Books / Ujjwalanilamani KM 95

1. Ujjwalanilamani KM 95

Page 2

KĀVYAMĀLĀ. 95.

THE

UJJWALANILAMANI BY SHRĪ RŪPAGOSWĀMĪ With the Commentaries of Jivagoswe and Vishvanatha Chakravarty.

EDITED BY

MAHĀMAHOPĀDHYĀYA PAŅDIT DURGAPRASĀD AND

WASUDEV LAYMAN SASTRI PANSĪKAR

Second Edition.

PUBLISHED BY

PĀNDURANG JĀWAJĪ, PROPRIETOR OF THE "NIRNAYA SAGAR" PRESE,

BOMBAY.

Price geracemees.

Page 3

[ All rights reserved by the publisher. ]

UBLTSHER :- Pandurang Jawaji, ? at the Nirnaya-sagar Press, RINTER :- Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombay

Page 4

काव्यमाला. ९५.

श्रीमद्रूपगोस्वामिविरचित-

उज्ज्वलनीलमणिः ।

श्रीमज्जीवगोस्वामिविरचितया लोचनरोचन्याख्यया, श्रीमद्विश्वनाथचक्रवर्तिविरचितयानन्दचन्द्रिका- खयया च टीकया भासित:।

महामहोपाध्यायपण्डितकेदारनाथेन, मुम्बापुरवासिपणशीकरो- पाह्ललक्ष्मणशर्मात्मजवासुदेवशर्मणा च संशोधितः ।

द्वितीयं संस्करणम्।

मुम्बय्यां पाण्डुरङ्ग जावजी, इत्येतैः खीये निर्णयसागरमुद्रणालये मुद्रापयित्वा प्रकाशितः ।

शाक: १८५४, खि्रिस्ताब्द: १९३२.

Page 6

भूमिका।

श्रीमद्रूपगोस्वामी श्रीमजीवगोस्वामी च श्रीगौडमहाप्रभोः समसामयिकौ। श्रीगौडमहाप्रभोः श्रीगारमहाप्रभोरवा प्रादुर्भावकाल: (१५३३ स्त्रि० अ० ) श्रीचैतन्यचन्द्रोदयाख्यस्य नाटकस्य भूमिकायां प्रतिपादित एवास्माभि:। अतः स एव (१५३₹ A. D.) श्रीरूपगोखामिसत्ताकालः । श्रीजीवगोस्वामिविषये च विश्वकोषनाम्नि महाकोषे यद्वर्णनमस्माभिरुपलब्धं तदत्र स्पष्टं विलिखाम :- गौडसंप्रदायस्य प्रवर्तकेषु षट्सु गोसामिष्वन्यतमो जीवगोखामी १४४५ शक- संवत्सरे (१५२३ A. D.) जन्माग्रहीदिति वैष्णवदिग्दार्शेनी। मतान्तरे जन्मग्रहणकाल: १४३५। जन्मतिथिः पौषशुककतृतीया। मतद्वये विंशति वत्स- रान् गृहे वासः, ततः पञ्चाशीतिवर्षोणि यावद्वृन्दावनवासः । तत्रैव च १५४० शककाले सायुज्यमोक्ष इति। श्रीजीवगोख्ामिन: पिता वल्लभनामा। बाकलाचन्द्रद्वीपे, फतैयाबादनगरे, रामकेलिग्रामे चेति स्थानन्रयमेवासीद्विलासभूमि: सवामिनोऽस्य। अस्य ज्येष्ठतातौ श्रीसनातनरूपगोस्वामिनौ हुसेनशाहमन्त्रिणावास्ताम्। अस्य वंशपत्रम्- जगद्गुरुरनिरुद्धः (कर्णाटराज्यं १३३८ शाके प्राप)

रूपेश्वरः हरिहरः

पद्मनाभ: -

पुरुषोत्तम:, जगनाथः, नारायण:, मुरारि:, मुकुन्द

कुमारः

नामानुपलब्धिः । सनातनः। रूप: वल्लभः

श्रीजीवगोस्वामी।

Page 7

श्रीजीवगोखामिरचिता ग्रन्थास्तेते- १ षट्संदभ: २ गोपालचम्पू: ३. गोविन्दबिरुदावली ४ हरिनामामृतव्याकरणम् (श्रीचैतन्याघीतव्याकरणस्य वृत्तिरूपम्) ५ धातुसूत्रमालिका ६ माधवमहोत्सव: ७ संकल्पकल्पमृङ्गग्रन्थ: ८ उज्ज्वलनीलमणिटीका ९ श्रीराधाकृष्णः (कश्चनवङ्गभाषामयो ग्रन्थो भवेत्) १० भक्तिरसामृतसिन्धुः ११ वैष्णवतोषिणी १२ भागवतसंदर्भ: १३ गोपालतापिनीटीका १४ अग्निपुराणीयगायत्रीभाष्यम्। १५ ब्रह्मसंहितोपनिषट्टीका चेति। द्वितीयष्टीकाकर्ता श्रीविश्वनाथचकवर्ती चानन्दचन्द्रिकायाः पर्यवसाने समुप- लभ्यमानात्- 'आश्विने शुककपश्चम्यां वसुचन्द्रकलामिते। शाके वृन्दावने पूर्णाभवदानन्दचन्द्रिका ।।' अस्माच्छोकादेवं ज्ञायते यत् १६१८ शकसंवत्सर आसीदिति। नास्य विषये कोऽपि विशेषोऽस्माभिर्ज्ञातः । पुस्तकस्यास्य मुद्रापणे वृन्दावनस्थैः श्रीमद्राधाचरणगोस्वामिमहानुभावैः परमं पुस्तकादिप्रेषणसाहाय्यमुररीकृतमिति धन्यवादार्पणेनैवानृण्यसंपादनं युक्तमिति न स्यादत्र संमति: पाठकानाम्। अस्मद्गुरुवर श्री६ श्रीमधुसूदनशर्मविद्यावाचस्पतिमहोदयानामप्येकमासीत्पु- स्तकमत्र शोधने सहायरूपमिति निवेदयतः सहर्ष संशोधनकर्तारौ।

Page 8

श्री:॥

उञ्जवलनीलमणेर्विषयानुंक्ंम: ।

विषयः पृष्ठ. विषयः । पृष्ठं.

मङ्लाचरणम् ... १ आप्तदूती ... ... ४७ ... ...

मधुरलक्षणम् ... ५ इति नायकसहायप्रकरणम् । ... D तत्र विभावेष्वालम्बना: ५ अथ हरिवलभाः।

तत्र कृष्ण: तत्र स्वकीया :... ४९ ...

तस्य गुणा: ... ... ८ अथ परकीया: ... ५२

तत्र पतिः ९ तन्न कन्यका: ... ५३ ... ... अथोपपतिः १२ अथ परोढा: ... ... ६१ अथानुकूल: ... ... ३१ तंत्न साधनपराः -- ... ... ६४ ... धीरोदात्तानुकूल: ... ३२ तत्र यौथिक्यः ६४ ...

धीरललितानुकूल: ३३ तत्र मुनयः ६५ धी रशान्तानुकूल: ... ३४ अथोपनिषद: ... ६५ ... ...

धीरोद्धतानुकूल: ३५ अथायौिक्यः ... ६७

अथ दक्षिण :... ३६ अथ देव्य: .. .. d ६९

अथ शठः ३८ अथ नित्यप्रियाः ... ७० ...

अथ धृष्टः इति हरिप्रियाप्रकरणम्। o. ३९ ... इति नायकभेदाः। अथ राधाप्रकरणम्। अथ नायकसहायमेदा:। तत्र सुष्ठकान्तखरूपा ... ७५

तन्न चेट: ... ४१ अथ धृतषोडशशङ्वारा ... ... ७७

अथ विटः ... ४१ अथ द्वादशाभरणाश्रिता ... ...

अथ विदूषक: ४२ अथ वृन्दावनेश्वरीगुणा: ७८ ... अथ पीठमर्द: ४४ तत्र मधुरा ... ७९

अथ प्रियनर्मसखः ४५ अथ नववया :... ७९ 0.5

तत्र खयंदूती ... ४६ अथ चलापाङी ... .. ... ८०

वंशी ४७ अथोज्वलस्मिता ८०

Page 9

विषयः । पृष्ठं. विषयः । पृष्ठं.

अथ चारुसौभाग्य रेखाढ्या ... ८१ सव्रीडरतप्रयत्ना १११ ... अथ गन्धोन्मादितमाधवा ८२ रोषकृतबाष्पमाना ... ११२ अथ संगीतप्रसराभिज्ञा ८३ अथ माने विमुखी ११२ ... ...

अथ रम्यवाक् तत्र मृद्ठी ... ८३ ... ११३ ... ... अथ नर्मपण्डिता अक्षमा ११३ ... ८३ ...

अथ विनीता ... ८५ अथ मध्या ... ... ११४ ... ..

अथ करुणापूर्णा ८५ तत्र समानलजजामदना ... ११४ ...

अथ विद्ग्धा ... ८६ प्रोद्यत्तारुण्यंशालिनी ११५ .. ... ... ...

अथ पाटवान्विता ८६ किंचित्प्रगल्भोकि: ११५ ...

अथ लज्ाशीला ८७ मोहान्तसुरतक्षमां ११६ ...

अथ सुमयोदा ... ८७ माने कोमला ११६ ... .. ... अथ धैर्यशालिनी माने कर्कशा ... ११७ ... ... ९० ...

अथ गाम्भीर्यशालिनी ९० तन्न धीरमध्या ... ... ११८

अथ सुविलासा ९१ अथाधीरमध्या ... ११८ ... अथ महाभावपरमोत्कर्षतर्षिणी ९२ अथ धीराधीरमघ्या ११९

अथ गोकुलप्रेमवसति: अथ प्रगल्भा ... १२२ ... ९३

अथ जगच्छ्रणीलसदशा: ९४ तत्र पूर्णतारुण्या १२२ ...

९५ अथ मदान्धा ... ... १२३

अथ सखी प्रणयाधीना ... ९५ उरुरतोत्सुका ... १२३ ... ...

अथ कृष्णप्रियावलीमुख्या भूरिभावोद्रमाभिज्ञा ... ९६ ... १२४

अथ संतताश्रवकेशवा ... ९६ रसाकान्तवल्लभा १२५ ... इति, वृन्दावनेश्वरीप्रकरणम् अतिप्राढोकि :... ... १२५

अथ नायिकाभेदाः। अतिप्रोढचेष्टा ... ... १२६ ...

तत्र मुग्धा 90८ मानेSत्यन्तकर्कशा १२६ .. ... तत्र नववुया: तत्र धीरप्रगल्भा १२६ ... ...

नवकामा ... ... १०९ अधीरप्रगल्भा १२८ ... रतौ वामाः ११० धीराधीरप्रगल्भा .. १२९ ... ...

सखीवसा १११ तत्राभिसारिका ... ... १३१

Page 10

विष्यः । पृष्ठं विषयः । पृष्ठं. तत्राभिसारयित्री ... १३३ अथ लघुम्या ... ... १५३ अथ ज्योत्त्यां स्वयमभिसारिका १३४ अथ लघुमृद्दी ... ' ... ... १५४ तामस्याम् ... १३४ अथात्यन्तिकलघुः ... ... १५४ अथ वासकसज्जा १३४ इति यूथेश्वरीभेदाः । ... ... अथोत्कण्ठिता ... ... १३५ अथ दूतीभेदा। अथ खण्डिता ... १३६ तत्र खयंदूती ... ... १५५ अथ विप्नलब्धा ... १३७ स्ाभियोगत्रैविध्यम् ... ... १५५ अथ कलहान्तरिता १३७ तत्र वाचिक: ... ... १५६ ... अथ प्रोषितभर्तृका ... ... १३८ तत्र कृष्णविषयः ... ... १५६ अथ स्वाधीनभतृका ... १४० तत्र साक्षातू .... .. ... १५६ तत्रोत्तमा अथाक्षेपेण शब्दोत्थो व्यङ्ग्य :... ... १४२ १५६

तत्र मध्यमा ... १४२ अर्थोत्थ: ... ... १५७ तत्र कनिष्ठा ... ... १४३ अथ याज्र्ा. .... १५८ इति नायिकाभेदाः । अर्थात्थः ... ... ... १५९ अथ्र यूथेश्वरीभेदाः। ... ... १६०

तत्राधिकात्रिकम् १४७ अर्थात्थः ... .. ... ' .. १६० तत्रात्यन्तिक्यधिका ... १४८ अथ व्यपदेशः ... ... ... १६१ अथापेक्षिकाधिका ... १४९ तेन शब्दोत्थ: ... ... ... १६१ तत्राधिकग्रवरा १४९ अर्थोत्थः १६२ ... ... ...

अथाधिकमध्या १४९ अथ पुरःस्थविषयः ... ... ... १६२ अथाधिकमृद्वी तत्र शब्दोत्थः ... ... १५० ... ... १६२

अथ समात्रिकम् १५० अर्थोत्थः १६३ ... ... ...

तत्र समप्रखरा १५० अथाद्गिकाः ... ... .4. ... .. १६३

अथ सममध्या १५१ तत्राइ्कलिस्फोटनम् १६४ 5 .. .. . ... ...

अथ सममृद्वी ... १५१ व्याजसंभ्रमादङ्गसंवृतिः १६४ ... ...

अथ लघुत्रिकम् १५२ पदा भूलेखनम् ... १६४ तत्रापेक्षिकलघुः १५२ कर्णकण्डूतिः ... ... ... १६५

तत्र लघुप्रखरा १५३ तिलकक्रिया ... . . १६५

Page 11

१०

विषयः । पृष्ठं. विषयः । ஏஏ்.

वेशक्रिया १६६ वनदेवी ... ... १७७.

भ्रुवोधूतिः १६६ दूत्यद्वैविध्यम् ... ... ... १७७

सख्यामाश्रलेपः ... १६६ अथ सखी ... ... १७८ ...

सखीताडनम् ... १६६ तत्र कृष्णप्रियायां वाच्यम्® १७९ ...

अधरदशः १६७ व्यङ्गयम् १७९ ... ... ...

हारादिगुम्फ: ... ... १६७ अथ कृष्णे वाच्यम् . १८०

मण्डनशिज्ञितम् ... ... १६७ अथ व्यङ्ग्यम् ... ... १८०

दोमूलप्रकटनम् तत्र तत्प्रियायाः पुरः कृष्णे ... १६७

कृष्णनामाभिलेखनम् ... १६८ साक्षाद्यक्यम् .. ... १८०

तरौ लताया योग: ... ... १६८ व्यपदेशन व्यक्ष्यम् ... १८१

अथ चाक्ुषा :... तत्प्रियायाः पश्चात्साक्षाद्यक्गयम् १८२ ... १६८

तत्र नेत्रस्मितम् तत्र क्रियासाध्यम् ... १६९ ... ... १८३ ...

ने त्राध मुद्रा १६९ अथ वाचिकम् १८३

नेत्रान्तत्रम: - १६3 तत्र वाच्यम् ... १८३ ... " ..

नेत्रान्त कूणनम् १७० १८४ ... ... अथ व्यङ्गयम् ... साचीक्षा ... १७० तत्र शब्दमूलम् १८५

वामटक्प्रेक्षा ... १७१ अथार्थमूलम् ... १८५

कटाक्ष: ... १७१ तत्र खवपत्याद्याक्षेपेण ... ... १८६ ... ...

अथाप्तदूती गोविन्दादेः प्रशंसया ... १८७ ... १७३ ... ... अथामितार्था ... १७३ दे शादिवैशिष्ट्येन ... 1 .. १८८

तत्रामितार्था. १७३ इति दूतीभेदाः । -.. अथ निसृषाथो १७४ अथ सखीप्रकरणम्। अथ पत्रद्वारी ... १७५ तत्रात्यन्तिकाधिकात्रिकम् ... १९० तत्र शिल्पकारी १७५ तन्रात्यन्ताधिकप्रखरा ... ... १९० दवज्ञा ... .. १७६ तत्रात्यन्ताधिकमध्या ... .. १९१ ... लिद्विनी ... १७६ अथात्यन्ताधिकमृद्वी ... १९१ 0 ..

परिचारिका १७७ अथापेक्षिकाधिकात्रिकम् ... १९२ धात्रेयी ... ... १७७ तत्रापेक्षिकाधिकप्रखरा १९१

Page 12

११

विषय: । पृष्ठं, विषयः । ரவ். अथाधिकमध्या ... १९३ अथ हरे: परोक्षम् ... ... २०७ अथाधिकमृद्धी १९३ तत्र सखीद्वारा ... २०७ अथ समात्रिकमू १९४ अथ व्यपदेश: २०८ तत्र समप्रखरा .. १९४ तत्र लेखव्यपदेशन ... २०८

अथ सममध्या. १९५ उपायनव्यपदेशेन ... २०९ ... अथ सममृद्दी ... निजप्रयोजनव्यपदेशेन २०९ ... १९६ अथ लघुत्रिकम् १९६ आश्चर्यदर्शनव्यपदेशेन ... २१० ... तन्रापेक्षिकलघुः १९६ अथ नायिकाप्रायात्रिकमू .. २१०

तत्र लघुप्रखरा १९७ तत्राधिकप्रखरादूत्यम् .. २११ ...

तत्र वासा १९७ अथाधिकमध्यादूत्यम् ... २११ .. ...

तत्र मानग्रहे सदोद्युक्ता २१२ ... १९७ अधिकमृद्वीदूत्यम् ...

मानशैथिल्य कोपना ... अथ द्विसमात्रिकम् ... २१३ ... १९७ ...

नायकाभेद्या ... ... १९८ तत्र समप्रखरादूत्यम् ... ... २१३

नायके क्ूरा ... १९८ अथ सममध्यादूत्यम् ... ... २१३

अथ दक्षिणा ... अथ सममृद्वीदृत्यम् ... २१४ १९९ ... तत्र माननिर्बेन्धासहा अथ सखीप्रायात्रिकम् ... २१५ १९९ नायके युक्तवादिनी अथ लघुप्रखरादूतम् ... ... २१५ .. t १९७ अथ लघुमध्यादूत्यम् ... ... २१६ नायकमेद्या ... ... २०० अथ लंघुमृद्वीदूत्यम् ... ... २१६ अथ लघुमध्या ... २०० तत्राद्या ... .. २१७ अथ लघुमृद्दी ... २०१ ... तत्र द्वितीया ... ... ... २१७ अथात्यन्तिकलघु: ... ... २०१ अथ नित्यसखी ... ... २१७ तत्र नित्यनायिका २०४ तत्र तहूत्यम् २१९ तत्र समक्षम् ... तत्र प्राखर्यस्य विपर्येय: ... ... २०४ ... २९९ त्तत्र साद्केतिकम् ... २०४ मार्दवस्य विपर्ययः .. ११० अथ वाचिकम् २०५ तत्र कृष्णे सखीप्रेमोत्कीतिः ... २२२ तत्र मिथःपुरःकृष्णे वाचिकम् ... २०६ तत्र सखयां कृष्णप्रेमोत्कीति :... २१२

कृष्णस्य पश्ात्सख्याम् ... २०६ तत्र तस्या गुणोत्कीर्तिः .. २२२ सख्या: पश्चात्कृष्णे २०६ तस्यां तस्य गुणोत्कीर्तिः .. ३२३

Page 13

१२

विषयः । पृष्र. विषयः । पृष्ठ. कृष्णे सख्या आसक्तिकारिता. २१४ अनिष्टबाधकलम् ... २४०

तस्यां तस्यासक्तिकरिता ... २२४ अथ तटस्त्र: .... २४०

कृष्णस्याभिसारणम् ... २२४ अथ विपक्ष: ... ... २४१ ... सख्या अभिसारणम् ... २२५ २४२ ... इष्टहन्तृलम् ... कृष्णे सख्याः समर्पणम् अनिष्टकारिलम् ... २२५ २४२ नर्म .... २२६ २४३ ... .. तत्र छझ्म ... ... ...

आश्वासनम् अथेर्ष्या २४३' ... २२६ ... ... नेपथ्यम् ... २२७ अथ चापळम् ... ... २४४

हृदयोद्वाटपाटवम् २२७ असूया ... २४५ ... ... ... छिद्रसंवृति: ... ... २२९ मत्सर: .. २४५ ... ... ... पत्यादेः परिव्चना २२९ अमर्ष: २४५ ... ... ... ... शिक्षा .... .. ... २३० गर्वितम् ... ... ... ... २४६ अथ काले संगमनम् ... तत्राहंकार: ... २३१ ... २४६ अथ व्यजनादिना सेवा २३१ अभिमान: .. २४७ अथ तयोद्वयोरुपालम्भ: ... २३१ तन्न कृष्णे स्वपक्षप्रेमाख्यानम् ... २४७ सख्या उपालम्भ: ... २३२ खपक्षे कृष्णप्रेमाख्यानम् २४८ अथ संदेशप्रेषणम् ... ... २३२ दर्पः . ... २४८ अथ नायिकाप्राणरक्षाप्रयत्नः ... २३३ उद्धसितम् ... ... ... २४९ इति दूतीप्रकरणम्। मद: ... ... ... २४९ अथ सखीविशषाः। ओद्धत्यम् ... .. ... २५० तत्रासमस्ेहाः ... .. ... २३३ इति हरिवललभाप्रकरणम्। तन्न हरों सेहाधिका: ... २३४ अथ विभावेषुद्दीपनाः। अथ प्रियसख्यां स्नेहाधिका :.. २३५ तग्र गुणा: .. C ... २६५ अथ समस्हाः ... २३६ तत्र मानसा :.. ... ... २६५ इति सखीविशेषप्रकरणम्। अथ वाचिका: ... .. २६५ अथ हरिवल्लभाः। अथ कायिका: २६६ 4 ... ... तत्र सुहत्पक्ष: .. ... २३९ तत्र वयः ... २६६ अत्रेष्टसाधकलम् २३९ तत्र वयःसन्धि: ... २६६

Page 14

१३

विषमः । पृष्ठं. विषयः । पृष्ठं.

स कृष्णस्य ... ... २६७ गोहूतिः ... .16 २८० तन्माधुर्यम् .. ... २६७ गमनम् ... २८१ ...

तत्प्रियाणाम् ... २६८ अथ मण्डनम् ... o .. ... २८१ तन्माधुर्यम् ... २६९ तत्र वस्त्नम् ... ... २८१ ... ...

अथ नव्यम् ... २६९ ... ... भूषा . ... २८२ तन्माधुर्यम् माल्यानुलेपने ... ... २७० २८२ ...

अथ व्यक्तम् ... २७० अथ संबन्धिन: .. ... २८३ तन्माघुर्यम् २७० तत्र लगा: .. २८३ 1 .. ... ...

अथ पूर्णम् ... २७१ तत्र वंशीर :... २८३ ... ... ... तन्माधुयेम् २७२ शज्गीरव: ... ... ... २८४

अथ रूपम् ... २७२ अथ गीतम् .. २८४ ...

अथ लावण्यम् सारभ्यम् ... २७३ २८५ अथ सौन्दर्यम् भूषणक्कणः ... २७४ ... ... २८६

अथाभिरूपता ... २७४ पदाङ्कादाः ... ... २८६ ...

अथ माधुयम् ... २७५ विपश्ची निक्काण: ... ... २८७

अथ मार्दवम् ... २७६ शिल्प कौशलम् १८७

तत्रोत्तमम् ... २७६ अथ संनिहिता: २८७

तत्र मध्यमम् ... तत्र निर्माल्याद्याः ... २७७ ... २८७

तत्र कनिष्ठम् ... अथ बहगुजे .. २८८ ... २७७ ...

अथ नाम ... २७७ अद्रिधातु: ... ... २८९ ...

अथ चरितम् ... २७८ नैचिकी समुदयः २८९ ...

तत्र चारुविकीडा २७८ लगुडी ... ... ... ... ... २८९

तत्र रास: २७८ वेणुः. २९० ... ... ... ...

कन्दुकक्ीडा 1 .. २७८ शृष्िका ... ... २९० 0 ..

ताण्डवम् २७९ तत्प्रेष्ठदृष्टिः ... २९० ... .. 4

वेणुवादनम् २७९ गोधूलि: .. 5 २९१ गोदोहः २७९ वृन्दारण्वम् २९२ ... ...

पर्वतोद्धारः २८० तदाश्रिता: .. ... २९२ .. ...

Page 15

१४

विषयः । पृष्ठ. विषयः । पृष्ठ.

तत्रखगा :. २९२ अथ दीप्ति: ... ... ३०४ ...

मृङ्गा :... २९२ अथ माधुयेम् ... ... ३०५

मृगा :... २९३ अथ प्रगल्भता ... ... ३०५

कुज :.... २९३ अथौदार्यम् ३०६ ... ... ... ...

अथ लतादि २९४ अथ धैयम् ... ३०७ ... ... क्णिकार: २९४ अथ स्भावजा: ... ... ... ३०७

कदम्ब: २९४ तत्र लीला ... ३०७ ... ...

गोवर्द्धन: २९४ अथ विलास :... ३०८ ... रविसुता अथ विच्छित्ति: ३०९ ... ... ... २९५ ...

रासस्थली .. ... ... २९५ अथ विभ्रम: . ... ... ३१०

अथ तटस्था :... २९६ अथ किलकिश्चितम् ... ३११

तत्र चन्द्रिका ... २९६ अथ मोद्ायितम् ३१३ .. ... ...

तत्र मेघ: ... २९६ अथ कुट्टमितम् ३१३ ...

विद्युत् ... २९६ अथ विव्वोक: ३१४ ... ...

वसन्तः २९७ तत्र गवेण ... ... ३१४

शरतू ... २९७ तन्न मानेन ३१५ पूर्णसुधांशुः ... २९७ अथ ललितम् ... ... ३१६ ...

गंधवाहः २९७ अथ विकृतम् ... ३१६ ...

खगा :... २९८ तत्र हिया ३१६ ... ... ...

इत्युद्दीपनविभावाः तत्र मानेन .. ... .. ३१७

अथानुभावा:। तत्रेर्ष्यया ... ३१८

तन्नालकारा: ... २९९ तत्र मौग्ध्यम् ... ३१८ ... ...

तन्न भाव: ... २९९ तत्र चकितम् ... ... ... ३१८ ... अथ हाव: इत्यलंकारविधृति: ... ... ... ३०२ अथ हेला: ३०३ अथोद्भाखरा :.. , ३१९ ... .? . ...

अथायनजा: .* ३०३ तत्र नीवीस़ंसनम् ... ३१९ ... तत्र शोभा उत्तरीयस्रंसनम् .... ३०३ ... ३२० अथ कान्ति :.... ... .. ३०४ धम्मिल्लवंसनम् ... 4 .. ३२०

Page 16

१५

विषयः । पृष्ठ विषयः । पृष्ठ. गात्रमोटनम् ... ... ... ३२० भयात् ... ... ३३२ जुम्भा ... ... ३२१ अथ खरभङ्ग: स विषादात् ... ... ३३२ घ्राणफुछ्लतम् ... ३२१ विस्मयात् .. ... ... ... ३३२ अथ वाचिका ... ३२२ अमर्षात् ... ... ... ३३३ तत्रालापु: ... ३२२ हर्षातू ... .... ३३३ ... :.. अथ विलाप :. ,. ... ३२३ भीते :... ... ३३४ संलाप: ... अथ वेपथुः स त्रासेन ... ३२३ ... ३३४ प्रलाप: ३२४ हर्षेण ... ३३४ 048 ... ... अनुलाप: ३२४ अमर्षेण ३३५ ... 0 .. ... अपलाप: ३२४ अथ वैवर्ण्यम् तद्विषादाव ... ३३५ ... संदेश: ३२५ रोषात् ... ३३५ ... ... ... अतिदेशः ३२६ भीते :... ... ३३६ अथापदेशः ३२६ अथाश्षु तद्धर्षात् ३३६ ... ... ... उपदेशः ३२७ रोषातू .... ३३७ ... ... ... ... निर्देश: ३२७ विषादात् ... ... ... ... ३३७ ... व्यपदेश: ... ३२८ अथ प्रलयः स सुखेन .. ३३८ इत्यनुभावा:। दुःखेन ... ३३८ ... अथ सात्विकाः। अथैषु धूमायिता: ... ... ३३८ तत्र स्वम्भ: स हर्षात् ३२८ ज्वलिता: ३३९

भयातू ... ... ... ' ... ३२९ अथ दीप्ता: ... ... ३४० आश्चयाद उद्दीप्ताः ३४० ... ३२९ ... ... ... ...

विषादाद् ... .. .. ३२९ इति सात्त्विका: । अमर्षात् ... ३३० अथ व्यमिचारिणः। ... अथ स्वेद: स हर्षात् ... ... ३३० तत्र निर्वेद: स महार्त्या ... ३४२ तत्र भयात् ... ... ३३० विप्रयोगेण .. ... ३४३ ... क्रोधात् ... ३३१ ईर्ष्यया ३४४ ... ... ... अथ रोमाश्चः स आश्चर्यात् ... ३३१ अथ विषाद: स इषानवाप्तितः ३४४ हर्षातू ... ... ३३१ प्रारब्धकार्यसिद्धि: +H ... ३४५

Page 17

१६

विषयः । पृष्ठ. विषयः । पृष्ठ.

विपत्तितः विरहात् ... ... ३४६ ... ३५८ ...

अपराधात् ३४६ अथापस्मार: ... ... ... ३५८ ...

अथ दैन्यं तह्ुःखेन ... ३४६ अथ व्याघि: ... ३५९

त्रासेन ... ३४७ अथ मोह: ३५९ ... ... ... ..

अपराधेन विश्लषात् १६० .. ... ३४७ ... ...

अथ ग्लानि: साभ्रमेण ३४७ विषादात् ३६१ ... ... ...

आधिना अथ मृतिः ३६१ ... ... ३४८ ...

रवेन ... ... ३४९ अथालस्यम् ... ... ३६२

अथ श्रम: सोऽध्वन :... ... ३४९ अथ जाड्यम् तदिष्टश्रुत्या ३६३ ...

नृत्यात् अनिष्टश्रुत्या ... ... ... ३६३ ... .. ३५० ...

रतात् ... ३५० इष्टेक्षणेन ३६३ ... ... ... ...

अथ मदः स मधुपानजः ३५० अनिष्टक्षणेन ... ... ३६४ ... ...

अथ गर्वः स सौभाग्येन ३५१ विरहेण ... ... ... ... ३६४

रूपेण ... ३५१ अथ व्रीडा सा नवीनसंगमेन ३६५ ... ... ...

गुणेन ... ... ३५२ अकार्यण ... ३६५ सर्वोत्तमाश्रयेण ३५२ स्तवेन ... ३६५ ... ...

इष्टलामेन अवज्ञया ... ३६६ ... ३५२ ... ...

अथ शङ्का सा चार्यण ३५३ अथावहित्था सा जैह्येन ३६६ ...

अपराधात् जह्यलजाभ्याम् ... ३५४ ... ... ३६७ परकौर्यात् ३५४ दाक्षिण्येन ३६७ ... ... ... अथ त्रासः स तडिता ३५५ हिया ... ... ... .. ३६७ घोरसत्वेन ... ३५५ हीभयाभ्याम् ... ... ... ३६८ ...

उप्रनिखवनेन ... ३५५ भयेन ... ... ३६८ ... ... ... अथावेगः स प्रियदर्शनजः ... ३५६ गौरवदाक्षिण्याभ्याम् ... ... ३६८ प्रियश्रवणजः ... ... ३५७ अथ स्मृतिः सा सदशेक्षया ... ३६९ अप्रियदर्शनजः .... ... ३५७ दढाभ्यासेन ... ... ३६९ अप्रियश्रवणज: .. ३५७ अथ वितर्कः स विमर्शात् . .. ३६९ अथोन्माद: स सौढानन्दाद् ... ३५८ संशयात् ३७०

Page 18

१७

विषमः । पृष्ठं. विषयः । पृष्ठं.

अथ चिन्ता सा इष्टानवाह्या ... ३७० अथ स्थायिभावप्रकरणम्। अनिष्टाह्या ... ... ३७० तत्राभियोग: ... ... ३९० .. अथ मतिः ३७२ ... ... तत्र खेनाभियोगात् ... ... ३९० ...

अथ धृतिः ३७३ परेणाभियोगात् ३९१ ... ... ... ... ... उत्तमाध्या ... ३७४ ... ३९१ ... ... अथ विषया: ... ... अथ हर्ष: सोऽभीष्टेक्षणेन ३७४ ... तत्र शब्दात् ... ३९१ ... अमीष्टलाभेन ... ... ३७५ स्पर्शात् ३९३ ... ... अथौत्सुक्यं तदिष्टेक्षास्पृहया ... ३७६ रूपात् ... ३९३ ... 2 .. ... इष्टाप्तिस्पृहया ... ... ३७६ रसातू ... ३९४ ... ... अथौग्र्यम् ... ... ... ३७६ गन्धात् ... ३९५ अथामर्षः सोऽधिक्षेपात् ... ३७८ अथ संबन्ध: ... ३९५ ... अपमानात् ... ... ... ३७८ अथाभिमान :... ३९६ अथासूया सा सौभाग्येन ... ३७९ अथ तदीयविशेषा: ३९७ गुणेन ... ... .. .. ३८१ तत्र पदानि .. ३९७ ... अथ चापलं, तद्रागेण ... ३८१ अथ गोषम ... .. ... ३९८ द्वेषेण ... ... ... ३८२ अथ प्रियजन: ३९८ . . ... अथ निद्रा सा क्लमेन ... ... ३८३ अथोपमा ... ... ३९९ ... अथ सुप्तिर्यथा ... ३८४ अथ स्वभाव: ... ४०० .. t अथ प्रबोध: ... ... ... ३८४ त्र निसर्ग ... ... ... ४०१ सख्यां स्वस्नेहः ३८५ अथ स्वरूपम् .. ... ४०२ अथोत्पत्त्यादिदशाचतुष्टयम् ... ३८५ तत्र कृष्णनिष्ठम् ... ... ४०३ तत्रोत्पत्तिः ... ... ३८५ अथ ललनानिष्ठम् ... ... ४०४ अथ सन्धिः तत्र सरूपयोः ... ३८६ अथोभयनिष्ठम् ... ... ४०५ अथ भिन्नयोः तत्रकहेतुजयोः ३८६ रतिः स्वभावजेव ... ४०६ अथ भिन्नहेतुजयोः ... ... ३८७ तत्र साधारणी ... .. ४०८ अथ शाबल्यम् ३८७ ... अथ समजसा ... ... ४०९ अथ शान्ति :... ... ३८८ अथ समर्था: ४१२ ... इति व्यभिचारिणः । तत्र प्रेमा ... ... ४१८ 2

Page 19

१८

विषयः । पृष्ठ. विषयः । पृष्ठ.

तत्र प्रौढ: तत्र कुसुम्भराग: .. ४४९ ... ४२० ... ..

अथ मध्य: ४२१ अथ माजिष्टराग: ४५१ ... ... ... ...

अथ मन्दः अथानुरागः ... ४५४ ... 0. . ... ४२२ ... ...

तत्राङ्सङ्ग ४२५ तन्न परस्परवशीभाव: 0 ४५७ ... ... ...

विलोके ४२६ अप्राणिन्यपि जन्मलालसाभर: ४५८ ...

श्रवणे ... अथ विप्रलम्भविस्फृर्तिः ४५८ ... ... ४२७ ...

आदिशब्देन स्मरणे अथ भाव: ४५९ ... ... ४२७ ...

घृतस्नह: ... ४२८ अथ महाभाव: ४६३ ...

आदरः ४२९ तत्र निमेषासहता ४६५ ... ... ...

अथ मधुस्ेह: ४३१ आसन्नजनताहृद्विबोधनम् ... ४६६

अथ मान: ... ४३२ कल्पक्षणतं यथा ४६७ ... ... ... ...

तत्रोदात्त: ... ... ४३३ तत्सौख्येऽप्यार्तिशङ्कया खिन्नलम् ४६८ दाक्षिण्योदात्तः ... ४३३ मोहाद्यभावेऽपि सर्वविस्मरणम् ४७१ .. t वाम्यगन्धोदात्त: ४३४ क्षणकल्पता ... ... ... ... ४७१

अथ ललित: ... ४३५ अथाधिरूढ: ... ... ... ... .. ४७२ तत्र कौटिल्यललित :.. ४३५ तत्र मोदन: ... ... ४७३ अथ नर्मललितः तत्र सकान्तस्य हरे:क्षोभभरका- ... ... ४३६ अथ प्रणयः ... ४३७ रिता ... .. ४७५ अथ विस्रम्भ: ४३८ प्रेमोरुसंपद्वतीवृन्दातिशयितम् ४७६ ... ... यत्र मैत्रम् ... ४३८ कान्ताश्लिष्टेऽपि हरौ मूच्छोका- ...

अथ सख्यम् ... ४३९ रित्म् ... ४७९ .. . ... तत्र सुमेत्र्यम् ... ४४१ असह्यदुःखसीकारा- ... ...

अथ सुसख्यम् ... ... ४४२ त्तत्सुखकामता ... ... ४७९ अथ राग: ... ब्रह्माण्डक्षोभकारिलम् ... ४४३ ... ४८० तत्र नीलिमा ... ४४५ तिरश्चामपि रोदनम् ... ... ... .. ४८२ तत्र नीलीरागः मृत्युख्ीकारात्संभूतैरपि तत्सङ्ग- ... ... ४४६ अथ श्यामाराग: ... ... ४४७ तृष्णा ... ... ४८३ अथ रक्तिमा ... ... ... ४४९ अथ दिव्योन्मादः ... ... ४८३

Page 20

१९

विष्ययः । पृषं. विषयः । पृष्ठं. तत्रोद्दूर्णा ... ४८४ तत्र संचारिण: ... ५११ अथ चित्रजल्प: ४८५ पूर्वरागत्रैविध्यम् ... ५११ ... ...

तत्र प्रजल्प: ... तत्र प्रौढ: ... ५१२ ... ४८५ ... ... अथ परिजल्पितम् ४८७ दशावस्था: ५१२ ... ... ... ... ...

अथ विजल्प :... ४८९ अथ लालसा ... ५१२ ... ... ... अथोज्जल्प: .. ४९० अथोद्वेगः ... ५१४ ... ... अथ संजल्प: ४९१ अथ जागर्या ... ५१४ .. 5 ... ...

अथावजल्प: ... ४९२ अथ तानवम् ... ५१५ ... ... ... .. अथाभिजल्पितम् अथ जडिमा ... ... ५१६ ... ... ४९४

अथाजल्प: अथ वैयग्र्यम् ... ५१७ .. ४९५ ... अथ प्रतिजल्पः ४९६ अथ व्याधि: ५१७ ... ... ... ..

अथ सुजल्प :... अथोन्माद: ... ... ४९८ ... ... ... ५१८

अथ मादन: ... ४९९ अथ मोह: .. ... ... ५१८

... अथ मृति: ... ५१९ ... ५०१ इति स्थायिभावाः । अथ समजजस :... ... ५२० अथ शृङ्गारभेद्:। तत्र भिलाष :... ५२१ तत्र विप्रलम्भ: ५०६ अथ चिन्ता ५२१ ... ..

तत्र पूर्वराग :... .. ... ५०८ अथ स्मृतिः ... ... ५२२ तत्र दर्शेनम् ... ... ... ५०९ अथ गुणकीर्तेनम् ५२२

तत्र साक्षी ५०९ अथ साधारण: ... ५२३ 1 .. ...

तत्र चित्रे ५०९ तत्राभिलाष: ... ५२३ ... ... ... ... ...

तत्र खप्ने ... ... ५१० तत्र कामलेख: ... ५२४ ...

अथ श्रवणम् ... तत्र निरक्षरः ... ५२४ ... ५१० ... ... तत्र बन्दिवक्रात् ५१० अथ साक्षर: ... ... ५२४ ... ... ...

तत्र दूतीवक्रात् ५१० अथ माल्यार्पणम् .. ५२५ ... ...

तत्र सखीवक्ात् इति पूर्वरागप्रकरणम्। ... ५११ ...

तत्र गीतात् ... अथ मान: । ... ... ५११ पूर्वरागहेतवः ५२७ ... ५११ तत्र सहेतुः ... ...

Page 21

२०.

विषयः । पष्ट. विषयः । पृष्ठं.

तत्र श्रवणम् ... ... ... ५२९ तत्र देशबलेन ५४६ ...

तत्र सखीमुखाद् ... ... ५२९ तत्र कालबलेन ५४६

शुकमुखाद् ... ... ... ५३० तत्र मुरलीशब्देन ... ... ५४७

अनुमिति: तत्र भोगाड्क: ... ५३० मानस्य त्रैविध्यम् ... ... ५४७

तन्न विपक्षगात्रे भोगाङ्कदर्शनम् ५३० कृष्णे रोषोक्तयः ... ... ५४७

प्रियगात्रे भोगाङ्कदशनम् ... ५३१ इति मान: ।

अथ गोत्रस्खलनम् ... ... ५३१ अथ विप्रलम्भ: ।

अथ खप्: ५३२ ... ... .. प्रेमवचित्र्यम् .. ... ... ५४८ हरे: खप्नायितम् ... ... ५३३ अथ प्रवास: ... ... ... ५५० तत्र विदूषकस्य ... ... ५३३ अथ दर्शनम् ... तत्र बुद्धिपूर्वः ... ५५१ ... ...

... ... ५३३ भावी ... ... ... ५५१ ... अथ निर्हेतुर्मान: ... ... ५३४ भवन् ... ५५२ तत्र कृष्णस्य ... ... ५३५ ... भूत: ... ... ५५२ ... तत्र कृष्णप्रियायाः ... ... ५३६ संदेशप्रेषणम् ... ... ५५२ द्वयोरेव युगपद् ... ... ५३७ अथाबुद्धिपूर्वः ५५३ ... तन्न साम ... ५३९ तत्र चिन्ता ५५४ ... ... ... अथ भेद: ... ... ५४० ... अथ जागरः ... ... ५५५ तत्र भक्गया खमाहात्म्य- अथोद्वेगः ... ५५५~ ... प्रकाशनम् ... ५४० अथ तानवम् ... ५५५ ... ... सख्यादिभिरुपालम्भप्रयोग: ... ५४१ अथ मलिनाङ्कता ... ५५६ अथ दानम् ... ... ... ५४२ अथ प्रलाप :.. ... ५५६ अथ नति: ... ... ... ५४२ अथ व्याधि: ... ... ५५६ अथोपेक्षा ... ... :.. ५४३ अथोन्मादः ... ५५७ ... ...

अथ रसान्तरम् ५४४ अथ मोहः ... ... ... ... ५५७ तत्र यादचच्छिकम् अथ मृत्यु: ... ५४४ .. ... ... ५५८ अथ बुद्धिपूर्वम् ५४५ प्रोक्तप्रेमभेदेषु दशानां वैविध्यम् ५५९ ... ...

मानलय: ... ५४५ इति विप्रलम्भभेदप्रकरणम् । ...

Page 22

२१

विषयः। ரா். विषयः । पृष्ठं. अथ संयोगवियोगस्थितिः। अथ वर्त्मरोधनम् ... ... ५९७ रासादि विभ्रमैर्विरहाभाव: ... ५५९ अथ रास: ... ... ५९८ इति संयोगवियोगस्थितिः । अथ वृन्दावनकीडा ... ५९८ अथ संभोग: । तत्र यमुनाजलकेलि: ... ... ५९९ तत्र मुख्यः ... .. ... ५७१ अथ नौखेला ... 488 ... तत्र संक्षिप्त: ... ... ... ५७१ अथ लीलाचार्यम् ... ... ६०० .तत्र नायकस्य ... ... ५७२ तत्र वंशीचौर्यम् ... ... ६०० तत्र नायिकाया: ... ... ५७२ अथ वस्रचौर्यम् ६०० ... अथ संकीर्ण :... ... ... ५७२ अथ पुष्पचौर्यम् ... ६०० अथ संपन्न: ... ... ५७३ अथ घट्टः .. ६०१ तत्रागतिः ... ५७४ ... अथ प्रादुर्भावः अथ कुजादिलीनता ६०१

... ... ५७४ अथ समृद्धिमान् अथ मधुपानम् ... ६०१ ...

... ... ५७६ इति मधुररसपरिपाकः। अथ वधूवेशधृतिः ... ... ६०२

अथ गौणसंभोग: ... ... ५९० अथ कपटसुप्तता .. ६०२

... तत्र खप्ने संक्षिप्तः ५९१ अथ द्यूतकीडा ... ... ६०२ ...

तत्र खप्े संकीर्ण: ५९१ अथ पटाकृष्टिः ... ६०३

तत्र खप्ने संपन्नः अथ चुम्बः .. ६०३ ... .. ५९२ ...

तत्र स्वाप्नसमृद्धिमान् ... ... ... ५९२ अथाश्लेषः ... ६०४ ..

... ५९३ अथ नखक्षतम् ... ... ६०४ भावदशाः ... ...

तत्र संदशनम् अथ बिम्बाघरसुधापानम् ... ... ५९४ ६०४ ...

अथ जल्पः ५९५ अथ संप्रयोग: ६०५ ... ... ...

तत्र वितथोक्ति: ५९६ अथ प्रेयसीप्रणयोक्तय: ... ६०६ ... अथ स्पर्शेनम् ... ... ५९७ इति संभोगभेदप्रकरणम्. ...

विषयानुक्रमः समाप्तः ।

Page 24

काव्यमाला।

श्रीमद्रूपदेवगोस्वामिविरचितः उज्ज्वलनीलमणिः ।

श्रीविश्वनाथचक्वर्तिविरचितया आनन्दचन्द्रिकाख्यया, श्रीजीवगोस्वामिविरचितया लोचनरोचिन्याख्यया टीकया चालंकृतः । - नायकमेदाः । नामाकृष्टरसज्ञ: शीलेनोद्दीपयन्सदानन्दम्। निजरूपोत्सवदायी सनातनात्मा प्रभुर्जयति ॥ १ ॥

आनन्दचन्द्रिका ।

तृष्यन्मुहुःस्मितसुधां परिपायितोऽपि श्रीराधया प्रणयतु प्रमदं हरिर्नः ॥ धीमज्जनप्रतिपदस्तुतशंकरालंकारावलिर्घनरसध्वनिसत्प्रसादा। श्रीरूपवागभृतदिव्यनदी मदीयं चेतः प्रविश्य दवथुं दरयतशेषम्। तेभ्यः श्रीजीवगोस्वामिचरणेभ्यो नमो नमः। सिन्धुकोटिगभीराणां मतं येषां कृपाभृतम् ॥। एका तदीयटीकायां कारिका संशयौघभित्। अन्रैवोपरमोत्कर्षतेऽत्यत्र स्फुटमीरितम्।

लोचनरोचिनी। सनातनसमो यस्य ज्यायाञ्श्रीमान्सनातनः । श्रीवल्लभोऽनुजः सोऽसौ श्रीरूपो जीवसद्गतिः ।। श्रीहरिभक्तिरसाभृतसिन्धौ जाते पुरा दुरालोके। उज्ज्वलनीलमणौ मम लोचनरोचिन्यसौ विव्ृतिः।।

Page 25

२ काव्यमाला।

सा च- 'सेच्छया लिखितं किंचित्किंचिदत्र परेच्छया। यत्पूर्वापरसंबद्धं तत्पूर्वमपरं परम् ।' परकीयालक्षणे यन्महाभावस्य लक्षणे। खजनार्यपथत्यागो वास्तवलेन संस्तुतः ॥

तेनैव हृषितो ग्रन्थस्यादिमध्यावसानतः ।

तदीयचरणाम्भोजरजःकारुण्यलेशभाक्। यदत्र प्रलपाम्येततक्षमन्तां ते कृपाब्धयः ॥ अथ सोऽयं निखिलसहृदयसमुदहृदयालंकार: सकलकविभण्डलाखण्डलो रसि- कमुकुटमणिरविरतपरमभागवतप्रसङ्गरङ्गसमुदितरप्रमोदभरपरवशतया परिवेषित- भक्तिरसाभृतो ग्रन्थकारः पुनरपि परमान्तरङ्वानतिप्रियसुहृदोऽनुरञ्ञयन्, भक्ति- रसामृत सिन्धावप्यलक्षितचरप्रायमतिरहस्यमुज्वलर समुज्वलं नीलमणिमिब खहृदयसंपुटादुद्वटय्येव प्रदर्शयिष्यन्, स्वाभीष्टदैवतं श्रीभगवन्तं स्वाग्रजं च परमभागवतं सर्वोत्कृष्टतया तन्रेणैव स्तुवन् मङ्गलमाचरति-नामाकृष्टेति। प्रभुर्जयति सर्वोत्कर्षेण वर्तत इत्यत एवात्र श्रीमदुज्वलनीलमणिप्रकटीकरण- महासाहसेऽपि ममाध्यवसायो भवतीति भावः । 'जयति व्रजराजनन्दनेन हि चिन्ताकलिकाभ्युदेति नः' इतिवत्। जयत्यर्थेन तं प्रति प्रणतोऽस्मीति नमस्का-

तथा हि-अत्र स एव श्री रसामृतसिन्धुप्रकाशकः पूर्वं सर्वस्मादप्यपूर्व उज्वलाख्यं रसं किंचिदेव विवृत्य कृतकृत्यतां मन्यमान: संग्रति 'पिबत भागवतं रसम्' इति न्यायेन व्यञ्कयव्यज्कयोरभेदं व्यजयन्, उज्वलनीलमणिनामानं ग्रन्थं विधाय तं रसमतीव विवृण्वन्, श्रीमत्निजदैवतमपि श्रीमन्तं निजगुरुमपि त्रेण स्तुवन्प्रार्थयते-नामाकृष्टेति। तत्र निजदैवतपक्षे नाम्ना नाममात्रेणा- कृष्टास्तत्तदवतारावतारिभक्तिरसिका येन सः । तथा शीलेन सुखभावेन सदा नित्यमेव श्रीमञ्नन्दनामानं स्वपितरमुद्दीपयन्नुद्दीप्तभावं कुर्वन्। तथा निजरूपेण. सौन्दर्येण सर्वेभ्य एवोत्सवदायी 1 तथा सनातनो नित्य आत्मा श्रीविग्रह्दो, यस्य सः। प्रादुर्भावमात्रेण लब्धजन्मादिव्यवहार इति भावः। तथा तथारू प्रभुः सदा प्रभवनशीललात्तथा मदीयसेव्यलादीश्वरो जयति निजोत्कर्षमा

Page 26

उज्ज्वलनीलमणिः । ३

रोऽपि व्यज्यते। 'स्वापकर्षबोधनानुकूलव्यापारविशेषो नमस्कारः' इति न्यायात्। अत्र निज़ेष्टदैवतपक्षे नाम्ैवाकृष्टा रसज्ञा रसिकाः प्रतोष्यमाणलान्मुख्यलाच्च व्रजसुन्दर्यो येन सः। अथ चाविशेषेण रसज्ञमात्राकर्षणश्रुत्या खपर्यन्तसर्वावतार- वृन्देषु सप्रेयसीपर्यन्तसर्वविधभक्तश्रेणीं च खमाधुर्येणैवाकृष्टवतोऽस्य सर्वोत्कर्षे योग्यताभिव्यज्जिता। सदैव शीलेन 'शुचौ तु चरिते शीलम्' इत्यभिधानात्खमङ्गल- चरितेन नन्दं पितरमुद्दीपयभ्नुद्दीप्तभावं कुर्वन्निति तद्वात्सल्यस्य विषयीभवन्नपि चरितेनोद्दीपनालम्बनो भवतीत्यर्थः। निजरूपेण स्वसौन्दर्येण सर्वेभ्य उत्सवदायी शलेषेण निजस्येव रूपं येषां ते निजरूपाः सखायस्तेभ्यः, तथा निजाः खीया दासास्तेभ्यो रूपेण खदर्शनदानेनोत्सवदायी। सनातनात्मा सच्चिदानन्दविग्रहं इति । क्मेणोजवलवत्सलसख्यदास्यशान्तानां विषयालम्बनलमस्य व्यजितमिति सर्वोत्कर्षः । तेषां यथापूर्व श्रैध्ठ्यमित्युज््वलरसस्यैव मुख्यतं तथा विषयनाममात्रे- णैव तदाश्रयालम्बनाकर्षणात् सर्वतोऽपि प्रेमाधिक्येन लब्धेन तदीयस्थायिभावस्य मधुराख्याया रतेर्वितततवं रतिप्रेमस्नेहमानप्रणयरागानुरागमहाभावावस्थानात् तत्रैव प्राकय्यात्। तथा रसज्ञा इति रसिकसामान्यनिर्देशेन तद्रसस्यास्पष्टीकरणात् रहस्यतं चेत्युत्तरश्लोके व्यक्तं भावि। पक्षे नामभिः कृष्णादिनामभिराकृष्टा वशी- कृता जिह्वा यस्य स इति यस्यास्तन्न प्रवर्तने खप्रयासलेशोऽपि नापेक्षित इति सर्वोत्कर्षः । शीलेन स्वभावेनैव सतां साधूनां विदुषां चानन्दं उत्कर्षेणोद्दीपयन्। निजस्य स्वीयस्य रूपस्य मल्लक्षणजनस्य उत्सवदायी। सनातनो नाम आत्मा स्वरूपं यस्य सः। श्रीमन्महाप्रभुपक्षोऽप्यत्रान्तर्भाव्यः । स प्रथममेव व्याख्येयः । यथा सनातनस्य मदग्रजवर्यस्यात्मा सनातनस्तेन खवीयदेहलेनाङ्गीकृत इवि भाव: । तथैव तच्चरिताभृते कथापि। निजरूपैः सीयमूर्त्यन्तरैरिव। श्रीमदद्वैता- दिभिर्दामोदरस्वरूपादिभिश्च उत्कृष्टं सवं संकीर्तनप्राययज्ञं दातुं सर्वजनेषु समर्प- यितुं शीलं यस्य सः। 'यज्ञः सवोऽध्वरो यागः' इत्यमरः । तथा निजेन रूपेण रूपाख्येन खभक्तेन उत्सवदायीति 'रूपस्तु खवयमेव सः' इति सरस्वतीकृतोऽ-

विर्भावयतादिति। जयतेस्तस्त्योस्त्यस्तिप्रयोगस्यैव विधानात्। श्रीगुरुपक्षे- नामभि: कृष्णादिभिराकृष्टा वशीकृता रसज्ञा जिह्वा यस्य सः। तथा शीलेन सुख- भावेन सतामानन्दमुद्दीपयन्। तथा निज आत्मानुगतो यो रूपस्तन्नामाहं तस्योत्स- वदायी। तथा सनातनो नाम आत्मा विग्रहो यस्य सः। प्रभुरिति पूर्ववत् जय-

Page 27

काव्यमाला।

मुख्यरसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात्। पृथगेव भक्तिरसराट् स विस्तरेणोच्यते मधुरः ॥ २ ॥

र्थोडपि ज्ञेयः ॥ १॥ भक्तिरसामृतसिन्धुतोऽस्य पार्थक्ये हेतुमाह-मुख्य- रसेव्विति। शान्तादिषु संक्षेपेणोदित इत्यनेन वितततम्, रसराडिल्यनेन मुख्यतं चेति एतदपि हेतुद्वयं व्यजितम्। किंतु रहस्यस्यैव हेतुले मुख्यलात्तदेव स्पष्टतयोक्तम्। तथा-'निवृत्तानुपयुक्तलाद्दुरूहलादयं रसः । रहस्यत्ाच्च संक्षिप्य वितताङ्गोऽपि लिख्यते ॥' इति भक्तिरसामृतसिन्धौ रहस्यलेन अविवृतौ ये हेतवस्त्रय उक्तास्तेषु निवृत्तानुपयुक्तलं दुरूहत्वमिति हेतुद्वयं रहस्यल एवान्तर्भूत- मिति नात्र पृथगुक्तम्। तथा शान्तदास्यवात्सल्येषु भक्तिबुद्धा उन्मुखानां उज्वले तु स्थूलदष्या कामबुद्ा एवारुचिमतां निवृत्तानां प्राकृतनिवृत्तमार्गपरलोकानाम- त्रानुपयुक्तत्वम्। अत एव तादृशैः स्थूलबुद्धिभिर्दुरूहत्वं चेति तेभ्योऽय- मुजवलनीलमणिरेतन्मूल्यमजानन्योऽनादरशङ्कया गोप्य एवेति ॥ २ ॥ तीति च ॥ १॥ तत्र 'निवृत्तानुपयोगिताद्गुरूहत्वादयं रसः। रहस्यलाच्च संक्षिप्य वितताङ्गोऽपि लिख्यते ॥' इति ये प्रागविव्ृतौ हेतवो दर्शितास्तेषु रहस्यलमेव मुख्यतया हेतुं वदन् संप्रति रहस्येव तदधिकारिणः प्रति प्रकाशनीय इत्याह- मुख्यरसेष्विति। शान्तप्रीतिप्रेयोवत्सलोज्ज्वलनामसु मुख्येषु यः पुरा रसा- मृतसिन्धौ संक्षेपेणोदितः स एवोज्वलापरपर्यायो भक्तिरसानां राजा मधु- राख्यो रसः पुनरत्र उज्ज्वलनीलमणिनामग्रन्थे विस्तरेणोच्यते। पुरा संक्षे- पेणोदितले हेतुरतिरहस्यत्वादिति निवृत्तानां लौकिकादुज््वलाख्यरसात्तत्साम्यम्। अनेन तु भागवतादपि तस्मात् पराझुखानां शान्तप्रीतिवात्सल्यान्यतरभावलेन वा तत्पराडुखानामनुपयुक्ततवात्तेभ्यो गोप्य एवायं रसः । तथा भागवते ये केचित् तस्मिन् बहुमानिनोऽपि तत्पर्यालोचनायां न चतुरास्तैरपि दुरूहोऽयं रस इति तेभ्योऽपि गोप्य एव कार्यः, किमुत विषयिभ्य इति रहस्यत्वमेवात्र मुख्यो हेतुरिति भावः । अत्र तु विस्तरेण वचने हेतुः रहस्यतादित्येव। कालदेशपात्र-, विशेषसंबन्धेन रहस्यतं प्राप्येत्यर्थः। ल्यब्लोपे पश्चमी स्यात्। यद्वा पृथगित्यने- नैव रहस्य इति व्यज्यते। तस्मात् ग्रन्थान्तरवत् यत्र कुन्नचित् नायं प्रकाशनीय

Page 28

उज्ज्वलनीलमणिः । ५

वक्ष्यमाणैर्विभावादयैः खाद्यतां मधुरा रतिः। नीता भक्तिरसः प्रोक्तो मधुराख्यो मनीषिभिः ॥३ ॥ तत्र विभावेष्वालम्बना :- असिमंनालम्बना: प्रोक्ता: कृष्णस्तस्य च वल्लभाः।

तमेव भक्तिरसराजं लक्षयति-वक्ष्यमाणैरिति। विभावादैः सवोचितैर्विभा- वानुभावसात्त्विकसंचारिभि: पूर्वग्रन्थ एव दर्शितलक्षणैः कारणकार्यसहकारिभिः सवाद्यतां नीता सती मधुरा रतिस्तन्नाभा स्थायीभावो मधुराख्यो मधुरो नाम भक्तिरसोऽभवत्॥ विभावेषु आलम्बनोद्दीपनमेदतो द्विविधेषु मध्ये प्रथमालम्बना

इत्युपदिष्टम् ॥ २। अथ मधुराख्यं भक्तिरसराजमेव पूर्वोक्तानुपासनमनुवादेन लक्षयति-वक्ष्यमाणैरिति। पूर्व हि सामान्यतो भक्तिरसः प्रोक्तः । 'विभा- वैरनुभावैश्व सात्विकैर्व्यभिचारिभिः । सादयतवं हृदि भक्तानामानीता श्रवणा- दिभिः ॥ एषा कृष्णरतिः स्थायीभावो भक्तिरसो भवेत् ॥' इत्यनेन विभावादयश्च प्रोक्ताः । 'तत्र जेया विभावास्तु रत्यास्वादनहेतवः । ते द्विधालम्बना एके तथै- वोद्दीपनाः परे ॥ कृष्णश्र कृष्णभक्ताश्च बुधैरालम्बना मताः। रत्यादेर्विषयलेन तथाधारतयापि च ॥ तद्भावभावितखान्ताः कृष्णभक्ता इतीरिताः। उद्दीपनास्तु ते प्रोक्ता भावमुद्दीपयन्ति ये ॥ ते तु श्रीकृष्णचन्द्रस्य गुणाश्रेष्टाः प्रसाधनम् ॥' इत्यादि। 'अनुभावास्तु चित्तस्थभावानामनुबोधकाः । ते बहिर्विक्रियाप्रायाः प्रोक्ता उद्भाखवराख्यया ।। नृत्यं विलुठितं गानम्' इत्यादि । 'भावैश्चित्तमिहाक्रान्तं सतमित्युच्यते बुधैः । सत्वादस्मात्समुत्पन्ना ये भावास्ते तु सातििकाः ॥ ते स्तम्भखेदरोमाश्चाः खरभङ्गश्च वेपथुः । वैवर्ण्यमश्रुप्रलयावित्यष्टौ सातिकाः स्मृताः॥ अथोच्यन्ते त्रयत्त्रिंशद्भावा ये व्यभिचारिणः । विशेषेणाभिसुख्येन चरन्ति स्थायिनं प्रति ॥ वागङ्गसत्वसूच्या ये ते ज्ञेया व्यभिचारिणः । उन्मज्न्ति निम- जन्ति स्थायिन्यमृतवारिधौ॥ ऊर्भिवद्वर्धयन्त्येनं यान्ति तद्रूपतां च ते। निर्वेदो- ऽथ विषाद: इत्यादि मधुराख्याया रतेर्लक्षणं चोक्तम् । 'मिथो हरेर्मृगाक्ष्याश्च संभोगस्यादिकारणम्। मधुरापरपर्याया प्रियताख्योदिता रतिः ॥' तदेवं तदेत- न्मधुराख्यभक्तिरसलक्षणमपि व्याख्येयम्। 'प्रोक्तो मधुराख्यः' इत्येव पाठः पूर्व

Page 29

काव्यमाला।·

तत्र कृष्णो यथा- 'पद्द्युतिविनिर्धुतस्मरपरार्धरूपोद्धति- र्दगञ्चलकलानटीपटिमभिर्मनोमोहिनी।

उच्यन्ते-श्रीकृष्णो विषयालम्बनः। वह्भः प्रेयस्यः आश्रयालम्बनाः ॥३॥ पद- द्युतीति। पूर्वरागवतीं प्रणमन्तीं श्रीराधां प्रति पौर्णमास्या आशीर्वादः। पदस्यैक- स्यापि द्युत्यैव विनिर्धूता एव स्मरपरार्धानामपि रूपोद्धतिः सौन्दर्यौद्धत्यं यया सत्यनेन. अयं नेता सुरम्याङ्ग इति पूर्वोक्तेषु अत्रापि वक्ष्यमाणेषु नायकगुणेषु आद्विकगुणा उपलक्षिताः। तथा तावत्संख्याककन्दपैरप्यशक्यं कर्मास्य चरणकिरण एवैकः करो- तीति दयोतिततया महापतिव्रता वृन्दापि क्षोभणया वैकुण्ठनाथकान्तापर्यस्तसर्वयुव- तिचित्ताकर्षणं समर्थितमेव। 'यद्वाञ्छया श्रीललिताचरत्तपो विहाय' इति, 'देव्यो विमानगतयः स्मरनुन्नसाराः' इत्यादेः। हा, मम साध्वीलमपगतमिति तया नानु- तपनीयम्, सर्वासामपि तथाभावात् लद्दोषाभावात् भावोऽपि मयि नापलपनीय इति भाव: । दृशोरञ्चलमेव रङ्नस्थलं तन्न सूच्यमाना: शङ्गारोपयोगिन्यः कला एव नट्यस्तासां पटिमान: कथ्यमान: शङ्गारोपकरणसकलवस्तुजाताभिनवप्रावीण्यानि नृत्यचातुर्याणि च तैर्मनसां प्रस्तुतलात् खप्रेयसीचित्तरूपसख्यानां मोहिनी तत्तदा- स्वादं प्रापय्य मोहयित्रीति । 'विदग्धश्वतुरः सुधीः' इत्यादयो मानसा गुणा निर्देशस्य प्रतिनिर्देशाय कल्पते। न तु शृङ्गाराख्य इति ॥३ ॥ पदद्युतीत्यादि। पदद्युतीत्यादिविशेषणानां श्रीकृष्ण एव विशेष्यलेन बोध्यते। तत्रैव तेषां विशेष- णानां परावस्थायाः पर्यवसानात्। 'अयमुदयति मुद्राभज्ञनः पद्मिनीनाम्' इत्यादिवत्। अस्य हि उत्तमकाव्यतम्॥ दगञ्चलेति। दृशोर्या अन्चलकला अपाङ्गविलासास्ता एव नव्यस्तासां पाट्यमाना: नटविद्याः प्रावीण्यानि तैर्जगन्मो- हिनी। जगन्नय्येव सानुरागतात् भोग्यताच्च युवतिरिव युवतिस्तस्याः किमुत तादृगनुरागाहयुवतीनां भाग्यस्य सिद्धिर्भाग्यस्य फलरूपाः । यद्वा जगत्रय्यां या युवतयो युवतिशब्दप्रयोगबलात्तादृगनुरागयोग्याः स्त्रियस्तासां भाग्यसिद्धिरिति। कासांचित्स्पर्शनेन कासांचिदर्शनेन कासांचिच्छ्वणेन च भाग्यं श्लाघितम्। 'श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः। उरुगायोपगीतो वा पश्यन्तीनां कुतः पुनः ॥' इति शुकोक्तेः सिद्धिशब्दस्तणिमादावपि फललेन व्याख्यातः ।

Page 30

उज्ज्वलनीलमणिः । ७

स्फुरन्नवघनाकृतिः परमदिव्यलीलानिधिः क्रियात्तव जगत्रयीयुवतिभाग्यसिद्धिर्मुदम् ।। ४ ॥

व्यज्ञिताः । तथा दृगञ्चलकलाभिरेवात्र रसे सर्व मुख्यतया वक्ति किं पुनर्मुख्येन गौणतयेति वाचिका अपि सूचिताः। नवघनाकृतिरित्यनेन श्यामवर्णतं महारस- वर्षित्वं सवप्रेयसीरूपसौदामिनीघटाभिरजिततं श्यामताद्रसरूपत्ाच्च मूर्तशद्गाररस- . रूपत्वं च ध्वनितम्। परमदिव्येति परसंबन्धगा अतुल्यकेलीत्यादयोऽसाधारणाश्च- तारो गुणाश् व्यज्जिताः । तथा चास्य शङ्गारचेतस्याष्टिप्राकृततान्निर्दूप्णतं सर्व- संमानितत्वं च व्यज्जितम्। जगत्रय्यां ऊर्ध्वाधोमध्याग्रवर्तिसर्वलोकेषु या युवत्यस्तासां भाग्यस्य सिद्धिः फलरूपा तत्र कासांचिच्छ्रवणमात्रेण कासांचिददर्शनश्रवणाभ्यां कासांचिद्दर्शनालिङ्गनादिभिरपि इति तस्य सर्वसुखदलेऽपि विशेषतो युवतिषु सुखदलाधिक्याच्छान्त्यादिसर्वरसविषयीभूतलेऽपि मधुररसस्यैव विषयताविक्यम्। यतः 'कामकेलिकलासक्तो रासलीलाविशारदः' इत्यादिगुणविशिष्टः स शान्तदासस- खिगुरुषु मध्ये न केनापि खीयरसविषयीकर्तु शक्यते। किंच युवतीर्विना तेषां गुणानामसंपद्यमानताद्रसनीयत्ासंभवाच्च तस्यापि सर्वाभ्यः सकाशात्ता एवं परम- सुखदा इति तासामेव भाग्यं फलितलेनात्र पद्ये निर्दिष्टम्। ततश्च गौणलमुख्य- लाभ्यां अज्गाद्विभावेन स्थितानां रसानां श्रीकृष्णशङ्गारस्यैवाङ्वितं व्यवस्थापितम्। अत्र 'पदद्युति-'इत्यादिविशेषणैरसाधारण्येन श्रीकृष्ण एव विशेष्यतया बोध्यते। 'अयमुदयति मुद्राभज्जनः पद्मिनीनाम्' इत्यादिवत्। नन्वत्र पद्ये · शग्गाररसालम्ब- नरूपनायकस्य वर्णनात् माधुर्याख्यो गुण एव घटयितुसुचितो न पुनरोजआख्यम्। यदुक्तं काव्यप्रकाशे-'आह्वादकतवं माधुर्य शङ्गारे द्ुतिकारणम्' इति, 'मूर्मि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू। अवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना मतां॥' इति, तथा 'दीह्यात्मविस्तृतेर्हेतुरोजो वीर्यरसस्थिति' इति, 'योग आद्यतृतीया- भ्यामन्त्ययोरेणतुल्ययोः । टादिः शषौ वृत्तिदैर्ध्य गुम्फ उद्धत ओजसि ॥' इति। उच्यते-अत्र पद्ये स्मरपरार्धजेतृलम् तथा 'लक्ष्यादिसर्वयुवतिचित्ताकर्षणलिद्वेन श्रीकृष्णस्य वैकुण्ठनाथपर्यन्तसर्वनायकवृन्दविजेतृत्वं च दृश्यते पदद्युतीत्यादिभिर्वि- शेषणैरसमोर्घ्वगुणोद्वारिभिर्महाभटैरिवेति प्रकटस्यापि शद्गाररसस्य स्थितेस्तथा तवेति श्रोतारमुद्दिश्य प्रोक्तम् । एकत्वं च तच्छवणाधिकारिवैरल्यात् ॥४॥

Page 31

काव्यमाला। V

अयं सुरम्यो मधुरः सर्वसल्लक्षणान्वितः । बलीयान्नवतारुण्यो वावदूक: प्रियंवदः ।।५।। सुधीः सप्रतिभो धीरो विदग्धश्चतुरः सुखी। कृतज्ञो दक्षिण: प्रेमवश्यो गम्भीरताम्बुधिः ॥६॥ वरीयान्कीर्तिमाननारीमोहनो नित्यनूतनः ।

इत्यादयोऽस् शङ्गारे गुणा: कृष्णस्य कीर्तिताः। उदाहृतिरमीषां तु पूर्वमेव प्रदर्शिता ।।८।।

घटना नासमजसा' इति ॥४ ॥ कैर्गुणैर्विशिष्टोऽयं मधुररसालम्बनो भवतीत्यपेक्षा- यामाह-अयमिति । अत्र सुरम्येत्यादिभिः पञ्चभिर्विशेषणैः कायिकगुणाः, वावदूक: प्रियंवद इत्येताभ्यां वाचिकाः ॥५॥ सुधीरित्यादिभिश्चतुर्दशभिर्मा- नसाः ॥ ६ ॥ वरीयस्तं सर्वजनमुख्यलम्, कीर्तिमत्त्वं सर्वलोकगीयमानलम्, नारीमोहनलं युवतिभनोहारिलम्, नित्यनूतनत्वं द्रष्टजनप्रतिक्षणचमत्कारिकत्मि- त्येते चलारः परसंबन्धेन भवन्तीति परसंबन्धगाः। केलयश्व सौन्दर्यादि च प्रेष्ठाः प्रेयस्यश्च वंशीखनश्च तैरतुल्यैरद्वितश्चिहित इत्येकेन चलारोऽसाधारणा गुणा उक्ताः । यदुक्तम्-'लीलाप्रेम्णा प्रियाधिक्यं माधुर्य वेणुरूपयोः। इत्यसाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम्'॥ ७॥ उदाहृतिरिति । तत्र तन्र रागः सप्तसु अन्तषद्खपि शिशोरञ्वेष्वलं तुङ्गता' इत्यादि रसान्तरसंगतापि वक्तृवाच्यावस्थाभे- तत्र पूर्वोक्तेषु गुणेषु रसेऽस्मिन् योग्यैगुणैर्विशिष्टतया तं दर्शयति-अयं सुरम्य इति। सुरम्य इत्यादिशब्दाः केचित्पूर्वानुसारिणः केचित्पूर्वरूपिणः । तत्र पूर्वो यथा सुरम्यः सुरम्याङ्ग: मधुरो रुचिरः। 'रुचिरः' इत्येव वा पाठः। नवतारुण्यो वयसान्वितः ॥५। सुधीबुद्धिमान् । सप्रतिभः प्रतिभान्वितः । घीरः सुपा- ण्डित्यः १ गम्भीरताम्बुधिर्गेम्भीरः ॥ ६ ॥ नारीमोहनो नारीगणमनोहारी। अतुल्येति। 'त्रिजगन्मानसाकर्षिमुरलीकलकुश्चितः' इति। अन्ये तु पूर्वरूपिण एव । ७॥ उदाहतीति। उदाहृतिरिति तु प्रायिकमेव 'सर्वसल्लक्षणान्वितः' इत्यादिषु रसान्तरोदाहरणानि च तन्न दृश्यन्त इति। किं तु तानि, वक्रन्तरादिकं

Page 32

उज्ज्वलनीलमणिः ।

पूर्वोक्तधीरोदात्तादिचतुर्भेदस्य तस्य तु। पतिश्रोपपतिश्चेति प्रभेदाविह विश्रुतौ।। ९॥ तत्र पति :- उत्त: पतिः स कन्याया यः पाणिग्राहको भवेद्। यथा- 'रुक्मिणं युधि विजित्य रुक्मिणीं द्वारकामुपगमय्य विक्रमी। उत्सवोच्छलितपौरमण्डल: पुण्डरीकनयनः करेऽग्रहीत् ॥ १०॥'

दांस्तांस्तानपेक्ष्यात्रापि रसे संगमयितुं शक्येति भावः ॥८॥। अत्र रसे आलम्ब- नस्य नायकस्यास्य कियन्तो मेदा इत्यपेक्षायामाह-पूर्वोक्तेति। पूर्वोक्ता धीरोदात्तादयश्चतवारो मेदा यस्य स तस्य श्रीकृष्णस्य इह रसे पतिश्र उपपतिश्चेति प्रभेदौ ।। ९ ॥ पतित्वं पुरसुन्दरीषु विप्रागिसाक्षिकं प्रसिद्धमिति प्रथमं तत्रैव उदाहरति-रुक्मिणमिति। पद्यद्वयं द्रौपदीं प्रति सुभद्रासख्याः कस्याश्चि- दुक्तिः॥ १० ॥ अन्र पतित्वमात्रं व्यक्तम्, न तु मधुरो रसः, इत्यपरितुष्यन्राह- प्रयुज्यात्रापि संगमनीयानीति भावः। यथा सर्वसल्लक्षणान्वितले 'रागः सप्तसु हन्त षट्रखपि हरेरज्नेष्वलं तुद्गता विस्तारस्त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु। दैर्ध्य पञ्चसु किं च पञ्चसु यतः सूक्ष्मत्वमान्ते यथा द्वान्रिंशद्वरलक्षणः स तु भवेदर्हस्तव श्रीमति ॥' इति। तदेवमपि 'पदद्युति-' इत्यादिना यत्संक्षिप्य वर्णित तत्रैवैते गुणाः प्रवेशनीयाः । विस्तरभिया तु न विव्रियन्ते ॥l ८ ॥ पूर्वोक्तधीरोदान्तेति। तथा हि-'गम्भीरो विनयी क्षन्ता करुणः सुदृढ- व्रतः। अकत्थनो गूढगर्वो धीरोदात्तः सुसत्त्वभृत् ।। विदग्धो नवतारुण्यः परिहा- सविशारदः। निश्चिन्तो धीरललितः स्यात्प्रायः प्रेयसीवशः ॥ समप्रकृतिक: क्लेश- सहनश्च विवेचकः । विनयादिगुणोपेतो धीरशान्त उदाहृतः ॥ मात्सर्यवानहंकारी मायावी रोषणश्चलः । विकत्थनश्च विद्वद्धिर्धीरोद्धत उदाहृतः ॥I' इति । पति- शोपपतिश्चेति। पतिः पुरवनितानाम्, द्वितीयो व्रजवनितानाम्। द्वितीयतं च यद्यप्यासां अवतारावसर एव प्रत्याययितुं न तु सर्वदा। वक्ष्यते हि खवयमेव- 'लघुलमत्र यत्प्रोकतं तत्तु प्राकृतनायके। न कृष्णे रसनिर्यासखादार्थमवतारिणि॥'

Page 33

१० काव्यमाला।

यथा वा- 'कलितयुगलभावः क्वापि वैदर्भ्यपुत्र्या मखभुवि कृतदीक्षो दक्षिणार्थान्ददानः । विहरति हरिरुच्चेः सत्यया दीयमानः क्वचिद लमलसाङ्: पुण्यके नारदाय ॥ ११-।' यथा वा- 'कात्यायनि महामाये महायोगिन्यधीश्वरि। नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ॥ १२ ॥'

मखभुवि कृतदीक्ष इत्यादिना गुरुविप्राभनिमन्रधर्माननिसाक्षिकं रुक्मिण्यादिष्वेव सर्वथास्य पतितवमिति व्यजितम्। तत्रापि सत्यया दीयमान इति सत्यभामायाः सौभाग्याधिक्यं मदीयतामयस्रहवत्या तया तस्या वशीकारात्। पुण्यके श्रीहरिवं- शोक्ततन्ञामव्रते। कथा तु तत्रैव जेया। अलसाङ् इति संभोगशङ्गारो व्यजितः। लं मां ब्राह्मणाय दास्यसीति अधुना तु मया सह क्षणं रहति रमेति तत्प्रार्थनाह- ठात् स तया निष्पादितो ज्ञेयः ॥ ११ ॥ प्रसिद्धं पतितमुदाहृत्य प्रच्छन्नपतित- माह-यथा वेति। ताखेव मध्ये कियतीनां पतिभावः न तु सर्वासां

इति प्राचां मतेनापि संगमयिष्यते। 'नेष्टं यदङ्विनि रसे कविभिः परोढा तद्रोकु- लाम्बुजदृशां कुलमन्तरेण। आशंसया रसविधेरवतारितानां कंसारिणा रसिकम- फडलशेखरेण ॥' इति। किं च यदिदं स्कन्दपुराणमुपलक्ष्यागमप्रमाणेन लक्षाते- "वृन्दारण्ये विहरता सदारासादिविभ्रमः । हरिणा व्रजनारीणां विरहो नासिति कर्हिचित् II' इति, अन्र च अनादित एव तासां कृष्णेन संबन्धः कदाचिदपि नान्येनेति प्रतिपद्यते दूरतस्तावत्पत्यन्तरम्। येनासु तस्यौपपत्यं संभाव्यम्। वथाप्यवतारलीलामधिकृत्य कृतेऽत्र ग्रन्थे श्रीराधादिषु तदेवोपक्रम्य वक्त्तव्यमिति युक्तमेव पतिप्रतियोगिलेनोपपतिश्चेत्यतिदिश्यते ॥९॥१०॥ पुण्यके श्रीहरिवंशो- ऋतननामव्रते। कथा तु तत्रैव हेया। अलसाडो भावविशेषपारवश्यात्॥११॥ अव- तारलीलायामपि कासुचिद्वजकुमारीषु व्यक्तपतिभावतवं दर्शयति-यथा वा कात्यायनीति। कियतीनामपि तद्भावयोग्यानां गोकुलकुमारीणां मध्ये याः

Page 34

उज्ज्वलनीलमणिः । ११

कन्यानाम्। वक्ष्यमाणप्रकारेण धन्यादीनां तासां तूपपतिभाव एवाभूदिति भावः। एतद्वैविध्यं तासां 'कात्यायनि महामाये' इति मन्त्रार्थस्य द्वैविष्य- संभवादवगम्यते। स चार्थश्र यथा-हे कात्यायनि, नन्दगोपसुतं मे पति कुरु। ननु 'कुरु' इत्यनेन मय्येव किमिति तत्र स्ातन्नयमर्प्यते। अहं तु तत्पितरौ तदर्थ प्रेरयिष्यामि मात्रं। तस्मात् कारयेति वा देहीति ता प्रयुज्यता- मित्याशङ्् सवैकल्यभाह-हे महायोगिनीति। तेन सह योगस्तयैव शीघ्रं .संपाद्यः, न तु पित्रादिव्यवधानोपद्रवेण। कालविलम्बस्यासहत्वादिति भाव: । अधीश्वरीति। तत्र तव किमप्यशक्यं नास्तीति भावः। किच हे महामाये इति मायया मत्पितरौ तथा मोहय यथा कदाचिदपि गोपान्तरेण मद्विवाहस्ताभ्यां न भाव्यते। श्रीकृष्णाङ्गसङ्गरहस्यं च ज्ञातुं न शक्यते इति कियतीभिः मृद्वीभिः परोढानां श्रीराधाचन्द्रावल्यादीनां श्रीकृष्णाभिसारादौ पतिश्वश्रुननान्द्रादियन्त्रणा- मालक्ष्य गोपान्तरेण खविवाहमनिच्छन्तीभि: श्रीकृष्ण एव पतिभावं निश्चिन्वती- भिर्देवीपूजाकाले स्वखमनस्युपस्थापित इति तासु श्रीकृष्णस्य पतितमेव। तथा नन्दगोपसुतं मे देवि, पति कुरु। दीव्यति देवयतीति वा देवी। ग्रहादिता- ण्णिनिः। देवी चासौ पतिश्चेति तं क्रीडाप्रयोजनकं पति कुरु। नतु धर्मतः पति- मित्यर्थः । श्रीकृष्णस्य संप्रत्यनुपनीतलेन विवाहायोग्यलात् परमोत्कण्ठावतीभिर- स्माभि: कालविलम्बनस्यासहत्ाच्चेति भावः। हे महामाये हे महायोगिनीति पितृभ्यां गोपान्तरेण सहागामिनि काले मद्विवाहे निष्पादितेऽपि तान् पत्यादीन् मोहयित्ा तत्स्पशात्संरक्ष्य श्रीकृष्णेन सहैवाहं लयव योजयितव्या। ततश्व विवोढा मे पतिमन्य एव भविष्यति। श्रीकृष्ण एव पतिरिति न कदाचिम्त्क्षतिरि- त्यर्थस्तु अपराभि: प्रखराभिः श्रीराधादिपरोढागणसङ्गिनीभिः श्रीकृष्णाङ्गसङ्गमान्र- तात्पर्यवतीभिः कन्याभि: खखमनस्युद्भावित इति तासु श्रीकृष्णस्योपपतितमेवेति विवेचनीयम्। किं चायमेवार्थो भगवतोऽप्यभिप्रेत इत्यवगम्यते, तत्र व्रतान्ते 'याताबला व्रजं सिद्धा' इत्यनन्तरं 'भविष्यामि पतिर्हि वः' इत्यनुक्ला 'मयेमा रंस्यथ क्षपाः । यदुद्दिश्य व्रतमिदं चेरुरार्यार्चिनं सतीः ॥I' इत्युक्तेः ॥१२॥ काश्िदेवं संकल्पमाचेरुसाखेव तासामेव न न्यासां गृहस्थितानां पतिभावो हराव- भूदित्येवार्थः। 'याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः' इत्यनेन तासां सर्वासामेव सिद्धमनोरथतं ख्वयमेव श्रीकृष्णेन सवीकृतम्। वक्ष्यते च-'अनूढाः कंन्यका

Page 35

१२ काव्यमाला।

इति संकल्पमाचेरुर्या गोकुलकुमारिकाः । ताख्वेव कियतीनां तु पतिभावो हरावभूत् ॥१३ ॥ मूलमाधवमाहात्म्ये श्रूयते तत एव हि। रुक्मिण्युद्वाहतः पूर्व तासां परिणयोत्सवः । १४'॥ अथोपपति :- रागेणोल्लङ्मयन्धर्म परकीयाबलार्थिना। तदीयप्रेमवसतिर्बुधैरुपपतिः स्मृतः ॥१५॥ यथा पद्यावल्याम्-

कियतीनां मध्ये या इति संकल्पमाचेरुः ताखेव तासामेव पतिभावीऽभूदिति व्याख्याने पाठकमोहङ्गनं कियतीनामित्यस्य वैयर्थ्य षध्यर्थे सप्तम्याश्चासिद्धेरिति दोषत्रयम्। तथाग्रे 'याश्र गोकुलकन्यासु पतिभावरता हरौ' इत्युमान्रतफलं 'पिच्छावतंसी पतिः' इत्यादिना खकीयाप्रकरणे उमाव्रतपरा युक्ताः। अथ परकीया इति परकीयाधिकारे। तत्र दुर्गाव्रतपराः परा एव कन्या धन्यादयो भता इति तद्रतपरा एव काश्चित्परकीया अप्युक्ता इति कात्यायनीव्रतपराणां द्वैविध्यमवश्य- मेव व्याख्येयम्। तत्र 'दुर्गाव्रतपराः कन्या धन्यादयः' इत्येतत्पद्यं व्याख्यया स्वकीयास्वेव प्रक्षेप्व्यमिति चेत् स्कीयात्स्य पौनरुत्तयं परकीयाप्रकरणे तत्पाठस्य वैयर्थ्य स्यादित्यनुसंघेयम् ।। १३ ॥ श्रूयते लोकपरम्परया, न तु तत्प्रमाणवचनं क्वापि प्राप्यत इति भाव: ॥। १४ ॥। परकीया अबला एवार्थ: प्रयोजनं तद्दता रागेण धर्म उत्कर्षेण बुद्धिपूर्वकमेव लङ्गयन्। तदीयस्य परकीयाबलासंबन्धिनः

प्रोक्ताः' इत्यादन्ते 'तत्र दुर्गाव्रतपराः कन्या धन्यादयो मताः' इति, 'गान्धर्वरीत्या स्वीकारात्स्वीयात्मिह वस्तुतः' इति च ॥ १२॥१३ ॥ न केवलं पतिभाव एव किं तर्हि विवाहोऽपि जात इत्याह-मूलेति। श्रूयते इति परम्परयैव श्रवणं ज्ञाप्यते न तु साक्षादिति। तदेतच्च मा भून्नाम सिद्धा इति सवीकारमयगान्धर्व- विवाहेन श्रीभज्नन्दगोपसुतरूमपतिप्राप्तिसंकल्पस्यात्रैव सिद्धत्वादिति भावः ॥। १४।। रायेणोल्लङ्कयन्धर्ममिति। साधारणस्योपपतेर्लक्षणमत्र यल्लिखितं तत्खलु

Page 36

उज्ज्वलनीलमणिः । १३

'संकेतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतो द्वारोन्मोचनलोलशङ्कवलयक्काणं मुहुः शृण्वतः । केयं केयमिति प्रगल्भजरतीवाक्येन दूनात्मनो राधाप्राङ्गणकोणकोलिविटपिकोडे गता शर्वरी ॥। १६ ।।'

प्रेम्णो वसतिर्वासस्थानमिति विशेषणाभ्यां प्रेम्णः परम्पराविषयाश्रयत्वं व्यक्तम् •॥ १५।। संकेतीकृतेति। पौर्णमासीं प्रति वृन्दावचनम्। तत्र संकेतीकृतेति द्वारोन्मोचनेत्याभ्यां द्वयोरप्यौत्कण्ठ्येनोनिद्रत्वं प्रच्छन्नकामुकलं च । तत्रापि प्रथमविशेषणेन श्रीराधाया हर्षोत्कर्षः । द्वितीयेन श्रीकृष्णस्य। पुनश्च केयं केयमित्यनेन हर्षप्रशमशक्कोदयो द्वयोरेव। ततश्व मिथो दुर्लभता बहु वार्यते इति ताभ्यां च विवादोत्कण्ठ्यचापल्यान्यतिवर्धितानि। मुहुरिति कतिपयक्षणानन्तरं पुनरपि कोकिलादिनिनदद्वारोन्मोचनजरतीवाक्यानि तथा तथा भाववर्धकानीति ज्ञेयानि। शर्वरी रात्रिर्गता तथैव व्यतीतेत्यतो मयास्य दिवसे शीघ्रमेव कुञ्जगृहे संगमितौ तौ संप्रति कीडत इति द्योतितस्य संभोगशङ्गारस्य परमोत्कर्षः प्रतिष्टितः । औपपत्यघटितबहुवार्यत्वादिगर्भेण नक्तंतनविप्रलम्मेनाति- कृष्णे तल्लक्षणस्य वास्तवत्वाभावात्तत्रातिदेश एव युज्यत इति विवक्षया खजनप्रेम- वशावतारलीलावेशेन नित्यलीलाभनुसंधानस्य तस्य तासां च तादृशीनां लीला- शक्तिर्माययैव रसविशेषपरिपोषाय तासु परकीयातं प्रत्यायय्य तत्रापपत्यं प्रत्यायि- तवतीति। दृश्यते च तादशलीलावेशेन तस्य क्वचिदननुसंधानम्-'इत्युक्लाद्रि- दरीकुजीगह्यरेष्वात्मवत्सकान् । विचिन्वन्भगवान्कृष्णः सपाणिकवलो ययौ।।' इत्यादिषु ॥। १५ ॥ अथ यत् पद्यावलीसंग्रृहीतं संकेतीकृतेत्यादिकं कस्यचि- त्कवेः पद्यमुदाहृतम्, तत्खलु तादृगौपपत्यरीतिप्रत्यायनायोत्प्रेक्षामात्रम्। 'तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् । हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप ।।' इति सर्वसमृद्धिमतां सर्वेषामेव व्रजजनानां तादृशदरिद्रगृहस्थताव्यज्ञनानुपपत्तेः। अन्थकृद्भिरपीदं पूर्वग्रन्थे श्रीबिल्वमङ्गलवचनमत्र प्रभाणितभस्ति-'चिन्तामणि- श्ररणभूषणमज्गनानां शरृद्गारपुष्पतरवस्तरवः सुराणाम्। वृन्दावनं व्रजधनं ननु कामधेनुवृन्दानि चेति सुखसिन्धुरहो विभूतिः ॥' इति। वक्ष्यते च-'अन्नापि सर्वथा श्रेष्ठे राधाचन्द्रावली उमे। यूथयोस्तु ययोः सन्ति कोटिसंख्या भृगी-

Page 37

१४ काव्यमाला।

अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः । तथा च मुनिः- बहु वार्यते यतः खलु यत्र प्रच्छन्कामुकत्वं च। या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः॥१७। लघुत्वमत्र यत्प्रोक्तं तत्तु प्राकृतनायके।

पोषणात् ॥ १६॥ अत्रैव औपपत्य एव। न तु दाम्पत्य एव इत्यर्थः । प्रतिष्ठितः प्रतिष्ठां प्राप्तः॥ अत्र प्रथमं सर्वमूलभूतं सर्वोपजीव्यं मुनिवचनमेव प्रमाणयति- तथा च मुनिरिति। मुनिर्भरतः । बहुः वार्यते यतो रतेर्हेतोः। बहुवारणं लोकतो धर्मतश्चेत्यर्थः । यत्र रतौ सत्यां प्रच्छन्नकामुकतं या च रतिर्मिथो दुर्लभ- तामयी सैव मन्मथसंबन्धिनी रतिः परमा उत्कृष्टा, अपरा अपकृष्टेत्यर्थः ॥१७॥ तन्रान्येषामपि रसविदुषां ततोऽर्वाचीनानां वैमत्यं वस्तुतत्त्वदृध्या नास्तीत्याह- लघुत्वमिति। अन्रोपपतौ यल्लघुत्वमुक्तं पूर्वाचार्यैस्तत्प्राकृतनायक एव तत्रै- वौपपत्यस्य वैधर्म्यात्, तस्य च दूरदृष्टजनकल्वात्, तस्य च नरकपातनिदानलात्, पर्यवसाने दुःखमात्रोपादानलेन तस्य लघुतम्। तथा तत्तच्ेष्टितस्य काव्यनाट्य- गतलेन उपादेयतया खादने 'यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत्' इति न्यायाच्चर्वणदशायां सभ्यानामपि ताद्रूप्यापत्तेश्च विधर्मस्पर्शात्। न तु कृष्णे धर्माधर्मनियन्तृचूडामणीन्द्रे किमर्थ नोक्तम्। रसनिर्यासस्वादार्थ तेषां सभ्यतया

दृशः ॥' इति ॥ १६ ॥ अत्रैवेति। श्रीकृष्णेन सह व्रजसुन्दरीणामीदशलीला- विशेष एव शृङ्गारस्य परमोत्कर्ष इत्यर्थः । कथं तत्राह-तथा च मुनिरिति। मुनिर्भरतः । किभाह मुनिस्तन्राह-बहु वार्यते इति। यतो रतेः सकाशात् मिथुनं बहु निवार्यते, यत्र रतौ मिथुनस्य प्रच्छन्नकामुकता, या च रतिर्भिथो टुर्लभतामयी, सा मन्मथस्य संबन्धिनी रतिः परमा मता। अयं तु अ्न्थकृतां भाव :- स हि वार्यभाणतादिसद्भावेन रसोत्कर्ष स्थापयति तच्चात्रापि 'ता वार्य- माणाः पतिभिः' इत्यादिना स्पष्टमेवास्तीति तन्मतेऽप्यस्त्यत्र रसोत्कर्ष इति । १७ ॥ तत्राशङ््य समादवाति-लघुत्वमिति पद्येन। तत्राशङ्कानुवादो लघुत्वमत्र यत्प्रोक्तमिति। ननु '>ङ्गंहि न्मो्द्ेस्ता ग म न हेतुक ः

Page 38

उज्ज्वलनीलमणिः । १५

न कृष्णे रसनिर्यासस्वादार्थमवतारिणि॥ १८॥।

तद्विषयक एव स्वकर्तृको यो रसनिर्यासस्यास्वादस्तदर्थम्। यदि कृष्णेऽपिं तैर्लघुल्वमुक्त स्पात्तर्हि तेषां रसनिर्यासास्वादो निर्विषय एव स्यादिति भावः । कृष्णे कीदृशे। अवतारिणि अवतारमात्रस्यैव धर्माधर्मनियम्यत्वं नास्तीति श्रुतिस्मृति- प्रसिद्धम्, किमुत सर्वावतारमूलभूतस्य तस्य इति भावः। अयमर्थ :- 'बहु वार्यते यतः खलु' इत्यादि भरतमुनिसंमत्या, 'वीमता दुर्लभतं च' इत्यादि रुद्रसंमत्या, 'यत्र निषेधविशेषः' इत्यादि संहितासंमत्या, 'अनन्यशरणा सवीया पणहार्या पणाङ्गना। तस्यास्तु केवलं प्रेमा तेनैषा रागिणी मता ॥' इति शज्गारतिलकसंमत्या च परोढोपपत्योरेव सकलसहृदयसाक्षिको रसनिर्यासाखादो दृश्यते। ततश् तयोरेव नायकोत्तमले प्रसज्यमानेऽपि यल्लघुत्वमुक्तं तत्र कारणमधर्मस्य स्पर्श एव। स तु श्रीकृष्णे धर्माधर्मा दिसमस्तवस्तुसृष्टिस्थिति संहार कारकभ्रविजम्भमा- त्रस्यादिपुरुषस्यांशिनि स्वयं भगवति श्रीलीलापुरुषोत्तमे नरवपुषि तथव तदीय- महाशक्तिसमुदायपरममुख्यतमायां ह्रादिनि शक्तौ श्रीगोपिकारूपायां च नैव संभवेत्, तदा तदीयतत्तच्चरितास्वादकानामपि 'विकीडितं व्रजवधूभिः' इति, 'तद्वाग्विसर्गो जनताघविप्लव.' इति, 'तदेव सत्यं तदुहैव मङ्गलम्' इत्यादिभिः सर्वोत्तममहाफलप्राप्तिश्रवणाच्च प्रत्युत तत्रैव नायकोत्तमत्वमेव प्रसञ्जितमिति। अत एवोक्तं ग्रन्थकृद्भिरेव नाटकचन्द्रिकायाम्-'यत्परोढोपपत्यस्तु गौणलं कथितं बुधैः। तत्तु कृष्णं च गोपीश्च विनेति प्रतिपद्यताम् ॥' अलंकारकौस्तुभकृद्धभिरपि- 'अग्राकृते तु परोढरभणीरतिरेव सर्वोत्तमतया भूयसी श्रूयते न तस्यामनौचित्य- प्रवर्तितत्वं अलौकिकसिद्धेर्भूषणमेव न तु दूषणमिति न्यायात्तर्कगोचरलाच' इति। यद्वा। कृष्णे कथंभूते। रसनिर्याससवादार्थ प्रपञ्चलोकगतखभक्तजनान् रसनिर्यास-

उत्तभप्रकृतिप्रायो रसः शद्गार इष्यते ॥' इत्यनर्वाचीननिरुक्तौ 'उत्तमप्रकृतिप्राय.' इत्यक्ते कज्लं छुचिपर्याये रसेऽस्मिन्नधर्ममयमौपपत्यमङ्गलाय नोचितः। 'जारः पापपतिः समौ' इति त्रिकाण्डशेषादिदर्शनेन नामापि तस्य निन्दागर्भमेव लभ्यते। नाट्यालंकारशास्त्रयोस्तु तस्य न्यक्कारश् श्रूयते। यदुक्तं तत्तन्मतं संगृह्य साहित्य- दर्पणे-'उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च। बहुनायकविषयेहा रतौ च तथानुभवनिष्ठायाम् ॥ ग्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्यगादिगते। शङ्गारेऽनौ-

Page 39

१६ काव्यमाला।

माखवादयितुं अवतारिणि। स्वादेश्वौरादिकाद्वेतुमण्ण्यन्ताद्वञ्। तस्य तु स्वकर्तृको रसंनिर्यासस्वाद: प्रकटलीलायामप्रकटलीलायां च सदैव वर्तत एव, ता एव जन्मादिलीला: प्रपञ्चजनेषु कृपया दर्शिताश्चेत् प्रकटाः, ता एव तच्चक्षुर्भ्य- स्तिरोहिता: पिहिताश्रेदप्रकटा उच्यन्ते न तु प्रकटाप्रकटलीलयोः स्वरूपतः किंचन वैलक्ष्यमस्तीति। यदुकतं भागवताभृते-'अनादिमेव जन्मादिलीला- मेव तथाद्भुताम्। हेतुना केनचित्कृष्णं प्रादुष्कुर्यात्कदाचन ।I' इति, तन्न श्रीजीवगोख्वामिचरणानां तु यन्मतम् । खेच्छाभिमतमेतन्मे माननीयं न चेतरत् ।।' न चाप्रकटलीलायां सदा दाम्पत्यमेव, तथा तस्या एव लीलाया नित्यलं च परोढोपपतितं च प्रकटलीलायामेव कियन्ति दिनानि मायिकमेव न तु वास्तवमिति वक्तुं शक्यम्। सर्वलीलामुकुटभणिभूताया रासलीलाया अप्यादि- मध्यावसानेषु परोढोपपतिभावमय्या मायिकलेऽनुपादेयतप्रसक्तेः। तथा हि- 'ता वार्यमाणा पतिभिः पितृभिर्भ्रातृबन्धुभिः' इत्यादीनि, 'भ्रातरः पतयश्च वः' इत्यादीनि, 'यत्पत्यपत्यसुहृदामनुद्टत्तिरङ्न' इति प्रथमाध्याये। 'तह्गुणानेव गायन्त्यो नात्मागाराणि संयरुः' इति द्वितीये। 'एवं मदर्थोज्झितलोकवेदखानां हि' इत्यादि चतुर्थे। 'कृत्ा तावन्तमात्मानं यावतीर्गोपयोषितः । मन्यमानाः स्पार्श्वस्थान्सान्स्ान्दारान्त्रजौकसः ॥' इति पञ्चमे च श्रीशुकस्य श्रीभगवतस्तासां च वाक्यानि तस्या रासलीलायास्तन्भ्ावमयलवमेव प्रतिपाद्यन्ति न तु दाम्पत्यम- यत्म्। किं च तस्या मायिकलेन 'अयं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः' इत्यादिना प्रतिपादितो व्रजसुन्दरीणां लक्ष्म्यादितोऽप्युत्कर्षोऽप्यवास्तव एव स्यात्। तथा 'लीलाप्रेम्णा प्रियाधिक्यम्' इत्याद्यसाधारण्यं श्रीकृष्णगुणस्यापि निष्प्रमाण- कमेवापदते। न च केनापि क्वापि दाम्पत्यमयी रासलीला वर्णितास्ति । न च चित्यम्' इति, यत्तु कुत्राप्यौपपत्यवर्णनं दृश्यते, तत्खलु 'नेष्टा यदद्विनि रसे कविभि: परोढा" इति दर्शयिष्यमाणवृद्धमतप्रामाण्येनाङ्गिनि रसे तु न स्यात्, किं इन्ने रसे सोपहासमेवेति गम्यते तत्पक्षं पुष्णता स्वयं श्रीकृष्णेन च-'अस्वर्ग्य- भयशस्यं च फल्गु कृच्छूं भयावहम्। जुगुप्सितं च सर्वत्र त्यौपपत्यं कुलस्त्रियः ॥' इत्यनेन जुगुप्सिततपर्यस्ता दोषा उक्त्ताः । श्रीव्रजिदेवीभिरपि-'निःसवं त्यजन्ति गणिका जारा भुक्ता रतां स्त्रियम्' इत्यनेन तथैवानुमतम्। श्रीपरीक्षितेनापी- स्थमेवाक्षिप्तम्-'आप्तकामो यद्ुपतिः कृतवान्वै जुगुप्सितम्' इति। तदेवमत्र

Page 40

उज्ज्वलनीलमणिः । . १७

भ्रमककृप्तान् औपपत्यमयानंशान्परित्यज्य एवं रासपञ्चाध्याय्यां रासलीला उपादे- येति वाच्यम्। 'न पारयेऽहं निरवद्यसंयुजां खवसाधुकृत्यं विबुधायुषापि च' इत्यादिपद्यानां परमप्रेमोत्कर्षप्रमापकाणामवास्तवप्रसक्क्तेः । न च 'या माऽभज- न्दुर्बलगेहशङ्गला: संवृश्च्य' इत्येतस्य भूतस्यांशस्य वास्तवत्वं विना तत्साधितस्य 'न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि च' इत्यनेन व्यजिततत्प्रेभ- हृतभगवद्वशीकारस्य वास्तवतं सिद्धयेत्। अस्तु नाम वा परममायाविनो भगवत- •स्तत्तद्वचनं तदनुरञनमात्रतात्पयेकल्वात् अवास्तवमेव । किंतु परमसाधुवर्गमुकुट- मणिना महाविज्ञेन श्रीमदुद्वेन 'आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम्' इत्यर्धेन व्यज्यमाने पटुमहिष्यादिभ्योऽप्यासां प्रेमम- होत्कर्षतया 'दुस्त्यजं सवजनमार्यपथं च हिल्ा' इत्येष एव हेतुरुपन्यस्तः । खजन- मार्यपथत्यागस्य प्रतीतिकलेन तस्य हेतुत्वस्याप्यवास्तवलात् साधितो महोत्कर्ष- श्रावास्तवः । तद्दक्ता उद्धवश्च भ्रान्त आपद्यते स्म । किंचानादिकालवृत्तोपास-

भावमय एवावगम्यते, नहि ब्राह्मणीजनवल्लभाय दीयतामित्युक्ते ब्राह्मणीनां खवीयात्वं प्रतीयते। यदि च प्रतीयते तर्ह्य्वेरेव, न तु व्याकरणालंकारादिबहु- दृश्वभिर्विज्ञैः। तथा हि शब्दशक्तेरद्भुत एव स्भावः हेयमस्य ब्राह्मणीति निर्विशे- षणतयोक्तेर्बाह्मण्याः खीयातं प्रतीयते। अस्यैते ब्राह्मणीजना वल्लभास्तथा ब्राह्मणी- जनानामयं वल्लभ इत्युक्ते परकीयातं अत्राभिज्ञहृदयमेव प्रमाणं ज्ञेयम्। अस्य ब्राह्मणीत्याद्यपि अपभ्रंशभाषायामेव प्रयुज्यते न तु क्वापि वाक्यादिषु केनाप्यभि- सुक्तेन। तथाहि ब्राह्मणीति स्त्रीप्रत्ययः पुंयोगे जातौ वा आद्े अस्येति इदंश- बदस्य पदैकदेशेनान्वयाभावात् ब्राह्मणान्तरतवमेव स्त्रीप्रत्ययप्रकृत्यर्थस्य प्रतीयते। द्वितीये ब्राह्मणी ब्राह्मणजातिरस्येति षष्ठी केन संबन्धेन । अन्न प्रकरणादिकमेव दाम्पत्यप्रत्यायकमिति चेत् देवमन्दिरादौ पूजाश्राद्धादिप्रस्तावे वा लमात्मना ब्राह्मणीमाकारय इत्युक्ते ब्राह्मण्या आचार्योणीलस्य प्रतीतिः । बाह्यपरिचर्यादौ दासीखस्य वात्सल्यप्रकरणे भगिन्यादितस्य खपुरस्थशयनगृहादौ खीयभार्यालस्यैव निभृतकाननादौ स्वकीयात्वस्यापि संभवेत्। न च मन्त्रयोरेतादृशार्थते किंचिद्दष- च लघुतं क्षुद्रतवं जुगुप्सितत्वमिति यावद्याख्येयम्, अतो मुनिना भरतेनापि रत्नावलीनाटिकावद् ययातिचरितवच्च दाम्पत्यमेव सपल्नादिकृतवार्यमाणलादिना २ उज्व०

Page 41

१८. काव्यमाला।

णावहत्वमायातम्। अलौकिकत्वस्य भूषणमेतत्, नतु दूषणमित्युक्ते: । तथा तन्म- न्रध्यानभूते गौतमीये श्रीगोपालस्तवराजे-'विचित्रखवरभूषाभिर्गोपनारीभिराव तम्' इत्युफेर्नारीशब्दस्य परिणीतायामेव रूढेः । क्रमदीपिकायां च तन्मन्त्रमध्या- हिकध्याने-'गोगोपवनितानिकरैः परीतं सान्द्राम्बुदच्छवि सुजातमनोहराङ्म्। ध्यायेत्' इत्याद्युकेश्र। किं च तत्रैव प्रातर्मध्याह्सायाह्वादिषु तन्मन्रध्यानेषु 'महानीलनीलाभमभ्यन्तरालम्' इत्यादिषु 'समुद्धूषरारे:(?) स्थलं धेनुधूल्याः' इति, 'महीभारभूतामहरातिमुख्यानलं पूतनादीन्निहन्तुं प्रवृत्तम्' इत्यादि, तथा 'वन्दे तं0 देवकीपुत्रं सद्योजातं द्युसत्प्रभम्। पीताम्बरं करलसच्छक्रचकरगदाघरम् ॥ एवं ध्याला जपेन्मन्र्रम्' इति, 'लम्बितं बालशयने रुदन्तं बह्लवीजनैः ॥ प्रेह्ममाणम्' इति, 'साशुचूषणनिर्भिन्नसर्वाङ्गां रुदतीं च ताम्' इति, 'दारयन्तं बकं दोर्स्याम्' इति, 'कालीयस्य फणामध्ये दिव्यं नृत्यं करोति तम्' इति, 'उद्ण्डवामदोर्दण्डधृतगोवर्धनाचलम्' इति, 'अथवा गरुडारूढं बलप्रद्युम्नसंयु- तम्। निजज्वरविनिस्पृष्टजराभिधृतमच्युतम् ।' इति, 'द्वेषयन्तं रुक्भिबलौ द्यूत- शक्तो स्मरन्हरिम्' इत्यादीनां सर्वेषामेव जन्मोपक्रमाणां प्रकटलीलानामुक्तलात्त- न्मन्त्रोपासकानामनादिकालपरम्परागतलात्तेषां ध्यानपाकदशायां तथा तथा साक्षा- त्कारादायत्यां तथा प्राप्तेश्च प्रकटलीलाया एव नित्यतं निर्णीतम् 'जन्म कर्म च मे दिव्यमेवं यो वेत्ि तत्त्वतः' इत्यग्रे 'बहूनि मे व्यतीतानि जन्मानि' इत्यत्र भाष्यकृद्धि: श्रीरामानुजाचार्यचरणैरपि जन्मकर्मपरिकरादेरपि श्रुतिस्मृतिप्रमाणलं नित्यलेन दार्रीतम् । श्रीमधुसूदनसरखतीपादैरपि 'जन्म कर्म च मे दिव्यम्' इत्यग्रे 'दिव्यमप्राकृतम्' इति व्याख्यातम्। पिप्पलादशाख्रायां पुरुषबोधिनी श्रुतिश्च-'एको देवो नित्यलीलानुरक्तो भक्तव्यापी भक्तहृद्यन्तरात्मा' इति। श्रीमद्विट्ठलनाथगोस्वामिचरणैरेवमेव गुणकर्मनामरूपादीनां विद्वन्मण्डननामखग्रन्थे प्रतिपादितम् । तद्यथा बृहद्वामनपुराणे गीयते उत्तरस्थानेऽखिले च । भृग्वा- दीन्प्रति ब्रह्मणो वाक्यानि-'षष्टिं वर्षसहस्राणि' इत्युपक्रम्य पुनर्ब्रह्मवचनम्- 'प्राकृते प्रलये प्रात्ते व्यक्तेऽव्यक्तं गते पुरा । शिष्टे ब्रह्मणि चिन्मात्रे कालमायाति- गेऽक्षरे ।I ब्रह्मानन्दमयो लोको व्यापी वैकुण्ठसंज्ञितः। निर्गुणोऽनादनन्तश्र दाम्पत्ये रतिः प्रशस्ता भवतीत्येव मतं नोपपत्यरतिः प्रशस्ता स्यादिति। कथं तर्हि तद्वाक्येनौपपत्यरतिः प्रशस्यते। अत्र समाधानम्-तत्तु प्राकृतनायक

Page 42

उज्ज्वलनीलमणिः । १९

वर्तते केवलेऽक्षरे ।। अक्षरं परमं ब्रह्म वेदानां स्थानमुत्तमम् 1. तललोकवासी [हि जनः ] स्तुतो वेदैः परात्परः ॥ चिरं सुत्या ततस्तुष्टः परोक्षः प्राह तान्गिरा। तुष्टोऽस्मि व्रृत भो प्राज्ञा वरं यन्मनसीप्सितम् ॥ श्रुतय ऊचुः-ब्रह्मेति पठ्य- तेऽस्माभिर्यद्रूप निर्गुणं परम् । वाख्नोगोचरातीतं ततो न ज्ञायते तु यत् ।। आनन्दमात्रमिति यद्वदन्तीह पुराविदः। तद्रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥ श्रुलैतद्दर्शयामास खं लोकं प्रकृतेः परम्। केवलानुभवानन्दमात्रमक्षर- • मध्यगम्॥ यत्र वृन्दावनं नाम वनं कामदुघैर्द्गमैः। मनोरमं निकुआढ्यं सर्वर्तु- रससंयुतम् ॥। यत्र गोवर्धनो नाम सुनिर्झरदरीयुतः । रत्नधातुमयः श्रीमान्सुपक्षि- गणसंकुलः ॥ यत्र निर्मलपानीया कालिन्दी सरितां वरा। रत्नबद्धोभयतटी हंस- पद्मादिसंकुला ॥। नानारासरसोन्मत्तं यत्र गोपीकदम्बकम्। तत्कदम्बकमध्यस्थः किशोराकृतिरच्युतः ॥ दर्शयिलेति च प्राह ब्रूत किं करवाणि वः । दृष्टो मदीयो लोकोऽयं यतो नास्ति परं वरम् ॥ श्रुतय ऊचु :- कन्दपकोटिलावण्ये लयि दृष्टे मनांसि नः । कामिनीभावमासाद्य स्मरक्षुब्धान्यसेश्रयम्॥ यथा लल्लोकवासिन्यः कामतत्त्वेन गोपिकाः । भजन्ति रमणं मला चिकीर्षाजनि नस्तथा॥ श्रीभग- वानुवाच-दुर्लभो दुर्घटश्चैव युष्माकं सुभनोरथः । भयानुमोदितः सम्यक्सत्यो भवितुमहति ॥ आगामिनि विरिश्चौ तु जाते सृष्यर्थमुद्यते। कल्पं सारखतं प्राप्य ब्रजे गोप्यो भविष्यथ ॥। पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले। वृन्दा- - वने भविष्यामि प्रेयान्वो रासमण्डले।। जारधर्मेण सुस्नेहं सुदृढं सर्वतोऽधिकम्। मयि संप्राप्य सर्वेऽपि कृतकृत्या भविष्यथ ॥। ब्रह्मोवाच-श्रुलैतचिन्तयन्त्यस्ता रूपं भगवतश्चिरम् । उक्त कालं समासाद्य गोप्यो भूला हरिं गताः ॥' इति। व्याख्यातं च तैरेव-'अन्न हि श्रुतिभिः सर्ववेदान्तप्रत्ययं गुणातीतं वाज्धनोगो- चरातीतं आनन्दैकरूपं यत्तव रूपं तत्प्रदर्शयेति प्रार्थितो भगवान् गोकुलं तत्स्थितं स्वरूपं लीलां तत्र क्रियमाणां च प्रदर्शितवानित्युच्यते। एतत्तदैव घटते यदि सर्ववेदान्तप्रत्ययत्वादिविशिष्टमेतद्भवेत्। एवं सति तन्नित्यता निष्प्रत्यूहा भवाति। अपि च दशमस्कन्धे एव नामकरणप्रस्तावे सर्वज्ञेन श्रीगर्गाचार्येण निरूपितम्- 'बहूनि सन्ति नामानि रूपाणि च सुतस्य ते। गुणकर्मानुरूपाणि तान्यहं वेद इत्यादिना प्राकृतनायक इति कृष्णात् अपरनायक इत्यर्थः । कृष्णे ललघुले हेतु :- रसनिर्यासेति । रसनिर्यासो रससारः । मधुररसविशेष इत्यर्थः ॥

Page 43

२० काव्यमाला।

नो जनाः ॥' इति। अन्न हि नाम्रां रूपाणां च बहूनामेव सन्तीति प्रयोगेण वर्त- मानतवं बाध्यते। तन्नापि गुणानामौदार्यादीनां कर्मणां कालीयदमनादीनामनुरूपाणां तेषां तथालं बोध्यते। अनुरूपत्वं तु तत्समययोग्याकारक्रियादिमत्त्वम्। तथाच गोवर्धनोद्धरणकर्मण्युत्थितत्वं उद्धाहुतं उद्धारणक्रियावत्त्वं सकलगोकुलजनाप्याय- कत्वादिकतं च। तथा चैतादृशानां नाम्नां वर्तमानत्वं तदैव स्याददि तत्प्रयोजक- स्वरूपत्ियादीनां वर्तमानतं स्यात्। अन्यथा क्वचित्तत्कियानिवृत्तौ तत्प्रयुक्तं तन्नामापि तदा न स्यात्।' इत्यादि। अनन्तरं च-'भगवन्नामानि तु अखण्ड- शब्दब्रह्मरूपाणि। यथा भगवत्स्रूपे शरीरे लौकिकलभानं ग्राहकदोषात्तथा नामखपि। लौकिकशब्दलेन भानं तद्दोषादेवेत्यादि तेन सर्वेषां स्वरूपवन्नाम्रामपि नित्यता मन्तव्या। ननु गुणकर्मणीति वचनात् गुणकर्मकरणानन्तरभाविनां नाम्नां कथं ब्रह्मतं तस्य तु त्रैकालिकाबाधविषयत्वादिति चेत्, न। स्वरूपकर्मणामपि प्रादुर्भावेन तदनुरूपनाम्रामपि प्रादुर्भाव एव परं न तूत्पत्तिः । अन्यथा गोविन्दा- भिषेकात् पूर्वमेव पूतनासुपयःपानानन्तरं बीजन्यासं कुर्वत्यो व्रजवरवध्वः 'क्रीडन्तं पातु गोविन्दः' इति गुणगाने च 'गोविन्दवेणुमनुमत्तमयूरनृत्यम्' इति कथं वदेयुः। तेन यत्कर्मविशिष्टस्य यस्य रूपस्य यन्नाम तत्कर्मविशिष्टं तद्रूषं नित्यमेव। लोके परं तेषां भक्तानां तत्तद्रसानुभवार्थ क्रमेणाविर्भावः। कस्याप्यं- शस्य कदाचिदाच्छादनमित्येव मन्तव्यम्। तेन भगवान् गोवर्धनमुद्धरन्नेव सदैव वर्तते इति। गोवर्धनोद्धरणधार इति क्रियानामाभ्यां सहितो गोवर्धनोद्धरणरूपः सदैव वर्तते। अत एव अद्यापि भक्तानां तथानुभवः । क्वचित्तथा प्रतिकृतौ भजनं तथा स्मरणं च। अन्यथाभूतस्य तथाभावनेनापराधः स्यात्। न तु प्रमोदहेतुर्भ- जनम्। 'योऽन्यथा सन्तमात्मानम्' इति वाक्यात्। दृश्यते च तथा भजने प्रसाद:। एवं सति रूपनामावश्यकलेन तत्कर्मानुरूपनामापि नित्यमेव ।' इति नोपचारगन्धशङ्कालेशोऽपि । श्रीमज्जीवगोस्वामिचरणैरपि श्रीभगवत्संदर्भे-'न विद्यते यस्य च जन्म कर्म वा' इत्यत्र तथैव व्याख्यातम्। तद्था-खमायया स्वरूपशत्त्या। ननु प्राप्ोतीत्युक्ते कादाचित्कलमवगम्यते। तत्राह-अनुकाल नित्यमेव प्राप्ोति। कदाचिदपि न त्यजतीत्यर्थः। स्वरूपशक्तिप्रकाशितत्वस्य नित्य- एतदुक्तं भवति-अन्नावतारसभय एवौपपत्यरीतिः प्रत्यायिता। तदेतद्दर्शके प्राचां मतेऽि 'आशंसया रसविधेरवतारितानाम्' इति तस्यै तासाभपि तदर्थमेव तासा-

Page 44

उज्ज्वलनीलमणिः । २१

तवस्य च मिथो हेतुहेतुमत्ता जेया। नतु कथं जन्मकर्मणो नित्यतवम्, ते हि किये क्रियातं च प्रतिनिजांशमप्यारम्भपरिसमाप्तिभ्यामेव सिध्यति। ते बिना सरूपहा- न्यापत्तेः । नैष दोषः । श्रीभगवति सदैवाकारानन्त्यात् प्रकाशानन्त्यात् जन्मकर्म- लक्षणलीलानन्त्यांत् अनन्तप्रपञ्चानन्तवैकुण्ठगततल्लीलास्थानतत्तल्ीलापरिकराणां व्यक्तिप्रकाशयोरानन्त्याच्च। यत एव सत्योरपि तत्तदाकारप्रकाशगतयोस्तदारम्भ- परिसमाह्योरेकन्नैव जन्मकर्मणोरंशा यावत्परिसमाप्यन्ते न परिसमाप्यन्ते वा *तावदेवान्यत्राप्यारब्धा भवन्तीत्येवं भगवति विच्छेदाभावानित्ये एव ते जन्मकर्मणी वर्तेते, तत्र ते क्वचित् किंचिद्वैलक्षण्यनारभ्येते। क्वचिदैकरूपेणेति ज्ञेयम्। विशेषण- भेदाद्विशिष्टैक्याच्च। एक एवाकारः प्रकाशभेदेन पृथक्कियास्पदं भवतीति चित्रं बतैतदेकेन वपुषेत्यादौ प्रतिपादितम्, अतः क्रियाभेदात् तत्कियावत्सु प्रकाशभेदे- ष्वभिमानभेदश्च गम्यते। तथा सत्येकत्रैकत्र लीलाक्रमजनितरसोद्वोधश्च जायते। ननु कथ ते एव जन्मकर्मणी वर्तेते इत्युक्तम्। पृथगारब्धतादन्ये एव ते आस्ताम्। उच्यते-कालभेदेनोदितानामपि समानरूपाणां कियाणामेकलम्। यथा शंकरशारीरके द्विगाशब्दोऽयमुच्चारितः, न तु द्वौ गोशब्दाविति प्रतीतिनिणीतं शब्दैकलम्। तथैव द्विः पाकः कृतोऽनेनेति द्विधापाकः कृतोऽनेनेति प्रतीत्या भविष्यति। अतो जन्मकर्मणोरपि नित्यता युक्तैव। अत एवागमादावपि भूत- पूर्वलीलोपासनाविधानं युक्तम्। तथा चोक्तं माधवभाष्ये-'परमात्मसंबन्धिलेन नित्यलात्रिविकमादिष्वप्युपसंहार्यत्वं युज्यते' इति। अनुमतं चैतच्छ्रुत्यावगतं तन्भवच्च भविष्यच्ेत्यनयैव। उपसंहार्यलमुपासनायामुपादेयतमित्यर्थः। अत्र तस्य जन्मनः प्राकृतात्तस्माद्विलक्षणत्वं प्राकृतजन्मानुकरणेन अविर्भावमात्रतं क्वचित्तदनुकरणेन वा। 'अजायमानों बहुधा विजायते' इति श्रुतेरिति। अतो महाप्रलयादावपि मवतार इति निर्देक्ष्यते। तस्य तासां च तदर्थता श्रीब्रह्मण चोक्ता-'तत्प्रियार्थ संभवन्तु सुरस्त्रियः' इति। अत्र भारावतारणं देवादीनामिच्छया तदिदं तु औप- पत्यं तु तस्य सेच्छयेति हि गम्यते। मधुरनाम्रो रसस्य निर्यासस्वादोऽपि दर्शित: श्रीशुकेन-'भगवानपि रन्तुं मनश्वके' इति, 'आत्मारामोऽप्यरीरमत्' इति 'सिषेच आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथा रसाश्रयाः' इति च । अत्र रन्तुं मनश्चक इति सवार्थक्रियाफलं आत्मनेपदेन व्यक्तमेव। अरीरमदित्यन्न सवार्थक्रियाफलमेव परस्मैपदम् । 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति पाणिनि-

Page 45

२२ काव्यमाला।

जन्मकर्मलीलानां दुस्तर्कमहायोगशत्त्या तत्तल्ीलोपकरणसर्वव स्तुप्रत्यायनचातुर्यपु- र्यया सेव्यमाने सवयं भगवति लीलापुरुषोत्तमे ब्रह्ममोहनादावपि दर्शितदिव्यब्रह्मा- ण्डकोटिविभूतौ सदैव नरलीलेनानुपपन्नलम्। अन्रोपपत्तिं केचिदेवमाचक्षते- 'अस्या आवरिका शक्तिर्महामायाखिलेश्वरी' इत्यादि नारदपश्चरात्रद्ृष्टे योगमायांश- भूतैव मायाशक्तिरवगम्यते। सा च द्विविधा-जगत्सष्ट्यर्था, कृष्णलीलार्था च। आद्यायाः कार्यमनित्यं महाप्रलये मायिकवस्तूनामभावदर्शनात्। द्वितीयायाः कार्यं तु सार्वदिकमेव महाप्रलयेऽपि विराजमानकृष्णलीलोपकरणभूतस्य मायिक- ब्रह्माण्डस्य मायिकषङ्गर्भेकंसादिकस्य सत्त्वप्रतिपादनात् अत एव जन्मादि- लीला: कुरुपाण्डवादियुद्धपारिजातापहरणरुक्मिण्याहरणसुतलादिगमनगुरुपुत्र ज्ा- ह्यणपुन्राद्यानयनलीलानामपि नित्यत्वं सिध्येदिति। अपि च लीलाया नित्य- लप्रतिपादके 'जयति जननिवासः' इत्यत्र पद्येऽपि 'दोर्भिरस्यन्नधर्मम्' इति दोर्भिर्भुजानलैर्दोर्भिरिव दोर्भिरर्जुनादिभिर्वा अधर्म अस्यन्नित्यसुरमारणादिपर्य- न्ताया: प्रकटाया एव लीलाया नित्यत्वं प्राप्तं प्रकटलीलायां श्रीकृष्णेन व्रजसुन्दरीणां विप्रागिसाक्षिक: परिणयः केनापि क्वाप्यार्षे शास्त्रे नैव दृष्टः। दृष्टो वा स किं शुक- संमतो भवेत्। यतः 'प्रतीपमाचरद्रह्मन्परदाराभिमर्शनम्। आप्तकामो यदुपतिः कृतवान्वै जुगुप्सितम् ॥ किमभिप्राय एतन्ः संशयं छिन्धि सुव्रत' इति राजप्रश्ने भो राजन्, मा संशयिष्ठाः । श्रीकृष्णेन समये परिणीता एव। अतो नैताः पर- दाराः किं तु खीया एवेत्यकष्टमसमाधाय 'धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साह- सम्' इति, 'कुशलाचरितेनैषामिह चार्थो न विद्यते' इति, 'गोपीनां तत्पतीनां च सर्वेषां चैव देहिनाम्' इति कष्टप्रायसिद्धान्तकरणात्। न च तदसंगतं भतम्। स्मरणात्। सौरतशब्देन च सुरतसंबन्धिभावहावादय एव उच्यन्ते। 'एवं सौरत- संलापै'रिति श्रीरुक्मिणीविषयकश्रीकृष्णपरिहासप्रस्तावे तादृगर्थलात्, धातुविशेष- रूपस्य तदर्थस्य कुन्नाप्यश्रुतत्ाच्। तदेवमात्मन्यवरुद्वेति मनसि निगूहिततद्भाव इत्येवार्थः । तदेवमपि सुरस्त्रीणां तन्न गौणलमेव। यतः श्रीदेव्या सुरस्त्रीणां कासांचिदप्यन्यासां वा अवतारा इति वक्ुं न शक्यम्। 'नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसाद: सर्योषितां नलिनगन्धरुचां कुतोऽन्या' इति सर्वातिरिक्ततया श्रीमदुद्धवेन तासां कथनात्। ततस्ताः सर्वतो विलक्षणाः श्रीकृष्णस्यैव प्रियाः सुरस्त्रियस्तु तासां प्रियाणामुपयोगायैवेति लभ्यते। अत एव तत्प्रियार्थमित्येवो- कमू, न तु तत्सुखार्थमिति। यद्यपि 'श्रियः कान्ताः कान्तः परमपुरुषः' इति

Page 46

उज्ज्वलनीलमणिः । २१

आर्षमपि शिष्टैराद्रियते। साम्बयुद्धादौ शार्ङ्गधनुःपातवसुदेववधादिचरितस्यानुपादे- 'यलात्। तदपि 'अनेकजन्मसिद्धानां गोपीनां पतिरेव वा। नन्दनन्दनः' इत्या- गमोक्त एक: पतिशब्द एव गतिः कर्तव्यो दाम्पत्याभिलाषिभिरिति चेत्, श्रूय- तामू। न हि पंत्यादिशब्दानां परिणेतर्येव केवलं शक्ति: सर्वेषु रसग्रन्थेषु। अन्रापि नायिकाप्रकरणे स्वकीयासपि साधीनपतिका स्वाधीनभर्तृकेत्यादि बहुशः प्रयोग- दर्शनात्। यद्वा। अनेकैर्जन्मभि: सिद्धानां प्राप्तसंसिद्धीनां तथा न एकस्मिन्नपि • जन्मनि सिद्धानाम्, अपि तु प्रतिजन्मन्येव प्रतिकृष्णावतार एव स्वतःसिद्धानां इत्यर्थद्वयात्तासां साधनसिद्धानां नित्यसिद्धानां च सर्वासां तन्त्रेणैव यथोक्तिस्तथैव कासांचित्कन्यानां पतिः, अन्यासां सर्वासां उपपतिरिति तन्त्रेणैव पतिशब्द- प्रयोग:, वेदेषूपवेदेषु च सर्वेषु पूजयितव्येषु सर्वेभ्यो देवेभ्यो नम इतिवत्। न च सर्वोसामपि तासां पतिरेवेति व्याख्यातुं शक्यम्, परदाराभि- मर्शनमित्यादि श्रीभागवतवाक्यविरोधात्। अत्र एवकारेण तासा सुपपतिरपि पतिरेव स्वखगृहपतौ पतितव्यवहाराभावादित्येषोऽर्थोऽप्यवगतः। अन्यथ एवकारस्य वैयर्थ्यमेव अवधारणस्याप्रसद्भात्। अत एव वक्ष्यते-'न जातु ब्रजदेवीनां पतिभि: सह संगमः' इति। न च पतिरेव नतवतारलीलावद्भ्र- मेणाप्युपपतिरित्यर्थ इति व्याख्यातुं शक्यम्। उक्तन्यायेनावतारगतानां सर्वासा- मेव लीलानां श्रीमज्जीवगोख्वामिचरणैरेव नित्यलेन व्यवस्थापितलात्। पादन्या- 'लक्ष्मीसहस्त्रशतसंत्रमसेव्यमानम्' इत्यत्र च संहितायां खलु लक्ष्मीलेन ता निर्दि- शति, तथापि पाण्डवेषु कुरुशब्दस्येव तासु लक्ष्मीशब्दस्य प्राचुर्यप्रयोगाभावात् पाण्डवशब्दस्येव गोपीशब्दस्यव प्राचुर्येण प्रयोगात् पाण्डवैः कुरवो जिता इति- वत्, 'नायं श्रियोजङ्' इति प्रवर्तते। तदेवं श्रीमदुद्धववाक्ये व्रजसंहितावाक्ये च तासां तेन नित्यसंबन्धापत्तेः परकीयातं न संगच्छते। तदसंगतेश्चावतारे तथा प्रतीतिर्मायिक्येव। तथा च स्यमेव ललितभाधवाख्ये नाटके दर्शितमेव पौर्णमा- सीगार्ग्योः संवादे-'गार्गी-पूणं गोअदृणादिगोएहिं चन्दावलीपहुदीणं उव्वाहो माआए निव्वाहिदो ॥ पौर्णमासी-अथ किम्। पतिंभन्यानां बल्लवानां ममता- मात्रावशेषिता तासु दारता। यदेभि: प्रेक्षणभपि तासां दुर्घटितम् ।' इत्यादि। तदेवं श्रीकृष्णेन तासां नित्यदाम्पत्ये सति परकीयाले च मायिके सति नश्यत्ये- वान्ततो भायिकमन्नतत्त्वनाशेऽनादिले च सति नित्यमेव स्यात्तदरूपले सति, पूर्व-

Page 47

२४ काव्यमाला।

सैरित्यादौ कृष्णवध्व इति वधूशब्दस्तु स्त्रीमान्रपर एव, 'वधूर्जाया सतुषा स्री च' इति नानार्थवर्गात्, 'सा लां ब्रह्मनृपवधू: काममाशु भजिष्यति' इति तृतीयस्कन्घे कन्यायामपि प्रयोगात्। श्रीमद्भीष्मेण तु 'प्रकृतिमगन्किल यस्य गोपवध्वः' इति तासां गोपनारीलमेवोक्तम्। 'स वो हि 'खवामी भवति' इति श्रीगोपालतापिन्युक्त: सामिशब्दोऽपि न परिणेतृवाची, 'सामिन्नैश्वर्यें' इति पाणिनिस्मरणात्। राजस्वामिकः पुरुष इति सवस्ामितसंबन्ध इत्यादिषु वैया- करणैरपि सर्वत्रैव प्रयोगात्। लोके हि यस्य हि यः स्वामी भवति स तस्य भोक्ता भवतीति प्रसिद्धा वस्तुतः स्वामितं नास्त्येव तत्पतीनामित्यादि विवेचनीयम्। यत्त्वेतद्रन्थकारैरपि स्वकृतललितमाधवे 'नटता किरातराजं निहृत्य रङस्थले कलानिधिना। समये तेन विधेयं गुणवति ताराकरग्रहणम् ।I' इत्युक्त्या श्रीकृष्णेन श्रीराधायाः करग्रहणलक्षणो विवाह उक्त एव, स च समये द्वारकायामेव तस्याः प्राप्तसत्यभामालख्यातिकाया एव, न तु व्रजभूमौ साक्षात्तस्या एव। न चैकन्र निर्णीतः शास्त्रार्थो बाधकाभावे सत्यन्यत्र प्रीतिन्यायेन व्रजभूमावपि तस्या अपि करग्रहणं संभवेदिति वाच्यम्, अन्र ललितमाधव एव उपसंहारवाक्यस्य विद्य- मानलात्। तच्ब-'याते लीलापदपरिभलोद्गारि वन्या परीता धन्या क्षोणी विल रीत्या रसाभास: स्यादित्यतोऽवतारसमयस्यापरभागे व्यक्तीभवत्येव दाम्पत्यम्। स एव पर्यवसानसिद्धान्तश्र ललितमाधवप्रक्रिययात्र च निर्वाहयिष्यते। यतो बहु- वर्णितविरहव्यावर्तनाय नित्यसंयोगमयसिद्धान्तमुक्तापि क्रमलीलारसस्तु तत्र न सिध्यतीत्यपरितुष्य संक्षिपसंकीर्णसंप्नसमृद्धिमदाख्येषु चतुर्षु संभोगेु फलरूपेषु विप्रलम्भान्तान्तराप्रतिघात्यस्य सर्वतः श्रेष्ठस्य सभृद्धिमत उद्वाहपर्यन्तस्योदाहरण- रूपतया तत्परिपा्येवात्र प्रमाणीकरिष्यते। यथा तत्र महाविप्रलम्भान्ते श्रीराधां प्रति श्रीकृष्णवाक्यम्-'तवात्र परिभृग्यतः किमपि लक्ष्म साक्षादियं मया त्मुप- सादिता निखिललोकलक्ष्मीरसि। यथा जगति चश्चुता चणकमुष्टिसंपत्तये जनेव प्रतिता पुरः कनकवृष्टिरासाद्यते ॥I' इत्यादि । तस्मादुपपतीयमानलेनैवासावुपपति- रित्युपदिष्टः। वार्यमाणतादंशेन लौकिकरसशास्त्रकृद्धिरपि स्तुतः । किंतूत्तरत्र व्यक्त दाम्पत्ये विप्रलम्भाङ्गस्यौपपत्ये भ्रमस्य समृद्धिमदाख्यसंभोगरसपोषकलवात्त- स्मिस्तु न लघुलं युक्तं किंतु महत्त्वमेवेत्याह-न कृष्ण इति। तत्र हेतुमाह- रसनिर्यासेति। एतत्परिपाटीसद्भ्ावाभावात् प्राकृतनायके एव, न तु श्रीकृष्णे

Page 48

उज्जवलनीलमणिः । २५

सति वृता माधुरी माधुरीभिः । तत्रास्माभिश्चटठलपशुपीभावमुग्धान्तराभि: संवी- तलं कलय वदनोल्लासि वेणूविहारम् ।I' इति श्रीराधाप्रार्थनवाक्यम्। अत्र चटल- पश्ुपीभावमुग्धान्तराभिरित्यत्र चटुला या पशुप्यः पशुपस्त्रियस्तद्भावेन मुग्धानि विवेकशून्यान्यन्सःकरणानि यासां ताभिरिति स्त्रीणां चाश्चल्यमुपपतितमेव व्यनक्ति। चञ्चलेयं स्त्रीत्युक्त तथैव लोकप्रसिद्धे: सवेषां परकीयात्स्यैवामीप्सिततं निर्धारित- मिति अतस्तदनभीष्टं खवीयातं व्रजे न व्याख्येयम्। एवमेव श्रीनारायणभटैरपि • स्वकृतायां रसतर्विण्यां तृतीय उल्लासे आलम्बनप्रकरणे तस्याः परकीयातमेवो- क्म्। यथा- 'शान्ते ब्राह्मण एव स्यात्प्रीते दासः प्रकीर्तितः। प्रेयसि स्यु: सखायो हि यशोदा वत्सले स्मृता ॥ मधुरे राधिका ज्ञेया हास्ये स्यान्मधुमङ्गलः। सखीयूथोऽद्धुते ज्ञेयो वीरे चारणगोवृषाः॥ करुणे वत्सव्ृक्षादिर्जटिलाद्यास्तु रौद्रके। गोवर्धनोऽभिमन्युश्र भयानक उदाहृतौ ।। तपखिविन्यादयो ह्यन्र बीभत्से परि- कीर्तिताः । व्रजस्था नियता ज्ञेया आलम्बनविभावकाः ॥' इति। तत्रैवान्यत्र- 'न राधाभर्तारं क्वचिदपि च दृम्भिरगरहगतं समद्राक्षीत्नित्यं तव सरसमूर्ति विलि- खति। तवाप्येतद्वक्षो वहति रुचिरां तत्प्रतिकृति ततः कृष्ण प्रेम्णाहमपि विद्धे दौत्यमखिलम् ॥' इति, यच्चोक्तं तन्नैव ललितमाधवे-'गोअड्गणादिगोएहिं चन्दा- वलीपहुदीणं उव्वाहो माआए निव्वाहिदो।' इति, अन्रेदं प्रतिपद्यामहे-जग- ज्जीवमात्रस्यैव मायामध्यपतितस्य देहे अहंभावो देहोऽहमिति। दैहिकेषु पतिपुन्नादिषु वास्तवेनौपपस्येन लघुत्शब्दवाच्यं निकृष्टत्वं घटते अपथ्यबुद्धया लोभ्यं पथ्यं भुक्तवति भुक्तपथ्यतवत्। तदेतत्तत्त्वमविद्वांस एवान्यथा भन्यमानास्तमपि तथो- दाहरन्तीति भावः । किंच न चासां निवारणाद्युपाधिकमेव रतेवैशिष्ट्यं मतम्। अपि तु स्वाभाविकमेव। 'योग एव भवेदेष विचित्रः कोऽपि मादनः । यद्विलासा 'विराजन्ते नित्यलीलासहस्त्रधा ॥' इति वक्ष्यमाणरीत्या निवारणाद्यभावेऽपि महा- भावपराकाष्ठापन्नस्य मादनाख्यस्याप्यासु अङ्गीकरणात्। स्वाभाविकवैशिष्टयेनास्या रतेः समर्थेति नाम दर्शयिष्यते। न पुनः सैरन्ध्या इव साधारणीति श्रीमहिषी- णामिव वा समजसेति। लक्षणं चास्यास्तद्वदेव करिष्यते-'खसरूपात्तदीयाद्वा जाता यत्किचिदन्वयात्। समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ॥' इति, 'रतिर्भावान्तिमां सीमां समथैव प्रपद्यते' इति च। एवकारेण साधारणी सम जसा च निवारणादिनापि तादृशलं प्राप्नोतीति व्यज्यते। स्वाभाविकवैशिष्टयेनैष हिं

Page 49

२६ काव्यमाला।

भमता ममायं पतिर्ममायं पुत्र इति। एवं माययैव संबन्धः कल्पितः । व्रजस्थानां तु गोपगोपीपशुपक्षीप्रभृतीनां श्रीकृष्णलीलापरिकराणां भायातीतानां खदेहेष्वहंभावः स्वीयेषु च मातापित्रादिषु मातापित्रादिभावो न मायाकल्पितः, किं तुसच्चिदानन्दमय एव। यथा श्रीकृष्णस्य यशोदानन्दादिषु मातापित्रादिभावः, तथैव राधादीनां श्रीकी- र्तिदावृषभान्वादिषु मातापित्रादिभावश्चिदानन्दमय एव। अभिमन्युप्रभृतिषु पतिभा- वसु मायिक एव। चिद्रूपाणां श्रीराधादीनां चिद्रपेषु पतिष्वभिमन्युप्रभृतिषु सार्व- कालिकद्वेषान्यथानुपपत्त्या मध्ये पतिभावरूपा माया सवांशभूता श्रीयोगमाययैव. स्थापिता। प्राकृतीनां स्त्रीणां परिणेतृषु पतिभावस्य प्रापच्चिकत्वादनित्यलम्, गोपीनां तु परिणेतृषु पतिभावस्य मायाकल्पितलेऽपि भगवल्लीलातत्रमव्यवर्तिलात् मायायाश्चास्या योगमायानुमोदितताच्च नित्यलमेवेति विशेषः । मोहनं तु तासां योगमाययैव गुणातीतलान्न तु मायया। किं चात्र श्रीराधादिषु श्रीकृष्णस्य प्रेयसी- भवस्य, कृष्णे तासां प्रेयोभावस्य च सच्चिदानन्दमयले सति तासां स्वखपरि- णेतृषु पतिभावस्य मायाकल्पितत्वस्यौचित्यमिति ग्रन्थकृतामाशयो द्रष्टव्यः । न तु तेषु पतिभावस्य मायिकलवमेव तासां कृष्णभार्यात्साधकमिति मतमभिज्ञसंमत- मिति। केचित्तु 'ललितमाधवे मायाशब्देन योगमायैव उच्यते' इत्याहुः, तन्मते पतिभावोऽपि चिन्मय एव। तदपि द्वेषस्तयैव दुर्घटघटनापटीयस्या उपपादित इति। ये च राधायाः परोढातममन्यमानाः कन्यातमेवाहुस्तन्मते तस्याः सर्व- गोपीभ्यः सकाशान्निकर्ष एवोपपद्यते स्म न तूत्कर्षः । तथा हि भगवतो रुक्भि- णीलक्ष्म्यादिप्रेयसीभ्योऽपि गोपीनामुत्कर्षः प्रेमोत्कर्षमूल एव । प्रेमतारतम्येन

'वाञ्छन्ति यद्भवभियो मुनयो वयं च' इति मुमुक्षमुक्तभक्तानां 'व्रजस्त्रियो यद्वा- ञ्छन्ति' इति श्रीमहिषीणामपि तत्र वाञ्छा संभवति निवारणादेः परमानभीष्टलात किसुतौपपत्यस्य। तथा निवारणादिसाम्येऽपि तासां खवखगणरतेजातिभेदेनैव वैशि- ध्यस्यात्रैव निरूपयिष्यमाणलात्। तथा जिगीषूणां मत्तहस्तिनः पददुर्गार्गल इव निवारणादिकं तासां रतेः प्रबलतां व्यजयत्येव, न तु जनयति। अत एवोक्तम्- "या दुस्त्यजं खजनमार्यपथं च हित्वा' इति, 'रागेणैवार्पितात्मानो लोकयुग्मान- पेक्षिणा इति स्वकीयालक्षणं तच्चानेन संवदते। यच् 'न विना विप्रलम्भेन' इत्या- दिना, 'नाहं'तु सख्यो भजतोऽपि जन्तून्' इत्यादिना च विरहेण रतेः प्रकर्षः श्रूयते, तच् प्राणिभेदानां जाउरामेरिव जातिभेदात् परप्रकर्ष उपलभ्यते। न हि

Page 50

उज्ज्वलनीलमणिः । २७

तस्य वश्यलतारतम्यात् प्रमोत्कर्षो वश्यत्वातिशयज्ञापक एव भवेत्। आसां च प्रेमोत्कर्षज्ञाने श्रीभगवता श्रीमदुद्धवेन च लोकधर्मोल्लद्दनमेव हेतुरुपन्यस्तः। तच्ब भगवद्वाक्यं यथा-'एवं मदर्थोज्झितलोकवेदखानाम्' इति, 'न पारयेऽहं निर- वद्यसंयुजाम्' इति च। उद्धववाक्यं यथा-'क्केमाः स्त्रियः' इत्युपक्म्य 'नायं श्रियोऽङ्ग उ नितान्तरते: प्रसादः' इति, 'आसामहो चरणरेणुजुषासहं स्याम्' इत्यादि च। यदि श्रीराधायाः कन्यात्मेव तत्र च सति 'नन्दगोपसुतं देवि पति मे कुरु ते नमः' इति श्रीकृष्णपतिभावान्न लोकवेदातिक्रमः। तत्र च सति तस्या भगवदुद्धव- विषयत्वाभावात्प्रमोत्कर्षः श्रीभागवतमते केन प्रकारेण ज्ञेय इत्यन्याभ्योऽपि परो- ढाभ्यो गोपीभ्यो निकर्ष इति न तन्मतमस्मत्प्रभुसंमतम्। ननु च श्रीराधा हि कृष्णस्य स्वरूपभूता ह्रादिनी शक्तिरेव। तस्या वस्तुतः खीयातमेव न तु परकी- यातं घटते। सत्यम्। राधाकृष्णावस्माभिरुपास्यते लीलाविशिष्टावेव न तु लीला- रहितौ। लीलायाः शुकपराशरव्यासादिप्रोक्तलेऽपि श्रीशुकप्रोक्तवास्माकं परमा- भीष्टा। तस्यां च गोपीनां परकीयांत्दर्शनात् सर्वगोपीशिरोमणिः सापि परकी- यैव। ननु दाम्पलेन दुर्यशोनिबन्धनं न मनोदुःखं नापि श्वश्रूननान्दादिकं रुक्मिण्यादौ दष्टम्। गोपीषु तु तत्तदृश्यत इत्येतदंशेन दुःखाधिक्यमेवासां रुक्मिण्यादिभ्यः सकाशादपकर्षहेतुरस्तु। मैवम्। रागानुरागमहाभाववतीनां व्जदेवीनां यानि यानि यावन्त्येव लौकिकदुःखानि तानि तानि तावन्ति सुखान्येव भवन्ति। यद्वक्ष्यते-'दुःखमप्यधिकं चित्ते सुखलेनैव व्यज्यते। यतस्तु प्रणयो- लङ्टनादिना हस्तिनामिव शशकानां तदननिर्विकाशं प्राम्तोति। ततश् यथव कान्ता- रादिलङ्गने क्रियमाणैरेव या बुभुक्षा स्यात् सा यथा न प्रशाम्यते तथा निवारणादि- नित्यतामयविरहमात्रजीवना रतिश्र। किं च तद्वत् कादाचित्कविरहेण कदाचित्प्र- शस्यते इति च गम्यते। तस्मात् 'बहु वार्यते' इत्यादि यलौकिकरसविदां मतमु- त्थापितं तत्खलु तन्मतरागिणामप्यापातबोधनायेति। तन्न रसनिर्यासस्वादार्थमव- तारिणीत्यनेन यदवतारादन्यदा न तादृशायाः स्वीकारः किंतु दाम्पत्यस्यैवेति लभ्यते। तन्र प्रमाणं च स्यमङ्कीकरिष्यते। 'आनन्दचिन्मयरसप्रतिभाविताभिः' इत्यादौ 'निजरूपतया कलाभि'रिति निजरूपतया स्वीयतयेत्यर्थः। कलालेनैव निज- रूपले सिद्धे तत्तथैव सार्थकता स्यादिति। तथा च श्रीमद्दशार्णस्य नामव्याख्याने गौतमीयतन्त्रम्-'अनेकजन्मसिद्धानां गोपीनां पतिरेव वा नन्दनन्दन इत्युक्त-

Page 51

२८ काव्यमाला।

त्कर्षात्स राग इति कीर्त्यते ।I' इति, अत एवाहुर्महाभावलक्षणव्याख्यायां श्रीम- जीवगोस्वामिचरणाः । दुःखस्य परमकाष्ठा कुलवधूनां स्वयमपि परमसुमर्यादानां खजनार्यपथाभ्यां भ्रंश एव। नाम्यादिन च मरणम्। ततश्च तत्तत्कारितया प्रतीतोऽपि कृष्णसंबन्धः सुखाय कल्पते चेत्तर्ह्ेव रागस्य परमेयत्ता। ततश्च तामा- श्रित्यैव प्रवृत्तः सुरागो भावाय कल्पते। सा च आरम्भतो व्रजदेवीष्वेव दृश्यते। पदुमहिषीषु संभावयितुमपि न शक्यते। तदेवमेव ता एवोद्दिश्य उद्धवः सचम- त्कारमाह-'या दुस्त्यजं स्वजनमार्यपथं च हिल्ा' इति। अत्र तासामाश्रित्यैव परवृत्तोऽनुरागो महाभाव इति व्याख्यया रागस्य परमेयत्ता यदा भवेत् तदैव महा- भावस्योदय इति महाभावोदयव्यज्जिका रागपरमेयत्तैव। सा च रागपरमेयत्ता तदैव भवेत् यदा समस्तदुःखातिशयसीमारूपखजनार्यपथम्रंशकरणशीलः कृष्ण- संबन्ध: सुखाय भवति, नान्यदा।' इति। अतोऽप्रकटलीलायां यदि खजनार्यप- थत्रंशकरणशीलतं श्रीकृष्णसंबन्धस्य नैवास्ति तदा रागस्यापि परमेयत्ता नासिति तस्यामसत्यां महाभावस्याप्यनुदय इति नैतत्समज्सम्। तस्मात्प्रकटायामप्रक- टायां च लीलायां स्वजनार्यपथभ्रंशकरणमौपपत्यं तेषां सेच्छाभिमतं मतम्। अप्रकटलीलायां दाम्पत्यं तु परेच्छाभिमतं मतम् । अतः साधूक्तं तैरेव परम- कृपालुभि :- 'सेच्छया लिखितं किंचित्किचिदत्र परेच्छया। यत्पूर्वापरसंबद्धं स्त्नैलोक्यानन्दवर्धनः ॥' इति। अनेकजन्मसिद्धानामिति अनादिजन्मपरम्परागता- वतारसिद्धानामित्यर्थः । 'बहूनि मे व्यतीताति जन्मानि तव चार्जुन' इतिवत्। अनादिसिद्धवेदे हि तादृगुपासनापि दृश्यते। पतिरेव वेति नतवतारलीलावद्भ्रमे- णापि उपपतिरित्यर्थः । तदेतत्पूर्व 'गोपीति प्रकृति विद्याजनस्तत्त्वसमूहकः' इत्यादिना। अथवा गोपी प्रकृतिर्जेनस्तदंशमण्डलमित्यादिना च त्रैगुण्यवत्तदुद्भव- तत्त्ववर्गाश्रयस्य तथा चिच्छक्तितदंशमण्डलस्वामितस्य च प्रतिपादकं यन्निरुक्ति- द्वयं कृतं तत्तु वेतयनेन गौणीकृतम्। उत्तरपक्षस्यैव सिद्धान्तखात्। यथा वेदान्त- सूत्रेषु-अहिकुण्डलवत् प्रकाशाश्रयवद्वा तेजस्लात् पूर्ववद्वे'व्यादिषु तद्वत्। नन्द- मन्दन इति नल्वन्यः स कोऽपीत्यर्थः । कल्पे कल्पे तस्यैव श्रीमन्नन्दनन्दनतया व्यज्ञकलात्। त्ैलोक्यानन्दवर्धन इति शीलार्थे ल्युद्प्रत्ययेनाद्यापि दर्शनश्रव- माभ्यां अन्तरङ्गबहिरअ्भक्तानां 'निवृत्ततर्षैरुपगीयमानात्' इत्यादिरीत्या सर्वेषा- मेवानन्दं वर्धयन् एव विराजमान इत्यर्थः । 'जयति जननिवासः' इत्यादेः। तथा

Page 52

उज्ज्वलनीलमणिः । २९

तत्पूर्वमपरं परम् ॥' इति। न चौपपत्ये साहित्यदर्पणकारस्यासंमतिरिति भेत- व्यम्। 'नातीव संमतलाद्रतमुनेर्मतविबोधाच्च। साहित्यदर्पणीया न गृहीता प्रक्रिया मया प्रायः ।' इति नाटकचन्द्रिकोक्तर्यन्थकृद्धिरेव तन्मतस्यानङ्गीकारा- दिति। किं च गुरुविप्राम्निसाक्षिके व्रजसुन्दरीणां श्रीकृष्णेन परिणये व्यवस्थापिते सत उपक्रमतः सर्व एवोज्वलनीलमणिविपर्येस्तार्थ एव कृतः स्यात्। तथा हि-पत्नीभावाभिमानात्मेति समजसालक्षणेन तासु प्रसक्त्तेन 'रागेणैवार्पितात्मानो •लोकयुग्मानपेक्षिताः' इत्यादिलक्षिते तासां स्वभावेऽपलापिते सति परसुन्दरीभ्य उत्कर्षे हीयमाने मूलभूतस्य स्थायिभावस्यैवाव्यवस्थायां सत्याम् 'संकेतीकृतकोकि- लादिनिनदम्' इति, 'तत्रैव परमोत्कर्षः शङ्गारस्य प्रतिष्ठितः' इत्यादिवाक्यैः कष्ट- कल्पनया संगमितः कथय किं फलमिति। तत्तल्लक्षणोदाहरणादिकमापाततो बोध- नार्थमेव, न तु ग्रन्थकृतां हार्दाभिप्रायसंबद्धमिति चेत्, तेषु, श्रीमन्निरवधिकरु- णेषु परमभक्तसुहद्वरेषु भङ्गया विप्रलिप्सुलारोप एवेत्यलं बहुविचारविलसितेनेति। 'तिर्यग्योनिमवाप कर्मवशतो विष्णुः स चेत्युक्तिमच्छास्त्रं गारुडमत्यसह्यमपि न (नो) कस्यापि तत्संमतम्। व्यासो भागवतस्य तस्य च भवेत्कर्ता तदप्यादरा- दाराध्यः स गतिश्र तत्र नितरामागोऽस्ति केषामपि ॥' गारुडवचनं च यथा- 'ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो

श्रीगोपालतापन्यामपि तत्पतितमेव दुर्वाससा निश्चितम् । 'स वो हि खामी भवति' इति। स्वामिशब्दश्वायं स्त्रीप्रसक्के पत्यावेव रूढः । 'स्ामिनो देवृदेवरौ' इत्यमरकोशात्। तदेतत्पतितं श्रीशुकोऽपि परोक्षवादविषयीकृत्यानन्दावेशेनोद्धा- टितवान्। पादन्यासैरित्यादौ 'कृष्णवध्व' इति। 'तडित इव ता मेघचक्रे विरेजु'- रिति दृष्टान्तः। स्ाभाविकपतित्वसंबन्धमेव दार्ष्टान्तिकेष्वपि दर्शितम्। तथा- 'धर्मव्यतिक्मो दृष्ट ईश्वराणां च साहसम्। तेजीयसां न दोषाय वहेः सर्वभुजो यथा ॥' इत्युपगमवादेनाक्वीकृतेऽपि तासां तत्परदारते परितोषमप्राप्य पुनस्त- दपि खण्डयन् बादरायणिः सिद्धान्तमाह-'गोपीनां तत्पतीनां च सर्वेषां चैव देहिनाम्। योऽन्तश्वरति सोऽध्यक्ष एष क्रीडनदेहभाक् ॥' इति। तत्र, खलु बहिरद्वान् प्रति अन्तर्यामिलेन तत्खण्डनमयमर्थान्तरं प्रसिद्धमेव। अन्तरङ्गान् प्रति तु स्वभावसिद्धदाम्पत्यसाधकमर्थान्तरं तन्त्रेणाह-गोपीनां सर्वासामेव गोप- जातिस्त्रीणां तत्पतीनां सर्वेषामेव गोपजातिषु पुरुषाणां किंबहुना सर्वेषामेव

Page 53

३० काव्यमाला।

तथा च प्राश्न :- शङ्गाररससर्वसवं शिखिपिच्छविभूषणम्। अङ्गीकतनराकारमाश्रये भुवनाश्रयम्॥। १९।। अनुकूलदक्षिणरठा धृष्टथेति द्वयोरथोच्यन्ते।

महामंकटे। रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्य- मेव गगने तसमै नमः कर्मणे ।।' इति गरुडपुराणीयः शोको भगवत्संदर्भधृतो हृश्यः ॥ १८ ॥ व्यवस्थापितमेवार्थ प्राचीनमहानुभावपरमभक्तश्रीलीलाशचुकमतेन द्रव्यति-तथा चेति । शिसितरपिच्छविभूषणवं गोपाङ्गनारमणस्यासाधारणो धर्मः । शहाररसः सर्वखं यस्येति बहुन्रीहिणा कृष्णः सोऽपि गतसर्वसवो रङ्क इति भवतीति व्यव्यते। शह्ाररमम्य सर्वसमिति तत्पुरुषेण शह्धाररसोऽपि तं विना सस्य वैयर्थ्य जानातीति। स च शह्ार औपपत्य एव परमोत्कृष्टस्तन्न च तस श्रीकृष्णस्य लघुले सति कथं तमेव श्रीलीलाघयुक आधयते। यद्वा। तस्य लघुले कुतः शुद्गाररससरवम्वीभूनलमित्यभिप्रायः । अज्ञी मुख्यस्तथाभूतीकृतो नराकारो येन तम। 'येन छकीकता हंसाः' इतिवत् च्िः। अन्ये वैकुण्ठनाथस्य देवाकारा मत्स्यकूमाद्याकाराश्च एतदङ्भूता इति भावः । भुवनान्येवाश्रयास्तिजगन्मोहन- लादालम्बनीभूतानि यस्य तम् ॥ १९ ॥ द्वयोः पत्युपपत्योः । वृत्त्या चेष्टया

ब्रजस्थानां देहिनां ये यथायर्थं स्वक्रीडनरूपा देहास्तन्भाक्। अन्तरिति प्रापश्चि- कानामन्तर्धानगतः सन् चरति सदा क्रीडति स एवाध्यक्ष: कदाचित्तेषां प्रत्यक्ष: सन् क्रीडति। तस्मादनादित एव ताभि: समुचिताया रासादिकीडाया अविच्छे- दात परदारखं न घटत इति भावः। 'खेच्छया लिखितं किंचित्किंचिदन्र परे- चछया। यत्पूर्वापरसंबद्धं तत्पूर्वमपरं परम् ॥ १८ ॥ रसनिर्यासख्वादार्थमितेव प्राचीनतवीयमहाभक्तश्रीलीलाशुकमतेन द्रढयति-तथा च प्राञ्च इति। भुवनाश्रयमपि अग्गीकृतः स्वीकृत आत्मीयलेन व्यजितो नराकारो न तु देवा- कारो येन। यद्वा। स्वावतारेण स्वीकृता नरजातिर्येन तम्। तथा शिखिपिच्छ- विभूषणं गोपालाकारोचितवेषलीलादिकम्। किं च रज्ञाररसस्य सर्वस्रूपमाश्रय- मित्यर्थ: ॥ १९ ॥ तदेतदभिमतं अभिव्यज्य प्रकृतः श्रीकृष्णरूपमालम्बनमेव विधृण्वन् तस्य लीलाविशेषेषु वैशिष्ट्यमाह-अनुकूलेति। द्वयोः पत्युपपत्योः।

Page 54

उज्ज्वलनीलमणिः । ३१

प्रत्येकं चत्वारो भेदा युक्तिभिरमी वृत्त्या॥ २० शाव्यघाष्टर्ये परं नाट्यप्रोक्ते उपपतेरुभे। कृष्णे तु सर्व नायुक्तं तत्तद्भावस्य संभवाद् ॥ २१ ॥ तत्रानुकूल :- अतिरक्ततया नार्या त्यक्तान्यललनास्पृहः। सीतायां रामवत्सोऽयमनुकूल: प्रकीर्तितः ॥। २२।। राधायामेव कृष्णस्य सुप्रसिद्धानुकूलता। तदालोके कदाप्यस नान्यासङ्ग: स्मृ्ति व्रजेत् ॥ २३ ॥

॥ २० । तत्तद्दावस्य पतित्वोपपतित्वरूपस्य। यद्वा शा्यघार्ष्योदेः ॥२१ ॥ नार्यामेकस्यामत्यनुरक्ततया हेतुना त्यक्ता अन्यललनाविषयिणी स्पृहा येन इति स्पहामात्रस्यैव निषेधात् ललनान्तराभावपक्षो निरस्तः ॥ २२ ॥ तदालोके तस्या राधाया आलोके सति। तदुपलक्षणलात् श्रवणे स्मरणे च सतीत्यर्थः । अत एकपत्नीव्रत्तधरस्य श्रीरामस्य सीतायामानुकूल्यं सुघटमेव। अस्य पुनर्बहु- वल्लभस्य तस्याभानुकूल्यं दुर्घटभपि तदितरसर्वप्रेमवतीविस्मारकतदीयपरमा- द्ुतप्रेमातिशय एव घटयतीति द्योतयित्वा रासनिष्ठादप्यानुकूल्यादेतनिष्ठस्यानु- कूल्यस्य प्रेममूलकः परमोत्कर्षो ध्वनित इति। अत एव रासलीलायां तामादाया- न्तर्धाय दुःखिता अप्यन्यास्तेन दुःखितलेन नानुसंहिताः । इत्थमेव गीतम्- वृत्या चेष्टया॥ २० ॥ तदेवोपपादयति-शाव्यधाष्ट्र्ये परं नाट्येति। यद्यप्युपपतेरङ्विनि रसे वर्णनीयता नासिति तथाप्यज्वेऽस्तीति तथोक्तम्। तत्तद्गा- वस्य पतित्वोपपतितलीलाव्यञ्जकप्रेमविशेषस्य ॥२१॥२२॥। राधायामे- वेति। तदालोके तस्या आलोके सत्युपलक्षणलात् श्रवणे स्मरणे च सतीत्यर्थः । सार्वदिक्लाभावान्न श्रीरामसीतादृष्टान्ततं न पर्याप्तमिति न मन्तव्यम्। तस्यैक- पत्नीव्रतधरस्य मनसाप्यन्यनारीस्पहाया अन्याय्यत्ादनन्यगतेस्तदेकस्पृहलं न दुर्घटम्। तस्य तु सतीष्वप्यन्यबहुलवनितासु तस्या दर्शने सति तासां खस्मिन् परप्रेमवतीनां विस्मरणं दुर्घटम्, तथापि तज्जातमित्ेवमत्नैवानुकूलस्य परमपर्या-

Page 55

३२ काव्यमाला।

वैद्रग्धीनिकुरम्बचुम्बितधियः सौन्दर्यसारोज्ज्वलाः कामिन्यः कति नाद्य बल्लवपतेर्दीव्यन्ति गोष्ठान्तरे। राधे पुण्यवतीशिखामणिरसि क्षामोदरि त्वां विना प्रेङ्गन्ती न परासु यन्मधुरिपोर्द्दष्टात्र दष्टिर्मयां ॥ २४॥ धीरोदात्तानुकूलो यथा- कुवलयद्दशः संकेतस्था दगश्चलकौशलै- र्मनसिजकलानान्दीप्रस्तावनामभितन्वताम्।

'राधामाधाय हृदये तत्याज व्रजसुन्दरीः' ॥ २३ ॥ वैदग्धीति वृन्दावच- नम्। लां बिना। तव विरहे सतीत्यर्थः। तेन तत्स्मरणव्यज्ञनया तदालोके इति लक्षणसंगतिः । प्रेङ्वन्ती चलन्ती ॥ २४ ॥। भक्तिरसामृतसिन्धौ धीरोदात्तादय उदाहता एव। संप्रति तद्भावमिश्राननुकूलादीनुदाहरति- धीरोदान्तेति। 'गम्भीरो विनयी क्षन्ता करुणः सुदृढव्रतः । अकत्थनो गूढ़- गर्वो धीरोदात्तः सुसत्त्वमृत् ।I' इत्येवंलक्षणो धीरोदात्तश्वासौ अनुकूलश्चेति सः। कुवलयेति। राधामनुस्मरन्तं श्रीकृष्णं दूरादालोक्य चित्रां प्रति ललितायाः साश्वासवचनम्। नाटी नाव्यम्, प्रस्तावना तदर्थ संक्षेपव्यज्ञनामयी प्रथमा प्रवृत्तिः, तां अभि श्रीकृष्णदृष्टाभिमुखतया तन्वताम्। संकेतस्थाः श्रीकृष्णाभि- मुखवर्त्मनिकटस्थकुजान्संकेतास्पदीकृत्य तिष्ठन्त्यः । प्रस्तावनामिति। प्रस्तौ- सत्वं तदालोके इत्यनेन दर्शितम्। तथा च रासलीलायां तामादायान्तर्धाय दुःखिता अपि तास्तेन नानुसंहिताः । इत्थमेव गीतगोविन्दे-'राधामाधाय हृदये तत्याज व्रजसुन्दरीः' इति च ॥ २३ ॥ तदेतदनुसृत्य स्वयमुपश्लोकयति-वैद- गधीति। तदिदं वृन्दावचनम्। लां विना तव विरहे सति परासु मुररिपोर्द्ष्टिर्मया सदा तादशलीलावनाधिष्ठात्यापि प्रेङ्गन्ती प्रकृष्टतया चलन्ती न दृष्टा ॥ २४॥ पूर्व धीरोदात्तादय उदाहता एव, संप्रति तदुसारेण तत्तद्भावमिश्रादीन् उदाहरति- धीरोदात्तानुकूलो यथेत्यादिभिः। तन्र कुवलयदृश इत्यत्रापि श्रीराधासखों १ 'नाटी' इति टीकापाठः

Page 56

उज्ज्वलनीलमणिः । ३३

न किल घटते राधारङ्गप्रसङ्गविधायिता- न्रतविलसिते शैथिल्यस्य च्छटाप्यघविद्विषः ॥ २५ ॥ धीरललितानुकूलो यथा- गहनादनुरागतः पितृभ्यामपनीतव्यवहारकृत्यभारः । विहरन्सह राधया मुरारिर्यमुनाकूलवनान्यलंचकार ॥ २६ ॥

तेर्ण्यन्ताद्युटा। कन्दर्पकलानाट्यं मया प्रस्तुतीकृतमित्येकैकशस्तास्तं ज्ञापयिता तस्मात्स्यमन्र नृत्य मां च नर्तयेति व्यज्ञयन्तित्यर्थः । अत्र श्रीकृष्णस्य गाम्भीर्य परमचतुराभिरपि ताभिस्तच्चित्तवृत्तानवगाहात् 'लां कलानाट्यरङ्ग एव नर्तिष्यामि, किं तु गोसंभालनं संप्रत्यग्रतः प्रदेशे आवश्यकम्, तस्मात् क्षणमात्रं तत्र मद्रमन- मनुमन्यख' इति प्रत्येकं ताः प्रति दृगश्चलेनैव ज्ञापनात्। विनयितम्। तदपि नानाभङ्गिभिर्विघ्नमेव कुर्वतीस्ताः प्रति कोपानुद्भवात् क्षन्तृतम्। तासां खविरह- दुःसहदुःखानुसंधानात् करुणतम्। राधायामेव यो रङ्गस्तदीयकन्दर्पकलानाट्यसं- बन्धी तत्रैव प्रकृष्टं सङं नृत्यनर्तनासभ्यत्वलक्षणकृतेषु आसक्तिं विधातुं शीलं यस्य तस्य भावस्तत्ता सेव व्रतं तस्य विलसिते अनुष्ठानविषये शैथिल्यस्य छटापि न घटते न संभवतीति सुदृढव्रतत्वम्। हे श्रीराधे, सर्वगोपीप्रतारणपण्डितस्तय्ये- वाहमनुरागी' इति तां प्रति खप्रेमवश्यतस्य अकथनात् अकत्थनतम्। मादशः प्रेमी संभोगसौख्यवान् सतीव्रतध्वंत्यपि सर्वधार्िकश्लाध्योऽन्यो नास्तीति गर्वस्या- प्रकटनात् गूढगर्वत्वम्। अघविद्विष इति सुसत्त्वभृत्त्वम्। अनुकूलतं सर्वत्रैव स्पष्टमेव ॥ २५॥ गहनादिति। नान्दीमुखीं प्रति पौर्णमास्या वचनम्। गह-

प्रति वृन्दावचनम्। संकेतस्थाः श्रीराधिकाभिसारवर्त्मनि नानुकुञ्जान् संकेतास्पदीकृ- त्याधितिष्ठन्त्यः। नाटीशब्देन नाट्यप्रबन्धविशेषा नाटिकोच्यते। प्रस्तावनाशब्देन तु तदर्थसंक्षेपव्यज्नामयो नटीनिर्दिष्टः प्रथमो भागः । किं चात्र न किल घटत इति संभावनामात्रज्ञेयभावलेन तस्य गम्भीरतम्। गाम्भीर्याच् तस्यावश्यककृत्य- विशेषव्याजमयसान्तनवचनेनैव क्रमशस्तास्त्यजति न तु रूक्षमुद्रयेति प्राप्तत्वाद्विन- यितम्। तथापि तास्तत्र नानाभङ्विभिर्विन्नं कुर्वतीः प्रति कोपानुद्भावनात् क्षन्तृतम्। यतस्ता दुःखं न प्राय्नुवन्त्वति भावनाजातेऽपि करुणलम्। स्पष्टतया तथोक्तेः ३ उज्व०

Page 57

३४ काव्यमाला।

धीरशान्तानुकूलो यथा- ब्रधोपास्तिविधौ तव प्रणयितापूरेण वेषं गते क्ष्मादेवस्य कथं गुणोऽप्यघरिपौ द्रागद्य संचक्मे।

नात् निर्वक्तुमशक्यात्। 'विदग्धो नवतारुण्यः परिहासविशारदः। निश्चिन्तो धीरललितः स्यात्प्रायः प्रेयसीवशः ॥' इति धीरललितलक्षणम् । अत्रापनीतेति निश्चिन्ततम्। विहरन्निति परस्मैपदप्रयोगेण प्रेयस्यानन्ददानतात्पर्यावगमात् प्रेयसीवशलम्। वर्तमानप्रयोगेण तयैव सह विहारानवच्छेदात् कान्तान्तर- त्यागात् अनुकूललम्। वनानीति बहुवचने एकत्र वने विहृत्य पुनरन्यत्र तिरोधाय स्थित्ा तन्राप्यन्विष्यन्त्या तया स्वं दृष्टवत्या परिहसन्त्या विहृत्य पुनरन्यत्र तया तिरोदधत्या पुनस्तत्राप्यन्विष्यमाणया दृध्या परिहसितया विहृत्य पुनरन्यन्नापि तथा तथा विलासाविष्कारात् परिहासविशारदतम्। अलंचकारेत्य- लंपदेन विदग्धतं वैदग्ध्यमयविहारस्यैव तत्प्रदेशसाफल्यापादकलात् नवतारुण्यं तु सर्वत्रैवानुस्यूतम् ॥२६ ॥ धीरशान्तेति। तल्लक्षणम्-'समप्रकृतिकः क्लेशस- हनश्च विवेचकः । विनयादिगुणोपेतो धीरशान्त उदीर्यते ॥' इति। ब्रभ्नेति। जटिलासंनिधावपि राधाकर्णे विशाखोक्तिः। ब्रभः सूर्यः। तव प्रणयितापूरेणेत्यादिना गुरुजनसंनिहिताया अपि तव त्यागाशक्तेस्लन्मात्रैकगतावस्मिन्नन्यालक्षितम्। किंचिद पाङ्गामृतमर्पयेति ध्वनिः । तेन चानुकूलतं व्यक्तम्। बुद्धि: पश्येति विवेच- कलम्। दृष्टिः क्षमोद्गारिणीति क्केशसहत्म्। स्वाभाविकचाश्चल्यत्याग एवात्र सुदृढव्रतल्वम्। विनयित्वादेव व्यक्तादात्मश्रलाघित्वाभाववत्त्वलक्षणमकत्थनत्म्। तथाप्यन्ततस्तु श्रीराधालक्षणपरमप्रेयसीलाभात् गर्वो वर्तत एवेति गूढगर्वत्म्। तत्र विघ्नशद्कया झटिति गमनात् व्यक्तं सुसत्त्वभृत्त्वमिति धीरोदात्ततवं व्यक्तम्। अनुकूलतं च तत्तत्सर्वपरित्यागपूर्वकतदतिसरणां स्पष्टमेव ॥ २५॥ गहनेति। नान्दीमुखीं प्रति पौर्णमासीवचनम्। गहनादिति सम्यक पर्यालोचयितुमशक्य- लात्। 'गहना कर्मणो गतिः' इतिवत्। 'गहनं गह्नरे दुःखे विपिने कलिलेऽपि च' इति विश्वप्रकाशात्। अत्र यमुनाकूलवनान्यलंचकारेति विदग्धतवं नवतारुण्यवत्त्वं चेति बोधितम्। पूर्वत्र विहारशोभावैचित्र्यापरतशोभातिशयद्ृष्ट्या तदलंकरणा- पत्तेः। विहरन्निति। परिहासरसस्य क्रोडीकृतलात् परिहासविशारदतं पितृभ्यां भारापनयनेनैव निश्चिन्ततवं स्पष्टम्। आस्तां तावत् परमखैरलीललेनैवेति भावः।

Page 58

उज्ज्वलनीलमणिः । ३५

बुद्धिः पश्य चिवेककौशलवती दृष्टिः क्षमोद्वारिणी वागेतस्य मृगाक्षि रूढविनया मूर्तिश्र धीरोज्वला ।। २७ ।। धीरोद्धतानुकूलो यथ्रा- सत्यं मे परिहृत्य ताव्रकसखीं प्रेमावदातं मनो नान्यस्मिन्प्रमदाजने क्षणमपि स्वम्नेऽपि संकल्पते।

क्केशः । राग इति विनयिलं मूर्तिश्च। धीरेति शमप्रकृतिकत्वम्। अन्र तस्यात्मा- रामशिखामणितं व्रजप्रेम्णा यन्निद्वुतमस्ति तदेवात्र प्रकृतिशब्देन वाच्यम्। अत्र क्षमादेवस्य कथं गुण इति तेनाघरिपुरयमद्य ब्राह्मण इव दृश्यते ततश्रोपमायां सत्यां शान्तशङ्गाररसयोरङ्गाद्गिभावो न विरुद्ते। यदुक्तं साम्येन वचनेऽपि चेति पूर्वग्रन्थ एव ।। २७ ।। धीरोद्धतेति। तल्लक्षणम्-'मात्सर्यवानहंकारी मायावी रोषणश्चलः । विकत्थनश्च विद्वद्भिर्धीरोद्धत उदाहृतः ॥' इति। सत्य- मिति। कृष्णाभिसारभार्गस्थानां गोपीनां खवामियोगान् तेन कृष्णेन च दगन्ता- द्यैर्मृषाकृततत्तदाश्वासान् दूरादेव दृष्टवतीं, तस्य राधिकैकतानचेतस्तं ज्ञातापि वाम्यवशात भो व्रजनगरीनागर, सांग्रतं मत्सखीं सुखयिता अद्य वर्त्मत्यक्ताः अतिश्रुतख्वविलासाः कामिन्योऽपि क्षणानन्तरं लया समाधेया इति नयनवदनग्री- वादिभङ्जयैव ब्रुवाणां ललितां प्रति तद्वचनम् । अत्र सत्यमित्यादिना संकल्पत इत्यन्तेन अनुकूलत्म्। सारग्राहिणि सद्गुणगुरावित्याभ्यां अहंकारितं विकत्थनं यत्र पितृभ्यामन्यैः कार्यमाणं गोचारणादिकमपि खवैरलीललेनैवावगम्यते। न खन्यत्रैव भारलेन। तदुक्तम्-'ब्रजे विक्ीडतोरेवं गोपालच्छद्ममायया' इत्यत्र गोपालनमेव छद्म व्याजो यस्यां तया मायया प्रतारणशत्त्या व्रजे विकीडतोरिति कीडैवाभीष्टं गोपालनं लन्यथापि स्यादिति भावः। राधया सह विहरज्नित्यपि विहारानवच्छेदप्राह्या प्रेयसीवशतं चेति धीरललिततं दर्शितम्। अविच्छेदवि- हारादनुकूललमपीति धीरललितानुकूलत्वं स्पष्टमेव। तत्र धीरललितलक्षणे प्रायः- शब्दस्तस्य बहिर्व्यक्तीकरणाभावादिति भावः ॥ २६ ॥ ब्रन्नति । धीरशान्ता- जुकूतमत्र स्पष्टमेव। ब्रभ्नः सूर्यः । एतदुपासना लीला श्रीराधायाः। चन्द्रावल्यास्तु चण्डिकोपासनारूपेति परंपरोपदेशलब्धम्। एवमुत्तरत्रापि ज्ञेयम् ॥ २७॥ सत्यं मे इति। हे गौरि, व्यलीकमप्रियं तत्र मुद्रां किं न्वित्यादिना मात्सर्यवतं

Page 59

mr काव्यमाला]

सारग्राहिणि गौरि सद्रुणगुरौ मुक्तव्यलीकोदसे मुद्रां किं नु मयि व्यनक्षि ललिते गूढाभ्यसूयामयीम्॥।२८।। अथ दक्षिण :- यो गौरवं भयं प्रेम दाक्षिण्यं पूर्वयोषिति। न मुश्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ खलु दक्षिणः॥२९॥ यथा- तथ्यं चन्द्रावलि कथयसि प्रेक्ष्यते न व्यलीकं स्वप्नेऽप्यस्य त्वयि मधुभिद: प्रेम शुद्धान्तरस्य।

च। मुक्तेति व्यलीकं लदप्रियं तस्योद्यमोऽपि मया मुक्तः पथि पथि ताश्चक्षुषापि न दष्टास्तदपि ं मयि मिथ्यादोषमारोपयसीति मायावित्वं रोषणतं च। मुद्रां किं न्वित्यादिना मात्सर्यवत्त्वं व्यक्तम् ॥। २८ ॥ पूर्वयोषिति प्रथमं यस्यामासक्तिप्रसक्ती अभूतां तस्याम्। अन्यचित्तः अन्यस्यां तदुत्तरकालप्राप्तायां नवीनायां चित्तं यस्येति तत्रैवासत्त्याधिक्यं सूचितम् ॥ २९ ॥ तथ्यमिति। नान्दीमुखीवाक्यं ववं सत्यं ब्रूषे। किंलित्याक्षेपलब्धम्। व्यलीकं अप्रियम् । अपराध इत्यर्थः । तत्र हेतु :- प्रेमेति। शुद्धान्तरेण दाक्षिण्यं। सविनये इति गौरवम्। विनयकार- रोषणतं च। सारग्राहिणि सर्वसद्गुणगुरौ मुक्तव्यलीकोद्मे मयीति अहंकारिलं विकत्थनतवं च । सत्यं मे इत्यादिना स्धर्मगोपनवचसा मायावितम्। तेन क्वचित् स्खलनव्यज्जकेन चलतमिति धीरोद्धततम्। तन्रानुकूलतं च। क्वचित् च तदपराधभज्जनाय वैयम्याल्लक्ष्यते ॥। २८॥ अथ प्रथमे दक्षिणलक्षणे तदिदं विचार्यते-'दक्षिणे सरलोदारौ' इत्यमरकोशात् दक्षिणस्तावत् सरलः। स च पूर्वग्रन्थे 'सौशील्यसौम्यचरितो दक्षिणः कीर्त्यते बुधैः' इति विशिष्य लक्षितः। सौशील्येन सुस्भावरूपेण मनोधर्मेण सौम्यं सुकोमलं चरितं देहादिचेष्टा यस्य स इत्यर्थः । अन्न तु रसे तमपि विशिष्य लक्षयति-यो गौरवमिति। यः खलु अन्यचित्तोऽपि पूर्वयोषिति गौरवादिकं न मुश्चति स दक्षिणो ज्ञेय इत्यन्वयः । अत्र यो गौरवं भयं प्रेमेति सौशील्यमेव विशिष्य दार्शीतम्। दाक्षिण्यं च विशिष्टस्य पूर्वग्रन्थोक्तसामान्यलक्षणांशस्य विशेषलक्षणेऽप्यपेक्षणीयलादत्र सौम्यचरितलमेव

Page 60

उज्ज्वलनीलमणिः । ३७

श्रुत्वा जल्पं पिशुनमनसां तद्विरुद्धं सखीनां युक्त: कर्तु सखि सविनये नात्र विस्रम्भभङ्गः ॥३० ॥ यद्वा- नायिकाखप्यनेकासु तुल्यो दक्षिण उच्यते। यथा दशरूपके- सनाता तिष्ठति कुन्तलेश्वरसुता वारोडङ्गराजखवसु- रधूते रात्रिरियं जिता कमलया देवी प्रसाद्यादय च। इत्यन्तःपुरसुन्दरी: प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ३१॥

णलेन भयं च ।। ३० ॥। स्नातेत्यन्तःपुरचारिण्या दूत्याः कस्याश्चित् खसखीं प्रत्युक्तिः । स्नातेति। अद्य तस्या अङ्गसङ्ने धर्मशास्त्रमेव विधायकमिति भावः । अङ्गराजस्य खवसुर्वार इति। अन्र व्यावहारिकी नीतिरेव विधायिकेति भावः । द्यूते इति। सा कमला लामद्य कर्थ हास्यतीति भावः । देवी रुक्मिणी प्रसाद- यितुमर्हेति। अत्र तत्प्रेमैव प्रयोजकमिति भावः। इति विज्ञाय सर्वमौचित्यं ज्ञालैव। हे द्वारवतीनाथ, अन्तःपुरसुन्दरी: प्रति अवधेहीति मया विज्ञापिते सति देवेन तेन अप्रतिपत्तिः समाधानासामर्थ्य तया मूढं मुग्धं मनो यस्य तेनेति तासु चतसूषु प्रेमतारतम्याभावः सूचितः ॥ ३१ ॥ स्रातेति पद्यं पुरसुन्दरीषु कष्टेनैव वक्तव्यम्। तच्ब मनोधर्मस्य गौरवादेरनुरूपमेव। न तु लक्ष्यं दक्षिणलम्। लक्ष- णांशपूर्णलक्षणयोरेकत्वानुपपत्तेः सति चैकले पौनरुत्तयस्य वैयर्थ्यापत्तेश्र। ततश्रा- यमर्थ :- यः खलु अन्यस्यां परमसद्गुणायां कस्यांचित्तदीयरागविशेषेण पश्चात् बद्धचित्तोऽपि पूर्वयोषिति गौरवमिश्रेण प्रेम्णा संततकृतभजनायां कस्यांचिदितरस्यां नत्वन्यस्यामिव शुद्धरागविशेषेणातीव रमयन्त्यां गौरवानुसारि गौरवमादरं तथा भयं प्रेमरत्यास्तस्याः खहेतुकप्रेमभग्गेनानिष्टाशङ्कां तथा प्रेम तद्दुःखाशङ्कया प्रधानं स्नेह- लक्षणं स्नेहलक्षणतया दाक्षिण्यं दाक्षिण्यशन्दोक्तसौम्यचरितत्वं च न सुख्ति सोडसौ दक्षिण इति। देवी रुक्भिणी। 'रुक्भिणी द्वारवत्यां तु' इति पुराणप्रसिद्धत्वात्।२९। दक्षिणस्य द्वितीये लक्षणे द्वारकागततत्प्रेयसीष्वप्युदाहरणं देवीशव्दोक्तश्रीरुक्मिणी-

Page 61

३८ काव्यमाला।

यथा वा- पद्मा हम्भङ्गिरकं कलयति कमला जृम्भते साङ्गभङ्गं तारा दोर्मूलमल्पं प्रथयति कुरुते कर्णकण्डूं सुकेशी। शैब्या नीव्यां विघत्ते करमिति युगपन्माघवः प्रेयसीभि- र्भावेनाहूयमानो बहुशिखरमनाः पश्य कुण्ठोऽयमासते॥३२॥ अथ शठ :- प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम्। निगूढमपराधं च शठोऽयं कथितो बुधैः॥ ३३॥ यथा- रवन्ने व्यलीकं वनमालिनोक्ततं पालीत्युपाकर्ण्य विवर्णवक्रा।' इ्यामा विनि:श्वस्य मधुत्रियामां सहस्रयामामिव सा व्यनैषीत्॥३४।।

संगभय्य अपरितुष्यन्नाह-यथा वेति। पद्मेति। पद्मादयः प्रायः समा एव समाख्वेव प्रायेण दाक्षिण्यसंभवात्। बहुशिखरमना अनेकाग्रचित्तः ॥। ३२॥ प्रियं वक्ति पुरोऽन्यत्रति। अत्र विप्रियापराधयोरैक्यात् पौनरुत्तयं स्यादिति न मन्तव्यम्। व्यावहारिकस्यापराधस्य दूरदृष्टजनकलाभावात् ऐहिकस्याभीप्सितस्य व्यवहारमात्रस्य विघातितमेवार्थः। तच्चापराधस्य तद्विषयीभूतलेन ज्ञातले एव भवेन्नाज्ञातत इति। अतः परोक्षकृतस्याप्रियस्य विप्रयशब्दवाच्यतं तस्यैव ज्ञातले अपराधत्वमिति उदाहरणे व्यक्तीभविष्यति॥ ३३ ॥ सवने इति। श्यामासख्या नान्दीमुखीं प्रत्युक्तिः। अत्र खप्े व्यलीकं उक्तमित्यनेन जागरे तु लां विना अस्याः कदापि न हृदये दधामीति तेनोक्तमिति गम्यते। त्च पुरः प्रियवादिलं एकं शठलक्षणं ततश्र प्रसादितायाः श्यामायाः संकीर्णसंभोगान्ते निद्राणस्य तस्य साहित्यान्न संगच्छते इति मला वृन्दावनस्थाखेव समासु कासुचित्तत्तदुदाहरति- यथा वेति। एवमुत्तरयापि। ३० ॥ विप्रियं यद्यत् वक्ति तस्य तस्य विरुद्धं। अपराध: अन्यमन्यमप्यतिक्रमः । किं लेते पृथगेव लक्षणे दर्श्यते ॥ ३१॥३२. । ३३ ॥ तत्र विप्रियलोदाहरणम्-खम इति। तन्र भवती विना भम

Page 62

उज्ज्वलनीलमणिः । ३९

यथा वा- तल्पितेन तपनीयकान्तिना कृष्ण कुञ्जकुहरेऽद्य वाससा। अभ्यधायि तव निर्व्यलीकता मुञ्च सामपटलीपटिष्ठताम् ।।३५।। अथ धृष्टं :- अभिव्यक्तान्यतरुणीभोगलक्ष्मापि निर्भयः । मिथ्यावचनदक्षश्र घृष्टोऽयं खलु कथ्यते ॥ ३६॥ यथा- नखाड्का न श्यामे घनघुसृणरेखाततिरियं न लाक्षान्तःक्ूरे परिचिनु गिरेगैरिकमिदम्।

पाल्या सह स्ाप्नः संभोग: स च श्यामायाः परोक्ष इति अन्यत्र विप्रियकारितं द्वितीयम्। हे पालीति तज्ज्ञापकेन खप्नायितेन तस्यैव विप्रियस्य ज्ञातलेनाप- राधलादपराधकारित्वं तस्य निगूढत्वं हे पालीति मात्रोत्तया ऊह्यमानलात्॥ ३४॥ अन्न प्रियोक्तिविप्रियकारिले गम्यमाने एव न स्पष्ट स्थूलधीर्बुध्यते इत्यत्र आह- यथा वेति। तल्पितेनेति। पद्मावाक्यम्। तल्पीकृतेनेति तस्य वासस्य अज्जनादिरज्जितत्वम्लानल्ाभ्यां निर्व्यलीकता निरपराधत्वमिति विपरीतलक्षणया अपराधकारित्वं तेन च परोक्षविप्रियकारितं मुच्च। सामेति पुरः प्रियवादिलम्। न चान्यापराधान्यथानुपपत्त्यैव परोक्षविप्रियकारितं सेत्स्यति लक्षणे किं तस्य पृथगुपादानेनेति वाच्यम्। विप्रियाचरणं विनापि कृत्रिमगोन्नस्खलनोत्थस्याप्य पराध्रस्य विद्ग्धमाघवसप्तमाङ्के दृष्टलात् इति॥ ३५॥३६॥ नखाङ्कति।

सवप्नेपि अन्यस्याः स्कूर्तिनास्तीति तेन स्वयमुक्तमासीदिति ज्ञेयम् ॥ ३४ ॥ अप- राधमुदाहरति-कल्पितेनेति ॥ ३५॥३६ ॥ नखाङ्का इति । यद्यपि तच्छ्रीविग्रहे क्षतरूपास्तेन संभवन्ति यत्ते सुजातेति दृध्या तास्तत्र तान्नार्पयन्ति च। किं तु कोमलमुद्रया नखादिना सपरिहासं तद्रात्रं स्पृशन्ति मात्रं तथापि ये तदाभाषाः केचिद्वर्णा उदयन्ते ते च प्रतिनायकाभिस्तादृशतया न मन्यन्ते

Page 63

४0 काव्यमाला।

धियं धत्से चित्रं बत मृगमदेप्यञ्जनतया तरुण्यास्ते दृष्टिः किमिव विपरीतस्थितिरभूद् ॥ ३७॥ उदात्तादैश्रतुर्भेदैस्त्रिभि: पूर्णतमादिभिः । द्वादशात्मा चतुर्विशत्यात्मा पत्यादियुग्मतः ॥ ३८ ॥ नायक: सोऽनुकूलादैः स्ात्पण्णवतिधोचितः। नोक्तो धूर्तादिभेदस्तु मुनेः संमत्यभावतः ॥ ३९॥ इति नायकभेदाः ।

खण्डितां श्यामां प्रति श्रीकृष्णस्योक्तिः । मृगमदेत्याघ्रायमाणात् सुगन्धिशिला- खण्डात् कस्तूरी मदधरे लग्नेति॥ ३७ ॥ उदात्तादैर्धीरोदात्तधीरललितधीरोद्धत- धीरशान्तैः पूर्णतमादिभि: पूर्णतमपूर्णतरपूर्ण स्त्रिभिर्गुणितैर्द्वादश आत्मानः स्वरूपाणि भेदा यस्य सः। पुनश्च पत्युपपतिभ्यां तत्र पूर्णतमस्य पतितोपपतिले स्पष्टे। पूर्णतरस्य कुब्जायामुपपतित्वं भावयोगाततु सैरन्ध्री परकीयैव संमतेत्युक्तेः । रुक्मिण्याः पतितम्। 'प्राप्य मथुरां पुरीं रम्यां सदा ब्रह्मादिसेविताम्। श्रङ्धचक्र- गदाशाईरक्षितां मुसलादिभिः॥ यत्रासौ संस्थितः कृष्णस्त्रिभिः शत्त्या समाहितः। रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥' इति गोपालतापन्युक्तेः । पुराणान्त- रेऽपि मथुरास्थस्यैव कृष्णस्य रुक्मिण्युद्वाहश्रवणात् उद्धवयाने नरेन्द्रकन्या उद्दा- ह्येति व्रजदेव्युक्तः । तथा पूर्णस्यापि रुक्मिण्यादिसर्वपट्टमहिषीषु पतितम् । कुब्जादिषूपपतितम्। मथुरास्थसर्वजनानामेव द्वारकां प्रत्यानयनात्तत्र कुब्जादीनां स्थितिर्नानुपपन्ना ॥ ३८ ॥ मुनेर्भरतस्य ॥ ३९ ॥ इति नायकभेदविव्ृतिः ॥

तद्दृध्या च कविभिर्वर्ण्यन्ते इति ज्ञेयम्। उदात्तादैरित्युपपतिले पूर्णतमलमेव- पतिले पूर्णतरत्वादिद्वयं च तन्र तत्र केनाप्यंशेनोन्नियम् ॥ ३७॥३८॥ नोक्त इति। पूर्वोक्तात शठात् धूर्तस्य भेद: परार्थग्राहकवञ्चनादक्षवचनादिलेन ज्ञेयम् । ३९ ॥ इति नायकभेदाः ॥

Page 64

उज्ज्वलनीलमणिः । ४१

सहायभेदाः । अथैतस्य सहाया: स्युः पश्चधा चेटको विटः। विदूषक: पीठमर्द: प्रियनर्मसखस्तथा॥१॥ नर्मप्रयोगे नैपुण्यं सदा गाढानुरागिता। देशकालज्ञता दाक्ष्यं रुष्टगोपीप्रसादनम्। निगूढमत्रतेत्याद्याः सहायानां गुणाः स्मृताः ॥२॥ तत्र चेट :- संधानचतुरश्रेटो गूढकर्मा प्रगल्भधीः। स तु भङ्गुरभृङ्गारादिक: प्रोक्तोऽत्र गोकुले ॥ ३ ॥ यथा- न पुनरिदमपूर्व देवि कुत्रापि दृष्ट शरदि यदियमारान्माधवी पुष्पिताभूत्। इति किल वृषभानोर्लम्भितासौ कुमारी व्रजनवयुवराजव्याजतः कुञ्जवीथीम् ॥४॥ अथ विट :- वेषोपचारकुशलो धूर्तो गोष्ठीविशारदः।

सहायास्ते किशोरा अपि ते पीठमर्द विना क्वीबवत् पौरुषभावहीना एव लीला- शत्त्या संपादिता इति श्रीजीवगोस्वामिचरणानां व्याख्या।१॥२॥३॥४॥ अथैतस्य सहायाः स्युरित्यौपपत्याभासलीलायामेव ज्ञेयाः। किं तु किशोरा अपि केलौ कीबवत् पौरुषभावहीना एवैते मन्तव्याः ॥१॥२॥३॥४॥ वेशोपचारकुशलतं कामतन्रकलावेदितं च दूत्योपयोग एव ज्ञेयं न तु सर्वत्र वृथा- खात्। भावान्तरस्पर्शित्वाभावाच्च। उदाहरणे तु तद्वयमुन्नेयम्। तच् स्वरूपस्य

Page 65

४२ काव्यमाला।

कामतत्रकलावेदी विट इत्यभिधीयते। कडारो भारतीबन्धुरित्यादिर्विट ईरितः ॥ ५ ।। यथा-

सखाहं त्वद्वन्धोश्वटुभिरभियाचे मुहुरिदम्। कलक्रीडद्वंशीस्थगितजगतीयौवतधृति- स्त्वया युक्तः श्यामे न खलु परिहर्तु सखि हरिः ॥ ६ ॥ अथ विदूषक :- वसन्ताद्यभिधो लोलो भोजने कलहप्रियः। विकृताङ्गवचोवेषैर्हास्यकारी विदूषक: । विदग्धमाधवे ख्यातो यथासौ मधुमङ्गलः ॥।७॥ यथा- तुष्टेन स्मितपुष्पवृष्टिरधुना सद्यस्त्वया मुच्यता- मारूढ: कुतुकी विमानमतुलं मां गोकुलाखण्डलः ।

कामतन्त्रसंबन्धिन्यः कलाः स्त्रीवशीकारमोहनमत्त्रीषधादिप्रयोगाः ॥५॥ अनु हड्तयवचन इति गोष्ठीविशारदलम्। कलेन मधुरास्फुटेन ध्वनिना कीडन्ती या वंशी तयेति भयप्रदर्शनेन कामतन्त्रकलावेदित्ं धूर्ततं च तस्य व्यजितम् ॥६॥७॥ हे मानिनि, इत्थं मनोरथेन मया अभ्यर्थ्यमानोऽपि तवाधरो यन्मदभीष्टदाने न प्रयतते तद्रागिषु मत्सरेषु नाश्वर्यमित्यर्थान्तरन्यासः । यतस्तत्सङ्गेनैव लमपि मात्सर्यवती मानिन्यभूरिति भावः । 'रागोऽनुरागे मात्सयें क्लेशादौ लोहितादिष्ठ'

वेशान्तरेणाच्छन्नतया गमनात्कामतन्त्रीयमोहनमन्त्रादियोगाच् ॥५॥६॥ भोजने लोल: सतृष्णः । एतदादिकमप्युदाहरणान्तरेण ज्ञेयम् ॥ ७॥ विभानं दिव्यरभरूपं पक्षे विगतमानम्। अन्र तन्ाद्भुतं रागिष्विति अर्थान्तरन्यासः।

Page 66

उज्ज्वलनीलमणिः । ४३

इत्थं देवि मनोरथेन रभसादभ्यर्थ्यमानोऽप्यसौ यज्ञे मानिनि नाधरः प्रयतते तत्राज्ुतं रागिषु ॥।८।। यथा वा- ममोपहंरति स्वयं भवदभीष्टदेवो नम- न्नवं कमलैमुज्ज्वलं कमलबन्धुरुत्कण्ठया । मया तु तदवज्ञया भुवि निरस्यते रुष्यता न मानयसि मद्रचस्तदपि मानिनि त्वं कुतः ॥ ९ ॥

इति विश्वः । किमभ्यर्थनं तदाह-तुष्टेन लया हे अधर, स्मितपुष्पवृष्टिर्मुच्यतां क्रियताम्। मुच्यतामित्यनेन सा लयि वर्तते एव किंतु सा अन्तर्बद्धा स्थापिता इति सांप्रतं तव मानो नास्त्येवेति ध्वनिः । ततश्च तस्याः कथं विफलं बन्धनं क्रियते। मोचनं क्रियताम्। सा बहिर्निःसरतिति भावः। यतो गोकुला- खण्डल: पृथ्वीमण्डलेन्द्रः, पक्षे व्रजदेशस्य राजा। श्लेषेण खमाधुर्येण तव सर्वेन्द्रियप्रतिपालको मां विमानम् । दिव्यं रथमित्यर्थः । श्लेषेण विशिष्टज्ञान- वन्तम्। 'मन ज्ञाने' घन्। आरूढः। अस्मिन्कर्मणि साहाय्यार्थमवलम्बमान इत्यर्थ: । यद्वा तस्या हास्यप्रकाशार्थ वहन्नेवागत्येदं वक्ति। 'विकृताङ्गवचोवेषैः' इति लक्षणात्। श्रलेषेण तदा विगतादरं विदूषकं इति स्वात्मनारोहणे हेतुरुक्त। श्लेषेण विगतो मानो यतो भवति तद्यथा स्यादतुलं यथा स्यादेवं मां शोभां आरूढः । अतो रथारूढे राज्ि पुष्पवृष्टिः परमशोभासवीकारेण मानध्वंसिनि च स्मिताविष्कृतिश्र समुचितैवेति भावः । ततश्र तया स्मितं कृतमिति ज्ञेयम् ॥ ८ ॥ मामसौ हासयितुं यतते तदहं न हसामीति हठिन्यां तद्वचनमनवधानायां प्रसङ्गा- न्तर एव मनो दधत्यां तद्वैफल्यमपि स्यादित्यत आह-यथा वेति। रुष्यता अकृतस्नान एव कमलमानैषीस्तदिदमपवित्रं जातम्। अतस्त्वामस्मात्परिचरणाददूरी-

रागिष्वित्यर्थ: श्लेषमूलः । रागशब्दो हि 'रागोऽनुरागे मात्सर्ये क्लेशादौ लोि- तादिषु' इति विश्वप्रकाशे मात्सयलोहितयो: स्वीकृतत्वात् रागिपदं हि लोहितेऽ घरे मात्सर्यवव्यर्थान्तरेऽपि वर्तते इति ॥ ८॥ ९ ॥ १० ॥ ब्रूम इत्यादिना

Page 67

88 काव्यमाला।

अथ पीठमर्द :- गुणैर्नायककल्पो यः प्रेम्णा तत्रानुवृत्तिमान्। पीठमर्द: स कथितः श्रीदामा स्याद्यथा हरेः॥१०॥ यथा- कालिन्दीपुलिने मुकुन्दचरितं विश्वस्य विस्मापनं द्रष्ुं गच्छति गोष्ठमेव निखिलं नैकात्र चन्द्रावली। ब्रूमस्तस्य सुहृत्तमाः सयममी पथ्यं च तथ्यं च ते मा गोवर्धन मल्ल घट्टय मुधा गोवर्धनोद्धारिणम् ॥ ११ ॥ यथा वा- तवेयं श्रीदामन्प्रणतिरिह विस्म्भयति मां प्रसादो रुद्राण्याः किमिव चपलासु प्रसरति।

करिष्यामीति कुध्यता ॥ ९॥१० ॥ का लिन्दीति। मदीयानपि दारानाकृष्य वनं नयति तदयमहमस्मै प्रतिफलं दास्यामीति विविधविरुद्धवल्गिनं गोवर्धनमह्ं प्रति श्रीदामवाक्यम्। ब्रूम इति बहुवचनेन वाक्यस्यास्य बहुवक्तृकलेन लया नाप्रामाण्यमाशङ्कनीयमिति। सुहत्तमा इति। सख्यात्तदीयान्तःकरणधर्मस्य चन्द्रावल्यां निर्विकारित्लक्षणस्य ज्ञानं ध्वनितम्। पथ्यमिति। अन्यथा बका- रिष्टादीनिव लामसौ वधिष्यतीति। मा घट्टय कृष्णसर्पमिव मा चालय यद्यात्मनो भद्रमिच्छसीति। 'घट्ट चलने'। मल्लेति। कंसस्याहं चाणूरादिसदृशो मल्ल इत्यपि माहं कृथा इति। गोवर्धनोद्धारणमिति। सवस्य महापर्वतोद्धृतिक्षमताविष्का- रेण त्त्कंसमपि नासौ गणयतीति ध्वनितम्। अत्र शङ्गारसख्यरौद्ररसेषु रौद्र एवाङ्गी। श्लेषेण वं गोवर्धनः स तु गोवर्धनोद्धारी सकुटुम्बस्य तवापि तदा रक्षिततादिति नीतिश्च ध्वनिता ॥ ११ ॥ चन्द्रावल्याः पतिंभन्ये गोवर्धनमहे दण्डरूपोपायेन श्रीदाम्रः साहाय्यमुदाहृत्य तस्याः श्वश्वां मेदेनापि तस्य दर्श बहुवचनेन तस्य नायकतुल्यगुणत्ादिकं व्यज्यते। गोवर्धनो नाम मल्लश्चन्द्रावल्याः पतिमन्यः कश्चिदिति ललितमाधवप्रक्रिया ॥ ११॥ तवेयमिति। तस्य

Page 68

उज्ज्वलनीलमणिः । ४५

वने यान्तीं दुर्गार्चनघुसृणमाल्याङ्कितकरां वधूं दृष्टा शङ्के प्रथयति कलङ्कं खलजनः ॥ १२ ॥ अथ प्रियनर्मसख :- आत्यन्तिकरहस्यज्ञः सखीभावं समाश्रित: । सर्वेभ्यः प्रणयिभ्योऽसौ प्रियनर्मसखो वरः। स गोकुले तु सुबलस्तथा स्यादर्जुनादयः।। १३॥। यथा- प्रत्यावर्तयति प्रसाद ललनां क्रीडाकलिप्रस्थितां शय्यां कुञ्जगृहे करोत्यघभिद: कन्दर्पलीलोचिताम्। स्विन्नं वीजयति प्रियाहृदि परिसस्ताङ्गमुच्चैरमुं क्व श्रीमानधिकारितां न सुबलः सेवाविधौ विन्दति ॥१४॥

यति-यथा वैति। तवैयमिति। खवधू वने प्रहिणु वा गृहे रुन्धि वा मद्द- यस्यान्तु निःशङ्कैव तिष्ठ, स लेनां न परिचिनोति। अपीति सत्यापयामि किं लाप्ततया ब्रवीमि। रुद्राण्याः स्वभाव एवायं शश्वत्सेव्यमाना प्रसीदन्ती सवसंपदं ददाति। सेवितचरी पुनः सेवामप्राप्य क्ुध्यन्ती वनधान्यपत्यादिकं भक्षयति चेति भाण्डरीमुखाच्छ्रुतमिति ब्रुवाणं श्रीदामानं प्रति भारुण्डावचनम्। चपला- स्विति। मद्गहे धनधान्यगवादिवृद्धान्यथानुपपंत्या रुद्राण्याः प्रसाद। रुद्राणी- प्रसादान्यथानुपपत्त्या वधूरियमचञ्चला साध्वेवेति ज्ञायत एवेति भावः । किंतु वने यान्तीमित्यादि॥ १२॥१३॥ प्रत्येति। रूपमञ्जर्याः सुबलविषयक- भक्तिजनिका खसखीं प्रत्युक्ति :- स्विन्नं वीजयतीति। बहिः स्थिला यन्नव्य-

वृद्धावञ्वनया नायके प्रेमाधिक्यं व्यज्यते।। १२ ॥ सखीभावः श्रीकृष्णतत्प्रेयस्याः परंपरमेलनेच्छा तं सभाश्रित इति तेन तस्य पुरुषभावश्चावृत इति भाव: ॥१३ ॥ सिविन्नं वीजयतीत्युदात्तालंकार एवायम्। स च वाच्यार्थासंभवेपि वस्ततिशय- मात्रव्यञ्ञकः क्वचिद्ृश्यते। यथा 'तदश्रुणि नदी जाता' इत्यादौ। ततः 'शश्वद्वी- जयति प्रियान्विततया स्विन्नाङ्गमेतं रहः' इति पाठान्तरं.च न मूलकृतम्॥ १४॥

Page 69

४६ काव्यमाला।

यथा वा- याभि: साचिदगव्चलेन चटुलं कंसारिरालिद्यते दोर्द्वन्द्वेन कुचोपपीडमुरसि खैरं परिष्वज्यते। एतस्याधरसीधुरुद्ुरतया सामोदमाखवाद्यते किं जानासि सखे व्यधायि कतरद्गोपीभिराभिस्तपः ।१५। चतुर्विधा: सखायोऽत्र चेटः किङ्कर इष्यते। पीठमर्दस्य वीरादावापे साहाय्यकारिता ॥ १६ ॥ हरिप्रियाप्रकरणे वक्ष्यन्ते यास्तु दूतिकाः। अत्रापि ता यथायोग्यं विज्ञेया रसवेदिभिः ॥१७॥ तत्र स्वयं यथा- सखि माधवद्दग्दूत्याः कर्मठता कार्मणे विचित्रास्ति। उपधाशुद्धापि यया रुद्धा त्वं चित्रितेवासि ।। १८ ।।

जनेनेति ज्ञेयम् ॥ १४ ॥ अत्र सखीभावं समाश्रित्य इति। यद्यपि सख्यो हि स्वस्यूथेश्वरीणां श्रीराधादीनामेव श्रीकृष्णाङ्गसङ्गसुखेन सुखिन्यो न तु स्वेषाम् । तदपि ताः सामान्यतो द्विधा भवन्ति प्रेमसौन्दर्यवैदग्ध्यादीनामाधिक्येन श्रीकृष्ण- स्यातिलोभनीयगात्रस्तेषां न्यूनलेन तस्यातिलोभनीयगात्र्यश्च। तत्र पूर्वाः श्रीकृष्ण- सुखानुरोधात् तत एव स्वयूथेश्वरीणामप्याग्रहाधिक्याच कदाचित् कृष्णाङ्गसङ्गस्पृ- हावत्योऽपि भवन्ति। ताश्च ललितादाः परमप्रेष्टसख्यादय उत्तरास्तु तद्दयाभावा- त्कदापि कृष्णाङ्गसङ्गस्पृहावत्यो न भवन्ति। ताश्च कस्तूर्यादयो नित्यसख्यस्तत्र व्याख्यातलक्षणं पूर्वासां श्रीकृष्णाङ्गसङ्गस्पृहारूपमंशमुदाहर्तुमाह-यथा वेति। याभिरिति। सुबलं प्रति उज्ज्वलस्य साभिलाषोक्तिः। कुचोपपीडं कुचाभ्यामु- पपीड्य ॥ १५ ॥ १६ ॥१७॥ तत्र स्वयमिति । सयं दूती इत्यर्थः। याभिरिति। तदनुमोदनमेव न तु तत्स्पृहा सखीभावादेव ॥। १५॥१६॥ १७॥ अन्र स्वयमिति। सयं दूतीत्यर्थः। कार्मणे वशीकरणौषधकर्मणि। उपधया धर्मादिपरीक्षणया ॥ १८ ॥ अवगृह्य अपहृत्येत्यर्थः । निसृथ्र्था विन्य-

Page 70

उज्ज्वलनीलमणिः । ४७

वंशी यथा ललितमाधवे- हियमवगृद्य गृहेभ्यः कर्षति राधां वनाय या निपुणा। सा जयुति निसृष्टार्था वरवंशजकाकली दूती ।। १९ ॥ आप्दूती- वीरावृन्दादिरप्याप्दूती कृष्णस्य कीर्तिता। वीरा प्रगल्भवचना वृन्दा चाटूक्तिपेशला ।। २० । यथा-

विमुखी मा भव गर्विणि मद्विरि गिरिणा धृतेन कृतरक्षम्। मूढे समूढवयसं माधव माधाव रागेण ।। २ १ ॥

सखीति। राधां प्रति विशाखोक्तिः । कार्मणे वशीकारौषधकर्मणि उपधया धर्मादिपरीक्षया शुद्धापि। 'उपधा धर्माद्ैर्यत्परीक्षणम्' इत्यमरः ॥ १८॥ हियमिति। गार्गीवाक्यम्। अवगृह्य अच्छिद। वनाय वनं प्रापयितुम्। निसृष्टार्था विन्यस्तकार्यभारा ॥ १९॥२० ॥ अत्र वंश्या खानतिरिक्तलवात् स्वयं लं निसृष्टार्थत्ादाप्तदूतीतं च । अत एव 'वृन्दावृन्दारिकामेलामुरल्याद्यास्तु दूतिकाः' इति गणोद्देशदीपिका। मद्रिरि मम वाक्ये। समूढवयसं सम्यग्धृतयौव- नम्। तेन स यावदन्यस्यामासक्तो न भवति तावदाधावेति विलम्बानौचित्यं ध्वनितम्। गिरिणाधृतेनेति। 'वीरवत्यः स्त्रियः' इति न्यायेन बलिष्ठवं द्योतितम्।

स्तकार्यभारा ॥ १९ ॥ २० ॥ विमुखी मा भवेति। वामायमानां पूर्वरागिणीं प्रति दूतीवचनम्। अमूढवयसं सुरूढयौवनं माधवं प्रति आधाव। समूढवय- समित्यनेन सत्वन्यस्यामासक्तो भविष्यत्येव तमेवानुतप्स्यसीति व्यज्जितम्। एत- व्यज्जनायाः स्पष्टतार्थमेव मूढे इति प्रगल्भवमुक्तम्। प्रगल्भवचनलादेव वाक्यं समाप्तमपि रागेणेत्यनेन पुनर्गन्तुं स्थायिनिर्देशश्च कृतः । तेन च माधव भा धाव भा धवं पति तुच्छामेत्येतद्वाग्भञ्ञयन्तरं व्यङ्गयं ज्ञापितमिति साक्षान्न वाच्यं कृतम्

Page 71

४८ काव्यमाला।

वृन्दा सुन्दरि वन्दनं विदधती यत्पृच्छति त्वामसौ चञ्चन्मझुलखञ्जरीटनयने तत्रोत्तरं व्यञ्जय। केयं भ्रूभुजगी तवातिविषमा बंत्रम्यते यद्भिया कान्तः कालियमर्दनोऽपि कुरुते नाद्य प्रवेशं ब्रजे ॥ २२॥ अस्यासाधारणा दूत्यो वीराद्याः कथिता हरेः। लिङ्गिन्यन्तास्तु वक्ष्यन्ते यास्ता: साधारणा दयोः॥२३॥ इति नायकसहाय प्रकरणम्।

हरिवललभाः । अथ हरिवल्लभा :- हरे: साधारणगुणैरुपेतास्तस्य वल्लभाः। पृथुप्रेम्णां सुमाधुर्यसंपदां चाग्रिमाश्रयाः॥१॥

भङ्गया तु स पूर्व गिरिणा धृतेन कृतरक्षोऽभूत्। अद्य तु गिरिभ्यां धृताभ्यां कृत- रक्षो भविष्यतीति समाश्वस्ताभिसरेति नर्म। माधवं लक्ष्मीकान्तम्। नारायणसम इति गर्गवाक्यात्। मा शोभा तस्याः पतिम्। भङ्ग्या तु हे मूढे, तिर्यड्ुखी किं भावयसि मूढानां पश्चादीनामिव वयसा सह वर्तमानं धवं स्वपति मा आधावेति कठोरभाषितम् ॥ २१ ॥ वृन्देति। वृन्दोक्तिः । भ्रभुजगीत्यनया भुजग्यैव दष्टः क्ान्तः सन् बंभ्रम्यते इति तेन लमेव तत्र गला सवीयभ्रूभुजग्या पुनस्तं स्वकान्तं दष्टं कृत्वा सुस्थीकुरु। लोके हि भुजगजातिदष्टं जनं पुनर्दष्टा यदि स्वविषं गृह्णाति तदैव स निरामयः स्यादिति प्रसिद्धिः ॥ २२ ॥ वीराद्या वीरा-वृन्दारिका-मेला- मुरल्याद्याः असाधारणा: अस्यैव न तु तासाम्। लिड्िन्यस्ताः शिल्पकारिणीदैवज्ञा- लिङ्ञिन्य इति तिस्रः ॥ २३ ॥ इति नायकसहायभेदविव्ृतिः ॥ साधारणगुणैः सुरम्याङ्गत्वसर्वसल्लक्षणतादिभिः ॥१ ॥ कृतपुण्यपुञ्ति। ॥ २१ ॥ वृन्देति। वृन्दाया एव वचनम् ॥ २२ ॥ द्वयोः श्रीकृष्णतत्प्रेयस्योः ॥ २३ ॥ इति नायकसहायाः ॥ साधारणेति यथासंभवं झ्ञेयम् ॥१॥ उपसन्नयौवनगुरोरिति।'

Page 72

उज्ज्वलनीलमणिः ।

यथा- भ्रणमामि ताः परममाधुरीभृतः कृतपुण्यपुञ्जरमणीशिरोमंणीः । उपसन्नयौवनगुरोरधीत्य याः स्मरकेलिकौशलमुदाहरन्हरौ ॥ २ ॥ स्वकीया: परकीयाश्र द्विधा ताः परिकीर्तिताः। तत्र स्वकीया :- करग्रहविधिं प्राप्ताः पत्युरादेशतत्पराः । पातित्रत्यादविचलाः सकीयाः कथिता इह॥ ३ ॥ यथा- सुनिर्माणे धर्माध्वनि पतिपराभि: परिचिते मुदा बद्धश्रद्धां गिरि च गुरुवर्गस्य परितः ।

लीलाविष्टलोकप्रतीत्यनुसारेणोक्तिः। प्रणमामीति मथुराहनानां प्रलेकमुक्तिः। उपसन्नयौवनमेव गुरुस्तस्मादवीत्येत्यप्युपदिशति। कामिनीनां यौवनमद एव ललितानीति न्यायेनोक्तिर्वस्तुतस्तु तासां नित्यसिद्धैव सर्ववैदग्धी स्वावसरं प्राप्य उदयते। दष्टं च तथा रासक्रीडायां गाननृत्यादिषु प्रावीण्यं तत्तच्छास्त्रकृद्भिरपि दुर्गमम्। उदाहरन् तस्याध्ययनस्य प्रयोगान्दर्शयामासुः ॥२॥३॥सुनिर्माण इति। द्रौपदयाः खसखीं प्रत्युक्तिः । सुनिर्माण इति नासौ परकीयाणामिव लोक- शास्त्राभ्यामनिर्मितः पराभवप्रदः पन्था इति भावः । पतिपराभिः साध्वीभिः, न तु परकीयाभिरिव चोरिभिस्तासां शिष्टजनपरिचितस्य पथोऽनुशीलनाशक्के:। धर्माध्वनीति प्रियसेवायां धर्मशास्त्रमपि प्रवर्तकमित्यैहिकपारत्रिकदोषमात्रा- भावः । न तु परकीयाणामिव रागमात्रमेव न तु शास्त्रमिति भाव:। वस्तुतस्तु पादत्रयमिदं परकीयाणामेव प्रेमाधिक्यं द्योतयति। तच्च सुखाधिक्यमिति तासामेवो-

तासु तत्तद्वैदग्धीनां स्वाभाविकलादवसरं प्राप्य खत एवोदयमाचष्टे। दृरष्ट च तथा रासकीडायां गाननृत्यादिषु सर्वतः प्रावीण्यम्। उदाहरन् तस्याध्ययनस्य प्रयोगान् दर्शयामासु: ॥२ ॥ पातिनत्यात् शास्त्रोकत्ततद्धर्मात्। पत्युरादेशतत्पस इति। पत्यसंमतिश्वेत् कंचिद्धर्माशभपि त्यज्यन्ते इत्यर्थः ॥ ३ ॥ सुनिर्माण ४ उज्व०

Page 73

काव्यमाला।

गृहे याः सेवन्ते प्रियमपरतब्राः प्रतिदिनं महिष्यस्ताः शौरेस्तव मुदमुदग्रां विदधतु ॥ ४ ॥ यथा वा श्रीदशमे- न त्वादशीं प्रणयिनीं गृहिणीं गृहेषु पश्यामि मानिनि यया सवविवाहकाले। प्राप्तान्नृपानविगणय्य रहोवहो मे प्रस्थापितो द्विज उपश्रुतसत्कथस्य ।। ५।। तास्तु श्रीयदुवीरस्य सहस्राण्यस्य पोडश । अष्टोत्तरशताग्राणि द्वारवत्यां सुविश्रुताः ॥६।। आसां सख्यश्र दास्यश्र प्रत्येकं स्युः सहस्त्रशः। तुल्यरूपगुणा: सख्यः किंचिन्न्यूनास्तु दासिकाः।।७।। तत्रापि रुक्मिणी सत्या जाम्बवत्यर्कनन्दिनी। शैब्या भद्रा च कौशल्या माद्रीत्यष्टौ गणाग्रिमाः।।८।। अन्रापि रुक्मिणीसंत्ये वरीयस्यौ प्रकीर्तिते। ऐश्वर्याद्वुक्मिणी तत्र सत्या सौभाग्यतो वरा ॥ ९॥ तथा हि श्रीहरिवंशे- कुटुम्बस्येश्वरी सासीदुक्मिणी भीष्मकात्मजा। सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत् ।१० ।।

त्कर्ष: फलित इति। अपरतन्त्रा इति। तद्गुरूणां प्रियसेवाविरोधिलाभावात्तत्पार- तन्व्यमप्यपारत्चयमित्यभिप्रायेणोक्तम्। उदग्रां श्रेष्ठाम्॥।४॥ तासु मुख्यामुदाहर्तु- माह-यथा वेति। रहोवहः रहःसंदेशप्रापकः। मे इति सप्तम्यर्थे षष्ठी ॥५॥ इति। सर्वगुणयुक्तं दोषरहितं च निर्माणं यत्र तस्मिन् । अपरतन्न्रा इति। गुरुवर्गस्य गिरि श्रद्धावत्य इत्युक्ततान् तदधीनवनिषेधः । किं तु परकीयंमन्या- खिव श्रीकष्णसंगमविरोधिजनाधीनलनिषेधः । तद्विरोधिजनस्यात्राभावात्। प्रतिदिनमिति न तु तद्वदत्र दुर्लभतत्सङ्गतेति भावः ॥४॥ रहोवहः रहः-'

Page 74

उज्ज्वलनीलमणिः । ५१

पाझे च कार्तिकमाहात्म्ये तां प्रति श्रीकृष्णवाक्यम्- न मे त्वत्तः प्रियतमा काचिद्देवि नितम्बिनी। षोडशस्त्रीसहस्त्राणां प्रिये प्राणसमा ह्यसि ॥ ११ ॥ अनयोः सकलोत्कृष्टाः सख्यो दास्यश्र लक्षशः। सवीयाजातीयभावेन निखिला एव भाविताः ।।१२ ।। याश्र गोकुलकन्यासु पतिभावरता हरौ। तासां तद्दृत्तिनिष्ठत्वान्न सवीयात्वमसांप्रतम् ।१३।। यथा- आर्या चेदतिवत्सला मयि मुहुर्गोष्ठेश्वरी किं ततः प्राणेभ्यः प्रणयास्पदं प्रियसखीवृन्दं किमेतेन मे।

६ श८स९। १० ॥११ ॥ सीयाजातीयभावेन खवीयाजातीयलैन। 'जात्यन्ताच्छो बन्धुनि' इति सार्थिकश्छः । कृष्णेनाव्यूढा अपि ताः स्कीया एवेत्यर्थः । एवमेकत्र निर्णीतः शास्त्रार्थो बाधकाभावेऽन्यत्रापि प्रयुज्यत इति न्यायेनानुक्तव्यवस्था अपि व्रजस्थानां परकीयाणां दास्य: परकीया एव। तत्रापि परोढानां श्रीराधादीनां दास्य: काश्चन श्रीवृषभान्वादिभिर्विवाहकाले दत्ता: कन्यका एव काश्चन तदन्या रूपमञ्ञर्यादयः परोढा एव ज्ञेयाः । 'बिम्बाधरे क्षतमनागत- भर्तृकायाः' इति श्रीदासगोखाम्युक्तः। अवोचीनानां साधकभक्तानां तु भावो यथा- रुचि यथासंप्रदायं वा फलिष्यतीति बोद्धव्यम्। अस्मिन्पतिभावे या वृत्तिस्तत्रैव निष्ठा यासां तासां भावस्तत्त्वं तस्मात्। असांप्रतं अयोग्यं न भवतीति । यद्यपि करग्रहविधिं प्राप्ता इत्यत्र विधिपदोपादानाद्वैवाहिको विधिर्विप्रामिसाक्षिक एव संदेशप्रकाशकः। मे इत्यत्र सप्तम्यर्थे षष्ठी ॥५॥६॥७॥८1९/१० ॥ ११ ॥ सीयाजातीयभावेनेति। खीयानां या जातिः प्रकारस्तस्य हितानु- कूलो यो भावस्तेनेत्येव व्याख्येयम् । 'प्राक्कीताच्छः' इत्यधिकारे 'तस्मै हितम्' इत्यनेन छस्य विधानात्। न तु जातीयप्रत्ययान्तलेन व्याख्येयम्। 'पुंवत्कर्मधा रयजातीयदेशीयेषु' इति पुंवत्त्वप्राप्तेः । अन्तरङ्वेण रागेणैवार्पितात्मानो नतु

Page 75

५२ काव्यमाला-।

वैकुण्ठाटविमण्डलीविजयि चेद्दन्दावनं तेन किं दीव्यत्यत्र न चेदुमाव्रतफलं पिच्छावतंसी पतिः ॥ १४ ॥ गान्धर्वरीत्या स्वीकारात्खीयात्वमिह वस्तुतः। अव्यक्तत्वाद्विवाहस्य सुष्ट प्रच्छन्नकामता ।। १५ ।। अथ परकीया- रागेणैवार्पितात्मानो लोकयुग्मानपेक्षिणा। धर्मेणासवीकृता यास्तु परकीया भवन्ति ताः ॥१६॥ यथा-

श्रद्धारज्यदरुन्धतीमुखसतीवृन्देन वन्धे हिताः ।

मुख्यो भवति, तदपि तासां गौणं खीयात्वमिति भावः ॥। १२॥१३॥१४॥ प्रच्छन्नकामतेत्युपलक्षणं मिथोदुर्लभत्वबहुवारणलादीनाम्। सुष्टिति। पितृमा- त्रादिबन्धुभि: कन्यालेनैव प्रतीतानां तासां खपुरुषस्यापि परपुरुषायितलाङ्भयल- ज्जाधिक्यात्परकीयाधर्म एव स्पष्टः । न च तासां भावस्य समजसतमाशङ्क- नीयम्। तल्लक्षणे पत्नीभावाभिमानात्मेत्युक्तलात्। पत्नीभावस्य विप्राननिसाक्षिक- विवाहभवलात्। 'पत्युर्नो यज्ञसंयोगे' इति पाणिनिस्मरणात् ॥ १५॥ रागेणे- त्यन्न श्रीमज्जीवगोखामिचरणानां व्याख्या। अन्तरङ्वेण रागेणैवार्पितात्मानो न तु बहिरङ्वेण विवाहप्रक्रियात्मकेन धर्मेण। तदेवं मिथुनीभावे तासां रीतिमुक्ला श्रीकृष्णस्याप्याह। धर्मेण विवाहात्मकेनैवास्वीकृत्य नाज्वीकृत्य रागेण तु खीकृता इत्येषा॥। १६॥ रागोल्लासेति। तदृत्यादिषु प्रथमप्रवर्त्यमाना नान्दीमुखीगा- गींप्रभृती: प्रति पौर्णमास्या वचनम्। रागौत्कट्येन विलद्विता आर्यपदव्या विश्रान्ति-

वहिरश्ेण विवाहप्रक्रियात्मकेन धर्मेण। तदेवं मिथुनीभावे तासां रीतिमुक्ता श्रीकृ- ष्णस्याप्याह-धर्मेण विवाहात्मकेनैवासीकता नाज्ीकृता:, रागेण ताखतु सवीकृता इत्यर्थ:॥१२॥१३॥१४॥१५॥१६॥श्रद्धारज्यदिति। वन्देति च तासां

Page 76

उज्जलनीलमणिः ।

आरण्या अपि माधुरीपरिमलव्याक्षिप्तलक्ष्मीश्रिय स्तास्रैलोक्यविलक्षणा ददतु वः कृष्णस्य सर्य: सुखम् ॥१७॥ कन्यकाश् परोढाश्च परकीया द्विधा मताः।

रन्तसीमापि याभिस्ताः। का नाम सा धर्मपदवी या ताभिर्न लद्वितेलर्थः। एवंरूपा अपि श्रद्धया रज्यदनुरक्तीभवत् यत् अरुन्धतीमुखसतीवृन्दं तेन वन्ं परभादरेण . श्लाध्यं ईहितं कुज्जाभिसारादिचेष्टितं यासां ताः। न तु परमपतिव्रतानापि तासा- मयमादरस्तद्भावस्पृहाजनितस्तद्विनाभूंत एव। नाद्यः तासु श्रीकृष्णस्य मातृभाव- वत्त्वात्। नापि द्वितीयो निजभावप्रातिकूल्यदध्या दोषदर्शनसंभवात्। 'मिथोभा- वस्य वैजात्ये न भावो रोचते मिथः । अरोचकतयैवायमक्षान्ति जनयेत्पराम् ।' इत्यन्नैवोक्तेः। सत्यम्। अन्नायं विवेक :- अरुन्धत्यादीनां वसिष्ठादेकमान्रनिष्टचे- तसां परमसुन्दरात् कस्मादपि पुरुषात्कदापि क्षोभो न संभवति। किंतु श्रीना- रायणादपि न संभवतीति न शक्यते वक्तुं तस्ेश्वरत्ात् सौन्दर्यमाधुर्यादिगुणोदं- धितातु अतकययोगमायत्ाच्च, अरुन्धत्यादीनामीशितव्यकोटिगतलात्, रसास्वाद- चातुर्यवत्त्वात्, मायावैभवान्तःपातिताच्च। वजसुन्दरीणां तु व्रजेन्द्रनन्दनैक- मात्रनिष्ठं चेतस्तस्माद्पि स्वीकृतनारायणस्वरूपाद्विकृतं नाभूतु, वासन्तिकरासोत्सवे तथा प्रसिद्धुः। किमुत नारायणात् किमुततरां पुरुषान्तरादित्यादि सर्वमाभ्यन्तर पातिव्रत्यं तासां सवतोऽपि कोटिगुणितं सर्वज्ञतया ज्ञात्वैव ताभिस्ता: स्तूयन्त इति। माधुरीपरिमलेति। परिमलपदेन माधुरीणां वह्ितमारोपितम्। ततश्च ताः सत्यमाख्या (?) एव किं तु तासां गुणरूपमाहात्म्यानां माधुरीणां माधुरीचह्वयस्त्था अवर्धन्त यथा वैकुण्ठपर्यन्तमारुह्य खसौरभ्यैर्लेक्ष्म्या अपि गर्वसंपदस्तिरस्कृत्य इति ततश्र एकमात्रनिष्ठचेतः स्रूपेण पातिव्त्येनारुन्धत्यादयो जिता रूपगुणादि- भिर्लक्ष्म्यादयश्चेति प्राकृताप्राकृतनायिकासु तासामसाधारण्यं ध्वनितम् ॥१७॥ कन्यकाश्चेति। दुगाव्रतपराखेव मध्ये पूर्वोत्तयुत्त्या पतिभाववतीभ्योऽन्या ताखादर एव व्यज्यते न तु तासु श्रीकृष्णविषयको यो भावस्तदापत्तिः । तत्तसप- रस्यादर एव विश्रान्तेः । तद्भावे कान्तात्वाभिमानलक्षणे भक्तिसामान्यांशस्यवानु- भवात् न तु मधुराख्यरत्यंशस्य। तासु हि श्रीकृष्णस्य मातृभाव एवेति ॥। १७'॥ कन्यकाश्चेति। सोऽयमवतारलीलादृष्ट्यैव व्यवहारो न तु वस्तुतः पूर्व स्थापि-

Page 77

५४ काव्यमाला।

त्रजेशव्रजवासिन्य एताः प्रायेण विश्रुताः ॥। प्रच्छन्कामता ह्यत्र गोकुलेन्द्रस्य सौख्यदा ॥ १८।। तथा हि रुद्र :- वामता दुर्लभत्वं च स्त्रीणां या च निवारणा। तदेव पश्चवाणस्य मन्ये परममायुधम्॥ १९॥ विष्णुगुप्तसंहितायां च- यत्र निषेधविशेष: सुदुर्लभत्वं च यन्मृगाक्षीणाम्। तत्रैव नागराणां निर्भरमासज्यते हृदयम् ॥ २०॥ आः किं वान्यद्यतस्तस्यामिदमेव महामुनिः । जगौ पारमहंस्यां च संहितायां स्यं शुकः ॥२१॥ यथाह श्रीदशमे- कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रराम भगवाँस्ताभिरात्मारामोऽपि लीलया ॥। २२ ॥

ज्ञेयाः। प्रायेणेति। काश्चित्तदानीं देशान्तरात्समागत्यापि समातृकाः स्थिता इति ज्ञेयाः ॥ १८ ॥ तदेवेति। 'नपुंसकमनपुंसकेन' इत्यादिना एकशेषनिषेधः शास्त्रीयो लौकिकश्च ॥ १९॥२०॥ आ इति। स्कीयापक्षपुष्टिवादिनः प्रति कोपः। 'आास्तु स्यात्कोपपीडयोः' इति विश्वप्रकाशः । जगौ निःशङ्कतयोच्चैरुच्च- चार। स्वयं शुक इति। न हि शुकवाक्यादधिकं प्रमाणमस्तीति भाव: ॥ २१ ॥ तावन्तमात्मानमिति। तासामेकामपि त्यक्तुमसमर्थ इत्यासत्त्या- तत्ात्। या: काश्चित् कन्यका अपि रागेण पतितोपपतित्वविचारशून्यतया रहस्तं भजन्ते ता अपि परकीयाः, प्रच्छन्नकामता तु सुखविशेषाय संपत्स्यते इति पूर्वदर्शिताभिप्रायेणाह-प्रच्छन्नति ।। १८ । पूर्वाभिप्रायेणैव भरतन वाक्यवत् विष्णुगुप्तवाक्यं च दर्शयति-तथा हि रुद्र इत्यादिना ॥ १९ ॥ २० ॥ तथापि परकीयाव्यवहारो बहुष्वनिष्टत्ान्न वर्णनीय इति नाशक्षामि- त्याह-आः किंवेति। आः इति बहिर्मुखान्प्रत्यधिक्षेपः। 'आस्तु स्यात्कोप- पीडयोः' इति विश्वकोशः । किंवान्यद्वक्तव्यमित्यर्थः। यतोऽन्यस्य का वार्ता।

Page 78

उज्ज्वलनीलमणिः । ५५

वर्तितव्यं शमिच्छद्भिर्भक्तवन्न तु कृष्णवत्। इत्येवं भक्तिशास्त्राणां तात्पर्यस्य विनिर्णयः ॥ २३ ॥

धिक्यं गोपानाम्ं। योषित इति तासां स्पष्टमेव परकीयात्वम्। 'ब्रजयोषितः' इति पाठेऽपि श्रीकृष्णेनापरिणीतत्वात् 'धर्मव्यतिकमो दृष्टः' इत्यादि शुकसिद्धान्तैरप- रिणेष्यमाणताच्च परकीयालम्। ररामेति । संप्रयोगाभिधायकपदेन शास्त्रीयो निषेध उक्तः । परस्त्रीषु संयोगस्यैव धर्मशास्त्रेष्वधर्मजनकलेन निषिद्धल्ात्परकी- यालेन दुर्लभलं व्यक्तमेव। यावतीरिति। तावन्तमित्येताभ्यां निर्भरासक्तिश्र। आत्मारामोऽपीति। इत्थंभूतप्रेभाणो गोपयोषित इति भावः । 'आत्मा- रामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे' इतिवत् ॥ २२॥ ननु 'यद्यदाचरति श्रेष्टस्त- त्तदेवेतरो जनः' इति नीतिर्लोकानां दुर्गतिरेवातः प्रसक्ता इत्यत आह-वर्ति- तव्यमिति। शं शुभं भक्तवत्। भक्तकर्तृकाचरणेन तुल्यमाचरणीयमित्यर्थः । ननु भक्तानां सिद्धानां साधकानां वाचारोऽनुसरणीयः। नादः। सिद्धानां प्रायः कृष्ण तुल्याचारत्वात्। तथा हि-'यत्पादपङ्कजपराग-' इत्यत्र खवैरं चरन्तीति। नापि द्वितीयः । साधकेषु मध्ये दुराचारा अपि गणिताः-'अपि चेत्सुदुराचारो भजते भामनन्यभाक्' इत्यादिभिः। मैवम्। वर्तितव्यमिति तव्यप्रत्ययेन भकतिशास्त्रोक्ता ये विधयस्तद्वन्त एवात्र भक्ता भक्तशब्देनोक्ताः न तु कृष्णवत् । २३ ।

इदं वक्ष्यमाणमेव श्रीमहामुनिः शुको जगौ। अप्यर्थ एवशब्दः। चकारश्वाप्यर्थे। तदाह-यथेति। आत्मारामोऽपि भगवानपि ताभिः सह ररामेति 'आत्मारा- माश्च मुनयः' इलादौ 'इत्थंभूतगुणो हरिः' इति वदित्थंभूतगुणास्ता इति भावः । तन्राप्यावेशविशेषमाह-यावत्यो व्रजयोषितस्तावन्तमात्मानमेकस्यैव श्रीविग्र- हस्य तावन्तं प्रकाशं लीलया तच्छत्तयाङ्गलेत्यर्थः ॥२१॥२२॥ तदेवं पर- कीयालेन प्रतीतासपि श्रीकृष्णलीलायां रसवत्त्वे स्थापिते कश्विदाशङ्कते। ननु शङ्गाररसभावनायां यथावसरं नायकस्य नायिकायाश्च खाभेदेन स्फूतौ जायमा- नायामेवान्येषां रसोद्वोध: स्यादिति रसविदां स्थितिः। भवतां तन्न रसे सुतरामेव श्रीकृष्णामेदभावना दोषाय कल्पते। तस्मादलमेतद्रसनिरूपणार्थ तासां महिम- वर्णनेनेति तन्राह-वर्तितव्यमिति। आसतां तावदस्य रसस्य वार्ता, रसा-

Page 79

काव्यमाला।

रामादिवद्वर्तितव्यं न कचिद्रावणादिवत्। इत्येष मुक्तिधर्मादिपराणां नय इष्यते ॥ २४ ॥ तथा च तत्रैव- नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः । विनश्यत्याचरन्मौढ्यादथा रुद्रोऽब्धिजं विषम् ॥ २५ ॥ अनुग्रहाय भक्तानां मानुषं देहमाश्रितः । भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत् ॥ २६ ॥

रामादिवदिति। तेषां सदाचारलात्। न च तदपि भक्तानां संमतमित्याह- मुक्तीति। 'यो यद्धर्मः स एव सः' इति न्यायेन तेषां रामसायुज्यं युक्तमेवेति ॥ २४ ॥ इत्यस्योदाहरणमाह-नैतदिति ॥२५॥ तदपि वैराचरणं भग- वतो भक्तिहितार्थमेवेत्याह-अनुग्रहायेति। भक्तानामनुग्रहाय तादृशीः कीडा भजते या: अ्रुला मानुषं देहमाश्रित्य। मानुष इत्यर्थः । तत्परस्तदेकनिष्ठो भवे- दिति मणिमन्त्रमहौषधानामिव शक्तिरिवेयं लीलायां यत्तदेकनिष्ठतामुत्पादयतीति नात्राविश्वासः कार्य इति भावः । यदुक्तम् 'विकीडितं व्रजवधूभिः' इत्यन्र भकि परां भगवति प्रतिलभ्येत्यादि। यद्वा। भवेदिति। विधिलिडा 'अहरहः संध्या- मुपासीत' इतिवद्यच्छवणानन्तरं तत्परश्चेन्न भवेत्तदा प्रत्यवायी भवेदिति । 'को नाम लोके पुरुषार्थसारवित्पुराकथानां भगवत्कथासुधाम्। आपीय कर्णाजलि- भिर्भवापहामहो विरज्येत विना नरेतरम् ॥' इति तृतीयोक्तौ प्रत्यवायश्रवणात्। कृष्णकथामान्रस्यापि श्रवणतत्परत्योर्नित्यले सिद्धेऽपि रासकथायास्तदात्यन्तिक- न्तरेपि श्रीकृष्णभावो नानुवर्तितव्य इत्यर्थः ॥२३ ॥ नचान्येषामपि श्रीकृष्ण- संबन्धिनि रसेऽस्मिंस्तथा संमतिः पापावहत्वावगमात्। किंतु रामादिवदित्यादिक यत्तेषु प्रसिद्धं तच्च सदाचारादंश एव आ्ह्यतीत्याह-रामादिवदिति । तत्र मुक्तिपरैः शान्तादंशो धर्मपरैः सवधर्माद्यंशोरऽर्थकामपरैनीत्यंशो ग्राह्य इति नयः परिपाटी कथ्यते ॥। २४ ॥ तद्वत्खैराचरणमपि दोषाय कल्पते किमुत तस्य कृष्णस्य, तत्प्रेयसीविषयकतादृशतद्भावस्य च खामेदेन भावनेति दर्शयति-तथा च तन्रैवेति। २५॥ तल्लीलायां श्रुतायां भक्तानां तु तत्परतैव जायते न तु तद्मेदभावनेत्यन्न प्रमाणमाह-अनुग्रहायेति। खभाव एवायमेव तदीयानां

Page 80

उज्ज्वलनीलमणिः । ५७

श्रीमुखेन तु माहात्म्यमासां प्राह स्वयं हरिः ॥ २७॥ यथा तत्रैव- न पारयेऽहं निरवद्यसंयुजां खसाधुकृत्यं विबुधायुषापि वः। या माभजन्दुर्जरगेहशृङ्खलाः संवृक्षय तद्वः प्रतियातु साधुना ॥२८।। उद्धवोऽपि जगौ सुष्ठु सर्वभागवतोत्तमः ॥ २९॥

