1. Vasistasangraha Venkatrama Shastri Sringeri
Page 1
॥ श्रीः ।।
॥ श्रीगुरुम्यो नमः ।।
॥ श्रीवासिष्ठसंग्रहः ॥
श्री-शृम्गगिरि-शारदापीठाधीश्वराणां जगदाचार्याणां अव्याजकरुणा- भाजनेन श्रीसदाशित्रेन्द्रसरस्वतोूज्यपादेम्यो लब्धतुर्याश्रम- क्रमेग श्रीज्ञानानन्दभारतीस्वामिना संगृहीतः।
शरी-शृङ्गगिरि-श्रीजगह्गु5चर गैः सादर अनुपृहीतेन श्रीमुखेन विभूषितः।
श्रीरङ्गस्थेन आस्थानपण्डितेन श्री-वेङ्कटरामशास्त्रिणा परिशोध्य
भृङ्गगिरि-श्रीजगद्गुरुसंस्थानद्वारा प्रकाशितः ।
श्रीरंगस्थ-श्रीवाणीविला समुद्रणालये सुद्रापित: ।
1973
Page 2
सस्थान हंन
सरस्वती अनबार
मंगरी
XKX
श्रीदक्षिणानाय शृङ्गगिरि श्रीशारदापीठाधिपति श्रीजग्गुरु श्री मदभिनव विद्यातीर्थमहास्वामिन:
Page 3
श्रीशृङ्गेरी जगद्गुरु महासंस्थानम्, शारदापा०न श्रीमत्पर महंसपरिव्राजकाचार्यवर्य पदवाक्यप्रमाणपारावारपारीण यमनिय- मासन प्राणायाम प्रत्याहार धारणाध्यान समाध्यष्टाङ् योगानुष्ठाननिष्ठ तपश्वक्रवत्यनाद्यविच्छिन्न श्रीशङ्कराचार्य गुरुपरंपराप्राप्त षड्दर्शन- स्थापनाचार्य व्याख्यान सिंहासनाधीश्वर सकलनिगमागमसार- ह्हदय सांख्यत्रयप्रतिपादक वैदिकमार्गप्रवर्तक सर्वतन्त्रस्वतन्त्रादि राजधानी विद्यानगर महाराजधानी कर्णाटकसिंह्दासनप्रतिष्ठापना- चार्य श्रीमद्राजाधिराजगुरुभूमण्डलाचार्य ऋष्यशृङ्गपुरवराधीश्वर तुङ्गभद्रातीरवासि श्रीमद्विद्याशङ्कर पादपम्माराधक श्रीजगङ्गुरु श्री चन्द्रशेखर भारती स्वामि गुरुकरकमलसञ्जात श्रीजगद्गुरु शृम्गेरी श्रीमदभिनवविद्यातीर्थस्वामिभिः अनुगुह्ीतं ॥ श्रीमुखम् ॥ आध्यात्मिकाधिदैविकाधिभौतिकै: क्लेशैः अनुपद्रुतः न कश्िदसिति मानव:। बहुभिः आयासैः लौकिकीं भूयसीं संपर्त्ति समार्ज्य नीतिमनुरुन्धानोऽपि व्यथाभि: कर्शितान्तरङ्ग:
Page 4
ii
रोहितं विवेचकानाम्। सत्यां चास्यामवस्था- दधीषुः श्रुतिः "तमेव विदित्वा अतिमृत्युमेति" दात सकलस्यापि दुःखजातस्य अत्यन्ते देवस्य प्रकाशमानस्य आत्मनः यथातथं स्वरूपावगममेव साधनमाह। स्वरूपावगमनं च अत्यन्तानां सम्यक परिशीलनेनैव स्वायत्तसाधनसंपर्दा केषांचिदेव प्राज्ञपुरुषधौरेयाणां भविष्यति॥ सुकुमारमतयः दुरूहं आत्मतत्वं श्रुतिशिरोवचोभिरेव अवगन्तुं न प्रभवेयुः। अतः तादृशानपि अनुजिघृक्षुः सुनि- र्वाल्मीकि: सरसैः नैकैंः कथाप्रपश्चैः सरलं प्रपश्चयामास । तस्य ग्रन्थस्य अभिधा "श्रीयोगवासिष्ठः" इति। स च अर्थतः शब्दतश्च अत्यन्तं विस्तृतोऽस्ति। तं च विरलावकाश्ाः तत्ववुधुत्सवः समुत्सुका अपि परिशीलयितुं अशक्ता इति चिन्तयन्तः श्रीपरमहंसाः ज्ञानानन्दभारतीस्वामिन: तस्यैव ज्ञातव्यार्थप्रकाशकं लघुसंग्रहं व्यतन्वत। वयमिमं संग्रहं अवलोक्य समतुष्याम। आश्ञास्महे च वासिष्ठलघुसंग्रह्ोऽयं जिज्ञासुजनोपकारको भूयादिति॥
शृङ्गगिरि: प्रमादीच श्रावणवदि सप्तमी इन्दुवासर: इति नारायणस्मरणम् 20-8-1973 विद्यातीर्थः।
Page 5
।। प्रस्तावना ॥ के. एस. वेङ्कटरामशास्त्री, व्याकरणशिरोमणिः, वेदान्तविद्वान् "श्रीश ङ्गरवृपा " सहसंपादकः, श्रीरङ्गम्।
अनादाविह संसारे सर्वेऽपि मानवाः स्व्रीयं नित्यशुद्धबुद्ध- मुक्तसच्चिदानन्दस्वरूपं अविद्यावशात् विस्मृत्य सर्वमपि जगत् भिन्न- भिन्नं परमार्थ च पश्यन्ति। आत्मनि च कर्तृत्वभोक्तृत्वादी- नारोपयन्ति। रागद्वेषादिदोषमूलकानि नानाविधानि पुण्य- पापात्मकानि कर्माणि सर्वदा कुर्वन्ति। तद्लेन चानुम्यूततया प्रवर्तमाने जन्ममरणप्रवाहे निमज्जन्ति। कामक्रोधादिभिरर्दिता :- तापत्रयपीडिता: सर्वदा दुःखपरम्परामेव चानुभवन्ति इति नैवाविदितं विवेकवतां लोकपरीक्षकाणाम्। महता प्रयत्नेन कदाचित् एकस्मिन् दुःखे निवृत्तेऽपि सध एव दुःखमन्यत् समागच्छति। विषयानुभवेन जायमानं सुखमपि दुःखसंमिश्रित- · मितिकृत्वैव वैषयिकसुखस्यापि दुःखकोटौ निवेशः कृतो महात्मभिः॥ समालोच्य चैतां परिस्थिति केचित् पुरुषधौरियाः अत्यन्तं निर्विण्णा: विवेकादिसाधनचतुष्टयसंपन्ना भवन्ति; तेषामात्यन्तिकदुःख- निवृत्तये नित्यनिरतिशयानन्दलाभाय च प्रवृत्ताः उपनिषदः नाना- प्रकारेण परमार्थतत्त्वमुपदिशन्ति। आचार्यमुखेन आम्नायान्त- प्रतिपादितार्थपरिशीलनेन, मननादिना च मोक्षसाधनं तत्त्वज्ञानँ
Page 6
ii
जायते। तेन सर्व दुःखकारणीभूताविद्यानाशात् दुःखासंस्पृष्टनित्य- निरतिशयानन्दाअप्तिः सिध्यति। उपनिषत्तु च बहुत्र आख्यायिकामुखेन तत्त्वप्रतिपादनरीति: समाद्ृता सुलभावगाहाय।
एवं सत्यपि सूक्ष्मबुद्धिमात्रसमिगम्यस्यात्यन्तदुरूहस्य जीवब्रह्म प्रपख्चतत्त्वस्य सम्यक परिज्ञानं नैव संभवति असंभावनादि- दोषदूषितहृदयानां मनुष्याणाम् उपनिषत्परिशीलनमात्रेण, प्रत्य- उब्रह्मैक्य-प्रपञ्च्मिध्यात्वादिबाधकानां बह्वीनां युर्क्तानामनुभवानां च दर्शनात्। यदयपि स्मृतिपुराणादिषु क्वचित्कचित् उपनिषदर्थ- विवरणं दश्यते, अथापि धर्मप्रतिपादनप्रधानेषु तेषु ग्रन्थेषु ज्ञान- मार्गप्रतिपादनमत्यल्पमेव वर्तते। किंच जीव ब्रह्ैक्य-प्रपश्च- मिथ्यात्वादिसाधकयुक्तिप्रदर्शन तु उपनिषत्सु वा स्मृतिपुराणादिषु बा नाधिकं पश्यामः। युक्तिभिरनुचिन्तनमेव हि मननं अवितुमहति। मननेनैत्र हि असंभावना निराकता भवति। उपपन्नाभिर्युक्तिभिः प्रपख्वमिध्यात्वे निश्चिते सत्येव अद्वतं परमार्थ- तत्त्वं सम्यगवगन्तुं शक्यते।
श्रीमद्वाल्मीकिमहर्षि प्रणीते योगवासिष्ठ-ज्ञानवासिष्ठाभिधाने द्वात्रिशत्सहसत्रश्लोकात्मके महाग्रन्थे तु काव्यपुराणेतिहासशैली- खलम्ब्य श्रत्यन्तप्रतिपादिता: तदुपयोगिनश्च सर्वेऽपि विषया: निश्शेषं नानाख्यानकैः सर्वाशकानिराकरणपराभिः बह्वीभिर्युक्तिभि: सदृष्टान्तमतिविस्तरेणानुवर्णता दृश्यन्ते।
Page 7
iii
वेदवेध्ये परे पुंसि जाते दशरथात्मजे। वेदः प्राचेतसादासीत् साक्षात् रामायणात्मना ।।
सर्ववेदप्रतिपाद्यस्य परब्रह्मणः यदा श्रीरामरूपेणावत्तार: समभूत्, तदा तत्प्रतिपादको वेदोऽपि तद्वियोगमसहिष्णुरिव श्रीवाल्मीकिमुखात् श्रीरामायणात्मना अवततार इति च विदितमेव हि सर्वेषाम्। तत्र च अनुष्ठेयधर्माणां प्रतिपादकं रामायणं श्रुत्येक- देशकर्मकाण्डस्यैवापरं रूपम्। ज्ञानकाण्डभूतवेदान्तस्यापरा मूर्तिस्तु योगवासिष्ठमेव।
श्रीरामचन्द्रोऽतिबाल्य एव विद्याभ्यासानन्तरं लब्ध्वा पितुरनुज्ञां, तीर्थयात्रया देशाननेकानटित्वा सर्वत्रापि प्राणिभि- रनुभूयमानं दुःखं साक्षात् दृष्टा नितान्तं निर्विण्णमानस: निरुत्साहः शारीरकार्यकरणेऽपि अभिरुचिरहितिः प्रवृत्तिपराङ्मुखः सदा एकान्ते तूष्णीमवतस्थे। तस्मिन्नेव समये विश्वामित्र: अयोध्यामागत्य, राक्षसोपद्रवात् स्त्रीययज्ञसरक्षणाय रामं नेतुं दशरथमयाचत। पुन्नवात्सल्येन प्रथमतो निराकुर्वन्नपि दशरथः आचार्यवसिष्ठोपदेशेन प्रसन्नमनाः सन् राम नेतुं अङ्गीचकार। परिजनमुखात् तदानींतन-रामपरिस्थितिं विज्ञाय वसिष्ठविश्वामित्र- मुनी तदा समागतं रामं निर्वेदकारणं अपृच्छताम्। श्रीरामश्च वैराग्यकारणभूतान् विषयदोषान् विस्तरेण वर्णयामास। ततश्र विश्वामित्रप्रेरणया वसिष्ठः तदीयमोहनिवारणाय विस्तरेण वेदान्त-
Page 8
iv
अतिपादितं तत्त्वमुपदिशति। मध्ये मध्ये श्रीरामकृतप्रन्नानां उत्तर- चर्णनप्रसंगेन नानाकथाभिः मुमुक्षुज्ञेयान् सर्वानपि विषयान् चर्णयति। सर्वस्यापि प्रपञ्चस्य स्वप्नतुल्यत्वेन मिथ्यात्वं बह्नीभि- र्युक्तिभिनिर्धारयति। कुरुक्षेत्रे युद्धारम्भसमये प्रवृत्तं श्रीकृष्णार्जुनसंवादं यथा ्यास: सप्तभिः श्लोकशतैरुनिबबन्ध, एवं वसिष्ठरामसंवाद श्रीवाल्मीकि: द्वात्रिंशत्सहस्रक्कोकैः महाग्रन्थरूपेण निबध्य स्वशिष्याय भरद्वाजायोपदिदेश। आध्यात्मिकं तत्त्वं सर्वमपि निश्शेषं विस्तरेण वर्णयति अस्मिन् ग्रन्थे विद्यमानः कथाभागः तद्न्तर्गतनगरवनादिवर्णनं च काव्यपुराणरीत्या ततोऽपि शतगुण- विस्तृतं वर्तत। विषयगौरवे सत्यपि ग्रन्थविस्तरात् एतत्ग्रन्थ- परिशीलने सर्त्रेषां प्रवृत्तिर्नाम्तीति एतस्मात् कारणात् काश्मीर- देशीय: अभिनन्दनपण्डितः षट्सहस्रश्रोकेषु योगवासिष्ठ संगृह्य लघुतासिष्ठनामानं ग्रन्थं रचयामास। अधुनातनास्तावत् तद्पि विस्तृतमेव मन्यन्ते। वासिष्ठप्रतिपादितविषयजिज्ञासा च तेषु प्ररूढा वर्तते। तेषां कृते श्रीज्ञानानन्दभारतीस्वामिनः परमलघु- वासिष्ठरूपं श्रीवासिष्ठसंग्रहाभिधानं सप्तशताधिकसह स्रश्लोकात्मकं अ्न्थमिमं प्रणीय जिज्ञासुलोकस्य महान्तमुपकारमकुर्वन्। ग्रन्थे चास्मिन् अवश्यविज्ञेयाः मूलान्तर्गताः विषया: सर्वेऽपि कथाभाग- सहिता: अन्यूनमनुवर्णिता: सरंक्षेपेण। लघुवासिष्ठत्रत् अत्रापि बहुषु स्थलेषु मूलगता: श्रोकाः तथैव दृश्यन्ते।
Page 9
विषयस्य संग्रहेण वा विस्तरेण वा प्रतिपादने दक्षा: एते विपश्चिदपश्चिमा यतीन्द्रा: स्त्रप्रणीतं ग्रन्थमिमं श्रीदक्षिणास्नाय- श्रीशृङ्गगिरि-श्रीशारदापीठाधिपानां श्रीजगद्गुरुणां श्रीमदभिनव- विद्यातीर्थश्रीचरणानां दिव्यचरणसरोजयोः समर्पयन्ति स्म। श्रीजगद्गुरवश्च ग्रन्थमेतमामूलाग्रं समवलोक्य, संमुद्रय प्रकाश- क््यतुं प्रीतिपुरस्सरमाज्ञाप्य श्रीमुखप्रदानेन च महान्तमनुग्रह- मतानिषुः। तत्रभवतामाचार्यपादा ना म ज्ञामनुसृत्य ग्रन्थोडयं इदानीं प्रकाशीक्रियते।
मूलग्रन्थे योगवासिष्ठ निर्वाणाख्ये अन्तिमप्रकरणे उत्तरार्घे विद्यमाना: विषया: सर्वेपि पूर्व प्रकरणेषुववर्णितप्राया एव। समान एव विषयः शब्दान्तरेण पुनः प्रतिपाद्ते। अनेनैव कारणेन पौनरुक्यपरिहाराय लघुवासिष्ठे स्वीये ग्रन्थे अभिनन्दनपण्डित: उत्तरा्ध न संगृहीतवान्। तामेव पद्धतिमनुसृत्य अस्मिन् अपिं त्रन्थे उत्तराध न संगृहीतम् ।
वेदान्तार्थ प्रतिपादकेषु प्राचीनग्रन्थेषु सर्वोत्तमतया सर्वै- एभ्युपगतस्य योगवासिष्ठस्य परमसंग्रहभूतमिमं अ्रन्थ सर्वेऽपि स्वीकृत्य पुनः पुनः परिशीलनं कृत्वा वसिष्ठोपिष्टानर्थान् सम्यगव- मत्य तञ्चिन्तनेन परमार्थतत्त्वं विज्ञाय कृतार्थतालाभाय प्रयतनं कुर्वन्तु इति अभ्यर्थये॥
Page 10
। विषयसूचिका ॥ -: O :-
सर्ग: १ श्रीरामनिर्वेद:
१ भरद्वाजप्रश्नः २ विश्वामित्रागमनम् ३ जीवितं दुःखमयम् ४ वयोवस्थाः दुःखदाः ५ कालवैभवम् सर्गः २ उपदेशोपक्रमः १८-१६ १ शुकोपाख्यानम् १० २ वासना द्विविधा १३ ३ मोक्षद्वारपालकाः १४ सर्ग: ३ उत्पत्तिक्रम: १७-२१ १ बन्धस्वरूपम् १७ २ मनोमयं जगत् १८ ३ जीवन्मुक्त्तलक्षणम् १९
४ ब्रह्मस्वरूपम् २१
सगे: ४ लीलोपाख्यानम् २२-३१ १ देवीवरप्राप्ति: २२ २ पूर्ववृत्तान्तः २४
Page 11
३ ब्रह्माभ्यासः २६
४ अनन्तरवृत्तान्तः २ ७
५ पुनरागमनम् २९
सर्गः ५ सूच्युपाख्यानम् ३१-३६ १ सूचीतपः ३१ २ सूचीकृतप्रश्नः ३३ ३ सूचीसमाधानम् ३४
सर्ग: ६ भावनावैभवम् ३७-४३ १ ऐन्दवोपाख्यानम् ३७ २ विटोपाख्यानम् ३८: ३ चित्तोपाख्यानम् ३९.
४ बालकाख्यायिका ४१
सर्गः ७ लवणोपाख्यानम् ४३-५३० १ शाम्बरिकेन मोहनम् ४३. २ संसारविभ्रमः ४६. ३ अज्ञान-भूमिका: ४९
४ ज्ञान-भूमिकाः ५०.
५ अविद्यामाहात्म्यम् ५१
सरग: ८ भार्गवोपाख्यानम् ५३-५6 १ भार्गवमनोराज्यम् ५३:
Page 12
३
२ भार्गवप्रबोधनम् ५५ ३ मनोमलक्षालनम् ५६
सर्गः ९ दामाद्युपाख्यानम् ५८-६४
१ अहंकारोदयः ५८ २ अहंकारः त्रिविध: ६० ३ निर्वासनता ६१ ४ जीवाविर्भाव:
सर्गः १० दाशूरोपाख्यानम् ६५-७३
१ सृष्टिकमः ६५ २ दाशूरतप: ६७ ३ पुत्र प्रबोधनम् ६८ ४ सकल्पप्रभाव: ६९ ५ वासनात्याग: ७१
सर्गः ११ जनकोपाख्यानम् ७४-८१
१ सिद्धूगीताश्रवणम् ७४ २ जनकस्य प्रबोध: ७५ ३ वासनात्यागो द्विविध: ७७
४ निश्चयः चतुर्विधः ७९
५ पुण्यपावनसंवाद: ८०
Page 13
8
सर्ग: १२ वल्युपाख्यानम् ८१-८५ १ बले: निर्वेद: ८१ २ पिला उपदेशः ८२ ३ शुक्रेण उपदेशः ८४
सर्ग: १३ प्रह्लादोपाख्यानम् ८६-९१ १ हरितोषणम् ८६ २ आत्मविचारणम् ८७ ३ हरिणा प्रबोधनम् ८४
*सर्ग: १४ गाध्युपखयानम् ९२-९७ १ स्वस्य श्वपचत्व्रादिदर्शनम् ९२ २ मिध्यादृष्टस्य सत्यता ९४ ३ भगतदुपदेशः ९५
सर्ग: १५ उददालकोपाख्यानम् ९८-१०४ १ विश्रान्त्यपेक्षा ९८ २ अन्तर्विचारणा ९९ ३ सत्तासामान्यप्राप्ति: १०१ ४ परा विश्रान्तिः १०३
सर्ग: १६ सुरधूपाख्यानम् १०४-१०९ १ अन्तः शीतलता १०४
Page 14
५
२ माण्डव्योपदेशः १०५.
३ परिघण संवाद: १०७
४ स्वात्मसमुद्धरणम् १०८
सर्ग: १७ मनोनाशप्रकार: १०९-११६
१ भासविलाससंवाद: १०९
२ संसक्ति: ११० ३ जीवन्मुक्तसमाचार: ११२ ४ चित्तस्पन्दनिरोध: ११४
सर्ग: १८ वीतहच्योपाख्यानम् ११६-१२३
१ प्राणस्पन्दनिरोधः ११६ २ चित्तसमाधानम् ११८ ३ केवलीभावः १२० ४ चित्तनाशो द्विविधः १२१
सर्ग: १९ चित्तप्रशमनम् १२४-१३०
१ चित्तस्य द्वे बीजे १२४ J २ असंवेदनम् १२६ ३ मनोनाशादित्रयम् १२८ ४ अध्यात्मविचार: १२४
Page 15
६
सग: २० िदात्मभावना १३१-१३६ १ भ्रमकारणम् १३१ २ अत्िद्याविभाग: १३२ ३ अनुसंधानक्रम: १३४ ४ द्विविधो योगः १३५
सर्ग: २१ भुछुण्डोपाख्यानम् १३६-१४४ १ भुशुण्डोत्पत्तिः १३६ २ कल्पान्तेषु स्थितिः १३८ ३ विचित्रानुभव: १३९ ४ प्राणचिन्ता १४१ ५ चिरजीवितकारणम् १४३
:सर्ग: २२ देवार्चनविधानम् १४४-१४९ १ विधानप्रश्नः १४४ २ आत्मैत परमो देव: १४६ ३ पूजाक्रम: १४७
सर्ग: २३ चिच्छक्तिप्रभाव: १५०-१५६ १ बिल्तफलाख्यानम् १५० २ महाशिलाख्यानम् १५१ ३ अर्जुनोपाख्यानम् १५२
Page 16
४ भिक्षूपाख्यानम् १५४
सर्ग: २४ भगीरथोपाख्यानम् १५७-१६३ १ सौषुप्तमौनम् २५७ २ वेतालोपाख्यानम् १५८ ३ ज्ञानसाधनानि १६० ४ चित्तविश्रान्तिः १६२
सर्ग: २५ चूडालाप्रभाव: १६३-१७० १ ज्ञानादयः १६३- २ कुण्डलिनी १६६. * ३ आधिव्याधयः १६७ ४ अणिमादिसिद्धयः १६८ ५ उपदेशप्रयोजनम् १६९
सर्ग: २६ शिखिध्व जतपः १७१-१७८ १ काननवास: १७१ २ चूडालया कुम्भरूपग्रहणम् १७२ ३ चिन्तामण्युपाख्यानम् १७५ ४ वनगजाख्यानम् १७६
सर्ग: २७ चूडालोपदेशः १७९-१८६ १ सर्वत्याग: १७९
Page 17
८
२ चित्तत्यागक्रमः १८ १ व० ३ शिखिध्वजनिष्ठा १८३: शिखिध्वजप्रबोधनम् १८५
सर्गः २८ शिखिध्वजपरीक्षा १८७-१९४ १ कुम्भस्य रात्री स्त्रीत्वम् १८७ २ प्रलोभनम् १८९
३ चूडालया समाधानम् १९१ ४ खवराज्याभिषेचनम् १९२.
:सर्गः २९ चिन्मात्रस्थितिः १९५-२०
१ कचोपाख्यानम् १९५. २ मिध्यापुरुषोपाख्यानम् १९७
३ भृङ्गीशोपाख्यानम् १९८
सर्गः ३० इक्ष्वाकूपारयानम् २०१-२०७
१ संसारकारणम् २०१ २ योगभूमिका: २०३
३ ब्रह्मतावाप्ति: २०४ जीवन्मुक्तस्थितिः २०६.
सर्ग: ३१ भूमिकाजय: २०७-२१५
१ चित्तनाश: २०७
Page 18
९
२ भूमिकात्रयारोहणम् २१० ३ उत्तरभूमिका: २१२ ४ ब्रह्मैकभावनम् २१४
सर्गः ३२ ग्रन्थोपसंहार: २१५-२१८
१ भरद्वाजप्रबाधनम् २१५ २ श्रीरामनिर्वृति: २१७
शुद्धाशुद्धपत्रिका
पुटं पड़क्ि: अशुद्धम् शुद्धम्
17 1 माक्षस्य मोक्षस्य 29 13 4 5 70 15 संकल्प: संकल्पं 92 4 स्वस्थ स्वस्य 9 तपश्वक्े तपश्चक 114 7 इत्थ इत्थ 18 उपशान्त उपशान्त 144 11 देवतार्चन देवार्चन 177 8 वलय वलयं 215 14 ऊवें ऊचें
Page 19
॥ श्रीगुरुभ्यो नमः ।। ॥ श्रीवासिष्ठसंग्रहः ॥ -0-
॥ प्रथम: सर्गः ।।
॥ श्रीरामनिर्वेद्: ।l ॥ श्रीरामाय नमः ।। 1 भरद्वाजप्रश्न:। यतः सर्वाणि भूनानि प्रतिभान्ति स्थितानि च। यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः ॥ १ ॥ दिति भूमौ तथाSडकाशे बहिरन्तश्र मे विभ्ुः । पो विभात्यवभासात्मा तस्मै सर्वात्मने नमः ॥२ ॥ अहं बद्दो विमुक्त: स्यां इति यस्यास्ति निश्चयः। नात्यन्तमज्ञो नो तज्ज्ञः सोडस्मिन आास्त्ेSधिकारवान्। गुरुमासीनमेकान्ते वाल्मीरकि सर्वदर्शिनम्। पप्रच्छ प्रणतो भृत्वा भरद्वाजो मृदुस्वरम् ॥४॥ भगवन् ज्ञातुमिच्छामि कथं संसारसकटे। बामो व्यवहतो हयस्मिन् कारुण्यात् ब्रृहि मे गुरो ॥५॥
Page 20
२ श्रीवासिष्ठसंग्रहे [सर्ग:
वाल्मीकिरुवाच- वासना द्विबिधा प्रोक्ता शुद्धा च मलिना तथा। मलिना जन्मनो हेतु: शुद्धा जन्मविनाशिनी ॥ ६ ॥ ये शुद्धवासना भूयो न जन्मानर्थभाजनम्। ज्ञातज्ञेयाः त उच्यन्ते जीवन्मुक्का महाधिय:॥७॥ जीवन्मुक्तिपदं प्राप्तो यथा रामो महामना:। तत्तेऽहं शृणु वक्ष्यामि जरामरणशान्तये।। ८।। विद्यागृहात् विनिष्क्रम्य स्वगृहे वसतः सुखम्। द्रष्टुं तीर्थाश्रमश्रेणीः रामस्योत्कण्ठितं मनः ॥ ९ ॥ क्तः पितरमामन्य तीर्थयात्रार्थमुदतः। नदीतीराणि पुण्यानि वनान्यायतनानि च ॥ १० ॥ संदृश्य पुनरागत्य गेहे स न्यवसत् सुखम्। अथोनषोडशे वर्षे वर्तमाने रघूदृहः ॥ ११ ॥ जगामानुदिनं कार्श्य शरदीवामलं सर:। चिन्तापरवशस्तूष्णों अव्यापारो बभूव ह॥ १२॥ 2 विश्वामित्रागमनम्। एतस्मिन्नेव काले तु विश्वामित्रोऽभ्यणात् ऋषि:। तदा दशस्थो राजा पाद्मर्ध्य निवेद च।। १३॥
Page 21
श्रीरामनिर्वेद: ]
प्राञ्जलि: प्रयतो भृन्वा विश्वामित्रमभाषत। "तीर्थभूतोऽसि मे ब्रह्मन् ग्राप्तः परमधार्मिक: ॥ १४॥ कश् ते परमः कामः किंच ते करवाण्यह्म्"। तत् राजवचन खुत्वा विश्वामित्रोऽभ्यभाषत ॥ १५॥। "अहं नियममातिष्ठे सिद्धूचै सत्यपराक्रमम्। मम विन्नकराणां च राक्षसानां विनिग्रहे॥ १६॥ दक्ष रामं महात्मानं पुत्रं मे दातुमईसि"। श्रुत्वैतत विह्वलं भूप वसिष्ठो वाक्यमत्रवीद् ॥ १७॥ "न पालयसि चेत वाक्यं कोऽपरः पालयिष्यति"॥ तथा वसिष्ठे ब्रुवति 'रामो राजीवलोचनः ॥१८ । आगतः तीर्थयात्राया: ततः प्रभृति दुर्मना:। सर्वमेवासदित्युक्त्वा तूष्णीं एकोऽवतिष्ठते॥ १९। इति रामजनात् श्रत्वा विश्वामित्र उवाच हू। "एवं चेतू तं महाप्राजञं आनयन्त्वत्र वेगतः ॥ २०॥। एष मोहो रघुपतेः नापद्यो नापि रागत:। विवेकवैराग्यवतो बोध एव महोदयः ॥ २१ ॥ मोहेऽस्मिन् मार्जिते युक्त्या विश्रान्तिमेष्यति घ्रुवम्" एवस्मिन्न्वरे राम: पितुः पादाभिवन्दनम्॥ २२॥
Page 22
श्रीवासिष्ठसंग्रहे [सर्गः
कतुं अभ्यागतस्तत्र प्रणभ्य पितरं सुनी। भूमौ परिजनास्तीरणे चासने स न्यविक्षत ॥ २३॥ तदा राज्ञा मुनि्भ्यां च संपृष्टो मोहकारणम्। उवाच वचनं रामो यथावदतिविस्तरम्॥ २४ ॥
3 जीवितं दुःसमयम्। श्रीराम उवाच - कथयाम्यहमज्ञोऽपि विचार क्रियते मया। जायते मृतये लोको म्रियते जननाय च ॥। २५॥ अस्थिरा: सर्वं एवैते सचराचरचेष्टिताः। कि मे राज्येन कि भोगै: कोऽहं किमिदमागतम् ॥२६।। एवं विमृशतस्तीत्रं सर्वेष्वपि च वस्तुषु। अरतिर्मम संजाता पथिकस्य मरुष्विव ॥ २७।। शाम्यतीदं कथं दुःखं इति तप्तोडस्मि चिन्तया। श्रीर्मुंने परिमोहाय साऽपि नूनं न शर्मदा॥ २८ ॥ श्रीमान् अजननिन्दथ्ष शूरश्ाप्यविकत्थन:। समदृष्टिः प्रयुश्चैव दुर्लभा: पुरुषास्त्रयः ॥ २९।। आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम्। युज्यते वेष्टनं वायोः आकाशस्य च खण्डनम् ॥ ३० ।
Page 23
श्रीरामनिर्वेद: 4
ग्रथनं च तरक्राणां आस्था नायुषि युज्यते। तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः॥ ३१॥। स जीवति मनो यस्य मननेनैव जीवति। जाता: त एव जगति जन्तवः साधुजीविताः ॥३२ ।। ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः। भारोऽविवेकिन: शास्त्रं भारो ज्ञानं च रागिण: ।। ३३।। अशान्तस्य मनो भारो भारोऽनात्मविदो वपु:। अहंकारवशात् आपत् अहंकारात दुराधयः॥ ३४॥ अहंकारवशात् ईददा नाहंकारात् परो रिपु:। इतश्रेतश्र सुव्यग्रं व्यर्थमेवाभिधावति॥३५।। दूरात दूरतरं चेतो ग्रामे कौलेयको यथा। न प्राप्नोति कचित किंचित् प्राश्तैरपि महाधनैः ॥ नान्त: संपूर्णतामेति करण्डक इवाम्बुभि:। अप्यब्धिपानात् महतः सुमेरुन्मूलनादपि॥ ३७ H अपि वह्नयशनात् साधो विषमः चित्तनिग्रदः। सर्वसंसारदोषाणां तृष्णेका दीर्घदुःखदा॥३८॥ नासिधारा न वज्रार्चि: न तप्तायःकणार्चिषः। तथा तीक्ष्णा यथा ब्रह्मन तृष्णेयं हदि संस्थिता॥ ३९ ॥
Page 24
श्रीवासिष्ठसंप्रहे [सगः
अपि मेरूपमं प्राज्ञं अपि शूरं अपि स्थिरम्। तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥ ४० ॥
4 वयोवस्था: दुःखदा:।
देहः स्फुगति संसारे सोडपि दुःखाय केवलम्। नास्ति देहसमः शोच्यो नीचो गुणवहिष्कृतः।।४१।। कि श्रिया किं च राज्येन कि कायेन किमीहितैः। दिनैः कतिपयैरेव काल: सर्वं निकन्तति ॥ ४२॥
रक्तमांसमयस्यास्य सवाद्याभ्यन्तरं मुने। नाशैकधर्मिणो व्रहि कैव कायस्य रम्यता ॥ ४३।। अश्वक्तिरापदस्तृष्णा सूकता मूटबुद्धिता। गृध्नुता लोलता दैन्यं सर्व बाल्ये प्रवर्तते॥ ४४॥ अमेध्य एव रमते बाल: कौलेयको यथा। शैश वे गुरुतो मीति: मातृतः पितृतस्तथा॥ ४५॥ जनतो ज्येष्ठवालाच्च शैशव भयमन्दिरम्। विस्तीर्णाऽपि प्रसन्नाऽपि पावन्यपि हि यौवने॥ ४६ ॥ मतिः कलुषतामेति प्रावृषीव तरङ्गिणी। यदा यदा परां कोटिं अध्यारोहति यौवनम्॥४७ ॥
Page 25
श्रीरामनिर्वेद:
वल्गन्ति सज्वराः कामाः तदा नाशाय केवलम्। ते वन्धास्ते महात्मान: त एव पुरुवा सुवि ॥४८ ॥ ये सुखेन समुत्तीर्णा: साधो यौत्रनसंकटाद्। मांसपाश्चालिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे ॥४९॥ स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रिया: किमिव शोभनम्। त्वच्ांसरक्तवाष्पाम्बु पृथक कृत्वा विलोचनम् ॥५० ॥ समालोकय रम्य चेतु कि मुधा परिमुद्यसि। यस्य स्त्री तस्प भोगेच्छा निःस्त्रीकस्य क भोगभू:।।५१।। स्त्रिय त्यकत्वा जगत त्यक्तं जगत् त्यक्त्वा सुखी भवेत्। अपर्यासं हि वालत्वं बलात् पित्रति यौवनम् ॥५२॥ यौवनं च जरा पश्चात् पश्य कर्कशर्ता मिथ:। दुष्प्रेक्ष्यं जरठं दीनं हीन गुणपराक्रमैः॥५३॥ गर्धो ह्यम्येति सोल्लासं उपभोक्तुं न शक्यते। हृदयं दह्यते नूनं शक्तिदौस्थ्येन वार्धके॥ ५४॥
5 कालवैभवम्।
क्वचिद्वा विद्यते येषां संसारे सुखभावना। आखुः तन्तुमिवाशेषं कालः तामपि कन्तति॥५५॥
Page 26
श्रीवा सिष्ठसंग्रहे [सर्गः
महतामपि नो देव: परिपालयति क्षणम्। काल: कबलिताशेषविश्वो विश्वात्मरतां गतः ॥ ५६॥ वृत्तेडस्मिन्नेव मे तेषां कालादीनां महामुने। संसारनाम्नि कैवास्था मादशानां भवत्विह॥ ५७॥ मनो विमुद्यतीवान्त: सुदिता दूरतां गता। धीरताऽधीरतामेति ध्रुवोऽप्यध्रुवजीवितः ॥ ५८।। अमरा अपि मार्यन्ते कैवास्था मादशे जने। शैला अपि विशीर्यन्ते कैवास्था मादशे जने ॥ ५९॥ शुष्यन्त्यपि समृद्राश्च शीर्यन्ते तारका अपि। सिद्धा अपि विनश्यन्ति कैवास्था मादशे जने ॥६०॥ परमेष्ठयपि निष्ठावान् हियते हरिरप्यजः । भवोऽप्यभावमायाति कैवास्था मादशे जने ॥ ६१॥ ब्रह्मा विष्णुश् रुद्रश्च सर्वा वा भृतजातयः । नाशमेवानुधावन्ति सलिलानीव बाडवम् ॥ ६२ ॥ आपद: क्षणमायान्ति क्षणमायान्ति संपद: । क्षणं जन्म क्षणं मृत्यु: मुने किमिव न क्षणम् ॥ ६३ ॥ इति मे दोषदावाग्निदग्धे सपदि चेतसि। प्रस्फुरन्ति न भोगाशा: मृगतृष्णाः सरसस्वव ॥ ६४।
Page 27
श्रीरामनिर्वेद:
नाभिनन्दामि मरणं नाभिनन्दामि जीवितम्। यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम्॥ ६५॥ यथा जानासि भगवन् तथा मोहनिवृत्तये । ज्रूदि मे साधवो येन नूनं निर्दुःखतां गताः॥ ६६॥ अथवा तादृशी युक्ति: यदि ब्रह्मन् न विद्यते। न वक्ति मम वा कश्चित् विद्यमानामपि स्फुटम्॥६७॥ स्वयं चैव न चामोमि तां विश्रान्तिमनुत्तमाम्। तदहं त्यक्तसर्वेहो निरहङ्कारतां गतः ॥ ६८ ॥ न किश्चिदपि वाञ्छामि देहत्यागात् ऋते मुने। मौन एवावतिष्टामि लिपिकर्मस्विवार्पितः ॥६९ ।।
इति श्रीव्रसिष्ठसंग्रहे श्रीरामनिर्वेदो नाम प्रथम: सर्ग:॥
Page 28
श्रीवासिष्ठ संग्रहे [सर्गः
॥ द्वितीय: सर्गः ॥
॥ उपदेशोपक्रमः ॥ 1 शुकोपाख्यानम्। वाल्मीकिरुवाच- इत्युकत्वा विश्ते रामे विश्वामित्रो ऽभ्यभाषत। विश्वामित्र उवाच- न राघव तवास्त्यन्यत् ज्ञेयं ज्ञानवर्ता वर ॥ १॥
स्वयैव सूक्ष्मया बुद्धया सर्व विज्ञातवानसि। भगवव्यासपुत्रस्य शुकस्येव मतिस्तव ॥ २ ॥ विश्रान्तिमात्रमेवान्तः ज्ञातज्ञेयाऽप्यपेक्षते। ुको व्यासात्मज: पूर्व चिन्तयन् जगतो गतिम्॥ ३॥
स्वयमेव विवेकेन बुद्धेऽपि परवस्तुनि। इंद वस्त्विति विश्वास नासावात्मन्युपाययौ।४ ॥
अविश्रान्तमना: स्थित्वा पमरच्छ पितरं तदा। संसाराडम्वरमिदं कथमभ्युदितं मुने ॥५॥
क्थं च प्रशमं याति कियत् कस्य कदेति च। वक्तव्यमखिलं प्रोक्तं व्यासेन विदिवात्मना ॥ ६॥
Page 29
उपदेशोपक्रमः
जानामि पूर्वमेवेति नासौ तत् बह्वमन्यत। अभिप्रायमिमं ज्ञात्वा 'नाहं जानामि तच्वतः ॥७॥। जनको वेत्ति तत्तचवं तस्मात सर्वभवाप्नुहि'। पित्रेन्युक्त: शुका प्रायात् जनकस्य पुरीं तदा।। ८।। द्वारि स्थितं शुकं ज्ञात्वा जिज्ञामार्थ अवजञया। तूष्णीं अवस्थितो राजा गते त दिनसपके ॥ ९॥ प्रवेश्याङ्गणं तत्रापि स्थितं च दिनसप्तकम्। ततः प्रवेशयामास जनकोऽन्त:पुरं शकम् ॥ १० ॥ तत्रोन्मदाभि: कान्तामिः भोजनैः भोगमञ्चपैः । लालिगेऽहानि सप्तापि स्वच्छः सुमना अभवत् ॥ ११॥ परिज्ञाउस्वभाव तं आनीय प्रणनाम ह। स्वागतं ते महाभाग प्राप्ताखिलमनोरथ ।। १२।। किमीहितं तवेत्युक्त: शुको राजानमत्रजीत्। 'संसाराडम्बरमिदं कथमभ्युदितं गुरो।। १३।। कथं प्रशममायाति यथावत् कथयाशु मे। इत्युक्तो जनकः प्राह पित्रा प्रोक्तं यदेव तत् ॥ १४ ॥ एतत् भ्रुत्वा शुकः प्राह 'ज्ञातमेतत् मया पुरा। स्वयमेव विवेकेन पित्राऽप्येवत् उदाहृतम् ॥१५॥
Page 30
१२ श्रीवासिष्ठसंग्रहे [सर्ग:
भवताऽप्येष एवार्थ: उक्त: शास्त्रेषु यः श्रुतः। त्वत्तो विश्राममान्नोति कथं चेतो वद प्रभो' ॥ १६॥
जनक उवाच- 'अव्युच्छिन्नचिदात्मैकः पुमानस्तीह नेतरद्। स्वसंकल्पवशात् बद्दो निःसङ्कल्पश्च सुच्यते ॥१७ ॥
प्रास्तं प्राप्तव्यमखिलं मुक्तस्त्वं भ्रान्तिमुत्सृज'। अनुशिष्टस्तथा राज्ञा विशश्राम शुकस्तदा॥ १८॥
बीतशोक: शशामासौ निर्विकल्पसमाधिना। तवाप्यपेक्ष्यते नुनं मलमात्रापमार्जनम् ॥ १९॥
वासनातानवं राम मोक्ष इत्युच्यते बुैः। पदार्थवासनादाढ्यं बन्ध इत्यभिधीयते ॥ २०॥
एवमुक्त्वा वसिष्ठं च विश्वामित्रोडभ्यभाषत। अत्ञास्य चित्तविश्रान्त्यै राघवस्य महात्मनः ।। २१ ।।
रघूणामपि सर्वेषां प्रभो कुलगुरो मुने। युक्ति चोपदिशाद् त्वं इत्युक्तो मुनिरत्रवीत् ॥ २२॥ यदेव ब्रह्मणा प्रोक्तं संसारभ्रमशान्तये। तत् स्मरामीति संप्रोच्य वक्तुं समुपचक्रमे ॥ २३ ॥
Page 31
उ५देशोपक्रमः १₹
2 वासना द्विविधा। वसिष्ठ उवाच -- सर्वदा सर्वमेवेह संसारे रघुनन्दन। सम्यक् प्रयुक्तात सर्वेण पौरुपात समवाप्यते ॥ २४॥ उच्छासत्रं शास्त्रित चेति द्विविधं पौरुषं स्मृतम्। तत्रोच्छास्त्रं अनर्थाय परमार्थाय शास्त्रितम् ॥ २५॥ श्रौराम उवाच - प्राक्तन वासनाजालं नियोजयति मां यथा। मुने तर्थव तिष्ठामि कपणः कि करोम्यहम् ॥ २६ ॥ चसिष्ठ उवाच- द्विविधो वासनाव्यूदः शुभश्ैवाशुभश्च ते। वासनौघेन शुद्धेन तत्र चेदपनीयसे ॥२७ ॥ तत्क्रमेण शुभेनैव पद प्राप्स्यसि शाश्चतम्। अथ चेदशुभो भाव: यत्ात् जेतव्य एव सः ॥२८॥ शुभाशुभा्म्यां मार्गाभ्यां वहन्ती वासनासरित्। पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥२९ ॥ अशुमेपु समाविष्टं शुभेष्वेवावतारय। सन्दिग्धायामपि भृशं शुभामेव समाहर॥ ३०।। ततः पक्ककपायेण नूनं विज्ञातवस्तुना। शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना।
Page 32
१४ [सर्ग :-
चिदाकाशोडविनाशात्मा, तस्मात विष्णुरजायत। तस्यापि हृदयाम्भोजात् परमेष्ठी व्यजायत ॥ ३२॥। स सृष्ट्ा सकलं सर्ग नानाव्यसनसंकुलम् जगाम करुणामीशः पुत्रदुःखात् पिता यथा॥ ३३॥। तपो दानं जपस्तीर्थ नात्यन्तं दुःखशान्तये। तद् तावद् दुःखभोक्षार्थं ज्ञानं प्रकटयाभ्यह्म् ।। ३४।। इति संचिन्त्य सृष्ट्ा मां मनसा प्रोक्तवानसौ । गच्छ भारतवर्ष त्वं लोकानुग्रदहेतुना॥ ३५॥ तत्र क्रियाकाण्डपर: त्वया पुत्र महाधिय:। उपदेश्या: क्रियाकाण्डक्रमेण क्रमशालिना॥ ३६॥ विरक्तास्तु महाप्राज्ञा: ज्ञानेनानन्ददायिना। इति तेन नियुक्तोऽहं तिष्ठामि भुवनस्थले ॥ ३७॥
3 मोक्षद्वारपालकाः ।
मोक्षद्वारे द्वारपाला: चत्वारः परिकीतिताः। शमो विचार: संतोष: चतुर्थः साधुसङ्गमः ॥ ३८॥। एते सेव्या: प्रयत्नेन चत्वारो द्वौ त्रयोऽथवा। एकं वा सर्वयत्नेन सर्वत्रत्सृज्य संश्रयेद्॥ ३९॥
Page 33
२] उपदेसोपक्रमः १५-
एकस्मिन वशगे यान्ति चत्वारोऽपि वशं यतः। एषां एकतमासक्तया मोक्षद्वारे प्रवेश्यते॥४ ॥ यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः। तत सवें शान्तचेतस्सु तमोऽर्के्विव नश्यति ॥। ४१॥ न रसायनपानेन न लक्ष्म्यालिङ्गनेन च। तथा सुखमवाप्नोति शमेनान्तर्यथा मनः ॥ ४२॥ तपस्सिविषु बहुज्ञेषु याजकेषु नृपेषु च। बलवत्सु गुणाढयेषु शमत्ानेव राजते ॥। ४३ ॥ विचारात् तीक्ष्णतामेत्य धी: पश्यति परं पदम्। दीर्घसंसाररोगस्य विचारो हि महौषधम्॥ ४४ ॥ कोऽहं कस्य च संसार: इत्यापद्यपि धीमता। चिन्तनीयं प्रयत्नेन सप्रतीकारमात्मना।४५। कोऽहं कथमय दोपः संसाराख्य उपागतः। न्यायेनैवं परामर्शो विचार इति कथ्यते ॥ ४६ ॥ संतुष्टः परमभ्येति विश्रामं सुखलक्षणम्। संतोषामृतपानेन य: शान्त: वृसिमागतः।। ४७।। अप्राप्तवाञ्छामुत्सृज्य संग्राप्ते समरता गत:। अदृष्टखेदाखेदो यः संतुष्टः स इहोच्यते॥ ४८ ॥
Page 34
२६ श्रीवासिष्ठ पंग्रहे [सर्ग: २
नाभिवाञ्छत्यसंप्राप्तं प्राप्त भुङ्के यथाक्रमम् । यस्तु सौम्यसमाचारः संतुष्ट इति कथ्यते॥ ४९॥
सर्वत्रोपकरोतीह साधुः साघुसमागम:। आपत् संपदिवाभाति विद्वज्जनसमागमे ॥ ५० ॥ यः स्नातः शीतसितया साधुसङ्कमगङ्गया। कि तम्य दानै: कि तीर्थेः कि तपोभि: किमध्वरैः॥
विच्छिन्नग्रन्थयः तज्ज्ञा: साधवः सर्वसंपता:। सर्वोपायेन संसेव्या: ते हयुपायाः भवाम्बुधौ ॥ ५२॥ चत्वार एते विमला: उपाया भवभेदने। यैरभ्यस्तास्त उत्तीर्णा मोहवारिभवार्णवात् ॥५३॥
इति श्रीवासिष्ठसंग्रहे उपदेशोपक्रमो नाम द्वितीय: सर्गः॥
Page 35
३] उत्पत्तिक्रमः
॥ तृतीयः सर्गः॥
॥। उत्पत्तिक्रमः ॥
1 बन्धस्वरूपम्।
न्वसिष्ठ उवाच - बन्धस्य तावदूपं त्वं कथ्यमानमिदं शृणु। ततः स्वरूपं माक्षस्य ज्ञास्यसि त्वमसंशयम् ॥ १॥
द्रष्ट। दृश्यस्य सत्ता हि बन्ध इत्यभिधीयते। द्रष्टा दृश्यवशात बद्दो दृश्याभावे विमुच्यते॥ २ ॥।
जगत् त्वं अहं इत्यादिर्मिथ्यात्मा दृश्यसुच्यते। यावदेतत् संभवति तावन्मोक्षो न विदयते॥ ३॥
यदिदं दश्यते सर्वं जगत स्थावरजङ्गमम् । तत् सुषुप्ताविव स्वमः कल्पान्ते प्रविनश्यति ॥४ ॥ वतः स्तिमितगम्मीरं न तेजो न तमस्ततम्। अनाख्यं अनभिव्यक्तं सत् किंचित् अवशिष्यते ॥५॥ ऋतं आत्मा परं ब्रह्म सत्यं इत्यादिका बुधैः। करिपता व्यवहारार्थ तस्य संज्ञा महात्मनः ॥ ६।। V. S. 2.
