुशलः सुरेखातमुखस्तथा(?) । प्राज्ञः कलाज्ञस्तालज्ञो नर्तेनासु विशारदः॥ १५४ ॥ (गी)तितालकलाभिज्ञो लयविन्निर्जितेन्द्रियः । पात्तसंक्रमणोपा(य)कुशलो नर्तकः स्वयम् ॥१५५ । संक्रामतः प्रयोगागां मुखनृत्तस्य वेदिता। शिष्यनिप्पादको :धूनाधिकविद् गतमत्सरः ॥ १५६ ॥ चार्यकहारकुशलः खण्डमण्डलपण्डितः । नानादेशसमुत्थस्य देशीनृत्तस्य वेदि(ता) ॥ १५७ ॥ स गीताद्योतानेपुणो नर्तकः प्रवरः स्मृतः । वाद्यतालयतीनां च माने न्यूनाधिकेऽज्ञता ॥ १५८ ॥। स्वरो लास्यविहीनत्वं रसहावािवेकिता । वैरूप्यमङ्गवैकल्यं प्रयोगेष्वप्यकौशलम् ॥ १५९ ॥ देशीमार्गविभेदेन नृत्तशिक्षास्वनैपुणम्। इत्यादयः समुद्दिष्टा दोषा नर्तकसंश्रयाः ॥ १६० ।। यथोक्तलक्षणोपेतं मार्गदेशीयमेव च। ृत्तं सुशशिक्षयेद् (यस्तु) स भवेन्नर्तकोतम : ॥ ६ १ ॥ केवलं मार्गनृत्तं यः शिक्षयेत् स तु मध्यमः । अधमः स परिज्ञेयो देशीनृत्तस्य शिक्षकः ॥ १६२॥ भावकतवं रसिकता नानाभाषासु नैपुणम्। नानादेशसुचारित्रव्यवहारेषु दक्षता ॥ १६३ ।। पञ्चाञ्परिपूर्णत्वं रञ्जकत्वं विदग्धता । प्रौ(ढि? ढिः) प्रस्तावव।क्येषु विकृतांशविदग्धता ॥ १६४ ।। अपलानं(?) तथा रागरागा(ऋ)दिप्रवीणता। इत्यादय: समुद्दिष्टा (गुणाः) पेरणिसंश्रयाः ॥ १६५ ॥ एभ्यो ये विपरीतास्ते दोषा: (सद्)भिरुदाहताः । ++++ + विज्ञेयः पश्चाञैः सम्यगन्वितः ॥ १६६ ॥ घर्घरागीतकैवारप्रौढ़ो मध्यम इष्यते। नृत्तं वागन्ध()कैवारनेपुणस्त्वधमो मतः ॥ १६७ ॥

Page 104

सङ्गीतसमयसारे पेरणीनोरे ++ ++ र्गुण + भा + + ति(?)। तारतम्यं तयोर्शात्वा दद्याज्जयपराजयौ ॥ १६८ ॥ प्रागल्भ्यं सौष्ठयं रूपं यौवनं च सुरेखता। लाघवं गात्रवश्यत्वं गीतवाद्यानुवर्तनम् ॥ १६९ ॥ सौमनस्यमरोगित्वं स्मितपूर्वाभिभाषणम् । नात्यु (चवामन)स्थूलकृशदहत्वमेव च ॥ १७० ॥। वलनं वर्तनं गात्रे दक्षत्वं ग्रहमोक्षयोः । चारीतालगतिज्ञत्वं श्यामत्वं गौरताथवा ॥ १७१ ॥ अव ++ सुमेधत्वं दीर्घलोचनता तथा। चरणन्यासचातुर्यै मलपादिषु कौशलम् ॥ १७२ ॥ पाटज्ञता रङ्गशोभा नानादेशप्रदर्शिता । एवंगुणगणोपेता प्रशस्ता नर्तकी मता ॥ १७३ ॥ अश्वितादैश्च विषमं प्राञ्ज ++ + + + +। (या) नृत्यति समीचीनं पेर्खणे सोत्तमा मता ॥ १७४ ॥ या (नृत्य)ति समीचीनं नृत्तगीतसमाश्रयम् । विषमत्वं समीचीनं पेर्खणे सा तु मध्यमा ॥ १७५ ॥ विषमं तु समीचीनं सा मा + + + + + + 1 + + + + + रिज्ञेया पेरूखणे सा कनीयसी ॥ १७६॥ नर्तसोय्य ++++ पेरखणे तद्रुणागुणैः। तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ॥ १७७॥ + ळिभावौ तूकली च तथा + +++++1 + + + + ािता कान्तष्टिगाम्भीर्य ++ स्तथा ॥ १७८॥ ततो बहुलिकत्वं च रञ्जकत्वं विदग्धता । अज्ञानञ्ञपरिज्ञानप्रौढिर्मत्सरहीनता॥ १७९॥ + नि श्रेष्ठ च शारीरतारे गानं मनोह्(रम्) । +++++++ +येठापश्चांशकपूर्वकः ॥ १८० ॥ इत्यादयस्तु गुण्डल्या गुणाः सद्भिरुदाहताः । एभ्यो ये विपरीतास्ते दोषास्तज्ज्ञैरुदाहताः ॥ १८१ ॥

