1. Vedanta Darsana Shankara Bhashya Notes Pandit Keshava Udasin Venkateswara Steam Press 1888
Page 5
।। श्रीः।।
उत्तरमीमांसा
नाम वेदान्तदर्शनम्।
श्री द्वेदव्यासप्रणीतम्
स्वामिगोविन्दाननद्धावितया भाष्यरत्नप्रभया भासितेन
शारीरकनाम्नाभाष्येण संयुतम्। श्रीमदुदासीनपरतहंसपण्डित केशवानन्दस्वामिकृत- टिप्पणीसमेत च।
25%0 एतच् भरतीतीर्थकृताधिकरणमालासमन्वितम् ऐनापुर इत्युपारव्योद्धवाचार्येण च शोधयित्वा प्रीकृष्णदासात्मज- गह्गाविष्णु, खेमराजाभ्यां मुम्बययां
संवत् १९४४ शके १८०९ (१८६७ खिश्ब्दिक १५ तमनियमानुसारेण राजराजपटारुटीकृतोयं सन्थः)
Page 7
। भूमिका ॥
इह खलुधर्मार्थकाममोक्षेषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमः पु- रुषार्थ: तस्य निखिलदुःखनिवृत्युपरक्तनिरतिशयानन्दरूपात्मात्मकतया नित्यत्वेनानावृत्तिरूपत्वात। एवमेव हि श्रुतिस्मृतीहासपुराणयुक्तयनु-
सारिव्रह्मात्मैकत्वनिश्वयसाध्यः।स च निश्षयो देहेन्द्रियादिष्वहंममा- भिनिवेशवशादनात्म धर्मान्कर्तृत्वभोक्तृत्वादीनात्मनिमन्यमानानां ना- नाविधकुतर्काकुलचेतसां दुःसाध्यः न तांस्तर्ककुशलश्रुत्यर्थविवेचक- गुरुमनुपादायोपनिषदां सहलाण्यपि यथाभूतमात्मतच्वं संबोधयि- तुमीशते अतस्तानुद्दिधीर्षुर्भगवान् वेदव्यासोडद्वैतब्रह्मात्मकं श्रुत्य-
चयांचकार। साप्यतिसंक्षिप्तार्थकतया विना भाष्यं पुरुषायुषेणापि दु- विज्ञेयेति विलोच्य परमकारुण्योपेतमानसोभगवान् स्वामिश्रीशंकरा- चार्यो भाष्यवलयालंकतां तां चकार। तदपि गूढगम्भीरार्थकतयाऽना- यासेन नार्थबोधरुदिति पर्यालोच्य सर्वान् नरानुपचिकीर्षुः स्वामि- श्रीगोविन्दानन्दोनुकम्पया रत्नप्रभया भासयांचकार। सापि क्वचित् क्व- चित् गुप्तार्थकेति विलोच्य मया क्वचित् क्वचिट्टिपणैरलंकता। यदपि व्या- सनिर्मितेष्वेषु सूत्रेष्विदानीं नानाविधानि भाष्याण्युपलभ्यन्ते तथा पि शाङ्गरभाष्यस्यास्य निष्पक्षार्थप्रतिपादकतया प्रामाणिकैः प्रामा- ण्याङ्गीकारेण सर्वापेक्षयास्याभ्यर्हितत्वमिति सूपादेयमिदमासैः । य- वप्येतद्भाष्यं पूर्व मुद्रितमभूत्तथापि यथावद्धाष्यकारसंप्रदायसिद्ध- समग्रपाठकं न मुद्ितमितीदानीं गङ्गाविष्णु वणिक्प्रार्थनया मया भा- ष्यकारसम्प्रदायसिद्धपाठानुसारेण संशोधितम्। प्रार्थये चादौ विश्वेश्वरं मद्रणकर्तु: श्रेष्ठिश्रीग ङनविष्णोः प्रयत्नं सफलीकर्तुम्।प्रसीदन्तु चानेन
Page 8
