1. TxtSkt-sangIta-sudhA-RaghunathaNayaka-MAcademy-1940-0069
Page 1
Music Academy Series 1
THE
SANGĪTA SUDHĀ
OF
KING RAGHUNĀTHA
OF TANJORE
Sri P. S. SUNDARAM AIYAR, B.A., L.T. Pandit S. SUBRAHMANYA SASTRI
Page 3
सङ्गीतविद्वत्सभाग्रन्थमाला १.
श्री रघुनाथभूपविरचिता
सङ्गीतसुधा
श्री. पी. एस्. सुन्दरार्यैः पण्डित एस्. सुब्रह्मण्य शास्त्रिभिश्र सम्पादिता
मद्रपुरी सङ्गीतविद्वत्सभया
मुद्रयित्वा प्रकाशिता
१९४०
मूल्यं रूध्यकद्वयम्
Page 4
SRI.GOVINDA DIKSHITA, AUTHOR OF THE SANGITA SUDHA (Portrait-sculpture from Pattisvaran:Courtesy, Supt. of Epigraphy, Madras.)
Page 5
PREFACE
The Sangītasudhā is ascribed to Raghunātha Nāyaka who was king of Tanjore bet- een the years 1614-28 A.D. There is no reason to doubt the scholarship and accomplish- ent of the king, but from an explicit mention and quotation in the Caturdandīprakāsika : Venkațamakhin (see p. 14, Music Academy Edition), we have to take that it was enkatamakhin's father, Govinda Dīksita, the preceptor and minister of Raghunātha and s two predecessors Cevvappa and Acyuta, that really wrote the Sangitasudha.1 The troduction to the Sangitasudha contains information pertaining to the history of the injore Nayak kings which can be collated by historians with that available in the poetic mpositions of the time, such as the Sāhityaratnākara2 of Yajñanārāyana, eldest son of ovinda dīksita, and the Raghunūthābhyudaya3 of Rāmabhadrāmba, a mistress of king ighunatha.
According to the enumeration of topics which the work itself gives at the beginning ee pp. 8-10), the Sangitasudha dealt with the subjects, Svaras, Rāgas, Prakīrņaka, abandhas, Tālas, Vadyas and Nartana (Dance), in seven chapters. Unfortunately, inuscripts of the work that are available take us only as far as the fourth chapter.
The work is written on the plan of the Sangita Ratnakara of Sarngadeva, though it idemns that work. Large portions of it are practically a recast in Upajäti metre of the :t of the Ratnakara and of the commentary on it by Kallinatha. This fact helped us to onstruct many portions of the text. The Sudha has also used extensively the work of nāpati and the Sangītasara ascribed to sage Vidyaranya, which latter is unfortunately : available.
The Music Academy took up this work for serial publication in the pages of the rnal in 1930 and completed the publication in 1939 in volume IX of the journal. as in charge of the publication of the latter half of the text. The text that appeared in journal was based mainly on a manuscript in the Sarasvati Mahal Library at Tanjore. llated that text with the manuscript in the Adyar Library and have issued it now in kform with corrections and additions, variant readings, index of authorities cited and iled table of contents. The Academy is thankful to Mr. P. S. Sundaram aiyar and dit S. Subrahmanya Sastri. The thanks of the Academy are also due to the erintendent of Epigraphy, Madras, for supplying the block of the sculpture-portrait iovinda Dīksita at Pattīśvaram and permitting its reproduction in this publication.
dras l -1940) V. RAGHAVAN
l. For an account of the life of Govinda diksita, see N. K. Venkatesan, M.A.,L.T., terly Journal of the Andhra Historical Research Society, Vol. II, pp. 220-241, '. and 3. Editions, University of Madras.
Page 6
Works and Authors cited
अत्र स्मृता ग्रन्था ग्रन्थकाराश्र
अर्जुन: २९९-२८८, २९१, २९४, २९६, २९९ अञ्जनेयसंहिता १५२-४८५ उमापति: १५२-४०६ कल्िनाथ: १५२-४०८ काश्यप: १८-१२६, १२८, २५-२२३ केशवः रत्नाकरव्याख्याता १५२-४०८ तुम्बुरु: २५-२२१ दत्तिल: १८-१३७, २५-२२० दुंर्गा १८-१२७, १९-१३९, १०२-९, ११, १२ नन्दिन् २५-२२२, १५२-४०६, २७९-३१, २९७-२७२ नारद: २५-२२१ पार्वेती २९७-२७१ पाश्वदेव: २७४-३०३, २७९-२९, २८०-४०, ४३ बृहद्देशी १५२-४०५ भरत: १८-१३३, १०२-१०, २७९-३० मतङ्ग: २०-१५८,.१०२-११, १५२-४०५, २८५-११६, ३०३-३४४ (भट्ट) माधव: १५२-४०७ याष्टिक: १८-१२८, १३५, २०-१५८, २१-१६६, २५-२२०, १०२-१२ याष्टिकसंहिता १५२-४०५ विद्यारण्य: १५२-४०६, ४१३, २८१.५३ शाङगदेव: १०२-१२, १५२-४०७ शार्दूल: १७-१२२, २०-१५८, २१-१६५, १०२-१२, २७९-३१ शिव: २९९-२९५ सङ्गीतचन्द्रिका १५२-४०७ सङ्गीतसार: १५२-४०६ हनूमान् २५-२२२, १५२-४०५, २११-९७६
Page 7
CORRECTIONS AND ADDITIONS
· पृष्ठम् पद्यम पाद: शुद्धपाठ:
२ प्रथिताभिधाना
३ रमानटी- -परिणीहरीणाम् ३ -भद्रपद्या
४ -विधानवद्या ६ ३ -रेखाच्छल-
८ ३ -मुख्या: ४ सभा: ९ २ रम्या ११ ४ वर्गः २
१५ ४ निषेव्यमाण: २३ त्रुवाणान् ३ ३० ३ -गिरीश्वरस्य ३६ ४ अभृत राज्यभारम् ४ ३९ २ स गोपुराणि ४९ ४ इमामवोचत् ५४ ४ सद्गोपुर- ५७ २ -पूर्वकाणि ५९ ३ परस्सहस्त्र- ६१ क्षुद्रान् ६३ २ प्रबन्धान् ४ विद्वत्कवीनाम् ६ ७२ 3 प्रहर्ष: ६३ २ शास्त्रं तु ३ धीमन्थरेण ७
३ मार्गित: 9
४ रुच्या V
११ ४ वुष्टो व्यतारीत् ८ १५ तिरश्चाम् १७ शरीरप्रभवप्रभेद: B
Page 8
CORRECTIONS AND ADDITIONS
पृष्ठम् पद्यम् • पाद: शुद्धपाठ:
१९ ततः स्वराणां ९ २६ शब्दस्य -जोम्बलाद्याः २७ ३ स्थाया: तथालप्ति: २८ ४ तथाभोग इति २९ १ तथा तदङ्गानि ३ पाटोऽपि ताल: ३० सूड: -सूडक: ३ आलिक्रमश्चैव ३२ चच्चत्पुटाद्याः ३४ ४ पादभेदाः ३७ १ लघुः प्लुतश्च ३-४ उल्लोप्यकादीनि च मद्रकादिगीताड जातानि ३८ ४ •मेरुकश्च १० ४० २ -हीना: ४ पाञ्मिकेऽर्थजातम् (?) ४४ २ नादेरितं ११ ५४ नानानुमानै- ५५ ४ जीव: स्थितो भूत- ५६ ३-४ स्वप्रोपलब्धे सुककुमारदेहः समीरितस्तैजस एष जीवः । ५७ ३ हरणश्रुतेः ५८ तस्य स तण्डुलाख्य: ६० ? विवर्तेरूपश्च भवेत् १२ ७२ 3 पुण्येष्वथ ७३ अथैतमाकाशं ७६ ४ योनीरथ Add after ७७ मासे तु पूर्णे कठिनत्वमेति मासि द्वितीये समुपैति शीर्षम्। पादप्रदेशो भवतीह मास- त्रयेण जीवस्य विभक्तरूपैः
Page 9
CORRECTIONS AND ADDITIONS xi .
पृष्ठम् पद्यम् पादः . ·शुद्धपाठः . ७८ चतुर्थऽङ्गलि- १३ ८४ ३ तरिष्याम्यथ १५ ९२ शारीरतत्त्वम् ९८ १ नदे्वा घजिि . १६ १११ ३ सारणास्याम् १७ ११२ ३ ११३ २ ध्रुवाख्य- ११४ १ ध्रुवास्थ- ११५ ३ "सारणा या ४ तस्यां Add here : कृता तृतीया खल सारणा या तस्यां हि लब्धा: श्रुतयः षडेव। कृता तु तुर्या खलु सारणा या स्युर्द्वादशास्यां श्रुतयः सुलब्धाः ॥ ११६ श्रुतीनां 20 ११७ 3 श्रतीश्च ११८ सारणानां ११९ line ढक्कजन्यभाषारागा: २१ १८ १३० मृदुमन्द्रिका १३३ 3 जाती: ४ भरतापदिष्टाः १३४ 3 मृदु: १३५ १ उपविश्य जाती: याष्टिकोक्ताः १३६ ३ आलापिनी १३७ 3 जाती: दत्तिलोक्ता: १९ १३९ जाती: दुगाभिहित क्रमेण १४१ २ मुखानि १४४ १ -डप्यृषभ: १४६ १ तदन्त्य- १४७ १ गान्धार- १४८ २
Page 10
xii CORRECTIONS AND ADDITIONS
पृष्ठम् पद्यम् पाद: शुद्धपाठ:
Add after १४८ अन्त्यां श्रुतिं मध्यमसंज्ञ कस्य प्राप्नोति चेत् पञ्च्म एष नित्यम्। १४९ ६ अच्यवनान्निमित्तात् २० १५५ उक्ता: १६१ बहुधानुवृत्ति: २२ १८० ३ सधयोर्निषाद: २३ Add after १८९ आरभ्यते मन्द्रकपख्मेन चच्छुद्धषड्जा कथिता चतुर्थी आरोहणं मध्यगमध्यमान्त- मापञ्जमं स्यादवरोहणं च ।। १९१ ३-४ किलाश्वक्रान्ता १९२ २ गान्धारमध्यान्त- १९६ २ मध्यगतर्षभेण २०० १ सा ३ मध्यमान्तं २४ Add after २०६ तां मूर्छना पूरयते तु संख्यां निरीतिरेषोत्तरमन्द्रकादौ । तन्मध्यमग्रामगमूछेनासु यां मध्यमः पूरयतेऽत्र संख्याम्। २०८ १ पञ्चमेनारम्भाच् २१२ १ सप्तापि २ २५ २१४ हीना: २१५ १ रिधाभ्यां २ ताना: २१८ १ पूर्णा: २२७ ३ प्रकारेण २६ २३१ ४ (तत्) स्याच्छतं २३३ ३ ताना: (?) २३४ तत्रापि च त्रिश्रतिपञ्चमोऽस्ति। २४० २ पूर्णैर पूर्णैश्च २७ २४३ १ आद्येन तृतीयं २४६ ऋषभाद् विलेख्यः २४८ ३ तान: ४ विलेख्य:
Page 11
CORRECTIONS AND ADDITIONS xiii
.
पृष्ठम् पद्यम् पाद: शुद्धपाठः
२५१ मध्यमान्ता:
२८ २६१ १ षडङ्कं (?)
२९ २६९ ४ द्वितयं
२७० ३ पङ्ित्रया-
३१ २७२ -कोष्ठे 3
२७३ द्विगुणां
२८० शतश्ब
३२ २८३ "
२८४ कश्चित्
२८७ -कोष्ठ
२८९ ३
२९१ "
२९२ त्यक्त्व-
२९३ -कोष्ठे मगौ च
२९५ -युक्काष्ठ-
३३ ३०३ 3 निहतं तु ३०५ १ -उपान्त्यतया
३०७ १ मसगर्यभिख्य:
३४ ३१२ १ -अंककद्म्बकस्य
३१७ -संमितानि
३ सप्तस्वपि
३६ ३३५ अपरस्तु नान्दी एष तान:
३७ ३४७ जात्या च
३४८ ३ चतुर्विधं
३८ ३६६ ४ अलंकारैर्नितान्तं
३९ ३७७ कलात्रयाढ्यं
२ कलास्वरूपं मूर्छनिका दिमौ चेत् तदन्तराले यदि तद्द्वितीयः । 20
Add after the above आद्या कला साऽथ भवेद्द्वितीया तृतीयतुर्यो यदि मध्यमौ स्तः ॥
३७८ २ सा कथिता तृतीया
४० ३८७ त्रिरादिमं तत्र
४१ ३८९ चतुश्रतुर्थम्
Page 12
xiv CORRECTIONS AND ADDITIONS पृष्ठम् पद्यम पाद: शुद्धपाठः ३९४ कलाद्वय ३९५ स्वरत्रयीभाजि कलात्रयेऽस्मिन् ४२ ३९७ २ अलङ्कारतया प्रगीता: ४00A १ अन्यः ४०२ ? चतुर्विशतया ४२ ४०४ ४ सप्तममत्र ४०५ एवं भवेत्पञ्नसु यत्र गान- ४३ ४१२ १ कला निदध्यादू गीत्वा ४१७ ४ -युक् तृतीयम् ४५ ४३१ २ तुर्य पुनर्गायति चेत् तृतीया Add after that तुर्य यदा पञ्ममत्र षष्ठं तं पञ्मं गायति सा चतुर्थी। ४३२ ३ षट् कला: ४७ ४३४ २ षष्ठः ४३६ २ -नामानमुदीरयन्ति ४८ ४४१ स्वरास्सादय ४४९ आद्यस्वराः 3 -त्रयेणेति महाकला ४९ ४५२ १ प्रगायेत् ४५५ ४ द्वितीयं च ४५७ मंद्रं तृतीयं 3 द्विरेतान् ४५८ ४ -रक्जितः ५० ४६४ द्वि: ४६५ द्वितीयमाद्यं ४६९ ३ अवरोहेत् ४ आरभ्य ५२ ४८६ तृतीयात् ४८८ १ आरुह्य सप्तापि यदाष्टमान ४९२ ३ मन्द्रान्तु गीत्वा यदि सप्तमाद्वि ५१८ ४ षट् च भिदा: ५२२ 20 अष्टोत्तर- ५७ ५३७ २ षाडवतौडुवत्वे ५४२ ३ व्यंशयुता:
Page 13
COBRECTIONS AND ADDITIONS XV • पृष्ठम पद्यम् पाद: शुद्धपाठः . ५४३ त्रयशयुता: ५९ ५५२ यश्च ५५९ २ मन्द्रगनी निरुक्तौ ६० ५६१ १ षाड्ज्या ५७१ २ ऋषमेण ६२ 428 Add the line जातावमुष्य निगयो: प्रसक्त्तौ गस्याल्पभावः परिसंख्ययैव। ५९९ heading -षाड्जी ९१ ६९७ ध्रुवायां 22x १०२ २३ लक्ष्म स्वरूपं च १०५ ५० गायक १२३ २०० ईरिता: १२५ २१७ -षड्जयो: १३६ २९७ २ ते १३९ ३१३ ३ चाङ़गं १४२ ३३१ ३ निषादे १४६ ३६२ २ पूर्वक्रय- ३ षष्ठी १६० 88? Add this as second त्येजेत्पुनर्मध्यगषड्ज एव line स्थायी पुनर्मध्यगषड्ज एवम्। ४९२ ३ आमध्यषड्जं १७६ ६५: १ गौलरागं २१७७ After 661 first line add ॥ न्यास: ॥ the following न्यासं तु रागस्य ततो वदाम- स्त्वारभ्य मध्यस्थितपञ्मं तम् । मध्यर्षभान्तं त्ववरुह्य तस्मा- दारुह्य तारस्थितमध्यमान्तम् ।। १९२ ४०३ १ तारस्थित- १९३ After 812, first line, insert ।। वर्तनी ॥ अथोध्यते वर्तनिकां क्रमेण त्वारभ्य मध्यस्थितषड्जमादौ। २०४ After 912 add आमध्यगान्मध्यमतोऽवरुह्य गीत्वा च तानान् कतिचिद्विचित्रान् । न्यस्येञ्च तारस्थितषड्ज एव सा रागवर्धन्यभिधीयतेऽन्या।।
Page 14
xvi CORRECTIONS AND ADDITIONS
पृष्ठम् पद्यम् पाद शद्धपाठः
२०९ After 953 add केचिन्नवीना: खलु भैरवीं तु श्रीरागमेले परिकल्पयन्ति।
१०५५ ४ पुनरुक्तिदोषम्
२२३ १०७८ मध्यस्थितपञ्चमम
२३६ १२०० ४ हापि गीत्वा
२५७ ७५ Read the first line as two lines as follows: विवक्षितस्थानविवजनेन स्थानात्परिभ्रष्टममुं वदन्ति। यः स्वीकृतस्थानविवजनेन स्थानान्तरं प्राप्य पुनश्च गायेत्
२६२ १४४ २ स्याद्यौचलं
२६५ १७७ १ काक्का:
१७८ १ कथिता-
२६६ १९२ १ येषु ध्वने:
After 197 first line add तत्रान्यरागस्य भवेद्धि काकु: छायाऽथ सोंऽशोऽवयवस्त्विह स्यार
२६८ २१९ २ विस्तार-
२६९ २३५ २ विलम्ब्य
२७० ११ ४ लक्षणमात्रवेद्यम् १४ प्रहर्षोदय-
२८० ५० ३ सख्जरणकहेतू
२९७ Add after 270 सा वह्निजा संप्रति वारुणी च भेदद्वयं वा सविताश्रिता स्यारत
३४० ७९६ १ प्रवदन्ति ४०७ Add two verses एलादिमाञ्चापि तथा प्रबन्धा: षड्जातिसादृश्यवशेन शुद्धाः । शुद्धास्समस्ता: खलु पूर्वमुक्त्वा वक्ष्य युतास्सालगसूडगाश्च।। आद्यो ध्रवस्स्याद्परस्तु मण्ठः ततस्तृतीय: प्रतिमण्ठसंज्ञः । निस्सारुसंज्ञश्च भवेत्ततीय: स्यादडुताल: किल पञ्मश्च ॥ ३४१ ८३० ४ प्रगेय:
३४६ ८८४ २ खलोत्तरं
Page 15
पाठमेदा :- VARIANT READINGS
पृष्ठम् पद्यम् पाद: पाठभेदाः
४४ श्रीदक्षिणावर्तमुखस्थलेषु ५ ५६ २ श्रीनागनाथस्य ६४ रचयन्नवीनान् १० ४७ ४ उक्त: १३ ८६ इज्यादियोगेन ३८ ३५९ : २ प्रयोगभेदो मतभेदरीत्या ६३ ५९७ विनियोग उक्त्तः ६४ ६०२ २ ध्रुवादिगाने ६०४ २ ततस्तयो: स्फूर्तिरिहोचितैव १०१ १ पूर्व ह्यलक्वार- २२१ १०५७ पञ्नश्रुति: स्याद्ृषभोऽथ स्यु: षड्जगान्धारकमध्यमाश्च । सपञ्मो धैवतको निषादः स शङ्कराद्याभरणस्यं मेल: ॥ २३४ ११८० १ आतारगान्मध्यमतः २४७ १२९२ तारगधैवतान्ताः २४९ १३१७ १ आमध्यनिष्ठादू २९० १७९ १ चतुरोऽपि वर्णान् २९२ १९८ लघुं गृहीत्वा ३११ ४५६ ४ सह लक्ष्म वक्ष्ये ३३५ ७४१ १-२ तालन्रयाढ्यो बिरुदैश्च बद्ध: खण्डस्तथाभोगपदाभिधेयः ।
Page 16
DETAILED TABLE OF CONTENTS. pag
Introduction-Historical Enumeration of topics 8
Nāda 10
Śruti 16
Svara 17
Śrutis 18
Vikrtasvaras 19 ... Method of distinguishing svaras 20 ... Gramas 22 Tānas 24 Kūtatānas ... 33 Šuddhatānas ... 34 Auduva śuddhatānas 3€ ... Sādhāraņa-svara and jāti ... 37 Varņas ... Alamkāras ... . Sthayī-alamkaras ... Ãrohi-alamkāras ... 40 Sañcāri- ... 42 Prasiddha „ 4 Taramandraprasanna, Mandratāraprasanna, Āvartaka, Sam- pradāna, Vidhrta, Upalolaka, Ullāsita Jātis Amśa svaras Thirteen characteristics of Raga 5 .. Sādjī jātih Ārabhī „, .. Gāndhāri,, ... 999. Madhyamā ,, ... Pañcami ,, .. Dhaivatī „, ... Naișādī „, ... Sadjakaiśikī „ Șadjodīcyavatī „ Sadjamadhyamā „, ... Gāndhārodīcyavatī „ Rakta gāndhārī „ Kaiśiki „ ...
Page 17
DETAILED TABLE OF CONTENTS xix
Madhyamodīcyavatī jātiḥ 85-86 Kārmāravī „ 86-88 Gāndhāra pañcamī „, 88-89 Āndhrī „, 89-90 Nandayanti „ 91-93 Tālas for the Jātis 94 Merit of singing Jatis 94 Kapālas, Șādjī, Ārșabhī, Gāndhārī, Madhyamā, Pañcamikā, Dhaivatī, Naișādī, Kapālas 94-96 Kambalas 96 Kapāla padas 96-97 Gītis,-Māgadhī, Ardhamāgadhī, Sambhāvitā, Prthulā 98-99 Tālas for the Gītis 99-100 RĀGAS-CHAPTER TWO. What is Rāga? 101 Ten kinds of Rāgas 101 Five styles of Rāga singing (Gīti),- Suddhā, Bhinnā, Gaudī, Vesarā and Sādhāraņī ... 101-102 The number of Ragas in each of the ten classes,-Grāmarāgas 30 Uparāgas 8 Rāgas 20 Bhāsās 96 Vibhāsās 20 Antara bhāșās 4 Rāgangas 21 Bhāșāngas 20 Upāngas 30 Kriyāngas 15 102 Ālāpa lakșaņa 102 Seven Śuddha grāma rāgas,-Suddha Kaiśikamadhyama, Suddha Sādhārita, Şadjagrāma, Suddha pañcama, Madhyama grāma, Șādava, Śuddha Kaiśika 102-105 Five Bhinna Rāgas-Bhinna kaiśika madhyama, Bhinna șadja, Bhinna tāna, Bhinna kaisika, Bhinna pañcama, 105-6 Three Gauda Rāgas,-Gaudakaisika madhyama, Gauda pancama, Gauda kaiśika 106-107 Eight Vesara Rāgas,-Țakka, Vesara șādava, Sauvīra, Boțța, Mālavakaiśika, Mālavapañcama, Țakkakaiśika, Hindola 107-109 Seven Sādhāraņa Rāgas,-Rūpa sādhārita, Śaka, Bhammāņa pañcama, Narta, Gāndhāra pañcama, Sadjakaisika, Kakubha 109-111 Eight Uparāgas,-Sakatilaka, Takka saindhava, Kokilāpañcama, Revagupta, Pañcamasādava, Bhāvanā pañcama, Nāgagāndhāra, Nagapañcama ... 112-113 Twenty Rāgas (Śuddha Rāgas),- Śrī, Natta, ... 113 Bangāla A, Bangāla B, Bhāsa, Madhyama șādava, Balahamsa, Kollahāsa 114
Page 18
xx DETAILED TABLE OF CONTENTS
Prasava, Bhairava, Dhvani, Megha, Soma, Kāmoda A 1 Kāmoda B, Āmrapañcama Kandarpa, Deśa, Kaisikakakubha, Natțanārāyaņa 1
Ninety-six Bhāşā Rāgas 4 from Sauvira,-Sauvīrī, Vegamadhyama, Sadharitā, Gandhārī ... 117-1 6 from Kakubha,-Bhinnapancamī, Kāmbhojī, Madhyamagrāmā, Ragantī, Madhurī, Śakamiśrā 118-1 21 from Țakka,-Travaņā, Travaņodbhavā, Veranjikā, Madhyama- grāmadehā, Mālavavesarī, Chevāțī, Saindhavī, Kolāhalā, Pañcamalaksitā, Saurāșțrikā, Pañcamī, Vegarañjī, Gāndhāra- pañcamī,Mālavī, Tānavalitā, Lalitā, Ravicandrikā, Tānā, Ambā- herikā, Deśā, Vesarikā 119-1 10 from Pañcama,-Kaisikī, Trāvaņikā, Tānodbhavā, Ābhīrikā, GurjarīSaindhavī, Dāksiņātyā, Āndhrī, Māngalī, Bhāvarī 123-
4 from Bhinna pañcama,-Dhaivata bhūșitā, Šuddhabhinnā, Varāțī, Viśālā 124- 2 from Takkakaiśika,-Mālavā, Bhinna valitā 9 from Hindola,-Vesarikā., Cūtamañjarī, Șadjamadhyamā, Madhurī, Bhinnapaurālī, Gaudī, Mālavavesarī, Chevāțī, Piñjarī 12
1 from Botta,-Māngalī 13 from Mālava kaiśika,-Vāngālī, Māngalī, Harșapurī, Mālava vesarī Mañjarī, Gurjarī, Gaudī, Paurālī, Ardhavesarī, Suddhā, Māla- varūpā, Saindhavī, Ābhīrī 127-
1 from Gandhāra pañcama,-Gāndhāri 17 from Bhinna sadja-Gandharavallī, Kacchelī, Svaravallī, Nișādinī Travanā, Madhyamā, Šuddhā, Dāksiņātyā, Pulindikā, Tamburā Sadjabhāsā, Kālindī, Lalitā, Šrīkanthī, Vāngālī, Gāndhārī, Saindhvī 130 2 from Vesara Sādava,-Nādyā, Bāhyasādava 3 from Mālava pañcama,-Tānodbhavā, Bhinnatānodbhavā 1 from Pañcamasādava,-Potā 1 from Revagupta,-Sakā Vibhāşās 3 from Kakubha-Bhogavardhani, Abhīrī, Madhukarī, ... 4 from Takka-Devāravardhanī, Āndhrī, Gurjarī, Bhairavī 2 from Pancama,-Bhammani, Andhāli 1 from Bhinna pañcama,-Kauśali ...
1 from Takka Kaiśika,-Drāvidī ... 2 from Mālava kaiśika,-Kāmbhōjī, Devāravardhanī ... 4 from Bhinna sadja,-Paurālikā, Mālavī, Kālindī, Devāravardhanī 1 from Vesarasādava,-Pārvatī ... 2 from Mālava pañcama,-Bhāvanī, Vibhāvanī A Vibhāșā not assigned to any,-Pallavī ...
Page 19
DETAILED TABLE OF CONTENTS xxi
Antarabhāsās 4 from Kakubha,-Sālavāhinī, Bhāsavalitā, Kiraņāvalī, Śakalalitā ... 138 Rāgāngas-21 Śankarābharana, Ghaņțārava, Hamsaka, Dīpaka, Rīti, Karņāțikā, Lāțī, Pāñcālī, Madhyamādi, Mālavašrī, Todī, Vangāla, Bhairava 140 Varāli, Gurjarī, Gauda, Kolāhala, Vasanta 141 Dhanyāsi, Desī, Deśākhyā 142 Bhūşāngas-20 Gāmbhīrī, Vehāri 142 Śvasitā, Utpalī, Gaulī, Nādāntarī, Nīlotpalī, Chāyā 143 Tarangiņī, Gāndhāragati, Verañjikā, Ņombakriyā, Sāveri, Velāvalī 144 Prathamamañjarī, Ādikāmodī, Nāgadhvani, Varāți, Natțā, Karņāțavangāla 145 Kriyāngas-15 Bhāvakriyā, Svabhāvakriyā, Šivakriyā, Makarakriyā, Triņetrakriyā, Kum- udakriyā, Danukriyā, Ojakriyā, Indrakriyā, Nāgakriyā, Dhanyakriyā, Vijayakriyā 146 ... Rāmakriyā, Gaudakriyā and Devakriyā 146-147 Upāngas-30 Pūrņāțikā, Devāla, Kurañjī 147 6 upāngas of Varāțī,-Kauntalikā, Drāvidī, Saindhavī, Upasthāna varāțī, Hastasvaravarāțī, Pratāpavarāțī 147-148 2 of Todi,-Chāyātodi, Turușkatodi 148-149 4 of Gurjari, -- Maharastra g, Saurastra g, Daksiņa g, Dravida g, ... 149 4 of Velāvalī,-Bhunji, Stambhāvatī, Chāyāvelāvalī, Pratāpavelāvalī 149-150 Bhairavi of Bhairava 150 Simhalī of Kāmodā Chāyā Natțā of Natta Kolāhala of Takka ... Bhallātikā of Hindola ... 151 Malharī, Malhāsa, from Āndhālī 151 Karņāța gauda, Turușka gauda and Drāvida gauda 151-152 Authorities from whose texts the above Ragas and their descriptions were derived; criticism of Ratnakara and its commentators, Keśava and Kalli- nātha 152 Vidyaranya's view as given in his Sangīta sāra: 15 Melas and 50 Rāgas ... 152-153 15 Melas mentioned by Vidyāranya, Natțā, Gurjarī, Varāțī, Śrīrāga, Bhairavi, Sankarābharaņa, Āhiri, Vasantabhairavī, Sāmanta, Kāmbodi, Mukhāri, Suddharāmakriyā, Kedāragauda, Hejjujji, Deśākși 153 3 Kinds of Vīnā,-Śuddhamelavīņā, Madhyamelavīņā, Acyuta Raghu- nātha melavīņā 153 Descriptions of these 3 Vīņās 153-155 Reference to Añjaneya's view on Nattā and other Deśi rāgas 155-156 Natțā Mela (born of Piñjarī, the bhāșā of Hindola) ... 156-160
Page 20
xxii DETAILED TABLE OF CONTENTS
Āyitta explained as Āksiptika 15 Eduppu, Muktāyi explained as Rāgavardhanī and Vidārī- 15 Gurjarī Mela, the sourse of 15 other Rāgas; criticism of Rāmāmātya 160-16 Saurāșțra 163-16 Mecabauli 165-16 Chāyā gaula 167-16 Guņdakriyā 169-17 Sālaga nāțikā; criticism of Ramāmātya 170-17 Śuddha vasanta 172-17 Nādarāmakriyā, criticism of Rāmāmātya 175-17 Gaula 176-17 Bauli 179-18 Karņāța bangāla 181-18 Lalita 182-18 Malahari 184-18 Pādī; criticism of Rāmāmātya 186-18 Sāverī 188-18 Revagupti 190-10 Varāțī Mela 191-19 Śrīrūga Mela 193-19 Sālaga Bhairavī 195-19 Ghaņtārava; criticism of Rāmāmātya 197-1! Velāvalī 199-21 Devagāndhārī 200-2 Rītigaula 202-21 Malavaśrī 204-2 Madhyamādi 205-21 Dhanāśī 207-2( Bhairavī Mela 209-2 Jayantasena, king Raghunatha's invention 211-2 Bhinna șadja 213-2: Hindola Vasanta 215-2 Hindola 217-2 Bhūpāla 219-2 Śankarābharana Mela 221-2 Ārabhī 223-2 Pūrva gaula 224-2 Nārāyaņī 225-2 Nārāyaņa Deśākșī 228-2 Āhirī Mela 229-2 Ābherī 231-2 Vasanta Bhairavī Mela 233-2 Sāmanta Mela 235-2 Kannada gaula 237-2
Page 21
DETAILED TABLE OF CONTENTS xxiii
Kāmbodi Mela 238-240 Mukhārī Mela 240-242 Śuddha Rāmakriyā Mela 242-244 Kedāra gāula Mela 244-245 Nārāyaņa gaula 246-247 Hijjuji Mela 247-249 Deśāksī Mela 249-251 PRAKĪRNAKA-CHAPTER THREE Vāggeyakāra 252-255 Ubhayakāra and Bayakāra explained as Vāggeyakāra Gāyaka 255-257 Śabda, its varieties and qualities 257-262 Sārira 262-263 Gamaka 263-264 Sthāyās 264-273 Ālapti 273 Rūpakālapti 274 Vrnda 274-276 PRABANDHAS-CHAPTER FOUR Several varieties or manners of singing 278- Sama, Vyakta, Madhura etc. Nibaddha and Anibaddha; limbs of Anibaddha .. 279 Names and Limbs of Nibaddha, Svara, Biruda, Pada, Tennaka, Pāța, Tāla 280-282 Sūda prabandhas 82-283 Elā (views of Nandin, Arjuna and Šiva) 283-304 Karaņa prabandha 304-306 Dhenki Prabandha 306-307 Vartani „, 307 Jhombada „ 307-309 Lambha „ 309-310 Rāsa „, 310-311 Ekatāli „ 311- Ālikrama Prabandhas numbering 25: Varņa, Varnasvara, Gadya, Kaivāda, Ankacāriņī, Kanda, Turangalīlā, Gajalīlā, Dvipadī, Cakravāla, Krauñca- pada, Svarārtha, Dhvanikutțanī, Āryā, Gāthā, Dvipada, Kalahamsa, Toțaka, Ghața, Vrtta, Mātrkā, Rāgakadamba, Pañcatāleśvara, Talārņava 311-329 Miscellaneous compositions Srīranga 329-330 Šrīvilāsa 330-331 Cātușpadī 331- Satpadī 331 Vastu ... 332 Vijaya ... 332 Tripatha ... 332
Page 22
xxiv DETAILED TABLE OF CONTENTS
Caturmukha Simhalila Hamsalīla Daņdaka Jhampața 333- Kanduka Tribhangi Haravilāsa ... Sudarśana ... Svarānka .. Śrivardhana ... Harsavardhana Vadana 335- Caccari Caryā 336- Paddhațī ... Rāhadī Vīraśrī 337- Mangalācāra Dhavala 338- Mangala Ovi Loli Dhollarī ... Dantī Salaga sūda prabandhas; Salaga explained as Chayalaga: Dhruva, Mantha, Pratimantha, Nissāru, Adda, Rāsa, Ekatālī, Rūpaka 340- Gunas and Doșas of Gīta 346-
Page 23
।। श्रा: ।।
रघुनाथभूपविरचिता।। सङ्गीतसुधा ॥। चरित्रम् ॥।
श्रीचोलदेशाभरणं वकास्ति तञ्जापुरीति प्रथिताभिधानम्। रमानदीनर्तनरङ्गशाला पुरी दरी भूपरिणी हरीणाम्॥ १॥ मणिस्फुरन्मन्दिरवृन्दहद्या सामन्तभूपालकुलैरभेद्या। भद्रादिदन्तावलभद्रवन्द्या वर्णाश्रमाचार विधानपद्या॥ २।। अजस्रमाकल्पितसर्वकामा रामाभिरामा रमणीयधामा। सौभाग्यभूम्ना हसितान्यसीमा सौधावलीसंभृतरत्नदामा॥ ३ ॥। शार्हूलकण्ठीरव शौर्यसंपत्समुद्भटैर्वीर भटैः समग्रा। विचित्रवणैर्विविधैस्तुर्गैः खुरद्वित क्षोणितलैः समग्रा॥४ ॥ विनिर्जितैरवतपुण्डरीकमुखाखिलाशाद्विर दैर्द्विपेन्द्रैः । कपोलनिष्यन्दिमदाम्बुधारा जम्बालित क्षोणितलैः समेता ॥५॥ निरन्तरावा सिरमावलोकसमागतास्भोनिधिचारुखेया। प्राकाररेखोच्चलचक्रवाल परिष्कृताविष्कृतसैन्यलक्ष्मीः॥६र॥ तस्यां नगर्यी तरुणार्कबिम्बद्विरुक्तिस धा ग्रा सु वर्णकुम्भम् ।
लक्ष्मीविलासोऽपि च भद्रशाला श्रीरामसौधोऽपि च हेमकूटः । अन्याश्च यत्राच्युतरङ्गमुख्या सभा सुधर्मोपमिता जयन्ति ॥८ ।
रग्या विशेषेण सभा विभाति तत्रेन्दिरामन्दिरनामधेया॥९॥ यस्या: समीपे शतशो विभान्ति नृपाङ्नारत्वनिवासयोग्याः। गृहा विचित्रोपवनीविहारप्रासादकेलीसरसीसमेताः ॥१० ॥
Page 24
२ सङ्गीतसुधा॥ तत्रेन्दिरामन्दिरनामधेये सभाविशेषे सह मन्त्रिव्यैः ।
मदावलाश्वप्रकराधिनाथैधौरेयवर्गरपि पार्श्वभागे। निषादिभि: सादिभिरप्यनेकैः खलूरिकाकेलिविशारदैश्व ॥१२॥
षट्दर्शिनीसागरपारगैश्च महीसुरर्भूषितपार्श्वभागः॥१३ ॥ कविप्रवेकैरपि कालिदासमथूरसौमिलमुरारिदेश्यैः । कर्णाटकान्धद्रविडप्रबन्धनिर्माणविद्यानिषुणैश्च कैश्चित्॥ १४।। वाग्गेयकार प्रमुखैरनेकैर्विचित्रगीतादिकलाप्रवीणै ः । तथैव वीणादिमवाद्यविद्याविचक्षणैः क्वापि निषेवमाणैः ॥ १५॥ नानाविधाशानरपालवर्गैः सन्देशकृद्भिः समुपास्यमानः । आस्तेऽपि भद्रासनमच्युतेन्द्रतनूभवः श्रीरघुनाथभूपः ॥ १६॥ द्वाः स्थस्तदा सत्वरमभ्युपेत्य विनस्य विज्ञापितवान्विनीतः । दिदृक्षमाणा विबुधा भवन्तं द्वारि स्थितं मां त्वरयन्त्यभीक्ष्णम्॥१७॥ इतीरितं तस्य वचो निशम्य समुत्थितः प्राश्जलिरित्यवोचत्। आनीयतामन्तिकमादरेण वैतानिकार्यप्रमुखो बुघौधः ॥१८॥ आज्ञप्तिमेनां शिरसा प्रगृह्य प्रावेशयत्सोऽपि बुधान्समस्तान्। मन्त्राक्षतालङ्कतपाणिपझ्मान् फलोपहाराश्चितपूर्णकुम्भान्॥ १९। विलोक्य दूरे विबुधान्प्रणम्य मन्त्राक्षतान्मूर्ध्नि मुदा विधाय। विकीर्यमाणान्बहुमानपूर्वमादाय तेषां सफलोपहारान्॥ २० ॥ अभ्युक्ष्य तीर्थाम्वुभिरुत्तमाङ्ग न्यवेशयन्तानुचितासनेषु। यथोचितं स्वानि समर्चयन्तमस्ताविषुस्तं विबुधाः समस्ताः॥२१॥ यथा मुनीन्द्रान्यमुनोपकण्ठनिवासिनो दाशरथि: पुरस्तात्। अपूजयत्तद्वदिह त्वमस्मानाराघयस्यादरपूर्वमेव ॥। २२ ॥ एवं न्व्वाणन्विबुधाग्रगण्यान्व्रते स्म मोदाद्रघुनाथभूपः । क्षोणीसुरा वः कुशलानि कच्चित्पुत्रेषु दारेषु तपोभरेषु ॥ २३ ॥ अप्यप्निहोत्रव्रतसाधनानि सुखानि किं सम्प्रति गोधनानि। प्रवर्तते वः किमु पश्चयज्ञक्रियान्तरायं पुनरन्तरेण ॥ २४ ।।
Page 25
चरित्रम्॥ इतीरितं वाक्यमिमे निशम्य मुदावदन्भूमिमृदाशयज्ञाः। आसेतुभागीरथि भूमिभागादभ्यागतानामवंनीसुराणाम्॥२५॥ अन्नैः सुबर्णैरपि वस्त्रजालैः स्तनन्धयानां च पयः प्रदानैः । आतन्वतो रक्षणमादरेण तवैव राज्ये वसतां चिरं नः ॥२६॥ भवत्कटाक्षैरभिरक्षितानां क्षेमं समस्तीति किमत्र चित्रम्। पितामहस्ते चिनचेव्वभूपः समृद्धतेजाः सकलानरक्षत् ॥२७॥ कर्णाटसिंहासनकार्यघुर्यः पराक्रमाक्रान्तपरावनीकः । शोणाद्रिनाथस्य स चेव्वभूपो निर्माय चत्वार्यपि गोपुराणि ॥२८॥ प्राकारप ङक्तीर्नवमण्टपानि तडागदिव्योपवनानि भूयः । प्रामाननेकानुपकण्ठसीस्नि दश्वा विचित्राणि च भूषणानि ॥२९ ॥ रथाननेकान्विरचय्य रम्यांश्चकरे महाराजविभूतिमस्य। न केवलं शोणगिरीश्वस्य कैङ्गर्यमेवरं कृतवान्स भूपः ॥ ३० ॥ एकाम्रनाथस्य च दीर्धशैलनिवासिनश्चापि रघूद्हस्य । वृद्धाचलेशस्य समस्तमेतत्प्राकारमुख्यान्व्यतनोद्विशेषात्॥३१॥ श्रीशैलनाथस्य च वेङटाद्रिनिवासिन: पद्मविलोचनस्य। हैमं विमानं विरचय्य हर्षादन्यच्च कैङ्कर्यमसावतानीत्॥३२॥ चोलेष्वयं कि बहुना नरेन्द्रः स्थानेषु सर्वेषु हरेईरस्य। प्राकारसौधप्रमुखाननेकान्निर्माय धर्मान्मुमुदे नरेन्द्रः । ३३ ॥। महीसुरान्किश्च महाग्रहारैरहर्निशं सादरमन्नदानैः । दानैरनेकैरपि भक्तिपूर्व संप्रीणयामास स चेव्वभूप: ॥ ३४ ॥ तत्तादृशै र धर्मभरैरमुष्मादाविर्बभूवाच्युतभूमिपालः। मूर्त्यम्बिकायां जगदम्बिकायां बालेन्दुमौलेरिव बाहुलेय:॥ ३५॥ आरभ्य बाल्यादतिभक्तिशाली मुदा सदाऽसेवत रङ्गनाथम् अवाप्य तक्षापुरमप्रतीपः कौमार एवाऽहृतराज्यभारम् ॥३६॥ गजैरनेकैस्तुरगैर्भटैश्च निर्जित्य सामन्तनृपालवर्गम्। सम्पाद्य दत्ते स्म समस्तमर्थ श्रीरङ्गनाथाय तथा द्विजेम्यः ॥३७॥ रङ्गेशितुर्दिव्यमसौ विमानं हिरण्मयं रत्नमयं किरीटम्। मणीमयं वर्म च निर्मिमीते सिंहासनं स्म क्षितिपाल एषः ॥३८ ॥
Page 26
सङ्गीतसुधा॥
तस्यैव पूर्वोत्तरपश्चिमानि सगोपुराण्यप्रतिमप्रभाणि। प्राकारमप्यष्टममातंनिष्ट महानसं चापि महीमहेन्द्रः । ३९।। लक्ष्म्याश्च सर्वाण्यपि मण्डपानि दिव्यानि रत्नाभरणान्यतानीत्। आरोहमार्ग व मरुदूधायामलड्डियाभावमुपेयिवांसम् ॥४० ॥ आरामसीमामपि रङ्गभर्तुर्ग्रामाननेकानपि संव्यतानीत्। दानं तुलापूरुषमच्युतेन्द्रो हिरण्यगर्भ प्रतिवर्षमेव ॥ ४१॥ हेमाद्रिकल्पे कथितानि सम्यक् सर्वाणि दानानि मुहुर्व्यतानीत्। रामेश्वरस्यापि" च गोपुराणि तीर्थानि सर्वाणि नवीचकार ॥४२।। सन्दर्शनं किश्च स रामसेतोरसावका र्षीदनुवर्षमेव। दिने दिनेऽभोजयदेष लक्षा (न्गोसायि) कानच्युतभूमिपालः॥४३॥ माथूर मध्यार्जुन कुम्भघोण श्रीचम्पकारण्य मुखस्थलेषु। महत्तरं मण्डपमाततान भक्तया महत्या परमच्युतेन्द्रः ।। ४४ ।। अन्याननेकानपिचाग्रहारानसौ व्यतानीद्वनीसुरेभ्यः । घैये च शौर्येऽपि च दानकेल्यां समो न कश्विदवरणीभृदस्य ॥ ४५॥ पार्थश्च कर्णश्च परे नरेन्द्राश्चिरन्तना एव तुलां लभन्ते। एतादशैः पुण्यभरैरमुष्य पुत्रत्वमासीद्रवुनाथभूपः ॥४६ ॥ अजाद्यथा पङ्िक्तरथश्च तस्माद्रघूद्वहोऽजायत रम्यकीर्तिः । श्री चेव्वभूपाच्च तथाऽचयुतेन्द्रस्तथाऽभवस्वं रघुनाथ भूप ।। ४७।। पूर्व समेता वयमत्र युष्मत्पितामहं चेव्वमहीमहेन्द्रम्। आशीर्भिरानन्दयितुं तदग्रे त्वय्यादघाने खुरलीषु केलिम्॥४८॥ तदा भवन्तं स विलोक्य हर्षादस्मान्मुदा वाचमिमावोचत्। .. अस्माकमेतेन भवत्प्रतिष्ठा धर्तु समर्थश्च स एष राज्यम्॥४९॥॥ आशीर्विशेषाच्चिन चेव्वनेतु रासीरिदानीमधिकस्ततोSे पि । प्रीतिप्रकर्ष चिनचेव्वभूमीपतेरकार्षीः स्त्रगुणप्रकर्षैः ॥ ५०॥ पितुस्तथैवाच्युतभूवलारे: कृतानुवृत्तिश्चिरमादधास्त्वम्। मंदावलारोहणकोशलेन तुरङ्गघाटीष्वपि पाटवेन ।। ५१॥ कृपाणिकाखेटकनैपुणेन शार्ङ्गस्यचाकर्षणचातुरीभिः । सङ्गीतसाहित्यकलाविला सैर्भाषाप्रबन्धेषु भृजे पटिस्रा ॥५२॥
Page 27
चरित्रम् ।। ५
चित्तानुवृश्या चिरमच्युतेन्दुरमन्दमानन्दभर बभार। तदीयधर्मान्परिपालयंस्त्वं चोलावनिं पालयंसि प्रकर्षात् ॥।५३।। श्रीरामसेतावपि कुम्भघोणे श्रीरङ्गधामन्यपि रामभद्रम्। देवं प्रतिष्ठाप्य तरामतानी: प्राकारसङ्गोपुरमण्डपानि ॥५४॥ रथोत्सवादिं महतीं विभूति रसादकार्षीरघुनायकस्य । जल्पेशितु: पञ्चनदेश्वरस्य श्रीधेनुनाथस्य महेश्वरस्य ॥ ५५॥ श्री श्रीनिवासस्थलसीस्ति विष्णोः श्रीरङ्गनाथस्य वरप्रदातुः । महत्तरं मण्डपमादघास्वं श्रीकुम्सघोणेश्वरगोपुराख्यम् ॥५६॥ 1 हेमाद्रिकल्पप्रतिपादितानि मुहुस्तुलापूरुषपूविकाणि । सर्वाणि दानानि महान्ति तन्वन्महीसुरान्पालयसे विशेषात्॥५७॥ दत्तैस्त्वयार्थेः परितुष्चित्ताश्ोलेषु काश्यामखिलेSपि देशे। भवजयस्तम्भनिभा द्विजेन्द्राः कृताग्निहोत्रा: कृतिनो जयन्ति ॥५८॥ क्रमेण दत्तानपि तातपादैर्नानाग्रहारानतिराय्य भूष्णून्। एकत्रचैकत्र पुरस्सहस्रकुटुम्बभाजः कुरुषेऽग्रहारान्॥५९॥ एवं प्रकुर्वन्स महाग्रहारान्पूर्वै: कृतान्पालयसे च सम्पक्। नित्यान्नदानं कुरुषे द्विजानामसङच्चकानामनिवारितस्त्वम्॥ ६० । सम्पाद्य सेनां बहुधात्युदग्रां जित्ा सपलानपि भूमिपालान्। समुद्रमध्याश्रयणैः समस्तानक्ुद्रं निराकृत्य सुखं विधत्से ।। ६१।। श्रीपारि जाताहरणप्रबन्धं चित्रं च वाल्मीकिचरित्रकाव्यम्। तथाऽच्युतेन्द्राम्युदयं गजेन्द्रमोक्षं चरित्रं च नलस्य चित्रम् ॥६२ ॥।
निर्माय वाग्भिर्निपुणार्थभाग्भिविंद्वत्कवीनां विदधासि हर्षम् ॥ ६३॥ जयन्त सेनादिमरागरा मानन्दा दिता लान्रचय न्विशेषान्। सङ्गीतविद्यां समुपादिशस्त्वं विपश्चिकावादविवक्षणनाम्॥६४ ।। किंच त्वमश्चन्गवदीयनाममेलान्तरं सम्प्रति कल्पयित्वा। मे लान्तरे तत्र समस्तरागान् प्रकाशयोग्यान्सुलभान्करोषि॥ ६५॥ वक्तव्यमन्यच्च व्य वदामस्तदेतदाकर्णय सादर त्वम्। सदाशिवादैः सकलैः प्रणीतं सद्गीतशात्रं हि सपाहउसषैः ॥६६॥
Page 28
सङ्गीतसुधा॥ ग्रन्थैनिबद्धं तद्निद गभीरं विस्तीर्णभावादपि दुर्विगाहम्। तत्सङ्गहे कैश्चन सम्परवृत्तैर्दुर्बोधमेतत्सुतरामकारि॥ ६७॥ लक्ष्यस्वरूपे हि विचिन्त्यमाने नानाप्रभेद: परिद्ृश्यतेऽत्र। नैकोऽपि शास्त्रानुगुणो विभाति कथ प्रवृत्ति: किल वैणिकानाम्। यथाहि लक्ष्यस्य च लक्षणस्य कश्चिद्विरोधो न भवेत्तथैव। यथैकवारश्रवणेन बोधः सम्यग्भवेद्रायकगायकीनाम् ॥ ६९॥ यथा च सङ्गीतरहस्यबोधो जायेत सद: सुमनोजनानाम्। तथैव सङ्गीतसुधाप्रबन्धं विधेहि हृद्ैरुपजा तिपदयैः ॥ ६० ॥ सङ्गीतमात्रेऽत्र कथं नियोगो ममोचितः स्यादिति मैव मंस्थाः । प्राधान्यतः प्रस्तुतमेतदेव रामायणे राघवसद्रणेषु ॥ ७१॥ गान्धर्वशास्त्रे भरताग्रजातः श्रेष्ठो बभूवेत्यवदन्मुनीन्द्राः । अतो भवेद्दाशरथेः प्रकर्षः सदाशिवस्यापि भवेत्प्रमोदः ॥ ७२॥ सर्वोपकाराय ततो विधेहि शास्त्रेन्दुसङ्गीतसुधाभिधानम्। पुरा सुरार्थ भगवान्मुकुन्दो मन्थानशैलेन महाम्बुराशिम्॥ ६३॥ विमथ्य सङ्गह्य सुधां व्यतानीत्तेम्यः प्रमोदं चिरजीवितं च। अथापि वैषम्यकथा बभूव सर्वेश्वरस्यापि च पक्षपातात्॥७४॥ भवानिदानीं रघुनाथ एव वैषग्यवार्तामपनुद्य विष्णोः। सुरासुराणामवनीसुराणां सज्ञां विशां चैव तथेतरेषाम्॥ ८५॥ सङ्गीतशास्त्राम्वुनिधि विमथ्य धीमन्थरेणाकृतपक्षपातः । प्रदेहि सङ्गीतसुधामतस्ते श्रेयांसि भूयांसि भवन्ति नित्यम्॥७३ ॥ आकर्ण्य तद्वाक्यमतीव हर्षात्कृताञ्जलिः श्रीरघुनाथभूपः। श्रेयस्करेष्वेव नियुञ्जते मां भवाहशा इत्यभिधाय भक्तया॥ ७७॥
....
Page 29
॥ श्रीगणेशाय नमः॥ रघुनाथभूपविरचिता ॥ ॥ सङ्गीतसुधा॥ उपोद्धात: ।।
सीतासहायं हृदि रामचन्द्रं भक्तया कुलस्वामिनमाकलय्य। कीत्यें च धर्माय च शाश्वताय तनोति सङ्गीतसुधां तदग्रे॥ १॥ वक्ष्यामि गन्धर्वमतप्रणेतृनामानि शास्त्रप्रचयाय सम्यक्। उच्चारणेनैव भवन्ति येषां श्रेयांसि भूयांसि जनस्य नित्यम ॥ २ ॥ सदाशिवः शैलसुता विशश्चः शिलादसूनुर्भरतञ्च दुर्गा। शक्तिश्च शार्दूलककोहलौ च समीरण: काश्यपमारती च ॥ ३॥ रम्भार्जुनौ नारदतुम्बुरू च पौलस्त्यविश्वावसुदत्तिलाश्च। पुरद्विषत्कुण्डल कम्बलाश्व तरा वुभौ याष्टिक देवराजौ ॥।४ ॥ एतैस्समस्तैरपि च प्रणीतं सङ्गीतशास्त्राम्बुनिधिं मथित्वा। धीमन्तरेणाखिलमानवेभ्यः सङ्गीतसाराख्यसुधां ददामि॥५॥ नृत्ते च वाद्य च निरुप्यमाणे सङ्गीतमात्रस्य कथं प्रतिज्ञा। अत्रोच्यते नृत्तमिदं च वाद्य गीतं च सङ्गीतमितीरयन्ति ॥६ ॥ मार्गश्च देशीतिच नामभेदात्सङ्गीतमेतद्द्विविधं प्रतीतम्। विरिश्चनादैरिह मार्गतो यः सश्यक्प्रयुक्तो भरतादिभिश्च ॥ ७॥ देवस्य शम्भो: पुरतश्च नित्यं श्रेयस्करश्चात्र स एव मार्गः । देशेषु देशेषु भवेज्जनानां रुचा मनोरञ्जनकारणं यत् ॥। ८ ॥ नृत्तश्च वाद्यश्च तथैव गीतं देशीति शब्देन निगद्यते तत्। नृत्त तु वाद्यानुगतं वदन्ति वाद्यं तु गीतानुगतं तथैव ॥९॥ अतः प्रधानं भवतीह गीतमादौ तदेव प्रतिपादयामः । उद्धृत्य धाता किल सामवेदात्सङ्गीतशास्त्रं विशदीचकार ॥१० ॥। यज्ञेन दानेन तपोभिस्गैर्न प्रीयते यो न चिरान्महेशः।
Page 30
८ सङ्गीतसुधा।
स ज्येष्ठसान्ना च रथन्तरेण संस्तूयमानो हरिणा विधात्रा। वृषध्वजः प्रीतमना व्यतानीदभीष्टमाभ्यामचिरात्क्रमेण ॥ १२ ॥ वृन्दावने तत्र च नन्दसूनोराकर्ण्य वंशध्चनिमादरेण। गावः सवत्साः सकलाश्च गोपा गोप्यश्च सन्तुष्टहदो बभूवुः ॥१३ ॥
वाणीच वीणां परिगृह्य नित्यं गानेन मोदं कुरुते सुराणाम्। यक्षाश्च जागा अपि किन्नराश्च गान्धर्वमुख्या अपि गानलोलाः। बालोऽपि डोलाशयने शयालुराकर्ण्य गीतं रुदितं जहाति। नकेवलं मानवमोदमात्रं तनोति गीतं प्रमदं तिरश्वाम्॥ १५॥ अतश्च गीतं भवति प्रधानमित्येतदादौ प्रतिपादयामः । सङ्गीतसारस्य वदन्ति सप्ाध्याय्यां क्रमेण प्रतिपाद्यमर्थम्॥ १६॥
पदार्थसबन्हः॥ -00p0i0o
-
आदौ शरीर प्रभवोपभेदौ नादस्य तस्मादथ सम्भवश्च। स्थानानि चैव श्रुतयश्च पश्चात्ततः स्वरास्सप् च षड्जमुख्या:।।१७। स्वराः पुनर्द्वादशवकृताश्च कुलानि तेषामथ जातयश्च। वर्णाश्च तत्सम्भवहेतुभूतद्वीपाश्च तेषामृषिदैवतानि॥१८॥ छन्दांसि तेषां विनियोगभेदास्तत्तत्स्वराणां शरृतिजातयश्च। ग्रामावथ द्वावपि मूर्छनाश्च शुद्धास्ससंख्या अपि कूटताना:॥१९॥ प्रस्तारभेदोऽपिच खण्डमेरुरुद्दिष्टनष्टप्रतिबोधहेतुः । ततश्च साधारणकं स्वराणां तज्जातिसाधारणमित्यथैकम्॥ २० ॥ अपि दयोः काकलिनोऽन्तरस्य सम्यक्प्रयोगोऽपि च वर्णलक्ष्म। त्रिषष्टचलङ्कारभिदा च जातेस्त्रयोदशैतानि हि लक्षणानि ॥२१॥ ततः कपालानि च कम्बलं च चतुर्विधास्तत्र तु गीतयश्च। एवं स्वराध्यायनिरुष्यमाणवस्तूनि सङ्गह्य समीरितानि ॥२२ ॥
-
द्वितीयके रागविवेकनामाध्यायेऽथ वस्तूनि निरूपयामः । ग्रामादिरागाश्च तथोपरागा रागाश्च भाषाश्च विभाषिकाश्च ॥२३॥ ततः परं त्वन्तरभाषिकाश्च रागाङ्गभूतानखिलान्क्रमेण। तथैव भाषाङ्गमुपाङ्गकश्च क्रियाङ्गमेतत्किल वस्तुजातम्॥२४॥
Page 31
. पदार्थसङहः॥
- प्रकीणकाख्येऽपि ततस्तृतीयेऽव्याये निरुप्याणि निरुपयामः। वाग्गेयकार: प्रथम निरुक्तो गान्धर्वनामा च ततः स्वरादि:॥२५॥ स्याद्ायनो गायनिका च पश्चात्तयोश्च स्यग्गुणदोषभेदाः । शब्दाश्च ते बाहुलजाम्बलाद्या भेदाश्च तस्यैव गुणाश्च दोषाः॥२६॥ शारीरमेतस्य गुणाश्च दोषा; स्वरस्य कम्पा गमकाभिधानाः । स्थायीस्तथा लप्तिरतश्च बृन्दमेतन्निरूप्यं किल वस्तुजातम् ॥२७॥ 4. तुर्ये निरूप्याणि तथा प्रबन्धाध्याये समस्तानि निरूपयामः । उद्ग्राह मेलापकनामधेयो ध्रवस्तथा भोग इति प्रसिद्धाः ॥ २८॥ तथा तपोऽङ्गानि च षडिधानि स्वराभिधानं बिरुदं पदं च। तेन्नश्च पाठोऽपि ततश्च तालप्रबन्धकानामपि जातिभेदाः ॥२९॥ स च प्रबन्धस्त्रिविधश्च शुद्ध: सूळस्तथा साळकसूडगश्च। आळीकमाश्वेव ततः प्रकीर्णा गीतस्य तस्याथ गुणाश्च दोषाः ॥ तन्तत्स्वरूपाणि च तत्प्रभेदास्त्वेतञ्चतुर्थे किल वस्तुजातम्। 5. ततःपरं पश्चमके तु तालाध्याये निरूपयाणि वयं वदामः ॥३१॥ चश्चत्पदादाः किल मार्गताला: भेदान्वितास्तेव्वथ वक्ष्यमाणान्। कराभिघातेन विना तु संज्ञा निदशब्दनामा तु कलोपदिष्टा॥ ३२॥ कराभिघातप्रभवा सशब्दनामक्रिया ताळगतिप्रभेदात्। घ्रवश्च चित्रोऽपि च वार्तिकश्च सदक्षिणश्चेति चतुर्विधोऽयम् ॥ मार्गश्च तस्यैव कलाष्टकंच गुरोर्लघोरप्यथ मानभेद: । तालास्तथैकद्विचतुष्कलाश्च प्रोक्तेषु तालेषु च पातभेदाः ॥३४॥ तालेष्वथो पातकलाभिधानं तालेऽङ्गलीनां नियमश्च पश्चात्। चश्चत्पुटादेरपरेऽथ भेदासत्वावृत्तयो गीतविभाजिकाश्च ॥३५॥ द्रतश्च मध्यश्च विलग्बितश्च लयाश्च विच्छेदविवेचकास्ते। लयप्रवृत्तेरनियमो यदि स्याद्गीतान्यहो मध्यकपूर्वकाणि॥ ३६॥ द्रतो लघुश्चापि लघुप्ल्ुतश्चेत्येते तु तालावयवाः समस्ताः । उल्लोप्यकादीनी च मध्यगादी गीताङ्गजातानि च देश्यतालाः ॥३७॥ शतं च विंशत्यधिकं तथादितालादिमा: प्रस्तृतिपूर्वकाश्च। प्रस्तारसंख्ये कथिते च नष्टमुद्दिष्टपातालकमेखकश्च ॥ ३८॥ 2
Page 32
३० सङ्गीतसुधा। द्रुतश्च मेशुश्र लघोर्गुरोश्च प्लुतश्च तेषामपि योगमेरुः। प्रस्तारक : खण्डपदादिमश्च प्राचस्तथा मेरुचतुष्टयस्य ॥ ३९॥ नष्टं तथोद्दिष्टमितिक्रमेण ते प्रत्यया विंशतिरेकहीना। एतावदेवात्र निरूपणीयं निरूपितं पाश्चमिके च जातम् ॥।४० ॥ 6. षष्ठे च नानाविधवाद्यजातं निरूपणीयं सह तद्विशेषैः। 7. तत्सप्तमे नर्तनभेदजातं रसाश्च् भावाश्च निरूपणीयाः ॥ ४१॥ ॥ इति पदार्थेसङ्गहः ॥
गीतश्च नादात्मकमित्युपेतं वाद्यश्च नादानुगतं भवेत्तत्। एतदूद्येनानुगतञ्च नृतं नादस्त्रयाणामपिहेतुरस्मात् ॥४२।। न केवलं तत्त्रितयश्च नादमपेक्षते किन्तु जगच्च सर्वम्। नादेन वर्णाः स्फुटतां प्रयान्ति वर्णैः पदं तेन च वाक्यमेव॥ ४३॥ वाक्येन सर्वो व्यवहार एष नादेशितं तेन जगच् सर्वम्। नादो यदि स्यान्तु तदादि गीतं नादात्किल स्यात्स्वरसम्भवोऽपि। सव्यक्षनं चापि तथैव नादादिदं मतङ्गेन समीरितञ्च। सनादरूपोहि भवेदविरिश्चः सदाशिवश्चैव जनार्दनश्च ॥४५॥ स एव शक्तिश्च परा जगत्यां तदेष सर्वात्मक एव नादः । द्वेधा हतानाहतभेदतः स त्वनाहतो योगिभिरेव गम्यः ।।४६ ॥ स्यादाहतः सर्वशरीरवर्तीऽत्यतः शरीरं पुरतो निरूव्यम्। नादोपल्धिस्तु यतः शरीरात्तस्याभिमानी खलु जीव एक: ॥।४७।। तस्यापि तत्वं परमात्मरूपं यतो भवेद्रह्म निरूपणीयम्। शरीररूपे च विचार्यमाणे चत्वारि भूतानि विना नचान्यत्।।४८।। तदेव चात्मेति वदन्ति केचिञ्चार्वाकमुख्या: सकलानुभूत्या। मानान्तरस्वीकरणेन केचिद्विज्ञानमात्रं क्षणिकं वदन्ति ॥ ४९ ॥ सन्तानपत्यादि च लोकयात्रां नीलादिकं संविदभिन्नमाहुः । तेष्वेव केचित्प्रवदन्ति शून्यतत्त्वं परे माध्यमिकाः समस्तम् ॥५०॥ स्यादस्ति नास्ती च वादिनोऽन्ये तां सप्भङ्गीं प्रतिपादयन्तः । आम्नायमार्गप्रतिरोधकेषु सौत्रान्तिकाख्यप्रमुखेषु सत्सु ॥५१॥
Page 33
नादोत्पत्तिक्रम निरुपणम्॥ ११
जाग्रत्सु जीवो भवतामभीष्टः कथ तथा ब्रह्म च पश्च सिध्येत्। अत्रोच्यते किं न कुमारिलेन निर्जित्य सर्वानपि बौद्धमुख्यान्॥५२॥ प्रामाण्यमान्नायगिरां निरुष्य तदर्थजातानि विचारितानि। वेदानपेक्षश्च कुतर्कमार्गो निराकृतश्चोदयनाध्वनिष्ठैः ॥५३॥ नादानुमानैरनुकूलतर्कसमन्वितैः साधित ईश्वरश्च। एवं कणादेन च गौतमेन गङ्गशमुख्यैरपि शास्त्रविद्भिः ॥ ५४॥ निराकृता एव कुयुक्तयस्तत्कौमारिलोक्तिर्जयदुन्दुभिः स्यात्। अतश्च सिद्धे सति वेदमार्गे जीवस्तिरोभूतचतुष्टयान्यः ॥५५॥ स एव जीवो व्यवहारकाले भवेजनैर्विश्व इति प्रतीतः । स्वप्रोपलब्धे तु. सन्नारतस्तैजस एष जीवः ॥ ५६ ॥ सुषुप्िकाले सकले विलीने विक्षेपशक्यावरणैकशेषे। प्राज्ञ: प्रतीतो हरविश्रुतेस्सत्संपन्नभावं भजते सदासौ ॥ ५७॥ व्रीहिस्तुषेणोपहितो यथास्यान्निर्मोकतःस्यात्स तु तण्डुलाख्यः । अज्ञानतत्कार्ययुतस्तु जीवः समूलकाषङ्कषिते तु तस्मिन् ॥५८॥। भवत्यसौ ब्रह्म परं स वेद ब्रह्मैव चेड्गह्म तदेति वाक्यात। ब्रह्मस्वरूपे च निरूप्यमाणे सर्वस्वरूपं च निरूपितं स्थात् ॥५९॥ विवर्तरूपस्य भदेत्प्रपञ्चजातस्य चाधिष्टितमात्रहेतोः । ब्रह्माप्युपादानमिदं तु सृज्यकर्मानुरोधेन भवेञ्च कर्तृ ॥ ६० ॥ वैषभ्यनैर्धृण्यमतोऽस्य नैव भवेदुपादाननिमित्तमेकम्। जीवस्य तत्त्वप्रतिपादनाय ब्रह्मस्वरूपं प्रतिपाद्यामः ॥ ६१॥ सत्यं चिदानन्दमयं विशुद्ध स्वबोधसंसाघितलोकतन्त्रम्। श्रुत्यन्तवाक्यैः प्रतिपाद्यमानं स्वयं प्रकाशं च चकास्ति वस्तु ॥६२। जातेश्च जीवात्कमलासनाच्च वेदाच्च यत्स्याद्विनिवृत्तरूपम्। साजात्यवैजात्यविहीनरूपं महत्तरं ब्रह्मपदाभिधेयम् ॥६३ ॥ तत्प्रत्यगात्मैकरसस्वरूपं तदेव जिज्ञास्यमिति प्रकर्तुम्। प्रायुङ्क्त सूत्रे भगवा 'नथातो ब्रह्मे' ति यत्सत्यवतीतनूजः॥६४॥ चराचरस्यास्य तु नामरूपद्वयेन तु व्याकृतरूपभाजः । युक्तस्य नानाविधकर्तृभोक्तगुणैरचिन्त्यस्य च मानसेन ॥ ६५ ॥
Page 34
१२ सङ्गीतसुधा॥ सृषौ तथा वाप्सुपसंहतौ च ऋक्सामवेदादिमशास्त्रकलसतौ। अणोस्तटस्थस्य तथेश्वरस्य शक्तिः प्रधानस्य न यद्विनास्ति ॥६६॥ क्षेत्रज्ञरूपं च तदेव सर्वे वदन्ति वेदा: पुनरैककण्ठ्यात्। अनाद्यविद्योपहिताश्च जीवा नानाविधोपाधिवशेन भिन्नाः॥६७॥
वहेः सकाशादिव विस्फुलिङ्गाः स्फुरन्ति तस्माच्च तदंशभूताः । एवं च जीवा न पराद्विभिन्ना नजन्मवन्तश्च न नाशवन्तः ॥६८ ।। अथाऽपि सोपाधितयाSत्र जीवा देहद्वयं प्राप्य तु जन्मवन्तः । अनादिजन्मार्जितपुण्यपापफलानुरोधेन भजन्ति सर्वे ॥ ६९ ॥ सुखं च दुःखंच तथैव चाघुर्विचित्रनानाविधजातिजन्म। आमोक्षमेकं त्वनुवर्ततेऽमुं लिङ्गं शरीरं किल सूक्ष्मरूपम्॥ ७० ॥ जरायुजं स्वेदजमण्डजं च तथोद्गिदं स्थूलशरीरमेषाम्। चतुर्विधं तेषु जरायुजस्य नादोपयोगाजननं वदामः ।। ७१॥। पुरा नरा: पुण्यफलोपभुक्त्यै चन्द्रस्य लोकं समवाप्य सम्यक्। क्षीणेषु षुण्येष्वथ भोगयोग्ये लीने शरीरे निपतन्त्यधस्तात्॥ ७२॥ अथैतदाकाशमनुर्प्रावष्ट ततोऽपि वायुं तत एव धूमम्। अ्रं ततो मेघमथो विशन्तो महीतलं वर्षमुखाल्लभन्ते॥ ७३ ॥ प्रविश्य भूर्मिं पुनरोषधीश्च वनस्पतीनप्यभिधाय सम्यक। तदौषधीनां लवनावघातप्रदाहनिष्पेषणशोषणाद्यैः॥। ७४॥ जनस्तु नाशं लभते स जीव: संक्षेषमात्रेण यथान्तरिक्षम्। तत्तत्फलाकारतयाऽदनीयवेष प्रपन्नाः प्रविशन्ति कुक्षिम् ॥७५॥ कुक्षिप्रवेशादथ रेतसस्ते रूपं प्रपन्ना निजकर्मपाकात्। विशन्ति पुण्याद्रमणीय योनि कपूययोनीनथ पापयोगात्॥ ७६॥ द्रवत्वमादौ भजते स जीव: स्यादेकरात्रे कललात्मकोऽसौ। स्यात्सप्तरात्रेण तु बुद्धदात्मा स्यादर्धमासेन तु पिण्डरूपः ॥ ७७॥ मासे चतुर्थेऽपिच कुक्षिभागकटिप्रदेश लभते स जीवः। स पश्चमे मासि च पृष्टवंशं षछ्ेऽक्षिनासाश्रवण लभेत॥।७८ ॥ स्यात्सप्मे मास्यसुभिः समेतस्ततोऽष्टमे मासि च पूर्तिमेति । प्रयाति सवैरपि लक्षणैश्च संपूर्णभावं नवमे हि मासि॥ ७९॥
Page 35
नदोत्पत्तिक्रम निरूपणम्॥ १३
आरभ्य मासादथ सप्तमात्स स्मरेत्स्वकर्मार्जित कर्मभेदान्। स्मृत्वा पुनर्योनिशतत्रयं चाप्याहारभेदान्विविधास्तनूश्च।।८०।। जरायुमध्ये विनिपात्यमानो विज्ञोऽत्र सम्मर्दविभन्नगान्नः । अत्यम्लकट्ोदनभक्षणादप्युपोषितान्मातुरुपैति दुःखम् ॥८१॥ पुरा मया पुत्रकलत्रहेतो: कृतानि कर्माणि विनिन्दितानि। गतास्समस्ताः फलभोगिनस्ते वसाग्यथैकः पुनरत्र ग्भे ॥ ८२॥ मयाऽनुभूता यमचोदितेन ते रौरवाद्या नरकप्रभेदाः । तेभ्योऽधुना कोटिगुणाधिकानि डुःखानि पश्याम्युदरे बताहम्।८३॥ गर्भादमुष्मात्पतितो यदिस्यां ततश्च गर्भे न विशेय भूयः । कथं चरिष्याम्यहमद्य डुःखपरंपरामम्बुधिवद्दुरापाम्॥८४॥
द्वेषादिदोषानपहाय पत्तीपुत्रार्थमित्रादिषु वीतरागः॥८५।। भक्त्यादियोगेन च तोषयिष्ये महेश्वरं सर्वजनैकसेव्यम्। विचिन्तयन्नेवमनन्तमन्तः पूर्णे तु मासे दशमे तदानीम्॥ ८६॥ प्रसूतिवातैः परिपीड्यमानस्त्वधोमुखोऽसौ भवतीऽह सदयः । निशातधार ककचोपमेन सयोनियन्त्रेण निपीड्यमान:। ८७।। निस्सारितोऽसौ पतितो धरण्यां पश्चाद्विसंज्ञो भवतीऽह सद्यः। बाह्यानिलस्पर्शवशेन बाल: कृताकृतं कर्म न वेद किश्चित्॥८८॥ स्तन्यप्रवृत्ति: प्रथमं हि तस्य प्राग्जन्मसंस्कारवशादुदेति। अतश्च जीवो भवतीहनित्यो जन्मादि चोपाधिशरीरनिष्ठम्॥८९॥
Page 36
॥ श्रीगणेशाय नमः ॥ ॥ रघुनाथभूपविरचिता । । संगीतसुधा ॥
एवंविधं देहमुपाश्रितास्तु प्रसादलेशात्परमेश्वरस्य। यज्ञेन दानेन तपोभिरन्यर्योगैश्च सर्वेश्वरमर्चयन्ति यदा तु गानेन च वीणया च महेश्वरं तोषयितुं प्रवृत्ताः। सद्रअ्जनं संसृतिभअ्जनं च नादान्भवेदित्युदितं मुनीन्द्रै: ॥९१॥
नादोपयोगेन शरीररूपं शरीरतत्वं च निरूप्य पश्चात्। नादस्य तस्य प्रभवं च सम्यक् श्रुत्यादिभेदं च निरूपयामः ॥९२ ॥
ना द अशेषभूतेषु च चित्स्वरूपं विवर्तभावेन जगत्स्वरूपम्। सदेव सर्व प्रतिभाति यत्र ब्रह्मात्मकं तं प्रणमामि नादम् ।९३॥
4 एको हि नादो बहुधाऽत् भिन्नो दीपा दिसामान्यविशेषभेदात्। षट्षष्टिसंज्ञाः समुपेत्य पश्चात्स्वरादिहेतु: श्रुतितामुपैति ।।९४ ॥
: एकस्य नादस्य कथं विभेद: प्रतीतितो वा व्यवहारतो वा। अत्रोच्यते व्यञ्ञनमात्रभेदादनेकधा व्यज्यत एव नाद: ॥ ९५॥
तरङ्गभेदेन यथा विवस्वानसेः सकाशादिव विस्फुलिङ्गाः। यथा सुवर्णात्कटकादि भेदास्तथैव नादो बहुधा विभिन्नः नादस्वरूपं प्रवदन्ति केचित्प्राणं नकारं ज्वलनं दकारम्। प्राणाग्नियोगादुदितो हि नाद: स नादसंज्ञां समुपैति नित्यम्॥ धातोर्नदेर्धजि नादशब्दो व्युत्पाद्य इत्येव च केचिदाहुः। शारीरकस्यास्य यदा विवक्षा तदा मनः प्रेरयते स नित्यः मनोऽपि देहस्थितमग्निमाशु निहन्ति स प्रेरयते समीरम्। 3
Page 37
१६ संगीतसुधा॥'
ग्रन्थौ स्थितो ब्रह्मपदादिसंज्ञे क्रमाच्चरन्नूर्धर्वपथे समीरः। स नाभिहृत्कण्ठशिरोमुखे तु क्रमादथाविष्कुरुते स नादम् नादोऽतिसूक्ष्मोऽथ च सूक्ष्मसंज्ञः पुष्टो ह्यपुष्टोऽपि च कृत्रिमश्च। एतानि नामानि स एव नाद: स्थानेषु पञ्चस्वपि याति भेदान्॥ आद्यान्तिमस्थानविवर्जनेन स्थानत्रयस्थो व्यवहारयोग्यः। मन्द्रो हदि स्यादथ कण्ठदेशे मध्याह्वयो मूर्धनि तार उक्त: । १०१ ॥ मन्द्रान्तु मध्यो द्विगुण स्ततोऽपि तारो निरुक्तो द्विगुणो मुनीन्द्रैः। द्वयोत्तरा विंशतिरत्र मन्द्रे तथैव मध्येऽपि च तारदेशे॥ १०२॥ षट्षष्टिभिन्नाः श्चतयो भवन्ति ह्यानन्त्यमन्ये प्रतिपाद्यन्ति। हृदि त्विलापिङ्गलयोस्तु मध्ये नाडी सुषुम्ना विततोर्ध्वदेशे ॥१०३। तत्रैव तिर्यग्विततास्तु नाड्य: प्रवालवल्लयाकृतयो चिलग्नाः । अशेषनाडीषु समीरघातात्वदूषष्टि संख्याः श्रुतयो भवन्ति ।। १०४।
श्रु ति-नि रू प ण म् - शास्त्रैकवेद्यं किल रूपमासां वीणाद्वये ताः प्रकटीकरोमि। तन्त्रीसमेतं सुदृढं विधाय वीणाद्यं स्वादु समाननादम् ।। १०५।। द्वाविशतिश्चैव तयोस्तु तन्त्र्यस्ताः स्थापनीयाः पृथगेव सम्यक्। तास्वादिमा मन्द्रतमध्वनिः स्यान्ततो द्वितीयोच्चरवा च किञ्चित्॥ श्रुत्योरविधेयं च निरन्तरत्वं यथा विजाती यरवो न मध्ये। तन्त्यस्त्वथो या निहिताश्च तीव्रास्तजन्यनाद: श्रुतिरीरितः स्यात्॥ सप्तस्वरास्तत्र निवेशनीयास्तन्त्रीषु तस्याश्च यथा स्वदेशम् । ध्रुवाख्यवीणा पुनरादिमा स्याच्चलाख्यवीणा तु ततो द्वितीया॥ यस्यां स्वराणामपकर्षणं स्याच्चलाख्यवीणा खलु सा निरुक्ता। यत्नापकर्षो न भवेत्सराणां ध्रुवाख्यवीणां खलु तां वदन्ति ।।१०९। चलाख्यवीणा खलु या त्रितन्त्री तां सारयेत्तस्य विधिं वदामः । स्वोपान्त्यतन्त्र्यां विनिवेशनीयाः सप्तस्वरास्तत्व बुधैः क्रमेण ॥११०॥ भ्रुवाख्यवीणा स्वरतश्चलायां सप्तापिचैकश्चतितोऽपकृष्टाः। कार्या द्वितीयाऽपि च सारणायां तस्यां कृतायां स्वरयुग्महान्या ॥
Page 38
स्वरः॥ चलास्थगान्धारनिषादकौ तौ लीनौ ध्रुवास्थर्षभधैवतान्तः । ततस्तृतीयाSपि च सारणायां ततश्चलास्थर्षभघैवंतौ दौ ॥११२॥ लीनौ तु षड्जे खलु पञ्चमे च ध्रवाख्यवीणा वसतौ क्रमेण। कार्याहि तुर्याऽपि च सारणाऽस्यां षड्जस्ततो मध्यमपञ्चमौ च।। लीनाश्चलास्था: क्रमतो घ्रवास्थ निषादगान्धारक मध्यमेषु । तत्सारणायां च चतुष्टयेन द्वाविशतौ यच्छृतिषु प्रकाशम् ॥ ११४॥ ध्रुवाश्रुतिष्वेव तिरोहितायां ज्ञेयश्रुतीनां विबुधैर्व्यधत्त। कृता द्वितीया खलु सारणाया मस्यां चतस्रः श्रुतयः सुलब्धाः॥११५॥ अतः परं न ह्यपकर्षणं स्याद्रक्तिप्रहाण्यां स्वरताविघातात्। ततोऽन्वयेन व्यतिरेकतश्च संख्या श्रतीनामिह वेदितव्या ॥११६॥ वीणा विधेया व्यहारयोग्या द्वाविशतिप्रोज्ज्वलपर्वयुक्ता । तत्नैव षट्षष्टिविधा: श्रतीश्च मन्द्रादिभेदानपि कल्पयन्ति ॥११७॥ चतुष्टयेनापि च सारगायां तद्ायकानां परिभाषया च । निश्चित्य सम्यग्गणनां श्रुतीनां तद्वत्सवरात्पत्तिविधिं वदामः ॥११८॥
स्व र श्रुतेः स्वरस्यापि न भेदलेशं पश्यामि तस्या: कथमस्य जन्म । अत्रोच्यतेऽध्यक्षवशेन भेदो दुग्धस्य दध्यादि विकाररीत्या ॥ ११९॥ गाढान्धकारापिहितप्रदेशे प्रकाश्यते दीपवशाद्धटादि । तथा च पक्षद्वितयाश्रयेण श्रुतेः सकाशात्स्वरसंभवोऽसौ ॥ १२० ॥ अनन्तरं यःश्रुतितः प्रभूतस्त्वन्त्यश्रुतिस्थोऽप्यनुराणरूपः । एवं स्वतो रक्षकतामवातः स्वराह्वयोऽसौ कथितो मुनीन्द्रैः ॥१२१॥ श्रुतिस्वरूपं रणनात्मकं स्यात्सवरस्ततस्स्यादनुराणरूपम् । ततः श्रुतीनामपि पञ्च जातीर्वक्ष्यामि शार्टूलमतानुसारात् ॥१२२।। दीसायता स्यात्करूण मृदुश्च मध्येति नामानि च कीरतितानि। जातिस्वरूपे कथिते च पश्चात्म्रत्येकमासां कथयामि भेदान् ॥१२३ ॥ चतुर्विधादया खलु तत्र दीपा तीव्रा च रौद्रीति च रख्िकोग्रा। तत्राऽयता पञ्चविधा प्रसिद्धा कुमुद्ती प्राथमिकी द्वितीय ॥॥ १२४॥
Page 39
१८ संगीतसुधा॥ क्ोधा प्रसारिण्यफ्र चतुर्थी सन्दीपिनी स्यादथ रोहिणीति। जातिस्तृतीया करुणा त्रिधा स्यादयावती प्राथमिकी द्वितीया॥ आलापिनी चैव मदन्तिका च तैविध्यमुक्तं किल काश्यपेन । मृदुश्चतुर्थी कथिता च मन्दा तत्रादिमा स्याद्रतिका द्वितीया॥१२६॥ प्रीतिः परा क्ष्मा कथिता चतुर्थी दुर्गामतजैः कथितं किलैवम् । मध्या च षोढा परिकीर्तितादया च्छन्दोवती रक्षनिका द्वितीया॥ स्यान्मार्जनी तत्र च रक्तिकाऽन्या रम्यापरा क्षोभिणिका तथाऽन्या। द्वाविशतिः काश्यपयाष्टिकादैःश्रतिप्रभेदाः कथिताः स्युरेवम् ॥
जा ति ना मा नि स्वरस्य संबन्धितया स्थितानां वक्ष्ये श्रतीनामपि नामभेदान्। आद्या श्रतिस्तत्र च दीततीवरा कुमुद्वती चायतिका द्वितीया॥ ततस्तृतीया मृदुमन्दिका च च्छन्दोवती चान्तगता तुमध्या। पड्जस्य चैताः श्रतयः चतस्रस्तत्नान्तिमायां स्वरराड्विभाति॥ अथर्षभस्थानसमाश्रितानां वक्ष्ये श्रतीनां तिसृणां च जातिम्। आद्योपदिष्टा करुणा दयावत्यथास्यमध्या रजनी द्वितीया ।१३९।। ततस्तृतीया मृदुरक्तिका च निवेश्य तस्यामृषभो विभाति। श्रत्योश्च गान्धारजुषोस्तु दीप्ा रौद्री पुरस्तात्कथिता मुनीन्द्रैः।१३२॥ क्राधायता स्यात्तदनु द्वितीया गान्धार एष प्रतिभाति तस्याम् । जाति ततो मध्यमसंश्रयाणां वक्ष्ये श्रुतीनां भरतोपदिष्टाम् ॥१३३ ॥ आद्या तु दीपा खलु वज्िका स्यात्प्रसारिणी चायतिका द्वितीया। प्रीतिर्मदुस्तत्न भवेत्तृतीया मध्ये भवेन्मार्जनिका चतुर्थी ॥ १३४ ॥ अस्यां चतुथ्यामुपवेश्य सम्यक्स मध्यमाख्य: स्वर एष भाति । जाति ततः पञ्चमसंश्रयाणां वक्ष्ये श्रुतीनामपि याष्टिकोक्त्ताम् ॥१३५॥ आद्या मृदुक्ष्मा कथिताऽथ मध्या रक्ता द्वितीयाऽथ भवेसृतीया। सन्दीपनी चायतिका ततः स्यादालापिनी स्यात्करुणा चतुर्थी॥ १३६॥ तस्यां श्रुतौ सन्ततमन्तिमायां स पंचमा्य: स्वर एष भाति। जाति ततो धैवतसंश्रयाणां वक्ष्ये श्रुतीनामथ दत्तिलोक्ताम् ॥१३७॥
Page 40
विकृतस्वराः॥ तत्ादिमा स्यात्करुणा मदन्ती स्यादायता रोहिणिकां द्विसीया। मध्या तु रम्याSत्र भवेत्तृतीया तस्यां स्थितों धैवत एष भाति॥ श्रुत्यो निषादाश्रययोस्तु जाती वक्ष्यामि दुर्गाभिहिते क्रमेण। दीप्तोग्रिका स्यात्प्रथमोपदिष्टा मध्या मता क्षोभिणिका द्वितीया॥ तस्यां निविष्टः स्वर एष नित्यं निषादनामाSतितरां विभाति। एवं स्वराः सत तदाश्रयाश्च यथोपदेश श्रतयोऽधुनोक्ताः ॥ १४०॥ शुद्धा: स्वराः षड्जमुखा निरुक्ता मुख्यानि रागैकनिदानभूताः।
विकृतस्वराः - रागान्तरोत्पत्तिनिमितभूतान्स्वरान्वदामो विकृतान्क्रमेण । १४१ ॥ आदित्यसंख्या विकृतस्वराश्च तेषां च लक्ष्म प्रतिपादयामः । तत्नादिमः स्याच्च्युतषड्जनामा तत्सारणायां विहितक्रमेण ॥ १४२॥ मन्द्रो निषाद: स्वसमीपवर्ती मध्यस्थषड्जश्रुतिमाश्रयेत। त्यत्तवा निजान्त्यश्रुतिमेष षड्जः स्वोपान्त्यभूतां श्रुतिमाश्रयेत ॥ तदन्तिकस्थो वृषभस्तदानीं गृह्काति षड्जश्रुतिमन्तिमां चेत् । षड्जस्वरो द्विश्रुतितामुपेत्य तदा लभेत च्युतषड्जसंज्ञाम् ॥ १४४॥ यदा निषादः श्रयते श्रुती द्वे षड्जोपविष्टां च तदन्तरां च। त्यक्त्वा श्रुतीद्विश्रुति तत्र युक्त: षड्जोऽच्युताख्यो गदितो मुनीद्रैः॥ षड्जेऽच्युते तत्र तदन्यभूतां श्रुति श्रयेच्चेद्ृषभस्तदानीम्। स्वभावतस्त्रिश्रुतिरेव सोऽयं चतुःश्रुतिः सन्विकृताख्य एक: ॥ गन्धारसंज्ञः स्वसपीमभाजं श्रुति प्रयायाच्च्युतमध्यमस्य । साधारणाख्यां लभते तदानीं गान्धार एष श्रुतयः श्रुतीनां ॥१४७॥ श्रुतिद्वयं चेदथ मध्यमस्य गन्धारनामा लभते तदानीम्। स्यादन्तराख्य: कथितो मुनीन्द्रैस्तन्मध्यमे च च्युतनामभाजि ॥ अन्त्यां श्रुति चेच्छरयते तदानीं गान्धारसंज्ञश्चयुतमध्यमः स्यात् । श्रुतिद्वयं चेदथ मध्यमस्य गान्धारकोऽसौ लभते तदानीम्। स्यादच्युतो मध्यम एष नित्यं स्वान्त्यश्रुतेरप्यथ तन्निमित्तात्॥
Page 41
संगीतसुधा। श्रुतित्रयेणैव तु मध्यमाख्यग्रामे समेत खलु पंचमाख्यः । तदाच्युताख्य: कथिती मुनीन्द्रैः स्वान्त्यश्रतेः प्रच्यवनात्स्वरोऽयम् ॥ यदादशायां च्युतमध्यमस्य तदान्तिमां गच्छति पंचमोऽयम् । चतुःश्रुतिः सन्विकृताभिधानः स पंचमः स्यात्कथितो मुनीन्द्रैः॥ स्याद्वैवतस्त्रिश्रतिको यदा तु तुर्यश्रुति गच्छति पंचमस्य । चतुशश्रतिः सन्विकृतो लभेत सधैवतो भेदमथैकमेव ॥ १५२ ॥ आद्यां श्रुति षड्जगतां निषाद: समाश्रयेच्चेदथ कैशिकी स्यात्। षड्जश्रुतिद्वन्दमवाप एव प्रोक्तो निषाद: किल काकलीति ॥१५३।। एवं स्वरा द्वादश ते निरुक्ता: सदाशिवाद्यै विकृताभिधानाः । शुद्धा: स्वराः सप्त विनिश्चिताः स्युस्ते द्वादश स्युविकृताश्च भेदाः ॥ रक्तास्तु ते विशतिरेकहीना: समस्तरागोन्वहेतुभूताः ।
स्व र भे द निर्णयः - षड्जादिभेदा विधिनाऽथवा किंचाथर्वणप्रोक्तविधानतो वा ॥१५५॥ गान्धर्वशास्त्रैक विचारणाद्वा युज्येत भेदोऽत्र कथ नु तेषाम्। अत्ोच्यते शास्त्रविचक्षणानां प्रत्यक्षगम्यः स च शास्त्रवेद्यः ॥१५६।। कुष्टादयः सप्त च सामवेदे षड्जादयः सप्त तथात् शास्त्रे । उदात्तनीचप्रचयादिभेद: संगीतशास्त्रे प्यनवेक्ष्य एव ॥ १५७॥ गान्धर्वशास्त्रे परिनिष्ठिता ये मतङ्गशार्दूलकयाष्टिकाद्याः । आदेवतिर्यङ्मनुजप्रमोदहेतु प्रभेदं कथयांबभूवुः ॥ १५८ ॥ तदुक्तमार्गेण विचारणायां नादे तिरश्चां प्रथते स भेद: । शिखावलश्चातकमेषकौ च क्रौञ्चान्यपुष्टावविदर्दुरेभौ ॥ १५९ ॥
सप्ताऽपि षड्जप्रमुखान्नदन्ति स्वरानसंकीर्णतया क्रमेण। स्वराश्चतुर्धा खलु वाद्ययं संवादी विवादी च तथाऽनुवादी ॥१६० ॥ वाद्यादिमानामिह लक्षणानि क्रमाच्चतुर्णा प्रतिपादयामः । यस्मिंश्च गीते बहुधा निवृत्तिः स्वरस्य यस्यास्ति स एव वादी ॥ स एव राजा भवति प्रधानं श्रुत्यष्टकेनान्तरितस्त्वमात्यः । आदित्यसङ्ख्यैर्व्यवधीयमानः श्रतिप्रभेदैरथ सोऽप्यमात्यः ॥१६२॥।
Page 42
. स्वर वंशादयः॥ २१
संवादिनौ द्वावपि सन्निविष्टौ श्रुत्यष्टकादूर्ध्वमतश्चतुर्थात्। निषादगान्धारपदाभिधेयौ पंचस्वरी रक्तिविघातकौ डौ ॥। १६३ । अतो विवादीत्यभिधां लभेते स्वराविमावित्युदितौ मुनीन्द्रैः । सामान्यतः पंच विवादिनौ तौ परस्परं तौ च रिधौ सपत्नौ ॥ १६४ ॥ इदं च पक्षान्तरमभ्युपेत्य शार्दलशास्त्रार्थविदो वदन्ति। ये वादिसंवादिविवादिभिन्नास्त्वमात्यराजानुगति प्रपन्नाः ॥१६५॥ स्वरास्त एते त्वनुवादिन: स्युरिति प्रतीतं किल याष्टिकादैः।
- स्वर वंशादयः - षड्जो भवेद्देवकुलप्रसूत स्तथैव गान्धारकमध्यमौद्वौ ॥ १६६ ॥ सपंचमः स्यात्पितृवंशजातो रिधौ भवेतामृषिवंशजातौ। निषाद एकोऽसुरवंशजातस्त्वेवं कुलं सङ्गदितं स्वराणाम् ॥१६७। चतुःश्रुति र्ब्राह्मणजातिरेषु स्यात्त्रिश्रुतिः क्षत्त्रियजातिरुक्तः । यो द्विश्रुतिः स्यात्सभवेत्तुवैश्यः शू द्रौ मतौ काकलिकान्तरौ दौ॥ पद्मप्रभः षड्ज इति प्रतीतः स पिश्जरः स्यादृषभस्वरश्च। गान्धारनामा च सुवर्णवर्णः स्थान्मध्यमः कुन्दसमानवर्णः ॥१६९॥ हरित्प्रभः स्यादथ पंचमश्च स धैवतो राजति पीतवर्णः । भवेन्निषादोऽपि च कर्बुराभ इतीरितो वर्णविभाग एष: । १७० ॥ स्वरास्तु सप्तस्वपि जातवन्तो द्वीपेषु जम्ब्वादिषु षड्जमुख्याः । वह्निविधाता च निशाकर: च लक्ष्मीपतिश्चाप्यथ नारदश्च ।। १७१।। सप्त स्वरांस्ते दद्दशुर्मुनीन्द्राः स तुम्बुरुर्यक्षपतिः क्रमेण। हुताशनः पद्मभवश्च वाणी हरो हरिश्चैव गणेश्वरश्च ॥ १७२ ॥। सहस्त्रभानुश्च यथाक्रमेण प्रोक्ता: स्वराणामधिदेवताः स्युः । अनुष्टुबाद्यस्य तथा परस्य गायत्रिका त्रिष्टुबथापरस्य । बृहत्यभिख्या खलु पंक्तिरुष्णिक्छन्दांस्यतोऽनत्यस्य जगत्यभिख्याH सरी तु वीराद्भुतरौद्रभाजौ तथैव बीभत्सभयानके धः । गनी तु योज्यौ करुणे रसे स्तस्तौ हास्यशङ्गारकयोर्मपौच ॥१७४॥ सप्तस्वराणामिति कीतितानि च्छन्दांसि देवा ऋषयो रसाद्याः ।
Page 43
-२२ संगीतसुधा॥
ग्रा मा : स मूर्छनाद्याश्रयतामुपेतो ग्राम: स्वराणं समुदायरूप: ॥ १७५ ॥ सामन्यलक्ष्मैतदिति बुवन्ति संगीतशास्त्रार्थविदो मुनीन्द्राः। ग्रामेषु तेषु त्रिविधेषु षड्जग्रामाभिधानं प्रथम वदन्ति ॥ १७६ । ततो द्वितीयं खलु मध्यमादिं गान्धारपूर्व च तृतीयमाुः गान्धारपूर्वो न महीतलेऽस्ति स गानयोग्य: खलु नारदादेः ॥१७७॥ तुर्यश्रुतौ पंचम एष तिष्ठेत्स्वस्यां यदा तेन समन्वितोऽयम् । संघः स्वराणां समुपैति षड्जग्रामाभिधानं मुनिभिः प्रणीतम्॥१७८॥ स पंचमाख्यस्तु यदा तृतीयश्रुतौ स्वतुर्यश्रुतिमप्यपास्य । वर्तेत तत्संमिलितः स्वरौधः स्यान्मध्यमग्राम इति प्रतीतः ॥१७९॥ गान्धारकश्चेद्रिमयोः श्रुती स गृहाति गृहाति च पश्रुति धः। श्रुतीश्रितश्चेत्सधयोनिषादो गान्धारकग्रामममुं गृणन्ति ॥१८०॥ षड्जो भवेदाद्यतया प्रधानं आमेषु संवादिबहुत्वतश्च । अग्रेसरः स्यादथ मध्यमोऽपि लोपाच्छ्ूतेरौडवषाडवेषु ॥१८१॥ तद्धेतुदेवान्वयसंभवत्वाद्गान्धारकाख्योऽपि भवेत्प्रधानम् । ग्रामत्रयेऽप्यत्र मतास्तु देवा विरिंचलक्ष्मीशमहेश्वराः स्युः ॥१८२॥ हेमन्तके ग्रीष्मऋतौ च वर्षाकाले क्रमात्ते खलु गानयोग्याः। पूर्वाह्कमध्याह्नपराह्कालेष्वेते शुभाश्च्चैव भवन्ति योग्या: ॥१८३ ॥ ग्रामत्नयं तु प्रतिपाद्य सम्यङ्निरुपयाम: खलु मूर्छनादीन्। सप्तस्वराणां क्रमतोऽधिरोहावरोहणे ते खलु मूर्छना स्यात् ॥१८३॥ ग्रामदये ता अपि सप्त सप् चतुर्दशैता मिलिता: प्रभिन्नाः । सा मूर्छनासु प्रथमाथ षड्जग्रामे भवेदुत्तरमन्द्रकाख्या ॥ १८४ ॥ ततो द्वितीया रजनी तृतीयोत्तरायताथो खलु शुद्धषड्जा। स्यान्मत्सरीकृत्तत ऊर्ध्वमश्वक्रान्ता ततः स्यादभिरुद्गतान्त्या।१८५॥। स्यान्मध्यमग्रामजमूर्छनाद्या सौवीरिका स्यादथ हारिणाश्वा। ततस्तृतीया तु भवेत्कलोपनता चतुर्थी त्वथ शुद्धमध्या॥१८६। मार्गी च पौरव्यथ हृष्यकान्त्येत्येवं निरुक्ता: किल याष्टिकादैः। मध्यस्थषड्जेन तु मूर्छनाद्या प्रारभ्यते चोत्तरमन्द्रिकाख्या ॥१८७॥
Page 44
आ्रामा: ॥ २३
आरोहणं स्यादिह चानिषादमाषड्जमस्मादवरोह्नणं च। तत्न द्वितीया रजनी निषादमारभ्य चारोहणमत्रचोक्तम् ॥ १८८ ॥ आधैवतं स्यादवरोहणं तु स्याद्वैवतादत्र किलानिषादम्। आरभ्य मन्द्रस्थितधैवतं तूत्तरायतामूर्छनिका तृतीया ॥ १८९ ॥ आपंचमं रोहणमत्र कार्यमाधैवतं स्यादवरोहणं च। * * *
आरभ्य मन्द्रस्थितमध्यमं चेत्स्यात्पंचमी तत्र च मत्सरीकृत् ॥१९०। आरोहण गान्तमिहोपदिष्टमामध्यमं स्यादवरोहणं च । आरभ्य मन्द्रस्थितगं किलाशक्रान्ता भवेन्मूर्छनिकात्र षष्ठी ॥ १९१॥ आरोहण मध्यगतर्षभान्तं गान्धारयध्मान्तमथावरोहः । आरभ्य चेन्मन्द्रगतर्षभान्तं सा मूर्छना स्यादभिरुद्रताख्या ॥१९२। आषड्जमारोहणमुत्तमं स्यान्मन्द्रर्षभान्त: कथितोऽवरोहः । अथोच्यते लक्षणमत्र सम्यक्तन्मध्यमग्रामगमूर्छनानाम् ॥ १९३ ।। आरभ्यते मध्यगमध्यमेन सौवीर्यसौ मूर्छनिकादिमा सा। आरोहणं तारगगान्तमस्यामामध्यमं स्यादवरोहणं च ॥ १९४ ॥ गान्धारमारभ्य तु मध्यग चेत्सा हारिणाश्वा कथिता द्वितीया। आरोहण तारगतर्षभान्तमामध्यगान्धार मथावरोहः ॥ १९५ ।
आरभ्यते मूर्छनिका कलोपनता ततो मन्यगतर्षभेण। आरोहमातारगषड्जमाहुर्मध्यर्षभान्तं मुनयोऽवरोहम् ॥ १९६ ।
मध्यस्थषड्जेन तु शुद्धमध्या प्रारभ्यते मूर्छनिका चतुर्थी। आरोहण प्राहुरिहानिषादमाषड्जमस्मादवरोहणं च ॥ १९७ ॥ आरभ्य मन्द्रस्थनिषादमुक्ता स्यात्पंचमी मूर्छनिकात्र मार्गी । आरोहण मध्यगधैवतान्तं तथा निषादावधिकोऽवरोहः ॥ १९८ ॥ आरभ्यते मन्द्रगधैवतेन पौरव्यसौ मूर्छनिकात षष्ठी। आरोहणं मध्यगपंचमान्तमत्नावरोहोऽपि च धैवतान्तः ॥ १९९॥ स हृष्यका मन्द्रगपंचमाख्यस्वरे समारम्भवती तथान्त्या । आरोहणं मध्यगमध्यमातं स्थात्पंचमान्तस्तु तथावरोहः । २०० ॥ ग्रामद्वये सम्यगुदीरिता: स्युस्तन्मूर्छनास्त्वत्र चतुर्दशैव। षड्जस्य तु स्थानगते निषादे भवेद्रजन्याह्वयवमूर्छना सा ॥२०१॥ 4
Page 45
२४ संगीतसुधा ॥
स्थाने तु षड्जस्य् तु धैवताद्यस्वरेष्ववस्थानमुपागतेषु । ता मूर्छना: स्युः क्रमतस्तथैवोत्तरायतादया इह वेदितव्या: ॥ २०२ । स्वरांस्तु षड्जप्रमुखांस्तदूर्ध्वमुत्सारयेत्तत्र तथा क्रमेण। गान्धार आसेदुषि मध्यमस्यस्थानं तथा सा खलु हारिणाश्वा॥ २०३॥ तथर्षभादावपि तान्कलोपनतादिमान्मध्यमदेशभाजि । तान्मध्यमादींस्तु पुनस्तदूर्ध्वमुत्सारयेदित्यपि केचिदाहुः । २०४ ॥ प्रत्येकमेताश्च चतुविधाः स्युः शुद्धास्तथा काकलिकासमेताः । ताः सान्तरास्तद्द्यसंयुताश्च संभूय पंचाशदिमाश्च षट्च ।२०५।। सप्तस्वथैतासु च मूर्छनासु प्राकारभेदाद्णनां वदामः । षड्जाह्वयग्रामगमूर्छनासु षड्जो हि यां पूरयतेऽत्र संख्याम् ॥२०६।। तां मूर्छना पूरयतीहसंख्यां सौवीरिकादिष्विति तन्नयः स्यात्। ता मूर्छना: सतविधा: स्वरेष्वाद्येन द्वितीयेन तृतीयकेन ॥ २०७ ।
तुर्येण वा स्यादथ पंचमेन रम्भाच्च षष्ठेन च सप्तमेन । षड्भिः समेता इह मूर्छनाया: पंचाशदेताः खलु सप्तधेति ॥।२०८।। एवं च सर्वास्वपि मूर्छनासु शतत्रयं द्वानवतिश्च संख्या।
ता ना : यथाक्रमोच्चारणतः स्वराणां त्यक्ते स्वरे सिध्यति शुद्धतानः ॥२०९॥ तं च द्विधा षाडवमौडवं च तानं विदुर्दत्तिलकोहलाद्याः । स्वरं विनैकं खलु षाडवः स्याद्द्वाभ्यां विहीन: पुनरोडवः स्यात्॥ वर्णस्वरानत्र विशिष्य षड्जग्रामे तुसम्यक्प्रतिपादयामः । षड्जर्षभौ पंचमसप्तमौ च प्रयोगभेदेन च ते विवर्ज्याः । २१०॥ तद्वर्जितत्वेन चतुर्विधास्ते सतापि चाष्टोत्तरविशतिः स्यात् । एवं च पंचस्वरयुक्तताना: प्रयोगभेदात्पुनरौडवाः स्यु: ॥ २ १ १ । सप्ताति ते पंचमषड्जहीनाः सप्ताति गान्धारनिषादवर्ज्याः । सपोज्झिताश्चर्षभधैवताभ्यामेवं तथैकाधिकविशतिः स्युः ॥ २१२ ।। एकोनपंचाशदितीह षड्जग्रामे भवेयु: किल शुद्धतानाः। तन्मध्यमग्रामिकशुद्धतानान्विचिन्त्य सर्वान्प्रतिपादयामः ॥२१३ ।
Page 46
२६ संगीतसुधा॥ त्रिंशत्सहसूं च चंतुःसहस्रमुपेयुषी पञ्चश्तीं च पश्चात्। षष्टिश्च संख्या किल मूर्छनानामितीरिता गायकबोधहेतोः ॥। २२८। उक्तप्रकारेण तथौडवानां गान्धारके धैवतके च मुख्ये । एकस्वरीप्राथमिकक्रमेण चतुःसहसी च शतानि चाष्टौ ।। २२९/ चतुःखरावृत्तिककूटताने निषादसाहित्य विवर्जनाभ्याम्। शतानि सप्ताथ तथाष्टषष्टिः संख्याविशेष: कथितो मुनीन्द्रैः ॥। २३०। उक्तप्रकारेण चतुःस्वराणां त्यागात्तथा त्रिस्वरकूटताने। स्यान्मध्यमादित्वविवर्जनाभ्यां स .... शतं षट्सहितं च लब्धम् ।। तथा भवेद्द्विस्वरकूटताने द्वे विशती स्तश्चतुरुत्तरे च । एकस्वरा मूलगता: स्वभेदाश्चतुर्दशैवेति विनिश्चितोऽर्थः ॥। २३२ य दिच्छया गायाकवैणिकानां क्रमेण वाप्युत्क्रमतोऽपि गाने। अनेन वेदा: प्रभवन्ति तानां (?) तत्ैव ताने पुनरुक्तिरुक्ता । २३३ षड्जे भवेदुत्तरमन्द्रिकाद्या षड्जादिका माध्यमिकी चतुर्थी। स्याच्छुद्धमध्या च समानभेदस्तत्र ... ..... पञ्चमोऽस्ति ॥ २३४ चतुःस्वरीत्वं च समक्रमत्वं भवेत्समं पञ्चमवर्जन च। स्युस्त्रिस्वरा द्विस्वरकास्तथैकस्वराश्च ताना: सदृशीकृतास्ते॥२३५ भवेद्द्वितीया रजनी तु षड्जग्रामे मता सा च निषादपूर्वा ।। स्थात्पञ्चमी माध्यमिकी तु मार्गी पञ्चस्वरास्तत्प्रभवाः समा: स्यु:॥ चतुःस्वरास्त्रिस्वरकास्तथा द्विस्वरास्तथैकस्वरकाश्च तुल्याः । षड्जे तृतीया खलु मूर्छना योत्तरायता धैवतपूर्विका सा । २३७ स्यान्मध्यमग्रामगपौरवी च स्यात्पञ्चमी घैवतपूर्विका च। तानास्तु षट्पञ्च चतुस्त्रिका द्विस्वरास्तथैकस्वरका सदक्षाः ॥ २३८ तिसृष्वपीमासु च मूर्छनासु कूटाह्नया: स्युः पुनरुक्ततानाः । एकाधिकाशीतियुता निरूनं चतुःसहस्राणि भवन्ति संख्याः ॥ २३९ तानान्दिविरुक्तानिह वर्जयित्वा पूर्णौरपूर्णौश्च सह क्रमैश्च। एषा मता स्यादवशिष्टकूटतानौघसंख्येति मता मुनीनाम् ।। २४० लक्षत्रयं सप्तदशोदितानि पुनः सहस्त्राणि पुनः शतानि। न वापि च तिंशदुपाश्रितानि तत्रैवमुक्ता: खत्दु कृटतानाः ॥।२४१
Page 47
मेरुप्रकरणम् ॥ २७
निश्चित्य संख्यामथ गायकानां तज्ज्ञानहेतुं कथयाम्युपायम् ।
- मे रुप्रक र ण म् - एक दय च त्रितयँ चतुष्कं पञ्चाथ षट्कं च निधाय सप्त ।। २४२ ॥ द्वितीयमद्येन विवर्धनीयं तृतीयामेतेन विवर्धनेन। विवर्धितेनाथ तृतीयकेन तुर्य तथेत्याद्युदितं क्रमेण ॥ २४३ ॥ पूर्वेण पूर्वेण पुरः पुरोऽड्को विवर्धनीयः सकलस्तथैव। गण्यास्तु सर्वास्वपि मूर्छनासु चैकस्वराद्या इह कूटताना: ॥२४४॥ मूलक्रमं साधु निवेशयेत्प्राक्सप्तस्वरं वाथ च षट्स्वरं वा। पञ्चस्वरं वाथ चतुःस्वरं वा द्राक्त्रिस्वरं द्विस्वरमेव वापि ॥२४५। चतुःस्वरं तत्न निवेश्य पूर्व प्रस्तारभेदं प्रतिपादयामः । सरीगमौ च प्रथमं लिखित्वा षड्जादधस्तादृषभो विलिख्यः । षड्जस्त्वधस्तादृषभा द्विलिख्यः शिष्टौ गमौ पूर्ववदेवलेख्यौ॥ २४६॥ मन्द्रस्थषड्जस्य तथाSदिमत्वात्स्वरान्तरं प्राडनन विलेखनीयम्। पूर्वस्वरो येन परादधस्ताद्विलेखनीयस्तत एष ताना: ।। २४७॥ प्रस्तारमार्गेणकृतोऽत्र तानो रिसौ गमौ चेति मतो द्वितीयः । तमेव तानप्रकृति विधाय तानान्तरः स्यात्तद्धो विलिख्यः ॥ २४८॥ विसृज्य षड्जमृषभं च पश्चाद्गान्धारतो यस्त्वृषभो विलेख्यः । मूलक्मन्यायवशास्तु पूर्व विलेखनीयौ च सगौ क्रमेण ॥ २४९ ॥ स्यान्मध्यमस्यापि च मध्यमोऽधो यथोपरिन्यायवशाद्विलेख्यः । लेख्य: स्वरो यद्युपरिस्थितःस्थात्तत्पूर्वकस्तत् विलेखनीयः ॥२५०॥ एतावतान्यायवशेन ताना: सर्वेऽपि चान्ते क्मतो विलेख्याः । प्रोक्ता: षडेवं खलु मध्यमान्तात्तथैवगान्ता रिषभान्तिमाश्च ॥२५१॥ ततस्तुसान्ता: च षडेव तेन प्रोक्ता: चतुर्विशतिरत्रतानाः । पञ्चस्वरी प्रस्तरणे भवन्ति पान्ता: चतुर्विंशतिरत्रमान्ताः ।२५२ ॥ गान्तर्षभान्ताश्च तथैवसान्ता: संख्याSत्र विंशत्ययुत शतं स्यात्। ते षट्स्वरी प्रस्तारणेऽत् ताना धान्ताः च पान्ता: च तथैवमान्ताः॥ गान्तर्षभान्ता: च ततैव सान्ता एकैकशो विंशतिकं शतं स्युः। आहृत्य विशत्यधिका च सप्तशतीऽह संख्या गदिता मुनीन्द्रैः॥
Page 48
२८ संगीतसुधा॥
सप्तस्वरीप्रस्तरणेडत्र ताना न्यन्ता: च धान्ताः च तथैव पान्ताः । मान्ता: च यान्ता: च तथर्षभान्ता: सान्ता च ये तद्रणनां वदामः॥ एकैकशो विंशतियुक्त सप्तशतिं मिलित्वा तु भवेदमीषाम्। संख्या पुनः पञ्चसहस्त्रिकाSत्र द्वे विंशती चेत्युदिता मुनीन्द्रैः ॥२५६॥ दिङ्मात्रमेवाऽत्र निरूपितं स्याच्छिषश्च ताना: पुनरेवमूद्याः। प्रस्तारलब्धा खिल तानसंख्या बोधायवक्ष्याम्यथ खण्डमेरुम्॥२५७॥
- ख ण्ड मे रु: आद्यातु पंक्ति: किल सप्कोष्टा षट्कोष्टिका चैव ततो द्वितीया। स्थात्पञ्चकोष्टा च ततस्तृतीया तुर्याचतुष्कोष्ट युताच वेद्या ।। २५८।। स्यात्पञ्चमी तत्न पुनस्त्रिकोष्टा पष्टी च कोष्टद्वितयेन युक्ता । स्यात्सप्तमी पंक्तिरिहैककोष्टा तासुक्रमादङ्क विलेखनं स्यात् ॥२५९। आद्याद्यकोष्टे विलिखेदिहैकं षट्स्वन्यकोश्ेषु लिखेत्ततश्च । द्वितीयपंक्ते: प्रथमे तु कोष्टे लिखेदिहैकं द्वितयं द्वितीये । २६० । ततस्तृतीये विलिखे त्षडङ्गतुर्ये चतुर्विशतिलेखनं स्थात्। स्थात्पञ्चमे विंशतियुकूछतं च सर्विशतिः सप्तशती च षष्ठे ॥१६१।। तृतीयपंक्ते: प्रथमे तु कोष्टे चत्वार्यथ द्वादश तु द्वितीये। द्वितीयकोष्टे पुनरष्टयुक्ते द्वेविंशती तत्न विलेखनीये ॥ २६२ ॥ चतुर्थकोष्ठे तु विलेखनीयं शतंद्ूयं विंशति युग्मयुक्तम्। तदन्तकोष्टे तु सहस्रमेकं शतानिचत्वारि च विंशती द्वे ॥ २६३ ॥ तुरीयपंक्तौ प्रथमे तु कोष्टे त्वष्टादशाङ्क: प्रविलेखनीयः । द्वासप्ततिस्तत्र भवेद्द्वितीये शतत्रयं षष्ठियुतं तृतीये ॥। २३४ ॥ तुर्ये सहस्द्वितयंशतेन षष्टवा च युक्त प्रविलेखनीयम्। ततादिमे पञ्चमपंक्तिकायां कोष्टेविलेख्यानवतिश्च षट् च ॥ २६५॥ द्वितीय कोष्टेऽत्र चतुःशतीस्या दशीतियुक्ता प्रविलेखनीया। भवेत्सहस्त्रद्वितयं तथाऽष्टशती तथाऽशीतियुता तृतीये ॥ २६६ ॥ षष्टवाद्यकोष्टे खलु षट्शतीस्याद्विलेखनीया च ततो द्वितीये। भवेत्सहस्त्रत्नितयं तथा षट्छनी समेतं प्रविलेखनीयम् ॥ २६७ ॥
Page 49
खण्डमेरु:॥ ३९
कोष्टेलिखेत्सप्मपंक्तितकायां चतुःसहसूं त्रिशति तथैव। सविंशकं तत्न पृथह्निवेशः कस्मात्प्रमाणादवगस्यतेऽसौ ॥ २६८ ।
- तत्तन्यायः -
अत्रोच्यतेन्यायतयैवलब्धस्तन्न्यायमेव प्रतिपाद्यामः । पङ्क्तिद्वयाद्यस्थितमेकमकं संयोज्यकुर्याद्द्वितय द्वितीये ॥ २६९। तृतीयपंकतेः पुनराद् कोष्टे दय तदेव द्विगुण निदध्यात्। पंक्ति प्रयाद्यङ्क समन्वयात्यद् द्वितीयपंकतौ विलिखे न्तृतीये ॥। २७० ।। तृतीयपंकतौ विलिखेद्द्वितीये षडङ्कमेक द्विगुण विदध्यात्। ततः षडकं प्रतियोज्य तस्मिन्नष्टादशाद्ये विलिखेच्चतुर्थ्याः ।। २७१ ॥
ख ण्ड मे रुः -
1
1 2 6 24 120 720
4 12 48 240 L440
18 72 360 2160
96 480 2+80
600 3600
4320
Page 50
। रघुनाथभूपविरचिता। ॥ संगीतसुधा ॥
ततश्चतुर्थ्यर्थगताङ्क संख्यां हत्वा चतुष्कं गतिरत्रलब द्वितीयपंक्तेस्तु चतुर्थकोष्टे लब्धाञ्न संख्यां विनिवेशयेञ्च ॥ २७२ ॥ तामेव संख्यां द्विगुण विधाय तृतीयपंक्तौ विलिखेत्तृतीये। तस्यां चतुर्विशतिमेलनेन द्वासप्ततिस्तुर्य गतद्वितीये ॥ २७३ ॥।
पुनश्चतुर्विशतिमेलनेन षडुत्तरं स्यान्नवतिस्ततोऽथ। सा पञ्चमस्यादिमकोष्टसंख्या द्वितीयपंकतेरथ पञ्चमे स्यात् ।२७४।। शतं तु विशत्यधिकं निविष्टं द्वैगुण्ययुक्तं विलिखेदधस्तात्। अत्रापि विंशत्यधिकं शत च संयोज्य तस्मिन्विलिखेस्ततोऽधः ॥२७५॥ शतत्रयीं षष्टियुताञ्ज लब्धां शतेन विशत्यधिकेन युक्ताम्। द्वितीयके पञ्चमपंक्तिकायामशीतियुक्तञ् चतुश्शतञ्ञ ॥ २७६ ॥ ताञ्जापि संख्यां विलिखेदधस्ताच्छतेन विशत्यधिकेनयुक्ताम्। तां षट्छतिप्राप्य पुनश्चसम्यक् षट्पंक्तिनिष्ठादिमकोष्टसंख्या ।।२७७। संयोज्य सर्वा विलिखेत्समग्रं द्वितीय पंत्तयन्तिमकोष्टदेशे। सर्विशति सप्तशर्ती च लष्धां संख्यामिमांञ्च द्विगुणां विधाय॥ २७८॥ तृतीयपंक्यन्तिमकोष्टदेशे सहस्रमेकं च चतुश्शतीञ्। द्वे विंशती चापि विलिख्य सम्यक्सविंशति सप्तशर्ती प्रयोज्य॥ २७९॥ लब्ध्वा सहस्रद्वितयं शतञ्ज षष्टिं च संख्या तदधोविलिख्य। सविंशति सप्तशतीं च तस्यां संयोज्य पश्चात्तदधो विलेख्यः ॥ २८०॥ लिखेत्सहस्रद्वितयं तथाष्टशतीमशीत्या मिलितां क्रमेण। सविंशति सप्तशतीं पुनश्च संयोज्य तस्यां विलिखेनततोऽधः ॥ २८१॥ लब्धं सहस्रत्रितयं तथा षट्छतीयुतं संविलिखेदधस्तात्। सविंशति सप्तशती पुनश्च संयोज्य तस्यां विलिखेदधस्तात् ॥ २८२॥
Page 51
३२ संगीतसुधा॥
चतुस्सहस्राणि शतत्रयञ्ज तस्यां लिखेद्विंशतिसंयुतञ्न। ताः सप्तपंकयादिमकोष्टसंख्या द्वेविंशती पञ्चसहस्त्रिकाच ॥२८३।।
गान्धर्वशास्त्रे निपुणः कदाचिदुक्तेषु तानेषु विलिख्य कञ्चित्। एतस्य संख्या कतमेति पृच्छेत्तस्योत्तरं तावदुदीरयामः ।। २८४ !! उद्दिष्टशब्देन तदेवचोंक्त तस्याप्युपायः कथितो मुनीन्द्रैः। सगौ रिमौ चापि विलिख्य पृष्टः सरी गमौ चापि विलिख्यचोर्ध्वम्।। अथाद्यपंत्तया: सकलेSपि कोष्टे निधाय लोष्टानि यथाक्रमेण। मूलक्रमात्तस्य पुनःस्वरस्य पृष्टोऽन्तिमस्यापि तथैकभावात्॥ २८६॥ नचालयेदन्तिमकोष्टलोष्टं तल्लोपनञ्चापि तथैवकार्यम्। कृते तु लोपे सरिगेति मूलक्रमेस्थित स्त्रिस्वरमात्रशिष्टः ।२८७ ॥ निर्दिष्टतान: सगरीति सिद्धस्तस्मिन्पुनर्लोष्टविचालनंस्थात्। मूलस्थगान्धारकतो द्वितीय उद्दिष्टतानान्त्यगतो यतो रिः। द्वितीयकोष्टे चलिते ह लोष्टे स्याद्द्वित्वसंख्या खलु तेन लब्धा॥ २८८। उद्दिष्टमूलक्रमयोः स गत्वा तत्रापि लोष्टं न विचालनीयम्। अद्याद्यकोष्टस्थितमेकमंकं द्वित्वेन संयोज्य पुनस्त्रिसंख्या ॥२८ ॥ सगौरिमौ चेति तृतीयभेदं ग्रृहाणचेत्युत्तरमत्रवाच्यम्। मगौ सरी चापि विलिख्य तानं मूलक्रमात्तत्र विलिख्यचोर्ध्वम्।२९०/ उद्दिष्टतानान्तगतर्षभस्य मूलक्रमान्त्यस्य च मध्यमस्य। तृतीयभावेन तृतीयकोष्टे लोष्टागते द्वादशकाङ्कलाभ: । २९१। त्यक्तर्षभं चाप्युभयत्र शिष्टान्स्वराँल्लिखेत्त्रीनुभयत्र साधु। उद्दिष्टतानान्तिमषड्जको हि मूलक्रमान्त्यस्वरतस्तृतीयः ॥ २९२ ॥ तस्मात्पुनर्लोष्टविचालनं स्यानततीयकोष्टे चतुरङ्कयुक्ते। षड्जस्य लोपेऽप्युभयत्जाते शिष्टावुभौ तत्र गमौ गमौच। उद्दिष्टतानान्तिमग: च मूलक्रमान्तिमान्मध्यमगाद्वितीया ।। २९३ H द्वितीयकोष्टे खल्ुतेन कार्य त्वेके पुनर्लोष्टविचालनं च। आद्याद्यकोष्ठे खलु लोष्टयुक्ते चैकाङ्कमादाय च योजयेत्तम् ॥।२९४॥ तल्लोष्टयुक्तोऽष्टगताङ्कयोगादष्टादशोऽयं कथितस्तुतानः । उक्तेषु तानेषु चतुः स्वरेषु त्वष्टादशं तानमधो विलिख्य ।। २९५ ।।
Page 52
कूटताना: ॥ ३३
प्रदर्शय त्वं यदि शास्त्रवक्तेत्युक्ते विलिख्याSत्ननिरूपयामः। तदेव 'मष्टादश' मामनन्ति वक्ष्येऽधुनाष्टादशंतानरूपम् ॥ २९६ ।। तत्नाद्यपं क्तेर पि कोष्ठकेषु चतुर्षु लोष्टानि निधायपूर्वम्। अत्राद्यपंक्तेस्तु चतुर्थकोष्ठे बिन्द्वङ्गिते स्थापितमत्र लोष्टम् ॥ २९७॥ तस्याप्यधस्तात्तु षडङ्गयुक्तं विहायकोष्ठं तदधो नयेत्तत्। द्वितीयकोष्ठे तु तृतीयपंक्तेरदित्यसंख्याकसमन्विते च । २९८॥ तत्रैव लोषटं च निधाय पश्चाल्लोष्टान्तरस्याप्यथ चालनं स्यात्। तृतीयकोष्ठे विनिविष्टलोष्टं द्वितीयपंक्ते द्वितयाङ्कयुक्तम् । २९९ । द्वितीयकोष्टं प्रविहाय तस्मान्तृतीयपंक्ते: प्रथमेतु कोष्ठे। लोष्ठं निदध्याच्चतुरङ्कयुक्ते त्वाद्यद्वितीयस्थितलोष्ठकं तु ।३००॥ द्वितीयपंक्ते: प्रथमेतुकोष्ठे नीत्वाङ्कयुक्तेSपि ततोनिदध्यात्। विचाल्यकोष्ठे (*) लोष्टकानि मौलिस्थलोष्टं न विचालनीयम् ॥३०१॥ सलोष्टकोSष्ठाङ्कसमन्वयेन भवेदिहाष्टादशतैव संख्या। एवं च संख्यावगमे च सिद्धे तानस्वरूपं प्रतिपादयामः ।। ३०२ ।। सरी गमौ चापि विलिख्य मूलक्रमं त्वधस्तस्य विलेखनीयः। यतस्तृतीये निहनंस्तु लोष्टं ततस्तदन्ते त्वृषभो विलेख्यः ॥ ३०३ ॥ ततो रिलोपे सगमेति मूलं त्रिभि: स्वरैः शिष्यत एव सद्यः । तृतीयकोष्ठे यतएव लोषं भवेत्तृतीयो हि समध्यमात्सः ॥ ३०४ ॥ लब्धषभोपान्त्यतमो विलेख्यः षड्जस्य लोप: खलु मूलतः स्यात्। ततो द्वितीयाङ्गित कोष्टलोष्ट द्वितीयकोष्टे विनिवेशनेन । ३०५ । गान्धार एवात्र भवेद्द्वितीय: षड्जानुपूर्व विनिवेशयेत्तम्। शिष्ट तु तं मध्यममादिभूत विधायताने विनिवेशयेन्तु ॥ ३०६ ।। ततस्तु तानो समगर्यभिख्यो विलिख्य सम्यक् परिदर्शनीयः। कृत्स्स्यतानस्य निरूपणेतु ग्रन्थस्य भूयानिह विस्तरः स्यात्॥ ३०७॥ कुशा्रवुद्धे: कुशलस्य चैतत्सन्दर्शनेनाखिलतानबोधः।
कू ट ता ना :
मौलिस्थितैकाङ्कपरिग्रहेण ह्ेकस्वरः स्यादयमेक एव ।। ३०८॥
Page 53
३४ संगीतसुधा॥
पंक्तिद्वय चैकविमिश्रणेन द्वो सम्मतौ द्विस्वरकूटतानौ। तृतीयपं्यादिचतुप्टयेन प्राक् पंक्तिकैकैकविमिश्रितस्य । ३०९ ॥ षडेव ते त्रिस्वरकूटताना: क्रमेण चैवं प्रतिबोधनीयम्। चतुर्थपंक्त्या दिमकोष्टदिव्यदष्टादशत्वाङ्कविमिश्रणेन ॥।३१०॥ उक्ताङ्कजालस्य चतुःखराणां तानाश्चतुर्विशतिरत्रवेद्याः। तथैव तत्पञ्चमपंक्तिकादौ पडत्तराया नवतेस्तु योगात् ॥ ३१ १ ॥ प्राक्पक्तिजादङ़कक दण्डितस्य पत्रस्वरा विशतियुक्छतं स्युः। षष्ठाद्यकोष्ठे स्थितपट्छतेन प्राक्पंक्तिकाद्याङ्कविमिश्रणेन ॥ ३१२ ॥ सविंशतिः सप्तशतीति वेद्या भवन्त्यमी षट्स्वरकूटतानाः। तथाऽन्त्य पंक्यादिमकाप्देशे चतुः सहसीच शतत्रयी च ॥३१३ ॥ ततः च विशत्यधिकं मिलित्वा पट्पंक्तिकाद्यांककदंबकेन। भवन्ति सप्तस्वरकूटताना द्वे विशती पञ्च सहस्त्रिका च ॥।३१४। एवंच सर्वास्वपि मूर्छनासु प्रत्येकमेवं किल कूटतानाः । यदच्छयाऽप्युत्क्मतीSभिगीताः स्वरा मतास्ते खलु कूटतानाः॥
- पा ड व शु द्ध ता ना : -
पञ्चाशतः पट्सहितस्य तासामनन्ततानप्रकृतित्वमुक्तम् । आराहणेचाप्यवराहणेच स्वरक्रमेणव हि शुद्धताना: ॥ ३१६ ॥ चतुर्युताशीतिक शुद्धतान नामानि वक्ष्ये श्रुतिसम्मतानि। संस्थासु सम्रस्वपि चादिमोऽग्निष्टोमस्तथेव प्रथमस्तुतानः ।३१७ ॥। द्वितीयतानस्त्वतिपूर्वकोSग्निष्टोमस्तृतीय: खलु वाजपेयः । स्यात्पोडशी तत्र मतश्चतुर्थः स्यात्पञ्नमस्तत्र हि पोण्डरीकः ॥ ३१८॥ पछ्ठाऽश्चमेधः कथितस्तु तेपु स्यात्सप्मस्तत्र च राजसूयः। पड्जेन हीना इति तेपु पह्जग्रामंनस्रवाः पाडवशुद्धतानाः ।। ३१९ ।
स्याद्ोसवस्तत्र मखस्तृतीयो महाव्रताख्यस्तु भवेञ्चतुर्थः ॥ ३२० ॥
Page 54
शाडवशुद्धतानाः ॥ ३५
स्यात्पञ्चमोविश्वजिदाह्वयोऽसौ स्याद्रह्मयज्ञ: कंथितोऽत्र षष्ठः । ततः प्रजापत्यधिदेवताकयागाभिधः सपमएषतानः । ३२१ ॥ एते क्रमेणर्षभहीनषड्जग्रामोन्जवाः षाडवशुद्धतानाः।
आद्योमुनीन्द्रैः परिकीर्तितोऽवक्रान्तो रथक्रान्त इति द्वितीयः॥३२२॥ तृतीयतुर्यावपि विष्णुसूर्यक्रान्ताभिधानौ कथितौ मुनीन्द्रैः। ततो गजक्रान्त इति स्मृतोऽन्यः षष्ठस्ततः स्याद्वलभित्समाख्यः॥ स्यात्सप्तमस्तत्र च नागयज्ञ: षाड्जे मता: पञ्चमहीनतानाः।
आद्योमुनीन्द्रैः कथितोऽत्र चातुर्मास्याऽथ संस्थाख्य इति द्वितीयः॥ शस्त्रोक्थसंज्ञौ तु तृतीयतुर्यौ सौत्ामणिः पञ्चमशुद्धतानः। चित्राह्वयस्तत्नच षष्ठतानश्चोद्भित्समाख्यस्तु च सप्तमः स्यात्॥ ३२५॥ निषादहीना: खलु तत्न षड्जग्रामोद्ज्वास्तत्र हि कूटतानाः।
सावित्र्यभिख्यः प्रथमोर्ऽर्धसावित्राख्यो द्वितीयस्तु ततस्तृतीयः ॥३२६॥ स्यात्सर्वतोभद्र इति प्रसिद्धस्त्वादित्यकानामयनश्चतुर्थः। अन्यो प्ययनो मतः स्यात्स्यात्सर्पकाणामयनस्तु षष्टः ॥३२७॥ स्यात्सप्तमस्तत्रच कौण्डपायनाख्यो मुनीन्द्रैः परिकीर्तितोऽयम्। ते मध्यमग्रामिकषड्जहीनाः प्रवर्तिताः षाडवशुद्धतानाः ॥३२८॥
आद्योऽग्निचित्तत्र मतो द्वितीयः स्याद्द्वादशाहोऽथतृतीयतुर्यौ। उपांशुसोमौ कथितौ परोऽश्वप्रतिग्रहो बहिरितीह षष्ठः ॥।३२९ ॥ स्यात्सप्तमः चाभ्युदयाख्य एते हीनर्षभा मध्यमशुद्धतानाः।
आद्यस्तु सर्वस्वकदक्षिणा स्यादीक्षा द्वितीयस्त्वपरोऽपि सोमः॥३३०॥ समिच्चतुर्थस्त्वथ पञ्चमोऽपि स्वाहाकृतिर्नाम भजेत सोऽयम्। तनूनपात्षष्ठ इति प्रसिद्धो गोदोहनाह्वोऽपि च सप्तमः स्यात् ॥३३१॥ गान्धारहीना इति मध्यमाख्यग्रामोन्दवाः षाडवशुद्धतानाः।
Page 55
३६ संगीतसुधा॥ - औ ड व शु द्ध ता ना : -
वक्ष्यामहेऽथौडवशुद्धताननामानि (पाड्जानि) निरूपितानि ॥३३२॥ आद्यस्त्विडाख्यः पुरुषादिमस्तु मेधो द्वितीयोऽथ मतस्तृतीयः। श्येन: चतुर्थोऽपि च वज्रनामा भवेदिषुः पञ्चमतान एष: ॥३३३ ॥ षष्ठोऽङ्गिरास्सप्म एष कङ्क एते हि षड्जेन च पञ्चमेन। रिक्ता मुनीन्द्रै रुदितास्तु षड्जग्रामोन्वा स्त्वौडव शुद्धतानाः।३३४। ज्योतिर्युतस्तोम इहादिम: स्यादर्शो द्वितीयस्त्वपरस्तुतानः । स्यात्पौर्णमासस्त्वपरो मतोऽ्वप्रतिग्रहः पञ्चम ऐषतानः ॥ ३३५ ॥ रात्रिस्तु षष्ठोऽपि च सौभरस्तु स्यात्सतमश्चेति मता: क्रमेण। निषादगान्घारवियुक्तषड्जग्रामोन्भवा स्त्वौडवशुद्धतानाः ॥३३६॥ सौभाग्यकृत्स्यात्प्रथमोऽथ कारीर्यसौ द्वितीयस्त्वथ शान्तिकृच्च। मतस्तृतीयोऽथ तु पुष्ठिकृत्स्यात्तुर्यः पर: स्यादथ वैनतेयः ॥३३७॥ उच्चाटनस्तत्र भवेत्तु षष्ठो वशीकृतिः सतमइत्युपात्तः। एते रिपाभ्यां रहितास्तु षड्जग्रामोन्जवासत्वौडवशुद्धतानाः॥३२८॥
तैलोक्यपूर्वोऽपि च मोहन: स्यादाद्यो द्वितीयस्त्वथ वीरसंज्ञः। कन्दर्पपूर्वो वलशातनः स्यादन्यः चतुर्थस्त्वथ शंखचूड: ॥३३९॥ अन्यो गजच्छायतया प्रसिद्धो रौद्राभिधेयोऽपि च षष्ठतानः । विष्णुक्रम । ३४०॥ स्याद्मैरवः प्राथमिको द्वितीयः स्यात्कामद: चावभृथस्तृतीयः । अष्टाकपालश्चमसः चतुर्थः स्यात्पश्चमः स्विष्टकृदाह्वयः च ॥३४१ ॥ पष्टो वषट्कार इति प्रतीतः स्यात्सतमो मोक्षदनामधेयः। रिक्तानिगाभ्यामिति मध्यमाख्यग्रामोन्जवस्त्वौडव शुद्धतानाः। ३४२।
नकेवलं मोदकरा जनानां ताना इमेऽभीष्टफलप्रदाः च। यद्यश्ञनामा भवतीह तानस्तत्तत्फलं साधयतीह सम्यक् ।। ३४३ ॥
गानोपयुक्ता: खलु कूटताना: संमूर्छनास्ते त्वथ शुद्धतानाः। औद्ातके कर्मणि चापिगाने ह्यथोपयुक्ता इति शास्त्रसिद्धाः॥३४४।
Page 56
जातिसाधारणम्। ३७
निरूपिता: सम्यगिति क्रमेण ग्रामौ तथा मूर्छनिकाक्रमा: च। ते शुद्धताना अपि कूटताना: नामानि तेषामपि कीतितानि ॥३४५॥ स्वरस्वरूपं किल सप्रपञ्नं निरूपितं रागविभागसिद्धयै।
- साधारणविषयः -
प्रयोगभेदाद्विकृतिस्वराणां विचित्रितां गानसमानतां च॥३४६॥ रागेषु संदर्श यितुं विविच्य साधारणं साधु निरूपयामः। स्वरैश्च जा त्याश्च विशेषितं तत्साधारणं तत्न भवेद्द्विरूपम् ॥३४७॥
- स्व र साधा र ण म् -
समस्तरागै कनिदानभूत: स्वरादिसाधारणमाद्यमुक्तम्। चतुष्टयं काकलिकान्तराभ्यां पड्जेन योगादपि मध्यमेन ।। ३४८॥ षड्जश्रु तिद्वन्द्वमवाप एषः प्रोक्तो निषाद: किल काकलीति। स्वरद्य स्याश्रयणादिसाम्यात्तदेव साधारणमामनन्ति । ३४९ ॥ श्रुतिद्वयं चेदथ मध्यमस्य स्याद्ान्धारकोऽसौ लभते तदानीम्। स्यादन्तराख्य: कथितस्तदेव साधारणं द्विस्वरसाम्ययोगात् ॥३५० ॥ मन्द्रो निषादस्तु समीपवर्तिमध्यस्थ षड्ज श्रुतिमाश्रयेत। त्यक्तवा निजान्त्यश्रुतिमेष षड्जश्चोपान्त्यभूतां क्षतिमाश्रयेत ॥३५१। तदन्तिकस्थोप्यृषभस्तदानीं गृह्ाति षड्जश्चतिमन्तिमां चेत्। स्यात्ड्जसाधारणमेतदेव स्वरद्यस्थापि समानभावात् ॥३५२।। गान्धारकश्चेदथ मध्यमस्य त्वाद्यां तथान्त्यामपि पञ्चमश्चेत्। क्ति प्रगृह्गाति यदा तदैष साधारणं तत्खलु मध्यमस्य ॥ ३५३ ॥
- जा ति सा धा र ण म् -
एकस्वरांशासु भवेद्यदेकग्रामासु जातिष्वपि यत्समानम्। गानं तदेव प्रवदन्ति जातिसाधारणं गीतिविधानदक्षाः ।।३५४!