Page 36
१८ श्रीवासिष्ठसंगरहे [सम:
स तथाभूत एवात्मा स्वयमन्य इवोल्सन। जीवतां उपयातीव मननात् स्थूलतां गतः ॥७॥ मनो भवति भृतात्मा तरङ् इव वारिधेः। तेनेयं इन्द्रजालश्रीः जागती प्रवितन्यते ॥८॥ अविद्या संसृतिः मोहो बन्धो माया मलं तमः। इति नामानि तस्याश्च कन्पितानि भवन्ति हि ॥ ९ ॥ यथा कटकशब्दार्थः पृथकत्वारहो न काश्चनात्। न हेम कटकात् तद्वत् जगच्छन्दार्थता परे॥ १० ॥ यथाऽङकुरोऽन्तर्बीजस्य संस्थितो देशकालतः। तनोति भासुरं देहं तनोत्येवं हि दश्यधीः ॥ ११॥ 2 मनोमयं जगदू। सर्वेषामेव देहौ द्वो भूतानां कारणात्मनाम्। अजस्य कारणाभावात् ब्रह्मणस्तु स्वयंभुवः ॥१२ ।। आतिवाहिक एवास्ति देहो नास्त्याधिभौतिक:। आकाशादेव यो जात: स व्योमैव भवेत् किल ॥ १३॥ सहकारीणि नो सन्ति कारणान्यस्य कानिचित। ग्रह्मा संकल्पपुरुष: पृथ्व्यादिरहिताकृतिः॥ १४ ॥ ब्रह्मणा तन्यते विश्वं मनसैव स्वयमभुवा। मनोमयं अतो विश्वं यन्नाम परिदृश्यते ॥१५॥
Page 37
उत्पत्तिक्रमः १९
यत् अर्थप्रतिभानं तत् मन इत्यमिधीयते। नास्त्यस्य मनसो रूपं संकल्पात् तत् न भिद्यते॥१६॥ अविद्या संसृतिः चित्तं बन्धोऽज्ञानं मनः तमः । इति संक्पजालस्य नामान्येतानि राघव ॥ १७॥
संकल्पजाले गलिते स्वरूपं अवशिष्यते। महाप्रलयसंपत्तौ असत्तां समुपागते ॥ १८ ॥
अशेषदृश्यसर्गादी श्रान्तमेवावशिष्यते। आस्तेऽनस्तमितो भास्वान् परमात्मा महेश्वरः ॥ १९। यतो वाचो निवर्तन्ते यो मुक्तैः अवगम्यते। यस्य चात्मादिका: संज्ञाः कल्पिताः न स्वभावजा:॥
आविर्भावतिरोभावमयाः त्रिभुवनोर्मय:। स्फुरन्त्यतितते यस्मिन मराविव मरीचय: ॥ २१॥
मिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ २२॥
3 जीवन्मुक्तलक्षणमू।
नृणां ज्ञानैकनिष्ठानां आत्मज्ञानविचारिणाम्। सा जीवन्मुक्ततोदेति विदेहोन्मुक्ततैव या॥ २३॥
Page 38
श्रीवासिष्ठमंग्रहे [सर्ग: यथास्थितं इंद यस्थ व्यवहारवतोऽपि च। अस्तं गत स्थितं व्योम स जीवन्मुक्त उच्यते॥ २४॥ नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा। यथाप्राप्तस्थितिः यस्य स जीवन्मुक्त उच्यते ॥ २५ ॥ यो जागर्ति सुषुप्तिस्थो यस्य जाग्रत् न विद्यते। यश्य निर्वासनो बोध: स जीवन्मुक्त उच्यते ॥ २६॥ रागद्वेषभयादीनां अनुरूपं चरन्नपि। योऽन्तः व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ २७ ॥ यस्य नाहंकृतो भावो यस्य बुद्धि: न लिप्यते। कुर्वतोऽकुर्वंतो वापि स जीवन्मुक्त उच्यते॥ २८॥ यस्मात् नोद्विजते लोको लोकात नोद्विजते च यः। हर्षामर्षभयोन्मुक्त: स जीवन्मुक्त उच्यते॥ २९॥ शान्तसंसारकल्ोल: कलावानपि निष्कलः। यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते॥ ३०॥ य: समस्तार्थजातेषु व्यवहार्यपि शीतलः। व्रार्थेण्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ३१॥ जीवन्मुक्तिपद त्यक्त्वा स्वदेहे कालसात्कृते। विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३२ ॥
Page 39
उत्पत्तिक्रम: २१
विदेहमुक्तो नोदेति नास्तमेति न शाभ्यति। किमप्यव्यपदेश्यात्मा पूर्णात् पूर्णतराकृतिः॥३३।। 4 ब्रह्मस्वरूपम्। महाप्रलयसंपत्तौ सर्वकारणकारणम्। शिष्यते यत् परं ब्रह्म तदिदं वर्ण्यते शृणु॥ ३४॥ चिन्मात्रं चेत्यरहितं अनन्तं अजरं शिवम्। अनादिमध्यपर्यन्तं यदनादि निरामथम् ॥३५॥ द्रष्ट्दर्शनद्ृश्यानां मध्ये यत् दर्शनं स्थितम्। वेदनस्य प्रकाशस्य दश्यस्य तमसः तथा ॥ ३६॥ वेदनं यत् अनाद्यन्तं तद्पं परमात्मन:। वेद्यवेदनवे त्तृत्वरूपत्नयमिदं पुरः।। ३७।। यत्नोदे त्यस्तमायाति निर्विकारं निरञ्जनम्। यत् सदा भाति सदूपं तत् रूपं परमात्मनः ॥ ३८।।
इति श्रीवासिष्ठसंग्रहे उत्पत्तिकरमो नाम तृतीय: सर्गः ॥
Page 40
२२ श्रीवासिष्ठसंग्रहे [सर्ग:
॥ चतुर्थः सर्गः॥
॥ लीलोपाख्यानम् ॥
1 देवीवरप्राप्ति:।
बसिष्ठ उवाच- अत्ेदं मण्डपाख्यानं चित्तविश्रान्तिदं शृणु। पद्मो नाम नृपः कश्चित् श्रीमान् आसीत विवेकवान्।। तस्यासीत सुभगा मार्या लीला नाम पतिव्रता । सैकदा चिन्तयामास 'प्राणेभ्योऽपि प्रियः पतिः ॥२॥ यौवनोल्लासवान श्रीमान कथं स्याद अजरामरः'। 'तपोजपयमः नुनं समस्ताः सिद्धसिद्धयः ॥ ३॥ संप्राप्यन्तेऽमरत्वं तु न कथंचन लभ्यते।' एवं द्विजमुखात् श्रत्वा चिन्तयामास सा पुनः।।४।। "मरणं भर्तुरग्रे मे यदि दैवात् भविष्यति। तत् सर्वदु:खनिर्मुक्ता संस्थास्ये सुखमात्मनि ॥ ५॥ यद्यसौ म्रियते पूर्व तज्जीवो न गृह्ात् बहि:। यथा गच्छेत् तथोपास्या मया देवी सरस्वती" ॥ ६।।
Page 41
लीळोपारयानम्। २₹
इति निश्चित्य सा नाथं अनुक्तवैव वराङ़गना। यथाशास्त्रं चकारोग्रं तपो नियममास्थिता॥७॥ तुष्टा भगवती प्राह "गृहाण वरमीप्सितम्"। देवीं स्तुत्वा ततो लीला वरदयमयाचत ।। ८ ।। * भर्तुर्जीवो विदेहस्य मायासीत निजमण्डपाठ्। यदाऽहं प्रार्थये त्वां च तदा मे देहि दर्शनम्" ॥ ९॥ एतत् वरदूयं लब्धा बभूवानन्दधारिणी। काले बहुतिथे याते भर्ता तस्याः ममार ह॥१॥ देव्याज्ञया तदा राजी शोकसंतापपीडिता। शवीभूतं निवेश्याथ भर्तारं पुष्पखण्डके॥ ११ ॥ दुःखात् आहूय सा देवीं उवाच भृशदुःखिता। "क ममावस्थितो भर्ता कि करोत्यथ कीदशः ॥ १२॥ समीपं नय माँ तस्य नैका शक्नोमि जीवितुम्।" एवमुक्ता तदा देवी ब्रह्मतत्वमुपादिशत् ॥१३॥ "चित्ताकाशं चिदाकाशं आकाशं च तृतीयकम्। द्वाभ्यां शून्यतरं विद्धि चिदाकाशं वरानने ॥ १४ ॥ तस्मिन् निरस्तनि:शेषसंकन्पा स्थितिमेषि चेत्। सर्वात्मकं पदं तच्वं त्वं तदाऽडम्रोष्यसंशयम्॥१५॥
Page 42
२१ श्रीवासिष्ठसंग्रहे [सर्गः अत्यन्ताभावसंपच्या जगतश्रैतदाप्यते।" इत्युक्ता सहसा लीला निर्विकल्पसमाधिभाक॥ १६ ॥ संत्यन्याथ स्वकं देहं अन्तःकरणपञ्जरम्। ददर्श खस्था भर्तारं आस्थाने बहुराजके॥ १७॥ सिह्ासनसमारूढं प्राक्तन्या जरसोज्झितम्। द्विरष्टवर्ष भृपालं दृष्द्वा सा विस्मयं ययौ। १८॥
निजान्त:पुरमागत्य देवीं सस्मार भक्तित:। पृष्टा देवी तदा म्राह सर्गस्य भ्रान्तिमात्रताम् ॥१९॥ 2 पूर्धवृच्तान्तः । देव्युवाच- अस्ति कश्चित् चिदाकाशे क्वचित् संसारमण्डप:। तत्र वसिष्ठनामासीत् कश्रित धर्मपरो द्विजः ॥ २०॥ तुल्यशीलवयोवेपा तस्य भार्या ह्यरुन्ती। कदाचित् स ददर्शाध: परिवारयुतं नृपम्॥ २१॥ "अहो भूपालता रम्या सर्वसौभाग्यलालिता। कदा स्यां अहमप्येवं" इति संकल्पवानभृत् ॥ २२ ।।
आसन्नमरणस्यास्य भार्या मां शरणं गता। त्वद्वत् सा प्रार्थयामास "जीवो भर्तुः मृतस्य मे।
Page 43
लीलोपाख्यानम्। २५
मायासीत मण्डपादस्मात्" तथैवाङ्गीकृतं मया। मृतः स प्राक्तनानत्पसंकन्पात् अभवत् नृपः।।२४।। तस्मिन्नेव चिदाकाशे जीवाकाशतया स्थितः । शोकेन कर्शिता साध्वी देहसन्सृज्य दूरतः ॥ २५॥ आतिवाहिकदेहेन सा भर्तारं उपाययौ। त्वमेव सा स ते भर्ता द्विजो भूपत्वमागतः ॥ २६॥ प्राक्त्नी सा स्मृतिर्लत्ता युक्योरुदिताऽन्यथा। स्वप्ने जाग्रत्स्मृतिर्यद्वत्, मृतेरद्याष्टमं दिनम् ॥ २७॥ देशदैध्य यथा नास्ति कालदैध्य तथा न हि। एतस्याहं पितुः पुत्रो वर्षाण्येतानि सन्ति मे ॥ २८॥ इति भ्रान्तिः जगत्यत्र मृतिमोह्ात अनन्तरम्। एवं देव्या: वचः श्रत्वा लीला प्रोचे सरस्वतीम्।। सगं ब्राह्मणदम्पत्योः तं मां नय महेश्वरि। एवमुक्ता तु सा प्राह "देहं भुक्त्वा भवामला ॥ ३०॥ अचेत्यचिदूपमयी परमां पावनीं दशम्। अवलम्ब्य च पश्यावः सह सर्गमनर्गलम् ॥ ३१॥ आतिवाहिक एवायं त्वादृशैः चित्तदेहक:। आधिभौतिकया बुद्धया गृहीतः चिरभावनाद् ॥ ३२।
Page 44
१६ श्रीवासिष्ठसंग्रहे [सर्ग:
वासनातानवं नूनं यदा ते स्थितिमेष्यति।" तदाSतिवाहिको भावः पुनरेष्यति देहके॥ ३३॥ वासनातानवे तस्मात् कुरु यत्नं अनिन्दिते। तस्मिन् प्रौढिं उपायाते जीवन्मुक्ता भविष्यसि" ॥३४।। 3 ब्रह्माभ्यासः। ठीलोवाच- अत्रोपकुरुते बहि कोऽभ्यास: कीदशोऽथवा। स कथं पोषमायाति पुष्टे तस्मिंश्व किं भवेत् ॥ ३५॥ व्युवाच - तच्चिन्तनं तत्कथनं अन्योन्यं तत्प्रबोधनम्। एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः॥ ३६ ॥ अत्यन्ताभावसंपत्तौ ज्ञातु: ज्ञेयस्य वस्तुनः। युक्त्या शासत्रैः यतन्ते ये ते ब्रह्माभ्यासिन: स्थिराः ॥ सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत् सदा। इद जगत् अहं चेति बोधाभ्यासं विदु: परे॥ ३८॥ दृश्यासंभवबोधेन रागद्वेषादितानवे। रतिः बलोदिता याडसौ ब्रह्माभ्यास: स उच्यते ॥ ३९ ॥ तदभ्यासेन निर्वाणं इत्यभ्यासो महोदय:। संभाष्यैवं निश्नारयां ते निर्विकल्पसमाधिना॥ ४ ॥
Page 45
लीलोपाख्यानम। २७
चभूवतु: चिदाकाशरूपिण्यौ व्योमगाकृती। दूरात दूरं अभिष्ठुत्य ततो ब्रह्माण्डमण्डलात् ॥ ४१ ॥ निर्गत्यान्यत् अनुप्रासते मण्डलं ब्राह्मणास्पदम्। तदा तद्यास्तु संकल्पात् तत्रत्या: दद्दशुस्त्मे॥ ४२ ॥ "नमोऽस्तु वनदेवीभ्यां" इत्युक्त्वा कुसुमाञ्जलिम्। तत्याज ज्येछ्ठशर्माऽथ सार्धं गृहजनेन सः ॥ ४३ ॥ पुत्रं सा सूर्ति पम्पर्श तेन सरवे शुच जहुः। तत् दृष्ट्वा पुनरायाता लीला देवीमपृच्छत ॥ ४४ ॥ मृतस्य भर्तुर्जीवोऽसौ यत्र राज्यं करोति मे। तत्राहं कि न तैर्दष्टा दृष्टाऽस्मीह सुतेन किम्॥४५॥। न्देव्युवाच - अभ्यासेन बिना वत्से तदा ते द्वैतनिश्वयः। नास्तङ्कतोऽभवत् सत्यसंकल्पत्वमभृत् नच ॥ ४६।। अद्यासि सत्यसंकल्पा फलितं ते यदीप्सितम्। लीलोवाच - अहो मया स्मृतान्यद्य पूर्वजन्मशतानि मे ॥४७॥ सुभ्रान्तं दि मया पूर्व नानाविधासु योनिषु। 4 अनन्तरवृत्तान्त:। वसिष्ठ ठवाच - एवमाकथयन्तौ ते प्राप्य सगे द्वितीयकम् ॥४८॥
Page 46
२८ श्रीवासिष्ठसंग्रहे [सगः-
अन्त:पुरे ददृदशतु: राजानं शवतां गतमू। ततः पुनः विनिर्गत्य दद्दशतु: भयानकम् ॥ ४९॥ सेनयो: शस्त्रसंपातं, युद्धे चोपरते निशि। विदूरथाख्यभुपस् देव्यौ विविशतु: गृहम् ॥५०॥
प्रबुध्य च तदा राजा संददशाङ्गनाद्यम्। उत्पत्य शयनात भक्त्या सोऽर्पयत् कुसुमाञ्जलिम्॥५१॥
"राजन् स्मर विवेकेन पूर्वजारति" इति स्वयम्। वदन्ती मूर्झि पस्पर्श तं करेण सरस्वती॥ ५२॥
अथ हाद तमो माया राज्ोऽस्य क्षयमाययौ। सस्मार पूर्ववृत्तान्तं अन्तः स्फुरदिव स्थितम् ॥५३ ॥
"हे देव्यौ किमिदं नाम दिनमेकं मृतस्य मे। अद्येह समतीतानि वयोवर्षाणि सप्ततिः"॥ ५४॥
इति पृष्टे तदा देव्यौ राज्ञा विस्मितचेंतक्षा । देव्युवाच - यथा स्वप्ने महूर्ते तु संवत्सरशत्रमः ॥ ५५॥
तव मायाविलासेन तथाडयं जाग्रति भ्रम:। वस्तुतस्तु न जातोऽसि न मृतोऽसि कदाचन ॥ ५६॥।
Page 47
लीलोपाख्यानम्। २९
शुद्धविज्ञानरूपस्त्वं दीर्धस्वम इर्द जगत्। राजोवाच- अहं देदमिमं त्यक्त्वा पूर्वदेहं लभे कदा॥ ५७॥ देवयुवाच - अस्मिन् रणे तु मर्तव्यं ततः प्राप्तासि पूर्वकम्। एतस्मिन प्रस्तुते श्त्या शत्रुणा पीडितं पुरमू ॥५८ ।। राजा विदूरथो देव्यौ युद्धाय यास्यतो मम। क्ष्यतामियं भार्पेति प्रोच्य युद्धाय निर्ययौ।५९॥ लीला लीलां ददर्शान्यां स्वाकारसदशाकृतिम्। ततो वीरगणैः साकं गत्वा समरभूतले॥ ६०॥ अयुध्यंस्तु हतो राजा प्रतिराजेन संयुगे। 4 पुनरागमनम्। मूढं भर्तारमालोक्थ लीलाऽनुगमनेच्छया॥ ६१॥ ब्रह्मा दिस्थानमाक्रम्य प्राप चिद्गगनान्तरम्। पत्तने तत्र पद्मस्य देवीशकत्युपबृह्निता ॥ ६२॥ मण्डपे पुष्पगुप्तस्य शवस्य निकटे स्थिता। शज्ञो जीवकला लीला देवी चेति तयं ततः ॥ ६३॥ सर्गात् सर्गान्तरं गत्वा पद्मराजस्य मण्डपे। शवपार्श्वस्थितां लीलां ददर्श पूर्वमागताम्॥ ६४॥
Page 48
३० श्रीवासिष्टसंग्रहे [सर्ग:
कीळोवाच - देवि स प्राक्तनो देहः कथं मम न दृश्यते। देव्युवाच - समाधौ त्वयि लीनायां निर्जीवं ते कलेबरम् ॥ ६५ ॥ चन्दनदारुभि: दग्धं चिता निक्षिप्य मन्त्रिमिः । आतिवाहिकदेहाऽसि वामनायाः परिक्षयात् ॥६६॥ आर्वा तावदियं लीला पश्यत्वित्येव चिन्तिते। उत्थाय संभ्रमात् दृष्ट्वा तयो: पादेषु साऽपतत् ॥६७॥ उत्थापयामो नृपति शवतल्पात इमं पुनः। इति जीवकलां देवी नासिकार्या न्यवेशयन् ॥ ६८॥। क्रमात् अङ्गानि सर्वाणि सरसानि चकाशिरे। उत्तस्थौ स लसत्काय: पप्रच्छ विस्मित: तदा ॥ ६९ ॥ "का त्वं केयं कुतश्चेयं", तस्मै लीलाऽब्रवीत् वचः। "महिला तव लीलाडहं प्राक्तनी सदधर्मिणी॥ ७ ॥ इयं ते महिला लीला द्वितीया लीलया मया। उपार्जिता तवैवार्थे प्रतिबिम्बमयी शुभा ।।७१॥ एषा सरस्वती देवी लैलोक्यजननी ुभा"। इत्याकर्ण्य समृत्थाय ववन्दे स सरस्वतीम्॥ ७२॥
Page 49
सूच्युपाख्यानम् । ३१
"सर्वापदोऽपगच्छन्तु सन्त्वनन्तसुखानि वः"। इत्युक्त्वा च तदा देवी तत्रैवान्तर्धिमाययौ।। ७३॥ लीला लीला च राजा च जीवन्मुक्ता महाधियः। काले विदेहमुक्तत्वं आसेदुः देव्यनुग्रहाद्॥ ७४॥ एतत्ते कथितं राम दृश्यदोषनिवृत्तये। लीलोपाखूयानमनघं घनतां जगतः त्यज ॥ ७५॥ इति श्रीवासिष्ठसंपरहे लीलोपास्यानं नाम चतुर्थः सर्गः ॥
॥ पश्चमः सर्ग:॥
॥ सूच्युपाख्यानम् ॥
1 सूचीतपः। वसिष्ठ उवाच - असदाभासमच्छात्म ब्रह्मास्ति परमं पदम्। ब्रह्मण: स्फुरणं किश्चित तं जीवं विद्धि राघव ॥ १॥ तदेव धनसंवित्या यात्यहंतां अनुक्रमात्। संकल्पोन्मुखतां यातस्त्वहङ्कारो भवत्यपि॥ २ ॥
Page 50
:३२ श्रीवासिष्ठसंग्रहे [सर्ग:
चित्त चेतो मनो माया प्रकृतिश्चेति नामभाक्। दीर्घस्वन्नस्थिति यातः संसाराख्यो मनोवशात ॥ ३॥ असम्यग्दर्शनात स्थाणौ इव पुंदप्रत्ययो दृढः। चिदात्मजीवयो: भेदो नैवैवं जीवचित्तयोः ॥ ४॥ न चित्तसर्गयोर्वाऽपि कोडपि मेद: कथश्चन। अत्नवोदाहरन्तीमं इतिहासं पुरातनम् ॥५॥ हिमाद्रेरभवत् पार्श्चे कर्कटी नाम राक्षसी। तस्या विपुलकायत्वात दुर्लभत्वात् निजान्धसः ॥६॥। न कदाचन सा तृर्तति उपयाता महोदरी। जम्बूद्वीपगतान् सर्वान् निगिरामीति निश्चिता॥७॥ व्यवस्थिता तपः कर्तुँ तां पितामह आययौ। राक्षस्युवाच - भगवन् भृतभव्येश स्यामहं जीवसूचिका ॥८।। पितामह उवाच- एवमस्तु तथा हि त्वं भविष्यसि विषूचिका। दुर्भोजना: दुरारम्भा: मूर्खाः दुःस्थितयश्च ये ॥ ९ ॥ दुर्देशवासिनो दुष्टाः तेषां व्याधि: भतिष्यसि। अथ सूक्ष्मशरीरा सा प्राणिप्राणैकघातिनी ॥१० ॥
Page 51
सूच्युपाख्यानम् । ३२
बभूव बहुवर्षाणि ततः साऽचिन्तयत् स्वयम्। सूचीयं रक्तमांसानां कणमात्रेण पूर्यते। ११॥
क्व मे तानि विशालानि गतान्यङ्गानि दुर्धिय:। इति संचिन्त्य भूयोऽपि तपस्तेपे सुदारुणम् ॥ १२॥ बभूब निर्मला साऽपि तपसा क्षीणकन्मषा। तस्थौ साऽखिलसंसारहेयतां हदि कुर्बती॥ १३॥ तां वेधा: ताटशीं जात्वा समुपेत्य वचोऽत्वीत्। जीवन्मुक्ताऽसि हे वत्से हार्द ते गलितं तमः ॥ १४॥
पुगतनवपुः प्राथ्य सुखिनी सुवने चर। एवझुक्ता चिरं तस्थौ निर्विकल्पसमाधिना॥ १५॥
2 सूचीकृतपश्रः। अथ कालेन महता चित्तस्पन्दनमेत्य सा। वहिर्वृत्तिमयी भूत्वा सस्मार च पुनः क्षुधाम् ॥ १६ ॥ प्राप्तुं आत्युचिताहारं अटव्यां न्यवसत् तदा। एतस्मिन्नन्तरे तत्न मन्त्रिणा सद भूपतिम्॥ १७॥ इजन्यां संप्रविष्टं सा विलोक्याचिन्तयत् भूरम्। "अपि नक्ष्यामि देहेन नैव भोक्ष्ये गुणान्वितम् ॥१८ ।। W. S. 3.
Page 52
श्रीवासिष्ठसंग्रहे [सर्ग:
तस्मादिमौ परीक्ष्येऽहं कयाचित् प्रश्नलीलया"। इति निश्चित्य सा घोरं विनद्योवाच राक्षसी॥ १९ ॥ "को भवन्ती इदानीं मे ह्याहारार्थ समागतौ। एकोपायेन मत्पार्श्व्ाद् बालकौ उत्तरिष्यथ: ॥ २० ।। मत्प्रश्नपञ्जरं सारं चेत् विदारयथो धिया"। कथ्यतामिति राज्ञोक्ता साडपृच्छत् राक्षसी तदा ।२१।। सूष्युवाच - एकस्यानेकसंडव्यस्य कस्याणो: अम्बुघेरिव। अन्तर्रह्माण्डलक्षाणि लीयन्ते बुद्बुदा इव ॥ २२ ॥ किमाकाशं अनाकाशं न किचित किंचिदेव किमू। गच्छन्न गच्छति च का कोडतिष्ठन्नेव तिष्ठति ॥ २३॥ कश्चेतनोऽपि पाषाणः कश्च व्योमनि चित्रकृत्। अणौ जगन्ति तिष्ठन्ति कस्मिन् बीज इव दुमः ॥ २४॥ कस्मान च पृथकू किंचित् द्वैतमप्यपृथक् कुतः। 3 सूचीसमाधानम्। मन्त्युवाच- भवत्या परमात्मैक कथितो बोधरीतितः ॥२५।। अनाख्यत्वात् अगभ्यतवात् आकाशादपि सूक्ष्मक:। ब्रह्माण्डबुद्बुदाः तस्मिन लीयन्ते शक्तिपर्ययात्॥ २६॥
Page 53
4] सूच्युपारूयानम् । ३५
आकाशं बाह्यशून्यत्वात् अनाकाशं च चिच्वत:। अर्किचिदित्यनिर्देश्य वस्तुसत्तेति किंचन ॥ २७ ॥। चेतनोडसौ प्रकाशात्मा वेद्याभावात् भवेत शिला। आत्मनि व्योमनि स्वच्छे जगदुन्मेषचित्रकृत् ॥ २८। इदं तद्धावमात्रत्वात् विश्वं न स्ाद ततः पृथक्। जगन्वेदोऽपि तद्दानं इति भेदोऽपि तन्मय: ।२९।। सर्वंग: सर्वसंचद्धो गत्यभावात् न गच्छति। नाश्त्यसौ आश्रयाभावात् सद्पत्वात् अास्ति च ।। राजोवाच- यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टय:। निष्ठा वेदान्तवाक्यानां अथ वाचामगोचर: ॥ ३१॥ सन्मात्रं तत् त्वया भद्रे कथ्यते ब्रह्ष शाश्रतम्। राक्षस्युवाच- अहो बत पवित्रेयं भवतोर्भाति शेमुषी ॥ ३२ ॥ पूजनीयौ युवां नूनं कथ्यतां मे त्वदीहितम्। राजोवाच - भूयो भवत्या न प्राणा: हिंसनीयाः कदाचन ॥ ३३ ॥। सक्षस्युवाच - आशरीरपरित्यागं इवः प्रभृति नो मया। हिंसनीयाः परप्राणाः पश्यन्त्या सर्वगं शिवम् ॥ ३४॥
Page 54
३६ श्रीवासिष्ठ संग्रहे [सर्ग:
आमृर्ति धारणां बद््वा क्षुरधा न गणयाम्यह्दम्। राजोवाच- आगच्छास्मद्गृहं भद्रे दिव्यस्त्रीरूपधारिणी॥ ३५॥ ततो दुष्कृतिनश्चौरान् वध्यान् शतसहस्त्ररः। मण्डलेभ्यः समाहृत्य दास्यामि तव भोजनम् ॥ ३६ ॥ कान्तारूपं परित्यन्य गृहीत्वा तानशेषतः। गत्वा च हिमवच्छृङ्गं तत्र भुङ्क्ष्व यथासुखम् । ३७। वृर्त्ति निद्रां ततो लब्च्वा भव भूयः समाधिभाक्। समाधिविरता भूय: एवमेव समाचर ॥ ३८ ॥
ततः प्रभृति साडद्यापि किरातजनमण्डले। बध्यान् आणत्य गृह्णाति समाघे: व्युत्थिता सती "३९।।
इति श्रीबासिष्ठसंग्रहे सूच्युपाख्यान नाम पञ्चमः सर्गः॥
Page 55
भावनावैभवम्। ३७
॥ षष्ठः सर्गः॥
। भावनावैभवम् ॥ 1 ऐेन्दवोपाख्यानम्। सिष्ठ उवाच - इंद ऐन्दवमाख्यानं भृणु राम शुभावद्दम्। चितिशक्तिसमुल्लासं निश्चिनोषि जगद यत: ।। १ ।। प्रजा: स्रष्टुं दृशौ स्फारे व्योम्नि योजितवान् अज:। तत्रासौ दृष्टवान् सर्गान् पृथग्भूतान् अनेकशः ॥ २॥ सूर्य तस्माद जगज्ालात् एकमानीय पृष्टवान्। "कस्त्वं कथमिद जातं जगज्ञालं वदानय" ॥ ३ ।। इत्युक्तो भास्कर: प्राह् "जम्बुद्वीपैंककोणके। इन्दुनामाऽतिश्ञान्तात्मा कश्यपस्य कुलोद्वः ।। ४ ।। तस्य प्राणसमा भार्या, न बभूवात्मजस्तयोः। तेपतुस्तौ तपो घोरं पुत्रार्थ व्रतनिष्ठितौ॥५॥ बरं विप्र गृह्ाणेति तुष्टः प्रोवाच शंकरः। दश पुत्रान् ययाचे सः तथैव चाप्तवान् वरम् ॥६।।
Page 56
३6 श्रीवासिष्ठसंग्रहे [सर्ग:
जातास्ते क्रमशो बाला: कालेन प्रौढिमाययु:। मृतौ च पितरौ दृष्ट्वा गृहं संत्यज्य खेदिनः॥७॥ किमिह स्यात् परं श्रेयः इति संचिन्त्य सोदरान्। ज्येष्ठः प्रोवाच ब्रह्मत्वं आकल्पान्ताविनाशि यत् ॥।८।। तदेव रोचते महं ब्रह्माऽहमिति चेतसा। सृजामि संहरामीति ध्यानमस्तु चिराय व: ॥९॥ अथ ते ब्राह्मणा एवं बद्धूब्रह्मात्मभावनाः। तेषां देहास्तु कालेन गलिता: शीर्णपर्णवत्॥१० ॥ भावनापरिपाकेन दश ते ब्रह्मतां गताः। स तेषां दशधा सर्गप्रतिभासोऽयमुत्थितः ॥ ११ ॥ एषामन्यतमस्याहं मास्करोऽस्म पितामह।" सामान्या ब्राह्मणा भूत्वा मनोभावनया किल ॥ १२ ।। ऐन्दवाः ब्रह्मतां प्राप्ता: मनसः पश्य शक्तताम्। 2 विटोपाख्यानम्। मनसा भाव्यमानो हि देहितां याति देहक: ॥ १३ ॥ देहभावनया सुक्तो देहधर्मैः न बाध्यते। इन्द्रद्युम्न इति ख्यातः मागधेषु महीपतिः॥१४।। अहल्या नाम तस्यासीत भार्या कमललोचना। इन्द्रनामा विटः कश्चित तस्मिन्नेव पुरेऽवसत् ॥१५॥
Page 57
भावनावैभवम्।
साडहल्याऽहल्यया सार्ध इन्द्रस्य यद्भूत पुरा।
एवमन्योन्यमासक्तं भावमालोक्य भूपतिः। तावुभावपि तत्याज दुर्मती सलिलाशये॥ १७॥ तौ तु जहसतुस्तुष्टी न खेदमुपजग्मतुः। अथितौ गजपादेषु कशाभि: ताडितावषि ॥ १८॥ ज्वालाभि: दह्यमानौ च नापतु: कामपि व्यथाम्। राज्ञाजथ पृच्छयमानौ तौ ऊचतुर्मुदिताशषयौ॥ १९॥ "आवां खेद न जानीवो जातावन्योन्यतन्मयौ। भावितं तीव्रवेगेन मनसा यठ् महीपते ॥ २० ॥ तदेव पश्यत्यखिलं न शरीरविचेष्टितम्।" एवमुक्तस्ततो राजा वच: कामान्धयोरपि॥ २१ ॥ सत्यमेवेति विज्ञाय ताबुमौ निरवासयत्। एवं राम जगत्यस्मिन् द्विशरीरा: शरीरिण: ॥। २२ ।। एकं मनःशरीरं तु क्षिप्रकारि चलं सदा। अर्किचित्करमन्यच्च शरीरं मांसनिर्मितम् ॥ २३॥ 3 चित्तोपाख्यानम्। अत् किंचिदुपाख्यानं चित्तस्य कथयामि ते! अस्ति शून्याऽटवी भीमा तस्यामेकोऽभवनरः ॥२४॥
Page 58
श्रीवासिष्ठसंग्रहे
पर्याकुलमतिर्भीमः सहस्रकरलोचनः। प्रहरन् आत्मन: पृष्ठे स्वात्मना परिधैर्भृशम् ॥ २५॥ क्रन्दन् पलायमानोऽसौ पतितोऽन्धोऽन्धकूपके। ततः समुत्थितः काले प्रविष्ठः कण्टकाटवीम् ॥२६॥ ततः पुनः विनिष्क्रम्य स्वात्मानं प्रहरन् मुद्ठः। विद्ुवन् शीतलं गत्वा कदलीकाननं हसन्॥ २७ ॥ क्षणात् तस्मात् विनिष्क्रम्य मुहुश्च प्रह्रन् स्वयम्। विद्ुतः पतितो भूयः तस्मिन्नेवान्धकूपके ॥ २८॥ एवंरूपनिजाचारं समालोक्य चिर मया। अवष्टभ्य बलादेव मुहूतें प्रतिबोधितः ॥ २९॥ पृष्टथ्च किमिदं कस्त्वं कि सुधा परिधावसि। इति पृष्टः स च प्राह नाहं कथ्ित करोमि न ॥ ३०॥ त्वं मे शत्रु: त्वया दष्टो नष्टोऽस्मीति रुरोद सः। प्रदसन् अथ तत्याज स्वान्यङ्गानि समन्ततः ॥३१। एवं तस्मिन् महारण्ये बहवः तादृशा नराः। परिभ्रमन्तः तिष्ठन्ति विद्यतेऽद्यापि साडटवी॥ ३२।
श्रीराम उवाच - काडसी महाटवी ब्रह्मन् कि वा ते कर्तुसुद्ताः।
Page 59
भावनावैभवम्।
सिष्ठ उवाच - संसाराख्ये महारण्ये प्रश्रमन्ति मनांसि हि॥ ३३ ॥ मया तानि विवेकेन नीयन्ते परमं शमम्। कानिचित मत्तिरस्कारात नरकेषु पतन्त्यथः ॥ ३४।। कदलीकाननं स्वर्ग: दुःखबाधस्तु कण्टक:। नष्टोऽस्मीति यदुक्तं तत् ममतापरिदेवनम्॥३५॥ मनसः त्यजतो भोगान् रोदनं सहजं खलु। परिप्रशविवेकस्य त्यक्तसंसारसंस्थितेः॥ ३६॥ चेतसः त्यजतो रूपं आनन्दो हसितं भवेद। प्रहारा: कल्पनाघाताः क्रियन्ते स्वयमेव हि॥ ३७॥ संकल्पवासनाजालै: स्वैरेवायाति बन्धनम्। मनो लीलामयैः बन्धैः कोशकार कृमिर्यथा॥ ३८॥ एतत्ते कथितं राम चित्तोपाख्यानमुत्तमम्। चित्तेनैवेदमालोक्य चित्तत्यागे स्थिरो भव ॥ ३९ ॥ 4 बालकाख्शयिका। सर्वशक्ति परं ब्रह्म नित्यमापूर्णमव्ययम्। ययोह्सति शक्त्यासौ प्रकाशं सोऽधिगच्छति॥ ४0॥। चिच्छक्ति: तस्य देहेषु जडशक्ति: तथोपले। स्पन्दशक्तिश्च वातेषु द्रवशक्ति: जलेषु च ।। ४१।।
Page 60
श्रीवासिष्ठसग्रहे [सर्ग:
शुन्यशक्ति: तथाSडकाशे नाशशक्ति: विनाशिषु। तेजःशक्ति: तथा वह्नौ स्फुटमेवोपलभ्यते ॥ ४२॥ फल पत्रलतापुष्पशाखाविट पमूलवान। वृक्षबीजे यथा वृक्षः तथेदं ब्रह्मणि स्थितम् ॥ ४३॥ क्चित् क्चित कदाचिच्च तस्मा उदयन्ति शक्तय:। देशकालादिवैचित्र्यात् क्ष्मातलादिव शालयः ।। ४४॥। प्रपश्चोत्पत्तिरेवं हि बालकाख्यायिकाक्रमात्। राजपुत्राः तयः सन्ति शूरा असति पत्तने ॥ ४५॥ द्वौ न जाती तथैकस्तु गर्म एव हि न स्थितः। एकदोत्तमलाभार्थ निर्गत्य फलशालिनः ॥४६ ॥ ददशु: गगने वृक्षान् भुक्त्वा स्वादु च तत्फलम् । सरित्त्रितयमासेदुः पथि कलोलमालितम्॥४७॥ तत्रैका परिशुष्कैव मनागप्यम्बु न दयोः। तत्र सनात्वा जलक्रीडां कृत्वा पीत्वा पयस्ततः ॥४८॥ आसेदुस्ते दिनस्यान्ते भविष्यन्नगरं त्रयः। दद्दशुस्तत्र रम्याणि त्रीण्येते भवनानि च ।। ४९। एक निर्भित्ति निःस्तम्म अनुत्पन्नं गृहृद्वयम्। आपुः स्थालीलयं तत्र तप्काश्चनकल्पितम्॥ ५०॥
Page 61
एवगोपाख्यानम्।
तत्र कर्परतां याते द्वे एका चूर्णतां गता। तस्यां द्रोणत्रयं पक्कं न्यूनं द्रोणत्रयेण तु ।५१॥ अन्नं प्राप्य द्विजर्ुक्तं निर्मुखैः बहुभोजिमि:। अवशिष्ट ततो भुक्त्वा राजपुवाः तयो हि ते ॥ ५२॥ सुखमेव स्थितास्तत्र मृगयाव्यवहारिण:। धात्या हि कथितामेतां निर्विचारधिया यथा॥५३॥ वालो निश्वयमायाति विचारोज्झितचेतसाम्। इयं संसाररचनाऽप्यवस्थितिमुपागता ॥५४॥ इति श्री वासिष्ठसंपहे भावनावैभव नाम षष्ठः सर्गः ॥
॥ सप्तमः सर्गः॥ । लवणोपाख्यानम् ॥ 1 शाम्बरिकेन मोहनम्। त्रसिष्ठ उवाच- स्वसंकल्पवन्नात मूढो मोहमेति न पण्डितः। विचारय धिया सत्यं असत्यं च परित्यज ।। १ ।। मनःप्रशमने राम मोक्ष एवावशिष्यते। अत् ते शृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ॥२॥
Page 62
श्रीवासिष्ठसंग्रहे [समक
लवणो नाम भूपाल: आसीत परमधार्मिक:। तत्समां एकदा कश्रित साटोपं इन्द्रजालिक:।। ३।। प्रविश्य नत्वा भूपालं 'राजन्रेतां विलोकय'। इत्युवत्वा भ्रामिता तेन पिञ्छिका भ्रमदायिनी॥४॥ ततः सैन्धवसामन्तो विवेशाश्वयुतः सभाम्। राजानं च तदा प्रोचे श्रीत्या स इन्द्रजालिक: ।। ५।। 'सदश्वमेनमारुह्य धुवनं विहर प्रभो'। अथानिमिषया दृष्टथा राजाश्चमवलोकयन । ६॥ तस्थौ मुहूर्तयुग्मं तु ध्यानासक्त इवात्मनि। ततस्ते विस्मयापन्ना: ययुश्चिन्तां सभासदः ॥ ७।। बभूवासौ प्रबुद्धोऽथ पर्याकुलमतिः नृपः। सम्यक् प्राप्तप्रबोधश्च प्रोवाच मन्त्रिणस्तदा ॥ ८ ॥ राजोवाच- इदमाश्चर्यमाख्यानं शृणुताद्य सभासदः। पिञ्छिकां अहमालोक्य जाल्मेन भ्रामितामिमाम् ॥ अश्वं आरूदवान् एनं आत्मना भ्रान्तमानस:। प्रवृत्तो मृगयां गन्तुं दूरं नीतोडस्मि वाजिना ॥ १०॥ संप्राप्तोऽ्हं अपर्यन्तं अरण्यं श्रान्तवाहन:। आसूर्यास्तं दिनं तत्र प्रक्रम्य जाङ्गलं गतः । ११ ॥।
Page 63
लवणोपाख्यानम्।
तत्र जम्बीरखण्डस्य स्कन्धसंसर्गिणीं लताम्। धृत्वा प्रलम्बमानं मां त्यक्त्वा यातः तुरङ्गम: ।।१२।। तत्न कल्पसमा रातिः मोहमग्रस्य मे गता। अथाष्टभागमापन्ने व्योम्नो दिवसनायके॥ १३ ॥ दृष्टा मया प्रभ्रमता बालिकौद नधारिणी। याचितापि मया यत्रात् नानं दत्तवती ह सा।१४।। "विद्धि मामिह चण्डालीं मत्तो नामोषि भोजनम्। ददामि भोजनं तुभ्यं भर्ता भवसि चेतू मम' ॥ १५॥ अथोक्ता सा मया भर्ता भवामीति ततः तथा। दत्त अननं मया भुक्तं वर्णजातिकुलक्रमाः॥ १६॥ केनापदि विचार्यन्ते मोहापहृतचेतसा। बडुनाडत किमुक्तेन स्वीकृता सा मया तत:॥ १७॥ क्रमात् गर्भवती भृत्वा प्रसूता कन्यकाद्वयम्। तथा पुत्रद्वयं चैव जातोहं पुष्टपुल्कसः ॥। १८ ।। चण्डालत्वे स्थिरीभूते भूपत्वं मम विस्मृतम्। एवं तत्न मया नीता: षष्टिः कल्पसमाः समाः ॥१९ ॥ एवं मयि स्थिते तत्र नवश्वशुरमन्दिरे। आसीत् तत्राथ दुर्भिक्षं गता: सर्वे सुहजनाः॥२०॥
Page 64
श्रीवासिष्ठसंग्रहे [सर्ग अहं दुःखादपत्यैस्तु तया च सहितः शनैः। कृच्छ्ात् देशात विनिर्गत्य विश्रान्तोडस्मि तरोसतले।। कनीयान् बालको मां च मांसं देहीत्ययाचत। दुःखं सोढुं अशक्तोऽहं मरणे कतनिश्रयः॥ २२।। तत्र काष्ठानि संचित्य चितार्यां पतितोऽस्म्यहम्। चलितोऽस्मि जवात् तावत् प्रबुद्धोऽहं इद्द स्थित:॥२३। एवं शाम्बरिकेणायं मोह उत्पादितो मम। इत्युक्तवति राजेन्द्रे मायावी स तिरोदघे॥। २४॥ अथेदमूचुस्ते सभ्या: विस्मयोत्फुल्ललोचना:। नायं शाम्बरिको देव यस्य नास्ति धनेषणा ॥ २५॥ दैवी काचन मायेयं संसारस्थितिबोघिनी। 2 संसारविभ्रमः। म्यासिष्ठ उवाच- चण्डालत्वं हि लवणे प्रतिभासवश्तादथा ॥ २६ । तथेद जगदाभोगि मनोमननमात्रकम्। संयमात् मनस: श्रान्ति एति संसारविभ्रमः ॥।२७॥। स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा। मनःप्रशममात्रेण विना नास्ति शुभा गति:॥२८।। असङ्कल्पनशस्त्ेण छिनं चित्तं गतं यदा। सवे सर्वगतं शान्तं ब्रह्म संपद्ते तदा॥ २९॥
Page 65
लवणोपाख्यानम्।
अय सोऽहं इंद तत मे एतावन्मात्रकं मन: । परं पौरुषमाश्रित्य नीत्वा चित्तं अचित्तताम्॥ ३०॥ तां महापदवीमेहि यत्र नाशो न विद्यते। न हि चश्चलताहीनं मनः क्वचन दश्यते॥ ३१॥ चश्चलत्वं मनोधर्मो वह्वेः धर्मो यथोष्णता। विबोधैकानुसन्धानात् चिदंशात्मतया मनः ॥ ३२ ॥ चिदेकता उपायाति दढाभ्यासवशादिह। अतः पौरुपमाश्रित्य चित्तं आक्रम्य चेतमा ॥ ३३॥ विशोकं पदमालम्व्य निरातङ्क: स्थिरो भव। मन एव समर्थ हि मनसो दृढनिग्रहे॥ ३४ ॥ भोगौघवासनां त्यक्त्वा निर्विकल्प: सुखी भव। एष एव मनोनाश: त्वविद्यानाश उच्यते ॥ ३५॥ इच्छामात्रं अविद्येयं तननाशो मोक्ष उच्यते। स चासङ्कल्पमात्रेण सिद्धो भवति नान्यथा॥ ३६ ॥ नाहं ब्रह्मेति सङ्कल्पात सुदृढात् बध्यते मनः। सर्व ब्रह्मेति सङ्कल्पात् सुदृढात् मुच्यते मनः ॥३७॥ कृशोऽतिदुःखी बद्धोऽहं हस्तपादादिमानहम्। इति भावानुरूपेण व्यवहारेण बध्यते॥ ३८ ॥
Page 66
श्रीवासिष्ठसंग्रहे [सर्ग:
नाहं दुःखी न मे देहो देहादन्य: परोऽस्म्यहम्। इति निश्चयवानन्तः क्षीणाविद्यो विस्ुच्यते। ३९॥ अहो नु चित्रं यत् सत्यं ब्रह्म तत विस्मृतं तृणाम्। यत् असत्यं अविद्याख्यं तत् नूनं स्मृतिमागतम्। ४० ।। श्रीराम उवाच- लवणोऽसी महाभाग: प्राप्तवान् कथमापदम्। असिष्ठ उवाच - एक्ान्ते चोपविष्टेन लवणेन विचिन्तितम् ॥ ४१।। पितामहो इरिश्चन्द्रो राजसूयस्य याजक:। अहं तस्य कुले जातः तं यजे मनसा मखम् ॥ ४२ ॥ इति संचिन्त्य मनसा दीक्षां च प्रविवेश सः। आहूय ऋत्विजो देवान् प्रज्वाल्याथ च पावकम् ।४३।। हुत्वा च द्विजपूर्वम्यो दत्वा सर्वस्वदक्षिणाम्। व्यबुध्यत दिनस्यान्ते स्व एवोपवने नृप: ।। ४४।। राजछूयस्य कर्तारः दुःखं यत् प्राप्तुवन्ति हि। तस्य दुःखस्य भोगाय शक्रेण गगनात् तदा ॥ ४५ ॥ प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः। मन: कर्तृ फलं झुङ्के तदेव न शरीरकम्॥ ४६॥
Page 67
लवणोपाख्यानम्।
3 अज्ञानभूमिकाः। स्वरूपावस्थिति: मुक्ति: तद्धंशोऽहंत्ववेदनम्। एतत् संक्षेपतः प्रोक्तं यत् जत्वाज्ञत्वलक्षणम् ।४७।।
अज्ञानभूमय: सप्त सप्त च ज्ञानभूमय:। चीजजाग्रत् तथा जाग्रद महाजाग्रत तथैव च ।। ४८ ।।
जाग्रतस्व्रम: तथा स्वमः स्वमजाग्रत् सुबुप्तकम्। इति सप्तविधो मोह: भृणु तस्य च लक्षणम् । ४९ ।
अनाख्यं चेतनं यत् स्यात् तस्यावस्था हि नूतना। भविष्यचित्तजी वादि नामशब्दार्थभाजनम्॥ ५०॥ बीजरूप स्थित जाग्रत् बीजजाग्रत तत् उच्यते। परात् जातस्य जीवस्थ स्वयं चाहं इंद मम ॥ ५१॥ इति यः प्रत्यय: स्वच्छः तत् जाग्रत् प्रागभावनात्। अयं सोऽहं इद तत् मे इति जन्मान्तरोदित: ॥५२।।
पीवरः प्रत्ययः प्रोक्तो महाजाग्रत् इति स्फुटम्। अरूढं अथवा रूढं सर्वथा तन्मयात्मकम् ॥ ५३॥