प्रयव्नेन भगवद्भाष्यकारचरणा इति मुहुरभ्यर्थयेहं श्रीमदुदासीनपरम- हंसपण्डितकेशवानन्दस्वामी॥ उपरि तावत्केशवानन्दस्वामिना लिखितंयथायथं ज्ञेयमेव। परं च। कलिकातायां एशियाटिकसोसायटीनाम्न्या जनतया मुद्रितपुस्तके तृतीयाध्यायचतुर्थपाटीया रत्नप्रभा न मिलितेति स पादो रत्नप्रभा- भासितो न इति केषांचिदाभासः समजनि इति भाति।परं चास्मान् अमरकोशटीक्ाकारमहेश्वरपुस्तकालयतो लब्धशाङ्करभाष्ये मिलिते- ति सपाद: पश्रात्तथैवाद्गित्वा पुस्तकचरमभागे निवेशितो विद्यते पर्या- भौ चाधिकरणज्ञानार्थ श्रीभारतीतीर्थविरचिताधिकरणमालापि संवे- शिता इति। अत्र पुस्तकमुद्रणकाले मनुजनिष्ठनिसर्गत्रमेणोर्वरिता- न्प्रमादांस्तावत्सहन्तामार्या इति प्रार्थितप्रायमेवेत्यशेषमतिमङ्गलम्। ऐनापुरे इत्युपारव्यवाळाचार्या- त्मज उद्धवाचार्य:।
Page 9
बह्म सूत्रीय षोडशपादार्थदर्शनम् निर्घण्टपत्रम्।
प्रतिपाद्यविषयाः । अध्यायाड़ा: पादाडा: सुस्पष्टब्रह्मबोधकश्रुतिवाक्यानां समन्वयः, .. 9 उपास्यब्रह्मवाचकास्पष्टभ्रुतिवाक्यानां समन्वयः, 9 २ ज्ञेयब्रह्म प्रतिपादकास्पष्टश्रुतिवाक्यानां समन्वयः, अव्यक्तादिसन्दिग्धपदमात्राणामेव समन्वयः, ... १ ४
साङग्ययोगकाणादादिस्मृतिभि: साङ्यादिप्रयुक्ततकैंश्र वेदान्तसमन्वयस्य विरोधपरिहारः, २ १ साङ्ग्यादिमतानां दुष्ठत्वप्रदर्शनम्, .. २ २ पूर्वभागेण पश्चमहाभृतश्रुतीनां उत्तरभागेण च जीवश्रुतीनां परस्परविरोधपरिहारः, २ ३ लिङ्गशरीरश्रुतीनां विरोधपरिहारः, २ ४
जीवस्य परलोकगमनागमनविचारपूर्वकवैराग्यनि- रूपणम्, 9 पूर्वभागेण त्वं-पदार्थस्य उत्तरभागेण तत्-पदार्थस्य च शोधनं, AY सगुणविद्यासु गुणोपसहारस्य, निर्गुणे ब्रह्मणि अपुन- रुक्तपदोपसंहारस्य च निरूयणम्, nY .. निर्गुणज्ञानस्य बहिरङ्गसाधनभूतानां आश्रमयज्ञा- दीनां, अन्तरङ्गसाधनभूतानां च शमदमश्रवण- मननादीनां निरूपणम्, .... ... ३
Page 10
(२ ) -
प्रतिपा्द्यविषया:। भध्यायाडा: । पादाङा । श्रवणायावृच्या निर्गुणं, उपासनया सगुणं वा ब्रह्म साक्षात्कतवतो जीवतः पुण्यपापलेपवि- नाशलक्षणाया मुक्तेरभिधानम् ... ... ४ स्रियमाणस्य उत्क्रान्तिप्रकारदर्शनम्, .. . ४ सगुणब्रह्मविदो मृतस्योत्तरमार्गाभिगमनम् ४ पूर्वभागेण निर्गुणब्रह्मविदो विदेहकैवल्यप्रापे:, उ- त्तरभागेण च सगुणब्रह्मविदो ब्रह्मलोकस्थिते- र्निरूपणम्, ४
Page 11
व्यासाधिकरणार्थदर्शनं निर्घण्टपत्रम्।
समन्वयाख्यप्रथमाध्यायस्य प्रथमपादे।
अत्तिपाधविषयाः । रूताडा:। भ०डा। ब्रह्मणो विचार्यत्वम्, .. 9 ब्रह्मणो लक्ष्यत्वं .. ... २ 2 ब्रह्मणो वेदकर्तृत्वं, १ वर्णकम्, ब्रह्मणो वेदैकमेयता, २ वर्णकं, ...