Page 57
३८ संगीतसुधा॥ अन्येSपि केचित्प्रवदन्ति रागांस्ताञ्जातिसाधारणमित्यभिज्ञाः।
एवंच साधारणभेद उक्तो निरूपितो यो निगयो: प्रयोग: । ३५५॥ विघातकत्वादितरस्वराणां निषादगान्धारकयोः प्रयोगः। उच्चार्य षडुजं प्रथमं तु मध्ये तां काकलीं धैवतकं तदन्ते ॥३५६ ॥ गायेत्प्रयोगे पुनरीदृशी स्यान्नरक्तिहानि ने च रागदोषः। केचित्तु पक्षान्तरमानयन्ति स्याद्वैवतस्थानगतोऽत्र षड्जः ।३५७॥ य द्वा समुच्चार्य तु षड्जमादौ संस्पृश्य तां काकलिकां च मध्ये। विहाय षड्जंत्वथ धैवतं च शिष्टस्वरेष्वन्यतमंच गायेत् । ३५८॥ इतीरित: काकलिका निषादप्रयोगभेदोऽपि निरूपितोऽथ। उच्चार्य तन्मध्यममेव पूर्व संस्पृश्य गान्धारकमेदरीत्या ॥ ३५९ ॥ गान्धारकस्यान्तर संज्ञकस्य प्रयोग भेदोऽपि निरूपितोऽथ। उच्चार्य तन्मध्यममेव पूर्व संस्पृश्य गान्धारकमन्तराख्यम् ।३६० ॥ गायत्ततश्चर्षभमेव चान्ते यद्वा पुनर्मध्यममेव गायेत्। तदुत्तरेप्वन्यतमस्वरं वा गायेत्तदा नैव च रतिहानिः ॥३६१ ॥
वर्णा :
निरूप्य साधारणमत्र सभ्यगथोच्यते वर्णगतस्वरूपम्। गानक्रिया स्यादथ वर्णसंज्ञा चतुविधः सोऽपि निगद्यतेऽत्र ॥२६२॥ स्थायी तथाऽरोह्यवरोहिणौ च तथैव सञ्चार्यपि वर्णभेदाः। स्थायी तु गाने कथितो विलम्व्य विलम्व्य चैकस्य मुहुः स्वरस्य॥३६३॥ यथा त्रिरुक्ते स-स-से ति षड्जे स मध्यमे स्यान्म-म-मेति गाने। आरोहणं यत्र भवेत्स्वराणामारोहिवर्णः कथितः स एव ।३६४ ॥ यत्र स्वराणामवरोहणं स्यात्तमेव विद्यादवरोहिवर्णम्। आरोहिणश्चाप्यवरोहिणश्च सञ्चारिवर्णस्तु विमिश्रणे स्यात् ॥३६५॥
- अलड्का रा ः
वर्णप्रभेदं प्रतिपाद्य चात्रालङ्कारलक्ष्म प्रतिपादयामः । ताटंकहारप्रमुखै र्यथाऽलंकारं नितान्तै वनिता समिन्धे ।३६६ ॥
Page 58
स्थायिगतालङ्काराः । ३९
उल्लासितान्तैरिह वर्णपंक्तिस्तथा प्रसन्नादिमुखस्त्रिषश्या। तं वर्णसन्दर्भविशेषमेव अलंकारमाहुर्मुनयोंऽपि षष्टिम् ।३६७॥
- स्था यि ग ता लं का रा : - तस्य त्रिषष्टिः कथिताः प्रभेदास्तत्ाSपि च स्थायिगतान्वदामः । आद्यन्तयोः स्यात्स्वर एक एव येषां हि ते स्थायिगता भवन्ति ॥३६८॥ एतादृशा: स्थायिगता: किलालंकारा: पुनः सप्विधा भवन्ति। आद्यः प्रसन्नादिरिह प्रतीतो भवेत्प्रसन्नान्त इति द्वितीयः ॥३६९॥ ततस्तृतीयः कथितः प्रसन्नाद्यन्तासिधानश्च ततश्चतुर्थः। प्रसन्नमध्यः क्रमरेचितस्तु स्यात्पञ्चमस्तत्रभवेसषष्ठः ।। ३७० ॥ प्रस्तारनामा प्रथितः प्रसाद: स्यात्सत्मः स्थायिगताः किलैते। अत्र ह्यलङ्कारनिरूपणे तु यो मूर्छनाया: प्रथम: सवरः स्यात् ॥ ३७१ ॥ मन्द्रः स उक्तो द्विगुणः स एव तारोऽथवा स्यादिह पूर्वपूर्वः। मन्द्रोऽथ तारस्तु पर: परःस्यान्मन्द्रः प्रसन्नश्च मृदुः समर्थः ॥। ३७२ ॥ तारश्च दीप्श्च तथा समर्थौ मन्द्रं लिखेद्बिन्दु शिरस्कमत्र। तथोर्ध्वरेखा शिरसस्तु तारखर स्त्रिरुच्चारणतः प्लतःस्यात् ॥ ३७३ ॥ मन्द्रं द्विरुच्चार्य सकृत्तु तारे गीते प्रसन्नादिमुदाहरन्ति। यथा,-स-स-सं। तारं द्विरुच्चार्य सकृत्तु मन्द्रे गीते प्रसन्नान्तमुदाहरन्ति ॥ ३७४ ॥ यथा,-सं-सं-स। गीत्वा तु मन्द्रं प्रथमं ततस्तु तारं च गायेत्पुनरेव मन्द्रम्। यस्मिन्नलङ्कारममुं प्रसन्नाद्यन्तं त्वलङ्कारविदो वदन्ति ॥ ३७५॥ यथा,-स-सं-स। तारं समुच्चार्य ततस्तु मन्द्रमन्ते च तारं पुनरेव गायेत्। प्रसन्नमध्यं तमुदाहरन्ति सर्वेऽप्यलङ्कारविदो मुनीन्द्राः ॥ ३७६ ॥। यथा,-सं-स-सं। कालत्रयाढ्य: क्रमरेचितः स्यात्कालस्वरूपं प्रतिपादयामः। आद्यन्तयो मूछनिकादिमश्चेत्तदन्तराले यदिमध्यमौ स्तः । ३७७॥ तन्मध्यग: पञ्चम एष षष्ठः स सप्तम: तत्कथितस्तृतीयः। 6
Page 59
४० संगीतसुधा।
यथा,-स रिसं, स-ग-म-सं, स-प-ध-नि-सं। कालत्रयेस्मिन्यदि तारकोऽन्ते प्रस्तारमेतं प्रवदन्ति सन्तः ॥३७८॥ यथा,-स रि संस गम सं स-प-ध-नि-सं। आद्यः कलानां यदि तारक: स्यादन्त्यश्च मन्द्रस्तिसृणाममूषाम्। प्रसादनामा स भवेदितीहालङ्कारकाः स्थायिगता निरुक्ताः ।३७९॥ यथा,-संरि स, सं-ग-म-स, सं-प-ध-नि-स।
- आरोहिगतालङ्काराः -
यथावदारोहिगतानथालङ्कारान्त्रुवे द्वादशाभिन्नभेदान्। विस्तीर्णसंज्ञः प्रथमो द्वितीयो निष्कर्षको बिन्दुरत स्तृतीयः ।।३८० ॥ अत्युच्चयोऽन्यो हसिताभिधानः स्यात्पञ्चमः प्रेङ्गितकस्तु षष्टः। आक्षिप्तकं सतममत्र सन्धि: प्रच्छादनाख्य: पुनरष्टमः स्यात् ॥३८१॥ उद्गीथनामा नवमस्ततः स्यादुद्वाहिताख्यो दशमस्तु वेद्यः। त्रिवर्ण एकादश इत्युदीरितः स्थाद्द्वादशो वह्निरिति प्रसिद्धः॥३८२॥ एषां पुनर्लक्षणमत्र वक्ष्ये यथाक्रमं गायकबोधहेतोः। स्वरं समारभ्य तु मूर्छनाद्यं दीर्घान्स्वरान्यत्र मुहुरविलम्व्युः ॥३८३॥ आरोहृयन्गायति चेत्क्रमेण विस्तीर्णनामा कथितः स एषः । यथा, सा-री-गा-मा-पा-धा-नि। ड्रूस्वान्स्वरान्सप्च यत्र गायेदारुह्यच द्वन्द्वमथैकमेकम् ।३८४ ॥ निष्कर्ष एष त्रिरथो चतुर्वा गाने स्वराणामिह गातृवर्णः । निष्कर्षभेदा: प्रवदन्ति केचिदेतौद्विधोक्तावपि गातृवर्णो ।३८५ । यथा, सस रिरि गग मम पप धध निनि। ससस रिरिरि गगग ममम पपप धधध निनिनि। सससस रिरिरिरि गगगग मममम पपपप धधधध निनिनिनि॥ त्रिरादिमन्द्रंच सकृदूद्वितीयं स्त्रि्वै तृतीयंच सकृञ्चतुर्थम्। त्रिः पञ्चमं षष्ठमथो सकृच्च त्रिः सतमं गायतिचेत्सबिन्दुः ।।३८७ ॥ यथा, ससस रिगगग म पपप ध निनिनि। आद्यं तृतीयं पुरतः प्रगायेत् द्वितीयतुर्यौ च ततस्तृतीयम्। सपञ्जमं किञ् तुरीयषष्ठौ ततः परं पञ्चमसपमौ च ॥३८८!
Page 60
आरोहिगतालङ्काराः। ४१
षष्ठंञ्च गायेत्क्रमशो यदा तमत्युच्चयास्यं मुनयो.वदन्ति । यथा, सग-रिम-गप-मध-पनि। आद्य सकृद्द्विश्च ततोद्वितीयं तिश्वेतृतीयञ्च चतुर्तुर्यम् ॥३८९॥ तं पञ्चधा पञ्चममत्र षोढा षष्टं ततोऽनत्यं किल सप्तकृत्वः । आरुह्य गायेद्धसिताभिधानालङ्कारमेतं प्रवदन्ति सन्तः । ३९०॥
यथा, स, रिरि, गगग, मममम, पपपपप, धघघधधध, निनिनिनिनिनिनि। आद्यं द्वितीयौ तदनु द्वितीयतृतीयकौ किञ्च तृतीयतुर्यौ। ततस्तुरीयं सहपञ्चमेन समन्वितं पञ्चमतश्च षष्टः ॥३९१ ॥ षष्टं यदागायति सप्तमेन स प्रेङ्गितस्तं क्रममाहुरेके। यथा, सरि रिग गम मप पध धनि। आद्यं तृतीयञ्च ततस्तृतीयं सपञ्चमं पञ्चमसप्तमौच। आरुह्य गायेत्क्रमशो यदा तमाक्षिप्संज्ञं मुनयो वदन्ति ।। ३९२ ॥ यथा, सग, गप, पनि। स्यात्न्निस्वराद्या तु कला तदन्त्यं स्वरं समारुह्य भवेद्द्वितीया। तदन्त्यमारभ्य पराच सन्धिःप्रच्छादनोऽतस्त्रिकलान्वितः स्यात्॥ यथा, सरिग, गमप, पधनि।
कालत्ये त्रिस्वरभाजि यस्मिन्नावत्तित स्त्रिः प्रथमस्वरस्तु । संगीयते चेत्क्रमशस्तमेनं मुद्रीथनामानमुशन्ति सन्तः । ३९४॥ यथा, ससस सरिग। मम मपध। स्वरत्रयी भाजित (त)त्त्रयेSस्मिन्नावर्त्तितो मध्यगतः स्वरस्त्रिः । संगीयते यत्र किल क्रमात्तमुद्धाहिताख्यं प्रवदन्ति सन्तः ॥ ३९५॥
यथा, सरिरिरिग, मपपपध। अन्त्यस्वरे यत्र कलाद्ये त्रिरावर्ततितः स्यात्सभवेत्त्रिवर्णः । यथा सरिगगग, मपधधध। स्वरद्यं यत्र कलाद्ये त्रिरावर्त्यते वेणिमसुंवदन्ति ॥ ३९६ ॥ यथा, ससस, रिरिरि, गगग, ममम, पपप, धधध, उद्गीथ उद्धाहितके त्रिवर्णे वेण्यां निषादो नकदापि गेयः । उक्तास्तथारोहिणि वर्णकेऽलङ्कारा पुनद्वदिश ते विविच्य ॥३९७॥
Page 61
संगीतसुधा॥
एते 5वरोहक्रमतो मंताश्चावरोह्यलङ्कारगताः प्रगीताः। यथा, विस्तीर्णालङ्कारे, निधपमगरिस।
- स ञ्ञा रिगता ल ङ्का राः - एवं किलारोह्यवरोहिभेदाल ङ्कारजालानि निरुपितानि। अतः परं गायकबोधहेतोः सञ्चार्यलङ्गारभिदां वदाम: ॥ ३९८॥
मन्द्रादिराद्यो भवतीह मन्द्रमध्यो द्वितीयस्तु ततस्तृतीयः। मन्द्रान्तिम: किञ्न भवेञ्चतुर्थः प्रस्तारनामाथ परः प्रसादः ॥३९९॥ व्यावर्तकोऽत्यत्स्खलितः परःस्यात्ततोऽष्टमोSसौ परिवर्तसंज्ञः। आक्षेपकोऽन्यो दशमस्तु बिन्दुरुद्वाहितोऽन्योऽथ पुनः किलोमिः॥ त्रयोदशश्चापि समस्ततोऽन्यः प्रेङ्गश्च निष्कूजितकःपरः स्थात्। श्येन: परः सप्तदश: क्रमःस्यादुद्वाटितोSष्टादशकस्तथैव स्याद्रक्चितोऽन्योऽप्यथ सन्निवृत्त प्रवर्त्तको विशतिमः प्रतीतः । वेणुः परः स्याल्ललितस्वरो द्वाविशोऽथ हुङ्कार इति प्रतीतः ॥४०१। भवेच्चतुरविशतमा प्रतीतः सह्लादमानस्त्ववलोकितोऽन्त्यः । पञ्चाधिका विशतिरेवमेते सव्चार्यलङ्कारतया प्रसिद्धाः ॥ ४०२ ॥
अथो यथोद्देशमुदीरितानामाचक्ष्महे लक्षणमप्यमीषाम्। आद्यं तृतीयञ्च ततो द्वितीयं गीत्वा कलायां पुनरादिमायाम् ॥४०३॥ द्वितीयतुर्यौ च ततस्तृतीयं तृतीयकं पञ्चमकं चतुर्थम् । तुरीयषष्ठावपि पञ्चमञ्न सपञ्चमं सप्मतश्च षष्ठम् । ४०४ ॥
एवं भवे यत्रगानकलासु मन्द्रादिरयं प्रदिष्टः । यथा, सगरि, रिमग, गपम, मधप, पनिध। तृतीयमाद्यञ् ततो द्वितीयं तुर्य द्वितीयञ्च ततस्तृतीयम्। तं पञ्चमञ्जापि तृतीयतुर्यौ षष्टं चतुर्थ त्वथ पञ्चमञ्च ।।४०५॥
तं सप्तमं पञ्चमषष्टकौच गायेत्कलास्वासु स मन्द्र मध्यः ।
Page 62
सञ्जारिगतालङ्काराः॥ ४३
यथा, गसरि, मरिग, पगम, धमप, निपध। गायेद्द्वितीयं तु ततस्तृतीयमाद्यं ततःतत्र तृतीयतुर्यौ ।४०६ ॥ अथ द्वितीयञ्च ततञ्चतुर्थ तं पञ्चमञ्वापि पुनस्तृतीयम्। तं पञ्चमं षष्टमथो चतुर्थ षष्टं तथा सप्तमपञ्चमौ च । ४०७॥ एवं विधं यत्र कलासु गानं भवेत्स मन्द्रान्त इति प्रतीतः । यथा, रिगस, गमरि, मपग, पधम, धनिप। आद्य तृतीयञ् ततो द्वितीयं तुर्यौ तृतीयं त्वथ पञ्चमञ्च। चतुर्थषष्टं त्वथ पञ्चमञ्न तं सप्मं गायति चेत्कलासु स्वरद्येनैव युतासु तासु प्रस्तारनामा प्रथितः स एष: । यथा, सग, रिम, गप, मध, पनि। आद्यद्वितीयौ पुनरेव चान्त्यं ततो द्वितीयं च पुनस्तृतीयः ॥ ४०९ ॥ पुनर्द्वितीयञ्च तृतीयतुर्यौ पुनस्तृतीयञ्च ततश्चतुर्थम्। तं पञ्चमं प्राप्य पुनश्चतुर्थ तं पञ्चमं षष्टकपञ्चमौ च ॥ ४१०॥
षष्टं पुनः सप्तमषष्टकौ च गायेत्क्रमाद्यत्न स तु प्रसाद:। यथा, सरिस, रिगरि, गमग, मपम, पधप, धनिध ॥ ४११ ॥ चतुःस्वरास्तत्न कलामिदध्याद्त्वा तृतीयं तदनुद्वितीयात्। तुर्य ततश्चादिममेव गायेत्ततो द्वितीयाच्च पुनश्चतुर्थम् ॥४१२ ॥ तृतीयकात्पञ्चमकं पुनश्च गायेद्द्वितीयं तु कलाद्वितीया। अथोतृतीयादपि पञ्जमञ्न पुनश्चतुर्थादपि षष्टमेव ॥ ४१३ ॥ पुनस्तृतीयं तु कलातृतीया तुर्या च षष्टं त्वथ पञ्चमाच्च। तं सप्मञ्चापि पुनश्चतुर्थ व्यावर्तसंज्ञं तमुदाहरन्ति ।।४१४ ॥ यथा, सगरिमस, रिमगपरि, गपमधग, मधपनिम। आद्यं तृतीयंतदनु द्वितीयं द्विस्तुर्यकं किञ्च ततो द्वितीयम्। तृतीयमाद्यञ्च पुनश्च गायेदष्टस्वरासौ प्रथमाकलेष्टा ।४१५॥ द्वितीयतुर्यौ तु ततस्तृतीयं तं पञ्चमं द्विश्च तृतीयतुर्यौ। गायेद्द्वितीयञ्च यदा द्वितीया कलेयमष्टस्वरमेलनेन ॥ ४१६॥ तृतीयमादावपि पञ्चमञ्च तुर्य पुनः षष्टमनन्तरं द्विः। तुर्य पुनः पञ्चमकं तृतीयं भवेत्कलाष्टस्वरयुत्कृतीयम् ।।४१७॥
Page 63
४४ संगीतसुधा ॥
तुरीयषष्टावथ पञ्चमञ्न द्विसत्मं पञ्चमषष्टतुर्यान्। गायेद्यदेयंतु कला चतुर्थी तं पञ्चमं सप्तमषष्टकौ च ॥४१८॥ द्विरादिमं षष्टकसप्तमौच तं पञ्चमं गायति सा कलान्त्या। एवं विधा: पञ्चकलाश्च यत्रालङ्कार एष र्खलिताभिधान: ॥४१९॥ यथा, सगरिम मरिगस रिगमप पगमरि गपमध धमपग मधपनि निपधम पनिधस सधनिप। आद्यं तृतीयञ्च ततश्चतुर्थ गायेद्यदासा प्रथमा कलास्यात्। द्वितीयतुर्यावथ पञ्चमञ्च गायेद्द्वितीया तु मता कलेयम् । ४२० ॥ तृतीयमादावथ पञ्चमञ्च षष्टव् गायेत्तु कलातृतीया। तौ तुर्यषष्टावथ सप्तमञ्च गायेद्यदासा त्रिकला चतुर्थी ।४२१ ॥ तं पञ्चमं सप्ममादिमञ्ज स्वरं यदा गायति पञ्चमीयम्। एवं कला: पञ्च भवन्ति यत्रालङ्गार उक्त: परिवर्त एष: ॥ ४२२ ॥ यथा, सगम, रिमप, गपध, मधनि, पनिस । आद्यस्वराणां त्रितयं कलाद्या स्वरेषु सप्तस्वपिच क्रमेण। द्वितीयमारभ्य भवेनतृतीया तृतीयमारभ्य ततस्तृतीया । ४२३ ॥ चतुर्थमारभ्य तुर्थी स्यात्पञ्चमाद्या किल पञ्चमीसा । षछ्टं समारभ्य तथादिमान्ता षष्टीकलेयं गदिता मुनीन्द्रैः ॥। ४२४ । तास्त्रिस्वरा यत्रकला: षडेवाक्षेपाभिधानं तमुदीरयन्ति। यथा, सरिग, रिगम, गमप, मपध, पधनि, धनिस। गीत्वा त्रिरादं तदनु द्वितीयं स्पृष्ट्वाग्निवद्ायति चादिमञ्चेत्॥ ४२५॥ सादया कला त्रिस्तदनु द्वितीयं स्पृष्टवातृतीयं तु पुनर्द्वितीयम्। गायेदयदा साहि कलाद्वितीया गायेनृतीयं त्रिरथो चतुर्थम् ॥४२६॥ स्पृष्ट्वा पुनर्गायति चेत्तृतीयमेषा तृतीयातु कलाप्रदिष्टा। त्रिस्तुर्यमुद्गायति पञ्चमन्तु स्पृष्ट्वाथतुर्य यदि सा चतुर्थी ।।४२७।। त्रिः पञ्चमं गायति षष्टकन्तु स्पृष्टवा पुनः पञ्चममेव सान्या। तिः षष्टमादावथ सप्तमञ्च स्पृष्टवा पुनर्गायति यत्र षष्टम् ।४२८॥ षष्टी कलास्यादथ सप्तमं त्रिराद्यन्तु संस्पृश्य तु सप्तमश्च । पुनश्च गायेद्यदि सप्तमी सा प्रोक्ता कला यत्र हि बिन्दुरेषः ।४२९।।
Page 64
यथा, ससससरि रिरिरि रिग, गगगं गम, ममम मप, पपप पध, धधध धनि, निनिनि निस। गीत्वा स्वरांस्त्रीन्क्रमतोऽवरुह्य द्वितीयकं गायति चेत्कलाद्या। अथ द्वितीयं च तृतीयतुर्यौ गायेद्द्वितीयं यदिसाद्वितीया ॥४३०॥ तृतीयतुर्यावथ पञ्चमञ्न तुर्य पुनर्गायति सा चतुर्थी। तं पञ्चमं षष्टकसप्तमौच षष्टं यदा गायति पञ्चमीयम् ।४३१॥ षष्टं यदा सप्तममादिमञ्चेत्तं सप्तमं गायति सात षष्टी। ताः षष्टकला यत्र भवन्ति सोऽयमुद्धाहिताख्य: कथितो मुनीन्द्रैः॥ यथा, सरिगरि, रिगमग, गमपम, मपधप, पधनिध, धनिसनि।
Page 65
॥ रघुनाथभूपविरचिता॥ ॥ संगीतसुधा ॥ (Continued from page 210).
आदश्चतुर्थस्तु यदाभवेत्त्रिराद्य: सकृत्कित्व सृ्चतुर्ः । साद्याकला: स्युस्तदनुद्वितीया त्रिःपञ्मा: किञ्च सकृद्द्वितीयः॥४३३॥ स्यात्पञ्चमश्चापि सकृद्द्वितीया कला तृतीया त्रिरपीह षष्टः । तृतीयषष्टौ च सकृसृतीया कला चतुर्थादपि सप्तमस्त्रिः ॥४३४ ॥ सकन्मतौ तुर्यकसप्मौ चेदेषा चतुर्थी तु कलोपदिष्टा। स्यात्पञ्चमोऽत प्रथमस्वरश्चेत्तौ पञ्चमाद्यावथ पञ्चमीयम् ।। ४३५ ॥ एता कला: पञ्चभवन्ति यत्र तमूर्मिनामा तमुदीरयन्ति। समममसम। रिपपपरिप। गधधधगध। मनिनिनमनि। पसससपस ॥ स्वरेषु सप्तस्वपि चाद्यमादावरभ्य गायेञ्चतुरः स्वरांश्चेत्। आरोहणेनाप्यवरोहणेन साष्टस्वराः प्राथमिकी कलास्यात् ॥४३६॥ द्वितीयमारभ्य तथाद्वितीया तृतीयमारभ्य तथा तृतीया। चतुर्थमारभ्य तथा चतुर्थी स्यात्पञ्चमाद्यापि च पञ्चमीसा ॥४३७। एता: कलाः पञ्चभवन्ति यत्र त्रयोदशः स्यात्तु समाभिधानः । सरिगम मगरिस । रिगमप पमगरि। गमपध धपमग। मपधनि निधपम। पधनिस सनिधप। क्रमेण च व्युत्क्रमतो यदाद्याद्वितीयकौ गायति सा कलाद्या। तथा द्वितीयञ्च तृतीयमेवं चतुःसरा सा तु कला द्वितीया ॥४३८॥ तृतीयतुयौ यदि चैवमेव चतुःखरा सा तु कला तृतीया। तृतीयतुर्यौ यदि चैवमेव तदा भवेत् सा तु कला चतुर्थी ।४३९ ॥ तुर्य तथा पञ्चममेवमेव चतुःखरा पञ्चमिकाकलेयम्। 7
Page 66
४८ संगीतसुधा॥
तं पञ्चमं षष्टमथैव्मेव चतुःसरास्तत्न कला हि षष्टी। षष्ठं यदा सप्तममेवमेवं चतुःस्वरा सप्तमिका कलेयम् । ४४० ॥
एता: कलाः सपभवन्ति यत्र प्रेङ्गाभिधं तं मुनयो वदन्ति। सरिरिस, रिगगरि; गममग, मपपम, पधधप, धनिनिस, निससनि। भेदस्तु तार: प्रथमो द्वितीयं पुनश्च मन्द्रः प्रथमस्तृतीयः । पुनश्च तार: प्रथमो यदिस्यात् पञ्चस्वरास्याद्यकला प्रतीता ।।४४१॥ तारो द्वितीयश्च ततस्तृतीयो मन्द्रो द्वितीयश्च ततश्चतुर्थः। तारो द्वितीयश्च पुनर्यदिस्यात्पञ्नस्वरा सा तु कला द्वितीया ॥४४२॥ तारस्तृतीयोऽथ भवेच्चतुर्थो मन्द्रस्तृतीयोऽप्यथ पञ्चमश्च। तारस्तृतीय: पुनरेव यत्र पञ्चस्वरा सा तु कला तृतीया ।।४४३ ॥ तारश्चतुर्थः किल पञ्चमः स्यान्मन्द्रश्चतुर्थः पुनरेव षष्टः । तारश्चतुर्थस्तु पुनर्भवेच्चेत्पञ्चस्वरा सा तु कला चतुर्थी। तार: पुनः पञ्चमकोऽथ षष्टस्तारः पुनः पञ्चमकस्ततोऽन्त्यः ॥।४४४॥ तार: पुनः पञ्चमको यदिस्यात्पञ्जस्वरा पञ्चमिका कलेयम्। तारस्तु षष्टोऽथ च सप्तमश्च तारस्तु षष्टः पुनरादिमश्च । ४४५ ॥ तारस्तु षष्ठः पुनरेवचेत्स्यात् पञ्चस्वरा सप्तमिका कलेयम् । एताः कलाः सप्तभवन्ति यत्र निष्कूजितं तन्निगदन्ति सन्तः ॥४४६॥ सरि सगस, रिग रिमरि, गम गपग, मप मधम, पध पनिप, धनि धसध। स्वरांश्च गीत्वा चतुरःक्रमान्तत्संवादिनौ द्वावपि यत्र गायेत्। आद्या कलेयं कथिता द्वितीयमारभ्य गायेच्चतुर: स्वरांश्रेत् । संवादिनौ द्वावपि सा द्वितीया तृतीयमारभ्य चतुःस्वरीं चेत्॥ ४४७॥ संवादिनौ द्वावपि चेत्तृतीया चतुर्थमारभ्य चतुःस्वरीं च। संवादिनौ द्वावपि चेच्चतुर्थी श्येनस्त्विमा यत्र कलाश्चतस्रः ॥४४८॥ यथा, सरिगम सप, रिगमप रिध, गमपध गनि, मपधनि मस। आद्यात्स्वरा द्विस्वरिकादिमात्र स्वरा द्वितीयाथ चतुःस्वरान्या ॥ कालत्रयेणान्तिमका कलान्या तथाद्वितीयाच्च कलात्येण । ४४९॥
Page 67
सञ्जारिगतालङ्काराः।
महाकला तत्र भवेद्द्वितीया तृतीयमारभ्य, कला त्रयेण। महाकला तत्र भवेनतृतीया चतुर्थमारभ्य कला त्रयेण ।। ४५० ॥ महाकला तत्र भवेच्चतुर्थी स्यात्पञ्चमात्तत्र कला त्रयेण । महाकला पञ्चमिकातु यत्र महाकला: पञ्चभवेत्क्रमोऽयम् ॥४५१॥ यथा, सरि सरिग सरिगम । रिग रिगम रिगमप । गम गमप गमपध। मप मपध मपधनि। पध पधनि पधनिस। आद्यात्स्वराद्द्वन्द्वमथ प्रयोगाच्चतुःस्वरीं पञ्चमतोऽवरुह्य। गायेद्यदा सादकला द्वितीयात्स्वरद्य प्राप्य ततस्तु षष्टात् ॥४५२॥ यदावरोच्च कलाद्वितीय तृतीयमारभ्य तथा स्वरौ द्वौ। गीत्वा यदा सप्मतोऽवरोहे कला तृतीया कथिता किलैषा ॥ ४५३॥ चतुर्थमारभ्य यदास्वरौ द्वौ गीत्वा तथाद्यादवरुह्य गायेत्। तुर्या कलेयं कथिता कलाभिरेताभिरुद्धाटितमीरयन्ति । ४५४ ॥ यथा, सरि पमगरि, रिग धपमग, गम निधपम, मप सनिधप। मन्द्रं यदादञ्च ततस्तृतीयं ततो द्वितीयं द्विरिमांश्चगायेत्। आद्य पुनर्मन्द्रमियं कलादया; मन्द्रद्वितीयश्च ततस्तृतीयम् ।।४५५॥ ततस्तृतीयं द्विरिमांश्च गायेन्मन्द्र द्वितीयं च कला द्वितीया। मन्द्रानतृतीयादथ पञ्चमञ्च पुनस्तुरीयं द्विरिमांश्च गायेत् ॥४५६॥ मन्द्रतृतीयश्च कला तृतीया तुरीयकं षष्टकपञ्चमौ च । गायेद्द्विरतानथ मन्द्रतुर्य कला तृतीया कथितेयमा्यैः । मन्द्रादथा पञ्चमगात्तथान्त्यं षष्ठं द्विरेतान्मृदुपञ्चमञ्र । ४५७ ॥ गायेत्कला सा किल पञ्चमीस्यात्वष्ठं मृदोरादिमसप्तमौ च । गायेद्द्विरेतानथ मन्द्रषष्टं पष्टीकलारञ्चित एषताभिः ।४५८॥ यथा, सगरि सगरिस, रिमग रिमगरि, गपम गपमग, मधप मधपम, पनिध पनिधप, धसनि धसनिध । आद्यादयदा पञ्चममत्र गायेत्तुर्यातस्वरात् त्रीन्क्रमतोऽवरोहेत्। साद्या कलास्यात्तदनुद्वितीयात् षष्टं तु गायेदथ पञ्चमात् त्ीन्॥४५९॥ यथाऽवरोहे त्तु कला द्वितीया तृतीयमारभ्य यदा किलान्त्यम्। षष्टादयदा त्रीनवरुहय गायेत्तदा तृतीया तुकलोपदिष्ा ।४६० ॥
Page 68
५० संगीतसुधा॥
तुर्य किलाद्यं किलसप्तमादीन् स्वरान्यदा तीनवरुह्यगायेत्। तुर्या कला सा किल सन्निवृत्ता प्रवर्तनामात्र कलाभिराभिः ॥४६१॥ यथा, सपमगरि, रिधपमग, गनिधपम, मसनिधप। गायेद्द्विरादयं तदनु द्वितीयं तुर्य तृतीयं च तदा कलाद्या। गायेद्द्वितीयं द्विरथो तृतीयं तं पञ्चमं तुर्यमियं द्वितीया ॥ ४६२ ॥ गायेद्द्वितीयं द्विरतः चतुर्थ षष्टं पुनः पञ्चमकं ततीया। तुर्य द्विरादावथ पञ्चमान्त्यं षष्टं च गायेद्यदि सा चतुर्थी ॥ ४६३ ॥ द्विपञ्चमं षष्टमथादिमान्त्यौ गायेद्यदा पञ्चमिका कलेयम्। पञ्चस्वराभिस्तु कलाभिराभि: परिष्कृतो वेणुरिहैकविंशः ।।४६४ । यथा, ससरिमग, रिरिगपम, गगमधप, ममपनिध, पपधसनि॥ गीत्वादिमौ द्वौच ततःचतुर्थ द्वितीययाद्यं च यदाप्रगायेत्। आद्या कलेयं तदनुद्वितीय तृतीयकौ पञ्चमकं तृतीयम् ।४६५ ॥ गायेद्द्वितीयं च कला द्वितीया तृतीयतुर्यावथ षष्टतुयौ। गायेततृतीयं च कला तृतीया तुर्य तथा पञ्चमसतमौ च । ४६६ ॥ तं पञ्चमं तुर्यमपि प्रगायेत्तुर्या कलेय कथिता मुनीन्द्रैः । तं पञ्चमं षष्टमथादिमं च षष्टं तथा पञ्चममेव गायेत् ।। ४६७॥1 सापञ्चमीस्यात्तु कलाभिराभि र द्राविशकोऽयं ललितस्वराख्यः । यथा, सरिमरिस, रिगपगरि, गमधमग, मपनिपम, पधसधप॥ आद्य द्वितीयं च पुनस्तमाद्यं गायेद्यदा सा प्रथमा कलास्यात्। गीत्वा स्वरांस्त्रीन् क्रमशो द्वितीयमाद्य च गायेद्यदि सा द्वितीया॥४६८॥ गायेद्यदाद्यांश्चतुरस्तृतीयाद्यथावरोहे कथिता ततीया । क्रमात्स्वरान्पञ्च यदावरोहेद्यारभ्य तुर्यादवराहयेच्च ।४६९ ॥ कलाचतुर्थीयमुदीरिता स्यादाद्ाद्यदारोहणमाच षष्टात्। भवेत्तथा पञ्चमतोऽवरोहः सा पञ्चमी सन्िरुदीरिता स्यात्॥४७0॥ आद्याद्यदारोहणमान्तिमंस्यात्षष्टं समारभ्य तथावरोहः। षष्टी कलाद्य पुनरादिमान्तमारोहणं सतमतोऽवरोहः ।। ४७१॥ स्यात्सत्मी ताभिरमुं कलाभि हुङ्कारनामानमुशन्ति सन्तः । यथा, सरिस, सरिगरिस, सरिगमगरिस, सरिगमपमगरिस,
Page 69
प्रसिद्धालङ्काराः ॥ ५१
सरिगमपधपमगरिस, सरिगमपंधनिधपमगरिस, सरिगमपधनिसनिधपमगरिस ॥ अत्रादिमं मन्द्रमतस्तृतीयं द्वितीयमाद्य पुनरेव मन्द्रम् । आद्या कलेयं हि मृदुद्वितीयं तुर्य तृतीयं च मृदुद्वितीयम् ।। ४७२॥ गायेदयदा सा हि कला द्वितीया मन्द्रं तृतीयं त्वथ पञ्चमं च । तुर्य तथा मन्द्रतृतीयमन्ते गायेदयदा सा हि कला तृतीया ।। ४७३ ॥
मन्द्रं चतुर्थ त्वथ षष्टकंच तं पञ्चमं मन्द्रतुरीयमन्ते । गायेददा सा तु कला चतुर्थी त पञ्चमं मन्द्रमथान्तिमं च ।। ४७४ ॥
षषटं तथा पञ्चममेव मन्द्रं गायेददा पञ्चमिका कलेयम्। मन्द्रं च षष्टं पुनरादिमान्त्यौ षष्टं च मन्द्रं पुनरेवगायेत् ।। ४७५ ॥
षष्टी कलास्याच्च कलाभिराभिस्तं हादमानं निगदन्ति सन्तः । यथा, सगरिस, रिमगरि, गपमग, मधपम, पनिधप, धसनिध ॥ आद्यं तृतीयं च ततस्तुरीयं तुर्य द्वितीयं पुनरादिमं च । गायेदयदा सैव कलादिमास्याद् द्वितीयतुर्यावथ पञ्चमं च ।४७६॥
तं पञ्चमं किञ्ज तृतीयमेव गायेद्द्वितीयं च यदि द्वितीया। तृतीयमादावथ पञ्चमंच षष्टं पुनः षष्टतुरीयकौ च ।। ४७७॥।
गायेत्तृतीयं च यदा तृतीया चतुर्थमादावथ षष्टमन्त्यम् । अन्त्यं पुनः पञ्चमतुर्यकौ च गायेददा सा हि कला चतुर्थी ।। ४७८॥ तं पञ्चमं सप्तममाद्यमादयं षष्टं पुनः पञ्चममेव गायेत्। सा पञ्चमीस्यादखिलाभिराभिर्युक्त: कलाभिस्त्ववलोकितः स्यात्॥ यथा, सगममरिस, रिमपपगरि, गपधधमग, मधनिनिपम, पनिससधप ॥ आरोहमार्गेण निरूपितोऽयं सञ्चार्यलङ्कारगण: समस्तम् । तथाऽवरोहेण च दर्शनीयः सर्वेऽप्ययं बुद्धिमदग्रगण्यैः ।४८0॥
- प्रसिद्धालङ्कारा: - सप्तापि संगीतविदां मतेSलङ्कारान्प्रसिद्धानितरान्वदामः । आद्यो भवेत्तेषु च तारमन्द्रः प्रसन्नइत्याह्वयतः प्रतीतः ॥४८१॥
Page 70
५२ संगीतसुधा i
विदुर्द्वितीयं किल.मंन्द्रतारं प्रसन्नमावर्तकमन्यमाहुः । तुरीयमाहु: किल संप्रदान: स्यात्पञ्जसोऽयं विधुताभिधानः ॥४८२।। षष्टं च विद्यादुपलोलकाख्यमुल्लासितं सतममामनन्ति। साधारण लक्षणमेतदेषां स्वरान्द्वितीय प्रमुखानुपेत्य ॥ ४८३ ॥ प्रवर्तमानासु कलासु तासु नपूर्वपूर्वग्रहणं कदाचित् ।
- तारमन्द्रप्रसन्नः - तारादथाद्यान्मृदुकाष्टमान्तमारुह्य गायेत्पुनरादिमं चेत् आद्या कलेयं तदबुद्धितीयं तारं समारभ्य ततोऽष्टमान्तम् । आरुह्यगायेत्तदनु द्वितीयं कला द्वितीया कथितेयमार्यैः ॥४८५॥ तारातृतीया मृदुताष्टमान्तमारुह्य गायेतु पुनस्तृतीयम् । कला तृतीया किल तारतुर्यादारुह्य सप्तापि यदाष्टमान्तम् ॥ ४८६ ॥ गायेत्तुरीयंच तदा तुरीया तारात्ततः पश्चमतोऽष्टमान्तम् । आरुह्यचेत्पश्ममेव गायेत्सा पञ्रमीस्यादथ तारषष्ठात् ॥४८७ ॥1 आरुह्य सप्ता(भि) यदाष्टं गायेच्चषष्टं यदि सैव षष्ठी। आरभ्यचेत्सप्तममष्टमान्तमारुह्य गायेदपि सप्मं च ॥४८८! सा सप्तमीस्यादिह तारमन्द्र प्रसन्ननामा हि कलाभिराभिः ॥४८९॥ यथा, सरिगम पधनिसस, रिगमपधनिसरिरि, गमपधनिसरिगग, मपधनिसरिगमम, पधनिसरिगमपप, धनिसरिगमपधध, निसरिगमपधनिनि॥
मन्द्रतारप्रसन्नः आद्यात्तुमन्द्रात्पुनरष्टमंतु गीत्वावरोहेण पुनश्चगायेत्। सैषा द्वितीयाच्च मृदोस्तृतीयाद्गीत्वाष्टमं सप्मतोऽवरोहेत् ॥।४९०॥ सैषा चतुर्थी तु मृदोश्चतुर्थाद्गीत्वाष्टमं सतमतोऽवरोहेत्। सा पञ्चमी पञ्चमतस्तु मन्द्राद्वीत्वाष्टमं सप्मतोऽवरोहेत् ।४९१ ॥ षष्टी कलास्यादथ मन्द्रषष्टाद्गीत्वाष्टमं सप्मतोऽवरोहेत्। .... सा सप्तमीति प्रथिता कलेयम् । ४९२॥
Page 71
सम्प्रदान: ।। ५३
एवं कला: सप्तभवन्ति मन्द्रतारप्रसन्नस्तु कलांभिराभिः ॥ यथा, ससंनिधपमगरिस, रिरिंसंनिधपमगरि, गगंरिंसंनिधप- मग, ममंगंरिसंनिधपम, पपंमंगंरिंसंनिधप, धधपंमंगरिं- संनिध, निनिंधंपंमंगरिंसंनि॥
आवर्तक: द्विरादिमं द्विश्च ततो द्वितीयं द्विरादिमं किञ्च सकृद्द्वितीयम्। आद्यं सकृद्वायति सा कलाद्या द्विर्द्विर्द्वितीयं च तृतीयकं च ॥ ४९३।। द्विस्तु द्वितीयंच सकृतृतीयं द्वितीयकं गायति चेत् द्वितीया। तृतीयतुर्यौ च ततस्तृतीयं द्विर्द्विस्सकृत्तुर्यतृतीयकौ च ॥ ४९४ ॥ गायेद्यदा सात्र कला तृतीया तुर्य ततः पञ्चममेव तुर्यम्। द्विस्त्रिस्सकृत्पञ्चमतुर्यकौ च गायेद्यदा सा तु कला चतुर्थी ।४९५ ॥ तं पञ्चमं षष्टकपञ्चमौ च द्विस्त्रि: सकृत्षष्टकपञ्चमौच। गायेदयदा पञ्चमिका कलेयं षष्टं पुनः सप्मषष्टकौ च ॥ ४९६ ॥ द्विद्विः सकृत्सप्तममेव षष्ट गायेद्यदा सैव कलेह षष्टी। तं सप्तमं चादिम सप्तमौ च द्विस्त्रिस्सकृत्सप्तममादिमं च । ४९७ ॥ सा सप्तमी सप्कलाभिराभिरावर्तकाख्यो गदितस्तृतीयः । यथा, ससरिरिससरिस, रिरिगगरिगरि, गगममगगमग, ममपपममपम, पपधधपपधप, धधनिनिधधनिध, निनिससनिनिसनि॥
सम्प्रदान: आद्यो द्वितीय: पुनरेवचाद्यो द्विद्विर्य दिस्यात्प्रथमा कलेयम्। द्विर्द्विद्वितीयश्च तृतीयकश्च पुनर्द्वितीयो यदि सा द्वितीया ॥४९८॥ द्विर्द्विस्तृतीयश्च तुरीयकश्च पुनस्तृतीयो यदि सा तृतीया। द्विर्द्विस्तुरीयो यदि पञ्चमश्च पुनस्तुरीयो यदि सा तुरीया ।। ४९९ ॥ द्विर्द्विस्तथा पञ्चमषष्टकौच सपञ्जमश्चेदिह पञ्चमीयम् । षष्ट्स्तथा सप्तम षष्टकौच द्विद्विर्यदा सा च कला तु षष्टी ॥५००।।
Page 72
५४ संगीतसुधा।। स सप्तमश्चादिम सप्मौ च द्विर्द्विर्यदा सप्तमिका कलेयम्। कलाभिराभि: खलु षट्स्वराभि: समन्वितः सिध्यति सम्प्रदानः॥ यथा, ससरिरिसस, रिरिगगरिरि, गगममगग, ममपपमम, पपधधपप, धधनिनिधध, निनिससनिनि॥
विधृतः - गायेदुभावाद्य तृतीयकौ द्विःसंमेलितौ चेत्प्रथमाकलेयम्। द्वितीयतुर्यां मिलितौ यदाद्विर्गायेत्तदा सैव कला द्वितीया ॥५०२॥ युतं तृतीयं किल पञ्चमं द्विरुभौ यदा गायति सा तृतीया। तुरीयषष्टौ मिलितौ यदाद्विरगाेत्तदा सैव कला तुरीया ।।५०३ ॥ तं पञ्चमं सप्तममप्युभौ द्विर्युतौ यदा गायति पञ्चमीयम्। चतुःस्वराभिः कथिताभिराभिः समन्वितः स्याद्विधृताभिधानः।५०४॥ यथा, सग सग, रिम रिम, गप गप, मध मध, पनि पनि।
उपलोलक: अथ द्वितीयौ मिलितौ तृतीयद्वितीयकौ द्विर्द्वितयं कलाद्या। युक्तौ द्वितीयश्च तृतीयकश्च द्विस्संयुतौ तुर्यतृतीयकौ द्वि: यदा द्वितीया तु कला तृतीयतुयौ युतौ पञ्चमतुर्यकौ च । द्विर्द्विर्यदा सैव कला तृतीया तुर्यो यदा पञ्चमकौ युतौ द्विः ॥५०६॥ द्विश्चान्वितौ षष्टकपञ्चमौ च कलाचतुर्थीयमुदीरितास्यात्। यदायुतौ पञ्चमषष्टकौ द्विस्तथायुतौ सप्तमषट्टकौ द्वि: ॥५०७|। सा पञ्चमी सप्तमषष्टकौ द्विद्विश्चान्विता चादिमसप्तमौ चेत्। षष्ठीकलेयं कथिताभिराभिस्समन्वितं स्यादुपलोलकाख्यः ॥५०८॥ यथा, सरिसरिगरिगरि, गमगमपमपम; मपमपधपधप, पधपधनिधनिध, धनिधनिसनिसनि।
Page 73
।। रघुनाथभूपविरचिता i. ।। सङ्गीतसुधा ॥
उल्लासित: -
द्विरादिमो यत्र सकृत् तृतीयादिमो तृतीयश्च कलादिमा सा। द्वि: स्याद्द्वितीयोऽथ सकृत्तुरीय द्वितीयतुर्या यदि सा द्वितीया।५०९॥ स्याच्चतृतीयो Sप्यथ पञ्चमश्च तृतीयका पत्चमक: सकृत्त। तथा तृतीयोऽथ तुरीयको द्विगेयः सकृत्पष्टतुरय पष्ठा: तुर्याकला द्विर्यदि पञ्चमः स्यात्ससप्मः पञ्रम सपमो च। सकृद्यदा पञ्चमिका कलेय मुलासिताख्यः कथिताभिगभिः ॥१११॥ यथा, ससगसग, रिरिमरम, गगपगप ममधमध, पपनिपनि। त्रिषष्टि सङ्ख्या: कथिता किलालद्गारा मता याष्टिककोहलादैः। अन्येऽप्यनन्ता: पुनरेवमूद्या नोक्तामया विस्तरभीरुणा ते ॥ ५१२ ॥ ज्ञानं स्वराणामथ रागलाभः स्थाय्यादि वर्णाङ्गविचित्रता च। प्रयोजनान्येवमुदीरितानि पूर्वैरलङ्कार निरूपणस्य । '१३ ॥
- जाति निरूपणम् - कृते 5प्यल क्वार निरूपणेऽथालङ्कायेजातीश्च निरूपयामः । य स्मादमूभ्यः प्रभवन्ति रागास्तस्मादिमा जातय इत्युपात्ताः ॥५१४॥ शुद्धास्तु पाड्जी पुनरार्पभी च गान्धारिका माध्यमिका ततश्च। स्थात्पञ्चमी घैवतिका ततस्तु नैषादिका सप् च जातयः स्युः॥५५॥ साधारणं लक्षणमत्र शुद्धजातिप्रपञ्नस्य निरुपयामः । यस्यास्तु जाते र्वजति ग्रहोंऽशो न्यासीऽप्युपन्यास इति प्रभेदम्। नाम स्वरः सा किल शुद्धजातिर्वक्ष्यामहे वैकृतजातिलक्ष्म । न्यासे स्थिते तत्परलक्ष्महीना प्रकीर्तिता सा विकृता तु जातिः ।।५१७।।
Page 74
५६ सङ्गीतसुधा॥ संपूर्णता से मिलित ग्रहांशापन्यासकेष्वेक विवर्जनेन । ता जातयः स्युर्विक्वंताश्चतस्त्र स्त्यागे इयोः षड्जभिदानिरुक्ताः॥५१८। त्यागे त्रयाणामिह ताश्चतस्र स्त्यागे चतुर्णा पुनरेकिकैव। भेदा इमे पञ्चदशैष षाड्ज्या जातेमहद्ि: प्रतिपादिता: स्युः ॥५१९॥ तत्राष्टरपूर्णत्वगुणेन हीना: सतापरे तत्परिवर्जिता: स्युः । पूर्णत्वहीना: पुनरष्ट ते च द्विधा भवन्त्यौडव षाडवाभ्याम् ।५२०॥ आहृत्य पूर्णत्वविवर्जितास्ते षडुत्तरा: स्युर्दशतेति सप। अन्त्येन हीना इति विशतिस्तु त्रयाधिकास्त्वार्षभि जातिभेदाः।५२१। आरभ्य जाति पुनरार्षभीं तु नैषादिकान्ता: कथिता: क्रमेण। षट् च त्योविशतिधा मिलित्वा गत्वोत्तर त्रिंशदिदं शतं ता:। ५२२॥ षड्ज्या: पुनः पञ्चदशोक्त भेदा: शतं त्रिपञ्चाशदिदं मिलित्वा।
विकृत जातयः - संसर्गतो वैकृतजातिकानां जाता इहैकादश जातय: स्युः । स्यात्पडुजकैशिक्यभिधादिमात्र षड्जादिमोदीच्यवती द्वितीया॥ भवेच्च षड्जादिम मध्यमान्या गान्धारकोदीच्यवती चतुर्थी। स्याद्रक्तगान्धार्यपराऽथ कैशिक्युदीच्यवा मध्यमपूर्विकान्या ॥५२४॥ कर्मारवी त्वष्टमिकोपदिष्टा गान्धारपञ्चम्यपरा प्रतीता। आन्ध्री दशम्यत्र च नन्दयन्ती चैकादशी तज्निकं वदामः ॥५२५॥
द्विजातिजाः षाडुज्या च गान्धारिकया च जाता स्यात्पड्जकैशिक्यभिधा तुजातिः। षाड्ज्या तथा मध्यमया च जाता षड्जादिमा मध्यमिकाऽत्र जाति:॥ गान्धारिकापञ्रमिकोपजाता गान्धारपञ्नम्यभिधा च जातिः । गान्धारिकार्षभ्युदिता तथाSऽन्ध्री वक्ष्यामि जातित्रयसंभवांश्च॥५२७॥
त्रिजातिजाः - षाड्जी च गान्धार्यथ धैवती च षड्जादिमोदीच्यवर्तीं विदध्युः।
Page 75
नैषादिका पञ्चमिकार्षभी च कमरवीं सञ्जनयन्ति जातिम्ँ। गान्धारिका पञ्चमिकार्षभी च तां नन्दयन्तीं जनयन्ति जातिम् ।५२८।।
- चतुर्जातिजाः - जाति ब्रवे जातिचतुष्टयी च गान्धारिका धैवतिका च पाड्जी। सा मध्यमा चापि च जातिरेता गान्धारिकोदीच्यवर्तीं विदध्युः।२९। गान्धारिका धैवतिकाभिधाना सा पञ्चमी मध्यमिका च जातिः । एता: पुनः सम्मिलिताश्चतस्त्रस्ता मध्यमोदीच्यवर्तीं विदध्युः ॥५३०॥ गान्धारिका पञ्चमिकाभिधाना नैषादिका मध्यमिका च जातिः । ता रक्तगान्धार्यभिधां विदव्युस्तां पञ्चजातिप्रभवां वदाम:ः ॥५३१॥
पञ्चजातिजः षाड्जी च गान्धार्यथ मध्यमा च नैपादिका पञ्चमिका च जातिम्। तां कैशिकीं कुर्युरिमा मिलित्वा वक्ष्याम्यथ ग्रामविभागमासाम् ॥
- ग्रमविभाग: सप्तैव तासु प्रभवन्ति षड्ज ग्रामान्तु नामानि वदामि तासाम् । षड्जादिमोदीच्यवती च षाड्जी सा पडजकैशिक्यपि पडजमध्या ॥ नैषादिका धैवतिकार्षभी च ता मध्यमग्रामभवास्तु शिष्टाः । संपूर्णता मौडवषाडवत्वे विभज्य तासां प्रतिपादयाम: ।। ५३४ ॥ गान्धारपञ्चम्यथ षड्जकैशिक्याख्याश्च कर्मारविकाह्वयश्च। स्यान्मध्यमोदीच्यवतीति चैता: सन्भिर्नियुक्ता: किल नित्यपूर्णम्। षाड्जी तथान्ध्री किल नन्दयन्ती गान्धारिकोदीच्यवती तथव। संपूर्णतां षाडवतां च यान्तीत्येताश्चतस्त्रो मुनिनोपदिष्टाः । ५३६ ॥ दशावशिष्टास्तु भजन्ति सर्वा: संपूर्णतां षाडव? पाडवत्वे। स्यात्पञ्चमी मध्यमिकाख्यषड्जमध्यासु साधारणता स्वराणाम्॥। षड्जो यदांशो भवतीह षड्जसाधारणं नाम तदावगम्यम् । अंशौ यदा मध्यमपञ्चमौ स्तः साधारणं मध्यमपूर्वकं स्यात् ॥५३८॥
Page 76
५८ सङ्गीतसुधा॥ साधारणं जातिषु चैतदल्पनिषादगान्धारवतीषु बोध्यम् न केवलं जातिषु किंत्वदोऽल्पनिषादगान्धारयुतेऽपि रा भवेन्नपड्जादिममध्यमायां साधारण चापि निगाल्पता तत्नापि जातिर्विकृता स्वराणं साधारणस्याश्रयतां प्रय
अंशस्वरा: अंशस्वराणां कथयामि सङ्ख्यामतः परं जातिविशेषभार गान्धारपञ्चम्यथ नन्दयन्ती सा मध्यमोदीच्यवतीति तिरु एकांशभाजस्त्वथ धैवती च गान्धारकोदीच्यवती च जा सा पञ्चमी ह्ंशयुतास्तु तिस्ः पड्जादिकैशिक्यपि चार्ष नैपादिका ह्वंशयुतास्तु तिस्रः पड्जादिकोदीच्यवती तथ। कम रिवी Sमाश्चतुरंशिका: स्युर्गान्धारिका मध्यमिका च सारक्तगान्धार्यथ ताश्चतस्रः पञ्चांशयुक्तासत्वथ कैशिकी : पडंशयुक्ता: पुनरकिकैव सप्तांशिकैका किल पड्जमध्या त्रिषप्टिरष्टादश जातिषु स्युरंशास्तु संख्यावशतीऽवगम्याः त्रिपष्टिरंशा: परिपूर्णतायां द्वेविशती सत च पाडवत्वे त्रिशत्किलांशा: पुनरोडुवत्वे व्यवस्थिताश्चेत्थमिहावधार्या
रागाणां त्रयदश लक्षणम् - पूर्वोक्तजातिष्वपि तन्भ्वेपु रागेप्वनुस्यृततया स्थितं तत् त्रयोदशात्रापि भवन्ति भेदा वक्ष्यामहे लक्षणमत्र सम्यक् । त्रयोदशानामपि लक्षणानां उद्देशमादावुपदर्शयामः ग्रहाभिधान: प्रथमः परोंऽशस्तारस्तृतीयोऽथ परस्तु मन्द्रः स्यात्पञ्जमो न्यास इति प्रतीतोSपन्याससंज्ञां लभते च पछ: सन्यासकः सप्म एप वेद्यो विन्यासनामा पुनरष्टमः स्यात्
स्यात् द्वादशः पाडवनामधेय स्त्रयोदशः स्यात्पुनरोडवाख्यः
Page 77
मन्द्र:॥
ग्रह गीतस्य जातिप्रमुखस्य यः स्यादाद्यस्वरोऽसौ ग्रहनामघेयः ॥५५०॥ यो व्यक्षको रक्तिगणस्य गेये यस्यापि संवाद्यनुवादिनी च। बहुविदार्याह्वयगीतखण्डे व्यवस्थितौ येन च तारमन्द्रो वादी च संवाद्यपि यः स्वयं स्यादस्यानुवादी पर एव यत्र। सन्यासविन्यासविधाश्च जाताऽपन्यासतान्यासविधा ग्रहत्वम्।।
अंशः यश्चप्रयोगे बहुलश्च वादी तमंशनामानमुदीरयन्ति। आवर्त्यमानत्वमनेकधास्या दीतादिषु स्यादिह मुख्यलक्ष्म ।।"३।। ग्रहत्वमस्य प्रतिपादितं प्राक् ग्रहांशयो स्तहि कृताविभेदः । अत्रोच्यते यत्परमेष वादी वादी च संवाद्यपि स ग्रहस्यात् ।"५४॥
- तार: तारव्यवस्थां तदनुव्रवीमि योमध्यमस्थाय गतों5शकाऽस्मात्। तारस्थितांस्तान्परतः स्वरान्द्रागारुह्य गायेच्चतुरो न चान्यान् ।५५॥ चतुर्षु युक्तोऽपि च गण्यतेSत्र तस्यापवाद: परिकर्तर्त्यतेSत्र । आतारषड्जं किल नन्दयन्त्या मारोहणंस्यान्न ततः परस्तात् ॥"५६॥ अंशो यदा मध्यमगस्तु पड्ज स्तारस्थितात्पत्नमतः प्रगायेत्। स्वरान्यथेष्टं न ततः परस्ता दन्येषु वांशेषु भवेद्दिगेषा
मन्द्र: मन्द्रव्यवस्था मधुना व्रवीमि यो मध्यमस्थाय गतोंऽशकोऽस्मात्। मन्द्रस्थितादेव ततोऽवरोहेत् पक्षान्तरं तत्र निरुप्यतेऽथ ।।५५८॥ व्यत्यासतो ग्रामयुगे निरुक्तौ न्यासादिमौ ... ... .. निरुक्त्तीं। मन्द्रान्निषादान्मृदुगात्तु पड्जग्रामेऽथवा पूर्वग धैवतोऽन्त्यः ।"५९।। न्यस्यान्मृदोर्गादपि मध्यमाख्यग्रामे तु पूर्वसत्वृषभस्तथान्त्यः ।
9
Page 78
६० सङ्गीतसुधा॥
न्यास:
यनन्यस्यते त्यज्यत एव गीतिरस्मिन्निति न्यास इति प्रतीतः ।५६० । गीते समारतति विदधाति योऽसौ न्यास: सचैकाधिकविंशतिः स्यात्।
न्यासस्वरा: पड्ज्यादिमानामिह जातिकानां नामस्वरन्यासतयोपदिष्टाः ॥५६१॥ न्यासे तु पड्जादिममव्यमायां नामस्वरौ पड्जकमध्यमौ दौ। उदीच्यवानां त्रितयेऽपि तासां न्यास पुनर्मध्यममामनन्ति ॥५६२।। न्यासस्तु कैशिक्यभिधानजातौ निषादगान्धारक पञ्चमास्ते। सा पड्ज कैशिक्यपि तत्र रक्तगान्धारिकाख्यानवती तथान्ध्री ।।५६३।। गान्धारपत्चम्यथ नन्दयन्ती गान्धारकन्यासतयात्र वेद्याः । कमरिवी सा खलु पञ्चमान्ता न्यासास्त एकाधिक विशतिः स्युः॥
अपन्यास: भवेदपन्यासतया प्रतीतो यो गीतखण्डस्य समापक: स्यात् । कर्मारवी मध्यमिका तथान्ध्री नैषादिका यार्षभिका च जातिः ॥५६५।। अंशस्वरान्पञ्रसु तासु सन्तो वदन्त्यपन्यासतया प्रतीतान् । उदीच्यवारन त्रितयेऽपि पड्जोऽपन्यासमासां त्विति धैवतञ् ॥५६६॥ या रक्तगान्धार्यपि मध्यमः स्यात्तस्यामपन्यासतया प्रतीतः । गान्धारिकायामपि तत्र जातौ सपावपन्यासतया प्रतीतौ ।५६७।। या पड्जकैशिक्यपि तत्र जातौ पड्जो निषादोऽपि च पञ्चमश्च । या पञ्चमी जातिरभूदिहापि न्यासा निषादर्षभपञ्मा स्युः ॥५६८॥ गान्धारपञ्चम्यभिधानजातौ रिपावपन्यासतया प्रतीतौ। पाड्ज्या मपन्यासतया गपौ स्तौ या धैवती स्याद्रिमधाश्च तस्याम्॥ या नन्दयन्ती खलु जातिरस्यां मपावपन्यासतया प्रतीतौ। या पड्ज कैशिक्यपि तत्र जातौ मतास्त्वपन्यासतया रिवर्जा:।।५७० ।। स्वरानपन्यासतया वदन्ति सप्तापि तस्यामृषभेष युक्ताः । नैपादिका चार्पभिका च जाती तयोरिहांशत्रितयं पृथक्स्यात्॥५७१।
Page 79
अन्तरमार्ग: ॥ ६१
कर्मारवी जातिरिहान्त्रिका च प्रकीर्तिते ते चतुरंशयुक्ते। अंशास्तथा पञ्चममध्यमाया मेकोनिका विंश्ञतिरासु चांशाः॥५७२॥ एतासु पञ्चस्वपि चांशकास्तेऽपन्यासतां यान्ति तथैव नान्यः । पञ्चापि जातीरपि वर्जयित्वा त्रयोदशस्वप्यथ जातिषूक्ता: ॥५७३॥ अनंशभूता हि भवन्ति सप्तस्वंशास्त्वपन्यासतया स्वरास्ते । पञ्चाशदाहत्य षडडत्तरास्तेऽपन्यासभावं दधते स्वरास्तु ॥५७४ ॥ स्वरास्तु सप्तापि च तत्र षड्जैः कैशिक्यभिख्यावति जातिभेदे। भवन्त्यपन्यासकसप्तपक्षे पञ्चाशदेते किल सप्तयुक्ताः ॥५७५॥
-
सन्यासविन्यासौ - योंशा विवाद्यादिमगीतखण्डसमाप्तिकारी कथितः स गीते। सन्यासनामाथ भवेत्स्वरो यस्त्वंशा विवाद्येव विदारिकायाः॥ ५७६॥ प्राप्तः पदप्रान्तमिह स्वरोऽसौ विन्यासनामा कथितो मुनीन्द्रैः।
-
बहुत्वम् - आवृत्तितो लङ्घनतो बहुत्वं द्वेधा तयोर्वादिगतं किलाद्यम् ।५७७॥ संवादिनिष्ठ भवति द्वितीयमलङ्घनाख्यं तदवर्जनेन।
अल्पत्वम् ॥ द्वेधाप्यनभ्यासबिलङ्घनाभ्या मल्पत्वमेतद्द्वयमप्यनंशे ।५७८ ॥ वर्जेप्यधो लंघनमत्र चेत् षट्स्वरा यदा केचिदुदीरयन्ति। पक्षे तु तस्मिन्किल लंघनं तं न्यासादिकेष्वेव वदन्ति केचित् ॥५७९॥
- अन्तरमार्गः - न्यासादिमस्थानमपास्य मध्ये मध्येऽल्पभावं भजतां स्वराणाम्। विचित्ररूपांशक सङ्गतिर्या समीरितः सोऽन्तरमार्ग एषः ॥५८०।। जातिष्वसौ स्याद्विकृतासु भूयस्तथैव रागेषु समुद्भवेषु ।
10
Page 80
६२ सङ्गीतसुधा॥
षाडव: स्वराः प्रयोगे षडवन्ति ये तु त एव पूर्वेः षडवा निरुक्ताः ॥५८१॥ जातं किलैतेष्विति षाडवाख्यामाननोति गीत खलु षट्स्वरं तत् ।
- औडवः -- उडडूनि वान्तीत्युडवाभिधानं व्योमेरितं तत्खल्ु पञ्चमं स्यात् ॥५८२॥ भूतेषु तस्मादिह पञ्चसंख्या जातौ च संख्या पुनरस्ति येषाम्। अमी स्वरास्ते स्वरनामधेया जाताश्च ते यत्र तदेव गीतम् ।५८३। मुनीश्वररौड विताभिधानं निरूपितं याष्टिककोहलाद्यैः ।
विशेष: यल्लोपतः षाडवता स्वरस्य तस्याल्पतायामिह पूर्णतायाम् ॥५८४॥ लोपेन यस्यौडवतां तु गीते संपूर्णभावेऽल्पतरत्वमस्य । तस्याल्पतानस्य लुपा न कार्या स्याल्लङ्घनं नाल्पतरत्वमस्य ॥५८५॥ पूर्वोदिताल्पाल्पतरप्रयुक्ते वाधो भवेत्पञ्चमिकाख्यजातौ। गान्धारक: षाडवकृन्निषादो व्यापादयेदौडवमत्र जातौ ॥५८६ ॥ तयोरिहाल्पाल्पतरप्रयोग: प्रसजते तत्तु निषिध्यतेऽत्र । ततो निषादो बहुलस्ततोऽस्यां गान्धारकोऽप्यल्पतरो न हि स्यात्॥ विधिः किलाल्पत्व बहुत्वयोः स्यादत्यन्तमप्राप्ततया त्वपूर्वा । स्यात्पञ्जमीनामनि तत्र जातौ समाल्पभावस्य विधिस्त्वपूर्वः ॥५८८॥ तत्रापि चान्यत्र किल प्रसक्तौ काचिद्विधि: स्यात्परिसंख्ययैव । अस्यां निषादस्य तयाल्पभावव्यावर्तित स्याद्वहुलत्वमेव ।।५८९।। सामान्यतो लक्षणमेवमुक्तं षड्जादिकानामपि जातिकानाम्। विशेषतो लक्ष्म वदामि तासां ग्रहांशमुख्यैः सहित समस्तैः ॥५९०॥
- पड्जी जातिः - पञ्च स्वरास्तत्र भवन्ति षाड्ज्यामंशो निषादर्षभवर्जनेन। निषादलोपादिह षाडवत्वं गान्धारकांशेन निषादलोप: ।५९१ ॥
Page 81
संवादिनौ तौ हि निगौ प्रदिष्टौ विवादिसंवादिगतरेऽस्तिं लोपः । गान्धारकेंऽशे सति पूर्णता स्या त्कचिन्निषादस्य च काकलीत्वम्॥
षाड्ज्यां भवेत्सङ्गतिरत्र षड्जगान्धारयोधैवतषड्जयोश्च। स्यात्सङ्गती रागविविक्तिहेतुः सङ्ग: कृतः स्थात्सगयोविरोधात्॥५९३॥
अत्रान्तरत्वांशतया तयोस्तु समप्रधानत्ववशेन सङ्ग: । षाड्ज्यां भवेन्मूर्छनिकात्र षड्जग्रामोत्तराद्यायतिकैव मेल: ॥५९४॥ स्यात्षट्पितापुत्रक एव तालस्त्ेधा किलैकत्रिचतुष्कलात्मा । यदा भवेदेककलः स चित्रमार्गस्तथा मागधिका च गीतिः ॥५९५। भवेद्यदायं द्विकलस्तु गीतिः संभाविता वार्त्तिक एव मार्गः । चतुष्कलश्चेत्स तु दक्षिण: स्यान्मार्गस्तदानीं पृथुला च गीतिः।५९६॥ नैष्क्रामिकाया भवति घ्रुवाया गाने पुनर्नाटकपूर्वकाक्के। जातेरमुष्या विधियोगयुक्ताः कला भवन्त्यष्ट गुरुस्वरूपाः ॥५९७॥ जाताविह द्वादश संभवन्ति रागो वराटी परिदृश्यतेऽस्याः। न्यासस्तु षड्जो भवतीह जातौ गपावपन्यासतया प्रतीतौ ॥५९८।
प्रस्तार:
सा सा सा सा पा नि ध पा ध नि तं भ व ल ला ट
रिग म गा गा सा रि ग ध स घा
न य ना म्बु जा घि
रिग सा री गा सा सा सा सा कं
धा धा नि ध निस नि ध पा सा सा
न ग सू नु प्र ण य
नि ध पा ध नि रि गा सा गा के लि स मु
सा धा धा नी सा सा सा सा वं
Page 82
५०
सा सा गा सा मा मा मा मा
स र स कृ त ति ल क
सा प स मा ध नि नि ध पा गा रि ग
पं का नु ले प
गा गा गा गा सा सा सा सा
नं
धा सा री ग रि सा मा मा मा
प्रण मा मि का म
धा नी पा ध नि री गा री सा
दे हैं ध ना न
रिगसा री गा सा सा सा सा
लं
- गीतम् -
तं भवललाटनयनाम्बुजाधिकं नगसूनुप्रणयकेलिसमुन्नवम्। सरसकृत तिलकप ङ्कानुलेपनं प्रणमामि कामदेहेन्धनानलम् ॥
आर्षभी जातिः -
अथार्षभीलक्ष्म वदामि तस्यामंशा निषादर्षभधैवतास्ते। निषादगान्धारकयोश्च योग: स्वरैः परैः पञ्चमलङ्घनं च । ६००॥ पड्जस्य लोपेन हि पाडवत्वमिहौडवत्वं सपयोविलोपात्। स्यान्मूर्छना तत्र विशुद्धषड्जा चच्चत्पुटः स्याद्द्विकलोऽत्र तालः॥ अष्टौ कला: पूर्ववदेव चास्या ध्रुवादिके यो विनियोग उक्तः । न्यास: पुनः स्यादृपभस्ततोऽस्यामंशोऽप्यपन्यासतया प्रतीतः ॥
रागों तु देशीमधुकर्यभिख्यावस्यास्तु गाने स्फुटतां भजेताम्॥ ६०३॥ तयोई्यो: स्यादृपभो यतोंऽश स्ततस्तृतीयस्वरतोचितैव।
Page 83
गीतम्॥ ६५
प्रस्तार:
री गा सा रि गा मा रि म. गा रिरि
गुण लो च ना धि
रिरिनिध निध गा रिम मा प नी
क म नं त म म र
मा धा नी धा पा पा सा गा
म जर म क्ष य
नि ध नि रि ग रि सधगरिरिरी
म जे यं
रिमग रि स ध स सरिस रि ग मा मा
प्रण मा मि दि व्य
नि ध पा रिरिरि प ग रि स ध सा
म णि द र्प णा म
रिस रिस रि ग रि ग मा मा मा ग रि
ल नि के तं
पा नि नि मगरि स ध ग रिगरि
भ व म मे यं
- गीतम् -
गुणलोच ना धिकमनन्तममरमजरमक्षयमजेयम् । प्रणमामि दिव्यमणिदर्पणामलनिकेतं भवममेयम् ॥६०४ ॥
11
Page 84
। रघुनाथभूपविरचिता ॥
॥ सङ्गीतसुधा ॥
- गान्धारी जाति:
गान्धारिकालक्षणमुच्यतेऽथ तस्यां विहायर्षभधैवतौ दौ। अंशस्वराः पञ्च भवन्ति शिष्टा न्यासस्तु गान्धार इति प्रतीतः॥ सपावपन्यासतया प्रतीतौ न्यासांशताभ्यामितरस्वराणाम्। आरोहणं धादृषभान्तमस्यां लोपान्भवेत्वाडवतर्षभस्य। ॥६०६ ॥
स्यादौडवं तद्रिधयोस्तु लोपान्न पञ्चमेंऽशे किल षाडवः स्यात्। नैवौडवं षड्जनिषादकौ वा अंशौ यदा मध्यमपञ्चमौ च॥ ॥६०८॥ स्यान्मूर्छना पौरविकात्रयादि चच्चत्पुटः पूर्ववदेव तालः। भवेत्तृतीये किल नाटकाङ्के गाने ध्रुवाया विनियोजनं स्यात्॥ गान्धारपूर्वोऽपि च पञ्चमश्च देशी च वेलावलिका च रागाः। गान्धारकांशे त्वसमानभावा तस्यास्तु गाने स्फुटतां प्रयाति ॥६०९॥
प्रस्तार:
- गा गा सा नी सा गा गा गा
ए तं
- गा गम पा पा ध प मा नि ध नि स
र ज नि व धू मु ख
-
निधप नि मा म प रि गा गा गा गा वि भ्र म दं
-
गा ग म पा प ध पा मा नि ध नि सा नि शा म य व रो रु
-
निध प नि मा म प रि मा गा मा सा त व मु ख वि ला स 12
Page 85
६८ सङ्गीतसुधा॥
- गा सा गा गा गा ग म गा गा व पु धा रु म. म ल 7. गा ग म पा पा ध पा मा नि ध नी सा मृ दु कि र ण 8. नि ध प नि माप मरि गा गा गा गा म मृ त भ वं 9. रि गा मा प ध रि गा सा सा
र ज त गि रि शि ख र 10. नी नी नी नी नी नी नी नी म णिशक ल शं ख 11. गा ग म पा पा ध प मा नि ध निस व र यु व ति त 12. निधप नि मा म प रि गा .गा गा गा पं क्ति नि भं 13. नी नी पा नी गा मा सा मा
प्रण मा मि प्र ण य
- गा सा गा गा गा ग म गा गा र ति क ल हा प नु 15. गा पा मा मा नि ध नि स नि ध प नि
द
- मा प रिग गा गा गा गा गा गा श शि नं (इति विसार जाति)
गीतम् -
एतं रजनिवधूमुखविभ्रमदं निशामय वरोरु तव मुखविलासवपुश्चारुममलमृदुकिरणममृतभवम्। रजतगिरिशिखरम णिशकलशङ्खवरयुवतिदन्तपंक्तिनिभं प्रणमामि प्रणयरतिकलहापनुदं शशिनम्॥ ।६१०॥
Page 86
प्रस्तार:॥। AB.
- मध्यमा जाति: अथोच्यते लक्ष्म तु मध्यमायास्त्वंशास्तु गान्धारनिषादवर्जाः। स्यादत्र षड्जस्य च मध्यमस्य बाहुल्यमल्पः पुनरत्र गः स्यात् ॥६११॥ गान्धारलोपादिह षाडवं स्यात्तथौडुवं स्यान्निगयोस्तु लोपात्। स्यान्मूर्च्छनास्यामभिरुद्रताख्या तथार्षमाद्या पुनरत्र तालः ।६१२।। चच्चत्पुटः स्याद् द्विकल: कलाष्टौ कला द्वितीयाङ्कगतघ्रुवायाम्। गाने तथा स्याद्विनियोजनं स्यान्न्यासः पुनर्मध्यम एव तत्र ॥६१३॥ अंशास्त्वपन्यासतया प्रतीताः पञ्चापि गान्धारनिषादवर्जाः । आन्धालिका देश्यपि शुद्धपूर्वा सषाडवं तत्र विभान्ति रागाः ॥६१४।।
प्रस्तार: 1. मा मा मा मा पा ध नि नी ध प पा तु भ व मू 2. मा प म मा सा मा गा री री र्ध जा न नं
-
पा मा रि म गभ मा मा मा मा कि री ट
-
मा नि ध नि स नि ध प म प ध मा मा म णि द र्प
. नी नी री री नी री री पा गौ री क र प
-
नी म प मा मा सा सा सा सा ल वां गु लि सु
-
गा नी सा गा ध प सा ध नि सा ते जि तं
-
पा सा पा नि ध प मा मा मा मा सु कि र ன்
Page 87
सङ्गातसुधा॥
गीतम् - पातु भवमूंर्धजाननं किरीटमणिदर्पणम्। गौरीकरपल्लवाङ्गलिसुतेजितं सुकिरणम्॥ ॥ ६१५
- पञ्चमी जातिः - लक्ष्मोच्यते पञ्चमिकाभिधाया जातेर्निपावंशतयात्र वेद्यौ। स्वरा भवेयुः सगमास्तु तस्यां तथैव योगो रिमयोरपि स्यात् ॥६१६ न्यासो भवेत्पञ्चमिकस्तथापन्यासा निषादर्षभपञ्रमाश्च। गान्धारमारभ्य तथानिषादमारोहणं स्यादिह पूर्णतायाम् ॥६१७ गान्धारलोपेन च षाडवत्वमिहौडुवत्वं निगयोस्तु लोपात्। इहर्षभांशेन किलौडवत्वमष्टौ कलास्तत्र भवन्ति तालः ॥६१८ चच्चत्पुटः स्याद् द्विकल: कलोपनताभिधा मूर्छनिकर्षभाद्या। शुद्धादिम: पञ्चमिकश्च देशी चान्धालिकास्तत्र विभान्ति रागाः ॥ अस्यास्तृतीये किल नाटकाक्के गीते ध्रुवाया विनियोजनं स्यात्।
प्रस्तार: 1. पा ध नि नी नी मा नी मा पा ह र मू र्ध जा न
-
गा गा सा सा मा मा पा पा नं म हे श म म र
-
पा पा धा नी नी नी गा सा प ति बा हु स्तं भ
-
पा मा धा नी नि ध पा पा पा न म नं तं
-
पा पा री री री री री री प्र ण मा मि पु रु ष
-
मा निग सा स ध नी नी नी नी मु ख प झ ल क्ष्मी
Page 88
प्रस्तार: ॥
- सा सा सा मा पा पा पा पा
ह र मं वि का . प
- धा मा धा नी पा पा पां पा ति म जे यं
गीतम्
हर मूर्धजाननं महेशममरपतिवाहुस्तम्भनमनन्तम् । ॥६२०॥
- धैवती जातिः - अथोच्यते धैवतिकाख्यजातेरंशौ हि तत्रर्षभधैवतौ दौ। आरोहणे किं च सपौ विलङ्ध्यौ तथौडवं स्यात्सपयोश्च लोपात् ॥६२१ स्यान्मूर्छनास्याम भिरुद्वताख्याSसौ षड्जकग्रामगतर्षभाद्या। स्यात्षट्पितापुत्रक एव तालस्त्रेधा किलैकत्रिचतुष्कलात्मा ॥ ६२२। यदा भवेदेककल: स चित्रमार्गस्तथा मागधिका च गीतिः। भवेद्यदायं द्विकलस्तु गीतिः सम्भाविता वार्ततिक एव मार्गः ॥६२३॥ चतुष्कलश्चेत्स तु दक्षिण: स्यान्मार्गस्तदानीं पृथुला च गीतिः। नैष्क्रामिकाया भवति घ्रुवाया गाने पुनर्नाटकपूर्वकाक्के ॥६२४ ॥ जातेरमुष्या विनियोग उक्त: कला भवन्त्यष्ट गुरुस्वरूपाः। जाताविह द्वादश सम्भवन्ति गाने पुनः सिंहलिका च देशी ॥६२५॥ सा शुद्धकेशिक्यपि ते त्रयोऽपि रागा: परिस्फूतिमिह प्रयान्ति।
प्रस्तार:
- घा घा नि ध प ध मा मा मा मा
त रु णा म ले दु
- धा धा नि ध नि स सा सा सा सा म णि भू षि ता म
Page 89
७२ सङ्गीतसुधा॥
- स ध धा पा म ध धा नि ध ध नि धा
ल शिरो जं
- सा सा रिगरिग सा रिग सा सा
भु ज गा धिपै क
- धा धा नी पा धा पा मा मा
कुं ड ल वि ला स
- घा धा पा म ध धा नि ध ध नि धा
कृ त शो
- धा धा नि स नि स नि ध पा पा पा
न ग सू नु ल क्ष्मी
- रिग सासा सा नी नी नी नी
दे हा र्ध मि श्रि
- सा रिग रि ग सा नी सा धा धा
त श री रं
- रीग रिमग मा मा मा मा मा
प्रण मा मि भू त
- नी नी धा धा पा रिग सारि ग
गी तो प हा र
- पा धा सा मा धा नी धा घा,
.ta प रित्तु
- गीतम्
तरुणामलेन्दुमणिभूषितामलशिरोजं भुजगाधिपैक कुण्डल विलासकृतशोभम्।
नगसू नुलक्ष्मीदेहार्ध मिश्रितशरीरं प्रणमामि भूतगीतोपहारपरितुष्टम्।। ।६२६ ॥
Page 90
प्रस्तार: ॥ ७३
- नैषादी जातिः नैषादिकालक्षणमत्र वक्ष्याम्यंशा मता: स्युर्निरिगा विकल्पात्। स्यात्पाडवः पञ्चमवर्जनेन तथौडुवं स्यात्सपयोर्विलोपात् ॥६२७॥
आरोहिणौ कि च सपौ विलङ्ध्यौ चच्चत्पुटस्ताल इहोपदिष्टः । गान्धारपूर्वा किल मूर्छनाश्वक्रान्ता कला तादृशपट्समेताः ॥६२८॥ न्यासो निषादः पुनरत्र वेद्योऽपन्यासतां यान्ति तथात्र चांशाः । स्यान्नाटकस्य प्रथमाङ्कभाजो गाने घ्रुवाया विनियोजनञ्र ॥६२९ ।
ते शुद्धसाधारितदेशिवेलावल्याख्यरागा: स्कुटतां प्रयान्ति।
प्रस्तार
-
नी नी नी नी सा धा नि नि तं सु र वं दि न
-
पा मा सा धा नी नी नी नी
म हिप म हा सु र
- सा सा गा गा नी नी धा नी
म थ न मु मा प ति
-
सा सा धा नी नी नी नी नी भो ग यु तं
-
सा सा गा गा मा मा मा मा
न ग सु त का मि नी
6 नी पा सा पा मा मा मा मा दि व्य वि शे प क
7 री गा सा सा री गा नी नी
सू च क शु भ न ख
- नी नी पा ध नि नी नी नी नी
द प ण कं
- सा सा गा सा मा मा मा मा अ हि मु ख म णिख चि
Page 91
.10 मा मा मा मा नी धा मा मा
तो ज्ज्व ल नू पु र
- धा धा नी नी री गा मा मा
बा ल भु जं ग म
-
मा मा पा ध नी नी नी नी र व क लि तं
-
पा पा नी नी री री री री
द्रुत म भि व्र जा मि
- दीला मा मा री गा सा सा
श र ण म निं दि त
- धा मा री गा सा धा नी नी
पा द यु ग प क
- पा मा री गा नी नी नी नी
ज वि ला सं
गीतम् --
तं सुरवन्दितम हिषमहासुरमथनमुमापति भोगयुतं नगसुतकामिनीदिव्य विशेषकसूच कशुभनखदर्पणकम् । अहिमुखमणिखचितोज्ज्वलनूपुरवालभुजङ्गमरवकलितम् द्रुतमभिव्रजामि शरणमनिन्दितपादयुगपङ्कजविलासम् ।६३०॥
- विकृतजातय: - पड्जकैशिकी जाति: शुद्धा निरुक्ता इति जातयोऽतो लक्ष्मोच्यते वैकृतजातिकानाम्। एकादशस्वप्यथ तासु षड्जकैशिक्यभिख्यामिह लक्षयामः ॥६३१॥ जातावमुष्यां हि भवन्ति पड्जो गान्धारक: पञ्चमकस्त्रयोंडशाः। अल्पौ मतौ चर्षभमध्यमौ द्वौ मनाकू बह धैवतको निषादः ॥६३२॥ चञ्चत्पुटस्ताल इह प्रतीतो द्वप्टौ कला: स्युर्विनियोजनं तु। अङ्के द्वितीये किल नाटकस्य प्रावेशिकी या भवति ध्रुवा स्यात्॥
Page 92
प्रस्तार:॥ ८५
गान्धारको न्यास इह प्रतीतः षड्जो निषादोऽपि च पञ्चमश्च। त्रयोऽप्यपन्यासतयात्र वेद्या हिन्दोलगान्धारंकपञ्चमौ च ॥६३४ ॥ . वेलावली देशिमुखाश्च रागा: प्रायेण तत्र स्फुटतां प्रयान्ति।
प्रस्तार:
- सा सा मा पा ग रि म ग मा मा
दे
- मा मा मा मा सा सा सा सा
वं
- धा धा पा पा धा धा री रि म
अ सकल श शि ति ल
- री री नी नी नी नी नी नी
कं:
- धा घा पा ध नि मा मा पा पा
द्वि र द् ग तिं
- धा धा पा ध नि धा धा पा पा
नि ण म तिं
- सा सा सा सा सा सा सा सा
मु ग्ध मु खां बु
- धा धा पा धा ध नि धा घा घा
दि व्य कां तिं रु ह
- सा सा सा रि ग सा रिग धा धा
ह र मं वु दो द
- मा धा पा पा धा धा नी नी
धि नि ना दं
- री री गा सा सा सा सा गा
अ च ल व र सू नु
- धा रि स री स रि री सा सा सा
दे हा र्ध मि श्रि
13
Page 93
७६ सङ्गातसुधा॥
- सा- स रि री स रि री सा सा सा
त श री A.
- मा मा मा मा नि ध प ध मा मा
प्रण मा मि त म ह
- नी नी पा प म पा प म प ध रि ग
अ नु प म मु ख म
- गा गा गा गा गा गा गा गा
लं
-- गीतम् देवमसकलशशितिलकं द्विरदपति निपुणमति मुग्धमुखाम्बुरुहदिव्यकान्तिम्। हरमम्बुदोदधि निनादमचलवर सूतुदेहार्धमिश्रितशरीरं प्रणमामि तमहमनुपममुखकमलम् ॥६३५ ॥
- षड्जोदीच्यवजातिः- षड्जादिमोदीच्यवतीस्वरूपं निरुपयाम: खलु लक्षणेन। षडजो निषादोऽपि च मध्यमश्च सधैवतोऽप्यंशतयात्र वेद्याः ॥६३६॥ परस्परं सङ्गतिरत्र तेषां स्यान्मन्द्रगान्धारबहुत्वमत्र। षड्जर्षभौ भूरितरौ रिलोपात्स्यात्वाडवं तञ्व न धैवतांशे ॥६३७॥ रिधौ हि संवादितया प्रतीतौ संवादिनो नास्ति यतो विलोपः। अत्रौडवं धैवतकर्षभाख्यस्वरद्यस्यैव विवर्जनेन ॥६३८॥
स्यात्पटूपितापुत्रक एव तालस्त्रेधा किलैकद्विचतुष्कलात्मा। यदा भवेदेककलः स चित्रमार्गस्तथा मागधिका च गीतिः ॥६३९। भवेद्यदायं द्विकलस्तु गीतिः सम्भाविता वार्तिक एव मार्ग:। चतुष्कलश्चेत्स तु दक्षिग: स्यान्मार्गस्तदानीं पृथुला च गीतिः ॥६४० ॥ गान्धारकाद्या खलु मूर्छनाश्वक्रान्तादिमग्रामगतात्र वैद्या। अस्या: पुनः प्रेक्षणके द्वितीये गाने घ्ुवाया विनियोजन स्यात् ॥६४१॥
Page 94
प्रस्तार:। ७७
स्यान्मध्यमो न्यासतया मतोऽपन्यासौ पुनर्धैवतषड्जकौ दौ। अस्यां कला द्वादश संप्रदिष्टा 'शैले' डक्षराभ्यां प्रथमा कला स्यात्॥ 'शसूतु'ना तत्रकला द्वितीया तैः पञ्चभिस्तंत्र कला तृतीया। स्यात्सप्तमी चा 'प्यधिका' क्षरैस्तु 'मुखेन्दु' ना त्वष्टमिका कला स्यात्। षड्भिस्तु तैः स्यान्नवमी कलात्र यथापथ त्वन्यकला भवन्ति।
प्रस्तार: (अत्र ग्रन्थपातः। सङ्गीतरत्नाकरादुष्टत्य पूरितोऽस्ति।)
[1. सा सा सा सा मा मा गा गा शै ले
- गा मा पा मा गा मा मा घा
श सू नु
-
सा सा मा गा पा पा नी धा शै ले श सू नु
-
धा नी सा सा धा नी पा मा
प्रण य प्र सं ग
5, गा सा सा सा सा सा सा गा
स वि ला स खे ल
-
धा घा पा धा पा नी धा धा न वि नो दं
-
सा गा गा गा गा गा सा सा अ घि क
-
नी धा पा घा पा धा धा धा
मु खें दु
- सा सा मा गा पा पा नी धा
अ धि क मु खें दु
- धा नी सा सा घा नी पा मा
न य नं न मा मि
- गा सा सा सा सा सा सा गा
दे वा सु रे श
Page 95
.७८ सङ्गीतसुधा॥
- धा धा पा धा मा मा मा मा त वं रु चि रं
-- अथ गीतम् - शैलेश सूनुप्रणयप्रसङ्ग सविलासखेलनविनोदम्। अधिकमुखेन्दु नयनं नमामि देवासुरेश तव रुचिरम् ] । ६४४ ॥
- अथ षड्जमध्यमा जाति: -
वदामि पड्जादिममध्यमाया लक्ष्मात्र चांशा: सकलाः खराश्च। मिथश्च तेषामपि विंशतिः स्यादल्पो निवादोऽभिमतः प्रयोगे ॥६४५॥ गान्धारकेंऽशे सति तद्वहुत्वं भवेत्तु संवादितया द्योश्च। वादित्वपक्षेऽपि निषादकर्म बहुत्वमेवास्ति न चाल्पभावः ॥६४६॥ निषादलोपादिह पाडवत्वमथौडुवत्वं निगलोपतः स्यात्। निषादगान्धारकयोरिहांशभावेन तेवां सपतौडुवत्वे ॥६४७ ॥ अंशा: पडेवात्र हि पाडवत्वे पञ्चैव तेंऽशाः पुनरौडुवत्वे। स्यान्मध्यमादिं किल मत्सरीकृत्सा मूर्छना ग्राम इहादिमे स्यात्॥ न्यासौ मतौ पड्जकमध्यमौ द्वौ सताप्यपन्यासतया स्वराः स्युः। स्यात्पट्पितापुत्रक एव तालस्त्रेधा किलैकत्रिचतुष्कलात्मा ॥ ६४९॥ यदा भवेदेककलः सचित्रमार्गस्तदा मागधिका च गीतिः। भवेद्यदायं द्विकलस्तु गीतिः संभाविता वार्तिक एव मार्ग: ॥६५०॥ चतुप्कलश्चेत्स तु दक्षिण: स्यान्मार्गस्तदानीं पृथुला च गीतिः। नैष्क्रामिकाया भवति घ्रुवाया गाने पुनर्नाटकपूर्वकाक्के ॥६५१॥ जातेरमुष्या विनियोगउक्त: कला भवन्त्यष्ट गुरुस्वरूपाः। जाताविह द्वादश संभवन्ति गाने वराली परिदृश्यतेऽस्याः ॥६५२॥
अथ प्रस्तार: -
- मा गा स ग पा ध प मा नि ध नि म
र ज नि व धू मु ख
Page 96
गीतम्॥ ७९
- मा मा सा रि ग म ग नि ध प ध पा
वि ला स लो च .
- मा गा री गा मा मा सा सा
नं
- म म ग म मामा निधपध पमगम म
प्र वि क सि त कु मु द्
- धा प ध परि रिगगम रिग सध स सा
द ल फे न सं नि
- नि ध सा री म ग म मा मा मा मा
भं
- मा मा मगम मध धप पध पम गमग
का मि ज न न न
- धा पध परि रिग मग रिग सधस सा
ह द या भि न दि
- मा मा धनि घस धप मप पा पा
तं
- मा मगम मा निध पध पमग गा मा
प्र ण मा मि दे वं
- धा पध परि रिग मग रिग सधस सा
कु मु दा घि चा सि
- नि ध सा री मगस मा मा मा मा
नं
- गीतम् -
रजनिवधूमुखविलासलोचनं प्रविकसितकुमुददलफेनसन्निभम् । कामिजननयनहृदयाभिनन्दितं प्रणमामि देवं कुमुदाधिवासिनम्॥
Page 97
८० सङ्गीतसुधा॥
अथ गान्धारोदीच्यवती जातिः- गान्धारकोदीच्यवतीस्वरूपं निरुपयाम: खलु लक्षणेन। अंशावुभौ षड्जकमध्यमौ द्वौ रिलोपतः षाडवमत्र वेद्यम् ॥६५४ ॥ संपूर्णतायां पुनरंशभिन्नास्त्वल्पे स्वरास्तत्र भवन्ति सर्वे। निगौ तथा पञ्चमधैवतौ च स्वल्पा भवन्त्यत्र हि षाडवत्वे । ६५५॥ स्याद्वैवतस्यर्षभकस्य योगः स्यान्मूर्छना पौरविकात्रयादि:। चच्चत्पुटं तालमिहामनन्ति द्यष्टौ कला: प्रेक्षणके चतुर्थे ॥६५६॥ गाने ध्रुवाया विनियोजनं स्यान्न्यासो भवेन्मध्यम एव तत्र। पड्जस्तथा धैवतकः स्वरौ द्वावस्यामपन्यासतया प्रतीतौ ।६५७॥
अथ प्रस्तार:
-
सा सा पा मा पा धप पा मा सो
-
घा पा मा मा सा सा सा सा
म्य
-
धा नी सा सा मा मा पा पा गौ री मु खां बु
-
नी नी नी नी नी नी नी नी रु ह दि व्य ति ल क 5. मा मा धा निस नी नी नी नी प रि चुं वि ता चि
-
मा पा मा परिग गा गा सा सा
त सु पा दं
-
गा मग पा पध मा धनि पा पा प्र वि क सि त हे म
-
री गा सा सध नी नी धा धा
क म ल नि भं
- गा रिग सा सनि गा रिग सासा
अ ति रु चि र कां ति
Page 98
अथ रक्तगान्धारी जाति: ८१
- सा सा सा मा म नि ध नि नी. नी
न ख द र्प णा म .
-
मा पा मा प रि ग गा गा सा सा ल नि के तं
-
गा सा गा सा मा पा मा प रि ग
म न सि ज श री र
- गा मा गा सा गा गा गा सा
ता नं
- नी नी पा धा नी गा गा गा
प्रण मा मि गौ री
-
नी नी धा पा धा पा मा पा च रण यु ग मनुप
-
धा पा सा सा मा मा मा मा मं
गीतम् - सौम्यगौरी मुखाम्बुरुहदिव्य तिलक-परिचुम्नितारचितसुपादं प्रविकसितहेम कमल निभस्। अति रुचिर कान्तिनखदर्पणामलनिकेतं मनसिज शरीरताडनं प्रणमामि गौरीचरणयुगमनुपमम्
- अथ रक्तगान्धारी जाति: - या रक्तगान्धार्यथ जातिरस्या निरूप्यते लक्षणमत्र सम्यक। अंशा विनैवर्षभधैवताभ्यां पञ्चसवरा ये च भवन्ति नान्ये ।। ६५९।। स्वरैविलङ्व्यर्षभमत्र षड्जगान्धारयोः सन्निधिमेलने स्तः। द्वयोभिदावल्घुकालयोस्तु निरन्तरत्वं किल सन्निधि: स्यात् ॥६६०॥ द्योस्तुलाचा लघुकालयोस्तु निरन्तरत्वं किल मेलनं स्यात्। रिलोपतः स्यादिहषाडवत्वं स्यादौडवत्वं रिधयो र्विलोपात् ॥ ६६१॥
Page 99
ट२ सङ्गीतसुधा॥
अस्यां बहुत्वं निधयोः प्रदिष्टं स्थात्पञ्चमांशे नहि षाडवत्वम्। संवादिनावत्र रिंपौ यतो न संवादिनो: स्यादृषभस्य लोप: ॥६६२॥ षड्जे निषादेऽपि च पञ्चमे च स्यान्मध्यमेंशे न किलौडुवत्वम्। स्यात्षट्पितापुत्रक एव ताल स्त्रेधा किलैकत्रिचतुष्कलात्मा ॥ ६६३॥ यदाभवेदेककल:सचित्रमार्गस्तदा मागधिका च गीतिः। भवेद्यदायं द्विकलस्तु गीतिः सम्भाविता वार्तिक एव मार्ग: ॥६६४ ॥ चतुष्कलश्चेत्सतु दक्षिण: स्यान्मार्ग स्तदानीं पृथुला च गीतिः। स्यान्मध्यमग्रामभवा कलोपनता मता मूर्छनिकर्षभादिः ।६६५॥ अङ्के तृतीये किल नाटकस्य गाने ध्रुवाया विनियोजनं स्यात्। न्यासोऽत्रगान्धारक एववेद्योऽपन्यासको मध्यम एव नान्यः ॥६६६।
अथ प्रस्तार:
-
पा नी सा सा गा सा पा नी तं बा र ज नि 2. सा सा पा पा मा मा गा गा क र ति ल क भू प
-
मा पा धा पा मा पा धप मग ण वि भू
-
मा मा मा मा मा मा मा मा ति
-
धा नी पा मप धा नी पा पा
-
मा पा मा धनि पा पा पा पा
-
री गा मा पा पा पा मा पा प्र ण मा मि गौ री
-
री गा मा पा पा पा मा पा व द ना र विं
Page 100
अथ कैशिकी जाति:॥
- पा पा पा पा पर पा पा पा
द् 10. री गा सा सा री गाँ गा गा प्री ति क
- गा गा पा धम धा निध पा पा
.... ....