यत् जाग्रतो मनोराज्यं जाग्रत्खनः स उच्यते।
V. S. 4.
Page 68
श्रीवासिष्ठसंग्रहे [सर्ग
अभ्यासात् प्राप्य जाग्रच्वं स्वमोऽनेकविधो भवेत्। अल्पकालं मया दष्ट एतनो वेति यत्न हि ॥ ५५॥
परामर्श: प्रबुद्धस्य स स्वम: इति कथ्यते। चिरसंदर्शनाभावात अविस्पष्टवृददद्वपुः ॥५६॥
चिरकालानुवृत्तश्च खन्नो जाग्रदिवोदित:। खम्नजाग्रत इति प्रोक्तो जाग्रत्यपि परिस्फुरन् ॥५७ षडवस्थापरित्यागे जडा जीवस्य या स्थिति:। भविष्यद्दुःखबोधाढ्या सौषुस्ी सोच्यते गतिः ।५८॥ 1
जगत् तस्यां अवस्थायां अन्धे तमसि लीयते। सप्ावस्था इति प्रोक्ता: मयाऽज्ञानस्य राघव ॥५९॥
एकेका शतश्ाखाSत्र नानाविभवरूपिणी। 4 ज्ञानभूमिकाः। ज्ञानस्य भूमिकानां त्वं अद्य निर्वचनं भृणु ॥६०।। कि मूढ इव तिष्ठामि प्रेक्ष्येऽहं शास्त्रसजनैः। वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥ ६१ ॥ शास्त्रसज्नसंपर्कवैराग्याभ्यासपूर्वकम्। सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारण ॥ ६२ ॥।
Page 69
लवणोपास्यानम् ।
विचारणाशुभेच्छाभ्यां इन्द्रियार्थेष्वसक्तता। याऽत्र सा तनुवा भावात् प्रोच्यते तनुमानसा ॥ ६३। भूमिका त्रितयाभ्यामात् चित्तेऽर्थविरतेः वशात्। सत्यात्मनि स्थिति: शुद्धे सत्वापत्तिरुदाहता॥ ६४ ॥ दशाचतुष्टयाभ्यासात् असंसङ्गफलेन च। रूढसच्वचमत्कारा प्रोक्ताऽसंसक्िनामिका ॥ ६५॥ भूमिकापश्चकाभ्यासाद स्वात्मारामतया दढम्। आभ्यन्तराणां बाह्यानां पदार्थानां अभावनाव ॥ ६६॥ चिरं परप्रयुक्त्ेन प्रयत्नेनावबोधनम्। पदार्थाभावना नाम षष्ठी संजायते गतिः ॥ ६७॥। भूमिषट्कचिराभ्यासात मेदस्यानुपलम्भतः। यत् स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गति: ॥६८॥ ये हि राम महाभागा: सपमी भूमिकां गता:। आत्मारामा महात्मान: ते महत्पदमागता: ॥ ६९। जीवन्मुक्तेषु चैषा हि तुर्यावस्थेह विद्यते। विदेहसुक्तिविषय: तुर्यातीतमतः परम्॥ ७ ॥ भूमिकासप्कं चैतत् धीमतामेव गोचर:। 5 अविद्यामाहार्म्यम्। एतचे कथितं राम ज्ञान वैं साप्मौमिकम्। ७१॥
Page 70
२ श्रीवासिष्ठसंग्रहे [सर्ग:
त्वं माहात्म्यं अविद्याया: पुनः शृणु रघूद्ृह। लवणोऽसौ महीपाल: तत्र दृष्ट्रा तथा भ्रभम् ॥ ७२॥। द्वितीये दिवसे गन्तु प्रवृत्तस्तां महाटवीम्। स तत्र विहरन् तांस्तु स्ववृत्तान् सकलानपि ॥ ७३॥ दृष्टवान् पृष्टवांैव ज्ञातवांथ् विसिष्मिये। विलपन्तीं तदाडरण्ये वृद्धां पगरच्छ भूमिप: ।। ७।। कि वृत्तं तव दुःखाय कानू वा लं अनुशोचसि। इति पृष्टा च सा ग्राह पतिर्मे पुकसाधिय: ॥ ७॥ आवयोश् सुता प्राप दैवादिन्दुममं पतिम्। सुखानि सा चिरं भुक्त्वा प्रसूता तनयाः सुतान् ।७६।। केनचित्वथ कालेन ग्रामे दुर्मिक्षपीडिते। ते सर्वे हि गता दूरं पश्चत्वं वा गता इति॥ ७७॥ शोच्यांस्ताननुशोचन्त्य: तिष्ठामो भृशदुःखिता:। इति श्रत्वोचितैः दानैः एतासां दुःखसंक्षयम् ।।७८।। कृत्वा च विस्मयाविष्टो दृष्टलोकपरावर:। ज्ञाताविद्यास्वभावोऽसौ आजगाम गृहं नृय:।।७९।। श्रीराम उवाच- कथमेतत् वद ब्रह्मन् स्वम: सत्यत्वमागतः। संशयो भगवन् सोडयं न मे गलति चेतसः।।८0।।
Page 71
भार्गबोपाख्यानम्।
सष्ठ उवाच- सर्वमेततत् अविद्यायां संभवत्येव राघव। असच्च सदिवाभाति स्वमेष्विव नभोगतिः ॥ ८१।। दष्ट यत् पक्कणे राज्ञा तत्र शाम्बरिकेहया। तव् योल्सिताऽविद्या सैवान्येदयुरिति ध्रुवम् ॥ ८२॥ तत्काले लवणेनाशु दृष्टो य: स्वभविभ्रमः। स एव संविदं प्राप्त: तदा पुक्कसचेतसि॥ ८३॥ सत्ता सर्वपदार्थानां नान्या संवेदनाहते। संकल्पसंक्षयात् राम चिन्मात्रं अवशिष्यते।। ८४।। इति श्रीवासिष्ठसंग्रहे लवणोपारयानं नाम सप्तम: सर्ग: ॥
॥ अष्टमः सर्गः॥ ॥ भार्गवोपाख्यानम्॥ 1. भार्गवमनोराज्यम्।
सेष्ठ उबाच- एकं ब्रह्म चिदाकाशं सर्वात्मकं अखण्डितम्। स्थिता ब्रह्मणि विश्वश्रीः प्रतिभामात्ररूपिणी॥ १॥
Page 72
श्रीवासिष्ठसंग्रहे [सर्गः
अत्र भार्गववृत्तान्तं कथयामि तवानय। सानौ मन्दरशैलस्य भृगु: पूर्वमतप्पत ॥ २ ।। निर्विकल्पसमाधिस्थे तस्मिन शुक्र: तदात्मज:। ददरशाप्सरसं तत्र गच्छन्तीं नभसः पथा॥ ३॥ अथ तां मनसा ध्यायन् तत्नैवामीलितेक्षण। आरब्धवान् मनोराज्यं तया सह यथासुखम ॥४॥ स्वर्गे विहर्तुमारेभे ततः संकल्पमात्वतः। पुण्यक्षयानुसंधानात् पपातावनिमण्डले ॥ ५ ॥ ततः तस्य करमात जीव: शालितामगमत तदा। शालीन् भुक्तवतः पुत्रो भूत्वाऽसौ तपसि स्थितः ॥६ ॥ अवसद मेरुगहने मन्वन्तरमयं ततः। धर्मचिन्तापरिभ्रंशात् जातो मद्रमहीपतिः॥७॥ एवं अन्यानि जन्मानि सम्युपेत्य बहून्यथ। समझ्गाया: तटे जात: तपस्वी तापसात्मजः ।।८।। अथ कालेन महता भृगुशुक्समुद्धवः। कायस्तत्र पपातोर्ष्यां पवनातपजर्जरः । ९।। अथ वर्षसहस्त्रेण समाघेः विरतो भृगु:। पुत्रं मत्वा सृतं कोपात् कालं शप्तुं इयेष सः ॥१०॥
Page 73
भार्गवोपारयानम्।
आधिभौतिकदेहोऽथ कालो भृगुमुपाययौ। उपेत्य क्ुपितं कालो मुर्नि प्रोवाच सान्त्यन्। ११।। "त्वं अनन्ततपा विप्रो वयं नियतिपालकाः। कि मूर्ख इव सर्वज्ञ मुधा माँ शप्तुमिच्छसि॥ १२॥ मनो हि तव पुत्नस्य समाधौ त्वयि संस्थिते। संत्यज्येदं वपुर्गत्वा विश्वाचीं बुख्ुजे दिवि ॥ १३॥ महीपो धीतरो वंशः ततः सर्पोऽथ कुक्कुटः। एवं पुत्रो विचित्रासु वासनावशतः स्वतः ॥ १४।। स योनिषु चरित्वाद्य जातो विप्रकुमारक: । तपश्चरति ते पुत्रः समङ्गासरितस्तटे॥१५॥ तं इच्छसि यदि द्रष्टुं ज्ञाननेत्रेण लोकय। एतमुक्तो मुहूरतेन प्रतिमानवशादसौ ॥ १६ ॥ समङ्काया: तटे पुतरं आलोक्य पुनराययौ। 2 भार्गवप्रबोधनम्। ततः कालो भृगुश्वैव समङ्कायाः तटं गतौ ॥ १७ ॥ शान्तेन्द्रियं समाभिस्थं तं दृष्ट्वा बुध्यतां अयम्। इति कालस्य संकल्पात् समाधेः विरराम सः॥१८ ॥ उन्मील्य नेत्रे तौ दृष्ट्वा शान्तं वच उवाच सः। भवतो दर्शनेनाहं परां निर्वृतिमागतः ॥। १९ ।।
Page 74
५६ श्रीवासिष्ठसंग्रहे [सग: इति प्रोच्य नमस्यन्तं प्रोवाच भृगुरात्मजम्। स्मरात्मानं प्रबुद्धोऽसि ततः सोऽपि प्रबोधित: ॥२॥। मुहूर्तमात्रात सस्मार जन्मान्तरदशां निजाम्। उत्तिष्ठ तात गच्छाम: पश्यामः पूर्वकं वपु: ॥ २।। इति तस्य वच: श्रुखा प्रापुस्ते मन्दरं क्षणात्। दृष्ट्वा तु भार्गवस्तत्न शुष्कां तनुं उवाच सः ॥२२॥ निरस्तकल्पनाजालं इयं शेते सुखं वने। अचित्तत्वं विना नान्यत श्रेष: पश्यामि जन्तुषु ॥ २३॥ अथाक्षिप्य वचस्तस्य काल: ग्रोवाच भार्गवम्। प्रविशेमां तनुं साधो कर्तव्यं अनया त्वया॥ २४॥ गुरुत्वं असुरेन्द्राणां कन्याणं अस्तु वां इति। उक्त्वा चान्तहिते तस्मिन् संत्यव्य द्विजभावनाम्॥ शुक्रदेहं विवेशाथ भार्गवो नियतेः वशः॥ चकाराप्यायनं तस्य प्रोक्षणैः स भृगुस्तदा ॥ २६| अथ शुक्र: समुत्थाय ववन्दे पितरं सुखी। भार्गवाख्यानमेतत् त्वं विचारय यथामति॥२७॥ 3 मनोमलक्षालनम्। जन्तोः कृतविचारस्य विगलद्वृत्तिचेतस:। विज्ञानवशतो नूनं स्वभाव: संप्रसीदति॥२८॥
Page 75
भर्गबोपाख्यानम्। ५७
विचारेण परिज्ञातस्वभावस्योदितात्मन:। अनुकम्प्या भवन्तीह ब्रह्मविष्णन्द्रशंकरा॥।२९।। कोऽहं कथमिद चेति यावत् नान्तर्विचारितम्। संसाराडम्बरं तावद अन्धकारोपमं स्थितम्॥ ३० ॥ सर्वशक्तिः अनन्तात्मा सर्वभावान्तरस्थितः। अद्वितीयः चिदित्यन्तः यः पश्यति स पश्यति ॥३१॥ परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये। विज्ञाय सेवितः चोरो मैत्रीमेति न चोरताम्॥ ३२॥ मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपि य:। तमेवालब्धविस्तारं किष्टत्वात बहु मन्यते॥ ३३ ॥ बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति। परैः अवद्धोऽनाक्रान्तो न राज्यं बहु मन्यते॥ ३४॥ मनसो विजयात् नान्या गतिरस्ति भवार्णवे। तावत् निशीथवेताला वश्गन्ति हृदि वासना:।३५।। एकतत्वदढाभ्यासात् यावत् न विजितं मनः। भृत्योऽभिमतकारित्वात् मन्त्री सत्कार्यकारणात् ॥ ३६॥ सामन्तञ्चेन्द्रियक्रान्त्या गुरु: विद्याप्रदानतः। लालनात् स्निग्धललना पालनात् पावन: पिता॥ ३७॥
Page 76
-46 श्रीवासिष्ठसंग्रहे [सग:
सुहत् उक्त्तं च विश्वासात् मनो मन्ये मनीषिणाम्। एवं मनोमणि राम बहुपङ्ककलङ्गितम्॥३८॥ विवेकवारिणा सिद्धयै प्रक्षाल्यालोकवान् भव। इन्द्रियारीन् अलं तीर्तवा बुद्धया सत्यमवेक्ष्य च॥ ३९॥ तत्नैव निष्ठितो भृत्वा तीर्णों भव भवार्णवात्। एवं ते कथितं राम मनोनैर्मन्यसाधनम् ॥ ४० ॥ इति श्रीवासिष्ठसंप्रहे भार्गवोपारूयान नाम अष्टम सर्गः॥
। नवमः सर्गः॥
॥ दामादयुपाख्यानम् ॥
1 अहंकारोदयः ।
बसिष्ठ उवाच - दामव्यालकटन्यायं वक्ष्याभ्यत् शुभप्रदम्। शम्बरस्य बले सुप्े तस्मिन् देशान्तरं गते॥ १ ॥ तत्सैन्यं तरसा जघूनुः छिद्रं प्राप्य किलामरा:। स्वयं कोपादथायासीत शम्बरः सुरपत्तनम् ॥ २॥
Page 77
दामाद्युपास्यानम् ।
तस्य मायाबलात् भीता: सुरास्तेऽन्तर्धिमाययु:। शून्यं दृष्ट्वा तु स स्वगं विहृत्य कुपितस्तदा॥ ३॥ लोकपालपुरीं दग्ध्वा जगामात्मीयमालयम्। अदृश्या एव देवास्ते जघनुः तस्य बंलािपान् ॥४॥ शम्बरेण तदा भीमा: निर्मिता: मायया तय:। दामो व्याल: कटश्रेति महामाया: महावलाः ॥५॥ वासनात्माभिमानाभ्यां हीनास्ते न विदुः भयम् । केवलं सैनिकानग्रे दृष्ट्रा ते हननोदताः ॥६॥ हन्यमाना: तथा देवा: यत्र कापि च संस्थिता:। विषण्णाः क्षणमाश्वास्य ब्रह्माणं शरणं ययु:।।७।। म्रह्मोवाच- योधयन्तः पलायध्वं युध्यध्वं पुनरेव च। युद्धाभ्यासवशात् एषां असुराणां हदाशये॥। ८ ।। अहंकारचमत्कारः नूनं उत्पद्यते तदा। गृहीतवासना एवं सुजेया वो भवन्ति ते ॥ ९ ॥ वासनातन्तुबद्धोडयं लोको हि परिवर्ततें। धीरोऽप्यतिबहुज्ञोऽपि प्रबुद्धोऽपि महानपि॥१० ॥ वृष्णया वध्यते जन्तु: सिझ्ः भृङ्घलया यथा। इत्याकर्ण्य च युध्यन्तः पुनः चक्रु: पलायनम् ॥११॥
Page 78
६० श्रीवासिष्ठसंभ्रहे [सग
एवं पुनः पुनः वृत्ते दृढाभ्यासात अहंकतेः। दामादयोऽहमित्यास्थां जगृहु: युक्तचेतसः॥१२।।
आस्थावासनया ग्रस्ता: ततः कपणर्ता गता:। एवं बद्धधियां तेषां धैर्यमन्तर्धिमाययौ।। १३॥ अथ प्रम्लानसच्ास्ते मरणात् भीतचेतस:। नैव शक्ता: सुरान इन्तुं पातालं विविशुर्भयात्॥ १४।
अविवेकानुसन्धानात् चित्तं आपदमीदृशीम्। अवाप्नोतीति बोधाय तवेयं कीर्तिता कथा ॥ १५॥
2 अहङ्ार: त्रिविधः। इदं मे स्यात इंद मे स्यात इति बुद्धे: कदाचन। स्वेन दौर्भाग्यदैन्येन न भस्माप्युपतिष्ठति ॥१६॥ वेत्ति नित्यं उदारात्मा तैलोक्यमपि यस्तृणम्। तं त्यजन्त्यापद: सर्वा: सर्पा इव जरत्वचम् ॥ १७ ॥ आपदः संपद: सर्वा: सर्वत्ानादरो जय:। अहंभावोऽडकुरो जन्मवृक्षाणां अक्षयात्मनाम् ॥१८॥ ममेदमिति विस्तीर्णा: तेषां शाखा: सहस्रशः। त्रिविधो राघवास्तीह सोऽहङ्कारो जगत्त्नये ॥ १९॥
Page 79
अहं सवे इद विश्वं परमात्माSहमच्युतः। नान्यत् अस्तीति यो भाव: परमा सा ह्यहंकतिः ॥ २०। सर्वस्मात व्यतिरिक्तोऽहं वालाग्रशतकल्पितः। इति या संविदेवासौ द्वितीयाऽहंकतिः युभा ॥ २१ ॥ पाणिपादादिमालोऽयं अहं इत्येष निश्चय:। अहङ्कार: वृतीयोऽसौ लौकिका तुच्छ एव सः ॥२२॥ प्रथमौ द्वावहङ्कारी अङ्गीकत्यातिलौकिकौ। तृतीयाऽहंकृति: त्याज्या लौकिकी दुःखदायिनी ॥।२३।। पूर्वोक्ते चापि संत्यज्य सर्वांकृतिवर्जित:। यस्तिष्ठति स एवोचै: पद्मारोहति घुवम् ॥ २४ ॥ अत्यन्तं परमं भेयः एतदेव पररे पदम्। 3 निर्वासनता। अथ ते शृणु वक्ष्यामि शम्बरेण कृतं ततः ॥२५॥। दामादयोऽप्यहंकारात् निर्जिता समरे सुरैः। इति संचिन्त्य शास्त्रज्ञान् मिध्याभावविवर्जितान् ॥२६।। सवि वेकान अहंकारविहीनान् माययाSसृजत। सर्वज्ञा: वेद्यवेत्तार: जरामरणनिर्भया:।। २७। भीमो भासो दृदश्वेति नामभाजो हि तेऽमनन्। चीतरागैः गतद्वपैः सततं समदृष्टिमिः॥२८॥
Page 80
श्रीवासिष्ठसंग्रहे [सगः
प्राप्तार्थकारिभिः भीमैः वर्तमानानुवर्तिभिः। देवसेना हता भूय: जगाम शरणं हरिमू॥ २९॥ चक्रेणाथ हतास्तेन सङ्गरे भृशदारुणे। निर्वासना महात्मान: परां शान्तिमुपागता:।३०॥ तस्मात् वासनया बदूं मुक्तं निर्वासनं मनः। सम्यगालोकनात् सत्यात् वासना प्रविलीयवे ॥ ३१ ॥ वासनाविलये चेतः शाभ्यत्यस्नेहदीपवत्। अस्य संसारदुःखस्य सर्वोपद्रवकारिणः ॥ ३२ ॥। उपाय एक एवास्ति मनस: स्वस्य निग्रहः। भोगेच्छामात्रको बन्धः तत्यागो मोक्ष उच्यते ॥ ३३ ॥ मनसोऽम्युदयो नाश: मनोनाशो महोदयः। 4 जीवाविर्भावः। थथा सर्वंगतः सौक्ष्म्यात् आकाओो नोपलक्ष्यते ॥ ३४॥ तथा निरंशः चिद्भावः सर्वगोऽपि न लक्ष्यते। सैषा चित् अविनाश्यात्मा स्वात्मेत्यादिक्तामिधा। नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति। न च याति न चायाति न चेह न च नेह चित् ।३६।। राघवेयं प्रपश्चेन जगन्नाम्रा विजृम्भते। येन शब्द रसं रूपं गन्ध जानासि राघव ।३७।।
Page 81
६३
सोऽयमात्मा परं ब्रह्म सर्वमापूर्य संस्थितः। द्वितीया कल्पनैवेह न रघूद्वह विद्यते॥ ३८ ॥ ब्रह्ममातात् ऋते वहौ औष्ण्यमात्रात् ऋते यथा। आदौ शमदमप्रायैः गुणैः शिष्यं प्रबोधयेत्॥ ३९ ॥ पश्चात् सर्वमिद ब्रह्म शुद्धस्त्वं इति बोधयेत । अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत ॥ ४० ॥ महानरकजालेषु स तेन विनियोजित:। अविद्ययैवोत्तमया स्वात्मनाशोद्यमोत्थया॥ ४१॥ विद्या सा प्राप्यते यद्धत् मलेन क्षाल्यते मलम्। कुतोऽविद्या च जातेति राम माडस्तु विचारणा ॥ ४२। इमा कथं अहं हन्मीत्येषा तेडस्तु विचारणा। अस्तं गतायां क्षीणायां अस्यां ज्ञास्यसि राघव। ४३॥ यत एषा यया चैषा यथा नष्टेत्यखण्डितम्। किश्चित् क्षुभितरूपा सा चिच्छक्ति: चिन्महार्णवे॥ विकन्पकलिताकारं देशकालक्रियास्पदम्। चितो रूपं महावाहो क्षेत्रज्ञ इति कथ्यते ॥ ४५॥ वासना: कलयन् सोऽपि यात्यहङ्गारतां पुनः। अहद्धारो विनिर्णेता कलङ्की बुद्धिरुच्यते । ४६ ।।
Page 82
६४ श्रीव।सिष्ठ्सं्रहे [सर्ग:
बुद्धि: सङ्कल्पकलिता प्रयाति मननास्पदम्। मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः।। ४७।
पाणिपादादिमद् देहं इन्द्रियाणि विदु: बुधा:। एवं जीवो हि संकल्पवासनारज्जुवेषटित ॥ ४८॥।
दुःखजालपरीतात्मा क्रमात् आयाति चित्तताम्। इति शक्तिमयं चेतो घनाहंकारतां गतम् ॥ ४९॥ कोशकारकृमि: यद्वत् स्वेच्छया याति बन्धनम्। एवं जीवा: चितो भावा: भवभावनये हिताः॥५०॥ ब्रह्मण: कल्पिताकाशा: देवतिर्यूनरादय:। विभिन्ना इत दश्यन्ते बुद्बुदा वारिधेरित॥५१॥ इति श्रीवासिष्ठसंग्रहे दामाद्युपास्यान नाम नवम: सर्ग:॥
Page 83
१०] दाशूरोपास्यानम्।
॥ दशमः सर्ग: ॥
। दाशू रोपाख्यानम् ॥ 1 सृष्टिक्रमः । वसिष्ठ उवाच - ब्राह्मं शृणु महावाहो शरीरग्रहणक्रमम्। दिकूकालाद्यनवच्छिनं आत्मतत्च्वं स्वशक्तित: ।। १॥ लीलयैव यदाऽडदत्ते दिककालकलितं वपुः। तदैव जीवपर्यायं वासनावशतः परम् ॥ २ ॥ मनः संपद्यते लोलं कलनाकलनोन्मुखम्। कलयन्ती मन:शक्ति: आदौ भावयति क्षणातू ॥ ३॥। आकाशभावनां अच्छां शब्दबीजरसोन्मुखीम्। ततः तत् घनतां यातं घनस्पन्दक्रमात् मनः ॥४ ॥ भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम्। ताभ्यां आकाशवातार्भ्यां दृढाम्यासात् पुनसततः।५।। शब्दस्पर्शस्वरूपाभ्यां संघर्षात् जायतेऽनलः। मनः तादृग्गुणाविषटं रसतन्मात्रवेदनम् ॥ ६॥ क्षणात् चेतत्यपां शैत्यं जलसंवित ततो भवेत्। वतः तादग्गुणाविष्टं मनो भावयति क्षणाद् ॥७॥ V. S. 5.