मिति व्याख्येयम्। पञ्चाध्याय्याः श्रवणतत्परत्वयोर्नित्यतमिति ॥२६॥ नन्वेषां भक्तानां भावो भाव्य एव पावनत्वात, गोपीनां भावस्तौपपत्यसाधारणदष्टेरहृद्य- लात्सदोष इवेति। तद्भावभावनायां केचन मन्दधियः संशेरत इत्यत आह- श्रीमुखेनेति । निरवद्या पूर्वोक्तरीत्या निर्दोषा संयुक्संयोगो यासां तासां वः स्वेनैव। साधु यत्कृत्यं न तु साधुलापादकेन केनचिद्वस्तुसंपर्केण साध्वित्यर्थः ॥ २७॥ विबुधायुषापीति । युष्माकं क्षणिकमपि साधुकृत्यमिति भावः । न पारये प्रतिकर्तु शोधयितुमित्याक्षेपलब्धम्। या मा मामभजन् । संवृक्ष्य पतिश्व- श्रूश्रशुरपितृमातृभ्रात्रादिस्रेहबन्धुगन्धमपि दूरे परिहायेत्यर्थ: । श्लेषेणापक्कयोगिन इव संवृक्ष्यापि ताः पुनर्मा नैवाभजन्नित्यर्थः । अहं तु पित्रोरभ्रातरि खेषु बन्धु- ष्वपि स्न्रिह्यामि च। युष्मान्भजामि चेत् 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजामि' इति स्वयं प्रतिज्ञातोऽपि च्युत इति मम प्रक्रियाया असंभवः । व्यज्य- मानोऽयमर्थ: श्लेषेणापि लभ्यते। गेहशङ्खलाः संवृ्षय या युष्मान् अहं मा अभ- जम्। परसवर्णेन नकारदुकारयोः संयोगः । तत्तस्मात् वः साधुना साधुलेनैव तत्प्रतियातु प्रतिकृतं भवतित्यर्थः ॥ २८ ॥ ननु सदाचारं विना निःसंकोचा प्रवृत्ति: प्रेक्षावतां न स्यादित्यत आह-उद्धवोऽपीति। जगौ। 'रंस्यन्निदं

लीलानामिति भावः । तदुक्तम्-'विक्रीडितं व्रजवधूभिरिदं च विष्णोः' इत्यादौ 'भक्ति परां भगवति प्रतिलभ्य कामम्' इत्यादि ॥ २६ ॥ नन्वन्येषां भक्तानां भावो भाव्य एव पावनलात्। आसां तु भाव: सदोष इव लभ्यते औपपत्य- साधारणदृष्टैरहृद्यलात्तत्राह-श्रीमुखेनेति॥ २७ ॥ ततस्तस्माद्वः साधुना साधुकृत्येनैव तत्साधुकृत्यं प्रतियातु। प्रत्युपकृतं भवत्वित्यर्थः । तस्मिज्नौपपत्य- साधारणदृष्टिर्बहिर्मुखानामेव जायते तान्प्रति तु नेदं शास्त्रं प्रकाश्यत इति भाव:

Page 81

५८ काव्यमाला।

यथा- आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम्। या दुस्त्यजं सवजनमार्यपरथं च हित्वा भेजुमुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ।। ३० मायाकलिततादक्स्त्रीशीलनेनानस्युभिः। न जातु त्रजदेवीनां पतिभिः सह संगमः ॥ ३१॥

जगौ' इति मूले तथोक्ेः । तच्च गानं मत्कृर्तृकानुवृत्तिं सर्वे शण्वन्तित्यभिप्रायः ॥ २९ ॥ चरणरेणुजुषामिति। इमा यासामुपरि चरणौ विन्यस्यन्तीति। गुल्मादयोऽप्यतिक्षुद्रजातय एव ज्ञेयाः । समयश्च कृष्णाभिसारसंबन्धी ज्ञेयः। तदैव वर्त्मावर्त्मविवेकापगमात्तदुपरि पादन्याससिद्धेः । ननु लमपि श्रीकृष्ण- लीलापरिकरमुख्योऽसि किमन्यतो वैलक्षण्यमासां पश्यसीति तत्राह-या दुस्त्यजमिति। परमनिरुपाधित्वं प्रेम्ण उक्त्म्। अन्यत्र रुक्मिण्यादिषु प्रेम्णि लोकधर्मावप्युपाधी इति तासां पादरजः प्रार्थितवान् उद्धव इति ॥ ३० ॥ नतु तासां परिणेतृणां गोपानां किं समाधानं तत्राह-मायेति। अभिसारादिसमये मायाकल्पितासु तदाकारासु स्त्रीघु शीलनेन एत्य 'अस्मद्गहेषु वर्तन्ते' इत्यभिभा- नेन हेतुना असूयामकुर्वद्भिः। मायया योगमाययैव, न तु बहिरङ्गया मायया। भगवतो धाम्नि सिद्धपरिवारेषु च तस्या अधिकाराभावात, तन्मोहितानां भगवद्वै- सुख्यस्यावश्यंभावात्तेषां गोपानां तु भगवद्वैमुख्यमात्रादर्शनात्। ततश्च योग- मायायाश्चिच्छक्तिव्ृत्तितात्। तत्कार्याणामपि नित्यसत्यलोचितलात्। सर्वमायिक-

॥ २८ ॥ तन्महाभक्तैस्तु तच्छ्वाघ्यत एवेत्याह-उद्धवोऽपीति॥२९॥३०॥ ननु भवतु भगवतो वस्तुतस्तत्पतितमिति न दोषः । तथाप्यन्यं पति मन्यसे चेत्स पुनरसंभवो जुगप्साहेतुश्रेति कथमत्र रसावहत्वं स्यात्तत्राह-मायेतति । शीलनं पाणिग्रहणादिरूपं तेन तत्तयाव्यभिचारिणा व्रजदेवीनाम्। 'सहबलः सत्नग- वतंसविलास: सानुषु क्षितिभृतो व्रजदेव्यः' इत्युक्दृशा ब्रजे तत्तयातिप्रसिद्धानां तासां तामेव प्रसिद्धिमवलम्ब्य यौगिकार्थपुरस्कारेण पुरसंबन्धिनीनां रुक्मि-

Page 82

उज्ज्वलनीलमणिः । ५९

तथाहि श्रीदशमे- नासूयन्खलु कृष्णाय मोहितास्तस्य मायया। मन्यमाना: स्पार्श्रवस्थान्खान्खान्दारान्त्रजौकसः ॥ ३२॥

प्रपश्चनाशेऽपि तेषां पार्श्वस्थदाराणां तेषु स्वस्भार्याभिमानस्य नित्यसत्यलमेव। ननु 'मन्यमाना: खपार्श्वस्थान्' इति शुकोक्तिः। तच्च दाराणां स्वखपार्श्वस्थलमननं मायाकृततादकस्त्रीनिर्माणं विनापि योगमायया सुशक्यमेव। सत्यम्। रासाभि- सारे 'ता वार्यमाणाः पतिभिः' इत्यादौ पतिभिर्वारणम् अस्माभिः खखभार्या निवार्य सवखगृहमानीता दृश्यन्त एवेति तत्प्रकारकमेव। तच्च तादृक्स्रीनिर्माणं विना न संभवेदित्यत उत्तम्-मायाकलितताहक्स्त्रीति। ग्रन्थकारचरणै- रिति। एवमेव ललितमाधवोक्तेर्गोपीनां गोपैर्विवाहस्य मायिकलेऽपि नित्यसत्यत- मेव ज्ञेयम्ं। मन्यमाना इत्यभिप्रायमात्रं न तु मायाकल्पितानामपि तासां पतिभिः संभोग इति तासां तदाकारतुल्याकाराणामन्यसंभुक्ततवस्यानौचित्यात्। अत एव स्वपार्श्वस्थानिति। न तु तल्पस्थानित्युक्तम्। तच्च समाधानं योग- माययैव तत्पतीनां पुंस्तेऽपि कामविकारानुद्भावनात्। अत एव तन्मानादिभिः प्रार्थितानामपि तेषां तेषां गोपानां गोपालानां शालिक्षेत्रादावेव शिशयिषा प्रायो न तु सगृहेष्वपि स्वीयतद्भावस्य प्राकट्याभावायेति ज्ञेयम् ॥ ३१ ॥ ३२ ॥ ण्यादीनामिव देवीनां तस्य पट्टराज्ञीनां पतिभिर्मायया पतितया विख्यापितैस्तैगों- पैर्जातु कदाचिदपि न संगम: न पाणिग्रहणादिसंबन्ध इत्यर्थः । प्रायश्चित्तार्हः परशय्यायामपि तासां संबन्धो नास्ति किमुत तदनर्हेण परेण पाणिग्रहृणमिति भाव: ॥ ३१॥ एतदेव प्रमाणयति-तथाहीति । नासूयन्नित्यस्यायमर्थः । तस्य श्रीकृष्णस्य मायया ये खे से दारा विवाहसमयत एव मायारचिताः खखदाराः तान् खपार्श्वस्थान् मन्यमाना: जानन्तः श्रीकृष्णाय नासूयन्। तेन वासां तत्प्रेयसीनां यदा यदा तदेकवततालोपप्रसङ्ग: स्यात्तदा तदा निजरचितां- स्तद्दारांस्तान् प्रति मायां प्रकटयामास तास्तु गोपयामासेति निजप्रेयसीसवीकरण- लक्षणे तङ्गुणे ते दोषारोपं नाकुर्वन्नित्यर्थः। उभयासां भेदाज्ञानेऽपि तद्रचितल- मेव हेतुरित्याह-मोहिता इति। तस्य माययेति मायायाः सदा परमसामर्थ्य तत्परतं च दर्शितम्। ततश्च तत्प्रियाणां तासां सदैव साहाय्यं सा कुर्यादेवेति

Page 83

६० कोव्यमोला।

तत्र कन्यका :- अनूढा: कन्यकाः प्रोक्ताः सलज्जाः पितृपालिताः। सखीकेलिषु विस्ब्धाः ग्रायो मुग्धागुणान्विताः ।३३।। तत्र दुर्गाव्रतपराः कन्या धन्यादयो मताः। हरिणा पूरिताभीष्टास्तेन तास्तसय वल्लभाः॥ ३४॥ यथा- विस्रब्धा सखि धूलिकेलिषु पटासंवीतवक्ष:स्थला बालासीति न बल्लवस्तव पिता जामातरं मृग्यति।

तत्र तासु परकीयासु मध्ये कन्यका लक्ष्यन्ते ॥ तत्र तासु कन्यकासु मध्ये धन्यादयः कन्या दुर्गाव्रतपराः किंतु पूर्वोक्तयुत्त्या कृष्णभार्याभिमानवतीभ्योऽन्या ज्ञेयाः पर- कीयाप्रकरणमध्यपठितत्वात् । किं च 'इति संकल्पमाचेरुर्या गोकुलकुमारिकाः", इत्यत्र 'या' इति पदोपादानात् मूलेऽपि 'हेमन्ते प्रथमे मासि नन्दव्रजकुमा-, रिकाः' इत्युक्तेरगोकुलस्य कुमारिका इत्युक्तेवृषभानुचन्द्रभानुव्रजकुमारिका बह्वयोऽ-, पराः कात्यायनीव्रतमकुर्वाणा अपि स्थितास्ताश्च श्रीराधिकासङ्गिन्यः परकीया ज्ञेयाः ॥ ३३ ॥ ३४ ॥ विस्रब्धेति। ज्येष्ठभातृजायाया लब्धकृष्णादिसज्कायाः साधु व्याख्यातं शीलितं पाणिग्रहणादिरूपमिति। तस्यां तु प्रक्रियायां रसावशेष- संपादने यथा कारणं तथा दर्शितम्, दर्शयिष्यते चेति। 'शुश्रूषन्त्यः पतीन्का-, श्वित्' इति तु 'अन्तर्गृहगताः काश्चित्' इत्याद्युक्तानां श्रीकृष्णं प्रति प्रस्था- नाय लब्धविनिर्गमानां कासांचिदसिद्धदेहानां वृत्तम्। 'दुहन्त्योऽभिययु.' इत्यादि, श्रीशुकवचने खलु ययुरिति प्रस्थितवत्य इत्येवार्थः । प्रस्थान एव हि तत्तत्किरिया- परित्यागः न तु प्राप्तौ । प्राप्तिस्तग्रे वक्ष्यते 'आजग्मुरन्योन्यमलक्षितोद्यमाः' इति॥ ३२ ॥ सखीकेलिषु सखीभिः किंचिद्वयोधिकाभिर्नर्मपूर्वकं यद्यत्प्रव- र्लते तत्र तत्रैव विस्रब्धाः ॥ ३३ ॥ तत्र तासु कन्यकासु मध्ये दुर्गाव्रतपरा यासु गोकुलकन्यास्वित्यादिना दर्शिता धन्यादयः । पूरिताभीष्टाः 'यात यूयं ब्रज" सिद्धा मयेमा रंस्यथ क्षपाः' इति दत्तवराः । तेन तस्य वल्लभास्तस्य खवीयातवमेव खस्मिन्मन्यमाना इत्यर्थः । स्वीयायामेव वल्लभादिशब्दस्य रूढलात्॥ ३४ ॥ विस्नव्धेति। ज्येष्ठभ्रातृजायावचनम्। विस्रब्धा। सखीकेलिष्विति शेषः ।

Page 84

उज्ज्वलनीलमणिः । ६१

त्वं तु भ्रान्तविलोचनान्तमचिरादाकर्ण्य वृन्दावने कूजन्तीं शिखिपिच्छमौलिमुरलीं सोत्कम्पमाघूर्णसि॥३५॥ अथ परोढा :- गोपैर्व्यूढा अपि हरे: सदा संभोगलालसाः। परोढ़ा वल्लभास्तस्य व्रजनार्योऽप्रसूतिकाः ॥ ३६ ॥ यथा- कात्यायनी कुसुमकामनया किमर्थ कान्तारकुक्षिकुहरं कुतुकाद्गतासि।

सपरिहासवाक्यम्। धूलिकेलिषु पटासंवीतवक्षःस्थलेत्यन्वयः । तथा बाला विस्न- ब्धासीति व्यवहितान्वयोऽनुप्रासानुरोधात् सोढव्यः । बल्लवो विशेषपरामर्षशून्यः । ३५॥ अप्रसूतिका इति। तासां पुष्पोद्गमाभावान्नित्यविलासार्थ योगमाय- यैव संपादितत्वात्॥ ३६ ॥ कात्यायनीति। श्रीचन्द्रावलीं प्रति पद्मावाक्यम्। यद्यपि धूलिकेलिष्वित्यादिकं मृग्यतीतिपर्यन्तमस्याः पूर्वावस्थामवलम्ब्य निर्दिष्टं तथापि 'वर्तमानसामीप्ये वर्तमानवद्वा' इति न्यायेन संगमनीयम्॥ ३५॥ परोढा इति। पूर्ववद्धमानुवादा एव। अप्रसूतिका इति। अप्रसूतिले सति तासामालम्बनतं वैरुप्येण दूष्यते। ततश्च रसोऽपि दूष्यते। तत्सौरूप्य- कारि सौरूप्यं ततोऽन्यूनप्रमाणं च 'मध्ये मणीनां हैमानां महामारकतो यथा' इति, 'तडित इव ता मेधचके विरेजुः' इति च दृष्टान्तेन दर्श्यते। 'सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथा रसाश्रयाः' इत्यनेन तथा रसवत्त्व- मेवाङ्गीकृतम् । ततश्च 'मातरः पितरः पुत्रा भ्रातरः पतयश्च वः' इति श्रीकृष्णवाक्यं तु तदीयभ्रातृपुन्नादीनपदिश्य परिहासमयमेव । वास्तवले 'निन्दामि च पिबामि च' इति न्यायेन दोषावहमेव स्यात्। अत एव 'दुहन्त्योऽभिययुः' इत्यादौ 'पाययन्त्य: शिशून्पयः' इत्येव श्रीशुकवाक्यं न तु 'पाययन्त्यः सुतान्स्- नम्' इति। क्वचित्तद्विधेषु पुत्रादिव्यपदेशो दृश्यते यथा साम्बकृतलक्ष्मण- हरणे श्रीबलदेवमुद्दिश्य । 'प्रतिगृह्य तु तत्सर्व भगवान्सात्वतर्षभः । ससुतः सल्ुषः प्रागात्सुहृद्भिरभिनन्दितः' इति॥ ३६ ॥ यथा-कात्यायनीति।

Page 85

६२ काव्यमाला।

सद्यस्तनं स्तनयुगे तव कण्टकाक्कं पत्युः खसा सखि सशङ्कमुदीक्षतेऽसौ॥ ३७॥ एताः सर्वातिशायिन्यः शोभासाद्गुण्यवैभवैः। रमादिभ्योऽप्युरुप्रेममाधुर्यभरभूषिताः ॥ ३८ ॥। तथा श्रीदशमे- नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसाद: स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः ।

सदस्तनं सद्योभवं कण्टकाङ्कं कण्टकक्षतचिह्नम् ॥ ३७॥३८ ॥ 'उ' इति। विस्मये। अङ्गे वैकुण्ठनाथस्य वक्षसि वर्तमानाया अपि नितान्तरतेरपि श्रियों महालक्ष्म्या अपि नायं प्रसाद: खर्योषितां सुतरां नासिति। अन्या युवतिजातयः

परिहासवचनत्वात्सद्यस्तनेत्यादिकं सहचर्या स्वयं वितर्क्य दूरस्थितापि पत्युः खसा सशब्दमुदीक्षत इति मिथ्यैवोक्तम्। तच्च सत्कुलकन्यानां तासां स्तनादु- द्वाटनासंभवादेव॥ २७॥ अथ तासां तदनन्ययोग्यलं तन्नित्यप्रेयसीलं च दर्शयन् पूर्वोक्त मायामात्रव्यज्जितान्यथालमेव द्रढयति-तथा चेति॥ नायं थ्रियोऽङ्ग इति। पूर्वं 'एताः परं तनुभृतः' इत्यनेन मुमुक्षमुक्तमक्तेभ्यस्तासां भावमाहात्म्यं दार्शीतम् । तत्र 'क्वेमाः स्त्रियः' इत्यनेन हेतुविन्यासः कृतः ॥ यस्मादतः खल उपकमोपसंहारयोरस्य श्रीमदुद्धवस्य स्तोतुस्तासु महाभक्तेरेव दर्शनादत्रैव परमात्मनीति विशेषणदानेन गोपीनां तत्पतीनां चेति तद्यभिचारि- ताखण्डनया 'या दुस्त्यजं खजनमार्यपथं च हिला' इत्यनेन श्रीकृष्णमात्रार्थ- लोकधर्मपरित्यागस्य निर्देक्ष्यमाणलेन तासां सदाचारस्यानुक्रमप्राप्ततादर्शनादर्था- न्तरं तु न संभवति। किं लयमेवार्थः । इमा वनचर्यः श्रीवृन्दावनगताः स्त्रियः श्रीराधाद्याः क। एतादृशगाढतदासत्त्यभावाद्यभिचारदुष्टाः सर्वा अप्यन्याः क्क। अत एवासु रूढभावाख्यो महाभावो वर्तते नत्वन्यासु। श्रीमान्मदीश्वरस्तु अवि- दुषस्तन्महिमादिकमननुभवतोऽपि साक्षाच्छेयः सर्वश्रेष्ठं कुशलं तनोति। तेभ्यो विस्तार्य ददातीत्यर्थः। आसां तु 'गोप्यस्तप: किमचरन्' इत्यादिदिशा परम-

Page 86

उज्ज्वलनीलमणिः । ६३

रासोत्सवेस्य भुजदण्डगृहीतकण्ठ- लब्घाशिषां य उदगाद्गजसुन्दरीणाम् ।।३९।। तासित्रिधा साधनपरा देव्यो नित्यप्रियास्तथा।

कुतः । दूरत एव परास्ता इत्यर्थः । अत्र 'अङ्ग' इति पदेन शोभासाङ्गुण्यप्रेमप्रण- समाधुर्याणि लक्ष्म्याः सर्वतो विलक्षणानि सूचितानि। तानि विना विदग्धशिरो- मणिना श्रीनारायणेन तस्याः स्ववक्षसि धारणायोगात्। नितान्तरतेरित्यनेन सौन्दर्यसौरभ्यसौखर्यसौकुमार्यसौरस्यवैदग्ध्यादीनि तेषामेव नयनादिभिरिन्द्रियैः संभुक्तले रतितसिद्धेः। अत्रापि नितान्तेत्यनेनातिलावण्यमाधुर्योपाधिकानि सौभा- ग्यानि तानि विना रतेर्नितान्तलासंभवात्। नलिनगन्धरुचामित्यनेन पुनरपि सौरभ्यसौन्दर्यसौकुमार्यादीनि पिष्टपेषणतयोक्त्तानि स्पष्टलवार्थम् ॥३९॥ यूथे

महिमस्वभावं तदीयरूपमनुभवन्तीनां 'ता मन्मनस्का मत्प्राणाः' इत्यादिदिशा आत्मात्मीयधारणं तदाशया कुर्वतीनामृण्येव स इति भावः । अथ तत्तदप्याक्षि- प्याह-नायं श्रिय इति। उ विस्मये। अङ्े श्रीवैकुण्ठनाथस्य चक्षुषि वर्त- मानाया अपि नितान्तरतेरपि श्रीलेन प्रसिद्धायास्तत्प्रेयस्या नायं प्रसाद: शोभा साह्ुण्यवैभवप्रेममाधुर्याणामाजवल्यं नास्तीति। तादृश्याः श्रियोऽपि संश्वेत्तर्हि ख्वर्योषितां वैकुण्ठस्थितानां नलिनस्य तत्रत्यस्वर्णकमलस्येव गन्धो रुक् च कान्ति- र्यासां तासां तदुपलक्षितसर्वोश्चर्यगुणानां सुतरां नास्तीति। तदेवं सति कुतोऽन्याः। अन्याः सर्वा अपि नारीजातयो दूरत एव परास्ता इत्यर्थः । न चायं तासु प्रसाद: सदास्त्येव, निमित्तं प्राप्य तु प्रकटीभवतीत्याह-रासेति। अस्य तासां समीपे मादशीव स्फुरतः । श्रीगोविन्दस्य भुजदण्डेन गृहीतः कण्ठो यासां ताश्च लब्धा श्रियश्च तासां तादृशीनां सतीनां य उदगानित्यमेव सन् प्रकटीबभूवेति। तदेवं तासां सर्वतो विलक्षणले प्राप्ते सर्वविलक्षणस्यैव श्रीकृष्णस्य नित्यप्रियातं प्रतिपद्यते। ततश्च सर्वतो विलक्षणलादन्यथा श्रीकृष्णस्य परमभगवत्त्वं तथा आसामपि परमलक्ष्मीलम् । ततो युक्त एवान्यलक्ष्मीजय इति भाव: । ततो यास्तु साधकमुनिचर्यादयो वक्ष्यन्ते ताः पुनरत्र गौणलेन नोद्वड्विता इति

Page 87

६४ काव्यमाला।

तत्र साधनपरा :- स्युर्यौथिक्यस्त्वयौथिक्य इति तत्रादिमा द्विधा॥४०।। तत्र यौथिक्य :- यौथिक्यस्तत्र संभूय गणशः साधने रताः। द्विविधास्ताश्च मुनयस्तथोपनिषदो मताः ॥४१॥

भवा यौथिक्यः। संभूय मिलिला साधने निरताः । किं गणशः गणेन गणैव गणेनेति अवान्तर्गणा अपि बहवस्तत्र यूथे तिष्ठन्तीत्यर्थः ॥ ४० ॥ मुनय इति। पाझोत्तरखण्डे यथा 'पुरा महर्षयः सर्वे दण्डकारण्यवासिनः । दृष्ट्रा राम हरिं तत्र भोक्तुमैच्छन्सुविग्रहम्। ते सर्वे स्त्रीलमापन्नाः समुद्भूताश्च गोकुले। हरिं संप्राप्य कामेन ततो मुक्ता भवार्णवात् ॥' इति। अनयोर्व्याख्या च श्रीजीव- गोस्वामिचरणैः-रामं दृष्ट्ा केनाप्यंशेन सादृश्यादुद्दीप्तश्रीकृष्णविषयकप्राचीन- भावाः सन्तस्ततोऽपि सुन्दरविग्रहं हरिं भोक्तुमैच्छन्मनसा वरयामासुः । ततश्व कल्पव्ृक्षस्येव तस्य साक्षात्किंच्िदनुक्तवतोऽपि प्रसादात्ते सर्वे कासांचिदत्रान्य, गोपीनां गर्भगततया स्रीलमापन्नास्तद्रभेवतीषु तासु कर्थचिच्छ्रीमन्नन्दगोकुल- भागतासु तत्र समुद्भूता जाताः । ततश्र ताः कामेन जारबुद्धिमयेन महानुरागेण। हरिं पूर्वपठितहरिशब्दोक्तं श्रीकृष्णमेव संप्राप्य निजान्तर्गह एव प्रकटं लब्ध्वा भवार्णवान्मुक्ताः प्राकृतगुणमयं देहं परित्यज्याप्राकृतगुणमयदेहेन तत्सज्ञिन्यो

ज्ञेयम्॥ ३८॥३९॥ तत्र मुनय इति । पादोत्तरखण्डे खत्विदमुक्तम्- 'पुरा महर्षयः सर्वे दण्डकारण्यवासिनः। दृष्टा रामं हरिं तत्र भोकुमैच्छन्सु- विग्रहम्। ते सर्वे स्त्रीलमापन्नाः समुद्भूताश्च गोकुले। हरें संप्राप्य कामेन ततो मुक्ता भवार्णवात् ।' इति। अस्यार्थः । रामं दृष्ट्रा केनाप्यंशेन सादृश्यादुद्दीप्त- श्रीकृष्णविषयकप्राचीनभावाः सन्तस्ततोऽपि सुन्दरविग्रहं हरिं श्रीकृष्णमेवोपभो- कुमैच्छन् मनसा वरयामासुः। ततश्च कल्पवृक्षस्येव तस्य साक्षात् किंचिदप्यनु- कवरोऽपि प्रसादान्ते सर्वे कासांचिदन्यत्रत्यगोपीनां गर्भगततया स्त्रीलमापनना- स्तद्गर्भवतीषु तासु कथंचिन्नन्दगोकुलमागतासु तत्र ताः समुद्भूता जाताः । ततश्च ताः कामेन जारबुद्धिमयेनापि महानुरागेण हरिं पूर्वपठितहरिशब्दोक्ततं

Page 88

उज्ज्वलनीलमणिः । ६५

तत्र मुनय :- गोपालोपासका: पूर्वमप्राप्ताभीष्टसिद्धयः । चिरादुद्वुद्धरतयो रामसौन्दर्यवीक्षया॥४२॥ मुनयस्तन्निजाभीष्टसिद्धिसंपादने रताः । लब्धभावा व्रजे गोप्यो जाताः पाद इतीरितम् ॥४३॥ कथाप्यन्या किल वृहद्वामने चेति विश्रुतिः। सिद्धिं कतिचिदेवासां रासारम्भे प्रपेदिरे। इति केचित्प्रभाषन्ते प्रकटार्थानुसारिणः । ४४ ॥ अथोपनिषद :- समन्तात्सूक्ष्मदर्शिन्यो महोपनिषदोऽखिलाः। गोपीनां वीक्ष्य सौभाग्यमसमोर्ध्वं सुविस्मिताः ॥४५।।

बभूवुरित्येषा। अत्र रामदर्शनेनोह्ुद्धा कृष्णविषयिणी रतिरिति सीतासंदर्शनेन गोपीविषयिणी भक्तिरपि लक्षणानुगतिदर्शनेनानुगम्य च स्मृतमिति तेषां रागा- नुगा एव भक्तिरनुगन्तव्या। यां विना गोपीतप्राह््यभावो व्याख्यास्यते ॥४१ ॥ इति विश्रुतिः एवंप्रकारख्यातिका कथा। सिद्धि चिन्मयदेहतया श्रीकृष्णसंभोग- योग्यरूपाम्। प्रकटार्थ अन्तर्गृहगताः काश्चिदित्यस्य प्रथमप्रतीतमर्थमनुसर्तु शीलं येषां ते। इत्यत्र प्रकटोऽपि अन्योर्ऽर्थस्तत्पद्यस्य वैष्णवतोषिण्यादिव्याख्यातो वर्तत इति स तत्र तत्रैव द्रष्टव्यो विस्तरभयादत्र न लिखित इति ॥४२ ॥ श्रीकृष्णमेव संग्राप्य निजान्तर्गृह एव प्रकटं लब्ध्वा भवार्णवान्मुक्ता: प्राकृतं गुण- मयं देहं परित्यज्याप्राकृतगुणमयदेहेन तत्संगिन्यो बभूुरिति। तदुक्तमन्तर्ग- हृगताः काश्चिदिति मध्ये व्यवधानं त्विदं तासामुत्कण्ठावर्धनार्थया प्रारब्घरक्ष- येति गम्यते ॥ ४० ॥ ४१ ॥ तदेतदाह-गोपालेति। कथापीत्यत्र विश्रुति रेतद्रीतिकैव मुन्यन्तर्गता ज्ञेया। तासां मध्ये कतिचिदिति पाझोत्तरखण्डोका इत्यर्थः । केचिदिति श्रेष्ठा इत्यर्थः। न केचिदपवर्गमपीतिवत्प्रकटार्थानुसारिण- इति पुराणद्वयोक्तानां प्रकर्षेण भाषन्त इति च तन्मतमेव सर्वप्रतीतिविषय इति मतम्। तदा आस्तामर्थान्तरान्वेषणमिति भावः ॥४२।४३॥ ४४॥४५॥ ५ उज्व०

Page 89

६६ काव्यमाला।

तपांसि श्रद्धया कृत्वा प्रेमाद्या जज्ञिरे त्रजे। बल्लव्य इति पौराणी तथौपनिषदी प्रथा ॥४६ ॥

॥ ४३॥४४ ॥४५ ॥ पौराणी-बृहद्वामनोक्ता । सा च यथा-'कंदर्प- कोटिलावण्य तयि दृष्टे मनांसि नः । कामिनीभावमासाद्य स्मरक्षुब्धान्यसंशयम्। यथा लल्लोकवासिन्यः कामतलेन गोपिकाः । भजन्ति रमणं मला चिकीर्षाजनि- नस्तथा' इति। तासामुपनिषदां प्रार्थनानन्तरं श्रीकृष्णवाक्यम्-'दुर्लभो दुर्घद- श्चैव युष्माकं सुमनोरथः । मयानुमोदितः सम्यक्सत्यो भवितुमर्हति' इति। तथा पाद्े सृष्टिखण्डे गायत्री गोपीतं प्राप्तेत्याख्यायते। यथा गोपेषु भगवद्दरः। 'युष्माकं तु कुले चाहं देवकार्यार्थसिद्धये। अवतारं करिष्यामि मत्कन्ता तु भविष्यति' इति ॥ औपनिषदी। 'स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वय- मपि ते सभा: समदशोऽङ्गिसुधाः' इति श्रुतिः । तत्र प्रसिद्धानामुपनिषद्विशेषाणां मतेन गम्या। किंचात्र यथा तल्लोकवासिन्य इत्यनेन चिकीर्षाजनिनस्तथेत्यनेन समा इत्यनेन च तासां रागानुगा भक्तिर्यातिता । तदनन्तरम्-'जारधर्मेण सुस्नेहं सुदृढं सर्वतोऽधिकम्। मयि संप्राप्य सर्वेऽपि कृतकृत्या भविष्यथ' इति भगवद्दत्तेन तासु वरेण तल्लोकवासिनीनां नित्यसिद्धानामपि जारभाव एवावसीयते यथेति तासां प्रार्थनात्प्रार्थितप्रतिकूलार्थदानानौचित्यात्। ततश्च नित्यसिद्धानां जारभावमय्येव रागात्मिका भक्ति: श्रुतिचरीणां तदनुगामिनी एव। यदुक्तम्- 'रागात्मिकामनुसता या सा रागानुगोच्यते' इति। उरगेन्द्रेत्यनन्तरं वयमपीत्य- पिकारेण खेभ्योऽपि तासामादृतत्वव्यज्जनया स्वेषां तदानुज्ञं च दर्शितं यदेव विना रागानुगालासिद्या चिरं तप्ततपसोऽपि लक्ष्म्या गोपीतप्राह्यभावः। 'श्रीः प्रेक्ष्य कृष्णसौन्दर्य तत्र लुब्धाचरत्तपः ।' इत्यादिना भागवतामृते स्पष्टमुक्तम्। 'यद्वा- ञ्छया श्रीर्ललनाचरत्तपः' इति 'नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः' इत्याभ्यां तदर्थतपश्चरणतत्प्राह्यभावौ श्रीभागवतेऽरपि व्यक्तौ। दण्डकारण्यवासि- मुनीनां च गोपीलप्राप्या फलेन फलकारणमनुमीयते इति गोपालोपासकानां पौराणीति । बृहद्वामनरीतिभयीत्यर्थः । तथा वृन्दावनगतं श्रीकृष्णं प्रति तासां प्रार्थना-'कन्दर्पकोटिलावण्ये तयि दृष्टे मनांसि नः । कामिनीभावमासाद स्मरक्षुब्धान्यसंश्रयम्। यथा तल्लोकवासिन्यः कामतलेन गोपिकाः । भजन्ति रमणं मला चिकीर्षाजनिनस्तथा' इति। तन्न श्रीकृष्णवाक्यम्-'दुर्लभो दुर्घट

Page 90

उज्ज्वलनीलमणिः । ६७

सथायौथिक्य :- तद्द्ावबद्धरागा ये जनास्ते साधने रताः। तद्योग्यमनुरागौघं प्राप्योत्कण्ठासुसारतः ।।४७।। ता एकशोऽथ वा द्वित्रा: काले काले व्रजेऽभवन्। प्राचीनाथ नवाश्र स्युरयौथिक्यस्ततो द्विधा।।४८।। नित्यप्रियाभिः सालोक्यं प्राचीनाश्चिरमागताः। व्रजे जाता नवास्त्वेता मर्त्यामर्त्यादियोनित: ॥ ४९ ॥

रागानुगैव तादृशसाधुसंगवशादनुमेया ॥४६॥४७ ॥ ४८ ॥ अनुरागेऽयं रागानुगीयभजनौत्कव्यं न लनुरागस्थायिनं साधकदेहेऽनुरागोत्पत्त्यसंभवात् प्राचीना: पूर्वपूर्वकल्पगतकृष्णावतारप्राप्तसिद्धयः । न वा एतत्कल्पगतकृष्णावतार एव सिद्धाः। चिरमागता इति। एतत्कल्पगतावतारात् पूर्वपूर्वकल्प एव सिद्धा अधुनातनकल्पेऽप्यनुवर्तन्ते भाविषु कल्पष्वेनुवर्तिष्यन्ते च मर्त्या- मर्त्यादियोनितः । मनुष्यदेवगन्धर्वोदिजन्मान्तरमित्यर्थः । यद्वा मर्त्या मानुष्यः अमर्त्या हरिण्याद्याः 'हिरण्याज्गी हरिद्वर्णा हरिणीगर्भसंभवा' इति। बृहद्गणोद्देश- दीपिकोकतेः । एवमेव द्वैविध्यं यौथिकीनामपि केचिदाचक्षते। भाविनि रामवतारे रामसौन्दर्यदर्शिलेन प्रसिद्धानां दण्डकारण्यवासिनां गोपालोपासकानां सुनीनाम- वश्यंभाविलात्। न चैतत्कल्पवृत्तरामावतारगता एव ते मुनयो भाविन्यपि रामा- वतारे भवितुमर्हन्तीति वाच्यम्। एतत्कल्पवृत्तश्रीकृष्णावतार एव तेषां प्राप्त- गोपिकारूपलेन सिद्धत्वात्सिद्धानां पुनः साधकलायोगात्। न च मैवं भविष्यन्ति मुनय इति वाच्यम्। भाविनि कृष्णावतारे रासारम्भे अन्तर्गृहगतानां कृष्णविरहेण श्रैव युष्माकं सुमनोरथः । मयानुमोदितः सम्यक्सत्यो भवितुमहृति' इति। तथा पाद्मे सृष्टिखण्डे। गायन्री च गोपीलं प्राप्य श्रीकृष्णं प्राप्तवतीत्याख्यायते। यथा-गोपकन्या रूपतया जातायास्तस्या ब्रह्मणा परिणये तत्पित्रादिगोपेषु श्रीभगवद्वर :- 'मया ज्ञाला ततः कन्या दत्ता चैषा विरिश्चये। युष्माकं तु कुले चाहं देवकार्यार्थसिद्धये । अवतारं करिष्यामि मत्कान्ता तु भविष्यति' इति। औपनिषदी 'स्निरिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समा: समदशोऽ-

Page 91

६८ काव्यमाला।

देहत्यागवतीनां गोपीनामवश्यंभाविलात्। तास्तर्हि का भविष्यन्ति एतत्कल्पवृत्त- मुनिचर्य एवेति 'चेन्न। तासां सिद्धदेहलेन पुनर्देहत्यागायोगात्। योगमाया एव देहत्यागं प्रत्याययत्तीति चेन्न। सिद्धा अपि देहं तत्यजुरिति प्रसिद्धेरपि जुगुप्सित- लेन तथा तत्करणायोगात् तस्मात्साधकभक्तानामनन्तलात्। प्रतिकल्प एव ते मुनयोऽन्येऽन्य एव भवन्ति। त एव कृष्णावतारे नवीना मुनिचर्यो गोप्य: तासा- मेव काश्विदन्तर्गहगता देहं त्यजन्तीति। एवमुपनिषदामप्यानन्त्यात् प्रतिकल्प- मन्यासामेव कृतसाधनानां सिद्धत्वे प्राचीना नवीना इति भेदद्वयमिति। यौथि- कीनां भेदद्वयममन्यमाना अन्ये तु भाविनि कृष्णावतारे अयौथिक्य एव काश्चन सिद्धदेशीया लीलाशत्तयैवान्तर्गृहगता देहत्यागवत्यः करिष्यन्त इत्याहुः । ननु ये इदानींतना रागानुरागीयसाधनवन्तो निष्ठारुच्यासत्त्यादिकक्षारूढतया कस्मिंशि- जन्मनि जातप्रेमाणः स्युस्ते तर्हि भगवत्साक्षात्सेवायोग्यास्तद्देहान्तक्षण एव प्रपञ्चागोचरप्रकाशे तत्परिकरपदवीं प्राप्स्यन्ति किंवा प्रपञ्चगोचरकृष्णावतार- समये। अन्रोच्यते। साधकदेहे प्रेमपरिणामरूपाणां स्नरहमानप्रणयादीनां स्थायि- भावानाभाविर्भावसंभवात् गोपिकादेहेष्वेव नित्यसिद्धादिगोपीनां महाभाववतीनां सङ्गमहिम्रा दर्शनश्रवणस्मरणगुणकीर्तनादिमिस्ते अवश्यमेवोपपद्यन्ते । तेषामेवा-' साधारणलक्षणलात् तान्विना गोपीतस्यासिद्धेः। यद्ुक्तम्-'गोपीनां परमानन्द आसीद्रोविन्ददर्शने। क्षणं युगशतमिव यासां येन विनाभवत्' इति । अस्यार्थः । ननु गोप्यस्तावत्कास्तत्राह। यासां येन कृष्णेन विना क्षणं युगशतमिवाभवत् ता गोप्यस्तासामेव परमानन्द इति। 'त्रुटिर्युगायते' इत्यादि चात्र क्षणस्य युग- शतायमानलं महाभावलक्षणमिति। अत एव प्रपश्चागोचरस्य वृन्दावनीयस्य प्रकाशस्य साधकानां प्रापच्चिकलोकानां च तन्र प्रवेशादर्शनेन सिद्धानामेव प्रवेश- दर्शनेन च ज्ञापितात्केवलसिद्धभूमित्ात्स्नेहादयो भावाः स्वसाधनैरपि न तूर्ण फलन्त्यतो योगमायया जातप्रेमाणो भक्तास्ते प्रपञ्चगोचरे वृन्दावनस्य प्रकाश एव श्रीकृष्णावत्तारसमये तत्प्रथमप्रापणार्थ लीयन्ते। तस्य साधकानां नानाविध- कर्मिप्रभृतिप्रापच्चिकलोकानां च सिद्धानां च तत्र प्रवेशदर्शनेनामितात्साधकसिद्ध- भूमितात्तत्रोत्पत्त्यनन्तरमेव श्रीकृष्णाङ्गसङ्गात्पूर्वमेव तत्तद्भावसिद्धार्थमिति। नन्वेता- वन्तं दीर्घतमं दुष्पारं कालं तैः परमोत्कण्ठर्भक्तः क्व स्थातव्यम्। उच्यते। नात्र

ख्विसरोजसुधाः' इति श्रुतिस्तप्रसिद्धस्योपनिषद्विशेषस्य मतेन गम्या ॥। ४७॥

Page 92

उज्ज्वलनीलमणिः ।

अथ देव्य :- देवेष्वंशेन जातस्य कृष्णस्य दिवि तुष्टये। नित्य्रियाणामंशास्तु या जाता देवयोनयः ॥५0॥।

कालविलम्बलेशोऽपि ब्रह्माण्डानामानन्त्यात्, प्रकटलीलाया अपि विच्छेदा- भावात् ते तत्क्षण एव तत्रैव वृन्दावने एव गोपिकारूपेणोत्पद्यन्ते। किंतु वेष्वेव ब्रह्माण्डेषु तदानीं वृन्दावनीयलीलायां प्राकट्यं तेष्वेव ते गोपिकारूपेणो- त्पद्यन्त इति। अत्र क्रमः । रागानुरागीयसम्यक्साधननिरतायोत्पन्नप्रेम्णे भक्ताय चिरसमयविधृतसाक्षात्सेवोत्कण्ठाय कृपया भगवता सपरिकरखवदर्शनं तदभिल- षणीयसेवाप्राप्यनुभावकमलब्धस्नेहादि प्रेमभेदायापि साधकदेहेऽपि खवप्रेऽपि साक्षादपि सकृद्दीयत एव। ततश्र श्रीनारदायेव चिदानन्दमयी गोपिकाकार- पतद्भाविता तमुश्च दीयते। ततश्र वृन्दावनीयप्रकटप्रकाशे कृष्णपरिकरप्रादुर्भाव- समये सैव तनुर्योगमायया गोपिकागर्भादुद्भाव्यते उक्तन्यायेन स्नेहादिप्रेमभेदसिद्धा- र्थम्। किं च-नरलीलस्य कृष्णस्य गोपिकाभिरपि नरजातिभिरेव क्रीडा प्रसिद्धा। तच मुख्यं नरत्वमयोनिजले सति न सिध्ेदित्यत एव लक्षम्या गोपि- काले अन्वीकृतेऽपि गोपीगर्भोत्पन्नस्य गोपीजनानुज्ञस्य चानङ्गीकृतत्वात्तया सह श्रीकृष्णस्य करीडेति तत्त्वं ज्ञेयम् ॥४९॥ देवेषु मन्वन्तरावतारलेन जातस्य नन्वंशिनीनामासां प्राणसख्योऽभवन्निति नोपपद्यते। ये हि यदंशा भवन्ति ते तत्र प्रविशन्त्येव द्रोणधरादंशिषु नन्दादिषु तेषां तथैव दर्शनात्। सत्यम्। नित्यप्रियाणामंशेषु देवादिलोकस्नहेषु त्रिविधा रीतिददश्यते। तत्र केचिभारदादिमु- खादाकर्णितकृष्णतत्तल्वीलाभक्ता भवन्ति। भक्ताश्र त्रिविधाः स्ववासनानुसारेण त-

तत्राद्याः केचिद्देवाः श्रीदामसुबलादीनां प्रियसखाः, काश्िद्देव्यश्च श्रीराधादीनां प्राणसख्यः। तथा नन्दयशोदादीनामपि सखायः सख्यश्चानुभवन्। द्वितीयास्तेषु तासु च प्राविशन्। द्रोणधरावसादयो यथा नन्दयशोदोद्धवादिषु तथा ऋषयो- पि केचित् गोवत्सेषु वृन्दावनीयपक्षिषु च। तृतीयास्तु तत्र प्रादुर्भावाभाचेना- लब्धमनोरथा एव बभूवुर्यथा लक्ष्म्यादय इति। तल्लीलापरिकरानुगतितामेव ४८ ॥ ४९ ॥ देवेष्वंशेनेति। 'तत्प्रियार्थ संभवन्तु सुरब्तयः' इति

Page 93

काव्यमाला।-

अत्र देवावतरणे जनित्वा गोपकन्यकाः। ता अंशिनीनामेवासां त्रियसख्योऽभवन्त्रजे ॥५१॥ अथ नित्यग्रिया :- राधाचन्द्रावलीमुख्याः प्रोक्ता नित्यप्रिया ब्रजे। कृष्णवन्नित्यसौन्दर्यवैदग्ध्यादिगुणाश्रयाः ॥५२॥ तथा च ब्रह्मसंहितायाम्- आनन्दचिन्मयरसप्रतिभाविताभि- स्ताभिर्य एव निजरूपतया कलाभि:।

तत्प्राप्तिनियमनात् । यदुक्त्म्-'नायं सुखापो भगवान्देहिनां गोपिकासृतः। ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥।' इति। अस्यार्थः । देहिनां त्रिवर्य- पराणां ज्ञानिनां चतुर्थवर्गपराणां आत्मभूतानां विरिश्चिभवलक्ष्मीणाम् 'नेमं विरिश्वो न भवो न श्रीरप्यङ्गसंश्रया। प्रसादं लेभिरे गोपी यत्तत्प्राप विमुकिदात्' इत्येतस्मिन्नेतत्पूर्वश्लोके तत्रिकस्यैव प्रसादाप्राप्तौ प्रस्तुतत्वात् तत्र विरिश्चिभवयोः खावतारलेन लक्ष्म्याः सरूपशक्तिलेनात्मभूतलम्। एवं त्रिविधंजनानां गोपिका- सुतो न सुखापः किंतु विकुण्ठादिकौशल्यादिसुत एव । गोपिकासुतस्तु दुःखाप एव दुःखमेवाभिव्यञ्जयति। यथा इह व्रजे इह गोपिकासुते या भक्तिः 'त्रिय उरगेन्द्रभोगभुजदण्ड' इत्यादिना 'यथा तल्लोकवासिन्यः' इत्यादिना च व्यञ्िता श्रुत्यादिभिरनुगतिमयी भक्तिस्तद्वतां यथा सुखापस्तथा नेति। तेन गोषिकाद्यनु गतिमयखन्यूनता दुःखाङ्गीकारेणैव लभ्यः । तद्दुःखाङ्गीकारस्तु विरिश्चिभवलक्ष्या- दिभिरीश्वराभिमानिभि: खखलोकस्थैर्दुःशक एवेत्यत उक्तम्-नायं श्रियोऽक्ञेति न श्रीरप्यङ्गसंश्रयेत्यादि ॥। ५१ ॥ ५२ ॥। आनन्देति। ब्रह्मणः सतुतिः।

व्याख्याय प्रमितमेव ॥। ५०॥ ५१ ॥ तदेवमुपनिषदादीनां तदेकपतिले संभाव्ये नित्यप्रियाणां मायां विना स कथमुपपतिः स्यात्। नहि या अनादित एव यस्य प्रिया सा तस्य परकीया भवतीत्यभिप्रेत्याह-अथ नित्यप्रिया इति ५१॥ तत्र प्रमाणं दर्शयति-आनन्दचिन्मयेति। कलाभिः स्वांशरू

Page 94

उज्ज्वलनीलमणिः । ७१

गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥ ५३॥ तत्र शास्त्रप्रसिद्धास्तु राधा चन्द्रावली तथा। विशाखा ललिता श्यामा पद्मा शैब्या च भद्रिका ।।५४।। तारा विचित्रा गोपाली धनिष्ठा पालिकादयः ।

श्रीकृष्णस्य यत्सच्चिदानन्दसवरूपत्वं तत्र ये आनन्दचिन्मया आनन्दानुभवमया रसास्तैः प्रतिभाविताभिस्ततः पृथक्लेनाविर्भाविताभिः 'ह्रादिनी संधिनी संवित्त्व- व्येका सर्वसंश्रया' इति वैष्णवात्। यद्वा। आनन्दचिन्मयेरप्राकृतैः प्रेमरूपै- रित्यर्थः। रसैः शद्गारैः प्रतिभाविताभिः आदौ ताभिर्भावितः पश्चात्ता अपि खेन भाविता भावयुक्तीकृता इति परस्परभावनिष्ठतवं प्रतिशब्दबलाद्याख्यातम् । निजस्य रूपतया ताभि: स्रूपभूताभि: शक्तिभिरित्यर्थः । 'परास्य शक्तिर्बहुधैव श्रूयते सवाभाविकी ज्ञानबलक्रिया च' इति श्रुतेः । 'विष्णुशक्तिः परा प्रोक्ता' इति ह्रादिनीत्यादि विष्णुपुराणाच्च। कलाभिरिति करणपदं शङ्गारोपयोगिनीभिश्चतु :- षष्टिकलाभिर्निवसति। निरन्तरं विहर्तुमित्यर्थः । अखि्रिलात्मभूतोऽखण्डपरमात्मा- कार: सन् गोलोके महावैकुण्ठोपरितने कृष्णलोके तथा प्रपश्चान्तर्वर्तिभूर्लोकस्थे गोकुलेऽखिलानां सर्वेषामात्मभूतो जीवनीभूतः । मानुषाकार इत्यर्थ: । गोलोक- शब्दस्योभयत्रैव प्रवृत्तिदर्शनात्। यदुक्ततं ब्रह्मसंहितायाम्-'गोलोकनान्नि निज- धाम्रि तले च तस्य देवीमहेशहरिधाम' इत्यादिषु। तथा हरिवंशे-'गवामेव तु गोलोको दुरारोहा हि सा गतिः। स तु लोकस्त्या कृष्ण सीदमान: कृतात्मना। धरोद्ृतिमता धीर निम्नतोपद्रवान् गवाम्' इति। रक्षित इति शेषः। गोलोक- शब्दस्योभयवाचितवेऽपि 'दुरारोहा हि सा गतिः' इत्यनेन गोकुलस्योत्कर्षः सूचितः । गोलोक एवेति। एवकारो वैकुण्ठान्तरव्यावर्तकः ॥५३ ॥ तत्र शास्त्रप्रसिद्धा इति । शास्त्रं भविष्योत्तरं स्कान्दगतप्रह्लादसंहितादि च । ·तन्र पूर्वं यथा-'गोपाली पालिका धन्या विशाखा ध्याननिष्ठिका। राधानुराधा पाभि: शक्तिभिः निजरूपतया स्वीयलेन नतवतारलीलायामिव परकीयाला- भासेनेत्यर्थः ॥ ५३॥ तत्र शास्त्रप्रसिद्धा इति। शास्त्रं भविष्योत्तरम्, स्कान्दगतप्रहादसंहितादि च। तत्र पूर्व यथा-'गोपाली पालिका धन्या विशाखा

Page 95

७२ .काव्यमाला।

चन्द्रावल्येव सोमाभा गान्धर्वा राधिकैव सा ।।५५॥ अनुराधा तु ललिता नैतास्तेनोदिता: पृथक्। लोकप्रसिद्धनास्यस्तु खञ्जनाक्षी मनोरमा ॥ ५६ ॥ मङ्गलाविमलालीलाकृष्णाशारीविशारदाः।

इत्यादीनां तु शतशो यूथानि व्रजसुध्रुवाम्। लक्षसंख्यास्तु कथिता यूथे यूथे वराङ्गनाः ॥५८॥ सर्वा यूथाधिपा एता राधाद्या: कुङ्कमान्तिमाः। विशाखां ललितां पदां शैब्यां च प्रोज्झय कीर्तिताः।।५९।। किंतु सौभाग्यधौरेया अष्टौ राधादयो मताः।

सोमाभा तारका दशमी तथा' इति। 'विशाखावनिष्ठिका' इति क्वचित्पाठः । दृश्चमी तथेति दशम्यपि तारकानाम्नीत्यर्थ. । (दशमी)त्येकं नाम वा। अथोत्तरं ललितोवाचेत्यादिना ललिता पद्मा भद्रा शैब्या श्यामलेति पश्चकमधिकं प्रतिपाद- यदृश्यते गोपालतापनी तु गान्धर्वेति ॥५४॥५५ ॥५६ ॥५७॥ चन्द्रा- वत्येवेतयत्र प्रमाणं युक्तिश्च श्रीवैष्णवतोषण्यां द्रष्टव्या। शतश इति लक्ष- संख्या इति। उपलक्षणं सहस्रकोट्यादीनाम्। सौभाग्यधौरेयाः सौभाग्यभार- वत्यः ॥५८ ॥ औचित्यं योग्यतां खेषामिष्टोऽभिलाषविषयीभूतो यो राधादीनां

ध्याननिष्टिका। राधानुराधा सोमाभा तारका दशमी तथा ॥' इति। दशम्यपि तारकानान्नीत्यर्थः। दशमीत्येवैकं नाम वा। अथोत्तरम्। ललिता वा चेत्यादिना ललिता पद्मा भद्रा शैब्या श्यामलेति पश्चकमधिकं प्रतिपादयद्दृश्यते ॥ ५४॥ तत्र तासां कासांचिन्नामभेदेऽप्यभेदमाह-चन्द्रावल्येवेति। गान्वर्वा तु तापिन्युक्ता दशमी तेन हेतुना। तत्र प्रमाणं युक्तिश् श्रीवैष्णवतोषिण्यां दषव्या॥। ५५॥५६॥५७॥ शतशो यूथानीति। 'वनिताशतयूथपः' इति

Page 96

उज्ज्वलनीलमणिः । ७३

यूथाधिपात्वेऽप्यौचित्यं दधाना ललितादयः॥६०॥ स्वेष्टराधादिभावस्य लोभात्सख्यरुचि दधु: । इति हरिप्रियाप्रकरणम्॥

तत्रापि सर्वथा श्रेष्ठे राधाचन्द्रावलीत्युभे। यूथयोस्तु ययोः सन्ति कोटिसंख्या मृगीदृशः।।१।। अभूदाकुलितो रासः प्रमदाशतकोटिभिः। पुलिने यामुने तस्मिन्नित्येषागमिकी प्रथा ॥ २॥ तयोरप्युभयोर्मध्ये राधिका सर्वथाधिका। महाभावस्वरूपेयं गुणैरतिवरीयसी ॥ ३ ॥

भाव: प्रीतिस्तस्य लोभात् यूथाधिपाले श्रीराधाद्यभिसारकाले तत्र सवस्थित्यभावे- न तत्सुखदानासिद्धेः ॥५९॥६०॥ इति श्रीहरिप्रेयस्यः ॥ अथ राधाप्करणम्। आगमिकी प्रमदाशतकोटिभिराकुलिते इति क्रमदीपिकादौ तथा प्रसिद्धि: ॥ १॥२॥ महाभावेति। प्रेमभक्तिर्हि पूर्वग्रन्थे 'शुद्धसत्वविशेषात्मा' इत्यन्न परमानन्दरूपतया दर्शिता। तस्याश्च रसत्वापत्तिः स्थापिता। अस्मिश्व ग्रन्थे 'आनन्दचिन्मय' इति ब्रह्मसंहितावचनेन गोप्य एव आनन्दचिन्मयलेन

प्रामाण्येन ॥। ५८ ॥५९ ॥ यूथाधिपात्वेऽप्यौचित्यमित्यत्र युक्तिश वैष्ण- वतोषिण्यामेव दर्शितासित ॥ ६० ॥ इति श्रीहरिप्रियाप्रकरणम्। अन्नापीत्यपि तत्रैव स्थापितमस्ति । कि तन्रैवागामिन्या स्थायिभावप्रक- रणरीत्या स्वयूथस्य श्रीराधेतरयूथस्य चापेक्षया चन्द्रावले: श्रेष्ठतं मन्त- व्यम् ॥ १ ॥ २ ॥ अत्र तासु श्रीवृन्दावनेश्वरी महाभावस्वरूपेयमिति । तथा हि ब्रह्मसंहितायाम्-'आनन्दचिन्मयरसप्रतिभाविताभिः' इत्यनेन तासां

Page 97

७४ काव्यमाला।

गोपालोत्तरतापिन्यां यद्गान्धर्वेति विश्रुता। राधेत्यृक्परिशिष्टे च माधवेन सहोदिता।। अतस्तदीयमाहात्म्यं पाझे देवर्षिणोदितम् ॥४॥

स्थापिताः । प्रेमभक्तेश्र स्नेहप्रणयाद्युत्तरः परमसारभागो महाभावः । स च खजनार्यपथत्यागं विना न भवतीति महाभावलक्षणे श्रीमजीवगोखामिचरणानां व्याख्यानात् रुक्मिण्यादीनां ह्रादिनीशक्तितेऽपि न महाभावरूपत्वं व्रजदेवीन श्रीराधाया एवांशभूतानां महाभावांशरूपलेऽपि महाभावसारभूतमादनभागा- भावान्न महाभावसवरूपलम्। यथा नदनदीतडागादीनां जलाशयलेऽपि न जल- धितम्; किंतु समुद्रस्यैव यथा जलधिलम्। तथा हि श्रीराधाया एव महाभाव- म्। तेषां व्याख्यानं यथा-दु.खस्य परमकाष्ठा कुलवधूनां स्यमपि परम- सुमर्यादानां खजनार्यपथाभ्यां भ्रंश एव नाम्र्यादिने च मरणम्। ततश्च सत्तत्कारितया प्रतीतोऽपि श्रीकृष्णसंबन्धः सुखाय कल्पते चेत्तर्ह्वेव रागस्य परमे- यत्ता। ततश्च तामाश्रित्यैव प्रवृत्तोऽनुरागो भावाय कल्पते। स चारम्भत एव व्रजदेवीष्वेव दृश्यते। पट्महिषीषु तु संभावयितुभपि न शक्यते। तदेवमेव ता एवोददिश्य उद्धवः सचमत्कारमाह-या दुस्त्यजं स्वजनमार्यपथं च हित्वेति॥ ३॥ तत्र श्रीराधायां श्रुतिस्मृतिप्रामाण्यमाह-गोपालेति। तासां सर्वासामपि भक्तिरसप्रतिभावितातं गम्यते। भक्तिर्हि पूर्वग्रन्थे शुद्धसत्विशेषात्मे- त्यत्र परमानन्दतया दार्शता। तस्याश्र रसतापत्तिः स्थापिता। ततश्च तेनानन्द- चिन्मयात्मकेन रसेन भक्तिविशेषमयेन प्रतिभाविताभिः प्रतिक्षणं नित्यमेव भावि- ताभि: संपादितसत्ताभिः कलाभिः । शक्तिभिरित्यर्थः । अत एव 'यस्यास्ति भक्ति- र्भगवत्यकिंचना सर्वैरगुणस्तन्न समासते सुराः' इत्यनेन सर्वोत्तमसर्वगुणलक्षणाभि- रिति च लभ्यते। तदेवं तासां भक्तिविशेषे रसमयभक्तिरूपले सति तासु सवोसु वरीयस्यां श्रीराधायां लभ्यत एव महाभावसवरूपता गुणैरतिवरीयस्ता च एव- मेवोक्तं बृहद्गौतमीये तन्मन्त्नस्य ऋष्यादिकथने-'देवी कृष्णमयी प्रोक्ता राधिका परदेवता। सर्वलक्ष्मीमयी सर्वकान्तिसंमोहिनी परा' इति च॥ ३ ॥ तस्या- स्तादृशलं पद्मपुराणमपि श्रुतिसंमत्या द्रढयति। अन्र श्रेष्ठलिङ्गेन गान्धर्वाख्यल- मपि संगमयति। गोपालेति सार्घेन। यद्यस्माद्गोपालोत्तरतापिन्यां गान्धर्वेति।

Page 98

उज्ज्वलनीलमणि: । ७५

तथा हि- यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा। सर्वगोषीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ ५॥। ह्रादिंनी या महाशक्ति: सर्वशक्तिवरीयसी।

मध्ये श्रेष्ठा गान्धर्वा ह्युवाच। तां हि मुख्यां विधाय पूर्वभनुकत्वा [त्य] तूष्णी- मासुरिति। ऋक्परिशिष्ट च-'राधया माधवो देवो माधवेनैव राधिका। विभ्रा- जन्ते जनेष्वा' इति। सैव नान्या कापीत्यर्थः । तदपि राजायं गच्छतीतिन्यायेन तदयूथमात्रस्याप्यत्यन्तवल्लभालप्रसक्तौ तद्वारणार्थमाह-एका अद्वितीयेति। तेन महाभाववृत्तिविशेषमादनपर्यन्तो भावसमुदाय एवात्यन्तवल्भो यथा राधे- त्यत्न विष्णोरिति विष्णुपदेन कृष्णस्योक्तिव्यापकत्वरूपमर्थ व्यनक्ति। 'विषु व्यापौ' इति धातोः । तन्र व्याप्तेः कर्मभूता हि प्रियापदसांनिध्यादस्मिञ्शद्गारे रसे राघैव। ततश्र विष्णोव्योपकस्य राधाया आत्मबुद्धिदेहेन्द्रियादिकमाश्िलिष्य स्थितस्य सतः कृष्णस्य यथा राधा प्रिया तत्तदाश्लेषणोत्थायाः प्रीतेः कर्त्री। प्राप- यित्रीति यावत्। तथा तस्याः कुण्डमपि विष्णोर्जलस्थलसोपाननिकुओोद्यान- कुसुमफलविहङ्गमकूजितादिषु स्नानावगाहनासनशयनविहारदर्शनावघ्राणास्वादन- श्रवणादिभिर्व्याप्य स्थितस्य प्रियम् । ननु तस्यान्या अपि गोप्यः प्रियाः श्रूयन्ते। सत्यम् । किंतु सर्वगोपीषु विष्णोः प्रकटितानन्तप्रकाशलेन ता अपि सर्वा आश्लिष्य स्थितस्यापि तस्यान्तवल्भां लक्षयतीत्यायातम्। यतो 'राधि- कायूथ एवायं मोदनो न तु सर्वतः' इति। तद्यूथस्य सर्वयूथेभ्य उत्कर्षमुक्ला 'सर्वभावोद्मोल्लासी मादनोऽयं परात्परः । राजते ह्रादिनीसारो राधायामेव यः सदा' इत्यनेन तत्रापि श्रीराधायामेव सर्वोकर्षपरावधितवं स्थापितम्। कुण्ड स्यापि विश्रुता ताभ्यः सर्वाभ्योऽपि विशिष्टतया श्रुता। सर्वासपि तासु सैव ऋक्परिशिष्टे माधवेन सहोदिता। 'राधया माधवो देवो माधवेनैव राधिका। विभ्राजन्ते जनेष्वा' इत्यनेन सर्वविलक्षणतयोक्ता। अतस्तदीयमाहात्म्यं पादे देवार्षणोदितम्। सर्वोत्तमतया कथितमित्यर्थः । तस्या: सर्वत आधिक्ये च सति तामधिकृत्य तत्रेतिहासान्तरं तु तद्विभूतिरूपया तत्रैक्यावाह्यपेक्षया तत्रैव यथा कस्यचिद्ृषेः श्रीनारायणर्षितप्राप्तिरुक्ता तद्त् ॥ ४॥ हादिनीति ।

Page 99

७६ काव्यमाला।

तत्सारभावरूपेयमिति तत्रे प्रतिष्ठिता ॥ ६ ॥ सुछ्ठु कान्तसवरूपेयं सर्वदा वार्षभानवी। धृतषोडशशङ्गारा द्वादशाभरणाश्रिता॥७॥ तत्र सुष्टुकान्तसवरूपा यथा -:- कचास्तव सुकुश्चिता मुखमधीरदीर्घेक्षणं कठोरकुचभागुरः ऋशिमशालि मध्यस्थलम्। नते शिरसि दोर्लते करजरलरम्यौ करौ विधूनयति राधिके त्रिजगदेष रूपोत्सवः ॥। ८।।

तादशलमुक्तम्। 'प्रेमास्मिन्बत राधिकेव लभते यस्यां सकृत्स्नानतः' इत्यादि- भिरिति ।। ४ ।। तन्त्रे वृहद्गौतमीयादौ प्रतिष्ठिता ख्याता ॥५॥६॥ इत्येवं सिद्धान्तं समाप्य 'अस्मिन्नालम्बनाः प्रोक्ताः कृष्णस्तस्य च वल्लभा' इत्यालम्बन- विभावेषु प्रथमं नायकस्य श्रीकृष्णस्य 'पदद्युतिविनिर्धूता' इत्येकेन श्लोकेन.स्वरूप- मुक्ला 'अयं सुरम्यो मधुरः' इत्यादयो गुणा यथा उक्तास्तथव तद्वल्लमानामपि सर्वासामपि नायिकानां तथा वक्तुमौचिलेऽपि तासाभानन्त्यात्तत्सर्वमुख्यायाः श्रीराधायाः सुष्रु कान्तस्वरूपे त्यादिश्लोकत्रय्या स्वरूपं निरूप्य 'मधुरेयं नववया' इत्यादयो गुणा वक्ष्यन्ते। सर्वदा वार्षभानवीति। श्रीकृष्णे नन्दनन्दनस्यैव तस्यामपि वार्षभानवीतवस्य सार्वदिकत्वात् नित्यसिद्धत्वं सिद्धम ॥ ७॥ कचा इति। श्रीकृष्णवाक्यम्। दोर्लते शिरसि ऊर्ध्वभागे नते स्कन्धौ नम्रावित्यर्थः । येयं खलु विष्णुपुराणे-'ह्रादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ। ह्रादता- पकरी मिश्रा लयि नो गुणवर्जिते' इति। सर्वज्ञसूक्ते च-'ह्रादिन्या संविदा क्लिष्टः सच्चिदानन्द ईश्वरः । अविद्यासंवृतो जीवः संक्लेशनिकराकरः ॥' इति प्रसिद्धा सैव सर्वशक्तिवरीयसी। तस्याः सारो या मादनाख्या महाभावपराकाष्ठा तद्रूपा तत्तादात्म्यमाप्ता सेयं राधेति कथिता। तन्त्रे बृहद्गौतमीयादौ प्रतिष्ठिता व्याख्याता तत्सारभाररूपेयमित्येव ह्वन्र पाठः ॥ ५ ॥ शङ्गाराभरणयोभैदो रूढिवशादुदाहरणे दर्शयिष्यते॥ ६॥७॥ कचा इति। श्रीकृष्णवाक्यम्। शिरसीति। अर्थात् दोर्लतयोरेव शिरसि ऊर्ध्वभागे। स्कन्धे इत्यर्थः । भुज-

Page 100

उज्वलनीलमणिः । ७७

अथ धृतषोडशशङ्गारा- स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणि: सोत्तंसा चर्चिताङ्गी कुसुमितचिकुरा स्रग्विणी पद्महस्ता। ताम्बूलास्योरुबिन्दुस्तबकितचिबुका कज्जलाक्षी सुचित्रा राधालक्तोज््वलाङ्गि: स्फुरति तिलकिनी षोडशाकल्पिनीयम्॥।९॥ भथ द्वादशाभरणाश्रिता- दिव्यश्रूडामणीन्द्रः पुंरटविरचिताः कुण्डलद्वन्दकाञ्ची- निष्काश्चकीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च। हारास्तारानुकारा भुजकटकतुलाकोटयो रत्नक्कृप्ता- स्तुद्गा पादाङ्गुलीयच्छविरिति रविभिर्भूषणैर्भाति राधा॥ १० ॥

करजा नखा एव रत्नानि तैरेव रम्यौ एष स्वाभाविक एच तदनन्ते भूषणपरि- धापनेनेति भावः ॥८॥ स्रातेति। पद्यदयं सायं व्रजायागच्छन्तं श्रीकृष्णं प्रति उद्यानगतां राधां दर्शयतः। सुबलस्य वाक्यम्। जाग्रददेदीप्यमानो मणिमुक्ादिः । सूत्रं नीवीबद्धडोरी प्रतिसरो वा। उत्तंसः कर्णावतंसः। उरुबिन्दुः कस्तूरीरसन- वकः । चित्रं मकरीपत्रभङ्गादि ॥ ९ ॥ चूडामणि: शीर्षफूल इति ख्यातः, निष्कः पदकः, चक्रीयुगं शलाकायुगं च कर्णोर्ध्वभागालंकारौ। ऊर्मिका अङ्ुलीय- कानि। तारानुकारा नक्षत्रसदशाः। भुजकटकावङ्गदे। तुलाकोटी नूपुरौ। पादा-

शिरस्लेन तस्याभरकोषाभिधानात् तच्च स्वरूपकथनं नान्यसाधारणलेन किंतु विधूनयति। त्रिजगदपि सौन्दर्यगर्वाहूरीकरोतीत्यर्थः । चौरादिकोऽयम्। पाठा- न्तरं तु 'कचास्तव सुकुश्चिता मुखमधीरदीर्घाक्षिभागुरः पृथु धनस्तनं स्फुरित- मध्यमुच्चैः कृशम्। भुजा निटिलमानतं करयुगं नखश्रीधरं विधूनयति' इत्यादि ज्ञेयम् ॥। ८ ॥। सूत्रिणी नीवीबन्धयुक्ता ।९।। निष्कः पदकाख्यं हृदयभूषणं,

१. पुरटं सुवर्णम्,

Page 101

७८ काव्यमाला।

अथ वृन्दावनेश्वर्याः कीर्त्यन्ते अ्रवरा गुणाः। मधुरेयं नववयाश्चलापाङ्गोञ्जवलसि्मिता ॥ ११ ॥ चारुसौभाग्यरेखाढ्या गन्धोन्मादितमाधवा। संगीतप्रसराभिज्ञा रम्यवाङ्ग्र्मपण्डिता॥१२॥ विनीता करुणापूर्णा विद्ग्धा पाटवान्विता। लज्ाशीला सुमर्यादा धैर्यगाम्भीर्यशालिनी॥ १३ सुविलासा महाभावपरमोत्कर्षतर्षिणी। गोकुलप्रेमवसतिर्जगच्छ्रेणीलसद्यशाः ॥१४। गुर्वर्पितगुरुस्नेहा सखीप्रणयितावशा। कृष्णप्रियावलीमुख्या सन्तताश्रवकेशवा । १५ । बहुना किं गुणास्तस्या: संख्यातीता हरेरिव। पकत्व इत्यङ्गोक्तिमनःस्थास्ते परसंबन्धगास्तथा॥ १६ ॥ नदु-

गुणा वृन्दावनेश्वर्या इह प्रोक्ताश्रतुविधाः। .गे- माधुर्य चारुता नव्यं वयः कैशोरमध्यमम्॥१७॥

द्ुलीयानां छविस्तुद्गा, विपुला रविभिर्द्वादशभिस्तन्त्रेण तत्तुल्यैः ॥। १०॥ पाटवं चातुर्य विलासाश्वात्र भावहावादयो हर्षादिव्यज्ञकाः स्मितपुलकवैस्वर्यादयश्च खाभियोगा ज्ञेयाः । महाभावस्य यः परमोत्कर्षः प्राकट्यातिशयस्तेन तर्षिणी श्रीकृष्णविषयातितृष्णावती गुरुभिर्गुरुजनैरर्पितो गुरु: पूर्णः स्न्नेहो यस्यां सा संतत आश्रवः वचने स्थितः केशवो यस्याः सा। 'वचने स्थित आश्रवः' इस मरः ॥११ ॥ इत्यङ्गेति। अङ्गस्था गुणा गन्धपर्यन्ताः षट्। सज्गीतेत्यादय भिर्द्वादशभिस्तन्त्रेण तत्तुल्यैः ॥ १० ॥ 'वृन्दावनेश्वर्याः राधावृन्दावने वने' इति पुराणप्रसिद्धायाः । मधुरेयमित्यादौ संतताश्रवकेशवेति। 'वचने स्थित आभव- इत्यमरः ॥ ११ ॥ उक्ेरनर्मपर्यन्ता। इत्यङ्गोकीति। अन्नाङ्गस्य गुणा गन्द-/ न्तमानसातु महाभावेत्यन्ताः परसंबन्धगास्तु परे जञेयाः ॥ १२ ॥ तन्न कांि स्पष्टगुणांल्लक्षयति ॥१३॥१४॥१५॥ माधुर्यमिति। चारुतां मनोरमलम

Page 102

उज्ज्वलनीरमणिः । ७९

सौभाग्यरेखाः पादादिस्थिताश्चन्द्रकलादयः। साधुमार्गादचलनं मर्यादेत्युदितं बुघैः ॥ १८॥

व्यक्तत्वाल्लक्षितत्वाच्च नान्येषां लक्षणं कृतम् । १९।। त्र मधुरा यथा विदग्धमाधवे- बलादक्ष्णोर्लक्ष्मीः कवलयति नव्यं कुवलयं मुखोल्लास: फुलं कमलवनमुल्लङ्मयति च। दशां कष्टामष्टापद्मपि नयत्याङ्गिकरुचि- र्विचित्रं राधायाः किमपि किल रूपं विलसति ॥ २० ॥ नथ नववया :- श्रोणि: स्यन्दनतां कृशोदरि कुचद्वन्द्वं क्रमाच्चक्र्तां अ्रूश्चापश्रियमीक्षणद्वयमिदं यात्याशुगत्वं तव। सैनापत्यमतः प्रदाय भुवि ते कामः पशूनां पति धुन्वञ्जित्वरमानिनं त्वयि निजं साम्राज्यभारं न्यधात् ॥२१।।

उत्तिस्थास्त्रयः । विनीतेत्यादयो मनःस्था दश। गोकुले प्रेमेत्यादयः परसंबन्धगा: षट् एवं पश्चविंशतिः ॥१२॥१३॥१४॥१॥१६॥१७॥१८ ॥ ॥ १९ ॥ बलादिति । पौर्णमासीवाक्यम्। अष्टापदं कनकम्। तत्पराभावि- न वीररसस्यात्र सूचितलात्। कष्टामष्टेति। ओजोव्यञ्जकवर्णानुप्रासो नानु- पपनः ॥ २०॥ श्रीणिरिति। दूतीवाक्यम्। चक्रतां चक्रवाकलं चक्रनामा- खतं च। आशुगतं शीघ्रगामितवं बाणतं च। सैनापत्यं सेनाध्यक्षत्ं। पशूनां जरति रुद्रं कृष्णं च। अतस्तया अद्यास्त्रक्षेपे विलम्बो न कार्य इति भाव:

१े १६॥१७॥१८॥१९॥२० ॥ श्रणिरिति। दूतीवाक्यम्। चकता चक्रवाकतां पक्षे चक्राख्यास्त्रताम्। आशुगतं शीघ्रगत्ं पक्षे बाणलम्। पशूनां पति

Page 103

८० काव्यमाला।

अथ चलापाङ्गी- तडिदतिचलतां ते किं दगन्तादपाठी- द्विधुमुखि तडितो वा किं तवायं दगन्तः । ध्रुवमिह गुरुताभूत्त्वद्दृगन्तस्य राधे वरमतिजविनां मे येन जिग्ये मनोऽपि ॥ २२ ॥ अथोञजवलसिमता- तव वदनविधौ विधौतमध्यां स्मितसुधयाधरलेखिकामुदीक्ष्य। सखि लघुरघभिच्चकोरवर्यः प्रमदमदोद्गुरबुद्धिरुज्जिहीते ॥ २३॥

॥ २१ ॥ तडिदिति। श्रीकृष्णवाक्यम्। अपाठीदध्यैष्ट। गुरुता अध्याकलं श्रेष्ठवं च। येन दृगन्तेन जिग्ये मनसः सकाशादप्यतिजवित्वादनुधावितापि द. लङ्वितं वशीकृतमिति वस्तर्थः ॥ २२ ॥ तव वदनेति। विशाखावाक्यमा, स्मितसुधयेति। स्मितमिदं प्रेष्टदर्शनजातहर्षोत्थम्। तच्च अवहित्थया संग पितमपि किंचिदेव निष्कान्तम्। विधौतमध्यां क्षालितमध्यप्रदेशामित्यधररेखाँ- मध्यप्रदेश एव तद्यक्तेः । तच्चातिसूक्ष्ममपि सकृदुद्भूतमपि कृष्णेन दृष्टमेवे- त्याह-उदीक्ष्येति। उज्जिहीते उद्गच्छतीति तेनैव प्रदेशेन संचरिष्यतीत्यधर- पानं ध्वन्यन्ते। यतोऽघभित्पापशून्यः । अतः क्षालनादिभिः पवित्रं वर्त्मैव तस्यापेक्ष्यम्। लदीययाधरसुधयेति तवापि तत्रानुकूल्यं दृश्यत इति नर्म ध्वनि- तम्। यतोऽघभिदेव रहस्यं दुःखं भेत्स्यतीति। किंवा क्षालनेऽपि तदन्तःपावि- त्र्यादर्शनादघभित् तत्स्थानस्थमघं भेत्स्यतीति खीयचश्चवेति। तत्र अघभिद- घासुरहन्तेति सामर्थ्यम्। 'प्रायो वीररताः स्तियः' इति स्मृतेः । तत्रापि लघु- शीघ्रगामीति तत्र विलम्बाभावः। प्रमद्मदाभ्यामानन्दमत्तताभ्यामुद्ुरा बुद्धिर्य- स्येति। अद्यास्मत्संनिधिराहित्यमपि नापेक्षिष्यते; तदितो वयमेव प्रथममपसरा-

श्रीगोपालं पक्षे रुद्रम् ॥ २१ ॥ तडिदिति । श्रीकृष्णवाक्यमपाठीदघ्यैष्ट। पठत्यघीतेऽध्ययन इत्याख्यातचन्द्रिका ।। २२ ।। लघु शीघ्रे मनोज्ञे च ।

Page 104

उज्ज्वलनीलमणिः ।

अथ चारुसौभाग्यरेखाढ्या- अघहर भज तुष्टिं पश्य यच्चन्द्रलेखा- वलयकुसुमवल्लीकुण्डलाकारभाग्भिः । अभिदघति निलीनामत्र सौभाग्यरेखा- विततिभिरनुविद्धाः सुष्ठु राधापदाङ्काः ॥२४॥

मेति नर्माण्येव ध्वनितानि ॥ २३ ॥ अघहरेति । मधुमङ्गलोक्तिः । पदाङ्का एव राधामन्र निलीनामभिदधति कथयन्ति। कीदृशाः । सौभाग्यव्यज्जिकानां रेखाणां विततिभिरनुविद्धा युक्ताः । कीदृशीभिः । चन्द्रलेखाद्याकारभाग्भि: उप- लक्षणमेतत्। यतो वराहसंहिताज्योतिःशास्त्रान्तर्गतकाशीखण्डमात्स्य गारुडाद्यनु- सारेण ता एताश्र लेखा लक्ष्यन्ते। तत्र वामचरणस्य-अङ्डष्ठमूले यवः, तत्तले चक्नम्, तत्तले छत्रम्, तत्तले वलयम्, तर्जन्यङ्गष्ठसंधिमारभ्य वक्गत्या याव- दर्धचरणमूर्ध्वरेखा, मध्यमातळे कमलम्, कमलतले ध्वजः सपताकः, कनिष्ठातले- डफ्ुशः, पार्ष्णोवधेचन्द्रः, तदुपार वली, पुष्पं च। इत्येकादश। अथ दक्षिणस्य- अङ्गष्ठमूले शङ्गः, कनिष्ठातले वेदिस्तत्तले कुण्डलम्, तर्जनीमध्यमयोस्तले पर्वतः, पार्ष्णौ मत्स्यः, मत्स्योपरि रथः, रथस्य पार्श्वद्वये शक्तिगदे, इत्यष्टौ। मिलिला ऊन- विशतिः। अथ वामकरस्य-अत्रालिखितानामपि भक्तैर्ध्यानार्थमपेक्ष्यलादुच्यन्ते उज्जिहीते उदयते ॥ २३ ॥ अभिदधति कथयन्ति । अनुविद्धा युक्ताः । चन्द्रलेखावलयेत्युपलक्षणम् । यतो वराहसंहिताज्योतिःशास्त्रान्तरकाशीखण्ड- मात्स्ये गारुडादनुसारेण ता एताश्र रेखा लिख्यन्ते। तत्र वामचरणस्याङ्गुष्टमूले यव:, (१) तत्तले चक्रम्, (२) चन्द्ररेखायुता कुसुमवल्लिका, (३) मध्यमातले कमलम्, (४) कमलतले व्वजः सपताकः, (५) मध्यमाया दक्षिणत आगता मध्यचरणपर्यन्तोर्ध्वरेखा, (६) कनिष्ठातलेऽङ्ुशः, (७) इति सप्त ॥ अथ दक्षि- णचरणस्य-अङ्डष्ठमूले शङ्गः, (१) पार्ष्णौ मत्स्यः, (२) कनिष्ठातले वेदिः, (३) मत्स्योपरि रथः, (४) शैलकुण्डलगदाशक्तयश्च (५६।७८) दक्षिणचरण एव संभाव्यन्ते। ताश्च यथाशोभं संभावनीया इत्यष्टौ। अथ वामकरस्य- अन्रालिखितभपि प्रसिद्धलादन्यरेखान्नयं ज्ञेयम्। तर्जनीमध्यमयोः संधिमारभ्य ६ उज्व०

Page 105

८२ काव्यमाला।

अथ गन्धोन्मादितमाधवा- वल्लीमण्डलपल्लवालिभिरितः संगोपनायात्मनो मा वृन्दावनचक्रवर्तिनि कृथा यतनं मुधा माधवि।

चिह्नानि। यथा तर्जनीमध्यमयो: संधिमारभ्य कनिष्ठाधस्तले करभभागे गता पर- मायूरेखा, तत्तले करभमारभ्य तर्जन्यङ्गुष्ठयोर्मध्यभागं गतान्या, अङ्गष्ठाधो मणि- बन्धत उत्थिता वक्रगत्या मध्यरेखां मिलिला तर्जन्यङ्डुष्टयोर्मध्यभागं गतान्या, तथान्या युक्त्या विभज्य दर्श्यन्ते, अङ्गुलीनामग्रतो नन्यावर्ताः पश्च, अनामिका- तले कुजरः, परमायूरेखातले वाजी, मध्यरेखातले वृषः, कनिष्ठातलेऽक्कुशः, व्यजनश्रीवृक्षयूपबाणतोमरमाला यथाशोभमित्यष्टादश। अथ दक्षिणकरस्य- पूर्वोक्तं परमायूरेखादित्रयमन्रापि ज्ञेयम्, अङ्गुलीनामग्रतः शङ्गा: पञ्व, तर्ज- नीतले चामरम्, अत्रापि कनिष्ठातलेऽड्ुशः, प्रासाददुन्दुभिवज्रशकटयुगकोद- ण्डासिमृद्गारा यथाशोभं जेयाः । इति सप्तदश मिलिला पञ्चत्रिंशत् ।। २४ ॥ वल्लीति। तुङ्गविद्यावचनम्। हे माधवि वासन्ति, पक्षे हे राधे, 'चेदियं प्रेयसा हातुं क्षणमप्यतिदुःशका । परमप्रेष्ठवश्यत्वान्माधवीति तदोच्यते' इत्युक्ते:। वृन्दावनचक्रवतिनीति। लतासु गोपीषु च तस्या एव श्रैध्ठ्यात्। स्वविरो- कनिष्ठातले करभभागे गता परमायूरेखा, (१) तत्तले करभमारभ्य तर्जन्यद्गष्ठ- मध्यदेशं गतान्या, (२) अङ्गष्ठाधो मणिबन्धत उत्थिता वक्गत्या मध्यरेखां मिलिला तर्जन्यङ्डष्टयोर्मध्यभागं गतान्या, (३) अथान्या युत्त्या विभज्य दर्श्यन्ते-अङ्गलीनामग्रतो नन्धावर्ताः पञ्च, (८) अनामिकातले कुजरः, (९) परमायूरेखातले वाजी, (१०) मध्यरेखातले वृषः, (११) कनिष्ठातलेऽङ्कुशः, (१२) व्यजन-श्रीवृक्ष-यूप-बाण-तोमर-माला १३।१४।१५।१६।१७१८। यथा- शोभं ज्ेया इत्यष्टादश १८। अथ दक्षिणकरस्य पूर्ववत्परमायूरेखात्रयमत्रापि ज्ञेयम्, (३) अड्डलीनामग्रतः शह्ाः पञ्च, (८) तर्जनीतले चामरः, (९) अत्रापि कनिष्ठातलेऽड्डुशः, (१०) प्रासादः, (११) दुन्दुभिः, (१२) वज्र-शकटयुगः कोद- ण्डासिभृङ्गारास्ते १३।१४।१५।१६।१७। यथाशोंभं ज्ञेया इति सप्तदश। तदेवं वामचरणे सप्त ७, दक्षिणचरणे अष्ट ८, वामकरेऽष्टादश १८, दक्षिणकरे सप्तदश १७, मिलिला पञ्चाशत् ५० ॥ २४॥ माधवीति। परमप्रेमवशतया

Page 106

उज्ज्वलनीलमणिः । ८३

आ्राम्यद्धिः ख्विरोधिभिः परिमलैरुन्मादनैः सूचितां कृष्णस्त्वां भ्रमराधिपः सखि धुवन्धूर्तो ध्रुवं धास्यति ।।२५।। अथ संगीतप्रसराभिज्ञा- कृष्णसारहरपञ्चमखवरे मुञ्च गीतकुतुकानि राधिके। प्रेक्षतेऽत्र हरिणानुधावितां त्वां न यावदतिरोषणः पतिः ॥२६॥ अथ रम्यवाक्- सुवदने वदने तव राधिके स्फुरति केयमिहाक्षरमाधुरी। विकलतां लभते किल कोकिल: सखि ययाद्य सुधापि मुघार्थताम्।२७ अथ नर्मपण्डिता- वंश्यास्त्वमुपाध्यायः किमुपाध्यायी तवात्र वंशी वा। कुलयुवतिधर्महरणादस्ति ययोर्नापरं कर्म ॥ २८॥

धिभिस्तत्संगोपनासहिष्णुतया तच्छक्तिभिरित्यर्थः । यतो भ्राम्यद्भिरितस्ततः कृष्णमन्विष्यापि लमेभिरेव सूचयिष्यसे। अग्रे लहं मिथ्या न दूषणीयेति भावः। उन्मादनैरिति। परिमलानां जातिप्रमाणभ्यां उत्कर्षात् वैलक्षण्याच् एभिरुन्मादित: कृष्णः स्थानास्थानं समयासमयं च न विचारयिष्यति। धास्य तीति। धेट् पाने डुधाज् धारणपोषणयोश। भ्रमराधिप इति। 'भ्रमरः कामुके भृङ्गे' इति धरणिः ॥ २५ ॥ कृष्णसार इति। विशाखावाक्यम्, कृष्णसारो हरिणः श्रीकृष्णस्य धैर्य च। हरिणेनानुधावितामिति समासः। पक्षे हरिणा श्रीकृष्णेनेत्यसमास एव, हरिणपक्षे मृगाकर्षणसमर्थस्य गानस्य कुलाङ्गना- नामनौचित्यमिति पत्यू रोषे हेतुर्जेयः । इतः सभयात् स्थानादन्यत्र दूरे रहसि गच्छेति ध्वनिः ॥ २६ ॥ सुवदने इति। श्रीकृष्णवाक्यम्। सौसर्येण कोकि- लस्य शब्दार्थवैचित्र्या सुधायाश्च वैयर्थ्यमुक्तम्॥२७॥ वंश्या इति। अत्र कान्तेन हातुं न शक्यत इति वक्ष्यते। पक्षे वासन्ति। धास्यति पास्यति। धे् पाने ।२५॥ कृष्णस्य सारो धैर्य तस्य हरः पश्चमः खरो यस्याः हे तथाविधे। पक्षे कृष्ण-

Page 107

काव्यमाला।

यथा वा- देव प्रसीद वृषवर्धन पुण्यकीर्तें साध्वीगणस्तनशिवार्चननित्यपूत । निर्मञ्छनं (?) तव भजे रविपूजनाय स्नातास्मि हन्त मम न स्पृश न स्पृशाङ्गम् ॥ २९ ।।

ननु वंशी वा मदधीना गायतु अहं वा वंश्यधीनो गायामि तत्र कुलयुवतयः साध्वीलाभावेन यत्खधर्म त्यक्ष्यन्ति तत्रावयो: को दोष इति खनर्मशरः परा वृत्य खमेव लक्षीकुर्यादित्यपरितुष्यन्नाह-यथा वेति। वृषो धर्मस्तस्य वर्धनं वृद्धिर्यतः । अत एव ते पुण्यकीर्तिस्तत एव साध्वीगणेनापि खीयस्तनशिवपूजा लयैव कार्यते स्वेषां धर्मकीर्त्योर्वच्दर्थमिति भावः। वं च तत्तच्छिवार्चनेन निलयं पूतः । नित्यमित्यनेन तद्विनाभूतमेकमपि दिनं न ते वन्ध्यं यातीति। पूतेत्यनेन तद्विना पावित्र्याभावादन्नपानादिकमपि नातिरोचत इति ध्वन्यते। ननु तर्हि लमपि साध्वी भवसि। संनिधेहि खीयस्तनशिवयोररुणकरकमलाभ्यां हृदयेन च बहिरन्तः पूजां मयैव कारय। अपूजितौ एतौ द्रष्टमहं न प्रभवामीति तथा चिकीर्षन्तं तमाह-रविपूजनायेति। वयं सूर्योपासिका अनन्याः शिवपूजां नें कारयामेति भावः । ननु तर्हि लां सूर्यभक्तामनन्यां स्पृष्टा कृतार्थीभवेयमत आह-सनातास्मीति। पुनःस्राने मम क्लेशः कालविलम्बश् भविष्यतीति भावः । अत्र वृषवर्धनादिषु विरोधिलक्षणया अधर्मोद्यतिशया एव व्यजिताः। तदपि वृषवर्धनेत्यत्र श्लेषेणापि धर्मध्वंसिन्नित्यर्थो द्रष्टव्यः । वर्ध च्छेदने धातु:

साराख्यमृगस्य हर इत्यादि। हरिणा श्रीकृष्णेन पक्षे हरिणेनानुधावितामनुगताम् ॥२६॥२७॥२८ ॥ स्तुतिपक्षे वृषवर्धन धर्वर्धक रविपूजनाय स्राा्मिति नन्यभक्तानामन्यदेवताभक्तस्पर्शोऽपि नेष्ट इति भावः। निन्दापक्षे देवेति सोपहा- सम्। वृषवर्धन वृषच्छेदन । विरोधिलक्षणया पुण्यं पापं कीर्तिश्वाकीर्तिः । साध्वी शब्देन तत्रत्यव्यवहाराद्वृहपतिभत्तयैवोच्यते। नित्यपूतेत्यपि विरोधिलक्षणया सोप

Page 108

उजवलनीलमणिः । ८५

अथ विनीता- अपि गोकुले प्रसिद्धा भ्रूग्रमिभि: परिजनैर्निषिद्धापि। पीठं सुमोच राधा भद्रामपि दूरतः प्रेक्ष्य ॥ ३० ।। यथा वा विदग्धमाधवे- भूयो भूय: कलिविलसितैः सापराधापि राधा क्लाध्येनाहं यदघरिपुणा बाढमङ्गीकृतास्म। तत्र क्षामोदरि किमपरं कारणं वः सखीनां दत्तामोदां प्रगुणकरुणामञ्जरीमन्तरेण ।। ३१॥। अथ करुणापूर्णा- तार्णसूचिशिखयापि तर्णकं विद्धवक्रमवलोक्य सास्रया। लिप्यते क्षतमवाप्तबाधया कुङ्कुमेन सहसास्य राधया ॥ ३२ ॥

॥ २८ ॥२९ ॥ अपि गोकुल इति। श्रीकृष्णं प्रति नान्दीमुख्या वाक्यम्। नायकेनासाद्यमानैर्नायिकाया विनयादिगुणैर्मधुररस: पुष्टीक्रियत इते ध्येयम् ।। ३० ॥ अन्र कष्टेनादिरसं व्यज्यापरितुष्यन्नाह-यथा वेति। भूयोभूय इति । कलहान्तरितावचनम्। कलौ कलह एव विलसिताः स्ाभाविका भावास्तैः । राध्यति अपराध्यतीति राधा इति। खनामनिरुक्तिरपि कृता। उपसर्गस्य द्योतकत्वात् तं विनापि धातोस्तदर्थाभिधानशक्तेः । वो युष्माकमेव प्रकृष्टैर्गुणैर्या युष्माकं करुणा सैव दत्तामोदा सौरभवती मज्जरी। तां विनेति तामेव कर्णावतंसीकृत्य तेनाहमङ्गीकृतास्मीति युष्मत्प्रेमवशीभूतेन युष्मन्निरुपाधि- कृपापात्रीं मां श्रुला युष्मभ्यं सुखदानानुरोधेनेत्यर्थः ॥ ३१॥ पौर्णमासीं प्रति वृन्दावाक्यम्। तार्णसूचीति। तर्णकोऽयं सकान्तलोभनीयदुग्धाया धेनोरिति हासमयमेव ॥ २९॥ भद्रिकामपीति । भद्रायाः कुलादिन्यूनत्वं बोध्यते। तदिदं वाक्यं श्रीवृन्दावनेश्वर्या गुणसूचनाय श्रीकृष्णं प्रति काचित्कथित- वतीति तस्यानुमोदनं च तस्यामिति मधुररसप्रकरणबलाद्याख्येयम्। एव- मुत्तरेष्वपि। यथा वा ग्रन्थकृतामन्यत्पद्यम्-'रागरङ्गमनुगानपरीक्षाकारिणि प्रियतमे सति राधा। भद्रिकामपि विधाय पुरस्तादात्मनानुगततां बत चक्रे ।ी३०॥ ३१॥ तार्णसूची त्यत्र तर्णकोऽयं खकान्तायोपहरणीयदुग्धाया

Page 109

८६ काव्यमाला।

अथ विदग्धा- आचार्या धातुचित्रे पचनविरचनाचातुरीचारुचित्ता वाग्युद्धे मुग्धयन्ती गुरुमपि च गिरां पण्डितामात्मगुम्फे। पाठे शारीशुकानां पटुरजितमपि द्यूतकेलीषु जिष्णु- र्विद्याविद्योतिबुद्धि: स्फुरति रतिकलाशालिनी राधिकेयम्॥३३॥ अथ पाटवान्विता यथा विदग्धमाधवे- छिन्नः प्रियो मणिसरः सखि मौक्तिकानि वृत्तान्यहं विचिनुयामिति कैतवेन। मुग्धं विवृत्य मयि हन्त दगन्तभङ्गीं राधा गुरोरपि पुरः प्रणयाद्यतानीत्॥ ३४॥

ज्ञेयम्। तार्णसूचिशिखया कोमलतृणाग्रेणापि सास्त्रयेत्यस्राणि कपातिशयद्योतकानि ॥। ३२॥ आचार्यति । ह्योदृष्टजनुषो राधायाः संप्रति कीदृशं चातुर्यमभूदिति पृच्छन्तीं गोपीं प्रति कुन्दलतावाक्यम्। आचार्या न तु कदाचिदपि कस्याश्रि- च्छिष्या। चारुचित्तेति। खचित्तेन पाकस्य प्रकारविशेषं विचार्यैव तां विर- चयतीति न कस्याश्चन सकाशात् सा विद्या शिक्षिता। 'वेणुवाद्य उरुधा निज- शिक्षा' इतिवत्। एवं सर्वत्र ज्ञेयम्। गिरां गुरुं श्रीकृष्णं वाग्देवीं वा विद्यासु गानवादनादिषु न्यायमीमांसादिषु च विशेषेण द्योतिनी बुद्धिर्यस्याः सा ॥ ३३॥ छिन्न इति । मधुमङ्गलं प्रति कृष्णस्योक्तिः । पाटवं चातुर्यम्। वृत्तानि वर्तुलानि। मुग्धं मनोहरम् । विवृत्य परावृत्य। गुरोर्जेटिलायाः ॥ ३४॥

धेनोरिति ज्ञेयम्। कृपयेत्यत्र सहसेत्येव वा पाठः। यथा वा तेषामेव पद्यान्त- रम्-'विक्कठोरहृद्यास्मि राधिका यचचिरं विरहमस्य हा सहे। तं सहेत किमियं ब्रजप्रजा क्रोमलेति मयि हृद्विदीर्यते' ॥ ३२॥ गिरां गुरुं श्रीकृष्णं वाग्देवीं वा 'वाग्देवीमप्यवाचं रचयितुमधिका' इति तु पाठान्तरम्॥ ३३ ॥ विवृत्य परा-

Page 110

उज्ज्वलनीलमणिः । ८७

अथ लज्जाशीला-

स्फुरति रहसि ताम्यत्येष तर्षाज्जनोऽपि। उपरमे सखि लज्जे किंचिदुद्धाट्य वक्रं निमिषमिह मनागप्यक्षिकोणं क्षिपामि ॥३५॥ अथ सुमर्यादा- प्राणानकृताहारा सखि राघाचातकी वरं त्यजति। न तु कृष्णमुदिरमुक्तादमृताद्वृत्तिं भजेदपराम् । ३६ ॥।

राधा खगतमाह-व्रजेति। तर्षादत्यौत्कण्ठ्यात्। एष मल्क्षणो जनः । सखी- ति। विरुद्धलक्षणया हे वैरणीति लं मे किं प्राणान् ग्रहिष्यसीति ध्वनिः। यद्वा है सखि, तवां सख्येन हितमुपदिशामि। क्षणमुपरम। अन्यथा मयि प्णांस्त्यक्त्त- वत्यां तं क्व स्थास्यसीति ख्यमेव विचारयेति। तन्रापि एकस्यैवोक्ष्णः कोपादेवो- परम। अन्यत्र मत्स्वोह्वेषु राज्यं कुरु। तत्रापि निमिषमपि मनागपीति तवापि हठः स्थास्यति। अहं च जीविष्यामीत्येतदेव कुर्विति भावः । उद्धास्यति। 'घट संघाते' इत्यस्य रूपं तस्य घटादिताभावान्मित्त्वाभावः॥३५॥ मर्यादा निर्बन्ध- विशेषः । सा च काचित्साभाविकी काचित् शिष्टाचारदृष्टा काचित्खकल्पिता इति क्रमेणोदाहरणत्रयम्। श्यामलया रहसि कदाचित् क्षामलदर्शनजातेन सननेहेन भोजनाय प्रार्थिता राधा तां प्रत्याह-प्राणानिति। यद्ा लदर्थ बहुशो यतमा- नया मया श्रीकृष्णस्तां न मिलिष्यतीति निर्धारितमतः सप्राणरक्षणोपायः कोऽ- प्यन्य एव चिन्त्यतामिति प्रेमपरीक्षणकारिणीं नान्दीमुखीं प्रति पूर्वरागवती राधा प्राह-प्राणानिति। श्रीकृष्णमेघेन वृष्यमाणैः खसौरूप्यसौरभ्यसौस्वर्यसौरस्य- वृत्य। निवृत्येति वा पाठः ॥ ३४ ॥ एष मल्क्षणो जनः । उपरम सखीत्येव वा पाठः ॥ ३५॥ अथ सुमर्यादेति। मर्यादात्र खभावेन वैदिकाचारेण खसं- कल्पेन वा प्राप्तो निर्बन्धः। तथैव ह्युदाहरणत्रयं वक्ष्यते। प्राणानकृताहा- रेति-वाक्यं कदाचित् क्षुधिततया प्रतीता श्रीवृन्दावनेश्वरी कयाचित्तदन्त- १. 'विरम जननि' इति पाठान्तरम्.

Page 111

काव्यमाला।

यथा वा- आहयमाना व्रजनाथ यास्मि युक्तोऽभिसारः सखि नाधुना मे। न तादृशीनां हि गुरूत्तमानामाज्ञाखवज्ञा वलते शिवाय ॥ ३७ ॥ यथा वा- पूर्णाशीः पूर्णिमासावनवहिततया या त्वयास्यै वितीर्णा वष्टि त्वामेव तन्वन्नखिलमधुरिमोत्सेकमस्यां मुकुन्दः।

सौकुमार्यवैदग्ध्याभृतैरेवाहं नेत्रादीन्द्रियाणि जीवयानि नान्यैरिति मे नियमस्तस्मा- दहं मरिष्याम्येवेति भावः ॥ ३६॥ आहयेति। वृन्दां प्रति श्रीराधावाक्यम्। आह्वानमिदं स्नेहेन कदाचित्तां रात्रावपि भोजयितुमिति ज्ञेयम्। न चात्र प्रेमण्यु- पहतिराशङ्कनीया। समर्थरतीनां तासां यो हि यो हि सवाभाविको व्यापारः स सर्व एव श्रीकृष्णस्य सुखप्रयोजनक एव भवेत्। दृष्टश्च कुलाङ्गनानां कान्तवाक्य- मनुल्लद्मय तन्मात्रादिनिदेशपालनं स्वाभाविक एव धर्मः । स च तादृशं तत्सौशी- ल्यमास्ादयतस्तत्कान्तस्यायत्यां सुखार्थक एवेति ज्ञेयम्। अन्न पद्ये तु अधुने- त्युक्त न लद्यति। ततश्च यद्यवकाशं लप्स्ये तदा तत आगत्यास्याभिसरिष्याम्येव न चेल्ललितां विशाखां वा मत्तुल्यामेव प्रहेष्यामीत्यधुनेति पदेनाभिव्यज्य समा- धानमपि कृतमिति ज्ञेयम् ॥ ३७ ॥ काचित् श्रीकृष्णप्रहिता वृद्धा दूती श्रीराधि- कामुपदिश्य पुनर्निवृत्य श्रीकृष्णं प्रत्याह-पूर्णाशीरिति। पूर्णा आशीः कामना रङ्गया सख्या भोजनाय याचिता तां प्रति रहो जगादेति ज्ञेयम्। तत्र च प्रक- टलीलायामपि नित्यप्रेयसीतसंस्कारेण नान्यत्र रुचिः स्यमेव तस्या उदयते इत्यन्तस्तस्मिन् पतिभाव एव । बहिस्तु लोकानुसारेणान्यथा व्यवहार इति दर्शि- तम्। यथा तत्र वक्ष्यते सा खयमेव। 'अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते'

चातकीति च कुतश्चित् कश्चिच्छृणुयादित्याशङ्कया गोपनार्थमुक्त्म्॥।३६॥ आह्यमानेति। श्रीव्रजेश्वर्यामेव पूर्ववत् प्राचीनसंस्कारेणैव गुरुबुद्धेरुदयाद्वै- दिकाचारनिर्बन्धो दर्शितः। जटिलानान्यां श्वश्रूंमन्यायां तहुद्भावात्तदाज्ञाभन्ने न तु दोषबुद्धिरिति च । ३७ ॥ काचित् श्रीकृष्णप्रहिता वृद्धा दूती श्रीराधिका- मुपदिश्य पुनर्निवृत्य श्रीकृष्णं प्रत्याह-पूर्णाशीरिति। पूर्णा आशीः कामना

Page 112

उज्ज्वलनीलमणिः । ९

दि्या प्वोदगात्ते स्वयमभिसरणे चित्तमाधत्ख वत्से युक्त्याप्युक्ता मयेति दुमणिसखसुता प्राहिणोदेव चित्राम्।।३८।।

यस्यां सा। पूर्णिमेयं श्रावणी हिया। तथा च स्मर्यते-'प्रसूनैरद्भुतैकान्ता कान्तेन श्रावणीदिने। प्रसाधिता प्रसिद्धेन सौभाग्येन विवर्धते ॥' इति। अन- वुहिततया अवधानराहित्येन। अविचारेणेति यावत्। अस्यै अग्रे विर्देक्ष्यमाण- लात् चित्रायै वितीर्णा अनभिसिसीर्षवेऽप्यस्यै बलाइत्ता। किंतु अस्यां तिथाव- खिलमाधुर्योद्रेकं विस्तारयन्मुकुन्दस्लामेव वष्टि कामयते न लिमां इत्यादिषूत्तया मयोक्कापि द्युमणिसखस्य सूर्यमित्रस्य वृषभानो: सुता चित्रामेव प्राहिणोत् न तु स्यभभिससारेति। अन्नापि न प्रेममर्यादोपहतिराशङ्कनीया। तथा हि तस्या मनोगतोऽयं विचारः । अहं हि तेन खविलाससुखार्थमज्जीकृत्य वर्ते एवं। तथा ललिताविशाखे अपि द्वे तत्सुखदाने समर्थे एव। किंलियं चित्राप्यद्य तेन संभुक्ता प्रसाधिता एतत्तिथिप्रभावात् तस्मै अहमिव रोचताम्। काममहोदघेस- स्याकाल्ला पूर्तये किमहमेकाकिनी भवितुमीशे परं तु मयि संप्रयोगलीलया तेन खकामस्यापूर्तावपि मद्विषयकप्रेम्णैव पूर्तिरभिनीयते। अतोऽहमपि तथा साध- यामि यथा सर्वाभि: सखीभिरपि सहिता तत्कामपूर्तये कदाचिद्पि भूयासमिति। अत एव नित्यमपि सवसंभोगान्ते कैरपि मिषैस्तं प्रेर्य यत् खसखीः संभोजयति तन्न सखीषु स्नेहो गौण एव हेतुः किंतु स्वकान्तस्य कामपूर्तिवाञ्छैव मुख्यः । अतः सख्योऽपि श्रीराधायाः सकान्तसुखदाने प्रवृत्तायास्तस्याः साहाय्यमेवैतदिति तदभिप्रायं विदुष्य एव तत्र संमता भवन्ति। अन्यथा तास्तत्सख्येनैव सुखिन्यो

यस्यां सा पूर्णिमा तिथिर्यानवहितलनास्यै निर्देक्ष्यमाणायै चित्रायै वितीर्णा स्वाभि- सारसमयमय्यपि सा तदभिसाराय ऋप्ता अस्यां तिथावखिलमधुरिमोत्सेकं तन्वनू मुकुन्दस्तामेव वष्टि। न तु तामित्यादि युत्त्या मयोकापि द्युमणिसखसुता वृष- भानुपुत्री श्रीराधा तां चित्रामेव लयि प्राहिणोत् न तु स्यमभिससारेति योज्यम्। चित्रायै पूर्णिमासावनवहिततया या तया प्राग्वितीर्णेति पाठान्तरम्। 'उदेति रक्तः सविता रक्त एवास्तमेति च' इतिवन्नात्र तु कथितपदलदोषः

Page 113

२० काव्यमाला।

अथ धैर्यशालिनी- तीव्रस्तर्जति भिन्नधीगृहपतिश्छद्ज्ञया पद्मया हारं हारयते हरिप्रणिहितं कीशेन भर्तुः खसा। मल्लीं लुम्पति कृष्णकाम्यकुसुमां शैब्या प्रिया वर्करी राधा पश्य तथाप्यतीव सहना तूष्णीमसौ तिष्ठति ॥३९॥ अथ गाम्भीर्यशालिनी- कलहान्तरितापदे स्थितिं सखि धीराद् गतापि राधिका। बहिरुद्धटमानलक्षणा सुदुरूहा ललिताधियाभवत् ॥४० ॥।

नायिकातं न समं मंस्यन्त इति विवेचनीयम्॥ ३८ ॥ पौर्णमासी नान्दीमुखीं प्रत्याह-तीव्रति। तीव्रः कोधी छद्यज्ञया लां बन्धयिला लद्भार्या राधा एव- मेवं करोतीति वादिन्या पद्मया भिन्ना धीर्यस्य सः। गृहपतिरभिमन्युः। हरि- प्रणिहितं कृष्णदत्तं हार कीशेन वानरद्वारा हारयते रे कीश, तुभ्यं उदरपूरं मोदकं दास्ये यदेतं रहसि संपुटं उद्धटय्य पश्यति तदा खया अलक्षितमेव हारों हल्ा मत्पाणौ निधेय इति शिक्षां ग्रहितेनेति ज्ञेयम् । भर्तु: खसा ननान्दा कुटिलानान्री। शैब्या प्रियेति तन्निर्दिष्टेत्यर्थः । 'वर्करस्तरुण: पशुः' इत्यभिधानात् वर्करी छागी हरिणी वा लुम्पति। भक्षितपन्रपल्लवां करोति॥ ३९ ॥ रूपमज्जरी खसखीं प्रत्याह-कलहेति। पदं व्यवसायः। क्षोभस्य कारणेऽपि क्षोभानु- द्ावो धैर्यमिति यद्यपि वैर्यस्य लक्षणं तदप्यत्रातीव सहनेति पदद्योतितस्य क्षोभस्य प्रेमपोषलात् कारणजनितान्तःक्षोभप्राकट्येऽपि तत्प्रतीकाराकरणं धैर्यम्, अन्तर्जातस्य क्षोभस्य बहिर्लक्षणाभावो गाम्भीर्यमित्यनयोर्भेद: कल्प्यः ॥४० ॥ ॥। ३८ ॥ पद्मया तन्नाम्रया प्रतिपक्षायमाणचन्द्रावलीसख्या। कीशेन भिक्षां ग्राहितेनेति च ज्ञेयम्। शैव्यापि पद्मावद्याख्येया। प्रियेण निहितं भर्तुः खसा डिम्भयेति शैब्यानिर्दिष्टः शिशुरिति च पाठान्तरम्। मल्लीं तदुपवनलतां प्रियेण श्रीकृष्णेन भर्तु: पतिमन्यतया भरणमात्रकर्तुः । यथा वा ग्रन्थकृतामेव पद्यान्त- रम्-'रासे निवृत्ते तु सपत्निकानां वक्रोक्तिमाकर्ण्य निजालिवकात्। राधा विह- स्याह भवत्य एव द्विषन्ति तासां न तु तादृशस्ताः' ॥ ३९ ॥ लास्येनैवोल्लसन्ती

Page 114

उज्ज्वलनीलमणिः । ९१

अथ सुविलासा- तिर्यकक्षिप्त चलद्दृगश्चलरुचिलोस्योल्ल सन्दलता कुन्दाभस्मितचन्द्रिकोज्ज्वलमुखी गण्डोच्छलत्कुण्डला।

तिर्यगिति। तस्या एव वचनम्। केलिनिकुजमध्ये कुसुमास्तरणवेदिकायां विराजमानस्य श्रीकृष्णस्य रामपार्श्व एव बलादानीय सखीभिरुपवेशितायां श्रीराधायां श्रीकृष्णसंमुख एव संवादार्थमुपविष्ठासु सखीषु श्रीकृष्णे च तस्या: संकोचाभावार्थ सवसौन्दर्यावलोकनदानार्थ च सख्यभिमुखमेव खमुखं कृत्ा, हंहो किं वक्तव्यमद्य मद्भाग्यस्य प्राबल्यं यतोऽत्र विविक्ते गौरीमन्त्रस्मरणं कुर्वाणस्य भम शुभसूचकं शकुनम्; यद् वनमध्येऽपि रजन्यामपि परमसुकृतिनीनां खाद्ग- भासैव तमिस्रायामपि सर्वं तमो विलुम्पतीनां परमसाध्वीनामाकस्मिको दर्शन- लाभ इत्युक्तवति श्रीकृष्णे प्रथमं तिर्यकक्षिप्तचलद्ृगश्चलरुचिः तिर्यक् क्षिप्तेन न तु मुखं व्यावृत्य पुरोनिहितेन, तत्रापि चलता न तु त्रुटिमपि स्थिरीभवता दृशोऽ- अलेनेव न तु केनापि संपूर्णेन भागेन रुची रोचकत्वमयी कान्तिर्यस्याः सा तेन वयमेव परं केवलमसाध्व्यो भवानेव साधुर्निजेष्टदेवतागौरीसंभोगस्मरणपर इति मर्मार्थ व्यज्जयामास। किं चाद केनापि ज्योतिर्विदोक्त्तं रसिकेन्द्र कापि जाम्बून- दमाला अलंकरेष्यतीत्युक्तवति तस्मिन् लास्येनोल्लसन्ती झूलते यस्याः सा जाम्बू- नद्माला अलंकरिष्यतीत्युक्तवति मनोरथं नैव जानीहि; अहं तु यावत सख्योऽत्र तिष्ठन्ति तावदेवात्रास्मि गच्छन्तीष्वेतासु प्रथभमेवेतो निःसृत्य यास्यामीति भ्रूला- स्यस्यार्थः । व्रजराजसूनोसते जाम्बूनदमाला बहुश एव सन्ति न ता दुलेभा: किंतद्य सुरतरुमेव तया शुभादृष्टवता लब्ध इति सखीभि: प्रत्युक्ते सत्यमात्थ भोः सुरतरोरक्षरत्रयादेवाहं कृताथींभविष्यामि किं पुनस्तेन संपूर्णेन सदा तास्ते- नेत्युक्तवति कृष्णे; कुन्दाभं यत् स्मितं तस्य चन्द्रिकया ज्योत्स्योज््वलं मुखं यस्याः सा। स्मितमिदं रत्याख्यस्थायिभावोत्थमवहित्थया संवृतमपि 'किचिन्निः- सतम्। अतएव कुन्दाभं तत्कान्तिश् महती संपूर्णश्रीमुखपर्यन्तव्यापिनीति चन्द्रिकया सा रूपिता। ततश्र कृष्णे धृत्यसमर्थ खमुखं तिरश्चीनीकृत्य तस्या मुखं पश्यति सति तत्क्षण एव तयापि खमुखे स्ववाभपार्श्वे परावर्तिते सति तद्दक्षिण- गण्डे कुण्डलस्योच्छलनं जातमित्याह-गण्डोच्छलत्कुण्डलेति। तदुच्छलन- भरूलता यस्याः । लास्यत्रमद्भूलतेति वा पाठः । कुन्देत्यत्र च सान्द्रश्रीस्मितचन्द्रि- काकरमुखीति वा पाठः। कन्दर्पागमे ये सिद्धमन्त्रास्तद्वद्गहनां दुर्बोधप्रभावां झ्टिति

Page 115

काव्यमाला।

कन्दर्पागमसिद्धमन्रगहनामर्ध दुहाना गिरं हारिण्यद्य हरेर्जहार हृदयं राधा विलासोर्मिभिः ॥ ४१॥ अथ महाभावपरमोत्कर्षतर्षिणी-

ज्योत्स्ीस्यन्दि विधूपलप्रतिकृतिच्छायं वपुर्बिग्रती।

चाकचक्यद्योतितदक्षिणकर्णालकगण्डललाटिकापाङ्गदेशान्तां प्रियामालोक्यानन्द सम्भालम्भिनि श्रीकृष्णे तया दक्षिणपाणिधृतेनाञ्चलेन मुखमाच्छाद्य रत्युत्थमद हर्षव्रीडौत्सुक्यचापल्यजाड्यादिभावसंमर्देव्यज्जकेन खवरेण स्वयमेव प्रत्युत्तरं दत्तमित्याह-कन्दर्पेति। कन्दर्पस्य आगमशास्त्रे ये सिद्धमन्न्रा वशीकरणो- च्ाटनोन्मादनमोहनादिधर्माणस्तैर्गहनां कलिलां व्याप्तामिति यावत्। गिरमर्ध दुहाना। असंपूर्णमेव पूरयन्तीत्यर्थः । अत्र सिद्धमन्न्रा इत्यतिशयोत्तया प्रत्युत्तर- स्यैकैकवर्णा जेयाः । ततश्च ते वर्णा न भवन्ति किंतु सिद्धमन्ना एवेत्यपह्ुतिरति- शयोक्त्या व्यजिता भवति। प्रत्युत्तरं चेदम्। वनपथिनस्ते वनपद्मिनीष्वेव तद- क्षरत्रयं सेत्स्यति न पुनर्मया कल्पवह्नयेति। अस्यायं भावः । वाञ्छितप्रदायामपि कल्पवह्लयां सुरतं न सिध्यति किंतु तद्विसृष्टेषु पद्मिनीजनेष्वेवेत्यतो मया तुर्भ्यं तदर्थ खसख्यो दत्ता इति ताखपि नर्मप्रत्युक्तिर्ध्वनिता। ततश्व यद्यस्मांस्तं सवकान्ताय दित्ससि तर्हि वयं वनपझ्मिन्यः पलाय्य वनमेव गच्छाम इति सखीषु निर्गच्छन्तीषु श्रीराधायामपि निर्गन्तुसुद्यतायां तां बलात् श्रीकृष्णः सकण्ठग्राह- माश्लिष्य पुष्पशय्यायां निन्य इति ज्ञेयम्। विलासाख्यस्यालंकारस्योर्मिभिस्तरङै- रिति तस्य प्रियमुखचन्द्रक्षोभितसमुद्रत्ारोपः । 'भाघुर्यवारिधेरस्मादमन्दध्वनि- निर्भरात्। पद्यादर्थमणीननिशे ग्रहीतुमपि दीनधीः'॥४१ ॥ कलहान्तरितायाः श्रीराधायाः सखी श्रीकृष्णमाह-अश्रूणामिति। ननु नत्युपेक्षादिभि- स्तम्भमोहकारिणीमित्यर्थः । दुहाना व्यजयन्तीत्यर्थः ॥४० ॥४१ ॥ अश्रूणामित्ये- तत् श्रीकृष्णं प्रति श्रीराधासखीवाक्यमुदात्तालंकारमयं ज्ञेयम्। यदुक्तम्-'लोका तिशयसंपत्तिवर्णनोदात्तमुच्यते' एष चालंकारस्तत्तद्वस्तूनामतिशय तामात्रव्यज्ना- सत्पर्यकः। ज्योत्स्नीस्यन्दीति। कमेण खेदस्तम्भवैवर्ण्यानि दर्शितानि। छाया कान्तिः । त्रुटदिति तौदादिकतवातू प्रकृष्टा वाता यस्यां सा प्रवाता कम्पभाना या

Page 116

उज्ज्वलनीलमणिः । ९३

कण्ठान्तस्त्रुटदक्षराद्यपुलकैर्लब्धा कदम्बाककृर्ति राधा वेणुधरप्रवातकदलीतुल्या क्वचिद्वर्तते ॥ ४२ ॥ अथ गोकुलग्रेमवसतिः- प्रेमसन्ततिभिरेव निर्ममे वेधसा नु वृषभानुनन्दिनी। यादशां पदमिता मनांसि नः स्नेहयत्यखिलगोष्ठवासिनाम् ॥४३॥

रुप्रायैर्मयापि दुःशकप्रसादायाः मानिन्यास्तस्या एवंवृत्तवे को हेतुस्तत्राह- वेणुधरेति। सर्वास्त्राणां मोघले वीरेण यद्रह्मास्त्रं प्रयुज्यते तडुचितमेवेति भाव: । तदधुना तन्निकटगमने क्षणमपि विलम्बो न कार्य इत्याह-अश्रूणा- मिति। तेन जलोपप्नुतमार्गले क्षणेनैव जनिष्यमाणे लया सुकुमारेण मया वा अबलया कियत् संतरणीयमिति भावः । किंच मुहूर्त तस्याः प्राणाः स्थास्यन्त्येवे- सयाह-ज्योत्स्नीस्यन्दीति। स्फूत्यैवोदितस्य न्मुखचन्द्रस्य दर्शनोत्थानन्द एव तत्र हेतुरिति भावः । स्यन्दीति प्रस्वेदः । विधूपलप्रतिकृतीति स्तम्भः । छायामिति वैवर्ण्य द्योतितम्; चन्द्रकान्तशिलायाः पाण्डवर्णलात्। तदपि प्रेम्णा औष्ण्यांशस्यैव विश्लेषे प्राबल्याद्दशमीमेव दशामासन्नप्रायां जानीहीत्याह- कण्ठान्तरिति। हे कृष्ण प्राणनाथेति विवक्षुरित्यर्थः । त्रुटदक्षरेति वैस्वर्यम्। त्रुटदिति तौदादिकत्ात्। प्रकृष्टवातकदलीति कम्पः । पश्चाद्भूमिपतनद्योतितः प्रलयश्च। बाध्यबाधकसंबन्धे षष्टीसमासः । प्रकृष्टो वातो यस्यां तथाभूता कद- लीति वा। अत्र पद्ये सर्व एव सात्त्विकाः सुदीप्ता महाभावविशेषं सूचयन्ति। तथा च वक्ष्यते-'मोदनोऽयं प्रविश्लेषदशायां मोहनो भवेत्। यस्मिन् विरहवैव- श्यात् सूद्दीप्ता एव सात्त्विकाः ॥' इति ॥ ४२ ॥ प्रातः पाकार्थ खसदनमायान्ती श्रीराधां दूरात् पश्यन्ती श्रीव्रजेश्वरी खसखीं प्रत्याह-प्रमेति। वस्तुतः प्रेम्णः संततयोरंशाः स्नेहाद्यास्तैः सवैरप्युपादानकारणैरित्यर्थः । इता प्राप्ता ॥४३ ॥ कदली तत्तुल्या। क्वचिद्वर्तत इति वेणुधरस्य वेणुना तामाकृष्टवतस्तस्योत्कण्ठा- वर्धनार्थमनिश्चयेनोक्तिः । वस्तुतस्तु समीपतः कुआ्न्तर्गुप्तं स्थिला तं पश्यन्त्येव सा वर्तते यतो ज्योत्स्ीस्यन्दीति दृष्टान्तेन प्रियदर्शनजमहासुखमेव तस्या व्यजि- तम्। स एष सूद्दीप्तसात्त्विकभयो रूढाख्यो महाभावः स्पष्टः। यथा च वक्ष्यते-'सूद्दीप्ताः सात्त्विका यत्र स रूढ इति भण्यते' इति। तदेतदुपलक्षण- मेवाधिरूढादीनां स्थायिप्रकरणे वक्ष्यमाणानां ज्ेयम्॥ ४२॥ प्रेमसंततिमिरे वेति। कांचिननिजहार्द व्याजेन पृच्छन्तीं प्रति श्रीव्रजेश्वर्या वाक्यम्। स्नरेहसंत-

Page 117

९४ काव्यमाला।

अथ जगच्छ्रेणीलसद्यशा :- उत्फुल्लं किल कुर्वती कुवलयं देवेन्द्रपल्नी श्रुतौ कुन्दं निःक्षिपती विरिश्चिगृहिणी रोमौषधीहर्षिणी। कर्णोत्तंससुधांशुरलसकलं विद्राव्य भद्राङ्गि ते लक्ष्मीमप्यधुना चकार चकितां राधे यशःकौमुदी॥ ४॥

पौर्णमासी प्राह-उत्फुल्लमिति। कुवलयं नीलोत्पलं भूतलं च। अत्र अतलादीनीं सप्तपातालानां भूवलयलात् कुवलयपदेनैव व्यक्तिः। तन्न तत्रस्थाः सर्व एव जनासे यश: श्रुला प्रहृष्टा बभूवुरित्यर्थः । सप्तस्वर्गव्याप्तिमाह-देवेन्द्रपत्नी शची तस्या: श्रुतौ कुन्दं निक्षिपती अवतंसार्थ कुन्दपुष्पमर्पयन्तीति चन्द्रिकायास्तत्र पतिताया कुन्दभ्रमदायिलात्। पक्षे शची लय्यशः सादरं शणोतीत्यर्थः। अन्र कुन्दस्य पुष्पेषु सूक्ष्म लात्। तत्पदेन देवेन्द्रपत्या महाविषयाभिनिवेशान्धतमसमयगह्वरान्तर्वा- सितवं ध्वन्यते देवतमात्रसूक्ष्मगवाक्षरन्ध्रात्प्रविशन्ती लद्यशश्चन्द्रिका तस्या एकस्या- मेव श्रुतौ कुन्दाकारैव भवति। विरिश्चिगृहिण्याः सावित्र्यारो माण्येव औषध्यसता हर्षयितुं शीलं यस्याः सा। अन्न रोमौषधिपदेन विषयवैतृष्ण्यमयसत्त्वगुणचन्द्र- शालाप्राङ्गणवासितं ध्वन्यते। यतस्ते यशःकौमुदी तस्याः सर्वोज्गाण्येव शीतलीकृत्य रोमाश्चयतीति। एवं सत्यलोकपर्यन्ता व्याप्तिरुक्ता भुवर्लोकादीनां तन्मध्यपतित- लातू। एवं च सर्व प्राकृतं व्याप्याप्राकृतमपि व्याप्रोतीत्याह-कणात्तंसेति। सुधांशुरल्नशकलं चन्द्रकान्तशिलाखण्डं विद्राव्य प्रद्वीभावं प्रापय्य तहुतजल- क्विनाज्गीं तां कृला चकितां शङ्काजाड्यविस्मयस्तिमितां चकार। अन्र विद्राव्येति चकितामितिपदाभ्यां लद्यशःकौमुद्या सा बहिरन्तराक्रान्ता; अतिसच्छा प्राकृततव- मालिन्यशून्या सूचिता। आसु आद्यायाः श्रवणमान्नस्पर्शो न च सात्त्विक- भावोदयः कोऽपि। द्वितीयायाः सर्वाज्ञस्पर्शो रोमाञ्चश्। तृतीयायां बहिरन्तः तिभिरिति वा पाठः ॥ ४३ ॥ उत्फुलं किल कुर्वती कुवलयमिति। कुवलयशब्दस्य पृथ्वीमण्डलवाचिताद्यशस्युपयुक्तता, कुमुदवाचितात् कौमुद्युप- युक्तता च युक्ता। कुन्दं निक्षिपतीति कविसमये यशसः शुकललात् कुन्दमिवेत्यर्थः। कौमुदा अपि तन्न पतनेन कुन्दभ्रमदतात्तदिवेत्यर्थः । विरिश्चीत्यादिरोषधिरूप- क्रेण कौमुदीरूपकमपि पुष्यते। विद्राव्येति तु कवेः प्रौढोक्तिः । लक्ष्म्याश्च पद्मा-

Page 118

उज्ज्वलनीलमणिः । ९५

अथ गुर्वर्पितगुरुस्रेहा- न सुतासि कीर्तिदायाः किंतु ममैवेति तथ्यमाख्यामि। प्राणिमि वीक्ष्य मुखं ते कृष्णस्येवेति किं त्रपसे ॥ ४५ ॥ अथ सखीप्रणयाधीना- उपदिश सखि वृन्दे बल्वेन्द्रस्य सूनुं किमयमिह सखीनां मामधीनां दुनोति। अपसरतु सशङ्कं मन्दिरान्मानिनीनां कलयति ललितायाः किं न शौटीर्यधाटीम् ॥ ४६॥

सर्वाङ्गव्याप्तिः संचारिभावपर्यन्तोदय इति सच्छलतारतम्येनैव तय्यशःप्रवेश- तारतम्यं अतिमानि(लि)न्ये प्रवेशाभावश्वेति सिद्धान्तश्व बोधितः ॥४४ ॥ निजाग्रे मुखमावृत्यैव लज्जया किमप्यवदन्तीं राधां व्रजेश्वरी प्राह-न सुतेति। लन्मातुः सकाशात्त्वयि मम स्नेहो मनागपि न न्यूनः कीर्तिदायशोदयोरैक्यादिति भाव: । प्राणिमीति प्रतिप्रातस्तदाह्वान इदमेव मुख्यं कारणमिति तयापि ज्ञातुं शक्यमिति ध्वनिः॥ ४५ ॥ कलहान्तरिता श्रीराधा प्राह-उपदिशेति। शौटीर्यं विक्रमः। छलादाकमणं धाटी। ललिताया इत्यनेनैका ललितापि तेन दुंरतिकमा सखीनामिति बहुवचनेन तादृश्यस्तु मे बह्वय एवं सख्यो वर्तन्त इति प्रकटो ध्वनिः। वस्तुवस्तु एका ललितैव तदसंमता तेन सा तेनानुनीय वशी- कार्येति गूढः । अहं तु केवलं न तस्या एकस्या एवाधीनास्मि किंतु सखीनाम- न्यासामपीत्यतस्तत्साहाय्यवतीर्विशाखाप्रभृतीराश्रित्य स्वकृत्यं साधनीयमिति पूर्व-

लयलात् कौमुदीरूपकस्योपयोगिता। विद्राव्य पद्मालयामप्युच्चैस्तरचश्चलीकृतव- तीति वा पाठः ॥ ४४ ॥ न सुतासीति। श्रीव्रजेश्वरीवाक्यमाहूयमानेत्या- दिवत्तादृशभावोऽत्र योज्यः । अलंकारश्वात्रापह्नुतिः। यथोक्तम्-'प्रकृतं यन्नि- षिध्यान्यत्साध्यते सा लपह्नुतिः' इति ॥४५॥ शौटीर्य विक्रमातिशयस्तेन धार्टी किं न कलयति किं न जानाति। 'छलादाकमणं घाटी' इति क्षीरखामी।। ४६॥

Page 119

९६ काव्यमाला।

अथ कृष्णप्रियावलीमुख्या यथा ललितमाधवे- सन्तु भ्राम्यदपाङ्गभङ्गखुरलीखेलाभुवः सुग्रुवः स्वस्ति स्यान्मदिरेक्षणे क्षणमपि त्वामन्तरा मे कुतः । ताराणां निकुरम्बकेण वृतया श्रिष्टेऽपि सोमाभया नाकाशे वृषभानुजां श्रियमृते निष्पद्यते सच्छता ॥ ४७॥ अथ संतताश्रवकेशवा- षडङ्गिभिरमर्दितान्कुसुमसंचयानाचिनो- दखण्डमपि राधिके बहुशिखण्डकं त्वद्विरा।

माश्वासपूर्वको गूढोपदेशः ॥ ४६ ॥ श्रीकृष्णः प्राह-सन्तु भ्राम्यदिति। भ्राम्यतामपाङ्गानां भन्जिर्िन्यासविशेषस्तत्र खुरली अभ्यासस्तस्य खेलाभुवो निर- न्तरमेव मद्वशीकारे प्रवृत्ता इति भावः । किंतु विफलाभियोगा एव भवन्ती- त्याह-स्वस्तीति। लामन्तरा लां विनेति लद्वपुषः पृष्ठादेकप्रदेशा अपि दृष्टा मां खस्तिमन्तं कुर्वन्ति तासां तादृशापाङ्गभक्गयोऽपि नेति भावः। अत्रार्थान्तर- न्यासेन दृष्टान्तः । तारेति। सोमस्य आभया संपूर्णकान्त्यापि तारामण्डलीजुष्ट- यापि ्िंष्टे गाढस्पृष्टेऽपि वृषभानुजां ज्येष्टमासीयसूर्योत्पन्नां श्रियमेकामपि शोभा ऋते विना स्वच्छता निरन्धकारता। श्लेषपक्षे लेवमवतारिका। ताः सुन्नुवो दूरें वर्तन्तां तासु मुख्या चन्द्रावल्यपि मत्सुखसमृद्धये न प्रभवतीत्याह-तारेति। ताराणामतिशयोक्त्या खवसखीनां भद्रादीनां च। सोमाभया चन्द्रावल्याश्िषटेऽपि पुरुषायितया सत्याप्यालिङ्विते आकाशे अतिशयोत्त्या मड्ृदये वृषभानुपुत्रीश्रि्य संपत्ति विना सच्छता निर्दुःखता। अन्र तां विनाभूतं तु मद्धृदयं रक्कं निःशोभं च सदा तिष्ठतीति श्रीपदव्यङ्गयं वस्तु ॥। ४७ ॥ श्रीकृष्णः ग्राह-षडङ्गिभि रिति । बहूनां शिखण्डकानां समाहारो बहुशिखण्डकम्। त्रिभुवनमितिवत् ताराणामित्यादिकमर्थान्तरन्यासमयम्। किं तत्र श्रलेषोऽप्यस्ति । यः खल तद्वन्तमेवार्थ पुष्णाति। तत्र ताराणां तत्सदृशीनां सोमाभया तदेकपर्यायचन्द्रा+ वलीनाम्रया वृषभानुजां श्रियं श्रीराधामाकाशे आ सम्यक् काशत इति श्रीकृष्णे। सच्छता अग्लानचित्तता।। ४७ ॥ षडड्रिभिरमर्दितानिति। श्रीकृष्ण-

Page 120

उज्ज्वलनीलमणिः । ९७

अमुं च नवपल्लवव्रजमुदश्चदर्कोज्ज्वलं करोतु वशगो जनः किमयमन्यदाज्ञापय।। ४८॥। यस्या: सर्वोत्तमे यूथे सर्वसद्गुणमण्डिताः । समन्तान्माधवाकर्षिविभ्रमाः सन्ति सुम्रुवः ॥४९॥ तास्तु वृन्दावनेश्वर्याः सख्यः पञ्चविधा मताः। सख्यश्च नित्यसख्यश्च प्राणसख्यश्र काश्चन ॥ ५० ।। प्रियसख्यश्च परमश्रेष्ठसख्यश्च विश्रुताः। सख्य: कुसुमिकाविन्ध्याधनिष्ठाद्याः प्रकीर्तिताः॥५१॥ नित्यसख्यस्तु कस्तूरीमणिमञ्जरिकादयः । प्राणसख्यः शशिमुखीवासन्तीलासिकादयः ॥५२॥

पात्रादिद्विगुः । अयं मल्क्षणः ॥ ४८ ॥ एवं नायिकामुख्याया गुणानुक्ला तस्याः सहायलेन सखीराह-यस्या इति। 'गुणा वन्दावनेश्वर्या इह प्रोक्ताश्चतुर्विधाः' इति पूर्वेण लक्षणेनैव संबन्धः । यत्पदस्योत्तरवाक्यस्थले तत्पदापेक्षा नैवासिति। यथा-'साधु चन्द्रमसि पुष्करैः कृतं नीलितं यदभिरामताधिके' इति काव्य- प्रकाशः ॥४९ ॥ इमा: स्त्रियः सखीनित्यसखीप्राणसख्यः। प्रायेण सरूपतां तुल्यतां प्रेमसौन्दर्यसाद्गुण्यादिभिरिति शेषः । प्रायेणेत्युक्त्या न सर्वथा तुल्यलम- वसीयते। ततश्च सर्वथा तुल्यत्वं प्रियसख्यः परमप्रेष्ठसख्यश्च प्राप्ता इति सखीनां पाश्चविध्यलेऽपि वक्ष्यमाणाभ्यामसमस्नेहसमस्नेहाभ्यां द्वैविध्यं बुध्यत इति। नन्वत्र प्रायेण तुल्यतामित्युत्ते: सखीनित्यसखीप्राणसखीनां वृन्दावनेश्वरीतः किंचिन्न्यूनले लब्धे 'तुल्यरूपगुणाः सख्यः, किंचिनन्यूनास्तु दासिकाः' इत्युक्त्त- निरुक्तेरासां दासीलं प्रसज्येत। मैवम्। तत्र किंचित्तुल्यास्तु दासिका इत्युक्त्या यत्किंचिन्यूना इत्युक्तम्; तस्मात् किंचिनन्यूनत्वं द्विविधं व्याख्येयम्। तुल्यता संभावनाया योग्यमयोग्यं च। आद्यं समानाभिजात्यकं सखीतप्रयोजकम्, द्वितीयं न्यूनाभिजात्यकं दासीलप्रयोजकमिति सर्वभवदातम्॥५०॥५९॥

वाक्यम्। शिखण्डकं तज्जातिं तच्च बह्निति नानाप्रकारमित्यर्थः। अयं मल्क्षणः ७ उज्व०

Page 121

काव्यमाला।

गता वृन्दावनेश्वर्याः प्रायेणेमाः सरूपताम्। प्रियसख्यः कुरङ्गाक्षी सुमध्या मदनालसा ॥ ५३ ॥ कमला मधुरी मस्जुकेशी कन्दर्पसुन्दरी। माधवी मालती कामलता शशिकलादयः ॥ ५४॥ परमप्रेष्ठसख्यस्तु ललिता सविशाखिका। सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका । ५५॥ रङ्गदेवी सुदेवी चेत्यष्टौ सर्वगणाग्रिमाः। आसां सुष्ट द्वयोरेव प्रेम्ण: परमकाष्ठया। क्वचिञ्ञातु क्वचिज्जातु तदाधिक्यमिवेक्ष्यते ॥५६॥ इति वृन्दावनेश्वरीप्रकरणम्।

। ५२॥ ५३ ॥५४ ॥ ५५ ॥ ननु सर्वगणाग्रिमलवं ललितादीनां वक्ष्यभाण- रीत्या समस्रेहलेनोच्यते तदेवासिद्धम्। क्वापि क्वापि स्नेहवैषम्यस्यापि दृष्टलादि त्यत आह-आसामिति। आसां ललितादीनां द्वयो राधाकृष्णयोर्विषययोर्य. प्रेमा तस्य परमकाष्ठया परमोत्कर्षेण हेतुनैव क्वचिज्जातु कदाचित् खण्डितायां- राधायां श्रीकृष्णादपि तदाधिक्यं प्रेमाधिक्यम्। तत्र राधादुःखस्य श्रीकृष्णदत्त लेनानुसंहितस्य असह्यलवमेव हेतुः। कदाचित्तत्कठोरमाननिबन्धनविरहविषण्णतनी श्रीकृष्णे राधातोऽपि प्रेमाधिक्यम्। तत्र कृष्णदुःखस्य राधादत्तलेनानुसंहितस्या- सह्यलमेव हेतुः। इवेत्यनेन सूक्ष्मबुद्धिभिराधिक्यस्यापरिगृहीततमुक्तम्; द्वयो- रपि दुःखस्यासह्यले तुल्यलानुभवात्। असमस्ेहास्तु यत्र या: स्नेहाधिक्यवल स्तत्सुखदुःखयोरयेयोरेव सुखदुःखाधिक्यवत्यो नत्वन्यन्न ॥ ५६ ॥ इति वृन्दावने- श्वरीप्रकरणम् ॥। ॥४८ ॥४। ५० । ५१ ॥५२ ॥ ५३ ॥५४ ॥ ५५ ॥ आसामष्टानां ललितादीनां द्योरेव श्रीकृष्णराधयोरद्वयोरपि विषयभूतयोः प्रेम्णः परमकाष्टया हेतुना जातु कदाचित् क्वचित् श्रीराधायां तथा जातु कदाचित् श्रीकृष्णे तदा- धिक्यं द्वयोरितरापेक्षया प्रेमाधिक्यमिवेक्ष्यत इत्यर्थः ॥५६॥ इति वृन्दावने श्ररीप्रकरणम् ॥

Page 122

उज्ज्वलनीलमणिः ।

अथ नायिकाभेदाः । यूथेऽप्यवान्तरगणस्तेषु च कश्रिद्गणस्त्रिचतुराभिः। इह पश्चषाभिरन्यः सप्ताष्टाभिस्तथेत्याद्याः॥१॥ किं च- नासौ नाट्ये रसे मुख्ये यत्परोढा निबध्यते। तत्तु स्यात्प्राकृतक्षुद्रनायिकाद्यनुसारतः ॥२॥ तथा चोक्तम्- नेष्टा यदङ्गिनि रसे कविभि: परोढा- स्तद्गोकुलाम्बुजद्दशां कुलमन्तरेण।

यूथेऽपीति। अवान्तरगणा यथा-सखीगणः प्राणसखीगण: प्रियसखीगण इत्येवं बहव एव गणाः । यद्वा राधायूथे ललितागणोऽयं विशाखागणोऽयमि- त्यनन्ता एव गणास्तेषु च त्रिचतुराभिरपि सखीभिरेको गणः पञ्चषाभिश्चेत्येवं- रीत्या शतैः सहस्रैलक्षैरपि ज्ञेयः ॥ १ ॥ यथा नायकप्रकरणे औपपत्यस्याधर्म- हेतुलेन विगीतलेऽपि श्रीकृष्णे परमसंगीतत्वं स्थापितम्, तथात्र नायिकाप्रक- रणेऽपि परोढात्स्य विगीतलेऽपि श्रीगोपीषु कृष्णकामितलेन परमसंगीतत्वं स्थापयति नासौ नाव्य इति ॥ २ ॥ तत्रार्षप्रमाणादिकं पूर्वमेवोक्त्तं संप्रत्यार्ष- संमतिनिर्धारकुशलबुद्धिभिर्विज्ञप्रवरैः प्रयुक्तं पद्यमेव प्रमाणीकुर्वन्नाह-नेष्टति। अज्विनि मुख्ये रसे शङ्गारे इत्यर्थः । यत्परोढा नेष्टाः परोढां वर्जयिसेत्यादि साहित्यदर्पणादि लक्षणदृध्या निषिद्धा इत्यर्थः । तद्गोकुलाम्बुजदृशां कुलमन्तरेण कुलं विना तास्तु इष्टा एवेति तासां परोढालं परोढालेऽप्यविगीतत्वमिति द्वयं पूर्वाचार्यसंभतमित्यायातम्। तत्र हेतू रसस्य रसास्ादस्य विधेराशंसया शद्गार- अथ नायिकामेदाः ॥१॥ तत्र परकीयाले नायकप्रकरणे परिहृतमपि दोषमन्न पुनर्दाद्याय परिहरति-किंचेति ॥२॥ तत्र पूर्वाचार्यवाक्यं प्रमाणयति- तथा चोक्तमिति। यं निर्वाहयितुं प्रबन्ध: स एव रसोऽजी। तदिति। क्वचि- त्प्रास्गिके लङ्गे रसे परोढा इष्टा भवन्तु नाम; नलज्विनीत्यर्थः । यदुकं तेषां सतसंग्राहकेण साहित्यदर्पणकारेण-'परोढां वर्जयिलात्र वेश्यां चाननुरागिणीम्।

Page 123

१०० काव्यमाला।

आशंसया रसविधेरवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥ ३ ॥

रसास्वादोऽपि शास्त्रेषु विहितोऽस्लित्याकाल्लया कंसारिणा श्रीकृष्णेनैव ख्यमव- तारितानां प्रपञ्चगोचरीकृतानाम् । अस्यार्थः। निवृत्तिशास्त्रेषु शान्तरस एव विहितः; कामोपरागमूलकलवेन संसारनिवर्तकत्वात्, शद्गाररसस्तु निषिद्धः कामो- परागमूलकलेन संसारप्रवर्तकत्वात्। स च परदारनिष्ठस्तु प्रवृत्तिशास्त्रेष्वपि निषिद्धः, कर्तुरिव तत्कथास्वादयितुरपि दुरदृष्टजनकलेन निरयपातहेतुलात्। भगवता तु परवधूविनोदलीलायां प्रपश्चेऽपि गोचरीकृतायां 'विकीडितं व्रजवधूभि :- 'इत्यादौ 'शाणुयादनुवर्णयेदः' इति तदाखादविधिरप्यभूदिति सा लीला व्रजवधूर्विनान्यत्न क्वापि न संभवतीति स्वयमवतीर्य ता अपि अवतारिता इति। किंच श्रीभागवते 'वदन्ति तत्तत्त्वविदः- इत्यादिभिर्व्रह्मतपरमात्मतभगवत्त्वेषु भगवत्त्वस्यैव प्रख्यववं स्थापितम् । तत्रा'प्येते चांशकला- इत्यादिभिः स्यं भगवत्त्वस्य तन्रापि तत्तात्पर्यालोचनया भक्तिरसामृतसिन्धौ 'हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा-' इत्यादिभि: पूर्णतमत्वस्यैव तत्रापि दास्यसख्यादिरसवत्त्वेपूज्वल- रसालम्बनत्स्यैव तत्राप्येतद्रन्थप्रतिपादितस्यौपपत्यस्य मुख्यतमले परमावधिलं निर्णातम्। तदेकापेक्षकस्यापि ब्रह्मत्ापेक्षकात् शान्तरसात् परमोत्कर्षपरावधिलं स्थापितं भवति। तत्फलस्यापि सर्वफलेम्यः परमोत्कर्षपरावधितं दृश्यते।

आलम्बनं नायिका स्युर्दक्षिणाद्याश्च नायकाः इति। चकारो भिन्नोपक्रमे। परो- ढावेश्ये तावद्वर्जनीये एव। यदा स्वीयाप्यननुरागिणी स्यात् तदा तामपि वर्ज- यिलेत्यर्थः । तदुक्तम्-'परनायकसंस्थायामित्यादि।' तदेतन्च गोकुलाम्बुजदृशां कुलमन्तरेण तद्विनेत्यर्थः । तास्तु इष्ट इत्यर्थः । तत्र हेतुगर्भ तासां विशेषणम्। आशंसयेति । तादृशलीलाक्रमसाध्यप्रेमरसविशेषाखादनाय सर्वज्ञतां सर्व- शक्तितां सर्वेश्वरतामपि नात्यादृत्य तदुपयुक्तां लीलाश क्तिमेवादत्य तद्वारावतारितानां नित्यप्रेयसीनामेव तासां परदारतभ्रमेण यथा रसस्य विधि: प्रकारविशेष: संभवति तथा जन्मादिलीलाया नित्यत्वं विस्मार्य प्रकटीकृतानामित्यर्थः । तदाशंसायां हेतुः-रसिकेति। तस्माल्लीलाशक्तिप्रेरिततया कृतमेव तासां परोढालप्रत्यायनं परसंगत्यभावश्च। तत एवेत्यङ्विनि रसेऽस्मिन् परमयुक्ता एव ता इति भावः।

Page 124

उज्ज्वलनीलमणिः । १०१

"मक्ति परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः' इत्यनेन तन्रापि क्लाप्रत्ययेन हृद्रोगवत्येवाधिकारिणि प्रथममेव तादृश्या भक्ते: प्रवेशस्त- यैव हृद्रोगस्यापि शीघ्रनाशः । एवं च निकृष्टावधेरपि शृङ्गारस्य स्वरूपतः फलतश्र परमोत्कृष्टावधिलेन प्रतिपादनात्, तदाखवादविधेश्च परमहंसशास्त्रे श्रीभागवत एव करणात् निरङ्गशश्षर्येण विस्मयरसमनुभूयोक्तम्-रसिकमण्डलेति। यद्वा। नन्वस्य रसस्य विहिततवमप्यस्तु; परोढां वर्जयिलेत्यादिना, रसाभासतमप्यख रसाभासादीनामपि 'सर्वे हि रसनाद्रसाः' इत्याखादविधे:। इत्त उक्तम्- रसिकमण्डलशेख रेणेति। तथाले'कृष्णस्यारसज्ञत्वमेवापद्यत इति। ये चैवं च्याचक्षते-रसस्य विधे: प्रकारस्य आशंसया आकाल्लयावतारितानां प्रपश्वगोचरी- कृतानामिति । त एवं प्रष्टव्याः अप्रकटप्रकाशे किं रसस्य प्रकारो नास्तीति। नन्वस्त्येव; किंतु तासां तत्र खीयात्वात् खीयातसमुचित एव नतु परकीयासु दौर्लभ्यभावनेन लोकवेदमर्यादोलद्वनेन चानुरागाधिक्यमयो रसोत्कर्षो यावां- स्तावानिति। अतो रसोत्कर्षविशेषासादनार्थ यदैवाकाल्णा अजनिष्ट तदैव ताः अपश्चे परवधूलेनावतारिताः लीलाशत्तयैव तासु कारितेन परदारतत्रमेण कियन्तं कालं तदासवादश्च संपादित इति। सत्यं भोः सत्यम् । यो हि रसोत्कर्षास्वादः स कृष्णस्य न सार्चकालिकः किंतु प्रकटायामवतारलीलायामेव; तस्याः कादाचि- त्कलात् सोऽपि कादाचित्क इति। तथा यदेव रसोत्कर्षस्य मूलं तच्च परवधूलं भ्रमक्कृप्तमेवेति धन्यैवेयं वः सिद्धान्तस्थितिः । शृणुत तावत्। श्रीकृष्णकर्तृकस्य रसोत्कर्षास्वादस्य कादाचित्कले मायिकलमापद्यते; मायाशक्तिकृतस्यैव कादाचि- त्कलदर्शनात्, नतु चिच्छत्तिकृतस्य। तथा तासु परवधूत्स्य भ्रमक्कृप्तले ईश्वरोऽपि भ्रान्त इति शाङ्करशारीरकमतादपि वैशिध्यमायातम्। तत्र हि एतदुक्क भवति। यद्यपि निर्विघ्नेऽपि संभोगे रसो भवत्येव तथापि 'न विना विप्रलम्मेन संभोग: पुष्टिमश्नते' इति भरतन्यायेन विप्रलम्भश्च कुत्रचिदपेक्ष्यते। स च विप्रलम्भो यदि लीलावैच्ित्र्यमुद्धहन् भवति तदा तितरामिति गम्यते। ळीलावैचित्यं च तादशदम्पत्योरिस: परं नासिति यद्दम्पत्योरेव सतोर्लीलाशत्त्या जन्मान्तरवशाद्विस्तृततन्भावयोर्मिथ्यैवान्यत्र प्रत्यायितजायाविवाहयोजोयाप्रति- कृतिकल्पनया वश्चिते पतिमन्ये लोकधर्ममर्यादासमुल्लद्गकरागेण रहसि परस्पर- मिलितयोर्निरन्तरजातशङ्या जातदौर्लभ्ययो:, कथंचिज्ाते तु नायकस्य दूरत्रवासे

Page 125

  • १०२ काव्यमाला।

जीव एव भ्रान्त इत्युच्यते नत्वीश्वर इति। ननु त्रमोऽयं प्रेमहेतुक एव लीला- शत्त्या संपादित इति चेत् तर्हि किमप्रकटप्रकाशे प्रेमा नासि्ति यतोऽयं कृष्णस्त- त्राभ्रान्त एव ताः खीया एव आनाति। कथं वा तस्य भ्रमस्य कादाचित्कलम्: प्रेमहेतुकलेन नित्यतस्यैवौचित्यात्। मायिकवस्तूनामेव कादाचित्कत्वस्थापनात्,- तथावतारलीलाया: कादाचित्कलेन मायिकले तया 'ससुखनिभृतचेतास्तब्युद- स्तान्यभावोऽप्यजितरुचिरलीलाकृष्टसारः' इति 'परनिष्ठितोऽपि नैर्गुण्ये,उत्तम- शलोकलीलया । गृहीतचेता राजर्षे-' इत्यादिभ्य आत्मारामचूडामणेः श्रीशुक- देवस्य ब्रह्मतोऽप्याकर्षणं नोपपद्यते । न चाप्रकटलीलयैव तदिति वाच्यम्; 'आख्यानं यदधीतवान्' इत्युक्तेराख्यानस्यास्य श्रीभागवतस्यावतारलीलामय- लादिति। किंच श्रीभगवत्संदर्भे 'न विद्यते यस्य च जन्म कर्म वा' इत्यत्र सर्वलीलानित्यले प्रातिभासिकया श्रीमज्जीवगोखामिचरणव्याख्ययैव सर्वमेतत् कुमतं पराहतम् । सा च 'अन्रैव परमोत्कर्षः शङ्गारस्य प्रतिष्ठितः' इत्त्र लिखितैव । किंचास्माकं हि सर्वसिद्धान्तमूलं श्रीकृष्णस्य स्वयं भगवत्त्वम् । तच्ब सर्वथा परिपूर्णलसिद्धम्। सर्वदा परिपूर्णतं च तदीयसर्वशक्तीनां संपूर्णया व्यत्तयैव । भागवतामृते तथैवोक्तम्-'शक्तयश्र सर्वोत्कर्षसर्वैश्वर्यमाघुर्यलीला- सत्यसंकल्पतेत्याद्याः' । तन्राप्रकटप्रकाशे रसास्वादोत्कर्षाभावे उत्कर्षिण्याः शक्तेत रव्यक्त्तमाधुर्यसत्यसंकल्पतेत्यादीनामल्पव्यक्त्या च परिपूर्णताभावे सयं भगवत्त्व- स्यैवासिद्धिः, तस्यासिद्धौ च कथयत कीदृशं साध्यसाधनादिस्थापनमिति। ननु च प्रकटप्रकाशे रसोत्कर्षसिद्धावप्रकटप्रकाशेऽपि तत्कथाश्रवणस्मरणादिभि: सभ्य- तया तदाखादो भविष्यतीति सत्यम्; तदपि परकीयासंभोगसुखाभावेन तत्क- थानुस्मृतिजनिततत्त्वसंभोगलिप्सया चाफलवत्या स दोषस्तदवस्थ एवेत्यलमति- मिलनयुक्तिमसंभावयतोस्ततो जाते कथमपि संयोगे लीलाशक्त्यैव लोके व्यजित- दाम्पत्ययोः परम एव सुखचमत्कारः स्यात्। यथा ललितमाधवस्य पूर्णमनोरथ- नामाड्कपूर्तौ श्रीराधावाक्यम्-'सख्यस्ता मिलिता निसर्गमधुराः प्रेमाभिरामीकृता -यामीयं समगंस्त संस्तरवती श्वश्रूश्च गोष्ठेश्वरी। वृन्दारण्यनिकुञ्जधाम्नि भवता सज्जोऽप्ययं रङ्वान् संवृत्तः किमतः परं प्रियतरं कर्तव्यमन्रास्ति मे ॥' इति॥ तदीदशं च खनाटके गत्यन्तराभावं पश्यता यद्दर्शितं तत्रैव परमवैचित्र्यं ख्वयम- भिमतं तदेव च रसिकमण्डलशेखरेणेत्यन्नाभिमतमिति। तदिदमेव समृद्धि

Page 126

उज्ज्वलनीलमणिः । १०३

व्रजेन्द्रनन्दनत्वेन सुष्ट निष्ठामुपेयुषः। यासां भावस्य सा मुद्रा सद्भक्तैरपि दुर्गमा ।।४। यथा ललितमाधवे- गोपीनां पशुपेन्द्रनन्दनजुषो भावस्य कस्तां कृती विज्ञातुं क्षमते दुरूहपदवीसंचारिणः प्रक्रियाम्।

विस्तरेण ॥ ३ ॥ एवं चा्विनि शुज्गाररसे द्विविधो भावो दाम्पत्यमय औपपल्- मयश्च। तत्राद्यो वसुदेवनन्दनत्वाभिमानवत्येव श्रीकृष्णे, द्वितीयस्तु नन्दनन्दन- लाभिमानवत्येव तस्मिन् पुष्टिमाप्नोति यद्यपि; तदपि 'यद्वाञ्छया श्रीर्ललनाचर- त्तपः' इतिवत् 'न वयं साध्वि साम्राज्यम्-' इत्यादौ 'ब्रजस्त्रियो यद्वाञ्छन्ति-' इत्यादिना दाम्पत्यमयभाववतीनां पुरसुन्दरीणामौपपत्यमयभावविषयीभूते श्रीव्र- जेन्द्रनन्दने यथा स्पहा श्रूयते तथौपपत्यमयभाववतीनां व्रजसुन्दरीणामपि दाम्पत्यमयभावविषयीभूते श्रीवसुदेवनन्दने स्पहा भवेन्नवेत्याशङ्क्याह-वजे- न्द्रेति। व्रजेन्द्रनन्दनलेनैव या निष्ठा कृष्णस्य नितरां स्थितिस्तत्रापि सुष्रु इति। तन्र स्थितौ सवप्नेऽप्यात्मानं वसुदेवनन्दनं न जानातीत्यर्थः। तामुपेयुषः स्वीकार्य- ेन गृहीतवतो भावस्य रत्याख्यस्य स्थायिनः। ननु व्रजेन्द्रनन्दनलेनैवेति कोऽयमाग्रहः । एकस्यैव तस्य कालदेशमेदेनाभिमानद्वयवत्त्वादित्यत आह- सदिति। सद्भकैरपि सद्धिर्विद्वद्भिरपि भक्तैर्नानाभक्तिमद्भिरपि मुद्रा परिपाटी दुर्गमा। 'तद्विजानन्ति तद्विदः' इति न्यायेन तन्भावास्वादं प्राप्तवद्भिरेव सद्धि- रनुभवेन ज्ञेयेति भावः ॥४॥। माथुरविरहेण विमुह्यन्त्याः खेलातीर्थे निमज्य सूर्यमण्डलं गतवत्याः श्रीराधाया आश्वासं सूर्यमण्डलस्थविष्णुसंदर्शनया कुर्वाणां संज्ञां प्रति विशाखा प्राह-गोपीनामिति। गोपीनां भावस्य प्रक्रियां प्रकृति स्भावमिति यावत्। (किं) [विं] ज्ञातुं कः क्षमेत। न कोऽपीत्यर्थः । अत्र हेतु- र्दुरूहेति। दुरूहायामेव पदव्यां संचरणशीलस्य। दुरूहलमेवाह-पशुपेन्द्र- मदाख्यं परभफलपूर्तिमये संभोगे व्यज्जयिष्यामः ॥ ३॥ अत्र दर्शनस्य 'अक्ष- एवतां फलमिदमू-'इत्यादिवाक्यमनुगतं ललितमाधवमेवानुसृत्य तासां भाव- निष्ठां दर्शयति-व्जेन्द्रेति । श्रीदशमस्कन्धवाक्ये च व्रजेशसुतयोर्मध्ये यदनु पश्चात् वेणुजुष्टमेकं मुख्यं तदित्येव तासां तात्पर्यविषयः ॥४॥५॥

Page 127

१०४ काव्यमाला।

आविष्कुर्वति वैष्णवीमपि तनुं तस्िन्भुजैर्जिष्णुभि- र्यासां हन्त चतुर्भिरद्धुतरुचिं रागोदयः कुश्चति ॥५॥ भुजाचतुष्टयं क्वापि नर्मणा दर्शयन्नपि। वृन्दावनेश्वरीप्रेम्णा द्विभुजः क्रियते हरिः ॥६॥ यथा- रासारम्भविधौ निलीय वसता कुञ्जे मृगाक्षीगणै- ईष्टं गोपयितुं समुद्धरधिया या सुष्ठु संदर्शिता।

नन्दनजुष: पशुपेन्द्रनन्दनमेव नतु वसुदेवनन्दनभपि स्वस्य विषयं कुर्वाणस्ये- त्यर्थः । यद्वा। पश्चुपेन्द्रनन्दने एषा या जुट् प्रीतिस्तद्रूपस्य। यतस्तस्मिन् पशु- पेन्द्रनन्दन एव ताः परिहसितुं जिष्णुभिर्विराजमानैश्चतुर्भिर्भुजैरुपलक्षितामद्भुत- रुचिं विचित्रशोभामयीमपि वैष्णवीं तनुं वैकुण्ठनाथमूर्तिमप्याविष्कुर्वति सति तस्मिन् विषये यासां रागस्योदयः कुश्चति भवति। उदय इत्यनेन विष्णुना प्रका- शितायां खतनौ तु रागस्योदयोऽपि नोत्पद्यत इति सूचितम्। अत एव पूर्व- मुक्तम्-'अरुन्धतीमुखसतीवृन्देन वन्धे हिता' इति ॥ ५ ॥ ताखपि श्रीराधि- काभावस्य परमाद्भुतमुत्कर्षमाह-भुजाचतुष्टयमिति ॥ ६॥ वृन्दा पौर्ण- मासीमाह-रासेति। 'वसन्तकुसुमामोदसुरभीकृतदिझुखे। गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम्' इति गौतमीयात्। लोके तु गोवर्धनोपत्यकायां परासौलीति ख्यातनानयां रासस्थल्यां रासस्यारम्भविधौ निलीय वसतेति प्रवि- षटकनामारण्ये 'पेठे' इति लोकभाषया प्रसिद्धे स्थले दष्टं सं गोपयितुमिति बह्नीभि- स्ताभि: सर्वत आवृतात् तस्मात् कुआात् सहसापसर्पणासंभवात् उद्धुरधिया एवं करोमीति सद्य.प्रतिभारूढबुद्धिना या चतुर्बाहुता संदर्शितेति। हंहो नायं कृष्ण- श्वतुर्भुजो नारायणमूर्तिरिति तं प्रणम्य श्रीकृष्णं दर्शयेति प्रार्थ्य गतासु सर्वासु आगताया राधायाः प्रणयस्य महिमा हन्तेत्याश्चर्ये अत्यद्धुतोऽभूदित्यर्थः । यस्य महित्रः श्रिया शोभामात्रेणैव सा चतुर्बाहुता हरिणा रक्षितुं शक्या नासीत्। सा अत्र श्रीराधाया वैशिष्यं व्यज्ञयितुमाह-भुजेति॥६॥तत्र चैतिह्यप्रमाणमाह-

Page 128

उज्ज्वलनीलमणिः । १०५

राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं सा शक्या प्रभविष्णुनापि हरिणा नासीचतुर्बाहुता।।७।

का। या सवं गोपयितुं संदर्शितेत्यन्वयः । अयमन्र विवेकः । यथा ब्रह्मेन्द्ररुद्रा- दीनां सत्येऽप्यापेक्षिके अन्यत्र ऐश्वर्यपरमेश्वरस्य भगवतोडग्रे ईशितव्यलमेव न तत्र ऐश्वर्यलेशोऽप्युद्धवति, न चोद्धूतश्र तिष्ठति नित्यं तदधीनलातू। एवं भग- वतोऽपि प्रेमाधीनतवात् प्रेम्णोऽय्रे ऐश्वर्य न तिष्ठतीति न शक्यते वक्तुम्; तस्य निललात्। किंतु तिरोभवति। स च प्रेमा जात्या अनन्तोऽपि क्वापि परमाणु- मात्र:, क्वापि परममहान्, क्वापि आपेक्षिकन्यूनाधिक्यमय इति चतुःपरि- भाणकः तत्राद्योऽजातरतिकेषु भक्तेषु। तेषु प्रेम्णो दुर्लक्ष्यत्ात् भगवतोऽधीनत्व- भपि दुर्लक्ष्यमेव। द्वितीयो वृन्दावनेश्वर्यामेव। तत्र प्रेम्णः संपूर्णतमलेनाधीन- त्मपि संपूर्णतममेव। अतस्तस्यां तस्यैश्वर्य न प्रकटीभवति। यच्च समुद्बन्धन- शेषशय्यादिलीलाप्रकटनेनैश्वर्यमुदभूत्तच्व तस्या एव दिदृदक्षावशादिति तत्तत्पुराण- गतमैतिह्यम्। अथ तृतीयो व्रजलोक एव। तत्र प्रेम्णो महत्त्वेन अधीनलमपि संपूर्णमेव नतु संपूर्णतमम्। अतः कदाचित् कर्थचिदुद्भतमसयैश्वर्य तत्रस्थानां प्रेमाणं संकोचयितुं न प्रभवति। तत्र पूतनाघासुरादिवधजृम्भणमृद्भक्षणदाम- बन्धनादिष्वैश्वर्यस्य श्रीकृष्णनिष्टलेनानुसंधानाभाव एव हेतुः । क्वचिच्च वरुणलोक- गमनदावाभिपानशैलेन्द्रधारणादिष्वैश्वर्यस्य तन्निष्टलेनानुसंधानेऽपि खसंबन्धमन- नस्य प्राबल्यमेव हेतुः। नत्न्यत्र वसुदेवदेवकीपाण्डवादिध्विव खसंबन्धमननस्य शैथिल्यम् । 'सूतीगृहे ननु जगाद' इति, 'सखजाते नशड्वितौ' इति, 'सखेति मला प्रसभं यदुक्तम्' इत्यादिषु तथा दृष्टेस्तत्र तन्न प्रेम्णः संपूर्णकल्पत्मेव अधी- नलमपि संपूर्णकल्पलमेव। अथ चतुर्थो नारदादिषु। तेषु तेषु प्रेमानुरूपमधी- नलम्। किंचाधीनलेऽपि यत्र संपूर्णतममधीनतं तत्रैव सामस्तेनैश्वर्य नोद्भवति यथा मण्डलेश्वरेषु मध्ये केषांचित् कस्यचिद्धीनलेऽपि तन्न तत्र सैश्वर्यपददर्श- नेन संभवत्यपि मूलचक्र्वर्तिनोऽये ऐश्र्यलवस्यापि न प्रकाश इति। ननु परमे- श्वरस्याख्ातन्रयं विगीतमिव जीवसाम्यापत्तेः शास्त्रकारासंमतं च। नैष दोषः । प्रत्युत महागुण एव। माया हि जीवं दुःखयितुमेव वशीकरोतीति जौवस्य

यथेति। या चतुर्बाहुता ॥ ७॥ अथ सैरन्ध्रयामपि रसोद्वोधं स्थापयति-

Page 129

१०६ :काव्यमाला।

अपिच- सामान्या या रसाभासप्रसङ्गात्तादृगप्यसौ। भावयोगातु सैरंधरी परकीयैव संमता ।।८।। तथाच प्रा्च :- सामान्यवनिता वेश्या सा द्रव्यं परमिच्छति। गुणहीने च न द्वेषो नानुरागो गुणिन्यपि।

मायापारतक्यं दुःखार्थमेव। ईश्वरं तु सुखयितुमेव। भक्तिस्तदीया शक्तिर्वरसी करोतीति तत्पारतन्नयमीश्वरस्य सुखप्रयोजकमेव, वास्तवमेव। यथा विलासिनां खप्रेयसीपारतन्न्यमिति ।। ७ ।। अथ प्राञ्चः । सामान्या साधारणा स्त्रीत्यादिना सवकीया परकीया साधारणीति नायिकायास्त्रेविध्यमाहुस्तत्र व्रजपुरयो: परकीया: स्वकीयाश्च दर्शिता एव; किंतु तृतीया नायिका श्रीकृष्णस्य वर्तते न वे्ाकाल्का यामाह-सामान्याया इति। तस्या भावस्य बहुनायकनिष्ठलेन रसाभास प्रसंगात् कृष्णे सा न संभवतीत्याक्षेपलब्धम्। हेलर्थकपश्चम्यन्तप्रयोगान्यथानु पपत्तिरेव लिङ्गम्। यथा प्रविश पिण्डमित्यत्र क्रियापदकर्मपदयोरन्यथानुपपत्त्यैवं गृहं भक्षयेत्यनयोराक्षेप इति। सैरंध्री कुब्जा तु तादृगपि सामान्यसदृश्यपि न तु सामान्येत्यर्थो बहुनायकनिष्ठत्वधर्मायोगात्। सादृश्यं तु परिणयसंभावनाभावेनां शेनैव ज्ञेयम्; भावयोगात् परकीयैवेति लोकेभ्यो निद्धुत्यैव कृष्णेन तस्या रम णात्, तयापि तदेकनिष्ठतया कृष्ण एव मे रहस्य एव रमण इति भावात्। तथा. तस्याः परमसुन्दर्या अपि कुब्ज एव पुरुषान्तरेभ्यो रक्षणे हेतुरासीतू-+ अत एवोक्तम्-'आहूय कान्तां नवसंगमहिया' इति तस्याः संगमस्य नवल मिति । ८ ॥ सामान्यां प्रत्युदाहर्तु तस्यां रसाभासवत्त्वं प्रमाणयति-तथा

सामान्याया इति। न खल्वसौ सामान्या वक्तव्या। सामान्याया न क्वचिद्भा, -

वयोग:, तस्यास्तु पूर्व नान्यत्र भावो जातः; खकौरूप्यस्फुरणेन तदाच्छादनात्, उद्यिष्यमाणश्रीकृष्णप्रियातप्रभावाच्च। चन्दनदानायैव तु श्रीकृष्णसहिते रासेऽ प्यनुरागो वर्णितः । नतङ्गसङ्गाय तत्पश्चात् श्रीकृष्णस्यैवोत्तरीयाकर्षणात्। तदेतदभिप्रेत्याह-भावयोगादिति । परकीयैवेत्येवकारः सादृश्ये । 'एव'

Page 130

उज्ज्वलनीलमणिः । १०७

शृङ्गाराभास एतासु न शरृङ्गारः कदाचन ॥ ९ ॥ इति। स्वकीयाश्च परोढाश्च या द्विधा परिकीर्तिताः। मुग्धा मध्या प्रगल्भेति प्रत्येकं तास्त्रिधा मताः ॥१०॥ भेदत्रयमिदं कैश्चित्सीयाया एव वर्णितम्। तथापि सत्कविग्रन्थे दृष्टत्वात्तदनादतम्। ११ ।। तथा प्राचीनैश्रोक्तम्- उदाहृतिभिदां केचित्सर्वासामेव मैन्वते। तास्तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः ॥ १२ ॥'

चेति॥ ९॥ खीयाया एवेति परकीयायां रसाभासवत्त्वेन तद्भेदकरणं विफलमिति तन्मतम्। तन्मतस्यानुपादेयलमाह-तथापीति। सत्कविग्रन्थे दृष्टलादवग- म्यते। तदनादतं तैः सत्कविभिरनादतं तिरस्कृतमिति। इमे परकीयायां रसमम- न्यमाना असत्कवय इति भावः । सत्कवीनां मतं प्रमाणयति-तथा प्राचीनै- इवार्थः' इति कातन्त्रपरिशिष्टसूत्रात्। अत एव पटुभहिषीणां रतेः सकाशात्तस्या रतेरन्यूनता वक्तव्या। परकीयेवेति वा पाठः। प्रेयसीभावो लोकाद्रोप्यत इति हेतोरिति ज्ञेयम् ॥। ८ ॥९॥ तत्र सामान्याया रसाभासभाक्लं प्रमाणयति-तथा च प्राश्च इति। वेश्येत्युपलक्षणं सैरन्ध्रयादीनामपि॥ १० ॥ कैश्च्दिति। परकीयायां रसममन्यमानैरित्यर्थः । यदुक्म्-'परकीया द्विधा प्रोक्ता परोढा कन्यका तथा। यात्रादिनिरतान्योढा कुलटा गलितत्रपा। कन्या खजातोपयमा सलजा नवयौवना।' इति। सत्कविग्रन्थ इति। पूर्ववदज्गस्यैव शद्गाररसस्य न लज्निन इति ज्ञेयम्। अत एव श्रीजयदेवेनात्िलेन तद्वर्णने लौपपत्यं नोदृड्वितं प्रत्युत 'लामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शङ्ठे सुन्दरि कालकूटमपि- बन्मूढो मृडानीपतिः ।' इत प्रचरद्रूपे वाक्ये श्रीराधाया लक्ष्मीत्स्थापनात् तत्संभावना प्रत्याख्याता। अत एव मेघैर्मेंदुरमम्बरमित्यादावपि सा श्रीकृष्णात किंचिदेव म्रौढा कुमारीति भतम् ॥। ११ ॥ अङ्गेपि मन्यमानानुद्दिश्याह- उदाहतिभिदां केचिदिति। तेषामुक्तिमाह-तास्त्विति॥१२ ॥ १. 'तन्वते' इत्यपरः पाठ :.

Page 131

१०८ काव्यमाला।

तत्र मुग्धा- सुग्धा नववयःकामा रतौ वामा सखीवशा। रतचेष्टासु सव्रीडचारुगूढप्रयत्भाक॥ १३॥ कृतापराधे दयिते बाष्परुद्धावलोकना। प्रिया प्रियोक्तौ चाशक्ता माने च विमुखी सदा।।१४।। तत्र नववया :- विरमति शैशवशिशिरे प्रविशति यौवनमधौ विशाखायाः। दीव्यति लोचनकमलं वदनसुधांशुश्च विस्फुरति ॥१५ ॥

रिति। भिदां भेदम् ॥ १० ॥ ११॥१२॥ नववयःकामेति । व्यों यौवनं, कामो रमणेच्छा। अन्न वयःकामयोर्नेवीनलेन कामकलाचातुर्यस्या, ल्पत्मात्रं लक्ष्यते। नववयसोऽपि कस्याश्चित् प्रागल्भ्यदर्शनात्, पूर्णयौवनाया अपि कस्याश्चित् मौग्ध्यदर्शनात्। तथा कामस्य नवलेऽपि विदग्धमाधवादौ- 'पादान्ते विलुठत्यसौ मयि मुहुर्दष्टाधरायां रुषा' इति। 'कव वाहं का वाहं चकर किमहं वा सखि तदा' इत्यादिषु मध्यालक्षणस्य दृष्टलात्। 'रतौ वामा' इत्या- दिभिरपि वाम्याद्यतिशयो लक्षयितव्यः । मध्याप्रगल्भयोरपि वाम्यसखीवशल- ब्रीडागूढप्रयत्नादिदर्शनात्। अत एवालंकारकौस्तुभे-'वार्तायामपि सुरतेः परा- झ्ुखी सत्रपा मुग्धा' इति तल्लक्षणमुक्तम् ॥१३॥ १४॥ ख(य)मभि- सरन्ती विशाखां दूरादृष्टा श्रीकृष्णो वर्णयति-विरमतीति। दीव्यति लोचन- पक्षे कीडति, कमलपक्षे लक्षणया विकसति। अत्र चकारो विरोधकव्यअ्कश्चन्द्र- कमलयोर्युगपदुल्लासात्। तेन चात्र विस्मयरसोऽद्वी श्ारोऽङ्गमिति ॥१५॥

नंववयःकामेत्यादि समुदित्यैव मुग्धां लक्षयन्ति। उदाहरणान्यपि समुदित्यैन तामु दाहरन्ति। तन्र नववयःकामेति तु प्रायिकमेव नववयस्तेऽपि क्वचित्प्रागल्भ्य दर्शनातू। एवमुत्तरत्रापि ।। १३ ॥। १४ ॥। १५ ॥ तारायामक्ष्णोः कनीनिकायां,

Page 132

उज्ज्वलनीलमणिः ।

यथा वा- बाल्य ध्वान्तसखे प्रयाहि तरसा राधावपुर्द्धीपत- स्तारुण्यद्युमणेर्यदेष विजयारम्भः पुरो वर्तते। कृष्णव्योम्नि रुचिर्दरोत्तरलता तारादयुतौ काप्युरः- पूर्वाद्रौ सुषमोन्नतिः स्मितकला पश्याद्य वक्राम्बुजे॥ १६॥ नवकामा यथा- बाले कंसभिद: समरोत्सवरसे प्रस्तूयमाने छला- औढाभीरवधूभिरानतमुखी त्वं कर्णमध्यस्यंसि।

मुग्धालक्षणे वृन्दावनेश्वरीमप्युदाहर्तु प्राह-यथा वेति। परिहसन्ती श्यामलां राधां वर्णयति-वाल्येति। अन्र ध्वान्तेति रूपकेण वस्तुतो राधावपुषि भाव- हावहेलारतिप्रेमस्नेहादीनां रसोपकरणानां नित्यसिद्धत्वं स्थाप्यते। यथान्धकारे स्थितानां घटपटादीनामदर्शनमात्रं ज्ञाप्यते; नत्वभावस्तथव राधायामस्यां शाज्गार- तृष्णापूर्वमप्यासीदेव; किंतु बाल्येनाच्छादितल्ाल्लोकैरवितर्क्येति तां प्रत्युपहासः। सखे इत्यनेन मम तु तया सह सख्यमेवेति खस्मिनवहित्थया तारुण्यानुद्रमः सूच्यते। तेन च इयमिव कयापि नाहं परिहसितुं शक्येति व्यज्यते। तरसेति। अन्यथा लामसौ प्राप्य वधिष्यतीति सर्येन हितोपदेशः सूचितः। तेन च राधायास्तारुण्यस्येषतप्रवेशमात्रेणैव सर्वैव बाल्यचेष्टा सहसैव परित्यक्तेति पुनरप्यु- पहासः । विजय आगमनम्, खशत्रुपराभवकर्तृत्वं च। जृम्भते प्रकाशते। तच्चिह्वं दर्शयति। कृष्णव्योम्नि कृष्णवर्णे कृष्णरूपे चाकाशे रुचिः कान्तिरभिला- षश्च। तारा नक्षत्राणि, कनीनिका च। दरोत्तरलता त्रासव्याकुललम्, ईषच्चा- खल्यं च। उरःपूर्वाद्राविति । उरस एव तुज्गत्वादद्रितवम्। तदानीं खनयो- स्तादशलाभावादिति ज्ञेयम्। सुषमोन्नतिः किरणशोभाधिक्यम्, पक्षे सुषमया सह उन्नतिरुन्चत्वम् ॥। १६ ॥ नान्दीमुखी धन्यामाह-बाले इति। प्रौढा- भीरवधूभि: श्यामाललिताराधादिभिः। छलादिति। राधेऽद निकुजे विलास-

पक्षे नक्षत्रे रुचिरभिलाषः, पक्षे कान्तिः ।। १६॥ बाले इति। प्रौढवूत्या वच-

Page 133

काव्यमाला।

सव्याजं वनमालिकाविरचनेSप्युल्लासमालम्बसे रङ्ग: कोऽयमवातरद्वद सखि सान्ते नवीनस्तव ॥ १७॥ रतौ वामा यथा- नवबालिकास्मि कुरु नर्म नेदशं पदवीं विमुश्च शिखिपिच्छशेखर। विचरन्ति पश्य पटवस्तटीमिमामरविन्दबन्धुदुहितुर्नत्रुवः ॥१८॥ यथा वा- यमुनापुलिने विलोकनान्मे चलितां स्मेरसखीगृहीतहस्ताम्। अयि मुश्च करं ममेति खञ्जद्वचनां खञ्जनलोचनां स्मरामि ॥१९॥

गुरो: सकाशात् किं किमधीतं तद्याचक्ष्व। श्यामे मया मन्दमेधसा तद्दुर्गमं शास्त्रमध्येतुमशक्यमिति कृपया लयैव तस्मान्नित्यमधीत्याधीत्य तस्य पुराणस्य कथा कथनीया तयैवाहं कृतार्था भवेयम्। राधेऽलमनयावहित्थया स विलास- गुरुरपि संप्रति तत्तोऽधीते स एवाध्येतुं लामेष्यतीत्यस्माभिस्तन्मुखादेव कथा श्रोतव्या श्रूयते च नित्यमित्यादिरीत्या प्रस्तूयमाने कृतप्रस्तावे सत्यानतमुखी तत्र तस्याः सहिष्णुत्वज्ञापनार्थमीषत्कुश्चितमुखी। 'ऊर्मिमत्कुश्चितं नतम्' इत्यमरः। सव्याजमिति। युष्माकं देवपूजार्थेयं माला अद्य किंचित्पुण्यकामया मयैव रचनीयेति। रङ्गः कौतुकम्। अवातरदाविर्भवति स्म ॥ १७ ॥ धन्या ग्राह- नवेति। ईदशं नर्मशुल्कमिषेण मन्नीवीग्रन्थिमोचनरूपं न कुरु। ननु पलमात्रं सुरतं दला याहीति। तत्राह-नवबालिकास्मीति। लयि तत् स्थास्यति चैदहमेव ग्रहीष्यामीत्यत आह-विचरन्तीत्यादि। तेन कमपि रहःप्रदेशं विना नाहं संमता भविष्यामीति ध्वनिः। नतम्रुवस्तास्तस्याः सख्य एव ज्ञेयाः ॥ १८ ॥ उक्तोदाहरणे वाम्यातिशयो न व्यञ्चित इत्यपरितुष्यन्ाह-यथा वेति। श्रीकृष्णः सुबलामाह-यमुनेति। समेरेति। वनं प्रत्यागमनं ते सफलमभूत्। किं यासीति हस्तअ्रहणध्वनिः। अयि मुञ्चेति। वं मे न सखी; किंतु वैरिण्येव; यतोऽस्यां विपदि मां प्रक्षेस्ुमिच्छसीति प्रतिध्वनिः। खज्जत् खञ्ज- मिवाचरत् कण्ठादर्धार्धमुच्चरद्वचनं यस्यास्ताम्। खरभेदोऽयम्। खश्जनेति। नम्। रङ्ग: कौतुकम् ॥ १७ ॥ तटीं प्राप्य विचरन्ति भ्रमन्ति ॥ १८ ॥ गृही-

Page 134

उज्ज्वलनीलमणिः । १११

सखीवशा यथा- ्जराजकुमार कर्कशे सुकुमारीं त्वयि नार्पयाम्यमुम् । कलभेन्द्रकरे नवोदयां नलिनीं क: कुरुते जनः कृती॥२०॥ यथा वा- न स्वीकृता सखि मया स्रगितास्ति कौन्दी किं दीर्घरोषविकटां भ्रुकुटीं तनोषि। क्षिप्तेयमत्र मम मण्डनपेटिकायां चेद्दृन्दया चटुलया किमहं करिष्ये॥। २१ ॥ सव्रीडरतप्रयता यथा- द्वित्राण्येत्य पदानि कुञ्जवसतेद्वारे विलासोन्मुखी सद्य:कम्पतरङ्गदङ्गलतिका तिर्यग्विवृत्ता हिया।

चापल्यं च। सात्त्विकसंचारिणावेतौ स्थायिभावोत्थावपि भयोत्थलेन प्रत्यायितौ। इयं तु श्रीराधैव विलासनामालंकारवती ज्ञेया।। १९ ॥ अभिसारितां राधां श्रीकृष्णसमीपे बलादाकृष्यानीयापि तस्य हस्तौद्धत्यमालक्ष्य पुनस्तां परावर्तयन्ती ललिता प्राह-व्रजेति। कलभेन्द्रेत्यर्थान्तरन्यासः। तेन स्वस्य कलभेन्द्रलं पृरित्यज्य यदि भ्रभरतमङ्गीकुरुषे तदैवेमां दास्यामीति भावः ॥ २०॥ उक्तोदा- हरणे परमवामायास्तस्याः सख्याः साहाय्यमेव कृतमिति सखीवशलं न यथाव- दायातमित्यपरितुष्यन्नाह-यथा वेति। कदाचिन्मानिनी धन्यां भालादानमात्रे- णैव प्रसाद गते श्रीकृष्णे आगतायां च मानशिक्षाकारिण्यां प्रौढसख्यां सैव धन्या ततो बिभ्यती सहसैव स्वकण्ठान्मालामुत्तार्य भूषणमंञ्जूषिकायां क्षिप्वा ताभाह- न सवीकृतेति। चटुलया भद्वह्ुवारणममानयन्त्या तत्तः प्राप्स्यमानतर्जनकारणं सृजन्त्या मद्दैरिण्येवेत्यर्थः ॥२१॥ सव्रीडो रते रमणविषये प्रयल्नो यस्याः सा। श्रीकृष्णः प्रातः सुबलमाह-द्वित्रेति । विलासोन्मुखी सुरताभिलापिणीत्यौ-

तलमन्र निरुद्धलम्। अयीत्यनुनये। 'अयि प्रश्नानुनययोः' इति विश्वः ॥१९ ॥

Page 135

११२ कान्यमोला।

मूय: स्त्निग्धसखीगिरां परिमलैस्तल्पान्तमासेदुर्षी स्ान्त हन्त जहार हारिहरिणीनेत्रा मम श्यामला ॥२२॥ रेषकृतवाष्पमौना यथा- सिद्धापराधमपि शुद्धमनाः सखी मे त्वां वक्ष्यते कथमदक्षिणसुद्धतेव। नेमां विडम्बय कदम्बवनीभुजङ्ग वक्रं पिधाय कुरुतामियमश्रुमोक्षम् ॥ २३ ॥ अथ माने विमुखी- मृद्वी तथाक्षमा चेति सा माने विमुखी द्विघा।

त्सुक्याश्लेषेण विलासनामालंकारेणोत्कृष्टं सुन्दरं मुखं यस्याः सा। कम्पेन तर ङन्ती तरङ्वायमाणाङ्गलतिका यस्याः सा। सदयस्ततक्षण एवं कान्तकर्तृकदर्शना घातेनेव तिर्यग्वितृत्य परावर्तितमुखी पृष्ठीकृतकान्ता वामपाणिनावगुण्ठनमुत्सा रयामासेत्यर्थः । एवं च शङ्कालज्जावेगौत्सुक्यानां संधिः। ततश्व भूय इत्यनेन स्निग्घेत्यनेन च गिरामिति परिमलैरिति बहुवचनाभ्यां च तस्या आनयनाथ सखीविनयप्रणयश्रीकृष्णोक्तचाटुकथनगमनागमनसामदानाभ्युपाया व्यजजिता: । अत्र परिमलैरित्यनेन गिरां पुष्पमञ्जरीलम्, त्निग्धसखीनां कोमलवल्लीलम्, तस्या नायिकाया भ्रमरीलम्, श्रीकृष्णस्य भ्रमरतवं चानीतम्। तथा सौरभलोमे- नायात् भ्रमरी भ्रमरेण संभुक्तेत्यतिशयोत्त्यप्रस्तुतप्रशंसे च ध्वनिते। हारिहरि- जीति। तदानींतनतादृशनेत्रान्तचाश्चल्यं च तस्यास्तेनाखादितमिति ॥२२॥ खण्डिताया धन्याया: सखी कृष्णमाह-सिद्धेति। उद्धतेव अधीरेव न विड- म्बय प्रणिपातादिना नो हस। वनीत्यल्पविवक्षायाम्। भुजङ्ग हे कामुक, कदम्ब- वने रात्रौ या रमिता तामियं जानीत इति भावः । कुरुतामिति। रोदने विघ्नं माकार्षीः । अस्या ललाटे रोदनमेव लिखितभस्तीति भावः ॥। २३॥ अत्र प्रियाप्रियोक्तौ चाशकेत्यस्योदाहरणादानात् रोषकृतबाष्पमौनयोद्वैंविध्यं बुष्यते।

।। २s २१ ॥ २२ ॥ २३ ॥ अक्षमेत्यत्र उद्धतेत्येव वा पाठ:॥'

Page 136

उज्ज्वलनीलमणि: । ११३

तत्र मृद्वी यथा रससुधाकरे- व्यावृत्तिकमणोद्यमेऽपि पदयोः प्रत्युद्गतौ वर्तनं भ्रूमेदोऽपि तदीक्षणव्यसनिना व्यस्मारि मे चक्षुषा । चाटूक्तानि करोति दग्धरसना रूक्षाक्षरेSप्युद्यता सख्यः किं करवाणि मानसमये संघातभेदो मम ॥ २४॥ अक्षमा यथा- आभीरपङ्कजद्दशां बत साहसिक्यं या: केशवेक्षणमपि प्रणयन्ति मानम्।

तथाहि-रोषकृतबाष्पमौनी द्विधा भवति। प्रियाप्रियोक्तौ चाशक्ता, माने विमुखी चेति। अत्र चकारद्वयमपि द्वैविध्यज्ञापकम्। अत्र प्रथमा सामान्य- लक्षणोदाहरणेनैव चरितार्थेति तामुल्लड्डय द्वितीयां भिनत्ति-मृद्वी कोमलमाना, अक्षमा मानशून्या। आद्या किंचिन्मध्यत्वांशस्पार्शीनी, द्वितीयातिमुग्धा। मानं शिक्षितवतीरायान्तीर्मानस्य क्षेमं पृच्छन्तीः खसखीः प्रति धन्या प्राह-व्यावृत्त्या परावृत्त्या तं पृष्ठीकृत्य क्रमणस्य गमनस्योद्यमे क्रियमाणेऽपि प्रत्युद्रतौ वर्तनं न तस्य संमुख एव अभ्युद्रमे पदयोर्वृत्तिः स्यात्। व्यस्मारि विस्मृतः । व्यसनिना औसकतिमता। तत्रापि रसनायामेव दग्धेति विशेषणदानादियमेव सर्वतोऽनर्थका- रिकेति सूचितम्। मम संघातस्य पदचक्षूरसनादिगणस्य भेद: खभावमेदो जातः। तत्र पदादिभिर्व्यावृत्तिभ्रूभेदरूक्षाक्षराणां चिकीर्षितलेऽपि यत्तद्दर्शना- नन्तरं सवखभाववैपरीत्यं गृहीतं तेन कयापि विद्यया वा मन्राभिमन्त्रितघूलिक्षे- पेण वा सिद्धाञ्जनेन वा कृतेन पदादीन्द्रियाणि तदानीमुन्मादितानीति विभावना- विशेषोक्तिविरोधैर्व्यजितम् ॥ २४ ॥ मानं शिक्षयन्तीं सखीं काचित् सर्वा मानि- नीराक्षिपन्त्याह-आभीरेति। सहसा वर्तते इति साहसिकस्तस्य भावः साह- सिक्यंम् । केशवे दृष्टे सतीत्यर्थः । न चास्याः कान्तं प्रति रोषो नास्तीति व्राच्यम्; 'कृतापराधे दयिते बाष्परुद्धावलोकना' इति सामान्यलक्षणे रोषकार्यस्य बाष्पस्योकेः । किंतु कान्तदर्शनक्षण एवानन्दानुभवात् मानस्यानुभावसहितस्यापि व्यावृत्तीति। चक्षुषा व्यस्मारि विस्मारयामास। चेतसेति वा पाठः। संघातमेद ८ उज्व०

Page 137

११४ काव्यमाला।

मानति वर्णयुगलेSपि मम प्रयाते कर्णाङ्गणं वहति वेपथुमन्तरात्मा ॥ २५॥ मथ मध्या- समानलज्जामदना प्रोद्यत्तारुण्यशालिनी॥ २६॥ किंचित्प्रगल्भवचना मोहान्तसुरतक्षमा। मध्या स्यात्कोमला क्वापि माने कुत्रापि कर्कशा।।२७।। तत्र समानलज्जामदना यथा- विकिरति किल कृष्णे नेत्रपद्मं सतृष्णे नमयति मुखमन्तःस्मेरमावृत्य राधा।

शान्ति:, प्रथमोक्तायां तु तद्दर्शनक्षणे मानजनितस्य कायिकवाचिकमानसिकोद्य- मस्य तदर्शनानन्दसंमदादजातफलस्यैव शान्तिः, तद्वितीयक्षणे मानस्यापि शान्तिरिति सा सबाष्परोषा कृष्णेन प्रथमं दष्टैव। मानाक्षमा तु तथाभूतेन मम्यक्तया दष्टेति मेदो विवेचनीयः। किंतु कान्तदर्शनानन्दस्पर्शमात्र एव रोषो निवर्तत इति मानारम्भस्याभावः। प्रथमोक्तायास्तु मृद्यास्तददर्शनानन्दसंमर्द एव रोषो यातीति आरब्धस्य मानस्यासिद्धिरिति भेदो विवेचनीयः ॥ २५॥ समानौ- तुल्यप्रमाणौ लज्जामदनौ यस्यास्तेन मुग्धाया मदनाल्ज्जाधिक्यम्, प्रगल्भाया लज्जातो मदनाधिक्यमिति ज्ञेयम्। प्रोद्यदिति। तेन मुग्धाप्रगल्मे ईषत्तारुण्य- पूर्णतारुण्ये ज्ञेये। किंचिदिति। तेन मुग्धाप्रगल्मे प्रगल्भपूर्णप्रगल्भवचने हेये। मोह आनन्दः। मूर्च्छा कामाद्युद्रमजन्या। अन्ते यत्र तथाभूते सुरते क्षमाभावात् क्षणपर्यन्तसुरते सामर्थ्यवती तत आनन्दमूर्च्छानन्तरमशक्तेत्यर्थः । तेन सुग्धाया मदनाल्पलादानन्द एव; नतु मूच्छा तथा बालातपलात्तदनन्तरमपि सामर्थ्यम्। ततश्च निर्मोह्दसुरतक्षभा, मोहान्तसुरतक्षमा, मोहादिसुरतक्षमेति तिसटणां लक्षण- मायातमिति ॥२६॥२७॥ नान्दी पौर्णमासी ग्राह-विकिरतीति। अन्तः-' समेरमिति। स्मितस्य बहिर्निष्कमणावरणम्। आवृत्येति। कटाक्षस्याभाव: आत्मीयगणमध्ये मेदो जात इत्यर्थः ॥ २४ ॥ २५॥ २६॥२७ ॥

Page 138

उज्ज्वलनीलमणिः । ११५

निद्धति दृशमस्मिन्नन्यतः प्रेक्षतेऽमुं तदपि सरसिजाक्षी तस्य मोदं व्यतानीत्॥ २८॥ प्रोद्यत्तारुण्यशालिनी यथा- भ्रुवोर्विक्षेपस्ते कवलयति मीनध्वजधनु :- प्रभारम्भं रम्भाश्रियमुपहसत्यूरुयुगलम्। कुचद्वन्द्वं धत्ते रथचरणयूनोर्विलसितं वराज्गीणां राधे तरुणिमणिचूडामणिरसि॥ २९॥ किंचित्प्रगल्भोक्तिर्यथोद्धवसंदेशे- मद्क्राम्भोरुहपरिमलोन्मत्त सेवानुबन्धे पत्युः कृष्णभ्रमर कुरुषे किंतरामन्तरायम्।

कान्तेन पूर्णनेत्राभ्यां दृष्टलात्। तेन प्रगल्भाया लज्जाल्पलात् मुखं सस्मितम्। आनमय्य ईषदावृत्य कटाक्षेण वीक्षते इत्यायातम्। तथा कान्तेनापाऊ्गदृष्टले मध्यापि कटाक्षेणेक्षते। मुग्धा तत्रापि लज्ाधिक्यानेक्षत इति विवेकः। इयमेव स्पष्टीकर्तुमाह-निदधतीति। अन्यतः अन्यत्र कुजादौ दशं दृष्टिं संपूर्णामर्प- यति सति प्रेक्षते प्रकर्षेण संपूर्णयैव दृष्येक्षते। किंचिदपाङ्गागमनज्ञाने तुन प्रक्षे- णेति भाव: ॥ २८ ॥ श्रीकृष्ण आह-स्रुवोरिति। धनुषः प्रभाया आरम्भं कव- लयतीत्येतदग्रे तस्य शोभोद्रम एव न भवति कि पुनर्विकम इति। तच्छरादपि कोटिगुणाधिको भवत्या: कटाक्षशरो मां प्रहरिष्यतीति ध्वनिः। न जाने ततो मे का दशा भविष्यतीत्यनुध्वनिः । रथचरणश्चक्रवाको जातिर्येयोस्तयोर्यूनोरिति शाकपार्थिवादिः। विलसितं सहभावकीडां विशेषेण लसितं दीप्षिं तदाकारशोभां च । २९ ॥ अत्युत्कण्ठया जटिलागृहोपकण्ठ एव करमिंवििदुद्याने बहुक्षणं सुरलीं वाद्यताप्यप्राप्तां राधामालक्ष्य तद्दत्तज्ञानार्थ श्रीकृष्णेन प्रेषितां कांचन दूतीं लक्षीकृत्य श्वश्र्वादिगुरुजनमध्यस्था सा कमपि भ्रमरमुद्दिश्य त्रुवाणा दूरतः * संकेतस्थलं सूचयति-मद्धक्रेति। उन्मत्तेति संबोधनेन गुरुगृहातिनिकटे एक्- २८ ॥२९ ॥ दूरतो वंशीध्वनि विधाय पुनः संभ्यान्धकार एव गुप्तमागतं श्रीकृष्ण प्ति संक्ेतस्थानं कापि सूचयति-मद्वक्रंति। पत्युः सेवानुवन्धे पाकादारम्मे.। १. 'वरोरुणां' इति पाठान्तरम्.

Page 139

११६ काव्यमाला।

तृष्णाभिस्त्वं यदि कलरुतव्यग्रचित्तस्तदाग्रे पुष्पैः पाण्डुच्छविमविरलैर्याहि पुंनागकुञ्जम्॥ ३०॥ मोहान्तसुरतक्षमा यथा- श्रमजलनिबिडां निमीलिताक्षीं श्रथचिकुरामनवीनबाहुवल्लीम्। मुदितमनसमस्मृतान्यभावां रतिशयने निशि गोपिकां स्मरामि॥३१॥ माने कोमला यथा- प्राणास्त्वमेव किमिव त्वधिगोपनीयं मानाय केशिमथने सखि नास्मि शक्ता।

स्मिन्नुदाने कथं विलासः सेत्स्यतीति तत्परामर्शाभावः सूचितः । पत्युः सेवानु- बन्धे जलाद्युष्णीकरण इति वान्यात्रमेव श्वश्रूं ननान्दरं च प्रीणयितुम् । हे कलरुतेति। वंशीवाद्यश्रवणेनावदधद्भिर्गुरुजनैर्यद्यहं निरुध्धेय तदा का गति- र्भविष्यतीति वंशीखनं मा का्षीरिति भावः । पुंनागकुजं दूरस्थम्। यद्वा तृष्णा- कान्तो दूरं यातुं न शक्कोषि तदोद्यानं परिहृत्य कुञ्जनिकटस्थमपि। पाण्डुच्छ विमिति। अस्यां चन्द्रिकाबहुलायां रजन्यां तस्य जनैर्दुलक्ष्यलम्, अविरलै- र्निबिडैरपि दुष्प्रवेशलम्, सुरभित्ात् शङ्गारोपयोगितं च ॥ ३० ॥ किं धारय- सीति सुवलेन पृष्टः कृष्ण आह-श्रमेति । अत्र श्रमजलानां नैबिड्यम्। चिकुराणां श्थलम्, बाहुवह्मया दौर्बल्यं च सुरतान्तं व्यनक्ति। न स्मृतोऽन्यस्य विषयाश्रयोद्दीपनादेर्भावो भावना यस्या इति रतिसुखे विशेषानुभवो मूर्च्छायामपि वर्तमानस्तस्या मुखमाधुर्यात्तदानीमवगत इति ज्ञेयम्। अत्र मुदितमनसमित्यस्या- पुष्टार्थतं वक्तु: प्रेमत्वानुलापपरवशात् सोढव्यम्। स च चिरान्मद्विषयकामाभि- संतप्तमनाः सा सुरतेन मयाद मुदितमनाः कृता इत्यतः कृतार्थोऽस्मीति स्ाभि- प्रायोद्गारमय इति ॥। ३१ ॥ श्रीराधा ललितां प्रत्याह-प्राणा इति। केशिमथन इति। केशिवधादुत्तरकालभवैव न तु तत्पूर्वकालभवेयं लीलेति तदेतच् गृहलोकानां सुखार्थमेवारोप्य वदति स्म ॥ ३० ॥ श्रमजलनिबिडा- सिति। श्रीकृष्णस्य भावनावचनम्। किंतु सोऽपि कां स्मरामीत्येव 'मुरजिदमुं नहि विस्मृति निनाय' इति पाठे सुबलस्य भावनामयं वचनम्॥ ३१॥ केशिमथन इति। पूर्वग्रन्थे स्थापितायाभन्रापि स्थापयिष्यमाणायां द्वारकातः १. 'राधिकाम्' इति पाठान्तरम्.

Page 140

उज्ज्वलनीलमणिः । ११७

एहि प्रयाव रविजातटनिष्कुटाय कल्याणि फुल्लकुसुमावचयच्छलेन । ३२ ।। माने कर्कशा यथा विदग्धमाधवे- मुधा मानोन्नाहाद्गुपयसि किमङ्गानि कठिने रुषं धत्से किं वा प्रियपरिजनाभ्यर्थनविधो। प्रकामं ते कुञ्जालयगरहपतिस्ताम्यति पुरः कृपालक्ष्मीवन्तं चटुलय दृगन्तं क्षणमिह ॥ ३३ ॥ त्रिधासौ मानवृत्ते: स्याद्ीराधीरोभयात्मिकी।

नाशख्यम्। 'बहूनि सन्ति नामानि' इत्यादिना नामकरणकाल एव गर्गेण तत्रैकाळि- कान्येव नामानि श्रीव्रजराजं प्रत्युक्तानीति केशिमथनमुरदमनकंसहेत्यादिनामभि- ब्रेजस्थजनैः सर्वदैव स उच्यते। अन्र पद्ये पूर्वार्धस्यार्थेन प्रसक्त मुग्धालं किंचित्म गल्भवचनेन मध्याधर्मेण वारयन्नाह-पहीति। प्रयावेति। अनभिप्रेतं मानं शिक्षयन्त्यपि मे लमेव प्राणाः; अन्यथा कयाचिदन्ययैव सख्या लां वश्चमिला वमहमभिसरिष्यामीति भावः। ननु किं सुरतं भिक्षितुं तत्समीपं यासि। मैवं रुशतीं वाचमवोच इत्याह-कल्याणीति॥ ३२॥ विशाखा श्रीराधामाह- मुघेति। उन्नाहादुद्वारात्। अङ्गानीति। खस्मै दुःखं ददाति। प्रियपरि- जनेति। सखीम्यः । ताम्यतीति। खकान्ताय। ननु सयं कृतं मानं खय- मेव कथं हातुं प्रभवामीत्यत आह-कृपेति। इह प्रणतिपरे प्रिये कृपासंपत्ति पूर्ण नेत्रान्तं चटुलय किंचिच्चश्चलीकुरु, बहिः प्रसर्तुमाज्ञापय मा रुन्धीति ।कल- हान्तरितातं ते ज्ञालैव मयैचमुच्यस इति ध्वनिः ॥ ३३॥ मानवृत्तेर्मानवृंत्तिं प्राप्य तन्र धीरेत्येवमेव वत्तव्येऽपि धीरमध्या, अथाधीरमव्येत्यादिषु मध्यादिपदोपन्यासः

समागमात् परत्र जातायां लीलायां संभवति। केशिवधान्तसंध्यायामेवाक्रूरागमनेन अ्रजे मह्यावैयम्यजननातू। तदेवमन्यत्रापि ज्ञेयम्। ननु सपन्यस्तूपहसिष्यन्तीति -तन्नाह-पहीति।। ३२ ।। तत्र धीरमध्यां वक्तुं भध्याया लक्षितलान्मध्यामात्रं

Page 141

११८ काव्यमाला।

तत्र धीरमध्या- धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम्।।३४।। यथा- सामिन् युक्तमिदं तवाञ्जननवालक्तद्रवेः सर्वतः संक्ान्तैर्धृतनीललोहि ततनोर्यच्चन्द्रलेखाधृतिः । एकं किंत्ववलोचयाम्यनुचितं हंहो पशूनां पते देहार्घे दयितां वहन्बहुमतामत्रासि यन्नागतः ॥ ३५ ॥ अथाधीरमध्या- अधीरा परुषैवाक्यैर्निरसेद्वल्लभं रुपा।

सुखबोधनार्थों मध्यादेरनुव्ृत्त्यैव प्राप्तलात्। सोनप्रासमुत्कर्षेणोत्कर्षकथननैव प्रास्यते तिरस्क्रियतेऽनेनेत्युत्प्रासः सोटण्ठहासस्तद्विशिष्टं यथा स्यात्तथा ।। ३४।। खण्डिता श्रीराधा श्रीकृष्णमाह-स्वामिन्निति । हे पशूनां पते शम्भो, पक्षे हे गोपेत्यवैदग्व्यम्, श्रलेषेण प्रतिनायिकायाः पशुत्म्। बहुवचनेन तत्सखीनां च पत्ते इति नायकस्य च सूचितम्। सस्य तन्निन्दकलवात् शङ्गाररसाभिज्ञलेन प्रोद्- त्तारुण्यशालिलम्, पशुशब्दप्रयोगात् प्रगल्भवचनलम्, श्िष्टोक्तितात् प्रगल्भा- : लस्य किंचित्त्वं तेन सस्य मध्यालं च व्यञ्जितम्। यच्चन्द्ररेखाधृतिस्तदिदं युक्तम्। अतिशयोक्त्या नखाङ्कधारणं संभोगवैपरीत्यसूचकम् । सर्वतः सर्वाङ्गेष्वित्यज्जनाल- ककयोरधरालकगतखेनौचित्येऽपि यत्सर्वाङ्गलप्नत्वं तत्तदीयाङ्वानां तव प्रत्यक्ग- स्पर्शौत्सुक्यं सूचयति। अतो मद्धयेनालम्। सा सर्वाहगषु सर्वदैव धर्तेमुचिते- त्याह-एकमिति। तेन पशुपतिभक्तां मां कृतार्थीकर्तु पश्चुपतिश्वन्द्रार्घभूषणों नीललोहितस्तमेवायातोSसि अर्धनारीश्वरो भूला चेत् खमदर्शयिष्यस्तदाहं पूर्णमनो- रथैवाभविष्यमिति भावः ॥३५॥ परुषैर्वाक्यैरिति। धैर्याभावाद्वकोक्तिवैदगव्यस्

लक्षयति-धीरा त्विति॥२३॥३४॥ स्वामिन्नित्यत्र। खामिन्निति। हंदो पशूनां पते इत्याभ्यां किंचित्प्रगल्भवचनलात्। तेन प्रोद्यत्तारुण्यस्य व्यक्लावू मध्यालम्। वक्रोक्त्यादिकं तु स्पष्टमेवेति। धीरालं च किमिदं युक्तमित्यत्राह-

Page 142

उज्ज्वलनीलमणिः । ११९

यथा- उत्तु्स्तनमण्डलीसहचर: कण्ठे स्फुरन्नैद्य ते हारः कंसरिपो क्षपाविलसितं निःसंशयं शंसति। धूर्ताभीरवधूप्रतारितमते मिथ्याकथाघर्घरी- झङ्कारोन्मुखर प्रयाहि तरसा युक्तात्र नावस्थितिः॥३६॥ अथ धीराधीरमध्या- धीराधीरा तु वक्रोक्त्या सबाष्पं वदति प्रियम्॥ ३७॥

समुत्थानानवकाशात् स्पष्टैरेव कठोरैरित्यर्थः ॥ उत्तुङ्रेति । एष ते हारः स्तनसज्गी स्तनगन्धी। कुङ्गमाभ्यक्तत्वादिति। मन्नासानेत्राभ्यामेव निश्ची- यत इति भावः। नात्र कोऽपि संदेह इत्याह-क्षपेत्यादि। हे कंसरिपो इति। यथा तव वैरी कंसो मथुरायां वर्तते तथा सापि मद्वैरिणी गोष्ठमध्य एवेति मदसहिष्णुतायाः कारणं खानुभवेनैव जानीहीति भावः । किंच लं प्रेम- गन्धेनापि शून्यां तां मनसा प्रेमवतीमेव जानासीत्याह-धूर्ता आभीरवधूस्तया प्रतारिता कूटकार्षापणन्यायेन स्वकामस्यैव प्रेमत्वख्यापनया वश्चिता मतिर्यस्य। किंच तया यथा वं मिथ्याभावदर्शनया प्रतारितस्तथा तयापि तां विना खमेऽ- प्यन्यां न जानामीत्यादि मिथ्याकथाभिरहं प्रतारयितुं प्राप्त इत्याह-मिथ्येति। घर्घरी क्षुद्रघण्टिका न हि मिथ्याकथाझङ्कारेण मत्सख्युक्तप्रतिनायिकारमणरूप- सत्यकथावज्राघातखन अच्छादितो भवतीति भावः । पूर्ववदत्रापि किंचित्प्रगल्भो- किर्मध्यातव्यज्ञिका॥। ३६ ॥ वक्रोत्तयेति। धीराधर्म· सबाष्पमित्यधीराधर्मः । नन्वधीराधरमें हि परुषोक्तिरुक्ता। सत्यम्। अयमत्र विचेकः। प्रगल्भाया रोषस्य पूर्णत्ात्ताडनमपि मुख्यं कार्यमुदयते। मध्याया रोषस्यापूर्णतान्मध्यमं कार्य परुषोक्तिः। मुग्ाया रोषस्याल्पतात् कनिषं कार्य रोदनमेव। तत्र धीरमध्यायाः परुषोक्तिर्धृत्याच्छादिता सोत्प्रासवक्रोक्तिरूपेण परिणतेति।

यश्न्द्रेति॥ ३५॥ उत्तुभेत्यत्राप्यधीरातादिद्वयं पूर्ववद्विवेचनीयम्। एवमुत्त- १. 'नेष ते' इति पाठान्तरम्.

Page 143

१२० काव्यमाला।

यथा- गोपेन्द्रनन्दन न रोदय याहि याहि सा ते विधास्यति रुषं हृदयाधिदेवी। त्वन्मौलिमाल्यहतयावकपक्कमस्याः पादद्वयं पुनरनेन विभूषयाद्य॥ ३८ ॥

अधीराया धृत्यभावाच्छुद्धैव परुषोक्तिः। धीराधीरायास्तु धृत्यधृत्योयौंगपद्येन सत्त्वसंभवात् धीरतावीरत्योरसंपूर्णतमेव व्याख्येयम्। तेन धीराधीरा द्विा भिद्यते-धीरतांशाधिका, अधीरतांशाधिका च। तन्र प्रथमाया धीरताधिक्यात् धीराधर्मों वकोकि: केवलैव; धीरतस्यासंपूर्णलान्नतु सोत्प्रासा। अधीरतस्य खल्पत्ादधीराधर्मोऽप्यल्पः पारुष्यरहितैवोक्तिः । किंचाधीरत्वांशेऽपि रोषलक्षण- स्यावश्यसंभावितलात्, केवलोक्तौ च तदसंभवात् ताडनपारुष्यतयोश्वाप्राप्त्या पारिशेष्यात् कनिष्टरोषलक्षणं बाष्प एव लभ्यते। न च मुग्धालक्षणसांकर्यम्; सुग्धायां केवल एव बाष्पः, अन्र तु बाष्पसहितोक्तिरिति। द्वितीया लग्रे उदाहरि- ष्यते। धीराधीरायास्त धृत्या वक्रोक्तिरेव केवला न तु सोत्प्रासा; अधृतेः सत्त्वात्। तथा अधृत्या रोदनमेव कनिष्ठं कार्यम्; नतु परुषोक्तिधृतेः सत्त्वात्। धृतिशब्देनात्र गाम्भीर्यमुक्तम्॥ ३७॥ श्रीराधा प्राह-गोपन्द्रनन्दनेति। मादृश्यो रुदिता प्रियन्तां नाम महाराजपुत्रस्य शतकोटिकोटिकामिनीवल्लभस्य तव का क्षतिरिति भावः । न रोदय याहि याहीति लयि गते सति बां विस्मर्त यत्नोऽपि मे कर्तुं शक्यो भविष्यति न तु लयि साक्षादृष्ट एवेति भावः । मद- पराधं क्षमखेति प्रणभन्तं तं प्रत्याह-सा ते इत्यादि। मां प्रसादयन्तं लां सा यदि श्रोष्यति तदा रुषं विधास्यति। अतः सौहृदेन लां हितमुपदिशामि। मत्प्रसादेनालमहमरुष्टैवास्मि। किंच न श्रोष्यतीति न वक्तव्यम्। यतः सा ते हृदयाधिदेवी हृदय एवाधिकृत्य ममैवैतन्नान्यस्य इति स्वत्वं समर्प्य दीप्यति विराजते। अतः शणोतीत्यपराधस्ते जात एवेति भावः । किंचान्योऽपि महा-

सत्र च । कंसरिपो इति पूर्ववत् ॥। ३६ ॥३७॥ अनेनेति। यावकपङ्डम- हल्या निर्दिश्यते। नतु समासेन गुणीभूतं तदाक्ष्यते। तस्मादभवन्मतयोग-

Page 144

१२१

यया वा- तामेव प्रतिपथ कामवरदां सेक्ख देवीं सदा यस्या: प्राध्य महाप्रसादमधुना दामोदरामोदसे। पादालक्चितं शिरसव मुखं ताम्बूलशेषोज्यलं

पराधस्तयि प्रकटं दश्यते तमपि मार्जयेलाह-खन्मस्कस्थनाल्येज हतओोरिता यावकपड्डो यस्य तथाभूतमस्या: पादडयमनेन मौलिस्थमालायावकपद्ेज पुनर्भूष- येति। सयं चोरितस्य वस्तुनः खयं तत्स्थाने समर्पणमेव व्याय्यमिति भाच:। मां किं प्रणमसि तत्पादयोरेव पुनः पुनः पतेति भाव:। अन्न द्वदयाविदेस्ा- स्तस्या अपरोक्षत्वप्रतिपादनादस्या इति हदंशब्दप्रयोगो नानुपपसः । अथाव बहु्रीहिसमासगुणीभूतस्य यावकपङ्कपदस्यानेनेल्यनेन परामर्शी न संगच्छा इल- भवन्मतयोगनामा दोष: स्यादिति व्याख्यान्तर चिन्लम्। तब गथा-लम्मीलि. माल्येन हतं यावकपक्कं विभूषय विशिष्टभूर्षा कुरु। माल्यायावकपड्मुत्तानें खमौलिलमं कुर्वित्यर्थः। चोरितस्य दुर्लभवस्तुनो टिति ोगार्धभेव विियोपे युक्तत्वादिति भावः । पुनरनेन यावकपक्केन खमीलिलमेनास्या: पावतर्य विभूषन अपराधक्षमापनार्थ प्रणम वा, संभोगमात्रार्थिनी ता कामिनी संभुद्कष वा । उम योरेव मौलिपादश्लेषसंभवादिति भावः। चोरितस्य वस्तुनः किनित्कालमोगन पुनस्तत्खामिने सयं प्रत्यपणेन च भोग: सिद्यत्यधर्मक्ष तावज भवतीति Lवl- तम्। अन्र पुनःशब्दबलान्द्ूषयेत्यस्यावृत्तिनानुपपभा। अनेनेति। भावकपड्- मद्डुल्या निर्दिश्यते नतु समासेन गुणीभूतं तदाकृष्यते तम्मादभवन्मतयोगनामा दोषो नाशङ्कनीय इति श्रीजीवगोखामिचरण: ॥ ३८ ॥। धीराधीरा द्वि धीरनाघा- घिका, अधीरतांशाधिकेति द्विविधा संभवतीति। तत्र पूर्वा उदाहना, उत्तरासुगा- हर्तुमाह-यथा वेति। कामवरदां नतु प्रेमाभृतप रिवेषयित्रीमितीषत्परुयोनि रधीरतांशस्याधिक्येन। अत एव कनिष्ठलक्षणस्य वाप्पस्यात्र भावः । प्रतिषय्य खात्मार्पणे नाश्रित्य। सदेति सेवनेऽव्यर्थकाललमुपदिष्टम्। नच्चात्र क्षणमान्रसि

नामा दोषो नाशक्वयः। 'लन्मोलिना हृनमलक्तकपङ्मद्गर्यासम्या विभूषय पुनरत्त-

Page 145

१२२ कान्यमाला।

सर्व एव रसोत्कर्षों मध्यायामेव युज्यते। यदस्यां वर्तते व्यक्ता मौग्ध्यप्रागल्भ्ययोर्युतिः ॥।४0। अथ पगल्भा- प्रगल्भा पूर्णतारुण्या मदान्धोरुरतोत्सुका। भूरिभावोद्गमाभिज्ञा रसेनाक्रान्तवल्लभा ।।४१।। अतिप्रौढोक्तिचेष्टासौ माने चात्यन्तकर्कशा। तत्र पूर्णतारुण्या यथा- मुष्णाति स्तनयुग्ममभ्रमुपतेः कुम्भस्थलीविभ्रमं विस्फारं च नितम्बमण्डलमिदं रोघ:श्रियं लुण्ठति। द्वन्द्वं लोचनयोश्च लोलशफरीविस्फूर्जितं स्पर्धते तारुण्यामृतसंपदा त्वमधिकं चन्द्रावलि क्षालिता।। ४२ ।।

त्यापि न भवेदिति भावः । युतिर्मिश्रणम्। तत्र प्रथमायां धीराधीरायां मौरध्य- लक्षणमिश्रणं स्पष्टीभवति, द्वितीयायां तु प्रागल्भ्यलक्षणमिश्रणम्। अत्र राधाया मध्यालं, धीराधीरालं च साभाविको धर्मः । केचित्तु धीरातादित्रयमपि स्वाभा- विकमेव मानतारतम्यादुदयते 'याहि माधव, याहि केशव, याहि वद कैतववादम्' इत्यादेरधीरतस्यापि गीतगोविन्दे दृष्टलादित्याहुः ॥ ३९ ॥ ४० ॥४९ ॥ श्रीकृषण आह-मुष्णातीति। अभ्रमुपतेरैरावतस्य रोधःश्रियं पुलिनशोभाम्। विस्फूर्जितमाटोपः । अत्र 'कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्म- कैयोंगे कर्मतसुपजायते।' इत्यनेन कर्मलम्; 'गोदोहमास्ते' इतिवत्। विस्फू- ममू अनेन ।' इति पाठस्तु स्पष्टः ॥ ३८॥३९॥४० ॥ प्रगल्मेति। ननू- रुरतोत्सुकतात्संभोगेच्छामययेवेयं रतिः स्यात्। एषा च पूर्वग्रन्थे परपरत्र च तत्तद्भाचेच्छात्मनः सकाशान्यूनैवोक्ता । सैरन्या एव चात्रोदाहरणमिष्टम्। व्रज- देवीनां तूत्तरत्र। उच्यते। रसेनाकान्तवल्लमेत्युक्तः प्रेमात्मकरसेनैव तदाक्रमण- संभवात्। प्रेम्णस्तु वल्लभसुखैकोद्देश्यताद्वल्लभसुखार्थमेवास्याः प्रयत्नः। तत्तद्भा वेच्छा मय्येवासाविति ॥४१॥ विस्फूर्जितमाटोपः। अत्र घालर्थलक्षणे भावे

Page 146

उज्ज्वलनीलमणिः । १२३

अथ मदान्धा- निष्क्रान्ते रतिकुञ्जतः परिजने शय्यामवापय्य मां खैरं गौरिगिरंसया मयि दशं दीर्घा क्षिपत्यच्युते। सद्यःप्रोद्यदुरुप्रमोदलहरीविस्मारितात्मस्थिति- र्नाहं तत्र विदांबभूव किमभूत्कृत्यं किलातः परम्॥४३॥ उरुरतोत्सुका यथा- उदञ्चद्वैयात्यां पृथुनखपदाकीर्णमिथुनां स्खलद्वर्हाकल्पां दलदमलगुआ्जामणिसराम्। ममानङक्रीडां सखि वलयरिक्तीकृतकरां मनस्तामेवोच्चैर्मणितरमणीयां मृगयते।। ४४ ॥।

जिंतं लक्ष्यीकृत्य स्पर्धत इत्यर्थः ॥ ४२ ॥ प्रातः पृच्छन्ती भद्रां प्रति चन्द्राव- त्याह-निष्कान्तेति। प्रमोदलहर्या विस्मारिता आत्मनः स्थितिरिति तदानीं मदेहे आत्मासीदेवेति संप्रति तदुपलम्भान्यथानुपपत्तेरज्ञायते। किंतु मया तदानीं प्रमोदलहर्येव दृष्टा न लात्मा। नहि लहर्या अस्तं गुरुतवद्वस्तु तदानी लभ्यते किंतु तया रहितं कालान्तरे देशान्तरे च भाग्यवशाल्लभ्यत इति भावः । कूलं न विदांबभूव न ज्ञातवत्यस्मीति कैमुत्यमानीतम् ॥ ४३ ॥ उरुरते उत्सुकेति। समर्थरतिमतीनां गोपीनामासां रतौत्सुक्यादिकमपि सर्व कृष्णसुखार्थमेव फल- तीत्युपरिष्टाद्याख्यास्यामः । पूर्वग्रन्थे च कामरूपाया एव संभोगेच्छामयी तत्तद्भा- वेच्छात्मेति द्वैविध्यमुक्तं द्रष्टव्यम्। यथैवानुगानां धार्मिकत्वाधार्मिकतवाभ्यां दृष्टान्यां तदषटू राज्ञोऽपि धार्मिकलाधार्मिकलेऽवसीयेते, एवं कामानुगाया द्वैविध्यदर्शनात् कामरूपाया अपि द्वैविध्यमिति। अतोऽस्या नायिकालात् तादृशसंभोगाभिलाषः स्वकान्ततृप्तिप्रयोजनको नानुपपन्न इति । मङ्गला प्राणसखीं रहस्याह-मम मन- 'कालाध्वभावदेशानाम्' इत्यादिना कर्मतम्। 'विस्फूर्जितः स्पर्धत' इति वा पाठः। सहार्थे ह्यत्र तृतीया ॥ ४२ ॥४३ ॥ वैयात्यं धार्थ्यम्। अन्तःस्थयमध्य- १. 'श्रमजलकिरां कामिनि सदा' इति पाठान्तरम्.