12 गा पा मा ध रिग गा गा गा गा
गीतम् - तं वालरजनिकरतिलकभूषणविभूतिम्। प्रणमामि गौरीवदनारविन्दप्रीतिकरम् ॥६६७॥
अथ कैशिकी जातिः तत्कैशिकीलक्षणकं वदाम: स्वरा विहायर्पभमंशकास्ते। अंशो निपादो यदि धैवतो वा न्यासस्तदा पञ्चम एव नान्यः ।। ६६८।। यदा निषादस्त्वथ धैवतोंऽशो न्यासौ च तावेव मतान्तरे तु। निषादगान्धारकमध्यमाश्च न्यासा भवन्तीत्यवधारणीयम् ॥६६९॥ विनर्षमं पाडवतौडवत्वं स्याद्वैवतस्याप्युपभस्य लोपात्। अत्र्षभोऽल्पो बहुलो निषादः सपञ्रमः संहतिरङ्गयाः स्यात् ॥६७० ॥ सपञ्चमें Sशे यदि वाडवत्वे नैवर्षभस्यात्र यतो न लापः। अंशो यदा धैवतकस्तदा स्यान्नैवौडवत्वं रिधयोरलापात् ॥६७१ ॥
स्यात्पट्वितापुत्रक एव तालस्त्रेधा किलैकत्रिचतुष्कलात्मा । यदा भवेदेककलः स चित्रमार्गस्तथा मागधिका च गीतिः ॥६७२॥ भवेद्यदायं द्विकला तु गीति: संभाविता वार्तिक एव मार्गः। चतुष्कलश्चेत्स तु दक्षिण: स्थान्मार्गस्तदानीं पृथुला च गीतिः॥ ६७३॥ स्यात्पञ्रमाङ्के किल नाटकस्य गाने ध्रुवाया विनियोजनं स्यात्। गान्धारक: पञ्चमको निषादो न्यासास्त्वपन्यासतया प्रतीताः ॥६७४।। स्वरास्तु सप्तापि मतान्तरेण विनर्षभं पट् च वदन्ति केचित्। स्यान्मध्यमग्रामभवा तु गीतिः स्यान्मूर्च्छना तत्र च हारिणाश्वा॥
14
Page 101
८४ सङ्गीतसुधा॥
अथ प्रस्तार:
- पा धनि पा धन गा गा गा गा
ली ह त
. पा पा मा निध निध पा पा पा
का म न जु
- धा नी सा सा री री री री
वि म वि ला सं
-
सा सा सा री गा मा मा मा ति लक यु त
-
मा धा नी घा मा घा सा पा
भू धर्वो धर्व बा
- गा री सा धनि शे री शी री
सा म नि
- गा री सा सा धा घा मा मा
मु ख क म ल
S. गा गा गा मा मा निधनि नी नी
अ स म हा ट
- गा गा नी नी गा गा गा गा
क स रॉ जं
- गा गा नी नी निध पा पा पा
ह दि सु ख द
- मा पा मा पा पा पा मा मा
प्र ण मा मि लो च
- सा मा गा निधनि नी नी मा गा
न वि शे प
गीतम् केलीहृतकामतनुविभ्रमविलासं
मुखकमलमसमहाटकसर जं हदि सुखद प्रणमामि लोचनविशेषम्
Page 102
अथ प्रस्तार:॥
-
अथ मध्यमोदीच्यवती जाति: - या मध्यमोदीच्यवती तु जातिर्निरुप्यते सा खंलु लक्षणेन। अंश: स्वरः पञ्चम एव तस्यां चञ्चत्पुटस्तत्र चंतुष्कलः स्यात् ॥६७७॥ रिलोपतः पाडवमत्र वेद्यं संपूर्णतायां पुनरंशभिन्नाः। अल्पे स्वरास्तत्र भवन्ति सर्वे निगो तथा पञ्चमधैवतौ च ॥६७८॥ स्वल्पा भवन्त्यत्र हि षाडवत्वे स्यान्वैवतस्यर्पभकस्य योगः। सा मध्यमग्रामभवा तु तस्यां सौवीरिका मूर्च्छनिका च मादि:॥ (द्ष्टौ कलाः) प्रेक्षणके चतुथे गाने घ्रुवाया विनियोजनं स्थात्। स्यान्मध्यमो न्यास इहाथ पड्जोऽपन्यासतां याति सवैवतश्ञ।
-
अथ प्रस्तार: 1. पा घनि नी नी मा पा नी पा
दे हा र्ध रू प
- री री दी गा सा रिग गा गा
म ति कां ति म मल
- नी नी नी नी नी नी नी नी
म म लें दु कु द्
- नी नी धप मा निध निध पा पा
कुमु ढ् नि भं
- पा पा री री री री री
चा मी क रां वु
- मा रिग सा सध नी नी नी नी
र ह दि व्य कां ति
- मा पा नी सा पा पा गा गा
प्र व र ग ण पू जि
- गा पा मा निध नी नी सा सा
त म जे यं
- पा पा मा धनि पा पा पा पा
सु रा मि त म निल
- मा पा मा रिग गा गा गा गा
म नो ज मं लू
Page 103
-
गा पा मा पा नी नी नी नी दो द घि नि ना द
-
मा पा म परिंग गा गा गा गा
म ति हा सं
-
गा गा गा गा मा निघ नी नी शि वं शां त म सुर
-
नी नी घप मा निध निध पा पा
च मूम थ
- री गा सा सा मा निधनि नी नी
वं दे ननै लो क्य
- नी नी घा पा धा पा मा मा
न तचर ण
- गीतम् - देहार्ध रूपमतिकान्तिममलममलेन्दुकुन्द कुमुद निभ
सुराभिष्टुतम निलमनोजवमम्बुदोद धिनिनादम तिहासं शिवं शान्तमसुरचमूमथनं वन्दे त्रैलोक्यनतचरणम् ॥६८१॥
- अथ कार्मारवी जातिः - कार्मारवीलक्षणमुच्यते Sस्यामंशा निषादर्षभपञ्रमाश्च। सधैवतश्चान्तरमार्गयोगादस्यामनंशा वहवो भवन्ति ॥६८२ ॥
गान्धारकोऽत्यन्तवहुर्मिथ: स्यादंशस्वाराणामिह संगतिश्च। चच्चत्पुटस्तत्र चतुष्कलः स्याद्द्यष्टौ कला नाटकपञ्रमाङ्के ॥६८३॥ गाने ध्रुवायां विनियोजनं स्यात्सा मध्यमग्रामगशुद्धमध्या। पड्जादिमा मूर्च्छनिका चतुर्थी न्यास: पुनः पञ्चम एव तस्याम्॥६८४।। अंशास्त्वपन्यासतयोपदिष्टाः संपूर्णतां नित्यमुपैति सेयम्।
अथ प्रस्तार: -
- री री री री री री री री तं स्था णुल लि त
Page 104
अथ प्रस्तार:॥
-
मा गा सा गा सा नी नी नी . चा मां ग स' क
-
नी मा नी मा पा पा गा गा म ति ते ज: प स र
-
गा पा सा पा नी नी नी ली सौ घां शु कां ति
-
री गा सा नी री गा री मा फ णि प ति मु खं
-
री गा री सा नी घनि पा पा उ रो वि पु ल सा ग
-
मा पा मा परिग गा गा गा गा र नि के வு.
-
री री गा सम मा मा पा पा सित पं न गे न्द्र 9. मा पा मा गरिग गा गा गा गा म ति कां तं
-
घा नी पा सा घा नी सा सा प प्मु ख वि नो द
-
नी नी नी नी नी नी नी नी
क र प ल वां गु 12. मा मा धा नी सनिनि घा पा पा लि वि ला स की ल
-
मा पा मा गरिग गा गा गा गा न वि नो दं
-
नी नी पा धनि गा गा गा गा
प्रण मा मि दे व
- सा री गा सा नी ली नी नी
य ज्ञो वी ति
- नी नी धा घा पा पा पा पा
Page 105
सङ्गीतसुधा ॥
गीतम् ने स्ाशुलकितवामाङ्गसक्तम तितेज:परसरसौधांशुकान्ति कणपतिमुख उशविणुलसागरनिकेंत सितपन्नगेन्द्रमतिकान्तम्। पसुस विनोदकर पलवा डगु लिविलासकीलन विनोदं पणमामि देव यज्ञोपवीतिनमू ॥६८५॥
अथ गात्यारपस्नमी जाति: - गन्धारपल्रम्यथ व्यतेऽस्ामंशः पुनः पञ्चम एव नान्यः। न्यासांशयो: संगतिरत्र वेद्या मिथा स्वरैरप्यपरैः क्रमेण ॥६८६ ॥ तथर्पसस्यावि च मध्यमस्य मिथा स्वरैरप्यपरैस्तु योगः। चन्नत्घुटस्तम चतुष्कलस्य घाष्ट कला मूर्च्छनिका द्वितीया॥ ६८७॥ सा मध्यमग्रामसमुद्धवा तु गान्धारपूर्वा खलु हारिणाश्वा। अक्के तुरीये खत्ु नाटकस्य गाने ध्रुवाया विनियोजनं स्यात् ॥६८८॥ गान्धारको न्यास इहोदितोऽपन्यासौ तथैवर्षभपञ्चमौ च।
अथ प्रस्तार: 1. पा मप मघ नी धप मा घा नी कां
2, सनिनि घा पा पा पा पा पा पा तं 3. घा नी सा सा मा मा पा पा क दे श +. नी नी नी नी नी नी नी नी खो मा न 5. नी नी धप मा निध निध पा पा क म ल नि 6. पा पर री री री री री भि कु सु म . मा रिग सा सध नी नी नी नी गं धा धि वा सि S. नी नी सा रिस री री री री त म नो ज्ञ
Page 106
अथ प्रस्तार:।
-
नीं गा सा सा नी ना ना न ग रा स्ट न
-
नी मा नी मा पा पा गा गा र ति रा 11. गा पा मा पर नी नाी
के ली 12. मा पा मा परिग ह ली 13. नी नी पा घा म्र ण मा 14. नी नी नी कीं चं 15. मा मा छान सलिवि घर वा पा त वि ला 16. मा पा भा न वि नो
गीतम् -- कान्तं वार्मकदेशप्रे ड्खोलमानकसलजिमं
नगराजसूनुरतिरागरभसकेलीकुच ग्रहलीलं तें प्रणमामि देवं चन्द्रार्धमण्डितविलासकीलन विनाकम
- अथ आन्धी जाति: - अथोच्यते लक्षणमेतदान्त्या अंशा निपादभपत्रमाध। गान्धारकध्चाथ रिगो निपाद: सचवतः संगनिमाप्नुवन्ति ॥६०। अन्यासमाराहणमंशतः स्यात्कमासवेव्पाडवता सलीपात्। स्यान्मध्यमग्रामिकमूर्च्छनाद्या सोवीरियास्या किल मध्यमादि:॥ चच्चत्पुटस्तत्र चतुप्कलः स्याद्जाशं कलास्तत मयन्ति सम्यक। अङ्के तुरीये खलु नाटकस्य गाने घ्रृवायां विनियोजनं स्यात् ॥ ६५२॥ गान्धारको न्यास इहादितोंऽशा सवत्त्यपत्यासतया प्रतीताः।
अथ प्रस्तार 1. गा री री से त रु गै
Page 107
सङ्गीतसुधा॥
-
री गा रो गा री रो री सी स चित ज 3. री से गा गा री री मा मा त्रि दि व न दी स लि ल
-
री गा सा धन नी नी नी नी
घौ त मु 5. नी री नी री धनि धनि पा पा न ग सू नु म ण य
-
मा पा सा रि ग गा गा गा गा वे द नि घि 7. शी री गा स स मा मा पा पा प रि णा हितुहि न
-
मा पा मा रिग गा गा गा गा शै ल गृ हं
-
धा नी गा गा गा गा गा गा
अ मृ त भ व 10. पा पा मा रिग गा गा गा गा गु ण र हि तं
-
नी नी नी नी री री री री त म व नि र वि श शि 12. री री गा नी सा सा नी नी ज्व ल न ज लु प व न
-
पा पा मा रिंग गा गा गा गा ग ग न त नु 1+. री री गा सम मा मा पा पा श र णं त्र जा मि
-
मा मा नी नी सा री गा पा श भ म ति कृ त निल 16. रिग गा गा गा गा गा गा गा यं
गीतम् तरुणेन्दुकुसुमखचितजट त्रिदिवनदीस लिलधौतमुखम्। नगसूनुप्रणयं वेदनिधि परिणाहितुहिनशैलगृहम्। अमृतभवं गुणरहितं तमवनिर विशशिज्वलनजलपवनगगनतनुं शरण वजामि शुभमतिकृतनिलयम् । ६९३ ॥
Page 108
। रघुनाथभूपविरचिता ॥
॥ सङ्गीतसुधा ॥
- अथ नन्दयन्ती जातिः -
अथोच्यते लक्ष्म तु नन्दयन्त्या अंशो भवेत्पञ्चम एव तस्याम्। ग्रहोSत्र गान्धारक एव नांशो ग्रहांशयोरैक्यमपोद्यतेSत्र ॥ ६९४ ॥
प्राहुर्ग्रहं पञ्चममेव केविन्मन्द्रर्षभस्यात्र बहुत्वमुक्तम्। स्थानान्तरे तस्य ततोऽल्पता च स्यात्पडजलोपेन च षाडवत्वम् ॥ ६९५॥
स्यान्मध्यमग्रामिकहष्यकाख्या सा मूर्छना पञ्चमपूविकात्र। द्वात्रिंशदेवात्र कला भवन्ति चञ्चत्पुटश्चाष्टकलोऽत्र तालः
स्यान्नाटकस्य प्रथमे तथाङ्के गाने धुवाया विनियोजन स्यात्। गान्धारको न्यास इहोदितोऽपन्यासों तथा मध्यमपञ्चमौ द्वौ ॥६९७॥
अथ प्रस्तार:
-
गा गा गा गा पा पा धप मा सौ
-
धा धा धा धा धा नी स नि नि घा
-
पा पा पा पा पा पा पा पा
म्यं
- धा नी मा पा गा गा गा गा
वे दां ग वे द्
- मा री गा गा गा गा गा गा
क र क म ल यो निं
- मा मा पा पा धा निध पा पा त मो र जो वि व 15
Page 109
९२ सङ्गीतसुधा॥
-
घा न मा पा गा गा गा गा जि तं
-
गम पा पा पा मां मा गा गा हरं
-
धा नी मा पा गा गा गा गा भ व ह र क म ल गृ 10. मा मा मा मा मा मा मा मा हं
-
री गा मा पा पम पा पा नी शि वं शां त सं नि 12. री री री री पा पा मा मा वे श न म पू 13. धा नी स नि नि धा पा पा पा पा भू ष ली लं 14. धा नी मा पा गा गा गा गा उ र गे श भो ग 15. गा पा पा पा धा मा गा मा भा सु र शु भ पृ थु 16. धा धा नी धा पा पा पा पा
-
री गा मा पा पम पा पा नी अ च ल प ति सू नु 18. री री री री पा पा पा पा क र प क जा म 19 पा पा पा पा धा मा मा मा ल वि ला स की ल 20. नी पा गा गम गा गा गा गा न वि नो द 21. री री गा गा मा मा मा मा स्फ टि क म णिरज त
Page 110
गीतम्।। ९.३
-
नी पा नी मा नी धा पा 'पा सित न व दु कू .
-
सा सा धनि धा पा पा पा पा क्षी रोद सा ग
-
मा पा मा परिग गा गा सा सा र नि का शं
-
री री गा गा मा मा पा पा
अ ज शि र: क पा ल
- री री री गा मा रिंग मा मा
पृ थु सा ज नं
- मा नी पा नी गा गा गा गा
वं दे सु ख दं
- मा मा पा पा धा धनि निध मा
ह र दे ह म म ल
- घा धा सा नी धा नी पा पा
म धु सू द न सु
- री री री री मा पा धा मा
ते जो घि क सु
-
नी नी नी नी घा पा मा मा ग ति यो
-
मा परि ग गा गा गा गा गा गा निं
-- गीतम् - सौम्यं वेदाङ्गवेदकरकमलयोनिं तमोरजोविवर्जित हरं भवहरकमलगृहं शिवं शान्त सन्निवेशनमपूंर्व भूषणलीलमुरगेशभोगभासुरशुभपृथुलम्। अन्लपतिसूनुकरपङ्गजामलविलासकीलनविनोदम् स्फटिकमणिर जतसितनवदुकूलक्षीरोदसागरनिकाशम् अजशिर:कपालपृथुभाजनं वन्दे सुखदं हरदेहममलमधुसूदनसुतेजोऽधिकसुगतियोनिम
16
Page 111
। रघुनाथभूपविरचिता ।
।। सङ्गीतसुधा॥
अथ नन्द्यन्ती जातिः -
अथोच्यते लक्ष्म तु नन्दयन्त्या अंशो भवेत्पञ्चम एव तस्याम्। ग्रहोडत्र गान्धारक एव नांशो ग्रहांशयोरक्यमपोद्यतेSत्र । ६९४ ॥ प्रा हुर्ग्रहं पञ्चममेव केचिन्मन्द्वर्षभस्यात्र बहुत्वमुक्तम्। स्थानान्तरे तस्य ततोऽल्पता च स्यात्पडजलीपेन च पाडवत्वम् ॥ ६९५॥ स्यान्मध्यमग्रामिकहृप्यकाख्या सा मूर्छना पञ्चमपूर्विकात्र। द्वात्रिशदेवात्र कला भवन्ति चञ्चत्पुटश्चाष्ट्रकलोSत्र तालः ।६५६॥
स्यान्नाटकस्य प्रथमे तथाक्के गाने धुवाया विनियोजनं स्यात्। गान्धार को न्यास इहोदितोऽपन्यासों तथा मध्यमपञ्चमौ द्वो ॥ ६९७॥
अथ प्रस्तार:
-
गा गा गा गा पा पा धप मा सौ
-
घा धा घा धा धा नी म नि नि घा
-
पा पा पा पा पा पा पा
म्यं
-
धा नी मा पा गा गा गा गा वे दां ग वे द्
-
मा री गा गा गा गा गा गा
क र क म ल यो निं
- मा मा पा पा धा निध पा पा
नं मा र जो वि घ 15
Page 112
१२ सङ्गीतसुधा॥
-
घा नो मा पा गा गा गा गा जि तं
-
गम पा पा पा मा मा गा गा
हरं
- धा नी मा पा गा गा गा गा
भ व ह र क म ल गु
- मा मा मा मा मा मा मा मा
हं
-
री गा मा पा पम पा पा नी शि वं शां तं सं नि
-
री री री री पा पा मा मा
वे श न म पू र्व
-
धा नी स नि नि धा पा पा पा पा भू प ण ली लं
-
धा नी मा पा गा गा गा गा उ र गे श भो ग
-
गा पा पा पा धा मा गा मा
भा सु र शु भ पृ थु
- धा धा नी धा पा पा पा पा
ल 17. री गा मा पा पम पा पा नी अ च ल प ति सू नु
- री री री री पा पा पा पा
क र पं क जा म
- पा पा पा पा धा मा मा मा
ल वि ला स की ल
- नी पा गा गम गा गा गा गा
न वि नो दं
- री री गा गा मा मा मा मा स्फ टि क म णिरजत
Page 113
गीतम् ।।
-
नी पा नी मा नी धा पा 'पा सित न व दु कू 'ल
-
सा सा धनि धा पा पा पा पा क्षी रोद सा ग
-
मा पा मा परिग गा गा सा सा र नि का शं
-
री री गा गा मा मा पा पा अ ज शि रः क पा ल
-
री री री गा मा रिग मा मा
पृ थु आा ज नं
- मा नी पा नी गा गा गा गा
वं दे ख द
- मा मा पा पा धा धनि निध मा
ह र दे ह म म ल
- धा घा सा नी धा नी पा पा
म धु सू द् न सु
- री री री री मा पा धा मा
ते जा घि क सु
-
नी नी नी नी घा पा मा मा ग ति यो
-
मा परि ग गा गा गा गा गा गा निं
.- गीतम् -
सौम्यं वेदाङ्गवेदकरकमलयोनिं तमोरजोविवर्जित हरं भवहरकमलगृहं शिवं शान्त सन्निवेशनमपूंर्व भूषणलीलमुरगेशभोगभासुरशुभपृथुलम्।
स्फटिकमणिर जतसितनवदुकूलक्षीरोदसागरनिकाशम् अजशिर:कपालपृथुभाजन वन्दे सुखदं हरदेहममलमधुसूदनसुतेजोऽधिकसुगतियोनिम्
16
Page 114
सङ्गीतसुधा॥
-
अथ तालादिप्रकरणम् - तालादयो यास्त्विह नोपदिष्टास्तासां च तालादि निरूपयामः। अनुक्तताले किल जातिभेदे चच्चत्पुटो वापि च पञ्चपाणिः ॥ ६९९॥ चित्रो भवेदेककलेऽथ वृत्तिस्ताले निहक्ता द्विकले क्रमेण। चतुष्कले दक्षिणनामधेये ताले हि मार्ग समुदीरयन्ति स्यान्मागधी चैककले तु ताले संभाविता स्याद् द्विकले निरुक्ता। चतुष्कले सा पृथुलाभिधानाप्यनुक्तगीतिष्विति गीतयस्ताः ।। ७० १ ॥ अंशस्वरस्यैव रसोऽत् जातेस्तदंशभाजोSपि निरूपणीयः । अनुक्तरागेऽपि च जातिभेदे तज्जन्यराग: स्कुरतीति वेद्यम् ॥ ७०२ ॥ तज्न्यरागानखिलांश्च रागविवेचने द्राक् प्रतिपादयामः। उक्ता: किलाष्टादश जातयस्ता ब्रह्मोदितैरेव पदैः प्रयुक्ताः ।। ७०३ ॥ शशाङ्कमौकेः स्तवने पुनन्ति सदो महापातकिनोऽपि मर्त्यान्। यथैव सामानि कचो यजूंषि नैवान्यथा कैश्चिदिह क्रियन्ते सामप्रभूता अपि जातयोऽमूरिहान्यथाष्टादश नैव कार्याः । प्रयुज्यमानास्तु यथावदेताः श्रेयांसि भूयांसि दिशन्ति सद्यः ॥७०२॥
-
अथ कपालानि (शुद्धजातिजन्यानि) - ततः कपालानि च सप् शुद्धजात्युद्भवानि प्रतिपादयामः।
उत्पत्ति: - भिक्षाटवेषेण पिनाकिना प्राग्गीतासु षाड्जीप्रमुखासु तासु ॥७०६।। तत्तादृशो यद्रसपारवश्यद्रवीभवत्तन्मुकुटीसुधांशोः। ।1 ७०७ |1 यस्मादगायन्ननुसृत्य गीति तां शांभवीं तेन कपालसंज्ञाम्। एतानि गीतानि परं भजन्तीत्युदीरयन्त्यत्र मतङ्गमुख्या: ।। ७०८॥
षाइजीकपालानि - वदामि षाडुजीजनितं कपालमंशो ग्रहश्चात्र तु षड्ज एव। इहर्षभो न्यासतया प्रतीतोऽपन्यासगान्धारकनामधेयः
Page 115
धैवतीकपालानी॥ १५
बहुत्वगान्धारकमध्यमौ द्वावल्पे निषादर्षभपन्नमाश्च। सधैवता लङ्ध्य इहर्षभः स्यात्कला: किल द्वादश संप्रदिष्टाः ॥७०॥
-
आर्षभीकपालानि - अथार्षभीजातिकपाललक्ष्म वक्ष्यामि तत्रर्षभ एव चांशः । भवेदपन्यासतया स एव स्यान्मध्यमो न्यासतया प्रतीतः ॥७११ ॥ निषादगान्धारकपञ्चरमास्तु सधैवताः स्वल्पतया च वेद्याः। अल्पस्तु षड्जो नितरां तथाष्टौ कलास्तु शेषं पुनरार्षभीवत् ।।७१२।।
-
गान्धरीकपालानि गान्धारिकाजातिकपाललक्ष्म वक्ष्यामि गान्धारक एव चांशः । न्यासोऽप्यपन्यास इह ग्रहश्च स एव षड्जर्षभगास्तथात्वे ।। ७१३ ॥ स्याद्वैवतः स्याद्वडुलस्तथैव स्यादौडुवत्वं रिपयोर्विलोपात्। अष्टौ कलास्तत्र भवन्ति शिषं गान्धारिकायामिव सर्वमूह्यम् ॥७१४॥
-
मध्यमाकपालानि - अथोच्यते मध्यमिकाकपाललक्ष्माधुना मध्यम एष चांशः । न्यासोऽप्यपन्यास इह ग्रहश्च स एव तत्रेत्यवधारणीयम् ॥७१५॥ अल्पे निषादर्षभपञ्रमा: सगान्धारकास्तत्र कला नवैव।
पञ्चमिकाकपालानि अथोच्यते पञ्चमिकाकपाललक्ष्माधुनास्मिन्ऋषभो मतोडशः ॥७१६ ॥ षड्जो ग्रहस्तत्र निषाद्षडजौ गान्धारिका मध्यमधैवतौ च। अल्पे भवन्त्यत्र कला हि चाष्टो स्यात्पञ्जमीवत्परिशिष्टमत्र
- धैवतीकपालानि - अथाच्यते धैवतिकाकपाललक्ष्माघुनांशः पुनरत्र षड्जः। रिगाविहाल्पौ नितरां तथापन्यासौ बह मध्यमधैवतौ च ।। ७१८॥। अष्टौ कला: शिष्टमिहात्र षाड्जीजाताविव स्यादखिल प्रयोज्यम्।
Page 116
९६ सङ्गीतसुधा ॥
नेपादीकपालानि नैपादिकाजातिकपार्ललक्ष्म चक्ष्ये ग्रहोंऽशोऽपि च षडज एव ॥७१९॥ न्यासश् वेद्यो च रिगाविहाल्पौ निषादको धैवतमध्यमौ च। भवन्त्यमुप्मिन्वहुलाः किलाष्टौ कलाः कपालान्युदितानि सप् ॥ ७२०॥ ब्रह्मोदितेरव पदैः स्वरैश्च गायेत्कपालान्युदितानि सप्त। कल्याणभूमीधरकार्मुकस्य स्तवेन कल्याणततीरुपैति ॥७२१ ॥
अथ कम्बलानि -
अथाच्यते कम्वलगानलक्ष्म चण्डीशितु: कुण्डलिकाप्रजातः । यत्कुण्डली कस्वलनामधेयो जगौ ततः कम्बलनामतास्य ॥। ७२२॥ अत्र ग्रहों5शोऽपि च पत्रमोऽपन्यासी बहुः स्यादृषभस्वरश्च। न्यासस्तु पड्जो मधगास्तयाल्पे तत्पञ्चमीजातिसमुद्भवश्च ॥। ७२३ ॥
अत्र स्वगाल्पत्वव हुत्वयोगाङ्भवन्ति भेदा बहवस्तथापि। नाक्तं मया विस्तरभीरुणात्र ग्रन्थान्तरे ते तु विलोकनीया: ॥ ७२४ ॥ अनेन गानेन पुरा पुरारिर्ददावभीष्टं किल कम्बलाय। अद्यापि तद्वानकृतां जनानामभीप्रदः स्यात्स शिवः प्रहृष्टः ॥ ७२५ ॥ व्रह्मादितान्येव पुरा पदानि कपालगानस्य वयं लिखामः।
पाड्जीकपालपदानि - झुं टं झंदं ॥ खट्ाङ्गधरम् ॥१॥ दंष्करालम् ॥ २॥ तटित्सदशजिह्वम् ॥३॥ हीं हो हो हों ही हो ही हौम् बहुरूपवदनम् ॥ ५॥ घनघोरनादम् ॥ ६॥ हौं हो हौं हौ हं हौं हों होम्॥ ७॥हो हों हो हों हो हों हो हौनु॥॥ नुमुण्डमण्डितम् ॥ ९ ॥ हं ह कह कह हूं हूं॥ १०॥ कृतविकट- मुखम्॥ ११॥ नमामि देवं भैरवम् ॥ १२ ॥
- आर्पभीकपालपदानि - झुदुं झुंदं॥ दंष्टकरालम्॥ १॥ ओं ओं हों हों हों हौं हौं हौम् ॥ ३॥ हों हौं हों हों हों हों हीं हौम्॥ ॥
Page 117
नैषादीकपालपदानि। वरसुरभिकुसुम ॥ ५ ॥ चर्चितगात्रम् ॥ ६॥ कपालहस्तम् ॥॥ नमामि देवम् ॥ ८॥
-
गान्धारीकपालपदानि - चलत्तरङ्ग ॥ १॥ भङ्गुरम् अ॥ २ नेकरेणु॥ ३ ॥ पित्रचरं सु ॥ ३ ॥ रासुरैः सुसेवितम् पु॥५॥ नातु जाह्न ॥ ६॥ वीजलम् मां ॥७॥ बिन्दुभिः॥ ८॥
-
मध्यमाकपालपदानि शूलकपाल ॥ १ ॥ पाणित्रिपुरविनाशि॥ २॥ शशाङ्कधारिणम् ॥ ३॥ त्रिनयनत्रिशूलम् ॥४॥ सततमुमया सहि॥५॥ त वरद हैं हैं हैं हैम्। ६ ॥ हैं हैं हैम् ॥ ७॥ हैं हैं हैं हैं हैं हैम्॥ ८॥ नौमि महादेवम्॥ ९ ॥
-
पञ्मीकपालपदानि - जय विषमनयन ॥ १ ॥ मदनतनुदहन ॥ २ ॥ वरवृषभगमन ॥ ३॥ असुरपुरदहन ॥ ४॥ नतसकलभुवन ॥ ५॥ सितकमलवदन ॥ ६ ॥ भव मे भयहर ॥ ७ ॥ भव शरणम् ॥८॥
-
धैवतीकपालपदानि अग्निज्वालाशि ॥ १॥ खावलि॥२॥ मांसशोणित ॥३॥ भोजिनि ॥४ ॥ सर्वाहारि ॥१॥ निर्मीे ॥६॥ चापरणे॥७॥ नमोऽस्तु ते
-
नैपादीकपालपदानि - सरसगजचर्मपटम्॥१॥ भीमभुजङ्गमानद्धजटम् ॥ २॥कह कह हुङ्कृतविकटमुखम् ॥ ३ ॥ नम तं शिवं हरमजितम् ॥४॥ चण्ड- मुण्डमजेयम् ॥५॥ कपालमण्डितमुकुटम् ॥ ६ ॥ कामदर्पविध्वं- सकरम् ॥ ७॥ नम तं हरं परमशिवम् ॥ ८॥
Page 118
सङ्गीतसुधा॥
अथ गीतिलक्षणम् - प्रस्तावने जातिनिरूपणस्य या गीतयः पूर्वमिहोपदिष्टाः ।७२६ ॥
तासामिदानीं किल लक्षणानि वक्ष्यामहे गायकबोधहेतोः। त्रिषष्टयलंकारयुता चतुर्भिः स्थाय्यादिभि: संमिलिता च वर्णैः ॥७२७॥ चिलस्वितेनापि च मध्यमेन द्रुतेन शोभां दधती लयेन। गानक्रिया गीतिरिहोपदिष्टा चतुरविधा सा गदिता मुनीन्द्रैः ॥। ७२८ ॥
स्यान्मागधीनामवती किलाद्या तथार्धमागध्यमिधा द्वितीया। संभाविताख्यानवती तृतीया भवेच्चतुर्थी पृथुलाभिधाना ॥। ७२९ ॥
मागधी क्रमेण लक्ष्माणि पदानि तासां सा मागधी लक्षणमुच्यतेऽत्र। विलम्बितेनैव पदेन युक्तं गायेत्कलायां पदमादिमायाम् ॥। ७३२ ॥1
पदान्तरेणापि युतं तदेव गायेत्पदं मध्यलयेन युक्तम्। कलां द्वितीयामधिकृत्य सम्यकलां तृतीयामधिकृत्य पश्चात् ।।७३ १ ॥ ते द्वे तृतीयेन पदेन युक्त गायेद्द्रुतेनैव लयेन सार्धम्। इति त्रिरावृत्तपदां वदन्ति तां मागधीं मागधराजहद्याम् ॥। ७३२ ॥
- मागधीपदानि
मा गा माधा धनि धनि सनि धा दे दे व रु द्रं
रिग रिग मग रिस देवं रुद्रं वं दे
अर्धमागधी
अथार्धमागध्यपि लक्ष्यतेSत्र विलम्बितेनैव पदेन युक्तम्। गायेत्कलायां पदमादिमा्या पदान्तरेणाथ युतं तदर्धम् ॥। ७३३ । गायेत्पुनर्मध्यलयेन युक्त कलां द्वितीयामधिकृत्य सम्यक्। कलां तृतीयामधिकृत्य पश्चादर्धे द्वितीयस्य पदस्य गायेत् पदान्तरं च द्रुतमानयुक्तं सैवार्धमागध्यभिधावती स्यात्।
Page 119
सङ्गीतसुधा॥
अथ गीतिलक्षणम् - प्रस्तावने जातिनिरूपणस्य या गीतयः पूर्वमिहोपदिष्टाः ॥ ७२६ ॥
तासामिदानीं किल लक्षणानि वक्ष्यामहे गायकबोधहेतोः। त्रिषष्टयलंकारयुता चतुर्भिः स्थाय्यादिभिः समिलिता च वर्णैः॥७२७॥ विलम्वितेनापि च मध्यमेन द्रुतेन शोभां दधती लयेन। गानक्रिया गीतिरिहोपदिष्टा चतुर्विधा सा गदिता मुनीन्द्रैः ॥।७२८।। स्यान्मागधीनामवती किलादया तथार्धमागध्यभिधा द्वितीया। संभाविताख्यानवती तृतीया भवेच्चतुर्थी पृथुलाभिधाना । ७२९ ।
- मागधी 1 क्रमेण लक्ष्माणि पदानि तासां सा मागधी लक्षणमुच्यतेऽत्र । विलम्बितेनैव पदेन युक्तं गायेत्कलायां पदमादिमायाम् । ७३२ ॥1
पदान्तरेणापि युतं तदेव गायेत्पदं मध्यलयेन युक्तम्। कलां द्वितीयामधिकृत्य सम्यक्वलां तृतीयामधिकृत्य पश्चात् ।।७३ १ ॥ ते द्वे तृतीयेन पदेन युक्त गायेद्द्रुतेनैच लयेन सार्धम्। इति त्रिरावृत्तपदां वदन्ति तां मागधीं मागधराजहद्याम् ।। ७३२ ॥
- मागधीपदानि -
मा गा माधा धनि धनि सनि धा दे .h वं दे वं रु
Page 120
१०० सङ्गीतसुधा॥ ताले गुरुद्वन्द्वलघुंलताढ्ये चच्चतपुटे ।वाद्यगुरुद्वयं तु। तद्वाक्यरीत्या च गुणेन युक्तं चित्रार्हमेकैकमनुप्रयुज्य । ७४० ।1 तद्दक्षिणाख्ये ध्रुवकादिभिस्तु मात्राभिरष्टाभिरथ प्रयुञ्ज्यात्। सा मागधीगीतिरुदाहतैवं तालाथ्रयेणापि तथा मुनीन्द्रैः । ७४१।। चच्चत्पुटस्यात्र लघुं तृतीयं प्रयुज्य पूर्व जगणार्धयुक्तम्। आद्येन मात्राद्वितयेन चान्त्यं मात्राद्वयेनापि युंत प्रयुञ्ज्यात् ।। ७४२।। प्लुतं तु सार्ध छगणेन युक्तं मात्राभिरष्टाभिरथ प्रयुञज्यात्। द्विरीरितान्त्यद्वितयान्वितामिस्तदर्धमागध्युदिता मुनीन्द्रेः ॥ ७:३॥ तालान्तरे गीतिरितीयमूह्या संभावितालक्षणमुच्यतेऽत्र। चच्चत्पुटे तु द्विकले तु वृत्तिर्मार्गे मता भूरिगुरु: किलैपा चच्चत्पुटे तत्र चतुष्कले तु स्याददक्षिणे भूरिलघुस्तथान्या। निरूपितैवं पृथुला तयोस्तु शिष्टं यथापूर्वमिहावधार्यम्
मतङ्गशार्दूलकदत्तिलादिप्रणीतशास्त्राणि मुह्दुर्विचार्य 1 ७४द 11
ग्रन्थान्विलोक्याधुनिकैर्हरीन्द्रश्रीशाङ्गदेवप्रमुखेः प्रणीतान्। आकर्ण्य लक्ष्याणि च तत्र तत्र सत्सप्रदायेन समागतानि कृत्वैकवाक्यं सकलं स्वबुद्धया सम्यक स्वराध्याय इह प्रणीतः । ज४७॥ । इति रघुनाथभूपरचितायां सङ्गातसुधायां प्रथम: स्वराध्यायः समापः।
Page 121
। रघुनाथभूपविरचिता ।
॥ सङ्गीतसुधा ॥
-
सङ्गीतसुधायां- ॥ द्वितीयो रागाध्यायः॥ पूर्वैह्यलंकार निरूपणस्य स्याद्रक्तिलाभ: फलमित्यवादि। रागोपयुक्ता अपि जातिमुख्या निरूपिता: प्राथमिके समस्ताः ॥१॥ रागस्वरूपं च तदीयभेदोऽध्याये द्वितीयेऽथ निरूप्यतेSत्र। यद्रज्यते तेन जनः समस्तो रागाभिधान: प्रथितःस तेन ॥ २ ॥ यद्वा जनान्रञ्जयतीति चास्य व्युत्पत्तिमन्ये प्रतिपादयन्ति। विभूषितो यः स्वरवर्णमुख्यैर्यः श्रोतचित्तान्यनुरञ्जयेञ्च एवं मतङ्गेन तु रागशब्दो व्युत्पादित: कर्तृघनाश्रयेण। रूढोऽशवकर्णादिवदेष योगरूढोऽथ वा पङ्कजशब्दवत्स्यात् स्याद्यौगिको मण्डपशब्दवद्वा स्यात्सर्वथा रख्षक एव रागः।
-
दशविधरागाः -
दशप्रकारा: कथिताश्च रागास्ते ग्रामरागाः प्रथमाः प्रतीताः ॥५॥ अथोपरागा: कथिता द्वितीयास्ततस्तृतीयाः खलु शुद्धरागाः। भाषाश्चतुर्थास्त्वितरे विभाषाः षष्ठास्तथैवान्तरभाषिकाख्याः रागाङ्गसंज्ञा: खलु सप्तमाश्च भाषाङ्गसंज्ञाः पुनरष्टमास्ते। क्रियाङ्गसंज्ञा नवमाः प्रदिष्टा उपाङ्गसंज्ञा दशमा भवन्ति
- गीतिभेदाः -
ते आ्मरागा: खलु पञ्चभेदाः पञ्चापि गीतीः स्वयमाश्रिता यत्। शुद्धा च भिन्ना च तथैव गौडी स्याद्वेसरा तत्र भवेञ्चतुर्थी 17
Page 122
१०२ सङ्गीतसुधा साधारणी पंञ्चमिका तु गीतिर्ुर्गामतज्ञैरिति पञ्चधोक्ता। अपूवगीत्यन्तरकल्पनायां स्याद्वौरवं तेन पुरा निरुक्ताः ॥ ९ ॥ स्थान्मागधी चार्धपदादिमा च संभावितान्या पृथुला चतुर्थी। चत्वार एवेह भवन्ति गीतिभेदा: किलैवं भरतोपदिष्टाः ॥१०॥ दुर्गामतात्पञ्च तु गीतयस्ता भाषाविभाषासहितास्तु सप्त। एवं मतङ्गस्य मते निरुक्ता भाषाविभाषान्तरभाषिकाख्याः । ११ ॥ तिस्रस्तु ता याष्टिकसमता: स्युर्भाषैव शार्दूलमते तु गीतिः। आश्रित्य दुर्गामतमेव सम्यक्ताः शार्ङ्गदेवेन तु पञ्चधोक्ताः ॥ १२ ॥ मतप्रभेदेन तु गीतिभेदानुदीर्य तल्लक्षणमुच्यतेऽथ। शुद्धा भवेत्सा सरलै: स्वरैर्या ससौकुमायैरपि संयुता च ॥१३ ॥ स्वरैश्च सूक्ष्मैः सहिता तु वक्रैभिन्ना द्वितीया गमकैश्च हृद्ैः। ओहाटिका हृद्यतमैः स्वरैस्तु स्थानत्रयाखण्डितवर्त्तना च ॥ १४ ॥ स्थानत्रये मन्द्रमुखैश्च गाढैः समन्विता या गमकैस्तु गौडी। मन्द्रैः स्वरैः सातिशयैर्द्रतैश्च सकम्पितैर्या मृदुभिः समेता ॥ १५ ॥ ओहाटिका सा चिबुके हृदिस्थे मतेयमोकारहकारयोगात्। स्थाय्यादिवर्णेष्वतिरक्तियुक्ता युक्ता स्वरैः स्यादिह वेगवन्भिः ॥ १६ ॥ वेगस्वराख्या खलु रागगीतिस्तां वेसराख्यां च वदन्ति सर्वे। शुद्धागतेन स्वरगार्जवेन भिन्नाजुषा वक्रतया स्वराणाम् गौडीजुषा गाढतया च वेगयुक्तै: स्वरैर्वेसरिकागतैश्च। एवं चतुर्गीतिगुणैरुपेता साधारणी गीतिषु पञ्चमी स्यात्॥ ।१८ ॥ शुद्धादिगीत्याश्रयणेन रागा: शुद्धादिसंज्ञाः स्वयमाश्रयन्ते। ते ग्रामरागा: प्रथमं भवन्ति त्रिशत्तथाष्टावुपरागसज्ञाः ॥ ११. । रागास्तथा विंशतिरेव तेषु षडुत्तरा: स्युर्नवतिस्तु भाषाः । विभाषिका विशतिरत्र रागास्ततश्चतस्त्रोऽन्तरभाषिकाश्च ॥ २० ॥ एकोत्तरा विशतिरत्र रागाङ्गानीह भाषाङ्गपदाभिधास्तु। रागा: पुनर्विशतिरप्युपाङ्गरागाः पुनस्त्रिशदिहोपदिष्टाः भवन्ति ते पञ्चदश क्रियाङ्गान्येवं किलोक्ता दश रागभेदाः। ॥ २ १ ॥ ते ग्रामरागादिपरम्परायां जातांस्तु रागान्सकलान्मिलित्वा स्यातां चतुःषष्ट्वधिके शते द्वे लक्ष्यस्वरूपं च निरूपयामः। ॥। २२ ॥
Page 123
पड्जग्राम: १०३
- आलापलक्षणम् - रागस्वरूपाणि विविच्य वक्तुमालापसाधारणलक्ष्म वक्ष्ये ॥ २३ ।
ग्रहांशयोस्तारकमन्द्रयोंश्च न्यासस्य चापन्यसनस्वरस्य। तथा स्वराल्पत्ववहुत्वयोश्च संपूर्णभावोडुवपाडवानाम् ॥ २४ ॥
यत्रास्य सर्व परिदृश्यतेऽभिव्यक्ति: स आलापपदाभिधेयः।
- सप्त शुद्धा: पड्जग्रामरागा: -
॥ शुद्धकैशिकमध्यमः ॥१॥ जातेश्च षड्जादिममध्यमा या जातश्च कैशिक्यभिधानजातेः ॥२५॥ हीनस्तथैवर्षभपञ्चमाभ्यां तारश् पड्जग्रहकस्तदंशः। स्यान्मध्यमन्यासयुगोडवश्चावराहिवर्णेन समन्वितश्च ॥ २६ ॥
तदा प्रसन्नान्तपदाभिधेयालङ्कारवानुत्तरमन्द्रया च। पड्जाद्या मूर्छनया समेतो युतोऽल्पगान्धारककाकलीभ्याम्। २७।। वीरे च रौद्रेऽपि रसेऽद्भुने च प्रयोगवान्निर्वहणाख्यसंधों। चन्द्रप्रियः प्रातरयं प्रयोज्यो धन्नासिरागस्य च हेतुभूतः ॥ २८ ॥ शुद्धादिम: कैशिकमध्यमोSत्र धन्नासिवत्सर्वमिताऽन्यद्टह्यम्।
-
शुद्धसाधारितः ॥२॥ - तच्छुद्धसाधारितलक्ष्म वक्ष्ये जातः स पड्जादिममध्यमायाम्॥२९॥ तारस्थषड्जोंऽश इह ग्रहश्चाप्यल्पो तु गान्धारनिपादको स्तः । स्यान्मध्यमन्यासयुतश्च पूर्णः पडजादया मूर्छनयाद्ययाढ्यः ।। ३०॥ वर्णेन युक्तोऽप्यवरोहिणासो तथा प्रसन्नान्तविभूषितश्च। सूर्यप्रियः स्यादिह वीररोद्ररसे प्रयोज्यः किल गर्भसंधों ॥३१ ॥ स्याद्वासराद्यप्रहर च गेयो जयप्रदो रक्तिविवर्धकश्च। मुखारिरागानुकृतिप्रवीणः स्याच्छुद्धसाधारितराग एवम् । ३२ ॥
-
पड्जग्राम: ॥ ३॥ - जातश्च पड्जादिममध्यमायां तारस्थपड्जोंडश इह ग्रहश्च। स्यान्मध्यमन्यासयुतश्च पूर्णोऽपन्यासतां पडज इह प्रयाति ।। ३३ ॥
Page 124
१०४ सङ्गीतसुधा
वर्णेन चासांववरोहिणाढ्यं भवेत्प्रसन्नादिविभूषितश्च । षड्जाद्यया मूर्छनयाद्ययाढ्य: समन्वितश्चान्तरकाकलीभ्याम् ।। ३४ ॥
वीरे च रौद्रे च रसेऽद्भुते च द्वितीयसंधावपि नाटकस्य। प्रयोजनीयो गुरुदेवताको वर्षासु गेय: प्रथमेSह्नि यामे ॥ ३५ ॥
षड्जादिमग्रामपदाभिधेयो रागोऽयमस्माभिरिह प्रदिष्टः ।
- मध्यमग्रामरागाः --
॥ शुद्धपञ्चम: ॥४॥। ते मध्यमग्रामभवास्तु रागाश्चत्वार एतानिह लक्षयामः ॥३६ ॥
स्यान्मध्यमापञ्चमिकाख्यजात्योर्जातो भवेदत्र च पञ्चमोंऽशः । न्यासो ग्रहश्चैष तथा निषादगान्धारयोरल्प इह प्रयोग: ।३७॥ शुद्धादिम: पञ्चम एव रागस्त्वंशानुरोधात्तदितोऽन्यदूह्यम् ।
- मध्यमग्रामः ॥२॥ - जात्या च गान्धारिकया च पञ्चम्यभिख्यया मध्यमया च जातः ॥३८॥ सकाकलीकोऽपि च मन्द्रषड्जग्रहांशकः स्यादिति मध्यमोऽन्त्यः । सौवीरिका मूर्छनिका समादि श्रितः प्रसन्नादिविभूषितश्च ।३९॥ वर्णेन युक्तोऽप्यवरोहिणासौ प्रयोजनीयः प्रथमे च संधौ। हास्ये च शुङ्गाररसे च गेयो श्रीष्मे दिनस्य प्रथमे तु यामे स्यान्मध्यमग्रामपदाभिधानो रागस्ततोऽन्यत्पुनरूहनीयम्।
षाडवः ॥६।- विकारिणी मध्यमिका तु जातिर्यत्कारणं षाडवनामकोऽसौ ।४१॥ न्यासोंऽशको मध्यम एव तस्य ग्रहस्तरस्तारकमध्यमः स्यात् । समन्वितश्चान्तरकाकलीभ्यां वर्णेन युक्तो ह्यवरोहिणा च ॥४२॥ सौवीरिका मूर्छनिकाऽस्य मादिस्तथा प्रसन्नान्तविभूषितोऽसौ । प्रयोजनीयः स तु पूर्वरङ्गे सहास्यशङ्गारविभावकश्च ॥ ४३ ॥ शुक्रस्यसंतोषसयं तनोति प्रगे प्रगेय: शुभरक्तिद: स्यात् ।
Page 125
भिन्नतान: १०५
-
शुद्धकैंशिक: ॥। ७।। अथोच्यते संप्रति शुद्धकैशिकाख्यस्य रागस्य च लक्ष्म सम्यक ॥४४॥ तारस्थपड्जोंऽश इह ग्रहश्च स्यान्मध्यमन्याससमन्वितोऽयम् । वर्णेन युक्तोऽप्यवरोहिणासौ पूर्णः प्रसन्नान्तविभूषितश्च ।। ४५ ॥ स्याच्छुद्धमध्याभिधमूर्छनश्च वीरे च रोद्रे च रसेऽद्भुते च। पूर्वाह्वकाले शिशिरर्तुभाजि प्रयोजनीय: कुजमोदह्देतु: ॥ ४६ ॥ गेयस्तथा निर्वहणे च संधौ शुद्धादिम: कैशिक एष रागः ।
-
पञ्च भिन्नरागाः - ॥ भिन्नकैशिकमध्यमः॥८॥ भिन्नादिमं कैशिकमध्यमे तु निरूपयाम: सह लक्षणेन षाड्ज्या तथा मध्यमया च जात: पडजो ग्रहोंडशोऽत्र समध्यमस्तु । न्यासोऽथ वा स्यादिह मन्द्रषड्जः संचारिवर्णन समन्वितोऽसी॥ ४८।। तथा प्रसन्नादिविभूषितश्च पूर्णे निषादोऽस्य तु काकली स्यात् । षड्जाद्यया मूर्छनयैष रागः समन्वितश्चोत्तरमन्द्रया स्यात् ।।४९।। स्याद्दानवीराद्भुतरौद्रयोग्यः सोमप्रियः प्रातरयं च गेयः ।
॥ भिन्नषड्जः ॥९॥ - निरूप्यते संप्रति भिन्नषड्जरागः पुनर्गायनबोधहेताः ।। ५० ॥ षड्जादिमोदीच्यवतीप्रसूतो विवर्जितश्चर्षभपत्रमाभ्याम् । सधैवतांशग्रहकश्च मध्यमान्तः प्रसन्नान्तविभूषितश्च संचारिवर्णोत्तरकाकलीमान्रागस्य हेतु: किल भरवस्य । चतुर्मुखप्रीतिकरस्तथैवोत्तरायतामूर्छनया समेतः । ५२ ॥
गेयः स वीभत्सभयानके च स्यात्सार्वभोमस्य महोत्सवे च । हेमन्तकाले प्रथमे च यामे दिनस्य गाने स तु रक्तिमान्स्यात् ॥५३॥
भिन्नतानः ॥ १०। - अथोच्यते लक्षणमत्र भिन्नतानाख्यरागस्य सुखावगत्यै। स्थान्मध्यमापञ्चमिकाख्यजात्योर्जातिस्तथा पञ्नमकग्रहांशः
Page 126
१०६ सङ्गीतसुधा अल्पो निषांदोऽस्य तु मध्यमश्च पूर्णः स्फुरत्काकलिको निषादः। संचारिवर्णोऽपि च मध्यमान्तस्तथा प्रसन्नादिविभूषितोऽसौ ॥५५॥ स्यात्पञ्जमाद्यस्य च मूर्छनेशप्रिय: प्रगेऽसौ करुणे च गेय: ।
-
भिन्नकैशिक: ॥११॥ - 0 भिन्नादिकं कैशिकमीरयामो राग प्रबोधाय कुशीलवानाम् ।५६ ॥ कर्मारवीतोऽपि च कैशिकीतो जातः स पड्जग्रहकस्तदंशः । स्यात्पञ्चमन्यासयुतः स पूर्ण: परिस्फुरत्काकलिको निषाद: ।५७॥ संचारिवर्णश्च स मन्द्रभूरिस्तथा प्रसन्नादिविभूषितश्च। तथैव षड्जादिममूर्छनोऽसौ स्याद्दानवीराद्भुतरौद्रगेय: गेयस्तथाह्नः प्रथमे च यामे शिवप्रियोऽयं शिशिरर्तुकाले।
-
भिन्नपञ्चमः ॥१२॥ - निरूप्यते संप्रति लक्षणेन भिन्नादिम: पञ्चम एष रागः ॥ ५९ ॥ स्यान्मध्यमापञ्चमिकाख्य जात्योर्जातिस्तथा धैवतकग्रहांशः । स पञ्चमन्यासयुतश्च पौरव्याख्या भवेदस्य तु मूर्छना च ॥६०॥ परिस्फुरत्काकलिको निषादः क्वचिन्निषादेन समन्वितश्च। तथा प्रसन्नान्तविभूषितश्च संचारिवर्णो रविसूनुरम्यः ॥६१॥ बीभत्ससंज्ञे च भयानके च स सूत्रधारागमने नियोज्यः । ग्रीष्मे दिनस्य प्रथमे च यामे गेयो वराठ्याश्च निदानमेष: ॥६२॥
-
त्रयो गौडाः ॥ गौडकैशिकमध्यमः ॥ १३॥ - गौडादिम कैशिकमध्यमं तत्त्रयोदशं संप्रति लक्षयामः । जातः स षडजादिममध्यमायाः षड्जग्रहापन्यसनांशकोऽसौ ॥६३ ॥ पूर्णस्तथा काकलिकासमेतः प्रसन्नमध्येन विभूषितश्च । आरोहिवर्णेन विभूषितश्च तथैव षड्जादिममूर्छनाढ्यः चन्द्रप्रियो वीरभयानकादौ गेयः स मध्ये प्रहरद्वयेऽह्रः ।
-
गौडपञ्चमः ॥१४॥ - वक्ष्यामि गौडादिमपञ्चमं च चतुर्दशं गायनबोधहेतोः । ६५ ॥
Page 127
वेसरपाडव: १०७
स्याद्धैवतीषड्जकमध्यमाभ्यां जातस्तथा धैवतकग्रहोंडशः । मन्यासक: पञ्चमवर्जितश्च युक्तस्तथैवान्तरकांकलीभ्याम् ॥६६॥ स धैवतादि: किल मूर्छनास्य प्रसन्नमध्येन विभूपितोऽसों। आरोहिवर्णो मदनार्कसूनुप्रियश् वीभत्सभयानकाख्ये :६७ ॥ स्याद्विप्रलम्भे च रसे नियोज्यो ग्रीष्मेह्ि वा मध्यमयामयुक्ते। तथोन्भ्टे नाठ्यविधौ च गेयो निरुपिता गोडिकपञ्जमोडयम् ॥६८ ।।
गौडकैशिकः ॥ १५ ॥ वक्ष्यामहे गौडककैशिकस्य लक्ष्माधुना पञ्चदशस्य सम्यक् । स कैशिकीपड्जकमध्यमाभ्यां जातो ग्रहोंऽशः स तु पड्ज एव ॥ ६९॥ सकाकलीकोऽपि च पञ्चमाख्यन्यासश्च पड्जादिममूर्छनाढ्यः । आरोहिवर्णेन युतः स पूर्णस्तथा प्रसन्नादिविभूपितश्च वीरे च रौद्रे करुणेऽद्भुने च रसे स गेयः शिशिरर्तुभाजः । दिनस्य मध्यप्रहरद्वये च चन्द्रावतंसस्य सदा प्रियोऽसो
-
अष्टौ वेसराः ॥ टक्करागः ॥ १६॥ - टक्काभिधं रागमुदीरयामः स धैवतीपड्जकमध्यमाभ्याम्। जातो भवेत्पड्ज इह ग्रहोंऽशो न्यासस्तु पूर्णोऽत्र तु पत्रमोऽल्पः। ७२॥ समन्वितश्चान्तरकाकलीभ्यां तथा प्रसन्नादिविभूपितश्च । संचारिमाना दिममूर्छ नायुग्रुद्रप्रियोऽह्वश्चरमे तु यामे ॥। ७३ ॥ वर्षासु वीराद्भुतरौद्रकेषु गेयः स गौडामिधरागहेतुः ।
-
वेसरपाडवः ॥ १७॥ - अथोच्यते वेसरषाडवस्य लक्ष्माधुना सप्तदशस्य सम्यक जातः स षड्जादिममध्यमायाः स्यान्मध्यमोंऽशो न्यसनं ग्रहोऽस्य । समन्वितः सोऽन्तरकाकलीभ्यां तथा प्रसन्नादिविभूषितश्च 11 5' 1 आरोहिवर्णः गरिपूर्ण एप स्यान्मव्यमाद्यापि च मूर्छनास्य। शान्ते च शृङ्गाररसे च हास्ये सायेऽस्य गानादुशनाभिनन्देत् ॥ ८६।
Page 128
१०८ सङ्गातसुधा
·- सौवीरः॥ १८॥ - सौवीररागस्य तु लक्ष्म वक्ष्ये जातः स षड्जादिममध्यमायाः। षड्जो ग्रहोंऽशो न्यसनं च तस्य गान्धारकोऽल्पः स तु काकलीयुक्॥ भवेच्च षड्जादिममूर्छनावांस्तथा प्रसन्नादिविभूषितश्च । वर्णेन युक्तस्त्ववरोहिणासौ तपस्विनां संयमिनां प्रवेशे तथा प्रवेशे गृहिणां च गेयः स वीररौद्राद्भुतशान्तयोग्यः । संतोषहेतुश्च शशाङ्कमौलेरगेयस्तथा पश्चिमयाम एषः ।। ७९ ॥
- बोट्टरागः |। १९।- वक्ष्यामि बोट्टाभिधरागलक्ष्म स पञ्चमीषड्जकमध्यमाजः । स पञ्चमोंऽशश्च भवेद्ग्रहश्च स मध्यमन्यासयुतश्च रागः ।1 ८0 ॥1
स्यादल्पगान्धारयुतश्च सोऽयं सकाकलीक: परिपूर्ण एष: । स्यात्पञ्चमाद्या खलु मूर्छना च तथा प्रसन्नान्त विभूषितश्च ॥८ १ ॥
आरोहिवर्णश्च शिवप्रियोऽसौ दिनस्य गेयश्चरमे च यामे। हास्ये च शङ्गाररसे च गेयस्तथोत्सवे चैव महीपतीनाम् ॥८२ ॥
-
मालवकैशिकः ॥ २०॥ - अथोच्यते मालवकैशिकस्य विंशस्य रागस्य च लक्ष्म सम्यक्। स कैशिकीजातिसमुद्दवः स्यात्षड्जग्रहांशन्यसनस्तथैव ॥८३॥ सकाकलीकोन्भवधैवतश्च षड्जादिका स्यादिह मूर्छना च। आरोहिवर्णेन युतः प्रसन्नमध्याभिधालङ्करणेन युक्त: ॥। ८४ ॥ पूर्णस्तथा वीररसेऽद्भुते च स्याद्विप्रलम्भे च रसे च रौद्रे। यामेऽन्तिमे शैशिरवासरस्य गेयस्त्वसौ केशवहर्ष हेतु: ॥ ८५ ॥
-
मालवपञ्चमः॥ २१॥ - अतः परं मालवपञ्चमस्य रागस्य लक्ष्म प्रतिपादयामः । स मध्यमापञ्मिकाख्य जातिद्वयेन जातोऽस्य तु पञ्चमोऽशः ॥८६॥ न्यासो ग्रहश्चास्य तु हृष्यकाख्या स्थान्मूर्छनारोहि विराजितोऽसौ । भवेत्प्रसन्नान्त विभूषितोऽल्पगान्धारकः काकलिकासमेतः
Page 129
॥। रघुनाथभूपविरचिता i
। सङ्गीतसुधा ॥
गेयकत्वसो कञ्चुकिन: प्रवेशे स्याहिप्रलम्भाव्यरस च होस्ये । तुर्येऽद्नि यामेऽपि च केतुहृद्यो निरुपिती मालवपच्मोडयम् ॥८८।
- टक्ककेशिक: ॥ २२॥ लक्ष्माद्य टक्कादिमकेशिकस्य द्वाविंशकस्य प्रतिपादयामः । स धैवतीसध्यमिकास्यजातिद्वयेन जानोऽस्य तुवैवर्नीडशः ॥८ ॥ न्यासा ग्रहश्ान्तर काकलीभ्यां युक्त प्रसन्नादिविभ्रवितश्च।
तथोन्गटेडसों नटने प्रयोज्यो गगस्वयं कञ्चुकिनः प्रवेशे । यामेऽ्द्वि तुर्येऽथ भयानकास्ये वीभत्सके मन्सथमन्मथेष्ः
हिन्दील: ॥ २३॥ - हिन्दोलरागस्य च लक्ष्म वक्ष्ये पाइज्या च गान्धारिकिया च जात्या। स्यान्मध्यमापञ्नमिकाह्वयेन जात्या च नैपादिकया न जानः ।०२।। पड्जग्रहोंडशो न्यसनं च तस्य हीनस्तर्थेवर्षभपच्चमाभ्याम्। असो प्रसन्ना दिविभृषितः स्यादारोहिवर्णः सहकाकलाक: स्थाच्छुद्धमध्या किल मूर्छनास्य वीर व रोद्रे च रसेदूभुते च। संभोगशुङ्गाररसे वसन्ते यामे चतुर्थ दिवलस्य गेय: 11 ° । प्रद्यु म्र सं तप विधानदक्षी वसन्तरस्य चव हतुभृत।
- सप् साधारणाः । रूपमाधारतः ॥ २४।- निरुष्य चाष्टवपि वेसराख्यान्माधारणान्सप निर्पयामः 18
Page 130
११० सङ्गीतसुधा॥
तं रूपसार्धारितनामधेयं राग पुरस्तादिह लक्षयामः । नैवादिकाषड्जकमध्यमास्यां जातोडस्य पड्जोंऽश इह ग्रहश्च ॥९६॥ स्यान्मध्यमान्त: सहकाकलीकस्तथायमल्पर्पमवैवतध्। वर्णेन युक्तस्त्ववराहिणासौ प्रसन्नमध्येन विभूपितश्र ।९७ ॥ पड्जादिका ह्यत्तरमन्द्रिकात स्यान्मूर्छना भास्करदेवताऽयम् । वीरे च रौद्रे करुणेऽद्भुते च प्रयोजनीयः सकलस्वरोऽयम् ॥९८॥
॥ शकः ॥ २५॥ - वक्ष्यास्यहं संप्रति पञ्चविशं शकाख्यराग सह लक्षणेन । पाड्ज्या तथा धैवतिकाख्यया च जातः स पड्जोडश इह ग्रहश्च॥ न्यास: स एवान्तरकाकलीभ्यां युक्तः स पड्जादिममूर्छनायुक। प्रसन्नमध्येन विभूपितोSसावारोहिवर्णेन युतश्च पूर्णः । १०० ॥ वीरे च हास्येSपि नियोजनीयो रुद्रप्रियो निर्वहणाख्यसन्धौ।
- ॥ भस्माणपञ्चमः ॥ २६॥ -
शंग च भम्माणकपञ्चमास्यं पड्विशमेतं प्रतिपादयाम: ॥ १०१ ॥ स्याच्छुद्धया मध्यमया तु पड्जन्यासग्रहांशी जनितः स रागः । न्यासोऽथ वा मध्यम एव तस्य स्यादल्पगान्धारयुतश्च पूर्णः ॥ १०२ ॥ षड्जाद्यया मूर्छनया समेतः प्रसन्नमध्येन विभूषितश्च। आरोहिवर्णः सहकाकलीक: स्थाद्वीररौद्राद्भुतयोग्य एपः ॥१०३॥ स्वार्थात्परिभ्रंशिककाननान्तभ्रान्ते नियोज्य: शिवतोषहेतुः ।
- । नर्तः ॥२७॥ -
नर्ताभिधं रागमथोऽभिधास्ये स मध्यमापञ्जमिकाप्रसूतः ॥ १०४ । दुर्गामते घैवतिकापि हेतुरंशग्रहौ पञ्चम एव तस्य । न्यासस्तथा मध्यम एव तस्य सज्जारिवर्ण सहकाकलीक: ।। १०५। प्रसन्नमध्येन विराजमान: स्यात्पञ्चमादि: खलु मूर्छनास्य । तथाल्पगान्धारयुतश्च सोडयं हास्ये च शङ्गाररसे नियोज्यः ॥१०६॥
Page 131
ककुभ: ॥ १११
स्यान्मण्डलं हुज्जटचारिकाढय यत्राहवे त निरयाज्य एंष:।
- ॥ गान्धारपञ्चमः॥ २८॥ -
वक्ष्यामि गान्धारकपच्चमास्यं राग च सम्यकसह लक्षणेन ।। १०७॥
गान्धारिकाजातिसमेतरक्तगान्धारि काजा तिसमुद्वांऽयम्। ॥ १०८ ॥
प्रसन्नमध्ेन विभूषितश्च सज्ञारिवर्ण: सहकाकलीकः । राहुप्रियोऽसौ करुणेऽद्भुते च हास्ये रसे स्याद्विनियोजनीयः ॥ १०९॥
- ॥ षड्जकैशिकः ॥२९॥- वक्ष्यामि षडजादिमकैशिकास्यं स्वात्कैशिकीजातिसमुन्नवाडयम्। पड्जांशकोसावृषमग्रहश्चास्याल्पर्पभो न्यालतया निषाद: ॥ ११०॥
गान्धारको वा गदितोऽथ षड्जगान्धारकौ मन्द्रगतावुताही। वर्णेन युक्तस्त्ववरोहिणासौं तथा प्रसन्नादिविभूषितश्र ॥। १११ । षड्जादया मूर्छनया समेतो वीरेSद्भुते रौद्ररसे च गेयः । प्रालेयशलेन्द्रसुतासखस्य वालेन्दुमौलेरमिनन्द का 5 स ॥ ११२ ॥
- ॥ ककुमः ॥ ३०॥ -
त्रिंशत्तमं तं ककुभं प्रवक्ष्ये स्यात्पञ्चमीघैवतिकाख्यजात्याः । स मध्यमायाश्च निज प्रजातस्तस्य ग्रहोंऽशोऽपि च घैवतः स्यात् ॥ न्यासं पुनः पञ्चममाहुरस्य स्याद्वैवतादया किल मूर्छनास्य। प्रसन्नमध्येन विभूषितः स्यादारोहिवर्णेन समन्विताडयम् । ११४ ।
शरद्यसो स्यात्करुणे च गेयो देवं व्रवन्त्यस्य च धर्मराजम्। भाषात्मिकायाश्च रगन्तिकाया निदानमेनं निगदन्ति सन्तः ॥११५॥ त्रिंशच् शुद्धादिमगीतियुक्तास्ते ग्रामरागाः सकला निरुक्ताः । ॥ इति त्रिशत् ग्रामरागाः ॥
Page 132
सङ्गीतसुधा॥
- अथ अष्टावुपरागाः॥ शकतिलकः ॥१॥ -
॥ ११६ ।
वक्ष्ये शकादि तिलकं पुरस्तात्स पाड्जिकाधैवतिकापसूतः। न्यासा ग्रहोंडशोऽस्य तु पड्ज एव स्वल्पा भवेत्पश्चम एप तस्मिन् ।।
॥ टक् सैन्धवः ॥ २ । -
टक्कादिमं सैन्धवमामनाम: पाड्ज्या च कैशिक्यभिधानवत्या। जात्या स जातः पुनरस्य पड्जी न्यासी ग्रहोंडशश्च स पञ्ञमोऽल्पः।।
- ॥। कोकिलापन्नमः ॥३॥ -
स्यात्कोकिलापञ्चममीरयामः स पञ्ममीमध्यमिकाप्रसूतः । स्यात्पञ्चमांशग्रह एप पूर्णा न्यास तथा मध्यममाहुरस्य ॥ ११९ ।
षड्जाह्वयग्रामगमध्यमाषेभिकासमुत्थ: किल रेवगुपः। स मध्यमान्तो ऋषभग्रहांशः प्रसन्नकाद्यन्तविभूषितश्च ॥ १२० ॥
मनीषिमिश्चोभ्ट रूपचारीकमण्डलादौ विनियुज्यतेऽसौ। रसेषु वीराद्भुतरौद्रकेषु गेयस्तथोमापतिवल्लमश्च ॥ १२१ ॥
।। पञ्चमपाडवः ॥५॥-
अथाच्यते पञ्ञमपाडवाख्यः स मध्यमग्रामसमुन्नवश्च। स्यादार्षभीघैव तिकाप्रसूतो न्यासो ग्रहोंऽशश्र तथर्षभः स्यात् ॥ १२२॥ स्थान्मध्यमन्यासयुतः कलोपनतान्वितः काकलिकासमेतः । आरोहिवर्णः सहितः प्रसन्नाद्यन्तेन शम्भोरपि मोदहेतु: ॥ १२३ ॥
वीरे च रौद्रे च रसेऽद्भुते च नायाश्च हास्ये विनियोजनीयः ।
Page 133
नट्टः ॥। ११३
- । भावनापञ्चमः ॥ ६॥-
तं भावनापञ्चममीरयामो गान्धारपञ्चम्युदिती भवेद्य: ॥ १२४ ॥ स पञ्चमोंऽशी भवति ग्रहस्तु गान्धारकश्चात्र समस्वरा: स्गुः।
- ।। नागगान्धार: ॥ ७।-
तं नागगान्धारकनामधेयं राग प्रवक्ष्ये रसिकानुभूत्ये ॥ १२५॥ गान्धारिकाजा तिसमेतरक्तगान्धारिका जातिसमुद्वां यः । गान्धारको न्यास इह ग्रहोंडशस्तथा युतश्रान्तरकाकलीव्याम् ॥१२६॥
- ॥ नागपञ्चमः॥८।
नागादिमं पञ्चममीरयामः स चार्षभीधैवतिकाप्रसूतः । अंशो ग्रहः स्यादृपभोऽस्य वर्ज्यो गान्धारकः किं चस घैवतान्त्यः ॥ अष्टोपरागा: कथिता: क्रमेण सलक्षण गायकवोधहेताः ।
॥ इत्यष्रावुपरागाः ॥
॥ अथ शुद्धरागाः ॥ श्रीरायः ॥ १ ॥ शुद्धानथो विंशतिमामनामो रागानिदानी भरतादिमोक्तान् ॥ १२८॥ श्रीरागमादौ कथयामि पड्जग्रामे तु पाड्ज्याह्वय जातिजन्यम् । न्यासो ग्रहोंऽशोऽस्य च पड्ज एव स्वल्पस्तथा पत्चमकः स पूर्णः ॥ स्यान्मध्यमस्तार इहाथ मन्द्रा गान्धारकाऽन्ये तु समस्वराः स्युः । वीरे रसेऽसौ विनियोजनीयो लक्ष्मीप्रदः सर्वजनप्रसिद्ध: ।। १३० ॥
- ॥नह्ः॥ २॥- अथोच्यते नटसमाख्यरागः स मध्यमादीच्यवतीप्रसूतः । न्यासो ग्रहोंडशोऽपि च मध्यमोऽस्य संपूर्ण एवैप समस्वरश्च ॥१३१॥
Page 134
११४ सङ्गातसुधा॥
॥ वङ्गाल: (१)॥३॥ - वङ्गालरागं कथयामि पडजग्रामे तु पड्जादिममध्यमाजम्। न्यासा ग्रहोंडशोऽस्य स पड्ज एव शुद्धस्वराः स्यु: सच मन्द्रहीन:॥
। वङ्गालः (२)॥ ४।। - द्वितीयबङ्गालमथ प्रवक्ष्ये समध्यमग्रामगकैशिकीजः । न्यासा ग्रहोंडशोडस्य च पडज एव स तारमध्यस्थितपत्रमाठ्यः।। १२३ अन्ये भवन्त्यत्र समाः स्वरास्ते स एप संपूर्णतया प्रतीतः ।
- । भासः॥५॥-
संलक्ष्यते संप्रति भासरागी राणेषु शुद्धेधु व पञ्चमो यः ॥ १३४ ॥ आन्ध्रीसमुद्भूततया प्रतीता न्यासो ग्रहोंडशोऽपि च धैवतोऽस्य ।
- ॥। मध्यमपाडवः ॥६॥ -
संलक्ष्यते मध्यमपाडवाख्यस्तस्यर्पभोंऽशः किल पञ्चमोडल्प: । १३५।। सधवताऽपन्यसनस्तथाल्पः स्यात्पञ्चमो वीररसादियोग्यः ।
- ॥। रक्तहंसः॥॥ -
संलक्ष्यते संप्रति रक्तहंसः स रक्तगान्धारिकया प्रसूतः ॥ १३६ । न्यासा ग्रहोंऽशोऽपि च धैवतोऽस्य स तारगान्धारयुता रिवर्ज्यः ।
- ॥ कोलहासः॥८-
वक्ष्यामहे संप्रति कोलहासं पाड्ज्या च गान्धारिकया च जात्या ॥ नैषादिकामध्यमिकाख्यजातिद्यीयुजा मध्यमया च जात:। न्यासो ग्रहोंशोऽस्य तु षड्ज एव भवेत्तथाल्पर्षभधैयतोऽसो ॥ १३८॥
Page 135
कामोदः ॥ ११५
॥ प्रसवः ॥ ९॥ निरूपयाम: प्रसवाख्यराग स नन्दयन्तीजनिता ग्रहोंऽशः । स्यान्मध्यमा न्यासतया प्रतीतः पड्जो निषादेन च धैवतेन ॥।१३९। स्यान्मध्यमेनाप्यधिक: स पूर्णो वीरे रसेऽसौ विनियुज्यते च।
-- ॥ भैरवः ॥ १० ॥ वक्ष्यामहे भैरवनामराग न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्य ॥ १४० ॥ आषड्जगान्धारमसो तु मन्द्रतारो भवेक्किं च समस्वरश्च ।
॥ ध्वनिः ॥ ११॥ - निरूष्यतेऽसौ ध्वनिनामधेयो गान्धारपन्नस्युदितः स पूर्णः ॥१४१॥ न्यासो ग्रहोंडशोऽपि च पञ्चमोडस्य तथाधिकौ पञ्मचैवतौ द्ो। अल्पौ तु गान्धारनिपादको द्वो तथा भवेन्मन्द्रगमध्यमश्च ।।१४२।।
-
॥ मेघः ॥१२॥ - मेघाभिधं रागमथाभिधास्ये पड्जे त्वसौ धैवतिकाप्रसूतिः । न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्य समस्वरस्तारगपड्जकोऽसो॥ मन्द्रेण हीन: कथितो मुनीन्द्रैः स्याद्द्वादशोऽयं किल मेघरागः ।
-
॥। सोमः ॥१३॥ - सोमाभिधं रागमथाभिधास्ये पड्जे हि पाड्ज्या जनितः स जात्याः ॥। न्यासो ग्रहोंऽशोऽपि च पड्ज एव बह तु गान्धारनिपादको दौ। स्यात्तारमध्यस्थितमध्यमोडयं वीरे रसेऽसौ विनियोजनीयः ॥ १४५॥
॥ कामोद: (१)॥ १४॥ कामोदलक्ष्म प्रतिपादयाम: पड्जे तु पड्जादिममव्यमात्थम्। न्यासो ग्रहः षड्ज इह प्रतीतः स्याद्गैवतोंऽशश्च समस्वरोऽयम्॥ १४६ गान्धारकस्तस्य तु तारमन्द्रश्चतुर्दशोऽयं कथितो मुनीन्द्रैः।
Page 136
११६ सङ्गीतसुधा॥
- ॥ कामोदः (२)॥ १५। - द्वितीयकामोदमथाभिधास्ये पड्जे तु पाड्ज्या जनितः स जात्याः । पड्जग्रहांशन्यसनश्च मन्द्रगान्धारकाव्यश्र समस्वरश्च।
॥ आस्रपन्नमः ॥ १६॥ वक्ष्ये तमाम्रादिमपञ्चमाख्यं स्यान्मन्द्रमध्यस्वरसंभवोऽयम् ।१४८॥। गान्धारको न्यास इह ग्रहांSशस्तारस्थगान्धारनिषाद्युक्त: । गान्धारको मध्यगतीऽथ वा स्यान्त्वेन्निषादस्त्वह मन्द्रहीनः १४९॥
-
॥। कन्दपः॥ १७।। - कन्दर्पनामानसर्थोऽभिधास्ये राग स पड्जादिमकैशिकीज: । न्यासो ग्रहोंडशोऽपि च पड्ज एव स्यान्मन्द्रषड्जोऽपि च पञ्चमोनः।
-
॥ देशः ॥ १८॥- देशाख्यरागं कथयामि सम्यक्स घैवतीमध्यसयोः प्रसूतः । न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्य गान्धारक: स्वल्प इह प्रतीतः ॥ स एव मन्द्रस्थितमध्यमश्च स्यात्पञ्चमेनापि विहीन एप: ।
-
॥ कैशिकककुभः ॥ १९॥ - तं कैशिकादिं ककुभं प्रवक्ष्ये स मध्यमापञ्जमिकाप्रसूतः ॥ १५२ ॥ दुगमते धैवतिकापि हेतुन्यासो ग्रहोंडशोऽपि च धैवतोऽस्य। तारस्थगान्धारयुतश्च मन्द्रस्थानस्थितः पञ्चमकस्तथा स्यात्॥१५३॥
-
॥ नट्टनारायण: ॥ २।। नट्टादिनारायणलक्ष्म वक्ष्ये स मध्यमापञ्ञमिकाप्रसूतः। न्यासो ग्रहोंडशोऽस्य च पड्ज एव पूर्णो युतश्चान्तरकाकलीभ्याम्॥ तारस्थगान्धारयुतः स कालप्रिय: सगेय: करुणे रसे च। स्याद्ानकाल: शरदस्य सम्यगितीरिता विंशतिरत्र रागाः ॥१५५॥ ॥। इति विंशतिः शुद्धरागाः॥
Page 137
॥ रघुनाथभूपविरचिता । ॥ सङ्गीतसुधा ॥
- ॥ अथ भाषारागा: ॥ -
निरूपयामो निपुर्ण तु भाषारागानिदानी नवति च पट् च। येषां तु सौवीरमुखाः पुरोक्तास्ते हेतव: पञ्चदशैव रागाः ॥ १५६ ।।
अथ सौवीर-जन्य-भाषारागाः-४॥ - सौवीरजातांश्चतुरोSत्र भाषारागानिदानीं निपुण वदामः ।
-सौवीरी॥१॥ - सौवीर्य भिख्या प्रथमात्र मूलभाषासु रागस्य भवेत्त पड्जः ॥ १५७॥ न्यासो ग्रहो मध्यमको बहु स्यात्तौ संगतौ पड्जकधैवतौ द्वौ। स्यातां तथैवर्षभधैवतौ च सांगत्यभाजाविति वेदितव्यम् ।। १५८।।
-
।। वेगमध्यमा ॥२॥ - वक्ष्यामि वेगादिममध्यमाख्यां न्यासो ग्रहश्चास्य तु पड्ज एव। स्यान्मध्यमोंऽशोऽपि च मध्यमाढ्य: पूर्णश्च पड्जर्षभसंगतिस्पृक ।
-
। साधारिता ॥ ३। - साधारिताख्यां कथयामि भाषां पड्जग्रहांशोSपि च मध्यमान्ताम् । तौ संगतौ मध्यमधैवतौ द्वौ युक्तौ तथा धैवतपड्जकौ च ॥ १६० ॥ गान्धारषड्जावपि योगभाजौ स एष राग: सकलस्वरः स्यात् ।
19
Page 138
११८ सङ्गीतसुधा॥
-
।। गान्धारी ।।४।- गान्धार्यभिख्यां कथयामि भाषामंशो ग्रहोऽस्यास्तु निषाद एव ।१६१।। न्यासस्तु षड्ज: सकलस्वरोऽसौ रसे नियोज्या करुणाभिधाने।
-
॥ अथ ककुभजन्य-भाषारागाः ॥६॥ - संलक्षयाम: ककुभप्रभूतभाषास्ततः षट्सह लक्षणेन ॥ १६२ ।।
-
॥। भिन्नपञ्चमी ॥ १॥ प्राग्भिन्नपञ्चम्यभिधां प्रवक्ष्ये न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्याः । गान्धारहीना बहुलै: स्वरैस्तु परैर्युता मन्द्रकधैवता च । १६३ ।। पदप्रयोगेऽपि च मध्यमापन्यासा तथा सा खलु षाडवा स्यात्।
-
॥ काम्बोजी ॥ २ ॥ - काम्वोजिकाख्यां कथयेऽथ भाषां न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्याम्॥ संवादिनौ धैवतषड्जकौ द्वौ स्यातां तथवर्षभपञ्चमौ च।
॥ मध्यमग्रामा ॥३॥- वक्ष्यामहे संप्रति मध्यमादिग्रामाभिधेयां सह लक्षणेन ॥ १६५ ॥ न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्या युक्तौ तथैवर्षभधैवतौ हौ। सा मध्यमग्रामसमुन्भवा संकीर्णा च पूर्णा भरतोपदिष्टा ॥ १६६ ॥
॥ रगन्ती ॥४॥ - अथो रगन्तीं कथयामि भाषां न्यासो ग्रहोंडशोSत्र तु षड्ज एव। सा धैवताख्यस्फुरितैरुपेता पन्यासतां याति च पञ्चमोऽन् ॥१६७॥ तथेयमातारकमध्यमा स्यादित्थं चतुर्थी गदिता तु भाषा।
Page 139
वेरक्षिका। ११९
-
|। मधुरी॥- संलक्ष्यतेऽथो मधुरी तु भाषा स्यात्पञ्नमांशापि च धैतान्ता।। युतौ तु गान्धारकपञ्रमौ द्वौ युक्तो निपादोऽपि च धैवतो द्ौ।
-
॥ शक मिश्रा ॥ ६ ॥ - भापां वदामः शकमिश्रकाख्यामंशो निपादोऽत्र भवेद् ग्रहश्च ॥ १६९ ।। न्यासश्च तस्या ऋपभो निषाद: संगच्छते तत्र तु पञ्रमेन। तथर्षभो धैवतसंगतः स्यादितीरिता पट् ककुमस्य भाषाः
-
।। अथ टक्कजन्यभापारागाः॥७॥- अतः परं टक्कभवाश्च भापास्त्वेकाधिकां विंशतिमीरयामः ।
-
॥। त्रवणा॥१॥ - तत्रापि वक्ष्ये त्रवणां तु भाषां न्यासग्रहांशाः पुनरत्र पडजः ॥१७१॥ तारस्थगान्धारकमध्यमा सा मन्द्रस्थपड्जा त्वृपभाधिका च। निषादषड्जस्वरधैवताढ्या वीरे च गेया गिरिशाय सायम् ॥ १७२॥
-
। त्रवणान्भवा ॥ २। - भाषां प्रवक्ष्ये त्रवणोन्भवाख्यां पड्जान्तिमा स्यात्खलु मध्यमांशा। गान्धारकापन्यसनाधिको द्वो तत्रर्पभो धैवतकस्वरश्च ॥ १७३ ॥
सा षाडवा पञ्चमवर्जनेन स्पर्धासु गेया खलु सा सदैव।
- ।। वेरख्षिका ॥ ३॥ वेरक्षिकाख्यामथ वर्णयामो न्यासो ग्रहोंऽशः पुनरत्न पड्जः ॥ १७४॥ षड्जोऽत्र युक्त: खलु मध्यमेन गान्धारकेनाप्यृपभः समेतः। विवर्जिता येन हि पञ्चमेन तस्मादियं पाडवतामुपेता ॥ १७५ ॥
Page 140
१२० सङ्गीतसुधा ॥
-
॥ मध्यमग्रामदेहा॥४॥ - तां मध्यमग्रामपदादिदेहां भाषां प्रवक्ष्येSत्र च मध्यमोंऽशः । ग्रहश्च पड्ज: पुनरन्तिमः स्यादक्तोऽत्र पड्जः किल मध्यमेन ॥ १७६॥
-
| मालववेसरी ॥५॥ - वक्ष्यामहे मालववेसरीं तामंशो निषादोSत्र भवेद्ग्रहश्च। न्यासश्च षड्जोऽपि च पञ्चमोडल्पो गान्धारषड्जाविह संघटेते॥ १७८ षड्जो मिलेदत्र च मध्यमेन मूलाख्यया किं च निगद्यतेऽसौ।
-
॥ छेवाटी ॥ ६ ॥ - छेवाटिकां संप्रति लक्षयामो न्यासो ग्रहोंऽशः पुनरत्र षडुजः ॥ १७९॥ निषादगान्धारकसंगतात् षड्जश्च संगच्छति मध्यमं च। सा मध्यमेनोज्जवलतामुपैति पूर्णा च मूलेति च गीयतेऽसौ॥
-
॥ सैन्धवी॥७॥ - निरूपयाम: किल सैन्धवीं तां न्यासो ग्रहोंSशोऽपिच तत्र षडजः। वर्ज्यौं तथैवर्षभपञ्रमौ द्वौ लङ््यस्वरैस्तैर्गमकैश्च सान्द्रा ॥ १८१॥ तारस्थगान्धारकमध्यमा च मन्द्रस्थपड्जा सकले रसे स्यात्।
-
॥ कोलाहला ॥ ८ ॥ कोलाहलाख्यां निगदामि भाषां षड्जग्रहोंSशोऽप्यथ पञ्ञमश्च॥ मन्द्रस्थषड्जर्षभशोभमाना सा मध्यमाढ्या गमकान्विता च।
-
॥ पञ्चमलक्षिता॥९।- लक्ष्मोच्यते पञ्चमलक्षिताया: षड्जग्रहोंऽशोऽपि च पञ्चमान्ता ॥ १८३ तारेण षड्जेन च मध्यमेन गान्धारकेनाप्यथ पञ्चमेन। संलक्षिता स्यादृषभेण हीना संलक्षिता पञ्चमलक्षितेयम् ।।१८४ ।
Page 141
तानवलिता॥ १२१
- ॥ सौराष्टििका ॥ १० ॥ सौराष्टिकां संप्रति लक्षयामो न्यासो ग्रहोंऽश: पुनरत्र षड्जः। तारस्थषडजर्षभसंयुतेयं मन्द्रस्फुरन्मध्यमभूषिता च ॥१८५ ॥ निष्पञ्चमा सा बलवन्निषादा रसे च गेया करुणाभिधाने।
।। पञ्चमी ॥ ११॥ - प्रपञ्च्यते संप्रति पञ्चमीयमंशो ग्रहो द्वावपि पञ्चमोऽस्या: । १८६। षड्जोऽन्तिम: पञ्चमसंयुतः स्यात्पड्जो युतौ चर्षभपञ्मौ दौ।
वेगरश्ी॥ १२॥ -
तां वेगरक्षीं प्रतिपादयामो न्यासग्रहांशा: पुनरत्र षड्जः ।। १८४ ॥ अपञ्चमा मन्द्रनिषादयुक्ता गान्धारषड्जर्षभवन्निषादः। भवत्यनल्पो वनिताजनस्य गाने च सेयं विनियोजनीया ॥१८५ ॥
- ॥ गान्धारपञ्चमी॥१३॥ -
गान्धारपञ्चम्यभिधां प्रवक्ष्ये षड्जान्तिमा धैवतकग्रहांशा। षडजोSत्र संगच्छति मध्यमान्तं भूयिष्ठगान्धारयुता च पूर्णा ।। १८६।।
-
॥ मालवी ॥ १४॥ - वक्ष्यामहे मालविकाख्यभाषां न्यासांशकौ पञ्चमधैवतौ हौ। तौ संगतौ द्वावपि चान्तिमांशावस्यां भवेतामृषभश्च वर्ज्यः ॥१८७॥ गान्धारके मध्यमके च षड्जे तारस्थिते कस्पितमश्नुते सा।
-
तानवलिता॥१२॥ - तानादिमां तां वलितां प्रवक्ष्ये षड्जान्तिमा मध्यमकग्रहांशा ॥ १९०।। षड्जो भवेद्या मृदुलालिता च सा पञ्चमे टक्कभवा च भाषा।
Page 142
१२२ सङ्गीतसुधा॥
॥ ललिता ॥ १६। - संलक्षयामो ललिताख्यभाषां न्यासो ग्रहोंऽशः पुनरत्न षड्जः ॥ १९१॥ विवर्जिता चर्षभपञ्चमाभ्यां तारस्थगान्धारकधैवता सा। मन्द्रस्थषड्जा ललितैः स्वरैश्च युतोत्कटैरुत्सववीरयोग्या ।।१९२।।
- ॥ रविचन्द्रिका ॥ १७॥ - भाषां प्रवक्ष्ये रविचन्द्रिकाख्यां न्यासग्रहांशत्रयरूपपड्जा। टक्कोन्भवाल्पर्षभपञ्चमा च गान्धारकः स्यादषभेण युक्ता ॥ १९३ ॥ षड्जस्तथा मध्यमसंयुतश्च संकीर्णरागाद्मकान्वितासौ।
॥। ताना ॥ १८। तानाभिधानां प्रवदामि भाषां न्यासो ग्रहोंऽशः पुनरत्र षड्जः॥ १९४॥ विवर्जितैषर्षभपञ्चमाभ्यां तथैव मन्द्रस्थनिषाद्षड्जा। षड्जे निषादे गमकान्विता च पन्यासयुक्तापि च धैवतेन ।। १९५। प्रयोजनीया करुणाभिधाने रसे किलैषेत्युदिता मुनीन्द्रैः।
-
अम्बाहेरिका ॥ १॥ - वक्ष्यामहेंSम्बादिमहेरिकाख्यां षड्जान्तिमा मध्यमकग्रहांशा। भूयिष्ठगान्धारकधैवता सा समस्वरा पञ्चमिकोच्छिता च ॥ १९६ ।
-
॥ देशा॥ २०॥ - देशाभिधा वीररसे च गेया चैकोनविंशी किल टक्कभाषा। वक्ष्यामि देशामथ टक्कभाषां गान्धारकोऽस्यां च भवेद् ग्रहोंऽशः ॥ न्यासस्तु षड्जस्वर एव तस्यां वर्ज्यौं तथैवर्षभपञ्चमौ दौ।
॥ वेसरिका ॥ २१॥ वक्ष्यामहे वेसरिकाख्यभाषां न्यासो ग्रहोंऽशोऽत्र तु षड्ज एव।। १९८। अपञ्जमा काकलिकासमेता ससंगता धैवतषड्जयोः स्थात्।
Page 143
गुर्जरी॥ १२३
युक्तो निषादेन च धैवतोऽस्या वीरे रसे सा विनियोजनीया ॥१९९॥ एकाधिका विंशतिरत्र सम्यगितीरिता टक्कभवांस्तु भाषाः।
॥ अथ पञ्चमभाषारागाः।१०॥ - ॥ कैशिकी॥१॥ - प्रपञ्चये पञ्चमरागजातान्भाषाविशेषान् दशधा विभिन्नान्।२०० । तत्रोच्यते संप्रति कैशिकीयं न्यासो ग्रहोंऽशोऽपि च पञ्चमोऽस्याः। तारस्थषड्जोऽपि च मध्यमापन्यासाधिका मध्यमधैवताभ्याम्॥२०१ तारस्थगान्धारकमध्यमा च तथेयमीर्ष्यासु नियोजनीया। भाषाङ्गतामेव वदन्ति केचिदितीरिता पञ्चमिकीयमाद्या ॥। २०२ ॥
-
॥। त्रावणिका ॥२॥ - वक्ष्यामहे त्रावणिकाख्यभाषां षड्जग्रहांशामपि पञ्चमान्ताम्। निषादगान्धारयुताधिकास्ते षड्जर्षभौ पञ्चममध्यमौ च ॥।१०३।
-
।। तानोनवा॥३॥ - तानोद्भवां संप्रति लक्षयामः सा मध्यमांशापि च पञ्चमान्ता। अल्पर्षभा चाधिकपञ्चमा च सांगत्यभाग्धैवतमध्यमा च ॥ २०४ ॥
-
॥ आभीरिका ॥४॥ - आभीरिकाख्यामथ वर्णयामो न्यासो ग्रहोंऽशोऽपि च पञ्चमोऽस्याम् । भूयो निषादा त्वपि काकलीका गेया रणे मध्यमषड्जयुक्ता ॥२०५॥
-
। गुर्जेरी॥५॥ अथोच्यते संप्रति गुर्जरीयं न्यासो ग्रहोंऽशोऽपि च पञ्चमोऽस्याः। उच्चोऽत्र षडुजोऽपि च मध्यमोऽपन्यासौ तु गान्धारकधैवतौ दौ॥
Page 144
१२४ सङ्गीतसुधा॥
.- ॥ सैन्धवी ॥ ६॥ - भाषामथो सैन्धविकां प्रवक्ष्ये न्यासो ग्रहोंऽशोऽपि च पञ्चमोऽस्याम्। प्राज्यर्षभा चर्षभपञ्चमापन्यासा च तारस्थितपञ्चमा च । २०७॥ निषादहीनैर्गमकाभिरामै: स्वरैरुपेता समरे च गेया।
-
॥ दाक्षिणात्या ॥ ७॥ वक्ष्यामहे संप्रति दाक्षिणात्यां न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्याः॥ तारो निषादोऽत्र तु मध्यमेन स्यात्पञ्चमेनापि च धैवतेन। भवेदपन्यास इहर्षभस्तु प्रियास्मृतौ सा विनियोजनीया । २०८॥
-
। आन्ध्री॥ ८॥ - भाषामथान्ध्रीमधुनाभिधास्ये सा पञ्चमान्ता ऋषभग्रहा च। सकाकली दुर्बलषड्जयुक्ता भवेदियं किनरवल्लभा च । २०९ ॥
-
। माङ्गली ॥ ९ ॥ भाषामथो माङ्गलिकां प्रवक्ष्ये न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्याः। सकाकली धैवतपड्जयुक्ता तथर्षभः पञ्ञमसंगतोऽस्याम् ॥।२१०।
-
॥ भावनी ॥१०॥ - वक्ष्यामहे संप्रति भावनीं तां न्यासो ग्रहोंऽशोऽपि च पञ्चमोऽस्याः। षड्जर्षभेयं खलु मन्द्रपड्जापन्यासयुक्ताधिकमध्यमा च ॥२११॥ षड्जो निषादश्च तथाधिको द्वावस्यां भवेतामिति वेदितव्यम्।
॥ इतीरिताः पञ्चमरागभाषा दशापि बोधाय कुशीलवानाम्॥
- ॥ अथ भिन्नपञ्चम-जन्यभाषारागाः॥ - अथोच्यतेऽस्यापि च भिन्नपञ्चमोद्भूतिभाजः कथयामि भाषाः॥ २१२।
Page 145
भिन्नवलिता॥ १२५
-- ॥ धैवतभूषिता॥१॥ - तत्रोच्यते धैवतभूषितेयं न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्याः। षड्जं तु संगच्छति धैवतोऽस्यां युक्तौ तथैवर्षभघैवतौ द्वौ ।। २१३॥
- ॥ शुद्धभिन्ना॥२॥ - वक्ष्यामहे संप्रति शुद्धभिन्नां न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्याः। संवादिनौ चर्षभधैवतौ द्वौ षड्जं तु संगच्छति मध्यमोऽस्याम्॥
॥ वराटी॥ ३॥ - अथो वराटीं प्रतिपादयामः सा मध्यमांशापि च धैवतान्ता। अल्पर्षभा धैवतषड्जयुक्ता गान्धारक: स्यादृपभेण युक्त: । २१५ ॥ सा भूयसी मध्यमधैवताभ्यामितीरितं याष्टिकदत्तिलादयैः ।
-
॥ विशाला ॥४॥ - अतो विशालामधुनाभिधास्ये सा पञ्चमांशापि च धैवतान्ता ॥२१६।। विभूषिता धैतवकेन किं च संचारभाग्घैवतषड्जका स्यात्।
-
अथ टक्ककैशिक-जन्यभाषारागाः ॥२॥ - । मालवा ॥ १ ॥ वक्ष्यामि टक्कादिमकैशिकस्य भाषाद्वयं तत्न तुनालवेयम् ॥ ११७ ॥ न्यासग्रहांशाधिकधैवता संचारस्ततो वैवतषरजयोः स्यात्। संचारिणी चर्षभघैवताख्यस्वरद्वये सा सकलस्वरो च ॥ २१८॥
-
| भिन्नवलिता॥२॥ भिन्नादिमां तां वलितां प्रवक्ष्ये पड्जग्रहांशापि च धैवतान्ता। प्राज्यो निषादोऽपि च धैवतोऽस्यां युक्तो निषादेन च मध्यमः स्यात् ॥
20
Page 146
१२६ सङ्गीतसुधा ॥
॥ अथ हिन्दोल-जन्य-भाषारागाः । ९ ॥ - - !! वेसरिका ॥ १ ॥ - हिन्दीलभापाश्च नवाथ वक्ष्ये तत्नादिमा वेसरिकाभिधाना। न्यासो ग्रहोंडशोऽपि च तत्र पड्जस्त्वल्पौ तथा धैवतपञ्चमौ दौ। गान्धारपड्जाविह संघटते तथा निषादर्षभसंगतिः स्यात्।
-
। चूतमख्ञरी॥२॥ तां चतमअ्जर्यभिधां तु वक्ष्यास्यंशो ग्रहः पञ्चम एव तस्याः ॥२२१॥ न्यासस्तु पड्जस्त्वृषभेण हीना संचारिणी पञ्चमषड्जयोः स्यात्। निपादगान्धारकसंगतिः स्याद्विन्दोलभाषा कथिता द्वितीया॥ २२२॥
-
॥ पड्जमध्यमा॥३॥ - वक्ष्यामि पड्जादिम मध्यमां तां न्यासांशकावत्र तु मध्यमः स्यात्। पड्जो ग्रहो मध्यमपड्जकौ द्वौ युक्तौ च गान्धारकमध्यमौ द्वौ॥२२३॥ हीना निपादेन तथर्पभेण हिन्दोलभाषा कथिता ततीया।
-
| मधुरी॥४॥ - अथाभिधास्ये भधुरीं च भाषां न्यासोऽत्र षड्जोऽपि च मध्यमोंऽशः॥ पड्जो निपादोऽपि च धैवत्च सपञ्चमोडमी ह्यधिका भवन्ति। अल्पर्पभा प्रेक्षणके नियोज्या हिन्दोलभाषा मधुरी तुरीया ।।२२५।।
-
। भिन्नपौराली ॥५॥ - तां भिन्नपौराल्यभिधां प्रवक्ष्ये न्यासोऽन्र षड्जः सतु मध्यमोंडशः।
-
॥ गौडी ॥ ६॥ - हिन्दोलभाषां कथयामि गोडीं न्यासग्रहांशाः पुनरत्र षड्जः ॥ २२६॥
Page 147
वाङ्गाली॥ १२७
विवर्जिता चर्षभधैवताभ्यां मन्द्रस्थषड्जोऽपि न पञ्चमे तु। भिन्नाभिधावद्मकेन युक्ता नियोजनीया प्रियभाषणे सा ॥ २२७ ॥
- | मालववेसरी॥७॥ - अथोच्यते मालववेसरीयं न्यासो ग्रहोंडशः चुनरत्र पड्जः। गान्धारकापन्यसनर्षभेण विवर्जिता घैवतकेन च स्यात् ॥ २२८।। स्यान्मध्यमे पञ्चमकस्वरे च समन्विता स्याद्रमकेन सस्यक।
॥ छेवाटी ॥८। - छेवाटिकां संप्रति संप्रवक्ष्ये न्यासग्रहांशा पुनरत्र षड्जः ॥२२९॥ गान्धारकापन्यसना विहीना तथर्षभेणाधिकघैवता सा। गान्धारषड्जस्वरमध्यमास्तु मन्द्रस्थिता एव भवन्ति तस्याम्॥२३०।।
-
॥ पिञ्जरी॥९। - प्रवक्ष्यते संप्रति पिश्जरी सा गान्धारकोंऽश: कथितो ग्रहश्च। न्यासस्तु षड्जोऽपि युतो निषादो हिन्दोलभाषा: कथिता नवैवम।।
-
| अथ बोट्ट-जन्य-भाषारागः ॥ १॥ -
-
।। माङ्गली॥१॥ तां माङ्गलीं बोटटमवां प्रवक्ष्ये सा पञ्चमांशापि च मध्यमान्ता। तथर्षभे धैवतके च सेय संचारभागुज्ज्लमध्यमा च ॥ २३२ ।। गेया च सर्वेष्यपि मङ्गलेषु चैकैव बोहृग्रभवेति वेद्या।
-
। अथ मालवकैशिक जन्यभाषारागाः ॥१३ ॥ - ।। वाङ्गाली॥ १॥
वक्ष्यामहे मालवकैशिकस्य त्रयोदशापि क्रमशोऽय भाषाः ॥२३३ ॥
Page 148
१२८ सङ्गीतसुधा॥
वाङ्गाल्यभिख्यां प्रथमं वदाम: षड्जान्तिमो मध्यमकग्रहांशः । संवादिनौ द्वावृषभो निषाद: पूर्णा भवेदुज्जलमध्यमा च ।। २३४ ॥
-
।। माङगली॥२॥ - माङ्गल्यभिख्यां कथयामि भाषां न्यासग्रहांशा: पुनरत्र षड्जः । सा पञ्ञमाल्पस्कुरिता तु तारस्थितर्षभा तारगमध्यमा च ।। २३५ । दीर्घा भवेद्दैवतिका निरुक्तासा माङगली मालवकैशिकोत्था।
-
॥ हर्षपुरी ॥ ३ ॥ -
अथोच्यते हर्षपुरी तु भाषा न्यासग्रहांशाः किल पञ्चमोऽस्याः॥२३६।। तारस्फुरन्मध्यमपञ्चमा सा मन्द्रस्थषड्जा युतधैवता च।
- ॥ मालववेसरी॥४॥ -
वक्ष्यामहे मालववेसरों तां न्यासग्रहांशा: पुनरत्र षडज: ॥ २३७ ॥
तारर्षभा मन्द्रगपत्रमा च कम्प्रस्फुरन्मध्यमपञ्चमा च। स्याद्वैवतेनापि विवर्जिता सा निरूपिता मालववेसरीत्थम् ।।२३८।
1 ॥ मञ्जरी ॥ ५॥ -
तां मश्जरों संप्रति वर्णयामस्तस्या ग्रहोंऽशोऽपि च पञ्चमः स्यात्। न्यासस्तु पडजोऽत्र निषादषड्जौ युक्तौ तथैवर्षभमध्यमौ दौ॥ २३९॥
- | गुर्जरी॥६॥ - तां गुर्जरीं संप्रति लक्षयामो न्यासस्तु षड्जोऽत् निषादकोंडशः । युक्तो निषादस्त्वृषभेण तद्वत्समध्यमध्याद्दषभेण युक्त: ।। २४० ॥
Page 149
आभीरी॥ १२९
।गौडी॥ ७॥ गौडीं वदामोऽत तु षड्ज एव न्यासो ग्रहोंऽशीऽप्यधिको निषादः। मन्द्रस्थितोऽल्पो भवतीह षडजः प्रोक्तो मतङ्गप्रमुखैः किलेयम्॥२४१॥
- |। पौराली ॥८॥ - पौरालिकाख्यां प्रतिपादयामो न्यासग्रहांशा: पुनरत्र षड्जः । तत्राधिकौ मध्यमषड्जकौ संकीणी च पूर्णी कथिता मुनीन्द्रैः।। २४२॥
। अर्धवेसरी ॥ ९॥- तामर्धवेसर्यभिधां प्रवक्ष्ये न्यासोSत्र षड्जः सतु मध्यमोंडशः। षडूजोऽधिक: स्यादिह मध्यमश्च भवेदिहाल्पोऽपि निषाद एषः ।।२४३।।
-
॥ शुद्धा ॥ १० ॥ - शुद्धोच्यते मध्यमकग्रहांशा षड्जान्तिमा सा प्रमदेषु गेया।
-
॥ मालवरूपा॥११॥ - वक्ष्यामहे मालवपूर्वरूपां न्यासग्रहांशा: पुनरत्र षड्ज: ॥। २४४॥ भूयिष्ठगान्धारवती निषादः स धैवतो द्वाविह वर्जनीयौ।
-
| सैन्धवी ॥ १२ ॥ वक्ष्यामि सैन्धव्यभिधां च भाषां न्यासग्रहांशा पुनरत्र षड्जः॥२४२॥ तथैव गान्धारनिषादहीना मन्दरस्थषड्जा मृदुपच्चमा सा। सर्वेषु भावेषु नियोजनीया सा सैन्धवी मालवकैशिकोत्था ।२४६।।
-
| आभीरी॥१३॥ - आभीरिकाख्यामथ वर्णयामो न्यासग्रहांशा: पुनरत्र षड्जः । पूर्णा च षड्जर्षभसंगता सा तथाल्पगान्धारनिषादयुक्ता ।। २४७॥ भाषा: पुनर्मालवकैशिकोत्थास्त्रयोदशैवं किल सम्यगुक्ताः।
Page 150
१३० सङ्गीतसुधा।
॥ अथ मान्धारपञ्चम-जन्यभाषारागः॥१।- -॥ गान्वारी॥ १- भाषां च गान्धारकपत्रमस्य गान्धार्यमिख्यां प्रतिपादयामः ॥२४८।। गान्धारको न्यास इह ग्रहोंऽशोऽसौ षड्जगान्धार विभूषिता च। सा सर्वलोकस्य मनोहरा स्याद्विशेषतश्चञ्चललोचनानाम् ॥ २४ ॥
- ॥ गान्धारवल्ली ॥१॥ - गान्धारवल्ल्यादि च भिन्नपड्जभाषा: पुनः सपदशाथ वक्ष्ये। गान्धारवल्ली त्विह मध्यमांशग्रहा भवेदन्तिमचैवतेय स् ।। २५०॥ स्यात्सगतिर्धवतपड्जयोश्च गेया भवेत्कर्मणि सा पितृणाम्।
॥ कच्छेली ॥२॥ - कच्छेलिकाख्यां कथयामि भाषां पडंजो ग्रहोंऽशोऽत्र तुमध्यमान्त्यः॥ सम्युक्तगान्धारकधैवता सा समाश्रयन्ती किल कूटतानान्। मतान्तरे मध्यमकग्रहांशा सा मन्द्रतारषभसंयुता च ॥ २५२ ॥ संयुक्तगान्धारनिपादकों च कच्छेलिकेयं कथिता मुनीन्द्रैः।
-
॥ स्वरवल्ली ॥३॥ - निरूपयामः स्वरवल्लिकाख्यां स्याद्वैवतो न्यास इहांशकश्च ॥२५३।। ग्रहो निपादस्त्वृपभश्च वर्ज्यो युक्तो निषादेन च मध्यमः स्यात्।
-
॥ निषादिनी ॥४॥ - निपादिनीं संप्रति लक्षयामो न्यासो ग्रहोंऽशोऽपि च धैवतः स्थात् ॥
-
।। त्रवणा ।५।। अथाभिधास्ये त्रवणाभिधानां स्याद्वैवतो न्यास इह ग्रहोंऽशः । पडजो निषादोऽपि च वैवतश्च प्राज्या विहीनर्षभपञ्चमा सा ।।२५५ ।।
Page 151
तुम्बुरा॥ १३१
षड्जे निषादेऽपि च धैवते च समन्विता सा वंलितेन सम्यक्। गान्धारकेनापि च मध्यमेन समन्विता सा द्विगुणीकृतेन ॥ २५६ । मन्द्रस्फुरद्वैवतिका जये सा महीपतीनां विनियोजनीया।
॥ मध्यमा॥ ६। - अथोच्यते संप्रति मध्यमार्या सा मध्यमानतात्र तु घैवतांशा॥२५७॥
- ।। शुद्धा।। ७।। -
शुद्धां वदामोऽत्र तु धैवतोंऽशो न्यासो ग्रहः सा मृदुधैवता च। विवर्जिता चर्षभपञ्चमाभ्यां यद्दा भवेत्पञ्चमवर्जितैषा ॥ २५८ ॥ गान्धारषड्जाविह संगतौ वा पन्यासगान्धारसमन्विता च। गान्धारषड्जावपि धैवतोऽमी मन्द्रस्तथा पञ्चमदीर्घता च ॥ २५९ ॥
-
।। दाक्षिणात्या॥। ८। - वक्ष्यामहे संप्रति दाक्षिणात्यां स्याद्दैवतो न्यास इह ग्रहोंऽशः। स्यात्षाडवा पञ्ञमदुर्बला च पड्जो युतो मध्यमधैवताभ्याम् ॥२६०॥
-
।। पुलिन्दिका ॥९॥ - पुलिन्दिकां तामथ वर्णयामो न्यासस्तु षड्जोऽत् तुघैवतोंडशः। हीना च गान्धारकपञ्चमाभ्यां स मध्यमः स्यादिह षड्जयुक्त:॥२६१॥ षड्जस्तथा धैवतकेन युक्तस्त्वानन्दिनी सा हि पुलिन्दजातेः।
-
॥ तुम्बुरा ॥ १०।। अथोच्यते संप्रति तुम्बुराख्यां न्यासो ग्रहोंऽशोऽपिच धैवतोऽस्याः॥ विवर्जिता स्यादृषभस्वरेण तुष्टिप्रदा तुम्बुरुमौनिमौले:।
Page 152
१३२ सङ्गीतसुधा॥
॥। षड्जभाषा ॥ ११। - अथोच्यते संप्रति पड्जभाषा स्थान्मध्यमो न्यास इह ग्रहोंऽशः॥२६३॥ विवर्जिता चर्षभपञ्रमाभ्यां देवार्चने सा विनियोजनीया।
-
॥ कालिन्दी ॥ १२ ॥ - कालिन्द्याभिख्यां कथयामि भाषां गान्धारकोंऽशोऽत्र तुघैवतान्तः। त्यक्तो निषादपेभपञ्रमैश्रारोहावरोहा च चतुःस्वरा च।
-
॥। ललिता ॥ १३ ॥ - अथाभिधास्ये ललिताख्यभाषां स्याद्वैवतो न्यास इह ग्रहोंऽशः ॥२६५॥ गान्धारकेणर्षभमध्यमाभ्यां त्रिभि: समेता खलु तारमन्द्रैः। तथैव मन्द्रस्थितधैवता च स्नेहे प्रगेया च मतङ्गकोक्ता ॥ २६६ ॥
-
॥। श्रीकण्ठी॥ १४। - श्रीकण्ठिकालक्षणमत्र वक्ष्ये स्याद्गैवतो न्यास इह ग्रहोंऽशः । विवर्जिता पञ्चमकस्वरेणापन्यासतागो रिषभस्तथास्याम् ॥ २६७ । तत्संगतो चर्षभमध्यमौ च श्रीकण्ठकण्ठोद्लिता हि सैषा।
-
।। वाङ्गाली ॥ १५॥ - वाङ्गालिकां तामथ वर्णयामः स्याद्धैवतो न्यास इह ग्रहोंऽशः ॥२६८॥ दीर्घो तथैवर्षभमध्यमौ स्तोऽपन्यासगान्धारयुता च सेयम्। मन्द्रोन्मिषद्धैवतसंयुता स्यादुद्दीपने सा विनियोजनीया ॥ २६९ ।
-
॥ गान्धारी ॥ १६ । - गान्धारिकाख्यामथ कीर्तयामो गान्धारकोंऽशोऽत्र तु मध्ममोऽन्तः। तथा भवेदुच्छितमध्यमोऽयं शार्दूलमौनीश्वरसंमता सा । २७० ।
Page 153
पोता।। १३३
-
॥। सैन्धवी॥ १७॥ - सैन्धव्यभिख्यां कथयामि भाषां स्याद्दैवतो न्यास इह ग्रहोंडशः। विवर्जिता चर्षभपञ्चमाभ्यां मन्द्रस्फुरद्दैवतिका तथैव ॥। २७१ ॥ उद्दीपना चेत्युदितास्तु भिन्नषड्जोदिता: सप्तदशापि भाषाः,२७२।।
-
॥। अथ वेसरषाडव-जन्य-भाषाः ॥२॥ - - ।। नादा ॥ १ ॥ - भाषे उभे वेसरषाडवस्य नाद्यां तयोः प्राथमिकीं वदामः। षड्जग्रहांशापि च मध्यमान्ता गान्धारगुर्वी घुतपञ्चमा च । २७३ ।। यामे तुरीयेऽपि दिनस्य साय गेयेति सर्वे मुनयो गृणन्ति।
-
।। वाह्यषाडवा ॥ २ ॥ - वक्ष्यामि बाह्यादिमषाडवां तां स्यान्मध्यमो न्यास इह ग्रहोंऽशः॥२७४॥ निषादगान्धारकसंगतेयं गान्धारसांगत्ययुतर्षभा च।
-
॥ अथ मालवपञ्चम-जन्य-भाषाः ॥३॥ -
-
॥ तानोदवा ॥ १॥ -
तिस्रः पुनर्मालवपञ्चमस्य भापा: प्रवक्ष्येऽथ यथाक्रमेण ॥ २७५ ॥
तानोन्भवां संप्रति भिन्नतानोन्भ्वां वदाम: सह लक्षणेन। स्यात्पञ्चमो न्यास इह ग्रहोंडशो विचजिता स्यादृषभस्वरेण ॥ २७६॥
- ।। अथ पञ्चमषाडवजन्यभाषारागः ॥१। - - ।। योता ॥ १॥ - पोताभिधां पञ्चमषाडवाख्योपरागजातां कथयामि भाषाम्। न्यासो ग्रहोंऽशोऽप्यृषभो मतोऽस्यास्तथैव भूयिष्ठनिषादषड्जा॥२७७॥
21
Page 154
१३४ सङ्गीतसुधा॥
- ॥ अथ रेवगुपजन्यभाषारागः ॥१॥ - . ।। शका ॥ १ ॥ मतान्तरे संप्रति रेवगुप्तसंभूतभाषां कथये शकाख्याम्। षड्जान्तिमा स्थादपि मध्यमांशा भूयिष्ठगान्धारकपञ्चमा च ॥२७८॥ गुर्वी तथैवर्षभधैवताभ्यां प्रोक्तास्तु भाषा नवतिः षडेताः।
·- | अथ विभाषाः॥ - - ॥। ककुभ-जन्य-विभाषाः ॥३॥- वक्ष्ये विभाषास्त्वधिविंशतिस्तास्तिस्रो विभाषा: ककुभस्य तत्न।
॥ भोगवर्धनी ॥ १॥ - सा भोगवर्धन्यभिधादिमा स्यात्स्याद्वैवतो न्यास इह ग्रहोंऽशः॥ पदप्रयोगे कथितः किलापन्यासस्तु गान्धारपदाभिधेयः। भूयान्निषादोऽत्र तु पञ्मश्च गान्धारको मध्यमधैवतौ च ॥२८० ॥ विवर्जिता स्यादृषभस्वरेण विरागभावे विनियुज्यतेऽसौ।
-
॥| आभीरी॥२॥ -। आभीरिकाख्यां कथये द्वितीयां स्यान्मध्यमोन्यास इह ग्रहोंऽशः ॥ षड्जर्षभाभ्यां च निषादकेन द्रुतप्रयोगा मृदुघैवता च। तारस्फुरत्पञ्चमिका च पूर्णा स्थान्मध्यमेन प्रचुरप्रयोगा ॥ २८२ । निर्वेदने सा विनियोजनीयेत्युक्ता विभाषा ककुभे द्वितीया।
-
॥ मधुकरी ॥ ३ ॥ - वक्ष्ये विभाषां मधुकर्यभिख्यां न्यासो ग्होंडशः पुनरत्र षड्जः ॥२८३॥ गान्धारकोSपन्यसनो निषादषड्जर्षभैर्धैवतपञ्चमाभ्याम्। सा पञ्चभिः स्याद्धवलप्रयोगेत्युक्ता हि तिस्रः ककुभो विभाषाः॥२८४।।
Page 155
......-....... m
आन्धाली ॥ १३५
-
।। अथ टक्कजन्य-विभाषाः॥।४।। - ॥। देवारवर्धनी ॥ १॥- टक्के विभाषा: कथये चतस्त्रो देवारवर्धन्यभिधात् चाद्या। न्यासोSत्र षड्जः स तु पञ्चमोंऽशो ग्रहश्च पूर्णेत्युदिता मुनीन्द्रैः ।२८५
-
॥ आन्ध्री ॥२ ॥ टक्के विभाषां कथयामि चान्धीं स्यान्मध्यमोंऽश: स तु पञ्चमोऽन्त्यः। प्रहर्षकाले विनियोजनीया स्यादान्ध्रदेशप्रभवा किलैषा ॥।२८६॥
-
॥गुर्जरी॥३॥ - गुर्जर्यभिख्यां कथये विभाषामंशो ग्रहश्चात्र भवेन्निषादः। न्यासस्तु षड्जः स तु मध्यमेन युक्तो निषादस्त्वृषभेण युक्तः ॥२८७॥ पूर्णा च सा गुर्जरदेशजेति टक्के विभाषा कथिता तृतीया।
-
॥ भानवी ॥४॥ - तां भानवीं संप्रति लक्षयामः स्यात्पञ्मो न्यास इह ग्रहोऽशः ॥२८८॥