Page 84
श्रीवासिष्ठसंग्रहे 1 सग
गन्धतन्मात्मेतस्मात् भूमिसंवित ततो भवेत्। अथेत्थं भुततन्मातैः वेष्टितं तनुतां त्यजत् ॥ ८ ॥। वपुः वन्हिकणाकारं स्फुरित व्योम्ि पश्यति। तस्मिन् तत्तीव्रसंवेगात् भावयत् भासुरं वपुर॥ ९। स्थूलतां एति पाकेन मनो बिल्वफलं यथा। मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे ॥ १० ॥ संनिवेशं अथादत्ते तत् तेजः स्वस्त्भावतः। कालेन स्फुटतां एत्य भवत्यमलविग्रह्ः ॥ ११।। युद्धिसत्त्वव लोत्साहविज्ञानैश्वर्यसंस्थितः। स एव भगवान् ब्रह्मा सर्वलोकपितामह: ।। १२ ।। संस्मृत्य सर्वतृन्दानि समतीतान्यनेकशः। लीलया कल्पयत्येष: चित्रा। संकल्पजा: प्रजाः ।।१३।। तासां स्वर्गापवर्गार्थ धर्मकामार्थसिदधये। अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ॥ १४।। सृष्टिरेवं इयं राम सर्गेऽस्मिन् स्थितिमागता। संकल्पजं जगत् पश्य सुदीर्धस्वन्मुत्थितम् ॥।१५॥ संकल्पस्योपशान्तौ तत् शाम्यत्यस्नेहदीपवत्। अतो राघव तत्वज्ञो व्यवहारेषु संस्थितः ॥ १६॥
Page 85
१°] दाशूरोपास्यानम। ६७
नष्टं नष्टं उपेक्षेत प्राप्तं प्रास्तं उपाहरेव। अनागतानां भोगानां अवाञ्च्छनं अकृत्रिमम् ॥ १७॥ आगतानां च संभोग: इति पण्डितलक्षणम्। यस्य नेच्छा न वाडनिच्छा झस्य कर्मणि तिष्ठतः ।१८।३ न तस्य लिप्यते प्रज्ञा पद्मरत्रमिवाम्तुभिः। 2 दाशूरतपः । बसिष्ठ उवाच - बहुप्रकारा सा सृष्टिः नास्यां तु नियम: क्वचित्॥ १९। जगन्मायास्वरूपस्य वर्णनाव्यपदेशतः। दाशूराख्यायिकां राम वण्यमानां मया शृणु ॥ २०॥
दाशूराख्यो मुनेः पुत्रः मगधेषु वने वसन्। मातापितृ तियोगेन शोकमग्रो रुरोद ह॥ २१॥
तं तदाऽडश्वासयामामाशरीरा वनदेवता। ऋषिपुत्र महाप्राज्ञ किमज्ञ इव रोदिषि ॥ २२ ॥ सर्वदेवेद्टशी साधो संसारस्य स्थिति: चला। जायते जीव्यते पश्रात् अवश्यं च विनश्यति ॥ २३॥ एवं आश्वासितो धैर्य आलम्व्य कृतवान् असौ। पाश्चात्यं पैतकं कर्म, ततो ब्राह्मेण कर्मणा ॥ २४॥
Page 86
श्रीवासिष्ठसंग्रहे [सगः
तपसा श्रोत्रियो भृत्वा दष्ट्राऽशुद्वं धरातलम्। उग्रेण तपसा वह्निं आराद्धुं शुद्धमण्डलम् ॥ २५ ॥
यतो नामोमि वृक्षाणां उपरिस्थितिरस्तु मे। इति संप्रार्थ्य संप्राप्ते नीपव्ृक्षे लतागृहे॥२६॥
दृढं पदमासनं बद्च्वा दिग्भ्य: प्रत्याहृतात्मना । अज्ञातपरमार्थेन दशवर्षाणि तत्र च ॥ २७॥
गवाश्वनरमेधादैः मनसैवायजत् सुरान। कालेनामलतां याते वितते तस्य चेतसि ॥ २८॥
बलात् अवततारान्तः ज्ञानं आत्मप्रसाद्जम्। पुत्रप्रबोधनम्। 3 वनदेवी ततः तं च सुतं कान्तमयाचत॥ २९।।
दाशूरो दयया तस्यै पुष्पं दत्वा व्यसर्जयत्। अथ दीर्घेण कालेन तत्न सा वनदेवता॥ ३० ॥
द्वादशाब्दमुपादाय सुतं सुनिसुपाययौ। कृतो मयैष सर्वासां कलानामपि कोविद: ॥ ३१ ॥
ज्ञानं त्वस्य भवानेव कृपयोपदिशत्विति। तया प्रोक्ता तदा पुत्रं बहुधैवं अबोधयत्। ३२।।
Page 87
१°] दाशूरोपाख्यानम । ६९
दाशूर उवाच - स्वोत्थनामा नृपः कश्चित् विख्यातो भुवनत्रये। यस्यानुश्नासनं सर्वे शिरोभि: धाशयन्ति च ॥ ३३॥
त्रयस्तस्य महावाहो: देहा: विहरणक्षमाः। जगत् आक्रम्य तिष्ठन्ति ह्युत्तमाधममध्यमाः॥ ३४॥ व्योमन्येव हि जातोऽसौ तत्रैव च स्थिर्ति गतः। चतुर्दशमहारथ्यं नगरं तेन निर्मितम् ॥३५॥
वापीसप्तकभृषाठ्यं दीपद्वयविराजितम्। नानाऽपवरका: सृष्टाः नवद्वारविभुषिताः॥३६ ॥
तेष्वन्तः विविधां क्रीडां करोत्येष महीपतिः। निर्मायान्यत् पुरं गत्वा तत उत्थाय धावति ॥ ३७॥
स्वेनैव व्यवहृत्यासौ कदाचित् परिभूयते। मुदमेति कदाचिच्च दुःखितोऽस्मीति शोचति॥ ३८॥
2 संकल्पप्रभावः । पुत्र उवाच- क एष भवता प्रोक्त: स्वोत्थनामा महीपतिः। दाशूर उवाच- इदं संसारसंस्थानं एवं ते कथितं मया ॥ ३९ ॥
Page 88
७० श्रीवासिष्ठसंग्रहे [सर्ग:
परमात् नभसो जातः संकल्पः स्वोत्थ उच्यते। जायते स्वयमेवासौ स्वयमेव विलीयते॥ ४० ॥ शून्ये व्योमनि तेनेदं निर्मित त्रिजगत्पुरम्। चतुर्दशात्र लोका हि दीपौ चन्द्रदिवाकरौ।। ४१ । क्रीडार्थ आत्मनः चित्राः देहापवरकाः कृताः। स्वयैव चेष्टया दुःखी सुखी चेव स्वचेष्टया।। ४२।। तम: सच्च रजश्चेति तस्य देहा: त्रयः स्मृताः। तमोरूपो हि संकल्पो नित्यप्राकृतचेष्टया॥ ४३॥ पराँ कपणतां एत्य प्रयाति कमिकीटताम्। सत्त्वरूपो हि संकल्पो धर्मज्ञानपरायणः॥। ४४। अदूरकेवलीभावं स्वाराज्यमधितिष्ठति। रजोरूपो हि संकल्पो लोकसंव्यवहारवान् ॥ ४५॥ परितिष्ठति संसारे पुत्रदारानुरज्जितः। त्रिविधं तु परित्यज्य संकल्पः परमश्तुते ॥ ४६॥ संकल्पस्य लयः कार्यः नियम्य मनसा मनः। यदि वर्षसहस्राणि तपश्चरति दारुणम्॥ ४७ ॥ नान्य: कश्चिदुपायोऽस्ति संकल्पोपश्रमात ऋते। निःसंकल्पो यथाप्राप्तव्यवहारपरो भव ॥ ४८ ॥
Page 89
दाशूरोपाख्यानम्।
चिदचे त्योन्मुखत्वं हि याति संकल्पसंक्षये। विकल्पजालमुत्सृज्य प्राप्यते सुखमद्दयम् ॥ ४९॥ पुत्र उवाच- की दशस्तात संकन्पः कथं उत्पद्यते च सः। कथं च वृद्धिमायाति कथं चैष विनश्यति॥ ५०॥ न्दाशूर उवाच- अनन्तस्यात्मतत्वस्य सत्तासामान्यरूपिण: । चितः चेत्योन्मुखत्वं यत् तत् संकल्पाङ्कुरं विदुः ।५१। भावयन्ती चितिः चेत्यं व्यतिरिक्तमिवात्मनः। संकल्पतामुपायाति बीज अंकुरतां इव ॥५२॥ संकल्पेन हि संकन्पः स्वयमेव प्रजायते। वर्धते स्वयमेवाशु दुःखाय न सुखाय तु ॥ ५३॥ भावनाभावमात्रेण संकल्पः क्षीयते स्व्यम्। तण्डुलस्य यथा चर्म नश्यति क्रियया सुत ॥५४ ॥ जीवस्य सहजोऽप्येषः नश्यत्येव न संशयः। न्बसिष्ठ उवाच- दाशूराख्यायिकैषा ते कथिता चिन्त्यर्ता त्वया ॥५५॥ 5 वासनात्यागः । कर्वताऽकर्तृता चोभे विद्येते परमात्मनि। सर्वस्थोऽहं अकर्तेति दृढभावनयाऽनघ ॥ ५६॥
Page 90
७२ श्रीवासिष्ठसंग्रहे [सर्गः
प्रवाहपतितं कर्म कुर्वन्नपि न लिप्यते। अथ सर्व करोमीति महार्कर्तृतया तथा॥५७॥ यदीच्छसि स्थिर्ति राम तत् तामप्युत्तमां विदु:। अथवा सर्वकर्तृत्वं अकर्तृत्वं च राघव ॥ ५८ ॥ सवें त्यक्त्वा मनः पीत्वा सत्तामात्ः स्थिरो भव। संत्याज्या सा प्रयतेन देहोऽहमिति या स्थितिः ।५९// बन्धो हि वासनावन्धो मोक्ष: स्यात् वासनाक्षयः। वासनां तां परित्यज्य मोक्षार्थित्वमपि त्यज ॥ ६० ॥ 1 तामसी: वासना: पूर्व त्यक्त्वा विषयवासिता:। मैत्यादिभावनानास्री: गृद्दाणामलवासनाः।। ६१।। ता अप्यन्तः परित्यज्य ताभिः व्यवहरन्नपि। अन्तः शान्तसमरतेहो भव चिन्मात्रवासन: ॥६२ । तामप्यथ परित्यज्य मनोबुद्धिसमन्त्रिताम्। शेषे स्थिरसमाधानो येन त्यजसि तन्यज ॥ ६३ ॥ समाधि अथ कर्माणि मा करोतु करोतु वा। हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशय:।६४।। नैष्कर्म्येण न तस्यार्थो न तस्यार्थोऽस्ति कर्मभि:। संत्यक्तवासनात् मौनात ऋते नास्त्युत्तमं पदम् ॥।
Page 91
१°] दाशूरोपाख्यानम्।
न केचन जगद्भावाः तच्वज् रञ्जयन्त्यमी। बार्हस्पत्य: कचः पूर्व समाधेः उत्थितो जगौ ॥ ६६ ॥ "कि करोमि क्व गच्छामि कि गृह्लामि त्यजामि किम् । आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा ॥ ६७ ॥। न तदस्ति न यत्राहं न तदस्ति न यत् मयि। कि अन्यत् अभिवाञ्छामि सव संविन्मयं स्थितम्"॥ ये हि राघव सत्वस्था: रमन्ते शिष्टवर्त्मनि। समा: समरसा: सौम्याः सततं साधुघृत्तयः॥ ६९॥ तेषां पदं महावाहोऽनुगन्तव्यं हि सर्वदा। कोऽहं कथं इंद चेति प्रयत्नेन विचार्यताम्॥ ७०॥ तामसीं राजसीं चैव जातिमन्यामपि शरिताः। स्वविवेकवशात् यान्ति सन्तः साच्विकजातिताम्।७१। इति श्रीवासिष्ठसंपहे दाशूरोपादयनं न.म दशमः सर्गः ॥
Page 92
श्रीव।सिष्ठ सग्रहे [सर्गः
॥ एकादशः सर्गः॥ । जनकोपाख्यानम् ॥
1 सिद्धगीताश्रवणम्। ्वसिष्ठ उवाच- समस्तं खश्विदं ब्रह्म सर्व आत्मेदमाततम्। अहं अन्यदिदं चान्यत् इति भ्रान्ति त्यजानघ॥ १॥ तते ब्रह्मघने नित्ये संभवन्ति न कल्पनाः। यथाप्राप्तानुभवनात् सर्वत्रानमिवाञ्छनात् ॥२॥ त्यागादानपरित्यागात् विज्वरो भत राघव। यम्येदं जन्म पाश्चात्यं विद्या हि विमला तथा॥ ३ ॥ आर्यता हृद्यता मैत्री सौम्यता मुक्तता जता। समाश्रयन्ति तं नित्यं सर्वे वाञ्छन्ति तं जनाः ।।४।। एष तावन् क्रमः प्रोक्त: सामान्य: सर्वदेहिनाम्। एष एव गुरुप्रोक्तात् अनुष्ठानाव शनैः शनैः ॥५॥ जन्मना जन्मभि: वाऽपि सिद्धिद: समुदाहृतः। द्वितीय: स्व्रात्मनैवाशु किचिद्व्युत्पन्नचेतसाम्॥ ६॥ भवति ज्ञानसंप्राप्तिः आकाशफलपातवत् । अन्रेद शृणु वृत्तान्तं जनकस्य महीपतेः ॥७॥
Page 93
११ जनकोपाख्यानम्। ७५
एकदोपवने रम्ये एकान्ते विचचार सः। तत्र शुश्राव संछन्नैः सिद्धैः गीताः महात्मभिः॥८। "द्रष्ट्वदर्शनदृश्यानि त्यक्त्वा वासनया सह। प्रकाशनं प्रकाश्यानां आत्मानं समुपास्महे॥ ९ ॥ सर्वेष्ववस्थितं हमं उच्चरन्तं उपास्महे संत्यज्य हृद्गुहेशानं देव अन्य प्रयान्ति ये ॥ १० ॥ ते रत्नं अभिवाञ्छन्ति त्यकत्वा हस्तस्थकौस्तुभम्। सर्वाशाः किल संत्यज्य फलं एतत् अवाप्यते ॥ ११॥ बुद्ध्वाऽप्यत्यन्तवैरम्यं यः पदार्थेषु दुर्मतिः। बभ्नाति भावतां भूयो नरो नासौ स गर्दभः ॥१२ ॥ उत्थितान उत्थितान एतान इन्द्रियारीन् तथा पुनः। अङ्गैः अक्कान् समाक्रम्य हन्यात सम्यक पुनः पुनः।। प्रशान्तमनमः स्त्रस्मिन् मवत्येव सुखे स्थितिः।" इति सिद्धगणैः गीता गीता: श्रुत्वा महीपतिः ॥।१४। विषाद आजगामामी आकुलो विललाप च। 2 जनकस्य प्रबोधः । "अपर्यन्तस्य कालस्य कोऽप्यंशो जीव्यते मया ॥ तस्मिन् भावं निवभञामि धिञ्ां अधमचेतनम्। कियन्मात्रं इदं नाम राज्यं आजीवितं मम ॥ १६॥
Page 94
श्रीवासिष्ठसंग्रहे [सर्ग:
कोटयो ब्रह्मणां याता: गता: स्वर्गपरम्पराः। प्रयाता: पांसुवत् भूपा: का धृतिः मम जीविते ।।१७। अज्ञानैकहतो बाल्ये यौवने मदनाहत:। शेषे कलत्रचिन्तार्त: कि करोतु कदा जडः ॥ १८ ।। सतोऽसत्ता स्थिता मूर्ननि मूर्धि रम्येऽप्यरम्यता। सुखेषु मूर्नि दुःखानि कि एकं संश्रयाम्यहम् ॥ १९॥ येषां निमेषणोन्मेषौ जगतां प्रलयोदयौ। ताद्शा: पुरुषा: यान्ति मादशां गणनैव का॥ २०॥ संसार एव दुःखानां सीमान्त: किल कथ्यते। तन्मध्यपतिते देहे सुखं आस्वाद्यते कथम् ॥ २१॥ संसारं शोषयिष्यामि संकल्पोपशमेन तु। प्रबुद्धोऽस्मि प्रहृष्टोऽस्मि दृष्टः चोरो मयाऽडत्मनः॥ मनो नामेह हन्म्येनं मनसाऽस्मि चिरं हतः। विवुधैः साधुभिः सिद्धैः अहं साधु प्रबोधितः ॥ २३।। आत्मान अनुगच्छामि परमानन्दसाधनम्।" इति मत्वा चिरं तूष्णीं स्थित्वोत्थाय पुनर्जगौ॥२४॥ "किमुपादेयमस्तीह यतात संसाधयामि किम्। कि मे क्रियापरतया कि मे निष्क्रिययापि वा"॥२५॥
Page 95
जन कोपाख्यानम।
इति संचिन्त्य जनको यथाप्राप्तां क्रियां ततः। असक्तः कर्तुमुत्तस्थौ दिनं दिनपतिः यथा ॥ २६ ॥। भविष्यत् नानुसंधत्ते नातीतं चिन्तयत्यसौ। चर्तमाननिमेष तु हसन्नेवनुवर्तते॥ २७॥ स्वविचारवशात् तेन प्राप्त प्राप्यं अशेषतः। सीमानं सर्वदु:खानां आपदां कोशसुत्तमम् ॥२८॥ बीज संसारवृक्षाणं प्रज्ञामान्दं विनाशयेत्। तस्मात् प्रयत्नः कर्तव्य: सम्यक पज्ञाविवृद्धये॥२९॥ चिन्तामणि: इयं प्रज्ञा हत्कोशस्था विवेकिन:। फलं कल्पलतेवैषा चिन्तितं संप्रयच्छति ॥ ३० ॥ नित्यं अन्तर्विचारस्य पश्यतः चश्चलं जगत्। जनकस्येव कालेन स्वयं आत्मा प्रसीदति॥ ३१॥ 3 वासनात्यागो द्विविघः। न दैंवं न च कर्माणि न धनानि न बान्धवा:। शरणं भवभीतानां स्वप्रयतात् ऋते नृणाम् ॥३२ ॥ उपादेयानुपतनं हेयैकान्तविवर्जनम्। यत् एतत् मनसो राम तं बन्धं विद्धि नेतरत्॥ ३३ ॥ हेयादेयदशौ त्यक्त्वा शेषस्थः सुस्थिरो भव। संविद्वीर्यवशात् प्राप्तं दृश्य आश्रयते मनः ॥ ३४॥
Page 96
श्रीवासिष्ठसंभ्रहे [सर्गळ
यदाSSश्रयसि दृश्यं त्वं तव सचित्तोऽसि बन्धवान्। यदा दशा संत्यजसि तदाऽचित्तोऽसि मोक्षवान् ॥३५॥ अहंभावमयीं छित्वा भव संसारपारगः । श्रीराम उवाच- अतिगम्भीरमेवैतत् भगवन् वचनं तव ॥ ३६ ॥ यदि त्यजाम्यहङ्कारं देहो नूनं विनश्यति। बसिष्ठ उवा व- द्विविधो वासनात्यागो ध्येयो ज्ञेयश्च नामतः ॥ ३७।। अहं एषां पदार्थानां एते च मम जीवितम्। नाहं एतैः विना कश्चित न मयैते विना किल ॥३८॥ इत्यन्तर्निश्रयं कृत्वा विचार्य मनसा दृढम्। मत्वा नाहं पदार्थस्य न पदार्थो ममेत्यप। ३९॥ अन्तः शीतलया बुद्धया कुर्वतो लीलया क्रिया:। यो नूनं वासनात्यागो ध्येयो राम स कीर्तित: ॥४०॥ सर्वे समतया बुद्ध्वा यं कत्वा वासनाक्षयम्। जहाति निर्ममो देहं ज्ञेयोऽसौ वासनाक्षयः॥ ४१॥ द्वावेतौ राघव त्यागौ समौ मुक्तपदे स्थितौ। द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतन्वरौ।। ४२ ।। ईप्सितानीपिसिते न स्तो यस्यान्तः सर्ववस्तुषु। सुप्तवत् चेष्टते यश्च स मुक्त इति कथ्यते॥ ४३॥
Page 97
११] जनकोपाद्यानम्।
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः। न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते ॥ ४४॥ 4 निश्चयः चतुर्विध:। चतुर्धा निश्चयः प्रोक्तः पुरुषस्य विचारिण:। आपादमस्तकं चाहं मातापितृ विनिर्मितः ॥४५ ।। इत्येको निश्चयो राम बन्धायासद्विलोकनात्। अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः ॥४६॥ इति द्वितीयो मोक्षाय निश्चयो जायते सताम्। जगज्ालपदार्थात्मा सर्वमेवाहमक्षयः ॥४७॥ तृतीयो निश्चयोऽप्येवं मोक्षायैव रघूत्तम। अहं चेदं जगत्सर्व शून्यव्योमसमं सदा ॥ ४८॥ एवमेव चतुर्थोऽपि निश्चयो मोक्षसिद्धये। एतेषां प्रथम: प्रोक्त: तृष्णया बन्धकृत सदा ॥ ४९॥ शुद्धतृष्णाः त्रयस्त्वन्ये जीवन्मुक्तविलासिन:। पूर्णा दृष्टिं अवष्टभ्य ध्येयत्यागविलासिनीम्॥ ५० ॥ जीवन्मुक्ततया स्वस्थो लोके विहर राघव। नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति ॥५१॥ ईहितानीहितैः मुक्त: संसारे नावसीदति। अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः ॥५२॥
Page 98
८० श्रीवासिष्ठसंग्रहे सर्ग: बहिः सर्वसमाचारो लोके बरिहर राघव। अयं बन्धुः अयं नेति गणना लघुचेतमाम् ॥५३॥ उदारचरितानां तु त्रिलोकी बन्धुतां त्रजेत्। 5 पुण्यपावनसंवाद:। अत्रैवोदाहरन्तीमं संवाद मुनिपुत्रयोः ॥५४॥ आसीत् दीर्घतपा नाम महेन्द्रे ज्ञानवान् मुनिः। पुत्रौ वभूवतुस्तस्य पुण्यपावननामकौ॥। ५५॥ मातापित्रोर्निंयोगेडसी और्ध्वदैहिक कर्मणि। पुण्य एव स्थितो व्यग्रः पावनो दुःखमाययौ। ५६॥ पावनोर्ऽर्धप्रबुद्धोऽभूव ज्ञानवान् पुण्य एव हि। पावनं शोकसंतप्तं पुग्यो वचनमत्रवीत् ॥ ५७॥ "स्वामेव परमां आत्मपद्वीं मोक्षनामिकाम्। स्व्रभावरूपामापन्ने कि पितर्यनुशोचसि ॥ ५८॥ मातापितृ महस्त्राणि समतीतानि ते पुरा। पुत्रचान्धववृन्दानि जन्तोः जन्मनि जन्मनि ॥ ५९॥ शोचनीया यदि स्नेहात् मातापितृसुतादयः। तर्ह्यतीताः न शोच्यन्ते कथमेते सहसराः ॥६०॥ सिह्ावानरमानङ्गखरका का दियोनिषु। पावन त्वं हि जातोऽसि पुरा शतसहसरः॥ ६१॥
Page 99
१२] बल्युपाख्यानम्।
तत्रत्या बन्धवो याताः तान् कथ नानुशोचसि। भावाभावविनिर्मुक्तं जरामरणवर्जितम् ॥ ६२ ।। संस्मरात्मानमव्यग्रं मा त्वं मूढमतिर्भेव।" एवं प्रवोधितः तेन तथा पुण्येन पावनः ॥६३।। उभावपि ततो जातौ ज्ञानविज्ञानपारगौ। एवमेव त्वया भाव्य चिन्तारहितचे तसा ॥ ६४ ॥ इति श्रीशसिष्ठसंप्रहे जनकोपाद्यानं नाम एकादश: सर्गः॥
॥ द्वादशः सर्गः॥
॥ वल्युपाख्यानम् ॥
1 बले: निवेद:।
वसिष्ठ उवाच-
चिन्तनेनैधते चिन्ता त्विन्धनेनेव पावक:। नश्यत्यचिन्तनेनैव विनेन्धनमिवानल: ।१॥।
विनिवारितसर्वार्थात् अपददस्तितवान्धवात्। न स्वधैर्यात ऋते किचित् अभ्युद्वरति संकटाद् ॥२॥ V. S. 6.
Page 100
श्रीवासिष्ठसंग्रहे सर्ग
वैराग्येण च शास्त्रेण महच्वादिगुणैरपि। यल्ेनापद्विघातार्थ स्वयमेवोन्नमेत मनः ॥ ३ ।। पूर्णे मनसि संपूर्ण जगत सरवे सुधाद्रवैः। उपानद्गृढ पादस्य ननु चर्मास्तृतैव भू: ॥ ४ ॥ वैराग्यात पूर्णतां एति मनो नाक्षावशानुगम्। न तथा भाति पूर्णेन्दुः न पूर्णः क्षीरसागर ।५ न लक्ष्मीवदनं कान्तं स्पृहाहीनं यथा मनः । अथता बलिवत् बुद्धिभेदेन ज्ञानमाप्यताम् ॥ ६॥ पाताले दानवो राजा विरोचनसुतो बलि:। दश्कोटीस्तु वर्षाणां देत्यराज्यं चकार ह। ७॥।
अरुचि प्राप्य भोगेषु चिन्तयामास चैकदा ॥ ८ ॥ "किं वा भवति भुक्तेन कि नामेदं सुखावहम्। पुनरालिङ्न्यते कान्ता पुनरेव च सुज्यते ॥ ९॥ पुनः पुनः इदं कुर्वन् प्राज्ञः कस्मात् न लज्जते। कृतयाऽप्यनया नित्यं क्रियया कृतकार्यया ॥ १० ॥ कोऽर्थः स्यात तादृशो येन पुनः कर्म न विद्यने। 2 पित्रा उपदेशः। आ: स्मृतं यत् पुरा पृष्टो मया तातो विरोचनः ॥ ११॥॥
Page 101
२] बल्युपाख्यानम्। ८३
'पितः सकलदुःखानां सुखानां चापि सर्वशः। यत्र सर्वे अ्रमा: शान्ता: कोडसौ सीमान्त उच्यताम्॥" इत्युक्तो भगवान् प्राह 'सीमान्तोऽस्ति हि तादृशः। यत्र पृथ्वी न नाकाशं सागरा न न चाद्रयः ।।१३।। न वनानि न तीर्थानि न नद्ो न सरांसि च। सुमहान एक एवास्ति तत्न राजा महाद्युति:॥ १४।। सर्वकृत् सर्वग: सर्वः स च तूष्णीं व्यवस्थितः। तेन संकल्पितो मन्त्री सर्वतो मन्त्रणोन्मुखः ॥१५ ॥ अघटं घटयत्याशु घटं विघटयत्यपि। भोक्तुं किचित् न शक्नोति न च जानाति किंचन॥। राजार्थ केवलं सवे करोत्यज्ञोऽपि सन सदा। राजा केवलमेक्ान्ते स्वस्थ एवावतिष्ठति ॥ १७॥ स तत्र बलवान मन्त्री देवासुरगणैः सुत। न लक्षगुणितैर्वाडपि सवैः आक्रम्यते मनाक् ॥ १८॥ अ्रभुणैव तु जय्योऽयं युक्त्याऽडयाति स वश्यताम्। देशनाम्ना मयोक्तस्ते मोक्ष: सकलदुःखहदा ॥ १९॥ राजा च भगवान् आत्मा मन्त्री प्राज्ञो मनो भवेत् ॥ विषयान प्रत्यनास्था स्यात् युक्तिहिं मनसो जये।
Page 102
८४ श्रीवासिष्ठसंग्रहे [सर्ग:
चित्तस् भागौ द्वौ भोगै: शास्त्रेणैकं प्रपूरयेव। गुरुशुभ्रषया चैकं अव्युत्पन्नस्य सत्क्रमे ॥ २१ ॥ किंचित् व्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत्। गुरुशुश्रषया भागौ भागं शास्त्रार्थचिन्तया॥ २२॥ व्युत्पर्त्ति अनुयातस्य द्वौ भागावपि चेतस:। पूरयेत् शास्त्रवैराग्यैः द्वौ ध्यानगुरुपूजया॥ २३।। प्रज्ञया च विचारेण समँ आत्मावलोकनस्। तृष्णासंत्यागमेवापि सदा तीत्रं समाहरेत्'॥ २४ । इति मे कथितं पूर्व दिष्टयाऽद्य संस्मृतं मया। दिष्टया बोधोऽपि मे जातः जाता भोगेषु चारति:।। दिष्टया शमसुखं स्वच्छं विशाम्यमृतशीतलम्।" 3 शुकरेण उपदेशः । "कोऽहं तावत् अयं कि स्यात् आत्मेत्यात्मावलोकिनम्। पृच्छामि भार्गवं शुक्रं" इति ध्यानात् तमागतम्। भार्गवं पूजयामास पादाभिवन्दनादिना॥ २७॥ ततः तत्र समासीनं गुरुं पप्रच्छ दैत्यराट्। "गुरो कोऽहं किमेते वा लोका इति वद प्रभो"। शुक्र उवाच-
Page 103
२] वल्युपास्यानम् । ८५
बहुनाऽत्र किमुक्तेन सारं संक्षेपतः शृणु । चित् त्वं चिदहमेते च लोकाः चिदिति संग्रहः॥२९॥७ इति निश्चयमादाय विलोकय धियेद्या। स्वयमेवात्मनाऽडत्मानं अनन्तपदमाप्ससि ॥३०॥ एवमुक्त्वा गते शुक्रे सर्व चिन्मात्रमेव हि। इति भावनया ध्यायन प्रश्नान्तकलनागण: ॥। ३१।। ध्यातृध्येयध्यानहीनो निर्मना: शान्तवासनः। बभूवावातदीपाभो बलि: प्रास्महापद: ॥।३२।। निर्विकल्पसमाधाने चिर स्थित्वा समुत्थितः। राजकार्याणि सर्वाणि संव्यधात् स यथाक्रमम् ॥ ३३ ।। आपदं संपदं चैव समदृष्टयैव पश्यति। नास्तमेति न वोदेति तत्प्रज्ञा सुखदुःखयोः ॥ ३४॥ येषु येषु प्रदेशेपु मनो मजति बालवत। तेभ्यः तेभ्यः समुद्धृत्य तद्धि तच्वे नियोजयेत् ॥३५॥ एवं अभ्यस्यताऽभ्यासं मनोमत्तमतङ्गजम्। निबध्य सर्वभावेन परं श्रेयोधिगम्यते॥ ३६ ॥ इति श्रीवासिष्ठसंप्रहे बल्युपास्यानं नाम द्वादशः सर्गः॥
Page 104
८६ श्रीवासिष्ठ संप्रहे [सर्ग:
॥ त्रयोदशः सर्गः ॥ । प्रह्मादोपाख्यानम् ॥ 1 हरितोषणम्। बसिष्ठ उवाच - अथेमं परम राम विज्ञानाधिगमे क्रमम्। शृणु दैत्येश्वरः सिद्धः प्रह्लाद: स्वात्मना यथा ॥ १॥ प्रह्मादोडचिन्तयद् दृप्टा दानवान् हरिणा हतान्। "हरेः आक्रमणे नूनं हरिरेव हि साधनम् ॥ २ ॥ तमेव शरणं यायां" इति निश्चित्य माधवम्। मनसा पूजयामास संभारभरभारिणा ॥ ३ ॥ रत्नौघपात्रपटलैः चन्दनादिविलेपनैः। धूपैः दीपैः पवित्रैश नानाविभवभूषणैः ॥४ ॥ अथ तस्मिन पुरे दैत्या: ततः प्रभृति वैष्णवा:। सर्व एवाभवन् भक्त्या राजा ह्याचारकारणम् ॥५॥ श्रुत्वैतत् विस्मिता देवा: पप्रच्छः भोगिशायिनम्। 'किमेतत् भगवन् दैत्याः विरुद्धाः त्वां उपासते ॥ ६ ॥ वराको दानवो हीनजाति: भक्ति: क वैष्णवी'। श्रीभगवानुवाच - 'विबुधाः मा विषण्णा: स्त प्रह्लादो भक्तिमान् इति ।।
Page 105
१३] Co
पाश्चात्यं जन्म तस्येदं मोक्षाहोऽसौ अरिंदमः। गुणवान् निर्गुणो जातः इत्यनर्थक्रमं विदुः ॥। ८ ।। निर्गुणो गुणवान् जातः इत्याह्ुः सिद्धिदं क्रमम्'। श्रह्नादं प्रति गीर्वाणा: ततः स्त्निग्धत्वं आययु: ॥९॥ मनसा कर्मणा वाचा प्रह्लादो भक्तिमानपि। त्यक्तभोगादिकलनः विश्रान्ति अनुपागतः ॥१० ।। तां स्थिरति तु हरिः ज्ञात्वा तस्य पूजागृहं ययौ। विज्ञाय पूजया देवं संपूज्य द्विगुणेदया॥११ ॥ प्रह्लाद: परमप्रीतो गिरा तुष्टाव पुष्टया। श्रीभगवानुवाच - वरं गृहाण ते भूयोजन्मदुःखोपशान्तये ॥१२॥ परहाद उवाच- यद् उदारतमं वेतिसि तदेवादिश मे विभो। श्रीभगवानुवाच - सर्वसंत्रमसंशान्त्यै परमाय फलाय च ।। १३ ।। ब्रह्मविश्रान्तिपर्यन्तो विचारोऽस्तु तवानघ। 2 आत्मविचारणम्। इत्युक्त्वाऽन्तर्हिते देवे समाप्यार्चां यथाक्रमम् ॥१४॥ उपविश््याथ दैत्येन्द्रोऽकरोदात्मविचारणम्। जगत् तावत इदं नाहं बाह्यं तत् जडमेव हि॥१५॥
Page 106
श्रीवासिष्ठसंग्रहे सगठ
नाहं देहो जडो नाश्यः पवनेनैव विस्फुरन। जडया कर्णशष्कुल्या कल्प्यमान: क्षणक्षयी॥ १६॥ शून्याकृतिः शुन्यभवः शब्दो नाहं अचेतनः। त्वचा क्षणविनाशिन्या प्राप्योऽप्राप्योऽयमन्यथा। चित्प्रसादोपलब्धात्मा स्पर्शो नाहं अचेतनः। दृश्यदर्शनयोः लीनं क्षयि क्षणविनाशिनोः॥८॥ केवले द्रष्टरि क्षीणं रूपं नाहं अचेतनम्। लब्धात्मा जिह्वया तुच्छो लोलक्षणिकसत्तया ॥ १९ ॥ स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहं अचेतनः । नासयाऽप्यन्घजडया क्षयिणा परिकल्पित: ॥२०।। पेलवोडनियताकारो गन्धो नाहं अचेतनः। निर्ममोऽमननः शान्तो गतपश्चेन्द्रियअ्रमः ॥२१। शुद्धचेतन एवाहं कलाकलनवर्जितः। चेत्यवर्जितचिन्मात्ं अहमेषोऽवभासक: ॥ २२॥। सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः। आः इदानीं स्मृतं सत्यं एतत् तत् अखिलं मया। निर्विकल्पचिदाभास: एष आत्माऽस्मि सर्वग। मयैव चेतनेनेमे सर्वे घटपटाद्यः॥ २४॥
Page 107
१३] ८९
सूर्यान्ता अवभासन्ते दीपेनोत्तमतेजसा। मयैवैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तय: ॥२५॥ तेजसाऽन्तः प्रकाशेन यथाऽग्निकणपङ्क्तय:। सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने ॥ २६॥ प्रत्यकचेतनरूपाय मह्यमेव नमो नमः । स्वयमेवोदितं स्वस्थ नमामि स्ववशं स्वयम् ॥ २७॥ तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति। शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते ॥ २८॥ एष एव सदाऽन्वेष्य: स्तुत्यो ध्यातव्य एव च। जरामरणसंमोहात् अनेनोत्तीर्य गम्यते॥ २९ ॥ न मे भोगस्थितौ वाञ्छा न मे भोगविवर्जने। यत् आयाति तत् आयातु यत् प्रयाति प्रयातु तत्।। मनसा मनसि चछिन्ने निरहङ्गारतां गते। भावेन गलिते भावे स्वस्थ: तिष्ठामि केवल: ॥ ३१ ॥ जय सर्वागमातीत जय सर्वागमास्पद जय भाव जयाभाव जय शान्तिपरायण॥ ३२ ॥। इति मत्वा समाधौ सः निर्विकल्पे चिरं स्थितः। 3 हरिणा प्रबोधनम्। एवं तस्मिस्तु विश्रान्ते हरिः एवं व्यचिन्तयत ॥ ३३।
Page 108
श्रीवासिष्ठसंप्रहे [सर्ग:
"दैत्यराजे शर्म याते शत्रुहीना: सुराः ध्रुवम्। शममेत्य गमिष्यन्ति मोक्षाख्यं पदमुत्तमम् ॥ ३४॥ देवाभावेऽफला: स्युर्हि भुवि यज्ञतपःक्रियाः। क्रियास्वथोपशान्तासु भूलोकोऽप्यस्तमेष्यति॥३५॥ असंसारप्रसङ्गोऽथ तस्य नाशे भविष्यति। नेह श्रेयोऽनुपश्यामि जगत्येवं शम गते"॥ ३६ ॥ इति संचिन्त्य दैत्येन्द्रं पाश्चजन्यरवेण सः। प्रबोध्य तमुवाचेदं 'साधो स्मर निजाकृतिम् ॥ ३७॥ जीवन्मुक्तेन भवता राज्य एव हि तिष्ठता। क्षेपणीया गतोद्वेगं आकल्पान्तं इयं तनुः॥ ३८॥ कृशोऽतिदुःखी मूढोऽहं इति चान्याश्र भावनाः। म्ति यस्यावलुम्पन्ति मरणं तस्य राजते ॥ ३९॥ यस्य नाहंकृतो भाव: बुद्धि: यस् न लिप्यते। य: समः सर्वभूतेषु जीवितं तस्य शोभते ॥ ४० ॥ आशापाशनिबद्धोडन्तः इतश्चेतश्र नीयते। यो विलोलमनोवृच्या मरणं तस्य राजते ॥ ४१ ॥ योऽन्त:शीतलया बुद्धया रागद्वेषविमुक्तया। साक्षिवत् पश्यतीदं हि जीवितं तस्य शोभवे ॥ ४२ ॥
Page 109
:२३]
तदुत्तिष्ठासुराधीश सिह्मासनं उगाश्रय। यावत् मेरुः धरा यावत् यावत् चन्द्रार्कमण्डलम् ।। अखण्डितगुणश्लाघी तावत राजा भवानघ"। इत्युक्त्वा पुण्डरीकाक्ष: तत्रैवान्तर्धिमाययौ।। ४४ ॥ श्रीराम उवाव - कथं प्रबुद्धूं भगवन् प्रह्लादस्य महात्मन:। परे पढ़े दृढं लीनं पाश्चजन्यस्वनैः मनः ॥ ४५॥
व सष्ठ वाच- भ्रष्टवीजोपमा भृयोजन्माङ्कुरविवर्जिता। हृदि जीवद्विमुक्तानां शुद्धा वसति वासना ॥ ४६॥ अपि वर्षसहस्रान्ते तयैवान्तरवस्थया। सति देहे प्रवुध्यन्ते कुतोऽप्युच्छूनया शनैः॥४७॥ इति श्रीवासिष्ठसंपहे प्रह्लादौपास्यानं नाम त्रयोदशः सर्गः ॥
Page 110
श्रीवासिष्ठसंग्रहे [सरग: -4
॥ चतुर्दशः सर्ग:॥
। गाध्युपाख्यानम् ॥ 1 स्वस्थश्वपचत्वादिदर्शनम्।
वष्ठ उवाच- जगन्मायाप्रपश्चस्य वैचित्रयप्रतिपत्तये। इतिहासमिमं वक्ष्ये शृणुष्वावहितोऽनघ ॥ १।। कोसलेषु द्विजः कश्चित गुणी गाधि: इति श्रुतः। आकण्ठं अम्बुनिर्मगः तप्चक्रे ततो हरिः ॥२॥
घिरुवाच- आगत्योचे 'द्विजोत्तिष्ठ गृहाणाभिमतं वरस्'
त्वया सृष्टां इमां मायं भगवन् पारमात्मिकीम् ॥ ३॥ द्रष्टमिच्छामि संसारनात्रीं आश्चर्यकारिणीम्। 'इमां द्रक्ष्यसि मार्यां त्वं' इत्युक्वाऽन्तर्दधे हरि:॥ स्नानार्थ एकदा गाधि: ममज्जान्तर्जलं तदा। अपश्यत् मृतमात्मानं स्वगृहे बन्धुभिः वृत्तमू।।५।। वतो नीत्वा श्मशानं ते चक्रुस्तं भस्मसात् शवम्। अथापश्यदसौ भूयो हूणग्रामनिवासिनाम्॥ ६॥
Page 111
गाध्युपाख्यानन्। ९३
श्वपचानां गृहे जातं आत्मानं कान्तया युतम्। ततो ज़रठतां यातं मृत्युना हृतवान्धवम्॥ ७॥ ततः शोकपरीतात्मा निजं देश विहाय सः। नगरं प्राप्य कीराणां राजमार्गे स्थित: तदा॥ ८ ॥ :मृते राजनि राजार्थ विहरन्तं इतस्ततः। हस्तिनं स ददर्शाथ करेणादाय तं गजः ।। ९ ।। स्कन्धे न्यवेशयत् मोदात नेदु: दुन्दुभयस्तदा। एवं गवलनाम्राऽसौ कीरराजो बभूव ह॥ १० ॥ अष्टौ वर्षाणि राज्यं सः चकार मन्त्रिपूजित:। यहच्छयैकदा तं तु निर्गतं त्यक्तभूषणम् ।। ११ ॥ आलक्ष्य श्वपचः कश्चित् प्रोचे च 'चिरबान्धव। दर्शनेन तवाद्याहं परां निर्वृतिमागतः' ॥ १२।। अुत्वेद मन्त्रिणः सर्वे वातायनगता: स्त्रियः। श्वपचोऽयं महीपाल: इति निश्चित्य दुःखिताः ।।१३।। ततः प्रभृति नास्प्राक्षुः तिष्ठन्तं तं शवं यथा। अथ सर्वे 'वय दीर्घकालं श्वपचदूषिताः॥। १४।। प्रायशित्तैः न शुद्ध्याम: प्रविशामो हुवाशनम्'। इति निर्णीय सर्वेऽिं विविशुः सह बन्धुभिः॥१५।।
Page 112
श्रीवासिष्ठसंग्रहे [समो
राजा मत्वा 'मदर्थ हि देशेऽनर्थोऽयमागतः'। इति वन्हौ अनुद्वेग आजुडाव निजं वपुः॥ १६॥
अत्ान्तरेऽनलक्षुब्धो गाघि: मोहात् अनुध्यत। 'कोऽहं किमिव पश्यामि कि अकार्ष अहं किल'।'
एवं विचारयंश्रित्रं उदस्थत् उदकान्तरात्। 2 मिश्णहष्टस्य सत्यता। चेतो भ्रमत्यनन्तासु भ्रान्तिदृष्टिषु देहिनाम् ॥ १८ ॥
इति मत्वा स्थिते तस्मिन आजगाम प्रियोऽतिथिः। क्रमात् शयनमासाद्य गाधि: पप्रच्छ तं द्विजम् ॥१९॥
'किं ब्रह्मन् संकशाङ्गस्त्वं किमिति श्रमवानसि'। विथिरुवाच- 'कीरेषु न्यवसं मासं तत्रैषा हि कथा श्रुना ॥ २०॥
इहाभूत् श्वपचो राजा वर्षाण्यष्टौ द्विजोत्तम। स एवान्ते परिज्ञातः प्रविष्टो ज्वलनं जवात् ॥ २१ ॥
तथा द्विजशतानीह प्रविष्टानि हुताश्नम्'। इति श्रत्वा ततो गत्वा प्रायश्चित्तं विधाय च ॥। २२ ॥ क्रमात् चान्द्रायणस्यान्ते पारणार्थ इहागतः। श्रान्तोऽहं उपवासेन नान्यदस्ति हि कारणम्' ॥२३।
Page 113
गाध्युपाख्यानम्। ९५
इति तेनोदितं श्रुत्वा विस्मयाविष्टमानसः। गाविश्च चिन्तयामास मद्ृत्तान्तोऽयमीडरः॥२४।। अथ निर्गत्य स द्रष्टुं हूगमण्डलमागतः। तत्र दृष्टा यथापूर्व निजं श्वपचमन्दिरम्। २५।। कीरमण्डलमासाद्य स्वानुभूतानि दृष्टवान्। विस्मयोत्कम्पितशिरा: धतुश्रेष्टां परामृशन् ॥ २६॥ भूयो गाधि: तपश्चक्रे तीव्रं शैलस्य कन्दरे। आगत्य च तपः प्रीतः ऊचे चक्रगदाघरः॥ २७।। 'मम माया त्वया दष्टा किमन्यत् अभिवञ्छसि'। गाधिरुवाच- तस्या मर्म न जानामि भ्रमः सत्योऽभवत् कथस् ॥२८। 3 भगवदुपदेशः। श्रीभगवानुवाव- चित्तस्थं हि पृथिव्यादि न बहिस्थं कदाचन। स्वप्नभ्रमपदार्थेषु सर्वैरेवानुभूयते ॥ २९॥ यत्रानन्तजगजालं संस्थित तेन चेतसा। दशिंत श्वपचत्वं चेतु तदाऽत्र विस्मयः कुतः ॥ ३०॥ यथा श्वपचता दृष्टा प्रतिभासवशात् त्वया। तथैवातिथिमायातं दृष्टवानसि संभ्रमे ॥ ३१॥
Page 114
६ श्रीवासिश्संपहे [सर्ग:
तथा हूणस्थलं प्राप्य दष्टोऽसि प्राक्तनं गृहम् । तथा कीरेपु राजत्वं दृष्टवान् प्रतिबिम्धितम् ॥ ३२।। कदाचित् प्रतिभैकैव बहूनामपि जायते। तेनैव संनिवेशेन श्वपचोऽप्यमवत् पुरा॥ ३३॥ स कीरनृपतिः भूत्वा प्रविवेशानलं ततः। तवाभूद केवलं चित्ते स्वसंबन्धितया हि तत् ॥ ३४ ॥ ज्ञानस्थापरिपूर्णत्वात् न शक्नोषि मनोभ्रमम्। विनिवारयितुं तेन तेनैवाक्रम्यसे क्षणात् ॥ ३५॥ तपः कुरु त्वमुत्थाय ततो ज्ञानमवाप्स्यसि"। इत्युक्त: त्यक्तसंकल्पः गाधि: तत्राकरोत् तपः॥३६ ॥ आत्मचिन्तनरूपं च मनोभ्रमनिवृत्तये। दशवर्षाणि तेनासौ आत्मज्ञानं अवापवान् ॥ ३७॥ जीवन्मुक्तपद प्राप्य वीतशोको बभूव च। एवं एषाऽतिवितता दुर्ज्ाना रघुनन्दन ॥ ३८ ॥ परमात्माश्रया माया महामोहकरी सदा। चित्ताक्रमणमात्रातु परमात् औषधात् ऋते ॥ ३९ ॥ प्रयत्नेनापि संसारमहारोगो न शाम्यति। वर्तमानं कमायातं भजत बाह्यघिया क्षणम्॥ ४ ॥
Page 115
गाध्युपाख्यानम् ।
अभजत् भावि भूतं च याति चित्तं अचित्तताम्। चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते।। ४१॥ निर्मनस्कस्वभावात्तु न तत्र कलनामलः । मलं संवेद्यमुत्सृज्य मनो निर्मलयन् परम् ॥ ४२॥ आशापाशान् अलं छित्वा संविन्मात्रपरो भव। तदैव क्षीयते मोहः संसारभ्रमकारणम्॥ ४३॥ अनात्मन्यात्ममावेन ममेदमिति भावतः। अहंकारविकारेण चेतो गच्छति पीनताम् ॥ ४४॥ हेयादेयविभागेन समाश्वासेन संसृतौ। स्नेहेन धनलोभेन चेतो गच्छति पीनताम्॥ ४५ ॥
उदालक्वदालूनं विशीर्ण भृतपश्चकम्। कृत्वा कत्वा िया धीर धीरयाऽन्त: विचारय॥ ४६ ॥
इति श्रीवासिष्ठसंग्रहे गाध्युपादयानं नाम चतुर्दशः सर्गः ॥
v. S. 7.