Page 147

१२४ काव्यमाला।

भूरिभावोद्गमाभिज्ञा यथा- साचिप्रेद्दपाङ्गशृङ्खलशिखा विस्फारितभ्रूलता

कुल्जे गुञ्जदलौ विराजसि चिरात्कूजद्विपञ्चीखरा बद्धुं बन्धुरगात्रि कृष्णहरिणं शङ्के त्वमाकाङ्कसि ॥ ४५॥

स्तामेव नकंतनीमनङ्गकीडां सदा मृगयते। उदश्वत्खयमेवोद्रच्छद्वैयात्यं नायकयो- र्धार्ष्य यस्यामित्युद्गमने धाष्ट्यस्य स्वातन्यमुक्ता पुरुषायितलेऽपि खस्य दोषः परि- हतः । 'धृष्टो घृष्णग्वियातश्च' इत्यमरः । अन्तस्थमध्यो यः। नखपदानि नखाड्काः। मणितं सुरतध्वनिः ॥४४ ॥ वासकसजां श्यामलामभिसरन्तीं श्रीकृष्णमारादा- लोक्य बकुलमाला तत्सखी तां खगतमेव परिहसन्त्याह-कृष्ण एव हरिणसतं श्लेषेण कृष्णसारं बड्धुं बद्धं कर्तु श्रेषेण प्रियम्। साचि वकं यथा स्यादेवं प्रेह्वन्दो- लन्नपाज एवं शङ्गला शिखा पाशकुण्डलिकाग्रं यस्याः सेति। कांचित्संभुज्यैवायातो- Sस्यैतावता विलम्बेनानुमीयत इतीर्ष्यावितकौं। विस्फारिते भूलते यस्याः सा इति सत्यमेव ब्रूषे गोसंभालनार्थमेव विलम्बोऽभूदिति सर्वं ते जानाम्येवेति गर्वा- सूये। एवं मृषा मानाभासेनैव लब्धशङ्कं विवर्णवन्तं कान्तमालोक्य साकूतं यत् स्मितकुद्लं मया कृत्रिमभावेनैवायं प्रतारित इति व्यञ्ञकं तेनावृतं मुखं यस्यों सा इत्यवहित्थाशान्तिदयोद्रमौ। ततश्च गतशङ्कस्य तस्य मदमीष्टं सुरतधनं तर्हें देहीति प्रार्थनामाकर्ण्य प्रोत्क्षिप्तति रत्याख्यस्थायिभावोदयः। कूजन्त्या विपश्या वीणाया इव सवरो यस्या इति सांप्रतं मे सुरतधनं अ्रन्थौ नास्ति किंतु बहु एव सुरतं तुम्यं प्रदातुं श्रद्धावत्यः पालीप्रभृतयो वर्तन्ते तदस्मात्कुआनिःसत्य ताभ्य- स्तदयाचखेत्यतसुक्यचापलोत्थं नर्म । अत्र भरूलताविस्फारणं, खमुखाच्छादनं, चाररूपरोमाङ्कुरनिक्षेपो, विपश्चीक्काणश्च हरिणबन्धनसाधनानि जञेयानि। ततश् तवापि अ्रन्थौ तत्स्थास्यत्येव; भवतु, खयमेव नीवीग्रन्थिमुद्धाय्य पश्याम्यस्ति

पदम्। 'घृष्टो धृष्णग्वियातश्र' इत्यमरः । मणितं रतिकूजितम् ॥४४॥ बद्धुं

Page 148

उज्ज्वलनीलमणिः । १२५

रसाक्रान्तवल्लभा यथा- अवचिनु कुसुमानि प्रेक्ष्य चारुण्यरण्ये विरचय पुनरेभिर्मण्डनान्युज्ज्वलानि। मधुमदन मदङ्गे कल्पयाकल्पमेतै- र्युवतिषु मम भीमं रौतु सौभाग्यभेरी।। ४६॥ अतिप्रौढोक्तिर्यथा पद्यावल्याम्- काकुं करोषि गृहकोणकरीषपुञ्ज- गूढाङ्ग किं ननु वृथा कितव प्रयाहि।

नास्ति वेति श्रीकृष्णेन तथोपक्रमः कृत इति ज्ञेयम् ॥ ४५ ॥ रसाक्र्कान्तेति। आक्रमोडयं मया निरतिशयरसेन संतर्प्यमाणोडयं सदा भद्वशे तिष्ठवित्याशंसा- भयो ज्ञेयः । मङ्गला ग्राह-अवचिनु खयमेव नतु जनान्तरद्वारा, तन्नापि चारूणि प्रेक्ष्येति। मत्प्रसाधनयोग्यानि तान्यन्यजनो नैवानेतुं जनातीति भावः। युवतिष्विति। तादशं लद्रचिताकल्पं युवतीर्दर्शयित्वा ताश्चमत्कृति प्रापया- मीति भाव: । नायिकाया निर्देशे सदा स्थातुमाग्रहवानायकश्चेत् संतताश्रवकेशवा, नायकं खनिर्देशे स्थापयितुमाग्रहवती चेत् रसाक्ान्तवल्लभा, अवस्थाविशेष एव नायिकाया निर्देशवर्ती नायकश्चेत तदा स्ाधीनभर्तृकेति तिसणामासां भेदे विवेको ज्ञेयः ॥ ४६ ॥ विनैव खसंमतिमत्युत्कण्ठया स्भवनमागत्य निद्ुत्य सन्तं स्कान्तमालोक्य मनसा प्रसीदन्त्यपि श्यामला कौतुकवती बहिष्कृतकोपेन बच्चरितमिदमायाये विज्ञापयामीति भीषयमाणा प्राह-काकुमिति। गृहकोणे रन्धनार्थमानीतानां करीषाणां यः पुञ्जस्तेन गुप्तीकृतखगात्रः किमिदानीं मुखमष्ये अङ्गुलीर्निक्षप्य हा हा वृद्धां मामाज्ञापयेति लक्षणां काकुं करोषि। इतः प्रयाहि यद्यात्मनो भद्रमिच्छसीति भावः । तस्य पूर्ववृत्तं स्मरन्ती तत्रात्मनां दुरवस्थां

बन्धेन वशीकर्तु कृष्णपक्षे बन्धेनेव वशीकर्तुम् ॥ ४५॥ अवचिनु कुसुमानी- त्यादिषु प्रणयविलासमात्रमुद्देश्यम्। निजालंकरणं तु व्याजमात्रम्। तादृग्विलास: मात्रतात्पर्यकलवात्तादशीनाम्। तथा युवतिष्वित्यादावपि ज्ञेयम् ॥.४६॥ काकुं

Page 149

१२६ काव्यमाला।

कुत्राद्य जीर्णतरणित्रमणातिभीति- गोपाङ्गनागणविडम्बनचातुरी ते ।। ४७ ॥। अतिप्राढचेष्टा यथा- सख्यास्तवानङ्गरणोत्सवेऽधुना ननर्त ुक्तालतिका स्तनोपरि। उत्छुत्य यस्याः सखि नायकश्चलो धीरं मुहुर्मे प्रजहार कौस्तुभम्॥४८॥ मानेऽत्यन्तकर्कशा यथोद्धवसंदेशे- मेदिन्यां ते लठति दयिता मालती म्लानपुष्पा तिष्ठन्द्वारे रमणि विमना: खिद्यते पद्मनाभः । त्वं चेन्निद्रा क्षपयसि निशां रोदयन्ती वयस्या माने कसते नवमधुरिमा तं तु नालोचयामि ॥। ४९॥ मानवृत्ते: अगल्भापि त्रिधा धीरादिभेदतः॥५० ॥ तत्र धीरप्रगल्भा- उदास्ते सुरते धीरा सावहित्था च सादरा। प्राप्तां स्मारयन्ती तत्प्रतिफलमिव दित्समाना प्राह-कुत्राद्येति॥ ४७॥ संभोगसमाप्यनन्तरमायातां पद्मामालोक्य चन्द्रावलीं हेपयन् श्रीकृष्ण आह- सख्या इति। उत्पृत्य सबाष्पं पतितेत्यर्थः । नायकः हारमध्यस्थमणिः । धीरं निरपराधमिति भावः। श्लेषेण विद्वांसम्। तत्रापि मुहुः प्रजहार । अत्र लमेव सन्यायं ब्रूहीति भावः। चल इति धीरमिति पदाभ्यां वैपरीत्यं व्यक्तीकृतम्। अत्र 'यो यं हन्यात्स तं हन्यात्' इति न्यायेन कौस्तुभोपि तच्छतगुणं तमधुना प्रहरतिति सखीप्रत्युकिर्ज्ञेया ॥४८॥ बकुलमाला श्यामलां प्रत्याह-मेदिन्या- मिति। लुठति म्लानपुष्पेति। भालत्यानया किमपराद्धं यदिमां पुष्पचय- नेन जलादानेन च खेदयसीति निरुपाधिकं कार्कश्यं व्यजितम्॥४९॥ मानवृत्ते र्मानवृत्ति प्राप्य॥।५०। उदास्ते उदासीना भवति। अत्र चकारात् धीरप्रगल्भमा- करोषीति संकेतीकृतकोकिलादिवज्ज्ञेयम् ॥४७॥४८ ॥४९ ॥ मानवृत्तेर्मान- संबन्धिनी प्रगल्भापि धीराधीरादिमेदतव्रिधा भवति॥५॥ तत्र धीरप्रगल्भां

Page 150

उज्ज्वलनीलमणिः । १२७

यथा- देवी नादय मयार्चितेति न हरे ताम्बूलमाखवादितं शिल्पं ते परिचित्य तप्स्यति गृहीत्यङ्गीकृता न सजः । आहूतास्मि गृहे त्रजेशितुरिति क्षिप्रं व्रजन्त्या वच- स्तस्याश्रावि न भद्रयेति विनयैर्मानः प्रमाणीकृतः॥५१॥ तथा च- कण्ठे नाद करोमि दुर्वतहता रम्यामिमां ते स्रजं वक्तुं सुष्ठ न हि क्षमास्मि कठिनैर्मौनं द्विजैर्ग्राहिता । का त्वां प्रोज्झ्य चलेत्खले यमचिरं श्वश्रूर्न चेदाहये- दित्थं पालिकया हरौ विनयतो मन्युर्गभीरीकृतः ॥५२॥

निन्या लक्षणस्य द्वैविध्यम्। या मानवृत्ति प्राप्य सुरते उदास्ते सा धीरा भवति; यावहित्थादराभ्यां युक्ता सा च धीरेति धैर्यस्य पूर्णतापूर्णलाभ्यां व्याख्येयम्। उदाहरणं तु व्युत्क्मेण पाठार्थक्रमयोरर्थक्मस्य प्राबल्यादिति द्विविधाया धीरप्रग- ल्भाया लक्षणोदाहरणे परमतानुरोधेनैवोक्ते। खमते तु संपूर्ण धैर्या प्रथमैव धीर्र- मल्भाया द्वितीयायाभसंपूर्णधैर्यायामधृतांशस्यापि सद्भावात् धीरप्रगल्भाप्रायलमेव नतु धीरप्रगल्भातमित्यवगम्यते। यथा वेत्यग्रेतनाद्वाशब्दात्। पाल्याःसखी खसखीं कांचित्प्रत्याह-देवीति। स्पष्टम्। क्वाचित्कोऽयं श्लोकः ॥५१॥ तत्र दुर्वतह- तेति। एतद्रतमपि मे धिक्। यत्र सति तत्पाणिनिर्मितां सजं कण्ठे कर्तुं न लमेयेत्यादरावहित्थे। कठिनरिति। द्विजानपि तान्रसाभिज्ञान्धिक्। यैर्व्रते मौनविधिर्दतः। अयं मौनत्यागस्तु लत्प्रेमानुरोधेनैव क्षणं निषिद्धोऽपि कृत इति

वक्तुं प्रगल्भाया लक्षितत्वाद्धीरामात्रं लक्षयति-उदास्त इति। सादय साव- हित्था च सतीत्यादरेणाकारं गोपयन्तीत्यर्थः। मैवं भवन्ती मानवृत्तिसंबन्धिनी सुरते उदास्ते सा धीरेत्यर्थः ॥ ५१ ॥ अथ धीरप्रगल्भामुदाहरति-कण्ठे- नाद्ेति। अस्या धीरालं व्यक्तमेव प्रगल्भात्वं च दुर्वतेति। कठिनेति,

Page 151

१२८ काव्यमाला।

यथा वा- कुचालम्भे पाणिर्नहि मम भवत्या विघटितो मुहुश्चुम्बारम्भे मुखमपि न साचीकृतमभूत्। परीरम्भे चन्द्रावलि न च वपुः कुश्चितमिदं क लब्धा मानस्य स्थितिरियमनालोकितचरी ॥। ५३॥ अधीरप्रगल्भा- संतर्ज्य निष्ठुरं रोषादधीरा ताडयेत्प्रियम्॥५४॥ यथा- मुग्धाः कंसरिपो वयं रचयितुं जानीमहे नोचितं तां नीतिक्रमकोविदां प्रियसखीं वन्देमहि श्यामलाम्।

भावः । तर्हिं क्षणं मौनिन्येव मत्समीपे तिष्ठेत्यत आह-का त्वामिति। अत्र दुर्वतेति, कठिनैरिति, खलेति, प्रौढोक्तिमत्त्वात्प्रगल्भात्वम्। इयं सुरतमदित्समाना खमानं च निहुवाना व्रतादिकं व्याजीकरोतीति धैर्यपूर्त्यभावोऽस्या ज्ञातः ॥ ५२॥ यथा वेति। तस्यां पूर्णधैर्यायां परितोषव्यञ्जको वाकार इति न द्वैविध्यं खसंम- तमिति भावः । कुचालम्भ इति। अन्नैवं ज्ञेयम्। प्रिये चन्द्रावलि, तं किं मानि- न्यसि नहि नहि किं मे मानस्य लक्षणं पश्यसि निरपराधे लयि को वा मानस्याव- काशः। एवं चेत्खाङ्गस्पर्श दास्यसि। दास्याम्येव कोऽत्र संदेहस्तवैवेदमङ्गमिति बहिबूते। खगतं तु मानिन्या मयास्मिन्भावस्त्यक्त एव। किंतु तस्मै दत्तचरम- झमिदमयं यजानाति तदेव करोतु भम किमनेनेत्यौदासीन्यं संपूर्णधीरतकृत- ममेति। क लब्घेति। अद्य तत्संभोगे सुखलेशमात्रमपि भया न लब्धमिति भाव: ॥ ५३ ॥ ५४ ॥ गौरी ग्राह-मुग्धा इति। मुग्धंमन्या। श्यामलां वन्देमहीति। तत्कृतं चेष्टितमेव मच्िकीर्षितमिति व्यज्जनया, तथा

खलेति च प्रोढोक्तिलात्तदुपलक्षितलेनान्येषामप्युपादानाद्रम्यम् ।। ५२ ॥ कुचालम्भ इत्यत्र मानसमयेऽपि गाम्भीर्यमादरोऽवहित्था च गम्यत इति धीरालम्। माने कर्कशत्वात्पाणिविघटनाकरणेन सभर्थतया पूर्णयौवनताच प्रग-

Page 152

उज्ज्वलनीलमणिः । १२९

मल्लीदामभिरुच्छलन्मधुकरैः संयम्य कण्ठे यथा

घीराधीरप्रगल्भा- धीराधीरगुणोपेता धीराधीरेति कथ्यते। यथा- स्फुरति न मम जातु क्रोधगन्धोऽपि चित्ते व्रतमनु गहनाभूत्किंतु मौने मनीषा। अघहर लघु याहि व्याज आस्तां यदेताः कुसुमरसनया त्वां बन्धु(न्द्ु)मिच्छन्ति सख्य: ॥५६॥ यथा वा- कृतागसि हरौ पुरः स्तुवति तं अ्रमन्डलता तिताडयिषुरुद्धुरा श्रुतितटाद्विकृष्योत्पलम्।

मल्लीत्यादिना च बन्धनताडनयोर्मनोवाक्कतत्वं सिद्धम्। साक्षात्खपाणिकृतत्वं चोत्त- माङनानां नातिसुरसनीयमिति न तद्वर्णितम्। केचित्तु श्यामलैवोदाहरणमित्याहुः ५५। मङ्गला प्राह-स्फुरतीति। लघु शीघ्रं व्याज: सस्य निरपराधलप्रकाश- नमयो दम्म आस्तां विरमतु। कुसुमरसनया पुष्पग्रन्थनरज्वा, पक्षे पुष्पमयक्षुद्र- घण्टिकया बद्धुं बद्धात्रैव स्थापयितुम्। तथा सति सप्रेयसीं तां द्रष्टं न प्राप्स्यतीति भावः। अत्र पुष्पकाश्चीमात्रविशिष्टां लां बडुं प्रियमिच्छन्तीति श्लिष्टार्थप्रतीतावधीरा- लवस्य बाह्यलापत्ते: धीरेत्यस्य च खानभिमतलादपरितोषप्राप्तेरुदाहर णान्तरमाह- यथा वैति ॥ ५६ ॥ कृतागसीति। पादत्रयेऽधीरालक्षणं स्पष्टम्। चतुर्थ- चरणे परं केवलं पराश्चन्मुखीलेन नायिकोचितभावप्रदर्शनया नायकं प्रत्यादरः । ल्भालं च ॥ ५३ ॥५४ ॥ ५५। स्फुरतीत्यादावस्याः प्रगल्भालं पूर्ववज्ज्ञे- यम्। व्रतमन्वित्यत्र मौनत्यागोऽयं तु भवत्स्नेहेनैव क्रियत इति भावः। व्याज इति पुंस्येव कीबं तु लिखनभ्रमात्॥ ५६॥ कृतागसीत्यादौ पूर्वार्घेन प्रगल्भा- ९ उज्व०

Page 153

१३० काव्यमाला।

न तेन तमताडयत्किमपि याहि याहीति सा त्रुवत्यजनि मङ्गला सखि परं पराञ्चन्मुखी।५७॥ किशोरिकाणामप्यासामाकृतेः प्रकृतेरपि ॥५८ ॥ प्रागल्भ्यादिव कासांचित्प्रगल्भात्वमुदीर्यते। मध्या तथा अगल्भा च द्विधा सा परिभिद्यते॥५९॥ ज्येष्ठा चापि कनिष्ठा च नायकप्रणयं प्रति। यथा- सुप्ते प्रेक्ष्य पृथक् पुरः प्रियतमे तत्रार्पयन्पुष्पजं लीलाया नयनाञ्चले किल रजश्चकरे प्रबोधोद्यमम्। कृष्णः शीतलतालवृन्तरचनोपायेन पश्याग्रत- स्तारायाः प्रणयादिव प्रणयते निद्राभिवृद्धिक्रमम् ॥ ६०॥

तथा पराश्चन्मुखीत्युत्त्याश्चदित्यस्य शत्रन्तलेन किंचिदपाङ्गदर्शनेन प्राप्तेन प्रसा- दव्यञ्केन खमाननिह्ुतिरित्यवहित्था चेति । पराश्चन्मुख्येवाजनीति न प्रति- कूलम्, नाप्यनुकूलं किमपि चेष्टते स्मेत्यर्थे प्राप्ते सति पुनः कृष्णेन चरणयोः प्रणिपत्य सुरसार्थकप्रयत्न क्रियमाणे संमतिव्यजञकचेष्टाया अभावे धीरालक्षणम- म्यायातम्। 'धीराधीरा तु सोल्लुण्ठभाषितैः खेदयेदमुम् ।' इति साहित्यदर्पणोक्त- धीराधीरप्रगल्भालक्षणम्, तथा 'अनलंकृतोऽपि सुन्दर हरसि यतो मे मनः प्रसभम्। किं पुनरलंकृतस्त्वं संप्रति नखरक्षतैस्तस्याः ॥' इति तदुदाहरणं च नानुमतं धीरामध्यायामतिप्रसक्तवादिति ॥। ५७ ॥ प्रागल्भ्यादिवेति। किंचिद्वयोधिकत एव वस्तुतः प्रागल्भ्यं संभवेदिति भावः । नायकप्रणयं प्रति लक्ष्यीकृत्य नायककर्तृकप्रणयाधिक्यन्यूनतावत्यौ क्रमेण ज्येष्ठाकनिष्ठे स्यातामित्यर्थ: । ५८ ॥ ५९ ॥ दूराल्लताकुजे निह्ुत्य वृन्दा नान्दीमुखीं दर्शयति-सुप्त इति। अत्र नयने रजःप्रदानं निद्रावेशनाशार्थमेव, निद्रानाशस्तु पाणिकर्षणेनापि सिद्धेतैवेति भावः। रजसः पुष्पजलेन नयनापकारकतं पराहतम्। तालवृन्त- खम्॥। ५७ ॥ आकृते: प्रकृतेरपि प्रागल्भ्यादित्येवमन्वयः ॥५८ ॥५९ ॥ ताल-

Page 154

उज्ज्वलनीलमणिः । १३१

यथा वा- दीव्यन्त्यौ दयिते समीक्ष्य रभसादक्षैरू्यहात्मग्लहै- गौरीं घूर्णितयोपदिश्य हितवद्दायप्रयोगं भ्रुवा। तस्यास्तूर्णमुपार्जयन्निव जयं शिक्षावशेनाच्युतः श्यामामेव चकार धूर्तनगरीसंकेतविज्जित्वराम्॥ ६१॥ काचित्कांचिदपेक्ष्य स्याजयेष्ठेत्यापेक्षिकी मिदा॥६२। अतो भेदद्यमिदं न कृतं गणनान्तरे।

रचना व्यजनचालनवैदग्धी ॥ ६० । पूर्वत्र मध्ययोज्येश्ठत्कनिष्ठले उदाहल संप्रति प्रगल्भयोस्ते दर्शयति-यथा वेति। वाशब्दश्चार्थे। वृन्दा पौर्णमासी- माह-दीव्यन्त्याविति। अक्षैः पाशकैः। त्र्यहं व्याप्यात्मा स्वयं श्रीकृष्ण एव ग्लहो येषु तैः । 'पणोऽ्क्षेषु ग्लहोऽक्षास्तु देवना: पाशकाश्च ते।' इत्यमरः। घूर्णितयानुरागव्यजजिकया भ्रृवा। धूर्तनगरीशब्देन लक्षणया नानाविधा धूर्ता उच्यन्ते। संकेतस्तच्छन्दप्रवृत्तिनिमित्तमसाधारणधर्मविशेषस्तं विन्दति प्रापोति वेति खस्मिन्नर्पयितुं जानातीति वा। अत्र प्रकटमेव श्यामायाः पक्षपातलव्यञ्ञ- नया तस्यै श्यामलायै सौभाग्यप्रदानं गौर्या सह प्रणयवत्यास्तस्या नाभिमतमिति न कृतम्। तथा सति गौर्या मनसि किंचिद्दुःखं स्यात्, गोर्याः पक्षपाते तु श्यामाया न दुःखम्। खस्मिन् सौभाग्यस्य निश्चयज्ञानेन तत्पक्षपातस्य बाह्यल- मननात्। अतस्तयोर्मिथः ्रीतिः । श्रीकृष्णस्यापि तादृशी लीलासिद्धर्थमभीष्टेति ज्ञेयम्। एवं पूर्वत्र तारालीलयोरपि विवेचनीयम् ॥ ६१ ॥ न कृतं गणना- न्तर इति। यैव ज्येष्ठा सैव तदानीमेव कनिष्ठा चेति कि धर्मवत्त्वेन गणनीयेति वृन्तं व्यजनम् ॥ ६० ॥ त्र्यहं व्याप्य आत्मा खमेव ग्लहो देयो येषु तैर- क्षैर्दीव्यन्त्यौ समीक्ष्य दायस्याक्षपातलब्धस्य सवोचितकीडाभागस्य प्रयोगं प्रयो- कव्यं चालनविशेषं घूर्णितया भ्रुवा गौरीं दयितयोरेकतरां प्राक् हितमेवोपदिश्य तस्या गौर्या जयमिवोपाजयन् शिक्षायास्तद्विद्याभ्यासस्य वशेनानुगत्या तल्लब्धकु- चातुर्या श्यामां तयोरन्यतरामेव जिलरांचके। धूर्ता अक्षदेविनस्तन्नगर्या यः संकेतो येन चालनेन जय इव दृश्यमानेऽपि पराजयस्तथा तद्विपरीते विपरीत- स्तत्र यः संकेतश्छलेनोपदेशस्तद्वित्। ६१ ।। पूर्वोक्तान्प्रेयसीभेदान्पश्वदशलेन

Page 155

१३२ काव्यमाला।

कन्या मुग्घैव सा किंतु खीयान्योढे उभे बुघैः ॥६३॥ मुग्धामध्यादिभेदेन षड्भेदे परिकीर्तिते। मध्याप्रौढे द्विषद्भेदे प्रोक्ते धीरादिभेदतः॥ ६४ ॥ कन्या खवीया परोढेति सुग्धा च त्रिविधा मता। इति ताः कीर्तिता: पश्चदश भेदा इहाखिलाः ॥६५॥ अथावस्थाष्टकं सर्वनायिकानां निगद्यते। तन्राभिसारिका वाससज्जा चोत्कण्ठिता तथा ॥ ६६ ॥ खण्डिता विप्रलब्धा च कलहान्तरितापि च। प्रोषितप्रेयसी चैव तथा स्वाधीनभर्तृका ॥ ६७ ॥

भावः । अत एव वक्ष्यमाणोऽधिकादिभेदोऽपि नात्र गणनायामानीतः ॥६२॥ ॥६३ ॥ कन्या मुग्घैवेति। तस्या एक एव भेद: । स्वीयापरोढे यद्भेदे इति। सीयामुग्धा, सवीयामध्या, सीयाप्रगल्मेति। एवं परोढामुग्घेत्यादि। एवं कन्यास्ीयपरोढानां स्थूलतः सप्त भेदाः। मध्यादिभेदेन तु पञ्चदशैवे- त्याह-मध्याप्रौढ़े इति। मध्या प्रथमं सीया परोढेति द्विविधा। ततः प्रत्येक धीरा, अधीरा, धीराधीरेति त्रिविधा। ततो मध्या षड़डिधा, प्रौढा च षड्िघेति मध्याप्रौढे द्विषङ्गदे। मुग्धा च त्रिविधा कन्या, खीया, परोढेति मिलिला पंश्च-

दर्शयति-कन्या मुग्धैवेत्यादिना पञ्चदश भेदा इहाखिला इत्यन्तेन। तन्न कन्या मुग्घैवेत्येकः। किं तु खवीयान्योढे इति सवीयायाः सप्तभेदास्तावद्- शर्यन्ते। मुग्धा एक:, धीरप्रगल्भा, अधीरप्रगल्भा, धीराधीरप्रगल्भा इति त्रयः। धीरमध्या, अधीरमध्या, धीराधीरमध्येति मध्यायाश्च त्रयः। इति खवीयायाः सप्त। एवमन्योढायाः सप्त भेदा: पूर्ववज्ज्ञेयाः ॥ तदेवं कन्याया एको भेदः । सवीयान्योढायाः सप्त सप्तेति पञ्चदशैव स्थिताः। पश्चदशले च मध्याप्रगल्भयो- भेंदान् विविनक्ति-मध्याप्रौढे इति। प्रौढाप्रगल्भाधीरादिभेदतः द्विषङ्गेद इति षट्सु द्विलम्। सवीयातपरकीयात्वद्विलेन ज्ञेयम्। पुनः पश्चदशखेव मुग्धाया मेदानू विविनक्ति-कन्या सवीयेति। कन्यामुग्धा सीयामुग्धेति त्रिधा मते-

Page 156

उज्ज्वलनीलमणिः । १३३

तत्राभिसारिका यथा- याभिसारयते कान्तं स्वयं वाभिसरत्यपि। सा ज्यौत्स्ी तामसी यानयोग्यवेषाभिसारिका ॥ ६८ ॥ लज्जया खाङ्गलीनेव निःशब्दाखिलमण्डना। कृतावगुण्ठा स्त्निग्घैकसखीयुक्ता प्रियं त्रजेत् ॥ ६९ ॥ तत्राभिसारयित्री यथा- जानीते न हरिर्यथा मम मनःकंदर्पकण्डूमिमां मां प्रीत्याभिसरत्ययं सखि यथा कृत्वा त्वयि प्रार्थनाम्। चारतुर्य तरसा प्रसारय तथा सस्ेहमासाद्य तं यावत्प्राणहरो न चन्द्रहतकः प्राचीमुखं चुम्बति ॥ ७० ॥

दश भेदाः ॥ ६४ ॥ ६५॥ ६६॥। ६७ । ज्योत्स्ीतामस्योः शुक्ककृष्णपक्षवर्ति- न्योर्यानमभिसारस्तद्योग्यः शुक्लकृष्णपक्षपरिच्छदमयो वेषो यस्याः सा । साङ्गली- नेव स्वाङ्वैरेव सवाङ्गमाच्छादयन्तीवेत्यर्थः ॥६८॥६९॥ श्रीराधा विशाखा- माह-जानीत इति। मम कंदर्पकण्डूयायां तेन ज्ञातायां कुलाङ्नायाः पर- मलज्ावत्या ममाप्रतिष्ठा स्यात्, तस्य च मां प्रत्युपहासः स्ावाम्यप्रकटनं च भविष्यति। तत्सौन्दर्यसौशील्यादिकमेव तदग्रे लया वर्णनीयमिति भावः । वं तु मेन्मन:कण्डूं जानास्येव तदपि किंचिद्विवृणोमि शण्वित्याह-यावदिति। अद्य कृष्णचतुर्दशीतिथि: संप्रति सायम्, वं चलसि। प्रहरपर्यन्तं मे प्राणाः स्थास्यन्ति नँ ततः परत्रेत्यवधिरुक्तः। चन्द्रनामा हतक इति शाकपार्थिवादिः। कुत्सितो लयर्थ:॥६६४॥६५॥६६ ॥६७॥ ६८ । ६९ ॥ क्याचि- त्पाणसख्या अन्वयव्यतिरेकाभ्यां निर्णीय यत्नतस्तस्या मुखात् किंचिन्निष्कासिते तादगुत्कण्ठिते स्वयमेव च द्रौत्याय कृते प्रारम्भे तस्या एव वाक्यम्-जानीत इति। मनसः कंदर्परूपा या कण्डूस्तद्वत् तच्छान्तिकरस्पृश्यं प्रति या उत्कण्ठा तां यथा न जानीत इत्यत्र मनःशब्दप्रयोगः । शमेऽपगतेऽपि दमस्तु भम दृढ एवास्तीति धैर्यमिव व्यज्यितुं कृतम्। पुरतस्तन्निर्वाहस्तु दुष्करः स्यादिति लया- वश्यं गन्तव्यमिति व्यञ्जयितुमाह-यावदिति । मनःकण्डूमिमामित्यन्न' मन-

Page 157

१३४ काव्यमाला।

अथ ज्योत्स्यां स्वयमभिसारिका यथा- इन्दुस्तुन्दिलमण्डल: प्रथयते वृन्दावने चन्द्रिकां सान्द्रां सुन्दरि नन्दनो व्रजपतेस्त्वद्वीथिमुद्वीक्षते। त्वं चन्द्राश्चितचन्दनेन खचिता क्षौमेण चालंकृता किं वर्त्मन्यरविन्दचारुचरणद्वन्द्वं न संधित्ससि।। ७१॥ तामस्यां यथा विदग्घमाधवे- तिमिरमसिभि: संवीतान्कयः कदम्बवनान्तरे सखि बकरिपुं पुण्यात्मानः सरन्त्यभिसारिकाः। तव तु परितो विद्युद्वर्णास्तनुद्युतिसूचयो हरि हरि घनध्वान्तान्येताः स्ववैरिणि भिन्दते ॥ ७२॥ अथ वासकसजजा- स्वासकवशात्कान्ते समेष्यति निजं वपुः । सज्जीकरोति गेहं च या सा वासकसजिजका॥ ७३॥

हतः परदुःखदलेन व्यर्थजीवनलाज्जीवन्मृत इत्यर्थः ॥ ७० ॥ विशाखा श्रीराधा- माह-चन्द्रिकां प्रथयते। तेन चन्द्रिका प्रथते प्रशस्तीभवति। प्रथ ख्यातौ। खद्दर्शनरसाखादमप्राप्य तथाभूतापि सा व्यर्थायतीति हेतोस्तद्वीथिमुच्चीभूय दूर- पर्यन्तं वीक्षते। चन्द्राश्चितेन कर्पूरवता। क्षौमेण सूक्ष्मातसीतन्तुसंभवेन वस्त्रेण। शुकपद्टदुकूले क्षौमशन्दप्रसिद्धिरिति केचित् ॥ ७१ ॥ ललिता श्रीराधामाह- तिमिरेति। तनुद्युतय एव सूचयः वस्त्रसूक्ष्मरन्ध्रानिर्गच्छन्त्यो घनध्वान्तानि परभमित्रायितान्यपि भिन्दते विदारयन्त्यतो हेतोः खवैरिणि तव वैरितमेवेति व्याजस्तुत्या सर्वतोऽपि सौन्दर्यातिशय उक्तः ॥ ७२ ॥ सं वासयतीति खवासकः । वशः कान्तिरिच्छेति यावत्। वं कुजे तावद्वसाहं शीघ्रमेष्यामीति

स्तृष्णा[मिमां] धृष्टजामिति वा पाठः ॥ ७० ॥ क्षौमेण सूक्ष्मातसीतन्तुसंभवेन वस्चेण। तच प्रायः शुक्लमेव भवतीति तदुपात्तम्॥ ७१॥७२॥ सववासकव-

Page 158

उज्ज्वलनीलमणिः । १३५

चेष्टा चास्या: सरक्रीडा संकल्पो वर्त्मवीक्षणम्। सखीविनोदवार्ता च मुहुर्दूतीक्षणादयः॥।७४॥ यथा-

रतिक्रीडाकुञ्जं कुसुमशयनीयोज्ज्वलरुचिं वपुः सालंकारं निजमपि विलोक्य स्मितमुखी। मुहुर्ध्यायं ध्यायं कमपि हरिणा संगमविधिं समृद्यन्ती राधा मदनमदमाद्यन्मतिरभूत्॥ ७५॥ अथोत्कण्ठिता- अनागसि प्रियतमे चिरयत्युत्सुका तु या। विरहोत्कण्ठिता भाववेदिभिः सा समीरिता॥ ७६ ॥ अस्यास्तु चेष्टा हत्तापो वेपथुर्हेतुतर्कणम्। अरतिर्बाष्पमोक्षश्र स्वावस्थाकथनाद्यः॥७७॥

नायकस्येच्छैव नायिकां कुजे वासयतीत्यर्थः । अतो हेतोः समेष्यति कान्ते या वपुर्गेहं च सज्जीकरोति शङ्गारोचितवस्तुविशिष्टं करोति सा वासकसज्ेति तेन वासकाद्धेतोः सज्जयतीति व्युत्पत्त्यैव विशेष्यपदस्य नायकस्य, तदिच्छायाश्, तदागमनभावितस्य च, तत्कालस्य च, देहगेहयोः कर्मणोश्चाक्षेपादेव लाभश्व व्य्ितः ॥ ७३ ॥ ७४ ॥ श्रीराधां दूराद्विलोकयन्ती श्रीरूपमज्जरी खसखी- माह-रतिक्रीडेति। स्मितमुखीति लमद् सकान्तं प्रमोदयितुं योग्यतां धास्यसीति खवपुःप्रत्युक्तिव्यज्ञकं स्मितम् ॥ ७५॥ अनागसीति। ज्ञात इति शेषोऽन्र देयः । नायकस्य सापराधलेऽपि निरपराधतज्ञान एवोत्कण्ठा भवेत्। निरपराधलेऽपि सापराधलज्ञाने मानविप्रलम्भ इति विवेचनीयम् ॥। ७६ ॥ शात् स्ावसरवशात्॥ ७३॥७४॥७५॥ अनागसीति। सागसि तु मान एव भवति न तूत्कण्ठेति ज्ञापकम्। विरहोत्कण्ठितेति पर्यायान्तरम् ॥ ७६॥७॥

Page 159

१३६ काव्यमाला।

यथा- सखि किमभवद्वद्धो राधाकटाक्षगुणैरयं समरमथ वा किं प्रारब्धं सुरारिभिरुद्गुरैः। अहह बहुलाष्टम्यां प्राचीमुखेडप्युदिते विधौ विधुमुखि न यन्मां सस्मार व्रजेश्वरनन्दनः ॥ ७८॥। वाससज्जादशाशेषे मानस्य विरतावपि। पारतन्ये यथा यूनोरुत्कण्ठा स्यादसंगमात्।। ७९॥ अथ खण्डिता- उल्लक्क्य समयं यस्याः प्रेयानन्योपभोगवान्। भोगलक्ष्माङ्कित: प्रातरागच्छेत्खण्डिता हि सा॥ ८० ॥ एषा तु रोषनिःश्वासतूष्णींभावादिभाग्भवेत्।

चन्द्रावली पझ्मामाह-सखीति। बहुलाष्टम्यां कृष्णाष्टम्यां न सस्मारेति मन्माधुर्यस्य स्मृतिविषयीभूतले तस्य क्वापि स्थातुमशक्तेरिति भावः। यद्ा मम स्मरणमपि न करोति धिझ्ामिति निर्वेदो व्यजितः ॥ ७८॥ वाससजेत्यादिना प्रसङ्गेन उत्कण्ठितालस्य समयत्रयमुक्तम्। मानस्य विरतौ तु सैवोत्कण्ठिता कल- हान्तरिताशब्देनोच्यत इति संप्रदायः ॥ ७९ ॥ समयमुल्लङ्क पूर्वसंकेतितागमन- कालं व्यतीत्य यस्याः प्रेयान् प्रातरागच्छेत् सा खण्डिता। अत्र रात्रेः प्रथमप्रहर- मध्य एवागमिष्यामीत्युक्ला कदाचिदर्धरात्रमध्येऽप्यागमने खण्डिता माभूदिति प्रातरिति पदम्। तथा नायकस्य लप्तोपभोगचिह्नले दृष्टे सा माभूदिति भोग- लक्ष्माद्वित इति पदम्। भोगलक्ष्मणामपि सपरिहासार्थकलेन कृत्रिमले ज्ञाते खण्डिता न भवेदित्यन्योपभोगवानिति पदम्। नायिकया सवकान्तस्यान्यसंभोगो ययदि संभाव्यते तदैव नान्यथेत्यर्थः ॥ ८० ॥ श्यामासखबकुलमालासखीं

७७ ॥ बहुलाष्टम्यां कृष्णाष्टम्याम् ॥। ७८ ॥ मानस्य विरतावपीत्यत्रापि पूर्वोक्तेनानागसीत्यनेन न विरोधः । तदाप्यनागस्तमननात् ॥। ७९॥ व्रजपते-

Page 160

उज्ज्वलनीलमणिः । १३७

यथा- यावैरधूमलितं शिरो भुजतटीं ताटङ्कमुद्राङ्कितां संक्रान्तस्तनकुङ्कुमोज्ज्वलमुरोमालां परिम्लायिताम्। घूर्णाकुम्मलिते दृशौ ब्रजपतेर्द्दष्ट्रा प्रगे श्यामला चित्ते रुद्रगुणं सुखे तु सुमुखी भेजे मुनीनां व्रतम्।।८१। अथ विप्रलब्धा- कृत्वा संकेतमप्राप्ते दैवाञ्जीवितवल्लभे ॥ ८२ ॥ व्यथामानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः। निर्वेदचिन्ताखेदाश्रुमूर्च्छानिःश्वसितादिभाक् ॥ ८३॥ यथा- विन्दति स्म दिवमिन्दुरिन्दिरानायकेन सखि वश्चिता बयम्। कुर्महे किमिह शाधि सादरं द्रागिति कृममगान्मृगेक्षणा।।८४।। अथ कलहान्तरिता- या सखीनां पुरः पादपतितं वल्लभं रुषा।

पृच्छन्तीं कांचिदाह-यावैरिति। धूमलितं कृष्णलोहितीकृतम्। ताटङ्क कुण्ड- लम्। वजपतेरिति। प्रकरणवशाद्गजशब्दोऽयं समूहवाची। परःसहस्रस्त्री- जनोपभोक्तुरित्यर्थः । तस्मिन्नतत्सर्व नाश्वर्येमिति भावः । रुद्रगुणं क्रोधं तेन तत्सूचकं मुखवैवर्ण्य नयनारुण्यं च तस्यास्तदाविभूतमिति भावः । मुनीनां व्रतं मौनम्। इयं धीराधीरप्रगल्भा जेया॥ ८१॥ अप्राप्त इति। अप्राप्ते निर्धारे ज्ञाते सतीति व्याख्येयम् ॥। ८२ ॥ ८३ ।। श्रीराधा विशाखामाह-विन्द्- तीति। तेनावधिसमयो व्यतीत इति भावः। इन्दिरानायकेनेति। काचि- ल्लक्ष्मीस्तेनाद प्राप्ता ततः किमस्माभिस्तस्येति भावः। सादरं यथा स्यात्तथा शाधि। यत्र शिक्षणे ममादरो नोत्तिष्ठति तड्रूहीति भावः। तेनातःपरं प्राण- धारणे ममानादर एवेति मरणमेव ज्ञापय न तु जीवनमिति भावः ॥८४ ।। कलहान्तरिता कलहाद्वहिभूता। त्यक्ककलहेत्यर्थः । 'अन्तरमवकाशावधिपरि- रित्यत्र मुररिपोरिति वा पाठः । प्रगे प्रातः ॥८० ॥ ८१ ॥ विप्रलब्धा कान्तेन कारणान्तराद्वश्वितेति यौगिकार्थः ॥८२॥८३॥८४। सखीनां पुर इति।निर्जने

Page 161

१३८ काव्यमोला।

निरस्य पश्चात्तपति कलहान्तरिता हि सा।। ८५।।

यथा- स्रज: क्षिप्ता दूरे ख्यमुपहृताः केशिरिपुणा प्रिया वाचस्तस्य श्रुतिपरिसरान्तेऽपि न कृताः । नमन्नेष क्षोणीविलुठितशिखं प्रैक्षि न मया मनस्तेनेदं मे स्फुटति पुटपाकार्पितमिव॥ ८६॥ अथ प्रोषितभर्तृका- दूरदेशं गते कोन्ते भवेत्प्रोषितभर्तका।८७॥

धानान्तर्धिमेदतादर्थ्ये। छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ।।' इत्य- मरः । कलहेनान्तरं भेदो जातो यस्या इत्यर्थे इति च। त्यक्तकलहेत्यर्थः ॥८५॥ राधा खगतमाह-स्रज इति। पुटे मूष इति ख्याते मृण्मयपात्रे। पाकार्थम- पिंतं स्वर्णरजतादिवस्तिवेत्यर्थः । ८६ । दूरदेशं भथुरां द्वारकां च। अत्र प्रोषितभर्तृकास्वाधीनभर्तृकयो: परकीयातं केचिन्न मन्यन्ते भर्तृशब्देन जारस्य वाचयितुमशक्यतात्तथैकत्र तच्छव्दलिङ्गेनाष्टावप्यवस्थाः स्वकीयाया एवाभिप्रेता इति व्याचक्षते। तदसंगतम्। 'पूर्व याः पश्चदशधा प्रोक्ास्तासां शतं तथा। विंश- विश्वाभिरत्र स्यादवस्थाभि: किलाष्टभिः ॥' इत्यग्रे पञ्चदशानामेवावस्थाष्टकस्य परिगणनात् परकीयां विना पञ्चदशलायोगात्। न च परकीयाणामप्यासां राधा- चन्द्रावल्यादीनां कृष्णेन सह विवाहस्य भाविताद्भतृशब्दप्रयोग इति वाच्यम्।

तु मान: स्थातुं न शक्कोतीत्य भिप्रायात्।८५।।८६।। प्रोषितभर्तृकादिद्ये भर्तृशब्द- प्रयोगो दाम्पत्यस्यैवाङ्विनि रसे रसशास्त्रकर्तृभि: सीकृतताद्युक्त एव। अत एव वासकसज्जायां गेहशब्दः प्रयुक्तः। नहि भर्तृशब्देन वाच्यते। चौरखामिनोरेकार्थला- संभवात्। अन्यथा सवाधीनपतिकादिशब्दवत् क्वचित् सवाधीनजारेत्यपि प्रयुज्यते। अश्लीललाजारेऽपि तच्छब्दो न प्रयुज्यते। किं तु भर्त्रादिशब्द इति चेत् हन्त १ 'कृष्णे' इति पाठान्तरम्,

Page 162

उज्जवलनीलमणिः । १३९

प्रियसंकीर्तनं दैन्यमस्यास्तानवजागरौ। मालिन्यमनवस्थानं जाड्यचिन्तादयो मताः॥८८॥ विलासी सच्छन्दं वसति मथुरायां मधुरिपु- र्वसन्तः संतापं प्रथयति समन्तादनुपदम्।

विवाहस्य भाविले स्पष्टतया क्वाप्यार्षस्य प्रमाणस्याभावात्। न च पाझोत्तरखण्डे दन्तवक्रवधान्तप्रकरणदष्ट्या तथा 'यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधूनू वाथ सुहृद्द्िदृक्षया।' इति प्रथमस्कन्धोत्तया च व्रजागतस्य कृष्णस्य पित्रोरभिला- षपूर्त्यर्थ विवाह आवश्यक इति वाच्यम्। पूर्वमक्रूरागमनकाले श्रीकृष्णस्य शेष- कैशोरे स्थितस्यापि पितृभ्यां यथा तस्य पौगण्डानतिक्म एव दृष्ट आसीत्त- थैव दन्तवकरवधानन्तरमप्यागतस्य तस्य तस्मिनेव वयसि दृष्टेनाधुनाप्यस्य विवाहे समय इति तदानीमपि पित्रोर्विवाहदानानभिलाषस्यैव युक्तिसिद्धलात्। अत एव कृष्णोऽपि तं हत्ा यमुनामुत्तीर्येति गद्यान्ते 'गोपनारीभिरनिशं क्रीडयामास माधवः ।' इत्यादिषु गोपनारीपदप्रयोग इति। तर्हि स्वाधीनभर्तृ- काप्रोषितभर्तृकयोर्भर्तृशब्दप्रयोगे किं बीजमिति चेत्। उच्यते। सर्वत्रैवालं- कारशास्त्रे प्राचीनेऽर्वाचीने वा पत्युपपत्योरेव भर्तृशब्दप्रयोगो दृष्ट एव। यथा रसमञ्जर्या इयं परकीया साधीनभर्तृकेति इयं वेश्या स्वाधीनभर्तृकेत्यादिकं बहुतरमेवास्ति, युक्तिस्तु देवोपदेशेषु पूजयितव्येषु देवेभ्यो नम इतिवदिति पूर्वमुक्तैव। तथा लोके प्राकृत्योऽपि नायिका योऽयं मे गृहे वर्तते स एष मद्यौवनरूपलावण्यवैदग्व्यभोगानभिज्ञो नाम्नैव भर्ता तया लानेष्यमाणो मे सत्य एव भर्ता पतिः स्वामीत्यादिकं दूर्ती प्रति वदन्ति, तथोपनायकस्य परोक्षं तस्मि- जार्यपुत्रादिप्रयोगमपि कुर्वन्तीति दिक ॥ ८७॥ ८८ ॥ श्रीराधा ललितामाह- विलासीति । तत्र विलासस्य सदा प्राप्तलवे कथमत्रागमिष्यतीति भावः ।

हन्त यस्य शब्दप्रयोगेणाप्यश्लीलतापद्यते तदर्थप्रयोगस्य सुतरामेव विरसतापाद- कत्वं स्यात्। न च वक्तव्यं दाम्पत्योऽप्यभिसारो न संभवति गृह एव मिथो नित्यप्राप्तेः बहुप्रबलसपत्नीसंकटले दक्षिणस्य नायकस्य बहुलगुर्वादिजनसंकटलेन लज्जालो: कस्याश्विदनुरागि्या एकान्ते समाह्वानं तां तां प्रति गमनं तु संभव-

Page 163

१४० काव्यमाला।

दुराशेयं वैरिण्यहह मदभीष्टोद्यमविधौ विधत्ते प्रत्यूहं किमिह भविता हन्त शरणम् ।। ८९ ॥ अथ स्वाधीनभर्तृका- स्ायत्तासन्नदयिता भवेत्खाधीनभर्तृका। सलिलारण्यविकरीडाकुसुमावचयादिकृत् ॥ ९० ॥ यथा- मुदा कुर्वन्पत्राङ्करमनुपमं पीतकुचयोः श्रुतिद्वन्द्वे गन्धाहृतमधुपमिन्दीवरयुगम्। सखेलं धम्मिल्लोपरि च कमलं कोमलमसौ निराबाधां राधां रमयति चिरं केशिदमनः ॥ ९१ ॥ यथा वा श्रीगीतगोविन्दे- रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो- र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम्। कुवलयदलश्रेणीं पाणौ पदे कुरु नूपुरा- विति निगदितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥९२॥

अतोऽभीष्टं मे मरणम्। प्रत्यूहं विघ्नम् ॥ ८९ ॥ सायत्तः स्ाधीनः, आसननो निकटवर्ती दयितो यस्याः सा ॥ ९० ॥ पौर्णमासीं प्रति वृन्दाह-मुदेति। नायिकाधीनतवं न शब्दोपात्तमित्यत आह-यथा वेति ॥ ९१ ॥ ९२ ॥ तीति। न च वत्तव्यं स्वगृहात् समाह्वानं सर्वेणैव ज्ञास्यत इत्यलं तत्प्रक्रिययेति परगृहात्तदाधिक्यापत्तेः, यया चातुर्या तत्र गोपनस्यात्तैर्यवात्र संभवाच्च। तस्मा- द्रजयुवराजस्य समृद्धिमदाख्यसंभोगलीलायामभिसारलीला (?) संभवत्येव। यथा ललितमाधवे चन्द्रावलीतः शङ्कया श्रीराधायाः श्रीकृष्णपार्श्वाय गुप्या मुहुर्गमनं तस्माद्वर्तृते चौपपत्याभासे चास्त्येव तादृशलीलेति नान्यथा मन्तव्यम्॥ ८७॥ ८८॥ ८९ ॥ ९० ॥ केशिदमन इति। पूर्ववत् ॥ ९१ ॥ उत्तमादित्रयो

Page 164

उज्ज्वलनीलमणिः । १४१

चेदियं प्रेयसा हातुं क्षणमप्यतिदुःशका। परमप्रेमवश्यत्वान्माधवीति तदोच्यते ॥९३॥ हृष्टा: स्वाधीनपतिकावाससजाभिसारिकाः। मण्डिताश्र पराः पञ्च खिन्ना मण्डनवर्जिताः ॥९४॥

उत्तमा मध्यमा चात्र कनिष्ठा चेति ताख्त्रिधा ॥ ९५॥ व्रजेन्द्रनन्दने प्रेमतारतम्येन कीर्तिताः। भाव: स्यादुत्तमादीनां यस्या यावान्प्रिये हरौ॥ ९६ ॥

उक्तानां सर्वासां पुनर्भेदत्रयमाह-उत्तमेति। प्रेमतारतम्येनेति प्रेमशब्देनात्र प्रेमपरिणामः, स्नेहादयो महाभावपर्यन्ता अप्युच्यन्ते। ननु ज्येष्ठाकनिष्ठे पूर्व न नायिकामध्ये गणिते, इदानीमुत्तमामध्यमाकनिष्ठा गण्यन्ते। ब्रजेन्द्रनन्दने प्रेमतारतम्येनेत्यासां लक्षणम् । तत्रापि नायकप्रणयं प्रतीत्युक्त- मतो लक्षणस्यैकार्थ्यात्तयोरगणने, एतासां गणने च किं बीजमिति चेत् उच्यते। इयमितः सकाशात् प्रेम्णा ज्येष्टा, इयमितः सकाशात् प्रेम्णा कनिष्ठेति पर- स्परापेक्षा चेत् विवक्ष्यते तदा सर्वासामेवापेक्षिकं ज्येष्ठत्वं कनिष्ठतवं चेति न गणनसंभवः। अत एव तत्रोदाहरणफलदर्शनेन ज्येष्ठतकनिष्ठत्वज्ञापनार्थ द्वे द्वे एव नायिके उपन्यस्ते। अत्र तु प्रेम्ण इयमुत्तमलजातिमतीयं मध्यभलजा- तिमतीत्येवं विवक्ष्यते। न वियमितः सकाशादुत्तमेति मध्यमायां तथा विव- क्षानुपपत्तेर्नहीयमितः सकाशान्मध्यमेति केनचित् प्रयुज्यते। नन्विियमाभ्या- मापेक्षिकोत्तमाकनिष्ठाभ्यां सकाशान्मध्यमेति शक्यत एव वक्तुम्। मैवम्। तदपि मध्यमाया उत्तमातः कनिष्ठत्वं कनिष्ठाया उत्तमत्वमवश्यमेव वक्तव्यम्। तथा सति मध्यमाया वैयर्थ्यमेवातोऽत्र मध्यमापदप्रयोगादापेक्षिकलविवक्षा निरस्तेत्येता युज्यन्त एव नायिकाभेदगणना इति सर्वमवदातम्। यावानिति। भावस्य ग्रमाणमुक्तम्। जातिमपि क्रोडीकुर्यादेव 'ये यथा मां प्रपद्यन्ते तांस्त- थैव भजाम्यहम्' इति। श्रीमुखवाक्यप्रसिद्धेः ॥९३॥९४॥९५॥९६॥ भेदा वस्तुविचारेण गणत्रयात्मकलात्। पूर्वोक्तं ज्येष्ठादिभेददयं तु पारम्परिका- पेक्षया तेषु सर्वेष्वपि संभवतीति व्यवहारभात्रात्मकत्वादिति ज्ञेयम् ॥ ९॥

Page 165

१४२ काव्यमाला।

तस्यापि तस्यां तावान्स्ादिति सर्वत्र युज्यते। तत्रोत्तमा यथा- कर्तु शर्म क्षणिकमपि मे साध्यमुज्झत्यशेषं चित्तोत्सङ्े न भजति मया दत्तखेदाप्यसूयाम्। श्रुत्वा चान्तर्विदलति मृषाप्यार्तिवार्तालवं मे राधा मूर्धन्यखिलसुदृदशां राजते सद्गुणेन ।। ९७ ॥ मध्यमा यथा- दुर्मानमेव मनसा बहु मानयन्ती किं ज्ञातकृष्णहृदयार्तिरपि प्रयासि। रङ्ने तरङ्गदखिलाङ्गि वराङ्गनानां नासौ प्रिये सखि भवत्यनुरागमुद्रा ॥। ९८॥

श्रीकृष्णः सुबलं प्रत्याह-कर्तुमिति । मे मम एकक्षणपर्यन्तमप्यात्मनोऽ शेषं व्यावहारिकं लाभप्रतिष्ठादैहिकसुखशयनभोजनादिप्राणधारणपर्यन्तं पारभा- र्थिकं देवब्राह्मणसेवादिकं साध्यं त्यजतीत्ययं रागः । यदुक्तम्-'म्रेहः स रागो यत्र स्यात सुखं दुःखमपि स्फुटम्। तत्संबन्धलवेऽप्यत्र प्रीतिः प्राणव्ययै- रपि ।' इति। मया दत्तखेदा प्रीतिः प्रेमा। यदुक्त्तम्-'सर्वथा ध्वंसरहितं सत्यपि ध्वंसकारणे। यद्भावबन्धनं यूनो: स प्रेमेति निगद्यते ।।' अन्तर्विदलति विदीर्यतीति भाव:। यदुक्तम्-'तमोवाधिकृत्य तत्सौख्येऽप्यार्तिवार्तया खिन्नत्वभ्' इति कमेणात्र पद्ये रागप्रेभमहाभावानामशेषमिति मयेति भृषेति पदैर्जात्याधिक्यमपि, त्रयेण प्रमाणाधिक्यं च विवेचनीयम् ।।९७॥ रज्ानान्र्या यूथेश्वर्याः सखी काचित्तामाह हे रहे, तरङन्ति रोषात्तरङ्गमाणान्यखिलान्यद्गानि यस्याः । हे तथाभूते, इति श्रीकृष्णस्य कष्टांशज्ञानेऽप्यस्याश्चित्तद्रवाभाव एवं प्रेम्णो मध्य- मलं व्यनक्तीति भावः । वस्तुतस्तस्याश्चित्ते एवं विचारः। अहं लस् कष्ट- श्रवणकाल एव गानं संपूर्णमत्यजमेव, किंतु द्वित्निक्षणानन्तरमेव खप्रसारद ९३॥९४। ९५ ।९६ । ९७ ॥ हे र के रङ्गानाम्नि ॥। ९८ ।। उच्चकैरित्यत्रा-

Page 166

उज्ज्वलनींलमणिः । १४३

कनिष्ठा यथा- दनुजभिदभिसारप्रस्तुतौ वृष्टिमुग्रां जनगमनविरामादुच्चकै: स्तौषि तुष्टा।

व्यक्तीकरिष्यामि तावदयं मद्विच्छेददुःखमनुभवतु यथा पुननैवं करोती- त्यतोऽस्या न समर्थायां रतौ व्यभिचारः शङ्कनीयः । किंतु स्नेहस्य जाति- प्रमाणाभ्यामत्याधिक्ये सत्येष विचार एव मनसि नोद्भवतीत्यतोऽस्या न मध्य- मलमेव ॥ ९८ ॥ कांचिदभिसर्तुमिच्छन्तीं लरयन्ती वृन्दा प्राह-दनुजेति। जम्भिते इत्यादिभिस्तस्या रागव्यभिचारव्यज्जक उपालम्भो वाम्यविघातार्थ इति ज्ञेयम्। वस्तुतस्तस्या मनस्येवं विचार :- प्रत्यासन्नोऽयं वर्षुको मेघडिम्भ: क्षणमान्नमेव स्थास्यत्यतोऽनेन दिव्यवस्त्रभूषाद्याद्रीकरणेन मत्कान्तसंभोगप्रति- कूलेनालमिति। अन्रायं विवेक: । प्रेमस्न्नहरागादिषु विचारो हि तेषामगाढ़- लमेव व्यनक्ति। रागाधिक्ये तु 'तीव्रार्कद्युतिदीपितैरसिलताधाराकरालाश्रि- भिर्मार्तण्डोपलमण्डलै: स्थपुटितेऽप्यद्रेस्तटे तस्थुषी। पश्यन्ती पश्चुपेन्द्रनन्दन- मसाविन्दीवरैरास्तृते तल्पे न्यस्तपदाम्बुजेव मुदिता न स्पन्दते राधिका ।।' इत्यत्र प्रियदर्शनगमनकाले शिलामण्डलं तप्तमतप्तं वा मत्प्रियभोग्योऽयं सुकु- मारो देहः सत्रणो वा भवेदिति नैवासति कोऽपि विचारः। किं तु योगमाययैव शत्त्या सदा जागरूकया तत्तत्सर्वसमाधानत एव वृष्टिमुग्रां जनगमनविरा- मादन्यदा स्तौषीत्येतदपि सविचारत्वाद्रागस्य न्यूनजातीयतं व्यनक्ति। यथा- अहो मद्भाग्यादभिसारकाले वृष्टिरियमायाता अतो गृहात्कोऽपि न निःसरि- ष्यति स्वच्छन्दं प्रियमभिसरिष्यामीत्येतावानेव मध्यमाया विचारो नाधिकः । कनिष्ठायास्तु खदेहपरिच्छदाद्यपेक्षापर्यन्तो व्याख्यात एव । तदेवं वृष्टिमुग्राम-

न्यदेति पाठान्तरम्। अथोत्तमादित्रयस्योदाहरणत्नयमिदं विप्रतिपद्यते। तत्रोत्तमो- दाहरणे यथा। ननु कर्तु शर्मेत्यन्येषां रतिमात्रेऽपि संभवति। यथोक्तं पूर्वग्रन्थे रतिलक्षणे-'क्षोभहेतावपि प्राप्ते क्षान्तिरक्षुभितात्मता'। यथा प्रथमे। 'तं मोप- यातं प्रति य (या)न्तु विप्रा' इत्यादि। तथा चित्तोत्सङ्ग इत्यादिकं प्रेममात्रेऽपि घटते। ह्रासशङ्काच्युतेत्यादिना प्रेमलक्षणमुक्ता तदुदाहृतम्-'अणिमादिसौर्य- वीचिमवीचि दुःखप्रवाहं वा नय मां विकृतिर्नाहं मे लत्पादकमलावलम्बनस्य,

Page 167

१४४ कार्व्यमाला।

कथय कथमिदानीं जुम्भिते मेघडिम्भे कुतुकिनि बत कुञ्जप्रस्थितौ मन्थरासि ॥ ९९॥

न्यदा स्तौषीति कनिष्ठां प्रत्युक्ति: कटाक्ष एव। स च लमात्मनि मध्यमाया लक्षणं यदा नयसि तद्वाचैव क्रियया तु लयि कनिष्ठातमुपलभ्यत इत्याकारः। ततश्च रत्यादीनां महाभावपर्यन्तानां स्थायिनां जातिप्रमाणाधिक्ये दृष्ट उत्तमा, तदभावे मध्यभा, जातिप्रमाणयोरत्पले कनिष्ठेति व्यवस्थेयम्। तत्र तत्तदुदय- कालेऽन्यानुसंधानमात्राभावे जातिप्रमाणाविक्यमीषदन्यानुसंधाने तदनुभावः, अधिकानुसंधाने तदल्पत्मिति। ननु 'दुहन्त्योऽभिययुः काश्चिद्दोहं हिला समुत्सुकाः' इत्यादौ रासाभिसारे सर्वा एवान्यानुसंधानाभाववत्यो दृष्टास्तलिं मध्यमाकनिष्ठयोर्व्रजे भेदेन। सत्यमुच्यते। छत्रिणो गच्छन्तीति न्यायेन तत्र तत्रोत्तमा एवोपन्यस्ताः किंतु मध्यमाकनिष्ठयोरपि तत्र सद्भावोऽवगन्तव्य एवं 'पतिसुतान्वयभ्रातृबान्धवानतिविलद्व्य तेऽन्त्यच्युता गताः' इति कासांचि- दुक्के: पत्याद्युल्लङ्गनानुसंधान अभिसारकालगतमेव मन्तव्यं सुखमहमखाप्स मितिवत् । 'लज्जया स्ाङ्गलीनेव निःशब्दपदमण्डना' इत्यभिसारिकालक्षणे गुरुजनादिभयरूपमन्यानुसंधानं प्रसक्त्तमेव। ननु तर्हि कथमेतल्लक्षणमुत्तमां लक्ष्यीकरिष्यति। सत्यम्। यत्राभिसारसमये रागनामास्थायी संपूर्णतयोदेति तत्संचारी संत्रमश्च तदैवान्यानुसंधानभाव उत्तमाललक्षकः संभवति। यदुकतं विदग्धभाधवे-'कंसारेरभिसारसंभ्रमभरान्मन्ये जगद्विस्मृतम्' इति। यदा तु रागो नोदेति तदा 'जानीहि भ्रमराक्षि कुत्र गुरवः पश्य प्रदोषोद्गमे कुआभिक्रम- णाय मां लरयति स्फारान्धकारावली' इत्युत्तमायाः श्यामाया अप्यन्यानुसंधान- रूपं मध्यमालक्षणमुद्भवति। ततश्रैवमत्र व्यवस्था-यस्यां बहुत्रोत्तमालक्षणं

'इति श्रुला चान्तरिति स्नहमात्रेऽपियुज्यते। सान्द्रश्चित्तद्वं कुर्वन् प्रेमा स्नेह इतीर्यते। क्षणिकस्यापि नेह स्याद्विश्लेषस्य सहिष्णुता ॥' यथा-'दन्तेन बाष्पाम्बुझरेण' इत्यादिना। तदेवं सभावत एवात्रेदृशो विकार श्वेदार्तिवार्ताश्रवणे तु कैमुत्यमेवापद्यते। तथा मध्यमोदाहरणे दुर्माणमेवेत्यादि दर्शितम्। मान- चरित्रं श्रीराधायामपि दृश्यते। यथा विदग्धमाधवे तद्वाक्यम्-'कर्णान्ते न कृता प्रियोक्तिरचना क्षिपं मया दूरतो मल्ीदाम निकामपथ्यवचसे सख्यै रुष:

Page 168

उज्ज्वलनीलमणिः । १४५

पूर्व या: पश्चदशधा प्रोक्तास्तासां शतं तथा ॥ १०० ॥ विंशतिश्राभिरत्र स्यादवस्थामिः किलाष्टभिः । पुनश्च त्रिविधैरेभि: प्रभेदैरुत्तमादिभिः ॥ १०१॥ त्रिशती स्पष्टमुक्तात्र षष्या युक्ता मनीषिभिः।

दृष्टं कदापि मध्यमाकनिष्ठयोरपि लक्षणं दृश्यते सोत्तमैव मन्तव्या राजनि सेना- नीलादिवत्। यस्यामुत्तमालक्षणं कदापि न दृष्टमथ च मध्यमाकनिष्ठयोर्लक्षणं दृश्यते सा मध्यमैव। एवमुत्तमामध्यमालक्षणाभावे कनिष्ठैव। एवं च पूर्व- रागप्रसन्जे 'सा कल्याणी कुलयुवतिभिः शीलिता धर्मशैली द्रागस्माभिः कथम-

ष्ातं लक्षयतीत्यवधेयम्॥ ९९ ॥ पूर्व या इति। नन्वत्र धीराधीराधीरा- धीराणां कथमभिसाराद्यवस्थासप्तकम्। केवलमेकं खण्डितालमेव संभवति तासांम्। खण्डिताया एव मानसंभवात् मानमवलम्ब्यैव धीरलादीनां लक्षित- लात्। उच्यते। धीरातादिकं नायिकानामौत्पत्तिकः सार्वकालिक एव स्वभावो मानकाले तत्कार्य सोत्प्रासवक्रोत्तयादिकं सुरसनीयमिति तदानीमेव तल्लक्षणं कृतम्। अतो रसमअर्यादौ मुग्धाभिसारिका, मध्याभिसारिका, प्रगल्भाभिसारि- केत्याद्युक्तरीत्या धीराभिसारिकेत्याद्यपि ज्ञेयम्। यथा धृत्या दुर्लेक्ष्याभिसारा धीरा-

कल्पिताः । क्षोणीलम्नशिखण्डशेखरमसौ नाभ्यर्थयन्नीक्षितः खान्तं हन्त ममाद तेन खदिराद्वारेण दन्दह्यते ॥।' इति। न लन्र मानस्य मनसा बहुमाननं किं तु बहिश्चेष्टयैव। यतः खान्तमित्यनेन खान्तस्य भावोऽन्यथैव प्रतिपादितः। यद्येवं तर्हि परमप्रेमवतीनां सर्वासामेव व्रजदेवीनां तदित्थमेव संभवति न तु मानस्य मनसा बहुमाननेन। तथा दुर्भानमित्यादि सखीनां शिक्षाचरणमिदं प्रणयरोषमय- मिति किंचिदधिकमप्यारोपयत् प्रवृत्तम्। ततोऽस्या न तादृशलं मन्तव्यम्। तथा कनिष्ठोदाहरणे दनुजभिदित्यादिरीतिः श्रीव्रजदेव्यां कस्यांचिदपि न युज्यते। रागमात्रोदाहरणे भक्तान्तरेष्वपि तदसंप्रतिपत्तेः। यथोक्तम्-'स्नेहः सरागों यत्र स्यात् सुखं दुःखमपि स्फुटम्। तत्संबन्धलवेऽप्यत्र प्रीतिः प्राणव्ययैरपि ।' यथा-'गुरुरपि भुजगाद्दीस्तक्षकात्प्राज्यराज्यच्युतिरतिशयि(य)नी च प्रायचर्या १० उज्ज्व०

Page 169

१४६ कांव्यमाला।

किं च- यथा स्युर्नायकावस्था निखिला एव माधवे। तथैव नायिकावस्था राधायां प्रायशो मता:॥१०२॥ इति नायिकाभेदाः ।

एतासां यूथमुख्यानां विशेषो वर्णितोऽप्यसौ। सुहृदादौ व्यवहृतिव्यक्तये वर्ण्यते पुनः॥१ ।।

भिसारिका, अधृत्या स्वाभिसारं स्पष्टयन्ती अधीरा, धृत्यधृतिभ्यां ईषल्लक्ष्याभिसारा, धीराधीरेत्येवं सर्वत्रैवं विवेचनीयम्। प्रायश इति। यथा अनुकूलशठलाद्या अवस्थाः सर्वा एव सर्वथैव माधवे संभवन्ति तथा धीरप्रगल्भादयो राधायां सर्वदा सर्वथा न किंतु किंचिदेव केनाप्यंशेनैवेत्यर्थः ॥९९॥१००॥१०१॥१०२॥ इति नायिकाभेदविव्ृतिः।। सुहदादौ सुहृत्तटस्थविपक्षसपक्षेषु। सौभाग्यं नायकप्रेमविषयीभूतलम्, आदिग्रहणं रूपगुणादि ।। दुर्लङ्वयमन्याभिः खण्डयितुमशक्यं भाषितं यस्याः- सा। अन्र वाक्यपदोपादानात्तव्याख्यायां च भाषितशब्दप्रयोगादत्र लक्षणे आकृ-

च गुर्वी। अतनुल मुदमुचैः कृष्णलीलासुधान्तर्विहरणसचिवत्ादौत्तरेयस्य राज्ञः।'. इति। तस्मादधिरूढे महाभावपर्यन्तगतानां तासां तत्तदुदाहरणं नोचितमिति। उच्यते। आरब्धजिज्ञासानामापातबोधार्थमेव तत्तदुदाहरणं विशेषजिज्ञासानां स्थायिप्रकरण एव तत्तत्तारतम्यं सुष्ट व्यक्तीकर्तव्यमिति। तत्रोत्तमोदाहरणं प्रेमै- कांशमवलम्ब्य कृतं, मध्यमोदाहरणं सख्युपालम्भांशमवलम्ब्य, कनिष्ठोदाहरणं तद्वाम्यव्यजितांशमवलम्ब्येति ज्ञेयम्। पूर्व या: पश्चदशधेत्यादिकं न विस्तरभिया वित्रियतेत्र। प्रायश इति सरसतानुसारेणैव न चान्यथेत्यर्थः॥ १००॥१०१॥१०२॥ इति नायिकाभेदविव्ृतिः ।। सौभाग्यं नायकप्रेम्णा लब्धादरतम्। आदिग्रहणाद्गुणरूपादि तदाधिक्यात्।" वाक्यस्य दुर्लह्यलं चेष्टादीनामुपलक्षणम्। दुर्लङ्वयमन्याभिरपरिहरणीयं भावितं

Page 170

उज्ज्वलनीलमणिः ।

सौभाग्यादेरिहाधिक्यादधिका साम्यतः समा। लघुत्वाल्लघुरित्युक्तास्त्रधा गोकुलसुखुवः ।।२।। प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस्त्रिधा। ग्रगल्भवाक्याप्रखरा ख्याता दुर्लङ्वयभाषिता।।३। तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यमागता। तत्राधिकात्रिकम्- आत्यन्तिकी तथैवापेक्षिकी चेत्यधिका दविया॥ ४ ॥। . तिचेष्टादेः प्रागल्भ्यं नोपलक्षणीयम्। अतः पूर्वलक्षिताभ्यः प्रगल्भामध्या- सुग्घाभ्य एताः प्रायेण भिद्यन्ते। तदूनले प्राखर्यस्याल्पल मृद्दी न तु तस्या भाव एवेति व्याख्येयम्। नपदस्य तदर्थलेऽनभिर्धानात्। 'प्राखर्य मार्दवं चापि यद्य- प्यापेक्षिकं भवेत्' इत्यग्रेतनवाक्यान्मृद्याः किंचित् प्राखर्यस्य प्राप्तेश्व तत्साम्यं प्रासर्यस्य तुल्यतमीषदल्पत्ं आगता प्राप्ता मध्योच्यते। चन्द्रसमं मुखमित्युक्तेते चन्द्रादीषदल्पं मुखमिति प्रतीयते। 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति सूत्र व्याख्यानात्। त्रिकमिति 'संख्याया: संज्ञासङ्ग' इत्यादिना सङ्े कनू ॥ १ ॥। ॥२ ॥ ३ ॥ आत्यन्तिकीत्यत्राधिकेतिपदस्य धर्मिवाचकत्वादात्यन्तिक्यापेक्षिकी- त्ेतयोस्तद्विशेषणत् आघिक्यस्यात्यन्तिकलमापेक्षिकतं न लभत इत्यभवन्मत- योग: स्यात्। मवम्। इयमधिकात्यन्तमन्तसीमातिकमं तथापेक्षां गच्छन्ती-

यस्याः सेति। केवलप्रगल्भवाक्यले वैरूप्यमेव स्यान्न तु रसोपयोगिलमिति भाव:। तदूनल इत्यत्रोनतं रिक्ततवं विंशत्यादिना रिक्ता ह्यूनविशत्यादय उच्यन्ते। ततश्ष सत्खपि गुणान्तरेषु तेन प्राखर्येणैव रिक्तले मृद्वी भवेदित्यर्थः । मध्येति । साम्य- मत्रैकलम्। 'रषाभ्यां नो णः समानपदे' इत्यत्र समानलवत्। ततश्च तत्साम्यं तयोः प्राखर्यमार्दवयोः साम्यं समयोः शीतोष्णयोरिति मिलितयोः परस्परोपमर्देन परस्परसात्संपत्या दयोरेकतप्राप्तलान्मन्दप्राखर्यमित्यर्थः । तदागता प्राप्ता मध्या भवेत्। मध्यावस्थतात् मध्या भण्यत इत्यर्थः ॥१॥२॥३॥ आत्यन्ति- काधिकेति। आत्यन्तिकश्रासावधिकश्चेति कर्मधारये कृते पश्चात् सरीले विव

Page 171

१४८ काव्यमाला।

तत्रात्यन्तिक्यधिका- सर्वथैवासमोर्ध्वा या साम्यादात्यन्तिकाघिका। सा राधा सा तु मध्यैव यन्नान्या सदशी त्रजे॥५॥ यथा- तावद्वद्रा वदति चटुलं फुल्लतामेति पाली शालीनत्वं त्यजति विमला श्यामलाहंकरोति। खैरं चन्द्रावलिरपि चलत्युन्नमय्योत्तमाङ्कं यावत्कर्णे न हि निविशते हन्त राधेति मब्र: ॥ ६॥

त्युक्के केनाप्यंशेनेत्यपेक्षायां प्रत्यासत्तिन्यायेनाधिक्येनेति लब्धे सति न किंचिद- सामज्स्यम्। 'गच्छतौ परदारादिभ्यः' इति ठक्। सा तु मध्यैवेति। मुग्धा- दिमेदे प्रखरादिमेदे च सा मध्यैवेत्यर्थः । राघैवात्यन्ताधिकेत्यत्र हेतुर्यस्माद्रजे सान्या सदृश्यन्यस्याः सदशी न भवति किंतु सवसदृश्येवेत्यर्थः। यद्वास्याः सदशी ईषदल्पापि नान्या कापीति सर्वा एवात्यन्तन्यूना इत्यर्थः ॥४॥५॥ कदाचित् समाजमिलितासु गोपीष्वारभ्यमाणपारम्परिकसंवादासु व्याजस्तुत्यादिभि: प्रति खयूथसौभाग्यमभिव्यजयन्तीषु 'भो व्रजदेव्यः परमार्थ तु श्णुत' इति श्यामला प्राह-तावदिति। शालीनतमधृष्टतं त्यजति किं तु धार्ध्य प्रागल्म्यमेव करोतीत्यर्थः । उत्तमाङ्गं शिरः । अत्र श्यामलाहंकरोतीति खनामोळ्ेखतः खवस्या- व्यपकर्षकथनेन तासु सर्वासु स्वस्य सत्यवादित्वं व्यजितम्। तत्राप्यहं करोमीति

एव स चापि न तिष्टतीति प्रत्यायितं च। राघेति मन्त्र इति। राघेतिशब्दस्य

क्षिते च टापप्रत्ययात् कोपघलपि पूर्वपदस्य पुंस्तवं सिद्धति। एवमुत्तरेष्वपि सा राधेत्यत्र सा तु मध्यैवेत्यत्र च हेतुर्यदिति तत्र पूर्वत्र पुराणादिकं तु प्रमाणि- तमेच, उत्तरत्र च तदेव प्रमाणम्। मध्यालस्यैव रसातिशयाधायकत्वात्तस्यास्त- त्रोक्तमसाधारणतसुपपद्यत इति॥४॥५॥ तत्रोभयत्राप्युदाहरणम्-ताव- दद्वेति। अन्र राधेतिनाम्रः प्रभावो दर्शितः । साक्षादौद्धवं तु न दर्शितमिवि

Page 172

उज्ज्वलनीलमणििः । २४९

अथापेक्षिकाधिका- मध्ये यूथाघिनाथानामपेक्ष्यैकतमामिह। या स्यादन्यतमा श्रेष्ठा सा प्रोक्तापेक्षिकाधिका॥ ७ ॥ तत्राधिकप्रवरा यथा- पश्य क्षोणिधरादुपैति पुर्तः कृष्णो भुजञ्ात्रणी- स्तूर्ण भीरुभिरालिभि: सममितस्त्वं याहि मत्रोज्झिते। आचार्याहमटामि भोगिरमणीवृन्दस्य वृन्दाटवीं किं नः कामिनि कार्मणेन वशतां नीतः करिष्यत्यसौ॥८॥ अथाधिकमध्या- आलीभिर्मे त्वमसि विदिता पूर्णिमायाः प्रदोषे रोषेणासौ प्रथयसि कथं पाटवेनावहित्थामू।

श्रूयमाणत् एवान्यजनपराभावकललिङ्गदर्शनेन मन्ये मन्ततमस्तीत्युत्प्रेक्षा। अथ वा नाम न भवतीदं किंतु मन्त्र एवेत्यपह्तिः । एतत्पद्यस्य सखीजनवक्तृ- कले वन्दादिवक्तृकलवे वा श्यामलाहंकरोतीत्यनुपपत्तेः श्यामलावकतृकलमेव सुर- सम् ॥ ६ ॥ ७॥ अत्र प्रकारेण दूष्येश्वरीणामेव परम्परोक्ति:, तासां च काचित् कांचिदाहेति सर्वत्रावतारिका जेया। पशयेति। भुजङ्गः सर्पः, कामुकक्चेति। खमितो याह्यन्यथा लामसौ दङ्लयते। हे मन्त्रोज्विते, वं मन्त्रं मन्न्रणां च न जानासीत्यर्थः । भोगी सर्पः कृष्णश्च। आचार्या सर्पमोहनशात्त्रविदुषी आहितु- ण्डिक्यस्मि, गोपीनां रसवैदग्ध्यादेरध्यापिका चास्मि। कार्मणेन व्शीकरौषधेन, कर्मसमूहेन दैहिकवाचिकचेष्टावृन्देन च वशतां नीत इति। सौभाग्याधिक्यं प्राखर्य च स्पष्टमित्यधिकप्रखरेयं दुर्हत्।। ८।। आलीभिरित्यन्न वक्तव्या या गोपी सैवोदाहरणम्। ते तव वर्त्मप्रेक्षी कुञ्जराजो जागरभभ्यस्यलिलनेन तस्या मध्यालं च। शालीनतमधृष्टतम् ॥। ६॥ आपेक्षिकाधिकादिषु यस्या वाक्यं सैव हेया॥ ७ ॥ कार्मणेन तत्पराभावकमूलकर्मणा। मूलमौषधं तेन ॥ ८॥ आली- भिरिति। पूर्व खल्वागच्छन्तमपि कृष्णं दृष्ट्रा संकोचमविधायान्यां परावर्तयितुं

Page 173

काव्यमाला।

धृत्वा धूर्ते सहपरिजनां मङ्हे त्वां निरुन्ध्यां वर्त्मप्रेक्षी गुणयतु स ते जागरं कुञ्जराजः ॥ ९॥ अथाधिकमृद्वी- न्यञ्चन्मूर्धा सह परिजनैर्दूरतो मा प्रयासी- र्मामालोक्य प्रियसखि यतः प्रेमपात्री ममासि। माला मौलौ तव परिचिता मत्कलाकौशलाढ्या द्यूते जित्वा दनुजदमनं या त्वया सवीकृतास्ति॥ १०॥ अथ समात्रिकम्- साम्यं भवेदधिकयोस्तथा लघुयुगस् च। तत्र समप्रखरा- न भवति तव पार्श्रे चेत्सखी कापि ना भू- त्परिहर हृदि कम्पं किं हरिसे विधाता। अहमतिचतुराभिर्वेष्टितालीघटाभि: प्रियसखि पुरतस्ते दुस्तरा बाहुदासि ।। ११ ॥।

एव सौभाग्याधिक्यम्। अवहित्थां प्रथयसीत्यनेन संकोचप्राप्या प्राखर्याभावः। पाटवेत्यनेन मृदुतवस्याप्यभावोऽतो मध्यातं च। वत्रयास्तु लां निरुन्ध्यामित्यनेन प्राखर्यम्, तथा सौभाग्याधिक्यव्यञ्ञकपदाभावाल्लघुप्रखरेयं दुर्हत्। न्यश्चदित्यत्रापि या वक्तव्या सैवोदाहरणम्। न्यश्चदित्यनेन मृदुलान्माला। मौलावित्यादिना सौभाग्याधिक्याच्च। वक्री तु लघुमध्यैवेयं सुहृत् ॥९॥ १०॥ न भवतीति। केयं ममोद्यानस्य पुष्पाणि त्रोटयतीति दूराद्धावन्नपि हरिस्ते किं विधाता कि करिष्यति यतोऽहमित्यादि। श्लेषेण बाहुदा नदीविशेषः । अत्रागच्छतो हरे्द्वयो रेव साक्षाल्लक्ष्यत्वाद्योरेवाधिक्येन साम्यम्। अहमित्यादिना वन्याः प्राखर्यादि- प्रौढमुक्तवती, एषा तु कृष्णादूरत एवान्यां परिहसितवतीति मध्या। परिहासथ गृहे नीला तस्या बन्धनं न संभवतीति व्यक्त एव ।। ९ ॥ श्लेषे बाहुदा नदी-

Page 174

उज्ज्वलनीलमणिः । १५१

अथ सममध्या- लोले न स्पृश मां तवालिकतटे धातुर्यदालक्ष्यते त्वं स्पृश्यासि कथं भुजङ्गरमणी दूरादतस्त्यज्यतै। घिग्वामं वदसि त्वमेव कुहकप्रेष्ठासि भोगाक्किते येनाद च्युतकञ्चुका: शुषिरतः सख्योऽपि सर्पन्ति ते ॥१२॥ अथ सममृद्दी- प्रत्याख्यातु सुहज्जन: कथमयं ताराभिधस्ते गिरं प्राणास्त्वं हि समोच्चकैरसि शपे धर्माय लीलावति।

यमेवोदाहरणं सुहृत्॥। ११॥ लोल इति। संभुक्ताभुक्तयो: परस्परसुहदोरुकि- प्रत्युक्ती। प्रथमा प्राह-तव ललाटतटे धातुर्गैरिकरागोऽतस्त्वं कृष्णोच्छिष्टा अप- वित्रासीत्यर्थः। द्वितीया प्राह-वं भुजद्गरमणी सर्पी, पक्षे भुजङ्गं कामुकं कृष्णं रमयसीति प्रसिद्धा लदीयरमणस्य (अ)प्रयोजिका। अहं तु तेन बलाददैवानि- च्छन्त्येव संभुक्तातस्तं मत्तोऽप्यपवित्रेति भावः । पुनः प्रथमाह-धिगिति। कुहकस्य नागविशेषस्य, पक्षे मायाविनः कृष्णस्य प्रेष्ठासि। अत्र प्रियशब्दस्य 'इगुपधज्ञाप्रीकिर: कः' इति कर्तृवाचककप्रत्ययान्तलात्तत्रापीष्ठना चातिशयर- मणेच्छावतीत्यर्थः । भोगोऽ्हिफण: संभोगश्च। शुषिरतो बिलात्, पक्षे शुषिर- विशेषवंशीहेतोः । च्युतकश्चुका त्यक्तनिर्मोकाः सर्पन्ति सर्पा इवाचरन्ति। पक्षे स्पष्टम्। अन्र प्रथमायां मा स्पशेति तिरस्काररूपात् प्रकटहास्यात् सौभाग्यमूद्द- नीयम्ं। द्वितीयायां तु संभोगचिहेन व्यञ्जितं सौभाग्यं स्पष्टमेव, मध्यातं च द्वयोरेव श्िष्टोक्ते: ॥ १२॥ प्रत्याख्यात्विति। ताराभिधो मल्क्षणो जनस्ते

विशेषः ॥ १०॥ ११॥ लोल इति। वाकोवाक्यम्। कुहको मायावी, पक्षे नागविशेषः । शुषिरतः शुषिरविशेषवंशीहेतोः, पक्षे बिलात् । सर्पन्त्यभिसरन्ति, पक्षे सर्पायन्ते। किंतत्र वक्तृश्रोतृभेदेन व्यङ्ञयभेदसंप्रतिपत्तेर्वक्तु: श्रोतुश्रात्र श्रीकृष्णप्रेयसीजनत्वाद्धातुरागादीनां तद्विशेषपर्यवसानमेवावगन्तव्यम्। एवमन्य- त्रापि ॥ १२ ॥ प्रत्याख्यातु परिहरतु। ताराभिध इंति। खयमेव खनाम

Page 175

१५२ काव्यमाला।

किंतु त्वामहमर्थये परमिदं कल्याणि तं बल्लवं स्वीयं शाधि यथा स गौरि सरले कुर्याज्जने न च्छलम्।।१३ ॥। यथा वा- प्रहित्य कठिने निजं परिजनं मदार्या त्वया निकाममुपजप्यतां किमु विभीषिकाडम्बरैः । प्रजामि रविजातटं गुरुगिरा मृषाशङ्किनि प्रदोषसमये समं सवयसा शिवां सेवितुम् ॥ १४ ॥ अथ लघुत्रिकम्- लघुरापेक्षिकी चात्यन्तिकी चेति द्विधोदिता ॥१५॥ तत्रापेक्षिकीलघु :- मध्ये यूथाधिनाथानामपेक्ष्यैकतमामिह।

गिरं मानं मुख्चेति वाचं कथं प्रत्याख्यातु। खीयं वल्लभं कृष्णं शाधि शिक्षादानेन वोधय। अत्र मानवत्यास्ताराया मानभद्गार्थ कृष्णेनैव तत्सुहृदो लीलावत्याः प्रेषणात्तारायाः सौभाग्याधिक्यं तथा खीयं शाधीति पदाभ्यां लीलावत्याश्च तत्। ताराया मृदुलं स्पष्टम, लीलावत्यास्तु शाधीति शासनयोग्यताया हेतोः प्राखर्यमू । १३ ॥ 'साम्यं भवेदधिकयोस्तथा लघुयुगस्य च ।' इत्यधिकयोः साम्यं श्लोक- त्रयेणोक्तम्। लघुयुगलस्य साम्यं वक्तुमाह-यथा वेति। सुन्दरि, किं लं गुरुजनान्न विभेषि। यतः सायं स्पष्टमेव वनं गच्छसीति वदन्तीं कांचिदपि मृद्वीं काचिदपि प्रखरा दुर्हत प्रतिवदति-प्रहित्येति। प्रहित्य प्रस्थाप्य। मदार्या मम श्वश्रूः। उपजप्यतां भेद्यताम्। गुरुगिरा गुरोस्तस्या एव गिरेत्यर्थः। तव श्राहं पृच्छामि मात्रं किमिति कुप्यसि। प्रसीदेति पुनस्तस्याः प्रतिवचनजातमिति ज्ञेयम्। अत्र द्वयोरेव सौभाग्याधिक्यद्योतकपदाभावाल्घुले साम्यम्।।१४ ॥ लघुरिति। अपेक्षां गच्छति। तथान्तं सीमातिकमं गच्छति। केनांशेने्य- गृह्लाति प्रतिज्ञादाव्यबोधनाय। सरले मद्विधे जने छलं न कुर्यात्॥१३॥ प्रहित्य प्रस्थाप्य। मदार्या मम श्वश्रूः। उपजप्यतां मेद्यताम्। गुरुगिरा व्रजामि॥ १४ ॥

Page 176

उज्ज्वलनीलमणिः । १५३

या स्ादन्यतमान्यूना सा प्रोक्तापेक्षिकी लघुः ॥१६॥ 5 तत्र लघुप्रखरा- त्वं मिथ्यागुणकीर्तनेन चटुले वृन्दाटवीतस्करे गाढं देवि निबध्य मां किमधुना तुष्टा तटस्थायसे। हत्वा धैर्यधनानि हन्त रभसादाच्छिद्य ह्वीवैभवं येनायं सखि वश्चितोऽपि बहुधा दुःखी जनो वश्च्यते ।१७। अथ लघुमध्या- गोष्ठाधीशसुतस्य सा नवनवप्रेष्ठस्य यावद्दृशोः पन्थानं वृषभानुजा सखि वशीकारौषधिज्ञा ययौ। तावत्त्वय्यपि रूक्षमस्य बलवद्दाक्षिण्यमेवेक्ष्यते का चन्द्रावलि देवि दुर्भगतया दूनात्मनां नः कथा॥ १८॥ अथ लघुमृद्वी- अपसरणमितो नः सांप्रतं सांप्रतं स्या- ददपि हरिचकोरं चित्रमालोचयामः । .-

पेक्षायां प्रत्यासत्त्या लाघवेनेति व्याख्येयं पूर्ववत्। अन्यथा अभवन्मतयोगो नाम दोषो दुर्वारः स्यात् ॥ १५॥ १६ ॥ काचिन्मानवती खवसुहृदमुपलभते- त्वमिति। अस्या धैर्यधनानीति धैर्यस्य धनलेन बहुलेन च। ह्रीवैभवमिति। ह्ियोऽप्यापेक्षिक्याधिक्येन परमधर्यलज्ावत्त्वम्। तथाभूतयोधैर्यलजयोः साम- स्त्येन हरणादभिव्यञ्जितेन प्रेमाधिक्येन सौभाग्याधिक्यम्। वश्चितोऽपि वश्व्यत इति मानिन्याः स्ाभाविकं वचनं तु न लघुतव्यज्ञकम्। वक्तव्यायास्तु मिथ्या- गुणकीर्तनेनेति चटले इति पदाभ्यां प्राखर्यम्। सौभाग्याधिक्यव्यञ्जकपदाभावा- लघुलमिति वक्तव्यैवोदाहरणम्। अस्याः पुनः पुनर्वश्चनात सौभाग्यस्याल्पत्ं चटुले इत्यादिपदैः प्राखर्यमिति वभ्नया एवोदाहरणतम् ॥ १७ ॥ गोष्ठेति। १५॥ १६ ॥ १७ ॥ १८ ॥ सौति जनयति । प्रातीति वा पाठः । प्रा पूरणे

Page 177

२५४ काव्यमाला।

कलयत सहचर्यः पर्यटद्गौरदीप्ति- स्तटभुवि नवशोभां सौति चन्द्रावलीयम्॥ १९॥। अथात्यन्तिकलधु :- अन्या यतोऽसि न न्यूना सा स्यादात्यन्तिकी लघुः। त्रैविध्यसंभवेऽप्यस्ा मृदुतैवोचिता भवेत् ॥ २० ॥ यथा- निजनिखिलसखीनामाग्रहेणाद्य वैरी कथमपि स मयाद्य व्यक्तमामन्रितोऽसित। क्षणमुरुकरुणाभि: संवरीतुं त्रपां मे मदुदवसितलक्ष्मीं गोष्ठदेव्यस्तनुध्वम्॥। २१।। न समा न लघुश्ाद्या भवेन्नैवाधिकान्तिमा। अन्यास्त्रिधाधिकाश्च स्युः समाश्र लघवश्र ताः ॥२२॥

श्लोकन्रयं स्पष्टम् ॥। १८ ॥ सौति जनयति। प्रातीति पाठे प्रा पूरणे।। १९ ।। ॥ २० ॥ निजेति। स अघवैरी आमन्त्रितोऽय मज्जन्मतिथौ मत्पितृभ्यां कृत- महोत्सवाहूतभोजितोऽपि सायं मदीयकुज् आगत्य किंचित् भुङ्क्वेति निवेदितः। किंतु तस्य युष्मदधीनलात् युष्मत्साहाय्यं विना स मे मनोरथो न स्यादित्याह- क्षणमिति। उदवसितलक्ष्मीं गृहशोभाम्। 'गृहं गेहोदवसितम्' इत्यमरः । यूयमप्यागत्य किंचिदुक्ला मां कृतार्थीकुरुतेति भावः । अत्र सखीनामाग्रहेणेति सस्यायोग्यताव्यज्ञनया तथा सखीजनप्रेक्षणं विना सर्वयूथेश्वरीसंसदि स्वयमागम- नेन क्षणमित्यादिभिर्विनयैश्च ताः सर्वा एव प्रसन्नास्तस्या दूत्यं तहिने चक्रुरिति ज्ञेयम् ॥। २९ ॥ आद्या अत्यन्ताघिका एकविधा एव। अन्तिमा आत्यन्तिकी लघुः नाधिका न कस्या अप्यधिका तेन सा लघुरेव। किंतु तत्सदृश्योऽन्या अपि बह्वयो वर्तन्त इति ताभि: समा चेति द्विविधा। अन्या मध्यस्थिता आपेक्षिका- धिका, समा, आपेक्षिकलधुश्चेति यैव खलघुमपेक्ष्याधिका सैव तत्क्षण एव साधिकामपेक्ष्य लघुः, सवसदृशावपेक्ष्य समेत्येवं मध्यस्थानां त्रैविध्यं स्पष्टयति- ॥ १९ ॥ उदवसितं' गृहम् ॥ २० ॥ २१॥ न समेत्युक्तमेव विश्ञदयति-

Page 178

उज्ज्वलनीलमणिः । १५५

विनात्यन्ताधिकान्तेन सर्वासु लघुता भवेत्। सर्वास्वधिकता च स्याद्विनैवात्यन्तिकीं लघुम् ॥। २३॥ आद्यैकैवान्तिमा द्वेधा मध्यस्था नवधोदिताः। इत्यसौ यूथनाथानां भिधा द्वादशधोदिता॥ २४॥ इति यूथेश्वरीमेदाः ।

दूतीभेदाः । अथाश्रितसहायानां कृष्णसंगमतृष्णया। एतासां पूर्वरागादौ दूत्ययुक्तिर्विलिख्यते ॥ १ ॥ दूती स्वयं तथाप्ता च द्विधात्र परिकीर्तिता। तत्र स्वयंदूती- अत्यौत्सुक्यत्रुटद्रीडा या च रागातिमोहिता॥ २॥

विनेति ॥२२॥२३॥२४॥ इति यूथेश्वरीभेदविवृतिः ॥ यथापूर्व नायकभेदानन्तरं तस्य दूत्यादर्थ नायकस्य सहाया उक्तास्तथैव नायिकाभेदानन्तरं तस्याः सहायानां वत्तव्यले मुख्यं साहाय्यं हि दृत्यमिति प्रथमं दूत्य एवोच्यन्ते तद्वचनेनैव सर्वा एव सहाया उक्ता भविष्यन्ति इत्यभि- प्रायेणाह-अथेति। या चेति। चकाराद्यालौत्सुक्यतुटद्वीडेति यापदस्या- विनेति। आद्येति। आद्या आत्यन्तिकाधिका अन्तिमा आत्यन्तिकी लघुः । एषा लधिका न भवेदेव तेन सभा लघुश्चेति द्वेधा आघया सह त्रयः। मध्यस्था- स्लधिकप्रखरादिभेदेन मिलिला द्वादश भिदा मताः ॥१२॥२३॥२४॥ इति यूथेश्वरीभेदविव्ृति: ।। अत्यौत्सुक्यत्रुटवीडा या रागातिमोहिता च येति यापदस्य द्विरावृत्त्यान्वयः । पूर्वा चेत् स्वयभभियुक्के नायकं प्रति भावं प्रकान्चयति, तदा, उत्तरा तु सुतरामे- नेति भाव: । औत्सुक्यं रिरंसामयलेऽपि संभवति, रागस्तु रतिमयत एवेति

Page 179

१५६ काव्यमाला।

स्वयमेवाभियुङ्के सा सयंदूती ततः स्मृता। स्वाभियोगास्त्रिधा प्रोक्ता वाचिकाङ्गिकचाक्षुषाः ॥३॥ तत्र वाचिक :- वाचिको व्यङ्गय एवात्र स शब्दार्थभवो द्विघा। उक्तौ व्यङ्ञौ च तौ कृष्णपुरःस्थविषयौ द्विघा॥४॥ तत्र कृष्णविषय :- स साक्षाव्यपदेशाभ्यां स्ात्कृष्णविषयो द्विया। तत्र साक्षात्- साक्षाद्वहुविधो गर्वाक्षेपयाञ्जादिभिर्भैवेत् ॥५॥ तत्र गर्वेण शब्दोत्थो व्यश्ो यथा विदग्घमाधवे- साध्वीनां धुरि धार्या ललितासङ्गेन गर्विता चास्म। हितमालपामि माधव पथि माद्य भुजङ्गतां रचय । ६ ॥

वृत्त्यान्वयः । खयमेवाभियुङ्के खवाभिप्रायं प्रकाशयति सा सयंदूती। तन्न प्रथमा अलब्धाङ्गसङ्गा प्रायेण पूर्वरागवती, द्वितीया लब्धाङ्गसङ्गापि रागेणानुरागेणा- तृप्यातिमोहिता स्थायिभावेनैव विस्मारितलज्ाधैर्यशङ्का च जेया। आत्मानम- लब्धाङ्गसङ्गमिव मन्यमानेत्यर्थः ॥ २ ॥ ३ ॥ वाचिकाद्गिकावध्यात्मादिलात ठगन्तौ । व्यङ्गय एव व्यञ्जनावृत्तिगम्य एवाभिधावृत्तिगम्यले रसाभासापत्ते:। यद्ुक्तम्-'रसाभासमधिकृत्य प्रकटप्रार्थनादिः स्यात् संभोगादेश्च' इति। शब्दार्थ- भवः, शब्दशक्त्युत्थोऽर्थशत्त्युत्थश्च । तौ शब्दार्थभवौ व्यक्ष्यौ द्विधा भवतः। कृष्णश्र तत्पुरःस्थपदार्थविशेषश्च तौ विषये ययोस्तो ।।४ ।। ५ ।। श्रीराधा प्राह-साध्वीनां पतिव्रतानां सुन्दरीणां च धुरि चिन्तने, गणनायामिति यावत्। विशिष्टतया पृथगुक्तिः ॥१॥२॥३॥ व्यङ्गय एवेति। वाच्यले तु रस- विघातः स्यादित्यभिप्रायात्। तदुक्तं रसस्य स्शब्देन शद्ारादिशब्देन वाच्यल- दोष इति ॥ ४ ॥ साध्वीनां पतिव्रतानां पक्षे सुन्दरीणां धुरि वोढव्ये मस्तको- परीत्यर्थः । ललितायाः सङ्वेन, पक्षे ललिताख्यभावस्य भुजङ्गतां षिन्गताम्; पक्षे

Page 180

उज्ज्वलनीलमणिः । १५७

अर्थोत्थो यथा- तमालश्यामाङ्ग क्षिपसि किमपाङ्गश्रियमितः प्रसिद्धाहं श्यामा त्रिजगति सतीनां कुलगुरुः। समारब्धे यस्याः कथमपि मनाग्बाघनविधौ मृगीमालाप्येषा प्रसभमभितो हन्ति कुपिता ॥७॥ अथाक्षेपेण शब्दोत्थो व्यङ्गथो यथा- अध्वानं व्रज धूर्त मा वृणु पुरः पश्याम्बरान्ते दृशं निक्षिप्योरुपयोधरोन्नतिमिमां नष्टेन्दुलेखाश्रियम्।

धू: स्यात् भारचिन्तयोः । यद्वा धुरि मस्तकोपरि वोढव्यवस्तुमध्ये या धार्या धर्तु- मर्ह्देत्यर्थः । ललितायाः सज्वेन, पक्षे ललिताख्यो यो भावविशेषस्तस्यासङ्वेन किंवा ललितेनासङ्गेन सर्वोत्कृष्टया लय्यासत्त्या भुजङ्गता लाम्पय्यम्, पक्षे मा मां भुजङ्तां प्राप्तां रचय, आलिक्वितां कुर्वित्यर्थः। ततश्र तदहं नापराध्यामीत्यादिना विदग्धमाधवोक्ते श्रीकृष्णोक्तिचेष्टिते हेये। अन्र साध्वीनामिति ललितासङ्गेनेति भुजङ्गतामित्येषां पदानां परित्ृत्यसहत्वाच्छव्दभवलम् ॥ ६ ॥ इतः इह मयि। मृगीमालापीत्यनेन मम सख्योऽप्यत्र न सन्तीति स्वच्छन्दमेकाकिनी आप्तां मां यथेच्छसि तथा कुर्विति भावः । ततश्वैवं चेत्तव पातिव्रत्यप्रभावमद्य परीक्षिष्ये कथं मृग्यो मां हनिष्यन्तीति श्रीकृष्णेन बलात् तस्याः कुचौ स्पृष्टौ। अन्र मृगी- मालेत्यादिशब्दानां परिवृत्तिसहत्वात्तदर्थानां च परिवृत्यसहत्वादर्थभवलं ज्ञेयम् I ७ ॥। काचित् प्रखरा यूथेश्वर्याह-अध्वानमिति। अध्वानं मार्ग मात्ृणु लिंतु व्रज इतोऽपसर, पक्षे अध्वानं निःशब्दं यथा स्यात्तथा मामावृणु रुणद्धि। हे वजघूर्तेति। तत्फलं लं जानास्येवेति भावः । अम्बरमाकाशं वस्त्रं च । पयोधरो मेघः स्तनश्। नष्टेति स्पष्टम्, पक्षे नष्टा बहुदिनसंभोगाभावात् लुप्ते-

भुजमिति पृथक् पदम्। मा निषेधे, पक्षे मा माम् ॥५॥६ ॥ मनाग्बाधन- विधावित्येव पाठः संमतः ॥७॥ अध्वानं व्रजघूर्त, मा आवृणु, पक्षे अध्वान- मशब्दं यथा स्यात्तथा मा मां वृण्वजीकुरु। अम्बरमाकाशं, पक्षे वस्म्। इन्दु-

Page 181

१५८ कांव्यमांला।

नव्या कश्चुलिकोज्ज्वला तनुरियं रागेण वल्गुश्रिया यावन्न स्तिमिता सती कुटिल मे वैवर्ण्यमापद्यते॥ ८ अर्थोत्थो यथा- कदम्बारण्यानां कितव विकचं लुण्ठसि नवं मदुत्सङ्गद्दिश्ष्या वरपरिमलं मल्लिपटलम्। रुचिस्फारं हारं हरसि यदि मे कोऽत्र शरणं विदूरे यद्गोष्ठं जनविरहिता चेयमटवी ॥ ९ ॥ अथ याज्वा- याज्ा सार्था परार्थेति द्विधात्र परिकीर्तिता। तत्र स्वार्थयाज्चया शब्दोत्थो व्यङ्ञो यथा- पुष्पमार्गणमनोरथोद्धता कृष्ण मस्जुलतया तवानया। रक्षितास्मि सविकासया पुरो विस्फुरत्सुमनसं कुरुष्व माम्॥१

न्दुलेखा श्रीनखाङ्कशोभा यस्यां तामू। नव्या नवीना। रागेण रकित्रोज्वा तनुः सूक्ष्मा कश्चुलिका। स्तिमिता आद्रो सती। वैवर्ण्य वैरूप्यम्, पक्षे स्तव्या कश्षुलिकयोज्जवला तनुर्देहः रागेण प्रेम्णा। स्तिमिता स्तब्धा सती। वै सात्त्विकभावविशेषम्। ततश्र किं व्यग्रासि पयोधरौ ते स्पष्टेन्दुलेखा कुर्विति तथा चके ॥l ८ ॥ हे कदम्बवनश्रोण्यां कितव, एतद्वनपालकोऽह कैतवेन चौरेत्यर्थः । विकचं फुल्लम्। मलिर्मलिका। विदूर इत्यादिना खसं स्यौचित्यं निर्विन्नतं च ज्ञापितम्। ततश्र दूरे गोष्ठं चेत्तर्ह्यातिथ्यं गृहाणेति तां पृ धृत्वोपवेशयाभासेति ज्ञेयम् ॥ ९॥ पुष्पमागणं पुष्पान्वेषणम्, पक्षे पुष्पभागं कामः। मञ्जुर्मनोरमा या लता तयात्र रक्षितास्मि स्थापितास्मि, पक्षे मस्जुलतया सौ लेखा चन्द्रकला, पक्षे नखाङ्कः। नव्या नूतना पक्षे स्तव्या। वल्गुश्रिया राे रक्तिम्रा, पक्षे रागेणोज्वला कस्चुलिकयोज्वला तनुः सूक्ष्मा, पक्षे तनुः शरीरम स्तिमिता आर्द्रा, पक्षे स्तब्धा। वैवर्ण्य तूभयत्र समानम् ॥ ८॥ कदम्बारण नीतयादौ यव्यपि तेन स्वयं महानुद्यमः कृतस्तथापि तस्याः खयमभियोगस्त ससुक्यसवभावादेव मन्तव्यः ॥ ९ ॥ पुष्पमार्गणं पुष्पान्वेषणम्, पक्षे पुष्पमार्ग कामः। भज्जुलतगा मनोरमया लतया, पक्षे मनोहरतया विस्फुरत्सुमनसं वि

Page 182

उज्ज्वलनीलमणिः । १५९

बर्थोत्थो यथा- वृन्दारण्यं भुजगनिकराक्ान्तमश्रान्तमस्मात् कात्यायन्यै कुसुमपटलं जातभीर्नाहरामि। तेन क्रीडोद्धुतफणिपते श्रद्धयास्मि प्रपन्ना त्वामेकान्ते दिश विषहरं मब्रमेकं प्रसीद ॥ ११ ॥ था वा- समस्तमभिरक्षितुं जनमरन्ध्रवीरुद्धने वने चरसि कीर्त्यसे त्वमुरुकीर्तिभाजां धुरि। प्रसीद करुणां कुरु त्वरितमुद्दिशाध्वक्रमं यदूद्वह वधूजनः श्रयतु विस्मृताध्वा न्रजम् ॥ १२ ॥

विस्फुरत्सुमनसं प्राप्तविराजमानपुष्पां पुष्पमवचिन्वित्याज्ञापयेत्यर्थः, वेस्फुरत्सानन्दं प्राप्तसंभोगमिति यावत्। शोभनं मनो यस्यास्ताम्। ततश्र गः स्वयमेव पुष्पाण्यवचित्य तस्याः कञ्चलिकान्तर्धारयामासेति ज्ञेयम् ॥१०॥ न्त इति। तवात्र सखायो मम सख्यश्ष न सन्तीति भावः । दिश देहि। हरमिति। कंदर्पसर्पेण दष्टास्मीति द्योतयति। ततश्व मन्रस्योचैरुच्चा- सुचितमिति मन्मुखसमीपे स्वदक्षिणं कर्णभर्पयेति तथा कुर्वतीं तां मन्त्रो- मिषेण गण्डे चुम्बिता दक्षिणार्थ कक्षकीं जग्राहेति ज्ञेयम् ॥।११॥ जिघृक्षायां साभिप्रायः प्रायेणोद्वाटितो भवतीत्परितुष्यन्नाह-यद्वा प्रग- याः स्वाभियोगमुदाहृत्य मुग्धाया आह-यथा वेति । समस्तेति। कधाभिर्निरिछद्राभिवीरुद्भिर्घने निबिडे। धुरि चिन्तने गणनायामिति यावत्। द्वहति। वजराजस्य यादवलम्। 'यादवानां हितार्थाय धृतो गोवर्घनो ह' इति श्रीहरिवंशोकके: । विस्मृताध्वेति। अत एव लत्समीपमध्वान- प्रष्टमायातास्मीति भावः । ततश्वानेन पथा आगच्छेति तां कियहूरमानीय नशोभनचित्तम्, पक्षे विराजत्सुष्टुपुष्पाम्।।१०॥११॥ समस्तं गोगोपालहरि- दिकम्। अरन्भ्रलं निश्छिद्रलम्। यदूद्वहेति। व्रजेन्द्रस्यापि यदुवंशजलात् तद्वैष्णवतोषण्याख्यदशमटिप्पण्यां श्रीकृष्णसंदर्भे न प्रकाशितमस्ति ॥१२॥

Page 183

१६० काव्यमाला।

परार्थयाज्या शब्दोत्थो यथा- सकृत्पीत्वा वंशीध्वनिनवसुघां कर्णचुलुकै- र्मदाली विम्रान्ता लघिमनिकरोत्तालितमतिः । सदाहं कंसारे कमपि गदमासाद्य विषमं विवर्णा त्वां धन्वन्तरिमिह परं निश्चितवती॥। १३। अर्थोत्थो यथा- असूर्यपश्यापि प्रियसहचरी प्रेमभिरहं तवाभ्यर्ण लब्ध्वा मधुमथन दूत्यं विदधती।

संप्रत्यग्रेतनः कुटिलवल्लीेष्टितः पन्थास्त्या दुर्बलया पन्नामुल्लङ्दयितुमनक्य इति समस्तमभिरक्षितुं जनमित्यादि तस्या वच: सत्यापयनिव तां बलादुत्थाप्य सवक्षसोवाहेति ज्ञेयम् ॥ १२ ॥ सकृदिति । सुधां दग्धशङ्गादिचूर्णगमृतं च । मदाली मम सखी। विभ्रान्ता विशिष्टत्रमयुक्ता। सदाहं दाहेन रह. वर्तमानम्, पक्षे स्ुहीदुग्धम्। वा भदाली मदश्रेणी। सदाहं सदैवाहम्। 'सुधा स्त्री लेपने मूर्व्या सुहीदुग्घेष्टिकामृते' इति मेदिनी। गदं रोगं कामकीडां च। ततश्च तादृशमहं मन्त्रमौषधं च जानामि। यथा लदङ्ेष्वेव मनत्र्रमयेक कवचेन कृतरक्षेषु तथा तन्मुखनेत्रादिषु केनापि प्रलेपविशेषेण लिप्ेषु वशा- क्रमेण बहिरन्तर्दाहस्य प्रशमो भविष्यतीति श्रीकृष्णस्य प्रत्युक्तिर्जेया।। १३/ असूर्यपश्येत्यनेन स्वस्य दुर्लभदर्शनतं राजकन्यातं च । शशिधियेत्यादिम परमसौन्दर्य माधुर्य चाभिव्यज्याहमेव ते संभोगयोग्येति द्योतितम्। तत तस्या: स्नेहं पश्चात् श्रोष्यामि प्रथमं भवत्या रक्षणोपायं चिन्तयामि तत्र यदि बहिरिह तिष्ठसि तदा दुष्टचकोरोडयं न लां त्यक्ष्यति। इहैव गिरिगहरं चान्ध तमस(सा) व्याप्तमेकाकिनी प्रवेष्ठं विमेष्यतोऽहमेव लाभतिभीतां स्ववक्षसी न्तरे निहुत्य क्वापि क्षणं स्थिला चकोरं वश्चयामि, तस्याः स्नेहं च शृणो श्रीकृष्णोकतिर्जेया। आदिशब्दाद्दैन्येनापि । 'सख्यो ययुर्गहमहं कलशी वह। सुधा पीयूषम्, पक्षे दग्घशह्लादिचूर्णम्। मदाली मम सखी, पक्षे मदश्रेणी

Page 184

उज्ज्वलनीलमणिः । १६१

द्रुतं तस्याः स्नेहं निशमय न यावच्छशिधिया धयन्वक्रज्योत्सां निशि हतचकोरस्तुदति माम् ॥१४॥ अथ व्यपदेश :- जल्पो व्याजेन केनापि व्यपदेशोऽत्र कथ्यते ॥१५॥ तेन शब्दोत्थो यथा- त्यज़न्कुवलयाघिकां घनरसश्रियोल्लासिनी पुरः सुरतरङ्गिणीं मधुरमत्तहंसखनाम्। मलीमसपयोधरामपि मदान्ध प्मिन्निमां भजन्किमिव पड्डिलामहह कर्मनाशामपि॥ १६॥

पूर्णामतीव महतीमनुलम्बितास्मि । एकाकिनीं स्पृशसि मां यदि नन्दसूनो त्यक्ष्यामि जीवितमिदं सहसा पुरस्ते ।।' अत्र जीवनं, पक्षे जलं च। अत्र हन्त कथं जीवनं वं त्यक्ष्यसि किंत्हमेव त्यक्ष्यामीत्युक्ता तन्मूर्ध्रः कलशीं गृहीला तस्या जलमपसारयामास श्रीकृष्ण इति ज्ञेयम्। 'स्वामी मुग्धतरो वनं धनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छायातमःसहतिः। तन्मे सुन्दर कृष्ण सुञ्च सहसा वर्त्मेति राधागिरः श्रुला तां परिरभ्य मन्मथकलासक्तो हरि: रतु वः ॥' इति शब्दार्थमेव वाचिकोदाहरणद्वयं ज्ञेयम् ॥ १४ ॥ जल्प इति। श्रीकृष्णं प्रत्येवोकिः । किंतु केनापि व्याजेनाप्रस्तुतप्रशंसयेत्यर्थः । काचित् पगल्भा कांचित् सविपक्षामवलोकयन्तं श्रीकृष्णं प्रति खमभियुञ्जाना तदप- कर्षस्वोत्कर्षौ व्यञ्ञयति-त्यजन्निति । कुवलयं नीलोत्पलं भूमण्डलं च । वनरसो जलं शङ्गाररसश्च। सुराणां तरव्विणीं गज्गां सुरतेषु र्विणीं च । पयो जलं पयोधरौ स्तनौ च। पध्मिन् हे हस्तिन्, पक्षे लीलाकमलधारिन्। पङ्कः सदाहं सर्वदैवाहम्, दाहसहितम् ॥ १३ ॥ व्यपदेश इति। रसशास्त्र एवा- पदेशस्य पारिभाषिकी संज्ञा, अन्यत्र लभिधैवोच्यते। व्यपदेशस्तु व्याज एवेति। व्याजश्रान्यवर्णनेनाभीष्टार्थबोधनम्। अयमेवाप्रस्तुतप्रशंसानामालंकार ॥ १४॥ १५ ॥ त्यजन्नित्यत्र शेषाः स्पष्टा एव। तत्र वत्रयाः खपक्षे मामिति गम्यते। इमामित्यनेन नायिकान्तरस्य च तत्र गमनं व्यज्यते। नदीपक्षे ११ उज्च०

Page 185

१६२ कांव्यमाला।

अर्थोत्थो यथा- मधुपैरनवघ्रातां विमुच्य माकन्दमञ्जरीं मधुराम्। भ्राम्यसि मदकल कोकिल कथमिव वृन्दाचने परितः ॥१७॥ अथ पुरःस्थविषय :- ऋृण्वतोऽपि हरेर्मत्वा व्याजादश्रुतिवत्किल। जल्पोऽग्रतः स्थिते जन्तौ पुरःस्थविषयो मतः ॥ १८॥ तत्र शब्दोत्थो यथा- आह्यमानास्मि कथं त्वयालिनां खनैः स्वपुष्पावचयाय मालति। आमोदपूर्ण सुमनोभिराश्रितं पुन्नागमेव प्रमदेन कामये।१९॥।

कर्दमः पापं च । कर्मनाशां मगधदेशीयपापनदीम्, पक्षे विदग्धक्रियाणां नाशो लोपो यस्याम्, अस्या अज्ञत्वादित्यर्थः । अत्र पुरःशब्देन पक्षे लदग्र- वर्तिनीं मामित्यर्थः । ततश्च त्ामपाज्वेनैव पुरः कुजजं प्रविशेत्याह श्रीकृष्ण इति ज्ञेयम्॥ १५ ॥ १६ ॥ मधुपैर्य्रमरैः, पक्षे मधु वसन्तस्तं पान्ति पालयन्तीति मधुपा दक्षिणानिलास्तैरप्यनीताङ्गसुगन्धामित्यात्मनः सदा वस्त्रावृतसर्वाङ्गतया स्थितलेन परमलज्जालुतं व्यजितम्, व्याख्यान्तरं वैरस्यं स्यात्। अतिशयोक्तिः (के:) प्राप्तस्यार्थस्य श्िष्टार्थतो बहिरद्गलाच त्यक्तम्। अत्र मधुपैरित्येकेनैव पदेन परिवृत्त्यसहेनास्योदाहरणस्य शब्दोत्थतं नाशङ्कनीयं सर्वत्रालंकारशास्ने शब्दार्थोभयशत्त्युत्थध्वनिषु भूम्रो व्यपदेशा भवन्तीति नियमात्। द्वित्रैब्नि- चतुरैवा शब्दैरथैवां परिवृत्त्यसहैस्तत्तद्यपदेशे सवीकारो न लेकेनैव शब्देनार्थेन वा दृष्टः । ततश्च भो: कोकिल, सर्वं परित्यज्य माकन्दमञ्जरीं त्वमुपभुङ्क्ष्व। तत्र मत्तः सकाशात् तत्प्रकारशिक्षेति सा श्रीकृष्णेन हठान्चुम्बितेति ज्ञेयम्॥१७॥ पुन्नागं, पक्षे पुरुषोत्तमं श्रीकृष्णम्। ततश्च श्रीकृष्णेन तत्रागत्य सखि, श्रुतसे मनोरथस्तदेहि पुन्नागं ते दर्शयामीति सा हस्तग्राहं पुन्नागपुष्पशय्यामेव

सुरतरङ्गिणी गङ्गा। कर्मनाशा नाम काचित् मगधदेशसमीपवाहिनी। यद्यप्यत्र श्लेषोऽप्यस्ति तथाप्यसौ व्याजमय एवेति व्यपदेशमेव पुष्णाति ॥ १६ ॥ व्यज्गय-

Page 186

उज़्जवलनीलमणिः । २६२

अर्थोत्थो यथा- अनवचितचरीयं चारुपुष्पा लताली तव निखिलविहज्काश्रात्र निर्धूतशङ्काः। त्वयि विचरितुमीहे तेन गोवर्धनाद्य प्रकटय तमुपायं निर्वृता येन यामि ॥२०॥ यथा वा- प्रसिद्धः साध्वीनां त्रतहरविनोदो त्रजपतेः सुतोऽयं त्वं वाचाप्यलमसि निरोद्धुं न मृदुला। अहो धिञ्बूढाहं तदपि गहने अ्न्थिललता- शताक्रान्तें श्रान्ता यदिह विचराम्यस्य पुरतः ॥ २१ ॥ अथाङ्गिका :- अङ्गलिस्फोटनं व्याजसंभ्रमाद्यङ्गसंवृतिः। पदा भूलेखनं कर्णकण्डूतिस्तिलकक्रिया ॥ २२ ॥।

प्रापिता। निर्वृता सिद्धमनोरथा। ततश्च तत्रागत्य श्रीकृष्णेनोक्तम्-'अत्र गह्रे साक्षात् प्रकटीकृतमूर्तिना श्रीगोवर्धनेन गिरिराजेनाहमुक्त बहिर्मद्क्ता काचिन्मह्यं किंचित् प्रार्थयते तां मत्समीपमानय' इति। अतः सखि, तं नम- स्कर्तु प्रविशेति सा गह्रं नीता॥ १८ ॥ १९ ॥ २० ॥ अन्न पुरःस्थ- शब्देन स्थावरो जङ्गमश्रोच्यते इति ज्ञापयितुमाह-यथा वेति। नालं न समर्था। ग्रन्थिलेत्यन्यजनागमनासामर्थ्यम्, श्रान्तेति स्य धारणासामर्थ्यम् । ततश्व तत्रागत्य तेनोकं 'सुन्दरि, सख्या सह संवादस्े भया श्रुतः। मत्त एव तवं विमेषि। श्रीविष्णोः शपथं करोमि तव साध्वीतं नैवाहं ध्वंसयिष्यामि। कः खलु विश्वस्तघाती मादृशो भवितुमीष्टे तदत्र कुञ्जे पुष्पशय्यायां क्षणं खपिहि वनविहारश्रान्ता सती मम दयोत्पद्यते अहमेवात्र रक्षकोऽस्मि मान्य- "जनागमनं शड्डिष्ठा' इति ॥ व्याजेन यः संभ्रमादिः आवेगशड्कालज्ास्तेनाङ्संवृतिः पक्षे पुन्नाग: पुरुषोत्तमः ॥१७॥॥१९॥०॥२१॥२२॥२३

Page 187

१६४ काव्यमाला।

वेशक्रिया भ्रुवोर्धूतिः सख्यामाश्रलेषताडने। दशोऽघरस्य हारादिगुम्फो मण्डनशिञ्चितम् ॥२३॥ दोर्मूलादिप्रकटनं कृष्णनामाभिलेखनम्। तरौ लताया योगाद्याः कृष्णस्याग्रे स्युराङ्गिकाः॥। २४॥ तत्राङ्कुलिस्फोटनम्- इयं सतीनां प्रवरा वराक्षी कथं नु लम्येति मयि क्कमादये। विशाखयास्फोट्यत पञ्चशाखशाखावली मद्यसनेन सार्घम् ॥२५॥ व्याजसंभ्रमाद्यङ्गसंवृति :- पिहितमपि पिधच्ते मत्पुरस्तादुरो य- द्वृतमपि मुहुरास्यं यत्पटेनावृणोति। व्रजनवहरिणाक्षी तन्मनोजस्य मन्ये शरपरिभवघूर्णाघातचित्तेयमासते ॥। २६! पदा भूलेखनम्- कम्रं नम्रमुखी लिलेख चरणाङ्गुष्टेन गोष्ठाङ्कने(णे) यत्किंचिद्गजसुन्दरी मयि दृशोर्वृत्ते नवप्राघुणे। तेनानङ्गनिदेशपट्टपदवीमासाद्य मन्मानसं क्षिस्वा तत्कुचशैलसंकटतटीसंधौ बलात्कीलितम्॥ २७॥

१ २१॥२२ ॥ २३ ॥ २४ ॥ श्रीकृष्णः सुबलं प्रत्याह-इयमिति।। 'पञ्चशाखः शयः पाणिः' इत्यमरः । शाखास्तदङ्गल्यः ॥ २५ ॥ श्रीकृष्णः सुबलमाह-कम्रमिति। नवप्राघुणे नवातिथौ तेन लिखनेन क्त्रा अनङ्स् निदेशेन यः पट्टो लेखभूमिका तस्य पदवीं कक्षामासाद्य प्राप्य स्वधारक्ेण केनापि द्वारा तस्या: कुचयोर्ये संकटतय्यौ संकीर्णे कूले तयो: संघौ मध्यनिखात- #२४॥। २५।।२६॥ नवप्राघुणे नवातिथौ कीलितं संयतम्। 'बद्धे कीलितसंयतौ'

Page 188

उज्ज्वलनीलमणिः । १६५

कर्णकण्डूति :- रक्ताङ्गुलीशिखर घट्टनलोलपाणि- शिञ्जानकङ्कणकृतस्मरतूर्यशङ्कम्। लीलोच्चलत्कनककुण्डलमत्र कर्ण-

तिलकक्रिया- कण्डूयनं ब्रजसरोजदशः स्मरामि ॥ २८॥

सानन्दं शरदिन्दुसुन्दरमुखी सिन्दूरबिन्दूज्ज्वलं बन्धूकद्युतिना करेण तिलकं गान्धर्विका कुर्वती। त्वामालोक्य शिखण्डशेखर सकृत्कर्णोच्चलत्कुण्डला रूढं चेतसि रागकन्दलमिव व्यक्त्त व्यतानीद्वहिः ॥२९॥ वेशक्रिया- हरौ पुरःस्थे करपल्लवेन सलीलमुल्लास्यमिलन्मरन्दम्। नालीकनेत्रा किल कर्णपालीं पाली लवङ्गस्तबकं निनाय ॥३०॥

रेखायामित्यर्थः । क्षिप्वा बलात् प्रवेश्य कीलितं बद्धम् । 'बन्धे कीलितसंयतौ' इत्यमरः । अर्थात् ताभ्यां तटीभ्यामेव भूलेखनकाले बाह्लोः संकोचेन तदुपरि निवेशिताभ्यामित्यर्थः । अन्रेयं विवृतिः-कंदर्पेण तुष्यता मलोचनाय सर्व राधा- झराज्यं दत्तं तत्र खत्ारोपदार्व्याय चरणाद्वुश्ठलेखन्या भूपत्रिकायां पटुलेखश्च द्रत्तः । ततश्व तस्मिन्नेव राज्ये मन्मनसश्च लोभं दृष्टा कुपितेनेव मलोचनेन तदपराधशान्त्यर्थ पर्वतद्वयसंधिकारायां तन्निबध्य स्थापितमिति ॥। २६ ॥ २७ ॥ रक्त्ाङडली अरुणवर्णवामहस्तकनिष्ठाङ्गली तस्याः शिखरघट्टनेन कर्ण- रन्ध्रप्रवेशितस्याग्रभागस्य चालनेन लोलानि यानि पाणिस्थशिज्जानकङ्कणानि तैः कृता स्मरतूर्यस्य कन्दर्पवाद्यविशेषस्य शङ्का भ्रमो यत्र तत् ॥।२८॥ कुन्दवल्ली श्रीकष्णं प्रत्याह-सानन्दमिति। सकृदालोक्य आलोकनकाले गण्डस्य तिरश्चीनतात् कुण्डलस्य चाश्चल्यं रागस्य कन्दलमनुरागाड्डुरं चेतसि रूढं पूर्वमेवोत्पन्नं संप्नति बहिरपि व्यक्तमकार्षीदित्युत्प्रेक्षा तिल्कस्याड्कराकार- लात्। २९ । नालीकनेत्रा कमललोचना श्लेषेण व्यर्थनेत्रा श्रीकृष्णमुख- इतयमरः ॥ ७॥२८ ॥ २९ ॥ 'पाली कर्णलता्े स्ा् इति विश्वः

Page 189

१६६ .काव्यमाला।

भ्रुवोर्धूतिः- विधुन्वती मदनधनुर्भयंकरं अ्रुवोर्युगं कथय किमद्य खिद्यसे। विशाखिके सुखशशिकान्तिश्ृङ्खला .बबन्ध ते मधुरिपुगन्धसिन्धुरम् ।। ३१ ॥। सख्यामाश्लेष :- पुरः कलय मण्डलीकृतकठोरवक्षोरुहं चलत्कनककङ्कणक्कणिततुङ्गितानङ्गया। अपाङ्कमघमर्दने नयनवीथिनव्यातिथौ प्रसार्य परिषखजे सहचरी चिरं चित्रया॥ ३२॥ सखीताडनम्- विमुञ्च निखिलं वशीकरणकारणान्वेषणं मनस्त्वयि विशाखया मुरहरोपहारीकृतम्। मुहुर्यदनया भवत्पदसरोजकक्षामिल- तडिचलद्दगन्तया स्फुटमताडि पुष्पैः सखी ॥। ३३॥

शोभापायिलात् ॥३०॥ वृन्दा प्राह-विधुन्वतीति । कथमसौ मत्समीप- मायातीति भ्रूधूननकारणं ज्ञेयम् ।। ३१ ॥ रूपमञ्जरी रतिमअरी प्रत्याह- पुर इति। तुद्नितोऽनन्ञोऽर्थोत् श्रीकृष्णस्य यया तया। लम्पटोऽयं मां मृद्वी- मधिकं कदर्थयिष्यति तदहं पलायिष्ये इत्यवहित्थावरती चित्रां काचित् प्रखरां तत्सखी प्रत्युवाच। मदग्रे भयगन्धमपि मा कार्षीर्विश्वसिहि साटोपवाक्प्रप- श्चैरयं मया पराजेतव्य इति। अतः सा प्रियसखी कल्याणी भवेति चित्रयालि- ज्वितेत्यालिङ्गने कारणमूत्यम् ॥। ३२ ॥ सुबलः श्रीकृष्णमाह-विमुश्चेति। सखि, फलितस्तव मनोरथो यदयं लदभिमुखमायाति कृष्णः तदस्मिन्नपाजं समृर्पयेति परिहसन्ती सखी पुष्पैरताडि॥ ३३ ॥ श्यामला ललितां प्रत्याह- 1. ३० ॥ गन्धसिन्धुरो, मदस्ावी, हस्ती।। ३१ ।। ३२ ॥ ३३ ।

Page 190

उज्ज्वलनीलमणिः । १६७

अधरदंश :- भजति पथि दशोर्व्रजेन्द्रसूनौ मदनमदोन्मदिता पुरस्तवाली। इयमिह कुपितेव पश्य सख्यै विधुवदना रदनच्छदावदाल्कीत्।।३४।। हारादिगुम्फा :- केयं पुरः स्फुरति फुल्लसरोरुहाक्षी सव्ये यया सुबल मामवलोकयन्त्या। आवृत्य मौक्तिकसरे परिगुम्फ्यमाने चेतोमणिर्मम सखे तरलो व्यधायि॥ ३५॥ मण्डनशिञ्जितम्- विलोक्य मां श्यामलया विदूरतः संकीर्यमाणा मणिकङ्कणावली। वितन्वती झङ्कतिडम्बरं मुहुः शङ्के ब्रवीत्यङ्गजराजशासनम्॥३६॥ दोर्मूलप्रकटनम्- श्यामे दिव्यतराः स्फुरन्ति परितो वृन्दावनान्तर्लता याः कल्याणि वहन्ति हन्त मधुरामग्रे फलानां ततिम्।

भजतीति । सख्यै कुपितेवेति । कुटिले विशाखिके पुष्पावचयनमिषेण दूरमानीयास्य लम्पटस्य हस्ते मां प्रक्षिपसि तिष्ठ तिष्ठ तत्प्रतिफलमहं च ते दास्यामीति द्योतयन्ती ॥ ३४॥ आवृत्य मच्चेतोमण्याकर्षणसमर्थ स्वापाङ्गदस्युं भयि प्रंस्थापयितुं ग्रीवां वित्ृत्येत्यर्थः। मौक्तिकसरे मौक्तिकमाल्ये। तरलो मध्यनायकः, पक्षे चश्चलः ॥ ३५ ॥ मणिकङ्कणावली दक्षिणहस्तस्थिता संकीर्यमाणा वाम- पाणिना सुस्थिरीकर्तु संघव्यमाना। स्त्रीणां कार्यान्तररहितानां स्वभाव एवाय- भतो नात्र कारणज्ञापनम् ॥ ३६ ॥ श्रीकृष्णः प्राह-श्यामे इति। वल- यिनी खवसमीपे तमालं चेत् प्रापोति तदा वेष्टनस्वभावेयं शीघ्रं वेष्टयतीति

आवृत्य अभ्यस्य। तरलो नायकः, पक्षे चश्चलः॥३४॥३५॥ संकीर्यमाणा परस्पर

Page 191

१६८ काव्यमाला।

चित्रेयं तव दोर्लता वलयिनी यस्यास्त्वयोल्लासिते मूले नन्दितकृष्णकोकिलमभूदाविर्वरीय: फलम् ॥ ३७ ॥ कृष्णनामाभिलेखनम्- दूत्यमत्र तव तिष्ठतु वृन्दे तिष्ठते यदियमिन्दुमुखी मे। नाम मे विलिखति प्रियसख्याः पश्य गण्डफलके घुसृणेन॥ ३८॥ तरौ लताया योग :- रूपं निरूप्य किमपि व्रजपङ्कजाक्ष्याः साक्षादभूवमहमर्जुन यावदार्तः । सा गामधीरमधिनोत्कलधौतयूथ्या- स्तावचमालविटपे घटनां विधाय ॥ ३९॥ अथ चाक्षुषा :- नेत्र सितार्धमुद्रत्वे नेत्रान्तभ्रमकूणने। साचीक्षा वामदक्प्रेक्षा कटाक्षादाश्र चाक्षुषाः ।।४०।।

भावः । पक्षे कड्डणयुक्ता । उल्लासिते उल्लास्य दर्शिते इत्यर्थः । वरीयः फलमा- विर्बभूव। नन्दित आनन्दितः कृष्णवर्णः कृष्णश्च कोकिलो येन तत्। ततश्व वेनेदमदृष्टचरत्ादद्भुतं प्राण्यड्डुलिघट्टनेन निरूपयितुमुचितं कठोरं मृदुलं वेति तथा चक्रेऽसाविति ज्ञेयम्। हस्तोल्लासनमिदं दूरस्थां सखीं प्रत्येहीत्याह्वान- मिति ज्ञेयम् ॥ ३७॥ मे मह्यं तिष्ठते भावेनात्मानं प्रकाशयति । 'प्रकाशन- स्थेयाख्ययोश्र' इत्यात्मनेपदम् ॥ ३८ ॥ निरूप्य दृष्ट्ा अर्जुनो नाम गोपः प्रिय- सखः । हन्त हन्त सवर्णयूथीयं किमिति भूमौ लठति। तदिमां तमालमारोहया- मीति। तथा कृत्ा स्वस्यापि प्रेम ज्ञापयन्ती सा ज्ञेया॥ ३९ ॥ कूणनं संकोचः। नेत्रस्मितादीनामेषामनुभावतयेवोद्भूतानां मत्कान्त एतानास्वाद्याखाद्य मय्यनुरज्य- तिति भावनायां साभियोगतं न तु सर्वथव कृत्रिमत्वं रासावहमिति विवेचनीयम् संघट्यमाना ॥ ३६ ॥ मे मह्यं तिष्टते भावेनात्मानं प्रकाशयति। अत्रात्मनेपदं संप्रदानं च विहितमसिति। निरूप्य दृष्ट्रा। अर्जुनोSन्र गोपकुमारविशेषः। कलधौतं

Page 192

उज्ज्वलनीलमणिः । १६९

तत्र नेत्रसितं यथा- विभ्रमं रतिपतेः स्थगयन्तीं केशवस्य पुरतः कपटेन। त्वामवेत्य चटुले सखि जात्या गूढमत्र हसतस्तव नेत्रे।। ४१॥ नेत्रार्धमुद्रा- कवयो हरिवक्रपुष्करेऽस्मिन्सखि नेत्रे कथयन्ति पुष्पवन्तौ। अनयोः सविधे तवाक्षिपझं भविता नार्धनिमीलितं कथं वा ॥। ४२॥ नेत्रान्तभ्रम :- न हृद्येऽप्यध्यस्ता रतिरनड्डुहां संगररसे न रम्येऽपि क्रीडासंदसि सुहृदां वीरुपहिता।

॥ ४० ॥ सायं वनाद्रोष्ठमायान्तं कान्तमालोकयन्तीं श्रीराधां परिहसन्ती इ्यामा तस्या नेत्रयोः प्रथमं लज्ामुद्रितयोरौत्सुक्योदयादीषतफुल्लत्वमुत्प्रेक्षते- विभ्रममिति। विभ्रमं श्रीकृष्णदर्शनजन्यम्। 'गतिस्थानासनादीनां मुखनेत्रादि- कर्मणाम्। तात्कालिकं तु वैशिष््यं विलास: प्रियसङ्गजम् ॥' इत्युक्तलक्षणं विलासा- लैंकारं सहसा आत्मन्युद्धूतं सखीभ्यो लज्जया स्थगयन्तीं प्रकटेनावहित्थया सतृ- ण्वतीमवेत्य ज्ञाला तव नेत्रे लां हसतः। तदाश्रितयोरपि नेत्रयोस्तद्विषयक- हास्ये कारणमाह-जात्या प्रकृत्यैव चटले चञ्चले। गूढमन्यालक्षितम् ॥ ४१ ॥ श्रीकृष्णाग्रवर्तिनीं श्रीराधां कुन्दवल्ली परिहसन्त्याह-कवय इति। वक्रमेव पुष्करमाकाशं तस्मिन् नेत्रे पुष्पवन्तौ सूर्याचन्द्रमसौ। 'एकयोक्त्या पुष्पवन्तौ ·दिवाकरनिशाकरौ।' इत्यमरः । अर्धनिमीलितमिति। अर्ध चन्द्रेण निमी- लितं अर्ध सूर्येण प्रकाशितम्। अत्र अत्यौत्सुक्येन प्रफुल्लयोरिव नेत्रयोः श्रीकृष्ण- नयनलग्नले सहसा लज्जोदयादर्धनिमीलनमेव तथोत्प्रेक्षितम् ॥।४२॥ वृन्दा प्राह-न हृद्य इति। अनडहां वृषाणाम्। नटयसीति लजजौत्सुक्याभ्यां नेन्नस्य

सुवर्णमू॥ ३७॥ ३८ ॥ ३९ ॥४० ॥ स्थगयन्तीमावृण्वतीम् ॥४१॥ कवय इति। उत्प्रेक्षामात्रं व्यज्यते न तु वास्तवता। श्रीभगवन्, निजविग्रहस्य सर्वाचतीतपर मोत्तमतत्त्वस्वरूपल्ात्पुष्करं पद्ममाकाशं च । पुष्पवन्तौ सूर्याचन्द्रमसौ

Page 193

१७० काव्यमाला।

त्वयि क्षिल्वा दृष्टिं परमिह तमालायितमभू- न्मुकुन्देन श्यामे तदपि किमपाङ़गं नटयसि ॥ ४३॥ नेत्रान्तकूणनम्- कलिन्दजाकूलपुरंदरे दृशोरध्वन्यवात्ते प्रथमाध्वनीनताम्। त्रपाश्चितं किश्चिदकुञ्चि चञ्चलं विलक्षया श्यामलया दगञ्चलम्।।8४ साचीक्षा- तिर्यग्विवर्तितनटन्नयनत्रिभागं प्रैक्षिष्ट यत्तरणिजापुलिने मृगाक्षी।

सद्यस्तदद्य नितरां विवशीकरोति।।४५।।

मुद्रणविकासौ पूर्ववत्। अयं मां भाववैवश्येन सम्यड् न पश्यति पश्यति वेति विचारेण विकासितभाग एव भ्रमि: ॥ ४३ ॥ नान्दीमुखी पौर्णमासीमाह- कलिन्देति । अध्वनीनतां पथिकताम् । त्रपाश्चितमिति नेत्रमुद्रणे कारणम्, चञ्चलमित्यौत्सुक्यचापल्याभ्यां नेत्रान्तभागोद्वाटने। प्रथमेत्याकुश्चिताभ्यां प्राप्तेन भयेन तद्भागस्यापि संकुचितीकरणम्। विलक्षया विस्मयान्वितया ॥ ४४ ॥ श्रीकृष्णः सुबलमाह-तिर्यगिति । तिर्यक् तिरश्चीनीभवन्, तत्रापि विव- र्तितो भ्रमितः, तत्रापि नटन् नृत्यन् नयनस्य त्रिभागस्तृतीयो भागो यत्र तदथा स्यात्तथा । त्रिविष्टपशब्दवद्विनापि तीयप्रत्ययं तदर्थावगतेः पूरणार्थ- प्रत्ययानां सवाधिकारगतलात्। अन्र लज्जाधिक्यादौत्सुक्येन नेत्रस्य तृतीयो भाग उद्धाटितस्तदैव श्रीकृष्णद्ृष्ट्याघातेन तिरश्चीनीकृतः, तत्क्षणत एवौत्सुक्य-

॥ ४२ ॥ 'विलक्षो विस्मयान्विते' इत्यभरः । तया ॥४३ ॥४४ ॥ तिर्यगित्या- दिकं क्रियाविशेषणम्। अत्र त्रिविष्टपशब्दवन्नयनस्य त्रिभागस्तृतीयभागः। 'विवशोऽरिष्ठदुष्टघीः' इत्यमरः ॥ ४५॥ रसानां रसविशेषाणां निधिमिति वारा-

Page 194

उज्जवलनीलमणिः । १७१

वामदकप्रेक्षा- पूर्ण प्रमोदोत्तरलेन राघे श्यामं रसानां विधिभिन्दुभाजम्। सव्येन नेत्राञ्जलिना पिबन्ती त्वमुन्मना: कुम्भभवायितासि ॥४६॥

कटाक्ष :- यद्गतागतिविश्रान्तिवैचित्र्येण विवर्तनम्। तारकायाः कलाभिज्ञासतं कटाक्षं प्रचक्षते । ४७॥

वृद्धा विवर्तितः, ततो हर्षचापल्याभ्यां नर्तित इति ज्ञेयम्। भृगाक्षी श्रीराधा तत्प्रेक्षणम् ।। ४५ ।। ललिता संभुक्तालंकृतां श्रीराधामाह-पूर्णमिति। प्रमोद एवोत्तरल उद्गततरङ्गः । रसानां जलानां शझ्गारादिरसविशेषाणां च । श्यामं श्यामवर्ण श्रीकृष्णं च। इन्दुश्चन्द्रः, पक्षे प्रथमातिशयोत्त्या श्रीकृष्णमुखम्। सव्येन वामेन नेत्राञ्ञलिनेत्यूर्ध्वाधःस्थितस्य पक्षद्वयस्य पाणिद्वयलेनानुभवात्। कुम्भभवोऽगस्त्यः । अन्र वामनेत्रस्य संपूर्णोद्धाटनं संप्रयोगोत्तरकाले लज्जापगमात्, खाभियोगलं पुर्नरपि संभोगस्पृहोदयात् ॥। ४६ ॥ गतं लक्ष्यपर्यन्तं गमनम्, आगतिस्तत आगमनम्, विश्रान्तिस्तयोर्मध्य एवातिसूक्ष्मकाले लक्ष्यसहस्थितिः तासां वैचित्र्येण चमत्कारिलेन निवर्तनमावृत्त्याभ्यासः। तारकायाः कनीनिकायाः

निधिशब्दवत् समुद्रस्यापि वाचितम्। इन्दुभाजमित्यत्र श्रीकृष्णपक्षे मुखस्यैवेन्दु- लमतिशयोत्त्या दर्शितम्। अस्या लक्षणं तु दर्शयिष्यते। सव्येन नेत्राज्लिनेति नेत्राञ्ले: सव्यभागेन नतु समस्तांशेनेत्यर्थः । यथा चतुर्भुजाया इव भवत्याः पक्ष्मद्वयसंवृततया नेत्रद्वयरूपमज्जरि(लि)द्वयं दृश्यते तेन द्वयेनापि रूपपानात्। संप्रति तु सव्येनैव तेनेदशकर्म दृश्यत इत्याह-सव्येनेति। पिबन्तीति। शतृप्रत्ययेनाविच्छेदोक्ते: सम्यक् पीतस्यापि तस्य बहिराविर्भावादविच्छेदो दर्शितः । तस्या अप्यपरिच्छिन्नशक्तितं व्यजितम्। अतः कुम्भभवस्य तत्पीत- समुद्रस्य च हीनोपमत्वमेव ज्ञापितम्। अथवा 'पूर्ण प्रमोदोत्तरलेन राधे मनो मुरारे रसवारिराशिम्। सव्येन नेत्रेण विधाय पीतं तं कुम्भजातं भवती

Page 195

१७२ काव्यमाला।

यथा- चित्रं गौरि विवर्तते अ्रमिकरी विश्रम्य विश्रम्य ते टक्ताराभ्रमरी गतागतिमियं कर्णोत्पले कुर्वती। यस्याः केलिभिराकुलीकृतमतेः पद्मालिवार्ता क सा गान्धर्वे मधुसूदनस्य नितरां सवस्याप्यभूद्विस्मृतिः॥४८॥। इत्येतेषामसंख्यानां दिगेवेयं प्रदर्शिता। यथोचितममी ज्ञेया नायकेऽप्यघविद्विषि ॥। ४९।।

॥ ४७ ॥ श्रीराधां प्रति दूनी सयं श्रीकृष्णो वा प्राह-चित्रमिति। कर्णोत्पले इति । गतागतिविश्रान्तयः कर्णोत्पले दृश्यन्ते मात्रम्। किंदु श्रीकृष्णमुखं स्पृष्टा एव ताः फलन्तीत्याह-यस्या इत्यादि। पझ्मालिः कमलश्रेणी, पक्षे पद्मासखी चन्द्रावली मधुसूदनस्य भ्रभरस्य श्रीकृष्णस्य च। आत्मविस्मृतिर्यतो भ्रमिकरी बुद्धिभ्रमिकरी॥ ४८ ॥ नायकेऽपि ज्ञेया यथा- 'मदधरविलुठद्विलोचनान्तं मृदुललतानवपल्लवं दशन्तम्। सखि हरिमवलोक्य भानुजायास्तटविपिने स्फुटदन्तरास्मि जाता ॥' गीतावल्यां च-'कुटिलं भाम- वलोक्य नवाम्बुजमुपरि चुचुम्ब स रक्ञी। तेन हठादहभभवं वेपथुमण्डल- संचलदङ्गी॥ भाविनि पृच्छ न वारंवारम् । हन्त विमुह्यति वीक्ष्य मनो मम बल्लवराजकुमारम् ॥ दाडिमलतिकामनुनिस्तलफलनमितां स दधे हस्तम्। तदनुभवान्मम धर्मोज्ज्वलमपि धैर्यधनं गतमखम् । अदशदशोकलतापल्लव- मयमतनुसनातनधर्मा। तदहमवेक्ष्य बभूव चिरं बत विस्मृतकायिक- कर्मा ॥' इति। तथा युगपदपि नायकनायिकयोर्येथा आनन्दवृन्दावने- 'कृष्णे कर्षति कोकयुग्ममबला दोर्भ्या दधुः खस्तिकं कण्ठे चारु मृणालमर्पयति ताश्चकुभुजान्भद्गुरान् । पझमं जिघ्र पाणिभिः पिदधिरे वक्रं जलक्रीडने सासां तस्य बभूव सौरतरसः कोऽपीज्वितैरिङ्ितैः ॥I' इति। अमी वाचिका जिगाय ॥' पाठान्तरं द्रष्टव्यम् ॥।४६ ॥ हे गौरि हे गौराद्वि गान्धर्वे श्रीराधे। प्रद्मानाम्नया आलिश्चन्द्रावली तस्या वार्ता क्व। सा तु दूरे स्थितेत्यर्थः ।पक्षे प्रझ्मालि: पद्मश्रेणी। मधुसूदनो भ्रमरः । अ्रमिर्य्रमणम् ॥ ४७ ॥४८॥ अभी

Page 196

उज्ज्कलनीरूमणिः । १७२

स्वाभियोगा इति प्रोक्ताश्रेदमी बुद्धिपूर्वकाः। स्वभावजास्तु भावज्ैरनुभावा: प्रकीर्तिताः ॥५०॥ अथाप्तदूती- न विश्रम्भस्य भङ्गं या कुर्यात्प्राणात्ययेष्वपि। स्िग्धा च वाग्मिनी चासौ दूती स्याद्ोपसुभ्रुवाम्॥५१॥ अमितार्था निसृष्टार्था पत्रहारीति सा त्रिधा। तत्रामितार्था- ज्ञात्वेङ्गितेन या भावं दवयोरेकतरस् वा ॥५२ ।। उपायैर्मेलयेत्तौ द्वावमितार्था भवेदियम्। यथा- सा ते बकान्तक कटाक्षशरार्दितापि जीर्ण त्रपाकवचमेव वृथा वहन्ती।

त्विकचाक्षुषा बुद्धिपूर्वकाः । एवं श्रुता दृष्टा च मत्कान्तोऽयं मय्यनुरज्यतिति बुद्धि: पूर्व येषां ते। किंलनुभावतयैव दर्शिता इति ज्ञेयम्। तत्र वाचिकानां केषांचिदनुभावतयैव प्रथममुद्भूतलेऽपि इदं दृष्ट्ा मय्यनुरज्यतिति पश्राह्वुध्वापि खाभियोगलम्। बुद्धिपूर्वका इत्यत्र पूर्वशब्दस्य योगमात्रार्थतात्पर्यादित्यपि ज्ञेयम् ॥४९।५०। परस्परमिलनरूपे वस्तुनि घटकतं दूतीलक्षणं स्पष्टमिति तदलक्ष- यिला तद्विशेषणे लक्षयति-अथाप्ेतति ॥ ५१॥ अमित अपरिमितः अर्थः कार्यं यतो भवति सा। आसां यथापूर्व श्रैध्यं ज्ञेयम्। द्वयोर्नायकनायिकयोर्भाव- मभिप्रायमान्रं ज्ञाला एकतरस्य नायिकाया नायकस्य वेत्यर्थः॥५२॥ पत्रहारी दूती नायिकाया इद्वितं ज्ञाला नायकं प्रति पत्रमिषेण तदाविष्करोति-सा ते बकेति। हे बकान्तक, तव प्रेमकटाक्षपीडितापि युवतिजनसहजलज्जाकवचेन मुग्धा पत्रगत-

वाचिकाज्विकचाक्षुषाः ॥४९॥ मिथो मेलकतवमेव दूतीलक्षणं प्रसिद्धमिति तदनु- दक्का त्तद्विशेषानू लक्षयितुभाह-अथापति॥५०॥५१॥५२॥ गुणतया

Page 197

काव्यमाला।

वर्णैर्तुनोद मुखचन्द्रविगाहिभिर्मा गम्यैर्दृशां गुणतया न किल श्रुतीनाम् ॥ ५३॥ अथ विसृष्टार्था- विन्यस्तकार्यभारा स्ाद्योरेकतरेण या। युक्त्योभौ घटयेदेषा निसृष्टार्था निगद्यते॥ ५४॥ यथा- अघदमन जगत्यनर्धरूपा विलसति सा गुणरलराशिरेका। घिगपटुमतिरस्मि यत्पुरस्तां कठिनमणेस्तव वक्तुमुद्यताहम्॥।५५॥

वर्णैमां जुनोद प्रेरयामास। किमक्षरैर्लिखितैस्तर्हि तत्पन्रं देहि वाचयिला ज्ञास्यामि। वं पत्रहारी दूत्यसि नहि नहि मुखचन्द्रविगाहिभिवर्णैस्तर्हि तानेवोच्चार्य कथय शुश्रूषुरस्मि। लं पत्रहारी निसष्टार्था वा नहि नह दृशां गुणतया विषयतया गम्यैर्ज्ञैयैर्नतु श्रुतीनाम्। तेन तन्मुखधौसर्यं दृष्ट्रा तया अप्रेषितैवेवायातास्मीति माममितार्था दू्तीं विद्धीति भावः ॥५३॥५४॥ अनर्घममूल्यं रूपं गौरिममा- त्रम्। त्रिजगति दुर्लभत्ादिति भावः। किं वक्तव्यम्। आद्विकं सौन्दर्यसौकु- मार्यसौरभ्ययथौचित्यस्थूलतावृत्ततादिकं तथा वाचिकं सौसर्यादि च। कि च मानसा धैर्यगाम्भीर्यादिगुणा दुष्पारा एवेलाह-गुणरतेति। तेन तव नयने- न्द्रियेण तस्या रूपमात्रस्य जिघृक्षायां मूल्यं किंचिन्न दृश्यते घ्राणादीन्द्रियैः सौरभ्यसौस्वर्यादीनां कि वक्तव्यं धैर्यादिगुणानां तु किंतमामेवेति भावः। नन्व- हमपि जगत्यनर्धरूपो भवामि सर्वत्र नगरादौ पृष्टा प्रत्येहि ततश्व सवसौन्दर्या- दिकं तस्या नयनादिभ्यो दल्ा विनिमयेन तस्या अपि तत्तत्सर्वं जिघृक्षामीत्यत आह-धिगिति। ननु किमित्यात्मानं निन्दसीतयत आह-यत्तव पुरस्ता- द्वक्कुमुद्यतास्मीति। कश्चिदत्र भव्यलोको नास्तीति यस्तव तस्याश्च सौन्दर्या- विषयतया गुणा गुणेषु वर्तन्त इतिवत् ।। ५३ ॥ जगत्यनर्घरूपेत्यादिना तया सहजस्नेहो दर्शितः । ततश्च संभवन्तीमपि तत्प्रेरणां 'धिगपट्ठमतिरसम-' इत्यादिना निराकृत्य स्यमेवेयं ममोक्तिरिति व्यक्तीकृत्य तत एव तदेकहितसाघने अवृत्तिदर्शनया तत्प्रतिरूपतां दर्शयिता तन्यस्तभारतं निगूढतया व्यजितम्। कठिनमणेरिति। यथा हीरकादिमणे(णि)रुज्वलतयात्मानं दर्शयन्नपि स्पृष्टः

Page 198

उज्ज्बलनीलमणिः । १७५

अथ पत्रहारी- संदेशमात्रं या यूनोर्नयेत्सा पत्रहारिका ॥ ५६ ॥ यथा- तया निभृतमर्पिता मयि मुकुन्द संदेशवा- सजाम्बुजद्दशाद या श्रुतिपुटेन तां सीकुरु। प्रविश्य मम निर्भरे यदिह सान्द्रनिद्रोत्सवे कदर्थयसि घूर्त मां किमिव युक्तमेतत्तव॥ ५७ ।। ताः शिल्पकारी दैवज्ञा लिद्गिनी परिचारिका। धात्रेयी वनदेवी च सखी चेत्यादयो ब्रजे ॥५८ ॥ तत्र शिल्पकारी- त्वामाहु: प्रमदाकृतिं भगवतस्त्वष्टुर्द्वितीयां ननुं तत्तूर्ण लिख रूपमत्र भुवने यद्वेत्सि लोकोत्तरम्। इत्यभ्यर्थितया मयाद्य फलके त्वां प्रेक्ष्य सा चित्रितं चित्रा चित्रदशां गता सहचरीनेत्रेषु चित्रीयते॥ ५९॥

दिकं तुलामारोह्य कियदन्तरं भवेत्तद्वक्ति। ननु धर्मस्य शपथं लमेव जानासि चेदन्तरं तर्हि परमार्थ ब्रूहि प्रत्येष्यामीत्यत आह-कठिनेति। तव एकेन कठोरलगुणेन ह्युपरक्ताः सर्व एव गुणा अल्पमूल्या अभूवन्। तस्यास्तु स्न्िग्ध- खेनैकेन मण्डिता: परमोत्कर्षमवापुरिति भावः । अत्र पूर्वश्लोके वर्णैर्नुनोद इति उत्तरश्लोके निभृतमर्पिता संदेशवागितीवेह श्रलोके अमितार्थापभ्रहार्योरसाधारणं लक्षणं किंचिन्नास्तीति पारिशेष्यादियं निसृष्टार्थव जेया ॥ ५५ ॥ ५६ ॥ सान्द्रनिद्वेति। खप्नेऽप्यहं लन्मनस्कास्मीति खानुरागो दर्शितः ॥। ५७।। ॥ ५८ ॥ लष्टुर्विश्वकर्मणः । विश्वकर्मा एव त्वं स्त्रीरूपेणावतीणासीति भावः । इत्यभ्यर्थितयैवेति चित्राययव क्त्र्येत्यर्थः । चित्रस्यालेख्यस्य दशां जाड्यम् । सन् कठिनतयैवानुभूयते। नतु कर्पूरमणिवत्तापेन यत्किंचित् स्निग्धतयापि तत्तु- स्यस्येत्यर्थः । तदिदं तु तस्य साकूतभादासीन्यं दृष्टा सप्रणयकोपं वचनम् ॥ ५४ ॥ ५५ । चिन्रीयते आश्चर्य करोति ॥॥५६॥५७॥५८॥५९॥

Page 199

१७६ काव्यमाला।

दैवज्ञा- तवाद्य शुभरोहिणीवृषभराशिभाजः परा- मवेत्य गणनादहं सुखसमृद्धिमत्रागता । तदेहि मुदिराकृते परमचित्रकोदण्डभा- गखण्डविधुमण्डला भवति विद्युदुद्दयोतताम्॥ ६०॥ लिद्गिनी- लिङ्गिनी तापसीवेशा पौर्णमासीवदीरिता। यथा- सरले न विधेहि पुत्रि चिन्तां वशगस्ते भविता ब्रजेन्द्रसूनुः। यदहं चतुरात्र सिद्धमन्रा जरती प्रत्रजिता तवास्मि दूती ॥ ६१ ॥

'आलेख्याश्वर्ययोश्चित्रम्' इत्यमरः । सहचरीणां नेत्रेषु चित्रीयते आश्चर्यमिवाचरति। 'नमोवरिवश्चित्रडः क्यच् ३।१।१९' इत्याचारार्थे क्यच् ॥५९॥ भवति लयि। विद्युदिति प्रथमातिशयोत्तया। श्रीराधाकोदण्डे भ्रुवौ, विधुमण्डलं मुखम् ॥६ चतुरेति। प्रथमं चातुर्येणैव तं वशीकरोति तेनाशक्तौ सिद्धमन्र्रेति तन्नाम्ना मन्न- जपेन मन्त्रसिद्धेर्वशीकरणं फलं प्रसिद्धमेवेति भावः । ननु कदा ते मन्त्रसिद्धिरभूदि- ्याह-जरतीति। बाल्यादारभ्य मन्रजपं विनैतावन्तं कालं केन व्यत्तीतमः करवं तद्वदेति भावः। ननु पतिपुत्रपौत्रप्रपौत्नललनादिभिरेव जरत्यो भवन्लत आह-प्रन्नजिता संन्यासिनी मन्र्रजपेऽवकाशप्राध्यर्थमेव मया संन्यास: क्रृत इति भावः । अत्र प्रथमेन विशेषणद्वयेन तदन्तःकरणस्य द्वितीयेन त्वहि:, करणस्यापि वशीकारः । वयोधिकलेन संन्यासिलेन च मयि तस्य तत्पिनोश्ष

परमचित्रेत्यादौ कोदण्डविधुविद्युद्ूपतया भ्रूमुखगौराङ्ग्याध्यवसितेति प्रथमावि: शयोक्तिनामालंकारः । तदुक्तम्-उपमानेनान्तर्िगीर्णस्य खोपमेयस्व यद्ध्यः वसानं सैक्रातिशयोक्तिरिति। भवति यि ॥ ६० ।। ६१ । ६२. ॥

Page 200

उज्ज्वलनीलमणिः । १७७

परिचारिका- लवङ्गमञ्जरीभानुमत्याद्याः परिचारिकाः ॥६२ ।। यथा- सहचरपरिषत्तः क्षिप्रमाराद्विकृष्ट- स्तव गुणमणिमालामीश्वरि ग्राहितश्च। मधुरिपुरयमक्ष्णोः प्रापितश्चाभिकक्षां भण पुनरपि सेयं किंकरी किं करोतु ॥ ६३॥ घात्रेयी- धान्नेयिकास्मि मधुमर्दन राधिकाया- स्त्वय्यद्भुतं किमपि वक्तमिहागताहम्। निष्पद्य कृष्णरुचिरद्य हिरण्यगौरी सद्यः सुधाकरकलाधवलेयमासीत्॥ ६४ ॥ वनदेवी- जात्याहं वनदेवतापि भगिनी कुत्रापि ते प्रेमतः क्वाप्यम्बा जननी क्कचित्प्रियसखी कुत्रापि भर्तुः खसा।

गगौरवाधिक्यादाज्ञापालनमावश्यकं भावीति भावः ॥। ६१।। लवङ्गमअ्जरीति। सर्वासु परिचारिकासु लवङ्गमञ्जर्या अभ्यर्हिततं नापलपनीयं गणोद्देशदीपिकायामपि तस्या एव प्राथम्यादिति रहस्यम्।। ६२ ॥ सयं लवज्ञमअर्येवाह-सहेति ॥ ६३ ॥ धात्रेयी धात्र्याः पुत्री हिरण्यगौरीयं श्रीराधा कृष्णरुचिः श्यामवर्णा, पक्षे कृष्णे लयि रुचिरयस्याः सा निष्पद भूला सदस्तत्क्षणादेव सुधाकरस्यैका कलेवेति तयि प्रीत्युत्पत्तिकाळ एव वैवर्ण्यकार्श्ययोरेवातिशयो जातस्तथापि सुघेति। माधुर्येमपारमिति भावः॥६४॥ मानभङ्गार्थ वृन्दया प्रहिता काचित् बहुरूपा दूती स्ववचनस्य वैयर्थ्याभावार्थ श्रीराधां प्रति स्वस्याचिन्त्यां सिद्धिं प्रख्यापयन्ती प्राह-जात्येति। कुत्रापि समये तव भगिनी अनङ्गमज्जरी सहचरेति। तस्याः किंकर्या या काचित् स्न्निग्धा तस्या एव वचनम् ॥६३॥ १२ उज्व०

Page 201

१७८ काव्यमाला।

ग्रीवामुन्नमय प्रसीद रचय भ्रूरिङ्वितादीक्वितं कुर्याद्वल्लवकुञ्जरः परिणति वक्षोजकुम्भे तव॥ ६५ ॥ अथ सखी- खात्मनोऽप्यधिकं प्रेम कुर्वाणान्योन्यमच्छलम्। विस्रम्भिणी वयोवेषादिभिस्तुल्या सखी मता ॥६६॥ यथा- न मे शोकस्तस्यां यदियमतिपूतैः प्रियसखी हता ते दम्भङ्गीषुभिरनुपमां यास्यति गतिम्। परं शोचाम्युच्चैर्जगदिदमहं यन्मधुरिपो विना तस्याः प्रेक्षामहह भविता व्यर्थनयनम् ॥ ६७ ॥

भूला लां भोजयामि परिधापयामि च, अम्बा जननी मुखरा भूला हितमुप- दिशामि, प्रियसखी ललितामूर्तिधारिणी भूला मानं शिक्षयामि, भर्तुः खसा ननान्दा कुटिला भूला संतर्जयामि। तं तु तदा तदा मां ज्ञातुं न प्रादुर्भूरेवे- त्यधुना तु सौहार्देन दूत्यकाले सर्व व्यक्तीकृत्य वच्मि। अत एव ग्रीवामुन्नमय मद्दिस्ीत्यर्थः । अहमदृष्टचरी दृष्टचरी वेति परिचिन्विति भावः । ततश्र मद्गौर- वेण प्रसीद। यदि न ब्रवीषि तदा भुवोरिङ्विताच्चालनादिद्ञितं भावव्यक्ति रचय यथा बल्लवकुजरस्तव वक्षोजकुम्भे परिणति स्वकरेण परिणामम्। मर्दनमिति यावत्। वक्षोजयोः कुम्भत्ारोपेण तस्याः कुञ्जरीतं व्यज्य औचित्यं दर्शितम् ।६५ ॥ ६६ । विशाखा श्रीकृष्णं प्रति श्रीराधाया दशमी दशां सूचयति- न मे शोक इति । यदि त्मधुनापि तामभिसर्तु विलम्बसे इति भावः । जगदिदं शोचामीति इदंपदेन खवतर्जन्या खसङ्विनीः सखीर्दर्शयति। तदुपल- क्षितलेन सर्वं व्रजस्थं स्त्रीमण्डलमित्यर्थः। तवां तु न शोचामि। यतस्त्या

॥६४ ॥ अवोरिद्ञिताच्ालनादि्चितं भावव्यज्ञनां रचय। ततश्व कुर्या इति वक्षो- जयो: कुम्भलमारोप्य तस्यां च कुञरीतं व्यज्जितम्। कुज्जरेण परिवृत्य कृतदन्ता- घातः परिणतिः । सा चात्र गाढालिङ्गनादिरूपा ॥ ६५ / ६६ //६७।

Page 202

उज्ज्वलनीलमणिः । १७९

वाच्यं व्यञ्ञमिति द्वेधा तहूत्यमुभयोरपि। तत्र कृष्णप्रियायां वाच्यं यथा- शप प्रहर तर्ज मां क्षिप बहिः कुरुष्वाद्य वा कदापि मतिराग्रहान्न सखिि मे विरंस्यत्यतः । प्रयामि तदहं हरेरुपनयाय सत्यं ब्रुवे न सा श्वसितु या न वामनुभवेन्नवां संगतिम् ॥ ६८ ॥ व्यङ्गयं यथा- सखि तर्कितासि कामितकृष्णागुरुसौरभा त्वमिह। भवदभिमतार्थविधये नैगमसविधं गमिष्यामि ॥ ६९ ॥ यथा वा- त्वमसि किमिव बाले व्याकुला तृष्णयोच्चैः श्रृणु हितमविलम्बं तत्र यात्रां विधेहि।

सेच्छयैव स्त्रीवधो गृह्यत एव। आत्मानं च न शोचामि। यतोऽहं तामनु मरि- ष्याम्येवेति भावः ॥ ६७ ॥ तहूत्यं तस्याः सख्या दूत्यमुभयोनोयिकानायकयो- र्विषययोरित्यर्थः । तुङ्गविद्या श्रीराधामाह-(एवमग्रेप्यवतारिका जेया ।) शपेति। सा न श्वसितु म्रियतामित्यर्थः । या वां युवयोनेवां संगतिम् ॥६८॥ कामितं कृष्णागुरो: सारभं यया, पक्षे कामितकृष्णा, अगुरुसौरमेति पदद्वयम्। नैगमो वणिमागरश्च। 'नैगमः स्यादुपनिषद्वणिजोनागरेऽपि च ।' इति विश्वः । स चात्र प्रत्यासत्त्या श्रीकृष्ण एव। सविधं निकटम् ॥ ६९ ॥ शब्दशक्त्युत्थं व्यङ्ग्यमुदाहृत्यार्थशक्त्युत्थमाह-यथा वेति। पूर्वशैलस्योपरि। अत्र विधुपद- क्षिप विकिर।। ६८।। प्रथमपक्षे कामितकृष्णागुरुसारभेत्येकं पदम्, द्वितीये कामित- कृष्णेति, गुरुसौरमेति पदद्वयम्। नैगमो वणिक् नागरश्च। तत्र द्वितीये नागरो विदग्धसामान्यवाच्यपि तत्कामितलेन प्रस्तुतत्वात् श्रीकृष्णमेव बोधयति ॥६९॥

Page 203

१८० काव्यमाला।

विलसदमलरागः पूर्वशैलस्य तिष्ठ- न्विधुरुपरि चकोरि त्वत्प्रतीक्षां करोति॥ ७०॥ अथ कृष्णे वाच्यम्- तयास्मि कृष्ण प्रहिता तवाग्रे सौन्दर्यसारोज्ज्वलया त्रिलोक्याम्। अभूतपूर्वां रचयन्विघिर्या स्वस्यापि विस्मापकतामयासीत् ।। ७१॥ अथ व्यड्ग्यम्- तत्ग्रियायाः पुरः पश्चात्कृष्णे व्यङ्गं द्विधा भवेद्। तत्साक्षाव्यपदेशाभ्यां द्विविधं च द्विधोदितम् ॥ ७२॥ तत्र तत्प्रियायाः पुरः कृष्णे साक्षाव्यङ्गं यथा- माधव कलापिनीयं न सविघमायाति मे दुराराधा। निजपाणिना तदेनां प्रसीद तूर्ण गृहाणाद्य ॥ ७३॥

दृष्या शब्दशक्त्युत्थं व्यङ्ञयमिदमिति न संभावनीयम्। चकोरीति संबोधनपद- वशादतिशयोक्त्ैव चन्द्रपदेनापि व्यङ्यसिद्धेः, नापि रागशब्दस्य परिवृत्त्य- सहले तथालं वाच्यम्। भूम्रा व्यपदेशा भवन्तीति न्यायेनैकस्य पदांशमात्रस्य परिवृत्त्यसहले तद्यपदेशायुक्तेः ॥ ७० ॥ श्रीविशाखा प्राह-तयेति। खस्या- प्यन्यस्य विस्मापकोऽभूदिति किं वक्तव्यम्। सवस्यापि सवमपि स्ंयं विस्मापया- मास ममतादृशी शक्तिः कुतोऽभूददेवमरचयमिति विस्मितोऽभूदित्यर्थः। तेन तां संभुज्यैव वं खजन्म सफलयेति व्य्यमेवेदं तथापि तयास्मि प्रहिता इत्यनेन दूत्यं वाच्यमेव जातमिति वाच्यतयेदमुदाहृतम्। श्रीकृष्णस्याग्रे नायि- कादूत्यस्य सखीकृत्यस्य सर्वथा वाच्यले वैदग्व्यासिद्धेरसौरम्यं स्यात् ॥७१॥ ॥ ७२॥ विशाखाह-माधवेति । कलापिनी मयूरी, पक्षे भूषणवती। ।। ७० ॥ तयास्मीत्यत्र तदभिलषितविशेषरूपं विवक्षितं सौन्दर्येत्यादिना व्यङ्गयमेव जातमिति न साक्षादुकम्। तथापि तत्प्रहितेत्युक्तांशेन वाच्यं जात- मिति वाच्यलेनोदाहतम् । स्वस्येति। खमपि विस्मापयामासेत्यर्थः ।।५१॥ कलापिनी बर्हिणी, पक्षे भूषणवती। 'कलापो भूषणे बहे' इत्यमरनानार्थात्।

Page 204

उज्ज्वलनीलमणिः । १८१

यथा वोद्धवसंदेशे- सन्ति स्फीता व्रजयुवतयस्त्वद्विनोदानुकूला रागिण्यये मम सहचरी न त्वया घट्टनीया। दष्ट्राभ्यर्णे शठकुलगुरुं त्वां कटाक्षार्घचन्द्रा- न्भ्रूकोदण्डे घटयति जवात्पश्य संरम्भिणीयम् ॥ ७॥ व्यपदेशेन यथा- धवमुपेक्ष्य कठोरमियं पुरः परिमलोल्लसिता किल माधवी। श्रयितुमुत्कलिकावलिताद्भुतं ननु भवन्तमुपैति हलिप्रिय ।। ७५॥

'कलापो भूषणे बहें' इत्यमरः । मे मम समीपं नायाति यतो दुराराधा न वश्येत्यर्थः। पक्षे मेदुरा स्त्रिग्धा॥ ७३॥ शब्दमूलव्यङ्ञयमुदाहृत्य पूर्ववदर्थ- मूलमुदाहर्तुमाह-यथावेति। विशाखा श्रीकृष्णमाह-सन्तीति। स्फीताः पीनाङ्गयस्तव विनोदानुकूला: कीडायोग्या: व्यङ्ञयपक्षे क्रीडायामनुकूला वाम्य- शून्याः । रागिणी मात्सर्यवती अनुरागिणी च । 'रागोऽनुरागे मात्सर्ये' इति विश्वः। न घट्टनीया न चालनीया। संरम्भिणी कोपना। तेनान्यासु युवतिषु तव कामविलासो निर्विन्न एव स्यात् मम सहचरीं घट्टयसि चेत् कामसंग्रामो भावी। यदियं कंदर्पशास्त्रेषु महाप्रवीणा तया परमवीरेणापीयं दुजेयेति जानी- हींति भावः । अन्नापि रागिणीपद्दृष्टयैव न शब्दमूलतं वाच्यम्; तद्विनापि व्यङ्षधसिद्धेः ॥ ७४ ॥ विशाखाह-धवं तन्नामवृक्षं प्ति च। माधवी वासन्ती वशीकृतसवकान्ता च । उत्कलिका उत्कृष्टा कलिका उत्कण्ठा च। तया वलिता मे मया दुराराधा कृच्छ्रेणाराध्या। संबन्धविवक्षया कर्तरि षष्ठी तृतीयार्थमव्ययं वा। पक्षे मेदुरा स्निग्धा॥ ७२॥ ७३ ॥ सन्ति स्फीता ब्रजयुवतय इति परि- हास एव। न घट्टनीया न क्षोभणीया। ननु कात्र शङ्का तत्राह-लामभ्यर्णे दृष्ट्रा रागिणी रक्तिम्रा युक्ता सती भ्रूकोदण्डे कटाक्षाधचन्द्रान् जवात् जवं कृला घटयति। कुत एवं तत्राह-संरम्भिणी कोपावेशवती। पश्येति वाक्यार्थकर्म- कम्। ननु हर्षदानेनैवाहं क्षोभयन्नस्मि न तूद्वेगदानेनेति कुतः कोप इत्याशक्का वं विशिनष्टि-शठकुलगुरुमिति । अन्तः शाम्यमेव तवेति भावः ॥ ७४॥। धवं पतिम्, पक्षे वृक्षविशेषम्। माधवी वासन्ती, पक्षे वशीकृतखान्ता। उत्क-

Page 205

१८२ काव्यमाला।

तत्प्रियायाः पश्चात्साक्षाद्व्यङ्गं यथा- स्फुरस्फुरमणिप्रभः सुरमणीघटाश्रोघितां सदाभिमतसौरभः प्रकटसौरभोद्भासिनीम्। मुकुन्द सुदिरच्छविर्नवतडिन्निभां तामसौ भवानपि न चम्पकावलिमृते किल भ्राजते ॥ ७६ ॥ व्यपदेशेन व्यङ्गं यथा- शैलस्तुङ्गशिरा विराजति सरस्तस्योत्तरे विस्तृतं तत्तीरे वनमुन्नतं तदुदरे हारी लतामण्डपः । तस्य द्वारि गभीरसौरभभरैराह्लादयन्ती दिशः फुल्ला ते मधुसूदनाद्य पदवीमालोकते मालती॥ ७७॥ यथा नायिकया दूत्ये वयस्याया नियोजनम्। कृष्णाय क्रियते तस्य प्रकारोऽयं विलिख्यते । ७८ ॥

युक्ता। हलिप्रिय, हे कदम्बवृक्ष, पक्षे बलदेवप्रिय॥। ७५॥ चम्पकावल्याः सखी प्राह-स्फुरदिति । स्फुरतः सुरमणेः कौस्तुभस्य प्रभा यत्र सः । शोभनानां रमणीनां घटया श्लाघितां स्तुताम्। अभिभतं सौरभं सुरभीसमूहो यस्य सः। चम्पकावलिमृते इति। तस्यास्तव च विशेषणसाम्यात्तया साहित्येनैव तव स्थितिरुचितेति भावः ॥ ७६॥ शैलोऽत्र गोवर्धनः, सरो राधा- कुण्डम्। हे मधुसूदन हे भ्रमर, पक्षे कृष्ण। मालती प्रसिद्धा, पक्षेऽतिशयोत्त्या लिका उत्कृष्टकलिका पक्षे उत्कण्ठा। हलिप्रिय हे बलदेवप्रिय, हे कदम्ब॥ ७५।। चम्पकावलि तन्नाम्ीं विना भवानपि न विभ्राजते। तस्या हि लयि तादृशतायां योग्यतास्तीति श्लेषेणाह-स्फुरतः सुरमणेः कौस्तुभस्य प्रभा यत्र सः। सौरभं सुरभीसमूहः। द्वितीयं तत्सौगन्ध्यम्। पुनर्गुणेनापि योग्यतामाह-मुदिरेति ॥, ७६ ॥। मालती लताविशेषः, पक्षे तन्नाम्री काचित्॥। ७७॥७८।।७९॥।' · १. सेवितामित्यपि पाठः.

Page 206

उज्ज्वलनीलमणिः । १८३

नियोजनं क्रियासाध्यं वाचिकं चेति तदिधा। तत्र क्रियासाध्यम्- दिवि वीक्ष्य नवाम्बुदं तथासौ परिरम्भोद्यममाततान तन्वी। अपि किंचिदिहानुदीर्य वाचा प्रजिघायाघभिदे यथा वयस्याम्।।८॥ यथा वा- मुहुरपि विधुरान्तर्वेणुमाकर्ण्य सुग्धा स्वयमिह न वयस्यां माघवाय न्ययुङ्क। अपि तु विशदमस्याः खेदशालिन्यरुद्धा तनुमनु विकसन्ती कण्टकश्रेणिरेव।। ८१ ।। अथ वाचिकम्- वाच्यं व्यङ्गयमिति प्रोक्तं पूर्ववद्धाचिकं द्विधा। तत्र वाच्यं यथा- त्वमसि मदसवो बहिश्चरन्तस्त्वयि महती पटुता च वाग्मिता च। लघुरपि लघिमा न मे यथा स्यान्मयि सखि रञ्जय माधवं तथाद्य ॥८२॥

श्रीराधा॥ ७७॥७८ ॥ ७९॥ नान्दी पौर्णमासीमाह-दिवीति। असौ श्रीराधा परिरम्भोद्मं बाहुद्वयप्रसारणेन तदनुकरणम्। वाचानुदीर्योनुक्तापि प्रजिघाय प्रहितवती ॥ ८० ॥ क्रियासाध्यमिति । क्रिया ह्युत्कण्ठा कार्य- ज्ञापनरूपा। तत्कार्य च द्विविधमनुभावरूपं सात्त्विकरूपं च पूर्वमुदाहृतम् । उत्तरमुदाहर्तुमाह-यथा वेति। मुग्धा नववयाः। सखीं प्रति स्पष्टं वक्तुमसम- र्येति भावः । अरुद्वां किंचिद्वस्त्रोद्धाटनेनानाच्छादितां सखी मे कण्टकश्रेणीं पश्यतु यथा मदौत्सुक्यज्ञानेन श्रीकृष्णमानयेदित्यबोधनमेवात्र नियोजनसाधनं ज्ञेयम्। सेदशालिनी प्रस्वेदयुक्ता। कण्टकाः पुलकाः ॥ ८१ ॥ श्रीराधा विशा- खामाह-त्वमसीति। असवः प्राणाः । अत एव लयि विश्वसिमीति भावः । परिरम्भोद्यमं नाट्यशास्त्रोक्तं लघु लघु तदनुकरणम्। प्रजिधाय प्रहितवती ।। ८० ॥। अरुद्वा रोडुमशक्येत्यर्थः । 'पराजेरसोढः' इत्यत्र असोढः सोढुम-

Page 207

१८४ काव्यमाला।

अथ व्यङ्गम्- अत्र शब्दार्थमूलत्वाद्वयङ्ञं च द्विविधं भवेत् ।। ८३।।

पट्टता चातुर्य वाग्मिता वावदूकता ते चैवं झेये। तया पुष्पावचयमिषेण वन भ्रमन्त्या तस्य निकट एव तमदष्टवत्यैव तं श्रावयित्वा खसखीभि: सह कथो- पकथासु वधूजनप्रसज्ने सर्वाभ्यः सकाशादपि मद्रूपप्रेमादय आधिक्येन वर्ण- नीयाः। ततश्र तेनागत्य तन्निकट एवं वक्तव्यम्-सखि, कामेवमद्भुतमा- धुर्या वर्णयसीति। ततश्र तया साशक्कं ससंभ्रमं वक्तव्यं-न कामपीति। सखि, मा भैषी: कोऽप्यत्र दोषो न भविष्यति यामवोचस्तां परिचाययामीति। माधव, तया ज्ञातया तव किं कार्येमिति। सखि, अस्ति महदेव रहस्यं कार्य- मिति। माधव, इतोऽपसर। तस्यास्तव च महदेव वैसादृश्यं स्वभाववैजात्याद्। अतस्तव तया न किमपि कार्यमिति। सखि, किं तत्खभाववैजात्यं ब्रूहीति। माधव, तं स्त्रीलम्पटः सा पतिव्रता, लं चञ्चलः सा परमधीरा, तवं धर्मकर्महीनः सा देवपूजापरा, लमशुचिः सा त्रिसवनस्नानपरा धौतवस्त्रालंकारवतीति। सखि, अहमपि ब्रह्मचारीत्यत्र दुर्वासामुनिरेव प्रमाणम्। अहमचञ्चल इत्यत्र सप्तदिन- पर्यन्तमेकहस्तेन गोवर्धनधारणमेव प्रमाणम्। अहं सांप्रतं पित्राज्ञया श्रीभागुरे- र्गुरुदेवाल्लब्धविष्णुमन्त्रदीक्षाक इत्यत्र गार्गीनान्दीमुखीपौर्णभास्य एव प्रष्टव्याः । अहं शुचिः साक्षान्मूर्त एवात्र लदनुभव एव प्रमाणमिति। माधव, तदपि लं पुरुषजातिः सा कुलजा न लां द्रक्ष्यतीति। सखि, सा मा मां पश्यतु, अहं तु तां परमधर्मवतीं दूरादपि दृष्टा कृतार्थीबुभूषामीति। माधव, कस्तत्रोपाय इति। सखि, अत्रैव गोवर्धनकन्दरामन्दिरेऽघयैव मया एका सूर्यदेवमूर्तिः स्थापनीया खहस्तेन मन्दिरलेपनादिकमपि कृत्वा दूरे स्थास्यामि। लयादृष्टचरस्य देवस्य दर्शनपूजनादयर्थ सात्रानेतव्या। ततश्च तस्याः पूजार्थमन्नोपविष्टायाः पृष्ठदेशदर्शने- नापि कृतार्थीभविष्यामि। यदि च तव कृपया संमतिर्भाविनी तदालक्षितमागल शनैः पादपीठश्च प्रष्टव्य इति। माधव, अ्र कमप्युत्कोचं दास्यसीति। सखि, आत्मानमेव तव हस्ते विक्ेष्याम्युत्कोचस्य का वार्तेति। माधव, समाश्वसिहि मनोरथमिमं ते संपादयिष्यामि इत्युक्ता आगत्य मां तत्र नयेति श्रीराधाया शक्य इतिवत्। कण्टकाः पुलकाः ॥ ८१॥८२॥ ८३ ॥ समभ्यसितुमनु-

Page 208

उज्ज्वलनीलमणिः । १८५

तन्र शब्दमूलं यथा- नहि शिक्षितुं वरकलासु कौशलं गुणचातुरीं च न मृगाक्षि कामये। तमहं समभ्यसितुमेव सुभ्रुवां सखि केशबन्धनविशेषमर्थये।। ८४॥ यथा वा- ण पउमराअप्पसुहं रअणं कामेइ गोइ मे हिअअम्। किन्तु सदा हीरवरं वाञ्छइ हारान्तरे कादुम्॥ ८५॥ [ न पझमरागप्रमुखं रत्नं कामयति गोपि मे हृदयम्। किंतु सदा हीरवरं वाञ्छति हारान्तरे कर्तुम्॥] अथार्थमूलम्- आक्षेपेण स्वपत्यादेर्गोविन्दादेः प्रशंसया। वैशिष्व्पेन च देशादेरर्थमूलमनेकधा ॥ ८६ ॥

मनोगत एवोपदेशः खसख्यै विशाखायै ज्ञेय इति॥८२॥८३॥ सुधुवां केशानां बन्धनविशेषं वेणीकबर्यादिरूपतयेत्यर्थः । पक्षे सुभ्रुवां धनविशेषं केशव- मभ्यसितुमनुशीलयितुम्। अत्र केशवपदस्य विशेष्यलात्तस्यैव धनविशेषलस्य तात्पर्यविषयीभूतत्वात् तन्मान्रपरिवृत्त्यसहलेऽपि शब्दशक्त्युत्थध्वनिविशेषो नानुपपन्नः ।। ८४ ।। मुग्धाया नियोजनमुदाहृत्य प्रौढाया वक्तुमाह-यथा वेति। ण पउमेति। 'न पद्मरागप्रमुखं रत्नं कामयते गोपि मे हृदयम्। किंतु सदा हीरवरं वाञ्छति हारान्तरे कर्तुम् II' हीरवरं हीरकश्रेष्ठम्, पक्षे शीलयितुम् सुभ्रुवां धनविशेषं केशवमिति तु व्यङ्गयम् ॥ ८४ ॥ ण पउमेलन्न 'न पद्मरागप्रमुखं रत्नं कामयते गोपि मे हृदयम्। किंतु सदा हीरवरं वाञ्छति ह्वारान्तरं कर्तुम् ।I' इति वाच्यम्। सदा आभीरवरं श्रीगोपालमिति तु व्यक्यम्

Page 209

१८६ काव्यमाला।

तत्र स्वपत्याद्याक्षेपेण यथा- विघातुर्दौरात्म्यान्न हि वहति घोरप्रकृतये रुचिं चेतः पत्ये हतवपुरिदं दीव्यति रुचा। भजत्कक्षामक्ष्णोर्विषममिदमुग्रं प्रहरते यमीतीरारण्यं किमिह सखि शिक्षां न तनुषे।। ८७॥

आभीरवरं श्रीकृष्णम् ॥ ८५॥ पूर्वरागवती श्रीराधा विशाखामाह-विधातु- रिति। मया कोऽपराधः कृतो यदघोरप्रकृतिः पतिर्मह्यं दत्त इति तस्यैव दौरा- त्म्यमिति तत्र चेतसो रुच्यभावे मम को दोष इति सखीप्रत्यायनैव। वस्तुतखु यदि सुन्दरप्रकृतिरपि पतिरदास्यत्तदपि रुचिर्नाभविष्यत; मच्चेतसः श्रीकृष्णैक- ग्राहितादित्याभ्यन्तरो विचारः । ननु पत्यै रुचिर्नोपपद्यतां नाम तदपि कुलाङ्- नया तयान्यस्मिन् पुरुषे रुचिस्तु न कार्येव। तत्राह-हतवपुरिति। रुचा यौवनोत्थकान्त्या दीव्यति दिने दिने सखेलमेव भवतीति। तत्रैतादृग्यौवनवतो वपुष एव दोषो न मच्चेतस इति भावः । नतु तथापि सप्रतिष्ठया तया परम- लज्जावत्या स्धर्ममवेक्ष्य धैर्यमेव कार्यम्। तत्राह-भजदिति। ममाक्ष्णोः कक्षां प्राप्नुवत् यमी यमभगिनी तस्यास्तीरारण्यं प्रहरते कन्दर्पाभिमुद्दीप्यते मात्रं न भां ज्वालयति। न च कयापि युक्या शाम्यतीत्याह-उग्र. मिति । नाप्यत्र मणिमन्र्रमहौषधादयः प्रभवन्तीत्याह-विषममिति। इह विपत्तौ किं शिक्षां न तनुष इति नात्र शिक्षावकाश इति भावः । तेन कुलधर्मलज्जाप्रतिष्ठाभ्यो जलाज्ञलं दत्त्वा श्रीकृष्णं शीघ्रमानय यदि ८५ ॥ ८६॥ विधातुरिति। जातपूर्वानुरागायाः कस्याश्चिद्वचनम्। तत्र विधातुर्दौरात्म्यात् यो घोरप्रकृतिः पतिर्जातस्तदर्थ चेतो रुचिं न वहतीतेताव- त्युक्ति: सख्या विप्रतिपत्तिं वितर्क्य समाधातुमेव। वस्तुतस्तु पत्ये चेतो रुचिं न वहतीत्येतावन्मात्रं विवक्षितम्। तदेतदुक्ता विधातुर्दौरात्म्यादेवेत्यनुगमय्य हतवपुरित्यादिकं यदुक्तं तत्तु वपुरयोग्यता यदि स्यात्तदा निर्विद्यापि स्थातुं शक्का स्यां तच्च विपरीतं जातमिति विवक्षया। तत्र च यमीतीरारण्यमुद्वेजकं जात- मित्याह-भजदिति। प्रहरते तत्र प्रहारिलेन प्रसिद्धं कमपि नायकं प्रत्याकर्ष- णाय मम हृदयं ताडयति। तस्मात्वं किं किं शिक्षां न तनुषे। यया पूर्ववदत्राषि

Page 210

उज्ज्वलनीलमणिः । १८७

गोविन्दादे: प्रशंसया यथा- कुलस्त्रीणां नेष्टा परपुरुषरूपस्तुतिकथा तथापि त्वं प्राणाः सखि मम बहिष्ठाः खयमसि। कियानास्ते तस्मिन्त्रजपतिकुमारे मधुरिमा छटाप्याराद्यस्य म्रदयति दशोर्द्वन्द्वममृतैः ॥ ८८ ॥ यथा वा- दूत्यचक्रचतुरासि चञ्चले नन्दनो व्रजपतेः स नागरः। मां जहाति शिशुता च रक्षणी माकृथाः सखि ततः प्रमादिताम्॥।८९॥

मत्पाणान् रक्षितुमिच्छसीति ध्वनिः ॥८६॥ ८७॥ श्रीराधा विशाखामाह- कुलेति। तथापीति लां कथयाम्येवेत्याक्षेपलब्धम्। यतस्त्वं प्राणा इति युक्तमुक्तं नहि प्राणेषु गोप्यत इंति भावः । छटापि आराहूरादपि मम दृशो- र्द्वन्द्वममृतैः सुधाभिरिव म्रदयति तथोः कठिनतां विलोक्य मृदूकरोति स्नेह- यतीति यावत्। तेन न तं द्रक्ष्यामीति कृतप्रतिज्ञाया अपि मम दृशौ तस्मिन्नेव स्नेहवत्यौ तत्पक्षपातिनावेव बभूवतुरिति भावः ॥ ८८ ॥ गोविन्दादेः प्रशंसये- त्यादिशब्दाहूत्या अपि प्रशंसार्थमाह-यथावेति। हे चञ्चले इति। दुस्त्य- जोऽयं स्भावो यहूत्यकर्मणि चातुर्येम्। स नागर इति तत्रापि मे कापि क्षति- नोभविष्यद्यदि स नागरो नाजनिष्यत्। किं चात्रापि मम खनिष्ठारक्षणे यस्या बलेन साहसमासीत्सापि शिशुता च मां जहाति। अतः प्रमादितामनवधान- ताम्। तेन भ्रमेणापि मदग्रतो दूत्यचातुर्ये प्रस्तुते भम सतीत्वं न स्थास्यति मम तव च लोके कलड्ढो भविष्यति अतः परिणामदर्शिन्या भवत्या खखभावं संगो-

निर्विण्णा स्यामिति शेषः । प्रहारोऽयं तु दुःसह इति तत्र विहरन्तं तमेव योजयेति गूढोऽभिप्रायः ॥ ८७ ॥ तथापीत्यादौ तस्मात्। कथयामीति शेषः । आरादूरात्। अमृतैस्तैरिव दृशोद्वन्द्वं म्रदयति मृदूकरोति स्रेहयति ८८ ॥ श्रीकृष्णमाधुरीं भङ्गया व्यज्जयन्तीं कापि सरोषमिवाह-दूत्येति। अमादितामनवधानतां परिणामदर्शिताभावेनेदशप्रलापितामित्यर्थः ॥ ८९ ॥

Page 211

१८८ काव्यमाला।

देशादिवशिष्ट्ेन यथा- वृन्दारण्ये व्रततिपटलीसंकटे पुष्पहेतो- र्भरमंग्रामं सहचरि चिरं श्रान्तिमभ्यागतास्म । तद्विश्रान्तिं क्षणमिह करोम्येकिकाहं निकुञ्जे त्वं कालिन्दीतटपरिंसरादाहरेथाः प्रसूनम् ॥ ९० ॥ यथा वा- मधुरिता मधुना विधुनाप्यसौ सखि पतङ्गसुतापुलिनाटवी। सवयसा वयसा च विभूषिता तनुरियं किमिह क्षममुच्यताम्।।९१। इति दूतीप्रकरणम्।

प्यैव स्थेयमिति भावः। आन्तरो भावस्तु तं दूत्यचकचतुरासीति प्रशंसयैव। तव चातुर्य च फलिष्यत्येव; यतः स नागर एव, संप्रति ममापि काचन वामता नासिति। अतः प्रमादितां दूत्ये शैथिल्यं मा कृथाः । अन्यथा कामशरप्रहारपौन :- पुन्येन भम प्राणापगमे कस्मै स्त्रीवधो लगिष्यति। न तावत् कंदर्पाय तस्य व्याधवत्तदेकवृत्तिलात्, नापि श्रीकृष्णाय तस्य नागरलेन मत्संगमे वैमुख्या- भावात्, नापि शिशुतायै यौवनेन बलवता राज्ञा तस्या अपसारितलात, नापि यौवनाय तस्य तदर्थमेवागतस्यातिपतितलात्। अतो मत्समीपवर्तिन्यै दूत्यकर्मणा मद्रक्षां कर्तुं समर्थायै धार्मिकायै तुभ्यमेव लगिष्यतीति खयमेव विचार्यतामिति ॥ ८९ ॥ संकटे व्याप्ते। पुष्पहेतोरिति। भ्रामं भ्रममिति। तेनाभिलष- णीयं पुष्पमत्र न लब्धम्। कालिन्दीति। यथा तेन प्रसूनेन इहैकिका कुच- योर्भण्डनं करोमीति भावः। ततश्च वं प्रसूनमाहरेथा इति तदुक्तिभज्गीं ज्ञाला तत्न तया श्रीकृष्ण आनीत इति विवेचनीयम्॥ ९० तत्र नियोजनप्रकारस्य दूत्यर्थता असाधारणतया न सम्यगुद्भूतेत्यपरितुष्यन्नाह-यथा वेति। सखि, तवाद्य बुद्धिकोशलं परीक्षिष्य इति श्रीराधा विशाखामाह-मधुरितेति। पुष्पाहरणव्याजेन सख्याभिसारिता सौरभ्येणाधिगतश्रीकृष्णसांनिध्या काचित्तां प्रति प्राह-वृन्दारण्य इति ।। ९० ॥ एका सखी यां येन सख्यन्तरेण पुष्पाद्याहरणमिषात् प्रस्थाप्य स्वयं श्रीकृष्णमानेतुं गतापि शीघ्रं नागतेति सा

Page 212

उज्ज्वलनीलमणिः । १८९

सखीप्रकरणम् । श्रेमलीलाविहाराणां सम्यग्विस्तारिका सखी। विस्रब्धरत्नपेटी च ततः सुष्टु विविच्यते ॥ १॥ एकयूथानुषक्तानां सखीनामेव मध्यतः। अधिकादेर्भिदा ज्ेया प्रखरादेश् पूर्ववत् ॥२ ॥ प्रेमसौभाग्यसादुण्याद्याधिक्यादधिका सखी। समा तत्साम्यतो ज्ेया तल्लघुत्वात्तथा लघुः ॥३।।

मधुना वसन्तेन विधुना चन्द्रेणापीति यथा वस्तुद्ूयेनाटवीयं मधुरीकृता तथैव चस्तुद्येन मम तनुश्चेत्याह-सवयसा सख्या तिलकालंकारादिभिर्वयसा यौवनेन च हावभावादिवैदग्घ्यैरटव्या मधुविधू इव तनोः सखीयौवने क्रमेण तटस्थ स्वरूप- लक्षणाभ्यां सौन्दर्यसाधने जेये। इह किं क्षभमुचितमन्यदपेक्षितं वस्तित्यर्थः । ततश्च तद्वस्तु साक्षादेवानीय लामहं दर्शयिष्यामीत्युक्ता सखी श्रीकृष्णमानेतुं गतेति ज्ञेयम् ॥ ९१ ॥ इति दूत्यमेदाः । अथ सखीनां सवभावभेदेन, पारस्परिक्या व्यवहृत्या प्राप्तेन स्वरूपभेदेन च वैविध्यात्तदीयदूत्यस्यापि वैविध्यं निरूपयिष्यन् प्रथमं तासां माहात्म्यमाह- प्रेमेति। न केवलं दूत्य एव तासां सखीनां प्राधान्यं किंतु रसस्य सर्व एव निर्वाहस्तन्निदानक एवेत्याह-प्रेमेति। सखीति जात्यैकवचनम्। विस्तारोऽत्र विख्यापनं विवर्धनं च। तत्र नायकस्य प्रेमा नायिकायां, नायिकायाः प्रेमा नायके सख्या विख्याप्यते तत एव विवर्धते च। लीला चाभिसारादिभि: प्राप्त- मिलनयोर्नायकयोः सवस्थित्या नायिकावाम्यातिशयोत्थापनेन च हासपरिहासादि- भिश्च विवर्धते स्थानान्तरे समयान्तरे च विख्याप्यते। विहारश्र संप्रयोगा- त्मको गुरुपत्यादिसर्वसाधनाग्गीकारेण साहसदानाद्विवर्ष्यते समयान्तरे च संभु- कया नायिकया सह रसोद्गाराद्विख्याप्यते चेति। सम्यगिति। खाभियोगादौ तदैव सख्यन्तरमाह-मधुरितेति । सवयसा सख्या वयसा नवयौवनेन क्षममुचितम् ॥ ९१॥ इति दूत्यम्। सकलानां ख्वयूथ्यसखीनामपेक्षणीयम् ॥१॥२॥३॥४॥५॥

Page 213

९० काव्यमाला।

दुर्लङ्डयवाक्यप्रखरा प्रख्याता गौरवोचिता। तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यमागता।४ ॥ आत्यन्तिकाधिकत्वादिभेद: पूर्ववदत्र सः। स्वयूथे यूथनाथैव स्यादत्रात्यन्तिकाघिका ॥५॥ सा क्वापि प्रखरा यूथे क्वापि मध्या मृदुः क्वचित्। तत्रात्यन्तिकाधिकात्रिकम्- तत्रिकं सकलापेक्ष्यं नातीवान्यवशं तथा। स्वयूथे तद्वयवहृतिव्यक्तये पुनरुच्यते ॥६ ॥ तत्रात्यन्ताधिकप्रखरा- नीले नीलनिचोलमर्पय मघे देहि स्रजं दामनीं त्वं कालागुरुकर्दमैः सखि तनुं लिम्पस्व चम्पे मम। जानीहि भ्रमराक्षि कुत्र गुरवः पश्य प्रदोषोद्गमे कुञ्जाभिक्रमणाय मां त्वरयति स्फारान्धकारावली ॥।७॥ अधिकप्रखरा: ्यामामङ्गलाद्याः प्रकीर्तिताः।

विनापि सखीं तत्तत्सिद्धेरसम्यक्तमित्यर्थः । पारम्परिकव्यवहृत्या तासां स्वरूप- भेद: सतश्च सभावभेदो दूत्यर्थ जिज्ञास्य इत्यत आह-एकेति। यूथ- नाथेति। सापि खसख्या दूत्यं कुर्वाणा सखीभावमालम्बत इत्यत्र सखीप्रकरणे सापि ध्रियत इति भावः ॥१॥२॥३॥४॥५॥ सकलाभिः खयूथ्य- सखीभिरपेक्ष्यं परभादरणीयमित्यर्थः । नातीवेति। कदाचिद्देश कालादिवैशिष्ये मार्दवे च परमस्वातच्येऽपि सखीनामधीनमपि भवतीत्यर्थः ॥६॥ श्यामला प्राह-नीलेत्यादि(भिः) सखीनां प्रसाधनादिकं कृत्यमुक्तमर्पयेत्यादिभिराज्ञाप्र; दानादत्यन्ताधिकायाः सकलापेक्ष्यतमन्यानधीनतं चोक्तम्। दामनीं दमनक- दामनीं दमनकसंभवाम्॥ ७ ॥ कृतमित्यलमित्यर्थे। रतहिण्डको रतिचौरः

Page 214

उज्ज्वलनीलमणिः । १९१

तत्रात्यन्ताधिकमध्या- अनङ्गशरजर्जरं स्फुटति चेन्मनो वस्तदा मदर्थनकदर्थनैः कृतमितः स्वयं गच्छत। दशां पथि भवादृशीप्रणयितानुरूपः सुखं यदत्र रतहिण्डकः स किल पाति गोमण्डलम् ॥ ८ ॥। भवन्त्यधिकमध्यास्तु श्रीराधापालिकादयः।। ९।। अथात्यन्ताधिकमृद्वी- श्रृणु सखि वचस्तथ्यं मानग्रहे मम का क्षतिः स्फुरति मुरलीनादे को वा श्रमः श्रवणामृतौ। अतिकठिनतादुर्वादं ते निशम्य मया ब्रजे दमयितुममुं किंतु क्षिप्ं दृगर्धमघद्विषि॥ १०॥ अधिका मृदवश्चन्द्रावलीभद्रादयो मताः।

पुष्पसंभवाम् ॥। ७॥ अभिसारे सखि मा विलम्बखेति मुहुर्न्ुवाणाः सखीः प्रति श्रीराधा सस्मितगरभ सप्रणयकोपमाह-अनङ्गेति। अन्र प्रतीतमप्युक्तिप्राखर्य- मवहित्थयैव सिध्यतीति मध्यालमेव। कृतमलम्। दृशां पाथ अविदूर इत्यर्थः । रतहिण्डकः स्त्रीलम्पटः। गोमण्डलं श्लषेणेन्द्रियवृन्दं चारयति ॥ ८॥ कलहान्त- रिता चन्द्रावली पद्मां प्रत्याह-शृण्विति। ब्रजे या कापि तया कठिनासि कठिनासीत्युच्यते तमेव ते लद्दास्यमानं दुर्वादं दमयितुं संकुचितीकर्तुमिति वस्तुतः कठोरतं न मया दूरीकृतं दृगर्धमात्रार्पणात् संभाषाद्यकारणात्तदपि

॥ ८ ।। अधिकमध्या इति। आत्यन्तिकाधिकमध्येत्यर्थः । प्रकरणबलादापे- क्षिकशब्दस्योत्तरप्रयोगाच्च। एवमुत्तरत्रापि ॥। ९।। त्रजे सखीसमूहे। सखी- शब्दानुक्तिस्तु गोष्ठत्वव्यत्तया। तस्याश्च संकोचाधिक्याय यत्र त्रिलोक्यादिशब्दा

Page 215

१९२ : काव्यमाला।

अथापेक्षिकाधिकात्रिकम्- यौथिकीषु सखीष्वेव यूथेशातो लघुष्विह । ११ ॥ याधिकैकामपेक्ष्यान्या सा स्यादापेक्षिकाधिका। तत्रापेक्षिकाधिकप्रखरा- सुमध्ये मायासीस्त्वमधिकममीभिर्मृदुलतां मदस्योपादानैः शठकुलगुरोर्जल्पमधुभिः। अथि क्ीडालुब्धे किमु निभृतभृङ्गेन्द्रभणिते कुडुङ्गे राधायाः क्कममपि विसस्मार भवती ॥ १२ ॥

यथा वा- मुग्धे तूष्णीं भव शठकलामण्डलाखण्डलेन त्वं मत्रेण स्फुटमिव वशीकृत्य तेनानुशिष्टा। कुञ्जे गोवर्घनशिखरिणो जागरेणाद्य राधां दृष्ट्राप्युच्चैः सखि यदसि मे चाटुवादे प्रवृचा ।। १३ ।। ललिताद्यास्तु गान्धर्वा यूथेऽत्र प्रखराधिकाः ॥१४॥

किमिति कुप्यसीति भावः ॥। ९ ॥१० ॥ श्रीराधा मानभज्जनार्थ श्रीकृष्णेन चाटुभिर्वशीकृतां सुमध्यानान्नीं प्रियसखीं ललिता सोपालम्भमाह-क्रीडालुब्ध इति। नितरां भृतं पूर्ण भृद्वेन्द्राणां भणितं यत्र तस्मिन् कुडने कुजे ।। ११ ॥ ।। १२॥ कीडालुब्ध इति व्यङ्गयगर्भया परिहासोत्त्या मध्यालमेव स्यादित्यपरि- तुष्यन्नाह-यथावेति। ललिता चित्राभाह-मुग्ध इति। शठानां यत्कला- मण्डलं तस्येन्द्रेण तेन श्रीकृष्णेनानुशिष्टा ललितां प्रसादयेति शिक्षिता। जागरेण अपि प्रयुक्ता रसादिकं व्यञ्जयन्ति ॥ १० ॥ त (अ)त्र श्रीराधासंबन्धिनि यूथे। दोषैकटक् पुरोभागी तद्रूपताम् ॥१9॥१२॥१३॥१४॥१५॥१६ ॥

Page 216

उज्ज्वलनीलमणिः । १९३

अथाधिकमध्या- दामार्प्यतां प्रियसरीम्रहितं त्वयैव दामोदरे कुसुममत्र मयावचेयम्। नाहं भ्रमाचंतुरिके सखि सूचनीया दृष्टां कदर्थयति मामधिकं यदेषः ॥ १५ ॥ यथा वा- गिरो गम्भीरार्थाः कथमिव हितास्ते न शृणुयां निगूढो मां किंतु व्यथयति मुरारेरविनयः । मयोल्लासात्तस्मै स्वयमुपहृता हन्त सखि या कुरङ्गाक्षीकेशोपरि परिचिता सा सगधुना ॥। १६ ।। अत्र यूथे विशाखाद्या भवन्त्यधिकमध्यमाः। अथाधिकमृद्वी- दरापि न दगर्पिता सखि शिखण्डचूडे मया प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम्।

सह राधां दृष्टा ।। १३ ॥ विशाखा चतुरिकानाम्नीं सखीमाह-दामेति। अन्र कदर्थयतीत्यनेन संभोगस्पहापि व्यञजिका स्यात् ॥ १४ ॥ १५ ॥ सत्यां च तस्यां नायिकालमेव प्रसज्जेदस्यां न तु सखीलमित्यपरितुष्यन्नाह-यथावेति। विशाखा चम्पकलतामाह-गिर इति। गम्भीरार्था इति। विशाखे श्वः सौभाग्यपौर्णमासी भवित्री अद्य राधाया मानस्थितिर्युष्मत्प्रतिपक्षसखीः सुखय- तीति. गम्भीरार्था हिता गिरस्े कथ न शणुयामपि तु यथा तथाद मानं भज्ज- सिष्याम्येवेति। कुरद्वाक्षीयं काचिद्यूथेश्वरी चन्द्रावल्या वा सखी। श्रीकृष्णाज्ञात् क्वापि पतितां स्नजं श्रीराधा सखीः क्षोभयितुं खशिरसि धृतवतीति ज्ञेया ॥ १६ ॥ सखि चित्रे, श्रीराधामानभङ्गप्रसज्गे लयैव दत्ताश्वासोऽयं श्रीकृष्ण इतः एव यातायातं करोति तदिदं ते चरितं सर्वं ललितायै विज्ञापयिष्यामीति भीषय- माणा कांचित् प्रखरां श्रीराधाप्राणसखीं चित्रा सानुनयमाह-दरापीति। १३ उज्व०

Page 217

काव्यमाल।

नटन्मकरकुण्डलं सपदि चण्डि लीलागति तनोत्ययमदूरतः किमिह संविधेयं मया ॥१७॥ अधिका मृदवश्चात्र चित्रामधुरिकादयः ॥ १८॥ अथ समात्रिकम्- गाढविश्रम्भनिर्भेदप्रेमबन्धं(द्वं) समात्रिकम्। तत्र समप्रखरा- प्रविशति हरिरेष प्रेक्ष्य नौ हृष्टचेताः सखि सपदि मुधा त्वं संभ्रमान्मा प्रयासीः । पृथुभुजपरिघाभ्यां स्कन्धयोरर्पिताभ्यां तटभुवि सुखमावां मण्डिते पर्यटावः ॥ १९ ॥

मया दृगपि दरेषदपि नार्पिता दूरे अस्तु। संभाषणाश्वासादेर्वार्ता पुरोभागिता दोषभागिलम् (दोषैकद्क्लम्) 'दोषैकट्क् पुरोभागी' इत्यमरः । सप- दीति। यदैव लमिहायाता दैवात्तदैवेत्यर्थः । लीलागतिं लीलया गमनमितो दूरे कस्मै खकृत्याय तनोति तदहं किं ज्ञातुमीशे इति भावः । चण्डि हे कोपने। अस्य स्वच्छन्दचरितस्य राजपुत्रस्य किमहं शास्त्री क्ववेतः पलाय्य तिष्ठामीति भाव: ॥। १७ ॥ गाढः सौभाग्यस्य न्यूनातिरेकाभावादतिनिबिडो यो विश्रम्भः सख्यं तेन निर्भेद एकात्मकः प्रेमा तेन बन्घं(द्वं) परस्परात्यासक्तम्। श्रीराध- यैव कृतदूत्ययो: खप्राणसख्योस्तत्प्रीत्यनुरोधेनैवाभिसरन्त्योः समयोर्मध्ये प्रखरा प्राह-प्रविशतीति। पृथुभुजपरिघाभ्यामिति। पृथुभुजपरिघपदेन श्रीकृष्णसै- वेति गम्यते। तद्रप्यस्येति संबन्धिपदानुपादानं लज्ामवहित्थां च व्यनकि १८ ॥ १९ ॥ प्रियसख्योर्मिथः परिहसन्तोरुक्तिप्रत्युक्ती। प्रथमं श्यामे

॥ १७ ॥ पृथुभुजपरिघाभ्यामित्यत्र श्रीकृष्णस्येति गम्यत एव ।। १८ ॥। १९ ॥

Page 218

उज्ज्वलनीलमणिः । १९५

अथ सममध्या- इ्यामे गौरि हरिः क दीव्यति सखि क्षोणीभृतः कन्दरे किं पश्चास्यनखाः स्विक्रममघुर्वक्षोजकुम्भे तव। आकर्षत्यभितः स नागमथनस्त्वामेव कृत्वा रवं मिथ्यालास्यनटि त्वमेव रमसे तस्मिन्सुकण्ठीरवे ॥ २० ॥

गौरीति मिथः संबोधनंमात्रम्। श्यामाह-हरिः क्व दीव्यति। गौरी तु वक्रोत्तया हरिशब्दस्य सिंहवाचकलं ख्यापयन्ती श्रीकष्णं तु न ज़ानामीति व्यजयन्ती प्राह-क्षौणीभृतः कन्दर इति। ततश्च सत्यं सिंहमेव पृच्छामीति व्यज्यन्ती श्यामा सभयाभिनयं प्राह-पश्चास्यस्य सिंहस्य नखास्तव वक्षसि जाते कुम्मे करिकुम्भस्थले स्वविक्रमं किमधुर्नेवा यद्यप्यधुस्तर्हि वस्त्रमुद्धाय्य दर्शय कीदशी व्यथा जाता तस्याश्चिकित्सां यतस्ततः स्पृष्टा करिष्यामीति भावः ।पक्षे अस्य श्रीकृष्णस्य पश्च नखा अत्र कुम्भे इत्येकवचनेन नखानां पञ्चसंख्याकलेन श्रीहरे- र्दक्षिणहस्तेन वामस्तनग्रहणं वामहस्तेन शिरोऽवगुण्ठनापसारणं गम्यते। अन्यो नामास्तु नास्तु वा एतन्मात्रसंभोगस्तवश्यमेवाभूदितिभावः। ततश्र सिंहस्य चरितं यत्पृच्छसि तन्मन्ये तया तन्मुहुरनुभूतमिति व्यज्यन्ती गौरी प्राह- आकर्षतीति। नागमथनो हस्तिदमनस्तेन लामेव हस्तिनीमाकर्षति न तु मां भृगीमिति भाव: । पक्षे नाग: कालियः। रवं मुरलीरवम्। पुनः श्यामा ग्राह- मिथ्यैव लास्यं तन्र हे नटि, अहं हस्तिनी वं मृगीति लदुक्तमेतद्यमपि मिथ्यैवेत्यर्थः । किंतु शोभने कण्ठीरवे सिंहे तस्मिन् लमेव रमसे अतस्तवं भवसि तन्नखस्पर्शेऽपि तव खस्तिमत्त्वादिति भावः । पक्षे लं सुकण्ठी अतो गानविज्ञ-

श्यामे, गौरि, इति मिथः संबोधनक्रमः । तत्र श्याभाह-हरिः क दीव्यति सखीति 1 गौर्याह-क्षोणीभृत इति। तत्र शब्दच्छलं प्राप्य सिंहवाचकेन शब्दान्तरेण परिहसन्ती श्यामाह-किं पञ्चेत्यादि। तत्रास्य पश्च नखा इति तु अतिपाद्यम्। अधुर्धृतवन्तः । पूर्ववत् गौर्याह-आकर्षतीत्यादि। तत्र नागमथनः सिंहः । कालियद्मन इति प्रतिपाद्यम्। श्यामाह-मिथ्येति। मिथ्यैव लास्यं तत्र हे नटि, सुकण्ठीरवे सौष्ठववति सिंहे। सुकण्ठी लमित्यादि तु

Page 219

१९६ काव्यमाला।

अथ सममृद्वी- प्रालम्बमिन्दुमुखि याद्शमेव दत्त कृष्णेन तुभ्यमपरं सखि तादृशं मे। त्वं चेन्मदीयमपि दित्ससि नाद मादा हास्यं विमुश्च चलिता तव पार्श्वतोऽसि ॥ २१॥ अथ लघुत्रिकम्- लघुत्रिकं प्रियसखीसौख्योत्कर्षार्थचेष्टितम् ।२२॥ यंद्यप्यन्योन्यनिष्ठं स्यात्सख्यं तदपि युज्यते। सदा साहाय्यहेतुत्वान्मुख्यं तत्तु लघुत्रिके ।। २३॥। लघुरापेक्षिकी चात्यन्तिकी चेति द्विधेरिता। तत्रापेक्षिकलघु :- आपेक्षिकलघुश्चात्र कथिता ललितादिका॥ २४ ॥

लात्तस्मिन् रवे मुरल्या रवे रमसे॥ २० ॥ प्राणसखी काचित्स समामिन्दुमुखी- माह-प्रालम्बभृजुलम्बि माल्यं मदीयमपीति। यदि मदीयमुत्तमं मन्यसे तदा तदेव लं गृहाण लदीयं निकृष्टमेव मह्यं देहि। सवीयमपि न दास्यसि मदीयमपि दित ससि चेन्मादाः। ननु न दास्यामीति न किंतु मम मनोरथो वर्तते चल पुनः श्री कृष्णनिकटमेव तद्धस्तेनैव तव कण्ठे परिधापयिष्यामीति ब्रुवाणां तामाह- हास्यं मुश्चोभयं लमेव गरहाणेत्यर्थः । तदपि हसन्ती पुनराह-चलितास्मीति । २१॥ लघुत्निकं लघुप्रखरालघुमध्यालघुमृद्वीरूपम् । प्रियसख्याः स्वतोऽघि काया: सख्योत्कर्षार्थमेव चेष्टितं कायिकादिव्यापारो यस्य तत्। अन्योन्यनिष्ठ- मिति। यद्यप्यधिकप्रखराद्या अपि लघुप्रखरादीनां सख्यं कुर्वन्ति तदपि याता- यातं विनैव दूत्यादिकं कदाचिदेवेति न तासु स्वतो लघुष्वधिकानां मुख्यः सखी- भाव इत्यर्थः ॥ २२ ॥ २३ ॥ ललितादिका राधामपेक्ष्य लघुः ॥।२४॥।

प्रतिपाद्यम् ॥ २० ॥ प्र(प्रा)लम्बमृजुलम्बि माल्यम् ॥२१ ॥ 'प्रेमस्विन्नजिते' तदत्र सहसा लोभान्मनो मा कृथाः' इति वा पाठः ॥२२॥२३॥२४॥

Page 220

उज्ज्वलनीलमणिः । २९७

तत्र लघुप्रखरा यथा विदग्धमाधवे- धारा वाष्पमयी न याति विरर्ति लोकस्य निर्मित्सतः प्रेमास्मिन्निति नन्दनन्दन रतं लोभान्मनो मा कृथाः। इत्थं भूरि निवारितापि तरले मद्दाचि साचीकृत- भरद्वन्द्वा नहि गौरवं त्वमकरोः किं नाद्य रोदिष्यसि ॥ २५॥ सा लघुप्रखरा द्वेधा भवेद्ामाथ दक्षिणा। तन्र वामा- मानग्रहे सदोदुक्ता तच्छैथिल्ये च कोपना ॥ २६ ॥ अभेद्या नायके ग्रायः कूरा वामेति कीर्त्यते। तत्र मानग्रहे सदोदुक्ता यथा पद्यावल्याम्- कंचन वञ्चनचतुरे प्रश्चय त्वं सुरान्तके मानम्। ब्रहुवल्लभे हि पुरुषे दाक्षिण्यं दुःखमुद्वहृति॥ २७ ।। मानशैथिल्ये कोपना यथा- सरभसमभिव्यक्तिं याते नवाविनयोत्करे चटुपटिमभिर्नीता मृद्वी प्रसादमघद्विषा।

श्रीराधाया गाढानुरागं प्रकटयन्ती ललिता श्रीकृष्णाग्रतस्तां मानाभासवर्ती श्रीराधामाह-धारेति। प्रेमेति कर्मपदम्। साचीकृतं वकीर्कृतं भ्रूद्वन्ववं यया सा कोपावज्ञानवतीत्यर्थः ॥ २५॥ अभेद्या नायकेनेति गम्यते 1 नायके विषये प्रायः कठिनेति काठिन्यस्य सार्वदिकले ललितादीनां समस्रेहल्ानुपपत्तिः स्यात्। मानस्य सैथिल्यमात्रेऽपि कोपना किमुत त्याग इत्यर्थः ॥ २६ ॥ 'कामपि दक्षिणां यूथेश्वरीं तत्सखी व्रामाह-कंचनेति॥ २७ ॥ नान्दीमुखी पौर्ण- मासीमाह-सरभसेति। नवे नव्ीनेऽविनयोत्करेऽपराधसमूहे । २८॥ ॥। २५॥ नायके प्रायः क्रूरैति । तस्मिन् कठिनैवेत्यर्थ: ॥२६॥२७॥।२८।

Page 221

१९८ काव्यमाला।

विमुखितमुखी भूयो भद्रा हठाज्दुकुटी दघे ।। २८। नायकामेद्या यथोद्धवसंदेशे- कामं दूरे वसतु पटिमा चाटु वृन्दे तवायं राज्यं स्वामिन्विरचय मम प्राङ्गणं मा प्रयासीः । हन्त कान्ता मम सहचरी रात्रिमेकाकिनीयं नीता कुञ्जे निखिलपशुपीनागरोज्जागरेण ।। २९॥. नायके क्रूरा यथा दानकेलिकौमुद्याम्- अमूर्वजमृगेक्षणाश्रतुरशीतिलक्षाघिकाः प्रतिखमिति कीर्तितं सवयसा तवैवामुना। इहापि भुवि विश्रुता प्रियसखी महार्ध्येत्यसौ कथं वदति साहसी शठ जिघृक्षुरेनामसि ॥ ३०॥ यूथेऽत्र वामप्रखरा ललितादाः प्रकीर्तिताः ॥ २१॥

ललिता श्रीकृष्णमाह-काममिति। चाटुदृन्दे चाटुसमूहे। पटिमा पाटवम्। दूरे वसत्विति मदग्रे स्थातुमशक्तेः । मम प्राङ्गणं मा आगच्छेति अहमेवैका लत्प्रतिकूला खप्राज्जणानिःसृत्य कदापि तव राज्ये विघातं न करिष्यामीति विश्व- सिहीति भावः । ननु प्राङ्गण एव राधा तां विना च बहिः किं मे राज्येनेति सत्यं मिथ्यावादिशिरोमणिरसीत्याह-हन्तेति। उज्जागरेण रात्रिं नीतेयं लं तु पशून् पान्ति पालयन्तीति पश्चुप्यो गोप्यस्तासां नागरोऽतः किं ते राधयेति भावः । २९ ॥। ललिता श्रीकृष्णमाह-अमूरिति। प्रतिखं सं खम्। एकैकेति यावत्। अमुना भधुमङ्गलेन कीर्तितं नान्दीमुख्युक्तसूत्रव्याख्याप्रसने। इहापि प्राङ्गणमिति समीपदेशमित्यर्थः ॥२९॥ हे सुन्दरीति सखीमुख्यायाः सेबो- धनम्। प्रियसखी यूथेशाम् ॥३०॥३॥३२॥३॥३४

Page 222

उज्ज्वलनीलमणििः ।

अथ दक्षिणा- असहा माननिर्बन्धे नायके युक्तवादिनी। सामभिस्तेन भेद्या च दक्षिणा परिकीर्तिता ॥ ३२ ॥ तत्र माननिर्बन्धासहा श्रीगीतगोविन्दे- स्न्िग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये। तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥३३ ॥ नायके युक्तवादिनी यथा पद्यावल्याम्- अदोषाद्दोषाद्वा त्यजति विपिने तां यदि भवा- नभद्रं भद्रं वा त्रजकुलपते त्वां वदतु क:।

सर्वाखवस्मासु मध्ये प्रियसखी राधा महार्घा नहि यूथेश्वरी अन्यतुल्या भवितुमर्ह- तीति भावः । साहसीति। चतुरशीतिलक्षमात्रशुल्के कृतेो्कमू - ल्याया श्रीराधाया ग्रहणे राजफूत्कारादपि न किं बिभेषीति भाबः । हे शठेति। 'शठे शाव्यं प्रकुर्वीत' इति न्यायेन वरं राज्ञः सकाशादश्ववारा आने- तव्या इति भावः ॥ ३० ॥ ३१ ॥ ३२ ॥ तुङ्गविद्या कलहान्तरितां श्रीराधा- माह-यद्यतः स्तन्निग्धे तस्मिन् प्रिये श्रीकृष्णे तद्विपरीतधर्मा वं परुषासि तत्त- स्मात् श्रीखण्डचर्चापि विषं तद्विपरीतधर्मकम्। विषवद्दाहकं भवतीत्यर्थः । यथा क्रियते तथा भुज्यत इति न्यायात्। रागिण्यनुरागिणि। क्रीडायां मुदो हर्षा एव यातना: । केलौ यान्येव सुखदानि तान्येव दुःखदान्यभूवन्नित्यर्थः ।। ३३ ॥ रसान्तर्धाने 'दद्दशुः प्रियविश्लेषान्मोहितां दुःखिर्ता सखीम' इत्युक्ते: श्रीकृष्णेन परित्यक्तां श्रीराधां मूर्च्छितां वीक्ष्य काचित्तस्याः सखी श्रीकृष्णमन्वेषठं वनं प्रविश्य प्राप्तं च तमनुनयन्तमुपालभते-अदोषादिति। नय मां यत्र ते मन इति। स्वाधीनभर्तृकाया गर्वस्य समुचितत्वादित्यर्थः । दोषादिति। अहं- कारिणा लया रसिकशेखरेण तद्वचनस्य सोदुमशक्यतया दोषलेनैव गृहीतत्ादि- लर्थ:। व्रजकुलपते इति। जपतेः पुत्रस्वमपि ब्रजकुलस्य पतिरतो दुर्ली-

Page 223

काव्यमाला।

इदं तु क्रूरं मे स्मरति हृदयं यत्किल तया त्वदर्थ कान्तारे कुलतिलक नात्मापि गणितः ॥ ३४॥ नायकभेद्या यथा- न व्यर्था कुरुषे ममैव भणितिं मध्ये सखीनामिति श्रुत्वा ख्यातिमसौ कृती मधुरिपुर्मां बाढमाशिश्रिये। दृष्ट्रा मद्ददनं प्रसीद रभसादेनं पुरः कातर कल्याणीभिरलं कृशोदरि दृशोर्भङ्गीभिरङ्गीकुरु॥ ३५॥ तुङ्गविद्यादिका चात्र दक्षिणप्रखरा भवेत्। अथ लघुमध्या- त्वया रन्वितसंकथां पथि समीक्ष्य मां मानिनी सखी मम विषण्णघीः कृतकटाक्षमाक्षेप्स्यति।

लराजपुत्रस्य तव व्रजस्यापि वधे पालने वा किमभद्रं वा किं पुनरेकस्यास्तस्या वधे। मम तु क्रूरं हृदयमिति विरुद्धलक्षणयोकिः । तथा कुलतिलकेति चात्र कुलपते कुलतिलकेति कुलपदस्य पौनरुत्तयं न मन्तव्यं समूहखगोत्रवाचिलेनार्थ- मेदात्। पद्यमिदं मध्यातगमकमपि त्यजतीति क्रूरमिति गणित इति पदैः ग्रौढि; वादात् प्राखर्ये उदाहृतम् ॥ ३४ ॥ तुङ्गविद्या कलहान्तरितां श्रीराधामाह-न व्यर्थमिति । ममैवेति भानसमये विशाखादय इव्र मानं त्यजेत्युत्कण्ठासमये ललितादय इव मानं कुर्विति लामहं कदापि नावोचमतो ममैव न तु तासा- मित्यर्थः । कृती पण्डितस्तां मत्ख्यातिं परीक्षितुमिति भावः । दृष्ट्रा मद्वदनमिति लयैव दत्तां तां मत्ख्यातिं लमेव चेद्वि्वंसयिष्यसि तदा जन्मपर्यन्तं मन्मुखं म्लानं लां प्रति समौनमेव स्थास्यति। 'संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।' इति नीतेः। अति परामर्शशून्ये तहि किं कर्तुमाज्ञापयसीत्यत आह-एनं पुनः कातरमित्यादि। ततश्र सा. रभसात् पादलमं श्रीकृष्णमश्रुभिरभ्यषिश्चत्! सोऽपि सतपाणिना तन्मुखं संमाज्य चुचुम्बेति ह्ञेय्म्॥ ३५॥ चम्पकलता संचाटकारं श्रीकष़णमाह-त्वयेतिसंकथा संवाद:। समीक्ष्येति स(ख)-

Page 224

उज्जवलनीलमणिः । २०१

न्रजाधिपतिनन्दन त्वमवधेहि मन्नं झ्रुवे विनात्र ललिताश्रयं भवदुपक्रमोऽयं वृथा ॥ ३६ ॥ अथ लघुमृद्दी- सखि तव मुहुर्मूर्धा पादग्रहोऽपि मया कृत- स्तदपि च हरौ जातासि त्वं प्रसादपराडमुखी। भवतु यमुनातीरे वेणोर्निशम्य पराक्रमं विचलितधृतिस्त्वं लोलाक्षी मयापि हसिप्यसे ॥ ३७ ॥ अथात्यन्तिकलघु :- आत्यन्तिकलघुस्तत्र प्रोक्ता कुसुमिकादिका। सर्वथा मृदुरेवेयं यन्नितान्तलघीयसी ॥। ३८ ।।

परिजनद्वारा दूरतः खयमेव वा। आक्षेप्स्यति चम्पकलते को रहस्य उत्कोच: श्रीकृष्णाल्न्ध इत्येवम् । व्रजेति। व्रजस्यानन्ददायिनि पुत्रे लयि सा ललिता गौरवं करिष्यत्येवेति भावः । अवधेहीति युत्त्यन्तरं खहृदयादुत्थितभन्यमुखाद्वा श्रुतं लत्कार्यसाधकं किं न भवेदिति मनसि विचारयेत्यर्थः। मन्त्रं मन्त्रणां श्लेषेण मन्त्र इव खहृदय एव गोप्यः न तु कस्याश्चिदग्रे मन्नामोल्लेखः कर्तव्य इत्यर्थः । ज्रुवे इत्यात्मनेपद्मात्मदोषाच्छादनफलकम्। लामत्र वच्मि विदुषामित्यादिव- दत्र पद्ये ध्वनयोऽन्वेष्टव्याः ॥ ३६ ॥ चित्रा मानिनी श्रीराधामाह- सखीति। मुहुरिति। अपेहि दुर्बुद्धे अपेहीति। तत्कृततिरस्कारभगणयि- ेति भावः । भवत्विति। ससंमतिव्यञ्जकं तवाभीष्टमेव भवतित्यर्थः । यदि वं प्रसन्ना अभविष्यस्तदा तत्कृतं तिरस्कारमप्यहं सत्कारमेवामंस्ये, अधुना तु ततिरस्कारस्य फलमहं मृदुरपि तुभ्यं दास्यामीत्याह-यमुनातीर इति। वेणोरिति। अस्मान् सखीस्तदुपकारेSप्रभविष्णुरनादृत्य सा स्वेणुमेव शरणं सास्यतीति भावः । मम धृतिर्दुजयेति मावादीरित्याह-विचलितेति। कथं ववं धृतेश्चलनं ज्ञास्यसीत्यत आह-लोलाक्षीति। तदानीं तदकणौलोल्यमेव तत्कथयिष्यतीति भावः । ततश्र खयमभिसरिष्यन्ती यद्धसिष्यसे तत्र क: संदेह इति इयं कार्यवशान्मध्यात्वस्पार्शीन्यपि स्वभावतो मृदुरेचेति मार्द्वे उदाहता

Page 225

२०२ काव्यमाला।

यथा- वन्दे सुन्दरि संदिश प्रियसखीं मानं विमुश्चत्वसौ सोत्कण्ठापि मनस्विनीव वसति त्वच्छक्कया वेश्मनि। दूरे त्वन्मुखमीक्षते हरिरयं मौनं शुकः शिक्षते लास्यं नेच्छति चन्द्रकी सवयसः क्ास्मीति न सं विदुः॥३९॥ प्रखरादिष्वन्यतमा यूथेशकव कीर्तिता। मध्यस्था नवधैवान्त्या समा लघुरिति द्विधा॥ ४०।।

॥ ३७॥ कुसुमिका ललितां प्रत्याह-चन्द इति। ननु किं तत्र गला तस्याः पादे निपत्य मया मानत्यागो भिक्षणीयः। नहि नहि अत्रैव स्थिता संदिश। मद्ारा अन्यसखीद्वारा वा संदेशं प्रेरय। तत्रापि वृन्दावनेश्वरीं प्रति न किंतु खसखीं कलावर्तीं प्रत्यसौ राधा मानं विमु्चतु मत्तो मा विभेतु। आज्ञा दत्ता मया प्रतिबन्धिकया न भवितव्यमिति व्यञ्जयेति भावः । सैव तदाज्ञां वदिष्यती त्यर्थः। यतः सोत्कण्ठापि मनखिनीव मानिनीव। किंच लदाज्ञां विना सर्वेषा- मेव दुःखं जातमित्याह-दूर इति । ताण्डविकनामा मयूरः। सवयसः सखायः सख्यश्च। क्वास्मीति प्रत्येकं सवं न विदुः । मूर्च्छिता इत्यर्थ:॥ ३८ ॥ ।। ३९ ॥ यूथेशा आत्यन्तिकाधिकाः । सा क्वचित् यूथे प्रखरा, क्वचिन्मघ्या, क्वचिन्मृद्वीति खयूथापेक्षया एकैव। मध्यस्था आपेक्षिकाधिका, सभा, लघुश्रेति तिस्नः। प्रत्येकं प्रखरामध्यामृद्य इति नव । अन्त्या आत्यन्तिकी लघुः । सा च द्विधा-सभा लघुश्चेति। द्वादशधेति। प्रथमा आत्यन्तिकाधिका यूथेश्वरी नित्य- नायिका। लघुलाभावेन सखीलासंभवादित्यर्थः । मध्यस्था आपेक्षिकाधिकाया नायिका: खतो लघुरपेक्ष्येत्यर्थः । सख्यः स्वतोऽधिका अपेक्ष्येत्यर्थः ।तत्र मध्यस्थितासु तासु तिसषु मध्य इत्यर्थः । आदा आपेक्षिकाधिका नायिका- ॥ ३६॥ ३७॥३८॥३९ ॥ यूथेशा अत्यन्ताधिका अन्यतमा प्रखरा वा मध्या वा मृदुर्वा इत्यर्थः । तस्मादेकैव। मध्यस्था आपेक्षिकाधिका समाश्रापे क्षिकलघवश्च नवधा। अधिकप्रखरा, अधिकमध्या, अधिकमृद्वीति तिलः। तथा समप्रखरा, सममध्या, सममृद्वीति सिस्रः। तथा लचुप्रसरा, लघुमध्या, लघुमद्वीति

Page 226

उज्जवलनीलमणिः । २० ३

एकैकस्मिन्नतो यूथे भिदा द्वादशधा भवेत्। अथ दूत्यार्थमेतासां विशेष: पुनरुच्यते ॥४१॥ दूत्यमत्र तु तद्दूरादयूनोर्यदभिसारणम्। तत्र तु प्रथमा नित्यनायिकैवात्र कीर्तिता । ४२।। स्युर्नायिकाश्च सख्यश्च तिस्रो मध्यस्थितास्ततः। तत्राद्या नायिकाप्राया द्वितीया द्विसमा ततः ॥४२ ॥ तृतीया तु सखीप्राया नित्यसर्येव पञ्चमी। आद्यायां निखिला: सख्यो दूत्य एव न नायिकाः ।।४४।।

प्राया। अस्या: सवाधिका अपेक्ष्य लघुलेनात्यन्तिकादराभावात् खलघुष्घपि नायिकालं प्रायिकमेव । कदाचित्तासामपि प्रेम्णा सख्यकरणसभावादिति प्राय- पदम्। द्वितीया समा द्विसमा द्वयोर्नायिकातवसखीतयोस्तुल्या खसमामपेक्ष्य खप्रीत्या सखीतस्य तत्प्रीत्या नायिकात्वस्य च संभवात्। तृतीया आपेक्षिकलघुः सखीप्राया। अस्याः खलघुरपेक्ष्य नायिकाले किंचिदादरात् स्वाधिकास्पि सखीतं प्रायिकमेव। कदाचित्तासपि तत्प्रीत्या नायिकालसंभवादिति प्रायेति पदम्। पश्चमी आत्यन्तिकलघुर्नित्यसखीति। अस्याः क्वापि लघुनास्तीति नायिकालासंभ- वेन गौरवाभावात् सर्वा अप्यपेक्ष्य सखीलमेवेति नित्यपदम्। पञ्चमीति। आत्यन्तिकाधिकातो गणनेन मध्यस्थासु तिसषु अस्या अन्तःपातित्ासंभवान् प्रथमत एव गणनौचित्यात्। ततश्वैष निर्गलितार्थ इत्यत आह-आद्यायामात्य- न्तिकाधिकायां निखिला आपेक्षिकाधिकाद्याश्चतसत्रो दूलय एव न नायिका: । तस्याः सर्वाधिकत्वात्तदसंभवात् । पश्चम्यामात्यन्तिकलघौ। नायिका एव न दूतिकाः । अस्या: सर्वासरपि लघुलात्। ततश्च द्वितीयातृतीयाचतुर्थ्यः परस्पस तारतम्येन दूत्यो नायिकाश् स्युः ॥४० ॥४१॥ ४२॥।४३ ॥ ४४ ॥। तिस्ः। तदेवमेता नव। अन्त्या आत्यन्तिकी लघुः। सा च द्विधा सभा लघुश्चेकि द्वादशघेति। तत्र तु प्रथमेति प्रथमा आत्यन्तिकाधिका ॥४०॥४१॥४२॥ तत्रादयेति। आदा अधिका। आपेक्षिकाधिकेत्यर्थः। लघुष्वपि कदाचित् सखी स्यादिति प्रायपदम्। द्वितीया समा सा च द्विसमा नायिकाले सखीले च। तृतीया आपेक्षिकी लघुः । नित्यसख्याः पश्चमीलमात्यन्तिकाधिकापेक्षयेति ज्ञेयम्

Page 227

२०४ :काव्यमाला।

पूर्वोक्ता नायिका एव पश्चम्यां न तु दूतिकाः। तत्र नित्यनायिका- यात्र यूथेश्वरी प्रोक्ता सा भवेन्नित्यनायिका ॥ ४५ ॥। अपेक्ष्यत्वादतीवास्या मुख्यं दूत्यं न विद्यते। स्वयौथिक्यसखीमध्ये या यत्रातीव रागिणी॥ ४६ ॥ नियुक्तवास्ति तददूत्ये सुष्ठ सा यूथमुख्यया। तथापि प्रणयात्क्कापि कदाचिद्गौणमीक्ष्यते ॥४७॥ दूरे गतागतमृते यह्ूत्यं गौणमत्र तत्। गौणं हरे: समक्षं च परोक्षं चेति तद्विधा॥४८॥

तत्र समक्षम्- साङ्केतिकं वाचिकं च समक्षं द्विविधं सतम्। तत्र साङ्केतिकम्- तत्राद्यं स्ादृगन्ताद्यैः कृष्णं प्रेर्य खवनिहुतिः॥४९॥

अपेक्ष्यतादादरणीयलात्। नियुक्तवास्ति सखि तयास्या दूत्यं कार्यमिति प्रथमदिन एव निर्दिष्टा सा यथासमयं दूत्यं करोत्येवेति किं तस्योदाहरणप्रदर्शनेन। तदूतयं न मुख्यं नापि गौणमित्यर्थः । एवं च यद्यपि सखीद्वारैव खसखीनां दूत्यं सिद्ध तथापि गौणं यूथेश्वर्या दूत्यं स्वकर्तृकमपीक्ष्यते दृश्यते। स यां (?) निखिलाः सख्यो दूत्य एव न नायिकाः सखीष्वपि प्रणयेन सवसाम्यं दृष्टा दूत्यं विना स्थातु- मशक्तेरिति भावः । दूरे गमनागमनं विनेति निकटे तु कदाचित्सख्या अलक्षि- तेन गमनागमनेनापीव्यर्थः । आदयं सांकेतिकं दृगन्तादयैर्द्ृगन्तभ्रूतर्जनीचालनैः ॥।

4r४३॥४४॥ आद्यायामात्यन्तिकाधिकायां पूर्वोक्ता आत्यन्तिकाधिकाद्या श्वतसः॥ न्नादयन्तयोर्मध्ये आद्यं साङ्केतिकम् ॥ ४५॥४६॥४७॥४८॥४९॥

Page 228

उज्ज्वलनीलमणिः । ३०५

यथा-

प्रियसखि विदितं ते कर्म यत्प्रेरयन्ता त्वमघदमनमक्ष्णा क्षिप्रमन्तर्हितासि। अहह न हि लता: स्युस्तत्र चेत्कण्टकिन्यो मम गतिरभविष्यत्तत्करात्का न वेझि ॥ ५० ॥ इदमधिकमृद्वीदूत्यम्। . अथ वाचिकम्- मिथः पुरो वा पश्चाद्वा वाक्यमेकत्र वाचिकम्।

। ४५॥ ४६ ४७॥ ४८ U.४९ ॥ काचित् श्री कृष्ण कर्तृकं खवसंभोगं खस्मि- ननपलपन्ती खयूथेश्वरीमुपालम्भ(भ)माना प्राह-प्रियेति। ततश्च हन्त हन्त तद्द्यादतिसंभ्रमेणापसरन्त्यास्तव वक्षसि कीदृशं कण्टकैः क्षतं कृतं मत्समीपमे- त्याश्चलमुद्धाव्य दर्शय। मयानभिज्ञया कष्टं प्रापितासि किं कर्तव्यं लय्यतीव लोभतस्तस्यैव प्रार्थनया तथा कृतं तं तु खपुण्येनैव रक्षिताभूः। मा कुध्य नैवं पुनः करिष्यामीति यूथपायाः प्रत्युक्तिर्ज्ञेया ॥ पुरोऽमे मिथः परस्परं वाक्यं वा पश्चादेकत्र वाक्यं वा वाचिकं दूत्यं स्यादित्यन्वयः । अन्र पुर इत्यस्य संबन्धि- पदानुपादानात् कृष्णसख्यो द्वयोरेवेति ज्ञेयम्। वाक्यं तु यूथेश्वर्या एव मिथः शब्दानौचित्यात् श्रीकृष्णेन सार्धमिति ज्ञेयम्। पश्चादित्यत्र तु एकत्रेति पदो- पादानात् कृष्णस्य पश्चात् सख्याम, सख्याः पश्चात् श्रीकृष्णे इति द्विविधं पुरस्ते- कविधमिति त्रिविधं वाचिकम्॥ ५० ॥ श्यामले, नित्यमेव पृष्टा वं नाहं पुष्पाणि लुश्चामीति ब्रूषे तिष्ठ तिष्ठ एकस्मिन् दिने उद्यान एव निहुत्य स्थिला लां सखी- मेव धृल्ा मन्मथराजकारागारस्थां करिष्यामि तदा ज्ञास्यसीति ब्रुवाणं श्रीकृष्णं

अहह नहीति तस्या वाक्यं गोपनमेव न तु यथार्थः। तेन तस्या रहस्यमेव प्रक- टीभूतमिति ज्ञापितम् ॥ ५० ॥ मिथः पुरः श्रीकृष्णसख्योर्द्वयोरपि शण्वतो- रिययर्थः । पश्चादिति। कदाचित् श्रीकृष्णगोचरे कदाचित् सख्या· इत्यर्थः । तदे-

Page 229

:काव्यमाला।

तत्र मिथः पुरः कृष्णे वाचिकम्- मयापलपनं कियत्त्वयि करिष्यते या सखी ममानिशमुपेन्द्र ते कुसुममज्जरीर्लुश्चति। इयं गुणवती करे तव विधृत्य दचाद्य सा यथेच्छसि तथा कुरु खयमितो गृहं गम्यते ॥। ५१॥ इदमधिकप्रखरादूत्यम्। कृष्णस्य पश्चात्सख्यां यथा- मत्कण्ठादिह मौक्तिकानि विचिनु त्वं वीरुदारोधतः स्रस्तान्येष किलास्ति माल्यरचनाव्यासक्तचित्तो हरिः। दिध्या क्षेममुपस्थितं सुमुखि नः सानौ यदस्य च्युतो हस्ताद्वेणुरिति प्रयामि कपटान्निह्रोतुमेनं गिरौ ॥ ५२ ॥ अधिकमध्यादूत्यमिदम्। सख्या: पश्चात्कृष्णे यथा- विचकिलमवचेतुं सा सखी मद्वचोभि: कथमपि तटपुष्पारण्यमेका गतास्ति ।

प्रति श्यामला प्राह-मयेति। अपलपनं मिथ्याभाषणम्। गुणवतीति चौर्य- लक्षणस्य खवगुणस्य सयमेव फलं प्राप्स्यतीति तेन मम किमिति तस्याः साहाय्या- करणे हेतुर्व्यजजितः गुणवतीति नामैव वा ।।५१ ॥ श्रीराधा चित्रामाह- मदिति। नन्वहं श्रीकृष्णाद्विभेमीत्यत आह-माल्येति। तेन श्रीकृष्णस्या- समक्षतवं ज्ञापितम्। ननु लमपि किं न विचिनोषीत्यत आह-दिष््येति । ५२ ॥। राधे, अद्य ते सर्वा एव सख्योऽनुभूतमाधुर्या अभूवन् चित्रा न दृश्यते सा क्वेति पृच्छन्तं श्रीकृष्णं श्रीराधा प्राह-विचकिलेति। विचकिलं मल्लिकां तयोरेकत्र वाक्यं वाचिकं दूत्यं भवति ॥ कियत् करिष्यत इति। यत् कृतं तत कृतमेव परतस्तु न कर्तु शक्यत इति भावः ॥ कृष्णस्य पश्चादिति तस्मिन् एण्वतीत्यर्थः ॥ ५१॥ हस्ताद्वेणुश्युंत इति। एतत् क्षेममुपस्थितं तस्मात् प्रयाभीत्यादि। उपागतमिति वा पाठः ॥ ५२ ॥ विचकिलं महिकाम् ॥

Page 230

उज्ज्वलनीलमणिः । १०७

अघहर मम गेहाद् यान्तमभ्यर्थये त्वां पुनरियमतिमुग्धा न त्वया खेदनीया। ५३॥ अथ हरे: परोक्षम्- तत्परोक्षं हरे: सख्याः सखीद्वारा यदर्पणम्। व्यपदेशादिना वापि तत्पार्श्रे प्रेषणादिकम् ॥५४ ॥ तत्र सखीद्वारा यथा- रुद्धां विद्धि गुरोर्गिरा शशिकलामात्मद्वितीयामत- स्त्वामुद्यम्य नयामि शर्मणि सदा जागर्ति ते राघिका। भृङ्गा: सुभ्रु तदङ्गसौरभभरैराकृष्यमाणाः क्रमा- त्पन्थानं प्रथयन्ति ते कुरु पुरः कुञ्जप्रवेशे त्वराम्॥ ५५॥

चचोभिरिति बहुवचनेन तत्कर्मण्यपि सा लद्धयात् प्रायो न संभतासीदिति भावः। कथमपीति। मया तस्या दूत्यमेव कृतमिति भावः। एकेति तदर्थमेव काचित् सङ्विन्यपि तस्यै न दत्तेति भावः । अघहरेति। तस्याः कंदर्पशरज्वाला भद्रेणैव निर्वापणीयेति भावः । 'अंहो दुःखव्यसनेष्वघम्' इत्यमरः । पुनरिति संभोज्यापि सा न त्यक्तव्येति भावः ॥ ५३ ॥ तत हरे: परोक्षं दूत्यं भवति यत्सखीद्वारा सख्याः समर्पणम्। अर्थात् हरये इत्यर्थः ॥ ५४ ॥ ं चाहं च वृन्दावनेऽद चन्द्रिकां पश्यावेत्युक्ला मामेतावहूरं तमानैषीः, चन्द्रिकां दृष्ट्ापि पुनः कुजगह्न- रमार्गे चन्द्रिकारहिते याहि पुरः पुरो याहीत्युक्ता मां कुत्र निनीषसीति सशकं पृच्छन्तीं रङ्गदेवीं कलावती प्राह-रुद्धामिति। आत्मद्वितीयां लत्सखरीं सदा लामभिसारयित्रीमित्यर्थः । नयाम्यभिसारयामि। ननु विश्वासघातिनी खदाज्ञा- कारिणीमेव मां वं किमवैषि अहं तु परावृत्य गरृहमेव यामीत्यत आह-शर्म- णीति । विरुद्धलक्षणयेद्कू लद्विडम्बनलक्षणे लदकल्याणे राधा सदैव जागर्ति न कदापि खपितीति सैव विश्वासघातिनी। लद्वैरिणीत्यर्थः । अहं तु तदाज्ञयै- बैवं करोमीति भावः। भवतु लदभिमतमेव करोमि किंतु तगा लं मे सजिनी दत्तासि कथमिति एव विच्युता बुभूषसि अग्रे अग्रे चलेति साकूतं ब्रुवाणां तां

Page 231

२०८ काव्यमाला।

अथ व्यपदेश :- व्यपदेशो हरौ लेखोपायनाद्यर्पणक्रिया। निजप्रयोजनाश्चर्यदर्शनादिश्च कीर्तितः ॥५६॥ तत्र लेखव्यपदेशेन यथा- दूतीपद्धतिमुद्धते परिहर त्वं साचि किं प्रेक्षसे वामाक्षि स्यमाहृतं प्रियसखीलेखं पुरो वाचय। शय्या पुष्पमयी निकुञ्जभवने सौरभ्यपुञ्जावृता मृद्दी त्वामियमाह्यत्यलिघटाकोलाहलव्याजतः ॥ ५७॥

प्रत्याह-भृङ्गा इत्यादि। इतो भृद्गा एव तव सज्विनः, एतेषां पश्चात् पश्चात् याहि हे सुभ्रु, भ्रुवं शोभनां कुरु तव मङ्गलं फलतीति भावः । ततश्व तयोः संलापकलहेन श्रुतेनैव रङ्गदेवीं नायिकां ज्ञाला कुजननिःसत्य श्रीकृष्णस्तामेव जग्राह कलावतीं हर्षयामास चेति ज्ञेयम्। अत्र खयौथिकसखीमध्ये या यत्रैका- जुरागिणी नियुक्तास्ति तन्रत्ये सुष्रु सा यूथमुख्यैवेत्येतद्वारणार्थमेवात्र श्लोके रुद्धां विद्धीत्याद्युपन्यासो ज्ञेय: ॥ ५५ ॥ अहं पत्रहारी श्रीराधाया दूत्यस्मि किमिति मयि लाम्पव्यं तनोषि। दूत्यः प्राणान् वरमर्पयन्ति न तु तनुमिति दूतीखभावं जानास्येवेति संभ्रान्तां रसालमञ्जरीं श्रीकृष्णः प्राह-दूतीपद्धतिमिति। दूत्या व्यवहारं परिहर मुश् हे उद्धते, किमिति व्यधिकरणं ब्रूषे। लं दूती न भवसीति भावः । यदि न प्रत्येषि तदा प्रियसखीलेखं श्रीराधाखवहस्तलिखित पत्रं लमेव वाचय। स्यमाहृतमिति भावः । नात्र मया किमपि कापव्यं सृष्टमिति भावः। पत्रं चेदं सर्व मे प्रथयिष्यति रसालमज्रीयं यान्ती खत्सविधे। अद्य वनप्रिय कृष्ण, न मे लुम्प हा धर्ममिति। अत्र तव रसालमञ्जरीतं मम वन- प्रियतं चेतयेवार्थान्तरं स्पष्टमेवापलपतीति लयैव विचार्यताम्। धर्ममधर्मं वा मा ुम्पेत्यर्थद्ूयमप्यवास्तवम्। किंतु धर्म खपरिजनदूत्यलक्षणमित्येव तथा सर्वपरि जने प्रेमवत्त्वमित्येवार्थः सत्य इति। ततश्च तां पराजितां हस्ते गृहीला। रय्ये-

Page 232

उज्ज्वलनीलमणिः । २०९

उपायनव्यपदेशेन यथा- प्रसीद वसनाञ्चलं मम विमुञ्च निर्मञ्छनं व्रजामि ननु निर्दय स्फुरति पश्य संध्योर्जिता। विदेत्यपि तवोन्नतं गुणमुपाहरं मदन्धीः स्जं प्रियसखीगिरा चलेमते न ते दूषणम्॥५८॥ निजप्रयोजनव्यपदेशेन यथा- मुक्तावली निशि मया दयिताकदम्ब- वाटीकुटीरकुहरे सखि विस्मृतास्ति। तामाहरेति वृषभानुजया नियुक्ता तां प्रोज्झ्य किं शशिकले गृहमागतासि ॥ ५९॥

त्यादि॥ ५६ ॥५७॥ ग्रहीतवस्त्रं श्रीकृष्णं प्रति रतिमञ्जरी प्राह-प्रसीदेति। हे निर्दय, अहं संप्रत्यसुस्थशरीरास्मीति भावः। सन्घ्योर्जिता सन्ध्याया मध्यभाग एवायमित्यर्थः । अत्र सन्ध्योर्जिता इत्योजोव्यअकवर्णोपन्यासो घोरत्ज्ञापनाय नानुपपन्नः । तदप्यपरित्यागिनं तं ममैवायं दोष इत्याह-विपद्य(दत्य)- पीति। विदती जानती गुणमिति विरुद्धलक्षणया मन्दघीः प्रियसखीगिरोऽय- मर्थ इति बोद्धुमसमर्था। ्रजपतिसुत इति वक्तव्ये भयसंरम्भसंभ्रमक्षोभवशाद्व- जपते इत्येव मुखान्निःसृतमिति ज्ञेयम् ॥५८ ॥ ललिता शशिकलां सनर्माह- मुक्तावलीति। ततश्च सा यथा मुक्तावल्यर्थ मां न्ययुङ्क तमपि तथैव मां

॥ ५३ ॥ संध्योर्जिता इत्यन्र 'संध्याहवे' इति 'व्रजपते' इत्यत्र 'चलमते' इति वा पाठः । न ते दूषणमिति सरलार्थपक्षे लचलमते इत्यकारप्रश्लेषः कार्यः ।५४॥ ५५ ॥५६ १५७ ॥ ५८॥ सकलरत्नानीत्यन्र स इति पक्षे पृथक्

१. 'विपद्यति' इति. २. 'ब्रजपते' इति च ग-पुस्तके पाठमेद :. १४ उज्व०

Page 233

२१० काव्यमाला।

आश्चर्यदर्शनव्यपदेशेन यथा- सखि व्यालीं वक्रे घुमणिपटलं कण्ठसविधे दघच्चन्द्रान्मूर्धोपरि सकलरलानि वमति। अलिश्यामो हंस: स्फुटमिति मदुक्त्यासि चलिता तदाश्चर्य द्रष्टुं किमिव कुपितेवात्र मिलसि ॥ ६० ॥ अथ नायिकाप्रायात्रिकम्- आपेक्षिकाधिकानां यत्तिसृणां लघुषु स्फुटम्। कदाचिदेव दूत्यं ता नायिकाप्रायिकास्ततः ॥६१॥

पृच्छसि नमो युवाभ्यामिति तस्याः प्रत्युक्तिर्ज्ञेया ॥ ५९ ॥ सोपकण्ठमागत्योप- विष्टाः श्यामलाप्रभृतीः कृतचरं खसख्यां दूत्यं ज्ञापयन्ती श्रीराधा तां परिह- सन्त्याह-सखीति। व्यालीं सपीम्। पक्षेऽतिशयोत्त्या कुलाङ्गनादर्शनसाघ्- र्म्यान्मुरलीम्। द्युमणिपटलं सूर्यसमूहं पक्षे कौस्तुभम्। चन्द्रान्, पक्षे चन्द्रकानू। सकलरन्नानि सर्वानेव चिन्तामण्यादिमणीन्, पक्षे स श्रीकृष्ण: कलरन्ानि मधु- रास्फुटसुन्दरशब्दान् वमति, पक्षे वक्ति। अलिरिव श्यामो हंसः सरस्तटवर्ति- लात, पक्षे श्रीकृष्णः । अद्य मया सरसि दृष्ट इति वाक्यशेषस्यासमापनमाश्चर्यों- त्थसंभ्रमाभिनयवशात्। कुपितेवेत्यत्र इवशब्दस्तस्याः किंचित् श्रीकृष्णसज्ञौ- त्सुक्यं सूचयति। तथैव वक्ष्यते-'आसां मध्ये भवेत्काचिन्नायिकाले दरो- त्सुका । तस्मिन्ननाग्रहा काचित् सख्यसौख्याभिलाषिणी ।I' इति। ततश्च स हंसो गला मया दृष्टो धूलौ लुठन् मूर्च्छोत्थितो राधा राधेति निनदन् पृषश्व तां दुरवस्थां मां प्रत्यब्रवीत। राधयैव भदुपरि कमलधूलिक्षेपेणाहमुन्मादितस्तयैव चेजीवयिष्ये तर्हि जीवामीति ततोऽहं तुभ्यमधुना कुप्यामि कथं लं तथा कृला विलम्बसे शीघ्रं गल्ा जीवयेति तस्याः प्रत्युक्तिर्जेया ॥ ६० ॥ आपेक्षिकेति।

पदम्। शरेषाखु ज्ेयाः ॥५९॥६०॥ आपेक्षिकाधिकानां तिस्णां यद्यसाद

Page 234

उज्ज्वलनीलमणिः । २११

तत्राधिकप्रखरादूत्यम्- पाणौ मे पतितासि शम्भलि चिरादत्याकुलं मा कृथाः काकुं ते करवाणि निष्क्रयमहं शीर्णाभिसारैः सदा। त्वं दिष्याद्य निकुञ्जसीमनि समानीता किमु स्तम्भसे मुक्तास्त्वत्कुचकुम्भगाः क्षपयतु श्यामः स सिंहीपतिः॥६२॥ अथाधिकमध्यादूत्यम्- व्यथयसि सदा मां वाग्भन्या शनैरनुशिष्ययं छलयसि च मां भ्रूनर्तक्या विनुद्य यमुद्धतै।

कथ्यन्त इति शेषः ॥। ६१ ॥। ललिता सतो लघुं सखीं प्रत्याह-हे शम्भलि, आकुलं यथा स्यात्तथा काकुं निष्कयं बहुधा लया दत्तस्य मत्कष्टस्य परिवर्तम्। तदेव स्वकष्टं सूचयन्त्याह-शीर्णेति। अभिसारैस्तयैव निष्पादितैरिति भावः। स्तम्भसे किमिति स्तब्धीभवसि। यददतं तद्भुज्यत इति न्यायेन तुभ्यमहं प्रतिफलं ददाम्येव का लयि मे दयेति भावः। क्षपयतु तत उत्कृत्येतस्ततो विकिरतु। स दप्तो हरिरिति श्िष्टमनुक्ता सिंहीपतिरित्यतिशयोक्तिस्वीकारेण तस्यातितारुण्यद्यो- तनया लामधिकं सुरतैर्व्याकुलयिष्यतीति ज्ञापितम्। किंवा वं हस्तिन्यप्यद्य सिंहीसाधर्म्य लप्स्यसे। यद्वा स सिंहीपतिरपि स्त्रीमात्रलाम्प्यात्त्वयि हस्तिन्या- मपि रमताम् सर्वथैव सुरताधिक्यं विवक्षितम् ॥। ६२ ॥ विशाखा स्तो लघुं सखीं कांचिव्याजेन श्रीकृष्णसमीपमानीयाह-व्यथेति। यं वाभ्भक्यानुशिष्य शिक्षयिला मयि प्रेर्येत्यर्थः । मां व्यथयसि खेदयसि व्यथावतीं करोषीति

लघुषु कदाचिदेव दूत्यं स्यात् तत्तस्मात्तिस्रो नायिका उच्यन्ते ॥ ६१॥ अम्भली दूतीमेदः। आकुलं यथा स्यात्तथा काकुं मा कृथाः। निष्कयं खस्मिस्तत्कृतस्य खेदनस्य परिवर्तम्। अनेनाभिसारैरित्यत्र लत्कृतैरित्येव लभ्यते। समानीतेत्यत्र मया नीतेति वा पाठः। वास्तवार्थे सिंहीपतिरिति रूपकम्। किंतु सिंह इत्यनुक्ला सिंहीसदृशीनां पतिरिति प्रतिपाद्य तस्य तादृशचेष्टिते प्रागल्भ्यं दर्यति ॥६२॥ अनुशिष्य शिक्षयिला । उपलम्भितः प्रापितः । उपयापित इति वा पाठः ।

Page 235

२१२: काव्यमाला ।

अयमिह वशीकृत्य खैरी मयाप्युपलम्भित- स्त्वयि वितनुतां कृष्णः पझ्मी स पझ्मिनि विञ्रमम् ॥ ६३॥ अधिकमृद्वीदूत्यम्- अनुदिनमभिसारं कारितास्मि त्वयाहं कुसुमितरविकन्यातीरवन्याकुटीषु। सकृदहमकृतज्ञा त्वां पुरः कुञ्जमध्ये यदियमुपनये का निष्कृतिस्ते ततोऽभूद्॥ ६४ ॥

वा। व्यथात्राधरस्तनादौ क्षतसंबन्धिनी जेया। तथा लमत्रैव पुष्पाणि चिनु श्रीकृष्णोऽत्र नायास्यति यदि वा आयास्यति तदप्यहमेव लां रक्षिष्यामि धर्मस्यैव सपथ इति मयि विश्वासमुत्पाद्य पुनर्भ्रूनर्तक्यायं विनुद्य कृष्ण, निःशङ्कमेवास्या अद्गानि स्पृश अहमेव ते सहायेति भ्रूनर्तनेनोपदिश्य मां छलयसि वश्चयसि। अयं श्रीकृष्णो मया वशीकृत्य लयि प्रापितः, लया बहुधा कृतस्य दौरात्म्यस्यै- कचारभपि परिशोधनं कर्तुमुचितमिति भावः। खैरी यद्यपि सच्छन्दचारी। लामनिष्टाम्। मामेवेच्छतीत्यर्थः । तेन वक्तव्यायाः सख्या लघुतं ज्ञाप्यते। किंचास्य स्वैरिले तङ्गरेव कारणमिति व्यजितमपि सवसौभाग्यमपलपितं ज्ञेयम्। पद्मी हस्ती। विभ्रमं विलासम्। हे पद्मिनीति तत्रौचित्यम्। श्लैषेण हे कमलिनीति सुरताधिक्यं च द्योतितम् ॥। ६३ । पुष्पाहरणनि- देशेन मां गहादानीय संप्रति कुञं प्रविशेति यद्रषे तत्किं मामभिसारयसि हन्त हन्त किंकर्यहं तया किमभिसारयितुमुचितेति विनयवतीं कांचित् सखीं चित्राह-अनुदिनमिति । निष्कृतिः प्रत्युपकारः ॥ ६४ ॥

छलयसि पूर्व निःशङ्कतां व्यज्य पश्चात्तद्वारा कदर्थयसि सोऽयमित्यन्वयः । अय- मित्यत्र दुतमिति वा पाठः । पझ्मी हस्तिवर्यः । हे पद्मिनि ॥ ६३ ॥ ते इति कर्मण' षष्ठी। निष्कृतिः प्रत्युपकारः । 'अनुदिनमभिसारं कारिताहं तया या हरिमनु रविकन्यातीरवन्याकुटीषु। सकृदियमकृतज्ञां लां तदीयं समीपं समनयमिह