-
॥ अथ पञ्चम विभाषाः॥२।-
-
॥ भम्माणी ॥ १॥ - विभाषयोः संप्रति पञ्चमस्य भम्माणिकाख्यां प्रथमां भणामः । हीनर्षभा सा मृदुतारषड्जा तारा भवेन्मध्यमपञ्चमाभ्याम् ।२८९॥ तथा निषादेन च सा नियोज्या महोत्सवेष्वित्युदिता मुनीन्द्रैः।
-
॥ आन्धाली ॥ २ ॥ - आन्धालिकाख्यां कथये विभाषां स्थात्पञ्चमो न्यास इह ग्रहोडशः । अल्पो निषादस्त्वितरे स्वराः स्युर्भूयस्तरा इत्युदिता किलैषा॥
Page 156
१३६ सङ्गीतसुधा॥
-
॥ अथ भिन्नपञ्जमविभाषा॥१॥ - -। कौशली॥१॥ - वक्ष्यामि भिन्नादिमपञ्चमस्य चैकां विभाषामपि कौशलीं ताम्। अशो निषादोऽपि च धैवतोऽन्त्यो विवर्जिता सा ऋषभस्वरेण ॥२९१।
-
| अथ टक्ककैशिक विभाषा ॥ १॥ - ॥द्राविडी ॥ १ ॥ वक्ष्यामि टक्कादिमकैशिकस्य तां द्रविडीनामवतीं विभाषाम्। सा भध्यमांशापि च धैवतान्ता समन्विता षड्जकधैवताभ्याम्।२९२ तथैव गान्धारनिषादकाभ्यां सा संगता स्यादिति वेदितव्यम्।
-
| अथ मालवकैशिकविभाषाः ॥२॥ - ॥ काम्भोजी ॥ १॥ - विभाषयोर्मालवकैशिकस्य काम्भोजिकाख्यां प्रथमां प्रवक्ष्ये ।। २९: न्यासग्रहांशा: पुनरत्र पडजो निषादवहनी गमकोज्ज्वला सा। विवर्जिता चर्षभपञ्चमाभ्यां मन्द्रस्थषड्जेत्यवधारणीयम् ॥२९:
-
॥। देवारवर्धनी॥२॥ - देवारवर्धन्यभिधां प्रवक्ष्ये षड्जग्रहांशासपि पञ्चमान्ताम। सा किं च गान्धारनिषादहीने त्युक्ता विभाषाद्वितयी क्रमेण ॥ २९
-
॥ अथ भिन्नषड्जविभाषाः॥४॥ - - ॥ पौरालिका॥ १॥ - ता भिन्नषड्जप्रभवाश्चतस्र: पौरालिकाद्याSत्र भवे द्विभाषा। सा मध्यमांशापि च धैवतान्तास्याद् दुर्बला स्यादृषभस्वरेण ॥ २ तत्रर्षभो मध्यमपञ्चमौ च तौ संघटन्ते हि परस्परेण।
Page 157
विभावनी॥ १३७
- ॥। मालवी॥२। - तां मालवीं संप्रति लक्षयामः स्याद्वैवतो न्यास इह ग्रहोंऽशः ॥२९७॥ गान्धारषड्जर्षभधैवतैस्तु सा भूयसी मन्द्रगधैवता च।
॥ कालिन्दी ॥ ३॥- कालिन्दिकां तामथ लक्षयामो गान्धारकांशापि च धैवतान्त्या ।२९८।। सा पञ्चमेनाप्यृषभेण हीना समस्वरा स्वल्पनिषादका च। सा विस्मयाख्ये च रसे प्रयोज्या स्थाद्भिन्नषड्जप्रभवा च सेयम् ॥
॥ देवारवर्धनी ॥४॥ - देवारवर्धन्यभिधां वदाम: सा धैवतांशान्त्यनिषादका च। विवर्जिता चाप्यृषभस्वरेण स्यान्भिन्नषड्जप्रभवा विभाषा ।३००॥
।। अथ वेसरषाडव विभाषा॥ -
-
।। पार्वती॥१॥- विभाषिकां वेसरपाडवस्य पार्वत्यभिख्यां प्रतिपादयामः। पड्जो ग्रहोंऽशः सकलस्वरा चेत्युक्तत्रयान्यत्पुनरूहनीयम् ।३०१॥
-
|। अथ मालवण्ञ्चमविभाषा॥ -
-
॥ भावनी ॥ १ ॥ विभाषयोर्मालवपञ्चमस्य तां भावनीं संप्रति लक्षयामः। न्यासो ग्रहोंऽशोऽपि च पञ्चमोऽपन्यासस्तु षड्ज स्त्वृषभेण हीना॥
-
।। विभावनी ॥२॥ - विभावनीं तामथ लक्षयामो न्यासो ग्रहोंऽशोऽपिच पञ्चमोऽस्याः। गान्धारको मध्यमधैवतौ च स्वल्पास्तथा मन्द्रगपञ्मा च ॥३०३॥
Page 158
१३८ सङ्गीतसुधा।
॥ अथ अनुक्तहेतुविभाषा॥ १॥ - ॥ पलवी॥१॥ - अनुक्तहेतुं कथये विभाषां पल्लव्यभिख्यामिह धैवतोंऽशः । न्यासश्च पड्जर्पभभूयसी सा तारस्थगान्धारयुता च पूर्णा ॥ ३०४॥ एकाधिका विशतिरीरितास्ता विभाषिकास्त्वन्तरभाषिकाश्च।
-
॥ अथ अन्तरभाषा:॥४।-
-
॥ अथ ककुभस्य अन्तरभाषा ॥ - - । सालवाहनी ॥ १ ॥ वक्ष्ये चतस्त्र: ककुभप्रसूताः सा सालवाहन्यभिधोच्यतेऽत्र ॥३०५॥ सा धैवतांशा ऋषभग्रहांशा गान्धारकोऽस्यामृषभेण युक्तः।
-
॥। अनुक्तहेत्वन्तरभाषाः॥ - - ॥ भासवलिता॥१॥ - तिसृष्वथानूदितहेतुषु प्राग्भासादिमां तां वलितां प्रवक्ष्ये । ३०६ । न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्या: स्वल्पर्षभा पञ्चमवजिता च।
-
॥ किरणावली ॥ २ ॥ - संलक्षयाम: किरणावलीं तां न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्याः॥ तारस्थगान्धारनिषादहृद्या मन्द्रस्फुरन्मध्यमसंयुता च।
-
॥ शकललिता॥३॥ - अथोच्यते सा ललिता शकाद्या षड्जग्रहांशापि च घैवतान्त्या। युक्तो निषादोऽत्र तु घैवतेनेत्युक्ताश्चतस्रोऽनतरभाषिकाश्च ।३०८॥
॥ अथ रागाङ्गा: ॥ २१॥ - एकाधिकां विंशतिमीरयामो रागाङ्गरागानधुना क्रमेण।
Page 159
कर्णाटिका॥ १३९
॥ शङ्कराभरणः॥ १॥ - आद्य तु तेषां प्रतिपादयामस्तं शंकराख्याभरण च रागम् ॥३०९। न्यासो ग्रहोंऽशोऽपि च मध्यमश्चेत्स मध्यमादि: कथितस्तदानीम्। स एष मन्द्रस्वरमुद्रितश्च छायान्तरेणापि युतो यदि स्यात् ॥३१०॥ स्याच्छकराख्याभरणाभिधानी रागस्तदा शंकरवल्लभोऽयम्।
-
॥ घण्टारः ॥२॥ - घण्टारवाख्यं कथयामि राग स घैवतांशोऽपि च मध्यामान्तः।।३११।। मन्द्रस्थगान्धारकमेदुरोऽयं तथैव तारस्थनिषादहृद्यः। रागस्य भिन्नादिमषड्जनाम्नः स्यादङ्गमित्येष भुवि प्रतीतः ॥।३१२।।
-
॥ हंसकः ॥ ३॥ -
अथोच्यते हंसकरागलक्ष्म स धैवतस्तत्र भवेद्ग्रहोंडशः। विवर्जितः पड्ज इहैष चांगरागस्य भिन्नादिमषड्जकस्य ।। ३१३ ।।
॥ दीपकः ॥४ ॥ - अथोच्यते दीपकरागलक्ष्म पड्जो ग्रहोंऽशोऽस्य तु मध्यमोऽन्तः। गान्धारक: पञ्चमकस्तथाल्पः स मध्यमो दीप्त इह प्रतीत: ॥३१४ । अङ्ग भवेत्कैशिकमध्यमस्य भिन्नादिमस्येत्यवधारणीयम्। धन्नासिकामुच्चतरां वदन्ति केचित्पुनर्दीपकरागमेनम् ।३१५॥
-
॥ रीतिः ॥५/ - रीति व्रवे षड्ज इह ग्रहोंडशो न्यासश्च भिन्नादिमषड्जकाङ्गे।
-
॥ कर्णाटिका ॥ ६॥ - कर्णाटिकां तामिह लक्षयामो न्यासो ग्रहो यत्न तु तारषड्जः ॥३१६॥ सा घैवतांशा हनुमत्प्रिया च समस्वरा मन्द्रगमध्यमा च।
Page 160
१३८ सङ्गीतसुधा॥
॥ अथ अनुक्तहेतुविभाषा ॥ १॥ - . । पलवी ॥१॥ - अनुक्तहेतुं कथये विभाषां पल्लव्यभिख्यानिह धैवतोंऽशः । न्यासश्च पड्जर्पभभूयसी सा तारस्थगान्धारयुता च पूर्णा ।। ३०४।। एकाधिका विशतिरीरितास्ता विभाषिकास्त्वन्तरभाषिकाश्च।
॥ अथ अन्तरभाषाः॥४॥-
॥ अथ ककुभस्य अन्तरभाषा ॥ - - ॥ सालवाहनी ॥ १ ॥ - वक्ष्ये चतस्र: ककुभप्रसूताः सा सालवाहन्यभिधोच्यतेऽत्र ॥३०५॥ सा धैवतांशा ऋषभग्रहांशा गान्धारकोऽस्यामृषभेण युक्तः।
॥ अनुक्तहेत्वन्तरभाषाः ॥ - - ॥ भासवलिता॥१॥ - तिसृप्वथानूदितहेतुषु प्राग्भासादिमां तां वलितां प्रवक्ष्ये ।। ३०६ ।। न्यासो ग्रहोंऽशोऽपि च घैवतोऽस्या: स्वल्पर्षभा पञ्चमवजिता च।
॥ किरणावली ॥ २॥ - संलक्षयामः किरणावलीं तां न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्याः॥ तारस्थगान्धारनिषाद्हृद्या मन्द्रस्फुरन्मध्यमसंयुता च।
- ॥ शकल लिता ॥ ३॥ - अथोच्यते सा ललिता शकाद्या षड्जग्रहांशापि च घैवतान्त्या। युक्तो निषादोऽत्र तु धैवतेनेत्युक्ताश्चतस्रोऽन्तरभाषिकाश्च ॥३०८॥
॥ अथ रागाङ्गाः ॥ २१ ॥ - एकाधिकां विंशतिमीरयामो रागाङ्गरागानधुना क्रमेण।
Page 161
कर्णाटिका॥ १३९
-
॥ शङ्कराभरणः ॥१॥ आद्य तु तेषां प्रतिपादयामस्तं शंकराख्याभरण च रागम् ॥३०९॥ न्यासो ग्रहोंऽशोऽपिच मध्यमश्चेत्स मध्यमादि: कथितस्तदानीम्। स एष मन्द्रस्वरमुद्रितश्च छायान्तरेणापि युती यदि स्यात् ॥२१०॥ स्याच्छंकराख्याभरणाभिधानी रागस्तदा शंकरवल्लभोडयम्।
-
॥ घण्टारः ॥२॥ - घण्टारवाख्यं कथयामि राग स घैवतांशोऽपि च मध्यामान्तः ।।३११।। मन्द्रस्थगान्धारकमेदुरोऽयं तथैव तारस्थनिषादहृद्यः। रागस्य भिन्नादिमषड्जनाम्नः स्यादङ्गमित्येष भुवि प्रतीतः ॥३१२॥
-
।। हंसकः ॥३॥ - अथोच्यते हंसकरागलक्ष्म स धैवतस्तत्न भवेद्ग्रहोंडश:। विवर्जित: पड्ज इहैष चांगरागस्य सिन्नादिमषड्जकस्य ।। ३१३ ॥
-
॥ दीपकः॥४॥ - अथोच्यते दीपकरागलक्ष्म षड्जो ग्रहोंऽशोऽस्य तु मध्यमोऽन्तः। गान्धारक: पञ्चमकस्तथाल्पः स मध्यमो दीप्ष इह प्रतीतः ॥३१४। अङ्गं भवेत्कैशिकमध्यमस्य भिन्नादिमस्थेत्यवधारणीयम्। धन्नासिकामुच्चतरां वदन्ति केचित्पुनर्दीपकरागमेनम् ॥३१५॥
-
॥ रीतिः ॥५॥ - रीति व्रवे षड्ज इह ग्रहोंडशो न्यासश्च भिन्नादिम षड्जकाङ्गे।
-
।। कर्णाटिका ॥६॥ - कर्णाटिकां तामिह लक्षयामो न्यासो ग्रहो यत्र तु तारषड्जः ॥ ३१६॥ सा घैवतांशा हनुमत्प्रिया च समस्वरा मन्द्रगमध्यमा च।
Page 162
१४० सङ्गीतसुधा॥
॥ लाटी।।७॥- लाटीं व्रवे लाटमहीपलाल्या न्यासो ग्रहोंडशोऽत्र च षड्ज एव ।३१७।
-
| पाञ्चाली॥ ८ा - पाञ्चाल्यभिख्यं कथयामि राग स्याद्वैवतो न्यास इह ग्रहोंऽशः। गान्धारषडजषेभभाक्च तारगान्धारको मन्द्रगमध्यमश्च ॥३१८॥
-
॥ मध्यमादि:॥ ९॥ -
स्यान्मध्यमग्रामभवात्र मध्यमांशग्रहा तत्र तु मध्यमादिः।
- ॥ मालवश्रीः॥१०॥ -
अथोच्यते संप्रति मालवश्री: संजायते मालवकैशिकात्सा ।। ३१९ ॥ तारस्थमन्द्रस्थितपड्जकांशन्यासग्रहा किंच समस्वरेयम्।
-
॥। तोडी ॥ ११॥ - तोडीं व्रवे षाडवरागजन्यां न्यासो ग्रहोंऽशोऽपि च मध्यमोऽस्याः॥ कम्पस्फुरत्पञ्चमिका च मन्द्रतारस्थगान्धारविभूषितासौ। आनन्दकारिण्यपि सा समान्यस्वरा च सेयं मुनिभिर्निरुक्ता ॥३२१॥
-
॥ वङ्गालः ॥१२॥ -
बङ्गालरागस्य वदामि लक्ष्म न्यासो ग्रहोंऽशोऽपि च मध्यमोऽस्य। संजायते षाडवनामरागात्स च प्रहर्षे विनियोजनीयः ॥। ३२२ । लक्ष्यानुरोधे त्विह पञ्चमस्योद्ग्राहोडथ वा लक्ष्यममानकं स्यात्।
- ॥। भैरवः॥१३॥ - वक्ष्याम्यथो भैरवनामरागं यो भिन्नषड्जाह्वयरागजन्यः ॥ ३२३ ।।
Page 163
॥। रघुनाथभूपविरचिता । ॥ सङ्गीतसुधा ॥
- ॥ भैरवः ॥१३ ॥ वक्ष्याम्यथो मैरवनामराग यो भिन्नषड्जाह्नयरागजल्बः ।। ३२३ !! स धैवतांशोऽपि च मध्यमान्ती विवर्जितश्चर्षभपस्नमाभ्याम्। स्यात्प्रार्थनायां विनियोजनीयः समस्वराSसाविति सङ्गिरन्त ॥ ३२४।।
॥ वराली ॥ १४॥ अथो वरालीमभिदध्महे तां जन्यां च भिन्नादिमपत्रमेन। षड्जग्रहन्यासयुता तथव सा घैवतांशा मृदुमध्यमा च । ३२' ॥ तारस्फुरद्वैवतिका सभान्यस्वरा च शङ्गाररसे च गया।
॥ गुजरी ॥ १५ ॥ - तां गुर्जरीं संप्ति लक्षयामो जाता तु या पत्ममपाडनेन ! ३२६॥ अंशो ग्रहः स्थाहपमश्च तस्यां न्यासी सवेन्मध्यगमध्यमश्ष। तारर्षभा चर्षभधैवताभ्यां वही च शङ्ाररे व गया
॥ गौड: ॥ १६ ॥ - अपन्नमष्टक्मवस्तु गोडो न्यासो ग्रहॉडशोडत्र नयेन्निपाद: ।
- ॥ कोलाहलः ॥ १७॥ - कोलाहलं टक्कभव प्रवक्ष्ये तारस्वरेष्टक्रवदेष सचे:
॥ वसन्त: ॥ १८॥ हिन्दोलजन्यं कथये वसन्तं पूर्णस्तु हिन्दोलक एव संप:। 22
Page 164
:४२ सङ्गीतसुधा ॥
-
। धन्यासी॥१९। - वक्ष्यामि धन्यास्यमिंधां च जातां शुद्धादिमात्कैशिकमध्यमाद्या॥ षड्जग्रहोंऽशोऽपि च मध्यमोऽन्तः स्यादल्पगान्धारकपत्रमश्च। विवर्जितो Sसावृषभस्वरेण वीरे रसे स्याद्विनियोजनीयः ॥ ३३०॥
-
॥ देशी॥ २०॥ - देश्युच्यते सा किल रेवगुपजातर्षभान्ता ग्रहकादनन्ता। पड्जे निषादोऽपि च मध्यमे च या भूयसी पञ्चमवजिता च ।। ३३१॥ मन्द्रस्थगान्धारमनोहरा च गेया रसे सा करुणाभिधाने।
-
॥ देशाख्या॥ देशाख्यकालक्षणमीरयामो जाता हि गान्धारकपञ्चमात्सा । ३३२।। न्यासश्च गान्धार इह ग्रहोंऽशो निषादमन्द्रा व समस्वरेयम्। विवर्जिता स्यादृषभस्वरेण गान्धारभाजा स्फुरितेन युक्ता ।।३३३॥
-
॥ अथ भाषाङ्गा: | -
रागाङ्गरागा: कथिता: समस्ता भाषाङ्गरागानधुना प्रवक्ष्ये।
- !! गाम्मीरी॥ १॥ - ते विंशतिस्तत्र वदामि गास्भीर्यास्यं तु षड्जोऽत्र ग्रहोंऽशकश्च॥ ३३४
सर्वस्वराणां बहुलत्वमेवं समस्वरत्वं सहतारषड्जम्।
॥ वेहारी ॥ २ ।। -
सांशग्रहान्त्यः स निषादहीनस्तारस्थषड्जो मृदुमध्यमश्च ।।३३५। समस्वरस्तारयुतश्च वेहार्या्यो हि राग: कथितः प्रवीणैः ।
Page 165
छायाIl १४३
॥ शवसिता ॥३॥ - वक्ष्यामि राग श्वसितामिधानं गान्धारकस्तत्र भवेद् ग्रहोंडश:॥३३६॥ अंशस्तु षड्जः पुनरत्र मन्द्रः समस्वरोपर्षभपत्ममश्च।
-
॥ उत्पली॥४॥- उत्पल्यभिख्यं कथयामि राग स्यान्मध्यमो न्यास इह ग्रहोंडशः ॥ समस्वरस्तारगधैवतश्च तारस्थितौ पञ्चमपड्जकौ द्वौ। स्थान्मन्द्रगस्थानगतो निषाद: संपूर्ण इत्येष भुवि प्रतीतः ।। ३३८॥
-
। गौली ॥५॥ - तं गौल्यसिख्यं कथयामि राग स्याद्वैवतो न्यास इह ग्रहोंऽशः । तथैव गान्धारनिषादहीनस्तारर्षभो बह्वृषभश्च पड्जः ॥ ३३९ ॥ भूयस्तरां वैधतकश्च गाने भवेदमुष्मिन्निति वेदितव्यम्।
-
॥ नादान्तरी॥६। - नादान्तरीं तामथ वर्णयामः स मध्यमः स्यादिह तु ग्रहोंऽशः ॥३४०॥ स पञ्चमो न्यासतया प्रतीतस्तारर्षभा मन्द्रमनोहरा च। गान्धारकाल्पापि च घैवतेन वही तथा पड्जनिषादकाभ्याम्॥३४१॥
॥ नीलोत्पली ॥७॥ नीलोत्पलीलक्ष्म निरूपयाम: स्थाद्वैवतोंऽशो ग्रह एव तस्या: । न्यासस्तु तारस्थितषड्ज एव लमस्वरा मन्द्रगपञ्चमा सा ॥ ३४२। तथैव गान्धारनिषादहीना नीलोत्पलीयं कथिता मुनीन्द्रैः ।
- ॥ छाया।।<।।- छायाभिधानं कथयामि राग स्थान्मध्यमो न्यास इह ग्रहोंऽश: ॥३४३॥ मन्दर्षभः षड्जविवर्जितश्च गान्धारतारोऽधिकपत्रमश्च। अल्पे भवन्त्यत्र च पञ्चमेन विना स्वराश्चेति विवेचनीयम् ॥३४४॥
Page 166
१४४ सङ्गीतसुधा।
-
॥। तरङ्गिणी ॥९॥- तरङ्गिणीं तासथ लक्षयामः सा घैवतांशा रिषमग्रहान्या। समस्वरा मध्यमपड्जमन्द्रा पूर्णा व तारर्षभधैवता च ॥ ३४५ ॥
-
| गान्धारगतिः ॥ १०॥ वक्ष्यामि गान्धारगतेश्र लक्ष्म गान्धारकांशापि च षड्जकान्त्या। समस्वरा पञ्ममकस्वरोSत्र तारा निषादर्षभघैवताः स्यु: ॥ ३४६ ॥
-
॥ वेरश्विका ॥ ११॥ - वेरज्िकां संप्रति वर्णयामो न्यासग्रहांश: पुनरत्र षड्जः। मन्द्रस्थपड्जा निधभूयसी च पाल्पा व तारस्थितमध्यमा च।
-
॥। डोम्बक्रिया ॥ १२ ॥ - डोस्बक्रियां वच्मि तु भिन्नषडजभाषास्थभेदतवणाप्रस्ताम्। षड्जग्रहांशामपि धैवतान्तां विवजितां चर्षभपञ्जमाभ्याम् ॥३४८॥
॥ सावेरी ॥ १३ ॥ सवेर्यभिख्यां ककुमीयभाषारगन्तिकारागभवां वदामि। पड्ओ ब्रहोSशोऽत्र तु घैवताउन्त्ो गान्धारतारा मृदुमध्यमा च। स्यादल्पपड्जा गतपञ्चमा व गेया रसे सा करुणाभिधाने।
॥! वेलावली ॥ १४ ॥ -
योका विभाषा ककुभस्य भोगवर्धन्यभिख्या किल तत्पसूता॥३५०॥ वेलावलीं तामिह वर्णयाम: स्याद्वेवतो न्यास इह ग्रहोंऽशः । गान्धारमन्द्रा च समस्वरा च तारस्फुरद्धेवतसंयुता च । ३५१॥ कम्पस्फुरत्षड्जवती प्रयोज्या सा विप्रलम्भे मुरवैरहद्या।
Page 167
कर्णाटबडाल:। १४५
-
॥ प्रथममख्जरी॥ १५॥ मअ्जर्यभिख्यां प्रथमादिमां तां वक्ष्ये ग्रहोंऽशोऽत्र तुपग्चमोऽन्त्:॥ भूथिष्ठगान्धारक मध्यमा च तारस्फुरद्धैवतकर्षभा च। मन्द्रस्थगान्धारसमन्विता च महोत्सवे सा विनियोजनीया ॥३५३॥
-
|। आदिकामोदी॥ १६॥ वङ्गालिकाया: किल भिन्नषड्जप्रमेदभूता कथिता हिभाषा। तदुद्भवां संकथयेऽघुनाSडदिकामोदिकां मन्दरगमध्यमान्ताम् ॥३५४॥ स्याद्वैवतो न्यास इह ग्रहोंऽशो गान्धारतारा च समस्वरा च।
-
। नागध्वनि: ॥१७।। -
तट्टक्कभाषात्मकवेगरश्रीसंजात नागध्वनिलक्ष्म वक्ष्ये ।। ३५५ ॥ न्यासो ग्रहोंSशोऽत्र तु षड्ज एव विवजितो धैवतपञ्जमाभ्याम्। वीरे रसेऽसौ विनियोजनीयो भवेदिति प्राञ्ज उदीरयन्ति । ३५६ ॥
-
॥। वराटी ॥ १८ । वराटिकां संप्रति वर्णयाम: कुशीलवानां कुतुकाय शुद्धास्। न्यासो ग्रहोंडशः पुनरत्र पड्जो निषादगान्धारकधैवताढ्या ॥ ३५७॥ तारस्फुरद्वैवतषड्जका च शान्ते रसे सा विनियोजनीया।
-
। नहा ॥ १९ ॥।
हिन्दोलभाषात्मक पिश्वरीजां नट्टां प्रवक्ष्ये सह लक्षणेन ॥ ३५८॥ समस्वरां गीतविदो वदन्ति ता तारगान्धारकपञ्चमां च। धनी क्रमातारगमन्द्रगो च न्यासो ग्रहोऽशोऽत्र तु बड्ज एव ॥३५९॥
- ॥ कर्णाटबड्गालः ॥ २०॥ --
कर्णाटबङ्गालमथाङ्गमाहुः सन्यासयुक्तं खलु वेगरञ्ज्या: ।
Page 168
१४६ सङ्गीतसुधा॥
तारस्थगान्धार इंह ग्रहोंऽश: शृङ्गारयोग्य: स विपञ्चमश्च । ३६०॥
समीरिता विशतिभेदभिना भाषाङ्गरागा: पुनरत्र सम्यक्।
- ॥ अथ क्रियाङ्गाः ॥ -
भाषाङ्गरागानखिलान्निरूप्य क्रियाङ्गरागान्दश पञ्च वक्ष्ये। आद्याऽत्र भावक्रयभिधा स्वभावक्री तद्द्वितीयाऽथ परा शिवक्री॥ सवेञ्चतुर्थी मकरादिमक्री त्रिणेत्रपूर्वक्यभिधा परा च। पष्टः पुनः स्यात्कुमुदादिमक्री परा दनुक्री किल सतमीस्यात् ॥ ३६२॥ ओजक्रयभिख्या पुनरष्टमीस्यादिन्द्रक्रवभिख्या नवमी च वेद्या। अन्या भवेन्नागकतिस्तथैकादशी भवेद्न्यकृतिस्तु नाम्ना ॥३६३॥
स्याद् द्वादशी सा विजयादिमक्री क्रियाङ्गनामान्युदितानि चैवम्। स्याद् द्वादशानामपि च क्रिपाङ्गनान्नां च साधारण लक्ष्म वक्ष्ये।।
न्यासो ग्रहोंऽशोऽधिकषड्जकत्वं समानमेषामितरतुसर्व । पूर्णत्वतत्तदमकान्वितत्वं स्वराल्पताद्ं किल लक्ष्यगस्यम्।। ३६५।।
- ॥ रामकृतिः ॥। - वक्ष्यामहे रामकृति क्रियाङ्गराग तमापञ्रमतारमन्टम्। न्यासो ग्रहोंऽश: पुनरत्र षड्जो भवेदमुष्पित्रिषभोऽधिकश् ॥३६६॥
। गौडकृतिः ॥ - वक्ष्यामहे गौडकृति क्रियाङ्गं न्यासो ग्रहोंऽशोऽपि च षड्ज एव। सा मध्यमेनापि च पञ्चमेन बह्नी विहीनर्षभधैवता च ॥३६७॥ तारस्थगान्धारसमन्विता च मन्द्रस्फुरत्पञ्चमसंयुता च।
- ॥ देवकृतिः ॥ वक्ष्यामहे देवकृति क्रियाङ्गं न्यासांशषडजामपि धैवताद्याम्॥३६८॥
Page 169
कौन्तलिका॥ १४७
विवर्जितां चर्षभपञ्चमाभ्यां समस्वरां मन्द्रनिषादयुक्ताम्। सा मध्यमेन प्रचुरेण युक्ता वीरे रसे सा विनियोजनीया ॥ २६९. ॥
॥। अथ उपाङ्ग रागाः ॥
॥ पूर्णाटिका ॥ १॥ - त्रिंशत्युपाङ्गेष्वथ संप्रवक्ष्ये पूर्णाटिकां धैवतकग्रहांशाम्। न्यासो भवेन्मध्यम एव तस्यां संपूर्णता पञ्चमभूरिता च ॥ ३७० ॥
तां सालगं केचन वर्णयन्ति राग हुपाङ्ग किल भिन्नपड्जे।
॥ देवालः ॥२॥ - देवालरागस्य वदामि लक्ष्म स्यान्मध्यमा न्यास इह ग्रहांडशः॥ ३७१॥ मन्द्रर्षभो मन्द्रगधैवतश्च भवेन्निषादर्षभधैवतात्थः । स्यान्मध्यमालम्बितकस्पितोऽसों भवेदुपाङ्गं बहुलाख्यरागे ॥ ३७२। तां देवलामाह भतङ्गमौनी कामोदलक्ष्मात्र वदन्ति चैकै।
- । कुरश्षी॥३॥ -
कुरक्जिकां संप्रति लक्षयामः स्यात्पञ्नमो न्यास इह ग्रहोंऽश ॥ ३७३॥ मन्द्रस्थगान्धारयुतर्षभेण तथा निषादेन च वजिता च। षड्जेन बही सहपञ्चमेन भवेदुपाङं (ललिता) बहुलाख्यरागे ॥ ३७४॥ स्यान्मध्यमग्रामभवाऽत्र मध्यमांशग्रहा तत्र तु मव्यमादिः ।
॥ अथ वराट्युपाङ्गानि॥
वक्ष्याम्युपाङ्गानि वराटिकाया: पड्जग्रहान्तादिमकानि पट् च ।।
॥ कौन्तलिका ॥ १ ॥ - स्यात्कौन्तलीका न्वितघैवताच समन्द्रषडजा च निषादभूरिः।
Page 170
१४८ सङ्गीतसुधा॥
॥ द्राविडी ॥ २ ॥ स्याद् द्राविडी तत्न तु भूरिशालिनिषादमन्द्रा स्फुरितर्षभा ब॥ ३७६॥
-
| सैन्धवी ॥ ३॥ . स्थात्सैन्धवी घैवतषड्जकम्पाऽन्विता च गान्धारकभूयसी सा। मन्दरस्फुरन्मध्यमसंयुता च तथैव शृङ्गाररसे च गेया । ३७७॥
-
| उपस्थान वराटिका ॥४॥ - वक्ष्याम्युपस्थानवराटिकां तां या मण्डिता मध्यमघैवताभ्याम्। मन्द्रस्थिताभ्यामपि तादृशेन निषादकेनापि च भूषिता सा ॥३७८॥
-
॥ हस्तस्वरवराटी ॥५॥ -
हस्तस्वराद्ां कथये वराटीं स्यात्पन्चम: कम्पित आहतश्। मन्द्रस्थितः स्यादिह धैवतश्च ग्रहादिकं पूर्ववदेव वेद्यम् ॥३७९॥
- ।। प्रतापवराटी॥६॥ -
प्रतापपूर्वा कथये वराटीं सा मन्द्रषड्जाऽपि च कम्प्रषड्जा। स्यादद्भुते सा विनियोजनीया वराट्युपाङ्गानि षडीरितानि ॥३८०॥
-
!! अथ तोड्युपाङ्गानि॥ -
-
॥ छायातोडी ॥ १॥ - छायादिमां तां कथयामि तोडीं रागाङ्गमध्ये प्रथम निरुक्ताम्। तोडी विहीनर्षभपञ्जमा चेच्छायाभिधा तोड्यमिधा तदा सा।।
-
॥। तुरुष्कतोडी ॥२॥ - तुरुष्कतोडींमधुनाभिधास्ये तोड्येव सा ताडितक स्वरा चेत्। तथाSल्पगान्धारयुता निषादे स्याद् भूयसी सा किल धैवते च।।
Page 171
स्तम्भावती ॥ १४९
॥ गुर्जर्युपाङ्गानि॥ - -।। महाराष्ट्रगुर्जरी॥ १॥- वक्ष्ये महाराष्ट्र्यभिधं तु रागं न्यासो ग्रहः स्यादृषभस्तथांशः। निषादमन्द्रा गतपञ्चमा च गेयोत्सवे ताडितकस्वरेयम् ।।३८३ ॥
॥ सौराषटगुर्जरी ॥ २॥ - सा गुर्जरी कम्प्रनिषादवही सौराष्टिकाद्या किल गुर्जरी स्यात्।
॥ दक्षिणगुर्जरी॥ ३ : - सा गुर्जरी कम्पितमध्यमा च स्यात्ताडितान्यस्वरसंयुता च ॥३८४॥ यदा तदा दक्षिणगुर्जरीति भजेदभिख्यामिति वेदितव्यम्।
॥ ट्राविडगुर्जरी॥४॥ मन्द्रे च तारे स्फुरितर्षभा चेत्सा गुर्जरी द्राविडगुर्जरीति ।। ३८५ । चत्वारि सौराष्ट्रय भिधादिमानि गुर्जर्युपाङ्गानि निरूपितानि।
।। वेलावल्युपाङ्गानि॥ -
॥। भुञ्जी ॥ १ ॥ - भुश्री तु हीना किल मध्यमेन न्यासो ग्रहोंऽशोऽपि च धैवतोऽस्याम्॥ आन्दोलिता पञ्चमपड्जयोः सा स्याद्विप्रलम्भे विनियोजनीया।
- ॥स्तम्भावती॥२॥ -
स्तम्भावती स्यादपपञ्चमा सा न्यासो ग्रहोंऽशोऽत्र तु षड्ज एव ॥। आन्दोलिता मध्यमके निषादे तथैव ह्ाङ्गाररसे प्रयोज्या।
23
Page 172
१५० सङ्गीतसुधा॥
-- ॥। छायावेलावली ॥ ३॥ -
सा कम्प्रमध्यस्थितमध्यमा चेच्छायादिवेलावलिका तदा स्यात् ॥३८८
- ।। प्रतापवेलावली॥४॥ - प्रतापवेलावलिका च सैव स्यादाहता चर्षभपञ्चमेन। चत्वारि चैवं कथितानि वेलावल्या उपाङ्गानि यथाक्रमेण ॥३८९॥
॥ मैरवी ॥ (भैरवोपाङ्गम्) - तां भैरवोपाङ्गतया प्रतीतां भैरव्यभिख्यां प्रतिपादयामः । स्याज्गैवतो न्यास इह ग्रहोंऽशो गान्धारकः स्यादिह तारमन्द्रः ॥३९० शेषा: समस्ताः समतां प्रयान्ति स्वरा इति प्राञ्ज उदीरयन्ति।
-
। सिंहली कामोदी ॥ (कामोदोपाङ्गम्) - कामोदिका मन्द्रगमध्यमा च कम्पस्फुरद्वैवतिका यदि स्यात्॥ ३९१॥ सा सिंहलीकादिमका तदा स्यात्कामोदिकोपाङ्गमिमां वदन्ति।
-
।। छायानट्टा ॥ (नट्टोपाङ्गम्) -
नट्टा यदि स्यान्मृदुपञ्चमा च कम्परा च गान्धारनिषादकाभ्याम्॥३९२ छायादिनट्टा भवतीति नट्टारागस्य चोपाङ्गमिमां गृणन्ति।
- । कोलाहला (टक्कोपाङ्गम्) - वक्ष्यामहे संप्रति टक्कभाषाकोलाहलां रामकृति च जाताम् ॥३९३।। संन्यासषड्जापि च मध्यमांशा विवजिता सा किल पञ्चमेन। भाषाङ्गमध्ये कथिता च सेयमुपाङ्गभावं कथमश्नुवीत ॥ ३९४॥ अत्रोच्यते सेयमुपाङ्गतामप्युपाङ्गसारूप्यवशादुपैति। अन्यत्न चैवं पुनरूहनीयं वीरे रसे सा विनियोजनीया ॥ ३९५ ॥
Page 173
तुरुष्क गौड: ॥ १५१ - । भल्लातिका ॥ (हिन्दोलोपाङ्गम्) हिन्दोलभाषात्मकतां प्रयातच्छेवाटिकायां किल तत्प्रसूता। भल्लातिका स्यादृषभेण हीना स्याद्वैवतो न्यास इह ग्रहोंऽशः ॥ ३९६॥ मन्द्रस्फुरद्वैवतसंयुता सा भवेञ्च शुङ्गाररसे नियोज्या।
-
।। आन्धाली।। - यो ग्रामरागेषु निरूपितः प्राक् शुद्धादिम: पञ्चमनामराग: ।३९७॥ तदीयभाषात्मकदाक्षिणात्य विभाषिकान्धाल्युदितां वदामः।
-
॥। मल्हारी ॥ - मल्हारिका मन्द्रगमध्यमा सा स्यात्पञ्चमो न्यास इह ग्रहोंडशः ॥३९८॥ गान्धारहीनापि च ताडिता च सेयं तु शुङ्गाररसे प्रयोज्या।
-
॥ मल्हारः ॥ आन्धाल्युपाङ्ग प्रवदामि सम्यङ् मल्हारकं तारनिषाद्युक्तम् ॥ ३९९॥ स्याद्वैवतो न्यास इह ग्रहोंऽशो वर्ज्यश्च षड्जोऽत्र तु पञ्चमश्च। मन्द्रस्थगान्धारविवर्जितश्च स्यादौडवोडयं कथितो मुनीन्द्रैः ।। ४००।।
-
। कर्णाटगौडः॥ - कर्णाटगौडं प्रतिपादयामो न्यासो ग्रहोंडशः पुनरत्र पड्जः। ।। ४०१ ॥
-
॥ तुरुष्कगौडः॥ - तौरुष्कगौंडं प्रतिपादयामो न्यासो ग्रहोंऽशोऽत्र निषाद एव। गान्धारभूरिर्मृदुताडितश्च विवर्जितश्चर्षभपञ्चमाभ्याम् ॥ ४०२॥
Page 174
१५२ सङ्गीतसुधा॥
-
| द्राविडगौड: ॥ - अथोच्यते द्राविडगौडरागो न्यासो ग्रहोंडशोऽत्र निषाद एव। गान्धाररुपस्तिरुपेण युक्तस्तथा स्कुरत्पञ्रमपड्जकश्च ॥। ४०३ ॥ इतीरितास्त्रिशदुपाङ्गरागा: सर्वे निरुक्ता दशभेदभिन्नाः।
-
।। प्रसिद्धरागाः ॥ - समीक्ष्य नन्दीश्वरसंहितां तामालोक्य शास्त्रं भरतप्रणीतम् ।।४०४।। ग्रन्थं बृहद्देश्यभिधं मतङ्गमुनिप्रणीतं निषुण निरीक्ष्य। विचार्य तां याष्टिकसंहितां च ज्ञात्वाख्नानन्दनसंहितां च ।। ४०५ ॥ उमापते राधुनिकस्य तन्त्रमुद्वीक्ष्य नन्दीशमतानुसारि। सङ्गीतसारं समवेक्ष्य विद्यारण्याभिधश्रीचरणप्रणीतम् ॥ ४०६॥ निशाम्य सङ्गीतकचन्द्रिकाख्यां कृति च भट्टादिममाधवस्य। श्रीशार्ङ्गदेवेन कृतां च सताध्यायीं तथा लक्ष्मविरोधिलक्ष्याम्॥ ४०७॥ अबोधकात्यल्पतर प्रयोगामुद्दिष्टरागानुदितस्वरूपाम्। एनां स्फुटीकर्तुमिह प्रवृत्तौ यौ ब्राह्मणौ केशवकल्लिनाथौ ।। ४०८॥l टीकाद्वयेनापि कृतेन ताभ्यामबोधितास्पष्टपदार्थभेदाम्। त्यक्तामथो गायकवैणिकाद्यैविलोक्य लक्ष्यस्य च लक्षणस्य ।। ४०९।। यथा विरोधो न भवेत्तथैव पदावलीज्ञानवतां जनानाम्। यथैकवारश्रवणेन सदो जायेत सङ्गोतरहस्यबोध: ॥४१०॥ निरूपितास्ते निपुण तथैव लक्ष्यानुरूपैर्ललितैर्वचाभिः । न्यासस्वरांशग्रहतारमन्द्रापन्याससंन्यासमुखैविशेषैः ॥४११ ॥ तल्लक्षणैरप्यपरैश्च वादिविवादिसंवाद्यनुवादिभेदैः । निरूपिता लक्षणतो विविच्य रागाश्चतुःषष्टयधिके शते द्वे ।। ४१२ ॥
-
।।श्रीविद्यारण्यमतम्।- कर्णाट सिंहासनभाग्यविद्यारण्या भिधश्रीचरणाग्रणीभ्यः। आरभ्य रागान्प्रचुरप्रयोगान्पञ्चाशत चाकलये पडङ्गानू ।। ४१३ ॥ रागास्तु पञ्चाशदिहोपदिष्टा नट्टादय: सर्वजगत्प्रसिद्धाः।
Page 175
शुद्धमेलवीणा। १५३
-
॥ मेला:॥ तेषां मताः पञ्चदशैव मेला: क्रमात्तदुद्देशमिहामनामः ॥। ४१४ ॥ मेलेषु तेषु प्रथमोऽथ नट्टामेलस्ततो गुर्जरिकाख्यमेलः । मेलस्तृतीयस्तु वराटिकाया: श्रीरागमेलस्तु भवेच्चतुर्थः ॥ ४१५ ॥ स्यात्पञ्चमो भैरविकाख्यमेलोऽन्यः शङ्कराद्याभरणस्य मेलः । स्यात्सप्तमसत्वाहरिकाख्यमेला वसन्तभैरव्यभिघस्य मेल: ॥ ४१६ ॥ स्यादष्टमो गायकबोधहेतुः सामन्तमेलो नवमो निरुक्त्तः। काम्बोदिकाया दशमस्तु मेलस्त्वेकादशश्चापि मुखारिकायाः ॥४१७॥ मेलो भवेद् द्वादश एव शुद्धरामक्रियायास्तदनन्तरं स्यात्। केदारगौडस्य च मेल एको हीजुज्कायास्त्वपरोऽत्र मेल: ॥४१८॥ देशाक्षिकामेल इहान्तिम: स्यान्मेला: क्रमात्पञ्दशोपदिष्टाः। रागांस्तु मेलप्रभवांश्च तत्तद्रागप्रसङ्गेऽपि निरुपयामः ।४१९ ॥
-
॥। वीणानिरूपणम्॥ - निरूपितानामपि मेलकानां स्फुटा विपञ्च्यां भवति प्रतीतिः। निरूप्यते तेन तथात्र वीणा सा चात्र वीणा त्रिविधा विभाति॥४२०॥ तत्रादिमा स्यात्किल शुद्धमेलवीणा च सा सर्वजनैकहद्या। ततो द्वितीया खलु मध्यमेलवीणा च सा सर्वजगत्प्रसिद्धा ।। ४२१।। स्यादच्युतश्रीरघुनाथभूपमेलाख्यवीणा कथिता तृतीया। तिस्रोऽपि वीणा: प्रतिपादयामो यथाक्रमं वैणिकबोधहेतोः ॥४२२॥
-
॥ शुद्धमेलवीणा ॥ - यथेच्छमाकल्पितवलकी च स्वरव्यवस्था च यथेच्छमुक्ता। वीणोपरिस्थानगताश्चतस्रस्ता लोहतन्त्रीः परिकल्प्य पश्चात्॥ ४२३॥ पाश्वें तु तन्त्रीत्नितयं प्रकल्प्य कार्या च सा द्वादशपर्वयुक्ता। पर्वक्रमेण स्वरसंनिवेशः प्रकाश्यते वैणिकबोधहेतोः ॥ ४२४ ॥ षड्जो भवेत्केवलयापि तन्त्रया तत्पर्वणि स्पर्शनमन्तरेण। आद्ये च पर्वण्यृषभो निवेश्यः स्याच्छुद्वगान्धार इह द्वितीये ॥ ४२५॥ गान्धारक: पर्वणि तत्तृतीये साधारण: पर्वणि तच्चतुर्थे। गान्धारक: स्याच्चयुतमध्यमादिस्ततः परं पञ्चमपर्वणि स्यात्॥४२६॥
Page 176
१५४ सङ्गीतसुधा॥
शुद्धादिमो मध्यमको निवेश्यस्ततः परं पर्वणि चापि पष्ठे। स्यान्मध्यमोऽयं च्युतपञ्चमादिरेवं स्वरान्पर्वसु पट्सु युञ्ज्यात्॥४२७॥ स्यात्पञ्चमः पर्वणि सप्तमे च तथाष्ट्रमे पर्वणि धवतः स्यात्। निवेशनीयो नवमे निषादः कैशिक्यभिख्यो दशमे निपादः ॥४२८ ॥! एकादशे काकलिको निषाद: स्याद् द्वादशे तारकपड्ज एव। शिष्टेषु पर्वस्वपि सूक्ष्मभूतेष्वेवं निवेश्या: सकलाः स्वरास्ते ॥ ४२९॥ पर्वक्रमेण स्वरसंनिवेश निरूप्य तन्त्रीक्रमता वदामः । तन्त्र्यादिमायामनुमन्द्रषड्जस्तन्त्र्यां निवेश्यस्तदनन्तरं तु । ४३० ॥ द्वितीयतन्त्रयामनुमन्द्रपूर्वः स्यात्पञ्चमश्चापि निवेशनीयः। तृतीयतन्त्र्यामपि मन्द्रषड्जो मन्द्रादिमो मध्यमकश्चतुर्थ्याम् ॥४३१॥ तन्त्रीत्रयेऽथो विनिवेशिते तु ततो वदामः स्वरयोजनं च। मध्यस्थपड्जेन समाननादा भवेदिह प्राथमिकी तु तन्त्री द्वितीयतन्त्री: किल पञ्चमेन मन्द्रस्थितेनापि समाननादा। तृतीयतन्त्री: खलु मन्द्रषड्जसमाननादा कथिता प्रवीर्ण: ।। ४३३ ॥ एताश्चतस्त्र: श्रुतिपूर्वतन्त्र्यो नान्ये स्वराश्चापि भवन्ति तत्न। एवं निरुक्ता खलु शुद्धमेलवीणा प्रवीणव्यवहारयोग्या
।। मध्यमेलवीणा ॥ - ततः परं संप्रति मध्यमेलवीणां विशेषेण निरूपयामः। पूर्वोदिता या खलु शुद्धमेलवीणात्र तस्यामुपरिस्थतन्न्त्रयाम् ॥ ४३५॥। प्रास्त: स्वरः प्रागनुमन्द्रषड्जः स्यात्पञ्चमोऽस्यामनुमन्द्रपूर्वः । तन्त्रीद्वितीया खलु यानुमन्द्रपूर्वेण युक्ता खलु पञ्रमेन । ४३६ ॥ तस्यां निवेश्य: किल मन्द्रषड्जस्तृतीयतन्त्रयां स्वरमीरयामः । तृतीयतन्त्रीः किल मन्द्रषड्जयुक्ता पुरा संप्रति तत्र तन्त्रयाम् ॥४३७।। मन्द्रादिम: पञ्चम एव वेद्यश्चतुर्थतन्त्र्यां स्वरमामनामः । तन्त्रीस्तु मन्द्रादिममध्यमेन युक्ता तुरीया किल वाथ तस्याम् ॥४३८॥ भन्द्रादिषड्जो विनिवेशनीय: पार्श्वस्थतन्त्रीत्रितयं यदैव। ऊर्ध्वस्थतन्त्री त्रयतुल्यनादं तदा भवेन्मध्यममेलवीणा ॥ ४३९ ॥
Page 177
उपोद्घातः । १५५
- । अच्युतश्रीरघुनाथभूपमेलवीणा॥ -
तामच्युतश्रीरघुनाथभूपमेलाख्यवीणां प्रतिपादयामः। पूर्वोक्तवीणाद्वय एव मध्यमेलाख्यवीणा खलु या च तस्याम् ॥४३०॥ तन्त्रीसमेतश्रुतिपञ्चमां च तथैव मन्द्रस्थितपञ्चमां च। तथान्यतन्त्रीमपि पञ्चमेनानुमन्द्रपूर्वेण विशोभमानाम् । ४४१ ॥ विधाय तिस्नोऽपि समाननादास्तन्त्रीसहायेन च मध्यमेन। आद्यं स्वरं पञ्चममेव कृत्वा वाद्येत वीणा यदि वैणिकेन ॥ ४४२ ॥
एषाऽच्युतश्रीरघुनाथभूपमेलाख्यवीणा कथिता तृतीया। समस्तरागैकनिदानभूता मेलद्वयं चाप्यतिरिच्य सेयम्। रक्तिप्रदा श्रीरघुनाथभूपमहीमहेन्द्रेण विनिर्मिता च ॥ ४४३ ॥ आचन्द्रतारान्तमिय हि वीणा भूयान्मुदे गायकचैणिकानाम्। तिस्रोऽपि वीणाः प्रतिपाद्य वक्तुं रागानुपोद्घातमिहामनामः ॥४४४॥
- ॥। उपोद्घातः ॥ -
सङ्गीतविद्योपनिषद्रहस्यमध्यापयन्तं धुरि दक्षमुख्यान् ।। ४४५ ॥ देशीयरागेष्वपि च स्वरेषु श्रुतिष्वमूषामपि लक्षणेषु। नानाविरोधानिह याष्टिकं तं ते दक्षमुख्यास्त्विति पर्यपृच्छन् ॥ ४४६॥ सप् स्वरा द्वादश वैकृता ये तेषां चतस्रः श्रुतयो न चान्या:। पञ्चश्रुतिः षट्श्रुतिकश्च देशीरागेऽपि केषांचिदिह स्वराणाम् ॥४४७॥ अतो भवेच्छास्त्रविरोध एषां त्यागे तु तासां न हि रागलाभः । एवं विरोधे परिशङ्क्यमाने ततस्त्ववादीत्परिहारमेवम् ॥४४८ ॥ शास्त्रस्य लक्ष्यस्य मिथो विरोधो न स्याधथा स्यादपि रागलाभः। स पर्यहार्षीदिति तान्विरोधान्द्राग्याष्टिको रामपदाब्जसेवी ॥।४४९.॥ तां याष्टिकोक्तामविरोधरीतिं यक्षौघगीतामपि गानशैलीम्। आलोच्य बुद्धया चिरमाअ्जनेयो लक्ष्याविरुद्धं प्रणिनाय शास्त्रम्। ४५०॥ एषां श्रुतीनां नियम: स्वराणां न ग्रामजातिप्रमुखस्य चास्ति। भजन्ति नानाविधदेशजाताश्छायास्तथैते किल देशिरागा: ॥४५१॥
Page 178
१५६ सङ्गीतसुधा॥
इत्याश्जनेयेन विचार्य सम्यक शास्त्रे निरुक्ता: किल देशिरागाः। नट्टादिकानां च सहेतुकानां लक्ष्माणि वक्ष्याम्यथ तेन तेन । ४५२।।
।। नट्टारागः ॥
द्वे धैवतीमार्षभिकां च हित्वा या: पञ्च शुद्धा इह जातय: स्यु:। ता ग्रमरागे प्रकृतित्वमाप्ता हिन्दोलनाम्नीत्यवधारणीयम् ।। ४५३ ॥ हिन्दोलरागात्प्रवभूव भाषा पिश्जर्यभिख्यानवती किलेयम्। नट्टा तु तज्जन्यतयोपदिष्टा वक्ष्यामि तस्या: किल मेलमादौ ॥४५४॥ षड्जस्तथा मध्यमपञ्चमौ च शुद्धा: स्वराः षट्छूतिभिः समेतः। सधैवतः स्यादृषभोऽन्तरश्च गान्धारकः काकलिको निषादः ॥४५५॥ एतैः स्वरैः सप्तभिरत्र नट्टामेलो युतो गायकसंप्रदायात्। एवं निरुक्ते खलु साधु नट्टामेले ततोऽस्या: किल लक्ष्म वक्ष्ये॥४५६॥ न्यासो ग्रहोंडश: पुनरत्र षड्जः स एव वादी किल पञ्नमोडसौ। संवादिभावं भजते विवादी गान्धारकश्चापि निषादकश्च ॥ ४५७॥
सधैवतः स्यादृषभोऽनुवादी नट्टागतं लक्षणमित्थमुक्तम्।
- ॥ रागसामान्यलक्षणम्॥ -
अनुक्तमन्यद्यदिहास्ति किचिदानीय तत्तत्प्रकृतिभ्य एव । ४५८॥ तस्य प्रयोगं प्रतिपादयामो यथाक्रमं गायकबोधहेतोः। आक्षिप्तिकादीनि निरूपयामो रागाङ्गभूतानि निरुक्तिपूर्वम् ।।४५९.।।
- ॥ आक्षिप्तिका ॥
आक्षिप्यते स्म प्रथमं हि रागैराक्षित्तिका नाम तदस्य युक्तम्। सैवोदितायित्तपदेन लोकैराक्षिप्तिकेयं तदिहादिमाङ्गम् । ४६० ॥
Page 179
। रघुनाथभूपविरचिता ॥
॥ सङ्गीतसुधा ॥
- ।। रागवर्धनी ॥ - आक्षिप्तिकायां स्फुटतां गतस्य रागस्य वृद्धि: क्रियतेऽनयेति। सा रागवर्धन्युदिता द्वितीयमङ्गं च लोका यडुपाख्यमाहुः ॥४६१॥ तद्रागवर्धन्यभिधानमङ्गमेतत्तु केचित् करणं वदन्ति।
।। विदारी॥ - या रागवर्धन्यभिधाङ्गयुग्मविभाजकोपाधिरसौ विदारी ॥ ४६२।। यडुप्पुमुक्तायिगिरा विदारीं भाषानुरोधेन भणन्ति लोकाः ।
॥ स्थायी ॥ आदौ गृहीत: स्वर एव तानगणस्थितिः स्थायिपदाभिधानम् ॥ ४६३॥ तच्छास्त्रलोकव्यवहाररीत्या लभेत रागस्य चतुर्थेमङ्गम्।
।। वतेनी ।। - नानास्वराणामिह तानवर्गे यद्वर्तते तेन तु वर्तनीयम् ॥ ४६४॥ एषैव लोके मकरिण्यभिख्यामाप्नोति लक्ष्यप्रवणप्रयोगे।
-॥। न्यास: ॥ यन्न्यस्यते राग इहैव रागन्यासाह्वयं तेन तु षष्ठमङ्गम् ॥ ४६५॥ अस्यापि लक्ष्यज्ञजना: प्रयोगे मुक्तायिसंज्ञां मुहुराद्रियन्ते। गोशब्दपर्यायतयैव गावी गोणीति गोपोतलिकेति भिन्नाः ॥४६६॥ 21
Page 180
।। रघुनाथभूपविरचिता ॥
॥ सङ्गीतसुधा॥
-।। रागवर्धनी॥ - आक्षिप्तिकायां स्फुटतां गतस्य रागस्य वृद्धि: क्रियतेऽनयेति। सा रागवर्धन्युदिता द्वितीयमङ्गं च लोका यडुपाख्यमाहुः ॥४६१॥ तद्रागवर्धन्यभिधानमङ्गमेतत्तु केचित् करणं वदन्ति।
-।। विदारी। - या रागवर्धन्यभिधाङ्गयुग्मविभाजकोपाधिरसौ विदारी ॥ ४६२॥। यडुप्पुमुक्तायिगिरा विदारीं भाषानुरोधेन भणन्ति लोकाः ।
- ।। स्थायी ॥। आदौ गृहीतः स्वर एव तानगणस्थिति: स्थायिपदाभिधानम् ॥ ४६३॥ तच्छास्त्रलोकव्यवहाररीत्या लभेत रागस्य चतुर्थमङ्गम्।
। वतैनी ॥ नानास्वराणामिह तानवर्गे यद्वर्तते तेन तु वर्तनीयम्॥ ४६४॥ एषैव लोके मकरिण्यभिख्यामाप्नोति लक्ष्यप्रवणप्रयोगे।
- ॥। न्यासः ॥ - यन्न्यस्यते राग इहैव रागन्यासाह्वयं तेन तु षष्ठमङ्गम् ॥ ४६५॥ अस्यापि लक्ष्यज्ञजनाः प्रयोगे मुक्तायिसंज्ञां मुहुराद्रियन्ते। गोशब्दपर्यायतयैव गावी गोणीति गोपोतलिकेति भिन्नाः ॥ ४६६॥ 21
Page 181
१५८ सङ्गीतसुधा
यथैव नानाविधदेशभेदा भवन्ति शब्दा व्यवहारकाले। आयित्तकाद्या अपि तद्वदेवाक्षिप्तादिपर्यायतया भवेयु: ॥४६७॥ शास्त्रस्थितानामपि लौकिकानामतो न दोषो व्यवहारकाले। आक्षिप्तिकायाः प्रथमं प्रयोगं वक्ष्यामहे गायकबोधहेतोः ॥ ४६८॥
-॥। आक्षिप्तिका॥- आरभ्य तारस्थितष डुमादौ मध्यर्षभाख्यावधि चावरुह्य। आरभ्य तस्मादपि तारषडपर्यन्तमप्यत्र यथाक्रमेण॥ ४६९॥ गीत्वा च तानान् कतिचिद्यथेष्टं न्यस्येत् पुनस्तारगषड़ एव।
-।। रागवर्धनी ॥ - तां रागवर्धन्यभिधां प्रवक्ष्ये त्वारभ्य मध्यस्थितपञ्चमं तु।। ४७० ॥ आरुह्य तारस्थितपञ्मान्तमामध्यमान्तांस्त्ववरुह्य तानान्। गीत्वा च कांश्चित् पुनरत्र मध्यषड्डस्तथा न्यास इहोपदिष्टः ।। ४७१॥
॥ विदारी ॥ - तस्या विदारीमथ लक्षयामो लक्ष्यप्रबोधाय यथाक्रमेण। आरभ्य मध्यस्थितमध्यमान्तं तारर्षभावध्यधिरुह्य पञ्चात् ॥ ४७२॥। मध्यर्षभावध्यवरुह्य तानान् न्यस्येत्तु गीत्वा पुनरत्र षड्डे। मुक्तायिसंज्ञास्य तु रागवर्धन्यन्तःस्थितैषा हि विदारिका स्यात्॥४७३ ॥
- ।। रागवर्धनी॥ तां रागवर्धन्यभिधां द्वितीयां वक्ष्यामहे गायकबोधहेतोः । आरभ्य तारस्थितमध्यमान्तमारुह्य चातारनिषादमादौ।। ४७४ ॥ आ मध्यषड्ादवरुह्य चापि स्वैरं विचित्रान् द्रुतमानयुक्तान्। क्रमेण तानान् कतिचिच्च गीत्वा न्यस्येत् पुनर्मध्यमषड्ज एव ॥। ४७५ ॥ अस्या विदारीमधुना विद्ध्यात्ततो हि मध्यस्थितमध्यमात्तु। आरुह्य चातारगतर्षभं च मध्यर्षभान्तं च ततोऽवरोहेत्॥ ४७६ ॥ गीत्वा विचित्रान् पुनरत्र तानान् न्यस्येत् पुनस्तारगषड्ड एव।
Page 182
रिषभस्थायी १५९
-।। बड्जस्थायी॥- षडुजान्तिमस्थायिनमत्र वक्ष्याम्यारभ्य तारास्थतष डुमादौ ॥ ४७७ ॥ क्रमेण चातारनिषादकान्तं षडुर्षभौ मध्यमपञ्चमौ च। निषादकश्चेति च पञ्च ये स्युः प्रत्येकमेकं हि च तानमेषाम् ॥४७८॥ स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरस्यापि विवर्जनेन। आरोहणेनाप्यवरोहणेन तानान् विचित्रान् दश साधु गीत्वा।। ४७९॥ न्यस्येत् पुनस्तारगपड एव षडादिमस्थाय्युदित: किलैवम्।
- ।। पञ्चमस्थायी॥ -
तं पञ्च्मस्थायिनमामनामसत्वारभ्य मध्यस्थितपञ्मान्तम् ॥ ४८०॥ यथाक्रमं तारगपञ्चमान्तं सपख्मः किं च निषादृषड्जौ। तथर्षभो मध्यमपञ्चमौ चेत्येषां स्वराणां क्रमशस्तु षण्णाम् ॥ ४८१॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेन त्वारोहणेनाप्यवरोहणेन ॥। ४८२ ॥ गीत्वा क्रमाद्द्वादश तानभेदान् न्यस्येत् पुनर्मध्यमपञ्चमेडस्मिन्।
-॥। मध्यमस्थायी॥- स्थाय्युच्यते मध्यममध्यमस्य त्वारभ्य मध्यस्थितमध्यमान्तम् ॥४८३॥ समध्यमः पञ्चमको निषादः षड्जर्षभौ मध्यम इत्यमीषाम्। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ ४८४॥ तथोत्तरेषामपि वर्जनेन त्वारोहणेनाप्यवरोहणेन। गीत्वा क्रमाद्द्वादश तानभेदान् न्यस्येत् पुनर्मध्यममध्यमेऽस्मिन् । ४८५॥
- ॥। रिषभस्थायी ॥ - मध्यर्षभस्थायिनमत्र वक्ष्याम्यारभ्य मध्यर्षभमेव चादौ। आ चर्षभात्तारगतात् क्रमेण तच्चर्षभो मध्यमपञ्चमौ च। ४८६॥ निषादषड्जावृषभः षडेते प्रत्येकमेकैककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरस्यापि च वर्जनेन ॥ ४८७ ।।
Page 183
रिषभस्थायी १५९
-
।। षड्जस्थायी ॥- षडुजान्तिमस्थायिनमत्र वक्ष्याम्यारभ्य तारास्थतषडुमादौ॥ ४७७ ॥ क्रमेण चातारनिषाद्कान्तं षडुर्षभौ मध्यमपञ्मौ च। निषादकश्चेति च पञ्च ये स्युः प्रत्येकमेकं हि च तानमेषाम् ॥ ४७८ ॥ स्वपूर्वपूर्व स्वरयोजनात् स्वोत्तरोत्तरस्यापि विवर्जनेन। आरोहणेनाप्यवरोहणेन तानान् विचित्रान् दश साधु गीत्वा॥ ४७९॥ न्यस्येत् पुनस्तारगषडु एव षड्डादिमस्थाय्युदितः किलैवम्।
-
-।। पञ्मस्थायी॥ - तं पञ्च्मस्थायिनमामनामस्त्वारभ्य मध्यस्थितपञ्मान्तम् ॥। ४८०।। यथाक्रमं तारगपञ्चमान्तं सपश्चमः किं च निषादषड्जौ। तथर्षभो मध्यसपञ्चमौ चेत्येषां स्वराणां क्रमशस्तु वण्णाम् । ४८१॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेन त्वारोहणेनाप्यवरोहणेन ॥ ४८२॥। गीत्वा क्रमाद्द्वादश तानभेदान् न्यस्येत् पुनर्मध्यमपञ्मेऽस्मिन्।
-।। मध्यमस्थायी ॥- स्थाय्युच्यते मध्यममध्यमस्य त्वारभ्य मध्यस्थितमध्यमान्तम् ॥४८३॥ समध्यम: पञ्चमको निषादः षड्जर्षभौ मध्यम इत्यमीषाम्। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥। ४८४॥ तथोत्तरेषामपि वर्जनेन त्वारोहणेनाप्यवरोहणेन। गीत्वा क्रमाद्द्वादश तानभेदान् न्यस्येत् पुनर्मध्यममध्यमेऽस्मिन् । ४८५॥
- ।। रिषभस्थायी।। मध्यर्षभस्थायिनमत्र वक्ष्याम्यारभ्य मध्यर्षभमेव चादौ। आ चर्षभात्तारगतात् क्रमेण तच्चर्षभो मध्यमपञ्च्मौ च। ४८६॥ निषादषड्जावृषभः षडेते प्रत्येकमेकैककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरस्यापि च वर्जनेन ॥ ४८७ ॥
Page 184
१६० सङ्गीतसुधा
आरोहणेनाप्यवरोहंणेन तानान् क्रमाद्द्वादश साधु गीत्वा। न्यस्येत् पुनर्मध्यगतर्षभेSस्मिन् मध्यर्षभस्थायिनमेनमाहुः ॥४८८॥
- ।। मध्यषड्जस्थायी ॥ - स्थाय्युच्यते मध्यमषड्जकस्य चारभ्य मध्यस्थितषड्जमादौ। तारस्थषड्जावधि च क्रमेण षड्जर्षभौ मध्यमपञ्च्मौ च ।। ४८ ९ । निषादषड्जाविति षट्स्वराणां प्रत्येकमेकेककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरस्यापि च वर्जनेन ॥ ४९० ॥ आरोहणेनाप्यवरोहणेन तानान् क्रमादूद्वादश साधु गीत्वा। पञ्चाप्यमून् स्थायिन एव गीत्वा गायेत्ततो वर्तनिकाक्रमेण ॥ ४९१॥
-।। वर्तनी॥- आरभ्य मध्यस्थितषड्जमादावारुह्य चातारनिषाद्मत्र। आरभ्य षड्जं त्ववरुह्य तस्मात्तानांश्र कांश्चित् क्रमशोऽथ गीत्वा।। ४९२ ॥ न्यस्येत् पुनर्मध्यमषड्ज एवं वर्तन्युदीता मकरिण्यभिख्या।
-॥। न्यासः ॥- रागादिमन्यासमथाभिधास्ये त्वारभ्य तारर्षभमेव पूर्वम् ॥ ४९३ ॥ मध्यर्षभान्तं त्ववरुह्य भूयरत्वारुह्य चातारगषड्जमेव। तानांश्च कांश्चित् क्रमशोऽथ गीत्वा न्यस्येत् पुनस्तारगषड्ज एव ॥। ४९४॥ न्यासस्तु रागस्य निरूपितोयं सायाह्नगानेऽस्य च रक्तिलाभः । श्रेयोविशेषश्च भवेज्जनानामिति स्फुटं संकथितात्र नट्टा ॥ ४९५॥
(२) - । अथ गुर्जरीरागः ॥ - संपूर्णरागः खलु गुर्जरी तन्मेलं तु रागप्रकृतिं वदन्ति। गौडस्य मेले परिकल्प्यमाने संपूर्णरागा न भवन्ति तस्मात् ॥ ४९६ ।। त्यक्क्का ततः संप्रति गौडमेलं ग्राह्यो भवेद्गुर्जरिकाख्यमेलः । नैतत् सहन्ते कतिचिन्नवीनाः संपूर्णभावः कथमस्य वेति ॥ ४९७॥ आरोहणे पञ्चमवर्जनेन सा गुर्जरी षाडव एव रागः । अतोइस्य मेलो न च कल्पनीयः कुप्ते पुनर्मालवगौडमेले॥४९८॥
Page 185
रागवरधेनी १६१
नैतद्विचारक्षममेभिरुक्तं पूर्णो यतो गुर्जरिकाख्यरांगः । यत्पञ्चमश्चाप्यवरोहमार्गे त्वयाष्ययं स्वीकृत एवे पक्ष: ॥ ४९९॥ भवेदनेनैव निदर्शनेन त्वारोहणे पञ्रम एव तस्मिन्। कल्प्यस्त्वया मालवगौडमेलः प्रसिद्धयभावादिह गायनानाम् ॥ ५००॥ सा गुर्जरी सर्वजनप्रसिद्धा संपूर्णभावेन समन्वितेति । पञ्चोत्तराणां प्रकृतिर्दशानां रागान्तराणामत एष मेल: ॥५०१॥ तं गुर्जरीमेलमथाभिधास्ये षड्जर्षभौ मध्यमपञ्च्मौ च । सधैवतश्चेति भवन्ति शुद्धा गान्धारकश्चान्तरनामधेयः ॥ ५०२।। तथा भवेत् काकलिकानिषाद: स्याद्गुर्जरीमेल उदीरितोऽयम्। न्यासो ग्रहोंडशस्त्वृषभोऽत वेद्यः संपूर्णरागः कथितः प्रवीणैः ॥ ५०३॥ आरोहणे तस्य च के चिदङ्गीकुर्वन्ति वर्ज्य किल पञ्चमं च।
-।। आक्षिप्तिका॥ आक्षिप्तिकास्या अपि लक्ष्यतेऽत्र ह्यारभ्य तारर्षभमेव पूर्वम् ॥५०४॥ मध्यर्षभान्तं च ततोऽवरुह्यारुह्यापि चा तारगतान्निषादात्। गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव ॥ ५०५॥
- ।। रागवधेनी ॥ - तद्रागवर्धन्यथ तारवर्ती गान्धारगस्तारगघैवतान्तम्। आरुह्य चामध्यगषड्जमत्रावरुह्य तानानभिधाय कांश्चित् ॥ ५०६ ॥।
।। विदारी।। - न्यस्येच्च तारस्थितिभाजि षड्जे विदारिकास्या अपि वर्ण्यतेऽथ। आरभ्य मध्यस्थितधैवतं प्राङ्ध्यर्षभान्तं त्ववरुह्य पञ्चात् ॥ ५०७॥ आरुह्य तत्तारगतर्षभान्तं गीत्वा च तानान् कतिचिद्विचित्रान्। न्यस्येच्च तारस्थितिभाजि षड्जे तद्रागवर्धन्यभिधीयतेऽस्य ॥ ५०८॥
-।। रागवर्धनी ॥ - आरभ्य तारर्षभमा च तारनिषादृतः स्याद्धिरोहणं च। आमध्यषड्जं त्ववरुह्य तानान् गीत्वा त्यजेन्मध्यमषड्ज एव ॥ ५०९॥
Page 186
१६२ सङ्गीतसुधा
-।। विदारी ॥ - अस्या विदारी त्वथ तारषड्जमारभ्य तस्मादवरुह्य पश्चात्। मध्यर्षभान्तं त्वधिरुह्य पश्चात्तारर्षभान्तं त्वधिरुह्य कांश्चित् ॥ ५१०॥ तानान् विचित्रान् क्रमशोऽथ गीत्वा न्यस्येच्च तारस्थितषड्ज एव।
- ।। तारषड्जस्थायी ॥ - अथोच्यते संप्रति तारषड्जस्थायी समारभ्य तु तारषड्जम् ॥५११॥ यत्र स्वरास्तारनिषादकान्तास्ते षट् स्वरा मध्यमवर्जनेन। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ ५१२ ॥ अथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन। तानांस्तथा द्वादश साधु गीत्वा न्यस्येन्तु तारस्थितषड्ज एव ॥ ५१३॥
-।। पञ्चमस्थायी॥ - स्थाय्युच्यते मध्यमपञ्चमस्य त्वारभ्य मध्यस्थितपञ्चमान्तम्। अत्र स्वरास्तारगपञ्मान्ताः सप्तैव ते मध्यमवर्जनेन ॥ ५१४॥ प्रत्येकमेकैककतानमेषां पूर्वोक्तरीत्या च चतुर्दशैव। गीत्वा च तानान् क्रमशो विचित्रान् न्यस्येच्च मध्यस्थितपञ्मेऽस्मिन् ॥ ५५॥
- ।। रिषभस्थायी ॥- अथोच्यते मध्यगतर्षभस्य स्थायी तु मध्यर्षभमेव चादौ। तारर्षभान्तं खलु सप्त ये स्युः स्वरा मता मध्यमवर्जनेन ॥५१६॥ प्रत्येकमेकैककतानमेषां पूर्वोक्तरीत्या तु चतुर्दशैव। गीत्वा च तानान् क्रमशो विचित्रान् न्यस्येत् पुनर्मध्यगतर्षभेऽस्मिन् ॥ ५१७॥
-।। षड्जस्थायी ॥ - संलक्ष्यते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम्। आतारषड्जं पुनरत्र सप्त स्वरास्तथा मध्यमवर्जेनेन ॥ ५१८॥ प्रत्येकमेकैककतानमेषां पूर्वोक्तरीत्या तु चतुर्देशैव। गीत्वा च तानान् क्रमशो विचित्रान् न्यस्येत्तु मध्यस्थितषड्ज एव ॥ ५१९॥
Page 187
................
विदारी १६३
- ।। वर्तनी ॥ - अथोच्यते वर्तनिका च मध्यषड्जं समारभ्य येथाक्रमेण। आरुह्य चातारनिषाद्मस्मादामध्यषड्जं त्ववरुह्य कांश्चित् ॥ ५२० ॥ तानान् विचित्रान् कतिचिच्च गीत्वा न्यस्येच्च मध्यस्थितषड्ज एव।
॥ न्यास: ॥ न्यासस्तु रागस्य भवेत् पुरोक्त्तो विदारिकावत् पुनरुक्तवर्जम् ॥ ५२१॥ प्रगे प्रगेया खलु गुर्जरीयमुक्ताञ्जनेयस्य मतानुरोधात्।
(३) - i। अथ सौराष्ट्ररागः ॥ - वक्ष्यामि सौराष्ट्रमथास्य मेल: स्याद्गुर्जरीरागकमेल एषः ॥ ५२२॥ तल्लक्षणं तावदुदीरयामो न्यासो ग्रहोंऽशः पुनरत्र षड्जः । संवादिनौ मध्यमपञ्च्मौ च निषादगान्धारयुगं विवादि ॥ ५२३॥
-
।। आक्षिप्तिका ॥ - आक्षिप्तिकामस्य पुनः प्रवक्ष्याम्यारभ्य तारस्थितषड्जमादौ। मध्यर्षभान्तं च ततोऽवरुह्य चारुह्य तारस्थितमध्यमान्तम् ॥५२४॥ गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव।
-
॥। रागवर्धनी ॥ - सा रागवर्धन्यभिधीयतेऽद्य प्रारभ्य तारस्थितपञ्नमाच्च ॥५२५॥ आरुह्य चातारनिषादमा च मध्यस्थषड्जादवरुह्य पश्चात्। प्रगाय तानान् कतिचित् प्रगल्भं सुश्नेच कि चेदशि मध्यषड्जे ॥ ५२६॥
-
।। विदारी ॥ - अस्या विदारीं पुनरीरयामः प्रारभ्य मध्यस्थितमध्यमं प्राक् । मध्यर्षभान्तं च ततोऽवरुह्यारुह्यापि तारस्थितपञ्चमान्तम् ॥५२७ ।। प्रगाय तानान् कतिचित् प्रगल्भ न्यस्येच्च तारस्थितषड्ज एव ।
Page 188
१६४ सङ्गातसुधा
·- ।। रागवर्धनी॥ अथ द्वितीयास्य तु रागवर्धन्यारभ्य तारस्थितमध्यमं प्राक् ॥ ५२८॥ आरुह्य चा तारगतान्निषादादा चावरुह्याप्यथ मध्यषड्जात्। नानाविधानाकलयंश्र तानान् न्यस्येच्च तानेव च मध्यषड्जे ॥ ५२९॥
-
।। विदारी।। अस्या विदारीं निगदामि तारगान्धारमारभ्य किलावरुह्य। मध्यर्षभान्तं क्रमशस्तथैवारोहेच्च तारस्थितमध्यमान्तम् ॥ ५३०॥ गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव।
-
।। तारषड्जस्थायी॥ - तारस्थषड्जस्य निरूष्यतेऽथ स्थायी समारभ्य तु तारषड्जम् ॥५३१॥ स्वरान्निषादादधिरुह्य ये स्युः प्रत्येकमेकैककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन ॥ ५३२ ॥ आरोहणेनाप्यवरोहणेन गीत्वा तु तानांस्तु चतुर्दशैव।
-
।। पञ्वमस्थायी।। न्यस्येच्च तारस्थितषड्ज एव तं पञ्चमस्थायिनमामनामः ॥५३३॥ आरुह्य मध्यस्थितपञ्नमान्तमा पञ्मात्तारगता: स्वरा ये। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ ५३४ ॥ तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन। व्यष्टौ च तानान् पुनरत्र गीत्वा न्यस्येच्च मध्यस्थितपञ्मेऽस्मिन् ॥ ५३५॥
-।। गान्धारस्थायी ॥ - गान्धारकस्थायिनमत्र वक्ष्ये प्रारभ्य गान्धारममुं च मध्यम् । आ तारगान्धारमिह स्वरा ये सप्त स्थिता मध्यमवर्जनेन ॥ ५३६॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेन चारोहणेनाष्यवरोहणेन ॥। ५३७।। तानान् प्रगायाथ चतुर्दशैव मध्यस्थगान्धारक एव जह्यात ।
Page 189
आक्षिप्तिका १६५
-
।। रिषभस्थायी॥ - अथर्षभस्थायिनमामनामः प्रारभ्य मध्यादृषभांद् भवन्ति ॥ ५३८॥ येष्ट स्वरास्तारगतर्षभान्ताः प्रत्येकमेकैककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनेन तथेतरेषामपि वर्जनेन ॥ ५३९॥ आरोहणेनाप्यवरोहणेन वयष्टौ च तानान् क्रमशोऽथ गीत्वा। न्यस्येच्च मध्यर्षभ एव मध्यषड्जस्वरस्थायिनमामनन्ति ॥ ५४०॥
-
।। षड्जस्थायी ॥ - आरभ्य मध्यस्थितषड्जमादावष्टौ स्वरांस्तारगषड्जकान्तम्। प्रत्येकमेकैक कतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ ५४१॥ तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन। द्यष्टौ च तानान् क्रमशोऽथ गीत्वा न्यस्येच्च मध्यस्थितषड्ज एव ॥५४२॥
।। वर्तनी ॥ - अथोच्यते वर्तनिका क्रमेण प्रारभ्य मध्यस्थितषड्जमादौ। आरुह्य तत्तारनिषादकान्तमामध्यषड्जं तु ततोऽवरोहेत्॥ ५४३ ॥ गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च मध्यस्थितषड्ज एव।
- ॥ न्यास: ॥ न्यासस्तु रागस्य पुरोक्तरागवर्धन्यपन्यासवदेव वेद्यः ॥ ५४४।। सौराष्ट्ररागोऽयमतीव हृद्यः सदा प्रगीतः शुभदायकश्च।
(४) - ।। अथ मेचबौलिरागः ॥ - निरुप्यते संप्रति मेचबौलिमेलो भवेद गुर्जरिरागमेलः ॥५४५॥ न्यासो ग्रहोंऽशोऽत्र तु षड्ज एव संपूर्णरागः कथितः प्रवीणैः ।
1 - ।। आक्षिप्तिका ॥ - आक्षिप्तिकाख्यं खलु लक्ष्यतेऽत्र गांधारमारभ्य तु मध्यसंस्थम् ॥ ५४६॥
गीत्वा च तानानू कतिचिद्विचित्रान्न्यस्येच्च तारस्थितषड्ज एवं । ५४७॥
Page 190
१६६ सङ्गातसुधा
।। रागवर्धेनी ॥ तद्रागवर्धन्यभिधीयतेऽथ प्रारभ्य मध्यस्थितधैवतं प्राकू। आरुह्य तारस्थितघैवतान्तमामध्यषड्जं च ततोऽवरुह्य ॥ ५४८॥ गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च मध्यस्थितषड्ज एव।
- ।। विदारी॥ तस्या विदारीमथ लक्षयामः प्रारभ्य मध्यस्थितपञ्चमं तु ॥ ५४९॥ आमध्यगांधारमतोऽवरुह्य चातारगांधारमतोऽधिरुह्य। गीत्वा च तानान् कतिचित् क्रमेण न्यस्येच्च तारस्थितषड्ज एव ॥ ५५०॥
-।। रागवर्धनी ॥ - तद्रागवर्धन्यभिधीयतेऽन्या प्रारभ्य तारषभमेव चादौ। आरुह्य चा तारनिषाद्मस्मादा मध्यषड्जं त्ववरुह्य कांश्चित् ॥ ५५१॥ तानांश्र गीत्वा खलु मध्यषडजे न्यासो निरुक्तोऽथ विदारिकास्याः ।
-।। विदारी।। - आरुह्य तारस्थितषड्जमादावामध्यगांधारमतोऽवरुह्य ॥५५२॥ आरुह्य तारस्थितमध्यमान्तं गीत्वा च तानान् कतिचिद्विचित्रान्। न्यस्येच्च तारस्थितषड्ज एव स्थायी तु तारस्थितषड्जकस्य । ५५३॥
-।। षड्जस्थायी ॥ - आरभ्य तारस्थितषड्जमादौ सप्र स्वरांस्तारनिषादकान्तान्। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ ५५४॥ ..... तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन। गीत्वा च तानांस्तु चतुर्दशैव न्यस्येच्च तारस्थितषड्ज एव ॥ ५५५॥
- । पञ्चमस्थायी॥ स्थाय्युच्यते संप्रति पञ्चमत्य प्रारभ्य मध्यस्थितपञ्चमं प्राक् । अष्टौ स्वरांस्तारगपञ्मान्तान् प्रत्येकमेकैककतानमेषाम् ॥ ५५६॥ व्ष्टाप्यतः पूर्ववदेव गीता तानांस्त्यजेन्मध्यगपञ्चमेऽस्मिन्।
Page 191
रागवर्धनी १६७
- ।। गांधारस्थायी ॥ - गांधारकस्थायिनमामनामो गांधारमारभ्य तु मैध्यसंस्थम् ॥ ५५७॥ आतारगांधारमिहाष्टधा स्युः प्रत्येकमेकैक कतानमेषाम् । व्यष्टाप्यतः पूर्ववदेव गीत्वा गांधारके मध्यगते त्यजेत्तान् ॥ ५५८॥
-।। सध्यषड्जस्थायी ॥ - अथोच्यते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम् । आतारषड्जं पुनरष्टधा स्युः प्रत्येकमेकैककतानमेषाम् ॥५५९॥ व्वष्टाप्यतः पूर्ववदेव गीत्वा तानांस्त्यजेन्मध्यगषड्ज एव।
- ।। वर्तेनी।। तद्वर्तनीं संप्रति कीर्तयामः प्रारभ्य मध्यस्थितषड्जमादौ ॥ ५६०॥ आरुह्य चातारगषड्जमस्मादा मध्यषड्जादवरुह्य कांश्चित्। गीत्वा तु तानानथ मध्यषड्जे न्यस्येच्च रागन्यसनं तु तस्य । ५६१। अपौनरुक्त्येन च पूर्वरागवर्धन्यपन्यासतयैव वेद्यम्। एवं निरुक्त: खलु मेचबौलिरागोऽधुना गायकबोधहेतोः ॥५६२॥
(५) - ।। अथ च्छायागौलरागः ॥ - छायादिगौलं प्रतिपादयामो मेलस्य तस्यापि च गुर्जरीवत्। निषाद एवात्र भवेद् ग्रहोंऽशो न्यासश्च संपूर्णतयात्र वेद्यः ॥ ५६३॥
- ।। आक्षिप्तिका॥ आक्षिप्तिकामत्र निरूपयामः प्रारभ्य मध्यस्थितषड्जमादौ। आ मध्यमात् पञ्चमतोऽवरुह्यारुह्यापि चातारगपञ्चमं च॥ ५६४।। प्रगाय तानान् कतिचित् प्रगल्भं न्यस्येत् पुनस्तारगषड्ज एव।
-।। रागवर्धनी ॥ - अथोच्यते संप्रति रागवर्धन्यारभ्य तारर्षभमेव पूर्वम् ॥५६५॥ आरुह्य तारस्थितधैवतान्तमा मध्यषड्जादवरुह्य पश्चात्। तानान् विचित्रान् कतिचिच्च गीत्वा न्यस्येच्च मध्यस्थितषड्ज एव ॥ ५६६ ॥
Page 192
१६८ सङ्गीतसुधा
·- ।। विदारी ॥ - अस्या विदारीमथ लक्षयामः प्रारभ्य मध्यस्थितपञ्मं च। आ मध्यषड्जादवरुह्य पश्चादारुह्य चातारगषड्जमस्मात् ॥ ५६७॥ तानांश्च गीत्वा कतिचित् प्रगाय मुञ्चेत् पुनमेध्यगषड्ज एव।
-
। रागवर्धनी ॥ - सा रागवर्धन्यभिधा द्वितीया विदार्यमुष्याश्च यथापुरं स्तः ।। ५६८।। अपौनरुक्त्यादपि ते प्रगेये षड्जस्वरस्थायिनमामनामः ।
-
।। तारषड्जस्थायी ॥ - आरभ्य तारस्थितषड्जमादौ सप् स्वरांस्तारनिषादकान्तान् ॥ ५६९॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन ॥ ५७० ॥ प्रगाय तानांस्तु चतुर्दशैव न्यस्येत्तु तारस्थितषड्ज एव।
-
।। पञ्मस्थायी॥ अथोच्यते मध्यगपञ्चमस्य स्थायी तु मध्यस्थितपञ्नमं तम्॥५७१॥ आरभ्य ये तारगपञ्मान्ता व्यष्टौ तु पूर्वोक्तवदेव तानान्। गीत्वा पुनर्मध्यगपञ्च्मेऽस्मिन् सुञ्ेच्च वैचित्र्यवशेन तानान्॥ ५७२ ॥
-
।। मध्यषड्जस्थायी॥ - अथोच्यते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जात्। ये तारषड्जावधिकस्वराश् व्यष्टापि पूर्वोक्तवदेव तानान् ॥५७३।। गीत्वा पुनर्मध्यगषड्ज एव न्यस्येदथो वर्तनिकां वदामः।
-
।। वर्तेनी ॥ - आरभ्य मध्यस्थितषड्जमादावारुह्य चातारनिषादमस्मात् ॥ ५७४॥ आ मध्यषड्जादवरुह्य पश्चात् प्रगाय तानान् कतिचित् प्रगल्भम् । न्यस्येच्च मध्यस्थितषड्ज एव न्यासस्तु रागस्य विदारिकावत्॥ ५७५॥
Page 193
षड्जस्थायी १६९
(६) - ।। अथ गुण्डक्रियारागः ॥ - गुण्डक्रियामाकलयामि तस्या मेलो भवेद् गुर्जरिकाख्यमेलः । न्यासो ग्रहोंऽशोऽपि च षड्ज एव तस्यास्त्वियं पूर्णतया प्रतीता ॥५७६॥
-। आक्षिप्तिका॥ - आक्षिप्तिकामाकलयाम्यमुष्याः प्रारभ्य तारस्थितषड्जमादौ। आमध्यषड्जं त्ववरुह्य पश्चादारुह्य तारोपहितर्षेभान्तम् ॥५७७॥ तानान् विचित्रान् कतिचित् प्रगायन् न्यस्येत् पुनस्तारगषड्ज एव।
-।। रागवर्धनी ॥ - अथोध्यते संप्रति रागवर्धन्यारभ्य मध्यस्थितपञ्चमं प्राक ॥ ५७८॥ आरुह्य तारस्थितघैवतान्तमामध्यषड्जादवरुह्य पश्चात्। प्रगाय तानान् कतिचिद्विचित्रान् न्यस्येच्च मध्यस्थितषड्ज एव । ५७९॥
-।। विदारी ॥ - अस्या विदारीं कथयामि मध्यभाजं ह्युपक्रम्य च धैवतान्तम्। आ मध्यषड्जादवरुह्य पश्चादारुह्य चातारगषड्जमस्मात् ॥ ५८०॥ तानान् विचित्रान् कतिचित् प्रगाय न्यस्येत्तु तारस्थितषड्ज एव।
--- ।। रागवधेनी ॥ - सा रागवर्धन्यपि या द्वितीया विदार्यमुष्याश्च यथापुरं स्तः । अपौनरुक्त्यादिह ते प्रगेये षड्जस्य तु स्थायिनमामनामः ॥ ५८१॥
- ।। षड्जस्थायी ॥ - आरभ्य तारस्थितषड्जमादौ सप्त स्वरांस्तारनिषाद्कान्तान्। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन । ५८२॥ तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन। प्रगाय तानांस्तु चतुर्दशैव न्यस्येत्तु तारंस्थितषड्ज एव ।। ५८३॥
Page 194
७० सङ्गीतसुधा
॥। मध्यमस्थायी॥ तं मध्यमस्थायिनमामनामः प्रारभ्य मध्यस्थितमध्यमं तम्। येऽष् स्वरास्तारगमध्यमान्ता: पूर्वोक्तरीत्या परिगाय तानान् ॥ ५८४॥ द्वष्टौ त्यजेन्मध्यगमध्यमेऽस्मिन् स्थायी तु मध्यस्थितषड्जकस्य।
- ।। षड्जस्थायी॥ - आरभ्य मध्यस्थितषड्जमादौ येऽष स्वरास्तारगमध्यमान्तम् ॥ ५८५॥ आरुह्य चातारनिषादमस्मादा मध्यषड्जादवरुह्य पश्चात्। गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च मध्यस्थितषड्ज एव ॥। ५८६॥
॥ न्यास: ॥= न्यासस्तु रागस्य भवेद्विदारी यथा तथैवापुनरुक्ति गेयः।
(७) -- ।। सालगनाटिकारागः ॥ - अथोच्यते सालगनाटिकाख्यरागस्य मेल: किल गुजरीवत् ॥ ५८७॥ सालङ्गनाट्यां कथयन्ति रागे पञ्चश्रुती धैवतकर्षभौ द्वौ। अथोऽस्य मेलान्तरमामनन्ति नव्या: परे कचन नैपुणेन ।। ५८८॥ तदुक्तमेलं प्रतिपादयामः सालङ्गनाट्या: सह लक्षणन। षड्जस्तथा मध्यमपञ्मी च शुद्धाश्च पञ्चश्रुतिकषभश्च ॥। ५८९।। पञ्चश्रुतिर्धैवतकस्ततोऽत्र गांधारकश्च च्युतमध्यमादिः । च्युतादिम: षड्जनिषादकश्च स्वरैः पुनः सप्ताभरा्वतो यः ॥५९०॥ सालङ्गनाट्या: खलु मेल उक्तो रागांस्ततस्तत्प्रभवान् वदामः । सालङ्गनाटो खलु पूर्वगौलः सावरिका शुद्धवसन्तकश्च ॥५९१।। सालङ्गपूर्वा खलु भैरवी चेत्येतन्मुखास्तत्र सवन्ति रागाः । न शोभते नव्यमतं तदेतत्तद् गुर्जरीमेलगतार्थभावात्॥५९२॥ मलान्तरं तत्प्रभवाश्च रागा न कल्पनीया: खलु गौरवेण। पूर्वोदिते गु्जरिकाख्यमेले शुद्धौ मतौ धैवतकर्षभौ द्वौ॥ ५९३॥ तत्रैव चैकश्रुतिकल्पने स्यात्तद्गुर्जरीमेलज एष रागः । सालङ्गनाट्याह्वयरागमेले ये संभवन्तीत्युदिताश्च रागाः ॥ ५९४।। सर्वेऽपि मलान्तरसंभवास्ते तच्च क्रमेण प्रतिपादयामः । सावेरिका सालगनाटिका च शुद्धो वसन्तञ्च तथैव रागः ॥ ५९५॥ ते गुर्जरीमेलभवास्तु भिन्नषड्जो भवेद्दैरविकाख्यमेलात्। नारायणी स्यात् खलु शंकराभरणाख्यरागात् सहपूर्वगौडः ॥ ५९६॥
Page 195
षड्जस्थायी १७१
सालङ्गभैरव्यपि संभवेत् सा श्रीरागमेलादिति वेदितव्यम्। लक्ष्मोच्यते सालगनाटिकाया न्यासो ग्रहोंऽशः पुनरत्र षड्ज: ॥ ५९७॥ अतोऽपि वादी स तु पञ्चमोऽन्र संवादिनामा स च पञ्चमोऽपि। शत्रू हि गांधारनिषादकौ चानुवादिनौ चर्षभधैवतौ द्वौ॥ ५९८॥
- |। आक्षिप्तिका ॥ -- आक्षिप्तिकां तावदुदीरयामस्त्वारभ्य तारादृषभात्तथैव । मध्यर्षभान्तं त्ववरुह्य तस्मादारोहणं तारगतर्षभान्तम्॥५९९॥ गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव। आरभ्य तारादृषभात्तु मध्यषड्जावधि स्यादवरोहणं च ॥ ६०० ॥ आरुह्य तत्तारगधैवतान्तं गीत्वा च तानान् कतिचिद्विचित्रान्। न्यस्येच्च मध्यस्थितषड्ज एव तस्या विदारीं तु निरूपयामः ॥ ६०१॥
-।। विदारी॥। - आरभ्य तारस्थितषड्जमादौ मध्यषभान्तं त्ववरोहणं स्यात्। आरुह्य तत्तारगमध्यमान्तं गीत्वा च तानान् कतिचिद्विचित्रान् ॥ ६०२ ॥ न्यस्येत्तु तारस्थितषड्ज एव सा रागवर्धन्यभिधीयतेऽन्या।
-॥। रागवर्धनी ॥- आद्यावदेषा पुनरुक्त्ततानैर्गेया विदारीसहिता क्रमेण॥ ६०३ ।।
- ॥। षड्जस्थायी॥ - षड्जस्य तु स्थायिनमामनामस्त्वारभ्य तारस्थितषड्जमादौ। षडजर्षभौ मध्यमपञ्मौ च सघैवताः पञ्च तु.ये सवराः स्युः ॥६०४॥ स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन। आरोहणेनाप्यवरोहणेन प्रत्येकमेकैककतानमेषाम् ॥ ६०५॥ दशापि तानान् क्रमशोऽथ गीत्वा न्यस्येच्च तारस्थितषड्ज एव।
Page 196
१७२ सङ्गीतसुधा
,।। पञ्चमस्थायी॥ - तं पञ्चमस्थायिनमामनामस्त्वारभ्य मध्यस्थितपञ्चमं तु ॥ ६०६॥ मध्यस्थितः पञ्चम एव तारौ षड्जर्षभौ मध्यमपञ्चमौ च। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ ६०७॥ तथोत्तरेषामपि वर्जनेन त्वारोहणेनाप्यवरोहणेन। दशापि तानान् क्रमशोऽथ गीत्वा न्यस्येच्च मध्यस्थितपञ्चमेऽस्मिन्॥ ६०८॥
-।। मध्यषड्जस्थायी ॥ - अथोच्यते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम् । षडजर्षभौ मध्यमपञ्मौ च सधैवतस्तारगतश्च षड्जः ॥ ६०९ ॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन ॥ ६१० ॥ तानांस्तथा द्वादश तु क्रमेण न्यस्येन्च मध्यस्थितषड्ज एव।
-।। वर्तेनी ॥ - अथोच्यते वर्तनिका क्रमेण त्वारभ्य मध्यस्थितपञ्मं तु ॥ ६११॥ आरुह्य चातारगधैवतं चावरुह्य मध्यस्थितपञ्चमान्तम् । तानान् विचित्रान् कतिचिच्च गीत्वा न्यस्येच्च मध्यस्थितषड्ज एव ॥ ६१२ ॥
।। न्यास: ॥ न्यासस्तु रागस्य निरूप्यतेऽस्यास्त्वारभ्य तारस्थितषड्जमादौ। मध्यर्षभान्तं त्ववरोहणं स्यादारुह्य तत्तारगमध्यमान्तम्॥ ६१३॥ गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव। निरूपितः सालगनाटिकाख्यो रागोऽञ्जनासूनुमतानुसारात्॥ ६१४ ॥
(८) - ।। अथ शुद्धवसन्तरागः ॥ - शुद्धे वसन्तेऽपि च कल्पयन्ति सालङ्गनाट्याश्रितमेव मेलम। श्रीरागनिष्ठर्षभधैवतौ यौ तावेव चात्रर्षभधैवतौ स्तः । इत्यादियुक्त्या परिकल्पयन्ति मेलान्तरं तञ्च न युक्तियुक्तम् ॥ ६१५॥ अन्नापि चैकश्रुतिकल्पनेन स गुर्जरीमेलज एष रागः । प्रकल्पयन्त्यस्य च षाडवत्वमारोहणे पञ्चमवर्जनेन ॥ ६१६ ॥
Page 197
विदारी १७३
तदत्र सम्यक्परिशोध्यमानेऽप्यारोहरीताववरोहसाम्यात्। संपूर्णभावं भजते तु लक्ष्ये न षाडवो लक्ष्यविरोधतः स्यात् ॥ ६१७॥ तस्मादयं शुद्धवसन्तराग: स्याद् गुर्जरीमेलत एव जातः । वक्ष्यामहे शुद्धवसन्तलक्ष्म न्यासो ग्रहोंऽशः पुनरत्र षड्जः ॥ ६१८॥
-
। आक्षिप्तिका ॥ - आक्षिप्तिकामस्य निरूपयासः प्रक्रम्य तारस्थितषड्जमादौ । आ मध्यगान्मध्यमतोऽवरुह्यारोहेच् तारस्थितमध्यमान्तम् ॥ ६१९॥ तानान् विचित्रान् कतिचित् प्रगाय न्यस्येच्च तारस्थितषड्ज एव।
-
।। रागवर्धनी॥ - तद्रागवर्धन्यभिधीयतेऽथ तारस्थितान्मध्यमतोऽवरुह्य ॥ ६२० ॥ तारस्फुरद्वैवतकान्तमस्मादा मध्यषड्जादवरुह्य पश्चात्। प्रगाय तानान् कतिचित् प्रगल्भं मध्यस्थिते षड्ज इह प्रजह्यात् ॥ ६२१ ॥
-।। विदारी ॥ - अस्या विदारीमथ लक्षयामस्तारर्षभान्मध्यगमध्यमान्तम् । तत्रावरुह्य क्रमतोऽवरोहेत्तस्मात् पुनस्तारगमध्यमान्तम् ॥ ६२२॥। प्रगाय तानान् विविधान् यथेच्छं तारस्थषड्जे तदनु प्रजह्यात्।
-
।। रागवर्धनी ॥ - तद्रागवर्धन्यभिधीयतेऽन्या प्रहाय मध्यस्थितषड्ज एव ॥। ६२३॥
-
।। विदारी ॥ - अस्या विदारीमभिदध्महेजथ मध्यस्थितान्मध्यमतोऽिरुह्य। क्रमेण तारस्थितमध्यमान्तं प्रगाय तानान् विविधान् यथच्छम् ॥ ६२४॥ न्यस्येच्च तारस्थितषड्ज एव षड्जस्य तु स्थायिनमामनामः ।
Page 198
१७४ सङ्गीतसुधा
- ॥ पड्जस्थायी॥ - प्रारभ्य तारस्थितषड्जमादावाकह गान्धारविवर्जनेन ॥ ६५॥ यावन्दवेत्तारगतो निषादस्तस्मात् पुनः पञ्चमवर्जनेन। आ तारषड्जादवरह्य गायेत् प्रत्येकमेकैककतानरीत्या ॥ ६२६॥ बद्धानिहैकादश तानमेदान् न्यस्येच्च तारस्थितपड्ज एव।
।। पञ्मस्थायी ॥ - तं पञ्चमस्थायिनमामनामः प्रक्रम्य मध्यस्थितपञ्मान्तम् ॥ ६७।। क्रमेण तारस्थितपञ्चमान्तमारुह्य गांधारविवर्जनेन। विनावरुह्यापि च पञ्चमेन प्रत्येकमेकैककतानरीत्या ॥ ६२८॥ त्रयोदशादाय तु तानभेदान् न्यस्येच्च मध्यस्थितपञ्मेऽस्मिन्।
- ।। पड्जस्थायी ॥ - षड्जस्य तु स्थाय्यथ मध्यमस्य मध्यस्थषड्जात् प्रभृति क्रमेण ॥ ६२९।। आरुह्य गांधारविवर्जनेन ह्यातारषड्जादवरोहणे तु। यथापुरं पञ्चमवर्जेनेन प्रगाय तानांश्चतुरो दशापि॥ ६३० ॥ मुश्ेच्च मध्यस्थित एव षड्जे तद्वर्तनीं सम्प्रति वर्णयामः ।
-।। वतेनी ii प्रक्रम्य मध्यस्थितधैवतान्तमारुह्य तारस्थितधैवतान्तम् ॥ ६३१ ।। आमध्यषड्जादवरुह्य तानान् गीतवा त्यजेन्मध्यगषड्ज एव।
-॥। न्यास: ॥ न्यासं तु रागस्य निरूपयाम: प्रक्रम्य तारस्थितधैवतान्तम् ॥ ६३२॥ आमध्यषड्जादवरुह्य तस्मादारुह्य तारस्थितमध्यमान्तम्। गीत्वा च तानान् कतिचिद्विचित्रान् मध्यस्थिते षड्ज इह प्रमुश्नेत् ॥६३३॥ तुरीययामे दिवसस्य गाने श्रेयस्करः श्रोतृजनस्य सोडयम्।
Page 199
षड्जस्थायी १७५
(९) -।। अथ नादरामक्रियारागः ॥- स्वतन्त्रमेलं परिकल्व्य नादरामक्रियारागगतं नेवीनाः ॥ ६३४।। तज्जन्यरागानपि कल्पयन्ति गांधारसाधारणभावयोगात्। अयुक्तमेतन्मतमन्तराख्यगांधारयोगादिह लक्ष्यमार्गे ॥ ६३५।। अन्तर्गतो गुर्जरिकाख्यमेले स्वतन्त्रमेलं न सहेत रागः । तस्मादियं साधु भवेच नादरामक्रिया गुर्जरिकाख्यमेले ॥ ६३६ ॥ निरुप्यते सम्प्रति नादरामक्रियाख्यरागः सह लक्षणेन। न्यासग्रहांशा: पुनरत्र षड्जः संपूर्णभावं भजते च सोडयम् ॥ ६३७ ॥
- ॥। आक्षिप्तिका ॥- आक्षिप्तिकां तावदुदीरयामः प्रारभ्य मध्यस्थितघैवतान्तम्। आमध्यगांधारमतोऽवरुह्यारोहेच्च तारस्थितमध्यमान्तम् ॥ ६३८।। प्रगाय तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितवड्ज एव।
-।। रागवर्धनी॥- सा रागवर्धन्यभिधीयतेऽस्य मध्यस्थषड्जात् प्रभृति क्रमेण ॥ ६३९ ॥ आरुह्य तारस्थितमध्यमान्तं मध्यस्थषड्जावधि चावरुहय। प्रगाय तानान् कतिचित् प्रगल्भान् मध्यस्थषड्जे पुनरेव जह्यात् ॥ ६४० ॥
-
।। विदारी ॥ - विदारिकास्याः किल तारषड्जादारुह्य तारस्थितपञ्चमान्तम्। आमध्यगांधारमतोऽवरुह्य गीत्वा च तानान् कतिचिद्विचित्रान् ॥ ६४१ ॥ न्यस्येच्च तारस्थितषडज एव तद्रागवर्धन्यभिधीयतेऽन्या। मध्यर्षभोपक्रममा च तारनिषादमारुह्य ततोऽवरोहेत् ॥ ६४२॥ आमध्यषड्जादधिगाय नानातानांस्त्यजेन्मध्यमषड्ज एव। अस्या विदारी किल तारषड्जादामध्यगांधारमथावरुह्य ॥ ६४३॥ आतारगांधारमथोऽवरोहेद्रीत्वा च तानान् कतिचिद्विचित्रान्।
-
॥। षड्जस्थायी ॥ - न्यस्येच्च तारस्थितषड्ज एव षड्जस्य तु स्थायिनमामनामः ॥ ६४४॥ तारात्तु षड्जात् क्रमशस्तु तारनिषादपर्यन्तमिह स्वरा ये। प्रत्येकमेषां पुनरेकमेकमारोहणेनाप्यवरोहणेन ॥ ६४५॥ तानान् किलोद्राय चतुर्दशैवं न्यस्येच्च मध्यस्थितषड्ज एव।
Page 200
१७६ सङ्गातसुधा
-।। गांधारस्थायी॥ - गांधारकस्थाय्यथ मध्यगं च गांधारमारभ्य तमानुपूर्व्यात् ॥ ६४६ ॥! आतारगांधारमथाधिरोहेदारोहरीत्या दश षट् च तानान्। गीत्वा विमुश्जेदपि मध्यभाजि गांधारनाम्रि स्वर एव तस्मिन् ॥ ६४७॥
- ।। षड्जस्थायी॥। - षड्जस्य च स्थाय्यथ मध्यगस्य प्रक्रम्य मध्यस्थितषड्जमादौ। आतारषड्जादविरुह्य पश्चादा सध्यषड्जादीप चावरुह॥ ६४८॥ षट् चापि तानान् दश तञ्च गीत्वा सुश्वेच्च किश्ेह तु मध्यषड्जे।
-।। वर्तनी ॥- तद्वर्तनीं कीर्तयितुं प्रवर्ते प्रक्रम्य मध्यस्थितषड्जमादौ ॥ ६४९॥ आरुह्य चा तारनिषादमध्यादा मध्यषड्जादवरुह्य पश्चात्। उद्गाय तानानुपरि प्रगल्भं न्यस्येच्च मध्यस्थितषड्ज एव ॥ ६५० ॥
॥ न्यास: 11 - रागस्य तु न्यासमुदीरयामः प्रक्रम्य तं रागविवर्धनीवल्। गीत्वापि तानान् पुनरुक्तहीनान् न्यस्येच्च मध्यस्थितषड्ज एव ॥ ६५१॥ चतुर्थयामे दिवसस्य गाने श्रेयस्करः श्रोतृजनस्य स स्यात्।
(१०) - ॥ अथ गौलरागः । वक्ष्यामहे सस्प्रति गौलरागमेलो भवेदत्र च गुर्जरीवत् । ६५२। गौलस्य चैतस्य वदामि लक्ष्म न्यासो ग्रहोंऽशोऽत्र निषाद एव। वादी भवेदत्र निषादकः संवादी तु गांधार इहोपदिष्टः ॥ ६५३ ॥ स षाडवो घैवतलोपतः स्याल्लक्ष्यानुसारादृषभस्त्विहांशः । गांधारकस्येव भवेन्निषादः संवादिनोंऽशत्वमतः कर्थ वा ॥ ६५४॥ भवेदमुष्मिन्नृषमेंऽशता तु स्वरैरने कैर्व्यवधीयमाने । अत्रोच्यतेऽन्यस्वरशत्रुभूते गांधारके किञ् निषादनाम्रि॥ ६५५॥ प्रधानभावोंऽशसमानयुक्तस्तस्मादिह स्यादृषभस्वरोऽशः । रागाभियुक्तैरत एव कैश्चित् संकीर्णरागत्वमुदीर्यतेऽस्य ॥ ६५६ ॥
Page 201
१७८ सङ्गीतसुधा प्रत्येकमेकैककतानमंत्र स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेनाप्यारोहणेना्यवरोहणेन ॥ ६६६ ।। तानान् विचित्रान् दश साधु गीत्वा न्यस्येत् पुनस्तारगषड्ज एव
- ।। पञ्मस्थायी ॥ तं पञ्रमस्थायिनमामनामस्त्वारभ्य मध्यस्थितपञ्मान्तम् ॥ ६६७ ।। सपञ्मं मध्यनिषाद्तारषड्जर्षभा मध्यमपञ्ञमाश्च। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ ६६८ ॥! तथोत्तरेषामपि वर्जनेन त्वारोहणेनाप्यवरोहणेन। गीत्वा क्रमाद् द्वादश तानमेदान् न्यस्येत् पुनर्मध्यमपञ्मेऽस्मिन् ॥ ६६९॥
-।। रिषभस्थायी ॥ - मध्यर्षभस्थायिनमामनामस्त्वारभ्य मध्यस्थमिहर्षभान्तम्। तारर्षभान्तं किल घैवतं च गांधारकं किञ्च् विव्ज्य षण्णाम् ॥ ६७० ॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेनाप्यारोहणेनाप्यव रोहणेन ॥ ६७१ ॥ गीत्वा क्रमाद् द्वादश तानभेदान् न्यस्येत् पुनर्मध्यगतर्भेऽस्मिन्।
-॥ षड्जस्थायी ॥ - स्थाय्युच्यते मध्यगषड्जकस्य त्वारभ्य मध्यस्थितषड्जमादौ ॥ ६७२ ॥ गांधारकं घैवतकं च मुक्क्ता तारस्थषड्जावधि तत्र षण्णाम् । प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ ६७३ ॥ तथोत्तरेषामपि वर्जनेन त्वारोहणेनाप्यवरोहणेन। गीत्वा क्रमाद् द्वादश तानभेदान् न्यस्येत् पुनर्मध्यगषड्ज एव ।। ६७४॥
।। वर्तनी॥ गौलस्य वर्तन्यधुनोच्यते सा त्वारभ्य मध्यस्थितषड्जमादौ। आरुह्य चातारनिषाद्मस्मादामध्यषड्जं त्ववरोइणेन॥ ६७५॥ गीत्वा च तानान् कतिचिद्यथेच्छं न्यस्येत् पुनर्मध्यगषड्ज एव।
Page 202
रागवर्धेनी १७९
- ॥ न्यास: ॥- न्यासं तु रागस्य ततो वदामस्त्वारभ्य मध्यस्थितपञ्मान्तम् ॥ ६७६ ॥। मध्यर्षभान्तं त्ववरुह्य तस्मादारुह्य तारस्थितमध्यमान्तम् । तानान् विचित्रान् पुनरुक्तिहीनान् न्यस्येत्तु तारस्थितषड्ज एव ॥ ६७७ ॥ सर्वेषु कालेषु स एष गेयः श्रेयस्करो रक्तिकरश्च गौलः ।
११-। अथ बौलिराग: ॥- यदा भवेदत्र तु बौलिरागो ग्रहस्वरो मध्यमकस्तदानीम् ॥ ६७८ ॥ वर्ज्य निषादं कथयन्ति लक्ष्म विचक्षणा गायकसंप्रदायात्। तस्मादिदानीं नववैणिकानां न युज्यते मध्यमवर्जवार्ता ॥ ६७९ ॥ ग्रहस्वरस्यापि च वर्जभावः कथं भवेदत्र विचारणयाम्। एवं विरोधे परिहारमत्र वक्ष्यामहे वैणिकसंप्रदायात् ॥ ६८० ॥ आलापरागादिषु षड्ज एव ग्रहस्वरः सर्वेजनप्रसिद्धः । षड्जे गृहीते सति मध्यमेऽपि निषाद्संज्ञोऽत्र तुरीयभावात् ॥ ६८१॥ अन्यत्र पक्षान्तरमत्र चोक्तं प्रबन्धयुक्तस्वरखण्डितायाम्। स्यान्मध्यमस्य ग्रहता तु युक्ता वर्जक्रिया सा च तथोपपन्ना ॥ ६८२ ॥ बौल्याख्यरागं कथयामि तस्य मेलो भवेत् संप्रति गुर्जरीवत्। स्यान्मध्यमो न्यास इह ग्रहोंऽशो निषादलोपेन हि षाडवः स्यात् ॥ ६८३॥ निषादशब्देन च मध्यमोऽन्र लक्ष्ये तुरीयत्वगुणान्वितेन। ग्रहस्वरापेक्षितमात्रवर्जस्वरोऽथ मध्यस्वर एव नान्तः ।। ६८४।।
। आक्षिप्तिका ॥ - अक्षिप्तिकां तस्य निरूपयामस्त्वारभ्य तारस्थितषड्जमादौ। मध्यर्षभान्तं च ततोऽवरुह्याप्यातारगान्धारमथोऽधिरुह्य ॥ ६८५॥ तानान् विचित्रान् कतिचिच्च गीत्वा न्यस्येच्च तारस्थितषड्ज एव।
-।। रागवधेनी ॥ - सा रागवर्धन्यथ मध्यमस्थगांधारमारभ्यं यथाक्रमेण ॥ ६८६ ॥
तानांश्च गीत्वा किल मध्यसंस्थगांधारकन्यास इहोपदिष्टः ॥६८७॥
Page 203
१८० सङ्गीतसुधा
-।। विदारी॥ - तस्या विदारीमथ तारषड्जमारभ्य मध्योपहितर्षभान्तम्। आतारगान्धारमतोऽधिरुह्य तानान् विचित्रान् कतिचिच्च गीत्वा । ६८८ । न्यस्येच्च तारस्थितषड्ज एव सा रागवर्धन्यपि च द्वितीया। विदारिका चापि यथापुरं ते गेये पुनस्ते पुनरुक्तिवर्जे ॥ ६८९॥
-।। षड्जस्थायी ॥ - षड्जस्वरस्थायिनमामनामरत्वारभ्य तारस्थितषड्जमादौ। येऽत्र स्वरा मध्यमवर्जनेन ते षट् स्वरास्तारनिषाद्कान्ताः ॥ ६९०॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यावरोहणेन ॥ ६९१॥ गीत्वा पुनर्द्वादश साधु तानान् न्यस्येत् पुनस्तारगषड्ज एव।
-
।। पञ्नमस्थायी॥। - तं पञ्चमस्थायिनमत्र वक्ष्ये त्वारभ्य मध्यस्थितपञ्चमं च । ६९२।। सप्र स्वरास्तारगपञ्चमान्ता यथापुरं साधु च गानयोग्याः। तानान् विचित्रान् क्रमशोऽथ गीत्वा न्यस्येत् पुनर्मध्यगपश्चमेऽस्मिन् ॥ ६९३॥
-
।। रिषभस्थायी॥ अथर्षभस्थायिनमामनामस्त्वारम्य मध्यर्षभमेव चादौ। सप्त स्वरास्तारगतर्षभान्ता: पूर्वोक्तरीत्या तु चतुर्दशैव । ६९४ ॥ गीत्वा तु तानांश्च विचित्ररूपान् न्यस्येत् पुनर्मध्यगतर्षभेऽस्मिन्।
-।। वर्तनी ॥ - अथोच्यते वर्तनिकामथास्यामारभ्य मध्यस्थितषड्जमादौ ॥ ६९५॥ आरुह्य चातारनिषाद्कान्तमामध्यषड्जादवरुह्य तानान्। गीत्वा च कांश्चित् क्रमशो विचिन्नान् न्यस्येच्च मध्यस्थितषड्ज एव ॥ ६९६ ।।
-॥। न्यास: ॥- न्यासस्तु रागस्य तथा प्रगयो विदारिकावत् पुनरुक्तिहीनः ।
Page 204
षड्जस्थायी १८१
(१२) -।। अथ कर्णाटबङ्गालराग: ॥ - कर्णाटबङ्गालमथामनामो मेलस्तु तस्यापि च गुर्जरीवत् ॥ ६९७।। तल्लक्ष्म वक्ष्येंऽश इव ग्रहश्च न्यासश्च गांधार इतीह बोध्यः । निषादलोपादिह पाडवत्वमाक्षिप्तिकामस्य ततोऽभिधास्ये॥ ६९८॥
-।। आक्षिप्तिका ॥- आरुह्य तारस्थितषड्जमादावा मध्यषड्जादवरुह्य पश्चात्। आरुह्य चातारगमध्यमं तुगीत्वा च तानान् कतिचिद्विचित्रान् ॥ ६९९।। न्यस्येच्च तारस्थितषड्ज एव स्याद्रागवर्धन्यपि तस्य सैषा।
-।। रागवर्धेनी ॥ - आरभ्य गांधारकमेव तारमारूह्य तारस्थितघैवतान्तम् ॥ ७०0 ।। आ मध्यषड्जादवरुह्य तानान् गीत्वा ततो न्यस्य तु मध्यषड्जे।