Page 105

नवममधिकरणम् । १३ यत्र गीतं च नृतं च + + मतिमनो ++। + + ++++ ++ लीषूत्तमा बुधैः ॥१८२॥ सामान्यनर्तनं यत्र सम्य ग्गीतं प्रवर्तते । मध्यमा कथिता सेयं गुण्डलीति मनीषिभिः ॥१८३॥ यत्र प्रवर्तते सद नृत्तर्गातं तु मध्यमः । अधमा सा+t+++++ + + + क्षणैः ॥१८४ ॥ गुण्डल्योर्यदि वाद: स्यादेभिरेव गुणागुणैः। तारतम्यं तयोर्ज्ञात्वा दद्याज्जयपराजयौ ॥ १८५ ॥ मतेन पणबन्धेन वादिनोर्वादकल्पना। + पणशेषतः ॥ १८६॥ अत्युक्ति देहदण्डं च सर्वस्वहरणं तथा । दुर्वाक्यं चैव कैवारं वादकाले सभापतिः ॥१८७॥ मीमांसाद्वयवेदान्तन्यायवैशेषिकागमैः । ++++++ + + गम्यो गीतेन सकरः ॥ १८८ ॥ पाराशर्यपराशरौ भृगुमयौ संवर्तकार्त्यायना- वापस्तम्बबृहस्पती सलिखितौ हारीतदक्षौ मनुः । विष्वग्ग्रीवसगौत(म) ++++++ पि दाक्षाय+ सर्वे मोक्षदमित्यु(छ?श)न्ति मुनयो गीतं तदेवोक्तितः ॥१८९॥ इति सङ्गीताकरनामधेयश्रीपार्श्वदेवविरचिते सज्ञीतसमयसारे गीताधिकरणमष्ठमम् ॥।

अथ नवममधिकरणम्:। तालस्य लक्षणं + + + + + + + + + + । तथा सलक्षणं वक्ष्ये पूर्वशास्त्रानुसारतः ॥ १ ॥ श्रीसोमेश्वरदत्तिल प्रभृतिभिस्तालस्वरूपं पुरा प्रोक्तं सर्वजगद्धिताय चतुरश्रादिप्रभेदा ++। + + + (तादि ?) तादिभेदसहितं तालस्य षट्प्रत्ययं सङ्जीताकरसूरिणा निगदितं चित्रायमानं भुवि(?) ॥ २ ॥