Page 116
१८ श्रीवासिष्ठसंभरहे [सर्ग
॥ पश्चदशः सर्गः॥ । उद्दालकोपाख्यानम् ॥ 1 विश्रान्त्यपेक्षा। श्रीराम उवाच - उद्दालकेन भगवन् कथमन्तर्विचारितम्। बसिष्ठ उवाच - उददालको मुनिः कश्चित अल्पप्रज्ञो विचारवान्॥ १॥ ततः क्रमेण तपसा शास्त्रार्थै: नियमैः यमैः। विवेकवान् बभूवाथ चिन्तयामास धीरधीः॥ २।। "किं तत् प्राप्यं प्रधानं स्यात यद्विश्रान्ती न शोच्यते। कदाऽहं मननातीते पढे परमपाचने॥ ३ ॥ चिरं विश्रान्तिमेष्यामि निर्विकन्पसमाधिना"। इति चिन्तापरवशो ध्यानाभ्यासं चकार सः॥ ४॥ विषयैः नीयमाने तु चित्ते मर्कटचञ्चले। न स लेभे समाधानप्रतिष्ठां प्रीतिदायिनीम् ॥५॥ वदाचित उदितार्कामं तेजः पश्यति विस्तृतम्। कदाचित् केवलं व्योम कदाचित् निबिडं तमः ॥६॥ एवं पर्याकुलमना: स लुठन् ध्यानवृत्तिषु। एकदा गिरिकान्तारे चोपविश्यासने क्वचिद् ॥ ७॥
Page 117
१५] उद्दालकोपास्यानम।
निश्चलः सुदृढं बध्वा पद्मासनं उदङ्मुखः। निर्विकन्पममाध्यर्थ चकारेमां विचारणाम्॥ ८ ।। 2 अन्नर्विवारण। अपि मूर्ख मनः कोऽर्थः तव संसारवृत्तिभिः। यदि यासि महीरन्धरं ब्रह्मलोकं अथाषि वा ॥ ९ ॥ तन्न निर्वाणमायासि विनोषशमनामृतम्। श्रोत्रतां मूर्ख संप्राप्य निष्फलोद्यमवर्धिताम्॥ १॥ घिया शब्दानुमारिण्या मृगवत मा क्षयं व्रज। त्वक्त्वं आगत्य दुःखाय स्पर्शोन्मुखतया घिया॥११॥ मूर्ख मा बद्दूतां एहि गजीलुब्धगजेन्द्रवत्। चाक्षुपीं वृत्तिमाश्रित्य प्रभारूपचयोन्मुखोम् ॥ १२ ॥ मा गच्छ दग्धतां मूर्ख कान्तिलुच्धपतुङ्गवत्। रसनाभावमागत्य दुग्न्नास्वादकाङ्क्षया ॥ १३ ।। मा नाशमेहि वडिशपिण्डीलम्पटमत्स्यवत्। घ्राणमाग उपाश्रित्य शरीराम्भोजकोटरे ॥ १४ ॥ गन्धोन्मुखतया बन्धं मा समाश्रय भृङ्गवत्। कुरङ्गालिपतङ्गेममीना: त्वेकैकशो हताः ॥१५ ।। सर्वै: एतैः अनर्थैश् व्याप्स्याज्ञ कुतः सुखम्। करोम्येष किमर्थ वा तवैतत् अनुशासनम् ॥ १६॥
Page 118
श्रीवासिष्ठसंग्रहे [सरग:
विचारणवतः पुंसः चित्त त्वमपि नासि यद। अनन्तस्यात्मतच्वस्य तन्वी मनसि संस्थितिः ॥१७॥ न संभवति बिल्वान्त: वासितादन्तिनोर्यथा। पादाङ्गुष्ठात् शिरो यावत् कणशः प्रविचारितम् ॥१८॥ न लब्धोऽसौ अहंनामा को वा स्यात् अहमित्ययम्। इंदं मांसं इदं रक्तं इमान्यस्थीनि देहके॥ १९ ॥ इमे ते श्वासमरुतः को वा स्यात् अहमित्ययम्। इंदं घ्राणं इयं जिह्वा त्वक इयं श्रवणे इमे॥ २० ॥ इंद चक्षुः असौ स्पर्शः को वा स्यात् अहमित्ययम्। अहमेव हि सर्वत्र नाहं किंचित् अपीह वा ॥ २१ ॥ इत्येवं वास्तवी दृष्टिः नेतरो विद्यते क्रमः । चिरं अज्ञानधूर्तेन पोथितोऽस्मि ह्यहंतया ॥ २२ ॥। पुनः न संश्रयाम्येनं स्वरूपार्थापहारिणम्। बासनाहीनमप्येतत् चक्षुरादीन्द्रियैः खतः ॥ २३॥ अ्रवर्तते बहिः स्वार्थे वासना नात् कारणम्। 1 तत इन्द्रियाणि मूर्खाणि त्यक्त्वाऽन्तर्वासनां निजाम्।। संकल्पपादपं तृष्णालतं छित्वा मनोवनम्। अिततां भूमिमासाद्य विहराभि यथासुखम्॥ २५॥
Page 119
उद्दालकोपास्यानम्। १०१ 3 सत्तासामान्यप्राप्तिः। मुनिरेवं विनिर्णीय ह्यर्धोन्मीलितलोचनः। ओमित्युच्चारयन् तस्थौ प्राणायामक्रमेण सः ॥ २६॥ देहस्थिति दढां कत्वा निबद्धयेन्द्रियपश्चकम्। चिन्तया हृदयाम्भोजे चेतो भ्रमरचञ्चलम् ॥ २७ ॥ बलात् संरोधयामास सेतुः जलमिव दुतम्। सौम्यतां अनयत् मौनी प्राणापानजबं मुखे ॥ २८ ॥ इन्द्रियाणीन्द्रियाथॅभ्यः पृथक् चक्रे प्रयत्नतः। बाह्यान् स्पर्शान् अशेषेण जहौ दूरे स धीरधीः ॥ २९॥ बभार हृदयाकाशे मनः संयममागतम्। दुधावाथ विकन्पौघान् प्रतिभासं उपेयुषः ॥३० ॥ आगच्छतो यथाकामं प्रतिभासान पुनः पुनः। अच्छिनत् मनसा शूगः खङ्गेनेव रणे रिपून् ॥ ३१। विकल्पौघे तथा लूने दृष्ट्राऽज्ञानं हृदन्तरे। तदप्युच्छेदयामास सम्यक् स्वान्तर्विवस्वता ॥ ३२ ।। गते समसि चाजाने तेज:पुञ्जं ददर्श सः। तेजस्यपि ततो लूने निद्रां प्राप्य लुलाव ताम्॥३३ ।। निद्रायां च निरस्तायां शुन्या संवित समुदयौ। शून्यसंविदि नष्टायां मूढं तस्याभवत् मनः ॥३४॥
Page 120
२०२ श्रीवासिष्ठसग्रहे [स्ग:
मनसो मोहमप्येषः संममार्ज महाशयः। ततः तेजस्तमोनिद्रामोहादिपरिवर्जिताम् ॥ ३५॥ कामप्यवस्थां आसाद्य विशश्राम मनः क्षणम्। विश्रम्याशु पपात स्वसंविदं विश्वरूपिणीम् ॥ ३६ ॥। चिरानुसंधानवशात स्वादनाच्च स्वसंबिद:। मनः चिन्मयर्ता आगात हेम नूपुरतामिव॥ ३७॥ चित्तत्वं अथ संत्यज्य चित्त चित्तत्वतां गतम्। चेत्यं संत्यज्य चित् शुद्धा चित्सामान्यं समाययौ।। त्यक्तवीच्यादिभेदोडब्धि: वा:सामान्यं इवैकधीः। चिदाकाशं ततः शुद्धं सोऽभवत् बोधमागतः ॥ ३९।। तत्र प्रापत् अथानन्दं दृश्यदर्शनवर्जितम। सत्तासामान्यरूपात्मा वभूवानन्दसागर: ॥ ४।। जीवन्मुक्तपदं तत्तु यत् स संप्राप्तवान्द्विजः। उद्दालकोऽत् षण्मासान् दूरोत्सारितिसिद्विभू:॥४१ ॥ कदाचित अह्वा मासेन कदाचित वत्सरेण च। कदाचित वत्सरौघेण ध्यानाशक्तो व्यबुध्यत॥ ४२।। चित्तत्वैकघनाभ्यासात् महाचित्वं उपेत्य स:। चित्सामान्यचिराभ्यासात् सत्तासामान्यमाययौ।४३॥
Page 121
२५] उद्दालकोपास्यानम् ।
4 परा विश्रान्ति: । श्रीराम उवाच - सत्तासामान्यं इत्युक्तं कीदशं केन वा भवेत्। वसिष्ट उबाच - यदा संक्षीयते चित्तं अभावात्यन्तभावनात् ॥४४॥ चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा। यदा सर्वं इदं चेत्यं सवाद्याम्यन्तरात्मक्रम् ॥ ४५॥ अपलाप्य वसेत् चेतः सत्तासामान्यता तदा। क्युत्थितस्य भवत्येषा समाघिस्थस्य चानघ ॥ ४६ ॥ एनां आलम्ब्य पदवीं समस्तमयनाशिनीम्। उदालकोऽवसत् लोके यावदिच्छं यथासुखम्।४७॥ अथ कालेन महता बुद्धि: तस्य बभूत ह। विदेहमुक्त: तिष्ठामि देहं त्यक्त्वेति निश्चला ॥ ४८॥ ततः पद्मासनासीनश्चार्धोन्मीलितलोचनः। संयम्य गुदसंरोधात् द्वाराणि नव चेतस: ।। ४९।। संरुदप्राणपवनः भावितस्वात्मचिद्धन:। अङ्गचितसंविदभ्यासात् चित्सामान्यं उपाददे॥ ५०॥ तदभ्यासात् अवापान्तः आनन्दस्पन्दमुत्तमम्। तदास्वादनतो लीनचित्सामान्यदशाक्रमम्॥५१॥
Page 122
श्रीवासिष्ठसंग्रहे [सर्गः विश्वंभरं अनन्तात्म सत्तासामान्यं आययौ। तस्यौ समशमाभोग: परां विश्रान्तिमागत: ॥५२।। उपशान्तः शनैः एषः स्वपदे विमलात्मनि॥। सर्वोपाधिविनिर्मुक्तो ब्रह्मरूपो बभूव सः ॥५३ ॥ इति श्रीवासिष्ठसंग्रहे टद्दालकोपास्यानं नाम पश्चदशः सर्गः ॥।
॥ षोडशः सर्गः॥
॥ सुरघूपाख्यानम् ॥ 1 अन्तः शीतलता। श्रीराम उवाच- कश्विद्धि दृश्यते लोके क्मात् जातसमाधिक:। प्रबुद्ध इव विश्रान्तो व्यवहारपरोऽयि सन् ॥ १॥ कश्चित् एकान्तमाश्रित्य समाधिनियमस्थितः। तयोस्तु कतरः श्रेयान् इति मे भगवन् वद ॥ २ ॥ म्ासिष्ठ उवाच- इमं गुणसमाहारं अनात्मत्वेन पश्यतः। अन्तः शीतलता याऽसौ समाधि: इति कथ्यते॥ ३॥
Page 123
सुरधूपाख्यानम्। दृश्यैः मम न संबन्धः इति निश्चित्य शीतलः। व्यवहारस्थितः कश्रित् कश्रित ध्यानव्यवस्थितः ॥४॥। द्वावेतौ सुखिनौ राम यद्यन्त: परिशीतलौ। द्वावेतौ सुसमौ नूनं असंदेहपद गतौ ।५॥ अकर्त कुर्वदप्येतत चेतः प्रतनुवासनम्। दुरंगतमनाः जन्तु: कथासंश्रवणे यथा॥ ६ ॥ अकुर्वदपि कर्त्ेव चेतः प्रघनवासनम्। निष्पन्दाङ्गमपि स्वभे श्वभ्रपातस्थिताविव॥७॥ यस्त्वात्मरतिरेवान्तः कुर्वन् कर्मेन्द्रियैः क्रियाः। न वशो हर्षशोकाभ्यां स समाहित उच्यते ॥ ८ ॥ आत्मवत् सर्वभूतानि परद्रव्याणि लोष्टवद्। स्वभावादेव नो भीत्या यः पश्यति स पश्यति ॥ ९॥। 2 माण्डव्योपदेशः । अत्रैवोदाहरन्तीमं वृत्तान्तं सुरघो: किल। सुरघुः नाम बलवान् किरातेशोऽभवत् पुरा ॥ १०॥ स चक्रे राज्यकार्याणि निग्रहानुग्रहक्रमैंः। तज्जाभ्यां सुखदुःखाभ्यां तस्य दोलायितं मनः ॥ ११॥ अथैकदा स पप्रच्छ माण्डव्यं मुनिमागतम्। संपूज्य विधिवत् भक्त्या "संदेहं छिंद्धि मे प्रभो ॥१२॥।
Page 124
१०६ श्रीवासिष्ठसंग्रहे [सर्ग:
निग्रहानुग्रहैः जाता: मद्भृत्यतपुषि स्थिता:। कषन्ति मां अलं चिन्ता: समतोदेति मे कथम्"॥ .भाण्डव्य उवाच - स्व्रविचारणयैवाशु शाभ्यत्यन्तर्मनोज्वर:। कोऽहं कथ इदं कि वा कथ मरणजन्मनी ॥ १४ ॥ विचार्यैवं परिज्ञातस्त्रभावस्य सतः तव। मनः स्वरूपमुत्सृज्य शमं एष्यति विज्वरम् ॥ १५॥ यावत् सर्व न संत्यक्तं तावत् आत्मा न लभ्यते। आत्मावलोकनार्थ हि तस्मात् सर्व परित्यजेत् ॥ १६॥ एवमुक्त्वा मुनौ याते राजा स्वयं अचिन्तयत्। "देहमात्रं अहं नास्मि हस्तपादाद्यचेतनम् । १७।। कर्मेन्द्रियाणि नैवाहं न च कर्मेन्द्रियाणि मे। जडान्यतत्स्वरूपाणि न च बुद्धीन्द्रियाण्यहम् ॥१८॥ नाहं एवं शरीरादि शिष्ट आलोकयाम्यहम्। शेषो विकल्पहीनो हि विशुद्धा चित् अहं ततः ॥ १९।। सर्वभावगता सूक्ष्मा भावाभावविवर्जिता। स एव भगवान् आत्मा तन्तुः मुक्ताख्वय स्थित:"। इति ज्ञात्वा किरातेशो लेभे पद अनुच्तमम्। विवेकाध्यवसायेन ब्राह्मण्यं इव गाधिजः ॥ २१॥
Page 125
१६] सुरघूपाध्यानम्।
3 परिधेज संवाद्:। बभूव पारसीकानां परिघो नाम पार्थिय:। स बभूब परं मित्रं सुरघो: अस्य भूपतेः ॥ २२॥ कदाचित् जातदुर्भिक्षं राज्यं त्यक्त्वा वनं गतः । भक्षयन् शुष्कपर्णानि पर्णादः परिघः स्मृकष: ॥२३। ततो वर्षसहस्त्रेण तपसा दारुणात्मना। अभ्यासवशतः प्रापत ज्ञानं आत्मप्रसादजम्॥ २४॥ एकदा परिघः प्राप सदनं सुरधोमुंदा। ते तत्र प्राक्तने मित्रे अन्योन्यं इःमूचतुः ॥२५॥ परिघ उवाच - ज्ञानं एतत् मया प्राप्तं त्वया ज्ञानं यथा पुरा। कच्चित् करोपि समया सुनसन्नगभीरया ॥ २६॥ दृष्टथा सुभगकार्याणि कर्माण्येव नराधिप। आपातरमणीये च कचित भोगे न सज्जसि ॥२७ ॥ कच्चिच्चोपशम श्रेयः समाि अनुतिष्ठसि। सुरधु: उवाच- नित्यप्रबुद्धचित्तत्वात् कुर्वन्तोऽपि जगत्क्रियाः ॥२८॥ आत्मैकतत्त्व सन्निष्ठाः सदैव सुसमाधय:। तत्च्वावबोधो भगवन् सर्वाशातृणपावकः ।। २९।।
Page 126
१०८ श्रीवासिष्ठसंभ्रहे [सर्गः
प्रोक्त: समाघिशब्देन न च तूष्णीं अवस्थिति:। अक्षुब्धा निरहङ्कारा द्वन्द्वेष्वननुपातिनी ॥ ३०॥ निश्चिन्ता विगताभीष्टा हेयोपादेयवर्जिता। प्रोक्ता समाधिशब्देन परिपूर्णा मनोगति: ॥ ३१ ।। परिघ उवाच - राजन् नूनं प्रबुद्धोऽसि प्राप्तवानसि तत्पदम्। संशीतलान्तःकरणो गताहङ्कारविकृबः ॥ ३२।। सुरघुः परिघश्रैत विचार्यैवं जगद्भ्रमम। मिथः प्रपूजितौ तुष्टौ स्वव्यापारपरी गतौ । ३३ ॥। 4 स्वात्मसमुद्धरणम्। यो ह्यध्यात्ममयो नित्यं नित्यं अन्तर्मुखः सुखी। नित्यं चिदनुसँधानः स न शोकेन वाध्यते॥ ३४॥ यस्मिन् देशे गिरौ तज्ज्ञो नास्ति सज्नपादपः। सफलः शीतलच्छायो न तत्र निवसेत् बुधः॥३५॥ न धनानि न मित्राणि न शास्त्राणि न बान्धवा:। नराणां उपकुर्वन्ति मग्नस्वात्मसमुद्षृतौ॥३६॥ मनोमात्रेण मित्रेण सदेव सहवासिना। सह किंचित् परामृश्य भवत्यात्मा समुद्धृतः ॥३७॥
Page 127
१७] मनोनाशप्रकार: । १०९
मनोहङ्कारविलये सर्वभावान्तरस्थिता । समुदेति परानन्दा या तनुः पारमेश्वरी॥ ३८ ॥ सा स्वयं योगसंसिद्धा परमा विगतोपमा। न गम्या वचसां राम हृद्येवेह्ानुभूयते॥ ३९ ॥ इति श्रीवासिष्ठसंग्रहे सुरधूपास्यानं नाम षोडश: सर्गः ।।
॥ सप्रदशः सर्गः ॥ ॥ मनोनाशप्रकारः ॥ 1 भासविलाससंवाद:। वसिष्ठ उवाच - मनसैव मनः छिच्ा यद्यात्मा नावलोक्यते। नास्तमेति जगद्दुःखं मनश्छेदे सुखात्मधीः॥१॥ सुहृदोरत्र संवादं शृणु भासविलासयोः। पुरा सह्यगिरेः सानौ तापसौ द्वौ बभुवतुः ॥ २ ॥। आस्तां अन्योन्यसुस्तिग्धौ तयोरप्यात्मजाबुभौ। विलासभासनामानौ समं आसीत तयो: मनः ॥ ३॥ मृतौ तु पितरौ दृष्ट्रा चक्राते परिदेवनम्। ततस्तौ तपसा कालं क्षेपयामासतुः पृथक।४ ॥
Page 128
११० श्रीवासिष्ठसंग्रहे [सगी:
एकदा संगतौ तौ च ह्येवमन्योन्यमूचतुः। विलास उवाच - वद क क्षपितः काल: कच्चित् ते सफलं तप: ॥५।
कच्चित् ते विज्वरा बुद्धि: कच्ित् कुशलवान् असि! आस उवाच- कुशलं तु कुतोऽस्माकं संसारे तिष्टतां इह ॥ ६ ॥
यावत् नाधिगतं ज्ञेयं यावत् क्षीणा न चित्तभू:। यावत् तीर्णो न संसारः तावत् नः कुशलं कुतः। ७।
यावत् नाभ्युदितो बोध: तावत् नः कुशलं कुतः। एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम् ॥८॥
कालेन विमल ज्ञाने लब्धा मोक्षं अवापतु:। अतो वच्मि महावाहो यथा ज्ञानेतरा गति: ।९।।
संसारतरणे नास्ति सङ्गवदस्य चेतस:। असक्तं निर्मल चित्तं मुक्तं संसार्यपि स्फुटम् ॥१० ॥
सक्तं दीर्घतपोयुक्तं अपि बदूं भवेदिह। 2 संसक्तिः। श्रीराम उवाच - कीदृशो भगवन् सङ्गो नृणां बन्धाय कीटरः ॥ ११॥
Page 129
१७] मनोनाशप्रकारः । १११:
कीदशो वाऽपि मोक्षाय कथ चैषः चिकित्स्यते। वसिष्ठ उवाच - देहदेहिविभा गैकपरित्यागेन भावनात् ॥ १२ । देहमात्रे तु विश्वासः सङ्गो बन्धाई उच्यते। आत्मैव खल्विदं सत्रे कि गृहामि त्यजामि किम्॥ इत्यसङ्गस्थिर्ति विद्वि जीवन्मुक्तत्वमुत्थितम्। नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुरुध्यते॥ १४॥ सुसमो यः फलत्यागी सोऽमंमक्त इति स्मृतः। असंसङ्गेन सर्वाश्र चेष्टा: नानाविजृम्भिता: ॥ १५।। चिकित्सिता सवन्त्येव श्रेयः संपादयन्ति च। भूतानि यत अनन्तानि तरङ्गिणि तरङ्गवत् ॥ १६ ॥ उत्पद्योत्पद्य लीथन्ते तत् संसक्तिविजृम्भितम्। संसक्ति: द्विविधा प्रोक्ता वन्ध्या वन्दा च राघत।। वन्ध्या सर्वत्र मूढानां चन्द्या तत्वविदा निजा। आत्मततच्वावबोधेन हीना देहादिवस्तुजा ॥ १८ ॥। भूय: संसारसक्तिर्या दृढा वन्ध्येति कथ्यते। आत्मतत्वाववोधेन सत्यभूतविवेकजा ॥ १९ ॥ वन्धा हि कथ्यते सक्ति: भूयः संसारवर्जिता। ब्रह्माद्या: लोकपालाश्च वन्दसक्तियुता: स्मृताः॥२॥
Page 130
२१२ श्रीयासिष्ठसंग्रहे [सर्ग:
सर्वंदा सर्वसंस्थेन सर्वेण सह तिष्ठता। सर्वकर्मरतेनापि मनः कार्य विजानता ॥ २१॥ न सक्तं इह चेष्टासु न चिन्तासु न वस्तुषु। केवलं चिति विश्रभ्य किंचित् चेत्यावलम््यपि ॥ २२॥ सर्वत्र नीरसमिव तिष्ठत्वात्मरसं मन:। तत्रस्थो विगतासङ्गो जीवोऽजीवत्वमागतः ।। २३।। व्यवहारं इम सर्व न करोतु करोतु वा। अथवा तमपि त्यक्त्वा चेत्यांश शान्तचिद्ध्नः ॥ २४ ।। जीव: तिष्ठतु संशान्तो ज्वलन्मणिरिवात्मनि। एषैव राम सौषुप्ी स्थितिः अभ्यासयोगतः ॥ २५।। श्रौढा सती तुरीयेति कथिता तत्वकोविदैः। 3 जीवन्मुक्तसभाचार:। यस्तु तस्यां अवस्थार्यां स्थिर्ति प्राप्याविनाशिनीम्॥२६॥ आनन्दैकान्तशीलत्वात अनानन्दपदं गतः। अनानन्दमहानन्दकलातीतः ततोऽपि सः॥२७॥ मुक्त इत्युच्यते योगी तुर्थातीतपद गतः। दृश्यदर्शननिर्मुक्ता याऽनुभूति: अनामया॥२८॥ तां अवष्टभ्य तिष्ठ त्वं सौधुप्तीं तां भज स्थितिम्। न मोक्षो नभसः पृष्ठे न पाताले न भूवले ॥ २९ ॥
Page 131
१७] मनोनाशप्रकार: । ११३
सर्वाशासंक्षये चेताक्षयो मोक्ष इतीष्यते। मोक्षो मेऽस्विति चिन्ताऽन्तः जाता चेतु उत्थितं मनः।। मननोत्थे मन्युचैः बन्धः सांसारिको दृढः। आत्मन्यतीते सर्वस्मात सर्वभृतेऽथवाऽडतते॥ ३१ ॥ को बन्धः कथ् वा मोक्षो निर्मूलं मननं कुरु। द्वन्द्वदोषभयात् मुक्त: तीर्णमंसारसागरः॥ ३२॥ प्राप्तानुत्तम विश्रान्ति: लब्धाSलम्यपरास्पदम् । शरीरत् व्यतिरिक्त जं पश्यतः प्रविवेकिनः ॥ ३३ ॥। विकर्तिताङ्गकस्यापि न हि किचित् विकर्तितम्। अनुभृतो गुडः स्वादुः अपि दाहविकर्तनैः ॥ ३४॥ न शक्पतेऽन्यथा कर्तु तच्वालोक: तथाऽडत्मनः। परव्यसनिनी नारी व्यग्राऽपि गृहकर्मणि॥ ३५॥ तदेवास्वादयत्यन्तः परसङ्गरसायनम्। एवं तच्चे परे शुद्धे धीरो विश्रान्तिमागतः॥ ३६ ॥ तदेवास्वादयत्यन्तः वहि: व्यवहरन्नपि । नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति ॥३७॥ न संस्मरत्यतीतं च सर्वमेव करोति च। भक्ते भक्तसमाचार: घठे शठ इव स्थितः ॥ ३८॥ V. S. 8.
Page 132
११४ श्रीवासिष्ठसंग्रहे [सर्गः
बालो वालेपु वृद्धेषु वृद्धो धीरेषु धैर्यवान। युवा यौवनवृत्तेषु दुःखितेषु स दुःखधीः ३९ ।। अपि शीतरुचौ अर्के सुतसेऽपीन्दुमण्डले। अप्यधः प्रसरत्यग्रौ विस्मयोऽस्य न जायते॥ ४० ॥
4 चित्तस्पन्दनिरोधः। चिदात्मनः इमा इन्थ प्रसरन्तीह शक्तय:। इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतृहलम् ॥ ४१ ॥ यथा जलपरिस्पन्दात व्यतिरिक्त इवाम्भसः । दृश्यते वर्तुलावर्तः चित्तस्पन्दात तथा जगत् ॥ ४२।३ श्रीराम उवाच - येन प्रस्पन्दते चित्तं येन न स्पन्दतेऽथवा। तत् ब्रह्मन् ब्रूहि मे येन चिकित्सेयं तदेव हि। ४३। वसष्ठ उवाच - द्वौ क्रमौ चित्तनाशाय योगो ज्ञानं च राघव। योग: तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् ।। ४४। प्राणाधीनपरिस्पन्द चित्तं आहु: मनीषिण:। तस्मिन् संरोधिते नूनं उपशान्त भवेत मनः ॥ ६५॥ मनःस्पन्दोपशान्त्याडयं संसारः प्रविलीयते। सूर्यालोकपरिस्पन्दशान्तौ व्यवहतिः यथा॥ ४६ ।
Page 133
१७] मनोनाशप्रकार: । ११५
श्रीराम उवाच- प्राणादीनां परिस्पन्दो वायूनां रोध्यते कथम्। वसिष्ठ उवान-
एकतच्वघ नाभ्यासात प्राणस्पन्दो निरुध्यते। अशासनात् मनोध्यानात् असंस्पृष्टचिकल्पतः ॥४८ ।।
पूरकादयनिलायामात् ओंक.रोच्चा रपेन वा। गुरू क्तान्यक्रमात् वापि प्राणसवन्दो निरुध्यते ॥ ४९॥
अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते। मनः प्रशममायाति निर्वाणं अवशिष्यते॥ ५०॥
श्रीराम उवाव- एवं चित्तशम: प्रोक्त: सम्यर्ज्ञानं कथं प्रभो। बसिष्ठ उवाव- यथाभूतार्थदर्शित्वं सम्यग्ज्ञानं भवेत् यत: ॥ ५१। 1
आत्मैव नान्यदस्तीति निश्वयः सम्यगीक्षणम् ॥ ५२॥
न चेत्यं अन्यत नो चित्तं ब्रह्मैवेदं विजृम्भते। सर्वे एकं परं ब्रह्म को मोक्ष: कस्य बन्धता ॥ ५३॥
Page 134
११६ श्रीश्रासिष्ठसंप्रहे [सर्गः
सम्यकू आलोकिते रूपे काष्टपाषाणवाससाम्। मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः ॥५४॥ आदौ अन्ते च संशान्तं स्वरूपं अविनाशि यत्। वस्तु नामात्मनश्चैवं तन्मयो भव राघव ॥ ५५॥। इ त श्रीवासिष्टसंहे मनोनाशप्रकारो नाम सप्तदशः सर्गः ॥
॥ अश्वदशः सर्गः ॥
।। वीतहव्योपाख्यानम् ॥
1 प्राणस्पं्दनिरोधः।
जसिष्ठ उवाच- अथेमां अपरां राम शृणु दृष्टि पदप्रदाम्। बीतहग्यो मुनिः कश्ित् उद्वियो हि क्रियाक्रमात् ॥ १॥ निर्विकल्पसमाध्यर्थ संत्यज्य सकला: क्रियाः। उपविश्यासने शुद्धे संजहार मनः शनैः ॥ २ ॥ बाह्यान् आभ्यन्तरां्रैव स्पर्शान् परिजहत क्रमाद्। ततः स्वमनसः स्थैर्य काङ्क्षमाणो व्यचिन्तयत् ॥ ३।।
Page 135
बीतहव्योपाख्यानम। ११७
"अहो नु चश्चलं चित्तं प्रत्याहृतमपि क्षणात्। घटात् पटं उपायाति पटात् शकटमुत्कटम्॥४॥ चित्तं अर्थेष्वहो याति पादपेष्विव मर्कट:। अहं चेतनमित्येव चित्त त्वं मन्यसे वृथा॥५॥ अत्यन्तभिन्नयोः ऐक्यं नास्ति चिन्मनसो: अठ। अहंकारात अहं जीव: इत्यपि त्यज भावनाम् ॥ ६॥ एतावदेव ते रूपं यावत् नास्ति विचारणम्। विचारेणोपशान्तं त्वं आलोकेन तमो यथा॥७॥ स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदे स्थितः। हन्तेन्द्रियगणा यूय कि निरर्थकमाकुला:"।८/ इति चित्तं समाधाय तस्थौ अस्पन्दितेन्द्रियः। अन्तरेव शशामाश्य क्रमेण प्राणसन्ततिः ॥ ९ ॥ तथव तिष्ठतस्तस्य संवत्सरशतत्रयम्। कायो हि वीतहव्यस्य पङ्केनोर्वीतले कतः॥ १०॥ वर्षत्रयशते याते सोडबुध्यत स्वयं मुनिः। संविदेवास्य तं देहं जग्राहोर्वीनिपीडितम् ॥ ११॥ नाभूत प्राणपरिस्पन्द: सर्वच्छिद्रावरोधतः। उत्पत्तिप्रौढिमासाद्य हृदयेतानुबभूव सः ॥१२ ॥
Page 136
११८ श्रीवासिष्ठसंभहे [सर्गः
कैलासाद्रौ मुनिर्भृत्वा संवत्सरशतं ततः। विद्याधरत्वमिन्द्रत्वं शम्मोश्च गणतां ततः ॥ १३।। प्रतिभासवशादेवानुभूय स्वयमिच्छया। प्राग्जन्मसु भवान् देहान् दृष्टा चिन्तावशः पुनः।।
पङ्कमग्नं इम देहं उद्धतुं रविभाविशत्। भानुनाऽथाभ्यनुज्ञांतं वीतहव्याभिधं मनः ॥१५ ।।
प्रविश्य पिङ्गलाकारं गत्वा विन्ध्यस्य कन्दरम्। उद्धृत्य च धराकोशात स्वं देहं प्रविवेध सः ॥१६ ॥
ततः स्नात्वा जप कत्वा संपूज्य च दिवाकरम् । वीतहच्यो यथापूर्व प्रज्ञया भूषितो बमौ ॥ १७ ॥
2 न्तित्तसमाधानय्। दिनान्ते स समाधातुं पुनरेव मनो दधे। "इदानीं चिन्तया नार्थः ततः तिष्ठामि शैलवत् ॥१८ ।।
कलनां अस्ति नास्तीति भड्कत्वाऽतिस्वच्छतां गतः"। इति संचिन्त्य स ध्याने पुनस्तस्थौ दिनानि षट॥ १९॥
ततः प्रबोधमापन्नः क्षणसुप्त इवाध्वग:। ततः सिद्ध: चिरं कालं जीवन्मुक्ततया स्थितः ॥ २० ॥
Page 137
११९
विदेह केवलीभावे वाञ्छां प्राप्य ततः क्रमात्। बद्दपद्मासनः स्थित्वा तत्ोवाचा्मनाऽ्मनि ॥ २१ ॥ "राग नीरागनां गच्छ, द्वेष निर्द्वेषतां व्रज। भवद्भ्यां सुचिरं कालं इह प्रक्रीडितं मया ॥ २२ ॥ भोगा नमोऽस्तु युष्मभ्यं जन्मकोटिशतान्यहम्। भवद्धि: लालितो लोके लालकैरिव बालक: ॥२३ ॥ इमामपि पररां पुण्यां निर्वाणपदवीं अहम्। येन विस्मारितः तस्मै सुखायास्तु नमो नमः ॥२४॥ त्वदुत्तपेन हे दुःख मयाSडत्माSन्विष्ट आदरात्। तस्मात् त्वदुपदिष्टोडयं मम मार्गो नमोऽस्तु ते ॥ २५॥ मित्र काय मयाद्य त्वं त्यज्यसे चिरबान्धव:। अधिगम्यात्मविज्ञानं स्वस्य नाश: कृतः त्वया ॥२६॥ एकाकिन्या विशुष्यन्त्या प्रशान्ते मयि दीनया। त्वया दुःखं न कर्तव्यं मातः तृष्णे नमोऽस्तु ते।। क्षन्तव्याः काम भगवन विपरीतापराधज्ञा:। दोषा उपशमैकान्तं व्रजाम्यादिश मङ्गलम् ॥ २८ ॥ नमः सुकतदेवाय भवतेऽस्तु त्वया पुरा। नरकेम्यः समुत्तार्य स्वर्गेऽहं अभियोजितः ॥२९॥
Page 138
१२० श्रीवासिष्ठसंग्रहे [सग
भवन्त: सहजाः प्राणाः प्राक्तना: सुहृदो मया। क्रमेणाद्योत्कृता नूनं स्वस्ति वोडस्तु व्रजाम्यहम" ॥
3 केवलीभाव:।
एवं कलितवान् अन्तः प्रशान्तमननैषण:। शनैरुच्चारयंस्तारं प्रणवं प्राप्तभूमिक: ॥ ३१ ॥। जहौ इन्द्रियतन्मात्रं तमोमात्रं जही ततः। उत्तिष्ठत्प्रस्फुरदूप क्षणं तेजो विचार्य सः ॥३२॥ त्यक्त्वा तं च बभ्वाथ न तमो न प्रकाशनम्। तामवस्थामथासाद्य निमेषार्धात मनोडपतत् ॥ ३३। ततोडङ्गसंविदं स्वस्थां प्रतिभास उपागताम्। निमेपार्धार्धभागेन कालेन कलना जहौ। ३४ ॥ पश्यन्तीपदमासाद्य सत्तामात्रात्मकं ततः। सुषुप्तपद् मालम्व्य तस्थौ गिरिग्वाचलः ॥ ३५।। सुषुप्ते स्थैर्यमासाद्य तुर्यरूपं उपाययौ। निरानन्दोडपि सानन्द: सच्चासच्चाऽपि तत्र सः। ३६।। चिन्मयोऽचिन्मयश्रापि नेति नेति यदुच्यते। ततः तत संबभूवासी यत् गिरामध्यगोचरः। ३७॥
Page 139
<] वीत्ह ्योपास्यानम्। १२१
पुरुषो यो हि सांद्यानां ब्रह्म ब्रह्मविदां तथा। शिवः शैवमतस्थानां सर्व सुसमचेतसाम्॥ ३८ ॥ यत् सर्वशास्त्रसिद्धान्तो यत् सर्वहृदयानुगम्। यत् अनुत्तमनिष्पन्दं दीपकं तेजसामपि॥ ३९॥ स्वानुभूत्येकमात्रं च सर्व च सर्बगं तथा। यत् एकं चाप्यनेकं च विजरामरणं पदम् ॥ ४०।। त्रिंशदवर्षसहस्राणि विहृत्यवं यथासुखम्। वीतहव्यः शशामवं पुनर्जन्मविवर्जित: ॥ ४१ ।। 4 चित्तनाशो द्विविधः। पिराम उवाच- जीवन्मुक्तशरीगणां कथ आत्मविदां वर। शक्तयो नेह दर्यन्ते आकाशगमनादिकाः॥४२।। सिष्ठ उवाच- अनात्मवित् अमुक्तोऽपि नभोविहरणादिकम्। द्रव्यमन्त्रक्रियाकालशकत्या प्राम्ोति राघव ॥ ४३।।
नातमज्ञस्यैष विषयः आत्मज्ञो ह्यात्मदक् ख्यम्। यस्येच्छा विद्यते काचित् स सिद्धी: साधयत्वलम् ॥ आत्मज्ञस्य तु पूर्णस्य नेच्छा संभवति क्वचित्। परमात्मपदप्रापी नोपकुर्वन्ति सिद्धयः॥४५॥
Page 140
१२२ श्रीवासिष्ठसंग्रहे [सर्गः
श्रीराम उवाच - वीतहव्यतनुर्मन्ना कथं क्रिन्ना न भूतले। वसिष्ठ उवाच- सवाह्याम्यन्तरः स्पन्दः चित्तजो वातजोऽथवा ॥। ४६ ।।
न यस्य विद्यते तस्य दूरस्थौ विक्रतिक्षयौ। सवाह्याभ्यन्तरे शान्ते स्पन्दे पवनचेतसोः॥ ४७॥
धातवः संस्थिर्ति देहे न त्यजन्ति कदाचन। ये तु विज्ञातविज्ञेयाः वीतरागा महाघिय: ॥ ४८।।
विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रा तनौ स्थिताः। श्रीराम उवाच- विवेकाभ्युदयात् चित्तस्वरूपेऽन्तर्हिंते सुनेः॥ ४९॥
मै5पादयो गुणा: कुत्र जायन्ते मां प्रभो वद। वसिष्ठ उबाच द्विविधः चित्तनाशोऽस्ति सरूपोऽरूप एव च ॥ ५०॥
जीवन्मुक्ती सरूगः स्यात् अरूपोऽदेहमुक्तिजः । चित्तसत्तेह दुःखाय चित्तनाशः सुखाय तु ॥५१॥
चित्तसत्तां क्षयं नीत्वा चित्तनाशं उपानयेत्। सुखदुःखाद्यवष्टच्धं अस्मीत्येव विनिश्चलम् ॥ ५२॥
Page 141
१२३
विद्यमानं मनो विद्धि संसारदुमदोहदम्। सुखदुःखदशाः आपत् मदो मान्यं महोत्सवः ।। ५३।। यं नषन्ति न वैरुप्यं तस्य नष्ट मनो विदु:। मैत्यादिभि: गुणैः युक्तं भवत्युत्तमवासनम् ॥५४ ॥ भूयोजन्मविनिर्मुक्तं जीवन्मुक्तम्य तन्मनः । सरूपोऽसौ मनोनाशः यत्र भान्ति गुणा इमे ॥५५॥ अरूपस्तु मनोनाश: विदेहमुक्तिजो भवेत्। समग्राग्रयगुणाधारं अपि सच्वं प्रलीयते ॥५६॥
चित्तनाशे विरूपाख्ये न किचिदपि विद्यते। ज गुणाः नागुणा तत्र न हर्पामर्षमंविदः ॥५७।।
इत श्रीवसिष्ठसंपहे वीनहव्योपास्यान नाम अषादगः सर्गः ॥
Page 142
१२४ श्रीवासिष्ठ मंग्रहे [सग :-
। एकोनविंशः सर्गः॥
॥ चित्तप्रशमनम् ॥ चित्तस्य द्वे बीजे। श्रीराम उवाच- ब्रह्मन् संसृतिमृद्धीकालतायाः वितताकतेः। कि बीजं तस्य कि बीजं बीजं तस्यापि कि भवेत ॥ १॥ वसिष्ठ उवाच- संसृतिव्रततेः बीजं शरीरं विद्वि राघव। बीजमस्य शरीरस्य चित्तं आशावशानुगम्॥२॥
द्वे बीजे चित्तवृक्षम्व वृत्तिव्रततिधारिण:। एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥ ३॥ यदा प्रस्पन्दते प्राण: नाडीसंस्पर्शनोद्यतः। तदा संवेदनमयं चित्तं आशु प्रजायते॥ ४ ॥
सती सर्वसमा संवित प्राणस्पन्देन बोधिता। संवेधं आदरात याति ततो दुःखानि चेतसः ॥५॥ योगिनः चित्तशान्त्यर्थ कुर्वन्ति प्राणरोधनम्। चित्तस्योत्पत्तिमपरां वासनाजनितां शृणु ॥ ६ ॥
Page 143
चित्तप्रशमनम्। १२५
दृढभावनया त्यक्तपूर्वापरविचारणम्। यत् आदानं पदार्थस्य वासना सा प्रकीर्तिता॥।७॥। :भावितं तीव्रसंवेगात् आत्मना यत् तदेब सा। भवत्याशु च तदूयो वासनाविवशीकत:॥। ८ ।। प्रपश्यति यदेवैतत् सद्वस्त्विति विमुद्यति। वासनावेगवैवश्यात् स्वरूपं प्रजहाति सः ।। ९ ।। यद् अवस्तुनि वस्तुत्वं तत् चित्त विद्धि राघव। हढाभ्यासं पदार्थेकवासनात् अतिचश्चलम् ॥ १० ॥ चित्तं संजायते जन्मजरामरणकारणम् । यदा न वास्यते किचित् हेयोपादेयरूपि यत । ११। स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते। सरव अन्तः परित्यज्य शीतलाशयवर्ति यत् ॥ १२ ।। वृत्तिस्थमपि तत चित्तं असदूपं उदाहतम्। भ्रष्टवीजोपमा येषां वासना रसवर्जिता ॥ १३॥ अचित्ता: इति कथ्पन्ते जीवन्मुक्ता हि ते स्थिताः। वासनावशतः प्राणस्पं्द: तेन च वासना । १४ ॥ जायने चित्तवीजस् तेन बीजाङ्कुरक्रमः। एकर्स्मिस्तु तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥१५।।
Page 144
१२६ श्रीवासिष्ठपंग्रहे [सर्गः
2 असंवेदनम्।
संवेदं एतयो: बीज तच्याग त नश्यति दूयम्। संविदं विद्वि संवेधबीजं गाम तया विना ॥ १६।।
न संभवति संवेद्यं तलहीन: तिलो यथा। संवेदनं अनन्ताय दुःखाय जननात्मने ॥ १७॥
अमंवित्तिः अजाड्यस्था सुखायाजननात्मने। श्रीराम उवात्- असंवित्ति: अजाड्यस्था कीदृशी भवति प्रभो ।१८ ।।१
असंवित्तो च जाड्यं तत् कथ वा तिनिवर्तते। न्म.सष्ठ उवा व - यः सर्वत्रानवस्थास्थो विश्रान्तास्थो न कुत्रचित ॥ १९॥
जीवरो न विन्दते किंचित् असंवित अजडो हि सः। जीवन्मुक्त: स विज्ञेष: कुर्वन कार्यशतान्यपि॥ २०॥
समस्तवासनां त्यक्त्वा निर्तिकल्पसमाघितः। आनन्दित्वं भवेदयच् तदप्यन्तर्विलीयते ॥ २१॥
अजडो गलितानन्दः त्यक्तसंवेदन: सुखी। तरेत् दुःखाम्बुधेः पारं अपारगुणसागरम् ॥ २२।
Page 145
१९] चित्त प्रशमनम् । १२७.
अथास्याः संविदो राम सन्मात्ं बीजमुच्यते। द्वे रूपे तत्र सत्तायाः नाना चैकमिति स्मृते॥ २३॥ घटता पटता तत्ता त्वत्ता मत्तति कथ्यते। सत्तारूपविभागेन यत् तत् नानाकृति स्मृतम् ॥ २४॥ विशेषं संपरित्यज्य सन्मात्रं यत अलेपकम्। एकरूपं महारूपं सत्तायाः तत परद विदु:। २५।।
सत्तामामान्यमात्रस्य या कोटि: परमावधि:। सैवास्य जगतो बीजं यतः तस्या हि जायते॥ २६॥
तत हेतु: सर्वहेतूयं तस्य बीजं न विद्यते। स सारः सर्वमागणां तस्मात् सारो न विद्यते॥ २७॥
तस्मिश्वावगते चेतः शान्ति आप्नोति नैष्ठिकीम्। श्रीराम उवाच - एतानि तानि प्रोक्तानि त्वया बीजानि मानद ॥ २८॥
कतमस्य प्रयोगेण शीघ्रं आसादते पदम्। चसिष्ठ उवाच - एतेपां दुःखबीजानां प्रोक्तं यत् यत् मयोचरम् ॥ २९ । तस्य तस्य प्रयोगेण शीघ्रं आसाद्यते पदम्। सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि॥ ३०॥
Page 146
:१२८ श्रीवासिष्ठसंपहे [सर्ग: पौरुषेण प्रयत्नेन बलात् संत्य्य वासना:। स्थिति वन्नासि चेतु साधु पदं प्राप्तोषि तत्क्षणे । ३१ ।।
सत्तासामान्यरूपे वा करोषि स्थितिमङ्ग चेतु। तत्कचिदधिकेनैव यत्नेनाप्नोपि तत्पद्म् ॥ ३२।।
संवित्तच्वे कृतध्यानो यदि तिष्ठसि राघव। तद्यलेनाधिकेनोचैः आसादयसि तत्पदम् । ३३ ॥।
3 मनोनाशादितयम्।
संवेदे केवले ध्यानं नैव सिध्यत्यसंभवात। वासनासंपरित्यागे यदि यतं करोषि च ॥ ३४॥
तत् ते शिथिलर्ता यान्ति सर्वाधिव्याधयः क्षणात्। यावत् न लीयते चित्तं न तावत् वासनाक्षयः ॥ ३५। न क्षीणा वासना यावत् तावत चित्तं न शाम्यति। यावत् न तत्वविज्ञानं न तावत् चित्तसंक्षयः ॥ ३६ ॥ न चित्तोपशमो यावत् न तावत् ततच्ववेदनम्। यावत् न वासनानाशः तावत् तत्वावगमः कुतः॥
यावत् न तच्वसंप्राप्तिः न तावत् वासनाक्षय:। तच्वज्ञानं मनोनाओो वासनाक्षय एव च ॥ ३८ ।
Page 147
चित्तप्रशमनम्। १२९
मिथः कारणतां गत्वा दुःसाध्यानि भवन्ति हि। तस्मात राघत्र यतेन पौरुषेण विवेकत: ॥ ३९ ॥ भोगेच्छां दूरतः कत्वा लयं एतत् समाश्रयेत्। समकालं चिराभ्यस्ता: भवन्ति फलदा: मुनेः॥४०॥ त्रिभिः एमिः चिराम्यसतैः त्रुख्यन्ति ग्रन्थयोऽखिला। व्वासनासंपरित्यागसमं प्राणनिरोधनम् । ४१॥ आ्ाणायामद्ढाभ्यासैः युक्त्या च गुरुदत्तया। आसनाशनयोगेन प्राणस्पन्दो निरुध्यते॥ ४२॥
अध्यात्मविद्याधिगमः साधुसङ्गम एव च । वासना संपरित्याग: प्राणस्पन्दनिरोधनम्॥४३॥ सतीषु युक्तिष्वेतासु हठात् नियमयन्ति ये। चेत: ते दीपमुन्सृज्य विनिन्नन्ति तमोऽञ्जनैंः॥४४॥
4 अध्यात्मविचारः। तस्मात् एवां परित्यज्य दुर्द्ष्टि रघुनन्दन। शुद्धां संविदमाश्रित्य वीतराग: स्थिरो भव ॥ ४५ ॥ कि इंद स्यात् जगत् कि स्यात् अहं इत्यनिशं शनैः। विचारयाध्यात्मदशा स्वयं वा सजनैः सह॥ ४६ ॥ V. S. 9.