-। विदारी।। असौ विदार्यस्य तु तारषड्जमारभ्य मध्यस्थितघैवतान्तम् ॥ ७०१॥ ततोऽवरोहेदथ चाधिरोहेत्क्रमेण तारस्थितपञ्चमान्तम्। गीत्वा च तानान् कतिचिच्च तारषड्जे पुनर्न्यासमतो विदध्यात् ॥ ७०२ ॥।
- ।। रागवर्धनी ॥ - एवं द्वितीयाऽपि च रागवर्धन्यस्या विदारी पुनरुक्तिहीना।
-।। षड्जस्थायी॥ - स्थायी तु तारस्थितषड्जमादौ प्रक्रम्य तारस्थितघैवतान्तम्॥ ७०३ ॥। स्वरा: षडेवात्र भवन्ति तेषां प्रत्येकमेकैककतानरीत्या। स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन ॥ ७०४ ॥ आरोहणेनाप्यवरोहणेन गोत्व्रा पुनर्द्वादश तत्र तानान्। न्यस्येच्च तारस्थितषड्ज एव तन्मध्यमस्थायिनमामनामः ॥७०५॥।
Page 205
१८२ सङ्गीतसुधा
-॥। मध्यमस्थायी॥- प्रारभ्य मध्यस्थितमध्यमं प्राक् सप्त स्वरास्तारगमध्यमान्ताः । प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन । ७०६ ॥ तथोत्तरेषासपि वर्जनेन चारोहणेनाप्यवरोहणेन। चतुदेश प्राग्वदिहैव तानान् गीत्वा त्यजेन्मध्यगमध्यमेऽस्मिन्॥ ७०७॥
॥ रिषभस्थायी ॥- अथर्षभस्थाय्यभिधीयतेऽस्य प्रक्रम्य मध्यर्षभमेव पूर्वम्। सप्त स्वरास्तारगतर्षभान्ताश्च्तुर्दश प्राग्वदिहापि तानान् ॥ ७०८ ॥ गीत्वा त्यजेन्मध्यगतर्षभे च तद्वर्तनीं चापि ततो वद़ामः ।
-।। वर्तनी ॥- प्रारभ्य मध्यस्थितधैवतं प्रागारूह्य तारस्थितमध्यमान्तम् ॥ ७०९। मध्यर्षभान्तं च ततोऽवरुह्य गीत्वा च तानान् कतिचित् क्रमेण। न्यस्येच्च मध्यस्थितषड्ज एव न्यासं तु रागस्य ततो वदामः ॥ ७१०॥
- ॥ न्यास: ॥ या रागवर्धन्युदिता स तस्य विदारिकावन्धवतीति वेद्यम्। प्रगे प्रगेयः खलु राग एष श्रेयस्करो रक्तिकरो जनानाम् ॥ ७११ ॥
(१३) - ॥ अथ ललितरागः ॥ - मेलेन साकं ललिताख्यरागलक्ष्माधुना साधु निरूपयामः । मेलस्तु तस्यापि च गुर्जरीवन्न्यासो ग्रहोंशः पुनरत्र षड्जः ॥ ७१२ ॥ स षाडवः पञ्चमवर्जनात् स्यादाक्षिप्तिकामस्य निरूपयामः ।
-।। आक्षिप्तिका ॥ - तारस्थषड्जात् प्रभृति क्रमात् प्रागामध्यगांधारमथोऽवरुह्य ॥ ७१३॥ आतारगांधारमथ क्रमादारुह्यापि गीत्वा कतिचिच्च तानान्। न्यस्येच्च तारस्थितषड्ज एवातो रागवर्धन्यभीयतेऽस्य ॥ ७१४॥
Page 206
गांधारस्थायी
-।। रागवर्धनी॥ - आरभ्य तारस्थितमध्यमं प्रागारुह्य तत्तारगधैवेंतं च। आमध्यगांधारमतोऽवरुह्य गीत्वा च तानान् कतिचिद्विचित्रान् ॥ ७१५॥ न्यस्येच्च मध्यस्थितपड्ज एव तस्या विदारीमथ वर्णयामः ।
-।। विदारी॥ - आरभ्य मध्यस्थितषड्जमादावारुह्य चा मध्यनिषादतोऽपि ॥ ७१६॥ आ तारषड्जादवरुह्य गीत्वा तानान् विमुञ्ेदथ तारपड्जे। तद्रागवर्धन्यपरोच्यतेऽथ प्रारभ्य गांधारमतश्च तारम् ॥ ७१७॥
- । रागवर्धनी ॥ - आरुह्य चा तारनिषादतोऽपि मध्यस्थषड्जावधि चावरुह। गीत्वा च तानान् कतिचिच्च मध्यषडजे त्यजेदत्र विदारिकाडस्य ।। ७१८॥।
-।। विदारी ॥- प्रारभ्य तारस्थितषड्जमादावारुह्य गांधारत आ च मध्यात्। आ तारगाद्वैवततोऽवरुह्य गीत्वा च तानान् कतिचित् क्रमेण ॥ ७१९॥ षड्जस्वरे तारगते विमुश्जेत् स्थायी तु तारस्थितषड्जकस्य।
-।। षड्जस्थायी ॥ - प्रारभ्य तारस्थितषड्जमादौ स्वराः षडा तारनिषादतः स्युः ॥७०॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन ॥ ७२१॥ गीत्वा ततो द्वादृश तत्र तानांस्तारस्थषड्जे विसृजेच्च पश्चात्।
-।। गांधारस्थायी ॥- गांधारकस्थाय्यथ वक्ष्यतेऽत्र प्रारभ्य गांधारमतञ्च मध्यात् ॥७२२ ॥ आतारगांधारमतः स्वरा ये सप्तात्र तानांश्च चतुर्दशैषाम्। गीत्वा च पूर्वोदितमानुपूर्व्या गांधारके मध्यगते विजह्यात् ॥ ७२३ ॥।
Page 207
१८४ सङ्गीतसुधा
·॥। षड्जस्थायी ॥ - स्थायी ततो मध्यगषंड्जकातस्यात षड्जं पुरोपक्रममाण एव। मध््यस्थमातारगताच्च षड्जात् सप् स्वरास्तत्र चतुर्देशैषाम्॥ ७२४॥ तानान् पुनः पूर्ववदेव गतिवा षड्जस्वरे मध्यगते विमुञ्ेत्।
-
। वर्तनी ॥ - तद्वर्तनीं चापि निरूपयामो मध्यस्थितं प्रक्रममाण एवं । ७२५॥ षड्जं पुनस्तारगधैवतान्तमारुह्य चामध्यगषड्जमत्र। आरुह्य गीत्वा कतिचिच्च तानान् न्यस्येत् पुनमध्यगषड्ज एव ॥ ७२६॥
-
। न्यास: ॥ - न्यासस्तु रागस्य निरूप्यतेऽत्र गेयस्त्वयं पूर्वविदारिकावत्। तानैमनोजैः पुनरुक्तिहीनैर्निरूपितेयं ललिताभिधैषा ॥ ७२७॥ प्रगे प्रगेया शुभरक्तिदा सा श्रेयस्करी श्रोतृजनाव्रजानाम्।
(१४) - ।। अथ मलहरीरागः ॥ - निरुप्यते सा मलहर्यथासौ मेलस्तु तस्या अपि गुर्जरीवत् ॥७२८॥ स्याद्वैवतो न्यास इह ग्रहोंऽशो निषादलोपादपि षाडवत्वम्। केचित् प्रवीणास्त्ववरोहणेऽस्या गांधारसत्तामपि वर्णयन्ति ॥ ७२९॥
- ।। आक्षिप्तिका ॥ - आक्षिप्तिकां तावदुदीरयामः प्रारभ्य तारर्षभमेव चादौ। आरुह्य तारास्थितमध्यमान्तं मध्यर्षभान्तं त्ववरुह्य कांश्चित् ॥ ७३०॥ गीत्वाऽत्र तानानिह तारषड्जे न्यासो विधेयः खलु गातृमुख्यैः।
-।। रागवर्धनी ॥ - तद्रागवर्धन्यभिधीयतेऽथ प्रारभ्य तारर्षभमत्र पूर्वमू॥ ७३१ ॥ आरुह्य तारस्थितघैवतान्तसामध्यषड्जं त्ववरुह्य पश्चात्। गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च मध्यस्थितषड्ज एव । ७३२ ॥
Page 208
वर्तनी 124
- ।। विदारी ॥- अस्या विदारी त्वथ मध्यषड्जमारुह्य तारस्थितमध्यमान्तम् । आरुह्य चा मध्यगतर्षभाच्चावरुह्य तानानभिगाय कांश्चित् ॥ ७३३॥। न्यस्येच्च तारस्थितषड्ज एव तद्रागवर्धन्यपि च द्वितीया।
-।। रागवर्धनी॥ - ज्ञेया विदार्या सह पूर्वरीत्या षड्जस्वरस्थाय्यमिधीयतेडत्र॥। ७३४॥
-
।। षड्जस्थायी॥ - आरभ्य तारस्थितषड्जमादौ पञ्च स्वरास्तारगघैवतान्ताः । प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। ७३५॥। तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन। तानान् विचित्रान दश साधु गीत्वा न्यस्येच्च मध्यस्थितषड्ज एव ॥ ७३६॥
-
।। पञ्नमस्थायी ॥ - तं पञ्चमस्थायिनमामनामः प्रारभ्य सध्यस्थितपञ्मं तम्। स्वरा: स्युरातारगपञ्माः षड् विना निषादेन भवन्ति तेषाम् ॥ ७३७॥ प्रत्येकमेकैककतानमेषां पूर्वोक्तवद् द्वादश तत्र तानान्। गीत्वा त्यजेन्मध्यगपञ्च्मे तु स्थायी ततो मध्यगषड्जकस्य ॥ ७३८ ॥।
-
॥ षड्जस्थायी ॥ - आदावुपक्रम्य तु मध्यषड्जं तारस्थषड्जावघयः स्वराः षट्। प्रत्येकमेकैककतानमेषां पूर्वोक्तवद् द्वादश तत्र तानान् ॥ ७३९।। गीत्वा ततो मध्यगषड्ज एव न्यस्येच्च तद्वर्तनिकोच्यतेऽथ।
-
।। वर्तेनी॥ - आरभ्य मध्यस्थितषड्जमादावारुह्य तारस्थितघैवतान्तम् । ७४०।। आ मध्यषड्जादवरुह्य तानान् गीत्वा विजह्यादथ मध्यषड्जे।
Page 209
१८६ सङ्गीतसुधा
- ॥। न्यास: ॥- रागस्य तु न्यास इहापि पूर्वविदारिकेवापुनरुक्ति गेय: ।। ७४१॥
(१५) - ॥। अथ पाडीरागः ॥ - रामक्रियामेलमुशन्ति पाडीरागस्य लोके कतिचिन्नवीनाः । वरालिका षट्श्रुतिमध्यमस्य संबन्धतस्तत् खलु नैव युक्तम्॥७४२॥ चतुःश्रुतेस्तत्र तु मध्यमस्य शुद्धस्य योगादिह रागसिद्धौ। नैवात्र मेलान्तरकल्पनं स्यात्तद्गुर्जरीमेलज एष रागः ।। ७४३॥ निरूपयामो निपुणं तु पाडीं न्यासो ग्रहोंऽशः पुनरत्र षड्ज: । गांधारलोपात् किल षाडवोऽयमाक्षिप्तिकामस्य च वर्णयामः ॥ ७४४॥
- ॥ आक्षिप्तिका ॥ - प्रारभ्य तारस्थितड्जमादौ मध्यर्षभान्तं त्ववरुह्य पश्चात्। आरुह्य तारस्थितपञ्मान्तं गीत्वा च तानान् कतिचिद्यथेच्छम्॥ ७४५॥ न्यस्येच्च तारस्थितषड्ज एव तद्रागवर्धन्यभिधीयतेऽथ ।
।। रागवर्धनी ॥ - प्रक्रम्य मध्यस्थितपञ्चमं प्रागारुह्य तारस्थितघैवतान्तम् । ७४६॥ मध्यस्थषड्जावधि चावरुह्य गीत्वा च तानान् कतिचिद्विचित्रान्। न्यस्येच्च मध्यस्थितषड्ज एव विदारिकां तां विशदीकरोमि॥ ७४॥
-।। विदारी ॥ - प्रारभ्य मध्यस्थितपञ्मं तं मध्यर्षभान्तं त्ववरुह्य तस्मात्। यथाक्रमं तावदथाधिरोहेद् यावद्वेत्तारगपञ्च्मोऽसौ ॥ ७४८॥ गीत्वा च तानान् विविधान् यथेच्छं न्यस्येञ्च तारस्थितषड्ज एव।
- ।। रागवर्धनी ॥ - सा रागवर्धन्यभिधीयतेऽन्या तारर्षभं प्रक्रममाण एव ॥ ७४९॥ आरुह्य तारस्थितधैवतान्तमा मध्यषड्जादवरुह्य पश्चात्। प्रगाय तानान् कतिचित् प्रगल्भं न्यस्येच्च मध्यस्थितषड्ज एव ॥ ७५० ॥
Page 210
न्यास: १८७
-।। विदारी॥- अस्या विदारीमथ वर्णयामः प्रक्रम्य तारस्थितषड्जमादौ॥ ७५१ ॥ मध्यर्षभान्तं त्ववरुह्य तस्मादारह्य तारस्थित पञ्चमान्तम्। गीत्वा च तानान् कतिचिद्यशेच्छं न्यस्येच्च मध्यस्थितषड्ज एव ॥ ७५२ ॥
-
॥। षड्जस्थायी॥। षड्जस्य तु स्थायिनमामनामः प्रारभ्य तारस्थितष्जमादौ। तानान् विना मध्यगते निषादेऽप्याधैवतं तारगतांश्चतुर्णाम्॥७५३॥ स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरस्यापि विवर्जेनाच्च । आरोहणेनाप्यवरोहणेन प्रत्येकमेकैककतानमेषाम् ॥ ७५४॥ अष्टौ तु तानानभिगाय पश्चान्न्यस्येञ्च तारस्थितषड्ज एव।
-
।। पञ्चमस्थायी॥ स पञ्चमस्थाय्यभिधीयतेऽस्य प्रक्रम्य मध्यस्थितपञ्चमं प्राक ॥ ७५५॥ ये तु स्वरास्तारगपञ्न्मान्तास्तानान् विना मध्यगते निषादे। प्राग्वत् पुनर्द्वादश तानभेदान् गीत्वा त्यजेन्मध्यगपञ्चमेऽस्मिन् ॥ ७५६॥
-
।। रिषभस्थायी ॥ - मध्यर्षभस्थायिविधिं वदामो मध्यर्षभानुक्रममानुपूर्व्यात्। तारर्षभान्तं किल मध्यमे च निषादके तानविवर्जनेन ॥ ७५७॥ प्राग्वच्च तानान् दश तु प्रगाय मुख्र्ेच्च मध्यर्षभ एव तस्मिन्।
। वर्तनी ॥ - निरूपयामस्त्वथ वर्तनीं तामारभ्य मध्यस्थितषड्जमादौ॥ ७८॥ आरुह्य तारस्थितवैवतान्तं मध्यस्थषड्जावधि चावरुह्य। गीत्वा च तानान् कतिचित् प्रगल्भं न्यस्येच्च मध्यस्थितषड्ज एव ।। ७५९ ॥
॥ न्यास: ॥ न्यासस्तु रागस्य निरुक्तरागविवर्तनीवत् पुनरत्र वैद्य: । तुरीययामे दिवसस्य गाने श्रेयस्करः श्रोतृजनस्य सोडयम् ॥ ७६०॥
Page 211
१८८ सङ्गीतसुधा
(१६) - ।। अथ सावेरीरागः ॥ - सावेरिकालक्ष्म ततो वदामो मेलो भवेदत्र तु गुर्जरीवत्। स्यात् पञ्मो न्यास इह ग्रहोऽशो निषाद्गांधारकयोर्विलोपात्॥ ७६१॥ स्यादौडुवोऽयं कथितस्तु रागस्त्वाक्षिप्तिकामस्य निरूपयामः ।
- । आक्षिप्तिका । आरभ्य तारस्थितषड्जमादौ मध्यर्षभान्तं त्ववरुह्य चास्मात् ॥ ७६२॥ आरुह्य तारस्थितमध्यमान्तं तानान् विचित्रान् कतिचिच्च गीत्वा। न्यस्येच्च तारस्थितषड्ज एव तद्रागवर्धन्यभिधीयतेऽथ ॥ ७६३॥
-।। रागवर्धेनी ॥ आरभ्य तारस्थितपञ्च्मान्तमारुह्य चातारगघैवतान्तम्। मध्यस्थषड्जावधि चावरुह्य तानान् विचित्रान् कतिचिच्च गीत्वा॥ ७६४॥ न्यस्येत् पुनर्मध्यगषड्ज एव विदार्यमुष्यापि निरुप्यतेऽथ।
-।। विदारी ॥ - आरभ्य तारोपहितर्षभं प्राञ्मध्यर्षभान्तं त्ववरुह्य तस्मात् ॥ ७६५॥ आरभ्य तारस्थितमध्यमान्तं तानान् विचित्रान् कतिचित् प्रगाय। न्यस्येच्च तारस्थितषड्ज एव सा रागवर्धन्यभिधीयतेऽन्या ॥ ७६६ ॥
-।। रागवर्धनी ॥ - आरभ्य मध्यस्थितपञ्चमं प्रागारुह्य तारस्थितघैवतान्तम् । मध्यस्थषड्जावधि चावरुह्य तानान् विचित्रान् कतिचिच्च गीत्वा ॥ ७६७।। न्यस्येच्च मध्यस्थितषड्ज एव विदारिकान्या तु विविच्यतेऽत्र।
-।। विदारी।। आरभ्य तारस्थितषड्जमादौ मध्यर्षभान्तं त्ववरुह्य पश्चात् ॥ ७६८ ॥ आरुह्य तारस्थितमध्यमान्तं नाना च तानानभिगाय चित्रान्। न्यस्येञ्व मध्यस्थितषड्ज एव षड्जस्वरस्थायिनमामनामः ॥७६९॥
Page 212
न्यास: १८९
-।। षड्जस्थायी॥ - आरभ्य तारस्थितषड्जमादौ निरस्य गांधारनिषादकौ द्वौ। पञ्च् स्वरास्तारगैवतान्ताः प्रत्येकमेकैककतानमेषाम् ॥ ७७०॥ स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरेषामपि वर्जनेन। आरोहणेनाप्यवरोहणेन चोद्राय तानानपि तान् दशैव । ७७१ ॥ न्यस्येत्तु तारस्थितषड्ज एव तं पञ्चमस्थायिनमामनामः ।
। पञ्चमस्थायी॥ - प्रारभ्य मध्यस्थितपञ्चमं प्रागेते स्वरास्तारगपञ्मान्ताः ॥ ७७२॥। यथापुरं द्वादश साधु गीत्वा तानांसत्यजेन्मध्यगपञ्मेSस्मिन्।
-
।। मध्यमस्थायी॥ तन्मध्यमस्थायिनमामनामः प्रारभ्य मध्यस्थितमध्यमं तम् ॥ ७७३॥ एते स्वरास्तारगमध्यमान्ता यथापुरं द्वादश साधु तानान्। गीत्वात्यजेन्मध्यगमध्यमेSस्मिन् स्थाय्युच्यते मध्यगषड्जकस्य ॥ ७७४॥
-
। षड्जस्थायी ॥ - आरभ्य मध्यस्थितषड्जमादौ ये तारषड्जावघयः स्वराः षद्। यथापुरं द्वादश साधु तानान् गीत्वा त्यजेन्मध्यगषडज एव ॥ ७७५॥
-
।। वर्तनी ii - तां वर्तनीं संप्रति लक्षयामरत्वारभ्य मध्यस्थितषड्जमादौ। आरुह्य तारस्थितधैवतान्तं मध्यस्थषड्जान्तमतोऽवरुह्य॥ ७७६॥ तानान् विचित्रान् कतिचित् प्रगाय त्यजेत् पुनमध्यगषड्ज एव।
॥। न्यास: ॥- न्यासस्तु रागस्य विदारिकावत्तथा प्रगेय: पुनरुक्तिवर्जम् ॥७७॥
Page 213
१९० सङ्गीतसुधा
(१५) -। अथ रेवगुप्तिरागः ॥- वक्ष्यामहे संप्रति रेवगुप्तिं मेलो भवेदस्य तु गुर्जरीवत्। न्यासो ग्रहोंऽशस्त्वृषभोऽत्र वेद्यो बिना निषादेन च मध्यमेन ॥ ७७८॥। भवेदसावौडुवतां प्रपन्नस्त्वाक्षिप्तिकामस्य निरूपयामः ।
- ।। आक्षिप्तिका ॥ - आरभ्य मध्यस्थितघैवतं प्रागा मध्यषड्जादवरुह्य तस्मात् ॥ ७७९॥ आरुह्य चातारगतर्षभं च प्रगाय तानान् कतिचिद्विचित्रान्। न्यस्येच्च तारस्थितषड्ज एवातो रागवर्धन्यभिधीयतेऽत्र ॥ ७८० ॥
-।। रागवधनी॥ - आरभ्य तारर्षभमेव चादावारुह्य तानान् कतिचित् प्रगल्भम् । न्यस्येत् पुनर्मध्यगषड्ज एव तस्या विदारीं प्रतिपादयामः ।।७८१।।
-।। विदारी।
आतारगांधारमथाधिरुह्य तानान् विचित्रान् कतिचिच्च गीत्वा।। ७८२॥। न्यस्येच्च तारस्थितषड्ज एव सा रागवर्धन्यभिधीयतेऽन्या।
। रागवधनी ॥ - आरभ्य मध्यस्थितधैवतं प्रागारुह्य तारस्थितधैवतान्तम् ॥ ७८३॥। आ मध्यषड्जादवरुह्य पश्चात्तानांश्च नाना तदनु प्रगाय। न्यस्येच्च मध्यस्थितषड्ज एव तस्या विदारीं तदनु ब्रबीमि। ७८४॥ आरभ्य तारर्षभतस्ततोऽपि चामध्यगांधारमतोऽवरुह्य। तानान् विचित्रान् कतिचित् प्रगाय चातारगांधारमतोऽघिरुह्य॥ ७८५॥ न्यस्येच्व तारस्थितषड्ज एव षड्जस्वरस्थायिनमामनामः ।
- । षड्जस्थायी ॥ - आरभ्य तारस्थितषड्जमादौ विना निषादस्वरमध्यमाभ्याम्॥७६॥ पञ्च्च स्वरा धैवतिकान्तिमा: स्युः प्रत्येकमेकैककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरेषामपि वर्जनेन ॥। ७८७॥
Page 214
आक्षिप्तिका १९१
आरोहणेनाप्यवरोहणेन दशापि तानान् क्रमशः प्रगाय। न्यस्येच्च तारस्थितषड्ज एव स्थायी स्वरस्यैष तु पञ्नमस्य ।।७८८।।
।। पञ्मस्थायी ॥ - प्रारभ्य मध्यस्थितपञ्चमं तं षट् च. स्वरास्तारगपञ्चमान्ताः। पूर्वोक्तवद् द्वादश तत्र तानान् गीत्वा त्यजेन्मध्यगपञ्चमेऽस्मिन्। ७८९॥ स्थाय्युच्यते मध्यगषड्जकस्य प्रारभ्य मध्यस्थितषड्जमादौ। तारस्थष ड्जावधिका: स्वराः षड्यथापुरं द्वादश तत्र तानान् ॥ ७९०।। प्रगाय मध्यस्थितषड्ज एव मुश्नेच्च तद्वर्तनिकां वदामः ।
-
।। वर्तनी ॥ - प्रारभ्य मध्यस्यितषड्जमादावारूह्य तारस्थितघैवतान्तम् ॥ ७९१॥ आ मध्यषड्जादवरुह्य पश्चात्तानान् विचित्रांस्तद्नु प्रगाय।
-
॥। न्यास: ॥- न्यस्येच्च मध्यस्थितषड्ज एंव न्यासस्तु रागस्य विदारिकावत् ॥ ७९२॥।
१८-॥ अथ वराटीराग: ॥ मेलं प्रवक्ष्याम्यधुना वराट्या: षड्जर्षभौ पञ्चमघैवतौ च। गांधारकश्चेति च पञ्च शुद्धाः स्यान्मध्यमः षट्श्रुतिरेव तत्र ॥ ७९३॥ निषादक: काकलिसंज्ञकश्च निरूप्यतेऽस्याः पुनरत्र लक्ष्म। न्यासो ग्रहोंऽशः पुनरत्र षड्जः स एव वादी स च पञ्मस्तु ॥७९४॥ संवादितामेति स मध्यमश्च विवादिगांधारनिषादकेयम्। स धैवतः स्याद्ृषभोऽनुवादी चाक्षिप्तिकां प्राक् तु निरूपयामः ॥७९५॥
-।। आक्षिप्तिका ॥ - गांधारमारभ्य तु तारसंस्थं मध्यस्थितान्मध्यमतोऽवरुह्य। आतारगांधारमथाधिरोहेत्तानांश्च गीत्वा कतिचिद्यथेच्छम् ॥ ७९६ । न्यस्येत् पुनस्तारगषड्ज एव सा रागवर्धन्यभिधीयतेऽस्याः ।
Page 215
१९२ सङ्गीतसुधा
·- ॥। रागवधनी ॥ - आरभ्य मध्यस्थितषड्जमादावारुह्य तारस्थनिषादकान्तम् ॥ ७९७॥ आमध्यषड्जं त्ववरुह्य तस्माद्वीत्वा तु तानान् कतिचिद्विचित्रान्। न्यस्यत्तु मध्यस्थितषड्ज एव तस्या विदारीमथ वर्णयामः ॥७९८॥
-।। विदारी॥ - आरभ्य मध्यस्थितपञ्मं तमामध्यषड्जं त्ववरुह्य तस्मात्। आरुह्य तत्तारगमध्यमान्तं गीत्वा च तानान् कतिचिद्विचित्रान् ॥ ७९९॥ न्यस्येत्तु तारस्थितषड्ज एव सा रागवर्धन्यभिधीयतेऽन्या।
।। रागवधनी ॥ आरभ्य मध्यस्थितपञ्मं तमारह्य तत्तारनिषाद्कान्तम् । ८०० ।। आमध्यषड्जं त्ववरुह्य तस्माद्गीत्वा च तानान् कतिचिद्विचित्रान्। न्यस्येत्तु मध्यस्थितषड्ज एव तस्या विदारीं प्रतिपादयामः ॥८०१॥
-।। विदारी॥- आरभ्य तारस्थितषड्जमादावामध्यगांधारमतोऽवरोहेत्। आरुह्य तत्तारगमध्यमान्तं गीत्वा तु तानान् कतिचिद्विचित्रान् ।। ८०२।। न्यस्येत्तु तारस्थिषड्ज एव ततः परं स्थायिविधां वदामः ।
-
॥। षड्जस्थायी ॥ - आरभ्य तारस्थितषड्जमादौ सप्तापि ये तारनिषादकान्ताः ॥ ८०३।। स्वपूर्वपूर्वेस्वरयोजनेन तथोत्तरेषापि वर्जनेन। प्रत्येकमेकैककतानमषामारो हणेनाप्यवरोहणेन ।। ८०४ ॥ चतुदेशोद्गाय च तानभेदान् न्यस्येत्तु तारस्थितषड्ज एव।
-
।। मध्यमस्थायी ॥ - तन्मध्यमस्थायिनमत्र वक्ष्ये त्वारभ्य मध्यस्थितमध्यमं च ।। ८०५ ॥ अष्टापि ये तारगमध्यमान्ताः प्रत्येकेमेकैककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन ॥। ८०६॥
Page 216
श्रीरागः
आरोहणेनाप्यवरोहणेन वयष्टौ च तानान् पुनरत्र गीत्वा। न्यस्येत्तथा मध्यगमध्यमेऽस्मिंस्तथर्षभस्थायिनमामनामः ।।८०७।।
-।। रिषभस्थायी ॥ - आरभ्य मध्यर्षभकं स्वरा ये तारर्षभान्ता: पुनरष्ट तेषाम्। स्त्रपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन ।। ८०८ ॥ आरोहणेनाप्यवरोहणेन प्रत्येकमेकैककतानरीत्या। व्यष्टै च तानान् पुनरत्र गीत्वा न्यस्येत्तु मध्यर्षभ एव तस्मिन्॥ ८०९॥
- । षड्जस्थायी ॥ - निरूष्यते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम् । आतारषड्जं पुनरष्टधा स्युस्तेषां स्वराणां क्रमतो विधाय ॥ ८१०॥। स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन। प्रत्येकमेकैक कता नमेषा मारोहणेनाप्य व रोहणेन ।। ८ १ १ ।। वयष्टौ तु तानान् पुनरत्र गीत्वा न्यस्येत्तु मध्यस्थितषड्जमादौ। आरुह्य चातारनिषादमस्मान्मध्यस्थषड्जावधि चावरुह्य ॥ ८१२॥ तानांश्च गीत्वा कतिचिद्विचित्रान् न्यस्येत्तु मध्यस्थितषड्ज एव।
॥। न्यास: 11- न्यासं तु रागस्य निरूपयामस्त्वारभ्य मध्यस्थितपञ्च्मं तम् ॥ ८१३॥ आमध्यषड्जं त्ववरुह्य तम्मादारुह्य तत्तारगमध्यमान्तम् । गीत्वा च तानान् पुनरुक्तिहीनान् न्यस्येत्तु तारस्थितषड्ज एव ।। ८१४।। एषा विशेषात् कथिता वराटी सत्संप्रदायागतलक्ष्यरीत्या-।
(१९) - ।। अथ श्रीरागः ॥ - श्रीरागमेलं प्रतिपाद्याम: षड्जस्तथा मध्यमपञ्च्मौ च ॥ ८१५॥ शुद्धास्तयोघैवतकर्षभौ द्वौ पञ्चश्रुती कैशिकको निपादः । गांधारकस्तत्र भवेत्तु साधारणस्वरैरेभिरयं युतः स्यात् ॥ ८१६ ॥ श्रीरागलक्ष्म प्रवदामि षड्जो न्यासो ग्रहोऽशश्च भवेदमुष्य। गांधारके वैकृतके च तानो ह्यस्त्येव तस्मिन् परिपूर्ण एषः ॥।॥८१७॥
Page 217
१९४ सङ्गीतसुधा
-
॥! आक्षिप्िका॥ आक्षिप्तिकामस्य निरूपयामः प्रारभ्य मध्यस्थनिषादमादौ। मध्यर्षभान्तं त्ववरुह्य तारगांधारपर्यन्तमथाधिरोहेत्। ८१८।। गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्व तारस्थितषड्ज एव।
-
।। रागवर्धनी ॥ - तद्रागवर्धन्यभिधीयतेऽथ प्रासभ्य तारर्षभमेव पूर्वम् ॥ ८१९॥ आ तारगात् पञ्च्मतोऽधिरोहेदा मध्यषड्जादवरुह्य पश्चात्। गायेच्च तानान् कतिचिद्विचित्रान् न्यस्येच्च मध्यस्थितषड्ज एवं ।। ८२० ॥
-।। विदारी ॥I - अस्या विदारीं कथयेऽथ मध्यगतर्षभं प्रक्रममाण एव। आतारगान्धारमथाधिरुह्यावरुह्य चामध्यगपञ्च्मं च ।। ८२१। प्रगाय तानानथ तत्र नानां षड्जे विमुञ्ेदपि मध्यभाजि।
- ॥। रागवरधनी ॥- तद्रागवर्धन्यभिधीयतेऽन्या प्रारभ्य तारस्थितमध्यमं तु ॥ ८२२॥ आरुह्य चातारनिषादमादावा मध्यषड्जादवरोहणं स्यात्! गीत्वा च तानान् विविधाननेकान् न्यस्येञ्च मध्यस्थितषड्ज एवं ।। ८२३।।
।। विदारी ॥ - अस्या विदारीमथ वर्णयामः प्रारभ्य तारस्थितषड्जमादौ। मध्यर्षभान्तं त्ववरुह्य तारगांधारपर्यन्तमथाधिरोहेत्॥ ८४॥ गीत्वा च तानान् कचिद्विचित्रान् षड्जे तु तारस्थित एव जह्यात्।
- ।। षड्जस्थायी ॥ - ·षड्जस्वरस्थायिनमामनामः प्रारभ्य तारस्थितषड्जमादौ॥ ८२५॥ पञ् स्वरास्तारनिषादकान्ता विहाय गांधारकधैवतौ द्वे। एकैकमेषामभिधाय तानं प्रत्येकमेवं दश तत्र गीत्वा । ८२६।। त्यजेच्च तारस्थितषड्ज एव तत्पञ्मस्ायिनमाम नाम
Page 218
आक्षिप्तिका १९५
-।। पञ्मस्थायी॥ आरभ्य मध्यस्थितपञ्मं प्राग्विहाय तौ मध्यमधैवतौ द्वौ॥ ८२७॥ ये षट् स्वरास्तारगपञ्चमान्ताः प्रत्येकमेषां पुनरेकमेकम्। प्रगाय तु द्वादश तानभेदान् मध्यस्थिते पञ्च्म एव जह्यात् ॥ ८२८॥
-।। षड्जस्थायी ॥ - निरूप्यते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम् । स्वरा: षडातारगषड्जमत्र विहाय तौ मध्यमधैवतौ च ॥ ८९॥ प्रत्येकमेकैक कतानमेषामारोहणे ना प्यवरोहणे न । गीत्वा पुनर्द्वादश चैव मुञ्जेत् षड्जस्वरे मध्यगते ततश्र ॥ ८३०॥
। वर्तनी ॥ - तद्वर्तनीं संप्रति वर्णयामः प्रारभ्य मध्यस्थितषड्जमादौ। आरुह्य चातारनिषादमस्मादा मध्यषड्जादवरोहणं स्यात् ॥ ८३१ ॥ गीत्वा च तानान् विविधान् क्रमेण मध्यस्थषड्जे पुनरेव जह्यात्।
।। न्यास: न्यासस्तु रागस्य निरुक्तपूर्वविदारिकावत् पुनरत्र वेद्यः ॥। ८३२ ।। सायाह्नगाने सति सर्वसंपत्प्रदायकोडयं शुभरक्तिद्श्च।
(२०) ।। -अथ सालगभैरवीरागः ॥- वक्ष्यामहे सालगभैरवीं तां श्रीरागमेलस्तु भवेदमुष्याः॥ ८३३।। तल्लक्षणं तावदुदीरयामो न्यासो ग्रहोंऽशः पुनरत्र षड्जः । संपूर्णभावं भजते च सोडयमाक्षिप्तिकां ताबदुदरियामः ॥ ८३४॥
- ।। आक्षिप्तिका ॥- आरभ्य तारस्थितषड्जमादौ मध्यर्षभान्तं त्ववरुह्य तस्मात्। आतारगांधारमथाधिरोहेद्रीत्वा च तानान् कतिचिद्विचित्रान् ।। ८३५।। सुख्ेच तारस्थितषड्ज एव तद्रागवर्धन्यभिधीयतेऽथ।
Page 219
१९६ सङ्गीतसुधा
-
॥। रागवधेनी ॥ - तारस्थितान्मध्यमतोऽधिरुह्य तारान्निषादाच्च ततोऽवरोहेत् ॥ ८३६॥ आमध्यषड्जं कतिचिच्च तानान् गीत्वा त्यजेन्मध्यगषड्ज एव।
-
।। विदारी।। वक्ष्ये विदारीमथ तारषड्जमारभ्य तन्मध्यगतर्षभान्तम्॥ ८३७॥ अतोऽवरुह्य क्रमशोऽघिरोहेदातारगांधारमनेकतानान्। गीत्वा त्यजेन्मध्यगषड्ज एव त्वस्या विदारीमथ लक्षयामः ॥ ८३८॥ आरुह्य तारस्थितषड्जमादौ मध्यर्षभान्तं त्ववरुह्य तस्मात्। आतारगांधारमथाधिरोहेत् प्रगाय तानान् कतिचित् प्रगल्भम् । ८३९। न्यस्येच्च तारस्थितषड्ज एव तद्रागवर्धन्यभिधीयतेऽथ।
-
।। रागवर्धनी ॥ - प्रक्रम्य तारस्थितपञ्मं तमारुह्य तारस्थनिषादकान्तम् ॥। ८४0 ।। मध्यस्थषड्जान्तमतोऽवरुह्य गीत्वा च तानान् कतिचित् क्रमेण। मुश्वेच्च मध्यस्थितषड्ज एव तस्या विदारीं कथये द्वितीयाम् ॥८४१॥
-
।। विदारी।। मध्यस्थितात् पञ्चमतोऽवरुह्य मध्यर्षभान्तं तु ततोऽधिरोहेत्। आतारगांधारमनेकतानान् गीत्वा त्यजेन्मध्यमषड्ज एव ।। ८४२॥
-।। षड्जस्थायी ॥ षड्जस्य तु स्थाय्यभिधीयतेऽथ प्रारभ्य तारस्थितषड्जमादौ। स्वरा: स्युरा तारनिषादतो ये प्रत्येकमेकैककतानमेषाम्॥ ८४३॥ उद्राय तानांश्चतुरो दशापि षड्जस्वरे तारगते विजह्यात्।
- ।। पञ्नमस्थायी ॥ - स्थाय्युच्यते संप्रति पञ्चमस्य याऽष्टस्वरी मध्यगपञ्च्मादिः ।। ८४४।। भवेच तारस्थितपञ्चमान्ता पुरेव तस्यां दश षट् च तानान्।
Page 220
आक्षिप्तिका १९७
- ।। रिषभस्थायी ॥ - मध्यर्षभात्तारगतर्षभान्तं प्राग्वत् प्रगायन् दश षट् च तानान्। मध्यस्थितेऽस्मिन् रिषभे विमुश्वेत् स्थाय्युच्यते मध्यगषड्जकस्य ॥ ८४६ ॥
-।। षड्जस्थायी ॥। मध्यस्थषड्जात् प्रभृति क्रमेण पारस्थषड्जावधि तु स्वराणाम्। तानान् प्रगायन् दश षट् पुरेव न्यस्टेच्च मध्यस्थितषड्ज एव ॥ ८४७॥
।। वतनी ॥ - वतन्यमुष्या: रूलु मध्यषड्जादारुह्य चातारनिषादमस्मात्। आ मध्यषड्जादवरुह्य तानान् गीत्वा त्यजेन्मध्यगषड्ज एव ॥ ८४८॥
-॥। न्यास: ॥- विदारिकावद्धवतीह रागन्यासो दिनान्ते विद्धीत गानम्।
(२१) - ॥ अथ वण्टारवरागः ॥ - घाण्टारवं केचिदमुं नवीना: सबन्धतः षट्श्रुतिकर्षभस्य ॥ ८४९॥ जन्यं विदुः कन्नडगौलमेलात्त्याज्यं तथैतत् खलु युक्त्यभावात्। श्रीरागमेलोपगतर्षभेण रागस्य पञ्नश्रुतिनैव सिद्वेः ॥ ८५०॥ मेलान्तरं तत्र न कल्पनीयं श्रीरागमेलेन गतार्थभावात्। श्रीरागमेलप्रभवश्च तस्माद्वण्टारवो राजत एष रागः ।। ८५१ ।। लक्ष्मोच्यते तस्य च पूर्ण एष स्याद्वैवतो न्यास इह ग्रहोऽशः ।
- |। आक्षिप्तिका ॥1 - आक्षिप्तिकामस्य निरूपयामः प्रक्रम्य तारस्थितषड्जमादौ। ८५२॥ आरुह्य तारस्थितमध्यमान्तमा मध्यषड्जादवरुह्य तस्मात् । गोत्वा च तानान् कतिचिद्विचित्रान् न्यस्येञ्च मध्यस्थितषड्ज एव । ८५३॥
Page 221
१९८ सङ्गातसुधा
। विदारी ॥ - अस्या विदारीमथ वर्णयामः प्रारभ्य मध्यस्थितपञ्मं प्राक्। आरुह्य तारस्थितमध्यमान्तमस्मात् पुनर्मध्यगपञ्चमान्तम् । ८५४।। अथावरोहेत् कतिचिच्च तानान् गी्वा त्यजेत्तारगषड्ज एवं।
-
।। रागवर्धनी ॥ - तद्रागवर्धन्यभिधीयतेऽन्या तारस्थितात् पञ्चमतोऽवरुह्य ॥ ८५५॥ याव्ङ्वेत्तारगतो निषादस्त्वा मध्यषड्जाच्च ततोऽवरोहेत्। प्रगाय तानान् विविधान् यथेच्छं मुश्जेच्च मध्यस्थित एव षड्जे ॥ ८५६ ॥
-
।। विदारी ॥ - अस्या विदार्या प्रभृतीह मध्यनिषादतस्तारगमध्यमान्तम् । आरुह्य तस्मात् क्रमशोऽवरोहेद्यावत् पुनः पञ्नम एष मध्यः ॥ ८५७॥ उद्गाय तानानुचितान् यथेच्छं न्यस्येच्च मध्यस्थित एव षड्जे।
-
।। षड्जस्थायी ॥ - निरूष्यते संप्रति तारषड्जस्थायी समारभ्य तु तारषड्जम् ॥८५८॥ स्वरा: स्युरातारनिषादका ये प्रत्येकमेषामधिरोहणेन। तथाऽवरोहेण च तानसेकमेकं प्रगायंश्चतुरो दशैव ॥ ८५९॥ न्यस्येच्च तारस्थितषड्ज एव स्थाय्युच्यते मध्यगपञ्चमस्य।
-
।। पञ्नमस्थायी ॥ - मध्यस्थितात् पञ्चमतो भवन्ति ये तु स्वरास्तारगपञ्च्मान्ताः ॥ ८६० ।। प्राग्वच्च तेषां दश षट् च तानान् गीत्वा त्यजेन्मध्यगपञ्चमेSस्मिन् ।
-॥। रिषभस्थायी ॥ - मध्यर्षभस्थाय्यथ ये स्वराः स्युर्मध्पर्षभात्तारगतर्षभान्ताः ।। ८६१ ।। पुरेव तेषां दश षट् च तानान् गीत्वा त्यजेन्मध्यगतर्षभेऽस्मिन्।
Page 222
विदारी १९९
- ।। षड्जस्थायी ॥ - निरूप्यते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम् ॥ ८६२ ॥ तारस्थषड्जावधि ये स्वराः स्युस्तेषां पुरोक्तेन हि वर्त्मनैव। व्यष्ट प्रगायन् क्रमशस्तु तानान् मुश्चेच्च मध्यस्थितषड्ज एव ॥। ८६३॥
-।। वर्तनी ॥- तद्वरतनी मध्यगषड्जतः प्रागारुह्य तारस्थनिषादकान्तम्। मध्यस्थषड्जान्तमतोऽवरोहन् गायंश्र तानान् कतिचिद्विचित्रान् ॥ ८६४ ।। मुञ्ेच् तारस्थितषड्ज एव न्यासस्तु रागस्य विदारिकावत्।
- ॥ न्यास:॥। स पौनरुक्त्येन विना प्रगेय: स्यात् सर्वेदा रक्तिकृदेष गाने ॥ ८६५।
(२२) - ।। अथ वेलावलीरागः ॥- वेलावलीरागमुदीरयामः श्रीरागमेलः पुनरस्य मेलः। तल्लक्षणं तावदुदीरयामो न्यासो ग्रहोंऽशः किल धैवतोऽस्य ॥ ८६६॥ संपूर्णभावं भजते च सोऽयमाक्षिप्तिकामस्य ततो वदामः ।
- ।। आक्षिप्तिका ॥ - तारस्थषडजात् प्रभृति क्रमेण चारुह्य मध्यस्थितपञ्न्मान्तम् । ८६७।। आ तारषड्जादघिरुह्य तानान् गायन् प्रमुञ्नेदिह तारषड्जे।
--- ।। रागवधेनी ॥ तद्रागवर्धन्यभिधीयतेऽथ गांधारतस्तारगतान् क्रमेण ॥ ८६८ ।। आरुह्य तारस्थितघैवतान्तमामध्यषड्जादवरुह्य तस्मात्। गायंश्च तानानुदितान् यथेच्छं मुश्जेच्च मध्यस्थितषड्ज एव ॥ ८६९।।
-।। विदारी ॥1 - विदार्यथो मध्यगपञ्मात् प्रागातारगांधारमथाधिरुह्य। मध्यर्षभान्तं त्ववरुह्य तानान् गायस्त्यजेत्तारगषड्ज एव ॥ ८७०॥
Page 223
२०० सङ्गातसुधा
-॥ रागवर्धनी ॥ - गेया द्वितीयाऽपि च रागवर्धन्यतो विदार्या: प्रथमावदेव।
-॥। षड्जस्थायी ॥ - निरूप्यते संप्रति तारषड्जस्थायी समारभ्य तु तारषड्जम् ॥ ८७१॥ स्वरा: स्युरा तारनिषादतो ये क्रमेण तेषामधिरोहणेन। तथाऽवरोहेण च पूर्वपूर्वान् संयोज्य मुक्कोत्तरमुत्तरं च ।। ८७२ ।। प्रत्येकमेकैककतानरीत्या चतुर्देशोद्गाय च तानभेदान्। तारस्थिते षड्ज इह प्रमुञ्जेत् स्थाय्युच्यते मध्यगपञ्मस्य ॥ ८७३॥
- ।। पञच्मस्थायी॥ - मध्यस्थितात् पञ्चमतो भवन्ति ये तु स्वरास्तारगपञ्चमान्ताः । पुरेव तेषां दश षट् च तानान् गीत्वा त्यजेन्मध्यगपञ्चमेऽस्मिन्।८७४।।
॥। षड्जस्थायी ॥ - मध्यस्थषड्जस्य निरूप्यतेऽथ स्थायी समारभ्य तु मध्यषड्जम् । आ तारषड्जात् क्रमशः स्वराणां प्राग्वत् प्रगायन दश षट् च तानान् । ९७५॥ न्यस्येञ्च मध्यस्थितषड्ज एव तद्वर्तनीं तावदुदीरयामः ।
- ।। वर्तेनी ॥ मध्यस्थषड्जादघिरुह्य तारगांधारपर्यन्तमतोऽवरोहेत्॥ ८७६॥ आमध्यषड्जं कतिचिच्च तानान् गीत्वा त्यजेन्मध्यगषड्ज एव।
॥। न्यास: ॥ न्यासस्तु रागस्य निरुक्त्तपूर्वविदारिकेवापुनरुक्ति गेया । ८७७ ॥ गाने दिनस्य प्रथमे तु यामे श्रेयस्करः श्रोतृजनस्य सोडयम्।
(२३) - ।। अथ देवगांधारीरागः ॥ - सा देवगांधार्यभिधीयतेऽस्याः श्रीरागमेलं किल मेलमाहुः ॥ ८७८॥ षड्जग्रहो न्यास इह प्रतीत: संपूर्णभावं भजते च सोऽयम्।
Page 224
मध्यमस्थायी
- ।। आक्षिप्तिका ।। आक्षिपिकां तावदुदीरयामस्तारस्थषड्जात् क्रमशोऽवरोहेत्॥ ८७९॥ यावन्द्वेन्मध्यगमध्यमोऽस्मादारुह्य तारस्थितमध्यमान्तम् । तथा च तानान् विविधान् प्रगाय न्यस्येच्च तारस्थितषड्ज एव ॥। ८८०॥।
-।। रागवर्धनी ॥- सा रागवर्धन्यभिधीयतेऽस्याः प्रारभ्य तारस्थितमध्यमान्तम्। आरुह्य तारस्थनिषाद्मस्मान्मध्यस्थषड्जावधि चावरुह्य ॥ ८८॥ तानाननेकानपि च प्रगाय मुश्नेच्च मध्यस्थितषड्ज एव।
- ।। विदारी॥। - अस्या विदारीमथ लक्षयामः प्रारभ्य मध्यस्थितपञ्मान्तम् । ८८२। आ मध्यगान्मध्यमतोऽवरुह्य चारुह्य तारस्थितमध्यमान्तम् । तानान् यथेच्छं कतिचित् प्रगाय तारस्थिते षड्ज इह प्रजह्यान् ॥ ८८३॥
-।। रागवर्धनी ॥ - सा रागवर्धन्यपि च द्वितीया गेया विदारीसहिता पुरेव।
- ॥। षड्जस्थायी॥ - षड्जस्य तु स्थायिनमामनामः प्रारभ्य तारस्थितषड्जमादौ॥ ८८४॥ सप्त स्वरास्तारनिषादकान्ता: पूर्वोक्तरीत्या तु भवन्ति तत्र। प्रत्येकमेषां पुनरेकमेकमारोहणेनाप्यवरोहणेन ॥। ८८५॥ प्रगाय तानांश्च चतुर्देशैव न्यस्येच्च तारस्थितषड्ज एव।
-।। मध्यमस्थायी ॥ - स्थाय्युच्यते मध्यगमध्यमस्य प्रारभ्य मध्यस्थितमध्यमान्तम् ॥ ८८६॥ ये षट् स्वरास्तारगमध्यमान्ताः प्रत्येकमेकैककतानमेषाम् । आरोहणेनाप्यवराहेणेन गीत्वेति षट् किं च नवापि तानान् ।। ८८७।। न्यस्येच्च मध्यस्थितमध्यमेऽस्मिन् वर्तन्यभिख्यामपि वर्णयामः ।
Page 225
२०२ सङ्गीतसुधा
-।। वर्तेनी ॥ - आरभ्य मध्यस्थितमध्यमान्तमारुह्य चातारनिषादमादौ।। ८८८ ।। आमध्यषड्जं त्ववरुह्य तानान् गीत्वा त्यजेन्मध्यगषड्ज एव।
। न्यास: ॥- न्यासं तु रागस्य ततो वदामः प्रारभ्य तारस्थितषड्जमादौ॥। ८८९॥ आरुह्य चातारनिषादमत्र गायेच्च तानान् कतिचिद्विचित्रान्। न पञ्चमे वैवतके निषादे तानो भवेत् प्रातरियं तु गेया ॥ ॥ ८९०॥
(२४) - ॥। अथ रीतिगौलरागः ॥ - वक्ष्यामहे संप्रति रीतिगौलं श्रीरागमेलः पुनरस्य मेलः । अस्य स्वतन्त्रं परिकल्पयन्ति मेलं नवीना: श्रुतिरीत्यविज्ञाः॥८९१॥ शुद्धस्य योगेन किलर्षभस्य गांधारकस्येति मतं न युक्तम् । श्रीरागमेलोपगतर्षभस्य गांधारकस्यापि च दर्शनेन ।। ८९२ ॥ लक्ष्ये न मे लान्तरकल्पनं स्याच्छीरागमेलप्रभवस्तु सोऽयम्। लक्ष्मोच्यते तस्य निषाद एव न्यासो ग्रहोऽशः स तु पूर्णरागः ॥ ८९३॥
-।। आक्षिप्तिका ॥- आक्षिप्तिकां वच्मि तु रीतिगौलरागस्य मध्यस्थनिषादतोऽधः । आ मध्यगान्मध्यमतोऽवरुह्य तारस्थितान्मध्यमतोऽधिरोहेत्। ८९४॥ इच्छानुसारादभिगाय तानांस्तारस्थषड्जे तत एव जह्यात्।
-।। रागवर्धेनी ॥ स्याद्रागवर्धन्यभिधाऽस्य मध्यगांधारतस्तारगघैवतान्तम् ।। ८९५।। आरुह्य पश्चादवरुह्य मध्यषड्जावधि स्वानुगुणं प्रगाय । तानांश्र मुश्ेदथ मध्यषड्जे सा रागवर्धन्युदिताऽडदिमेयम् ॥ ८९६॥
-।। विदारी ॥ - अस्या विदारीं कथयामि मध्यस्थितात् क्रमात् पञ्चमतोऽवरुह्य। आ मध्यषड्जाद्रिषभादथाधिरुह्यापि तारस्थितमध्यमान्तम् ॥ ८९७ ।। इच्छानुसारादभिगाय तानान् मध्यस्थषड्जे विसृजेच्च पश्चात्।
Page 226
न्यास:
- ।। रागवर्धनी ॥ - आद्येव चैवास्य पुनर्विदारी स्याद्रागवर्धन्यपि च द्वितीया । ८९८ ॥
-।। विदारी ॥ - अन्या विदार्यप्यथ रागवर्धन्याद्यावदेवापुनरुक्तरीत्या।
। षड्जस्थायी॥ षड्जस्य तु स्थायिनमीरयामि षडजादिमं तं रिषभोत्थितानाम ॥ ८५९।। षणगां स्वराणां पुनरेकमेकं प्रत्येकमारोहणतोऽवरोहातु। गायन् क्रमाद् द्वादश चैव तानान् गीत्वा विजह्यादपि तारपडज। ५०० ।।
- ॥। मध्यमस्थायी॥ - स्थायी च सा मध्यगमध्यमस्य प्रारभ्य मध्यस्थितमध्यमं तम। अतारगान्मध्यमतोऽधिरोहावरोहमार्गेण चतुर्दशैव। ९०१॥ तानान् विचित्रानभिगाय पश्चान्मध्यस्थिते मध्यम एव सुख्च्ेत् ।
-॥ रिषभस्थायी ॥ - मध्यर्षभस्थाय्यथ चास्य मध्यस्थितर्षभात्तारगतर्षभान्तम् ॥ ९०२।। चतुर्दशारोहणतोऽवरोहादुद्वाय तानान् कतिचित् क्रमेण। न्यस्येत्तु पश्चाद्रिषभे तु मध्यस्थिते ततो वर्तनिकां वढ़ामः ॥ ९०३॥
- । वर्तनी ॥- मध्यस्थषड्जात् प्रभृति क्रमादारोहेदथातारनिषादमादौ। अथावरोहेदपि मध्यषड्जपर्यन्तमित्थं कतिचिद्विचित्रान् ।। ९०४।। उद्गाय तानानुपरि क्रमेण षड्जस्वरे मध्यगते विजह्यान।
। न्यास:॥ न्यासस्तु रागस्य निरुक्तपूर्वेविदारिक्रेवापुनरुक्ति गैया ॥ ९०५॥ अयं च सायाहनि गीयमानः श्रेयस्करः श्रोतृजनस्य नित्यम्।
Page 227
२०४ सङ्गीतसुधा
(२५) - ।। अथ मालवश्रीरागः ॥ निरुप्यते संप्रति मालवश्रीः श्रीरागमेलः पुनरस्य मेलः ॥९०६॥ न्यासो ग्रहोंडशः पुनरत्र षड्जः स षाडवः स्याद्रिषभेण हीनः।
- ।। आक्षिप्तिका ॥ - आक्षिप्तिकामस्य निरूपयामः प्रारभ्य तारस्थिषड्जमादौ ॥ ९०७॥ ततः पुनर्मध्यगमध्यमान्तं स्वरेषु षट्सु क्रमतोऽवरुह्य। आरुह्य तत्तारगमध्यमान्तं तानान् यथेच्छं कतिचिच्च गीत्वा।। ९०८ ।। न्यस्येच्च तारस्थितषड्ज एव तद्रागवधेन्यभिधीयतेऽथ।
-।। रागवधनी ॥ - आरभ्य मध्यस्थितमध्यमं प्रागारुह्य तारस्थितमध्यमान्तम् ॥ ९०९। आ मध्यगान्मध्यमतोऽवरुह्य गीत्वा च तानान् कतिचिद्विचित्रान्। न्यस्येच्च तारस्थितषड्ज एव सा रागवर्धन्यभिधीयतेऽन्या ॥ ९१० ॥
-।। विदारी॥ तस्या विदार्यामथ मध्यषड्जादारुह्य तारस्थितमध्यमान्तम् । एषा विदार्या सह पूर्वरागविवर्धनीवत् कथिता बुधेन्द्रैः ।। ९११ ॥
-।। रागवर्धनी॥ - आरभ्य मध्यस्थितमध्यमं प्रागारुह्य तारस्थितपञ्जमान्तम् । आ मध्यषड्जादवरुह्य गीत्वा तानांस्त्यजेन्मध्यगषड्ज एव ॥ ९१२॥
-।। षड्जस्थायी ॥ - • स्थाय्युच्यते तारगषड्जकस्य प्रारभ्य तारस्थितषड्जमादौ। ताभ्यां विनैवर्षभधैवताभ्यां पञ्च स्युरा तारनिषादतो ये ॥ ९१३॥ प्रत्येकमेषां पुनरेकमेकं गीत्वा दशैवं किल तानभेदान्। न्यस्येन्च तारस्थितषड्ज एव तत्पञ्चमस्थायिनमामनामः ॥ ९१४॥
Page 228
आक्षिपिका
-।। पञ्चमस्थायी॥- आरभ्य मध्यस्थितपञ्मं प्रागा तारगात् पञ्चमतः स्वराः षद्। प्रत्येकमेषां पुनरेकमेकं गीत्वेति च द्वादश तानभेदान्। ९१५॥। मुख्ेच्च मध्यस्थितपञ्चमे तु स्थाय्युच्यते मध्यगषड्जकस्य।
- ॥ षड्जस्थायी ॥ - आरभ्य मध्यस्थितषड्जमादावा तारषड्जादिह षद् सवरा ये॥ ९१६॥ प्रत्येकमेषां पुनरेकमेकं गीत्वेति च द्वादश तानभेदान्। न्यस्येच्च मध्यस्थितषड्ज एव तद्वर्तनीं संप्रति कीर्तयामः ॥ ९१७॥
।। वर्तनी॥ आरभ्य मध्यस्थितषड्जमादावारुह्य चा तारनिषादतः प्राक्। आमध्यषडजं त्ववरुह्य गीत्वा तानान् विचित्रान् कतिचित् क्रमेण ॥ ९१८।। न्यस्येच्च मध्यस्थितषड्ज एव न्यासं तु रागस्य ततो वदामः ।
-॥। न्यास: ॥- भवेदयं प्राक्च विदारिकावद्वेयः सदाऽयं शुभवृद्धिहेतुः ॥ ९१९॥
(२६) - ।। अथ मध्यमादिरागः ॥ - लक्ष्मोच्यते संप्रति मध्यमादे: श्रीरागमेलः खलु तस्य मेलः। स्यान्मध्यमन्यास इह ग्रहोंऽशो वर््यौ तथैवर्षभधैवतौ द्वौ ॥ ९२० ॥
- ॥। आक्षिप्तिका 1 - आक्षिप्तिकामस्य निरूपयामः प्रारभ्य तारस्थितषड्जमादौ। मध्यर्षभान्तं त्ववरुह्य पूर्वमारभ्य तत्तारगमध्यमान्तम् ॥ ९२१॥ गीत्वा च तानान् विविधान् यथेच्छं न्यस्येच्च तारस्थितषड्ज एव।
Page 229
२०६ सङ्गोधसुता
-।। रागवधनी ॥ - तद्रागवर्धन्यभिधीयतेऽत्र प्रारभ्य तारस्थितपञ्मं प्राक् ॥ ९२२॥ आरुह्य चातारनिषदमादौ मध्यस्थषड्जान्तमथावरुह्य। गीत्वा विचित्रानपि तत्र तानाञ्जह्याच् मध्यस्थितषड्ज एव ॥। ५२३ ।।
।। विदारी ॥ तस्या विदारी कथयामि तारषड्जं समारभ्य ततोऽवरोहत्। मध्यर्षभान्तं पुनरेव तत्रारोहेच्च तारसस्थितमध्यमान्तम् ॥ ९२४॥ स्वैरं विचित्रानभिगाय तानान् मध्यस्थिते षड्ज इह प्रजह्यात।
-।। रागवधेनी ॥ सा रागवर्धन्यभिधीयतेऽन्या तारस्थितात् पञ्मतोऽवरोहेत्।। ९२५॥। यावन्द्वेत्तारगतो निषादसत्वा मध्यषड्जाद्वरुह्य तानान्। गीत्वाऽथ मु्जेदपि मध्यषड्जे सा रागवधन्युदिताऽत्र सम्यक् ॥ ९२६ ॥
-- ।। विदारी।। अस्या विदारी खलु तारषड्जात् प्रभृत्यथो मध्यगतर्षभान्तम् । ततोऽवरोहेत्तदनुक्रमेण त्वारुह्य तत्तारगमध्यमान्तम् ॥ ९२७॥ इच्छानुसारादभिगाय तानान् न्यस्येच्च मध्यस्थितषड्ज एव।
।। षडजस्थायी ॥ षड्जस्य तु स्थायिनमामनामः प्रारभ्य तारस्थितपड्जमादौ ॥ ९२८॥ आ धैवतात्तारगताच् पञ् विनैव गांधारकघैवताभ्याम्। स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरस्यापि विवर्जनाच्च ॥ ९॥ दशैव तानानभिगाय तत्रारोहावरोहक्रमतः प्रतीतान्। तारस्थषड्जे च ततस्तु सुञ्रेत् स्थाय्युच्यते मध्यगमध्यमस्य ॥ ९३०॥
- ॥। मध्यमस्थायी ॥ - आरभ्य मध्यस्थितमध्यमं तं षट् च स्वरास्तारगमध्यमान्ताः । प्रत्येकमेकैकमथो पुरेव गीत्वा पुनर्द्वादश तत्र तानान् ॥ ९३१ ॥। मध्यस्थिते मध्यम एव जह्यात् स्थाय्युच्यते मध्यगषड्जकस्य ।
Page 230
रागवर्धनी
-।। षड्जस्थायी॥ आरभ्य मध्यस्थितषड्जमादौ गांधारकं घैवतमन्तरेण ॥। ९३२ ।। स्वरा: पडातारगपड्जमेव प्रत्येकमेषां पुनरेकमेकम् । गायेदिति द्वादश तानमेदन गीत्वा त्यजेन्मध्यगपडज एव ॥ ९३३।।
-
।! वर्तनी॥ - तद्वर्तनीं कीतयितुं प्रवर्ते प्रारभ्य मध्यस्थितषड्जमादौ। आरुह्य चा तारनिषादतः प्रागा मव्यपड्जादुवरुह पश्चात् ॥। ९३४।। गीत्वा च तानान् कतिचिद्विचित्रान न्यत्येव्व मध्यस्थितषड्ज एव।
-
॥ न्यास: ॥ न्यासस्तु रागस्य पुरा निरुक्तविदारिकेवापुनरुक्ति गेय: ।। ९३५।। अह्वः पुनः पश्चिमयामगाने श्रेयस्करः श्रोतृजनस्य सोऽयम्।
(२७) -।। अथ धनाशीरागः ॥- धनाशिकारागमथाभिधास्ये श्रीरागमेलः पुनरत्र मेल: ॥ ९३६।। वक्ष्यामि लक्ष्यानुगुणं तु लक्ष्म न्यासो ग्रहोंऽशः पुनरत्र षड्जः । स धैवतेनाप्यृषभेण हीनः स्यादौडवो वैणिकसंप्रदायात् ॥ ९३७॥
- ।। आक्षिप्तिका ॥- आक्षिप्तिकामस्य निरूपयामः प्रारभ्य तारस्थितपड्जमादौ । आमध्यगांधारमनुक्रमेणावरुह्य चारुह्य च तारभाजः ॥ ९३८॥ आ चै गांधारत आत्ममेधानुरोधतः कानपि तत्र तानान्। उद्गाय मुञ्ेदथ तारपड्जे तद्रागवर्धन्यभिधीयतेऽथ॥ ९३९॥
-।। रागवधेनी ॥ -
Page 231
८ संङ्गीतसुधा आतारगात् पञ्चमतोऽ़धिरुह्य गीत्वा च तानान् कतिचिद्विचित्रान् ॥ ९४०।। ततो विजह्यादृपि मध्यषड़जे तस्या विदारी तदनु व्रवीमि।
-
।। विदारी ॥- षड्जस्व्ररात्तारगतात् क्रमेण मध्यस्थगांधारमतोऽवरोहेत् ॥ ९४१॥ आरुह्य तारस्थितमध्यमान्तं नानाविधानप्यभिगाय तानान्। तारस्थषड्जे तद्नु प्रमुञ्च्ेत्तद्रागवर्धन्यभिधीयतेऽन्या ॥ ९४२॥
-
।। रागवर्धनी ॥ - प्रकरश्य तारस्थितमध्यमं प्रागारूह्य चा तारगतान्निपादातु । तथैव तारस्थितपञ्मान्तं ततोऽवरोहन्नभिगाय तानान् ॥ ९४३॥ मध्यस्थषड्जे विसृजेदमुष्या विदारिकाऽप्याद्यविदारिकावत्।
-
।। षड्जस्थायी ॥ - षड्जस्य तु स्थायिनमीरयामो मध्यस्थषड्जप्रमुखस्त्ररा ये॥ ९४४॥ पञ्च स्वरास्तारगतान्निषादाद् द्वावन्तरेणर्षभघैवतौ च । प्रत्येकमेकैकतया तु तानानंषां दशारोहणतोऽवरोहेत् ॥ ९४५ ॥ गीत्वा विमुश्जेदपि तारषडजेऽथ पञ्चमस्थाय्यभिधीयतेऽस्याः ।
-
।। पञ्मस्थायी। प्रारभ्य मध्यस्थितपञ्च्मं प्राक् तावत्तथैवर्षभघैवतौ दवौ ॥ ९४६ ॥ आ तारगात् पञ्च्मतः स्वराः षट् प्रत्येकमेकैक इति क्रमेण। गीत्वा ततो द्वादश तानभेदान् मध्यस्थिते पञ्म एव मुश्ेत् ॥ ९४७॥
-।। षड्जस्थायी ॥ - अथोच्यते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम् । आ तारषड्जादखिलस्वराणां तावन्तरेणर्षभघैवतौ द्वौ॥ ९४८ ॥ आरोहणेनाप्यवरोहणेन गीत्वा ततो द्वादश तानभेदानू। मध्यस्थषड्जे च विहाय वर्तन्यथोच्यते मध्यगतात्तु षड़जात्॥ ९४९ ॥
Page 232
रागवर्धनी २०९
-
।। वर्तनी॥- आरुह्य चा तारगतान्निषदादामध्यपडजादवरुह्य पश्चात्। तानाननेकांस्तदनु प्रगाय ततो विमुञ्ेदपि मध्यषड्जे ॥ ९५० ॥
-
|। न्यास: ॥1- न्यासस्तु रागस्य निरुक्तपूर्वविदारिकेवापुनरुक्ति गेयः । प्रातः प्रदोषे च स गीयमानः श्वःश्रेयसं श्रोतृजनस्य दद्यात् ॥ ९५१॥
२८-।। अथ भैरवीराग: ॥- अथोच्यते भैरविकाख्यरागो मेलेऽत्र पड्जस्वरमध्यमौ दवौ। सपञ्मौ वैवतकश्च शुद्धा: पञ्चश्रुतिः स्यादपभो निषादः ॥ ९५२॥ केशिक्यभिख्यः कथितोऽत्र साधारणश्च गांधार इह प्रतीतः । एभि: स्वरैः सप्तभिरन्वितो यस्तं भैरवीमेलमुदीरयन्ति ॥ ९५३॥
कैशिक्यभिख्यानयुतान्निषादादित्येतदस्या नियुनक्ति मार्गम् ॥ ९५४।। पञ्चश्रुतिश्च्ापि हि वैवतोऽत्र लक्ष्येषु कुत्राप्युपलभ्यतेऽस्याम्। मेलान्तरं तेन न कल्पनीयं तस्याः समेष्वेष्वपरस्व्ररेषु ॥ ९५५॥ तन्द्वैरवीलक्ष्म वदामि षड्जो न्यासग्रहांशाविह घैवतः स्यात्। वादी तु षड्जः स तु पञ्चमः संवादी विवादी तु निषादसंज्ञः ॥ ९५६ ॥ गांधारकेण त्वनुवादिना तु स्यातां स्वरौ वैवतकर्षभौं द्वौ।
॥ आक्षिप्तिका ॥ - आक्षिप्तिकामस्य निरूपयामस्त्वारभ्य तारस्थनिषादमादौ ॥ ९५७ ॥ मध्यर्षभान्तं त्ववरुह्य तस्मादारुह्य तारस्थितमध्यमान्तम्। गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव ॥ ९५८ ॥
-।। रागवर्धेनी ॥ सा रागवर्धन्यभिधीयतेऽस्यास्त्वारभ्य मध्यस्थितपञ्नमं तम् । आरुह्य तारस्थितवैवतान्तं मध्यस्थषड्जावधि चावरुह्य ॥ ९५९॥ गीत्वा विचित्रान् कतिचिच्च तानान् न्यस्येच्च मध्यस्थितषड्ज एव।
Page 233
सङ्गीतसुधा
-।। विदारी॥ - आद्यां विदारीं त्वथ लक्षयामरत्वारभ्य मध्यस्थितषड्जमादौ ॥ ९६०॥ आरुह्य तारस्थितमध्यमान्तं गीत्वा च तानान् कतिचिद्विचित्रान्। पुर्धोक्तरीत्याऽथ यथाक्रमेण न्यस्येन्च तारस्थितषड्ज एव ॥ ९६१॥
-।। रागवधेनी॥ सा रागवर्धन्यभिधीयतेऽन्या त्वारभ्य मध्यस्थनिषादमादौ। गीत्वा च तारस्थनिषादकान्तं तानान् विचित्रानवरोहरीत्या ॥ ९६२।। न्यस्येच्च मध्यस्थितषड्ज एव वक्ष्ये विदारीमधुना द्वितीयाम्।
-।। विदारी ॥ - आरभ्य मध्यस्थितषड्जमादौ तथैव तारस्थितमध्यमान्तम् ॥ ९६३॥ गीत्वा च तानान् पुनरुक्तिहीनान् न्यस्येच् तारस्थितषड्ज एव।
-।। षड्जस्थायी ॥ - षड्जस्य तु स्थायिनमामनामस्त्वारभ्य तारस्थितषड्जमादौ॥ ९६४॥ स्वरास्तु ये तारनिषादकान्ताः प्रत्येकमेकैककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन ॥ ९६५ ॥ आरोहणेनाप्यवरोहणेन गीत्वा च तानांस्तु चतुर्दशैव। न्यस्येच्च तारस्थितषड्ज एव तन्मध्यमस्थायिनमामनामः ॥ ९६६ ॥
-।। मध्यस्थायी ॥ - आरभ्य मध्यस्थितमध्यमात्तु ये षट् स्वरास्तारगमध्यमान्ताः। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्त्ररयोजनेन ॥ ९६७ । तथोत्तरेषामपि वर्जनेन त्वारोहणेनाप्यवरोहणेन। व्वषौ च तानान् क्रमशोऽथ गीत्वा न्यस्येच मध्यस्थितमध्यमेऽस्मिन् ॥ ९६८ ॥।
- ।। रिषभस्थायी ॥ - अथर्षभस्थायिनमामनामो मध्यर्षभोपक्रमतस्तथैव। ये ते स्वरास्तारगतर्षभान्ता: प्रत्येकमेकैककतानमेषाम् ॥ ९६९ ॥
Page 234
आक्षिपिका
स्वपूर्वपूर्वस्वरयोजनेन पूर्वोक्तरीत्या तु यथाक्रमेण। अथोत्तरेषामपि वर्जनेन चारोहणेनाध्यवरोहणेन । ९७० ।। द्वचष्टै च तानान् क्रमशोऽथ गीत्वा न्यस्येच्च मध्यर्षभकस्वरेऽस्मिन्।
-॥। षड्जस्थायी ॥ - स्थाय्युच्यते मध्यमषड्जकस्य त्वारभ्य मध्यस्थितषड्जक तम् ॥ ९७१॥ येऽष्ट स्वरास्तारगतर्षभान्ताः प्रत्येकमेकैंककतानमेषाम् । स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन ॥ ९७२ ॥ आरोहणेनाप्यवरोहणेन द्वयष्टौ च तानान् क्रमशोऽथ गीत्वा। न्यस्येच्च मध्यस्थितषड्ज एव ततः परं वर्तनिकां च वक्षये॥ ९७३॥
। वरतेनी ॥ - आरभ्य मध्यस्थितपड्जमादौ तथैव तारस्थनिषादकान्तम्। गीत्वा च तानान् कतिचिद्यथेच्छं न्यस्येच्च मध्यस्थितपड्ज एव ।। ९७४॥
।। न्यास: ॥ न्यासं तु रागस्य वदामि तारषड्जं समारभ्य ततोडवरुह्य। मध्यर्षभान्तं त्ववरुह्य पश्चात्तानान् विचित्रान् कतिचिच्च गीत्वा। ९७५।। न्यस्येञ् तारस्थितषड्ज एव गेया च यामे दिवसस्य तुये। निरूपितो भैरविकाख्यरागो मयाऽडञ्जनेयस्य मतानुरोधात्॥ ९७६॥
(२८)॥- अथ जयन्तसेनारागः ॥- जयन्तसे नाह्वयरागमेतं वक्ष्यामि मेलेन समं विशेषात्। स भैरवीमेलक एव मेल: स्यान्मध्यमो न्यास इह ग्रहोडशः ॥ ९७७॥ स षाडवश्चर्षभवर्जनेन ह्याक्षिप्तिकां तस्य निरूपयामः ।
- ।। आक्षिप्तिका ॥ - आरभ्य तारस्थितषड्जमादावा मध्यषड्जादवरुह्य पश्चात् ॥ ९७८ ॥ आरुह्य तारस्थितषड्जकान्तं तानान् विचित्रान् कतिचिच्च गीत्वा। न्यस्येच्च तारस्थितषड्ज एव तद्रागवर्धन्यभिधीयतेऽथ ॥ ९७९॥
Page 235
सङ्गातसुधा
प्रारभ्य मध्यस्थनिषाद्मादावारुह्य चातारनिषाद्मर्मातू। मध्यस्थपड्जावधि चावरुह्य तानान् विचित्रान् कतिचित् प्रगाय ॥ ९८० ॥ न्यस्येत् पुनर्मध्यगपड्ज एव तस्या विदारी तदनु न्रर्वामि।
-।। विदारी ॥ - आरभ्य तारस्थितषड्जमादावामध्यगांधारमतोऽवरुह्य ॥ ९८१॥ आरुह्य तारस्थितमध्यमान्तं तानान् विचित्रान् कतिचित् प्रगाय। न्यस्येच्च तारस्थितपड्ज एव तद्रागवर्धन्याभधीयतेऽन्या ॥ ९८२ ॥
-
। रागवधेनी ॥ - आरभ्य तारस्थितषड्जमादावारुह्य चातारनिषादमस्मात्। मध्यस्थपड्जाद्वरुह्य तानान् गीत्वा त्यजेन्मध्यगते तु षड्जे ॥ ९८३॥
-
। विदारी ॥ - अस्या विदारीमधुना प्रवक्ष्ये प्रक्रम्य मध्यस्थनिषादमादौ। आमध्यगांधारमतोऽवरुह्यारुह्यापि तारस्थितमध्यमान्तम् । ९८४।। प्रागाय तानान् कतिचित् प्रगल्भं न्यस्येच्च तारस्थितषड्ज एव।
-
॥। षड्जस्थायी ॥ - नारस्थपड़जस्य निरूप्यतेऽथ स्थायी समारभ्य तु तारषड्जम् ॥९८५॥ एते स्वरास्तारनिषादकान्ता विनर्षभं पञ्चमतश्च हीनम्। आरोहणेनाप्यवरोहणेन प्रत्येकमेकैककतानरीत्या । ९८६।। स्वपूर्वपूर्वस्तरयोजनात् स्वोत्तरोत्तरस्यापि विवर्जनेन। प्रगाय तेषां दश तानभेदान् मुश्नेच् किंचेदशि तारषड्जे ॥ ९८७॥
-
॥। मध्यमस्थायी ॥ - स्थाय्युच्यते मध्यगमध्यमस्य प्रक्रम्य मध्यस्थितमध्यमं प्राक्। आरुह्य तारस्थितमध्यमान्तं षण्णां स्वराणां च पुरोक्तमार्गात् ।। ९८८।। -- - दातशा तानभेदान् न्यस्येन्व मध्यस्थितमध्यमेऽस्मिन्।
Page 236
। रघुनाथभूपविरचिता ॥
। सङ्गीतसुधा ॥
- ।। षड्जस्थायी ॥ - मध्यस्थषड्जस्य निरूप्यतेऽथ स्थायी समारभ्य तु मध्यषड्जम् ॥ ९८९॥ तारस्थषड्जावधिकस्वरा ये तेषां च षण्णां प्रथमोक्तरीत्या। प्रगाय तु द्वादश तानभेदान् न्यस्येच्च मध्यस्थितषड्ज एव ॥ ९९० ॥
।। वर्तनी ॥ तद्वतनीं कीतयितुं प्रवर्ते प्रक्रम्य मध्यस्थितषड्जमादौ। आरुह्य तारस्थनिषादकान्तमा मध्यषड्जादवरुह्य पश्चात् ॥ ९९१ ॥ गीत्वा च तानान् कियतः क्रमेण मुश्ेच मध्यस्थितषड्ज एव।
- ॥। न्यास: ॥- न्यासस्तु रागस्य निरुक्तपूर्वविदारिकेवापुनरुक्ति गेय: । ९९२ ।। जयन्तसेना रघुनाथभूमिपुरन्दरेणैव समुद्धता च। सदा प्रगेया शुभदायिका स्याद्रक्तिप्रदा चाखिलगायकानाम् ॥ ९९३॥
-।। (३०) अथ भिन्नषड्जरागः ॥- वक्ष्यामहे संप्रति भिन्नषड्जं मेलो भवेदस्य च भैरवीवत्। वक्ष्यामहे संप्रति लक्षणं तु न्यासो ग्रहोंऽशोऽत्र तथर्षभः स्यात् ॥ ९९४॥ संपूर्णतायुक्च तथैष रागस्त्वाक्षिप्तिकामस्य निरूपयामः ।
Page 237
२१४ सङ्गीतसुधा
-।। आक्षिप्तिका॥ -
क्रमेण मध्यस्थितपञ्चमान्तं गीत्वा च तानान् कतिचिद्यथेच्छम्। मुश्ेच्च किंचेदृशि तारघड़जे तद्रागवर्धन्यभिधीयतेऽय ॥ ९९६॥
-।। रागवधेनी ॥ - गांधारतस्तारजुषोऽधिरोहेत् क्रमेण तारस्थितपञ्च्मान्तम् । आ मध्यषड़जादवरुह्य पश्चात् प्रगाय तानान् कतिचित् प्रगल्भम् ॥ ९९७ ।। अधो विजह्यादपि मध्यपड्जे तस्या विदारी तदनु त्रवीमि।
-॥। विदारी ॥ - प्रक्रम्य तारस्थितषड्जमादावा मध्यगान्मध्यमतोऽवरोहेत ॥ ९९८ ॥ आतारगांधारमथाधिराहेदुद्वाय तानानुचितं यथेच्छम् । न्यस्येच्च तारस्थितषड्ज एव तद्रागवर्धन्यभिधीयतेऽन्या ॥ ९९९॥
- ॥। रागवधेनी। तारस्थितात् पञ्चमतोऽधिरोहेत् क्रमेण चातारनिषादमस्मात्। मध्यस्थषड्जावधि चावरुह्य तानांश्र नाना तदनु प्रगाय। १००० ।। षड्जे विमुञ्चेदथ मध्यभाजि विदारिकामस्य विवेचयामः ।
-।। विदारी ॥ -
क्रमेण मध्यस्थितमध्यमान्तं गीत्वा च तानान् कियतो विचित्रान्। जह्यान्तु तारस्थितषड्ज एव षड्जस्य च स्थायिनमीरयामः ॥१००२॥
-॥ षड्जस्थायी॥ - आरभ्य तारस्थितषड्जमत्र ये तु स्वरास्तारनिषादकान्ताः । आरोहणेनाप्यवरोहणेन प्रत्येकमेकैककतानरीत्या ॥ १००३।।
Page 238
हिन्दोलवसन्तरागः स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरेषामपि वर्जनेंन। अगाय तानांश्चतुरो दशापि मुश्वेच्च तारस्थितषड्ज एव ॥ १००४ ॥
-
।। पञ्चमस्थायी॥- स्थाय्युच्यते संप्रति पञ्मस्य प्रक्रम्य मध्यस्थितपञ्चमं प्राक्। येSत्र स्वरास्तारगपञ्मान्तास्तेषां स्वराणां दश षद् च गीत्वा । १००५। तानान् यथापूर्वमिह क्रमेण मध्यस्थिते पञ्चम एव मुश्ेत्।
-
।। ऋषभस्थायी ॥ - अथर्षभस्थायिनमामनामो मध्यर्षभात्तारगतर्षभान्ताः ॥ १००६ ।। येऽष्ट स्वरा: पूर्ववदेव तेषां गीत्वा स्वराणां दश षट् च तानान्। मध्यर्षभेऽस्मिन् विजहातु मध्यषड्जस्य च स्थायिनमामनामः ॥१०७॥
-
॥। षड्जस्थायी ॥ - प्रक्रम्य मध्यस्थितषड्जमादौ येऽट स्वरास्तारगषड्जकान्ताः । प्रगाय नाना दश षठ् च तानान् प्राग्वत्त्यजेन्मध्यगषड्ज एव । १०॥।
-
। वर्तनी॥ - अथोच्यते वर्तनिका तु मध्यषड्जं समारभ्य ततोऽधिरोहेत्। क्रमेण चातारनिषादमस्मादा मध्यड्जादवरुह्य पश्चात् ॥ १००९।। गीत्वा च तानान् कतिचित् प्रगल्भं सुश्ेच्च किंचेदृशि मध्यषड्जे।
-
॥। न्यास: ॥ - न्यासस्तु रागस्य निरुक्तपूर्वविदारिकावत् पुनरुक्तरीत्या ॥ १०१०॥ प्रगे प्रगेयत्वमुपैति सोऽयमितीरितः संप्रति भिन्नपड्जः । . -।। (३१) अथ हिन्दोलवसन्तरागः ॥ - रागं तु हिन्दोलवसन्तसंज्ञं निरूपयामो निपुणैर्वचोभिः ॥१०११ ॥ स भैरवीमेलक एव मेलो न्यासो ग्रहोंऽशः पुनरस्य षड्जः ।
Page 239
२१६ सङ्गातसुधा
-
।। आक्षिप्रिका ॥- आक्षिप्तिकां वच्म्यथ तारपड्जान्मध्यक्थपड्जावधि चावरुह्य ॥ १०१२॥ आतारमध्य च ततोऽबरुहय गायन विचित्रानपि तानभेदान्। तारस्थिते षड्ज इह प्रजह्यात्तद्ागवर्धन्यभिधीयतेऽथ ॥ २०१३॥
-
॥ रागवधनी॥- तारस्थितान्मध्यमतस्तु तारनिषादपर्यन्तमथाधिरुह्य। मध्यस्थषड्जान्तमथोऽवरुह्य प्रगाय तानानपि च प्रगल्भम् ॥ १०१४।। मुश्नेच्च मध्यस्थितषड्ज एव तद्रागवधन्यपि च द्वितीया।
-।। विदारी॥- समं विदार्या किल पूर्वरागविवर्धनीवत् कथिता प्रवीणैः ॥ १०१५॥
-।। षड्जस्थायी ॥- निरुप्यते संप्रति तारषड्जस्थायी समारभ्य तु तारषड्जम् । विनर्षभं तारनिषादकान्ता ये स्यु: स्वराः षट् क्रमशस्तु तषाम् ॥ १०१६॥ आरोहणेनाप्यवरोहणेन प्रत्येकमेकैककतानरीत्या। स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरस्यापि विवर्जनेन ॥ १०१७॥ प्रगाय तु द्वादश तानभेदान् न्यस्येच्च तारस्थितषड्ज एव।
। मध्यमस्थायी ॥- स्थाय्युच्यते मध्यगमध्यमस्य प्रारभ्य मध्यस्थितमध्यमाद्ये॥ १०१८॥ सप्र स्वरास्तारगमध्यमान्ता विवर्जिता तारगतर्षभेण। चतुर्दशैषामधिगाय तानान् प्राग्वत्त्यजेन्मध्यगमध्यमेऽस्मिन्। १०१९।।
-।। षड्जस्थायी॥ - संलक्ष्यते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम् । तारस्थषड्जावधि ये स्वराः स्युरथर्षभात् सप् पुरैव तेषाम् ॥ १०२०॥ तानान् प्रगायंश्चतुरो दशापि सुन्नेच्च मध्यस्थितषड्ज एव।
Page 240
रागवर्धनी २१७
-
॥। वर्तनी ॥ - वदामि तद्वर्तनिकामिदानीमारभ्य मध्यस्थितमेव षड्जम् ॥ १०२१॥ उद्राय तारस्थनिषादकान्तं तानांस्त्यजेन्मध्यगतेऽथ षड्जे।
-
॥। न्यास:॥- न्यासस्तु रागस्य निरुक्तपूर्वविदारिकेवापुनरुक्ति गेय: ॥ १०२२॥
(३२) अथ हिन्दोलराग: ॥ - हिन्दोलरागं प्रतिपादयामः स भैरवीमेलक एव मेलः । वक्ष्यामि लक्ष्यानुगुणं तु लक्ष्म न्यासो ग्रहोंडशः पुनरस्य षड्जः ॥ १०२३॥ अतो विहायर्षभपञ्मौ द्वौ स्वरौ भवेदौडुव इत्युदीतः।
-
॥ आक्षिप्तिका ॥ आक्षिप्तिकां वच्म्यथ तारषड्जादा मध्यगांधारमिहावरुह्य ॥ १०२४॥ आरुह्य तारस्थितमध्यमान्तं तानान् प्रगायोज्तु तारषड्जे।
-
।। रागवर्धनी ॥- अस्योच्यते संप्रति रागवर्धन्यारभ्य मध्यस्थनिषादमादौ ॥ १०२५॥ आरुह्य तारस्थनिषादकान्तमा मध्यषड्जादवरुह्य पश्चात्। गीत्वा च तानान् कतिचिद्यथेच्छं न्यस्येच्च मध्य्थितषड्ज एव ॥ १०२६॥
। विदारी ॥ - अस्या विदार्यामिह तारषड्जादा मध्यगांधारमथावरुह्य। आरुह्य तारस्थितमध्यमान्तं तानान् प्रगायोज्झतु तारषड्ज ॥ १०२७ ॥
-।। रागवर्धनी ॥ - निरूष्यतेऽन्यापि च रागवर्धन्यारभ्य मध्यस्थितषड्जमादौ।
Page 241
सङ्गीतसुधा
आरुह्य चातारनिषादमस्मान्मध्यस्थपड्जावधि चावरोहेत्॥ १०२८।। प्रगाय तानान् कतिचित् प्रगल्भं सुख्ेञ्च किंचेहशि मध्यषड्जे।
-।। विदारी॥ अस्या विदारीमथ लक्षयामः प्रक्रम्य तारर्षभमेव पूर्वम् ॥ १०२९॥
गीत्वा च तानान् कतिचिद्विचित्रान मुश्च्ेच् तारस्थितषड्ज एव ॥ १०३० ॥
-
।। षड्जस्थायी ॥ तारस्थषड्जस्य निरुप्यतेऽथ स्थायी समारभ्य तु तारषड्जम्। ये स्युः स्वरास्तारनिषादकान्ता विनर्षमेणापि च पञ्मेन ॥ १०३१॥ आरोहणेनाप्यवरोहगेन प्रत्येकमेकैककतानरीत्या। तेषां प्रगायन दश तानभेदान् मुञ्च्ेच् तारस्थितषड्ज एव ॥ १०३२॥
-
।। मध्यमस्थायी॥ -- स्थाय्युच्त्यते मध्यगमध्यमस्य प्रक्रम्य मध्यस्थितमध्यम प्राक् । आ तारगान्मध्यमतः स्वराणां प्रायो विनैवर्षभपञ्च्माभ्याम् ॥ १०३३॥ प्रगाय तु द्वादश तानभेदान् मुञ्च्ेच्च मध्यस्थितमध्यमेऽस्मिन्।
-
।। गांधारस्थायी॥ - गांधारकस्थाय्यथ तत्र मध्यगांधारमुख्यानपि षद् क्रमेण ॥ १०३४ ॥ आतारगांधारमपि स्वरांस्तु विवर्जितांश्चर्षभपञ्चमाभ्याम् । पुरेव चारोहणमेव रोहः प्रत्येकमेकैककतयैव तानान् ॥ १०३५॥ गीत्वा ततो द्वादश मध्यवर्तिगांधारनामस्वर एव जह्यात्।
-।। षड्जस्थायी ॥ - उदीर्यतेऽस्मिन्नथ मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम् ॥ १०३६ ॥ तत्तारषड्जावधि पञ्चमेन विनर्षभेणापि भवन्ति ये षट्। स्व्ररास्तु तेषां प्रथमोक्तरीत्या रोहानुरोहद्वितयानुपूर्व्यात्॥ १०३७ ।
Page 242
विदारी २१९
प्रत्येकमेकैकतयैव तानान् गीत्वा ततो द्वादश मंध्यषड्जे।
-।। वर्तनी ॥ - जह्यात्ततो वर्तनिकोच्यतेऽत्र गांधारमारभ्य तु मध्यभाजम् ॥ २०३८॥ आरुह्य चा तारगतान्निषादादा मध्यपड्जादवरुह्य पश्चात्। तानान् प्रगायोज्झतु मध्यषड्जे रागस्य तु न्यास इहाभिधेयः ॥ २०३९॥
-
॥। न्यास:॥ - अयं च पूर्वोक्तविदारिकावद्विनैव गेय: पुनरुक्तिदोषम्।
-
॥। (३३) अथ भूपालरागः ॥ - भूपालरागं प्रतिपादयामो मेलो भवेदस्य तु भैरवीवत् ॥ १०४० ॥ न्यासो ग्रहोंडशः पुनरस्य षड्जः समध्यमेनापि निषादकेन। त्यक्त्तो भवेदौडुब एव रागर्त्वाक्षिप्तिकामस्य निरूपयामः ॥१०४१॥
-
।। आक्षिप्तिका ॥ - गांधारतस्तारगतात् प्रभत्यामध्यस्थगांधारमथोऽबरूह्य। आतारगांधारमथाधिरुह्य गीत्वा यथेच्छं कियतोऽपि तानान् ॥ १०४२॥ तारस्थषड्जे विसृजेच पश्चात्तद्रागवर्धन्यभिधीयतेऽस्याः ।
-।। रागवर्धनी ॥ गांधारतस्तारगतात् प्रभृत्यारोहन्नथो तारगधैवतान्तम् ॥ १०४३।। आ मध्यषड्जादवरुह्य पश्चाद्गीत्वा च तानान् कियतो विचित्रान्। मध्यस्थषड्जेऽपि जहातु तस्या विदारिकामत्र वदामि यावत् ॥ १०४४।।
।। विदारी ॥ - तारस्थषड्जादवरुह्य मध्यगांधारपर्यन्तमथाधिरुह्य। आतारगांधारक एव कांश्चित्तानांश्च गीत्वोज्झति तारषड्जे ॥ १०४५ ॥
Page 243
२२० सङ्गीतसुधा
-।। रागवधेनी ॥ - अत्रोच्यतेऽन्यापि च रागवर्धन्यारभ्य तारस्थितघैवतं प्राक्। आ मध्यमाद्वैवततोऽधिरोहेदा चावरोहेदपि मध्यषड्जात् ॥ १०४६ ॥ कांश्चिच तानानभिगाय मध्यषड्जे विजह्यादथ तद्विदारीम्।
- ।। विदारी ॥ - मध्यस्थिातात् पञ्चमतोऽवरुह्य मध्यस्थगांधारमथाधिरुह्य ॥ १०४॥ आतारगांधारमतोऽभिगाय तानान् विमुश्ेदपि तारषड्जे।
-।। षड्जस्थायी ॥ - षड्जस्य तु स्थायिनमामनामस्तारस्थषड्जप्रमुखा: स्वरा ये॥ १०४८॥ आ तारगाद्वैवततो निषादाद्विना च तेषामपि मध्यगानाम्। प्रत्येकमेकैकमिति क्रमेण तानान् दशारोहणतोऽवरोहेत्॥ १०४९॥ गीत्वा ततो मुञ्जति तारषड्जेऽथ पञ्मस्थायिनमामनामः ।
-
।। पञ्न्मस्थायी ॥ - स्वरास्तु मध्यस्थितपञ्माद्या ये सन्ति तारस्थितपञ्चमान्ताः ॥ १०५०॥ विना निषादेन च मध्यमेन षण्णाममीषां पुनरेक एषः । प्रत्येकमित्येवमनुक्रमेण गीत्वा ततो द्वादश तानभेदान्॥ १०५१।। मध्यस्थिते मुख्जति पञ्मे च स्थायी त्वयं मध्यगषड्जभागी।
-
॥ षड्जस्थायी ॥ - षड्जस्वरान्मध्यगतात् प्रभृत्या तारस्थषड्जादपि षट् स्वरा ये॥ १०५२॥ विना निषादेन च मध्यमेन प्रत्येकमेषां पुनरेक एषः । इति क्रमाद्द्वादश तानभेदान् पुरेव गीत्वोज्झति मध्यषड्जे ॥ १०५३ ॥
। वर्तनी ॥ - तद्वर्तनीं कीर्तयितुं प्रवर्ते मध्यस्थषड्जादधिरुह्य तानान्। आ धैवतादेवमथाधिरुह्य मध्यस्थषड्जावधि तानभेदान्॥ १०५४ ।। उद्राय कानप्यथ मध्यषड्जे न्यस्येच् रागस्य भवेदयं तु।
Page 244
रागवधनी २२१
॥। न्यास:॥ न्यास: पुरा प्रोक्तविदारिकेव विनैव गेयः पुनरुक्तिवर्जम् ॥ १०५५॥ प्रातस्तरामेव तु गीयमानः श्रेयस्करः श्रोतृजनस्य रागः ।
(३४) -।। अथ शंकराभरणराग: ॥- संलक्ष्यते संप्रति शंकराभरणाख्यराग: क्रमतः समेलम् ॥१६॥ पञ्नश्रुतिश्च्र्षभघैवतौ गांधारोऽन्तर: काकलिको निषादः। षड्जः शुचिमध्यमपञ्च्माभ्यां स शंकराद्याभरणस्य मेल:॥२०५७॥ न्यासो ग्रहोंऽश: पुनरत्र षड्जः संपूर्णरागः कथितः प्रवीणैः ।
-
।। आक्षिप्तिका ॥ आक्षिप्तिकामस्य निरूपयामः प्रारभ्य मध्यस्थितमध्यमं प्राकू ॥ १०५८॥ मध्यषभान्तं त्ववरुह्य तस्मादारुह्य तारस्थितमध्यमान्तम्। गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्व तारस्थितषड्ज एव ॥ १०५९॥
-
।। रागवधेनी ॥ - तद्रागवर्धन्यभिधीयतेऽत्र तारर्षभं प्रक्रममाण आदौ। आरुह्य तारस्थितधैवतान्तं मध्यस्थषड्जान्तमथोऽवरुह्य ॥ १०६०॥ गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव।
-
।। विदारी॥। तस्या विदारीमथ वर्णयामो यथाक्रमं गायकबोधहेतोः ॥ १०६१ ॥ आरभ्य तारस्थनिषादमादौ मध्यर्षभान्तं त्ववरुह्य तस्मात्। आरुह्य मध्यस्थितमध्यमान्तं गीत्वा तु तानान् कतिचिद्विजह्यात् ॥ १०६२॥ तारस्थषड्जेऽथ निरूप्यतेऽन्या तद्रागवर्धन्यधुनानुपूर्व्या।
-।। रागवर्धनी ॥ - आरभ्य तारस्थितपञ्मान्तमारुह्य तारस्थितघैवतान्तम् ॥ १०६३॥ आ मध्यषड्जादवरुह्य कांश्चित्तानांश्च गीत्वोज्झतु मध्यषड्जे।
29
Page 245
२२२ सङ्गीतसुधा
-।। विदारी॥ अस्या विदार्योमय तारषड्ज आरभ्य मध्यप्रभवर्षभान्तम् ॥ १०६४ ।। इहावरुहाप्यधिरुह्य तारभूमध्यमान्तं परिगाय तानान्। कांश्चित्यजेत्तारगवड्ज एव स्थाय्युच्यते तारगपड्जकस्य ॥ १०६५॥
- ।। षड्जस्थायी॥ - आरभ्य तारस्थितषड्जमादौ येऽष्ट स्वरास्तारगधैवतान्ताः । अत्येकमेकैककतानरीत्या गीत्वा पुनर्द्वादश तत्र तानान् ॥ १०६६ ॥ न्यस्येच्च तारस्थितषड्ज एव तत्पञ्च्मस्थायिनमामनामः ।
-।। पञ्नमस्थायी॥ मध्यस्थितात् पञ्चमतो निषादहीनास्तु ये तारगपञ्चमान्ताः ॥ १०६७।। तेषां स्वराणां हि पुरोक्तरीत्या प्रगाय तानांश्चतुरो दशापि। न्यस्येच्च मध्यस्थित पञ्चमेऽस्मिन् मध्यर्षभस्थाय्यथ वर्ण्यतऽस्य ॥ १०६८॥
- ।। रिषभस्थायी ॥ - भध्यर्षभात्तारगतर्षभान्ता ये तु स्वरा मध्यनिषादहीनाः । चतुर्देशैषामभिगाय तानान् प्राग्वत्त्यजेन्मध्यगतर्षभेऽस्मिन्॥ १०६९ ।।
-॥ षड्जस्थायी॥ - मध्यस्थषड्जस्य निरूप्यतेऽथ स्थायी समारभ्य तु मध्यषड्जम । तारस्थषड्जावधि ये निषादहीना: स्वराः सप्त पुरेव तेषाम् ॥ १०७०॥ तानान् प्रगायन् नव पञ्च किं च मुश्नेच् मध्यस्थितषडज एव।
-।। वर्तनी॥ - अथोच्यते वर्तनिकास्य मध्यषड्जात् क्रमात्तारगघैवतान्तम् ॥ १८७१॥ आरुह्य पश्चाद्वरुह्य पश्चान्मध्यस्थषड्जावधि च क्रमेण । गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च मध्यस्थितषड्ज एव ॥ १०७२॥
Page 246
विदारी २२३
-॥। न्यास: ॥ न्यासस्तु रागस्य निरुक्तपूर्वविदारिकेवापुनरुक्ति गेय: । दिनस्य यामे चरमे तु गाने श्रयस्करः ओ्तृजनस्य सोडयम् ॥ १०७३ ॥
-
।। (३५) अथ आरभीरागः ॥ - अथारभीरागमुदीरयामः स शंकराद्याभरणस्य मेलः। मेलो भवेदस्य च लक्षणं तु न्यासो ग्रहोंशायितपड्ज एषः ॥ १०७४॥ संपूर्णभावं भजते व सोऽयमाक्षिप्तिकामस्य ततो वदामः ।
-
॥। आक्षितिका॥ आरभ्य तारस्थितषड्जमेवा मध्यस्फुरन्मध्यमतोऽवर्हय॥ १०७५॥ आरुह्य तारस्थितमध्यमान्तं प्रगाय तानान् कतिचिद्यथेच्छम्। न्यस्येच्च तारस्थितषड्ज एव तद्रागवर्धन्यभिधीयतेऽथ ॥१०७६॥।
-
। रागवर्धनी ॥ - तारस्थितान्मध्यमतोऽधिरुह्या तारस्फुरद्वैवततोऽवरोहेत्। मध्यस्थषड्जावधि तानभेदान् गीत्वा त्यजेन्मध्यगपड्ज एव ॥ १०७७॥
! विदारी।। विविच्यते लक्षणतो विदारी प्रक्रम्य मध्यस्थितमध्यमं प्राक्। मध्यर्षभान्तं त्ववरुह्य तस्मादारुह्य तारस्थितमध्यमान्तम् ॥ २०७८॥। गीत्वा च तानान् कतिचिद्विचित्रान् मुश्नेच्च किंचेदशि तारषड्जे।
- ॥। रागवर्धनी ॥ - तद्रागवर्धन्यभिधीयतेऽन्या तारर्षभात्तारगधैवतान्तम् ॥१०७९।। आरुह्य तस्मादवरुह्य मध्यषड्जान्तमुद्राय च तानभेदान्। मध्यस्थषड्जे तदनु प्रजह्यादस्या विदारीमथ लक्षयामः ॥१०८०॥
-।। विदारी ॥ - आरभ्य तारस्थितषड्जमा च मध्यस्फुरन्मध्यमतोऽवरुह्य। आरभ्य चातारगमध्यमस्मात्तानान् प्रगायोज्झतु तारषड्जे ॥१०८१॥
Page 247
२४ सङ्गीतसुधा
- ॥। ताखषड्जस्थायी ॥ - निरूण्यते संप्रति तारषड्जस्थायी समारव्य तु तारपड़जम् । तारस्फुरद्वैवतकान्तमत्र गांधारहीना: कमशः स्वराये ॥ १०८२॥ आरोहणेनाप्यवरोहणेन प्रत्येकमेकैककतानरीत्या। स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरस्यापि विवर्जनेन ॥ १०८३॥ तेषां पुनर्द्वादश तानभेदान् पूर्वोक्तरीत्या चतुरः प्रगाय। मुश्चेच्च मध्यस्थितपञ्मेऽस्मन् स्थाय्युच्यत मध्यगपड़जकस्य ।। १०८४ ।।
-।। मध्यषड्जस्थायी ॥ - प्रक्रम्य मध्यस्थितषड्जमत्र तारस्थषड्जावधिका: सवरा ये। निषाद्गांधारविवर्जिताः स्युस्तेषां पुनर्द्वादश तानभेदान् ॥ १०८॥ पूर्वोक्तरीत्या निपुणं प्रगाय मुश्रेच् किं चेदशि मध्यपडजे।
-।। वर्तनी ॥ - अतः परं वर्तनिकां वदामः प्रारभ्य मध्यस्थितपड्जमादौ ॥ १०८६॥ आरुह्य तारस्थितधैवतान्तं मध्यस्थपड्जान्तमतोऽवरोहेन। गीत्वा च तानान् कतिचित् प्रगल्भं न्यस्येच्च मध्यस्थितपड़ज एव । १०८७।।
- ॥ न्यास: ॥ - न्यासस्तु रागस्य निरुक्तपूर्वविदारिकेवा पुनरुक्ति गेयः ।
-। (३६) अथ पूर्वगौलरागः ॥ - स पूर्वगौलः प्रतिपाद्यतेऽस्य स्याच्छंकराद्याभरणस्य मेलः ॥ १०८८॥ न्यासो ग्रहोंऽशश्र भवेन्निषादः संपूर्णभावं भजते च सोडयम।
-।। आक्षिप्तिका ॥ - आक्षिप्तिका संप्रति पूर्वगौलस्यालक्ष्यते मध्यनिषादताऽथ ॥ १८९॥ आमध्यगांधारमतोऽवरुह्यारोहेच् तारस्थितमध्यगान्तम्। इच्छानुरोधादभिगाय तानान् मध्यस्थषड्जे विसृजेच्च पश्चात् ॥ १०९० ।।
Page 248
षड्जस्थायी २२५
-।। रागवर्धनी ॥ - आलक्ष्यते चास्य हि रागवर्धन्यारुह्य चातारगपञ्नमान्तम्। आ तारगाच्चैव ततोऽधिरोहेदा मध्यषड्जादथ चावरोहेत्॥ १०९१॥ गायेच्च तानान् कतिचिद्विचित्रान् मुञ्च्ेत्ततो मध्यगते तु षड्जे।
-।। विदारी॥ अस्या विदारी त्ववरुह्य षड्जादारभ्य मव्यस्थितमध्यमान्तम् । १०९२।। आ तारगान्मध्यमतोऽधिरोहेद्रीत्वा च तानान् कतिचिद्विचित्रान्। ततो विजह्यादपि तारषड्जे तस्या विदारी निपुणं निरुक्ता॥ १०९३।
-
।। रागवर्धनी ॥ - अथोच्यतेऽन्यापि च रागवर्धन्यारभ्य तारस्थितपञ्मात्तु। आद्येव गेयापुनरुक्ति चास्या विदारिका चापि भवेत् पुरेव ॥ १०९४ ।।
-
।। षड्जस्थायी ॥ - स्थाय्येष षड्जस्य तु तारषड्जमारभ्य तारस्थितधैवतान्तम्। आरोहणेनाप्यवरोहणेन षण्णां स्वराणां पुनरेकमेकम् ॥ १०९५॥ प्रत्येकमेषां क्रमतोऽथ तानान् विचित्रितान् द्वादश तान् प्रगाय। ततस्त्यजेत्तारगते तु षड्जे स्थाय्युच्यते संप्रति पञ्चमस्य ॥ १०९६ ॥
-
।। पञ्चमस्थायी ॥ - प्रारभ्य मध्यस्थितपञ्च्मं प्रागा तारगात् पञ्चमतः क्रमेण। निषादवर्ज निखिलस्वराणामारोहणेनाप्यवरोहणेन ॥ १०९७ ॥ प्रत्येकमेकैक कतानगानात्तानान् प्रगायाथ चतुर्दशैव। मध्यस्थिते पञ्चम एव मुञ्नेत् स्थाय्युच्यते संप्रति मध्यषड्जा ॥ १०९८ ॥
-
।। षड्जस्थायी ॥ - आरभ्य तारस्थितषड्जमादावा तारषड्जाच्च निषादवर्जम्। तानान् पुनः सप्तसु च स्वरेषु प्रत्येकमेकैकमिति क्रमेण ॥ १०९९॥ गीत्वा पुनर्द्वादश तानभेदान् मुश्नेच्च किंचेदशि मध्यषड्जे।
Page 249
२२६ सङ्गातसुधा
-।। वर्तेनिका॥ प्रकीत्यते वर्तनिकास्य मध्यवड्जं समारभ्य ततो निषादात् ॥११००॥ आ तारगादप्यधिसुह्य पश्चान्मध्यस्थपडजावधि चावरुहय। तानान् विचित्रान् कतिचित् प्रगाय मध्यस्थषड्जे विसृजेच्च पश्चात् ॥ ११०१॥
-|। न्यास: 11- न्यासस्तु रागस्य निरुक्तपूर्वविद्ारिकेवापुनरुक्ति गेयः । अयं च सायाहनि गीयमान: श्रेयस्करः श्रोतृजनस्य नित्यम् ॥ ११०२॥
-।। (३७) अथ नारायणीराग: !। - नारायणीरागमथाभिधास्ये स शंकराद्याभरणस्य मेल: । मेलो भवेदस्य च लक्षणं तु गांधारको न्यास इह ग्रहोऽशः ॥ ११०३ ॥ संपूर्णभावं भजते च सोऽयमाक्षिप्तिकामस्य निरूपयामः ।
- ॥। आक्षिप्तिका ॥ तारस्थषड्जादवरुह्य मध्यगतर्षभान्तं च ततोऽधिरुह्य ॥ ११०४॥ आ तारगान्मध्यमतो विचित्रान् प्रगाय तानान् कतिचित् प्रगल्भम् । न्यस्येच्च तारस्थितषड्ज एव तद्रागवर्धन्यभिधीयतेऽ्र्या ॥ ११०५॥
-।। रागवधनी ॥ - मध्यस्थिताद्वैवततोऽधिरुह्य क्रमेण चा तारगतान्निषादात्। आ मध्यषड्जादवरुह्य पश्चात्तानांश्च नाना तदनु प्रगाय ॥ ११०६ ।। षड्जस्वरे मध्यगते विजह्यादस्या विदारीमधुनाभिधास्ये।
-।। विदारी ॥ - तारस्थषड्जादवरुह्य मध्यस्थितर्षभान्तं च ततोऽधिरुह्य ॥ ११०७॥ • आ तारगान्मध्यमतः प्रगाय मुन्नेत्तथा तारगषड्ज एव।
- ॥। रागवर्धनी ॥ - अथ द्वितीयापि च रागवर्धन्यारभ्य तारस्थितमध्यमं प्राक् ॥ ११०८॥
Page 250
पड्जस्थायी २२७
आरुह्य चा तारगतान्निषादा दामध्यषड्जादवरुह्य पश्चात्। तानाननेकांस्तदनु प्रगाय षड्जस्वरे अध्यगते विसुश्जेत् ॥ ११०९॥
-।। विदारी॥ - अस्या विदार्याद्यविदारिकावदनुक्रमेणापुनरुक्ति गेया।
-
।। षड्जस्थायी॥ - षड्जस्य तु स्थायिनमीरयामः प्रारभ्य तारस्थितषड्जमादौ॥ १११०॥ स्वरा यदा तारगतान्निषादाद्ान्धारतानं तु विहाय तेषाम्। षण्णां स्वराणामपि चैकमेकं प्रत्येकमुद्गाय तथैव तानम् ॥ ११११॥ स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरस्यापि विवर्जनाच। आरोहणेनाप्यवरोहणेन गायन्निति द्वादश तानभेदान्॥ १११२।। तारस्थषड्जस्वर एव सुश्च्ेत् स्थाय्युच्यते संप्रति पञ्चमस्य।
-
।। पञ्मस्थायी ॥ - मध्यस्थितात् पञ्मतः प्रभृत्या तारस्थितात् पञ्मतः स्वरा ये ॥ १११३॥ गांधारमेकं प्रविहाय सप्त तेषामिहारोहणतोऽवरोहात्। चतुर्दशोद्गाय तथैव तानान् सुञ्रेच् मध्यस्थितपञ्चमे च। १११४।।
-।। रिषभस्थायी॥ - मध्यर्षभस्थाय्यभिधीयतेऽथ प्रक्रम्य मध्यादृषभात् स्वरा ये। तारर्षभान्ता: पुनरन्तरेण गांधारमेषां पुनरुक्तरीत्या॥ १११५।। प्रत्येकमेकैक इति क्रमादारोहावरोहद्वितयस्य तानान्। चतुर्दशोद्ाय तथैव मध्यस्थिते विमुश्रेदषभे स्वरेऽस्मात् ॥ १११६ ॥
- ॥ षड्जस्थायी ॥ - उद्गीयते संप्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम्। आ तारषड्जादपहाय चैकं गांधारकं सप्तसु च स्वरेषु ॥ १११७॥ पुरेव चारोहणतोऽवरोहाच्चतुर्दशोद्गाय तथैव तानान्।
Page 251
२२८ सङ्गीतसुधा
- ।। वर्तनी॥- मध्यस्थिते मुञ्ति षड्ज एवाथो वतनी मध्यगतात्तु षड्जात् ॥ १११८।। आरुह्य चा तारगतान्निषादादा मध्यषड्जादुवरुह्य पश्चात्। गीत्वा च तानान् कतिचिद्विचित्रान् मध्यस्थिते सुञ्न्ति षड्ज एव ॥ १११९।
॥ न्यास: ॥ न्यासस्तु रागस्य निरुक्तपूर्वविदारिकेवापुनरुक्ति गेयः ।
-।। (३८) अथ नारायणदेशाक्षिरागः ॥ - नारायणाद्यं प्रतिपादयामो देशाक्षिराग तममुष्य मेलः ॥ ११२०॥ स शङ्कराद्याभरणस्य मेलो लक्ष्मास्य सम्यक् प्रतिपादयामः । गांधारको न्यास इह ग्रहोंऽशोऽसंपूर्णतां मुञ्चति किं च सोऽयम् ॥ ११२१ ॥
- ॥। आक्षिप्तिका ॥ - आक्षिप्तिकैषास्य तु तारषडजादारुह्य तारस्थितमध्यमान्तम् । आ मध्यमात् पञ्चमतोऽवरोहेद्रीत्वा च तानान् कियतो यथेच्छम् ॥ ११२२ ॥ त्यजेच्च तारस्थितषड्ज एव तद्रागवर्धन्यभिधीयतेऽथ।
-।। रागवर्धनी॥ - तारस्थितान्मध्यमतोऽवरोहेदा मध्यमाद्धैवततोऽप्यमुष्मात्॥११२३॥ आरुह्य चातारगघैवतान्तमुद्राय तानानुचितं यथेच्छम् । न्यस्येच्च मध्यास्थितषड्ज एव तस्या विदारीं प्रतिपादयामः ॥ ११२४॥
-।। विदारी ॥ - प्रक्रम्य मध्यस्थितपञ्मं प्रागा तारषड्जादधिरुह्य पश्चात्। आतारगान्मध्यमतोऽवरुह्य गीत्वाथ नानाविधतानभेदान्॥ ११२५ ।। मुख्च् तारस्थितषड्ज एव तद्रागवर्धन्यपि तद्विदारी। गेये पुनः पूर्ववदेव तेऽद्य षड्जस्य च स्थायिनमामनामः ॥ ११२६॥
Page 252
आहरीरागः २२९
-
॥। षड्जस्थायी॥ आरभ्य पश्चादपि तारषड्जं ये षट् स्वरास्तारनिषादकान्ताः । तेषामगांधारकतानकं स्वोत्तरोत्तरेषामपि वर्जनेन ॥ ११२७॥ स्वपूर्वपूर्वस्वरमेलनेन प्रत्येकमेकैककतानरीत्या। आरोहणेनाप्यवरोहणेन गीत्वा पुनर्द्वादश तानभेदान्॥ ११२८। ततस्त्यजत्तारगपड्ज एव तं पञ्चमस्थायिनमामनामः।
-
।। पञ्न्मस्थायी॥ प्रक्रम्य मध्यस्थितपञ्चमं प्रागा तारगात् पञ्चमतः स्वरा ये॥ ११९॥ प्राग्वत्तु तानांश्चतुरो दशैपां गीत्वा त्यजेन्मध्यगपञ्मेऽस्मिन्।
-।। मध्यमस्थायी॥ - अथोच्यते मध्यगमध्यमस्य स्थायी ततो मध्यगमध्यमात्तु ॥ ११३०।। यत्र स्वरास्तारगमध्यमान्तास्तेषां पुरेवात् चतुर्दशापि। उद्राय तानान् कतिचिद्विचित्रान् मुख्ेच मध्यस्थितमध्यमेऽथ ॥११३१॥
-॥ षड्जस्थायी ॥ - स्थाय्युच्यते मध्यगषड्जकस्य प्रारभ्य मध्यस्थितषड्जमादौ। आ तारपड्जादिह ये स्वराः स्युस्तेषां पुरेवात्र चतुर्दशैव ॥ ११३२ ॥ प्रगाय तानान् कतिचित् प्रगल्भं मुश्नेच्च किंचेदशि मध्यषड्जे।
-
॥। वर्तनी ॥ - अथोच्यते वर्तनिकास्य मध्यषड्जात किलातारनिषादकान्तम् ॥११३३ ॥ आरुह्य तस्मादवरुह्य पश्चादा मध्यपड्जात् कतिचिच्च तानान्। प्रगाय मुञ्ेदथ मध्यषड्जे न्यासस्तु रागस्य विदारिकेव ॥ ११३४ ।
-
॥ न्यास: ॥ - पौनःपुनीवर्जितया प्रगे तु प्रगेयतां मुञ्चति किं च सोडयम्।
(३९) ॥ अथ आहरीरागः ॥ - अथाहरीरागमुदीरयामः षड्जस्तथा मध्यमपञ्चमौ च ॥ ११३५ ॥ 30
Page 253
२३० सङ्गीतसुधा
स धैवतश्चेति भवन्ति, शुद्धा: पञ्चश्रुतिः स्यादृषभो निषादः । काकल्यभिख्य: कथितोऽत्र साधारणश्च गांधार इह प्रतीत: ॥ ११३६ ।। अथाहरीलक्षणमीरयामः षड़जो ग्रहो न्यास इहांशकश्च। स एव वादी स तु पश्चमः संवादी विवादी तु निषादनामा ॥ ११३७॥ गांधारकेण त्वनुवादिनौ तु स्यातां तथैवर्षभधैवतौ दवौ।
। आक्षिप्तिका ॥ - आक्षिप्तिकामध्यभिद्ध्महेऽस्याः प्रारभ्य मध्यस्थितपञ्च्मं प्राक् ॥ ११३८॥ आमध्यगांधारमतोऽवरुह्यारोहेत् क्रमात्तारगमध्यमान्तम्। तानांश्च नाना तदनु प्रगाय न्यस्येच्च तारस्थितषड्ज एव ॥ ११३९॥
