1. Vajrasuchikaa Upanishad
Page 1
॥ वज्रसूचिका उपनिषद्॥
vajrasUchikA upanishhad.h1
॥श्री गुरुभ्यो नमः हरिः ॐ॥
यज्ञज्ञानाद्यन्त मुनयो ब्राह्मण्यं परमाड़ुतम् ।
तत्राप्येकत्वमत्प्राप्तं महर्षिभिश्चितये ॥
ॐ आप्यायन्त्वति शान्तिः॥
चित्सदानन्दरूपाय सर्वधीरवृत्तिसाक्षिणे ।
नमो वेदान्तवेद्याय ब्रह्मणे ऽनन्तरूपिणे ॥
ॐ वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् ।
दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥१॥
ब्राह्मक्षत्रियवैश्यशूद्रा इति चत्वारो वर्णास्तेषां वर्णानां ब्राह्मण एव
प्रधान इति वेदवचनानुरूपं स्मृतिभिरपयुक्तम ।
तत्र चोद्यमस्ति को वा ब्राह्मणो नाम किं जीवः किं देहः किं जातिः किं
ज्ञानं किं कर्म किं धार्मिक इति ॥
तत्र प्रथमो जीवो ब्राह्मण इति चेत् तन्न । अतीतानागताने कदेहानां
जीवस्यैकरूपत्वात् एकस्यापि कर्मवशादनेकदेहसंभवात् सर्वशरीराणां
जीवस्यैकरूपत्वाच्च । तस्मात् न जीवो ब्राह्मण इति ॥
तर्हि देहो ब्राह्मण इति चेत् तन्न । आचाण्डालादिपर्यन्तानां मनुष्याणां
पञ्चभौतिकत्वेन देहस्यैकरूपत्वात्
जरामरणधर्माधर्मादिसाम्यदर्शनात् ब्राह्मणः श्वेतवर्णः क्षत्रियो
रक्तवर्णो वैश्यः पीतवर्णः शूद्रः कृष्णवर्णः इति नियमाभावात् ।
पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्यादिदोषसंभवाच्च ।
तस्मात् न देहो ब्राह्मण इति ॥
तर्हि जाति ब्राह्मण इति चेत् तन्न । तत्र
जात्यन्तरजन्तुष्वनेकजातिसंभवात् महर्षयो बहवः सन्ति ।
Page 2
ऋष्यशृङ्गो मृगयात:, कौशिक: कुशात, जाम्बूको जाम्बूकात, वाल्मीको वाल्मीकात, व्यास: कैवर्तकन्यकायाम्, शशपृष्ठात् गौतम:, वसिष्ठ उर्वश्याम्, अगस्त्य: कलशे जात इति श्रुतत्वात् । एतेषां जात्या विनाप्ये ज्ञानप्रतिपादिता ऋषयो बहव: सन्ति । तस्मात् न जाति ब्राह्मण इति ॥
तर्हि ज्ञानं ब्राह्मण इति चेत् तन्न । क्षत्रियादयोऽपि परमार्थदर्शिनोडभिज्ञा बहव: सन्ति । तस्मात् न ज्ञानं ब्राह्मण इति ॥
तर्हि कर्म ब्राह्मण इति चेत् तन्न । सर्वेषां प्राणिनां प्रारब्धसञ्चितागामिकर्मसाधर्म्यदर्शनानात्कर्माभिप्रेरिताः सन्तो जनाः क्रियाः कुर्वन्तीति । तस्मात् न कर्म ब्राह्मण इति ॥
तर्हि धार्मिको ब्राह्मण इति चेत् तन्न । क्षत्रियादयो हिरण्यदातारो बहवः सन्ति । तस्मात् न धार्मिको ब्राह्मण इति ॥