Page 148
१३० श्रीवासिष्ठसं्रहे [सर्ग
विचारोत्थात्मविज्ञानं ज्ञानस्याङं विदुः बुधा:। ज्ञानाभिगममात्रेण स्वयं चित्तं प्रसीदति॥४७॥ अतच्वज्ञं अविश्रान्तं अलब्धात्मानं अस्थितिम्। निगिरन्तीन्द्रियाण्याशु हरिणा इव पल्लवम्॥४८।। सङ्ग: कारणमर्थानां सङ्ग: संसारकारणम्। सङ्ग: कारणमाशाना सङ्ग: कारणमापदाम् ॥ ४९। मलिना वासना येषा सा सङ्ग इति कथ्यते। जीवन्मुक्तशरीराणां अपुनर्जन्मकारिणी॥ ५०॥ मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना। अजीवन्मुक्त रूपाणां दीनानां मृढचेंतसाम् ॥ ५१॥ कथ्यते सङ्गयब्देन वासना भवकारिणी। संपदि विपदि चात्मा यदि ते लक्ष्यते समः ॥५२॥ दुःखैः न ग्लानिमायासि यदि हृष्यसि नो सुखैः। यथाप्राप्तानुवर्ती च तदाऽसङ्गोऽसि राघव ॥५३ ॥ इति श्रीवासिष्ठसंग्रहे चित्तप्रशमनं नाम एकोनविंशः सर्गः ॥
Page 149
२०] चिदात्मभावना। १२१ । विंशः सर्गः ॥
। चिदात्मभावना ।।
1 भ्र मकारणम् ।
बसिष्ठ उवाच-
दिक्कालाद्यनवच्छिनं शान्तं चिन्मात्रमक्षयम्। बहौवाहमिति स्थित्वा मौनी स्वात्मसुखो भव ॥ १ ॥
अज्ञानकलना यावत् यावदबह्मभावना। यावदास्था जगज्ाले दृश्ये यावच्च सत्यता ॥ २॥
देहे यावदहंभावस्तावत् चित्तादिकल्पना । भोगेष्वनास्थचित्तस्य शीतलामलनिर्व्ृतेः ॥ ३ ॥
छिनाशापाशजालस् क्षीयते चित्तविभ्रम: । अन्तर्मुखतया सवं चिद्धह्वौ त्रिजगत्तृणम्॥ ४॥ जुह्धतोऽन्तर्निवर्तन्ते मुनेः चित्तादिविभ्रमाः। चित्तं ज्ञानापिना दग्ध न भूय: परिरोहति ॥५॥ सर्वेषामपि जीवानां स्थितैवैषा चिदव्यया। किन्त्वबोधवश्यादस्या: सर्वे कृपणर्ता गताः ॥ ६॥।
Page 150
१३२ श्रीवासिष्ठ्तग्रहे [सर्गः
अज्ञानं आपर्दां निष्ठा का हि नापदजानव:। इयं संसारसरणिः वहत्यज्ञप्रमादवः।।७॥। संवेदयेनापरामृष्ट शान्तं सर्वात्मकं च यद। तत् सचिदाभासमयं अस्तीह कलनोज्झितम् ॥८॥
2 अविद्याविभागः।
समुदेति स्वतस्तस्मात कलाकलनरूपिणी । सूक्ष्मा मध्या तथा स्थूला चेति सा कन्प्यते त्रिधा। स्च्चं रजस्तम इति चैषैव प्रकृति: स्मृता। एषैंव संसृतिः जन्तोः अस्था: पारं परं पदम् ॥ । अत्र ये तु तयः प्रोक्ता: गुणास्तेऽपि त्रिधा स्मृताः। नवधैवं विभक्तेयं अविद्या गुणभेदतः ॥ ११।। साच्विकस्यास्य भागस्य नागा: विद्याधरा: तम:। वजस्तु मुनयः सिद्धा: सच्ं देवा हरादय:।१२।। शुद्धं सच्वं ह्यविद्याया भागो विद्येति कथ्यते। तिष्ठन्ति ज्ञानिनो मुक्ता: यावदेहं जगत्स्थितौ ।। १३।। मौर्ख्र्यपिण्डः स्थावरादि: तामस्या अवधिं गतः। तत्नामनस्त्वं अप्रासं मनस्त्वादपि च च्युतम् ॥१४ ॥
Page 151
२°] चिदात्मभावना। १३३
सुपपुर्यष्टका यत्र चित् स्थिता दुःखदापिनी। मूकान्धजडवत तत्न सत्तामात्रेण तिष्ठति ॥१५।। श्रीराम उवाच- सत्तामात्रेण संस्थानं मुक्ते: संनिहितं खल। बसिष्ठ उवाच - बुद्धिपूर्व विचार्यैव यथावस्त्ववलोकनात् ॥ १६॥
सत्तासामान्यबोधो यः स मोक्षः स्यात न चान्यथा। परिज्ञाय परित्यागो वासनानां अपेक्ष्यते ॥ १७॥। अन्तः सुप्ा स्थिता मन्दा यत्र बीज इवांकुर:। वासना तत सुषुप्तत्वं विद्धि जन्मप्रदं पुनः ।। १८।। स्थावरादय एते हि सुषुप्तपदमाश्रिता:। तेषां अन्तः स्थिता एव वासना: बीजरूपतः ।१९।। यत्नास्ति वासनाचीजं तत् सुपुसं न सिद्धये। निर्बीजा वासना यत्र तत् तुर्य सिद्धिदं स्मृतम् ॥ २० ॥ वासनाया: तथा वन्हेः ऋणव्याधिद्विषामपि। स्नेहवैरविषाणां च शेष: स्वल्पोऽपि बाधते ॥ २१॥ निर्दग्धवासनाबीजः सत्तासामान्यरूपवान्। सदेहो वा त्रिदेहो वा न भूयो दुःखभाग्भवेत् ॥ २२॥
Page 152
२३४ श्रीवासिष्ठसंग्रहे [सर्ग:
आत्मदृष्टिः अदष्टैषा संसारभ्रमदायिनी। दृष्टा सती समग्राणां दुःखारना क्षयकारिणी ॥ २३ ॥
अस्यास्त्वदर्शनं यत तत अविध्येत्युच्यते बुधैः। अविद्या हि जगद्वेतुः ततः सर्व प्रवर्तते ॥ २४॥
3 अनुसन्धानक्रमः । एतावदेवाविद्यात्वं नेद ब्रह्मेति निश्चयः। एष एव क्षयोऽस्या: यत् ब्रह्ेदमिति निश्चयः ॥२५॥
अभ्यासेन विना राम नोडेति ब्रह्मभावना। ब्रह्म चित् ब्रह्म भुवनं ब्रह्म भूतपरस्परा ॥ २६ ॥
ब्रह्माहं ब्रह्म मच्छत्रुः ब्रह्म मन्मितवान्धवा:। सर्वमेव हि ब्रह्मेति भावितेsतिसुखी किल ॥ २७॥
दुःखौघमयं अज्ञस्य जस्यानन्दमयं जगत्। अन्धं भुवनं अन्धस्य प्रकाशं तु सचक्षुषः २८।
"प्रशान्तसर्वसङ्कन्पं चिदात्मानं उपास्महे। शब्दरूपरसस्पर्शगन्धैः आभासमागतम् ।। २९ ॥ तैरेव रहितं शान्तं चिदात्मानं उपास्महे। महामहिमसंयुक्तं रहितं सर्वभृतिभिः ॥ ३० ॥
Page 153
चिदात्मभावना। १३५
कर्तृत्वे बाऽप्यकर्तारं चिदात्मानं उपास्महे"। इति निश्चित्य ये सत्ये पढे सुखमतस्थिताः ॥ ३१ ॥ न नन्दन्ति न निन्दन्ति जीवितं मरण तथा। मनस्तेषां तु नीरागं अनुपाधि गतभ्रमम् ॥ ३२ ।। असक्तं मुक्तमाशान्तं परं सच्चपद गतम्। प्राकताचारसंप्राप्ते कुर्जन्त: कर्म केवलम् ॥३३॥ स्थिता विगतसंरम्भ अपरा इव मेरव:। 4 द्विविधो योग:। उवाच- प्राणस्पन्दनिरोधेन वासनाविलयोदये।। ३४।। जीवन्मुक्तपदे ब्रह्मन वद विश्रम्यते कथम्। उवाच- संसारोत्तरणे युक्ति: योगशब्देन कथ्यते।३५॥ तां विद्वि द्विप्रकारां त्वं चित्तोपशमवर्मिणीम्। आत्मज्ञानप्रकारोऽथ प्राणानां संयमस्तथा॥ ३६॥ प्रकारौ द्वावषि प्रोक्तौ योगशब्देन यद्यपि। तथाSपि रूढिमापातः प्राणयुक्ती असौ भृशम् ॥३७॥ समौ उपायौ शास्त्रोक्तौ नूनं एकफलप्र है। असाध्य: कस्यचित् योग: कस्यचित् ज्ञाननिश्चय:॥३८।।
Page 154
२१६ श्रीवासिष्ठसंग्रहे
मम त्वभिमतो राम सुसाध्यो ज्ञाननिश्चयः। तयोः ज्ञानं तव प्रोक्तं योगोऽयं प्रोच्यते शृणु ॥ ३९। इति श्रीवासिष्ठसंप्रहे चिदात्मभावना नाम विंशः सर्गः ॥
॥ एक विंशः सर्गः ॥
॥। भुशुण्डोपाख्यानम्॥ भुशुण्डोत्पत्तिः । 1 बसिष्ट उवाच - अन्न ते कथयिष्यामि वृत्तान्तं परमाद्भुतम्। शातातपो मुनिः प्राह पुराऽडस्थाने शतक्रतोः ॥१॥ मेरो: ईशानकोणस्थकल्पवृक्षस्य मूर्धनि। कश्चित् निवसति श्रीमान् अुशुण्डो नाम वायसः॥ २।। स विश्रान्तमतिः शान्तो वीतरागो महामतिः। चिरंजीवी तथा स्वगे न भूतो न भविष्यति ॥ ३ ॥ इदं श्रुत्वा च तं द्रष्टुं अहं यातः कुतूहलाद। कन्पदुमस्थमद्राक्षं भुशुण्डं द्विजसेवितम् ॥ ४॥
Page 155
२१] १३७
अशङ्गितमषि प्राप्तं वसिष्ठमवबुध्य माम्। अर्ध्यपाद्यादि संपाद्य मां उवाच खगाधिय: ॥ ५॥
"किमर्थ अद्यागमनं आज्ञां मे दातुमदसि"। इत्युक्तोऽहं तदाऽपृच्छं "जातः कस्मिन् कुले भवान् ॥
कियत् आयुश् ते साधो ज्ञातज्ञेय: कथ भवान्"। इति पृष्टो भुशुण्डोऽसौ प्रवक्तुसुपचक्रमे।। ७॥ मुशुण्ड़ उवाच- हरस्य प्रमथा यद्वत् परिवारो हि मातर:। जया च विजया चैव जयन्ती चापराजिता ॥ ८ ॥
सिद्धा रक्ताऽलंबुसा चाप्युत्पला चेति विश्रुताः। कदाचित् मिलिता: चक्रु: उत्सवं परमं मुदा। ९।।
तदा तार्सां च वाहाश्र ननृतुः पपुरासवम्। वज्रास्थितुण्ड: चण्डाख्य: काको ह्यलंबुमारथः । १०।।
रथहंस्य: स्थिता ब्राह्मयः तेन काकेन रेमिरे। अथ ताः गर्भधारिण्य: सुवते स्माण्डजान् क्रमात् ॥११।।
वैरिश्चे सरसि स्फारे तनयान् एकविशतिम्। एवं ताभ्यस्तु हंसीभ्यो जाता वयं इमे मुने ॥ १२॥
Page 156
: १३८ श्रीवासिष्ठसंग्रहे [सर्ग:
2 कल्पान्तेषु स्थितिः। मातृभि: सह हंसीभिः ब्राह्मी भगवती ततः। चिरं आराधिताऽस्माभि: प्रसादपरया ततः ॥ १३॥ तथैवानुगृहीताः स्मो यथा मुक्ता वयं स्थिताः। संतृप्तमनसः शान्तास्तवेकान्ते ध्यानसंस्थितौ।१४।। तिष्ठाम इति निश्चित्य पितु: पार्श्वे वयं गताः। तेनायं सर्ववाधानां अगम्य: कल्पपादय:॥१५॥ कथितं स्थानमस्माकं तिष्ठामोऽत्र गतज्वराः। अद्य मे सफलं पुण्यं भवदागमनेन हि" ॥ १६ ॥
इन्युक्त्वोपरते तस्मिन इंद रामाहमुक्तवान्। भ्रातरस्ते विहङ्गेश ताइक्सच्वा महाघिय: ॥।१७।।
इह कम्मात् न दश्यन्ते त्वमेवैको हि दृश्यसे"। -भुशुण्ड उवाच- तिष्ठतां इह नः कालो महान् अतिगतो मुने ॥१८ ॥ युगानां पङ्क्तय: क्षीणा: कल्पानां च महामते। एतावता च कालेन सर्व एव ममातुजा:।१९।। तनू: तृणमिव त्यक्त्वा शिवे परिणता: पदे। दीर्घायुषो महान्तोऽपि सन्तोऽपि बलिनोऽपि च ॥२० ॥
Page 157
२१] १३९
सर्वं एव निगीर्थन्ते कालेनाकलितात्मना। इत्युक्तेन मया पृष्टो भुशुण्डो वायसािप: । २१॥ "कल्पान्तेषु महाबुद्धे वहतसूत्पातवायुषु। प्रतपत्स्विन्दुभार्केषु कथं तिष्ठसि विज्वर:' ॥ २२ ।। भुशुण्ड उवाच- यदा शाम्यति कल्पान्ते व्यवहारो जगद्वतः । आकाश एव तिष्ठामि विगताखिलकल्पनः ॥ २३॥
प्रतपन्ति यदाSऽदित्या: व्योमाङ्गणगतो ह्यहम्। वारुणीं धारणां बद्ध्वा तदा तिष्ठामि धीरधीः ॥ २४।। यदा शकलिताद्रीन्द्राः वान्ति प्रलयवानव:। पार्वतीं धारणां बद्ध्वा खे तिष्ठाम्यचलं तदा ॥ २५॥
जगद्धलित मेर्यादि यात्येकार्णवतां यदा। वायवीं धारणां बद्ध्वा संप्लवेऽचलघी: तदा ॥ २६ ॥
ब्रह्माण्ड पारमासाद्य तच्जान्ते विमले पदे। सुधुप्तावस्थया तावत् तिष्ठाभ्यचलरूपया ॥२७ ॥ 3 विचित्रानुभवः। यावत् पुनः कमलजः सृष्टिकर्मणि तिष्ठुति। तावत् प्रविश्य ब्रह्माण्डं तिष्ठामि विहगालये॥ २८॥
Page 158
१४० श्रीवासिष्ठसंत्रहे [सग:
मत्संकल्पवशेनैव कल्पे कल्पे पुनः पुनः। अस्मिन्नेव गिरे: शृङ्गे तरुः इत्थं भवत्ययम् ॥ २९ ॥ बसिष्ठ उवाच- यथा तिष्ठसि पक्षीन्द्र धारणाभि: अखण्डितः। कल्पान्तेषु तथा कस्मात नान्ये तिष्ठन्ति योगिन:।। मुशुण्ड उवाच - ब्रह्मन् नियतिरेषा हि दुर्लङ्ध्या पारमेश्वरी। ईदृशेन मया भाव्यं भाव्यं नान्यैश् तादशैः ॥ ३१॥ बसिष्ठ उवाच - कि कि स्मरसि कल्याण चित्रमस्मिन् जगत्क्रमे। भुशुण्ड उवाच- अश्वैलवनवृक्षौघां स्मरामीमां धर्रां अध: ॥ ३२॥। जन्मेन्दुभास्करादीनां इन्द्रोपेन्द्रव्यवस्थितिम्। हिरण्याक्षापहरणं वराहोदूरणं क्षितेः ॥ ३३ ॥ सागराणां समुद्भूति अमृतार्थ च मन्थनम्। मुने ते ब्रह्मपुत्रस्य जन्माष्टमं इदं किल॥ ३४॥ रेणुकापुत्रतां यातः षष्ठवारं इमं हरिः। त्रिशत त्रिपुरविक्षोभान् द्वौ दक्षाध्वरसंक्षयौ ॥ ३५॥ स्मरामि द्वादशं चेदं अमृताम्भोघिमन्थनम्। अधुनैकादशं जन्म रामनाम्ना हरे: भवेत् ॥ ३६ ॥
Page 159
२१] १४१
वसुदेवगृहे चापि भविता जन्म बोडशम्। ्रान्तिरेषा जगदूपा न कदाचन विद्यते॥ ३७॥ विद्यते तु कदाचिच्च जलबुद्बुदवत् स्थिता। 4 ग्राणचिन्ता। चसिष्ठ उवाच- चरतां जगतः कोशे व्यवहारवतां अपि ॥ ३८॥ कथ विहगराजेन्द्र देहं मृत्युः न बाधते। सुशुण्ड उवाच - दोषमुक्ताफलप्रोता वासनातन्तुसंततिः॥३९।। हृदि न ग्रथिता यस्य मृत्यु: तं न जिघांसति। आशा यं न दहत्यन्तः मृत्यु: तं न जिघांसति॥ ४० ॥ कामक्रोधादिहीनो यः मृत्यु: तं न जिघांसति। यस्य चित्तं सुविश्रान्तं पढे परमपावने ।। ४१ ॥ न चश्चलं मनो यस्य तं मृत्यु: न जिघांसति। एते ब्रह्मन महादोषा: संसारव्याघिहेतव: ॥ ४२।। मनागपि न लुम्पन्ति चित्तं एकसमाहितम्। आत्मचिन्ता महाश्रेष्ठा सर्वसंकल्पवर्जिंता ॥ ४३ ॥ सर्वदुः्खक्षयकरी सर्वंसौभाग्यवर्धिनी। कारगं जीविअस्वेह प्राणचिन्ता समाश्रिज॥४४ ॥
Page 160
१२२ श्रीवासिष्ठसंग्र हे [सर्गः
एवं उक्ते मया पृष्टः "प्राणचिन्ता किसुच्यते"। भुशुण्डो मां ततः प्राह "प्राणापानौ इति श्रुतौ।४५ ऊर्ध्वाधः किल देहेऽस्मिन प्रसृतौ अनिलौ उमौ। कलेवरमहायन्त्रवाहयोः श्रमहीनयोः ॥ ४६ ॥ हृदाकाशार्कराशिनो: अग्नीषोमख्वरूपयो:। जाअत्स्वन्सुषुप्ेषु सदैव समरूपयोः॥ ४७॥ दुर्लक्ष्या विद्यमानाऽपि गतिः सूक्ष्मतराऽनयोः। प्राणापानौ उभी एते स्पन्दशक्ती सदागती ॥ ४८। ऊर्ध्वगस्तु स्थितः प्राणोऽपानः पुनः अवाक् स्थितः॥ बाह्योन्मुखत्वं प्राणानां यद्वदम्बुजकोटरात् ।। ४९।। स्वरसेनास्तयतानां तं धीरा: रेचकं विदुः। द्वादशाङ्गुलपर्यन्तं बाह्य आक्रमतां ततः ॥ ५०। प्राणानां अङ्गसंस्पर्शो यः स पूरक उच्यते। बाह्यात परापतत्यन्तरपाने यत्नवर्जितः ॥५१।। योऽयं प्रपूग्णस्पर्शो विदुः तमपि पूरकम्। अपानेऽसं गते प्राण: यावत् नाभ्युदितो हृदि ॥ ५२॥ तावत् सा कुम्भकावस्था योगिभि: याऽनुभूयते। रेचक: पूरकश्चैव कुम्भकश्च त्रिधा स्थिताः ॥५३॥
Page 161
२१] भुशुण्डोपास्यानम् । १४३.
5 चिरजीवितकारणम्। अव्यग्रं अस्मिन् व्यापारे बाह्यं परिहरन् मन: ॥ ५४॥
दिनै: कतिपयैरेव परं आमोति केवलम्। एषा हि चित्तविश्रान्ति: मया आणसमाघिना ॥ ५५।
क्रमेणानेन संप्राप्ता स्वयं आत्मनि निर्मले। न भूतं न भविष्यच्च चिन्तयामि कदाचन ॥ ५६ ॥
दृष्टिमालम्ब्य तिष्ठामि वर्तमानां इहात्मना। न तुष्यति शुभप्राप्ती नाशुभेष्वपि खिद्यते ॥ ५७॥
मनो मम समं नित्यं तेन जीवाम्यनामयः। अयं बन्धुः परश्चायं ममायं अयमन्यथा ॥ ५८॥
इति ब्रह्मन् न जानामि तेनास्मि चिरजीवित: । आशापाशविनुन्नाया: चिस्तवृत्तेः समाहितः ॥ ५९॥ संस्पर्श न ददाम्यन्तः तेन जीवाभ्यनामयः। एतत्ते कथितं ब्रह्मन् यथाऽस्मि चिरजीवित:" ॥६० । "अहो प्रोक्तः तवोदन्तः पर विस्मयकारणात्"। एवमुक्त्वा तमामन्त्र्य मया भूयो दिवं गतम् ॥ ६१ ॥
Page 162
२४४ श्रीवासिष्ठसंपहे [सगः
याते कृतयुगस्यादौ पुनः तेनास्मि संगतः। मध्ये त्रेतायुगस्यास्य जातः त्वं रिपुभूदन ॥ ६२॥
पुनरदाष्टमे वर्षे तत्रैवोपरि भूृतः । मिलितोऽभूत भुछुण्डो मे तथवाजररूपनान् ॥ ६३॥ इदं ते कथितं चित्रं भुशुण्डोदन्तमुत्तमम्। श्रुत्वा विचार्य चैवान्तः यत् युक्तं तत् समाचर ॥ ६४॥ इति श्रीवासिष्ठसंग्रहे भुश्ुण्डोपास्यानं नाम एकविंशः सर्गः ॥
। द्वाविंशः सर्गः॥ -*-
॥ देवतार्चनविधानम्॥
1 विधानप्रश्नः। बसिष्ट उबाच - आभासमात्नमेवेदं इत्थं संप्रति भासते। अयंनामाऽहमित्यन्तः असदेव शरीरकम् ॥ १॥ सुखतल्पगतो येन स्वप्रदेहेन दिक्तटान्। परिभ्रमसि हे राम स देहः ते क संस्थित: ॥२॥
Page 163
२२] देवार्चन विधानम्। १४५ जागरायां मनोशज्ये येन स्वर्गपुरान्तरम्। परिभ्रमसि मेरुं वा स देहः ते क्व संस्थितः ॥ ३ ।। दीर्धस्वमं इमं विद्धि दीर्घ वा चित्तविभ्रमम्। दीर्घ वाऽपि मनोराज्यं संसारं रघुनन्दन ॥४। परं पौरुषमास्थाय बलं प्रज्ञां च युक्तितः। नार्मि संसारचक्रस्य चित्तमेव निरोधयेत् ॥५॥ अज्ञासौजन्ययुक्त्ेन शास्त्र संवलितेन च। पौरुषेण न यत् प्राप्त न तत् कचन लभ्यते। ६ ॥ चित्तयक्षदृढाक्रान्तं न शास्त्राणि न बान्धवा:। शक्नुवन्ति परित्रातुं गुखवो न च मानवम्।७ ॥ संशान्तचित्तवेतालं गुरुशास्त्रार्थबान्धवाः। शक्तुवन्ति समुद्धर्तुं स्वल्पपङ्कात् मृगं यथा ॥८ ॥ अत्रेमां अपरां दृष्टि महामोहविनाशिनीम्। शृणु या कथिता पूर्व मह्यं अर्धेन्दुमौलिना॥ ९॥ कदाचित जान्हवीतीरे स्थितोऽहं पूजयन् शिवम्। तदा श्रावणपक्षस्य बहुलस्याष्टमे दिने॥ १ ॥ अपश्यं कानने तेजः चन्द्रविम्बगणोपमम्। यावत् पश्यामि तं देखं प्राप्त: चन्द्रकलाधरः ।। ११ ।। V. S. 10.
Page 164
३१६ श्रीवा सिष्ठसंप्रहे [सर्गः
गौरीकरार्पितकरो नन्दिप्रोत्सारिताग्रगः । अ्ध्ये पुष्पं तथा पादं अभ्युपेत्यार्पिंतं मया ॥ १२ ॥ नमस्कारैः तथा स्तोत्रैः देवीयुतशिवोऽर्चित:। पूजान्ते मां उवाचेदं अतिशीतलया गिरा॥ १३॥ "कच्चित् तपस्ते निर्विननं किं प्राप्यं प्राप्तवानसि" । इत्युक्ेन मया प्रोक्तं "त्वदनुस्मरणे सति॥ १४। कुतो विभ्नः न दुष्प्रापं भुवि किंचन विद्यते। अपवर्गपुरद्वारं त्वदनुस्मरणं विभो॥ १५॥ किं तु पृच्छामि देवेश कंचित संदेहनिर्णयम्। सर्वपापक्षयकरं सर्वंकल्याणवर्धनम् ॥ १६॥ देवार्चनविधानं तत् कीदशं भवति प्रभो"। 2 आत्मैव परमो देवः। महेश्वर उवाच - न देव: पुण्डरीकाक्षो न च देवः त्रिलोचनः ॥१७॥ न देवो देहरूपी हि न देव: चित्तरूपधृक्। अकृत्रिमं अनादयन्तं देवनं देव उच्यते ॥१८ ॥
अज्ञातदेवतच्वानां आकारादयर्चनं कतम्। योजनाध्वन्यशक्तस्य क्रोशाध्वा परिकल्प्यते॥ १९ ॥
Page 165
२२] देवारचन विधानम्। ११७
शभबोधादिमि: पुष्पैः देव आत्मा यदर्च्यते। तन्तु देवार्चनं विद्धि नाकारार्चनमर्चनम्॥२०॥
शमबोधाद्यभावे हि पुष्पादयैरर्चनं स्मृतम्। संवित सर्वेकलातीता सत्तासामान्यरूपिणी ॥ २१ ॥
महासत्ताऽडत्मतां प्राप्ता देवशब्देन कथ्यते। देशकालादिशक्तीनां उल्लासै: वलिता क्रमात् ॥ २२ ॥।
जीवो भृत्वा भवत्याशु बुद्धि: पश्चात् अहं ततः। मनस्त्वं समुपायाता संसारं अवलम्बते ॥ २३ ।
इयं अस्मीति भावेन देहस्था दुःखमश्तुते। पुष्टं संकन्पमात्रेण यदिदं दुःखमागतम्॥ २४ ॥
तत् असंकल्पमात्रेण क्षीयते नात्र संशय:। स्वसंकल्पनकालुष्यं निवार्य चात्मनाऽडत्मन: २५/।
परं प्रसादमासाद्य परमानन्दवान् भव। सर्वशक्तिमयो ह्यात्मा सर्वं आसादयत्यलम्॥ २६॥
एष देव: परश्रैषः पूज्य एष सदा सताम्। 3 पूजाक्रमः। पूजनं ध्यानमेवान्तः नान्यत् अस्त्यस्य पूजनम्॥२७॥
Page 166
श्रीवासिष्टसंप्रहे [सग:
तस्मात् त्रिसुवनाधारं नित्यं ध्यानेन पूजयेत। चिदूयं सूर्यलक्षाभं समस्ताभासभासनम् ॥२८॥ इच्छादिशक्तय: तस्य चिन्तनीयाः शरीरगा:। अनन्तः स पराधारः सत्तामातैकविग्रहः ॥ २९ ।। विवर्तितजगज्जाल: कालोऽस्य द्वारपालक:। सर्वत्रेक्षणशक्त्याढ्यं सर्वतोघ्राणशक्तिकम् ॥ ३० ॥ सर्वतः स्पर्शसंयुक्तं सर्वतो रसनान्वितम्। सर्वत्र श्रवणाकीरण सर्वत्र मननान्वितम् ॥ ३१ ॥।. सर्वंतो मननातीतं सर्वत्र परमं शिवम्। इति संचिन्त्य देवेश अर्चयेत् विधिवत् ततः ॥३२॥।। स्वसंविदात्मा देवोऽयं नोपहारेण पूज्यते। नित्यं अक्केशलभ्येन बोधेन स्वेन पूज्यते ॥ ३३ ॥ बाह्य संपूजनं प्रोक्तं एतत् उत्तममात्मन:। इदानीं संप्रवक््येऽहं अन्तः पूजनमात्मनः ॥ ३४॥ नित्यमेव शरीरस्थ इमं ध्यायेत परं शिवम्। क्वदेहे संविदाभासो देवोडयं इति भावयेत् ॥३५॥ नष्टं नष्टं उपेक्षेत प्राप्तं प्रापं उपाहरेत। अनिर्विकारतयैतद्वि परमार्चनमात्मनः ॥३६॥
Page 167
देवार्चनविधानम। १४९
सर्वं ब्रह्मेति निश्चित्य नित्यात्मार्चाव्रतं चरेत्। आत्मार्चनविधानेडस्मिन प्रोक्ता द्रव्यश्रियस्तु या:॥ एकेनैव शमेनैताः रसेन परिभाविताः। शास्त्रायैं: बुध्यते नात्मा गुरोः वचनतो न च ॥३८॥ बुध्यते स्वयमेवैषः स्व्बोधवशतः स्वतः। गुरूपदेशशास्त्रार्थैः विना चात्मा न बुध्यते।। ३९।। एतत्संयोगसत्तैव स्वात्मज्ञानप्रकाशिनी। एवं देवार्चनं नित्यं य: करोति समाहितः॥ ४० ।। यत्रास्मदादयो भृत्या तत स याति परं पदमू। इत्युक्त्वा नीलकण्ठोऽसी अनधानं क्षणात् गतः ।। ४१।। ततःप्रभृति तेनैव क्रमेणार्चनमात्मनः । अद्य यावत् गतव्यग्र कुर्वन् अहं अवस्थित: ॥४२।। अनेनार्चाविधानेन मयेमे राम वासरा:। अखिन्नेनातिवाह्यन्ते व्यवहारपरा अपि ॥४३॥ अनयैव च सद्दृष्टथा सङ्गमुक्कतेन चेतसा। संसारविरलारण्ये विहरास्मिन् न खिद्यसे। ४४ ॥ इति श्रीवासिष्ठसंप्रहे देवार्चनविधानं नाम द्वाविश: सर्गः ॥।
Page 168
१५० श्रीवासिष्ठसंग्रहे [सर्गः
॥ त्रयोविशः सर्गः॥
। चिच्छक्तिप्रभावः ॥
1 बिल्वफलाख्यानम्।
बसिष्ठ उवाच- वासनारहितैरन्तः इन्द्रियैशहर क्रियाः। केवलैरिन्द्रियैः सार्ध वर्तमानार्थवर्तिना॥१॥ असंगमेन मनसा यत्करोषि न तत्कृतम्। यथा प्राप्तिक्षणे वस्तु प्रथमं तुष्टये तथा ॥ २ ॥ न प्राप्त्येकक्षणात् ऊर्ध्व इति को नानुभूतवान्। वाञ्छाकाले यथा वस्तु तुष्टये नान्यदा तथा॥ ३ ॥ तस्मात् क्षणसुखे सक्ति बालो बन्नाति नेतरः। वाञ्छाक्षणे तु या तुष्टिः तत्र वाञ्छेव कारणम् ॥४॥ सुष्टिस्त्वतुष्टिपर्यन्ता तस्मात वाञ्छां परित्यज। आशा यातु निराशत्वं अभावं यातु भावनम् ॥५॥ अमनस्त्वं मनो यातु तवासङ्गेन जीवतः। वासनाप्राणसंरोधात् अनिमेष मनः कुरु ॥६॥
Page 169
२३] चिच्छ क्िप्रभावः । १५१
यत्र नाभ्युदितं चित्त तद्वै सुखं अनुत्तमम्। अत्ेमामवबोधाय राम रम्यां कथां शृणु ।। ७।। युगैरप्यजरदूपं अस्ति बिल्वफलं महत्। महाकल्पान्तवात्यायाः अपि वेगैः अचालितम् ॥८॥ वैपुल्येनापरिच्छेद्यं मूलं आद्यं जगत्स्थिते: तस्य बिल्वफलस्योच्चैः ब्रह्माण्डानि समीपतः॥९॥ समस्तफलसारस्य फलस्यास्य महाकृतेः। अन्तःस्थितत्वमायाति संविच्छक्तिचमत्कृतिः ॥१० ॥
इद व्योम महानन्तं इय कालमयी कला। इय नियतिरुद्युक्ता क्रियेयं स्पन्दरूपिणी॥ ११ ॥ ब्रह्माण्डमण्डपं चेद इमा आशाः क्रमो ह्यथम्। श्रीराम उवाच - भगवन् सर्वसारज्ञ त्वयैषा बिन्वरूपिणी ॥ १२ ॥
महाचिद्धनसत्तेह कथितेति मतिः मम। 2 महाशिलाख्यानम्। चसिष्ठ उवाच - अन्यथा वर्ण्यमानां च क्था एतां मया शृणु ॥१३॥ स्त्िग्धा स्पष्टा मृदुस्पर्शा महाविस्तारशालिनी। निबिडा नित्यनीरन्धा क्वचिदस्ति महाशिला ॥ १४॥
Page 170
१५२ श्रीवासिष्ठसंग्रहे [सर्ग%
तस्यां अन्तः प्रफल्लानि पद्मानि सुबहूनि हि। अन्योन्यप्रोतपत्राणि गूढानि प्रकटानि च ॥। १५।। ऊर्ध्वमूलान्यधोमूलान्यमूलानीतराणि च। चिच्छिलैषा मयोक्ता ते यस्यां अन्तः जगतस्थिति: ॥ घनत्वैकात्मकत्वादिवशात् एषा शिलैव चित्। तथा चित् विश्वगर्भाऽपि न मुश्चत्येकपिण्डताम् ॥१७॥ तथाऽनन्तविकाराढ्या चितौ ब्रह्माण्डमण्डली। 3 अर्जुनोपाख्यानम्। श्रीराम उवाच - पुर्यष्टकस्वरूपं मे भगवन् कीदशं वद ॥ १८।। बसिष्ठ उवाच - अनादयन्तं जगद्धीजं यत् ब्रह्मास्ति निरामयम्। तदेव कलनायुक्तं अत्र जीव इति स्मृतः ॥ १९॥ स जीव: खलु देहेस्मिन चिनोति स्पन्दते स्फुटम्॥ अहंभावात् अद्दङ्कारो मननात् मन उच्यते ॥ २० ॥ बोधनिश्चयतो बुद्धि: इन्द्रदृष्टे: तथेन्द्रियम्। देहभावनया देहो घटभावनया घट:॥ २१॥ एष एव स्वभावात्मा जनैः पुर्यष्टकं स्मृतः। ज्ञत्व कर्तृत्व मोवतृत्वसाक्षित्वाद्यमिपातिनी । २२॥
Page 171
चिच्छक्तिप्रभावः । १५१
या संवित जीव इत्युक्ता तद्वि पुर्यष्टकं विदुः। पुर्यष्टकवशेनैव स्व्रमात् स्वम्ान्तरं यथा ॥ २३।। असत्यमेव पश्यन्ति जना: तद्वत इदं जगतू। अर्जुनवद्धि निर्दुःखं सुखं क्षेपय जीवितम् ॥ २४॥ यमोऽकरोत् तपः पूर्व दमनात् पापशङ्कया। महीयं तेन नीरन्धा भृतैः मत्यैः अमृत्युभिः॥२५॥ भारेण परिभृताङ्गी हरिं शरणमेष्यति। हरि: देहद्वयेनाथ भूमौ अवतरिष्यति ॥२६ ॥ वासुदेवो्ऽर्जुनश्चेति तदा युद्धे ह्युपस्थिते। अर्जुनः स्वजनान् शतून् दृष्ट्वा गच्छे विषण्णताम्।। बोधयिष्यति तं देवः प्राप्तकार्यैकसिदधये। "आत्मा ह्यनादिमव्यान्तः हते देहे न हन्यते ॥२८।। शाश्वतोऽयं अजो नित्यो जन्ममृत्युविवर्जित:। योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा फलानि च ॥ २९॥ संन्यस्तसर्वसंकल्पः समः शान्तमनाः भव। त्याग: संकल्पजालानां असङ्क इति कथ्यते ॥ ३०॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवं आत्मानं मत्परायणः ।। ३१ ।।
Page 172
५४ श्रीवासिष्ठसंग्रहे [सर्ग:
सामान्यं परमं चेति द्वे रूपे विद्वि मेऽनघ। पाण्यादियुक्तं सामान्यं पर्र सूक्ष्मं अनामयम् ॥ ३२॥
यावत् अप्रतिबुद्ध: त्वं तावत् सामान्यको भव। तत्क्रमात् संप्रबुद्ध: त्वं ततो ज्ञास्यसि तत् परम् ॥ ३३।।
अज्ञानात आत्मनो नूनं सत्तां आयाति वासना। आत्मज्ञाने महाबोधात् विलयं याति वासना" ॥ ३४।।
एवं संबोधितः सम्यक् त्यक्तशोको भविष्यति। 4 मिक्षूपाख्यानम्। अपरं कस्यचित भिक्षो: इतिहासं इमं भृणु ॥ ३५॥
आसीत् कश्रित महाभिक्षु: समाध्यभ्यासतत्पर:। यत् चिन्तयति तचिचित्तं तदूपं प्रतिपद्यते ॥ ३६ ॥
कदाचित् एष लीलार्थं अभूद जीवटनामक:। जीवटो विहरन स्वमें कश्रित् विओ्रो बभूव है॥ ३७॥
विप्र: रवसे च सामन्तः सोऽपि स्वम्ेऽभवत् नृप:। एवं स क्रमशः सने सुरस्त्ी च ततो मृगी॥ ३८।।
भूत्वा ततो लता भृत्वा अ्रमरत्वं उपागतः । अ्रमरो वारणालोकाठ् वारणतवं अवाप्य सा।। ३९ ।।
Page 173
चिच्छक्तिप्रभावः । १५५
गण्डस्थभ्रमरध्यासात गजो भूयोऽप्यभूत अलिः । पार्श्वस्थहंससंविच्या हंसो भूत्वा पुनः लुठन् ॥ ४० ॥ ब्रह्मसारसतां प्राप्तः सोऽपश्यत् रुद्रमेकदा। तदा बुद्धि: अभृत् तस्य रुद्रोऽहं इति निश्चिता ॥ ४१॥ रुद्रस्त्वनुत्तमज्ञानविलासिन्या धिया ततः। स्वस्याशेषं उदन्तं तं दृष्ट्ा विस्मयमागतः ॥ ४२।। "अहो विचित्र मायेयं बत विश्वविमोहिनी। अहं योनिशते भ्रान्त्वा रुद्रत्वं अधुना गतः ॥ ४३।। तांस्तान् सर्वान् स्वसंसारान् उत्थाप्यालोकयाम्यहम्"। इति संचिन्त्य रुद्रोऽसी यत्र भिक्षु: ततो गतः ।। ४४।। सुपं तं बोधयित्वाडथ चेतसा चेतनेन च। योजयामास, सस्मार भिक्षुग्प्यात्मनो अ्रमम् । ४५।। रुद्रं आत्मानमालोक्य जीवटादिमयं तथा। उभौ तौ जग्मतुः शीघ्रं जीवटस्ष्य निवेशनम्॥ ४६॥ तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च। बोधयन्तः त्रयो जग्मुः विप्रसामन्तकादिकान् ॥४७॥ रुद्रांशा: ते ततः सर्वे दिव्यज्ञाना: चकाशिरे। प्रययु: स्वास्पदं तेऽषि रुद्रेणाथ नियोजिताः ॥।४८॥।
Page 174
१५६ श्रीवासिष्ठसंप्रहे [सग:
स्वकलत्रैः समं देहं क्षपयित्वाऽथ कालतः। रुद्रेण सह ते सर्वे देहान्ते रुद्रमाप्नुवन्॥ ४९ ॥
सर्व अस्ति चितः कोशे यत् यथाऽडलोकयत्यसौ। सर्वं ह्यमिमतं कार्य एकनिष्ठस्य सिध्यति॥ ५०॥
तस्मात एकार्थनिष्ठत्वात् भिक्षुजीवेन रुद्रताम्। प्राप्य रुद्रात्मना लब्धा संकल्पार्थस्य सत्यता ।५१ ॥
भिक्षुसंकल्पजीवा: ते प्रत्येकं सत्यतां गता:। रुद्रविज्ञानवशतः विविशुः तत् परं पदम् ।। ५२।।
सदस्त्रधा भवेत् एक: संकल्पाद्वि यथा हरिः। अंशावतारलीलाभिः कुरुते जागतीं स्थितिम्॥ ५३॥
इत श्रीवासिष्ठसंघहे चिच्छक्तिप्रभावो नाम त्रयोविंशः सर्गः॥
-* -
Page 175
२४] भगीरथोपास्यानम्। १५७
॥ चतुर्विशः सगः॥
॥ भगीरथोपाख्यानम् ।
1 सौधुप्मौनम।
बसिष्ठ उवाच - सौधुप्तमौनवान् भृत्वा त्यज चित्तविलासितम् । श्रीराम उवाच- सौषुप्तमौनमित्येतत् ब्रह्मन ब्रूहि किं उच्यते ॥ १॥ वसिष्ठ उवाच- वाङमौंन वचसां रोधो, बलात् इन्द्रियनिग्रद्ः। अक्षमौनं, परित्यागं चेष्टानां काष्ठसंज्ञकम् ॥ २ ॥
्रस्फुरचित्तकलनं एतत् मौनत्रयं भवेत्। अविभागं अनभ्यासं अनादयन्तं यत् आस्थितम् ॥ ३ ।।
व्यायतोऽध्यायतश्रैव सौषुपं मौनमुच्यते। यथाभूतं इदं बुद्ध्वा जगत् नानात्वविभ्रमम् ॥४ ॥ यथास्थितं असंदेहं सौधुपं मौनमुच्यते। सुषुप्तमौनं योगीशः द्विविधैः प्राप्यते खढ ॥५॥
Page 176
१५८ श्रीवासिष्ठसंग्रहे [सर्ग:
सम्यग्ज्ञानावबोधेन नित्यमेकसमाधिना। संख्ययैवावबुद्धा ये ते सांख्ययोगिन: +मृताः॥ ६॥ आ्राणाद्यनिलमंशान्तौ युक्त्या ये पदमागता:। अनामयं अनादयन्तं ते स्मृताः योगयोगिनः ॥७॥ यत् सांख्यैः प्राप्यते स्थानं परं योगैः तदेव हि। एकतत्वघनाभ्यम: प्राणालं विलय: तथा । ८ । मनोविनिग्रहश्वेति मोक्षशब्दार्थसंग्रहः। एकस्मिन्नपि संसिद्धे ते सिद्धयन्ति परस्परम् ॥ ९॥ अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी । कुसुमामोदवत मिश्रे तिलतैल इब स्थिते॥ १० ॥ आधाराधेयवच्चैव एकाभावे विनश्यतः। कुरुतश्च खनाशेन कार्य मोक्षाख्यमुत्तमम् ॥ ११॥ 2 वेतालोपाख्यानम्। शुमान् आकर्णय प्रश्नान् प्रसङ्गात् स्मृतिमागतान्। आसीत् विन्ध्यमहाटव्यां वेतालो विपुलाकृतिः ॥१२॥ निर्निमित्तं निरागस्कं पुरोऽप्यभ्यागतं नरमू। क्षुधितोऽपि न हन्त्येष: सन्तो हि न्यायदर्शकाः।१३॥ निशायां एकदा प्राप्तं भूपालं ्रोक्तवानसौ। "मया लब्धोडसि राजन् त्वं भव भोजनमद्य मे ॥१४।
Page 177
२8] भगीरथोपास्यानम्। १५९.