Page 106

१४ स्गीतसमयसारे

तालद्यं कंसमयं त्रिहस्त- शाखान्त + + धवमानपिण्डम्।

        • मेव च + + ॥।३॥ परस्परं सन्निभवर्तुलाननं प्रचित्रपट्टावलि ++ बन्धितम् ! कनिष्ष्ठिकानामिकमध्यमाङ्गुली: प्रसार्य साङ्गुष्ठकतर्जनाधृतम् ।। ४ ।। सव्येन हस्तेन तु ताण्ड +++ +++ + + + रमणीयन।दम्। बिन्दूद्गवं शक्तिशिवरवरूप- माधारका ++++ शादनिन्त्यम्(?)।। ५।। मनोगा हस्तगा चास्य द्विवेधा मानकल्पना। प्रमाणं मानसं य : चतुर्भाग इतीरितः ॥ ६ ॥ हस्तागमनमानं यत् तदर्वाद् बुतमुच्यते (?)। अङ्गुलीद्वयसंयोगान्मनोगः सार्धपादकः॥।७॥ छोटिकावपमानं यद् बिन्दुस्तालस्ततस्ततः । बिन्दुभ्यां तु लघु प्रोक्तं लघुभ्यां तु गुरु: स्मृतः ॥८॥ लैस्िभिश्च पुतो ज्ञेय इति मान उदाहृतः । समतालसुमध्यविवर्जितः समयोऽयमभूल्लयालयः ॥९॥ द्रुतमध्य।वेलभ्बितमाननस्त्रिविधो लयभेद उदाहृतः । प्रोक्ता यतिः स्याल्लययानमाना त्रेधे + पश्चादनतिक्रमेण। चित्रादिमार्गेषु यतिः समा स्यात् स्रोतोवहा गोकूलपुच्छ्रिकेति ॥ १० ॥ प्रस्तारसंख्यया युक्त (नष्ट)मुद्दिष्टमेव च ।। ११ ।। एकध्यादिल घूपेतमध्वयोगं प्रचक्ष्महे। दलगपपिण्डं प्राक्तनपिण्डं भित्त्वा यथाक्षरं रचयेत्। तत्सममालिख पुरतो यावल्लघु बिन्दुतामेति ॥ १२ ॥ ॥ प्रस्तारः ॥

Page 107

नवममधिकरणम्। पीयूषद्युतिलोच नत्रिपुर जिद्दिव्याम्बरं दिव्यद्दग्. अ्न्थोपेतदशाङ्कमालिख पुरा तत्रान्तिमाऋदयम् । एकैकान्तरितैकराशिसहितं राशिं विदध्यात् सुधीः

। द्रुतसंख्या॥ हिमकरनयनाम्भोराशिसंख्यां लिखेत् तत्- त्रयमिलितमधस्तात् तद्वदासन्नसंस्थम्। उपरितननिविष्टामक्कमालां क्रमेण त्यज लघुगणनार्थ यावदस्ति प्रयोग: ॥ १४ ॥ ।। लघुसंखया॥ संख्याराशावपहर तथा नष्टतालप्रमाणं शेषं तस्मिन्नापेच सदशे लेख्यहीने च तत्र। वर्णः कार्य: स्वपरसहित चेन्न वर्ण: परेग प्रागङ्केन द्वयमपि पुनदीर्धमेतत् छुतं वा ॥ १५॥ । नष्टम् ॥ लगपानामवस्ताद् यत् तदंशकं लोप्यमेव च ॥ १६ ॥ संख्यातं तु तदुदिष्टं ।निर्दिष्टं शेषदर्शनात्। । उ.द्ेष्ट्म् ।। बिन्दुप्रस्तरणात् परं लिख तथा द्यन्तं क्रमाद् द्यादिना यत्तत् तड्ूयमेकशोऽप्यपहृतं द्वन्द्वं मिलित्वाधुना। आसन्नद्वयमेलनाद् द्रुतलघुप्रान्तं तदूर्ध्वक्रमा- देकैकान्तारतोऽङतः परिमितं दार्घ छुतं धीमता ॥१७ ॥

एकं द्विपश्चक्रमतो मिलित्वा लघुप्रसंख्याद्वितयादियुक्तम् ।

Page 108

सज्जीतसमयसारे नवममधिकरणम्। आलिख्य तालसंख्यां तत्संख्यां द्विगुणयेत् पुनर्धीमान्। तत्रैकविहीनं चेदह्ुल्यः स्याः क्रमादध्वे (?) ॥ १९ ॥ ॥ अध्वयोगः ।। द्वादशाङ्कुलिभिस्तु वितस्तिस्तद्येन तु हस्त इति स्यात् । तच्चतुर्दण्ड तदविसहस्त्रक्रोशतद्वार्घयोजन एकः (?)॥ २० ॥ नानाराजसभान्तराल(सरि : रसि)कस्तुत्यश्रुतिज्ञानस- चक्रेशो रसभावभेदनिपुणः साहित्यविद्यापतिः ।

चित्रं सर्वजगत्पियं व्यरचयत् तालस्य षट्प्रत्ययम् ॥.२१ ॥

ज्ञानच(क)वर्तिसक्गीताकरनामधेयपार्श्वदेवविरचिते सङ्गीतसमयसारे तालषटप्रत्ययलक्षणं नाम नवममधिकरणम् ।।

शुभं भूयात्।

Page 109

READY FOR SALE.