तर्हि को वा ब्राह्मणो नाम । य: कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं षडूर्मिषड्भावेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं स्वयम् निर्विकल्पमशेषकल्प्याश्रयमशेषमूर्त्यन्त्यामितत्वनिवर्तमानमनन्तर्यब्रह्मैकत्वानुस्यूतत्मखण्डानन्दस्वभावमप्रमेयमनुभवैकवेद्यमपरोक्षतया भासमानं करतळामलकवत्साक्षादपरोक्षीकृत्य कृतार्थतया कामरागादिदोषरहितः शमदमादिसंपन्नो भाव मात्सर्य तृष्णा आशा मोहादिरहितो दम्भाहङ्कारदभिरसंप्रष्टचेता वर्तत एवमुक्तलक्षणो यः स एव ब्राह्मणेति श्रुतिस्मृत्यादिहासपुराणाभ्यामभिप्रायः । अन्यथा हि ब्राह्मणत्वसिद्धिर्नास्त्येव ।
सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म भावयेदित्युपनिषत् ॥
ॐ आप्यायन्त्विति शान्तिः ॥
॥ इति वज्रसूच्युपनिषत्समाप्ता ॥
॥ भारतीरमणमुख्यप्राणन्तर्गत श्रीकृष्णार्पणमस्तु ॥
Page 4
वज्रसूचिकोपनिषत्
अथ वज्रसूचिकोपनिषद् ।
जातिर्नाम न गोत्रं न रूपं न कर्म न स च ब्राह्मणः ।
ज्ञानं तु ब्राह्मणं विद्यात् ।
न जातिर्न गोत्रं न रूपं न कर्म ।
ज्ञानमेव ब्राह्मणत्वस्य कारणम् ।
ज्ञानहीनो न ब्राह्मणः ।
कश्चिद् वेदान् पठित्वापि ब्राह्मणो न भवति ।
कश्चिद् वेदान् न पठित्वापि ब्राह्मणो भवति ।
वेदाध्ययनाद् ब्राह्मणत्वं न सिद्ध्यति ।
अनेनैव न्यायेन देवलः कपीशो वसिष्ठः नारदः सनकः सनन्दनः सनातनः सनत्कुमारः शुकः शौनकः ।
अन्येऽपि बहवः ऋषयो बाह्यजातीयाः प्रथमं दिव्यज्ञानोपदेशकत्वेन स्थिता अभवन् ।
अतः जातिर्न ब्राह्मणः ।
ज्ञानं तु ब्राह्मणत्वस्य कारणम् ।
किम् ज्ञानं ब्राह्मणः ? न ।
बहवः क्षत्रियादयो दिव्यसत्यज्ञानसम्पन्ना अभवन् ।
अतः ज्ञानं न ब्राह्मणः ।
किम् कर्म ब्राह्मणः ? न ।
प्रारब्धसञ्चितागामिकर्माणि सर्वेषां तुल्यानि ।
सर्वेऽपि कर्मणा प्रवर्तन्ते ।
अतः कर्म न ब्राह्मणः ।
किम् धर्मकर्ता ब्राह्मणः ? न ।
बहवः क्षत्रियादयो दानादिधर्मपरायणाः ।
अतः धर्मकर्ता न ब्राह्मणः ।
कः पुनः ब्राह्मणः ?
यो यः आत्मानं साक्षादपरोक्षीकरोति ।
स साक्षाद् आत्मानं जानाति ।
यथाऽऽत्मनि आमलकं हस्ते ।
जातिकर्मादिभिर् द्वैतरहितः ।
षड् दोषैः षड् विकारैः रहितः ।
सत्यज्ञानानन्दनित्यत्वादिस्वरूपः ।
स्वयं निर्विकारो यः ।
सर्वकालेषु सर्वेषां आधारभूतः ।
सर्वव्यापकः ।
आकाशवत् ।
अखण्डानन्दस्वरूपः ।
तर्काद्यागोचरः ।
साक्षाद् अपरोक्षाद् अनुभवरूपेण ज्ञायते ।
स कामनासंयुक्तो भोगेच्छारहितः ।
स यमादिसम्पन्नः ।
रागद्वेषादिरहितः ।
मानादिममादिरहितः ।
स ब्राह्मणः ।
इति वज्रसूचिकोपनिषत् ।
Page 5
ऎतद्वेदस्मृतिशास्त्रपुराणानामभिप्रायः । अन्यथा ब्रह्मत्वसिद्धिर्नास्ति । स्वात्मानं सच्चिदानन्दाद्वैतब्रह्मरूपेण भावयेत् । यद्वा स्वात्मानं सच्चिदानन्दब्रह्मरूपेण भावयेत् । ऎतदुपनिषत् ।
ॐ तत् सत्