।। रागवर्धनी ॥ - सा रागवर्धन्यभिधीयतेऽस्य प्रारभ्य मध्यस्थितपञ्चमं च । आरुह्य चातारनिषादमादौ मध्यस्थषड्जावधि चावरुह्य ॥ ११४०॥ गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च मध्यस्थित षड्ज एव।
-।। विदारी॥ - अस्या विदारीमथ वर्णयाम: षड्जं समारभ्य तु मध्यभाजम् ॥ ११४१ ॥ आ तारमध्यात् कतिचिच्च तानान् गीतवा विजह्यादथ तारषड्ंजे।
-।। रागवंर्धनी ॥ - अथोच्यतेऽन्यापि च रागवर्धन्यारभ्य तारस्थितमध्यमं प्राक् ॥ ११४२ ॥ आरुह्य चातारनिषादमस्मादामध्यषड्जं त्ववरोहणं स्यात्। प्रगाय नाना कतिचिच्च तानान् न्यस्येच्च मध्यस्थितषड्ज एव ॥ ११४३ ॥ अस्या विदारी प्रथमेव तारषड्जस्वरस्थायिनमत्र वक्ष्ये।
-।। षड्जस्थायी ॥ - तारस्थषड्जात् प्रभृतीह सप् स्वराः क्रमात्तारनिषादकान्ताः ॥ ११४४ ॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन ॥ ११४५॥ गीत्वा च तानांश्र चतुर्दशापि न्यस्येच्च तारस्थितषड्ज एव।
Page 254
आक्षिप्तिका २३१
-।। पञ्वसस्थायी॥ - तं पञ्मस्थायिनमामनामः प्रारभ्य मध्यस्थितपञ्चमं तु ॥ ११४६॥ अष्टा स्वरास्तारगपञ्मान्ता: प्रत्येकसेकैककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन ॥ ११४७॥ आरोहणेनाप्यवरोहणेन नययौ च तानान् पुनरत्र गीतवा। न्यस्येन सध्यस्थितमध्यमेऽस्मन् स्थाय्येष सध्यस्थितपञमस्य ॥ ११४८॥
- ।। षड्जस्थायी॥ - निरूप्यते संप्रति मध्यषड्जस्थायी समाभ्य तु मध्यषड्जम्। तारस्थपड्जावधि ये स्वराः स्युः प्रत्येकमेकैककतानमेपाम् ॥ ११४९॥ स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन। आरोहणेनाप्यवरोहणेन वयष्टौ च तानान् क्रमशोऽथ गीत्वा ॥ ११५०।। न्यस्येन्न मध्यस्थितषड्ज एव वक्ष्यामहे वर्तनिकां क्रमेण।
-।। वर्तनीका॥ आरभ्य मध्यस्थितषड्जमादौ तानानिहातारनिषादमत्र ॥ ११५१ ॥ गीत्वा पुनस्तारगषड्ज एव न्यस्येन्च सैषा किल वर्तनी स्यात्।
-
॥ न्यास: ॥ - न्यासस्तु रागस्य पुरोक्तरागवर्धन्यपन्यासवदेव वेद्य: । ११५२ ॥।
-
(४०) ।। अथ आभेरीरागः ॥ - आभेरिकाख्यामथ लक्षयामः स्यादाहरीमेलक एव मेल: ॥ ११५३ ॥ तल्लक्षणं च प्रतिपादयामो न्यासो ग्रहोंऽशोऽपि च षड्ज एव। संपूर्णरागत्वमपि प्रपन्नस्त्वाक्षिप्तिकासस्य निरूपयामः ॥ ११५४ ॥
-
।। आक्षिप्तिका ॥ - प्रक्रम्य तारस्थितषड्जमादावामध्यगांधारमतोऽवरुह्य। आतारगांधारमथाधिरुह्य प्रगाय तानान् कतिचित् प्रगल्भम् ॥११५५॥ न्यस्येच्च तारस्थितषड्ज एव तां रागवर्धन्यभिधां वदामः।
Page 255
२३२ सङ्गातसुधा
।। रागवर्धनी ॥ - प्रारभ्य तारस्थितमध्यमं प्रागारुह्य तारस्थितपञ्चमान्तम् ॥ ११५६ ।। मध्यस्थषड्जावधि चावरुह्य तानान् विचित्रान् कतिचित् प्रगाय। षड़जस्वरे मध्यगते विमुञ्ेदस्या विदारीमथ लक्षयामः ॥ ११५७ ॥
-।। विदारी ॥ - प्रक्रम्य तारस्थितषड्जमादावामध्यगांधारमथावरुह्य। आतारगांधारमथाधिरोहेद्रीत्वा च तानान् कतिचित् प्रगल्भम् ॥ ११५८॥ मुञ्च्ेच तारस्थितषड्ज एव सा रागवर्धन्यभिधीयतेऽन्या।
- ॥। रागवरधेनी ॥ - आरभ्य तारस्थितपञ्चमं प्रागारुह्य चातारनिषाद्मस्मात् ॥ ११५९॥ मध्यस्थषडजावधि चावरुह्य गीत्वा च तानान् कतिचिद्विचित्रान्। न्यस्येच्च मध्यस्थितषड्ज एव तस्या विदारीं समुदीरयामः ॥ ११६०॥
-।। विदारी॥ - प्रक्रम्य तारस्थितषड्जमादावामध्यगांधारमथाधिरोहेत्। आतारगांधारमथाधिरोहेद्रीत्वा च तानान् कतिचिद्विचित्रान् ॥ ११६१ ।। न्यस्येच्च तारस्थितषड्ज एव षडजस्य च स्थायिनमामनामः ।
-।। षड्जस्थायी॥। तारस्थषडजात् प्रभृति क्रमेण निषादतारस्य विवर्जनेन ॥ ११६२॥ नारम्फुरद्धैवतकस्वरान्तं षड्जादिमाः सन्ति हि षट स्वरा ये। प्रत्येकमेकैककतानरीत्या चारोहणेनाप्यवरोहणेन ॥ ११६३ ॥ स्त्रपूर्वपूर्वस्वरयोजनेनोत्तरोत्तरेषामपि वर्जने न । उद्धाय तु द्वादश तानभेदान् मुश्रेच् मध्यस्थितषड्ज एव ॥ ११६४ ॥
- ।। मध्यमस्थायी॥ - तन्मध्यमस्थायिनमामनामो यथाक्रमं गायकबोधहेतोः । प्रक्रम्य मध्यस्थितमध्यमं स्युः सप्र स्वरास्तारगमध्यमान्तम् ॥ ११६५ ।।
Page 256
आक्षिप्तिका २३३
आरोहरीत्याप्यव रोहणेऽस्याः प्रगाय तानांश्चतुरो दशापि। मुश्ेच्च मध्यस्थितमध्यमेऽथ स्थाय्युच्यते मध्यगषड्जकस्य ॥ ११६६ ॥
-।। पड्जस्थायी ॥ - प्रक्रम्य मध्यस्थितषड्जमादौ ये तु स्वरास्तारगषड्जकान्ताः । आरोहणेनाप्यवरोहणेन तेषामुदीतान् किल तानभेदान् ॥ ११६७॥। प्रगाय तानांश्चतुरो दशापि न्यस्येच्च तारस्थितषड्ज एव।
-
।। वतेनी॥। - अतः परं वर्तनिकां वदामः प्रारभ्य मध्यस्थितषड्जमादौ ॥ ११६८॥ आरुह्य चातारनिषादकान्तं मध्यस्थषड्जावधि चावरुह। गीत्वा च तानान् कतिचित् प्रगल्भं न्यस्येच्च मध्यस्थितषड्ज एव ॥। ११६९।।
-
।। न्यास: ॥ - रागस्य च न्यासमथाभिधास्ये प्रक्रम्य मध्यस्थितमध्यमं प्राक् । आ मध्यगान्मध्यमतोऽवरुह्यारोहेच्च तारस्थितमध्यमान्तम् ॥ ११७० ॥ प्रगाय तानान् कतिचित् प्रगल्भं जह्याच्च तारस्थितषड्ज एव।
-
(४१) ।। अथ वसन्तमैरवीरागः ॥ - वसन्तभैरव्यभिधां वदामो मेलं च तस्याः सह लक्षणेन ॥ ११७१ ॥ षड्जर्षभौ मध्यमपञ्च्मौ च शुद्धौ स्वरा: स्युः सह धैवतेन। गांधारकस्त्वन्तरनामधेयः स तत्र कैशक्यभिधो निषादः ॥११७२ ॥ एतैः स्वरैः सप्तमिरन्वितोऽसौ वसन्तभैरव्यभिधस्य मेलः । न्यासो ग्रहोंऽशः पुनरस्य षड्जः संपूर्णतायामपि पञ्चमोऽल्पः ॥ ११७३॥
-
।। आक्षिप्तिका ॥ - आक्षिप्तिकामस्य निरूपयामस्त्वारभ्य तारस्थितषड्जमादौ। आमध्यगांधारमथावरुह्य चारुह्य तारस्थितमध्यमान्तम् ॥ ११७४॥ गीत्वा च तानान् कतिचित् प्रगल्भं न्यस्येत् पुनस्तारगषड्ज एव।
Page 257
२३४ सङ्गीतसुधा
। रागवर्धनी ॥ - सा रागवर्धन्यभिधीयतेऽत्र प्रारभ्य तारस्थितमध्यमान्तम् ॥ ११ आरुह्य चातारनिषादमरमादा मध्यषड्जादवरुह्य पश्चात्। गीत्वा च तानान् कतिचित् प्रगल्भं न्यस्येत् पुनर्मध्यगषड्ज एव
- ।। विदारी ॥ - अस्या विदारीमथ वर्णयामः प्रारभ्य तारस्थितषडजमादौ। आमध्यगांधारमतोऽवरुह्य चारुह्य चातारनिषादमस्मात् ॥ ११७७ तानान् विचिन्नान् कतिचित् प्रगाय न्यस्येत् पुनस्तारगषड्ज एव
-।। रागवर्धेनी ॥ सा रागवर्धन्यभिधीयतेऽन्या प्रारभ्य तारस्थितषड्जमादौ॥ ११४ प्रागुक्तरीत्यापुनरुक्ति गीत्वा न्यस्येत् पुनर्मध्यगषड्ज एव।
। विदारी ॥ - अस्या विदारीमथ वर्णयामः प्रारभ्य मध्यस्थितषड्जमादौ ॥ ११७ आमध्यगांधारमतोऽवरुह्य चारुह्य चातारनिषादमस्मात्। तानान् विचित्रान् कतिचित् प्रगाय न्यस्येत् पुनस्तारगषड्ज एव। आ तारगान्मध्यमतोऽवरुह्य तानान् विचित्रान् कतिचित् प्रगाय। न्यस्येत् पुनर्मध्यगषड्ज एव स्थाय्युच्यते तारगषड्जकस्य ॥ ११८
- ।। षड्जस्थायी ॥ - आरभ्य तारस्थितषड्जमादावापञ्मास्तारनिषादकान्ताः । प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥। ११८२ ॥ तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन। तानान् पुनर्द्वादश साधु गीत्वा न्यस्येत् पुनस्तारगषड्ज एव ॥। ११८
-।। गांधारस्थायी॥ - मध्यस्थगांधारकतः क्रमेण स्थाय्युच्यते मध्यगतं तमेनम्। गांधारमारभ्य ततस्तु तारगांधारपर्यन्तमपञ्मा ये ॥ ११८४॥
Page 258
२३६ सङ्गीतसुधा
-।। रागवधेनी॥ - तद्रागवर्धन्यभिधीयतेऽथो तारर्मं प्रक्रममाण एवं। मध्यस्थषड्जावधि चावरुह्यारोहच्च तारस्थितपञ्चमान्तम् ॥ ११९५।। प्रगाय तानान् विविधान् पुरेव भध्यस्थिते षड्ज इह प्रजह्यात्।
-।। विदारी॥ - तस्या विदारी त्वथ तारषड्जान्मध्यर्षभान्तं त्ववरुह्य तस्मात् ॥ ११९६ ॥ आरुह्य तारस्थितमध्यमान्त गीत्वा च तानान् कतिचिद्विचित्रान्। न्यस्येच्च तारस्थितषड्ज एव तद्रागवधन्यपि च द्वितीया ॥ ११९७ ॥ समं विदार्योदितपूर्वरागविवर्धनीवत् कथिता मुनीन्द्रैः।
-।। षड्जस्थायी ॥ - स्थाय्युच्यते तारगषड्जकस्य प्रक्रम्य तारस्थित एव षड्जे ॥ ११९८॥ ये तु स्वरास्तारनिषादशीर्षास्तषां पुनर्धैवततानवर्जम् । प्रत्येकमेकैककतानरीत्या पुरेव तानांस्तु चतुर्देशैव ॥ ११९९॥ गीत्वा त्यजेत्तारगषड्ज एव गांधारकस्थाय्यधुनोच्यते सः।
-॥। गांधारस्थायी॥ - गांधारतो मध्यगतात्तु तारगांधारगापर्यन्तमिहोपगाय ॥ १२०० ॥ पुरेव तानांश्चतुरो दशापि तारस्थगांधारक एव सुश्न्जेत् ।
-॥। षड्जस्थायी ॥ - षड्जस्य च स्थाय्यथ मध्यगस्य निरूव्यते मध्यगषड्जतः प्राक् ॥ १२०१॥ तारस्थषड्जावधि पूर्ववत्तु गीत्वा ततः पञ्च नवापि तानान्। मध्यस्थषड्जे तदनु प्रजह्यादनन्तरं वर्तनिकां वदामः ॥१२०२ ॥
-।। वर्तनी॥ - मध्यस्थषड्जात् प्रभृतीह तारनिषादपर्यन्तमनेकतानान्। गीत्वा त्यजेन्मध्यगषड्ज एव न्यासं तु रागस्य ततो वदामः ॥ १२०३॥
Page 259
षड्जस्थायी २३७
-
॥ न्यास: ॥- अपौनरुक्त्येन विदारिकावद्गीत्वा त्यजेत्तारगपड्ज एव।
-
(४३) ।। अथ कन्नडगौलराग: ॥- वक्ष्यामहे कन्नडगौलरागं सामन्तमेलः खलु तस्य मेलः ॥ १२०४॥ अमुष्य रागस्य च लक्षणं तु न्यासो ग्रहोंऽशोऽत्र निषाद एव। पूर्णश्च सोडयं कथितः कदाचिदारोहणे मध्यमवर्जितं स्यात् ॥ १२०५ ॥
-
।। आक्षिप्तिका ॥ - आक्षिप्तिकां वच्म्यथ तारषड्जान्मध्यस्थषड्जावधि चावरुह। आरुह्य तारस्थितमध्यमान्तं तानान् विचित्रानपि च प्रगाय ॥ १२०६॥ तारस्थषड्जे तदनु प्रजह्यात्तद्रागवर्धन्यभिधीयतेऽथ।
-
।। रागवर्धेनी ।। तारस्थितान्मध्यकमात्तु तारनिषाद्पर्यन्तमथाधिरुहय॥ १२०७ ॥ मध्यस्थषड्जावधि चावरुह्य गीत्वा त्यजेन्मध्यगषड्ज एव।
-।। विदारी॥ - अस्या विदारी त्वथ तारषड्जान्मध्यस्थषड्जावधि चावरुह्य ॥ १२०८॥ आरुह्य तारस्थितमध्यमान्तं गीत्वा त्यजेत्तारगषड्ज एव।
।। रागवर्धनी ॥ - भवेद् द्वितीयापि च रागवर्धन्यस्या विदारी च पुरोवदेव ॥ १२०९ ॥
-।। षड्जस्थायी ॥ - स्थाय्युच्यते तारगषड्जकस्य प्रारभ्य तारस्थितषड्जमादौ। ये तु स्वरास्तारनिषादकान्तास्तेषां पुनर्धैवततानवर्जम् ॥ १२१०॥ 31
Page 260
२३८ सङ्गीतसुधा प्रत्ये कमे कैक कता नरीत्या रो हा व रोह क्रमतः प्रगाय। तानानिह द्वादश तारषडजे न्यस्येदथ स्थाय्यपि पञ्मस्य ॥ १२११॥
।। पञ्मस्थायी॥ निरुप्यते मध्यगपञ्चमाच्च येऽष् स्वरास्तारगपञ्मान्ताः। तेषां पुनर्धैवततानवर्जमारोहरीत्याप्यवरोहरीत्या ॥ १२१२॥ प्रगाय तानांश्चतुरो दशापि न्यस्येच्च मध्यस्थितपञ्च्मेऽस्मिन् ।
। गांधारस्थायी ॥ गांधारकस्थायिनमामनामो गांधारकान् मध्यगतात् पुनर्ये ।। १२१३ ।। आतारगांधारमिह स्वरा: स्युः प्राग्वत् पुनर्धैवततानवर्जम्। चतुर्दशैषामभिगाय तानान् मध्यस्थगांधारक एव जह्यात् ॥ १२१४ ।
॥ षड्जस्थायी॥ षड्जस्य तु स्थाय्यथ मध्यगस्य निरूप्यते मध्यगषड्जतः प्राक्। आतारषड्जं चतुरो दशापि प्रगाय तानान् क्रमशः पुरेव ॥ १२१५॥ न्यस्येच्च मध्यस्थितषड्ज एव निरुप्यते वर्तनिका ततोऽस्य।
। वर्तनी॥ मध्यस्थषड्जात् प्रभृतीह तारनिषादपर्यन्तमनुक्रमेण॥ १२१६ ॥ तानान् यथेच्छं कतिचित् प्रगाय मुख्ेच मध्यस्थितषड्ज एव।
-
॥ न्यास: ॥ - न्यासस्तु रागस्य विदारिकावद्रेयो दिवा पश्चिमयाम एषः ॥ १२१७ ॥
-
(४४) ।। अथ काम्बोदिरागः ॥ - काम्बोदिमेल: स तु यत्र षड्ज: शुद्धस्तथा मध्यमपञ्मौच। प्रागुक्तरीत्या प्रवदन्ति पञ्चश्रुती तथैवर्षभधैवतौ द्वौ॥ १२१८ ॥
Page 261
२४० सङ्गीतसुधा
तानान् विचिन्रान् नुव सप्त चापि षड्जस्वरे मध्यगते विमुञ्च्ेत्।
-
।। वर्तनी ॥ - वर्तेन्यमुष्यापि च मध्यषड्जादारुह्य चातारनिषादमादौ ॥ १२२८ ॥ आ मध्यषड्जाद्वरुह्य गीत्वा तानानथोज्झेदपि मध्यषड्जे।
-
॥। न्यास: ॥- न्यासोऽपि रागस्य विदारिकावत् सायाहि गानाच्छुभमेष दद्यात् ॥ १२२९ ।।
-।। (४५) अथ मुखरिरागः ॥ - मुखारिरागस्य वदामि मेलं सप्त स्वरास्तत्र भवन्ति शुद्धा: । वक्ष्यामहे संप्रति लक्ष्म तस्य न्यासो ग्रहोंऽशः पुनरस्य षड्जः ॥ ९२३० ॥ स एव वादी च स पञ्चमः संवादी तु गांधारनिषादकौ दवौ। विवादिनौ तावनुवादिभावं यातस्तथैवर्षभघैवतौ च ॥ १२३१।।
- ।। आक्षिप्तिका ॥ - आक्षिप्तिकामस्य निरूपयामस्त्वारभ्य गांधारकमत्र तारम् । मध्यर्षभान्तं त्ववरुह्य किं चारोहेच्च तारस्थितमध्यमान्तम् ॥ १२३२ ॥ तानान् विचित्रान् कतिचिच्च गीत्वा न्यस्येच्च तारस्थितषड्ज एव।
-।। रागवर्धनी ॥ - सा रागवर्धन्यभिधीयतेऽस्यास्त्वारभ्य मध्यस्थितपञ्च्मात् प्राक्॥ १२३३॥ आरुह्य चा तारगपश्नमात्तु मध्यस्थषड्जावधि चावरुहय। तानान् विचित्रान् कतिचिच्च गीत्वा न्यस्येच्च मध्य्थितषड्ज एव ॥ १२३४ ॥
-।। विदारी ॥ - अस्या विदारी प्रतिपादयामस्त्वारभ्य मध्यस्थनिषादमादौ। आरुह्य चातारनिषाद्मस्मादा मध्यषड्जादवरुह्य तानान् ॥। १२३५।।
Page 262
रिषभस्थायी २४:
गीत्वा विचित्रान् कतिचित् क्रमेण न्यस्येत्तु तारस्थितषड्ज एव। अस्या विदार्याद्यविदारिकावज्ज्ञेया विचित्रापुनरुक्ततानैः ॥ १२३६॥
-
।। षड्जस्थायी॥ - षड्जस्य तु स्थायिनमामनामस्त्वारभ्य तारस्थितषड्जमादौ। सप्तापि ये तारनिषादकान्ताः प्रत्येकमेकैककतानमेषाम् ॥ १२३७॥ स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन। आरोहणेनाप्यव रोहणेन गीत्वा च तानांश्च चतुर्दशैव ॥ १२३८ ।। न्यासो भवेत्तारगषड्ज एव तं पञ्च्मस्थायिनमामनामः ।
-
।। पञ्चमस्थायी ॥ - आरभ्य मध्यस्थितपञ्चमं तमष्ट स्वरास्तारगपञ्च्मान्ताः ॥ १२३९॥ प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन। तथोत्तरेषामपि वर्जनेन त्वारोहणेनाव्यवरोहणेन ॥ १२४० ॥ व्यष्टौ च तानान् क्रमशोऽथ गीत्वा न्यस्येच्च मध्यस्थितपञ्सेऽस्मिन्।
-
।। मध्यमस्थायी।। स्थाय्युच्यते मध्यगमध्यमस्य त्वारभ्य मध्यस्थितमध्यमं तम् ॥ १२४१॥ स्व्ररास्तु ये तारगमध्यमान्ताः प्रत्येकमेकैककतानमेषाम्। स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन ॥ १२४२ ॥ आरोहणेनाप्यवरोहणेन वयष्टौ च तानान् क्रमशस्तु गीतवा। न्यासो भवेन्मध्यगपञ्च्मेऽस्मिस्तथोच्यते मध्यगतर्षभस्य ॥ १२४३॥
। रिषभस्थायी ॥ - स्थायी पुरस्ताद्ृषभं तु मध्यमारभ्य ये तारगतर्षभान्ताः । प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ १२४४॥ तथोत्तरेषामपि वर्जनेन चारोहणेनाष्यवरोहणेन। व्यष्टौ च तानान् क्रमशोऽथ गीत्वा न्यस्येच्च मध्यर्षभ एव तस्मिन् ॥ १२४५ ॥
Page 263
२४२ सङ्गीतसुधा
-।। षड्जस्थायी ॥- निरूप्यते संप्रति मध्यषड्जस्थायी समारभ्य तु भध्यषड्जम् । तारस्थषड्जावधि येऽष्टधा स्युः प्रत्येकमेक्ैककतानमेषाम् ॥ १२४६॥ स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरषामपि वर्जनेन। व्यष्टौ च तानान् क्रमशोऽथ गीत्वा न्यस्येच्च मध्यस्थितषड्ज एव ॥ १२४७ ॥
- ।। वर्तनी॥ - तां वर्तनीं संप्रति वर्णयामस्त्वारभ्य मध्यस्थितषड्जमादौ। तानान् पुनस्तारनिषादकान्तं गीत्वा विचित्रान् पुनरुक्तिहीनान्॥। १२४८।। न्यस्येच्च मध्यस्थितषड्ज एव न्यासस्तु रागस्य निरूपणीयः ।
॥ न्यास: ॥ आरभ्य मध्यस्थनिषादमादौ मध्यर्षभान्तं च तथावरुह्य ॥ १२४९ ॥ आरुह्य चा तारगमध्यमात्तु तानान् विचित्रान् कतिचिच्च गीत्वा। न्यस्येच्च तारस्थितषड्ज एव निरुक्त एवं हि मुखारिराग: ॥ १२५० ॥
-
।। (४६) अथ शुद्धरामक्रियारागः ॥ - वक्ष्यामहे संप्रति शुद्धरामक्रियाख्यरागस्य तु मेलमादौ। षड्जषभौ पञ्चमधैवतौ च शुद्धा: स्वराः काकलिको निषादः ॥१२५१॥ स्यान्मध्यम: षट्श्रुतिको निरुक्तो गांधारकश्चान्तरनामधेयः । एतैः स्वरैः सप्तभिरत्र शुद्धरामक्रियामेलमुदीरयन्ति ॥ १२५२॥ वक्ष्यामहे लक्षणमत्र सम्यङ् न्यासो ग्रहोंऽश: पुनरत्र षड्जः । वादी स एवात्र च पञ्चमः संवाद्यत्र गांधारनिषादकौ द्वौ। १२५३ ॥ विवादिनौ तावनुवादितां तु स धैवतोऽञ्रत्यृषभेण युक्तः ।
-
।। आक्षिप्तिका ॥- आक्षिप्तिकामस्य निरूपयामस्त्वारभ्य मध्यस्थितधैवतं तु ॥ १२५४।। मध्यस्थषड्जावधि चावरुह्यारोहेत्ततस्तारगतर्षभान्तम् । तानान् विचित्रान् कतिचिच्च गीत्वा न्यस्येच् तारस्थितषड्जकेऽस्मिन् ॥ १२५५ ॥
Page 264
षड़जस्थायी २४३
- ॥। रागवर्धेनी ! सा रागवर्धन्यभिधीयतेऽस्यास्त्वारभ्य गांधारकमत्र तारम्। मध्यस्थषड़जावधि चावरुह्यारोहेत्तु मध्यस्थनिषादकान्तम् ॥ १२५६ ।। गीत्वा तु तानान् कतिचिद्विचित्रान् न्यस्येत् पुनर्मध्यगषड्ज एव।
।। विदारी ॥ - विदारिकां तां च निरूपयामस्त्वारभ्य मध्यस्थनिषादमादौ॥ १२५७॥ मध्यर्षभान्तं त्ववरुह्य पश्चादारुह्य तत्तारगतर्षभान्तम्। गीत्वा तु तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव ॥ १२५८॥
। रागवर्धनी॥ - सा रागवर्धन्यपि च द्वितीया चाद्यावदेवापुनरुक्ततानैः । ज्ञेया विदारीसहिता क्रमेण षड्जस्य च स्थायिनमत्र वक्ष्ये ॥ १२५९॥
-।। षड्जस्थायी ॥ - आरभ्य तारस्थितषड्जमादौ स्वरा निषादावधि येऽत्र सप्त। प्रत्येकमेकैककतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ १२६० ॥ तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन। गीत्वा तु तानांश्च चतुर्देशापि न्यस्येञ्च तारस्थितषड्ज एव ॥ १२६१॥
-
।। पञ्चमस्थायी ॥ - तं पञ्चमस्थायिनमत्र वक्ष्ये त्वारभ्य मध्यस्थितपञ्मं तु। अष्ट स्वरास्तारगपञ्नमान्ताः प्रत्येकमेकैककतानमेषाम् ॥ १२६२॥ स्वपूर्वपूर्वस्वरयोजनेन तथोत्तरेषामपि वर्जनेन। आरोहणेनाप्यवरोहणेन वयषटौ च तानान् क्रमशोऽथ गोत्वा ॥ १२६३ ।। न्यस्येच्च मध्यस्थितपञ्च्मेऽस्मिन् स्थायी तथा पञ्चमकस्य चैषः।
-
।। षड्जस्थायी ॥ - अथोच्यते मध्यमषड्जकस्य स्थायी समारभ्य च मध्यषड्जम् ॥ १२६४॥
Page 265
२४४ सङ्गातसुधा
आतारषड्जं पुनरत्र ये तु स्वरा भवन्त्यष्ट यथाक्रमेण। प्रत्येकसेकैक कतानमेषां स्वपूर्वपूर्वस्वरयोजनेन ॥ १२६५ ॥ तथोत्तरेषामपि वर्जनेन चारोहणेनाप्यवरोहणेन। व्यष्टौ च तानान् पुनरत्र गीत्वा न्यस्येच् मध्यस्थितषड्ज एव ॥ १२६६ ॥
-।। वर्तनी॥ - तां वर्तनीमस्य निरूमयामस्त्वारभ्य मध्यस्थितषड्जमादौ। आरुह्य चातारनिषाद्मन्यान् गीत्वा च तानान् कतिचिद्विचित्रान् १२६७ न्यस्येच्च मध्यस्थितषड्ज एव न्यासं च रागस्य निरूपयामः ।
- ॥। न्यास:॥
तानांश्च गीत्वा कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव। यामे तुरीये दिवसस्य गाने श्रेयो बहु स्यादथ रक्तिलाभः ॥ १२६९॥
-।। (४७) अथ केदारगौलरागः ॥ - केदारगौलस्य वदामि मेलं षड्जस्तथा मध्यमपञ्न्मौ च। शुद्धा भवन्ति त्रय एव पञ्चश्रुती तथैवर्षभधैवतौ द्वौ॥ १२७० ॥ गांधारकश्चान्तरनामधेयः कैशिक्यभिख्यश्च भवेन्निषादः । एतैः स्वरैः सप्तभिरन्वितो यः केदारगौलस्य च मेलमाहुः ॥ १२७१॥ पूर्णो भवेदस्य च लक्षणं तु न्यासो ग्रहोंऽशोडत्र निषाद एव।
॥ आक्षिप्तिका ॥ आक्षिप्तिकामस्य वदामि तारनिषाद्कान्मध्यगतर्षभान्तम् ॥ १२७२ ॥। क्रमेण पूर्व त्ववरुह्य तस्मादारुह्य तन्मध्यगमध्यमान्तम्। गीत्वा यथेच्छं कतिचिच्च तानान् न्यस्येच्च मध्यस्थितषड्ज एव ॥ १२७३
-।। रागवर्धेनी ॥ - तद्रागवर्धन्यभिधीयतेऽ्थ तारर्षभात्तारगमध्यमान्तम् । आरुह्य तस्मादवरुह्य मध्यषड़जान्तमुद्राय च तानभेदान् ॥ १२७४।।
Page 266
न्यास: २४५
न्यस्येच्च तारस्थितषड्ज एव विदारिका स्यात् किंल तारषड्जात्। मध्यर्षभान्तं त्ववरुह्य तस्मादारुह्य तारस्थितधैवतान्तम् ॥ १२७५॥ गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव।
-॥ षड्जस्थायी॥ - स्थाय्युच्यते तारगषड्जकस्य तारस्थषड्जात् प्रभृतीह ये तु ॥ १२७६ ॥
गांधारकं धैवतमन्तरेण प्रत्येकमेकैककतानरीत्या ॥ १२७७ ॥। प्रगाय तानान् दश तानभेदान् न्यस्येच्च तारस्थितषड्ज एव।
- ॥। मध्यमस्थायी ॥ - तन्मध्यमस्थायिनमामनामः प्रक्रम्य मध्यस्थितमध्यमं तम् ॥ १२७८॥ ये तु स्वरास्तारगमध्यमान्तास्तेषां पुनद्वादश तानभेदान् । गायन् यथापूर्वमनुक्रमेण मध्यस्थिते मध्यम एव मुश्नेत् ॥ १२७९॥
-।। ऋषभस्थायी ॥ - अथर्षभस्थायिनमामनामो मध्यर्षभात्तारगतर्षभान्ताः । ये स्युः स्वराः पूर्ववदेव तेषां प्रत्येकमेकैककतानरीत्या ॥ १२८० ॥ उद्राय तु द्वादश तानभेदान् न्यस्येच्च मध्यर्षभ एव तस्मिन्।
-
। वर्तनी ॥- तद्वर्तनीं कीर्तयितुं प्रवर्ते प्रक्रम्य तारस्थितषड्जमादौ ॥ १२८१ ॥ आरुह्य चातारनिषादमसनान्मध्यस्थषड्जावधि चावरुह्य। गीत्वा च तानान् विविधान् यथेच्छं मुश्ेच् मध्यस्थितषड्ज एव ॥ १२८२ ॥
-
॥ न्यास: ॥- न्यासस्तु रागस्य विदारिकावद्रेयो दिवा चैष तुरीययामे।
32
Page 267
२४६ सङ्गीतसुधा
-।। (४८) अथ नारायणगौलराग: ॥- वक्ष्यामि नारायणगौलमस्य केदारगौलस्य च मेल एक: ॥ १२८३ ॥ तल्लक्षणं तु प्रतिपादयामो न्यासो ग्रहोडशोऽस्य निषाद एव। संपूर्णभावं भजते च सोऽयमाक्षिप्तिकामस्य निरूपयामः ॥ १२८४ ॥
-।। आक्षिप्तिका॥- मध्यर्षभात्तारगमध्यमान्तमारुह्य मध्यस्थितपञ्चमान्तम् । ततोऽवरोहेत् कतिचिच्च तानान् गीत्वा त्यजेत्तारगषड्ज एव ॥ १२८५॥
-।। रागवधेनी॥ - तद्रागवर्धन्यभिधीयतेऽथ प्रक्रम्य तारस्थितमध्यमं तम्। आरुह्य चातारनिषाद्मस्मान्मध्यर्षभान्तं त्ववरुह्य तानान् ॥ १२८६॥
-।। विदारी ॥ - गायंस्त्यजेन्मध्यगषड्ज एव तस्या विदार्यां किल तारषड्जात्। आ मध्यगात् पञ्चमतोऽवरुह्यारोहेत्ततस्तारगपञ्चमान्तम् । १२८७ ।। उद्राय तानानुचितान् यथेच्छं मध्यस्थिते षड्ज इह प्रजह्यात्।
॥ रागवर्धेनी ॥ भवेद्द्वितीयापि च रागवर्धन्येवं विदार्या सहितेति वेद्यम् ॥ १२८८॥
-।। षड्जस्थायी ॥ - तारस्थषड्जस्य निरूप्यतेऽथ स्थायी समारभ्य तु तारषड्जम् । ये षट् स्वरा घैवतवर्जनेन भवन्ति तारस्थनिषादकान्ताः ॥ १२८९॥ एकेकतानक्रमतः किलैषां प्रत्येकमारोहवरोहरीत्या। उद्गाय च द्वादश तानभेदान् न्यस्येच्च तारस्थितषड्ज एव ॥ १२९० ॥
- ॥ पञ्मस्थायी॥ - स्थाय्युष््यते संप्रति पञ्चमस्य प्रारभ्य मध्यस्थितपञ्मं तम।
Page 268
हिज्जुज्जराग: २४७
ये तु स्वरास्तारगपञ्मान्तास्तेषां पुनर्वैवतवर्जनेन ॥ १९१॥ पुरेव तानांश्चतुरो दशापि गीत्वा त्यजेन्मध्यगपञ्चमेऽस्मिन्।
-
|। ऋषभस्थायी॥ - अथर्षभस्थायिनमामनामो मध्यर्षभात्तारगतर्षभान्ताः ॥ १९२।। ये तु स्वरा धैवतवर्जिता: स्युस्तेषां पुरोक्तेन तु वर्त्मनैव। चतुर्दशोद्गाय च तानभेदान् मुन्नेच् मध्यर्षभ एव तस्मिन् ॥ १२९३ ।
-
॥ षड्जस्थायी॥ - मध्यस्थषड्जस्य निरू्यतेऽथ स्थायी समारभ्य तु मध्यषड्जम् ! आ तारषड्जादपधैवता ये स्वराः स्युरेषां च पुरोदितेन ॥ १२९४॥ मार्गेण गीत्वा चतुरो दशापि तानांस्त्यजेन्मध्यगषड्ज एव।
-।। वर्तनी ॥- अनन्तरं वर्तनिकां वदामः प्रारभ्य मध्यस्थितषड्जमादौ ॥ १२९५॥ आरुह्य चातारनिषादमस्मान्मध्यस्थषड्जावधि चावरुह्य। उद्राय तानानुचितांश्च कांश्चिन्मुश्ेच्च मध्यस्थितषड्ज एव ॥ १२९६॥
- ॥ न्यास: ॥- न्यासं तु रागस्य ततो वदामो मध्यस्थितात् पञ्चमतोऽवरुह्य। मध्यर्षभान्तं च ततोऽधिरोहेत क्रमेण तारस्थितमध्यमान्तम् ॥ १२९७ । गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच् तारस्थितषड्ज एव। सायं तु सोऽयं सरसैः प्रतीतः श्रेयस्करो रक्तिविशेषदश्च ॥ १२९८॥
-।। (४९) अथ हिज्जुज्रागः ॥ - हिज्जुज्जिरागस्य वदामि मेलं गांधारकोऽन्रान्तरनामधेयः। शिष्टाः स्वरास्तत्र भवन्ति शुद्धा न्यासो ग्रहोऽशः पुनरत्र षड्ज: ॥ १२९९॥ युक्त: स चाप्यन्तरकाकलीभ्यां संपूर्णभावं भजते तथैव।
Page 269
हिज्जुज्जराग: २४७
ये तु स्वरास्तारगपञ्मान्तास्तेषां पुनर्धैवतवर्जनेन ॥ १९१॥ पुरेव तानांश्चतुरो दशापि गीत्वा त्यजेन्मध्यगपञ्मेडस्मिन्।
- ।। ऋषभस्थायी॥ -- अथर्षभस्थायिनमामनामो सध्यर्षभात्तारगतर्षभान्ताः ॥१२९२।। ये तु स्वरा धैवतवर्जिता: स्युस्तेषां पुरोक्तेन तु वर्त्मनैव। चतुर्दशोद्गाय च तानभेदान् सुश्चेच् मध्यर्षभ एव तस्मिन् ॥ १२९३ ॥।
-।। षड्जस्थायी ॥ - मध्यस्थषड्जस्य निरूप्यतेऽथ स्थायी समारभ्य तु मध्यषड्जम् । आ तारषड्जादपघैवता ये स्वराः स्युरेषां च पुरोदितेन ॥ १२९४॥ मार्गेण गीत्वा चतुरो दशापि तानांस्त्यजेन्मध्यगषड्ज एव।
-
।। वर्तेनी॥ - अनन्तरं वर्तनिकां वदामः प्रारभ्य मध्यस्थितषड्जमादौ ॥ १२९५॥ आरुह्य चातारनिषादमस्मान्मध्यस्थषड्जावधि चावरुह्य। उद्राय तानानुचितांश्च कांश्चिन्मुश्ेच् मध्यस्थितषड्ज एव ॥ १२९६॥
-
॥। न्यास: ॥- न्यासं तु रागस्य ततो वदामो मध्यस्थितात् पञ्चमतोऽवरुह्य। मध्यर्षभान्तं च ततोऽधिरोहेत क्रमेण तारस्थितमध्यमान्तम् ॥ १२९७ ।। गीत्वा च तानान् कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव। सायं तु सोऽयं सरसैः प्रतीतः श्रेयस्करो रक्तिविशेषद्श्च ॥ १२९८॥
-।। (४९) अथ हिज्जुज्रागः ॥ - हिज्जुज्जिरागस्य वदामि मेलं गांधारकोऽत्रान्तरनामधेयः । शिष्टाः स्वरास्तत्र भवंन्ति शुद्धा न्यासो ग्रहोंऽशः पुनरत्र षड्ज: ॥ १२९९॥ युक्त: स चाप्यन्तरकाकलीभ्यां संपूर्णभावं भजते तथैव।
Page 270
१८ सङ्गीतसुधा
-।। आक्षिप्तिका॥ - आक्षिप्तिकामस्य निरूपयामः प्रक्रम्य तारस्थितषड्जमादौ ॥ १३०० ॥ आमध्यगांधारमिहावरुह्यातारस्थगांधारमितोऽधिरोहेत्। गीत्वा तु तानान कतिचिद्विचित्रान् न्यस्येच्च तारस्थितषड्ज एव ॥ १३०१॥
-।। रागवर्धनी ॥ - तद्रागवर्धन्यभिधीयतेऽथ तारर्षभात्तारनिषादकान्तम्। आरुह्य तम्मादवरुह्य पश्चान्मध्या्थषड्जावधि तानभेदानू। १३०२ ॥ गीत्वा त्यजेन्मध्यगषड्ज एव तस्या तिदारीमथ वर्णयामः ।
-।। बिदारी ॥ - मध्यस्थितात् पञ्चमतोऽवरोहेदामध्यगांधारमथाधिरोहेत्॥ १३०३॥। तारर्षभान्तं कतिचिच्च तानान् गायंस्त्यजेत्तारगते तु षड्जे।
- ॥। रागवधेनी ॥ तद्रागवर्धन्यभिधीयतेऽथ प्रक्रम्य तारस्थितषड्जमादौ ॥ १३०४ ॥ आरुह्य चातारनिषादमस्मान्मध्यस्थषड्जावधि चावरुह्य। गीत्वा च तानान् कतिचिद्विचित्रान् मुश्ेच मध्यस्थितषड्ज एव ॥ १३०५ ॥
॥। वर्तनी ॥ - अस्या विदार्या किल तारषड्जादामध्यगांधारमिहावरुह्य। आतारगांधारमतोऽधिरुह्य तानान् प्रागायोज्झति तारषड्जे ॥ १३०६॥
- ।। षड्जस्थायी ॥ तारस्थषड्जस्य निरूप्यतेऽथ स्थायी समारभ्य तु तारषड्जम्। ये ते स्वरास्तारनिषादकान्ताः प्रत्येकमेषां पुनरेकमेकम् ॥ १३०७ ॥ आरोहणेनाप्यवरोहणेन प्रगाय तानांश्चतुरो दशैवम्। सुञ्र्ेच्च तारस्थित एव षड्जे तत्पञ्चमस्थायिनमामनामः ॥ १३०८॥
Page 271
विदारी २४९
-
।। पञ्चमस्थायी॥ आरुह्य मध्यस्थितपञ्चमं ये चाष्टौ स्वरास्तारगपञ्चमान्ता: । पुरेव तेषां दश षट च तानान् गीत्वा त्यजेन्मध्यगपञ्चमेSस्मिन्॥ १३०९।।
-
।। वड्जस्थाथी न्यासश् ॥ - निरुष्यते सं्रति मध्यषड्जस्थायी समारभ्य तु मध्यषड्जम् । तारस्थषड्जावधि ये स्वराः स्युः प्राग्वत्तु तेषां दश षट् च तानान् ॥ १३१०॥ गीत्वा त्यजेन्मध्यगषड्ज एव न्यासस्तु रागस्य विदारिकावत्। अनेहसः पश्चिमयामगाने श्रेयस्करः श्रोतृजनस्य सोडयम् ॥ १३११॥
-
।। (५०) अथ देशाक्षिरागः ॥- देशाक्षिकामेलमुदीरयाम: षड्जस्तथा मध्यमपञ्चमौ च। शुद्धास्तु पञ्नश्रुतिधैवतश्च भवेत्तथा षट्श्रुतिकर्षभश्च ॥ १३१२॥। गांधारकश्चान्तरनामधेयः स काकलीनामयुतो निषादः । एतैः स्वरैः सप्तभिरन्वितं तद्देशाक्षिकामेलमुदाहरन्ति ॥ १३१३ ॥ निरूपयाम्यस्य च लक्ष्म सम्यग्गांधारको न्यास इह ग्रहोंडशः । संपूर्णरागस्त्वयमस्य वक्ष्याम्याक्षिप्तिकां तारगषड्जमादौ॥ १३१४॥
॥ आक्षिप्तिका ॥ आरभ्य मध्योपितर्षभान्तं कृत्वावरोहं च ततोऽिरुह्य। आ तारनिष्ठादृषभात् प्रगाय स्वैरं विचित्रान् कतिचिच्च तानान् ॥ १३१५॥ षड्जस्वरे तारगते विमुश्चेत्तद्रागवर्धन्यभिधीयतेऽथ।
- ।। रागवर्धनी ॥- गांधारकान्मध्यगतात् प्रभृत्या तारस्थितात् पञ्चमतोऽधिरोहेत्॥ १३१६ ॥ आ मध्यषड्जादृषभान्ततोऽवरुह्य क्रमादप्यभिगाय तानान्। मध्यस्थषड्जे विजहातु पश्चादस्या विदारीमथ वर्णयामः ॥ १३१७॥
-।। विदारी ॥ - तारस्थषड्जादवरुह्य मध्यगतर्षभान्तं च ततोऽवरुह्य। आ तारगान्मध्यमतश्च कांश्चित्तानान् विचित्रानभिगाय पश्चात् ॥ १३१८॥
Page 272
२५० सङ्गीतसुधा
ततस्त्यजेत्तारगते तु षड्जे तद्रागवर्धन्यभिधीयतेऽन्या।
-।। रागवंरधेनी ॥ - तारस्थितान्मध्यमतोऽधिरोहेदा तारगात् पञ्चमतस्तथैव ॥ १३१९॥ आ मध्यषड्जादवरुह्य तानान् गायेद्विजह्यादपि मध्यषडजे।
।। विदारी।। - अस्या विदारी त्वधिरुह्य मध्यगांधारकात्तारगपञ्च्मान्तम ॥ १३२० ।। आ मध्यगात् पञ्चमतोऽवरुह्य गीत्वा च तानान् कतिचिद्विचित्रान्। मुञ्र्ेच्च किं चेदशि तारषड्जे पड्जस्य च स्थाय्यभिधीयतेऽथ॥ १३२१॥
-।। षड्जस्थायी ॥ - आरभ्य तारस्थितषड्जमादौ विहाय गांधारकधैवतौ द्वौ। पञ्च स्युरा तारनिषादतो ये तषों स्वराणां पुनरेकमेकम् ॥ १३२२ ॥ प्रत्येकमित्येवमिहानुपूर्व्यादारोहणेनाप्यवरोहणेन। स्वपूर्वपूर्वस्वरयोजनात् स्वोत्तरोत्तरेषामपि वर्जनेन । ३२३ ॥ दशैव तानानभिगाय पश्चात् षड्जस्वरे तारगते विमुञ्चेत्।
-।। पञ्नमस्थायी॥ - प्रपञच्यते संप्रति पञ्चमस्य स्थायी स्वरान्मध्यगपञ्चमादीन् ।। १ ३२४ ।। तथैव तारस्थितपञ्चमान्तान् संत्यज्य गांधारकधैवतौ षट्। आरोहणेनाप्यवरोहणेन तानैः सह द्वादशभिः पुरेव ॥ १३२५॥ गीत्वा त्यजेन्मध्यगपञ्मेऽस्मिंस्तथर्षभस्थायिनमामनामः ।
- ।। ऋषभस्थायी॥ मध्यर्षभादीनपि षट् च तारगतर्षभान्तानपहाय तु द्वौ।। १३२५॥ गांधारकं धैवतमानुपूर्व्यादारोहणेनाप्यवरोहणेन। तानैः सभं द्वादशभिः प्रगाय मुञ्ेदथो मध्यगतर्षमे च॥ १३२७ ॥
Page 273
न्यास: २५१
-।। वर्तनी॥ - वर्तन्यथारभ्य तु मध्यषड्जादारुह्य चा तारगतान्निषादात्। आ मध्यषड्जादवरुह्य पश्चात् प्रगाय तानान् कतिचित् क्रमेण ॥ १३२८। सुख्नेच्च मध्यस्थितषड्ज एव न्यासं तु रागस्य ततोऽभिधास्ये।
- ॥। न्यास: ॥- स पौनरुक्तेन विनैव गेयो भवेत् पुरा प्रोक्तविदारिकावत्। प्रगे प्रगेयः पुनरेष रागः श्रेयस्करः श्रोतृजनस्य नित्यम् ॥ १३२९॥
। इति रघुनाथभूपरचितायां सङ्गीतसुधायां द्वितीयो रागाध्यायः समाप्तः ॥
Page 274
सङ्गातसुधायाम् तृतीयः प्रकीर्णकाध्यायः
पुरा सुरार्थ भगवान् मुकुन्दो मन्थानशैलेन महाम्बुराशिम्। विमध्य संगृह्य सुधां व्यतारीत्तेभ्यः प्रमादं चिरजीवितं च ॥ १ ॥
श्री चेव्वभूपाच्युतभूवलारेस्तथा सुतः श्रीरघुनाथभूपः। संगीतशास्त्राब्धिभवां ददाति प्रकीर्णकाध्यायसुधां बुधेभ्यः ॥२॥
अथ स्वराध्याय इह स्वराश्च ग्रामा निरुक्ताः सह मूर्छनाभिः। अशेषरागप्रकृतित्वमाप्ता: षाड्जीपुरोगा अपि जातयश्च ॥ ३ ॥
तज्जन्यरागा: सकला द्वितीयेऽध्याये निरुक्ता: सह लक्षणेन। रागस्वरूपे च निरूप्यमाणे निरूपितास्ते तिरुपादयश्च ॥ ४॥
अतश्च तेषां तिरुपादिमानां निरूपणीयं निपुणं स्वरूपम्। न केवलं लक्षणतोऽस्य बोधो वाग्गेयकारस्य तथा स्वरादेः ॥५॥
गांधर्वकस्यापि भवेत् प्रसिद्धया रागप्रपञ्चस्य विशिष्टबोधः । प्रकीर्णकेऽस्मिन् प्रतिपाद्यमर्थ संग्ृह्य वक्ष्यामि सुबोधहेतोः ॥६॥
॥ उद्देशः ॥ - - वाग्गेयकारोऽन्र निरूप्यते प्राग्गान्धर्वकोऽयो तदनु स्वरादि: । उक्तं ततो गायकलक्षणं च तद्गायनीनामथ लक्षणं च।। ७॥ गुणाश्च दोषाश्च ततस्तु तेषां चतुष्प्रकारा अपि शब्दभेदाः । पश्चात्निरूप्या गमकप्रभेदा: स्थायाः समस्ताः सह लक्षणेन ।। ८ । आलप्तिबृन्दादिकलक्षणं च देशीयमार्गानुगतक्रमेण।
- । वारगेयकारः ॥ - संगीतशास्त्रे प्रथमाधिकारी वाग्गेयकार: प्रतिपाद्ते प्राक् ॥ ९ ॥ वाचं च गेयं च करोति यस्माद्वाग्गेयकार: कथितस्तथासौ। वाक्शब्दपर्यायतयैव मातुशब्दः प्रयुक्त: किल गीतिदक्षैः ॥ १० ॥
Page 275
वाग्गेयकार: २५३
गेयस्य पर्यायतया तु धातुशब्दं तथा गीतिविद्ो वदन्ति। बन्धं पदानां प्रवदन्ति मातुं स्वरौघसंदर्भमुशन्ति धातुम् ।। ११ ॥
मातूंश्र धातू नुभयान् करोति यस्तं विदुश्चोभयकारसंज्ञम्। तमेव लोका बयकारनास्ना वदन्त्यपभ्रंशपदेन सर्वे ॥ १२ ॥ तदुत्तमत्वादिविवेकहे तोर्गुणांस्तदीयानिह वर्णयामः। मर्मज्ञता व्याकरणे निघण्टौ पोण्डित्यमाभ्यां सदसद्विवेक: ॥ १३ ।।
उक्तातिपूर्वाप्यपराथ मध्या ततः प्रतिष्ठापि च सुप्रतिष्ठा। गायत्र्यथोष्णिक् च भवेदनुष्टब्बृहत्यथो पङ्किरतः परं स्यात् ॥ १४॥ त्रिष्टुप् ततः स्याज्जगती परातिपूर्वाथ शक्कर्यतिपूर्विकान्या। अष्टिस्तथात्यष्टिरथो धृतिः स्यादन्याऽतिपूवा तु कृतिस्ततः स्यात् ॥१५॥
ततः प्रकृत्याकृतिकाविकृत्यः स्यात् संकृतिश्चातिकृतिश्च पश्चात्। अथोत्कृतिश्चेति समीरितानि च्छन्दांसि षडिंशतिरेव सङ्ि: ॥ १६॥।
प्रक्रम्य चैकाक्षरपादमादावेकैकवर्णाभ्यधिकैस्तु पादैः। छन्दांसि भिन्नानि भवन्ति तानि षड्विंशतिस्तत्र समुद्वानि ॥ १७॥ समानि किं चार्धसमान्यमूनि वृत्तानि शाखते विषमाणि चेति। प्रस्तारको नष्टमतः परं स्यादुद्दिष्टमेकादिलगक्रिया च ॥ १८ । संख्यानमन्यच्च ततोऽध्वयोग: षट्प्रत्ययास्तैरपि लक्षणैश्च। स्फुटान्यथार्या प्रमुखानि मात्रावृत्तानि तेषामपि तत्वबोध: ॥ १९॥ अलंकृतौ वामनभामहादिविनिर्मितायामिह वैदुषी च। शृङ्गारवीरौ करुणाद्भुता च रौद्रस्तथा हास्यभयानकौ च ॥ २०॥ बीभत्सशान्तौ च रसा नवैते रत्यादयः स्थाय्यभिधाश्च भावाः । प्रागल्भ्यमेतेषु परो गुण: स्यादशेषदेशस्थितिबोदता च ॥ २१ ॥ गीर्वाणवाक्प्राकृतशौर सेनीभाण्डीरपैशाचकचूलिकाश्च। मागध्यपभ्रंश इति स्युरष्टौ भाषा: परिज्ञातृकलाप्यमूषाम् ॥२२॥ कर्नाटकद्राविडकान्ध्रगौडलाटादिभाषा: परिशीलनेन। एलाप्रबन्धादिमपाटवं च तथा चतुःषष्टिकलाविवेक: ॥ २३ ॥। नृत्तादितौर्यत्रितयावबोध: शारीरसंपत्तिरपि प्रकृष्टा । द्रुते च मध्ये च विलम्बिते च लयत्रयेऽस्मिन्निपुणत्वशैली ॥ २४॥ 33
Page 276
२५४ सङ्गीतसुधा
चञ्चत्पुढादावपि तालभेदे परिज्ञता किं च कलाप्रपञ्चे। देशीयकत्वादिविशेषवार्त्ता प्रतिक्षणं च प्रतिभान्वितत्वम् ॥ २५॥ श्रीरागमुख्येष्वपि देशिरागेष्वभिज्ञता किं च सभाजयश्च। रागादिदोषौघविवर्जनं च वाक्पादवैचित्र्यरसज्ञता च ॥ २६॥ परोक्तसंदर्भविवर्जनेन स्वतन्त्रसंदुर्भविधौ पदत्वम्। स्वतन्त्रमातुग्रथने पटुत्वं संवेदनं चापि पराशयस्य ॥ २७ ।। एलाप्रबन्धादिनिबन्द्धता च तल्लक्षणज्ञानमथाशुगीते। निर्माणशक्तिश्च पदान्तरोक्तिप्रगल्भतालप्तिषु चातुरी च ॥। २८ । स्थानत्रयोद्यद्गमकप्रबोध: पूर्वापरोक्तार्थविनिश्चयश्च। गुणैरमीभिः सकलैरुपेतो वाग्गेयकारः पुनरुत्तमः स्यात् ॥ २९॥ धातौ परं पाटवमा स्वरौघसंदर्भपर्यायतया प्रतीते। वाग्गुम्भपर्यायतया प्रतीते मातौ च दक्ष: किल मध्यमः स्यात् ॥ ३० ॥ यो वेत्ति धातुं च तथैव मातुं प्रबन्धनिर्माणविधौ च दक्षः। स्यान्मध्यमः सोऽप्यथ वा मनोज्ञगीतप्रबन्धाकलनेष्वदक्षः ॥ ३१॥ परोक्तगीतान्यवलोक्य वर्णनिवेशमात्रादपि मध्यमः स्यात्। निर्माति मातुं परमेकमेव धातुं न यो वेत्यधमः स एकः ॥ ३२ ॥ परोदितेष्वेव परं स्वराणां गुम्भेषु कुर्याद्यदि मातुमात्रम् । स्वरौघगुम्भं किल यो न वेत्ति स कुट्टिकारस्त्वधमाधमः स्यात् ॥ ३३ ॥ यो वेत्ति मार्ग च तथैव देशीं गांधर्वकोऽसौ प्रथितः पृथिव्याम्। देशीपरिज्ञानविवर्जनेन मार्गैकवेदी कथितः स्वरादिः ॥ ३४॥ एवं च सम्यक् प्रतिपादितेषु वाग्गेयकारादिगुणव्रजेषु । दोषांश्च तेषां प्रवदामि विद्यारण्याभिधश्रीचरणोपदिष्टान्॥ ३५॥ ग्राम्योक्तिरेकाप्यपशब्द एकोऽप्यप्रस्तुतप्रस्तवनं तथा च। पदे च जाड्यं गमके तथैव प्रबन्धविज्ञानविहीनता च॥ ३६ ॥ तत्तद्रसानामनुकूलरागविवेकहीनत्वमचातुरी च। गानक्रियानिर्वहणाद्यभावो न्यूनाधिका ज्ञत्वमपि क्रियादौ॥ ३७ ॥ मन्द्रैकभावोऽपि तथा स्वरेषु गृहीतगीतस्य तथा विभङ्ग: । संकेतितस्थायिपरिच्युतिश्च गानादिकालस्य विवर्जनं च ॥ ३८ ॥
Page 277
गायक: २५५
दोषैरशेषैः कथितैः समेतो वाग्गेयकार: स तु गर्हणीयः । वाग्गेयकारस्य निरुष्य दोषाल्लँक्ष्मोच्यते केवलगायकस्य ॥ ३९॥
॥ गायकः ॥ - मनोज्ञशारीरयुतोऽतिहद्यशब्दूश्च गीतग्रहमोक्षदक्ष:। रागाङ्गभाषाङ्गघनक्रियाङ्गोपाङ्गादिरागेषु विचक्षणश्च॥ ४०॥ एलाप्रबन्धादिषु तानभेदे नानाविधालप्तिषु तत्त्ववेदी। मन्द्रादिमस्थानसमुद्वेषु विना प्रयासं गमकेषु दक्ष: ।। ४१।। स्वाधीनकण्ठोऽपि च सूडमुख्यतालप्रभेदाकलनप्रवीण: । स्वरश्रुतीनां परिमाणवेदी बहुप्रबन्धेषु जितश्रमश्च ॥ ४२॥ प्रबन्धभेदेषु पटुश्च शुद्धच्छायालगाख्येषु च काकुभेदे। स्थायेषु नानाविधतां गतेषु संचारदक्ष: प्रथितश्च गीता ॥ ४३ ॥ क्रियापराख्यस्य विशेषणस्य निरूपितं श्रीचरणैः स्वरूपम्। शास्त्रानुसारेण च मार्गदेशीरागान् मुहुर्गायति युक्तियुक्तान्।। ४४ ।। अशेषदोषौघविवर्जनेन क्रियापरोऽसौ कथितः किलेति। स्वायत्तभूत द्रुतमध्यमुख्यलयस्तथा धारणयान्वितश्च ।। ४५।। तथा द्धानः सुघटत्वरूपविशेषणं गायकलालनीयम्। स्वरांश्र वर्णांश्च तथैव तालान् व्यक्तं लयं संघटयेत् पटुर्यः ॥४६॥ हृद्येन युक्तो ध्वनिना स विद्यारण्यार्यपादैः सुघटो निरुक्तः। तारश्रुतेरप्यनुतारभावाद्वीनेन किं चापसृतस्वरा या॥ ४७ ॥ सुगानताया ध्वनिमभ्युपेता स्याद्धारण श्रीचरणैर्निरुक्ता। परिस्फुरन्निर्जव नादुपेतः स्यादुत्तमो गायक इत्युपात्तः ॥। ४८ ।। विशेषणं निर्जवनं यदेतद्विवेचितं श्रीचरणैर्विशिष्य। गानस्थितेश्चासमखण्डरूपं नाम्ना पुनर्निर्जवनं किलेति।।४९।। श्रोतुर्जनस्यापि च चित्तहारी गानेन वेगेन च किं च गाता। अयत्नरागातिशयप्रगीतिनाम्नि प्रवीणं भजनेऽतिमात्रम् ॥ ५० ॥ एवं विधानेकगुणप्रकर्षमुपेयिवानुत्तमगायक: स्यात्। विमुक्तदोषस्तु गुणैः कियद्धिः समन्वितो मध्यमगायकः स्यात् ॥ ५१॥ पूर्वोक्तदोषैः सहितोऽधमः स्यात्तदीयगानं शृणुयान्न जातु। आचक्ष्महे संप्रति गायकानां क्रमेण भेदान् सह लक्षणेन । ५२ ।।
Page 278
२५६ सङ्गीतसुधा
ते गायना: पश्चविरधास्तु शिक्षाकारोडनुकारो रसिकस्तृतीयः । उभावथो रञ्जकमावकौ चाप्यनूनशिक्षापदुरादिरेषाम ॥ "३॥ परस्य यश्चानुकरोति गानरीतिं तमतेष्वनुकारमाहुः । गाने रसाविष्ठनिजान्तरङ्गं वदन्ति सन्तो रसिकं तमेव ॥ ५४॥
गानेषु यश्चातिशयं करोति भणन्ति तं भावकनामवेयम् । ५५॥ निरूपिता गायकपञ्चभेदा यथाक्रमं गायकबोधहेतोः । स्वरूपमेषामिह लक्षितानां संगीतसारे विशदीकृतं च ॥ "६ ॥ द्रतं च गीतं विषमं तथैव यः शिक्षते प्राञ्जलमानुगुण्यात्। शुद्धेऽथ वा सालगनाम्नि शिक्षाकारं तमेनं प्रवदन्ति सन्तः ॥ ५७॥। आरभ्य गीतं पुलका्कितो यस्त्वानन्दवाष्पाश्चितलोचनश्र । आचक्षते तं रसिकं च विद्यारण्याभिधश्रीचरणाग्रगण्याः ॥५८॥। व्यासक्तचित्तानपि देवदत्तान् गानेन सद्यो विमुखान् वितन्वन्। यो वादिसंवाद्यनुवादिभेदान् प्रकाश्य गायेत् स तु भावकः स्यात् ॥ ५९॥ गान समाकर्णयतां जनानां चेतो विदित्वानुगुणं तु तस्य। रक्तिं परां यो रचयेच्च गानेष्विमं जना रञ्जकमीरयन्ति ॥ ६० ॥ निरूपिते गायकलक्षणेऽस्मिन् संखयाविशेषं कथयामि तेषाम्। एको भवेदेकलनामधेयो द्वितीययुक्तो यमलाभिधानः ॥ ६१॥ ततोऽधिकैः संमिलितो यदि स्यादू वृन्दाभिधानः स तु गायनोसौ। यदेतदाचक्ष्म च लक्ष्म हीदं माधुर्यघुर्यध्वनिमञ्जुलानाम्॥ ६२॥ शोभाजुषां यौवनशालिनीनां तद्गायनीनां च समं समस्तम्।
-॥। गायकदोषाः ॥ - निरूप्यते निन्दितगायनानां सर्वो विशेष: सह लक्षणेन ॥ ६३ ॥ संदृश्य गाढं दशनान् प्रगायेन्निन्दन्ति संदष्टममुं महान्तः । नितान्तमुद्घुष्यति नीरसं यस्तमेतमुद्घुष्टमुदीरयन्ति ॥ ६४ ॥ सीत्कृत्य सीत्कृत्य च यस्तु गायेत् सीत्कारनामेति विनिन्ध्यतेऽसौ। भयान्वितो गायति यः स भीतो यः सत्वरं गायति शङ्कितोऽसौ ॥ ६५ ॥
Page 279
शब्दभेदा:
स्वरे च गात्रेऽपि च कम्पवान् यः स्वभावतो, गायति कम्पितोSसौ। उद्धाट्य यो गायति वक्रमुग्रं करालिनं तं कथयन्ति सन्तः ॥ ६६ ।। न्यूनातिरिक्त्श्रुतिभिः समेतं गायेत् स्वरं यः कपिलस्तु (विकलस्तु) सोडयम क्रूरारवं काकवदेव गायेत् काकी भवेद्ायन एष नाम्ना ॥ ६७ ।। उल्लङ्ग्य यो गायति तालरीतिं वितालनामानममुं वदन्ति। यश्छागरीत्या च हनुं करोति तमुद्टं छागवदेव निन्धम्॥ ६८ ।। ग्रीवां निजां संततमुन्नमय्य गाता जनः स्यात् करभाभिधानः । यो दृश्यते यत्नवशेन गायन् गले च फाले च मुखे सिरालः ॥ ६९॥ समन्दहासं सकलैश्र लोकैर्विनिन्दतेऽसौ किल जोम्बकाख्यः । अलाबुसारूप्यसमेतफुल्लगल्लस्तु यो गायति तुम्बकी सः ॥ ७०॥ वक्रीकृतग्रीवतया तु गायेद्वक्रीति संज्ञां लभते स निन्द्याम्। सलक्षणत्यागपुरःसरं यो गीतं च गात्रं च मुहुः प्रसार्य ॥ ७१॥ गायेत् प्रसारीति विगर्हणीयां लभेत संज्ञां स तु गायकश्च। निमील्य यो गायति नेत्रयुग्मं निमीलकः स्यात् स हि निन्दनीयः ॥ ७= ॥ यदा भवेन्नीरसमेव गानं तदा तमाहुर्विरसाभिधानम्। वर्ज्यस्वरान् गायति यस्तु रागेष्वपस्वरं तं कथयन्ति निन्धम् ॥ ७३ ॥ अव्यक्तवर्णोऽपि सगद्ग दो यो गायेत्तमव्यक्तमुदीरयन्ति। आरभ्य मन्द्रस्वरमेव गातुमातारमारोदुमशक्नुवन् यः ॥ ७४॥ विवक्षितस्थानविवर्जनेन स्थानान्तरं प्राप्य पुनश्च गायेत्। तमव्यवस्थं सकला वदन्ति विशिष्य लोकेषु विनिन्दनीयम् ॥७५॥ छायालगं शुद्धमथापि रागं यो मेलयन् गायति मिश्रकः स्यात्। आरभ्य रागेण हि रागमन्यं यो मिश्रयेत् सोऽपि च मिश्रकः स्यात् ॥ ७६॥ छायामुपक्रम्य परे तु रागे च्छायान्तरं गायति यस्तु गाता । स बुद्धिहीनोऽनवधाननामा विगर्हणीयः स तु गायनौघैः ॥ ७७॥ गेयं यदा नासिकया करोति तं सानुनासिक्ययुतं वदन्ति। इतीरिता गायकदोषभेदाः पञ्चोत्तरा विंशतिरत्र सम्यक्॥ ७८ ॥
- । शब्दभेदा: ॥- यो हृद्यशब्दः स तु गायनः स्यादितीरितं लक्ष्म निरूपितं प्राक् । स्वशब्दरूपेऽवगते च पश्चात्तव्यक्तभेदाः सुगमा भवन्ति ॥ ७९॥
Page 280
१५८ सङ्गीतसुघा
अतश्च शब्दानिह सौकुमार्यमाधुर्ययुक्तान् प्रतिपाद्यामः । मनोज्ञशब्दादिविशेषयुक्त: स्यादुत्तमो गायक इत्यवोचम् ॥ ८० ॥।
तच्छब्दरूपं प्रथमं निरुष्य तस्यापि भेद: प्रतिपाद्यतेऽथ। अन्योन्यसंश्लेषवशेन तेषां त्रिंशत्प्रभेदान् प्रतिपादयामः ॥८१॥ शब्दो भवेदत्र तु सौकुमार्यमाधुर्ययुक्तो ध्वनिरेव नान्यः । चतुर्विधं तं समुदीरयन्ति स खावुलो नारठजोम्बकौ च ।। ८२॥ उक्तत्रयाणां परिमिश्रणेन तुर्यो भवेन्मिश्रकनामधेयः ।
- ॥ खावुललक्षणम् ॥ - तत्रोच्यते खावुललक्षणं प्राक् श्रेष्मोददवं संभृतसौकुमार्यम् ॥ ८३॥
माधुर्यशाली खलु खाबुलाख्य इतीरितं गायकसंप्रदायात्। आढेल्लसंज्ञां लभते तु मन्द्रमध्योभयस्थानगतः स एव ॥ ८४॥ पित्तोद्ध्वो नारठसंज्ञ एष स्थानत्रयेऽप्यन्तरुपतसारः । गाम्भीर्यवान् संततगानयुक्तो भवेद् द्वितीयोऽपि स एष शब्दः । ८५।। वातोन्ड्वो जोम्बकनामकोऽन्तर्निःसारकश्चित्रककाण्डवः स्यात्। घनत्वराहित्यवशेन सवैरापाततश्राप्यवगम्यमानः ॥ ८६।। स्निग्धत्वहीनोऽपि च रासभोष्ट्रनिनादवत् स्थूलतया प्रतीतिम्। उक्तत्रयाणामपि धर्मयोगे तं गायनं मिश्रमुदीरयन्ति ॥ ८७॥ रूक्षत्वयुक्त: खलु जोम्बकोडत्र स्निग्धत्वशाली खलु खावुलश्च। कथं तयोर्मिश्रणरूपवार्त्ता ह्यश्वत्वगोत्वादिकवद्विरोधात्॥ ८८।। अत्रोच्यते मिश्रणमत्र सम्यग्विरुद्धघर्मादिविवर्जनेन। स्थौल्या दिमाघुर्यगुणादियोगाद्युक्तं भवेदित्युदितं प्रवीणैः ॥ ८९ ।। एतेन नाराठकजोम्बयोञ्च घनध्वनिः सारगुणत्वहान्या। गम्भीरिमोच्चैःस्वरतागुणाभ्यां युक्तं भवेन्मिश्रणमित्युपेयम् ।। ९० ॥। विरोधशङ्कां विनिवार्य सम्यङ्निरूपयामस्त्वथ मिश्रभेदान्। नाराठकस्यापि च खावुलस्य योगाङ्कवेन्मिश्रकभेद एक: ॥। ९१ ॥ तथैव नाराठकजोम्बयोश्च संबन्धतः स्यादपरस्तु भेदः । तथा भवेत् खाबुलजोम्बयोश्च संमेलनाद्गेद इहापरोऽपि ॥ ९२॥
Page 281
शब्दभेदाः २५९
नाराठकस्यापि च खावुलस्य स्याजजोम्बकस्यापि च मेलनेन। अन्योऽपि भेद: कथितस्तु तेषु निःसारतारूक्षतयोरभावात् ॥ ९३ ॥ नाराठकस्यापि च जोम्बकस्य स्यादुत्तमो मिश्रकभेद एव। योगे भवेत् खावुलजोम्बयोश्च निःसारतादोषसमन्वयेन ॥। ९४ । स्यान्मध्यमो नारठजोम्बयोस्तु निःसारतारूक्षतयोः प्रवेशात्। योगप्रतीतस्त्वधमो निरुक्तो नानागुणामिश्रणमिश्रणाभ्याम् ॥९५॥ भवन्ति भेदा बहवः क्रमेण तेषां प्रसिद्धान् कथयामि भेदान्। मिश्रप्रभेदा: खलु खावुलादेर्निरूपिता गायकबोधहेतोः ॥ ९६॥ अतः परं तद्गुणयोगजन्यान् कांश्चित् प्रभेदानथ वर्णयामः । स्निग्धत्वमाधुर्यघनत्वयुक्तो भेदो भवेत् प्राथमिकस्तु तेषु ॥ ९७ ॥ स्निग्धत्वभाक्कोमलताघनत्वयुक्तो द्वितीयः कथितः प्रभेदः । त्रिस्थानकव्याप्तियुतो मृदुत्वमाधुर्यशाली कथितस्तृतीयः ॥ ९८॥ त्रिस्थानकव्यापनवान् मृदुत्वगाम्भीर्ययुक्तोडभिहितस्तुरीयः। त्रिस्थानकव्याप्तियुतो घनत्वस्निग्धत्ववान् मार्दवभाक् परः स्यात् ॥९९॥ त्रिस्थानकव्याप्तियुतो घनत्वमाघुर्ययुक्तो मुदुलस्तु षष्ठः । स्निग्धत्वमाघुर्यमृदु त्वयुक्तत्रिस्थानकव्याप्तियुतोऽपर: स्यात् ॥ १०० ॥ स्निग्धो गभीरो मधुरो घनश्च त्रिस्थानकव्याप्तियुतोऽष्टमः स्यात्। स्निग्धो घनः कोमलको गभीरो लीनोऽखिलस्थानगतस्तथान्यः ॥ १०१॥ स्थानत्रयव्याप्तियुतो गभीरः स्निग्धत्वमाधुर्ययुतश्च सान्द्रः । लीनस्तथा कोमलतासमेतो मिश्रप्रभेदो दशमो निरुक्तः ॥ १०२॥ इति क्रमात् खावुलमिश्रशब्दनाराठभेदात् कथिता दशैते। वक्ष्यामहे खावुलमिश्रजोम्बमेदानिदानी षडपि क्रमेण॥ १०३ ॥ निःसारताकोमलतासमेतः स्निग्धत्ववान् प्राथमिकोऽत्र भेद: । माधुर्यरूक्षत्वमृदुत्वयुक्तो भेदो द्वितीय: कथितस्तदीयः ॥ १०४ ॥ निःसारताभाङ् मृदुतासमेतः स्निग्धत्ववानुच्चरतस्तृतीयः । निःसारताकोमलतासमेतः स्निग्धत्ववान् स्थौल्ययुतस्तुरीयः ॥ १०५॥ स्निग्धत्ववानुच्चरतोऽप्यसार: स्यात् कोमलस्थौल्ययुतोऽपरः स्यात्। रूक्षश् लीनो मधुरोऽप्यसार: स्यात् कोमलः षष्ठ इह प्रभेदः ॥ १०६॥
Page 282
२६० . सङ्गीतसुधा
इतीरिता: खावुलजोम्बमिश्रभेदाः षडेते पुनरानुपूर्व्यात्। वक्ष्यामि नाराठकमिश्रजोम्बभेदानिदानी षडनुक्रमेण ॥ १०७ ॥
स्थानत्रयव्याप्तियुतो घनश्च रूक्षश्र तेषु प्रथमः प्रभेदः । घनत्वगाम्भीर्ययुतश्च रूक्षस्तेषु प्रभेदेषु भवेद्द्वितीयः ॥ १०८ ॥ स्थूलश्च लीनश्च तथैव रूक्षो निःसारतावान् कथितस्तृतीयः । स्थूलो घनश्चोच्चरतश्च लीनस्तेषु प्रभेद: कथितस्तुरीयः ॥ १०९॥
लीनो गभीरश्च घनश्च रूक्ष: स्थानत्रयव्याप्तियुतोऽपरः स्यात्। लीनश्च रूक्षश्च भवेद्सारस्त्रिस्थानगः स्थौल्ययुतश्च षष्ठः ॥ ११०॥
कमेण नाराठकमिश्रजोम्बभेदा: षडेते कथिता: किलैवम्। द्वयोर्गुणानामिह मेलनेन द्वाविंशतिश्च्ाभिहिताः प्रभेदाः ॥ १११॥ अथ त्रयाणं गुणमिश्रणेन भेदानिदानी कथयामि चाष्टौ। स्थानत्रयव्याप्तियुतस्तथैव स्निग्धोऽव्यसार: प्रथमः प्रभेदः ॥ ११२ ॥ घनो गभीरो मधुरश्र रूक्षो मुदुस्तथैवोच्चरतो द्वितीयः । लीनो घनश्चोच्चरतश्च पीनः स्निग्धस्तथा कोमलतायुतोऽन्यः ॥११३॥
स्थानत्रयव्याप्तियुतश्च लीनो निःसारताकोमलतासमेतः । स्निग्धत्ववानुच्चरतश्च पीनस्तेषु प्रभेद: कथितस्तुरीयः ॥ ११४॥ स्थानत्रयव्याप्तियुतस्तथैव लीनश्च पीनो मधुरश्च रूक्षः । निःसारभावोच्चरतत्वयुक्तो भेदो निरुक्तः किल पञ्चमो यः ॥ ११५॥ स्निग्धत्वमाधुर्ययुतो गभीरस्त्रिस्थानकव्याप्तियुतो घनश्र। लीनत्वभागुच्चरतस्तथैव स्यात् कोमलः षष्ठ इहोपदिष्टः ॥ ११६॥ माधुर्यगाम्भीर्ययुतो सुदुश्च स्थानत्रयव्याप्तियुतश्च लीनः । निःसारभावोच्चतरत्वयुक्तो रूक्षो निरुक्तः किल सप्तमोऽयम् ॥ ११७॥
पीनत्वभाक्कोमलतासमेतः स्यादष्टमोऽयं कथितस्तु भेदः ॥ ११८॥ इत्थ त्रयाणां गुणामश्रणेन निरूपितास्त्वष्टविधाः प्रभेदाः । मिश्रप्रभेदा गुणयोगजानां त्रिंशन्निरुक्ताः सकला मिलित्वा ॥ ११९॥ अन्येऽपि सूक्ष्मा: किल संभवन्ति भेदा गुणानामिह मेलनेन। नानाविधास्ते किल विस्तरस्य प्रसङ्गभीत्या न मयोपदिष्टाः ॥ १२०॥
Page 283
शब्दगुण: २६१
-। शन्दगुण: ॥. नानाप्रमेदेन निरपितस्य शब्दस्य वक्ष्यामि गुणान् क्रमेण। मृष्टो मतः श्रोतुसुग्ावहः स्यात् क्रमेण तेष्वादिममेदमाहुः ॥ १२१॥
स्थानत्रय स्यादविकारभावो साधुर्यमुक्त तदिदं द्वितीयम्। प्रौढस्तथा स्नहयुतो न चातिस्थूलो वनो नातिकृश: ससारः ॥१२२॥
चहालनामा कथितस्तृतीयः स शक्यने संततमङ्गनाभिः । चेहालगानं तु भवेच् पुंसा निरन्तरं यौवनसंश्रितानाम् ॥ १२३ ॥ अस्थानता केनचिदेव कण्ठे विकुण्ठिते तह्गुणरोधकेन। स्थानन्येऽि चछविरक्तिमुख्यैगुणैरुपेतः किल निर्विवाद: ॥ १२४॥ त्रिस्थाननामानमुदीशयन्ति चतुर्थमेनं तु गणै: प्रवीणाः । यश्चह चनःसुखदानदक्ष: सुखावहा नाम स पञ्चमः स्यात्॥ १२५॥
यः स्थोल्ययुक्त प्रचुकः स पछी यः कोकिलालापसमानमावः। यः सौकुमार्य लभते च सोडयं स्यात् सप्रमः कीमलनामधेयः ॥ १२६ । यः श्रयते च प्रबलत्वयुक्त स गाढनामा पुनरष्टमः स्यात्। दूरेऽपि यो रञ्जकतामुपेत्य निशम्यते श्रावकमेनमाहुः ॥ १२७ ॥ अहो कर्थ गायति सोड्यमित्थं कारुण्यकारी करुणो ध्वनिः स्यात्। आकष्यत दूरगतोऽपि योऽन्तःसारस्तमनं वनमामनन्ति ॥। १२८।। स्निग्यी भंवद्रक्षतया विहीनः श्रक्षणस्त्वविच्छिन्नतया तुवर्ती। यम्तेलधारव स एव यस्तु संपाद्येच्छोतृजनस्य रागम् ॥ १९॥
तं राक्तमन्तं प्रतदन्ति सन्तश्चतुदेशं गायकसंप्रदायात्। यत्रोज्ज्वलं तन जनै रसज्ञैः प्रतीयते स च्छविमानिहोक्तः ॥ १३०।।
एवंगुणा: पञ्चदशोपदिष्ठा दोषानमीषां कथयामि चाष्टौ। म्निग्धत्वहीनः कथितश्च रूक्षो यो भग्नवत् स्यात् स्फुटितं तमाहुः ॥ १३१ ॥
असारकश्चित्रककाण्डवद्यो निःसारमेन निपुणा भणन्ति। यः काककाकोलनिषादतुल्यस्तं काकिनं दोषमुदाहरन्ति ॥ १३२।।
स्थानत्रयव्याप्तियुतोऽपि यस्तु माधुर्यहीनः स तु कोणिनामा। अतिप्रयासेन च मन्द्रतारव्याप्तस्तु यः स्यात् स तु कोटिनामा ॥ १३३ ॥
Page 284
२६२ सङ्गीतसुधा
सूक्ष्म: क्ृश: स्यादथ यः खरोपूरधानुकारी स तु भग्नसंज्ञः। इतीरिता: शब्दगता: किलाष्टी दोषा मनीषानुगुणा: क्रमेण॥ १३४॥
। श्ारीलक्षणम्।। शब्दश्वरूप प्रतिपादितेऽथ शारीरलक्ष्म प्रतिपादयामः। अभ्यासमात्रेण न लख्यमतत् किंवेश्वरस्यैव सवेत् प्रसादात्॥ १३॥
विद्याप्रदानेन तपोविशेपैर्भक्त्याथवा शैलसुताप्रियस्य। प्रभूतभागस्य च वैभवेन मनोज्ञशारीरमवाप्यते तत् ॥ १३६ ।।
अभ्याससाध्या रलु सर्वविद्या शारीरमात्रे नियमश्च नायम्। दृष्ठः कचिद्रायनगायिकादौ शारीरकेऽभ्यासत एव नाशः ॥ १३७॥
तस्माद्विनाभ्यासममुष्य रागप्रकाशने यः पटिमा ध्वने: स्यात्। शारीरसंज्ञां लभते स एष समं शरीरेण समुद्वेन ॥ १३८ ।
वक्ष्यामि शारीरगुणान् क्रमेण व्याप्तिस्तु पर्यायतयास्ति तारः। अनुध्वनिः स्यादनुराग उत्त्तो माधुर्येरूपं रमणीयतैव ॥ १३९ ॥
रक्तिस्तथा रञ्जकतोपदिष्ठा तथैव गाम्भीर्यमगाधता च। तत्सौकुमार्य खल मार्दवात् स्याद्द्वेद्वनत्वं किल सारयोगः ॥ १४०॥
कान्तिश्छविः स्यात् प्रथमोपदिष्टो गुणैः सुशारीरमुपेतमेतैः। निरूष्य शारीरगुणान् क्रमेण दोषानमुष्य प्रतिपादयामः ॥ १४१॥
आदावनुध्धानविहीनभावो रक्तेरभावः खलु रूक्षता च। निःसारता विश्वरता च काकिभावश्च मन्द्रादिपरिच्युतिश्च ॥ १४२॥ काश्यं तथा कर्कशतेति दोषैर्युक्त कुशारीरसुदीरयन्ति। चतुर्विधं श्रीचरणैर्निरुत्तं शारीरमेतत् प्रविभज्य सम्यक् ॥ १४३ ॥
आद्यं कडालं मधुरं द्वितीयं हि यौचलं तत्र मतं तृतीयम्। भवेत्तुरीयं बहुलं च तेषां लक्ष्माणि वक्ष्ये तदनु क्रमेण ॥ १४४ ॥
स्थानत्रये स्यात् कठिनं कडालं मन्द्रे च मध्ये मधुरत्वयोगात्। शारीरमुक्तं मधुरं द्वितीयं तारे च रागस्य विवेचकं च ॥ १४५॥
स्याद्यौचलं तन्र मतं तृतीयं यत्रोक्तशारीरगुणा विमिश्राः। भवेत्तुरीयं बहुलं तथा हि भवेत् कडालं मधुरं किलाद्यम् ॥ १४६ ॥
Page 285
गमका: २६३
सयौचलं स्थान्मधुर द्वितीयं कडालयुग्यौचलमन्यदुत्रा । योगे त्रयाणां च मतस्तुरीयसत्वेवं व शारीरसिदं चतुर्थम् ॥ १४७॥
-॥। गमकाः ॥- शारीरभेदं प्रथम निरुप्य निरूपयामो गमकान् क्रमेण। यः श्रोतृचित्तस्य सुखं तनोति स्वरस्य कम्पो गमकः स एवं ॥ १४८॥
व्युत्पत्तिरत्यामिहिता च पार्थदेवेन संगीतविशारदेन। स्वीयश्रुतिस्थानसमुद्नां च च्छायां तथान्यश्ुतियोगभाजम् ॥ १४९॥
यत्तु स्वरूपं गमयेंत् स एव निरूपितः स्याद्गमकाभिधानः । वक्ष्यामहेऽथो गमकस्य मेदानाद्यः प्रतीतस्तिरुपाभिधानः ॥ १५०॥ ततो द्वितीय: स्फुरितस्तृतीयः स्यात् कम्पितो लीन इहापर: स्यात्। आन्दोलितोऽन्यश्र वलिस्तु वष्टस्त्रिभिन्ननामापि च सप्मः स्यात् ॥ १५१॥ ततः परं स्तः कुरलाहतौ द्वावुल्लासितः पावितहुम्भितौ च। स्यान्मुद्रको नामितमिश्रितौ चेत्येवं सता: पञ्दशास्य भेदाः ॥ १५२॥ क्रमेण चैषामथ लक्षणानि वक्ष्यामहे गायकसंप्रदायात्। अत्यल्पतावड्मरुप्रघोषकम्पातुकारात् कमनीयरूप: ॥ १५३ । द्रुतस्य तुर्याशजवेन युक्त: स्वरस्य कम्पस्तिरुपाभिधानः । अन्यो द्रुतस्यापि तृतीयभागवेगेन युक्त: स्फुरितो भवेत् सः ॥ १५४ ॥ द्रुतार्धमानेन जंवेन युक्त: स्वरस्य कम्पः खलु कम्पिताख्यः । तथैव पूर्णद्रुतमानयुक्तं स्वरस्य कम्पं रूलु लीनमाहुः ॥ १५५॥ द्रुतेन मध्येन विलम्बितेन विलीयते येन नप्रमाणः । आन्दोलिताख्यः स्वरकम्पयुक्तो लघुप्रमाणस्वरकम्पनेन ॥ १५६ ॥ नानाविधो रागगतिप्रभिन्नवेगस्त्रिमिन्नो भवति स्वराणाम् । कम्पे वलि: स्यादथ मन्द्रमध्यतारेष्वविश्रान्तघनस्वरः स्यात् ॥ १५७॥
कण्ठोद्व: कोमल एव तत्र वलि: किल स्यात् कुरलाभिधानः । अध्र्यं स्वर प्राप्य सहाहतेन निवर्तनेनाहत इत्युपात्तः ॥ १५८॥
उल्लासिताख्यः स भवेत् क्रमेणोत्तरोत्तरान् गच्छति यत् स्वरौधान्। प्लुतस्य मानेन च कम्पनं तु स्यात् प्रावितो गायकसंप्रदायात् ॥ १५९ ।।
Page 286
२६४ सङ्गीतसुभा
स हुम्भितः स्यादनंको मनोशहुङ्कारगर्भ स्वरकम्पन स्यात्। दन्तच्छदद्वन्द्वविमुद्रणातः स्वरस्य कम्पः खलु मुद्काख्य: ॥ १६०॥
मन्द्रे स्वराणामवरोहणेन स्वरस्य कम्पात् किल नामिताख्यः। एषां पुनर्लक्षणमिश्रणेन मिश्रो जवेन्नैकविधः प्रभेदः ॥ १६१॥
निरूपितानां गमकावलीनां वागेति संज्ञान्तरमामनन्ति। उत्तेषु तस्माद्मकेषु तेषु वागस्वरूप च निरूपितं स्यात् ॥ १६२।
अथापि वागस्य पृथक्स्वरूपं स्थायप्रमङ्गे कियतः प्रवक्ष्ये।
॥ स्थाया: ॥ - निरूष्य तान् पञ्दश प्रभेदान् शास्त्रानुसाराद्गमकान क्रमेण ॥ १६३।।
षडुत्तरां तां नवतिं वदाम: स्थायान् मतङ्गादिमतानुसारात्। स्थायस्तु रागावयवः प्रतीतः सामान्यतो लक्षणमेतदेषाम् ॥ १६४।।
विशेषतः स्थायनिरूपणं च तेषां विभागं च ततो विधास्ये। यस्मिन् स्वरे स्थायविशेषणः स्यात्तत्रैव भूयोग्रहणे च तस्य ॥। १६५ ।।
तदादिमस्थाय इति प्रसिद्धिस्तं शब्दसंबन्धिनमामनन्ति। करस्थमुक्ताफलवच्च ढाल: शश्चत् स्वराणां चलनात्मको यः ॥ १६६॥
मुक्ताफलाभस्वर संनिवेशे ढालश्र सर्वानुभवैकसिद्धः । एतेन ढालेन युतांस्तु ढालस्थायान् द्वितीयान प्रविदुस्ततज्ञाः ॥ १६७ ॥
यत्सौकुमार्येण युता: स्वराणां भवत्यनुच्चारणमेव शश्चत्। एषा निरुक्ता लवनी च वर्णे संचारिवर्णे स्थिरकम्पनं यत् ॥ १६८ ।।
निरूप्यते सा वहनी वहन्या: स्थायांश्चतुर्थान् प्रविदुः प्रवीणाः । विशेषणे सा वहनी द्वितीया चालप्तिगीतिप्रविभागभेदात् ॥ १६९॥
पुनश्च सैषा वहनी द्विधा स्यात् स्थिरा च वेगाढ्यतया प्रतीता। देहस्थिता सा वहनी त्रिधा स्याद्द्या च कण्ठ्या च तथा शिरस्या ॥ १७० ॥
हृद्याभिधाना वहनी द्विधा स्यात् फुल्ला द्वितीया प्रथमा तु खुत्ता। यत्र स्वराश्चान्तरिव प्रविष्टाः खुत्ताभिधां तां वहनी वदन्ति ॥ १७१ ॥
यत्काथितक्षीरमिवोपरि स्याद्विजुम्भमाणं स्वरजातमस्याः । उत्फुल्लकाख्यां वहनीमुशन्ति वलिश्र सा स्याद्वहनीवदेव ॥ १७२॥
Page 287
स्थाया: २६५
एवंविधा सा वहनीति येषु स्थाया वहन्या: परिकीर्तितासत। अन्या वहन्यस्तु न लक्षिता या उच्चारणेन स्फुटतां प्रयान्ति ॥ १७३ ॥
वक्ष्यामहे संप्रति वाद्शब्दस्थायस्वरूपं सह लक्षणेन। वाद्यस्य शब्दे तु निरूपिते तत्स्थायस्वरूपं तु निरूपणीयम् ॥ १७४॥
वाध्स्य शब्देष्वपि वाद्यपाटाक्षराणि ते स्यु: टगणादिरूपाः । ते रागसंश्लेषविशेषभाजः स्थाया मताञ्चद्युतवाद्यशब्दाः ॥ १७५।।
वीणादियन्त्रेषु विभान्ति यन्त्रस्थायास्तु षष्ठा: परिकीर्तितास्ते। स्थायान्निरुप्याथ षडुक्तमेदांइछायादिमांस्तान् प्रतिपादयामः ॥१७६ ॥
छायापदेनाभिहिताश्च चक्रास्ते षड्विधा गायकसग्रदायात्। स्वरादिकाकुश्च भवेदिहाद्या तता द्वितीया खलु रागकाकु: ॥१७७॥
ततस्तृतीया कतिथान्यरागकाकुश्च तुर्या त्वथ देशकाकु: । क्षत्रस्य काकु: खलु पञ्मी स्यात् षष्ठी भवेदत्र च यन्त्रकाकुः ॥ १७८ ॥
स्वरस्य षड्जस्य चतुःश्रुतेर्यच्छरूति यदा स्वीकुरुते निषादः । छायां च षड्जस्य भजेत्तदानीमेवं निरुक्त: स्वरकाकुराघयः ॥ १७९॥
छायात्र रागस्य निज स्वरूपं सा रागकाकु: कथिता द्वितीया। रागान्तरस्यापि च् यत् स्वरूपं रागान्तरे तत् प्रकटीभवेच्चेत् ॥ १८० ।।
यैवान्यरागस्य भवेच्च काकु: सैषा तृतीया खलु काकुरुक्ता। देशेषु देशेषु च गात्रभेदादेकस्य रागस्य भवेच्च भेद: ॥ १८१ ॥
सा देशकाकु: कथिता चतुर्थी देशप्रभेदादुपलभ्यते च। तते च वाद्ये सुषिरे च यन्त्रे छायात्र रागस्य तु दृश्यते या ॥ १८२॥
यत्र प्रभेदेऽपि समानरूपा सा यन्त्रकाकु: कथितात्र षष्ठी। छायास्वरूपे प्रतिपादिते तन्ेदाश्च सर्वेऽपि च तत्र चोक्ताः ॥ १८३ ।।
छायां परस्याप्यनुसृत्य ये तु स्थायाः प्रवृत्तास्तु तदादिमास्ते। वर्णत्रयेऽपि स्वरकम्पनाख्या निरूपिता या वहनी तु तस्याम् ॥ १८४॥ द्वित्रस्वरोल्लङ्गनतः प्रवृत्तः स्थायो भवेत् स्वस्वरलङ्गिताखूयः । स प्रेरितैरूर्ध्वमधश्च तिर्यक्स्वरैर्भवेत् प्रेरितनामकोऽसौ ॥ १८५॥ पूर्णश्रुतिर्यत्र विभाति तारस्थानेऽपि सूच्यग्रवदेव तीक्ष्णा। स्वरैर्युतं तन्निगदन्ति सूक्ष्मस्थायाभिधानं दशमं प्रवीणाः ॥ १८६।
Page 288
२६६ सङ्गीतसुधा
दशेत्यसंकीर्णतया प्रसिद्धाः स्थाया निरुक्ताः सह लक्षणन। स्थायान् वदामो गुणभेदभिन्नान् संकीरणरूपान् सह लक्षणेन ।। १८७ ।। प्रयत्नतो रञ्जनतो विशेषाधानं तु रागे भजनं गुण स्यात्। तत्संयुता ये भजनादिमास्ते स्थाया मता गायकसंप्रदायात् ॥ १८८॥ ये स्थापयित्वा च पुनः पुनश् स्वरानशेषानपि कल्पयन्ति। स्यात् स्थापना तन्मिलिता भवन्ति स्थायास्तदाद्या: कथिता: क्रमेण ॥ १८९॥
या मत्तदन्तावलवद्गभीरगतिप्रसिद्धा किल गीतिमार्गे। सैषा गतिस्तत्सहिता भवेयुः स्थाया गते रक्तिनिदानभूताः॥ १९० ।। स्निग्धो बहुर्यो मधुरस्तथैव स्थूलो ध्वनिः स्यात् कथेतः सनादः । तत्संयुता येडत्र भवन्ति नादस्थायाश्च ते गायकसंप्रदायात् ॥ १९१॥ येषु स्व्रनैर्दीर्वतराः प्रयोगा: स्थाया ध्यनेस्ते कथिता: क्रमेण। समन्विता ये सुकुमारकान्त्या स्थायाश्छवेस्ते पुनरानुपूर्व्यात् ॥१९२।।
गाने तु यो रञ्जकताविशेषः श्रोतृन् समस्तान् मुदितान् करोति। ते रक्तिसंबन्धतया प्रतीता: स्थाया निरुक्ताः खलु सप्रमाश्च ॥ १९३॥
उच्चारणं यत्र जवात् स्वराणां स्थायास्त एते द्रुतशब्दपूर्वाः । ध्वनेर्घनत्वेन च जायमानमुच्चारणं स्याद्भृतशब्दवाच्यम् । १९४।
अतो भवेयुर्भृतशब्दपूर्वाः स्थायाः समस्ता इति वेदितव्याः । अथांशसंबन्धितया प्रतीतान् स्थायान् वदामः सह लक्षणेन ॥ १९५ ॥।
अंशस्वरूपेऽवगते च पश्चात् स्थायास्तदीया इति वेदितव्याः । अतोंऽशमादौ प्रतिपाद्य योंऽशो रागान्तरस्यावयवोऽन्यरागे॥ १९६॥
अंशस्य को भेद इहान्यरागकाकोः सकाशादिति चेद्वदामः । अंशो भवेत् सप्तविधस्तु सोऽयमाद्यो भवेत्तत्र च कारणांशः ॥ १९७ ।। भवेच्च कार्याश इह द्वितीयस्ततः सजातीयपदादिमोंऽशः । भवेच्नतुर्थः सदशांशनामा स्यात् पञ्चमश्चासदशांश एव ॥ १९८।। *मध्यस्थपूर्वोऽपि भवे्ततोंऽशस्त्वंशांशनामापि च सप्तमः स्यात्। रामक्रियायामपि कार्यरागे कोलाहलाख्यस्य च कारणस्य ॥ १९९।। ततोंऽशभावो भवतीति चात्र स्यात् कार्यरागे किल कारणांशः । स्यात् कारणे भैरवनाम्नि रागे कार्यस्य भैरव्यभिधस्य योऽशः ॥ २००॥।
Page 289
स्थाया: २६७७
अतश्च कार्याशममुं वदन्ति ह्येवंविधेष्वेष्वपि चोहनीयः। वराटिकायुक्ततयाष्ट्रमेदे गौलत्वयोगिन्यपि सप्रभेदे ॥ २०१॥
सामान्यजातेर्भवतीह योडशो भवेत् सजातीयपुरःसरोऽशः। गाने कृते श्रोतसुखैकरूप्यं नट्टावराट्योस्तु यथा विशेषात्॥ २०२ ॥
प्रतीयतेSसौ सदशांशनामा ग्रह्यरत्वयं श्रीतृजनावधानात्। वलावलीगुजेरिकाख्ययोश्च सादश्यसंबन्धविवर्जनेन ॥ २०३॥
सादृश्यतन्द्रिन्नविवर्जनेन योंऽशः स मध्यस्थपदादिमः स्यात्। अंशेषु तेष्वेव हि लक्षितेषु त्वंशान्तरं चेत् प्रविशेत्तमेव ॥ २०४ ।।
अंशांशनामानमुदीरयन्ति त्वंशा इमे सप्तविधा निरुक्ताः । एतादशांशा: खलु यत्र तेंऽशा: स्थाया निरुक्ताः सह लक्षणेन ॥ २०५॥
यदा तु गाता खलु सावधानोऽप्यासङ्गलेशन विवर्जितोऽभूत् । यो गीयते स त्ववधानजः स्यात् स्थायस्तु सोडयं नवमोऽवगम्यः ॥ २०६ ।।
आधानबाहुल्यवशेन गानं भवत्यपस्थानतया प्रतीतम्। स्थायास्त्वपस्थानभवास्त एत तथाह्यपस्थानसमन्विताश्र् ॥ २॥
न्यूनाधिकत्वोभयवर्जनेन गानं तु यत्सा निकृतिर्निरुक्ता। स्थाया निकृत्या सहितास्तदाद्या भवन्ति तेषां धुरि वेदितव्यम् ॥ २०८ ॥
गानेन कुर्यात् करुणां नृणां ये स्थाया निरुक्ता: करुणादिमास्ते। नानाविधां रीतिमुपयिवांसः स्थायास्ततस्ते विविधत्वजन्याः ॥ २०९।।
स्थानेषु येषु प्रतिगात्रभिन्ना भिन्नास्तु रागाः प्रभवन्ति सम्यक्। गात्रस्य संबन्धितया प्रतीता: स्थायाः समस्ता इति वदितव्यम् ॥ २१०॥
स्थायस्य गात्रप्रभवस्य काकोः क्षेत्रो भवेद्या ननु को विभेदः । अत्रोच्यते क्षेत्रसमुद्धवा तु च्छायैव काकु: प्रतिदेहमन्या ॥ २११॥
स्वरूपमेव प्रतिदेहमत्र स्थायेष्वहो गात्रभवेषु भिन्नम्। कृत्वा ध्वनिं तीव्रतरां पुरस्तान्मन्द्रेषु पश्चादृपसर्पेणं यत् ॥ २१२ ।।
स्यादेष एवोपशमस्तदीयच्छायाः पुनस्तेन युता भवेयु: । काण्डारणास्थायमथामनामः स्तम्भेषु या तक्षभिरब्जरूपः ॥ २१३॥
चित्राकृतिस्तु क्रियते हि सोऽयं काण्डारणास्तत्सदृशा विचित्राः । छायास्त एते स्फुटतां प्रयान्ति काण्डारणाया इति वेदितव्यम् ॥ २१४ ॥।
Page 290
२६८ सङ्गीतसुधा
स्थानत्रय व्यापिनमेव, केचित् काण्डारणास्थानसुदीर्यन्ति। एघु स्वर: स्यात् सरलस्तथैव स्याद्रक्तिशाली सुकुमाररूपः ॥२१५॥ अत्यन्तसूक्ष्मत्वमितः क्रमेण स्थाया अमी निर्जवनान्विताश्च। निरस्तशैथिल्यगुणस्तु गाढस्थायो निरुक्तो भरताग्रगण्यैः ॥ २१६ ॥ स एव चेत्संभतमार्दवः स्यात् स्थायो निरुक्तो ललितादिगाढः । चातुर्यपर्यायनिलासशाली स्थायः प्रतीतो ललिताभिधानः ॥ २१७॥। डोलोदितो यो मृदुतानुरोधात् स्थायः स उक्ो लुलिताभिधानः । स्थायस्तु यो वेगविलम्बहीनः स्यान्मध्यमानश्च समाभिधानः ॥ २१८॥ स्यात् कोमलः संभृतसौकुमार्यो विस्तीणयुक्त: प्रसृताभिधानः । स्निग्धाह्वयो रूक्षतया विहीनो यो दीप्तिमांश्च्ोक्ष इति प्रतीतः ॥ २१९॥ औचित्यवान् स्यादुचिताभिधानः सुदेशिकाख्यो हृदयालुहृय्यः । पूर्त्यर्थमाकाङ्क्षति यस्तु पूर्व स्थायं भवेत् सोऽयमपेक्षिताख्यः ॥ २२०॥ वल्याह्वये यो गमके वहन्यामपि ध्वनिः स्यान्मधुरश्च मन्द्रः । तं घोषसंबन्धिनमामनन्ति मन्द्रैर्गभीरै्ध्वनिभिर्मनोजैः ॥ २२१॥ समन्विता ये त इमे स्वरस्य स्थाया निरुक्ता भरताग्रगण्यैः । स्थायास्त्रयत्रिंशदिति प्रतीतास्ते विप्रकीरणाः सह लक्षणेन ॥ २२२ ॥ स्थायान् प्रवक्ष्याम्यथ विंशतिं तानसंकरान् गायकबोधहतोः । आक्रम्यमाणा इव भूमिभारैयथा वहन्तस्तु तथा सकम्पाः ॥ २२३॥
यत्र स्वरा जाग्रति त वहत्य स्थाया निरुक्ता: प्रथमारत्वमीषु। येष्वक्षराडम्बर एव मुख्यस्तष्वक्षराडम्बरशब्दपूर्वा॥ २२४।। ऊध्वेरितैर्यो जवतासमेतः स्वरैः स उल्लासितया प्रतीतः । गङ्गातरङ्गा इव यत्र भान्ति स्वराः स एवात्र तरंङ्गिताख्य: ॥ २२५॥ कुम्भेडर्धपूर्ण सलिलं यथैव डोलायते मूधेनि तद्वदेव। डोलायते (चेति) प्रलम्बिताख्यं स्थायं विदुर्गीतकलासु दक्षाः ॥ २२६ ॥ अवस्लेद्यो जवतोऽवरोहे मन्द्राच्च सोऽवस्खलिताभिधानः। स्थित्वा स्वरे यः स्थिरमन्निवञ्च स्पृष्ट्वा भवेत्तारमथो गतो यः ॥ २७॥ प्रत्यागतः स्याद्थ संप्रविष्टो यश्चावरोहे निबिडस्वर: स्यात्। आरोहरीतौ निबिडस्वरो यः स उत्प्रविष्ठाह्हय इत्युपेयम् ॥ २२८॥
Page 291
स्थाया: २६९
स्वरास्तु यत्रैव विनिःसरन्ति स्थायरत्वसौ निःसरणाभिधानः। यत्र भ्रमन्तीव खल स्वराः स स्थायो भणेद् भ्रामितनामधेयः ॥ २२९॥
यत्र स्वराणां सलु दीघेकम्पः स्थायः स दीर्घादिमकम्पितः स्यात्। यत्र स्वरास्तन्तुयदेव केल्यासुत्क्षिध्य चोतक्षण्य च ग्रह्यमाणा: ॥ २३०॥ स्थायं तमेन परिगृह्य पूर्वमुल्लासितं संकथयन्ति सन्तः। द्रुतेन पूर्व तु विलम्बतेन पश्चाब्य सानेन च गीयते य: ॥ २३१॥ स कथ्यत लम्बविलम्बिकाख्य: संगीतशास्त्राणेवकर्णघारैः। निरुप्य यत्र स्वरयोस्तु तारमन्दरस्थयोरेकमथापर: स्थात् ॥ २३२॥ परिग्रहः स्यानु स एव लोके स्थायो भवत् त्रोटितकप्रविष्ठः । यत्र ध्वरनिस्तु प्रथमं प्रसार्य संक्षिप्यते गायकसंप्रदायात्॥ २३३।।
स कुश्वितः स्यात् प्रसृतादिमोऽय स्थाय: स्थिर: संप्रति कथ्यतेऽसौ। यः स्थायिवर्णे स्थितिमत् स्वराणां कम्पः स एव स्थिरनामघेय: ॥ २३४॥ द्वयोई्वयोर्गा खलु यस्त्रिषु त्रिष्बेकैकतो वा सरसं विलम्ब्यम्। विलम्ब्य यो नाम विरच्यते स स्थायो भवेत स्थायुकनामघेयः ॥ २३५॥ प्रसारितो यः पुनरुर्ध्वमेव तारे त्विमं क्षिप्रसुदीरयन्ति। स्थूल: पुरस्ताच्चरम तथाल्पः स्थायस्तु सृक्ष्मान्त इतीरयन्ति ॥ २३६॥
निरूपिता विंशतिभदभिन्ना: स्थायास्त्वसकीणतया प्रसिद्धा: । स्थायांस्त्रयस्त्रिशतमत्र वक्ष्ये शेषानसंकीणेतया प्रतीतान् ॥ २३७।।
विवर्जिताकुञ्नपूरणाद्या: स्वाभाविका येषु भवन्ति शब्दाः । स्थाया: स्युरत प्रकृतिस्थशब्दसंबन्धिनो गानविदां प्रसिद्धाः ॥ २३८॥
शब्दस्तु सूक्ष्मीक्रियतेऽथ यषु स्थाया: कलाशब्दपुरःसरास्ते। प्रतीगृहीतास्तु बलेन शक्या: स्थाया मता ह्याक्रमणादिकास्ते ॥ २३९॥
स्थायास्तु ये वधेकिकल्व्यमानस्तम्भा इव स्युर्घटनादिमास्ते। स्थायास्तु ये श्रोत्रसुखप्रदा: स्युः सुखस्य संबन्धितयोदितास्ते ॥ २४०॥
चाले स्वराणामिह रीतिभेदात् स चालिपूर्वा कथिता ऋजकका। तदन्विता ये कथितास्तु चालिस्थाया मता गायकसंग्रदायात् ॥ २४१ ॥
अंशस्वरो यः कथितो हि सोडयं जीवस्वरस्तं तु विधाय सुख्यम्। (स्थायाभिगीते) कथयन्ति तांस्तु जीवस्वरस्थायतया प्रवीणाः ॥ २४२।। 35
Page 292
सङ्गीतसुधा
येष्वेव वेदध्यनिवद्ध्वनिस्तु विभाति वेदध्वनिपूर्वे कासते। अन्तस्तु ये सारसमन्विता: स्युर्घनत्वसबन्धितया मतास्ते ॥ २४३॥ स्थाया घनत्वप्रतिकूलधर्मा निरूपितासते शिथिलासिधानाः । क्ेशेन कर्तु खल शक्यते यः स्थायो मतः सोऽवघटाभिधानः॥ २४४॥ यो गीयतेSत्न्तविलम्बनेन प्लुताह्नयं स्थायममुं वदन्ति। आकाङ्क्ष्यते य: खलु पूरणाय रागण रागेष्टममुं वदन्ति ॥ २४५। यः सुस्वरोपस्वरवद्विभाति सोऽपस्वराभास इति प्रदिष्टः । यः शृङ्गलाबद्ध इवावभाति स्थायं तुतं बद्धसुशन्ति सन्तः ॥ २४६ ।। यत्र ह्यनल्पो मधुरध्वनि: स्यात् स्थायः कलस्यात्र रवस्य सोऽयम्। यः स्याच्च चातुर्यजनपरियोडसौ स्थायो मतश्छान्दसनामघेयः ॥ २४७॥ यो दुष्करः सन् सुखगेयवत् स्यादामासनामा सुकरादिमोऽयम्। घण्टानिनादप्रतिमानुराणसमन्वितः स्थानत एव तारात् ॥ २४८। स्थानं तु मन्द्रं प्रति याति सोडयं स्यात् संहितस्थाय इति प्रतीतः । स्थायो लघुर्गौरववर्ज्यगेयो यस्तु ध्रुवाभोगपढ़ान्तराले॥। २४९॥ प्रगीयते सोऽन्तर इत्युपात्तो वको भवेदार्जवहीन एव। तारे तु यः पूर्णवदेव भाति दीप्प्रसन्नं तमुदाहरन्ति ॥ २५० ॥ सुखेन गेयः सुकुमारनाद: प्रसन्नमृद्वाह्वय एष उक्तः । गुरुमतो लाघववर्जनेन हस्वो मतो यः खलु कम्पवत् स्यात् ॥ २११॥ सान्द्रत्वहीन: सबलश्च य: स्यात् स्थायो मतोऽसौ शिथिलादिगाढः । दीर्घो मतो हरस्वविलक्षण: स्यात् स्थायो ह्यसाधारणनामकस्तु ॥ २५२ ॥ पुंसस्तु शारीरगुणेन लोके सुखेन यः कस्यचिदेव शक्यः। साधारण: सर्वसमो निरुक्तो यस्तु स्वनिर्वाहकृते न वाञ्छेतू ॥ २५३ ॥ अन्यद्वहन्यादिनिरूपितोडयं स्थायो निराधारतया स एषः। शक्योऽपि यो दुष्करवद्विभाति तं दुष्कराभासमुदीरयन्ति ॥ २५४ ॥ . एषां मनाग्लक्षणमिश्रणेन मिश्रं पुनः स्थायमुदाहरन्ति। इति त्रयस्त्रिंशदुदाहतास्ते स्थाया मया गायकसंग्रदायात् ॥ २५५॥ षडुत्तरैषा नवतिर्िलित्वा स्थायाः समस्ता: परिकीर्तितास्ते। नानाविधत्वेन न मिश्रभेदाः शक्यन्त एव प्रतिपाद्नाय ॥ २५६॥
Page 293
सथायाः २७१
अथापि केषांचन लक्षण दिक्प्रदर्शनाय प्रतिपाठयामः । एकस्य साम्यं गमकस्य चेत् स्यात् संकीर्णता स्थाययुगस्य सेयम्।२५७॥
साम्यं बहूनां गमकाभिधानां स्थायदये स्याद्यदि मिश्रता सा। स्थायोऽधिको यः खलु यत्र मिश्रस्थाये तदाख्यां लभते स एषः ॥ २५८॥
स्थायास्तु ये लक्षणसाम्यभाजसते मिश्रनामान इति प्रतीताः । तानेव पूर्वाभिहितांस्तु मिश्रस्थायान् वदामः कतिचित् क्रमेण ॥ २५९॥ स्थाये प्रयुक्त्तस्तिरुपस्तथैव चान्दोलितस्तद्दवयमिश्रणेन। क्रमोदितोक्तवयनामधेय: स्थायो भवेदाद् इहाववय: ॥ २६०॥ लीनः पुरोक्त: खलु कम्पितश्र स्थायस्तु यस्तद्द्वयमिश्रणात् स्यात्। लीनादिमं कम्पितमीरयन्ति द्वितीयमेतं खलु मिश्रभेदम् ॥ २६१॥ यः कम्पितश्चापि तथाहतश्च स्थायोऽपि यस्तद्द्वयमेलनेन। तमाहतं कम्पितपूवमाहु: स्थायं तृतीयं खलु मिश्रभेदम ॥ २६२ ॥ पुरोदितो यस्तिरुपस्तथैव यः प्रत्यपादि स्फुरितः पुरस्तात् । तन्नामधेयद्वयतो यथोक्तक्रमोदितं तुर्यमिमं वदन्ति ॥ ०६३।।
यस्मिस्तु लीनस्फुरितौ तथा यः स्थायं तु लीनस्फुरिताख्यमाहुः । यस्मिन् मिलेतां स्फुरिताहतौ द्वौ पछ्ठं तमाहु: स्फुरिताहताख्यम् ॥ २६४॥ त्रियोगजातान् कलयेऽ्थ मिश्रान् स्थायान पुनर्गायकबोधहेतोः। आद्यं तयोर्यत्न विभाति लीनो यन्मध्यमस्तिष्ठति कम्पितश्च ॥ २६५॥
सन्तः पुनः स्थायविदस्तमेतं लीनादिमं कम्पितलीनमाहुः । यत्र त्रिभिन्नः कुरलः पुरोक्त: स्यादाहतश्चात्र विमिश्रमेतत् ॥ २६६ ॥ त्रिभिन्नपूर्व कुरलाहतं तु प्रचक्षते स्थायरहस्यविज्ञाः । तौ प्ावितोह्लासितकौ वलिश्चेत्येतत्त्रयं यत्र भवेद्विमिश्रम् ॥ २६७ ॥ तं पावितोल्लासितपूर्वमाहुरबलि तु संगीतकलाप्रवीणाः । वलिस्तथा हुम्फितमुद्रितौ चेत्येभिस्त्रिसिर्यस्तु भवेत्तदेतत् ॥ २६८ ।।
वल्यादिमं हुम्फितमुद्रितं तं प्रचक्षते गीतकलाप्रवीणाः । वलिस्तथान्दोलितनामितौ च यस्मिन्निम तु त्रितये मिलन्ति ॥ २६९॥
तं नामितान्दोलितपूर्वमाहुर्बलिं तु संगीतकलाधुरीणाः । वलिस्तथा नामितकम्पितौ चेत्येतत्त्रयं यत्र मिलेत्तमेतम् ॥ २७० ।।
Page 294
सङ्गातसुधा
आहुर्बलिं नामितकम्पितान्तमार्यारतथा दत्तिलकोहलायाः।
तथा समुल्ासित इत्यमीभिश्नतुर्मिरेक: रूलु मिश्रभेदः । आन्दोलितप्टावितपूर्वमाहुस्तथा समुलासितनामितं तम् ॥ २७२॥
सथायौ प्रवक्ष्याम्यथ पञ्चयोगजातावुभौ पूर्वसतानुसारात्। यन्नादिम: स्यान्तिरुपस्तथास्यादान्दोलितोऽथो च वलितनिभिनै ॥ ७३ ॥ अन्ते ततः स्यात् कुरलश् शब्दैरेभि: क्रमोक्तैरभिधीयतेऽन्यः । यत्र त्रिमिन्नः प्रथमोऽथ लीनो भवेद्द्वितीयः स्फुरितस्तृतीयः ॥ २७४॥ संप्नावितान्दोलितकौ च शव्दैरेभि: क्रमोक्तैरभिधीयतेऽन्यः । स्थाय: प्रदिष्टः कथयामि भगैरुत्पादितान् संप्रति मिश्रभेदान् ॥ २७५॥ द्वियोगजातान् कलये बहन्या ढालोऽनुगानं च भवेत् क्रमेण। एक: प्रभेदो ह्युदितस्तु तस्य ढालाद्वहन्याश्च तथा द्वितीयः ॥ २७६॥ शब्दाच्च ढालादपरो वहन्या यन्त्रात् परश्चापि भवेद्विमिश्रः । स्याच्छायया यन्त्रयुजापि कश्विच्छव्दान् यन्त्रादपरोऽपि भेदः ॥२७७॥ कश्चित् प्रभेदोऽन् भवेद्हन्या सच्छायया कशन यन्त्रतः्र। स्याद्वाद्यशब्दादपरस्तु तीक्ष्गात् स्यात् प्रेरिताच्चति मतो ह्वियोग: ॥ २७८॥
त्रियोगजातान् कथयेऽथ तीक्ष्णान्यत् प्रेरिताच्च स्वरलम्बताच्च। एकोडपर: कश्चन ढालशब्दात् स्यादयन्त्रशब्दादृपि वाद्यशब्दातू ॥ २७९॥
ततश्चतुर्योगभवाच ढालात् सच्छायकातू कश्चन यन्त्रशब्दात्। स्यादाद्यशव्दादपि को विभेदसत्वलम्बितावरलिताहयाच् ॥ २८॥