वेदान्तानां ब्रह्मबोधकत्वं, १ वर्णकं, वेदान्तानां ब्रह्मण्यवसितत्वं, २ वर्णकम्, 2 ४ ४
प्रधानस्य जगत्कर्तृत्वाभावकथनम्, ... ५-११ आनन्दमयकोषस्य परमात्मत्वं, १ वर्णकं, १ ब्रह्मण आनन्दमयजीवाधारत्वं, २ वर्णकं, S .. १२-१९ ६
आदित्यान्तर्गतहिरण्मयपुरुषस्येश्वरत्वम्, .... २०-२१ परब्रह्मण आकाशशब्दवाच्यत्वम्, .. २२ ब्रह्मण आकाशशब्दवत् प्राणशब्दवाच्यत्वं, ... २३ ९ परब्रह्मणो ज्योतिःशब्दवाच्यत्वं, ... २४-२७ १० ब्रह्मण: प्राणशब्दप्रतिपायत्वं, ... २८-३१ ११
उक्ताध्यायस्य द्वितीयपादे।
ब्रह्मण उपास्यत्वम्, ... .. . १-८ ब्रह्मणो जगत्कर्तृत्वं, ... ... ... ९-१० २
nY ९१-१२ छायाजीवान्यदेवान् हित्वा परब्रह्मण एवोपास्यत्वम्, ... .. १३-१७ ४
Page 12
(४) सृ० अधि० प्रधानजीवेतरस्येश्वरस्यैवान्तर्यामिशब्दवाच्यत्वं, १८-२० ५ प्रधानजीवौ निराकत्येश्वरस्य भूतयोनित्वम्, ... २१-२३ ब्रह्मणो वैश्वानरशब्दवाच्यत्वम्, ... २४-३२
उक्ताध्यायस्य तृतीयपादे।
सूत्रात्महिरण्यगर्भप्रधानभोक्तृजीवेश्वराणां मध्ये केवलमीश्वरस्यैव सर्वाधिष्ठानभूतत्वम्, 9-७ प्रणपरेशयोर्मध्ये परेशस्यैव सत्यशब्देन श्रेष्ठत्वम, प्रणवब्रह्मणोर्मध्येब्रह्मण एवाक्षरशब्दवाच्यत्वम्, १०-१२ अपर-परव्रह्मणोर्मध्ये परब्रह्मण एव त्रिमात्रेण प्रणवेन ध्येयत्वम, १३ दहराकाशत्वेन प्रतीयमानानां वियज्जीवब्रह्मणां मध्ये ब्रह्मण एव तदाकाशवाच्यत्वम्, ... 9४-१6 अक्षिपुरुषत्वेनापाततः प्रतीयमानयोर्जीवपरेशयोः परेशस्यैव तत्पदवाच्यत्वम्, as १९-२१ जगत्प्रकाशत्वेनोपलब्धयोः सूर्यादितेजःपदार्थचैतन्ययो- श्रैतन्यस्यैव तत्प्रकाशत्वम्, ... ... २२-२३ जीवात्मपरमात्मनोर्मध्ये परमात्मन एवाङ-गुष्टमात्रपुरुष- शब्देन प्रतिपादनम, २४-२५ ८
देवानां निर्गुणविद्यायामधिकारनिरूपणम्, ... २६-३३ शूद्राणां वेदानधिकारकथनपूर्वकः शोकाकुलत्वेन शूद्रनाममात्रधारिणो जानश्रुतेर्वेदविद्याघिगम:, ३४-३८१० प्राणत्वेनाम्नातानां वज्रवायुपरेशानां मध्ये परेशस्यैव तादशप्राणशब्दवाच्यत्वम्, . ३१ ११
Page 13