भक्तिमञ्जरी (Stuti) by H. H. Svati Sri Rama Varma RS. AS. P.

Mahârâjah. 1 0 0 स्यानन्दूरपुरवर्णनप्रबन्ध: (Kavya) Syanandurapuravarna- naprabandha by H. H. Svati Sri Rama Varma Mahârajah, with the commentary Sundari of Rajaraja Vorma Koil Tampurân. 2 0 0

Trivandrum Sanskrit Series. No. 1-दैवम् (Vyakarana) by Deva with Puru- shakâra of Krishnalilâsukamuni. 1 0 0 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ by Krishnalilasukamuni. 0 2 0 No. 3-नलाभ्युदय: (Kavya) by Vamana Bhatta Bana (Second Edition). 0 4 0 No. 4-शिवलीलार्णंव: (Kavya) by Nilakantha Dik- shita. 2 0 0 No. 5-व्यक्तिविवेक: (Alankara) by Mahina Bhatta with commentary. 2 12 0 No. 6-दुर्घटघृत्ति: (Vyakarana) by Saranadeva. 2 () 0 No. 7-ब्रह्मतत्त्वप्रकाशिका (Vedanta ) by Sada- sivendra Sarasvatî. 2 4 0 No. 8-प्रधुन्नाभ्युदयम् (Nataka) by Ravi Varma Bhûpa. 100 No. 9-विरूपाक्षपश्चाशिका (Vedanta) by Virupaksha- nâtha with the commentary of Vidyâ- chakravartin. 8 0 No. 10-मातङ्गलीला (Gajalakshana) by Nilakantha. 08 0 No. 11-तपतीसंवरणम् (Nataka) by Kulasekhara Varma with the commentary of Siva- rama. 2 4 0 No. 12-परमार्थसारम् (Vedanta) by Bhagavad Adi- sesha with the commentary of Raghav- ânanda. 0 8 0 No. 13-सुभद्राधनअयम् (Nataka) by Kulasekhara Varma with the commentary of Sivarâma. 2 0 0

Page 110

2

RS. AS. P. No. 14-नीतिसार: (Niti) by Kamandaka, with the commentary of Sankarârya. 38 0

No. 15-स्वम्वासवदत्तम् (Nâtaka) by Bhâsa. (Second Edition). 1 8 0

No. 16-प्रतिज्ञायौगन्धरायणम् (Nataka) by Bhasa. 1 80 No. 17-पञ्चरात्रम् Do. Do. 1 0 0

No. 18-नारायणीयम् (Stuti) by Narayana Bhatta with the commentary of Desamangala Vârya. 4 0 0 .

No. 19-मानमेयोदयः (Mimamsa) by Narayana Bhatta and Nârayana Pandita. 1 4 0

No. 20-अविमारकम् (Nataka) by Bhasa. 1 8 0

No. 21-बालचरितम् Do. Do. 1 0 0

No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोस्कच-कर्णभारोरुभङ्गानि (Nâtaka) by Bhâsa. 1 8 0

No. 23-नानार्थार्णवसंक्षेप: (Kosa) by Kesavaswamin (Part I. 1st & 2nd Kândas). 1 12 0

No. 24-जानकीपरिणय: (Kavya) by Chakra kavi. 1 0 0

No. 25-काणादसिद्धान्तचन्द्रिका (Nyaya) by Ganga- dharasfri. 0 12 0

No. 26-अभिषेकनाटकम् (Nataka) by Bhasa. 0 12 0

No. 27-कुमारसम्भवः (Kavya) by Kalidasa with the two commentaries, Prakâsikâ of Arunagirinatha and Vivarana of Nara- yana Pandita (Part I. 1st & 2nd Sargas). 1 12 (

No. 28 -- वैखानसधर्मप्रश्ः (Dharmasttra) by Vikhanas. 0 8 0

No. 29-नानार्थार्णवसंक्षेप: (Kosa) by Kesavaswamin (Part II. 3rd Kânda). 2 4 0

No. 30- वास्तुविद्या (Silpa). 0 12 0

No. 31-नानार्थार्णवसक्षेप: (Kosa) by Kesavaswamin (Part III. 4th, 5th & 6th Kândas). 1 0 0