Page 236

उज्ज्वलनीलमणिः । २१३

अथ द्विसमात्रिकम्- समानां प्रखरामध्यामृद्वीनां तु परस्परम्। दूत्यं च नायिकात्वं च समं ता द्विसमास्ततः ॥६५॥ तत्र समप्रखरादूत्यम्- प्रागेकान्तरमेव निश्चितमभूदन्योन्यदूत्यं हि नौ वारस्तत्र तवायमस्तु करवै दूत्यं तथाप्यद्य ते। भ्रूभङ्गं सखि मुञ्च मण्डय तनुं यद्याचते मामसौ सव्या ते स्फुरती दृगदय मृगये गोष्ठाङ्गणे माधवम् ॥ ६६ ॥ अथ सममध्यादूत्यम् त्वं न्यस्तासि मुरद्विषः शशिकले पाणौ मया गभ्यते दूती हन्त तवाहमेव कमले किं विस्मृषा जल्पसि। इत्यन्योन्यविलक्षणप्रणयितामाघुर्यमुग्धो हरि- र्दोर्भ्या ते हृदये निधाय युगपत्पश्योन्मदः खेलति॥ ६७॥

समं तुल्यं स्यात्ततो हेतोस्ता द्विसमाः ॥६५॥ यूथेश्वर्याः परस्परं समाः सख्यस्तयैव परस्परदूत्ये सदा नियुक्ता एव स्युः। सयौथिकसखीमध्य इतिवत् तन्र समप्रखरयोः सख्योरेका द्वितीयामाह-प्रागिति। एकान्तरमेकदिनान्तरम्। एकान्तरोप- वासवद्दिनपदं विनापि तदर्थप्रतीतिः, एकमेकतरं दूत्यमन्तरं व्यवधानं यत्र तदिति वा तद्गणकमेण यद्यप्यद्यतनो वारोऽवसरो मम तथापि तवास्तु। अत्र कारण तत्पितुर्गेहात् सुगन्धव स्रा लंकारभक्ष्यभोज्यादिसाभग्री श्रीकृष्णोपभोगयोग्या तस्मि- नेचाकस्मादागतेति तदर्थ तस्याः खाभिसारौत्सुक्यमन्तर्मनस्युत्थितमिति द्वितीययां सहसावगतमिति ज्ञेयम्। यद् यस्माद् याचते तस्मादहं माधवं लदर्थ मृगय इति । ६६ ॥ रङ्देव्या: सख्योः कमलाशशिकलयोरुक्तिप्रत्युक्ती। रतिमज्जरीं रूप- मज्जरी दर्शयति-त्वं न्यस्तेति॥ ६७ ।। समयोः सख्योः पारस्परिकवचनस्य कास्मिन्निष्कृतिस्ते मया(मा)स्ति ।।' इति वा पाठः ॥६४॥६५॥ एकमेकतरं दूलन्तरं व्यवधानं यत्र तद्था स्यात्। वारोऽवसरः । तस्माद्ोष्ठस्याङ्गणे निकट- देशे माधवं मृगये ॥। ६६ ।। अहमेव तव दूती न तु ं मम दूतीत्यर्थः ॥ ६७ ॥

Page 237

२१४ काव्यमाला।

यथा वा- क मालतिकयार्पिता चलसि माधवि त्वं मम क माधविकयार्पिता त्वमपि यास्यलं मालति। असंभवसहोद्गमे रहसि कृष्णभृङ्गो युवा युवामिह घयन्नयं वहतु कंचिदानन्दथुम् ॥ ६८ ।। अतीवाभेदमधुरं सौहदं सममध्ययोः। विरलं शक्यते ज्ञातुं किंतु प्रेमविशेषिभिः ॥६९॥ अथ सममृद्दीदूत्यम्- द्रुतमनुसरन्मन्दाराक्षीं मुकुन्द निवर्तय व्रततिनिभृतं या कुञ्जान्तःकुटीमुपनीय माम् ।

माधुर्यमुदाहृत्य तत्र श्रीकृष्णस्यापि तदाह-यथावेति । विशाखायाः सख्यौ माधवीमालत्यौ परस्परदूत्यकारिण्यौ प्रति श्रीकृष्ण आह-क्ेति। हे माधवि, वं भम मदीया क चलसि। कुतोऽहं लदीयेत्यत आह-मालतिकयार्पिता हे कृष्ण, इयं माधवी सखी तुभ्यं मया दत्तेति। अनया दत्तत्ादित्यर्थः। एवं हे मालतीत्यादि। युवां धयन् पिबन्। कीदृश्यौ। असंभवः सहैवोद्मो ययोः। तेन हि द्वे नायिके रहस्येकदैव नायकमुपगच्छत इत्यर्थः । पुष्पपक्षे नहि माधवी- मालत्यौ वसन्तशरद्विकासिन्यावेकदैव भृङ्गः पिबतीति कविमर्यादेवान्र आ्ह्या। लोकमर्यादायां तु वसन्ते माधवीमालत्यौ पुष्पाणि धत्त एव ॥ ६८ ॥। श्रीकृष्णो मन्दाराक्षीनाम्रीं श्रीराधासखीमाह-द्रुतमिति । इतमनुसरन् पश्चाद्गच्छन् सनू लमेव निवर्तय। अहं तु मृदुत्वात्तस्या दूत्यपि तां निवर्तयितुं न शक्ष्यामीति भावः । मां कुटीमुपनीयेति। महूत्यं मृषैव कृतवेति भावः ॥ सखीवाक्येनेति। यस्यां दूत्यमकार्षीः सा तव सख्येव तहूत्यं करोतीति मम को दोष इति भावः। क मालतीति। श्रीकृष्णवाक्यम्। मम मयि असंभवसहोद्रमत्वं पुष्पपक्षे कविसंप्रदायानुसारेण मालत्याः शरदि माधव्या वसन्ते पुष्पितलात् युगपद प्रकाशलक्षण उदयो नास्तीति ॥६८| ६९ । v । ७ | ७२ ॥ ७३ ॥

Page 238

उज्ज्वलनीलमणिः । २१५

इति तव सखीवाक्येन त्वामहं सुखमाह्वये स्फुरति हि मुहुर्मध्ये तिष्ठन्विधुः समतारयोः ॥७0॥ अथ सखीप्रायात्रिकम्- लघूनां प्रखरामध्यामृद्वीनां प्रायशः सदा। दूत्यं भवति तेनेमा: सखीप्रायाः प्रकीर्तिताः।७१॥ तत्र लघुप्रखरादूत्यं यथा गीतगोविन्दे- त्वां चित्तेन चिरं वहन्नयमिति श्रान्तो भृशं तापितः कंदर्पेण च पातुमिच्छति सुधासंबाघबिम्बाधरम्। अस्याङ्कं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव- क्ीते दास इवोपसेवितपदाम्भोजे कुतः संत्रमः ॥ ७२॥

नन्वेकदैव द्वे नायिके एकस्मिन् रहो गृहान्तर्नायको रुन्धे इति कुत्रत्यो विचार इत्यत आह-स्फुरति हीति। तेनादैकस्यामेव शय्यायां युवयोर्मध्ये शायिला कांचिच्छोभामेव प्राप्स्यामीति भावः ॥ ६९ ॥ ७० ॥ लघूनामापेक्षिकलघूनाम्। प्रायग्रहणादात्यन्तिकाधिकया आपेक्षिकाधिकया वा। कदाचिदस्या दूत्ये कृते पूर्वपूर्वोक्तयुत्त्या नायिकापीयं भवति॥ ७१॥ तुङ्गविद्या श्रीराधां प्रत्याह- त्वामिति। अयमिति। श्रान्तस्तव सुधाव्याप्तं बिम्बाधरं पातुमिच्छति। श्रमकारणमाह-ां चिरं वहन्निति। खववाहनायेति श्रान्ताया हारादिकं दीयत एवेति न्यायस्तन्रापि कंदर्पेण तापितः पश्चभिर्विषबाणैरित्यर्थः । अतस्तापितोऽप्य- तिश्रान्तोऽपि लां वहन्नेवास्तीति पश्यास्य प्रेमदार््यमिति भावः। ननु कन्दर्पेण तापने को हेतुस्तत्र तदेवाह-त्वां चित्तेन चिरं वहन्निति। तस्यायमभि- प्रायः-चित्तं मम जन्मभूमिस्तेन कथमिमां वहसि, चेद्धद्रमिच्छसि तदेनां परि- त्यज्य किंवा वक्षसि वहेति, अस्य तु लद्वहनव्रते प्रौढिरेवाभूत वरं कष्टैः प्राणां- स्त्यक्ष्यामि तदपि वहन्नेव स्थास्यामीति। तस्मादहमुद्दूतदया लत्सखी लां प्रार्थ- येऽस्याङ्कमलंकुरु। लामसौ वक्षसा वहत्त्यर्थः। कन्दर्पोऽपि प्रसीदतु दाहश् प्रशाम्यतिति भावः । ननु पूर्व 'याहि माधव याहि केशव-' इत्यादिना परुष-

Page 239

२१६ काव्यमाला।

अथ लघुमध्यादूत्यम्- किमिति कुटिलितम्रश्चण्डि वृत्ताद्य सद्य- स्त्वमिह कुसुमहेतोः सौहृदादाहृतासि। व्रज नरपतिपुत्रं सन्तमन्तर्निलीय प्रियसखि तटकुञ्जे हन्त जाने कथं वा ॥ ७३॥ अथ लघुमृद्दीदूत्यम्- कुञ्जगेहमवगाह्य माधवं सुप्तमत्र सिचयेन वीजय। फुल्लमिन्दुकिरणैः कुमुद्वतीकोरकप्रकरमाहराम्यहम्॥। ७४॥

मुक्ते तदपि प्रिये चारुशीले इत्यादि चाटशतं कुर्वाणेऽपि प्रसादमनाविष्कुर्वत्यहं संप्रति लज्जासाध्वसाभ्यां संभ्रान्तास्मीत्यत आह-भ्रक्षेपति । अयमर्थः । खन्जुक्षेपसंपल्लेशमेव खमूल्यं प्राप्यानेन खात्मा विक्ीतः, तया तु संपूर्णैव भ्रूक्षेप- संपद्दत्तेति ऋणीकृत्य मूल्यकीताद्दासादप्ययं न्यूनीकृतः; अत एवेवशब्दः। किंच कि वत्तव्यं तवौदार्यमित्याह-उपसेवितेति। अयं दासोऽपि भवितुं योग्यतां न धत्ते तदपि खद्दत्ते पदरूपेऽम्भोजे उपसेवितवान् खनासाभ्यामाधिक्येनाघ्रात- वान्। अम्भोजयोः सेवा घ्राणमेवेति युक्तिः। अतः पुनरपि लं पादौ प्रसारय पाणिभ्यामयं तौ धुत्ा जिघ्रतु तदलक्तरसेन खालकानप्यलंकरोव्वति गूढः परि- हासध्वनिः। एवं क्रमेणाधरं पायय संपरिरम्भय रमय चेति प्रार्थनात्रयम्॥७२॥ विशाखा श्रीराधामाह-किमिति। सौहदादिति। दक्षिणां न ददात्यब्राह्मणं च करोतीति न्यायः प्रत्यक्षीकृत इति भावः । अन्ये ध्वनयोऽत्र स्पष्टा एव ॥। ७३ ॥। शैब्या चन्द्रावलीमाह-कुक्जेति। आसामापेक्षिकाधिकानां तिसृणाम्। दरा- ग्रहेति। आग्रहोडयं यूथेश्ववर्या आग्रहानुरोधेनैव मन्तव्यः । अस्या आग्रहश् द्विविधः । स्वकान्तपूर्त्युत्पादनहेतुकः, खसखीविषयत्नेहहेतुकश्च। सख्योऽपि द्विविधा :- श्रीकृष्णस्यातिलोभनीयगात्राः, नातिलोभनीयगान्नाश्। तत्र प्रथमासु प्रथम एवाग्रहः, द्वितीयासु द्वितीय एव। सुकुमार्यानया खकान्ताय कामसमुद्राय संपूर्णरतिदानासमर्थया तदर्थ वयमपि नियुज्यामहे तदस्याः साहाय्यं कुर्म इति नायिकाले प्रथमा ईषदाग्रह्वत्यो भवन्ति। द्वितीयास्तु स्वेषु श्रीकृष्णलोभस्या-

Page 240

उज्ज्वलनीलमणिः । २१७

आसां मध्ये भवेत्काचिन्नायिकात्वे दराग्रहा। तस्मिन्ननाग्रहा काचित्सख्यसौख्याभिलाषिणी ॥७५॥ तत्राद्या यथा- लेखामाहर नीपकुञ्जकुहरात्वं चन्द्रकाणां मया न्यस्तानामिति मद्विरा सरभसं स्मेरा स्वयं प्रस्थिता। तामुन्मुच्य मदीरितां शशिकले किं चन्द्रलेखाशतं चेलेनावृतमन्यदेव दधती लब्धासि नम्रा गरहम् ॥ ७६॥ द्वितीया यथा- मां पुष्पाणामवचयमिषाद्वन्दशो मा प्रहैषी- र्वृन्दारण्ये परमिह भवद्दुःखभीत्या प्रयामि। .सत्यं सत्यं सुमुखि सखितासौर्यतस्ते मम स्या- न्नस्वादीयानघविजयिनः केलिशय्याधिरोहः॥ ७७॥ अथ नित्यसखी- सख्येनैव सदा श्रीता नायिकात्वानपेक्षिणी। भवेन्नित्यसखी सा तु द्विघैकात्यन्तिकी लघुः ॥७८ ॥ आपेक्षिकलघूनां च मध्येऽन्या काचिदीरिता।

ल्पतां जानत्यः स्वैस्तादृशसाहाय्यानतिसंभवं मन्यमानास्तां तत्सखीश्च सौभाग्या- धिकाः खप्रयतैः श्रीकृष्णेन संभुज्यैव तां सुखयितुमिच्छन्त्यो नायिकालेन आग्र- हवत्यो न भवन्तीत्याह-तस्मिन्निति ॥ ७४ ॥ ७५ ॥ ललितादिसखीं श्राव- यन्ती श्रीराधा शशिकलां परिहसन्त्याह-लेखामिति। लेखां श्रेणीम्। अत्र सरभसेति पदत्रयं तस्या नायिकाताग्रहं सूचयति। नम्रति। चन्द्रकाणामे- कैव लेखा आनेतुमुक्ता। या तु लेखाशतमानीतं तदपि किं लज्जसे किंतु प्रगल्भस्ये[वे]ति भावः ॥ ७६॥ यूथेश्वर्या दूत्यमसहमाना काचित्तामाह- मामिति। वृन्दशो बहुशः । वारंवारमित्यर्थः ॥ ७७ ॥ ईरिता पूर्वमुक्ता। ॥ ७४ ॥ ७५ ॥ ७६ ॥ वृन्दश इति वारंवारमित्यर्थः ॥ ७७॥

Page 241

२१८ काव्यमाला।

यथा त्वया यदुपभुज्यते मुरजिदङ्गसङ्के सुखं तदेव बहु जानती ख्यमवाप्तितः शुद्धघीः । मया कृतविलोभनाप्यधिकचातुरीचर्यया कदापि मणिमञ्जरी न कुरुतेऽभिसारस्प्हाम्॥। ७९॥

यथा वा-

चातुर्योत्तरमेव सेवनमहं गोविन्द संप्रार्थये। येनाशेषवधूजनोद्भटमनोराज्यप्रपञ्चा वघ्ीा नौत्सुक्यं भवदङ्गसंगमरसेऽप्यालम्बते मन्मनः ॥ ८० ॥

'तस्मिन्ननाग्रहा काचित्। सख्यसौख्याभिलाषिणी ।' इत्युक्ता या सा कापि नित्यसखीत्यर्थः ॥ ७८ ॥ मणिमञ्जरीमभिसारयेति श्रीराधया नियुक्ता काचिव सखी तां युक्त्याप्यभिसारयितुमसमर्था परावृत्य श्रीराधां तद्ृत्तमाह-त्वयेति। स्वयमवाप्तिः खेन श्रीकृष्णस्य या प्राप्तिस्तस्याः सकाशात् तदेवं मुखं बह्वधिकं जाननी कृतविलोभनेति श्रीकृष्णाङ्गसङ्गसुखादन्यत् त्रिजगति नास्ति सुखमिति तदेकवारमनुभूय जानीहीति। चातुरीचर्ययेति। सखीतं नायिकालं च ललिता- दीनां सर्वासामेव समये समये स्यादेवेति। लमपि तादृश्येव भव किमिति सर्वतो लघुर्वुभूषसीति युक्त्योक्तापीत्यर्थ: ॥ ७९ ॥ द्वितीयामुदाहर्तुमाह-यथावेति। तत्र मया सहात्रैव कुञे क्षणं शयिता खजन्म सफलयेति श्रीकृष्णेनोक्ता काचि- दवनमालार्थ पुष्पाण्यवच्चिन्वती स्त्रीभावोचितं वाम्यचातुर्य परित्यज्य यथार्थ ब्रुवाणा तं प्रत्याययन्तयाह-राधारङ्गेति। राधैव रङ्ग: सुरतलास्यरङ्गभूमिस्तत्र लसन्ती या तवोज््वलकलायां शरद्गारवैदग्ध्ये संचारणप्रक्रियासंचरणप्रयोजकताप्रकारसन्न यच्चातुर्यं तदेवोत्तरं प्रधानं यत्र तत्। येन सेवनेन लब्धेनाशेषवधूजनानामुद्भटो यो मनसि राज्यप्रपश्चो मनोरथविस्तारस्तस्याप्यवधावन्तसीमनि तद्ङ्गसङ्गसुखे

Page 242

उज्ज्वलनीलमणिः । २१९

तत्र तद्दूत्यं यथा- अन्तः प्रविशति न सखी कुप्यति मे कुञ्जदेहलीलीना। तदिमां भङ्गुरितम्रुवमनुनय वृन्दाटवीचन्द्र ॥ ८१॥ प्राखर्य मार्दवं चापि यद्यप्यापेक्षिकं भवेत् ॥८२ ।। तथापि विस्तरभयात्तद्विशेषोऽत्र नेरितः । प्रखर्यादिख्वभावोऽयं यथायथमुदीरितः ।।८३ ।। देशकालादिवैशिष्ये स्ादस्यापि विपर्ययः । तत्र प्राखर्यस्य विपर्ययो यथा- ध्वान्तैर्घोरतमां तमीमगणयन्वृष्टिं च धारामयीं चण्डं चानिलमण्डलं सखि हरिर्द्वारं तवासौ श्रितः । हा क्रोधं विसृज प्रसीद तरसा कण्ठे गृहाण प्रियं मूर्धायं ललिताभिधस्तव पदं नत्वा जनो याचते ॥८४॥

मदीयं मनो नावलम्बते तेन तया सह खाङ्सङ्गसुखादपि जालरन्ध्रादौ श्रीराधा- असज्गदर्शनोत्थं सुखमधिकमनुभूतं मन्मनसा नहि लब्धाधिकसुखा जना अल्पे सुखे प्रवर्तन्त इति भावः । ततश्र मास्तु तव सुखं मत्सुखं तु कुर्विति श्रीराधि- कादत्तचरभन्न्रणेन श्रीकृष्णेन सा बलात् संभुक्त्वेति ज्ञेयम् ॥ ८० ॥ तद्ूत्यं तयो- र्दूरत्योरपि दूत्यमेकप्रकारकमित्येकेनैव पद्मेनाह-अन्तरिति। तदिमामित्यादिना स्वस्य मृदुतं लघुतं च ज्ञापितम्। त्रैविध्यसंभवेऽप्यस्या भृदुतैवोचितेत्युक्तलात ॥८१। आपेक्षिकमिति। या प्रखरोक्ता साप्यतिप्राखर्यवतीमपेक्ष्य मृद्दी कथ्यते, याच भृद्वी साप्यतिमार्दववतीमपेक्ष्य प्रखरेत्यर्थः ॥ ८२ ॥८३॥ मानिनी श्रीराधां ललिता प्राह-ध्वान्तैरिति। तमीं रात्रिम् ॥ ८४ ॥ 'पद्मे कुतः

ध्वान्तैरिति। ललिताया एव वाक्यम्। अत्र श्रीराधाया: कोधस्तु ललिताभयाव्

Page 243

२२० काव्यमाला।

मार्दवस्य विषर्ययो यथा- गुणस्तवनकूटतः कुटिलघीः सखि त्वामसौ कटाक्षितवती कथं तदपि नोज्झसि प्रश्रयम्। रुषं कुरु करोषि चेन्मृदुतराद चित्राप्यसौ विधास्यति तदौचितीं हिमघटेव पझ्मोपरि ।।८५।। दूत्यं तु कुर्वती सख्याः सखी रहसि संगता॥ ८६॥ कष्णेन प्रार्थ्यमानापि स्यात्कदापि न संमता। यथा- दूत्येनाद्य सुहृज्जनस्य रहसि प्राप्तास्मि ते संनिधिं किं कंदर्पधनुर्भयंकरममुं अ्रृगुच्छमुद्यच्छसि।

स्वसदनात् कुरुते सखी ते कि सांप्रतं सुदति रोदिति कोऽत्र हेतुः। गाम्भीर्यवैर्य- जलधिस्लमिवास्तु कान्या यन्नाश्रु कान्तविरहेऽपि वहिष्करोषि ॥' इत्युक्तिप्रत्यु- त्यनन्तरं गतायां पझ्मायां चित्रान्यसखीमुखात्तत्तत्सर्व श्रुला सानुतापं सोपालम्भं श्रीराधामाह-गुणेति। कूटो व्याजः । 'कूटोऽस्त्री निखने राशौ लोहमुद्गर- दन्तयोः । मायाद्रिशङ्योस्तुच्छे सीरावयवयन्त्रयोः ॥' इति मेदिनी। कुटिलधी: पद्मा गुणस्तुतिव्याजेन कटाक्षितवती कटाक्षविषयीकृतवतीत्यर्थः। कटाक्षशब्देन सूच्यमाननिन्दोच्यते। अत्र तु लक्षणया तद्विषयकव्याजस्तुत्या लां निन्दितवती- त्यर्थः । अश्रु वहिर्न करोपीत्यनेनाश्रुणोSपह्वोतुं शक्यलेन प्रेम्णोSल्पप्रमाणल- मुक्तम्। प्रश्रयं विनयं विधास्यतीत्यधुनैवेतश्चलन्ती यत्र तां प्राप्स्यति तत्रैवेत्यर्थः। चितीमौचित्यम्। हिमघटेवेति। शीतलमुद्रयैव मृद्याश्चित्राया औष्ण्यानौ- चित्यादिवेति भावः । पद्मायाश्चन्द्रावलीसख्या उपरि पद्मानामुपरीवेति सा शैते- नैव ज्वलिष्यतीति भावः ॥ ८५ ॥ प्रार्थ्यमाना सुरतमित्यर्थः ॥ ८६॥ दूत्येन

उलमय एव जेय:।८॥८३८४॥ उपरिश्लेषेण प्रद्मानामुपरि ॥ ८५ ॥ संमतेति सम्यगज्ञीकारिणीत्यर्थः । सम्यक् मतं यस्या इति

Page 244

उज्ज्वलनीलमणिः । २२१:

प्राणानर्पयितास्मि संप्रति वरं वृन्दाटवीचन्द्र ते नत्वेतामसमापितप्रियसखीकृत्यानुबन्धां तनुम् ॥ ८७ ॥ मिथः प्रेमगुणोत्कीर्तिस्तयोरासक्तिकारिता ॥ ८८ ॥। अभिसारो द्वयोरेव सख्या: कृष्णे समर्पणम्। नर्माश्वासननेपथ्यं हृदयोद्वाटपाटवम्।। ८९॥ छिद्रसंवृतिरेतस्याः पत्यादेः परिवश्चना। शिक्षा संगमनं काले सेवनं व्यजनादिभिः ॥९० ॥

हेतुना प्रप्तास्मि किमिति तवेदं चेष्टितमनुचितमिति भावः । भ्रृगुच्छं भ्रूस्तबक- मुद्रच्छस्युत्क्षिपसि। कंदर्पधनुषः सकाशादपि भयंकरं कामपीडाभयादेवेयं खहठं जहातिति बुद्धेति भाव:। किंच तद्भयं मम हृदि नोत्पद्यते सुहृज्जये सौहार्दस्य आबल्यादिति भावः। ननु तर्हि बलात्कारं करिष्यामीत्यत आह-प्राणानिति। हे वृन्दाटवीचन्द्रेति। तं वृन्दावनस्य चन्द्रो निष्कलङ्क एव वर्तसे स्त्रीवध- रूपकलङ्गे जिधृक्षा चेत्ृह्यतामिति भावः । ननु लदभिलषितं दूत्यमहं तत्र गला संपादयिष्याम्येव क्षणमात्रमिदानीं मदभिलषितं दङ्गसङ्गं देहि मह्यमन्यथा मयि तं प्रेमशून्यैवाभूरिति चेत्सत्यं तयि मे सतः प्रेमा नास्त्येव किंतु मत्प्रिय- सखी रमणलनैवेत्यत आह-न त्वेतामिति। न समापितः प्रियसखीकृत्यस्या- नुबन्घोऽपि यया ताम्। तेन महूत्यस्य फलं मत्प्रियसख्या अङ्गसङ्ग: स च साज्गो- पाङ्मो यावन् भवेत्तावत्तनुं न दास्यामीति भावः । अन्रेदं कारणम्-सख्यं हि विश्वासमूलकं नायिकया खदूत्ये विश्वस्ता सखी यदि नायकेन निभृतं रमेत तदा विश्वासधाते सति सख्यस्य नाशे प्रेम्णो निर्मूलतायां कथय कथं रसः सेत्स्यतीति ज्ञेयम्। यस्तु काव्यप्रकाशे 'निःशेषच्युतचन्दनं स्तनतटं-' इत्यादिषु दूती- संभोग: स च नायिकयापि सेर्ष्यया ज्ञातस्तदपि सख्यं ततो रसश्च। स तैराखा- द्यतां नास्माभिः ॥ ८७ ॥ द्वयोरनायिकानायकयोर्भिथः परस्परं प्रति परस्परस्य

विग्रहात् ॥। ८६ ॥ द्ूयोर्भिथः परस्परस्मिन् प्रेमगुणोत्कीर्तिः । द्वयो: प्रेम्णो गुणस्थ च यथावसरं द्वौ प्रत्युत्कर्षेण कथनमित्यर्थः । काले संगभनमित्यभिसारानन्तरं

Page 245

काव्यमाला।

तयोद्वयोरुपालम्भः संदेशप्रेषणं तथा। नायिकापाणसंरक्षाप्रयताद्या: सखीक्रियाः॥९१॥ तत्र कृष्णे सखीप्रेमोत्कीर्तिर्यथा पद्यावल्याम्- मुरहर साहसगरिमा कथमिव वाच्य: कुरङ्गशावाक्ष्याः। खेदार्णवपतितापि प्रेमधुरां ते न सा त्यजति ॥ ९२ ॥ सख्यां कृष्णप्रेमोत्कीर्तिर्यथा तत्रैव- केलीकलासु कुशला नगरे मुरारे- राभीरपङ्कजद्ृशः कति वा न सन्ति। राधे त्वया महदकारि तपो यदेष दामोदरस्त्वयि परं परमानुरागः ॥९३॥। तत्र तस्ा गुणोत्कीर्तिर्यथा- निनिन्द निजमिन्दिरा वपुरवेक्ष्य यस्याः श्रियं विचार्य गुणचातुरीमचलजा च लज्जां गता।

प्रेम्णो गुणस्य चोत्कर्षेण कीर्तनं तयोः परस्परस्मिन्नासकिं कारयितुं शीलं यस्या- स्वस्या भावस्तत्ता। काले समुचितावसर इति सर्वत्र योज्यम्। क्रियाः सप्तदश। आद्यशब्दाद्विपक्षादिसखीनां गुर्वा देश्च विचिकीर्षितस्य मिथः कृतसंकेतस्य च ज्ञानं ज्ञापनं च विपक्षसखीभिवाग्युद्धं चेत्यादयो ज्ञेयाः ॥८८॥८९॥९९9॥ विशाखा श्रीकृष्णमाह-मुरहरेति। खेदोऽत्र भवदौदासीन्यजातं दुःखं तेन - प्रकारेण खवप्राणादितोऽप्युत्कर्षेण वहतीत्यन्यथा सा प्राणांस्त्यक्ष्यत्येव तर्हि समुद्रे पतन्महाभारं वहन् तं चात्यजन् कश्चिज्जनो जीवतीति भावः ॥ ९२ ॥ चम्पक- लता श्रीराधामाह-केलीति ॥ ९३ ॥ तत्र कृष्णे ललिता श्रीकृष्णमाह- निनिन्देति। इन्दिरा लक्ष्मीः, अचलजा दुर्गा। ननु यदि सैव ममानुरूपा तहि मेलनमित्यर्थः॥८७॥८८॥।८९।९०॥९१। खेदो भवदौदासीन्याङु :- खम् ॥ ९२ ॥ नगरे व्जे। व्रजस्य तस्य ग्राम्यतामतीत्य नागरताव्यवहारशालि- लातू तन्नापि मुरारेरिति परमविशिष्टता व्यक्ता । ९३ ॥ अचलजेत्यन्न हियम-

Page 246

उज्ज्वलनीलमणिः । २२३

अघार्दन तया विना जगति कानुरूपास्ति ते परं परमदुर्लभा मिलतु कस्य सा मे सखी।। ९४ ॥

तस्यां तस्य गुणोत्कीर्तिर्यथा ललितमाधवे- महेन्द्रमणिमण्डलीमदविडम्बिदेहद्युति- व्रजेन्द्रकुलनन्दन: स्फुरति कोऽपि नव्यो युवा। सखि स्थिरकुलाङ्गनानिकरनीविबन्धार्गल- च्छिदाकरणकौतुकी जयति यस्य वंशीध्वनिः ॥ ९५॥

सैव मे प्रेयसी भवतु भवत्या तत्र यतनीयमित्यत आह-परमतिशयेन दुर्ल- मेति। तवानुरूपले सत्येव किं सालभ्या किंतु यदि तत्र तव प्राचीनं तपोभाग्या- दिकं स्यात्तदैव सा तव भवेदिति भावः । कस्येति कर्मणि संबन्धविवक्षया षष्ठी। मिलतु कं सखी सा ममेत्यनुक्ता कस्येति षध्यन्तप्रयोगोऽर्थान्तरस्य प्रक्षेपार्थः । तच्च यथा-ननु साभिमन्योर्भार्या श्रुता तत्नाह-सा मे सखी न कस्यापीत्यर्थः। नहि विवाहमात्रेणैव सा लभ्यत इति भाव: । तर्हि मया कथं सा लभ्या स्यादि- त्यपेक्षायामाह-परं परकीयं पुरुषं श्रेष्ठमिति। अत्र संभावनायां लोट्। खानु- रूपलादिति भावः । अत एव श्रलेषेण परमतिशयेनादुर्लभा। ममोद्यममात्रेणैव तव सुलमेति भावः ॥ ९४ ॥ ललिता श्रीराधामाह-महेन्द्रेति। नीवीबन्ध एवार्गलम्। कंदर्पगृहद्वारकपाट स्येत्यर्थः । तस्य छिदाकरणे द्वैधीकरणे कौतुकी। यथाहि कश्चिद्वहिः स्थित्यै(लै)व कपाटे दत्ताघातेनैवान्तर्गतमर्गलमपि भित्त्वा खबलं दर्शयति तथैव यस्य मुखोद्भूतः पवन एव वंशरन्ध्रप्रविष्टो वंशीघ्वनिरूप- स्तथा करोति न जाने स वा स्वयं कीदशं बलं दर्शयिष्यतीति भावः ।। ९५ ॥।

वाप पद्माल्यपीति वा पाठः। पझ्माया लक्ष्म्या आली तत्र प्रकाशमेदेन श्रेण्यपि। यद्ा पद्मायास्तन्नान्रया गोप्या आली चन्द्रावल्यपि। कस्येति कर्मणि संबन्धविवक्षा

Page 247

२२४ काव्यमाला।

कृष्णे सख्या आसक्तिकारिता यथा विदग्धमाधवे- सा सौरभोर्मिपरिदिग्धदिगन्तरापि वन्ध्यं जनुः सुतनु गन्धफली बिभर्ति। राधे न विभ्रमभरः क्रियते यदक्के कामं निपीतमधुना मधुसूदनेन ॥ ९६ ॥ तस्यां तस्यासक्तिकारिता यथा- यद्येतस्यां वरपरिमलारब्धविश्वोत्सवायां न त्वं कृष्णभ्रमर रमसे राधिकामल्लिकायाम्। अर्थः को वा नवतरुणिमोद्भासिनस्ते ततः स्या- द्वृन्दाटव्यामिह विहरणप्रक्कियाचातुरीभिः ॥९७ ॥ कृष्णस्याभिसारणं यथा- अवरुद्धसुधांशुवैभवं विनुदन्तं सखि सर्वतोमुखम्। इह कृष्णघनं प्रगृह्य तं ललिताप्रावृडियं समागता ॥। ९८ ।।

ललिताविशाखे श्रीरावामाहतुः-सेति। दिग्धं व्याप्ं गन्धकली चम्पकम्। विभ्रमो विलासः । पीतमधुना पीतमकरन्देन पीताधरामृतेन च मधुसूदनेन त्रमरेण श्रीकृष्णेन च।। ९६ ॥ विशाखा श्रीकृष्णमाह-यंद्येतस्यामिति। परिमल आमोदो रूपगुणवैदग्ध्यादिख्यातिविस्तारश्च। विश्वेषामुत्सवाः विश्वे सरवे उत्सवाश्चार्थात्तवैवेत्यर्थः । अर्थः प्रयोजनम् ॥९७ ॥ वासकसज्जां श्रीराधां रूप- मञ्जरी प्राह-अवेति। पक्षेऽवरुद्धं तिरस्कृतं सुधांशोश्चन्द्रस्य वैभवं येन समु- खकान्त्येत्यर्थः । सर्वतोमुखं जलं नुदन्तं वर्षन्तम्। 'कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्।' इत्यमरः । नायिकान्तरदृष्टिपक्षे लोकशङ्कया सर्वस्यां दिशि मुखं क्षिपन्तम्। ततश्र विरहनिदाघदूनां श्रीराधामालतीं प्रफुल्लीकर्तुमिति प्रयोजनं माषाणाभश्नीयादिति भाष्यप्रयोगादेः ॥ ९४ ॥ सर्वतोमुखं जलं विनुदन्तं पक्षे मुखं सर्वतो विनुदन्तं चालयन्तम् ॥९५॥९६॥९७॥९८ ॥ ईजुर्यजन्ति

Page 248

उज्ज्वलनीलमणिः । २२५

सख्या अभिसारणं यथा श्रीगीतगोविन्दे- लद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्त तमः सान्द्रताम्। कोकानां करुणखनेन सदशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ।। ९९।। कृष्णे सख्या: समर्पणं यथा- यदन्तरमुपासितुं कमलयोनिमीजुर्गुणा यद्ङ्गमुपसेवितुं तरुणिमापि चक्े तपः । नवप्रणयमाधुरीप्रमदमेदुरेयं सखी मयाद्य भवतः करे मुरहरोपहारीकृता॥ १००॥

धवनितम् ॥ ९८ ॥ मुदेवी श्रीराधां ्राह-वाम्येन मानेन सममिति। तापक- लात् श्रीकृष्णमनोरथप्रतिकूललाच्च। लन्मानतिग्मांशू उभावपि तुल्यधर्माणावि- त्यर्थः। सान्द्रतां नैबिड्यं वस्तन्तरानुद्धासात् मानतिग्मांशुनाश्यलाच मनोरथ- तमसी अपि तुल्ये एव। तथा सहस्रावृत्तिलेSप्यविश्रामात् सगद्रदताच्च कोकख- नमदभ्यर्थने अपि समाने एव। विफलमिति पुनरपि किं मानमानिन्यसि। नहि त(य)दानीमस्तं गतस्तदानीमेवोदेति कश्विदपि पदार्थ इति भावः। अस्तं गत दइूति। हा हन्त मद्ून्धुर्मानः सहसा नष्ट इति तं लमधिकमाशु च तिग्मांशुरिव पुनरप्यसायुदेष्यत्यपीत्याश्वासः परिहासश्च ध्वनितः ॥ ९९॥ विशाखा श्रीकृष्ण- माह-यदिति। यस्या अन्तरमन्तःकरणमुपासितुं सेवितुम्। तन्र वासं प्रासु- मित्यर्थः । गुणा धैर्यगाम्भीर्यकलावैदग्ध्यादयः कमलयोनिं ब्रह्माणमीजुर्येजन्ति स्म।' ततश्र बहुभिर्जनैः प्रसादितात्तस्माल्लब्घेन वरेणैव वासं प्रापुरित्यर्थः। एवं तरुणिमापि तपोबलेनैव तस्या अज्गे प्रवेशं प्राप। नन्वीदशमहिमले तस्याः किं कारणमित्यपेक्षायां सर्वाधिक: प्रेमैवेत्याह-नवप्रणयेति। नवा नित्यं नवी- नीभिवन्ती या प्रणयमाधुरी तया यः प्रमद आनन्दः प्रहष्टी मदमत्तता गर्वश्र तेन मेदुरा स्न्निग्धा। उपहार उपायनम् ॥ १०० ॥ ललिता श्रीराधामाह- १५ उज्व०

Page 249

काव्यमाला।

नर्म यथा विदन्धमाधवें देहं ते भुवनान्तरालचिरलच्छाथाविलासास्पदं मा कौतूहलचश्चलाक्षि लतिकाजाले प्रवेशे कृथाः । नव्यामज्जनपुज्जमञ्जुलरुचि: कुञ्जेचरी देवता कान्तां कान्तिभिरङ्कितामिह वने निःशङ्कमाकर्षति॥१०१॥ आश्वासनं यथा- मागा: कमं सखि मुहुर्वृषभानुपुत्रि भानुं प्रतीहि चरमाचलचङ्रमोत्कम्। आनन्दयन्नयनमुद्धरधेनुधूलि- ध्वान्तं विधूय विधुरेष पुरोज्जिहीते ॥ १०२ ॥

भुवनान्तराले त्रिभुवनमध्ये विरला दुर्लभा याशछायाः कान्तयस्तासां विलासस क्रीडाया आस्पदं मन्दिरम्। लतिकेत्यनुकम्पार्थककप्रंत्ययेन कोंमललव्यजकेंन प्रवेशे सामर्थ्यं जालपदश्लेषेण च परावर्तनासामथ्य च व्वनितम्॥।१०१॥ ललिताह-मागा इति। नन्वदतने दिने युगसहस्रमपि व्यतीतं तदर्पि, कर्ष भानुर्नास्तं यातीत्यत आह-भानुमिति। चंङ्गमो वक्रगमनं तत्रेवोंत कण्ठितम्। श्रीकृष्णदर्शनकलाधिक्यलाभार्थमिति भावः । भानोर्गमनस्य ऋजुले प्रत्यक्षैऽ्रपि तासां तथा संभावनं प्रेम्णा न विरुध्यते। अर्थान्तरं तु 'नित्यं कौटिल्ये मतौ ३।१। २३' इति कौटिल्य एव यद्िधानादशक्यम्। तत्र च कौरित्ये गता- वित्यनेनैव विधित्सिते सिद्धे नित्यपदोपादानं तककोण्डिन्यन्यायस्यानितयलज्ञापनाव क्रियासमभिव्याहारप्राप्तिवारणार्थमेव। यत्तु 'व्यायामं च व्यवायं च स्नानं चंक्र मणं तथा। ज्वरमुक्तो न सेवेत यावन बलवान्भवेत् ।।' इति वैदके दृष्टं तचि- न्त्यम्। ननु भानुरपि तथा प्रतीपायते चेत् कथं तर्हि जीविष्यामीत्यत आह- आनन्दयन्निंति। विघुश्न्द्रः श्रीकृष्णश्च पुरा निकट एवोज्जिहीते उदयते। 'स्यात्प्रबन्घे चिरातीते निकटागामिके पुरा ।' इत्यव्ययनानार्थवर्गः ॥१०२॥ स ॥९९।। १००॥१०१। पुरोज्जिहीते उदयं प्राप्स्ति। पुरायोगे भविष्यार्ति लट्

Page 250

उज्ज्वलनीलमणिः । २२७

नेपथ्यं यथा- भाले मया ते मृगनाभिनासौ यः पत्रभग्गोऽस्ति विरच्यमानः । स बिन्दुरूपेण पतञ्छूमाम्बुलप्तो हरेर्वऋरुचि तनोतु॥ १०३॥ हृदयोद्वाटपाटवं यथा- तथ्यं वदाद्य नहि संकुच पङ्कजाभं द्वन्द्वं दशोरिह किशोरि निमीलयन्ती। का रज्यने सखि विवोढरि गोकुलेडस्मिन् क्षुण्णा न धीथिरियमेकिकया त्वयैव ।। १०४ ॥

श्रीराधामलंकुर्वती ललिता परिहसन्त्ाह-भाल इति । हरेवेक्रेति। विपरीतं संप्रयोगमाशासते तदैव पत्रभङ्गस्य मल्लिखनश्रमस्यापि सार्थकतं भविष्य- तीति भावः ॥l १०३ ॥ पूर्वरागे सुहृद्विकारं सखीमपि लज्जयैवान्रुवाणां श्रीराधां ललिता पृच्छन्ताह-तथ्यमिति। दृशोर्द्वन्द्वं निमीलयन्ती मुद्रयन्ती सती नहि संकुच किंतु तद्डुद्धाटयन्त्येव सत्यं वद। स्मनःपीडाकारणमित्यर्थः । पर- पुरुषे मनस आसकिरेव ममाधिहेतुस्तां च वक्तुं कथं न संकुचामीति चेत- त्राह-का रज्यत इति। विवोढरि भर्तरि अस्मिन् गोकुले का कुलाङगना रज्यते। न कापीत्यर्थः। अत इयं प्रसिद्धा वीथि: पातिव्रत्यधर्मरूपो मार्गस्लयैकि- कयैव न च क्षुण्णा चरणपातदलितीकृता अपि तु सवोभिरपीत्यर्थः । पातिव्रत्य- चौर्थि पञ्धामेव छित्त्वौपपत्यवीथिरेव स्वीकारेण प्रवर्तितेत्यर्थः । अतो 'न दुःखं पश्चभिः सह' इति न्यायेनात्र संकोचोऽप्यसंकोचायत एवेति भावः ॥१०४॥

॥ १०२ ॥ हरेर्वक्रमलंकरोलित्यत्र हरेर्वक्रमुपस्करोतिति वा पाठः ॥ १०३ ॥ अस्मिन् गोकुले का विवोढरि भर्तरि रज्यते न कापीति तस्याः संकोचं विधूय हृदयोद्वाटनार्थमेवाभिव्यापिनीयं नर्मोकिः। वस्तुतस्तु प्रायिकतामात्र- मभिप्रेतम् । इयं विवोढरि अरतिरूपा वीथि: पद्धतिसतु लयैव न क्षुण्णा न

१. 'वक्कमलंकरोतु' इत्यपि पाठ :.

Page 251

२२८ काव्यमाला।

यथा वा- वयस्ते साम्राज्यं सखि वितनुते पुष्पधनुषो जिहीते सौन्दर्य त्रिभुवनद्दगासेचनकताम्। न दास्येऽप्यौचित्यं वहति परिणेता परिणत- स्त्वमेका हीदग्धे बत विमुषितासि व्रजकुले॥ १०५॥

अत्र परपुरुषासक्तिरूपस्य दोषस्य सर्वसाधारण्यमात्रज्ञापनेन वस्तुतो निर्दोषलं न स्यादतो न तेन हृदयोद्वाटनं सम्यक् संभवेदित्यत आह-यथावेति। वयो यौवनं कंदर्पस्य साम्राज्यं वितनुत इत्यत्रायं भाव :- कंदर्पेण लघ्यौवनाविर्भावाद् पूर्व यद्यपि त्रैलोक्यं जितमेव तदाप्येकस्य श्रीकृष्णस्य जयाभावात् साम्राज्येन सिद्धमासीदिति, इदानीं तु लद्यौवनभाविरभूयैव श्रीकृष्णं जित्ा तस्य साम्राज्यं साधयामासैवेति। न च केवलमिदानींतनस्य यौवन स्यैतावन्माहात्म्यं किंतु यौव- नात्पूर्वभपि बाल्येऽपि सौन्दर्यस्यापीत्याह-जिहीते प्रामोति। 'तदासेचनकं तुप्ते- र्नास्त्यन्तो यस्य दर्शनात्।' इत्यमरः । एवं तस्या वयः सौन्दर्योपलक्षितसर्वगुण- महामाधुर्यमुपपाद्य तस्य वैफल्यं द्योतयन्ती तत्परिणेतारं निन्दति-न दास्येऽ- पीति। ईदृशो दासोऽपि विना मूल्यं प्राप्तोऽपि नाज्जीकर्तुं युज्यत इति भाव:। एवमस्य गुणराहित्यकौरूप्ये उक्ते। पश्चादिवद्यौवनमपि नाभूदित्याह-परिणेता परिणत इति। परिणेतृतदशामारभ्यैव परिणतो वृद्धः । तेन बाल्यपौगण्डा- नन्तरमेवास्य वार्धकमायातमिति भावः । ननु किं कर्तव्यमीदृशमेव ममादृष्टमिति चेत्तन्नाह-हीदग्घे इति। तव गुणरूपानुरूपः श्रीकृष्णो व्रज एव सोत्कण्ठ एव वर्तते तत्सङ्वार्थमुद्यममकुर्वाणा लज्जयैव वं दत्यसे नतु ते किमपि दुरदृष्टम- स्तीति भावः। नन्वेवं का कुलाङ्गना कुरुत इत्यत आह-बतेति खेदे। व्रजकुले व्रजकुलाङ्गनाकुले लमेवैका विमुषितासि वच्चितासि, अन्यास्तु सर्वा एव खखपती- नपि विहाय श्रीकृष्णसङ्गं प्राप्य विहरन्त्यः सफलरूपयौवना एवाभूवन्निति भावः।

चरणपातदलितीकृता ॥ १०४ ॥ वयःसौन्दर्य च कर्तृ। जिहीते गच्छति। 'तदा- सेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्'। परिणेता विवोढा। परिणतो वृद्धः। एकेति. पूर्ववत्। हे हीदग्घे, विमुषितासि हारितनिधिरसि स्वयंप्राप्तमपि श्रीकृष्णं हारीत-

Page 252

उज्ज्वलनीलमणिः । २२९

छिद्रसंवृतिर्यथा विदग्धमाधवे- मुदा क्षिप्तैः पर्वोत्तरलहृदयाभिर्युवतिभिः पयःपूरैः पीतीकृतमतिहरिद्राद्रवमयैः । दुकूलं दोर्मूलोपरि परिदधानां प्रियसखीं कथ राधामार्ये कुटिलितदगन्तं कलयसि ॥ १०६॥ पत्यादे: परिवश्चना यथा- श्यामाङ्ग: पटुरेष कर्मणि बटुर्गर्गस्य शिष्यो मया राधामर्चयितुं प्रगे दिनकरं सदन्ययं प्रापितः ।

तेन परपुरुषासक्तिजिहासां यद्गुणं मन्यसे एष ते एव महादोषः । विधात्रा दत्तानां रूपगुणयौवनानां वैफल्यापादनाद्विधातुः स्थानेऽपि तवापराधो भविष्य- तीत्यतः सर्व विचार्य विधित्सितं ब्रूहि। यथा वयमेव तत्र यतामहे इति ततश्च "तया हृदयमुद्धाव्य कुलत्रीणां नेष्टा परपुरुषरूपस्तुति कथेत्यादिपद्यानि सासतरं पठि- तानीति ज्ञेयम्॥ १०५॥ स्ववध्वाः श्रीराधाया अज्गे प्रातः श्रीकृष्णस्य पीतवस्तरं परिचिन्वतीं रुषानधिक्षिपन्तीं जटिलां प्रतारयन्ती विशाखा प्राह-मुदेति। अद्य व्रतिन्या राधया परिहितशुकवस्त्रया देवमन्दिरेऽन्याभिरपि बह्ीभिर्व्ति- नीभि: सह जागरः कृतस्तन्र जागरान्ते उत्सवपूर्त्यर्थ मुदा क्षिप्तैरित्यादि। ततश्च तदेव वस्त्रं विलम्बतो गात्र एव शुष्कं पीताम्बरं जातमिति बुद्धस्वेति ध्वनितम् ।। १०६॥ ललिता विप्रवेषेणागतं श्रीकृष्णमपलपन्ती श्रद्धालुमभिमन्युं व्याजेन ततोऽपसारयन्त्याह-श्यामाङ्ग इति। अर्चयितुमिति हेतुणिजन्तं राधामिति प्रयोज्यकर्तुः कर्मतम्। गत्यर्थादिव्यतिरिक्त्तानामणो कर्तुर्णावुभयं भवति कर्तृकतवं वत्यसीत्यर्थः ॥ १०५॥ पीतवस्त्रं कदाप्युपरि दधानायां श्रीराधायामकस्मात् परिहितं दृष्ट्ा पूर्वपूर्वसंदेहानुसारेण श्रीकृष्णवस्त्रतया वितर्कयन्तीं वार्धकमन्ददृष्टिं श्रीराधाश्वश्रूंमन्यां [जटिलां ] वश्चयन्ती श्रीराधासख्याह-मुदा क्षितैरिति। तत्र दोरन्तराल इति वास्तवलेऽपि दोर्मूलोपरीत्युक्तेर्विवर्णीकृततया प्रतिपाद्ये वस्ो तस्या जिहासासूचनया वश्चनार्थमनादरोऽपि सूचितः ॥१०६॥ श्यामाङ्ग इति श्रीकृष्णमपलपति। अर्चयितुरिति हेतुणिजन्तम्। राधामिति प्रयोज्यकर्तुः कर्म-

Page 253

२३० कान्यमाला।

तेनाभीर पयस्त्वमागमय गां दुग्ध्बा पतक्कप्रियां पिज्जाक्षीमरुणामहं तु करवाण्येभि: सरोजैः स्जम् ॥१०७॥ शिक्षा यथा- त्वमीरय समीरणं वरसरोजवल्लीदलै- र्विधेहि सखि मन्थरं चरणपद्मसंवाहनम्। मुखे घटय वीटिकामवदलय्य कर्पूरिणीं हरेरिति नवाङ्गना प्रणयिनीपदं विन्दति ॥ १०८॥ यथा वा- कुर्वीथाः परमादरं प्रियसुहद्धर्गें सदा प्रेयसः कामं तस्य रहस्यसंवृतिविघौ निर्बन्धमङ्गीकुरु। मा चेतस्तदसंमते सखि निजाभीष्टेऽपि कृत्ये कृथा: प्राप्स्यत्येवमनर्गलोऽपि स हरिस्तूर्ण तवाघीनताम्॥१०९॥

कर्मतं चेति भाषावृत्तिदष्टेः। आमीर, हे अभिमन्यो, सूर्यपूजायां स्नानादयर्थ कपिलादुग्धमपेक्षितमतस्तं गां दुग्च्वा पय आगमय आनय। अरुणामिति। या हि सर्वास्वेष्वरुणवर्णा अथ च पिङ्गाक्षी सैव पतङ्गस्य सूर्यस्य प्रिया कपिलेति तामन्य: परिचेतुं न शक्ष्यतीत्यन्यो न प्रेषणीय इति भावः । अत एवाभीरेति संबोधनम्। सर्वमिदं तस्य विलम्बागमनार्थमेवेति बोद्धव्यम्॥ १०७ ॥ कांचिद- मिसार्य श्रीकृष्णाग्रे प्रथमसंगतां तां सखी काचिदुपदिशति-त्वमीरयेति। अवदलय्य शिरादूरीकरणेन खण्डयिला रचितां वीटिकामित्यर्थ: । श्रीहरेरमुखे घटय।। १०८॥ नायिकां प्रत्येवं शिक्षा नातीव सुरसेत्यपरितुष्यन्नाह-यथा वेति। ललिता श्रीराधामाह-कु्वीथा इति। प्रियसुहृदः सुबलादयः। लम्। कैशिद्रव्यर्थादन्यत्रापि तस्य खवीकारात्। प्रगे प्रातःकाले। हे आमीरेवि श्रीराधाया: पतिभव्यं प्रति संबोधनम्। लं गां दुग्वा पय आगमय आनय। पिजाक्षीमककुणामिति कपिलाविशेषलं गमयति। अत एव पतप्ञस्य सूर्यस् प्रियाम् # 1-७ ॥ समीरयेव्यादि दयं प्रायो नवोद्विषयं गम्यते। अवदलयप

Page 254

उज्ज्वलनीलमणिः । २३१

अथ काले संगमनं यथा- वासरीयविरहक्कमविद्धां लोचनीत्पलवलन्मरालिम्। राधिकाकुमुद्रिनीं व्िधुनेयं संयुनक्ति ललितोत्तरसंच्या ॥११०॥। अथ व्यजनादिना सैवा यथा- चामरीकृतलुताचमरीका कुञ्रधाम्नि ललिता लुलिताङ्गीम्। ख्विद्यदाकृतिमवीजयदेनां पेतुषीमघहंरोरसि राधाम् ॥ १११॥ अथ तयोई्योरुपालम्भ, तत्र हरेरुपालम्भो यथा- सौम्यमूर्तिरुपनीय निर्भरं शारदार्क इ सगमअतः। त्वं भजन्सपदि तीव्रतां कुतः घूतनार्दन दुनोषि मे सखीम्।११२॥

अनर्गलोऽनन्यवशः ॥ १०९ ॥ रतिमज्जरी रूपमज्जरीमाह-वासरीयेति। विधुना चन्द्रेण श्रीकृष्णेन च। ललिता मजुला तन्नान्री सखी च। लोचनेषु रल- योरैक्याद्रोचनेषु कान्तिमत्सु उत्पलेषु तत्पुष्पेषु वलन्त्यो भजन्त्यो भ्रमरश्रेणयो यस्यास्तां पक्षे नयनोत्पलयोर्वलन्त्यश्चूर्णकुन्तलपङ्कयो यस्यास्ताम् । 'ते ललाटे भ्रमरकाः' इत्यमरः ॥ ११० ॥ चभरी मज्जरी पेतुषीं विपरीतशङ्गारान्ते श्रान्ति- भरात् श्रीकृष्णवक्षसि पतिताम् ॥। १११॥ श्रीराधायां खण्डितायां सत्यामनु- नयन्तं श्रीमृष्णं ललितोपालभते। सौम्यमूर्तिः सरलजनविश्वासोत्पतत्यर्थ लां विनान्यां सप्नेऽ्यहं न जानामीत्यादिमृषावचनै रागमनुरागम्, पक्षे रक्तिमानम्, अग्रत इत्यनेन उदितोऽसं यास्यनेव वार्को लभ्यते। तथाभूतस्येवाग्रतोवर्तित-

गच्छन् सं सेव्यमानमनभिज्ञजनं यथापकरोति तथेत्यर्थः । यदुक्त्म्-'बालार्क- स्तरुणं दधी'त्यादौ 'सद्य:प्राणहराणि षडि'ति। हे पूतनार्दनेति। बाल्यमारभ्यैव विश्वासमुत्पाद्य यदि स्रीबध एव तात्पर्य तहि बह्येव स्रीततिः पूतनेव कपटप्रेम- वती वर्तते तां विहाय मे सखीं कुतो दुनोषीति मन्ये। प्रेमाणभपि सत्यमसत्यं न

समकसातू खण्डयिलाl १०८॥।१०९॥ भ्रमरा: पक्षे चूर्णकुन्तलाः॥9%

Page 255

२३२ काव्यमाला।

सख्या उपालम्भो यथा- विपक्षे दाक्षिण्यं प्रणयसि परं केलिकुतुके मुकुन्देनारब्धे कलयसि पृथुं वेपथुभरम्। सुधैवाभ्यस्यन्ती सहचरि सदा मण्डनकलां कुतो मौग्ध्येन त्वं समयमनभिज्ञे गमयसि ॥ ११३॥ अथ संदेशप्रेषणं यथा हंसदूते- त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदं न तूर्ण धूमोर्णापतिरपि विधत्ते यदि कृपाम्। अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलै- र्दुरालोकं शोकास्पदमथ, कथं नेष्यति सखी।। ११४।।

परिचिनोषीति भावः ॥ ११२ ॥ अकस्मान्मिलितायै पद्मायै श्रीराधया प्रियोक्ति- भिर्दत्तं संभानमसहमाना ललिता तस्यां गतायां हारगुच्छगुम्फनशिल्पे स्वकल्पि- तवैचित्रीं कुर्वाणां श्रीराधां प्रत्याह-विपक्ष इति। तव कां कामनीति गणया- मीति भाव:। तिरस्कार्य विपक्षजनमादरपात्रीकृत्य स्वापकर्षमङ्गीकुरुषे चेत्कथं तवोत्कर्षो भविष्यति। तथा श्रीकृष्णेन सह संप्रयोगलीलायां समुचितं कायिकं वाचिकं प्रागल्भ्यं विहाय तत्पाणिस्पर्शमात्रेणैव केवलं कम्पसे चेत्कथं तव विला- ससुखं संभवेत्। ततश्र व्यर्थमेव खवगात्रे मण्डनवैचित्रीमभ्यस्यति। तस्या हि फलं सौभाग्यं तस्य च सदा श्रीकृष्णाङ्गसङ्गस्तस्य च परमानन्दादानप्रदाने तयोश्र सर्वतः सवोत्कर्ष इत्यवधिः । तमेव सवोत्कर्ष निकृष्टजनमादृत्य दूरीकुरुषे चेत्क- स्तव परामर्ष इति। अत एवानभिज्ञ इति संबोधनम्। वस्तुतस्तु सर्वैंवेयं व्याज- स्तुतिरुत्कर्षमेव व्यनक्ि॥ ११३ ॥ ललिता मथुरास्थे श्रीकृष्णे हंसद्वारा संदेश प्रेषयन्त्याह-त्वयेति श्रोकद्वयेन। गोष्ठीतिलकेति विपरीतलक्षणा खगोध्या दुःखदायिलात्। यद्वा संप्रति यदुक्तमेव तव गोष्ठी धूमोर्णापतिर्यमः । कृपां कृपया दशम्या दशायाः प्रदानं तूर्णमिति विलम्बेन तु करिष्यत्येवेति भाव: । तेन च शीघ्रमायासि चेत्तदैवेमां द्रक्ष्यसि नान्यथा । वृन्दावने तूद्दीपनविभावः चमरी मज़री। पेतुषीमित्यत्र संगतामिति वा पाठः ॥ १११ ॥ धूमोर्णापतिर्यमः

Page 256

उज्ज्वलनीलमणिः । २३३

अथ नायिकाप्राणसंरक्षाप्रयत्नो यथा- त्वामायान्तं कथयति मृषा कुर्वती दिव्यमुग्रं मूर्च्छारम्भे तव मणिमयीं दर्शयत्याशु मूर्तिम्। वन्ये वेणौ ध्वनति मरुता कर्णरोधं विधते रक्षत्यस्याः कथमपि तनुं माधवी यादवेन्द्र ॥ ११५ ।। इति दूतीप्रकरणम्। अथासामपरः कोऽपि विशेष: पुनरुच्यते। असमं च समं चेति स्नेहं सख्यः सवपक्षगाः॥ ११६॥ कृष्णे यूथाधिपायां च वहन्त्यो द्विविधा मताः। तत्रासमस्रहा :- अधिकं प्रियसख्यास्तु हरौ तस्यां ततस्तथा ॥ ११७॥

॥। ११४ ॥। उद्धवः श्रीराधावृत्तान्तं पृच्छन्तं श्रीकृष्णमाह-त्वामिति। मूर्च्छारम्भ इत्युभयत्रैव काकाक्षिगोलकन्यायेन संबन्धनीयमन्यथान्त्यस्य वाक्य- द्वयस्य लक्ष्यद्वयेन संबन्धे प्रथमवाक्यस्य लक्ष्याभावात् प्रक्रमभग्गो नाम दोषः स्यात्। तत्र प्रकरमशब्दस्यादिताऽन्ततश्च ग्रहणव्याख्यानात्। यद्ववमवतारणी- यम्-हे सखि, अवधिदिनं व्यतीतं तदनुज्ञापय प्राणांस्त्यजामीत्युक्तवत्यां तस्यां लामायान्तमित्यादि। उग्रं दिव्यं महाशपथं सखि मां शपथादिना प्रतारयसि मात्रम्। यतोऽमे नासौ चिरादपि दृश्यत इति मूच्छाया आरम्भे तव मणीत्यादि। ततश्वास्यां लब्धविश्वासायां लां मिलितवत्यामकस्मात्तदैव मरुता हेतुना वनोद्भवे वेणौ कीचके ध्वनति सति अस्या: कर्णो रुन्धे। अर्थात् सपाणिभ्यामित्यर्थः। सुरलीध्वनिबुद्धा रासप्रतीत्या तत्रोन्मादेन धावितवत्यास्तन्न श्रीकृष्णाद्शनेन पुन- रमूच्छाया भावित्वशक्कयेति भावः। माधवीनान्नी काचित्सखी ॥ ११५॥ इति दूतीप्रकरणम्। आसां सखीनाम् ॥ प्रियसख्याः खयूथेश्वर्याः सकाश्ाच्छ्रीहरावधिकं तथा ॥११२। ११३॥११४॥ दिव्यं शपथम्। वेणौ कीचके। माधवीनान्नी॥११॥॥ इति दूतीप्रकरणम्।

Page 257

२३४ काव्यमाला।

वहन्त्य: स्नेहमसमस्नेहास्तु द्विविधा मता: । तत्र हरौ स्नेहाधिका :- अहं हरेरिति खान्ते गूढामभिमति गताः॥११८॥ अन्यत्र क्काप्यनासकत्या स्ेष्टां यूथेश्वरीं श्रिताः। मनागेवाधिकं स्नेहं वहन्त्यस्तत्र माधवे॥ ११९॥ तहूत्यादिरताश्रेमा हरौ स्नेहाधिका मताः। यथा- न मे चेतस्यन्यद्वचसि पुनरन्यत्कथमपि स्थवीयान्मानस्ते सखि सयि सुखं न प्रथयति। रवेस्तापेनेव क्षणमुदयता येन जनितो बकारेर्वक्रेन्दुच्छविशबलिमा मां ग्लपयति ॥ १२० ॥

ततो हरे: सकाशासस्यां प्रियसख्यामधिकम् ॥११६॥ ११७ ॥ अभिमति- मभिमानम्। गूढामिति । बहिस्तु द्वयोरपि स्नेहसाम्यमात्मनी दर्शयन्त इत्यर्थः । क्वापि यूथेश्वरीषु। नन्वहं हरेरित्यभिमानश्वेत्तदा कि यूथेश्वर्याः श्रवणे- नेलाह-मनागिति। यूथेश्वर्यां पूर्णमेव स्नेहं किंतु तस्याः सकाशादपि माधवे मनाग् किंचिन्मात्रमधिकम् । ११८ ॥ ११९ ॥ मानिनी श्रीराधां धमिष्ठा प्राह-न मे चेतसीति। यदेव सुभ्यं रोचते तदेव म्याय्यं लया लन्मुखा- लोकार्थ ब्रुवन्त्योऽन्याः सख्य इव नाहं घ्चीभीति भावः । स्थवीयानतिस्थूलः। प्रथयति प्रख्यापयति। प्रकाशयतीति याकत्। येन मानेन ॥। १२० ॥ वचनमिदं

ततो हरीः ॥ ११६॥११७॥ ११८॥ ११९ ॥ मम चेत्तस्यन्यद्वाति पुन- रन्त्दिति कथमपि न स्यातू। किंतु दयोरेकमेवेत्यर्थः। तदेव क्रथयेत्याकाशयाह- स्थवीयानिति॥ १२० ॥ श्रीकृष्णेन दिनांश एव वृन्दाद्वारा हतायां

Page 258

उज्वलनीलमणिः । २३५

अथवा- सुरकुलमखिलं प्रणम्य मूर्धा प्रवरममुं वरमर्थये घराङि। मुहुरभिमतसेवया यथाहं सुबलसखं सुखयामि राधिकां च ।।१२१।। या: पूर्व सख्य इत्युक्तास्तास्तु स्नेहाघिका हरौ ॥ १२२ ॥ अथ प्रियसख्यां स्नेहाधिका :- तदीयताभिमानिन्यो या: स्नेहं सर्वदाश्रिताः। सरयामल्पाधिकं कृष्णात्सखीसत्नेहाधिकास्तु ताः ॥। १२३ ॥ यथा- विरमतु तव वृन्दे दूत्यचातुर्यचर्या सहचरि विनिवृत्य ब्रूहि गोष्ठेन्द्रसूनुम्। विषमविषधरेयं शर्वरी प्रावृषेण्या कथमिह गिरिकुञ्ले मीरुरेषा प्रहेया॥। १२४ ॥

समस्नेह्यानामपि संभवेत्। यदुक्म् 'आसां सुध्धु द्वयोरेव प्रेम्णः परमकाष्ठया। क्वचिजातु कचिज्जातु तदाधिक्यमिवेक्ष्यते ॥' इत्यतोऽसाधारणताख्यापकमुदा- हरणान्तरं वक्तुमाह-यथावेति। तत्रातिरहसि। स्भावसाजात्यवतीं कांचित् खशिक्ष्यमाणसख्यप्रकारां काचिदाह-सुरकुलेति। राघिकां चेति। चकारेण सूचितं श्रीराधिकाविषयकसेवाग्रहात्पतवं श्रीकृष्णस्रेहाधिक्यं बोधयति॥१२१ ॥ पूर्व सखीनां पाश्चविध्यप्रसञ्के सख्यः कुसुमिकाविन्ध्या इत्याद्या उक्ताः ॥ १२२॥ १२३॥ श्रीराधिकायाः प्राणसखी काचित् प्रखरा श्रीराधाभिसारं प्रत्याचक्षाणा वृन्दामाहू-विरमत्विति। प्रावृषेण्या प्रातृषि भवा। विषधराः सर्पाः। प्रहेया प्रस्थापनीया। तेन निर्भयः कालियादिसर्पमर्दनस्तयैव प्रच्छन्नमन्नाभिसारणीय

खसरयां चलनयुक्यलामेन रात्यागमे जाते क्राचित् प्रत्याचष्टे-विरमत्विति। प्रावृषेष्या प्राकृषिभवा ॥ १२१ ॥ १२२ ॥ १२३॥ १२४ । यत्र श्रीराधासख्ये

Page 259

२३६ + - काव्यमाला।

यथा वा- वयमिदमनुभूय शिक्षयामः कुरु चतुरे सह राधयैव सख्यम्। पप्रियसहचरि यत्र बाढमन्तर्भवति हरिप्रणयप्रमोदलक्ष्मीः॥१२५॥ या: पूर्व ग्राणसख्यश्च नित्यसख्यश्च कीर्तिताः। सखीस्नेहाधिका ज्ञेयास्ता एवात्र मनीषिभि: ॥ १२६॥ अथ समस्हा :- कृष्णे स्वत्रियसख्यां च वहन्त्य: कमपि स्फुटम्। स्नेहमन्यूनताधिक्यं समस्रेहास्तु भूरिशः ॥ १२७ ॥ यथा- विना कृष्णं राधा व्यथयति समन्तान्मम मनो विना राधां कृष्णोऽप्यहह सखि मां विक्कवयति।

इति भावः ॥ १२४ ॥ इदमपि वचनं पूर्वोक्तयुत्तया समस्नेहानामपि संभवेदित्यत आह-यथावेति । मणिमज्जरी कांचिन्नवीनां शिक्षयन्त्ाह-वयमिति। ननु राधयैवेत्येवकारेण किं श्रीकृष्णविषयकं नाभिप्रेतमित्यत आह-यत्र- त्यादि। यत्र श्रीराधासख्ये हरे: प्रणयः श्रीकृष्णकर्तृकं सख्यं स एव प्रमोद- लक्ष्मीः आनन्दसंपत्तिः साप्यन्तर्भवति किं पुनर्वक्तव्यं श्रीकृष्णविषयकं सख्यमन्त- र्भविष्यतीति। अयमर्थः । तव श्रीराधासखीले सिद्ध मत्प्रेयस्याः सखीयमिति खयि श्रीकृष्णस्य स्नेहाधिक्यमवश्यं भावि। श्रीराधायाः कदाचिन्मानगुरुणि राधादावतिदुर्लभ्ये तत्प्राप््यर्थ लामप्यपेक्षिष्यमाणेन तेन प्रथमत एव लया सह सख्यमवश्यं कर्तव्यमिति तेन सह तव सख्यभयत्नसिद्धमिति ॥ १२५॥ 'सख्यश्र नित्यसख्यश्च प्राणसख्यश्च काश्चन । प्रियसख्यश्च परमप्रेष्ठसख्यश्चेति पूर्वत्र यथोत्तरश्रध्ठयSप्युक्तेSत्र प्राणसख्यश्च नित्यसख्यश्चेति यथापूर्व श्रैध्ठ्ेनोकिरुदाहरणे मुख्यस्यैव प्राथम्यौचित्यात्। एवमग्रेऽपि 'परभप्रेष्ठसख्यश्च प्रियसर्यश्च ता मताः' इति वक्ष्यते ॥ १२६ ॥ श्रीराधायां मानिन्यामकस्मादागतां श्यामासखीं बकुलमालां प्रति चम्पकलता प्राह-विना कृष्णमिति। यत्र जन्मनि। श्रीहरिप्रणयानन्दसंपत्तिरन्तर्भावं प्राप्ोति ॥ १२५॥१२६॥१२७॥ विना कृष्णमिति । मानिन्यां सत्यां 'श्रीराधायां वामा सखीं प्रति समन्निग्धावाक्यम्।

Page 260

उज्ज्वलनीलमणिः । २३७

जनिः सा मे मा भूत्क्षणमपि न यत्र क्षणदुहौ युगेनाक्ष्णोर्लिह्यां युगपदनयोर्वक्शशिनौ ॥ १२८॥ तुल्यप्रमाणकं प्रेम वहन्त्योऽपि द्वयोरिमाः। राधाया वयमित्युच्चैरभिमानमुपाश्रिताः॥१२९ ॥ परमग्रेष्ठसख्यश्च प्रियसख्यश्च ता मताः। इति सखीविशेषप्रकरणम्।

॥ १२७ ॥ क्षणदुहावुत्सवपूरकौ ॥ १२८ ॥ तुल्यप्रमाणकमिति । नन्वत्र ग्रन्थे श्रीकष्णे स्नहाधिकाः, प्रियसख्यां त्नहाधिकाः, दवयो: समस्रेहा इति त्रैविध्य- स्यैव फलितले पूर्व सखीनां पाश्चविध्यं कथमुक्तम्। ससीस्नेहाधिकानां समस्ने- हानां चेति उभयासां प्रेमतारतम्यार्थ द्वविध्यतयोक्तिश्वेत् श्रीकृष्णे स्नेहाधिकानां कथमैकविध्यम्; तासामपि द्वैविध्यतयोक्तिरुच्यताम्। तासामपि किं प्रेमतार- तम्यं न संभवेत् तथा समस्नेहानां श्रैध्यमिव द्वयोरसमस्रेहानां निष्कर्ष एकरूप एव वक्तुमुचितः । कस्माच्छ्रीकृष्णे स्नहाधिकाः सख्यः कुसुमिका विन्ध्या इत्याद्याः सर्वतोऽपि न्यूनकक्षायां निवेशिताः । सप्रेयस्यां स्नेहाविकाः, प्रियसख्याँ स्नेहाधिका: श्रीकृष्णेनोत्कृष्यन्त इति चेत् खप्रियतमे प्रेमाधिकाः श्रीराधिकयाप्यु- त्कृष्यन्ताम्। ननूत्कृष्यन्त एव किंतु श्रीकृष्णेनैव संतुष्यता तानि तानि नामानि कृतानीति चेत् श्रीराधयापि कि तादृशानि कर्तु न शक्यन्ताम्। अयमन्न सभा- धिरवधेय:। सख्यः, नित्यसख्यः, प्राणसख्यः, प्रियसख्यः, प्रियनर्मसख्यश्चति ता वस्तुतः श्रीराधाकृष्णयोद्वयोरेव यथोत्तरप्रेमाधिक्यवत्यो भवन्तीति तथातथानाम- तयाख्यायन्ते। तथा हि याः श्रीकृष्णे स्नेहाधिकाः सख्यस्ताभ्यः सकाशात् दयो- रेवाधिकस्नेहवत्यो भवन्त्योऽपि नित्यसख्यः श्रीकृष्णविषयात् स्नेहाच्छ्रीराधाविषयं स्नेहं किंचिन्मात्रमधिकं वहन्तीति सखीस्रेहाधिका उच्यन्ते। ताभ्यो नित्य- सखीभ्यः सकाशादपि द्वयोरेवाधिकस्नेहवत्यः प्राणसखयोऽपि तथव श्रीरा- धायां किंचिन्मान्नस्नेहाधिक्यात् सखीस्नेहाधिकास्ता अप्युच्यन्ते। ताभ्योऽपि सकाशात् द्वयोरेवाधिकं स्नेहं किलन्यूनानतिरेकं वहन्तीति प्रियसख्यः समस्रेहा-

क्षणदुहावुत्सवपूरकौ।। १२८ ।। राधाया वयमिति। स्त्रीलादिसाम्येन

Page 261

२३८ काव्यमाला।

अथ हरिवल्लभाः। आसां चतुर्विधो भेद: सर्वासां ब्रजसुभ्रुवाम्। स्यात्खपक्ष: सुहृत्पक्षस्तटस्थः प्रतिपक्षक: ॥१॥

स्ताभ्योऽपि प्रियनर्मसख्यस्तथैव समस्रेहा इति। ननु भवलेषामुत्तरोत्तरोत्कर्षेण न विप्रतिपद्यामहे किंतु सखीसनेहािका यथा नित्यसख्यः, प्राणसख्य इति द्विविधाः कृतास्तथैव श्रीकृष्णम्नेहाधिका अपि सख्यः, स्त्निग्धसर्य इति नाम्रा द्विविधाः किं न कृता इत्यभिप्रायमनवाप्य मुह्यामः । सत्यमिह गोपीपद्वीप्राप्ती रागानुगां भकति विना न भवतीति पूर्वप्रतिपादितात् सिद्धान्तादानुग्यं च विना रागानुगाया असिद्धे रागानुगमनेनैव रागवतीनां तासामप्यनुगतिर्व्यार्यातेति अनुगम्या नित्यसिद्धा गोप्य इवोनुगळयोऽपि लब्धसिद्धयोऽनादित एवानुगम्याभ्य: किचिनन्यूनतया वर्तन्त एव। तत्र स्ववासनानुसारेण यूथेश्वरीणां तत्सखीनां चानुग्ये प्राप्ते याः समस्नेहपरमप्रेष्ठसखीरनुगकयस्ताः प्रियसख्यः, याश्चासमस्ेह्ासु मध्ये श्रीराधास्नेहाधिकप्राणसखीरनुगन्यस्ता नित्यसरयोऽनादित एव स्थिताः । श्रीकृष्णस्नेहाधिकां सखीनाभनुगळयस्तु नासन्निति तासामेकविध्यमनुगमनानर्हला- दन्याभ्योऽन्यूनतं च युक्तिसिद्धमेव । ननु ताः कथमनुगमनानर्हाः । उच्यते। रागानुगीयभक्तमते श्रीकृष्णादन्यूनप्रीतिमत्तयैवानुजिगमिषिता गोपी खल्वनु- गम्यते । तस्माच्यूनप्रीताप्यनुगमने वाच्ये वैधाद्रागस्य को विशेषः । भकतातु- गति विना वैधभक्तरप्यसिद्धेः । तस्माच्छ्रीकृष्णेऽधिका सखी तदनुजिगमिषुभि- जैनः श्रीकृष्णादन्यूनप्रीतिविषयीकर्तव्या, श्रीराधिकाद्या सर्वयूथेश्वरी तु श्रीकृष्णा- दीषन्न्यूनप्रीतिविषयी कार्येति सख्या: सकाशादपि यूथेश्वर्या अपकर्षे द्योतिते महाने- वानय इत्यतः सख्यो नानुगम्यन्त इति ता एकविधा एवेति सर्वमवदातम्॥१२९॥ इति सखीविशेषाणां वि्वृतिः । अथ सखीनां यूथेश्वरीणां च भावसाजात्यनिबन्धनान् मेदान् संक्षिप्य प्रदर्श- यन्राह-आसामिति। या यस्या इष्टं साधयत्यनिष्टं बाधते सा तस्याः तदन्तरेव प्रवेशात् ॥ १२९ ॥ इति सखीविशेषाः। अथ हरिवल्लभाः । अथ सर्वासामेव न्रजसुभ्नुवां भेदान्तराण्याह-आसामिति ॥१॥

Page 262

उज्ज्वलनीलमणिः । २३९

सुहृत्पक्षतटस्थौ तु प्रासङ्गिकतयोदितौं। द्वौ स्वपक्षविपक्षाख्यौ भेदावेव रसप्रदौ॥ २ ॥ प्रोक्तस्तन्र सवपक्षस्य विशेष: पूर्वमेव हि। सुहृत्पक्षादिभेदानां दिगेव किल दृश्यते ॥। ३ ।। तत्र सुहत्पक्ष :- सुहृत्पक्षो भवेदिष्टसाधकोऽनिष्टबाधकः। तत्रेष्टसाधकत्वं यथा- अद्याकर्णय मद्रिरं परिजनैरेभिः समं श्यामले राधायास्त्वयि सौहृदं सखि जगच्वित्तेषु चित्रीयतें। उल्लासाद्भवदाख्यया यदनिशं तस्याङ्गरागस्तया सान्द्रश्चन्द्रकशेखरस्य समये चन्द्रान्वितः प्रेष्यते ॥ ४ ॥

सुहत्पक्षः। यद्यप्येतत् सपक्षेण साधारणं तदप्येतन्मात्रले सुहृत्पक्षतं खपक्षस् तु ऐकमलैकधर्माधिकं बहुतरमेवासाधारणं लक्षणमसत ॥१॥२॥ ३।। कुन्दवल्ली श्यामाया गृहं गला तस्याः सभामध्यमासीना तामाह-अद्येति। अस्माभिः प्रतिदिनमेवाखादते। अद्य तु लामहं तदासादयामीति भावः । एभिः सममिति मद्रिरं मृषा मा मंस्थाः । एषां मध्ये केऽपि तत्र साक्षिणोऽपि भविष्य- न्तीत्यभिप्रायात्। लयि विषये श्रीराधायाः साहृदं पटो भग्र इति न्यायेन जग- द्वर्तिनामेव स्त्रीजनानां चित्तभित्तिषु लिखितं चित्रमिव शोभत इत्यर्थः। यदैव विभाव्यते जना: सचित्ते परमविस्मयानन्दं प्राय्नुवन्तीति भावः। तदेवाह-उल्ा- सादित्यादि। तसथ चन्द्रकशेखरस्य श्रीक्कष्णस्याह्गरागश्चन्दनागुसकुङ्डमकस्तूर्या- दीनां खकल्पिताद्भुतशिल्पकौशलेन योजनया साधितश्चन्द्रान्वितः कर्पूरयुक्कोडनु- लेफविशेषोऽनिशं नित्यमेव भवत्या आख्यया नाम्रा प्रेष्यते। अयमर्थ :- महयमिव २॥ ३। सुहृत्पक्षो भवेदित्यत्र यर्त्किंचिदेवेष्टसाधकत्वादिकं ज्ञेयम्। कात्मर्ये तु सख्यमापद्येतेति। यद्वा तदेतावन्मात्रं सौहृदलक्षणमित्यर्थ:। गाढप्रणवादिकं सख्य एवं ज्ञेयम् ॥ चन्द्रशेखरस्ेति । तादर्थ्ये संबन्धमात्रे षषठी।।४।।

Page 263

२४० काव्यमाला।

अनिष्टवाधकत्वं यथा- गीर्भिर्मूढजनस्य खण्डितमतिर्भाण्डीरमूले मुधा किं गन्तास्मि तवोदिते बलवती श्यामे प्रतीतिर्मम। निर्व्याजं वटराजरोधसि वधूवेषक्कियोद्भासिना कंसारि: सुबलेन गोष्ठनगरीवैहासिक: क्रीडति ॥५॥ अथ तटस्य :- यो विपक्षसुहृत्पक्षः स तटस्थ इहोच्यते ॥ ६ ॥

श्यामायै मत्कान्तेन तेन सौभाग्यं दीयतामित्यभिप्रायेण भवत्याः सखीनां मध्ये कामपि संबोध्य राधया एवमुच्यते-हे सखि, इममङ्गरागं गृहीता श्रीकृष्णनिकटं याहि। तेन पृष्टा लं श्यामालयैव लदर्थ खहस्तेनैव निर्मितोऽयमज्गरागो मद्ारा प्रेषित इति ब्रूहीति ॥४ ॥ पझ्माया उपजापाद्वधूं प्रति कुप्यन्ती जटिला भाण्डी- राभिमुखं गच्छन्ती दैवादागतया श्यामलया प्रतार्य प्रबोधिता तुष्यन्ती तां प्रत्याह-गीर्भिरित्यादि। मूढजनस्य तत्त्वानभिज्ञस्य पद्माभिघस्य जनसय [गीर्भि: भाण्डीरमूले ] किं गन्तास्मि कस्माद्यास्यामि नैव यास्यामीत्यर्थः । नन्विच्छा चेद्याहीत्यत आह-तवोदित इति। वटराजो भाण्डीरः । वध्वाः श्रीराधाया इव वेषक्रियाचरणनयनकरग्रीवादिचालनं ताभ्यामुद्धासिना। तन्रापि नारिति तयोर्भावान्तरं किंचित् किंतु विहसनमात्रमित्याह-गोष्ठनगर्यास्तद्वासिनी- नामस्मादृशीनां वृद्धानां वैहासिक: हे जटिले, लद्वधूमेताभनिष्टमनःपीडां विलोक्य कृपयाहं खवस्पर्शमणिदानेन तूर्णमेनां पूर्णमनोरथां करोमि तत् प्रत्यक्षमेवालोक्य खगोष्ठीमेव धन्यां मन्यस मह्यं च पारितोषिकं किंचिद्देहीति मां विहस्योत्क्षेपयति; तदहं तत्र नैव यामीति भावः ॥।५॥ "विपक्षस्य सुहृत्पक्षस्तटस्थः स्यात्" इति लक्षणं श्रीभगवतैवेन्द्रमखभङ्गप्रसन्वे व्यञ्जितम्। यदुक्त-"उदासीनोऽरिव- द्वर्ज्य आत्मवत्सुहृदुच्यते" इति। उदासीनतटस्थः, अरिवत् न खरिः। सुहद्धन्धुः गीरभिरिति। जटिलानाऊ्र्या वृद्धाया वचनम्। वैहासिक इति। नापि तत्र तयोर्भावान्तरं किंतु विह्सनमात्रमिति भावः ॥ ५ ॥ विपक्षस्य सुहृत्पक्ष इति। विपक्षे सौहृद्यमात्रपरिग्रहात्तदीयमर्मास्पर्शात् न तद्वदीर्ष्यादिकं तदीयविपक्षे

Page 264

उज्ज्वलनीलमणिः । २४१

यथा- खेदं न व्यसने तनोषि वहसे नोल्लासमस्याः शुभे दोषाणां प्रकृटीकृतौ नहि धियं धत्से गुणानामपि। अव्याक्षिप्तमनोगतिः सुवदने द्वेषेण रागेण च त्वं श्यामे मुनिवृत्तिरत्र सततं चन्द्रावलौ दश्यसे ।। ७॥ अथ विपक्ष :- मिथ्याद्वेषी विपक्ष: स्यादिष्टहानिष्टकारक: ।

आत्मवन्नलात्मा। किंतु स्त्रीपुत्रभृत्यादिषु सुहृच्छन्दप्रयोगदर्शनाभावात्तद्भिभ्नात्म- हितकर्ता सुहृदुच्यते इति तेन खपक्षभिन्नले सति हितकर्तृतमिति सुहदो लक्षण- मायातम्। उभयन्रापि वतिप्रत्ययेन प्रकृत्यर्थे हितकर्तृलेनांशेनैव सादृश्यमुच्यते। ततश्च उदासीनोऽरिवत् अरिहितकर्तृतादरिसुहृद्धदविश्वास्यतया उपेक्ष्यः, सुहृदा- त्मवदात्महितकर्तृत्वादपेक्ष्य इति ।। ६॥ पद्मा श्यामामुपालम्भगर्भस्तुत्या प्राह- खेदमिति। अस्याश्चन्द्रावल्या व्यसने अमङ्गले सति खेदं न किंलन्ततः सुख- मेवेति ध्वनिः । शुमे सति नैवोल्लासं किंलन्ततः किंचित्खेदं दोषाणां प्राकट्य- स्यैव करणे धियं न धत्से किंतु सुगुप्तमपकारं करोष्येव। यतस्तवं राधाया हित- कत्रीति भावः । गुणानामपीत्यत्र केवला अभिधव न तु व्यञ्ना प्रवर्तितुं प्रभ- वति तस्या हि दोषाणामिति प्रथमप्रवर्तितया व्यञ्ञनया बाधितलात्। यद्वा भाव- गोपनार्था भरीचिकायमाना व्यअ्नापि जेया। तथा हि गुणानां प्रकटीकरणे धियं न धत्से किंतु तद्रोपन एवेति भावः। रागेण प्रेम्णा पक्षे द्वेषकारणेन रागेण च कोपेनेत्यर्थः । न विशेषेणाक्षिप्ता आक्षेपविषयीभूता मनोगतिर्येस्याः सा। हन्त निरपराधां चन्द्रावलीमहं द्वेष्मि तद्िओे मन इति ते कुन्नापि नानु- तापः स्यादिति भावः । सुवदने इति तन्र तव वदनप्रफुल्लतैव तस्य परिचायि- केत्यर्थः । मुनिवृत्तेर्मौनेनैव सर्व सापेक्षितं कार्य साधयसीति भावः । एवं च विपक्षहितकारितलि्वेन तटस्थपक्षोऽन्तरैर्वरगर्भमौदासीन्यमयं व्यवहरतीति फलि- तोऽर्थः । अन्तर्बहिरेकरूपभौदासीन्यमेव भजननन्यतटस्थस्तु विपक्षस्यापि हिताहितकारी न भवति यः सोऽन रसानाधायकतानोदृतः ॥ मिथो द्वेषी जनो भजतीति तटस्थ एवं स्यादिति भावः ॥६॥ ७॥ मिथो द्वेषी जनो विपक्ष: १६ उज्व०

Page 265

२४२ काव्यमाला।

तत्रेष्टहन्तृत्वं यथा- राधे त्वत्पदवीनिवेशितदृशं कुञ्जे हरिं जानतीं पझ्मा तत्र निनाय हन्त कुटिला चन्द्रावलीं छद्मना। इत्याकर्ण्य मुकुन्द सा सुबलतः स्तब्धा तथाद्य स्थिता दृष्ट्ा नीलपटीं तनौ जटिलया प्रातर्यथा तर्जिता ।। ८ ।। अनिष्टकारित्वं यथा- कुतः पझमे पुत्रि क्षितिघरतटादम्ब जटिले वधूर्दष्टा दृष्टा क नु रविनिकेतस्य पुरतः । चिरं नायात्येषा कथमिव निरुद्धात्र हरिणा तवाध्वानं पश्यत्यहह भवती धावतु रुषा ।। ९ ।।

व्यक्तिं यात्युक्तिचेष्टाभिः प्रतिपक्षसखीष्विदम्।

मिथो विपक्षः स्यात्। द्वेषलिङ्गमिष्टहेतादि ॥ ७॥ वृन्दा श्रीकृष्णमाह-राघे इत्यादि। अद्येति। पूर्वरात्रिमारभ्याद्यपर्यन्तमित्यर्थः । नीलपटीमिति तदुप- लक्षितलेनान्धकाराभिसारोचितं सर्वाङ्गाभरणं च । अद्य तथा स्तब्धा स्थिता यथा तर्जितेति। स्तम्भोऽपि तया भयहेतुकलेन न विचारित इति बोध्यम्। तर्ज्िता अपि कूलद्वूयकज्जलपत्रिके अभिसारोचितवेषभूषां धृला किंमस्मद् हे वससि किं ललितादया दूत्योऽद न मिलिताः, उत्तिष्ठ मयैवोच्यसे उपपरतिसमीपं याहि मद्गृहं मा पुनरागच्छ युवयोश्चिकित्सार्थ मया सपुत्रया संप्रति मथुरां गम्यत इत्यादिकट्क्तिभिः ॥८॥ जटिलापद्मयोरुक्तिप्रत्युक्ती । कुत इति स्पष्टम् । धावतिति श्रीराधाकृष्णयोः सुरतानन्तरं स्थानान्तरगमनशङ्कया॥ ९॥भानुमती स्यादित्यर्थः । स चेदिष्टहानिष्टकारकश्च स्यात्। नीलपट्या अन्धकाराभिसार- लक्षणतात् कृष्णानुरागतस्तद्वर्णमयताद्दशपटीधारणसंभवाच। धूर्ततया तर्जितेवि

Page 266

उज्ज्वलनीलमणिः । २४३

तत्र छद्म यथा-

श्रुत्वा कीचकमद्रिमूर्धनि पशवः श्यामं च दष्ट्राम्बुदं धावन्त्वल्पधियः कथ त्वमपि धिग्धीराधिकं धावसि। इत्युच्चैरनृतोत्तरेण तरलां प्रत्याय्य पद्मामसौ. प्राप्ता पश्य गृहं करोति ललिता राधाप्रमाणे त्वराम्।। ११।। अथेर्ष्या- उद्धटय्य कुटिलं कचपक्षं देवि दर्शयसि किं वनमालाम्। नीलयष्टिवंदमुं मदलिन्दे लोकयालि वनमालिनमेव ।। १२ ॥।

मणिमज्जरीमाह-श्रुत्वेति। कीचकं सशब्दवंशजातिविशेषम् । 'कीचकासते स्युर्ये खनन्त्यनिलोद्धताः ।' इत्यमरः। कीचकं वेणुध्वनि मला अम्बुदं श्रीकृष्णं मला पशवो गावो धावन्तु नाम। हे पझ्मे, लमपि तथैव धावसि घिक् लां तब बुद्धिं धीरतां वा। प्रत्याय्याम्बुदं प्रतीति कारयिला ॥१०॥११॥ श्रीकृष्ण- दत्तवनमालादर्शनया खवसौभाग्यातिरेकं दर्शयन्तीं पद्मां पथि ललिताह-कचपक्षं केशसमूहम्। 'पाशः पक्षश्र हस्तश्व कलापार्थाः कचात्परे' इत्यमरः। कुटि- लमिति। जानीमसे कुटिला: केशाः अतस्तेषां कौटिल्यरूपं सौन्दर्य दर्शयसि। नलस्माकमिव ते तव स्त्िग्धाः सूक्ष्मा इति भावः । वीलयष्टिवदिति। श्रीकृष्णस्य स्तम्भं सात्त्विकमपि विज्ञापयामास स च श्रीराधिकादिदर्शनानन्दोत्थो वा तदभिनीतमाननिबन्धनाद्भयाद्वा अभूदित्यभ्यसूयां चकार। लोकय हे सखि्रि, मदगृहं गला तं पश्य तेन च तन्निकट चेद्रन्तुं शक्कोषि तदा मालामिमां तद्वत्तां प्रत्येमि। अन्यथा तत्कण्ठाद्द्रष्टामिमां कुतोऽपि मार्गाद्विचित्य शिरसि दधासीतये- वभेव प्रत्येमीति भावमपि ज्ञापयामासैवेति ॥। १२ ॥ शुद्धेष्यामुदाहृत्य असूया-

नीलपदस्य शक्त्या गम्यते ॥८॥। ९॥१० ॥ गृहं प्राप्ता ॥ ११ ॥ कचपक्षं कचसमूहम् । 'पाशः पक्षश्र हस्तश्व कलापार्थाः कचात्परे।' इतमरः ।

Page 267

२४४ काव्यमाला।

यथा वा- निर्बन्धप्रवणेन कंसरिपुणा प्रागर्प्यमाणोऽपि यः प्राज्यं दोषमवेक्ष्य नायकमणौ न सवीकृतोऽभून्मया। हारः संप्रति सोडयमेव विषमो लब्धे क लब्धस्त्वया द्रागिष्टोऽप्युरगक्षताङ्कुलिनिभो दुष्टः सखि त्यज्यताम्॥१३॥ अथ चापलम्- नात्मानं व्यथय वृथा निकुञ्जमध्ये खद्योति द्ुतिमिह कुर्वती सरागम्। कृष्णाम्रे गिरिवरसंगतेऽनुरूपा सोमाभा विलसितुमत्र विद्युदेव॥ १४ ॥

गर्भामपि तामुदाहर्तुमाह-यथावेति । पद्मा पथि दृष्टां कांचिदाह-'निर्ब न्घेन सखि गृहाण कृपया-' इत्यादिचाटुभिः प्रवणेन नम्रेणापि अर्प्यमाणोऽपि दीयमानोऽपि न गृहीतः । कुतः नायकमणौ हारमध्यनायके प्राज्यं प्रचुरं दोषं धारयितुरसौभाग्यकरणलक्षणकम्। सोऽयं मत्परिचित एवेत्यर्थः । श्रीकृष्णेन दत्त इष्टश्वेत्तदपि त्यज्यतां त्यागे दुःखं स्यात्तदपि सहसवेत्याह-उरगेण क्षतोड़ डुलिः सदेहावयवोऽपि छिद्यत एव न चेत् प्राणहानिरपि स्यादिति। लामह- मन्तरङ्गतया उपदिशामीति भावः ॥ १३ ॥ संकेतकुजे श्रीराधामभिसार्य तत्र श्रीकृष्णमदृष्टा तदन्वेषणाय गोवर्धनपार्श्वे गतां त्र क्वचन कुञे चन्द्रावल्यां संगतं श्रीकृष्णं दृष्टा क्षणमुदर्क चिन्तयन्तीं कांचित् श्रीराघासखीं जानत्येव पद्मा खद्योतीमपदिश्य सासूयभाह-हे खद्योति, सरागं यथा स्यात्तथा द्युरति कुर्वता आत्मानं न व्यथय दुःखितं न कुरु। तव मनोरथोऽ्द् न सेत्स्यतीति भाव:। कृष्णवर्णे मेघे सा प्रसिद्धा उमा दुर्गा तदाभा तद्वर्णा, विद्युत्पक्षे सोमाभा चन्द्रा

नीलयष्टिवदित्यादिकमीर्ष्यया तथैवोक्तम्॥ १२॥ प्राज्यं प्रचुरम्।।१३॥ सोमाभा-

Page 268

उज्ज्वलनीलमणिः । २४५

असूया- यद्भाण्डीरे तव सहचरी ताण्डवं सा व्यतानीत् पझ्मे सै(शै)व्या समजनि न तत्कस्य विस्मापनाय। सा चेत्तन्वी प्रकृतिलडहा शिक्षिता चाभविष्य- न्मन्ये सर्व जगदपि ततश्चेष्टयामोहयिष्यत् ॥।१५॥। मत्सर :- अलंचके राधाहृदय्रमुरुहारेण हरिणा स्त्नजा धूर्तेनेयं तव तु कबरश्रीरवरया। मनो द्वन्द्वातीतं मुनिवदविकल्पं च दधती तथापि त्वं सुग्धे न विपिनविनोदाद्विरमसि ॥ १६ ॥ अमर्ष :- स्फुटद्धिरिव कोरकैरलघुभिश्च गु्जाफलै- र्मयाद्य विरचय्य यन्मुरहराय विश्राणितम्।

वली अनुरूपा योग्या॥। १४ ॥ रङदेवी पद्मामाह-प्रकृतिलडहा खभावेन सुन्दरी शिक्षिता अर्थोत्त्वया। यद्ा शिक्षिता निपुणा। लमिवेति भाव: ॥ १५ ॥ पद्मा चन्द्रावलीमाह-उरुहारेण बहुमूल्येन। मुक्ामयेनेत्यर्थः । स्रजा द्वित्रिकपर्दिकामूल्यया। तत्राप्यवरया निकृष्टया ॥ १६॥ चन्द्रावली खसखीं प्रेमगर्भमुपालभते-स्फुटद्भिरिति। विश्राणितं दत्तम्। तत्सभायां खं मनः कर्म उदघाटि उद्धाटितम्। खमनःस्थदुःखं यत्प्रकाशितमित्यर्थः । तदतिलाधवाय मानहानये तदानीं कृत्रिमोऽपि मुखप्रसाद एवान्तरङ्गताव्यज्ञकः कर्तुमुचितः स्यात्। सखि राधे, चन्द्रावल्या अतिविचित्रं शिल्पकौशलं ब्रजस्थैः

नान्नी विद्युदेवात्र विलसितुमनुरूपेत्यन्वयः ॥ १४ ॥। प्रकृतिलडहा खभाव- सुन्दरी ।। १५॥। अवरया अधमया सजा। यद्ा 'हृदयमुरुमूल्यैर्मणिसरैः', १. 'ततः' प्रेक्षया' इत्यपि पाठ :.

Page 269

२४६ काव्यमाला।

त्वयात्र सखि राघिकाश्रवसि वीक्ष्य तत्कुण्डलं मनः खमुदघाटि यत्तदतिलाघवायैव नः ॥ १७॥ गर्वितम्- अहंकारोऽभिमानश्च दर्प उद्धसितं तथा॥ १८ ॥ मद औद्धत्यमित्येष गर्वः षोढा निगद्यते। तत्राहंकार :- अहंकार: पराक्षेप: सपक्षगुणवर्णनात् ॥१९।। यथा- आकाशे रुचिलवमिन्द्रनीलशोभे सोमाभा जनयति तावदस्फुटश्रीः । नेत्राणां तिमिरहरा वरेण्यदीपिः सा यावन्नहि वृषभानुजाभ्युदेति॥ २०॥

सवैयौवतैरेवाविज्ञातमिदं लामपि विस्मापयितुं तुभ्यं श्रीकृष्णेन दत्तमिति वा वकुं युज्येतेति। किं वा हे सखि, प्रातर्यमुनातटमार्गे पतितं यददय कुण्डलं दृष्टं कया सख्या आनीय तत्कर्णे दत्तमिति मृषोक्तिरपि वक्तुं नाज्ञायि भवत्येति लह्ु- द्िस्तया गर्हितेति ज्ञेयम् ॥ १७ ॥ गर्वितं गर्वस्तस्य लक्षणमन्यहेलनमिति। अहंकारादयस्तद्विशेषाः ॥ १८ ॥। १९॥ कदाचिच्चन्द्रावलीसभां गतवती ललिता 'सोमाभयैव कृष्णव्योम शोभते' इति ब्रुवाणां पद्मां प्रत्याह-आकाश इति। इन्द्रनीलस्येव शोभा यस्य तस्मिन्नाकाशे, पक्षे आ सम्यक् प्रकाशत इति श्रीकृष्णे रुचिलवं कान्तिलेशं रोचकत्वलेशं च। अस्फुटश्रीः श्रीकृष्णसौन्दर्येण तत्सौन्द- 'स्नजा कृष्णेनेयम्' इति वा पाठः ॥ १६ ॥ विश्राणितं दत्तम् ॥ १७॥ गर्वितं गर्वः । अस्य सामान्यतो लक्षणमन्यस्य हेलनं गर्व इति ॥१८॥१९॥ अस्फुटश्रीरिति। न विद्यते स्फुटा श्रीर्यतः सा । सर्वोत्तमश्रीरपीत्यर्थः । तथापि संदिम्धार्थतयोकतिरहंकारेणैव। लवपदोक्तिरपि तेनैव। आ सम्यक्

Page 270

उज्ज्वलनीलमणिः ।

अभिमान :- अभिमानो निजग्रेमोत्कर्षाख्यानं तु भङ्गितः। तत्र कृष्णे स्वपक्षप्रेमाख्यानं यथा- त्वं धीरघी: फणिह्वदे हरिझम्पगाथां निष्कम्पमेव सदियं गदितुं प्रवृत्ता। तत्रानुषङ्गिकतयाप्युदिते कदम्बे वक्षः पिनष्टि रुदती तरला सखी मे ॥२१ ॥

र्याच्छादनादिति श्रीकृष्णपक्षे ध्वनिः । वृषभानुजा ज्येष्टमाससूर्योद्गवा, पक्षे श्रीराधा अभ्युदेति। श्रलेषेण आकाशस्य श्रीकृष्णस्य च सैवाभ्युदयः परममाङ्गल्यम् ॥ २० ॥ निजः खपक्षस्तस्य तस्मंश्र यः प्रमोत्कर्षः ॥ चन्द्रावलीं प्रति ललिता प्राह-त्वमिति। झम्पः उन्नतदेशात् बलेन जले विनिपातः । आनुषत्ञिकतया कथान्तरप्रसङ्वेनापि। न जाने साक्षात् कालियमर्दनवार्तायां किं स्यादिति भावः । यतो झम्पस्तस्मिन् कदम्बेऽपि तथा उदितेऽस्माभिरुक्तेऽपि। सवयं कीर्तिते तु न जाने किं स्यादिति भावः । रुदती सती वक्षः पिनष्टि। तन्र हेतुस्तरलाता- रलमेव। वं प्रेमवत्यपि तत्कीर्तने यन्निर्विकारा तत्र धैर्याधिक्यमेवेति व्याज-

काशत इत्याकाशपदेन तु श्रीकृष्ण एव विवक्षितः । 'आकाशे रुचिमपि नीलरल- शोभे सोमाभा जनयति तारका विजित्य' इति। तथा 'सा यावन्नहि सखि भानुजा' इति वा पाठः ॥२० ॥ अ(त)त्रति । कृष्णेति। यः खपक्षस्य प्रेमा तस्याख्यानं यथेत्यर्थः । अतः पूर्वमपि निजपदेन सपक्ष एवोक: त्वं धीरधीरिति। तत्प्रस्तावमात्रं निन्दिता सयं यत् प्रस्तुतं तत्सल गौणरसेषु हासादीनामिव स्थायिनमावृत्य गर्वस्योदयादिति ज्ञेयम्। झम्पोऽयमव्य- कशब्दानुकरणमुन्नतदेशाद्वलेन जले पतनवाची देशीयः। 'प्रदत्तझ्म्पः स्तन- सङ्गवाञ्छया' इति। तद्वत् पतनसाम्येपि प्रयुज्यते। तत्र तज्झम्पसंब- न्धिनि कदम्बे उदिते कथिते। तदिदं तु तया कृतं यत्किंचित्प्रस्तावमालम्ब्ये-

१. अत्र संयोगपरलेऽपि कवेरिकारस्य इस्वतकल्पनं भ्रममूलकमिति भाति.,

Page 271

२४८ काव्यमांला।

स्वपक्षे कृष्णप्रेमाख्यानं यथा- घन्यासि कृष्णकरकल्पितपत्रवल्ली- रम्यालिका विहरसे मदमन्थराङ्गी। हा वश्चितास्मि कलिते ललितामुखेन्दौ जाड्यं स यात्यखिलशिल्पधुरंधरोऽपि। २२॥ दर्प :- गर्वमाचक्षते दर्प विहारोत्कर्षसूचकम् ॥ २३॥ यथा- विद्यः पुण्यवतीशिखामणिमिह त्वामेह हर्म्ये यया नीयन्ते शरदिन्दुधामधवलाः सापोत्सवेन क्षपाः । कोऽयं नः फलति स्म कर्मविटपी वृन्दाटवीकंदरे इयाम: कोऽपि करी करोति हृदयोन्मादेन निद्राक्षयम्॥२४॥

स्तुत्या श्रीकृष्णविषयकः श्रीराधायाः प्रेमोत्कर्षो ज्ञापितः ॥ २१॥ ललितायाः सखी रत्नप्रभा पथिे मिलन्तीं पद्मामाह-धन्याSसीति। अलिकं ललाटम्। ननु यूयमपि स्वाधीनकान्तलेन ख्याता: स्थ किमेवं व्रूथेत्यत आह-हा वश्चि- तेत्यादि। कलिते दृष्टे जाड्यमिति ललिताविषयकः श्रीकृष्णस्य प्रेमोत्कर्षो ज्ञापितः ॥ २२ ॥ कदाचित् यौवतसदसि प्रसङ्गसंगतया नान्दीमुख्या कथ्य- मानाया: पुराणकथायाः श्रवणप्रसज्वेन ललिताद्ा घूर्णिताक्षीर्वीक्ष्य हसन्तीं पद्मां ललितैवाह-विद् इति। पुण्यवतीति। पूर्वजन्मनि यत् पुण्यं भवत्या कृतं तदस्माभिने कृतम् । कर्मविटपी प्राचीनकर्मरूपो वृक्षः फलितोऽन्यथा पूर्णचन्द्रासु रात्रिषु पराधीनतया ध्वान्तावृतकंदरगिरिगह्वरादिषु जागरादिदुःखं कथं संभवेत्। यतो दिवसेऽपि तदालस्यक्रभवशात् पुण्यकथाश्रवणभाग्यस्या- षर्यया विस्तार्यैव प्रोक्तं तस्यापि सर्वातिक्रमिप्रेम्णां श्रीव्रजदेवीनामेकतरलाव ।l २१॥ सपक्ष इति पूर्ववद््याख्येयम् ॥ अलिकं ललाटम् ॥। २२ ॥ कोऽपि हृदयोन्मादेन निद्राक्षयं करोतीति खप्रमिव प्रकटं व्यज्य जागर एव गूढ व्यज्यते।

Page 272

उज्ज्वलनीलमणिः । २४९

उद्धसितम्- उपहासो विपक्षस्य साक्षादुद्धसितं भवेद्। यथा- नोच्चैर्निश्वसिहि प्रसीद परमे मुश्च ग्रहं दुर्लभे ग्लानिं ते सखि वीक्ष्य हन्त कृपया मच्चित्तमुत्ताम्यति। बद्ध: पश्य विभङ्गरेऽत्र ललितावाग्वागुराडम्बरे जानीते न किल खमेव सरले श्यामः कुरद्रीपतिः ॥२५॥ मद :- सेवाद्युत्कर्षकृद्वर्वो मद इत्यभिधीयते ॥ २६ ॥

व्यभाव इति व्याजस्तुत्या खपक्षपरपक्षयोः श्रीकृष्णकर्तृकसंभोगतदभावौ ज्ञापितौ ३। २३॥ २४ ॥ चन्द्रावली संकेतस्थां विधाय श्रीकृष्णमानेतुमागतां दैवाल्ललि- तामिलितं श्रीकृष्णं दूराद्विलोक्य विषीदन्तीं पद्मां विशाखा प्राह-नोञ्चैरिति। प्रसीद आत्मानमदृष्टं विभाव्य विवेकास्त्रेण खेदं संछिद प्रसन्नमुखी भव्। दुर्लमे वस्तुनि श्रीकृष्णनिनीषारूपे ग्रहमाग्रहम्। नतु वं किमेवं ब्रवीषीत्यत आह- ग्लानिमित्यादि। युक्तिस्तु काप्यत्र नास्तीत्याह-बद्ध इति। पश्य स्चक्षु- रभ्यामेव प्रतीहि। विशेषतो भङ्गरे वागेव वागुरा मृगबन्धनी तस्या आडम्बरे आरम्भे । 'आडम्बर: समारम्भे गजगर्जिततूर्ययोः ।' इति विश्वः। मत्सखीं स्मृता ललितां प्रतार्य खयमेवासौ आयास्यतीति चेत्तत्राह-खमेव न जानीते नानुसंधत्ते कुतस्ते सखीं ज्ञास्यति। तद्वाआधुपानमदविस्मृतदेहदैहिक इत्यर्थः। सरले इति। इयांस्ते पराभर्षोऽपि नास्तीति भावः ॥ २५॥ सेवा श्रीकृृष्णविषया

यत्र श्यामपदेन श्रीकृष्ण एव व्यक्तः ॥ २३ ॥२४॥ वागुरा मृगबन्धनी

१. 'कुरआ्ाधिपः' पाठान्तरम्.

Page 273

२५० काव्यमाला।

यथा- जगति ललिते धन्या यूयं सुगन्धिभिरद्ुतै रविरविरतं याभि: पुष्पैरमीभिरुपास्यते। बत विधिवशाज्जातं वन्यस्रजि व्यसनं तथा दुलमपि न नः कात्यायन्यै यथा परिशिष्यते ॥ २७॥ औद्धत्यम्- स्पष्टं स्वोत्कृष्टताख्यानमौद्धत्यमिति कीर्त्यते। कस्तावद्गजमण्डले स वलते गान्धर्विका स्पर्धतां सार्ध हन्त जनेन येन जगतीजङ्घालकीर्तिध्वजा।

परिचर्या। सूर्यपूजार्थ पुष्पमवचिन्वानां ललितां पद्मा प्राह-जगतीति। ननु भवतीभिरपि कथं कात्यायनी तथा नोपास्यते इति चेत् अयिं नाला- कमीदशं भाग्यमित्याह-बतेति । वनंमालाग्रथने तथा व्यसनमासक्तिः । दलमपीति यानि यानि समीचीनानि पुष्पपत्राणि सखीभिरानीयन्ते तानि सर्वाणि चन्द्रावल्या वनमालायामेव विनियुज्यन्ते न तु कात्यायनीपूजायाम्। मन्ये इष्टदेवतायां तस्या भक्तिर्नास्ति यथा राधिकाया इति भावः ॥ २६॥२७॥ स्पष्टमिति अभिधयैव न तु व्यज्ञनयेत्यर्थः ॥ सखि नान्दीमुखि, तादृशोऽयं काल आगतो यथा राधापि चन्द्रावल्या सह स्पर्धते। सा ह्यस्माभिस्तारालेन गण्यते ।' इति पद्मासंजल्पं लतान्तरेSलक्षितैव ललिता श्रुला तदैव स्पष्टीभूय स्पष्टमेव ससरम्भं प्राह-कस्तावदिति। सजनस्तावत् को वलते। सामर्थ्य धत्त इत्यर्थः । स्पर्धतामिति संभावनायां लोट्। जगत्यां जङ्गालो वेगवत्तरः कीर्तिध्वजो यस्याः सा। 'जङ्गालोऽतिजवः' इत्यमरः । अतिजवलं तस्य विचित्य सर्वकीर्ति विजेतुमिति प्रयोजनं ज्ञेयम्। तस्यां गान्धर्विकायां व्रज एव विराज- मानायां सत्यां युष्माभिरपि श्रीकृष्णाङ्गस्पर्शो मनोरथविषयीकर्तु शक्यत इति

॥ २५ ॥ २६ । २७ । जगत्यां जङ्ालो व्रेगवत्तरः कीर्तिध्वजो यस्याः।

Page 274

उज्ज्वलनीलमणिः । २५१

कुल्यायाः कृपणावलीषु कृपया कामं द्रवच्चेतसो यस्याः प्रेरणया क्षणं भवति वः पद्मे निषेव्यो हरिः ॥ २८ ॥ किं च श्िष्टोक्तिश् क्वचित्तासां निन्दागर्भोषजायते ॥२९॥ यथा- गोविन्दाहितमण्डना विधुरतावाप्तिप्रसङ्गोज्झिता दक्षानल्पकला वयोघनरुचिं तन्वा मुहुस्तन्वती। सर्वानुत्तमसाधुतापद कृतिर्भव्ये भवत्याः सखी नासौभाग्यभरात्कदापि विरतिं प्राम्नोति सौदामिनी ॥ ३० ॥

परम एवासंभवः । किंतु कुल्याया महाकुलोद्भवायाः अत एव तथाभिजात्यादेव कृपणावलीघु युष्मादृशीषु कृपया सर्वथा मत्प्रेमाधीनस्य मत्कान्तस्य सङ्गमप्राप्य सर्वा एता महाकामज्वरेण संतप्यमाना हा भरिष्यन्त्येवेति दयया द्रवीभवच्चित्ताया यस्याः श्रीराधायाः ॥ २८ ॥२९ ॥ सदसि कदाचित् सखीनां रूपगुणप्रेमादिविवे- चनप्रसज्े चन्द्रावल्याः सखीं भव्याभिधानां प्रति चम्पकलता प्राह-गोविन्देना- हितमर्पितम्, पक्षे तस्याहितमप्रियं मण्डनं हारपत्रभङ्गयादिकं यस्याः सा। विधुरता दुःखिता, पक्षे विधो: श्रीकृष्णस्य रतं संभोगस्तस्यास्तस्य च अवाप्तिः प्राप्तिस्तत्प्रस- देनाप्युज्झिता त्यक्ता। अनल्पकला पूर्णवैदग्ध्या। वयसो यौवनस्य घनां निबिजं रुचिम्, पक्षे अनल्पकलौ बहुतरकलहे दक्षा अयोघनरुचिं लोहमुद्ररकान्तिम्। 'द्रुघनो मुद्ररघनौ' इत्यमरः। सर्वानुत्तमा सर्वतोऽपि अत्युत्तमा। साधुतापरदं साधुल्ास्पदं कृतिर्व्यापारो यस्याः सा, पक्षे सर्वा अनुत्तमा उत्तमलरहिता साधु- कुल्याया: कुलीनायाः । कृपणावलीषु युष्मद्विधासु ॥ २८॥२९ ॥ मोविन्देना- हितमर्पितम्, पक्षे गोविन्दस्याहितं द्वेषविषयं मण्डनं यस्याः। विधुरता दुःखिलम्, पक्षे विधो: श्रीकष्णस्य रतं सुरतं तस्यास्तस्य वा अवाप्तिप्रसङ्गेनाप्युज्झिता। अनल्प- कला बहुकला वयसोद्यतां रुचिम्। पक्षे अनल्पकलौ दक्षा। अयोघनरुन्वि लोह- मुद्ररकान्तिम्। अनुत्तमलवं सर्वोत्तमलम्। पक्षे उत्तमतारहितलम्। असौ भवत्याः सखी। पक्षे असौभाग्यभरात दौर्भाग्यातिशयात्। सौदामिनीनास्नी॥३० ॥

Page 275

१५२ काव्यमाला।

यथा वा- समस्तजनलोचनोत्सवविनोदनिष्पादिनी

निरस्य हरितालजं रुचितरङ्गमात्मोर्जितैः सखी नटति ते रसस्खलितमत्र खेलावती॥ ३१॥

तापदा साधुभ्यस्तापदात्री कृतिः कर्म यस्याः सा। हे भव्ये सखि, असौ भवत्याः सखी भाग्यभराद्विरति न प्राप्तोति, पक्षे असौभाग्यभराददौर्भाग्यातिश- यात्। सौदामिनीनान्नी।। ३०॥ निन्दागर्भेत्युक्तं सा च निन्दा द्विधा प्रेम्णो गुणस्य च । पूर्वा उक्ता, उत्तरां वक्तुमाह-यथा वेति। शैव्यां प्रति रङ्ग- देव्याह-समस्तति। विनोद आनन्दः, पक्षे विशेषेण नोदो दूरीकरणम्। विलक्षणा विचित्रा या गतिक्रिया नत्यगतिविशेषस्तयाप्यविचलिता शिक्षाचातुर्य- विशेषबलात् यथास्थान एव स्थिता अज्वेषु हारस्य स्थितिरवस्थानं यस्याः सा, पक्षे विगतलक्षणा संगीतशात्त्रोक्तलक्षणादन्या या गतिक्रिया तया विचलिता स्खलिता अङ्गहाराणां नृत्योचिताङ्गविक्षेपाणां स्थितिर्मर्यादा यस्याः सा। 'अङ्ग- हारोऽङ्गविक्षेप:' इत्यमरः । हरितालं धातुविशेषसतदुद्भवं रुचितरङ्नं कान्तिल- हरीमात्मनो देहस्य ऊर्जितैः कान्तिबलै्निरस्य न्यक्कृत्य, पक्षे हरेसतालसेन वादितो झम्पचच्चत्पुटादिसंज्ञस्तासस्तदुद्धवो यो रुचितोऽभीप्सितो रह्स्वं निरस्य आत्मन ऊर्जितर्देहस्य प्राणनैश्चाश्चल्यः । 'ऊर्ज बलप्राणनयोः' । रसेन रखलितं नृत्यगतिविशेषो यत्र तद्था स्यात्। यद्वा अरसस्खलितं रसच्युतिरहितम्, विनोदो विलास:, पक्षे दूरीकरणम्। विलक्षणा परमाश्चर्या या गतिक्रिया तया विचलिता अङ्गस्य हाराणां च स्थितिने ्रल्यं यस्याः । पक्षे विगतसंगीतोक्तलक्षणप गतिक्रिया सवच्छन्दाङ्गचालनरूपप्रक्रिया तया विचलिता स्थानभ्रष्ा अङ्गस्य हाराणां च स्थितिनैश्चव्यं यस्याः। पक्षे विगतसंगीतोकत्षाा गतिक्रिया ्च्छदा- जचालनरूपप्रक्रिया तया विचलिता अङ्गहाराणामङ्गचालनसौष्ठवानां स्थितिर्मर्यादा यस्या: । हरितालं धातुविशेषः । पक्षे हरेसतालस्तेन वादितः कालक्रियामान- सय: शब्दसतस्माज्जातम् । देहस्योर्जितः शिक्षामयशक्तिविशेषैः । पक्षे स्ाच्छ-

Page 276

उज्ज्वलनीलमणिः । २५३

यास्तु यूथाधिनाथा: स्युः साक्षान्नेर्ष्यन्ति ताः स्फुटम्। विपक्षाय सवगाम्भीर्यमर्यादादिगुणोदयात्॥३२।। यथा वा- विपक्षरमणीसखीं पिशुनितोरुगर्वच्छटां विलोक्य किल मङ्गलाविरलहासफेनोज्ज्वलम्। ततान तमनाकुलं विनयनिर्झरं येन सा निजे तरसि मज्जिता सपदि लज्जिता विव्यथे ॥ ३३ ॥ विपक्षयूथनाथायाः पुरतः प्रकटं नहि। जल्पन्ति लघवः सेर्ष्यं प्रायशः प्रखरा अपि॥ ३४॥ दिश्या दुस्तरतो मदुक्तिनिगडान्मुक्तासि मुग्धे क्षणा- दभ्यर्णे वृषभानुजा विजयते यद्भानुजायास्तटे।

पक्षे रसात् स्खलितं च्युतम् ॥ ३१ ॥ ग्रतिपक्षसखीष्विदमित्युक्तं प्रतिपक्षयूथा- धिपानां का वार्तेत्यपेक्षायामाह-यास्त्विति॥ ३२॥ वृन्दा पौर्णमार्सी प्राह-पिशुनिता सूचिता उरुगर्वस्य खावहेलनरूपस्य छटा यया तां विलोक्य लक्षणेन ज्ञाला विरलो मन्दहास एव फेनस्तेनोजवलं येन विनयनिर्झरेण प्रयोज- ककर्त्र निजे तरसि वेगे सा प्रयोज्यकर्मभूता मज्जिता अत एव लज्जिता सती विस्मये पश्चात्तापेन खिद्यते स्मेत्यर्थः ॥ ३३ ॥ लघवः सख्य इत्यर्थः ॥ ३४ ॥ व्याजस्तुत्या तथा प्रकटमेव निन्दती चम्पकलतां प्रति दूरात् पद्मा संरम्भसाधर- कम्पमाह-दिध्येति । हे मुग्धे, मदुक्तिरेव निगडः शङ्गलस्तस्मादय्य दिध्या मुक्तासि। क्षणात् क्षणमात्रात। यदि क्षणात् किंचिदधिकं विलम्बमकरिष्यस्तदा वृषभानुजायामितो गतायां सुष्टु तुभ्यं दक्षिणामहमदास्यमिति भावः । कि न्यचापलमयैस्तैः । रसेन स्खलितो नृत्यगतिविशेषो यत्र तत्। पक्षे रसात् स्खलितं यथा स्यात्। खेलावतीनात्री। अन्रापि बाल्यकीडामात्रम्। तत्तस्या इति भावः ॥३१॥३२॥ पिशुनिततवं सूचितलम्। निजे खस्य विनय- निर्झरस्य संबन्धिनि तरसि वेगे। येन विनयनिर्झरेणैव मज्जिता मनीकृता॥३३॥

Page 277

२५४ काव्यमाला।

नातथ्यं प्रथयामि देव्यपि गिरां वाग्दूतकेलीषु मे निर्धूतप्रतिभोद्गमा भगवती लज्जार्णवे मज्जति ॥ ३५ ॥ हरिप्रियजने भावा द्वेषावा नोचिता इति। ये व्याहरन्ति ते ज्ेया अपूर्वरसिका: क्षितौ ॥ ३६॥

कर्तव्यं वृषमानुजा अभ्यणे निकट एव विजयते। तस्या अग्रे ममौद्धल्यम. चितमिति भाव: । मम वागलासप्रभावं चाववाय शण्वित्ाह-नातथ सिति। प्रथयामि प्रख्यामीति गिरां देवी सरसत्यपि । ३५ ॥। अपू रसिका अद्भुतरसिका इति वकोकिः, श्रेषेण च अकारः पूर्वे येषां अरसिद इत्यर्थ: ॥ ननु 'शोकामर्षादिभिर्भावैराक्रान्तं यस्य मानसम्। क्थं त मुकुन्दस्य स्कूर्तिसंभावना भवेत् II' इति साधकानामपि भक्तिप्रतिकूललेनोर द्वेपादयः कर्थ सिद्धानां प्रेम्णामनुकूला भवन्तिति। सत्यम्। साधकलदसार ते रागद्वेपादयो मनोविकारा: प्राकृता भक्तौ विरुध्यन्त एव सिद्धदश्यायां लन्त करणस्य प्रेमाकरलात्तदृत्तयोऽपि ये शोकमोहरागद्देपादयस्दाकारा: प्रेम्णो मिद्यन्त इति। भक्तिरसामृतसिन्वा-'उन्मज्जन्ति निमज्जन्ति स्थायिन्यमृत- चारियौ। ऊर्भिबद्वर्धयन्तयेनं यान्ति तद्रूपतां च ते ।।' इति। निर्वेदाद्याः संचारिणो मनोधर्मा अपि सात्त्विकराजसतामसाकारलेन प्रतीयमाना अपि निर्गुणा एव व्याख्याताः । प्रेम्ण एव स्थायिभावलात् स्थायिन एव तत्तदूपेणाविर्भावात्। ननु प्रेमैव कथं प्राकृतो नास्तु; तस्यापि निर्गुणले किं प्रमाणम्। उच्यते। 'लक्षणं भकियोगस्य निर्गुणस्येत्युदाहृतम् ।' इति श्रीभागवतमेव। तस्या एव भक्तेः परिपाकदशायां प्रेमेति नाम । 'भक्ता संजातया भक्त्ा बिश्रत्युत्पुलकां तनुम् ।' इत्युक्तेत: । किं च प्रेम्णो गुणमयले सर्वशास्त्रेषु श्रीभगवतः प्रेमाघी- नलप्रथा अपलपिता एव स्यात् । 'हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृते: परः ।' इत्युकेर्नहि निर्गुणस्य प्रकृतेः परस्य श्रीभगवतो गुणमयप्रेमाधीनलं युज्यते । नन्वस्तु प्रेमा निर्गुणः कथं मनोवृत्तीनामपि तन्मयता। आधाराघेयसंबन्धेन चेदजातरतीनामारब्धभजनगन्वामपि भक्कानामन्तःकरणस्य भक्त्धिकरणले हे मुग्धे, क्षणात् क्षणं प्राप्य ।। ३४।। ३५।। अपूर्वरसिका इति। अत्र अरसिका इति शब्दश्हेषश्र। अत्र साधारणस्यापि शद्गाररसस्यौज्वल्यं सापभ्या-

Page 278

उज्ज्वलनीलमणिः । २५५

यथा वा- संमोहनस्य कंदर्पवृन्देभ्योऽप्यघविद्विषः । मूर्तो नम्रप्रियसखः शुङ्गारो वर्तते त्रजे ॥ ३७॥

तीनामपि तन्मयले कथं रागद्वेषादयो भक्तेः प्रतिकूलायन्ताम्। सत्यम्। पाधाराधेयसंबन्धेनैक्यमुच्यते किंतु तं विनैव । तथा हि प्रथमं खानमित्या- शित्या भक्तेः कर्णप्रवेशमात्रेणैव झटिति न तेन मेलनं स्यात् किंतु निरन्तरमन्त :-

मेयावच्च तया न मेलनं स्यात् तावन्मनोवृत्तयो रागद्वेषादयः प्राकृता अनर्थ- हा एव। यथा गन्धकचूर्णेषु पारदस्य प्रवेशमात्रेणैव न मेलनं किं तु संमर्द- नःपुन्येन चिरेणैव, मेलने च यथा गन्धकस्य स्वाकारापगमो रूपान्तरप्राप्ति- शैवान्तःकरणस्य प्राकृतध्वंसश्चिन्मयत्ावाप्तिः। यथैव पारदगन्धकयोरैकरूप्यं ्लीभावस्तथैव भत्त्यन्तःकरणयोरैकरूप्यं प्रेमा, यथैव पारदः सर्वत्रालिप्तोऽप्य- मर र्भूतपार्वतीप्रीतिकं गन्धकमेव खसंघर्षेण स्वरूपान्तरं नयन् खयमनष्टसवरूप एव द्ुपरक्ततवेनेव किमपि परिपाकविशेषेण नामरूपवैलक्षण्यं सवीयमेव भजते तथैव र्णरन्ध्रादिद्वारा श्रवणकीर्तनादिरूपो भगवानन्यत्रालिप्ोSपि प्रीतिभदन्तःकरणं विश्य स्वशक्त्या खवसंघर्षणेन तां चिद्रूपतां नयन् तदुपरक्ततया तदैक्येनोत्तरो- तरपरिपाकविशेषेण प्रेमस्रेहप्रणयादिनामरूपवैलक्षण्यं प्राप्तोति। यथा च तच्च मुनरनुकूलवस्तुसंयोगेनानेकान भेदान् धत्ते तथैव प्रेमापि श्रीभगवतो दाससखि- गुरुकान्ताभावमिश्रणेन दास्यादिप्रभेदम् । एवं च साधनसिद्धानामपि प्रेमा यद्येतादृशलेन निरूपितस्तदा नित्यसिद्धानां नित्यसिद्ध एव प्रेमणि क: संदेह इति। अथ प्रकृतमनुसरामः । नन्वस्तु हरिप्रियजने सिद्धे द्वेषादीनामनौचित्याभावः ।। ३६ ॥ तदप्येष शभ्भाररसस्तान् विनैव कथ निर्वहतु इत्यत आह-संमो- हनस्येति। एक: कन्दर्प एव लोके संमोहयति तत्संबन्धिनोऽपि शङ्गाररसस्य कविभिर्भरतप्रणीतरसशास्त्रदृष्ट्या खण्डिताविप्रलब्धादिवर्णने प्राकृतैरपीर्ष्याद्वेषादि- आवैरेव निर्वाहपरिपोषा वर्णितौ। तादृशानां कन्दर्पाणां वृन्देभ्योऽपि सकाशात्

दिमयलेनैव तच्छास्त्रे मतम् ॥ ३६ ॥ किमुत श्रीकृष्णलीलामयस्य तस्येत्याह- संमोहनस्येति। सर्वासामेव पृथक् पृथक् तत्र गाढसंभोगलालसा दर्शिता ।

Page 279

२५६ काव्यमाला।

क्षिपेन्मिथो विजातीयभावयोरेष पक्षयोः। ईर्ष्यादीन्खपरीवारान्योगे स्वप्रेष्ठतुष्टये॥ ३८ ।।

संमोहनस्याघविद्विषः शङ्गारस्य। चिन्मयैस्तैर्विना तौ कथ भवेतामिति भावः शलेषेण खरसाखादयितृणां सर्वस्याप्यघस्य विद्वेष्टः खण्डकस्य। लौकिक: कन्दर्पेसु तेषां पापवर्धक एव भवतीति भावः । तथाभूतस्य श्रीकृष्णस्य शज्ञारो रसो नाम ब्रजे मूर्तो मूर्तिमानेव वर्तते तदवतारलेन उज््वलशङ्गारनामैवेत्यर्थः।स परस्पर- विजातीयभाववतोः पक्षयोः परस्परवैरिणोरित्यर्थः । सस्य स्थायिरूपस्य परीवारान् पोषकान् संचारिरूपान् ईर्ष्यादीन् क्षिपेत् अ्पयेत्। प्रयोजनमाह-सवप्रेष्ठस 'साक्षान्मन्मथमन्मथः' इति श्रीभागवतोक्तं तस्य महामन्मथतं सूचितम्। महा- मन्सथत्वे च शज्गारपरिकरले च सति तासां संभोगश्च भक्तान्तराणां सेवकादिक- मिव यौगपद्येन न संभवति तस्मादीर्ष्यादिकं जायते एवेति भावः । किंच अघवि-' द्विष इति। अघस्यापि मोक्षदातृलेन सर्वाश्रयपरमपारमैश्वर्यात्। 'देवले देवदेहा सा मानुषले च मानुषी।' इति दिशा प्रेयसीगणविशेषलेन लक्ष्यादिवच्छृङ्गारोऽपि प्रियनर्मसखलेन व्रजेऽपि वर्तत एव। यदि चासौ वर्तते तदीष्यादिसपरिवारान् क्षिपेत् तत्र तत्र प्रवर्तयत्येव। नन्वीर्ष्यादीन् दीनविशेषेण क्षिपति चेत्तर्हि सखीसुहृद्दगौं कथं दर्शितौ तन्नाह-मिथो विजातीयभावयोः परपक्षयोः क्षिपतीति। लोके यथा व्यावहारिकमिथोविजातीयभावयोर्मिथो विपक्षतं तथा तासामपि श्रीकृष्णविषयक- विजातीयभावानां मिथो विपक्षतं स्यात् परस्परमरोचकलात्। तासामेव मिथोऽ- सावीर्ष्यादीन् क्षेप्रुं शक्कोति। यूनामेव काम: काममिवेति। तत्र भावानां साजा- त्यवैजात्ये दर्शयिष्येते। न च वक्तव्यं तेन श्रीकृष्णस्य तस्मिन्नसहनं स्यात् इत्या- लोच्याह-प्रेष्ठस्य श्रीकृष्णस्य तुष्टय एव क्षिपतीति परस्परमीर्ष्यादयः श्रीकृष्ण- रागमेव पुष्णन्ति। पुष्टे च रागे तस्य तुष्टिरेव जायत इत्यर्थः । विरुद्धायमान- लेपि व्यभिचारिण: स्थायिपोषका भवन्तीति तासां ते चेर्ष्यादयो बहिर्वृत्तावेवो- दीयन्ते नान्तर्वृत्तौ सर्वासां तदेकजीवनतादात्मैकजीवनानां चक्षुरादीनामिव। ततश्च योग एव तासु सोऽसौ तानू क्षेपुं शक्ोति न वियोगे। नहि यथा जागरे खखविषयानाखवादयितुं मिथः स्पर्धमानानि चक्षरादीनि प्रत्येकमात्मानु- गति वाञ्छन्ति तथा सुषुप्तावपि किंतु आत्मन औदासीन्यमय्यां सुषुप्तौ सर्वा- ण्यपि मिलिला आत्ममात्रानुगतानि तिष्ठन्ति। न तु मिथः स्पर्धमानानि तद्व- दन्नापीत्याह-ईष्यादीनिति। तत्र योगे युगपत् पोषितभर्तृकावस्थालं

Page 280

उज्वलनीलमणिः । २५७

अत एव हि विश्लेषे स्नेहस्तासां प्रकाशते। यथा ललितमाधवे- सान्द्रैः सुन्दरि वृन्दशो हरिपरिष्वझैरिदं मङ्गलं दृष्टं ते हतराधयाञ्कमनया दिश्याद्य चन्द्रावलि। द्रागेनां निहितेन कण्ठमभितः शीर्णेन कंसद्विषः कर्णोत्तंससुगन्धिना निजभुजद्वन्द्वेन संघुक्षय ॥। ३९॥ यूथेशायाः सवपक्षादिभेदहेतुरथोच्यते ॥४० ॥

श्रीकृष्ण[स्य] तुष्टये। तत्तदुद्दूतसवीयधृष्टत्वादिकौतुकविलाससुखायेत्यर्थः। योगे योगमात्रे यस्या: कस्या अपि नायिकायाः संयोगसंभावनायामपीत्यर्थः । तेन- 'दद्शुः प्रियविश्रेषान्मोहितां दुःखितां सखीम् ।' इति सखीपदोपन्यासः। ततश्च युगपत् संभोगश्ङ्गाररसधर्मा एव द्वेषेर्ष्यादयो भावाः । नतु हरिप्रियजना: सदा परस्परद्वेषेर्ष्यादिमन्त इति भावः ॥ ३७ ॥ ३८ ॥ मथुराविरहेण विषीदन्ती श्रीराधा स्वमूर्ति गोवर्धनशिलायां प्रतिबिम्बितां चन्द्रावलीलेन निश्चिन्वती प्राह-सान्द्रैरिति। वृन्दशो बहुवारान्। एनां राधां मां कण्ठम- भितः कण्ठस्य सर्वदिक्ष निहितेनार्पितेन शीर्णेन श्रीकृष्णविरहात् क्षीणेन संधु- क्षय जीवय । कंसद्विषः श्रीकृष्णस्य कर्णावतंससुगन्धधारिणा इत्यनेन लत्सं- भोगानन्तरं लद्भुजद्वन्द्वमुपधाय क्रमेण दक्षिणवामपाश्वयोस्तेन शयितमित्यभि- न्यज्य तादृशसौभाग्यभाजनलद्भुजाश्लेषेणाहमपि परम्परया तदीयाश्लेषसुखमेवानु- भवामीति ध्वनितम् ॥। ३९ ॥। ननु रसोऽप्येक: शङ्गार एव विषयोऽप्येकः श्रीकृष्ण एव तदपि तदाश्रयालम्बनानां व्रजसुन्दरीणां परस्परविपक्षसुहृत्पक्षादितं कथमि- त्यत आह-यूथेति। अयमत्र विवेक :- विनयवतान्तःकरणेन मधुराख्यस्य विनान्यावस्थले विश्लेषे युगपत् प्रोषितभर्तृकावस्थले इत्यर्थः॥३७॥३८॥ तत्रोदाहरणमाह-यथेति। तन्र सान्द्रैः सुन्दरीति विरहावस्थायां श्रीराधिका- वचनम्। संघुक्षय जीवय। तदेवं श्रीरासपश्चाध्याय्यामपि वर्ष्यते। 'तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्।' इत्येकासां विश्लेषे। उभयासां तु विश्लेषे 'दददशुः प्रियविश्लेषाद्दुःखितां मोहितां सखीम् ।' इति ॥३९ ॥ खजातीय विजातीयभावाभ्यां मिथः खपक्षादिभेदं वित्ृणोति-यूथेशाया इति। १७ उज्व०

Page 281

२५८ काव्यमाला

भावस्य सर्वथैवात्र साजात्ये स्यात्सपक्षता। मनागेतस्य वैजात्ये सुहृत्पक्षत्वमीरितम् ॥४१ ॥

प्रीतिवस्तुनो मेलने विनयात् सकाशात् प्रीतेरतितमां जातिप्रमाणाभ्यामाधिक्ये विनियस्य प्रीतिनिगीर्णले ममायं कृष्ण इतिप्रकारको मदीयतामयो मधुस्नेहाख्यो भवः स्थायी आदरप्राकट्यशून्यो भवति। तथा विनयात् सकाशात् प्रीतेराधिक्या- भावे प्रीतिमयानां विनयानामुद्भासस्य प्राकट्ये कृष्णस्याहं कान्तेतिप्रकारकाभिमा- नेन तदीयतामयो घृतस्ेहाख्यो भावः स्थायी आदरमयो भवति, भावयोरनयोर्म सुधृतयोरिव परस्परसाजात्याभावात्तुल्यप्रमाणयोर्मेलने विसदृशधर्मकलाच्च तत्तद्धा- ववत्योः कान्तयोरपि परस्परभावारोचकल्वात् परस्परविपक्षतैव स्यात्। ते च कान्ते मुख्यत्ात् राधाचन्द्रावल्योरेव झेये। किं च तुल्यप्रभाणकविनयवत्योरपि राधाच न्द्रावल्योर्मध्ये श्रीराधाविनयस्योक्तयुत्त्या प्रीत्या निगीर्णलेनैव न बहिः प्राकव्यम्: न पुनश्चन्द्रावल्याः सकाशात् विनयोऽल्प इति ज्ञेयम् । एवं क ललिताविशाखा- दीनां श्रीराधाचन्द्रावलीभ्यां सकाशात् विनयस्याल्पलेऽपि विनयापेक्षया प्रीतेरति- तरामाधिक्ये विनयस्य प्रीतिनिगीर्णले मधुसेह एव तद्वत्यो ललितादयः श्रीराघाया: सकाशादल्पप्रमाणकप्रेमवत्योऽपि सर्वथा भावसाजात्यवत्यस्तस्याः खपक्ष एव, सखीलयूथेश्वरीतयोस्तु प्रेमतारतम्यमेव सर्वत्र कारणं ज्ञेयम्। एचमेव श्रीराधां- चन्द्रावलीभ्यां सकाशात् पद्मादीनां विनयस्वाल्पले, विनयापेक्षया प्रीतेराधिक्या- भावे घृतस्नेह एव तद्वत्यस्ताश्रन्द्रावल्याः खपक्षः, ललितादीनां तु विपक्ष एव। मनागिति । एतस्य भावस्य मनाग्वैजालये बहुतरसाजाल्येन तदभावेऽप्यंल्प- मात्रवैजात्यप्रक्षेपे सतीत्यर्थः । तथाहि विनयस्य प्रीत्या निगीर्णप्रायले ईषद्वि- नयोद्भासे ईषद्धृतस्नेहसंपृक्तो मधुस्नेहो भवति तद्वती श्यामला श्रीराधायाः सुह. त्पक्ष: तथा साजात्यस्याल्पले सति बहुतरवैजात्यसन्भ्ावेञ्यत्पमात्रसाजात्यप्रक्षेपे

भावस्य प्रेमविशेषभावस्य। साहं कृष्णस्येति, ममायं कृष्ण इति द्विधा भिन्नस्य मिथः साजात्ये सति चक्षुषोरिव कर्णयोरिव च मिथः सपक्षता स्यातू। एवं मनागेतस्येति। साजात्यस्य तथाल्पले एकत्र सजातीयता तस्याल्पलेऽन्यत्र प्राचुर्येण मिथः प्रवेशो न जायते। तदल्पतामय्या अवज्ञाविषयतात, तत्त्रा: चुर्गेमय्याः संकोचविषयलात् ताटस्थ्यं जायत इत्यर्थः। एवं सर्वथेति अत्र

Page 282

उज्ज्वलनीलमणिः । २

साजात्यस् तथाल्पत्बे सति ज्ेया तटस्थता। सर्वथा खलु वैजात्ये निश्चिता प्रतिपक्षता ॥। ४२।। मिथोभावस्य वैजात्ये न भावो रोचते मिथः। अरोचकतयैवायमक्षान्ति जनयेत्पराम् ॥४३॥ यथा- या मध्यस्थपदेन संकुलतरा शुद्धा प्रकृत्या जडा वैदग्धीनलिनीनिमीलनपटुर्दोषान्तरोल्लासिनी। आशायाः स्फुरणं हरेर्जनयितुं युक्तात्र चन्द्रावली सापि स्यादिति लोचयन् सखि जनः कः सोदुमीष्टे क्षितौ॥४४॥

सतीत्यर्थः । तथाहि विनयस्य प्रीत्या ईषन्निगीर्णले प्रायः संपूर्णविनयोन्धासे ईष- न्मधुस्नेहसंपृक्तो धृतस्नेहो भवति। तद्वती भद्रा श्रीराधायास्तटस्थः पक्षः, चन्द्रा- वल्यास्तु सुहत्पक्षः ॥ मिथो वैजात्ये सर्वथा विपरीतजातिले ॥४०।४१॥ ॥४२॥।४३ ॥ नतु श्रीकृष्णाय सुखदानमेव तबोद्देश्यं तब्व सुखं चन्द्रावलीसंभोगे यदि श्रीकृष्णो लभते तदा ता वं कथं द्वेक्षि कर्थं वा खण्डितादशायां कृतसन्ञाय श्रीकृष्णाय च कुप्यसीति पृच्छन्तीं प्रेमसिद्धान्तजिज्ञासुं कामपि वृन्दासनिनी वनदेवतां वृन्दावनेश्वरीं श्रीराधा तत्त्वं बोधयन्ताह-या मध्यस्थेति। या चन्द्रावली चन्द्रश्रेणी। द्वादशानामेव मासानां चन्द्रा इत्यर्थः । मध्यस्थितेन पदेन मालिन्यमयेन चिहनेन संकुलतरा सर्वथा युक्ता, पक्षे मध्यस्थस्य यत्पर्द व्यवसायस्तेन श्रीकृष्णे तस्या आदरबाहुल्यमेव ताटस्थ्यं व्यनक्ति। अशुद्धा अवि- शदा मध्यस्थितकलङ्गल्वात्, पक्षे शुद्धा 'अहेरिव गतिः प्रेम्णः खभावकुटिला भवेत्' इति साहजिकवकतामयप्रेमरीतिशून्या। प्रकृत्या स्वभावेनैव जडा शैत- दुःखदा, पक्षे आदरेण सख्यं निर्वातीत्यपि बुद्धिरहिता। वैदग्धीति रूपकेण पक्षद्वयनिर्वाहः । यद्वा वैदग्ध्या विपरीतलक्षणया अवैदग्ध्या हेतुना नलिन्या सर्वथा वैजात्ये विपक्षतं वित्ृत्य स्थापयति-मिथ इति ॥४०॥४१॥ ॥ ४२ ॥। ४३ ॥ तत्र राधाया वचनम्-येति। मध्यस्थस्य तटस्थस्य यत्पदं व्यवसायस्तेन संकुलतरेति तस्याः श्रीकृष्णे आदरबाहुल्यमेव ताटस्थ्येन

Page 283

२६० काव्यमाला।-

षोडश्यास्त्वमुडोर्विमुश्च सहसा नामापि वामाशये तस्या दुर्विनयर्मुनेरपि मनः शान्तात्मनः कुप्यति।

निमीलने मुद्रणे पटः, पक्षे वैदग्ध्येव नलिनी श्रीकृष्णत्रमरस्य सुखदा तसा निमीलने लोपे दोषा रात्रिस्तदन्तर एव उल्लसितुं शोभां प्रामुं शीलं यस्याः।न तु दिवसे इत्यर्थः । पक्षे दोषैरुक्तलक्षणैरपि गुणैरन्तरे खमनसि उल्लसनशीला। स्ताटस्थ्यादिदोषान् दोषलेन न जानातीति भावः । या खल्वेवमेवंभूता सापि हरेरिन्द्रस्य आशाया दिशः स्फुरणं प्रकाशम्, पक्षे हरेव्रजेन्द्रसूनोराशाया अभि- लाषस्य स्फुरणं स्फूर्तिमात्रमपि किं पुनः प्रादुर्भावं किंतमां मूर्ति जनयितुं युक्ता, उचिता स्यादिति सोढुं को जनो लोचयन् विचारयन्। विचारवानित्यर्थः। क्षितौ पृथिवीमध्येऽपि ईष्टे शक्कोति। अपि तु सर्व एवेर्ष्याभाविष्करोति। न पुनरहमेव लयोपालम्भनीयेति भावः। सा तावदास्तां तत्सज्विनं श्रीकृष्णमपि खण्डिता भवन्ती यदीर्ष्यामि तदपि नायुक्तं यं भोजयितुमतियत्नतो रोचकं रोचकं वस्तु संगृह्य संग्ृह्य प्रस्तुतीक्रियते स यदि क्वचिदन्यत्रारोचकैर्विरसैरेव वस्तुभि: संभुक्तैः समयं गमयिला आयाति तदा तस्मै कुप्यते न वेति लमेव तत् विविच्य ब्रूहीति प्रेमतत्त्वं सा ज्ञापिता।। ४४ । चन्द्रावल्या भावः श्रीराधायै न रोचत इति दर्शितं श्रीराधाभावोऽपि चन्द्रावत्यै न रोचत इति दर्शयितुमाह-षोडश्या इति। कामपि खसखीं प्रसक्गोपगतं श्रीराधाचरित्रं ब्रुवाणामाक्षिपन्ती चन्द्रा वल्याह-षोडश्यास्त्वमुडोरिति । तत्सनान्नयाः श्रीराधाया इत्यर्थः । साक्षात्तनामस्प्शेऽपि मजिजिह्ा कटुर्भवतीति भावः। सहसापि किं पुनः प्रकरणेन नामापि किं पुनश्चरित्रं विमुञ्च त्यज। वामाशये इति। संप्रति तव बुद्धि्रंष्टा जातेति बुध्ये। यत्तस्याः प्रसङ्गमकस्मादुत्थापयसीति भावः। ननु जगत्यस्मिन् कमपि जनं न द्वेक्षि न निन्दसीति परमदक्षिणायास्ते सौशील्यं प्रसिद्धं सलं तदपि तजिन्दा मया दुस्त्यजैवेत्याह-य(त)स्या इति। 'परस्वभावकर्माणि न मन्यते। चन्द्रश्रेण्याः पक्षे मध्यवर्तिना पादेन लक्षणेति। शुद्धा माधुर्यविशेष- रहिता, पक्षे श्वेता। जडा प्रणयिप्रणयोचितबुद्धिरहिता, पक्षे शीतला। दोषा- न्तरमुत्तभजातीयखवभावेष्वस्मद्वर्गेषु द्वेषः, पक्षे दोषा रात्रिस्तन्मध्योल्लासिनी। हरे: श्रीकृष्णस्य आशायास्तृष्णायाः, पक्षे इन्द्रस्य दिशः लोचयन् विचारयन् ।। ४४ ॥ अथ चन्द्रावल्या वचनम्-षोडश्या इति। षोडश्यास्तमुडोरिति।

Page 284

उज्ज्वलनीलमणिः । २६१

धिग्गोष्ठेन्द्रसुते समस्तगुणिनां मौलौ व्रजाभ्यर्चिते पादान्ते पतितेऽपि नैव कुरुते अ्रूक्षेपमप्यत्र या ॥ ४५॥ यत्र स्यानिजभावस्य प्रायस्तुल्यप्रमाणता। पक्षः स एव मैत्राय विद्वेषाय च युज्यते ॥ ४६ ॥

प्रशंसेन्न गर्हयेत्' इति शान्तस्य सवाभाविको धर्मः । तस्यापि मुनेर्मौनशीलस्यापि अहं तु गोपकन्या व्यवहारमार्गस्था असंयतवाक्। कथं न कुप्यामि न वा निन्दामीति भाव: । के ते दुर्विनया इति चेत्तत्राह-धिगिति। सामान्या- कारेणोक्तेस्तां धिक तस्या अपि तच्चष्टितं धिक लामपि तत्प्रसङ्गकारिणीं धिक् इति। पादान्ते पतितेऽपीति। सा खलु का भाविनी भवेत् या खकान्तं स्वपादतलगतं कुर्यात्। मानिनी हि कान्तस्य सामदानमेदाअलिकिंचिन्मौलि- मात्रावनतिखेदान् विलोक्य प्रसीदेत्। इत्येव प्रेमरसपरिपाटी भवेदिति भावः । भवतु वा कान्तः सयं पादान्तपतितः तथाभूतं तं दृष्टा भाववती मनसापि विषीदेदेव हन्त हन्त या भ्रुवः क्षेपमपि न कुरुते सा कथं प्रेम्णो गन्धमपि धत्तामिति भावः । मास्तु वा प्रेम तदपि व्रजेन्द्रस्य सूनौ तत्रापि समस्तेति। तत्रापि व्रजेति। बुद्धिमता जनेनादरः कर्तुमुचित एवेति भावः। नन्वेवं चेत् प्रेमशून्यां तां तवत्कान्तः सेच्छयैव कथं मुहुर्मुहुर्गच्छेत् तस्य च तस्यामिच्छा चेतू कथं वा तं प्रेमवती तां द्वेक्षि। सत्यं तस्याः सौन्दर्यमस्ति काममत्तताधिक्यं च । अतः संप्रयोगसुखमात्रार्थ सवस्य संगत्या शिक्षया च सद्भावप्रापणार्थ च स तस्याः पार्श्व गच्छति तस्याश्च 'खभावो मूर्ि वर्तते' इति न्यायेन सद्भावः कदापि न भावी तदभावकलुषितेन तस्यां संप्रयोगेण च तस्य किं सुखं स्यादिति परामृश्य तामहं द्वेष्मीत्यादि स्वरसतत्त्वमपि सा बोधितेति ज्ञेयम् ॥ ४५ ॥। ननु श्रीराधायाः सर्वथा विजातीयभावा धृतस्नेहवत्यो गोप्यः किमन्या न सन्ति यतश्रन्द्रावल्यामेव तस्या द्वेषप्रसिद्धि: एवं चन्द्रावल्या अपि श्रीराधायामेव नान्याख्वित्यत्र को हेतुस्तत्नाह-यत्र स्यादिति। यत्र यदी- तत्सनाम्रया राधाया इत्यर्थः । साक्षात्तन्ामाग्रहणं तीर्ष्यया मन्तव्यम्। तथैव मध्याया अपि तस्याः प्रखरालं प्रख्यापितम्। मुनेरिति मौनशीलस्यापि तत्र दोषोद्गार: संभाव्यत इत्यर्थः ॥ ४५॥ निजभावस्य श्रीकृष्णविषयकसवप्रेम्णसुल्य-

Page 285

२६२ कोव्यमांला 1

नांशोऽप्यन्यंत्र राघायाः श्रेमादिगुणसंयदांम्। रसेनैव विपक्षादौ मिथः साम्यमिवार्प्यते॥४७॥ भावस्यात्यन्तिकाधिक्ये साजात्यं सर्वथा दयोः।

यभावे प्रायोग्रहणाद्यत्किंचिन्मात्रन्यूनप्रमाणलेऽपि यत्किंचिद्वैजात्यस्पष्टसाजाले मैत्राय सर्वथा वैजात्ये विद्वेषाय युज्यते इति प्राकृतलोकेऽपि तथा दर्शनादित्यर्थः ।। ४६ ॥ ननु श्रीराधाया भावस्य तुल्यप्रमाणकभावचत्यो किं चन्द्रावलीश्यामले भवेतां यतस्तयोरेव द्वेषमैत्र्यौ दृश्येते इत्यत आह-नांशोऽव्यन्यन्रति। तदपि रसेनैव कर्त्रा स्पुष्यर्थ मिथः परस्परसाम्यं राधाचन्द्रावल्योर्भाबयोर्मिथ: परमवैजात्येऽपि तुल्यप्रमाणतायामेव साम्यमिव ।। ननु सर्वथा वैजात्ये तुल्य- प्रभाणकभाववत्त्वे वैरमिव कयोश्षिद्ययेश्वर्योंः सर्वथा भावसाजातये कि मिथः सपक्षलमन्यो वा कश्चन व्यपदेशः स्यादित्यपेक्षायामाह-भावस्येति। द्वयो- रात्यन्तिकाधिक्ये यूथेश्वरीले इत्यर्थः। सर्वथा साजात्यं तु दुर्घटभवश्यमेव किंचिद्वैजात्यं विना पृथग्यूथेश्वरीतं न संभवेत्। सर्वथा भावसाजात्यं हि पर- स्परातिप्रीतेः कारणम् । अतिप्रीतिश्च निरन्तरसहावस्थितिः परस्परसुखदानातु- गतीनां तासु सहावस्थित्यादिषु सखीषु कथं पार्थक्यमभिमतं भवति। तत्र चेयं व्यवस्था-परस्परभावसाजात्यवतीषु बह्वीषु मध्ये यस्या भावस्य प्रमाणाधिक्यं सैवैका यूथेश्वरी भवति अन्यास्तत्सख्यो भवन्तीति। यदुक्त्म्-'यूथाधिपालेऽ- प्रमाणता रतिप्रेमप्रणयादिनामभिर्वक्ष्यमाणैरुत्तरोत्कर्षैः सदृशता। प्राय इति। क्कचित्तु सादृश्यातिशयाभावेऽपि सदशमन्यता च तत्र हेतुरिति ज्ञापितम् । ४६॥ अत्र श्रीराधामहिममहोदधिमवगाहमानानां मतमाश्रित्याह-नांशोड़ पीति। विपक्षादौ विपक्षसपक्षसुहृत्पक्ष इति त्रये। रसेनैवेति। यथा हतु- मदादिचरित्रश्रवणेन वीररससमुल्लासे समुद्रलद्गनोद्यमादयः समीक्ष्यन्ते मन्यन्ते च रसविद्भिस्तथात्रापीति भावः ॥४७॥ नन्वत्यन्ताधिकयोरपि कयोश्विद्धावसाजातयं भवतु ततश्च स्वपक्षतमपि स्यात्। तत्राह-भावस्येति। द्वयोः सवतन्त्रयूथाधि- पयो: स्वस्य यूथमन्वत्यन्ताधिकले सति भावस्य कृष्णे तदीयतामयस्य मदीयता- मयस्य च साजात्यं सवथा सुद्गुर्घटम् । किं तंशेनैव तत्स्यात्'। सर्वथा साजालये सति कुस्या्चित् कस्याश्चित् प्रवेशे यूथाधिपालं न स्पात्। ननु प्रेम्णस्तुल्यप्रमा-

Page 286

उज्ज्वलनीरमणिः । १६३

तथा तुल्यप्रमाणत्वमेवं प्रायः सुदुर्घटम् ॥ ४८ ॥ स्याचेद्रुणाक्षरन्यायात्सुहत्तैवेह संता। रसस्वभावादत्रापि वैपक्ष्यमिति केचन ।। ४९ ।। इति हरिवल्लभाप्रकरणम्।

प्यौचित्यं दधाना ललितादयः । खेष्टराधादिभावस्य लोभात् सख्यरुचिं दघुः ॥' इति।। ४७॥ ननु सर्वथा यूथाधिपासु म्ये श्रीराधाचन्द्रावल्योरेव परमात- न्ताधिक्ये अतस्ताभ्याँ सकाशादल्पप्रमाणकभाववत्यो ललितापद्यादयखयोः सख्यो बभूवुरित्युचितमेव। किं तु ताभ्यामन्या यूथेश्वर्यो बह्नयो यास्तायु काश्चित्तुत्यप्रमाणकभावसाजात्यवत्यः किं न संभवन्ति संभवन्ति वेतयपेक्षाया- माह-तथा तुल्यप्रमाणत्वमिति। बहीनां का कथा द्वयोरेव यूथेश्वर्योः सर्वथा भावस्य साजात्यं तथा तुल्यप्रमाणतं चेति सुदुर्घटं सर्वथा साजात्ये सति भावस्य किंचिन्मात्रन्यूनाधिकाप्रमाणलेऽपि सखीलयूथपाले एव भवतः । वैजाले वैजात्यस्यैव भेदकलात् द्वयोर्यूथाधिपाले कारणतं न तत्र तुल्यप्रमाणलापेक्षा साजात्ये तु साजात्यस्य भेदकलाभावात् सर्वथा तुल्यप्रमाणत्वस्यैव कारणता। तच्च युगपत् सुदुर्घटमिति खयूथ एव साजात्यं पृथग्यूथ एव साजात्यं निर्णीत- मिति॥४८ ॥ प्रायोग्रहणं स्वयमेव व्याचष्टे-स्याच्चेदिति। घुणाक्षरं जीर्ण- काष्ठादौ घुणाख्यकीटविशेषोत्कीर्ण दैवादक्षराकाराङ्कवृन्दमेवाक्षराभासतादक्षरं तन्न्यायात्तदिवेत्यर्थः। इह ईदृश्यां यूथेश्वर्या सुहृत्तैव सर्वथा साजात्येSपि न स्वपक्षलं सदा सहावस्थित्यादीनां तत्कार्याणामसंभवादिति भावः। खमतं समाप्य परमतमाह-रसखभावादिति। न तु तत्र प्रेमापेक्षेति भावः । अत्रापि अपिकारात् सुहृत्पक्षे सपक्षेऽपि सर्वत्र स्वस्मादन्यत्रैव वैपक्ष्यम्। अथ संक्षेपेण प्रकरणार्थसिद्धिलेखः । अनन्तकोटिगोपीषु या या: शुद्धघृतस्नेहवत्यस्तासु मुर्या णले स्वतन्त्रतैव स्यातू तत्राह-तथा सर्वथा तुल्यप्रमाणलमित्येवमपि सुदुर्घट- मिति। प्राय इति। ललिताविशाखादिषु दृश्यते इति चेद्विरलचारितमेवेत्यर्थः ॥ ४८ ॥ ननु राधाचन्द्रावल्या विनान्यत्र साजात्यं ब्रूमः । ते हि परभात्यन्ता- धिके इति खवखयूथात्यन्ताधिकानां ललितापद्मादीनामपि तत्तद्विषयं सख्यं संभवत्येव। अन्यत्र तु का वार्तेत्याशड्ाह-स्याच्चदिति। रसखवभावत्वा- दित्ि। ऋङ्गाररसस्म स्रभावोऽयं यत्र परस्परं वैपक्ष्यं भवतीति। केचनेति।

Page 287

२६४ काव्यमाला।

अथोद्दीपनप्रकरणम्'। अथ विभाषेषूद्दीपना :- उद्दीपना विभावा हरेस्तदीयप्रियाणां च.।

एकैव चन्द्रावली अन्यास्तत्सख्यः पद्मादयस्ताखेव श्रीराघाललितादीनां द्वेषो नान्यत्र काखपि यूथपासु सर्वथा भाववैजात्याभावात्। एवं चन्द्रावलीपझ्मादीनां शुद्धमधुस्नेहवतीषु श्रीराधाललितादिष्वेव नान्यत्र। श्रीराधाललितादीनां सौहार्दखु (द तु) बह्वीष्वेव यूथपासु अशुद्धमधुस्नेहासु श्यामलामङ्गलादिष्वल्पाल्पतराल्पत- मघृतस्नेहसंपर्कादशुद्धिवैविध्यात्। एतासु चन्द्रावल्यादीनां ताटस्थ्यम्, एवम- शुद्धघृतस्नेहवतीषु भद्रादिषु बह्वीषु श्रीराधादीनां ताटस्थ्यं चन्द्रावल्यादीनां तु सौहार्द[म् 1] एवं श्यामलादीनां पाल्यादिषु विपक्षतादिभेदा ज्ञेयाः। एवं च स्पक्षता स्वयूथेष्वेव विपक्षता एकस्यामेव यूथपायां घुणाक्षरन्यायतः साजाले बह्वीष्त्रपि सौहार्द्यताटस्थ्ये बह्वीष्वेव यूथपास्विति दिक्॥ ४९॥ इति स्वपक्षविपक्षादिभेदविव्ृतिः । [इति हरिवल्लभाप्रकरणम् ।]

तदेवं नायकनायिकातत्परिकराद्यालम्बनविभावं परिसमाप्येदानीमुद्दीपनवि- भावानाह-उद्दीपना इति । तदीयप्रियाणां चेति । रसेऽस्मिन्रायि- कानायकयोः परस्परविषयाश्रयभावात् परस्परगुणादयः परस्परोद्दीपना भव- न्तीति ज्ञापितम्। अनुगामिन: साधकभक्तास्तु श्रीकृष्णविषयकं व्रजदेवीनां

सख्यादिदर्शनात्तत्र घटत इति भाव:। यदुक्ततं श्रीदशमे-'काश्वित्परोक्ष कृष्णस्य स्वसखीभ्योऽन्ववर्णयन्।' इति ॥४९॥ इति हरिवल्लभाप्रकरणम्।

तदीयप्रियाणां चेति। यद्यप्युज्ज्वलरसेऽस्मिन् रसान्तरवत् श्रीकृष्णविष- यिकाया रसे रसतं प्रतिपावं नतु तत्प्रेयसीविषयिकायाः। ततश्च श्रीकृष्णगुणा

Page 288

उज्ज्वलनीलमणिः । २६५

तत्र गुणा :- गुणास्त्रिधा मानसा: स्युर्वाचिका: कायिकास्तथा। तत्र मानसा :- गुणा: कृतज्ञताक्षान्तिकरुणाद्यास्तु मानसाः ।।२।। यथा- वशमल्पिकयापि सेवयामुं विहितेऽप्यागसि दुःसहे स्मितास्यम्। परदुःखलवेऽपि कातरं मे हरिमुद्धीक्ष्य मनस्तनोति तृष्णाम्। ३॥ अथ वाचिका :- वाचिकास्तु गुणाः प्रोक्ता: कर्णानन्दकतादयः। यथा- कर्णापहारिवर्णामश्रुतचरमाधुरीभिरभ्यस्ताम्। आलि रसालां माधववाचं नाचम्य तृप्यामि ॥। ४ ॥

गवं स्वरूपलक्षणेन व्रजदेवीविषयकं श्रीकृष्णस्य भावं तु तटस्थलक्षणेना- सादयन्तीत्यत्र समाधानं च ज्ञेयम् ॥। १ ॥ २ ॥ श्रीराधायाः सखी काचिदसमस्न्नेहा कैंकर्याशप्रधाना सजातीयाशयां कांचिदन्यां सखीं प्रत्याह- वशसिति। विशेषणत्रयेण कृतज्ञलस्य, क्षमिलस्य, कारुण्यस्य परावधिलं तेन चास्मद्विधबालाजनसुखसेव्यतम्, तेन च शाज्गाररसश्चान्तर्भावितः ॥। ३ ।। सखि लतान्तरितासीत्यतः सकान्तमपि न पश्यन्ती किमत्र विलम्बसे इति पृच्छन्तीं विशाखां श्रीराधा प्राह-कर्णेति। यावदत्र श्रीकृष्णः सुबलेन सभं एवोद्दीपकलेन वाच्या नतु तासां गुणाः। तथापि तासां खस्मिन् स्वीयरूपयौव- नादयोऽप्युद्दीपना भवन्तीति तद्भावभावितेष्वाधुनिकेष्वपि तद्वदेव ते स्फुरन्ती- त्यभिप्रायेणोक्तम् ॥१॥२॥ वशमल्पिकयेति। वाक्यमेव पुरवासिन्याः पूर्वरागमयमिति ज्ञेयम् । तत्तद्गुणानुभवसातत्यावगतेः । हरिमुद्धीक्ष्येति। प्रथमाया रुचे: प्रतिपत्तेश्र। एषा च श्रीसत्यभामावगम्यते। किंतु मधुराख्यरस- स्यासाधारणतोद्दीपनगुणानुक्ति: सखीं प्रति कंचिदवहित्थार्थमिति ज्ञेयम् ॥३ ॥ कर्णापहारिवर्णामिति । अत्र च तद्वत्। श्रीव्रजकुमार्याः कस्याश्चित्तद्रपा-

Page 289

२६६. काव्यमाला।

अथ कायिका :- ते वयो रूपलावण्ये सौन्दर्यमभिरूपता॥५॥ माधुर्य मार्दवाद्याश्च कायिका: कथिता गुणाः। तत्र वय :- वयश्चतुर्विधं त्वत्र कथितं मधुरे रसे ॥ ६ ॥ चय:संधिस्तथा नव्यं व्यक्तं पूर्णमिति क्रमात्। वयोमुखा गुणा: पूर्वमुक्ता: केशवसंश्रयाः।७।। तेन तेऽत्र प्रवक्ष्यन्ते प्रायशस्तत्प्रियानुगाः। तत्र वय:संधि :- बाल्ययौवनयोः संधिर्वयःसंधिरितीर्यते ॥८॥

संकथयन्नास्ते तावदहमत्रैव स्थास्यामीति भावः । रसाला पानकमेदः । तामिवेति उपमैवेयं न तु रूपकम्। कर्णापहारिवर्णामिति विशेषणं माधववाच्येवानुकूलं न तु रसालायामसभवादिति रूपकस्य बाधकम्। यदुक्तं काव्यप्रकाशे-'पादाम्बुजं भचतु नो विजयाय मज्जु मजीरशिजजितमनोहरमम्बिकायाः ।' इत्यत्र मजीरशिजि- तमम्बुजे प्रतिकूलमसंभवादिति बाधकं रूपकस्येति ॥४ ॥ वयो यौवनम् । वय इति पृथक् पदम्। उक्ता भक्तिरसामृते। किंतु संज्ञान्तरेणेति ज्ञेयम्। तत्र यत् प्रथमकैशोरशब्देनाभिहितं तस्यैव पूर्वापरभागौ वयःसंधिनव्यशब्दाभ्यामत्नो- चयेते। तथा मध्यकैशोरशेषकैशोरे व्यक्तपूर्णशब्दाभ्यामिति। प्रायश इति तदपि तज्ेत्स्मारयितुं श्रीकृष्णस्यात्रापि किंचिदुच्यते इत्यर्थः ॥५॥६॥७॥८॥

वेशेन स्थानादचलायाः पृच्छन्तीं सखीं प्रति हि वचनमिदम्। माधुरीभिरर्थ- चैचित्रीभिः । रसमात्व्रति आदाचे इति रसालाम्। न तृप्यामीत्यन्वयः ॥। ४ ॥ सपलावण्यादीनामपि भेदाः खयमेव वक्ष्यन्ते ॥५॥६॥७॥ बाल्ययौव- नयो: संघिरिति। कैशोरस्य प्रथमभागतात्पर्यकं सर्वस्यापि कैशोरस्य तत्संधि-

Page 290

उज्ज्वलनीलमणिः । २६७

स कृष्णस्य यथा- यान्ती श्यामलतां विमुच्य कपिशच्छायां स्मरक्ष्मापते-

वाञ्छत्युच्छलितुं मनागभिनवां तारुण्यनीरच्छटां लब्ध्वा किंचिदधीरमक्षिशफरद्वन्द्वं च कंसद्विष: ।1 ९11 तन्माघुर्यम्- दशार्धशरलुब्धकं चलमवेक्ष्य लक्ष्येच्छया विशन्तमिह सांप्रतं भवदपाङ्गशृङ्गोपरि।

कस्यापि तरोमूले तिष्ठन्तं श्रीकृष्णं दूराल्लतारन्ध्रनिहिताक्षी श्रीराधां दर्शयन्ती दूती वर्णयति-यान्तीति । कंसद्विषः श्रीकृष्णस्य रोमावली कपिशच्छायां कृष्णपीतमिश्रधूसरकान्तिं विमुच्य त्यक्ता आज्ञालिपिः 'अतः परं कुलजानां लज्जाधृतिपातिव्रत्यादिधर्मा ध्वंसनीयाः, गुरुपत्यादिवश्चनार्यपथत्यागबलाभिसार- चापल्याधृत्युन्मादादिधर्माः प्रवर्तनीयाः ।' इत्येवंलक्षणः शासनलेखस्तस्य ये वर्णा अक्षराणि तत्पद्विसारूप्यं तेन दुरन्तशासनस्य राज्ञ आज्ञानुरूपमेव लया वर्तित- व्यमिति व्यजितम्। तथा ह्युक्त्तम्-'वर्णस्योज््वलता कापि नेत्रान्ते चारुणच्छविः । रोमावलीप्रकटता कैशोरे प्रथमे सति ॥' इति। उच्छलितुमभितः प्रसर्तुम्। तथा हि-'खरतात्र नखाग्राणां धनुरान्दोलिता भ्रुवोः' इति। कंसद्विष इति साम- थ्याधिक्यम् ॥।९॥ तन्माधुर्यं तद्रूपास्वादकजनदर्शेनसूचितः सादविशेषः । कथं व्रजसुन्दर्यो मया लब्धा भवेयुरिति ध्यायन्तं पूर्वरागवन्तं श्रीकृष्णं नान्दीमुखी भङ्ग्या समाश्वसत्याह-दशार्घेति । दशाघेशरः पञ्चेषुरेव लुब्ध- रूपलात्। बाल्यमत्र पौगण्डम् ॥८। यान्तीति। कस्यांचिद्धजकुमार्या श्रीकृष्णेन सह तस्याः परस्परमिथुनतास्पृहिण्या वचनम् । लिपिर्लिखिताक्षर- विन्यासः। ततश्चाज्ञालिपिं वर्णयति ज्ञापयति। या पङ्गिस्तस्याः पदवीं परि- याटीम्। कंसद्विष इति सामर्थ्यमपि द्योतितम्॥ ९ ।। तन्माधुर्यमिति। तस्यारोचकतेत्यर्थः । एषैवोद्रिक्ता क्वचिन्मोहनतोच्यते। 'लक्ष्यं वेष्यम्। कुरङ्ग- नयनानामावली, पक्षे कुरङ्गाणां नयनावली । ईषदर्थे दराव्ययम्। पक्षे दरें'

Page 291

२६८ काव्यमाला'।

सदाश्रुनिकरोक्षिता ब्रजमहेन्द्रवृन्दावने कुरङ्गनयनावली दरपरिष्ठवत्वं गता ॥ १० ॥

तत्प्रियाणां यथा- बाद्यं कि्किणिमाहरत्युपचयं ज्ञात्वा नितम्बो गुणी स्वस्य ध्वंसमवेत्य वष्टि वलिभिर्योंगं ह्वसन्मध्यमम्। वक्ष: साधुफलद्वयं विचिनुते राजोपहारक्षमं राधायास्तनुराज्यमञ्चति नवे क्षोणीपतौ यौवने ॥ ११ ॥

कस्तं लक्ष्येच्छया शरैविद्धा। लक्ष्यं लब्धुमित्यर्थः । भवतोऽपाङ्ग एव शङ्गमणि- मयपर्वताग्रं तदुपरि विशन्तभवेक्ष्य कुरङ्गाणां नयनावली, पक्षे मृगाक्षीततिः1 दरं भयम्, पक्षे ईषदर्थे दराव्ययम् । परिष्ठवलं चापल्यम् ॥ ९॥१० ॥ श्रीराधां दूरादालोक्य श्रीकृष्णः सुबलमाह-वाद्यमिति। यौवने यौवनाख्ये नवे राजनि अश्चति खराज्यं प्राप्रुवति सति गुणी नितम्बः तं व्यञ्जयितुमिव किंकिणिवाद्यमाहरति। कौशल्येन वादयामासेत्यर्थः । उपचयं ज्ञालास्मिन् गुणज्ञे राजनि मम संपत्तिर्भविष्यतीति विभाव्येत्यर्थः । पक्षे गुणो रसना दोरी। उपचयं स्थौल्यम्। तथा मध्यमं मध्यदेशः खस्य ध्वंसमवेक्ष्य नितम्बस्येव मम गुणा- भावात् वक्षस एव द्रव्याभावात् करदानाशक्तेश्रास्मिन् राजनि मम ध्वंस एव भविष्यति यतोऽहं मध्यमम्। उत्तमं न भवामीत्यर्थः । तदहं वलिभि: कृत- साहाय्यं सदैव यथाकर्थचिजीवामीति, पक्षे त्रिवल्या हसत् ह्रासं प्राम्ुवत्

भयम् ॥ १० ॥ तत्प्रियाणां यथेति । वयःसंधिर्यथेत्यर्थः ॥ वाद्यं किङ्धिणिमिति । कस्याश्चिहूत्याः श्रीकृष्णं प्रति वचनम्। तेन वयसा श्रीरा- धाया भावोद्रेकं बोधयति। एवमुत्तरेष्वपि ज्ञेयम्। किद्विणिरूपं वाद्यम्। गुणीति राजयोग्यल ब्यनक्ति। पक्षे गुणी वस्त्रबन्धदोरकवान्। मध्यममिति। ततो न्यूनलात्तत्रायोग्यमित्यर्थः । पक्षेऽवलग्ननामकमुदरनितम्ब्रयोः सन्धिः । साध्विति वक्षोविशेषणम्। अव्वति गच्छति सति। नवयौवने क्षोणीपतौ च नवे इत्यन्वयः

Page 292

उज्ज्वलनीलमणिः । २६९

तन्माघुर्यम्- आशास्ते पतितुं कटाक्षमधुपो मन्दं दगिन्दीवरे किंचिद्रीडविसाङ्कुरं मृगयते चेतोमरालार्भकः। नर्मालापमधुच्छटाद्यवदनाम्भोजे तवोदीयते शङ्के सुन्दरि माधवोत्सवकरीं कांचिद्दशामञ्चसि ॥। १२॥ अथ नव्यम्- दरोद्भिन्नस्तनं किंचिच्चलाक्षं मन्थरस्मितम्। मनागपि स्फुरद्भावं नव्यं यौवनसुच्यते। १३ ॥ यथा- उरः स्तोकोच्छूनं वचनमुदयद्वक्रिमलवं दरोद्वूर्णा दृष्टिर्जंघनतटमीषद्धनतरम्। मनाग्व्यक्ता रोमावलिरपचितं किंचिदुदरं हरे: सेवौचित्यं तव सुवदने विन्दति वयः ॥ १४ ॥

।। ११ ॥ विशाखा श्रीराधां परिहसन्त्ाह-आशास्त इति। दगेवेन्दीवरं तन्न कटाक्ष एव भ्रमरः पतितुमाशास्ते इच्छति एतावत्काल तव नयनं कटाक्षं कर्तु न जानीते स्म । संप्रति ज्ञास्यतीत्यर्थः । न्ीडो लज्जा। व्रीडोऽक्लीब इति रभसः (१) 'व्रीडमेति नतवक्षसः प्रिया' इति माघः । माधवो वसन्तः श्रीकृष्णश्च ॥ १२ ॥ दरेति तेन वयःसंन्धी स्तनस्थानस्य स्निग्धतमांसलले एव न तु तदा- कार इति ज्ञेयम्। किंचिच्चलाक्षमिति। वयःसंधिनव्ययोनेयनचाञ्चल्यस्याल- क्ष्यत्लक्ष्यलाभ्यां भेदः। मन्थरं मुखान्निर्गतुं विलम्बमानं स्मितं यत्र इति वयः- संधौ मुखमध्य एवासीदित्यर्थः । अभि सर्वतो भावेन स्फुरन् भावो यत्रेति प्रथ- मविकियारूपस्य भावस्य तयोरलक्ष्यत्लक्ष्यताभ्यां भेदः ॥ १३॥ वृन्दाह-उर ॥ ११ ॥ आशास्त इति। सख्याः सखीं प्रति भावोद्दीपनं वचनं मन्दमीषद् यथा स्यात्तथाऽऽशासते। उदीयत इति कर्तर्येव प्रयोग:। ईड् गताविति दैवादिकस्य

Page 293

स्यजाला

रय्य

अश उ्वरष्

उजलानि तथाङ्कानि व्यक्त्त सकुरति मौबनै॥१६॥ यथा रथानविधुन नवं अकस्यतपुरौजमुति: नैनसि युगलं हमो: सफसवत्तिमिन्बावलि। किमति व बलिन नव तीज़मजौवर्म लमत्र सरसीकृता सपगिगभ्रिया राजसि ॥ १७॥ सन्माधुरयेस्- आ्जन्ते वसकुन्तिमोसिकगणा बखौलिषद्िनमेः श्षिता: सुक्करमालयावृत्तरचा कुल्जेषु कुशेष्डमी ।

रति। किवित्पर्मरितनीयन् श्रीणम ॥१४॥ कानित्य्रोडवघु खननान्दर घरि हसनसी पारल विधित्पन्लाह-न रमिंनि। विचरमीति चापल्वम्। बद्धान्तासी त्याघेगः। विकिस्चीलोहखकयय्॥ १५॥१६॥ नान्हीसुस्याह-रथाविधुन चक्- वाकट्यम्। अणयीगय व्रत्ति चरित्रम, पक्षे शफरवत्ताम्। हें इन्द्रवलि, सरसी सरोघस्म्, पक्षे पूर्वसमरसा वम। मंत्रति रमिका भरितर्य ॥ १७॥ इंगावला श्रीसवामाह- म दरः कय तया मेत्रेण बड्। है हरिणेक्षणे, इति एकमैव हरिण ॥१३/१४ १५१६॥ सरसी कतैत। पूर्वमसरमा संप्रतति ु ताहशीअतेलर्थ:। पक्षे सरसी नरः॥ १७॥ हे वरदन्ति श्रेष्रशनै, पक्षे वस्दन्तिनां शहस्तिनां मौशिकगणा:। पुष्करमाला माय्य, पक्षे करिसुण्डान्र

Page 294

२७

स श्रीमान् हरिणेक्षे नर्व्रेण बद्धमतया ।१८।

अम पूर्णम्- नितम्बो विपुलो मध्यं कशमङगं वरयुति। पीनो उचाबूरुयुगं रम्मामं पूर्णयौवने ॥। १९ ॥

यथा- दशोईवन्द्वं वक्रां हरति शफरोलासलहरी- मम्र्ण्ड तुण्डश्रीर्विघुमधुरिमाणं दमयति। कुची कुम्भम्रान्तिं मुहुरविकलां कन्दलयत- स्तवापूर्व लीलावति वयसि पूर्णे वपुरभूत् ॥। २0।।

ब्रहित्य तह्ारेव भबती मिंहमबभ्नादिति विस्मयः। श्ेषेण तु नेत्रेण मन्थनदोर- केण सिंह बन्धुमिचच्छन्त्यास्तव गोपीलात्तदेव बन्धनसाधनमुचितमेवेति भावः । किमर्धमुरोज एव पञ्जरं तत्तटे संवेशयन्त्या शाययन्त्या । हेतौ शतृप्रत्ययः। 'स्वानिद्रा पायनं सापः खप्नः संवेश' इत्यमरः । न च स सिंहोऽपि साधारणधर्मे- लाह-शोटीर्येति। शौटीर्य पराक्रमस्तस्यान्धिरिति, पक्षे परमसुकुमारया लया तस्य महावलस्य श्रीकृष्णस्य शजाररससंमर्द: कथं सोढव्य इति नर्म ध्वनितम्। यस्य हर: सिंहस्य, पक्षे श्रीकृण्णस्योल्लिखद्भ्िरुच्ैर्लिखद्धि:, पक्षे उच्चरेखाङ्कवद्धभिनेखैः क्षिप्ता परवम्तिमीक्तिकगुणाः श्रेष्ठगजमुक्ताराशयः, पक्षे हे वरदन्ति इति पृथक्पदम्। अभोभयपक्षेऽपि करिकुम्भस्तनौ कर्मभूतावाक्षेपलब्धौ प्रविश पिण्डमित्यत्र गृहं भक्षयेतिषण्ह्ोयो। कीृशाः । पुष्करमालया छिन्नकरिशुण्डाग्रश्रेण्या, पक्षे निर्मा- ए्वकमसमालया आघुता रुच: कान्तयो येषां ते। 'पुष्करं करिहस्ताग्रे' इत्यमर: । 6॥ १९॥ वन्दाह-इशोरिति। पद्मकन्दलयतोऽङ्कुरयतः। प्रकाशयत

सम्टः । सेवेशयन्ता शाययन्त्ा। नेत्रेण चक्षुषा, पक्षे मन्थनदोरकेण ॥। १८ ॥

Page 295

२७२ काव्यमाला।

तन्माघुर्यम्- न वित्रस्ता का ते प्रति युवतिरासीन्मुखरुचा दधार स्तैमित्यं प्रणयघनवृक्षा तव न का। ब्रजे शिष्या काभून्नहि तव कलायामिति हरे- र्निकुञ्जख्वाराज्ये त्वमसि रसिके पट्टमहिषी॥ २१॥ तारुण्यस्य नवत्वेऽपि कासांचिद्रजसुभ्रुवाम्। शोभापूर्तिविशेषेण पूर्णतेव प्रकाशते ॥ २२। अथ रूपम्- अङ्गान्यभूषितान्येव केनचिद्धषणादिना। येन भूषितिवद्भाति तद्रूपमिति कथ्यते ॥२३ ॥ यथा दानकेलिकौमुद्याम्- त्रपते विलोक्य पझ्मा ललिते राधां विनाप्यलंकारम्। तदलं मणिमयमण्डनमण्डलरचनाप्रयासेन ॥ २४॥ यथा वा विदग्धमाधवे- नीतं ते पुनरुक्ततां भ्रमरकैः कस्तूरिकापत्रकं नेत्राभ्यां विकलीकृतं कुवलयद्वन्द्वं च कर्णार्पितम्।

इति यावत्। वयसि यौवने ॥२०॥ श्रीराधासौभाग्याद्विषीदन्तीं चन्द्रावलीं पद्मा समाश्वसिति-न वित्रस्तेति। प्रतियुवतिः प्रतिपक्षगोपी ॥२१॥२२॥ २३। वृन्दाह-त्रपत इति। मम सखी चन्द्रावली एवं सौन्दर्यवती न भवतीति सपक्षोत्कर्षच्युतिजनितेयं लज्ा । २४॥ भूषितवद्धान्तीत्येषोऽर्थो नात्र शब्दोपात्तोऽभूदित्यपरितुष्यन्नाह-यथा वेति । श्रीकृष्णः प्रसाध्य- मानां श्रीराधामाह-नीतमिति। भ्रमरकैरलकैः ॥ २५॥ छायायाः कान्ते- ॥ १९ ॥ २० ॥ २१ । तारुण्यस्य तत्समयस्य शोभापूर्तिर्दशोरित्यादिवर्णिता। पूर्णतेवेति। यथान्यत्र पूर्णतावस्था तथेत्यर्थः ॥२२॥२३॥२४॥ पुन- रुक्तादिशब्दा व्यर्थीकृतवाचकाः शब्दमेदविन्यासभङ्गया सरसाः ॥ २५ ॥

Page 296

उजवलनीरमणिः । २७३

हारश्र स्मितकान्तिभज्विभिरकं पिष्टानुपेषीकृलः किं राधे तव मण्डनेन नितरामझ्नैरसि घोतिता ॥। २५॥ अथ लावण्यम्- मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा। प्रतिभाति यद्ङ्गेषु लावण्यं तदिहोच्यते॥ २६॥ यथा वा- जगदमलरुचीर्विचित्य राधे व्यधित विधिस्तव नूनमन्गकानि। मणिमयमुकुरं कुरङ्गनेत्रे किरणगणेन विडम्बयन्ति यानि॥२७॥ यथा वा- श्रणु सखि तव कर्णे वर्णयाम्यत्र नीचै- र्विरचय मुखचन्द्रं मा वृथागाद्विवर्णम्।

स्तरललं तरङ्गायमानलम्। यथा तथा यदन्तरा मध्ये एवाह्वेषु प्रतिभाति प्रति- मानं भवेदित्यर्थः । अतिसच्छत्ादाधिक्याच्च प्रतिक्षणमुद्गच्छन्त्य इव कान्तयो यतो लक्ष्यन्ते तल्लावण्यमुच्यत इत्यर्थः ॥ २६ ॥ श्रीकृष्ण आह-जगत्सु या या अमला रुचय आसंस्ा एव सर्वा विचित्य ततस्ततः समाहृत्यैव व्यधित अक- रोत्। अत एव जगत्सु लदङ्नसादृश्यं न दृश्यत इति भावः। अङ्गकानीत्यनुक- म्पार्थकप्रत्ययेनाङ्गानां सुभगत्वं सुकुमारतं चोक्तम् ॥ २७॥ श्रीराधाज्गनिष्ठ लाव- प्यमुदाहृत्य श्रीकृष्णनिष्ठमपि तदुदाहर्तुमाह-यथावेति। एवमग्रेऽपि यथावे- छायायाः कान्तेस्तरललमिवेति तरड्वायमानतमित्यर्थः। लावण्यशब्दः खलु लव- णाश्दप्रकृतिकः । लवणा हि कान्तिरुच्यते। 'लवणा रसभेदः स्याल्लवणा तु नदीत्विषोः ।' इति मेदिनीकारकोषात्। ततश्च लवणास्मिन्नस्तीति लवणः । अश आदयच्। तस्य भावो लावण्यम्, लवणिमा चेति सिद्धम् ॥ २६ ॥ व्यधित अक- रोतू। विडम्बयन्ति निन्दयन्ति। तत्रेदृशलावण्यभावात्तिरस्कुर्वन्ति ॥ २७॥ शुणु सखीति। परमलावण्ययुक्तसवप्रतिबिम्बेन खसदशी काचिदन्याप्यसीति १८ उजव०

Page 297

स७४ कौव्यमाला।

इयमुरसि मुरारेरस्ति नान्या मृगाक्षी मरकतमुकुराभे बिम्बितासि त्वमेव ॥ २८॥ अथ सौन्दर्यम्- अङ्गप्रत्यङ्गकानां यः संनिवेशो यथोचितम्। सुप्लिष्टसंधिबन्धः स्यात्तत्सौन्दर्यमिंतीर्यते॥ २९॥ यथा- अखण्डेन्दोस्तुल्यं मुखमुरुकुचद्योतितमुरो भुजौ स्रस्तावंसे करपरिमितं मध्यममितः । परिस्फारा श्रोणी क्रमलघिमभागूरुयुगलं तवापूर्व राधे किमपि कमनीयं वपुरभूत् ॥ ३० ॥ अथाभभिरूपता- यदात्मीयगुणोत्कर्षैर्वस्त्वन्यन्निकटस्थितम्। सारूप्यं नयति प्राज्ञैराभिरूप्यं तदुच्यते ॥ ३१ ॥

व्यस्यैवमेवावतारिका ज्ञेया। श्रीकृष्णस्याग्रतएवोपविश्य खेलन्तीमन्तर्मानोदयां श्रीराधां परामृश्योपरिष्टादस्यामुपहस्यमानताभूदिति विशाखा बोधयन्ती तामाह- शृण्विति ॥ २८ ॥ अङ्ञानां बाह्वादीनां प्रत्यङ्गानां प्रगण्डप्रकोष्ठमणिबन्धादीनां यथोचितं स्थौल्यकार्श्यवर्तुलतादिकं यत्रयत्र यद्यदुचितं भवति तदनतिक्रम्य संनि- वेश: सुश्िष्टः यथोचितं मांसललेनैक्यमाप्त: संधीनां कफोण्यादीनां बन्धो यस्मिन् सः ॥ २९ ॥ श्रीकृष्ण आह-अखण्डेन्दोरिति। अंसे स्कन्धे। स्स्तौ नता- वित्यर्थः । मध्यमभितो मध्यस्य सर्वदिक्षु करेण करविस्तारेण परिमितम्। करेणैव गृहीतुं शक्यमित्यर्थः । 'अभितःपरितःसमया' इत्यादिना द्वितीया ॥३०॥यदिति समत्सरां श्रीराधां प्रति सखीसान्लनम् । २८ ॥२९ ॥ अंसे स्कन्धे सनस्तौ नता- वित्यर्थः । नम्राविति वा पाठः ॥ ३० ॥। रूपमङ्गान्यभूषितानीत्यादिना लक्षितं यत्तदेव। किमपि विरलप्रचारमनिर्वा च्यमाखवाद्यमानलेऽपि निर्वक्तुमशक्यं चेत्तदा १. 'मुदीर्यते' इति च पाठ :.

Page 298

उज्ज्वलनीलमणिः । २७५

यथा- मग्ना शुभ्रे दशनकिरणे स्फाटिकीव स्फुरन्ती लयना शोणे करसरसिजे पद्मरागीव गौरी। गण्डोपान्ते कुवलयरुचा वैन्द्रनीलीव जाता सूते रत्नन्रयधियमसौ पश्य कृष्णस्य वंशी ।। ३२ ।। यथा वा- वक्षोजे तव चम्पकच्छविमवष्टम्भोरुकुम्भोपमे राधे कोकनदश्रियं करतले सिन्दूरतः सुन्दरे। द्रागिन्दिन्दिरबन्धुरेषु चिकुरेष्विन्दीवराभां वह- न्नेक: कैरवकोरको वितनुते पुष्पत्रयीविभ्रमम् ।। ३३।। अथ माधुर्यम्- रूपं किमप्यनिर्वाच्यं तनोर्माघुर्यमुच्यते। यथा- किमपि हृदयमभ्रश्यामलं धाम रुन्धे दृशमहह विलुण्ठत्याङ्गिकी कापि मुद्रा।

कर्तृपदम्। अन्यद्वस्तु कर्मभूतम्। सारूप्यं सतुल्यरूपत्वम् ॥। ३१॥ श्रीकृष्णेन वाद्य- मानां वंशीं दूरादर्शयन्ती विशाखा श्रीराधामाह-मग्नति। सूते जनयति ॥३२॥ यथावेति। अन्र नायकनायिकयोः शङ्गाररसस्य परस्परविषयाश्रयले परस्प- ररूपादीनां परस्परोद्दीपनलेन वर्णने पूर्वपश्चाद्भावो न नियम्यत इति ज्ञेयम्॥ श्रीकृष्ण आह-वक्षोज इति । कैरवकोरकः श्वेतोत्पलकलिका, अवष्टम्भः सवर्णम्, कोकनदं रक्तोत्पलम्, इन्दिन्दिरो भ्रमरः, इन्दीवरं नीलोत्पलम् ।। ३३ ॥ रूपमङ्गान्यभूषितानीत्यादिना यल्लिखितं तदेव किमपि निर्वक्तुमशक्यं -तनोर्माधुर्यमुच्यते ॥ ३१ ॥३२॥३३ ॥ वधूनामिति सर्वत्रान्वेति। हृदयं कर्म- १. 'इन्दीवरबन्धुरेषु' इति क. पुस्तके.

Page 299

२७६ काव्यमाला।

चटुलयति कुलस्ीधर्मचर्या बकारे: सुमुखि नवविवर्तः कोऽप्यसौ माधुरीणाम्॥ ३४॥ अथ मार्दवम्- मार्दवं कोमलस्यापि संस्पर्शासहतोच्यते॥ ३५॥ उत्तमं मध्यमं प्रोक्तं कनिष्ठं चेति तत्रिधा। तत्रोत्तमम्- अभिनवनवमालिकामयं सा शयनवरं निशि राधिकाधिशिश्ये। न कुसुमपटलं दरापि (?) जग्लौ तदनुभवात्तनुरेव सन्रणासीत्॥ ३६ ॥

चेदद्वाचकः शब्दो न लभ्यते किंतु मनसैवास्वाद्य प्रतीयते तन्माघुर्य किमपी- त्यादिशब्दैर्यथाकर्थंचिद्रम्यमित्यर्थः ॥ विशाखा श्रीराधाभाह-किमपि धाम (कर्तृ) हृदयं (कर्म) रुन्धे । सवस्मिन्नावृत्य स्थापयतीत्यर्थः । विलुण्ठति बलादपहरति। एवं च्र मनोदृशोभावे कथं धर्मः स्थास्यतीत्याह-चटुलयवि चश्चलीकरोति। विवर्तः परिपाकविशेषः ॥। ३४ ॥ ३५॥ रूपमञ्जरी रतिमज्जरी- माह-अभिनवेति । तेनाद्यारभ्य नवमालिकायाः शय्या न कार्या किंतु यूथिकानां स्थलकमलानां वा दलाग्राणि किंवा तदर्थमन्यान्येव पुष्पाण्यवचेतु- मन्वेष्टव्यानीति भावः । अधिशिश्ये। 'अधिशीड्स्थासां कर्म' इत्याधारकर्मणि

रूपम्। धाम कर्तृरूपम्। बकारेर्माधुरीणां कोऽप्यसौ विवर्तः परिपाकः ॥३४॥ ।३५॥ निशि राधिकाधिशिश्ये कृष्णेन सहेति बोध्यते। ततस्तस्यामार्दवलक्षणः खगुणोऽयं श्रीकृष्णभोग्यलेनानुभूयमान उद्दीपनाय कल्पते स इति भावः । वक्ष्य- माणभध्यमकनिष्ठोदाहरणे तु तां तां प्रति सखीवाक्यतात् पूर्ववदुद्दीपने जाते एवे- त्येवमन्यत्रापि ज्ञेयम्। सत्रणेति स्न्नेहादत्युक्तिः । ग्लापितेत्येव वास्तवम् ॥३६॥ १. 'वधूनाम्' इति ख. पुस्तके पाठ :.

Page 300

उज्जवलनीलमणिः । २७७

मध्यमं यथा- चित्रं धनिष्ठे तनुवाससोऽपि चीनस्य पीनस्तनि संगमेन। लिप्तेव ते लोहितचन्दनेन मूर्तिर्विदूना सखि लोहितासीत्।।३७।। कनिष्ठं यथा रससुधाकरे- आमोदमामोदनमादधानं विलीननीलालकचश्चरीकम्। क्षणेन पद्मामुखपद्ममासीत्त्विषा रवेः कोमलयापि ताम्रम् ॥३८॥ अथ नाम यथा- तटभुवि रविपुत्र्याः पश्य गौराद्कि रङ्गी स्फुरति सखि कुरड्गीमण्डले कृष्णसारः । इति भवदभिधानं शृण्वती सा मदुक्तौ सुसनुरतनुघूर्णापूरपूर्णा बभूव ॥ ३९ ।।

प्रत्ययः ॥ ३६ ॥ ललिताह-चित्रमिति । चीनस्य चीनदेशोद्भवस्याति- सूक्ष्मस्य। लोहितचन्दनेन रक्तचन्दनेन ॥ ३७ ॥ पद्मायाः सखी खसखीमाह- आमोदं सौरभमामोदनमानन्ददायि आदधानमन्येभ्योऽप्यर्पयन्तम्। निलीना: स्वेदसंपर्काद्वालोपान्तसंस्तृष्टा नीलालका एव चश्चरीका भ्रमरा यत्र तत्। नन्वासां सदैव वस्त्रालंकारादिमतीनां दिवसेऽप्यभिसारवनविहारादौ सूर्यकिरण- स्पर्शिनीनां मार्दवनिबन्धनवैवर्ण्यस्य सार्वदिकले विभाववैरूप्यं प्रसज्जेत्। मैवम्। आसां प्रायः सदैव जागरूकरागाख्यस्थायिभाववतीनां दुःखमपि परमसुखरूप- मेव भवेत्। तस्मिन् सति कुतो वैरूप्यं प्रत्युत सौरूप्यमेवाधिकं भवेत्। अत्र प्रमाणं 'तीवार्कद्युलिदीपितैः' इति वक्ष्यमाणं रागोदाहरणपद्यमेव। तत्र संतप्तती- क्णशिलापि परमसुक्कुमारचरणतलवैरूप्यालसभपि नाकरोत्; किमुत श्रीकृष्णदृष्टि- सुखदलेनानुसंधीयम्मानानि वस्नालंकारादीनि। ततश्च कलहान्तरितलद्शादावासां श्रीकृष्णसंबन्धसंभावनाभावाद्रागाख्यस्थायिभावानुद्मसमय एव भार्दवनिबन्धनं वैवण्यं हेयम्। अत एव मार्दवोदाहरणेषु श्रीकृष्णसंबन्धेनोपात्तमार्दवस्योत्तमल- कनिष्ठत्ज्ञापनार्थ श्रोकत्रयम्। मार्दवस्य तारतम्यं तु स्पर्शनदर्शनादौ ज्ञेयमिति केचिद्राचक्षते ॥। ३८ ॥ वृन्दा श्रीकृष्णमाह-तठेति ॥ ३९ ॥ अनुभावा शीनस तजामदेशोन्रपख् ॥ ३७ ॥ आमोद सौरभम्। आमीदनभानन्दमम्

Page 301

2७८ काव्यमाला।

अथ चरितम्- अनुभावाथ् लीला चेत्युच्यते चरितं दविया॥। ४० ॥। अग्रेऽनुभावा वक्तव्या लीलेयं कथ्यतेऽधुना। लीला स्याच्चारुविकीडा ताण्डवं वेणुवादनम् ।। ४१ ।। गोदोहः पर्वतोद्धारो गोहूतिर्गमनादिका ।। तत्र चारुविक्ीडा- रासकन्दुकखेलाद्या चारुक्ीडात्र कीर्तिता॥ ४२॥ तत्र रास :- तं विलासवति रासमण्डले पुण्डरीकनयनं सुराङनाः। प्रेक्ष्य संभृतविहारविभ्रमं ब्रमुर्मदनसंभ्रमोर्मिभिः ॥४३॥ कन्दुकक्रीडा- अरुणरुचिमुदस्य क्षेपणीं कुञ्चितामं

अलंकाराख्याश्च हेयाः॥ ४०॥ ४१ ॥४२॥ इ्यामला श्रीराधामाह- तमिति। हे विलासवति राधे, अन्न वर्ण्यमानलेन स्मृतो रासो रतेरुद्दीपनो ज्ञेयः ॥ ४३ ॥ वयस्यैः सह खेलन्तं श्रीकृष्णं लताजालदत्तनेत्रा पश्यन्ती श्रीराधा खसखीः प्रत्याह-अरुणरुचि हिङ्गुलेन रजितां क्षेपणी कन्दुकोत्क्षेपणल- कुटिकामुदस्य कन्दुकमुच्चालयितुसुत्क्षिप्य विभ्रमन्ती विभ्रमवती धावनेनाद्भुत- विलासयुक्ता दीर्घा वेणिर्येस्य सः। कन्दुकान्दोलनेन नृत्यतोर्विपुलयोर्नयनयो-

।। ३८॥ ३९॥ अनुभावा अन्नालंकाराख्या उद्भाखवराख्या वाचिकाख्याश् ।४०। ४१॥४२ ।४३ ॥ अरुणरुचिमिति। द्वयं कांचित् प्रति सख्या

Page 302

उज्जवलनीलमणिः । २७९

विरचयति मुकुन्द: कन्दुकान्दोलनृत्य- द्विपुलनयनभङ्गीविभ्रमः कौतुकं नः॥४४॥ ताण्डवम्- प्रचलप्रचलाककुण्डलोऽयं सवसुहृन्मण्डलचर्चरीपरीतः । हरिरद्य नटन्पतङ्गपुत्रीतटरक्के मम रङ्कमातनोति ॥ ४५॥। वेणुवादनं यथा ललितमाधवे- जङ्घाधस्तटसङ्कि दक्षिणपदं किंचिद्विभुम्नत्रिकं साचिस्तम्भितकंधरं सखि तिरःसंचारिनेत्राश्वलम्। वंशीं कुश्लिते दधानमधरे लोलाङ्गुलीसंगतां रिङ्व्द्ूभ्रमरं वराङ्गि परमानन्दं पुरः खीकुरु॥ ४६ ॥ गोदोहो यथा पद्यावल्याम्- अङ्गष्वाग्रिमय्रिताङ्गुलिरसौ पादार्धनीरुद्धभू- रापीनाञ्चलमार्द्रयन्निह पुरो द्वित्रैः पयोबिन्दुभिः ।

भेङ्गया विभ्रमः शोभाविशेषो यस्य सः ॥४४ ॥ लताजाले पश्यन्ती श्रीराधां सखीः प्राह-प्रचलेति। प्रचलाकः पिच्छम्। चर्चरी तालविशेषः ॥४५॥ ललिता श्रीराधामाह-जङ्गेति। परमानन्दं तदेकखरूपलेनाधारयमेदश- न्यम्। मूर्तमेव सुखमित्यर्थः । अज्गीकुरु कटाक्षेद्वितेन सवीकुरु। कीदृशम्। जद्गया वाभजङ्गया सहाघस्तटेन स्वाधोभागेन सद्वि दक्षिणपदं यस्य तम्। किंचिदीषद्वि- भुन्नं त्रिकं मध्यभागो यस्य तम्। 'पृष्टवंशाधरे त्रिकम्' इत्यमरः । साचि तिर्यक स्तम्भिता स्तम्भभावेनैव निश्चला कंधरा ग्रीवा यस्य तम् ॥४६॥ विशाखा श्रीकृष्णं दर्शयन्ती श्रीराधामाह-अङ्डष्ठस्याग्रिमोऽग्रभवो यो भागसेन यन्त्रिता सुश्लिष्टा अङ्गुलयो येन सः । तत्र भागशब्दस्य समासेऽन्तर्भावो वाच्यः । यदुकं वचनम्। तेनावगतलाच तत्तलीलाया उद्दीपनतम्॥। ४४ ॥ प्रंचलाकः पिच्छम्। चर्चरी तालविशेषः ॥४५॥ जङ्गाधस्तटेति। दाम्पलेन श्रीकृष्णप्राप्त्यु-

Page 303

२८० -काव्यमाला।

द्धाराध्वानमनोहरं सखि पयो गां दोम्धि दामोदरः॥४७ पर्वतोद्धार :- उद्यम्य कन्दुकितमन्दरसोदराद्रिं सव्यं करं कटिमनुस्थगयन्नसव्यम्।

श्वित्ताम्बुजं मम हरिश्वटुलीचकार ।। ४८ ।। गोहूति :- पिशङ्गि मणिकस्तनि प्रणतशृद्गि पिङ्रेक्षणे मृदङ्गमुखि धूमले शबलि हंसि वंशीप्रिये। इति सवसुरमीकुलं मुहुरुदीर्णहीहीध्वनि- र्विदूरगतमाह्वयन् हरति हन्त चित्तं हरिः ॥ ४९॥

भाषावृत्तौ "कचिदुत्तरपदस्य वृत्तावन्तर्भावः सुवर्णविकारोऽलंकारोऽस्य सुवर्णा- लंकारः" इति । आपीनमूधस्तस्याश्चलम्। पुरः दोहक्रियायाः प्रथममेवेत्यर्थः । न्यक् किश्चिदधोऽश्वद्यज्जानुद्वयमूरुपर्वयुगलं तन्मध्ये यन्त्रिता निश्चलतया न्यस्ता या घटी तस्या यद्वकान्तरालं मुखमध्यं तत्र स्खलन्त्ः पतन्तो या धारास्तासां ध्वानेन मनोहरं यथा स्यात्तथा पयो गामिति कर्मद्वयम् ॥४७ ॥ श्रीराधा विशाखामाह-उदम्येति। कन्दुकितः कीडार्थमिव लीलयैव कन्दुकीकृतः मन्दरसोदरसत्तुल्योऽद्रिर्येन तं सव्यकरमुद्यम्योत्थाप्य तथा असव्यं दक्षिणकरं कटिमनु कट्यां स्थगयन् संवृततया स्थापयन्। 'षगे षटगे संवरणे' धातुः ॥४८ ॥ श्रीराधा ललितामाह-पिशङ्गीत्यादि । पद्यत्रयम्। रचितो धैर्यस्य संवरः संवृत्तिः । लोप इति यावत्। अम्बरमणे: सूर्यस्य प्रभाभिर्लन्नाभिरुज्वलं अति- पायसमये तदमेदेन श्रीराधायाः प्रतीतायाः प्रतिमाया वर्णनम् ॥४६॥४७॥ कन्दुकितः कन्दुकीकृतः । मन्दरसोदरस्तन्तुल्योऽदिर्येन तम्। सव्यं करमुद्यम्य, १. चटलं सकार' इति ग. पुस्तके.

Page 304

उज्ज्वरनीलमणिः ।

गमनम्- अनुपदमद्मन्दान्दोलिदोरर्गलश्रीः सुरगजगुरुगर्वस्तम्भिगम्भीरकेलिः। सहचरि दरचञ्चचारुचूडारुचिर्मा मद्यति गतिमुद्रामाधुरी माधवस्य ।। ५०॥। अथ मण्डनम्- चतुर्धा मण्डनं वासोभृषामाल्यानुलेपनैः। तत्र वस्त्रं यथा- अम्बरं चरितघैर्यसंवरं रम्यमम्बरमणिप्रभोज्ज्वलम् । सुभ्रु किं नहि कटीरेमण्डले पुण्डरीकनयनस्य पश्यसि ॥५१॥ यथा वा अमलकमलरागरागमेतत्तव जयति स्फुटमद्भुतं दुकूलम्। मम हृदि निजरागमत्र राधे दधदपि यद्िगुणं बभूव रक्तम्।। ५२।।

चांकचिक्यवदित्यर्थः । अम्बरमिदं पीतमरुणं वा ज्ञेयम् ॥४९॥५०॥५९ ॥ श्रीकृष्ण: श्रीराधामाह-अमलेति । कमलरागः पद्मरागमणिस्तस्येव रागो रक्िमा यस्य तत्। निजस्य रागं रक्तिमानं अनुरागं च दधदर्पयत्। द्विगुण- मिति। अनुरागस्य स्वभाव एवायं यत् खविषयस्य नित्यनूतनीकरणेन प्रतिक्षणं असव्यं करं कटिभनु स्थगयन् संवृततया स्थापयन् ॥४८॥४९॥५०॥ दष्टमपि वाम्येनादष्टमिव ज्ञापयन्तीं कांचित् प्रति सख्यास्तत्तदमवर्णनेष्वम्बरमित्याद्यपि वर्णनं ज्ञेयम्। कि न पश्यसीति खारस्यात्। संवरः संवरणम्। प्रारब्धाभा प्रभा मध्य- पदलोपाजवमुद्गतेत्यर्थः । रम्यमित्यादौ प्रोद्यदम्बरमणिप्रभाखरामिति वा पाठः ॥ ५१ ॥ कमलरागः पद्मरागमणि: द्विगुणं बभूव । रक्तमिति । खहृदयस्य रागाविशयो व्यजितः । रागस्यानुरागवाचकलवेऽपि खविषयोत्कर्षव्यञ्ञकत्वाद्युक्त- 1. कटीरो जकनम्,

Page 305

३८२ : काव्यमाला।

भूषा यथा- प्रहरतु हरिणा कदम्बपुष्पं प्रियसखि शेखरितं यदङ्गजास्त्रम्। बत कथममुनावतंसितोऽसौ मम हृदि विध्यति नीलकण्ठपक्षः॥५३।। यथा वा- हारेण तारद्युतिना कपोलप्रेङ्कोलिना कुण्डलयोर्युगेन। उत्तुङ्गभासा कनकाङ्गदेन मां लालितेयं ललिता धिनोति ॥५४॥ माल्यानुलेपने यथा रससुधाकरे- आलोलैरनुमीयते मधुकरैः केशेषु माल्यग्रहः कान्तिः कापि कपोलयोः प्रथयते ताम्बूलमन्तर्गतम्। अङ्गानामनुभूयते परिमलैरालेपनप्रक्रिकिया वेषः कोऽपि विदग्ध एष सुदृशः सूते मुखं चक्षुषोः।५५॥।

शोभातिशयभनुभावयतीति ॥ ५२ ॥ श्रीराधा ललितामाह-प्रहरत्विति। शेखरितं शेखरीकृतम्। 'शिखासवापीडशेखरौ' इत्यमरः । अङ्गजस्य कन्दर्पस्यास्त्र- मिति तस्य पुष्पशरतान्मम च सदैव तल्लक्ष्यतात् प्रहरतित्युचितमेव नील- कण्ठस्य सदैव तद्विषयलेन प्रसिद्धस्य रुद्रस्य पक्षः सखा मम हृदि कथं विध्यति। 'पक्षः सखिसहाययोः' इति मेदिनी। नीलकण्ठः, पक्षे पक्षः मयूरपिच्छम्। 'नीलकण्ठो भुजङ्गभुक्' इत्यमरः ॥ ५३ ॥ श्रीकृष्णः पथि चलन्तीं ललितां वर्ण- यन् सुबलमाह-हारेणेति। तारो नाम मुक्तानां संशुद्धिर्गुणविशेषसेन द्युति- र्यस्य तेन। 'तारो मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिके' इति विश्वः । ललिता हारादिभिरीप्सितीकृता। 'लल ईप्सायाम्' चुरादिः ॥ ५४ ॥ श्रीकृष्ण आह- मेव तदित्यपि सूचितम् ॥ ५२॥ नीलकण्ठपक्षो मयूरपिच्छम्। नीलकण्ठो रुद्रः तस्याङ्गजविद्वेषिलेन प्रसिद्धस्य पक्षः सहायोऽपीत्यर्थः ॥५३॥ हारेणेत्या- द्यपि। हरिविषया या ललिता। रतेरुद्दीपनतं पूर्वरीत्या ज्ञेयम्। साक्षाद्वा पर- परया वा तया तादृशश्रीकृष्णवाक्यश्रुतेः । तारेण मुक्ता शुद्धा द्युतिर्यस्य तेन । लालिता सखीभिरुपसेविता ॥ ५४॥ आलोलैरित्यपि। पूर्ववत्। परपरत्र

Page 306

उज्ज्वलनीलमणिः । २८३

यथा वा- अनङ्गरागाय बभूव सद्यस्तवाङ्करागोSपि किमङ्गनासु। उद्दामभाराय तथा किमासीद्दामापि दामोदर तावकीनम्॥५६॥ अथ संबन्धिन :- लगा: संनिहिताश्ेति द्विधा संबन्धिनो मताः ॥५७॥ तत्र लग्ना :- वंशीशङ्गीरवौ गीतं सौरभ्यं भूषणक्कणः। पदाङ्काद्या विपञ्च्यादिनिक्काणा: शिल्पकौशलम्॥५८॥ इत्यादयोऽत्र कथिता लनाः संवन्धिनो बुघैः। तत्र वंशीरवो दानकेलिकौमुद्याम्- वेणोरेष कलखनस्तरुलताव्याजृम्भणे दोहदं संध्यागर्जभरः पिकद्विजकुहूखाध्यायपारायणे।

केशेषु वस्त्राच्छादितेष्वपि माल्यग्रहो माल्यधारणं प्रथयते ख्यापयते ॥ ५५॥ दूती श्रीकृष्णमाह-अनङ्गति । अङ्गरागश्चन्दनकुङ्डुमाद्यनुलेपः । तव दाम माल्यमपि उद्दामो विनिर्मलो यो भावस्तदर्थम्, विरोधपक्षे उदुपसर्गो नजर्थे। उद्धर्त्मना गच्छतीतिवत् ।। ५६। गुणादयो मण्डनान्ता उद्दीपनविभावा नाय- कयोः साक्षाद्वर्तिले एव संबन्धिनस्तु तदसाक्षाद्वर्तिले इति भेदो ज्ञेयः । संबन्धि- ष्वपि तदविनाभाववन्तो वंशीरवाद्या लमा इति तौ विनापि पृथग्विधा निर्माल्या- दय: संनिहिता इत्याख्यायन्ते। किं च वंशीरवादीनां तत्साक्षाद्वर्तिले गोहूतिर्ग- मनादिकेत्यादिपदग्राह्यलेन लीनेत्याख्या साक्षाद्वर्तित्ाभावे तु संबन्धिन इति। अत एव वेणुवादनताण्डवगोहूतयो लीलामध्येऽपि पठिता इति ॥ ५७॥५८॥ वृन्दा श्रीराधाप्रभृतीराह-वेणोरिति। व्याजम्भणे पुष्पपल्लवादिप्रकाशे निमित्ते दोहदं तदानन्दकौषधविशेषः । तथा पिका एव द्विजास्तेषां कुहूरेव खाध्यायो चावतारिकाभङ्गया तथैव योज्यम् ॥५५॥ अनङ्गरागायेति। तत्प्रेयस्याः पुरतः श्रीकृष्णं प्रति सखीकृतपरिहासवचनम् ॥५६॥५७॥५८ ॥ पारायणं

Page 307

२८४ काव्यमाला।

आभीरेन्दुमुखीस्मरानलशिखोत्सेके सलीलानिलो राधाधैर्यधराधरेन्द्रदमने दम्भोलिरुन्मीलति ॥ ५९॥ यथा का रससुधाकरे- माधवो मधुरमाधवीलतामण्डपे पटुरटन्मधुव्रते। संजगौ श्रवणचारु गोपिकामानमीनबडिशेन वेणुना ॥। ६० ॥ कृष्णवक्रेन्दुनिष्ट्(ष्ठयू)तं मुरलीनिनदामृतम्। उद्दीपनानां सर्वेषां मध्ये प्रवरमीर्यते ॥६१॥ भृङ्गीरव :- कंसाराते: पिबतु मुरली तस्य सद्वंशजन्मा सा वक्रेन्दुं स्फुटमकुटिला पश्चमोद्गारगुर्वी। आस्वाद्यामुं त्वमपि विषमाभङ्गराङ्गारकाली तुङ्ं शृद्गि ध्वनसि यदिदं तत्तु दुःखाकरोति ॥ ६२॥ अथ गीतम्- मानानलं मे शमयन्प्रसिद्धं गानामृतं वर्षति कृष्णमेघः । मा कुध्य वात्यासि सखि प्रसीद दूरे नयामुं निजविभ्रमेण ॥।६३।।

वेदपाठस्तस्य पारायणे साकल्येनावर्तने। संध्यागर्जातिशयदम्भोलिर्वेज्रम् ॥५९॥ अत्र राधाधैर्येत्यनेन श्रीराधाया एव भावोद्दीपनतवं वेणुखनस्याबगतं विचक्षितं तु सर्वासामेव इत्यत आह-यथावेति । माधव इति। अन्र गोपिकापदेन नायिकामात्रमुक्तम् ।। निध्टू( छथू)तमुद्गीर्णम् ॥ ६० ॥६१ ॥ श्रीराधाह- कंसेति । विषमा स्थौल्येऽपि सर्वत्र सामान्यरहिता सा प्रसिद्धा यशखिवनी दुःखाकरोति दुःखं ददाति। 'दुःखात् प्रातिलोम्ये' इति डाच् । ६२।। कलहान्त- रिता श्रीराधा ललितामाह-मानेति। शमयन् शमयितुं लं वाल्या असि यतो मामेव चालयसि। तं कि न चालयसि यदि शक्कोषीति भावः ।। ६३ । पाठस्य साकल्यकरणम्। व्याजृम्भणे पुष्पादिप्रकाशे निमित्ते दोहदं वाञ्छनीयमलर्थ:

Page 308

उजवलनीलमणिः ।

सौरभ्यम्- मिलति परिमलोर्मिः कस्य रोमश्रियासौ मम तनुलतिकायां कुर्वती कुक्लानि। सखि विदितमिहाग्रे माधवः प्रादुरासीद् भुवि सुरभितया यः ख्यातिमङ्गीकरोति ॥ ६४ ॥ यथा वा- मदयति हृदयं किमप्यकाण्डे मम यदिदं नवसौरभं वरीयः । तदिह कुसुमसंग्रहाय राधा शिखरितटे शिखरद्विजा विवेश ॥६५॥ भूषणक्कण :- कलहंसनादमिह हंसगामिनी निशमय्य हंसदुहितुस्तटान्तरे। तव नूपुरध्वनिधिया परिप्ठवा कलसीं न वेद शिरसश्र्युतामपि॥६६॥।

अभिसरन्ती श्रीराधा वनमध्य एवाह-मिलतीति। परिमलश्रीः सौरभसंपत्तिः। रोमश्रिया रोम्णामुद्गमशोभया इत्यर्थः । दभा उपासिक्त ओदनो दध्योदन इतिव- दुद्धमपदस्य वृत्तावन्तर्भावः । प्रत्युत्तरमवदन्तीं ललितां खयमेवाह-हे सखि, व्रिदितं मया सहसा ज्ञातं सुरभिर्वसन्तः, सौरभवांश् श्रीकृष्णः । 'वसन्ते पुष्प- समयः सुरभिः' इत्यमरः ॥ ६४ ॥ श्रीकृष्ण आह-मदेति। 'पक्कदाडिमबी- जाभं माणिक्यं शिखरं विदुः' ॥ ६५॥ वृन्दा श्रीकृष्णमाह-कलेति। परि- पवा चश्वला। 'चञ्चलं तरलं चैव पारिप्वपरिप्तवे' इत्यमरः । कलसीमिति। दासयादिसद्भावेऽपि देवतापूजनार्थ कलसीं सयमेव वहामीति निमिषमात्रं यमुनातटं ५६ ६ ॥६२ ॥ ६३ ॥ 'मिलति परिमलश्रीः कस्य वा रोममूले मम' इत्येव वा पाठः। सुरभितया सुगन्धितया, पक्षे वसन्ततया ॥ ६४॥ मद- यतीति। कदाचिदभिसत्यापि श्रीकृष्णं निकटस्थं वितर्क्य लीनतया शृण्वत्यां श्रीराधायां श्रीकृष्णवाक्यम्। अकाण्डेऽनवसरे। 'पक्कदाडिमबीजाभं माणिक्यं शिखरं विदुः ॥ ६५॥ परित्ठवा चश्चला। कलसीयं देवताराधनाय भत्त्यैव खयमूढा न तु परिजनाभावेन खगृहकर्मणे। तत आरभ्य नन्दस्येत्यादेः ॥६६॥

Page 309

२८६ काव्यमाला।~

यथा वा ललितमाधवे- मधुरिमलहरीभि: स्तम्भयत्यम्बरे या स्मरमदसरसानां सारसानां रुतानि। इयमुदयति राधा किंकिणीझङ्कतिर्मे हृदि परिणमयन्ती विक्रियाडम्बराणि॥ ६७ ॥

पदाङ्काद्या यथा दानकेलिकौमुद्याम्- पदततिभिरलंकृतोज्ज्वलेयं ध्वजकुलिशाङ्कशपङ्कजाङ्किताभिः । नखरलुठितकुख्बला वनाली किमपि धिनोति धुनोति चान्तरं मे॥।६८॥

गल्ा श्रीकृष्णं दूरादपि पश्येयमिति तु वास्तवम् ॥६६ ॥ श्रीराधादिदृक्षुः श्रीकृष्णो वितर्कयति-मधुरिमेति । सम्भयति तिरस्करोति। परिणमन्ती परि- पाकं प्रापयन्ती।। ६७ ॥ श्रीराधाह-इयं वनाली वनश्रेणी वनरूपाली च ध्वजादिभिरङिताभि: पदततिभिः । अत्र पदशब्देन पदचिह्नं लक्षितव्यम्। पक्षे चिह्नश्रेणीभिरलंकृता तेन श्रीकृष्णेनैवेत्यर्थतो गम्यते। नखराणां लुठितं स्पर्शो येषु तथाभूतानि कुछ्ालानि यस्याः सा। 'लुठ (ट) संश्लेषणे' तुदादिः। श्रीकृष्णे- नैव खपाणिना पुष्पावचये तन्नखरस्पर्शात्। पक्षे नखरेषु लुठितं कुझालं अति- शयोत्तया स्तनो यस्याः सा इति विपरीतशङ्गारः सूचितः । अत्र वनपक्षे धिनोति सुखयति तदीय चरणनखरचिह्नदर्शनात्, धुनोति कम्पयति साक्षात्तद्दर्शनोत्कण्ठा- व्यथोत्पादनात्। आलीपक्षे श्रीकृष्णसंभुक्ता सखी स्न्निह्यन्तीं मां सूचयति, विप- रीतसंभोगचिह्नयुक्ता सा कम्पयति। तद्दर्शनेन कामोद्गमात् ॥। ६८ ।। श्रीकृष्णः

कदाचिद्दूरवर्तिनीमपि श्रीराधामविलोक्य तस्यां शण्वत्यां श्रीकृष्णः प्राह-मधु- रिमेति। परिणमयन्ती परिपाकं प्रापयन्ती। लठिततं स्खलितलम् ॥६७॥ समरकेलीत्यपि। मधुरिमेत्यादिसहोदरम्। शब्दब्रह्मश्रियं शब्दरूपं ब्रह्म वेदाख्यं तस्य संपत्तिरूपतया वितर्क्यमानायास्तादृशी स्मरकेलिनाव्यनान्दीं आरम्भत एव मज्डलपाठं, दुहन्ती प्रपूरयन्ती। महती विपञ्चीनाम वीणाभेद:

Page 310

उज्ज्वलनीलमणिः । २८७

विपश्चीनिक्काणो यथा ललितमाधवे- समरकेलिनाट्यनान्दीं शब्दब्रह्मश्रियं मुहुर्दुहती। वहति मुदं मम महतीमिह महिता श्यामलामहती॥ ६९ ॥ शिल्पकौशलं. यथा- वरकुसुमनिवेशप्रक्रियासौष्ठवेन प्रकटितहरिशिल्पा पट्टसूत्रोज्ज्वलश्री: । हृदि विनिहितकम्पा निर्मिमीते स्रगेषा निशितशरपरीतस्मारतूणीरशङ्काम्॥७0॥ अथ संनिहिता :- निर्माल्याद्याः संनिहिता वर्हगुञ्जाद्रिधातवः॥।७१।। नैचिकीनां समुदयो लगुडीवेणुशङ्गिकाः। तत्रेष्ठदृष्टिर्गोधूलिर्वृन्दारण्यं तदाश्रिताः॥ ७२॥ गोवर्धनो रविसुता तथा रासस्थलादयः। तत्र निर्माल्याद्या यथा विदग्धमाधवे- अङ्गोत्तीर्ण विलेपनं सखि समाकृष्टिक्रियायां मणि- ्मन्रो हन्त मुहुर्वशीकृतिविधौ नामास्य वंशीपतेः।

श्य्ामलां दिद्दक्षुराह-स्मरेति। श्यामलाया महती वीणा महतीं मम सुदं वहति। 'वीणाभेदेऽपि महती' इत्यमरः। शब्दरूपं यद्रह्म वेदस्तस्य श्रियं संपत्ति दुहती प्रपूरयन्ती। कीदृशीं। स्मरकेलिरेव नाट्यं तस्य नान्दीमारम्भसूचकमङ्गल- पाठरूपाम् ।। ६९ ॥ श्रीकृष्णेन केनचित् वनदेवताया हस्तेन प्रेषितां मालां विलोक्य श्रीराधा वितर्कयति-वरेति। हृदि विनिहितेति । 'हृद्द्युभ्यां डेर- ुक्' इति अलुक्सभासः। स्मारस्य स्मरसंबन्धिनस्तूणीरस्य निषङ्गस्य शङ्कां ६८॥६९। ७० ॥ अथ संनिहिता इति। अन्र संनिहितजातीया अप्युपलक्ष्याः । बर्हादिमात्रदर्शनेनावेशसंभवात्॥ ७१॥७२॥ आसामङगो-

Page 311

२८८ काव्यमाला।

निर्माल्यस्रगियं महौषधिरिह स्वान्तस्य संमोहने नासां कस्तिसृणां गृणाति परमाचिन्त्यां प्रभावावलीम्।।७३।।. यथा वा ललितमाधवे- दुकूलेsस्मिन्कार्तस्वरमहसि विस्तारितदृशो वपुः किं ते फुल्ैर्वहति तुलनां नीपकुसुमैः। त्रुटन्तीभि: किं वा स्फटिकमणिमालाभिरुपमां लभन्तेऽमी क्षामोदरि नयनयोस्तोयप्रृषताः ॥।७४॥ अथ बर्हगुञ्जे यथा विदग्धमाधवे- अग्रे प्रेक्ष्य शिखण्डखण्डमचिरादुत्कम्पमालम्बते गुञ्जानां तु विलोकनान्मुहुरसौ सासतरं परिक्रोशति। नो जाने जनयन्नपूर्वनटनकीडाचमत्कारितां बालायाः किल चित्तभूमिमविशत्कोऽयं नवीनग्रहः॥७५॥

भ्रमम् ॥७०॥७१॥७२॥ श्रीराधा विशाखामाह-अज्गादुत्तीण विलेपनं चन्दनाद- डरागः। आसां अद्वोत्तीर्णविलेपननामनिर्माल्यस्जां तिसृणां क्रमान्मणिमत्रमहौष- धीनां को न गृणाति न कथयति। अन्र नामशब्दस्य नपुंसकत्वात् 'नपुंसकमनपुं- सकेन' इत्यादिनैकशेषादेषामित्येव भवति नल्वासामिति। सत्यम्। तदप्यत्रोद्देश्या- नामन्ते स्क्पदस्य विधेयानामन्ते ओषधिपदस्य स्त्रीलादिदमादिशब्दानामव्यब- हितप्रक्रान्तपरामर्शात् क्रमभङ्गस्य काव्यार्थविघातकलात् बौद्धापादानवद्वौद्धो द्वन्द्व एव विलेपननामस्रजामिति मणिमन्त्रमहौषधीनामित्याकारोSत्रासामितिपदेन बोध- यितव्य इति काव्यज्ञानामेव न तु केवलवैयाकरणानां व्युत्पत्तिः । वंशीपतेरित्ये- कारं (?) वंशी एवास्य स्वकीया स्त्री परकीयनारीणामानयने दूती। अन्यच्चोक्त- लक्षणमुपायत्रिकं च प्रबलमतो ममापि मनोरथसिद्धि: खत एव संभाव्यत इति भावः ॥। ७३ ॥ ललितमाधवस्थनववृन्दावनीयकथायामपरिचीयमानां श्रीराधां- चन्द्रावली पृच्छति-दुकूले इति। कार्तखरं सुवर्णम्। पृषता बिन्दवः । ७४ ॥ मुखरा श्रीराधाचेष्टितं पौर्णमासीमावेदयति-अग्र इति। विरहिणी त्तीर्णविलेपननाभनिर्माल्यसजाम्। को न गृणाति न कथयति॥ ७३॥ तोयपृषताः

Page 312

उज्ज्म मणि

अद्रिधातुर्यथा- आभीरवृन्दाधिपनन्दनस्य कलेवरालंकरणोज्ज्वलश्रीः । क्षिप्ेन्द्रगोपांशुरपांशुलोऽयं तनोति रागं मम धातुरागः।।७६। नैचिकीसमुदयो यथा- संध्याद्योते विलसति गताः प्रेक्ष्य गोष्ठप्रकोष्ठे हम्बारम्भोन्मुखरितमुखीर्नैचिकीस्त्वद्विहीनाः। अन्तश्चिन्ताचुलकितमतिर्यादवेन्द्राद्य मन्दा कष्टें चन्द्रावलिरिह कथं प्राणबन्धं करोतु॥ ७७ ॥ लगुडी यथा- विष्टभ्य यां भुवि पुरः शिखरार्पितेन विन्यस्तचारुचिबुकेन करद्येन। दीव्यन्हरिर्गिरितटे मुदमादधान्नः सा हन्त यष्टिरधुना हृदयं पिनष्टि ॥ ७८॥

श्रीराधा गोवर्धनस्थं गैरिकमालोक्याह-आभीरेति। क्षिप्तस्तिरस्कृत इन्द्र- गोपस्य वर्षोद्धवकीटविशेषस्यांशुः किरणो येन स अपांशुलोऽमलिनः। रागं तद्द- र्शनतृष्णाम् ।। ७६ ॥। मथुरास्थं श्रीकृष्णं केनचित् पान्थेन पद्मा संदेश प्रस्था- पयति-संध्याया द्योते प्रकाशे गोष्ठस्य प्रकोष्ठे निकटप्रदेशविशेषे। हे यादवे- न्द्वेति। गोपेन्द्रवंशजात, वं यादवेन्द्रोऽभू: कथमस्मान् गोपीः स्मरिष्यति। धिक् दुरदृष्टमस्माकमिति भावः ॥ ७७॥ मथुरां प्रस्थिते श्रीकृष्णे काचिद्रोपी विलपति-यां यष्टिं पुरो भुवि विष्टभ्य आलम्ब्य शिखरे यदग्रे अर्पितेन उपर्यु- परि मुष्टीभूततया वा अनुत्तानतलतया वा करदूयेन दीव्यन्।। ७८। मथुरास्थं

जलबिन्दवः ॥ ७४ ॥ ७५॥ अपांशुललममलिनम् ॥ ७६॥७॥ १९ उज््व०

Page 313

२९० काव्यमाला।

वेणुर्यथा- हृदि न्यस्ता वंशी त्वदधरसुधाभागिति मया दुरन्तं विश्लेषज्वरगरलमस्याः शमयितुम्। वितेने सा तूर्ण शतगुणमिदं यादवपते विरक्तो यत्रेशस्तमिह नहि वा कः प्रहरति ॥ ७९॥ शृद्गिका यथा- वलितं विलोचनाग्रे शबलं धूलिमिरिदं बलावरज। बलवत्कुवलयनयनास्तव गवलं कवलयत्यद्य ।। ८०।। तत्प्रेष्ठदृष्टिर्यथा- सखि मृगमदलेखया विशाखा हृदि मकरीरपि राधिका लिखन्ती। सुबलमवकलय्य घूर्णिताग्रे पुलकवती वनैमालिनं लिलेख॥ ८१ ॥

श्रीकृष्णं प्रति ललिता संदेशं हंसद्वारा प्रेषयति-हृदीति । अस्याः श्रीराधाया हृदय एव यतो विरहविषज्वाला अतो हृदय एव वंशी अर्पिता। अस्यां लदधर- सुधायाः स्थितत्ात् सुधायाश्व विषदाहशमकतवप्रसिद्धेः। कि चासौ मत्कृतोपायो विपरीतोऽभूदित्याह-सा वंशी इदं विश्लेषज्वरगरलं शतगुणं वितेने। अन्रा- र्थान्तरन्यासेन युक्तिमुत्थापयति-यत्र ईषत् प्रभुर्विरक्तो भवेत् तत्र प्रभुसंबन्धी को वा जनो न प्रहरति अपि तु सर्व एव। यतो वंशीविवरस्था लदघरसुधापि मात्सर्येणास्या विष वर्धयति॥ ७९॥ व्रजात् पुनर्मथुरां गत उद्धवः श्ङ्गवेत्नादि- वार्ता पृच्छन्तं श्रीकृष्णमाह-वलितं व्याप्तं गवलं माहिषं ङ्ं (कर्तृ) कुवल- यनयना: कर्मभूताः कवलयति। शबलं धूलिभिरिति। एतावन्तं कालं लद्यवहाराभावादुत्तमस्थानस्थापितमपीत्यर्थः ॥ ८० ॥ रूपमञ्जरी सखीमाह-

। ७८ । ७९ । गवलमत्र वनमहिषशङ्गम्। उपलक्षणं चैतत् खङ्गादिशङ्गाणाम्

१. 'पुरुषोत्तमम्' इति ख पुस्तके पाठः.

Page 314

उज्ज्वलनीलमणिः । २९१

यथा वा ललितमाधवे- निखिलसुहृदामर्थारम्भे विलम्बितचेतसो मसृणितशिखो यः प्राप्तोऽभून्मनाङ मृदुतामिव। स खलु ललितासान्द्रस्नेहप्रसङ्गधनीभवन् पुनरपि बलादिन्धे राघावियोगमयः शिखी ॥ ८२॥ गोधूलिर्यथा उद्धवसंदेशे- आ प्रत्यूषादपि सुमनसां वीथिभिर्ग्रथ्यमाना घचे नासौ सखि कथमहो वैजयन्ती समाप्तिम्। धिन्वन् गोपीनयनशिखिनो व्योमकक्षां जगाहे सोऽयं मुग्घे निबिडघवलाधूलिचक्राम्बुवाहः॥ ८३॥

सखीति॥ ८१॥ श्रीकृष्णो मधुमङ्गलमाह-निखिलसुहृदां वसुदेवोग्रसेनादीनां ये अर्था जरासन्धाद्युपद्रवशान्तिपूर्वकखवखवाधिकारसुस्थिरीकरणादीनि तेषामारम्मे विलम्बितमावेशितं चेतो येन तस्य मम यो राधावियोगानिर्मसृणितशिखाश्चित- काय्याभावात किंचिन्मन्दीभूताग्रः सन् मृदुतामिव प्राप्तोऽभूत् स खल ललिताया यः सान्द्रः स्नेहः प्रेमपरिपाकः, पक्षे घृतादिरसस्तत्प्रसज्वेन घनीभवन् हन्त हन्त यस्याः सखीयं ललिता सा मे क्व गतेति निबिडीभवन्। शिखी अभिः ॥।८२।। पद्मा चन्द्रावलीमाह-आ प्रत्यूषादिति। शिखिनो मयूरान्। व्योमकक्षा- ॥c० ॥ ८१ । निखिलसुहदामिति । तत्र ललितमाधवे खल्वितिहा- सोडयम्। ललिता नाम व्रजदेव्येव जाम्बवती योगमायया तस्या एव त्रजे जाम्बवद्गहे च योगमायया तस्या एव व्रजे जाम्बवद्गहे च संचारणात् कन्यालेन रक्षणाच्च। सा च स्यमन्तकाहरणे कृष्णाय जाम्बवता दत्ता। पुर्ववत् श्रीराधैव योगमायया सत्यभामाख्यलेन सत्राजिद्धहे प्रापिता श्रीकृष्णेन प्रथममभिज्ञाना नासीत्। तत्र सति श्रीकृष्णस्य ललिताप्राप्ती सत्यां तद्विरहं वर्णयतीति ज्ञेयम्। यदिदं च् स्थायिप्रकरणे विरोधं परिहृत्य प्रमापयिष्याभः । तदेवं ललिताया अपि १. 'मणिः स्यमन्तको हस्ते' इति हेमचन्द्रः २. सत्राजित् सत्यभामा.