(५) प्रतिपाद्यविषयाः । सू० अधि० ब्रह्मणः परत्वज्योतिष्टे, ... ४० १२ ब्रह्मण आकाशशब्दवाच्यत्वं, ... ४9 १३ ब्रह्मणो विज्ञानमयशब्दवाच्यत्वं, ... ४२-४३ १४
उक्ताध्यायस्य चतुर्थपादे। कारणावस्थापन्नस्य स्थूलशरीरस्यैवाव्यक्तशद्ववाच्यत्वं, १-७ १
कृतेरेवाजाशब्दवाच्यत्वम्, ८-१० २ प्राणचक्षुःश्रोत्रमनोऽल्नानां पञ्चपश्चजनशब्दवाच्यत्वं, ११-११ ३ ब्रह्मप्रतिपादकवेदान्तवाक्यसमन्वयानां युक्तियुक्तत्वं, १४-१५ ४ प्राणजीवपरात्मनां मध्ये परात्मन एव कत्लजगत्कर्तृ- त्वेन बालाकिना ब्रह्मत्वेनोक्तानां षोडशपुरुषाणां कर्तृत्वनिराकरणं, .. १६-१८ ५ संशयित जीवपरमात्मनार्मध्ये परमात्मन एव श्रव- णमननादिविषयीकर्तृत्वम्, ouS १९-२२ ब्रह्मणो निमित्तोपादानोभयकारणत्वं, ... २३-२७ 9
परमाणुशून्यादीनां श्रुत्युक्तानामपि जगत्कारणत्व- मपहाय ब्रह्मण एव प्रतिनियतजगत्कारणत्वं, २८
इति प्रथमाध्यायः
Page 14
(६) अविरोधाख्यद्वितीयोध्यायस्य प्रथमपादे।
प्रतिपाविषयाः । सू० अधि० साङग्स्मृत्या वेदसङ्कोचस्यायुक्तत्वं, ... १-२ १ योगस्मृत्याऽपि वेदसङ्कोचस्यायुक्तत्वं, ... ... ३ २ वैलक्षण्याख्ययुक्तिद्वाराऽपि वेदान्तवाक्यानामबाध्यत्वं,४-११ काणादबौद्धादीनां स्मृतियुक्तिभ्यामपि वेदवाक्याना- मबाध्यत्वम्, .. .. १२ ४ भोकृभोग्यभेदवतोऽपि परव्रह्मणोSद्वैतत्वस्याबाधात्वं, १३ 5 ब्रह्मणि भेदाभेदयोर्व्यावहारिकत्वमद्दितीयत्वस्य च ताच्विकत्वम्, ... . १४-२० सर्वज्ञत्वेन जीवसंसारमिथ्यात्वं च स्वनिर्लेपत्वं च पश्यतः परमेश्वरस्य न हिताहितभाग्दोषः, २१-२३ अद्वितीयस्यापि ब्रह्मणः क्रमेण नानाकार्याणां सृष्टिसम्भावना, ·.. २४-२५ ईश्वरस्योपादानरूपपरिणामिकारणत्वव्यवस्थापनं, २६-२१ ईश्वरस्याशरीरित्वेऽपि मायावित्वम्, ·. ३०-३ १ नित्यतृप्तस्येश्वरस्यापि प्रयोजनं विनाऽशेषजगदुत्पादनं, ३२-३३११ कर्मनियन्त्रितानां जीवानां सुखदुःखनिमित्तमात्रस्य जगतूसंहरतक्र नैरधृण्यदोषाभावः, · ३४-३६ १२ निर्गुणस्यापि ब्रह्मणो विवर्त्तरूपेण प्रकतित्वसिद्धि:, ३७ १३