Page 111

3

RS. AS. P. No. 32-कुमारसम्भवः (Kavya) by Kalidasa with the two commentaries, Prakâsika of Aruna- girinatha and Vivarana of Narayana Pandita (Part II, Srd, 4th & 5th Sargas). 2 8 0 No. 33-वाररुचसंग्रहः (Vyakarana) with the com- mentary Dipaprabha of Narâyana. 0 8 0 No. 34-मणिदर्पणः (शब्दपरिच्छेदः) (Nyaya) by Raja- chudâmanimakhin. 1 4 0 No. 35-मणिसारः (अनुमानखण्डः) (Nyaya) by Gopi- nâtha. 1 8 0 No. 36-कुमारसम्भवः (Kavya) by Kalidasa with the two commentaries, Prakâsikâ of Aru- nagirinatha and Vivarana of Narayana Pandita (Part III. 6th, 7th & 8th Sargas). 3 0 0 No. 37-आशौचाष्टकम् (Smriti) by Vararuchi with commentary. 0 4 0 No. 38-नामलिङ्गानुशासनम् (Kosa) by Amarasimha with the commentary Tikasarvasva of Vandyaghatîya Sarvananda (Part I. Ist Kânda). 2 0 0

No. 39-चारुदत्तम् (Nataka) by Bhasa. 0 12 0 No. 40-अलङ्कारसूत्रम् (Alankara) by Rajanaka Sri Ruyyaka with the Alankârasarvaswa of Sri Mankhuka and its commentary by Samudrabandha. 2 8 (

No. 41-अध्यात्मपटलम् (Kaipa) by Apastamba with Vivarana of Sri Sankara Bhagavat Pâda. 0 4 0

No. 42-प्रतिमानाटकम् (Nataka) by Bhasa. 1 8 0

No. 43-नामलिङ्गानुशासनम् (Kosa) by Amarasimha with the two commentaries, Amarakoso. dghâtana of Kshîraswâmin and Tîkâ- sarvaswa of Vandyaghatîya Sarvânanda (Part II. 2nd Kânda 1-6 Vargas). 2 8 0

Page 112

4

RS. AS. P. No. 44- तन्त्रशुखम् (Tantra) by Bhattaraka Sri Ve- dottama. 04 0 No. 45-प्रपन्नहृदयम् (Prapanchahridaya). 1 0 0

No. 46-परिभाषावृत्तिः (Vyakarana) by Nilakantha Dîkshita. 08 0 No. 47-सिद्धान्तसिद्धाजनम् (Vedanta) by Sri Krishnananda Sarasvati. (Part I). 1 12 0

No. 48- Do. Do. (Part II). 2 0 0

No. 49-गोलदीपिका (Jyotisha) by Parameswara. 0 4 0 No. 50-रसार्णवसुधाकर: (Alankara) by Singa Bhûpâla. 3 0 0 No. 51- नामलिङ्गानुशासनम् (Kosa) by Amarasimha with the two commentaries, A marakoso- dghâtana of Kshiraswamin and Tikâ- sarvaswa of Vandyaghatiya Sarvananda (Part III. 2nd Kânda 7 -- 10 Vargas). 2 0.0 No. 52-नामलिङ्गानुशासनम् (losa) by Amarasimha with the commentary Tikâsarvaswa of Vandyaghatiya Sarvananda (Part IV. 3rd Kânda) 1 8 0 No. 53-शाब्दनिर्णय: (Vedanta) by Prakasatmaya- tîndra. 0 12 0

No. 54-स्फोटसिद्धिन्यायिचार: (Vyakarana). 0 4 0 No. 55-मत्तविलासप्रहसनम् (Nataka) by Sri Mahendravikramavarman. 0 8 0

No. 56-मनुष्यालयचन्द्रिका (Silpa). 080

1 No. 57-रघुवीरचरितम् (Kavya). 4 0 Nc. 58-सिद्धान्तसिद्धाञ्जनम् (Vedana) by Sri Krishnananda Saraswati (Part III. 2 0 0

No. 59-नागानन्दम् (Nataka) by Sriharshadeva with the commentary Nâgânanda- vimarsini of Sivarâma. 3 4 0

