Books / Vasudeva Upanishad

1. Vasudeva Upanishad

Page 1

यत्सर्वंहृदयागारं यत्र सर्वं प्रतिष्ठितम् ।

वस्तुतो यत्रिराधारं वासुदेवपदं भजे ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणशक्षु

श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुयां मा मा ब्रह्म निराकरोदनिराकरणं

स्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते

मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ नमस्कृत्य भगवन्नारायणः सर्वेश्वरं वासुदेवं प्रपच्य

अधीहि भगवान्॒ऋषपुत्र॒ऽऽऋषि॒द्व॒ऽद्रव्य॒म॒न्व॒स्थाना॒दिस॒हि॒तं मे

बूढीति । तं होवाच भगवान्वासुदेवो वैकुण्ठस्थानादुदुत्पन्नं

मम प्रीतिकरं मढ़क्तैब्रह्मादिभिर्योरितं विष्णुचन्दनं

ममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रकाशनाद्द्गोपीचन्दन-

माल्यतां मद्ज्जलेप्तं पुण्यं चक्रतीर्थान्तःस्थितं

चक्रमयुक्तं पीतवर्णं मुक्तिसाधनं भवति ।

अथ गोपीचन्दनं नमस्कृत्योद्भुत्य ।

गोपीचन्दन पापघ्न विष्णुदेशहमुद्धव ।

चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ।

इमं मे गढ़ इति जलमदाय विष्णोर्नुकमिति मर्दयेत् ।

अतो देवा अवन्तु न इत्येतन्मन्रैर्विष्णुगायत्र्या केशवादि-

नामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो वा

ललाटहृदयकण्ठबाहूमूलेषु वैष्णवगायत्र्या

कृष्णादिनामभिर्वा धारयेत् । इति त्रिवारमभिमन्त्र्य

शब्दचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्द

पुण्डरीकाक्ष रक्ष मां श्राणागतं । इति ध्यात्वा

गृहस्थो ललाटादिद्वादशस्थलेष्वनामिकाङ्गुल्या

वैष्णवगायत्र्या केशवादिनामभिर्वा धारयेत् ।

ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठबाहूमूलेषु

वैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् ।

यतिसत्ज्ञांया शिरोललाटहृदयेषु प्रणवनेव धारयेत् ।

ब्रह्मादिस्थयो मूर्तयस्तित्रो व्याहृतयस्त्रिःणि छन्दांसि

त्रयोऽग्नय इति ज्योतिष्मन्त्रस्यः कालास्तित्रोडवस्थास्त्रय

आत्मानः पुण्ड्रात्रय ऊर्ध्वां आकार उकारो मकार एते

Page 2

प्रणवमयोर्ध्वपुण्ड्रास्तद्वता सदेतदोमिति । तानेकधा सम्भवत् । ऊर्ध्वमुन्रमयत इत्योर्ध्वाराधिकारो ।

तस्मादूर्ध्वपुण्ड्रं धारयेत् । परमहंसो ललाटे प्रणवेनैकमृर्ध्वपुण्ड्रं वा धारयेत् ।

तत्त्वप्रदीपप्रकाशं स्वात्मानं पश्यन्योگی मत्सायुज्यमवाप्नोति । अथ वा न्यस्तहृदयपुण्ड्रमध्ये वा हृदयकमलमध्ये वा ।

तस्य मध्ये वर्हिषिखा अर्णीयोध्वां व्यवस्थिताः । नोलतोयदमध्येस्थाद्विद्युल्लेशेव भास्वरा ।

नीवारशूकवत्तन्वी परमात्मा व्यवस्थित इति । अतः पुण्ड्रस्यं हृदयपुण्ड्ररीकेषु तमभ्यसेत् ।

क्रमादेवं स्वात्मानं भावयेन्तं परं हरिम् । एकाग्रमनसा यो मां ध्यायते हरिमव्ययम् ।

हृत्पङ्कजे च स्वात्मानं स मुक्तो नात्र संशयः । मद्भूपमद्रयं ब्रह्म आदिमध्यान्तवर्जितम् ।

स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् । एको विष्णुरनेकेषु जज्ञमस्थावरेषु च ।

अनुस्मृतो वसत्यात्मा भूतेष्वहमवस्थितः । तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा ।

गन्धः पुष्पेषु भूतेषु तथात्मावस्थितोऽहम् । ब्रह्मरन्ध्रे हृदिोममध्ये हृदये चित्रविचित्रं हरिम् ।

गोपीचन्दनमालिप्य तत्र ध्यायात्परमं परम् । ऊर्ध्वदण्डोधरैरताश्र ऊर्ध्वपुण्ड्रोध्वयोगवान् ।

ऊर्ध्वं पद्मावप्नोति यतिरूर्ध्वचतुष्कवान् । इत्येतत्रिशितं ज्ञानं मढ़क्त्या सिध्यति स्वयम् ।

नित्यमेकाग्रभक्तिः स्याद् गोपीचन्दनधारणात् । ब्राह्मणानां तु सर्वेषां वैदिकानामनुत्तमम् ।

गोपीचन्दनवारिभ्यामूर्ध्वपुण्ड्रं विधीयते । यो गोपीचन्दनाभावे तुलेसीमूलमृत्तिकाम् ।

मुमुक्षुर्धारयेत्त्रित्यमपरोक्षात्मसिद्धये । अतिरात्राग्निहोत्रभस्मनग्नेःसतमिदं विष्णुसूत्रोणि

पदेति मन्त्रैवैष्णवागायतैश्च प्रणवेनोर्ध्वूलनं कुर्यात् । एवं विधिना गोपीचन्दनेन च धारयेत् ।

यस्त्वधीते वा स सर्वपातकेभ्यः पूतो भवति । पापबुद्धिस्तस्य न जायते । स सर्वेषु तीर्थेषु स्नातो भवति ।

स सर्वैर्युज्यैर्जितो भवति । स सर्वैर्देवैः पूज्यो भवति ।

Page 3

श्रीमत्नारायणे मच्यचञ्चला भक्तितिष्ठा भवति ।

स सम्यग्ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति ।

न च पुनरावर्तते न च पुनरावर्तते इत्याह भगवान्वासुदेवः ।

यस्त्वेतद्वाधीते सोडप्येवमेव भवतीत्योः सत्यमित्युपनिषत् ॥

ॐ आप्यान्तु ममाझानि वाक्प्राणशक्षुः श्रोत्रमथो

बलमिद्रियाणि च ॥सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म

निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्तु निराकरणं मेऽस्तु

तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति वासुदेवोपनिषत्समाप्ता ॥