स्यात्ताडितोल्लासितयुग्मतोऽन्यः स्यात् संग्रविष्ठाद्थ चोत्प्रविष्ठात्। स संग्रविष्टेन तरङ्गितेन ततः प्रवक्ष्ये द्वययोगजन्यान् ॥ २८१॥
उल्लासिताच्च प्रतिगृह्य पूर्व सवेत्तथा लम्बविलम्बिताच्च। ततश्चतुर्योगभवस्तु कश्चित् स्यात्ताडिताच्चैव तथा प्रविष्ठात्॥ २८२॥
०अथोत्प्रविष्टादपि वान्यसंज्ञात्ततः पुनर्निःसरणात्तथैव। अन्यस्तु दीर्घादिमकम्पिताच्च सूक्ष्मान्तकभ्रामितकात्तथैव ॥। २८३ ।।
सस्थायुको भेद उदीरितोऽन्यर्त्वेवं चतुर्योगभवा निरुक्ताः । प्रपञ्च्ये कंचन पञ्चयोगाज्जातं प्रभेदं किल सानुमोदम् ॥२८४॥
Page 295
२७३
वहाक्षराडम्बरयुग्मजातरत्वा कुम्वितश्च प्रसृतः स्थिरश्च।
विलम्बितश्रेति च सेद एको भदाश् षटत्रिशितीरितास्ते। दिशानयान्येऽि किलोहनीया: स्थायाः किल न्यायविचारदक्षैः ॥ २८६॥
॥ आलप्ति: 1- स्थायांश्च वागांश्र निरु्य सम्यगालप्तिकां संप्रति लक्षयामः । रागस्य तस्यालपनं किलाहुरालप्तिकां गीतकलाप्रवीणाः ॥ २८७।। आलप्तिरेषा द्विविधा च रागपूर्वा च सा रूपकपूर्विका च। आद्यान् प्रबन्धाननपेक्ष्य रागालप्तिभवेत् स्थानचतुष्टयोत्थाः॥ २८८।। यत्र स्वरे रागनिवेशनं स्यात् स्थायस्वरं तं निगदन्ति सन्तः । स्थायस्वराद्यस्तु भवेत्तुरीयो व्यर्ध तमारोहणतो भन्त ॥ ॥ व्यर्धस्य यः स्यादवरोहणेन स्थायिस्वरच्वापि भवेत्तृतीयः। उच्चारणं तस्य पुनः पुनर्य तं वंशिकायां मुखचालमाहुः ॥ २९०॥ आरभ्य तु स्थायिनमा तृतीयाद्धः स्वराणामपि योजनेन। यद्गानमिन्धे तदुदाहरन्ति स्वस्थानमादं सुधियः परं ते ॥ २९१॥ व्यर्धस्वरे पूर्ववदेव यत् स्यात् स्वस्थानमेतद्वि भवेद्द्वितीयम्। स्थायिस्वरादष्टमतामुपेतः स्वरस्तु योऽसौ द्विगुणाभिधानः ॥२९२॥ व्यर्धस्वरस्य द्विगुणस्वरस्याप्यर्धस्थिताख्याः खलु मध्यभाजः । अर्धस्वरेषु प्रविधाय तत्तद्रागानुकूलैर्गमकैश्च गीतिम ॥ २९३॥ यः स्थायिनि स्यान्न्यसनं पुरेव स्वस्थानमेतद्धि भवेत्ततीयम्। पूर्वोक्तव त्वष्टममाकलय्य गीतं ततः स्थायिनि किं च सुश्ेत् ॥ २९४ ॥ स्वस्थानमेतत् कथितं परं स्वस्थानैश्चतुर्भिस्तु समन्विता या। रागस्य सालप्तिरथ त्वमुष्यास्तं स्थापनाभेदमिहामनामः ॥२९५॥
स्थायैरमीभिः करणैस्तु रागाभिव्यञ्जनस्थापनिकोपदिष्टा ॥ २९६॥
Page 296
२७४ सङ्गीतसुधा
-।। रूपकालप्ति: 1-
सा रूपकालप्तिरथ प्रबन्धरागण तालेन समन्विता या। सा च द्विधोक्ता प्रथमा तु यत्र प्रतिग्रहण्याद्यभिधा तदीया ॥ २९७॥
सा भञ्जनी चात्र सवेद्द्वितीया तत्रादिमां सांप्रतमीरयामः। स्वस्थानमुद्गाय पुरैव चालप्त्यङ्गं प्रबन्धावयवात्महेतु: ॥२९८॥ प्रतिग्रहण्यत्र भवेद्द्वितीया या भञ्जनी सा द्विविधात्र वेद्या। स्थायादिमा भञ्जनिभेदपूर्णा भवेत् परा रूपकभञ्जनी च ॥ २९९॥ स्थायस्तु सा भञ्जनिकोच्यतेऽथ रागस्य यत्रावयवो विशेषात्। प्रबन्धसंबन्धिपदप्रमाणान्नानाविधो गीयत एव सम्यक् ॥ ३० ॥ तेनैव मानेन तदा पदैश्चान्यथान्यथा रूपकमत्र सर्वम्। संगीयते यत्र निरूपिता सालपिक्रमाद्रूपकभञ्जनीति ॥ ३०१ ॥ आलप्तिकाख्येति हि सा तु वर्णालंकाररम्या गमकैर्विलासैः । प्रकाशयन्ती निजरागभेदप्रयोजनेऽत्रैव परं प्रशस्ता ॥ ३०२ ॥
आलप्तिकायास्त्वपरान् विशेषानाचष्ट यश्चाष्ट स पार्शदेवः । समा हि चाद्या विषमा द्वितीया स्यात् प्राञ्जलीकेति पुनर्द्विधा स्यात्॥ ३०३॥
स्यात् साक्षरा सेयमनक्षरा च पूर्व द्विधोक्तापि चतुर्विधैवम् । पुनद्विंधा सा कथिता सतालातालेति सा चाष्टविधोपदिष्टा॥ ३०४॥
शुद्धस्य योगादपि सालगस्य षडुत्तरास्ताः कथिता दशैवम्।
- ।। बृन्दलक्षणम् ॥ - आलपतिलक्ष्म प्रतिपाद्य वक्ष्ये बृन्दं जनानन्दनमूलकन्दम् ॥ ३०५।।
कदम्बकं वादकगायकानां विदन्ति बृन्दं गणनाविशेषात्। त्रैधं तदेतत् पुनरुत्तमं च स्यान्मध्यमं चैव ततः कनिष्ठम्॥ ३०६॥
यस्मिन् भवेद्रातृचतुष्टयी च मुख्यास्तथाष्टौ समगायनाश्च। स्याद्गायनीद्वादशकं चतुष्कं तद्वांशिकानां च पुनश्चतुष्कम् ॥ ३०७॥
मार्दङ्गिकानां च भवेत्तदेतदुदीरयन्त्युत्तममेव बृन्दम्। तदर्धमानादिह मध्यमं स्याद्बृन्दं कनिष्ठस्य च लक्ष्म वक्ष्ये॥ ३०८॥।
Page 297
पपक्यन् पञ्च परित्रहांश् तद्धाविका वादकवांशिकाश्। तत्का हलाशखकवादकश्ष तन्मौहरी शङ्गकवादकश्च। ३२३।।
तथोत्तमासतालधराश्च् ये तत्परिग्रहः स्यात् कुतपस्ततस्य। आनद्धपूर्व कुतपं प्रवक्ष्ये यत्रैकको मार्दलिकश्च सुख्यः ॥ ३२४ ॥
आधं तु वादं पणवस्ततो दर्दुरस्तु तस्मात् परमेव ढक्का। मण्डी च ढक्कापि च ढक्कुली च ततः परं स्यात् पटहस्तथैव ॥ ३२५।।
तथैव चान्या करटा हुडुका ढक्का ततः स्याद्कवस तथान्या। डमर्वभिख्यो घढसश्च रुञ्जा तथा कुडुका कुडुवालिधान्या ॥ ३२६।।
निःस्वानमेर्यौ त्रिवली तथैव स्यात्तम्बकी स्यादथ बाम्बडी च। पटश्च कम्राजवसेल्लुकाश्च कांस्यादिताल: किरिकिट्टिकं च॥ ३२७ ।।
यदेवमाद्यं पुनरस्ति वादयं तद्वादकानां च पृथक्कदम्बम्। आनद्धपूर्व कुतपं वर्दन्ति नाट्यस्य वक्ष्ये कुतपं क्रमेण॥ ३२८ ॥
वराटकर्णाटकलाट गौडबङ्गालका इ्मीरक लिङ्गचोला: । समालवागुर्जरिकोङ्कणाश् देशाश्च सौराष्ट्रमुखास्तथा ये॥ ३२९॥
एतेषु जातैरमिनीतिदक्षैरनानाङ्गहारेषु विचक्षणैश्च। सुशिक्षितैस्ताण्डवलास्ययोश्च स्थाने विचित्रे विषमे च विज्ञैः ॥३३० ॥
तथोत्तमैर्मध्यमकाधमैश्र् नाट्यस्य वेद्यः कुतपोऽत्र पात्रैः। एतस्य योग कुतपत्रयस्य बृन्दं त्वभाणीद्धरतो मुनीन्द्रः ।
ततादिकस्योत्तमतादिमेदात् स्यादुत्तमादि: कुतपस्त्रिधायम् ॥ ३३१ ॥।
।। इति रघुनाथभूपरचितायां संगीतसुधायां
तृतीय: प्रकीर्णकाध्यायः समाप्तः ॥
Page 298
सङ्गातसुघायाम्
चतुर्थोऽध्यायः
संगीतशास्त्रप्रचयप्रभदे श्रुत्यादिजन्यं स्वररूपमुक्तम! अथोदितास्तत्प्रभवाश्च रागा जात्यादिगान्धर्वयुताः समग्रम् ॥१॥ जाति: कपालानि च कम्बलं च ते आ्मरागाश्च तथोपरागाः । शुद्धाश्च रागा: सकला निरुक्ता भाषाविभाषान्तरभाषिकाद्याः ॥ २॥ गान्धर्वमेतत् सकलं निरुक्तं प्रयोक्तृवर्गोऽस्य तु नन्दिमुख्याः। रागाङ्गभाषाङ्गयुतं क्रियाङ्गमुपाङ्गमेतत् खलु देशिरागः ॥ ३ ॥ चतुर्विधे तत्र तु देशिरागे गीतप्रबन्धे च सलक्षणेऽस्मिन् । वाग्गेयकारप्रमुखैः समग्रप्रयोक्तृवर्गः प्रतिपादितः प्राक् ॥४ ॥ प्रबन्धनिर्माणविशेषदक्षो वाग्गेयकारस्त्विति वर्णितं प्राक्। प्रबन्धरूपेऽवगते च पश्चाद्वाग्गेयकारस्त्वह वर्णनीयः ॥ ५॥ अतः प्रबन्धप्रतिपादनार्थ तुरीयमध्यायमुदीरयामः । यतः प्रबन्धोऽन् च गीतरूपस्ततश्च गीतं प्रथम निरुष्यम् ॥ ६॥ अत्र स्वराणामनुरक्षको यो गुम्भस्तमेतं प्रवदन्ति गीतम्। ननूदितं प्राक् स्वरलक्ष्ममध्ये स्वरस्व्ररूपे किल रञ्जकत्वम् ॥ ७॥ अतः स्वराणामनुरञ्जकत्वं विशेषणं यन्न सहामहे तत्। अत्रोच्यते तस्य विशेषणस्य व्यावर्तमेतद्विशदं यथा स्यात् ॥ ८ ॥ संदर्भमात्रे न हि रञ्जकत्वं भवेत् स्वराणामिति वेदितव्यम् । विवादिभूतस्वरमर्दनेन विना स्वरूपेण तु तत्प्रयोगे ॥ ९ ॥ संदर्भभावे सति च स्वराणां तद्रञ्जकं स्यादपि वेदितव्यम्। तस्मिन्नतिव्याप्तिनिवारणार्थ विशेषणं रञ्जनरूपमुक्तम् ॥ १० ॥ 36
Page 299
सङ्गोतसुधा
उक्तं च गीसं द्विविधं गदन्ति गान्धर्वमादं किल गानमन्यत्। गान्धर्वमुखयैः किल गीयमानं श्रेय:प्रदं लक्षणमत्र वेद्यम् ॥ ११ ॥ सिद्धं तथानादिपरंपराभिरशक्यमप्याधुनिकैरशेषैः । गान्घर्व मेतत् कथितं पुरश्ताद्वानं त्विदानी प्रतिपादयामः ॥१२॥ देशीयरागादि च लक्ष्मयुक्तं वाग्गेयकारप्रमुखेरितं च। तद्वानसामान्यमितीयन्ति श्रेयस्करं मोदकरं जनानाम् ॥१३॥
-॥। गानभेदा:॥- यद्यप्यथो गानमशेषजन्तुहर्षप्रहर्षादिमहेतुभूतम्। तथापि केषांचन किंचिदेव गानं प्रियं भिन्नरुचिर्हि लोकः॥ १४॥ प्रकारभेदं जनरञ्जनानां स्पष्ट समाचष्ट स पार्शदेवः । यदुच्चनीचस्वर संयुतः स्याद्यन्न द्रुतं नैव विलम्बितं च ॥ १५ ॥। तालानुरूपं समनामगानमाचार्येवर्यप्रियमामनन्ति। गानं क्रियाकारकशब्दयुक्तं यत्संधिदोषिण विवर्जितं च ॥ १६ ॥ व्यक्तस्वरं व्यक्तपदं तदेतव्यक्ताभिधं पण्डितरञ्जकं तत्। यदक्षरैः स्याल्ललितैरुपेतं शृङ्गारनाम्ना सहितं रसेन ॥ १७ ॥ आ्रव्येण नादेन युतं च गानं प्रियं च यूनां मधुराभिधानम्। गानत्वरैरुच्चतरैरुपेतं तथा प्रयोगे बहुलीकृतं च ॥ १८ ॥ विक्रुष्टसंज्ञं पुनरेतदेव प्रियं परेषां कथितं जनानाम्। वृत्त्यारभट्या सहितं यदेव प्रवीरसंग्रामकथोन्धटं च ॥ १९॥ स्यादुच्चनीचस्वरसंयुतं च सोत्साहगानं खलु शूरहृद्यम्। प्रमोदकं दीप्रपदैः समग्रं शृङ्गारसंज्ञेन रसेन युक्तम् ॥ २०॥ कृपारसज्ञापककाकुयुक्तं विविक्तहृद्यं करुणाख्यगानम्। पदैः परीत विपरीतरूपैः समन्वितं यत् स्वरभङ्गिभेदैः ॥२१॥ युक्तं पुनर्हास्यरसेन गाढं विटप्रियं स्यात् परिहासगानम्। गूढाभिधेयैः प्रकटायमानसंसार संभावितसौख्यमुख्यैः ॥२२॥ पदैरुपेतं यदुदाहरेयुरध्यात्मगानं खलु योगिहृद्यम्। शुभैश्र वाक्यैर्बहुलैरुपेतं स्वरेण शुद्धेन च पञ्चमेन ॥ २३॥
Page 300
प्रबन्धावयवा: २७९
गेयं विवाहादिमहोत्सवेषु वधूप्रियं मङ्गलगानमंततू। यहेवतायाः सहित स्तवेन तस्याः प्रभावप्रतिबोधनं च ॥ २४॥ आस्तिक्यसंपादकमत्र रम्यं गानं विदुर्भक्तजनादिह्द्यम्। अभ्युन्नतस्थानसमन्वितं च यढालिकं स्यादपि तालपादैः ॥२५॥ रूक्षं प्रयोगैबहुलैरुपेतं वादिप्रियं तद्विषमाख्यगानम्। इत्थं जनानामिह रञ्जनानि नानाविधान्याह स पार्थवदेवः ॥२६॥ गानं तदत्र द्विविधं निरुक्त निबद्धमेंकं त्वनिबद्धमन्यत्। षड्ङ्गधात्वांदिविवर्जनेन चालप्तिरूपं त्वनिबद्धमाहुः ॥२७॥ उद्ग्ाहमुख्यैरपि धातुवर्गैरङ्गैः स्वराधैश्च युतं निबद्धम्। तत्रानिबद्धं कथितं पुरस्तान्निबद्धमत्रैव निरूपयामः ॥ २८॥ त्रेधा निबद्धस्य भवन्ति संज्ञा वस्तुप्रबन्धोऽपि च रूपकं च। एकस्य संज्ञा बहुधा प्रवृत्तिर्निमित्तभेदादिति पार्शदेवः ॥ २९॥ चत्वार उद्ग्राहमुखा: स्वरादीन्यङ्गानि षद् चापि वसन्ति यश्मिन्। तद्वस्तुसंज्ञं कथितं निबद्धं प्रवृत्त्यभिज्ञैर्मरताग्रगण्यैः ॥ ३० ॥ चतुर्भिरत्रापि च धातुभिश्च प्रबध्यतेऽङ्गैरपि षडभिरेषः । एवं प्रबन्धार्थमुदीर्यन्ति शार्दूलशैलादिमुखा मुनीन्द्राः ॥ ३१ ॥। नामादिमारोपणमेव यस्मिन्निरूप्यते रूपकमेतदाहुः । पूर्व निरुक्तः किल धातुशब्दो गेयाभिधायीति विविच्य सम्यक् ॥ ३२ ॥ स एव चोक्तः किल धातुशब्दस्तुर्यप्रबन्धावयवाभिधायी। चतुर्विधो धातुरिह प्रबन्धे ह्युद्ग्राहमेलापकसंज्ञकौ द्वौ। ३३ ॥ ध्रुवं तृतीयं समुदाहरन्ति त्वाभोगसंज्ञः कथितस्तुरीयः । आद्यः प्रबन्धावयवः किल स्यादुद्ग्राहनामा कथितो मुनीन्द्रैः ॥३४॥ भवेत् प्रबन्धावयवो द्वितीयो मेलापकः सर्वजनप्रसिद्धः । ध्रुवः प्रबन्धावयवस्तृतीयः सर्वप्रबन्धे नियतो यतोऽयम् ॥ ३५॥ . प्रबन्धतुर्यांशमुदाहरन्ति त्वाभोगनामानममुं मुनीन्द्राः । धातुश्चतुर्घेति कथ नु संख्या ह्यस्त्यन्तराख्योऽपि च धातुरन्यः ॥ ३६ ॥। एवं च पञ्चेति निरूपणीये कथ चतुर्घेति विनिश्चयस्ते। सत्यं च धात्वन्तरवर्णनं ते सर्वानुयायी खलु नैष धातुः ॥ ३७॥
Page 301
सङ्गीतसुधा
प्रवत्तेते सालगसूडमात्रे त्वन्यन्न चत्वार इति प्रतीतम्। पित्तादिधातुन्नितयी यथा वा शरीरपोषादिविशेषहेतुः ॥ ३८॥ निर्वाहकर्वेन तथा प्रबन्धे हुद्ग्राहमुख्या: किल धातवस्ते। धातुस्वर्षपं कथयाभि सम्यग्धातुसत्वतो धारणपोषणार्थात्॥ ३९। औणादिके संप्रति कल्प्यमाने तुन्प्रत्यये धातुपदस्य सिद्धिः । उद्ग्राहमुख्यान् समुदाजहार व्युत्पत्तिपूर्व किल पार्शदेवः ॥ ४० ॥।
उद्गृह्यते येन च गीतमादावुद्ग्राहनामास्य ततः प्रतीतः । भवेद्धुवोद्ग्राहकमेलनेन मेलापकाख्यां लभते द्वितीयः ॥ ४१॥ प्रबन्धमात्रे नियतो यतोऽभूद्धुवाभिधानं लभते स धातुः । यतः प्रबन्धस्य समाप्तिरासीत् खण्डं तमाभोगमुदीरयन्ति ॥ ४२ ॥
ध्रुवस्य चाभोगविधानतो वा त्वाभोगनामानमुशन्ति सन्तः । उद्ग्राहमुख्यांश्चतुरः किलैवं व्युत्पादयामास स पार्शदेवः ॥४३ ॥ एलाप्रबन्धेऽपि च ढेङ्किकायामुद्ग्राहमुख्या नियताः प्रतीताः । नान्यप्रबन्धे नियतौ भवेतामाभोगसलापकनामघेयौ॥ ४४ ॥ पुनः प्रबन्धस्तिविधो द्विधातुराद्यस्त्रिधातुश्च भवेद्द्वितीयः । भवेच्चतुर्धातुरथो तृतीय स्त्रैविध्यमित्थं कथितं मुनीन्द्रैः ।। ४५॥
प्रबन्धनाम्न: पुरुषस्य तस्य पश्चात् षडङ्गानि निरूपयामः । आद्यः स्वरः स्याद्विरुद द्वितीयं पदं तृतीयं किल तेन्नकश्च ॥ ४६।।
स्यात् पञ्चमः पाद इति प्रतीतस्तालाभिधानं निगदन्ति षष्ठम्। प्रबन्धनाम्न: पुरुषस्य तक््य षडङ्गविन्यासविधां वदामः ॥४७॥
पदस्य चार्थप्रतिबोधकत्वात्तन्नस्य कल्याणविबोधकत्वात्। पढ़ं च तेन्नं च विलोचने द्वे प्रबन्धसंज्ञस्य च पूहषस्य ॥ ४८॥
मृदङगवीणामुरजादिजन्मा कराभिघातप्रभवस्तु पाट: । प्रत्यर्थिसेनाप्रविदारणादिर्युतस्तु हस्ताभिनयैकसाध्यः । ४९।।
तत्तादशोऽसौ बिरुदश् तौ द्वौ प्रबन्धनाम्नः पुरुषस्य पाणी। तालस्वरौ यच्चरणैकहेतू प्रबन्धनाम्नः पुरुषस्य पादौ ॥ ५०॥ तदूपकत्वेन निरूपितानां स्वरादिमानामिह लक्ष्म वक्ष्ये। स्वास्थ रूपं प्रथमे निरुकतं तद्ठाचका ये सरिगादिवर्णाः ॥।५१॥।
Page 302
एलालक्षणम् २८३
कन्दस्ततः स्यात्तुरगादिलीला गजादिलीला द्विपंदी तथैव। स्याच्चक्रवालस्तदनु प्रतीतो भवत्ययं क्रौञ्चपदाभिधानः । ७९॥ ततः स्वरार्थो ध््निकुट्टिनी तथार्या च गाथा द्विपथस्तथैव। अनन्तरं स्यात् कलहंससंज्ञः स्यात्तोटकश्चापि घट्श्च वृत्तम् ॥ ८०॥।
स्यान्मातृका रागकदम्बकं च स्यात् पञ्चतालेश्वरनामधेयः । तालार्णवश्चेति यथाक्रमेण प्रोक्ताश्चतुर्विशतिरत्र भेदाः ॥८१ ॥
एलादिमध्यस्थित एव यः स्यादेषोऽपि चालिक्रम एव वेद्यः । सूडस्थितास्त्वालिसमाश्रिताश्च द्वात्रिंशदेते मिलिताः समस्ताः ॥ ८२॥
वक्ष्यामहे संप्रति विप्रकीर्णानश्रीरङ्गनामा प्रथम: स एषु। स्याच्छीविलासस्तु भवेद्द्वितीयस्ततस्तृतीयः किल पञ्चभङ्गि: ॥८३ ।। पञ्च्ाननोमातिलकौ भवेतां त्रिपद्यभिख्यापि चतुष्पदी च। स्यात् षद्पदी वस्तुसमाह्वयश्च ततः किल स्याद्विजयाभिधानः।८४।। ततः प्रतीतस्त्रिपथाभिधेयश्चतुमुखः स्यादपि सिंहलीलः । स्याद्धंसलीलोऽपि च दण्डकश्र स्याज्झुम्बडं कन्दुकनामधेयः । ४५॥
ततः परं स्यात् कथितस्त्रिभङ्गिहेरादिमश्चापि विलासकश्च। सुदर्शनश्चापि भवेत् स्वराङ्कः श्रीवर्धनो हर्षविवर्धनश्र ॥ ८६॥ ततः परं स्याद्वदनं च चञ्चर्याख्याथ चर्याप्यथ पद्धटी च। सा राहडी चापि ततश्च वीरश्रीमेङ्गलाचार इति प्रतीतः ॥८७॥ ततः परं स्याद्धवलाभिधानः स्यान्मङ्गलश्चापि तथैव चोवी। लोली ततो डोहरिका च दन्ती षट्त्रिंशदेवं खलु विप्रकीर्णाः॥८८॥
- ।। एलालक्षणम् ॥ - एलाप्रबन्धस्य निरूपयामः सामान्यतो लक्षणमत्र सम्यक्। एलेति नाम्ना प्रथिते प्रबन्धे चत्वार एव त्रय एव वांशाः । ८९।। तत्राद्यपादे विनिवेशनीये खण्डे ह्यनुप्राससमन्विते द्वे। गेये च मातुद्वितयेन युक्ते त्वेकेन युक्ते खलु धातुना च ।। ९० ॥। खण्डद्वयं षट्सु दशस्वपि स्यात् क्रमाभिधानं पदमेषु पूर्वम्। कार्य: प्रयोगस्तद्नन्तरं स्यात् पदं तु तं मन्मथवद्द्वितीयम् ॥ ९१॥
Page 303
२८४ सङ्गीतसुधा
ज्ञेय: प्रयोगश्च वनाक्षरौवैरलप्तिरुक्ता गमकैश्च युक्ता। तश्य द्वितीयस्य पदस्य चान्ते शब्दश्च संबोधनयुक् प्रयोज्य: ॥ ९२।। अनन्तरं पल्लवसंज्ञक: स्यात् पदत्रयं तत्र खलु द्वयोस्तु। स्यादाद्ययोस्तत्र विम्लबगानपदं तृतीयं द्रुतमानगेयम्॥ ९३॥ पदत्रयं चोक्तमिदं क्रमेण कान्तं जितं मित्रमिति ब्रुवन्ति। उद्ग्राह एवं प्रथमे तु धातावाद्यो भवेत् पञ्चपद्स्तु पाद: ॥ ९४॥ एवं द्वितीयेऽपि भवन्ति पादे पदानि पञ्चैव यथाक्रमेण। विकारिसंज्ञं पदमाद्यमन्यन्मान्धातृसंज्ञं च ततस्तृतीयम् ॥ ९५॥ सुमत्यभिख्यं खलु शोभसंज्ञं तुर्य सुशोभेत्यपि पञ्चमं च। पादस्तृतीयः प्रथमाङ्घ्रिवत् स्यान्ज्ञयो भवेदत्र विशेष एषः ॥ ९६ ॥ खण्डदूयं त्वाद्यपदं प्रगाय प्रयोगसंज्ञे तदनु द्वितीये। अन्ते च संबोधयुतं तु गेयं पदं विहायैव पदान्तराणि ॥ ९७॥ न पल्लवाख्यस्य पदत्रयस्य कार्यः प्रयोग: प्रथमाङ्गिवत् स्यान्। कार्यः प्रयोगश्च पदे द्वितीये पूर्वप्रयोगस्वरगुम्भवर्जम् ॥ ९८॥ भवेत्तदन्यस्वरगुम्भयुक्तरतस्मात्तृतीये चरणे पदे द्वे। ते गीतकोपादिचिताभिधानं क्रमाल्लभेतामिति वेदितव्यम् ॥ ९९ ॥ एलाप्रबन्धेऽप्युपगच्छतां हि त्रिधातुतां द्वादशकं पदानाम् । उद्ग्राहके धातुचतुष्टयादि सोमेश्वरादेस्तु मतेपदानि ॥ १०० ॥
उद्ग्राह एकादशकं पदानां मेलापके द्वादश चैकमेव। अनन्तरं तु ध्रुवखण्डमस्य पद्त्रयं तत्र च कल्पयन्ति ॥ १०१ ॥ पद्त्रयं तत्र तु मध्यनाम्ना मानेन गातव्यमथो तृतीयम् । मानेन गानं तु विलम्बितेन स्तुतस्य नामाङ्कनमत्र कार्यम् ॥ १०२ ॥ खण्डे ध्रुवे त्रीणि पदानि तत्र विचित्रमाद्यं कथयन्ति सन्तः । स्याद्वासवाख्यं तद्नु द्वितीयं ततस्तृतीयं मृदुनामधेयम् ॥ १०३। पदेषु चादयं द्यमेकधातुस्ततस्तृतीयं किल भिन्नधातुः । आभोगधातुस्तद्नन्तरं स्याद्वाग्ेयकार: पुनरत्र खण्डे ॥ १०४ ॥ कुर्यात् स्वनाम्नश्च तथा प्रबन्धनाम्नश्च विन्यासमिह प्रबन्धे । आभोगखण्डे पुनरन्तिमं तु सुचित्रसंज्ञं सुधियो वदन्ति॥ १०५ ॥
Page 304
२८६ सङ्गीतसुधा
जिताभिधेऽम्मिन् सुमुखीपदस्य मित्राभिधानस्य शची निरुक्ता। विकारिसंज्ञस्य भवद्वरेण्या मांधातृसंज्ञस्य तु वायुवेगा ॥ ११९ ॥
सुमत्यभिख्यस्य तु वेदिनी स्याच्छोभाभिधानस्य तु मेदिनी च । जया सुशोभाख्यपदस्य सा स्याद्गौरी भवेद्रीतकनामभाजः ॥ १२० ॥
ब्राह्मी तथैवोचितसंज्ञकस्य मातङ्गिका तत्र विचित्रनाम्नः । स्याच्चण्डिका वासवनामकम्य सा देवतास्मिन् विजया मृदोस्तु ॥ १२१ ॥
चामुण्डिकान्त्यस्य सुचित्रानाम्नः षडुत्तराणां क्रमतो दशानाम् । उक्त्ा: पदानामिति देवतास्ता: प्राणान् पदानां दश वर्णयामः ॥ १२२ ॥
आद्यः समानो मधुरो द्वितीय: सान्द्रस्तृतीयोऽ्यथ कान्तसंज्ञः । दीप्तस्ततश्चैव समाहितोऽन्योऽथोऽग्राम्य उक्तः सुकुमारकोऽथ ॥ १२३ ॥ प्रसन्नसंज्ञो नवमो निरुक्त ओजस्विसंज्ञो दशमो मतोऽत्र। प्राणा दशैते कथिता विविच्योद्ग्राहादिनिष्ठेषु पदेषु योज्याः ॥। १२४ ।।
प्राणा दशैते हि षडुत्तरेषु कथं दशस्वेषु पदेषु योज्या: । संख्याविरोधादिति चेद्वदामो विविच्य सम्यक् परिहाररीतिम् ॥ १२५ ॥ द्वयोस्त्रयाणामपि चैक एव प्राणस्ततः स्यान्न विरोधशङ्का। तथा हि मांधान्रभिधानभाजो द्वितीयपादं भजतः पदस्य ॥ १२६॥
पदे किलाद्े प्रचुरप्रयोगभाजस्तथा मन्मथवत्पदस्य । भवेद्द्वितीयस्य च धातुसाम्यात् प्राणः समानाभिध एक एव ॥ १२७ ।।
द्वितीयपादस्थितपल्लवाख्यपदे किलाद्य च सुमत्यभिख्ये। आद्याङ्गिनिष्ठेषु च पल्लवेषु कान्ताभिधाने प्रथमे पदे च ॥ १२८ ।।
प्राण: स एको मधुराभिधान: प्रकीर्तितोऽयं स्वरगुम्भसाम्यात्। द्वितीयपादस्थितपल्लवाख्यपदे द्वितीये किल शोभिनाम्नि ॥ १२९॥
तथाद्यपादस्थितपल्लवस्य भवेद्द्वितीयस्य जिताभिधस्य। सान्द्राभिधान: पुनरेक एव प्राणः प्रतीत: स्वरगुम्भसाम्यात् ॥ १३०॥
द्वितीयपादस्थितपल्लवेषु तथा तृतीयस्य सुशोभिनाम्नः । आद्याङ्गिनिष्ठेषु च पल्लवषु तथा तृतीयस्य हि मित्रनाम्नः ॥ १३१ ॥
कान्ताभिधान: पुनरेक एव प्राणस्तु बोध्य: स्वरगुम्भसाम्यात्। पादत्रयेष्वेषु तथैव खण्डद्वयात्मकेषु स्वरगुम्भसाम्यात् ॥ १३२ ।।
Page 305
गणैला २८९
योगे गुरुर्विकल्पेन लघुर्मतोऽसौ। मिकारमेतांञ्चतुरश्च वर्णान् ॥ १६० ॥
सु भाषासु पञ्नर्वपि साहितीज्ञाः । नभ्रंशे स्युस्तु ऊ ओ च इमे च हुं च ।। १६१ ॥।
हक्तः सोऽप्यष्टधा स्थान्मयरा: सतौ च। णानि त्रिभिर्मतो मो गुरुभि: कवीनाम् ॥ १६२॥
यं चेच्छन्दोविदस्तं यगणं भणन्ति । गन्ति चाद्यन्तयोश्चेद्गुरुवर्णयोगः ॥ १६३ ॥।
वदन्ति मध्ये तथादौ लघुवर्णयोगे। रर्णयोगेऽप्यन्ते लघुश्चेत्तगणं तमाहुः ॥ १६४॥
ऋ्रदन्ति चादयन्तयोश्च्ेल्लघुवर्णयोगे। तमाहुर्मध्ये तथान्ते च लघुद्वयं चेत् ॥ १६५ ॥
उणन्ति वक्ष्ये स्वरूपं यगणादिमानाम् । गादिमानां ब्रूम: फलं संप्रति देवतां च ॥ १६६ ॥
गस्य गीतश्र्ोकादिषु श्रीश्च फलं प्रयोगे। ह्य तद्वद्बुद्धि: फलं चादितया प्रयोगे ॥ १६७ ॥
जस्य गीतश्ोकादिभाजः फलमन्यदेतत्। गणस्य वायुरादौ प्रयोगस्य विदेशयानम् ॥ १६८॥
गणस्य शून्यं फलं भवेत्तत्प्रथमप्रयोगे। गणे दिनेश: फलं रुजास्य प्रथमं प्रयोगे ॥ १६९॥
त यथा-कामाक्षी। गीर्वाणी। इत्यादि। हे यथा-भवानी। मृडानी। इत्यादि। गो यथा-अम्बिका । इन्दिरा । इत्यादि । णो यथा-गिरिजा। कमला । इत्यादि। णो यथा-श्रीकण्ठ। गौरीश। इत्यादि। पणो यथा-गिरीश। रमेश। इत्यादि। गणो यथा-श्रीधर । शंकर। इत्यादि । गणो यथा-गिरिश। अमर। इत्यादि ।
Page 306
एला प्राणा:
पादेषु च त्रिष्वपि दीप्तनामा प्राणो भवेदेक इते प्रतीतः । प्राणान् दशोक्तानिह लक्षयामः समानमुख्यान् विनियोगपूर्वम्।। १३३।। यस्याक्षराणि ध्वनयस्तथाल्पाः प्राणं समानाह्वयमामनन्ति। आद्याङ्गिके मन्मथवत्पदे च द्वितीयपादस्थितिभाजि तद्त् ॥ १३४ ॥ मान्धातृसंज्ञे च पदे तथैष प्राणः समानो विनियोजनीयः । यः स्वल्पया मूर्छनया समेतः प्राणोऽल्पनादो मघुराख्य एषः॥ १३५॥ स मूर्छनाया: पुनरल्पभावो घटेत तानीकरणेन सम्यक्। इढं तु तानीकरणं ह्यताने तानत्वसंपादनमासनन्ति ।। १३६ ।। तानत्वसंपादनमेतदाद्यं स्वरं तु तानस्य पुरः प्रगाय। आरोहणाद्वाप्यवरोहणाद्वा मध्यस्थितानां क्रमशः स्वराणाम् ॥ १३७ ॥
संस्पृष्टतः किंचिदिहान्तिमस्य स्वरस्य चोच्चारणमात्रतः स्यात् । आद्यद्वितीयाङ्ब्रिगयोर्विलम्बितमानयोः पल्लवकत्रयेऽपि ॥ १३८ ।।
आद्योस्तथा कान्तसुमत्यभिख्याभाजोः प्रयोज्य: पद्योरयं स्यात्। प्राणस्तृतीयः परिकीर्तितोऽयं सान्द्राभिधोऽसौ निबिडाक्षर: स्यात् ॥ १३९ !
तेनात्र संगीतविदो हि धातोरपेक्षयाधिक्यमुशन्ति मातोः । अल्पध्वनिस्तारगतिस्तथायमल्पध्वनित्वं समवेक्ष्य मातुम् ॥ १४० ॥
जायेत धातोः पुनरल्पभावादितीरितं गीतकलाप्रवीणैः । अस्मिन् पुनस्तारगतत्वरूपविशेषणस्य प्रतिपादनेन ॥ १४१ ॥
आद्यद्वितीयाङ्गिगयोर्विलम्बितमानयोः पल्लवमध्यभाजोः । पूर्वात् पदात् सम्यगनल्पसान्द्रं प्राणाश्रयत्वं प्रतिपादितव्यम् ॥ १४२॥ स्यात् कान्तनादेन समाहितत्वात् प्राणस्तु कान्तः किल कीर्तितोऽयम्। कान्तत्वमेतस्य वदन्ति रक्तिविशेषयोगादिति गानदक्षाः । १४३।। पाददवयस्था युगपल्लवान्त्यपादद्वितीया द्रुतमानयुक्त्ता। क्रमाच्च मत्ते च सुशोभिसंज्ञे प्राण: प्रयोज्यः पुनरत्र कान्तः ॥ १४४॥ स्याद्दीप्तनाद: किल दीप्तसंज्ञः संपूर्णनादेन च दीप्ततास्य। पाद्त्रयाद्येषु पदेषु खण्डद्वयात्मकेषु त्रिषु चैषु दीप्रः ॥ १४५॥ यथाक्रमं क्रामविकारिगीतसंज्ञेषु विज्ञैर्विनियोजनीयाः । प्राणस्तु षष्ठोऽत्र समाहिताख्यो वर्णो भवेत् स्थायिनि विद्यमानः ॥ १४६ ॥
Page 307
सङ्गीतसुधा
स द्वादशे तह र्चुचिताभिधाने योग्यान् स्वरान् स्थायिन एव कृत्वा। आलप्तिकायां गमकादिमायां योग्यो भवेदक्षरवर्जितायाम् ॥ १४७॥ प्राण: किलाग्राम्यपदाभिधेयो नादाक्षरावृत्तिवशेन वेद्य: । योज्यस्त्वयं मध्यलयेन युक्ते पदे ध्रुवाद्ये तु विचित्रसंज्ञ ॥ १४८॥ प्राणोऽष्टमः स्यात् सुकुमारसंज्ञो वर्णावलेनादकदम्बकस्य । तन्मूर्छनानामपि सौकुमार्यरूपेण युक्तस्तु गुणेन सोऽयम् ॥ १४९ ॥ योज्य: पदे मध्यलयेन युक्ते धुवाद्वितीये किल वासवाख्ये। प्राण: प्रसन्नो नवमः प्रतीतः पढावलेः शीघ्रमिहावबोधात् ॥ १५० ॥।
स्थानत्रयस्यापि विविक्तभावात् प्रसन्नभावाच्च वदामि मानम् । अयं ध्रुवान्त्ये च विलम्बिताढ्ये पदे नियोज्या मृदुसंज्ञके स्यात् ॥ १५१
प्राण: किलौजस्विपदाभिधेयः समासभूयस्त्वमिहौज उक्तम् । पदेषु तानेष्वपि तच्च बोध्यमितीरितं लक्षणमस्य विज्ञैः ॥ १५२ ॥
आभोगरूपे च सुचित्रसंज्ञे योज्यः प्रबन्धाद्यपदे स एषः । एलाप्रबन्धस्तु निरुक्तलक्ष्मा श्रोतुश्च गातुश्च सुखप्रदः स्यात् ॥ १५३ ॥
एलाप्रबन्धस्य निरूप्य सम्यक् साधारणं लक्षणमेवमादौ। एलाप्रबन्धस्य ततो विशेषान्निरूपयामो निपुणं क्रमेण ॥ १५४ ॥ सैषा चतुर्धा च नियुक्तलक्ष्मा पूर्वा गणैला तदनु द्वितीया। मात्रादिरेला च ततस्तृतीया वर्णैलका देशपदादिरेला ॥ १५५ ॥
- ।। गणैलालक्षणम् ॥ - तावद्रणैलां विनिरूपयामो गणः समूहः कथितो द्विधा यः । तत्रादिमो वर्णगणप्रतीतो मात्रागणस्तत्र भवेद्द्वितीयः ॥ १५६ ॥ वर्णो द्विधा तत्र गुरुर्लेुध्च गुरुं पुनस्तत्र निरूपयामः । वर्णस्त्वनुस्वारसमन्वितो यो विसर्गयुग््यञ्जनशेखरो वा ॥ १५७ ॥ दीर्घस्तथा युक्तपरोऽथ वा यः सर्वे किलैते गुरुसंज्ञयोक्ताः । पादान्तवर्ती लघुरेव वर्णो भवेद्विकल्पेन गुरु्मतोऽसौ ॥ १५८ ॥ स्यादेकमात्रो लघुरित्युपात्तो मात्राद्वयेनाथ युतो गुरुः स्यात् । गुरुरलिपौ वक्रतया विलेख्यो लघुस्तु वर्ण: सरलो विलेख्यः ॥ १५९ ।।
Page 308
एलारक्षणम् २८५
षडुत्तराणीति दश द्विवारं गीत्वा ध्रुवे न्यास इहोपदिष्टः । त्रयोदशस्यैव पदस्य चादे खण्डे ग्रहं तु प्रतिपादियाम:॥१०६ ॥
ग्रहस्त्वमुष्मिन् विदितः प्रबन्धे भवेदतीतोऽयमनागतश्च । विनैव तालं परिगृह्य गीतं सकच गीत्वा पुनरत्र तालम् ॥ १०७॥
गृहाति चेत् सोडयमतीतनामा ग्रहस्ततोऽनागतमामनामः । विनैव गीतं परिगृह्य तालं सकृच गीत्वा पुनरत्र तालमू ॥ १०८॥
प्रगृह्य चेद्गायति स ग्रहोडसावनागताख्य: कथिता मुनीन्द्रैः। तालान् प्रबन्धे प्रतिपादयामो मण्ठो द्वितीय: प्रतितालकश्च ॥ १०९॥
कङ्कालसंज्ञश्र भवन्ति तालाश्चत्वार एतांश्च निरूपयामः । मण्ठाख्यताले सगणात् परं तु चतुलेधु स्यादृपि शब्दहीनम् ॥ ११०॥
भूतद्वयं चैव लघुद्ूयं च द्वितीयताले मुनिभिनिरुक्त्तम्। कङ्कालतालस्तु चतुर्विध: स्यात् पूर्णश् खण्डा विषमः समश्र ॥ १११॥
चतुर्द्रुती पूर्वगलौ तु पूर्णेकङ्कालताले कथितस्त्वहाद्यः। द्रुतद्वयं चैव गुरुद्रयं चेत् स खण्डकङ्काल इहोपदिष्टः ॥ ११२ ।
गुरुद्वयं चेत्तु लघुद्यान्ते समादिकङ्कालममुं वदन्ति। लघोः परं यत्र गुरुद्वयं स्यात् कङ्कालमेनं विषमादिमाहुः ॥११३॥
लघू द्रुतौ च प्रतितालकेऽस्मिन् प्लुतो विरामश्च गणञ्च न स्युः । गाम्भीर्यविश्राणनशौर्यघैर्य सौन्दर्यमुख्याश्च गुणाः प्रबन्धे ॥ ११४॥
संवर्णनीयाः किल नेतुरेलासामान्यलक्ष्मत्युदितं मुनीन्द्रैः।
-।। एलामेदा: ॥ - एलाप्रबन्धे बहवः प्रभेदा: सन्ति स्फुटं तेषु च कांश्चिदेव ॥ ११५॥
व्युत्पत्तिहेतोः प्रतिपादयामः सम्यङ्मदूङ्गादिमतानुसारात्। एलेति शब्दस्य भवन्त्यकारेकारौ लकारोऽपि च वर्णभेदाः ॥ ११६॥ त
दैत्यारिदेवत्यमकारमाहुः प्रद्युम्नदेवत्यमिकारमेव । लक्ष्मीर्लकारस्य च देवता स्यादेलास्थवर्णत्रयदेवताः स्यु:॥११७ ॥
क्रमाभिधस्याद्यपदस्य तस्मिन् पद्मालया सा खलु देवता स्यात्। स्यात् पत्रिणी मन्मथवत्पदस्य कान्तस्य रञ्जन्यपि देवता स्यात् ॥ ११८ ॥
Page 309
जातिभेदाः २८१
ते च स्वरव्यक्तियुता: प्रबन्धनिरूपणेऽत्र स्वरशंब्दवाच्या: । औदार्यशौर्यादिगुणप्रशंमाशब्दं प्रभूर्णां बिरुद वदन्ति ॥ ५२ ॥ आर्यप्रसिद्धेर्बिरुदारयशब्दो न्लेच्छप्रसिद्धेरथ वा निरुक्त: । एवं प्रसक्ते सति संशयेऽस्मिन् विनिश्चितं श्रीचरणैर्विविच्य। ५३॥ विरुद्धवाची बिरुदाख्यशब्दो भवेन्महाराष्ट्रजनप्रसिद्धः । निर्जित्य शत्रून् बिरुद दधानं राजानमासाद्य सपत्नभूपाः ॥५४॥ रामार्जुनादेरिव शौर्यरीती राधासुतादेरिव दातृतेति। एतत्प्रबन्धश्रवणे तदीयचिह्नावलोके खलु ते विशुद्धाः ॥५२॥ एताहशं वीररसप्रधानं द्विषां तथोद्वेगकरं च यत् स्यात्। द्विषां विरुद्धप्रतिपादनस्य बोद्धव्यमेतद्विरुदाभिधानम् ॥५६॥ अथ क्रमप्राप्तपदं वदामो निरुक्तपूर्वाद्विरुदाच्च भिन्नः । रसान्तरेणापि समन्वितश्च यद्वाचकं तत्तु पदाभिधानम् ॥ ५७॥ तेनेतति शब्दं किल तेन्नकः स्याच्छेयःप्रदो मङ्गलवाचकश्ष । कथ तु तेन्नस्त्वह मङ्गलार्थो विहाय चोङ्कारमथेति शब्दम् ॥५८॥ अत्रोच्यते तत्त्वमसीति वाक्ये सूत्रेषु वा सत्यवतीसुतस्य। तद्ब्रह्मवाक्येऽपि च तैत्तिरीये ब्रह्मैव लक्ष्यं किल तत्पदेन ॥ ५९॥ हरो हरिश्चापि विरिञ्च्नश्र सुरास्त्रिकास्तत्पदकीर्तनेन। अतश्च गानेऽपि च तेन्नकारस्तालप्रयोगेऽपि च तत्तकारः ॥ ६० ॥ अतीव कल्याणविशेषवाची भवेदयं स्वेजनप्रसिद्धः । मृदङ्गवीणामुरजादिवाद्य समुद्ध्वानां करघट्टनेन ।। ६१ ।। दिगिद्विगीत्येव मुदीरितानां तथैव तेषां क्वणनादिमानाम्। शङ्गादिजानां किल तुत्थुगानां वाद्याक्षराणां निकरस्तु पाटः ॥६२॥ चच्चत्पुटादिस्त्विह तालसंज्ञा विविच्य चानन्तरमेव वक्ष्ये। अङ्गानि षट् तस्य निरूष्य पश्चाज्जातिप्रभेदानिह वर्णयामः ॥६३॥ षडङ्गयुक्ता खलु मेदिनी स्यादानन्दिनी पञ्नभिरन्विताङ्गैः। चतुर्मिरङ्गैः किल दीपनी स्यादङ्गत्रयेणैव तु पावनी च ॥ ६४ ॥ तारावली त्वङ्गयुगेन युक्ता संख्याविशेषात् किल नामभेदाः । मतान्तरेणापि च नाम वक्ष्ये सरूपकं सर्वजनप्रसिद्धम् ॥ ६५ ॥
Page 310
२९० सङ्गीतसुधा
स्याहेवतास्मिन् भगणे सुधांशुः कीर्ति: फलं तत्प्रथमप्रयोगे। स्याद्ेवतास्मिन्नगणे बिडौजा आदौ प्रयोगे फलमायुरस्य ॥ १७० ॥ स्वस्यापि वर्णस्य महीश्वरस्य श्रेयोऽधिकं वाञ्छति चेत् कवीन्द्रः । आदौ प्रयुञ्जीत मयौ भनौ च गणान् किलैतांश्चतुरो न चान्यान् ॥ १७१॥ छन्दोविचित्यामितरच्च षष्ठं विलोकनीयं विबुधाग्रगण्यैः । फलं गणानां प्रतिपाद्य सम्यगथाक्षराणां फलमामनामः ॥ १७२ ॥ पडुत्तराणां च भवेद्दशानां स्यादेवतानाममृतांशुरेव। आयुष्यवृद्धिर्भवतीह तेषामादौ प्रबन्धस्य किल प्रयोगे ॥ १७३ ॥ स्यान् कादयः पञ् परं कवर्गस्तद्ेवता भूमिसुतः प्रतीतः । आदौ प्रबन्धस्य तु तत्प्रयोगे कवेश्च वर्णस्य यशः फलं स्यात् ॥ १७४॥ स्याच्चादयः पञ् परं चवर्गास्तद्देवता सोमसुतः प्रतीतः । आदौ प्रबन्धस्य तु तत्प्रयोगे वर्णस्य वक्तुश्चं फलं च कीर्तिः ॥ १७५॥ स्याद्टादयः पञ्च परं टवर्गो बृहस्पतिस्तस्य तु देवता स्यात्। आदौ प्रबन्धस्य तु तत्प्रयोगे संपत् फलं संकथितं मुनीन्द्रैः ॥ १७६॥ स्यान्तादयः पञ्न परं तवर्गस्तदेवतां शुक्रमुदीरयन्ति। भवेत् प्रबन्धस्य मुखे प्रयोगे फलं तु सौभाग्यमुदीरयन्ति ॥ १७७॥ स्यान् पाठ्यः पञ्च परं पवर्गस्तदेवता चापि शनैश्चरः स्यात् । आदौ प्रबन्धस्य च तत्प्रयोगे स्यात् कीर्तिमादयं फलमित्युपेयम् ॥ १७८॥ यकारसुख्यांश्चतुरोऽपि तज्ज्ञा यवरगमाहुः किल देवतार्कः । आदौ प्रबन्धस्य तु तत्प्रयोगे फलं किलान्यन्निगदन्ति सन्तः ॥ १७९॥ शकारपूर्वांश्चतुरोऽपि वर्णाञ्शकारवर्ग समुदीरयन्ति । स्यादेवता तस्य स सैंहिकेयस्त्वन्यत् फलं तत्प्रथमप्रयोगे॥ १८०॥ इत्यष्टथा वर्णगणान्निरूप्य मात्रागणानत्र विवेचयामः ।
- ।। मात्रागणा: । मात्रा कला स्यादिह लो लघुः स्यादणाः प्रतीताः षपचास्तदौ च ॥ १८१ ॥ पाण्मात्रिको यः षगण: स वेद्यः स्यात् पञ्मात्र: पगण: प्रतीतः । चतुष्कल: स्याञ्चगण: प्रतीतो भवेत् त्रिमात्रस्तगणाभिधानः । १८२ ।।
Page 311
मात्रापस्तारः २९१
द्विमात्रिक: स्याहगण: किलैवं मात्रागणानां प्रविभाग उक्तः । नामान्तराणि प्रतिपादयामो मात्रागणानामधुना तु केषामू।। १८३ ।। चत्वारि वृत्तानि भवन्ति यान्यत्युक्ताभिधे छन्दसि तेषु ये द्वे। द्वितीयतुर्ये लघुपूर्वेके स्तः पूर्वं तयोरेव लघुर्विलेख्यः ॥ १८४॥ चत्वारि वृत्तानि वदन्ति तानि गणान् गणज्ञा रतिपूर्वकांस्ते। वृत्तानि तत्र प्रभवन्ति चाष्टौ मध्याभिधे छन्दसि तेवु यानि ॥ १८५ ॥ द्वितीयतुर्ये च तथैव षष्ठाष्टमे च वृत्तानि लपूर्वकाणि। आदौ च तेषां लिखितो लघुश्चेदष्टापि तान् कामगणान् वदन्ति ॥ १८६ ।
द्यष्टप्रतिष्ठागतवृत्तकानि भवन्त्यथैतेषु लपूर्वकाणाम्। आदौ लघुश्चेल्लिखितस्तदानीं व्यष्टापि ते बाणगणा भवन्ति ॥ १८७ ॥ इयन्ति वृत्तानि भवन्ति तत्तच्छन्दोविशेषेष्विति निर्णयामः । प्रस्तारमात्रं प्रतिपादयामश्छन्दोविचित्यादिनिरुक्तरीत्या ॥ १८८ ॥
- ।। प्रस्तारविधि: ॥ - पदे पुरा सर्वगुराविहाद्यगुरारधस्तात्तु लघुं विलिख्यात्। यथोपरिष्टाच् तथैव शेषमूने गुरूनेव लिखेत् समस्तान् ॥ १८९॥ एतद्विधानं पुनरेव कुर्याद्यावत्तु सवें लघवो भवन्ति । प्रस्तार एषोऽभिहितः समग्रमत्युक्तिका या तदुदाहरामः ॥ १९० ॥। आदौ किल द्वे गुरुणी विलिख्य लघुं लिखेदाद्यगुरोरधस्तात्। यथोपरीत्युक्त्नयेन शेषे न्यस्येद्गुरू ह्येष लगात्मकः स्थात् ॥ १९१ ॥
लघुं लिखेत् किं च गुरुं तथादावूने गुरूनित्यभिधानतः प्राकू॥ १९२॥ अयं प्रभेदो गुरुलात्मकः स्यात्तुरीयभेदं प्रतिपाद्यामः । तृतीयपङ्क्ताद्यगुरोरधस्ताल्लघुं विलिख्याथ यथोपरीति ।। १९३ ।। न्यायाल्लिखे त्तत्र लघुं परं च लघुद्वयात्मा च तुरीयभेदः । मध्याभिधे छन्दसि च प्रवक्ष्ये प्रस्ताररीतिं सुखबोधहेतोः ॥ १९४ ॥ आदौ गुरूंस्तीन् विलिखेत् क्रमेण भेदं तमेनं मगणं भणन्ति । अथाद्यपङ्कयादिगुरोरधस्तान्न्यस्येल्लघुं तत्र यथोपरीति ॥ १९५ ।।
Page 312
मात्रापस्तार: =९१
द्विमात्रिक: स्यादगण: किलैवं मात्रागणानां प्रविभाग उक्तः । नामान्तराणि प्रतिपादयामो मात्रागणानामधुनां तु केषास् ।। १८३ ।। चत्वारि वृत्तानि भवन्ति यान्यत्युक्ताभिधे छन्दसि तेषु ये द्वे। द्वितीयतुर्ये लघुपूर्वके स्तः पूर्व तयोरेव लघुर्विलेख्यः ॥ १८४ ॥ चत्वारि वृत्तानि वदन्ति तानि गणान् गणज्ञा रतिपूर्वकांसते। वृत्तानि तत्र प्रभवन्ति चाष्टौ मध्याभिधे छन्दसि तेषु यानि ॥ १८५॥
द्वितीयतुर्ये च तथैव षष्ठाष्टमे च वृत्तानि लपूर्वकाणि। आदौ च तेषां लिखितो लघुश्चेदष्टापि तान् कामगणान् वदन्ति ॥ १८६ ।। व्यष्टप्रतिष्ठागतवृत्तकानि भवन्त्यथैतेषु लपूर्वकाणाम्। आदौ लघुश्रेललिखितस्तदानीं व्यष्टापि ते बाणगणा भवन्ति ।। १८७॥। इयन्ति वृत्तानि भवन्ति तत्तच्छन्दोविशेषेष्विति निर्णयामः । प्रस्तारमात्रं प्रतिपादयामशछन्दोविचित्यादिनिरुक्तरीतया ॥ १८८ ॥
।। प्रस्तारविघि: ॥ - पदे पुरा सर्वगुराविहाद्यगुरारधस्तात्तु लघुं विलिख्यात्। यथोपरिष्टाच्च तथैव शेषमूने गुरूनेव लिखेतु समस्तान्॥ १८९॥ एतद्विधानं पुनरेव कुर्याद्यावत्तु सवे लघवो भवन्ति । प्रस्तार एषोऽभिहितः समग्रमत्युक्तिका या तदुदाहरामः ॥ १९०।। आदौ किल द्वे गुरुणी विलिख्य लघुं लिखेदाद्यगुरोरधस्तात् । यथोपरीत्युक्तनयेन शेषे न्यस्येद्गुरू ह्येष लगात्मकः स्यात् ॥ १९१ ॥ द्वितीयपङ्क चन्तगुरोरधस्तादाद्या दुरोरित्यधुनोक्त्तरीत्या । लघुं लिखेत् किं च गुरुं तथादावूने गुरूनित्यभिधानतः प्राक्॥ १९२ ॥ अय प्रभेदो गुरुलात्मकः स्यान्तुरीयभेदं प्रतिपाद्यामः । तृतीयपड्क्त्ाद्यगुरोरधस्ताल्लघुं विलिख्याथ यथोपरीति ॥ १९३ ।। न्यायालिखेत्तत्र लघुं परं च लघुद्वयात्मा च तुरीयभेदः । मध्याभिधे छन्दसि च प्रवक्ष्ये प्रस्ताररीतिं सुखबोधहेतोः ॥ १९४ ॥ आदौ गुरुंख्ीन् विलिखेत् क्रमेण भेदं तमेनं मगणं भणन्ति। अथाद्यपङ्कयादिगुरोरधस्तान्न्यस्येल्लघुं तत्र यथोपरीति ।। १९५ ।।
Page 313
२९२ सङ्गीतसुधा न्यायेन शिष्टौ तु गुरू लिखेद्द्ौ मेदं तमाहुर्यगण गणज्ञाः । द्विनीयपाङ्कस्थगुरोरथादेरधो लिखित्वा लघुमेव पूर्वम् ॥ १९६ ॥। चथोपरीतीरितरीतितो ह न्यस्येच्च शेषे तु लघुं गुरु च । स एप भेद: सगण: प्रतीतो भेदं ततः पञ्चममामनामः ॥। १९७।। चतुर्थपङ्क्तयां तु गुरोरधस्ताल्लघुं लिखित्वा तदनु क्रमेण। ऊने गुरूनित्यभिधानतः प्राग्लिखेद्गुरू द्वौ पुनरूनभागे ॥ १९८॥ स एप भेदस्तगणो निरुक्तः षठ्ठं तु भेदं तद्तु ब्रवीमि। आरेगुरो: पञ्चमपङ़क्तिभाजो लिखेद्धस्ताल्लघुमेव पूर्वम् । १९९।। यथोपरीत्युक्तिवशेन शिष्टौ गुरुं लघुं द्वौ विलिखेत् क्रमेण। भेद तमाहुजगणं गणज्ञा भेदं ततः सप्तममीरयामः ॥२००॥ गुरोर्द्वितीयस्य हि षष्ठपङ्क्तिस्थितस्य चाधो विलिखेल्लघुं प्राक् । शेषे लघुं किं च यथोपरीति न्यायाद्धस्ताद्गुरुमूनभागे॥ २०१ ॥ भेदं तमेनं भगणं भणन्ति ततोऽष्मं भेदमुदीरयामः। आदेर्गुरोः सप्मपङक्तिभाजरत्वधो लिखित्वा लघुमेव पूर्वम् ॥ २०२।। चथोपरि न्यायवशेन शिष्टौ स्यातां लघू द्वौ नगणोऽ्यमुक्त । प्रस्तारमार्गोडयमिति प्रदिष्ठश्छन्दोमुखेष्वप्यखिलेषु योज्यः ॥ २०३॥ प्रस्तारमार्ग पुनरेवमुक्कता गणैर्विचित्रान् गणयेत् प्रबन्धान्।
- ।। गणैलाः ॥ - गणैरमीभिग्रथिता गंणैलास्तिस्रो भिदास्ताञ्च ततो वदामः ॥ २०४॥ आदयातर शुद्धा कथिता ततः संकीर्णा द्वितीया विकृता तृतीया। आदयात्र शुद्धा तु भवेच्चतुर्धा नादावती प्राथमिकीह वेद्या ॥ २०५॥ हंमावती तत्र भवेद्द्वितीया नन्दावती नाम ततस्तृतीया। भद्राबती तासु भवेचतुर्थी साधारणं लक्ष्म वदामि तासाम् ॥ २०६॥ पंड च खण्डद्वय एव तासां भवेद्रणानां नियम: समस्तः । वण्डदयानन्तरमच्छयैव कार्यः प्रयोगस्तु भवेत् पदानाम् । २०७ ॥। नाधारण लक्षणमित्थमुक्का नादावतीलक्ष्म विशिष्य वक्ष्ये।
Page 314
भद्रावती ३९३
।। नादावती॥ सा पञ्भि: स्यान्दगणैरुपेता नादावतीय नगणेन चान्ते ॥ २०८॥
आद्यं तु खण्डद्ूयमेव कार्य गणैस्तु साधारणलक्ष्मरीता। स मण्ठतालेन च टक्करागे गेयस्तु नादावतिकामबन्धः ।। ०९।।
ऋग्वेदतः सा समभूच शुभ्रवर्णा तथा म्राह्मणजातिरेया। पाञ्वालिकां रीतिमुशन्ति तस्याः सा कैशिकी वृत्तिरिहोपदिष्टा ॥ २१० ॥
शृङ्गारनामा कथितो रसोऽस्या: सरस्वतीप्रीतिकरी प सेयनू।
-।। हंसावती॥ शंसामि हंसावतिकामिदानीं सा पञ्चभिः स्याद्रगणैरुपेता ॥ २११॥ समन्विता सा सगणेन चान्ते खण्डद्वयेऽयं नियमस्तु वेघ्यः । अस्या द्वितीयाख्यमुशन्ति तालं राग च हिन्दोलमुदीरयन्ति ॥ २१२॥
ज्ञेया यजुर्वेदभवा तु वर्णात् स्याल्लोहिता क्षत्त्रियजातिरेषा। वृत्तिस्तथैवारभटी च लाटी रीतिश्च रौद्रश्च रसोऽवसेय: ॥ २१३।।
प्रीत्यै नियोज्या खलु चण्डिकाया हंसावतीयं कथितानुपूर्व्यात्।
- ।। नन्दावती॥ - नन्दावतीलक्षणमीरयामः सा पञ्भिः स्याततगणैरुपेता ॥ २१४॥
अन्ते समेता जगणेन खण्डद्वये तु सोऽयं नियमः पुरोक्तः । तालस्तु तस्या: प्रतितालनामा रागो भवेन्मालवकैशिकाख्य: ॥ २१५।।
सा सामवेदादुदपादि तस्याः पीतश्च वर्णः किल वैश्यजातिः । वीरो रसः सान्वतिका च वृत्तिर्गौडी च रीतिः प्रियकृच शच्याः ॥ २१६।।
-। भद्रावती ॥ - भद्रावतीलक्ष्म भणामि सम्यक् सा पञ्चभि: स्यान्मगणैः समेता। युक्ता तथान्ते यगणेन सेयं खण्डद्वयेऽसौ नियमस्तु वेघ्य: ॥ २१७ ॥
कङ्कालताला ककुभाख्यरागा साथवेवेदादुदपादि तस्याः । कृष्णश्च वर्णः खलु शूद्रजातिरस्यास्तु वृत्तिः किल भारती सा ।। २१८॥। 38
Page 315
१९४ सङ्गातसुधा
वैदर्मिका रीतिरिहोंपदिष्टा बीभत्सनामा च रसोऽथ सिद्धः । सैषा तु वाराह्यनुमोदहेतुर्भद्रावती सेयमुदाहृतैवम्॥ २१९॥ तदवूर्णजातादिनिरूपणं च तत्तत्फलस्यातिशयाय बोध्यम्। या वृत्तयो या: खलु रीतयश्च शुद्धासु नादावतिकादिमासु ॥ २२० ॥ समीरिता: संप्रति लक्ष्म तासां संक्षिप्य वक्ष्यामि यथाक्रमेण। या वाञ्न:कायभवा हि चेष्टा पुमर्थसिद्धयौपयिका च सेयम् ॥ २२१॥ वृत्तिश्च सैषापि चतुर्विधा स्यादाद्या च तासामिह कैशिकीति। ततो भवेदारभटी द्वितीया सा सात्वती संविदिता तृतीया ॥ २२२ ॥ सा भारती स्यात् कथिता चतुर्थी क्रमेण चासामिह लक्ष्म वक्ष्ये। आद्या तु तासामतिकोमलार्थसंदर्भशालिन्यथ कैशिकी स्यात् ॥ २२३ ॥। अथ द्वितीया ह्यधिकोद्धतार्थसंदर्भवत्यारभटी तु वृत्तिः । सा सात्वती स्यात् खलु वृत्तिरीषत्प्रौढार्थसंदर्भयुता हि या स्यात्।॥ २२४ ।। सा भारतीवृत्तिरिहेयमीषन्मृद्वर्थसंदभयुता हि या स्यात्। रीतिस्तु सा संघटन पदानां भवेद्ुणालिङ्गितमेव या स्यात् ॥ २२५ ॥ सैषा चतुर्थी खलु रीतिरुक्ता पाञ्चालिकाद्या किल तासु वेद्या। वैदर्भिका रीतिरिति द्वितीया गौडी तृतीया गदिताथ लाटी ॥ २२६ ॥। भवेच्चतुर्थी पुनरीरितानां लक्ष्माणि वक्ष्ये ललितैर्वचोभिः ।
- ।। विकृतैलाः ॥- शुद्धाश्चतस्त्रः पुनरेवमेला निरूपितास्ता निपुणैर्वचोमिः ॥ २२७ ॥ ता एव वक्ष्ये तदनन्तरं संकीर्णाश्च तासां बहवो हि मेदाः ! सन्ति स्फुट लक्षणसंकरेण नैते प्रतीता: खलु लक्ष्यरीतौ ॥ २२८ ॥
अतः किलैतान् समुपेक्ष्य सर्वान् विसुच्य पश्चाद्विकृतान् वदामः । तिस्नस्तु शुद्धासु चतुर्विधासु भवन्ति नादावतिकादयो या: ॥ २२९ ॥ इमा विकारेण युता गणानां भवन्ति तिस्रो विकृताभिधानाः । गुणस्थितस्यैव गुरोर्लघोर्वा यो व्यत्ययः सोऽत्र भवेद्विकारः ॥ २३० ॥ पत्येकमेताः कलु पञ्वा स्युर्नादावतीभाग्भगणस्य चेत् स्यात्। विकारिकासौ जगगोऽथ वा स्यात्तथैव सोडयं सगणो भवेद्या ॥ २३१ ॥ हंसावतीभाग्रगणो विकारी भवेद्यदि स्यात्तगणोऽयमुक्त:। तथै सोडयं यगणोडथ वा स्यादेवं च नादावतिकागणेषु ॥ २३२॥
Page 316
विकृतैलाः २९५
पञ्चस्वपि स्याद्द्गणो विकारी यद्येककः सा खलु वासवी स्यात्। विकारिभावे भगणद्वयस्य भवेद्द्वितीया खल संगताख्या ॥ २३३॥ गणत्रयश्यापि विकारिभावात् न्रेता तृतीया कयितात्र सम्यक्। चत्वार एते भगणास्तदीय विकारिणश्चेचतुरा तुरीया ॥ २३४॥ विकारिणश्चेददगणाश्च पञ्चबाणाभिधाना खलु पञ्मीयम्। सा वासवी पञ्चविधा पुरोक्ता रामाभिधाना च मनोरमा च॥ २३५॥ स्यादुन्नता शान्तिरिति प्रतीता स्यान्नागरी तत्र च पञ्चमी च। आद्यो गणश्चेद्विकृतस्तदानीं रामाभिधाना किल वासवी स्यात् ॥ २३६॥ गणो द्वितीयो विक्वृतो यदि स्यान्मनोरमाख्या कथिता द्वितीया। गणस्तृतीयो विक्ृतो यदि स्यात्तदोन्नता नाम भवत्ततीया ॥ २३७॥
गणस्तुरीयो विकृतो यदि स्यात्तामेव शान्ति समुदाहरन्ति। स पञ्चमो वैकृतभाग्गण: स्यात् सा नागरी पञ्चमिकोदितासौ ॥ २३८॥
गणद्वयीवैकृतभाजिनी या सा संगतायास्तु मिदा दशैताः । आद्या तु तासां रमणीयनामा भवेत्तथा वै विषमा द्वितीया ॥ २३९ ॥ समा तृतीया कथिता तुरीया श्रीः पञ्च्मी तत्र च कामुकी च। कामोत्सवा तत्र भवेच्च षष्ठी स्यान्नन्दिनी तासु च सप्तमी च ॥ २४० ॥ गौरी पुनस्त्वासु तथाष्टमी स्यात् सौम्या नवम्यत्र निरूपिता च। दशम्युपात्ता रतिपूर्वदेहा त्वासां पुनर्लक्षणमामनामः ॥ २४१॥ आद्येऽपि तद्वदभ्गणे द्वितीये विकारतः स्याद्रमणीयसंज्ञा । तथैव चादे भगण तृतीये विकारतः स्याद्विषमाभिधाना॥ २४२ ।। आद्येऽपि तद्वङ्गणे तुरीये विकारतः स्यान्तु समा निरक्ता। आद्यस्य तद्वत् किल पञ्चमस्य लक्ष्मीर्निरक्ता तु विकारभावात्॥ २४३ ॥। सा नन्दिनी स्यान्द्गणे द्वितीये विकारभावात् किल पञ्चमेऽपि। गौरी मता स्याद्द्गणे तृतीये तुरीयकेऽप्यत्र विकारभावात् ॥ २४४।। सौम्या निरुक्ता भगणे तृतीये विकारिभावात् किल पञ्मेऽपि । विकारिभावाद्गणे चतुर्थे स्यात् पञ्चमी सा रतिपूर्वदेहा ॥ २४५ ॥ गणत्रयस्यापि विकारिभावात् त्रेताभिधाना खलु पूर्वमुक्ता। तस्याः प्रभेदा दशधा भवेयुस्तेष्वादिमा मङ्गलनामघेया ॥ २४६ ॥
Page 317
२९६ सङ्गीतसुधा
भवेद्द्वितीया रतिमङ्गलाख्या तथा तृतीया कलिकाभिधाना। भवेच्चतुर्थी तनुपूर्वमध्या वीरादिमा श्रीरपि पञ्चमी स्यात् ॥ २४७ ॥ षष्ठी प्रतीता जयमङ्गलाख्या सा सप्तमी स्याद्विजयाभिधाना। तेष्वष्टमी स्यात् किल रत्नमाला नवम्यथोक्ता गुरुपूर्वमध्या ॥ २४८ ॥। रतिप्रभा स्यादशमी निरक्ता क्रमेण चासामथ लक्ष्म वक्ष्ये। सा मङ्गलाद्याभरणस्य चादेस्तथा द्वितीयस्य तृतीयकस्य ॥ २४९॥ विकारतः स्यादिह तद्विकारो लघुद्वयत्वेन गुरो: कृतः स्यात्। जाद्ये द्वितीयस्य तुरीयकस्य भवेद्विकारे रतिमङ्गल ख्या ॥ २५०॥ आदेस्तृतीयस्य च पञ्रसस्य भवेद्विकारे कलिकाभिघाना। दृतीयतुर्यान्वितपञ्चमस्य भवेद्विकारे तनुपूर्वमध्या ॥ २५१॥ आदेस्तुरीयस्य च पञ्चमस्य वीरादिमा श्रीश्च विकारतः स्यात्। आदेस्तृ नियस्य तुरीयकस्य विकारतः स्याज्यमङ्गलाखुया ॥ २५२॥ आदेर्द्वितीयस्य चतुर्थकस्य विकारिभावाद्विजयाभिधेया। स्याद्रल्लमाला तु तृतीयतुयद्वितीयकानां च तथा विकारत् ॥ २५३॥ आदेर्द्वितीयस्य च पञ्चमस्य विकारिभावाद्गुरुपूर्वमध्या। रतिप्रभा सा विकृत द्वितीयातृतीययोः स्यादिह पञ्मस्य ॥२५४॥ त्रेताविभागान दश सम्यगुक्का गगत्रितय्या च विकारिभाजा। ततश्चतुर्णा विकृतेरगणानां पञ्च प्रवक्ष्य चतुरः प्रभेदान् ॥ २५५॥ आद्या भवेदुत्सवशब्दपूर्वा क्रिया महानन्दपदाभिधाना। ततस्तृतीया लहरीकृता या जया ततोऽन्या कुसुमावती स्यात् ॥ २५६ ॥ प्रियोत्सवाद्या कथिता द्वितीयादीनां चतुर्णा विक्कृतेर्गणानाम्। आदेस्तुरीयस्य च पञ्चमम्य तथा तृतीयस्य विकारिभावात् ॥ २५७॥ भवेद्द्विती यश्च महत्पदाद्या नन्दाभिधानश्चतुराप्रभेदः । आदेर्द्वितीयश्य च पञ्चमस्य तुर्यस्य वैद्या लहरी विकारात् ॥ २५८ ॥ आदेर्द्वितीयस्य च पञ्चमस्य तथा तृतीयस्य जया विकारात्। विकारिभावात् प्रथसद्वितीयतृतीयतुर्ये कुसुमावती स्यात् ॥ २५९ । एका मिदा पञ्गणीविकारे भवेदितः प्राब् उदाहरन्ति। प्रत्येकमेता: कितास्तु नादावत्यादिकस्त्रिंशदिहैकयुक्ता ॥ २६० ॥
Page 318
नन्दिमते मात्रैला २९७
एता: समस्ता मिलिता भवेयुस्तयेण युक्त नवतिः पुरोक्ता। अन्येऽपि केचिद्विकृता: प्रमेदा सवन्ति ते पञ्चदशैव तेषु ॥ २६१ ॥ पञ्ैव नादावतिकाप्रभेवास्तथैव हंसावतिकाजुषोऽपि । पञ्च्ापि नन्दावतिकाप्रभेदा नादावतीयांस्तु निरूपयानः ॥ २६२ ।। या पूर्वमुक्ता रलु संगताख्या सा तावदत्र त्रिविधावधेया। सावित्रिका पावनिका च वातसावित्रिका चेति यथाक्रमेण ॥ २६३ ।। प्रक्षिप्य सौरे जगणे तु सौरे सावित्रिका तत्र भवेत् प्रभेदः । स्याद्वायुदेवे सगणे तु तत्र प्रक्षिप्यमाणे सति पावनी स्यात् ॥ २६४॥। प्रक्षिप्यमाणे जगणे तु वातसावित्रिका स्यात् सगणे च तस्याः । या वासवी त्वेकगणे विकारयुक्ता प्रयुक्ते जगणे तु तत्र ॥ २६५ ॥ सावित्रिका स्यात् सगणे प्रयुक्ते स्यात् पावनीत्येवमभूद्द्विधा सा। वक्ष्येऽथ हंसावतिकाभिदास्ताः सा व्योमजा स्यादपि वारुणी च ॥ २६६ । सा व्योमवारुण्यपि च त्रिधैवं स्यात् संगतायां तगणे च भेदे। स्याव्योमजाथो यगणे तु वारिदेवे प्रयुक्ते सति वारुणी स्यात् ॥ २६७॥ तस्मिस्तसंज्ञे यगणद्विकत्वे सा व्योमवारुण्यभिधावसेया। या वासवीत्येकगणे विकारात् सा व्योमजा वारुणिकेति भिन्ना ॥ २६८ ॥ सा व्योमजा स्यात्तगणे प्रयुक्ते सा वारुणी स्याद्यगणान्वििता चेतू। नन्दावती पञ्विधा हि तत्र स्यात् संगता तु त्रिविधा विधेया॥ २६९॥ सा वह्निजा स्याद्रगणेडग्निदेवे वारुण्यथ स्याद्यगणेडम्बुदेवे। गणद्वयेऽस्मिन् युगपत् प्रयुक्ते स्याद्वह्विवारुण्यभिधा विधा सा ॥२७० ।। एवं निरुक्ता: खलु पञ् भेदा भेदा युताः पञ्चदशोपदिष्टाः । पुरोदितास्ते नवतिस्त्रयोऽपि सर्वे मिलित्वाष्टयुतं शतं स्यात् ॥ २७१॥ श्रीपार्वतीदर्शनतो गणैला निरूपितास्ता निपुणैर्वचोभिः।
-॥ नन्दीशमतम्॥ - नन्दीशराद्ान्तरहस्यरीत्या मात्रादिमैलां निपुणं भणामः ॥ २७२ ॥ मात्रागणैर्या मिलिता भवेयुर्मात्रादिमैला इति ताः प्रतीताः । चतुर्विधा सा रतिलेखिकाद्या स्यात् कामलेखापि च बाणलेखा ॥ २७३ ॥
Page 319
२९८ सङ्गीतसुधा
सा चन्द्रलेखापि चं तत्र वक्ष्याम्याद्यामिदानीं रतिलेखिकाख्याम्। मात्रैलिकोद्ग्राहगतस्य पादत्रयस्य चापि प्रथमे तु पादे ॥ २७४॥
एकादशोक्ता हि कला द्वितीये पादे तथैकादश तास्तृतीये। पादे भवेयुर्दश चैक्मेतैर्मात्रायुतैरेव गणैः सुपूर्णाः ॥ २७५॥
तदा भवेत् सा रतिलेखिकाख्या तां कामलेखामथ लक्षयामः । यथोचितं कामगणैः पुरोक्तः कृता भवेत् सा खलु कामलेखा ॥ २७६॥।
प्रत्येकमस्याः प्रथमे द्वितीये द्वाविंशतिश्चैव कलाः किलाप्यौ। पदे तृतीये खलु विंशतिस्ताः कलाः क्रियन्ते यदि कामलेखा ॥ २७७ ॥
आचक्ष्महे तामथ बाणलेखामाद्ये तथाङ्घ्रावपि च द्वितीये। कलास्त्रयस्त्रिंशदिमा यदि स्युस्तिंशत् कलाश्च्ैव तृतीयपादे ॥ २७८ ॥
ूर्वोदितैर्बाणगणैः स पूर्णा संख्या यदि स्यादिह बाणलेखा। तथोच्यते संप्रति चन्द्रलेखा रतेर्गणैः कामगणैश्च मिश्रैः ॥२७९ ॥
आपूर्यते बाणगणैश्च संख्या कला भवन्ति प्रथमे द्वितीये। पादे चतस्रश्च तथैव चत्वारिंशत्तृतीयेऽपि भवन्ति पादे ॥ २८० ॥
आपूर्यमाणा नियमेन चत्वारिंशत् कला सा खलु चन्द्रलेखा । मात्रादिमैला: कथयामि चान्यास्तासां भवेदिन्दुमती पुरस्तात् ॥२८१ ।।
ज्योतिष्मती चैव नभस्वती च तथैव काचिद्वसुमत्यभिख्या । यस्यां हि षड्भिर्भगणैस्तथान्ते समे यवन्भिस्तगणैस्तथाङ्घ्रौ ॥ २८२ ॥
रण्डद्वूयं तु क्रियते मुनीन्द्रैः सैषा भवेदिन्दुमती निरुक्ता। खण्डद्वयं चेत् पगणैश्च पञ्चमात्रागणैः स्याच्चगणेन चान्ते । २८३ ।।
युक्त्ैस्तथाङ्घ्रौ क्रियते भवेत् सा ज्योतिष्मतीनामसमन्वितैला। यत्रादिम: स्याच्छगणस्तथैव ततः परं स्याच्चगणत्रयं च ।। २८४ ॥।
पञ्चाद्यदि स्यात् पगणस्तथान्ते पुनश्च कश्चिच्छगणो यदि स्यात्। नभस्वतीं तां निगदन्ति सन्तस्तथाभिधास्ये वसुमत्यमिख्याम् ॥ २८५॥
अतो द्विमात्रो भगणस्ततञ्च स्यात् पञ्मात्र: पगणस्तथैव। ततश्चतुर्मात्र इति प्रतीतो निवेशनीयश्चगणस्तदन्ते ॥ २८६॥
निवेशनीयं पगणत्रयं च षाण्मात्रिकः स्याच्छगणश्च पश्चात्। ततस्त्रिमात्रस्तगण: प्रयुक्तस्त्वेतैर्गणैः खण्डयुगं यथाङ्गौ ॥ २८७॥
Page 320
अर्जुनमते मात्रैला २९९
क्रियेत सा स्याद्वसुमत्यभिख्येत्येता हि नन्दीशनिरूपितैलाः ।
- ।। अर्जुनमतम् ॥ - अथार्जुनस्यैव मतानुसारान्मात्रादिमैलाः कथयामि चान्याः ॥ २८८।।
चतुर्विधास्ताः कथयन्ति सात्रा नादावती नाम च तासु पूर्वा। तथा द्वितीया कथितात्र मात्रा हंसावती नाम ततः परं तु ॥ २८९॥
आहुस्तृतीयामथ तत्र मात्रां नन्दावती नाभ ततश्चतुर्थीम्। ततः परस्तात् कथयन्ति मात्रां भद्रावतीमित्थमिमाश्चतस्त्रः ॥२९०॥
सामान्यलक्ष्म प्रतिपादयामो यथा निरुक्तं पुनरजुनेन। गणं स्वकीयं परिहृत्य तस्य स्थाने चतुर्मात्रगणैः प्रयुक्तैकः ॥ २९१॥ एता भवन्त्यत्र यथा तु मात्रा नादावतीं तामथ वर्णयामः । यत्रादिमा: स्युश्च गणाश्च पञ्च तथैव चान्ते तगणस्त्रिमान्रः ॥ २९२॥
एतैस्तु खण्डद्वितये तु मात्रा नादावती सा खलु सद्धिरुक्ता । यदा भवेयुश्च गणाश्र सप्त तथैव चान्ते लघुरेक एव ।। २९३ ।।
धनंजयस्तां निजगाद मात्रां हंसावतीं गातृकुलावतंसः । यदा भवेयुश्च गणाश्च सप्ाप्यन्ते गुरुः स्यात् पुनरेक एव ।। २९४ ।। एतामवोचत् किल तासु मात्रां नन्दावतीमिन्दुकुलावतंसः । अष्टौ यदि स्युश्च गणास्तदन्ते त्रिमात्र एकस्तगण: प्रयुक्तः ॥ २९५ ॥
तां सव्यसाची निजगाद मात्रां भद्रावतीं भारतसार्वभौमः । इत्यर्जुनस्यात्र मतानुसारान्मान्नादिमैलाः कथिताश्चतस्रः ॥ २९६ ॥ आसां विशेषेण तु केनचित् स्युरन्याश्च संज्ञाः प्रतिपादये ताः । आसां यदाङघ्रिष्वथ काश्च मात्रा एकाथ वा द्वे च तथैव तिस्त्रः ॥ २९७ ॥। मात्राश्चतस्त्रश्च तथैव वञ् मात्राश्च पादा: क्रमशस्तदानीम्। विचित्रमात्रोपपदाः किलैलास्ततो भवन्तीति धनंजयोक्म् ॥ २९८ ॥।
अन्याश्चतस्रोऽपि भवन्ति तद्वदेलाश्च मात्रोपपदाः प्रतीताः । यदा गणानां नियमव्युदासाद्णैः समेता नियमेन हीनैः ॥ २९९ ॥
Page 321
३०० सङ्गीतसुधा
पूर्वोदितास्ता रतिलेखिकाद्या नामान्तराणीति तदा लभन्ते। नन्दिन्यभिख्या रतिलेखिकाद्या चित्रिण्यभिख्या किल काम लेखा ॥ ३०० ॥
चित्राभिधाना खलु बाणलेखा त्वन्त्या विचित्रा कलु चन्द्रलेखा। अथैलयोरादिमयोरिहाङ्गी व्यत्यासतर्त्वाद्यतृतीयरूपौ ॥ ३०१ ॥ गेयौ तृतीयप्रथमौ तु गेय: स्थाने चतुर्थस्य तदादिमोडङ्रि:। इतीरिता विंशतिरत्र सम्यङ्मात्रादिमैला भरतोक्तरीता॥ ३०२।।
। वरणैलाः ॥ वर्णादिमैलाः कथये गणश्च मात्रेति च द्वौ त्रितयौ न यत्र। या वर्णसंख्यानियमैकबद्धा वर्णादिमैला इति ता वदन्ति ॥ ३० . ॥
एताश्च्तुर्विशतिभेदभिन्नास्तासां प्रकारं प्रतिपाद्यामः । षडक्षरं पूर्वामहाङ्गिखण्डमारभ्य चैकैकविवृद्धिरीत्या ॥ ३०४ ॥।
खण्डस्त्वि है काक्षरमात्रहीनत्रिंशत्करण्डावधि चेत् क्रियेत। तदा चतुर्विशतिभेदभिन्ना वणादिमैलाः कथिताः क्रमेण॥ ३०५ ॥
तास्वेव सर्वासु षडक्षराङ्ग्खण्डौ भवेतां मधुकर्यसौ स्यात्। तथैव सप्ताक्षरकाङ्गिखण्डा सा सुरवरा नाम भवेद्द्वितीया ॥ ३०६॥
अन्या तथाष्टाक्षरकाङ्गिवण्डा भवत्ततीया करिणीति नाम। भवेत्तुरीया तु नवाक्षराङ्गिखण्डा यदि स्यात् सुरसा मता सा। ३०७॥
अङ्गेस्तु खण्डेन दशाक्षरेण प्रभञ्जनी नाम भवेत्तथान्या। तथैव चैकादश वर्णेभाजि खण्डाञ्ि्ताङ्घिर्मदनावतीयम्॥ ३०८॥
अङ्घ्रौ तु या द्वादशर्वणयुक्तखण्डान्विता सा शशिनीति वेद्या। त्रयोदशाक्षर्युपपन्नखण्डा प्रभावतीति प्रथितेयमङ्घ्रौ॥ ३०९॥
चतुर्दशाक्षर्युपपन्नखण्डा याङ्घ्रौ भवेत् सा खलु मालती स्यात्। अङ्घ्रौ तु या पञ्चदशाक्षरेण खण्डेन युक्ता ललिताभिधा सा ॥ ३१०॥
अड्घ्रौ तु या षोडशवर्णयुक्तखण्डान्विता भोगवती भवेत् सा। तथैव या सप्तदशाक्षराङ्घ्रिखण्डन युक्ता कुसुमावती स्यात् ॥ ३११ ॥
अङ्घ्रौ तु याष्टादशवणयुक्तखण्डान्त्रिता कान्तिमती च वेद्या। एकोनविंशत्युदिताक्षराङ्घ्रिखण्डान्विता स्यात् कुमुदिन्यभिख्या। ३१२॥
Page 322
......
३०२ सङ्गीतसुधषा
या लाटमावारचिता तु सेयं लाढादिमैला कथिता द्वितीया। या गौडभाषारचिता तु सेयं गौडादिमैला निपुणैर्निरुक्ता ॥ ३२६ ॥ स्यादान्ध्रभाषाग्रथिता तु सेयमान्ध्रादिमैला त्ववधारणीया। निबध्यते द्वामिडभापया या तां द्रामिडैलां निगदन्ति सन्तः ॥ ३२७ ॥ देशादिमैलासु च तासु वेद्या: पूर्वोक्तमण्ठादय एव तालाः । क्णाटपूर्वे तु भवेद्विशेषः प्रासस्तथाद्यन्तिमपूर्ववर्ती ।। ३२८।। कर्णाटकैला: प्रवदन्ति नादावत्यादिका एव परे मुनीन्द्राः । तासां विदुः षड्विधतां क्रमेण विशेषणैस्तत्र च वक्ष्यमाणैः ॥ ३२९॥
स्वयंभुवः पूर्वमुखात्तु जन्म गणाधिप: शंभुरुभौ च देवौ। आद्यावनुप्रासयुतौ च पादावुभौ तयोः कामगणौ पुरोक्तौ॥ ३३०॥ अन्ते गणः स्याद्रतिसंज्ञकश्च पादे तृतीये च तथादिमध्यौ। प्रासान्वितौ कामगणैश्चतुर्भिरन्ते च रत्याख्यगणेन युक्ताः ॥ ३३१ ॥ नादान्विता तत्र मता सुरेखा कर्णाटकैलासु मतादिमैषा। धातुर्मुखा दक्षिणतो हि जन्म सावित्रिका विष्णुगणाधिपौ च ॥ ३३२ ॥ देवा मताः कामगणा: पुरोक्ताश्चत्वार एवादिमपादयोश्च। आदावनुप्रास इहैव मध्ये ततस्तृतीयश्चरणश्च यस्याः ॥ ३३३ ।।
स स्यादनुप्रासयुतस्तथादिमध्यावसानेषु मनोहरश्र। समन्वितः कामगणाष्टकेन हंसावती सा खलु कामलेखा ॥ ३३४ ॥ स्रष्टुमुखात् पश्चिमतोऽपि जन्म गायत्रिका ब्रह्मगणाधिपौ च। देवाश्च पादेष्वपि च त्रिषु स्यादादावनुप्रासयुतश्च मध्ये॥ ३३५॥ पदे च पादे च चतुःप्रमाणा यस्या मताः कामगणा: पुरोक्ताः । नन्दावती सा खलु पूर्वभुक्त निरूपितेयं स्मरलेखिकेति॥ ३३६ ॥ उद्ङ्मुखात् पद्मभवस्य जन्म देवौ च गन्धर्वगणाधिपौ स्तः । स्यु: पादयोः कामगणा: षडाद्योरन्ते तथा बाणगणो निरुक्तः ॥ ३३७॥ अङ्घ्रयोर्मताः कामगणास्तृतीयेष्वष्टावथो यच्चरणत्रयेऽपि। प्रासश्च मध्याद्यवसानभागे भद्रावती सा खलु भद्रलेखा ॥ ३३८॥
कर्णाटकैला: सकला अपीमाश्छन्दस्वतीत्येव बुघैर्निरुक्ताः आदौ यदा कामगणास्तु पञ्च पादत्रयेऽथो रतिसंज्ञकश्च ॥ ३३९।।
Page 323
३०४ सङ्गातसुधा
सर्वेषु चैतेष्वभिधास्यमाना: स्फुटं चतस्त्रो यतयो सवन्ति। वर्णादिमैलावदिहादिलक्ष्मीः सैषा निरुक्ता वसुसंज्ञकैवम्॥ ३५४॥ अथोदिताना पुनरेवमासां संख्याविशेष: प्रतिपाद्यतेऽय। शुद्धा गणैला: प्रथमाश्चतत्त्रो नवत्युपेता विकृतास्तु तिस्रः ॥ ३५५ ॥ अन्या: पुनः पञ्दश प्रभेदा मतान्तरस्था विकृता भवन्ति। सात्रादिमा विंशतिरेव वर्णादिमाश्चतुर्विशतिरेव चोक्ताः ॥ ३५६॥ देशादिमैलासु भवन्ति कर्णाट्येला: पुरोदीरितपञ्चरीत्या। स्युर्विशतिस्तावदिमास्तथैव च्छन्दस्वतीत्वेन च विंशति: स्युः ॥ ३५७॥ एता मिलित्वा तु भवन्ति चत्वारिंशच्च कर्णाट्य इमा भवन्ति । ला्योऽपि कर्णास्य इवेह चत्वारिंशद्वन्त्येव तथैव गौड्यः ॥ ३५८ ।।
आन्ध्रचश्च तद्वदू द्रमिडादिमाश्च तद्वन्ङ्वन्तीत्यवधारणीयम् । पञ्च्ाशदेला अथ षठ् च वेद्या: शतत्रयं चेति भिदा वदन्ति ॥ ३५९ ॥
संकीर्णरूपा बहवः किलैला भवन्त्यथापीह न ता निरुक्ताः । आनन्त्यतश्चेति निरूपितोऽयमेलाप्रबन्धः खलु सप्रपञ्चः ॥ ३६० ॥
। करणप्रबन्ध: ॥ - एलाप्रबन्धं प्रतिपाद्य वक्ष्ये क्रमागतं तं करणप्रबन्धम् । सामान्यलक्ष्मास्य तु वर्णयामस्त्रिधातुबद्धस्य विवेचनार्थम्॥ ३६१॥ स्वरेण चारम्भविधिस्तथांशे न्यासो द्रुताख्येन लयेन योगः । स्यादादितालो लघुनैकेकेन युक्ोऽत्र रासापरनामधेयः ॥ ३६२ ॥ एवंविधेनैव च लक्षगेन समन्वितः स्यात् करणप्रबन्धः । स चाष्टधायं परिकीर्तितः स्यात् स्वरादिमः पाटपदादिमश्र ॥ ३६३ ॥ बन्धादिमश्चैव पदादिमश्च तेन्नादिमः स्थाद्विरुदादिमश्च। चित्रादिमो मिश्रपदादिमश्च तत्र स्वरादं करणं वदामः ॥ ३६४॥ ·उद्ग्राहको यत्र तथा घ्रुवश्च स्वरैर्निबद्धो निबिडैः पदैश्च। आभोगसंज्ञः किल नायकस्य वाग्गेयकारस्य च नामयुक्त: ॥ ३६५॥ पूर्वोक्तसाधारणलक्ष्मयुक्तो भवेत् स्वराद्ः करणप्रबन्धः । अन्येऽपपि तद्वत् करणप्रबन्धा विशेषमेषां कथयामि किंचित् ॥ ३६६ ॥
Page 324
करणप्रबन्धः ३०५
सहस्तपाटै रचितं स्वरैर्यत्तत् पाटपूर्व करणं वदन्ति । तत्तद्विधा स्यात् करणं क्रमाच्च व्यत्यासतश्चेति विधादयेन ॥ ३६७ ॥। स्वरा: पुरा चेत्तत एव हस्तपाटास्तदेनत् क्रमपाटपूर्वम । प्राग्घस्तपाटास्तदनु स्वराश्च्ेव्यसत्या सपाटाद्यमिद वन्ति ॥ ३६८ ॥ बन्धादिमं तत्करणं भणामः स्वरैश्र यस्मिन् मुरजस्य पाटैः । यथाक्रमं द्वौ रचितौ तु यद्युद्ग्राहध्रुवौ बन्धपदादिमं तत् ॥ ३६९ । स्वरैः पदैश्चैव कृता क्रमेणोद्ग्राहध्रुवौ चेत् पदपूर्वमेतत्। स्वरैश्र बन्धो बिरुदैः क्रमाच्चोद्ग्राहध्रुवौ चेद्विरुदाद्यमेतत् ॥ ३७० ॥ उद्ग्राह एकस्वरतो घ्रुवश्च स्यात्तेन्नकश्चेदिह तैन्नकाद्यम्। उद्ग्राह एकस्वरहस्तपाटैर्ध्रुवः पदर्मौरजपाटकैश्च ॥ ३७१॥ चित्रादिमं तत् करणं भणन्ति मिश्रादिमं संप्रति वर्णयामः । स्वरैः सपाटैः सह तेन्नकैरुद्ग्राहे ध्रुवे चापि च तैर्निबन्धे॥। ३७२ ।। चित्रस्य मिश्रस्य च कोडन भेद इतीरिते तत्परिहार एषः । सांकर्यमाहुस्तिलतण्डुलादेरिवाथ वा मिश्रितमेतदेव॥ ३७३ ।। चित्रत्वमुक्तं खलु शास्त्रविद्धिर्मिश्रत्वमन्यत्तु निरूपयामः । सांकर्यमेावयवव्रजस्य यत्क्षीरनीरादिवदेतदेव ।। ३७४ ।। एवं नवोक्ता: करणप्रबन्धा: पाटादिमस्य द्विविधत्वयोगात्। एते नवापि त्रिविधाः प्रबन्धा गानप्रकारस्य भवन्ति भेदात् ॥ ३७५ ॥ स्यान्मङ्गलारम्भ इहादिमस्तु ह्यानन्दपूर्व त्वथ वर्धनं स्थात्। अन्या मता कीर्तिलहर्यभिख्या तत्रादिमं तावदुदीरयामः ॥ ३७६ ॥ उद्ग्राहको यत्र तु गीयते द्विध्रुवस्तथाभोग इमौ सकृच्च । पुनर्ध्रुवाभोगयुगं सकृत्तु तं मङ्गलारम्भमुदीरयन्ति ॥ ३७७ ॥ उद्ग्राह एव द्विरथ ध्रुवस्तु सकृत्ततोऽस्य स्वरपश्चिमार्घम् । ततस्तथाभोगध्रुवोद्ग्रहाश्च यदा हि गीताः सकृदेव चेत् स्युः ॥ ३७८ ॥ आनन्दपूर्व खलु वर्धनं तमाहुस्तु संगीतकलाप्रवीणाः । स्थाने ध्रुवार्धस्य यदा मतः स्यादुद्ग्राहसंज्ञः परिगीयमानः ॥ ३७९ ॥ ततो द्वितीयार्धगतानि लक्ष्माण्यानन्दपूर्वस्य तु वर्धनस्य । एषा भवेत् कीर्तिलहर्यभिख्येत्येवं नवानां त्रिविधत्वयोगे ॥ ३८० ॥
Page 325
३०६ सङ्गीतसुधा
सप्नोत्तरा विंशतिरीरिता: स्युः सर्वे मिलित्वा करणप्रबन्धाः । तालादिकानां नियमस्य सत्वान्नियुक्तनामा करणप्रबन्ध: ॥। ३८१ ।।
खण्डस्य मेलापकनामकस्य चात्रापि राहित्यंवशात् त्रिधातु: । पूर्वोक्तरीत्या तु षडङ्गयोगात् स्यान्मेदिनीजातिरसौ प्रबन्धः ॥ ३८२ ।।
॥। ढेङ्किप्रबन्धः ॥ - निरुष्य चैवं करणप्रबन्धं ढेङ्किप्रबन्धं प्रतिपादयामः । उद्ग्राहपूर्वार्धकमेव यत्र द्विर्गीयतेऽथो सकृदुत्तरार्धम् ॥ ३८३ ॥
मेलापकः स्याद्गमकैस्तथाढ्यो विकल्पतस्ताविह तालशून्यौ। यद्वा सतालाविह सोऽपि ताल: कङ्कालनामा किल ढेङ्किका वा ॥ ३८४ ॥
युक्तौ च मानेन विलम्बितेन कार्यौ तु तावादिमखण्डकौ द्वौ। विलम्बितामन्यलयेन कार्यो कङ्कालतालेन च संयुतौ दवौ।। ३८५ ॥
अन्त्यौ ध्रुवाभोगकनामधेयौ ध्रुवोऽत्र खण्डध्रुवसंयुतः स्यात् । खण्डद्ूयं तत्र समानधातुस्तृतीयखण्ड: पुनरन्यधातु: ॥३८६॥
खण्डद्वयात्मानममुं ध्रुवं द्विर्गीत्वा किलाभोगमथो सकृच। पुनः प्रगाय ध्रुवखण्डमेनं न्यास: कृतश्चेदिह ढेड्किका सा ॥ ३८७॥
ढेङ्कयाख्यतालो रगणात्मकोऽन्र कङ्कालतालस्तु पुरा निरुक्तः। चतुर्विधा सा खलु ढेड्किका स्यान्मुक्तावली तत्र किलादिमोक्ता ॥ ३८८ ॥ स्याद्वृत्तबन्धिन्यपि युग्मिनी च सा वृत्तमाला तु मता चतुर्थी। छन्दोविहीना पुनरादिमा स्यात् सा वृत्तबन्धिन्यपि सैकवृत्ता ।। ३८९।। वृत्तद्वयाढ्या किल युग्मिनी स्यादनेकवृत्ता किल वृत्तमाला । प्रत्येकमेतासु च वृत्तबन्धिन्याद्याश्च तिस्रस्त्रिविधा भवन्ति ॥ ३९० ॥ स्याद्वर्णिकाद्या गणिका द्वितीया तथा तृतीयापि च मात्रिकाख्या। स्याद्वर्णिका वर्णभवैस्तु वृत्तैर्भवेत् परा वर्णगणोत्थवृत्तैः ॥ ३९१॥
मात्रागणोत्थैरपि मात्रिका स्यादेवं नवैतास्तु भवन्ति तिस्रः । मुक्तावलीसंमिलिता दशैता ढेङ्कयः पुनस्तास्त्रिविधा भवन्ति ॥ ३९२ ॥ आद्या समालंकरणा द्वितीया समेतरालंकरणा निरुक्ता । चित्रादिमालंकरणा तृतीयालंकारशब्दो यमकादिवाची॥ ३९३.॥
Page 326
झोम्बड:
तन्नादिमा स्याद् द्विचतुःषडादिसंख्ैरलंकारगणै: समेता। समेतरालंकरणा युता स्यादेकत्रिपश्ादिमसंख्यकैस्तैः ॥ ३९४ ॥ चित्रादिमालक्करणा तु तत्र समन्विता स्याद्विषमैः समैश्च । तालादिनैयलवशेन ढेङ्की सेय तु निर्युक्तपदाभिधेया ॥३९५॥
मेलापकस्यापि विकल्पतस्त्रिधातुश्चतुर्धातुरिहाथ वा स्यात्। तारावलीज्ातिरियं च तालपदाभिधाङ्गद्वितयीनिबन्धात् ॥ ३९६॥।
- ॥। वर्तनी ॥- ढेङ्किप्रबन्धं चतुरं निरू्य वर्तन्यमिख्यं कथये प्रबन्धम्। भवेत् स्वरादेः करणस्य लक्ष्म यदेतदेवास्य च लक्षणं स्यात् ॥ ३९७ ॥। भवेद्विशेष: परमेषु रासतालादिहान्यः कथितस्तु तालः । उदूग्राहनामा प्रथमस्तु खण्डो द्विर्गीयतेऽन्यौ तु तृतीयतुर्यौ ॥ ३९८॥ सकृदूध्रुवाभोगपदाभिधेयौ न्यासस्ततः स्याद्ध्रुवखण्ड एव । कङ्कालतालोऽत्र पुरा निरुक्तो लघुद्ुतौ च प्रतितालभाजौ ॥ ३९९॥
तालदिमानां नियमेन सोडयं निर्युक्तसंज्ञः काथतः प्रबन्धः । मेलापकाभाववशात् त्रिधातुममुं प्रबन्धं कथयन्त्यभिज्ञाः ॥ ४०० ॥। पदस्य तालस्य तथा स्वरस्य स्यात् पावनी जातिरियं निबन्धात् । कक्कालतालैः प्रतितालकैर्वा यद्वा कुडक्के प्रतिमण्ठके वा ॥ ४०१ ॥
इत्थ निबद्धा यदि वर्तनी स्याद्विवर्तनी नामवती तदानीम् । कक्कालतालस्तु पुरा निरुक्तो लघुद्ुतौ च प्रतितालभाजौ ॥ ४०२ ॥ गुरुद्वयं चापि लघुद्ूयं च कुडुकताले क्रमशो भवेताम् । लघू गुरू च प्रतिमण्ठताले यद्वा गुरू चैव लघुद्वयं च ।। ४०३ ॥ उत्क्ेत्यमुं वर्तनिकाप्रबन्धं ततः क्रमाज्झोम्बडमीरयामः ।
- ॥। झोम्बडः ॥ - द्विर्गीयते यत्र तु पूर्वमर्धमुद्ग्राहकेऽतः सकृदुत्तरार्धम् ॥ ४०४ ॥
मेलापक: स्याद्वहुलप्रयोगे विकल्पतोऽथ ध्रुवनामखण्डम्। गीत्वा द्विराभोगमथो सकृच्च न्यासे ध्रुवे झोम्बड एष वेद्यः ॥ ४०५॥
Page 327
३०८ सङ्गीतसुधा
निःसारुकश्चैव कुडुकतालो द्वितीयताल: प्रतिमण्ठतालः । स्याद्गारुगिश्च त्रिपुटं च रासोऽडुतालकोऽन्यो यतिलग्नताल: ॥४०६॥ गदेकतालीति दशैव तालाः केचित्तु मण्ठं च वदन्ति तालम्। क््ये च मण्ठो न च दशयतेऽथ निःसारुकादेरथ लक्ष्म वक्ष्ये॥ ४०७।। मशीषे तु लघुद्दर्य स्यासाले तु निःसारुकनामधेये। डुकतालस्तु एुरा निरुकी द्वितीयसण्ठप्रतिमण्ठकान्॥ ४८॥ तुर्द्रती तत्र विरामशीपा ताले भवद्रारुगिनामधेये। तत्रयं स्यान्तु विरामशीर्ष ताले निरुक्तं त्रिपुटाभिधाने ॥४०९॥ सो निरुक्तो यतिलग्नताले द्रुतो लघुः स्यात्तदनन्तरं च। थैकताल्यां द्रुत एक एवाड्डतालिके लक्षणमूहनीयम् ॥ ४१०॥ या्झोम्वडो यद्विविधो निरुक्तः स तारजातारजभेदभिन्नः। न तारजो यः पुनरत्र तारस्थानोन्द्वेन ध्वनिना समेतः ॥ ४११ ॥ वतुर्विधस्तारज एक एष तूद्ग्राहकः सैव तु तारजत्वे। मेलापकः सैव परस्तथात्वे परो ध्रुवः सैव तु तारजत्वे ॥ ४१२॥ आभोगसंज्ञस्य तु तारजत्वे भेदस्तुरीयः कथितो सुनीन्द्रैः। अतारजः स्यात् पुनरेक एव स्याज्झोम्बडः पञ्विधो मिलित्वा ॥४१३॥ स झोम्बड: पञ्चविधोऽपि च त्रिधातुश्चतुर्धातुरिति द्विधा स्यात्। तारैश्चतुर्धातुमते चतुर्धा मेलापकाभावमते त्रिधातौ ॥ ४१४ ॥ त्रिधैव भिन्ना: खलु तारजा: स्युरतारजापक्षयुगेऽपि च द्वौ। एवं मिलित्वा नवधावबद्धास्ते च द्विधा स्युर्गमकैः प्रभूतैः ॥४१५॥ यथैव वाल्पैर्गमकैर्मिलित्वा चाष्टादशैते किल झोम्बडा: स्यु: । अष्टातशैते कथिताः प्रभेदाश्चतुर्गणैः पञ्चगणैश्च योगात् ॥ ४१६॥ षड्भिस्तथा सप्तंभिरष्टभिस्ते ते पञ्चधा वर्णगणैर्निरुक्ताः । तेषां च नामानि पृथग्वदामः प्रायोगिकः प्राथमिकप्रभेदः ॥ ४१७॥ क्रमो द्वितीयः क्रमयुग्विलासो भवेत्तृतीयो ह्यपरस्तु चित्रः । विचित्रलील: किल पञ्चमः स्यात् स्याज्झोम्बडोऽस्मान्नवतिप्रभेद्ः॥४१८॥ श्रेषोपमारूपकयोगजः स्याद् ब्रह्माभिधानः किल झोम्बडोडयम्। विष्ण्वाह्नयो वीररसे तथैव स्त्रीणां विलासे च निबध्यते चेत् ॥। ४१९॥
Page 328
लम्भप्रबन्ध: ३०९
चक्रेश्वरो वीररसैकयोगाद्वभत्सयोगे तु च चण्डिकेशः । रसेऽद्भुते स्यान्नरसिंह संज्ञो भयानके भैरवनामधेयः ॥ ४२०॥
शृङ्गारहास्यद्वितयप्रधान: प्रबन्ध एषोऽपि च हंसनामा। सिंहो भवेद्वीरभयानकाभ्यां सारङ्गनामापि च विप्रलम्भे ॥ ४२१॥
शृङ्गारसंज्ञे करुणे रसे च स शेखराख्यो भवति प्रबन्धः । शृङ्गारमात्रे खलु पुष्पसारो रौद्रे प्रचण्डाह्वयवान् प्रबन्धः ॥ ४२२।।
नन्दीशसंज्ञः खलु वीरशान्तोस्त्रयोदशैते कथिताः प्रभेदाः । पूर्वोदितायां नव तावमीभिः संवर्धितानां दशभिस्तिभिश्च॥ ४२३॥
संख्यासहसत्रं किल झोम्बडानां ज्ञायेत सप्तत्यधिकं शतं च । गद्योन्दवत्वेऽपि च पद्यजत्वे ते गद्यपद्योद्द्वसंभवत्वे । । ४ २४ ।
एते पुरोक्तास्त्रिविधा भवन्ति भेदा: समस्ता अपि झोम्बडानाम्। इत्थं सहस्रत्रितयं च पश्शती दशैते किल झोम्बडाः स्यु: ॥४२५॥
निर्युक्तसंज्ञो भवति त्रिधातुर्यद्वा चतुर्धातुरयं प्रबन्धः । तालेन बद्धश्च पदैस्तथासौ तारावलीजातिरिहाङ्गयुग्मात् ॥ ४२६॥
उक्तप्रकारेण हि झोम्बडानां निरूप्य सद्यः सकलाश्च संख्याः ।
॥ लम्भप्रबन्धः ॥ - अथ क्रमप्राप्तमुदीरयामो लम्भप्रबन्धं सह लक्षणेन । ४२७ ॥।
उद्ग्राहखण्डो यदि गीयते द्विः सकृच्च वा सोऽपि किलैकबन्धः । द्विखण्डको वा क्रियते ध्रुवोऽपि द्विधा सकृद्वा यदि गीयते च ।। ४२८॥
उद्ग्राहखण्डोदितमार्गतश्चेदाभोगखण्डोऽपि च तत्र गेयः । न्यासो ध्रुवे च क्रियते तदानीं लम्भप्रबन्धं तमुदीरयन्ति ॥ ४२९॥
मतान्तरोक्त्या किल लम्भनाम्नि तस्मिन् प्रबन्धेऽपि च झोम्बडाख्ये। भागो द्वितीयो ध्रुवनामकस्य कार्यः किलोद्ग्ाहसमानधातुः ॥४३०॥
ध्रुवं द्विवारं तदनु प्रगाय चाभोगखण्डं सकृदेव गीतवा। गीत्वा ध्रुवं तं पुनरेकवारं न्यासो ध्रुवे स्यात् करणीय एव ।। ४३१।।
लम्भप्रबन्धस्य च लक्ष्म भिन्नं मन्तव्यमेतत्तु मतान्तरेण। उत्तप्रकारेण च लक्षितोऽयं लम्भप्रबन्धः पुनरष्टधा स्यात् ॥ ४३२॥ 40
Page 329
३१० सङ्गीतसुधा
उद्ग्राहखण्डस्तु विनैव तालं निबध्यते चेन्निपुणं स्वरौघैः । पूर्वोक्तलक्ष्मान्वितमेव तावदालापलम्भं तमुदाहरन्ति ॥ ४३३॥ स्थाने ध्रुवस्येतरधातुकश्चेदुद्ग्राहखण्डस्तु निबध्यते च। तदा प्रलम्भं तमुदीरयन्ति स भांगलम्भ: समुदीयेतेऽथ ॥ ४३४ ॥ मतान्तरोक्ते: किल यत्र भागे सोडयं निबन्धः स तु भागलम्भः । त्रिर्वा चतुर्वाप्युत पञ्चवारसुद्ग्राहकेणाथ विभेदभाजा॥ ४३५॥ युक्तो ध्रुवो यत्र तु गीयते तत्पुराविदो लम्भपदं भणन्ति। उद्ग्राह एक: प्रतिवारमेव ध्रुवेण भिन्नेन स गीयते चेत् ॥४३६॥ अयं मतः स्यादनुलम्भनामा तन्रोपलम्भः प्रतिपाद्यतेऽथ। प्रकीर्यमाणौ प्रतिवारमत्रोद्ग्राहस्य वा भिन्नतयोपलम्भः ॥ ४३७॥ त्रयश्च ते लम्भपदानुलम्भो वाभोगहीना ह्यनुलम्भकश्च । आभोगयोगस्तु विधान्तरे स्यात् कर्तव्य एवेति विनिश्चितोऽर्थः ॥ ४३८॥ यत्र ध्रुवाभोगविवर्जिता: स्युरुद्ग्राहकास्ते बहवः स एव। विलम्भनामा कथितोऽत्र मातोर्भेद्श्च धातोस्तु भवेदभेदः ॥४३९॥ मतान्तरोक्तेन सहैवमष्टौ भेदा निरुक्ता: किल लम्भकस्य। तालाद्यनैयत्यवशेन चायमुक्तो ह्यनिर्युक्त इति प्रबन्धः ॥ ४४०॥ पदेन तालेन च बन्धभावात्तारावलीजातिरयं हि लम्भः ।
-।। रासप्रबन्धः ॥ - लम्भप्रबन्धं प्रतिपाद्य सम्यग्रासप्रबन्धं प्रतिपादयामः ॥ ४४१॥ यल्लक्षणं झोम्बडकप्रबन्धस्थानप्रभेदं गमकांश्च मुक्क्ा। तदेव लक्ष्मास्य वदन्ति सन्तो विशेष एतस्य तु रासतालः ॥ ४४२॥ वदन्ति केचिच्चतुरो हि भेदानेतस्य तांश्च प्रतिपादयामः । शासादिम: स्याद्वलयस्तु वर्णगणैर्निबद्धः कथितः किलादयः ॥ ४४३॥ हंसादिमः स्यात्तिलकस्तु मात्रागणैर्निबद्धो भवति द्वितीयः । मात्रानिबद्धो रतिरङ्गनामा भवेत्तृतीयो गदितः प्रबन्धः ॥ ४४४॥
बद्धस्ततः स्याच्छगणेन सम्यञानीषिमान्यो मदनावतारः । चत्वार एते गणजास्तु भेदा मतान्तरे पञ् च विंशतिश्च ॥ ४४५॥
Page 330
वर्णप्रबन्धः ३११
अन्ये प्रभेदा इति केचिदाहुरेतांश्र भेदान् प्रतिपादयामः । खण्डं समारभ्य षडक्षराङ्गिमा त्रिंशदक्षयुचितांञ्च वर्णान्॥ ४४६॥ एकैकमात्राक्षरवर्धनेन पञ्ाधिका विंशतिरत्र रासाः । इतीरिता वर्णजरासमेदा रासांस्तु मात्राप्रभवान् वदामः ॥ ४४७॥ आरभ्य पादं पुनरष्टमात्रमा षष्टिमात्राच्चरणान् प्रबध्य। एकैकमात्रां किल मात्रिकास्त्वेदास्त्रिपञ्चाशदिति प्रतीताः ॥ ४४८॥ लक्ष्याप्रसिद्धेरिह रासभेदा विशिष्य नोक्ता: किल सर्व एव।
- ।। एकतालीप्रबन्धः ॥ - रासप्रबन्धं निपुणं निरप्य निरूपयामः पुनरेकतालीम्॥ ४४९॥ यत्र द्विवारं परिगीयते तूद्ग्राहध्रुवाखयायुतखण्डयुग्मम्। सकृत्तथाभोगमपि ध्रुवं च गीत्वा च ताभ्यां विसृजेद् ध्रुवेऽस्मिन् ॥ ४५० ॥ ध्रुवे किलान्यत्र तदेकतालीप्रबन्धमेनं प्रवदन्ति सन्तः । सा चैकतालेन समन्वितत्वात् स्यादेकतालीत्यवधारणीया ॥ ४५१॥ एकद्रुतात्मात्र किलैकताली भवेदिति ख्यातममुष्य लक्ष्म आलापरूपं समुदीरयन्ति चोद्ग्राहखण्डं पुनरेकताल्याम्। ४५२॥ मतान्तरे वाचकतां प्रपन्ने पदैरिहोद्ग्राहविभागकृपिः । निर्युक्तसंज्ञो भवति प्रबन्धस्तालादिमानां नियमेन सोडयम् ॥ ४५३॥ मेलापकाभाववशात् त्रिधातु: सोडयं प्रबन्धः पदतालबन्धात्। अङ्गद्वयीयुक्ततयैव सोऽयं तारावलीजातिरमुष्य वेद्या॥ ४५४ ॥ इत्युक्तरीत्या परमेकतालीप्रबन्ध एष प्रतिपादितोऽभूत्। अष्टौ मिलित्वा प्रतिपादितास्ते सूडप्रबन्धा: सुधियामभीष्टाः ॥४५५॥
। आलिक्रमप्रबन्धाः ॥ - आलिक्रमाख्यांस्तदनु प्रबन्धान् पञ्ोत्तरं विंशतिमीरयामः ।
। वर्णप्रबन्धः ॥ - उद्दिष्टमादौ किल वर्णसंज्ञं प्रबन्धमग्रे सह लक्षणेन ।। ४५६ ।। निबध्यमानो बिरुदैश्र पाटैर्वर्णाख्यतालेन समन्वितश्च। कर्णाटभाषाग्रथितश्च सोऽयं वर्णप्रबन्धः स तु वर्णनीयः ॥ ४५७॥
Page 331
सङ्गातसुधा
वर्णाख्यतालस्तिरिविधो निरुक्तस्त्रयश्रश्च मिश्रश्चतुरश्रसंज्ञः। तल्लक्षणं तावदुदीरयामो लघुर्द्रुतद्वन्द्वमतो लघू च ॥ ४५८ ॥ स्यात् त्यश्रवर्णस्त्वथ मिश्रवर्णो भवेद्विरामावधिकं द्रुतानाम्। तेषां चतुष्कं त्रितयप्लुतश्च गुरुश्च पश्चाद्द्ुतयोर्द्वयं च ।। ४५९॥ गुरुर्लघुश्चापि पुनर्गुरु्च स्यान्मिश्रवर्ण: कथितो मुनीन्द्रैः। अथामनामश्चतुरश्रवणेतालस्य लक्ष्म क्रमसंप्रदिष्टम् ॥ ४६०॥ गुरुर्लघुश्च द्रुतयोर्द्वयं च पुनर्गुरुः स्याच्चतुरश्रवर्णः । पूर्वोक्तरी त्योदित वर्णतालन्नैविध्यतोऽपि त्रििधः प्रबन्धः ॥ ४६१॥ आभोगसंज्ञस्य भवेदनुक्तेराभोगकृप्तिस्तु पदैर्विधेया। वर्णप्रबन्धस्तु भवेत् त्रिधातुस्तालादिनैयत्यवशेन सोऽयम् ॥ ४६२॥ निर्युक्तसंज्ञो भवति प्रबन्धस्तालैः पदैः स्याद्विरुदैर्निबद्धः। यत: स्तुतोऽसौ त्रिभिरन्वितः स्यादङ्गैस्तथा भावनिकाख्यजातिः ॥४६३/.