Page 315

२९२ काव्यमाला ।

वृन्दारण्यं यथा तत्रैव- आशापाशैः सखि नवनवैः कुर्वती प्राणबन्धं जात्या मीरु: कति पुनरहं वासराणि क्षविष्ये। एते वृन्दावनविटपिनः स्मारयन्तो विलासा- नुत्फुल्लास्तान्मम किलु बलान्मर्म निर्मूलयन्ति । ८४ ।। तदाश्रिता :- तदाश्रिता: खगा भृङ्गा मृगा: कुञ्जा लतास्तथा। तुलसी कर्णिकारश्र कदम्बाद्याश्च कीर्तिताः ॥। ८५॥ तत्र खगा यथा ललितमाघवे-

कंसाराते न खलु शिखिनः खिद्यते गोष्ठवासी। उन्मीलन्तं नवजलघरं नीलमद्यापि मत्वा ये त्वामन्तर्मुदितमतयस्तन्वते ताण्डवानि ॥ ८६॥ भृङ्गा यथा- वृन्दावने श्रवसि ये निनदं विपश्ची-

माकाशप्रदेशम्। अम्बुवाहो मेघः ॥८२ ॥ ८३ ॥ भाथुरविरहवती श्रीराधा बिल- पति-आशेति । अद्य श्व इति कृता कति वासराणि व्याप्य क्षयिष्ये, प्राण- बन्धं तद्रूपं महाकष्टं सहिष्ये। किं चान्यां विपत्ति शृणु। एत इति। उत्फुल्लाः सन्तः । ताननुभूतचरान् वनविहारकुसुमकेल्यादीन्॥ ८४॥ ८५॥ पौर्णमासी द्वारकास्थं श्रीकृष्णमाह-कस्तानिति ।। ८६ ।। विरहिणी श्रीराधाह- वृन्दावन इति। विपक्क्या वीणाया निष्ठयूतो निर्गतो यः पश्चमः खरमेदस्त- स्वस्वरूपप्रेष्टजनस्य जाम्बवतीरूपस्य श्रीकृष्णसान्निध्यं प्राप्तस्य दर्शनेन खसख्याः श्रीराधाया विप्रलम्भस्मरणमधिकृष्णमुद्दीप्यते सम । राधायाः सरणेन तस्याः संभोगसुखमपि तिरस्क्रियते। किं लायत्यामुभयोरपि सहचर्यो: पारदार्यभ्रम- मयविप्रलम्भो दाम्पत्यमयं संभोगमुद्दीपयिष्यतीति भावः ॥८२।।८३।।८४।।

Page 316

२९३

ये षट्पदा: कुलिशघट्टनघोरमेतं दैवे विरोधिनि भवन्ति न के विपक्षाः ।।८७।। मृगा यथा तत्रैव- हरि हरि भवतीभि: खान्तहारी हरिण्यो हरिरिह किमपाङ्गातिथ्यसङ्गी व्यधायि। यदनुरणितवंशीकाकलीभिर्मुखेभ्यः सुखतृणकवला वः सामिलीढा: स्खलन्ति ॥ ८८ ॥ कुआ्ा यथा उद्धवसंदेशे- लब्धान्दोल: प्रणयरभसादेष ताम्रोष्ठि नम्र: प्रम्लायन्तीं किमपि भवतीं याचते नन्दसूनुः। प्रेमोद्दामप्रमदपदवीसाक्षिणी शैलकक्षे द्रष्टव्या ते कथमपि न सा माधवीकुञ्जलेखा ॥ ८९॥

स्मादपि मनोहरं निनदं शब्दं कुलिशस्य वज्रस्य घट्टनं निपातस्तस्मादपि घोरं निनदं संप्रत्याहरन्तीत्यर्थः ॥ ८७ ॥ तत्रैव ललितमाधवे श्रीवृन्दावनेश्वरी माथुर- विवाहोन्मादेन श्रीकृष्णमन्वेषयन्ती प्राह-हरिहरीति खेदे। सुखरूपास्तृण- कवलास्तृणग्रासाः सामिलीढा अर्धनिगीर्णा अपि ॥ ८८ ॥ श्रीकृष्ण उद्धवद्वारा श्रीराधां प्रति संदेशं प्रेषयति-लब्धान्दोल इति। प्रणयरभसात तद्विषयक- अणयवेगात् लब्धान्दोलनः प्राप्तवैयध्यः। शैलकक्षे गोवर्धनप्रदेशे किं वा तत्रत्या- रण्ये । कक्षोऽरण्ये च वीरुधि' इति धरणिः। कुञ्ञानां लेखा श्रेणी न द्रष्टव्येति सा तांस्तान् विलासांस्तां स्मारयन्ती ते दशमीं दशां प्रापयिष्यन्तीति भावः

॥ ८५॥ ८६ ॥ ८७ । सामि लर्घे ।। ८८ ।। लब्धान्दोल इति। श्रीराधां प्रति श्रीकृष्णसंदेशः । शैलकक्षे पर्वतारण्ये। 'कक्षः स्मृतो भुजामूले कक्षोऽरण्ये

Page 317

२९४ काव्यमाला।

लतादिर्यथा- तुलसि विलससि त्वं मह्ि जातासि फुल्ला स्थलकमलिनि भृङ्गैः संगताङ्गी विभासि। कथयत बत सर्यः क्षिप्रमस्मासु कस्मिन् वसति कपटकन्दः कन्दरे नन्दसूनुः॥९०॥ कर्णिकारो यथा ललितमाधवे- रासात्तिरोहिततनुः सखि यस्य पुष्पै- श्रूडां चकार चिकुरे मम पिच्छचूडः । कूले कलिन्द्दुहितुर्धृतकन्दलोडयं मां दन्दहीति स मुहुर्नवकर्णिकारः ॥ ९१ ॥ कदम्बो यथा- सखि रोपितो द्विपत्र: शतपत्राक्षेण यो व्रजद्वारि। सोडयं कदम्बडिम्भ: फुल्लो वह्लभवधूस्तुदति ॥ ९२ ॥ गोवर्धनो यथा ललितमाधवे- गोवर्धन त्वमिह गोकुलसङ्गिभूमौ तुङ्गैः शिरोभिरभिपत्य नभो विभासि। तेनावलोक्य हरितः परितो वदाशु कुत्राद् बल्वमणिः खलु खेलतीति ॥९३ ॥

॥ ८९ ॥ पूर्ववदेव श्रीवृन्दावनेश्वरी प्राह-तुलसीति॥ ९०॥ नवबृन्दावने भ्रमन्ती विहरन्ती श्रीराधा विलपति-रासादिति। धृतकन्दलो जातपूर्वाङ्करः ।. ९१ ॥ माथुरविरहिणी काचिदाह-सखीति ।। ९२॥। विरहोन्मादेन श्रीकृष्णमन्वेषन्ती श्रीराधा पृच्छति-गोवर्धनेति। शिरोभिः शजर्नभः खर्ग च वीरुधि'। इति धरणिकोषात् ॥८९॥॥९१॥९२॥९३॥९४॥

Page 318

उज्ज्वलनीलमणिः । २९५

रविसुता यथा पझ्मावल्याम्- मधुरापथिक मुरारेरुपगेयं द्वारि बल्लवीवचनम्। पुनरपि यमुनासलिले कालियगरलानलो ज्वलति ॥ ९४ ॥ रासस्थली यथा- गोष्ठादप्यवलोक्य मानशिखरोच्छायश्रिया दूरतः सदः खेदिनि चित्तचत्वरतटे वंशीवटेनार्पिता। कुर्वाणा हृतवृत्तिमिन्द्रियगणं सा यादवेन्द्राद्य ते कष्टं रासविहारभूर्विहरति प्राणैः कुरङ्रीदशाम् ॥ ९५॥

संस्पृश्य हरितो दिशः ॥ ९३ ॥ श्रीराधायाः सखी काचित् संदिशति-मशु- रेति। यमुनासलिल इति। पूर्व कालियहद एवं संप्रति यमुनाजलमात्र एवेति विशेषश्च ध्वनितः ॥। ९४ ।। गोष्ठान्मथुरां पुनर्गत उद्धवो रासस्थलीं पृच्छन्तं श्रीकृष्णं प्रत्याह-गोष्ठादिति। हे यादवेन्द्र, संप्रति यादवानां सुख- दायिन्, सा तव रासभू: कुरंज्गीदृशां प्राणैः सह विहरती तदानीं कुरह्ीदृग्भिरेव सह विहरन्त्यासीत् या सैवेयं तासां देहात् प्राणान्निष्काश्य तैरिति। ननु ता मद्विरहखिन्ना गोष्ठ एव रासभूस्ततोऽतिविदूरे कथं तया सह तासां समागमस्त त्राह-वंशीवटेन (कर्त्रा) चित्तचलरतटे सा रासभूरर्पिता। प्राणनिष्क्रमणार्थ- मिति भावः । केन प्रकारेणेत्यपेक्षायामाह-गोष्ठानन्दीश्वरादप्यवलोक्यमाना शिखरोच्छायश्रीः अग्रविस्तारशोभा यस्य तेन रासभूतटवर्तिनो वंशीव टस्यैवानर्थ- कारितं यतः स तासां नेत्रेषु प्रविश्य हृदयमध्ये रासभुवमानीय तद्वारा प्राणान् निष्कमयामासेत्यर्थः ॥ आदिशब्देन लीलातत्पादिकमपि ज्ञेयम्। यथा-'शून्य- कीडानिबिडकमलै: कल्पिता तल्पवेदी नेदीयस्यास्तनुलहरिभिः शीलिता हेण(लि)- पुत्र्याः। अङ्गज्वालापरिचयमिलन्मुर्मुरा मर्मदुःखव्याख्यापजी मम धियमियं

लोकप्रसिद्धवंशीवटनामा कश्चिद्वटो वृन्दावने स्थितः। मुहुः प्राणैः सह विहरतीति प्राणैर्मम क्रीडतीति श्रीगीतगोविन्दवत्, प्रयोगः । मुहुः प्राणाकर्परूपां क्रीडां

Page 319

२९६ फाव्यमाला।

अथ तटस्था :- तटस्थाश्रन्द्रिकामेघविद्युतो माधवस्तथा ॥९६॥ शरत्पूर्णसुधांशुश् गन्धवाहखगादयः। तत्र चन्द्रिका यथा रससुधाकरे- दुरासदे चन्द्रिकया सखीगणैर्लतालिकुञ्जे ललिता निगूहिता। चकोरचञ्चुच्युतकौमुदीकणं कुतोऽपि दृष्ट्रा भजति स्म मूर्च्छनाम्॥९७॥ मेघो यथा रससुधाकरे- वास: पीतं कुतुकिनि कुतः कुत्र बर्ह मदान्धे कंसारिर्वा क नु सखि मुधा संभ्रमान्मा प्रयाहि। पश्योततुङ्गे क्षणरुचिघटालिङ्गितः शैलभृङ्गे नव्यः शाकं दधदुदयते कार्मुकं वार्भुगेषः ॥ ९८॥ विद्युदयथा रससुधाकरे- वर्षासु तासु क्षणरुक्प्रकाशाद्गोपाङ्गना माधवमालिलिङ्ग। विधयुच्च सा वीक्ष्य तदङ्गशोभां ह्वीणेव तूर्ण जलदं जगाहे ॥ ९९॥।

धूम्रयन्ती धुनोति' ॥ ९५ ॥ तटस्थाः साधारणा इत्यर्थः ॥ ९६ ॥ ललितायाः सखी कांचित्पृच्छन्ती तद्ृत्तान्तमाह-दुरासदे चन्द्रिकाया दुष्प्रापे स्थले निगू- हिता संगोप्य रक्षिता। विरहिण्यास्तस्याः प्राणरक्षणार्थमिति भावः । तत्रैव लता- पत्ररन्ध्रेण केनचिदायान्तं ज्योत्स्नाकणमुत्प्रेक्षते-चकोरेति ॥९७॥ हन्त हन्त गोवर्धनशङ्गे पीताम्बरः पिच्छावतंसो मां दिधीर्षन्नेवास्ति तदहमग्रे न गच्छामीति विवर्तितमुखीं श्रीराधां ललिताह-वास इति । हे कुत्ुकवति, निरन्तरमेव श्रीकृष्णेन समं विलासार्थिनी तं ध्यायन्ती तमेव सर्वत्र पश्यसी- त्यर्थः । क्षणरुचिर्विद्युत्। वार्मुक् मेघः ॥ ९८ ॥ नक्तंतनं वृत्तान्तं वृन्दा नान्दी- मुखीमाह-वर्षास्व्रिति। माधवमालिलिङ्गेति। अनावृतं मदङ्गविशेषं श्रीकृष्णो मा पश्यत्िति। लज्येवेत्यर्थः । विद्युतश्र तत्काल एवान्तर्धाने कारण- करोतीत्यर्थः ॥ ९५ ॥९६ ॥ चकोरचञ्चुच्युतमिव कौमुदीकणमित्यर्थः ॥९७॥ ॥ ९८॥ हीणेवेति। अन्र इवशब्द उत्प्रेक्षाद्योतकः । ततश्व वीक्ष्येत्यादाव- न्वितः ॥ ९९ ॥ विद्युदिति। अन्र क्षणरुगित्येव वक्तव्यम्। वर्षासु विद्युद्दलय-

Page 320

उज््वलनीलमणिः । २९७

चसन्तो यथा- ऋतुहतकः सखि भुवने किमवतितीर्षुर्वभुवाद्य। मन्दादरमलिवृन्दं वृन्दावनकुन्दसंगमे यदभूत् ॥ १०० ॥ शरद्यथा- कलहंसोज्ज्वलजल्पा प्रकटितवृन्दावनोरुमाधुर्या। धृतिमपहर्तु सखि मे दूतीव हरे: शरन्मिलिता ॥ १०१॥ पूर्णसुधांशुर्यथा- राकासुधांशुरभवन्न तमांसि हर्तु वृन्दाटवीजठरगाण्यधुनापि शक्तः। राकासुधांशुमुखि तानि तवोन्नतानि हत्कन्दरान्तरचराणि कथं जहार ।। १०२ ।। गन्धवाहो यथा श्रीगीतगोविन्दे- मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम्। क्षणं जगत्ाण विधाय माधवं पुरो मम प्राणहरो भविष्यसि॥ १०३॥

मुत्प्रेक्ष्यते। न्वीणेव लज्जितेव ॥। ९९ ॥। काचिद्विरहिण्याह-ऋतुहृतकः ऋतु- नाभा हतकः । निर्विवेक इत्यर्थः ॥ १०० ॥ सैव शरदं वर्णयति-कलहंस्येव कलहंसानां च। १०१॥ विशाखा कलहान्तरितां श्रीराधामाह-राकेति। तानि मानरूपाणि तमांसि हे राकासुधांशमुखीति। लन्मुखमाधुर्येणेवानुमीयत इति भाव: ॥। १०२ ॥ विप्रलब्धा श्रीराधिका विलपति-मनोभवं कन्दर्पमा- नन्दयसि तच्छरलक्ष्यभूताया मम प्राणाकर्षणेन तत्साहाय्यकरणात्। हे चन्दना- निल, किमिति न शिशिरयसीति भावः। नन्वहं संप्रति मनोभवराजसेवकः स प्रकाशादित्येव पठनीयम् ॥ १०० ॥ १०१ ॥ तानि तमांसि मानरूपाणि दुःखानि। राकासुधांशुमुखीति संबोधनं संदेहमेव द्विगुणयति । यस्या ईदृशं सुखं तस्या हृदि तम एव न संगच्छत इत्यभिप्रायात् ॥१०२॥१०३॥

Page 321

२९८ काव्यमाला।

खगा यथा- मानेन सार्ध पशुपालसुभ्रुवां मरालमाला चलिता घनागमे। कदम्बकुञ्जे विजिहीर्षया समं समागता नागरि चातकावली।१०४।। आदिशब्दात्सखीस्रेह आत्मन्युद्दीपनो वर:। यथा- हरिमवेक्ष्य पुरो गुरुतो भिया मुहुरभून्मुकुलन्नवविभ्रमा। ललितया विवृते निजसौहृदे चलहगञ्चलमाधित राधिका॥ १०५॥ इत्युद्दीपनविभावाः।

यथा माभादिशति तथैव कर्तु शक्कोमि न तु तदन्यथा इति चेत्तत्राह-रे इत्या- क्रोशामन्र्णे। यदि तं मां जिघांसस्येव तदा संप्रति लयि को वा विनयः । उचित इति भाव: । रे इति दक्षिणदेशोद्भवत्वात् श्लेषेण हे सरल, क्षणं क्षणमात्रं मयि वामतामदक्षिणतां मुश्च यदि कन्दर्पसेवायां प्रवृत्तस्तदपि स्वधर्ममाभिजात्यं च मा त्याक्षीरेव। क्षणमपि तं कुर्विति भावः । ननु कं स्वधर्ममाचरामीति ब्रूहीति आह-हे जगत्प्राण । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः ।' इत्यभि- धानात् तव जगत्प्राणरूपले मम च जगन्मध्यवर्तितेऽपि यदि मम प्राणहरो भविष्यति तदा मम पुरः क्षणं माधवं विधायैव तव माधवसखलात् तदानयने सामर्थ्यम्। माधवो वसन्तः श्रीकृष्णश्च न लविधायैव यथाहमेकवारमप्यन्तकाले तं पश्येयमिति भावः ॥ १०३ ॥ श्रीकृष्णे राधामाह-मानेनेति॥ १०४॥ रूपमजरी सवसखीमाह-हरिमवेक्ष्येति। गुरुशङ्गयेति।श्वश्रुपतिर्वा कदा- चिदागच्छेदिति भावनया। गुरोर्या शङ्का तयेति वा। मुकुलन् मुकुलमिवाचरन्। अस्पष्टविभ्रमेत्यर्थः । ललितयेति । तदीयास्पष्टविभ्रमस्य श्रीकृष्णदिद्दक्षिततं ज्ञातेत्यर्थः । हे प्रियसखि, पित्रादिस्नेहं तथा प्राप्तामपि चन्द्रावलीं परित्यज्य तदे- कतानमानसोऽयं तत्सौहार्दस्थानमहमिति मामेवाश्रितवान्, अहं चाश्वास्य लद- न्तिकमिममलम्भयम्। अतोऽय मामवेक्ष्य गुरुभयमप्यनवेक्ष्य कृपापानेनैनमङ्गी- कुर्विति सौहार्दे विव्ृते आधित अर्पितवती॥ १०५॥ इत्युद्दीपनविभावविव्ृतिः । ॥ १०४ ॥ हरिमवेक्ष्येति। ललितयेति । अनयोर्भिन्नसमयतं ज्ञेयम् । आधित हरावर्पितवती ॥ १०५ ॥ इत्युद्दीपनविभावविवृतिः॥

Page 322

उज्ज्वलनीलमणिः । २९९

अथानुभावाः ।

वाचिकाश्चेति विद्वद्िस्त्रिधाभी परिकीर्तिताः ।।१।। तत्रालंकारा :- यौवने सच्वजास्तासामलंकारास्तु विंशतिः। उद्यन्त्यद्भुताः कान्ते सर्वथाभिनिवेशतः ॥२॥ भावो हावश्र हेला च प्रोक्तास्तत्र त्रयोऽङ्गजाः । शोभा कान्तिश्र दीप्तिश्र माधुर्य च प्रगल्भता ॥ ३ ।। औदार्य धैर्यमित्येते सप्ैव स्युरयत्नजाः। लीला विलासो विच्छित्तिर्विभ्रम: किलकिंचितम्।।४॥ मोट्टायितं कुट्टमितं विब्वोको ललितं तथा। विकृतं चेति विज्ञेया दश तासां स्वभावजाः ॥५॥ तत्र भाव :- प्रादुर्भावं त्रजत्येव रत्याख्ये भाव उञ्जवले। निर्विकारात्मके चित्ते भाव: प्रथमविक्रिया ॥६॥

अलंकारा भावादिचकितान्ता द्वाविशतिः। उद्भाखरा नीव्युत्तरीयसंभावना- दयः सप्त। वाचिका आलापादयो द्वादश ॥। १ ॥ कृष्णसंबन्धिचेष्टोत्थभावैराक्रान्तं चित्तं सत्त्वं तस्माज्जाताः सत्त्वजाः ॥ २ ॥ अङ्गजा इति । नेत्रान्तभ्रग्रीवा- भङ्गयादीनां तत्सूचकत्वात्तेभ्य एवाङ्वेभ्यो जाताः । प्रतीता इत्यर्थः । न तु वस्तु- तोऽङ्गजाः सत्त्वजा इत्युक्तलात् ॥ ३ ॥ अयतजा इति। शोभादर्थ वेशादि- पयत्नाभावेऽपि शोभादयः स्युरित्यर्थः ॥४॥ स्वभावजा इति। लीलादर्थ- प्रयत्नवत्त्वेऽपि युवतीनां लीलाद्य-साभाविकप्रयत्नादेवोत्पद्यन्त इति ॥५॥ विभार तत्र भाव इति। उजवले शनार वता से रत्याख्यो रतिनामा यो भाव: स्थायी तस्मिन् प्रादुर्भावं व्रजति प्रापुवति मति चित्ते या प्रथमविक्रिया वयःसंधौ अभूत- अलंकारादिसंज्ञा रूढ्या प्रयुक्ता यथाकर्थंचिदेव यौगिकार्थ भजन्ते ॥ १॥ ॥ २ ॥ ३॥४ ॥५। उजव ल इति। निमित्तसप्तमी 'चर्मणि द्वीपिनं

Page 323

काव्यमाला।

तथा हयुक्तम्- चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति। तत्राद्या विक्रिया भावो बीजस्यादिविकारवत् । ७॥

पूर्वः प्रथमो यः कन्दर्पक्षोभानुभवः स भावः । चित्ते कीदृशे। निर्विकारात्मके पौगण्डवयस्लेन कन्दर्पप्रवेशाभावात् तद्विकारहीन इत्यर्थः । ननु तर्हि कथमस्या- नुभावतं बहिर्विकारस्यैव भावबोधकले संभवात्। यदुक्तम्-'अनुभावास्तु चित्त- स्थभावानामवबोधकाः' इति। सत्यम्। सात्त्विकानां स्तम्भखेदादीनामनुभावल- मिवैषां भावहावादीनामपि युगपदन्तर्बहिर्विकाररूपलमनुभावतं च । वयःसंध्या- रम्मे यदैव श्रीकृष्णदर्शनश्रवणादिभिरभूतचरः कन्दपक्षोभानुभवो भवेत्तदैवान्त- श्वित्तं विकृतं स्यात् बहिरपि तद्यज्ञिका नेत्रादिभज्ी स्यादिति। अत एवैतल्लक्षण- मेवं व्याख्येयम्। चित्ते निर्विकारात्मके सति रत्याख्यभावोदयाद्या प्रथमविक्रिया अर्थाचिचित्तस्य यथासम्भवं तनोश्च स्वभाव इति। सर्वथा चित्तविकारस्यैव विवक्षि- तले चित्तस्य निर्विकार स्येति षध्यन्तरेव प्रयुज्यते। अलंकारकौस्तुभकृद्धिस्तनु- भावादिदमेव पृथगिति लक्षितम्। नन्वेवंलिखितलक्षणोऽयं भावस्तथास्यैव परिणामविशेषो हावो हेला चेत्येतत्रितयं वयःसंध्युत्तरकाले तरुणीनां न संभवेत्। सत्यं न संभवेदेव। यदुकं साहित्यदर्पणकृद्भिरपि। 'जन्मतः प्रमृति निर्विकारे मनस्युद्वुद्धमात्रो विकारो भावः ।' इत्येके। अन्ये पुनरेवमाहुः-'आसां व्रज- सुन्दरीणां सर्वासामेवावस्थानां नित्यतात् प्रकटतारुण्येऽपि गूढो वयःसंधि: सदा- स्त्येवेति। कश्चिदत्रैवं व्याचष्टे। प्रथमविक्रियेति न केवलमात्यन्तिकमेव प्रथमत्वं व्याख्येयम्। किंतु वार्तान्तरासक्तलेन कादाचित्केऽपि निर्विकारले श्रीकृष्णदर्शना- दिभिः स्थायिनि रत्याख्ये भावे प्राकट्यं प्राप्ते या प्रथमा ईषन्मात्रा विक्रिया स भाव इति: जपरे तु न ह्वभावाद्भावो जायत इत्यतो गाम्भीर्यलज्जादिना यन्नि- न्ति' इतिवत्। ततश्रोज्वलाख्यंितुं रत्याख्ये रतितयान्यत्र प्रसिद्धे मथुरेतिनाम्ना तन्न परिभाषिसे भावे दरर गाम्भीर्यलज्जादिना यन्निर्विकारं व्यञ्जनाशून्यं चित्तं तन्र या प्रथमा विति संवरीतुमशक्यतया नेत्रादिभङ्गया तस्य भावस्य किंचिक्वज्जना प्रादुर्भावं जति। सा व्यञ्जना भावाख्योऽनुभाव इत्यर्थः। न तयं स्थायी भावो व्यभिचारी भावो वा। 'विकारो मानसो भावोऽ-

Page 324

उज्ज्वरनीलमणिः । ३०१

यथा- पितुर्गोष्ठे स्फीते कुसुमिनि पुरा खाण्डववने न ते दष्ट्रा संकन्दनमपि मनः स्पन्दनमगात्।

र्विकारं तद्यजनाशून्यं चित्तं तत्र या प्रथमा विक्रिया संवरीतुं दुःशकतया बहिने- त्रादिभज्जीभावव्यज्जिका स्यात् स भाव इत्याहुः । वस्तुतस्तु श्रीमद्रन्थकृच्रणाना- मन्य एवाशयस्तं च पितुर्गोष्टे स्फीत इत्याद्युदाहरणादवगम्यैवं व्याख्येयम्। प्राकृ- तगुणरहितलेन निर्गुणस्य भगवतो गुणा एव श्रीकृष्णव्यतिरित्तपुरुषान्तरादविक्रि- यमाणलेन निर्विकारात्मके चित्ते सति या प्रथमा विक्रिया श्रीकृष्णस्य दर्शनाद् य ईषन्मनसस्तनोश्च विकार: स एव भाव इत्यर्थ: ॥ ६ ॥ न चालंकारिकैरेवं न व्याख्यातमिति वाच्यं प्राचीनैरुक्ततवादित्याह-तथा हीति। विकृतेः कारणे सुन्दरपुरुषदर्शने सत्यपि चित्तस्याविकृतिश्चेत् सत्त्वं रजस्तमःस्पर्शशून्यं शुद्धं सत्त्वं तस्यैवाविक्रियमाणखभावलात्। तत्र सति या आद्या विक्रिया श्रीकृष्ण- दर्शनोत्था अप्राकृता। चिदानन्दमयीत्यर्थः । स भावः बीजस्य बीजविशेषस्य वास्तूकादेर्विकारकारणे वर्षावृष््यादावप्यविक्रियमाणस्य हेत्रः हिमस्पशे यथा आदि- विकार इति। प्राकृतवस्तुनाप्यप्राकृतपदार्थस्योपमा नासमख्सा। मेघादिनेव श्रीकृष्णस्य अप्राकृतवस्तूनां लोके साक्षादनुपलब्धेरिति। ननु तर्ह्येतल्लक्षणं प्राकृत- नायिकासु दमयन्तीमालत्यादिष्वव्याप्तमिति चेदिष्टापत्तिरेव। 'रसो वै सः। रसं ह्येवायं लब्ध्वाSSनन्दी भवति।' इति श्रुतिप्रतिपादितस्य साक्षाच्िदानन्दघनस्य रसस्य विव्ृतिर्भवदादिभिरप्राकृतीर्भगवत्प्रेयसीरालक्ष्यैव कृता। तत्र मुह्यद्भिः कविभिर्यदि प्राकृतादिषु पिशितासग्विण्मूत्रजरामरणादिमतीषु स्त्रीषु स रसः पर्यापयिष्यते तर्हि वयं किं कुर्मः । तथा ह्युक्तं रसपक्षव्याख्यायाम्-'तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः । तेजोवारिमृदां यथा विनिमयः ।' इति। य आद्यस्य रसस्य ब्रह्म तत्त्वमादिकवये भरताय तेने। 'वेदस्तत्त्वं तपो ब्रह्म' इत्यमरः । यत्र रसतत्त्वे कवयः काव्यकृतो मुह्यन्ति। भ्रमेणालक्ष्येऽपि प्राकृत- रसलक्षणस्य संगमनात्। तत्र दृष्टान्तस्तेजोवारीति॥ ७॥ काचित्सखी ज्ञातत- त्वापि हृदयोद्वाटनपाटववती खयूथेश्वरीमजानतीव पृच्छति-पितुर्गाष्ठ इति। नुभावो भावबोधकः ।' इति विभागलब्धेः । किंतत्र भाव्यते व्यज्यतेऽननति करणे घन् ।। ६ ॥ विकृतेभोवव्यञ्जनायाः कारणे भावोत्पत्तिलक्षणे सत्यपि चित्त- स्याविकृतिर्बहिर्व्यक्तिशून्यतं सत्त्वमुच्यते तत्र सत्त्वे सति आदा विक्रिया प्रथमा किंचिद््यञ्ञनादिभावतया संज्ञाप्यते स च रतिस्थानीयस्य बीजस्यादिविकारत- दित्यर्थः ॥ ७॥ पितुगोष्ठे स्फीत इत्यादिकं परिहासाय संभावितमिति कृला

Page 325

३०२ काव्यमाला । --

पुरो वृन्दारण्ये विहरति मुकुन्दे सखि मुदा किमान्दोलादक्ष्णः श्रुतिकुमुदमिन्दीवरमभूत् ॥ ८॥ अथ हाव :- ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकासकृत्। भावादीषत्प्रकाशो यः स हाव इति कथ्यते।। ९॥। यथा- साचिस्तम्भितकण्ठि कुङलवतीं नेत्रालिरभ्येति ते घूर्णन्कर्णलतां मनाग्विकसिता भ्रूवल्लरी नृत्यति। अत्र प्रादुरभूत्तटे सुमनसामुल्लासकस्त्वत्पुरो गौराङ्गि प्रथमं वनप्रियवधूबन्धुः स्फुटं माघवः ॥ १०॥

संप्रति वं द्वित्रदिनानि खाण्डवप्रस्थनिवासिन: पितुर्गहात् श्वशुरगृहम्। नन्दगोष्ठ- मागतासीत्यर्थः । अत्र पुरा कुसुमिनीत्युद्दीपनविभावो दर्शितः । संक्रन्दनमिन्द्र- मतिसुन्दरमपि दृष्ट्ा मनो न स्पन्दनमगात् ईषदपि नाचलदिति तत्र सज्ञिन्या मया तथा लक्षितैवासीरिति विकृतेः कारणेऽपि विकाराभाव उक्तः। पुरोडगे मुकुन्दे विहरतीति तमपाङ्वेन दृष्टवत्यास्तवाक्ष्णस्तथा आन्दोलो जातो यथा श्रुता- ववतंसितं श्वतोत्पलमभूदिति प्रथमविकारो नयनचाश्चल्यं भावलक्षणम्॥ ८॥ भावात् नयनचाश्चल्यमात्रसूच्याद्भावात् सकाशादीषदधिक: प्रकाशो यस्य सः। ततोऽपि विकाराधिक्यादित्यर्थः । ग्रीवाया रेचकस्तिर्यक्करणम् ॥ ९॥ श्यामा श्रीराधामाह-साचि वकीकृतः स्तम्भितः स्तम्भतां नीतः कण्ठो ययेत्यौत्सुक्या- धिक्यादपाङ्गदर्शनेनातृप्यन्त्या लया ग्रीवा तिरश्चीनीकृता। सा चानन्द- पुरो वृन्दारण्ये इत्यादिकं साश्चर्यमिवोक्तम्। अपीति संभावनायाम्। वस्तुतस्तु संकन्दनं दृष्टा मनः कर्तृ स्पन्दनं मागात्। मुकुन्दे तु विहरति किमित्यादि- वाग्भङ्ग्या मुकुन्दस्यैव माधुर्यमाविक्येन स्थापितम् ॥ ८॥ ग्रीवाया रेचको ग्रीवायास्तिर्यक्करणविशेषः ॥ ९ ॥ सुमनसां सुचित्तानाम् पक्षे पुष्पाणाम्। वनप्रिया या वध्वः श्रीवृन्दावनविहारिण्यस्तासां बन्धुः, पक्षे कोकिलवधूनां

Page 326

उज्ज्वलनीलमणिः । ३०३

अथ हेला- हाव एव भवेद्ेला व्यक्त: भृङ्गारसूचक:। यथा- श्रुते वेणौ वक्षः स्फुरितकुचमाध्मातमपि ते तिरोविक्षिप्ताक्षं पुलकितकपोलं च वदनम्। स्खलत्काञ्चि सेदार्गलितसिचयं चापि जघनं प्रमादं मा कार्षी: सखि चरति सव्ये गुरुजनः ॥ ११ ॥

अथायतजा :- तत्र शोभा- सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् ॥१२ ॥

जाड्यभ्यां स्तब्धीभूता तथैव स्थितेत्युपहासः । कर्ण एव लता तां नेत्रालिरभि- मुखमेति यतः। कुङालवतीं मुकुलान्वितां पक्षे सावतंसाम्। तन्न कारणमाह- अत्रेत्यादि। सुमनसां मालतीनाम्, अतिशयोत्त्या सुन्दरीणाम् । 'सुमना मालती जातिः।' इत्यमरः। श्लेषेण सुचित्तानां पुष्पाणां च। वनप्रियः कोकिलः, पक्षे वनमेव प्रियं यासां तासां वधूनां बन्धुः। माधवो वसन्तः श्रीकृष्णश्च। स्फुटं तस्मादेवं संभावयामीति भावः ॥ १० ॥ विशाखा श्रीराधामाह-श्रुत इति। आध्मातं भस्त्रावत् श्वासगत्या गतिप्रकारेण नतोन्नतं जघनमपीत्न्वयः । प्रमाद- भनवधानम्। सव्ये गुरुजनश्चरतीति। तेन लं दक्षिणे प्रदेशे पक्षद्वारानिः- सृत्य शीघ्रमेवाभिसर। अहं तु गुरुजनं समाधाय पश्चादायास्य इति ध्वनितम्

बन्धुः। माधवः श्रीकृष्णः, पक्षे वसन्तः । स्फुटमत्युत्प्रेक्षायाम्। तस्मादत्रेत्या- दिकं संभावयामीत्यर्थः ॥ १० ॥ आध्मातं भस्त्रावत् श्वासं वायुगत्या गतिप्रकारे- गैव नतोन्नतं जघनमपीत्यन्वयः । प्रमादमनवधानम् ॥ ११॥ भोगः संभोगः

Page 327

३०४ काव्यमाला।

यथा- धृत्वा रक्ताङ्गुलिकिसलयैनीपशाखां विशाखा निष्क्रामन्ती व्रततिभवनात्प्रातरुद्धूर्णिताक्षी। वेणीमंसोपरि विलुठतीमर्धमुक्तां वहन्ती लमा खान्ते मम नहि बहिः सेयमद्याप्ययासीत्॥ १३॥ अथ कान्ति :- शोभव कान्तिराख्याता मन्मथाप्यायनोञ्जवला। यथा प्रकृतिमधुरमूर्तिर्बाढमत्राप्युदञ्च- त्तरुणिमनवलक्ष्मीलेख यालिङ्गिताङ्गी। वरमदनविहारैरद्य तत्राप्युदारा मदयति हृदयं मे रुन्धती राधिकेयम् ।। १४॥। अथ दीप्ति :- कान्तिरेव वयोभोगदेशकालगुणादिभिः ॥१५॥ उद्दीपितातिविस्तारं प्राप्ता चेद्दीसिरुच्यते। यथा- निमीलन्नेत्रश्रीरचटुलपटीराचलमरु-

।। ११ ॥ १२ ॥ श्रीकृष्णो विशाखासखीमाह-धृत्वेति। तेन दिनेऽप्यत्र पुनस्तामभिसारयेति ध्वनिः ॥ १३ ॥ श्रीकृष्णः सुबलमाह-प्रकृतीति। मम हृदयं रुन्धतीति संप्रति नाहमन्यस्यै कस्ये अपि स्पृहयामीति भावः । ननु काममहोदघेस्तव कथमेकयानयैव निर्वाहस्तत्राह-उदारेति। इयमेकैव मम मनोरथं सर्वमेव पूरयतीति भावः ॥ १४ ॥ १५ ॥ रूपमञ्जरी खसखीं प्रत्याह-निमीलदिति। निद्राणेत्यर्थः । पटीराचलो मलयपर्वतः । त्रुटदिति। ॥ १२ ॥ १३ ॥ प्रकृत्या गाढानुरागस्वाभाव्येन मधुरा मूर्तिर्यस्याः सा ॥ १४ ॥

Page 328

उज्ज्वलनीलमणिः । ३०५

निकुञ्जे क्षिप्ाङ्गी शशिकिरणकिर्मीरिततटे किशोरी सा तेने हरिमनसि राधा मनसिजम्॥ १६ ॥ अथ माधुर्यम्- माधुर्य नाम चेष्टानां सर्वावस्थासु चारुता ।। १७॥ यथा- असव्यं कंसारेर्भुजशिरसि धृत्वा पुलकिनं निजश्रोण्यां सव्यं करमनृजुविष्कम्भितपदा। दधाना मूर्धानं लघुतरतिरःस्त्रंसिनमियं. बभौ रासोत्तीर्णा मुहुरलसमूर्तिः शशिमुखी ॥ १८॥ अथ प्रगल्भता- निःशङ्कत्वं प्रयोगेषु बुधैरुक्ता प्रगल्भता । यथा विदग्धमाधवे- प्रातिकूल्यमिव यद्विवृण्वती राधिकारदनखार्पणोड्ुरा। केलिकर्मणि गता प्रवीणतां तेन तुष्टिमतुलां हरिर्ययौ॥ १९॥

क्षिप्ताङ्वीत्याभ्यां संप्रयोगाधिक्यजनितः श्रमो व्यज्जितः । लताजालरन्ध्रान् पति- तेन शशिकिरणेन किर्मीरितं चित्रितं तटं यस्य तस्मिन्नित्यनेन तदङ्दर्शनशोभा- धिक्यं मनसिजं तेने इति; पुनरपि संप्रयोगार्थ श्रीहरिस्तां जागरांबभूवेति; रात्रावद्य सा निद्रां न लेमे इति; संप्रति तां क्षणं शाययितुं शीघ्रं याम इति ध्वनिः ॥ १६ ॥ १७ ॥ रतिमञ्जरी दूरात्खसखीं दर्शयति। असव्यं दक्षिण- करम्। भुजशिरसि स्कन्धे। शशिमुखी श्रीराधा तस्याः सखी वा ॥१८ ॥ प्रयोगेषु संप्रयोगेषु प्रगल्भता शौर्यम् ॥। वृन्दाह-प्रातीति। तेन तच्छोभाद- शनेनेत्यर्थः । अप्रागल्भ्यखभावाया अपि श्रीराधायाः प्रागल्भ्यं कामोन्मादाद- २० उज्व०

Page 329

३०६ काव्यमाला।

अथौदार्यम्- औदार्य विनयं प्राहुः सर्वावस्थागतं बुधाः॥२०॥ यथा विदग्धमाधवे- न्यविशत नयनान्ते कापि सारल्यनिष्ठा वचसि च विनयेन स्तोत्रभङ्गी न्यवात्सीत्। अजनि च मयि भूयान् सं्रमस्तेन तस्या व्यवृणुत हृदि मन्युं सुष्धु दाक्षिण्यमेव ।। २१ ।। यथा वा- कृतज्ञोऽपि प्रेमोज्ज्वलमतिरपि स्फारविनयो- डप्यभिज्ञानां चूडामणिरपि क्ृपानीरधिरपि। यदन्तःस्च्छोऽपि स्मरति न हरिर्गोकुलभुवं ममैवेदं जन्मान्तरदुरितदुष्टद्रुमफलम् ॥ २२ ॥ अथ धैर्यम्- स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति कीर्त्यते।

यत्नजमिदमिति ज्ञेयम् ॥ १९ ॥२० ॥ श्रीकृष्णो मधुमङ्गलमाह-न्यविश- तेति। तस्याश्वन्द्रावल्याः ॥ चन्द्रावल्या दक्षिणायाः प्रायः स्वभाव एवायम् ॥ २१ ॥ किं च तदानीं खवविनयसिद्यर्थ नेत्रान्तसारल्यादीनां किंचिद्यत्नकृतखेन कृत्रिमलादयत्जश्च विनयोयं सम्यड संभवेदित्यपरितुष्यन्नाह-यथा वेति। प्रोषितभर्तृका श्रीराधां प्राह-कृतेति। खभावतो वामाया अपि श्रीराधायाः प्रेयसि विनयोऽयं तदानीं दैन्यनिर्वेदादिभिरयत्नज एवाभूत्। पूर्वत्र यत्नेनैवाव- हित्था सिध्यति न तवहित्थयैव यत्न इति विनयस्य यत्नजलमेव ॥ २२॥

। १५॥१६॥१७॥१८१९ ॥२० ॥ सुष्ठिति।खाभाविकं दाक्षि- ण्यमतिकम्यारोपितमित्यर्थः । तज्जातं मन्युमेव व्यावृणुतेत्यर्थः । सुष्टुतामेव दर्श-

Page 330

उज्ज्वलनीलमणिः । ३०७

यथा ललितमाधवे- औदासीन्यधुरापरीतहृदयः काठिन्यमालम्बतां कामं श्यामलसुन्दरो मयि सखि खैरी सहस्ं समाः। किंतु भ्रान्तिभरादपि क्षणमिदं तत्र प्रियेभ्यः प्रिये चेतो जन्मनि जन्मनि प्रणयितादास्यं न मे हास्यति ॥।२३॥ अथ स्वभावजा :- तत्र लीला- प्रियानुकरणं लीला रम्यैर्वेशक्र्कियादिभिः ॥२४॥ यथा विष्णुपुराणे- दुष्टकालिय तिष्ठाद्य कृष्णोऽहमिति चापरा। बाहुमास्फोट्य कृष्णस्य लीलासर्वसमाददे॥ २५॥

श्रीराधा नववृन्दामाह-औदासीन्यति। प्रणयितया प्रेम्णा दास्यं कैंकर्य न हास्यति न त्यक्ष्यति। अत्र विरहवैवश्येनाधीरखभावाया अपि श्रीराधायास्तदानीं रत्याख्यसंचारिप्राबल्योदयात् धैर्यमिदमयत्नजम्। एवं शोभादयो माधुर्यान्तास्त- तद्देहवभावजा अपि शोभादयर्थप्रयत्नाभावादयत्नजशब्देनैवोच्यन्ते। प्रगल्भता- दयस्त्रयोSलंकारास्तु न सभावजा: तत्र तत्रोक्तयुत्त्या नापि प्रयत्नजा इत्ययत्नजा एव । २३ । सभावजा इत्येषु क्वापि यत्नस्य बुद्धिपूर्वकलम्, क्वापि संचारि- भावोत्थलेनाबुद्धिपूर्वकत्वम् । किंतु सर्वत्र स्भावो जागरूक इति स्भावज- शब्देनैवोच्यन्त इति प्रियस्यानुकरणं बुद्धिपूर्वकमबुद्धिपूर्वकं वा प्रेभवतीनां स्ाभाविकमेव ॥ २४ ॥ पराशरो मैन्रेयं प्रत्याह-दुष्टेति। आस्फोट्य शौर्य- द्योतनार्थ वामबाहुप्रगण्डे करतलप्रहारेण शब्दमुत्थाप्य। लीलेयं विप्रलम्भभरे- यति-कापीत्यादिभिः ॥ २१ ॥ २२ ॥२३॥२४ ॥ लीलासर्वखं तस्या लीलाया यावान् परिकरस्तावन्तमाददे गृहीतवती। अनुकृतवतीत्यर्थः ॥२५॥

Page 331

३०८ क़ाव्यमाला।

यथा वा छन्दोमञ्जर्याम्- मृगमदकृतचर्चा पीतकौशेयवासा रुचिरशिखिशिखण्डा बद्धधम्मिल्लपाशा। अनृजुनिहितमंसे वंशमुत्क्वाणयन्ती कृतमधुरिपुवेशा मालिनी पातु राधा ॥ २६॥ अथ विलास :- गतिस्थानासनादीनां मुखनेत्रादिकर्मणाम्। तात्कालिकं तु वैशिष्यं विलास: प्रियसंगजभ्॥२७॥ यथा- रुणत्सि पुरतः स्फुरत्यघहरे कथं नासिका- शिखाग्रथितमौक्तिकोन्नमनकैतवेन स्मितम्। निरास्थदचिरं सुधाकिरणकौमुदीमाधुरीं मनागपि तवोद्गता मधुरदन्ति दन्तद्युतिः ॥ २८॥ यथा वा- अध्यासीनममुं कदम्बनिकटे कीडाकुटीरस्थली- माभीरेन्द्रकुमारमत्र रभसादालोकयन्त्याः पुरः ।

णोन्मादोत्थलादबुद्धिपूर्वकयत्नवती ॥ २५ ॥ बुद्धिपूर्वकयत्नवतीमपि तामुदाहर्तु- माह-यथा वेति। रतिमज्री खसखीमाह-मृगेति। मालिनी मालावती तनामछन्दश्च ॥ २६॥ तात्कालिकमिति। अनेन प्रियसङ्गारम्भकाल एवं लक्ष्यते ।। २७ ।। अभिसार्यानीतां श्रीराधां श्रीकृष्णाग्रे वाम्यं कुर्वाणां वीरा प्राह-स्मितं रुणत्सीति। स्मितेन मुखचन्द्रव्यापारवैशिध्यं निरास्थत्तिरस्कृत- वती॥ २८ ॥ नेत्रव्यापारवैशिष्यं दर्शयितुमाह-यथा वेति। अभिसार्यानीतां श्रीराधां वृन्दा प्राह-अध्यासीनमिति। दुग्धसमुद्रस्य सुन्दरलहरीणामिव ॥ २६ ॥ २७ ॥ निरास्थत् निरस्तवती ॥२८ ॥ दुग्घेत्यादिना स्मितमेव

Page 332

उज्ज्वलनीलमणिः । ३०९

दिग्धा दुग्घसमुद्रमुग्धलहरी लावण्यनिस्यन्दिभिः कालिन्दी तव दक्तरङ्गितभरैस्तन्वङ्गि गङ्गायते॥ २९॥ अथ विच्छित्ति :- आकल्पकल्पनाल्पापि विच्छित्ति: कान्तिपोषकृत्। यथा- माकन्दपत्रेण मुकुन्दचेतःप्रमोदिना मारुतकम्पितेन। रक्तेन कर्णाभरणीकृतेन राधामुखाम्भोरुहमुल्ललास ॥ ३०॥ यथा वा हरिवंशे- एकेनामलपत्रेण कण्ठसूत्रावलम्बिना। रराज बर्हिपत्रेण मन्दमारुतकम्पिना ॥ ३१ ॥ सखीयतादिव धृतिर्मण्डनानां प्रियागसि ॥ ३२ ॥ सेर्ष्यावज्ञा वरस्त्रीभिर्विच्छित्तिरिति केचन। यथा- मुद्रां गाढतरां विधाय निहिते दूरीकुरुष्वाङ्गदे ग्रन्थि न्यस्य कठोरमर्पितमितः कण्ठान्मणिं अ्रंशय।

लावण्यं निस्यन्दयितुं शीलं येषां तैर्दिग्धा निचितेति स्मितं व्यजितम् ॥२९ ॥ वृन्दा नान्दीमुखीमाह-माकन्देति॥ ३०॥ श्रीकृष्णेऽप्युदाहर्तुमाह-यथा वेति। वैशम्पायनो व्रजविहारिणं श्रीकृष्णं वर्णयति-बर्हिपत्रेण मयूरपक्षेण। कीदशेन। अमलानि पत्राणि धात्र्यादिदलानि। यद्वा आमलानि आमलक्या एव दलानि। तच्चतुर्दिकशोभार्थ वल्ीसूत्रेण प्रोतानि यत्र तेन। 'आमलं कमलं कुष्ठम्' इति वैद्यकट्ष्टेः ॥ ३१ ॥ प्रियागसि प्रियकर्तृकेऽपराधे सतीष्यावज्ञाभ्यां सह वर्तमाना ॥। ३२ ॥ मानिनी श्रीराधा विशाखामाह-गाढतरामिति। कठो- रमिति। आभ्यां स्वयं दूरीकरणसामर्थ्यं द्योतितम्ं।। तेन च लमेव मल्लाधवं व्यजितम्। ततश्र कालिन्यां गङ्गायमानतं व्यक्तम् ॥२९॥३० ॥ प्रियागसि

Page 333

३१० काव्यमाला।

मुग्धे कृष्णभुजङदृष्टिकलया दुर्वारया दूषिते रल्नालंकरणे मनागपि मनस्तृष्णां न पुष्णाति मे ॥ ३३॥ अथ विभ्रम :- वल्लभप्राप्तिवेलायां मदनावेशसंभ्रमात् ॥ ३४।। विभ्रमो हारमाल्यादिभूषास्थानविपर्ययः । यथा विदग्धमाधवे- धम्मिल्लोपरि नीलरत्रचितो हारस्त्वयारोपितो विन्यस्तः कुचकुम्भयोः कुवलयश्रेणीकृतो गर्भकः । अङ्गे चर्ितमञ्जनं विनिहिता कस्तूरिका नेत्रयोः कंसारेरभिसारसंभ्रमभरान्मन्ये जगद्विस्मृतम् ॥ ३५॥ यथा वा श्रीदशमे- लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने। व्यत्यस्तवस्त्राभरणा: काश्चित्कृष्णान्तिकं ययुः ॥ ३६ ॥ अधीनस्थापि सेवायां कान्तस्यानभिनन्दनम्॥ ३७॥

कुर्वती विपक्षायसे इति ध्वनिः॥ नन्वलंकारेण किमपराद्धं, तत्राह-मुग्धे इति। तव ज्ञानं नास्तीति भावः । कृष्णभुजन्वेति। दृष्टैव विषवर्षणादेषु विष लग्नमिति भावः । तद्टृष्टिविषदिग्धेषु मदज्वेषु पुनर्विषदाहार्पेणमयुक्तमिति भाव: । ३३ ।। वल्लभप्राप्यर्थ वल्लभनिकटस्थानगमनार्थ या वेला अभिसारसमयस्स्यां हारादीनां स्थानविपर्ययः । अयथास्थानधृतिरित्यर्थः ॥ ३४ ॥ ललिता श्रीराधा- माह-धम्मिललेति। गर्भकः केशोचितमाल्यम् ॥ ३५॥ आर्षमुदाहर्तुमाह- यथा वेति ॥ ३६॥ वामतोद्रेकादनभिनन्दनं वस्तुतस्तु मनसा लभिनन्दनम- प्रियकर्तृकेऽपराधे सति ॥३१ ॥३२ ॥३३॥३४॥३५॥३६॥ कान्त- स्येति। मनसाभिनन्दनं तु वर्तत एवेति भावः । तर्हि कथं तत्राह-वामतो- द्रेकात वाड़मात्रेण कौटिल्यातिशयात। प्रणयविशेषस्य तथैव सभाव इति भावः ।

Page 334

उज्ज्वलनीलमणिः । ३११

विभ्रमो वामतोद्रेकात्सादित्याख्याति कश्चन। यथा- त्वं गोविन्द मयासि किं नु कबरीबन्धार्थमभ्यर्थितः क्वेशेनालमबद्ध एव चिकुरस्तोमो मुदं दोग्धि मे। वक्रस्यापि न मार्जनं कुरु घनं धर्माम्बु मे रोचते नैवोत्तंसय मालतीर्मम शिरः खेदं भरेणाप्स्यति॥ ३८॥ अथ किलकिश्चितम्-

स्तेवेति भाव: ॥ कञ्चनाख्यातीति । अन्ये विव्वोकोऽयमित्याचक्षते इत्यर्थः ॥३७। मया किमर्थमभ्यर्थित इति। ममैवानभिज्ञलं लां प्रयुज्ानाया दोष इति भावः । क्ेशेनालमिति। बहुतरप्रयत्नपौनःपुन्येनापि मद्दासीभिरिव लया कबरीनिर्माणमशक्यमिति भावः । अत्र हेतुर्गोविन्देति। लया गोचारण- शास्त्रमेवाबाल्यमभ्यस्तं नत्वेतत्कलाशास्त्रमिति भावः । 'गोविन्दो गोविचारणा- दिति' क्रमदीपिकोक्तेः। ननु तर्हि दास्य एव करणीयस्तत्राह-अबद्ध एवेति। वत्प्रेयानिदमपि न जानातीति लां मां च हसिष्यन्तीति ता नाहूयन्त इति भाव:। मुदं दोग्धीति। लत्कृतप्रसाधनादप्रसाधनमेव वरं शोभत इति भावः । भार्जनं न कुर्विति मुखमार्जनप्रकारस्तावदन्य एव स च लया दुर्जेय एवेति भाव:। तत्रापि हेतुर्गोविन्देति वं गवां मुखपृष्ठपिच्छादिमार्जनकण्डडूयनादि- विद्यायां पारं गतोऽसि न वाङ्गनाङ्गमार्जनकलायामिति भावः । गां विन्दतीति तत्पदव्युत्पत्तेः । मालतीर्बह्वीरनोत्तंसय शिरोभूषणं न कुरु। तत्र हेतुर्ममेत्यादि। खेदं भरेणेति। नहि गुरुत्वानवतंसः प्रशस्यते मद्दासीभिर्हि कृतवृत्ताभिर्माल- तीभिरवतंसविरचनान्न तेन मम भाव इति भाव इति। अन्रापि हेतुर्गोबिन्देति। गोवर्धनधारणात् प्राप्तगोविन्दाभिधानात् लमपि महाँल्लोको गोवर्धनपर्वतमपि स्शिरसि भारं न मन्यसे मम तु निकृष्टायाः शिरो मालतीकुसुमस्तोमभरेणापि व्यथत इति भाव: ॥ 'गोविन्देति चाभ्यधा'दिति स्मृतेः ॥ ३८ ॥ गर्वादीनां तदुक्तम्-अहेरिव गतिः प्रेम्ण इति॥ ३७॥३८॥३९। तथैधोदाहर-

Page 335

३१२ काव्यमाला।

संकरीकरणं हर्षादुच्यते किलकिश्चितम्। यथा- मया जातोलासं प्रियसहचरीलोचनपथे बलान्यस्ते राधाकुचमुकुलयोः पाणिकमले। उदञ्नञ्ू भेदं सपुलकमवष्टम्भि वलितं स्मराम्यन्तस्तस्याः स्मितरुदितकान्तद्युति मुखम् ॥ ४0॥ यथा वा दानकेलिकौमुद्याम्- अन्तःस्मेरतयोज्ज्वला जलकणव्याकीर्णपक्ष्माङ्करा किंचित्पाटलिलाञ्चला रसिकतोत्सिक्ता पुरः कुञ्चती।

सप्तानां संकरीकरणं मिश्रणं युगपत् प्राकव्यमित्यर्थः । हर्षादिति । तत्र हर्ष एव हेतुरित्यर्थः ॥ ३९ ॥ श्रीकृष्णः सुबलमाह-मयेति। उदश्चद्भेदमित्यसू- याक्ोधौ, सपुलकमित्यभिलाषः, अवष्टम्भि तिर्यक्तया स्तब्धमिति गर्वः, वलितं किंचित्परावृत्तमिति भयम्, स्मितरुदिताभ्यां कान्ता द्युतिर्यस्येति स्मितरुदिते शाब्दे एवेति सप् ॥ ४० ॥ न केवलमङ्गस्पर्श एव किलकिश्चितं स्यात् किंतु वर्त्मरोधनादावपि स्यादित्याख्यातुमाह-यथा वेति। कोऽपि नटेन्द्रो रसिक- सभ्यान्नान्दीप्रयोगेणानन्दयति-अन्तरिति। पथि दानघट्टमार्गे श्रीमाधवेन शुल्कग्रहणमिषेण रुदाया: श्रीराधाया दृष्टिवो युष्माकं श्रियं प्रेमोत्थस्तम्भकम्पा-

न्नाह-यथेति। अवष्टम्भि तिर्यकृतया सखीमवलम्बमानमिति गर्वः। सपुलक- मित्यभिलाषः । स्मितरुदिताभ्यां कान्तद्युतिकं मुखं यत्रेति। स्मितरुदिते शाब्दे एव। उदश्चभ्भ्रभेदमित्यसूयाकोधौ। वलितं किंचित् परावृत्तमिति भयम्। तस्या इति। समासेनोपसर्जनीभूतामपि श्रीराधामेव गृह्लाति अन्यस्या अतिविप्रकृष्ट- लातू।। ४० ॥ रसिकोत्सिक्केति गर्वः । उत्सेको त्यन्र चित्तौन्नत्यम्। मधुरेत्य- भिलाषः । व्याभुग्रेत्यसूया। स्मितरुदिते स्पष्टे। पुरो मीलितेति भयम्। किंचित् १. 'जातौत्सुक्यम्' इति ख-पुस्तके पाठ :.

Page 336

उज्ज्वलनीलमणि: । ३१३

रुद्धायाः पथि माधवेन मधुरव्याभुगतारोत्तरा राधायाः किलकिंचितस्तबकिनी दृष्टिः श्रियं वः क्रियात् ॥४१॥ अथ मोट्टायितम्- कान्तस्रणवार्तादौ हृदि तद्भावभावतः ॥ ४२ ॥ आ्रकध्यमभिलाषस्य मोट्टायितमुदीर्यते। यथा- न ब्रूते कमबीजमालिभिरलं पृष्टापि पाली यदा चातुर्येण तदग्रतस्तव कथा ताभिस्तदा प्रस्तुता। तां पीताम्बरजूम्भमाणवदनाम्भोजा क्षणं शृण्वती बिम्बोष्ठी पुलकैर्विडम्बितवती फुल्लां कदम्बश्रियम्॥ ४३॥ अथ कुट्टमितम्- स्तनाधरादिग्रहणे हृत्प्रीतावपि संभ्रमात् ॥ ४४॥ बहिः कोधो व्यथितवत्प्रोंक्तं कुट्टमितं बुधैः।

दिशोभां क्रियात्। कीदशी दृष्टिः । किलकिश्चितमेव स्तबकनानाभावपुष्पगुच्छः तद्वतीति दष्टर्वलितमारोपितम्। तन्रापि श्रियं कियादिति कल्पवल्लीलम्, अन्तः स्मेरतयेति स्मितम्, जलकणेति रुदितम्, किंचित् पाटलितेति क्रोधः। श्वेतरक्तस्तु पाटलः' इत्यमरः । अत्र श्वेतिमा साभाविक एव, रक्तिमा क्रोधात्, रसिकतयो- त्कर्षेण सिक्तेत्यभिलाषः, पुरः कुश्चतीति भयम्, मधुरं यथा स्यात्तथा व्याभुना वका या तारा कनीनिका तयोत्तरा श्रेष्ठा इति गर्वासूये। 'उपर्युदीच्यश्रेष्ठेष्वप्यु- त्तरः' इति नानार्थः ॥४१ ॥ तद्द्ावः स्थायी रतिस्तस्य भावतो भावनातः ॥। ४२ ॥ वृन्दा श्रीकृष्णमाह-न बूत इति ॥४३॥ सतनाधरादीत्यत्र विविक्त इति शेषो देयः । सखीदृष्टिपथे तु किलकिश्चितमेव स्यादिति ज्ञेयम् पाटलिताश्चलेति कुत्। किलकिश्चितरूपो यः स्तबको गाम्भीर्यमयलादस्फुटो

Page 337

३१४ काव्यमाला।

यथा- करौद्धत्यं हन्त स्थगय कबरी मे विघटते दुकूलं च न्यञ्चत्यघहर तवास्तां विहसितम् । किमारब्धः कर्तु त्वमनवसरे निर्दय मदात् पताम्येषा पादे वितर शयितुं मे क्षणमपि ॥ ४५ ॥ यथा वा- न भूलतां कुटिलय क्षिप नैव हस्तं वक्रं च कण्टकितगण्डमिदं न रुन्धि। प्रीणातु सुन्दरि तवाधरबन्धुजीवे पीत्वा मधूनि मधुरे मधुसूदनोऽसौ॥। ४६ ॥ अथ विव्वोक :- इष्टेऽपि गर्वमानाभ्यां विव्योक: स्यादनादरः ।। ४७।। अत्र गर्वेण यथा- प्रियोक्तिलक्षेण विपक्षसंनिधौ स्वीकारितां पश्य शिखण्डमौलिना।

॥ ४४ ॥ संभुक्तप्रसाधिता श्रीराधा पुनरपि संभुक्तकामं श्रीकृष्णमाह-करौ- द्वत्यमिति ॥ ४५ ॥ अत्रोदाहरणे रतिश्रान्तायाः शिष(श)यिषोस्तस्या हृत्प्रीत्यभावः संभवेदित्यपरितुष्यन्नाह-यथा वेति। श्रीकृष्णः कदाचिद्रहः- प्राप्तां श्रीराधां कण्ठे गृहीलाह-न भूलतामिति। कण्टकितगण्डमिति हृत्प्रीतिचिह्नम्। असौ मधुसूदनो मल्लक्षणभ्रमरः ॥ ४६ ॥ इष्टेऽपि कान्तदत्त- वस्तुनि कान्ते वा॥ ४७ ॥ पुष्पमवचिन्वती रूपमज्री कुवलयमालां दूरादर्श- यन्त्याह-विपक्षसंनिधौ संध्यादेवीपूजापर्वणि श्रीराधायाश्चन्द्रावल्याश्च विनाभूते सर्वव्रजसुन्दरीणां संसदीत्यर्थः । प्रियोक्तिलक्षेणेति। प्रियतमे श्यामे, अ्भुत- भावविशेषसतद्वती ॥४१॥४२॥४३॥४४॥४५॥न भूलतामिति। कृष्णस्यैव वचनम् ॥ ४६ ॥ इष्टेऽपि कान्तार्पितवस्तुन्यपि कान्ते वा। अधी-

Page 338

उज्ज्वलनीलमणिः । ३१५

श्यामातिवामा हृदयंगमामपि स्रजं दराघ्राय निरास हेलया।। ४८ ।। यथा वा- स्फुरत्यग्रे तिष्ठन् सखि तव मुखक्षिप्तनयनः प्रतीक्षां कृत्वायं भवदवसरस्याघदमनः । दृशोच्चैर्गाम्भीर्यग्रथितगुरुहेलागहनया हसन्तीव क्षीबे त्वमिह वनमालां रचयसि ॥ ४९ ॥ मानेन यथा- हरिणा सखि चाटुमण्डलीं क्रियमाणामवमन्य मन्युतः । न वृथाद्य सुशिक्षितामपि स्वयमध्यापय गौरि शारिकाम् ॥ ५० ॥

शिल्पमयीयं मत्पाणिनिर्मिता माला तवैव कण्ठदेशे स्थितिमवाप्य सफला भव- लित्यादिना। हृद्यंगमामपीति। एकान्ते चेत्प्राप्ताभविष्यत्तदेयं माला हृदय एव श्यामया अधारयिष्यत इति भावः । दराघ्रायेति। आघ्राणमपि लदनुरो- धेनैव कृतं वस्तुतस्त्वीदृश्यो माला मत्किंकरीभिरपि न परिधीयन्त इति ज्ञापया- मास। निरास चिक्षेप । ४८ ॥। कान्ते चानादरं दर्शयितुमाह-यथा वेति। श्यामला श्रीराधामाह-स्फुरतीति। वनादपराहे आगत्य निःसङ्ग एव तमु- द्यानं प्रविश्य कदा वा वनमाला पूर्णा भविष्यति, कदा वा क्षणमवसरं प्राप्स्यामि, प्राप्तेऽवसरे मम मनोरथं पूरयिष्यति नवेति व्यायनित्यर्थः । तवं तु दृशा हस- न्तीव अहो कामिनः कस्य न कामातुरतमिति श्रीकृष्णमवजानतीवेत्यर्थः । दृशा कीदृश्या। गाम्भीर्यपुष्पैग्रथिता गुरुहेलैव माला तया गहनया दुरगमया किमियं मयि कृपावती कठोरा वेति तेन दुर्जेयभावया। क्षीबे हे मत्ते इति। मत्तानां हि दया नोत्पद्यत एवेति भावः। कराभ्यां पुष्पमालां रचयसि दृशा दुज्ेयभावमालां सजसि श्रीकृष्णे तु दयां न प्रकटयसि। किं ते चरितमिदमसमञ्जसमिति व्याज- स्तुतिः ॥ ४९ ॥ कलहान्तरितां गौरीं प्रति तत्सखी प्राह-हरिणेति। तेन गते सति हे शारिके, हरे, कृष्ण, गोविन्देति वदेति शारिकाध्यापनमिषेण पश्चा- नस्यापीति विभ्रमलक्षणस्य परमतत्वान्नानेन सांकर्यम् ॥४७॥४८॥४९ ॥

Page 339

३१६ काव्यमाला।

अथ ललितम्- विन्यासभद्गिरद्गानां भ्रूविलासमनोहरा। सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥५१॥ यथा- सभ्रूभङ्गमनङ्गबाणजननीरालोकयन्ती लताः सोल्लासं पदपङ्कजे दिशि दिशि प्रेङ्कोलयन्त्युज्ज्वला। गन्धाकृष्टधियः करेण मृदुना व्याधुन्वती षट्पदान् राधा नन्दति कुञ्जकन्दरतटे वृन्दावनश्रीरिव ॥। ५२॥। अथ विक्ृतम्- हीमानेर्ष्यादिभिर्यत्र नोच्यते सवविवक्षितम्। व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्षुधाः।५३॥ तत्र हिया यथा- निशमय्य मुकुन्द मन्मुखाद्गवदभ्यर्थितमत्र सुन्दरी। न गिराभिननन्द किंतु सा पुलकेनैव कपोलशोभिना॥ ५४ ॥

त्तापजर्जरिता सवप्राणरक्षार्थ तन्नामामृतमेवावलम्बसे इति सुशिक्षितामिति, खय- मिति पदयोर्ध्वनिः ॥ ५० ॥ ५१ ॥ श्रीराधाप्रसाधनार्थ पुष्पान्यवचिन्वनू श्रीकृष्णो दूरात्तामवलोक्य वर्णयति-लताः सभ्ूभङ्गं सासूयं पश्यन्ती। अत्र हेतुः अनङ्गेति । युष्माकमेव पुष्पाणि बाणान् कृत्वा तैरनड्गो मां प्रहरतीति यूयमेव मद्वैरिण्य इति भावः । प्रेङ्वोलयन्ती चालयन्ती वृन्दावनस्य श्रीः संपत्ति- रिव ॥। ५२॥ विवक्षितमिति। पूर्व मोहायिते कान्तवार्ताश्रवणेनाभिलाष- व्यक्तिः स्वयमेव भवेदत्र तु न व्यक्तं वस्तु चेष्टया व्यज्यत इति भेदः ॥ ५३॥ सुबलः श्रीकृष्णमाह-भवतोऽभ्यर्थितं हे प्रेयसि हे राधे, अद्य गोवर्धनकन्दरायां १५०।५१। प्रेङ्गोलयन्ती चालयन्ती ॥।५२। विवक्षितमिति। पूर्व मोघ- यितेऽभिलाषस्य व्यक्तिरत्र तु विवक्षितमात्रस्येति भेदः। किंतूदाहरणेषु भावव्यक्ति- रेव यद्ृश्यतते तद्विवक्षितान्तर्गतलातेनांशेनैवेति ज्ञेयम्। केवलविवक्षितोदाहरणं

Page 340

उज्ज्वलनीलमणि: । ३१७

यथा वा- न परपुरुषे दृष्टिक्षेपो वराक्षि तवोचित -.. स्त्वमसि कुलजा साध्वी वक्रं प्रसीद विवर्तय। इति पथि मया नर्मण्युक्ते हरेर्नववीक्षणे सद्यमुद्यत्कार्पण्यं मामवैक्षत राधिका ॥ ५५॥ मानेन यथा- मय्यासक्तवति प्रसाधनविधौ विस्मृत्य चन्द्रग्रहं तद्विज्ञप्तिसमुत्सुकापि विजहौ मौनं न सा मानिनी। किंतु श्यामलरतसंपुटदलेनावृत्य किंचिन्मुखं सत्या स्मारयति स्म विस्मृतमसौ मामौपरागीं श्रियम् ॥५६॥

मन्निर्मितं चित्रं द्रष्टमवश्यमेवावगन्तव्यं यदि मामनुगृह्लासीति पुलकेनैव कसमा- चिन्मिषाद्दार्ितेन भद्रमागमिष्यामीति ज्ञापयामासेत्यर्थः ॥५४॥ अत्र पुलकस्य सालिकलेन सवभावोत्थतादस्पष्टचेष्टाभावात् (तेन) नायिकाकर्तृकं विज्ञापनम- स्पष्टं नेत्याह-यथा वेति। विशाखा ललितां प्रति श्रीराधाचरित्रं विज्ञापय- न्याह-न परेति। वक्रं विवर्तय परावर्तय। नर्मणि तस्या हृदयज्ञापनार्थमुक्ते सवि सदयमानन्दयखेति प्रार्थ्यमानलेन दया वर्तते यत्र तद्यथा स्यात्तथा। उद- यत्कार्पण्यमिति विशेषणसाहचर्यादैक्षतेति तथाभूतेक्षणक्रियैव चेष्टा तया चैकवार- मपि श्रीकृष्णमचलोकयितुमाज्ञापयतान्यथा जीवितुमहं न प्रभविष्यामीति खविव- क्षितं व्यजञितम् ॥ ५५ ॥ श्रीकृष्ण उद्धवं प्रत्याह-मय्यीति। तस्य चन्द्रग्रह- णस्य विज्ञप्तौ संप्रति चन्द्रग्रहणं वर्तते तदितो वहिर्निःसृत्य स्ानदानादिकाः कियाः कुर्विति विज्ञापने समुत्सुकापि। मुखमावृत्यति। मुखस्य चन्द्रत्म्, संपुटस्य राहुलम्। तेन च दर्शितेनेत्यर्थः । विस्मितमिति। अहो बुद्धेरस्याः परा काषा एतज्ज्ञापनमिषेण संप्रसाधनेन निराकृतवतीति मां परास्तीभूतं कृतम्

तु भय्यासक्तवतीत्येव ॥। ५३ ॥५४ ॥ इति नर्मण्युक्ते सति। सदयं दयासहितं दयाविषयं यथा स्यात्तथा। उदयत् कार्पण्यं यथा स्यात्तथा मामवैक्षत ।।५५॥

Page 341

३१८ काव्यमाला।

ईर्ष्यया यथा- वितर तस्करि मे मुरलीं हतामिति मदुद्धरजल्पविवृत्तया। भ्रुकुटिभङ्गुरमर्कसुतातटे सपदि राधिकयाहमुदीक्षितः॥५७॥ अलंकारा निगदिता विंशतिर्गात्रचित्तजाः। अमी यथोचितं ज्ञेया माधवेऽपि मनीषिभिः ॥५८॥ कैश्चिदन्येऽप्यलंकाराः प्रोक्ता नात्र मयोदिताः। मुनेरसंमतत्वेन किंतु द्वितयमुच्यते॥५९॥ मौग्ध्यं च किंचितं चेति किंचिन्माधुर्यपोषणात्। तत्र मौग्ध्यम्- ज्ञातस्याप्यज्ञवत्पृच्छा प्रियाग्रे मौग्ध्यमीरितम्॥ ६० ॥ यथा मुक्ताचरिते- कास्ता लताः क वा सन्ति केन वा किल रोपिताः । कृष्ण मत्कक्कणन्यस्तं यासां मुक्ताफलं फलम् ॥ ६१ ॥ चकितम्- प्रियाग्रे चकितं भीतेरस्थानेऽपि भयं महत्। यथा- रक्ष रक्ष मुहुरेष भीषणो धावति श्रवणचम्पकं मम। इत्युदीर्य मधुपाद्विशङ्किता सखजे हरिणलोचना हरिम् ॥ ६२॥ इत्यलंकारविव्ृतिः ।

॥५६ ॥ श्रीकृष्णः सुबलमाह-वितरेति। भ्रुकुटिभङ्गुरमिति यत्त्वं मे चोरिका- पवादं ददासि तदहमार्यायै सर्वमिदमुक्ला सुष्ु तुभ्यमेतत्फलं दास्यामीति भुकुट्या व्यज्जितम्॥५७॥ कैश्चित्साहित्यदर्पणकृदादिभिस्न्येऽपि तपनविक्षेपकुतूहलाद्याः। सुनेर्भरतस्य ॥ ५८ ॥५९ ॥ ६० ॥ श्रीसत्यभामा श्रीकृष्णमाह-कान्ता इति॥ ६१ ॥ काचित्सखी कांचिदाह-रक्ष रक्षेति। एष मधुपः । यद्यपि ।५६॥ विवृत्तया परावृत्तया ॥ ५७॥५८॥५९॥६ ॥६१॥चम्पकस्य

Page 342

उज्ज्वलनीलमणिः । ३१९

अथोद्भाखराः । उद्भासते स्वधान्नीति प्रोक्ता उद्भासवरा बुधैः। नीव्युत्तरीयधम्मिल्लसत्रंसनं गात्रमोटनम् । ६३।। जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश्र ते मताः। तत्र नीविस्रंसनं यथा विदग्धमाधवे- नैरञ्जन्यमुपेयतुः परिगलन्मोदाश्रुणी लोचने खेदोद्ूतविलेपनं किल कुचद्वन्द्वं जहौ रागिताम्। योगौत्सुक्यमगादुरः स्फुरदिति प्रेक्ष्योदयं संगिनां राधे नीविरियं तव श्रथगुणा शङ्के सुमुक्षां दघे ॥ ६४ ॥

मधुपश्चम्पकं न धावति तथापि खमुखामोदेनागतस्य तस्य तथावगमात्तथोक्तम् l ६२ ॥ इत्यलंकारविव्ृतिः ॥ अथोन्भाखवराः । उद्धासन्ते प्रकाशन्ते। 'स्थेशभास-' इत्यादिना वरच्। स्वधाम्नि भाववज्न- देहे। आद्यशब्देन विलुठितगीतकोशनलोकानपेक्षिता घूर्णाहिक्कादयो ज्ञेयाः । ६३ ॥ गौरीतीर्थे श्रीकृष्णेन सह विहरन्तीं श्रीराधां दूरादालोक्य वृन्दा तां नीचैः संबोध्य वर्णयति-नैरज्जन्यमअ्जनमुपाधिरविद्या तद्राहित्यम्। संसारान्मोक्ष- मित्यर्थः । पक्षे निष्कज्ललम्। तत्रोभयत्र हेतु :- परिगलदिति। मोदा- श्रूणि भक्तिसुखोत्थानि कामसुखोत्थानि च। रागि्ां रागो विषयासक्तिस्तद्वत्तां कुङ्कुमरागवत्तां च जहौ। तत्रोभयत्र हेतुः स्वेदो भक्तिसुखोत्थः कामसुखोत्थश्च तेनोद्भूतं खण्डितं विशिष्टं लेपनं लेपो विषयेन्द्रियसंसर्ग:, पक्षे चन्दनकुङ्कुमादिमयी चर्चा यत्र तत्। योगेऽष्टाङ्गयोगे -श्रीकृष्णवक्षःस्पर्शे च। तत्रोभयत्र हेतुः स्फुर- हेदीप्यमानं धृतस्पन्दनं चेति सज्ञिनां चतुर्णामुदयं मोक्षसुखसंपति कामसुखसंपत्ति च। गुणः सत्त्वादिसूत्रं च । मुमुक्षां मोक्षस्पृहां रखलनेच्छां च। अन्न नेत्रकुच-

मधुपास्पृहणीयलेऽपि विलासादेव तथोक्तिरित्यस्थानतमिति स्पष्टम्। हल्लकमिति वा पाठः ॥ ६२ ॥ इत्यलंकारविव्ृतिः ॥ नैरअन्यमिति। अत्र शेषपक्षे तेषाम- धिकारिणां क्रमान्यूनत्मवगतम्। तच्च नीव्याः क्रमप्राप्तं प्रथमारम्भं बोधयितुं

Page 343

३२० काव्यमाला।

उत्तरीयसत्रंसनं यथा- तव हृदि मम रागात्कोऽपि रागो गरिष्ठः स्फुरति तदपसृत्य व्यक्तमेतं करोमि। इति खलु हृदयात्ते राधिके रोधकारि च्युतमिव पुरतो मे मञ्जुमाञ्जिष्ठवासः ॥ ६५ ॥ धम्मिल्सत्रंसनं यथा- स्फुरति मुरद्विषि पुरतो दुरात्मनामपि विमुक्तिदे गौरि। नाद्भुतमिदं यदीयुः संयमिनस्ते कचा मुक्तिम् ॥ ६६ ॥ गात्रमोटनं यथा- व्रजाङ्गने बल्लवपुङ्गवस्य पुरः कुरङ्गीनयना सलीलम्। अप्यङ्गभङ्गं किल कुर्वतीयमनङ्गभङ्गं तरसा व्यतानीत् ॥ ६७ ॥

योनींवीनां क्रमेण ज्ञानदौर्बल्यान्मोक्षसुखे कामसुखे च क्रमेणैव न्यूनाधिकारित्वं व्यज्ञितम् ॥६४ ॥। श्रीकृष्णः खदर्शनेन श्रीराधाया उत्तरीयस्खलनमवलोक्य तां परिहसति-तवेति। हे राधे, तव माञिष्ठं मजिजिष्ठया रक्तं वासः कर्तृ। मम पुरतस्तव हृदयात् इति विचार्य च्युत निःसतम्। इवेत्युत्प्रेक्षायाम्। तत्र वासोवदिति मम रागात् रक्तिम्रः सकाशात्, पक्षे क्रोधात्तव हृदि राग: कोऽप्यनिर्वचनीयो रागः स्फुरति। ततस्तस्मादितोऽपसृत्य एतं रागं व्यक्तं लोकदष्टं करोमीति तेन च प्रेयसि राधे, तव वास ईर्ष्यया चेदप- सृतमपसरतु का चिन्ता संप्रति मम हृदयमेव सौहार्देन एतं रागमाच्छादयविति सहसा तामालिलिङ्वेति ध्वनिः ॥ ६५ ॥ वृन्दा श्रीराधां सनर्माह-स्फुर- तीति । संयमिनो वशीकृतेन्द्रियाः, पक्षे बद्धाः ॥ ६६ ॥ नान्दीमुखी वृन्दा- माह-व्रजेति। अङ्गभङ्गं गात्रमोटनम्। अनङ्गभङ्गं कन्दर्पेतरङ्गम् ॥ ६७ ॥

कृतम्। उदयं स्वखाधिकारानुरूपप्रकाशम् ॥ ६३ ॥ ६४ ॥ इति वेत्यन्वयः । ६५ ॥ अङ्गभङ्गं गान्रमोटनम्, अनङ्गभृङ्गं कामतरङ्गम् ॥ ६६ ॥६७ ॥

Page 344

उज्ज्वलनीलमणिः । ३२१

जुम्भा यथा- पुष्पैरवेत्य विशिखैर्भवतीमसाध्यां साध्वीमघीत्य मदनः किल जृम्भणास्रम्। चन्द्रावलि प्रसभमेव वशीचकार यद्गोष्ठसीमनि मुहुः सखि जृम्भसेऽदय ॥ ६८ ॥ घ्राणफुल्लत्वं यथा- रचितशिखरशोभारम्भमम्भोरुहाक्षी श्वसितपवनदोलान्दोलिना मौक्तिकेन। पुटयुगमतिफुल्लं बिभ्रती नासिकायां मम मनसि विलमा दर्शनादेव राधा ॥ ६९॥ यद्यप्येते विशेषा: स्युर्मोट्टायितविलासयोः । शोभाविशेषपोषित्वात्तथापि पृथगीरिताः ।। ७०।।

श्रीकृष्णश्चन्द्रावलीमाह-पुष्पैरिति । असाध्यामवश्यामधीतय खरस्त्रगुरोः सकाशात् पठिला स्वयमेवाधिगत्येति वा॥ ६८ ॥ श्रीकृष्णः सुबलमाह- रचितेति। पुट्युगं कीदशम्। मौकिकेन नासालंकारवर्तिना अधरारुण्योपरक्केव रचितः शिखरस्य पक्कदाडिमबीजाभस्य माणिक्यस्येव शोभारम्भो यत्र तत्। पुटयुगस्य स्च्छतान्मौक्तिकनिष्ठव्वेतिम्रो रक्तिमच्छविलम्नत्वादित्यर्थः । ननु नासा- लंकारो वामनासापुटाग्रस्थ एव भवेत् कथं पुटयुगं तथाभूतमभूदित्यत आह- श्वसितपवनो निश्वासानिल एव दोला प्रेङ्ा तया आन्दोलनशीलेन। तेनाग्र वर्तिनो मौक्तिकस्यान्दोलनात् पुटद्ूयस्यापि तच्छविलग्नत्वसंभवः ॥ ६९ ॥, प्रृथ- मित्युद्धाखरशब्देनोच्यन्त इत्यर्थः । आदिशब्दगृहीतविलुठिताद्युदाहरणानि- 'नवानुरागेण तवावशाङ्गी वनस्रगामोदमवाप्य मत्ता। व्रजाङ्गने सा कठिने छठन्ती गात्रं सुगात्री व्रणयांचकार ।।' इत्यादीनि भक्तिरसामृतादेवावगन्तव्यादि

अंधीतेत्यत्र प्रयुज्येति पाठान्तरम् ॥ ६८ ॥ रचितेति। श्रीकृष्णस्य भावना। आरम्भशब्दोऽत्र परिपाटीतात्पर्यकः । युगशब्दोऽत्र मौक्तिकस्य तत्तत्पुटमध्य- २१ उज्व०

Page 345

श२२ काव्यमाला।

अथ वाचिका :- आलापश्च विलापश्च संलापश्च प्रलापक: । अनुलापोऽपलापश्र संदेशश्वातिदेशक: ।।७१।। अपदेशोपदेशौ च निर्देशो व्यपदेशकः। कीर्तिता वचनारम्भा द्वादशामी मनीपिभि:॥७२॥

तत्रालाप :- चाटुप्रियोक्तिरालाप: यथा श्रीदशमे- का रूयङ्ग ते कलपदामृतवेणुगीत- संमोहितार्यचरितान्न चले त्रिलोक्याम् । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद्गोद्विजद्रुममृगा: पुलकान्यबिभ्रन्॥ ७३॥

I ७ ॥ ७१॥ ७२॥ व्रजदेव्यः श्रीकृष्णमाहुः-का स्त्रीति। वेणुगी तेति। गुणानां मोहनलम्। त्रिलोक्यामिति। दूरवर्तिनीषु स्त्रीषु निरीक्ष्य। रूपमिति। निकटवर्तिनीषु गुणस्य रूपस्य च। ननु केवलं मन्निष्ठयोर्गुणरूपयो- रेव मोहनलम्, स्रीनिष्ठस्य कामस्यापि तत्र साहाय्यदानादि चेत्तत्ाहु :- गोद्विजेति। गावः पक्षिणो मृगाश्च दुमाश्च मुह्यन्तीति तेषां कुतः काम इति। कृपया अस्मानङ्कीकुर्विति भावः । नतु नायिकानां संभोगप्रार्थनाभयी चाटप्रयोक्ती रसाभासस्तस्मादरसिका युष्मानज्गीकरोमीति चेत्तत्र सरखत्येव समाद्रधाति- गीतसंमोहितेति । लया मुरलीगीतेनोन्माद्य मोहितानामासां खभावविप- र्यय: कृतः । तेन मधुपानेनोन्मादितानां वधूनां निर्लजता संभोगप्रार्थनाद्या न दोषा: प्रत्युत रसावहलाङ्गुणा एव यथा तथवासामपीति भावः ॥ ७३ ॥ स्थलं मर्यादायां कृतं छिद्रमवलम्ब्य बोधयति ॥६९॥७०॥७१॥७२॥

Page 346

उज्जवलनीलमणिः ।

यथा वा विदग्धमाधवे- कठोरा भव मृद्दी वा प्राणास्त्वमसि राधिके। अस्ति नान्या चकोरस्य चन्द्रलेखां विना गतिः॥७४॥ अथ विलाप :-

यथा श्रीदशमे- विलापो दुःखजं वचः ॥७५॥

परं सौख्यं हि नैराश्यं सैरिण्यप्याह पिङ़ला। तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया । ७६ ॥ संलाप :- उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीत्यते। यथा पद्यावल्याम्- उत्तिष्ठारात्तरौ मे तरुणि मम तरो: शक्तिरारोहणे का साक्षादाखन्यामि मुग्धे तरणिमिह रवेराख्यया का रतिमें। वार्तेयं नौप्रसङ्गे कथमपि भविता नावयोः संगमार्था वार्तापीतिस्मितास्यं जितगिरमजितं राघयाराधयामि ।।७७॥

नायकस्य तु चाटुप्रियोक्तिर्नायिकायां खत एव सुरसेति वक्तुमाह-यथा वेति। चन्द्रलेखामिति द्वितीया। चन्द्रमपि विना किं पुनः पूर्णचन्द्रमिति भावः ॥ ७४ ॥। ७५ ।। उद्धवयाने गोप्य आहुः-परमिति। श्रीकृष्णे आशा तु दुरतिक्मेति पिङ्गलायाः श्रीकृष्णविषयिण्याशा नासीदिति। तस्या अस्माकमिव न दुःखमिति भावः ॥। ७६॥ मानसगङ्गायां नौकाविनोदी श्रीकृष्णः श्रीराधामाह- उत्तिष्ठेति। मम तरौ नौकायामुत्तिष्ठ आरोहणं कुरु। ततः श्रीराधा वक्रोक्तिप्रतिभया तरावित्यस्यार्थान्तरं दर्शयन्ती तं प्रत्याह-तरोर्वृक्षस्यारोहणे मम का शक्तिः । श्रीकृष्ण आह-मुग्धे मद्वचनानभिज्ञे, अहं तराणें नौकाभाख्यामि लं तरुं कथं प्रत्येषीति भावः । श्रीराधाह-रवेराख्येति। तरणिशब्देन रविं प्रत्येमीति भावः । श्रीकृष्ण आह-इयं नौप्रसङ्गे वार्ता अन्र नौशब्दस्यानेकार्थताभावात् कथमर्थान्तरं कल्पयिष्यसीति। श्रीराधाह-कथमपीति। नौप्रसन्ने आवोः प्रसक्रे वार्ता इति अविभ्रन् अबिभरुः ॥। ७३ ॥ ७४ ॥ ७५॥ ७६॥ तरावुत्तिष्ठ वरुमधिकृत्यो-

Page 347

३२४ काव्यमाला।

प्रलाप :- व्यर्थालापः प्रलापः स्यात् यथा- करोति नादं मुरली रली रली त्रजाङ्गनाहृन्मथनं थनं थनम्। ततो विदूना भजते जते जते हरे भवन्तं ललिता लिता लिता॥७८॥ अनुलाप :- अनुलापो मुहुर्वचः ॥ ७९॥ यथा- कृष्णः कृष्णो नहि नहि तापिच्छोऽयं वेणुर्वेणुर्नहि नहि भृङ्गोद्धोषः। गुञ्जा गुञ्जा नहि नहि बन्धूकाली नेत्रे नेत्रे नहि नहि पद्मद्वन्द्वम्।। ८० ।। अपलाप :- अपलापस्तु पूर्वोक्तस्यान्यथा योजनं भवेत्।

कि तं ब्रूष इति भावः । इति तदनन्तरं स्मितास्यं प्रत्युत्तरदानाशक्तेः । स्मितमेव खपराभवगोपनार्थ कुर्वन्तमित्यर्थः ॥ ७७ ॥ मधुपानेनोन्मत्ता श्रीराधा श्रीकृष्ण- माह-करोतीति। अत्र रली रली थनं थनं जते जते लिता लितेति शब्दा व्यर्थाः ॥ ७८ ॥। ७९॥ बन्धूकस्थलकमलाभ्यां मिलितं कमपि तमालपोतक- मालोक्य श्रीराधा ललितां दर्शयन्ती सहर्षौत्सुक्यावेगमाह-कृष्णः कृष्ण इति। पश्चात् खयमेव विचार्य निश्चिनोति-नहि नहि किंतु तापिच्छस्तमालो- डयम्। एवं पादत्रयेऽपि निश्चयान्तसंदेहोऽयम्। यद्ा प्रथमत एव निश्चि- नोति-कृष्णः कृष्ण इति। अतो हि नहि नहि तापिच्छ इति। एवं सर्वत्र । ८० ॥ पूर्वोक्तस्य प्रथमं खेनैवोक्तस्य वाक्यस्य पुनः खेनैवान्यथा योजन- भन्यार्थकरणमिति संलापादसौ भिद्यते॥। कलहान्तरिता श्रीराधा सौत्सुक्यं रहसि ध्वस्थिर्ति कुर्वित्यर्थः ॥ ७७॥ ७८ ॥ ७९ ॥ तापिच्छसंगतस्थलपद्मं पुष्पित- बन्धूकं च हष्ट्रा भ्रान्त्या प्रलपन्तीं कांचित् प्रति काचिदाह-नेत्रे नेत्रे इति

Page 348

उज्ज्वलनीलमणिः । ३२५

यथा- फुल्लोज्ज्वलवनमालं कामयते का न माधवं प्रमदा। हरये स्पृहयसि राधे नहि नहि वैरिणि वसन्ताय ।। ८१ ।। संदेश :- संदेशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत् ॥ ८२ । यथा- व्याहर मथुरानाथे मम संदेशप्रहेलिकां पान्थ। विकला कृता कुहूभिर्लभते चन्द्रावली क लयम् । ८३।।

विशाखामाह-फुल्लेति । तदैवाकस्मादागत्य ललिता सोपहासमाह-हरय इत्यादि। पुनः सभयप्रतिभं श्रीराधा तां प्रत्याह-नहि नहीति। हे वैरिणि, इदमपि प्रवादं दातुं लं सभर्थासि इति भावः । अहं तु वसन्ताय स्प्रृह- यामि। फुल्ला उज्ज्वला वनानां माला श्रेणी यतस्तस्मै माधवायेति। माधवशन्देन भया वसन्त एवाभिप्रेत इति भावः ॥ ८१॥ प्रोषितस्य प्रवासगतस्य कान्तस्य स्थानें॥। ८२ ॥ पद्मा श्रीकृष्णं संदिशति-व्याहर मथुरानाथ इति। श्रीनन्दगोकुलं क्विश्यतु नश्यतु वा तत्र तस्य न कापि क्षतिरिति भावः । किंतु स आत्मानमतिसुवुद्धिमन्तं मन्यत इत्यतो मे प्रहेलिकां वदतिति भावः । कुह्ूभिर- मावास्याभि: कोकिलध्वनिभिश्च विकला कलाहीना वैकल्ययुक्ता च कृता चन्द्रा- चली चन्द्रश्रेणी तन्नान्ी गोपी च कुत्र लयं लभत इति। ततश्च तदुत्तररूपं पद्यं श्रीकृष्णेन तस्यै प्रेषितम्। तद्यथा-'चन्द्रावली चेद्विकलीकृता स्यात् कुहूभिरा- मोति हरौ लयं सा । हरिर्विवस्वानघमर्दनश्च लयः क्षयः स्यादुपगूहनं च ॥I' इति। तेन प्रहेलिकाप्रेषणमिषेण ससख्या दशां ज्ञापयन्तीनां किमुपालभसे अहं तु तन्र शीघ्रं गमिष्यन्नथ च नित्यमेव तवत्सख्या सह रमे रमयामि च सापि च स्फूर्ति स्वभ्रं वा मन्यत इति सैव चन्द्रावली रहसि तत्त्वतः प्रष्व्येति ध्वनिः । ८० ॥ ८१ । ८२ । व्याहरेति। चन्द्रावलीसख्या उक्तिः। कुडूः कोकि- लघ्वनिरमावास्या च । चन्द्रावली तन्नात्री चन्द्रश्रेणी च। विकला वैकल्ययुक्त कलाहीना च । विकला कृता चेतू तदा क्व लयं लभत इति प्रश्नः। कृष्णार्ये

Page 349

३२६ काव्यमाला।

अतिदेश :- सोऽतिदेशस्तदुक्तानि मद्ुक्तानीति यद्वच:। यथा- वृथा कृथास्त्वं विचिकित्सितानि मा गोकुलाधीश्वरनन्दनात्र। गान्धर्विकाया गिरमन्तरस्थां वीणेव गीतिं ललिता व्यनक्ति।।८४।। अथापदेश :- अन्यार्थकथनं यत्तु सोऽपदेश इतीरितः ॥ ८५॥ यथा- धत्ते विक्षतमुज्ज्वलं परथुफलद्वन्द्वं नवा दाडिमी भृङ्गेन त्रणितं मधूनि पिबता ताम्रं च पुष्पद्वयम्।

n८ ३ ॥ मानिनीं श्रीराधां प्रणत्यादिभि: प्रसादयन्तं श्रीकृष्णं किमिह राधां प्रजमसि इतः शीघ्रमपसर तत्रैव गला तस्या एव पदयोर्मुहु: मुहुः पतेति ललि- तापरुषोत्त्याप्यागच्छन्तं श्रीराघिकामुखादुदेष्यभाणं किंचन वचनं प्रतीक्षमाणं तं प्रति वृन्दाह-वृथेति। विचिकित्सितानि श्रीराधा खमुखेन किंचिन्मधुरं वा मां वक्ष्यतीति वृथा संदेहान् मा कृथाः । 'विचिकित्सा तु संशयः' इत्यमरः । यतो राधाया अन्तरस्थां हृदयस्थां गिरं ललिता खवचनेन व्यनक्ति वादयितुश्चित्तस्थं गीतं वीणेव ॥ ८४ ॥ अन्यार्थेनान्याभिधेयेन कथनं प्रस्तुतस्य वस्तुनो यत्सूचनं सोऽपदेश इति। ईरित इतीति समाध्यर्थकं लक्षणस्यान्ते योजनीयम्। अन्यथा इतिपदस्य कर्मले ईरितमिति नपुंसकं स्यात् ॥ ८५ ॥ नान्दीमुखी पौर्णमासीं प्रत्याह-धत्त इति। विक्षतं विना पक्षिणा शुकेन क्षतं फलद्वूयं नवा नवीना पक्षे हराविति तु प्रत्युत्तरमुद्देश्यम् ॥ ८३ ॥ वृथेति। स्वयमेव रचयित्ा ललि- तेयं वदतीति निष्प्रयोजनतया प्रतीतानि विचिकित्सितानि संदेहान्। ललितेति खनाम्रा खमेवोदिष्टम् ॥ ८४ ॥ सोऽपदेशः कथमीरितस्तत्राह-इति। इत्थं तच्च के तत्राह-अन्यार्थेन अन्येन वाच्येन यत्तु कथनं सूचनं तदित्यर्थः ॥८५॥ श्यामलानान्यां कथंचित् प्रोषिते पतिंभन्ये कदाचिदेकान्तेऽभ्यजनां कुर्वन्त्यामक- स्मादतिसंकोचकारणस्यागमनं ज्ञापयन्ती सखी तच् तस्मादपलपन्ती चातुरी- विशेषेण प्राह-घत्त इति। विक्षतं पक्षिक्षतम् 1 इति सखीगिरमाकर्ण्येति

Page 350

उज्ज्वलनीकमणिः । ३२७

इत्याकर्ण्य सखीगणं गुरुजनालोके किल श्यामला चैलेन स्तनयोर्युगं व्यवदधे दन्तच्छदौ 'पाणिना ॥। ८६ ॥ उपदेश :- यत्तु शिक्षार्थवचनमुपदेशः स उच्यते। यथा छन्दोमञ्जर्याम्- मुग्घे यौवनलक्ष्मीर्विद्युद्विभ्रमलोला त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ।

श्रीनाथेन समेता स्च्छन्दं कुरु केलिम्।। ८७॥ निर्देश :- निर्देशस्तु भवेत्सोऽयमहमित्यादिभाषणम् ॥ ८८ ॥ यथा- सेयं मे भगिनी राधा ललितेयं च मे सखी। विशाखेयमहं कृष्ण तिस्त्रः पुष्पार्थमागताः ।। ८९।।

दाडिमीयं धत्ते तथा-भृङ्गेणेत्यादि। व्रणितं व्रणयुक्तीकृतमिति सखीगिरं समवधा- पयन्त्या सख्या वचनमाकर््य कदा गुरुजनस्य श्वश्वा आलोके तत्कर्तृदृष्टिक्षेपे सति व्यवद्घे आच्छादयामास । 'अन्तर्धा व्यवधा पुंसि लन्तर्धिरपवारणम्' इत्यमरः॥ ८६॥ तुङ्गविद्या मानिनीं श्रीराधां प्रत्याह-मुग्धे इति॥ ८७॥ सोऽयमिति पुंस्लेन निर्देशः सामान्यतो जन इत्यपेक्षया ज्ञेयः ॥ ८८॥ विशाखा श्रीकृष्णं पृच्छन्तमात्मनः परिचाययति-सेयमिति। ततश्र मया पुष्पकेदा- रिका एतदर्थमेव कृता यद्भवतीनां साध्वीनां देवोपासिकानां प्रत्यहं दर्शनभाग्यं भवेदित्यतो नित्यमेव पुष्पाण्यवचित्य क्षणमस्यां पुष्पशालायां विश्रम्य यथाशक्ति महयं पारितोषिकं किंचिदृदत्त्वा गच्छतेति श्रीकृष्णस्य प्रत्युक्तिर्जेया।।८९ I कदा तत्राह-गुरोर्जंनस्य दासीलक्षणस्यालोके दूरादर्शने सति ॥८६॥ ८७॥

Page 351

३२८ काव्यगाला।

व्यपदेश :- व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्यते। यथा- विलसन्नवकस्तबका काम्यवने पश्य मालती मिलति। कथमिव चुम्बसि तुम्बीमथवा भ्रमरोऽसि किं ब्रूमः ॥ ९०॥ अनुभावा भवन्त्येते रसे सर्वत्र वाचिकाः। माधुर्याधिक्यपोषित्वादिहैव परिकीर्तिताः ।।९१।। इत्यनुभावाः ।

अथ सात्त्विका :- तत्र स्तम्भ :- स हर्षाद्यथा दानकेलिकौमुद्याम् अभ्युक्ष्य निष्कं पतयालुना मुहुः स्वेदेन निष्कम्पतया व्यवस्थिता।

मालत्याः सखी श्रीकृष्णं विपक्षगोपीरतिलालसमवेक्ष्य तदग्रे मृद्गमाह-विलस- न्नवकेति। मालती जातिस्तन्नाम्री गोपी च। स्तबको गुच्छः अतिशयोक्त्या स्तनश्च ॥ काम्यवने पक्षे कामार्हे वने। कामिनस्तवावने पालने इति वा। भ्रमरो मृङ्ग: कामुकश्च, श्लेषेण भ्रमं रासीति तुम्बीचुम्बनात् पक्षद्वयेऽपि वैदग्धीलोपाटु- न्मत्तता सूचिता। एतौ निर्देशव्यपदेशौ दूतीप्रकरणोचितावपि सखीप्रेमानुभाव- प्रदर्शनार्थमत्रैवोक्ती ।। ९० । सर्वत्र रसे शान्तप्रीतादावपि ॥ ९१ ॥ इत्यनु- भाववित्ृतिः।। अथ सात्त्विकविवृतिः ॥ श्रीकृष्णो मधुमङ्गलमाह-अभ्युक्ष्येति। निष्कं षदकमभ्युक्ष्य पतयालुना पतनशीलेन सवेदेन निष्कम्पतया पञ्च आलयः सख्यो यस्याः सा । पश्चालिकाधर्म पुत्रिकासभावं तेन राधिकायाः पश्चालिका उपमेति ॥ ८८॥ ८९॥ ९० ॥ ९१॥ इत्यनुभावविवृतिः । अथ सातत्विकाः। निष्कमभ्युक्ष्य पतयालुना पतनशीलेन खेदेन। पश्च आलयो

Page 352

उज्ज्वलनीलमणिः । ३२९

पञ्चालिकाकुञ्चितलोचना कथं पञ्चालिकाधर्ममवाप राधिका ॥ १ ॥ "भयादथा- घनस्तनितचक्रेण चकितेयं घनस्तनी। बभूव हरिमालिन्वय निश्चलाङ्गी ब्रजाङ्गना।। २ ॥। दिग्धोऽयम्। आश्चर्याद्यथा- तव मधुरिमसम्पदं विलक्ष्य त्रिजगदलक्ष्यतुलां मुकुन्द राधा। कलय हृदि बलवच्चमत्कियासौ समजनि निर्निमिषा च निश्चला च।।३।। विषादाद्यथा- विलम्बमम्भोरुहलोचनस्य विलोक्य संभावितविप्रलम्भा। संकेतगेहस्य नितान्तमक्के चित्रायिता तत्र बभूव चित्रा ॥। ४ ॥

ज्ञेयम्। 'पञ्चालिका पुत्रिका स्यात्' इत्यमरः। साक्षाद्रतिभरलेन स्तम्भोऽयं स्िग्धो मुख्यः ॥ भयाद्यथा भयमत्र त्रासः ॥ श्रीराधाया मानिन्याश्चेष्टितं दूरा- दालोक्य नान्दीमुखी पौर्णमासीमाह-घनस्य मेघस्य स्तनितचक्रेण निर्धोषसमूहेन चकिता त्रस्ता। धनस्तनितमिति धनुर्ज्याकरिबृंहितादिवत्। यद्ा। घनेन निबिडे- नेति व्याख्येयम्। दिग्धोऽयमिति संचारिभावोत्थल्ात्। यद्गुक्तम्-'रतिद्वय विना- भूतैर्भावैर्मनस आक्रमात्। जने जातरतौ दिग्धास्ते चेद्रत्यनुगामिनः ॥' इति। रतिद्वयं चात्र शान्त्यादिर्मुख्या हासादिर्गौणीति ॥ २ ॥ श्रीराधां दर्शयन् मधु- मङ्गल: श्रीकृष्णं प्रत्याह-तवेति ॥। ३ ।। चित्रायाः सखी खसखीमाह- विलम्बमिति। संभावितेति। अद्याहं विप्रलब्धैवाभूवमित्यर्थः ॥ श्यामलायाः यस्या: सा। उत्तरत्र पश्चालिका प्रतिमा ॥१॥ भयाद्यथेति। अन्न भयं त्रासः ॥ २ ॥ दिग्धोऽयमिति। अत्र पूर्वग्रन्थोऽन्वेषणीयः । यथोक्तम्- रतिद्वयं विना भूतैर्भावैर्मनस आकमात्। जने जातरतौ दिग्धासते चेद्रत्यनु- गामिन: ॥।' इति। रतिद्वयं चात्र शान्त्यादिमुख्या हासादिश्व गौणीति ज्ञेयम्

Page 353

३३० काव्यमाला।

अमर्षा्धथा- माधवस्य परिवर्तितगोत्रां श्यामला निशि गिरं निशमय्य। देवयोषिदिव निर्निमिषाक्षी छायया च रहिता क्षणमासीत् ॥५॥ अथ सेद :- स हर्षाद्यथा श्रीविष्णुपुराणे- गोपीकपोलसंश्लेषमभिपत्य हरेर्भुजौ। पुलकोद्गमशस्याय खेदाम्बुघनतां गतौ ॥ ६ ॥ यथा वा- ध्रुवमुज्ज्वलचन्द्रकान्तयध्या विधिना माधवनिर्मितास्ति राधा। यदुदञ्चति तावकास्यचन्द्रे द्रवतां खेदभरच्छलाद्विभर्ति ॥७॥ भयादथा- मा भूर्विशाखे तरला विदूरतः पतिस्तवासौ निबिडा लताकुटी। मया प्रयतनेन कृता: कपोलयो: खेदोदबिन्दुर्मकरीर्विलुम्पति॥८॥

सखी श्रीरांधामाह-माधवस्येति। गोन्रं नाम हे प्रिये, पालीत्याकारां गिरम् । ४ ।। छायया कान्त्या ॥। ५॥ पराशरो मैत्रेयमाह-अभिपत्य प्राप्य पुलको- द्रमरूपं शस्यं संपादयितुं खवेदाम्बुभिर्घनतं मेघलम्, पक्षे निबिडतां गतौ ययतुः । ६ ॥। ललिता श्रीकृष्णमाह-घ्ुवमिति। चन्द्रकान्तशीलयेत्यनुक्ला यष्टयेत्य- नेन तस्याः कृशाङलं तेन च प्रथमकैशोरं व्यज्जितम् ॥ ७॥ कुजे संभुक्तां विशाखां दैवात् पतिंमन्यगोपागमनश्रवणेन बिभ्यतीं प्रसाधयन् श्रीकृष्णः प्राह- मा भूरिति॥ ८ ।। नान्दीमुखी पौर्णमासीमाह-गोत्रस्खलनेन हे प्रिये

॥ ३॥४।। गोत्रं नाम । छायया कान्त्या। पक्षे स्वव्यवधानकृताता(त)पाभा- वरूपया। 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ।' इति नानार्थवर्गात् ॥ ५ ॥ अभिप्रत्य प्राप्य। पुलकोद्गमशस्यं संपादयितुं खेदाम्बूनां घनता मेघतां प्राप्तौ। घनशब्दस्य निबिडवाचित्वं तु प्रकृतम् ।। ६ ॥ द्रवतीति द्रवस्तद्रूपतां द्रववत्तामित्यर्थः। खेदभरच्छलादिति। सेदोडयं न भवत किंतु

Page 354

उज्ज्वलनीलमणिः । ३३१

कोघाघथा- खिन्नापि गोत्रस्खलनेन पाली शालीनभावं छलतो व्यतानीत्। तथापि तस्याः पटमार्द्रयन्ती खेदाम्बुवृष्टिः क्रुधमाचचक्षे ॥।९॥ अथ रोमाश्चः-स आश्चर्याद्यथा- चुम्बन्तमालोक्य चमूरुचक्षुषां चमूरमूषां युगपन्मुरद्विषम्। व्योमाङ्गणे(ने) तत्र सुराङ्नावली रोमाश्चिता विस्तृतदृष्टिराबभौ॥ १० ॥ हर्षाद्यथा श्रीदशमे- तं काचिन्नेत्ररन्ध्ेण हृदिकृत्य निमील्य च।

यथा वा रुक्मिणीखयंवरे- रोमाणि सर्वाण्यपि बालभावात्प्रियश्रियं द्रष्टमिवोत्सुकानि। तस्यास्तदा कोरकिताङ्गयष्टेरुद्रीविकादानमिवान्वभूवन्॥१२॥।

श्यामले, इति श्रीकृष्णकर्तृकसंबोधनेन अन्तः खिन्नाप्यवहित्थया शालीनभावं. सौशील्यम् ॥ ९ ॥। श्रीकृष्णस्य रासलीलां पृच्छन्तीं गार्गी पौर्णमासी प्राह- चुम्बन्तमिति॥ १० ॥ श्रीशुकः परीक्षितमाह-तमिति। काचिद्रोपी नेत्ररन्ध्रेण हृदिकृत्येति भाग्यातिशयेन प्राप्तोऽयं पुनरप्यन्तर्घास्यतीति शङ्येति भाव:॥ ११॥ स्वयंवर इति। श्रीकृष्णं प्रति स्यं लिखितपत्रीद्वारैव स्वयंवरणं ज्ञेयम्। तद्रन्थकृतः श्रीमदीश्वरपुरीश्रीपादाः खशिष्यानाहुः-रोमाणीति। तस्याः श्रीरुक्मिण्या बालभावात् बाललात्। अत्र केशवाचकबालशब्दे खसजाती- यानि रोमाणि लक्ष्यन्ते ततश्च बालभावात् बालकलादिव गाम्भीर्यातिशयोक्ते: प्रियश्रियं सुनन्दाख्यब्राह्मणमुखाच्छ्रुतस्यागतस्य प्रियस्य श्रीकृष्णस्य श्रियं शोभां द्रष्टमुत्सुकानि। उद्गता ग्रीविका अनुकम्पार्थकप्रत्ययेन सुकुमारा ग्रीवेत्यर्थः । तस्या तद्वह्व इत्यर्थः ॥ ७ ॥ ८ । शालीनभावं मृदुचेष्टम् ॥९॥ योगीव संयोगीव यथा स्यात्तथासते स्म॥ १० ॥११ ॥ बालभावादिति। बालकेश- खत्सजातीयलादत्र रोमखपि बाललमारोप्यते। ततश्रार्भकसमानपर्यायतया

Page 355

३३२ काव्यमाला।

भयादथा- परिमलचटुले द्विरेफवृन्दे मुखमभिधावति कम्पिताङ्गयष्टिः । विपुलपुलकपालिरद्य पाली हरिमधरीकृतह्वीधुरालिलिङ्ग ।।१३॥ अथ स्वरभङ्ग :- स विषादाद्यथा श्रीगीतगोविन्दे- विपुलपुलकपालि: स्फीतसीत्कारमन्त- र्जनितजडिमकाकुव्याकुलं व्याहरन्ती। तव कितव विधायामन्दकन्दर्पचिन्तां रसजलनिधिममा ध्यानलसा मृगाक्षी।। १४ ।। विसयादथा- गुरुसंत्रमस्तिमितकण्ठया मया करसंज्ञयापि बहुधावबोधिता। न पुरस्त्वमत्र हरिवेणुवादने पुलकान् विलोकितवती लतास्पि। १५ ॥

दानमर्पणमिव रोमाणि श्रीकृष्णं द्रष्टं ग्रीवामुच्चीचकुरित्यर्थः ॥ १२ ॥ पाल्याः सखी सवसखीराह-परिमलेति॥ १३॥ वासकसज्जायाः श्रीराधायाः सखी श्रीकृष्णं प्रति तदप्राप्तिजनितं तस्या अनुतापं ज्ञापयन्ती सोपालम्भमाह-विपु- लेति। हे कितव इति। तव धूर्तताद्य फलन्ती लां स्त्रीवधभागिनं करिष्य- तीति भावः । जडिम्रा यः काकुस्तेन व्याकुलं सगद्गदमित्यर्थः । कुलधर्मलज्जादिकं यदत्यजं तत्फलमिदमेव यदत्र जाज्वलीमीति व्याहरन्ती। रसजलनिधौ विषसमुद्रे। 'शङ्गारादौ विषे वीर्ये गुणे रोगे द्रवे रसः ।' इत्यमरः ॥ १४ ॥ श्रीराधा ललिता- माह-गुरुसंभ्रमोऽभिसारार्थमावेगसेन स्तिमितः स्तब्धः कण्ठो यस्यास्तया। अतः स्पष्ट वक्तुमसामर्थ्यात् करसंज्ञया हस्तचालनेनापि । 'संज्ञा स्याच्चेतना तत्खभावादिव। उदगता श्रीवा सैव उद्गीविका तस्या दानं तन्रार्पणं तदेवान्वभूवन् सवीचकुरित्यर्थः ॥ १२ ॥ तव ध्यानलग्ना सती अमन्दकन्दर्पचिन्तां विधाय रसजलनिधिमन्नासीदिति योज्यम्। तन्निमन्नले लक्षणम्-विपुलपुलकेत्यादि

Page 356

उज्ज्वलनीलमणिः । ३३३

अमर्षा्यथा- प्रेयस्यः परमाद्ुताः कति न मे दीव्यन्ति गोष्ठान्तरे तासां नोज्ज्वलनर्मभङ्गिभिरपि प्राप्तोऽस्मि तुष्टिं तथा। द्वित्रैरद्य मुहुस्तरक्वदधरत्रस्तार्घवर्णैर्यथा राधायाः सखि रोषगढ्गदपदैराक्षेपवाग्बिन्दुभिः ॥१६॥ हर्षाद्यथा रुक्मिणीखवयंवरे- पश्येम तं भूय इति ब्रुवाणां सखीं वचोभि: किल सा ततर्ज। न प्रीतिकर्णेजपतां गतानि विदांबभूव स्रवैकृतानि॥ १७॥

नाम हस्तावैश्चार्थसूचना।' इत्यमरः ॥ १५ ॥ राधया सह संकीर्णसंभोगानन्तरं कदाचिद्रहसि श्रीकृष्णो विशाखां प्रति सरसोक्करमाह-प्रयस्य इति। आक्षेप- वाचां भो: करालिकानप्त्रीकीडाकुरङ्गकपटकुटिलनटीसूत्रधार, मन्नेत्रवीथीं मा दूषय खरितमपसरेत्यादिलक्षणानां बिन्दुभि: कणैरित्यनेन वाचामभृतनदीलमारो- पितम् ) कीटशैः रोषेण गददयुतानि अस्पशनि पदानि सुप्िङन्तानि येषु तैः । तत्रापि तरजन् तरङ्ग इवाचरन्। कम्पमान इत्यर्थः । एवंभूतं योऽधरस्तेन ग्रस्ता म्लिष्टा अर्धार्धा वर्णा येषु तैः। अत्र रोष इत्यस्य व्यभिचारिणः खशब्दवाच्यलं नाम दोषो नाशङ्कनीयः । गद्रदेत्यादीनां तदनुभावानां हेतुलेन तस्य वाच्यतयैव हेतलंकारस्य स्वभावोक्तेश्रोपस्थापकलवैन चमत्काराधिक्यपोषणात्। न तु जात- गद्गदपदैरिति पाठे तस्य गम्यमानलेन तथा चमत्कार इति ध्येयम्। न च व्यभिचारिरसस्थायिभावानां शब्दवाच्यतेतिलक्षणस्य सार्वत्रिकलमालंकारिकैर- भिमतम्। यदुक्तं काव्यप्रकाश एव-'न दोषः खपदेनोक्तावपि संचारिणः कचित्।' इति ॥ १६ ॥ तद्रन्थकृत एवाहुः-पशयेमेति। हे सखि रुक्मिणि, किं व्यग्रासि एहि, केनचिन्मिषेण तं भूय: पश्येम इति 'अस्मदो द्वयोक्ष' इति बहुलम्। वचोमिरिति। हे लम्पटे सखि, किं निजधर्म परमुण्डे पातयसि, ॥१३॥१४॥१५ ॥ रोषगद्गदप दैरिति। अन्र 'जातगद्गदपदैः' इति वा पाठः। पदमत्र व्यवसायः । 'पदं व्यवसित' इत्यादि नानार्थवर्गात् ॥१६ ॥ तं भूय: पश्येमेत्यस्य मा व्यग्रा भूदित्याक्षेपलभ्यम्। भूय इति तस्यैव कवे: प्रबन्धानुसारेण पूर्वमपि दर्शनं जातमिति ज्ञेयम्। कर्णेजपः सूचकः ॥१७॥

Page 357

३३४ काव्यमाला।

भीतेर्यथा- प्रथमसंगमनर्मणि साध्वसस्खलितयापि गिरा सखि राघिका। नवसुधाह्ृदिनीं मदिरेक्षणा श्रुतितटे मम कांचिदवीवहत् ।।१८।। अथ वेपथु :- स त्रासेन यथा- केशवो युवतिवेशभागयं बालिशः किल पतिस्तवाग्रतः । राधिके तदपि मूर्तिरद्य ते किं प्रवातकदलीतुलां दधे ॥ १९ ॥ :हर्षेण यथा- बल्लवराजकुमारे मिलिते पुरतः किमात्तकम्पासि। तव पेशलास्मि पार्श्चे ललितेयं परिहरातङ्कम् ।। २०॥

वं खयमेव स्प्ष्ट पश्येत्यवहित्थया श्रीकृष्णदर्शने प्रीत्यभावं व्यअ्जयन्ती सा रुक्भिणी प्रीतेः कर्णेजपतां सूचकलं गतानि प्राप्तानि सवरवैकृतानि कण्ठस्वर- मेदान् न विदांबभूव नानुसंधत्ते स्म। सा वचसा खप्रेमाणं गोपयामास। वचस्तु तस्याः प्रेमाणं स्पष्टयामास इति सा परमामर्षेत्यर्थः ॥ 'कर्णेजपः सूचकः स्यात्' इत्यमरः। 'उषविद-' इत्यादिना लिट्याम् ॥ १७ ॥ श्रीकृष्णो विशाखामाह- प्रथमसंगमे संभोगस्य प्रथमदिने सखि पद्मिनि, मधुपमिममतितृष्णार्त दयख खमकरन्ददानादनुमत्येति मया कृते सुरतप्रार्थनसमये नर्मणि यत् साध्वसं भयं तेन स्खलितया गिरा नहि नहीति वाचा। मदिरेक्षणा खज्जनाक्षीति कटाक्षेण दत्तानुमतिः सा अवीवहत् वाहयामास ॥ १८ ॥ कदाचिज्जटिलया निरुध्यमान- ववादिवसेऽभिसर्तुमक्षमायाः श्रीराधायाः पार्श्चे श्री(स्त्री)वेषधारिणि आगत्योपविष्ट- वति अकस्मादभिमन्यौ च तदैव गृहं किंचित्कार्यार्थ प्रविष्टवति भीतां श्रीराधां विशाखा नीचैराह-केशव इति। बालिशो निर्बुद्धिर्न किंचिदप्यूहितुं शक्त इत्यर्थः। प्रकृष्टो वातो यस्यां कदल्यां तत्तुलाम् ॥ १९ ॥ पुष्पभवचिन्वती श्रीराधां ललिताह-बल्लवेति। पेशला चतुरा ॥ २० ॥ श्रीकृष्णो मानिनीं ।। १८।। बालिशो मूर्खः । नं किंचिदूहितुं शक्त इत्यर्थः । प्रकृष्टो वातो यस्यां कदल्यां

Page 358

उज्ज्वलनीलमणिः । ३३५

अमर्षेण यथा- यदि कुपितासि न पद्मे किं तनुरुत्कम्पते प्रसभम्। विचलति कुतो निवाते दीपशिखा निर्भरखििग्धा॥। २१॥ अथ वैवर्ण्यम्-तद्विषादाद्यथा- मधुरिमभरैर्मुक्तस्यालं कलङ्वितकुङ्कमै- र्द्विरदरदनश्येनीमाभां चिराय वितन्वतः। विधुरपि तुलामाप्तस्तस्या मुखस्य बकीरिपो वद परमतः सारफ्काक्ष्याः किमस्ति विडम्बनम् ॥ २२॥ रोषाद्यथा- विलसति किल वृन्दारण्यलीलाविहारे कथय कथमकाण्डे ताम्रवक्रासि वृत्ता।

श्रीपद्मां प्रत्याह-यदीति। निवाते निर्वातप्रदेशे इत्यर्थः। नीत्युपसर्गः कदाचि- ननिवृत्त्यर्थे वर्तते। 'यथा दीपो निवातस्थो नेङ्गते' इत्यादौ 'निवातदीपस्तिमितेन चक्षुषा' इति रघुवंशकाव्ये च। 'निवाते ये गुणाः प्रोक्ास्ते गुणाः कर्णबन्धने।' इंति वैद्यके च ॥ २१ ॥ विप्रलब्धायाः श्रीराधायाः सखी श्रीकृष्णमाह-मघु- रिमेति। द्विरदो हस्ती श्येनीं श्वेतां तस्या मुखस्य साहजिकमाधुर्येऽपसृते सति चैवर्ण्येन पाण्डिभन्युद्धूते सति। विधुरपीत्यादि। अन्यथा विद्युद्दर्णो विधुस्त्रि- लोक्यां कवासे येन तदुपमा स्यादिति वदेत्यादिना विडम्बनं तु तस्यास्तया उत्पादितमेव, संप्रत्यग्रे दशमी दशैवावशिष्यते इत्याह-बकीरिपो पूतनाघातिन्, श्त्रीवधेऽपि तव भयं नास्तीति भावः। प्रतीपनामायमलंकारः। तल्क्षणम्- 'आक्षेपमु(उ) पमानस्य प्रतीपं भण्यते बुघैः' इति ॥ २२ ॥ खप्रतिबिम्बं श्रीकृष्ण- तततुलाम् ॥ १९॥। पेशला चतुरा ॥ २०॥। निवाते वातप्रवेशरहिते देशे। निवातकवचशब्दवत् प्रयोग: दृश्यते च 'यथा दीपो निवातस्थो नेद्गते' इत्यादौ ॥ २१ ॥ इ्येनी श्वेतवर्णा । तस्याः सारङ्वाक्ष्या इति तच्छब्देन वैशि- श्यव्यक्तिः । अत एव विधुतुलिततवं. घिक्कृतं स्ात् ॥ २२॥ वृन्दारण्ये या

Page 359

३३६ कांव्यमाला.।

प्रसरदुदयरागग्रस्तपूर्णेन्दुबिम्बा किमिव सखि निशीथे शारदी जायते दोः॥२२॥ भीतेर्यथा- क्रीडन्त्यास्तटभुवि माधवेन सार्ध तत्रारात्पतिमवलोक्य विक्कवायाः। राधायास्तनुमनु कालिमा तथासी- त्ेनेयं किमपि यथा न पर्यचायि ॥ २४॥ अथाश्रु-तद्धर्षाद्यथा गीतगोविन्दे- अतिकरम्यापाङ्कं श्रवणपथपर्यन्तगमन- प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।

वक्षसि विलोक्य कान्तान्तरभ्रमेण मानवर्ती श्रीराधां श्रीकृष्ण आह-विलस- तीति। वृन्दारण्यलीलासु यो विहार: संप्रयोगलक्षणस्तत्र अत एवाकाण्डे अन- वसरे ताम्रवक्रा। कोपवतीत्यर्थः । निशीथे अर्धरात्रे यौः किमिव कथं प्रसरदिः त्यादिलक्षणा जायते। नैव जायत इत्यर्थः। पूर्णेत्यर्धचन्द्रव्यावृत्तिः, शारदीति विद्यु- दाभादिदोषव्यावृत्तिः ॥ २३ ॥ वृन्दा पौर्णमासीं प्रत्याह-कीडन्त्या इति। तनुमनु तनावित्यर्थः । किमपि किंचिदपि न पर्यचायि न परिचिता। श्रीराधायाः किंचिदपि लक्षणं तेन पतिंमन्येन न दृष्टमित्यर्थः ॥ २४ ॥ श्रीजयदेवकविचूडा- मणि: प्राह-अतीति। तदानीं श्रीराधाया हर्षाश्रुनिकरः अक्ष्णोः प्रखेदाम्भ :- प्रसर इव पपात। अक्ष्णोः प्रस्वेदकारणं श्रममुत्प्रेक्षते। अपाङ्गमतिकम्योल्लङ्मय श्रवणपथपर्यन्तं यद्रमनं तेन यः प्रयासः श्रमस्तेनैव। अक्ष्णोः कथंभूतयोः । लीला सुखपूर्विका चेष्टा तया यो विहार इतस्ततो भ्रमणं तस्मिन्। यौः किमिव कथं निशीथेऽर्धरात्रे प्रसरदित्यादिलक्षणा जायते तत्र तत्रागम्याभावात्। शार- दीति। तत्र विद्युदादिदोषाभावेन नान्यथापि संभवतीति भावः ॥ २३॥ तेन पत्या । किमपीति किंचिदपीत्यर्थः । दरचे (?) ति वा पाठः ॥२४॥ तदानी यः प्रियतमसमालोकसमयस्तदवसरस्तस्मिन्। राधाया अक्ष्णोर्हषाश्रुनिकरः पपात। १. 'कातरायाः' इति ख. पुस्तके पाठः.

Page 360

उज्ज्वलनीलमणिः ।

तदानीं राधायाः प्रियतमसमालोकसमये पपात खेदाम्भःप्रसर इव हर्षाश्रुनिकरः ॥ २५॥ फुल्लगण्डं सरोमाञ्चं बाष्पमानन्दजं मतम्। रोषाधथा- प्रातर्मुरद्विषमुरःस्फुरदन्यनारी- पत्राक्कुरप्रकरलक्षणमीक्षमाणा । अप्रोच्य किंचिदपि कुश्चितदृष्टिरेषा रोषाश्रुबिन्दुभरमिन्दुमुखी मुमोच ॥ २६ ॥ यथा वा बिल्वमङ्गले- राधेऽपराधेन विनैव कस्मादस्मासु वाच: परुषा रुषा ते। अहो कथं ते कुचयोः प्रथन्ते हारानुकारास्तरलाश्रुधाराः।।२७।। शिर:कम्पि सनिश्वासं स्फुरदोष्ठकपोलकम्। कटाक्षभ्रुकुटीवकं स्त्रीणामीर्ष्योत्थरोदनम् ।। २८।। विषादाद्यथा-पद्यावल्याम्- मलिनं नयनाम्बुधारया मुखचन्द्रं करभोरु मा कुरु। करुणावरुणालयो हरिस्त्वयि भूयः करुणां विधास्यति ॥२९॥

तरलतरा तारा यत्र तद्यथा स्यादेवं पतितयोः । तस्याधिकरणं श्रीकृष्णमुखचन्द्र एवाक्ेपलब्धं प्रविश पिण्डीमितिवत् ॥ २५॥ खण्डिताया इन्दुमुख्याः सखी खसंखीमाहू-प्रातरिति ॥२६॥। श्रीराधायामुदाहर्तुमाह-यथा वेति। श्रीकृष्णः खण्डितां श्रीराधामाह-राघे इति ॥ २७॥२८॥ प्रोषितभर्तृकां श्रीराधां विशाखा प्राह-मलिनमिति ॥२९ ॥ श्रीराधायाः श्रीकृष्णदर्श-

क इव। खेदाम्भ:प्रसर इव । सेदप्रसरसंभावनायाः को हेतुः । तत्राह- अक्षोरितिवर्जेन पूर्वार्घेन। पतितयोर्गतयोः । 'भत्ल गतौ' ॥२५.॥ १२ उज्व०

Page 361

३३८ काव्यमाला।

अथ प्रलय :- स सुखेन यथा- जङ्गे स्थावरतां गते परिहृतस्पन्दा द्वया नेत्रयोः कण्ठः कुण्ठितनिखनो विघटितश्वासा च नासापुटी। राधायाः परमप्रमोदसुधया धौतं पुरो माघवे साक्षात्कारमिते मनोऽपि मुनिवन्मन्ये समाधिं दघे ॥३०॥ दुःखेन यथा-ललितमाधवे- दंश: कंसनृपस्य वक्षसि रुषा कृष्णोरगेणार्प्यतां दूरे गोष्ठतडागजीवनमितो येनापजहे हरिः। हा धिक् कः शरणं भवेन्मृदि लुठद्रात्रीयमन्तःक्मा- दाभीरीशफरीततिः शिथिलितश्वासोर्मिरामीलति ॥ ३१॥ अथैषु धूमायिता :- सुराङ्गने सखि मधुरापुराजने(णे) पुरः पुरातनपुरुषस्य वीक्षया।

नानन्दं श्रीललिता विशाखया सहासवादयति-जङ्गे इति। साक्षात्कारमिते प्राप्ते। मन्ये इति सर्वत्र योज्यम् ॥ ३० ॥ पौर्णमासी कंसमभिशपति-दंश इति। जीवनं जीवनरूपं, पक्षे जलम्। आमीलति दशमीं दशां प्राप्नोति ॥ ३१ ॥ 'प्रायो धूमायिता एव रूक्षास्तिष्ठन्ति सात्त्विकाः ।' इति पूर्वग्रन्थोके- र्ब्रजपुरदेवीघु धूमायिता न संभवन्तीति देवीषु तानुदाहरति-सुराङ्गने इति। धूमायितलक्षणं च पूर्वग्रन्थ एव । यथा "अद्वितीया अमी भावा अथवा सद्वितीयकाः । ईषद्यक्ता अपहोतुं शक्या धूमायिता मताः ॥" इति। काचित् सिद्धवनिता कामपि विमानचारिणीं देवीं सनर्माह-सुराङ़गने इति। बाष्पभत्र नायिकायामेव ज्ञेयम् ॥ २६॥२७॥ २८ ॥२९ ॥ मुनिवत् मुनि- रिवेति सर्वत्र योज्यम्॥ ३० ॥ दंश इति । पौर्णमास्या वचनम् । अत्र गोष्ठस्य तडागलेन रूपकम्। जीवनशब्दस्य च श्विष्टतया प्रयोगो लभ्यते।

Page 362

उज््वलनीलमणिः । ३३९

तवाक्षिणी जलकणसाक्षिणी कुतः कथं पुनः पुलकि च गण्डमण्डलम् ॥ ३२॥ ज्वलिता :- सखि स्तब्धीभावं भजति नितरामूरुयुगलं तनूजाली हर्ष युगमपि तवाक्ष्णोः सरसताम् ।

लं सुरंस्याङ्गना अथ च पुरातनपुरुषस्य श्रीकृष्णस्य वीक्षया तव भाव: 1 ननु किं मे भावलक्षणं पश्यसि तत्राह-तवाक्षिणी जलकणानामश्रूणां साक्षिणी। यद्यपि लमश्रूणि निरुणत्सि तदपि तवाक्षिणी एव औच्छून्यचाकचिक्कण्याभ्यां खान्त:स्थितानश्रुकणान् ज्ञापयत एवेत्यर्थः । तेन तवावहित्था एव कामस्पृहां सूचयन्ती लां हास्यास्पदीकरोति न लश्रुपुलकादिकमिति भाव: ॥३२ ॥ ज्वलिता इति । तल्लक्षणं यथा-'द्वौ वा त्रयो वा युगपद्यान्तः सुप्रकटां

तन्न गोष्ठपक्षे जीवनं जीवद्दशा। तडागपक्षे जलम्। तत्र च सति गोष्ठशब्देन तत्स्थाः प्राणिन उच्चन्ते। श्रीकृष्णरूपजीवने हते सति सर्वेषामेव जीवद्दशायामप- गतायामामीरीशफरीणां शिथिलितश्वासोर्मिमान्नतं न स्या। अपि तु नष्टश्वासो- र्मिलमेव स्यात्। सति च पूर्वले गोष्ठस्थप्राणिमात्रेभ्य आसां वैशिष्ट्यं न स्यात्। तस्माद्वोष्शब्देन तद्वासस्थानमेव वाच्यम्। तस्य च वाच्यले जीवनशब्देन याथातथ्येन तदीया स्थितिरुच्यते। तदपहारेण च वैतथ्येन स्थितिरिति। स्थिते(ती) ते च श्रीकृष्णस्थितिरूपे एव ज्ञापिते। ततः श्रीकृष्णापहारे तु जाते तन्नस्था तेऽन्ये प्राणिनस्तषां कंचित्कालमपि स्थिवि: स्यात्। आभीराणां तुन स्यादिति तासामतिकोमलतासूचकेन शफरीरूपकेण बोधितम्॥ ३१॥ धूमा- थिता इति। तह्क्षणं पूर्वग्रन्थे-'अद्वितीया अमी भावा अथवा सद्वितीयकाः। ईषद्क्ता अपह्रोतुं शक्या धूमायिता मताः ॥' इति ॥ पुराणपुरुषस्य वीक्षय तावत् सर्वेषामस्त्रादिकं भवत्येव। किंतु तत्र भावमेदाः सन्ति भवत्यास्तु को भाव- सत्र हेतुरिति सुराङन इत्यादिकस्यायमभिप्रायः । श्लेषेण तु पुराणपुरुषस्येत्यत्र नर्भव्यज्ञना वृद्धवाचिलात्। जलकण: साक्षी विद्यमानो ययोखादृशे। साक्षाइृष्टरि संज्ञायामिति साक्षिपदसाघनसूत्रम्। साक्षी च विद्यमानो भवतीति तत्रैव पर्यवसी- यते ॥ ३२ ॥ ज्वलिता इति । तहक्षणं चोक्तम्-'दौ वा त्रयो वा युगप-

Page 363

३४० कांव्यमाला।

तदुन्नीवं धन्ये रहसि करपङ्केरुहतलं प्रपन्नस्ते दिष्या नलिनमुखि नीलो निघिरभूत् ॥ ३३ ॥ अथ दीप्ता :- यथा विदग्धमाधवे- क्षोणिं पङ्विलयन्ति पङ्कजरुचोरक्ष्णोः पयोबिन्दवः श्वासास्ताण्डवयन्ति पाण्डुवदने दूरादुरोजांशुकम्। मूर्ति दन्तुरयन्ति संततममी रोमाश्चपुआ्जाश्च ते मन्ये माधवमाधुरीश्रवणयोरभ्याशमभ्याययौ ॥ ३४॥ उद्दीप्ा :- स्त्नाता नेत्रजनिर्झरेण दधती खेदाम्बुमुक्तावलिं रोमाञ्चोत्करक्चुकेन निचिता श्रीखण्डपाण्डुद्युतिः । खज्जन्मझ्जुलभारती सवयसा युक्ता स्फुरन्तीत्यसौ सज्जा ते नवसंगमाय ललिता स्तम्भाश्रिता वर्तते॥३५॥

दशाम्। शक्याः कृच्छ्रेण निहोतुं ज्वलिता इति कीर्तिताः ॥' इति धन्यां प्रति तत्सखी प्राह-सखीति। सब्धीभाव इति स्म्भः । तनुजाली रोमश्रेणी। हर्षमिति रोभाञ्चः । सरसतामित्यश्रु। 'नीलो निधिः' पक्षे श्रीकृष्णः ॥३३॥ दीत्ता इति । तल्लक्षणं यथा-'प्रौढाव्िचतुरा व्यक्तिं पञ्च वा युगपद्गताः। संवरीतुमशक्यास्ते दीप्ता धीरैरुदाहताः ॥I' विशाखा श्रीराधामाह-क्षोणि- मिति। दन्तुरयन्ति नतोन्नतं कुर्वन्ति । 'दन्तुरं तु नतोन्नतम्' इत्यमरः। अभ्याशं निकटम् ॥ ३४॥ उद्दीपा इति। 'एकदा व्यक्तिमापनाः पञ्चषाः सर्व एव वा। आरूढा: परमोत्कर्षमुद्दीप्ता इति कीर्तिताः ॥' विरहिण्या ललि- ताया दशामुद्धवः श्रीकृष्णमाह-स्रातेति। संप्रति तां प्रोषितभर्तृकां वासक-

यान्त: सुप्रकटां दशाम्। शक्याः कृच्छ्रेण निह्ोतुं ज्वलिता इति कीर्तिताः ॥' ॥ ३३ ॥ दीत्ता इति । तल्लक्षणं चोक्म्-'प्रौढास्तिचतुरा व्यक्तिं पञ्च वा युगपद्गताः । संवरीतुमशक्यास्ते दीप्ता धीरैरुदाहृताः ॥' इति॥ दन्तुरयन्ति

Page 364

उज््वलनीलमणिः । ३४१

उद्दीप्तानां भिदा एव सूद्दीपा: सन्ति कुत्रचित्। सात्त्चिकाः परमोत्कर्षकोटिमत्रैव बिभ्रति॥३६॥ यथा- सवेदैर्दर्शितदुर्दिना विदधती बाष्पाम्बुभिर्निस्तृषो वत्सीरङ्करुहालिभिर्मुकुलिनीफुल्लाभिरामूलतः । श्रुत्वा ते मुरलीं तथाभवदियं राधा यथाराध्यते मुग्धैर्माधव भारतीप्रतिकृतिभ्रान्त्याद्य विद्यार्थिभिः॥३७॥ इति सात्त्विकाः ।

सज्जालेनोत्प्रेक्षते। तव नवसंगमाय सज्जा। तत्र वासकसज्जायाः खतनोः प्रियसंगमोचितभूषणवस्त्रादिशोभा अपेक्षितेति प्रथमं स्नानमाह-स्रातेति। खेदाम्बुन्येव मुक्तावलीत्यलंकारपरिधानं श्रीखण्डेन चन्दनचर्चया पाण्डवर्णा द्युतिर्यस्या: सा, पक्षे लद्विरहेण श्रीखण्डस्येव ्ुतिवैवर्ण्यम्। खञ्जन्ती अर्धार्धं निःसरन्ती मज्जुला सा भारती स्कूर्तिप्राप्तेन लया सह वाणी सैव सवयाः सखी तया युक्तति सखीसाहित्यम्। स्तम्भः सात्त्विकः, कुजगृहस्थूणा च ॥ ३५॥ ।। ३६ । गरहादभिस्टृत्य पूर्वाह्ले वनपथे चलन्तीमकस्मान्मुरलीनादेन सूद्दीप्तसा- त्त्विकभावां श्रीराधामालोक्य दूती जवेन श्रीकृष्णान्तिकमासाद्य तमाह-खदैरेव दर्शित दुर्दिनं यया इति खेदानां मेधलं निरन्तरतद्विन्दुपातानां वृष्टिलम्। वाष्पाम्बुभिरश्रुजलैर्वत्सीस्तर्णकान् निस्तृषो विगतपिपासाः कुर्वतीत्यश्रूणां निर्झर- जलप्रवाहलम्। वत्सीरित्यल्पाख्यायां स्त्रीप्रत्ययः । "स्री स्यात्काचिन्मृणाल्या- दिर्विवक्षापचये यदि" इत्यमरः ॥ अङ्गरुहालिभिः रोमश्रेणिभिः । तदैव ते मुर- लीनादं श्रुला अतिजाब्येनातिस्तब्धा अतिविवर्णा चाभूदित्याह-श्रुत्वेति। यथा तदानीमेवागतैर्विद्यार्थिभिरहो सरस्तीप्रतिमेयमिति मुग्धे स्म्भशितिमभ्यां आन्तैराराध्यते पाद्यार्ध्यधूपादिभिः पूज्यते इति। अन्र जाड्याख्यस्तम्भोदयः प्रथमक्षण एव प्रखदाश्रुरोमाश्चस्तम्भवैवर्ण्यानां पञ्चानां सात्त्विकानामाधिक्येन

नतोनतं कुर्वन्ति ॥ ३४ ॥ उद्दीप्ता इति। 'एकदा व्यक्तिमापनाः पश्चषाः सर्व एव वा । आरूढा: परमोत्कर्षमुद्दीप्ा इति कीर्तिताः ॥' स्तम्भशब्द: श्लिष्टः

Page 365

३१२ काव्यमाला।

अथ व्यभिचारिण: । निर्वेदाद्यास्त्रयास्त्रिशद्भावा ये परिकीर्तिता:। औउयालस्ये विना तेऽत्र विज्ञेया व्यभिचारिणः ।।१।। सख्यादिषु निजप्रेमाप्यत्र संचारितां त्रजेत्। साक्षादङ्गतया नेष्टाः किंत्वत्र मरणादयः ॥२॥ वर्ध्यमानास्तु युक्त्यामी गुणतामुपचिन्वते। तत्र निर्वेद :- स महार्त्या यथा विदम्धमाधवे- यस्योत्सङ्गसुखाशया शिथिलिता मुर्वी गुरुभ्यस्त्रपा प्राणेभ्योऽपि सुहत्तमाः सखि तया(था) यूयं परिक्केशिताः।

युगपदुद्भूततात् सूद्दीप्तत्वं द्वितीयतृतीयादिक्षणे तु स्म्भप्रलययोरत्याधिक्येन खेदाश्रुरोमाश्चानां लोपाद्भारतीप्रतिमायितलम् । तदैव विद्यार्थिनामागमनं तैः पूजनं च । अश्रुपुलकयोः सद्भावे प्रकृतत्वानुपपत्तेरिति च ज्ञेयम् ॥ ३७॥ इति सात्त्विकभावविव्ृतिः समाप्ता। अथ व्यभिचारिविवृतिः । परिकीर्तिता इति। 'निर्वेदोऽथ विषादो दैन्यं ग्लानिश्रमौ च मदगर्वौ।' इत्यादिभि: पूर्वग्रन्थ एवोद्देशलक्षणोदाहरणैः सम्य- गुक्ता अत्र तूज्वले रसे ते औग्रा(भ्या)लस्ये द्वे विनेति। औग्रस्य विषयालम्ब- नसुखप्रतीपाचरणचण्डिमरूपत्वात् आलस्यस्य तु शक्तावपि क्रियानुन्मुखतारूप- लात्ते न संभवतः; किं तु नायकयोः परस्परमेवेति ज्ञेयम्। परस्परसङ्जिविघा- तिषु जनेषु तु ते भवत एवेत्यग्रेतनग्रन्थे ज्ञेयम् ॥१॥ सख्यादिष्विति । सखीप्रमृतिषु कृष्णवल्लभानां यः प्रेमा सः। आदिशब्दात् दूतीष्वपि परस्परायोगेषु, अन्येष्वपि च ॥ २ ॥ निर्वेद आत्मधिककारः। निर्वेदवती श्रीराधा श्रीकृष्णसमी- ॥३५॥३६ ॥ खेदैरित्याद्युक्तिरुदात्तालंकारमयी उद्दीप्ततामात्रतात्पर्या ।। ३७ ।। इति सात्त्विका: ।। अथ व्यमिचारिणः । औम्यस्य हिंसाकरचण्डतारूपतादालस्यस्य शक्तावपि क्रियनुन्मुखतारूपलात्। ते न संभवत इति किंतु मिथुनस्य परस्परमिति ज्ञेयम् ॥ १ १ संचारितां व्यभिचारिताम् ॥२॥ उपचिन्वते आधिक्र्येन गृह्नन्ति ।

Page 366

उज्ज्वलनीलमणिः । ३४३

धर्मः सोडपि महान् मया न गणितः साध्वीभिरध्यासितो घिग् घैर्य तदुपेक्षितापि यदहं जीवामि पापीयसी ॥३॥। विप्रयोगेण यथोद्धवसंदेशे- न क्षोदीयानपि सखि मम प्रेमगन्धो मुकुन्दे क्रन्दन्तीं मां निजसुभगताख्यापनाय प्रतीहि। खेलद्वंशीवलयिनमनालोक्य तं वक्रबिम्बं ध्वस्तालम्बा यदहमहह प्राणकीटं बिभर्मि ॥ ४ ॥

पादागताया: सख्या मुखम्लान्याः खस्मिन् तस्योपेक्षामनुमिमाना ग्राह-यस्य उत्सङ्क एव सुखं तस्य सुखमूर्तिलात् तदाशया। उत्सङ्गप्राह्यर्थमित्यर्थः । यद्य- प्यत्र 'अधरसीधुनाप्याययख नः' इति 'कृणु कुचेषु नः कृन्धि हृच्छयं' इत्यादौ स्पष्टोत्त्या खसुखस्पृहा प्रतीयते; तदपि खसौन्दर्यवैदग्ध्यादिमिः श्रीकृष्णमहं विशेषतः सुखं प्रथयानीति सूक्ष्मो मानसो व्यापारः समर्थरतिमतीनां सर्वासामेव व्रजसुन्दरीणां सदैवास्त्येव किमुत तस्याः सर्वव्रजवामामुकुटमणिभूतायाः । किंतु स ताभि: स्ववाग्विषयीभूतः प्रायेण न क्रियते श्रीकृष्णस्तभिज्ञचूडामणिस्तं जानात्येवेति 'न पारयेऽहं निरवद्यसंयुजाम्' इत्यादिभिस्तद्वशीकारान्यथानुपपत्त्या एवं व्याख्यायते। अत एवोक्तं यदस्यां कृष्णसौख्यार्थमेव केवलमुद्यम इति। तथा-'आत्मारामस्य तस्येमा वयं वै गृहदासिकाः' इति 'तस्याहं गृहमाजनी' इत्यादिभि: स्पष्टोत्त्या समञ्जसरतिमतीनां पुरसुन्दरीणां खवसुखस्पृहाया अभा- वैऽपि स्ाङ्स्पर्शादिभिः श्रीकृष्णो मां मुखयत्विति सूक्ष्मो मानसो व्यापारः केनाप्यंशेनास्त्येव, तं च श्रीकृष्णो जानात्येव 'यस्येन्द्रियं विभथितुं कुहकैर्न शेकुः' इति श्रीशुकवाक्यान्यथानुपपत्त्येव व्याख्यायत इति। अध्यासितः अनु- शीलितः ॥ ३॥ प्रोषितभर्तृका श्रीराधा ललितामाह-न क्षोदीयानिति। निजसुभगताख्यापनाय तस्याहं सर्वतोऽप्याधिक्येन प्रेमपात्री पूर्वभासमिति लोके ज्ञापयामास। खेलन्ती रागखरतालमूर्च्छनादिवैचित्र्या विलसन्ती या वंशी तदुत्थ- नादमण्डली सैव वलयस्तदयुक्म्। ग्राण एव कीटस्तं निरन्तरं मां दशन्तमपि बिभर्मि युत्त्येति व्यक्तीकरिष्यते। पूर्वग्रन्थानुसारेण निर्वेद: स्वावमाननम् ॥३॥४ ॥

Page 367

काव्यमाला।

ईर्ष्यया यथा- नात्मानमाक्षिप त्वं म्लायद्वदना गभीरगरिमाणम्। सखि नान्तरं क्षितौ कश्न्द्रावलितारयोर्वेचि ॥ ५ ॥ अथ विषाद :- स इष्टानवापितो यथा विदग्धमाधवे- पीतं न वागमृतमद्य हरेरशङ्कं न्यस्तं मयास्य वदने न हगञ्चलं च। रम्ये चिरादवसरे सखि लब्धमात्रे हा दुर्विधिर्विरुरुधे जरतीच्छलेन ॥। ६ ॥। यथा वा श्रीदशमे- अक्षण्वतां फलमिदं न परं विदामः सख्य: पशूननुविवेशयतोर्वयस्यैः । वक्रं व्रजेशसुतयोरनुवेणुजुष्ट यैर्वै निपीतमनुरक्तकटाक्षमोक्षम् ।।७।।

धारयामि पालयामि च॥४॥ श्रीराधायाः सौभाग्यसंपत्ति सर्वत्र विख्यातां विलोक्य तामसहमाना धिञ्ामित्यात्मानमधिक्षिपन्तीं चन्द्रावलीं सान्तयन्ती पद्मा प्राह-नेति। गभीरो गरिमा अर्थात् श्रीकृष्णदत्तो यस्य तम्। ननु मत्तः सकाशात् अपि तस्याः ख्यातिरधिका श्रूयत इति चेत् सत्यं ख्यातिरियमलीकैव लत्प्रतिपक्षजनख्यापितेति प्रतीहि। यतः सखीत्यादि। तं चन्द्रावलि: राधा। तारैव राधाविशाखेत्यभिधानात् ॥५॥ विषाद: पश्चात्तापः । पूर्वरागवती श्रीराधा जटिलाया अन्तिके विशाखां प्रति नीचैराह-प्रीतिमिति । जरती जटिलाभिधा श्वश्रूः ॥६॥ श्रीराधायां कादाचित्कं विषादमुदाहृत्य सर्वोसु प्रतिदिनमपि पौर्वालिकं विषादमुदाहर्तुमाह-यथा वेति। त्रजसुन्दर्यः परस्पर-

ताराशब्देनात्र श्रीराधा द्योतिता ।। ५।। विषादोऽनुतापः ॥६॥ वयस्यैः

Page 368

उज्ज्वलनीलमणिः । ३४५

प्रारब्धकार्यसिद्धिर्यथा श्रीगीतगोविन्दे- गणयति गुणग्रामं भामं अ्रमादपि नेहते वहति च परीतोषं दोषं विमुश्चति दूरतः । युवतिषु बलतृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥८ ॥

माहुः । अक्षण्वतां चक्षुष्मतां जनानामिदमेव फलम्, इतः परमन्यत्फलं न विदामः । किंनु ते फलमित्यत आहुः। वयस्यैः सह पशूननु विवेशयतोर्वनाद्वनं प्रवेशयतोर्व्रजेशसुतयोर्मध्ये यदनुकूलेन वेणुना जुष्टं वक्रम्। श्रीकृष्णमुखमित्यर्थः। तत् यैर्निपीतं चक्षुषा आस्वादितम्। अनुरक्तेषु जनेषु कटाक्षमोक्षो यस्य तत्, अनुक्तानां वा अपाङ्गप्रेरणं यस्मिन् तत्तेन कुलधर्मलज्जाभयादिभ्यो जलाअ्जर्लि दत्त्वा वयमेतावन्तं कालमपि कथं तत्र नागच्छाम इति पश्चात्तापध्वनिः । हे सख्यः, मिथोऽनुजानीत संप्रत्यपि तत्रानुसृत्य तन्माधुर्यस्य कमप्यशं लब्धुं यतेमहीत्यनु- ध्वनिः ॥ ७॥ कलहान्तरिता श्रीराधा ललिताभाह-गणयतीति। मम मनः (कर्तृ) श्रीकृष्णे कामभभिलाषं कुर्वदपि मनो मम निरुद्धमेवासीदिति भावः । करोमि किमित्यधुना तु मया निरोद्धुमशक्यमेवेति भावः । यतो वाम मत्प्राति- कूल्ये एव तिष्ठतीति भावः । प्रातिकूत्यस्थितिरेवाह-मां विना विहारिण्यपि सति श्रीकृष्णे गुणानां ग्रामं गणयत न चैकताद्चनगुणान्। भामं कोपमेकमपि भ्रमादपि न ईहते साक्षात्प्रत्यक्षेऽरपि दोषाणां ग्रामे सत्यपि प्रत्युत परितोषं वहति। किं च यदि तेषु दोषेषु कोऽप्यनपलपनीयो महान् दोषोऽतिस्पष्टतया प्रत्यक्षी- भवति तमपि दूरत एव मु्चति। यथा निकटमायातुं न शक्कोतीति भावः । तमेव दोषमाह-युवतिषु बलत्तृष्ण इति। तेन मानमहं श्रीकृष्णे कस्माद- करवमिति पश्चात्तापध्वनिः । यापि मानशास्त्रमतः परं नाहमध्यापनीयेत्यनु-

सह पशूननु विवेशयतोर्वनाद्वनं प्रवेशयतोर्व्रजेशसुतयोः श्रीरामकृष्णयोर्विषय- योरनु पश्चाद्वेणुजुष्टं यद्वकं तत् यैर्निपीतं तेषां तद्रूपं यत्फलं तदिदमेव अक्ष- ण्वतां चक्षुष्मतां फलं परंतु न विदामो न विद्यः। तस्मात्तदपश्यन्तीनामस्माकं

Page 369

३४६ काव्यमाला।

विपत्तितो यथा ललितमाघवे- निपीता न खैरं श्रुतिपुटिकया नर्मभणिति- र्न दृष्टा निःशङ्कं सुमुखि मुखपक्केरुहरुचः । हरेर्वक्ष:पीठं न किल घनमालिङ्गितमभू- दिति ध्यायं ध्यायं स्फुटति लुठदन्तर्मम मनः ॥९ ॥ अपराधादथा- हरेर्वचसि सूनृते न निहिता श्रुतिर्वा मया तथा दृगपि नार्पिता प्रणतिभाजि तस्मिन्पुरः । हितोक्तिरपि विक्कता प्रियसखी मुहुसेन मे ज्वलत्यहह मुर्मुरज्वलनजालरुद्धं मनः ॥ १० ॥ अथ दैन्यम्-तहुःखेन यथा बिल्वमङ्गले- अयि भुरलि मुकुन्दस्मेरवक्रारविन्द- श्वसनरसरसज्ञे तां नमस्कृत्य याचे। मधुरमधरबिम्बं प्राप्तवत्यां भवत्यां कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥ ११ ॥

ध्वनिः॥ ८॥। प्रोषितभर्तृका श्रीर्विलपति-निपीतेति। अत्रानुरागेण स्थायिना नर्मभणित्यादीनि मुहुरनुभूतान्येव क्रियन्त इति तथोक्तिः । अन्तर्म- मान्तःकरणे लुठत्सत् मनः स्फुटति ॥ ९॥ कलहान्तरिता श्रीराधा विलपति- हरेरिति। सूनते सत्यप्रिये, वामया क्रूरया। हितोक्तिर्हितोपदेशवाक्यम्। मुमुरज्वलनस्तुषाभिः ॥ १० ॥ दैन्यमात्मनिकृष्टतामननम् ॥ बिल्वमङ्गलाभिधो भक्तो व्रजबालाभावभावितान्तःकरणं प्रार्थयते-अयीति।श्वसनरसः फूत्कारा- निलमाधुर्यं तस्य रसज्ञे आस्वादविदुषि, मम दशां तत्प्राप्युत्कण्ठानलदह्यमान- व्यर्थमेव चक्षुष्मत्त्वमिति भावः ॥७॥८॥९॥ मुर्मुरज्वलनस्तुषाभिः। दावाभ्यादिवदेषां शब्दानां पृथक् पृथगपि प्रयोगः ॥ १० ॥ दैन्यं चात्मनि- कृष्टतामननेन चाटुः । पूर्वेण रसशब्देन माधुर्यमुच्यते द्वितीयेन लाखाद:

Page 370

उज्ज्वलनीलमणिः । ३१७

यथा वा श्रीदशमे- तन्न: प्रसीद वृजिनार्दन तेडङ्रिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः। त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम- तप्तात्मनां पुरुषभूषण देहि दास्यम् ।। १२ ।। त्रासेन यथा- अपि करधूतिभिर्मयापनुन्नो मुखमयमश्चति चञ्चलो द्विरेफः । अघदमन मयि प्रसीद वन्दे कुरु करुणामवरुन्धि दुष्टमेनम्॥१३॥ अपराधेन यथा- आलि तथ्यमपराद्धमेव ते दुष्टमानफणिदष्टया मया। पिच्छमौलिरधुनानुनीयतां मामकीनमनवेक्ष्य दूषणम् ॥१४॥। अथ ग्लानि :- सा भ्रमेण यथा- व्यात्युक्षीमघमथनेन पङ्कजाक्षी कुर्वाणा किमपि सखीषु सस्मितासु।

लम् ।। ११ ॥ साधकभक्तस्य दैन्यमुदाहृत्य सिद्धानामपि तमुदाहर्तुमाह- यथावेति । रासारम्भे श्रीकृष्णस्यौदासीन्यव्यज्ञकवाक्येन व्याकुलाः सचाङ गोप्य आहु :- तन्न इति॥ १२॥ वनविहारे श्रीराधा कृष्णमाह-अपीति। करधूतिभि: करचालनैः अपनुन्नः निरस्तोऽपि ॥ १३ ॥ श्रीकृष्णप्रणामसमये सखि राधे, त्वत्प्राणकोटेरधिकस्य कान्तस्यास्य सकदप्यपराघं क्षमखेत्युक्तवत्यहं दुरबुद्धे विशाखे, मदन्तिकादितो दूरीभवेत्याक्षिप्य तदानीं तयाहं दूरीकृता अभूवं संप्रति ख्यमेव मन्निकट कथमायासीति वदन्तीं विशाखां श्रीराधा प्राह- आलीति। ते तुभ्यम्। मानफणीति। न हि सर्पदष्टो जनस्तद्विषोन्मादितः प्रलपनू बन्धुजनेनोपलोभ्यत इति भावः । ननु श्रीकृष्णस्तयि विमुखो वर्तत इत्यत आह-पिच्छेति॥ १४ ॥। ग्लानिर्निर्बेलता ॥ वृन्दा पौर्णभासीमाह- व्यात्युक्षीं परस्परजलसेकम्। सस्मितास्विति। सखीराक्षिप्य खयमेव द्वन्द्व- ११११ १२ ॥ १३ ॥ ते तव संबन्धे लयीत्यर्थः । अपराद्धमिति। तव वच- नानवधानेनेति गम्यते। तत्र हेतुर्दुष्टेति ।। १४ ॥। ग्लानिर्निर्बलता। व्यात्युक्षी-

Page 371

३४८ काव्यमाला।

क्षामाङ्गी मणिवलयं स्खलत्करान्ता- त्कालिन्दीपयसि रुरोध नाद राधा ॥। १५ ॥। आधिना यथा हंसदूते-

र्विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः । अमुश्चन्ती सङ्गं कुवलयददशः केवलमसौ बलादद्य प्राणानवति भवदाशासहचरी ॥ १६ ॥

युद्धे प्रवृत्ता, अथ च तदपारयन्तीमहंकारमात्रावशिषां तां विलोक्येत्यर्थः । करान्तात् हस्ताग्रतः स्खलत् पतदपि वलयं न रुरोध रोदुं नाशकदित्यर्थः । तत्र हेतुः क्षामाङ्गीति ।। १५।। ललिता हंसं प्रति वदन्ती श्रीकृष्णं संदि- शति-प्रतीति। कुवलयदृदशः श्रीराधायाः प्राणान् भवदाशैव सहचरी केवलं बलादेव अवति देहाननिःसर्तु न ददातीति प्राणेभ्योऽपि तस्याः प्राबल्यमुक्तम्। कीदृश्याः । व्यक्तः सर्वगोचरीभूतः स्मरस्तद्विषयकः प्रेमा। 'प्रेमैव गोपरामांणां काम इत्यगमत्प्रथा।' इत्युक्तः । तेनैव यत्कदनं परिमातुँ शक्यमिति पुनर्वि- शिनष्टि। उद्यन्ती परिणतिरन्तिमावस्था यस्यास्तादृश्याः । अत एव परिजनैरस्म- द्विधैरियं न जीविष्यतीति निश्चयेन तत्कदनस्य प्रतीकारारम्मे श्रथमतिभि: सद्धि- र्विमुक्तायाः । भूमिशय्यायां शयिताया इत्यर्थः । किं च आशैव असाध्येऽ्रपि गदे स्वसार्थ्येन चिकित्सितुं प्रवृत्तेत्याह-अमुञ्चन्ती सङ्गमिति । तेन खत्प्रेयसीं सा आशा सहचर्येव जीवयन्ती संप्रति वर्तते साचावधिदिवसात्

मन्योन्यसेचनम् ॥ १५ ॥ कुवलयदशः श्रीराधायाः प्राणान् केवलमसौ भवदा- शासहचरी बलादद्यावति। कीदृश्याः । व्यक्तस्मरकदनभाजः । स्मरोऽन्र प्रेमवि- शेषस्तत्स्मरणम् । पुनः कीदृश्याः । परिजनैर्विमुक्तायाः। कीृशैस्तैः । प्रती- कारारम्भक्रथमतिभिः । कुतस्तादशता तेषामित्याशक् तादृगवस्थाविशेषमेव तत्र हेतुमाह-उदती उदयमाना परिणतिरन्तिमावस्था यस्यास्तादृश्याः। अहो आशासहचरी कीदशी। तत्राह-सङ्गममुश्चन्तीति। तदेवं ललिता खाली- र्निन्दिला लामाशामेव स्तुवती तस्यास्तवाशायाः पालनं न भवता त्याज्यमिति

Page 372

उज्ज्वलनीलमणिः । ३४९

रतेन यथा श्रीगीतगोविन्दे- माराङ्के रतिकेलिसंकुलरणारम्भे तया साहस- प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्संभ्रमात्। निस्पन्दा जघनस्थली शिथिलिता दोर्वलिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥१७॥ अथ श्रम :- सोऽध्वनो यथा पद्यावल्याम्- द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्लीसजं कण्ठान्मौक्तिकमालिका तदनु च त्यक्त्वा पदैः पश्चषैः। कृष्णप्रेमविघूर्णितान्तरतया दूराभिसारावुरा तन्वक्गी निरुपायमध्वनि परं श्रोणीभरं निन्दति। १८॥

परदिने न स्थास्यतीसि भवता न ज्ञायत एव इति एतन्मध्ये शीघ्रमागन्तव्यमिति ध्वनिः ॥ १६ ॥ सख्यः परस्परं श्रीराधाकृष्णयो रहस्यलीलामाखादयन्ति- मार: कन्दर्प: श्ेषेण प्रहारः। माराक्कश्विढं यत्र तस्मिन्, रविकेलिभि: संकुलो व्याप्तो यो रणस्तस्यारम्भे। तया श्रीराधया। यद्यस्मात् किंचिदुपरीति रहस्यम् ॥ १७॥ सख्यः परस्परं श्रीराधाभिसारलीलामास्वादयन्ति-द्वित्रैरिति। द्वौ वा त्रयो वा द्विन्रास्तैः पदैः पादविन्यासौ । एवं तदन्विति सर्वत्र योज्यम्। अतो केलिकलादयो भावा: सर्व एव त्यक्त्तास्तदप्यहं कथं शीघ्रं चलितुं न शक्को- मीति विमृशन्ती खश्रोणीं दृष्ट्ा अहो अस्या एव महाभारेण इति तं निरुपायं दुस्त्यजं निन्दति-घिक लां लन्निर्मातारं विधातारं च धिगिति । यदि श्रोण्या भारो मे नाभविष्यत्तदा शीघ्रमभ्यसरिष्यमिति मे नास्ति दोष इति भाव: ॥१८॥

व्यञ्जयति। अत्र च बलादद्यावतीति। बलं तु तस्याः श्वः स्थाता न वेवि वितर्क्य तर्पयन्तमपि विलम्बं मा कार्षीरिति भावः ॥१६॥१७॥ श्रमः केशः। द्वित्रैरिति। कस्याश्विद्दूत्याः श्रीकृष्णं प्रति वचनम्। अन्र कृष्णेति संबोधनमेव। निरुपायं प्रतीकाराननिष्कान्तम्। दूराभिसारे आतुरा सामर्थ्य-

Page 373

३५० काव्यमाला।

नृत्याद्यथा- शिथिलगतिविलासासत्र हल्लीशरक्रे हरिभुजपरिघाग्रन्यस्तहस्तारविन्दाः।

प्रतिपदमनवद्याः सिष्विदुर्वेदिमध्याः ॥१९॥

रताधथा- अहह भुजयोर्द्वन्द्वं मन्दं बभूव विशासिके समजनि घनखेदं चेदं युगं तव गण्डयो: । धृतमधुरिमस्फूर्तिर्मूर्तिस्तथापि वरानने प्रमदसुधयाक्रान्तं स्वान्तं मम प्रणयत्यसौ ॥ २०॥ अथ मद :- [स]मधुपानजो यथा- या हिया हरिपुरो मुखमुद्रां भङ्कुमध्यवससौ न कदापि। सा पपाठ चटुलं मधु पीत्वा शारिकेव पशचुपालकिशोरी ।।२१।।

वृन्दा पौर्णमासीमाह-शिथिलेति । हल्लीशं रासनृत्यम्। श्रमेण लुलिताः सस्ता: ललाटे श्िष्टा: प्रसेदबिन्दुश्िष्टा लीलालकानां केलिसूचकचूर्णकुन्तला- नामन्ता अग्रभागा यासां ताः। वेद्या मध्यमिव क्षीणं मध्यं यासां ताः ॥१९॥ श्रीकृष्णः संभुक्तां विशाखामाह-अहहेति । मन्दमपट् । 'मूढाल्पापटुनि- र्भाग्या मन्दा' इति नानार्थवर्गात्। मम खान्तं प्रमदसुधया आक्ान्तं प्रणयति करोति। अन्नानुवादविधेययोः पौर्वापर्याभावोऽनुप्रासानुरोधात् सोढव्यः ॥२० ॥ मंदो मधुपानोत्था मत्तता विवेकशून्या॥ कुन्दवल्ी नान्दीमुखीमाह-येति। नाध्यवससौ नेष्टवती । अनङ्गविक्रियाभरजो मदस्तु प्रायः खाभियोग एव

रहिता ॥ १८॥ १९ ॥ मन्दमपटठता । प्रणयति करोति ॥ २०॥ मदो विवेक-

Page 374

उज्ज्वलनीलमणिः । ३५१

अथ गर्व :- स सौभाग्येन यथा- सुश्चन्मित्रकदम्बसंगमभजन्नप्युत्सुकाः प्रेयसी- रेष द्वारि हरिस्त्वदाननतटीन्यस्तेक्षणस्तिष्ठति। यूथीभिर्मकराकृति स्मितमुखी त्वं कुर्वती कुण्डलं गण्डोद्यत्पुलका दशोऽपि न किल क्षीबे क्षिपस्यञ्चलम् ॥२२॥ रूपेण यथा- चन्द्रावलीवदनचन्द्रमरीचिपुञ्जं क: स्तोतुमप्यतिपटुः क्षमते क्षमायाम्। येनाद पिच्छमुकुटोऽपि निकेतवाटी- पर्यन्तकाननकुटीरचरः कृतोऽयम्॥ २३॥ यथा वा विद्ग्धमाधवे- सहचरि वृषभानुजया प्रादुर्भावे वरत्विषोपगते। चन्द्रावलीशतान्यपि भवन्ति निर्धूतकान्तीनि ॥ २४ ॥

पूर्यवस्यतीत्यत्र नोदिष्टः ॥ २१॥ गर्वोऽन्यहेलनम् ॥ विशाखा कुज्जमन्दि- रस्थां श्रीराधी प्रत्याह-मुञ्चन्निति । अभजन् नैवेच्छन्नित्यर्थः । मकरा- क्तीति कुण्डलमपि श्रीकृष्णार्थमेव करोषि तदपि दृशोऽश्चलं न क्षिपसि। स्मितमुखीति हर्षोत्थं स्मितमपि रोडुं न शक्कोषि तदपीति पूर्ववत्। उत्पुल- केति । पुलका एव तवौत्सुक्यं कथयन्ति तदपीति पूर्ववत्। विव्वोकोऽयम् ।। २२ ।। कदाचित्संसदि चन्द्रावलीसौन्दर्यकृतकटाक्षायां ललितायां पद्मा संसंरम्भमाह-चन्द्रावलीति। येन मरीचिपुजेन ॥ २३॥ श्रीराधिका- यामुदाहर्तुमाह-यथा वेति। तां पदमोकतिमाकर्ण्य ललिता साटोपमाह- सहेति 1 वृषभानुजया ज्यष्ठमासीयसूर्योत्थया वरत्षा(कर्तर्या) प्रादुर्भावे उपभते प्राप्ते सति चन्द्रश्रेणीशतान्यपीत्यादि, पक्षे वृषभानुजया श्रीराधया।

हरोह्ासः नाध्यवससौ नाध्यवसितवती। नेष्टवतीत्यर्थः ॥२१॥ गर्वोऽन्यहेलनम्

Page 375

३५२ काव्यमाला।

गुणेन यथा- रमयन्तु तावदमलैर्ध्वनिभिर्गोपीकपोतिकाः कृष्णम्। इह ललिता कलकण्ठी कलं न यावत्पपश्चयति ॥२५॥ सर्वोत्तमाश्रयेण यथा श्रीविष्णुपुराणे- जानामि ते पति शकं जानामि त्रिदशेश्वरम्। पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ २६ ॥ इष्टलाभेन यथा- नम्रा न भवतु वंशी मुकुन्दवक्रेन्दुमाधुरीरसिका। त्वं दुर्लभतद्गन्धा लगुडि वृथा स्तब्धतां वहसि ॥ २७ ॥ यथा वा श्रीदशमे- उन्नीय वक्रमुरुकुन्तलकुण्डलत्विड् गण्डस्थलं शिशिरहासकटाक्षमोक्षैः। राज्ञा निरीक्ष्य परितः शनकैर्मुरारे- रंसेऽनुरक्तहृदया निदधे खमालाम् ॥ २८॥

कीदृश्या वरतिषा ॥ २४॥ विपक्षसुन्दरीसंसदि गानप्रस्तावे ललितायाः सखी प्राह-ललितैव कलकण्ठी कोकिला ।। २५।। सत्यभामा शचीं संदिशति- जानामीति॥ २६ ॥ चोरितां श्रीकृष्णलगुडीं रहसि खसखीसदसि श्रीराधा साक्षेपमाह-नम्नेति । अत्र वंशा गर्व व्यजजितं तुषाव, लगुड्या निनिन्द ॥ २७ ॥ पुरसुन्दरीष्वपि व्यभिचारिभावा एवं सर्व एवोदाहर्तव्या इति ज्ञाप- यितुमांह-यथा वेति। लक्ष्मणा कुरुक्षेत्रे युवतिसंसदि स्ीयस्यंवरणचरित्रं द्रौपदीमाह-उन्नीयेति। परितश्चतुर्दिश्षु स्थितान् राज्ञो निरीक्ष्येति मद्रणीयः श्रुतचररूपगुणः श्रीकृष्णः क्व खलूपविष्ट इति तमन्वेष्टमिति भावः। ततश्रोरु- ॥२२ ॥ २३ ॥ २४ ॥ २५॥। ललितैव कलकण्ठी कोकिला ॥। २६॥ जानामीति श्रीसत्यभामावाक्यम् । नम्रेत्यत्रोत्प्रेक्षितमात्रोऽपि गर्वः श्रोतृणां चेतसि सत्य- वद्दातीत्युदाहतम् ॥२७॥ उन्नीयेति। लक्ष्मणायाः स्वयंवरणायागताया-

Page 376

उज्ज्वलनीलमणिः । ३५३

अथ शङ्का सा चार्येण यथा- हरन्ती निद्राणे मधुमिदि करात्केलिमुरलीं लतोत्सङ्गे लीना घनतमसि राधा चकितवीः। निशि ध्वान्ते शान्ते शरदमलचन्द्रद्युतिमुषा- मसौ निर्मातारं खववदनरुचां निन्दति विघिम् ॥ २९॥

कुन्तलेत्यादिलक्षणं वक्रमुन्नीय शिशिरहासकटाक्षमोक्षैः सह मुरारेरंसे स्कन्धे मालां स्वयंवरणद्योतिनीं पुष्पस्रजं निदधे निहितवत्यस्मि इति खवगर्वो व्यज्जितः ॥ २८ ॥ शङ्का स्वानिष्टोत्प्रेक्षणम्। श्रीराधिकामुरलीचौर्यलीलां सख्य: पर- स्परमासादयन्ति-हरन्तीति। निद्राणे लब्धनिद्रे सति केलिमुरलीं हरन्ती हर्तुमिच्छन्तीत्यर्थः। ततश्च ध्वान्ते शान्ते विरते सति। चर्कितघीः अहो कथमक- स्मादन्धकारपुओ्जो नष्ट इति खप्रकाशभयात् त्रस्तचित्ता। ततश्र विमृश्य ध्वान्त- ध्वंसकारणं खमुखकिरणजालमेव ज्ञाला खमुखरुचां निर्मातारं विधिं विधातार- मेव निन्दति-यदि विधाता मन्मुखकान्तीरीदृशीर्नास्रक्ष्यत् तदाहमधुनैव भुर- लीभचोरयिष्यमिति मदभिलषिते स एव विन्नकरोऽभूदिति धिक् तं विधातारमिति

श्वरितं सयमेव तथा कथितम्। उरुकुन्तलेत्यादिलक्षणं वक्रमुन्नीय सवयंवरणी- प्रस्य मुरारेदेर्शनस्यान्यथानुपपत्तेरुन्नमय्य मुरारेरंसे स्कन्धे सां स्वयंवरणाय खेन रचितां मालां निदधे निहितवत्यस्मि। किं कृला। शनकैरवज्ञया भन्दं मन्दं राज्ो निरीक्ष्य। निरीक्षणपूर्वकं परित्यज्येत्यर्थः। कैरुपलक्षितां मालां निहितवत्यस्मि तन्नाह-शिशिरः शिशिरकरांशुरिव हर्षस्वाभाविको हास: स्मितं न्ेषु तादृशैः कटाक्षमोक्षरपाङ्गदृष्टिविसृष्टिभिः । तत्र कारणमाह-अनुरक्त- हृद्ययेति ॥ २८ ॥ अथ शङ्गेति। तल्लक्षणं चोक्तम्-ख्वानिष्टोत्प्रेक्षणं वक्केति। भयं लस्याः कार्यम्। तच्च लक्षितम्-'भयं चित्तातिचाञ्चल्यं मत्त- घोरेक्षणादिभिः ।' ॥ हरन्तीत्यादौ 'लतोत्सज्वे लीना वृषरविसुता यत्र(?) लंभसि घने तस्मिव्शान्ते निजवदनकान्तेर्विततिभिः। विधातारं तासां जित-

१. 'बकभिदि' इति ख. पुस्तके.

Page 377

३५४ काव्यमाला।

अपराधादथा ललितमाधवे- उत्ताम्यन्ती विरमति तमस्तोमसंपत्प्रपञ्चे न्यञ्चन्मूर्धा सरभसमसौ स्रस्तवेणीवृतांसा। मन्दस्पन्दं दिशि दिशि दृशोर्द्वन्द्वमल्पं क्षिपन्ती कुञ्जाद्गोष्ठं विशति चकिता वक्रमावृत्य पाली ॥ ३० ॥ शङ्का तु प्रवरस्त्रीणां भीरुत्वां्भ्रयक्ृद्भ्वेत् ।। ३ ।। परक्रौर्याद्यथा विदग्धमाधवे- व्यक्तिं गते मम रहस्यविनोदवृत्ते रुष्टो लघिष्ठहृदयस्तरसाभिमन्युः । राधां निरु्य सदने विनिगूहते वा हा हन्त लम्भयति वा यदुराजधानीम्॥ ३२ ।।

भाव: ॥ २९ ॥ वृन्दाह-उत्ताम्यन्तीति । हन्त प्रातर्जातं कथमद्य गोष्ठं प्रविशामीति विह्वलेत्यर्थः। न्यश्चन्मूर्धति। दूरस्थः कोऽपि मां पश्यन्नपि न परिचिनोतित्यभिप्रायेण। सरभसं सत्वरम्। मन्दस्पन्दमिति। रजन्युजा- गरेण । वक्रमावृत्येति। समीपागतोऽपि जनो मां न परिचिनोतिति बुध्धा । ३० ॥ अत्र शङ्कायाः कारणमपराधः स च खकुलधर्मोल्लद्वनरूपः, तथा भयानकरसस्य स्थायी यद्ध्यं तस्यापि कारणमपराधः । यदुक्त्तम्-'भयं चित्ताति- चाञ्चल्यं मन्तुघोरेक्षणादिभिः ।' इति। तस्माद्भयस्य सान्द्रते स्थायित्वमसान्द्रले शङ्काभिधानतया व्यभिचारिलमिति भेद: कल्प्यः । कि चात्र शङ्का त्विति। प्रवरस्न्रीणां भीरुलाद्वेतोः शङ्का तु भयकृत् भयस्य कत्री स्यात्। प्रथममसान्द्र स्तोकमेव भयं शङ्काख्यं स्यात्। तदेव लक्षणमात्रत एव सान्द्रं बहुलं सत् भयानकरसस्य स्थायिभावो भयं स्यादित्यर्थः ॥३१ ॥ श्रीराधावेषधारिणं सुबलं स्ववधूं ज्ञाला जटिलया श्रीकृष्णसमीपात् कोपेन गोपीनां सभां प्रति नीतमालोक्य स श्रीकृष्णोऽपि तत्संदर्भमजानन् सानुतापमाह-व्यक्तिमिति

विधुरुचां निन्दति विधिम्' इति चान्तिमचरणन्रयमस्ति ॥ २९ ॥ चकिता भीता ॥ ३० ॥ तर्हि कथं शङ्काया एवोदाहरणमत्र कृतं तन्राह-शङ्का त्विति। शङ्का तु भयं न व्यभिचरत्येव प्रवरस्त्रीणां तु विशेषतः । तत् कर्थ तद्विनोदाह-

Page 378

उज्ज्वलंनीलमणिः । ३५५

अथ त्रास :- स तडिता यथा- स्फूर्जिते नभसि भीरुरुद्यतां विद्युतां द्ुतिमवेक्ष्य कम्पिता। सा हरेरुरसि चञ्चलेक्षणा चञ्चलेव जलदे न्यलीयत ॥ ३३ ।। घोरसच्वेन यथा विदग्धमाधवे- कर्णोत्तंसितरक्तपङ्कजजुषो भृङ्गीपतेझक्रिया भ्रान्तेनाद्य दगञ्चलेन दधती भृङ्गावलीविभ्रमम् । त्रासान्दोलितदोर्लतान्तविचलचूडा झणत्कारिणी राधे व्याकुलतां गतापि भवती मोदं ममाध्यस्यति ॥३४॥ उग्रनिखनेन यथा- तवमसि मम सखेति किंवदन्ती मुदिर चिराद्धवता व्यधायि तथ्या। मृदुरसि रसितैर्निरस्यमानं यदुदितवेपथुरर्पिताद्य राधा ॥ ३५॥

I ३२ ॥ नासोऽकस्माद्विद्युदादिभिर्मनस: कम्पः पूर्वापरविचारोत्था शङ्का सैवातिसान्द्रा बहुला भयमिति त्रासशङ्काभयानां भेदः ॥ रूपमज्जरी कुन्द वल्लीं प्रत्याह-स्फूर्जिते इति। नभसि आकाशे स्कूर्जिते मेघगर्जनेन शब्दिते सति उद्यतामुद्तानाम्। सा राधा चश्चलेव विद्युदिव ।। ३३॥ श्रीकृष्ण आह-कर्णेति। दगञ्चलेनेति जाता एकवचनम्। मुहुमुहुस्तिर्यग्गतेदगञ्चलैरि- त्यर्थः । त्रासेनान्दोलितयोरितस्ततो विक्षिप्तयोर्दोर्लतयोरन्तर्वर्तिनीनां विचलन्तीनां चूडानां वलयानां झणत्कारवती। 'चूडा शिखायां वलभौ चूडा बाहुविभू- षंणे।' इति विश्वः। बाहुशब्देन करपर्यन्तोऽप्यसावुच्यते। आजानुवाह्वादिशब्द- प्रयोगात् अव्यस्यत्यपयति। अन्र तव कष्ट मम मोद इत्यस्य विवक्षितलात् संब- न्धस्य प्राधान्यात षष्टी ॥३४॥ श्रीकृष्ण आह-त्वमिति। किंवदन्ती सख्युर्व्यधा- रतव्यमिति भावः ॥३१॥ ३२ ॥ अथ त्रास इति । तलक्षणम्-'त्रासः क्षोभो हृदि तडिद्वोरसत्त्वोग्रनिखनैः ।' इति। 'गात्रोत्कम्पी मनःकम्पः सहसा त्रास उच्यते । पूर्वापरविचारोत्थं भयं त्रासाद्विभिद्यते॥' इति ॥ ३३ ॥ कर्णोत्तसितेति। श्रीकृष्णवचनम्। चूडा: कक्कणा: अध्यस्यति अपयाे ममेति सप्तम्यर्थ संबन्धसामान्यास्तिलविवक्षया पष्ठी ।। ३४।। त्वमसीति। श्रीकृष्ण-

Page 379

३५६ काव्यमाला।

अथावेग :- स प्रियदर्शनजो यथा ललितमाधवे- सहचरि निरातङ्कः कोडयं युवा मुदिरद्युति- र्व्रजभुवि कुतः प्राप्तो माद्यन्मतङ्गजविभ्रमः ।

र्मम धृतिधनं चेतःकोषाद्विलुण्ठयतीह यः ॥ ३६ ॥ यथा वा तत्रैव- उपतरु ललितां तां प्रत्यभिज्ञाय सद्यः प्रकृतिमधुररूपां प्रेक्ष्य राधाकृति च। मणिमपि परिचिन्वन् शङ्गचूडावतंसं मुहुरहमुदघूर्ण भूरिणा संभ्रमेण ॥ ३७ ॥

त्खवपुषाम्बुद आतपत्रम्' इत्यादिरूपा । 'किंवदन्ती जनश्रुतिः' इत्यमरः। मुदिर हे मेघ, तथ्या सत्या रसितैर्गर्जनशब्दैः ॥ ३५ ॥ 'आवेगश्चित्तविभ्रमः' इतिकर्तव्यतामूढ इति यावत् ।। अनुरागाख्यस्थायिभाववती श्रीराधा वितर्क- यति-सहचरीति॥ ३६ ॥ अत्रेतिकर्तव्यतामूढलं न स्पष्टमित्यपरितुष्य- नाह-यथा वेति। अत्र ललितमाधवीयकथायां माथुरविरहोन्मादेन खेला- तीर्थमवगाहमाना सविशाखा च श्रीराधा सूर्यभण्डलं प्राप्ता स्वकण्ठात् शङ्धचूडाख्यमणिं सूर्यायोपजहार। ललिताविश्लेषज्वरोन्मत्ता गोवर्धने भृगुपतनं कुर्वती जाम्बवता खहस्तेन गृहीला खपुरमानीता, खवकन्यालेन ख्यापिता जाम्ब- वती बभूव। सा चेन्द्रनीलमणिजाम्बूनदाभ्यां श्रीकृष्णराधयोः प्रतिमे निर्माय तद्दर्शनादिनैव कालं यापयामास। सूर्यश्च श्रीराधां सत्यभामाख्यया मणि च स्यभन्तकाभिधानतया ख्यापयन् खभक्ताय सत्राजिते ददौ। सत्राजिता च दत्तकलङ्ग: श्रीकृष्णो जाम्बवतः पुरीं जगाम। जाम्बवांश्च युद्धान्ते खवप्रभुं परि-

वाक्यम्, किंवदन्ती च 'सख्युर्व्यधास्तवपुषाम्बुद आतपत्रम्' इत्यादिरूपा ॥ ३५ ॥ आवेगश्चित्तस्य संभ्रमः । प्रतिक्षणं नवनवायमानं तं दृष्टा श्रीराधा- वचनम् ॥ ३६ ॥ उपतरु ललितामिति। अन्न कथा पूर्ववल्ललितमाधवा-

Page 380

उज्ज्वलनीलमणिः । ३५७

प्रियश्रवणजो यथा ललितमाधवे- धन्ये कज्जलमुक्तवामनयना पझ्मे पदोढाङ्गदा सारङ्गिध्वनदेकनूपुरधरा पालिस्खलन्मेखला। गण्डोद्यत्तिलका लवङ्गि कमले नेत्रार्पिंतालक्तका मा धावोत्तरलं त्वमत्र मुरली दूरे कलं कूजति॥ ३८॥ अप्रियदर्शनजो यथा तत्रैव- क्षणं विकोशन्ती विलुठति शताङ्गस्य पुरतः क्षणं बाष्पग्रस्तां किरति किल दष्टिं हरिमुखे। क्षणं रामस्याग्रे पतति दशनोत्तम्भिततृणा न राधे यं कं वा क्षिपति करुणाम्भोधिकुहरे॥ ३९॥ अप्रियश्रवणजो यथा- न्जनरपतेरेष क्षत्ता करोति गिरा प्रगे नगरगतये घोरं घोषे घनां सखि घोषणाम्। श्रवणपदवीमारोहन्त्या यया कुलिशोग्रया रचितमचिरादाभीरीणां कुलं मुहुराकुलम् ॥। ४० ॥

चिन्तय, तं रत्नपर्यक्के उपवेश्य, मण्यानयनार्थ स्वान्तःपुरभविशत्। अथ क्षणतः कयाचिज्जरत्या प्रोक्तसर्ववृत्तान्ता ललिता जरतीहस्ते श्रीराधाप्रतिमां स्यमन्तकम- णिकण्ठीं समर्प्य श्रीकृष्णं द्रष्टं तरुमन्तरा तस्थौ। ततस्वां ललितां दृष्टवतः सस्य या दशा अजनि तामेव द्वारकामागत्य श्रीकृष्णो मधुमङ्गलं प्रत्याह-उपतरु तरोः समीपे प्रत्यभिज्ञाय-सैवेयं ललितेति परिचित्य। राधाकृतिं श्रीराधाप्रतिमाम् ।३७ ॥ कुन्दवल्ली प्राह-मा धावेति प्रत्येकमन्वितम् ॥ ३८ ॥ मथुरा- स्थाने रथारूढं श्रीकृष्णमालोकयन्त्याः श्रीराधायाश्रेष्टितं वृन्दा वर्णयति-शता- जस्य रथस्य।। ३९ ॥। कुन्दवल्ी नान्दीमुर्खी प्रत्याह-व्रजनरपतेर्गिरा एष ज्जञया ॥ ३७ ॥ मा धावेति प्रत्येकमन्वितम् ॥ ३८॥ ३९॥ ४०.।

Page 381

३५८ काव्यमाला।

एवमन्येऽप्यूह्याः । अथोन्माद :- स श्रौढानन्दादयथा- प्रसीद मदिराक्षि मां सखि मिलन्तमालिङ्गितुं निरुन्धि मुदिरद्युतिं नवयुवानमेनं पुरः । इति भ्रमरिकामपि प्रियसखी भ्रमाद्याचते समीक्ष्य हरिमुन्मदप्रमदविक्कवा बल्लवी ॥ ४१॥ विरहादयथा- क्वाप्यान्दोलितकुन्तला विलुठति काप्यङ्गुलीभङ्गत- स्त्वङ्गद्दूर्दशनैर्विदश्य दशनान् कंसं शपत्युद्धुरा। कुत्राप्यद्य तमालमुत्तरलधीरालोक्य धावत्यलं राधा त्वद्विरहज्वरेण पृथुना दूना यदूनां पते॥ ४२ ॥ अथापसार :- यथा- अङ्गक्षेपविधायिभिर्निबिडितोत्तुङ्गप्रलापैरलं गाढोद्वर्तिततारलोचनपुटैः फेनच्छटोद्गारिभिः।

क्षत्ता व्रजनगरद्वारपाल: प्रगे श्वः प्रातःकाले नगरगतये मथुरां गन्तुं धोरं यथा घोषणया।। ४० ॥ उन्मादश्चित्तविभ्रमः । वृन्दा प्राह-भ्रमरिकां भृद्गीम् ।। ४१ । उद्धवो व्रजादागत्य श्रीकृष्णाय वर्णयति-अड्डुलीनां भङ्गतः स्फोट- नातू। खङ्गद्ूश्चलद्भयुगला। 'वगि चलने' हानुः। कंसं शपतीति। रे कंस, परलोकगतस्यापि तवाशा तुषायमाणा भवतु यत्त्वयाहमेतावद्दुःखं प्रापितेति। दूना उपतप्ता सती। यदूनां पते इति। संप्रति लं यदून् पालय। तया प्रभ- वत्या तव किं प्रयोजनमिति भावः ॥४२ ॥ अपस्मारो दुःखोत्थधातुवैषम्योद्भूत- चित्तविश्वः ॥ मथुरास्थं श्रीकृष्णं केनापि द्वारा ललिता संदिशति-अङ्गेति। उन्मादो हद्द्रमः ॥ ४१ ॥ लङ्गद्ूश्वलमूयुगला ॥ ४२ ॥ अपस्मारो दुःखोत्थधातु- वैषम्याद्युद्धूतश्चित्तविष्लवः । अपस्मारिणीं लोकप्रसिद्धेनापस्मारेण युक्ताम्। न तु

Page 382

उज्ज्वलनीलमणिः । ३५९

कृष्ण त्वद्विरहोत्थितैर्मम सखीमन्तर्विकारोर्मिभि- र्रस्तां प्रेक्ष्य वितर्कयन्ति गुरवः संप्रत्यपस्मारिणीम्॥४३॥ अथ व्याधि :- स यथा रससुधाकरे- शय्या पुष्पमयी परागमयतामङ्गार्पणादक्षते ताम्यन्त्यन्तिकतालवृन्तनलिनीपत्राणि गात्रोप्मणा। न्यस्तं च स्तनमण्डले मलयजं शीर्णान्तरं लक्ष्यते क्वाथादाशु भवन्ति फेनिलमुखा भूषामृणालाङ्कुराः ॥४४। अथ मोह :- स हर्षाद्यथा विदग्घमाधवे- दरोन्मीलन्नीलोत्पलद्लरुचस्तस्य निबिडा- द्विरूढानां सद्य: करसरसिजस्पर्शकुतुकात्। वहन्ती क्षोभाणां निवहमिव नाज्ञासिषमिदं क्क वाहं का वाहं चकर किमहं वा सखि तदा ।। ४५।।

खद्विरहादुद्भुतैरन्तर्विकारतरज्वैग्रस्तां भम सखीं लोकप्रसिद्धापस्माररोगवतीं गुरवः श्वशुरश्वश्वादयः । निबिडिता उत्तुङ्गाः प्रलापा येषु तैः ॥४३॥ व्याधिज्वरादि- प्रतिरूपो विकारः । श्रीराधायाः सखी श्रीकृष्ण प्रति तस्या विरहमाह-परागम- य्तामित्यनेनाङ्गानां संतापो विवर्तनपरिवर्तनोद्वर्तनादिपौनःपुन्यं च लक्ष्यते। तन्न संतापेन पुष्पदलानां शोषो विवर्तनादिभिश्चूर्णीभावः पुष्पाणामज्गानां च। सौरभ्येण परागलम्। तालवृन्तं व्यजनं मलयजं चन्दनपङ्कं न्यस्तमेव शीर्णान्तरं विदीर्णमध्य- भागं लक्ष्यते। क्षणान्तरे तु चूर्णमेव भवतीति भावः । चकार एवार्थ। विन्यास- सुल्यकाल एवेत्यर्थः । भूषा वलयाद्यलंकाररूपा:, तापशान्त्यर्थ मृणालाङ्करास्ते- जसङ्गतापेन यः क्वाथः पाकस्तस्मात् फेनयुक्ामा भवन्ति ॥ ४४॥ मोहो मूर्चछा। श्रीराधां पृच्छन्त्यौ ललिताविशाखे प्रत्याह-दरोन्मीलदिति। तस्य

खदीयमहारागजातेन ॥४३॥ व्याधिर्ज्वरादिप्रतिरूपो विकारः । परागोऽन् चूर्णमू

Page 383

३६० काव्यमाला।

यथा वा श्रीदशमे- कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं श्रुत्वा च तत्क्णितवेणुविविक्तगीतम्। देव्यो विमानगतयः स्मरनुन्नसारा अ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः ।। ४६ ॥।

सा पल्यङ्के किसलयकुलैः कल्पिते तत्र सुप्ता गुप्ता नीरस्तबकितदृशां चक्रवालैः सखीनाम्। द्रष्टव्या ते क्रशिमकलिता कण्ठनालोपकण्ठे स्पन्देनान्तर्वपुरनुमितप्राणसङ्गा वराङ्गी ॥ ४७ ॥

शयामलकिशोरस्य करसरसिजस्पर्शकुतुकात् सदयस्तत्क्षण एव विरूढानामुत्पन्नानां क्षोभाणां निवहं वहन्ती इदं क्व वाहमित्यादिकं नाज्ञासिषं सनिर्धारं न ज्ञातवत्य- स्मीत्यन्वयः । क्व वाहमिति प्राङ्गणे वर्त्मनि पुष्पशय्यायां वेत्यर्थः । का वेत्यहं जटिलाया वधूः, तस्यैव वा सर्वकालभोग्या कान्तेत्यर्थः । किं चकरेति संप्रयोगे वाम्यं वा दाक्षिण्यं वा पुरुषायिततवं वा किमहमकार्षमित्यर्थः । मत्तोऽहं किल विललाप, सुप्तोऽहं कि चकारेतिवत् लिट्।। ४५॥ समर्थायां रतौ मोहमुदाहृत्य कैमुत्यार्थ साधारण्याभ्यासरूपायामुदाहतुमाह-यथा वेति। गोप्यः परस्पर- माहु :- कृष्णमिति। स्मरेण नुनस्तासामन्तःकरणान्निष्काश्य दूरतः क्षिप्त: सारो धैर्य यासां ताः ॥४६ ॥ तासु व्रजसुन्दरीषु मध्ये श्रीराधा मया कथं परिचेतव्येति पृच्छन्तमुद्धवं प्रति श्रीकृष्ण आह-सेति। नीलस्तबका अश्रु- जलगुच्छाः संजाता यासु तथाभूता दृशो नेत्राणि यासां तासाम्। तारकादिला- दितच्। सखीनां चक्रवालैमण्डलैगुप्ता रक्षिता क्रशिम्ना कलिता व्याप्ता। कण्ठ नालस्योपकण्ठे यः स्पन्दः किंचिच्चलनं तेनान्तर्वपुर्वपुषो मध्ये अनुमितः प्राण-

। ४४॥ मोहो हन्मूढता। लीनचित्ततेति यावत् ॥ ४५॥ ४६ ॥ ४७ ॥

Page 384

उज्ज्वलनीलमणिः । ३६१

विषादादयथा श्रीदशमे-

व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्यगतिरीरितवेणुः ॥ व्रजति तेन वयं सविलासवीक्षणार्पितमनोभववेगाः । कुजगति गमिता न विदाम: कश्मलेन वसनं कबरं वा॥।४८।। अथ मृतिः । मृतेरध्यवसायोऽत्र वर्ण्यः साक्षादियं न हि।

संज्ञः प्राणस्यास्तित्वं यस्याः सा ॥४७॥ श्रीकृष्णस्य गोगोपसहितस्यापराह्निक- व्रजागमनलीलामाखादयन्त्यः काश्चन गोप्यो लज्जाधैर्यकुलधर्मादिभ्यो जलाअ्जलि दत्त्वा सुबलादय इव वयमपि तत्सज्विन्यः कथं नाभूम इत्यनुतापेन मुह्यन्तश्ष तदन्तरान्तरा परस्परमाहु :- निजेति । ललामं चिह्नं व्रजभुवस्तदीयतृणादेः खुरतोदं गोखुरच्छेदजन्यं दुःखं निजपदाब्जदलैर्गवां पश्चात् पश्चाद्विन्यसतैरेव शमयन् सद एव। तदङ्गुरपन्नाद्युद्रमैरिति भावः । वर्ष्मधुर्यगतिर्गजतुल्यगतिः सन् य ईरितवेणुर्व्रजति तेन कुजगति वृक्षस्येव दशां गमिता: प्रापिता: कश्मलेन मोहेन। सर्वत्रात्र मोहे स्थायिभावलोपो नाशङ्कनीयः मोहस्य संचारिलात्। संचारितस्य स्थायिभावसाहाय्यरूपलादत एवोक्तं रसामृत एव-'अन्यन्नात्मादिपर्यन्ते स्यात्स- वैत्रैव मूढता। कृष्णस्फूर्तिविशेषस्तु न कदाप्यत्र लीयते ॥' इति ॥४८ ॥ अध्य- वसाय उद्यमः । इयं मृतिः प्राणत्यागो न वर्ण्येति समर्थसमञ्जससाधारणस्थायि- भाववतीनां श्रीकृष्णप्रेयसीनां नित्यसिद्धलेन तदसंभवात्। अन्तर्गृहागता: काच्चि- दित्यादेस्तथा 'कृष्णपत्यो विशन्नग्निम्' इत्यादे्व्याख्या वैष्णवतोषिणीसंदर्भादौ द्रष्टव्या । क्वचित्साधकप्रायाणां कासांचिन्मृतेः संभवेऽय्यमङ्गलत्ान्न वर्ण्येति।। ललामं चिह्नम्। व्रजभुवस्तदीयतृणादेः खुरतोदं गवां खुरैः कृतच्छेदम्। निजपदाब्जदलैस्तत्स्पर्शैः सद एवाङ्कुरोत्पादकैः शमयन् वर्ष्मधुर्यगतिर्गज- तुल्यगतिः । ईरितवेणुरिति वेणुवादनेन तन्रापि वैशिष्ट्यं दर्शितम्। कुजो वृक्ष:, कश्मलो मोहः ॥४८ ॥ मृतिः प्राणत्यागः । मृतेरध्यवसाय इति। अन्तर्गृहगताः काश्विदित्यादेर्गतिस्तु श्रीवैष्णवतोषिण्यां व्याख्यातास्तीति भाव:

Page 385

२६२ काव्यमाला I

यथोद्धवसंदेशे- यावद्यक्तिं न किल भजते गान्दिनेयानुबन्ध- स्तावन्नत्वा सुमुखि भवतीं किंचिदभ्यर्थयिष्ये। पुष्पैर्यस्या मुहुरकरवं कर्णपूरान्मुरारे: सेयं फुल्ला गृहपरिसरे मालती पालनीया ॥ ४९ ॥ अथालस्यम् साक्षादङ्गं न चालस्यं भड्गा तेन निवध्यते ॥५० ॥ यथा- निरवधि दधिपूर्णां गर्गरीं लोडयित्वा सखि कृततनुभङ्गं कुर्वती भूरि जृम्भाम्। भुवमनुपतिता ते पत्युरास्ते सवित्री विरचय तदशङ्कं त्वं हरेमूर्भि चूडाम् ॥५१ ॥

श्रीराधा ललितां प्रत्याह-यावदिति । गान्दिनेयोऽक्रूरः । तावदिति। श्रीकृष्णस्य मथुराप्रस्थाननिश्चये श्रुते तु मरिष्यन्त्या मम वाक्यं नैव निःसरिष्य- तीति भावः ॥l ४९ ॥ आलस्यं सामर्थ्यसद्भावेऽपि कर्तव्यवस्तुनि न चिकीर्षा तदालस्यमासक्तेर्विषयभूते वस्तुनि चेद्भवेत्तदा आसक्तेरेव लोपः स्यादिति प्रेमव- तीनां कृष्णे कृष्णसंबन्धिवस्तुनि च तस्यासंभवः किंतु जरत्यादिषु विद्यमानं तदासां स्थायिभावं पुष्यतीत्याह-साक्षादङ्गमिति॥५० ॥ कुञे श्रीकृष्णेन सह विलसन्तीं श्रीराधां पद्माशिक्षिताया: कस्याश्चित् शारिकाया मुखतो जटि- लाया आगमनं श्रुला बिभ्यतीं श्रीराधां तदानीमेव दैवाद्रोष्ठादागता रूपमज्री आश्वासयति-निरवधीति ॥५१॥ जाड्यमप्रतिपत्तिः । कुन्दवल्ली नान्दी

॥४९ ॥ साक्षादङ्गं न चेति। आलस्यं खल शक्तौ सत्याभप्यशक्तिव्यज्ना। सा तु तासां कृष्णसेवादौ न संभवत्येव। न पारयेऽहं चलितुमिति कृत्रिमालस्यं ज्ञेयम्। तस्माद्विरोधिगततद्वर्णनात् स्थायिपोषणपरिपाट्येव तन्निबद्धता युक्ता

Page 386

उज्ज्वलनीलमणिः । ३६३

अथ जाड्यम्-तदिष्टभुत्या यथा- गोपुरे रुवति कृष्णनूपुरे निप्क्रमाय धृतसंभ्रमाप्यसौ। कीलितेव परिमीलितेक्षणा सीदति स्म सदने मनोरमा ॥५२॥ अनिष्टश्रुत्या यथा ललितमाधवे- आलीव्यलीकवचनेन मुहुर्विहस्ता हस्तारविन्दविगलद्रथितार्धमाल्या। हा हन्त हन्त किमपि प्रतिपन्नतत्रा चन्द्रावली किल दशान्तरमारुरोह ।। ५३॥ इष्टेक्षणेन यथा विदग्घमाधवे- अहो धन्या गोप्य: कलितनवनर्मोक्तिभिरलं विलासैरामोदं दधति मधुरैर्या मधुमिदः। धिगस्तु सं भाग्यं यदिह मम राघा प्रियसखी पुरस्तस्मिन्प्राप्ते जडिमनिविडाङ्गी विलुठति॥ ५४ ॥

सुखीमाह-गोपुरे पुरद्वारे।। ५२।। श्रीकृष्णस्य मशुराप्रस्थाने पौर्णमासी सखेद- माह-आत्याः पझ्माया व्यलीकवचनेन विहस्ता व्याकुला। 'विदृस्तव्याकुलौ समौ' इत्यमरः । व्यलीकवचनं च तत्रैव यथा-'अजारूढो रहमिह पुरा सङ्ग- रजी रहडी हा पुफ्फाणं तहवि चडुले गन्तुमुककण्ठिदासि। आहीरीणं वहिवि गहिरुक्कोसदीहा विलावा किं ते चन्दा अनिल परिदो कष्णकुजं विसन्ति ॥' इते। दशान्तरं दशर्मी दश्याम् ।। ५३ ॥ विशासा श्रीकृष्णेन मिलितायाः श्रीराधायाः प्रेमोत्कर्ष व्याजसुला वर्णयति-अहो इति। आमोदमानन्दम्

।। ५०॥५१॥ जाव्यमप्रतिपत्तिः ॥ ५२॥ आलीव्यलीकवचनेनेति। अस्य प्रसज्जो ललितमाघवाज्ज्ञेयः । व्यलीकमप्रियम् ॥५३॥ सहो धन्या इंति। अद्यावगते तस्या ईदशसभावेऽपि यनाटकेव्वन्नापि च कृत्रचिन्नर्मादिक

Page 387

३६४ काव्यमाला।

अनिष्टेक्षणेन यथा- राधा वनान्ते हरिणा विहारिणी प्रेक्ष्याभिमन्युं स्तिमिताभवत्तथा। कुद्धास्य तूर्ण भजतोऽपि संनिधिं यथा भवानी प्रतिमात्रमं दघे ॥ ५५ ॥ विरहेण यथा पद्यावल्याम्- गृहीतं ताम्बूलं परिजनवचोभिर्न सुमुखी स्मरत्यन्तःशून्या मुरहर गतायामपि निशि। तथवास्ते हस्तः कलितफणिवल्लीकिसलय- स्तथैवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥ ५६॥

॥ ५४।। वृन्दा पौर्णमासीमाह-राधेति। स्तिमिता स्तब्धा जाड्येन जातस्त- म्भभावा तथा अभवत् यथा अभिमन्योर्भवानीप्रतिमैवेयं कामुकी न तु राधेति भ्रमम्। ततश्च भो: कृष्ण, अस्या भवानीप्रतिमाया निकटे किमर्थ वससीति कृष्णे पृष्टे इमां गन्धपुष्पचन्दनादिभि: शङ्गारयितुमिति तेन च प्रत्युक्ते भवान्यै नम इति राधां प्रणम्य स गृहं गत इति ज्ेयम् । ५५॥ विप्रलब्धाया राधाया विरहपीडां व्यञ्जयन्ती वृन्दा श्रीकृष्णं प्रत्याह-गहीतमपि ताम्बूलं न स्मरति हस्ते अस्ति वा नास्तीति नानुसंधत्ते। परिजनानां वचोभिरित्यनेन तत्र खतः स्पृहाभावः सूचितः । तन्रापि बहुवचनेन सशपथतदानयनाद्याश्वासः सूचितः । कलितं गृहीतम्। फणिवह्न्यास्ताम्बूलवह्लयाः किसलयं पत्राणि यस्य सः। करमुक- फलस्य गुवाकस्य फाली खण्डं तया परिमितभास्यं च तथवास्त इति।प्रथमं ताम्बूलवेष्टिता गुवाकफाल्यो मुखे याः परिजनैरर्पितास्ता न चर्वयति स्म। वर्ण्यते तत्खलु विरलमेव ज्ञेयम्। सं मदीयम् ॥५४ ॥ नासूयन् खलु कृष्णा- येत्यादिना श्रीभागवते तत्पतिंमन्यादीनामसूयाया निवारणाय मायया तत्तदाच्छा- दनं प्रतीत्यन्तरं च दर्शितम्। तस्माद्राधा वनान्त इत्यादावत्र यद्भवानीप्रतिमा- कारतं तस्या जातं तच्ब भायाया एव कार्यम्। साक्षात्तद्रूपप्रतिमयोर्बहुवैलक्ष- ण्यात्। एवमन्यत्रापि, प्रकारभेदेन तत्तत्प्रतारणमुक्तमनुक्तमपि ज्ञेयम्। तस्मा- नासूयन्नित्यनेन विरोधः कुत्रापि न मन्तव्यः ॥ ५५ ॥ फणिवह्नयाः पक्कदलस्यैव

Page 388

उज्ज्वलनीलमणिः । ३६५

अथ व्रीडा सा नवीनसंगमेन यथा- विधुमुखि भज शय्यां वर्तसे किं न तस्या मुहुरयमनुवर्ती याचते त्वां प्रसीद। इति चटुभिरनल्पैः सा मयाभ्यर्थ्यमाना व्यरुचदिह निकुञ्जश्रीरिव द्वारि राधा ॥ ५७॥ अकार्येण यथा- पटुः किमपि भाग्यतस्त्वमसि पुत्रि वित्तार्जने यदेतमतुलं बलादपजहर्थ हारं हरेः। गभीरमिति श्रृण्वती गुरुजनादुपालम्भनं मणिसगवलोकनान्मुखमवाञ्चयन्मालती ॥ ५८॥ स्तवेन यथा- संकुच न तथ्यवचसा जगन्ति तव कीर्तिकोमुदी मार्षि। उरसि हरेरसि राधे यदक्षया कौमुदीचर्चा ।।५९॥

ततथ् खदिरचूर्णैलालवङ्गादियुक्त पर्णवीटिका हस्तेऽपिंता यास्ता मुखे नार्पयति स्मेति। निशायां गतायामपीति प्रहरत्रयव्यापिनी जडता ।। ५६। त्रीडा लखा। श्रीकृष्णः सुबलमाह-विधुमुखीति । अनुवर्ती मल्लक्षणोजनः । याचत इति। तवाङ्गसंवाहनार्थ सोत्कण्ठ इति भावः । द्वारीति। तदपि शय्यायां लज्यैव न गतेत्यर्थः ॥ ५७ ॥ मालत्याः सखी कांचिदाह-गुरुजनात् खमाताभह्याः ॥ ५८॥ श्रीराधिकाया माहात्म्यं गागी प्रति वर्णयन्ल्ां पौर्ण- सास्यां दैवात्तत्रायातायां श्रीराधायां स्वोत्कर्षश्रवणेन संकुचितायां तस्यां वृन्दा सम्रौढि प्राह-संकुचेति। मार्ष्टि उज््वलीकरोति ॥ ५९॥ खण्डिता श्रीराधा खादुलेऽपि सखीभि: किशलयसमर्पणं विरहे शीतलप्रयोगापेक्षयेति ज्ञेयम्। फाली खण्डम् ॥५६ ॥ व्यरुचदिहेत्यत्र 'लसति बत' इति वा पाठः ॥।। ५७ ॥ पट्ः किमपीति । खप्रतिपक्षनायिकया प्रेषिताया भालतीमातामहीवेशवा- रिप्या मालवीं प्रत्युपहासवचनम्। किमपीति। असीतस्य विशेषणं गुरुजनादिति च गौण्या वृत्त्या तत्सदशादिलेव जेयम्॥ ५८॥ संकुच नेति। ललितमाव-

Page 389

३६६ काव्यमाला।

अवज्ञया यथा श्रीगीतगोविन्दे- तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणद्योतिहृदयम्। ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ ६० ॥ अथावहित्था सा जैह्रयेन यथा श्रीजगन्नाथवल्लभे- अमुष्याः प्रोन्मीलत्कमलमधुधारा इव गिरो निपीय क्षीबत्वं गत इव चलन्मौलिरधिकम्।

श्रीकृष्णं साक्षेपमाह-तवेति। हे कितव, तवेदं हृदयं पश्यन्त्या मम खदा- लोकस्तत्कर्मकोऽवलोक: कर्ता। प्रख्यातस्य प्रणयभरस्य भज्गेन हेतुना यः शोक- स्तस्मात् सकाशादपि किमप्यनिर्वचनीयं यथा स्यात्तथा अधिकदुःखदां लजां जनयति। अधिकदुःखदामिति पश्चम्यन्तपदेनाक्षेपः। यद्वा लां द्रष्टमहं सभावा- देव सदा लज्जे अधुना तु प्रणयभरभङ्गेन शोकादपि विशेषतो लज्े इत्यर्थः ॥ हृदयं कीदृशम्। प्रियायाः पादालक्तेन छुरितं म्रक्षितमत एवारुण इव द्योतते जनिष्यमाणमत्संतापसूर्योदयसूचकं किमिव। बहिः प्रसरन्ननुरागो यस्मात्तदिव। एतावद्दिनपर्यन्तं मत्प्रतिनायिकाविषयस्तवानुरागस्तया हृदयमध्य एव संगोपित आसीत्। अधुना मद्वधार्थ सोऽयं निःसृतवानित्यर्थः ॥६०॥ अवहित्या आकारगुप्तिः । मदनिकानान्नी वनदेवी वितर्कयति-अमुष्याः श्रीराधाकामलेखो- पहारिण्याः शशिमुख्या: गिरो निपीय प्रेमपरीक्षार्थ खहृदयकमलास्तद्विषयकरमणो- त्सुक्यवैदग्ध्यस्तासां गोपनपरोऽयं श्रीकृष्णः सैर खैरं मन्दं मन्दम्। 'मन्दसच्छ- वादिरीत्या दाम्पत्ये जाते सोऽयं कयाचित् स्तवः कृत इति गम्यते। तत एव स्तवबुद्धिस्तस्या जायते। अदाम्पत्ये तु कलङ्कबुद्धिरेवेति ॥५९ ॥ हे कितव, तवेदं पश्यन्त्या मम लदालोकः कर्ता। प्रणयभरभङ्गजातं शोकमतिक्रम्यापि किमप्यनिर्वचनीयं यथा स्यात्तथा लज्जां जनयति। इदं किम्। हृदयम्। कीट- शम्। अरुणद्योति। तादृशे लज्जाजनकले च हेतुः-प्रियेति। छुरितं युक्तम्। किमिव। बहिः प्रसरन्ननुरागस्तद्विषयोऽनुरागो यत्र तदिव ॥ ६० ॥ अवहित्था आकारगुप्तिः क्षीबतं मत्ततम्। इवेति वाक्यालंकारे। कला कलना

Page 390

उज्ज्वलनीलमणिः । २६७

उदञ्जत्कामोऽपि खहृदयकलागोपनपरो हरि: स्वैरं ख्वैरं स्मितसुभगमूचे कथमयम् ॥ ६१ ॥ जैह्रयलञ्जाभ्यां यथोद्धवसंदेशे- मा भूयस्त्वं वद रविसुतातीरधूर्तस्य वार्ता गन्तव्या मे न खल तरले दूति सीमापि तस्य। विख्याताहं जगति कठिना यत्पिधत्ते मदङ्गं रोमाञ्चोऽयं सपदि पवनो हैमनस्तत्र हेतुः ॥ ६२ ॥ दाक्षिण्येन यथा ललितमाधवे- उद्धूता स्मितकौमुदी न मधुरा वक्रेन्दुविम्बात्तया मृद्दीनां न निराकृता निजगिरां माघुर्यलक्ष्मीरपि। कोष्णैरद् दुरावरैर्निजमनो गूढव्यथाशंसिमि: श्वासैरेव दरोद्ुतस्तनपटैस्तस्या रुपः कीर्तिताः ॥ ६३ ॥ हिया यथा विदग्धमाधवे- भजन्त्याः सव्रीडं कथमपि तदाडम्बरघटा- मपह्नोतुं यलादपि नवमदामोदमधुरा।

सन्द्रयो: ख्वैरम्' इति नानार्थवर्गः । स्मितसुभगं यथा स्यात्तथा कथमूचे। उच्य- -मानवाक्यजातस्यौदासीन्यव्यञ्कस्य सत्यले स्मितादेव संभवादिति भावः ।। ६१ ॥ मा भूय इति। तर्हि कुतोऽयं रोमाश्च इति चेत्तत्राह-यत् पिधच्ते इति। हैमनो हिमसुंभवः ॥ ६२॥ श्रीकृष्णो मधुमङ्गलं प्रलाह- उद्धतेति । तया चन्द्रावल्या दुरावरैरावरीतुमशक्यैः ॥६३॥ पौर्णमासी खगतमाह-सरोजाक्ष्याः श्रीराधायास्तनुवनी तनुरेव वनी क्षुद्रं वनं कालिन्दी- भावनेत्यर्थः। खवैरं खैरं मन्दं मन्दम्। 'मन्दसच्छन्दयोः सैरम्' इति नानार्थ- वर्गात्। कथमूचे तत्कथयेति शेषः ॥। ६१ ॥ यत्पिधत्ते मदङ्गमिति। तहिं कुतोऽयं रोमाश्च इति तदाक्षेपमाक्षिपति यत् पिघत्ते इति । हैमनो हेमन्तभवः

Page 391

३६८ काव्यमाला।

अधीरा कालिन्दीपुलिनकलभेन्द्रस्य विजयं सरोजाक्ष्याः साक्षाद्वदति हृदि कुञ्जे तनुवनी ॥६४/ हीभयाभ्यां यथा- हृदये त्वदीयरागं माधव दधती शमीव सा दहनम्। अन्तर्ज्वलितापि बहिः सरसा स्फुरति क्षमागुणतः ॥ ६५ ॥' भयेन यथा- चन्द्रावली मन्दिरमण्डलानि पत्युः पुरस्ताच्चिरमाचरन्ती। वंशीनिनादेन विरूढकम्पा निनिन्द धूर्ता घनगर्जितानि ॥६६। गौरवदाक्षिण्याभ्यां यथा- स्वकरग्रथितामवेक्ष्य मालां विलुठन्तीं प्रतिपक्षकेशपक्षे। मलिनाप्यघमर्दनादरोर्मिस्थगिता चन्द्रमुखी बभूव तृष्णीम्।। ६०

पुलिनसंबन्धिनः कलभेन्द्रस्यातिशयोत्तया, पक्षे श्रीकृष्णस्य विजयमाग वदति। क्व। हृदि हृदयरूपे कुजे। तस्यासाधारणं लक्षणं वक्तुं विशिनष्टि- नवेन मदामोदेन दानगन्धेन, पक्षे मत्तताधिक्येन मधुरा माघुर्यवती। अघी3 चञ्चला। सरोजाक्ष्याः कीदृश्याः। तस्य कलभेन्द्रस्य आडम्बरघटां गर्जनश्रेणीम ह्ोतुं संगोपयितुं यत्नान् भजन्त्या: कुर्वत्याः । 'आडम्बरस्तुर्यरवे गजेन्द्राणां गर्जिते।' इति नानार्थवर्गः । गर्जितमत्र विक्रमव्यज्जिका ख्यातिः ॥६४॥। श्रीराधार्य अमितार्था दूती श्रीकृष्णं प्रत्याह-हृदय इति। शमी छेकर इति प्रसिद्धो वृक्ष: स यथा अन्तःकोटरगतेन स्वाभाविकेन दहनेन प्रतिक्षणं दह्यमानोऽपि बहि- पुष्पपल्लवादिभिः सारस्यं प्रकाशयति तथेत्यर्थः । 'क्षमागुणतः क्षमा पृथिवी' पद लोको मम श्रीकृष्णानुरागं न जानातिति तेभ्यो लज्जाभयाभ्यामनुरागज्वालायाः सहिष्णुता ॥। ६५।। ललितायाः सखी काचित् चन्द्रावलीचरित्रं कुतोऽपि श्रुखा आगत्य सखीसंसदि कथाप्रस्तावेनाह-निनिन्देति। वंशीनिनादकाले दैवान्मे- घानां गर्जितेषु सत्सु धिडमेघानां गर्जितानि यानि मां त्रासेन कम्पयन्तीत्युक्ता तेषामेव मूर्भि दोषं ददौ।। ६६ । चन्द्रमुख्याः सखी वृन्दा प्राह- ६२॥६३ ॥६४ ॥ क्षमा शान्तिः । पक्षे भूः। चन्द्रावलीति। प्रतिपक्ष नायिकाया: सख्या वचनम्। निनिन्देति। वंशीनिनाद्घनगर्जितयोः समकाललं

Page 392

उज्ज्वलनीलमणिः । ३६९

अथ स्मृति :- सा सदशेक्षया यथा हंसदूते- तमालस्यालोकाद्विरिपरिसरे सन्ति चपलाः पुलिन्दो गोविन्दस्मरणरभसोत्तप्तवपुषः । शनैः सेदं तासां क्षणमपनयन्यास्यति भवा- नवश्यं कालिन्दीसलिलशिशिरैः पक्षपवनैः ॥ ६८॥ दढाभ्यासेन यथा- ते पीयूषकिरां गिरां परिमला: सा पिच्छचूडोज्ज्वला तास्तापिच्छमनोहरास्तनुरुचस्ते केलय: पेशलाः । तद्वक्रं शरदिन्दुनिन्दि नयने ते पुण्डरीकश्रिणी तस्येति क्षणमप्यविस्मरदिदं चेतो ममाघूर्णते ॥ ६९॥ अथ वितर्क :- स विमर्शादथा विदग्धमाधवे- विघूर्णन्तः पौष्पं न मधु लिहतेऽमी मधुलिहः शुकोडयं नादत्ते कलितजडिमा दाडिमफलम्।

स्वति। केशपक्षे कबर्याम्। 'पाशः पक्षश्र हस्तश्व कलापार्थाः कचात्परे' इत्यमरः। स्थगिता संवृतक्षोभेत्यर्थः ॥ ६७ ॥ कृष्णग्रेषितां दूर्ती प्रति कलहान्तरिता श्यामा प्राह-स्मृतिः पूर्वानुभूतार्थस्मृतिः। ललिता संदेशहारकं मथुरां हंसं पन्थानमु- *दिशन्ती प्रार्थयते-तमालस्येति ॥। ६८।। प्रोषितभर्वृका श्रीराधा विलप- न्त्युद्धवं प्रत्याह-त इति। पीयूषकिरामिति क्विवन्तषध्यन्तम्। परिमला इत्य- नैन गिरां पुष्पमज्जरीलमारोपितं तेन चातिस्पहणीयतं व्यञ्जितम्। पुण्डरीकस्य श्रीः श्वेतिमशोभा ययोसते ॥ ६९ ॥ वितर्को हेतुपराभशोदिजन्योऽत्यूहः ॥ विम- शातू हेतुपरामर्शात्। वने निह्रोतुं श्रीकृष्णमन्विष्यन्ती श्रीराधा वितर्केयति- विघूर्णन्त इति। व्याप्तिग्रहणरूपो विचार: पूर्वपूर्वानुभवाद्। न चरति न बोधयति॥ ६५ ॥ ६६ । ६७ । पूर्वानुभूतार्थप्रतीतिः स्मृतिः । पीयूषकिरा- मिति क्विबन्तस्य षध्यन्तं पदम् ॥ ६८ ॥ वितर्को विमर्शानन्तरं विचारः । विमर्शो हेतुपरामर्शः । विशेषस्तु पूर्वग्रन्थाज्ज्ञेयः ॥ ६९ ॥ विघूर्णन्त इति। २४ उज्व०

Page 393

३७० काव्यमाला।

विवर्णा पर्णाग्रं चरति हरिणीयं न हरितं पथानेन सवामी तदिभवरगामी ध्रुवमगात्॥७0॥ संशयादयथा ललितमाधवे- विदूरे कंसारिर्मुकुटितशिखण्डावलिरसौ पुरा गौराङ्गीभि: कलितपरिरम्भो विलसति। न कान्तोऽयं शक्के सुरपतिधनुर्धाममधुर- स्तडिल्लेखाहारी गिरिमवललम्बे जलधरः ॥। ७१ ॥ अथ चिन्ता सा इष्टानवास्या यथा पद्यावल्याम्- आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः । मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तड्डूया: सखि योगिनी किमसि भो: किं वा वियोगिन्यसि॥७२ यथा वा विदग्धमाधवे- अक्ष्णोर्द्वन्द्वं प्रसरति दरोद्वूर्णतारं मुरारेः श्वासाः कृपां किल विचकिलैर्मालिकां प्ावयन्ति।

भक्षयति ॥ ७० ॥ संशयः कोटिदूयं स्पृशन्निर्णेतुमशक्यं ज्ञानं तस्मात्। प्रोषि- तभर्तृका श्रीराधा दिव्योन्मादेव भ्रमन्ती गोवर्धने मेघमालोक्याह-विदूर इति। गाढं निभाल्य निश्चिनोति-न कान्तोऽयमिति ॥७१॥ चिन्ता इष्टलाभार्थमनिष्टपरिहारार्थ च भावना। ज्ञाततत्त्वापि विशाखा पूर्वरागवर्ती केनापि प्रकारेणाहं श्रीकृष्णसह्गं लप्स्य इति ध्यायन्तीं श्रीराधां पृच्छति-नासाग्रे नयनमित्यादिध्यानमात्रस्यानुभवः । एकतानमनन्यवृत्ति ॥ ७२॥ नायिकाना- मिव नायकेऽपि संचारिभावा उदाहर्तव्या इति प्रदर्शयितुमाह-यथावेति। अन्र व्याप्तिग्रहरूपो विचार: पूर्वपूर्वानुभवात् ॥। ७० ॥ संशयाद्यथेति। संश- यानन्तरं यो विपर्यासस्तस्मादित्यर्थः ॥ न कान्तोऽयमिति। अन्न 'न कंसारिः' इति वा पाठः॥ ७१॥ नासागे इति। अन्र नातिसंतुष्य काव्यान्तर- मुदाहरति-यथावेति। छिदुरेति कर्मकर्तरिप्रयोगः। तत्तया स्यं छिद्यमान-

Page 394

उज्ज्वलनीलमणिः । ३७१

केयं धन्या वसति रमणी गोकुले क्षिप्रमेतां नीतस्तीव्रामयमपि यया कामपि ध्याननिष्ठाम्॥ ७३॥ अनिष्टास्या यथा- बाल्यस्योच्छिदुरतया यथा यथाङ्गे राधाया मधुरिमकौमुदी दिदीपे। पझ्माया मुखकमलं विशीर्णमन्तः संताम्यन्द्रमरमिदं तथा तथासीत्॥।७। यथा वा-

मा चन्द्रावलि मलिना भव राघायाः समीक्ष्य सौभाग्यम्। ज्योतिर्विदोऽपि विद्युः कृष्णे किल बलवती तारा ॥ ७५॥।

पूर्वरागवन्तं कथमहं राधासङ्गं लप्स्य इति ध्यायन्तं श्रीकृष्णं दूरादालोक्य पौर्ण- मासी वितर्कयति-विचकिलैर्मलिकापुष्पैः॥। ७३ । नान्दीमुखी पौर्णमासी प्त्याह-बाल्यस्येति। उच्छिदुरतया स्वयमुच्छिद्यमानतया। कर्मकर्तरि कुरच्। मुखपक्षे अन्तरन्तःकरणं तदेव संताम्यन् भ्रमरो यत्र तदासीत् अभूत् ॥७४ ॥ श्रीराधायाः सौन्दर्येण पद्मायाश्चिन्तामुदाहृत्य तस्याः सौभाग्येन चन्द्रावल्या अपि चिन्तामुदाहर्तुमाह-यथा वेति। ललितया पाठिता काचिद सारी चन्द्रावली- निकटे पठति-मेति। कृष्णे कृष्णपक्षे श्रीनन्दपुत्रे च । तारा अश्विन्यादिः

तयेत्यर्थः । विशीर्णतं स्खलितप्रकाशलेनानवस्थितयथावद्वयवलम्। मुखपक्षे अन्तःकरणं तदेष संताम्यन् भ्रमरो यत्र तादृशम् ।। ७२॥। सा चन्द्रावलीति श्रीराधासख्या शिक्षितायाः सारिकाया वचनम्। यूथेशाग्रे विपक्षसखीनां ताट- शधाष्ट्यस्यासंप्रतिपत्तेः। सौभाग्यं तादशविषयककान्तप्रेम्णा तादृश्यालालित्यम्। तच् नायुकमित्याह-ज्योतिर्विंद इति। कृष्णे कृष्णखरूपे, पक्षे तारा तद्वि- शेषरूपा, श्लेषे तु तारा तद्विशेषनान्री श्रीराधा 'कृष्णे कृष्णाख्ये निजकान्ते

Page 395

३७२ काव्यमाला।

अथ मति :- सा यथा पद्यावल्याम्- आश्लिष्य वा पादरतां पिनष्टुमा- मदर्शनान्मर्महतां करोतु वा। यथा तथा वा विदधातु नागरो मत्पाणनाथस्तु स एव नापरः ॥ ७६ ॥

श्रीराधा च ।। ७५। मतिर्विचारोत्थभर्थनिर्धारणम्। कदाचिन्माथुरविरहव्यथा- विशीर्णाङ्गीं श्रीराधामालोक्य पौर्णमासी स्न्रहेनोपदिदेश। वत्से, श्रीभगवतो नारायणस्य पूजापरिचर्याजपस्तुत्यादिकं वामहमुपदिशामि तत्रैव खमनो निमजज्य दुस्तरं समयमिमं यापय यावच्छ्रीकृष्णागभनमुपायोऽयं लोकदवयसुखद एवेति ं नारायणभक्ता भवेति। ततस्तां प्रति श्रीराधाह-हे भगवति, एवं चेत् सर्वज्ञस्य गर्गस्योक्तिप्रामाण्येन नारायणसमस्य श्रीकृष्णस्यैव पूजाजपस्तुत्यादिकं कथं मां नोपदिशसि। ततश्च मया तेनैव प्रकारेणाराधितोऽसौ प्रादुर्भूय खदर्शनं मे दास्य- तीति। ननु स स्वीयखभावं त्यक्तुमसमर्थः पुनरपि ते विरहृद्गःखं दास्यतीति चेत्तत्नाह-आश्िष्येति। पादरतां चरणयोः पतितां मामाश्लिष्य खहस्ताभ्यां धृता उत्थापयन् स्ववक्षसि निधाय खबाहुभ्यां पिनष्ट अतिगाढतरालिङ्गनेनानन्द- समुद्रे निभज्जयतु। किं वा तदैवादर्शनं प्रदाय। ल्यब्लोपे पञ्चमी। मर्महतां करोतु इतोऽप्यधिकदुःखसमुद्रे निमज्जयतु। यथा तथा वेयनेन मत्सम(क)क्ष- मेव मत्प्रतिनायकां रमयतु वेति व्यजितम्। यतो लम्पटः तस्य लाम्पट्यमेव विचाराभावव्यञ्जकमिति भावः । किंतु व्यवहारे वा परमार्थे वा मम प्राणानां नाथः स एव नलन्यः तेन श्रीनारायणमहं परलोकार्थमपि सेवितुं न शक्कोमि मम श्रीकृष्णैकतानत्ादिति भावः । प्रकारान्तरेण व्याख्यायां स एव नापर इत्यन्ययो- गव्यवच्छेदकेनैवकारेण व्यजितो रसाभासो दुर्निवार एव स्यातू। स एव ना पुरुषः कीदृशः । पर इति व्याख्यायामपि स एव दोषः । यद्वा स तु मत्पराणनाथ एव ७३ ॥ ७४ ॥ ७५ ॥ मतिर्विचारोत्थ मर्थनिर्धारणम् ॥ कापि सखी कस्याश्चित श्रीकृष्णप्रेयस्याः सत्त्वपरीक्षार्थमेवमुक्त्तवती। स खल तरुणवयास्तव नववय- स्काया जातु सुखदायी दृश्यते तथापि तदेकानुरक्तां लामुपदिशामि तदनुरागं व्यजेति। तत्राह-आ्लिष्येति । पादरतामिति तु त्यागभयाइैन्योक्तिः

Page 396

उज्वलनीलमणिः । ३७३

यथा वा- भवाम्बुजभवाद्यस्तव पदाम्बुजोपासना- मुशन्ति सुरवन्दिताः किमुत मन्दपुण्या नृपाः । अतस्तव जगत्पते मधुरिमाम्बुघेर्मद्विधो न दास्यमिह वष्टि कः पुरुषरत कन्याजनः ॥ ७७॥ अथ धृति :- सा दुःखाभावेन यथा श्रीदशमे- तद्दर्शनाह्नादविधूतहृदुजो मनोरथान्तं श्रुतयो यथा ययुः ।

नापर इत्येवकारतुकारयोः स्थानविनिमयेन योजनायामन्ययोगव्यवच्छेदः। किंचिद- सामज्जस्यं न स्यात् किंतस्थानस्थपतितानाभदोषः स्यादिति पूर्वोक्तप्रकार एवोपादेयः। किंतु श्लोकोऽयं भगवतः श्रीमहाप्रभोमुखाननिःसृत इति नानवधानीयो भवितुभर्हृति। स च श्रीमहाप्रभुः श्रीराधिकां विनान्यत्र कस्यामप्युदाजिहीर्षति। किं चात्र पूर्वम- हाजनप्रसिद्धो लम्पट इत्येव पाठस्तदीय इत्यश्रौष्म ॥ ७६॥ सभर्थायामुदाहृत्य समज्जसायामुदाहर्तुमाह-भवेति। सुनन्दनामानं विप्रं श्रीकृष्णसंनिधौ प्रस्थाप- यन्ती श्रीरुक्मिणी संदेशपत्रीं लिखति। अम्बुजभवो ब्रह्मा। उशन्ति कामयन्ते। मधुरिमाम्बुधेरिति। श्लेषेण मधुरस्य शङ्गाररसस्य भावो मधुरिमा तस्याम्बुघेस्तव दास्यं दासीलम्।। ७७।। धृतिः पूर्णता भनसः स्थैर्यसंपादिनी ॥ रासलीलायां तिरोधाय पुनराविर्भूतं श्रीकृष्णमालोक्य व्रजसुन्दरीणां सर्वदुःखप्रशमकं पूर्णमा- नन्दं तदुत्थचेष्टां च श्रीशुकदेवो वर्णयति-तदिति। तस्य श्रीकृष्णस्य दर्शना- नन्देन खण्डितसर्वमनोदुःखा त्रजसुन्दर्यः खीयैरुत्तरीयैरात्मबन्धवे श्रीकृष्णाय आसनं तथा अचीकृपन् उपजहुर्यथा श्रुतयो महोपनिषदोऽपि मनोरथानामन्तं परमकाष्ठां ययुः। यतोऽधिकोऽन्यो मनोरथो नास्ति तं प्रापुः। वयमपि व्रजे गोप्यो । ७६॥। भवाम्बुजेति। श्रीरुक्मिण्याः श्रीकृष्णकृतपरिहासादनन्तरं वचनं किमुतेत्यत्र 'कइह' इति वा पाठः ॥ ७७ ॥ धृतिः पूर्णता। मनसोऽचावत्य- मिति यावत्॥ न केवलं ता मनोरथान्तं तत्पराकाष्ठां ययुः । श्रुतयोऽपि यथा येन तासां तत् सौभाग्यवर्णनप्रकारेण तं ययुरित्यर्थः । ततश्व ताः सैरुत्तरी-

Page 397

२७४ काव्यमाला।

उत्तमाश्या यथा- नव्या यौवनमञ्जरी स्थिरतरा रूपं च विस्मापनं सर्वाभीरमृगीदृशामिह गुणश्रेणी च लोकोत्तरा। स्वाधीनः पुरुषोत्तमश्च नितरां त्यक्तान्यकान्तास्पहो राधायाः किमपेक्षणीयमपरं पद्मे क्षितौ वर्तते॥ ७९॥ अथ हर्ष :- सोडभीष्टेक्षणेन यथा श्रीदशमे- तं विलोक्यागतं प्रेष्ठं प्रीत्यु्फुल्लद्दशोऽबलाः। उत्तस्थुर्युगपत्सर्वास्तन्वः प्राणमिवागतम् ॥ ८० ॥

भूला श्रीकृष्णेन सहैवं सकुचकुङ्गमस्तिमितवस्त्रार्पणादिना कदा विलसामेत्युत्कण्ठिता बभूवुरित्यर्थः । अत एव श्रुतयो गोपीनां पदवीं प्रापुभनुगतिमयं तीव्रं तपश्चक्कुरिति बृहद्वामनीया कथा प्रसिद्धा। श्रीदशमे च 'स्त्रिय उरगेन्द्रभोगभुजदण्डविषधियो वयमपि ते समा: समदशोद्रिसरोजसुधाः' इति तासामुक्तिः। अत्र पूर्वकल्पगत- श्रीकृष्णावतारदर्शिन्यः श्रुतयो लब्धचरमनोरथा एतस्मिन् कल्पे गोप्यो बभूवुः। एतस्मिन् कल्पे तु लब्धमनोरथा अन्याः श्रुतयोऽग्रेतने कल्पे गोप्यो भविष्यन्ति श्रुतीनामानन्त्यादिति ज्ञेयम् । ७८ ॥ किंकामनया प्रत्यहमेव राधा देवपूजार्थ प्रयतत इति पाे पद्मया पृष्ठा विशाखा तां प्रत्याह-नव्येति। सर्वासामेव यौवनं वर्तत एव श्रीराधायास्तु यौवनभञ्जरी श्रीकृष्णभ्रमरचित्ताकर्षिणीत्यर्थः । यद्वा स्तव्या युष्माकं सर्वाभिरमृगीद्ृशाम्। रूपं च महारूपवतीनां सर्वासामप्याभीरमृगीदृशां विस्मापनमित्यनेन तव सखीं चन्द्रावलीमपि चमत्कारयति किं पुनरन्येति भावः । एवं सर्वत्रैव ध्वनयोऽत स्पष्टा एव। तेन देवपूजादिकं गुरुजन प्रतारणमात्रार्थकमे- वेति ध्वनितम्॥ ७९ । श्रीश्ुकदेवो वर्णयति-तं विलोक्येति। तन्वस्तन्वव- यैरित्यादि। ७८॥ सर्वासामेवाभीरभृगीदृशां या यौवनमञ्जरी नव्यं यौवनं किमुतान्यासां पुनरिह श्रीराधायाम्। नव्या स्तव्या। सर्वश्रेयसीत्यर्थः । तथा तासां यद्रूपं सौदर्य तदिह विस्मापनं सर्वश्रेष्ठमित्यर्थः । तथा तासां या गुणश्रेणी सा चेह लोकोत्तरा। सर्वतोऽपि लोकानां चमत्कारकारिणीत्यर्थः। तथा तासां साधीनो यः पुरुषोत्तमः स चेह त्यक्तान्यकान्तास्पृहः। अन्यकान्तास्तत्र ता एव लभ्यते॥। ७९ ॥ हर्षश्रेतःप्रसन्नता। तन्वस्तदवयवाः । आगतमित्यनेन पूर्व

Page 398

उज्ज्वलनीलमणिः । ३७५

यथा वा ललितमाधंवे- स एष किमु गोपिकाकुमुदिनीसुधादीवितिः स एष किमु गोकुलस्फुरितयौवराज्योत्सवः । स एष किमु मन्मनःपिकविनोदपुष्पाकर: कृशोदरि दृशोर्द्वयीममृतवीचिभिः सिञ्चति ॥८१॥ अभीष्टलाभेन यथा तत्रैव- आलोके कमलेक्षणस्य सजलासारे दशौ न क्षमे नाक्लेषे किल शक्तिभागतिपृथुस्तम्भा भुजावल्लरी। वाणी गद्गदकुण्ठितोत्तरविधौ नेशा चिरोपस्थिते वृत्तिः कापि बभूव संगमनये विन्नः कुरग्गीदशः॥८२॥

यवाः॥ ८० ॥ अभीष्टस्य सामान्याकारेणेक्षणेन हर्षमुक्ता विशेषाकारेणाप्युदाह- र्तुमाह-यथावेति । श्रीराधिका वर्णयति-स एष इति। सुधादीधिति- श्रन्द् इति गोपिकाभ्यो मद्विधाभ्यः सर्वोभ्य एवोल्लासदायिलम्। यूनां राजा युवराजस्तस्य भाव: कर्म वा यौवराज्यं तद्रूप उत्सव इति कामविलाससुखदायितं चोक्लापि मन्मन एव पिकस्तस्य विनोदे क्ीडालाम्पट्ये। पुष्पाकरो वसन्त इति खस्य विशेषत आसत्त्याधिक्यदायितं श्रीकृष्णस्य व्यज्जितम्। उत्सवपक्षे पुष्पा- करपक्षे चाभृतवीचिभिरानन्दतरङगैः ॥ ८१। समृद्धिमति संभोगारम्मे श्रीराधाया आनन्दवैवश्यं नववृन्दा वर्णयति-आलोके विषये दृशौ न समर्थे। यतः सजलासारे अश्रुधारासंपातवत्यौ। तथा गद्गदकण्ठिता च वाणी उत्तरविधौ नालं न समर्था। तदेवं चिरादुपस्थिते संगमस्य नये प्राप्ती कापि प्रेम्ण एव वृत्तिर्विघ्नो

गतमित्यूह्यते ॥ ८० ॥ स एष किमु गोकुलस्फुरितेति चरणस्य प्रथमतः पाठसु वैशिध्यक्रमगमकः ॥ ८१ ॥ गद्गदकुण्ठिता सती उत्तरविधौ नालं न समर्था- सीतू। तदेवं कापि वृत्तिश्चिरोपस्थिते संगमनये विघ्नो बभूव_।। ८२ ।।

Page 399

२७६ काव्यमाला।

अथौत्सुक्यम्-तदिष्टेक्षास्पृहया यथा हंसदूते- असव्यं बिभ्राणा पदमधृतलाक्षारसमसौ प्रयाताहं सुग्घे विरम मम वेशैः किमधुना। अमन्दादाशङ्के सखि पुरपुरन्ध्रीकलकला- दलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते॥ ८३ ॥ इष्टातिस्पृहया यथा श्रीगीतगोविन्दे- अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति। इत्याकल्पविकल्पतल्परचनासंकल्पली लाशत- व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति।८४॥ अथाग्रयम्- औग्यं न साक्षादङ्कं स्यात्तेन वृद्धादिषूच्यते ॥ ८५॥

बभूव ।। ८२ ।। औत्सुक्यं स्पृहया कालयापनायामक्षमलम्। मथुरां प्रविष्ठे श्रीकृष्णे काचित् पुरस्त्री प्रसाधयित्रीं खसखीं प्रत्याह-असव्यं दक्षिणम्। मुग्घे इत्यलंकारपरिधानं मे नित्यं वर्तत एव श्रीकृष्णदर्शनं तु परमदुर्लभमिति लं न जानासीति भावः। नन्वधुनापि कृष्णो दूरे आयाति किं तरला भवसीत्यत आह-अमन्दादीति। अलिन्दाग्र इति। क्षणमान्रविलम्बे सति अयमितो यास्यति द्रष्टमहं न प्राप्स्यामीति भावः । वृन्दावनस्य कुसुमधन्वेति। मूर्तिधारी कन्दर्पो मां शरैस्तत्रत्या गोपीरिव शरैर्विध्यतु। गाढमिति। मे महा- नेवाभिलाषो बर्तते। पातिव्रत्याय मयाद्य जलाअ्जलिर्दातव्येति व्वनिः। अन्नेष्टेक्षा- स्पृहयैव प्रथममौल्सुक्यं स्पष्टमिति तदेवोदाहृतम्। कुसुमधन्वेतिपदव्यजञितया इष्टा- प्िस्पहया द्वितीयमौत्सुक्यं तु नास्याः प्रायः सफलमिति न तदुदाहृतम् ॥८३॥ वासकसज्जायाः श्रीराधायाः सखी श्रीकृष्णमाह-अङ्गइति।(इति) अनेन प्रका- रेण आकल्पो वेषः, विकल्पो वितर्कः तल्परचना शय्यानिर्माणकौशलं संकल्पेन लीला शतमिति चिरं ध्यायतीत्यस्य विवरणम्। संकल्पश्चाद स आगत्य यदा मे कश्चुकी औत्सुक्यं स्पृहया कालयापनाक्षमलम् ॥। ८३॥ ८४ ॥ औञ्यं चण्डता ॥ ८५॥

Page 400

उज्जवलनीलमणिः । १७७

यथा विदग्धमाधवे- नवीनाग्रे नप्त्री चटुल नहि धर्मात्तव भयं न मे दृष्टिर्मध्ये दिनमपि जरत्याः पटुरियम्।

धास्यति तदा तत्कर स्वकरेण रुढ्ढा अपसार्य विवर्तिष्ये। यदा मे पादौ धृत्वा किमपि प्रार्थयिष्यते तदा स्मितमुखी नहिनहीति वक्ष्यामीत्यादिप्रकारः। तथाभूतापि खया बिना। वं चेत्तत्र न यास्यसीत्यर्थः । एषा श्रीराधा निशां न नेष्यति न याप- यिष्यति। यथा यथा विरह्संतापः प्रबलो भविष्यति तथा तथा आशा दुर्बली- भूय नश्यन्ती तां दशमीं दशां प्रापयिष्यनीति भावः॥ ८४॥ औभ्यमपराधदुरुत्तया- दिभवं विषयालम्बनसुखप्रतीपाचरणरूपं चण्डलम्। तच्च न साक्षादङं स्यादिति। नायकयोः पर स्परप्रभवत्वादित्यर्थः। वृद्धादिषु मुखराजटिलादिषु। यद्यपि व्रजवासि- जनमात्रस्यैव प्रेमवत्त्वसिद्धान्तान्मुखराजटिलादयोऽपि श्रीकृष्णसुखप्रतीपाचरण- वत्यो न संभवन्ति तदपि नमुः श्रीकृष्णस्य नष्त्र्याः श्रीराधादेश्च धर्मोह्ङ्घनं सुखभपि दुःखोदर्कमहितमम्गलमयश इति मनसि विचार्य तत्र मुखरादाः प्रतीपायन्ते, अतस्तासां तत्रा्यं नायकयोः परस्परदुर्लेभत्वापादकमिति स्थायि- भावपुष्टिः ॥ ८५। मानभङ्कार्थ श्रीराधासंनिधौ यतमानं श्रीकृष्णमकस्मादा- याता मुखरा वीक्ष्य हे कृष्ण, इह स्त्रीजनानां मध्ये तव स्थितिरनुचिता अतस्त- मितो याहीत्युक्तेऽपि धृष्टतया तस्मिन्नायाते सा सामर्षमाह-नवीनेति। नष्त्री मम दौहित्री 'नप्न्नी पौत्री सुतात्मजा' इत्यत्र सुताया आत्मजेत्यपि व्याख्यानात्। 'ततः पुत्रैश्च पौत्रैश्च नप्तभिः सह गोत्रजैः ।' इति तृतीयस्कन्धे भेदेनोक्त लाच। नन्वत्र पश्यन्त्यास्तवाग्रे तिष्वतो मम को दोषस्तत्राह-न मे हृष्टि- रिति। दिनस्य मध्ये मध्येदिनं तदपि हसन्तमेव तं पुनर्भीषमाणाह-ततोऽ- हमिति। कियति पथि। अदूरे इत्यर्थः । तुभ्यमेतत् फलं दातुं कंसादश्ववारा- नवीनेति। तत्र नप्ती दौहित्री। 'नप्ली पौत्री सुतात्मजा' इत्यत्र क्वचित्तथा व्याख्यानात्। 'ततः पुत्रैश्च पौत्रैश्च नपृभिः सह गोत्रजैः ।' इति तृतीयस्कन्धे मेदेनोपादानाच्। यद्यपि 'यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्रत्कृते।' 'नासूयन् खलु कृष्णाय' इत्यादिरीत्या श्रीकृष्णं प्रति व्रजमात्रस्य असूयादिकं न संभवत्येव, तथापि खनप्तीपक्षपातेन 'नवीनाग्रे' इत्यादिना तस्मिन्नाक्षेपः पर-

Page 401

३७८ काव्यमाला।

अलिन्दात्त्वं नन्दात्मज न यदि रे यासि तरसा ततोऽहं निर्दोषा पथि कियति हंहो मधुपुरी॥ ८६ ॥। अथामर्ष :- सोडधिक्षेपादथा श्रीदशमे- तस्याः स्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः । यत्कर्णमूलमरिकर्षण नोपयाया- - द्युष्मत्कथा मृडविरिञ्चिसभासु गीता॥ ८७॥ अपमानादथा विदग्धमाधवे- बाले बल्लवयौवतस्तनतटीदन्तार्धनेत्रादितः कोमं श्यामशिलाविलासिहृदयाच्चेतः परावर्तय।

नानेष्य इति भावः ॥ ८६ ॥ अमर्षोऽधिक्षेपापमानादेरसहिष्णुता॥८७॥ श्रीकृष्णपरिहासेनाधिक्षिप्ता श्रीरुक्मिणी साक्षेपमाह-नृपाश्वैद्यशाल्वादयो नृपा अपि, अन्यत्र शूरा अपि स्त्रीणां गृहेषु अन्तःपुरेषु खराद्या इव। तत्तद्धर्िणो बीभत्सा इत्यर्थः । यस्याः कर्णयोर्मूलमपि ईषदपि। हे अरिकर्षण मानं प्रवर्तयन्ती ललिता श्रीराधामाह-बल्लवयौवतेति। बहुवल्लभलेन काममा- त्रतात्पर्यकलेन। प्रेमशून्यादिति भावः। तत्रापि श्यामशिलेव विलासिवर्णतो द्रढिम्ना च शोभमानं हृदयं यस्य तस्मादिति प्रणयिजनकष्टदर्शनेSप्यद्रुतहृदया- दिति भावः। परावर्तयेत्यपरामर्शेन पूर्व प्रवेशितमपि चित्तं संप्रत्यपि परिणाम- दर्शिनी भूला निवर्तयेति भावः । किं चात्र मद्वाचि संदेहो नैव कर्तव्य

दारसंनिकर्षभयममङ्गलमयस्य माभूदित्यन्तर्विचिन्त्य तत्र तत्रौमर्याभासो दर्शितः ॥ ८६ ॥ अथामर्ष इति। 'अधिक्षेपापमानादेः स्यादमर्षोऽसहिष्णुता'। कर्केशपरिहासं विधाय श्रीकृष्णेनोद्वेजिताया रुक्मिण्या वचनम्। तस्याः स्युरच्यु- तेति ॥ ८७ ॥ यद्यपि बाले इति। सख्या एवामर्षो नतु नायिकायास्तथापि १. 'तूर्णम्' इति खपुस्तके पाठ :.

