Books / Vajrasuchikaa Upanishad

1. Vajrasuchikaa Upanishad

Page 1

॥ वज्रसूचिका उपनिषद्॥

vajrasUchikA upanishhad.h1

॥श्री गुरुभ्यो नमः हरिः ॐ॥

यज्ञज्ञानाद्यन्त मुनयो ब्राह्मण्यं परमाड़ुतम् ।

तत्राप्येकत्वमत्प्राप्तं महर्षिभिश्चितये ॥

ॐ आप्यायन्त्वति शान्तिः॥

चित्सदानन्दरूपाय सर्वधीरवृत्तिसाक्षिणे ।

नमो वेदान्तवेद्याय ब्रह्मणे ऽनन्तरूपिणे ॥

ॐ वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् ।

दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥१॥

ब्राह्मक्षत्रियवैश्यशूद्रा इति चत्वारो वर्णास्तेषां वर्णानां ब्राह्मण एव

प्रधान इति वेदवचनानुरूपं स्मृतिभिरपयुक्तम ।

तत्र चोद्यमस्ति को वा ब्राह्मणो नाम किं जीवः किं देहः किं जातिः किं

ज्ञानं किं कर्म किं धार्मिक इति ॥

तत्र प्रथमो जीवो ब्राह्मण इति चेत् तन्न । अतीतानागताने कदेहानां

जीवस्यैकरूपत्वात् एकस्यापि कर्मवशादनेकदेहसंभवात् सर्वशरीराणां

जीवस्यैकरूपत्वाच्च । तस्मात् न जीवो ब्राह्मण इति ॥

तर्हि देहो ब्राह्मण इति चेत् तन्न । आचाण्डालादिपर्यन्तानां मनुष्याणां

पञ्चभौतिकत्वेन देहस्यैकरूपत्वात्

जरामरणधर्माधर्मादिसाम्यदर्शनात् ब्राह्मणः श्वेतवर्णः क्षत्रियो

रक्तवर्णो वैश्यः पीतवर्णः शूद्रः कृष्णवर्णः इति नियमाभावात् ।

पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्यादिदोषसंभवाच्च ।

तस्मात् न देहो ब्राह्मण इति ॥

तर्हि जाति ब्राह्मण इति चेत् तन्न । तत्र

जात्यन्तरजन्तुष्वनेकजातिसंभवात् महर्षयो बहवः सन्ति ।

Page 2

ऋष्यशृङ्गो मृगयात:, कौशिक: कुशात, जाम्बूको जाम्बूकात, वाल्मीको वाल्मीकात, व्यास: कैवर्तकन्यकायाम्, शशपृष्ठात् गौतम:, वसिष्ठ उर्वश्याम्, अगस्त्य: कलशे जात इति श्रुतत्वात् । एतेषां जात्या विनाप्ये ज्ञानप्रतिपादिता ऋषयो बहव: सन्ति । तस्मात् न जाति ब्राह्मण इति ॥

तर्हि ज्ञानं ब्राह्मण इति चेत् तन्न । क्षत्रियादयोऽपि परमार्थदर्शिनोडभिज्ञा बहव: सन्ति । तस्मात् न ज्ञानं ब्राह्मण इति ॥

तर्हि कर्म ब्राह्मण इति चेत् तन्न । सर्वेषां प्राणिनां प्रारब्धसञ्चितागामिकर्मसाधर्म्यदर्शनानात्कर्माभिप्रेरिताः सन्तो जनाः क्रियाः कुर्वन्तीति । तस्मात् न कर्म ब्राह्मण इति ॥

तर्हि धार्मिको ब्राह्मण इति चेत् तन्न । क्षत्रियादयो हिरण्यदातारो बहवः सन्ति । तस्मात् न धार्मिको ब्राह्मण इति ॥