No. 60-लघुस्तुतिः (Stuti) by Sri Laghubhattaraka with the commentary of Sri Râgha- vânanda. 0 8 0

Page 113

5 RS. AS. P.

No. 61-सिद्धान्तसिद्धाअ्ञजनम् (Vedanta) by Sri Krishna- nanda Sarasvati (Part IV). 1 8 0

No. 62-सर्वमतसंग्रहः (Sarvamatasangraha). 0 8 0

No. 63-किरातार्जुनीयम् (Kavya) by Bharavi with the commentary Sabdârthadîpika of Chitra- bhânu (1, 2 and 3 Sargas). 2 8

No. 64-मेघसन्देशः (Kavya) by Kalidasa with the commentary Pradîpa of Dakshinâvarta- .. natha. 10 0

No. 65-मयमतम् (Silpa) by Mayamuni. 3 8 0

No. 66- महार्थमञ्जरी (Darsana) with the com- mentary Parimala of Maheswarananda. 2 8 0

No. 67-तत्रसमुच्चयः (Tantra) by Narayana with the commentary Vimarsini of Sankara (Part I. 1-6 Patalas). 3 4 0

No. 68-तत्वप्रकाश: (Agama) by Sri Bhojadeva with the commentary Tâtparya- dipika of Sri Kumara. 2 0 0

No. 69-ईशानशिवगुरुदेवपद्धतिः (Tantra) by Isanasiva- gurudevamisra (Part I. Samanyapâda). 1 8 0 No. 70-आर्यमञ्जुश्रीमूलकल्प: (Part I). 2 8 0

No. 71- तन्त्रसमुचय: (Tantra) by Narayana with the commentary Vimarsini of Sankara (Part II. 7-12 Patalas). 3 8 0

No. 72- ईशानशिवगुरुदेवपद्तिः (Tantra) by Isanasiva- gurudevamisra (Part II. Mantra- pada). 4 0 0 No. 73- ईश्वरप्रतिपत्तिप्रकाशः (Vedanta) by Sri Madhusudanasarasvati. 0 4 0

Page 114

6

RS. AS. P. No. 74- श्रीयाज्ञवल्यस्मृतिः (Dharmasastra) with the commentary Bâlakrida of Visvarûpâchârya. (Part I-Âchâra and Vyavahâra Adhyâyas). 4 0 0

No. 75-शिल्परत्नम् (Silpa) by Srikumara (Part I). 340

No. 76-आर्यम्जुश्रीमूलकल्प: (Part II). 3 4 (

No. 77-ईशानशिवगुरुदेवपद्धतिः (Tantra) by Isanasiva- gurudevamisra (Part III. Kriyapada 1-30 Patalas). 3 4 0

No. 78-आश्चलायनगृह्यसूत्रम with the commentary Anavila of Haradattacharya. 5 0 0

No. 79-अर्थशास्त्रम् of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part I-1 & 2 Adhikaranas). 8 0 0

No. 80-अर्थशास्त्रम of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part II-3 to 7 Adhikaranas). 8 0 0

No. 81-श्रीयाज्ञवल्क्यस्मृतिः (Dharmasastra) with the commentary Bâlakrida of Visvarûpâ- chârya (Part II. Prâyaschittâdbyâya). 3 12 0

No. 82-अर्थशास्त्रम् of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part III-8 to 15 Adhi- karanas). 800

No. 83-ईशानशिवगुरुदेवपद्धतिः (Tantra) by Isana- sivagurudevamisra (Part IV. Kriya- pada 31-64 Patalas and Yogapada). 400

No. 84-आर्यमञ्जुश्रीमूलकल्पः (Part III). 2 12 0

No. 85-विष्णुसंहिता (Tantra). 4 8 0

Page 115

7

RS. AS. P. No. 86- भरतचरितम् (Kavya) of Sri Krishnakavi. 200

No. 87- सङ्गीतसमयसार: (Sanglta) of Sangitakara Sri Parsvadeva. 1 12 0

Apply to :- The Curator, for the publication of Sanskrit Manuseripts, Trivandrum.

Page 116

DATE OF ISSUE

This book must be roturned within 3, 7, 14 days of its issue. A fine of ONE ANNA per day will be charged if the beok is overdue.