Page 402

उज्ज्वलनीलमणिः । ३७९

विद्यः किं नहि यद्विकृष्य कुलजाः केलीभिरेष स्त्रियो धूर्तः संकुलयन् कलङ्कततिभिर्नि:शङ्कमुन्मुञ्चति ।८८।। अथासूया-सा सौभाग्येन यथा श्रीदशमे- इमान्यधिकममनानि पदानि वहतो वधूम्। गोप्यः पश्यत कृष्णस्य भाराकान्तस्य कामिनः ॥ ८९॥ यथा वा तत्रैव- गोप्यः किमाचरदयं कुशलं स्म वेणु- र्दामोदराधरसुधामपि गोपिकानाम्।

इत्याह-विद्य इत्यादि। संकुलयन् व्याप्तीकुर्वन् । निःशङ्कमिति। हन्त हन्त आसां लोकधर्मावुभावपि मया विध्वस्तौ तथापि पुनः स्थविरसंतापेन ज्वालेन परलोके का गतिर्मे भविष्यतीति भयमप्यस्य नास्तीति भावः ॥। ८८ ।। असूया परोदये द्वेषः। रासान्तर्धाने श्रीकृष्णमन्विष्यन्तीनां गोपीनां मध्ये पद्माया आहु :- चधूं श्रीराधाम्। हे गोप्य इति। युष्मद्विधाः प्रेभवतीरपि त्यक्ला पंधूं वहतः कामिन इति संप्रयोगमात्रतात्पर्यस्येत्यर्थः ॥८९॥ असूयायाः खस्ामिज- नविषयलेनैव प्रसिद्धलात्, अत्र तु कामिन इति पदेन तस्या: श्रीकृष्णविषयलेनैव स्पष्टलादपरितुष्यन्नाह-यथावेति। पूर्वाहे गाश्चारयतः श्रीकृष्णस्य वेणुभाकर्ण्य गोप्यः परस्परमाहुः। हे गोप्यः, वेणुः किंस्वित् कुशलं पुण्यमाचरत्। यद्वा किं मङ्गलमाचरत् अपि तु न किमपि। स्थावरजातिलेनैव लक्ष्यत इति भावः । तदपि दामोदरस्याधरसुधां भुङ्धे इति कथं वयं सोढं प्रभवाम इति भावः। तत्र हेतु :- गोपिकानामिति। अधरसुधायां गोपिकानामस्माकमेव स्वत्ं श्रीकृ- क्णस्य गोपलात् पुरुषताच्, अस्माकं गोपीलात् स्त्रीलाच्चेति न्यायप्राप्तेः, नित्यं तस्या अप्यमर्षेण तस्या रतिः पुष्यत इति युक्तमेवोदाहरणम्। एवं पूर्वत्र परत्र च ज्ञेयम्। कलङ्कततिभि: संकुलयन्नित्यन्वयः । मलिनीकुर्वन्नित्यर्थः ॥ ८८॥ असूया परोदये द्वेषः । हे गोप्यः, वेणुरयं किं कुशलं पुण्यमाचरत्। यद्यस्मात् गोपिकानां स्मपि धनरूपमपि दामोदराधरसुधां भुङ्गे। स्त्रीजातिश्रेदत्यनुरागेण परासां पत्युरधरसुधां भुद्गां नाम, सोडयं वेणुः पुरुषजातीयस्तन्नापि कथं तां भुट्टे

Page 403

३८० काव्यमाला।

भुङ्के स्वयं यदवशिष्टरसं ह्वदिन्यो हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्याः ॥ ९० ॥ यथा वा- कृष्णाधरमधुमुग्धे पिबसि सदेति त्वमुन्मदा मा भूः । मुरलीभुक्तविमुक्त रज्यति भवतीव का तत्र । ९१॥

रात्रावस्माभि: संभुज्यमानलाच्। वेणुस्तु विजातीयस्तत्रापि श्रीकृष्णरमिततमा- त्मनो मला श्रीकृष्णप्रेयसीताभिमानं धत्ते। तत्रापि धार्ष्येन पुनः पौरुषमावि- षकृत्य तत्रापि परकीयं धनं तन्रापि न चौर्येण किंतु धनखामिनीरस्मान् फूत्का- रेण ज्ञापयिलैव। किं वा नायं फूत्कार: किंतु खसंभोगोत्थं भणितमेव। तच्चा- म्मान् श्रावयिलैव तन्रापि न विशिष्टो नावशिष्टो रसः किंचिन्मात्रोऽपि यत्र तद्यथा स्यात्तथा भुद्गे। 'वष्टि भागुरिरल्लोपम्' इत्यादिना अकारलोपः। धनस्वामि- नीनामस्माकं कृते खवभुक्तावशिष्टमपि न किंचिद्रक्षतीत्यहो धारष्ट्यमिति भावः । किं च तद्देशवर्तिनः सर्व एव जनास्तादशा एवेत्याहुः। यत् यतोऽधरसुधाभोगात् तं वीक्ष्येत्यर्थः । हदिन्यो नद्यो हृष्यत्त्वचः उत्फुल्लकमलादिमिषेण पुलकवत्यो बभूवुः। तरवो मकरन्दमिषेणाश्रु मुमुचुः यथा आर्या: साधवोऽश्रुपुलकादिमन्तो भगवङ्ु- णानुवादाद्भवन्ति तथव ते वेणोभणितादिभिः । हदिन्योऽस्य सख्यः, तरवोऽस्य सखायः दूता एवेति वेणुहृदिनीतरवः सर्व एवास्माकं वैरिण एवेति भावः । ९० ॥ अचेतने वेणावसूया हि न फलवती भवतीति पुनरप्यपरितुष्यन्ाह- यथावेति। काचिन्मधुपानोन्मत्ता गोपी पथि खविपक्षां व्रजदेवीं कांचिद्वीक्ष्य इति तु वेणुशब्दाभिप्रायेण तत्रोपहासः। तत्र च खयमात्मनैव भुङ्के कस्याश्चिदपि गोपिकायास्तल्लेशप्राप्यभावात्तत्रापि आश्चर्येमिति भावः । अहो आस्तां तदपि। यस्यावशिष्टो भुक्तत्यक्तो यो रसः तं परमपवित्रा हदिन्योऽपि भुज्जते समाखाद्य फुल्ला भवन्ति। अहो तदपि आस्ताम्। तस्य वेणोस्तादृशमहिमदर्शनात्तद्रोन्प्रायास्तर- वोऽप्यङ्गुरादिमिषेण हृष्यत्त्वचो रोभहर्षयुक्ता मधुमिषेणाश्रु मुमुचुर्सुश्चन्तीत्यर्थः । तदेतं तस्यान्यायमपि न गणयन्तीति भावः । तत्र च यथा आर्या: केचिदात्म- गोत्रजमहिमदर्शनेन तत्तद्भावान् दधति। तथेति। तेषामनार्यलं व्यजितम् ।।८९॥९० ॥ कृष्णाधरेति। वचनमप्यनुरागवैचित्येन पूर्ववन्मुरल्यास्तद-

Page 404

उज्ज्वलनीलमणिः । ३८१

गुणने यथा- त्वत्तोऽपि मुग्धे मधुरं सखी मे वन्यस्जः स्ष्टुमसौ प्रवीणा। नास्याः करौ सिश्चति चेदुदीर्णा निरुद् दृष्टिं प्रणयाश्रुधारा॥।९२।। अथ चायलम्-तद्रागेण यथा- फुल्लासु गोकुलतडागभवासु केलिं निःशङ्कमाचर चिरं वरपद्मिनीषु। मृद्ठीमलब्धकुसुमां नलिनीं त्वमेनां मा कृष्णकुञ्जर करेण परिस्पृशाद्य ॥। ९३ ॥

उन्मादेनैव तस्याः श्रीकृष्णसंभोगमनुमाय सासूयमाह-हे मुग्धे, वं श्रीकृष्णा- धरमधु सदा पिबसि इत्युन्मदा उत्कृष्टगर्वा माभू:। अस्माभिस्तु तदपवित्रं ज्ञाला पैरित्यक्तमेवेत्याह-मुरल्या आदौ भुक्तम्, पश्चाद्विमुक्त त्यक्तं यत्तस्मिन्नधर- मंधुनि। हे मुग्धे, इति उच्छिष्टपानतोऽपि गर्वोद्रेकादिति भावः ॥ ९१ ॥ खनि- र्मितवनभालाश्लाघनपरां पद्मां विशाखायाः सखी काचिदाह-वन्यस्नजः कर्म- भूता: प्रणयाश्रुधारेति । वनमालानाममात्रेणैव वनमालिनः स्मृत्ा सदयः- प्रैमोदयात्। तेन वं प्रेमशून्येति ध्वनितम् ॥९२॥ चापलं चित्तलाघवमगा- म्मीर्यमिति यावत्॥ महारासाङ्गभूतायां वनविहारलीलायां कन्दर्पविलासोत्सुकं श्रीकृष्णं वारयन्ती ललिता प्राह-फुल्लास्विति। नलिनीपक्षे अलब्धकुसुमा- मिति। कुसुमं विना केवलपत्रमयया नलिन्या तव कतरद्वा प्रयोजनम्। श्रीराधा- पंक्षे कुसुभपदेनातिशयोक्तया स्पष्टयौवनमेव व्यज्यते। तेन विना महातारुण्योन्म- संस्य तव राधया कि प्रयोजनमिति भावः । स्पष्टयौवनाया अपि श्रीराधायास्त- थालेनोक्ति: स्त्रीणां स्वभाव एवायमवहित्थामय इति ज्ञापयति। किं चात्र कुसु- मपदेन श्लेषेणान्यो बीभत्सितोऽर्थों न व्यअ्ञयितव्यः सर्वासामेव व्रजबालानां श्रीकृष्णनित्यसङ्गार्थ योगमाययैव स्त्रीधर्मरूपस्य रजसः सर्वथैवानुत्पादितलात्।

धरपानं निश्चित्य ।। ९१ ॥। ९२ । चापलं चित्तलाघवम् ॥ ९३ ॥ फुल्ला- स्व्रिति। अत्रालब्धकुसुमामित्येतत्पदं श्िष्टमव चापलाय कल्पते स्म। तत्र

Page 405

३८२ काव्यमाला।

यथा वा श्रीगीतगोविन्दे- रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा- मभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया। साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति- व्याजादुद्भटचुम्बितः स्मितमनोहारी हरिः पातु वः ॥९४॥ द्वेषेण यथा- यातु वक्षसि हरेर्गुणसङ्गप्रोज्झिता लयमियं वनमाला। या कदाप्यखिलसौर्यपदं नः कण्ठमस्य कुटिला न जहाति।।९५।।

प्रकृतेऽर्ये च रजखला किं पुनः संभोगानुकूला भवतीति तन्निषेधोऽपि नोपपद्यते स्विदिति च विचार्यम्॥ ९३ ॥ नायिकाविषयं नायकचापल्यमुदाहृत्य नायक- विषयं च तन्मुख्यमुदाहरति-यथावेति। महानुभावकविचूडामणिः श्रीजय- देवो वर्णयति-रासेति। प्रवर्तमानेन महारासोल्लासस्यातिशयेन तुमुलनृत्य- गीतवाद्यरसानन्दनिमम्नानामाभीरवामभ्रुवां विभ्रमभृतां खखविलासमेव गुणचातु- र्याविष्कारेण दधतीनां पुष्यन्तीनां च तेन चान्यानुसंधानरहितानां तासामभ्यणे निकट एव श्रीराधया गीतस्तुतिव्याजादहो लमतिधन्योऽसि यदश्रुतचरभाघुर्यमेवं गायसि तत्तुभ्यमहं किं पारितोषिकं दास्यामीति सस्य सभ्यलेन गानाखादमभि- नीय तत्संतोषेणैवोरो वक्षःस्थलं निर्भरं गाढं परिरभ्य उद्भटं यथा स्यात्तथा चुम्बितः । ननु तदपि परमलज्जावत्यास्तस्याः कथमेवं युज्यत इत्यत आह- प्रेमान्धयेति । प्रेमोत्थं चापल्यमेवात्र हेतुरिति भावः ॥ ९४ ॥ श्रीकृष्णं दूरा- द्विलोक्य मादनाख्यमहाभाववती श्रीराधा वनमालां द्विषन्ती ललितां प्रत्याह- यात्विति। लयं नाशं मोक्षं च यातु प्राप्तोमतु। गुणः सूत्रं सत्त्वादिश्व। अन्र वनमालां प्रति द्वेषेणाभिशाप एव गाम्भीर्यभावरूपं चापलं व्यनक्ति ।। ९५ ।।

चैनां खमेवोपदिष्टम्। यद्वा नायकचापलमेवेदमुदाहृतम्। विशेषेण भ्रमभृतां किंचिदप्यनुसंधातुमसमर्थानां ततश्र रहसीव परिरम्भादिकं नायुकं चापलं तु

Page 406

उज्ज्वलनीलमणिः । ३८३

अथ निद्रा-सा क्रमेन यथा- श्वासस्पन्दनबन्धुरोदरतलं पुष्पावलीस्रस्तर- न्यश्चन्मौक्तिकहारयष्टि कलयन् नीवीं मनागाकुलाम्। क्रान्तः केलिभरादुरोजकलसीमाभीरवामभ्रुवः कल्याणीमुपधाय सान्द्रपुलकामद्रौ निदद्रौ हरिः ॥ ९६ ॥ यथा वा हंसदूते- अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसते- र्वसन्तीं वासन्तीनवपरिमलोद्वारिचिकुराम्। त्वदुत्सङ्के निद्रासुखमुकुलिताक्षीं पुनरिमां कदाहं सेविष्ये किसलयकलापव्यजनिनी ॥ ९७॥

निद्रा चित्तनिमीलनम्। वृन्दा नान्दीमुखीं प्रत्याह-श्वासेति। बन्धुरं तु नतोनतम्। स्रस्तरः शय्या। नीवीं श्रीराधाया एव। स्त्रीकटीवस्त्रबन्घेऽपि नीवी परिपणेऽपि च ।' इति नानार्थवर्गात्। तां कलयन् गृह्न् जघनदेशान्नि- ष्कास्य खहस्तेनैवेति ज्ञेयम्। उरोजकलसीमुपधाय उपधानं कृला सान्द्रपुलका- मिति श्रीराधाया जागरो निद्रायामप्यानन्दोत्थः पुलको वा ज्ञेयः ॥९६॥ नायिकायां निद्रामुदाहर्तुमाह-यथावेति। शीघ्रमेव श्रीवृन्दावनभागत्यास्मान् जीवयेति व्यजयन्ती ललितादेवी मथुरास्थं श्रीकृष्णं प्रति सवाभिलाषमाविष्कुर्वती प्राह-कुञवसतेरलिन्दे वसन्ती अहं किसलयानां कलापः समूह एव व्यजनं तद्वती सती इमां श्रीराधां कदा सेविष्ये। कीदृशीम्-त्वदुत्सङ्ग इत्यादि।

व्यक्तमेवेति भाव: ॥। ९४ ॥। लयं यातित्यन्वयः ॥ ९५॥ बन्धुरं तु नतोन्नतम्। * स्रस्तरः शय्यामेदः । 'स्र्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ।' इति नानार्थ- वर्गातू। एषाभीरवामभ्ुव एवेति गम्यते। तां कलयन् स्पृशन्नवेत्यासक्तिविशेषो

Page 407

३८४ काव्यमाला।

अथ सुप्तिर्यथा- पुरः पन्थानं मे त्यज यदमुना यामि यमुना- मिति व्याचक्षाणा चुचुकविचरत्कौस्तुभरुचिः । हरेः सव्यं राधा भुजमुपदधत्यम्बुजमुखी दरीक्रोडे क्ान्ता निबिडमिह निद्राभरमगात्॥ ९८ ॥ यथा वा- गोष्ठाधीशेसुतस्य गण्डमुकुरे स्वाम्नीभिरुल्लासितं लीलाभि: पुलकं विलोक्य चकिता निश्चिन्वती जागरम्। सा वेणोर्हरणोत्सवे धृतनवोत्कण्ठापि तल्पाञ्चले विस्रस्तं करतोऽपि नाध्यवससौ तं हर्तुमेने(णे)क्षणा ।।९९।। अथ प्रबोध :- यथा- निद्राप्रमोदहरमप्युरुकण्ठनादं कण्ठीरवस्य शितिकण्ठपतत्रमौलिः ।

वासन्ती माधवी लता ॥ ९७॥ सुप्तिः खप्नः । रूपमज्जरी पुष्पमवचित्यायातां रतिमञ्जरीं प्रत्याह-पुर इति। श्रीराधायाः खप्नायितं व्याचक्षाणा कथयन्ती। चूचुकं कुचाग्रम्। 'चूचुकं तु कुचाग्रं स्यात्' इत्यत्र चुचुकशब्दो ह्रस्वादिरपि टीकाकृद्भिर्व्याख्यातः ॥ ९८ ॥ श्रीकृष्णस्य खप्रमुदाहर्तुमाह-यथावेति। वृन्दा नान्दीमुखीं प्रत्याह-आभीरेन्द्रेति। खाप्नीभिर्लीलाभिरिति श्रीराधा- मुखचुम्बनरूपाभिरित्यर्थः । जागरं निश्चिन्वतीति पुलकान्यथानुपपत्तिरेव तत्र लिङ्गमित्यर्थः । करतोऽपि सकाशात् निद्रावैवश्येन तल्पाश्चले सस्तमपि चेणुं हर्तु नाध्यवससौ न निश्चितवतीत्यर्थः ॥ ९९ ॥ प्रबोधो निद्रानिवृत्तिः । वृन्दा पौर्ण- मासीं प्रत्याह-निद्रेति। कण्ठीरवस्य सिंहस्य नादं शितिकण्ठपतत्रमौलिः व्यक्षितः । उपधाय उपधानं कृला ॥ ९६ ॥९७॥ सुप्तिः खम्नः ॥ ९८ ॥ ।। ९९ ॥ कण्ठीरवः सिंहः । स तु विदूरपर्वतगततया ननादेति तद्विघोऽपि १. 'कुचमनुचरत्कास्तुभरुचिः' इति ख पुस्तके पाठः. २. 'आभीरेन्द्रसुतस्य' इति टीकाधृतः ख पुस्तकस्थश्च पाठः. ३. 'कुहरे व्रजराजसूतुः' इति क पुस्तकस्थः पाठः.

Page 408

उज्ज्वलनीलमणिः । ३८५

तुष्टाव सत्वरविबुद्धपरिप्ठवाक्ष- राधापयोधरगिरीन्द्रनिपीडिताङ्गः ॥१००॥ सख्थां स्वस्नेहो यथा- शैलमूर्ध्नि हरिणा विहरन्ती रोमकुऊालकरम्बितमूर्तिः । राधिका सललितं ललितायाः पश्य मार्ष्टि लुलितालकमास्यम्॥।१०१॥

मृदुरियमिति वादीर्मा त्वमस्या: कुडुके शशिमुखि तव सख्याः पौरुषं दृष्टमस्ति ।

पिच्छमुकुटसुष्ाव। तत्र हेतु :- सत्वरेत्यादि। परिल्ठवाक्षी चञ्चलनेत्रा ॥१००।। सख्यां स्वस्नह इति । सखीविषयकोऽपि नायिकायाः स्नेह एको व्यभिचारी भवतीत्यर्थः। यदुकं भक्तिरसामृतसिन्धावेव-'संचारी स्यात् समोना वा कृष्णरत्याः सुहद्रतिः । अधिका पुष्यमाणा चेद्धावोलास इतीयते ॥।' इति। अस्यार्थ :- सुहृद्रतिः सुहृद्दिषया रतिः कृष्णरत्याः सकाशात् समा वा ऊना वा यदि वा स्यात्तदा संचारी स्यात्। सुहद्रतेः श्रीकृष्णरतिमूलकत्वात् तत्पोषणाच्चेति भावः । यदि क्वचित् श्रीकृष्णरतेः सकाशादप्यधिका स्यात्तया पुष्यमाणा च स्यात्तदा भावोललास इती- यते। न तस्याः संचारितं नापि तस्याः स्थायिलमिति भावः ॥ रूपमञ्जरी ललि- तायाः सखीं कांचिदाह-शैलेति। ललिताया आस्यं मार्ष्टि विहारजं प्रखेदमप- नयतीति ललिताविषया श्रीराधारतिरत्र संचारीभावो भवन् श्रीकृष्णरर्ति पुष्णाति ॥। १०१॥ उत्पत्यादिरिति। यदुक्तम्-'भावानां क्वचिदुत्पत्तिसंघिशावल्य- शान्तयः। दशाश्वतस्र एतासामुत्पत्तिरभोवसंभवः II' इति। आस्वादितचरं श्रीरा- घाया मुखमाधुर्य पुनरप्यासादयन् श्रीकष्णस्तस्याः सखीं शशिमुखी तत्साक्षि तया ग्राह-यद्वा मथुरास्थस्य श्रीऋ्ष्णस्य ललितायां संदेशमियमुद्धवोि:। मावादीर्मा वद । कुडजे कुजे। पौरुषं पुरुषाकारं विपरीतरमणमिति यावत्।

श्रीकृष्णसांनिध्यगुणेन किंचिदपि न हिनस्तीति च नात्र भयानकेन मधुरोडयमा- भासयते॥ १०१। मृदुरियमिति। ललितायां मथुरातः श्रीकृष्णस् पत्रिका। २५ उज्व०

Page 409

३८६ .काव्यमाला।

इति भवदुपकण्ठे मद्विरा भुग्रदृष्टेः स्थपुटितवदनाया राधिकायाः स्मरामि ॥ १०२॥

अथ संि :- तत्र सरूपयोर्यथा- अत्रासूयोत्पत्तिः ।

चिराभीष्टप्रेक्षे दनुजदमने विन्दति दृशोः पदं पत्यौ चार्धस्फुटवचसि रक्तत्विषि रुषा। इयं निस्पन्दाङ्गी निमिषकलनोन्मुक्तनयना बभूवावष्टम्भप्रतिकृतिरिवाम्भोजवदना ॥। १०३ ॥। अत्रेष्टानिष्टेक्षणकृतयोर्जाड्ययोः संधिः। अथ भिन्नयो :- तत्रेकहेतुजयोर्यथा ललितमाधवे- शिखरिभरवितर्कतः प्रतप्तं समहमहर्निशमीक्षया प्रियस्य। हृदयमिह समस्तबल्लवीनां युगपदपूर्वविधं द्विघा बभूव॥१०४।। अत्र विषादहर्षयोः ।

स्थपुटितं कुटिलीभूतम्। 'अधीगर्थदयेशां कर्मणि' इति षष्ठी। राधिकां स्मरामी- त्यर्थः ॥ असूयोत्पत्तिरिति। दृष्टेर्भुन्नत्वमेव तस्मादुत्पन्नामसूयां वक्तीत्यर्थः ॥ १०२ ॥ संधिरिति। 'सरूपयोर्भिन्नयोर्वा संधि: स्याद्भावयोर्युतिः ।' इति तल्लक्षणम् ।I वृन्दा पौर्णभासीमाह-चिरादभीष्टा अभिलषिता प्रेक्षा यस्य तस्मिन्। दैवादृषान्वेषणार्थ वनं पर्यटमाने पत्यावभिमन्यौ च दशो: पदं गोचरं विन्दति सति। निमेषकलनं निमेषक्रिया। अवष्टम्भप्रतिकृतिः स्वर्णप्रतिमा। ततश्च श्रीकृष्णे श्रीराधाया अदर्शनमभिनीय दूरं याते ललिताया वचनसंदर्भ- सृध्या अतारितोऽभिमन्युः क्रोधं परित्यज्य गृहं जगामेति ज्ञेयम् ॥१०३ ॥ गोवर्धनधारणकाले पौर्णमासी खगतोक्तमुपश्लोकयन् विश्वकर्मा लिखति-शिख- रीति। हन्त हन्त एतावान् भारः प्रियतमस्य शिरीषकुसुमसुकुमारेण भुजेन राधिकाया इति कर्मणि पाक्षिकी संबन्धषषठी॥ १०२ ॥ अत्रासूयोत्पत्तिरिति। उत्पत्तेरिति। उत्पत्तेरस्या भूतपूर्वतं ज्ञेयम् । अवष्टम्भप्रकृतिः सवर्णप्रतिमा ॥१०३॥ प्रियस्येति। शिखरीत्यादा वहर्निशमित्यादौ चान्वितम् ॥ अतः प्रिय

Page 410

उज्ज्वलनीलमणिः । ३८७

भिन्नहेतुजयोर्यथा- स्थवयति नवरागं माधबे राधिकायां गिरमथ ललितायाः सावहेलां प्रतीत्य। चलतरचरणाग्रेणालिखन्ती धरित्रीं विधृतवदनपझ्मा तत्र सिष्वेद पझ्मा ।। १०५ ।। अत्र चिन्तामर्षयोः । अथ शाबल्यम्-यथा विदग्धमाघवे- धन्यास्ता हरिणीद्शः स रमते याभिर्नवीनो युवा खैरं चापलमाकलय्य ललिता मां हन्त निन्दिप्यति।

महाकष्टेनैव सह्यत इति प्रतप्तम् । तथा समहं सोत्सवमिति 'उत्सवं श्रमरुचापि दृशीनाम्' इतिवत् प्रियावलोकनस्य सुखदलं हि खाभाविको धर्मः । अत्र संता- पस्योत्सवस्य च कारणं प्रियलमेव। अतस्तद्वतः प्रियस्येवैक एव हेतुर्विषादह- र्षयोः॥ १०४ ॥ सौभाग्यपूर्णिमादिने गौरीतीर्थोच्छ्रीकृष्णमन्वेष्टमायातायां ललितायां संकर्षणकुण्डतीरे चन्द्रावलीपद्माशैव्यादिभि: सहतं तमालोक्य तत्सभां प्रविश्य गोष्ठीं कुर्वत्यां यद्टत्तमासीत्तदेव वृन्दा कुन्दलतां प्रत्याह-स्थवयतीति। स्थूलं कुर्वति हरिणाभिलष्यमाणा सारङ्गमणि, सदा लमत्रासि तदमुं तद्दशहृदयं हृदयंगमलोचने विद्धीति विदग्धमाधवीयश्ोकोक्त्या इत्यर्थः । तथा 'सहचरि दृषभानुजया प्रादुर्भावे वरतिषोपगते। चन्द्रावलीशतान्यपि भवन्ति निर्धूतका- न्तीनि ।।' इति ललितायाः सावहेलां गिरम्। अत्र चरणाग्रलिखनगम्या चिन्ता श्रीकृष्णहेतुका, तथा सवेदकम्पगम्योऽमर्षो ललिताहेतुकः ॥ १०५ ॥ शाबल्यं भावानामुत्तरोत्तरसंमर्द: । कलहान्तरिता श्रीराधा प्राह-धन्यास्ता इति। प्थमे पादे चापलमौत्सुक्योत्थम्, द्वितीये ललितास्मृत्युत्था शङ्का तस्योपमर्दिनी, एवोभयोहेतुर्जातः। समहं सोत्सवम्। अपूर्वविधमाश्चर्यप्रकारम् ॥ १०४ ॥ स्थवयति स्थूलंकुर्वति ॥ १०५॥ धन्यास्ता इत्यादिकमकं पद्यं प्रायिक्मू। किंतु गोविन्दमित्यादिकश्चरणः प्रथमो धन्यास्ता इत्यादिकं तु तृतीय इत्येव क्रम

Page 411

काव्यमीका।

गोविन्दं परिरब्धुमिन्दुवदनं हा चित्तमुत्कण्ठते धिग्वामं विधिमस्तु येन गरलं मानाभिधं निर्ममे ॥१०६॥ अत्र चापलशङ्कौत्सुक्यामर्षाणां शाबल्यम्। अथ शान्ति :- यथा आलीयुक्तिकुठारिकापटिमभियों न प्रपैदे छिदां दूतीजल्पितनिरझरेण च चिरं यः क्वापि नोच्चालितः । वंशीनादमरुल्लवेण कमलाचेतसतटीवेष्टनो मानार्यः प्रबलोन्नतिस्तरुरयं स क्षिप्रमुन्मूल्यते ॥१०७॥ अ़त्र ईर्ष्यार्यभावस्य शान्तिः । इति व्यभिचारिणः ।

अथ स्थायिभावप्रकरणम्। स्थायिभावोऽत्र शङ्गारे कथ्यते मधुरा रतिः।

तृतीये खचित्तनिरोधोत्थमौत्सुक्यं शङ्क(ङ्वा) या उपमर्दकम्, चतुर्थे पुनः श्रीकृष्णा- वलोकेन स्वयं जनिष्यमाणो मान: स्वाभीष्टप्रतिबन्धीति तन्निमातरि विधावमर्ष औत्सुक्यसंमर्दकः ॥ १०६ ॥ शान्तिर्भावस्य लयः। नान्दीमुख्याह- आलीति। सरुल्लवेणेति। वंशीनादारम्भमात्रस्यापि सर्वोपायेभ्य आधिक्यं व्यजञितम्॥ १०७॥ इति व्यभिचारिभावानां विव्ृतिः ।। अथ स्थायिभावाः । नमश्चैतन्यरूपाय माधुर्यस्थायिने सदा। खसामर्थ्येऽ्प्यहो

एव श्लोकयितुरन्विष्टः । तर्ह्ेव स इति पदस्य गोविन्दमित्याकर्षणाय यथास्थानवि- न्यास: स्याल् ॥ १०६ ॥ १०७॥ इति व्यभिचारिणः ॥ अतीव साध्वी समर्यादापि लदीयं संचादं मया सह दनुरागमयं संकथनं

Page 412

उज्ज्वलनीलमणि: ।

सा यथा गोविन्दविलासे-

शर्मादिशत्वरुणघूर्णितलोचनान्त- संचारचूर्णितसतीहृदयो सुकुन्दः ॥ १ ॥ यथा वा दानकेलिकौमुद्याम्- गोवर्धनं गिरिमुपेत्य कटाक्षबाणान् कर्णस्फुरन्मणिशिलोपरि संक्ष्णुवाना।

व्यग्रीकरोत्यहंह मामपि संत्रमेण॥ २ ॥

साम्यसामअ्स्यानुवर्तिने। तद्रन्थकृदेव ग्रन्थारम्भे मङ्गलमाचरति-काला- हीति। कालाहे: कालसर्पस्य वक्रे विलसन्ती या रसना तस्या अग्रमिव जाग्रत् स्शौर्यमाविष्कुर्वत् यद्ोपीदृगञ्चलं तस्य चमत्कृत्या चमत्कृतिमात्रेणैव विद्धं मर्म यस्य स इति गोपीविषया श्रीकृष्णरतिः स्थायिभावो विद्धेतिपदेनाखादव्यञ्जकेन रसतां प्राप्तः। तत्र गोपीविषयालम्बनस्तत्कटाक्ष उद्दीपनविभावः, जम्भारोमान्चादय आक्षेपलब्धा अनुभावाः, औत्सुक्यचापल्यादयो व्यभिचारिण: । तथा अरुणो घूर्णितो जतघूर्णो यो लोचनान्तस्तस्य संचारेण चू्णितं सतीनां हृदय येन स इति श्रीकृष्णविषया गोपीरतिः स्थायिभावश्चूर्णितेति पदेनास्वादव्यञ्ञकेन रसतां प्रसः । श्रीकृष्णतदीयकटाक्षादयः पूर्ववद्विभावाद्याः। एवं च मधुरा रतिः पर- स्परविषयाश्रयोक्ता । यदुक्तम्-'मिथो हरेमृगाक्ष्याश्च संभोगस्यादिकारणम्। मधुरापरपर्याया प्रियतारूयोदिता रतिः ।।' इति ॥१॥ गोपीमात्राणां स्थायि- भावमुक्ला तन्मुकुटमणेः श्रीराधायाः सर्वाधिक्येन तमुदाहर्तुमाह-यथा वेति। गोवर्धने घट्टशुल्कमिषेण युवतीर्निरोत्स्यन् श्रीकृष्णः श्रीराधांमालों- क्याह-मणिशिलाकुण्डलस्थं पझ्मरागखण्डं तदुपरि संक्ष्णुवाना तेजयन्तीति तदैव माध्वीकं मत्तो निषीय आखाद्य गताव्लम्बास सर्वत्रोदासीना संती चूर्णमाना स्थैर्यविनाभूता नीवीं स्खलन्तीमपि न विदांचकार ॥ १॥ ५ ॥

Page 413

३९० काव्यमाला।

अभियोगाद्विषयतः संबन्धादभिमानतः ॥ ३॥ सा तदीयविशेषेभ्य उपमातः स्वभावतः। रतिराविर्भवेदेषामुत्तमत्वं यथोत्तरम् ॥।४ ।। तत्राभियोग :- अभियोगो भवेद्भावव्यक्ति: खेन परेण च। तत्र खेनाभियोगादयथा- मदधरविलुठद्विलोचनान्तं मृदुललतानवपल्लवं दशन्तम्। सखि हरिमवलोक्य भानुजाया- स्तटविपिने स्फुटदन्तरास्मि जाता ॥ ५ ॥

नेत्रान्तस्य कुण्डलपर्यन्तं पुनःपुनर्यातायातेन श्रीकृष्णदर्शनस्पृहा तया च तद्विषया - रतिः सूचिता। केति मधुमङ्गलं प्रति प्रश्नः । भरूधनुःकम्पनेन सूचितं लुश्वनं चौर्य ययेति। शरैविद्धा मामचेतनीकृत्य धैर्यमतिस्मृत्यादिधनं मे हरिष्यतीति भावः । व्यग्रीकरोतीति शरतेजनधनुर्धवनदर्शनेनैव तावदहं व्यग्रो विकलचित्तो- 5भूवं न जाने शरैर्विद्ध: कीदृशो भविष्यामीति भावः । मामपि शूराणां शिरो- मणिमपीति भावः । तेन च श्रीराधाविषया रतिः सूचिता ॥ २ ॥ तस्या रतेः प्रादुर्भावे लोकरीत्या कारणान्याह-अभियोगादिति। सिद्धान्तरीत्यां तु प्रोक्ता अन्नाभियोगाद्या इत्यग्रे समाधास्यते सा रतिः ॥ ३ ॥ ४ ॥ अभियोगो भावस्य व्यक्तिव्येजजनं सा च खेन परेण अमितार्थादिदूतीजनेन। अन्र नायकस्व साभियोगो नायिकाया रतिप्रादुर्भावे कारणम्। तथा नायिकाया: सः नायकस तदिति ज्ञेयम् ।। वृत्तान्तं पृच्छन्तीं विशाखां प्रति श्रीराधाह-मद्धरेति। विलुठदित्यनेन न केवलं तल्लोचनान्तस्य मदधरे स्पर्श एव किंतु मदधरसीधुना तथा तल्ोचनान्तो मत्तोऽभूदथा पतिलैव स्थितो नास्मादुत्थातुमशकदिति ध्वनि- तम्। एवं च खलोचनान्तं कृतार्थीकृत्य खदर्शनरसनाभ्यामिममाखादयितुम- आप्य मद्धरोपमं पल्लवं दशन्तं विलोक्य स्फुटदन्तरास्मीति रतिप्रादुर्भावो

Page 414

उज्जवलनीलमणि: । ३९१

यथा वा- कुवलयविपिनान्यसौ सृजन्ती दिशि दिशि लोचनचापलाच्चलाक्षी। हरति तरणिजातटे पुरः का सुबल बलान्मम चित्तचञ्चरीकम् ॥ ६ ॥ परेणाभियोगादयथा- त्वदीयमापीय गतावलम्बा संवादमाध्वीकमतीव साध्वी। आघूर्णमाना व्रजराजसूनो नीवीं स्खलन्तीं न विदांचकार॥७। अथ विषया :- शब्दस्पर्शादयः पश्च विषया: किल विश्ुताः ॥८॥ तत्र शब्दादथा विदग्धमाधवे- नाद: कदम्बविटपान्तरतो विसर्पन् को नाम कर्णपदवीमविशन्न जाने। हा हा कुलीनगृहिणीगणगर्हणीयां येनाद कामपि दशां सखि लम्भितासि ।। ९॥

दर्शितः । अत्र तं प्रति दयोद्रेकेण तत्कालोदितकन्दर्पज्वालया चेति ध्वनिंद्वयम्। तन्रादं सखीं प्रति ज्ञापयितुमिष्टं द्वितीयं तु रहस्यम्। तेन च साधरं यावत्तं न दंशयामि तावदहं स्फुटदन्तरैव स्थास्यामीत्नुध्वनिः। तेन च मां शीध्रमभिसारयेति प्रत्यनुध्वनिः ॥५॥ नायकस्ताभियोगान्नायिकाया रत्युद्धव- मुदाहृत्य नायिकास्वाभियोगान्नायकस्य रत्युद्भवमुदाहर्तुमाह-यथा वेति। श्रीकृष्णः सुबलं पृच्छति-कुवलयेति। लोचनचापलादिति चाक्षुषोऽभि- योगः ॥। ६ ।। काचित् पत्रहारी दूती श्रीराधानुरागं श्रीकृष्णं प्रति वक्ति- नीवीं स्खलन्तीमिति । रत्युद्भवः । ७। कथं विवशासीति ललितया पृष्टा श्रीराधा प्राह-नादो वेणुध्वनिः । कुलीनेत्यादिना खपातिव्रंत्यप्वंसो व्यजितः । कामपि दशामिति वैणविकपुरुषविषयरत्युद्धवः ॥८॥९॥ ॥३॥४॥५॥६॥७॥ नादोऽन वेणुनादः प्रकरणाल्लभ्यते ॥८॥९॥

Page 415

३९२ काव्यमाला।

यथा वा तत्रैव- एकस्य श्रुतमेव लुम्पति मतिं कृष्णेति नामाक्षरं सान्द्रोन्मादपरम्परामुपनयत्यन्यस्य वंशीकलः । एष स्त्िग्घघनद्युतिर्मनसि मे लमा सक्ृद्वीक्षणा- त्कष्टं घिक पुरुषत्रये रतिरभून्मन्ये भृति: श्रेयसी॥१०॥

न केवलं तत्कर्तृक एव शब्द: कारणं किं तु तत्संबन्ध्यन्यकर्तृकोऽपीति ज्ञापयितुमाह-यथावेति। पृच्छन्तीः सखी: प्रति श्रीराघाह-एकस्य पुरु- षस्य। श्रीकृष्णेति। नामाक्षरमिति। कस्येदं वृन्दावनमिति मत्पृष्टया ललितया कृष्णस्येति यद्गुक्तं तदा कृष्णस्येति नाम्नोऽक्षरमेकमपि किसुत तत्संपूर्ण नाम श्रुतमेव कर्णरन्त्रे प्रविष्टमेव किं पुनर्हृदये वृतं मे भति लुम्पतीति ततपुरुष- विषया रतिमें जातेति भावः। लुम्पतीति वर्तमाननिर्देशेन तत्संस्कारोऽधुनापि त त्प्रतियोगिवस्तन्तराभिनिवेशेऽपि न यातीति द्योतितम्। तथान्यस्य पुरुषस्य वंशीकल: सान्द्रामुन्मादपरम्परामिति। बुद्धिलोपः पूर्वमेव नाम्रा कृतः यदव- शिषटं मे मनस्तस्यापि उन्मादबाहुल्यमभूदिति भावः । वर्तमानो निर्देशोऽत्रापि पूर्ववद्माख्येयः । एवं च तस्मिन्नपि पुरुषे रतिरभूदित्यभिव्यज्य पुनराह-एष इति । विशाखादर्शितचित्रपटमध्यवर्तीत्यर्थः । अत एव तस्मिन्नपि रतिरभू- दिति। धिगिति कुलान्गनाया मम परपुरुषे रतिरनुचिता किमुत तत्रितय इति। अन्र नित्यसिद्धा स्वाभाविकी तस्या रतिरेव स्विषयं श्रीकष्णं स्वयं परिचिनोति। सा तु तमेकमपि श्रीकृष्ण इति, वैणविक इति, श्यामलकिशोर इति, पुरुषत्रयं एकस्येति। अन्नायं तत्रत्यप्रबन्धः । राघेयं प्रथमं कृष्णनाममात्रं श्रुल्ा परममधुर- लैनानुभूय तन्नामनि रतिमुवाह। ततश्च वंशीनादं परभमधुरलेनाखाद्य तद्वादिनि रतिमुवाह। ततश्र कृष्णकारं चित्रं नेत्राभ्यां तथा सकृदेवाखाद्य तद्भेदेन तस्मिन् रतिमुवाह। तत्र यद्यपि त्रीण्यपि तानि खाश्रयं श्रीकृष्णमेव स्फोरयिला रतिमु- द्ासयाभासुः। तत्स्फूर्त्यसंभवे सा न संभवेत्। वक्ष्यते चान्तिक एव लोकोत्तरपदा- र्थानामिति तथापि तदेकस्फूर्तावपि तत्रितयतो मननस्यैकैकरूप्येऽपि पृथक् पृथक् अनुभवादेकवस्तुलं न प्रतीतमित्यत एव ज्ञेयम्। कच्विदेकजातितं स्यादिति विंत- कति अत आह-पुरुषत्रये रत्तिरभूदिति। प्रथमं तावत परपुरुषे रतिरेवायोग्या

Page 416

उज्ज्वलनीलमणिः । ३९३

स्पर्शादथा- व्रजं मुष्टिग्राह्ये तमसि निगिरत्यङ्गमिह मे सखि स्पर्श दैवाद्यदवधि परं कस्यचिदगात्। गृहीता जागर्या तदवधि सदैवाङ्गजगणैः सशङ्कैर्या पश्य क्षणमपि न साद्याप्युपरता ।। ११ ।। रूपादयथा हंसदूते- कृताकृष्टिकीडं किमपि तव रूपं मम सखी सकृद्दृष्टा दूरादहितहितबोधोज्झितमतिः ।

मंखां खिद्यति स्मति सखीभ्यां तत्त्वं ज्ञाला समाश्वस्ता बभूवेति तत्रत्या कथा । १० ॥ स्ववैयम्यकारणं पृच्छन्तीं खसखीं काचिद्गोपी ह्यस्तनं स्ृत्तमाह- व्रंजमिति। तमसि मुध्या ग्राह्ये इति कविनिबद्धवक्तृप्रौढोत्तया अतिनिबिडे इत्यर्थः। व्रजं व्रजनगरं निगिरति अ्सति सतीति स्पर्शकर्तुरज्ञाने हेतुः सूचितः । मे मम रथ्यायां गच्छन्त्या इत्यर्थात्। अङ्गं गात्रं (कर्तृ) अङ्गजगणैरद्वाज्जातैलोंमभिरित्यर्थः। गृहीता जागर्येति। निरन्तरमेव मे रोमाश्चो जायत इति भावः। सशङ्करिति। तंत्र मे शङ्कैव कारणमित्यवहित्था। अन्र मनोधर्मः शङ्का अङ्गजेष्वारोपिता शङ्का- धिक्यज्ञापनार्थम्॥ ११॥ मथुरास्थं श्रीकृष्णं ललिता हंसद्वारा श्रीराधाविरहृदशां संदिशति-कृता कृष्टिराकर्षणं सैव कीडा यस्येति। तव रूपस्यैव दोषो मम सखी किं

किमुत तत्रये। तस्मात् मृतिरेव श्रेयसीति मृति विना दुष्परिहरेयं रतिः धिक्कारि- व्येवेति भावः ॥ १० ॥ सद्य एव दूरादागताया नववध्वाः खेन सहागतां सखीं प्रति वचनम्-वरजमिति। अस्तु तावदङ्गवार्ता अङ्गजगणैरद्ाजातैस्तमूरुहस- मूहैरपि जागर्या गृहीता जागर्या उद्रम: श्लेषण निद्राच्छेदः। अङ्गजगणपदेन कामस्य गणाः श्लिष्यन्ते। सशङ्कैः अहो कोडयं सुखस्पर्श इति वितर्कसहितैरित्यंर्थः । एवं ममोधर्मौऽपि चमत्कारविशेषेण हृत्खारोप्यते ॥११॥ कृताकृष्टिकीडं प्रेमामन्द-

Page 417

३९४ काव्यमाला।

हताशेयं प्रेमानलमनुविशन्ती सरभसं पतक्गीवात्मानं मुरहर मुहुर्दाहितवती॥ १२ ॥

रसादथा- पुलकयति यदक्कं सेवते गात्रभङ्गं वहति हृदि तरङ्गं सद्य एवाद्य मुग्धा। तदघदमनवक्ोद्गीर्णताम्बूलमल्पं स्फुटमविदितमास्ये न्यस्तमस्यास्त्वयालि ॥ १३ ॥

करिष्यतीति भावः । अहितहितेति। अत्यार्जवादिति भावः। हताशेयमिति। अस्या अदृष्टमेवैतादृशं तव को दोष इति भावः। सरभसं सानन्दम्। मुहुरिति। पतङ्गीपक्षे द्वित्रिवारमनलान्निःसत्यापि पुनरनलं प्रविष्टा, श्रीराधापक्षे व्रजस्थे लयि तदानीं मानसमये कतिवारमेव प्रेमत्यागं संकल्प्यापि पुनः प्रेमाणमेवाविशदित्यर्थः । १२ ॥ काचित्सखी स्वयूथेश्वर्याः श्रीकृष्णे रतिमाशासाना तत्सुखसाधनं च तदी- यताम्बूलचर्वितमनुभूय तदेव वीटिकामध्यगतं कृला तामलक्षितं भोजयामास। तवश्च तां सद एवोत्पन्नविकारां विवशां जातरति वितर्क्य काचिदन्या सखी ताम्बूलदात्रीं प्रत्याह-पुलकयतीति । पुलकयति अङ्गं पुलकवत् करोति। 'विन्मतोर्लक्' इति मतुपो लुक। हृदि तरङं सद् एवानुरागसमुद्रस्य लहरीम्। तत्तस्मादस्या आस्ये न्यस्तम्॥ १३ ॥ खसख्या दर्शितामज्ञा- पिततत्त्वां श्रीकृष्णनिर्माल्यमालां वैजयन्तीमाघ्राय संमुह्य पुनः प्रबुख्ध्य

स्वरूपं तव रूपं दृष्ट्रा अनुविशन्तीत्न्वयः। ततो हताशेयमित्येव कि वक्तव्यम्। आत्मानं च दाहितवती। मुहुरिति। तज्जालदेशादपगत्यापगत्येत्यर्थः ॥१२॥ कापि सखी सख्या मुखे सद्यस्तनं ताम्बूलचिहं दृष्ट्ा कांचिदेकाकितया तन्निकटस्थां दत्तताम्बूलां वितर्क्य तां चाघदमनानुगतां ज्ञाला तदुद्गीर्णताम्बूलस्य तादृशं प्रभावं पूर्वमनुभूय सख्यश्च सद्यस्तनं विकारं दृष्ट्ा ताम्बूलदात्रीं प्रत्याह-पुलक- यतीति। पुलकवत् करोतीत्यर्थः। 'विन्मतोर्लक ५। ३ । ६५' चेति शाब्दि काः

Page 418

उज्ज्वलनीलमणिः । ३९५

गन्धादथा- विभ्राजन्ते क सखि सुखिनः शाखिनो मोहनास्ते येषां पुष्पैरियमनुपमा वैजयन्ती कृतास्ति। पश्याकृष्टभ्रमरपटला यातयामापि कामं या भूयोभिर्मम परिमलैः स्तम्भयत्यद्य चेतः ॥ १४ ॥ लोकोत्तरपदार्थानां प्रभाव: कोऽप्यनर्गलः । रतिं तद्विषयं चासौ भासयेत्तूर्णमेकदा ॥ १५ ॥ अथ संबन्ध :- संबन्ध: कुलरूपादिसामग्रीगौरवं भवेत्। ततो यथा- वीर्य कन्दुकिताद्रिरूपमखिलक्ष्मामण्डलीमण्डनं जन्माभीरपुरन्दरस्य भवने पारेपरार्ध गुणाः ।

च सविस्मयमाह-विभ्राजन्ते इति । सुखिनो मोहना इति येषां पुष्पा- ण्यपि सुखवन्ति सुखेनैव मूर्च्छा प्रापयन्ति च ते पुनरपरिमितसुखवन्तो भवन्ती- त्यनुमिमे इति भावः । यातयाममिति। 'जीर्ण च परिभुत्तं च यातयाम- मिदं द्वयम्।इत्यमरः ॥ १४ ॥ ननु रूपात्तावदालम्बनस्वरूपनिश्चयेन तद्विषय- करत्युत्पत्तियुक्तैव अविज्ञाततत्त्वेभ्यः शब्दादिभ्यस्तु विषयालम्बनरूपाज्ञानात किमाकारा रतिराविर्भवेदिति संशये समादधाति-लोकोत्तरपदार्थानां महाचम- त्कारवतामप्राकृतवस्तूनां श्रीकृष्णसंबन्धिनां तद्विषयं तस्या रतेरालम्बनं भासयेत् प्रकाशयेत्। एकदा सहैव तत्रापि तूर्णमेव।। १५॥ कुलरूपशौर्यसौशील्यादीनां सामग्री समग्रतं तस्या गौरवं कुलादीनां संपूर्णलाधिक्यमित्यर्थः ॥ कुलाङ्गना- यास्तव परपुरुषे रतिर्नोचितेति तत्प्रेमपरीक्षार्थ वदन्तीं सखीं प्रति काचि- ॥ १३ ॥ 'जीर्ण च परिभुक्तं च यातयाममिदं द्वयम् ।' इति नानार्थवर्गः १४ ॥ तत्र तैन्रांभावनार्माह-लोकेतिोोतर्ानं णिमन्न महौषधीनामपि किमुत श्रीकृष्णसंबन्धिनामित्यर्थः ॥ १५ ॥ संबन्धशब्देनान्र संबत्धहेतुर्लक्ष्यते ।। गौरवमाधिक्यम् ॥ वीर्यमिति। कस्याश्विद्वजकुमार्या

Page 419

३९६ काव्यमाला।

लीला कापि जगच्चमत्कृतिकरीत्येतस्य लोकोच्तरा वृत्तिर्वेणुधरस्य दुर्सुखि धृतिं कस्याः क्षणं रक्षति ॥ १६ ॥ अथाभिमान :- सन्तु भूरीणि रम्याणि प्रार्थ्य स्यादिदमेव मे ॥ १७॥ इति यो निर्णयो धीरैरभिमान: स उच्यते। ततो यथा- स्फुरन्तु बहवः क्षितौ मधुरिमोर्मिधौरेयका विदग्धमणयो गुणावलिपतिंवराभिर्वृताः ।

दाह-वीर्यमिति। हे दुर्मुखीति। यदेव मुखे आयाति तदेव तं ब्रूषे। बुद्धिस्तु तव नास्तयेवेति भावः । वृत्तिश्चरित्रम्। कन्दुकितः कन्दुकसदृशीकृतोऽद्रिर्य- स्मात्तद्वीर्य पराक्रमः । परार्धस्यापि पारे गुणा गणयितुमशक्या इत्यर्थः । वेणु- धरस्येति। यद्यपि पूर्वोक्तेषु वीर्यरूपादिषु मनःप्रणिधानमकुर्वत्या मया कथचित धृतिः संगोप्यते तदपि वेणुनैव बलादेव स्मारितानि तस्य साह्ुण्यादीनि मे रवि- मुत्पादयन्तीति भावः ॥। १६ ॥ सन्तु रम्याणीति । अभिमानोऽयं मम- लास्पदे कोऽप्यनन्यतामयः संकल्पविशेषः स च रूपादिकमनपेक्ष्यापि रतिमुत्पा- दयति। यद्यपि वक्ष्यमाणात सभावादेव भिद्यते तदपि बहिर्हेतुसापेक्षतनिर- पेक्षलाभ्यामेतयोर्भेद: कल्पनीयः। दृश्यते च यथा साधकभक्तानां कस्यचिन्न गवत्यनन्यत्वं तादशसङ्गशिक्षादिजनितं कस्यचित् साहजिकं च भवति तथेति ज्ञेंयम्। १७॥ सखि, बहुवल्लभं प्रेमशून्यमतिरूक्षचेष्टं कामिनं श्रीकृष्णं परित्यज्य कस्मिश्चिदन्यस्मिन् महागुणवति पुरुषे रतिः कार्येति प्रेम परीक्षमाणां परिहसन्तीं नान्दीमुखीं श्रीराधा प्राह-स्फुरन्त्विति। धौरेयका माधुर्यतरंङ्गभावं

वचनम् ॥ १६ ॥ अभिमानस्य गाढप्राचीनममताभ्यास एव स्वरूपम्। स च सौन्दर्यादिकमनपेक्ष्यैव रतिमुत्पादयति। तमेव कार्यभेदेनाह-सन्तु रम्या- जीति॥ १७ ॥ तथैवोदाहरति-स्फुरत्विति। तच्चाभिमतं व्यतिरेंकेणोप-

Page 420

उज्ज्लनीलमणि: । ३९७

न यस्य शिखिचन्द्रकः शिरसि नैव वेणुर्मुखे न धातुरचना तनौ सखि तृणाय मन्ये न तम् ॥ १८ ॥ अथ तदीयविशेषा :- तदीयानां विशेषा: स्युः पदगोष्ठप्रियादयः॥१९॥ तत्र पदानि- पदान्यत्र पदाङ्का: स्पु: ततो यथा- स्फुरति सखि रथाङ्गाम्भोजदम्भोलिभाजां तटभुवि विशदेयं कस्य पक्किः पदानाम्।

वहन्त इत्यर्थ: । विद्ग्धमणयो विद्ग्धश्रेष्ठा गुणावलय एव पतिंवरा: खयमेव पति वृण्वत्यस्ताभिर्वता इति महतोऽपि गुणान् ये नापेक्षन्ते किंतु गुणा एव सर्वे सवससत्याप्रहेण यानाश्रयन्ते इत्यर्थः । एवंभूताश्च वैकुण्ठनाथरघुनाथादयो ये तेषां सध्ये कस्मिंश्चिदपि मे रुच्िर्नोत्पद्यत इति भावः । रुचे: पुनः का वार्ता मन्मजोगतं तु शण्वित्याह-न यस्येत्यादि ॥। १८ ॥। १९ ॥ श्रीराधा विशाखां प्रत्याह-अघृणा कपारहिता या घूर्णा अतिकष्टदात्रीत्यर्थः। तया आध्रातसाविष्टं हृदयमुद्धाटयन्ती आविष्कृत्य लोकानपि दर्शयन्तीत्र्थः। तथा- भूतामि कुख्यलं हर्षोत्थं पुलकं विस्तारयतीत्यतो महदाश्चर्यमिदं लामहं पृच्छामीति

लक्षणद्वारा दर्शयति-न यस्येति। एभिरुपलक्षणैः श्रीमन्नन्दनन्दन एवोपल- क्ष्यते नान्यः । तैरप्युपलक्ष्यत एव न तु विशिष्यते। भोजनशयनादौ तैर्विनापि स्त्यविच्छेदात्। अन्यस्य तत्परिच्छेदलेऽपि रतिविषयतायोग्यलात्। किंतन्न सखि तृणाय मन्ये न तमिति वैशिष्योत्तया रतिजन्म व्यज्यते। तदिदं च वचनं खमनःप्रेक्षिकां कांचिननिजसखीं प्रतीति ज्ञेयम् ।। १८ ॥ तदीयानां विशेषा इति पूर्ववदेषामप्ि प्रकारविशेषो मन्तव्यः ॥ १९ ॥ स्फुरतीति। कस्याश्चिद्दूरतो नवपरिणीताया: प्रथममेव व्रजेऽस्मिन्नागन्तुं लब्धवृन्दाचनप्रवेशायाः साक्षयं

Page 421

३९८ कांव्यमाला।

हृदयम घृणघूर्णाघ्रातमुद्धाटयन्ती मम. तनुलतिकायां कुख्बलं या तनोति ।। २०॥ अथ गोष्ठम्- गोष्ठं वृन्दावनाश्रितम्। ततो यथा- मदयति हृदयं सखि व्रजोडयं मधुरिमभि: क्वचिदप्यदृष्टपूर्वैः । इह विहरति कोऽपि नागरेन्द्र- स्रिभुवनमण्डनमूर्तिरित्यवेहि ॥ २१ ॥ अथ प्रियजन :- श्रौढभावानुविद्धो यस्तस्य प्रियजनोऽत्र सः ॥२२॥

सरत्युत्पत्तिं सखीं ज्ञापयामास ॥ २०॥ केनचिद्ोपेन देशान्तरात् परिणीय श्रीमन्नन्दव्रजं खववासस्थलमानीता काचिन्नववधूर्वजभूमिस्पर्शमात्रेणैव जातभावा खसखीं प्रत्याह-मदयति हर्षयति मत्तंकरोति तदैवादृष्टा श्रीकृष्णं हृदि स्फुरित- मनुभूय सर्वज्ञेव सखीमवधापयन्त्याह-इहेत्यादि। अन्र कारणं गोष्ठस्यैव शक्तिविशेषः । यदुक्त्तम्-'रति तद्विषयं चापि भासयेत्तूर्णमेकदा।' इति ॥२१॥ हे मदीयसुषे, महाकुलप्रसूतापि राधा संप्रत्युन्मत्ताभूदिति तस्याः सङं लं माका- र्षीरिति श्रीकृष्णादाशङ्गमानाभिः श्वश््वादिभिर्निवारितापि काचित् सकृदेव तामव-

चचनम्। तन्नापि साश्चर्य हृदयमिति। अघृणा कृपारहिता। पीडाकत्रींति यावत्। तादृशी या घूर्णा व्याकुलत्वं तया घ्रातमाविष्टम्। हृदयमुद्धाटयन्ती व्यक्तीकुर्वती मम श्रुतचरमपि तनुलतिकायां कुञलं तद्रूपं रोमाश्चमातनोति। नहि पीडाजनकाल्लतिकायां कुडालं जायत इति भाव: ॥l २० ॥ तथैव दर्श- यति-मद्यतीति। पूर्ववदेव कस्याश्चिन्नवागतायाः श्वशुरगृहं श्रीवृषभानुगृहा- नुगतमेव श्रीव्जराजगृहं लतिदूरम्। गोष्ठस्याष्टकोशीपरिमितलात्। ततस्तस्या

Page 422

उज्ज्वलनीलमणिः । ३९९

ततो यथा- गुरुभिरपि निषिद्धा तामहं यावदक्ष्णोः पद्मनयमनन्तश्रेयसां सद् राधाम्। तृषितमिव मनो मे प्रेक्षते तन्वि ताव- द्दिशि दिशि विहरन्तीं श्यामलां शालभ्जीम्।२२॥ अथोपमा- यथा कथचिद्प्यस्य सादृश्यमुपमोदिता। ततो यथा- नवाम्बुधरमाधुरी स्फुरति मूर्तिरुर्वीतले कृशोदरि दृशोरियात्पथि किमीदृशो वा युवा। पुरः सुमुखि गोपतेः सदसि संनिविष्टस्य मे पितुर्वितनुते नटो यमनुक्कृत्य नृत्यक्रमम् ॥ २४॥

लोक्य जातभावा कामपि खसुहृदं वैवश्यकारणं पृच्छन्तीमाह-गुरुभिरिति। तजातीयप्रेमसुखमनुभूयाह-अनन्तेति। तस्यामपि खाशक्तिं दयोतयामास तृषि- तमित्यनुरागं च श्रीकृष्णे। शालभजजीं प्रतिमाम् ॥२२॥।२३ ॥ अन्यदेशीयगोष्ठा- व्यक्षस्य कस्यचिद्रोपस्य कुमारी सभायां नृत्यन्तं कमपि नटं जालरन्ध्राद्वीक्ष्य खसखीं सविस्मयमाह-नवाम्बुधरेति। किंशब्दः प्रश्ने। हे कृशोदरि, तव दृशोः पथि ईदृशो युवा किमियात् प्राप्ुयात्। तेन लं यदि तं परिचिनोषि तदा तद्देशमेव वं मासपि नय यथा तमेव दृष्ट्रा जीवेयमिति खरत्युद्भवो व्यज्जितः । यमतुकृत्य गुरुभि: श्रीकृष्णप्रस्तावस्तस्याश्चित्तक्षोभक इत्यालक्ष्यासौ ततो निवारितः । पितृ- गेहमागतायां श्रीराधिकायां तस्यास्तत्सज्विनीनां च जाड्यादिमयीमवस्थामाशक् तद्दर्शनभपि निवारितम् । तथापि क्थंचिदर्शनं प्राप्तायास्तस्या निजसङ्गागतां सखीं प्रति वचनम्॥ गुरुभिरपीति। तत्रानन्तश्रेयसामिति । तस्यां स्रुचिं व्यज्यापि किमाश्चर्यमाह-तृषितमिति। शालभज्जी प्रतिमा ॥२१॥ ॥२२॥ २३ ॥ ततो यथेति । सेयं प्राचीनतदीयसाधनातिशयभाविता

Page 423

४०० काव्यमाला।

यथा वा- स्फुरत्येष प्रेयानिव नवघनस्तस्य सुभगे शिखण्डीनां श्रेणीं तुलयति सुरेन्द्रायुधमिदम्। असौ वासो लक्ष्मीरिव विहरते विद्युदिति सा निशम्योदस्ाक्षी त्वयि निहितबुद्धिर्निवसति॥ २५॥ अथ स्वभाव :- वहिर्हेत्वनपेक्षी तु स्वभावोऽर्थः प्रकीर्तितः ॥ २६॥ निसर्गश्र स्वरूपं चेत्येषोऽपि भवति द्विधा।

यदीयखभावचेष्टादिकमभिनयेन प्रदर्श्येत्यर्थः ॥ २४ ॥ कृत्रिमं सादृश्यमुदाहृल्य लौकिकं सादृश्यमुदाहर्तुमाह-यथा वेति। सकारितां कस्याश्चिद्वजबालाया रत्युत्पत्तिं श्रीकृष्णं विज्ञापयन्ती वृन्दा प्राह-स्फुरदिति। सा एवं लयि निहितबुद्धिरर्पितचित्ता निवसति। ननु तदुक्तलक्षणः स प्रेयान् कीदृश इत्यपेक्षा- यामाह-एष दृश्यमानो नवघनः प्रेयानिव श्रीकृष्ण इवेत्यादि ॥ २५ ॥। अत्र रते: कारणेषु अभियोगादिषु मध्ये अथ स्वभावस्यापि कारणतमनन्वयोपमैबो- च्यते रतेनिर्हेतुतज्ञापनार्थमेव। नहि साभाविकी रतिरियमित्युक्त रतेहेंतुज- न्यत्ं प्रतीयते। किं च प्रोक्ता अन्राभियोगाद्या इति वक्ष्यमाणवाक्येनाभियोगा- दीनामपि कारणतं निरस्यते इति सर्वस्या अपि रतेर्वस्तुतो निर्हेतुलमेवेति सिद्धान्ते व्यज्जिते लोकोक्तिरीत्यचते हेतव उक्ता इति। ननु बहिर्हेतवः परसंब- न्धगा उपमा तदीयजनादयः, अन्तर्हेतवश्चानुषज्जिकतच्छ्रवणादयः । त एव निर्हेतनपेक्षीत्युक्ते अन्तर्हेतुमपेक्षत इति लभ्यते। सत्यमस्य निसर्गरूपेऽन्तर्हे-

रतिस्तमुपमानं सोपानं विधायोपमेये एव चित्त प्रापयन्ती रञ्यन्तीति भावः ॥। २४ ॥। तादृशनायकतया तादृशरअनायोग्यस्यापि तस्य तदनुकर्तुः सोपा- नता मात्रं किमुत जडपदार्थतया तदयोग्यस्येत्याह-स्फुरत्येष इति ॥ २५।। बहिर्हेत्वनपेक्षीति । खत एव क्रमादाविर्भवतीत्यर्थः ॥२६॥

Page 424

उज्ज्वलनीलमणिः ।

तत्र निसर्ग :- निसर्ग: सुदृढाभ्यासजन्यः संस्कार उच्यते ॥ २७॥ तदुद्वोधस्य हेतुः साद्गुणरूपश्रुतिर्मनाक्। ततो यथा- स तर्जतु बताग्रजस्त्यजतु मां सुहृन्मण्डलः पिता किल विलज्जतां घनदगम्बुरम्बास्तु मे। मनः सखि समीहते शृतगुणश्रियं सर्वथा तमेव यदुपुङ्गवं न तु कदापि चैद्यं नृपम् ॥२८॥

लाभासस्यापेक्षा क्वचित् स्यादेव इत्यत आह-तदुद्वोघस्येति। तदीयोद्वो- धस्य हेतुरपि तस्यापि हेतुरित्यर्थः । सुदृढाभ्यासजन्य इति । सुदृढा- भ्यासोऽपि नित्यसिद्ध एव ज्ञेयः । तज्जन्यसंस्कारोऽपि प्रवाहपरम्परयैव। तथा स च लीलाशक्तिद्वारैव श्रीकृष्णरूपगुणश्रवणमुपस्थापयतीति। नाममात्रेणैव हेतोहॅतुतेत्यर्थः । अत एव मनागिति पदप्रयोगः ॥ २६ ॥ २७ ॥ कुलकन्यायाः परमलज्जावत्यास्तव बन्धुजनानभिमते पुरुषे खाशक्तिव्यजक- कामलेखप्रेषणमनुचितमिति ब्रुवाणां प्रेमपरीक्षमाणां खसखीं प्रति श्रीरुक्मिणी- देवी खनिष्ठामावेदयन्तयाह-स तर्जत्विति। श्रुतगुणश्रियमिति । नारदादिमुखाद्धर्मादिश्रवणप्रसङ्ग एव तह्गुणस्यापि श्रवणं खनित्यसिद्धखभा- निसग इति। साधारणं तल्लक्षणम्। अत्र तु मधुररतिसंबन्धो ज्ञेयः। तथा च सति बहुभिर्जन्मभि: सुचिरसिद्धलात्। सुदृढो यो मधुरवत्या आभासः पुनः- पुनराधिक्येनोदयस्तस्य जन्मान्तरबाल्यादिना तिरोधानेऽपि तज्जन्यस्तदीयो यः संस्कारः सूक्ष्मतया स्थितः स निसर्ग इत्यर्थः । यथा सुषुप्तौ शुभाशुभतत्क- र्वण इति भावः। ततश् तस्य संस्काररूपेण स्थितस्य मधुररत्याख्यस्य भावस्यो- होधे वर्धमानावस्थले श्रीकृष्णगुणरूपश्रुतिर्यद्धेतुः स्यात्तन्मनागेव स्ादनावश्यक- ैयैव स्यादित्येवार्थः। बहिर्हेतनपेक्षीति सामान्यलक्षणस्याव्याप्ेरिति भाव: ॥ २७ ॥ अतः श्रुतगुणश्रियमित्युद्दीपनमेव न तूत्पादकम्। उत्पादकस्तु तमेवेति, यदुपुंगवमित्यनयोर्वाच्य एवं ज्ञेयः। तदिदं च वाक्यं श्रीरु- २६ उज्व०

Page 425

४०२ काव्यमाला।

यथा वा- असुन्दरः सुन्दरशेखरो वा गुणैर्विहीनो गुणिनां वरो वा। द्वेषी मयि स्यात्करुणाम्बुधिर्वा श्यामः स एवाद्य गतिर्ममायम्।।२९।। अथ स्वरूपम्- अजन्यस्तु स्वतःसिद्ध: स्वरूपं भाव इष्यते ॥ ३० ॥

वोद्वोधकम्॥ २८ ॥ पुरसुन्दर्या निसर्गमुदाहृत्य व्रजसुन्दर्यामुदाहर्तुमाह- यथा वेति। यद्वा गुणरूपादिश्रवणहेतुत्वमनावश्यकमिति ज्ञापयितुमाह-यथा वेति। पूर्ववत् प्रेम परीक्षमाणां खवसखी प्रति काचिदाह-असुन्दर इति। श्याम इति। अनेन रूपस्य श्रुतचरतवं व्यक्तम्॥ २९ ॥ सतःसिद्धो भावो रत्युत्पादको वस्तुविशेषः सरूपमिष्यत इत्यन्वयः । अजन्यस्तिति विशेषणं निसर्गव्यावृत्त्यर्थम्। ततश्वायमर्थः । तु भिन्नोपक्रमे। अजन्य इति विशेषणस्य वैयर्थ्यादजन्यलेन न प्रतीयमान इत्यर्थः । तेन श्रीकृष्णरूपगुणादिभिर्जन्यलेन प्रतीयमानो नित्यसिद्धो भावो निसर्गः, तैरजन्यलेनैव सदा सुस्थिरं तु सरूपमिति मेदो द्रष्टव्यः । ननु साधनसिद्धासु श्रीकृष्णकान्तासु जन्यलेन निसर्गः, नित्यसि- द्वासु तासु जन्यलेन स्वरूपमिति किमिति स्पष्टं न व्यवस्थीयते। मैवं, पुरसुन्द- रीणां रतेः समअसलेन ललनानिष्ठसरूपासंभवात्तासु निसर्ग एव वक्तुमुचितः । न च तासां सर्वासामेव साधनसिद्धल्ं वक्तुं शक्यमतो निसर्ग: स तर्जतित्यादिना

किमिण्या एव ॥ २८ ॥ तस्या नित्यप्रेयसीलेन स्रूपसिद्धामेव रति वितर्क्या- न्यस्यामेव नैसर्गिकीं रतिमुदाहरन् गुणस्वरूपश्रवणस्यानावश्यकतामेव दर्शयति- असुन्दर इति । 'स्फुरन्तु बहवः क्षितौ' इत्यत्र योऽभिमान उदाहृतः स खलु विनापि रति गुरूपदेशादिजाताग्रहमात्रमयः । तेन च जातरतिस्त- त्रोकता। अत्र लभिमानसभवेततयैवानादितोऽनेकजन्मतो वा सिद्धेति भेद: ॥ २९ ॥ अजन्यो भावः स्वरूपमिष्यत इत्यन्वयः । नन्वजन्यः खल्वभाव एव स्यात्। तत्राह-स्वतःसिद्ध इति। चन्द्रादीनामाह्लाद कत्वादिवदिर्ति

न्तावीन् प्राप्य तद्विशेषा उदयन्ते येन तेषामासादप्रकाशसमुच्छूनता द्रवतारूपा

Page 426

उज्ज्वलनीलमणिः ।

एतत्तु कृष्णललनोभयनिष्ठतया त्रिधा। तत्र कृष्णनिष्ठम्- कृष्णनिष्ठं स्वरूपं स्याददैत्यैः सुगमं जनैः ॥३१॥ ततो यथा- इयं व्यक्तिर्गोपी न भवति पुरः किंतु कुतुकी हरिर्नारीवेषो यदखिलसुरस्त्रीर्धुवति नः ।

नित्यसिद्धायां श्रीरुक्मिण्यामेवोदाहृतः । तेन महाक्षयकूपजलसमुद्रजलयोजन्य- लखतःसिद्धले इव निसर्गस्वरूपयोर्जन्यतखतःसिद्धले ज्ेये॥। ३०॥ एतत् स्रूपम् श्रीकृष्ण एवाधारे नितरां तिष्ठतीति कृष्णनिष्ठं स्वरूपं ख्द्रष्टृजनमात्रर- स्युत्पांदको वस्तुविशेषः । तच्चादैत्यैर्देत्यप्रकृतिभयोऽन्यर्जनैः सुगमं सुप्रापं दैत्यंप्र- कृतिभिर्दुष्प्रापं पैचकैः सूर्यस्वरूपमिवेत्यर्थः। यदुकं स्वयं भगवतैव-'दवौ भूत- सर्गौ लोकेऽस्मिन् दैव आसुर एव च । विष्णुभक्तिपरो दैव आसुरस्तद्विपर्ययः।।' इति ॥ 'न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भॉवमाश्रिताः ।।' इति 'नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।' इति च ॥ ३१ ॥ खप्रेयसीमानोपशमनार्थ स्त्रीवेषधारिणं श्रीकृष्णं व्रजनगरवीथ्यां चल- न्तमालोक्य विमानचारिण्यो देव्यः परस्परं स्वितर्कमूचुः-इयमिति। ध्रुवति अन्तःकन्दर्पप्रेरणेन कम्पयतीति सखरत्युत्पत्ति ज्ञापयामासुः । न केवलमस्मान् सुरस्त्रीरेव रतिमतीः करोति अपि तु जगत्यस्मिन् सर्वाण्येव त्त्रीपुंसमात्राणि रति-

भावा मिथो विलक्षणा दृश्यन्त इति तत्तद्धेतवस्तद्विशेषा वितर्क्यन्ते। तद्वच्छ्री- कृष्णस्य तदाश्रयिणां च स्वरूपत एव तद्दावहेतुले स्थिते अत्र तु रसे श्रीकृ- ण्णनिष्ठो ललनानिष्ठस्तदुभयनिष्ठश् सरूपविशेषो द्रष्टव्य इत्याह-एतत्विति। यथाग्रत इयं व्यक्तिरिति। अन्यद्यं च स्पष्टलमेव यास्यति। तदेवाह- त्रिधेति॥ ३० ॥ कृष्णनिष्ठं स्वरूपमिति सामान्यतो लक्षितमपि रसेऽस्मिन् विशेषतोऽवगन्तव्यम् । तर्हि कथं केषांचित्तत्र रतिर्नोदेति। तत्राह-अदै- त्यैरिति । 'द्वौ भूतसगौं लोकेऽस्मिन्दैव आसुर एव च । विष्णुभक्तिपरो दैव आसुरस्तद्विपर्ययः ॥' इति। विष्णुधर्मामेयाद्यनुसारेण दैत्यप्रकृतिभ्योऽन्यै-

Page 427

काव्यमाला।

जगन्नेत्र श्रेणीतिमिरहरणायाम्बरमणिं विना कस्यान्यस्य प्रियसखि भवेदौपयिकता॥ ३२॥ अथ ललनानिष्ठम्- सरूपं ललनानिष्ठं स्यमुद्धुद्धतां त्रजेत्। अदृष्टेऽप्यश्रुतेऽप्युच्चैः कृष्णे कुर्याद्गुतं रतिम् ॥ ३३॥ ततो यथा- जिहीते यः कक्षां क्वचिदलमदृष्टाश्रुतचर- स्त्िलोक्यामस्तीति क्षणमपि न संभावनमयीम्।

मन्ति करोतीत्याहुः-जगदित्यादि। औपयिकता योग्यता व्रजपुरसुन्दरीषु ललनानिष्ठस्वरूपनिसर्गयोरपि रत्युत्पादकयोः सत्त्वात् पार्थक्येन ज्ञापनार्थ तद्वि- नाभूतासु सुरस्त्रीष्वेव श्रीकृष्णनिष्ठं स्रूपमुदाहृतम् ॥ ३२ ॥ ललनानिष्ठ- मिति। ललनाश्चात्र गोप्य एव ज्ञेयाः । स्वयमुद्धुद्धतां व्रजेदिति। निसर्गे यथा निजोद्वोधकं रूपगुणश्रवणं मनागपेक्षते तथा नेत्यर्थः । अतिबलिष्ठल्वादिति भावः । तदेवाह-अदष्टेऽपीति। कृष्णे कृष्णे एवेति व्याख्येयम्। जन्मा- रभ्य श्रीकृष्णदर्शनश्रवणादिकं विनापि तत्रैव रति कुर्यात्। स्यमेव श्रीकृष्ण- स्फूर्तेरिति भावः । अत्र कृष्ण एवेति सामान्यतः पुरुषविषयकरत्युत्पादकलल- नानिष्ठं स्वरूपं व्यावृत्तम् ।। ३३ ।। अतिदूरस्थिता कापि गोपकुमारी किंवा श्रीराधैव श्रीकृष्णदर्शनश्रवणात् पूर्वमेव सयं स्फुरितं श्रीकृष्णमनुभूय जात- भावा औन्मनस्यकारणं पृच्छन्ती: सखीः प्रत्याह-यो जनः त्रिलोक्यां क्वचिदपि देशे काले वा अस्तीति संभावनमयीं कक्षां पदवीं क्षणमपि न जिहीते न

रिति भावः । 'नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।' इति श्रीभगवदुपनि- षन्ः ॥ ३१ ॥ अथ प्रस्तुतलाद्विशेष एवोदाहरति-ततो यथेति ॥३२॥ स्वरूपं ललनानिष्ठसिति। इक्षुनालीनामिव जन्मत एव मधुररसयोग्यता। कृष्ण इति । तादृशीनां प्राचीनसंस्कारेण तदेकसमवायलात् ।। ३३ ।। अतिविदूरस्थितायाः कस्याश्चिद्रोपकन्याया वचनम् । जिहीत इत्यन्वयः ।

Page 428

उज्ज्वलनीलमणिः । 80५

घनश्यामं पीताम्बरमहह संकल्पयदमुं जनं कंचिद्गोष्ठे सखि मम वृथा दीर्यति मनः ॥३४॥ अथोभयनिष्ठम्- तत्स्यादुभयनिष्ठं यत्स्वरूपं कृष्णसुभ्रुवोः। ततो यथा ललितमाधवे- सहचरि हरिरेष ब्रह्मवेषं प्रपन्नः किमयमितरथा मे विद्रवत्यन्तरात्मा।

प्राम्तोति तमेव जनं संकल्पयत् सरमणलेन वरीतुमिच्छत् मम मनो वृथा दीर्य- तीति। तं विना अन्यस्मिन् न स्वीकारात तस्य च त्रिलोक्यामसत्त्वात् संकल्प- स्याप्य फलिष्यतादिति भावः ॥। ३४ ॥ श्रीकृष्णसुभ्नुवोर्द्वयोरेव सवरूपं युगपद्यत्रो- पलभ्यत इति शेष: ॥ सूर्यपूजाप्रसक्के ब्राह्मणवेषधारिणं श्रीकृष्णमालोक्य तत्का- लमविज्ञाततत्त्वापि तद्दर्शनजेन सवीयरत्युद्धवेनैव तं श्रीकृष्णमनुमिमाना श्रीराधा ललितां प्रत्याह-सहचरीति। ब्रह्मवेषं ब्राह्मणवेषम्। ननु केन प्रकारेण ब्राह्मणवेषमप्येनं श्रीहरिं निश्चिनोषीत्यत आह-किमयमित्यादि। अन्यथा- तुपपत्तिरेवात्र प्रमाणमिति भावः । एतेन कृष्णनिष्ठं खरूपमभिव्यक्तम्, ललना- निष्ठं स्वरूपमपि तदैवाभिव्यक्तम्, अर्थान्तरन्यासेन स्पष्टीभूतम्। शशध- रेति। चन्द्रकान्तमणिनिर्मिता वेदी चन्द्रस्य ज्योत्सां विना न खिविद्यतीति। अन्रन चन्द्रनिष्ठं सवरूपमाह्वादकतवं प्रकाशशैत्ययोः साहित्यं च। तञ्न सर्ववस्तुगतमेवात- श्न्द्रकान्तमणावपि दृष्टम् । खेदस्तु चन्द्रकान्तमणिनिष्टमेव स्वरूपम् । अन्यत्र भृत्पाषाणादिषु तददर्शनात्। स च सेदश्वन्द्रं विना चन्द्रकान्त- मणेरन्यन्न न भवति चन्द्रकान्तमणेश्वन्द्रमात्रद्राव्यस्वरूपतं यथा तथा च चन्द्रकान्तद्रावकत्वलक्षणः स्वरूपविशेषश्चन्द्रस्याप्यज्ञीकर्तव्य इति चन्द्रकान्त- चन्द्रयोरुमयनिष्ठसवरूपमिव गोपीकृष्णयोरुभयनिष्ठं स्वरूपं कृष्णनिष्ठललनानि- ष्ठाभ्यां स्वरूपाभ्यां पृथगेवावगन्तव्यम्। अत एव भेदत्रयं कृतम्। तथा

संभावनमयीं कक्षां न प्राप्ोतीत्यर्थः । कक्षा प्रकोष्ठः । संभावनास्पदताम् । गोष्ठ

Page 429

४०६ काव्यमाला।

शशघरमणिवेदी खेदधारां प्रसूते न किल कुमुदबन्धौः कौमुदीमन्तरेण॥ ३५॥ प्रोक्ता अत्राभियोगाद्या विलासाधिक्यहेतवे॥ ३६॥ रतिः खभावजैव स्यात्प्रायो गोकुलसुभ्ुवाम्।

हि सज्जनमात्ररतिदायकतवं कृष्णनिष्ठं सवरूपं अदष्टाश्रुतस्यापि कृष्णस्य स्कूर्तिमत्त्वं ललनानिष्ठं स्वरूपं श्रीकृष्णदर्शनमात्रं द्रौत्यातिशयवत्त्वं गोपीक्षोभातिशयकारितं चेति द्वयमुभयनिष्ठस्वरूपम्। किं च चन्द्रं प्राप्य कुमुदचन्द्रकान्तचकोरसमुद्रादयः प्रफुल्लतद्रवत्वरसास्वादसमुच्छूनतादिधर्मवन्तो भवन्ति तथा चन्द्रोऽपि तान् प्राप्य तत्तद्धर्मप्रदो भवति। एवं गोपीजनविशेषश्रीकृष्णसाहित्यादुभयनिष्ठखरू- पस्य बहुमेदकं तारतम्यं ज्ञेयम्। अन्र स्वरूपस्य भेदत्रयं तच्च ज्ञानव्युत्पत्त्यर्थ- मेव कृतम्। वस्तुतस्तु ललनानिष्ठखरूपमेकमेव व्रजदेवीषु विवक्षितं तदेव निस- गोदुत्कृष्यते, अन्यद्दयं तूद्दीपनले एव पर्याप्रोति॥ ३५ ॥ एवं रत्युत्पत्तेः कार- णानि लोकोक्तिरि(री)त्येवोक्ानि। वास्तवं सिद्धान्तमाह-प्रोक्ता इति। विलासाधिक्येति। अभियोगादीनामुद्दीपनलाधिक्यमेव वस्तुतः फलितमिति भाव:। खभावजेति। कासांचिदतिश्रेष्ठानां श्रीराधादीनां स्रूपजा अपरासां कासांचित्निसर्गजा च स्यादित्यर्थः। प्रायःपदेनेति कासांचिदर्वाचीनकल्प एव साधनसिद्धानां निसर्गेखरूपयोः संभवादभियोगादय एव रत्युत्पत्तेः कारणानि भवन्तीति ज्ञापितम्। पुरसुभ्रुवां तु निसर्गजैव, ताखेव साधनसिद्धानां कासांचि- दभियोगादिजा चेति ज्ञेयम् ॥ एवं रतेः कारणान्युक्ता रतेर्भेदांखैरेव तारतम्यं चाह-साधारणी कुब्जादिषु, मणिवत् नातिसुलमेति कुब्जादिभ्योऽन्यैरपि इति गोष्ठविशेष इत्यर्थ: ॥ ३४ ॥ ३५ ॥ ननु गोकुलसुभ्नुवः प्रायो नित्यप्रेयस्य एव इतस्तासां लीलाशक्तिप्रापितजन्मान्तरीणां सवभावजैव स्यात् तर्हि कथं तासामपि क्वचिदभियोगादयो रतिहेतुतया वर्ण्यन्ते। तत्राह-प्रोक्ता इति। अभियोगो रत्यभिव्यञ्ञना तदाद्या रूपगुणानुभवादयः ॥ साधारण्यादीनां लक्षणं तावच्छब्दार्थवशादेव गम्यते। तथा हि-समर्था खल सैव स्यात् या लोकधर्माद्य- तिक्रम्य परमकाष्ठापज्नां पुष्टिमाप्नोति। तदुकं परकीयालक्षणे-'रागेणैवार्पितात्मानो लोकयुग्मानपेक्षिणा' इति। वक्ष्यते च 'इयमेव रतिः ्रौढा महाभावदशां ब्रजेतू।'

Page 430

उज्ज्वलनीलमणिः ।

साधारणी निगदिता समञ्जसासौ समर्था च। कुज्जादिषु महिषीषु च गोकुलदेवीषु च.क्रमतः ॥३७।

नातिसुलभेयमभित: सुदुर्लभा स्यादनन्यलभ्या च।।३८।।

यत्नतो लभ्येत्यर्थः । आदिपदेन देवाङ्गना मथुराङ्ना विदर्भाङ्गनाश्च ग्रात्या इवि केचित्। कुब्जायामेव सख्यो दास्यश्चेत्यन्ये। समज्सा महिषीषु चिन्तामणिवद- मितश्रतुर्दिक्षु सुदुर्लभेति महिषीभ्योऽन्यैः कैश्चिदेव कदाचिदेव महाभाग्यत एव लभ्येत्यर्थः । यदुक्त्तम्-'अभिपुत्रा सहात्मानस्पसा स्त्रीलमापिरे। भर्तारं च जगद्योनिं वासुदेवमजं विभुम् ।।' इति महाकौर्मवचनम्। समर्था गोकुलदेवीषु कौखुभमणिः श्रीकृष्णादन्यैन लभ्यते तथैव गोकुलदेवीभ्योऽन्यैव कैरपि न लभ्ये- त्यर्थः । यदुक्तम्-'नायं श्रियोऽङ्ग उ नितान्तरतेः-' इत्यादि। रागानुगव- त्मस्थैः साधकभक्तैर्लभ्यले तु तेषां गोकुलदेवीभावभावितलेन तदनन्यलात्। अन्र कुब्जारतिः साधारणीति समजसासमर्थे असाधारण्ये ज्ञेये। महिषीरतिः समजसेति साधारणीसमर्थे असमञसे ज्ञेये। लोकधर्मानभिमतल्मेव तयोर- सामज्स्यम्। यदुक्तम्-'उत्तरीयान्तमाकृष्ये'ति, तथा 'या दुस्त्यजं खजनमार्य- प्रथं च हिला' इति। एवं गोकुलदेवीरतिः समर्थेति, साधारणीसमञ्जसे असमर्थे ज्ञेये।। तयोरसमर्थतं श्रीकृष्णवशीकारादिषु वक्ष्यमाणरीत्या ज्ञेयम्। किंच सम- र्थैत्यत्र विषयविशेषानुपादानाय्यथासंभवं विषयोऽवश्यमर्पणीय एव। तथा हि इति। अथ यान्या रतिः समज्जसाख्या सा खलु लोकधर्मापेक्षया, तथोच्यते च। अत एव नातिसमर्था। अत एव च भावान्तिमां सीमां न प्रपद्यत इति भावः । न चास्या: समञ्जसाख्यलेन समर्थाया असमज्जसलमायातीति वाच्यम्। तौ हि लोकधर्मौ तन्महिमानुभवाद्वहिर्वर्तिनामेव गहीतौ ततस्तैस्तदनुसारेणैव तस्याः सम- असेत्याख्या कृता। परमपारमार्थिकानुसारेण तु समर्थैव परमसमञ्जसा । तदुक्म्-'एताः परं तनुभृतः' इत्यादिभिः । अथ यान्या साधारणी सा तु न्यूनल्ादेव तत्तयोच्यते। लोके च तच्छब्दप्रयोगस्तत्र दृश्यते। न्यूनतं च संभोगेच्छामूलतया तिरस्कृतलात्। तत एवान्यद्वयवद् पुष्टियोग्यताभावात्। संभोगेच्छारत्यादेर्मेदस्तु समर्थालक्षणे व्यक्तीभविष्यति तदनुसारेणैवासां लक्षणानि

Page 431

80८ काव्यमाला।

तत्र साधारणी- नातिसान्द्रा हरे: प्रायः साक्षाददर्शनसंभवा। संभोगेच्छानिदानेयं रतिः साधारणी मता ॥ ३९॥ यथा श्रीमहाभागवते दशमे- सहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया। रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण।। ४० ।। असान्द्रत्वाद्रतेरस्या: संभोगेच्छा विभिद्यते। एतस्या हासतो हासस्तद्वेतुत्वाद्रतेरपि । ४१॥

सरमणस्य श्रीकृष्णस्य सर्वतोभावेन वश्ीकारे तद्ूपगुणरूपमाघुर्याणां सामस्तेना- खादनायां तथा समाधुर्यानुभाव्यमानस्य तस्यापि मोहने परचमत्कारप्रापणे च स्वतोऽपि महैश्वर्यस्य विस्मारणे तथा साधारणस्य रूपगुणकलामाघुर्योणां सामस्ते- नाखादनायां नित्यनवीनीकरणे सर्वोत्कर्षे च सामर्थ्यवतीति समर्था ।३६ ।। ॥३७॥ ३८ ॥ एवं साधारणीसमञ्जसासमर्थानामन्वर्थानामपि स्पष्टप्रतिपत्त्यर्थ लक्षणमाह-नातिसान्द्रा नातिनिविडा। संभोगेच्छया बहुधा विध्यमानलेनैवा- नुमीयत इत्यर्थः । प्रायःपदेन क्वचिच्छूवणसंभवापि। संभोगेच्छानिदान इति। यदैवं श्रीकृष्णसौन्दर्य दृग्गोचरीबभूव तदैवानेन पुरुषेण मे सक्को भूया- दिति स्वसुखतात्पर्यरत्याकाल्णा अजनिष्ट। ततश्च योऽयं मां संप्रत्येव चाक्षुषसंभो- गेनैव निरवधिकमसुखयत्तमेनमहमपि क्षणमेव समुचितसपर्यापूर्वकखवाङ्गसङ्ग- दानेन सुखयामीति संकल्पमयी रतिरभूत्। कुब्जादीनां तेन साक्षादर्शनसंभवे- त्यस्य साक्षाद्र्शनेन परम्परया संभवो यस्या इत्यर्थो व्याख्येयः ॥ ३९॥ संभुक्ता कुब्जा जातरतिः श्रीकृष्णमाह-रमसवेति। श्रीकृष्णस्य सुखतात्पर्य रतिलक्ष- णम्। तस्याः खसुखतात्पर्येव मयेत्युक्ति: स्यात् ॥। ४० ॥ अस्या: साधारण्या व्याख्यास्यन्ते । अनन्यलभ्येति अन्येनालभ्येत्यर्थः । तत्र दृष्टान्ते श्रीकृष्णा- दन्येनेति। दार्थान्तिके गोकुलदेवीभ्योऽन्येति व्याख्येयम् ॥३६॥३७॥३८॥ नातिसान्द्रेति व्याख्यास्यते। तादृशलान्यूनलमप्यायातम् ॥ ३९॥ रम- स्ेति संभोगेच्छानिदानतं व्यक्तम् ॥।४० ।। अस्याः संभोगेच्छानिदानायाः

Page 432

उज्ज्वलनीलमणिः । ४0९

अथ समञ्जसा- पत्नीभावाभिमानात्मा गुणादिश्रवणादिजा। क्वचिद्द्ेदितसंभोगतृष्णा सान्द्रा समञ्जसा । ४२।।

रतेरसान्द्रलान्नबिड्याभावात् अस्या: सकाशात् संभोगेच्छा विभिद्यते पृथकया दृश्यमाना तिष्ठति ॥ नन्वेतस्याः साधारण्या रतेस्तारतम्यं वर्तते नवेत्याशङ्काया- माह-एतस्याः संभोगेच्छाया ह्ासतो रतेरपि ह्रासः। तत्र हेतुः तद्वेतुलात् संभोगेच्छाहेतुकतवात्। अयमर्थ :- कुब्जादिषु यस्याः संभोगेच्छा अधिका तस्या रतिरप्यधिका, यस्या अल्पा तस्या रतिरप्यल्पा कारणतारतम्येनैव कार्यतारतम्यादिति। अत्र एतद्धेतुत्ादिति वक्तव्ये तद्ेतुलादि: प्रयोग एत- त्पद्वाच्यायाः संभोगेच्छाया बहिरज्लव्यञ्ञकः। यथा एष चौर इतो निःसत्य तद्देशं यास्यत्यतस्त्रं च शीघ्रं तत्र गला तं सुष्रु दण्डयेति तत्पदेनापि एतत्पदस्य परामर्शो दृष्टः ॥४१ ॥ पत्नीताभिमानस्य आत्मा बुद्धिर्यतो यस्यां वा सा। 'आत्मा यत्नो धृतिर्बुद्धिः' इत्यमरः। यस्यां रतौ पत्नीलाभिमानसंब- न्धिनी बुद्धिर्भवतीत्यर्थः । पत्नीभावाभिमान एवात्मेवात्मा यस्या इति। तदभि- मानस्य तिरस्कारे स्थित्यभावश्च व्यक्त इति श्रीजीवगोखामिचरणः । अत्र पत्नी- पदप्रयोगेण 'पत्युरनो यज्ञसंयोग' इत्यनुशासनाद्विप्राभिसाक्षिकवेवाहवत्य एव समजसरतिमत्य इति गान्धर्वविवाहवत्यो गोकुलकन्या व्यावृत्ताः । गुणादि- श्रवणादिजेति। साधनसिद्धापेक्षया रुक्मिण्यादिषु नित्यसिद्धासु तु निसर्गा- देव प्रादुर्भूता 'तदुद्वोधस्य हेतुः स्याटुणरूपश्रुतिर्मनाक्' इति व्याख्यानयुक्तेः ।

साधारण्याख्याया रतेरसान्द्रलात् तदिच्छाविदलेनानिबिडिलादसौ संभोगेच्छा विभिद्यते साधारण्या नायिकया या पृथक्तया भाव्यते। तद्धेतुलात् संभोगे- च्छाहेतुकलवात् । तस्या: संभोगेच्छाया हरासतः एतस्या रतेरपि ह्रासः स्यादि- त्यर्थः । ह्रासत इति पदेन तस्या इति संबन्धिपदमत्राक्षिप्यते। एतस्याः संभोगेच्छाया हासत इति व्याख्यायां तद्धेतुत्वादित्येतद्रतस्य तच्छब्देनानुवादो न स्यात्। किंतेतद्धेतुलादित्येवोक्के स स्यात्। न ह्येष गच्छति तं पश्येत्युक्ते तयोरभिन्नवाचकता गम्यत इति ॥४१॥ पतीभावेति। लोकधर्मापेक्षिता दर्शिता । गुणादिश्रवणादिजेति तत्प्रादुर्भूतेत्येवार्थः । नतूत्पद्यमानेति

Page 433

४१० काव्यमाला।-

यथा तत्रैव- का त्वा मुकुन्द महती कुलशीलरूप- विद्यावयोद्रविणधामभिरात्मतुल्यम्। धीरा पतिं कुलवती न वृणीत कन्या काले नृसिंह नरलोकमनोभिरामम् ॥ ४३॥

क्वचित् कदाचिदेव भेदिता सतः सकाशाद्भ्ित्ीकृत्य स्थापिता संभोगतृष्णा यया सा। सर्वदा तु रत्या तादात्म्यं प्राप्तैव तिष्ठतीत्यर्थः । साधारण्यां रतौ संभोग- तृष्णा सदैव पृथक्तया तिष्ठति, समज्सायां तु क्वचिदेवेति भेदः ॥ तेन सम- जसाया रतेरपि क्वचिदंशे संभोगतृष्णाहेतुभवतीत्यर्थादायातं पूर्वोक्तयुक्तेरेव। तेन चैवमवसीयते रुक्मिण्यादीनां वयःसंधावेव नारदादिमुखवर्णितश्रीकृष्णगुणश्रव- णादिनोद्वुद्धाज्निसर्गादेव श्रीकृष्णे रतिस्तथा कामोद्रमसमवयःसंधिखाभाव्यात्। संभोगतृष्णाजन्या च रतिर्युगपदेवाभूत्। तत्र प्रथमा बहुतरप्रमाणा, द्वितीया अल्पप्रमाणेति द्वयो रत्योर्मेलनेन समञ्जसाभिधा रतिर्व्याख्यायते। तासां तदन- नतरं च संभोगतृष्णा द्विधाभूतैवान्ववर्तत निसर्गोत्थरत्यनुभावरूपा संभोगतृष्णो- त्थरत्यनुभावरूपा च। प्रथमा रतेः पृथक्तया नैव तिष्ठति तत्कारणलन तन्मयले- नैव प्रतीतेः । द्वितीया रतेः पृथक्तयैव भासते संभोगतृष्णाया आदिकारणलेन तन्मयलेनैव प्रतीत्यौचित्यात्। क्वचिदिति पदेनेयं संभोगतृष्णोत्था रतिर्न सर्वदा समुदेतीत्यर्थः । सान्द्रेति। निसर्गोत्थरतेः सान्द्रतात् द्वितीयाया अपि सान्द्रतवं भवति हि तत्साहित्यात्ताद्धर्म्यमिति न्यायात् ॥४२ ॥ श्रीरुक्मिणी श्रीकृष्णं प्रति संदेशपत्रीं लिखति-अस्तु तावद् ममानन्यगतेर्वार्ता परा च का त्वेत्यादि। 'जनी प्रादुर्भावे' इति धातुपाठात्। श्रीरुक्मिण्यादीनां स्वाभाविकतत्प्रेयसी- लेन स्वाभाविकतद्भावलाच। क्वचित् सतोऽप्यधिकप्रेमवती साम्याभिलाषे सति खेदिता स्वभावसिद्धप्रेमपरिपाटीतः पृथक्तया दर्शिता संभोगतृष्णा तद्धेतुं वशीकृत्य निजनिकटे स्थापयितुमिच्छा तदुचितहावभावादिपरिपाटीमयी तर- ङ्ञिण्यामिव तरङ्गान्तरायमाणवरिमवीचीर्यस्यां सा। सान्द्रेति तदन्तस्तन्यप्रवेशोऽ सामर्थ्यदर्शनया बहिरेव तादृशभावान्तरस्थितिर्दर्शिता ॥। ४२॥ का त्वा मुकुन्देति। असतु तावन्ममानन्यगतेर्वार्ता परापि केति लहुणानां सर्वासाम-

Page 434

उज्ज्वलनीलमणिः । ४११

समञ्जसातः संभोगस्पृहाया भिन्नता यदा। तदा तदुत्थितैर्भावैर्वश्यता दुष्करा हरेः ॥ ४४॥ तथाहि तत्रैव- स्मायावलोकलवदर्शितभावहारि- भ्रूमण्डलप्रहितसौरतमब्रशौण्डैः । पत्यस्तु षोडशसहस्रमनङ्गबाणै- र्यस्येन्द्रियं विमथितुं करणैर्न शेकु: ।४५ ॥

किंतु महती धीरा यदि स्यादित्यर्थः। काले खपरिणयसमये आत्मना खेनैव तुल्यं निरुपममित्यर्थः । हे नृसिह, का न वृणीत इत्यतस्तद्गुणानां सर्वोत्कर्षकला- न्ममेदं धार्ष्य न चिन्तनीयमिति रतिरात्मनो व्यानज॥ ४३ ॥ समजसाख्य- रते: प्रथममुत्कृष्टं महान्तमंशसुदाहृत्य द्वितीयमपकृष्टमल्पमंशमुदाहर्तु तस्यापकर्ष व्याचष्टे। समअसातः समजसारतेः सकाशात् संभोगस्पहाया यदा भिन्नता पार्थक्येन प्रतीतिस्तदा तदुत्थितैः संभोगस्पृहोत्थैभविर्भावहावहेलाकिलकिंचिता- दिभिर्वश्यता दुष्करेति तस्य प्रेमैकवश्यत्सिद्धान्तात् सर्वशास्त्रसंमतादिति भावः । यदेत्यनेन सर्वदा तु निसर्गोत्थरतेः संभोगस्पृहाया भिन्नता नास्तीति तदुत्थितैर्भा- वैश्च हरेर्वश्यता सुकरैवेति गम्यते। अत एव पूर्वोक्ता का ला मुकुन्देति भाव- मयसंदेशमात्रेणैव श्रीकृष्णस्य द्वारकातो विदर्भागमनं वश्यताव्यञ्जकमेवेति ज्ञेयम् ॥ ४४ ॥ श्रीशुकः सिद्धान्तं बोधयन् श्रीपरीक्षितमाह-स्ायेति। षोडश- सहस्रमपि पत्न्यो यस्येन्द्रियं मनआदिकं विमथितुं न शेकुः । कैर्न शेकुः । प्याकर्षणे सामर्थ्यमिति स्वधार्ष्ट्यदोषः परित्याजितः ॥४३॥ संभोगस्पृहायाः पूर्व- वद्भावहावादिव्यअ्ञनामय्याः ॥ ४४॥ स्मायेति। षोडशसहस्त्रमपि पत्यो यस्य श्रीकृष्णस्य इन्द्रियं मनआदिकं विमथितुं न शेकुः। कैने शेकुः। करणैर्भा- वहावादिचेष्टितैः । कीटशैः । अनङ्गस्य कामस्य बाणरूपैः । बाणरूपलऽपि कीदशैः । स्मायः स्मितं तद्युक्तो योऽवलोकलवस्तेन दर्शितो यो भावोऽभिप्रा- यस्तेन हारी हर्तु समर्थो यो धनूरूपो भ्रूमण्डलस्तेन प्रहितैः तथा सौरतेन सुरते नियुक्तेन मन्त्रेण शौण्डैः प्रगल्मैरपीति। पत्यस्तित्यस्मात् करणैरित्यत्र

Page 435

४१२ काव्यमाला।

अथ समर्था- कंचिद्विशेषमायान्त्या संभोगेच्छा ययाभित: । रत्या तादात्म्यमापन्ना सा समर्थेति भण्यते ॥ ४६ ॥ स्वस्वरूपात्तदीयाद्वा जातो य्त्किंचिदन्वयात्। समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ॥४७ ॥

करणैर्भावहावादिचेष्टितैः । कीटृशैः । अनङ्गस्य बाणरूपैः । बाणरूपलेऽपि कीटशैः । स्मायः स्मितं तद्युक्तो योऽवलोकनलवस्तेन दर्शितो यो भावोऽभि- प्रायस्तेन हारि मनोहरणशीलं यङ्रमण्डलं तेन प्रहिता: प्रेषिताः सौरतमन्र्राः सुरतसंबन्धिरहस्ययुक्तयस्तेषु तत्प्रापणेषु शौण्डैः प्रवीणैः ॥ ४५॥ यया रत्या संभोगेच्छा तादात्म्यं तदात्ममान्रं रतिरूपत्वमापन्ना स्यात् सा समर्था। रत्या कीदश्या। कंचिद्विशेषं स्रूपोत्थतात् साधारणीसमज्जसाभ्यां सकाशात् कमप्य- निर्वचनीयविशेषं श्रीकृष्णवशीकारत्वातिशयं प्रामुवत्या ।।४६।। खस्रूपाल्ल- लनानिष्ठस्वरूपाज्जातेति पूर्वोक्तरतिद्वयादस्य हेतुरपि परमविलक्षण एवेति भावः । तदीयात् श्रीकृष्णसंबन्धिनः शब्दादेः किंचिन्मात्रादन्वयाद्वेति नाममात्रत एव हेतोर्वस्तुतस्तु खत एवेति भावः । समर्था अन्वर्थनाम्रीत्यर्थः। सामर्थ्यमेव दिग्द- रशनेनाह-सर्वं कुलधर्मधैर्यलोकलज्जादिकं विस्मारयितुं शीलं यस्य तथाभूतो गन्वोऽपि यस्याः सा। यदुक्तम् । 'या दुस्त्यजं स्वजनमार्यपथं च हिला भेजुः।' तुशब्दस्यान्वयात् विशब्दस्य बलात् करणैस्तु विशेषेण मथितुं न शेकुरिति लब्घे यावान् तत्र प्रेमांशस्तावदेव मथितुं शेकुरिति लभ्यते ।। ४५॥ यया रत्या तादात्म्यमेकीभावमापन्ना संभोगेच्छा सा रतिः समर्थेति भण्यते। कीदृशी सती। तन्राह किंचिद्विशेषमायान्तीति । अयमर्थ :- संभोगः खलु द्विविधः । प्रियजनद्वारा खेन्द्रियतर्पणसुखमयः, खद्वारा तदिन्द्रियतर्पणसुखभावनामयश्चेति। तत्र पूर्वेच्छा काम: खहितोन्मुखलात्। उत्तरेच्छा तु रतिः प्रियजनहितोन्मु- खलात्। तत्र चोत्तरसंभोगे प्रियजनस्पर्शसुखं च भवत्येवेति। यद्यपि तदिच्छा दुर्वारा तथापि बलवत्त्वात् कंचिद्विशेषमायान्त्या यया रत्या मिलितलात्तत्ता- दात्म्यमापन्ना भवति सा रतिः सर्वातिक्रामिसामर्थ्यात् समर्थेति भण्यत इति॥ तदेवं समर्थायां कार्यद्वारा सरूपद्वारा च लक्षणमुक्ता कार्यान्तरद्वारा पुनस्त-

Page 436

उज्ज्वलनीलमणिः । ४१३

यथा- प्रेक्ष्याशेषे जगति मधुरां सां वंधूं शङ्कया ते तस्याः पार्श्चे गुरुभिरभितस्त्वत्प्रसङ्गो न्यवारि। श्रुत्वा दूरे तदपि भवतः सा तुलाकोटिनादं हा कृष्णेत्यश्रुतचरमपि व्याहरन्त्युन्मदासीत्। ४८॥। सर्वाद्ुतविलासोर्मिचमत्कारकरश्रियः। संभोगेच्छाविशेषोऽस्या रतेर्जातु न भिद्यते ॥ ४९ ॥

इति। अत एव सान्द्रतमा भावान्तरेण प्रवेष्टमशक्यतमा ॥४७ ॥ कस्याश्चिद्र- जबालायाश्चरितं वृन्दा कृष्णमावेदयति-प्रेक्ष्येति। ते शङ्कया नारीगणमनो- हारितलक्षणं तव स्भावं परामृश्येत्यर्थः । न्यवारि अस्याः कर्णगतः श्रीकृष्ण- श्वित्ते लगिष्यतीति शङ्कया निवारयामास । भवतोऽदृष्ट्राश्रुतचरस्यापि तुलाकोटि- नादं श्रुलेति यत्किंचिदन्वय उक्तः । परिचयस्तु तस्या ललनानिष्ठरूपलात् पूर्वपूर्वस्फूर्तिरेव ज्ञेयः । अश्ुतचरमपीति। न ललनानिष्ठस्वरूपं व्याहरन्तीति गुरुगौरवलज्जादिविस्मारणम्, उन्मदासीदिति रतेः सान्द्रतमतं च व्यजजितम् ॥४८ ॥ अस्या रतेः सकाशात् संभोगेच्छाविशेषो जातु कदाचिदपि न भिद्यते। पृथक्तया प्रतीतो न भवतीत्यर्थः । तथा ह्यस्या रतेः स्वरूपसिद्धलाद्गुणादिश्र- वणानपेक्षितलेन प्राबल्याद्वयःसंधेः पूर्वमेव व्रजबालासु कासुच्त् तथापरासु नन्दपुरनिकटवर्तिनीषठु रतेः स्वरूपसिद्धलवेऽपि श्रीकृष्णेन सह धूलिखेलनादिभि: परिचयाधिक्येनापि प्रादुर्भावः। सामान्याकारेण प्रादुर्भूतायां च तस्यां तासां

द्वदंस्तदुत्कर्षमाह-सवस्य ललनासंबन्धिनः स्वरूपाज्जाता कि वा श्रीकृष्णसंब- न्धिनो यत्किंचिदन्वयात् स्वरूपादीनामेकतरस्य संबन्धमात्राज्जाता सर्वविस्मारिले- शमात्रा समर्था सा सान्द्रतमा बहिरपि भावान्तरेण भेत्तुमशक्या मता ।४६॥ ४७ ॥ तत्र स्वरूपस्योदाहरणं जिहीत इत्यादिना दार्शतमिति द्वितीय- स्याह-प्रेक्ष्येति। तुलाकोटिर्नूपुरम्। अत्रोन्मदेव्यनेन भावान्तरस्पर्शो बहि- रपि नास्तीति द्योतितम् ॥।४८ ॥ 'कंचिद्विशेषमापन्ना-' इत्यत्र यदुक्तं तदेव पुनर्व्यनक्तिसर्वाद्भुतेति। सार्घेन। अस्यां समर्थायाम्। इत्यस्ामित्यत्र यदस्यामिति पाठः संयोज्य पूर्वत्र लेनं व्याख्येयम्। इतीति एतद्धेतोरित्यर्थः।

Page 437

४१४ कान्यमाला।

इत्यस्यां कृष्णसौख्यार्थमेव केवलमुद्यमः। पूर्वस्यां स्वसुखायापि कदाचित्तत्र संभवेद् ॥ ५० ॥

श्रीकृष्ण एव प्रीतिमतीनां सर्वेन्द्रियवृत्तयः श्रीकृष्णसुखतात्पर्यत एवाभूवन्। अथायाते वयःसंधौ कंदर्पोंद्रमेन या संभोगतृष्णा रत्याक्रान्ते मनस्यजनिष्ट सापि सुखतात्पर्यवत्येवाभूदिति संभोगतृष्णाया रत्या सह तादात्म्यम्। तामवस्थामा- रभ्यैव तासां स्ाङ्गसङ्गदित्सयैव तत्सुखविशेषोत्पादने संकल्पवतीनां तासां रतिर्मधुराभिधाना अभूदित्यत एव संभोगतृष्णा पृथक्तया न भासते। अत एवात्र संभोगेच्छाविशेष इत्यत्र विशेषशब्दप्रयोगः । रतेः कीदृश्याः । सर्वंतोऽप्य· द्ुताः श्रीकृष्णवशीकारित्वेन विस्मयावहा या विलासोर्मयस्ताभिश्वमत्कारका- री(रिणी) श्रीर्यस्यास्तस्या इति हेतोरस्यां समर्थायां रत्यां सत्यामुद्यमो मनोवा. क्कायानां व्यापारस्तथा बुद्धिपूर्वकोऽबुद्धिपूर्वको वा यः स श्रीकृष्णसौख्या- र्थमेव। तेनोद्यमेन श्रीकृष्णः सुखमेव प्राप्नोतीत्यर्थः। तथा हि श्रीमुखवाक्यम्- 'न पारयेऽहं निरवद्यसंयुजाम्'। इति तासां सवसुखतात्पर्याभाव एव निरवद्य- लम्। अत एवात्र तस्य वशीकार: प्रसिद्ध: । पूर्वस्यां समजसायाम्। कंदा- चिदिति। नतु सर्वदेत्यर्थः । तेन श्रीरुक्मिण्याः पत्रीश्रवणमात्रेणैव द्वारकातो विदर्भागमनं श्रीसत्यभामायाः कृते पारिजातानय नमित्यादिलीलाव्यञ्जिततद्वशी- कारोऽपि दृष्ट एव। एवं च साधारण्या रतेः साक्षादर्शनजन्यसंभोगतृष्णैव हेतुः। रतेः खभावात् श्रीकृष्णस्य कुब्जागृहगमनस्य ज्ञाप्य ईषद्वशीकारो दुर्भगेदमया- चतेति श्रीशुकोकिज्ञाप्यः सर्वथा वशीकाराभावश्च तथा समअ्जसाया हेतुर्निसर्ग:

एतत् किं तत्राह-अस्यामित्यादि। कृष्णसौख्यार्थमात्रोद्यमलादस्या रतेः शुद्धलम्। अत एव स्तन्त्रलेन सर्वाद्धुतेत्याद्युक्तरूपलम्। एवं केवलमित्येत- योश्च तस्यां स्वातन्यातिशय एवाग्रहः । अथवा 'निर्णीते केवलमिति' इूत्यमरः। उत्तरार्ध हेतुगर्भम्। ततश्र अस्यां कृष्णसौख्यार्थमेवोद्यम इति निर्णींतमित्यर्थः ॥ पत्नीभावेत्यन्न यदुक्कं तदपि पुनर्व्यनक्ति-पूर्वस्यामित्र्घेन। पूर्वस्यां समञ्- सायामुद्यमः संभवेदित्यन्वयः ॥ इयमेवेति समर्थैषेत्यर्थः । पूर्वस्यामित्युक्तत्वात् समर्थाया एव प्रकृततवं गम्यते। मृग्यैव न तु प्राप्या। तन्मार्गणपरिपाटीनां दुर्बोधलातू। तत्परिपाटी हि तादृशभावमाधुरीणां क्रमेणानुभवः। एषां तु महि-

Page 438

उज्ज्वलनीलमणिः । ४१५

इयमेव रतिः म्रौढा महाभावदशां त्रजेत्। या मृग्या स्याद्विमुक्तानां भक्तानां च वरीयसाम्।५१।। यथा श्रीदशमे श्रीमदुद्धवोक्तौ- एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एवमखिलात्मनि रूढभावाः ।

संभोगतृष्णा च श्रीशुकोक्तिज्ञाप्यो वशीकारोऽवशीकारश्च तत्र तत्र सामज्जस्ये पत्नीलाभिमान एव लिङं, तथा समर्थाया रतेः सरूपमेव हेतुस्तस्यातिप्राबल्यात् संभोगतृष्णाया अपि रतिमयीति भावः । न पारयेऽहमिति, आसामहो इति, नायं त्रियोऽड् उ नितान्तरतेरित्यादि श्रीकृष्णादरशुकाद्युक्तिज्ञाप्यसर्वथैवातिव- शीकार एव तत्र तत्र सामर्थ्ये 'या माभजन् दुर्जरगेहशङ्खलाः संतृक्षयेति' 'या दुस्त्यजं खवजनमार्यपरथं च हित्ा' इति 'रागेणैवार्पितात्मानो लोकयुग्मानपे- क्षिताः।' इत्यादिवचनव्यङ्ग्यः परकीयात्वाभिमान एव लिद्गमिति प्रकरणार्थ- संक्षिप्योक्तेः ॥४९॥ ५० ॥ समर्थाया एव रतेः सर्वोत्कर्ष स्पष्टीकुर्वन्नाह- इयमेव समर्थैव प्रौढा सती प्रेमस्नेहपरिणामेनेत्यर्थः। मृग्यैव नतु प्राप्या तन्मार्ग- गपरिपाटीनां दुर्बोधलादिति श्रीमज्जीवगोखवामिचरणाः ॥। ५१ । वन्दमान उद्धवो गोपी: स्तौति-एताः परमेता एव केवलं तनुभृतः सफलतनुधारिण्यो न खन्या नाप्यस्मदाद्या इति ध्वनिः। भगवत्परिकरत्वेन सफलतनुत्वेऽप्युद्धवादी- नामीदृशभाववत्त्वेन विना किं तनुभिरिति तद्भावौत्सुक्यं व्यज्ञयति। गोपवध्व इत्यार्यपथत्यागलक्षणा समर्था रतिर्व्यजजिता। गोविन्द एवमनेन प्रकारेण असि्रिला एवात्मानो देहमनोबुद्धियत्नखवभावधृत्यादयो यस्मिन् तस्मिन्निति। भ्रातृपुत्र- भज्ञानमेव न तु तदनुभवः। आस्तामन्येषां श्रीमदुद्धवस्यापि महिमज्ञानमेव व्यज्यते 'अहो यूयं स्म पूर्णार्थाः' इत्यादि तद्वाक्येन। तदनुभवार्थमेव हि 'आसा- महो-' इत्यादिना प्रार्थितम्। तदनुभवे सति तासामिव तस्यापि रोदनादिकं चर्ण्यते। सर्वेषामपि तदनुभवे च भक्तानां पश्चविधलं बाध्येत ॥ ४९॥५०॥ ॥ ५१ ॥ तथैवोदाहरति-एताः परमिति। एताः केवलं सफलतनुधा- रिण्यः । यतो भवतीप्रभृतयो यं यं भावं परमोत्कर्षदष्या वाञ्छन्त्येव न तु प्राय्युवन्ति तन्माधुर्यानुभवस्याभावश्च तेषु दर्शितः किं ब्रह्मजन्मभिरिति। अन-

Page 439

४१६ काव्यमाला।

वाञ्छन्ति यद्भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ।। ५२॥ स्याद्ृढेयं रतिः प्रेमा प्रोद्यन्स्ेहः क्रमादयम्। स्यान्मान: प्रणयो रागोऽनुरागो भाव इत्यपि॥ ५३॥

पौत्रादिष्वपि स्नहवति(ती)भ्यो रुक्मिण्यादिभ्यो भाववैशिष्येन वैलक्षण्यं व्यज्ि- तम्। 'आत्मा यत्नो धृतिर्वुद्धि: स्वभावो ब्रह्म वर्ष्म च ।' इत्यमरः । तत्रापि गोविन्दपदेन गवां पालक एवेत्यैश्वर्यज्ञानाभावेन माधुर्याधिक्यं तत्रापि रूढ- भावा रूढाख्यो महाभावप्रभेद एव भावो यासां ताः । ननु 'रुह बीजजन्मनि प्रादुर्भावे' इति योगार्थेनोत्पन्नभावा इत्येवार्थः प्रतीयते इत्यत आह-यत् यं भावं भवभियो मुमुक्षवो मुनयो मुक्ता वाञ्छन्ति वयं च भक्ता वाञ्छाम इत्यर्थः। वयं किमुत्पन्नभावा न भवामस्तेनात्र रूढशब्दो न योगार्थः किंतु रतेः सप्तम- कक्षायां महाभावप्रमेद एव रूढः । अत एव श्लोकान्तरेऽपि जातादिपदम- प्रयुज्य 'कृष्णे क्व चैष परमात्मनि रूढभावः' इति पुनरपि रूढशब्द एव। किं च रसास्वादविज्ञजन ईदृशभावप्राप्ति विना निजमहामाहात्म्यमपि तुच्छमेव मन्यत इत्याह-किं ब्रह्मति । अनन्तस्य कथामात्र एव रसो यस्य तस्यापि किं पुनर्महासभावरसिकस्य ब्रह्मजन्मभिर्बहुभिः परमेष्ठिजन्मभिः किम्। न किंचि- दपि प्रयोजनमित्यर्थः ॥ ५२ ॥ एवं रतेर्भेदत्रयमुक्ला तस्या एवावस्थाभेदेनो- त्कर्षवैशिष्यान्नामभेदान् सदष्टान्तानाह-स्यादिति। इयं रतिर्द्ढा बद्धमूलत्वे- नान्तरायैरचाल्या चेत् प्रेमा स्यात्। प्रेमेतिनाम्नाभिधीयत इत्यर्थः । स च प्रेमा

न्तस्य लीलानन्त्यादनन्तधा स्फुरितस्य तस्य कथासु कथामात्रेषु किमुत तासां संबन्धिनीषु। अरसो रसाभावो यस्य तस्य ब्रह्मजन्मभिर्विरिश्चितयापि यदेभिर्ज- न्मभिः कि न किंचित्प्रयोजनमित्यर्थः ॥ ५२॥ तस्याः परमोत्कर्ष दर्शयति-इयं मधुराख्या रतिर्दृढा विरुद्धेनामेद्या सती प्रेमा स्यात्। स चायं प्रेमा प्रोदन् कमान्निजमाधुर्यं प्रकाशयन स्नेहो मान इत्यादिरूपः स्यात्। भाव इति। भावस्तस्यात्रैव प्रकर्षान्मुख्यतया तच्छन्दस्तत्रैव पर्यवस्यति ईश्वरशब्दो भगव- तीवेत्यभिप्रायः । किंतु महाभावशन्दस्तन्र महेश्वरशब्दवज्ज्ञेयः ॥ अत्र

Page 440

उज्ज्वलनीलमणिः । ४१७

बीजमिक्षु स च रसः स गुड: खण्ड एव सः। स शर्करा सिता सा च सा यथा स्यात्सितोपला।५४।। अतः प्रेमविलासा: स्युर्भावाः स्रेहादयस्तु षद्। प्रायो व्यवहियन्तेऽमी प्रेमशब्देन सूरिभिः ॥५५॥ यस्या यादशजातीयः कृष्णे प्रेमाभ्युदञ्चति। तस्यां तादृशजातीयः स कृष्णस्याप्युदीयते॥५६ ॥

उद्यन् सन् सूर्य इव चित्तनवनीतं खातपेन द्रतीकुर्वन स्नेहः स्यात्। एवमयमेव स्नेहः कमात् सवध्ा मानः स च खबृद्ा प्रणय इत्यादि। भावो महाभावः । ५३ ।। एकमेव वस्तवस्थाभेदेनोत्कर्षतारतम्यान्नामभेदं लभत इत्यत्र

दण्डः स्यादेवं रतिरेव प्रेमा स्यातू। एवं स च रस इति । रस इव स्नेहः, गुण्ड इव मान:, खण्ड इव प्रणयः । शकेरेव रागः । शर्करा चिनीति ख्याता। सिता सितशर्करेवानुरागः । सितशर्केरा मिश्रीति ख्याता। सितोपलेव महा- भावः । सितोपला ओला इत्याख्याता। सितोपलैव मिश्रीति केचिदाहुस्त- चिन्त्यम्। 'क्षिप्रं याति सितोपलेव विलयम्' इत्युक्ेस्तस्या जले क्षिप्रं लयादर्श- नातू, अत्र चेक्षोः पाकमेदेनैव गुडादयो भवन्ति यथा तथव प्रेम्णोऽवस्थामेदे- नैव स्नेहरागादयो भवन्ति। नतु गुड एव खण्डः स्यात् खण्ड एव शर्करा स्यादित्येवं वाच्यमसंभवादिति च केचिदाहुः ॥ ५४ ॥ तन्मतमनुसत्यैवाह- अत इति।। ५५ ॥ ननु समर्थरतिभतीनां श्रीकृष्णप्रेयसीनामासां प्रेमा- दयोऽमी भावाः किमेकजातीया: किंवा भिन्नजातीयाः स्युस्तथा तासु तासु श्रीकृष्णस्य वा ते कीदृशा इत्यपेक्षायामाह-यस्या इति। स प्रेमा । एवं च समर्थरतिमतीनां श्रीकृष्णप्रेयसीनामानन्त्यमिव तत्प्रेमादीनाभपि सूक्ष्मविचारेण जातेरानन्त्ं ज्ञेयम्, तथैव समर्थातः स्थूलत एव जातिभेदेन समञ्जसाया रतेः प्रेमाद्यसदतिदेशेन ज्ेया यदुपरिष्ठाद्वक्ष्यते-'आद्ा प्रेमान्तिमां तत्रानुरागान्तां दृष्टान्तेनैकस्य वस्तुनस्तस्यावस्थामेदेन तारतम्यं बोधयति-बीजसिति। खण्ड इति। 'स्यात् खण्डः शकले चेक्षुविकारमणिदोषयोः ।' इति विश्वप्रकाशकोशात् पुंस्तम्। उदीयत इत्येतत् 'ईढ् गतौ' इत्यस्य दैवादिकस्य रूपम् ॥५२॥५३॥ २७ उज्व०

Page 441

४१८ काव्यमाला।

तत्र प्रेमा- सर्वथा ध्वंसरहितं सत्यपि ध्वंसकारणे। यद्भावबन्धनं यूनो: स प्रेमा परिकीर्तितः ॥५७॥

यथा- शप तुम्यं धर्मस्थितिमनुसरन्त्या सखि मया विशुद्धामुग्राभिर्मुहुरपि निरस्तो भणितिभिः । स मुग्धे श्यामात्मा त्यजति न हि मे वर्त्म बत मां जगारापद्धोरा विरचयतु शान्ति गृहपतिः ॥५८॥'

समज्जसा। रतिभावान्तिमां सीमां समर्थैव प्रपद्यते ।।' इति ॥ उदीयत इति 'ईङू गतौ' इत्यस्य दैवादिकस्य रूपम्।। ५६ ॥ प्रेमाणं लक्षयति- सर्वथेति। तथा हि प्रेमसंपुटे-'लोकद्वयात् खजनतः परतः खतो वा प्राण-" प्रियादपि सुमेरुसमा यदि स्युः। केशास्तदप्यतिबली सहसा विजित्य प्रेमैव तान् हरिरिभानिव पुष्टिमेति ।।' इति। भावेन लं मे प्रेयसी, लवं मे प्रेयानिति मनोऽतुलापमय्यां प्रीतिरज््वां यूनोर्बन्धनं पारम्परिकमित्यर्थः ॥५७॥ प्रेम- परीक्षणार्थ लोकधर्मादिभ्यो भीषयमाणां नान्दीमुखीं प्रति पूर्वरागवती श्रीराधा प्राह-रपे इति। यदि तं मे वक्ष्यमाणं वाक्यं न प्रत्येषीति भावः । विश्ुद्धां धर्मस्थितिं धर्ममर्यादामनुसरन्तैव मयेत्यन्वयः । उग्राभिरपि भणितिभिः। अये लम्पट, यदि लं मे कश्चुकी स्पृशसि तदाधुनैन लज्जामपि त्यक्ता फूत्कृत्यार्या विज्ञापयिष्यामीति बिभीषिकामयीभिरपि वाग्भिरित्यर्थः । न त्यजतीति मुहुमुहु: स्फूर्तिः साक्षात्कारतया प्रतीता तस्मादापत्कत्री मां जगार गिलितवती। अत्र गृहपतिकर्तृकशान्तिरूपप्रेमध्वंसकारणस्य विद्यमानलेऽपि प्रेमा न ध्वस्तः । तथो ग्रामिर्भणितिमिर्निरस्तोऽपीति श्रीकृष्णस्यापि खस्मिन् प्रेमा व्यजितः ॥।५८ ॥।

॥५४॥ ५५ ॥५६ ॥५७॥ विशुद्धां धर्मस्थितिमित्यन्वयः। न त्यजतीति

Page 442

उज्ज्वलनीलमणििः । ४१९

यथा वा- राधायाः सखि सङ्गुणैरनुदिनं रूपानुरागादिभि: सान्द्रां लब्घवतोरपि व्यसनितां व्याक्षिप्तकान्तान्तरैः । प्राप क्वापि परस्परोपरि ययोरन म्लानतां यस्तयो- सं चन्द्रावलिचन्द्रकाभरणयोः को वेत्ति भावक्रमम्॥५९॥

व्वंसस्य कारणानि प्रपञ्चयितुमाह-यथा वेति। वृन्दा कुन्दलतां प्रत्याह- चन्द्रावलिश्चन्द्रकाभरणः श्रीकृष्णश्च तयोस्तं भावकमं प्रेमपरिपाटीं को वेत्ति। न कोऽपीत्यर्थः । ययोद्वयोरेव यो भावक्रमः परस्परोपरि क्वापि कुत्राप्यव- स्थायां काले देशे वा म्लानतां दौर्बल्यं न प्राप। म्लाने: कारणे प्रबले सत्यपीति भाव: । म्लानिकारणमेव व्यञ्ञयन्ती तौ विशिनष्टि-राधाया रूपानुरागादिभिः सद्गुणैः सान्द्रां व्यसनितां लब्धवतोरपि, चन्द्रावलीपक्षे व्यसनितां खापकर्षदध्ट्या खसौभाग्यापगमसंभावनालक्षणां विपत्तिम्, श्रीकृष्णपक्षे श्रीराधाविषयिणीमास- किम्। 'व्यसनं लग्नुमे सक्तौ पानस्त्रीमृगयादिषु। दैवानिष्टफले पापे विपत्तौ निष्कमोद्यमे ।I' इति विश्वः । सद्गुणः कीदृशैः। चन्द्रावलीपक्षे व्याक्षिप्तमाकषटं कान्तस्य श्रीकृष्णस्य हृदयं यैः, श्रीकृष्णपक्षे व्याक्षिप्ं तुच्छीकृतं कान्तान्तरमन्या कान्ता यैः । अत्र चन्द्रावल्याः श्रीकृष्णे प्रेमध्वंसकारणं तस्य श्रीराधायामत्या- सकि:, तथा श्रीकृष्णस्यापि चन्द्रावल्यां प्रेमध्वंसकारणं श्रीराधाया रूपानुरागा- द्याधिक्यम्। किं चैकस्यामासक्तौ सत्यामप्यन्यस्यां प्रेमेत्यनन्यममतेति सामान्य- लक्षणा व्याप्तिरनोशङ्कनीयो तन्रानन्यभमता विष्णोरित्यत्र विष्णुपदेन विष्णुखरूप- मात्रस्य तदीयवस्तुनश्च ग्रहणात् ततश्च भक्कतानां यथा श्रीविष्णुविषयके प्रेमणि श्रीविष्णुसरूपमात्रे तदीयवस्तुनि च तारतम्येन ममता तथैव श्रीकृष्णस्यापि भक्तविषयके प्रेमणि भक्तमात्रे तदीयवस्तुनि च तारतम्येन ममता युक्ैव। अन्यथा प्रेमवतां नारदादीनां विष्णुखरूपमात्रे व्रजसुन्दरीणां च सखीषु सुहृत्सु

मुहुर्मुहुः स्कूर्तिः साक्षात्कारतया व्यजिता ।। ५८ ।। चन्द्रावलीपक्षे व्यसनितां दुःखिताम्, श्रीकृष्णपक्षे आसक्तताम् । पूर्वत्र व्याक्षिप्तमाकृष्टं कान्तस्यान्तरं हृदयं यैः । परत्र व्याक्षिप्तं तुच्छीकृतं कान्तान्तरमन्यकान्ता यैः ॥५९॥

Page 443

काव्यमाला।

स त्रिधा कथ्यते ग्रौढमध्यमन्दप्रभेदतः। तत्र प्रौढ :- विलम्बादिभिरज्ञातचित्तवृत्तौ प्रिये जने ॥ ६० ॥ इतरः केशकारी यः स प्रेमा औौढ उच्यते। यथा- गत्वा ब्रूहि निकुञ्जसद्नि सखे खिन्नां मम प्रेयसीं मा कालात्ययमाकलय्य कमले मय्यप्रतीतिं कृथाः । दुष दानवमत्र गोकुलशिरःशूलं चिकित्सन्नहं द्रागेष प्रणयेन पल्लवमयीं लब्घोऽस्मि शय्यां तव ॥ ६१ ॥

च ममता नैव सिध्यतीति ॥ ५९ ॥ स च प्रेमा उदाहरणदृष्या नायिकाविषयको नायकविषयकश्चावसीयते। तन्र प्रथमस्य तस्य भेदानाह-स त्रिधेति। विल- स्बादिभिरिति। आदिशब्दात्कदाचिदनागमनेन च प्रियजने नायिकारूपे अज्ञातचित्तवृत्तौ सतीतरस्य नायकरूपस्य जनस्य क्लेशकारी हन्त हन्त सा सुकुमारी न जानेऽय मद्विरहेण कीदशं दुःखं प्राप्स्यतीति खेदोत्पादकः ॥ ६० ॥ कमलां संदिशन् श्रीकृष्णो मधुमङ्गलं प्रत्याह-गत्वेति। कालात्ययमद्य रजन्याः प्रथमायामाभ्यन्तर एवागमिष्यामीति यन्मयोक्तं तथैव लामभिसर्तुमुद्यत एव मयि संप्रत्यरिष्टासुर आयातः अतोऽनेन सह संग्रामादिना ममाद्य कालाति- क्रमो भवेदित्यर्थः । चिकित्सन्निति वर्तमानसामीप्ये वर्तमानवत्त्वम्। चिकित्सि- तवानित्यर्थः । लब्धोऽस्मीति भविष्यत्यपि भूतप्रयोगः सागमनस्यातिरैघ्र्यव्य- जकः। अन्र दुष्टदानवकृतस्यान्तरायस्यागणनं प्रेमलक्षणं खविलम्बनिबन्धनस्य कमलादुःखस्य स्वासह्यलेन मधुमङ्गलप्रेषणं प्रेम्णः प्रौढललक्षणम् ।।६१॥

।६०॥ गत्वा ब्रूहीत्यादिषु श्रीकृष्णप्रेमात्र दुष्टदानवकृतबाधलादिनाप्यनपग- मातू। अस्य वर्णनं तूद्दीपनार्थमिति व्याख्यातमेव। लीलेयं लित्थं संगच्छति(ते)- अरिष्टनामा दानवोडयं यदा मथुरातश्चलितुमुद्यतस्तदैव तं कुतोऽप्यवगत्य तेन, कमलां प्रति गल्ा ब्रूहीत्यादिना संदिष्टम्। सा खल पूर्व तेन दत्तप्रत्याशासीदिति

Page 444

उज्ज्वलनीलमणिः । ४२१

अथ मध्य :- इतसनुभव्ापेक्षां सहते यः स मध्यम: ॥६२ ॥ यथा- सर्वारम्भमनोहरां सपदि मे चन्द्रावलीं विन्दतो रङ्ग: शारदशर्वरीसमुचितः पर्याप्तिमेवाययौ। तां कन्दर्पचमूचमत्कृतिकरक्रीडोर्मिकिमीरितां राधां हन्त तथापि चित्तमधुना साक्षान्ममापेक्षते ॥६३॥

इतरस्या अपि कान्ताया आ सम्यक्प्रकारामनुभवापेक्षां सहत इति सः।सभास- वृत्त्यन्तर्भूतादपिकारात् सवविषयकान्तायाश्च सम्यगनुभवापेक्षणान्मन्दे प्रेमणि नातिव्याप्तिः, नातिप्रौढे प्रेमण्यतिव्याप्िः । इतरक्लेशकारीति ताच्छील्यार्थकणि- निप्रत्ययश्रवणात्तद्विषयीभूतकान्ताविरहिणो नायकस्य क्केशावश्यकत्वावगमात् मध्यश्रेमविषयीभूतकान्ताविरहिणो नायकस्य लन्यकान्तानुभवसंभवात् केशस्य नैवावश्यकलम्। अत एव विद्ग्धमाधवादौ चन्द्रावलीविरहिणः श्रीकृष्णस्य श्रीराधानुभवे सति क्वेशापगमो दृष्टः श्रीपञ्चाध्याय्यामपि सर्वकान्ताविरहेऽपि श्रीराधासज्ञिनः श्रीकृष्णस्य न क्लेशगन्धोऽपि। श्रीराधाविरहिणः श्रीकृष्णस्य तु सर्वकान्तासक्गेऽपि क्लेश एव। यदुक्तं श्रीमज्जयदेवचरण :- 'राधामाधाय हृदये तत्याज व्रजसुन्दरीः ।' इति, 'इतस्ततस्ताम्' इत्यादि च ॥ ६२॥ चन्द्रावलीं संभुञ्ञान: श्रीकृष्णः स्वगतमाह-सर्वारम्भेति। अत्र श्रीराधाविषयासक्ति- सद्भावेऽपि चन्द्रावल्यां मध्यमप्रेमेति मध्यमलक्षणं तत्संभोगसमयेपि तां कन्द- पेव्यादिना श्रीराधामाधुर्यानुस्मरणमिति प्रेम्णो मध्यमतम्। पूर्वत्र कमलायां तु प्रौढ एव्र तस्या राधाप्रियसखीलात्, श्रीराधयैव श्रीत्याभिसारितलात्, तस्यां श्रीराधा- जातीयसुखानुभवात्तत्संभोगे चन्द्रावल्यादेर्न स्मरणसंभवः श्रीराधायाः स्मरण- संभवेऽपि तस्यास्तद्यूथेश्वरीत्वेन तदैक्यात्तदितरत्वाभावात्। यदुक्तम्-इतरानु- भवापेक्षां स इत इति। तदेवं श्रीराधायां तत्सखीषु च प्रेम्ण: प्रौढलमात्यन्तिकं

॥६१॥६२॥ सर्वारम्भेत्यन्न च प्रेमलक्षणमनुगतमेव। तादृशश्रीराधा

Page 445

४२२ काव्यमोला।

अथ मन्द :- सदा परिचितत्वादेः करोत्यात्यन्तिकातु य:। नैवोपेक्षां न चापेक्षां स प्रेमा मन्द उच्यते ॥ ६४॥ यथा- अनुनीय रूढमानामानय भामां सखीमशोकलताम्। भवति प्रेमवतीनां मनागुपेक्षापि दोषाय ॥ ६५ ॥ अथवा- प्रौढः प्रेमा स यत्र स्याद्विश्लेषस्यासहिष्णुता। यथोद्धवसंदेशे- निर्माय त्वं वितर फलकं हारि कंसारिमूर्त्या वारं वारं दिशसि यदि मां माननिर्वाहणाय।

चन्द्रावल्यादिष्वापेक्षिकं प्रौढत्वं मध्यमत्वं चेति विवेचनीयम्॥ ६३ ॥ सदा परिचितत्वादेरिति । आदिशब्दात् सदा सांनिध्यमपि ह्वेयम्। एतच्च लोकोक्तरीत्यैवोक्तं वस्तुतस्तूपेक्षापेक्षयो राहित्ये जातिप्रमाणाभ्यां प्रेम्णो मान्यमेव कारणम्, तस्य च नायिकानिष्ठं प्रेममान्धमिति ॥ ६४॥ अस्योदाहरणं व्रज- भूमावसंभवमिति द्वारकायामुदाहरति-अनुनीयेति । काचित् पुरोहितपत्नी श्रीकृष्णं प्रत्याह-भामासखीं सत्यभामायाः सखीमिति। तामपेक्ष्यापि एषा लयावश्यमेवादरणीयैवेति भावः ॥ ६५ ॥ श्रीकृष्णस्य प्रेयसीविषयान् प्रेमभेदान् दर्शयिता प्रेयसीनाभपि श्रीकृष्णविषयांस्तान् दर्शयितुमाह-अथवेति। यत्र यत्र सति। मानं भा शिथिलयेत्युपदिशन्तीं ललितां प्रति श्रीराघा प्राह- निर्मायेति। फलकं चित्रपटं वितर देहि। यत्पश्यन्ती सती साहंकारा अहं

प्रेमणि व्यवधायकेऽपि मिथोऽनुगत्य परित्यागात् ॥।६३ ।। अनुनीयेत्यत्रापि सपळ्यन्तरजातबाधलं ज्ञेयम् ॥६४॥ ६५॥ अथ साक्षादेव तासां प्रेममेदा वर्णनीया इत्यभिप्रत्याह-अथवेति। 'प्रियसखि सुखं यापयिष्यामि यामम्' इत्यत्र 'लवकतिपयं यापयिष्यामि कालम्' इति पाठान्तरं लभ्यम्। फलकं

Page 446

उजवलनीकमणि:। ४२३

यत्पश्यन्ती भवनकुहरे रुद्वकर्णान्तराहं साहंकारा प्रियसखि सुखं यापयिष्ये मुहूर्तम्॥ ६६ ॥ कृच्छ्रत्सहिष्णुता यत्र स तु मध्यम उच्यते॥ ६७ ॥ यथा- अवितथमसौ किं द्राधीयान् गमिष्यति वासर: सुमुखि स निशारम्भः किं वा समेष्यति मङ्गलः ।

महामानिनीति लां सुखयितुं गर्वधारिणी मुहूर्त यापयिष्ये। पश्यन्तीति वर्तमा- ननिर्देशेन चित्रदर्शनस्यापि विच्छेदेनैव तत्रापि भवनकुहर एव न तु बहिर्दक्षि- प्राविलाम्बुदाद्युद्दीपनविभावग्रस्ते। तत्रापि रुद्धकर्णरन्त्रेव मुरली। कोकिला- दिभीतेरिति भावः। तन्रापि मुहूर्तमेव तेन तदनन्तरमपि पुनर्मानं कुर्विति यद्यादेक्ष्यसि तदाहं मरिष्याम्येव। किं वाहमुन्मत्ता लामनादत्य एकाकिन्येवा- भिसत्य कण्ठे लगिष्यामीति व्यञ्ञयामास। अत्र सखीकृतविभ्नातिकमात् प्रेमा सब विश्ेषासहनात् प्रौढः ॥। ६६॥६७ ॥ काचित खसखीं प्रत्याह-अवितरथं सल्मेव किमसौ गमिष्यतीति वूषे तत्सत्यमेवेत्यर्थः। द्राघीयानतिदीर्घों निशा- रम्भ: स मङ्ल इति वासरस्यामङ्गलत्वं सूचयति। अत्र प्रहरचतुष्टयस्य स्थूल- कालस्य कृच्छ्रेण सह्यमानलभावेनैव प्रेम्णो मध्यमलव्यज्जिका। अत्र द्वितीयपदे 'यदि घुनरसावात्मा तावल यास्यति हन्त मे', तथा चतुर्षे पादे 'सुमुखि सद- यामार्ति कृष्णस्तदा क्षपयिष्यति' इत्युक्ते सत्यसहिष्णुत्वेन प्रौढलमेव स्यात्। यथा विदग्धमाधचे-'नालीकिनीं निशि घनोत्कलितामशढं क्षिप्ला वृतीरतनुव- न्यगजः क्षुणत्ति। अन्रानुरागिणि चिरादुदितेऽपि भानौ हा हन्त किं सखि सुखं भविता वराक्याः ॥।' इति । अत्र व्रजेश्वरस्य नन्दन इत्यनेन तस्य परपुरुष- लाचदासत्त्या लोकधर्मनिन्दारूपे ध्वंसकारणे सत्यपि प्रीतेर्घ्वसाभावः प्रेमलक्षणं

चित्राचारम् ॥६६।।६७।। द्राघीयानिति । कीर्घोऽसौ वासरः किमकतिथं सत्मेव गमीष्यतीति ्यहषे तत् किं सतयमित्यथः।ममललमेव दशयति-

Page 447

४२४ काव्यमाला।

स्मितमुखशशी गोधूलीभि: करम्बितकुन्तलः। क्षपयति दृशामार्ति यत्र व्रजेश्वरनन्दनः ॥ ६८॥ स मन्द: कथितो यत्र भवेत्कुत्रापि विस्मृतिः। यथा- प्रतिपक्षजनेर्षया न मे स्मृतिरासीद्वनमाल्यगुम्फने। सखि किं करवे गवां पुरो घनहम्बाध्वनिरेष जृम्भते ।।६९।। अथ स्नेह :- आरुह्य परमां काष्ठां प्रेमा चिद्दीपदीपनः॥ ७०॥

ज्ञेयम्॥ ६८ ॥ कुत्रापि कस्मिन्नप्यावश्यककर्तव्ये श्रीकृष्णसंबन्धिनि वस्तुनि विषय इत्यर्थः । काचित् सखींप्रत्याह-प्रतीति। अत्र वनमालागुम्फनस्य श्रीकृष्णसुखप्रयोजनकत्वेनान्तरङ्गलात् प्रतिपक्षजनविषयिण्या ईर्ष्यायास्तु रस- पोषकत्वेऽपि तदपेक्षया बहिरद्धलाद्वहिरङ्गवस्तुनः स्मृतिरन्तरङ्गवस्तुनो विस्मृति- रिति प्रेममान्धे युक्तिः। तथात्रेष्यैव प्रेमध्वंसकारणं तस्यां सत्यामपि प्रेमेति प्रेमलक्षणम् ॥ ६९ ।। काष्ठामुत्कर्षम्। चिच्छब्देन प्रेमविषयोपलब्घिरुच्यते। 'प्रेक्षोपलब्धिश्चित्संवित्' इत्यमरः । सा चिदेव दीपस्तं दीपयति उद्दीत्ं करोतीति। तेन प्रेमणि उपलब्धिरासीदेव सनहे तूपलब्धेरत्याधिक्ये घृतादिसद्भावे दीपस्यौ- ष्ण्यप्रकाशयोराधिक्ये मदनस्य सम्यगभिद्रवीभाव इव हृदयस्यातिद्रतत्वमित्यर्थः स्मितमुखेति। तत्र तस्य दर्शनमात्रेण खसुखं व्यजितम्। न तु खं प्रति प्रेम- विशेषः । ततस्तदौदासीन्यरूपे ध्वंसकारणे सत्यपि तस्मिंस्तु खासक्त्ा प्रेमापि व्यज्ञितः ॥ ६८॥ कुन्रापीति । श्रीकृष्णसंबन्धान्तरेणेति ज्ञेयम्। प्रतिपक्ष- जन: खल्वन्र विजातीयभावस्तत्प्रेयसीरूपो न तु साधारणः । तासां व्यवहारान्त- रानावेशात्। ततो ध्वंसकारणरूपायां सत्याभपि तदीर्ष्यायां ध्वंसरहिता रतिरियं प्रेमैव । तस्य राहित्यं चानुतापात् प्रतीतम्। तत्र च सति तदुत्थयापि नातियु- कया तदीर्ष्यावशतया वा प्रियमाल्यकृतौ मुखे विकाशरूपाया जम्भाया अन्यत्रा- प्यारोपात ॥। ६९।। आरुह्य परमां काष्ठामिति। क्षयराहित्यं दर्शितम्।

Page 448

उज्ज्वलनीलमणिः । ४२५

हृदयं द्रावयन्नेष स्नेह इत्यभिधीयते। अत्रोदिते भवेजातु न तृप्िर्दर्शनादिु। ७१॥ यथा क्रमदीपिकायाम्- तदतिमधुररूपकम्रशोभामृतरसपानविधानलालसाभ्याम्।

यथा वा- ज्योत्साशीधुं हरिमुखविघोरप्यनल्पं पिबन्तौ नान्तस्तृप्तिं तव कथमपि प्राप्स्यतो हक्ककोरौ।

। ७० ॥ ७१ ॥ भक्तिप्रतिपादकागमो माधुर्योपासकान् प्रति स्मरणं विदध- दाह-तदिति। अलसे प्रेममदातिभारवहनेनालस्ययुक्ते विलासेन विलोले तत्सौन्दर्यलोलपत्वेन चश्चले ये विलोचनाम्बुजे ताभ्यां प्रणयसलिलपुरवाहिनीनां सुललितगोपसुन्दरीशामालीभि: सततं मुकुन्दं चिन्तयेदिति पूर्वेणैवान्वयः । ताभ्यां कीदृशाभ्याम्। तस्य श्रीकृष्णस्यातिमधुरं यद्रूपमङ्गप्रत्यङ्गसौष्ठवं तस्य या कमनीयशोभा सैवामृतरसस्तस्य पानविधानेनालसैव न तु तृप्तियेयोस्ताभ्याम्। अन्र प्रणयसलिलेत्यादिना हृदयद्रवस्तथा तदत्तीत्यादिना तृप्त्यभावश्च स्नेहलक्षणं प्रेमलक्षणं चात्रोपरिष्ठादपि सर्वत्र लोकधर्मनिन्दारूपे ध्वंसकारणेऽपि व्वंसाभाव इति ज्ञेयम् ॥। ७२ ॥ ताखपि मध्ये श्रीवृन्दावनेश्वर्याः स्नेहं विशिष्य वर्णयित- माह-यथा वेति। वृन्दा श्रीराधामाह-ज्योत्स्नति। मदकलतया मत्ततया। ततश्चिद्दीपस्य तद्दीपनतस्य च परिच्छेदो व्यज्जितः । चिदप्यत्र प्रेमविषयोपलब्धिः । 'प्रेक्षोपलब्धिश्चित् संवित्' इत्यमरः । तदेवं स्नेहरूपकेण द्शयिला स्नेहसाजात्येन *दर्शयति-हृद्यंद्रावयन्निति। अथास्य तटस्थलक्षणमाह-अत्रेति ।। v ॥ ७१ ॥ अलसविलोलविलोचनाम्बुजाभ्यां प्रणयसलिलपुरवाहिनीनां सुललितगोपसुन्दरीणामालीभिः सततं मुकुन्दं संचिन्तयेदिति पूर्वेण परेण चान्वयः। ताभ्यां कीदृशाभ्याम्। तत्राह-तदतिमधुरेति। तत्रालस्यं प्रेममदेन तथापि विलोललं तदुपलब्धये चापल्येन। रूपमवयवानां प्रेमणि सौध्ठवम्। शोभा कान्तिः। मधुरतं कम्रतवं च मनोहरमेव गम्यम्। प्रेमलं चात्र तत्स्परशाद्यप्राप्तावपि रतिग्लान्यभावात्। स्नेहत्वं प्रणयसलिलेत्यादिना हृदयद्रवल- व्यजितलात् ।। ७२॥ मदकलतया मत्ततया। तं ज्योत्साशीधुम्। अत्र तृक्ि-

Page 449

४२६ •कार्व्यमाला।

आघूर्णन्तौ मदकलतया सुछ्ु सुग्धौ यहेतौ मूयो भूयस्तमिह वमतो वाष्पपूरच्छलेन ।। ७३ ॥ अङ्गसङ्गे विलोके च श्रवणादौ च स क्रमात्। कनिष्ठो मध्यमः श्रेष्ठस्तिविधोऽयं मनोद्रवः ।। ७४॥ तत्राङ्गसङ्गे यथा- असि घनरसरूपस्त्वं पाली लावण्यसारमयमूर्तिः । माधव भवदाश्लेषे भविता नास्याः कथ द्रवता ॥ ७५॥ विलोके यथा- अस्यास्त्वद्वूदने सरोजसुहृदि व्यक्तिं पुरस्ताद्गते नाश्चर्यं द्रवतामविन्दत मनोहैयङ्ञवीनं यदि।

तं ज्योत्स्ासीधुम्। सुध्धु मुग्धाविति। एवं चावयोस्तृप्तिनैव भाविनीति। परि- णामदर्शिलाभावादिति भावः। वमत इति। वमनं विना उदरपूर्तिः स्यात्, सत्यां चोदरपूर्तौ पानाशक्तरिति भावः । तेन चातिलोभो व्यजितः ।। ७३ ॥ अङ्गसङ्के कनिष्ठ इति। विलोकश्रवणयोर्द्रवभावे सत्येवेति ज्ञेयम्। यस्याः पुनस्त- योरपि चित्तद्रवस्तस्या अङ्गसन्वेऽपि श्रेष्ठ एवं विलोके मध्यम इति श्रवणे यदि न स्यादिति॥ ७४ ॥ पाल्याः सखी श्रीकृष्णमाह-असीति। घनरसो निबिडो रसः पक्षे जलम्। लावण्यं कान्तिचाकचक्यम्, पक्षे लवणत्वं सारो यस्य लवणाख्यवस्तुनः । तन्मयी मूर्तिर्यस्याः सा ॥ ७५॥ श्यामायाः सखी बकुल- माला श्रीकृष्णं प्रत्याह-अस्या इति। सरोजसुहृदि कमलतुल्ये, पक्षे सूर्ये।

रूपविघ्नातिकरमेण प्रेम बोधयिला तस्य बाष्पातिशयेन स्नहत्वमपि दर्शितम्। एवभन्यत्र शब्दादिबलेनाध्याहारेण वा तत्तदज्गानि पूरयितव्यानि। ७३ ॥ लावण्यं कान्तिचाकचक्यमेव सारो यस्य ताद्ृशस्य, पक्षे लावण्यं लचणतैव सारो यस्य लावण्या्यवस्तुनः । तन्मयमूर्तिः ॥ ७४॥ ७५॥ सरोजसुहृदि कमलतुल्ये

Page 450

उज्ज्वलनीलमणिः । ४२७

किंत्वाश्रर्यमिदं मुकुन्द मिलिते श्यामामुखेन्दौ भव- च्चेतश्रन्द्रमणिर्द्रवन् जलतया भूयो बभूवाचलः ॥ ७६ ॥ अ्रवणे यथा- श्रुतिपरिसरकक्षां याति नाम्नस्तवार्षे सुरदमनद्गम्भोघारया धौतगात्री। मदनमदमधूलीमुग्घमेघासमृद्धि: स्खलति कुवलयाक्षी जम्भते स्तम्भते च॥ ७७॥ आदिशब्देन सरणे यथा- कृष्णवर्त्मनि कृताभिनिवेशा सांग्रतं त्वमसि कम्पितगात्री। स्नरेहपूरपरिपाकमयं ते किं करिष्यति मनो न विलीनम्॥ ७८ ॥

श्यामाविषयकं श्रीकृष्णस्यापि स्नेहं वर्णयन्त्याह-किंत्विति। जलतया द्रवन् भूयः अचलः स्तब्धो बभूव, पक्षे पर्वतः तेन श्यामाश्रीकृष्णयोः स्नेहांशेन तुल्यत्वेऽपि स्तम्भभावाधिक्यात् श्रीकृष्णस्याधिक्यं ततश्च श्यामायाः सौभाग्या- घिक्यम्। अन्यतो लक्षणं व्यजितम्॥ ७६ ॥ विशाखा श्रीकृष्णमाह-हगम्भ इति। स्नेहलिङ्गं भनोद्रवस्यानुभावो नयनद्रवः सर्वत्र ज्ञेयः। मदनमद एव मधुली मधु तया मुग्धा मूढा लप्तविवेका मेधासभृद्धिर्बुद्धिवैभवं यस्याः सा । ७७। अकस्मादश्रुजलस्नाताननाश्रिांिोक्य ना्ीमुख्याह-कृष्ण- वर्त्मनि वहौ, पक्षे श्रीकृष्णाध्वनि। यतः कम्पितगात्री शीतनिवृत्त्यर्थमिति भावः । पक्षे कम्पः सात्त्विकः । एतादृशं मनः कथं न विलीनं भविष्यतीति। वहौ अ्रज्वलिते सतीति भावः । अतस्तत्र लया सावधानतया स्थातव्यमिति व्यजजितम्। पक्षे तव बहिर्गतैरश्रुप्रवाहैरेवान्तर्मनसो द्रवातिशयोऽनुमीयत इति भावः ॥ ७८॥

ऋ्लेषेण सूर्ये जलतया द्रवन् भूयोऽचल: स्तब्धो बभूव। श्रलेषेण पर्वतो ब्रभूव । 'अन्नास्या' इति च पाठान्तरम्॥ ७६॥ कष्णवर्त्मनि, कृष्णाध्वनि श्रेषेणाम

Page 451

४२८ काव्यमाला।

स घृतं मधु चेत्युक्त: स्नरेहो द्वेधा स्रूपतः । तत्र घृतस्नेह :- आत्यन्तिकादरमयः स्नहो घृतमितीर्यते ॥ ७९॥ भावान्तरान्वितो गच्छन् स्वादोद्रेकं न तु खयम्। घनीभवेन्निसर्गातिशीतलान्मिथ आदरात् ।। ८० ॥।

अथ तस्यैव स्नेहस्य जातिभेदेनास्वादविशेषान्नामभेदमाह-स इति। स स्नेहो घृतं घृतसाम्यात्, मधु च मधुसाम्यादिति। अत्र स्नेहशब्देन चित्तद्रवरूपस्या- र्थस्योक्तत्ात् द्रवस्य च द्रववता धृतेन मधुना च वस्तुना साम्यानुपपत्तेर्धृतस्य मधुनश्चोक्तः । स स्नेहो द्विविध :- स्वत इति। वक्तुं युज्येत। तथा सति कस्या- श्रिद्धृततुल्यस्य द्रवः, कस्याश्चिन्मधुतुल्यस्येति चित्तस्यैव जातिभेदात् स्नेहस्यापि जातिभेद इति सुष्टु संगच्छते यद्यपि तदपि यथा पक्कस्य वस्तुन एवं खादु- त्वेऽपि पाकोऽयमनेनातिस्वादुःकृत इति तत्कियाया एव वैलक्षण्यविवक्षयोच्यते। तथैव चित्तद्रवरूपस्य सहस्यैव वैलक्षण्यं विवक्षुणा ग्रन्थकृता तस्यैव द्वैविध्येन खादनार्थं स्न्नहो धृतमिव खवादुर्मध्विव खादुरित्युक्तम्। यथाद्यानेन पाकोऽमृत- मिव कृत इति धर्मस्यापि धर्मिणा साम्यमुपपाद्यत एवेति॥ आत्यन्तिकेति। तेन मधुस्नहत्ापेक्षिक: किंचिन्मात्र आदरोऽस्त्येव। खसखीभ्यस्तत्प्रियसखिभ्यः सुबलादिभ्यश्च सकाशात्तस्मिन्नादरः किंचिदधिकः श्रीराधाया अपि भवेदिति द्योतितम् ।। तस्य घृतसाधर्म्यं दर्शयति-भावान्तरं मदरूपस्यौष्ण्यस्य किंचिन्मा-

। ७७ ॥ ७८ ॥। आत्यन्तिकेति । मधुस्नेहेऽप्यादरोऽस्त्येवेति व्यज्यते। यद्यपि रतिमात्रमेव परममधुरलेन पूर्वग्रन्थमारभ्य निर्दिष्टं तत्रापि माधुर्यातिश- यविवक्षया रतेरस्या मधुरेति संज्ञा कृता। तथापि ततोऽपि परममधुरस्रेहास्वादि- श्रीराधाललितादिद्टध्यात्यन्तिकादरमयस्यास्य नातिरोचमानतं यत्तदनुस्मृत्याह- भावान्तरेति। भावान्तरमत्र कादाचित्को मधुस्नेहाभासः । तस्मात्तस्यैवो- त्कृष्टलात्। तदेवं ललनाश्रयात्यन्तिकादरस्तस्याङ्गमेवेत्युक्तम्। तन्र च सति यदा नायकस्यापि तद्विषय आदरो दृश्यलात् जहदजहल्लक्षणया ललनाश्रयात्यन्तिका- दरसंयोगिनायिकादरातू घनीभवेत। किंतु नायकस्याप्यादर आत्यन्तिक एवेष्ः ।

Page 452

उज्ज्वलनीलमणिः । ४२९

गाढादरमयस्तेन सनरह: स्याद्वृतवद्धतम्। यथा- अभ्युत्थाय विदूरतो मधुभिदा याश्रिष्यते सादरं या सनेहेन वशीकरोति गुरुणा पावित्यपूर्णेन तम्। क्षिप्रं याति सितोपलेव विलयं तत्केलिवृध्या च या युक्ता हन्त कयोपमातुमपि सा चन्द्रावली मे सखी।।८१।। यथा वा- निजमघरिपुणांसे न्यस्तमाककृष्य सव्यं भुजमिह निदधाना दक्षमस्रोक्षिताक्षी।

त्राविष्कारात् मधुस्नेहाभास एव घृतपक्षे तेनान्वित एव भावः शर्करादिर्द्व्यं खादस्योद्रेकमिति केवलस्यापि घृतस्य खादमात्रं लस्त्ेवेति भावः । मिथ आद- रात् नायकयोः परस्परगौरवाविष्कारात् घनीभवेन्निबिडत्वं प्राप्ोति। अन्यथा असान्द्रः स्यादिति भावः ॥। ७९ ॥ ८० ॥ युवतिसभासु सौभाग्यप्रस्तावे ललि- ताद्याः कटाक्षयन्ती पद्माह-अभ्युत्थायेति। गुरुणेति। स्नेहस्य प्रमाणत आधिक्यं पावित्र्यपूर्णेनेति जाता च मदोष्णताराहित्यमेवात्र पावित्र्यमिति मधुस्नेहं प्रत्यसूयां व्यञ्ञयति। सितोपला ओलेति ख्याता विलयं द्रवीभावं यातीति चित्ततन्वोरेकीभावविवक्षयोक्तिः ॥ ८१ ॥ घृतस्नेहवतीनां विलासादावपि श्रीकृष्णविषयकमादरमभिनयेन स्पष्ट वक्तुमाह-यथा वेति। रासे एकत्र

मिथःशब्देन साम्याप्राप्तेः। कीशात्। निसर्गेण स्वभावेनातिशीतलात। नाय- कस्य ललनायामादरः खभावशीतलतयैव युक्तो न तु ललनावन्मानादावुष्णतांश- धरोऽपीति भरतादिमततादिति भावः। तेन हेतुना गाढादरमयः स्नेहोऽयं घृत- वदिति घृतमेव स्यात्। घृततया परिभाष्यत इत्यर्थः ॥७९॥८०॥ पावित्र्यपूर्णेन मदोष्मतादिदोषरहितेनेति तत्सख्या मधुस्नेहं प्रत्यसूयोकिः । सितोपलेत्यस्माभिर्गाहितमानतया कठिनीकृतापीत्यर्थः । सितोपला मत्स्यण्डी। सा च शुभ्रसैन्धवाकारः खण्डविकारः॥ ८१॥ तदेवं तत्सखीवचनद्वारा तत्स्नेहोत्कर्ष- मुक्ला मधुस्नेहस्य तस्य ततोऽप्युत्कर्ष श्रीराधासख्यनुभवेनाह-निजमिति।

Page 453

४२०: काव्यमाला।

पदयुगमपि वह्क शक्कया विक्षिपन्ती प्रतियुवतिवयस्यां स्मेरयामास गौरी॥ ८२ ॥ आदरो गौरवोत्थः स्यादित्यन्योन्याश्रितद्वयम्।।८३।। रत्यादौ सदपि सनेहे सुव्यक्तत्वादिहोच्यते।

नर्तिला पुनरपि मण्डलान्तरे नर्तितुं श्रीकृष्णेन नीयमानां चन्द्रावली वर्णयन्ती वृन्दा नान्दीमुखीं प्रत्याह-अघरिपुणा श्रीकृष्णेनांसे स्कन्धे न्यस्तं सव्यं भुजं निजमाकृष्य अमङ्गलमिमं मदीयवामभुजं कथं प्रियस्य स्कन्धेऽर्पयामीति तदंसा- दपनीय इह प्रियांसे दक्षं दक्षिणं भुजं निदधाना प्रियस्य दक्षिणपार्श्वाद्वामपार्श्व- मागत्येत्यर्थः । तथैव दक्षिणभुजार्पणसिद्धेः। तथागमने च खपद्युगं वङ्कं 'वकि कौटिल्ये' कुटिलं कृतेत्यर्थः । शङ्कया कदाचित् प्रियस्यान्ने मम पादस्पर्शः स्यादिति भीत्येत्यर्थः । प्रतिपक्षयुवतिवयस्यां श्रीराधासखीं काचिहूरतः पश्यन्तीं स्मेरां चकार॥। ८२॥ नन्वादरस्य को हेतुस्तत्राह-गौरवादुत्तिष्ठतीति सः। ननु गौरवस्यापि कोत्र हेतुः श्रीकृष्णस्य परपुरुषताच्चन्द्रावल्याः श्रीकृष्णे गुरुरय- मिति बुद्धिर्नोपपद्यते यतो गौरवः स्यादित्याह-इत्यन्योन्यति। श्रीकृष्णस्य सर्वव्रज आदतलादादरोत्थमेव गौरवमिति। स्वयमन्योन्याश्रितमेव। नन्वेवं चेद्रतिप्रेम्णोरप्यादरस्य सत्त्वं संभवेदेव सत्यमित्याह-रत्यादाविति । अय- मर्थः-अतिपरिचितलेऽपि यद्यादरः स्थिरीभवति तदैव स गण्यत इति प्रेम्णोः

वङ्कं वक्रम्। 'वकि कौटिल्ये'। स्वेषामेव प्रतियुवतिवयस्यालेऽपि प्रतियुव- तीति सवतो भिन्नलेनोक्ि: सेर्ष्यागोपनाय । तदेतदनुवादमात्रमस्माभि: क्रियते इत्यभिप्रायाद । स्मेरयाभासेत्यन्र स्मारयामासेत्येव पाठः सभ्यः ॥८२ ॥ नन्वादर: कस्तत्राह-आदर इत्यर्धेन। गौरवं गुरुरयमिति बुद्धिः। तदुत्थो यो भावः संभ्रमाख्यः स एवादर उच्यत इत्यर्थः। तर्हि गौरवमपि कर्थ नोच्यते तत्राह-इति पूर्वोक्ताद्धेतोः । द्यमप्यन्योन्याश्रितं तस्मादादरेणैव तल्लभ्यत इति न पृथगुच्यत इति भावः । ननु तदिदं द्वयं तासां रत्यादावस्त्येव । कारण- गुणा हि कार्यगुणमारभन्त इति न्यायेन। ननु तर्हि कथं स्नह एव तदुच्यते। तत्राह-रत्यादाविति ॥ ८३॥ मदीयतातिशयभागित्यनेनेदं लभ्यते-

Page 454

उज््वमनीलमणिः । ४३१

अथ मधुसेह :- मदीयत्वातिशयभाक प्रिये सनहो भवेन्मधु ।। ८४। स्वयं प्रकटमाधुर्यो नानारससमाहृतिः। मत्ततोष्मधरः स्नेहो मधुसाम्यान्मधूच्यते ॥ ८५॥

श्रीकृष्णस्यातिपरिचितलाभावात्तत्र सन्नप्यादरो न प्रतीत्यर्ह इति तत्र नोक्म्, सनेहे लतिपरिचितलेऽपि श्रीकृष्णे चन्द्रावल्या आदरस्य वृद्धिरेव दृश्यत इति सुव्य- कलम् ॥ ८३ । मदीयलातिशयं भजतीति सः । तेन तदीयलाविशयभाग् घृतस्नेह इति लभ्यते। यद्धावबन्धनं यूनोरित्युकं तद्वन्धनं च तस्याहं प्रेयसी, मम स प्रेयानिति भावनाद्वयमयम् । तत्राद्यभावनाया आधिक्ये सति चित्तदवे वृतसेइः, द्वितीयभावनाया आधिक्ये सति चित्तदवे मधुस्ेहः। वखुतस्तूभयत्रै- वोभयं संतततमं भूम्रा व्यपदेशा भवन्तीति न्यायेनैव तदीयतामयो धृतस्नेहः, मदीयतामयो मधुस्ेह इत्युच्यते। भावनयोरनयोः कारणं तु खपक्षविपक्षादिमेद- प्रकरणे विवृतमेव ॥ सयमेव प्रकटं माधुर्य यत्रेति घृतस्नेहे घृते च यथा भावा- न्तरसंपर्केणैव माधुर्यं तथा नेत्यर्थः । नानारसानां वक्ष्यमाणकौटिल्यनर्मादिमेदेन मधुपक्षे नानापुष्पसंबन्धिनां समाहारो यत्र सः ।मत्तता तदानन्दादिभरेण वस्खन्तरानवधानमूष्मा गर्वश्च तौ धरत इति सः, पक्षे मधुपाने मत्ततौष्ण्ये

रत्युद्भवो हि द्विधा भवत। तदीयाहमिति, मदीयः स इति भावनामेदाद्। तस्मात् पूर्वं यो घृतस्नेह उक्तः स तदीयाहमिति भावनामयः, मधुस्ेहस्यं मदीयः स इति भावनातिशयमयः । अतिशयशब्दः(१) पूर्वत्रापि यत्किंचित् मदीयलभावनास्तु नाम तदीय तातिशयेनावृतलात्तु न गण्यत इति भावः । तदेवं पूर्वत्र य आदरातिशय उक्तस्तस्यापि तदीयताभावनमेव कारणमिति व्यज्जितम् । ८४ ॥ नानारसेति। नानारसानां घृतस्रेहद्गष्प्रापवक्ष्यमाणललिताख्यादीनां भावानां समाहृतिः सूक्ष्मतया स्थितियत्र सः । सर्वेऽपि रसनाद्रसा इत्युक्ततात् भावानामपि रसतापत्तेः, पक्षे रसानां तत्तत्पुष्पमेदेन नानालम्। भत्तता आनन्दविकारः । ऊष्मा व्याख्यास्यते। तद्धरस्तदर्पकः ॥८५॥ उरुगुणैर्ल-

Page 455

४३२ काव्यमाला।

यथा- राधा स्रेहमयेन हन्त रचिता माधुर्यसारेण सा सौधीव प्रतिमा घनाप्युरुगुणैर्भावोष्मणा विद्रुता। यन्नामन्यपि धामनि श्रवणयोर्याति प्रसङ्गेन मे सान्द्रानन्दमयी भवत्यनुपमा सद्यो जगद्विस्मृतिः ॥८६॥ अथ मान :- स्नेहस्तूत्कृष्टतावास्या माधुर्य मानयन्नवम्। यो धारयत्यदाक्षिण्यं स मान इति कीर्त्यते॥८७॥ यथा- स्रवदस्भरे कृते दशौ मे तव गोधूलिभिरेव गोपवीर। अधुना वदनानिलै: किमेभिर्विरमेति भ्रुकुटिं बभार सुभूः।८८॥ प्रसिद्धे एव ॥ ८५॥ श्रीकृष्णः सुबलमाह-राधेति। सौधी सुधासंबन्धिनी घना सान्द्रा। अतिनिबिडेत्यर्थः । तदपि विद्ुताभाव औत्कण्ठ्यं तदेवोष्मा तेन। अन्र किं प्रमाणमिति चेन्मदनुभव एवेति कैमुतिकन्यायेनाह-यन्नामनीति। श्रवणयोर्धामनि गृहे कर्णरन्ध्रे इत्यर्थः । याति गच्छति सति ॥ ८६ ॥ उत्कृष्टता- वाह्या उत्कर्षप्राप््या यः स्नेहश्चित्तद्रव अदाक्षिण्यं सवस्याच्छादनार्थ वाम्यं धारयति तेन च किं स्यादित्यतो विशिनष्टि-नवं माधुर्य मानयन्ननुभावयन्।।८७।। श्रीकृष्णेन सह वने विहरन्ती श्रीराधा सचित्तद्रवातिशयेनाश्रुभिः पुता स्यात्तत्र (सती,) दूरे चरतामपि गवां धूलिमेव हेतुमवहित्थया वदन्ती श्रीकृष्णमुपाल- भते-स्रवद्स्त्नेति। ननु तर्ह्येहि हन्त हन्त मुखफूत्कारमारुतैर्नेत्रे एव शीतल- यामीति तथा कुर्वन्तं तं पुनराह-अधुनेति। विरमेति। तवानने प्रकट- लितलादिहेतुभिर्बहुभिरुत्कर्षैर्धनापि भावेन प्रियगुणभावनया य ऊष्मा तदानु कूल्योत्कण्ठा संतापः । तेन विद्रता सदैव द्रवतया स्थिता। जगत् तदन्यत् ॥ ८६ । अदाक्षिण्यं बहिः कौटिल्यं यो धारयति स मानः । किं कुर्वन्। नवं पुराननुभूतं माधुर्यमास्वादविशेषं मानयन् ज्ञापयन्। अनुभूतं कारयन्नित्यर्थः । ८७ । दाक्षिण्यभागपि गहनक्मं दुर्बोधरीतिमदाक्षिण्यं गाम्भीर्यान्मनःस्थित-

Page 456

उज्ज्वलनीलमणिः । ४३३

उदात्तो ललितश्रेति मानोऽयं द्विविधो मतः। तत्रोदात्त :- उदात्त: साड्कृतस्रेहो धारयन् गहनक्रमम् ॥८९॥ दाक्षिण्यभागदाक्षिण्यं वाम्यगन्धं च कुत्रचित्। तत्र दाक्षिण्योदात्तो यथा- राधेति स्खलिताभिधे मयि हठाद्विद्धान्तराप्यार्तिभि- रमद्वैलक्ष्यशमाय सा द्विगुणयन्त्यास्यारविन्दे स्मितम्। जल्पे च म्रदिमानुविद्धमधिकं माधुर्यमातन्वती चित्राणीव चकार मत्पियसुहद्दृन्दानि चन्द्रावली।। ९० ।।

प्रेम्णा किमहं प्रसीदामीति भावः ॥। ८८ ॥। उक्तलक्षणाद्विविधात सनेहान्मानोऽपि वक्ष्यमाणलक्षणो द्विविधो भवतीत्याह-उदात्त इति। घृतस्रेह एव उदात्तः स्यात्स च द्विविध:। गहनकमं दुर्लक्ष्यपरिपाटीकं यथा स्यात्तथा दाक्षिण्यं भजते यद. दाक्षिण्यं बहुदुर्लक्ष्यावहित्थं दाक्षिण्यमन्तर्दाक्षिण्याभावं धारयन्नित्येकः, तथा वाम्यस्य गन्धो यत्र तथाभूतमदाक्षिण्यं गहनकमं यथा स्यात्तथा धारयन् बहिर्वाम्यगन्धामन्तः पूर्णमदाक्षिण्यं धारयन्निति द्वितीयः। अत्रादाक्षिण्यमिति विशेष्य तस्यैव दाक्षिण्यभागिति वाम्यगन्धमिति विशेषणद्वयेन भेदद्वयम् । केवलं वाम्यगन्धं धारयन्रुदात्तः स्यादिति न व्याख्येयम्। यो धारयत्यदाक्षिण्य- मिति मूललक्षणेन सहासंगतेस्तथोत्तभाङ्गनानां रतिप्रेमस्नेहेष्वपि वाम्यगन्धस्य स्थातुमुचितलान्मानलक्षणे संपूर्णमदाक्षिण्यमेवावश्यं खल्वपेक्षणीयमेव। अदाक्षि- व्यस्यैव व्यत्त्यनभिव्यकिभ्यां मघुस्रेहघृतस्त्नेहौ व्यवस्थीयेते। तथा अनभिव्यकेरेव संपूर्णलाभ्यां दाक्षिण्योदात्तवाम्यगन्धोदात्तौ ॥ ८९॥ दाक्षिण्योदान्त इति। दाक्षिण्यसंबन्धी उदात्तो दाक्षिण्योदात्त इत्यर्थः । एवमेव वाम्यगन्धोदात्तो व्याख्येयः॥ श्रीकृष्णः कुन्दवल्लीमाह-राधेति। वैलक्ष्यं वैयभ्यम्। हठादित्यस्य

भावगोपनम्। वाम्यगन्धं च कुत्रचित् बहिरपि किंचित् कोपप्रकटनं धारयन् वृतस्नेह उदात्ताख्यमानः स्यात् ॥ ८८ ॥। ८९ ।। वैलक्ष्यमत्र वैयम्यम्। हठा- दित्यस्य द्विगुणयन्तीत्यनेनान्वयः । 'मत्प्रियसुहृद्दृन्दानि' इत्यत्र 'सा प्रियसखी- २८ उज्व०

Page 457

३३४ काव्यमाला।

अथ वाम्यगन्धोदात्तो यथा श्रीविष्णुपुराणे- काचिद्ूभङ्गुरं कृत्वा ललाटफलकं हरिम्। विलोक्य नेन्नभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ।। ९१॥ यथा वा- अक्षसंसदि जितापि मृगाक्षी माधवेन परिरम्भपणेन। भुग्नदृष्टिरिह विप्रतिपन्नां तं करेण रुरुधे परिरिप्सुम् ।।९२।।

द्विगुणयन्तीत्यनेनान्वयः । चित्राणीव किमियं गोन्नस्खलनेऽरपि प्रसन्ना न वेति विस्मयेन जाड्योदयादालेख्यानीवेत्यर्थः । 'आलेख्याश्चर्ययोश्चिन्नम्' इयमरः। अग्रे लक्षयिष्यमाणयो: सहेतुकनिर्हेतुकमानयोर्मध्ये सहेतुकोऽयं मानः । अत्रार्ति- भिर्विद्धान्तरेति प्रथममार्तिहेतुकश्चित्तद्रवस्ततो मानः, स्मितादिकं तु तडुभयगो- पनार्थम् ॥ ९० ॥ रासान्तर्धानानन्तरमाविर्भूतं श्रीकृष्णं विलोक्य मानवत्याः कस्याश्चिच्चेष्टितं पाराशरो वर्णयति-काचिदिति। म्रुवा भद्गुरं कृतेति बहि- वोम्यगन्धयुक्त नेत्रभृद्गाभ्यां पपाविति। बहिदोक्षिण्यम्। अत्र कृलेति क्लाप्न- त्ययेन भ्रवा भङ्गरीकरणं प्राथमिकमीषदेवेति वाम्यस्य गन्ध एव पपाविति भूत- कालनिर्देशेन पानक्रियाया आदिमध्यान्तभागानां पूर्णताव्यञ्ञनया तदनन्सरं च क्रियान्तरानुक्त्या पानक्रियायाः प्रवाहरूपलमभिव्यज्य तत्र नेत्रयोर्भङ्गलेन मुखस्य पङ्कजलेनासक्तिमभिव्यज्य दाक्षिण्यस्य पूर्वतमेवेति वाम्यगन्धोदात्तता। काचि- त्कराम्बुजमित्यादिना कराम्बुजधारिण्यादीनामिवास्याः श्रीकृष्णपार्श्चागमनात् तद- ज्वास्पर्शनाचादाक्षिण्यमन्तर्गतमस्तयेवेति व्याख्येयम्। अत्र चिरादर्शनेन रोषेण चित्तद्रवस्ततो मानो ज्ञेयः ॥ ९१ ॥ अन्नान्तरदाक्षिण्यं स्पष्टं नोपलब्धमित्य- परितुष्यन्नाह-यथा वेति। चन्द्रावल्याः काचित्सखी कामप्याह-अक्षसंसदि पाशकक्रीडासभायां परिरम्भ: पणो यस्य तेन माधवेन जितापि भुम्नदृष्टिरिति ब्रहिर्वाभ्यगन्धः । करेण रुरुघे नतु कराभ्यामिति दाक्षिण्यमेव। यद्यपि द्वाभ्यामपि नायिकायाः कराभ्यां नायकरोधो न संभवति तदप्यवहित्थातु वृन्दानि' इति पाठ इष्टः ॥ ९० ॥ पपावित्यादिना दाक्षिण्यभावलमायाति॥९१॥ कराभ्यामित्यनुक्ता करेणेत्येकलोकतिर्वाम्यगन्धमेव व्यनक्ति॥ ९२॥ खातन्तयं

Page 458

उज्ज्वलनीलमणिः ।

अथ ललित :- मधुस्नेहस्तु कौटिल्यं स्वातन्यहृदयंगमम् ॥९३॥ विभ्रन्नर्मविशेषं च ललितोऽयमुदीर्यते। तत्र कौटिल्यललितो यथा श्रीदशमे काचिद्भ्रुकुटिमाबध्य प्रेमसंरम्भविहला। न्नतीवैक्षत्कटाक्षेपैनिर्दष्टदशनच्छदा ।।९४ ।। यथा वा- सदत्त मे वर्त्मनि मन्मथोन्मदा स्यंग्रहाक्लेषमसौ सखी तव। इत्युक्तवन्तं कुटिलीभवन्मुखी कृष्णं वतंसेन जघान मङ्गला ।।९५॥

सिध्यत्येवेति एकेन करेण निरोधे सापि न सम्यक् सिध्धतीति दाक्षिण्यमेव। व्िप्रतिपन्नेत्यनेनान्तर्गतमदाक्षिण्यं च दर्शितम् ॥ स्पष्टस्यान्तरदाक्षिण्यस् तूदा- हरणं विदग्धमाधवे ज्ञेयम्। यथा-'यथार्थेयं वाणी तव चकितसारङ्गनयने सुवर्णालंकारो मधुरयति यत्ते श्रुतियुगम्। मुखेन्दोरन्तसते बहिरपि सुवर्णच्युतिरयं मम श्रोत्रद्दन्द्वं नयनयुगलं चाकुलयति ।।' इति ॥ ९२ ॥। कौटिल्यं कीदृकम्। स्वातक्येण हृदयंगमं न तु वृतस्नेह इव मधुन्नेहांशग्राहिलेनेत्यर्थः ॥९३ ॥ नर्मविशेषमिति। वाचिककौटिल्यं तेन प्रथमं कौटिल्यं मानसं कायिकं च ज्ञैयम्। रासान्तर्धानान्ते श्रीकृष्णमालोकयन्त्याः श्रीराधाया मानवत्याश्वेष्टितं श्रीशुकदेवो वर्णयति-भ्रुकुटिमाबव्य आ सम्यक् प्रगाढतया नतु शैथिल्येन बड्ढा। धनुषीव शरं संधायेत्यर्थः। प्रेमसंरम्भविह्वलेति चित्तद्वो मानश्र व्यजजितः। कटाक्षेपैः कटाक्षनिक्षेपैरिति कटाक्षस्य शरतमारोपितम्। ऐक्षदैक्षत ॥ ९४॥ "भून्ना व्यपदेशा भवन्तीति न्यायेन श्रीराधा सहृत्सपि मधुस्नहं तदुत्थं कौटिल्य- ललितं च वक्तुमाह-यथा वेति। मङ्गलायाः सखी कामपि खसुहृदं प्राह- अदत्त ददौ। खयमेव अ्रहो ग्रहणं यन्र तादशमाश्लेषमित्युक्तवन्तमिति तबुत्त्यैव ख्वाधीनभर्तृकात्वं तेन हृदयंगमं कान्तहृदयावगाहम्॥९३॥ कटाक्षेपैः कटाक्षैः। १. 'तताड़' इति ख़पुस्तके पाठ :.

Page 459

४३६ काव्यमाला।

यथा वा- चित्रं चिरस्पर्शसुखाय चूचुके कुर्वन्तमक्षिप्रमियं चलेक्षणा। सिविन्नाङ्गुलीकं पुलकाश्चितश्रिया सव्येन चिक्षेप कुचेन केशवम्॥।९६॥ अथ नर्मललितो यथा दानकेलिकौमुद्याम्- मिथ्या जल्पतु ते कथं नु रसना साध्वीसहस्स्य या बिम्बोष्ठामृतसेवनादघरिपो पुण्या प्रयलादभूत्। कस्मादेष बलात्करोतु च करः सोदुं क्षम: सुभ्रुवां रक्तः सुष्ठु न नीविबन्धमपि यः का वान्यबन्धे कथा।।९७॥।

चित्तद्रवो गम्यः। कुटिलीभवन्मुखी लज्जया तिरश्चीनवदनेति भ्रुकुट्याद्यभावादति- सूक्ष्मदाक्षिण्यांशाभिव्यत्तया सोऽयमन्तर्भूतदाक्षिण्यांशकौटिल्यललितो ज्ैयः॥९५॥ किंच शुद्धमधुन्नेहवत्याः श्रीराधाया माने कदाचित् स्वीकृतोऽपि दाक्षिण्यांशः कुटिलीभवन्मधुमय एव न तु घृतगन्धव्यजी भवतीति पुनः दर्शयितुमाह- यथा वेति। रूपमज्जरी रतिमञ्जरीं प्रत्याह-चित्रं पत्रावह्नयादि। अक्षिप्रमिति- माने कारणम्। चलेक्षणेति। कदाचित् कोऽपि जनोत्रागत्य पश्येदिति शङ्कया कुचेन चिक्षेप तदाघातेन चालयामास। सव्येनेति। स्त्रीणां वामाङ्स्य बलव- त्वाधिक्यादत्र रोषव्यज्ञकभ्रूनेत्रादिकौटिल्याभावात् दाक्षिण्यं कुचक्षेपोऽपि यद्यपि प्रगल्म्यं व्यनक्ति न तु कौटिल्यं तदप्यालेख्यकर्मण्यनभिज्ञेनाक्षिप्रकारिणा लया कुचावहं न चित्रयामि किंतु स्वकिंकरीभिरेवेत्येतावदर्थव्यअ्केन कुचक्षेपेणा- त्यनादरे द्योतिते घृतस्रेहृस्य प्रसत्त्यभावात् शुद्धमधुस्नेहप्रवृत्या मानेऽस्मिन् दाक्षिण्यांशोऽपि शुद्धमधुस्नेहमय एवातिसुरसनीय इति विवेचनीयम् ॥ ९६॥ हन्त किं करोमि जन्मावधि मज्जिह्ा मिथ्या वक्तुं न जानाति मत्पाणिश्च हठवृत्तौ विमुख इति मत्सत्यवादितदयालुले एवानर्थकारिणी। अत एवैता राजशुल्के विप्रतिपद्यन्त इति वदन्तं श्रीकृष्णं प्रति श्रीललिता प्राह-मिथ्येति। अमृतसेवनादिति । यथामृतभोजिनो देवा मिथ्या न भाषन्ते इति

'कटाक्षोऽपाङ्गदर्शने' इतयमरः ॥९४॥९५॥९६॥९७॥ प्रणयस्य लक्षण

Page 460

उज्ज्वलनीरुमणिः । ४२७

अथ प्रणय :- मानो दधानो विस्म्भं अ्रणयः प्रोच्यते बुधैः॥ ९८ ॥ यथा- कुचोपान्ते स्पृष्टा मुरविजयिना तद्ुजशिर- स्तिरोन्यस्तग्रीवा भ्रुवमनृजुदृष्टिर्विभुजती। पटेनास्य म्लानीकृतपुरटभासा पुलकिनी प्रमोदासर्घोतं निजमुखमियं मार्ष्टि सुमुखी ।। ९९।।

भावः । करोऽपि कस्माद्वलात्करोतु यतो महादयाछुरिति भावः। दयालुलमेवाह- रक्तोऽनुरागी सुभ्रुवां नीवीबन्धनमपि सोुं न क्षमते हन्त हन्त आसां मध्यदेशो बन्धनेन दुःखं प्राप्नोति तदिमं मोचयामीति शीघ्रमागत्य सुभ्रभिस्तिरस्कृतस्तर्जित- स्ताडितोऽपि तं स्वावमानमगणयित्वा नीवीबन्धनान्मव्यदेशं मोचयत्येवेत्यर्थः। अन्यबन्धे वेण्यादिबन्धे का कथेति ध्वनितम्। तं तं बन्धं तु प्रथममेव दृष्टिमा- त्रादेव मोचयतीत्यर्थः । अत्र वक्तृबोद्धव्यादिवैशिष्याद्विपरीतलक्षणया अत्यन्तति- रस्कृतवाच्यध्वनिना च मिथ्यावादितं निर्दयतं चातिलाम्पट्यं च बोधितम् ।९७॥ विस्रम्भो विश्वासः संभ्रमराहित्यं तच्च खप्राणमनोबुद्धिदेहपरिच्छदा- दिभि: कान्तग्राणमनोबुद्धादेरैक्यभावनजन्यं तत्र सत्यपि रोषादिकं तु रससाभा- व्यादेव नानुपपननं ज्ञेयम् ॥ ९८ ॥ श्रीकृष्णेन संभुक्तप्रसाधितायास्तेन सह कुआ- अने सुखमुपविष्टायाः श्रीराधाया लीलां दूरतः पश्यन्ती रूपमज्जरी वर्णयति- कुचोपान्त इति। तस्य श्रीकृष्णस्य भुजशिरसि वामस्कन्धप्रदेशे तिरोन्यस्ता खालम्बतया तिर्यगर्पिता ग्रीवा यया सा। अनृजुः कुटिला तिरश्रीना दृष्टिदर्शनं यस्याः सा । श्रीकृष्णमपाज्नेन पश्यन्तीत्यर्थः । भ्रुवं विभजती कुटिलयन्तीत्यस- हिष्णुताव्यञ्ञनया मान: । प्रमोदास्रैरिति चित्तद्रवः । अस्य श्रीकृष्णस्य पटेन पीताम्बरेण निजमुखं मार्ष्टीति निःसंत्रमेणैक्यव्यज्नया प्रणयः ॥९९ ॥

माह-मान इति। विस्रम्भं प्रियजनेन सह खस्यामेदमननम् ॥९८॥९९॥ حـ

Page 461

४३८ कान्यमाला।

स्वरूपं प्रणयस्यास्य विस्रम्भः कथितो बुवैः। विस्त्म्भोऽपि द्विधा मैत्रं सख्यं चेति निगद्यते॥१००।। तत्र मैत्रम्- भावजैः प्रोच्यते मैत्रं विस्त्रम्भो विनयान्वित:। यथा श्रीदशमे- काचित्कराम्बुज शौरेर्जगृहेऽअ्जलिना मुदा। काचिद्दधार तद्वाहुमंसे चम्दनरूषितम् ॥ १०१॥। यथा वा- नहि संकुच पङ्कजेक्षण: पदयोस्ते निदधातु नूपुरौ। अनयोरध्वनिभिर्विलज्जतां कलहंसीव विपक्षकामिनी॥ १०२ ॥

ननु विस्रम्भं दधानो मान एव प्रणय इति निरुच्यते चेत् कथमग्रे वक्ष्यते जनिल्ा प्रणयस्न्नेहात कुत्रचिन्मानतां व्रजेदिति। सत्यम्। तर्हि प्रणयस्य पृथगेव लक्षणं कार्यमित्याह-सवरूपमिति। तेन मानात् पूर्वभूमिका उत्तरभूमिका वा प्रण योऽस्तित्यत्र न विवाद इति भाव: ॥। १०० ॥ रासान्तर्धानानन्तरमायातं श्रीकृ षणमालोकयन्त्याश्चन्द्रावल्याश्रेष्टितं श्रीश्ुको वर्णयति। कराम्बुजं जगृहे इति विस्रम्भतः । अज्जलिनेति तत्र विनयः। मानस्तु दाक्षिण्यादस्पष्टो वर्तत एव 'ईषत्कुपिता बभाषिरे-' इत्यग्रे व्यक्तीभावादिति। चित्तद्रवस्तु तद्दर्शनजन्यो गम्यः । अत्र पद्ये प्रथमा चन्द्रावली द्वितीया श्यामला श्रीवैष्णवतोषिण्युक्तयुत्त्या ज्ेया। उदाहरणमिदं मैत्र्यस्य प्रथमायामेव नतु द्वितीयायाम्। अंसे तद्वाहुं तेन पुनः प्रणयस्य जन्म वित्ृणोति-स्वरूपमिति। स्वरूपं कारणम्। अय- मर्थ :- विस्रम्म दधान इति यदु्क तत्र खलु विसम्भस्य चांशेनोंपादानत्वं मतं न तु निरमित्तलम्। यथा हरितालै हिङ्गुलांशप्रवैशेन चमत्काररागविशेषो भर्वति तथात्रापि प्रणयाख्य इति। यच्च पूर्वग्रन्थे 'प्राप्तायां संभ्रमादीनां योग्यतायामपि स्फुटम्। तद्न्धेनाप्यसंस्पृथ्ट रतिः प्रणय इष्यते ॥।' इत्युक्त तत्तु तटस्थलक्षण- मिति द्वयोरेकमेव प्रतिपादं ज्ञेयम्। अंथ विस्रम्भस्य मैदद्वय ब्रुवन् तदमेदं- विवक्षया प्रैणयस्यापि तदभिप्रैति-विस्तम्भोऽपीति ॥१००॥१०१॥१०२॥

Page 462

उर्ज्ज्वलनीरुमणिः।

अथ सख्यम् विस्रम्भ: साध्वसोन्मुक्त: सर्ख्यं स्वशतामय: ॥१०३। यथा- सरभसमधिकण्ठमर्पिताभ्यां दनुजरिपोर्निजबाहुवल्लरीभ्याम्। निटिलमवनमय्य सस्य कर्णे सखि कथितं किमिष त्वया रहस्यम् ॥१०४॥ यथा वा श्रीविष्णुपुराणे- यदि ते तद्वच: सत्यं सत्यात्यर्थं प्रियेति मे। मद्गेहनिष्कुटार्थाय तदायं नीयता तरुः ॥ १०५ ॥ यथा वा- विन्यस्य वक्षोरुहकोरकद्दयीं वक्षःस्थले कंसहरस्य हारिणि। पत्राङ्कुरं कुङ्कुमबिन्दुनालिके लिखत्यसौ चन्द्रमुखी सखी मम॥१०६

क्षिपं दधारोवाहेत्यत्र विनयस्य व्यत्त्यभावात् ॥ १०१। मानोत्तरभूमिकारूपं प्रणयमुदाहृत्य मानात् पूर्वभूमिकारूपमपि तमुदाहर्तुमाह-यथा वेति। चन्द्रा- वल्या: कापि किकरी साधीनकाम्तां तां प्रत्ाह-न हि संकुच, श्रीकृष्णस्य घाण्यो: कथं सपादौ स्पर्शयामीति विनयं त्यजेत्यर्थः। ननु श्रीकृष्णविषयकं मद्गौरवं किमिति नाशयसि लमेव किं न निदधासीति तत्राह-अनयोरित्यादि। श्रीकृ- व्णहस्तार्पिताभ्यां नूपुराभ्यां सौभाग्याधिक्यव्यककरिति भावः। अत्र प्रणयः स्पष्ठः। चित्तद्रवस्तु श्रीकृष्णस्पर्शगम्यः ॥१०२॥१०३॥ विशाखा श्रीराधां प्रत्याह-अधि- कण्ठं श्रीकृष्णकण्ठस्य पार्श्वद्वयेऽवर्पितान्यां निजबाहुलताभ्यां निटिलं तस्य शिरोऽ्व- नम्य ।। १०४।। मानात् पूर्वभूमिकारूपं प्रणयभेदं सख्यमुदाहृत्य मानोत्तर- भूमिकारूपं तं दर्शयितुमाह-यथा वेति। सत्यभामा श्रीकृष्णमाह-यदीति। तरुः पारिजाताख्यः । तदैवाहं प्रसीदामि मान्यथैति भावः। अत्रैव तादशो निदेश एच सख्यं व्यजयति ॥ १०५॥ न केवल श्रीरीधासत्यभामयोरेव सर्य तत्सखीष्वपि तत्संभवतीति दर्शयितुमाह यथावेति। चन्द्रमुख्या: सखी खसद्विनी कामप्याह-विन्यस्येति।। १०३॥ श्रीशुकदेववाक्यं प्रमाणयति- ॥। १०३।। निजबाहुवह्लरीभ्यामितयत्र वँहरीशब्दन लेताप्युच्यते। दीर्घ रीदिति निक्षिपत्वत इतः क्षामां भुजावलरीम्।' इति साहित्यदर्पणेनोदाहरणात् ॥ १०४॥

Page 463

४४० काव्यमाला।

यंथा वा श्रीदशमे- ततो गत्वा वनोद्देशं हस्ा केशवमब्रवीत्। न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥१०७॥ जनित्वा प्रणयः स्नरेहात्कुत्रचिन्मानतां त्रजेत्। स्नेहान्मान: क्वचिद्दूत्वा प्रणयत्वमथाक्षते॥ १०८॥ कार्यकारणतान्योन्यमतः अ्रणयमानयोः। इत्यत्र पृथगेवासौ विस्त्रम्भोदाहृति: कृता॥ १०९॥ उदात्तललिताभ्यां तु मैत्रसख्ये सुसङ्गते। द्वे सुमैत्र्यसुसख्याख्ये यथासंख्यमुदीरिते॥ ११० ॥

ततो गत्वेति । दस्रेति मानः ॥। १०७ ॥ उक्तलक्षणं अणयं व्यवस्थाप- यति-जनित्वेति। अश्रुते प्राप्ोति। अत्र स्थायिभावप्रकरणे पृथगेव माना- नन्तरमुक्लापीत्यर्थः ॥ १०८॥ उदान्तेति । उदात्तेन सुष्वु संगतं मैत्र्यं चेत्सुमैत्र्यं तथा ललितेन सुछ्रु संगतं सख्यं चेत् सुसख्यमित्यर्थः ॥१०९॥ ।। ११० ॥ प्रतस्तनं चन्द्रावल्याश्चरितं तत्सखी काचिदाह-आलीति। भ्रमङ्करिति वाम्यगन्धः । तस्य श्रीकृष्णस्य मुखपुटावरणार्थ हस्तमुत्क्षिप्य पुनः समवरिष्ट व्रजराजकुमारे एतावद्धार्ष्ट्यमनुचितमिति लज्जासंकोचाभ्यां हस्तं संवृत- वती न्यश्चन्मुखी निजधाष्ट्यप्रकाशेन लज्जिता अत्र मधुस्नेहसंबन्धिवाम्यगन्घोद- यात्। यथा मानस्य वाम्यगन्धोदात्तलं तथैव हस्तोत्क्षेपप्रथमलक्षणेषु संकोचा-

तरु: पारिजाताख्यः ॥ १०५ ॥ अलिके ललाटे ॥ १०६ ॥ पूर्व मानात् प्रणयस्य जन्मोक्तम्, संप्रति तु विचेकविशेषमुपलभ्य चैपरीतयेनाप्याह-तत्र यद्यपि अणये जाते एव कौटिल्यं संगच्छते तथापि नायिकाविशेषस्य प्रेमैव खल्वीदृशः । यदसौ कौटिल्येन सहोत्पद्यते। यथोक्तम्-'अहेरिव गति प्रेम्णः खभावकु- टिला भवेत्। अतो हेतोरहेतोश्च यूनोर्मान उदश्वति ॥' इत्यभिप्रायः । किंतु 'मानो दधानो विस्नम्भम्' इति यत्प्रथममुक्तं तदेव मतं निजमिति लक्ष्यते १. 'श्रीदशमे च यथा' इति ख. ग. पुस्तकयोः.

Page 464

उज्ज्वलनीलमणिः । ४४१

तत्र सुमैत्र्यम्- आलीपुरः कथयितुं रजनीरहस्यं तत्रोदयते मधुरिपौ मृदुलाभ्रमङ्डूः। उत्क्षिप्य तन्मुखपुटावरणाय हस्तं न्यश्चन्मुखी समवरिष्ट पुनर्वराक्षी १११ यथा वा- क्षिप्ते वर्णकभाजने तरणिजापूरे परीहासतः कृष्णेन भ्रुवमारचय्य कुटिलामालोकयन्ती तिरः। तारा वक्षसि चित्रमर्धलिखितं श्रीवत्सविभ्राजिते काश्मीरेण घनश्रिया निजकुचाकृष्टेन पूर्ण व्यधात्॥११२।।

नुदयात् मैत्र्यस्यापि सख्यगन्धवत्त्वमपि उदात्तेन सह मैत्र्य स्यान्तर्बहिरपि सुसं- गतलात् सुमैत्र्यम् । 'काचित् कराम्बुजम्' इत्यत्र तु दाक्षिण्योदात्तमानस्य बहिरनभिव्यत्त्या अन्तर्बहिरभिव्यक्तविनयमैत्र्येण सह सुसंगलाभावात्तत्र मैत्र्य- मेव न तु सुमैत्र्यम् ।। १११ ।। कासुचित् श्रीकृष्णविषयकमदीयत्वाभिमानां- शवत्त्वेऽपि माने दाक्षिण्ये सति 'भूम्ना व्यपदेशा भवन्ति' इति न्यायेन घृत- सेहवत्त्वमेव व्यवस्थेयं तथा सति सुमैत्र्यमेव न तु सुसख्यमिति दर्शयेतुमाह- यथा वेति। तरणिजापूरे क्षिप्ते इत्यनेन जलनिकटबृहत्सोपानासन एवोपवेशो नायकयोर्बोधितः । भ्रुवं कुटिलामारचय्य दुर्लीलेपि व्रजराजनन्दने ईर्ष्या संप्रत्य- नुचितेति मत्वा तिर आलोकयन्ती खवीयेन स्वाभाविकेनापाङ्गदर्शनेन मानाभावं ज्ञापयन्तीत्यर्थः । तारा (कत्री) वक्षसीत्यत्र श्रीकृष्णस्येति संबन्धिपदान्युक्ला (नुक्या) न्यूनपदता नाशङ्कनीया। श्रीवत्सविभ्राजिते इति विशेषणेनैव संब- न्वस्य विशेषज्ञातलात्। निजकुचाकृष्टेन काशमीरेण चित्रं पूर्ण व्यधादिति श्रीकृष्णे गौरवस्यानुदयो मधुस्नेहांशं व्यनष्टि। अन्र वाम्यगन्घोदात्तेन सह सख्यगन्धमैत्र्य- स्यान्तर्बहिरपि सुसंगत्या सुमैत्र्यं कुचाकृष्टेनेत्येतावता अविनयो माशङ्कनीयः। अन्या- ज्ञापेक्षया कुचस्याभ्यर्हितलात। अन्र तस्याः प्रारब्धकार्यासिद्धिरूपो दोषः श्रीकृष्णेन

Page 465

४४२ काव्यमाला।

अथ सुसख्यम्- धूते सकृत्पानविधौ पणीकृते जित्वा द्विरोष्ठं पिबति खमच्युते। बंबन्ध कण्ठे कुटिलीकृतेक्षणा तं वामया दोर्लतयाद् बल्लवी।११३॥ यथा वा- आविष्कुर्वति विस्फुरन्नवनखोल्लेखं स्ववक्षस्तटं कृष्णे पीतदुकूलसंकलनया जित्वा सखीनां पुरः। अभ्रश्याममुरो रुरोध बलितम्रूराननं धुन्वती रोमाश्चोद्गमक्चुकेन कुचयोर्द्वन्द्वेन गान्धर्विका॥। ११४॥

प्रसञ्जयितुमिष्टोऽपि नाभूदिति चमत्कारः ॥ ११२ ॥ इ्यामायाश्चेष्टितं वृन्दा नान्दीमुखीं प्रत्याह-द्ूते विषये सकृदेव पानस्य विधौ पणीकृते सति श्रीकृष्ण ओष्ठ द्विः पिबति सति तमन्यायमसहमाना बल्लवी बबन्ध। अत्र कुटिलेक्षणंल दोर्लताबन्धयोर्यौगपद्यात्कौटिल्यललितन सख्यस्य सुसंगतत्ात् सुसख्यम्॥११३॥ उक्तपद्े ओष्ठ द्विः पिबति सति बबन्धेत्युक्ते सकृत् पिबति सति न बबन्घेत्र्थे आयाते दाक्षिण्यांशस्य व्यजजितले घृतस्त्नेहांशगन्धः प्रसज्जते। सच श्रीराधासुहृंदि श्यामलायां समुचित एवेति सपक्षादिभेदविव्ृतौ व्याख्यातमेव। भूम्रा व्यपदेश न्यायेनैवात्र मधुस्नेहवत्त्वमिति शुद्धमधुस्नेहवत्यां श्रीराधायां शुद्धं सुसख्यमुदारहर्तु- माह-यथावेति। रूपमज्जरी खवसुहृदमाह-आविष्कुर्वति सति केन प्रकारेण पीतदुकूलस्योत्तरीयस्य संकलनया उत्क्षेपेण स्मिलेति तत्सखीषु पश्यत्सु सख्या श्ररित्रमिति स्वविस्रम्भद्योतना तथा चैतावानद्यास्मत्प्रियसख्या विहारोऽभूदिति प्रत्यायितानां तासामानन्दनम्। ततश्च गान्धर्विका प्रथमं वलितभ्ररितीर्ष्यासूयै व्यज्जितवती आननं धुन्वती हुंकारण सत्यमेव ब्रूचे इति विपरीतलक्षणोकिः। तदपि तमनिवृत्तमालक्ष्य सरुषायितत्वं निहुवाना उरो वक्षस्तस्य रुरोध। केन कुचयोरद्वन्द्वेनेति करतलाभ्यां सर्वचिह्नसंगोपनाशक्त:। तथा अन्तरीयं विनां शय्यायां तस्या वस्त्नरान्तरस्य कृष्णेन प्रथममेव दूरीकृतताच्च। किं वा परमसुस ्यस्योदय एवांत्र हेतुर्ज्ञयः । अत आह-रोमाश्चेति । अत एव वलितभू- रिति वलिंतपदेन कौटिल्यललितातिशयः, कुचयोर्द्वन्द्वेनेति, सख्यातिशयश्र

Page 466

उ्ज्म्वल ल्मणिः । ४४३

अथ राग :- दुःखमप्यधिकं चित्ते सुखत्वेनैव व्यज्यते। यतस्तु प्रणयोस्कर्षास्स राग इति कीर्त्यते ॥ ११५॥ यथा- तीनार्कद्युतिदीपितैरसिलताधाराकरालास्त्रि (त्रि) भि- मार्तण्डोपलमण्डलै: स्थपुटितेऽप्यद्रेसतटे तस्थुषी। पश्यन्ती पशुपेन्द्रनन्दनमसाविन्दीवरैरास्तृते तल्पे न्यस्तपदाम्बुजेव मुदिता न स्पन्दते राधिका ॥११६।।

तयो: सुसंगतेः सुसख्यातिशयश्र ज्ञेयः ॥११४॥ यप्तस्तु प्रणयोत्कर्षादिति। अन्यषपि प्रणय स्योत्कर्षा वक्तुमशक्या बहवो वर्तन्ते एवेति भावः। दुःखं दुःख- कारणं सुखलेनैव सुखकारणलेनैव व्यज्यत इति श्रीकृष्णलाभसंभावनायामिति ज्ञैयम। तेन च तदलाभसंभावनायां सुखमपि दुःखलेनेति ज्ञेयम् । सुखलेन सुखधर्मेण डुःखं व्यज्यत इति यत्र दुःखे सुखधर्म एवानुभूयते नतु दुःखधर्मो यधा हिङुलरक्ते मदने हिङ्गुलधर्म एवानुभूयते न तु मदनमित्यर्थः ।यथा च मजिष्ठया रक्ते वाससि मजिष्ठैवानुभूयते न तु वस्रधर्मः शौक्ल्यमित्यर्थः। यद्वा रज्यते भासते। 'रञ्ज रागे' दैवादिकोभयपदी धातुः ॥ ११५ ॥ श्रीराधिकां दूरादालोकयन्ती ललिता खसखीभिः सह तदीयरागमास्वादयति-तीवेति। अदेखढे तस्थुषी स्थितवती राधिका। कीदृशे। मार्तण्डोपलमण्डलै: सूर्यकान्त- शिलासमूहै: स्थपुटिते नतोन्नतीकृते। तत्रापि कीदशैः । तीव्रार्को ज्येष्ठमासीयम- ध्याहस्थसूर्यस्तद्दयुतिभिर्दीपितैस्तपीकृतैः । तत्राप्यसिः खङ्ग एव लता तस्या धारा इव कराला भीषणा अस्न्य: कोणा येषां तैः । 'कोणस्तु स्त्रियः पाल्यश्रिकोटयः' इखमरः। आस्तृते आच्छादिते। तल्पे न्यस्तपदेति। अत्युष्णतीक्ष्णकठोर- निरि्तिउस्पर्शजन्यं दुःखमपि तद्विपरीतेन सुखधर्मेणातिशैव्यसौकुमार्यादिना रकत् मनुभूतमिति प्रत्यक्षाण्यपि औष्ण्यतैक्ष्ण्यकठोरखानि तटस्थतया नानुभूतानि। ननु मिद्राछुना मशकदंशनदुःखानि यंद्यपि मानुभूयन्ते तदपि प्रातर्जाग्रता तदंश- डुःखमपीति। श्रीकृष्णलामे संभावितऽरपि सतीति शेषः। तदेवं तदलामे तु

Page 467

काव्यमाला।

यथा वा पद्यावल्याम्- ताराभिसारकचतुर्थनिशाशशाङ्क- कामाम्बुराशिपरिवर्धन देव तुभ्यम्।

नोत्थः खगान्रे रक्तोद्रमो यथा दृश्यते तथव तयातिसुकुमारखचरणतलदाहा- दिस्तदनन्तरं द्रष्टव्य एव। मैवम्। श्रीकृष्णदर्शनानन्दनिमन्नायास्तस्या आनखशिख- मेव वपुश्चन्द्रकोटेरपि। सुशीतलं तदाभून्न सु तत्तप्तीभवितुमहति नहि सूर्य- किरणैश्चन्द्रस्तप्तीकर्तु कदापि शक्यत इति। तथा लोके तूलखण्डस्यापि तीक्ष्णशिलया पराभवादर्शनात् तूलखण्डेभ्योऽप्यतिसुकुमारचरणायास्तस्यास्तयो: पराभवाभावो ज्ञेयः । यद्वा सर्वसमाधात्री योगमायैव सदा लीलासु जागरूका वर्तत इति॥। ११६ ॥ रागोदयेऽकस्मात् प्राप्तं दुःखं सुख- भयं भवतीति किं वक्तव्यं, यतो रागवतीभिः खदुःखकारणं प्रार्थ्यते च तच्चापि सुखकारणं भवतीति दर्शयितुमाह-यथा वेति। पूर्व रागवती काचिद्वजबाला केनापि प्रकारेण श्रीकृष्णमलभमाना दैन्येन सं तदयोग्यं मला खनिवृत्त्युपायं स्वयमेव निश्चित्य भाद्रमासीयचतुर्थ्याश्चन्द्रं कलङ्कदायिलेन प्रसिद्धं ज्ञाला तं प्रति कलङ्कं प्रार्थयते। तारा अश्विन्यादयस्ता अभिसारयसीति कान्तप्राप्यभाव- दुःखं लं जानासीति भावः । चतुर्थी या निशा तस्याः शशाङ्केति श्रीकृष्णप्राह्य- योग्यायै मह्यं कलङ्कदानेन कृतार्थीकुर्विति भावः । कामाम्बुराशीति । लं समुद्रं वर्धयसीति प्रसिद्धः । स च समुद्रः काममय एव नतु जलमयस्तथैवा-

सुखमपि दुःखत्वेन भासत इति ज्ञेयम् ॥११५॥११६॥ ताराभिसारकेति। कस्याश्चित कात्यायन्युपासिकायाश्चतुर्थीचन्द्रसंदर्शने रतिः । चतुर्थनिशाशशाङ्क हे चतुर्थीचन्द्र, सोऽयमजाततल्लाभाख्यफलत्वेनासिद्धोऽपि लोके तल्लाभमिथ्यापवा- दरूपेण वचसा सर्वतः रयात्या सिद्ध इव यदि स्यात्तर्हि च तल्लाभमेव मला सुखमेव भजामीत्यर्थः । तदेतन्निवेदनविषयतायास्तमेव योग्यः । ततस्ताराभि- सारकतयास्माद्टक् तथा कामातिशयवर्धनश्च दृशयस इति संबोधनद्वयेनैव सूचि- तम्-ताराभिसारकेति, कामाम्बुराशिपरिवर्धनेति। भाद्रमासस्येति ज्ञेयम्। तुभ्यमर्घो नमः । अर्घ ददामीत्यर्थः । ननु दर्शनेऽपि कलङ्मुत्पाद-

Page 468

उज्ज्वलनीलमणिः । ४४५

अर्घों नमो भवतु मे सह तेन यूना मिथ्यापवादवचसाप्यभिमानसिद्धिः ॥ ११७ ॥ नीलिमा रक्तिमा चेति रागोऽयं द्विविधो मतः। तत्र नीलिमा-

नीलीश्यामाभवो रागो नीलिमा कथ्यते बुधैः ॥ ११८॥

समाभिरनुभवादिति। तेनात्र मम न कोऽपि दोष इति भावः । हे देवेति। देवलात्वं मङ्डुःखं तत्प्रतीकारं च जानास्येवेति भावः । तुभ्यमर्घो नम इति। दर्शनमात्रेणापि कलक्कदायिनेऽपि तुभ्यं तदर्थमत्युत्कण्ठया अर्घोऽपि मया दीयते तेन तन्न कालविलम्बो न कार्य इति भावः। ननु कलक़के सति लोकनिन्दया दुःखमेव लभ्यते न च कृष्णासङ्गश्चेत्यत आह-तेन यूना कृष्णेनेति। अन्र श्रीकृष्णप्राप्तिसंभावनाया अभावेऽपि तत्प्रसङ्गाभासमान्रेऽपि दुःखं सुखं भवतीति "रागस्य परा काषा दर्शिता ॥। ११७॥। यतो दुःखमपि सुखं स राग इत्यनु- भावेनैव रागं लक्षयिला संप्रति रागशब्दार्थ दृष्टान्तेनैव बोधयितुं प्रथमं तद्े- दावुद्दिशति-नीलिमेति। नीलीश्यामे वृक्षलताविशेषौ। नीलीभवः श्यामा- भवश्वेति द्विविधोऽपि रागो नीलिभसंज्ञकः ॥ ११८ ॥ वर्णात्मकनीलीरागसा-

यित्रे मह्यं कथमर्घ ददासि तत्राह-मे सहेति। तेन श्रीकृष्णाख्येन यूना सह मे योऽभिमानस्तस्य सेयं मम कान्तेति, मम च सोयं कान्त इत्येतल्लक्षणस्तस्य सिद्धिर्मिथ्यापवादवचसापि भवतिति ॥ ११७॥ तदेवं लक्षयिला प्राचीनानां मतमुपलक्ष्य तद्भेदावुपदिशति-नीलिमेति । तत्र तेषां मतं यथा-'न चातिशोभते यन्नापैति प्रेम मनोगतम्। तन्नीलीरागमाख्यान्ति यथा श्रीरामसी- तयो: ॥ कुसुम्भरागं तं प्राहुर्यदपैति च शोभते ॥ माजिष्ठरागं तत्प्राहुर्यन्नापै- त्यतिशोभते ॥I' इति। तत्र द्विविधं नीलिमानं दृष्टान्तेन व्यज्ञयितुं दृष्टान्तद्वैध- माह-नीलीश्यामाभव इति। नीलीश्यामे औषधविशेषौ। नीलीभवः, श्यामाभवश्चेति द्विविधो नीलिमेत्यर्थः । सामान्योक्तेरेकत्वम् ॥ ११८ ॥ तदेव

Page 469

४४६ काव्यमांका ।

तत्र नीलीराग :- व्ययसंभावनाहीनो बहिर्नातिप्रकाशवान्। सवलग्नभावावरणो नीलीराग: सतां मतः ॥ ११९॥ यथावलोक्यते चैष चन्द्रावलिमुकुन्दयोः। यथा- प्रसन्नविशदाशया विविधमुद्रया निर्मित प्रतारणमपि त्वया गुणतया सदा गृह्णती।

मान्येनैव प्रेमात्मकनीलीरागं लक्षयति-व्ययेति। नीलीराग इति नीलीराग इत्यर्थः । व्ययस्य संभावनयापि रहितः संचारिभावेनापकर्तुभशक्य इत्यर्थः। 'सर्वथा ध्वंसरहितं सत्यपि ध्वंसकारणे।' इति प्रेमलक्षणे ध्वंसकारणं संचारि- भावव्यतिरिक्कं धर्मोपेक्षादिकमेव व्याख्यातं संचारिभावानां सहकारिलेन स्थायि न्वंसकल्वायोगादतस्तन्न नास्य सांकर्य शक्यम्। बहिनातिप्रकाशवानिति श्यामारागव्यव्रच्छेदार्थम्। दार्ष्टान्तिकपक्षे घृतस्त्नेहस्य खतः खादुतातिशयामा- वात् तदुत्थस्य रागस्यापि प्रकाशातिशयाभावः । सवलग्नभावावरण इति दृष्टान्ते भावो वर्णान्तरं दार्ष्टान्तिके ईर्ष्यादिः ॥११९ ॥ भद्रा श्रीकृष्णमाह-प्रसन्नः सर्वत्र प्रसादवत्त्वात्, सदयो विशद: परदोषस्याग्रहणाननिर्मलः स च आशयोS- न्तःकरणं यस्याः सेति तद्गुणभाधुर्येऽपि तरललोभ उत्पद्यत इति श्रीकृष्णंप्रत्यु- पालम्भः। मास्तु ते तद्डुणामोदनं प्रत्युत तां बहुधा वश्चनेन दुःखयितुमिच्छसी- त्याह-विविधेति। हन्त हन्त तदपि सा दुःखं न प्राप्नोति किंतु परमसुखिनी भवतीत्याह-गुणतयेति। धन्यास्ता यासु स महागुणज्ञो रममाणः सुखं

दृष्टान्तो विवृत्य तद्धर्माभ्यां दार्ष्टान्तिकं लक्षयति-तत्र नीलीराग इत्यादरिना। अत्र वर्णात्मकनीलीरागसाम्येन रत्यात्मकनीलीरागं लक्षयतिच्ययेति । च्यय संभावनाहीनत्वेनात्र रागताहेतुधर्मगतव्ययो निषिध्यते। अतो न प्रेमलक्षणेन सांकर्यम् । बहिर्नातिप्रकाशवानिति वक्ष्यमाणश्यामारागादिव्यवच्छेदार्थम् । स्वलग्नभावावरण इति। वर्णपक्षे वर्णान्तरम्, रतिपक्षे मानादि। एवमेवं- भूतो दुःखेपि सुखभावनो यः पूर्वोक्तो रागाख्य; प्रणयोत्कर्षः स नीलीराग इ्वति प्रकरणाद्योजनीयम् ॥ ११९ ॥ तथैवोदाहरति-मसन्नेति। प्रतारणमत्र विषा

Page 470

उज्ज्वलनीलमणिः । ४४७

तथा व्यवजहार सा ्जकुलेन्द्र चन्द्रावली सखीभिरपि तर्किता त्वयि यथा तटस्थेत्यसौ ॥ १२० ॥ अथ श्यामाराग :-

यश्चिरेणैव साध्यः स्यात्स श्यामाराग उच्यते।

लभते खसुखज्ञापनया मां च सुखयतीत्यहो वैदग्ध्यमेव मत्कान्तस्येदं नतु प्रतार- णमिति मनसि विभाव्येत्यर्थः । हे कृष्ण, तद्दुःखदाने प्रयतमानस्य ते मनोरथो विधिना न साधित इति पवित्रभर्त्सनध्वनिर्दुःखमपि सुखं स्यादिति रागलक्षणं च दर्शितम्। किं च सखीवशायास्तस्याः खसखीसमाधानार्थमतिगाम्भीर्यगर्भ बातुर्य च शाण्वित्याह-तथेत्यादि। तेन खताटस्थ्यज्ञापनया सख्यश्च हषिता: कप्रेमा च गुप्तीकृत्य रक्षित इति पुनरपि साद्गुण्यं दर्शितम्। इद्द सखीशक्कारूप- संचारिणा रागस्य व्ययाभावः। तटस्था तकितेति। अनतिप्रकाशो भद्रया अन्तसत्त्वज्ञानादीषत्प्रकाशक्ष ॥ श्रीकृष्णे रविपक्षे चेर्ष्यासूयाद्यावरणं तु स्पष्ट- मेव। तथा तदीयतामयो घृतस्ेहः प्रतीयत एव । १२० ॥ भीरुतैवौषधि- सेक: पुटभावनभादि: प्रथम यत्र सः। दृष्टान्ते श्याभारागे ओषधिविशेषकः प्रशममपेक्षितः।सोऽन दार्ष्टान्ते भीरुतैवेत्यर्थः। ननु भीरूतं सर्वासां ख्रीणां साहजिकमेव प्रणयोत्थतं तस्य कथमिव। सत्यम्। मघुसनेहांशमिश्रि- तघतस्त्रेह्वतीनां वयःसंधौ रत्याद्युद्रमे सत्यन्यतो वैलक्षण्यन भीरुतमधिकमुत्प- वृत। तथाहि मधुस्नेहस्य संपूर्णले सति संपूर्णमत्तताजनकतं युक्तिसिद्धमेव। ततश्च संपूर्णमत्तताजन्येन संपूर्णगर्वेण कान्ते स्नेहस्य मदीयतामयत्ं स्यात् मधुस्ेह-

द्रकारणमपि सुखकारणतया गृह्लातीति रागस्य सामान्यलक्षणमनुगमितम्, व्यय- संभावनाहीनत्वं च दर्शितम्। तदेवमागन्तुकस्य विषादस्यावरणं चायातम्। यच व्यवजहारेत्यादिना तटस्थलमुक्तं तत्तु कृत्रिमतान्भावेष्वप्रविशदपि यद्वर्णितं तत्खल सखीवशतयापि नान्यथा मनःकृतमिति विषादभावारणस्यैवाधिक्यं दर्शितम् ॥ १२० ॥ पूर्ववत् श्यामारागमपि प्रायः श्यामलादीनां योजयति- अ्रथ दयामाराग इत्यादिना। भीरतेति। श्यामारागः खल्वौषधिविशेषस्य

Page 471

काव्यमाला।

यथा- पुरा कुञे मक्जुन्यवतमसयुक्तेऽपि चकिता मुरारेर्या पार्श्रे न तरुणि दिवाप्यन्तरमगात्। तमालैः सैवाद्य द्विगुणिततमिसेऽपि मुदिता तमिस्ार्घे मानिन्यहह भवती तं मृगयते ॥ १२२ ॥

स्यांशले मत्तताया अप्यंशवत्त्वे तजजन्यगर्वांशो वृतस्नेहोत्थदाक्षिण्यग्रस्तीभवन् साभाविकभीरुत्ातिशयवतीनां किंचिदवहित्थामिश्रभीरुत्वरूपेण परिणमति, तच्च भीरुतं चकितसजातीयम्। यदुक्त्म्-'प्रियाग्रे चकितं भीतेरस्थानेऽपि भयं महत् ।' इति। तच्चाप्यन्तर्गर्भवत्त्व एव संभवति दौर्भाग्ये तदसंभवद्ृष्टेः। किंतु तत् प्रियाग्र एव भवेत, एतत्तु सर्वजनाग्र एव स्यादिति भावः । आद्यात् नीली- रागात् सकाशादिति दृष्टान्ते तथैव प्रसिद्धिः । दार्ष्टान्तिके मधुस्नेहांशवत्त्वमेव प्रकाशे कारणं चिरेणैवेति दृष्टान्ते स्पष्टमेव दार्ष्टान्तिकेऽल्पतरमधुस्ेहस्य बहुतरष्ट- तस्नेहेन सम्यक्बेलनेऽल्पतरमधुनो बहुतरशीतलघृतेनैव कालविलम्बस्यौचित्या- देवेत्यर्थः ॥ १२१॥ कलहान्तरितां भद्रां तत्सखी काचित् परिहसति-पुरेति। अवतमसयुक्तेऽपि अल्पान्धकारवत्यपि कुञे। 'क्षीणेऽवतमसं तमः' इत्यमरः। चकिता त्रस्ता। हे तरुणि, भवती दिवापि अन्तरं दिवसस्य मध्यं व्याप्य दिन- मध्य इत्यर्थः । नागात्। सैव भवती तमिस्रार्धे कृष्णपक्षीयरात्रे निशीथे तत्रापि तमालैरिति । त्रास आस्तां प्रत्युत मुदितेति। यथा यथान्धकारवृद्याभि सारवर्त्मनि कष्टं तथा तथा तवानन्द इति रागलक्षणं तत्रापि मानिनी कलहान्तरि-

सेकं प्रथममपेक्षते। अन्र वर्णपक्षे भीरुतेति। खण्डश्लेषलाज्नान्वेति, रतिपक्षे लन्वेति। भीरुता चावहित्थार्थ कृत्रिमैवेत्युदाहरणे व्यक्तीभविष्यति। ततश्व सैवौषधिः तस्याः सेकः संभेद आदिर्यत्र सः ॥१२१॥ या काचिन्मानिनी निजा- भिसरणं प्रार्थयमानायां यस्यां भयं व्याजं कृला नाभिसृतवती पश्चात् तामुत्क- ण्ठिततया स्यभभिसरन्तीं सा दूती परिहसति-पुरेति। अवतमसं क्षीणं तमः । दिवाप्यन्तरमिति। दिवसे यो मध्यभागस्तमभिव्याप्य। कालाघ्व- नोरत्यन्तसंयोगे द्वितीया। मुदितेति। तत्र प्रियस्यास्तितनिश्चयात् तं मृग-

Page 472

उज्ज्वलनीलमणिः । 8४e

अथ रक्तिमा-

राग: कुसुम्भमञ्जिष्ठासंभवो रक्तिमा मतः ॥१२३ ॥ तत्र कुसुम्भराग :- कुसुम्भराग: स ज्ञेयो यश्चित्ते सज्जति द्रुतम् ॥ १२४ ॥ अन्यरागच्छविव्यञ्जी शोभते च यथोचितम्।

तैति श्रीकृष्णकृतप्रतारणदुःखं सुखं मन्यमानेत्यर्थः। शलोकेऽस्मिन् भीरूताप्रा- थम्यं चिरसाध्यत्ं प्रकाशाधिक्यं च रागस्य स्पष्टमेव ।। १२२ ॥ राग इति। तेंन रक्िमा द्विविध इत्यर्थः ॥ १२३ ॥ कुसुम्भराग इव कुसुम्भराग इत्यर्थः । दष्टान्तपक्षः प्रसिद्ध एवेति दार्ष्टान्तिकपक्षं योजयति-चित्ते पटादिस्था- नीये द्वुतं सज्जतीति अल्पतरघृतस्रेहस्य बहुतरमधुस्नेहेन संमेलने बहुमधुन औष्णयसंपर्केण प्रक्तिन्नस्याल्पघृतस्य बहुतरमधुनेव कालविलम्बाभावस्य युक्तिसि- द्वंतादिति भावः । अन्यरागोSत्र माजिष्ठलाक्षादि तस्यैव छावें व्यजयतीति श्याम- लादीनां राग: श्रीराधिकादिरागसादृश्यं प्रापोतीत्यर्थः। यथोचितमिति। पात्र-

यते ॥ १२२॥ राग इति। रक्तिमाख्यो रागः कुसुम्भसंभवो मजिष्ठासंभव- श्चेति द्विविध इत्यर्थः । सामान्यतया प्रयुक्तत्वेनोभयवाचिलात् ॥ १२३ ॥ तत्र कुसुम्भरागे दृष्टान्तः प्रसिद्ध एवेति तदनुसारेण दार्ष्टान्तिकं योजयति-कुसु- समेति। चित्ते पटस्थानीये साधनवशात्तत्कालमेव सिद्धबल्लवीदेहानां तत्प्रियासु प्रवेष्ठमिच्छूनां मनसि सुकरप्रबोधलात् द्रुतमेव सज्जति। आसक्तो भवतीतर्थः । नतु भाज्िष्टवद्दष्टान्तदार्ष्टान्तिकयोर्दुष्करप्रबोधलात् कृतविलम्बमित्यर्थः । नतु नित्यसिद्धानां चित्त इंति व्याख्येयम्। तद्रागखभावलातू। अन्येति। अन्यराग: परथमद्वितीयतृतीयक्रमेण तस्यान्योऽन्यो यो रागस्तेनैव छविव्यजी न तु माजिष्ठ- वत् सकृदेवोदितेन परमरागेण तद्वीत्यर्थः । एकांशेनैव दृष्टान्तलात्, दार्ष्टा- न्तिके लस्य माजिष्ठरागाश्रयलात्। चिरादेव तत्सज्जेन छविव्यजीत्यपि व्यज्यते। शोभते च यथोचितमिति सर्वस्मिन्नपि पक्षे खानुरूपमेव शोभते नतु माजिष्ठ- २९ उज्व०

Page 473

२५० काव्यमांला।

यथा- त्वय्येव श्रवणावधि प्रियसखी या कृष्णबद्धान्तरा या दृष्टे भुजगेऽपि तावकभुजा साम्यात्प्रमोदोन्मदा। प्रेक्ष्य त्वां पुरतोऽद कामपि दशां प्राप्तास्ति सेयं तथा न ज्ञायेत यथा किमेष बलवान् रागो विरागोऽथवा॥१२५॥ सदाधारविशेषेषु कौसुम्भोऽपि स्थिरो भवेत्। इति कृष्णग्रणयिषु म्लानिरस्य न युज्यते॥ १२६ ॥।

साद्गुण्यानुरूपमित्यर्थः ॥ १२४ ॥ श्यामलायाः सखी काचिदमितार्था श्रीकृष्णं प्रत्याह-त्वयीति। श्रवणावधीति। यश्चित्ते सज्जति द्रुतमित्यस्य व्यजकं श्रवणमारभ्यैव चित्ते सज्जनात्। या दृष्टेभुजगेऽपीत्यन्यरागच्छविव्यज्जीत्यस्य व्यजकं स्पृष्टे भुजगेऽपीति अनुरक्तलेनोपमानभूतस्य श्रीराधिकाया माजिष्ठरागस्य दुर्ग्रहत्वं दर्शितमाधिक्येन स्थापनात्। प्रमोदोन्मदेति। रागसामान्यलक्षणम्। प्रेक्ष्य त्वामित्यादि। शोभते च यथोचितामत्यस्य व्यज्जकम्। कामपि दशां लदौत्सुक्यभरनिगीर्णान्तःकरणत्वाद्वहिवृत्त्यनुसंधानरूपां 'बलवान् रागो विरा- गोऽथवा' इत्यनेन रागस्य विरागस्य च बलवत्त्वे सत्यहंताममतास्पदयोस्त्यागसं- भवात्। तां यदि लमद्य नाभिसरिष्यसि तदा सा न जीविष्यतीत्यर्थो व्यजितः ॥ १२५ ॥ ननूक्तोदाहरणे श्रीराधिकादिनिष्ठस्य भाजिष्ठरागस्यैव कुसुम्भराग- स्यास्य शोभाधिक्यमेव सूचितं; वस्तुतस्तु कुसुम्भरागस्य स्थिरताभावात् तथानौ- चित्यमित्यत आह-सदाधारेति । तादृशगुणेन केनचित् क्वाथेन कषायितेषु तुल्यमित्यर्थः ॥ १२४ ॥ तय्येवेत्यस्य पूर्वार्धे रागसामान्यव्यञ्ना। तत्र श्रव- णावधीति। 'यश्चित्ते सज्जति द्ुतम्' इत्यस्य व्यञ्जकम्। श्रवणमारभ्यैव चित्ते सज्जनात्। अन्यरागच्छवीत्यस्य या दृष्टे भुजगेऽपीति व्यजकम्। या स्पृष्टेपी- त्यनुक्ततात् प्रथममेव सोपानमिदमिति क्रमव्यञ्नात् 'शोभते च यथोचितम्' इत्यस्य प्रक्ष्य त्वामित्यादिकं व्यजञकम्। कामपि दशामित्यनेनोक्ता दशा त्त्र प्रणयमानः । सा चास्याः सखीश्रलाधितामपि माजिष्ठरागिण्य इव न भ्रुकुटि- बन्धादिपरिकरा किंतु संकोचेन तदाच्छादनमयीति तद्वन्न शोभत इति कविच- रणानामभिप्रायः ॥ १२५॥ ननु कुसुम्भरागतुल्यत्वेन कालाङ्व्ययितेत्यपि गम्यत इत्याश्ाह-सदाधारेति। सदाधारत्वेनात्र गुणविशेषः ख्याप्यते। तत्र

Page 474

उज्ज्वलनीलमणिः । ४५१

अथ माञ्जिष्ठराग :- अहार्योऽनन्यसापेक्षो यः कान्त्या वर्धते सदा। भवेन्माञ्जिष्ठरागोऽसौ राधामाधवयोर्यथा॥ १२७॥ यथा- धत्ते द्रागनुपाधि जन्म विधिना केनापि नाकम्पते सूतेऽत्याहितसंचयैरपि रसं ते चेन्मिथो वर्त्मने।

पटादिष्वित्यर्थः । कृष्णप्रणयिषु श्यामलादियूथेषु माजजिष्टरागिणीसङ्जिषु ॥१२६॥ अहार्यो वर्णपक्षे जलादिना कालेन वा अनाश्यः, प्रेमपक्षे संचारिभावैश्वालयितु- मशक्यः । अनन्यसापेक्षः खतःसिद्ध एव नतु श्यामाराग इव किमप्यौषधम- पेक्षत इत्यर्थः। कान्त्या सदा वर्धत एव नतु कुसुम्भरागादिरिव परिमित- कान्तिरित्यर्थः । किं चास्य कान्त्या सदा वृद्धिरेव नच नवनवीभाव इत्यनु- रागलक्षणेन सांकर्य न मन्तव्यम् ॥ १२७॥ नान्दीमुख्या रागलक्षणं परि- पृष्टा पौर्णमासी तां प्रत्याह-धस्त इति। अनुपाध्युपाधिं विनैव जन्म धत्त इत्यनन्यसापेक्षलम् । केनापि प्रकारेण विजातीयभावमिलनेनापीत्यर्थः। आ ईषदपि न कल्पते स्थाने स्थित एव स्पन्दनमपि नाप्रोतीत्यहार्यलम्। अत्या-

पटपक्षे सदाधारत्वं केनचित्क्वाथेन कषायिततम् । चित्तपक्षे मािष्ठरागिण्याः सज्वेन भाविततवम् ॥ १२६॥ अहार्य: क्थंचिदप्यपगमयितुमशक्य इत्यर्थः । पूर्वस्याधारगुणेनाहार्यत्वमित्यत्र तु स्वरूपगुणेनापीति विशेषादत्रैवाहार्यतमुक्तम्। अनन्यसापेक्ष इति । दृष्टान्तपक्षे कौसुम्भवन्न तत्तदंशतासापेक्षः। किंतु सर्वाशेनैव तादृश इत्यर्थः । दार्ष्टान्तिकेऽपीद्गेव। यः कान्त्या वर्धत इति दृष्टा- न्तपक्षे प्रसिद्धमेव। दार्टान्तिकपक्षे तादृशो राग एवानुरागच्छविं व्यञ्रयतीति भाव: । ततोऽनुरागलक्षणेन न सांकर्येम् ॥। १२७॥। धत्त इति। अत्राहार्य- त्ादिकं स्फुटमेव। अनुपाधीति विनापि श्रवणादिलक्ष्यमित्यर्थः। तादृशमपि जन्म द्रागेव धत्ते नतु कौसुम्भवत्तदंशक्रमेणेत्यर्थः । यश्चित्ते सज्जति द्रतमित्यत्र चित्तव्यज्नाया एव द्रुततमुक्तं न तु रागोत्पत्तिरिति भेदः। विधिना केनापि नाकम्पत इति। कम्पनमत्र स्थाने स्थितस्यैव किंचिदान्दोलः। तत्र चाशब्दे-

Page 475

४५२ काव्यमाला।

ऋद्धिं संचिनुते चमत्कृतिकरोद्दामप्रमोदोत्तरा राधामाधववोरयं निरुपमः प्रेमानुबन्धोत्सवः ॥ १२८॥ यथा वा विदग्धमाधवे- मयां ते निर्बन्धान्मुरजयिनि रागः परिहृतो मयि स्त्िग्धे किंतु प्रथय परमाशीस्ततिमिमाम् ।

हितसंचयैर्गुरुजनादिनिबन्धनभयकष्टसमूहैरपि रसमास्वादविशेषमेव तेन न तु कमप्युद्वेगमित्यर्थः । तेऽत्याहितसंचया यदि मिथो वर्त्मने परस्परवर्त्म प्रापयितुं भवन्तीति रागसामान्यलक्षणमुक्तम्। 'अत्याहितं महाभीतिः' इतमरः । ऋद्धि संचिनुते इति सदा कान्तिवृद्धिरुक्ता ॥ १२८ ॥ उक्तोदाहरणं माजिष्टरागस्य लक्षणाकारभभूदित्यपरितुष्यन्नाह-यथावेति। पूर्वरागे प्रेम परीक्षमाणां श्रीकृष्णप्राप््ययोग्यते युक्ति ब्रुवाणां पौर्णमासीं प्रति श्रीराधा प्राह-मयेति। ते तव निर्बन्धादिति। तेन स्वतस्तत्त्यागेSसामर्थ्य द्योतयति। मुरजयिनि श्रीकृष्णे रागस्तत्प्राप्याशालक्षण: परिहृतस्त्यक्तः। किंतु हे स्निग्धे मयि स्नेहवति, आशीस्तति प्रथमं महातापस्यास्तवाशीस्ततिरवश्यं फलिष्यत्येवेति भावः। ननु ं चिरजीविनी भूया इत्येच ममाशीस्ततिस्तत्राह-इमां वक्ष्यभाणप्रकारामेव नतु तदन्यथाभूतां कामपीत्यर्थः । तयैव शिथिलिते मदाशाबन्धे ततो विच्युता मत्प्राणा इमां तनुं संप्रति त्यजन्त्येव न पुनस्तान् लदाशीस्ततिरपि रक्षितुं प्रभवतीति भावः । ननु

नात्र ईषदपीति व्यज्यते तच्चेपत्त्वमत्र नातिव्यक्तमेव। तदुक्तं न ज्ञायते यथे- त्यादि। ततो नाकम्पते इति कौसुम्भरागवदस्य कम्पसंभावनापि न जायत इत्यर्थः। तत्र दृष्टान्तपक्षे द्वूयोस्तयो रागयोलोंके तद्रूपता दष्टैरसंभावनासंभव विषयत्वम्। दार्ष्टान्तिके पूर्वत्र तटस्थताया, उत्तरत्र साधीनभर्तृकताया व्यक्ते- रिति भावः । 'अत्याहितं महाभीतिः कर्मजीवानपेक्षि च' इत्यमरः । ते अत्या- हितसंज्ञया मिथो वर्त्मने वर्त्म प्रापयितुं चेत्तदा तैरपि समास्ादं सूते। 'ते चेन्मिथो लम्भकाः' इति वा पाठः ॥ १२८ ॥ मया ते निर्बन्धादिति। पूर्वरागे पौर्णमासीं प्रति श्रीराधावचनम् । तत्र तन्निवारणमयात्यन्तभीतिभी

Page 476

उज्ज्वलनीलमणिः । १.५३

मुखामोदोद्गारग्रहिलमतिरद्यैव हि यतः प्रदोषारम्भे स्यां विमलवनमालामधुकरी ॥ १२९॥ पूर्वपूर्वस्तु यो भावः सोमाभादौ स राजते। तथा भीष्मसुतादौ च श्रीहरेर्महिषीगणे ॥ १३०॥

यदि वं जीविष्यस्येव त्ह किं ममाशीस्तत्येत्यत आह-मुखेत्यादि। यदाशी- खतेर्हेतोर्वनमालासंबन्धिनी मधुकरी अहं स्यां मधुकर्या वनमालाप्राप्तियोग्यता अस्तेव। 'जरत्यास्तं नप्ती स तु कमलया लालितपदः' इतिवत्। तत्रापि लया प्राह्ययोग्यता वक्तुमशक्येते भावः। ननु तत्र ते को लाभस्तत्राह-मुखामोद- स्यान्तरीणस्य बाह्यस्य च जृम्भादिना य उद्गारस्तत्र ग्रहिला मतिर्यस्याः सा। एत- जन्मना तिर्यग्जन्मना वा मम तन्नैव वाञ्छेति भावः। अद्यैवेति। कालविल- म्बस्यासह्यलात्। तन्रापि प्रदोषारम्भ एव संप्रति सायंकाले एतद्ेहं त्यक्लैवेति भावः। अत एवाशिषां ततिमिति तत्सिद्धर्थ पुनः पुनराशीस्त्या कर्तव्येति भावः। प्रथयेति। एषा ख्यातिस्तव च मम च भवलििति भावः । तत्राहार्यतं पौर्णमास्यास्तादृशवाक्योत्थदैन्यसंचारिप्राबल्येनापि रागस्याप्यनपगमात्। अनन्य- सापेक्षतं तु स्पष्टमेव। कान्त्या वृद्धिस्तदर्थ तिर्यग्जन्मप्रार्थनान्मयि स्तन्निग्धे किंतु प्रथयेत्यादिवाक्यस्य सोल्लासत्वात् देहत्यागदुःखमपि सुखमिति रागसामान्यलक्ष- णम् ॥ १२९ ॥ स्नेहादिरागान्तानां द्विविधलेनोक्तानां प्रेमभेदानामाश्रयं व्यव- स्थया निश्चिनोति। पूर्वपूर्वः धृतस्नेहोदात्तमै त्र्यसुमैत्र्यनीलिमरागरूपः। सोमाभा चन्द्रावली तन्नादिशब्दाच्न्द्रावल्यां नीलीरागः, तत्सुहृदि भद्रायां श्याभारागः । एवं तन्र पूर्वत्र स्नेहे प्रलये च सन्नपि भेदसूक्ष्मलान्न गणितः । किं च समर्थ-

रागप्रकारश्वात्यन्तमेव जातः । अद्यैव विमलवनमालामधुकरी स्यामिति खदेहत्यागोऽपि सुखाय मतः। पूर्वत एवेदृशतादनन्यसापेक्षता च ।। १२९ ॥। पुनर्घृतस्नेहादीन् संग्रहेण व्यवस्थापयति-पूर्वपूर्व इति। घृतस्नेह उदात्तो मैत्रं सुमैत्रं नीलिमेत्यादिः पूर्वपूर्वः । सोमभा चन्द्रावली मधुस्नेहो ललितः सख्य सुसख्यं रक्तिमेत्यादिरुत्तरोत्तरः । भावान्तराणि अन्ये भावाः । ते चैकचला- रिंशत्। तत्र स्थायी मधुराख्यः । व्यभिचारिणस्त्रयस्त्रिशत्, हासादयः सप्तेति

Page 477

४५४ काव्यमाला।

य उत्तरोत्तरो दिव्यो राधिकादौ स दीव्यति। तथा श्रीसत्यभामायां लक्ष्मणायामपि क्कचित् ॥१३१।। इत्थं भेदेन भावानां सर्वगोकुलसुभ्रुवाम्। आत्मपक्षविपक्षादिभेदा: पूर्वमुदीरिताः ॥१३२।। या भावान्तरसंबन्धाज्जायन्ते विविधा भिदा:। अपरा अपि भावानां ज्ञेयास्ताः प्रज्ञया बुधैः॥१३३॥ अथानुराग :- सदानुभूतमपि यः कुर्यान्नवनवं प्रियम्। रागो भवन्नवनवः सोऽनुराग इतीर्यते ॥ १३४ ॥

रतिमतीष्विव समञ्जसमतिष्वपि स स यथोचितं भवतीत्याह-तथा भीष्म- सुतेति। उत्तरोत्तरो मधुस्न्नेह-ललित-सख्य-सुसख्य-रक्तिमरागरूपः । तत्र श्रीराधाललितादी माजिष्ठरागः, तत्सुहृदि श्यामलायां कुसुम्भरागः, लक्ष्मणायां श्यामलास्थानीयायाम्। अत्र वृतमधुनोरुदात्तललितयोरमैत्र्यसख्ययोः सुमैत्र्य- सुसख्ययोर्नीलिमरक्तित्रोः पूर्वपूर्वश्चन्द्रावल्यादौ, उत्तरस्तत्सुहृदि भद्रादौ। एवं रक्तिमनि कुसुम्भमाज्जिष्ठयोरुत्तरोत्तर इत्युक्तलात् । पूर्वः श्यामलादौ, उत्तर: श्रीराधादाविति व्याख्येयम्। भावानां घृतस्रेहादीनां पूर्व खपक्षविपक्षादिमेदप्रक- रणे । न केवलं 'स्यात्सुपक्षः सुहृत्पक्षस्तटस्थः प्रतिपक्षकः ।' इति पूर्वोक्ताश्- तस्त्र एव भेदा गणनीयाः किं तु ग्रन्थविस्तरभयादनुक्ता अपि बह्वयोऽपरा भिदाः सन्तीत्याह-या इति । अयमर्थः-यथा शुक्कनीलरक्तपीतानां चतुर्णा वर्णकानां मिश्रणभेदेनानन्ता एव वर्णा भवन्ति एवं घृतस्नेहमघुस्नहयोर्भावयोः परस्परमर्धपादैकपादसार्धपादादिमिश्रणभेदेन तथैव नील्यादिरागानामप्यर्धपादा- दिक्रमेण परस्परमिश्रणेन विविधनामरूपा एव भावा: स्थायिन: संभवन्ति तद्वत्यो व्रजसुन्नुवोऽपि विविधभेदा भवन्तीति ॥१३०॥१३१॥१३२॥१३३॥ प्रियं प्रीतिविषयं जनं नायकरूपं वा सदा अनुभूतमपि आस्वादितचररूपगुणमाधुर्यभपि नवनवमनुभूतपूर्वमिव यो राग: पूर्वोक्तलक्षणोऽत्र तु तृष्णाविशेषलेन परिणतो नवंनवमनुभूतचरमिव नित्यनवास्वाद्यमानमेव कुर्यात् स स्वयमपि नवनवो भवन् जेयाः । नवनवत्वं मुहुरननुभूतपूर्वलम् ॥१३० ॥१३१॥१३२॥१३३॥

Page 478

उज्ज्वलनीलमणिः । ५५

यथा दानकेलिकौमुद्याम्- प्रपन्न: पन्थानं हरिरसकृदस्मन्नयनयो- रपूर्वोडयं पूर्व क्चिदपि न दृष्टो मधुरिमा। प्रतीकेऽप्येकस्य स्फुरति मुहुरङ्गस्य सखि या श्रियस्तस्याः पातुं लवमपि समर्था न दृगियम् ॥ १३५॥ यथा वा- कोऽयं कृष्ण इति व्युदस्यति धृति यस्तन्वि कर्ण विशन् रागान्धे किमिदं सदैव भवती तस्योरसि क्रीडति।

राग एवानुराग: स्यात्। अन्रानुभूतस्यापि प्रियस्य यदननुभूततवं तत् क्वचिदे- कांशेन, क्वचित्सर्वाशेनाप्युदाहरणद्वयाज्ज्ञेयम् ॥ १३४ ॥ गोवर्घने दानघट्टे तिष्ठन्तं श्रीकृष्णं दूरादालोकयन्ती श्रीराधा वृन्दां प्रत्याह-प्रपन्नः प्राप्तः। असकृद्धहुवारमेव। किंत्स्यायमद्यतनो मधुरिमा अपूर्वोऽद्भुतः । मधुरिमाणमेव विवृणोति-एकस्याङ्गस्य हस्तपादादेः प्रतीक एकस्मिन्नप्यवयवेऽड्ल्यादौ या श्रीः शोभा स्फुरति तस्याः श्रियो लवमपि एकं लेशमपि। 'अज्ञं प्रतीकोऽवय- वोऽपघनः' इत्यमरः । अन्र तदीयमधुरिम्णो मुहुरनुभूतस्याप्यननुभूतत्वभानस- मर्पको योऽतितृष्णाविशेषः सोऽयमनुरागः ॥१३५॥ एकांशेनानुरागमुक्ला सर्वाशेनापि तं वक्तुमाह-यथा वेति। कदाचित् कृष्णकथोपकरमेऽत्युत्कण्ठा- वती श्रीराधा अनुरागनाम्रः स्थायिनो हृदि सम्यगुदये सति ललितया सह संल- पति-कोडयं कृष्ण इति। कृष्ण इत्यक्षरद्वयमयी यस्य संज्ञा सोडयं क इति प्रश्नः। ननु यः स भवतु किं ते प्रश्नेनेत्यत आह-यः कर्णमेकमेव न च द्वौ ।। १३४॥। प्रतीकेऽवयवे। एकदेश इति यावत् ॥ १३५ ॥ अत्र तात्कालिकी- मपि कृष्णसंगतिमुत्कण्ठया विस्मृतां विधाय पृच्छन्त्याः सख्याः सख्या सह प्रश्नोत्तरमयं वचनमुदाहरणमाह-कोऽयमिति। तन्र कोऽयमिति, रागान्ध इति, हास्यमिति, मोहिते इति, सत्यं सत्यमिति चारभ्य तत्तद्वचनं ज्ञेयम्। तत्र १. 'एतन्नयनयोः' इति क. पुस्तके पाठ :.