-।। वर्णस्वरप्रबन्धः ॥ - वर्णप्रबन्धं पुनरेवमुत्ता वर्णस्वरस्यापि च लक्ष्म वक्ष्ये। स्वरैश्च पाटैश्र पदैश्च तेन्नैर्निबन्धनं यस्य भवेद्यथेच्छम् ॥ ४६४॥ स्यात्तेन्नके च न्यसनं यदा स्यात्तमेव वर्णस्वरमामनन्ति। चतुर्विधः सोऽपि भवेत् स्वराणामादौ निवेशात् प्रथमस्तु भेदः ॥ ४६५॥ पाटादिमत्वेन भवेद् द्वितीय: पदादिमत्वेन भवेत्ततीयः । तेन्नादिमत्वेन भवेत्तुरीयो वर्णस्वरः स्यात् कथितश्चतुर्थः ॥ ४६६ ॥ द्वाभ्यां किलोद्ग्राहविधानमेषु द्वाभ्यां ध्रुवश्चापि विधेय एव। आभोगकृप्तिस्तु पदैरविधेया सोडयं त्रिधातुर्भवति प्रबन्धः ॥ ४६७।।
भवेदनिर्युक्ततया प्रतीतस्तालाद्यनैयत्यवशेन सोडयम्। अङ्गैः पुनः पञ्भिरन्वितः स्यादानन्दिनीजातितया प्रतीतः ॥ ४६८॥ *इत्युक्तरीत्या कथितश्च वर्णस्वरप्रबन्धः सुमनोमनोज्ञः।
॥ गद्यप्रबन्धः ॥ गद्यप्रबन्धस्य निगद्यतेऽथ लक्ष्मादि हृद्ं निरवद्यमद्य ॥ ४६९॥
Page 332
गद्यप्रबन्ध: ३१
छन्दोविहीनं पदजालमेव गद्यप्रबन्धः स तु षड्विध: स्यात्। आद्यो भवेदुत्कलिकाभिधानः स्याच्चूर्णिकाख्यश्च ततो द्वितीयः ॥ ४७०॥ अतस्तृतीयो ललिताभिधान: स्याद्वृत्तगन्ध्याह्वयवांस्तुरीयः । खण्डाभिधान: कथितोऽपर: स्याच्चित्राह्नयं षष्ठमुदाहरन्ति ॥ ४७१ ॥ षण्णाममीषां किल सामवेदादुत्पत्तिरेषामथ लक्ष्म वक्ष्ये। गेया भवेदुत्कलिका तु वीररसे च सा दीव्यति रक्तवाणी॥ ४७२ ॥ स्याद्रुद्रदेवत्यतया मतास्यां गौडीयरीतिः कथिता सुनीन्द्रैः। वृत्ति: किलान्नारभटी च वेद्या लक्ष्मानयोः प्राक् प्रतिपादितं च॥ ४७३॥ सा चूर्णिका शान्तरसे च गेया स्यात् पीतवर्णा विधिदेवता च। वैदर्भिका रीतिरिहोपदिष्टा सात्त्वत्यभिख्या खलु वृत्तिरस्याः ॥ ४७४॥ लक्ष्मोच्यते तल्ललिताभिधस्य सितोऽत्र वर्णो मदनश्च देवः । शृङ्गारनामात्र रसश्च रीतिः पाञ्ालिका कैशिकिका च वृत्तिः ॥ ४७५॥ लक्ष्मोच्यतेऽतः खलु वृत्तगन्धिसंज्ञस्य शान्तोऽत्र रसो निरुक्तः । वर्णश्च पीतो मुनिरत्र देव: पाञ्वालिका रीतिरिहोपदिष्टा ॥ ४७६ ॥ वृत्तिस्तु सात्त्वत्यभिधा परं तुपद्यैकदेशेन विमिश्रणं च। खण्डाभिधं गद्यमुदीरयामो वृत्तिस्तु सात्वत्यभिधा गणेशः ।। ४७७॥ देवोऽस्य वर्णः सित एव हास्यो रसश् वैदर्भ्यभिधा च रीतिः । चित्राख्यगद्यं प्रतिपाद्यामः शृङ्गारनामात्र रसस्तु विष्णुः ॥ ४७८॥ देवोऽस्य कृष्णाभिध एव वर्णो वैदर्मिका रीतिरिहोपदिष्टा। वृत्तिश्च्च कैशिक्यभिधात्र भेदद्वयं वदामोऽत्र मतान्तरेण ॥ ४७९॥
वेणी त्विहाद्या खलु मिश्रमन्यद्वेणी तु षड्भी रचिता पुरोक्ततैः। चूर्णैः कृतं यत् खलु वृत्तगन्धिविमिश्रितैर्मिश्रमिदं निरुक्तम् ॥ ४८० ॥ पूर्वोक्तगदयेष्वपि षड्डिधेषु षडक्ष्यमाणा गतयो भवन्ति । द्रुता गति: स्यात् कलिकाख्यभेदे चूर्णाभिधे तत्र विलम्बिता स्यात् ॥४८१॥ मध्याभिधाना ललिते गृतिः स्यात्तद्वत्तगन्ध्याह्वयशालिगद्ये। द्रुतादिमध्या गतिरीरितैव खण्डे तु सा मध्यविलम्बिता स्यात् ।४८२॥ गतिर्द्रुताद्या तु विलम्बिताख्या चित्राभिधाने खलु तत्र गद्ये। आद्या तु तत्रोत्कलिकाभिधाना भवेत् प्रबन्धैर्लघुभिर्निबध्या।। ४८३।। चूर्ण तथाल्पैर्लघुभिर्निबध्यं समैर्निबध्यं लघुभि: क्रमेण। गद्य निरुक्तं ललिताभिधानं पृथक्स्थितैस्तैर्लघुभिर्निबध्यम्।।४८४।।
Page 333
३१४ सङ्गातसुधा
तद्वत्तगन्ध्याह्वयशालिगद्यं पृथक्स्थितैस्तैर्गु रुभििस्तु खण्डम् । चित्राभिधानाह्वयवत्तु गद्यं कर्तव्यमेतल्लघुभिर्विमिश्रैः ॥४८५॥ क्रमेण तूक्तं गुरुभिस्तु वेद्यं हि तानि गद्यानि तु षडिधानि। षड्डि: समाभिगतिभिः समेताः षट्त्रिंशदेताश्च भिदा भवन्ति ॥ ४८६॥ साधारणं लक्ष्म वदाम्यमीषां पूर्वोक्तरीत्याथ च षड्डिधानाम्। उद्ग्राहखण्डः प्रथमं तु गेयश्चोंकारपूर्वः स च तालवर्जम् ॥। ४८७ ॥ युक्तश्र सवैर्गमकैः सपाटाक्षरं तया सस्वरमन्तिमे च। मध्ये तथोद्ग्राहमिमं च गीत्वा पद्द्वयं तालयुतं पृथग्द्िः ॥ ४८८। गीत्वा प्रयोगो यदि गीयतेऽत्र ततः सतालं खलु गातृनाम । वर्णस्य नामापि विलम्बितेन तन्नामनी चाप्यविलम्वितेन ।। ४८९। गीत्वा पुनश्चापि विल्बिताख्ये न्यासो यदि म्यादिह गद्यमेतत्। गद्यप्रबन्ध: कथितस्त्रिधा तु पदैः स्वरैश्चाप्यथ तालसंज्ञैः ॥ ४९०॥ अङ्गैयुतो भावनिकाख्यजातिस्तालाद्यनैयत्यवशेन सोडयम्। भवेदनिर्युक्ततया प्रतीतो गद्यप्रबन्धस्त्विति वर्णितोऽसौ ॥। ४९१॥
- ॥ कैवाडप्रबन्धः ॥ - निगद्य गद्यं त्विति सम्यगत्र कैवाडसंज्ञं त्वथ लक्षयामः । पाटाक्षरैरारचितावुभावुद्ग्राहध्रुवौ यत्र तु संभवेताम् ॥ ४९२ ॥ उद्ग्राहखण्डे परिपूर्तिरेषा कैवाडनामा कथितः प्रबन्धः । शुद्धैश्च पाटैरथ मिश्रितैश्च पाटैर्द्विधा यः प्रथितः प्रबन्धः ॥४९३॥
पाटेषु विज्ञा मुखवाद्यवर्णराहित्यमेवाहुरमिश्रितेति। मिश्रत्वमेतत् सहितत्वमेव प्रत्येकमेतच्च भवेद् द्विघैवम् ॥ ४९४॥ पाटैः सहाथैरपि चार्थहीनैरेवं चतुर्धा भवति प्रबन्धः । आभोग एवात्र तु गातृनेतृप्रबन्धनामाङ्कपदैश् गेयः ।। ४९५।। त्रिंधातुरेवायमतः प्रबन्धस्तालाद्यनैयत्यवशेन सोऽयम्। भवेदनिर्युक्त इति प्रतीतस्तालैश्र पाटैश्च पदैश्च बन्धात् ॥ ४९६।। अङ्को भवेन्ङ्ावनिकाख्य जातिकैवाडनामैव मुदीरितोऽसौ
Page 334
कन्दुप्रबन्ध: ३१५
- ।। अङ्कचारिणीप्रबन्धः ॥ सा त्वङ्कचारिण्युदितात्र वीररौद्रप्रधानैर्बिरुदैनिबद्धा॥ ४९७॥
यत्र प्रबन्धे कथितौ क्रमेणोद्ग्राहध्रुवाख्यानजुषौ तु खण्डौ। वीरस्त्रिधा स्यादिह दानवीरः संग्रामवीरश्च दयैकवीरः ॥ ४९८॥
आभोगखण्डोऽपि च दातृनेतृप्रबन्धनामाङ्कपदैरुपेतः । इत्यङ्कचारिण्युदिता प्रबन्धसामान्यलक्ष्मोदितमस्य भेदाः ॥ ४९९॥
एकेन तालेन तु यत्र चाष्टाधिकापि सम्यग्बिरुदानि नेतुः । सा वासवी यत्र तु तालयुग्माद्यष्टापि सम्यग्बिरुदानि गायेत् ॥ ५०० ॥
एषा निरुक्ता कलिकाभिधाना तालस्त्रिभिश्चेद्विरुदानि सम्यक्। द्वात्रिंशदुद्ायति सा तु वृत्ता सा त्वङ्कचारिण्युदिता तृतीया ॥ ५०१॥
तालैश्चतुर्भिबिरुदानि चेह पञ्ाशदुद्रायति चेत् क्रमेण। सा वीरवत्याह्वयसंयुता स्यादित्यङ्कचारिण्युदिता चतुर्थी ॥५०२॥
पञ्चैव ताला बिरुदानि नेतुयस्यां शतं स्याच्चतुरूत्तरं तु। वेदोत्तरा सा कथिताथ षष्ठी तालादिसंख्यानियमन हीना ॥ ५०३॥
निरूपिता जातिमती च सेयमित्यङ्कचारिण्युदितात्र षोढा। आद्यासु पञ्चस्वपि तालसंख्यासत्त्वेऽप्यनैयत्यवशात् स्वरूपे ॥ ५०४॥
वदन्त्यनिर्युक्तपदं प्रबन्धं मेलापकाभाववशात् त्रिधातुः । तालैश्र् योगाद्विरुदैः पदैश्च तर्यङ्गस्त्वयं भावनिकाख्यजातिः ॥५०५॥
- । कन्दुप्रबन्ध: । - इत्यङ्कचारिण्युदिताथ वक्ष्ये कन्दप्रबन्धं सह लक्षणेन । कर्णाटदेशादिमदेशभाषापदैर्निबन्धो न तु संस्कृतेन ॥ ५०६॥
पाटाक्षरैस्तैर्बिरुदैश् बद्धस्तालेन हीन: खलु यः प्रबन्धः । पाटैः समाप्तिं भजते तथार्यागीता कृतः कन्द इति प्रबन्धः ॥ ५०७॥
आर्यादिमार्धस्य यदेव लक्ष्म तदेव चान्तयेऽपि दले यदि स्यात्। एतेन युक्तां गुरुणािकेन त्वार्यादिगीतिं निगदन्ति सन्तः ॥ ५०८॥
आर्याख्यवृत्तस्य च लक्ष्म सम्यगन्रैव वक्ष्ये तदनुक्रमेण। उद्ग्राहमत्र प्रथमार्धमार्यागीतौ विधायैव पदैश्च गायेत्॥ ५०९॥
Page 335
३१६ सङगीतसुधा
३१४ द्वितीयमर्ध ध्रुवमेव कृत्वा पाटैश् गायेद्विरुदैश्च सम्यक्। पाटान् ध्रुवस्यादित एव सम्यक् प्रक्रम्य पश्चान्न्यसनं च कुर्यात् ॥ ५१० ॥
तालस्वरूपेण विनैव गेयः सोडयं प्रबन्धस्त्विति वर्णयन्ति। आभोगमन्राध्यथ कल्पयन्ति परैरनुक्तेषु हि सैव रीतिः ॥ ५११॥
कन्दप्रबन्धस्य मयैवमुक्तं सामान्यलक्ष्माथ च तद्विशेषाः । अमी भवेयुर्नव विंशतिञ्चाप्यार्यादिमायामथ तत्र गीतौ ॥ ५१२॥
त्रिंशस्य भङ्गेन गुरोर्निरुक्त: कन्दस्य भेद: पवनाख्य आद्यः। गुरोस्तु भङ्ग: कथितः प्रवीणैलघुद्वयापादनमेव सम्यक् ॥५१३॥
भङ्गाद्वरोः स्यान्नवविंशकस्य रव्याह्वयः कन्द इति द्वितीयः । स्यादष्टविंशस्य गुरोर्विभङ्गात् कन्दस्य भेदो धनदस्तृतीयः ॥५१४॥
स्यात् सप्तविंशस्य गुरोविभङ्गात् तुर्यस्तु हव्यादिमवाहनोऽयम् । षड्विंशरूपस्य गुरोविभङ्गात् स्यात् पञ्मोडयं सुरनाथसंज्ञः ॥५१५॥
स्यात् पञ्विशस्य गुरोर्विभङ्गात् समुद्रसंज्ञः कथितस्तु षष्ठः । भङ्गाच्चतुर्विशगुरोः क्रमेण स्यात् सप्तमोऽयं वरुणांभिधानः ॥५१६॥
तथा त्रयोविंशगुरोर्विभङ्गात् स्यादष्टमोऽयं शशिनामधेयः । द्वाविंशरूपस्य गुरोर्विभङ्गात् स्याच्छैलकाख्यो नवमोऽत्र भेद: ॥५१७॥
स्यादेकविंशस्य गुरोर्विभङ्गात् कन्दस्य भेदो मधुनामधेयः । तथैव विंशस्य गुरोर्विभङ्गात् कन्दस्य भेद: खलु माधवाख्य: ॥५१८॥
एकोनविंशस्य गुरोर्विभङ्गात् कन्दस्य भेदो मदनध्वजाख्यः । अष्टादशस्यैव गुरोर्विभङ्गात् कन्दस्य भेदस्तु जयन्तसंज्ञः ॥५१९॥
भङ्गाद् गुरो: सप्तदशस्य वेद्यः कन्दस्य भेदो मधुपाभिधानः । गुरोरविभङ्गे न तु षोडशस्य शुकाभिधानः खलु कन्दभेदः ॥ ५२०॥
भङ्गाद्गुरो: पञ्चदशस्य चैव कन्दप्रभेद: लु सारसाख्यः । चतुर्दशस्यैव गुरोर्विभङ्गात् केक्याह्वयः स्यादिह कन्दभेदः ॥५२१॥ त्रयोदशस्यैव गुरोर्विभङ्गात् कन्दस्य भेदो हरिनामधेयः । स्याद द्वादशस्यैव गुरोर्विभङ्गात् कन्दस्य भेदो हरिणाभिधानः ॥ ५२२॥ एकादशस्यैव गुरोर्विभङ्गात् कन्दस्य भेद: खलु हस्तिसंज्ञः। गुरोस्तु भङ्गाद्दशमस्य वेद्य: कादम्बसंज्ञः खलु कन्दभेदः ॥५२३॥
Page 336
तुरङ्गलीलाप्रबन्ध: ३१७ गुरोस्तु भङ्गान्नवमस्य वेद्यः कन्दस्य भेद: ख़लु कूर्मसंज्ञः। गुरोस्तु भङ्गेन किलाष्टमस्य कन्दस्य भेदो नयनामधेयः ॥ ५२४॥ गुरोस्तु भङ्गादिह सप्तमस्य कन्दस्य भेदो विनयाभिधानः । षष्ठस्य भङ्गेन गुरोर्निरुक्त: स्यादविक्रमाख्यः खलु कन्दभेदः ॥५२५॥ स्यात् पञ्मस्यापि गुरोरविभङ्गादुत्साहनामा किल कन्दभेदः । गुरोश्चतुर्थस्य च भञ्जनेन धर्माभिधानः खल कन्दभेद्षः ॥५२६॥ गुरोस्तृतीयस्य विभञ्जनेन त्वर्थाभिधानो भवतीह कन्दः । गुरोरद्वितीयस्य विभञ्जनेन कामाभिधानः खलु कन्दभेदः ॥ ५२७॥ भङ्गस्त्विहाद्यस्य गुरोन कार्यः कन्दप्रबन्धे भवतीति वेद्यः । छन्दोविशेषस्य निबन्धनेन निर्युक्तसंज्ञोऽयमिह प्रबन्धः ॥ ५२८॥ मेलापकाभाववशात् त्रिधातु: पदैश्च तालैर्बिरुदैर्निबन्धात्। त्रयङ्गो भवेद्धावनिकाख्यजाति: कन्दप्रबन्धरित्विह लक्षितोऽयम् ॥५२९॥
-।। तुरङ्गलीलाप्रबन्धः ॥ - अथोच्यतेऽयं सह लक्षणेन तुरङ्गलीलाख्य इह प्रबन्धः । तुरङ्गलीलाह्वयतालकेन निरूप्यते सात्र तुरङ्गलीला ॥ ५३० ॥ विरामशीर्षात् त्रितयद्रुतान्तु द्रुतद्वयं स्यान्तु तुरङ्गलीला। तालो मतस्तत्सहितः प्रबन्धस्तुरङ्गलीलेति मता द्विधा सा ।। ५३१। गद्योन्दवा पद्यभवेति चैव पद्योद्दवा तत्र चतुर्विधा स्यात्। पूर्वाधमेवेप्सिततालयुक्तं यदा तदा स्यादिह चाद्यभेदः ॥ ५३२ ॥ तत्रोत्तरार्धे किल तालयुक्ते भेदो द्वितीयो हयलीलकायाः । अर्धद्वयं चैव हि तालयुक्तं यदा तदा तत्र तृतीयभेदः ॥ ५३३॥ भेदत्रये तत्र विशेषितः स्यादार्यात्रयेणैव पुनर्निबद्धः। आद्यं दलं चेत् सपदैः सतालं स्वरैस्तथैवारचितं यदि स्यात् ॥५३४॥ तथोत्तरार्ध बिरुदैः सतालैर्विरच्यते चेत् स चतुर्थभेदः । एवं भवेयुर्हि तुरङ्गलीलागद्योन्द्वा चापि चतुष्प्रकारः ॥ ५३५ ॥. स्याच्छन्दसा तत्र तुरङ्गलीलानाम्ना निबन्धं तुरगादिलीलाम्। प्रबन्धमाहुस्तुरगादिलीलाच्छन्दोऽभिधास्ये सह लक्षणेन । ५३६ ॥
Page 337
३१८ सङ्गातसुधा
पादे यदीये नगणस्तथाद्यो भवेद् द्वितीयो जगणस्ततश्च। पुनश्च तद्वन्ङ्गणो यदि स्यान्ध्वेद् द्वितीयो जगणस्ततश्च ॥ ५३७॥।
पुनश्च तद्वङ्गणो लगौ च त्वेकादशे द्वादशके यतिः स्यात्। वृत्तं तदेतद्धयलीलमुक्तमेतत्प्रणीतं हयलीलमाहुः ॥ ५३८॥
तुरङ्गलीलाह्वयकस्य भेद: संहत्य सम्यङ् नवधा निरुक्तः । एषां नवानामपि ताल एकस्तुरङ्गलीलाभिध एव वेद्य: ॥ ५३९॥
आर्यानिबन्धस्य तुरङ्गलीलाच्छन्दोनिबन्धस्य च वस्तुनो वा। गद्यस्य चाद्यावयवस्तथैवमुद्ग्राहरूपेण हि कल्पनीयः ॥ ५४० ॥
सर्वेषु चैतेषु तदुत्तराङगे ध्रुवात्मना चैव हि कल्पनीयः । आभोगकृप्तिस्तु पदैरिह स्यात्तदूर्णनाम्नाङ्कनवद्धिरेव ।। ५४१ ।। अतस्त्रिधातुश्च भवेत् प्रबन्धस्तालादिनैयत्यवशेन सोडयम्। निर्युक्तनामा च पदैः स्वरैश्च तालैर्निबन्धाद्विरुदैश्च् सम्यक् ॥५४२॥
स दीपनीजातियुतो हि वेद्यो यतः प्रबन्धश्चतुरङ्गबन्धः । तालैः पदैश्चापि निबध्यमानस्तारावलीजातियुत्ोऽपि वेद्यः ॥ ५४३॥
-।। गजलीलाप्रबन्धः ॥ - तुरङ्गलीलां निपुणं निरूष्य गजादिलीलामथ वर्णयामः । निबध्यते या गजलीलकेन तालेन सेयं गजलीलका स्यात्॥५४४॥
विरामशीर्ष हि भवेल्लघूनां यस्मिंश्चतुष्कं स गजादिलीला। छन्दो विनास्मिन् किल वेदनीयं तुरङ्गलीलावदशेषमन्यत्॥५४५॥
-।। द्विपदीप्रबन्धः ॥ - निरूपयामो द्विपदीप्रबन्धं तालेन या स्यात् कारुणाह्वयेन। विरच्यते सा द्विपदी प्रतीता तालश्र सोऽयं गुरुणैककेन ॥ ५४६॥
चतुर्विधेयं गदिता चतुर्धो खण्डा च मात्रादिरथापि पूर्णा । पादे यदीये छगणो यतः षण्मात्रायुतः स्यु्भेगणाञ्च पञ्च ।। ५४७।।
अन्ते गुरुः स्याज्जगणं तु षष्ठद्वितीयकौ चैवमिहान्यपादाः । पाद्द्वयं ते प्रवदन्ति चान्ये स्वरप्रयोगं द्विपदीप्रबन्धे ॥ ५४८॥
Page 338
चक्रवालप्रबन्ध: ३१९
चतुर्षु पादेषु भवेदिहाद्ये पाददवयं चेन्नियतं हि लक्ष्म। तथोत्तरे चानियतं हि पादद्वये तदा स्यादियमेव खण्डा ॥ ५४९॥ स्थाने गुरुः षष्ठगणस्य यत्र मात्रादिसंज्ञा द्विपदी निरुक्ता शुद्धैव पूर्णा गुरुणाधिकेन विरच्यते या प्रतिपादमेषः ॥५५० ॥ एवंविधा सा द्विपदी चतुर्धा सा मानवी तन्न भवेदिहाद्या। सा चन्द्रिका तत्र भवेद् द्वितीया धृतिस्तृतीयाप्यपरापि तारा ॥ ५५१॥ षण्मात्रिकेण च्छगणेन पादाश्चतुष्कलायुक् च गणद्वयेन। कृते भवेयुर्यदि मानवी सा तां चन्द्रिकामप्यथ लक्षयामः ॥५५२॥ तत्पञ््मात्रौ यगणौ च यस्या वर्णात्मकः स्यान्नगणस्ततश्च। अन्ते लघुश्चापि गुरुस्तथैव पादेषु सोक्ता खलु चन्द्रिकेति ॥५५३॥ आदौ यदि स्याच्छगणस्त्रयश्च गणाञ्चतुमात्रतया प्रतीताः । पादेषु यस्या धृतिरीरितासी यस्याः पुरस्ताच्चरणस्ततञ्च् ॥ ५५४॥ चत्वार उक्ता यगणास्तथान्ते गुरुश्र पादेष्वियमेव तारा। यद्यप्यसौ पादचतुष्टयीयुक तथा विवाद: क विवक्षयार्धे ॥ ५५५॥ संलक्षणीया द्विपदित्वमाप्तेत्यष्टौ द्विपद्यः कथिता: क्रमेण।
- ।। चक्रवालप्रबन्धः ॥- निरुष्य चैवं द्विपदीप्रबन्धं स चक्रवालोऽपि निरुप्यतेऽथ ॥ ५५६॥ वर्णव्रजो यः खलु पूर्वपूर्वपदावसाने परिवर्तमानः । आदौ स्थितोऽसौ यदि चेत् पदस्योत्तरोत्तरस्यैष तु चक्रवालः । ५५७ । उद्धाहखण्डे ध्रुवके च वर्णवृत्तिष्वियं स्यान्नियमेन कार्या। आभोगखण्डेऽनियतेन चेयं स चक्रवालो द्विविधो मतोऽसौ ॥ ५५८ ॥ गद्योन्दव: पद्यभवस्तथासौ मेलापकाभाववशात् त्रिधातुः । तालादिनैयत्यवशात्तमेवानिर्युक्तसंज्ञां भजते प्रबन्धः ॥ ५५९॥ पदैश्व तालैश्च निबद्धभावात्तारावली जातिरसौ निरुक्तः ।
Page 339
२० सङ्गीतसुधा
निरुष्य चैवं खलु चक्रवालं क्रमात्ततः कौञ्पदं वदामः ॥ ५६०॥
उद्राहखण्डो गदितः स्वरैश्च ध्रुवाख्यखण्डस्तु पदैर्निबद्धः । लघुद्रुतद्वन्द्वसमन्वितेन यस्मिन्निबद्धः प्रतितालकेन ॥५६१॥
उद्गाहमारभ्य भवेत् स्वरेषु न्यासो मतः क्रौञ्पदाभिधोडसौ। स च द्विधा क्रौञ्नपदाभिधोऽसौ स्याच्छन्दसा तद्रहितो द्वितीयः ॥ ५६२॥
निरूष्यते क्रौञ्पदाभिधस्य वृत्तस्य लक्ष्मास्य निवेदितं तत्। आदौ प्रयुक्तों भगणस्तथैव पादे निरुक्ते मगणस्ततोऽन्यः ॥ ५६३।। सभौ गणौ स्तो नगणाश्च यत्र चत्वार उक्ताश्च गुरुस्तदन्ते। छन्दो मतं क्रौञ्पदाभिधं तदाभोगकृप्तिस्तु पदैरिह स्यात् ॥ ५६४॥ मेलापकाभाववशात् त्रिधातुस्तालादिनैयत्यवशात् प्रबन्धः । निर्युक्तसंज्ञश्र पदैः स्वरैश्च तालैर्भवेद्धावनिकाखयजातिः ॥५६५॥
- ॥! स्वरार्थेप्रबन्धः ॥ एवं क्रमात् क्रौञ्चपदं निरूष्य ततः स्वरार्थाह्वयमामनामः । स्वराक्षरैर्यत्र मतः समस्तो विवक्षितोऽर्थः प्रतिपादितः स्यात् ॥५६६॥
यस्मिन् स्वरार्थः स निगद्यतेऽत्र प्रबन्ध एवं द्विविधो निरुक्तः। आद्यस्तु शुद्धः खलु मिश्रकोऽन्यः शुद्धस्वरार्थ प्रतिपाद्यामः ॥५६७॥
शुद्धस्वरैः स्यादथितः स एष शुद्धस्वरार्थो मुनिभिर्निरुक्तः । स्वरैस्तु वर्णान्तरमिश्रितैश्चेत् कृतः स्वरार्थः स हि मिश्रनामा ॥५६८॥
उद्राहके तत्परिपूर्तिरिष्ठा भवन्ति तस्यैव तु सप्त भेदाः । एकस्वरश्चैकपदं स आद्यः स्वरद्वयं त्वेकपदे द्वितीयः ॥ ५६९॥
स्वरत्रयैकत्वपदे तृतीयश्चतुष्टये चैकपदे स्वराणाम्। भेद्श्चतुर्थः कथितो हि पञ्स्वरे पदे पञ्चम एष भेदः ॥ ५७० ॥
पादे मतः षट्स्वरके तु षष्ठः सप्तस्वरे चैव तु सप्तमः स्यात्। शुद्धे स्युरेवं किल सप्त भेदा मिश्रेऽपि तावन्त इमे भवन्ति ॥५७१॥
ते द्विस्वराद्यान्तु षडेव शुद्धा मिश्राश्च तद्वच्च षडेव ते स्युः । इमे पुनर्द्वादश च क्रमेण तथैव च व्युत्क्रमतो भवन्ति ॥ ५७२॥
Page 340
आर्याप्रबन्धः ३२१
अनेकमेदा इह शुद्धमिश्रद्वयस्य चैकस्वरकस्य कितु। अनुक्रमव्युत्क्रमयोरभावादेकस्वरे नास्ति हि मेदलेशः ॥५७३॥
गेयाविहैवं नियमेन चैवोद्राहध्रुवौ तत्र पुनः पदैः स्यात्। आभोगक्लप्तिस्तु मता ततश्च त्रिधातुकोडयं भवति प्रबन्धः ॥ ५७४॥
तालाद्यनैयत्यवशेन सोडयं भवेदनिर्युक्त इति प्रतीतः । पदैश्च तालैश्च निबध्यमानस्तारावलीजातिरियं प्रबन्धः ॥ ५७५॥
स्वरप्रयोगे खलु वाचकत्वात्तषां च नैव स्वरबन्धभावः । स्वरार्थमुत्तैवमिह प्रबन्धं निरूपयामो ध्वनिकुट्टिनीं ताम् ॥५७६॥
- ॥ ध्वनिकुट्टिनीप्रबन्धः ॥ - उद्राहतालो भवतीह भिन्नो ध्रुवे तु तालस्तदुभावपीमौ। मण्ठाच् कङ्कालकतो विभिन्नौ तालौ भवेतां समसंख्यकोऽसौ ॥ ५७७॥
मात्रासु जायेत यतिश्च मेलापकस्तु तत्र क्रियतां न वायम्। ज्ञेयस्तु सोडयं ध्व्रनिकुट्टिनी तु मेलापकाभाववशात् त्रिधातुः ॥ ५७८॥
तालस्य नैयत्यवशेन सेय निर्युक्तरूपा ध्वनिकुट्टिनी स्यात्। तारावली स्यात् पदतालबन्धादित्येवमुक्ता ध्व्रनिकुट्टिनीयम् ॥५७९॥
निरूप्य सम्यग्ध्वनिकुट्टिनीं तामार्याप्रबन्धं प्रतिपादयामः ।
- ।। आर्योप्रबन्धः । अर्थस्य यद्वा चरणस्य चान्ते न्यस्येत् स्वरांस्तान् सरिगादिरूपान् ॥ ५८० ।।
आर्याभिधच्छन्दस एव तत् स्यादर्धद्वयं द्विः खलु गेयमाद्यम्। अर्ध द्वितीयं सकृदेव गेयं तत्रायमुद्गाहमुशन्ति चाद्यम् । ५८१॥
अर्ध द्वितीयं ह्यपखण्डमाहुराभोगखण्डे पुनरत्र खण्डे। निबन्धनीयानि च गातृनेतृप्रबन्धनामानि हि गातृमुख्यैः ॥५८२॥
न्यस्येत्तथोद्वाह समाह्वखण्डे त्वार्याभिधानो यदिह प्रबन्धः । षड्विंशतिस्तस्य भवन्ति भेदा लक्ष्म्यादयस्तत्र वदामि लक्ष्मीम् ॥५८३॥ आर्यास्वरूपं तु निरूपयामस्तदर्थमादौ प्रथमे यदर्षे। गणा भवेयुर्यदि सप्त पूर्वमन्ते गुरु: स्यान्नियमेन चेज्ः । ५८४ ।।
Page 341
३२२ सङ्गीतसुधा षछ्ो यतः स्याज्जगणोऽथवास्मिंश्चत्वार एवं लघवः पृथग्वा। इत्येवमार्याप्रथमार्धलक्ष्म चार्घे द्वितीयेऽपि गणस्तु षष्टः ॥५८५॥
एको लघुः स्यान्न परस्तथा च स्यात् षष्ठमात्रे यगणोऽपि स स्यात्। प्राधान्यतः स्थादिह लक्ष्म तस्यां षष्ठे गणे नाम ततो विशेषः ॥ ५८६।।
तेनार्धयुग्मे तु विना विकार गणस्य षष्ठस्य गणान्तरेषु। सन्तो विकार यदि ते तु भेदलक्ष्माणि तच्चैतदुदीरयामः ॥५८७॥
प्रत्येकमस्यां गुरुयुक्तसप्तगणात्मनः पूर्वपरात्मनोश्च। अन्ये गणात् षष्ठगणात् किल द्वादशैव तन्नापि गुरुद्वयं चेतु ॥ ५८८॥
गणे गणे स्याद्गुरवो भवेयुरेवं चतुर्विशतिरेव तस्याः । तत्राधिकेनापि गुरुद्वयेन षड्विंशतिस्ते मिलिता भवन्ति ॥ ५८९॥
तेनैव सर्वे गुरुभिर्गणैः स्यात् षछ्ठं गणं तत्र विनैव लक्ष्मीः । आद्यस्य भङ्गेन गुरोस्तु वृद्धिरार्याप्रबन्धस्य किलातिरेकम् ॥ ५९०॥
भङ्गेन बुद्धिस्तु भवेदिहाद्यद्वितीययोरक्षरयोस्तु गुर्वोः । भङ्गे गुरुणां भवति त्रयाणां लीला चतुर्णा पुनरत्र भङ्गे ॥५९१॥
लज्जाथ भङ्गे गुरुपञ्न्कस्य क्षमा तु षण्णामपि भञ्जनेन। दीर्घा भवेत् सा खलु सप्तभङ्गे स्यादष्टभङ्गे खलु तत्र गौरी ॥ ५९२॥
राजी नवानां भवतीह मङ्गे ज्योत्स्नात्र भङ्गे तु भवेददशानाम्। एकादशानामपि भञ्जनेन च्छाया मही द्वादशभञ्जनेन । ५९३ ॥
त्रयोदशानामपि भञ्जनेन कीर्तिर्भवेदत्र चतुर्देशानाम्। विभञ्जनेनैव मनोरमा स्यात् पञ्चोत्तराणां दशभञ्जनेन ॥४॥
रोहिण्यभिख्या कथिता दशानां भवेद्विशालात्र षडुत्तराणाम्। सप्तोत्तराणां वसुधा दशानां विभञ्जने स्यादिति वेदितव्यम् ॥ ५९५॥
अष्टादशानामपि भञ्जनेन शिवा भवेदित्यवधारणीयम्। नकोत्तराणां हरिणी दशानां विभञ्जने स्यादिति वेदितव्यम् ॥ ५९६ ॥
तथा गुरूणामिह विंशत्तेस्तु विभञ्जनेन प्रथिता हि चक्रा। भङ्गादिहैकस्य च विंशतेश्र सा सारसी नाम भवेदिहार्या ॥ ५९७॥ द्वाविंशतेरप्यथ भञ्जने स्यादार्या कुरर्याह्वयनामधेया। हंसी त्रयोविंशतिभञ्जनेन वधूश्चतुर्विशतिभञ्जने स्यात् ॥५९८॥ 1
Page 342
द्विपदप्रबन्धः ३२३
पञ्चोत्तराया अथ विंशतेश्च भङ्गे क्षमा नाम भवेदिहाया। नैवान्तिमस्यापि गुरोर्विभङ्ग: पथ्यादिकायाः खलु सन्ति ताश्च ॥ ५९९॥
छन्दोविचित्यां परिशीलनेन निरूपणीया: खलु नैपुणेन । मेलापकाभाववशात् त्रिधातुर्नियुक्तनामा नियमात्तथैव ॥ ६०० ।।
स्याच्छन्दसस्तालपदस्वरैश्च निबन्धनान्ग्ावनिकाख्यजाति: ।
- । गाथाप्रबन्ध: ॥ - इत्येवमार्या विहिताथ वक्ष्ये गाथाप्रबन्धं च यथाक्रमेण ॥ ६०१॥
आर्यैव चेदुक्तविधोपपन्ना पदं पुनः प्राकृतमाश्रयन्ति। सुगीयते सा जगति प्रतीता गाथा ततः संस्कृतलक्षणार्या ॥ ६०२॥
अन्यत् पुनर्लक्षणमत्र सर्व ज्ञातव्यमार्यागतमेव सम्यक्। नेच्छन्ति भाषागतमेव लक्ष्म केचित्तु ये जन्मत एष भेद: । ६०३॥
गाथा भवेत् पञ्चपदी तथा त्रिपदी भवेत् सा रलु षट्पदी वा।
- ।। द्विपदप्रबन्धः ॥ गाथाभिधां तां विनिरूष्य सम्यक् ततः प्रवक्ष्ये द्विपदप्रबन्धम् ॥ ६०४॥
यश्छन्दसा स्याद् द्विपथाह्वयेन तं वर्णयन्ति द्विपदप्रबन्धम्। तं दोधकं वृत्तमुदीरयन्ति गुरुद्वयात् प्राग्भगणत्रयं चेतू ॥ ६०५ ॥
न्यासं च सोडयं लभते स्वरेषु सतालको वाथ वितालको वा। चतुर्विधः स प्रथमस्तु तत्रोद्ग्राहध्रुवाख्ये खलु खण्डयुग्मे॥ ६०६॥
स्वरैर्निबन्धो भवति द्वितीयः पुनः प्रयोगैलेभते निबन्धम्। स्वरप्रयोगद्वितयेन बन्धो भवेत्तृतीयोऽथ भवेत्तुरीयः ॥ ६०७॥
ताभ्यामुभाभ्यामभितस्तु तत्रोद्ग्राहध्रुवौ तत्र पदैर्निबद्धौ। आभोगक्लप्तिस्तु पदैरिह स्यात् स्यात् प्राकृते दोहपदाभिधेय: ॥ ६०८ ॥
स संस्कृते स्याद् द्विपदाभिधानो लभेत वा दोधकनामधेयम्। सत्येव चैतस्य नव प्रभेदास्तेषु ब्रुवे सारसमाद्यभेदम्॥ ६०९॥
Page 343
३२४ सङ्गातसुधा
यस्मिंश्च युग्मे प्रथमे,तृतीये पादे च मात्रा दश तिस्र एव। समे द्वितीये चरणे चतुर्थ मात्रास्तथा द्वादश सारसोऽयम् ॥ ६१० ॥
पाददवये चेद्विषमे भवन्ति मात्राश्चतस्त्रो दश चापि तत्र। समे तु पादद्वितये पुनर्द्वादशैव मात्राश्च यदा भवेयुः ॥ ६११॥
तदा द्वितीये भ्रमराभिधानख्यातः प्रबन्धो भवतीति वेद्यः । मात्रा यदा पञ्च्दशासमे स्युस्त्रयोदश स्युश्च समे तदायम्॥ ६१२॥
हंसस्तृतीयो भवति प्रबन्धस्त्रयोदश स्युर्विषमे यदीमाः । तदा प्रतीतः कुररश्चतुर्थो मात्राः पुनः पञ्च समे दशापि ॥ ६१३॥
यत्र प्रबन्धे विषमे तु पादे समे पुनर्द्वादश ता भवन्ति । स चन्द्रलेखः खलु पञ्मः स्यात् पादे यदि स्युर्विषमे तु मात्राः ॥६१४॥
दशापि तिस्रश्च समे भवन्ति दशैव पञ्चापि च कुञ्जरोऽसौ। अङ्घौ यदा स्युर्विषमे तु पञ्चदशापरस्मिन् हि चतुर्देशैव ॥ ६१५॥
मात्रा भवेयुस्तिलकाख्य एष स्यात् सप्तमोऽयं खलु वेदितव्यः । त्रयोदश स्युर्विषमे यदाड्व्रौ समे पुनः षोडश सन्ति मात्रा: ॥ ६१६।
सोऽयं प्रबन्ध: कथितस्तु हंसक्रीडोऽष्टमोऽसाविति वेदितव्यः । एषां पुनर्दोहपदाभिधानमन्तेऽ्धयोः पञ्च लघुः शिखा चेत् ॥ ६१७ ॥
शिखादिमं तं द्विपदं वदन्ति प्रपन्धनिर्माणविधानदक्षाः । मयूरकश्चाप्ययमेव बोध्य: शिखादिमासु द्विपदीषु चैषु ॥ ६१८ ॥
यावत्य एषा विषमाङ्घ्रिमात्राः समे च पादे खलु ता भवेयुः । याश्रैव मात्रा: समपादनिष्ठा भवेयुरेतद्विषये च पादे ॥ ६१९॥
पादस्य चैषां प्रथमस्य गानं सकृद्विधेयं द्विपदाभिधानाम्। द्विरेव गानं भवतीतरेषां तथा द्विरङ्ध्रः प्रथमस्य गानम् ॥ ६२०॥
सकृत् परेषामपि रीतिभेदान्द्वेदास्त्वमीषां बहवो भवन्ति प्रसिद्धिवैधुर्यवशान्तु लक्ष्ये नास्माभिरेते कथिता विशेषात् ॥ ६२१॥
मेलापकाभाववशात् त्रिधातुर्निर्युक्तनामा नियमात् पुरोक्तात्। स्वरैश्र तालैश्च पदैश्च बन्धात् त्रयङ्गो भवेद्दावनिकाखूयजातिः ॥ ६२२॥
क्वचिश्च तारावलिकाख्यजातिर्निबध्यमानः पदतालमात्रात्।
Page 344
तोटकप्रबन्ध: ३२५
-।। कलहंसप्रबन्धः ॥ - एवं निरुक्तो द्विपदाभिधानस्ततः प्रवक्ष्ये कलहंससंज्ञम् ॥ ६२३॥
निबध्यमान: कलहंसनामच्छन्दोविशेषेण निबध्यमानः । अन्ते स्वरैश्चापि समन्वितश्चेत् पदैः स्वरेषु न्यसनं तदा चेत् ॥ ६२४ ॥ झम्पाख्यतालेन युतश्च सोऽयं कथ्येत विज्ञैः कलहंसनामा। द्वेधा त्वयं वर्णगणेन तद्वन्मात्रागणेनापि निबध्यमानः ॥ ६२५॥ यद्येष गेद्येन विरच्यमानस्तदा स्वराङ्ग प्रथमं प्रगाय। ततः परं गेयाम क्रमोऽयमुक्तं तथादे भरतेऽस्य लक्ष्म ॥ ६२६ ॥ पदाक्षरैद्वादशभिः समेते क्रमाद् द्वितीयश्च तुरीयषष्ठौ। स्यात् सप्तमोऽयं दशमस्तथा द्वादशोऽयमेते गुरवो यदि स्युः ॥ ६२७॥ छन्दस्तदा स्यात् कलहंससंज्ञं तस्यानुवादावधि च स्वरा: स्युः । खण्डेषु च न्यासविधिर्निरुक्तस्तालश् झम्पा हि तथोपदिष्टः ॥ ६२८॥ झम्पाख्यताले तु विरामशीर्षद्रुतद्वयं चापि लघुद्वयं च। झम्पाख्यतालेन समानमात्रा तालान्तरं वात्र पुनर्विधेयम् ॥ ६२९॥
स च द्विधा वर्णजमात्रिकौ च भेदेन पद्यैरिह वर्णजः स्यान्। गद्येन चेन्मात्रिक एष उक्तो मात्राख्यसंख्यासदृशी च यान्या॥ ६३०।।
स्यादुत्तरार्ध ध्रुवखण्डमस्मिन् पदैरिहाभोगकृतिः पृथक् स्यात्। प्रबन्ध एषोऽपि भवेत त्रिधातुर्निर्युक्तसंज्ञा नियमाद् द्वयोश्च् ॥ ६३१ ॥ तालस्य च च्छन्दस एष उक्त: स्वरैः पदैर्बन्धनतोऽपि तालैः। त्रयङ्गो भवेद्दावनिकाख्यजातिरिति प्रबन्धः कलहंसनामा ॥ ६३२ ॥
। तोटकप्रबन्धः ॥ - इत्येवमुक्ते कलहंससंज्ञे ततः परं तोटकमीरयामः। यश्छन्दसा तोटकनामकेन प्रगीयते तोटकमाहुरेनम् ॥६३३॥
तत्तोटकच्छन्द इति प्रतीतं यत् स्याच्चतुर्भिः सगणैरुपेतम्। पादस्य चान्ते भवति स्वरेषु न्यासान्वितस्तोटकनामधेयः ॥ ६३४ ॥
वृत्तप्रबन्धान्ननु वक्ष्यमाणात् पृथङ् न वाच्यं पुनरुक्त एषः । सत्यं यदि स्यादिह वृत्तशब्दसामन्यतशछन्द इहाभिदध्यात्॥ ६३५॥ येषां मतेऽयं खलु वृत्तशब्दो वृत्ताभिधं छन्द इहाभिधत्ते। तेषां मतेऽयं पुनरुक्तिदोषो नास्तीति तल्लक्षणमीरयामः ॥ ६३६॥
Page 345
३२६ सङ्गीतसुधा
कृत्याह्वये छन्दसि यस्य पादे पूर्वं गुरूणां जगणान्वितानाम्। भवेत्तदा विंशतिरक्षराणां वृत्ताह्वयं छन्द इर्द वदन्ति ॥ ६३७॥ एवं निवार्या पुनरुक्तिरार्याकन्दादिकानां च पुरोदितानाम्। पूर्वारधमेतस्य हि तोटकस्योद्ग्राहो ध्रुवं चापि तथोत्तरार्धम् ॥ ६३८॥ आभोगकृप्तिश्च पदैरिह स्यात्तस्मादयं चापि भवेत् त्रिधातुः । स्याच्छान्दसोऽयं नियमेन युक्तो निर्युक्तनामा भवति प्रबन्धः ॥ ६३९॥ स्वरैश्र तालैश्च पदैर्निबद्धस्त्रयङ्गो भवेद्द्ावनिकाख्यजातिः ।
। घटप्रबन्धः ॥ - इतीरितस्तोटकनामधेयो घटप्रबन्धं प्रतिपादयामः ॥ ६४०॥ आलिक्रमाख्येषु पुनः प्रबन्धेषूद्देशको नैव विवक्षितः स्यात्। इत्येव संदशयितुं क्रमं तमुल्लङ्व्य वृत्ति घटमीरयाम: ॥ ६४१॥ अत्राद्यमेतत् खलु तेन्नकैः स्यादर्धद्विपद्या च पुरोक्तया स्यात्। स्यात्तेन्नके चैव समाप्तिरेष घटाभिधानो भवति प्रबन्धः ॥ ६४२॥ अनुक्तमन्यत् खलु धर्मजातं सर्व द्विपद्यामिव बोध्यमेतत्।
।। वृत्तप्रबन्धः ॥ - इत्येवमुक्त्ात्र घटप्रबन्धं वृत्तप्रबन्धस्य तु लक्ष्म वक्ष्ये॥ ६४३॥ यच्छन्दसा स्वाभिमतेन येन केनापि तालेन तथैककेन। प्रगीयते वृत्तमिदं च तस्य पादस्य चान्तेऽप्यथ वृत्तकाले॥ ६४४॥ स्वरप्रयोगो भवतीति केचित्तद्वीनमवेति वदन्त्यथान्ये। वृत्ताभिधे छन्दसि चाहुरेके तल्लक्ष्म पूर्व कथितं समस्तम् ॥ ६४५॥ समादयो वृत्तभिदाः समस्ताउछन्दोविचित्यामिह वेदनीयाः।
-॥। मातृकाप्रबन्धः ॥ - वृत्तप्रबन्धं प्रतिपाद्य सम्यक् तां मातृकां संप्रति लक्षयामः ॥ ६४६॥ एषां पदानामिह मातृकाया एकैकवर्णः पुनरानुपूर्व्यात्। आदावकारादितया निबद्धस्तन्मातृकाख्यं हि विदुः प्रबन्धम् ॥ ६४७॥ सा च त्रिधा स्यात् प्रथमात्र दिव्या स्यान्मानुषीति प्रथिता द्वितीया। सा दिव्यमानुष्युदिता तृतीया तासां च लक्ष्म प्रतिपाद्यामः ॥ ६४८॥
Page 346
रागकदम्बप्रबन्ध:
या संस्कृतैरेव पदैर्निबद्धा स्यान्मार्गतालैरपि गींयमाना। दिव्यैव सान्या तु पदैः क्रियेत या प्राकृतैः स्यादृपि देशितालैः ॥ ६४९॥
सा मानुषी स्यादुभयोस्तु योगाद्या संस्कृतप्राकृतयोस्तु वाचोः । या मार्गदेश्योरपि तालयो: स्यात् सा दिव्यमानुष्युदिता मुनीन्द्रैः ॥ ६५०॥
एकैककेनाप्यवधे: पदेन भवेत् प्रयोगो बहुधा विभिन्नः । खण्डे ध्रुवे संस्कृतशब्दमार्गतालद्वयस्यापि सहप्रयोगात् ॥ ६५१॥
तथैव च प्राकृतशब्ददेशीतालद्वयस्यापि सहप्रयोगात्। तयोद्वयोरेकतरप्रयोगान्ङ्वन्ति भेदा बहवस्तथापि ॥ ६५२॥
भवेद् द्विधासौ कथितः प्रबन्धः पुनर्निबद्धश्च तयोस्तु पूर्वः । गद्यैर्विरच्येत पुननिबद्धः पद्यैः कृतो यः खलु सोऽपि चान्यः ।। ६५३।।
प्रबन्धवर्गेष्वखिलेषु सोऽयं भवेत् प्रशस्तः खलु देवहृद्यः । पदैरकारादिभिरेव तत्रोद्ग्राहो भवेत् षोडशभि: प्रतीतः ॥ ६५४॥
तथा ककारादिभिरेव पञ्न्त्रिंशत् पदानि ध्रुवखण्डमाहुः। आभोगकृप्तिरत्विह बोधनीया दिव्यादिभेदाननुसृत्य शब्दैः ॥ ६५५॥
संस्कृत्रिमादैश्च पदैस्तु गातृनेतृप्रबन्धाङ्कनयैव कार्यम्। तेन त्रिधातु: कथितस्तशैव तालादिनैयत्यवशेन सोऽयम् ॥ ६५६॥
निर्युक्तनाम्ना पदतालबन्धात्तारावलीजातिरिहैष वेद्यः। इत्येवमुक्त: खलु मातृकाख्यप्रबन्ध एष प्रथितानुभावः ॥ ६५७॥
-।। रागकद्म्बप्रबन्धः ॥ - निरूप्यते रागकदम्बनामा गातृप्रसिद्धो द्विपदप्रबन्धः । तन्रादिम: स्यात् प्रथितस्तु नन्द्यावर्ताभिधः स्वस्तिकनामकोऽन्यः ॥ ६५८।।
आद्यस्य लक्ष्माकलये चतुर्भिर्व्यक्तैश्च तालैर्बहुभिश्च रागैः। निबध्यमानः किल तत्र नन्द्यावर्ताभिधानो भवति प्रबन्ध: ॥ ६५९॥
कार्यश्र सोऽयं प्रतिवृत्तभिन्नस्तालस्तथासौ प्रतिवृत्ततालम् । प्रत्यर्धकं वा प्रतिपादकं वा विभिन्नरागः परिकल्पनीयः ॥६६० ॥
तालस्य वृत्ते खलु योजितस्य न्यासस्तथा वृत्तियुगेन कार्यः । उद्ग्राहखण्डेऽप्यथ वा समाप्तिर्गद्यात्मकं केचिदिमं वदन्ति ॥ ६६१॥
Page 347
१२८ सङ्गतसुधा
अथोच्यते स्वस्तिकलक्षणं तु स्यादष्ट वृत्ता: पुनरष्ट तालाः । स्यात् स्वस्तिकश्चाष्टभिरेव रागैर्मतान्तरे तस्य भिदास्तु तिस्त्रः ॥ ६६२ ॥
स्यादब्जपत्रश्च ततोऽब्जगर्भ आम्रेडितः स्याद्भ्रमरादिरन्यः । वृत्तैः पुनः षोडशभिश्च तालैस्तत्संख्यतालैः पुनरब्जपत्रः ॥ ६६३ ॥
द्वान्रिंशता तत्र च वृत्तरूपैस्तालैश्च रागैः पुनरब्जगर्भः । वृत्तैश्च्तुःषष्टिमितैश्च तालै रागैश्च तावद्धिरिहान्तिमः स्यात ॥ ६६४॥
एते त्रयः स्वस्तिकवस्तुभेदास्तेषां च खण्डादिभिदां वदामः । पूर्वार्धमुद्ग्राह इहोपदिष्टः स्यादुत्तरार्ध घरुवखण्ड एषु ॥ ६६५॥
द्विधातवश्चैक इह प्रबन्धो महाप्रबन्धावयवत्वमाप्तः । महाप्रबन्धाङ्गितया निरुक्त: पुरातनै रागकदम्बसंज्ञः ।६६६ ॥
यथा प्रतिज्ञादिभिरङ्गपादैरन्यायो महावाक्यमिति प्रसिद्धः । आभोगको यद्यपि चात्र नास्ति तथापि वृत्ते पुनरन्तिमे तु ॥६६७ ॥
खण्डः पदैः कैश्चन गातृनेतृप्रबन्धनामाङ्गयुतश् कार्यः । उद्ग्राहमुख्येषु च वर्णितं न स्वरादिमाङ्गं चयकल्पनं तु ॥ ६६८ ॥
तस्मातू स्वराद्या अपि कतुरिच्छावशाच्च लक्ष्यानुमतैश्च कार्याः । इच्छावशेनैव षडङ्गक्प्त्या स्यान्मेदिनीजातिरयं प्रबन्धः ॥ ६६९॥
भवेदनिर्युक्तकनामधेयस्तालाद्यनैयत्यवशेन सोडयम्।
- ।। पश्नतालेश्वरप्रबन्धः ॥ - इतीरितो रागकदम्बनामा तं पञ्तालेश्वरमीरयामः ॥ ६७० ॥
यस्मिन् पुरा तालविवर्जित: स्यादालापने पञ्नपदानि पञ्। तालेन चच्चत्पुटनामकेन गेयानि च द्वि: पुनरेव तेन ॥ ६७१ ॥ तालेन गेया: स्वरपाटवर्णाः मानेन चच्चत्पुटयोद्वयस्य। पा्दाक्षरैः स्यात् पटहोद्द्वैस्तु यद्यन्तरश्चाचपुटेन पञ्च ॥ ६७२॥ पदानि तालेन ततो द्विवारं गेयान्यथो चाचूपुटेन तेन। स्वराश् पाटाश्च् भवन्ति गया मानद्वयाच्चाचपुटश्च पश्चात् ॥ ६७३ ॥ हौडुक्ताल: क्रियतेऽन्तरोऽथ स्यात् षद्पितापुत्रकनामतालात्। पदानि पञ्चैव पृथग्द्विवारं गेयानि तेनैव पुनः स्वराश्च॥ ६७४ ॥
Page 348
विप्रकीर्णप्रबन्धाः ३२९
पादानि गेयास्तदनन्तरस्तु स्यात् षट्पितापुंत्रकनांमयुग्मात्। तैः शङ्खपाटैः कथितोऽन्तरस्तु प्रगीयतेऽसौ तदनन्तरं तु ॥ ६७५ ॥
पादानि षद् चैव पदानि संपक्केष्टाकतालेन तथा स्वरश्च। पाटाश्च गेयाः खलु मानयुग्मात्तस्यैव पश्चात् क्रियतेऽन्तरस्तु ॥६७६॥ कांस्योन्द्वैरेव च तालपाटैरुद्धट्टनाम्नः पुनरत्र तालात्। पादानि षट् चैव तथा सवराश्च पाटाश्च गेया अथ मानयुग्मात् ॥ ६७७॥
तस्यैव पश्चान्मुरजोद्दवैस्तु पाटैर्विधेयोऽन्तरखण्ड एषः । मानेन पश्चादविलम्बितेनाभोगञ्च कार्यः पुनरत्र खण्डः ॥ ६७८॥
प्रबन्धनाम प्रथमं तु गेयं ततः परं नायकनामधेयम् । प्रगेयमाशीर्वचनं ततः स्यादनन्तरं स्यात् खलु वाक्यरूपे॥ ६७९॥
मेलापके स्याद्वहुलप्रयोगे न्यासश्च सोडयं द्विविध: प्रबन्धः । वीरादिम: स्यात्तिलकस्तथाद्यो वीरे रसे चेद्विनिबध्यतेऽसौ ॥ ६८० ॥
शृङ्गारसंज्ञे तु रसे निबद्धः शृङ्गारपूर्वस्तिलकोऽवसेयः । स्युः पञ्चतालेश्वरगीतिमात्रात् सर्वेऽपि देवाः परितोषभाजः ॥६८१॥
एवं प्रबन्ध: कथितस्तु पञ्चतालेश्वरो नाम ततः परं तु।
-
॥। तालाणेवप्रबन्धः ॥ - तालार्णवं संप्रति वर्णयामो निबध्यतेऽसौ बहुभिश्च तालैः ॥ ६८२॥ द्वेधा च सोऽयं भवति प्रबन्धः स्याद्गद्जः पद्यजनामकोऽन्यः। तालार्णवः सम्यगुदीरितोऽसावित्थं समेदं चतुरीरितास्ते ॥ ६८३॥
-
।। अथ विप्रकीर्णप्रबन्धाः ॥ - ॥ श्रीरङ्गप्रबन्धः ॥- विशिष्य पश्चादिह विप्रकीर्णप्रबन्धवर्ग प्रतिपादयामः । षट्त्रिंशदेते कथितास्तु पूर्व श्रीरङ्गमत्रादिममामनामः ॥६८४॥ तालैश्च्तुर्मिश्र तथैव रागैश्चतुभिरेवेह विरच्यते यः । अन्ते पदेनापि समन्वितश्च रसादिषु प्राक्कथितेषु चान्ते ॥ ६८५॥
स्वरप्रयोग: प्रतिरागभत्र कर्तव्य एवेत्यवधारणीयम् । उद्गाहखण्डादिविभागक्लप्तिस्तथा प्रबन्धादिमनामघेयम् ॥ ६८६॥
Page 349
३३० सङ्गातसुधा
सर्व त्विदं रागकदम्बक्लप्त्या ततो द्विधातुः कथितः प्रबन्धः । तालाद्यनैयत्यवशेन सोंडयं भवेदनिर्युक्त इति प्रतीतः ॥ ६८७ ॥
पुरा निरुक्तो नियमश्च संख्यासमाश्रयो नैष तु तालरूपे। षड्भिस्तथाङ्गैर्विनिबध्यमानः स्यान्मेदिनीजातिरयं प्रबन्धः ॥ ६८८॥ अन्यानि चाङ्गानि तु वाञ्छितेन क्रमेण योज्यान्युदितप्रबन्धे।
- ।। श्रीविलासप्रबन्धः ॥ श्रीरङ्गसंज्ञं प्रतिपाद्य तु श्रीविलासमेतं प्रतिपादयामः ॥६८९॥ समान्वितः पञ्चभिरेव तालै रागैस्तथा पञ्च्भिरेव युक्त:। अन्ते स्वरैश्च्ोपनिबध्यते यः स श्रीविलासो भवति प्रबन्धः ॥ ६९० ॥
अनुक्तमत्राखिलपूर्वमुक्तं श्रीरङ्गवत् स्यादिति वेदितव्यम्।
-|। पञ्भङ्गिप्रबन्धः ॥- तं श्रीविलासे प्रकथय्य पञ्चभङ्गिप्रबन्धं प्रतिपादयामः ॥ ६९१॥
रागद्वयेनापि च तालयोस्तु युगेन युक्ते युततेन्नकोऽन्ते। स्यात् पञ्चभङ्गि: प्रथितः प्रबन्धः पञ्च्ाननं चापि निरूपयामः ॥ ६९२॥
।। पञ्ाननप्रबन्ध: ॥ यो रागयोरेव च तालयोश्च द्वयेन युक्तो भवति प्रबन्धः । पाटैस्तथान्ते सहितस्तमेनं पञ्चाननं प्राञ् उदीरयन्ति ॥ ६९३॥
- । उमातिलकप्रबन्धः ॥ - वक्ष्याम्यथोमातिलकप्रबन्धं त्रिभिश्च रागैस्त्रिभिरेव तालैः। तथान्त्यभागे बिरुदान्वितश्चेयेते हि सर्वाङ्गयुताः प्रबन्धाः ॥ ६९४॥
श्रीरङ्गमुख्या: खलु वेदितव्यास्ततः परं तु त्रिपदी वदामः
। त्रिपदीप्रबन्ध: ॥I - मलात्। आद्याविहाङ्गी गणयो्येन पादस्तृतीयस्तु गणैश्चतुर्मिः ॥६७४॥
Page 350
षट्प्रदीप्रबन्धः ३३१
तयोर्गणानां त्रितयेन युक्त एवं किलैकादश वैगणा: स्युः । एकादशस्वेषु गणेषु मध्ये षष्ठो गण: स्याद्दशमस्तथैव ॥ ६९६ ॥ गणेन युक्ता रतिसंज्ञकेन त्वन्ये गणा मान्मथसंज्ञकास्ते। अथास्य गाने नियमेन गीत्वा गीत्वाद्यपादौ प्रथमं ततश्च ॥ ६९७॥ पादस्तृतीय: खलु किंचिदूनो गेयः समग्रस्त्वथवा क्रमेण। ततश्चतुर्थेश्चरणश्च गेय: कर्णाटभाषाग्रथिता च सेयम् ॥ ६९८॥ त्वया च यासौ त्रिपदी निरुक्ता तस्याश्चतुर्भिश्चरणैर्युतत्वात्। त्रिपद्यभिख्या घटते कथं वा तस्योत्तरं संप्रति वर्णयामः ॥ ६९९॥ तत्राद्यपादद्वितयस्य योगे नवैकपादत्वगता प्रतीतिः । तत्राद्यपादद्वितयं भवेदुद्ग्राहो ध्रवाख्यस्तु तृतीयपादः ॥। ७०० ॥। ओव्यादिमानां च ततश्चतुर्णामाभोगराहित्यमुदीरितं यत्। पादैरिहाभोगविधा विधेया तस्मात् त्रिधातुस्त्रिपदी किलेयम्॥ ७०१ ॥ गणैश्च कर्णाटकभाषया च निर्युक्नामा नियमेन सोऽयम्। स्वरप्रयोगो द्विपदीवदेवं तारावली व्यङ्गतया प्रबन्धः ॥ ७०२ ॥
- ॥ चतुष्पदीप्रबन्धः ॥ - इत्थं त्रिपद्यां प्रतिपादितायां चतुष्पदी साधु निरूपयामः । द्वितीयतुर्यौ चरणौ च यस्याः समन्वितौ षोडशमात्रिकाभिः ॥७०३॥ आद्ये तृतीये चरणे च पञ्चदशैव मात्राश्चरणाश्च यस्मात्। यदर्धयोद्वौ यमकावभिन्नार्धकौ वदन्त्येव चतुष्पदी ताम् ॥ ७०४॥ भिन्नार्धकानामपि यत्पदानां वर्णैकरूप्यं यमकं तदाहुः । तस्यां स्वरा: स्युस्तदनन्तरं च न्यासो भवेत्तेन्नकनाम चान्ते। ७०५ ॥। निर्युक्तसंज्ञैश्व पदैः स्वरैश्च तेन्नैरयं भावनिकाख्यजातिः ।
-॥। षट्पदीप्रबन्धः ॥ - अथोच्यते संप्रति षद्पंदी सा षष्ठस्तृतीयस्त्रिगणश्च पादः ॥७०६।।
पादाः परे द्विद्विगणा भवन्ति बाणो गण: षष्ठतृतीयकान्ते। कामः परे कामगणोपपन्ना कर्णाटभाषारचिता विताला॥ ७०७॥
Page 351
३३२ सङ्गातसुधा
स्थायिस्वरे न्याससमन्विता च सा षट्पदी नाम बुधैर्निरुक्ता। चतुष्पदी षद्पदिकेति ते द्वे वेद्ये परं स्वार्थकनामधेये॥ ७०८ ॥ पूर्वं तु पादक्रममत्र चोक्तमुद्ग्राहसंज्ञं ध्रुवमुत्तरं स्यात्। आभोगक्लप्तिस्तु पुरेव वेद्या तस्मादियं स्यात् कथिता त्रिधातुः ॥ ७०९॥
भाषागणानां नियमान्निरुक्तेर्नियुक्तसंज्ञो भवति प्रबन्धः । तारावलीजातिरियं च वेद्या प्रपञ्चिताङ्गा च पदस्वराभ्याम्॥ ७१०॥
- ॥। वस्तुप्रबन्धः ॥ - वस्तुप्रबन्धं त्वथ वर्णयामश्चाद्ये तृतीयेऽपि च पञ्नमे च। पादैः स्थिताः पञ्च्दशैव मात्रा द्वितीयके द्वादश ताश्चतुर्थे।। ७११॥ स्वराश्च पाटा: प्रथमार्धकान्ते द्वितीयतुर्यान्तजुषः स्वराः स्यु: । तेन्नास्ततो लक्षितदोधकञ्च न्यासश्च तेन्ने स तु वस्तुसंज्ञः ॥ ७१२॥
अङ्गैर्निबद्धा बिरुदातिरिक्तः पञ्नाङ्गकानन्दिनिकाख्यजातिः ।
- । विजयप्रबन्घः ॥ - विवेचयामो विजयप्रबन्धं राज्ञां च यः स्याद्विजयाभिधायी॥ ७१३॥
तैनैः स्वरैः पाटपदैश्च बद्धस्तालेन युक्तो विजयाह्वयेन। न्यासश्च तेन्ने विजयप्रबन्धः स कीर्तितो याष्टिककोहलादैः॥ ७१४॥
प्लुतो गुरु: स्याद्विजयाभिधाने पुनः प्तलुश्चैव लघुद्वयं च। निर्युक्तसंज्ञः कथितस्त्रिधातुरानन्दिनी स्याद्विरुदस्य पाठात् ॥ ७१५॥
।। त्रिपथप्रबन्धः ॥ - ततो वदामस्त्रिपथप्रबन्धमाद्यस्तु पाटैश्चरणो निबद्धः । स्वरैद्वितीयश्चरणश्च बद्धः पादस्तृतीयो बिरुदैर्निरुक्तः ॥ ७१६॥
पादास्त्रयो यत्र भवन्ति चैवं प्रकीर्तितोऽयं त्रिपथीप्रबन्धः । भवेदनिर्युक्त इह त्रिधातुरानन्दिनी तेन्नकवर्जितेन।॥ ७१७ ॥
Page 352
झम्पटप्रबन्ध: ३३३
-
।। चतुर्मुखप्रबन्धः ॥ - चतुर्मुखं संप्रति लक्षयामो वर्णस्वरेः स्थायिनि चाद्यपादः । आरोहिणि स्यादपरस्तु पाटैः पदैस्तृतीयस्त्ववरोहिवर्णे ॥ ७१८॥ तुर्यस्तु संचारिणि तेन्नकस्य न्यासो ग्रहे यस्य चतुर्मुखोऽयम्। भवेदनिर्युक्त इह त्रिधातुरानन्दिनी स्याद्विरुदैर्व्यपेतः ॥ ७१९॥
-
।। सिंह्लीलप्रबन्धः ॥ - संकीर्तयामस्त्वथ सिंहलीलं यः सिंहलीलेन च तालकेन। स्वरैश्च पाटैर्बिरुदैश्र तेन्नैर्विरच्यतेऽसौ खलु सिंहलीलः ॥ ७२०॥ आद्यन्तयोर्यस्य लघुर्हि मध्ये द्रुतास्त्रयोडसौ खलु सिंहलीलः । निर्युक्तसंज्ञः कथितस्त्रिधातुः स्यान्मेदिनीजातिरयं प्रबन्धः ॥ ७२१॥।
-
॥। हंसलीलप्रबन्धः ॥ - अथोच्यते संप्रति हंसलीलो यो हंसलीलाह्वयतालकेन। पदैर्निबद्धश्चरणः किलाद्यः पाटैर्द्वितीयो भवति प्रणीतः ॥ ७२२ ॥ स हंसलील: कथितः प्रबन्धो निर्युक्तसंज्ञः कथितः प्रवीणैः । तालेन पाटैश्च पदैश्च बद्धस्त्रयङ्गो भवेद्दावनिकाख्यजातिः॥ ७२३॥।
-
॥। दुण्डकप्रबन्धः ॥ - संलक्ष्य चैवं किल हंसलीलं निरूप्यते संप्रति दण्डकारुयः । यश्छन्दसा दण्डकनामकेन पढ़ैः स्वरैश्चापि निबध्यते च । ७२४॥ स दण्डकाख्यः कथितः प्रबन्धस्तस्य प्रभेदास्तु निरूपणीयाः । ते चण्डवृष्टिप्रमुखाः समस्ताशछन्दोविचित्यां चतुरं निरुक्ताः ॥ ७२५॥ निर्युक्तसंज्ञ: कथितस्त्रिधातुस्््यङ्गोऽपि तालेन पदैः स्वरैश्च। निबद्ध एतैरुदितैविशेषैः सोऽयं भवेद्दावनिकाख्यजातिः ॥ ७२६॥
-
॥। झम्पटप्रबन्धः ॥ वक्ष्यामहे झम्पटलक्षणं तच्छन्दोविचित्यां हि निरूपितं यत्। वृत्तेन यो झम्पटनामकेन क्रीडाख्यतालेन च यः प्रबन्धः ॥ ७२७॥ 43
Page 353
३४ सङ्गीतसुधा
तं झम्पटाख्यं जगदुंः प्रबन्धं क्रीडाख्यतालस्य वदामि लक्ष्म। द्रुतद्वयं चैव विरामशीर्ष क्रीडाख्यतालं कथयन्ति सन्तः ॥ ७२८॥ उद्ग्राहमाद्यं चरणद्वयं च तृतीयपादं ध्रुवमामनन्ति। आभोगक्ळप्तिस्तु यथापुरं स्यात् त्रिधातुमेतं कथयन्ति तस्मात् ॥ ७२९ ॥ छन्दोविधानस्य च तालकस्य निर्युक्तनामा नियमात् स एषः । तालैः पदैश्चापि निबध्यमान: स्याद्गावनीजातिरयं प्रबन्धः ॥ ७३०॥
-
॥। कन्दुकप्रबन्धः ॥ - ततः परं कन्दुकनामधेयं प्रबन्धमत्र प्रतिपादयामः । पदैस्तु पादः प्रथमो द्वितीय: पाटैस्तृतीयो बिरुदैश्च यस्य ।। ७३१॥। स कन्दुको नाम भवेत पुरेवोद्ग्राहादिभेदो व्यवधारणीयः । अयं ह्यनिर्युक्त इति प्रतीतः स्याद्दीपनी च स्वरतेन्नहीनः ॥ ७३२ ॥ तत् सिंहलीलादिषु पञ्चसु स्यादुद्ग्राहके न्यास इहोपदिष्टः । अनीरितन्यासपदेषु चान्येषूद्ग्राहके न्यासविनिणेयः स्यात् ॥ ७३३ ॥
-
।। त्रिभङ्गिप्रबन्धः ॥ इतीरितः कन्दुकनामधेयस्ततस्त्रिभङ्गिं प्रतिपादयामः । स्वरैश्च पाटैश्च पदैश्च गेयस्त्रिभङ्गिसंज्ञः स च पञ्नधा स्यात् ॥ ७३४॥ त्रिभङ्गितालेन भवेदिहाद्यस्त्रिभङ्गिवृत्तेन ततो द्वितीयः । तालैस्त्रिभिश्च त्रिभिरेव रागैस्त्रिभङ्गिसंज्ञस्य तृतीयभेदः ॥ ७३५॥ छन्दोभिरेष त्रिभिरन्वितश्चेत् त्रिभङ्गिसंज्ञस्य चतुर्थभेदः । देवत्रयस्य स्तुतिसंयुतश्चेत् त्रिभद्गिभेदः खल पञ्चमः स्यात् ॥ ७३६॥
निर्युक्तकोऽयं कथितस्त्रिधातु: स्याद्दीपनी तेन्नकवजनेन।
- ॥। हरविलासग्रबन्धः ॥- त्रिभङ्गिमुक्का क्रमशः प्रबन्धं हरादिकं वच्मि विलासमेनम् ॥ ७३७॥ पदैश्च बद्धो बिरुदैश्च पाटैस्तेन्नैर्हरादिस्तु विलासकः स्यात्।
Page 354
वदनप्रबन्ध: ३३५
- ।। सुदशनप्रबन्धः ॥ - ३३ पदेश् युक्तं बिरुदेश्च् तेन्नैः सुदर्शनाख्यं खलु निदिशन्ति ॥७३८॥
स च स्वराणां विरुदस्य चैवाभावान्निरुत्तश्चतुरङ्ग एपः । म्याद्दीपनीजातिरयं प्रबन्धस्ततः स्वराङ्कं प्रतिपादयामः ॥७३९॥
। स्वराङ्कप्रबन्धः । उद्ग्राह एकोऽत्र पदैस्तथेकस्तालो मतो यत्र भवेत् प्रगेयः । स्वरेश्र तालद्वितयेन बद्धो मेलापकाख्य: खलु यत्र गेय: ॥ ७४०॥
त्रिमिश्च तालैर्विरुदैश् बद्धो ध्रवाख्यरण्डः खलु यत्र गेयः। न्यास:स्वरैः स्यादिह मालवश्रीसंज्ञेन रागेण च यस्य गानम् । ७४१॥
मेलापकोऽन्यत्र विशेपरीत्या नोक्तोऽत मेलापक एव च स्यात्। न्यायोऽयमन्यत्र तथा प्रबन्धो निबन्धनीयः सुधिया स्वराक्कः ॥ ७४२॥ आभोगखण्डस्तु पुरेव कार्यस्तस्माच्चतुर्धातुरयं प्रबन्धः । निर्युक्तसंज्ञ रालु रागवन्धान स्याहीपनी तेन्नकपाटवर्जेः ॥ ७४३॥
-
।। श्रीवर्धनप्रबन्धः ॥ - इति स्वराङ्कं प्रतिपाद्य सम्यक् श्रीवर्धनं चाथ निरूपयामः । निवध्यमानो विरुदैश्च पाटैः पदैः स्वरैस्तालयुगेन युक्त:॥ ७४४॥ श्रीवर्धनाख्यः स मतः प्रबन्ध उद्ग्राहकोऽस्मिन् बिरुदैश् पाटैः । घ्रृवाख्यरण्डस्तु पदस्त्रराभ्यामन्यत्ततः स्यात् सुगम प्रबन्धे ।। ७४५।।
-
॥। ह्षवर्धेनः ॥ श्रीवर्धनं चापि निरुव्य सम्यग्घर्षादिमं वर्धनमीरयामः । पदैर्निबद्धो बिरुदैः स्वरैश्र पाटैश्च हर्षादिमवर्धनं स्यात् ॥ ७४६।।
। वदनप्रबन्ध: ॥ - हर्षादिमं वर्धनमीरयित्वा ततो वदामो वदनप्रबन्धम् । स च द्विधा स्याद्वदनं त्विहादयं तथोपपूर्व वदनं द्वितीयम्॥ ७४७॥ वस्त्वादिमं स्याद्वदनं तृतीयं तेषां च लक्ष्म प्रतिपादयामः । आदौ च यस्याइछपयोर्द्वयं स्यात्ततो निरुक्ो दगणश्च पाढे।। ७४८॥
Page 355
३३६ सङ्गीतसुधा
उद्ग्राहसंज्ञं त्विदमेव यस्या: स्वरैश्च पाटैश्च युतं द्वितीये। छपद्वयं दूश्च हि तत्र रूण्डे तच्चान्तराख्यं भजते विकल्पम्॥ ७४९॥ आभोगखण्डश्च पदान्तरैः स्यात्तच्ोपपूर्व बदनं द्वितीयम्। तदेव यत्र स्वरपाटबद्ध स्याच्छद्येनाथ दतान्वितं च ॥ ७५०॥
तदेव यत्र स्वरपाटबद्धं यदि च्छयुग्माद् दचछैरुपेतम्। तद्वस्तुपूर्व वदनं वदन्ति षण्मात्रकोऽत्र च्छगणो निरुक्त:॥७५१ ॥ गणश्चतुर्मात्रक एव चः स्यात् त्रिमात्रकस्तो दगणो द्विमात्रः । इत्युक्तमेव स्मरणीयमत्र चाभोगकृप्निस्तु पदान्तरैः स्यात्॥ ७५२॥ त्रिधातुकोऽयं कथितः प्रबन्धो मतो ह्यनिर्युक्ततया तथैव। विवर्जितत्वाद्विरुदैश्च तेन्नैश्चतुर्विधाङ्ग: खलु दीपनी च ॥ ७५३॥
-
।। चञ्चरीप्रबन्धः ॥ इतीरयित्वा वदनप्रबन्धं तां चच्चरीं संप्रति लक्षयामः । हिन्दोलको रागवरश्च यस्मस्तालस्तथा चच्चरिकाह्वयः स्यात् ॥ ७५४-। पादास्तथा षोडशमात्रिका: स्यु: पादावनुप्रासयुतौ तथा दवौ। सा चच्चरी नाम बुघैर्निरुक्ता सा प्राकृतैरेव पदैर्निबद्धा ॥ ७५५॥ गेया वसन्तोत्सव एव सैषा प्रबन्धवर्या खलु चच्चरी स्यात्। केचित् पुनश्चचच्चरिकाह्वेयन स्याच्छन्दसा चच्चरिकेति चाहुः ॥७५६॥ क्रीडाख्यतालेन च केचिदाहुश्छन्दोऽन्तरेणाव्यपरे वदन्ति। बद्धं तु यच्छन्द इहास्य नाम प्रबन्धनामापि निरूपणीयम् ॥७५७॥ पूर्वाध उदूग्राह इहोपदिष्टः स्यादुत्तरार्ध ध्रुवसंज्ञकं च। आभोगकुप्तिस्तु पदैरिह स्यात्ततस्त्रिधातु: कथितः प्रबन्धः ॥ ७५८॥ तालादिनैयत्यवशेन सोऽयं निर्युक्तसंज्ञः पदतालबन्धात्। तारावलीजातिरिहाङ्गयुग्मवतीति चच्चर्यभिधा निरूढा ॥ ७५९॥
-
।। चर्याप्रबन्धः ॥ - चर्याप्रबन्धं प्रतिपादयामः पुराविदां गीतविदां मतेन। • या पद्धटीराहटिकाग्रगण्यच्छन्दोविशेषेण समन्विता च ॥ ७६० ॥ पादान्तगप्रासविशेषरम्या चाध्यात्मसंबोधिपदैरुपेता। चर्येति नाम्ना कथिता तदीयो द्वितीयसंज्ञः पुनरत्र ताल: ॥७६१।।
Page 356
वीरश्रीप्रबन्धः ३३७ अन्योऽथ वा तत्सममात्रतालः सा च द्विधा स्यादिह वृत्तपूर्त्या। पूर्णा त्वपूर्णा तदपूर्तितः स्याच्चर्याह्वयञ्ैव पुनर्द्विधा स्यात् ॥ ७६२॥ समध्ुवा स्याद्विषमध्रुवान्या तत्रादिमायाः रुलु लक्ष्म वक्ष्ये आवृत्तिभाजो यदि सर्वेपादाः समध्रुवा सा कथिता मुनीन्द्रैः ॥ ७६३॥ ततो द्वितीया ध्रुवखण्डमात्रस्यावृद्धितस्सा विषमध्रुवाख्या। आभोगकुप्तिस्तु प्ृथक्पदैः स्यात् त्रिधातुकस्तेन मतः प्रबन्धः ॥ ७६४॥ नियुक्तसंज्ञः पदतालबन्धात्तारावलीजातिरयं निरुक्त:।
-
। पद्धटीप्रबन्धः ॥ - चर्याप्रबन्धं प्रतिपाद्य सम्यङ्निरूप्यते पद्धटिकाप्रबन्धः ॥ ७६५ ॥ पादान्तगप्राससमन्विता या स्यात् पद्धटीच्छन्दसि चैव बद्दा। स्यात् पद्धटी नाम बुधैर्निरुक्ता तस्या विभागं प्रतिपादयामः ॥ ७६६ ॥ आद्यं त्विहार्ध बिरुतैर्विधाय स्वरान् प्रयुञ्जीत तथा द्वितीयम्। अर्ध च गीत्वा बिरुदैस्ततश्च पाटान् प्रयु्जीत च गीतविज्ञः ॥ ७६७ ॥ उद्ग्राहक: सस्वरमादिमार्ध सपाटमन्याधमिह ध्रुवश्च। आभोगकृप्तिश्च पदैर्विधेया तस्मादियं स्यात् कथिता त्रिधातुः ॥ ७६८॥ निर्युक्तसंज्ञो गततेन्नकः स्यादानन्दिनीजातिरयं प्रबन्धः । उत्क्तेत्यमुं पद्धटिकाप्रबन्धं तां राहडीं संप्रति लक्षयामः ॥ ७६९॥
-
॥। राहडीप्रबन्धः ॥ यस्यां सवेद्वीररसेन सम्यक् संग्रामवृत्तस्य परिष्ठुतिश्च। पादेषु भूरिष्विह केचन स्युरुद्ग्राहसंज्ञास्त्वपरे ध्रुवाख्याः ॥७७०॥ आभोगसंज्ञश्च पृथक्पदैः स्यात्तम्मादयं संकथिता त्रिधातुः। धुता ह्यनियुक्ततया पदैश्च तालेन तारावलिजातिरेषः॥ ७११॥
-
॥। वीरश्रीप्रबन्धः ॥ उ्क्ेत्यमुं राहडिकाप्रबन्धं वीरश्रियं संप्रति लक्षयामः । उद्ाह एकस्तु पदैर्यदीयो ध्रुवस्तु खण्डो बिरुदैर्निबद्धः । ७७२॥
Page 357
संङ्गातसुभं वीरश्रियं तां विबुधा वदन्ति पदैस्तदाभोग इह क्रियेत। भवेदनिर्युक्त इह प्रबन्धस्तालेन बन्धाद्विरुदैः पदैश्च ॥ ७७३ ॥ तयङ्गो भवेद्द्ावनिकाख्यजाति: स्यान्मङ्गलाचारमथामनामः ।
-
॥ मङ्गलाचारप्रबन्धः ॥ - यः कैशिकीसंज्ञकरागयुक्तो निःसारुतालेन तथा निबद्धः । ७७४॥ अन्ते स्वरैश्चापि समन्वितो यस्तं मङ्गलाचारमुदीरयन्ति। स च त्रिधा स्यादिह वृत्ततो वा गद्येन वा स्यादथ वोभयेन॥ ७७५॥ स्यात कैशिकी नाम भवेत्तु भाषा शुद्धस्य रागस्य तु पञ्चमस्य। विरामशीर्ष तु लघुद्रयं स्यान्निःसारुताले मुनिभि: प्रणीतम् ॥ ७७६ ॥ स्वरप्रयोगोऽपि भवेदिहाङ्घ्रेरन्तेऽथ वार्घस्य तथावसाने। स्वरैः समेतः प्रथमार्धमात्रोद्ग्राहो ध्रुवः सस्वरमुत्तरार्धम्॥ ७७७॥ आभोगखण्डः पृथगेव कार्यस्तेन प्रबन्धोऽयमिह् त्रिधातुः। भवेदनिर्यक्त इह स्वरैस्तु पदेन तालेन च भावनी स्यात्॥ ७७८॥
-
॥। धवलप्रबन्धः ॥ ततो वदामो धवलप्रबन्धं स च त्रिधा स्यात् प्रथमा तु कीर्तिः । ततो द्वितीयो विजयस्तृतीयः स्याद्विक्रमो लक्ष्म वदामि तेषाम् ॥ ७७९॥ कीर्तिश्चतुर्मिश्चरणैर्निबद्धा तथैव षड्भिर्विजयोऽङघ्रिभि: स्यात्। स्यादष्टभर्विक्रम एष पादैस्तेषां च मात्रानियमं वदामः ॥७८०॥ आद्ये तृतीये चरणे तु कीर्ते: षण्मात्रिका सा छगणावुभौ च। तुर्ये द्वितीये नगणोऽधिकः स्यात्तथाधिक: स्यादगणोऽथ वा चेत् । ७८१ ॥ कीर्त्याख्यमेतं धवलं वदन्ति तथा वदामो विजयस्य लक्ष्म। आद्ये चतुर्थे च तथैव षष्ठे पादे द्वितीये दगणावुभौ स्तः ॥ ७८२॥ कीर्तेस्तु पादादधिकौ भवेतां शेषस्तृतीयोऽपि च पञ्च्मोऽडूघ्रि:। · षण्मात्रकेण च्छगणेन वा स्यात्तथाधिकौ तौ पगणेन वा स्तः॥। ७८३ ॥। अथोच्यते विक्रमलक्षणं तु पूर्वस्य पादें चगणास्त्रयश्च। अनन्तरं स्याद्दगणस्तथैव ततस्तृतीये दगणास्तथैव॥ ७८४।।
Page 358
डोलीप्रबन्ध: ३३९
तुर्ये च पादे च गणास्त्रयो दास्तथा द्वितीये दगणास्त्रयश्च। ३४१ षष्ठेऽष्टमेऽड्घ्रौ दगणा निरुक्ताश्चत्वार एते खलु विक्रमोऽयम् ॥ ७८५॥ सोऽयं च गेयो धवलस्त्विहाशीर्वादेन सम्यग्धवलेन शब्दैः । यहच्छया वा धवलप्रबन्धो लोकप्रसिद्धो निपुणेन गेय: ।। ७८६।।
भवेदनिर्युक्त इह त्रिधातुस्तारावली स्यात् पदतालबन्धात्।
- ॥। मङ्गलप्रबन्धः ॥ अथोच्यते मङ्गलनामघेयो गेयः स शुद्धस्य तु पञ्चमस्य ॥ ७८७॥
कैशिक्यभिख्ये भवतीह भाषारागेऽथ वान्यत्र तु बोट्टरागे। पदैर्युतो मङ्गलवाचकैश्च विलम्बितेनैव लयेन गेयः ॥। ७८८ ॥।
यद्वा भवेन्मङ्गलनामकेन यच्छन्दसा साधु विरच्यते सः। तच्छन्दसो लक्षणमीरयामो भवेयुरस्मिन् भगणाश्च पञ्न । ७८९॥ प्रत्यङ्रि चेत् स्युर्भगणा चतुश्च ततो गुरु मङ्गलवृत्तमेतत्। उदूग्राहमुख्यं त्विह पूर्ववत् स्यादुक्तं प्रबन्धरित्विह मङ्गलाख्य: ॥ ७९0 ॥
-।। ओवीप्रबन्धः ॥ - ओवीप्रबन्ध: कथितस्तथैष तस्मिश्च भेदा बहवो भवन्ति। पादत्रयस्यापि च पूर्वपादावावृत्तिभेदात् प्रतिपादमेव ॥ ७९१ ॥ प्रासैस्तथाद्यान्तिममध्यभाग्भिश्छन्दोभिरोव्यो बहवो वदन्ति।
-
।। डो(लो)लीप्रबन्धः ।। डो(लो) लीप्रबन्धं प्रतिपादयामः स्थाने यदोवीति पदस्य युक्त्या ।। ७९२॥ डो (लो) लीति शब्दं विनिवेश्य सम्यग्गायन्ति चेत् प्राकृतभाषया च। डो (लो) लीप्रबन्धं तमुदीरयन्ति वक्ष्यामहे संप्रति डोहरीं ताम्॥ ७९३॥
-
॥ डो(ढो)ह्वरीप्रबन्धः ॥ - डोलीपदं चेत् प्रविहाय तस्या: स्थाने प्रयुज्येत च डो(ढो)हरीति। या डो(ढो)हरी सा खलु लाटवाचा गेया निरुक्तेति हि डो(ढो)हरीयम् ॥ ७९४॥
Page 359
३४० सङ्गातसुधा
- ॥ दन्तीप्रबन्धः ॥ - दन्तीप्रबन्धं प्रतिपादयामः पूर्वोदिता या खलु डो(ढो)हरीति। तस्या अनुप्रासयुते निधानं पदत्रयान्ते खलु दन्तिनाम्तः ॥७९५।।
पदप्रयोगात् प्रभवन्ति दन्तिसंज्ञं प्रबन्धं भरतागमज्ञाः । आभोगरुण्डरित्विह येषु नोक्तास्तेषां पदैस्तत्परिकल्पनं स्यात् ॥ ७९६॥
चत्वार ओवीप्रमुखाः प्रबन्धा आभोगहीना इति वेदितव्याः । मेलापकाभोग विवर्जितत्वाद् द्विधातवस्ते कथिता: प्रबन्धाः ॥७९७॥
उद्ग्राहकरत्वादिमखण्डयुग्म खण्डस्तृतीयो ध्रुवसंज्ञक: स्यात्। एते ह्यनियुक्ततया निरुक्ताः साङ्गद्वया: स्युः पदतालबन्धात् ॥ ७९८॥
एवं निरुक्ता: खलु विप्रकीर्णाः पदतत्रिंशदेते सह लक्षणेन।
- ॥। सालगसूडलक्षणम् ॥ - प्रबन्धजातं प्रतिपाद्य तत्रानुद्दिष्टपूर्वाः किल ये प्रबन्धाः ॥७९९॥ वक्ष्यामि तान् सालगसूडसंज्ञान् प्रबन्धभेदान् सह लक्षणेन। सूडप्रबन्धो विविधोऽत्र शुद्धरछायालगश्चेत्यवधारणीयम्॥ ८०० ॥ अष्टाविहैलप्रमुखाः प्रबन्धाः प्रोक्ताः प्रवीणैः किल शुद्धसूडाः । शास्त्रोक्तनैयत्यसमन्वितत्वं शुद्धत्वमित्याहुरिह प्रवीणाः ।।८०१।।
छायालगः सालग इत्युभी च पर्यायभावं भजतश्र शब्दौ। छाया तु सादृश्यपदाभिधया शुद्धस्य या तां लगतीति योगात् ॥ ८०२ ॥। छायालगाख्य: किल शब्द एष व्युत्पादितोऽसौ विशदं मुनीन्द्रैः। ध्रुवं समारभ्य किलैकतालीं यावद्ङ्वेत् सालगसूडसंज्ञः ॥। ८०३ ।। षाड्जीमुखा जातय एव शुद्धा जात्या तु तासां खलु ये श्रयन्ते। एलाद्यः सालगनामधेयाः शुद्धत्वमेषां कथमत्र चोक्तम् ॥ ८०४॥ अत्रोच्यते शास्त्रनियन्त्रितत्वरूपस्य धर्मस्य समानभावात्। षाड्जीमुखानामिव शुद्धतैषां मेलादिमानामुपचारतः स्यात् ॥ ८०५॥ ध्रुवादिमानां किल सालगत्वं शास्त्रोक्तनैयत्यविवर्जनात् स्यात्। *षाड्ज्यादयोऽष्टादश जातयश्च कपालगानं किल कम्बलं च ॥ ८०६।। ते आमरागाश्च तथोपरागा रागा विभाषान्तरभाषिकाश्च। एते तु शुद्धा: कथिताः प्रवीणैः शास्त्रोक्तनैयत्यसमन्वितत्वात्॥ ८०७॥
Page 360
ध्रुवलक्षणम् ३४१ -।। ध्रुवलक्षणम्॥ -
स्यादन्तराख्यः किल खवण्ड एक: स्यादीषदुच्चस्वरगुम्भयुक्तः॥ ८०८ ।। खण्डत्रयं द्विः खलु गेयमेवं खण्डद्वयेनाथ समन्वितस्तु। आभोगखण्डः पुनरत्र कार्यस्तत्राद्यखण्डः पुनरेकधातुः॥ ८०९॥ द्वितीयखण्ड: पुनरत्र खण्डद्वयात्मकस्तत्र किलाद्यखण्ड: । स्यादीषदुच्चस्वर गुम्भयुक्तरत्वेताहगाभोगपदाभिधेय: ।। ८१० ।। स्यान्नेतृनामाङ्कित एव कार्यो मतान्तरेष्वेष विशेष उक्तः । उच्चैकखण्डात्मक एव सोऽयमाभोगनामावयवः किलेति ॥ ८११॥
उद्ग्राहकस्यादिमखण्ड एव न्यासो भवेदस्य समस्तमेतत्। ध्रुवस्य सामान्यमिदं हि लक्ष्म वक्ष्यामहे षोडश तद्विशेषान्॥ ८१२॥
जयन्तनामा प्रथम: किलैको दशाक्षरोदव्वितखण्डयुक्तः । स्यादादितालेन समन्वितश्च तथैव शृङ्गाररसे च गेयः ॥। ८१३॥
श्रोतुश्च गातुश्च तथैव नेतुरायुष्यसंपत्प्रद एष उक्त: । स्याच्छेखराह्वानयुतात् परो द्वादशाक्षरोदव्वितखण्डयुक्त।।८१४।। निःसारुतालेन समन्वितश्च वीराभिधाने च रसे च गेयः । श्रोतुश्च गातुश्च तथैव नेतुः सौभाग्यऋद्विप्रद एष उक्कः ॥ ८१५॥ उद्ग्राहसंज्ञः स तु यस्य खण्डे त्रयोदश स्युः पुनरक्षराणि। हास्यो रसः स्यात् प्रतिमण्ठतालो नेतुश्च वंशर्द्धिकरश्च सोऽयम्॥८१६॥ भवेत्तुरीयो मधुरोऽस्य खण्डे चतुर्दश स्युः पुनरक्षराणि तालेन युक्तो हयलीलनाम्ना भोगप्रदोऽयं करुणे च गेय: ॥ ८१७ ॥ स्यान्निर्मलाख्यं खलु निर्मलोऽस्य खण्डो भवेत् पञ्दशाक्षरीभाक्। क्रीडाख्यताल: प्रथमो रसश्च प्रथां विधत्ते पुनरेष नेतुः ॥८१८॥ स्यात् कुन्तल: षोडशवर्णयुक्त: खण्डस्तु तालो लघुशेखरस्य। ताले लघुः स्याल्घुशेखराढ्ये विरामशीषः पुनरेक एव ।। ८१९ ।। रसोड्डटा नेतुरभीष्टदायी स्यात् सप्मः कोमलनामधेयः । खण्डो भवेत् सप्तदशाक्षरीयुक्तालस्तु झम्पाख्य इहोपदिष्टः ॥ ८२० ॥ झम्पाख्यताले तु विरामशीर्ष द्रुतद्वयं चापि लघुस्तथैव। शृङ्गांरभेदे किल विप्रलम्भे गेयो रसे शीलकरश्च नेतुः ॥८२१॥
Page 361
३४२ सङ्गीतसुवा
निःसारुतालोऽन च वीरसंज्ञे रसे च गेयोऽधिकटर्षदायी ॥ ८२२ ।। स नन्दनो यस्य च खण्ड एव चैकोनिता विंशतिरक्षराणि। वीरे च शृङ्गाररसे निरुक्तस्तथैकताल्या युत इष्टदश्च ॥ ८२३॥
चन्द्रादिम: शेखर एष तस्य खण्डे तथा विंशतिरक्षराणि। शृङ्गारहास्यौ च तथैव वीरो रसश्च तालः प्रतिमण्ठनामा ॥ ८२४॥ नेतुस्तथैवेष्टफलप्रदायी स कामदो यस्य तु खण्डकेडस्मिन्। एकाधिका विंशतिरक्षराणि तथैव तालः प्रतिमण्ठनामा ॥ ८२५॥
शृङ्गारनामात्र रसश्च नेतु: श्रोतुस्तथैवेष्टफलप्रदारी। ध्रुवस्य भेदो विजयोडस्य रूण्डे द्वाविंशतिश्चैव तथाऽक्षराणि ॥ ८२६॥
हास्यो रसस्तस्य तु ताल एष द्वितीयकश्चायुरभीष्टद्श्च । कंदर्पसंज्ञः पुनरत्र खण्डे भान्ति त्रयोविंशतिरक्षराणि॥ ८२७ ॥ शृङ्गारहास्यौ करुणो रसश्च् स्यादातिताल: स हि भोगद्श्च । नृणां तथायं शिवसंमतञ्च निरूप्यतेऽसौ जयमङ्गलोऽस्य ॥ ८२८॥
खण्डे चतुर्विशतिरक्षराणि क्रीडाख्यताल: प्रथमो रसश्च। जयप्रदो मङ्गलद्श्च नेतुरुत्साहदायी भवति प्रबन्धः ॥ ८२९॥
ध्रुवस्य भेदस्तिलकोऽस्य खण्डे पञ्च्ोत्तरा विंशतिरक्षराणि। तथैकताल्या रचितश्च वीरशृङ्गारयोरेष भवेत् प्रयोगः ॥ ८३० ।। ध्रुवस्य खण्डो ललितोऽस्य रुण्डे षडुत्तरा विंशतिरक्षराणि। नालेन युक्त: प्रतिमण्ठनाम्ना शृङ्गारयोग: स हि शीलदः स्यात् । ८३१ ।। उक्तस्त्वयं वर्णविधि: प्रबन्धे खण्डद्ूयें वा निखिले च रुण्डे। वेद्योऽस्य गाने किल शास्त्ररीत्या शतक्रतूनां फलमामनन्ति ॥ ८३२ ॥
-।। मण्ठप्रबन्ध: ॥ - ध्रुवप्रबन्धं प्रतिपाद्य पश्चान्मण्ठप्रबन्धस्य च लक्ष्म वक्ष्ये। उद्ग्राहखण्डं यदि युग्मयुक्तं यद्वैकयत्यान्विितमेव कार्यम् ॥८३३॥ द्विर्गेयमस्मात् परतो ध्रुवाख्यं वैकल्पिकं चैक तत्तोऽन्तराख्यम्। ध्रुवाख्यखण्डं पुनरेव गीत्वाभोगाख्यखण्ड: सकृदेव गेयः ॥। ८३४।। न्यासो ध्रुवे यत्र स मण्ठनामा प्रोक्त: स मण्ठाभिधतालयुक्त: । षोढा भवेदेष च तद्विधासु जयप्रियाख्यः प्रथमो निरुक्तः ॥ ८३५॥
Page 362
निःसारुप्रबन्ध: वीरे रसे यो जगणात्मकेन तालेन मण्ठेन समन्वितश्च। शृङ्गारसंज्ञे भगणात्मकेन मण्ठेन चेन्मङ्गलको द्वितीयः ॥८३६॥ शृद्गारसंज्ञे सगणात्मकेन मण्ठेन चेत् सुन्दरकस्तृतीयः। मण्ठेन युक्तो रगणात्मकेन स्याद्वल्लमोऽसौ करुणे नियोज्यः ॥ ८३७ ।। विरामसंयुक्तगणात्मकेन कलापको हास्यरसे नियोज्यः । विरामसंयुग्दुतयुग्मकश्च लध्वात्मना मण्ठपदाभिधेन ।। ८३८ ।। स्याददद्गतेऽसी कमलम्तु षष्ठो मण्ठप्रबन्धास्तु षडेवमुक्ता: । मण्ठाख्यतालस्य च षडिघत्वान्मण्ठप्रबन्धोऽपि च षट्प्रकारः ॥ ८३९
-।। प्रतिमण्ठप्रबन्धः ॥ - मण्ठप्रबन्धं प्रतिपाद्य सम्यङ् निरुप्यतेSसौ प्रतिमण्ठसंज्ञः। प्रबन्धकस्य प्रतिमण्ठनाम्न उद्गाहमुखुयं खलु लक्षणं चत् ॥। ८४० ।। सर्व तु तन्मण्ठवदेव वेद्यं ततो विशेषः प्रतिपाद्यतेडस्मिन्। तालेन गेयः प्रतिमण्ठनाम्ना चतुर्विधः सोडयमिह प्रबन्धः ॥ ८४१॥ आद्यः प्रबन्धसत्वमराभिधानः शृङ्गारसंज्ञे गुरुणैककेन। विरामशीषद्रुतयुग्मदश्च लघुद्वयेनैव तु गीयमानः ॥ ८४२॥। ताराभिधोऽसौ प्रतिमण्ठभेदा वीरे च रौद्रे च रसे द्वितीयः । विरामयुक्तेन लघुत्रयेण गीतो विचार: करुणो रसः स्यात् ॥ ८४३॥ अय तृतीयः प्रतिमण्ठभेदः कुन्दाभिधानप्रतिमण्ठसंज्ञः । विराममध्येन लघुत्रयेण स्यादद्भुते चैष रसे नियोज्यः ॥८४४॥ चत्वार एते प्रतिमण्ठभेदा: शृङ्गारके चेति वदन्ति केचित् ।
-।। निःसारुप्रबन्धः ॥ - निरुप्य चैवं प्रतिमण्ठमेदान्निःसारुकं संप्रति लक्षयामः ॥८४५।। तल्लक्षणं चोदितमण्ठवन् स्यान्निःसारुतालोऽत्र सवेद्विशेषः । स षड्विधस्तत्र तथाद् एष वैकुन्दनामाथ च तस्य लक्ष्म।। ८४६ द्रुतद्वयाच्चैव लघुद्वयेन स मङ्गले गीयत एष भेद: । आनन्दसंज्ञो भवति द्वितीयो विरामशीर्षो द्रुतयोयुगेन ।। ८४७।।
Page 363
सङ्गातसुधा
आनन्दहेतुः स भवेंत् प्रबन्धः कान्तारकस्त्वत्र भवेत्तृतीयः । स गीयमान: किल विप्रलम्भे लघो: परस्ताद् गुरुणा निबद्: ॥ ८४८॥ भवेच्तुर्थः समरः स वीरे लघुद्वयेनैव विरामशीर्षः । स पञ्चमः स्यादिह वाञ्छिताख्यो लघुत्रयाच्च द्रुतयोर्युगेन।। ८४९॥ स वाञ्छितानां भवति प्रदाता षष्ठो विशालोस्य च लक्ष्म वक्ष्ये। संभोगशृङ्गाररसे स गेयो द्रुतद्वयाश्चेहघुना निबद्धः । ८५० ।। एवं निरुक्त: खलु षड्विधोऽयं निःसारुकाख्यो भवति प्रबन्धः ।
-॥। अड्डप्रबन्धः ॥ अथाड्डतालाह्वयवत्प्रबन्धं निरूपयामः सह लक्षणेन ।। ८५१॥ यस्त्वडतालेन निबध्यमान: षोढा भवेदेष किल प्रबन्धः । निःशङ्कनामाडतर भवेदिहाद्यो लघोर्गुरोश्च द्रुतयोर्युगेन ॥ ८५२ ॥ स विस्मये चैव रसे नियोज्य: शङ्काभिधस्त्वत्र भवेद् द्वितीयः । लघोः परस्ताद् द्रुतयोयुगेन वीरे च शृङ्गाररसे प्रयोज्यः ॥ ८५३॥ शीलाख्यभेदस्तु भव्ेत्तृतीयो विरामशीर्षो द्रुतयुग्मतस्तु । एष प्रबन्धो लघुना च शान्ते रसे नियोज्य: रलु शीलनामा ॥८५४॥ चारो भवेत्तत्र हि तच्चतुर्थो द्रुतद्वयोश्ज्वैव लघोर्गुरोश्च। वीरेऽद्द्ुते चैव रसे नियोज्यश्चाराभिधेयो सवति प्रबन्धः ॥ ८५५॥ स्यात् पञ्चमोडयं मकरन्दनामा द्रुतद्वयाद्यो गुरुणा निबद्धः। शृङ्गारसंज्ञे च रसे नियोज्यः षष्ठोऽस्य भेदो विजयाभिधेय: ॥८५६।। द्रुतद्वयाद्यो लघुना निबद्धो वीरे रसे यश्च भवेन्नियोज्यः । एतस्य तालस्य मता: प्रभेदा निरूपिताः संप्रति लक्षणेन ॥ ८५७ ॥
-।। रासप्रबन्धः ॥ - रासप्रबन्धस्तु निरूप्यतेऽथ यो रासतालेन भवेन्निंबद्धः । स चादिताले लघुरेव चोक्तः सोडयं प्रबन्धस्तु मतश्चतुर्धा । ८५८ ।। आद्यो भवेत्तत्र विनोदनामा चालापकश्चेत् कियते घ्रुवान्ते। स कौतुके चैव रसे नियोज्यस्तस्य द्वितीयो वरदोऽथ भेद: ॥ ८५९॥ आलापकश्चेद् ध्रुवखण्डमध्ये देवस्तुतौ स्याद्वरदाभिधानः । नन्दस्तृतीया कथिता भिदाऽस्योद्ग्राहस्य खण्डद्वयसंयुतस्य ॥ ८६० ॥
Page 364
रूपक लक्षणम् २४१
आलापबद्धं यदि चाद्यखण्डं नन्दाभिधश्चाभ्युदये स गेयः। तुर्यः स भेद: रूलु कम्बुजाख्यरत्वालापकश्चेद् आथतो ध्रुवादौ॥ ८६१॥ स कम्बुजाख्य: करुणे रसे स्याच्चतुर्विवोऽसाविति रास उक्तः । रासप्रबन्धेष्वखिलेष्वथैषूद्ग्राहो द्विखुण्ड: परिकल्पनीयः ॥ ८६२॥
-।। एकतालीप्रबन्धः ॥ - रासप्रबन्धं प्रतिपाद्य सम्यगथैकतालीं प्रतिपाद्यामः । शुद्धा निरुक्ता हि परैकताली निरु्यते सालगसंज्ञकैषा ॥ ८६३॥ स्यादेकताल्या रचितैकताली त्रिधा मतोऽसौ भवति प्रबन्ध: । आद्यः प्रभेदोऽस्य भवेद्रमाख्य उद्ग्राहको यद्विरतिद्वयीभाक्॥ ८६४॥ स तूच्चगीतस्तदनन्तरं चान्तराख्यरण्डोऽक्षरनिर्मितश्च। एषा रमा नाम मतैकताली श्रोतुश्च गातुर्भवति श्रियै सा ॥ ८६५ ॥ तस्या द्वितीया रलु चन्द्रिका चोद्ग्राहो द्विखण्डो भवतीह यस्याम्। आलापरूप: पुनरन्तराख्यो घनद्रुता स्याद्नयत्यभिख्या ॥ ८६६ ।। ज्ेया घनप्राससमन्विता च सौभाग्यदा सैव तु चन्द्रिका स्यात्। अथैकताली विपुला तृतीयोद्गाहस्य चालाप इहादिम: स्यात् ॥ ८६७॥ आनन्ददा सा विपुला मता स्यादालापलक्ष्माथ निरूपयामः । आलप्तिरुक्ता गमकप्रधाना या त्वक्षरेणैव विवर्जिता स्यात् ॥ ८६८। आलापमेतं प्रवदन्ति सन्तः प्रयोगशब्देन स एव वाच्यः । इतीरिताः सालगसूडसंज्ञाः सप्त प्रबन्धा: सह लक्षणेन । ८६९॥
-॥। रूपकलंक्षणम् ॥ - अथ प्रबन्धस्य किलोत्तमादिभेदानशेषान् प्रतिपाद्यामः । व्यक्त्यादिभिर्यन्तु गुणैः समेतं लोकादिदुष्टत्व्रविवर्जितं च ॥। ८७० ॥ नवं च तद्रूपकमुत्तमं स्यान्नवत्वहेतूनथ वर्णयामः । रागस्य घातोश्च तथैव मातोस्तालस्य चैवाथ लयस्य चैव ।। ८७१॥ तथौडुवस्यापि नवत्वदोगात् स्याद्रूपकं नूननशब्दवाच्यम्। स्थायस्य रागांशपदोदितस्य भेदेन रागस्तु नवत्वमेति ॥ ८७२॥ रागान्तरस्यावयवस्तु रागे स्यादंशनामा कथितः पुरेव। तेषां विभेदेन च धातुभेदे मातोरनवत्वं त्वभिधीयतेऽथ॥ ८७३॥
Page 365
सङ्गीतसुधा
वाक्यार्थभेदेन रसप्रभदैः शब्दार्थतालंकृतिभेदतश्च। मातोर्नवत्वं प्रवदन्ति सन्तस्तालस्य नव्यत्वविधान्वदामः ॥ ८७४॥ लयप्रभेदाद् ग्रहभेदतञ्च तालेन चोक्ता नवता मुनीन्द्रैः। हेतुं वदामो लयनूननत्वे तथाऽस्य विश्रान्तिविधां विहाय । ८७५॥
रुणडस्य विश्रान्तिविधान्तरेण तालस्य विश्रान्तिविपर्ययेण। अथौडुवस्यापि नवत्वहेतून् सर्वान् वदामो रचनात्मकस्य। ८७६ ।। छन्दोविशेषाद्गगभेदतो वा न्यासप्रभेदाद ग्रहभेदतो वा। तथा प्रबन्धावयवप्रभेद: स्यादौडुवात्मा रचना नव स्यात् ॥ ८७७॥ तन्मध्यकस्यापि च रूपक: स्यात् त्रैविध्यमेवं प्रतिपादयामः । आद्यं तु तेषां परिवृत्तमुक्तं पटान्तरं तत्र भवेद् द्वितीयम् ॥ ८७८॥
स्यान्द्रञ्जनीमिश्रमिदं तृतीयं तेषां च लक्ष्म प्रतिपादयामः । छाया रवेदरूपकसंश्रितायाः स्थानान्तरं गच्छति चैतदेव ॥ ८७९॥ स्वस्थानकेनाथ नवेन तद्ठद्रागेण यस्यां परिवृत्तिरिष्ठा। तालन वा तत्परिवृत्तमुक्तं तस्यैव लक्ष्मान्तरमामनामः ॥ ८८०।।
यत् स्थानकं स्थायिनि यत्र पूर्व स्यादरूपके संचरितं तदेव। स्वस्थानमुक्तं हि तदन्तयभावः स्थायिन्यभिन्ने परिवतनं स्यात् ॥ ८८१॥
रागाय तस्मिन् परिवृत्ततो वा तालस्य वा तत् परिवृत्तमुक्तम्। पटान्तरं संप्रति लक्षयामो रागे च ताले च रसे च बन्धम् ॥ ८८२॥ स्थायस्य मातोञ्च विचित्रभावाद गुणैरुपेतं तु पटान्तरं स्यात्। तन्द्ञ्जनीसंश्रितमामनामसत्वन्यन यद्रूपकधातुतस्तु ॥ ८८३।। तस्य द्वितीयस्त्वनुसारयुक्त: खल्लोंत्तरं संप्रति लक्षयामः । छाया मता या खलु रूपकस्य स्थानान्तराप्तौ खल पूर्वकस्य ॥ ८८४।। मात्वन्तरेणैव विरच्यते चेत्तदा खलोत्तारममुं वदन्ति। पूर्वत्र रागे च तथैव ताले किंचित्तु धात्वन्तरनिर्मितोऽयम् ॥८८५॥ तंदानुसार: कथितः प्रभेद इतीरिताञ्चात्र तु तत्प्रभेदाः ।
-॥। गीतगुणा: ॥- तद्रूपकं च त्रिविधं निरूप्य ततः परं गीतगुणान् वदामः ॥ ८८६॥
Page 366
गीतदोषा: ३४७ दशैव ते गीतगुणा: प्रदिश्ठास्तेषां गुणानामिह लक्ष्म वक्ष्ये। स्फुटैः स्वरैर्व्यक्तपदाभिधेयो गीतस्य चाद्यस्य गुणो निरुक्तः ॥ ८८७॥ पूर्णाभिधे रागपदस्वराणां पूर्त्या द्वितीयस्तु गुणो मतः स्यात्। प्रसन्नसंज्ञस्तु गुणस्तृतीयो वेद्यस्तथायं प्रकटार्थभावात् ॥ ८८८।। तुर्यो गुण: स्यात् सुकुमारसंज्ञो निरूपितः सुष्ठुतरत्वयोगात्। अलंकृताख्यस्तु गुणस्तथान्यः स्थानत्रये चापि समुद्द्धवत्वे ॥ ८८९॥ स्थानस्य वर्णस्य लयस्य चापि समानतायाः समनामकोऽन्यः । स्याद्वल्लकीवंशनिनादसाम्ये सुरक्तनामा किल सप्तमः स्यात् ॥ ८९०॥ नी चोच्चमध्यप्रमुखस्वराणां स्याच्छुक्ष्तायां च गुणोटमोयम् शक्ष्णाभिधोऽन्यस्तु विकृष्ठनामा चोच्चैस्तथोच्चारणयोगतः स्यात् ॥८९१॥ अन्यो जनानां च मनोहरत्वे गुणो निरुक्तो मधुराभिधानः । इतीरिता गीतगुणा दशैवं गीतस्य दोषान् दश वर्णयामः ॥८९०॥
-॥ गीतदोषाः ॥- यल्लोकदुष्टं तु तथाद्यदोष: शास्त्रेण दुष् तुतथा द्वितीयः । अथो भवेन्न्यूनतया तृतीयो दोषो निरुक्तः श्रुतितो विरोधी ॥ ८९३ ॥ निषिद्धकाले खलु गानतः स्याद्दोषो भवेत् कालविरोधिरूपः । अन्यस्तु दोष: पुनरुक्तियुक्तं कलाविहीनं तु परोऽस्य दोषः ॥ ८९४। गतक्रमं सप्तम एष दोषस्तथाष्टमः स्याच्च पदार्थरूप: । ग्राम्यं तु यत् स्यान्नवमो निरुक्तः संदिग्धरूपं दशमो मतः स्यात् ॥ ८९५॥ गीतस्य दोषा दश ये निरुक्ता यथाक्रमं गायकबोधहेतोः । निरूपितोऽस्माभिरिह प्रबन्धाध्यायो बुधानां परितोषहेतोः ॥ ८९६॥
इति रघुनाथभूपविरचितायां सङ्गीतसुधायाम् चतुर्थ: प्रबन्धाध्यायः समाप्तः