राजोवाच च "निर्न्याय मां चेत अत्सि बलात् इद। तत् ते सहस्रधा मूर्धा स्फुटिष्यति न संशयः"॥१५॥ वेतालश् ततः प्राह"न्यायोऽयं हि मयोच्यते। राजाऽसि सकलाशाश्र पुरणीया: त्वयाऽर्थिनाम् ॥१६॥ प्रश्नानां उत्तरं दत्वा प्रपूरय ममार्थनाम्। कस्य सूर्यस्य रश्मीनां ब्रह्माण्डानि कशाणव:॥ १७।। स्वम्रात् स्वमान्तरं गच्छन् शतशोऽय सहस्रशः। त्यजन् न त्यजति स्वच्छं का स्वरूपं प्रभास्वरम् ॥१८।। ब्रह्माण्डाकाशभूतौंघ सूर्यमण्डलमेरवः। अपरित्यजतोऽणुनवं कस्याणो: परमाणवः ॥ १९ ॥ कस्यानवयवस्यैव ह्यन्तर्मज्जा जगत्त्रयी"। इत्युक्तवति वेताले विहस्योवाच भृपतिः ॥ २० ॥ "त्वया प्रोक्तो हि चित्सूर्यः विज्ञानात्माऽतिभास्वरः। सर्वाणि सुवनानीह तस्यैव त्रसरेणवः ॥ २१॥ जगदाडव्ये महास्वमे स्वमात् स्वमान्तरं व्जन्। शान्तं त्यजति नो रूप जीवभावं गतेऽपि च ॥ २२॥। सूक्ष्मत्वात् अप्यलभ्यत्वात् परमात्माऽणुरुच्यते। पुरतस्तस्य मेर्वादि परमाणुवदेव हि॥ २३॥
Page 178
१६० श्रीवासिष्ठसंग्रहे [सर्ग:
सर्वावयवरूपोऽपि निरस्तावयव: पुमान्। अस्य विज्ञप्तिमात्रस्य मज्जामात्रं जगत्त्रयम्" ॥ २४।। इति राजवचः श्रुत्वा वेताल: शान्तिमाययौ। बभूव च सदा ध्यानी विस्मृत्य सकलां क्षुधाम्॥२५॥ 3 ज्ञानसाधनानि। संहृत्य सर्वतः चित्तं सर्वत्र समदर्शिन:। स्थिरबुद्धे: अमूढस्य यथाप्रासानुवर्तिनः ॥ २६।
राज्ो भगींरथस्येव दुःसाध्यमपि सिध्यति। आसीत् भगीरथो राम राजा परमधार्मिक:॥।२७।।
यौवने वर्तमानोऽपि लोकयात्रां विचारयन्। अत्युद्विग्रमना: भृत्वा सोऽपृच्छत् त्रितुलं गुरुम्।। "जरामरणमोहादिरूपाणां भयकारिणाम्। भगवन् सर्वदुःखानां कथमन्तः प्रजायते ॥ २९ ॥
चिन्मातं सर्वगं शान्तं अस्ति निर्मलं अच्युतम्। 1% देहादि नेतरत् किचित् इति वेझि मुनीश्वर॥ ३०॥
कित्वत्र प्रतिपत्तिः मे स्फुटतां एति न प्रभो। एतावन्मात्नसंवित्ति: स्यां अहं सर्वदा कथम् ॥३१ ॥
Page 179
२४] भगीरथोपाख्यानम। १६१
तरितुल उवाच - ज्ञानेन ज्ञेयनिष्ठत्वं एति चेतो हृदम्बरे। ततः सर्वात्मको भृत्वा भूयो गच्छेत् न जीवताम्॥
असक्ति: अनभिष्वङ्ग: पुत्रदारगृहादिषु। नित्यं च समचित्तत्वं इष्टानिष्टोपपत्तिषु ॥ ३३ ॥
आत्मनोऽनन्ययोगेन तद्भावनं अनारतम्। विविक्तदेशसेवित्वं अरतिः जनसंसदि॥ ३४॥
अध्यात्मज्ञाननिष्ठत्वं तत्वज्ञानार्थदर्शनम्। एतत् ज्ञानं इति प्रोक्तं अज्ञानं स्यात् इतोऽन्यथा॥३५॥
अहंभावोपशान्तौ तत् राजन ज्ञानं अवाप्यते। भगीरथ उवाच- शरीरेऽस्मिन् अहंभावः चिरस्थः त्यज्यते कथम् ॥ ३६॥
त्रितुल उवाच - पौरुषेण प्रयत्ेन त्यक्त्वा विषयभावनाम्। सत्तां आश्रित्य संपूर्णी अहङ्कारो लयं व्रजेत् ॥ ३७॥
सर्वैषणा: परित्यन्य श्रान्ताशेषविशेषण:। अर्किचनत्वं आयातः स शान्ताहंकृतिः भवेत्॥३८।। V. S. 11.
Page 180
१६२ श्रीवासिष्ठसंग्रहे [सर्ग&
4 चित्तविश्रान्तिः। एवं श्रुत्वा गुरो: वक्तात सर्वमेव परित्यजन्। राज्यं स्वं अरये दत्वा खिन्नप्रकृतिपौरकम्॥३९॥ अघोवासोवशेषोऽसौ निर्जगाम स्वमण्डलाद्। यत्र न ज्ञायते हेषा तत्नैवोवास धैर्यवान्॥ ४०॥ ततोडल्पेनैव कालेन प्रशान्तसकलैषणः । परमेण शमेनासौ प्राप विश्रान्तिमात्मनि । ४१॥ एकदा स भ्रमन् भूमौ स्वस्यैव पुरमाययौ। प्रभो राज्यं गृहाणेति प्रार्थितोऽप्यरिणा तदा ॥४२॥ नाददे तृणमप्येष: ऋते मिक्षां भगीरथः। आत्मारामं कदाचिच्च स प्राप त्रितुलं गुरुम् । ४३।। किचित्कालं उवासासौ तेन सार्थ वनादिके। समतां उपयातौ तौ गच्छन्तौ तु वनात् वनम्॥४४1 न ननन्दतुरानन्दं न दुःखं न च मध्यमम्। सिद्धैः अर्पितमैश्ववर्य मेनाते जर्जरं तृणम् ॥ ४५॥ अथैकदा मृतो भूपः कर्स्मिश्चित् मण्डलान्तरे। तत्प्रजास्तु परिज्ञाय मुनिरूपं भगीरथम् ॥ ४६ ।। तं आसाद्य समानीय मोदात चक्रुः महीपतिम्। एवं तत्र स्थिते राजि प्राक प्रकतय आययु:॥४
Page 181
4] चूडालाप्रभावः । १६३ आभिश् प्रार्थितो राजा पुनः तासां अभृत नृपः। समः शान्तमना: मौनी वीतरागो विमत्सरः ॥४८॥ अथ वर्षसहस्त्राणि तपः तप्त्वा सुदारुणम्। पितामहान् समुद्धर्तुं भुवि गङ्गां अयोजयत् ॥ ४९॥ इति श्रीवासिष्ठसंप्रहे भगीरथोपास्यानं नाम चतुर्विशः सर्गः ॥
। पश्चविंशः सर्गः॥
॥ चूडालाप्रभाव: ॥ 1 ज्ञानोद्यः। सष्ठ उवाच- आसीत् शिखिध्वजो राजा मालवानां पुरे पुरा। चूडालाख्या च तत्पत्नी सुराष्ट्राधिपतेः सुता॥१॥ अवर्धत तयो: प्रीति: अन्योन्यार्पितचेंतसोः। एवं बहुषु वर्षेषु यातेषु च क्रमात् तयोः ॥२ ॥ शनैः गलति तारुण्ये भिन्नकुम्भात् इवाम्भसि। आत्मनो ज्ञानमेव स्यात् संसारव्याधिभेषजम्।॥ ३॥
Page 182
श्रीवासिष्ठ संग्रहे सर्म :
इति निश्चित्य तौ आस्तां तन्निष्ठौ तत्परायणौ। अथ साडवि तं राम शास्त्रार्थमनने रता॥ ४ ॥ इत्थं विचाशयामास स्वं आत्मानं अहर्निशम्। "कस्यायं आगतो मोहः कथं अभ्युदितः क्क वा ॥५॥ देहस्तावत् जडो मूढो नाहमित्येव निश्चयः। कर्मेन्द्रियगणश्रासी बुद्धीन्द्रियगण: तथा ॥ ६ ॥ जड एव भवेत् नूनं प्रेर्यते मनसा यत:। मनोऽप्येवं जडं यस्मात् प्रेर्यते बुद्धिनिश्चयैः।७॥ बुद्धिश्चापि जडा यस्मात अहङ्कारेण चाल्यते। अहङ्कारो जडो नूनं जीवेन जन्यते यत: ॥८ ।। जीवश्च कलनाकार: केनाप्यन्येन जीवति। अहो ज्ञातं अयं जीव: चिदू पेणैव जीवति॥ ९॥ इदानीं पुनरीक्षे हं केनैषा चित् प्रचेत्यते। अहो नु चिरकालेन ज्ञातं ज्ञेयं अनामयम् ॥१० ॥ ते हि चिद्विलासान्ता: मनोबुद्धीन्द्रियादयः। असन्तः सर्व एवाहो अवधानं विनोत्थिताः ॥११ ॥ :महाचित् एकैवास्तीह निरहङ्काररूपिणी। सकृत् विभाता विमला नित्योदयवती सदा ॥ १२॥
Page 183
२५] चूडालाप्रभाव: । १६५
सा ब्रह्मपरमात्मादिनामभि: परिगीयते"। दिनानुदिनं इत्येषा स्वात्मारामतया तथा॥ १३॥।
परमात्ममहालाभपरिपूर्णान्तरातमना। स्वविवेकनाभ्यासवशात् आत्मोदयेन सा ॥ १४ ॥।
शुधमे शोभना तत्र चूडालाऽपूर्वशोभया। तां आलोक्य तदा राजा विस्मितो व्याजहार है॥ १५।
"भूयो यौवनयुक्तेव राजसे नितरां प्रिये। गम्भीरं च प्रशान्तं च चेतः पश्यामि ते प्रिये"॥॥
चूडालोवाच- इंदं सर्वें परित्यज्य सर्वे अन्यत् मयाऽडशरितम्। यत् तत् सत्यं असत्यं च तेनास्मि श्रीमती स्थिता॥
न हृष्यामि न कुप्यामि तेनाहं श्रीमती स्थिता। एकैवाकाशसंकाशे केवले हृदये रमे ॥ १८ ॥
सदाऽडत्मन्येव तुष्यामि तेनाहं श्रीमती स्थिता। अबुद्ध्वा तद्िरां अर्थ विद्स्योत्थाय भृपतिः ॥ १९।
असंबद्धप्रलापोऽयं इति निश्चितवान् वदा। "कष्टं नात्मनि विश्रान्तो मद्वचोऽयं न बुद्धवान्" ।
Page 184
२६६ श्रीवासिष्ठसंग्रहे [सगः
इति खिन्ना च चूडाला स्वव्यापारपराऽभवत्। 2 कुण्डलिनी। एकदा नित्यतृप्ताया: निरिच्छाया: अपि स्वयम्॥ चूडालाया बभूवेच्छा ह्याकाशगमनादिषु। तदर्थ सर्वभोगान् सा संत्यज्य निर्जने स्थले ॥ २२ ॥ ऊर्ध्वंग प्राणपवन चिराभ्यासं चकार ह। चूडालायाः कथायां च प्रसङ्गापतितां इमाम् ॥२३॥ प्राणादिपवनाभ्यासक्रियां सिद्धिफलां शृणु। भोजनासनशुद्धया च साधु शास्त्रार्थभावनात्॥२४॥ भोगत्यागाच् कोपादित्यागात सजनसेवनाव। प्राणायामघनाभ्यासात भृशं यान्ति विधेयताम् ॥२५॥ प्राणाः प्रभुत्वात् तन्ज्ञस्य पुंसो भृत्या इवाखिला:। राज्यादिमोक्षपर्यन्ता: समस्ता एव संपद: ॥ २६॥ देहानिलविधेयत्वात् साध्या: सर्वस्य राघव। कीटादिष्वपि सर्वेषु मर्मस्थानं समाश्रिता ॥ २७॥ भोगिवत मण्डलाकारा सर्वदा स्पन्दरूपिणी। पावनी परमा शक्ति: पवमानेन तिष्ठति ॥ २८॥ साऽतः कुण्डलिनी प्रोक्ता नाड्यो हृदयकोशगाः। अस्ां समस्ता: संबद्धा: सैव प्राणमयी स्मृता ॥२९॥
Page 185
चूडालापभावः ।
प्राणापानस्वरूपत्वात् अध ऊर्ध्व व्रजत्यसौ। 3 आधिव्याधयः। न्यदन्त: मारुतो रुद्ू: व्याधि: जन्तोः न जायते॥ देहदुःखं विदु: व्याधि आध्याख्यं वासनामयम। दुरन्नाभ्यवहारेण दुर्देशाक्रमणेन च॥३१ ॥ दुष्कालव्यवहारेण दुर्जनासङ्गदोषतः। क्षीणत्वात् वातिपूर्ण त्वात नाडीनां रन्ध्रसंततौ ।।३२।। प्राणे विधुरतां याते व्याधि: देहे प्रवर्तते। आघिक्षये चाधिमवा: क्षीयन्ते व्याधयोऽप्यलम्।।३३।। अनाधिजा व्याधयस्तु द्रव्यमन्त्रशुभक्रमैंः । चिकित्सकादिशास्त्रोक्तः नश्यन्ति त्वं च वेत्सि तत्।। चचित्ते विधुरिते देह: संक्षोभं उपपाति हि। संक्षोभात् साम्य उतसृज्य वहन्ति प्राणवायवः ॥३५॥ असमे वहति प्राणे नाड्यो यान्ति विसस्थितिम्। क्ुजीर्णत्वं अजीर्णत्वं अतिजीर्णत्वमेव वा ॥३६॥ दोषायैव प्रयात्यन्ं नाडीप्राणविपर्ययात्। यान्यन्नानि निरोधेन तिष्ठन्त्यन्तःशरीरके । ३७॥ तान्येव व्याघितां यान्ति परिणामस्वभावतः। बए वं आधे: भवेत् व्याधि: आधिनाश्ाच नश्यति।।
Page 186
१६८ श्रीवासिष्ठसंग्रहे [सग:
यथा विरेकं कुर्वन्ति हरीतक्य: स्वभावतः। भावनावशतो मन्तैः कर्मणा साधुसेवया ॥ ३९ ॥ मनः प्रयाति नैर्मल्यं आनन्दो वर्धते तदा। सच्वशुद्धया वहन्त्येते क्रमेण प्राणवायव:॥४० ।। जश्यन्ति तथाऽन्नानि व्याधि: तेन विनश्यति। 4 अणिमादिसिद्धयः। कुण्ड लिन्यां कथायोगं अधुना प्रकृतं शृणु ॥ ४१॥ तां यदा पूरकाभ्यासात आपूर्य स्थीयते समम्। तदैति मैरवं स्थैर्य कायस्यापीनतां तथा॥ ४२॥ यदा पूरकपूर्णान्तरायतप्राणमारुतम्। तदा समस्तमेवेदं उन्फ्ावयति देहकम् ॥ ४३ ॥ इत्यभ्यासविलासेन प्राप्यते व्योमगामिता। ब्रह्मनाडीप्रवाहेण शक्ति: कुण्डलिनी यदा॥ ४४ ॥ बहिः ऊर्ध्व कपाटस्य द्वादशाङ्गुलमूर्धनि। रेचकेन प्रयोगेण नाड्यन्तरनिरोधिना॥ ४५ ॥ मुहूतं स्थिति आमोति तदा व्योमगदर्शनम्। मुखात् बहिः द्वादशान्ते रेचकाभ्यासतः चिरम् ॥४६। प्राणे च स्थापिते देहं अन्यं च प्रविशत्यसौ। श्रीराम उवाच- सूक्ष्मच्छिद्रादिगत्यथँ पूरणार्थं च खस् वा ॥ ४७॥
Page 187
२५] चूडालप्रभावः । १६९.
अणुतां स्थूलतां वाऽपि कायोऽयं नीयते कथम्। वसिष्ठ उवाच- एकं चिन्मात्रमस्तीह सूक्ष्मात् सूक्ष्मतरं हि तत् ॥४८ ।।
असत्यमेव सङ्कल्पभ्रमेणेदं शरीरकम्। एवं हि विदितात्मानो भावयन्ति यथैव यत् ॥४९ ।
तत् तथैवानुपश्यन्ति दृढभावनया तया। सत्यभावेन दृष्टोडयं देहो देहो भवत्यलम् ॥ ५० ॥ दृष्टस्त्वसत्यभावेन व्योमतां याति देहकः। अणिमादिपदप्रासी भावना युक्तिरीदृशी ॥ ५१॥ सुलभा च भवत्येषा योगसंसिद्धिसंविदाम्। एवं बभूव चूडाला घनाभ्यासवती सती ॥ ५२॥ 5 उपदेशप्रयोजनम्। विवेद नैव राजा तु तामेवंगुणशालिनीम्। बहुशो बोध्यमानोऽपि तया राजा न बुद्धवान् ॥ ५३।। उपदेशक्रमो राम व्यवस्थामात्रपालनम्। ज्ञप्नेस्तु कारणं शुद्धा शिष्यप्रज्ञैव केवलम्॥ ५४॥ श्रीराम उवाच- एवं स्थिते मुने ब्हि कथं एतत जगत्सिथतौ। क्रमो गुरूपदेशाख्यः स्वात्मज्ञानस्य कारणम् । ५५ ॥३
Page 188
१७० श्रीवासिष्ठसंप्रहे [सर्ग:
वसिष्ठ उवाच- अत्यन्तकपणः कश्चित् पतितां विन्ध्यजाङ्गले। एकां करोटिकां प्राप्तुं सर्वे तृणतुषादिकम् ॥५६॥
दिनत्यं दुधावाथ चिन्तामर्णि अविन्दत। एवं करोटिकान्वेषात रतनं लब्धं अखेदिना ॥ ५७॥ तथा श्रुतोपदेशेन स्वात्मज्ञानं अवाप्यते। तत्वस्यास्य महार्थस्य प्राप्ती यद्यपि कारणम् ॥५८ ।
न गुरो: कथनं साक्षात् तथाऽपि कारणं क्रमात्। चचिन्तामणेः हि संप्राप्तौ यथा हेतु: करोटिका ॥५९॥
इति श्रीवासिष्ठसंमहे चूडालापरभावो नाम पञ्चविंशः सर्गः ॥
Page 189
शिखिध्वजतपः । १७१ ॥ षड्विंशः सर्गः॥
॥ शिखिध्वजतपः ॥
1 काननवास:।
सिष्ठ उवाच- राजाऽSत्मज्ञानहीनस्तु दुःखेन पीडितो भृशम्। ददौ अतितरां दानं तीर्थयात्रां चकार च ।। १ ।।
तपः कच्छादिकं चक्रे न तु लब्धा विशोकता। चूडालां एकदा भूपः प्रोचे मधुरया गिरा॥ २॥
"भुक्तं राज्यं चिरं कालं दृष्टा विभवभूमयः। अधुनाऽस्मि विरागेण युक्तो गच्छामि काननम् ॥३॥।
राज्यात् अप्यधिकं मन्ये सुखं वननिवासिनाम्। अस्मिन् सन्मन्त्रणे तन्वि न विन्नं कर्तुमहसि॥४॥ भवत्या पालयन्त्येह राज्ये स्थातव्यं उत्तमे"। इत्थुक्त्वा दयितां राजा ह्यर्धरात्रे विनिर्गत ।५।। क्रमात् मन्दरशैलस्य तटस्थं काननं ययौ। तत्रैकस्मिन् समे देशे स चकारोटजालयम्॥ ६॥
Page 190
१७२ श्रीवा सिष्ठसंप्र हे [सर्ग:
सर्व संपादित तेन योग्यं तापसकर्मणि। सन्ध्यापूर्व जपं प्रातः प्रहरे स तदाऽकरोत् ॥ ७॥ पुष्पोच्चयं द्वितीये तु स्नानं देवार्चनं ततः। पश्चात् वन्यं फलं किचित् भुक्त्वा जप्यपरोऽभवत्॥८ ॥ पुरे प्रबुध्य चूडाला भर्त्रा त्यक्ताऽतिखिन्नधीः। वातरन्ध्रेण निर्गत्य पतिं दृष्ट्वा न्यवर्तत ।। ९।। "आस्तां ममाद्य गमनं कालेनातिचिरेण हि। मयाऽस्य पार्श्व गन्तव्यं" इति निश्चित्य सा तदा ॥ "केनचित् कारणेनासौ गतः संप्रति भृपतिः" । इति प्रजाः समाश्वास्य भर्तुः राज्यं ररक्ष ह॥११॥ 2 चूडालया कुम्भरूपग्रहणम्। अष्टादश च वर्षाणि गतान्येवं यदा तदा। "भर्तुः पार्श्व मया गन्तुं प्राप्तः कालोऽयं" इत्यथ ॥ संचिन्त्य मन्दरं व्योम्ना गत्वा दृष्ट्वा पर्ति तदा। "अहो नु विषमं मौख्यं दुर्दशां यत्प्रसादतः ॥ १३॥ एवंविधा: समायान्ति शास्त्रार्थदर्शिनोऽपि हि। तत् अवश्यं इद्दादयैत तच्वं संबोधयामि तम् ॥१४॥ बालेयं मम कान्तेति मदुक्तं न करिष्यति। तस्मात् तापसवेषेण बोधयामि पति क्षणात्"॥१५॥
Page 191
२६] शिखिध्वजतपः । १७३
इति संचिन्त्य सा ध्यानात् द्विजपुत्रो बभूव ह। शुकपज्ञोपवीताङ्गं शुकृम्वरयुगावृतम् ॥ १६॥
तं अग्रस्थितं आलोक्य राजा वचनमत्रवीत्। "देवपुत्र महाभाग को भवान् कुत आगतः ।१७ ।।
दिवसं सफलं मन्ये यत् त्वामद्यास्मि दृष्टवान्"। इत्युक्त्वा पादं अर्ध्यादि दत्तवन्तं च साऽन्रवीत्॥
"इफीतं राज्यं समुत्सृज्य काननं सेव्यते त्वया। आ्वान्तेन मनसा साधो कचित् ते संभृतं तपः ॥ १९॥
रजन् मे शृणु वृत्तान्तं यथा पृष्टं त्वयाऽघुना। कदाचित् नारद: पूर्वं गुहायां ध्यानमास्थितः॥२०।।
अकस्मात लीलया नदां क्रीडन्तं ललनागणम्। आलोकयत् तदा तस्य सहसैव मनो मुनेः ॥२१॥
अनाश्रितत्रिवेकं सत् बभूवानन्दितं स्फुरत्। आनन्दवलिते चित्ते क्षुब्धे प्राणानिले स्थिते॥ २२॥
बभूव तस्य तुष्टस्य मदनस्खलितं तदा। राजोवाच- ताद्शोऽपि बहुज्ञोऽपि जीवन्मु क्तोऽप्यसौ मुनि: ।२३॥
Page 192
१७१ श्रीवासिष्ठसंपरहे [सरगः-
कथं एवंविधां जद्ि प्राप्तो मदनवश्यताम्। कुम्भ उवाच- स्वरूपे निर्मले सत्ये निमेषमपि विस्मृते ॥ २४॥ दृशयं उल्लास आप्रोति प्रवृषीय पयोधरः। सुखदुःखकलास्पन्दो बन्धो जीवस्य नेतरः ॥ २५ ॥। तद्भावो हि मोक्षः स्यात इति द्वेधा व्यवस्थिति: ॥ राजोवाच- अत्युदारं महाश्रर्य वक्षि त्वं वदतां वर ॥ २६॥ कि तु तावत् समासेन तवोत्पर्त्ति वदाद मे। ततः श्रोष्यामि यत्नेन ज्ञानगर्भा गिरं तव ॥ २७।। कुम्भ उवाच- क्षीरेण पूरिते कुम्मे मुनिना वीर्यमर्पितम्। मासात् संपूर्ण सर्वाङ्ग: कुम्भाच्चाहं विनिर्गतः ॥ २८ ॥। मां पौत्रं वीक्ष्य वेधाश्च चकार ज्ञानपारगम्। ततोऽहं कुम्भनामाऽस्मि यथाकामं चराम्यहम्॥ २९।। आस्तां एषा कथा तावत् का त्वं अद्रौ करोषि किम्। राजोवाच- संसारभयभीतत्वात् निवसामि वनान्तरे॥ ३०॥ शिखिध्वजोऽहं भूपालः त्यक्त्वा राज्यं हह स्थितः॥ दु:खात् गच्छामि दुःखौघं कुर्वन्नपि क्रियां इमाम् ॥
Page 193
२६] शिखिध्वजतपः । १७५
3 चिन्तामण्युपाख्यानम्।
कुम्भ उवाच- ज्ञानं हि परमं श्रेय: कैवल्यं तेन लभ्यते। अलब्धज्ञानदष्टीनां क्रिया तु सयात परायणम् ॥ ३२।।
वासनामात्रसारत्वात् अज्ञस्य सफला: क्रियाः। ज्ञानिनो वासनानाशात् अफला: सकला: क्रिया:॥
यस्याज्ञत्वं क्षयं याति सर्व ब्रह्मेति भावनात्। नोदेति वासना तस्य प्राज्ञस्येवाम्बुधीः मरौ॥ ३४ ॥
संसारतारकं ज्ञानं त्वं कि अज्ञानवान् स्थितः। कोऽहं कथं इदं जातं कथं वा शाभ्यति धुवम् ॥३५॥
कथं बन्धः कथं मोक्षः इति प्रश्नान् उदाहरन्। पारावारविदां पादान् कस्मात् राजन् न सेवसे ॥ ३६ ॥
राजोवाच- अहो नु बोधितोऽस्म्पद्य त्वं मे मित्रं गुरु: पिता। यत् उदारतमं वेत्सि यस्मिन् ज्ञाते न शोच्यते॥ ३७॥ भवामि निर्वृतो येन तत् ब्रह्मोपदिशाशु मे। कुम्भ उवच- यद्युपादेयवाक्योऽहं राजर्षे तत् वदामि ते ॥३८ ॥
Page 194
१७६ श्रीवासिष्ठसंग्रहे [सर्ग
अन्यथाऽनेकधा प्रोक्तं अपि स्यात् विफलं वचः । सर्वशास्त्रार्थतत्वज्ञः आसीत् कश्ित् मुनिः पुरा । ३९ ।। अनन्तयत्नसंसाध्ये स चिन्तामणिसाधने। अतीव यत्नवान् भूत्वा हस्तप्राप्यं ददर्श तम्॥ ४० ॥ किं तु संशयमापन्नो न जग्राह मर्णि तदा। "अहं अल्पतपाः साधुः वराको मानुषः किल ॥ ४१॥ सिद्धय: कथ आयान्ति मां अभाग्यैकभाजनम्"। इति तस्मिन् स्थिते मूढे यातो मणि: अदृश्यताम्॥ एष भूयः क्रियायत्नं कुर्वन् रत्नेन्द्रसाधने। ददर्शाथ कचदूपं काचखण्डं अखण्डितम्॥ ४३॥ ततः तं मर्णि आदाय प्राक्त्तनीं स श्रियं जहौ। "सर्व चिन्तामणेः अस्मात् प्राप्यते कि धनैः" इति॥ आदायैतं मणि मूढ: शून्यकाननमाययौ। स काचमणिना तत्र महतीं आपदं गतः ।। ४५।। 4 वनगजाख्यानम्। आसीत् विन्ध्यवने हस्ती महायूथपयूथपः। स बद्धो लोहजालेन हस्तिपेनैकदा किल ॥ ४६॥ खेदात् निगडनिर्भेदं दन्ताभ्यां तु चकार सा। तत् दृष्ट्रवा तं पुनर्वद्धुं निश्चित्य हस्तिपः तदा॥४७॥
Page 195
२६] शिखिध्वजतपः । १७७
पपाताथ गजेन्द्रस्य मूर््षि तालतरोः अध:। अपतत् दुर्मतिः भूमौ अप्राप्य करिण: शिरः॥ ४८॥ तं पुरः एतितं दृष्टवा महेमा करुणा ययौ। केऽपि स्फारगुणा: सन्ति तिर्यग्जातिगतेष्वपि।। ४९।। दयया तं परित्यज्य स्वप्रदेश यया गजः। गते गजे समुनथाय पुनः तस्य जिघृक्षया॥ ५० ॥
स खातवलय चक्रे हस्तिपः कानने शठः। तस्मिन् निपतितः खाते वारणो विहरन् वने ॥५१॥ ततो भूयो दढ बद्ध: हस्तिपेन महागजः । अहनिष्यत पुरैवासौ यद्यग्रे पतितं रिपुम् ॥५२॥ तत् नालप्स्यत तद्दुःखं गजः खातनिबन्धनम्। राजोवाच - मणिसाध कविन्ध्येभवन्धनात् सूचितं वद ॥५३॥
कुम्भ उवाच- रत्नसंसाधकः प्रोक्त: स त्वमेव महीपते। विद्धि चिन्तामर्णि साधो सर्वत्याग अकृत्रिमम् ॥५४॥ संत्यक्तं भवता सर्व शेषिता किं त्वहंमति:। असंपूर्णे परित्यागे दृष्टः काच: त्वया तपः ॥ ५५॥ V. S. 12.
Page 196
१७८ श्रीवासिष्ठसंग्रहे [सर्ग:
चिन्तामणिः मया प्राप्त: इत्यलं बुद्धवानसि। न लब्घवान् भवान् साधो स्फटिकस्यापि खण्डिकाम्। योऽसौ विन्ध्यवने हस्ती सोऽस्मिन भूमितले भवान्। यौ वैराग्यविवेकाख्यौ तौ तस्य दशनौ सितौ। ५७।
हस्तिपस्तु त्वदज्ञानं आशापाशाश्र शृङ्गला। भोगान् संत्यजता भग्रा सा त्वया भवति घ्रुवम् ।५2 त्वयि त्यजति तद्राव्यं अज्ञानं पतितं कृतम्। हतं यदि तदाऽज्ञानं तत् त्वां नाहनिष्यत् धुनः ॥५९॥ तपःप्रपश्चखाते त्वं पातितोऽज्ञानवैरिणा। राजन् सर्वपरित्यागः वस्मात् नानुष्ठितः त्वया ॥६॥
इति श्रीवासिष्ठसंग्रहे शिखिध्वजतपो नाम षड्विंश: सर्गः ॥
Page 197
2७] चूडालोपदेशः। १७९
॥ सप्तविंशः सर्गः ॥ ॥ चूडालोपदेशः ।। -*-
1 सर्वत्याग: । राजोवाच - "राज्यं त्यक्तं गृहं देशो दारा: त्यक्ताश्च बान्धवाः। एतान् संत्यजता सर्वत्यागः कि न मया कतः॥१॥
एते चेतु मम नो सर्वं तत सर्व वनमेव हि। तच्च त्यजाम्यहं नूनं" इत्युक्त्वा दृढनिश्चयः॥२॥ वने सक्तिं ममार्जासौ वशी धीस: शिखिध्वजः। कुम्भ उवाच- एतचापि न ते सर्वं सर्वत्यागः कथं तव ॥ ३ ।। एतत् चेत मम नो सर्वं सर्व मे भाजनादिकम्। संत्यजामीति निश्चित्य दग्व्वा पात्रादिकं ततः ॥४। राजा प्रोवाच सन्तुष्टः "सर्वत्यागी स्थितोऽस्म्यहम्। यावत् यावत् प्रहीयन्ते विविधा: बन्धहेतवः॥५॥ तावत् तावत् समायाति परमां निर्धृति मन: । दिगम्बरो मवाम्येव किं अन्यत् अवशिष्यते॥ ६॥
Page 198
१८० श्रीवा सिष्ठसंप्रहे [सर्ग:
कुम्भ उवाच- सर्व तु न परित्यक्तं मा मुधाऽभिनयं कुरु। एवमुक्त वच: श्रुत्वा किश्चित् सश्चिन्त्य भृपतिः॥७॥
"शिष्यते सर्वसंत्यागे देहो मांसमयाकतिः। विनाश्य च तम्यद्य सर्वत्यागी भवाम्यह्म्"॥८॥
इत्युक्त्वोत्थितं एनं तु कुम्भरूपाऽम्युवाच सा। "त्यक्तेनापि शरीरेण सर्वत्यागो न सिध्यति॥। ९॥
येनायं क्षोभ्यते देहो यत् बीजं जन्मकर्मणाम्। तत् संत्यजसि चेत् त्याज्यं तत् महात्यागवान् भवेः"॥
राजोवाच- केनायं चाल्यते देहः कि बीजं जन्मकर्मणाम्। कस्मिन् त्यक्ते परित्यक्तं सवं भवति मे वद ॥ ११ ॥
कुम्भ उाच- चित्तं विद्धि जगजालं चित्तं सर्वमिति स्मृतम्। तस्मिन साधो परित्यक्ते सर्वत्यागो भवेत् घुवम् ॥१२।।
जन्मनां कर्मणां वाऽपि चित्तं बीजं उदाहतम्। व्यादपः पवनेनेव देहः चित्तेन चाल्यते॥ १३॥
Page 199
चूडालोपदेशः । १८१
चित्तत्यागं विदुः सर्वत्यागं त्यागविदो जना: 2 चित्तत्यागक्रमः । वाच- चित्तस्यादौ स्वरूपं त्वं तच्यागमपि मे बद ॥ १४ ॥
1 उवाच- वासनैव महाराज स्वरूपं विद्धि चेतस: । अहमर्थोदयो योऽयं सर्वानर्थैकमाजनम् ॥ १५॥
एतत् चित्तदुमस्यास्य विद्धि बीजं महामते। एतस्मात् प्रथमोद्विन्नात् अङ्कुरोऽनुभवाकृतिः ॥१६॥
निश्चयात्मा निराकारो बुद्धि: इन्येव सोच्यते। अस्य वुद्यभिधानस्य याऽङ्कुरस्य प्रपीनता ॥ १७ ॥
सङ्कन्परूपिणी तस्या: चित्तनाम मनोडभिधा। वासनाः विविधाः शाखाः फलन्त्यो विविधं फलम्।
शाखाविलवनं गौण मुख्यं मूलविकर्तनम्। स्वात्मतच्वविचारो हि चित्तबीजस्य नाशक: ॥। १९ ।
वाच- अहं देहादिकं नेति बहुशः प्रविचारितम्। चित्तद्रुमस्य यत् बीजं अहंभावात्मकं हृदि॥ २०॥
Page 200
१८२ श्रीवासिष्ठसंप्रहे [सर्गः
तत्तु त्यक्तुं न शक्नोमि त्यक्तं त्यक्तं उपैति माम्। मुने यस्मात् न शक्नोमि तेन तप्ये सुदारुणम् ॥ २१ ॥
अहमित्यस्य दोषस्य वेदनं वेि कारणम्। तत् यथोपशमं याति तत् मे वद मुनीश्वर ॥ २२।।
चितः चेत्योन्मुखत्वेन दुःखायायं अहं स्थित:। चेत्योपशमनं बहि मुने दुःखोपशान्तये।। २३ ।।
कुम्भ उवाच- कारणज्ञोऽसि मे बहि वेदनस्यापि कारणम्। राजोवाच- शरीरादितयोदेति वेदनं वस्तुसत्तया॥ २४।।
कुम्भ उवाच- विद्यते यदि देहादि वस्तुसत्ता तदा भषेद्। राजोवाच- सदाऽनुभूयमानोऽयं देहो न विद्यते कथम् ॥ २५॥
कुम्भ उवाच- अकारणं हि यत् वस्तु तत मिथ्या रन्जुसर्पवद्। राजोवाच- आद्यः पितामहो ब्रह्मा जगतः कारणं न किम् ॥ २६॥
Page 201
२७] चूडालोपदेशः। १८२
कुम्भ उवाच- सर्गादौ केवलं शान्तं ब्रह्मैत विद्यते परम्। द्वितीयकलनाभावात् वेधसोऽस्ति न कारणम् ।२७ ॥ राजोवाच- यद्येवं परमं ब्रह्म कारणं वेधसोडस्ति हि। कारणं तस्य नास्तीति कथं प्रत्येमि तत् वद ॥ २८ ।।
ककुम्भ उवाच- अद्वितीयं अनादयन्तं शिवं संशान्तं अव्ययम्। नत् कथ कस्य केनैत्र कर्त भोक्व कदा भवेत् ॥ २९ ॥
चिन्मात्रकल्पितो वेधा: चिदेवेति विनिश्चित:। तन्मात्रजनितः सर्गः तदात्मक इति स्थितिः ॥ ३० ॥
अतो नेदं कृतं किश्चित् तस्मात् न विद्यते जगत्। 3 शिखििध्वजनिष्ठा। इत्येवं बोधितो राजा भावयन तद निरन्तरम् ॥ ३१॥
इवयमात्मपदे तस्मिन् क्षणं परिणतोऽभवत्। ·ततो मुहूर्तमात्रेण प्रबुद्ध: पुनरत्रवीत् ॥३२ ॥।
भगवन् त्वत्प्रसादेन प्राप्त आत्मपर्द मया। सतां विदितवेद्यानां सङ्ग: सारफलप्रदः ॥३३ ।।
Page 202
१८४ श्रीवासिष्ठसंग्रहे समः
इदं महामृतं पूर्व कथं नासादितं मया"। कुम्भ उवाच - मनस्युपशमं याते त्यक्तभोगैषणे स्थिते॥। ३४ ।।
कषायपाके निर्वृत्ते सफला: देशिकोक्तय:। प्रबुद्धोऽसि विमुक्तोऽसि स्वरूपे तिष्ठ निर्मलः ॥ ३५ ॥ राजोवाच- प्रबुद्धानां कथ चित्तं विहरन्ति कथं च ते। कुम्भ उवाच- पुनर्जननयोग्या या वासना घनवासना ॥ ३६ ॥ T"
सा प्रोक्ता चित्तशब्देन न सा तन्जस्य विद्यते। अथ चेतसि तच्वज्ञ स्पन्दास्पन्दौ त्वं एकताम्॥ ३७॥
नीत्वा तिष्ठ यथाकामं ऐक्यमागत्य शाश्वतम्। राजोवाच स्पन्दास्पन्दौ उभो चित्ते ऐक्यं तु गच्छतः कथम् ॥ कुम्भ उवाच - सर्गः चित्स्पन्दमातात्मा सम्यग्दष्टौ विलीयते। शास्त्रसज्जनसंपर्कसन्तताभ्यासयोगतः ॥ ३९।। चेतस्यमलतां याते जायते स्वयमेव सा। त्वया सदैव संरक्ष्या दृष्टिः एषा हि पावनी॥ ४०॥
Page 203
२७] चूडालोपदेशः। १८५ .-
एवं उक्त्वा गते कुम्मे परं विस्मयमागतः। 'अहो नु शीतला शुद्धा शान्तेयं पदवी निजा" ।४१।। एवं संचिन्त्य राजाऽसौ निर्विकल्पे निराश्रये। प्रतिष्ठां निश्चलां प्राप्य संतस्थौ गिरिशृङ्गवत् ॥ ४२।। 4 शिखिध्वजप्रबोधनम्। चूडाला तु पुरं गत्या व्योम्रा तत्र दिनत्रयम्। निर्वत्य राज्यकार्याणि चागत्य कुम्भरुपिणी ॥ ४३ ॥ निर्विकल्पसमाधिस्थं भूपं स्पृष्ट्ा व्यचिन्तयत्। "अस्त्येव सत्त्वशेषोऽस्य हृदि संबोधकारणम् "॥४४। राम उवाच- भृशं प्रशान्तचित्तस्य काष्ठलोष्टसमस्थितेः। सच्वशेष: कथ ब्रह्मन् ज्ञायते ध्यानशालिनः ॥। ४५।। वसिष्ठ उवाच- प्रबोधकारणं ज्ञस्य दुर्लक्ष्याणुवपुः हृदि। विद्यते सत्वशेषोऽन्तः बीजे पुष्पफलं यथा ॥ ४६॥ चित्तस्पन्द वियुक्तस्य तस्याचलसमस्थितेः। कायः समसमाभोगो न ग्लायति न हृष्यति॥ ४७॥ यदि देहे न सच्ं स्यात तदा पञ्चत्वमाप्तुयात्। स्वदेहं सा परित्यज्य चित्तच्वे संस्थिता सती। ४८।
Page 204
२८६ श्रीवासिष्ठसंप्रहे [सर्गः
तचचित्तस्पन्दनं कृत्वा स्वदेहं पुनराययौ। कुम्भाकृतिरथ स्थित्वा सामगानं चकार सा ॥। ४९ ॥
सामगानस्वनं श्रत्वा प्रबुध्य भूपतिः तदा। ददर्शाग्रे स्थिंत कुम्भं सामवेदमिवापरम्॥ ५०॥ "अहो बत वयं धन्याः पुनः प्राप्तो मुनिः स्तः"। इत्येवोदाहरन्तं तं कुम्भो राजानं अन्रवीत् ॥५१॥
"यतः प्रभृति यातोऽस्मि त्वत्सकाशात् अहं तदा। ततः प्रभृति मे चेतः त्वयैवेह समं स्थितम्" ॥ ५२॥ राजोवाच- अहोऽहं सुकती यस्मात् इच्छा ते मम संगमे। कुम्भ उवाच- परे पढे महानन्दे कच्ित् तिश्रान्तवान् असि ॥ ५३॥ इदं भेदमयं दुःखं कच्चित् संत्यक्तवान असि। जाजोवाच - भगवन् त्वत्प्रपादेन लब्धो लब्धव्यनिश्चयः॥५४॥
सर्वत्रैवातिवृसोऽस्मि संस्थितो Sस्मि गतज्वरः। एवमेतौ समोत्साहौ समसच्वौ बभूवतुः।५५॥ इति श्रीवासिष्ठसंप्रहे चूडालोपदेशो नाम सप्तबिंश: सर्ग:॥
Page 205
261 शिखिध्व जपरीक्षा । १८७
#। अषविंशः सर्गः॥
। शिखिध्वजपरीक्षा । कुम्भस्त रात्रौ स्त्नीत्वम्। वसिष्ठ उवाच - दिनैः कतिपयैः एवं समचित्ततय चान्। कुम्भतुन्यो बभौ राजा दृष्ट्रा तं च तथास्थितम् ॥१॥ चूडाला सा तमामन्त्य त्यक्त्वा कुम्भवपु: गता। राजकार्याण्यशेषाणि पुरे संपाद्य सतवरम् ॥ २ ॥ शिखिध्वजस्य पुग्तः कुम्भरूपधराSडगना । कुम्भं खित्नमुखं दृष्ट्रा राजोवाचेदमादराव ॥ ३॥ "देवपुत्र नमस्तेऽस्तु विमना इव लक्ष्यसे। सतां विदितवेद्यानां श्रमो नास्ति विषादजः"॥४॥ कुम्भ उवाच - यावद्देहं अवस्थासु समचित्ततयैव ये। कमेंन्द्रियैः न तिष्ठन्ति न ते तत्वविद: शठाः ॥५॥ परमेष्ठिप्रभृतयः सर्व एवोदिताशयाः । देहावस्थासु विष्ठन्ति नियतेः एष निश्चयः ॥ ६॥
Page 206
१८८ श्रीवासिष्ठसंपहे [सग
कथयामि तवाशेषं सवर्गे वृत्तं यत् अद्य मे। सुहृद्यावेदितं दुःखं परं आयाति तानवम् ।७॥ अहं तावत् इतो यातः चिर स्थित्वा त्रिविष्टपे। इहागन्तुं तदाऽडकाश समुत्पतितवान् अह्म् ।। ८1 अथाग्रे वारिपूर्णानां मेघानां मध्यवर्त्मना। अपश्यं मुर्नि आयान्तं अहं दुर्वाससं जवात् । ९॥। कत्वा तस्य नमस्कारं लीलयोक्तं मया नृप। "मूने नीलाभ्रवस्त्रः त्वं अभिसारिकया समः"॥ इत्याकर्ण्य मुमोचासौ कोपात शापं इमं सुनि:। "स्तनकेशवती कान्ता रात्रौ योषा भविष्यसि"। एवं उद्विय्रचित्तोऽद्य प्रास्तोऽहं नभसः तलातू। अतिवाह्यं दिनान्तेषु स्त्रीत्वं एकं मया कथम् ॥ १२। राजोवाच- परिदेवनया कार्य किश्चित नैव हि विद्यते। यत् आयाति तत् आयातु देहस्यात्मा न लिप्यते।। सायं सन्ध्यां उपास्याथ स्थितयोः अनयो: शनैः। कुम्भो धृत्वा वपु: स्रैणं इदमाह शिखिध्वजम् ॥ १४॥ "पतामीव क्फुगमीव द्रवामीवाङ्गयष्टिमिः। पश्येमे परिवर्धन्ते राजन् मम शिरोरुहा: ॥ १५॥
Page 207
शिव्विध्वजपरीक्षा। १८९