Page 479

४५६ काव्यमाला।

हास्यं मा कुरु मोहिते त्वमधुना न्यस्तास्य हस्ते मया सत्यं सत्यमसौ दगङ्गनमगादद्यैव विद्युन्निम: ॥ १३६।। परस्परवशीभावः प्रेमवैचित्र्यकं तथा। अप्राणिन्यपि जन्माश्यै लालसाभर उन्नतः ॥ १३७॥

क्णौं विशन् प्रविशनेन न तु प्रविश्य मम वृति विशेषेणोदस्यति सामस्तेनैव लुम्पति। न जाने नेत्रं प्रविशन् मे किं करिष्यत्यतोऽयं ज्ञातुमर्ह इति ध्वनिः। तस्मात् सकाशात् खीयकुलधर्मस्य रक्षणे युक्तिश्चिन्तनीयेत्यनुध्वनिः । ललि- ताह-हे रागेणात्युत्कण्ठयान्धे, किमिदं लमिदं किं ब्रूषे इत्यर्थः। तं किं लं न परिचिनोषीति भावः। ननु सत्यं वच्मि नाहं परिचिनोमीत्यत आह- सदेत्यादि। श्रीराधा प्राह-हास्यं मा कुर्विति। असंभववचनस्य हास्य एव पर्याप्तरिति भावः । ललिताह-हे मोहिते इति । अतितृष्णयेव लमधुना लप्तज्ञानीकृतेति भावः । ननु तर्हि लमेव स्मारयेत्यत आह-त्वमित्यादि। अधुनेति। कालविलम्बोऽपि न जात इति भावः । तन्नापि मयैव नत्वन्यजन- द्वारा। तन्राप्यस्य हस्त एवेति संभोगादिकमपि कारितमिति भावः । श्रीराधा ग्राह-सत्यं सत्यमिति। लया साधु स्मारितास्मीति भावः । ननु तर्हि कथं न परिचिनोमित्यपलपसि। तत्राह-अद्यैव मज्जन्ममध्य इति भावः। तन्नापि विद्युन्निभोऽतिसूक्ष्मक्षणमात्रमेव। तन्रापि दशोरङ्गणमेवागात् नदु सम्यगन्तरमिति कथं सम्यक् परिचेतुं प्रभवामीति भावः ॥ १३६ ॥ अनुरागस्यानुभावा- नाह-परस्परवशीभाव इति। प्रेमादिषु नायकस्यैव वशीभावः स्पष्टो भवेत्, नायिकायास्तु लज्जावहित्थादिभिरवशीभाव एवं तत्र तत्र सुरसोऽपि स एवोच्यते, अनुरागे तु तृष्णाधिक्यादवहित्थागवासूयादेरवकाशाभावाननायिकाया अपि स्पष्ट एव वशीभाव इत्यत्रैव परस्परवशीभावो व्यक्तो भवेदुज्वलरसे । दास्यादिरसे वहित्थादि संचारिभावाभावात् प्रेमारम्भमारभ्यैव परस्परवशीभावो भवेत्। यदुक्तम्-साधवो हृदयं मह्यं साधूनां हृदयं लहम्। मदन्यं ते न जानन्ति नाहं तेभ्यो मनागपि ।' इति। भगवतो भक्तवश्यता भक्तानामपि भगव- किमिदमिति किमिदं ब्रूषे इत्यर्थः । अधुना संप्रत्येव न्यस्ता आनीय समर्पिता ॥ १३६ ॥ परस्परवशीभावः प्रेमादिषु सन्नप्यत्र विलक्षणो ज्ञेयः। वैलक्षण्यं च

Page 480

उज््वलनी लमणिः । ४५७

विप्रलम्भेऽस्य विस्फूर्तिरित्याद्या: स्युरिह क्रियाः। तत्र परस्परवशीभावो यथा- समारम्भं पारस्परिकविजयाय प्रथयतो- रपूर्वा केयं वामघदमनसंरम्भलहरी। मनोहस्ती बद्धस्तव यदनया रागनिगडै- स्त्वयाप्यस्याः प्रेमोत्सवनवगुणैश्चितहरिणः ॥ १३८॥ प्रेमवैचित्र्यसंज्ञस्तु विग्रलम्भः स वक्ष्यते॥ १३९॥

द्वश्यता सर्वशास्त्रप्रसिद्धैव ॥। १३७॥ परस्परमन्विष्यतोः श्रीराधाकृष्णयोरत्युत्क- णठया कस्यांचित् कुञ्जप्रतोल्यां मिलितयोरानन्दधारास्पितयोरुदितमद्भुतमाधुयमा- खादयन्ती तत्रैवाकस्मादायाता कुन्दलता सविस्मयानन्दमाह-समारम्भ- मिति। पारस्परिकः परस्परसंबन्धी यो विजयस्तस्मै परस्परं विजेतुं हस्तवशी- कर्तुमिति यावत्। सम्यगारम्भं प्रथयतोर्लोकविख्यातमपि कुर्वतोरत्यासक्तिवशा- न्नापि लज्जमानयोरिति भावः। वां युवयोः संरम्भलहरी दर्शनस्पर्शनचुम्बनादिषु अत्यौत्सुक्यवशादावेशपरम्परा केयमपूर्वा। पूर्वमेवं न दृष्टासीत् संप्रति केयं नवनवायमानेति भावः । यतस्तव मनोहस्ती अनया बद्ध इति श्रीकृष्णमनसो- सितिलं बहुवल्लभतया बहुकोटिगामितया दुर्वारत्ांशेन श्रीराधाचित्तस्य हरिणलं श्रीकृष्णभाधुर्यनवपल्लवलोभितवांशेन। उभयत्रैव बन्धनसाधनमनुराग एव रागा एव निगडास्तैरिति रागाणां बहुलमनुराग एव तथा प्रेम्णो य उत्सवोऽतिवितततं तेन नवा नवीनलेन भासमाना गुणास्तैरित्यर्थतोऽनुराग एव ॥ १३८॥ आत्मा- नमकृतार्थ मन्यमाना श्रीराधा ललितामाह-वेणुषु वेणुजातिषु जनुर्जन्म वरयि- तुमिति। 'वर ईप्सायाम्' चुराद्यदन्तः । हे क्षामोदरि कृशोदरीति तव वा मम परस्परनवनवायमानवशीभावलम् ॥। १३७॥ तथाह्युदाहरणम्-समारम्भ- मिति। पारस्परिकविजयाय समारम्भं प्रथयतोर्वा युवयोः केयमपूर्वा संरम्भ- लहरी उत्साहपरम्परा तां न बुध्याम इत्यर्थः । अबोधने च हेतुं विवृणोति- मन इति। अनया तव मनोहस्ती बद्ध एव। तयाप्यस्याश्रित्तहरिणो बद्ध: । तरहिं किमर्थ पुनःपुनरुद्यम इत्यर्थः। तस्मान्नवनवतयैव युवयोर्मिथ: स्फूर्तिरिति

Page 481

१५८ काव्यमाला।

अप्राणिन्यपि जन्मलालसाभरो यथा दानकेलिकौमुद्याम्- तपस्याम: क्षामोदरि वरयितुं वेणुषु जनु- र्वरेण्यं मन्येथाः सखि तदखिलानां सुजनुषाम्। तपस्तोमेनोच्चैर्यदियमुररीकृत्य मुरली मुरारातेर्बिम्बाधरमधुरिमाणं रसयति॥ १४० ॥ अथ विप्रलम्भे विस्फूर्तिर्यथा- न्रूयास्त्वं मथुराध्वनीन मथुरानाथं तमित्युच्चकै: संदेशं ब्रजसुन्दरी कमपि ते काचिन्मया प्राहिणोत्।

वा सौन्दर्यवता मनुष्यजन्मनानेन किं कार्य यदि कृष्णो न लभ्यत इति भावः। ननु देवादिजन्म हिला किं तिर्यग्जन्म प्रार्थयसे। तत्राह-वरेण्यमित्यादि। अत्र हेतुस्तपस्तोमेनेत्यादि। इयं मुरली यद्वेणुषु जनुरुररीकृत्याज्गीकृत्य। अन्र श्रीराघायाः प्रकरणवशाद्रात्रिंदिवं तेन सह दिव्यलीलया दीव्यन्त्या अपि अति- तर्षभरात्तत्तदनुभूतलेन भावनसमर्पेकोऽनुराग एव ज्ञेयः ॥ १३९॥ विस्कूर्ति- र्विशिष्टा स्फूर्तिः । साक्षाद्दर्शनाकारेत्यर्थः । स्फूर्तिसामान्यस्य रत्यादावपि दृष्टे: । यदुक्कतं रतिमात्रवता बिल्वमङ्गलेनापि-'हस्तमुत्किषिप्य यातोऽसि बलात्कृष्ण किम- द्ुतम्।' इति बिल्वमङ्गलस्य रतिमत्त्वं पूर्वग्रन्थे साधकभक्तलक्षणे 'उत्पन्नरतय; सम्यङनैर्विन्न्यमनुपागताः । बिल्वमङ्गलतुल्या ये साधकास्ते प्रकीर्तिताः ॥I' इत्य- त्रोक्तम्। तथा कर्णामृतेऽपि 'हा हन्त हस्तपथदूरमहो किमेतदाशाकिशोरमय- मम्ब जगन्रयं मे ।' इति स्फूर्तिरेव ॥। १४० ॥ मथुरास्थं श्रीकृष्णं पान्थद्वारा ललिता संदिशति-ब्रूया इति। मया द्वारभूतेन ते तुभ्यं कमपि संदेशं ब्रज-

भावः । अत्र हस्तित्वेन तस्य मनसो दुर्वशताम्, हरिणत्वेन तस्यास्तु सुवशतां व्यज्य तस्मिन्नुपालम्भांशोऽपि व्यञ्जितः ॥१३८॥ तपस्याम इति। अत्र च

॥ १४० ॥ ब्रूयास्त्वमिति। अन्र च नवनवत्वं व्यक्तम्। प्रतिनवतास्फूर्तेः । किं च सोडयं संदेशस्तत्पर्यन्तगमनासमर्थेऽप्ययोग्येऽपि पथिके यत्कृतिस्तेन तस्यां

Page 482

उज्ज्वलनीलमणिः । ४५९:

तत्र क्ष्मापतिपत्तने यदि गतः स्वच्छन्द गच्छाधुना किं क्विष्टामपि विस्फुरन् दिशि दिशि क्विश्नासि हा मे सरीम् १४१ अथ भाव :- अनुराग: खसंवेद्यदशां प्राप्य प्रकाशित: ।

सुन्दरी प्राहिणोदिति तं मथुरानाथं ब्रूयाः। ननु कः संदेशस्त्राह-तत्रेत्यादि। क्िश्रासीति। अयं भाव :- वत्स्फूरतो सत्यामनया आलिङ्गनचुम्बनादिषु लां साक्षाद्वर्तिनं मला प्रथममतिहृष्यते क्षणानन्तरं स्फूर्तिभज्के सति दुःखसमुद्रे निम- जते। अतिध्वान्तोदर्कात् विद्युत्प्रकाशात् केवलान्धकारो वरमिव स्कूर्तिमद्विरहात् वरं केवलविरहो नातिक्लेशद इति ॥ १४१॥ अनुरागः सवेनैचानुरागेणैव संवेद्या संवेदनारहा या दशा तां प्राप्य प्रकाशितः प्रकाशयुक्तः सन्नत एवं यावदाश्रय वृत्ति: स्यात्तदा भाव इत्यभिधीयत इत्यन्वयः । तेन च प्रकाशाभावे यावदाश्रय- वृत्तित्वाभावस्तदा च खसंवेद्यलेऽप्यनुराग एव नतु भाव इत्यर्थ आयाति। ततश् दशाशब्देनानुरागस्य सर्वोपरितन्येवावस्थोच्यते तत्रैव प्रकाशस्यावश्यक- लात। 'आरुह्य परमां काष्ठां प्रेमा चिद्दीपदीपनः। हृदयं द्रावयन्नेष स्नेह इत्य- भिधीयते ।I' इतिवत्। दशामात्रस्योक्तत्वेऽनुरागस्य सर्वा एव दशाः खसंवेद्या एवेति कोऽनुराग: को वा महाभाव इत्यनयोर्भेद एव न स्यात् रत्यादीनां महा- भावानां सर्वेषामेव खसंवेद्यलात्।। ननु तह्यलं खसंवेद्यपदेनोपन्यसतेन; अनुरागो निजोत्कर्षदशां प्राप्य इत्युच्यताम्। सत्यम्। भावानामेषां स्वरूपन्नयं प्रथमं खसंवेदरूपत्वं ह्वादांशेन, ततः श्रीकृष्णादिकर्मकसंवेदनरूपत्वं संविदंशेन, ततः संवेद्यरूपत्वं तदुभयांशेन । यदुक्तम्-'वस्तुतः सयमास्वादसरूपैव रतिस्लि- यम्। कृष्णादिकर्मका स्वाद हेतुत्वं च प्रपद्यते ।' इति। ततश्चानुरागः खसंवेद्य- दशां प्राप्येत्युक्तेऽनुरागदशायाः भावलकरणलकर्मकत्वानां प्राप्त सत्यामनुरागो- त्कर्षोडयं श्रीकृष्णानुभवरूप इति प्रथमं सुखम्, ततश्च प्रेमादिभिरनुभूतचरोऽपि श्रीकृष्णः संप्रत्यनुरागोत्कर्षेणानुभूयत इति द्वितीयं सुखम्, ततश्च श्रीकृष्णानु- भवनोऽयमनुरागोत्कर्षोऽनुभूयत इति तृतीयं सुखमिति सुखन्नयं प्रापयेत्वर्थ विचारराहित्यमेव सूचितम्। सखीवैयम्यस्य स्वस्मिन् स्पर्शात्। लक्षणं लाद्यग्रहणा- दिदमपि गम्यम्। क्विश्नासि व्यथयसि ॥१४१॥ अनुराग इति। प्रागुक्तोऽनुरागो

Page 483

४६० काव्यमाला।

यावदाश्रयवृत्तिश्चेद्भाव इत्यभिधीयते॥ १४२॥

आयाति। किंच 'रसो वै सः' इति श्रुत्यनन्तरं 'सैषानन्दस्य सीमा भवति' इति श्रुतौ यथानन्दस्य सीमा अनुरागोत्कर्ष एव तत्र यथा शीतोष्णादिपदार्थेषु मध्ये शैत्याद्युत्कर्षसीमवन्तश्चन्द्रसूर्यादयः सवसमीपदूरस्थपदार्थानपि सगुणाश्रयान् शै- त्यादिमतः कुर्वन्ति तथैवायमनुरागोत्कर्षोऽपि श्रीराधाहृदये सम्यगुदितः श्रीकृष्ण- प्रीतिमज्जनमात्रमेव प्रेमानन्दमयीकरोतीत्याह-यावदिति। यावन्त एवाश्रयाः साधकभक्ताः सिद्धभक्ताश्च तावत्सु वृत्तियस्येति समासे तावत्पदस्यान्तर्भावः। यदुक्तं भाषावृत्तौ-'दभा उपसिक्त ओदनो दध्योदन इतिवत् क्वचिदन्तर्भावः' इति। अन्र वृत्तिशब्देन सत्ता नोच्यते सर्वेषामेव महाभावलवापत्तेः। किंतु वृत्तिर्व्यापारः क्रियेति यावत्। अत एव वक्ष्यते-आसन्नजनताहृद्विलोडनमिति

यावदाश्रयवृत्तिश्चेत्। तर्हि स्वसंवेद्यदशां प्राप्य प्रकाशितो भाव इत्यभिधीयत इत्यन्वयः । भावशब्दस्य तत्रैव वृत्तिः परा काष्ठा। भगवच्छन्दस्य श्रीकृष्ण इवेति भाव: । महाभावशब्दस्य तु क्वचित्तत्र प्रयोग: स्वयं भगवच्छब्दस्येव ज्ञेयः। अयमर्थः । यावदाश्रयमिति इयत्तायामव्ययीभावः। यावत्पात्रं ब्राह्मणाना- मन्न्रयखेतिवत्। आश्रयश्चात्र राग एव। तमाश्रित्यैवानुरागस्तादृशत्वं प्राप्नोति। 'नवरागहिड्डुलभरैश्वित्राय खयमन्वरज्जयदित्युदाहरणेऽति तथा मंस्यते। वक्ष्यते च-रागानुरागतामादौ स्नहः प्राप्यैव सत्रम्। मानत्वं प्रणयत्वं च क्वचित्प- श्चात्प्रपद्यते।' इति। अत एवात्र शास्त्रेषु श्रूयते राधिकादिषु पूर्वरागप्रसज्जेऽपि प्रकटं रागलक्षणम् । ततश्र यावदाश्रयस्येयत्तापन्ना वृत्तिर्यस्येति अव्ययीभाव- गर्भबहुव्रीहित्वे यावती रागस्येयत्ता संभवति तावतीं तामापन्ना वृत्तिर्वर्तनं यस्येति गम्यते। स च खसंवेद्यदशां स्स्य भावोन्मुखताप्राप्तानुरागवतस्तत्प्रेयसीजन- विशेषस्यैव न तु केवलानुरागवतः खसंवेद्यादशां तां प्राप्य प्रकाशितो यथाव- सरमुद्दीप्ादिसात्त्विकैः प्रकाशमानश्चेद्भाव इत्यभिधीयते इति। अयं भावः । राग: खल 'यदुःखमधिकं चित्ते सुखलेनैव व्यज्यते। यतस्तु प्रणयोत्कर्षात् स राग इति कथ्यते।' इत्युक्तलक्षणः । दुःखस्य परमकाष्ठा कुलवधूनां स्वयमपि परममर्यादानां खजनार्यपथाभ्यां भ्रंश एव नाम्यादिर्न च मरणम्। ततश्र तत्कारितया प्रतीतोऽपि श्रीकृष्णसंबन्धः सुखाय कल्पते। चेत्तह्वैव रागस्य परमे-

Page 484

उज्ज्वलनीलमणिः । ४६१

राधाया भवतश्च चित्तजतुनी खेदैर्विलाप्य क्रमा-

चित्राय स्वयमम्बरं जयदिह ब्रह्माण्डहम्योदरे भूयोभिर्नवरागहिङ्गुलभरैः शृङ्गारकारु: कृती ॥ १४३ ॥

ब्रह्माण्डक्षोभकारितमिति च। सा च वृत्तियथोचितभेव ज्ञया वस्तन्तपदोपन्या- सात्। यावन्तो यत्प्रमाणाश्रयास्तेषु तावती तावत्प्रमाणैव वृत्तिर्यस्येति व्युत्पत्तेर्यथा चन्द्र: सर्वमेव जगद् यतू सवकिरणक्षेपैः शीतलीकरोति तत्तारतम्येनैवेति तथैव लक्षितो योगवियोगयोमहाभावः। यदुक्तं प्रेमसंपुटे-'आह्वादयन्नमृतरश्मिरिव त्रिलोकीं संतापयन् प्रबलसूर्य इवावभाति।' इति ॥ १४२॥ क्कापि निकुज्जे परस्प- रमाधुर्यास्वादनिमन्नयोरुद्दीप्तसात्त्विकभावालंकृतयो: श्रीराधाकृष्णयोर्महाभावमाधु- रीमनुमोदयन्ती वृन्दा श्रीकृष्णमाह-तत्र सयं भगवति पुरुषाद्यवताराणां सर्वेषां लक्षणमिव महाभावे रत्यादिभावानां सर्वेषां चिह्नं च सूचयति-राधाया इति। श्ृङ्गाररस एव कारुः शिल्पी कृतौ सवीयकमणि पण्डित इति रतिर्ध्वनिता। राधाया भवतश्वेति सूचितेनौपपलयेन लोकदूयनिन्दानवेक्षणात् प्रेमा व्यज्ञितः। चित्ते एव जतुनी लाक्षे कर्मभूतैः खेदैः प्रेमोष्मभिः, पक्षेऽमनिसंतापैर्विलाप्य द्रवीकृत्य इति स्नेहः । युञ्जन्नेकीभावेन मेलयन्निति प्रणयः क्रमात् शनैः शनैरिति वाम्यस्य सूचि- बेलान्मानः। निर्धूतभेदभ्रमं यथा स्यात्तथा युञ्जन्निति सुसख्यं द्योतितम्। हे अद्रीणां गोवर्धनादीनां निकुज्जेषु कुजरपते महामत्तगजेन्द्रलीलेति सुकुमारचरणयो- रद्रिगह्वरकुज्जादिषु परस्परमिलनार्थ रात्रिंदिवमभिसरतोर्यूनो: कष्टमपि सुखमेवेति रागः नवो नित्यनवलन भासमानो राग एव हिङ्डलभरस्तैरित्यनुरागः । भूयो-

यत्ता। ततश्च तामाश्ित्यैव प्रवृत्तोऽनुरागो भावाय कल्पते। सा चारम्भत एव ब्रजदेवीष्वेव दृश्यते, पट्टमहिषीषु तु संभावयितुमपि न शक्यते। आरम्भत एवेति व्यञ्जयितुं नवरागहिड्ुलभरैरित्यत्र नवशब्दो दास्यते। तदेवमेव ता एवोहिश्योद्धवः सचमत्कारमाह-'या दुस्त्यजं खजनमार्यपथं च हिला' इति। ईदृशोक्त्या च यद्यपि तासां त्यागो न संभवति तथापि कृत इति कुलाङ्गनात्वं परममर्यादात्वं च दर्शितम् ॥। १४२ ॥ एतत्सर्वानन्तरमस्य भावस्योदाहरण- माह-राधाया भवतश्चेति। खेदैस्तदाख्यसात्त्विकविशेषवृत्तिभिः। अन्तः

Page 485

६२ काव्यमाला।

मुकुन्दमहिषीवृन्दैरप्यसावतिदुर्लभः। व्रजदेव्येकसंवेद्यो महाभावाख्ययोच्यते ॥ १४४॥

मिस्तैश् बहुतरैरिति महाभावः। नवो रागो रक्तिमा येषां तैर्हिङ्गुलभरैरिति विश्लेषश्व । चित्तजतुनी अन्वरजयदिति हिङ्गुलारक्तस्य जतुनोऽन्तर्बहिर्हिङ्डुला- कारतमेवेत्युभयचित्तयोर्म हाभावाकारतमनुरागोत्कर्षस्य स्वसंवेद्यत्वं च ब्रह्माण्ड़- हम्योदरे चित्राय चित्रं कर्तुम्, पक्षे ब्रह्माण्डादिषु यानि हर्म्याणि धनिना वासास्तदुदरे तद्वर्तिधनिजनहृदयेऽतिशयोत्त्या भक्तजनान्तःकरणेषु चित्राय चित्रं विस्मयं प्रापयितुं महाभावक्रियाक्षोभमनुभाव्येति भावः। एतेन याव- दाश्रयवृत्तिलमुक्तम्। एवमुत्तरत्राप्युदाहरणेषु महाभावचिह्वानि क्कचिङ्वयस्तानि क्वचित्समस्तानि गम्यमानानि च झञेयानि।। १४३ ॥ महिषीवृन्दै- रतिदुर्लभ इति । यद्यपि व्रजवर्तिनः प्रेमस्ेहाद्या अपि तैर्दुर्लभा एव तथापि जातिप्रमाणाभ्यां किंचिनन्यूनलेन समज्सरत्युचितास्ते नातिदुर्लेभान. अयं महाभावस्तु सर्वथवातिदुर्लभ एव यतो व्रजदेव्येकसंवेद्य इति। महि षीगणस्य तु समञ्जसरतिमत्त्वात् संभोगेच्छायाः सम्यकप्रेमरूपत्वाभावादा; रम्भतो जात्यैव प्रेमानन्दसर्वाशापरिपूर्तिः । तत्परिणामभूतोऽनुरागो नोत्क र्षसीमां प्राप्ोतीति न तासां महाभाव: संभवेत्। श्रीमज्जीवगोखामिचरणाश दुःखस्य परमा काष्ठा कुलवधूनां खयमपि परभसुमर्यादानां सवजनार्यादीनां खज- नार्यपथाभ्यां भ्रंश एव नाम्यादिन च मरणम्। ततश्च तत्कारितया प्रतीतोऽि श्रीकृष्णसंबन्धः सुखाय कलपते तह्येव रागस्य परमेयत्ता। ततश्व तामाश्रित प्रवृत्तोऽनुरागो भावाय कल्पते सा चारम्भत एव व्रजदेवीष्वेव दृश्यते पद्टमाहे, षीषु तु संभावयितुमपि न शक्यते। तदेवमेव ता उद्दिश्योद्धवः सचमतकार माह-'या दुस्त्यजं खजनमार्यपथं च हित्ेति' आह-यथा पूर्वोक्त लीलेत्या। गुणचतुष्टयं श्रीगोविन्दैकनिष्ठयैव तथैवं महाभावोऽयं व्रजदेव्यै कनिष्ठ इति महा

र्बहिर्द्रवीभावरूपाभिः, पक्षे मुहुरन्नितापैः। चित्रायाश्चर्याय, पक्षे चित्नलेखाय। अन्र परस्परमभिन्नचित्ततवात्तत्रान्यस्या अप्रवेशा खसंवेददशा दर्शिता। तदेव मुत्तरेष्वपि। १४३ ॥ ततश्च व्रजदेवीष्वेव महाभावोऽयं संभवतीत्याह- मुकुन्दमहिषीवृन्दैरपीत्येकेन॥। १४४॥ तन्महिमद्वारापि तदेव प्रतिपा

Page 486

उज्ज्वलनीलमणिः । ४६३

वरामृतस्वरूपश्रीः सवं स्वरूपं मनो नयेत्। स रूढश्वाधिरूढश्चेत्युच्यते द्विविधो बुधैः ॥१४५॥ तत्र रूढ :- उद्दीप्ता सान्विका यत्र स रूढ इति भण्यते।

भावाख्ययोच्यते। प्रेम्णः प्रथमावस्था हि भावो रत्यपरपर्यायः । सर्वोत्कर्षपरमा- वधिरूपावप्येष भावो विवेकेन ज्ञापनार्थ महाभावापरपर्याय इति। मत्स्योऽपि परमेश्वरस्तथा श्रीकृष्णः सयं भगवानपि परमेश्वर इतिवत्॥ वरामृतस्येव सवरू- पश्रीर्येस्य सः । लौकिकेषु खादनीयवस्तुषु मध्येऽमृतादधिकं परं नासति तथैव लौकिकेषु प्रेमविशेषेषु महाभावादिति भावः । मनः स्वं स्वरूपं नयेत् महाभावा- त्मकमेव मनः स्यात्। महाभावात् पार्थक्येन मनसो न स्थितिरित्यर्थः । वेनेन्द्रियाणां मनोवृत्तिरूपलाद्वजसुन्दरीणां मनआदिसर्वेन्द्रियाणां महाभाव- संपतात् तत्तव्व्यापारैः सर्वैरेव श्रीकृष्णस्यातिवश्यत्वं युक्तितिद्धमेव भवेत्, भहिषीणां तु संभोगेच्छायाः पार्थक्येनापि स्थितत्वात् सम्यक्प्रेमात्मक- से मनो न स्यात् कुतोऽस्य महाभावात्मकलशङ्केति ॥१४४॥१४५॥ सिदर्शिन्यो विमानचारिण्यः परस्परमाहु :- उन्मीलदिति। अनुरागिता मनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेSस्तिविवक्षायां भवन्ति मतुबा- ः॥' इति। दर्शनाद्भूमार्थकेन इति प्रत्ययो नानुरागभूमत्वं महाभाव एव।

पति-वरामृतेत्यर्घेन। वरामृतस्येव स्वरूपश्रीर्येस्य सोडयं महाप्रभादः । सरूपं मनो नयेदित्यनेन 'पत्यस्तु षोडशसहस्रमनङ्गबाणैरयेस्येन्द्रियं विमथितुं हकैन शेकुः।' इतिवद्ृत्तान्तरं निषिद्धम्। तदेवमस्य सर्वतोऽतिपरमाश्चर्यरूपतं रशतम्, अत्रैव च लक्षणस्य परा काष्ठा। यावदाश्रया वृत्तिरित्यस्य यावन्त श्रया द्रष्टारस्तावत्सु वृत्तिव्याप्तिर्यस्येत्यर्थे तावच्छन्दस्याध्याहारे कष्टापत्तिः त्। खसंवेद्यदशां प्राप्येति च विरुध्येत्। तङ्ष्रणां सर्वेषामपि तत्साम्यापत्तिः गदिति रतिमात्रस्यापि स्वसंवेद्यदशास्त्येवेति तस्योदयक्रमेणोत्कर्ष दर्शयति- रूढश्ेति ॥ १४५ ।। तत्र प्रथमावस्थारूपं रूढभावमाह-उद्दीता

१. 'कथ्यते' इति क-पुस्तके.

Page 487

४६४ काव्यमाला।

उन्मीलत्कलहंसगद्गदरवा कम्पातिविक्षोभतः संकीर्णा पृथुरोमहर्षदगतिर्बाष्पच्छटोद्गारिणी। जाड्योत्सेकपरिष्ठुता कुवलयोल्लासं मुहुर्बिभ्रती गोपीनामनुरागितासरिदियं रासे वितेने रसम्॥१४६ ॥ निमेषासहतासन्नजनताहृद्विलोडनम्॥ १४७ ॥

सरिन्नदी रसं जलं शद्गारादिकं च श्लेषेणासवादं च वितेने। कीदशी। उन्मील- दित्यादि। सरित्पक्षे कलहंसानाम्, भावपक्षे कलहंसानामिव। कं जलं तत्पा तिनो ये वयः पक्षिणस्तत्कृतक्षोभतः, पक्षे कम्पश्चातिविक्षोभश्च ताभ्यां पृथुरोम्णां मत्स्यानां हर्षदा गतिः प्रवाहो यस्याः सा, पक्षे पृथुं महान्तं रोमहर्ष ददाति गतिश्वेष्टा यस्याः सा। बाष्पच्छटावेगाधिक्यादूष्मलेशः, हर्षाश्रूणां कान्तिश्च तदु-, द्वारिणी। जाख्यं शैत्यम्, पक्षे जाड्यभावोत्थः स्म्भ:। कुवलयं नीलोत्पलं भूमण्डलं च । अत्र सरिद्रूपकेण भावानां प्रवाहरूपलमुद्रेकश्च ध्वनितः । महाम भावस्य सामान्यविशेषलक्षणानि एकस्मिन् पद्ये निर्देष्टमशक्यानीति तानि यथा संभवं गम्यमानानि ज्ञेयानि ॥ १४६ ॥ रूढभावस्याधिरूपभावस्यानुभावानेव वदंस्ताल्लक्षणं ज्ञापयति-निमेषेत्यादि। योगवियोगयोर्यथासंभवमुदाहरणेभ्यो

इति। उदाहरति-उन्मीलदिति। भावपक्षे कलहंसानामिव सरित्, पछ्चे तेषामेव ।। कम्पातीति। स्पष्टम् । पक्षे कम्पातिनो जलपातिनो ये वर्य पक्षिणस्तत्कृतक्षोभत इति। पृथुं महान्तं रोमहर्ष ददातीति पृथुरोभहर्षदा गति प्रकारो यस्याः सा। पक्षे पृथुरोमाणो मत्स्याश्च । बाष्पो हर्षाश्रुस्तस्य च्छत विक्षेपः । 'सटा छटा भिन्नघनेन' इति माघकाव्यात्। पक्षे पृथुरों महर्षदगतितादेव या बाष्पतुल्या च्छटा जलविक्षेपास्तदुद्गारिणी। जाड्ये स्तम्भ: पक्षे शैत्यम् । कुवलयं पृथ्वीमण्डलम्, पक्षे नीलोत्पलम्। अनुरागिता सरिदिति सरित्पदेन तदुद्वेकतासूचनात्तद्वाव एव प्रतिपादितः । ततश्च सामान्य लक्षणमप्यन्तर्भावनीयम् ॥ १४६ ॥ तदेवं सात्त्विकद्वारा रूढभावं प्रदर्श्यानुभावः द्वाराह-निमेषासहतेति। योगवियोगौ तत्तदुदाहरणे यथायथं ज्ञेयम् (ज्ञेयौ)

Page 488

उज्ज्वलनीलमणिः । ४६५

कल्पक्षणत्वं खिन्नत्वं तत्सौख्येऽप्यार्तिशङ्कया। मोहाद्यभावेऽप्यात्मादिसर्वविस्मरणं सदा ॥ १४८ ॥ क्षणस्य कल्पतेत्याद्या यत्र योगवियोगयोः। तत्र निमेषासहता यथा श्रीदशमे- गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।

जैयाः ॥ १४७॥ १४८ ॥ कुरुक्षेत्रयात्राप्राप्तानां व्रजदेवीनां श्रीकृष्णदर्शनानन्दं श्रीशुको वर्णयति-गोप्य इति। गोप्यः कृष्णमुपलभ्य खप्रेमानुरूपं तन्माधु- र्यमास्ाद्येत्यर्थः । दृग्भिर्दृग्द्वारैहदीकृतम्। दीर्घ आर्षः । हृदि आनीतमलं दृढं परिरभ्य तस्मिन् भावं महाभावम् । महाभावोत्थमानन्दमित्यर्थः । आपुः । कीदृशम्। नित्ययुजाम् एता वियोगिन्यो वयं तु नित्ययोगिन्य इत्यभिमानवत्यो याः पट्टमहिष्यस्तासामपि दुरापम्। यद्वा तद्भावं तदैक्यम्। तस्मिन् लयमिति यावत्। ननु तर्हि ज्ञानिभ्य आसां को विशेषस्तेऽपि परमात्मनि श्रीकृष्णे लयं लभन्त इत्यत आह-नित्ययुजामारूढयोगिनां दुरापं तैर्दुर्लभम्। ज्ञानहेतुकाल्- यात्प्रेममूर्च्छोत्थलयमानन्दस्य जातिप्रमाणाभ्यामतिविशेष्यत इति श्रीपरिक्षित्स- भासदो ज्ञानिनः प्रति कटाक्षः । नतु का गोप्य इति तासामसाधारणं लक्षण- माह-यत्प्रेक्षणे यस्यावलोके दशिषु पक्ष्मकृतं ब्रह्माणं शपन्तीत्यतिसूक्ष्मदुर्लक्ष्य- । १४७ ॥। १४८ ॥ नन्वनुरागे वैचित्त्यविप्रलम्भो वर्ष्यते। स च सेयोगेऽपि व्ियोगस्फूर्तिः। निमेषासहत्वं तु तादृशात्यल्पकालविच्छेदासहल्वम्। ततः पूर्वस्या- सन्तमपि तद्वियोगं कल्पयिला तदसहनमयत्ं उत्तरस्य तु सल्पतमं तद्वियोगं बहुतमं मला न तु तमसन्तं कल्पयित्वा तदसहनमयतं तदेवमिदं महाभावगतं निमेषासहतमनुरागगतवैचित्त्य विप्रलम्भान्नातिचमत्कारः प्रतीयते तदेतदाशक्का श्रीभागवतपद्येन समादधाति-गोप्यश्चेति। तदिदं कुरुक्षेत्रगतानां तासां प्रथ- मदर्शनवृत्तम्। दशिषु नेत्रेषु पक्ष्मकृतं ब्रह्माणं शपन्ति एतद्वचनाभिप्रायात्तु 'यस्या- ननं मकरकुण्डलम्' इत्यादौ 'नार्यो नराश् मुदिताः कुपिता निमेश्च' इत्यत्र नार्यो नराश्च मुदिता: सामान्यतो बभूवुः । तत्र काश्चिनार्यस्तु निमिं प्रति च कुपिता ३० उज्व०

Page 489

४६६ काव्यमाला।

दग्भिर्हदीकृतमलं परिरभ्य सर्वा- स्तद्भावमापुरपि नित्ययुजां दुरापम् ॥ १४९.॥ आसन्जनताहृद्विलोडनं यथा- सख्यः प्रोक्ष्य कुरून् गुरुक्षितिभृतामाघूर्णयन्ती शिरः सवस्था विश्रथयन्त्यशेषरमणीराप्टाव्य सर्व जनम्।

निमेषकालगतविरहस्यापि तथासह्यतवं यथातिसहिष्णवोऽपि देवमात्रभक्ता अपि या ब्रह्माणं शपन्ति अरे ब्रह्मनेताद्शदुःखदायिस्तं शीघ्रं म्रियस, अन्यः कश्चन ब्रह्मा भवतु योऽस्माकं पक्ष्म न सृजतीति। यत्तु 'यस्याननं मकरकुण्डल-' इत्यादौ 'नार्यो नराश्र मुदिताः कुपिता निमेश्र' इत्युक्तं तत्र नार्यों गोप्य एव नराश्च प्रियनर्मसखाः सुबलादय एव ज्ञेयाः ॥ १४९ ॥ काश्रिद्वारकावासिन्यों रसविदुष्यो भक्ता नार्य: कुरुक्षेत्रमिलिता: परस्परमाहु :- कुरून् देशान् कुरुवं- बभूवुरित्यर्थः । साधारण्ये सति यदर्शन इत्यनेनामूषां प्रेमविशेषस्यानर्थक्यात्। हृदीकृतं हृदिकृतं तत्र कृततया विभाव्यमानं परिरभ्य परिरब्धमिव विभाव्य तदिति तं भावं महाभावविकारमापुरित्यर्थः । कीदृशम्। नित्ययुजामेता वियोगिन्यो वयं तु नित्ययुज इत्यभिमानिन्यो याः पट्टमहिष्यस्तासामपि दुरापम्।" नित्ययुजां योगिनामपि दुरापमिति तु न व्याख्येयं प्रत्यासन्नपरित्यागेन गौरवापत्तेः । 'वाञ्छन्ति यद्भवभियो मुनयोवयं च' इति तासां प्राचीन- भावस्यापि तैर्दुरापलात। अत एव तद्भावं तदैक्यं प्रापुरिति तु व्याख्यानं दूरत एव परास्तम्। तदेतदुक्तं भवति-वैचित्त्यविप्रलम्भः खलु 'अदृष्टे दर्शनो- त्कण्ठा दृष्टे विच्छेदभीरुता' इति न्यायेन प्रेममयभयवैचित्त्यात् सतोऽप्यनवधान मयः । निमेषासहत्वं तु स्ल्पतमस्यापि कालस्यातिविस्तीर्णताकल्पनमयम्। तदेवं सति भयाद्वैचित्त्येनानवधानत्वं लोके दृश्यते। निमेषेण तु व्यवधानमतिसू- क्ष्मतान्नानुभवितुं शक्यते। तदेतदसंभवकारिताधिक्ये नास्त्येवोत्तराधिक्यं यत्र खलु तादृगल्पतमवियोगासहिष्णुतया सर्वतो महान् ब्रह्मापि पश्यति इति पूर्वों- कस्य लोकधर्ममर्यादातिकमित्वस्यातिशयदर्शिता। तदेवं वैशिध्यमुत्तरेष्वपि दर्श- नीयमिति। एतानि तु निमेषासहत्वादीनि यथावसरमुपलभ्यमानापि समुदित्येव लक्षणानि यथा सर्वभूतेषु यः पश्येदित्यत्रोक्तं भागवतोत्तमलक्षणम् ।। पुनर्गृहीला- पीन्द्रियैरर्थानित्याद्यष्टस्वष्टधा दर्श्यते तदूदिति ॥ १४९ ॥ कुरून् कुरुवंश्यान्।

Page 490

उज्ज्वलनीलमणिः । ४६७

गोपीनाभनुरागसिन्धुलहरी सत्यान्तरं विक्रमै- राक्रम्य स्तिमितां व्यधादपि परां वैकुण्ठकण्ठश्रियम्॥१५०॥ कल्पक्षणत्वं यथा- शरज्ज्योत्सीरासे विधिरजनिरूपापि निमिषा- दतिक्षुद्रा तासां यदजनि न तद्विसयपदम् ।

इयांश्र प्रोक्ष्य जलेन सम्यगाल्लाव्य अश्रुभिरभिषिच्य च गुरुक्षितिभृतां महापर्व- तानां महाराजानां च शिरः शिखरं मस्तकं चाघूर्णयन्ती जलवेगेन प्रेमानुभावो- त्थविस्मयेन चेति ज्ञेयम्। सर्व जनं जनलोकं मनुष्यं चाल्लाव्य स्वस्थाः खर्गस्था अशेषरमणीर्विश्रथयन्ती मज्जनभयाद्याकुलयन्ती, पक्षे स्वस्थाः स्थिराः पतिव्रता अपि विवशा: कुर्वती सत्यान्तरं सत्यलोकस्य मध्यभागं सत्यभामाया अन्तःकरणं च वैकुण्ठस्य कण्ठश्रियं कण्ठदेशशोभां स्तिमितां जलैरार्द्राम्, पक्षे वैकुण्ठः श्रीकृष्णस्तस्य कण्ठसंबन्धिनी या श्री रुक्मिणी तामपि स्तिमितां हर्षोत्थस्तम्भवर्ती व्यधात्। अन्रासन्नजनताहृद्विलोडनमिति जनताया आसन्नतं चाक्षुषं श्रावणं च ज्ञेयम्। तत्रायातानां महाराजानां तथा सखपटगेहगुप्तानां सत्यभामादीनां च प्रायो न्रजसुन्दरीभिः सह तत्र साक्षान्मिलनाश्रवणात्।। १५० ।। पौर्णमासी नान्दीमुखीमाह-शरदि ज्योत्स्नावती रात्रिर्विधिरजनिरूपा ब्रह्मरात्रितुल्यापि

पक्षे कुरुदेशम्। गुरुक्षितिमृतां महाराजानाम्, पक्षे पर्वतानाम्। सस्थाः प्रकृ- तिस्थाः, पक्षे सवर्गस्थाः । अशेषरमणी विश्रथयन्ती सर्वतः शिथिलाः कुर्वती, जनं लोकम्, पक्षे तदाख्यभुवनविशेषः । सत्या सत्यभामा तदन्तरं तन्मनः, पक्षे सत्यलोकस्य मध्यभाग:। स्तिमितां स्तब्धाम्, पक्षे आर्द्रोम्। वैकुण्ठोऽत्र श्रीकृ- व्यस्तस्य कण्ठश्रियं तत्तुल्यां पारिशेष्य प्रमाणेन श्रीरुक्मिणीम्। पक्षे वैकुण्ठलोकस्य या कण्ठश्रीः सर्वोर्ध्वशोभा ताम्। यद्यपि कुरुवंश्यादिभ्य एताः कृष्णेन गोपिता एव सुतरां त्वेतासां भावा गोपने सत्येव हितासते च रसावहा भवन्ति तथापि तदे-

वहं संपद्यते यथा यशसा सर्वस्य शुक्कीकरणं तद्वदिति ॥१५०॥ शरजयोत्सी- रासे विधिरजनिरूपापीति। शशाङ्श्व सगणो विस्मितोऽ्भवदित्यत्र श्रीखा-

Page 491

४६८ काव्यमाला।

सुखोत्सेकारम्भे निमिषलवकल्पामिव दशां महाकल्पाकल्पाप्यहह लभते कालकलना ॥ १५१ ॥ तत्सौख्येऽप्यार्तिशङ्कया खिन्नत्वं यथा श्रीदशमे- यत्ते सुजात चरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु।

यतस्तासां सुखोत्सेकस्यारम्भ एव महाकल्पो ब्रह्मणो वर्षशतमपि अकल्पोऽसम- र्थोऽतिक्षुद्रो यत्र एवंभूतापि कालकलना कालसंख्या निमिषलवकल्पां निमिषलेश- सदृशीं दशां लभत इति। 'कल संख्याने' धातुः ॥ १५१ ॥ तत्साख्ये- जपीति। यत्त्वनिष्ठाशङ्कीनि बन्धुजनहृदयानीति प्राश्च आहुस्तद्दुःखलेशेऽपि मरणादिपर्यन्तमनिष्टं कल्पयन्ति बन्धव इति तस्यार्थः । इदं तु तस्य श्रीकृष्णस्य सौख्येऽपि केवलमहासुखे ज्ञाते दुःखलेशस्याप्यसंभावनायामार्तिशङ्कया न जाने अत्र पीडा वास्य स्यादिति शङ्काया वृथैव पीडाया आरोपेण खिन्नत्वमिति सर्वंतो विलक्षणं महाभावलक्षणमेव । रासान्तर्धोने व्रजदेव्यो विलपन्ति-यदिति। तव सुजातमिति सुकुमारं चरणाम्बुरुहं स्तनेषु दधीमहि तद्भीताः सत्य एव। ननु किमत्र भीतिलक्षणं तत्र विशिषन्ति-कर्कशेष्विति। खनानां कठोरल

मिचरणैस्तस्या रात्रेरतिदीर्घतस्थापनात् 'ब्रह्मरात्र उपावृत्ते' इत्यत्र एकेषां व्याख्या- नाद्धटमानं ज्ञेयम्। तच्च ज्योतिश्वकस्यैव तन्माधुर्येण नद्यादीनामिव स्तम्भनात् संबभूवेति ॥ १५१ ॥ न चानिष्टाशङ्कीनि बन्धुहृदयानीति प्राचां संमत्या तद्वदि- त्यासां कृष्णसौख्यार्थमेव केवलमुद्यम इति पूर्वोक्तरीत्या रतिभात्रेऽपि संभवात् तत्सौख्य इत्यादि महाभावलक्षणं न विशिष्टमिति वक्तव्यम्। अस्ति ह्यन्र वैशि- ध्यमिति श्रीभागवतसंमत्या द्रढयति-यथा श्रीदशमे। तथा हि। यत्ते सुजातमित्यस्यायमर्थ :- हे प्रिय, अपरिहार्यप्रेमविषयः ते तव यत्सुजातचरणा- म्बुरुहं सुकोमलं कमलरूपकेणापि निरूप्य कोमलतया पुनस्तादृशशब्देन विशेष्यं स्तनेषु शनैर्दधीमहि। बहुतं सर्वानुभवसिद्धा नेदमन्यथा व्यनक्ति। शनैरित्यत्र हेतु: कर्कशेष्विति। तर्हि दधीमहीत्यनेन कत्रर्थक्रियाफलतासूचकात्मनेपदनि- र्देशेन स्वेषां कामिनीलमेव भवतीति व्यक्तमित्याशङ्य त्संनिहितपदेन प्रियेत्यने-

Page 492

उज्ज्वलनीलमणिः । ४६९

तेनाटवीमटसि तद्यथते न किंसि्ित् कूर्पादिभिर्श्रमति धीर्भवदायुषां नः ॥१५२ ॥

मेवेत्यर्थः। ननु तहि किमिति धध्वे तत्राहुः-हे प्रियेति। वं तेष्वेव स्चर- णार्पणे प्रीणासीति लत्सुखमालक्ष्यैवेति भावः । कि च तदानी चरणेन स्तनपीडने वत्सुखे साक्षादृष्टेऽपि चरणे व्यथा संभवेदिति शङ्गयास्माकं खेदो जायत एवे- बयाहु :- शनैर्दधीमहीति। तेन तत्संयोगेऽप्यस्माकं दुःखं विधात्रा ललाटे लिखितमेवेति ध्वनिः। कि कर्तव्यं तपोऽस्माभिविधिं प्रति स्तनानां कोमलले प्रार्थ्यमाने तव सुखं न भवति क्कशले तु लच्चरणे व्यथेत्युभयथव संकटमस्मा- कमित्यनुध्वनिः । भवत्वस्माकं संयोगवियोगयो: कष्टमेव लं कथं सवैरिलेऽपि कष्ट सहस इत्याहुः। तेन चरणाम्बुरुहेणाटवीमटसि हा हा किं महासाहसं कुरुषे किमेतदटव्यटनयोग्यं चरणकमलमिति सोपालम्भः प्रश्नः। ननु यदा यन्मे मन- स्यायाति तदा तदहं करोमीत्यत्र भवतीनां किमित्यत आहु :- लच्चरणं न व्यथते किं। तन्रापि कूर्पादिभिरपि न व्यथते किंस्विदिति प्रश्नः। व्यथत एव किंतु लमेवास्माखिविव स्ाङ्गेष्वपि निर्दय एव, किंवा एता मद्दुःखेनापि दुःखिन्यो भवन्ति तस्मादेता दुःखयितुं प्रवृत्तेन मया खदुःखमपि कर्तव्यं सोढव्यं चेत्याश- येन तां स्व्यथामपि सहसे। किंवास्मद्दुःखदर्शन एव तव महासुखमतस्तां व्यथामपि वं सुखमेव मन्यसे। किंवा 'संसर्गजा दोषगुणा भवन्ति' इतिन्यायेन यत् पूर्व ते हृदयं कुसुमसुकुमारमासीत्तदेवास्माकं कठोरस्तनसङ्वेन संप्रति कठो- रमभूत् यथा तर्थैव लच्चरणमपि स्तनसङ्गनैव कठोरमभूदतः कूर्पादिभिर्न

नैवोत्तरयति-प्रियेति । प्रियल्ादेव तद्दधीमहि प्रियस्य स्पर्शात्तत्रापि हृदि स्पर्शात् यत्सुखं तत्तद्धि जानन्ति तद्विद इति न्यायात्तैरेव काम्यं नतु भवद्विधैः। तत्रैव चरणस्पर्शे हेतुं वदन्त्यः सोपालम्भमिव साक्षादिव पृच्छन्ति-तेनाटवीमटसीति। तेन यद्यटसि तर्हि किंस्िन्न व्यथते तथापि स्वित् कूर्पादिभिरपि न व्यथते किंतु व्यथत एव। भवानेव तु स्ान्ेऽपि निर्दय इत्यर्थः । व्यथतां नाम भवतीनां किं तत्राहुः। नोऽस्माकं धीर्भ्रमति तक्थया व्याकुला भवति। अहो तदेतत कर्थं तत्राहु :- भवदायुषामिति। यदास्माकें

Page 493

४७० काव्यमाला।

व्यथते। किंवा लच्चरणस्पर्शमाहात्म्यात् कूर्पादयोऽपि कोमला एव भवन्ति किंवा धरण्यैवातिकारुण्याद्वा तन्माघुर्याखादलोभात् वा लच्चरणविन्यासस्थले खजिह्वा उत्थाप्यते किंवा लमस्मत्तोऽपि प्रेमसिन्धुरदैववशादस्मद्विरहसंतप्तो भ्रम- त्ुन्माददशां प्राप्तः स्वचरणव्यथामपि नानुसंधत्स इत्येवं नानाकारणानि परामृ- शन्ती नोऽस्माकं धीर्त्रमति न तु क्वापि निश्चयं लभत इति भावः । नलेतत् कियत् खदुःखं व्यजयथ अहं तु तद्दुःखं न मन्ये येन प्राणास्तिष्टन्त्यत आहुर्भव- दायुषामिति। भवति लय्येवायूंषि यासां तासां कल्याणवति तयि स्थिततादेता- वद्धिरपि कष्टैरस्मदायुषां न नाश इत्यर्थः । अयं भावः-भवानिवास्मान् दुःख- यितुं प्रवृत्तो विधिरेतद्विचारयति स्म यद्यासामायूंषि संप्रत्यासेव स्थापयिष्यामि तदा मदत्तैरतिसंतापैर्दग्धायुष इमाः सदो मरिष्यन्ति ततोऽहं पुनः काभ्यो दुःखं दास्यामि तदासामायूंषि मत्सधर्मिणि मद्दन्धौ श्रीकृष्णे निधाय यथेष्टमिमा अध्रि- यमाणा अपारमेव दुःखं भोजयामीति। अत एव वयं न म्रियामहे इति। यद्ा एवं कारणानिश्चयेनास्माकं धीरेव भ्रमति न लेतावद्धिरपि कष्टैर्नाशः। तत्र हेतुः भवदायुषामिति। भवन्ति वर्तमानान्यायूंषि यासां तासाम्। आयुर्मर्माणि रक्ष- तीति ऋजुरेवार्थः। यद्वा एवं धीरेव तदनिश्चयाद्द्रमति प्राणास्त्स्माकं निश्चयेन देहान्निर्गच्छन्तयेवेति लं संप्रति पश्येति भावः । नन्वायुषि स्थिते कथं नाशस्त- त्राहुः-भवदायुषां तत्समर्पितायुषां खायूंषि तुभ्यमस्माभिः संप्रति दत्तानि तैश्चिरं व्रजे खेलेति भावः ॥ १५२ ॥ मोहो मूच्छा। आदिशब्दादावेगविषा- दादयाः । सर्वेषामहंतास्पदेदंतास्पदानां विस्मरणं तत्र हेतुर्ममतास्पदस्य श्रीकृष्ण- रूपगुणादेखतु स्मृत्यतिशय एव ज्ञेयः । गृहपतिश्वश्वादिषु ममलाभावान्न तेषां भमतास्पदलं तथैवोदाहरणेऽपि दृष्टम्। उद्धवं प्रति श्रीकृष्णः साधुसङ्गप्रस्तावे मद्विषयकप्रीतिमत्वं साधुखमिति साधुलक्षणस्य परा काष्ठा श्रीगोपीष्वेवेति तास्त-

पृथगायुर्भवति तदा युक्तमेव भवदुक्ततं, भवानेव चेदायुस्तदा निजायुषः खल्पापि हानि: कथं सह्येति। अयं भाव :- अनिष्टाशङ्किनीत्यादौ तत्संभावनास्पद एव शङ्का स्यात्, न लासामिव तच्चरणस्पर्शेनापीति गम्यते। इत्यासां कृष्णसौख्यार्थ- मेवेत्यादी रतिमात्रस्य तादृशलं चेत्तर्हि महाभावे तु तदतीव स्फुटं भवति इक्षूणां माधुर्य परिपाकदशायामिवेत्यत्रैव सर्वत आधिक्यमिति ज्ञेयम् ।। १५२॥। मोहाद्य-

Page 494

उज़्वलनीलमणि: । ஓடி?

मोहाद्यभावेऽपि सर्वविस्मरणं यथा एकादशे- ता नाविदन्मय्यनुषङ्गबद्धधियः समात्मानमदस्तथेदम्। यथा समाधौ मुनयोडब्धितोये नद्यः प्रविष्टा इव नामरूपे॥१५३॥ क्षणकल्पता यथा तत्रैव- तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण। क्षणार्घवत्ता: पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः॥१५४॥ आद्यशब्दादिह प्रोक्ता कृष्णाविर्भावकारिता। संभोगभेदे विस्पष्ट सा पुरस्तात्प्रवक्ष्यते ॥ १५५ ॥

परिचिता अपि लक्षणविशेषेण पुनः परिचाययति-ता इति। मय्यनुषङ्रेण निरन्तरासङ्वेन बद्धा घियो याभिस्ताः। अत्र बद्धपदेन श्रीकृष्णस्य त्रिजगन्मो- हनविचित्रलीलस्तम्भलमनुषङ्गस्य बलवद्दामतं धीवृत्तीनां श्रीकृष्णस्य वाञ्छित- संपादककाभधेनुघटालमारोपितम्। खमात्मानं देहं न विद्ठुः रासाभिसारादौ क्व स्थितं क वा यान्तमिति नानुसंदधुस्तथा अदः परलोकं धर्मातिकमादिति भ्रावः । इदमिमं लोकं लज्ाभयाद्यतिकमादिति भावः । समाधौ सुनय इति। तेषां यथा सर्वविस्मरणे ब्रह्मानुभवोऽतिरिच्यते तथतासां मदनुभव इति सर्वविस्मर- प्रांशे दष्टान्तः । नद्यो यथाब्धितोये प्रविष्टा नामरूपे खीये न विदुरिति रसचर्वणांशे दृष्टान्तः ॥ १५३ ॥ श्रीकृृष्णस्तथैवाह-तास्ता इति। अस्मि- ज्ेव पद्ये क्षणकल्पताकल्पक्षणते वियोगसंयोगयोर्द्रष्टव्ये॥ १५४॥ संभोगमेद्रे भावेऽपि सर्वविस्मरणमिति कृष्णस्फूर्त्यवच्छेदेन मोहाद्यभावः । तदन्यविस्मरणात् सर्वविस्मरणमित्युभयमपि संगच्छत इत्युदाहरति-ता नाविदन्निति। अत्र हि मय्यनुषङ्गेति तदेकस्फूर्तिता दर्शिता ता नाविदन्नित्यत्र मोहश्रेति॥१५३॥ आदशब्दादित्यत्र कृष्णाविर्भावकारिता तु 'गोप्यस्तपः किमचरन्-' इत्यादौ, 'तासामाविरभूच्छौरि :- ' इत्यादौं तत्रातिशुशुभे ताभि :- 'इत्यादौ 'यथा श्षुता

१ 'प्यात्मादिसर्वविस्मरणं' इति ग. पुस्तके,

Page 495

४७२ काव्यमाला।

अथाधिरूढ :- रूढोक्तेभ्योऽनुभावेभ्यः कामप्याप्ता विशिष्टताम्। यत्रानुभावा दृश्यन्ते सोऽधिरूढो निगद्यते ॥१५६ ॥ यथा शिववाक्यम्- लोकातीतमजाण्डकोटिगमपि त्रैकालिकं यत्सुखं दुःखं चेति पृथग्यदि स्फुटमुभे ते गच्छतः कूटताम्। नैवाभासतुलां शिवे तदपि तत्कूटद्वयं राधिका- प्रेमोद्यत्सुखदुःखसिन्धुभवयोर्विन्देत बिन्द्ोरपि॥ १५७ ॥

संपन्नाख्ये श्रीकृष्णाविर्भावकारितेत्याविर्भावोऽयं संप्रयोगादिसर्वसुखनिर्वाहकोऽग्रे- तनग्रन्थदृध्ट्या ज्ञेयः । प्रेमिमात्रभक्तजनेष्वाविर्भावस्तु संनिधिमात्रम् । १५५॥ अनुभावा: सात्त्विकाः कामप्यनिर्वचनीयां विशिष्टतां प्राप्ताः न तु सूद्दीप्ता इत्यर्थः । तेषां मोहन एव वक्ष्यमाणलात् ॥। १५६॥ शिवया राधिकाप्रेमवैशि- ध्यविक्रमं पृष्टः शिवस्तामाह-लोकातीतं वैकुण्ठगतं सुखं प्रसिद्धं मोक्षसुखं च। दुःखं तु तत्रत्यभक्तानां प्रेमौत्कण्ठ्योत्थम्। अजाया मायाया अजस्य ब्रह्मणो वा अण्डकोटिगतं तच्च त्रैकालिकं भूतं भविष्यद्वर्तमानं च सुखं दुःखं च यत्ते उमे सुखदुःखे यद्येकदैव एकस्मिन् देशएव पृथक् पृथक कूटतां राशितां गच्छतः प्राध्तुतस्तदपि तथापि तत्कूटदयं (कर्तृ) श्रीराधायाः प्रेम्णा उद्यन्तौ उच्छलन्तौ यौ सुखदुःखसिन्धू तदुत्थयोर्बिन्द्वोर्लेशयोरपि आभासतुलामेकांशसादृश्यमपि नैव विन्देत नैव लभेत। न चैवं दुःखश्रुत्या प्रेक्षावत्प्रवत्यभावे महाभावस्यापुरुषा- र्थतं कल्पनीयं भक्तिमात्रस्यापि ह्रादिनीसंविदोः स्रूपभूतयोः सारलेन। 'ब्रह्मा- नन्दो भवेदेष चेत्परार्धगुणीकृतः । नैति भक्तिसुखाम्भोधेः परमाणुतुलामपि ॥' इति। 'मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम्' इत्यादिप्रमाणेभ्यो ब्रह्मानन्द-

तथा ज्ञेया न तु भक्तान्तरेष्विव।' आविर्भावमात्रम् ॥१५४।।१५५।। कामप्यनिर्व- चनीयाम्॥। १५६॥ लोकातीतमिति। श्रीराधायां तादृशाननुभावान् शिवा- कृतप्रस्तावान्निशम्य शिवां प्रति शिव :- तत्र लोकातीतं दुःखमन्येषां श्रीभगवद्वि-

Page 496

उज्ज्वलनीलमणिः । ४७३

मोदनो मादनश्रासावधिरूढो द्विधोच्यते। तत्र मोदन :- मोदन: स द्ूयोर्यत्र सात्विकोद्दीपसौष्ठवम् ॥१५८ ॥ यथा ललितमाधवे- आतन्वन्कलकण्ठनादमतुलं स्तम्भश्रियोज्जृम्भितो भूयिष्ठोच्छलद्ङ्करः फलितवान् खेदाम्बुमुक्ताफलैः।

कोटितोऽप्याधिक्येन स्थापनात् तदीयदुःखस्याप्यूष्माणमपि वमन्ती सुधांशुकोटे- रपि ख्वाद्वित्यादौ सुखरूपलेनैव सिद्धान्तान्महाभावे ततिकमुत्यादिति भावः। तथाहि लोके ऊष्मसद्भाव एव शीतं सुखमयं भवति। शीतसद्भावे चोष्मापीति द्वयोरपि सुखरूपलं दृष्टम्। एकैकाभावे द्वयोरेव दुःखरूपतं च। यथाच-क्षुद्गो- ज्यवस्तुनोर्द्वयोरेव यौगपद्ये सुखम्, भोज्यवस्तभावे क्षुद्दुःखमेच, क्षुदभावे भोज्यमपि न सुखं रत्यादिभावेषु संयोगेऽप्यौत्कण्ठ्यलक्षणविरहस्य सर्वथवानपग- मादलंबुद्धभावादेव स संयोग: सदा सुखमयो भवति। विरहेऽपि स्मरणस्फूर्त्या-

रूढमहाभावे तु संयोगवियोगलक्षणसुखदुःखयोरुक्तप्रकारेण निस्तुलयोर्द्वयोरेव यौगपद्यादेव निस्तुलसुखरूपत्म्। प्राकृते तु खर्गनरकाद्योः सुखदुःखयोर्यौगपद्य- भावात्। कचिद्भोजनारम्भादिषु सुखदुःखयोर्यौगपद्येऽपि पारिमित्यादिदोषात न तत्र तन्न प्रेक्षावत्प्रवृत्त्यौचित्यम्। सायुज्यमोक्षेऽपि दुःखाभावात् सुखमप्य- सुखायमानमिति। केच्ित्सुखदुःखाभावाद्यात्यन्तिको मोक्ष इति मुक्तेर्लक्षण- मित्याहुः। अतः प्रेम्ण एव परमपुरुषार्थतं नेतरेषामिति तु सिद्धान्त एव वस्तुतः प्रवृत्तिस्तु प्रेमण न खसुखदृध्या किंतु भगवत्सुखद्ष्टयैवेति तु भक्तानां मतम् ॥ १५७ ॥ १५८॥ नवतृन्दा श्रीराधाकृष्णयोश्चिरान्मिलनं वर्णयति-आत- न्वन्निति। उल्लास एव कल्पद्रुमस्तयोः परस्परस्य परिजनानां च वाञ्छितपूरण- रहकृतं ज्ञेयम्। कूटतां राशिताम्॥५७॥१५८। मोदनो मादनश्चति द्वयं निरुक्ति- बलातू संभोग एवं। भादन इत्यत्र 'मितां ह्रखः' इति यन्नाप्तं तत्खलु मित्सु मदी हर्षग्लेपनयोरित्यर्थः । नियमादर्थान्तरकल्पनया ज्ञेयं हर्षवांचिलमोदन इत्यनेनैव

Page 497

४७४ : काव्यमाला।

उद्यद्वाष्पमरन्दभागविचलोSप्युत्कम्पवान् विभ्रमै राधामाधवयोर्विराजति चिरादुल्लासकल्पद्रुमः ॥१५९ ॥ हरेर्यत्र सकान्तस्य विक्षोभभरकारिता। प्रेमोरुसंपद्विख्यातकान्तातिशयितादयः ॥१६० ॥। राधिकायूथ एवासौ मोदनो न तु सर्वतः । यः श्रीमान् ह्रादिनीशक्ते: सुविलास: प्रियो वरः॥।१६१।

द्विराजति। तत्रोल्लासस्य दुमतं मोदनभावोत्थतं च विशेषणैः स्पष्टयति-कल- कण्ठः कोकिल:, पक्षे कलो मधुरास्फुटो यः कण्ठनादः खरभेदः। आ सभ्यगेव विस्तारयन्निति उद्दीप्तसौष्ठवम् । एवमतुलादिपदैरग्रेऽपि। स्तम्भ: स्थूणा तस्येति मूलोपरितनप्रदेशवर्णनम्, पक्षे स्तम्भ: सात्त्विकः । अङ्कराः कडम्बाः पुलकाश्च । अविचलः स्थिरोऽपि वीनां पक्षिणां अ्रमैर्भ्रमणैः, पक्षे विलासैः । १५९ ॥ मोदनस्यानुभावान् वदनेव तल्लक्षणमाह-हरेरिति। यत्र मोदने विद्यमाने सति सकान्तस्य कान्ताभिः सहितस्य प्रेमैव उरुर्महती संपत् तया ख्याताः प्रसिद्धा याः कान्ताश्चन्द्रावल्यादयस्ताभ्योऽतिशयिता परमोत्कर्षः । आदिशब्दादन्येऽपि तद्विरुद्धजनविज्ञाता बहवो वर्तन्त इत्यर्थः । सर्वतः सर्वत्र

पर्याप्तिः स्यात् तस्मान्मादनोSत्र दिव्यमधुविशेषवन्मत्तताकर इत्यर्थः । कलरूपो यः कण्ठनादस्तम्। पक्षे कलकण्ठः कोकिलः । स्तम्भ: सात्त्विकविशेषः, पक्षे साभावि कस्तम्भ: । तत्संपत्त्या उच्चैर्जृम्भितः प्रकाशितः। श्रिया जम्भितः इति वा पाठः। भूयिष्ठा उच्चलन्त उद्धवन्तोऽङ्कुरा इवाडुरा रोमाश्चा यत्र सः, पक्षे अङ्कुरा: कडम्बाः अविचलः स्थिरोऽपि विभ्रमैर्विलासैः, पक्षे पक्षिणां भ्रमणैः ॥ १५९ ॥ किंच हरेरिति। सकान्तस्य कान्ताभिः सहितस्य। प्रेमेति। प्रेमोरुसंपद्विख्याता याः कान्तास्ताभ्यस्ता अतिक्रम्य या अतिशयिता प्रेमाधिक्यं साप्यस्य लक्षणमित्यर्थ;। आदिग्रहणादन्येऽपि संख्यातीता गुणास्तल्लक्षणत्वेन वर्तन्त इत्युन्नेयम् ॥ १६० ॥ कुत्रासौ दृश्यते तत्राह-राधिकायूथ एवेति। मधुस्नेहमारभ्य परमोत्कर्ष

Page 498

उज्ज्वलनीलमणिः । ४७५

तत्र सकान्तस्य हरे: क्षोभभरकारिता यथा- हन्त स्तम्भकरम्बिता भुवि कुरोर्भद्रा सरसत्यभू- द्वाष्पं भास्करजा मुमोच तरसा सत्याभ्रमन्नर्मदा।

चन्द्रावल्यादावपीत्यर्थः । ह्रादिनीशके: सुविलासः परभव्ृत्तिरूपः प्रेमा भक्तमात्र- वृत्तितांशेन तन्रापि प्रियो मधुररसस्थायितया प्रियाजनवर्तितांशेन तत्रापि श्रीमान् महाभावो गोपीमान्रवर्तितांशेन । तत्रापि वरः श्रीराधायूथवर्तित्ांशेनेत्यर्थः ॥ १६० ॥ १६१ ॥ कुरुक्षेत्रयात्रायां व्रजदेवीभिः सह श्रीकृष्णस्य मिलनवृत्ता- न्तस्य चमत्कारातिशये श्रुते श्रीरुक्भिण्यादिषु व्रजदेवीदर्शनाभिलाषिणीषु खख- भटगेहगुप्ताखेव तत्र रहसि तासु तदानीमेव श्रीकृष्णदर्शनोत्थेन श्रीराधाया मोदनाख्यभावेनोदितेन श्रीकृष्णस्य रुक्मिण्यादीनां च क्षोभातिशयं दृष्वती काचिद् रुक्मिण्याः सखी समयान्तरे खसखीाह-हन्तेति। कथनारम्भत एव विस्मयः । राधिकवान्भुतनदी तस्याः प्रेमाण एवोर्मयस्ताभिः कृष्णोदन्वति

दर्शितलात्। पूर्वग्रन्थस्य च टीकायाम् 'तन्रा्येकान्तिनां श्रेष्ठा गोविन्दहृतमानसाः।' इत्यत्र 'न वयं साध्वि साम्राज्यम्।' इत्यस्य व्याख्याने श्रीभागवतसंमत्या विशे- षतः श्रीराधायां च दार्शतत्ाच्च। पूर्णाः पुलिन्ध इत्यनेन ह्वेतस्यैकवाक्यता दृश्यते। उभयत्र श्रीशब्देन श्रीराधिकैवोच्यते। अन्यहरिपदपरित्यागेन तत्पदश्रीसंबन्ध- परित्यागप्राप्तेः । पूर्णाः पुलिन्ध इत्यादिकवचनसमये श्रीरुक्मिण्या अग्रसिद्धा तदप्राप्तेश्व। श्रीराधायाः सैभाग्याधिक्यं श्रीव्रजदेवीभिः खयमेव दर्शितम्- (अनयाराधितो नूनम्' इत्यादिना, श्रीराधातं चास्या 'राधा वृन्दावने वने' इति मात्स्यादिप्रामाण्येनावगतमेव। व्यक्तं चोक्तं बृहद्गौतमीये-'देवी कृष्णमयी प्रोक्ता राधिका परदेवता। सर्वलक्ष्मीमयी सर्वकान्तिः संमोहिनी परा ॥' इति। ऋक्प- रिशिष्टे च-'राधया माधवो देवो माधवेनैव राधिका। विभ्राजन्ते जनेष्वा' इति। अथ प्रस्तुतमनुसराम :- यः श्रीमानित्यत्र ह्रादिनीशक्ते: सुविलासः परम- वृत्तिरूपस्तावद्भगवद्भावमान्रम्। तन्नापि प्रियो मधुराख्यो महाभावपर्यन्तस्तन्नापि मोदनोऽयं वर इत्यर्थः॥१६१॥ कुरुक्षेत्रे व्रजदेवीनां श्रीकृष्णेन मिलनानन्तरं तेनाव- हित्थागुप्तमपि भावविकारं वित्र्क्य तं च भद्रादीनामपि विस्मापकतयानुभूय श्रीमा- जुद्धवः परामृशति-हन्त स्तम्मेति। भद्रायाः सरखती वाणी, पक्षे सरखती

Page 499

४७६ काव्यमाला।

भेजे भीष्मसुता च वर्णविकृति गाम्भीर्यभागप्यसौ कृष्णोदन्वति राधिकाद्भुतनदीप्रेमोर्मिभि: संवृते॥१६२॥ प्रेमोरुसंपद्वतीवृन्दातिशयित्वं यथा- अद्वैताद्विरिजां हरार्धवपुष सखयात्पियोरःस्थितां लक्ष्मीमच्युतचित्तभृङ्गनलिनीं सत्यां च सौभाग्यतः । माधुर्यान्मधुरेशजीवितसखीं चन्द्रावलीं च क्षिपन् पश्यारुद्ध हरिं प्रसार्य लहरीं राधानुरागाम्बुधि: ॥१६३॥

श्रीकृष्णसमुद्रे संवृते रुद्धे सतीति नद्यास्तरङ्गेण समुद्रबोधादद्भुतलवं स च रोधो नद्यास्तरङ्ाणां समुद्रतरङ्गविजयिलेन वा समुद्रजलस्तम्भेन वा ज्ञेयः । पक्षे श्रीकृष्णप्रेमतोऽपि श्रीराधाप्रेमाधिक्यव्यज्ञना। सरखती नदी। कीदशी। भद्रा, पक्षे भद्रायाः सरखती वाणी। भास्करजा यमुना कालिन्दी च। बाष्पं जलो- ष्माणम् ऊष्माश्रु च। नर्मदा नदी अभ्रमत् परिपर्यन्तप्रवाहा अभूत्। किंभूता। सत्या सन्ो हिता, पक्षे नर्मदा परिहसितुभागतापि सत्यभामा अभ्रमत् भ्रमिमप- स्मारं प्राप। भीष्मः सुतो यस्याः सा गङ्गा, पक्षे भीष्मसुता श्रीरुक्मिणी। वर्ण- विकृतिरवैवर्ण्यम्। ततश्व कतिपयक्षणानन्तरं तस्या मोदनभावस्य किंचिदुपशमे ता अपि किंचित् सास्थ्यभाप्तास्तां स्तुला नल्वा खखावासं जग्मुः सा तु वैवश्यवशात् ताः नानुसंधत्ते स्मेति ज्ञेयम् ॥ १६२ ॥ तत्रैव पुनः सैवाह-गिरिजां दुर्गाम्।'

नदी तस्या विशेषणं भद्रा। बाष्पमश्रु, पक्षे तदिव जलोत्करम्। सत्या सत्यभामा विशेष्यं तस्या विशेषणं नर्मदा। पक्षे वैपरीत्यं तत्र सत्या सद्रूपा भीष्मसुता रुक्मिणी, पक्षे बहुव्रीहिणा गङ्गा ।। १६२॥ अद्वैतादिति। श्रीमदुद्धवस्य वचनम्। येन 'मधुप कितवबन्धो' इत्यादि तदीयभावोन्मादश्रवणाचित्रतां प्राप्तेन 'नायं श्रियो- 5ङ्ध' इत्यादिकं सर्वा अपि व्रजसुन्दरीरुद्दिश्य वदता तस्यामेव परममहिमा पर्यक सायितः । मधुवेशेति। व्रजं प्रति तेन गोपीनां मद्वियोगाधिं मत्संदेशैर्विमोच- येत्यादिवैवश्यमयवच नेन खस्य यत्प्रस्थापनं तस्यास्थानरूपां मधुरामनुसत्य प्रोक्तम्।

Page 500

उज्ज्वलनीलमणिः । ४७७

मोदनोऽयं प्रविश्लेषदशायां मोहनो भवेत्। यस्मिन् विरहवैवश्यात्सूद्दीपा एव सान्विकाः ॥१६४॥ यथा- उदद्वेपथुवाद्यमानदशना कण्ठस्थलान्तर्लुठ- ज्जल्पा गोकुलमण्डलं विदधती वाष्पैर्नदीमातृकम्। राधा कण्टकितेन कण्टकिफलं गात्रेण धिक्कुर्वती चित्रं तद्नरागराशिभिरपि श्वेतीकृता वर्तते ॥ १६५ ॥ अत्रानुभावा गोविन्दे कान्ताश्िष्टेऽपि मूर्च्छना।

सत्यां सत्यभामाम्। हरिं श्रीकृष्णमरुद्ध आवृतवान् ॥१६३॥१६४॥ व्रजा- न्मथुरां गत उद्धवः पृष्टवृत्तान्तं श्रीकृष्णमाह-उद्द्वेपथुभिर्वाद्यमाना वादित्रवत् कियमाणा दशना दन्ता यस्या: सा । कण्ठस्थलेति खरभेदः। नदीमातृकत्वं नदी- जलसंपन्नव्रीहित्वं बाष्पैनदीवत् सर्वमाल्नावयन्तीत्यर्थः । 'स्यान्नदीमातृको देवमातृ- कश्च यथाकमम्' इत्यमरः। ननु बाष्पजलानामुष्णत्ात् तत्सेकेन कथं व्रीहयो भवन्ति। सत्यम्। तेषामुष्णतं क्षणिकमेव तस्या अङ्गतः पृथिव्यां पतितमात्रलेन संघः शैत्यात्। वस्तुतस्तु कविनिबद्धवक्तृप्रोढोक्तिरियं तद्भूमतात्पर्यवती। कण्ट- क्िफलं पनसम्। घनरागराशिभिर्निबिडरक्तिमभिः, पक्षे निबिडानुरागसमूहैः। अत्र वाद्यमानेत्यादिपदैः सूद्दीप्तत्वं कम्पादीनां बोध्यम् ॥ १६५॥ तस्यानुभावान् वदंस्तल्लक्षणं ज्ञापयति-अत्रेति। कान्ताभिराश्िष्टे रुक्मिण्यादिषु संप्रयोगली- पश्येति। भावावेशेन स्वयमेव सं प्रत्युक्तम् ॥१६३।।१६४।। उद्यदिति। तस्यैव व्रजान्मथुरां गतस्य श्रीकृष्णं प्रति निवेदनम्। नदीमातृकशब्देन नदीजलसंपन्न- ब्रीहिको देश उच्यते। उच्चैर्विरहबाष्पैस्तु यद्यपि तादृशलं न संभवति तथाप्यनेन तत्प्रेम्णो माहात्म्यमान्नदृध्या निर्दिष्टम्। यथा 'विरहेण महान् मेऽनुग्रहः कृतः । इति ताः प्रत्युक्त्तम्। कण्टकिफलं पनसम्। 'चित्रं लद्धनरागराशिभि :- इत्यत्र श्ेषपक्षे रक्तिमाराशिलात् श्वेतीकृतत्वं नोपपन्नमिति चित्रशब्दश्चापिशब्दश्च दत्तः। विवक्षितपक्षेऽपि पूर्ववद्धतिः । भगवद्रागस्यानन्ददातृलवेन फुल्लताकरणमेव शास्त्र- लब्धं न तु दुःखदातृलेन श्वेतीकरणमित्यभिप्रायात् ॥१६५॥। अन्रानुभावाइति। ननु कान्तेत्यादिक्मन्यत्र संभवति। बहुस्निग्धर्वेष््यमानस्यापि वियुक्ततमस्तिग्ध-

Page 501

8७८ काव्यमाला।

असह्यदुःखस्वीकारादपि तत्सुखकामता। ब्रह्माण्डक्षोभकारित्वं तिरश्रामपि रोदनम् ॥ १६६ ॥ स्वभूतैरपि तत्सङ्गतृष्णा मृत्युप्रतिश्रवात्। दिव्योन्मादादयोऽप्यन्ये विद्वद्द्िरनुकीर्तिताः। प्रायो वृन्दावनेश्वर्या मोहनोऽयमुदञ्चति ॥१६७॥ सम्यग्विलक्षणं यस्य कार्य संचारिमोहतः ।

लास्थ इति व्रजस्थायां श्रीराधायां यदा मोहनभाव उदेति तदा द्वारकास्थस्य श्रीकृष्णस्य कान्ताश्लिष्टस्यापि मूर्च्छा स्यादित्यर्थः । खभूतैः सदेहारम्भकैः पृथि- व्यादिपन्चमहाभूतैः प्रतिश्रवादङ्गीकारात्। अत्र मोहनस्य प्रकृतिस्थित्युन्मादप्रको- पमूर्च्छा इति चतस्रो दशास्तत्र प्रकृतिस्थितौ। असह्यदुःखेति, सभूतैरपीति अनु- भावद्वयं उन्मादे चित्रजल्पाद्याः, प्रकोपे कान्ताश्िष्टकृष्णमूच्छा ब्रह्माण्डक्षोभौ, ईषत् प्रकोपे निकटस्थतिर्यग्जीवादिरोदनम्, अतिप्रकोपे मूच्छाप्यतिदुरूहत्ान्न

स्मरणेन वैकल्यदर्शनात्। अथासह्येत्यप्यन्यत्र दृश्यते यथा प्राणिमात्रस्य सुखका- मस्य रन्तिदेवस्य ब्रह्माण्डस्य क्षोभकारित्वं तु तत्तत्परमशक्तिरूपायास्तस्याः क्षोमेण युक्तमेव यथा तत्तद्भावपीडने जगतः न तु तद्भावस्पर्शनेन तजजायत इति वक्त- व्यम्। सदापि तद्भावानुगतिप्रत्यासत्तेः । 'दधति सकृन्मनस्तयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान्' इति श्रवणात्। ततस्तिरश्रामपि रोदनं पुनरुक्तमेव। तथासभूतैरित्यप्यसह्यदुःखेत्यत्रान्तर्भवति 'तथोन्मादवन्नृत्यति लोकवाह्यः' इत्यादौ श्रीप्रह्लादादावपि वर्णितस्तत्र भावस्यासंप्रतिपत्तेरतिव्याप्तिः स्यात्। दिव्यतं वा कीदृशम्। सत्यं तथाप्यस्त्यन्न विशेष इत्याह। सम्यग्विलक्षणत्में- वाह-संचारिमोहत इति। संचारिषु व्यभिचारिषु यो मोहस्तस्मात् प्रतिसंचार्येव यन्मोहस्य प्राधान्यं तस्मादित्यर्थः। न ह्येवमन्यत्र संभवतीति ब्रह्माण्डक्षोभकारितं तु तत्स्पर्शश्चेत्तदपि स्यादिति विवक्षया 'नारं चुकोश चक्रम्' इति वक्ष्यमाणमुदाहरणं तु यः खलु तेन भावेन स्पृष्टस्तस्यानुभवदध्या निर्दिष्टम्। यथा 'नद्यस्दा तदु- पधार्य' इत्यादौ यथावात्रैव दर्शयिष्यते। और्वस्तोमादिति तिरश्चामपि रोदनं तद्वि-

Page 502

उज्ज्वंलनीलमणिः ।

तत्र कान्ताश्रिष्टेऽपि हरौ मूर्च्छाकारित्वं यथा पद्यावल्याम्- रत्च्छायाच्छुरितजलघौ मन्दिरे द्वारकाया रुक्मिण्यापि प्रबलपुलकोद्धेंदमालिङ्गितस्य। विश्वं पायान्मसृणयमुनातीरवानीरकुञ्जे राधाकेलीभरपरिमलध्यानमूर्च्छा सुरारेः ॥ १६८ ॥ असह्यदुःखसवीकारात्तत्सुखकामता यथा- स्यान्नः सौर्यं यदपि बलवद्गोष्ठमाप्ते मुकुन्दे यद्यल्पापि क्षतिरुदयते तस्य मागात्कदापि।

वर्णितेति विवेचनीयम् ॥ १६६॥१६७ ॥ मथुरात आगता प्रव्रजिता काचित् ब्रजें ललितादिसखी सभां प्रविश्य शुभाशिषमाह-रत्नानां वलभीस्तम्भशिखरा- दिषु लग्नानां पद्मरागादीनां छायाभि: कान्तिभिश्छुरितः प्रतिबिम्बार्पणेन विचि- त्रितो जलधिर्येन तस्मित्निति मन्दिरस्य जलधिमध्यवर्तिलेनात्युच्चलेन चोदीपनविभावस्य रुक्मिण्यापीत्यालम्बनविभावस्य प्रबलपुलकोद्भेदं यथा स्यादित्यनुभावसात्त्विकानां हर्षादिसंचारिणां च अलिद्वितस्येति संभोगस्थायि- भावस्य च सौष्ठवमुक्तं, तत्रापि रुक्मिण्याः कर्तृलेन तस्याः पुरुषायितत्वव्यत्तया संभोगभूमा, तादृशस्यापि मुरारेमूर्च्छा विश्वं पायादिति भक्गया व्रजमण्डलस्यैव पालनप्रार्थना। तदीयह्लादिन्यादिसकलशक्तिकदम्बनिवासभूतस्य व्रजस्यैव क्षेमेण विव्वस्य सर्वविश्वाधारस्य श्रीकृष्णस्य च क्षेमवत्त्वसंभवात् तच्च पालनं तस्य व्रजा- गमन विना न भवतीति मूर्च्छा; श्रीकृष्णं शीघ्रं व्रजमागमयत्विति वाक्यार्थोऽव- गमितः । किंच तत्र परिमलभरपदेन श्रीराधाकेलीनां श्रीकृष्णसर्ववाञ्छितसाधन- कल्पवल्लीतमारोपितं तेन च द्वारकायां तादशसुखसामग्रीसन्भ्ावेऽपि श्रीकृष्णः स्वाञ्छितालाभव्याकुलो वृन्दावनागमनोन्मुख एव वर्तत इति तत्रत्यवृत्तान्त- ज्ञापनं व्यजितम्। पद्यमिदमुमापतिधरस्य कवेः ॥ १६८ ॥ व्रजान्मथुरां यास्यन्तं तत्प्रिये खलु कं संदेशसुपहरिष्यामीति पृच्छन्तमुद्वं प्रति श्रीराधा प्राह-स्यान्न इति। नगरात् मथुरातः। अत्रान्वयव्यतिरेकाभ्यां तत्सुखकाम- शेषवर्णनान्न पुनरुक्तं खभूतैरिति च ॥१६६॥१६७ ॥ रत्नेति। उमा- पतिधरस्य पद्यम् । रत्नानां छायया कान्त्या प्रतिबिम्बेन वा छुरितः कर्बुरितो जलधिर्येन। केलीति। स्त्रीलिङ्गलमप्यत्रावगतम् । मूर्च्छा मोहः ॥१६८॥

Page 503

४८० काव्यमाला।

अप्राप्तेऽस्मिन्यदपि नगरादार्तिरुग्रा भवेन्नः सौर्यं तस्य स्फुरति हृदि चेत्तत्र वासं करोतु ॥ १६९॥ ब्रह्माण्डक्षोभकारित्वं यथा- नारं चुकोश चक्रं फणिकुलमभवद्याकुलं खेदमूहे वृन्दं वृन्दारकाणां प्रचुरमुदमुचन्नश्रु वैकुण्ठभाजः।

तैव स्पष्टीभवति स्म। यद्यपि लोके प्राकृत्यपि नारी विदेशस्थं सवकान्तमेव संदि- शति तदपि तत्प्रेमाणमपि न स्पृशति किमुत महाभावभेदं मोहनम्। यतस्ता- दृशवाक्यस्य स्वस्मिन् स्नेहोत्पादनमेव व्यङ्गयम्। न तु सर्वथैव मनोगतं भवेदे- तस्याः क्वचित् सर्वथैव यथा मनोगतं चेद्टृश्यते तदा तत्र ज्वालाया अभाव एव द्रष्टव्यः । सदेहगेहधनपुत्रादिषु यदि ममत्वलेशस्याप्यभावः स्यात् स च स्कान्त- विषयकममल्वातिशयहेतुक एव यदि भवेत् नतु तत्त्वज्ञानवैराग्यजन्यः तदैव प्रेमज्वाला उत्पद्यते। सैवात्र खल्वसह्यदुःखशब्देनोच्यते न तु प्राकृतं दुःखं प्राणिमात्रसुखकामे तदीयभोग्यनिखिलदुःखस्ीकारिणि रन्तिदेवादौ नैतत्तुल्यदुः- खस्य स्वीकारः प्राकृतत्ाल्लोकातीतभजाण्डेत्यादि शिवोक्तस्य दुःखस्येवोपरमितला- भावात्। किंचात्र मोहने प्रेम्णोऽपि सप्तमकक्षारूपे महाभावभेदे या ज्वाला सात्वौर्वस्तोमात कटुरपीति पदार्थंतो व्यक्तीभविष्यति। सैव श्रीराधायामसह्ं दुःखं तत् स्यमन्तरनुभवन्त्यपि श्रीराधा स्वकान्तं प्रति 'स्यान्न: सौख्यं यदपि बलवत्' इति यत् संदिदेश तदिदं प्राकृताप्राकृतलोकमात्रे सर्वत्रवासाधारणं ज्ञेयम्॥ १६९॥ व्रह्माण्डक्षोभकारित्वमिति। ब्रह्माण्डपदेनोदाहरणदृध्या वैकुण्ठादिकमप्युपलक्षणीयम्। मोहनस्यापि चिच्छक्तिसाररूपल्वात् चिद्विभूतावस्य विक्रमसंभवात्। व्रजस्थितायां राधायां प्रोषितभर्तृकायां यदा मोहनभावस्योद्रेको

आर्तिरुग्रेति। मोहं गमयति ॥१६९ ॥ नारं चुक्ोश चक्रमिति। श्रीकृष्णं प्रति व्रजात् प्रतिगतस्य कस्यचित् तादृशराधाभावमहिमप्रत्या- यिततत्तदुपद्रवनिर्वेदकवचनम्। स एव च महाभावविकारः कादाचित्क एव न तु सार्वदिक इत्येतच्चुकोशेत्यादिका अतीतप्रयोगाः । तन्र चुकोशेति परोक्षप्रयोगः स्वस्यापि मोहख्यापनाय पूर्णानन्देऽपीति तत्प्रेमजातेरानन्दसवभावकलात् वियोग-

Page 504

उज्ज्वलनीलमणिः । ४८१

राधायाश्चित्रमीश भ्रमति दिशि दिशि प्रेमनिश्वासघूमे पूर्णानन्देऽप्युषित्वा बहिरिदमबहिश्चार्तमासीदजाण्डम्॥।१७०॥l

बभूव तदैव सर्वप्राकृताप्राकृतलोकानां क्षोभं रोगदष्ट्यैव दृष्टवती खयभप्यनुभूत- वती नान्दीमुखी लरितमेव द्वारकां गत्ा श्रीकृष्णं प्रति निवेदयति-नराणामिदं नारं चक्रं नृलोकमित्यर्थः । चुकोश उच्चैः फूत्कृत्य रुरोद। फणिकुलं तदुपलक्षितं सप्तपातालस्थजन्तुमात्रमेव व्याकुलमभवत्। वृन्दारकाणां वृन्दं सप्तखगस्थो देव- समूहः खेदमूहे प्रस्वेदमुवाह। वैकुण्ठभाजो लक्ष्मीप्रभृतयः प्रचुरमश्रु उदमुचन्। कदेत्यपेक्षायामाह-हे ईशेति, वं तु सर्वेश्वरस्तमेव भवसि किमिदं तद्रहीति भावः । चित्रमन्दुतं यथा स्यात्तथा श्रीराधायाः प्रेमनिश्वासधूमे दिशि दिशि भ्रमति सति मोहनभावस्योद्गमे सतीत्यर्थः । इदभजाण्डं ब्रह्माण्डं (कर्ते) बहि- वैंकुष्ठादि अबहिस्तदनन्तरं चतुर्दशभुवनं च आर्तं पीडितं क्षुब्धमासीद। तन्रापि चित्रं शण्वित्याह-पूर्णानन्देऽप्युषिता स्थिला। पूर्णपदेन वैषयिकानन्द- व्यावृत्तिः। उषित्वेति। उपविश्य भुङ्गे, झणत्कृत्य पततीत्यादिवत् समानकाल एव क्वाप्रत्ययः । पूर्णानन्दपीडयोरनुभवं समानकालमेवाकरोदित्याश्चर्यम्। वस्त- तस्तु तस्या: पीडाया एव पूर्णानन्दरूपल्मित्युपपादितं प्राक्। तत्र चुकोशेत्यादि भूतकालप्रयोगेण विरहेऽपि मोहनस्योद्रेकः सर्वदा नोदेतीति व्यजितम्। तत्र चुको- शेति परोक्षे लिटा सवस्य मोहोऽपि ज्ञापितः। ततश्च धन्यासि नान्दीमुखि, सत्यं ब्रूषे तदानीमह्मपि पुष्पशय्यायां रुक्मिण्या गाढमालिश्वितोSतिसंतप्तसवाङ्गो मूर्च्छा प्राप्तोडभूवम्, सापि व्यग्राभूदिति श्रीकृष्णेन प्रत्युक्तम्। एवं चैतदुदाहरणानुसारेण महाभावलक्षणे यावदाश्रयवृत्तिरित्याश्रयपदेन जीवमात्रस्यैव भक्त्याश्रयत्संभवात्। यडुक्कं वैष्णवतोषण्यां संदर्भे च प्रणवव्याख्यायामार्षवाक्यम्-'अकारेणोच्यते विष्णुः श्रीरुकारेण कथ्यते। मकारस्तु तयोर्दासः पश्चविंशः प्रकीर्तितः ॥' इति। ननु भगवतः स्थानलीलापरिकराणां सर्वेषामेव नित्यलप्रतिपादनादधुनापि प्रकाश- मेदेन माथुरविरहोत्थो मोहनाख्यो महाभावभेदो वृन्दावनेश्वर्यां कथं नोदेति चेन्नारं चुकोशेति वचनादस्मदादयो नरा अपि संप्रत्यपि कर्थं पूर्णानन्दरूपां तदीयपीडां क्वचिदपि नानुभवन्ति। सत्यम्। नित्यैव सर्वा लीला प्रपश्वे प्रकटा च्चेति भागवतामृते द्वैविध्येन प्रतिपादिता। ततश्च पपच्चे लीलायाः प्राकट्ये मोहनानुभावस्य ब्रह्माण्डक्षोभस्यापि प्रपश्चे प्राकट्यं तस्या अप्राकथ्ये तस्याप्यप्राक्त- ३१ उज्व०

Page 505

४८२ काव्यमाला।

यथा वा और्वस्तोमात्कटुरपि कथं दुर्बलेनोरसा मे तापः प्रौढो हरिविरहजः सह्यते तन्न जाने। निष्क्रान्ता चेद्भवति हृदयाद्यस्य धूमच्छटापि ब्रह्माण्डानां सखिकुलमपि ज्वालया जाज्वलीति ॥१७१॥ तिरश्रामपि रोदनं यथा पद्यावल्याम्- याते द्वारवतीपुरं मधुरिपौ तद्वस्त्रसंव्यानया कालिन्दीतटकुञ्जवझ्लुललतामालम्ब्य सोत्कण्ठया।

य्यम्। तथाहि यदा यत्र ब्रह्माण्डे माथुरविरहलीला प्रकटीभवति तदैव तस्य तस्यैव ब्रह्माण्डस्यैव क्षोभो नान्यस्येति सर्वमवदातम् ॥ १७० ॥ प्रेमनिश्वासधूमे भ्रमतीत्यत्र धूमपदेन मोहनस्य वह्वितमारोपितमिति । स मोहनः कीदृशः। वहिर्यडूमलेशेनापि सूर्यवह्िचन्द्राद्यात्मकमपि जगत् संतप्तमिति जिज्ञासाया- माह-यथा वेति। प्रोषितभर्तृका श्रीराधा विशाखां प्रत्याह-और्वो वाडवा- झनिस्तस्य स्तोमात् पुज्जादपि कटुस्तीक्ष्णः । जाज्वलीति अतितप्तीभवति। अन्र निष्कान्ता चेत्युक्तेस्तस्य मोहनरूपवह्वेर्धूमो राधिकावपुषः सदा न निष्काम्यति। यदा चोद्रेकं प्राप्तोति तदा तु श्रीराधिकानासाभ्यां निष्कामत्येव तदैव ब्रह्माण्ड- क्षोभः पूर्वश्लोके उदाहृतः। मोहनभावस्तु श्रीराधाहृदये माथुरविरहमभिव्याप्यैव तिष्ठति। यद्वा जाज्वलीतीत्यस्य भस्मीभवतीति मुख्य एवार्थ: कार्यः । ततश्वास्य धूमच्छटा कदापि न निष्कामत्येव योगमायैव तां श्रीराधावपुरन्तरेव स्तम्भयति ब्रह्माण्डगणस्य वैकुण्ठस्य च रक्षार्थमिति ज्ञेयम्। यत्तु पूर्वश्लोके प्रेमनिश्वासधूम इत्युकतं तन्मोहनान्तर्वर्तिनस्तदेकांशस्य प्रेम्ण एव धूमो राधानासाभ्यां मोहनोद्रेके सति निर्गत इति ज्ञेयम्॥ १७१॥ नान्दीमुखी वृन्दावनातू द्वारकां गला श्रीराधा- चेष्टितं पौर्णमासीं सास्त्रमावेदयति-याते द्वारवतीपुरमिति। द्वारकाप्रया- णवार्ताश्रवणे सतीत्यर्थः । तस्य वस्नं पीताम्बरमेव, संव्यानमुत्तरीयम्। तदज्सौ.

रूपेणोपाध्यंशेन तापकलाच्॥। १७०॥ १७१॥ यात इति। अत्रोद्रानं मोह-

Page 506

उज्ज्वलनीलमणिः । ४८३

उद्गीतं गुरुबाष्पगद्गदगलत्तारखरं राघया ये नान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम्।। १७२।। मृत्युस्वीकारात्सभूतैरपि तत्सङ्गतृष्णा यथा तत्रैव- पञ्चत्वं तनुरेतु भूतनिवहाः खांशे विशन्तु स्फुटं धातारं अणिपत्य हन्त शिरसा तत्रापि याचे वरम्। तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाञ्कन- व्योम्ि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः ॥१७३॥ अथ दिव्योन्माद :- एतस मोहनाख्यस्य गति कामप्युपेयुष: । भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते॥१७४॥

रभलाभार्थ यस्यास्तया उद्गीतं रोदनशब्दो गीतविशेष इव उच्चीकृतमित्यर्थः । येनोद्रीतेनान्तर्जलचारिभिर्मत्स्यमकरग्राहादिभिरपि कि पुनर्हसकारण्डवादिभिरि- त्यर्थः । उत्कमुत्कण्ठितं यथा स्यात्तथा । ब्रह्माण्डक्षोभकारीत्यस्यैव प्रपञ्चोऽयम् । १७२ ॥ श्रीराधा ललितां प्रत्याह-तनुः पञ्चत्वं नाशमेतु। 'स्यालू पञ्चता कालधर्म:' इत्यमरः। यदि श्रीकृष्णो नायादेवेति निश्चयस्तदा तमहं न प्राप्स्यामि, सोऽपि मां न प्राप्स्यति अतः किमनया तया अतिकष्टेन रक्ष्यमाणयेति। किंच मया त्यकाया अप्यस्यास्तन्वाः स्नेहेन रक्षणे लं यलं मा कृथा इत्याह-भूतनि- वह्दास्तन्वारम्भकाः पथिव्यादयः खांशे सवस्भागे पृथिव्यादौ। तत्राप्ययं मे मनोरथ इत्याह-धातारमिति। विधातुः किमशक्यमिति भावः। खखांशे विशन्तोऽप्यमी तद्वाप्यादिषु पयआदयो भवन्तिति वरं याचे। तस्य मत्कान्तस्य चापीष्ववगाहनविहरणदीर्िकासु। अत्र भूतानां क्रमानुक्तिरवैक्कव्यं सूचयति- मुकुरे इति। मज्योतिष्वेव स मुखं पश्यतिति वाञ्छा। अङ्गनव्योन्नीति। उपवेशनपर्यटननिश्वासजृम्भादिषु तत्सर्वाङ्गमहमाकाशरूपेणालिङ्गन्ती भूयासमिति भावः । वर्त्मनीति। मदुपरि स पादौ निदधालिति। तालवृन्त इति। तदङ्- प्नखेदसौरभ्येन मदनिल एव सुगन्धो भवतु। ततश्वैवं मन्निवृत्तावपि लं कथं सयमेवासीदिति भावः ॥ १७२ ॥ स्वांश इति। सं सवमंशिनमित्यर्थः । तत्र

Page 507

काव्यमाला।

उद्धूर्णा चित्रजल्पाद्यास्तन्भ्ेदा बहवो मताः। तत्रोबूर्णा- स्याद्विलक्षणमुडूर्णा नानावैवश्यचेष्टितम्॥१७५।। यथा- शय्यां कुञ्जगृहे क्वचिद्वितनुते सा वाससज्जायिता नीलाम्रं धृतखण्डिता व्यवहृतिश्वण्डी क्वचित्तर्जति। आघूर्णत्यभिसारसंभ्रमवती ध्वान्ते कचिद्दारुणे राधा ते विरहोन्द्रमप्रमथिता धत्ते न कां वा (कां)दशाम् ॥१७६।। मथुरानगरं कृष्णे लब्धे ललितमाधवे। उद्धूर्णेयं तृतीयाङ्के राघाया: स्फुटमीरिता ॥ १७७॥

रोदिषीति भावः ॥ १७३ ॥ कामपि निर्वक्तुमशक्यां गति वृत्तिमुपेयुषः प्राप्तस्य काप्यद्धुता वैचित्री दिव्योन्मादः ॥ १७४॥ १७५ ॥ उद्धवः पृष्टवृत्तान्तं श्रीकृष्णमाह-राय्यामिति ।। १७६ ।। १७७ ॥ उत्कण्ठिन्या भाव उत्क- छिठिता । तीव्रा उत्कण्ठितैवान्तिमा अन्ते भवा यस्मिन् सः। 'जजल्प चित्रं वृषभानुजैतदवर्णयत् श्रीशुकदेव एव। यस्तन्महाभावपरावधिले व्याचष्ट तद्रूप-

भूतानां क्रमानुक्तर्मोहमेव सूचयति ॥१७३ ॥ शय्यां कुश्वगृह इति। अत्र 'काचिन्मधुकर दृष्ट्रा ध्यायन्ती प्रियसंगमम्। प्रियप्रस्थापितं दूतं कल्पयिलेदम- ज्रवीत् ।' इत्येवास्त्युपजीव्यम्। अत्र काचिदित्यनेन श्रीराधिकैवोच्यते। पूर्वमस्या एव सर्वोत्तमतास्थापनाद्वैष्णवतोषण्यां वासनाभाष्यस्यात्रार्थे दर्शितलात्। सोडयं च भावः सर्वोत्कर्षवान् तस्मात् पूर्वोक्तानामप्येतदुपजीव्यवं मन्तव्यम्। एतदनु- सारेण चित्रजल्पा अपि विलक्षणतया दर्शयिष्यन्ते न तु हंस, स्वागतमास्यता- मिति पट्टमहिषीवचनवत् य्त्किंचित्तया ॥१७४॥ १७५॥१७६॥मथुरेति।

Page 508

उज्ज्वलनीलमणिः ।

अथ चित्रजल्प :- प्रेष्ठस्य सुहृदालोके गूढरोषाभिजृम्भितः । भूरिभावमयो जल्पो यस्तीव्रोत्कण्ठितान्तिम:॥१७८॥। चित्रजल्पो दशाङ्गोऽयं ग्रजल्पः परिजल्पितम्। विजल्पोज्जल्पसंजल्पा अवजल्पोऽभिजल्पितम् ॥१७९॥ आजल्पः प्रतिजल्पश्च सुजल्पश्चेति कीर्तिताः। एष भ्रमरगीताख्यो दशमे प्रकटीकृतः ॥ १८० ॥ असंख्यभाववैचित्री चमत्कृतिसुदुस्तरः। अपि चेचिचित्रजल्पोऽयं मनाकू तदपि कथ्यते ।१८१॥ तत्र प्रजल्प :- असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया। प्रियस्याकौशलोद्वारः प्रजल्पः स तु कीर्तितः ॥१८२।। यथा- मधुप कितवबन्धो मा स्पृशाङ्गिं सपत्याः कुचविलुलितमालाकुङ्कमश्मश्रुभिर्नः ।

तया सतुमस्तम्'॥ १७८ ॥१७९ ॥१८० ॥ १८१ ॥१८२ ॥ स्कान्तं प्रियसुहृदं मथुरात आगतं तत्संदेशहरं खसंनिधिमुपेत्य नलोपविष्टमुद्धवमालोक- चन्त्यनालोकयन्ती तदेव स्वचरणकमलसौरभलोभेन भ्रमन्तं कमपि भ्रमरं वीक्ष्य सापराधेन मत्कान्तेन मामनुनेतुं दूतोऽयं प्रेरितो मच्चरणौ प्रणमतीति बुद्धा दिव्योन्मादेन तमवधीरयन्ती समुद्धतमनाः श्रीवृषभानुनन्दिनी प्रजल्पति- मधुपेति। हे मधुप भ्रमर, कितवस्य धूर्तस्य एव मदर्थोज्झितलोकवेदेत्या- पूर्वोपजीव्यकमेव ॥। १७७॥ प्रेष्ठस्येत्येव महाविरहसमयतं प्रकरणादेव लब्धम्। अन्तिभपदेन सर्वान्तिम एवोच्यते॥१७८॥१७९॥॥अपि चेदिति यद्यपीत्यर्थः ।।१८१।। १८२ ॥ 'मधुप कितव-' इत्यादिका दश श्रोकाः श्रीवै-

Page 509

४८६ काव्यमाला।

वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुंसदसि विडम्ब्यं यस्य दूतस्त्वमीद्क्।। १८३ ॥

दिना, न पारयेऽहमित्यादिना, आयास्य इति दौत्यकैरित्यादिना, मिथ्यावचनवृन्देन वञ्चकस्य कृष्णस्य बन्धो बन्धुतारूपदूत्यकारिन्, अद्गि मा स्पृश। ननु किमिति नमस्कर्तु न ददासीति तत्राह-हे मधुप मद्यप, 'मधु मद्ये पुष्परसे' इत्यनेका- र्थवर्गात् मद्यपस्पर्शे चरणस्यापावित्र्यं स्यादतो नमश्विकीर्षो चेह्ूरमपसृत्य प्रणमेति भावः। नन्वदष्टेऽपि मयि मिथ्या मद्यपत्परिवादं किमर्पयसीति तत्र नायं परि- वाद: किंतु यथार्थमेव वच्मीत्याह-मम सपत््याः कुचयोः श्रीकृष्णवक्षःसंघर्ष- णेन विलुलिता विमर्दिता या माला, किंवा कुचाभ्यामेव विलुलिता या श्रीकृष्ण- वनमाला तत्संबन्धिकुड्डमयुङ्वैः शमश्रुभिर्मा स्पृशेति भ्रमरस्य सवाभाविकश्मश्रुपी- तिम्न एव तथारोपः । तेन च मानिनीं मामनुनेतुं लमिहायातोऽसि अथ च तथा- भूतकुङ्गुमश्मश्रुमप्रक्षाल्यैवेति विवेकाभाव एव मद्यपानलक्षणम्। एतद्द्शनया मानो वर्धत एव नतु निवर्तते इति बुद्स्वेति भावः । ननु यथा तथासतु वं तावत् प्रसीदेति तत्राह-मधुप मद्यपालक, तत्र गला निजप्रभो: पेयं मद्यमेव पालय पिब च तत्कर्मैव वं कर्तु शक्कोषि नतु दूतं कर्म निर्बुद्धित्वादिति भावः । नन्वेवं चेदलं मया संप्रत्यहं पुनर्मथु- रामेव यामि स गोपेन्द्रनन्दन: खयमेत्य लां प्रसादयतित्यत आह-वहत्वि- त्यादि। मधूनां यादवविशेषाणां पतिः संप्रति सोऽभूत् व्रजेश्वरीगर्भजातलेन गोपजातिरपि भाग्यवशात् क्षत्रियजातिरभूत् अतस्तन्मानिनीनां क्षत्रियस्त्रीणां प्रसादं वहतु प्रापोतु ता एव सदा प्रसादयतु किमस्माभिर्निकृष्टाभिरगोंपस्त्रीभिरिति भावः । अत्र बहुवचनेन वहधातुप्रयोगेण च मधुस्त्रीणामानन्त्यात्सर्वासामेव तङ्भक्लात्, एकस्यां प्रसादितायाभन्यस्या मानोत्पत्तेः, तस्यामपि प्रसादिताया- मन्यस्या इत्येवं तासां प्रवाहरूपेण प्रसादं प्रापोतित्यस्मत्संनिधावागमने तस्या वसर एव नास्तीति भावः । ननु तदीयसर्वसौभाग्यनिधे देवि, मैवं वादीः।

ष्णवतोषण्यामेव रसनीयाः। विस्तरभिया नात्र व्याख्यायन्ते। कारिकासंगम- नार्थ किंचित्तु व्यज्यते। तत्र मधुपतिः । अन्र कितवबन्धो इत्यसूया व्यक्ता। सपल्या इत्यादिना अकौशलम् मास्पृशाब्रिमितीर्ष्यावधीरणं मदश्व वहत्वित्या

Page 510

उजवलनीलमणिः । ४८७

अथ परिजल्पितम्-

स्वविचक्षणताव्यक्तिर्भङ्का स्यात्परिजल्पितम् ॥१८४। यथा- सकृदधरसुधां खां मोहिनीं पाययित्वा सुमनस इव सद्यस्तत्यजेडस्मान् भवादक्।

यदि लयि तस्य मनो नासिति तर्हि कथमहं तेन दूतः प्रस्थापितस्तत्राह- यस्य दूतस्तमीट्टक क्षत्रियस्त्रीजनसुरतचिह्नधारी तस्य यदुसदसि विडम्बां विडम्बनमेव यदुस्त्रीणां तत्कृतस्य धर्मलोपस्य व्यक्तीभावेन कुपितस्तत्तत्पतिभि- स्तस्य विडम्बनमेव भविष्यत इति भाव:। यद्वा यदुसदसि अधिकरणे एव विडम्बनं भावि गोपेन तन्नारीणां भुक्तलात् यदूनां निन्दैव सर्वदेशे भविष्यती- त्यर्थ:। श्लेषेण यस्य दूतस्तमीद्क् स च मधुपतिर्मधूनां मद्यानां पतिरिति मद्यप एव। यतो मद्यस्य विक्षेपेणैव लादृशो भ्रमरो दूतः कृत इति। अत्र कितवेत्य- सूया, सपन्या इत्यादिना ईर्ष्या, अङ्गिं मा स्पृश इति मदः, वहित्यादिना अवधीरणम्, यदुसदसीत्यादिना अकौशलोद्वार इति विवेचनीयम्॥ १८३॥ १८४॥ ननु भ्रमरजातेर्ममायं स्वाभाविक एव रमश्रुपीतिमा नतु सुरतकुक्गुम- मिदं तस्य च लदेकतानमानसस्य मधुपुर्यां कामपि स्त्रियं खप्रेऽप्यपश्यतः कोऽप- राधो यतस्तमीदृशं मानमाविष्करोषीति तत्राह-सकृदिति। पायनस्यास- कृत्वेऽपि सकृदित्युक्तिरनुरागेण तन्नापि तृष्णां व्यज्यति-अधर एव सुधा तामिति । तेनैतावद्भिरपि संतापैर्वयं न म्रियामह इति भावः । एता मद्दत्तैः कष्टैर्यदि मरिष्यन्ति तदाहं काभ्यः कष्टं दास्यामि, तदासां मरणाभावाय खाम- धरसुधां पाययामीति स पुरा विचारयामासेति भावः। अतः सकृदेव पाययिला दिना च । १८३॥ १८४ ॥ सकृदिति। अन्न प्रथमे चरणे शाठ्यं द्वितीये चापलं निर्दयता च परिचरतीत्यादिना पद्माया अविचक्षणोक्ति: पद्मा चेयमुत्प्रेक्षत एव स यदात्रासीत्तदात्रैव महासंपत्तिरूपा(प)तयासीत् संप्रति तु तत्रैवेति। तामि- हेतुलेन विचारितम्। अथ चतुर्थे साविचक्षणतोक्तिरेव विवृत्य कथिता कारणाभासे

Page 511

४८८ काव्यमाला।

परिचरति कथं तत्पादपझं नु पझमा अपि बत हृतचेता उत्तमश्लोकजल्पैः ॥ १८५ ॥

सदस्ततक्षण एवास्मांस्तत्याज। अस्मत्सुखदानतात्पर्ये सति सुधापायनस्यासकृत्त्वं स्यादिति लमेव विचारयेति भावः । तत्रापि पाययिलेति णिचा तस्य बलात्कारो दर्शितः । नन्वेवं चेत् साध्व्यो भवत्यः क्थ तस्मै पुनः स्पृहयन्ति तत्राह- मोहिनीं बुद्धिभ्रंशिनीम्। अतस्तेनास्मदादयो लोकदूयत एव भ्रंशिता इति 'विष- वृक्षोऽपि संवर्ध्य सयं च्छेत्तुमसांप्रतम्' इति न्यायोऽपि श्रीकृष्णेन न गणित इति भाव: । किंच तस्य प्रीताप्रीतत्वे एवातिविचित्रे इत्याह-सुमनसो देवश्रेणी- र्विष्णुरिव श्रीकृष्णोऽस्मान् सुधां पाययिला सुमनसो भालतीर्भवादक् भ्रमर इवास्मांस्तत्याजेति पायनत्यागयोः कर्मणि च कर्तरि च पृथक् पृथक् दृष्टान्तः। देवपक्षे हे अधर निकृष्टेति संबोधनम् । 'सुपर्वोणः सुमनसः' इत्यमरः । ननु तस्य युष्मत्कर्मकत्यागे युष्माकमेव कोऽपि दोषः कारणमस्ति तस्य वेतयत्राह- सुमनस इवास्मान् स भवाहक् तत्याज। भ्रमरो यन्मालतीस्त्यजति तत्र दोषः कस्येति तयैव विचार्यतामिति भावः । 'सुमना मालती जातिः' इत्यमरः। सौरभ्यसौकुमार्ये पावित्र्यसर्वोत्कर्षादिभि: सुमनसः साध्म्योत् शोभनमनस्कलाच्च चयं सुमनस इति व्रजे प्रसिद्धा एव स च मधुसूदन इति व्रजे प्रसिद्ध एवेति नेदं कवितामात्रमिति ध्वनिः । ततश्व चाश्चल्यदोषादेव मालतीर्बेह्वीरपि त्यक्ता निकृष्टेष्वपि पुष्पेषु विसज्जत्यविसज्जति वा भ्रमरे इव श्रीकृष्णे कथं वयं मानिन्यो न भवाम इत्यनुध्वनिः। ननु श्रीकृष्णस्य निर्दोषलं शास्त्रप्रसिद्धमेव शास्रज्ञेन गर्गेण 'नारायणसमो गुणैः' इत्युक्तलात्, तत्र भवतु स नारायणस्तथापि पर- वञ्चनादिदोषाणां तत्र प्रत्यक्षत एव दृष्टतात्ते कथमपलपनीया भवन्तिति विमृश्य सविचिकित्समाह-परिचरतीति। पद्मा लक्ष्मीः । लक्ष्मीपरिचर्यायामपि हेतुं स्वयमेवोद्भावयन्त्याह-अपि बतेति। उत्तमश्ठोक इति ये जल्पाः स्तावक लोकानां स्तुतिमात्राणि तैर्हतं चेतो यस्याः सा। तेन लक्ष्मीरतिऋज्वी वयं तु वैचक्षण्यवैदग्घ्यबुद्धिवैचित्र्यादिगुणानां विधान्ना दत्तलात् कथं तादशीभवितुं प्रभवामेति भावः । अत्र पाययित्वेति मोहिनीमिति च तस्य शाठ्यं, सद-

कारणलं तयाभिमतमिति सोपहासलात्। यतः सोऽयमुत्तमः श्लोक इति ये जल्पाः

Page 512

उज्ज्वलनीलमणिः । ४८९

अथ विजल्प :- व्यक्तयास्यया गूढमानमुद्रान्तरालया। अघद्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ॥ १८६ ॥ यथा- किमिह बहु षडङ्गे गायसि त्वं यदूना- मधिपतिमगृहाणामग्रतो नः पुराणम्। विजयसखसखीनां गीयतां तत्प्रसङ्ग: क्षयितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः॥१८७।

स्वागान्निर्दयत्म्, भवादृगिति चापलम्, लक्ष्म्या आर्जवव्यज्ञनया खविच- क्षणलम्, आदिशब्दादकृतज्ञलप्रेमशून्यत्वादिकं तु सर्वत्रैवानुस्यूतम् ॥१८५॥ गूढा मानमुद्रा अन्तराले मध्ये यस्यास्तया ॥। १८६ ॥ भ्रमरजातिखभा- चेन हुंकारानू कुर्वन्तं तं भत्कृतेन तिरस्कारेणाप्तसंरम्भोऽयं सवीयं गानगुणं प्रकाशयसीति मलाह-किमिति। इह गोपीसभासु किं गायसि अज्ञस्य तव गानेन नैताः प्रसीदन्तीति भावः । तदपि बहु पुनः पुनर्गायसि तन्नापि यद्ुपति यदूनां पतिलेन ख्याप्यमानं तत्रापि नोऽस्माकमग्रतः । कीदृशी- नाम्। अग्रहाणां तेनैव त्याजितगरहाणामिह वनप्रदेश उपविष्टानां तुभ्यं चणक- मुष्टिभिक्षादानेऽप्यसभर्थानाम्। ननु स्ाङ्गोत्तीर्णपुरातनवस्त्रमाल्यादिकं किंचिहे- हीति तत्राह-पुराणं गायसि तस्य यदुंपतित्वे पुराणं प्रमाणयसि। हे षडङ्ग इति। पश्ुस्तावत् चुष्पात् तं तु षट्पद: सार्धपश्ुः कुत्र किं वा गातुमुचित- मिति बुद्भावान्न जानासि पश्लात् पुराणं वा कथं जानासि अतः कथं भिक्षां आप्स्यती(सी)ति भावः। किं च तव पशुलात्तुभ्यं वयं न कुप्यामः परंतु गानो- पजीविनस्तव स्थानमुपदिशाभः शण्वित्याह-विजयेति। कामयुद्धे विशिष्टो खावकानां सुतिमात्राणि तैस्तन्मात्रैरेव हृतं चेतो यस्याः सा॥१८५॥१८६॥ किमिहेति। अन्न पूर्वार्धेऽसूया। असूया चेयं मानव्यज्नी। उत्तरार्घे उपहा- सात्मकः कटाक्षः। विजयते याभि: सह कामयुद्धे विजयं प्राप्ोति यस्तव सखा

Page 513

४९० क़ाव्यमाला।

अथोजल्प :- हरे: कुहकताख्यानं गर्वगर्भितयेर्ष्यया। सासूयश्च तदाक्षेपो धीरैरुज्जल्प ईर्यते ॥ १८८ ॥ यथा- दिवि भुवि च रसायां का: स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रविजृम्भस्य या: स्युः । चरणरज उपास्ते यस्य भूतिर्वयं का अपि च कृपणपक्षे ह्युत्तमश्रोकशब्दः ॥ १८९॥।

जयो यस्य विगतो जयो वा यस्य स चासौ सखा चेति विजयसखस्तस्य सखीनां तव सखा कामयुद्धे या जयति याभिवा विजयते तासामेवाग्रतस्तत्प्रसङ्गः सुरत- जयपराजयप्रसङ्गो गीयताम्। यद्वा श्लेषेण पूर्व स सुबलसख आसीत् संप्रति विजयोऽर्जुनस्वस्य सखाभवदिति भाविवार्तापि तस्या मुखात् स्वयं निःसतेति ज्ञेयम्। ततश्च ताः क्षयितकुचरुजः खण्डितकुचज्वालास्तवेष्टं वाञ्छितं कल्पयि- ष्यन्ति । लया च तद्गानश्रावणया इष्टाः पूजिताः सत्यः। अत्र पूर्वारघेऽसूया मानगर्भा, उत्तरार्धे तूपहासात्मकः कटाक्ष: श्रीकृष्णे पर्योप्नोति ।।१८७॥ ।। १८८॥ ननु भो: श्रीकृष्णप्रेयसीशिरोमणे, तत्र स्थितः स रात्रिंदिवमेव लां ध्यायन् कामशरार्दितः खिद्यति वं चेत् प्रसीदसि तदैव तस्य निस्तार इत्यत्र सासूयमाह-दिवीत्यादि। अयमर्थः श्रीकृष्णस्य स्त्रीभिर्विना कालो न याती- त्यहं सुध्रु जानामि तत्र यदि मथुरायं स्त्रियो न मिलन्ति तदा सोऽस्मान् व्यायतु प्रसादयतु तत्र नेतुं लादशदूतं च प्रस्थापयतु। न च गोपजाति तं पुर- स्त्रियः क्षत्रियजातयः कथमङ्गीकरिष्यन्तीति वाच्यम्। यतो दिवि भुवीति। तदित्यव्ययम्। तस्य का दुरापाः यदि स सवर्गे गच्छति तदा देव्योऽपि रसायां रसातलादिषु नागपत्नयोऽपि सवसपतींस्त्यक्ला तमायान्ति मथुबङ्गनानां का तस्य सखीनां तासामेवाग्रे तत्प्रसङ्गो गीयताम्। तेन च विजयेन ताः प्रत्युत क्षयि- तकुचरुआानिन्यस्तद्भ्ावेनेष्टाः पूजितंमन्याः सत्यस्ते तवेष्टं कल्पयन्ति संप्रत्येव कल्पयिष्यन्ति। वर्तमानसामीप्ये वर्तमानवद्दा ॥ १८७॥ १८८॥ दिवीति। अत्र पूर्वार्घे कुहकता सासूयाक्षेपश्च। 'चरणरज उपास्ते' इत्यर्घे स्वविशेषणगर्व-

Page 514

उज्ज्वलनीलमणिः । ४९१

अथ संजल्प :- सोलुण्ठया गहनया कयाप्याक्षेपमुद्रया। तस्याकृतज्ञताद्युक्ति: संजल्पः कथितो बुैः ॥१९० ॥ यथा- विसृज शिरसि पादं वेदयहं चाटुकारै- रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात्।

वार्तेति भावः। न च तत्तदङ्नाप्राप्तौ तस्य किंचित् पणादिकमपेक्षितव्यमि- त्याह-कपटेनापि रुचिरौ सर्वासां मनोहरौ भ्रूविजृम्भहासौ यस्य तथाभूतस्यैव तस्य या देव्यादयः स्युनेतु स्वखपतीनामित्यर्थः । सकपटहासमूल्येनव ताः खय- मेव क्ीता भूला सस्पतींस्त्यजन्ति। कपटपदेन श्रीकृष्णस्तु सकृदेव भुक्तास्ता- स्त्यजति नवप्रियत्ादिति भावः । देव्यादयो दूरे वर्तन्तां भूतिर्लक्ष्मीः श्रीनारायणस्यापि स्त्री चरणरज उपास्ते । तदङ्गसङ्गार्थमिति नागपत्नीवाक्यम्। वयं पौर्णमासीमुखादश्राष्म अतो वयं काः कस्यां गणनायां तिष्ठामो यतो मानुष्यस्तन्नापि गोप्यस्तत्रापि वृन्दावनीया इति भावः । इदं दैन्यमयवा- क्यमपि समस्तकोद्धननखरविशेषेण गर्वगर्भितमीर्ष्याभेव व्यनक्ति। सा चेर्ष्या खेषां लक्ष्म्यादितोऽपि प्रेमाधिक्यं रूपलावण्याधिक्यं चानुव्यनक्ति। अपि च किंच। उत्तमश्लोकशब्दो हि कृपणपक्ष एव। संतप्तदीनहीनजनानू यो दयते सह्युत्तमश्लोक उच्यते श्रीकृष्णे तु तल्लक्षणाभावात् मिथ्यैवोत्तमश्लोकते- त्यर्थः । यद्यप्यस्मद्विधान् कृपणजनान् स नादुःखयिष्यत् तदा खस्मिन् कथमुत्तमश्रलोकशब्दवाच्यतमधास्यदिति वाक्षेपध्वनिः । अत्र पूर्वार्धे दिवि भुवी- त्यादिना कुहकताख्यानम्। चरणरज इति तृतीयचरणे गर्वगर्भितेर्ष्या। अपि चेति चतुर्थपादे सासूय आक्षेपः ।। १८९ ॥ सौरभलोभेन चरणतले पतन्तमपि भ्रमरम्। नतु लक्ष्मीकोटिनिर्मञ्छनीयचरणनखद्युते देवि सत्यं लय्यपराद्ध एव श्रीकृष्णस्तस्मात्त्वं कृपयैव क्षमखेति प्रणमन्तं तं मलाह-विसृजेति। शिरसि धृतं मम पादं विसृज त्यज इतो दूरीभवेत्यर्थः । वेकयहमिति। लक्ष्म्यादिकेव गर्भितलवम् अपिचेत्यथवेत्यर्थे। तस्योत्तमश्लोकलेन यो जल्पः स खलु अस्मद्वि- धक्कृपणपक्ष एवेत्यप्रि पूर्ववद्गर्वगर्भितलमेवेति ॥ १८९॥१९०॥ विसृजेति

Page 515

४९२ काव्यमाला।

स्वकृत इह विसृष्टा पत्यपत्यन्यलोका व्यसृजदकृतचेताः किं नु संघेयमस्मिन् ॥ १९१॥

अथावजल्प :- हरौ काठिन्यकामित्वधौर्त्यादासत्त्ययोग्यता। यत्र सेर्ष्य भियेवोक्ता सोऽवजल्पः सतां मतः ॥१९२॥

नाहं प्रतायेति भावः । मुकुन्दात् सकाशादभ्येत्य चाटुकारैः प्रियोक्तिरचनारूपै- दौत्यैर्दूत्यकर्मभिरनुनयविदुषस्तस्मादनुनयप्रकारं शिक्षितवतस्तव सर्वं शीलादिक- महं वेदि। कर्मणि वा षष्ठी। लां वेझ्मीत्यर्थः। ननु खामिनि तत्प्राणकोय्यधिकेन तेन सह विग्रहेणालं प्रत्युत मया तीर्थेन संधिरेव कर्तु युज्यत इति तत्राह- स्वकृते तदर्थ विसृष्टानि त्यक्तानि अपत्यानि च पतयश्च अन्यलोकाश्च माता- पित्रादयश्च याभिस्तत्र वा स मुरलीवादनसमयेऽन्तर्गृहनिरुद्धगोपीभिरपत्यानि त्यक्कानि तदानीं तानि त्यक्लैवाभिसटतलात्। अस्माभिस्तु पतयः धन्यादिक- न्याभिः पित्रादय इति यथासंभवं ज्ञेयम् । ता गोपीर्योऽसजद्। कीदृशः। अकृतचेताः न विद्यते कृते उपकृते चेतो यस्य सः । अकृतज्ञ इत्यर्थः। नन्वहो ईदृशेऽस्मिन् कठोरे किं नु संधेयं संधातुमर्हम्। अपि तु नैवेत्यर्थः । अत्र पूर्वार्धे सोहुण्ठा आक्षेपमुद्रा, उत्तरार्घेऽकृतज्ञता, आदिशब्दान्निर्दयलपरद्रोहितप्रेमशून्य- लानि॥ १९० ॥ १९१ ॥ ननु अतिकोभलमनाः स लामेव व्यायंस्तत्रास्माभि- दश्यते इति तत्र लमर्वाचीनो दासस्स्य तत्त्वं न जानासि न केवलं स ह्यस्मिनेव जन्मनि कठोर: किंतु पूर्वपूर्वजन्मखपीति पौर्णभास्या मुखादस्माभि: श्रुतत्वादि-

शिरसि कृतं निहितं पादं मम चरणं विसज। नन्वनुनयेऽस्मिन् रोष: कुतस्तन्राह- मुकुन्दादभ्येत्य नूनं तस्मादेव शिक्षिला चाटुकारैरनुनयविदुषस्ते तवाहं वेद्यि यत्किंचिद्धृदिस्थमिति शेषः । ननु संधिरेव मम हृदिस्थस्तत्राह-स्वकृत इति। सकृते खनिमित्तं तत्र पूर्वार्धे सोहुण्ठलम्, उत्तरार्धे आक्षेपोऽकृतज्ञता च। न विद्यते कृते उपकृते चेतो यस्येति ॥ १९१ ॥ काठिन्येति। समाहारद्वन्द्वः ।। १९२॥

Page 516

उज्ज्वलनीलमणिः । ४९३

यथा- मृगयुरिव कपीन्द्रं विव्यघे लुब्घधर्मा स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम्।

त्याह-मृगयुरिवेति। यदा स क्षत्रियजातौ रामचन्द्रोऽभूत्तदा क्षत्रियधर्म परित्यज्य मृगयुव्याध इव कपीनामिन्द्रं वालिनं विव्यधे विव्याध। तत्रापि निर्दयो गुप्तः सन्नित्यर्थः । धर्मकथापि तदुपाख्याने ेया। तत्राप्यलुब्धधर्मा लुब्धकस्य व्याधस्यापि धर्मरहितः, नहि व्याधो वानरान् हिनस्ति तन्मांसस्याभक्ष्यत्वेन केनाप्यक्रेयतादिति भावः। अन्यमप्यधर्म शृण्वित्याह-स्त्रियं शूर्पणखां काम- यानां तमेव कामयमानां तां विरूपां छिन्नकर्णनासामकृत। अन्योऽपि कोऽप्येनां न संभुङ्का(नत्तिव)मिति कौर्येणेति भावः। न च जटावल्कलधारिताद्वैराग्येणे्यत आह-स्त्रिया सीतया जितः। तथा तत्पूर्वजन्मनि ब्राह्मणजातौ स वामनोऽभूत्त- दापि ब्राह्मणधर्म शान्त्यकैतवादिकं परित्यज्य बलिं परमधार्मिकमपि तन्नापि बलिं तत्पूजोपहारमत्त्वा भुत्तवापि त्रिविष्टपात् त्रैलोक्यराज्यादक्षिपत् तन्रापि भूविवरे। पाठान्तरेऽवेष्यत् छलेन बबन्ध ध्वाङ्गवत् काकवत् स यथा बलि जगन्वापि लोकं स्ीजनं वेष्टयति खजातीयानन्यानाहूय तमावृणोति कदर्थयति च। तस्मादसितस्य कृष्णवर्णस्य तस्य सख्यैबहुषु सख्यप्रकारेषु एकेनापि प्रकारेणालं अस्माकं गौरी- णामसिताः खल्पशुद्धचित्ता भवन्तीति तेभ्यो भयस्यावश्यभावित्वादिति भावः । नन्वभीक्ष्णं परनिन्दां कुर्वती भवती किं शुद्धचित्तासीति तत्राह-तस्य कथायाः प्रतिजन्मचरित्रस्यार्थो व्याख्या। दुस्त्यजः सोऽस्मानेवं दुःखयति। अस्माभिख- त्कथाया अप्यर्थो न वक्तव्य एव किम्। अत्र निन्दा वा भवतु यथार्थभाषणेना- निन्दा वा भवतु असौ त्यक्तुमशक्य एवेति भावः। यद्वा स लस्ाभिस्तक्त एव किंतु तद्यथारूपोर्ऽर्थो वस्तुविशेषस्तु दुस्त्यज एव क्तृपदानुत्त्या सर्वैरेक मुन्यादिभिरपीत्यर्थः । अत्र विव्यध इति काठिन्यम्, स्त्रीजित इति कामिलम्, बलिमपीति धौर्त्यम्, असितसख्यैरिति आसत्त्ययोग्यता, भयमीर्ष्या च ॥१९२॥

मृगयुरिति। तत्तस्मादसितस्य असितमात्रेण सख्यैः सख्यप्रकारैः। तेग्वेकेना- प्यलं यस्मादेकोऽसितो मृगयुरिवेत्यादि चरितं कृतवान्। कपीन्द्रं वालिन स्त्रियं शूपेणखां कामयानां कामयमानामपि सयमपि स्त्रीजित एव तदाज्ञयैव कनकमय-

Page 517

४९8 कान्यमाला।

स्तदलमसितसरन्यैर्दुस्त्य जस्तत्कथार्थः ॥ १९३ ॥ अथाभिजल्पितम्- भङ्गा त्यागौचिती तस्य खगानामपि खेदनात्। यत्र सानुशयं प्रोक्ता तद्द्वेदभिजल्पितम् ॥ १९४॥ यथा- यदनुचरितलीलाकर्णपीयूषविप्ुट्- सकृददनविधूतद्वन्द्वधर्मा विनष्टाः । सपदि गृहकुट्ठुम्बं दीनमुत्सृज्य दीना बहव इह विहङ्का भिक्षुचर्या चरन्ति॥ १९५ ॥

।। १९३ ॥। खगानामपि खगसदृशीकृतानामपि सज्जनानां पुनः खेदनात् सानु- शयं सानुतापम् ।। १९४ ॥। वयं साक्षात्तेन सह सख्यं कृतवत्यो यद्दुःखिन्योऽ- भूम तत्र किं चित्रं तल्लीलाकथापि सर्वजगत्संतापनीत्याह-यस्यानुचरितं प्रति- क्षणचेष्टितमेव लीला सैव कर्णपीयूषं शब्दमात्रेणैव सुखदं कि पुनरर्थत इति भाव: । तस्यापि विभ्ुट्, तस्यापि सकृदप्यदनं किंचिदाखवादनं तेनापि विधुता विशेषेण खण्डिता द्वन्द्वधर्मा: स्त्रीपुंसादिपरस्परसौख्यरूपधर्मा येषां ते। तत्कथां स्त्री चेच्छणोति सद्य एव पतिस्ेहं त्यजति, पतिश्वेत्स्ीस्नेहम्, एवं पुत्रश्वेत पितरं मातरं च, माता चेत् पुत्रमित्येवं परस्परत्यागात् विशेषेण नष्टा इति तेषां नाशे तथा न दुःखं यथा वैराग्य इति। सांसारिकलोकानुभव एव प्रमाणमिति भावः। किं च ते जना: स्निग्धमनसोऽपि कठोरस्य श्रीकृष्णस्य लीलाश्रवणादिभिः कठोरा निर्दया: कृतम्नाश्च भवन्तीत्याह-सपदि कथाश्रवणमात्र एव गृहकुटुम्बं पितृस्व- मृगमारणादिति भावः। अन्योऽसितस्तु बलिमपीत्यादि चरितं कृतवान्। तर्हि कर्थं ममेशितुरसि तस्य वार्ता प्रस्तौषि भाप्रस्तौषीरेव। तत्राह-दुस्त्यज इति। सत्यभवादी: किंतु तस्य दर्शितस्वाधिक्यात्तस्मादप्यधिकस्य कथाया योऽर्थः प्रति- पाधः; तत्तल्क्षणो दोष: स दुस्त्यजः सदा मनसि स्फुरतीति वचसि त्यक्तुं न शक्यत इत्यर्थः । तेन तेन दोषेण मुहुर्मुहुः कदर्थनादिति भावः ॥१९३॥ अनु-

Page 518

उज्जवलनीलमणिः । 8९५

अथाजल्प :- जैह्यं तस्यार्तिदत्वं च निर्वेदाद्यत्र कीर्तितम्। भङ्ान्यसुखदत्वं च स आजल्प उदीरितः ॥ १९६ ।।

स्नादिपर्यन्तमपि दीनमन्यस्योपार्जकस्याभावात् श्वो यद्भोक्ष्यते तद्धनरहितमपि यद्वा तद्विच्छेदकातरमुत्सज्य मृत्यवे कुशवारिसंयोगेन संप्रदायेवेत्यर्थः । हन्त हन्त ते स्त्रीपुत्रादयो म्रियन्तां नाम खयमपि सुखिनो नैव भवन्तीत्याह-दीना गृहं त्यक्ला गच्छन्तश्चित्तविक्षेपात् वराटकमात्रमपि ग्रन्थौ न गृह्नन्तीति भावः । धीरा इति पाठे भार्यादिरोदनदर्शनेऽप्यक्षुभ्यन्तो महाकठोरा इत्यर्थः । न च ते एको वा द्वित्रा वा चतुःपञ्च वा किंतु बहवः परःशताः परःसहस्रा्। नतु ततस्ते कया जीविकया जीवन्तीत्याह-विहृङ्गाः पक्षिण इव भिक्षुचर्या गोधूमादि- कणभिक्षापरिपाठ्यैव जीवन्ति न तु केनापि दत्तया स्थूलभिक्षयापीति भावः । इहेति पाठेSत्रैवास्मद्दुःखस्थाने वृन्दावनस्थान एवागत्येत्यस्मत्सङ्गादपि महादु :- खिनो भवन्तीति भावः। तेन तत्कथाया बहुमत्स्यण्डिकामयधुस्तूरबीजचूर्णलं कथावाचकस्य साधुवेषच्छन्नमहाघातुकतं पुराणपुस्तकस्य जाललं ध्वनितम्। अत एव ते वनाद्वनं भ्रमन्तोऽपि स्कक्षगृहीत पुस्तका एव दृश्यन्ते। व्यासा- दीनां जालनिर्मातृत्वं श्रीकृष्णस्य परमेश्वरतवेन तत्तदादेष्टवम्। एतदर्थमेव श्रीकृ- ष्ेन परमेश्वरता गृहीता। गोप्य इव सर्वलोका अपि दुःखाब्धौ पतन्व्विति तस्य विचारः। ईदशपरदुःखदर्शनमेव तस्य सुखमत ईदृशपरदुःखदानजन्यफलभागी यथा स भविष्यति तथा न व्यासादय इति परःशता एव ध्वनयोऽस्य पदस्य सर्व एव सिद्धान्ततो व्याजस्तुल्या भक्ते: सर्वोत्कर्षव्यञ्ञका जेयाः ॥ १९५॥ तस्यार्तिदलं

शयोऽनुतापः ॥ १९४ ॥ यदनुचरित इति। समवेतलमेव। तत्र दृश्यमा- नेषु विहद्गेषु भिक्षुलमारोप्य गदितम्।'तन्व तेषामपि भिक्षुलकरणम्। तद्दोषं तेन प्रदर्श्योपालम्भम्। कर्णपीयूषलेन मनसि तु तस्यान्यथा रीति सूचयिला खण्डमयधुस्तूरबीजचूर्णलमिव स्थापितम्। द्वन्द्वधर्मा मिथुनीयभोगा: तेषां विधू- तत्ादेव विनष्ाः। ततश्र सपदीति। इह वृन्दावने भिक्षुचर्यां वृक्षादिषु कण- भिक्षाम्। लक्षणं तु स्पष्टमनुगतम् ।। १९५।। अन्यसुखदलमन्यकर्तृकसुखदा-

Page 519

४९६ काव्यमाला।

यथा- वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः । दद्दशुरसकृदेतत्तन्नखस्पर्शतीव्र- स्मररुज उपमन्रिन् भण्यतामन्यवार्ता ।। १९७।। अथ प्रतिजल्प :- दुस्त्यजद्वन्द्वभावेऽसिमिन् प्राप्तिर्नार्हेत्यनुद्धतम्। दूतसंमाननेनोक्तं यत्र स प्रतिजल्पकः ॥ १९८ ॥

दुःखदलम्, अन्यस्य सुखदलम् ॥ १९६ ॥ नन्वेवं चेत् परमविज्ञाभिर्भवतीभिः श्रीकृष्णे तस्मिन् कथं सख्यं कृतं तत्राह-वयं तस्य 'न पारयेऽहं निरवद्यसंयु- जाम्-' इत्यादिकं जिह्मव्याहृतमपि ऋतमिव सत्यमिव श्रद्दधाना अज्ञा अभूम। कुलिकस्य व्याधस्य रुतं शब्दं श्रद्दधाना हरिण्यः कृष्णवध्वः कृष्णसारस्त्रिय इव। ततः किमत आह-एतत्कुलिकरुतं दद्दशुः। रुतस्य दर्शनासंभवात्तत्फलं शर- घातं दद्दशुरित्यर्थः। तथव वयमपि तन्नखस्पर्शेन तीव्राः स्मररुजः कन्दर्पपीडा ददृदशिमेत्यर्थः । असकृदिति। एकवारतत्फलदर्शने पुनरपि विश्वासात् पुनरपि तत्फलदर्शनादक्षताधिक्यं हरिणीनामस्माकं च लब्धपुनःपुनर्मदनोत्थदुःखद- शानां तस्मादुपमन्त्रिन् हे विदूषक, अन्यवार्ता भण्यतां तस्य तद्वार्तायाश्र दुःखद- लादन्यकथैव संप्रत्यस्माकं सुखदेत्यर्थः । अन्र लक्षणसंगतिः स्पष्टैव ॥ १९७॥। अथोन्मादेन तत्रैव भ्रमन्तमपि तं भ्रमरमननुसंधाय क्षणमन्तर्हितं वा तम- पश्यन्ती सखेदं पराममर्श हन्त हन्त मम तीक्ष्णया गिरा संतप्तेनानेन दूतेन

नम् ॥ १९६ ॥ एतत्तस्य तव कापट्यं दददशुः । दद्दशिम इत्यर्थः । कीदृश्यो यूयम्। तत्राह-तन्नखेति। तस्यान्येषामङ्गानां स्पर्शस्मरणमस्माकं नास्त्ेव किंतु बलादिव तन्नखस्य स्पर्शेन जाता स्मररुक यासां तादृश्य एव जाताः बाण- स्पर्शरुजो हरिण्य इवेति भावः। उपमन्त्रिन् हे विदूषक। 'तत्रोपमन्न्रिणो राजन्' इति प्रयोगदर्शनात् अन्यस्य वार्ता भण्यताम्। सैव सुखदा भवेदिति भावः।

Page 520

उज्ज्वलनीलमणिः ।

यथा- प्रियसख पुनरागा: प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननीयोऽसि मेऽन्ग ।

सततमुरसि सौम्य श्रीर्वधूः साकमारते ॥ १९९ ॥

मथुरां गतेनावेदितसर्ववृत्तान्तः श्रीकृष्णो मामुपेक्षांचक्रे इति कलहान्तरितदशां प्राप्ता प्रेमाम्बुधिना सङ्गुणमौलिना मत्कान्तेन पुनरपि स एव प्रेषितो दूतोऽत्रा- यातिति तद्वर्त्म निरीक्षमाणा अकस्मात्तं विलोक्य सादरमाह-हे प्रियसख, मत्प्रियस्य सखे, पुनरागा: मद्वाक्शरताडितोऽपि खवसाद्गुण्येन मदपराधमगणयि- लैव आगाः। आं जानामि प्रेयसा मय्यतिप्रेमवता मदपराधकोटीरगणयता तेनैव किं प्रेषितः । तर्हि वरय वृणु किमनुरुन्धे अनुरुणत्सि कामयसे इत्यर्थः। यद्वा कमनुरोधं ते संपादयामीत्यर्थः। तव मथुरागमनमेव वृणोमीति चेद् यामि मथु- रामित्युत्तवापि पुनः पुरस्तरीवेष्टितं तं तत्र पश्यन्त्या मेऽवश्यं मानो भविष्यतीति परामृश्याह-नयसीति-दुस्त्यजद्वन्द्वं मिथुनीभावो यस्य तस्य पार्वम्। नन्वेकाकी स तत्र वर्तत इति सशपथं ब्रवीमीति तत्राह-हे सौम्य, आर्यवु- द्विरसीति भावः। श्रीरेव वधू: साकं सहैव। तत्रापि सततं तत्राप्युरसि पुरुषा- यितलेनेति भावः । अयमर्थ :- श्रियो देवीलेन नानारूपधारितशक्तेः श्रीकृष्णों यदा अन्याः स्त्रीः संभुंक्ते तदा खवर्णरेखारूपैव तद्वक्षसि तिष्ठति। यदा तमन्याः स्ति्रियो नायान्ति तदा रेखारूपतां त्यत्त्वा प्रकटमेव युवतिर्भूला तं रमयतीति।

तत्र च लक्षणं स्पष्टमेव ।। १९७॥ १९८ । तदेवं मानभज्गया प्रत्याख्यातम्। क्कचिदन्तर्धाय पुनरागतं भ्रमरं प्रति कलहान्तरिता भङ्गया प्राह-प्रियसखेति। पुनरागा: आगतवानसि। तत्र च प्रेयसा प्रेषितः किमागतवानसि। अनुरुन्धे अणुरुणत्से(त्सि) कामयस इत्यर्थः । अथ मथुरां प्रति खनयनोद्तं तमुत्प्रेक्ष्य प्रत्याचष्टे-नयसीति । दुस्त्यजं द्वन्द्वं मिथुनीभावो यस्य तस्य पार्श्वम्। कथं दुस्त्यजद्वन्द्वतवं तत्राह-सततमिति। या खलु रेखारूपा श्रीखतदुरसि दृश्यले सा रात्रौ रमा भवतीति भावः। अत्र च स्पष्ट लक्षणम् ॥ १९९ ॥ ३२ उज्व०

Page 521

काव्यमाला।

अथ सुजल्प :- यत्रार्जवात्सगाम्भीर्य सदैन्यं सहचापलम्। सोत्कण्ठं च हरिः प्रेष्ठः स सुजल्पो निगद्यते ॥२००॥ यथा- अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते स्मरति स पितृगेहान् सौम्य बन्धूंश्र गोपान्। कचिदपि स कथां नः किंकरीणां गृणीते भुजमगुरुसुगन्धं मूर्ध्यधास्यत्कदा नु ॥। २०१॥

अन्रापि स्पष्टैव लक्षणसंगतिः ॥१९८॥१९९ ॥ हा हन्त मयोन्मत्तया किं लप्यते प्रष्टव्यं तु न पृच्छयत इत्यनुतप्य ससंत्रममाह-अपि बतेति। मधुपुर्यामास्ते व्रजमिव तामपि त्यत्त्वा अन्यत्र किंख्वित् न यियासतीति भावः। इतः समीपवर्तिन्यां तत्र पुर्या तस्य स्थितिरत्रागमनसंभावनामप्युत्पादयतीति भाव: । यद्वा सुखमास्ते इत्यनुकेरस्मत्प्रणयस्मरणव्याकुलोऽनुरोधवशादेव तन्नासे यत आर्यस्य यदुभिर्दुर्विनीतैः प्रतार्यमाणलात सारल्यसमुद्रस्य श्रीव्रजराजस्य तदेकप्राणस्य पुत्रः । हन्त हन्त मत्पितापि मां व्रजं नेतुं नाशकत्तदहं तत्र गन्तुं कमुपायं करोमीति स विलम्बमसहमानस्लां प्रस्थापयति स्मेति भावः । तेन मधुपुर्यामास्ते इति तस्य को दोषः यतः आर्यस्यातिसरलस्य सपरिणामदर्शिले- नापि शून्यस्य श्रीनन्दस्य पुत्रस्तादृशं खपुत्रं तादृशः पिता यस्त्यत्तवा व्रजमाया- स्यतीति को जानातीति। यद्यज्ञा स्यात् व्रजराज्ञी सा तावदकूररथारूढैव खपुत्रं, कण्ठे कुर्वत्येव मथुरामयास्यत्। तामनु गोपिकाश्रेण्यश्वेति व्रजराजस्यार्यलमेवा- स्माकं सर्वनाशे कारणमभूदिति भावः । अतस्तादृशस्यापि पितुरतिसरलस्य वसु- देवेन महाप्रतारकेणाच्छिद गृहीतपुत्रस्य व्रजमागत्य मूच्छया पतिता स्थितस्य गेहान् कोषागाररन्धनागारशयनासनागारादीन् संप्रत्यमार्जितालिप्तलेन तृणधूलि- पत्रलूतातन्तुवृतान् शून्यायितान स्मरति कच्ित्। तथा गेहान्तरेषु बन्धून सुबलादीन् संप्रति मूर्च्छितान्। कचिदपीति। यदा तस्य मनोऽभिरु-

अन्न आर्यपुत्र इति सोऽस्माभि: पतिलेनैव प्रतीयते बहिरन्यथाख्यातिस्तु नं

Page 522

उज्ज्वलनीलमणिः । ४९९

अथ मादन :- सर्वभावोद्गमोल्लासी मादनोऽयं परात्पर:। राजते ह्वादिनीसारो राधायामेव यः सदा ॥२०२॥

चितं कैङर्य कर्तु पुरस्ति्रियो न जानन्ति तदैव तत्सुखमनुपलब्धवतीभिस्ताभि: सुखानुपलम्भकारणं पृष्टो नोऽस्माकं कथां गृणीते वनमालागुम्फने, स्थासक- संपादने, वीटिकानिर्माणे, वीणावादने, रागतालादिसष्टौ, गीतनृत्यरासादौ, सौन्दर्यलावण्यवैदग्ध्यादिषु, प्रश्नोत्तरविलासे, संप्रयोगलीलायाम्, प्रेमस्नेहमा- नप्रणयादिषु, यथास्मद्वजस्था गोप्यो मां सुखयन्ति न तथा यूयमिति गच्छत भो यदुस्नियः सवसपतीनेव अलमलं युष्माभिरहं श्वः प्रातर्व्रेजमेव गच्छनस्मी- त्युक्खान्रागत्य अगुरुसुगन्धभुजमस्माकं मूर्ति कदा अधास्यत् धास्यति। तेन च समाश्वसितव्या भोः प्राणप्रेयस्यः सशपथमिदमहं न्रवीमि भवतीस्त्यक्ता न क्वापि यास्यामि त्रिभुवनमध्ये क्वापि युष्मत्सादृश्यगन्धलेशमपि नोपलब्धवानस्मीति व्यज्जयिष्यति। अत्र प्रथमचरणे आर्जवम्, द्वितीये खप्रसङ्गानुत्थापनेन गाम्भी- र्यम्, तृतीये दैन्यम्, चतुर्थे चापलमुत्कण्ठा च। अन्न चित्रजल्पप्रलपनमाघुर्य- अ्रवणोत्कण्ठया श्रीकृष्ण एव भ्रमररूपेण तन्रागत इत्यैश्वर्यपक्षीयाः ॥ नायमुन्मादः किंतु भ्रमरमपदिश्य श्यामं पीतांशुकमुद्धवं प्रत्येोक्ता दशश्रलोकीलन्यदेशीया आहुः ॥२००॥२०१॥ सर्वेषां रत्यादिमहाभावान्तानां भावानामुद्गमे सत्युल्ला- सनशीलः । मादने विरहाभावात्। यद्वा सर्वेषां भावानामुद्रममुत्कर्षेण लासयितुं शीलं यस्य सः। नन्वेवंभूतो महाभावभेदो मोहनोऽपि भवितुमहतीति तत्राह- परात् मोहनादपि परः। वक्ष्यभाणानुभावगम्यो महाभावसामान्यविशेषलक्षण- युक्तश्र भवेदित्यर्थः । विशेषतो निरुक्तिश्वाशक्या। यद्वक्ष्यते-'न निर्वकुं वुध्यते इति भाव: । श्रीकृष्णेनाप्युद्धवं प्रति प्रकाशितोऽसिति। 'मामेव दयितं प्रेष्ठ- मात्मानं मनसा गता' इति। अधास्यत् धास्यति ॥ २००॥ २०१ ॥ हादिनी सारप्रेमा सर्वभावोद्रमोललासी चेदसौ मादन उच्यते। स च परात्परो ज्ञेयः। यः खलु श्रीराधायामेव राजते कदाचिदन्त: कदाचिद्हिः प्रकाशत इत्यर्थ: ॥२०२॥

Page 523

५०० काव्यमाला।

यथा- आसृष्टेरक्षयिष्णुं हृदयविघुमणिद्रावणं वक्किमाणं पूर्णत्वेऽप्युद्वहन्तं निजरुचिघटया साध्वसं ध्वंसयन्तम्। तन्वानं शं प्रदोषे धृतनवनवतासंपदं मादनत्वा- दद्वैतं नौमि राधादनुजविजयिनोरद्भुतं भावचन्द्रम् ।।२०३।।

भवेच्छक्यस्तेनासौ मुनिनाप्यलम् ।' इति ॥ २०२ ॥ पौर्णमासी नान्दीमुखी- माह-आसृष्टेः सृष्टिः प्राकृत्यप्राकृती च। तां तामभिव्याप्य सर्वकालमित्यर्थः। अक्षयिष्णुं क्षयसंभावनारहितमिति प्रेम्ण उद्गमो दर्शितः । हृदयेति। स्ररेह्दस्य वक्रिमाणमिति मानस्य, निजेति प्रणयस्य, प्रदोषे प्रकृष्टे दोषे दुःखेऽपि शं सुखं तन्वानमिति रागस्य, धृतनवेत्यनुरागस्य, मादयति हर्षयति सर्व जगदपीति तस्य भावस्तस्माद्वेतोरद्वैतमद्वितीयं निरुपममिति महाभावस्य श्लेषेण मादनसंज्ञला-

द्वितैव द्वैतं न विद्यते द्वैतं द्वित्वं यस्य तं श्रीवृन्दावनेश्वर्या विना क्वाप्यन्यत्रानुद- यात् द्वित्वं यस्य नास्तीत्यर्थः । राधादनुजविजयिनोराश्रयविषययोः । यद्यपि सर्वत्रैव भावेषु तयो: परस्पराश्रयविषयत्ं व्याख्यातं तदप्यत्र न तथा व्याख्येयं मादनस्य श्रीराघैकाश्रयलेन राधायामेवेति लक्षणोक्तेः, अद्वैतमित्युदाहरणोक्तेश्व। नौमि स्तौमि । भाव एव चन्द्रोऽस्मन्मनोरथकुमुदवृन्दविकाशकलात्। अद्भुतल- मत्रासृष्टेरिति, पूर्णलेऽपीति, धृतनवनवेति विशेषणत्रयेण प्रसिद्धचन्द्रतो वैलक्ष- प्यातू। हृदयेति, निजरुचीति, प्रदोष इति विशेषणैस्त्रिभिस्तेन सह सालक्षण्या-

आसृष्टेरिति। भूतभविष्यद्वूर्तमानव्यापिनी या सृष्टिस्तां व्याप्याक्षयिष्णुं तदिद- मिवाद्भुतलाय सर्वत्र संगमनीयम्। इति प्रेम्ण उद्गमो दर्शितः । हृदयेति स्नेहस्य, वक्िमाणमिति मानस्य, निजेति प्रणयस्य, प्रकृष्टे दोषेऽप्यपराधेऽ्रपि कालदेश- कृतदुःखरूपे दोषे वा शं सुखं तन्वानमिति रागस्य, धृतनवनवेत्यनुरागस्य, माद- नलवादिति भावपूर्णतावस्थालक्षणस्य मादनस्येति। चन्द्रपक्षे आसष्टेरिति चन्द्रले

Page 524

उज्ज्वलनीलमणिः । ५०१

अत्रेर्ष्याया अयोग्येऽपि प्रबलेर्ष्याविधायिता। सदा भोगेऽपि तद्न्धमात्राधारस्वाद्यः॥२०४॥ तत्रायोग्येऽपीर्ष्या यथा दानकेलिकौमुद्याम्- विशुद्धाभि: सार्ध व्रजहरिणनेत्राभिरनिशं तमद्धा विद्वेषं किमिति वनमाले रचयसि। तृणीकुर्वत्यस्मान् वपुरघरिपोराशिखमिदं परिष्वज्यापादं महति हृदये या विहरसि॥ २०५॥ सदा भोगेऽपि तद्गन्धमात्राधारस्तुतिर्यथा श्रीदशमे- पूर्णा: पुलिन्ध उरुगायपदाज्राग- श्रीकुङ्कमेन दयितास्तनमण्डितेन।

द्रूपकम् ॥ २०३॥ आदिशब्दाच्छ्रीकृष्णावलोकनचुम्बनालिङ्गन संप्रयोगादिसुखानां युगपदेव कोटिशोऽनुभवः। यथा कर्मी जनः कोटिकल्पगतभोग्यानि सुखदुःखानि एकस्यामेव घटिकायां कदाचित् भुङ्गे किंतु तत्र कायव्यूहेन, अत्र तु कायव्यूहं विनैवेति भेद इति॥ २०४ ॥ श्रीराधा गोवधेने दानार्थिन: श्रीकृष्णस्य वनमालां वीक्षमाणा तां प्रति सेर्ष्य नीचैराह-विशुद्धाभिरस्माभिरिति। वयं लां कदापि न द्विष्म इति भावः। ननु किं मद्देषलक्षणं पश्यसीति। तत्राह-तृणीकुर्व- तीति। सदाभोगेऽपीति। भादनभावसवभावादेव श्रीकृष्णाङ्गदर्शनकालेपि श्रीकृष्णाङ्गपरिष्वङ्गचुम्बनादिमया: सहसवः संभोगास्तनापीत्यर्थः। मादने विर- हास्वीकारादपिकारो दुस्तर्क्यताद्योतकः ॥ २०५॥ दष्टचरी: काश्चित् पुलिन्दीर- नुसृत्य श्रीराघाह-पुलिन्धः शबराहना एव पूर्णो वयं लपूर्णा एवेत्यतस्तदीयं तपो जिज्ञासमानाश्चिकीर्षाम इत्यनुरागो ध्वनितः । ननु केन पूर्णोस्तन्नाह- उरुगायस्य पदाब्जस्य रागो रञ्नं यत्र तेन श्रीयुक्तकुक्कुमेन। ननु तत्पदाब्जे कुत्रत्यं कुङ्गुममलगत् तत्राह-दयितेति। दयितासंभोगात्तदीय संबन्धीति पूर्णत्ं दर्शितम्। प्रदोषे रजनीमुखे। अन्यत् स्पष्टम् ॥ २०३ ॥ २०४ ॥ अयोग्येऽपीति । चेतनाशून्यत्ादिति भावः ॥ २०५ ॥ २०६॥ पूर्णा: १. उरुगायः श्रीकृष्णः.

Page 525

५०२ काव्यमाला।

लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ २०६ ॥ यथा वा- दुष्करं कतरदालि मालती कोमलेयमकरोत्तपः पुरा। हन्त, गोष्ठपतिनन्दनोपमं या तमालमेमलोपगूहते॥ २०७॥ योग एव भवेदेष विचित्र: कोऽपि मादन:। यद्विलासा विराजन्ते नित्यलीला: सहस्रधा॥ २०८ ॥

भाव: । अतस्तदीयपरमसौभाग्यस्य स्तुतावभिलाषे च साहसं कर्तुमशकुवत्या मया पुलिन्ध एव स्तूयन्त इति भावः । यद्यपि दयिता स्वयं सैव श्रीराधा तदप्यनुरागेण तदमाननम्। ननु तेन पुलिन्दीनां किं तत्राह-तृणेषु रूषितेन लग्नेन दयितासंभोगानन्तरं श्रीकृष्णस्य वनविहारादिति भावः । ननु ततोऽपि किं तत्राह-तद्दर्शनेति। तस्य तृणलग्नकुङ्कमस्यापि दर्शनेन स्मररुक् कन्दर्पपीडा यासां ताः । न जाने श्रीकृष्णदर्शने किमभविष्यदिति भावः। तत् कुङ्गुममाननेषु कुचेषु लिम्पन्त्यः सत्यस्तदाधिं कन्दर्पपीडां जहुः। श्रीकृष्णस्य साक्षादिवालिङ्गन- सुखानुभवेनेत्यर्थः । अहो कुङ्गुमस्यैव कोऽप्ययं शक्तिविशेषस्तासां प्रेम्ण एवेति भावः । आननेषु लेपनं सौरभ्यसौन्दर्यलाभार्थं स्वेषां ग्राम्यतसूचकं च ॥२०६।। गन्धमात्रशब्दस्य श्रीकृष्णसंभोगसादृश्याभासपर्यन्तेऽपि तात्पर्यमस्तीति दर्शयितु- माह-यथा वेति। श्रीराधा ललितामाह-दुष्करमिति॥२०७॥ योगे संभोग एव न तु विप्रलम्भे। ननु पूर्णा: पुलिन्ध इत्यत्र, दुष्करं कतरदालीत्यत्र च मादनस्योदाहरणे योगो न प्रतीयते इत्यत आह-यद्विलासा इति। सहूस्त्रादिशब्दानामसंख्यत एव तात्पर्यात् सहस्रधा असंख्यप्रकारा नित्याः प्रति- क्षणभवा लीला आलिङ्गनचुम्बनाद्या यस्य मादनस्य विलासा: कार्या अनुभावा पुलिन्ध इत्युदाहरणं नात्रोपपन्नमित्यवधार्य प्राह-यथा वेति । दुष्करमि· त्युदाहरणं गन्धमात्रशब्दस्य तत्सादृश्याभासपर्यन्ततात्पर्यलादुपपद्यते ॥२०७॥ नित्यलीला श्रीमद्दर्शनादिषु ध्येयतया प्रसिद्धा। यद्यपि मादनोडयं श्रीराधाया एव १. 'तमालमुपगुह्य नन्दति' इति क-ख-पुस्तकयोः,

Page 526

उज्ज्वलनीलमणिः । ५०.३

मादनस्य गतिः सु्ठ मदनस्येव दुर्गमा। न निर्वक्तुं भवेच्छक्या तेनासौ मुनिनाप्यलम् ।।२०९।।

इति यावत्। विशेषेण राजन्ते तस्याः प्रत्यक्षतया प्रकटीभवन्तीति स्फूर्तितो वैल- क्षण्यं दर्शतम्। यदैव पुलिन्दी: स्तौति मालत्यास्तपश्च तस्मिन्नपि काले सहस्रप्रकारा अपि श्रीकृष्णालिङ्गनचुम्बनादिलीला अनुभवत्येवेत्यर्थः । अयमर्थ :- भागवताभृतो- कसिद्धान्तात् संभोगविप्रलम्भयोर्यौगपद्यं प्रकाशमेदेन वर्तत एव प्रकाशभेदे चाभि- मानमेदात् यत्र प्रकाशे संभोगस्तत्र संयोगिन्येवाहमिति। यत्र च प्रकाशे विप्र- लम्भो विरहस्तत्र विरहिण्येवाहमिति श्रीवृन्दावनेश्वरी खल्वभिमन्यते। यदा वु मादनाख्यः स्थायी स्वयमुदयते तत्क्षण एव चुम्बनालिङ्गनादिसंभोगानुभवमध्य एव विविधं वियोगानुभव इत्येकस्मिन्नेव प्रकाशे प्रकाशद्वयधर्मानुभवः स च विलक्षण- रूप एवेति। नन्वेवं चेत्संभोगकालेऽपि कथमतितृष्णामयी तादृश्युक्ति: संभवतीति तत्राह-विचित्र इति। सहस्रधा संभोगकाले सहस्रधैवोत्कण्ठेत्यद्भुतमेवेत्यर्थः। तेन विप्रलम्भस्य विस्फूर्तिरिति लक्षितलक्षणेनानुरागेण सहास्य सांकर्य न मन्त- व्यम्। तत्र हि विप्रलम्भस्य प्रथममनुभवः ततश्च कान्तस्मरणपौनःपुन्यात्तस्य स्फूर्तिः । स्फूर्तिप्राप्ते श्रीकृष्णालिङ्गनकाले च नैतादृश्युत्कण्ठोक्तिश्रेति बह्वेवान्तर- मिति ॥२०८॥ 'नमश्चैतन्यरूपाय माधुर्यस्थायिने सदा। सवसामर्थ्येऽप्यहो सम्यक् सामअ्स्यानुवर्तिने ॥।' ननु तदपि 'दुष्करं कतरदालि मालति' इत्यादौ संभोगका- लानुभवप्रतिकूलमालत्यामन्त्रणं मालत्यादाववलोकनं च दुर्घटं यदि च मादनलक्षणे सर्वभावोद्गमल्लासीत्यत्न सर्वपदेन संभोगविप्रलम्भतद्भ्ेदतत्प्रकारादयोऽपि वक्त- व्यास्तदपि सर्वेषां भावानां युगपदुद्गमे हेतुर्मादनस्य कोऽपि धर्मविशेष एव भवि- व्यति तं च विविच्य स्पष्टीकृत्य प्रोच्य मादनस्य लक्षणं किमपि कर्तुमुचितमित्यत आह-मादनस्येति। 'रामरावणयोर्युद्धं रामरावणयोरिव' इतिवत् दुस्तर्कलेऽपि निरुपममेवेत्यर्थः । 'मदनस्येव' इति पाठे मदनतया कामबीजेनोपास्यस्य श्रीकृ- ष्णस्य तेन मुनिना भरतेन शुकेन वा॥ २०९ ॥ स्थायिभावमुपसंहरन् प्रेमस्ने-

निर्णीतस्तथापि तदभावस्यैवान्यत्रापि व्याप्तेरनेकपरिकरमय्यस्ता उपपद्यन्ते । तदुक्त्मासभ्रजनताहृद्विलोडनमिति। मादनस्य क्वचिन्मदनतयोपास्यस्य, श्रीकृष्ण-

Page 527

५०४ काव्यमाला।

किं च- रागानुरागतामादौ स्नरेहः प्राप्यैव सत्वरम्। मानत्वं प्रणयत्वं च क्वचित्पश्चात्प्रपद्यते ॥ २१० ॥ अत एवात्र शास्त्रेषु श्रूयते राधिकादिषु। पूर्वरागप्रसङ्गेऽपि ग्रकटं रागलक्षणम् ॥ २११॥ स्फुरन्ति व्रजदेवीषु परा भावभिदाश्च या:। तास्तर्कागोचरतया न सम्यगिह वर्णिताः ॥।२१२।।

हादावुक्तक्मो नैकान्तिक इत्याह-किंचेति। रागः कर्ता आदौ प्रथमत एवो- द्ूय अनुरागतां प्राप्य स्नेहः सन् मानतं प्रणयत्वं च प्राप्ोति। पूर्वरागप्रसङ्गेपीति मानप्रणयाद्याविर्भावं विनैवेत्यर्थः । रागलक्षणं यथा-'ताराभिसारकचतुर्थ- निशाशशाइकामाम्बुराशिपरिवर्धन देव तुभ्यम्। अर्घो नमो भवतु मे सह तेन यूना मिथ्यापवादवचसाप्यभिमानसिद्धिः ॥I' इति ॥ परा भावभिदा इति। यथा रासलीलायां पूतनादयनुकरणादीनि साधारण्यां रतावेव न तु सामज्जस्यसम- र्थयोः । ताभ्यां सकाशात्तस्या जातिप्रमाणयोरल्पलात् धूमायिता एवोचितेति भाव: । किंतु साधारण्या अपि रतेः प्रेमदशायां जात्यल्पलेऽपि प्रभाणाधिक्यात् तथा समज्जसासमर्थयोरपि जातिप्रमाणाधिक्याज्वलिता एवोचितेत्यभिप्रेत्याह- स्वेव तेनापि मुनिनेति श्रीशुकेनेति वा गम्यते ॥ स्फुरन्तीति। यथा रासली- लायां पूतनादयनुकरणानि। तर्कागोचरा इति। झटिति योद्ुमसमर्था इत्यर्थः । यत्नेन तु बोधितुं श्रीवैष्णवतोषिण्यां पूर्व हि तासां श्रीकृष्णान्तर्धाने उन्माद एवोक्तः। तत्रैव वृक्षेषु पृच्छा तज्जन्मादिलीलागानं च तत्र या या लीला गातुमारब्धा तस्यां तस्यामेवोन्मादानुगतेः पूतनादिहेतुकेन श्रीकृष्णविषयक- भयेन पूतनाद्यावेशात् पूतनाद्यनुकरणं जातम्। यथा कस्यचिदात्मविषय कव्याघ्रा- दिभयादुन्मादे व्याघ्राद्यनुकरणं स्यात्तथा प्रतिपद्यते। ततश्र'तादृश्युन्मादे सति खस्मित्निव श्रीकृष्णे यः प्रेमा स एवाश्रयस्तदभावे भयादिभावस्याप्यसिद्धिः स्याद्। तदेवं श्रीव्रजेश्वर्यनुकरणं च 'गोप्याददे-इत्यादौ 'वक्रं निलीय भगभावनया स्थितस्य' इति श्रीकुन्तीवाक्यानुसारान्मातृभीतश्रीदामोदराभेदभाव- १. 'प्रबन्धेषु' इति ख-पुस्तके पाठः.

Page 528

उज्ज्वलनीलमणिः । ५०५

साधारण्यां रतावेव धूमायिततया मताः। ज्वलितास्तु रतिप्रेम्णोर्दीप्ता: स्नेहादिपञ्चसु ॥२१३॥ रूढे भावे तथोददीसा: सुदीप्ता मोहनादिपु। इयं प्रायिकता किंतु श्रेष्ठमध्यादिभावतः ॥ २१४॥ देशकालजनादीनां क्वाप्येषां स्याद्विपर्ययः । आद्या प्रेमान्तिमां तत्रानुरागान्तां समञ्जसा ॥।२१५॥ रतिर्भावान्तिमां सीमां समर्थैव अ्रपद्यते। रतिर्नर्मचयस्यानामनुरागान्तिमां स्थितिम्। तेष्वेव सुवलादीनां भावान्तामेव गच्छति ॥ २१६ ॥। इति स्थायिभावाः ।

ज्वलितास्त्विति । अन्र समज्जसातः समर्थायां रतौ ज्वलितस्य वैशिष्ठ्यं जेयम्, तथा रते: सकाशात् प्रेम्णि च। यथा सेहादिपच्सु स्नेहमानप्रणयरागा- नुरागेषु दीप्ता इति यथोत्तरं दीप्तत्वस्य वैशिध्यं तथा समज्रसासंबन्धिभ्यसेभ्यः समर्थासंबन्धिषु श्रैध्ठ्यं च । मोहनादिष्विति मोहनमेदमादनमेदेष्वित्यर्थः ॥ एव- मुक्ता व्यवस्थापि न सार्वत्रिकीत्याह-इयमिति। देशकालपात्रादीनां श्रेष्ठ- मध्यकनिष्ठत्ाद्वेतोः । तथा हि देशकालादीनां श्रैध्ठ्याद्रतावपि दीप्तास्तेषामेव कनिष्ठतात् स्नहादावपि ज्वलिता इत्येवम्। अत्र देशकालजनादीनामित्यत्रादि- शब्दात् संसर्गो ग्राह्यः । उक्तानां भावानामाश्रयालम्बनं निश्चिनोति-आद्या साधारणी प्रेमैवान्तिमो यत्र तथाभूतां सीमां प्रपद्ते; तेन कुब्जादीनां रतिप्रे- भाणौ द्वावेव स्थायिनौ, समजसा अनुरागान्तामिति; तेन पट्टमहिषीणां रतिप्रेम-

नामयलेनैव; किंतु श्रीदामोदरस्यानुवर्तनाभावात्तत्र मात्रनुकरणं न जातं तदनु- वर्तनात्तस्यास्तदनुकरणं जातमिति विशेषे करणमवगन्तव्यम्। एवमन्यत्रापि ॥ इयं साधारणीत्याधयुक्तप्रकारा प्रायिकता ज्ेया। तदिदं प्राचुर्येणव प्रोक्तमित्यर्थः। किंतु देशादीनां श्रेष्ठतादित्ात् क्चिद्विपर्ययोऽपि स्यातू ॥ आदा साधारणी रति- रिति। श्रीव्रजदेवीरत्यनुमोदनात्मिका रतिरित्यर्थः ॥ २०८ ॥ २०९ ॥

Page 529

५०६ काव्यमाला।

अथ रङ्गारभेद: । स विप्रलम्भः संभोग इति द्वेधोञ्वलो मतः । तत्र विप्रलम्भ :- यूनोरयुक्तयोर्भावो युक्तयोर्वाथ यो मिथः ॥ १॥

स्नेहमानप्रणयरागानुरागा: सप्त स्थायिनः ॥ नर्मवयस्यानां कोकिलादीनाम् ॥२१०॥२११॥२१२ ॥२१३ ॥२१४॥२१५॥२१६ ॥ इति स्थायिभाववितृतिः । तदेवं विभावानुभावव्यभिचारिस्थायिभावान्सपरिकरानुक्ता तत्संबन्धलक्षणं रसमाह-अथ शङ्गारेति ॥ स इति । 'वक्ष्यमाणैर्विभावादैः खाद्यतां मधुरा रतिः । नेता भक्तिरसः प्रोक्ः शङ्गाराख्यो मनीषिभिः ॥' इति प्रथममुक्त इत्यर्थः । अत्र रतिरित्युपलक्षणम्। प्रेमादीनां। सप्तानाम् रत्यादिस्थायितारतम्येन रसस्यापि तारतम्यं ज्ञेयम्। उज्वलो मधुरापरपर्यायः । यूनोनोयिकानायकयोः। अयुक्तयो: प्रथममिलनात् पूर्व युक्तयोर्लब्धमिलनयोरिति वा। भावः स्थायी। अनवाप्तावप्राप्तौ सत्यां प्रकृष्यते प्रकृष्टो भवति। कर्मणिप्रत्ययः । अत्युत्कण्ठयेति कर्तृपदमाक्षेपलब्धम्। स स्थायीभावो विभावादिसंवलनतो विप्रलम्भः । तन्नामा रस इत्यर्थः । यदाहु :- 'दीर्घानुरक्तयोर्यूनो रसमागमहेतुतः । भावो यदा रति-

1 २१० १ २११ ॥ २१२ ॥ २१३ ॥ २१४ ॥ २१५ ॥ २१६ ॥ इति स्थायिभावाः ।। तदेवं मधुररत्याख्यं भावमुक्ता शङ्गारपर्यायं मधुररसमाह-अथ शृङ्गा- रमेद इति। स इति। 'वक्ष्यमाणैर्विभावादैः खाद्यतां मधुरा रतिः। नीता भक्तिरसप्रोक्कः शङ्गाराख्यो मनीषिभिः ॥' इति प्रथममुद्दिष्ट इत्यर्थः । तन्र रति- रित्युपलक्षणं प्रेमादीनाम्। एवमुत्तरत्रापि। किंतु विभावादिमाघुर्याणां संवल- नमेव रसः । ततश्च रत्यादिस्थायिभावतारतम्येन रसस्यापि तारतम्यं ज्ञेयम्। तत्र च यत्र विभावादिसामग्रीपरिपोषेण प्रस्फुट एव रसस्तत् खलु भावतारतम्य- ज्ञानार्थ भावप्रकरणे पठितमपि रसमयमेव। यत्र विभावादिसामभ्री स्फुटं नोपल-

Page 530

उज्ज्वलनीलमणिः । ५००

अभीष्टालिङ्गनादीनामनवासी प्रकृष्यते। स व्रिग्रलम्भो विज्ञेयः संभोगोन्नतिकारकः ॥२॥ तथा चोक्तम्- न विना विप्रलम्भेन संभोग: पुष्टिमश्रुते। कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते॥ ३॥

र्नाम प्रकर्षमधिगच्छति। नातिगच्छति चाभीष्टं विप्रलम्भस्तदुच्यते ।।' इति प्राश्चः। ननु संभोग एव सुखमयलेन रसो भवितुमहृति नतु विप्रलम्भस्तत्कथ- मसौ रसलेन वर्ण्यते तत्राह-संभोगोन्नतीति ॥१॥२॥ नेति। पुष्टिमुत्क- र्षम्। ननु तदपि संभोगपोषकलेन संभोगाङ्गमस्तु न तु पार्थक्येन रसो भवितु-

भ्यते तच् रसप्रकरणे पठिततात् सद्भावश्चेद्विभावादेरित्यादिन्यायेन तत्तत्स्फूर्लैव सामग्रीपरिपोषाद्रसमयमेव ज्ञेयम् ।। प्रकर्षतेः सकर्मकलमत्रान्तर्भूतण्यर्थमनना- ज्ज्ञेयम्। यथा 'समा समां विजायते' इति जनधातोः । प्रकर्षत इति तु पाठा- न्तर्र सुगमम्। अयुक्तयोरयुक्तयोवा यूनोर्मिथोभावोऽभीष्टस्य यूनस्तादृश्या युवत्या वालिङ्गनादीनामनवाप्ती प्रकृष्यते। विभावादिसंवलनेन स्वाद्यविषयतया संपाद्यते स विप्रलम्मेन वियोगेन संवलितलाद्विप्रलम्भाख्यो मधुररसो ज्ञेयस्तदेतत्पारकीयं साधारणलक्षणमत्रतु विशेषांशेन संकलय्य ज्ञेयमिति भावः । स च विशेष: श्रीकृष्णप्रेयसीनां भाव ईदक् चेत् तदा विप्रलम्भाख्यो रसो ज्ञेय इति भकतिरस इत्युक्तत्वात्। आनुकूल्येन कृष्णानुशीलं भक्तिलक्षणेनानुगमनीयताच्च रसस्येव विप्रलम्भाख्यत प्राधान्यादेवोच्यते । पूर्वरागमानसमजसा साधारण्यादिशब्दवत् शङ्गितान्तराभावात् भावोऽपि विप्रलम्भाख्यो ज्ञेयः । एवमुत्तरत्रापि। अथ कारिकाशेषो व्याख्यायते। ननु संभोग एव रसः सुखमयलात् न तु विप्रलम्भो दुःखमयलात् तर्हि सोऽयं कथं वर्ण्यते । श्रीकृष्णेन वा खयमज्ञीक्रियते। तत्राह-संभोगोन्नतिकारक इति। विप्रलम्भसमयेऽपि प्रत्याशालब्धभाव- नामयस्य संभोगोज्नतिकारकत्वाद्रसतामसावाप्ोति। किमुत तदनन्तरं साक्षाल्ब्ध- स्येति भावः ॥१॥२। तत्र वर्णने सयुक्तिकं प्रमाणमाह-तथा चोक मिति। तदभीकारे तु खयमेव श्रीकृष्णः समादधे. 'नाहं तु सख्यो भजतोऽरपि

Page 531

५०८ काव्यमाला।

पूर्वरागस्तथा मान: प्रेमवैचित्यमित्यपि। प्रवासश्रेति कथितो विप्रलम्भश्रतुर्विधः ॥।४ ।। तत्र पूर्वराग :- रतिर्या संगमात्पूर्व दर्शनश्रवणादिजा। तयोरुन्मीलति प्राजैः पूर्वरागः स उच्यते ॥५॥

मर्हतीति चेतू सत्यम्। न केवलं विप्रलम्भः संभोगपोषक एव किंतु रतिप्रेमस्ने- हादिस्थायिभाववतोर्नायकयोर्मिथ: स्मरणस्कूर्त्यानिर्भावैर्मानसचाक्षुषकायिकालिज्ञन- चुम्बनसंप्रयोगादीनां प्रत्युत निरवधिचमत्कारसमर्पकलेन संभोगपुजमयः एव। यदुक्तमनुभविष्णुभि :- 'संगमविरहविकल्पे वरमिह विरहो न संगमस्स्याः। सके सैव तथैका त्रिभुवनमपि तन्मयं विरहे॥' इति। न च स्फूर्त्याविर्भावयोर्विभावयो- भेङ्गे विरहपीडाया दुःसहत्ादवशत्वमिति वाच्यम्। ह्रादिनीसंविद्दत्तिविशेषलेना- प्राकृतलात्। पीडापीयमानन्दकन्दरूपैवेति पूर्णानन्देऽप्युषिला बहिरिदमबहिश्वा- र्तमासीदजाण्डमित्यादौ व्याख्यातमेव ॥ ३ ॥४ ॥ स विभावादिसंवलनतः पूर्व-

जन्तून् भजाम्यमीषामनुद्ृत्तिवृत्तये। यथाधनो लब्घधने विनष्टे तच्चिन्तयान्यत्नि- भृतो न वेद ।' इति । पूर्वानुसारेणास्य चायमर्थ :- हे सख्यः, शणुत इति शेषः । अहंतु भजतोऽपि जन्तून् जन्तुमात्रानपि किमुत भवद्विधप्रेयसीजनान्न भजामि किंचित् किंचिद्विच्छिय तिष्ामीति वाच्यमित्यर्थः । किमर्थ न भजसि तत्राह-अमीषां या अनुव्ृत्तिर्मदेकभावनामयप्रेमा तद्रूपा यावृत्तिर्मम खीया जीविका तस्यै तां वर्धयितुमित्यर्थः । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी। कृच्छ्रसाध्यापि सेयं वाञ्छितसिद्धिस्तत्तृष्णया मया दुष्परिहारा इति भावः। ननु परमोपादेयवस्तुनि खयमेव वर्धत एव प्रेमा। सत्यम्। तथापि तेषामनुवृत्तिः सस्यापि तद्रपाया वृत्तेर्वर्धनाधिक्यमभजने स्यादिति दृष्टान्तद्वा- राह-यथेति। यथा निर्धनः कश्चिल्लब्धे धने परमजीविकारूपे विनष्टे विशेषेणा- दर्शनं प्राप्ते तचिचिन्तया तत्प्राप्तिसंभावनया किसुत प्राह््या निभृतः पूर्णः सनान्यद- जुसंदधाति। तथा भवादशः परमधने मयि मम च परमधने भवादृशि परस्परं तादृशलं स्यादित्यर्थः ॥ ३ ॥४ ॥ उन्मीलति विभावादिसंवलनेन आस्वाद्रविशेष-

Page 532

उज्ज्वलनीलमणिः । ५०१

तत्र दर्शनम्- साक्षात्कृष्णस्य चित्रे च स्ात्समादौ च दर्शनम्। तत्र साक्षाधथा पद्यावल्याम्- इन्दीवरोदरसहोदरमेदुरश्री- र्वासो द्रवत्कनकवृन्दनिभं दधानः । आमुक्तमौक्तिकमनोहरहारवक्षाः कोडयं युवा जगदनङ्कमयं करोति ॥ ६ ॥ चित्रे यथा विदग्धमाधवे- शिशिरय दशौ दृष्टा दिव्यं किशोरमितीक्षितः परिजनगिरां विस्रम्भात्त्वं विलासफलाष्टितः । शिव शिव कथं जानीमस्त्वामवक्रधियो वयं निबिडबडवावहिज्वालाकलापविकासिनम् ॥७

राग उच्यते। एवमग्रेतनेष्वपि लक्षणेषु विभावादिसंवलन इति सर्वत्र व्याख्ये- यम् ॥ ५ ॥ द्वित्रैः प्रियनर्मसखैः सह रथ्यायां भ्रमन्तं वलभीजालरन्ध्रात्प- श्यन्ती श्रीराधा विशाखामाह-इन्दीवरेति। सहोदरा सदृशी। आमुक्त अ्रथितम् ।। ६ ।। श्रीराधा श्रीकृष्णमुद्दिश्याह-शिशिरयेति। विलासफलके कीडाचित्रपटेडद्वितो लिखितः । परिजनेति। नहि परिजना अविश्वसनीयाः नाप्यहितकारिण्य इति भावः । नन्वेवं चेत् दृशौ शिशिरयेति तदुक्तिविश्वास एव कथं ते सर्वाङ्गस्यापि ज्वालायां कारणभभूत् तत्राह-अवक्रधियो वयमिति। अहमिव मत्परिजना सुग्धा एवेति भावः । निबिडबडवेति। प्रथममापाततस्तं शीतललेनानुभूय पश्चात् वडवानलस्येव खज्वालां प्रकाशयिष्यति तत्कथं सख्यो

मयी स्यात्।। विलासफलके सखीभिर्विलासेन कृते चित्रपटेऽढ्वितो लिखितः ॥ ५। खप्रे दृष्टेति सौन्दरयगोपनाय पित्रादिभिर्बाल्यादेव दूरे गोपितायास्तन्नैव जातनववयसश्चन्द्रावल्या वचनम्। कासरी श्यामेत्यादिषु नीरदश्यामेति, कमक-

Page 533

५१० काव्यमाला।

खम यथा- सरम्रे दृष्ट्रा सहचरि सरित्कासरी श्यामनीरा तीरे तस्याः क्णितमधुपा माधव्री कुञ्जशाला,! तस्याः कान्तः कपिशजघनो ध्वान्तराशिः शरीरी चित्रं चन्द्रावलिमपि समां पातुमिच्छन्नरौत्सीत्॥८ ।। अथ श्रवणम्- (वन्दिदूतीसखीवक्राद्गीतादेश श्रुतिर्भवेद् ॥ ९॥ तत्र वन्दिवक्रादयथा- पठति मागधराजनिर्जयार्था सखि बिरुदावलिमत्र बन्दिवये। वद कथमिव लक्ष्मणे तनुस्ते पुलककुलेन विलक्षणा किलासीत्।।१०।। दूतीवक्काधथा- आविष्कृते तव मुकुन्द मया प्रसक्गे तारावली पुलकिताअलता नताक्षी।

मे ज्ञास्यन्तीति भाव: ॥ ७। चन्द्रावली पद्मामाह-कासरी महिषीति गोप- जातिलेन बाल्येन च । श्यामवर्णोपमानेषु कासर्या एव झटित्युपस्थितिः । कपिशं पीतवर्ण जघनं यस्येति पीताम्बरं लक्षितम्। पातुमिति 'पा पाने ॥८।९। लक्ष्मणायाः सखी तामाह-पठतीति। मगधराजनिर्जयः श्रीकृष्णेन कृत इति 'प्रायो वीररताः स्रियः' इति तस्य वीरतं तथा तद्विरुदावल्यां रूपनामगुणा अपि वर्णितास्तस्या रत्युत्पत्तौ कारणान्यभूवन् ॥। १० ॥ वृन्दा श्रीकृष्णमाह-आवि- वंसन इति कान्तिमूर्ध्वान्तमूर्तिरिति च पाठः प्रेक्ष्यः ।६।७।८।।९।। लक्ष्मणायाः सखी तामाह-पठतीति । मगधराजनिर्जयः श्रीकृष्णेन कृत इति आयो वीररता: स्निरिय इति तस्य वीरलं तथा तद्विरुदावल्यां रूपनामगुणा अपि वर्णितास्तस्या रत्युत्पत्तौ कारणान्यभूवन् । अपि माधवेति। मृगाक्षीणां रागस्य वासनारूपेण निगूढतान्नास्तिप्रायविवक्षा। भक्तरागानुजन्मलाद्भगवद्रागस्य।।१०।। · १. 'कथाप्रसन्ने' इति क. पुस्तके.

Page 534

उज्ज्वरनीलमणिः । ५११

शुश्रषुरप्यलधुगद्गदरुद्धकण्ठी प्रषुं तवाक्षमत सा न कथाविशेषम्॥। ११ ।। सखीवक्राधथा- यावदुन्मदचकोर लोचना मन्मुखात्तव कथामुपाशृणोत्। तावदञ्चति दिनं दिनं सखी कृष्ण शारदनदीव तानवम्॥१२।। गीतादयथा- नयने प्रणयन्नुदश्रुणी मम सद्यः सदसि क्षितीशितुः । उपवीणयति प्रवीणघीः कमुदश्रुः सखि वैणिको मुनिः ॥१३॥ पुरोक्ता येऽमियोगाद्या हेतवो रतिजन्मनि। अत्र ते पूर्वरागेऽपि ज्ेया धीरैयथोचितम्।। १४॥ अपि माधवरागस्य प्राथम्ये संभवत्यपि। आदौ रागे मृगाक्षीणां प्रोक्ता स्याच्चारुताधिका।।१५।। अत्र संचारिणो व्याधि: शङ्कासूया श्रमः क्रृमः । निर्वेदौत्सुक्यदैन्यानि चिन्ता निद्रा प्रबोधनम्॥१६॥ विषादो जडतोन्मादो मोहमृत्यादयः स्मृताः। प्रौढः समञ्जसः साधारणश्चेति स तु त्रिधा॥१७॥

र्कृते इति॥। ११ ।। विशाखा श्रीकृष्णमाह-यावदिति। अश्रति प्रामोति ।। १२ ॥। लक्ष्मणा खसखीमाह-नयने इति। क्षितीशितुर्बृहत्सेनाभिघस्य मत्पितुः । उपवीणयति वीणया उपगायति। अत्र स्रेहः स्थायी पूर्वरागो रसः । १३ ॥ प्राथम्ये प्रथमोद्भूतले इति वयं सन्ध्यारम्भे 'निर्विकारात्मके चित्ते भाव: प्रथमविक्रिया' इत्युक्तरीत्या प्रथमविक्रियानन्तरमेव स्त्रीपुंसयोर्यद्यपि पर- स्परान्वेषणं संभवति तदपि स्रिया लज्जाभयधैर्यकुलाचारादिभिरावृत्तायाः सह- अत्र पूर्वरागे ।। ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १. 'बताक्षमत' इत्यपि क. पुस्तके.

Page 535

५१२ काव्यमाला।

तत्र प्राढ :- समर्थरतिरूपस्तु प्रौढ इत्यमिधीयते। लालसादिरिह ग्रौढे मरणान्ता दशा भवेत् ॥ १८॥ तत्तत्संचारिभावानामुत्कटत्वादनेकथा। तथापि प्राक्तनैरस्य दशावस्था समासतः ॥। १९-।। प्रोक्तास्तदनुरोधेन तासां लक्षणसुच्यते। : लालसोद्वेगजागर्यास्तानवं जडिमात्र तु ॥ २० ॥ वैयवयं व्याधिरुन्मादो मोहो मृत्युर्दशा दश। श्रौढत्वात्पूर्वरागस्य प्रौढाः सर्वा दशा अपि ॥। २१ ॥ तत्र लालस :- अभीष्टलिप्सया गाढगृभ्नुता लालसो मतः । अत्रौत्सुक्यं चपलता घूर्णाश्वासाद्यस्तथा॥।२२॥

सैव पुंसि पूर्वरागो न प्रकटीभवति। पुंसस्तु तैरनावरणात् सहसैव प्रथमक्रिया- क्षण एव प्रायशः स्त्रीजनान्वेषणं स्यादिति युक्ते:। तदपि भृगाक्षीणां रागे पूर्वरागे आदौ प्रोक्ते वर्णिते चारुताधिकेति प्रेम्ण: स्त्रीगततेनैवाधिक्येन वर्णनौचित्यात् प्रेमाधिक्यस्य च लज्जादिसंहारकत्वादिति भावः। यदुक्तं साहित्यदर्पणे-'आदौ राग: स्रियो वाच्यः पश्चात् पुंसस्तदिज्नितैः ।' इति। किंचात्र पुनर्भक्तिशास्त्रे भक्ते- रेव रसत्ात्तस्य च भक्ताश्रयलात्, भगवद्रागस्य च भक्तरागानुजन्मत्ात् व्रज- देवीनां च भक्तनिरुत्तिपरभावधिस्थानलात्तासामेव प्रथमं पूर्वराग उचित इति केचिदाहुः ॥ १४ ॥ १५॥ १६॥१७॥ प्रौढ इति। समर्थरतिसंज्ञाया औचित्येऽपि प्रौढ इत्यभिधानं समजससाधारणयोरल्प प्रौढप्रौढलज्ञापनार्थम् उत्कटत्वादिप्राढलादनेकधा भवितुं यद्यप्यर्हतीति शेषो देयः ॥ १८ ॥ १९ ॥ ॥ २० ॥ २१॥ अभीष्टलिप्सया स्त्रीपुंसयो: परस्परप्राप्तीच्छया गाढगभुता महौ- लालस इति पुंस्तं 'स महान् लालसा द्वयोः' इत्यमरकोषात् ॥१७॥१८॥ २०॥ २१॥ गाढगृभुतेति। महते महत्येवार्थः । तत्र शत्रुमारणादिषु तद्वया -. वृत्त्यर्थमाह-अभीष्टलिप्सयेति। अभीष्टजनं लब्धुं या इच्छा तयाङ्कुराव-

Page 536

उज्ज्वलनीलमणिः । ५१३

यथा-

त्वमुदवसितान्निष्क्रामन्ती पुनः प्रविशन्त्यसौ झटिति घटिकामध्ये वाराञ्छतं व्रजसीमनि। अगणितगुरुत्रासाश्वासान्विमुच्य विमुच्य किं क्षिपसि बहुशो नीपारण्ये किशोरि दशोर्द्वयम्॥। २३ ॥ यथा वा विदग्धमाधवे-

दूरादप्यनुषङ्गतः श्रुतिमिते त्वन्नामधेयाक्षरे सोन्मादं मदिरेक्षणा विरुवती धत्ते मुहुर्वेपथुम्। आः किं वा कथनीयमन्यदसिते देवाद्वराम्भोधरे दृष्टे तं परिरब्धुमुत्सुकमतिः पक्षद्वयीमिच्छति ॥ २४॥

त्कण्ठ्यम्। लालसः स महान् । 'लालसा द्वयो:' इत्यमरः ॥ ललिता श्रीराधा- माह-उदवसितात् गृहात् । 'गृहं गेहोदवसितम्' इत्यभरः ॥ २२ ॥ लालसस्य पाकावस्थां दर्शयितुमाह-यथा वेति॥ २३॥ विशाखा श्रीकृष्ण- माह-अनुषङ्गतः अन्याभिधायकशब्दे कृष्णसारकृष्णलादावपि । तत्रापि नाम- धेयस्याक्षरे 'कृ' इत्येकस्मिन्नपि वर्णे तन्नापि दूरादपि, तन्रापि श्रुतिमेकमेव कर्णमिते प्राप्ते सति। सोन्मादमित्यादि। संपूर्णनाभनि निकटात् कर्णद्वयं प्राप्ते सति न जाने किं भवेदिति भावः। मदिरो मत्तखञ्जनस्तदीक्षणेति तज्नामाक्षर- श्रवणात् लदागमनशङ्कयौत्सुक्यप्राबल्येन सर्वतो दृष्टिक्षेपान्नेन्रचान्च्याधिक्या- च्छोभाधिक्यं ध्वनितम्। आ इत्यतिपीडायाम्। तच्चरितं ब्रुवाणाप्यहमतिपीडि- तास्मि तस्याः पुनरौत्कण्ठ्यपीडा क्थ वक्तुं शक्येति भावः। 'आस्तु स्यात्कोपपी- डयो:' इत्यमरः । पक्षद्वयीमिच्छतीति सोन्मादमित्यस्यानुषङ्गः । सखि, शीघ्रं पक्ष- द्वयं कुतोऽप्यन्विष्यानय यथा तद्युक्ताहमुड्डीयाकाशं खप्रियभालिङ्गयामीति

स्थया पुनवृद्धया या गाढा गधुता सेत्यर्थः ॥ २२ ॥ उदवसिताद्गृहात् ॥२३ ॥ ३३ उज्व०

Page 537

५१४ काव्यमाला।

अथोद्वेग :- उद्वेगो मनस: कम्पस्तत्र निश्वाससंज्वरौ। स्तम्भश्िन्ताश्रुवैवर्ण्यखेदादय उदीरिताः ॥२५।। यथा विद्ग्धमाधवे- चिन्तासंततिरद्य कृन्तति सखि स्वान्तस्य किं ते धृतिं किं वा सिञ्चति ताम्रमम्बरमतिखेदाम्भसां डम्बरः। कम्पश्चम्पकगौरि लुम्पति वपुःस्थैर्य कथं वा बलात् तथ्यं ब्रूहि न मङ्गलापरिजने सङ्गोपनाङ्गीकृतिः ॥ २६॥ अथ जागर्या- निद्राक्षयस्तु जागर्या स्तम्भशोषगदादिककृत्। यथा- श्यामं कंचन काश्चनोज्ज्वलपटं संदर्श्य निद्रा क्षणं मामाजन्म सखी विमुच्य चलिता रुष्टैव नावर्तते।

।। २४ ।। २५।। ज्ञाततत्त्वापि विशाखा हृदयोद्वाटनार्थ श्रीराधां पृच्छति- चिन्तेति। खान्तस्य चिन्तायाः संततिरेकस्यां चिन्तायामुत्पन्नायां तस्याः सका- शादपरा तस्याश्वान्येत्येवं पुत्रपौत्र प्रपौत्रादिपरम्परा। 'संततिर्गोत्रजननम्' इत्य- मरः। धृति कृन्तति छिनत्तीति धृतेर्धर्मद्रुमजटालमारोपितम्। तेन लुप्तधर्मा लं निर्विवादमेव प्रियभभिसर कात्र चिन्तेति व्यञ्ञ्यम्। ताम्रमरुणम्। डम्बरमुद्रेक: । २६ ॥ हन्त हन्त गुरुजनान्तःपुरेत्र श्रीकृष्णं कथमानयामि कथं वा लाभ- सूर्यपश्यां तन्निकटं नयामीति चिन्तया विषीदन्तीं विशाखां श्रीराधा प्राह- श्याममिति। निद्रासखी (क्त्री) मां श्रीकृष्णं क्षणं व्याप्य दर्शयिला चलिता आ इति संरम्भव्यञ्ञकभव्ययम् ॥२४ ॥ २५॥ डम्बरमुद्रेकः । वपुःस्थैर्य स्तम्भ:

१. 'निश्वासचापले' इति क. पुस्तके.

Page 538

उज्ज्वलनीलमणिः । ५६५®

चिन्तां प्रोह्य सखि प्रपश्चय मति तस्यास्त्वमावर्तने नान्यः स्वामिकतस्करोपहरणे शक्तो जनस्तां विना ॥।२७।। अथ तानवम्- तानवं कृशता गात्रे दौर्बल्यभ्रमणादिकृत्॥ २८॥ यथा- च्युते वलयसंचये प्रबलरिक्ततादूषण- व्ययाय निहितोर्मिका वलिरपि स्खलत्यञ्जसा। निशम्य मुरलीकलं सखि सककृद्विशाखे तनु- स्तवासितचतुर्दशीशशिकला कृशत्वं ययौ ॥ २९ ॥ कैश्चितु तानवस्थाने विलाप: परिपव्यते।

तस्या निद्राया आवर्तने पुनरागमने बुद्धिं विस्तारय केनाप्यौषधेन मन्त्रेण वा यतनेना- न्येन वा यथा मां क्षणं निद्रा समायाति तथा कुर्वित्यर्थः। ननु ततः किं स्यात्तत्राह- नान्य इति। खप्ने चरतीति खवाप्निकः। तेन कुलाङनाया मम पार्श्व श्रीकृष्णो नानेतुसुचितोऽशक्यश्च, न च तं विनाहं जीवामि अतोऽयमेवोपायो निर्विवादः । निद्रा आयातु तयैव श्रीकृष्णसङ्गो मे पुनर्भवतु जीवनरक्षणायेति भावः ॥।२७॥ ॥ २८ ॥ विशाखायाः सखी ताभाह-च्युत इति। प्रबलं यद्रिक्ततारूपं दूषण- ममङ्लं तस्य व्ययाय दूरीकरणाय तत्र हस्तमणिबन्धे ऊर्मिकावलिरेव वलयाव- लिलेनार्पिता। ततश्राञ्जसा शीघ्रमेव सापि स्खलति एतावत्तानवं जातमिति भावः। ततश्च मुरलीत्यादिना तानवस्य परावधितं तेन लं गुरुजनान्मा भैषीर- भिसर शीघ्रं लामहं तन्निकटं नयामि कदाचिदमावास्यायां सत्यामहमपि मरि-

। २६ ॥ नान्य इत्यादौ 'तं खाप्निकतस्करं वलयितुं शक्तोऽपरस्तां विना' इति वा पाठः ॥ २७॥ प्रबलरिक्ततादूषणव्ययायेति श्रीकृष्ण एव तद्विधानां ख्वाभा- विकरतिबलादन्तःपतिभावना बहिस्तन्यत्रेति बोधयति। ततस्तस्यैव मङ्गलभाव- नया तासां तन्मङ्गलैकमङ्गलमानिनीनां तत्तानवं युज्यते नतु पतिमन्यानां यथा-

Page 539

५१६ काव्यमाला।

यथा अत्रासीन्नवनीपभूरुहतटे कुर्वन्विहारं हरि- श्वके ताण्डवमत्र मित्रसहितश्रण्डांशुजारोधसि। पश्यन्ती लतिकान्तरे क्षणमहं व्यग्रा निलीय स्थिता सर्यः किं कथयामि दग्धविघिना क्षिप्तास्मि दावोपरि॥३०॥ अथ जडिमा- इष्टानिष्टापरिज्ञानं यत्र प्रश्नेष्वनुत्तरम्। दर्शनश्रवणाभावो जडिमा सोऽभिधीयते॥३१॥ अत्राकाण्डेऽपि हुङ्कारस्तम्भश्वास्रमाद्यः ॥३२॥ यथा- अकाण्डे हुंकारं रचयसि शृणोषि प्रियसखी- कुलानां नालापं दतिरिव मुहुर्निश्वसिषि च । ततः शङ्के पङ्केरुहमुखि ययौ वैणवकला मधूली ते पालि श्रुतिचषकयोः प्राघुणिकताम् ॥ ३३ ॥

ष्याम्येवेति भावः ॥ २९ ॥ श्रीराधा विलपति-अत्रेति। दग्धविधिनेति। अधुना तु तथा न पश्यामि। क्षिप्तेति। सर्वथैव मरिष्याम्येवेति भावः ॥ ३० ॥ पाल्याः सखी तामाह-अकाण्डेऽनवसरे हुंकारः मानससंभोगारम्मे स्ववैमत्य- व्यजकम् । 'हुं वितर्के परिप्रश्ने हुं रुषोत्तयनुनीतिषु।' इति विश्वः । दृतिर्भखा। वैणवकला वेणुवैदग्धी । हे पालि, प्राघुणिकोऽतिथिः ॥३१॥३२॥३३॥

कमं रतिद्वेषयोर्विषयात् ॥२८॥२९॥३०॥ अकाण्डेऽनवसरे। हुंकारो रुषोक्तौ मनसि तदौद्धत्यविशेषस्मरणात् । 'हुं वितर्के परिप्रश्ने हुं रुषोत्त्यनुनी- तिषु' इति विश्वः ॥ ३१ ॥३२॥ मधूली मधुः । प्राघुणिकोऽतिथि: ॥३३॥

Page 540

उज्ज्वलनीलमणिः । ५१७

अथ वैयग्यम्- वैयग्यं भावगाम्भीर्यविक्षोभासहतोच्यते। तत्राविवेकनिर्वेदखेदासूयादयो मताः॥ ३४ ॥ यथा विदग्धमाधवे- प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन्मनो धित्सते बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः । यस्य स्फूर्तिलवाय हन्त हृदये योगीशमुत्कण्ठते सुग्घेयं बत तस्य पश्य हृदयान्निष्कान्तिमाकाङ्कति॥३५॥ अथ व्याघि :- अभीष्टालाभतो व्याधि: पाण्डिमोत्तापलक्षणः । अत्र शीतस्पृहा मोहनिश्वासतपनादयः ॥ ३६॥ यथा- दवदमनतया निशम्य भद्रा मदनदवज्वलिता दधे हृदि त्वाम्। द्विगुणितदवथुव्यथाविदग्धा मुरहर भस्ममयीव पाण्डुरासीत्।।३७।।

भावस्य यद्गाम्भीर्यमतलस्पर्शता तेन यो विक्षोभस्तस्यासहिष्णुता ॥ ३४॥ पौर्ण- मासी नान्दीमुखीमाह-प्रत्याहृत्यति। अषाङ्गयोगे प्रत्याहारः पश्चमसेन मुनिरष्ाङ्गयोगी भक्तिपक्षीयः । धित्सते अ्पयितुमिच्छति मनस्तु तत्र सम्यक् तिष्ठतीति भावः । हृदयात् स्कूर्तिप्राप्तेन श्रीकृष्णेन बलाद्ृदये धृता सतीत्यर्थः । अत्र मान: स्थायी पूर्वरागो रसः ॥ ३५ ॥३६॥ भद्रायाः सखी श्रीकृष्णमाह- दवथुव्यथाया विदग्धा विज्ञा। श्रलेषेण विशेषतो दग्धा। यद्ा विदग्धेति पृथगेव ३४॥। ३५॥ ३६ ॥ दवद्मनतया निशम्येति । श्रीद्वारकानाथं प्रति श्रीनारद्वचनम्। भद्रानान्नीयं राजकन्या। सेयं च कथंचन प्रथमं तदालम्ब- नकं प्राप्य समुद्विन्मना जाता ततः श्रीनारदेन प्रत्युत तडुद्दीपनाय तस्य

Page 541

५१८ काव्यमाला।

अथोन्माद :- सर्वावस्थासु सर्वत्र तन्मनस्कतया सदा। अतसिमंस्तदिति भ्रान्तिरुन्माद इति कीर्त्यते॥ ३८ ॥ अत्रेष्टद्वेषनिश्वासनिमेषविरहादयः ।

यथा विदग्धमाधवे- वितन्वानस्तन्वा मरकतरुचीनां रुचिरतां पटान्निष्कान्तोऽभूद्धतशिखिशिखण्डो नवयुवा। भ्रुवं तेनाक्षिप्वा किमपि हसतोन्मादितमतेः शशी वृत्तो वहिः परमहह वहिर्मम शशी ॥ ३९॥ अथ मोह :- - मोहो विचित्तता प्रोक्तो नैश्चल्यपतनादिकृत्॥४० ॥

पदम्॥ ३७ ॥ सर्वाख्ववस्थासु सर्वत्रेति। उन्मादस्य कालदेशौ न व्यव- च्छेदकौ स्यातामित्यर्थः । सदा तन्मनस्कलमस्य कारणम् ॥३८॥ विशा- खादर्शितचित्रपटा श्रीराधा सखीभिवैमनस्यकारणं पृष्टा ताः प्रत्याह-वित- न्वान इति। मरकतरुचीनां या रुचिरता मनोहरता तां तं वा दूरभूतया वित- न्वानो विशेषेण विस्तारयन्। तेन यूना किमप्यनिर्वचनीयमाधुर्य यथा स्यात्तथा हसता भ्रुवं क्षिह्वा उन्मादिता मतिर्येस्याः सा। तस्या मम शशी वहिः विर- हिण्यां भयि दाहसमर्पकत्वादिति भावः । अहह खेदे अद्भुते च। वह्िस्तु शश्ी विरहपीडाया असह्यत्वात् प्राणजिहासया तस्मिन् पिपतिषोर्ममाभिलषणीयत्ा-

दावागिमोक्षणलीलेयं लत्तापशमनी स्यादिति प्रात्याय्य सा श्राविता ततश्च सा तत्र विश्वासतस्तल्लीलाविशिष्टं तं हृदि दधे ततश्च सतु तापो द्विगुणित एव जातः । तदेतद्वुत्तं खयमेव नारदः श्रीकृष्णं श्रावयामासेत्येवेतिहासोऽत्रानुसंघेयः

Page 542

उज्जवलनीलमणिः । ५१९

यथा- नासाश्वासपराड्मुखी विघटते दृष्टि: सुषायाः कथं हा धिक् कृष्णतिलान् ममार्पय करे कुर्यामपामार्जनम्। इत्यारोहति कर्णयोः परिसरं कृष्णेति वर्णद्वये कम्पेनाच्युत तत्र सूचितवती त्वामेव हेतुं सखी ।।४१॥। अथ मृति: तैस्तैः कृतैः प्रतीकारैर्यदि न स्यात्समागमः । कन्दर्पवाणकदनात्तत्र स्यान्मरणोद्यमः ।।४२।। तत्न स्वप्रियवस्तूनां वयस्यासु समर्पणम्। भृङ्गमन्दानिलज्योत्साकदम्बानुभवादयः ॥४३॥ यथा- राधा रोधसि रोपितां मुकुलिनीमालिज्व्य मल्लीलतां हारं हीरमयं समर्प्य ललिताहस्ते प्रशस्तश्रियम्। मूर्च्छामास्ुवती प्रविश्य मधुपैर्गीतां कदम्बाटवीं नाम व्याहरता हरे: प्रियसखीवृन्देन संधुक्षिता॥। ४४॥

दिति भावः ॥ ३९॥४० ॥ युष्मत्सख्या अदृष्टचर्या उन्मादे खलु नाहं कारण- मिति ब्ुवाणं श्रीकृष्णं विशाखा श्रीराधाप्रेमाणभावेदयति-नासेति। इति जटिलाया वाक्ये कृष्णेति वर्णद्वये कर्णयोः परिसरं प्राप्ते सति यः कम्पस्तेनैव ॥ ४१ ॥ तैस्तैर्दूती प्रेषण सवप्रेमपीडाज्ञापनादिभिरपि न समागम: श्रीकृष्णस्येत्यर्थ: ।४२ ॥४३ ॥ पृच्छन्तीं पौर्णमासी वृन्दा श्रीराधाया वृत्तमावेदयति- राधेति। रोधसि यमुनायास्तदे खहस्तेनारोपितां मल्लीलतामालिङ्गयेति हे मत्प्रिये ॥३७॥ ३८ ॥ पटात् चित्रफलकातू ॥ ३९॥ ४०॥ सूत्रितवती संक्षेपेणोक्त्या रहसि मां प्रति ज्ञापितवतीत्यर्थः ॥४१॥४२॥४३॥ राधेति। अयं १. 'सूत्रितवती' इति क-पुस्तके. २. 'अथ मृत्युः' इति क-पुस्तके.

Page 543

५२० काव्यमाला।

यथा वा विद्ग्धमाधवे- अकारुण्य: कृष्णो मयि यदि तवागः कथमिदं मुधा मा रोदीर्मे कुरु परमिमामुत्तरकृतिम्। तमालस्य स्कन्धे विनिहितभुजावल्लरिरियं यथा वृन्दारण्ये चिरमविचला तिष्ठति तनुः ॥४५॥

अथ समञ्स :- भवेत्समञ्जसरतिस्रूपोडयं समञ्जसः । अत्राभिलाषचिन्तास्मृतिगुणसंकीर्तनोद्वेगाः। सविलापा उन्मादव्याधी जडता मृतिश्र ताः क्रमशः।।४६

मल्लि, संप्रत्यहं लोकान्तरं यामि लमिहैव वृन्दावने मत्सखिभिः सिच्यमाना प्रफुल्लीभूय स्वपुष्पैर्मालारूपेण तस्य दुर्लभजनस्य वक्षसि खेलन्ती खारोपयित्रीं मां सुखयेत्यनुललापेत्यर्थः । ललिताकण्ठे इत्यनुक्ला हस्ते समर्प्येत्युक्तेरयं भावः । तदानीं केशानाभप्रसाधितत्वादतिविस्तृतलात्। हारस्योत्तारणे प्रयासं विलम्बं चालक्ष्य कण्ठात् सूत्रं त्रोटयिलैव हारं ललिताहस्ते समर्प्य ललिते मत्सारकमिमं हारं कण्ठे दधानैव दुर्लभजनं तमालिङ्गन्ती चिरं जीवेति खवगतमाहेत्यर्थः । आम्रुवति मूर्च्छां प्राप्ुमिच्छतीत्यर्थः । नाम व्याहरता नाम्नोऽमृतत्ादमृतस्य मृत- संजीवनौषधत्वादिति भावः ॥४४ ॥ अत्रादिशब्दात् खदेहस्योत्तरत्रियाकथनेन साभिलाषद्योतनं चेति वक्तुमाह-यथावेति। श्रीकृष्णस्योपेक्षामालक्ष्य कालि- यहदे देहं जिहासती श्रीराधा रुदतीं विशाखां सास्त्रमाह-अकारुण्य इति। तमालस्येति। हे सखि विशाखे, अस्यास्तनो: श्रीकृष्णकण्ठालिङ्गनेच्छा चिर- मांसीत् सा यदि दुरदृष्टवशान्न फलति स्म तद्पि श्रीकृष्णोपमं तमालमालिङ्गयापि कृतार्थीभवतिति मादनांशस्पर्शी मोहनोऽयम् ॥ ४५॥ समअसा रतिरेव स्वरूपं यस्य सः।समखसा रतिरेव संगमात् पूर्वभूता विभवादिभि: संवलितः समज- साख्यः पूर्वरागो रसः स्यादित्यर्थः। एबमग्रेऽपि सर्वत्र व्याख्येयम् ॥४६॥

Page 544

उज्ज्वलनीलमणिः । .५२१

तत्राभिलाष :- व्यवसायोऽभिलाषः स्यात्प्रियसंगमलिप्सया।

यथा- यदिह सखि सुभद्रा सख्यमाख्याय धूर्ते व्रजसि पितुरगाराद्देवकीमन्दिराय। रचयसि बत सत्ये मण्डने च प्रयत्नं स्फुटमजनि तदन्तर्वस्तु गूढं तवाद्य ॥ ४८ ॥ अथ चिन्ता- अभीष्टावाप्युपायानां ध्यानं चिन्ता प्रकीर्तिता। शय्याविवृत्तिनिश्वासनिर्लक्षप्रेक्षणादिकृत् ॥४९॥ यथा- निश्वासस्ते कमलवदने म्लापयत्योष्ठबिम्बं शय्यायां च कशिमकलिता चेष्टते देहयष्टिः। द्वन्द्वं चाक्ष्णोर्विकिरति चिरं रुक्मिणि श्याममम्भो न श्वोभाविन्युपयमविधौ शोभते विक्रियेयम् ॥ ५०॥

॥ ४७ ॥ काच्वित् प्रखरा सखी सत्यभामां सकूटमाह-यदिहेति ॥४८॥ निवृत्तिर्मुहुर्मुहु: परितः परिवर्तनम्॥४९॥ काचित् प्रतिवेशिनी रुक्मिणी प्रत्याह- निश्वास इति। श्याममम्भः सकज्जलाश्रु । उपयमो विवाहः ॥ ५० ॥

पूर्वराग:।४४।४५।४६।। ४७ । ४८ ॥ ४९ ॥ उपयमो विवाह:

Page 545

१२२ काव्यमाला।-

अथ स्मृति :- अनुभूतप्रियादीनामर्थानां चिन्तनं स्मृतिः। अत्र कम्पाङ्गवैवश्यसवापनिश्वसितादयः ॥५१॥ यथा- पुतं पूरेणापां नयनकमलद्वन्द्वमभितो धृतोत्कम्पं सात्राजिति कुचरथाङ्गदयमपि। कलथारम्भं चेदं भुजबिसयुगं तत्तव मन- स्तडागेऽस्मिन् कृष्ण द्विरदपतिरन्तर्विहरति ॥ ५२॥ अथ गुणकीर्तनम्- सौन्दर्यादिगुणश्लाघा गुणकीर्तनमुच्यते। अत्र वेपथुरोमाञ्चकण्ठगद्गदिकादयः ॥५३॥ यथा- यान्त्यस्तृष्णामपि युवतयो येषु घूर्णा भजन्ते यान्याचम्य स्वयमपि भवान् रोमहर्ष प्रयाति। गन्धं तेषां तव मधुपते रूपसंपन्मधूनां दूरे विन्दन्मम न हि धृतिं चित्तभृङ्गस्तनोति ॥ ५४ ॥

प्रियादीनां प्रियतदीय गुणरूपवेषचेष्टादीनाम्॥५१॥सत्यभामायाः सखी तामाह- छ्ुतमिति। दुतं व्याप्तम्। शथारम्भं शिथिलोद्रमम्। द्विरदो हस्ती ॥५२॥ ।। ५३ । रुक्मिणी संदेशपत्रीं लिखति-यान्त्य इति। येषु तृष्णामभिलाष- मपि प्राझ्नुवत्यो घूर्णन्ते तेषां मधूनां पाने किं वक्तव्यमिति भावः ॥५४॥

॥ ५० ॥५१ ॥५२ ॥५३ ॥ यान्त्य इति। श्रीरुक्भिणीसंदेशः ॥ ५४ ॥ १. 'चैतद्दुजयुग' इति क-पुस्तके.