तर्हि को वा ब्राह्मणो नाम । य: कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं षडूर्मिषड्भावेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं स्वयम् निर्विकल्पमशेषकल्प्याश्रयमशेषमूर्त्यन्त्यामितत्वनिवर्तमानमनन्तर्यब्रह्मैकत्वानुस्यूतत्मखण्डानन्दस्वभावमप्रमेयमनुभवैकवेद्यमपरोक्षतया भासमानं करतळामलकवत्साक्षादपरोक्षीकृत्य कृतार्थतया कामरागादिदोषरहितः शमदमादिसंपन्नो भाव मात्सर्य तृष्णा आशा मोहादिरहितो दम्भाहङ्कारदभिरसंप्रष्टचेता वर्तत एवमुक्तलक्षणो यः स एव ब्राह्मणेति श्रुतिस्मृत्यादिहासपुराणाभ्यामभिप्रायः । अन्यथा हि ब्राह्मणत्वसिद्धिर्नास्त्येव ।

सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म भावयेदित्युपनिषत् ॥

ॐ आप्यायन्त्विति शान्तिः ॥

॥ इति वज्रसूच्युपनिषत्समाप्ता ॥

॥ भारतीरमणमुख्यप्राणन्तर्गत श्रीकृष्णार्पणमस्तु ॥

Page 4

वज्रसूचिकोपनिषत्

अथ वज्रसूचिकोपनिषद् ।

जातिर्नाम न गोत्रं न रूपं न कर्म न स च ब्राह्मणः ।

ज्ञानं तु ब्राह्मणं विद्यात् ।

न जातिर्न गोत्रं न रूपं न कर्म ।

ज्ञानमेव ब्राह्मणत्वस्य कारणम् ।

ज्ञानहीनो न ब्राह्मणः ।

कश्चिद् वेदान् पठित्वापि ब्राह्मणो न भवति ।

कश्चिद् वेदान् न पठित्वापि ब्राह्मणो भवति ।

वेदाध्ययनाद् ब्राह्मणत्वं न सिद्ध्यति ।

अनेनैव न्यायेन देवलः कपीशो वसिष्ठः नारदः सनकः सनन्दनः सनातनः सनत्कुमारः शुकः शौनकः ।

अन्येऽपि बहवः ऋषयो बाह्यजातीयाः प्रथमं दिव्यज्ञानोपदेशकत्वेन स्थिता अभवन् ।

अतः जातिर्न ब्राह्मणः ।

ज्ञानं तु ब्राह्मणत्वस्य कारणम् ।

किम् ज्ञानं ब्राह्मणः ? न ।

बहवः क्षत्रियादयो दिव्यसत्यज्ञानसम्पन्ना अभवन् ।

अतः ज्ञानं न ब्राह्मणः ।

किम् कर्म ब्राह्मणः ? न ।

प्रारब्धसञ्चितागामिकर्माणि सर्वेषां तुल्यानि ।

सर्वेऽपि कर्मणा प्रवर्तन्ते ।

अतः कर्म न ब्राह्मणः ।

किम् धर्मकर्ता ब्राह्मणः ? न ।

बहवः क्षत्रियादयो दानादिधर्मपरायणाः ।

अतः धर्मकर्ता न ब्राह्मणः ।

कः पुनः ब्राह्मणः ?

यो यः आत्मानं साक्षादपरोक्षीकरोति ।

स साक्षाद् आत्मानं जानाति ।

यथाऽऽत्मनि आमलकं हस्ते ।

जातिकर्मादिभिर् द्वैतरहितः ।

षड् दोषैः षड् विकारैः रहितः ।

सत्यज्ञानानन्दनित्यत्वादिस्वरूपः ।

स्वयं निर्विकारो यः ।

सर्वकालेषु सर्वेषां आधारभूतः ।

सर्वव्यापकः ।

आकाशवत् ।

अखण्डानन्दस्वरूपः ।

तर्काद्यागोचरः ।

साक्षाद् अपरोक्षाद् अनुभवरूपेण ज्ञायते ।

स कामनासंयुक्तो भोगेच्छारहितः ।

स यमादिसम्पन्नः ।

रागद्वेषादिरहितः ।

मानादिममादिरहितः ।

स ब्राह्मणः ।

इति वज्रसूचिकोपनिषत् ।

Page 5

ऎतद्वेदस्मृतिशास्त्रपुराणानामभिप्रायः । अन्यथा ब्रह्मत्वसिद्धिर्नास्ति । स्वात्मानं सच्चिदानन्दाद्वैतब्रह्मरूपेण भावयेत् । यद्वा स्वात्मानं सच्चिदानन्दब्रह्मरूपेण भावयेत् । ऎतदुपनिषत् ।

ॐ तत् सत्