पश्येमौ मम जायेते ग्रोन्मुखौ उरसि स्तनौ। आगुल्फं अवलम्वानि संपद्यन्तेऽम्बराणि मे" ॥१६॥ एजोवाच - अवश्यंभाविकार्येडस्मिन मा खिन्नहृदयो भव। एवं आश्रासिता तेन रात्रौ स्त्रीत्वं उपागता ॥ १७॥
कुम्भरूपधरा चाहि बिजहार दिने दिने। 2 प्रलोभनम्। ततः कतिपयेष्वेवं गतेषु दिवसेषु सा ॥ १८।।
इंदं प्रोवाच भर्तारं कुम्भरूपधरा सती। "निशायां प्रत्यहं तावत् भवाम्येवाहमङ्गना ॥ १९।। तदिच्छाम्यङ्गनाधमं निपुणीकर्तुमी दशम्। गृहाण मां विवाहेन भवानेव पतिः भव" ॥ २० ॥ राजोवाच- कतेनानेन कार्येण न शुर्भं नाशुभं सखे। पश्यामि, तत् महाबुद्धे यथेच्छसि तथा कुरु ॥ २१ ॥ "एवं यदि महीपाल लयनं अद्यैव शोभनम्"। इत्युक्त्ा कुम्भ उत्थाय सह तेन महीभृता ॥ २२॥ श्रीगन्धपुष्परत्ादिसञ्चयं कृतवान् असौ। वान्ध्ये कर्मणि निर्वृत्ते वधूत्वं कुम्म आययौ ।। २३ ।।
Page 208
श्रीवासिष्ठ मंग्रहे [सर्गक "क्रमेणाति च संज्वाल्य मम पार्णि गृहाग मोः"। एवं उक्त: तथा भूपः तत् सर्वं समवर्तयद्। २४।। एवं वित्राहितौ इष्टौ संपन्नौ स्त्निग्धदभ्पती। दिनैः त्रिभि: त्रिभि: गत्वा निद्रां याते शिखिध्बजे।। चूडाला राजकार्शण कृत्वा सा पुनराययौ। ततो यातेषु मासेषु शनैः कतिपयेषु सा ॥ २६॥ चूडाला चिन्तयामास परीक्षेऽहं शिखिध्वजम्। सांपरतं भोगभारेणेतीन्द्रं प्रादर्शयत् तदा ॥२७॥' इन्द्र उवाच- उत्तिष्ठ स्वर्गमागच्छ तत्न सर्वे त्वदुन्मुखा। आक्कल्पं विविधा भोगा: भोक्तव्याः सन्ति ते प्रभो।0 राजोवाच - सर्वत्रैव मम स्वर्गो गम्यो न कुत्रचित् मया। ततस्तां शममानीय मार्या सा समचिन्तयत् ॥ २९ ॥। "नेमं हरति भोगेच्छा, केनचित बुद्धिहारिणा। रागद्वेषप्रधानेन पुनः संक्षोभयाभ्यहम्"॥ ३० ॥ एकदा कल्पितं कान्तं सुमनःशयने स्थितम्। आलिङ्ग्य मोदात तिष्ठन्तीं आलक्ष्यापि तुतोष सः॥
Page 209
२८/ शिखिध्बजपरीक्षा। १९१:
'विननं मा कुरुतं भीतौ" इत्युक्त्वा निर्जगाम सः। ततो मुहूर्तमात्रेण लज्जावनमिताननाम् ॥ ३२ ॥ राजानं समुपागम्य तिष्ठन्तीं अन्रवीत् नृपः । "भूयः तोषयितुं गच्छ कान्तं प्रणयवृत्तिभिः॥ ३३।।1 परस्परेप्सितस्नेहो दुर्लभो हि जगत्त्रये"। 3 चूडालया समाघानम्। एवं समतया तत्र स्थिते तस्मिन् शिखिध्वजे॥ ३४॥ "अहो बत परं साम्य भगवान् अय आगतः। आत्मवृत्तान्तमखिलं तत् एनं स्मारयाम्यहम् " ॥ ३५ । इति संचिन्त्य चूडाला म्वकीयं वपुः आददे। तां दृष्ट्वा विस्मितो राजा साश्चये इदमत्रवीत् ॥ ३६ ॥ "का त्वं कुतस्त्वमायाता किमर्थमिह्द तिष्ठसि। अङ्गेन व्यवहारेण स्मितेनानुनयेन च॥ ३७॥
मम जाया विलासेन चूडालेवोपलक्ष्यसे"। चूडालोगच - एवमेव प्रभो विद्धि चूडालाऽस्मि न संशयः ॥ ३८। कुम्भादिदेहनिर्मारण त्वां बोधयितुमेव मे। सर्व पश्यसि तत्वज्ञ ध्यानेनाथावलोकय । ३९।।
Page 210
१९२ श्रीवासिष्ठसंग्रहे [सर्गः
आ स्वराज्यपरित्यागात् चूडालादर्शनावधि। ध्यानेनालोक्य भृपालो विरशम समाधितः॥ ४० ।। राजे वाच - एवं दुरुत्तगत् अस्मात संसारकुद्दरात् अड्म्। उत्तारितो यथा युक्त्या सा हि केनोपमीयते ॥ ४१॥
कथं अस्योपकारस्य करिष्ये ते प्रतिक्रियाम्। चूडालोवाच- देव शुष्कक्रियाजालपरे त्वयपाकुलात्मनि॥ ४२॥
भूयो भूयो विचिन्त्याहं त्वदर्थ दु।खिताऽभवम्। तेन त्वदवबोधात मे स्वार्थ एवोपपादितः । ४३॥
राजोवाच- मया, तत्र कथ देवः करोति मम गौरवम्।
निरीहोऽस्मि निरंशोऽस्मि स्वस्थोडस्मि विगताशयः।
यत् अस्ति तत तदेवास्मि वक्तुं शक्नोमि नेतर्। प्रसादेन विशालाक्ष्या: तीर्णोऽस्मि भवसागराव ॥ ४५।।
4 स्वराज्याभिषेचनम्। चूडालोवाच - कि इदानीं प्रभो बहि रोचते ते महामते।
Page 211
२८] शिखिध्वजपरीक्षा। १९२
दाजोवाच - प्रतिषेध न जानामि न जानाम्यभिवाञ्छितम् ॥४६॥ न स्तौमि न च निन्दामि यथेच्छसि सथा कुरु। नचूडालोवाच - यध्येवं तत् महावाहो समाकर्णय मन्मतम् ॥ ४७॥ राज्येन प्रकतेनेमं काल नीत्वा क्रमेण च। विदेहतां प्रयास्यान: प्रभो कालेन केनचित् ॥ ४८ ॥ माजोचाच- युक्तं उक्तं विशालाक्षि त्वयैतद समया घिया। यथा संस्थानमेवेमौ तिष्ठावः स्वस्थतां गतौ ॥ ४९ ॥
अथोत्थाय तु चूडाला रत्कुम्मं पुरःस्थितम्। कान्तं सङ्कन्पयामास पूर्णं सप्ताब्धिवारिभि: ॥५०। तेन मङ्गलक्ुम्मेन तं पूर्वाभिमुखं स्थितम्। भार्या भर्तारमेकान्ते स्वराज्येऽभिषिषेच सा ॥ ५१॥
तथाऽसने समास्थाप्य महादेवीपदे ततः। अभिषिक्तां च चूडालां चकार स शिखिध्वजः ॥५२ ॥ ततः सङ्कल्पमात्रेण सैन्येन पूरितं वनम्। ततो द्विपवर दिव्यं आरूढौ नृपदम्पती ॥ ५३॥
Page 212
१९४ श्रीवासिष्ठसंग्रहे [सर्ग
ततः प्रस्थाय राजाऽसी महिष्या प्रियया सह। प्रापाल्पेनैव कालेन सवां पुरीं स्वगशोभनाम्॥ ५४॥ तारतूर्यादिना पौर: प्रत्युद्यातो विवेश ताम् । दशवर्षसहस्त्राणि राज्यं कृत्वा महीतले ॥ ५५॥
सह चूडालया राम चिरतो देहधारणत्। देहं त्यक्त्वा जगामासी अपुनर्जन्मने नृपः ॥५६॥ एतत् ते कथितं सर्व शिखिध्वजकथानकम्। अनेन गच्छ मार्गेण न कदाचन खिद्यसे ॥ ५७।
इति श्रीवासिष्ठसंग्रहे शिखिध्वजपरीक्षा नाम अष्टाविशः सर्गः ।
Page 213
२९/ चिन्मात्रस्थितिः । १९५
॥ एकोनत्रिंशः सर्गः॥ -*-
॥ चिन्मावस्थितिः ॥
1 कचोपारटानम्। वसिष्ठ उवाच- शिखिध्यजः क्रमेणैत्र यथा बोधं अनाप्वान्। कचो बृहस्पतेः पुत्रः प्राप्तो बोधं तथैत्र हि॥ १॥ कचो बाल्यात् समुत्तीर्णः संसारोत्तरणोन्मुखः। पदपदार्थतर्त्रज्ञो बृहस्प्ति अभाषत ॥ २ ।। "कथं उत्तीर्यते तात घोर: संसारसागरः।" बृहस्पतिरवाच- उत्तीर्यते निरुद्वेगं सर्वत्यागेन पुत्रक । ३॥
इत्युक्त: स कच: सर्व त्यकत्वैकान्तवनं ययौ। बृहस्पतेः तद्मनं नोद्वेगाय बभूव है॥४॥ संयोगे च वियोगे च न क्षुभ्यन्ति महाशया:। एकदा पितरं प्राप्तं नत्वा पप्रच्छ तं कचः ॥५।। "अद्येदं अष्टमं वर्ष सर्वत्यागः कतो मया। तथाऽपि तात विश्रान्ति नाधिगच्छाम्यहं कथम्" ॥६।।
Page 214
१९६ श्रीवासिष्ठसंग्रहे [सर्गः
"सर्वमेव त्यज" इत्युक्त्वा ययौ वाचस्पतिः दिवम्। गते तस्मिन् कचो देहात् वल्कलाद्यप्यथात्यजत्। ७॥
वर्षत्रयात् परं चापि प्रासं पितरमत्रवीत्। 'कन्थां त्यक्त्वाऽपि विश्रान्तिः नैवास्ति किं करोम्यहम्'।। "चित्तं सर्व हि, तच्यागं सर्वत्यागं विदुः बुधा:"। हत्युक्त्वा च गते ताते चित्तं कि इत्यचिन्तयद् ॥ ९ ॥ पदार्थवृन्दं देहादि न हि चित्तं भवेत इति। निश्ित्य पितरं गत्वा पुनः पप्रच्छ तं कचः ॥ १० ।। 'चित्तं कि श्रोच्यते तात', तस्योत्तरं उवाच सः। 'अन्तर्योडयं अहंभावो जन्तोः तत् चित्त उच्यते'॥ कच उवाच- मन्येऽस्य दुष्करः त्यागः स त्यक्तुं शक्यते कथम्। बृहस्पतिरुवाच- सुकरोऽहंकतेः त्यागो न केशोऽन्न मनागपि ॥ १२॥ मिथ्यारूपो ह्यहभावो लीयते तच्चमावनात्। दिक्कालादयनवच्छिनं सच्छं नित्योदितं ततम् ॥ १३ ॥ सर्वार्थमयं एकार्थ चिन्मात्रं अमलं भवान्। तदेव भावयन् साधु शान्त: तिष्ठ गतज्वरः॥ १४।।
Page 215
चिन्मात्नस्थितिः । १९७
इति योगं पितुः प्राप्य जीवन्मुक्तो बभूव सः। निर्ममो निरहङ्कार: छिन्ग्रन्थिः प्रशान्तधीः ॥। १५।। कचो यथा स्थितो राम तथा तिष्ठाविकारवान्। 2 मिथ्यापुरुषोपाख्यानम्। इमां आख्यायिकां चित्रां भृणु राघव शोभनाम् ॥ १६ ॥ मायायन्त्रमयः कश्चित गूढो मौख्येंन केवलम्। निष्प्रपञ्चे क्वचित् शून्ये जाता तत्रैव तिष्ठति ॥१७ ॥ तस्मात् अन्यत् न तत्ास्ति यत् अस्ति च स एव तत्। यच्चान्यत् तत् तदाभासं न तु पश्यति मूढधीः ॥१८॥ इष्टस्य वस्तुनः खस्य रक्षार्थ अकरोत गृहम्। अस्य कोशे बबन्धास्थां रक्षितं खं मयेत्यसौ ।। १९ ॥ अथ कालेन तस्मिश्च गृहे नाशं उपागते। "हा गृहाकाश नष्टस्त्वं, हा क्क यातोऽसि च क्षणात्"॥ इति शोकात् पुनश्चक्रे खरक्षार्थ स कूपकम्। काले कूपे लयं नीते कूपाकाशो गतो न्विति ॥ २१॥ कूपाकाशप्रलापान्ते शीघ्रं कुम्भं अथाकरोद। कुम्भाकाशपरो भृत्वा मोहात् निर्धृर्ति आययौ।। २२ ।। तस्मिन्नपि विनष्टे सः शोकात् कुण्डं चकार सः। तस्मिन्नपि विनष्टे सः चतुःालं चकार सः॥ २३।
Page 216
१९८ श्रीवासिष्ठसंग्रहे [सर्ग:
तस्मिन् कालात गते नाशं कुशूलं स चकार ह। तदप्यस्य जहाराशु कालो वात इवाम्बुदम्॥ २४ ॥ "कुशू लाकाश नष्टस्त्वं" इत्यसौ पर्यतप्यत। एवमाकाशरक्षार्थ यतमान: स मूढ़धीः ॥२५॥ दुःखात दुःखतरं प्राप्य नैव निर्वृति आसतवान्। एवं आत्माऽभवत शुद्ध: सर्गादी अम्बरोपमम् ॥२६॥ तस्मात् उदेत्यहंकार: पूर्व स्पन्द इवानिलात्। अनात्माऽडत्मैकरक्षार्थ देहान नानाविधान् असौ ॥२७॥ कूपकुण्ड चतु:शालकुम्मकुशूलतुल्यकान्। भूयो भूयो विनाशेऽपि सृजन्नाकुलतां गतः ॥ २८॥ आकाशादपि विस्तीर्णः शुद्धः सूक्ष्म: शिवः शुभ:। य आत्मा स कथं केन गृह्यते रक्ष्यतेऽथवा ॥ २९॥ घटादिषु प्रणष्टेषु यथाऽडकाशो न नश्यति। तथा देहेषु नष्टेषु देही नित्यो न नश्यति॥ ३० ॥ स मिथ्यापुरुषो यद्वत् रक्षन व्योमात्मशङ्कया। घटाकाशादिषु किष्टः तथा मा केशवान् भव ॥ ३१ ॥ शुद्धचिन्मात् आत्माऽयं इति मत्वा सुखी भव। 3 भृङ्गीशोपाख्यानम्। आत्मतच्वस्य विस्मृत्या जगत् प्रामोति सत्यताम्।३२।।
Page 217
चिन्माल्स्थितिः ।
रज्जुतत्वस्य विस्मृत्या सुजगो दृश्यते यथा। कनकव्यतिरेकेण केयूरं येन भावितम्॥ ३३ ॥ केयूरमेव तत् तस्य न तस्प कनकं हि तत्। कनकाव्यतिरेकेण केयूरं येन भाव्यते ॥ ३४॥ कनकैक महाबुद्वि: निर्विकल्प: स उच्यते। नानात्वं अखिलं त्यक्त्वा शुद्धचिन्मात्रकोटरे॥ ३५॥ संवेधेन विनिर्मुक्ते संवि सच्चे स्थिरो भव। पदार्थजाते सर्वस्मिन् संवित्सारतया स्थितः ॥ ३६ ।। अखिलं संविदेवेदं जगत् नान्याऽस्ति कल्पना। संभवात् अखिलाकारेणैकस्या एव संविद: ॥ ३७। संवेधमपि नास्त्येव बन्धमोक्षौ अतः कथम्। महाकर्ता महाभोक्ता महात्यागी भवानघ ॥ ३८ ॥ एतत् त्रयं पुरा ओ्क्तं भृङ्गीसाय हि शम्भुना । तत् तेऽहं संपवक्ष्यामि श्रद्धया शृणु राघव ॥ ३९ ॥। ईश्वर उवाच- रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले। यः करोत्यनपेक्ष्यैव महाकर्ता स उच्यते॥ ४० ॥ सर्वत्र विगतस्नेहो यः साक्षितत् अवस्थितः । निरिच्छं वर्तते कार्ये महाकर्ता स उच्यते ॥ ४१॥
Page 218
२०० श्रीवासिष्ठसंग्रहे [सर्ग3
जन्मस्थितिविनाशेषु सोदयास्तमयेषु च। सममेव मनो यस्य महाकर्ता स उच्यते ॥ ४२ ॥ सुखैः दुःखैः क्रियायोगैः भावाभावैः भ्रमप्रदैः। न संक्षुभ्यति यो भुक्तैः महाभोक्ता स उच्यते॥ ४३॥ इदं भोज्यं अभोज्यं चेत्येवं त्यक्त्वा विकल्पनम्। गताभिलाषं यो भुङ्क्ते महाभोक्ता स उच्यते ॥ ४४।। आपदं संपदं मोहं आनन्दं अपर परम्। यो भुङ्क्ते समया बुद्धया महाभोक्ता स उच्यते॥ धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी। घिया येन परित्यक्ता: महात्यागी स उच्यते ॥४६॥ सर्वेच्छा: सकलाः शङ्गा: सर्वेहाः सर्वनिश्चयाः। घिया येन परित्यक्ता: महात्यागी स उच्यते॥४७॥ यावती दृश्यकलना सकलेयं विलोक्यते। सा येन सुष्ठु संत्यक्ता महात्यागी स उच्यते ॥४८। इत्युक्तं देवदेवेन भृङ्गीशाय पुराऽनघ। एतां दृष्टि अवष्टभ्य तिष्ठ राम गतज्वर: ।।४९।। इति श्रीवासिष्ठसंग्रहे चिनमात्रस्थितिः नाम एकोनत्रिंशः सर्गः ॥
Page 219
इक््वाकूपास्यानम । २०१-
। त्रिंशः सर्गः ॥
। इक्ष्वाकूपाख्यानम् ॥
1 संसारकारणम्।
वसिष्ठ उवाच- गलिते वा गलदूपे चित्तेहङ्क। रनामनि । कोप: तानवं आयाति मोहो मान्दं हि गच्छति ॥ १॥
कामोऽपि क्ान्ततां याति लोभः क्वापि पलायते। न दुःखानि विलिम्पन्ति न वल्गन्ति सुखानि च।। सर्वत्र समतोदेति हृदि शैत्यप्रदायिनी। भवतां आदिपुरुषः इक्ष्ताकु: नाम भूपतिः ॥ ३॥ एकदा पृष्टवान् नत्वा ब्रह्मलोकागतं मनुम्। "अस्य दृश्यप्रपश्चस्य को हेतुः स्यात्" इति स्वयम् ॥ मनुरुवाच- यत् इंद दृश्यते किंचित् तत् नास्ति नृप किंचन। मरुस्थले यथा वारि खे वा गन्धर्वपत्तनम् ॥ ५॥
मनःषष्ठेन्द्रियातीत यत्तु नो दृश्यते क्वचित। अविनाशं तदस्तीह तत् सत् आत्मेति कथ्यते ॥ ६ ॥
Page 220
२०२ श्रीवासिष्ठसंग्रहे [सर्गः
इयं तु सर्वदृश्याढ्या राजन सर्गपरम्परा। तस्मिन्नेव महादर्शे प्रतिबिम्बमुपागता।७॥ संकल्पोन्मुखतां याता: चिन्मात्रसंविदो यथा। तदा जीवत्वं आयान्ति यथा ह्याप: तरङ्गताम् ॥८॥। सुखदुःखदशा मोहो मनस्येवासि्ति नात्मनि। न शास्त्रैः गुरुणा वाडपि दृश्यते परभेश्वरः।९।। दृश्यते स्वात्मनैवात्मा स्वया सत्वस्थया विया। देहोऽहं इति या बुद्धिः सा संसारनिबन्धिनी ॥ १० ॥ न कदाचित इयं बुद्धि: आदेया हि मुमुक्षुभि:। संनिवेशांशवैचित्यं यथा हेस्रोऽङ्गदादिता ॥ ११ ॥
आत्मनः तदतदूपा तथैव जगदादिता। कुचकोटरसंसुपं विस्मृत्य जननी सुनम् ॥ १२ ॥ यथा रोदिति पुत्रार्थ तथाऽडत्मार्थ अय जनः। अजरामरं आत्मानं अबुद्ध्वा परिरोदिति॥१३॥ हा हतोडहं अनाथोऽहं नष्टोऽस्मीति वपुःक्षये। अनात्मन्यात्मतां अस्मिन् देहादौ दृश्यजालके ॥ १४ ॥ त्यकत्वा सच्वं उपारूढो गूढः तिष्ठ यथासुखम्। सर्गात्मभिः विभु: स्पन्दैः क्रीडते बालवत् स्वयम् ॥१५॥
Page 221
इक्ष्वाकूपास्यानम् । २०३
संहारात्मकशकत्याऽथ संहृत्यात्मनि तिष्ठति। अहो नु चित्रा मायेयं तात विश्वविमोहिनी॥ १६ ॥ सर्वाङ्गप्रोतं अध्येतं यत् आत्मान न पश्यति। इदं रम्यं इदं नेति बीजं तत् दुःखसन्ततेः॥१७॥ तस्मिन् साभ्याग्निना दग्वे दुःखस्यावसरः कुतः। 2 योगभूमिकाः । शास्त्रसज् नसंकैः प्रज्ञां आदौ विवर्धयेद् ॥ १८॥ प्रथमा भूमिकैषोक्ता योगस्य नवयोगिन:। विचारणा द्वितीया स्यात् तृतीयाऽपङ्गभावना ।१९ ।। विलापिनी चतुर्थी स्यात् वासनाविलयात्मिका। शुद्र संविन्मयानन्दरूप नवति पश्चमी॥२०॥ अर्धसुप्तप्रबुद्धामो जीवन्मुक्तोऽत्र तिष्ठत। स्वसंवेदनरूण च षष्ठी भवति भूमिका ॥ २१ । आनन्दैकघनाकारा सुपुप्तसदृशस्थिति:। तुर्यावस्थोपशान्ताऽथ मुक्तिरेव हि केवलम् ॥ र२२।। समता स्वच्छता सौग्या सप्तमी भूमिका भवेत। तुर्यातीता तु याऽवस्था परा निर्वाणरूपिणी ॥ २३॥ सप्तमी सा परिप्रौढा विषय: सा न जीवताम्। पूर्वावस्थालयं त्वत्न जाग्रत इत्येव संस्थितम ॥ २४ ॥
Page 222
२०४ श्रीवासिष्टसंप्रहे [सर्ग ::
चतुर्थी स्वन् इन्युक्ता स्वमाभं यत्र वै जगत्। ...... आनन्दैकघनीभावात् सुषुप्तार्या तु पश्चमी ॥ २५॥ असंवेदनरूपाऽथ षष्ठी तुर्यपदाभिधा। तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा । २६॥
मनोवचोभि: अग्राह्या स्वप्रकाशपदात्मिका। प्रत्याहृतिवशात् अन्तः चेत्यं चेतु न विभावितम् ॥२७।।
मुक्त एवास्त्यसंदेहो महासमतया तया। यत् भोगसुखदुःखांशैः अपरामृष्टपूर्णधीः ॥२८॥। 1
आत्मारामो नरः तिष्ठेत् तत् मुक्तत्वं उदाहृतम्। इत्युक्त्वा दयया प्राह मनु: इक्ष्वाकवे पुनः॥ २९।।
3 ब्रह्मतावासि:। व्यवहार्युपशान्तो वा गृइस्थो वाऽथवा यतिः। सशरीरोऽशरीरो वा भवत्येवंमतिः पुमान्॥३०॥
अहंमत्यादिहीनश्च शुद्धो बुद्धोऽजगमर: । शान्त: समसमाभास इति मत्वा न शोचति ॥ ३१ ॥
बद्धवासनं अर्थो यः सेव्यते सुखयत्यसौ। यत् सुखाय तदेवाशु वस्तु दुःखाय नाशतः । ३२।
Page 223
३०] इ : वाकूपास्यानम्। २०५
अविनाभावनिष्ठत्व प्रसिद्धं सुखदुःखयो:। तनुवासनं अर्थो यः सेव्यते वा विवासनम्॥ ३३॥ नासौ सुखायते नासौ नाशकाले च दुःखद:। क्षीणवासनया बुद्धया कर्म यत् क्रियतेऽनघ ॥ ३४॥ तद दग्धवीजवत् भूयो नाङ्कुरं प्रविमुश्चति। क्रियमाणा कवता कर्मतूलिका देहशाल्मलेः ॥३५॥ ज्ञानानिलससुद्धूता प्रोड्डीय क्वापि गच्छति। सर्वैव हि कला जन्तोः अनभ्यासेन नश्यति ॥ ३६ ॥ एषा ज्ञानकला त्वन्तः सकृत् जाता दिने दिने। वृद्धिं एति बलादेव सुक्षेत्रव्युप्तबीजवत् ॥३७॥ यावत् विषयभोगाशा जीवारुया तावत् आत्मनः। अविचेकेन संपन्ना साडप्याशा हि न वस्तुतः ॥ ३८ ॥ विवेकवशतो याता क्षयं आशा पदा तदा। आत्मा जीवत्वं उत्सृज्य ब्रह्मतां एत्यनामय:।३९। चिन्मात्रत्वं प्रयातस्य तीर्णमृत्यो: अचेतसः। यो भवेत् परमानन्दः केनासौ उपमीयते॥ ४ ॥ एतत्स्वरूपं आसाद्य प्रकृति: परिशाम्यति। अहंकृतेः विमोहस्य क्षयेणेयं विलीयते॥ ४१ ॥
Page 224
२०६ श्रीवासिष्ठसंग्रहे [सग्-
प्रकृति: भावनानास्ती, मोक्ष: स्यात एप एव सः। 4 जीवन्मुक्तस्थिति: । येन केनचित आच्छन्ो येन केनचित आशिता । यत्र क्वचन शायी च स सम्राडिव राजते। वर्णधर्माश्रमाचारशास्त्रयन्त्रणयोज्झित: ।। ४३।।' गम्भीरश्च प्रसन्नश्व रमते स्वात्मनाऽडत्मनि। सर्वकर्मफलत्यागी नित्यतृप्तो निगश्रयः ।। ४४।। न पुण्येन न पापेन नेतरेण च लिप्यते। स्फटिकः प्रतिबिम्बेन न याति रख्जनं यथा ॥ ४५ ॥ तज्ज्ञ: कर्मफलेनान्तः तथा नायाति रञ्जनम्। निःस्तोत्रो निर्विकारश् पूज्यपूजाविचर्जितः ॥ ४६।। संयुक्तश्र वियुक्तश्व सर्वा चारनयक्रमैः। तस्मात् नोद्विजते लोको लोकात् नोद्विजते च सः ॥ ततुं त्यजतु वा तीरथे श्रपचस्य गृहेऽपि वा। मा कदाचन वा राजन् वर्तमानेऽपि वा क्षणे ॥ ४८ । स पूजनीयः स स्तुत्यो नमस्कार्यः स यत्नतः। स निरीक्ष्योऽभिवाद्यश्च विभूतिविभवैषिणा॥४९॥ यज्ञतीर्थतपोदानैः न तदासादयते पदम्। सर्ता आत्मविदां भक्त्या सेवनेन तु लभ्यते ॥ ५०॥
Page 225
३१J भूमिकाजयः । २०७
एवं उक्त्वा स भगवान् मनुः ब्राह्मं गृहं ययौ। इक्ष्वाकुगपि तां दृष्टि अवष्टम्य स्थिरोऽभवद् ॥५१॥ इति श्रीवासिष्ठसंभहे इक्ष्त्रा कूपार्यानं नाम वरिंश: सगेः॥
॥ एकत्रिंशः सगः॥
॥ भूमिकाजयः ॥
1 चिचनाशः। श्रीराम उवाच- एवं स्थिते हि भगवन् जीवन्मुक्तस्य सन्मतेः। अपूर्वातिक्चयः कोडसौ भवत्यात्मविदां वर॥ १॥
वसिष्ठ उवाच- नित्यतृप्त: प्रश्नान्तात्मा स आत्मन्येव तिष्ठति। मन्त्रतन्त्रतपः सिद्धैः संप्राप्तं अणिमाद्यपि॥ २॥ कृतं आकाशयानादि का तत्र स्यात् अपूर्वता। यत्ात् तत् साधितं तैस्तु नेतरेणात्मदशिंना ॥ ३॥
Page 226
३१] भूमिकाजयः । २०९
यत् तत विद्धि परं रूपं शुद्ूं जीवस्य राघव। पूर्वे द्वे संपरित्यन्य परे बद्धपदो भव ॥ १३ ॥ या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थिति:। साक्ष्यवस्था व्यवहृतौ तुर्या सा परिकीर्त्यते॥१४॥ नैतत् जाग्रत न च स्वप्नः संकल्पानां असंभवात्। नैतत् सुषुप्तभावोऽपि जडतायाः अभावतः ॥१५॥। जागत्स्वप्रसुषुप्ताख्यं त्रयं रूपं हि चेतसः। शान्तं घोरं च मूढं च ्यात्म चित्तं इह स्थितम्॥ घोरं जाग्रन्मयं चित्तं शान्तं स्वमभयं स्थितम् मूढं सुषुप्तभावस्थं त्रिभिः हीनं मृत भवेत् ॥ १७ ॥ तच्च तु्य मृतं चित्तं सचं एकं स्थित समम्। तदेव योगिनः सर्वे यत्नात् संपादयन्ति हि॥१८॥ चित्तसत्ता परं दुःखं चित्तनाशः परं सुखम्। सिद्धान्तोऽध्यात्मशास्त्राणं सर्वापह्व एव हि॥ १९॥ शान्त एव चिदाकाशे ब्रह्मेति शब्दिते परे। केचित् निर्णीय शून्यत्वं केचित् विज्ञानमात्रताम्॥२०॥ केचित् ईश्वररूपत्वं विवदन्ते परस्परम्। सर्वमेव परित्यञ्य महामौनी भवानय ॥ २१ ॥ V. S. 14.
Page 227
२१० श्रीवासिष्ठसंपहे [सर्ग:
निर्वाणवान् निर्मननः क्षीणचित्तः प्रशान्तधीः। अन्तः सर्वपरित्यागी बहि: कुरु यथाऽऽगतम् ॥ २२। 2 भूमिकात्रशरोहणम्। श्रीराम उवाच- सप्तानां योगभूनीनां अभ्यासः क्रियते कथम्। वसिष्ठ उवाच- प्रवृत्तश्व निवृत्तश्र भवति द्विविधः पुमान् ॥ २३ ॥ कियत् तत नाम निर्वाणं वरं संसृतिरेव मे। इति निर्णीय कर्ता यः स प्रवृत्त उदाहृतः ॥ २४॥ असारा बत संसारव्यवस्थाऽलं ममैतया। इति निश्चयवान् योऽन्तः स निवृत्त इति स्मृतः ॥२' कथ विरागवान् भृत्वा संसारान्धि तराम्यह्म्। एवं विचारवान् यः स्यात् संसारोत्तरणं प्रति ॥ २६ स भूमिकावान् इत्धुक्त: शेष: स्वार्थ इति स्मृतः। क्रियासूदाररूपासु क्रमते मोदते यदा॥ २७॥ ग्राम्यामु जडचेष्टासु विरागमुपयाति च। विभेति सततं पापत् न च भोगमपेक्षते ॥ २८॥ देशकालोपपन्नानि वचनान्यभिभाषते। तदाऽसौ प्रथमां प्राप्तः शुभेच्छाह्वयभूमिकाम्॥ २९
Page 228
३१] भूमिकाजयः । २११
विचारणेति संप्रोक्तां द्वितीयां भूमिकां गत:। श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणाम् ॥ ३०॥ आश्रित्य पण्डितश्रेष्ठान् विभागज्ञो भवत्यत:। दम्भादिहीन: शास्त्रेषु गुरुसञ्जनसेव्रया।। ३१॥ स रहस्यं अशेषेण यथावत् अधिगच्छति। ततोऽसंसक्तिनास्नीं सः तृतीयां प्राप्य भूमिकाम् ॥ ३२॥ तापसाश्रमविश्रामैः अध्यात्मकथनक्रमैः । चित्तोपशमशोभाढ्यः कालं नयति नीतिमान ॥ ३३॥ अभ्यासात साधु शास्त्राणां करणात् पुण्यकर्मणाम्। यथावदेव तस्थेयं वस्तुदृष्टिः प्रसीदति॥ ३४॥ द्विविधोडयं असंसंङ्ग सामान्यः श्रेष्ठ एव च। नाहं कर्ता न भोक्ता च न बाध्यो न च बाधक:।। प्राक्कर्मनिर्मितं सवें ईश्वराधीनमेव वा। सुखं वा यदि वा दुःखं कैवात्र मम कर्तृता॥ ३६॥ इत्यमञ्जनं अर्थेषु सामान्योऽसौ असङ्गमः । अनेनाभ्यासयोगेन संयोगेन महात्मनाम् । ३७॥ दुर्जनानां वियोगेन प्रयोगेणात्मसंविदाम्। संसाराब्घे: परे पारे सारे परमकारणे॥ ३८ ।
Page 229
२१२ श्रीवासिष्ठसंप्रहे [सर्ग:
यत् मौनं आसन शान्तं तत् श्रेष्ठासङ्ग उच्यते। श्रेष्ठाऽसंसङ्गता ह्येषा वतीया भूमिका मता ॥ ३९ ॥ 3 उत्तरभूमिकाः । श्रीराम उवाच- मूढ स्याप्राप्तयोगस्य कथं उत्तरणं भवेत। आरूढस्य मृतस्याथ कीदशी भगवन् गतिः :: ४० ॥ चसिष्ठ उवाच- मूढ न्यारूढदोषस्य तावत् संसृति: आतता। यावत् जन्मान्तरशतैः नोदिता प्रथमाडपि भू: ॥४१॥ वैराग्येऽभ्युदिते जन्तोः अवशयं भूमिकोदय:। ततो नश्यति संसारः इति शास्त्रार्थसंग्रहः॥ ४२॥ योगभूमिकयोत्क्रान्तजीवितस्य शरीरिण:। भूमिकांशानुमारेण क्षीयते पूर्वदुष्कृतम् ॥ ४३। पुण्यलोकेषु सश्चारात सुकृतेऽषि क्षयं गते। शुचीनां श्रीमतां गेहे जायते योगवासित: ।। ४४॥ ततः परिपतत्युच्चैः उत्तरं भूमिकात्यम्। भूमिकात्रितयं त्वेतत राम जाग्रदिति स्मृतम् ॥४५॥ प्रथमायामङ्कुरित द्वितीयारयां विकासितम्। फलीभूतं तृतीयायां आर्यत्वं योगिनो भवेत ॥ ४६ ॥
Page 230
भूमिकाजयः । २१३
कर्तव्यं आचरन् कामं अकर्तव्यमनाचरन्। तिष्ठति प्राकताचारो यः स आर्य इति स्मृतः ॥४७॥ यथाचारं यथाशास्त्रं यथाचित्तं यथास्थितम्। क्यवहारमुपदत्त यः स आर्य इति स्मृतः । ४८ ॥ भूमिकात्रितयाभ्यासात् अज्ञाने क्षयमागते। अद्वैते स्थैय आयाते द्वैते प्रशमं आगे॥ ४९ ॥ पश्यति स्वमवत् लोकं चतुर्थी भूमिकां गतः। पञ्चमीं भूमिकां एत्य तिष्ठन् अद्वैतमात्रके ॥ ५०॥ शान्ताशेषविशेषांशः निद्रालुरिवि लक्ष्यते। कुर्वन् अभ्यासं एतस्यां षष्ठीं पतति भृमिकाम् ॥५१ ॥ यत्र तिष्ठति निर्ग्रन्थिः जीवन्मुक्तो विभावन:। अन्तःशून्यो वहिःशून्यः शून्यकुम्भ इवाम्बरे ॥ ५२॥ अन्त:पूर्णो बहिःपूर्णः पूर्णकूम्भ इवार्णवे। षष्ठुयां भूम्यां असौ स्थित्वा सप्तमीं भूर्मि आप्नुयात्।। विदेहमुक्तता प्रोक्ता सा सीमा भवभूमिषु। कैश्रित् सा शिव इत्युक्ता कैश्रित् बह्मेत्युदाहता॥५४॥ नानाभेदैः यथाबुद्धि कैशिदप्यन्यथाऽन्यथा। नित्यं अव्यपदेश्याऽपि कर्थंचित् व्यपदिश्यते ॥५५॥
Page 231
२१४ श्रीवासिष्ठसंग्रहे [सर्ग
4 ब्रह्मैकभावनम। अस्त्यत्यन्तमदोन्मत्ता करिणीच्छासमाह्या। सा चेत् न हन्यते नूनं अनन्तानर्थकारिणी॥ ५६॥। भूमिकासु च सर्वासु सश्चारो नैव साध्यते। बासनेहा मनः चित्तं सङ्कल्पो भावनं रपृहा ॥ ५७॥ इत्यादीनि च नामानि तस्या एव भवन्ति हि। वैर्यनाम्रा वरास्रेण चैतां सर्वात्मना जयेत् ॥ ५८ ॥ इदं मेऽस्त्विति विज्ञानं यत तत कल्पनं उच्यते। अर्थस्याभावनं यव तत कल्पनात्याग उच्यते ॥ ५९॥ स्मरणं विद्धि सङ्कल्पं शिवं अस्मरणं विद्ुः। सर्वमेवाशु विस्मृत्य मूढतरत् तिष्ठ काष्ठवत्॥ ६०॥ ऊर्ध्वबाहु: विरैभ्यैवं न च कश्चित् शृणोति तत्। असंकन्पः परं श्रेयः स किं अन्तः न भाष्यते ॥ ६१॥ तूष्णीं अर्वस्थितेनैव परमं प्राप्यते पदम्। परमं यत्र साम्राज्यं अपि राम तृणायते ॥ ६२॥ बहुनात कि उक्तेन संक्षेपात् इद उच्यते। संकल्पनं परो बन्धः तदभावो विभ्ुक्तता ॥ ६३ ॥ अवेदनं विदुः योग चित्तक्षयं अकृत्रिमम्। योगस्थ: बुरु कर्माणि विकर्माणि च मा कुरु ॥ ६४॥
Page 232
३२] ग्रन्थोपसंहारः । २१५
अकर्मनिरतो मा भू: बन्धसंभवशङ्कया। शिवं सर्वगतं शान्तं बोधात्मकं अजं शुभम्। तदेकभावनं राम कर्मत्याग इति स्मृतः ॥६५॥
इति श्रीवासिष्ठसंप्रहे भूमिकाजयो नाम एकत्रिंश: सर्ग: ॥
। द्वाव्निं शः सर्गः ॥
॥ ग्रन्थोपसंहारः ॥
1 भरद्वाजप्रबोधनम्। वाल्मीकिरुवाच - ज्ञानसारं वसिष्ठोक्तमिद आकर्ण्य राघवः । मुहूत आसीत उद्बुद्ध: चैतन्यानन्दसागरः ॥ १॥ महासामान्यरूपत्वात् चिद्धयापकतया स्थित: न किंचित ऊचे संपन्नः शिवे परिणतः पदे ॥ २।।
भरद्वाज उवाच - अहो खलु महाश्रर्य रामः ग्राश्तो महत् पदम्। कथं एतादशी प्राप्तिः अस्माकं सुनिनायक॥ ३ ।।
Page 233
--- २१६ श्रीवासिष्ठमंग्रहे [ सर्ग:
दुष्पारश्र भवाम्भोधि: मया च तीर्यते कथम्। आान्मीकिरुवाच - अशेषं रामवृत्तान्तः आदितो यो निरूपितः ॥ ४।। तं विचार्य घिया सम्यक् परामृन स्वयं पुनः। अविद्याया जगत् जातं नास्ति सत्यं इहाण्वपि॥ ५॥ विवेचयन्ति विबुधाः विवदन्त्यतिवेकिन:। नास्ति भिन्न चितः किश्चिद रवपदृत्तं इदं जगत ॥ ६ ॥ अविद्यायोनयो मेदा: सर्वेडमी बुद्बुदा इव। क्षणं उद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ॥७॥। साकारं भज तावत् त्वं यावत सच्वं प्रसीदति। निराकारे परे तत््वे ततः स्थिति: अकृत्रिमा ।। ८। कृतं पुरुषकारेण केवलेन च कर्मणा। महेशानुग्रहादेव प्राप्तव्यं प्राप्यते नरैंः ॥ ९ ॥ नाभिजात्यं न चारित्रं न नयो न च विक्रमः । बलवन्ति पुगणानि नूनं कर्माणि केवलम् ॥ १०॥ न लुम्पति ललाटस्थां ईश्वरोऽप्यक्षरावलिम्। बोधं पुण्यपराधीनं लभते बहुजन्मभिः॥ ११॥ अनुमीयेत धीरेषु जीवन्मुक्तेषु कार्यतः। त्यज शोकं अमङ्गल्यं मङ्गलानि विचिन्तय ॥ १२।
Page 234
३२] मन्थोपरसहारः। २१७
अखिनं क्षणं आसीन: पशष्य संसारनाटकम्। चिदानन्दघनं स्वच्छं आत्मानं च विभावय ॥ १३ ॥। एवं स्थास्यसि नित्यं चेत् तीर्णोडसि भवसागराव। 2 श्रीरामनिर्वृति:। भरद्वाज उवाच- रामः प्राप्तः परं योग स्वात्मनाऽडत्मनि निष्ठितः। कथं वसिष्ठदेवेन व्यवहारपरः कतः। बारमीकिरुवाच- वसिष्ठः श्रोक्तवानू रामं विश्वामित्रेण चोदितः ॥१५।। "राम राम महावाहो महापुरुष चिन्मय। नायं विश्रान्तिकालो हि लोकानन्दकरो भव ॥१६ ॥ यावत् लोकपरामर्शो निरूढो नास्ति योगिन:। तावत् रूढसमाधित्वं न भवत्येव निर्मलशू॥ १७ ॥ तस्मात् राज्यादिकार्याणि निर्वर्तय यथाक्रमम्। देवकार्य तथा कृत्वा ततः त्यक्त्वा सुखी भव"॥१८॥ एवं उक्तो वसिष्ठेन रामो दा्रथि: तदा। सर्वेषणाविनिर्भधुक्तो विनयादिदं अब्रवीत् ॥ १९ ॥ "विधिर्वा मे निषेधो वा त्वत्प्रसादात् न विद्यते। एवं सत्यपि वाक्यं ते करणीयं मया सदा ॥ २०॥ V. S. 15.
Page 235
२१८ श्रीवासिष्ठसंप्रहे [सर्ग: ३२
वेदागमपुराणेषु स्मृतिष्वपि महासुने। गुरो: वाक्य विधि: प्रोक्तो निषेधः तद्विपर्यय:"॥ इत्युक्त्वा चरणौ तस्य वसिष्ठस् महात्मनः । शिरस्याधाय सर्वात्मा सर्वान् ब्राह दयानिधिः ॥ २२।। "सर्वे शरृणुत भद्रं वो निश्चयेन सुनिश्चितम्। आत्मज्ञानात् परं नास्ति गुरोरपि च तद्विद:"॥ २३।। राघवस्य तदा मूर्त्ि पुष्पदृष्टिः पपात ह। एतत्ते सर्वे आख्यातं रामचन्द्रकथानकम् ॥ २४ ॥ अनेन क्रमयोगेन भरद्वाज सुखी भव। नीराग: तिष्ठ निःशङ्को जीवन्मुक्त: प्रशान्तधीः ॥२५॥ मोक्षोपायान् इमान पुण्यान प्रत्यक्षानुभवार्थदान्। बालोऽव्याकर्ण्य तज्ज्ञत्वं याति, का त्वादृशे कथा। संवाद श्ृणुयात् नित्यं यदि रामवसिष्ठयोः। सर्वावस्थोऽप्यसौ नूनं मुक्तिमार्ग निगच्छति" ॥२७॥ यत् सवे खल्विदं ब्रह्म तज्जलानिति च स्फुटम्। श्रुत्या ह्युदीर्यते साम्ि तस्मै ब्रह्मात्मने नमः ॥ २८॥ इति श्रीवासिष्ठसंप्रहे अ्रन्थोपसंहारो नाम द्वात्रिंशः सर्गः।। इति श्रीवासिष्ठसंग्रहाख्यो प्रन्थः संपूर्ण: । ओं तत् सत्