Page 546

उज्ज्वलनीलमणिः । ५२३

षडद्वेगादयः पूर्वं प्रौढे तस्मिनुदाहृताः। सामञ्जस्याद्रतेरत्र किं तु ताः स्युर्यथोचितम् ॥५५॥ अथ साधारण :- साधारणरतिप्रायः साधारण इतीरित: । अत्र प्रोक्ता विलापान्ता: षड दशास्ताश्र कोमलाः॥५६॥। तत्राभिलाषो यथा प्रथमस्कन्धे- एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते। यासां गृहात्पुष्करलोचनः पति- रने जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥५७॥ चिन्तादीनां तथान्यासासूह्या धीरैरुदाहृतिः। पूर्वरागे प्रहीयेत कामलेखस्रगादिकम् ॥५८ ॥ चयस्यादिकरेणात्र कृष्णेनास् च कान्तया।

कुरुपुरस्त्रियः श्रीकृष्णमालोक्य तत्पत्नी लाघया तं कामयन्ते। एताः पट्टमहिष्यः अपास्तपेशलं निरस्तखातक्यं कामविकाराधिक्यान्निरस्तशौचं साधु शोभनम्। अहो स्त्रीजातिरेव धन्या यत्र रुक्मिण्यादय उद्भूता इति सतां श्राघयेत्यर्थः। आहृ- तिभि: पारिजातादिविविधवस्त्राहरणैः। नन्वासां कुरुपुरनार्यादीनामन्यभुक्तलात् श्री- कृष्णसंभोगो नास्त्येव कुतः पूर्वरागो वण्येते। सत्यम्। खान्नो मानसश्च संभोगो वर्तते देहान्तरे साक्षाच्च संभोगो भविष्यतीति अतः पूर्वरागोऽयं नानुपपन्नो ज्ञेयः ॥५५॥

अस्याः समज्जसाया रतेः सामअस्याद्वेतोः ॥५५॥५६॥ एता इत्यादि । वक्रीणां कुरुपुरुस्त्रीणां यद्यपि संभोगासंभवस्तथापि रुचिमात्रांशेनोदाहरणम् ॥ एताः पट्टमहिष्यः स्त्रीलं स्त्रीजातिमात्रं साधु कुर्वते। जात्येकलेन पवित्रीकरोति। अपास्तपेश लमिति अन्यसेवापरतान्निरस्तदाक्ष्यमित्यर्थः । तथा तक्शमश्रुरोमनख- केशपिनद्धेतिन्यायेनान्यसङ्गान्निरस्तशौचं च। आहृतिभि: प्रेममयनानासमाहारैः

Page 547

५२४ काव्यमाला।

तत्र कामलेख :- स लेखः कामलेखः स्याद्यः सवप्रेमप्रकाशकः ॥ ५९॥॥ युवत्या यूनि यूना च युवत्यां संप्रहीयते। निरक्षरः साक्षरश्र कामलेखो द्विधा भवेत् ॥ ६० ॥ तत्र निरक्षर :-

वर्णविन्यासरहितो भवेदेष निरक्षरः ॥ ६१ ॥ यथा- किसलयशिखरे विशाखिकाया नखरशिखालिखितोSयमर्धचन्द्रः । दधदिह मदनार्धचन्द्रभावं हृदि मम हन्त कथं हठाद्विवेश ॥ ६२ ॥

अथ साक्षर :- गाथामयी लिपिर्यत्र सवहस्ताङ्कैष साक्षरः।

। ५६।५७ ॥ ५८ ॥ कृष्णेन कर्त्रा स्वकान्तायै अस्य श्रीकृष्णस्य, कान्तया च क्त्या श्रीकृष्णाय ॥५९॥६० ॥ ६१। विशाख्ा सख्या दत्तं कामलेख्यं प्रीत्या हृदि कृत्वा श्रीकृष्ण: क्षणान्तरे सुबलमाह-किसलयेति। मदन- स्यार्धचन्द्रभावं तन्नाम शरसाधर्म्यमित्यर्थः ॥ ६२॥ शशिमुखीद्वारा श्रीरावा-

।५७॥५८ ॥५९ ॥६० ॥६१॥६२ ॥ गाथा प्राकृतभाषायामप्यार्या।

१. 'खहस्तेनैष' इति ख ग-पुस्तकयोः-

Page 548

उज््वलनीलमणिः । ५२५

यथा जगन्नाथवल्लमे- सुइरं विज्झसि हिअअं लम्भइ मअणो क्खु दुज्जसं वलिअम्। दीससि सअलदिसासुं दीसइ मअणो ण कुत्तावि॥ ६३॥ [सुचिरं विध्यसि हृदयं लभते मदनः खलु दुर्यशो बलवत्। दृश्यसि सकलदिशासु दृश्यते मदनो न कुत्रापि ।] बन्धोऽज्तन्तुना रागः किंवा कस्तूरिकामसी। पृथुपुष्पदलं पत्रं सुद्राकृत्कुङ्कमैरिह ॥ ६४ ॥ अथ माल्यार्पणम्- सुक्लिष्टां निजशिल्पकौशलभरव्याहारिणीमद्भुतां गोष्ठाधीश्वरनन्दनः स्रजमिमां तुभ्यं सखि प्राहिणोत्। इत्याकर्ण्य गिरं सरोरुहद्दश: खेदोदबिन्दुच्छला- दङ्गेभ्यः कुलधर्मधैर्यममितः शङ्के बहिनिर्ययौ ॥ ६५ ॥ केचितु- "नयनप्रीतिः प्रथमं चिन्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥६६ ॥

प्रेषितः श्रीकृष्णे कामलेखोऽयम् । 'सुचिरं विध्यसि हृदयं लभते मदनः खलु दुर्यशो बलीयः। दृश्यसे सकलदिक्षु वं दृश्यते मदनो न कुत्रापि ।' मदन- शरपीडिता श्रीराधा काम्यतीति सखीषु प्रसिद्धिर्मिथ्यैव। यतः-सुचिर- मित्यादि ॥ ६३ ॥ रागो हिङ्डुलादिद्रवः । मसीव मसी किंवा कस्तूरीके- त्यन्वयः ॥ ६४॥ वृन्दा श्रीराधायै मालां समर्प्यागता श्रीकृष्णेन पृष्टतद्त्तान्ता तं प्रत्याह-सुश्लि ष्टामिति।। ६५ । ६६।।वृन्दा श्रीराधामाह- खहस्तेन अङ्को लिपिर्यस्यां सा ।। 'सुचिरं विध्यसि हृदयं लभते मदन: खलु दुर्यशोऽतिबलवत्। दृश्यसे सकलदिक्षु तं दृश्यते मदनो न कुत्रापि ॥' मसी उ्लिपेरुपादानद्रव्यम् ॥ ६३॥ ६४ ॥ विज्ञेयः उद्दीपनलेनेति शेषः ॥ ६५ ॥

Page 549

५२६ काव्यमाला।

उन्मादो मूर्च्छा मृतिरित्येता: स्मरदशा दशैव स्युः।।"इत्याचक्षते। एवं क्रमेण विज्ञेय: पूर्वरागो हरेरपि। निदर्शनाय तत्रैकमुदाहरणमुच्यते ॥ ६६ ॥ यथा- उपारंसीद्वंशीकलपरिम लोल्लासरभसा- द्विसस्मार स्फारां विविधकुसुमाकल्परचनाम्। जहौ कृप्णस्तृष्णां सहचरचमूचारुचरिते

इति पूर्वरागप्रकरणम्। अथ मान :- दम्पत्योर्भाव एकत्र सतोरप्यनुरक्तयोः। स्वाभीष्टाश्ल्लेषवीक्षादिनिरोधी मान उच्यते ॥ ६८ ॥

उपेति। अन्न परिमलपदेन वंशीकलस्य पुष्पोद्यानत्वमारोपितम् । तस्य तानतालादिप्रपञ्चे निखिलविलासास्पदत्वं व्यङ्गयम्। उल्लास उद्रेकस्तेन यो रभस आनन्दस्तस्मादुपारंसीद्यरंसीत् ॥ ६७ ॥। इति पूर्वरागविव्ृतिः । दम्पत्योः स्वाभीष्टमाश्लेषवीक्षणादिकं निरोदुं शीलं यस्य तथाभूतो भावो रोषविशेष एव विभावादिसंवलनान्मान उच्यते। अत्र रसशास्त्रे स्त्रीपुंसमात्रे दम्पतिपदप्रयोगः 'औपपत्येऽपि स्वाधीनभर्तृका' इत्यादिपदप्रयोगवन्नानुपपन्नः । अभीष्टपदेन देवमन्दिरव्रतादिदेशकालनिद्रालस्याद्यवस्थाव्यावृत्तिः । तत्र तत्र क्वचिन्नायिकायाः कचिन्नायकस्य क्वचिदुभयोरेवालिङ्गनादेव नाभीष्टतम्।

६६ ॥ श्रीकृष्णभक्तेरेवात्र स्थायिलन प्राकृतलात् ।। ६७ ।। इति पूर्वराग- विवृतिः ।। दम्पत्योभाव एव मानाख्य उच्यते। विभावादिसंवलिततया प्रकृष्टमाधुर्यश्चे-

Page 550

उज्जवलनीलमणिः । ५२७

संचारिणोऽत्र निर्वेदशङ्कामर्षाः सचापलाः। गर्वासूयावहित्थाथ् ग्लानिश्चिन्ताद्योऽप्यमी ॥६९॥ अस्य प्रणय एव स्यान्मानस्य पदमुत्तमम् । सोऽयं सहेतुनिर्हेतुभेदेन द्विविधो मतः ॥७0॥ तत्र सहेतु :- हेतुरीर्ष्याविपक्षादेवैशिष्ये प्रेयसा कृते। भावः ग्रणयमुख्योऽयमीर्ष्यामानत्वमृच्छति ॥। ७१॥ तथा चोक्तम्- स्नेहं विना भयं न स्ानेर्ष्या च प्रणयं विना।

एकत्र सतोरपीत्यपिकारात् पृथक् स्थितयोरपि । नन्वयं मानः क्व संभवती- त्यपेक्षायामाह-अस्य मानस्य प्रणय एवोत्तमं पदं स्थानं स्यात्। यत्र प्रणयः स्यात्तत्रैव मान: स्यादित्यर्थः। उत्तमं पदमित्युक्त: स्नेहोऽनुत्तमं पदं न्यूनस्थान- मित्यर्थ आयाति। यदुक्तम्-'जनिला प्रणयः स्नहात्कुत्रचिन्मानतां व्रजेत्। सनेहान्मान: क्वचिद्ूला प्रणयत्वमथाश्रुते ।।' इति ॥६८॥ ६९ ॥ ७० ।। हेतुरत्र खल्वीर्ष्येव स्यादित्यर्थः । तस्या अपि को हेतुस्तत्राह-प्रेयसा कान्तेन विपक्षादेः प्रतिनायिकायास्तत्सखीनां वा वैशिध््ये उत्कर्षे कृते सति भाव ईर्ष्या- रूप: प्रणयः प्रधान: सन् ईर्ष्या मानतमृच्छति प्राप्ोति॥ कृतापराधस्य नाय- कस्य नायिकां प्रति भयं स्यात्, नायिकायास्त्पराधे तस्मिन्नीर्ष्या स्यात्। तदुभयहेतुको नायिकानायकयोर्मानो नाम रसः स्यात्। तत्र च भयस्य कारणं स्नेहः, ईर्ष्यायाः कारणं प्रणय इत्याहस्नेहमिति। स्नेहं नायिकाविषयकं

दिति भावः । अपिशब्दात् पृथक् स्थितयोरपि॥ ६८ ॥ प्रणय एवं पदमाश्रयः। अन्यथा संकोचः स्यात् यत्र मानाख्यो भाव: पूर्व पश्चात्तु प्रणयो भावप्रकरणोक्ता- नुसारेण लभ्यते। अत्र च मानाख्योऽयं रसः प्रणयात् पूर्व न भवति प्रणयं विना तद्यक्तौ शोभनानुपपत्तेः ॥ ६९ ॥ सहेतुरीर्ष्यासंयोगेन हेतुना सह चर्तमान:, निर्हेतुस्तद्विनाभूतः; उत्तरानुरोधात्। ७० ॥. स्नेहं नायकस्य

Page 551

५२८ काव्यमाला।

तस्मान्मानप्रकारोऽयं दयोः प्रेमप्रकाशकः ॥ ७२ ॥ अत एव हरिवंशे- रुषितामिव तां देवीं स्नेहात्संकल्पयन्निव। भीतभीतोऽतिशनकैर्विवेश यदुनन्दनः ॥ ७३॥ रूपयौवनसंपन्ना सवसौमाग्येन गर्विता। अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता॥ ७४ ॥ इति। तत्रापि च सुसख्यादि हृदि यस्या विराजते। तस्या विपक्षवैशिष्ये न स्यादेव सहिष्णुता ॥ ७५ ॥

चित्तारद्रीभावं विना नायकस्य भयं न स्यात्। प्रणयं नायकविषयं सख्यं विना नायिकाया ईर्ष्या न स्यात्।। रूषितां कुपितामेवेति रोषस्यास्य प्रणयपरिणाम- रूपत्वादिति भावः । स्नेहात् खवनिष्ठात्तद्विषयकात् संकल्पयश्निव संभावयननिव। यद्वा चरणयोः पतिष्यामि चाटु वक्ष्यामीत्यादयः संकल्पा यस्यां सन्ति सा संकल्पवती तथाभूतां तां कुर्वन्निव सौभाग्येन श्रीकृष्णनिष्ठसुखस्य निबन्धनेने- त्यर्थः । अतिगर्वितेत्यत्र हेतुः अभिमानवती मदीयतामयमधुस्नेहवती ।। तद्वैशिष्यं विपक्षादेः प्रेयसा कृतम् ॥ ७१॥७२॥७३॥७३॥७४॥

नायिका प्रत्यार्दीभावं विना भयं न स्यात्। ईर्ष्या नायिकाया असहनत्वं प्रणयं विना न स्यात तस्मात् स्नेहप्रणयकारणलात् द्योः मान एव प्रेम्णोSच्छिदुरभा- वस्य प्रकाशः ॥ ७१ ॥ रूषितामिवेति वस्तुतः प्रणयवतीलात रोषाभास- वतीमित्यर्थः । देवीं श्रीसत्यभामां संकल्पयत्निव कर्थचिन्मे स्नेहरैथिल्यमियं कुर्यादिति भावयन्निवेति। वस्तुतस्तु तस्यामस्य नेद्ृशी संभावनागाढता भवेदिति संभावनाभासमेव कुर्वन्नित्यर्थः । तथापि भीतभीत इत्यन्तर्वशीभावो दर्शितः । गर्विता खवस्मिन् प्नियकृदादरेण परमप्रेयसींमन्या। सयं चाभिमानवती भावप्र-

Page 552

उज््वलमीलमणिः । ५२९

अतः सत्यां विनान्यासां सुसख्यादेरभावतः । श्रुतेऽपि पारिजातस्य दाने मानो न चाभवत् ॥७६।। श्रुतं चानुमितं दृष्ट तद्वैशिथ्यं त्रिधा मतम्। तत्र श्रवणम्- श्रवणं तु प्रियसखीशुकादीनां मुखाद्वेत्। ७७।। तत्र सखीमुखाद्यथा- शशिमुखि सृषा जल्पं श्रुत्वा कठोरसखीमुखा- त्प्रणयिनि हरौ मा विस्म्भं कृथा: शिथिलं वृथा। परिहर मनःकान्तिं देवि प्रसीद मनोरमे तव मुखमनालोच्य प्रेयान्वनेऽद्य विशीर्यति॥७८॥ यथा वा- अहह गहना केयं वार्ता श्रुतौ पतिताद् मे विदितमनृतं हास्याद्रषे विमुश्च कदर्थनाम्। सहचरि कुतो जीवत्यस्मिञ्जनेऽपि जनार्दनो दुतरुकुसुमं तस्यै हा विकृती वितरिष्यति॥ ७९॥

। ७५ ॥ ७६॥ ७७॥ वन्दा मानिनी मनोरमां प्रत्याह-शशिमुखीति । ७८॥ पटुमहिषीष्वपि मानमुदाहर्तुमाह-यथा वेति। पारिजातपुष्पदान- प्रस्तावं ब्रुवाणां खसखीं प्रति सत्यभाभा प्राह-केयमद्गुता अश्रुतचरी। श्रुति- स्फोटिनीत्यर्थः । क्षणं परामृश्याह-विदितम् मया ज्ञातं, हासात् परिहासाद्वेतोः मां कदर्थयितुमनृतं ब्रूषे। अस्मिन्मल्लक्षणे जने तस्यै रुक्मिण्यै। कृती देश-

करणोक्तमानाख्यभावविशेषवती ॥। ७ ॥ ७॥ ७ ॥ ७ ॥ ७६। ७७ ।।

१. 'सुरपुष्पस्य' इति क. पुस्तके. ३४ उजज्व०

Page 553

५३० काव्यमाला।

शुकमुखाद्यथा- आस्ते काचिद्दयितकलहा क्रूरचेताः सखी ते कीरो वन्यः स्फुटमिह यया श्यामले पाठितोऽखित। अत्र व्यर्थे विहगलपिते सुध्वु विस्रम्भमाणा मानारम्भे न कुरु हृदयं कातरोऽस्मि प्रसीद ॥ ८० ॥ अनुमितिः-तत्र भोगाङ्क :- भोगाङ्को दृश्यते गात्रे विपक्षस्य प्रियस् च ।। ८१॥ तत्र विपक्षगात्रे भोगाङ्कदर्शनं यथा- कालिन्दीतटधूर्तचाटुभिरलं निद्रातु चन्द्रावली खिंन्नाक्षी क्षणमङ्गनादपसर कुद्धास्ति वृद्धा गृहे। किंचिद्विम्बितधातुपत्रमकरीचित्रेण तत्राधुना सर्वा ते ललिता ललाटफलकेनोद्धाटिता चातुरी ॥ ८२।।

कालपात्रज्ञः ॥ ७९॥ मानिनीं श्यामलां श्रीकृष्णः सचाटुप्रतिभमाह-आस्त इति । पाठितोऽस्ति लां मां च कदर्थयितुमिति भावः ॥।८०॥८१॥ खण्डितायाश्रन्द्रावल्याः कुजमायातं श्रीकृष्णं पद्मा साक्षेपं सामर्षमाह- कालिन्दीति। चाटुभिरलमिति त्चाटकरणं वयं जानीम एव किंतु संप्रति तूष्णीं भवेति भावः । ननु वचने को दोष इत्यत्र मानागिसंतापमूर्च्छिता चन्द्रा- वली निद्रितेति ज्ञापयन्ती प्राह-निद्ात्विति। निद्रातु लज्जल्पितशब्देन मा जागर्तिति भावः । यतः खिन्नाक्षी रात्रौ विप्रलम्भलेन जागरादिति भावः । ननु तर्हि तूष्णीमिव क्षणमिहैव स्थास्यामीत्यत आह-अङ्गनादिति ।

॥ ७८ ॥। गहनारिष्टदा ॥७॥८०॥८१॥ बिम्बितधातुप त्रमकरीचि- प्रेणेति। अनयोपालम्भनक्त्र्या श्रीकृष्णवक्षसि तत्परीक्षणाय खयमेव पूर्व

१. 'खिन्नाङ्गी' इति ग-पुस्तके. २. 'किंचिच्चित्नितधातुपत्रमकरीबिम्बेन' इति ख-ग-पुस्तकयोः

Page 554

उज्ज्वलनीलमणिः । ५३१

प्रियगात्रे भोगाङ्कदर्शनं यथा विदग्धमाधवे- मुक्तान्तर्निमिषं मदीयपदवीमुद्वीक्षमाणस्य ते जाने केशव वेणुभिर्निपतितैः शोणीकृते लोचने। शीतैः काननवायुभिर्विरचितो बिम्बाधरे च त्रणः संकोचं त्यज देव दैवहतया न त्वं मया दूष्यसे ॥८३॥ अथ गोत्रस्खलनम्- विपक्षसंज्ञयाह्वानमीर्ष्यातिशयकारणम्। आसां तु गोत्रस्खलनं दुःखदं मरणादपि।। ८४ ॥

एवं चेदितो यामि किंतु तन्निरपराधतं चाटुप्रणतिविनत्यादिकं च प्रबुद्धायां चन्द्रावल्यां युष्माभिरेव कृपालुभिर्विज्ञापनीयमिति तत्राह। किंचिदीषद्वि- म्बितं प्रतिबिम्बं धातुपत्रगैरिकमनःशिलादिरचितं श्रीकृष्णललाटस्थपत्रभज्गं यस्मिन् तथाभूतं मकरीचित्रं मृगमदादिरचितं यत्र तेन फलकेन चित्रपटेन ॥ ८२ ॥ खण्डिता श्रीराधा अनुनयन्तं श्रीकृष्णं तद्वचनानुवादेनैव विप- रीतलक्षणया प्राह-मुक्कान्तर्निमिषमिति। मत्पदवीदर्शनेऽपि किं पुन- र्मद्दर्शनेन अन्तर्निमिषोऽपि न कृतः किं पुनर्बहिर्निमेषः । तत्राप्यहो केशररेणुपा- तसमयेऽप्यहो मद्विषयकप्रेम्णः परा काष्ठेत्यर्थः । जाने इति। सर्वदैवाहमनुभ- वाम्येव किं पुनरपि तद्विज्ञापनप्रयासेन तवेति भावः । बिम्बाधरे च व्रण EFE इति। मत्प्रेभविवशो जातं व्रणमपि नानुसंधत्से इत्यर्थः । संकोचं त्यजेति एता- वत्प्रेमवत्त्वे कुतोऽपराधसंभावना यतः संकोच इति भावः । देवेति। नहि मनुष्य एवं प्रेम कर्तु शक्कोतीति भावः। श्लेषेण हे कीडापर, किमिति संकुचसि मदग्रेऽपि ताभानीय रमखेति भावः। नन्वेवं चेत् कथं सखीभिः सहिता लं मामदूषयंस्तत्र सत्यभपराद्धमेव मयेत्याह-तं संप्रति तु ज्ञाततत्त्वया मया न दूष्यसे पूर्व यद्विरुद्धं कृतं तत्त्वया कृपयैव क्षन्तव्यमेवेति भावः । ननु तर्हि तव खेदस्य किं कारणं तत्राह-दैवहत इति। यदि मललाटे विधात्रा दुःखं

तल्लिखितमासीदिति गम्यते ॥। ८२ ॥ संकोचं भयम् ॥ ८३ ।। ८४ ।।

Page 555

५३२ काव्यमाला।

तेन यथा बिल्वमझले- राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान् राधे क्षेममिहेति तस्य वचनं श्रुत्वाह चन्द्रावली। कंस क्षेममये विमुग्धहृदये कंसः क दृष्टस्त्वया राधे क्ेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः॥८५॥ यथा वा- अहह विलसत्यग्रे चन्द्रावली विमलद्युति: कितव कलिता तारा सात्र त्वया क्व नु षोडशी। तिमिरमलिनाकार क्षिप्रं त्रजारुणमण्डला मम सहचरी यावन्मन्युद्युतिं न विमुञ्चति ॥ ८६ ।। अथ खम :- हरेर्विदूषकस्यापि स्वम्: खमायितं मतः ।

लिखितं तदा लं किं करिष्यसीति भावः ॥ गोन्नस्य नाम्र: स्खलनम्। 'गोन्रं कुले धने नाम्ि गोन्रं तु धरणीधरे।' इत्यजयः ॥८३ ॥८४॥८५॥ गोत्रस्ख- लने नायिकाया ईर्ष्योकिमाधुरीमुदाहृत्य तत्सखीनामपि तामुदाहर्तुमाह-यथा वेति। चन्द्रावल्याः सभायां नृत्यगीतवाद्यप्रहेलीलपनस्ादप्रसज्ने श्रीकृष्णं स्मृता आरूढीभूतराधं राधे इति पदेन चन्द्रावली संबोधयन्तं पद्मा सामर्षमाह-अह- हेति। अन्भुते खेदे च। चन्द्रावली श्लेषेण एक एव चन्द्रश्चक्षुष्मता जनेन नान्यथा प्रतिपादते किमुत चन्द्रावली, तत्रापि विमलद्युतिर्नतु मेघाम्बरेणावृत- सर्वाङ्ेत्यर्थः । कलिता दृष्टा षोडशी तारा राधा ईर्ष्यया तन्नामाग्रहणात् तिमिरम- लिनाकारेति चन्द्रतिमिरयोर्यथा मैत्री तथा लं जानास्यवेति भावः । नच काश्चि- त्सख्योऽस्यास्तामनुग्रहिष्यन्तीत्यपि तया ज्ञेयमित्याह-अरुणं कोपेनारुणवर्ण

श्रीराधा इति नाम सूचयति।। ८५।। अरुणस्य सूर्यसारथेर्मण्डलमिव मण्डलं मोष्ठी यस्याः सा ।मन्युः कोधः । विमुश्चति क्षिपति ॥ ८६॥ सप्नायितं खप्न

Page 556

उज्ज्वलनीलमणिः ।

तत्र हरे: खवभ्नायितं यथा- शपे तुभ्यं राधे त्वमसि हृदये त्वं मम बहि- स्त्वमग्रे त्वं पृष्ठे त्वमिह भवने त्वं गिरिवने। इति खमे जल्पं निशि निशमयन्ती मधुरिपो- रभूत्तल्पे चन्द्रावलिरथ परावर्तितमुखी।।८७।। विदूषकस्य यथा- अवश्चि चटुपाटवैरघभिदाद्य पद्मासखी ततस्त्वरय राधिकां किमिति माधवि ध्यायसि। निशम्य मधुमङ्गलादिति गिरं पुरः खमजां विदूनवदना सखि ज्वलति पश्य चन्द्रावली।। ८८ ।। अथ दर्शनं यथा- मिथ्या मा वद कन्दरे मम सखीं हित्वा त्वमेकाकिनी निष्कान्तः पृथुसंभ्रमेण किमपि प्रख्यापयन्कैतवम्। दूरात्किंचिदुदश्चितेन रसनाशब्देन सातङ्कया निष्कम्याथ तया शठेन्द्र पुलिने दृष्टोऽसि राघासखः।।८९।।

मण्डलमतिशयोक्त्या सखीवृन्दं यस्याः सा, पक्षे मण्डलमुदयकालोत्थपरिधि: ॥ ८६ ॥ खप्नायितं खप्रमानयत्स खप्ः (१)। लोहितादिपाठात् क्यड्॥ वृन्दा कुन्दवल्लीमाह-शपे इति। हृदय इत्यादिना तस्यां खवप्रेमातिशयो व्यञ्जितः ॥ ८७ ॥। शैब्या श्रीकृष्णमाह-अवश्चीति। पद्मायाः सखी चन्द्रावली। अवच्चि प्रतारिता। राधिकां लरय। अभिसर्तुमित्यर्थः ॥ ८८ ॥ पद्मा श्रीकृष्ण- मनुनयन्तमाह-मिथ्येति। प्रख्यापयन्निति अद्य संध्यावसरे विघटिता कापि गौर्न प्राप्ता तस्या इव शब्दं दूरादहं श्ृणोमीति तां यावदिहानयामि तावदिहैव

किया खप्ो मतः। क्यड्प्रत्ययोऽत्र श्दादिपाठात् ॥८७॥८८।।८९।।

Page 557

५३४ काव्यमाला।

यथा वा- सहचरि परिगुम्फ्य प्रातरेवार्पितासी- डजपतिसुतकण्ठे या मयोत्कण्ठयाद्य। अपि हृदि ललितायास्तस्थुषी हन्त हन्मे दहति दहनदीपिः पश्य गुञ्जावली सा ।। ९० ॥ अथ निर्हेतु :- अकारणाइ्योरेव कारणाभासतस्तथा। प्रोद्न् प्रणय एवायं त्रजेनिर्हेतुमानताम्। आद्यं मानं परीणामं प्रणयस्य जगुर्वुधाः ।।९१ ॥

प्रिये लं तिष्ठेत्याकारं कैतवम्। ततश्च क्षणान्तरे दूरादुत्थितेन रसनायाः शब्देन सातङ्कया हन्त हन्त कोऽयं रसनाशब्दः नत्वस्मत्सखीनां कासामपीति लब्धशड्डया ततश्च कुआदपि निष्कम्य ॥८९॥ प्रेयसा कृतवैशिध्यस्य खप्रतिपक्षस्य दर्शनमुदा- हृत्य तदीयपक्षस्यापि तथा दर्शनमुदाहर्तुमाह-यथा वेति। चन्द्रावली ललितां दूरादालोकयन्ती खहृदयव्यथां खसख्यां पद्मायामुद्धाटयति-सहचरीति। प्रातरेवेत्येवकारेण ललिताया हृद्यपि प्रातरेव तस्थुषीति गम्यते। अत एव तस्थुषीति परोक्षातीतवं सुसङ्गतमेव। ललितायाः संगवसमय एव तथा दूरे दृश्यमानलात्। तेन च प्रातरेव श्रीकृष्णकण्ठे गुजावलीं निधाय मय्यागतायां तदैव प्रातरेव श्रीकृष्णेन सा ललिताकण्ठेऽर्पिता हन्त हन्त क्षणमपि स्वकण्ठे किल न स्थापितेत्येतत्कथमहं सोढुं शक्कोमीति श्रीकृष्णे एव बलवदीर्ष्याधिक्यं न तु तथा ललितायामिति ज्ञेयम्। ततश्च दैवहतया मयाद्य कथं सवं संतापयितुं गुजावली गुम्फितेत्याह-दहतीत्यादि। अकारणात् कारणाभावात्॥ ९० ॥ आद्यमीर्ष्यामानाख्यं पूर्वोक्तं सहेतुकं तथा द्वितीयं कारणाभावकारणाभासभवम्।

तस्थुषीति ईर्ष्यया परोक्षातीतत्वं दर्शितम् ॥। ९० ॥ आद्यमीर्ष्यामानाख्यं प्रणयस्य परिणामं ईर्ष्यासंयोगेन तत्तुत्यतयावस्थानं लोहितवस्तुसंयोगेन

Page 558

उज्ज्वलनीलमणिः । ५३५

द्वितीयं पुनरस्यैव विलासभरवैभवस्। बुधैः प्रणयमानाख्य एष एव प्रकीर्तितः ॥। ९२।। तथा चोक्तम्- अहेरिव गतिः प्रेम्ण: स्वभावकुटिला भवेत्। अतो हेतोरहेतोश्च यूनोर्मान उदञ्चति ॥९३ ॥ इति। अवहित्थादयो ह्यत्र विज्ञेया व्यभिचारिण:। तत्र श्रीकृष्णस्य यथा- अव्यक्तस्मितदृष्टिमर्पय पुरः सल्पोऽपि मन्तुर्न मे पत्युर्वञ्चनपाटवाद्रजपते ज्योत्सी निशार्घ ययौ।

अस्यैव प्रणयस्य ॥ ९१॥९२॥ अहेरिवेति। उदञ्वति उद्गच्छति। अन्यच्च यथा। 'नदीनां च वधूनां च भुजङ्गानां च सर्वदा। प्रेम्णामपि गतिर्वक्रा कारणं तत्र नेष्यते ।।' इति ॥। ९३ ॥ श्रीकृष्णस्य यथेति। कारणभावभवो मानोऽस्य न संभवतीति तमुल्लङ्मय कारणाभासभवभाह-अव्यक्ेति। काचि- द्रजसुन्दरी खवसखीद्वारा श्रीकृष्णं संकेतस्थं कृला प्रहरावसानायां रात्रौ तननिकट- मागत्य तं कृतमानमालक्ष्य स्वापराधाभावमावेद्यति-न व्यक्तं स्मितं यत्र तथाभूतां दृष्टिमपयेति। यदि तवं सत्यमेव मानं कृतवानसि तदा स्मितं मा कुरु दृष्टिं तु मय्यर्पय। सर्वथैव नहि पुरुषजातिः पुरःस्थितायां युवतौ दृष्टिं विना तिष्ठतीति भावोऽयं तस्य हासप्रकाशार्थ ज्ञेयः। सस्य निरपराधतं विवृणोति- पत्युरित्यादि। व्रजपतिनन्दनेति संबोधनीये संभ्रभव्याकुलतया व्रजपते इति मुखानिःसृतम्। ज्योत्स्ी ज्योत्सावती। ननु निशार्धात्परत्रापि किमिति नाया- स्फटिकस्य लोहितलवदिति ज्ञेयम्। सर्पादीनां मण्डलादिभज्विविशेषवच्च ज तु दुग्धस्य दधितवत् पुनः स्रूपप्रास्यभावात्। द्वितीयमीर्ष्यासंयोगं विना जातम्। प्रपायच्छविविशेषाकारं मालायाः सर्पतप्रत्यायकाकारविशेषव- त्वमिति ज्ञेयम्। एक एव निर्हेतुरेव ॥९१॥९२ ॥ तथा चोक्तमिति। निर्हेतोरेव प्रामाण्याय लिखितम्। तत्राव्यक्तस्मितेत्यादिद्वयमहमित्यादिकं च कारण-

Page 559

५३६ काव्यमाला।

शुभलंकृतिभिर्द्गुतं पथि मया दूरं ततः प्रस्थिते सान्द्रा चान्द्रमरुन्ध बिम्बमचिरादाकस्मिकी कालिका।९४॥। यथा वा- पुष्पेभ्यः स्पृहया विलम्बितवतीमालोक्य मामुन्मनाः कंसारिः सखि लम्बिताननशशी तूष्णीं निकुञ्जे स्थितः । आतड्केन मया तदङ्गिनखरे क्षिप्ते प्रसूनाञ्जलौ तस्यालीकरुषा भ्रुवं विभुजतोऽप्याविर्बभूव स्मितम्।।९५॥। कृष्णप्रियाया यथोद्धवसंदेशे- तिष्ठन्गोष्ठाङ्गनभुवि मुहुर्लोचनान्तं निधत्ते जातोत्कण्ठस्तव सखि हरिर्देहलीवेदिकायाम्।

तासीत्यत आह-शुभ्रेति। चान्द्रं बिम्बं चन्द्रमण्डलं कालिका मेघसमूहोऽरुद्ध। "मेघजालेऽपि कालिका" इत्यनेकार्थवर्गपाठात्। आकस्मिकीति प्रथमतो विचारा- सामर्थ्यम्। सान्द्रेति। शुभ्रपरिच्छद्युक्तलेनागमनासामर्थ्य च द्योतितम्। ततश्र तं परिच्छदं परित्यज्य सितवस्त्रादिकं धृतान्रागमने इयान् विलम्बो जात इति को मभापराध इति भाव: ॥ ९४ ॥ कारणाभासस्य विलम्बस्य दैवकृतले स्वकृतिते च श्रीकृष्णस्य मानो भवेदिति दर्शयितुमाह-यथा वेति। श्रीराधिका माध्याह्िकलीलाविलासरसं स्वगृहमागत्य श्यामलायामुद्गिरति-पुष्येभ्यः स्पृहयेति। प्रथमं श्रीकृष्णेन शङ्गारिताहं तस्यापि पुष्पमण्डनार्थमेकाकिन्येव पुष्पोद्यानं प्राविशमिति भावः । ततश्च पुष्पाणि विचित्यानीय कुञ्जे तं कृतमान- मालक्ष्य तदङ्विनखरे प्रसूनाज्लौ क्षिप्त इत्यस्यायं भावः । तूष्णीं स्थितं निष्पन्दं तं दृष्ट्ा हन्त हन्त अत्र कुञे कृष्णो नास्ति, इयं लैन्द्रनीली द्विभुजा श्रीनारायण- प्रतिमैव तत् कृष्णप्रीत्यै पुष्पाज्जलिमेतच्चरण एवार्पयामीति तथाकृते-तस्या- लीकेत्यादि ॥९५॥ नायिकायाः कारणाभावभवं मानमाह-तिष्वन्निति। भासोदाहरणेषु ज्ञेयम् ॥ ९३॥९४॥९५॥ तिष्ठन गोष्ठाङ्गणेत्यादिकं कुञ्जे दष्ट्रमित्यादिद्यं चाकरणाभासोदाहरणेषु ज्ञेयम्। तत्र कृष्णेति पूर्ववदुद्दीपनलेन

Page 560

उज्ज्वलनीलमणिः । ५३७

मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी स्वान्तं हन्त ग्लपयति बहिः प्रीणय प्राणनाथम् ॥ ९६॥। यथा वा- अहमिह विचिनोमि त्वद्विरैष प्रसूनं कथय कथमकाण्डे चण्डि वाचंयमासि। विदितमुपधिनालं राघिके शाधि केन प्रियसखि कुसुमेन श्रोत्रमुत्तंसयामि ॥। ९७॥ द्योरेव युगपद्यथा- कुञ्जे तूष्णीमसि नतशिराः किं चिरात्वं मुरारे किं वा राधे त्वमसि विमुखी मौनमुद्रां तनोषि।

चनाद्रोष्ठमायान्तं श्रीकृष्णं विलोक्य श्यामला श्रीराधाभकारणमानिनीमाह। देहलीवेदिकायां चलराग्रपरिष्कृतभूमौ ।। ९६॥ कारणाभासभवमानमुदाहर्तु- माह-यथा वेति। खाधीनभर्तृकायाः श्रीराधाया निदेशेनैव पुष्पाण्यवचित्या- गतः श्रीकृष्णो राधां मानवतीमालक्ष्याह-अहमिहेति । हे चण्डि हे अकारणकोपने, वाचयमा मौनवती। क्षणं स्थिला इष्याचिह्वमनाकलयन् सहर्षमाहविदितं ज्ञातं मया खपुष्पाकारोडयं ते मानो मद्वैयभ्यदर्शनार्थ इति भावः। उपधिना कपटेनालम्। शाधि आज्ञापय। ९७। युगपत्समकालमेव कुजे खेलतोरेव द्वयोः श्रीराधाकृष्णयोनिर्हेतुमानमाधुरीमास्वादयन्ती वृन्दा प्राह- कुञ इति। अत्र सुखसमये अकस्मान्मया माने कृते अद्य द्रक्ष्यामि किमियं प्रतिपद्यत इति विभाव्य श्रीकृष्णेन मान: कृतः। अयं चेन्मिथ्यामानं करोति तर्ह्हमपि किं मानं कर्तु न शक्कोमि मानस्तास्माकीनः स्धर्म एव। अद्य द्रक्ष्यामि आवयोर्मध्ये मानभङ्ग: प्रथमं कस्य स्यादिति विभाव्य श्रीराधयापि

लिखितम्॥ ९६॥ उपधिना कपटेन ॥। ९७ ॥ स्मितविमुषिते अपहृतस्मिते इत्याहितान््यादिगणेन मननेन निष्ठायाः परनिपातः समाधेयः। स्मितविरहिते

Page 561

५३८ काव्यमाला।

ज्ञातं ज्ञातं स्मितविमुषिते कापि वामस्ति योग्या क्ीडावादे बलवति यया न द्वयोरेव भङ्ग: ।l ९८॥।

यथा वा- कुञ्जद्वारि निविष्टयोस्तरणिजातीरे द्वयोरेव नौ तत्रान्योन्यमपश्यतोः सखि मुधा निर्बन्धतः क्वान्तयोः । हस्ते द्रागथ दाडिमीफलमभिन्यस्ते मया निस्तलं राधामुद्धिदुरस्मितां परिहसन्फुल्लाङ्गमालिङ्गिषम् ॥ ९९॥

मान: कृत इत्यकारणमानप्रकारो ज्ञेयः । स्मितस्य विमुषिते चौर्ये वां युवयोः काप्यनिर्वचनीया योग्या अभ्यासोऽस्ति । 'अभ्यासः खुरली योग्या' इति त्रिकाण्डशेषः । यया योग्यया बलवति क्रीडावादे केल्यन्तराये वस्तुनि द्वयोरेव युवयोर्मानभङ्गो नास्ति। तेन युवाभ्यां कुज्जकीडायां सुखं नोपपद्यते किंतु कीडावाद एव स्वेच्छयैव कृतमानान्यथानुपपत्तेरिति वकोक्तिव्यङ्गया ॥।९८ ।। यौगपद्ये कारणाभासभवस्य मानस्यासंभवात् पुनरपि कारणाभावभवमेव मानं सोपशमं दर्शयितुभाह-यथा वेति। श्रीकृष्णो रहस्यक्रीडारसं विशाखायामु· द्विरति-कुश्ेति। मुधेति। प्रथमं मया मानत्यागो न कर्तव्य इति मुधा वृथा एव यो माननिर्बन्धस्तस्मात् अथानन्तरं निस्तलं वर्तुलं दाडिमीफलमभिल- क्षीकृत्य मया हस्ते न्यस्ते सति उद्धिदुरं खयमेवोद्भिन्नं स्मितं यस्यास्ताम् । अतःपरं दाडिमीफलेनैव हस्ते धृतेन सं मनो विनोदयेति वस्तुद्योतकं तस्याः स्मितम्-परिहसन्निति । प्रिये, प्रथं तया मानभङ्गचिह्नं स्मितं कृतमिति स्वनिर्बन्धो भग्न इति तव पराजयोऽभूत्। हे कृष्ण, प्रथमं दाडिमीफलहस्त- न्यासरूप: स्वाभियोग एव मानभन्गचिह्नमिति तवैव निर्बन्धो भग्र इति। लमेव पराभूतोऽभूरिति सापि परिहसन्ती ज्ेया। अत्र कश्चित्कारणाभावोऽमरौ विव्ृतो यथा-"पश्यामो मम किं प्रपद्यत इति स्थैर्य मयालम्बितं किं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरें

इति वा पाठः । 'अभ्यासः खुरली योग्या' इति त्रिकाण्डशेषः ॥ ९८।। निस्तलं

Page 562

उज्ज्वलनीलमणिः । ५३९

निर्हेतुक: स्वयं शाम्येत्सयंग्राहस्मितावधि॥ १०० ॥

यथा- रोषस्तवाभूदयदि राघिकेऽघिक- स्तथास्तु गण्ड: कथमुच्छसित्यसौ। स्वनर्मणेत्थं दुरपह्रवस्मितां प्रियामचुम्बत्पश्ुपेन्द्रनन्दनः ॥ १०१ ॥ हेतुर्यस्तु समं याति यथायोग्यं प्रकल्पितैः । सामभेदक्रियादाननत्युपेक्षारसान्तरैः ॥ १०२ ॥ मानोपशमनस्याङ्का बाष्पमोक्षसितादयः। तत्र साम :- प्रियवाक्यस्य रचनं यत्तु तत्साम गीयते ॥ १०३॥

सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥" इति। एवमन्योऽपि- "अदत्त मे वर्त्मनि मन्मथोन्मदा स्वयंग्रहाश्लेषमसौ सखी तव। इत्युक्तवन्तं कुटिलीभवन्मुखी कृष्णं वतंसेन जघान मङ्गला ॥" इति। केवलवाम्यरूपो यो मानो विप्रलम्भरसमध्ये सन गणितः ॥९९॥ अथ सूचीकटाहन्यायेन प्रथमं निर्हेतुकमानस्योपशममाह। निर्हेतुको मानः खयमेव शाम्येत् न तत्र चिकीर्षेत्यर्थः । ननु तर्हि तस्यावधिस्तु जिज्ञासनीय एवेत्यत आह-सयंग्राहो नायकस्योपेत्यालिङ्गनचुम्बनादिर्नायिकायाश्च स्मितं स्मितोपलक्षिताश्रुपातादिकं चावधिः सीमा यस्य सः ॥ १०० ॥ श्रीकृष्णः श्रीराधामाह-रोष इति। उच्छसिति अन्तस्थस्मितच्छविमत्त्वेन प्रफुल्लीभवति । प्रकल्पितैः प्रयुक्तः अङ्का-

वर्तुलम् ॥९९॥ खयमेव प्राहो ग्रहणं यस्य तादृशं यत् स्मिंत तदवधि: ॥१००॥

१. 'स्मितादिभिः' इति क. पुस्तके.

Page 563

५80 काव्यमाला।

यथा- जातं सुन्दरि तथ्यमेव प्रथुना राधेऽपराधेन मे किं तु खारसिको ममात्र शरणं स्नेहस्त्वदीयो बली। इत्याकर्ण्य गिरं हरेर्नतमुखी बाष्पाम्भसां धारया सानङ्गोत्सवरङ्गमङ्गलघटौ पूर्णावकार्षीत्कुचौ ॥ १०४ ॥ अथ भेद :- भेदो द्विधा स्वयं भङ्गा सवमाहात्म्यप्रकाशनम्। सख्यादिभिरुपालम्भप्रयोगश्चेति कीर्त्यते ॥ १०५॥ तत्र भड्गा खवमाहात्म्यप्रकाशनं यथा विदग्धमाधवे- चञ्चन्मीनविलोचनासि कमठोत्कृष्टस्तनी संगता कोडेन स्फुरता तवायमधरः प्रह्लादसंवर्धनः । मध्योऽसौ बलिबन्धनो मुखरुचा रामास्त्वया निर्जिता लब्धा श्रीघनताद्य मानिनि मनस्यङ्गीकृता कल्किता ॥१०६॥

शविहानि ॥ १०१॥१०२॥१०३ ॥ श्रीकृष्णः श्रीराधां मानिनीं प्रसाद- यति-जातमिति। मङ्गलघटौ पूर्णावित्यनेनाङ्गपूजाङ्गभूते घटस्थापने ससंमति- दत्ता॥ १०४ ॥ १०५ ॥ श्रीकृष्णो मानिनीं श्रीराधां वर्णयति-चञ्चदिति। स्फुरता दीप्तिमता क्रोडेन अड्ठेन, पक्षे वराहेण प्रह्लादं वर्धयतीति श्रीनसिंहः, पक्षे प्रकृष्टं ह्रादमानन्दम् । बलि बभ्नातीति वामनः पक्षे वलिभिस्त्रिवलीरे- खाभिर्बन्धनं यस्य सः । रामाः सुन्दर्यः, पक्षे रामचन्द्रपरशुरामबलरामाः । श्रिया शोभया घनता निबिडता लब्धा, पक्षे श्रीधनो बुद्धः कल्को मालिन्यं

खमाहात्म्यं स्वपाण्डित्यादिनान्यत्र योजनशक्तिः । भङ्गयाः मामीदृशं युवानं का वा न भजतीति व्यज्नया तादृशखमाहात्म्यस्य प्रकाशनमित्यर्थः ॥१०१॥ १०२ ॥ १०३ ॥ १०४ ॥ १०५ ॥ बलिं बभ्ातीति कर्तरि ल्युट्, पक्षे बलिभि: सहजरेखाभिर्बध्यते आत्रियत इति श्रीघनतासान्दर्येण निबिड्ता,

Page 564

उज्ज्वलनीलमणिः । ५४१

अथवे्द प्रियोक्तित्वात्सामोदाहरणं भवेत्। नायकस्य स्ववचसा भज्जयायं भेद ईर्यते ॥ १०७ ॥ यथा- रक्षा यन्मयि वर्तसे त्वमभितः स्त्िग्धेऽपि ते दूषणं तत्रास्ते नहि किंतु तत्किल ममानौचित्यजातं फलम्। येन स्वास्तरुणीरुपेक्ष्य चरमामप्याश्रयन्तीर्दशां प्रेमार्त व्रजयौवनं च सुमुखि त्वं केवलं सेव्यसे ॥१०८। सख्यादिभिरुपालम्भप्रयोगो यथा- कर्तु सुन्दरि शङ्गचूडमथने नास्मिन्नुपेक्षोचिता सर्वेषामभयप्रदानपदवीबद्धव्रते प्रेयसि।

मानकृतकालुष्यं तद्वत्ता मनसि । 'कल्कोऽस्त्री शमलैनसोः' इति नानार्थवर्गः । अज्ञीकृता, पक्षे कल्किनामावतारतम्। तेन दशैव ममावतारास्तदधीना इति लन्महिमा केन वर्ण्यतामिति बाह्यो ध्वनिः। वास्तवस्तहं परमेश्वरो ब्रह्मादिभि- र्बन्धस्तां गोपत्तियं प्रसादयामीत्यात्मनो भाग्यं मन्यसे नापि संकुचसीत्युप- लम्भ एव ।। १०६। अथवेदमिति । पद्येऽस्मिन् मेदस्यानभिधेयता- द्यङ्गयले च व्यज्नाया बोद्धव्यवैशिध्यादिहेतुकलेनानैकान्तिकलादिति भावः। अयं वक्ष्यमाणोऽभिधेय इत्यर्थः ॥ १०७ ॥। मानिनीं श्रीराधां श्रीकृष्णः प्राह-रक्षेति। स्वस्तरुणीर्देवीः कीदशीः चरमां दशमीं दशाभाश्रयन्तीः । 'देव्यो विमानगतयः स्मरनुन्नसाराः' इति यैव वर्णनात् ॥ १०८ ॥ मानिनीं भद्रां काश्चित् श्रीकृष्णपक्षीयास्तत्सखय आहु :- कतुमिति। शङ्: चूडेति। यदि शङ्गचूडमसौ नावधिष्यत्तदास्माकं का गतिरभविष्यदिति

पक्षे बुद्धता। कल्किता दम्भिता पक्षे तदवतारता ॥। १०६॥ अथवेत्यनेन पूर्वमुदाहरणमन्यथा प्रतिपाद्य नायकस्येत्यर्घेन प्रकारान्तरस्थापनायोपकरान्तं तथैवोदाहरति-यथेति । 'देव्यो विमानगत्यः स्मरनुन्नसाराः,' इत्यादिना

Page 565

५४२ काव्यमाला।

इत्यालीभिरलक्षितं मुरभिदा भद्रावली भेदिसा नासाग्रे वरमौक्तिकश्रियमधादसस्य सा बिन्दुना ।१०९।। अथ दानम्- व्याजेन भूषणादीनां प्रदानं दानसुच्यते। यथा- कामो नाम सुहन्ममास्ति भवतीमाकर्ण्य सत्प्रेयसीं हारस्तेन तवार्पितोऽयमुरसि प्राम्ोतु सङ्गोत्सवम्। इत्युन्नम्य करं मुरद्विषि वदत्युद्भिन्नसान्द्रस्मिता पद्मा मानविनिग्रहात्णयिना तेनोद्भटं चुम्बिता ॥११०।। अथ नति :- केवलं दैन्यमालम््य पादपातो नतिर्मता ॥१११ ॥ यथा- क्षितिलुठितशिखण्डापीडमारान्मुकुन्दे रचयति रतिकान्तस्तोमकान्ते प्रणामम्। नयनजलधराभ्यां कुर्वती बाष्पवृष्टिं वरतनुरिह मानग्रीष्मनाशं शशंस ।। ११२।।

भाव: । भद्रावलीति भद्राया एव संज्ञा।। १०९ ।। श्रीकृष्णः पद्मामाह- काम इति। सत्यं सत्यं काम एव मह्यमैन्द्रनीलहारं ददौ तुभ्यं च कान- कमिति स्मिताभिप्रायः ॥११०॥ १११॥ वृन्दा कुन्दवल्लीमाह-आरात्

भवतीभिरेव वर्णनाच्चरमां दशामाश्रयन्तीः ॥ १०७॥१०८॥१०९॥

१. 'कानकंजयपालकीजे' इति शब्दार्थचिन्तामणिः

Page 566

उज्ज्वलनीलमणिः । ५४३

अथोपेक्षा- सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम्। उपेक्षा कथ्यते कैश्चितष्णींभावतया स्थितिः ॥ ११३॥ तह्ूयं यथा- सूनुर्वल्लभ एष बल्लवपतेस्तत्रापि वीराग्रणी- स्तन्नापि स्मरमण्डलीविचयिना रूपेण विभ्राजितः । सख्य: संप्रति रूक्षता पृथुरियं तेनात्र न श्रेयसे दूरे पश्यत याति निष्ठुरमनाः का युक्तिरत्रोचिता ॥११४॥ माने मुहुर्नतिभिरप्यतिदुर्निवारे वाचयमव्रतमहं तरसाग्रहीषम्। बाष्पं ततो विकिरती निजगाद पझ्मा पौष्पं रजः पतितमत्र दृशोर्ममेति ॥ ११५ ॥ अथ वा- प्रसादनविधिं मुक्त्वा वाक्यैरन्यार्थसूचकैः। प्रसादनं मृगाक्षीणामुपेक्षेति स्मृता बुघैः ॥११६ ॥

समीपे ।। ११२॥ अवधीरणमवज्ञा ॥ ११३ ॥ वृन्दाशिखाद्याः सखीराह- सूनुरिति। बल्लवपतेः सूतुरेष वल्लभप्रियः। इयं श्रीराधा यतो रूक्षता पृथुरभू- त्तेनान्र श्रीकृष्णेन श्रेयसे न मङ्गलाय। सयमेव सौभाग्यतश्च्युता स्थास्यतीति भावः ॥।११४॥ श्रीकृष्णः सुबलमाह-मान इति ॥११५॥११६॥ श्रीकृष्णश्चन्द्राव-

।। ११०॥ १११ ॥११२ ॥ ११३ ॥ 'सख्यः संप्रति रूक्षता पृथुरियं कार्या तथापि स्फुटं' इति वा पाठः ॥ ११४ ॥ ११५ ॥ ११६ ॥

१. 'प्रसाधनविधिम्' इति क-पुस्तके. 'प्रसादनं विधिम्' इति ख-पुस्तके.

Page 567

५४४ काव्यमाला।

यथा- धम्मिल्ले नवमालती परिचिता सव्ये च शब्दग्रहे मल्ली सुन्दरि दक्षिणे तु कतरत्पुष्पं तव भ्राजते। आघ्रेयं परिचेतुमित्युपहिते व्याजेन नासापुटे गण्डोद्यत्पुलका विहस्य हरिणा चन्द्रावली चुम्बिता ॥११७॥ अथ रसान्तरम्- आकस्मिकभयादीनां प्रस्तुतिः स्याद्रसान्तरम्। यादृच्छिकं बुद्धिपूर्वमिति द्वेधा तदुच्यते ॥ ११८॥ तत्र यादच्छिकम्- उपस्थितमकस्माद्यत्तद्यादच्छिकमुच्यते। यथा- अपि गुरुमिरुपायैरय् सामादिमिर्या लवमपि न मृगाक्षी मानमुद्रामभाङ्गीत्। हरिमिह परिरेभे सा स्वयंग्राह्मत्रे नवजलघरनादैर्भीषिता पश्य भद्रा ॥ ११९ ॥ यथा- उपायेषु व्यर्थोन्नतिषु बत सामादिषु सखे. सखीनां चातुर्ये गतवति च सद्य: शिथिलताम्।

लीमाह-शब्दग्रहे कर्णे। उपहितमुपाधिः ॥ ११७॥ ११८॥ भद्रायाः सख्यः परस्परमाहु :- अपीति। खयमेव ग्राहो भुजाभ्यां ग्रहणं यत्र तद्था स्यात्तथा परिरेमे ॥ ११९ ॥। जलधरनादानां कामोद्दीपकलेन तैर्मानभङ्गः समुचित इति

१. कर्णे.

Page 568

उज्ज्वलनीलमणिः । ५४५

विशाखायाः कोपज्वरहरणमन्रप्रतिनिरघि सचीत्कारं रूक्षखवनितमकरोदुक्षदनुजः ॥ १२० ॥ अथ बुद्धिपूर्वम्- बुद्धिपूर्व तु कान्तेन प्रत्युत्पभ्घिया कृतम् ॥ १२१ ॥ यथा- पाणौ पञ्चमुखेन दुष्टकृमिणा दष्टोऽस्मि रोषादिति व्याजात्कूणितलोचनं व्रजपतौ व्याभुज्य वक्रं स्थिते। सद्ः प्रोज्झितरोषवृत्तिरसकृत् किं वृत्तमित्याकुला जल्पन्ती स्मितबन्धुरास्यममुना गान्धर्विका चुम्बिता ॥१२२॥ यथा वा- न्यस्तं दाम कृतागसाद हरिणा दृष्ट्रा पुरो राघया क्षिप्तेनाभिहतः स तेन कपटी दुःखीव भुमाननः ।

सान्तरस्मोदाहरणमाह-यथावेति। श्रीकृष्ण: सुबलमाह-उपाये्वति। न्तप्रतिनिधि मन्त्रतुल्यम्। उक्षदनुजः अरिष्टासुरः। 'उक्षा भद्रो बलीवर्दः' इत्यमरः ॥ १२० ॥ प्रत्युत्पन्नधिया सप्रतिभबुद्धिना ॥१२१ ॥ वृन्दा पौर्ण- मासीमाह-मांनिन्याः श्रीराधायाः पुरतो मुहूर्त तूष्णीं स्थिला अभिनीतत्रास- व्यथा खरभङ्गमकस्मात् पाणो मे इत्याधुचचार। कूणिते संकुचिते लोचने यत्र वद्था स्यात्तथा वक्रं व्याभुज्य कुटलीकृत्य सद्यस्तत्क्षणादेव प्रोज्झिता त्यक्का रोष- वृत्तिर्यया सा। किं वृतं किंवृत्तमिति मूर्च्छितं श्रीकृष्णं भुजाभ्यामुत्थाप्य मुखे मुखं दत्त्वा जल्पन्तीति जल्पनसमय एव स्मितबन्धुरास्यं यथा स्यासथा चुम्बिता ॥ १२२ ॥ सामदानादेरिव रसान्तरस्य वारान्तरेणैकजातीयत्वं संभवेदिति पुनः पुनर्माने अन्यदन्यद्रसान्तरं स्यादिति दर्शयितुमाह-यथा वेति। नान्दी पौर्णमासीमाह-न्यस्तमिति । सं हरिसेन दाम्ना दुःखींव तदाघातेन प्राप्तम-

॥ १२१ ॥ व्रजपतिरित्यन्र बंजविधाविति वा पाठः ॥१२२॥ निषेदिवान् ३५ उज्च०

Page 569

५४६ काव्यमाला।

मीलन्नेव निषेदिवान् भुवि ततः सद्यस्तया व्यग्रया पाणिभ्यां धृतकंधरः स्मितमुखो बिम्बोष्ठमस्या: पपौ ॥१२३ देशकालबलेनैव मुरलीश्रवणेन च। विनाप्युपायं मोनोऽसौ लीयते व्रजसुभ्नुवाम् ॥ १२४। तत्र देशबलेन यथा- अलंकीर्ण चन्द्रावलिरलिघटाझङ्कतिभरैः पुरो वृन्दारण्यं किमषि कलयन्ती कुसुमितम्। हरिं च स्मेरोक्षं प्रियकतरुमूले प्रियमितः स्खलन्माना सख्यामदिशत सतृष्णं इशमसौ ।l १२५ ॥ कालबलेन यथा- शरदि मधुरमूर्तिः पश्य कान्तिच्छटाभिः स््नपयति रविकन्यातीरवन्यां सुधांशुः । इति निशि निशमय्य व्याहृतिं दूतिकायाः स्मितरुचिभिरतानीचत्र राधा प्रसादम्॥ १२६ ॥

हाव्यथ इ॥ १२३ ॥ चन्द्रावल्या मानवृत्तान्तं पृच्छन्तीं भद्रां वृन्दाह-अल- मतिशयेन कीर्ण व्यापं कलयन्ती पश्यन्ती प्रियक: कदम्बः सख्यां दृशं सतृष्णं यथा स्यात्तथा अदिशत दत्तवतीति हे सखि, मानो मे वृन्दारण्येनानेन ध्वसित- स्तदहं कि करोमि यदुचितं तत्त्वमेव कुर्विति व्यजयामास मानोपशमनस्याड्काः स्वयंग्राहस्मितादय इत्यादिपदगृहीताः सखीदकप्रेरणादयोऽपि ज्ञेयाः ॥१२४॥ । १२५ ।। श्रीवृन्दा श्रीकृष्णमाह-शरदीति ।। १२६ ।। मानिनीं श्रीराधां निविष्टः ॥·१२३ ॥। १२४ । कलयन्ती पश्यन्ती इतस्ततो वृन्दावने हरि च पश्यन्ती । १२५॥ श्रेयसाप्युपायेन महिष्ठो मानो द्रुःसाध्यः कृच्छ्रः १. 'काप्येष' इति क-पुस्तके. २. 'स्मेरास्यम' क-पुस्तके.

Page 570

उज्ज्वलनीलमणिः । ५४७

मुरलीशब्देन यथा- यदि रोषं न हि मुश्चसि न मुञ्च देवि नात्र निर्बन्धः। फूत्कृतिविधूतमानः स भवति विजयी हरेर्वेणुः ॥ १२७ ॥ यथा वा- मानस्योपाध्यायि प्रसीद सखि रुन्धि मे श्रुतिद्वन्द्वम् । अथमुच्चाटनमत्रं सिद्धो वेणुर्वने पठति ॥ १२८॥ तारतम्यं तु मानस्य हेतोः स्याचारतम्यतः । स्ाल्लघुर्मध्यमश्चासौ महिष्ठश्वेत्यतस्त्रिधा॥ १२९॥ सुसाध्यः स्याल्लघुर्मानो यत्नसाध्यस्तु मध्यम: । दुःसाध्यः स्यादुपायेन महिष्ठः श्रेयसाप्ययम्॥१३०॥ कृष्णे रोषोक्तयस्तासां वामो दुर्लीलशेखरः। ककितचेन्द्रो महाधूर्तः कठोरो निरपत्रपः ॥ १३१॥ अतिदुर्ललितो गोपीभुजङ्गो रतहिण्डकः । गोपिकाधर्मविध्वंसी गोपसाध्वीविडम्बकः ॥ १३२ ॥

काचित्सखी प्राह-यदीति। देवीति मानुष्यो हि सुप्रसादा भवन्ति न तु देव्य इति भावः। न निर्बन्ध इति अहमेवाद् श्रीराधां प्रसाद्यानेष्यामि पश्य मे बुद्धि- बलमिति श्रीकृष्णाग्रे मया निर्बन्धः कृत आसीत् स न भवतु किंतु मामवजान- त्यास्तव पराभवोपायभहमेव करिष्यामीत्याह-फूत्कृतीति । हे श्रीकृष्ण, तदिदानीममोधास्त्रं मुरलीमेव संदेहीति तमुपदिशामीति भावः ॥। १२७॥ पूर्व- पद्ये मुरलीनादस्य मानोपशमकलमुक्कतं नतु फलतो दर्शितमिति अपरितुष्यभाह- यथा वेति। श्रीयधा ललितां सामर्षमाह-मानस्येति ॥१२८॥ हेतोरी- कर्यायाः ॥ १२९ ॥ भुजङ्गः कामुकः । रतहिण्डकः स्त्रीचौरः ॥ १३०॥

साध्यः स्यात् ॥१२६॥१२७॥ १२८॥१२९ ॥१३० ॥१३१॥१३२ ॥

Page 571

काव्यमाला।

कामुकेशस्तमिस्त्रौघः श्यामात्माम्बरतर्स्करः। गोवर्धनतटारण्यवाटपाटचरादयः॥१३३॥ इति मान: । अथ प्रेमवैचित्त्यम्। प्रियस्य संनिकर्षेऽपि प्रेमोत्कर्षस्वभावतः । या विश्लेषधियार्तिस्तत्प्रेमवैचित्यमुच्यते॥ १३४ ॥

। १३१ ॥ १३२ ॥ अरण्यवाटो वनमार्गस्वस्य पाटचरश्चौरः। "चौरैकागारिक- स्तेनदस्युतस्करमोषकाः । प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः" इत्यमरः 1१३३ ॥ इति मानविव्ृतिः ।। प्रेमोत्कर्षाऽनुरागः स्थायी सच तृष्णातिप्राबल्यमूलक एव मुहुरनुभूतस्यापि वस्तुनोऽननुभूतत्वभानसमर्पको भवेत्। यथा कश्चिदतिबुभुक्षुखभावो विप्रो भोजयित्ोच्यते ब्रह्मन्, सुष्रु भुक्तं भवतेति। ततसतेन प्रत्युच्यते न किंचिद्पि भुक्तमिति तथैव कोडयं कृष्ण इति व्युदस्यति धृतिमित्यादिना स उदाहृतस्तस्यैव कोऽपि वृत्तिविशेष: प्रेमवैचित्त्यं नाम तृष्णायाः परावधिकाष्ठां व्यनक्ति। यत्र सति श्रीकृष्णं साक्षात् शश्वदनुभवतोऽपि जनस्य बुद्धिवृत्तेरपि तथा लोप: स्यादथा श्रीकृष्णं नानुभवानीत्येव प्रत्ययः स्यात् यथा संनिपातवतो जनस्य प्रति- क्षणं जलं पिबतोऽपि हाहा मां जलं पाययेत्युक्तिः। अत्रेयं युक्तिः । अनुरागे कचिद्ुद्धिवृत्तेस्तथा सूक्ष्मतं स्यात् यथा सा श्रीकृष्णं तदीयगुणगणमाधुर्य च युग- पन्न विषयीकरोति। यतः श्रीकृष्णानुभवे तदीयगुणाद्यननुभवः तदीयगुणानुभवे तेदननुभवः । यथा काचिदतिसूक्ष्मा सूची वस्त्रस्यूतावतिसूक्ष्ममप्येकं सूत्रमेव

'मार्गो वाटः पथः पन्थाः' इति धरणिः। पाटचरश्रौरः॥१३३॥ इति मानविव्ृतिः।। अथ प्रेमवैचित्यमिति । प्रेम्णो यद्वैचित्यं चित्तस्यान्यथाभावस्तन्मय- सनात्तदेवोच्यत इत्यर्थ:। प्रियस्य संनिकषेऽपीति। अत्र युक्तिश्व श्रीगोपा-

Page 572

उज्जवलनीलमणिः ।

यथा- आभीरेन्द्रसुते स्फुरत्यपि पुरस्तीव्रानुरागोत्थया विक्लेषज्वरसंपदा विवशधीरत्यन्तमुदधूर्णिता। कान्तं में सखि दर्शयेति दशनैरुदूर्ण शस्याङ्कुरा राधा हन्त तथा व्यचेष्टत यतः कृष्णोऽप्यभूद्विस्मितः ॥१३५॥ यथा वा विदग्धमाधवे- समजनि दवाद्वित्रस्तानां किमार्तरवो गिरां मयि किमभवद्वैगुण्यं वा निरङ्कशमीक्षितम्। व्यरचि निभृतं किं वा हूतिः कयाचिदमीष्टया यदिह सहसा मामत्याक्षीद्वने वनजेक्षणः ॥ १३६॥

विध्यति नतु सूत्रदूयसंधिमिति। तथव संभोगास्ये रसे कान्तोऽयं मां संभुक्के यस्य सुरतलाम्पव्यवाक्चातुर्यगीतवाद्यनृत्यादयो गुणा अपारा इति गुणेषु प्रवि- षायां बुद्धिवृत्तौ क्षणान्तरे च यस्य गुणा ईदृशाः स क्व इति गुणानपि त्यक्ला तन्मार्गणे प्रविष्टा विरहमेवानुभावयन्ती पुरःस्थितमपि सं न विषर्यीकरोतीवि ज्ेया॥ १३४॥ वृन्दा पौर्णभासीमाह-पुराऽग्रे स्फुरति विराजत्यषिउदूर्ण- शस्याङ्कुरा उद्यत्तृणाङ्करा। 'गुरी उद्यमे'॥ १३५। निहेतुकं सुख्यं प्रेमवैचित्त्यं दर्शयिला कारणाभासभवं गौणमपि तदुदाहर्तुमाह-यथा वेति। भ्रभरविद्रा- वणव्याकुला श्रीराधा मधुसूदनो गत इति मधुमङ्गलोत्त्या उद्भूतप्रेमवैचित्त्या पुरःसन्तमपि श्रीकृष्णमपश्यन्ती साशङ्कं सविषादं विलपति-समजनीति। हूतिराह्वानं कयाच्चित् मत्प्रतिनायिकया विहंगमद्वारकेण संकेतेनेत्यर्थः ॥। १३६॥ लचम्प्वाम्-"सान्द्रालिङ्गनलङ्वि मेऽङ्गवलयासङ्गेऽपि शा्ङ्गी तदा गोपीनां सफुरति स्म दूरगतया प्रेमोपगाहूरतः । यस्मादुत्कलिकाकलापकलनावृत्ति बहिर्लुम्पती खप्राभां दिशती सतीमपि दशि स्कूर्ति मुहुर्लम्पति ॥" इति ॥ १३४॥ पुरःस्फु- रति विराजत्यपि। उदूर्णलं उन्नततम् ॥१३५ ॥ समजनीति।"अत्र

Page 573

५५० काव्यमाला।

विलासमनुरागस्तु कुत्रचित्कमपि त्रजन्। पार्श्रे सन्तमपि प्रेष्ठं हारितं कुरुते स्फुटम् । १३७ ॥ सुध्ठूदाहरता पट्टमहिषीगीतविभ्रमम् । स्पर्ष्ट मुक्ताफले चैतद्वोपदेवेन वर्णितम्॥१३८॥ इति प्रेमवैचित्त्यम्।

अथ प्रवासः । पूर्वसंगतयोर्यूनोर्भवेद्देशान्तरादिभिः । व्यवधानं तु यत्प्राजैः स प्रवास इतीर्यते ॥ १३९ ॥ तज्जन्यविप्रलम्भोऽयं प्रवासत्वेन कथ्यते। हर्षगर्वमदव्रीडा वर्जयित्वा समीरिताः ॥ १४० ॥ शङ्गारयोग्या: सर्वेऽपि प्रवासे व्यभिचारिणः। स द्विया बुद्धिपूर्वः स्यात्थैवावुद्धिपूर्वकः । १४१ ॥

।। १३७ ॥ पटुमहिषीगीतं 'कुररि विलपसि लम्' इत्यादि मुक्ताफले स्वकृते अ्न्थे॥ १३८॥ इति प्रेमवैचित्त्यवित्ृतिः ॥। देशान्तरादिभिरित्यादिशब्देन ग्रामान्तरवनान्तरावस्थानान्तराणि ग्रृह्यन्ते । १३९ । खभक्त्तानां सैकपाल्यानां गवां वृन्दावनस्थपश्ुपक्षिवृक्षादीनां च खदर्शनेन प्रीणनादिकम्। आदिशब्दात् पालनप्रेमदानमनोरथान्तरपूर्त्यादि

प्रेमवैचित्त्यं तत्रत्यप्रकरणाल्लभ्यते।। १३६ ।। विलासमिति व्याख्यातमेव u१३७.॥ १३८॥ इति प्रेमवचिष्यवित्ृतिः ।।

१. वोपदेवरचितस्य प्रन्थस्य नाम.

Page 574

उज्ज्वलनीलमणिः । ५५१

तत्र बुद्धिपूर्व :- दूरे कार्यानुरोघेन गमः स्ाद्वुद्धिपूर्वक: । कार्य कृष्णस्य कथितं स्वभक्तप्रीणनादिकम् ॥ १४२॥ किंचिदूरे सुदूरे च गमनादप्ययं द्विधा। तत्राद्य: दृष्टिं निधाय सुरभीनिकुरम्बवीथ्याँ कृष्णेति वर्णयुगलाभ्यसने रसज्ञाम्। शुश्रूषणे मुरलिनिसनितस्य कर्णौ चित्तं सुखे तव नयत्यहरद् साधा ।। १४३॥ अथ द्वितीय :- भावी भर्वश्र भूतश्र त्रिविध: स तु कीर्त्यंते ॥१४४॥ तत्र भावी यथोद्धवसंदेशे- एष क्षत्ता व्रजनरपतेराज्ञया गोकुलेऽस्मिन् बाले प्रातर्नगरगतये घोषणामातनोति। दुष्टं भूय: स्फुरति च बलादीक्षणं दक्षिणं मे तेन खान्तं स्फुटति चटुलं हन्त भाव्यं न जाने ॥।१४५॥

।। १४०॥ १४१ ॥ किंचिटूरे व्रजादृन्दावनीयप्रदेशे सुदूरे व्रजान्मथुराद्वारकादौ ॥। १४२ ॥ गाश्रारयन्तं श्रीकृष्णं काचिह्ती श्रीराधावृत्तं निवेदयति-दाष्ट निघायेति। सुरभीति। तदागमनवर्त्मनीत्र्थः ॥ १४३ ॥ काचिद्रजदेवी खसखीं सभेयशोकखेदमाह-क्षत्ता पुरद्वारपालः। नगरगतये मथुरां गन्तुम्। दुष्टं दोषसूचकं यथा स्यातया स्फुरति 'क्षत्ता स्यात्सारथौ द्वाःस्थे' इत्यमरः ।

॥। १३९ ॥ १४० ॥ १४१॥ १४२ ॥ मुरलीशब्दो हस्वान्तश्रास्ति ॥ १४३॥

Page 575

५५२ काव्यमाला ।-

भवन् यथा ललितमाधवे- भानोर्बिम्बे त्वरितमुदयप्रस्थतः प्रस्थितेऽसौ यात्रानन्दीं पठति मुदित: स्थन्दने गान्दिनेयः । तावत्तूर्ण स्फुटखुरपुटैः क्षोणिष्ृष्ठं खनन्तो यावन्नामी हृदय भवतो घोटका: स्फोटकाः स्युः॥१४६॥ भूतो यथोद्धवसंदेशे- कामं दूरे सहचरि वरीवर्ति यत्कंसवैरी नेदं लोकोत्तरमपि विपद्दुर्दिनं मां दुनोति। आशाकीलो हृदि किल धृतः प्राणरोधी तु यो मे सोऽयं पीडां निबिडवडवावहितीव्रस्तनोति॥ १४७ ॥ अत्र श्रीयदुसिंहेन प्रेयसीभिरमुष्य च। प्रेषणं क्रियते प्रेम्णा संदेशस्य परस्परम् ॥ १४८ ॥

॥ १४४ ॥ १४५ ॥, श्यामा विलपति-भानोरिति । उदयप्रस्थतः उदय- पर्वतस्य सानुतः यात्रानान्दीं यात्रिकमङ्गलपाठम्। स्यन्दने रथे। गान्दिनेयो- ड्रक्रूरः । हे हृदय, तावत्त्वं स्फुट विदीर्णो भव। नन्वहं परमधीरं भवामीति चेन्मैवं वाच्यम्। ं किं क्षोणितः सकाशादपि धर्य दधासि यतोऽमी स्यन्दनस्य घोटका: क्षोणीमपि खनन्तीत्याह-खुरपुटैरित्यादि। तेन घोटकखुरधात- जन्यान्मृत्योः सयं मरणं भद्रमिति भावः। वास्तवस्तु प्राणप्रियं ब्रजे विराजन्तमेव दृष्टा म्रियख न तु न्रजाद्गच्छन्तमिति भावः ॥१४६ ॥ श्रीराधा विशाखा- माह-काममिति ! विपदेव दुर्दिनम्। 'मेघच्छनेऽह्वि दुर्दिनम्' इत्यमरः। मां हंसीमिति भावः ॥। १४७ ॥ मथुरास्थः श्रीकृष्णः उद्धवद्वारा शैब्यायां संदि-

१४४ ॥ १४५ । प्रस्थः सातुः। यात्रानान्दी तत्रत्यमङ्गलपाठम्। हे १, श्री कृष्णेन.

Page 576

उज़्जवलनीलमणिः । ५५३

यथोद्धवसंदेशे- सोढव्यं ते कथमपि बलाच्क्षुषी मीलयित्वा तीत्रोत्तापं हतमनसिजोद्दामविक्रान्तिचक्रम्। द्वित्रैरेव प्रियसखि दिनैः सेव्यतां देवि शैब्ये यास्यामि त्वत्प्रणयचटुलभ्रूयुगाडम्बराणाम्॥ १४९॥। तथा पद्यावल्याम्- क़ालिन्याः पुलिनं प्रदोषमरुतो रस्याः शशाङ्कांशवः संतापं न हरन्तु नाम नितरां कुर्वन्ति कसमात्पुनः । संदिष्टं व्रजयोषितामिति हरे: संश्रृण्वतोऽन्तःपुरे निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥१५०॥ अथाबुद्धिपूर्व :- पारतत्योद्वो यस्तु प्रोक्त: सोऽबुद्धिपूर्वक:। दिव्यादिव्यादिजनितं पारतत््यमनेकधा ।। १५१ ॥।

शति-सोढव्यमिति। आडम्बराः पराक्रमाः तेषां सेव्यतां विषयीभूतलम्। कर्तारे षष्ठी। अन्र सेव्यतामिति पदेन तदाडम्बरैर्मदेकपूजकैरपूजितो देवप्रतिमा- कारोऽहं मथुरायां दुःखमेवानुभवामीति व्यजितम् ॥ १४८॥१४९॥ द्वारका- स्थिता पौर्णमासी व्रजदेवीसंदेशास्वादिनः श्रीकृष्णस्यानुभावं वर्णयति- कालिन्ध्या इति। इति संदिष्टं कयापि पान्थया पठितमित्यर्थः । रमणीनां रुक्मिण्यादीनाम्। ध्वनिरत्र स्पष्ट एव ॥ १५० ॥ मुखराया वश्चनार्थ श्रीकृष्णे कुजे निलीय स्थिते दैवात्तदैवागते शङ्खचूडे सासेहासनामेव श्रीराधां नील्वापसृत- वति हा कृष्ण, कुतोऽसीति ललिताद्यार्तरावश्रवणेन संपदेव कुञाननिष्कम्य हृदय, तावत्तूर्ण स्फुटेत्यन्वयः ॥। १४६॥ १४७ ॥ १४८ ॥,१४९ ॥ कालिन्धा इत्यादिकं प्रायो गोकुलदेवीभि: प्रहितेन कीरेणानुदितं जयन्तीति सिद्धामि- १. 'मुद्रयिला' इति क पुस्तके.

Page 577

५५४ काव्यमाला।

यथा ललितमाधवे- आनीतासि मया मनोरथशतव्यग्रेण निर्बन्धतः पूर्ण शारदपूर्णिमापरिमलैर्वृन्दाटवीमण्डलम्। सद्यः सुन्दरि शङ्कचूडकपटप्रासोदयेनाधुना दैवेनाद विरोधिना कथमितस्त्वं हन्त दूरीकृता ॥१५२। चिन्तात्र जागरोद्वेगौ तानवं मलिनाङ्गता। अलापो व्याधिरुन्मादो मोहमृत्युर्दशा दश ॥ १५३॥ तत्र चिन्ता यथा हंसदूते- यदा यातो गोपीहृदयमदनो नन्दसदना- न्मुकुन्दो गान्दिन्यास्तनयमनुरुन्धन्मधुपुरीम्।

श्रीकृष्णो विलपति-आनीतासीति। शह्चूडकपटेन व्याजेन प्राप्त उदयो यस्य तेन देवेन महुरदृष्टेन।। १५१ ॥। १५२ ॥ अत्र प्रवासाख्यविप्रलम्मे ॥। १५३ ॥ कोऽपि रसिक आह-यदेति। नन्दसदनान्मधुपुरीं यातः। गान्दिन्यास्तनयमक्रूरमनुरुन्धन्। अक्रूरानुरोघेनेत्यर्थः। तदा चिन्तैव सरित् तस्यां कि संतापज्वालाज्वलितानपि प्राणान् आशापाशैरबद्धा रक्षामि किं वा तैर्मुक्तांस्त्य- जामि तत्रापि किं वहि प्रविशामि यमुनां वा, ततश्च स पुनर्वजमागत्य मामना- लोच्य किं प्रतिपत्स्यते मच्छोकेन प्राणान् हास्यति कयापि युत्त्या रक्षिष्यति वा हा हा स महाप्रेमी कथं रक्षितुं प्रभविष्यति। एवंचेत् परिणामदार्शन्यहमपि हा हा कथं मर्तु संप्रति प्रभविष्यामि तस्मान्न मरिष्यामि तदीयसुन्दरमुखारविन्दं

लाषा भवलित्यर्थः । जयतेस्तत्वोस्तन्ति (?) प्रयोगस्यैव कविभि: संमत- लात्।। १५०।। १५१।। आनीतासीत्यत्र शारदशब्दो नववाच्येव। "द्वौ तु शारदौ प्रत्यग्राप्रतिभौ' इति नानार्थवर्गात् शिवरात्रिगताम्ब्रिकायात्रानन्तरोक्तते रहोरिकापूर्णिमायाः प्रास्तलात्। होरिकाया अन्यत्र बलदेवसंगतेर्विरसताच। नवत्वं च पूर्णिमाया वसन्तादिभागलेन नवायमानलात् ।।१५२॥ १५३॥

Page 578

उज््वलनीलमणिः । ५५५

तदामाङ्कीचिन्तासरिति धनघूर्णापश्चियै- रगाधायां बाधामयपयसि राधा विरहिणी॥ १५४ ॥ अथ जागरो यथा पद्यावल्याम्- याः पश्यन्ति प्रियं खमे धन्यास्ताः सखि योषितः । अस्माकं तु गते कृष्णे गता निद्रापि वैरिणी॥ १५५ ॥ अथोद्वेगो यथा हंसदूते- मनो मे हा कष्ट ज्वलति किमहं हन्त करवै न पारं नावारं सुमुखि कलयाम्यस्य जलधे:। इयं वन्दे भूर्धा सपदि तमुपायं कथय मे परामृश्ये यस्माद्धृतिकणिकयापि क्षणिकया ॥ १५६ ॥। अथ तानवं यथा- उदश्वद्वक्राम्भोरूहविककृतिरन्तःकलुषिता सदाहाराभावग्लपितकुचकोका यदुपते।

द्रक्ष्यामि, यदि संतापानलो मां न धक्ष्यति तदा जीवितुं प्रभविष्यामि इत्यादि- लक्षणायाममाङ्गीत् मग्राबभूव। घना निबिडा या घूर्णा आवर्ता: पक्षे महाभाव- भेदमोहनोत्था उद्धर्णाः । बाधामयानि पीडारूपाणि पयांसि यस्थाँ तस्याम् ॥। १५४ ॥। श्रीराधा विशाखामाह-या इति ॥ १५५॥ श्रीराधा ललिता- माह-मन इति। अस्य महासंतापात्मकस्य धृतिकणिकया कर्त्या परामृश्ये स्पृष्टा भवामीत्यर्थः ॥ १५६ ॥ उद्धवः पृष्टश्रीराधाविशाखावृत्तान्तः शोकद्वयं श्रीकृष्णमाह-उद्श्वदिति । विकृतिम्लोनता वैवर्ण्य च। अन्तःकलुषिता पड्ठिला, पक्षे विषाददैन्यादिभिर्दुःखिता। आहारो मृणालादिभोजनं तदभावात्,

॥। १५४ ॥ १५५ ॥ पसमृश्ये स्पृष्टा भवामि ॥ १५६ ॥ १५७ ।।

Page 579

५५६ काव्यमाला।

विशुष्यन्ती राधा तव विरहतापादनुदिनं निदाघे कुल्येव ऋशिमपरिपाकं प्रथयति॥१५७ ॥ अथ मलिनाङ्गता- हिमविसरविशीर्णाम्भोजतुल्याननश्रीः

अघहर शरदर्कोत्तापितेन्दीवराक्षी तब विरहविपत्तिम्लापितासीद्विशाखा ॥ १५८ ॥ अथ प्रलापो यथा ललितमाघवे- क नन्दकुलचन्द्रमाः क शिखिचन्द्रकालंकृतिः क मन्द्रमुरलीरवः क् नु सुरेन्द्रनीलद्युतिः। क रासरसताण्डवी क सखि जीवरक्षौषघि- र्निधिर्मम सुहृत्तमः क तव हन्त हा घिग्विधिः॥१५९॥ अथ व्याघिर्यथा तत्रैव- उत्तापी पुटपाकतोऽपि गरलग्रामादपि क्षोभणो दम्भोलेरपि दुःसहः कटुरलं हन्मप्रशल्यादपि। तीव्र: प्रौढविसूचिकानिचयतोऽप्युच्चैर्ममायं बली मर्माण्यद्य भिनत्ति गोकुलपतेर्विश्लेषजन्मा ज्वरः ॥१६०॥।

प्रंक्षे हारो मुकामयः। कुल्या क्षुद्रनदी ॥ १५७ ॥ विसरः समूहः ॥१५८ ॥ प्रोषितभर्तृका श्रीराधा विलपति-क्केति। तव, सुहत्तम मम जीवरक्षणौषधिर्नि- रूप: ॥ १५९ ॥ विरहिणी श्रीराधा ललितामाह-पुटे सुद्रितमुखे मन्मयसंपुटे सर्णपदीनां य: पाकस्तम्मादप्युत्तापयति। दम्भोवेर्वज्ञात्। विसूचिका रोगविशेष:

Page 580

उज्ज्वलनीलमणि:।

अथोन्माद :- भ्रमति भवनगर्े निर्निमित्तं हसन्ती प्रथयति तव वार्ता चेतनाचेतनेषु.। लुठति च भुवि राधा कम्पिताङ्गी मुरारे

यथा वा- अद्याकाण्डिकमट्टहासपटलं निर्माति धर्माम्बुभाक् चीत्कारं कुरुते चमत्कृतिपरा सोत्कण्ठमाकस्मिकम्। आक्रन्दं च तैनोति घर्धरघनोद्धोषं किलातर्कितं राधामांघवविप्रयोगरभसादन्येव तीव्रादभूत्ं।। १६२।। अथ मोह :- निरुन्धे दैन्याब्धिं हरति गुरुचिन्तापरिभवं विलुम्पत्युन्मादं स्थगयति बलाद्वाष्पलहरीम्। इदानीं कंसारे कुवलयदशः केवलमिदं विधत्ते साचिव्यं तव विरहमूर्च्छा सहचरी॥१६३॥

। १६० ॥ उद्धवः श्रीकृष्णमाह-भ्रमतीति। द्वयमुन्मादस्य प्रौढलप्रौढतम- लव्यजकम् ॥ १६१ ॥ अकाण्डे भवमाकाण्डिकम् ॥ १६२ ॥ मथुरास्थं श्रीकृष्णं प्रति ललिता पत्रीं लिखति-निरुन्धे लुम्पति। कुवलयदशः श्रीराधाया इदानी- मिदं साचिव्यं विधत्त इंति। तेनास्याः कृते लया चिन्ता न कार्या तत्र सुखेन स्थेयमद्य श्वो वा स्त्रीवधमहानिधिस्तव हस्तगतो भविष्यतीति द्योतितम् ॥१६३॥

१. 'वितनोति' क. पुस्तके.

Page 581

५५८ । काव्यमाला।

अथ मृत्युर्यथा हंसदूते- अये रासक्रीडारसिक मम सरूयां नवनवा पुरा बद्धा थेन प्रणयलहरी हन्त गहना। स चेन्मुक्तापेक्षस्त्वमसि धिगिमां तूलशकलं यदेतस्या नासानिहितभिदमद्यापि चलति ॥ १६४ ॥। प्रवासविप्रलम्भेऽसिमन् दशास्तास्ता हरेरपि। अत्रोपलक्षणायैकमुदाहरणमीर्यते॥ १६५॥ यथा- क्रीडारलगृहे विडम्बितपय:फेनावलीमार्दवे तल्पे नेच्छति कल्पशाखिचमरीरम्येऽपि राज्ञां सुताः। किंतु द्वारवतीपतिर्व्रजगिरिद्रोणी विलान्तःशिला- पर्यक्कोपरि राधिकारतिकलां ध्यायन्मुहु: क्वाम्यति ॥१६६॥

ललिता मथुरास्थं श्रीकृष्णं हंसद्वारा उपालभते-अये इति। रासेति रासकी- डाया रसं लमेव वेत्सि यतो राधेयं लया दुरवस्थापात्रीकृतेति व्याजस्तुतिर्धर्व- निता। यतो रासक्रीडाया मूलकारणं श्रीराधवेति हेललंकारश्वानुध्वनितः। येन तया स वं मुक्तापेक्षः। इमां लं नापेक्षसे चेत्तदा इमां घिक् यदियं तु लाम- पेक्षत एवेति भावः। ननु किमस्या मदपेक्षालक्षणं तत्राह तूलशकलं तूलखण्डं नासायां निहितमधुनास्याः प्राणाः सन्ति न वा सन्तीति संदेहे इत्यर्थः । अद्यापि चलतीति कथमनया अधुनापि प्राणाः कष्टेन रक्ष्यन्त इति भावः ॥ १६४ ॥ ललिताप्रेषिताया उपालम्भपत्रयाः प्रत्युत्तरपत्रीं श्रीकृष्णाज्ञया उद्धवो लिखति-क्रीडारतेति। काम्यति मूर्च्छति ॥ १६५ ॥ १६६॥ प्रेमभेदानां

⑈9५८५९ ॥9६॥ ६१ ॥१६२॥ १६३ ॥१६४॥१६५॥ कीडारह- गृह इति श्रीराधिकासखीनामुपालम्भपत्रिकाणां प्रत्युत्तररूपं श्रीमदुद्धवस्य पत्रमतः क्ीडारत्न इत्यादिकं तदुपालम्भानुवादोऽयमभ्युपगमवादाय कृत इति ज्ञेयं चम-

Page 582

उज्ज्वलनीलमणि: । ५५९

प्रोक्तानां प्रेमभेदानां विविधत्वाइशा अपि। विविधा: स्युरिहेत्येता भूमभीत्या न कीर्तिता:।।१६७।। एतास्तु प्रेमभेदानामनुभावतया दशाः। साधारण्यः समस्तानां प्रायशः संभवन्त्यपि॥ १६८ ॥ किंत्वत्रैवाधिरूढस्य मोहनत्वमुपेयुषः। असाधारणरूपास्तु तत्प्रसङ्के पुरोदिताः ॥ १६९ ।। विप्रलम्भं परं केचित्करुणाभिधमूचिरे। स प्रवासविशेषत्वानैवात्र पृथगीरितः H१७० ।। इति विप्रलम्भभेदप्रकरणम् ।

ग्रन्थबाहुल्यमीत्या ।। एता उक्तलक्षणास्तु दशाः समस्ानामेव प्रेमभेदानां च साधारण्यः । असाधारण्यस्तु भूमभीत्या न कीर्तिता इत्यर्थ: ॥१६७॥अत्रैव ग्रन्थे असाधारण्यरूपा इति श्रीवृन्दावनेश्वर्या विना अन्यत्रादृष्टेः ॥१६८॥ परमुकेभ्य एतेभ्योऽन्यं प्रवासविश्रेषतादिति। श्रीकृष्णस्य कालियहृदप्रवेशादयः प्रकासमेदा एवेत्यर्थ: ॥ १६९॥ १७० ॥

इति विप्रलम्भमेदविव्ृतिः ॥

रीखबक्रम् ॥ १६६ ॥ किं तन्नैवाधिरूढस्येति भावमध्ये पठितस्यापि तस्य रसतमेव मन्तव्यमिति भाव: ॥१६७॥१६८ ॥ विप्रलम्भमिति वि्लम्भ- मेदमित्यर्थः । तमनिष्टाशङ्कामयत्ात्करुणाभिघमूचिरे स तु वास्तवानिष्टला भावात् प्रवासविशेष: ततस्तद्रूपलात् पथड्रैवेरितः ॥।१६९॥।१७० ॥। इति चिप्रलम्भभेदविवृतिः ।

Page 583

५६० काव्यमाला।

अथ संयोगवियोगस्थिति:। हरेर्लीलाविशेषसय प्रकटस्यानुसारतः । वर्णिता विरहावस्था गोष्ठवामभ्रुवामसौ॥।१॥

ननु पूर्वरागमानप्रेमवैचित्त्यकिंचिद्दूरप्रवासा इत्येते चलारो विप्रलम्भाः । साधकभक्तः सिद्धभक्त्लीलापरिकरैः श्रीकृष्णप्रेयसीभि: श्रीकृष्णेन च सुखेनैवा- खाद्यन्ते आश्रयालम्बनविषयालम्बनयोनयकयोस्तत्र तत्र व्रज एव विराजमान- लादयं सुदूरप्रवासाख्यो माथुरविरहस्तु दुःसह एव श्रीकृष्णस्य व्रजत्यागादित्यत आह-प्रकटस्वेति। प्रकटाप्रकटलीले द्वे हि प्रापञ्चिकलोकदष्टादृष्टिभ्यामुक्ते स्यातामिति लघुलमत्र यत्प्रोक्तं तत्तु प्राकृतनायक इत्यत्र व्याख्यातमेव । भाग- वताभृतदष्ट्या सांप्रतं तद्विशेषो विव्रियते। तथा हि न्रजभूमेरेकस्या अपि भगवत इव प्रकाशानन्त्यादेकस्मिन् प्रकाशे वर्तमाना जन्मादिलीला: प्रापच्चिकलोकैदृश्यन्ते अन्येषु प्रकाशेषु न दृश्यन्ते यस्मिंश्च दृश्यन्ते:तत्प्रकाशस्थस्यापि श्रीकृष्णस्य जन्म बाल्यपौगण्डकशोरमशुरा प्रस्थानादिलीला अनन्तकोटिब्रह्माण्डेषु केषुचित् कदाचित् कमेणाविर्भवन्त्ो दृश्यन्ते ता एव केषुचित् कदाचिन दृश्यन्ते च यथा ज्योति- श्वकस्थस्य सूर्यस्योदयपूर्वाह्मम ध्याह्ापराहा भारतादिवषषु केषुचिद्दश्यन्ते केषुचित्र दृश्यन्ते च किं तु सूर्यस्य ज्योतिश्चके उदयाग्रा न सत्या न नित्याः श्रीकृष्णस्य व्रजभूमौ जन्मादिलीला: पूर्वदार्शैतेभ्योऽय्रे च दर्शयिष्यमाणेभ्यः श्रुतिपुराणेभ्यः सत्या नित्या एवेति विशेष: । यथा च सूर्यस्य वर्षदेशविशेषवशात् सदैवोदयः यदैव पूर्वाह्नः तदैव मध्याह्नः इत्यादि तथैव कृष्णस्यापि ब्रह्माण्डमेदवशाद सदैव जन्म सदैव बाल्यं सदैव बंकादसुरमारणं सदैव कैशोरं सदैव मथुराप्र- स्थानमित्येवं सर्वाः प्रकटलीला नित्या एव। यथा सूर्यस्य षष्टिघटिकापर्यन्तमे- वोदयादवस्थानां सर्वेषु वर्षेषु क्रमेणोपलम्भस्तथैव श्रीककष्णस्य ब्राह्मकल्पपर्यन्तं. जन्मादिलीलानां ब्रह्माण्डेषु महाप्रलये च प्राकृतब्रह्माण्डाभावेऽपि योगमायाकल्पि- तब्रह्माण्डेषु प्राकृतलेन प्रत्यायितेष्विति प्रकटा प्रपश्चगोचरा लीलापि कालदेशव-

तदेवं सपरिकरे विरहमुक्ता दुःखरूपस्य तस्य निरसनार्थमाह-हरेलीला- विशेषस्य प्रकटस्येति। अत्र विशेषप्रकटशब्दयोरुपादामादृन्दारण्ये विहरतेत्यत्रा-

Page 584

उज्ज्वलनीलमणिः । ५६१

शादापेक्षिक प्राकट्यापाकट्यवती कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेणेत्युद्धववाक्य- दयोतिता जैया। एवं मथुराद्वारकयोरपि प्रकटलीलेति। न्रजभूमेर्येषु प्रकाशेषु जन्मादिलीला: प्रापश्चिकलोकैः सर्वथैव न दृश्यन्ते ते च प्रकाशाः संख्यातीताः परस्परासंपृक्ताः 'शैलगोष्ठवनादीनां सन्ति रूपाण्यनेकशः' इति भागवतामृतोत्त्यां ज्ञेयाः। तेषु व्रजराजादिलीलापरिकरप्रकाशानामपि पृथक पृथगभिमानविशेषवतां परस्परासंपृक्तानामानन्त्यात् श्रीकृष्णस्य पृथक पृथगेव जन्मबाल्यपौगण्डकैशोर- लीला: क्वाप्यग्रपश्चाद्भावेन क्वापि कालसाम्येन च क्रमेणोदयमाना अपि निश्चला एव तिष्ठन्ति किंतु मथुराप्रस्थानलीला नास्ति मथुराया अप्रकटप्रकाशेषु सपरिक- रस्य श्रीकृष्णस्य तदुचितलीलाविशिष्टस्य सदैव विद्यमानत्ात्। यदुक्तं 'तत्र प्रक- टलीलायामेव स्यातां गभागमौ' इति। गमो व्रजभूमेः प्रकाशान्मथुरापुरी प्रति गमनं आगमो द्वारकातो दन्तवक्रवधानन्तरमागमनं प्रकटलीलायामेव स्यातां नल्प्रकटलीलायां गोष्ठाद्वनगमनं महावनादवृन्दावनागमश्चास्त्ेव तयोर्व्रेजभूमिभव- लात्। नित्यत्ं तु तयो: प्रकटलीलायाः सर्वस्या एवोक्तयुक्तेर्दर्शितमेव। नन्वप्र- कटप्रकाशेष्वपि क्वचिदंशे श्रीकृष्णलीलामात्रमपि नास्तीत्यवश्यभभ्युपगन्तव्यमेव जन्मलीलायाः प्रागभावापेक्षलात्। तथा यदि व्रजान्मथुराप्रस्थानं नासिति तदा मथुरालीला कुतः प्रवर्तेत। सा हि रजकवधाद्या कालयवनाद्यागमान्ता। रजकव- धश्च व्रजात् प्रस्थितेनैव श्रीकृष्णेन कृत इति। अत्रोच्यते। अप्रकटप्रकाशस्थैः सवैरेव लीलापरिकरैर्व्रजेश्वर्या गर्भाज्ातोऽयं श्रीकृष्ण इत्येव सदानुसंघीयते न तु तत्प्राक्कालस्तन्न वा कि किमासीदित्यनुसंधातुं शक्यते। अचिन्त्ययोगमायाया महाप्रभाव एवात्र हेतुर्यथा बहिरङ्गमायिकलीलायां प्रतिकल्पमेवोत्पद्योत्पद्य नाना- योनिषु भ्रमतां जीवानां प्राथमिकादविद्यासंबन्धात् प्राकाल: कस्तत्र वा किमा- कारा एते जीवा आसन् कस्माद्वेतोः प्राथमिकः कर्मसंबन्ध इति शास्त्रज्ञैरपि नानुसंधातुं शक्यते तत्र मायाया एवाचिन्त्यप्रभावो हेतुः । किंच तत्रानादिरेवा- विद्यासंबन्धो जीवानां यथोच्यते शास्त्रज्ञैस्तथैवानादिरेव श्रीकृष्णस्य जन्मलीलेति भक्तप्राज्ञैः। यथा चानादिरपि कारणार्णवापरपर्याया विरजानदी चिन्मयजला वैकुण्ठपरिखाभूतापि वेदेभ्यो जातेति श्रूयते। 'वेदाङ्गखवेदजनिततोयैः प्रस्नाविता' इत्यादि पाद्ादिभ्यस्तथव श्रीकृष्णजन्मलीलेति। तथा मधुराया अप्रकटप्रकाश-

प्रकटलीलाविशेषतया विहरतेति गमितम् । ततश्र वृन्दारण्य इति तस्याप्रकटप्र- काशविशेष इति लम्भितम् । सदेत्यनेन विरहसमयेऽपि विकारावकाशतायाः ३६ उज्ज्व०

Page 585

५६२ काव्यमाला।

वृन्दारण्ये विहरता सदा रासादिविभ्रमैः। हरिणा व्रजदेवीनां विरहोऽस्ति न कर्हिचित् ॥ २ । तथा च पाझे पातालखण्डे मथुरामाहात्म्ये- 'गोगोपगोपिकासङ्गे यत्र क्रीडति कंसहा।' इति। इति संयोगवियोगस्थिति: ।

स्थैर्लीलापरिकरै: श्रीकृष्णेन व्रजादागतेन रजकवधाद्या लीला: कृताः क्रियन्ते चेत्यवसीयते किंतु रजकवधात् प्राक् श्रीकृष्णो नासीदिति चानुसंधातुं न शक्यते। यथा भगीरथेनानीता पृथिव्यां गङ्गेति प्रसिद्धिरथ च भगीरथात् पूर्व- सपि पृथिव्यां विराजमाना गङ्गा सदैवासीदेव 'गङ्गायमुनयोरनद्योरन्तरा क्षेत्रमाव- सनू' इत्यादि पृथुचरिताद्युक्तेः। तथा च प्रियव्रतराज्यात् सगरात्मजेभ्यश्च पूर्व सागरा आसन्नेव प्राचीनबर्हिःपुत्राणां प्रचेतसां तत्र तपश्चरणश्रवणात् तथा श्रीकृष्णस्य मथुरायामागमनात् पूर्व वयं के किमवस्था आस्मेत्यपि बोद्धुं न ते प्रभवन्ति सम। यथा कर्दमप्रादुर्भाविता जलाद्युत्थिता नवयावना देवहूतेः परि- चारिका वयं वयःसन्घेः पूर्व काः किमाकाराः कुत्रास्मेति ज्ञातुं न शक्कुवन्तिस्मेति। श्रीकृष्णो मथुरायामेव विराजते न तु ब्रजे इति मथुराया अप्रकटप्रकाशस्था लीलापरिकरा जानन्ति यथा तथैव व्रजस्था अपि श्रीकृष्णोऽस्मद्टज एव खेलति मथुरायां तु कंस एवेति मन्यन्ते। एवं द्वारकास्था अपि। श्रीकृष्णस्तु युगपदेव व्रजमथुराद्वारकासु सपरिकर एव एकेनैव वपुषाप्यत्यन्तप्रकाशः पृथक् पृथग भिन्नाभिमान: सदा दीव्यतीति सिद्धान्तः ॥ एवं च प्रकटलीलायामेव माथुरविर- होऽप्रकटलीलायां लक्रूरागमनमथुराप्रस्थानव्रजबालाविलापाद्या नैव सन्तीत्याह- वृन्दारण्य इति। प्रकटस्यानुसारत इति पूर्वोक्तेरप्रकटप्रकाशेष्वित्यर्थः ॥ अत्र प्रमाणमाह-तथा चेति। क्रीडतीति वर्तमानप्रयोगः सातत्यं बोधयति। न च वचनमिदं यमुनामाहात्म्यपरं "अहो अभाग्यं लोकस्य न पीतं यमुना- जलम्। गोगोपगोपिकासङ्गे यत्र करीडति कंसहा॥" इति। यत्पदेन यमुनाया

स्थापनीयलात्। तथा हरिणा व्रजदेवीनामित्यनेन तस्य तासामप्यप्रकटप्रका- शानन्तरं मतम्। प्रकाशभेदेनाभिमानभेदश्व विरहसंयोगानुभावयोर्युगपदसंभवात् । १॥२॥ तत्र प्रमाणमाह-तथा चेति। कीडतीति वर्तमानप्रयोग: सातत्यं

Page 586

उज्ज्वलनीलमणिः । ५६३

एव परामर्शादिति वान््यम्। सदैव यमुनाजले कीडाया अयुक्तलात् गज्ञायां घोष इतिवल्लक्षणया यमुनातटप्राप्तेर्यमुनातटस्यैव वृन्दारण्यलात्। ननु मम गृहगवाक्षे सूर्यकिरण: सदा प्रविशतीति मभ गरहेऽसौ सदा भुङ्गे इति नित्यं संध्यामुपासीते- त्यादौ वर्तमानप्रयोगे नित्यादिपदोपादानेऽपि तत्तदुचितसमयस्यैव प्राप्तिरिव प्रतिकल्पगततद्वतारकीडोचितकाल एव प्राप्तोऽस्तु। मैवं भगवद्धामलीलापरिक रादेर्मायिकप्रपश्चतद्गतकरिजीवादेश्च तुल्यत्ापत्तेः । तेऽपि भूर्लोकादयः तद्गताः सुकृतिनो जीवा अपि प्रतिकल्पमुत्पद्योत्पद्य क्रीडन्त्येवेति कथय तावत् प्रापच्चि- काप्रापञ्चिकवस्तुनोः को विशेष इति। किं च प्रतिक्षणास्तिलरूपनित्यलस्य भग- वल्लीलायां यद्यसंभवः स्यात्तदा तादृशलमप्यभ्युपगम्यते। भगवति तु सच्चिदान- न्दाकारप्रकाश जन्मकर्मलक्षणलीलापरिकरानन्त्यवति न कोऽप्यसंभव इति भगव- त्संदर्भे युक्त्या प्राक् प्रतिपादितमेव। न तु तदपि माथुरविरहे सत्यपि वृन्दारण्ये कीडासातत्यमस्त्ेव प्रकटलीलायां ब्रह्माण्डभेदवशात पूर्वोक्तयुक्तेरेवेत्यतो विरहा- भावार्थ पुनरपि किमन्येनाप्रकटलीलास्वीकारेणेत्यत आह-गोगोपगोपि- केति। गोगोपगोपिकाभिः सह सङ्के सति यत्र वृन्दावने क्रीडति न तु विच्छे- देऽपि सतीति प्रकटलीलाव्यावृत्त्या। अत्र काकाक्षिगोलकन्यायेन यत्र इत्यस्य

बोधयति। ततश्व पूर्ववत्तत्प्रकाशादिभेदः प्रमापितः । तं विना घटनाया अभा- वातू। श्रुतार्थान्यथानुपपत्त्या तत्र तत्र तदचिन्त्यशक्तिरेव कारणलेनोपतिष्ठते। श्रुतेस्तु शब्दमूलतवादिति न्यायात्। न च वक्तव्यं वचनमिदं यमुनामाहात्म्य- प्ररम् 'अहो अभाग्यं लोकस्य न पीतं यमुनाजलम्' इति पूर्वार्धात्। ततः कथं मथुरामाहात्म्यान्तर्गतलात्तत्रैव पर्यवस्यतीति। सदा यमुनाजले क्रीडाया अयुक्तलाल्लक्षणप्राप्तेः । ननु लक्षणा चेन्मता तर्हि प्रतिकल्पभवतीर्य क्रीडाकारि- लान्मम गृहगवाक्षे सूर्यकिरणं प्रविशतीतिवद्यथावसरमेव सा तत्कीडावगन्तव्या। मम गृहे सदा भुङ्के इत्यत्र सदाशब्दप्रयोगेऽपि तादृशतमवगम्यते। उच्यते। तदैव सङ्कोचवृत्त्या तादृशलमवगन्तव्यं यदि परमनित्येति बोधायाप्यधिष्ठातुं समर्थे भगवत्यसंभवं स्यात्। यदि च 'राजधानी ततः साभूत् सर्वयादवभू- भुजाम्। मथुरा भगवान् यत्र नित्यं संनिहितो हरि: ॥' इत्यादिवचनं न स्यात्। अन्र हि संनिदधातेरकर्मकलवमेव। संनिधिः संनिकर्षणमित्यत्र संकीर्णवर्गे यथाह क्षीरख्ामी संनिपूर्वो धा नैकव्यार्थ इति। ततश्वाकर्मकलात् संनिहित इति कर्तर्येव प्रयोग: शीलितादिवद्वर्तमान एव च। वर्तमानतं चात्राविच्छेदविवक्षयैव

Page 587

५६४ काव्यमाला।

क्रीडतीव्यनेन सङ्ग इत्यनेन चान्वये यत्र वृन्दावने करीडतीति व्याख्यायां किंचि- हूरप्रवासाख्यविच्छेद: सङ्गशब्देन न व्यावृत्त्यते गोष्ठाद् वनगमने वनाद् गोष्ठा- गमने च वृन्दावनप्रदेशावच्छेदे गोगोपगोपिकाभिः सह सङ्गस्य सत्त्वात् इति। अत्र कंसहेति पदेन कंसवधोत्तरकाले दन्तवत्रवधानन्तरागमने सति पुनर्न्नजली- लायामेतत्प्रमाणमित्याचक्षते केचित, तन्न संगच्छते कंसं हतवानित्यर्थे कंसहेति पदस्यासिद्धलात्। तथाहि 'अन्येभ्योऽपि दृश्यते' इत्यनेनैव क्विपःसिद्धे 'ब्रह्मभ्रूण- वृत्रेषु क्विप्' इति क्विब्विधानं नियमार्थम्। भूतकाले ब्रह्मभ्रूणवृत्रेष्वेवोपपदेषु क्विप् नान्येष्विति भाषावृत्त्यादौ दष्टतात् कंसं हनिष्यति हन्ति वेति भविष्यति वर्तमाने वा क्किपा कंसहेति पदं सिध्यति। तेन कंसहेति पदमप्यत्र मथुराप्रस्था- नाभावद्योतकम्। कंसं हनिष्यति वर्तमानसामीप्यविवक्षया हन्ति वेति हन्तेद्वें- षार्थलेन द्वेष्टि वेत्यर्थे मथुरायां कंसस्य विद्यमानतवभाने दानलीलादेरपि सुङ्गग- तत्वं (१) स्यादत एव प्रसिद्धं भागवतामृतधृतं यामलवचनम्-'कृष्णोऽन्यो यदु- संभूतो यः पूर्णः सोऽस्त्यतः परः । वृन्दावनं परित्यज्य स क्वचिन्नैव गच्छति ॥' इति। अत एव वृन्दावनक्रीडाया नित्यलप्रतिपादकेषु बहुषु प्रमाणेषु सत्ख- प्यप्रकटलीलायामसाधारणमिदमेव ग्रन्थकृद्भिर्महानुभाव[ चू]डामणणिभिरुपन्य-

न तु पुनः पुनरवतारेण सांनिध्यापेक्षया। तदान्यत्रान्यत्र साधारणेऽपि देशे तद्गमनश्रवणाद्विवक्षितस्य मथुराया अतिशयस्यानुपपत्तेः । लट्प्रत्ययवत् कप्रत्य- यस्य चातुर्वर्ण्येन शीलितं राज्ञा रक्षितमिदं राष्ट्रमित्यत्र विच्छेदप्रत्ययानुपपत्तेः। प्रतीते चाविच्छेदे नित्यशब्देन कैमुत्यापत्तेश्च। दृश्यते श्रुतिषु नित्यशब्दं विनापि कप्रत्ययस्य तादृशवाचकलवम् 'अयमात्मापहतपाप्मा' इति किंतु संनिधानेन नैकट्यमेव वाच्यत इति विवक्षितायाः स्थितेरलामेन तदिदं विचार्यते। यदि नैकट्यमुच्यते तर्हि निकटस्य च देशविशेषस्य माहात्म्यं स्यादिति। तदेतद्वूचनं मथुरामाहात्म्ये प्रयोजकत्वं (कं) न स्यात्। तस्यानिकटो देशस्तादृशतया न प्रसिद्ध इति निहतार्थ च स्यात्। यदि च तदेव मन्यते तर्हि यस्या इति षष्येव प्रयुज्येत न तु यत्रति सप्तमी। सप्तम्याः प्रयोगे तु संबन्धिपदाक्षेपान्मथुरा- वासिनां संनिहित इति लभ्यते। यद्वा विकाशद्वयस्य प्रतिपन्नलात् प्रकटप्रका- शात्मिकायां भथुरायां वर्तमान: संनिहितस्तत्रस्था प्रकटप्रकाशे वर्तमान इत्यर्थः । नतु पुरीविषयाणि तानीमानि वाक्यानि कथ वृन्दावनं विषयं कुर्वन्ति। उच्यते।

Page 588

उज्ज्वलनीलमणिः । ५६५

स्तम्। तानि प्रभाणांनि च श्रीवैष्णवतोषणीधृतानि दर्श्यन्ते। तत्र प्रथमं श्रुतिः "गोविन्दं सच्चिदानन्दविग्रहं वृन्दावनसुरभूरुहृतलासीनं सततं समरुद्रणोऽहं परि- तोषयामि" इति। 'जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति, योऽसौ गोषु तिष्ठति, योऽसौ गोपालं पालयति, योऽसौ गोपेषु तिष्ठति' इति गोपालतापनी। अत्र जन्मजराभ्यामिति जरापदसाहचर्यात् जीववत् आप- च्विकजन्मैव तस्य निषिद्धं न दु यशोदादेवकीभ्याभपि जन्म। यदुक्तं तेनैव ख्यम् 'जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।' इति श्रीगीतोपनिषत्सु। स्थाणुः सर्वकालस्थायी। ननु महाप्रलये वृन्दावनसुरभूरुहतलस्थललेन कथं स्थास्यतीत्यत्राह। अच्छेदः कालवेगेन प्राकृतप्रपञ्च इवानाश्य इत्यर्थः । तथा हि भूगोलचकरे सप्त पुर्यो भवन्ति तासां मध्ये साक्षात् ब्रह्मगोपालपुरी हीति यथा सरसि पझ्मं तिष्ठति तथा भूम्यां चक्रेण रक्षिता हि मथुरा तस्मात् गोपालपुरी हि भवति बृहत् बृहद्वनं मधोर्मधुवनमित्यादिका सैव श्रुतिः सौर्ये सौर्याया यमुनाया जले गोपीभि: सह जलक्रीडार्थमित्यर्थः । गोषु तासां चारणार्थमित्यर्थः । गोपा- ञन्दादीन् पालयति गोवर्धनधारणादिभिरित्यर्थः । गोपेषु श्रीदामादिषु तैः सह सख्योचितकीडार्थमित्यर्थः । स्मृतिश्व 'ततो वृन्दावनं पुण्यं वृन्दादेवीसमा- गोवृन्दगोपिकानां तत्रैव योग्यलान्मथुरामण्डलप्रदेशविशेषपरताच्च तद्विषयता युक्ता अत एव मथुरामाहात्म्य इत्यपि युक्तमुक्तम्। तथा च श्रीगोपाल- तापनीश्रुतिर्मथुरायामिव तत्तद्वनेष्वप्यतिदिशति। भूगोलचके सप्तपुर्यों भवन्ति तासां मध्ये साक्षाद्ह्यगोपालपुरीति। यथा सरसि पदमं तिष्ठति तथा भूम्यां चक्रेण रक्षिता हि मथुरा तस्माद्ोपालपुरी हि भवति बृहद्दन्दावनं मधो- मधुवनमित्यादिका एतैरेवावृता पुरी भवति। तत्र तेष्वेव गहनेष्वेवमित्यादिका च। तत्र तदधिष्ठानताया योग्यतार्थ प्रकटप्रकाशाद्विलक्षणं प्रकाशान्तरमपि वाराहे वर्णितम् । 'तन्रापि महदाश्चर्य पश्यन्ति पण्डिता जनाः । कालियहदपूर्वेण कदम्बो महितो दमः ॥ शतशाखं विशालाक्षि पुण्यं सुरभिगन्धि च। स च द्वादश मासानि मनोज्ञः शुभशीतलः। पुष्पायति विशालाक्षि प्रभासन्तो दिशो दश ।' इति। अन्र परत्र चार्षप्रयोगा यथायथमुन्नेयाः । अथ तत्रैव वृन्दावनस्य ब्रह्मकुण्डमाहात्म्ये "तत्राश्चर्य प्रवक्ष्यामि तच्छ्रणुष्व वसुंधरे। लभन्ते मनुजाः सिद्धिं मम कर्मपरायणाः ॥ तस्य तत्रोत्तरे पार्श्वेऽशोकवृक्ष: सितप्रभः। वैशाखस्य तु मासस्य शुक्कपक्षस्य द्वादशी। स.पुष्णाति च मध्याहे मम भक्तसुखावहः। न

Page 589

५६६ काव्यमाला।

श्रितम्। हरिणाधिष्ठितं तच्च ब्रह्मरुद्रादिसेवितम्॥ वत्सैर्वत्सतरीभिश्व सदा क्रीडति माधवः । वृन्दावनान्तरगतः सरामो बालकैव्रृतः ॥' इति स्कान्दम्। "यमुना- जलकल्लोले सदा क्रीडति माधवः ।" इति पादम्। अथ मथुरालीलाया नित्यले प्रमाणम्-'प्राप्य मथुरां पुरीं रम्यां सदा ब्रह्मादिसेविताम्। शङ्चकगदाशाईग- रक्षितां मुसलादिभिः ॥ यत्रासौ संस्थितः कृष्णस्त्रिभिः शत्त्या समाहितः । रामानिरुद्धप्रद्युन्नै रुक्मिण्या सहितो विभुः ॥' इति गोपालतापनीश्रुतिः । स्मृतिश्च-'मथुरा भगवान् यत्र नित्यं संनिहितो हरिः' इति। एवं द्वारकाली- लाया नित्यतमपि द्वारकामाहात्म्यादिग्रन्थाज्ज्ञेयम्। सर्वत्र च 'जयति जननि- वास' इत्यत्र 'ब्रजपुरवनितानां वर्धयन् कामदेवम्' इति वर्तमानप्रयोग एव न तु जयतीत्यादिलोडन्तमिति वाच्यं। तदीयनित्यसर्वोत्कर्षविदुषः श्रीशुकदेवस्य तद्भक्तचूडामणेः तत्राशीर्वादानौचित्यात। व्रजपुरवनिताभि: सहकीडन्नित्युक्ता तासां कामदेवं वर्धयन्नित्युक्तवता तासां समर्थसमज्जसासाधारणरतिमतीनां काम- देवः प्रायः प्रेममयशङ्गाररस एव स च संयोगविच्छेदाभ्यां वर्धते एवेति मुक्त- प्रग्रहावृत्त्या संक्षिप्तसंकीर्णादयो यावन्तः संभोगा: पूर्वरागमानप्रवासादयो याव- न्तश्च विप्रलम्भास्तान् सदा प्रवर्तयन्निति वृन्दावनमधुराद्वारकेन्द्रप्रस्थादिवर्ति- कश्चिदपि जानाति विना भागवतं शुचिम् ।।" इति। शुचित्मत्रानन्यवृत्तित- मतस्तादशं रूपमस्येति पृथिव्यापि न ज्ञातमिति आयातम्। तत्र सपरिकरस्य श्रीकृष्णस्य नित्या स्थितिश्व बृहद्गौतमीयतन्त्रे नारदप्रश्ने श्रीकृष्णस्योत्तरे। तत्र प्रश्न :- "किमिदं द्वादशाभिख्यं वृन्दारण्यं विशांपते। श्रोतुमिच्छामि भगवन्यदि योग्योऽस्मि मे वद ॥।" अथोत्तरम्। 'इदं वृन्दावनं रम्यं मम धामैव केवलम्। तत्र ये पशवः पक्षिवृक्षाः कीटा नरामराः ॥ ये वसन्ति ममाधिष्ठे मृता यान्ति ममालयम्। अत्र या गोपकन्याश्च निवसन्ति ममालये ।। योगिन्यस्ता मया नित्यं मम सेवापरायणाः। पश्चयोजनमेवास्ति वनं मे देहरूपकम् ॥ कालिन्दीयं सुषु- म्णाख्या परभामृतवाहिनी। अत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः ॥ सर्व- देवमयश्चाहं न त्यजामि वनं क्वचित्। आविर्भावस्तिरोभावो भवेन्मेऽत्र युगे युगे ।l तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा ॥I' इति। श्रीगोपालतापिन्यां च ब्रह्मवाक्यम्-"गोविन्दं सच्चिदानन्दं वृन्दावनसुरभूरुहलतासरीनं सततं समरु- द्रणोऽहं तोषयामि।" इति। एवं तत्तन्मन्न्रेषु तत्तद्ृन्दसहितं पश्चरात्रयामल- संहितादिषु ध्येयलेन वर्णयन्ति। तस्माद्युक्तमुक्तं "वृन्दारण्ये विहरता मया

Page 590

उज्ज्वलनीलमणिः । ५६७

संभोगविप्रलम्भानां मथुराप्रस्थानादिघटितविलापाहदिव्योन्मादभ्रमरगीतादीनां च लीलानां नित्यलमानीतं सुस्मितश्रीसुखेनेति दृष्टश्रुतस्मृतेनेत्यर्थः । स्थिरचरवृजि- नघ्नः सन्निति स्थिराणां गोवर्धनरैवतकादीनामिन्द्रादिभ्यो यद्वजिनं चराणां लीला- नुकूलभक्तिमन्मनुष्यगवाश्चमगादीनां तद्दर्शनोत्कण्ठारूपं संसारादिकं च वृजिनं हन्तीति गोवर्धनधारणादिलीलानां मिथिलागमनादिघटितश्रुतदेवाद्यनेकलोकोद्धार- लीलानां च नित्यलम्। दोर्भि: खमुजबलैः दोसतुल्यैः भीमार्जुनादिभिश्चाधर्म प्रप-

लानां च नित्यलम्। यदुवरा वसुदेवनन्दवृषभान्वादयः उद्धवश्रीदामसुबलादयश्च परिषदो लीलापरिकरा यस्य तथाभूतःसन्निति बाल्यपौगण्डादिलीलानां च नित्यत्म्। देवक्यां वसुदेवपत्यां 'द्वे नाम्नी नन्दभार्याया यशोदा देवकीति, चे'त्यादिपुराण- वचनानन्दपत्यां च जन्मवादः सिद्धान्तो यस्य स इति । 'वाद: प्रवद्तामह'- मित्यन्न वादशब्देन सिद्धान्ताभिधानादिति जन्मलीलाया नित्यलमेव। अत्रानुक्ता- नामनन्तानामन्यासामपि लीलानामेकन्र निर्णीतशास्त्रार्थो विरोधाभावे सतीति न्यायेन नित्यतम्। एवं च सत्खपि बहुषु श्रुतिस्मृतिप्रमाणेषु सर्वलीलानित्यल- साधकमेवेदं श्रीभागवतीयं पद्यरत्नं दृष्टमिति। अथ प्रपश्चगोचरलीलानां नित्यले रासादिविभ्रमै" रिति। तत्र तत्तत्स्थानस्य प्रकाशभेदाः प्रकटलीलायामपि दृश्यन्ते। यथा वृन्दावने ब्रह्माणं प्रति तदानीं चतुर्भुजादिवैभवानामवकाशतं नित्यदर्शिनां गोपक्षिमृगादीनामपीति। यथा च द्वारकायां द्वादशयोजनीपरिमितत्वेऽपि क्रोश- द्वयपरिमितगृहलक्षाद्यवकाशता। श्रीनारदद्ृष्टयोगमायावैभवे प्रातस्त्यमाध्याह्विक- सायंतनलीलाश्रयत्वं युगपदेव जातम् । श्रीकृष्णस्यापि युगपन्नाना प्रकाशः । "चित्रं बतैतदेकेन वपुषा युगपत्पृथक्। गृहेषु द्यष्टसाहसं स्त्रिय एक उदावहत्" इत्यनुसारेण श्रीनारददृदष्ट इति प्रसिद्धमेव । परिकराणां च प्रकाशभेदः षोडश- सहस्रपरिमितानां कन्यानां विवाहे व्याख्यातः । उक्तं टीकाकृद्भिः । एतेन देव- क्यादिबन्धुजनसमागमोऽपि प्रतिगृहं यौगपद्येन सूचित इति। तत्राभिमानभेदश्च दृष्टः । यथा योगमायावैभवे खल्वेकत्र। "दीव्यन्तमक्षस्तन्नापि प्रियया चोद्धवेन च । पूजितः परया भत्त्या प्रत्युत्थानासनादिभिः" इति। तत्रान्यत्र "मन्न्रयन्तं च कसमंश्चिन्मन्न्रिभिंश्रोद्धवादिभिः" इति। तत्र भावमेदादभिमानमेदोऽवगम्यते अयमेतदवस्थोऽहमत्रास्मीति। एवं षोडशसाहस्रीपरिमितकन्याविवाहे कुत्रचित् श्रीकृष्णसमक्षं माङ्गल्यं कर्म कुर्वन्त्या: श्रीदेवक्यास्तददर्शनसुखं स्यातू तत्परोक्षं तु

Page 591

५६८ काव्यमाला।

युक्तिरुच्यते। गौतमीयाद्यागमोक्तबालगोपालादिमन्तोपासकानीमनुसारिणी तत्प्रा- प्तिरवश्यापेक्षा। यथा शय्योत्थानमुखप्रक्षालननवनीतादिभोजनरिङ्गणखेलनहसन- स्वापादिलीलाः प्रातरादिक्षणेषु एकेनैकेनैव स्रूपेण ध्यायतां साधनदशायां सार्वकालिकी स्थितिस्तथव सिद्धदशायामप्येकेनैकेनैव प्रकाशेन तत्तल्लीलासाक्षा- त्कारवत्येव सार्वकालिकी नित्यस्थितिरवश्यमेवोचिता। 'यादृशी भावना यस्य सिद्धिर्भवति तादृशी।' इत्यादिवचनात्। तेषामेव प्रपश्चगोचरलीलायां वात्सल्या- दिभाववतां प्रकाशान्तरेण लीलान्तरस्यापि गौणतया स्वादस्तधिको न विरु- ध्यते। श्रीकृष्णस्य भक्तकामितार्थादधिकस्यापि दातृत्वादिति। तत्र प्रपञ्चगोचर- लीलायाम्। कालिकीनामवस्थानामस्थैर्यात्। लोकवल्लीलेति न्यायेन प्रापच्चिकलो- करीत्यैव रिङ्गणादिलीलानामेकस्मिन्नेव प्रकाशे खलु न स्थैर्यम्। प्रपश्चगोचरली- लायां लेकत्रवेकदव भागवतामृतसंमत्या परस्परासंस्पृष्टानन्तप्रकाशवत्यामेकैक- स्मिन्नेव प्रकाशे रिङ्गणादिलीलाः स्थिरा एव। तत्र कासांचिद होरात्रव्यापितेनैव स्थैर्य कासांचिदहर्व्यापिलेनापि। तथाहि प्रातरारभ्य शय्योत्थानादिभिर्बालमुकुन्दं लालयतां श्रीयशोदादिपरिकराणां यावेवाहोरात्रौ गच्छतस्तावेव पुनः पुनरा- गच्छत इत्येवं महाकल्पकोटिष्वपि व्यतीतासु तयोरवस्थान्तरप्रापणहेतुलं न तद्दर्शनोत्कण्ठेति। तथा योगमायावैभव एव क्वचिदुद्धवेन संयोगः क्वचिद्वियोग इति विचित्रता। तदेवं तेषां प्रकाशभेदादेव भेदो न वस्तुमेद इत्येकांशेऽपि संयोगान्नास्त्येव वियोग इत्यभिप्रेत्योक्तम् 'वृन्दारण्ये विहरता' इत्यादिना तथैव "भवतीनां वियोगो मे नहि सर्वात्मना क्वचित्" इत्यादिप्रकरणे श्रीवैष्णवतोषिण्यां व्याख्यातमसि्ति। उपासना च यस्मिन् अंशे सुखं स्यात्तत्रैव कर्तव्येति सर्वमन- वद्यम्। तथापि हन्त हन्त यत्र प्रकाशे पूर्वरागादिविप्रलम्भा वर्णितास्तत्रैव तत्तदनन्तराः संभोगा वर्णनीयाः । प्रकाशान्तरेण नित्यसंभोगे तु प्रकटप्रकाश- गतानां तासां वर्णितविरहाणां का गतिः यां विना तद्वूर्णनं विरसमेव स्यात्। यदि चाप्रकटलीलागतं यत् सुखं तत्तत्र संक्रामेदित्युच्यते तर्हि विरह एव न स्यादिति तद्वर्णनं कथंभूतं कथं वा स्यं श्रीकृष्णेन। "धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथंचन। प्रत्यागमनसंदेशैर्बल्लव्यो मे मदात्मिकाः ॥" इत्युक्तं तस्मान्महाविप्र- लम्भादनन्तरं संभोगोऽवश्यं वर्णनीयः । स च निर्विन्न एवं मन्तव्यः । हस्ति- स्नानतुल्यतस्यानभीष्टलात्। न च यस्मिन्नंशे सुखं स्यात् तत्रैव सर्तव्यं सेयं प्रेमरीतिर्न भवति किंतु स्सुखतत्परतैवेति तत्प्रियजनानामुपेक्षणीयतातू। अस्तु

Page 592

उज्ज्वलनीलमणिः । ५६९

संभवेदिति श्रीकृष्णस्य तदेव बाल्यं वयः स्थिरं तदीयलीलापरिकरा अपि तत्तद्व- यस्था एव स्थिराः। एवं वसन्तादिष्वपि होलिकोत्सवदानादिहिन्दोलिकादिलीला- युक्तमन्तर्गतरात्रिंदिवानन्तरलीलं यदेव वर्ष याति तदेव वर्षं पुनः पुनरायातीति। श्रीकृष्णस्य तदेव कैशोरमादिमभन्तिमं वा स्थिरमेव तन्मात्रादीनामपि क्वचित् द्वैवार्षिकः, क्वचित्रैवार्षिकः, पश्चवार्षिकः, अष्टवार्षिक एव श्रीकृष्ण इति योगमाय- यैव प्रत्यायनमिति। अथ प्रपञ्चागोचरलीलास्पदस्य वृन्दावनप्रकाशस्य नित्यत्े प्रमाणानि दर्श्यन्ते। यथा रुद्रयामले रुद्रगौरीसंवादे-'वीथ्यां वीथ्यां निवासो- Sधरमधुसुवचस्तत्र संतानकानामेके राकेन्दुकोट्या उपविशदकरास्तेपु चैके कमन्ते। रामे रात्रेर्विरामे समुदिततपनद्योतिसिन्धूपमेयो रत्नाङ्गानां सुवर्णाचित- मुकुररुचस्तेभ्य एके द्रुमेन्द्राः ॥ यत्कुसुमं यदा मृग्यं यत्फलं च वरानने। तत्त- देव प्रसूयन्ते वृन्दावनसुरद्रमाः ॥' अर्थश्च हे अधरमधुसुवचः, अधरभधुतुल्यानि सुवचांसि यस्यास्तथाभूते गौरि, तत्र वृन्दावने रत्नाङ्गानां संतानकानां मध्ये एके डुमेन्द्रा राकेन्दुकोट्या उपविशदकराः हे रामे, तेषु संतानकेषु एके रात्रर्विरामे समुदिततपनद्योतिसिन्धूपमेयाः कमन्ते विराजन्ते तेभ्यस्तानतिक्रम्य एके कमन्ते। कथंभूताः सुवर्णाचितमुकुररुच इति। तत्र च यदा यत्कुसुमं मृग्यं भवति फलं वा तदेव वृन्दावनसुरदमा एव प्रसूयन्ते। एवं नारदपश्चरात्रे च श्रुतिविद्यासंवादे-'महावृन्दावनं तत्र केलिवृन्दावनानि च। वृक्षाः कल्पद्डमाश्चैव चिन्तामणिमयी स्थली ॥ क्ीडाविहङ्गलक्षं च सुरभीणामनेकशः । नाना चित्रवि- चित्रश्रीरासमण्डलभूमयः ॥ केलिकुञ्जनिकुञ्जानि नानासौख्यस्थलानि च। प्राची- रच्छत्रत्नानि फणाः शेषस्य भान्त्यहो ॥ यच्छिरोरत्नवृन्दानामतुल्यद्युतिवैभवम्। ब्रह्मैव राजते तत्र रूपं को वक्तुमहति ॥' इति। एवं च प्रपञ्चाप्रपश्चगोचरयोर्द्व- योरपि लीलयोः सविशेषयोरेव नित्यतं स्थापितम्। ननु च 'चित्रं बतैतदेकेन तावत्तत्प्रियजनानां वार्ता लौकिकरसविदामपि। न विना विप्रलम्भेत्यादिना सर्वायत्यां संभोगपर्यवसानतयैव संभतिर्दश्यते। तदनुसारेणापि निर्विन्नसंभोग एव विप्रलम्भगणानां फलतया पर्यवसायनीयः। तमेतं प्रकटप्रकाशमेवालम्बनी- कृत्य ग्रन्थकृतामेष ग्रन्थो नाटकादयोऽन्ये च ग्रन्था उपासना च प्रवृत्या दृश्यन्ते। श्रीशुकादीनामप्यत्रैवावेशः स्पष्टः श्रीब्रह्मणश्च 'प्रपशव निष्प्रपच्चोऽपि विडम्बयसि भूतले। प्रपन्नजनतानन्दसंदोहं प्रथितुं प्रभो ॥I' इत्यत्र तथैवाभि- प्यः। प्रपञ्चानुकरणं ह्यन्र जन्मादिलीलारूपमेव। ततश्र सत्यामपि तस्यां

Page 593

५७० काव्यमाला।

वपुषा' इत्युक्तरीत्या प्रकटाप्रकटयोरलींलयो: युगपदेकेनैव वपुषा वृन्दावनमथुराद्वा- रकासु सदैव तत्तत्परिकरै: सह प्रकाशभेदैर्यदि कीडति तदा कथमेतावानुद्ूर्णा- चित्रजल्पादिभयो विरह: संभवेत्। उच्यते। विचित्रलीलादिसिद्धर्थ साधकसिद्ध- भक्तानां विविधभावसिद्धर्थ च भगवतो लीलाशत्त्यैवाकारभेदे प्रकाशमेदे च भगवतो भगवत्परिकराणां च पृथकू पृथगभिमानभेदस्तदनुरूप: क्रियामेदश्च व्यवस्थाप्यते। तत्राकारभेदे यथा धनुर्भज्गानन्तरं श्रीरामपरशुरामयोः, प्रकाश- मेदे यथा नारददृष्टयोगमायावैभवे। तत्र ह्वेकत्र "दीव्यन्तमक्षैस्तन्नापि प्रियया चोद्धवेन च । पूजितः परया भत्त्या प्रत्युत्थानासनादिभिः ॥" इति तत्रान्यत्र च-'मन्त्रयन्तं च कस्मश्चिन्मन्निरिभिश्चोद्धवादिभिः' इति। अत्र भावमेदादभि- मानभेदोऽवगम्यते अयमेतदवस्थोऽह्मत्रास्मि इति। एवं बोडशसहस्रकन्याविवाहे कुत्रचित् श्रीकृष्णसमक्षं माङ्गल्यं कर्भ कुर्वत्या देवक्यास्तद्दर्शनसुखम्। क्वचित्त- त्परोक्षमुत्कण्ठा चेति, योगमायावैभवे च क्वचिदुद्धवादीनां तत्संयोगसुखं क्वचित् विरहदुःखं च। तदेवं व्रजदेवीनां माथुरविरहकाल एव प्रकटप्रकाशेषु क्वचित् प्रक- टप्रकाशे च श्रीकृष्णसंयोगसुखेनेवाज्ञातेनापि तादृशमहासंतापेऽपि जीवनस्थिति- जैया।। तथा श्रीकृष्णेन सह संयोगकाल एवाप्रकटप्रकाशेषु क्वचित् प्रकाशगत- माथुरविरहतापेनैवाज्ञातेनापि महौत्कण्ठ्यमत एव महाभावमेदो मादनोऽवगम्यते

इति वियोगसंयोगस्थितिविवृतिः ।।

नित्यलीलायां जन्मादिलीलैव प्रपन्नजनवृन्दानामानन्दसंदोहहेतुरिति। यदि च ग्रन्थकृतामत्राग्रहो न स्यात् किंतु प्रकटलीलायामेव तर्हिं प्रकटलीलाया विप्रलम्भ- दुःखविशेषमय्या वर्णनायां को लाभः स्यात्। तदेतदाशङ् प्रकटलीलायाः परिणामतः क्लेशमयतं प्राप्तमिति खयमपि परितप्य तत्तन्नित्यलीलासुखनिरूपित- लीलाक्रमरसपरिपाटीमदृष्ट्वा सयं सर्वरसपरिपाटीपूरकान् फलरूपान् समृद्धि- मत्पर्यन्तान् संभोगानू वक्तुमाह-अथ संभोग इति ॥२॥

इति वियोगसंभोगस्थितिविव्ृतिः ।।

Page 594

उज्ज्वलनीलमणिः । ५७१

अथ संभोग: । दर्शनालिङ्गनादीनामानुकूल्यान्निषेवया। यूनोरुल्लासमारोहन् भाव: संभोग ईर्यते ॥ १ ॥ मनीषिभिरयं मुख्यो गौणश्रेति द्विधोदितः । तत्र मुख्य :- मुख्यो जाग्रदवस्थायां संभोग: स चतुर्विधः ॥ २।। तान् पूर्वरागतो मानात्प्रवासद्वयतः क्रमात्। जातान् संक्षिपसंकीर्णसंयन्नर्द्धिंमतो विद्ुः ॥। ३।। तत्र संक्षिप्त :- युवानौ यत्र संक्षिप्तान्साध्वसव्रीडितादिभिः। उपचारान्निषेवेते स संक्षेप इतीरितः ॥।४ ।।

यूनोर्नायिकानायकयोः परस्परविषयाश्रययोर्दर्शनालिङ्गनचुम्बनादीनां नितरां या सेवा वात्स्यायनभरतकलाशास्त्रोक्तरीत्या आचरणं तयेति पशुवच्छद्गारो व्यावृत्तः। आनुकूल्यात् परस्परसुखतात्पर्यकलेन पारस्परिकादित्यर्थः । खानुकूल्ये व्याख्येये व्यावृत्त्यभावात्। तेन च काव्यप्रकाशादिधृते निःशेषच्युतचन्दनेत्यादौ प्राकृतः काममयोऽपि संभोगो व्यावृत्तः ॥ तान् चतुरःसमे भागान् क्रमादिति पूर्वरागानन्तरं संक्षिप्तं मानानन्तरं संकीर्ण किंचिहूरप्रवासानन्तरं संपन्नं सदूरत्र- वासानन्तरं समृद्धिमन्तं विदुः। प्रेमवैचित्त्यानन्तरस्य संभोगस्य नाभानुक्तेस्तमपि अनुरागमाहात्म्यादेव सुदूरप्रवासान्तिमलमननात् तस्मादेव द्वयोः पारतन्रयारो- पाच्च समृद्धिमन्तं केचिदाहुः। अपरे तु संपन्नमेव । उपचारान् संभोगाङ्गानि वस्तूनि। आदिशब्दादसहिष्णुत्ं च एतैरेव पूर्वरागानन्तर्यमस्य द्योत्यते ॥ १॥

अथ संभोगः ॥ सा आनुकूल्यादिति काममयः संभोगो व्यावृत्तः ॥ चतु- र्विध इति। एतदुपलक्षणलात् प्रेमवैचित्यानन्तरः पञ्चमोऽपि ज्ञेयः॥ साध्वसन्रीडितादिभिरिति पूर्वरागानन्तर्यमस्य द्योतयति। उपचारान

Page 595

५७२ काव्यमाला।

तन्न नायकेन कृतो यथा सप्तशत्याम्- लीलाहितुलिअसेलो रक्खउ वो राहिआत्थणप्फंसे। हरिणो पढमसमागमसज्झसवेवल्लिओ हत्थो।। ५॥ [लीलाभितुलितशैलो रक्षतु वो राधिकास्तनस्पर्शे। हरे: प्रथमसमागमसाध्वसवेवेलितो हस्तः ॥] नायिकाया यथा- चुम्बे पटावृतमुखी नवसंगमेडभू- दालिङ्गने कुटिलताङ्गलता तदासीत्। अव्यक्तरागजनिकेलिकथासु राधा मोदं तथापि विदधे मधुसूदनस्य ॥ ६ ।। अथ संकीर्ण :- - यत्र संकीर्यमाणाः स्युर्व्यलीकस्मरणादिभिः । उपचाराः स संकीर्णः किंचित्तसेक्षुपेशलः।।७॥

। २ ॥ ३ ।। ४ ।। नान्दीमुखी श्रीराधासखीराह-'लीलाभितुलितशैलो रक्षतु वो राधिकास्तनस्पर्शे। हरे: प्रथमसमागमसाध्वसवेवेल्लितो हस्तः ॥' लीलाया अभि निर्भरं यथा स्यात्तथा तुलितः उद्धतः शैलो गोवर्धनो येन सः। वेवेल्लितः कम्पितः । साध्वसमत्र जन्मारभ्य कदाप्यकृततात् स्त्रीसंभोगोऽयं किमाकारो निर्वहेदिति वा भावनया ॥५॥ नवसंगमे यश्षुम्बश्चुम्बनं तन्र ॥ ६ ॥ व्यलीकं नायककृतविपक्षवैशिष्यसवश्चनादि तस्य स्मरणकीर्तनादिभि: संकीर्णा मिश्रिता तत्तत्परिपाटीः ॥ १॥२॥३॥४ ॥ अत्र नायकेन कृतो यथेत्यत्र संक्षिप्त एव पूर्वतो योज्यः ॥ लीलेति। "लीलाभितुलितशैलो रक्षतु वो राधिकास्तन- स्पर्शे। हरे: अ्रथमसभागमसाध्वसवेवेल्लितो हस्तः ।" इत्यर्थः । अभितुलितत- मुत्थापितत्वं श्रीकृष्णस्य साध्वसमत्र परकीयातप्रत्ययात् ॥।५॥ तदेवं साध्वस- मुदाहृत्य त्रीडामुदाहरति-चुम्व इति। तत्र च तदेति यद्यपि सर्वत्र तादृशलं वर्तत एव तथापि नवसंगमेSत्राधिक्यमिति ज्ञापनाय ॥ ६॥ व्यलीकमप्रियम्

Page 596

उज्ज्वलनीलमणिः । ५७३

यथा- सासूयजल्पितसुधानि समत्सराणि मानोपरामरमणीयदगिङ्गितानि। कंसद्विष: स्फुरदमन्दमुखान्यनङ्ग- विक्ीडितानि सह राधिकया जयन्ति ॥ ८॥। यथा वा- वक्रं किंचिदवाश्चितं विवृणुते नातिप्रसादोदयं दृष्टिर्भुम्तटा व्यनक्ति शनकैरीर्ष्यावशेषच्छटाम्। राधायाः सखि सूचयत्यविशदा वागप्यसूयाकलां मानान्तं ब्रुवती तथापि मधुरा कृष्णं विनोत्याकृति:।९॥ अथ संपन्न :- प्रवासात्संगते कान्ते भोग: संपन्न ईरितः । द्विधा स्यादागतिः प्रादुर्भावश्चेति स संगमः॥ १० ॥

उपचाराश्चुम्बनालिङ्गनादयः, तप्तेक्षुरिव पेशलः खवादुः औष्ण्यमाधुर्ययोरेकदैवानु- भवात् ॥ ७॥ कदाचित्पौर्णमासी खवयमेव श्रीराधां प्रसाद्याभिसार्य श्रीकृष्णेन सह संगमय्य दूरालतारन्ध्रेण केलिं पश्यन्ती तस्या नित्यस्थितिमाशास्ते-सासू- येति। असूया श्रीकृष्णस्य गुणे दोषारोपः । समत्सराणीति मत्सरः प्रतिनायि- काया गुणे द्वेषः ॥l ८ ।। अत्र संभोगस्यादिमध्यभागयोरेव संकीर्णतं संभवेत् नव्न्तिमे भागे, तत्र मध्यमं भागमुदाहृत्यादिमध्यममप्युदाहर्तुमाह-यथा वेति। गार्गी नान्दीमुखीं रसमास्वादयन्त्याह। वक्त्रं कर्तृ। एवं च मानान्तं ब्रुवती तस्या आकृतिस्तथापि श्रीकृष्णं धिनोति ॥ ९ ॥ प्रवासात् किंचिददूरविष- I ७ ॥ कंसद्विषा सममिति वृषभानुजया जयन्तीति च वा पाठः ॥८ ॥ वक्रं कर्तृ ।। ९ । अथ संपन्न इति संपन्नपदबलेनैव संक्षिप्तसंकीणावतिकाम्यति,

Page 597

५७४ काव्यमाला।

तत्रागति :- लौकिकव्यवहारेण स्यादागमनमागतिः। यथोद्धवसंदेशे- मा मन्दाक्षं कुरु गुरुजनाद्देहलीं गेहमध्या- देहि कान्ता दिवसमखिलं हन्त विश्लेषितोऽसि। एष स्मेरो मिलति मृदुले बल्लवीचित्तहारी हारी गुञ्जावलिभिरलिभिलींढगन्धो मुकुन्दः ॥ ११ ॥ अथ प्रादुर्भाव :- प्रेष्ठानां प्रेमसंरम्भविह्वलानां पुरो हरिः। आविर्भवत्यकस्माद्यत्प्रादुर्भावः स उच्यते ॥१२ ॥ यथा श्रीदशमे- तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्ग्वी साक्षान्मन्मथमन्मथः ॥१३॥

यात् संगते कान्ते इति कान्तस्य संगमः स च द्विविधः ॥। १० ॥ प्रातःप्रातर्न- जाद्वनगमनं प्रतिसायं वनाद्वजागमनमिति लौकिकव्यवहारः। वनात् गोष्टमायान्तं श्रीकृष्णं ज्ञापयन्ती विशाखा श्रीराधामाह-मन्दाक्षं लजाम्। देहलीं निजालयद्वारपीठिकाम् ॥ ११ ॥ प्रेम संरम्भे रूढभावविक्रमेणाकस्माव स्थानान्त- रवत् आगमनं विनैवेत्यर्थः ॥। १२ ॥ रासविप्रलम्भानन्तरं श्रीकृष्णप्रादुर्भावं शुक आह-तासामिति। तासामाविः प्रत्यक्षोऽभूत्। देशान्तरादागत्य तासामग्रे तस्थाविति केचिद् व्याचक्षते चेदत आह-यथा वेति ॥१३॥ प्रोषितभर्तृका श्रीराधा ललितां प्रति साप्ं संभोगवृत्तान्तमुक्ता प्रादुर्भावोत्थं तत्राह-

Page 598

उज्ज्वलनीलमणिः ।

यथा वा हंसदूते- अथि खमो दूरे विरमतु समक्षं श्रृणु हठा- दविस्रब्धा मा भूरिह सखि मनोविभ्रमधिया। वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुका- दकाण्डे यद्दूयः स्मरकलहपाण्डित्यमतनोत् ॥ १४ ॥ रूढाख्यभावजातोऽयं संभोगो वैप्रलम्भिकः । निर्भरानन्दपूराणां परमावधिरिष्यते ॥१५॥

अयीति। समक्षं जागरणदशायामेवेत्यर्थः । ननु लमत्र वृन्दावने श्रीकृष्णो मथुरायामतः कथं युवयोरद्यतनः सङ्गो मनोविभ्रमं विना संभवेदिति वदिष्यन्ती तां विश्वासयन्त्याह-हठादित्यादि। यद्यप्ययं सुदूरप्रवासान्तभवतात् समृ- द्विमानेव भवितुमहति तदपि द्वयोः पारतक्याभावात्तल्लक्षणासिद्या पारिशेष्यात् संपन्न एवायमिति दर्शितम्। हठादित्यादीत्यन्तं व्याख्यान्तरं क्वचित्। संभोग- स्यास्य सुदूरप्रवासानुभवलेऽपि कृष्णपारतन्रयादर्शनान्नायं समृद्धिमान् किंतु संपन्न एव ग्रन्थकृतामाशयः । अत एव दन्तवकवधानन्तरं व्रजमागतस्य श्रीकृ- ष्णस्य श्रीराधादिभि: सह सङ्गोऽपि संपन्न एव न तु समृद्धिमान्। केचित्पुनरेवं व्याचक्षते। अन्र प्रकरणदृध्या संभोगस्यास्य सुदूरप्रवासान्तभवत्वं नाशङ्कनीयम्। लोकानां हि स्प्नमूच्छावैवश्यादावतीतावस्था वर्तमानावस्था च भाति। तत्रापि पूर्वा प्रायः सार्वदिकी उत्तरा तु कादाचित्कीत्यतो मोहाद्यभावेऽपि आत्मादिसर्व- विस्मरणं सदेति रूढानुभावश्रवणात् श्रीवृन्दावनेश्वर्यो माथुरविरहविप्रलम्भजनित- महावैवश्यवशादकस्मात् सर्वविस्मरणक्षण एव प्रादुर्भूते श्रीकृष्णे मत्कान्तोऽयं स्ववयस्येषु गाः समर्प्य केनचिन्मिषेणैवैकाकी मत्प्रेमभराक्रान्तो मां रभयितुमत्र गोवर्धनविपिन एवागत इत्यक्रूरागमनात् प्राक्तन्या एव लीलायास्तादात्मिकत्व- भानात् संभोगस्यास्य किंचिदूरप्रवासान्तभवलमेव ज्ञेयम्। एवमेवोपरिष्टात् खाप्न- संपन्नेऽपि व्याख्येयम् ।। १४ ॥। विप्रलम्भे भवो वैप्रलम्भिकः । अध्यात्मादि- लात् ठक्। निर्भरेति परमेत्यवधीति शब्दैः समृद्धिमतोऽस्य संपन्नसंभोगस्य अयं हंसदूतोक्तप्रादुर्भावो रूढाख्यभावाज्जातो विप्रलम्भेन चरति वैप्रलम्भिकः स चायं संभोगो निर्भरेत्यादिलक्षणः ॥। १४ ॥। अथ चतुर्णा विप्रलम्भानां यथाकमं तापशमकेषु चतुर्षु संभोगेषु पूर्वरागतापनिर्वापकः संक्षिप्तः मान- तापशमनः संकीर्णः । स्वव्रजान्निर्गतप्रवासनिर्वाप्रकः संपन्न इति क्रम उक्तः ।

Page 599

५७६ काव्यमाला।

द्विगुणा विरहार्ति: स्यात्स्फुरणे वेणुरागजे। प्रादुर्भावे भवत्यत्र सर्वाभीष्टसुखोत्सवः ॥। १६ ।। अथ समृद्धिमान्- दुर्लभालोकयोर्यूनो: पारतत्र्याद्वियुक्तयोः । उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥१७॥

न्यूनत्वं नाशङ्कनीयं प्रत्युताधिक्यमिति ज्ञापितम्। ननु वैप्रलम्भिकस्फूर्तिप्राप्तेन श्रीकृष्णेन सह संभोगस्यास्य कथमेतावानुत्कर्षः तत्र नेयं स्फूर्तिः किं तु स्फूर्ति- तोऽस्य वैलक्षण्यं महदेवेत्याह-द्विगुणेति । अनुरागजे स्फुरणे अनुरागो- त्थायां स्फूर्तो कान्तसङ्गसुखानन्तरमित्यर्थः । अन्र रूढभावोत्थमित्यर्थः । तेनानु- रागपर्यन्ते स्फकूर्तिर्महाभावे प्रादुर्भाव इति भेदो ज्ञापितः ॥१५॥१६॥ वियुक्तयोस्तान् पूर्वरागत इति उक्तकमेण सुदूरप्रवासवशात् विरहिणोर्यू नोर्नायि- कानायकयोरद्वयोरेव पारतक्याद्धतोरेव दुर्लभालोकयोर्य उपभोगस्यातिरेक आधिक्यं तथा मुहुर्वर्णितस्य दुःसहचिरविप्रलम्भस्य ध्वंसकः समृद्धिमान् वक्तुम- पेक्षते। स च साध्वसव्रीडायुक्तात संक्षिप्ताद् व्यलीकस्मरणयुक्तात् संकी्णो- त्तत्तक्यवधानहीनात् संपन्नादप्यधिकः । तथा हि संक्षिप्तस्य प्रत्यासत्त्यङ्कर- मात्रमयलाद्वाढप्रत्यासत्तिमयः संकीर्णस्तावद्विशेष्यत एव संपन्नस्तु ततोऽपि विशेष्यते। तप्तेक्षुदृष्टान्तगम्यात्तस्याखादविशेषादत्र सवादाधिक्यं हि गम्यते। आख्वाद्यगुणमतिक्म्य क्षुदतिशयस्थानीयो विप्रलम्भः खल्वास्वादहेतुर्भवति। क्षुदभावे तप्तेक्ष्वादीनामरोचकलात्। पूर्वरागमानावपि विप्रलम्भरूपाविति क्षुत्स्थानीयत्वादेव तद्धेतुर्भवति चेत् किमुत क्रमादवृद्धिं प्राप्तेन रागेण समवेतः प्रवासः । तथा च वर्णितः-'गोपीनां परमानन्द आसी द्रोविन्ददर्शने। क्षणं युग- शतमिव यासां येन विनाभवत् II' इति। तदेवं संपन्नस्य तद्रयादुत्तमले सिद्धे ततोऽपि दूरगचिरप्रवासरूपविप्रलम्भस्य क्षुत्स्थानीयताधिक्यात् समृद्धिमत्या खादविशेषः स्पष्ट एवेति पूर्वरागादितापोपशमकसंक्षिप्तादिमत्तया तदधिकतया चावश्यं वर्णनीय इति च समृद्धिभन्नामानं संभोगमाह। ऋद्विशब्दस्तावत् संप- स्रतावाचकः । तत्र समित्युपसर्गे आधिक्यम्। मतुप्प्रत्ययस्य प्रशंसातिशयनित्य योगप्रत्यायनं तु ततोऽप्यधिकं दर्शयति ॥ १५॥१६ ॥ तदेवं योगमायाबलेन तस्य सर्वाधिक्ये लब्धे लक्षणेन तदेवं दर्शयति-दुर्लभः कृच्छ्रसाध्यः आलोकः

Page 600

उज्ज्वलनीलमणिः । ५७७

स समृद्धिमान् संभोग: कीर्ययते। संपन्नादिसंभोगे दुर्लभालोकलस्य द्वयोः पार- तच्यं न कारणं किं लेकस्या नायिकाया एव तस्या हि श्वश्रुपतिमन्यपित्रादीनाम- धीनतं तैर्वार्यमाणलं च न तु नायकस्य श्रीकृष्णस्य तस्य हि खपित्रादीनामधीन- लेऽपि न तैः स्त्रीसङ्गप्रसङ्ने वार्यमाणत्वं नायिकायाः श्वश्रुपतिमन्यादिभिर्वार्यमाण- त्वेऽपि न तेषामधीनलम्। अन्न तु दग्धं हन्तेति तवात्र परिमृग्यतेत्युदाहरण- द्वये द्वयोरेव श्रीराधाकृष्णयोर्ललितमाधवोक्तकथानुसारेण रुक्मिण्या अधीनतं वार्यमाणतं च। एवं च वार्यमाणताधीनत हेतुके दौर्लभ्ये सत्युपभोगातिरेके बहु वार्यते यतः खल्विति यत्र निषेधविशेषः सुदुर्लभलं च यन्भृगाक्षीणां इत्यादीन्येव प्रमाणानि प्रागेवोक्तानि । वार्यमाणलदौर्लभ्याधिक्ये उपभोगाधिक्यं युक्तिसिद्धमेव तदाधिक्यं तत्र ललितमाधवकथायामेव द्रष्टव्यम्। पारतन्नयादित्यनेन द्वयोर्मान- हेतुकं दुर्लभालोकलं व्यावृत्तम् । पारतन्र्यादपादानाद्वियुक्तयोः पारतञ्यरहित- योरित्यर्थः इति व्याख्या तु न संगच्छते दग्वं हन्त दधानयेति तवात्र परिमृग्य- तेत्युदाहरणद्वये तयोः पारतक्रयराहित्यादर्शनात् प्रत्युत पारतक्यपरभावधित्वमेव तत्कथायां दृष्टं यत्र दत्तशपथा नववृन्दापि रहस्यं च वक्तुं न प्रभवतीति। पार- तन््याद्वेतोः वियुक्तयोरित्यर्थोऽपि नात्र घटते। वियुक्तयोरिति वियोगोडयं सुदूर- प्रवासभवोऽवश्यं व्याख्येय एव। स च सुदूरप्रवासो मथुरागमनरूप एक एव तत्र पारतक्यादिति कारणोपादानमव्यावृत्तिकमकिंचित्करमेवेति। किंचायं सभृ- द्विमान् संभोगो लक्षणोदाहरणद्ृध्या ललितमाधवोक्तकथाक्रमेण प्रकटलीलाया- मेव तत्रापि सकृदेव संभवति। नित्यतं लस्य प्राक् प्रदर्शितमेव। एवं च सुदूर- प्रवासान्ते दाम्पले सत्यपारतक्रये एव समृद्धिमान् संक्षिप्तसंकीर्णसंपन्ना एवाप- पत्ये इति व्याख्याप्रसिद्धिनैव ग्रन्थकृदाशयस्पर्शिनीति बुध्यते। पारतक््याभाव एव दाम्पत्य एव समृद्धिमानिति यदि तेषामाशयस्तर्हि "सख्यस्ता मिलिता निस- र्गमधुरप्रेमाभिरामीकृता यामीयं समगंस्त संस्तववती श्वश्रूश्च गोष्ठेश्वरी। वृन्दा- रण्यनिकुञ्जधाम्ि भवता संगोऽप्ययं रङ्गवान् संवृत्तः किमतःपरं प्रियतरं कर्तव्य- मत्रास्ति मे ॥" इति स्पष्टमेव पारतक्न्याभावदाम्पत्यनिरूपकं पद्यमुदाहृत्य दग्धं

परस्परदर्शनमपि ययोस्तयोर्दुर्लभत्वालोकतस्य हेतुरूपात् पारतक्रयात् परस्परद- र्शनादिविरोधिवशीभावादपादानाद्वियुक्तयो: सतोः य उपभोगातिरेकः परस्परद- र्शनादिरूप: संक्षिप्तसंकीर्णसंपन्नानतिकरम्य संभोगातिशयः श्ुदतिशयस्थानीयदूर- गतिमयचिरविप्रलम्भलम्भिताख्ादविशेषतया सोडयं समृद्धिमान् कीर्तयत इत्यर्थः। ३७ उज्व०

Page 601

५७८ काव्यमाला।

हन्तेति तवात्र परिमृग्यतेति औपपत्यपारतक्रयमयं पद्मद्वयं कथमुदाहरणलेनोप- न्यस्तम्। तदाहि विवाहप्रसङ्ग एव नास्ति सूर्यदत्ता सत्राजितकन्येवाहमित्यभि- मानवत्या अपि श्रीराधायाः श्रीकृष्णे पूर्ववदौपपत्यभाव एवं। पारतञ््यस्य तु तदानीं परमावधिः स्पष्ट एवेति कियानपह्नवो विधेयः । ननु "सख्यस्ता मिलिता" इत्यादौ किमतःपरं कर्तव्यमत्रास्ति मे इति वृन्दावनेश्वर्या वाक्येन पार- तन्नयाभावमये दाम्पत्य एवानन्दाधिक्यमवसीयते। मैवम्। तत्रैव तदनन्तर- मपि त्या पुनश्वोक्तम्। "याते लीलापदपरिमलोद्गारिवन्यापरीता धन्या क्षौणी विलसति वृता माधुरी माधुरीभिः । तत्रास्माभिश्चट्लपशुपीभावमुग्धान्तराभिः संवीततं कलय वदनोल्लासिवेणुर्विहारम् ।।" इति। अस्यार्थः । लीलापदानि रासादिलीलाचिह्वान्येव परिमलास्तदुद्ारिणी या वन्या वनसमूहस्तया परीता व्याप्ता माधुरी मथुरा चेति द्विरूपकोशात् 'अदूरभवश्र' इत्यणा मधुराया अदूर- भवा या क्षोणी मथुरातः सार्थगव्यूत्युत्तरा श्रीवृन्दावननाम्नीति द्वारकास्थनवतृ- न्दावनं व्यावृत्तम्। कीदशी माधुरीभिस्तत्रत्यगिरिनदीवृक्षपश्चुपक्ष्यादिमाधुयैव्ृता। तन्नैवास्माभिरपि कीदृशीभिः । चटुलाश्चपला याः पशुप्यो गोप्यस्तद्भावेन मुग्धा- न्यन्तराणि अन्तःकरणानि यासां ताभिः । अत्र चटुलेति स्रीणां चाश्चल्यमुपपति- रतत्मेव व्यनक्ति। चश्चलेयं स्त्रीत्युक्त तथैव लोकप्रसिद्धेः । तथा पशून् पान्तीति पश्चुपा गोपास्तेषां स्त्रिय इति पुंयोग एव डीप् न तु जातौ हि गोपादिशब्द एव रूढो न तु पशुपपशुचारकादिशब्दो लोकेष्वप्रसिद्धेरेव प्रसिद्धो वा चटुलपदमे- वात्र तासां परकीयातं व्यनक्ति। कन्यानां वा व्यूढानां वा चाश्चल्यं हि परपुरु- षासक्िमेव व्यनक्ति। मुग्धेति मौगध्यमत्र विवेकशून्यतं तच्चैहिकपारत्रिकधर्मो- लद्दनरूपमेव । वं च कीदृशः । वदनोल्लासिवेणुर्नारीजनानुकर्षकवेणुः। विहारं रासवनविहारनौखेलादानलीलादिकम्। तेन संप्रति वं राजेन्द्रस्तवाहं पत्नी पट्टम- हिषी पतिव्रतैवेति दाम्पत्यमिदमभिलषणीयवस्तुनः प्रतिकूलमेवेति भावः । ततः परं तु प्रिये तथास्तिति श्रीकृष्णस्योत्तया व्रजभूमावौपपत्यमेव न दाम्पत्यमिति ग्रन्थकदाशयोऽवगम्यते। ननु क्थं ग्रन्थकृद्धिरेव व्रजसुन्दरीणां द्वारकास्थनव- वृन्दावने ललितमाधवे श्रीकृष्णेन विवाहो वर्णितः। यदि च तत्र वर्णितस्तदा काचित्के कल्पे दन्तवक्रवधानन्तरं व्रजभूमावागतेन श्रीकृष्णेन भागवतामृतधृत-

पारतक्र्याद्वेतोर्वियोगं प्राप्तयोरित्यर्थः । तत्र न घटते संक्षिप्तादिभ्यो वैशिष्ट्यानु- पपत्ते:। दुर्लभालोकयोरित्यनेनैव तदाप्तेश्च पारतक्रयाद्वियुक्तमिदमपारतक्यं

Page 602

उज्ज्वलनीलमणिः । ५७९

यथा ललितमांधवे- दग्घं हन्त दधानया वपुरिदं यस्यावलोकाशया सोढा मर्मविपाटने पटुरियं पीडातिवृष्टिर्मया।

पाद्मोत्तरखण्डीयगद्यपद्यकथायामनुक्तोऽपि तासां विवाहो युत्त्या अभ्युपगन्तव्य एव स्यात्। सत्यम्। तासां द्वारकायां विवाहो हि न केवलं निष्प्रमाणक एव। यदुक्तं पाझद्वान्रिशदध्याये कार्तिकमाहात्म्ये "कैशोरे गोपकन्यास्ता यौवने राज- कन्यकाः ॥।" इति। स्कान्दे प्रभासखण्डे च गोप्यादित्यमाहात्म्ये पट्टमहिषीरु- ददिश्य "षोडशैव सहस्राणि गोप्यस्तत्र समागताः" इति। अतः पूर्णतमस्य श्रीवृ- न्दावनेन्द्रस्यैव द्वारकानाथो यथा पूर्णप्रकाशस्तथैव पूर्णतमानां तदीय ह्रादिनीश- कीनां व्रजसुन्दरीणां पूर्णरूपा रुक्मिणीसत्यभामाद्याः भीष्मकसन्राजिदादीनां सुतास्तासां विवाहो द्वारकायां समुचित एव न तु पूर्णतमधाम्नि व्रजभूमौ वर्ण- यितुं शक्यः । समर्थाया रतेः समज्जसतापत्तेः । चटुलपशुपीभावमुग्धेत्यादि आर्थनाप्रातिकूल्याच्च। यथा द्वारकानाथो हि व्रजराजनन्दन एवाहं संप्रति वसुदे- वसूनुर्द्वारकायामस्मीत्यभिमन्यते तत्रैव पटमहिष्योऽपि चन्द्रभान्वादिसुताश्चन्द्राव- ल्याद्या एव वयं संप्रति भीष्मकादिसुताः श्रीकृष्णेन व्यूढा एवाभूमेत्यभिमन्यते। श्रीकृष्णस्य यथा वृन्दावनीयलीलायामुत्कर्षवुद्धिस्तथवासामपि चटुलपशुपीमावे रसाधिक्यादिति दिक्॥ १७ ॥ द्वारकास्थनववृन्दावने विश्वकर्मनिर्मितामिन्द्रनील- भणिमयीं श्रीकृष्णमूर्तिमेव साक्षात्प्रामुं श्रीकृष्णं मन्यमाना श्रीराधा सानन्दचम- त्कारं नववृन्दामाह-द्ग्धसिति। दग्धं विरहानिना ज्वलितमपि। पीडा दर्शयता दर्शितम् । "गृहे याः सेवन्ते प्रियमपरतन्न्राः प्रतिदिनम्" इत्यनेन स्वीयोदाहरणेन। किंत्ादित एवापरतन्त्राभ्यसताभ्यः पारतक्यात् वियुक्ानां विशेषो 'न विना विप्रलम्भेन संभोग: पुष्टिमश्रुते' इति न्यायेन उदाहरिष्यते च तदित्थमेवेति ॥ १७ ॥ ननु सोऽयं समृद्धिमान् सर्वेषां विप्रलम्भगतानां संभोग- गतानां ज भावानां फलरूप उक्तः । इति समधिकं नास्ति सुखमिति। स एव तु सर्वोत्तमलेन दर्शितानां व्रजदेवीनां न संभवति परकीयालेन परतन्न्राणां परि- त्यज्य यदुपुरं गतेन कथंचिच्चिरात् कुरुक्षेत्रे प्राप्तेनापि झटिति वियुक्तेन पुनर- प्राप्तलेन श्रीकृष्णेन सदा विरहिणीनां तन्रायोग्यलात् ततः कथं तासां सर्वोत्तमलं तदेतदाशक्क तासां समृद्धिमन्तं गमयति-यथा ललितमाधव इति।

Page 603

५८० काव्यमाला।

कालिन्दीयतटीकुटीरकुहरक्रीडाभिसारव्रती सोऽयं जीवितबन्धुरिन्दुवदने भूयः समासादितः ॥१८॥ यथा वा- तवात्र परिमृग्यता किमपि लक्ष्म साक्षादियं मया त्वमुपसादिता निखिललोकलक्ष्मीरसि।

अक्रूरागमनाद्या रुक्मिणीपारवश्यान्तास्तासामतिवृष्टिः। इन्दुवदने, हे नववृन्दे, रुक्मिण्यादिनाभभि: स्थापिताः कुमारितयैव ज्ञापिताश्च। तत्र रुक्मिण्यादीना विवाहश्च श्रीकृष्णेन सह वर्णितः । नरकहतानां षोडशसहस्त्रकन्यानां तथा रीतिः' कृता। तत्र सत्राजितापि सत्यभामाख्या श्रीराधा श्रीकृष्णायोपहारीकृतेति। न चेयं कथाकल्पना मय्येव किंत्त्रास्ति चार्ष प्रमाणम्। यथा पादे द्वान्रिंशद- ध्याय्या प्रसिद्धे कार्तिकमाहात्म्ये-"कैशोरे गोपकन्यास्ता यौवने राजकन्यकाः।" इति। स्कान्दप्रभासखण्डे च गोप्यादित्यमाहात्ये पद्टमहिषीरुद्दिश्य "षोडशैव सहस्राणि गोप्यसन्र समागताः" इति। तस्माच्छ्रीभागवते कुरुक्षेत्रयात्रायां व्रज- देव्य: पट्ठमहिष्यो यत् परस्परं भेदेन वर्णितास्तत् खलु कल्पभेदादेव मन्तव्यम्। तदेवं स्थिते समृद्धिमत उदाहरणं श्रीराधामधिकृत्य श्रीललितमाधवपद्येनाह- दग्धं हन्तेत्यनेन। तदिदं पद्यं सत्राजितार्पिताया अपि श्रीराधाया द्वारका- मध्यकल्पितवृन्दावने श्रीकृष्णेन च चन्द्रावलीसंकोचात् किंचित्कालं संगोप्य रक्षिताया द्वारकानाथोऽयमस्माकं व्रजराजनन्दन इत्यजानत्यास्तद्वूनस्थश्रीगोपाल- प्रतिमादर्शनेन स एवायमिति मन्यमानाया वचनम् ॥ १८ ॥ अन्र श्रीकृष्णप्रति- मापि श्रीकृष्ण एवेति दवयोरेव परस्परदुर्लभालोकतवं रुक्मिणीपारवश्यं च न स्पष्टमित्यपरितुष्यन्नाह-यथा वेति। सर्वथैवासंभवदर्शना श्रीराधां चिरप्रवा- तत्र चेयं कथापरिपाटी। श्रीमत्यश्चन्द्रावलिराधादयस्तावद्भीष्म कादिपत्नीनां गर्भजाः । माययैव चन्द्रभान्वादिगोपपत्नीगर्भे संचारिताः। अन्येनान्येन, गोपेन विवाहश्च तासां माययैव प्रत्यायितः । तं च प्रत्याय्य तेन तेन तासां रहःसङ्ग: संकल्पितानां तादृशीनां तच्छय्यादिप्रापणेन विगमितः । श्रीकृष्णेनामू: संगमिताश्च ॥१८॥ यदा च श्रीकृष्ण: कंसवधार्थ यदुषु गतस्तदा केनचित्प्रकारेणामूर्भीष्मकादि- गृहं नीला भीष्मकादिकन्यालेन प्रत्याय्य तत्र चापरितुष्य साक्षाद्वजराजनन्दनलेन

Page 604

उज्ज्वलनीलमणिः । ५८१

यथा जगति चश्चता चणकमुष्टिसंपत्तये जनेन पतिता पुरः कनकवृष्टिरासादयते ॥ १९॥ इति मधुररसपरिपाकविवेकः ॥

सान्ते साक्षादवलोक्य श्रीकृष्णः सानन्दसंमर्द सगद्रदमाह-तवेति। किमपि लक्ष्म चतुर्दशभुवनेषु मध्ये काप्यसि तं लद्दस्त्रालंकारसखीजनादिवार्ता वा परि- मृग्यता देशे देशे लोकप्रस्थापनेन नारदादिसर्वज्ञजनद्वारा च अन्विष्यता भया खमुपसादिता लब्धासि। कीदृशी। निखिला लोका भूर्भुवःसरादयः वैकुण्ठाश्च तेषां लक्ष्मीः शोभारूपासि। एकावयवस्थेन मुख्येनालंकारेण कामिनीव एकदेश- स्थया खया तु वनमण्डलीयं द्योतत इति भावः । चञ्चता भ्रमता ॥१९॥ इति मधुररसपरिपाकविशेषविव्ृति॥

प्रत्यभिज्ञातस्य श्रीद्वारकानाथस्य प्राप्तौ श्रीद्वारकानाथस्य तस्यैव वचनरूपं पद्यमाह- तवात्रेति । तदेतदुपलक्षणं पूर्णमनोररथ सर्वनिर्वाहणाङ्गमपि करोडीकरोति। तथा हि यदा गोष्ठेश्वर्या द्वारकायां गमनं जातम्। चन्द्रावल्याश्च गोकुलसिद्ध- निजभगिनीलं श्रीराधायाः प्रतीतम्। तदा श्रीकृष्णराधयोर्विवाहः संवृत्तस्तदा च श्रीकृष्णराधयोरुक्तिप्रत्युक्त्ती तत्र श्रीकृष्णस्योक्ति :- 'प्राणेश्वरि प्रार्थयस् क्रिमतः- परं ते प्रियं करवाणि' इति। अथ श्रीराधायाः प्रत्युक्ति :- 'सख्यस्ता मिलिता निसर्गभधुरा प्रेमाभिरामीकृता यामीयं समगंस्त संस्तरवती श्वश्रूश् गोष्ठेश्वरी। वृन्दारण्यनिकुञ्जधाम्नि भवता सज्जोऽप्ययं रङ्गवान् संवृत्तः किमतः परं प्रियतमं कर्तव्यमत्रास्ति मे ॥' इति। तदेतदुक्तापि तत्र तस्य श्रीवन्दावनस्य कल्पितत्वं वितर्क्य पुनराह-'या ते लीलारसपरिमलोद्गारिवन्या परीता धन्या क्षैणी विल- सति वृता माथुरीमाधुरीभिः । तत्रास्माभिश्चटलपश्ञुपीभावमुग्धान्तराभि: संवी- तस्तरं कलय वदनोल्लासिवेणुर्विहारम् ।I' इति। अत्र माथुरीबि मधुरापुर्या अदूर- भवा इत्यर्थः । 'अदूरभवश्च' इति चातुरर्थिकतद्धितः। सा क्षौणी वृन्द्रावनविभू- विरिति व्याख्येयम्। अत्र पूर्वपद्ये सर्यस्ता इति सज्वान्तरायगमात यामीयमिति भगिनीलेन प्रसिद्धेन चन्द्रावल्याः सपत्नीयोगेष्योपरित्यागात् श्रश्रूक्रेति प्राचीमश्र- अ्रूंभन्यजटिलायाः श्रीकृष्णानषुगतिविरोधिताभावातू प्रत्युत तदामुकत्याद इन्द्रा-

Page 605

५८२ काव्यमाला।

रण्येति तादृशेऽप्यस्मिन् किमुत साक्षात् तस्मि्निति स्थानसंकोचापगमात् निखि- लपारतन्रयान्मुक्ततं दर्शितम्। भवता सह सङ्गोऽप्ययं रङ्गवान् नानाकौतुकवान् संवृत्त इत्युपभोगातिरेकस्य पराकाष्ठा दर्शिता। ततश्च दुर्लभालोकयोर्यूनोरिति समृद्धिमदाख्यसंभोगस्य लक्षणमत्र पर्यापितं तदेवं सत्युत्तरपद्ये तु कैमुत्यमेव लब्धमिति। अत्र श्रीकृष्णस्याभ्युपगमः प्रिये तथास्तिति सोऽयमभ्युपगमः कायव्यूहेन द्वारकायां श्रीवृन्दावने चाविर्भावात् संगमनीयः । तत्तल्लीलोचितरूप- खप्रियतमसहितेन पट्टमहिषीरूपेण पूर्वत्र त्रजदेवीरूपेण तु परत्रेति। किंतु व्रज- देवीनां श्रीकृष्णेन विवहनं श्रीगोष्टेश्वर्याः साक्षादिति तासामन्येनान्येन विवहनं मायिकमात्रतया जातमिति च लया खपुत्रेण श्रीकृष्णेन स्ुषाभिश्वन्द्रावल्यादि- भिश्चागतया पौर्णमास्यादिद्वारा प्रमापयय व्रजे प्रकाशितमिति ज्ञेयम्। अत एवं श्रीवृन्दावनगतदर्शनाद्युपासनपूजायां रुक्मिण्यादिनामभिरुभयाभेदमानिभिस्ता उ- पास्यमानास्तन्त्रादिषु श्रूयन्ते। तदेवमभेदेन ललितमाधवसिद्धान्तः कादाचित्कक- ल्पगतो ज्ञेयः। अथ भेदेन प्रायिककल्पगतसिद्धान्तश्च श्रीभागवतानुसारेणात्रा- प्यङ्गीकृतोऽस्ति। यथा कुरुक्षेत्रयात्रायां मोदनाख्यभावप्रसङ्गे "हन्त सतम्भकर- म्बिता भुवि कुरोर्भद्रा सरसत्यभूत्" इत्यादिना। यथा च श्रीमदुद्धवसंदेशाख्य काव्ये-विन्दन् वंशीस्फुरितवदनो नेत्रवीथीमकस्मादन्तर्बाधाकवलितधियो धातु- भिर्धूमलाङ्ग: । कीडाकुजे लुठितवपुषः स्वान्तमानन्दधाराकल्ोलैस्ते रहसि सहसोत्फुल्लमुल्लासयिष्ये ।।' इत्यनेन। अन्र च पक्षे पूर्ववन्महाविप्रलम्भसमापनाय दन्तवक्रवधानन्तरं श्रीकृष्णस्य गोकुलागमनं पाझोत्तरखण्डवचनानि संग्रह्य संक्षे- पभागवतामृते खयमेव ग्रन्थकृद्भिर्दर्शितम् । वैष्णवतोषिण्यां तदग्रजचरणैश्च यथा प्रथमं तावत् पादोत्तरखण्डगद्यम् -* श्रीकृष्णोऽपि तं हल्ा यमुनामुत्तीर्य नन्द- व्रजं गला सोत्कण्ठौ पितरावभिवाद्याश्वास्य ताभ्यां साश्रुकण्ठमालिङ्गतः सकल- गोपवृद्धान् प्रणम्याश्वास्य बहुवस्त्राभरणादिभिस्तन्रस्थान् सर्वान् संतर्पयामास' इति। श्रीमद्भागवतं चेदम्। तत्र सत्यसंकल्पतया वेदादिभिगींतस्य तस्य संकल्पः स्पष्टः । "तास्तथा तप्यतीर्वीक्ष्य खप्रस्थाने यदूत्तमः । सान्वयामास सप्रेमैरा- यास्य इति दौत्यकैः ॥" इत्यत्र। "यात यूयं व्रजं तात वयं च स्नेहदुःखितान्। ज्ञातीन् वो द्रष्टमेष्यामो विधाय सुहृदां सुखम् ॥" इत्यत्र च। द्रष्टमिति दर्शन- विषयीभवितुमित्यर्थः । 'तथापि भूमन् महिमागुणस्य ते विबोद्धुमरहति' इति अत्र बोधविषयीभवितुमद्देतीतिवत। य एव तत्संकल्पः स्पष्टः श्रीमदुद्धवेनापि

Page 606

उज्ज्वलनीलमणिः । ५८३

निश्चित :- "आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः । प्रियं विधास्यते पित्रोर्भ- गवान् साततां पतिः ॥" इत्यनेन। तयोः पित्रोः प्रियं हि सदा तल्ालनरूप- मेव। द्वारकावासिप्रजावचने तु तस्यागमनं स्पष्टमेव। "यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्दिदृदक्षया"। इत्यत्रत्य मधूनित्यत्र मथुरामिति स्वामिटीका च। सुहृदश्च तदा तत्र श्रीव्रजस्था एव। "तत्र योगप्रभावेण नीला सर्वजनं हरिः" इति माथुराणां द्वारकायां प्रवेशः सर्वशब्दप्रयोगात् "बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः । सुहृद्दिदृदक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥" इति तत्रैव सुहच्छब्दप्रयोगाच्च। दन्तवक्त्रवध एव चात्रागमनमयोदा। यथाह कुरुक्षे- त्रयात्रायां श्रीव्रजदेवीः प्रति श्रीकृष्णः खयमेव-"अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया। गतश्चिरायितान् शक्रपक्षक्षपणचेतसः" इति। दन्तव- क्त्रवधान्ते शक्रपक्षक्षपणमात्रं निजैर्व्रजागमने मर्यादा कृता। कुरुक्षेत्रयात्रा चेयं दन्तवक्त्रवधात्पूर्वमेव साल्ववधसहितस्य दन्तवक्त्रवधस्य समकालमेव हि पाण्डवानां वनगभनं वनपर्वणि प्रसिद्धम्। तेषामागमनानन्तरमेव भीष्मादिवधमयं भारतयुद्धम्। सा यात्रा च भीष्माद्यागमनमयीति यथा बलदेवतीर्थयात्रा कुरुक्षेत्र- यात्रातः पूर्व पठिता तद्यात्रा दुर्योधनवधदिने पूर्णेति सा च कंसवधान्नातिदूरा। यत एव तस्यामेव यात्रायां श्रीमदानकदुन्दुभिना कुन्तीदेव्या उक्तम्-"कंसप्र- तापिता: सर्वे वयं याता दिशं दिशम्। एतर्ह्येव पुनः स्थानं दैवेनासादिताः खसः ॥" इति। किंतु दन्तवक्त्रवधस्थानं कल्पभेदरीत्या वा वैष्णवतोषणीरीत्या व्याख्या वा श्रीभागवतपाझ्मयोर्विवादमेव परिहृत्य संगमनीयम्। दन्तवक्त्रवधा- नन्तरं श्रीकृष्णस्य व्रजागमनं श्रीभागवतस्यापि संमतम्। यश्च पूर्वपद्यानन्तरं पाद्मोत्तरखण्ड एव पद्यद्वयमस्ति। "कालिन्याः पुलिने रम्ये पुप्यवृक्षसमाचिते। गोपनारीभिरनिशं क्रीडयामास केशवः । रम्यकेलिसुखेनैव गोपवेषधरः प्रभुः। बहुप्रेमरसेनात्र मासद्वयमुवास ह॥।" इति। तत्र गोपनारीभिरित्यत्र गोपजाति- भिर्नारीभिरिति गम्यम् । तृतीयस्कन्धे श्रीशुकवचने देवहूतीं प्रति नृपवधू- भिरितिवत् । अनिशमित्यनेनौपपत्यभ्रमानन्तरं दाम्पत्यमेव प्रकटं बभूवेत्या- गतम्। वनिताशतयूथप इत्यनेन प्रमदाशतकोटिभिरित्यनेन च तावतीभि: सह निरन्तरक्रीडायां सवैज्ञातायामपि संकोचराहित्यव्यञ्ञनात्। तथवाह- रम्येति। रम्यत्वमन्र सर्वेषां मनोरमतं अन्यथा तस्मिन् केल्यंशे विरूपे सर्वस्यापि तदंशस्य विगानविषयत्वं स्यादिति। अत एवात्र व्रजे सर्वेषामेव

Page 607

५८४ काव्यमाला।

प्रेमपोषणमभूदित्याह-बहुप्रेमेति। अथ तदनन्तरं गद्यान्तरम्-'अथ तत्रस्था नन्दादय: पुत्रदारसहिताः पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढा: परमं वैकुण्ठमवापुरिति। कृष्णस्तु नन्दगोपव्रजौकसां सर्वेषां निरामयं खपदं दत्त्वा दिवि देवगणैः संस्तूयमानो द्वारवतीं विवेशेति च। अन्न लयमर्थ :- नन्दादयः पुत्रदारसहिता इति श्रीमन्नन्दराजस्य तद्वर्गमुख्यस्य पुत्रः श्रीकृष्ण एव दाराक्ष श्रीयशोदयैव इति प्रसिद्धापि पुत्रादिशब्दोक्त्या तत्त- द्रूपैरेव तैः सह तत्र प्रवेश इति गम्यते। अतो दिव्यरूपधरा इत्युल्लासेन तेषां सवस्रूपस्य परमविराजमानत्वं विवक्षितम्। विमानेन तेषां परमवैकुण्ठप्रवेशनं च बहिरङ्वजनानां वश्चनार्थमेव प्रत्यायितम्। वस्तुतस्तु तेषामदृश्ये वृन्दावनप्र- काशविशेष एव प्रवेशनमिति। वृन्दावन एव हि तापनीवाराहबृहद्गौतमीयवच- नैखादृशतन्नित्यधामप्रकाशो दर्शितः । वरुणलोकादागत्य श्रीमन्नन्दादिभ्यस्तेषामेव खलोकतया वृन्दावन एव खलोकविशेषरूपस्तत्प्रकाशविशेषः ख्यमेव श्रीकृष्णेन दर्शितो न च विमानसाधनतयान्यत्र ते नीता इति दशमे एव प्रसिद्धम्। तथा हि-"नन्दस्ततीन्द्रियं दृष्ट्रा लोकपालमहोदयम् । कृष्णे च संनति तेषां ज्ञाविभ्यो विस्मितोऽबवीत् ॥ ते चौत्सुक्यधियो राजन् मत्त्वा गोपास्तमीश्वरम्। अपि नः सगति सूक्ष्मामुपाधास्यदघीश्वरः ॥ इति खानां स भगवान् विज्ञाया- खिलटकू स्यम्। संकल्पसिद्धये तेषां कृपयैतदचिन्तयत् । जनो वे लोक एत- स्मिन्नविद्याकाभकर्मभिः। उच्चावचासु गतिषु न वेद खां गति भ्रमन्।। इति संचिन्तय भगवान् महाकारुणिको विभुः। दर्शयामास लोकं सवं गोपानां तमसः परम्।। सत्यं ज्ञानमनन्तं यद् ब्रह्मज्योतिः सनातनम्। यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ ते तु ब्रह्मपदं नीता मग्नाः कृष्णेन चोद्धताः । दद्दशुर्र- ह्मणो लोकं यत्राकूरोऽध्यगात्पुरा।। नन्दादयस्तु तं दृष्टा परमानन्दनिवृत्ताः । कृष्णं च तत्र च्छन्दोभि: स्तूयमानं सुविस्मिताः ॥' इति। तत्र खलु यन्निजपदं तेषां रपदतया दर्शयाभास तदेव तेभ्यः पश्चाद्यतारीदिति गम्यते। ते तु ब्रह्म- हदं नीता इत्यन्न चायमर्थ :- यत्र ब्रह्महदे श्रीकृष्णमक्रूरः सतुतवान् तं ह्रद श्रीक्ष्णेन नीता मन्नाश्च पुनस्तेनैव चोद्ताः सन्तो नवाकृतिब्रह्मणः तस्य लोकं दद्शुरिति। यद्यपि ब्रह्मलोकशब्देन भगवल्लोकमान्रं द्वितीये ब्रह्मलोक: सनातन इल्यनेन लब्घम् 1 सूक्ष्मामिति तमसः परमिति तदेव व्यक्तितं तथापि अपि नः खगतिमिति न वेद सवां गतिमिति गोपामां खवलोकमिति कृष्णं च तत्रेति

Page 608

उज्ज्वलनीलमणिः । ५८५

श्रीगोपालरूपमेव तदिति लभ्यते। अत एवान्ये परिकरास्तन्र तैर्न दृष्ः किं लात्मन एव। छन्दोभि: स्तूयभानं च गोपालतापन्यादिरूपैस्तैः श्रीकृष्णलानुरूप- मेवेति कृष्णं च तत्रेत्यनेन लभ्यते। तदेवमेव तदेकरुचीनां तेषां विस्मितः परमा- नन्दनिर्वृतिश्व घटते। तेषां खलोकस्यापि तस्याज्ञानकारणं तु जनो वा इति। सालो- क्यसाष्टिसारूप्येत्यादिपद्ये जना इति वदत्रापि तदीयः खजन एवोच्यते। अत्र तु विशेषतः। "तस्मान्मच्छरणं गोष्ठं मन्नारथं मत्परिग्रहम्। गोपाये स्ात्मयोगेन सोडयं मे व्रत आहितः ॥I" इति सयमेव श्रीकृष्णेनान्तर्भावितमिति जनशब्दस्य लोकमात्रवाचिले सर्वत्रैव करुणा जातेति सर्वेभ्य एतेभ्यो दर्शना प्रसज्येत सा च न जातेति तथा न व्याख्येयम् । ततश्र परमखजनोऽयं मम व्रजवासिलक्षणः आपच्विकेऽस्मिन् लोके या अविद्याकामकर्मभिर्हेतुभिर्देवतिर्यगादिरूपा उच्चावचा गतयस्तासु भ्रमन् निर्विशेषतयात्मानं मन्यमानो दर्शयिष्यमाणां खां गति न जानातीत्यर्थः । मम लोकवल्लीलाया वशादेवेति भावः । 'यद्धामार्थसुहृत्प्रियात्मत- नयप्राणाशयास्तत्कृते' इत्यादेस्तदज्ञानादेव नन्दस्ततीन्द्रियं दृष्ट्ा इत्याद्युकम्। तस्माद्य एव लोकस्तेषां सवीयतया तेभ्यो दर्शितः स एव लोकः प्रापितः तत्प्रापणे च विमानादिसाधनमकिंचित्करमेव किंतु लोकानां चमत्कारार्थ तेभ्यः संगोपना- र्थमेव दर्शितमिति साध्वेव व्याख्यातम्। तदुक्तं श्रीवृन्दावनमुद्दिश्य-"आविर्भा- सि्तरोभावो भवेन्मेऽत्र युगे युगे" इति। "तेजोभयमिदं ब्रह्मनदृश्यं चर्मचक्षुषा" इति च। अतः पुनर्व्रजमागत्य स्थितस्य नित्यस्थित्यपेक्षयैव "गोगोपगोपिकासके यत्र क्रीडति कंसहा" इति पदं विन्यस्तम् कंसहेत्यत्र भूत एव कृद्विधानं वृत्रहे- तिवत्। तदेवं स्थिते तदानीं श्रीव्रजदेवीनां तत्पाप्तिकमस्तेवं विविच्यते । तद्यथा मथुराप्रस्थाने तास्तथा तप्यतीर्वीक्ष्येत्यादावायास्य इति दौत्यकैरिति संदिष्टं तथाभूता- न्तरैरपीति गम्यम्। यथोक्तं "धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथंचन। प्रत्या- गमनसंदेशैर्बह्लव्यो मे मदात्मिकाः ॥" इति। यथा च श्रीमदुद्धचद्वारा पूर्वपूर्वेण "भवतीनां वियोगो मे नहि सर्वात्मना" इत्यादिना संदिश्यापरितुष्योत्तरतोऽस्म- च्छब्दस्य त्रिरावृत्या तन्नापि कृष्ण इति विशिष्य संदिष्टं "मय्यावेश्य मनः कृष्णे निवृत्ताशेषव्ृत्ति यत् । अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ।।" इति खयमेव कुरुक्षेत्रयात्रायामुपदिष्टम् । "मयि भक्तिर्हि भूतानाममृतलाय कल्पते । दिष्ट्या यदासीन्मत्सीहो भवतीनां भदापने ॥" इति। तत्र च यत्किंचिदुपदिष्टं तन्नापरि- सुषटानां तासां विज्ञप्तिमाह-"आहुश्च ते नलिननाभ पदारविन्दं योगेश्वरैर्हदि

Page 609

५८६ काव्यमाला।

विचिन्त्यमगाधबोघैः । संसारकूपपतितोत्तरणावलम्बं गेहंजुषाभपि मनस्युदियात् सदा नः ॥" इति। अयमर्थ :- हे नलिननाभ, तव पदारविन्दं नोऽस्माकं मन- स्युदियाद। ननु परमानुरागवतीनां भवतीनां किमत्राश्चर्य तत्राहु :- योगेश्वरैरेव हृदि विच्िन्त्यं नास्माभि: । कथमगाधबोधैः । अदर्शनेऽप्यक्षुभितवुद्धिभिर्न लस्माभिरिव तद्विचिन्तनारम्भ एव मू्च्छागामिभिः । ननु तद्विचिन्तनमेव तेषां संसारदुःखमिव युष्माकं विरहदुःखं शमयेत् तत्राहुः। संसारकूपपतितानामेवोद्ध- रणावलम्बम्। न लस्माकं विरहसिन्धुमन्नानां तद्विचिन्तने विरहवुद्धेरेवानुभवात्। नन्वधुनैवागत्य द्वारकायामपि मत्पदारविन्दं पश्यत यावदहं तत्रागच्छामीत्याश ड़्याहुः गेहंजुषां स्त्रीणां गृहलोकाधीनानामित्यर्थः । तस्मादयदि खयमेव वागत खपदारविन्दं दर्शयन्ति तत्र भवन्तस्तन्नापि नित्यमेव तदैवास्माकं निस्तार इति भावः । अथ ततः किं जातमिति श्रोतृणामुत्कण्ठां वितर्क्य समाप्ततदध्यायेऽपि स्वयमेव श्रीवैयासकिराह-"तथानुग्ृह्य भगवान् गोपीनां स गुरुर्गतिः । युधिष्ठि- रमथापृच्छत्सर्वाश्च सुहृदोऽप्ययम् ॥" इति। यथा ताभिरभिप्रेतं तथानुगृह्य। तथानुग्रहमेव व्यनक्ति-गोपीनां स गुरुरभीष्टसंपादनायोपदेष्ा॥ अभीष्टमे- वाह-गतिर्गम्य इति। परमफलरूप इत्यर्थः । न चैवमन्यभक्तसाधारण्यं मन्तव्यं,चिरं द्वारोपविष्टमपि श्रीयुधिष्ठिरमथ तदनन्तरमेवापृच्छत्। किं वक्तव्य- मेकं तमेवेति सर्वाश्च सर्वानपि सुहृद इति अथ महाविरहमुत्तीर्य यथा तास्तं प्रापुस्तथा स्वयमेव श्रीकृष्ण उद्धवं प्रत्याह एकादशस्कन्धे द्वादशाध्याये-"रामेण सार्ध मथुरां प्रणीते श्वाफल्किना मय्यनुरक्तचित्ताः । विगाढभावेन न मे वियोग- स्तीव्राधयोऽन्यं दद्दशुः सुखाय॥ तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावन- गोचरेण। क्षणार्धवत्ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः ॥" इति। अत्र दद्दशुरिति बभूवुरिति चातीतनिर्देशादधुना तु तास्तथा न पश्यन्ति न तथा भवन्ति इति नास्त्येव वियोग इत्यर्थः । ननु तासां भगवत्प्राप्तिः प्रकटं न दृश्यते कथं सा जाता उच्यते मया सह वृन्दावनगताप्रकटप्रकाशविशेषमेव ताः प्रापुरि- त्याह। 'ता नाविदन् मय्यनुषङ्गवद्धधियः खमात्मानमदस्तथेदम्। यथा समाधौ मुनयोऽब्धितोये नद्यः प्रविष्टा इव नामरूपे ।I' तास्तादृशमहाविरहसंतापाश्च सत्यो मयि योऽसङ्गो दन्तवक्त्रं हल्ा मयि यः पश्चाज्जातः सङ्गस्तेन बद्धा धीर्यासां तथाभूताः सत्यः सं ममतास्पदं तथा आत्मानमहंकारास्पदं च कर्मभूतं अतः अकटलीलागतं तथेदं यथा स्यात्तथा नाविदुः। किंतु द्वयोरैक्येनैव विदुरित्यर्थः ।

Page 610

उज्ज्वलनीलमणिः । ५८७

तत्र लीलाद्वयगतात्मनोरमेदापत्तौ दृष्टान्तः । यथा समाधिगते तुर्यात्मनि मुनयो विश्वतैजसप्राज्ञता आविष्टप्रायास्तदात्मनस्तत्तङ्गेदं न विदन्ति तद्वत्। अथामम- तास्पदानां लीलादीनां मेदावेदने दृष्टान्त :- यथाब्धितोये नद् इति। यथा नद्यः पृथिवीगतामब्धितोयगतां च खस्थिति भेदेन न विदन्ति किं तु उभयस्या- मपि स्थितौ समुद्रतोयानुगतावेव विशन्ति तथा प्रकटामप्रकटामपि लीलास्थितिं ताश्च भेदेन नाविदुः किं तु मय्येवाविविशुरित्यर्थः । दृष्टान्तस्तयं लीलाभेदवेद- नांश एव न तु सर्वावेदनांशे 'लोकवत्तु लीलाकैवल्यम्' इतिवत्। ततश्र नाम च रूपं चेति समाहारद्वन्द्वेन नामकथात्मके तस्मिन्नप्रकटप्रकाशे प्रविष्टा इव न तु प्रविष्टा वस्तमेदादित्यर्थः । षोडशसहस्त्रकन्याविवाहतत्समाह्योस्तेषां यथा तद्वदिति भावः । तदेवमपि ग्रन्थकृत्पक्षः श्रीभागवतसंभत्या साघितः पुनरेवं विचार्यते। सेयं व्रजे तत्प्राप्तिः कीदृशलेन ग्रन्थकृन्मता पतिलेनोपपतिलेन वा। उच्यते। ज्ञातेन तदीयेन हार्देन पतिलनैवेति। प्रकारान्तरेण तत्प्रबन्धकरणेन तत्रैव रसस्य प्रतिष्ठेति प्रकटीकरणात् तद्विवाहकरणाङ्गस्य पूर्णमनोरथ इति नामकरणात्। न च पुर्यामेव तासां विवाहः संभवति। न तुव्रज इति वक्तव्यं यदि खयमेव श्रीव्र- जेश्वरी तत्र गता तत्संबन्धेनान्याश्च प्रामाणिकास्तदा पुरीन्रजयोः को भेदः। यदि च कृष्णेन व्यूढानां तासां न्रजानयनं श्रीव्रजेश्वर्याग्रत एवानुमतं तदा वृन्दावने तासामानयनानन्तरं तथा व्यवहार एव स्यात् नान्यथा। श्रीभागवताभि- प्रायेणाप्यत्रैव रसः संपद्यते । यतः श्रीकृष्णस्य मथुराप्रस्थाने "निवारयामः समुपेत्य माधवं किं नो करिष्यन् कुलवृद्धबान्धवाः" । इति। "विसज्य लज्जां रुरुदुःस्म सुसरं गोविन्ददामोदरभाधवेति" इति यत्तासां व्यवहारस्ेन प्रथमत एव ता उद्धाटितभावा बभूवुः । परतस्तु सुतराम्। "ता मन्मनस्का मत्प्राणा मदर्थे त्यक्त्तदैहिका" इति। "कृष्णदूते व्रजायाते उद्धवे त्यक्तलौकिका" इति। 'गतहिय' इति, 'काचिन्मधुकरं दृष्ट्ा' इति 'या दुस्त्यजं खजनमार्यपथं च हिल्ा' इति "मातरं पितरं भ्रातृन् पतीन् पुत्रान् खसरपि। यदर्थे जहि दाशार्ह दुस्त्यजान खजनान् प्रभो" इति च श्रूयते इति। तत्तस्मादासामसंख्यानां तादृशी रतिरावरी- तुमशक्यैव जातेति। यदि तासामन्यभर्तृकातं ब्रजे मिथ्यालेन व्यक्तं स्यात् तदैव जुगुप्साव्यत्ययेन रसः संपादते। अन्यथा तु महावैरस्यमेव स्यात्। तत्र तदैश्वर्य- ज्ञानमय्यां परीक्षित्सभायां यथा तदैश्वर्यज्ञापनेनौपपत्यं परिहृत्य रसता स्थापिता तथा धार्मिकलोकलीलामय्यां श्रीमद्रजेशसभायाभपि धार्मिकरीत्यैव परिहृत्य सा

Page 611

५८८ काव्यमाला।

स्थापयितव्या। तदेवं योगमायामुपाश्रित इति नासूयन् खलु कृष्णायेति न्यायेन यस्या मायायाः सोऽयं प्रपश्चः सैव समाधात्री यथा निजेश्वरलीलाकौतुकार्थ तत्त- त्कल्पानां कृतवती मध्ये चासूयापरिहारार्थ समाहितवती च तथातिस्पष्टे तस्मिन् दुर्वादे निःशेषमेव समाहितवतीति गम्यते। यतोSप्रकटलीलागतानामपि तासां तत्खीयालमेवानुगतम् । तथाहि ब्रह्मसंहितायाम्-'आनन्दचिन्मयरसप्रतिभा- विताभि:' इत्यादौ ताभिर्निजरूपतया कलाभिरिति तस्य च तत्पतितमेव गौत- मीये श्रीमद्दशार्णव्याख्यायां मायाप्रेरकतामयैश्ववर्यप्रतिपादकपक्षद्वयमुक्ता तृतीयं पक्षमुत्तरपक्षतया प्रोक्तम्। "अनेकजन्मसिद्धानां गोपीनां पतिरेव वा। नन्दन- न्दन इत्युक्तस्त्रैलोक्यानन्दवर्धनः" इति। तदेतद्विचार्य ग्रन्थकृद्भिरपि लघुतमत्र यत्प्रोक्तमित्यादौ नेष्ठा यद्द्विनि रसे कविभि: परोढा इत्यादौ चावतारसमय एव उपपतितपरदारव्यवहारस्तदितरसमये तु नेति सवीकृतम्। तदेतच्च ता नाविदन् मय्यनुषङ्गबद्धधिय इत्यस्यान्ते श्रीभगवता कृष्णेन खयमेव दर्शितम्। "मत्कामा रमणं जारमखरूपविदोऽबलाः। ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः॥" इति। अयभर्थ :- यथा भीष्ममुदारं दर्शनीयं। कटं करोत्यत्र कृतिः क्रियाविशेष्य- मनुगच्छन्ती विशेषणानप्यनुगच्छति। कटं करोति तं च भीष्ममित्यादिरीत्या तथात्रापि ब्रह्म प्रापुः। तं च परममित्यादिरीतिरवगन्तव्या। क्मश्वात्रार्थिक एव। पच्यन्तां विविधाः पाका इत्यादौ अभिहोत्रं जुहोति यवागूं पचतीत्यादौ च तस्यैव बललेन दृष्टलात्। तथा हि ता इति पूर्वतोऽनुसज्यते ता ब्रह्म प्रापुः। किं निर्विशेषमिति प्रामाण्येन वा भगवद्रूपमित्यर्थः । तादृशतं च 'शुभाश्रयः सचित्तस्य सर्वगस्य तथात्मनः' इति श्रीविष्णुपुराणरीत्यान्यत्रापि भगवदाविर्भावे संभवतीत्याशश्काह-मामिति। यदुक्तं मय्यावेश्य मनः कृष्ण इत्यादि। मयि भक्तिर्हि भूतानामित्यादि च। तत्र च भावविशेषमयसमयमेदेन द्विधा प्रापुरिति बोधयितुं तासां तद्विशेषेण साहित्येन सविशेषेण विशेषद्वयमाह। मत्कामा रम- णमिति जारमखरूपविदमिति च । रमणशब्द: पत्यावेव रूढः। जारस्तूपपता- वेव । 'रमणः स्यात्पटोलस्य मूलेऽपि रमणः प्रिये' इति विश्वप्रकाशः । 'धवः पतिः प्रियो भर्ता इत्यमरः। 'जारस्तूपपतिः समौ' इति च 1 ततश्रास्रूपविद इति स्वरूपं नित्यमेव मत्प्रेयसीलक्षणमवतारसमये मदीयलीलाशक्त्या मोहिततान विदन्ति यास्तथासत्यो जारं जाखुद्धिवेद्य सन्तं मां प्रापुः । तथा हि मत्कामा मयि काम: कथमस्माकमन्यस्मिन पतित्वं खप्नवत् विलीयेतेति श्रीकृष्ण एव

Page 612

उज्ज्वलनीलमणिः । ५८९

जागरणवत् तत्प्रादुर्भाव इत्यभिलाषो यासां तथा सत्यो मां रमणं प्रापुः। जार- बुद्धिवेद्यमपीति श्रीखामिव्याख्यानात्। "ये यथा मां प्रपद्यन्ते' इति श्रीभगव- द्वीतातः यथेति यदभिलाषेणैवेत्यर्थः। तत्कतुन्यात् खयमेवेदं दृष्टा दृष्टान्तद्वारा बोधितम् । मध्यावेश्य मनः कृष्ण इत्यनन्तरम्। 'या मया क्रीडिता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः । अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ॥' इति। अत्र तासां तान् पतीन् तांश्र देहांस्त्यक्तवतीनामौपपत्यं न संभवतीति जारलेन रमणलेन मत्प्राप्तौ मत्कारुण्यं तु परमसहायकमित्याह। अबला इति। न विद्यते बलं मत्साहाय्यं विना अन्यद्यासां तादृश्य इति। अहो आस्तां नित्यप्रेयसीनां वार्ता तासां सङ्गादन्या अपि सहस्शस्तथा मां प्रापुरिति। अत्र चेदं विविच्यते। "तासां नित्यप्रियाणामवतरणवशाद्विस्मृतात्मस्थितीनामप्यन्तः स्वस्वभावादघविजिति रतिश्रीभृतां नित्यकान्ते। विश्वस्तानाभमुष्मात्परसदनगति- क्लेशभाजां वरीतुं तं तृष्णा सापि न स्यादहह सदफला कः प्रतीयादमुत्र॥" तस्माल्ललितमाधव इवात्रापि विवाहघटेनैव समज्जसा। यतः "दाम्पत्यं व्रजसुभ्ु- वामघजिता यज्जातमेतत्परं काव्यस्य प्रथितेन निर्वहणकृत् किं लेषु रागस्य च। राग: सोऽप्यनुपद्रवस्थितिमिथःसङ्गास्पदस्तं त्यजन्नात्मीयास्पदमन्तरा विहरणं दध्याइृथा जन्मताम् ॥ पूर्वं दुर्लभता ततो गुरुजनध्वस्तप्रयत्नात्मता तत्पश्चाच्क- तिलोकलद्विरभसात् सङ्गप्रथाङ्गीकृतिः । तस्मा हूरमहावियोगचिरता तत्प्रान्तमुद्दा- हतः प्राप्तं चेन्मिथुनं मिथो हरिरमारूपं सुखं किं परम् ॥ कृष्णं कान्ततयानुपेत्य पुरतः स्ं नित्यकान्तं तु तास्तत्राप्यन्यकरे निपत्य चरणा (?) निर्वाह्य धर्म निजम्। तन्रापीष्टममुं कथंचन रहः प्राप्यापि विश्लेषिताः पुण्यात्तं पतिमेत्य सर्व- जगतामन्तर्व्यधुरनिर्वृतिम् ।। नामूषां सहजानुरागविभुता भीर्निर्मिता किं नु भीर्लङ्चया स्यान्न तु वेति तत्प्रबलताज्ञानार्थमन्तः कृता। तज्ज्ञातं निजधर्मसेतुद- लनात्तस्यास्तथा विस्मृतिस्तद्वन्भाति यथा परीक्षितवचोऽप्यग्रे मुहुर्द्दश्यते ॥ कंसा- रेरकुतोभयस्य न भयं तद्भक्तवृन्दस्य च हीः किं लस्ति समस्तसद्गुणमणेस्तत्सु- भ्रुवां किं पुनः। तत्र ह्रीर्दुरितोत्तरा यदि तदा निन्दास्पदं यद्यसौ गोप्यो नर्मणि गोपनस्थितिमयी पुष्णात्यदस्तर्हि तु। अस्या: सन्तु सहस्रशः पतिपरा नामूस्तवे या निजं लोकं धर्ममपि श्रिता न तु पुनः सं सं पति केवलम्। गोपीनौंमि निजप्रसिद्धमपि यास्तं तं विहाय स्फुटं निर्णीय स्वरतिप्रतीतिविभवात् कृष्णं प्ति भेजिरे॥ सावित्री ब्रह्मणः स्त्री हिमगिरितनुजा चन्द्रमौलेस्था मा विष्णोः कृष्णस्य

Page 613

५९० काव्यमाला।

अथ गौणसंभोगः। छन्नप्रकाशभेदेन कैश्विदेषां द्विरूपता । इष्टाप्यत्र न हि प्रोक्ता नात्युल्लासकरी यतः ॥ २० ॥

एषां चतुर्विधानां संभोगानाम् । प्राप्तिविशेषः दर्शनालिद्गनचुम्बनादिमान् रुक्मिण्यपि जगति भवेद्वाढमक्ष्णोः सुखाय। रूपं ्वस्यापि विस्मापनमयमभितः शोभयन् सवीयमासीद्रासे यासां रुचा ता यदि नहि विवहेदस्तु वा धातुमूमि।।" अतः कंसवधात् प्राचीनानां लीलानां सदयस्तनतां मला यदुपासनं कुत्रापि दृश्यते तत्खलु "एवं विहारः कौमारैः कौमारं जहतुर्व्रजे। निलायनैः सेतुबन्घैर्मर्कट- ऋवनादिभिः ॥" इत्यादिरीत्यावतारलीलानन्तरवत् पूर्वभतीतामपि तां तां निज- लीलां भक्तभक्तिविशेषानुरोधेन तदा तदा प्रकटीकरोतीत्येव मन्तव्यम्। "यद्- द्विया त उरगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय" इत्यादेः । तत्र बाल्यलीलोपासना गृहिणामपि दृश्यन्ते कंसवधान्तर्लीलाया अन्ते। किंतु तत्र स्वेच्छया रचिताया अपि संभोगलीलायाः संपन्नत्वमेव संमतं न तु समृद्धिमतः । भक्तभक्तिविशेषानुरोधेन तदा तदा दशितानां तु ततो न्यूनतमेवाभिप्रेतं किमुत समृद्धिमत इति। कासांचिल्लीलानां प्रकटप्रकाशगततत्तल्लीलातुल्यानां तत्तन्मन्त्रो- पासकसंप्रदायावच्छिन्नपरस्परानुरोधेन नित्यास्थितिरवगम्यते न तु सर्वासामपि प्रकटलीलानां नित्यलेन च कालियहद प्रवेशादिलीलानां महादुःखमयलेन कासां- चिन्मुहुरागन्तृभरव्याकुलीकृतलेन प्राकृतमिश्रलेन च विरोधात्। "योग एव भवेदेव विचित्रः कोऽपि मादनः । यद्विलासेन शोभन्ते नित्यलीलाः सहस्रराः ॥" इत्यत्र योग एवेति सुखदानामेवोपादानेन सहस्रश इति संख्योल्लेखेन च तत्प्रत्या- खयानात्। प्रत्यन्वपि तासां नित्यले चित्रतुल्यले प्राह्या लीलातहानाच्च क्रियतां नाम तत्तदुपासना कैश्चित्परमरसपरिपाकस्तु क्रमलीलायामेव जायते। श्रीभगव- दादिप्रकाशप्राचीनपरभभक्तानां विदग्धमाधव प्रकाशकग्रन्थकृतां चात्रैवावेशदर्श- नातू। तथाहि-"रसिकजनसुखार्थ साधयामास शश्वत्कममनुरसपूरं सूदवत् कृष्णचन्द्रः । क्रममनुरसयन् यः पूर्तिमाप्नोति पूर्तया सफलमिह परं स्यात् तत्र वैदग्ध्यमस्य ।।" तथा चोकतं 'प्रपञ्वं निष्प्रेपच्चोऽपि' इत्यादि ॥ १९ ॥ इति मधुररसपरिपाकविवेकः ॥ छन्नप्रकाशभेदेनेति। येषां संभोगानां स्वीयास्पि प्रच्छन्नतैव रसदेति

Page 614

उज्ज्वलनीलमणिः । ५९१

अथ गौण :- समे प्राप्तिविशेषोऽस्य हरेर्गौण इतीर्यते। खम्नो द्विधात्र सामान्यविशेषत्वेन कीर्तितः ॥ २१।। सामान्यः स तु यः पूर्व कथितो व्यभिचारिषु। विशेष: खलु जागर्या निर्विशेषो महाद्ुतः ॥। २२ ।। भावौत्कण्ठ्यमयो ह्येष चतुर्धा पूर्ववन्मतः ॥ २३।। तत्र खमे संक्षिप्तो यथा -- विहारं कुर्वाणस्तरणितनयातीरविपिने नवाम्भोद श्रेणीमधुरिमविडम्बिद्युतिभरः । विदग्धानां चूडामणिरनुदिनं चुम्बति मुखं मम खझे कोडपि प्रियसखि बलीयान्नवयुवा।।२४॥। अथ खम्ने संकीर्ण :- सखि क्ुद्धा माभूर्लघुरपि न दोष: सुमुखि मे न मानाग्निज्वालामशमयमहं तामसमये। स धूर्तस्ते खने व्यघित रसवृष्टिं मयि तथा यतो विस्तीर्णापि स्वयमियमयासीदुपशमम् ॥ २५॥

॥ २०॥ २१॥२२ ॥ २३ ॥ पूर्वरागवती श्रीराधा विशाखामाह-विह्वार- मिति ॥ २४॥ काचिन्मुग्धा खसखीमाह-सखीति। लघुरल्पोऽपि मान एवाभिस्तस्य ज्वालामिति सवस्य कलहान्तरितां व्यनक्ति। असमये संप्रतीत्यर्थः।

द्विरूपता न प्रोक्तेत्यर्थः ॥ २० ॥ तदेवं सर्वप्रबन्धस्य रसपरिपाकं समृद्धिमन्त- भनुक्तानुसंक्षिप्तादिचतुर्णामाभासमप्याह-अथ गौण इत्यादिना। गौणो मुख्यसंभोगाभिघेयताशून्य इत्यर्थः ॥२१॥२२॥२३॥२४॥ता माना-

Page 615

५९२ : काव्यमाला।

अथ समें संपन्नो यथा हंसदूते- प्रयातो मां हित्वा यदि कठिनचूडामणिरसौ प्रयातु सच्छन्दं मम समयधर्मः किल गतिः । इदं सोढुं को वा प्रभवति यतः खम्नकपटा- दिहायातो वृन्दावनभुवि बलान्मां रमयति ॥२६ ॥ अथ स्वाप्नसमृद्धिमान् यथा ललितमाधवे- चिरादद्य खमे मम विविधयत्नादुपगते प्रपेदे गोविन्दः सखि नयनयोरङ्गणभुवम्। गृहीत्वा हा हन्त त्वरितमथ तस्मिन्नपि रथं कथं प्रत्यासन्नः स खलु परुषो राजपुरुषः ॥ २७॥

विस्तीर्णापि मानागिज्वाला ॥ २५ ॥ श्रीराधा ललिताभाह-प्रयात इति। समयधर्मो मृत्युः । 'मृत्युः स्यात् पञ्चता कालधर्मः ।' इत्यमरः । खप्कपटात् खप्नमिषात्। बलादिति मानिनीमपि मामप्रसादैव बलात्कारेणैव मां त्यक्ला नागरीं रमयितुं मथुरां गत इति मम मानो भवितुमर्हत्येवेति मम को दोषः । नच मानिनीजन: पुरुषबलात्कारं क्वापि सोढुं प्रभवतीति भावः । समृद्धिमानेव भवितुमर्हति तदपि द्वयोः पारतक्याभावात् तल्लक्षणासिध्धा संपन्नलेनैव स्ापितः। यद्यप्यत्र पाठान्तरम्। जागरे मन्मथुराप्रस्थानापराधमिमं जानात्यतः खप्ने माथु- रविरहविप्रलम्भं विस्मरन्तीमेनां पूर्वावस्थास्थायिनीं रमयिष्यामीति मनसि परा- मृश्येति भावः ॥। २६ ॥ नववृन्दावनस्था श्रीराधा खप्नानुभूतं श्रीकृष्णदर्शनं नववृन्दामावेदयति-चिरादिति । स पुरुषः क्रूरोऽक्रूर इत्यर्थः । अत्र द्वयोः

भिज्वालाम्। असमये अनवसरे ॥ २५ ॥ समयधर्म इति। आयास्यामी- त्यस्य प्रतिज्ञारूो धर्मः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इति नानार्थ- वर्गः ॥ २६ ॥ चिराद्यदेत्यत्र समृद्धिमत्त्वं पूर्वार्ध एवोपभोगातिरेकं पारतक्रय- साध्वसादिराहित्यं च लक्षणबलात् खप्े यथेष्टं संभावयितुं शक्यलादवगन्त-

Page 616

उज्ज्वलनीलमणिः । ५९₹

तुल्यस्वरूप एवायं प्रोद्यन् यूनोई्योरपि।

अत एव हि सिद्धानां खमोऽपि परमाङ्गुते। प्राप्तानि मण्डलादीनि दृश्यन्ते जागरेऽपि च ।। २९।। व्यतीत्य तुर्यामपि संश्रितानां तां पश्चमीं प्रेममयीमवस्थाम्। न संभवत्येव हरिप्रियाणां समो रजोवृत्तिविजृम्भितोयः।३०।।

पारतव्यनिबन्धनदौर्लभ्यसिद्धर्थमुत्तरार्धे अक्रूरप्रस्तुतिः ॥ २७ ॥ ननु तदपि वस्तुतः खप्रे समृद्धिमति संभोगेऽस्मिन् द्वयो: कथं दुर्लभालोकलं एकया श्रीरा- धयैव खपे तथा दष्टत्ादित्यत आह-तुल्यखरूप इति। दयोरनाथिकानाय- कयोरपि खप्े क्वचिदेकदैव तुल्यस्रूप एव प्रोद्यजबाधितः सत्य एव स्यात्। तेन यदैव श्रीराधया नववृन्दाचने चिराद्देति पद्यः प्रकाशितः (?) खपे श्रीकृ- ष्णदर्शनानन्दोऽन्वभावि तदैव श्रीकृष्णेनापि द्वारकावरोधपुष्पपर्यङ्कशयितेन खप्ने श्रीराधादर्शनानन्दस्तथैवान्नभावीति ज्ञापितम्। उषानिरुद्धयोरिति। यदैव शोणि- तपुरे बाणराजान्तःपुरे उषयानिरुद्धेन सह संप्रयोगानन्दोऽन्वभावि तदैवानि- रुद्वेनापि द्वारकावरोधशयितेन उषया सह स इति। क्वचिदिति नतु सर्वत्रैव प्राकृते लोक इत्यर्थः ॥ २८ ॥ समस्य नित्यतं दर्शयति-अत एव हीति।। २९ । ननु खप्नस्य राजसबुद्धिविजृम्भितलेन तदीयवस्तूनां प्रायशो बाधिततमेवेति शात्तेषु प्रसिद्धम्। सत्यं तत्खलु प्राकृतानामेव न तु भगवत्प्रेमवतामित्याह-व्यतीत्यति। तुर्या विश्वतैजसप्राज्ञेभ्यः परां स्वरूपानु-

व्यम्। गृहीलेत्यादिकं तु नात्रोदाहरणीयम्। भाविनामा हि विप्रलम्भः खल्वयं परुषः कठिनः सोऽक्रूरः तदिदं वा तदुदाहरणम्। "यदा तं कारूषं पथि हत- वता कंसरिपुणा ब्रजे प्रत्यायाते प्रमदपतता व्याप्तमखिलम्। ततः प्राक् यद्राधा विधुमुखि मनोराज्यकलितं जजल्प स्वप्ान्तस्तदिदमुदयच्चित्रयति नः ॥" ॥२७॥ २८॥ खप्रोऽयं द्विविधः जागरायमाणः स्मः खप्नायमानः (नं) जागरणं चेति। तन्न पूर्वो दर्शितः। उत्तरं स्थापयति तुल्येति द्वाभ्याम्॥२९॥ उभयतो रजोवृत्तिरूपो न स्यादित्याह-व्यतीत्येति ॥। ३०॥ तर्हि कोऽसावि- ३८ उज्व०

Page 617

५९8 काव्यमाला।

इत्येष हरिभावस्य विलास: कोजि पेशलः । चित्रस्न्नमिवातन्वन्कृष्णं संगमयत्यलम् ।। ३१।। अथैतेषु निरूप्यन्ते तद्विशेषा: सुपेशलाः। - येन भावदशामस्याः प्राप्नुवन्ति रतेः स्फुटम् ॥ ३२ ॥ ते तु संदर्शनं जल्पः स्पर्शनं वर्त्मरोधनम्। रासवृन्दावनक्री डायमुनाद्यम्बुकेलयः।। ३३।।. नौखेला लीलया चौर्य घट्ट: कुञ्जादिलीनता। मधुपानं वधूवेशधृतिः कपटसुपता ।। ३४ ।। दूतकीडा पटाकृष्टिश्रुम्बाश्लेषौ नखार्पणम्। बिम्बाधरसुधापानं संप्रयोगादयो मताः ॥ ३५॥ तत्र संदर्शनं यथा ललितमाधवे- चलाक्षि गुरुलोकतः स्फुरति तावदन्तर्भयं कुलस्थितिरलं च मे मनसि तावदुन्मीलति।

भवरूपां समाधिनाम्रीमपि व्यतीत्य अतिक्रम्य ।।३०॥ तर्हि कोऽसौ सवप्र इत्यत आह इत्येष इति चित्रमद्भुतं खप्नमिव ।। ३१ ।। एतेषु संक्षिप्तादिषु मध्ये तद्विशेषाः संभोगविशेषाः। रतेरित्युपलक्षणं प्रेमादीनामपि। श्रीराधा कुन्दलतामाह-चलाक्षीति। दानघट्टे श्रीकृष्णरुद्धा श्रीराधा तमाह-

त्यत्राह-इत्येष इति। तस्मिंश्च तत्तद्विलासे श्रीकृष्णसङ्गमस्तु यथावदेव नला कूरगमनवदन्यथेत्याह-चित्रति ॥। ३१ ॥ तदेवं संक्षिप्तादिसंभोगभेदान् दर्शयिला तद्भेदानां मेदान् दर्शयितुमाह-तथेति। एतेषु संक्षिप्तादिषु यथा- यथं संक्षिपं सर्वेष्वेव निरूपितेषु एतेषां विशेषा निरूप्यन्ते। ते च विशेषां न्येषां नाज्ानि किंतु कार्या इत्याह-ये इति॥ ३२॥ के ते तन्नाह-ते

Page 618

उज्चलनीलमणि: । ५९५

चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं न यावदपरोक्षतामिदमुपैति वक्राम्बुजम् ॥ ३६ ॥

अथ जल्प :- जल्पः परस्परं गोष्ठी वितथोक्तिश्च कथ्यते। तत्र परस्परं गोष्ठी यथा दानकेलिकौमुद्याम्- धर्षणेन कुलस्त्रीणां भुजङ्गेशः क्षमः कथम्। यदेता दशनैरेष दशन्नामोति शोभनम् ॥ ३७ ॥

कुलस्त्रीणां घर्षणेन कृतेन भुजङ्ेश: विद्राजः कर्थ क्षमः स्यात् घर्षणनिर्वाहाय कथ योग्यः स्यात्। असि तु न स्यादेवेत्यर्थः । कुतस्त्न्राह यदेता इति। शोभनं भद्रं नाप्नोति तासां पत्युः प्रकाशाद्राजतश्च दण्डदैहिकाद्दुरितफलात् पारत्रिकाच्चेति भावः। अन्न श्लेषेणवार्थान्तरन्यासः। नकुलः सर्पद्विट् जन्तुविशेषः तस्य स्त्रीणां घर्षणे भुजज्नेशः सर्पश्रेष्ठोऽपि कथं क्षमः अपि तु न क्षमः । कुतस्तत्राह यदेता इतिh न. शोभनमाप्नोति ताभिरपि प्रतिदंशनेन सद्यःप्राणहानेरिति भावः। अभि- योगपक्षे भुजज्ेशः षिङ्गंराज एव यदि स्यात्तदा कुलस्त्रीणां साध्वीनां धर्षणे कथं न क्षमः स्यात् यद्यस्मादेता एव दशनशोभनं खवशौर्याभिमानसुखं प्राप्ोति अन्या युवतयस्तु तस्य पाणौ पतिताः सन्त्येवेति भावः । अन्रापि श्लेषेणार्थान्तरन्यासो द्रष्टव्यः नकुलस्त्रीणां धर्षणे भुज्जङ्गानां राजा तु कथ न क्षमः ।-अन्ये भुजङ्गो न क्षम- न्तामिति भावः । यद्यस्माच्छोभनं खवशीर्यमाप्नोतीति ॥३२ ॥ ३३॥३४॥३५॥

त्विति ॥३३॥३४॥३५॥३६॥ अत्र परस्परगोष्ठीं द्वाभ्यामाह- घर्षणेनेति 1 कुलस्त्रीणां घर्षणेन कृतेन भुजज्ेशः विङ्गराजः कथं क्र्मः स्याक धर्षणनिर्वाहाय- योग्यः स्यान्न स्यादेवेत्यर्थः । कुतस्तत्राह-यदेता इति। नाप्नोतीति च्छेदः । पक्षे नकुलस्त्रीणां घर्षणे भुञ्ङ्गेशः सर्पराजः कथं क्रमः स्यात् नेत्यर्थः । तत्र हेतुर्यदेता इति ना्रोतीति पूर्ववतू। अभियोगपक्षे तु कुल- स्त्रीणां घर्षणे षिङ्गराजः कथ न क्षमः स्यात् किं तु स्यादेवेत्यर्थः । तत्र हेतुमाह यदेता इति। अन्र वु प्राप्ोतीति च्छेदः । दशनेव मङ्गलं प्राप्तोतीत्यर्थः ॥ ३७॥

Page 619

१९६ :कान्यमीला।

अप्रौढद्विजराजराजदलिका लब्धा विभूति रुचां नव्यामात्मनि कृष्णवर्त्मचिलसद्दृष्टिर्विशाखाश्चिता। कंदर्पस्य विदग्धतां विदधती नेत्राञ्चलस्य त्विषा त्वं राधे शिवमूर्तिरित्युरसि मां भोगीन्द्रमङ्गीकुरु॥।३८॥ वितथोक्तिर्यथा तत्रैव- अस्मिन्नद्रौ कति नहि मया हन्त हारादिवित्तं हारं हारं हरिणनयना ग्राहिता जैनदीक्षाम्।

॥३६ ॥ ३७॥ भुजज्शब्दोक्त्तमर्थद्वयमङ्जीकृत्य तस्याः साभयोगानुरूपं श्रीकृष्ण: प्रत्युत्तरमाह-अप्रौढेति । हे राधे, तं शिवमूर्तिर्मज्ञलमूर्तिश्वव । यतो प्रौढेन द्विजराजेन चन्द्रेण राजद्दीप्तमलिकं यस्याः सा, पक्षे द्विकलचन्द्रतुल्यसुन्दरल- लाटा। आत्मनि देहे विभूर्ति भस्म। किंभूताम्। रुचां कान्तीनां नव्यां स्तव्यां 'णू स्तुतौ'। पक्षे रुचां विभूति संपति नव्यां नवीनाम्। 'भूतिर्भस्मनि संपदि इति नानार्थवर्गः । कृष्णवर्त्मनाभिना विलसन्ती दृष्टिस्तृतीयनेत्रं यस्याः सा। पक्षे कृष्णेन श्यामेन वर्त्मना पक्ष्मणा कि वा कृष्णस्य मम वर्त्मनि गमनागमनमा्गे चिलसन्त्यौ दृष्टी यस्याः सा। 'वर्त्मनेत्रच्छदेऽध्वनि' इति नानार्थवर्गः। विशाखेन कार्तिकेयेन । पक्षे विशाखया खप्रियसख्या चाश्चिता पूजिता। नेत्राश्वलस्य मालस्थतृतीयनयनैकदेशस्य त्विषा ज्वालया । पक्षे अपाज्गकान्त्या विदग्धतां विशेषतो दग्धलं वैदग्धीलं च इत्यत एव मां भोगीन्द्रं वासुकि तस्य शिवहृदया- लंकारलात्। पक्षे भोगिनां विषयभोगवतामिन्द्रम्॥। ३८ ॥। वितथोकिरमृषोक्तिः। दीनघटस्थ: श्रीकृष्ण: श्रीराधाप्रभृतीर्भीषयन्नाह-अस्मित्निति। हार हार हल्ा

अप्रौढ़ः खप्रहानौ यो द्विजराजश्चन्द्रस्तद्वत् राजदलिक ललाटं यस्याः, पक्षे अप्रौ- ढलेन द्विजराजेन चन्द्रेण राजदलिकं यस्याः आत्मनि देहे नव्यां स्तव्यां रुचां विभूति वैभवं लब्धा प्राप्ता, पक्षे रुचां स्तव्यां विभूर्ति भस्म। श्रीकृष्णस्य वर्त्मनि विलसन्ती दृष्टिर्यस्याः, पक्षे कृष्णवर्त्मा वहिः। विशाखासखी, पक्षे विशाखः स्कन्दः विदग्धतां लिषा शोभया, पक्षे प्रचण्डकान्त्या वा शिवमूर्तिर्मङ्गलरूपा, पक्षे भवशरीर भोगिनां विषयास्वादिनां पक्षे सर्पाणामिन्द्रमू.॥३८॥ जैन-

Page 620

उजज्वलनीलमणिः ।

याः काकूक्तिस्थगितवदना: पत्रदानेन दीना- स्तूर्ण दूरादनुजगृहिरे प्रौढवल्लीसखीभि:॥ ३९॥ अथ स्पर्शनं यथा- कुरु शपथमस्य स्पर्शतो दूषितोच्चै- रसि भुजभुजगेन त्वं भुजक्राधिपस्य । तनुरनुपमकम्पा खेदमभ्युद्धिरन्ती कपटिनि परितस्ते पश्य रोमाञ्चितास्ति ॥४0॥ अथ वर्त्मरोधनं यथा विदग्धमाधवे- परीतं शृङ्वेण स्फुटतरशिलाश्यामलरुचं वलद्वेत्रं वंशव्यतिकरलसन्मेखलममुम्।

हत्वा जैनदीक्षां दिगम्बरत्मित्यर्थः। याः कर्मभूताः प्रौढवह्य एव सख्यस्ताभि: कन्नीभि:॥ ३९॥ काचिलघुप्रखरा यूथेश्वरी अधिकमृद्वौं स्वसुहृदं सरसोद्ार- माह-न कुविति। सखि, सत्यं -ब्रूहि गोवर्धनगुहायां लं भुजजेन दष्टा स्पृष्टा वा कम्पैर्लक्ष्यसे इति। ततः साह। सखि मान्यथा शद्िष्ाः कात्यायन्या एव शप्रथः केवलं हैमनेन पवनेतैव मे तनुः कंम्पते इति ततः पुनरपि प्रथ- माह-न कुर्मिति। अनुपमः अद्भुतः कम्पो यस्याः सा यतः खेदमभ्युद्विर- तीति॥ ४ ॥ मुश् सूर्यपूजामार्गमित्युच्यमानस्ताभवरुन्धान एव श्रीकृष्णः श्रीराधामाह-परीतमिति । शहेन शिखरेण गवलेन च। स्फुटतराभिः शिलाभि: श्यामला रुक् कान्तिर्यस्य तम् । पक्षे शिलानां इयामला रुगिव रुकूँ यस्य म्। वेत्रो वृक्षविशेषो यष्टिविशेषश्र। वंशो वृक्षविशेषो मुरली च।

दीक्षामिति। तद्वदावरणशून्यांवस्थतमित्यर्थः ॥ ३९ । काचिदधिका प्रौढा मुग्धलघुं परिहसन्ती श्रीकृष्णं भुअंद्वाधिपलेन निर्दिश्य स्प्रष्टुं निषिद्धवती ततः कर्थंचित्तेन स्पृष्टां तत्स्पर्शममन्यमानों तां प्रत्याह-न कुरु शंपथमिति। सर्पपक्षे दूषितेति । तत्स्पर्कविशेषेणेति भावः ॥४०॥ शत्ं कूटो विषाणं

Page 621

५९८ काव्यमाला।

अतिक्रम्योसतुङं धरणिधरमग्रे कथमित- स्त्वया गन्तुं शक्या. तरणिदुहितुस्तीरसरणिः ॥ ४१ ॥ अथ रासो यथा- हरिर्नवघनाकृतिः प्रतिवधूद्वयं मध्यत- स्तदंशविलसद्भुजो भ्रमति चित्रमेकोऽप्यसौ। वधूश्र तडिदुज्ज्वला प्रति हरिद्वयं मध्यतः सरवीधृतकराम्बुजा नटति पश्य रासोत्सवे।। ४२॥। अथ वृन्दावनक्रीडा यथा- स्थलकमलमलीनां स्तौति गीतैः पदं ते रदततिमतिनम्रा वन्दते कुन्दराजी।

मेखला पर्वतनितम्बः क्षुद्रघण्टिका च । धरणीधरं पर्वतं श्रीकृष्णं च ।। ४१।। विभानचारिणी काचित् देवी कामप्याह-हरिरिति । प्रतिवधूद्धयमिति वधूद्व- यस्य मध्ये हरिरित्यर्थः । अत्र वधूशब्देन यूथपैवोच्यते। सख्या वृतं खवामकरेण श्रीकृष्णपृष्ठदेशनिहितेन कराम्बुजं दक्षिणं यस्याः सा। तेन श्रीकृष्णस्य वामभागे यूथेश्वरी दक्षिणभागे तस्या एव मुख्यैका सखी। एवमन्यस्य श्रीकृष्णप्रकाशस्यं वामभागे यूथेश्वरीत्यादि। तेनैकस्या नायिकायाः स्कन्धद्वये द्वयोः श्रीकृष्णप्रकाश- योर्भुजन्यासरूपो दोषो व्याहतः । अत एव तासां मध्ये द्वयोद्वयो: प्रविष्टेन गृही- तानां कण्ठ इत्यत्रापि श्रीकृष्णेनैकैकेन प्रकाशेन कण्ठे गृहीतानां न तु श्रीकृष्णप्रका- शाभ्यामिति व्याख्येयम्। किंच सर्वासामेव यूथेश्वरीणां पार्श्वयोः सुहृत्मक्षतटस्थप- क्षस्थितिरनुसंघेया सारस्यविघातकाभावात्। यद्वैकैकस्मिन् यूथे यावत्यः सख्य- स्ासां सर्वासामेव प्रधानगुणताभावेन नायिकातवसखीलाभ्यां सव्यदक्षिणयोः स्थितानां यथोचितावस्थितिसमाप्यनन्तरमेवान्यान्ययूथस्य तादृशावस्थिविर्भवेत्। एवं च नित्यनायिकानां द्वयोरेव कराम्बुजयो: खसखीवृतलसिद्धा परमखारस्यं सर्वगोपीनां रासमण्डलान्त:पातितं च सिध्ेदिति ॥४२ ॥ श्रीकृष्णः श्रीराधां वा । मेखलाकाश्ची अदरितलांशो वा ॥। ४१ ॥ ४२ ॥ ४३

Page 622

उज्जवलनीलमपिि: । ५९९

अधरमनुभजन्ती लम्बते बिम्बमाला विलसति तब वश्या पश्य वृन्दाटवीयम् ॥। ४३॥। यमुनाजलकेलिर्यथा- व्यात्युक्षीयुधि राधया घनरसैः पर्युक्षमाणस्य ते माल्यं भङ्कमवाप वीरतिलको यातः किलादृश्यताम्। वक्रेन्दौ प्रतिमाच्छलेन शरणं लब्ध: सखीं कौस्तुभ- स्तन्माभूश्वकितो विसुक्तचिकुरं नार्दत्यसौ त्वद्विधम्।।४४।। यथा वा पद्यावल्याम्- जलकेलितरलकरतलमुक्तपुनः पिहितराधिकावदनः। जगदवतु कोकयूनोर्विघटनसंघटनकौतुकी कृष्णः ।। ४५।। अथ नौखेला- मुक्ता तरङ्गनिवहेन पतङ्गपुत्री नव्या च नौरिति वचस्तव तथ्यमेव। •शङ्कानिदानमिदमेव ममातिमात्रं त्वं चञ्चलो यदिह माधव नाविकोऽसि॥ ४६ ॥

वर्णयति-स्थलकमलं कर्तृ ।। ४३ ।। विशाखा श्रीकृष्णमाह-व्यात्युक्षीयुधि परस्परजलसेकयुद्धे घनरसैर्व्यात्युक्षीयुधि घनरसैः पर्युक्षमाणस्येति काकाक्षि- गोलकन्यायेनान्वये घनरसैजलैरनिबिडरसैरिति श्लेषो घटते। प्रतिमा प्रति- बिम्बं नार्दति न पीडयति।। ४४ ॥ जलकेलौ श्रीराधाया जयमुक्ता श्रीकृष्णस्यापि तमाह-यथा वेति। ४५ ॥ जलकेलौ तरलाभ्यां करतालाभ्यां मुक्तं पुनःपिहितमाच्छादितं श्रीराधावदनं येन सः । पराभूयमानां श्रीराधां तत्सखीर्ज्ञापयितुमिति भावः । विघटनं तन्मुखे चन्द्रभ्रान्त्या रात्रिभया- द्विश्लेषः । संघट्टनं तदाच्छाकनेन प्रकृतदिवसबुध्धा उल्लासात् संमिलनं ताभ्यां प्रतिमां प्रतिबिम्बम् । नार्दवि न पीडयति ॥ ४४ ॥ ४५ ॥ ४६ ॥

Page 623

६०० काव्यमाला।

अथ लीलाचार्यम्- लीळाचौर्य भवेद्वंशीवसत्रपुष्पादिहारिता ॥ ४७ ॥ तत्र वंशीचौर्य यथा पद्यावल्याम्- नीचैन्यसादथ चरणयोर्नूपुरे मूकयन्ती घृत्वा धृत्वा कनकवलयान्युत्क्षिपन्ती भुजान्ते। मुद्रामक्ष्णोश्चक्ितचकितं शश्वदालोकयन्ती स्मित्वा स्मित्वा हरति मुस्लीमझतो माधवस्य ।।४८ ॥। अथ वसतचौर्य यथा- छदावलिवृतैव नः सपदि काचिदेका ब्रजं प्रविश्य जरतीरिहानयतु घोरकर्मोद्धताः । अयं गुणनिधिस्तयोरुपरि ताभिरभ्यर्च्यता-

अथ पुष्पचौर्य यथा- अयि ज्ञातं ज्ञातं हरसि हरिणाक्षि प्रतिदिनं त्वमेव प्रच्छन्नं मम सुमनसां मञ्जरिमितः । चिराददिश्या चौरि त्वमसि विधृताद्य स्वयमतो गुहाकारामारात्प्रविश वसति प्रौढिभिरलम् ।। ५०॥

कौतुकी। श्रीराधा श्रीकृष्णमाह-मुक्का रहिता ।।४६॥। श्रीराधाया मुर- लीचौर्यचरितं तत्सख्यः परस्परमास्वादयन्ति-नीचैरिति ॥४७।४८ ॥ बहुविनयैरपि चस्रमददानं श्रीकृष्णं यमुनाजलस्था एव गोप्यः श्रीकृष्णं भीषय- माणा आहुः। छदावलिस्तत्रत्या पद्मपन्नश्रेणी। पाटचरश्चौरः ॥४९ ॥ एकाकि-

Page 624

उज्ज्लनीलमणि: । ६०१

अथ घट्टो यथा दानकेलिकौमुद्याम्- घट्टाधिराजमवमत्य विवादमेव यूयं यदाचरथ दानमदित्समानाः। मन्ये विघत्सत तदत्र गिरेस्तटेषु दुर्गेंषु हन्त विषमेषु रणाभियोगम् ।।५१॥ अथ कुञ्जादिलीनता यथा विदग्वमाघवे- शङ्के सङ्कलितान्तराद्य निबिडक्रीडानुबन्घेच्छया कुञ्जे वस्नुलशाखिन: शशिमुखी लीना वरीवर्ति सा। नो चेदेष तदङ्गिसभ्रमविनाभावादकाले कथं घुष्पामोदनिमत्रितालिपटलीस्तोत्रस्य पात्रीभवेत ॥ ५२॥ अथ मधुपानं यथा- मुखविधुमुदितं मधुद्विषोऽसौ मधुचषके मधुरं समीक्ष्य सुग्धा । अदिशत दशमेव तत्र पातुं न तु वदनं मुहुरर्थितापि तेन ।। ५३॥

नीमेवोद्याने पुष्पमवचिन्वतीं श्रीराघामागत्य दिधीर्षुः श्रीकृष्ण आह अयीति।। दांनघटटस्थ: श्रीकृष्णो ललिताया आह-घट्टाधीति। विषमेष्विति सहम्थन्तम्, पक्षे, विषमेषुः कन्दर्पः । अभियोगमुद्यमम्॥।५०॥५१ ॥ निलीनां श्रीराधाम- न्विष्यन् श्रीकृष्णः परामृशति-शङ्क इति । वजजुलोऽशोकः ॥ ५२॥ वृन्दा पौर्णमासीमाह-मुखेति। सुग्धा ऑनन्दमोहयुक्ता तन्माधुर्यपानीत्थसौन्दर्यवती

। ५१ ॥ वञ्जुलोऽशोकः । पद्मिन्याश्चरणस्पर्शेनायोक: पुष्पतीति कविस-

Page 625

काव्यमाला।

अथ वधूवेशधृतिर्यथोद्धवसंदेशे- केयं श्यामा स्फुरति सरले गोपकन्या किमर्थ प्राप्ता सर्यं तव मृगयते निर्मितासौ वयस्या। आलिज्यामुं मुहुरिति तथा कुर्वती मां विदित्वा नारीवेशं हियमुपययौ मानिनी यत्र राधा ।। ५४॥। अथ कपटसुप्तता यथा कर्णामृते- स्तोकस्तोकनिरुद्धमानमृदुलप्रस्यन्दिमन्दस्मितं

श्रोतुं श्रोत्रमंनोहरं व्रजवधूलीलामिथोजल्पितं मिथ्यासापमुपासमहे भगवतः क्ीडानिमीलद्दृशः ॥५५॥ अथ धूतकीडा यथा- जित्वा धूतपणं दशत्यघहरे गण्डं मुदा दक्षिणं सा वामं च दशेति तत्र रभसादक्षं क्षिपन्त्यभ्यधात्।

वा ॥ ५३।। मानिन्या श्रीराघया सह विशासाया उत्तिप्रत्युक्तिमाधुर्यमनुभूतचरं पुनरुद्धवमास्वादयन् श्रीकृष्ण आह-केयमिति। यत्र गोष्ठे तत्र याहीति पूर्वेणवान्वयः ॥ ५४ ॥ व्रजबालारमणस्य सहेतुकमिथ्यास्ापलीलास्ाद- लीलाशुकमाविष्करोति। स्तोकं स्तोकमत्पमल्पं निरुध्यमानं संव्रियमाणं तदपि मृदुलं यथा स्यात्तथा प्रस्पन्दि बहिगेच्छत् भन्दस्मितं यत्र तम्। प्रस्य- न्दरीति पदेन स्मितस्यामृतलमारोपितम्। तेन च सवस्य च ब्रजवधूभिनेयनच- षकैस्तात्कालिकं पानं व्यजितम्। तथा प्रेमोद्भवेन प्रेमकल्पव्ृक्षोद्गमेन हेतुना निरर्गला निरावरणा: प्रसृमराः अत एव प्रव्यक्ता रोमोद्गमा रोमाश्चा यत्र तम्। तेन व्रजवधूनयनमनोमधुकराभीष्टसिद्धिर्द्योतिता ।। ५५ ॥। वृन्दा कुन्दलता- माह-जित्वेति। दशति सतीति गण्डदंशनमेव पण आसीदिति गम्यते। सा मयः ॥ ५२ ॥ ५३॥५४॥५५॥ चिददेशे वामश्चदशाख्यौ पाशकमेदौ १. 'श्रोनरसायनम्' इति क. पुस्तके.

Page 626

उज्वरुनीलमणि: । ६०३

आज्ञा सुंन्दरि ते यथेति हरिणा वामे च दष्टे ततः संरम्भादिव सा भुजालतिकया कण्ठे बबन्ध प्रियम्:।५६।। अथ पटाकृष्टिर्यथा ललितमाधवे- धन्यः सोऽयं मणिरविरलध्वान्तपुञ्जे निकुञ्जे स्मित्वा स्मित्वा मयि कुचपटीं कृष्टवत्युन्मदेन। गाढं गूढाकृतिरषि तथा मन्मुखाकूतवेदी निष्ठीवन्यः किरणलहरीं ड्रेपयामास राधाम् ॥५७ ॥ अथ चुम्बो यथा- कपटचटुलितभ्रुवः समन्ता- न्मुखशशिनं रभसाद्विधूयमानम्। दनुजरिपुरचुम्बदम्बुजाक्ष्याः कमलमिवानिलकम्पि चश्चरीकः ॥५८ ॥

राधा वामं च दशेति गौडदेशीयपाशकदायमेदसंज्ञा। रभसादक्षं क्षिपन्तीति अनेन दायेन ममापि दायो भावीत्याकाल्लया। ततश्र श्रीकृष्णो वाक्च्छलं प्राप्याह-आक्षति। मम वामं च गण्डं दशेति लमाज्ञापयसि चेदवश्यमेवेति भावः । वामे च गण्डे कपोले ॥ ५६॥ जाम्बवतः सकाशान्मणिमाहृत्य मधुम- अलेन परिचितं तं स्तुवन् श्रीकृष्णस्तत् पूर्ववृत्तमाह। धन्यः स शङ्गचूडमणिरेवा- यमिति प्रत्यभिज्ञातः। उत्कृष्टो यो मदस्तेन तया राधया गूढप्रकाशमीलया। आवृता आकृतिर्यस्य तदपि संसुखस्याकूतमभिप्रायं वेदितुं शीलं यस्य सः।निष्ठी- वन् उद्गीर्य प्रकाशयन् श्रीराधां लज्जयामास मत्सुखापेक्षयेति भावः ॥५७ ॥ रूपमजरी खसखीमाह-कपटेति । अनिलेन कम्पि कम्पयुक्तम्॥५८ ॥

॥ ५६॥ कीर्णीकुर्वनू किरणलहरीं द्वेपयामास वस्ताम्। इति वा पाठः ॥५७॥

Page 627

६०४' ।:काव्यमाला।

अथाश्रेपो यथा- नवजागुडवर्णयोपगूढः स्फुरदम्रध्युतिरेतयोन्मदेन। हरति स्म हरिर्हिरण्यवल्ली परिवीतातमालमऋलानि॥५९॥ अथ नखक्षतं यथा- न च कुचाविमौ गतिजिता तया हृतं गजतः प्रसह्य सखि कुम्भयोर्युंगम्। क्षतमत्र नागदमनो यदर्पय- त्परमब्जजाङ्कशवरेण तत्क्षमम् ॥। ६० ॥ अथ बिम्बाधरसुधापानं यथा- न हि सुधाकरबिम्बसुधाकरं कुरु मुखं करभोरु करावृतम्।

पिबतु नीपवनीभ्रमरस्तव ॥ ६१ ॥

श्रीराधासखी वर्णयति-न वेति। जागुडवर्णया कुङ्कमवर्णया मङ्गलानि यशां सीत्यर्थः ॥ ५९ ॥ श्यामला श्रीराधां वर्णयन्ती परिहसति-गतिजितेति। स्वगत्या गजं पराजित्येत्यर्थः । अत एव नागदमनो महामात्र: गजाङ्गुशवरेणान्न यत् क्षतमपयेत्तत् क्षममुचितम्। पक्षे नागदमनः कालियमर्दनः। परं यथा स्यात्तथा अङ्ज़ाङ्कुशवरेण कामाङ्कुशमुख्येन नखेनेत्यादि।। ६० ॥ सयं श्रीकृष्णो दूती वा श्रीराधामाह-नहीति। सुधाकरबिम्बं मुधाकरोति व्यर्थीक-

रतिसङ्ग: कुङ्कुमं जागुडंमिति त्रिकाण्डदेशः ॥ ५८॥५९॥ नागदमनोऽन्र कालियमर्दी परं यथा स्यातथाङ्गजाक्कुश्ताख्येन नखेन क्षतमर्पयेत्। यत् तत् क्षमं युक्तं पक्षे नागदमनो महामात्रः । तथा गंजाङ्कशवरेणेत्यादि ॥ ६॥६१ ॥

Page 628

उज्जवलनीलमणिः । ६०५

अथ संप्रयोगो यथा- द्राम्दोर्मण्डलपीडनोद्धुरधियः प्रोद्दामवैजात्यया निर्बन्धादधरामृतानि पिबतः सीत्कारपूर्णस्य या। कन्दर्पोत्सवपण्डितस्य मणितैराक्रान्तकुञ्जान्तया सार्ध राधिकया हरेर्निधुवनक्रीडाविधिर्वर्धते॥ ६२॥ विदग्धानां मिथो लीलाविलासेन यथा सुखम्। नं तथा संग्रयोगेण स्ादेवं रसिका विदुः ॥।६३।। यथा- बलेन परिरम्भणे नखशिखाभिरुल्लेखनं हठादघरखण्डने भुजयुगेन बद्धक्रियाम्। दुकूलदलने हतिं कुवलयेन कुर्वाणया रतादपि सुखं हरेरघिकमादधे राया॥ ६४ ॥. यथा वा- नर्मोत्सेककलादगञ्चलचमत्कारी भ्रुवोर्विभ्रम: संव्यानस्य विकर्षणे चटुलतां कर्णोत्पलेनाहतिः ।

रोतीत्यर्थः । अधर एव रक्चणं रङ्गणपुष्पम्। अङ्ग हे वरानने ॥। ६१ ॥ अधुना कुजे का वार्तेति कुन्दलतया पृष्टा वृन्दा प्राह-द्रागिति। द्राक् शीघ्रं वैजात्यं प्रागल्भ्यं। भणितं सुरतध्वनिः ॥ ६२।। रहसि स्रीसंभोगो हि द्विविधः संप्रयोगो मिथो लीलाविलासश् । तत्राद उक्त: । द्वितीयस्योत्कर्षमाह-विद्ग्धाना- मिति॥६३ ॥ जालरन्ध्राक्षनिहिताक्ष्यः सख्यो द्वयोर्लीलाविलासं परस्परमा- -सादयन्ति-बलेनेति । द्यम्। लीलाविलासस्य उत्तरभागं दर्शयिला ततोऽपि सुरसं तस्य प्रथमं भागमुदाहर्तुमाह-यथा वेति।। ६४ ।। वजनागरीरतिगुरो: श्रीकृष्णस्य प्रथमं नर्मोत्सेककला तदा गान्धार्विकाया: श्रीराधाया तन्र संप्रयोगो यथेत्यारभ्य द्राग्दोर्मण्डलेत्यादिकं श्रीमद्विर्भन्थकारैरप्रकटितमपि क्ेनाप्युत्थापितमिति ज्ञेयम्। अनन्तरमेव हि खमतं वक्ष्यते विदग्धानामित्यादि

Page 629

६०६ काव्यमाला।

कीडेयं व्रजनागरीरतिगुरोर्गान्धर्विकायास्तथा भूयिष्ठं सुरतोत्सवादपि नवासवादं वितेने सुखम् ॥६५॥ अत एव श्रीगीतगोविन्दे- प्रत्यूह: पुलकान्तरेण निबिडाश्लेषे निमेषेण च कीडाकूतविलोकितेऽघरसुधापाने कथानर्मभिः । आनन्दाभिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभू- दुद्धूतः स तयोर्बभूव सुरतारम्भः प्रियंभावुकः ॥६६ ॥ यथा- गोकुलानन्द गोविन्द गोष्ठेन्द्रकुलचन्द्रमः। प्राणेश सुन्दरोत्तंस नागराणां शिखामणे ॥ ६७ ॥। वृन्दावनविधो गोष्ठयुवराजमनोहर। इत्याद्या व्रजदेवीनां प्रेयसीप्रणयोक्तय: ॥६८ ।।

दगच्चलचमत्कारी भ्रुवोर्विभ्रमः । ततः श्रीकृष्णस्य संख्यानविकर्षणे चटुलता। तदा श्रीराघायाः कर्णोत्पलेनाहतिः । अत्र प्रथमं लीलाविलासस्य पूर्वभागव्यजी नर्मोत्से- केति श्लोक: । ततस्तदुत्तरभागव्यज्ञी बलेन परिरम्मेण इति। ततश्र संप्रयोगव्यजी, द्राग्दोर्मण्डलेति लीलाक्रम: पूर्वपूर्वोत्कर्षः श्रीमद्गन्थकृतां मते अन्येषां तूत्तरोत्कर्षः ॥ ६५ । रसिकमहानुभावाश्रगण्यश्रीजयदेवपद्येनैव ग्रन्थमुपसंजिहीषुस्तन्मतेनैव स्मतं द्रयति-प्रत्यूह इति। स तयो रसिकसखीजनानुभवैकवेद्यः सुरतारम्भः उद्धूतः आविर्भूतो बभूव। यत्र निर्विडाश्लेषे ताभ्यामिष्य माणे पुलकाङ्करेणैव प्रत्यूहो विन्नोऽभूत्। एवं क्रीडाकूतविलोकिते निमे- षेणेत्यादि। एवं चाश्लेषावलोकनाधरसुधापानकामसग्रामाणां परभाभीष्टानां सामस्त्येनालाभेन तृष्णायाः शान्त्यभावात् सावशेषो हि रसः सुरसो भव- तीति न्यायेन रंसोत्कर्ष एव स्थापितः । अत एव प्रियंभावुक इति विशेषण सार्थ- कमेव ॥ ६६॥ समाप्ती मधुरनामसंकीर्तनेन मज्गलमाचरति-गोकुलानन्देति । ६७॥। अनुक्तलक्षणः सपरिकरो मधुररसः। एतावान् प्राचीनैरपि रसिककविभिर- ।ी ६२ ॥ स्वरूपेणातललात् प्रमाणेनापारलास॥६३॥६४॥६५॥६६ ।।

Page 630

उज्जकलनीलमणि: । ६०७

अतलत्वादपारत्वादासोऽसौ दुर्विगाहंताम्। स्पृष्टः परं तटस्थेन रसाब्धिर्मधुरो मया ॥ ६९ ॥

भजतु तव मकरकुण्डलपरिसरसेवौचितीं देव।। ७०॥ इति संभोगमेदप्रकरणम्। समाप्तोऽयं श्रीरूपदेवगोख्वामिरचित उज्वलनीलमणिनामा अन्थः।।

दर्शितलेनाज्ञातः प्रेमवद्भिरपि महानुभावभक्तैरप्यप्राप्तचरः कथ तत्र भवद्भिर्व- र्ितः आसादितश्र तत्र सदैन्यमाह-अतलत्वादिति। असौ मधुररसाब्धि- र्दुविंगाहताभाप्तः। कर्तृपदानुत्त्या रसावगाहनप्रसिद्धैः श्रीशुकदेवादिभिः प्राचीनैः श्रीलीलाशुक्जयदेवादिभिरर्वाचीनैश्व सवैरेवेत्यर्थः । अत्र दुर्विगाहपदेन सामस्ते- नावगाहाभाव उच्यते। अत्र हेतुद्वयम्। अतललादपारतादिति। जातिप्रमाणा- स्यामिति भावः । दास्यादिरसाब्धिम्यो जात्याधिका क्या)दतलतं प्रमाणाधिक्या- दपारतमित्यर्थः। मया लवगाहनगन्धेऽप्यसमर्थेन केवलतटस्थेन स्पृष्टः तटे स्थित्वा एकयैवाङ्गुल्या कणभात्रमुद्धृत्य खरसनायां विन्यस्त इत्यर्थ:।६८।। ६९ ।। संपूर्णस्यास्य अ्रन्थस्य खसेव्यचरणारविन्दश्रीगोविन्ददेवश्रवणविषयीभावं सवप्रयत्न- साफल्याय अ्रन्थकृदाशास्ते-अयमिति। उज््वल: शङ्गाररस एव नीलमणि- र्तन्नामा ग्रन्थश्च। कीदृशो गहनो दुष्प्रवेशो महाघोषः श्रीमाननन्दव्रजः। "घोष भामीरपल्ली स्वात्" इत्यमरः। स एव सागरो रक्तकादिश्रीदामादि-श्रीनन्दादि- :शीराधादि-गणलाद्दास्यसख्यवात्सल्योज्वलभावरल्नाकरस्तस्मिन् प्रकर्षेणोत्कर्षेण सवति सदा विद्यते इति सः। यद्वा गहनो दुरवगाहो महाघोषः श्रीनन्दव्रजो द्वादशरसाश्रयतया निरूप्यमाणलेन वर्तते यत्र तथाभूतः सागरो भक्तिरसामृत- सिन्धुस्तस्मात् प्रभवतीति सः तव मकरकुण्डलयोः परिरसः समीपदेशः कर्णरन्ध्रं तस्य सेवायामचितीमौचित्यं सुखेन ग्राह्यतवं रसपक्षे रसस्यापि शब्दगम्यताच्छ्रो- त्रग्राह्यलम् । ग्रन्थपक्षे सुसङ्गतमेव मणिपक्षे उज्वलो निर्मलः घोषः शब्द: । ६७ । ६८ ॥ ६९ ॥ अय मिति ग्रन्थः, पक्षे गहनमहाघोषः श्रीमन्नन्दराज- व्रजः स एव सागरस्तत्प्रभव इति तदेकदेशश्रीव्रजदेवीगणादुद्भूत इत्यर्थः। यद्वा गहनमहाघोषसागरः श्रीमान् रसामृतसिन्धुनामा प्राक्नो प्रन्थः । तस्मादुज्भूतः गहनलं दुरवगाहलम्। तत्र मकरकुण्डलेत्यादिना तु श्रवणाधानप्रार्थना मणिप-

Page 631

६०८ काव्यमाला।

परिसरस्तदेकदेशः सेवाजटितलं तेन च श्रीकृष्णस्यैव श्रवणयोग्यलेनास्य ग्र. परमरद्दस्यलं- तद्भकतजनपरमोपादेयलमनर्ध्यलमन्यजनेभ्यो गोपनीयलं व्यजितम् ॥ ६९ ।। ७० ॥ इति संभोगमेदवित्ृतिः ।

उज्वलनीलमणौ रसविदुषामानन्दचन्द्रिका टीका। इयंमिह विश्वजनीना भवताद्विश्वंभरप्रीतय।। टीकायां कारिका श्रीमजजीवगोखामिनां मया। अत्रैव परमोत्कर्ष इत्यत्रैकावलोकिता।। सा यथा-सेच्छया लिखितं किचित् किंचिदत्र परेच्छया। यत्पूर्वापरसंबद्धं तत्पूर्वसपरं परम्॥ इति। रागेणैवार्पितात्मान इत्यत्र व्याख्यया तथा। पत्नीभावाभिमानात्मेत्यत्रापि च तदीयया। दृष्टया हसितोऽभ्यासादादिमध्यावसानतः । मूल प्रन्थस्य तात्पर्यव्याख्यायां लब्धसाहस: ॥। तदीय चरणाम्भोजरजःकारुण्यलेशभाक्। यदत्र प्रालपं तत्र क्षमन्तां ते कृपाब्धयः ॥ आश्विने शुक्कपश्चम्यां वसुचन्द्रकलामिते। (१६१८) शाके वृन्दावने पूर्णाभवदानन्दचन्द्रिका।।

क्षस्तु सुगमः। तदेवमस्य प्रन्थस्य तदेकाराधनार्थतां तत्रापि रहस्यता व्यज् तादृशतदीयरहस्यरसाधारसंनिधानाधिकारिभिस्तद्रहस्येव पर्यालोचनीयतामुपदिदे शेति लब्धम्। ततश्च परमोपदेष्टणां तेषामनुगतिर्न केनचिदप्युल्ङ्गनीया॥ ७० यत :- कृष्णस्य निर्जनविहारविकाशकोऽयं खालोकनाय रहसि प्रकटय्य गुपतः।

द्यक्ति: (कः) स एष इति कस्य समक्षमेव।। n * ॥ इति संभोगमेदाः ॥*॥

सनातनसमो यस्य श्रीमान् ज्यायान् सनातनः । श्रीवल्मभोऽनुजः सोऽसौ श्रीरूपो जीवसद्गतिः ॥ ॥* ॥ संपूर्णेयं श्रीमदुज्ज्वलनीलमणिप्रन्थस्य लोचनरोचनीनान्नी टीका ॥*।।