उक्ताध्यायस्य द्वितीयपादे। साङग्यानुमतप्रधानस्य जगद्देतुत्वखण्डनं, ... १-१० ... २ परमाणूनां संयोगेन जगदुत्पत्तेर्युक्तिविरूद्धत्वं, १२-१७ ३
Page 15
(७) प्रतिपाथविषयाः। सू० अधि० ईश्वराद्जिन्ानां बाह्यवस्त्वस्तित्ववादिबौद्धविशे- षसम्मतानां परमाणूनां शब्दास्पर्शादीनाश्च जगदुत्पादकत्वमतखण्डनं, .. . १८-२७ ४ विज्ञानवादिबौद्धसम्मतविज्ञानस्य जगत्कर्तृत्वा- दिखण्डनं, २८-३२ ५ जीवादिसप्तपदार्थवादिनांबौद्धान्तराणां मतखडनं, ३३-३६ ६ तटस्थेश्वरवादस्यायुक्तत्वं, ... ३७-४१ ... .. . ४२-४५ 6
उक्ताध्यायस्य तृतीयपादे।
वेदान्तवादिमते आकाशस्यानित्यत्वकथनम्, .. १-७ खरूपवतो ब्रह्मणो वायोरुत्पत्तिकथनम्, २ V ..
सद्पस्य ब्रह्मणोऽजन्यत्वं जगज्जनकत्वञ्च, ३ कार्यकारणयोरभेदेन वायुभूतस्य ब्रह्मणस्तेजःसृष्टिः, ४ वेदोक्ततेजोरूप ब्रह्मणो जलोत्पत्तिसिद्धिः, ५ छान्दोग्योपनिषदुक्तजलोत्पन्नान्नस्य पृथिव्यर्थकत्वं, १२ ६
पूर्वपूर्वकार्योपाधिकाद्ब्रह्मण उत्तरोत्तरकार्योत्पत्ति- सिद्धिः, १३ 9
लयकाले पृथिव्यादीनां विपरीतक्रमकल्पनं १४ प्राणादीनां भूतेष्वन्तर्भावान्न तेषां सृष्टिकमभङ्ग:, १५ वपुषो जन्ममरणयोर्मुख्यत्वेन जीवस्यैतयोर्भाक्तत्वं, १६ जीवजन्मन औपाधिकत्वेन तस्य वस्तुतो नित्यत्वं, १७ जीवस्याचिद्रूपत्वखण्डनपूर्विका तच्चिदूपत्वसिद्धिः, १८ १२ जीवस्याणुत्वखण्डनपूर्वकं तत्सर्वगत्वप्रतिपादनं, १९-३२ १३
Page 16
(ढ) प्रतिपाद्यविषयाः । सू० अधि० जीवस्याकर्तृत्वनिरसनपूर्वकं तत्कर्तृत्वप्रतिपादनं, ३३-३९ १४ जीवकर्तृत्वस्याध्यस्तत्वेनावास्त विकत्वं, ४० १५ जीवस्येश्वरप्रवृत्तत्वेन न रागप्रवृत्तत्वं, .. ४१-४२ १६ औपाधिककल्पनैर्जीवेशयोर्जीवानाञ्च परस्परं व्यवहारव्यवस्था, ... ४३-५३ १७
उक्ताध्यायस्य चतुर्थपादे। इन्द्रियाणामनादित्वनिराकरणपूर्वकं तेषामात्म- समुत्पन्नत्वम्, १-४ १ इन्द्रियाणामेकादशसङ्ग्ाकत्वस्य वेदान्तसम्मतत्वं, ५-६ साङ्ख्यसम्मतेन्द्रियसर्वगत्वनिराकरणपूर्वकं तेषां प- रिच्छिन्नत्वकथनं, ७ ३ प्राणस्यानादित्वखण्डनपूर्वकं तदुत्पत्तिसमाधानं, ४ प्राणवायो: स्वतन्त्रताकथनं, १-१२ 5 प्राणस्य समष्टिरूपेणाधिदैविकी विभुता आध्यात्मि- की तु तस्याल्पताऽदृश्यता चेन्द्रियवदिति, .. १३ इन्द्रियगणस्य देवताविशेषाधीनत्वकथनम्, .. . १४-१६ विलक्षणत्वेन प्राणादिन्द्रियाणां पृथक्त्वं, १७-१९ सर्वजगत्सर्जने जीवस्याशक्तत्वादीशस्यैव सर्वशक्ति- मत्वात् तस्यैव तन्निर्मातृत्वं, २०-२२ ९ इति द्वितीयाध्यायः॥ साधनाख्यतृतीध्यायस्य प्रथमपादे। जीवस्य भाविशरीरबीजरूपसूक्ष्मभूतवेष्टितस्यैवेतो गमनम् १-७ 9
Page 17
(९) प्रतिपदविषयाः। सू० अधि० कर्मान्तरैः सानुशयस्य जीवस्य लोकान्तरारोहणम्, 6-99 २ पापिनां याम्यलोकगमनम्, ... .. ... १२-२१ अवरोहिणो जीवस्य वियदादिसमानत्वं, ... २२ OC
स्वर्गादवतरणकाले स्वर्ग-वृष्टि-पृथिवी-पुरुष-योषित्सु क्रमशो जनिष्यतो जीवस्य स्वर्गे वृष्टौ च जन्मनि त्वरा, तदितरेषु च जन्मनि विलम्ब इति ... २३ ५ सस्यादौ जीवस्य न मुख्यजन्म किन्तु संक्वेषमात्रमिति, २४-२७ ६
उक्ताध्यायस्य द्वितीयपादे।
स्वप्नदष्टेर्मिथ्यात्वकथनम् १-६ सुषुप्तिस्थानरूपस्य हृत्स्थब्रह्मण एकत्वस्थापनम्, ... ७-८ २ स्वप्नावस्थितस्यैव जीवस्य तस्मात् समुद्दोधो नापरस्येति, ९ ३ मूर्च्छाया जाग्रदाद्यवस्थान्तरभिन्नत्वं, ... ... १० ४ ब्रह्मणो नीरूपभावस्य वेदान्तसम्मतत्वं, ... ११-२१ ब्रह्मणो निषेधातीतत्वेन सत्यत्वस्थापनं, ... २२-३० ६
ब्रह्मणोऽन्यस्यावस्तुत्वव्यवस्थापनं, ... ३१-३७ ७
कर्मफलोत्पत्तिं प्रति ईश्वरस्यैव कर्तृत्वं नापूर्वस्येति, ३८-४१
उक्ताध्यायस्य तृतीयपादे।
छान्दोग्यवृहदारण्यकश्रुत्युक्तयोः पञ्चाग्निविद्योपास- नयो: विध्यनुष्ठानफलसाम्येनैकत्वं, ... ... १-४ १ गुणोपसंहारस्य कर्तव्यत्वं, ... ... २ छान्दोग्यकाण्वशाखयोरुद्वीथविद्याभेदकथनं, ६-८ ३
० .. ४
Page 18
(90) प्रतिपाद्यविषयाः । वसिष्ठत्वादिगुणानामुपसंहर्तव्यत्वं, ... ... सू० अधि०
१० ५ आनन्दसत्यत्वादीनां ब्रह्मगुणानां प्रतिपत्तिफलत्वेन सर्वशाखासु समानत्वात् व्यवस्थापकविध्यभावाच्च तेषामुपसंहर्तव्यत्वम् ११-१३ पुरुषज्ञानस्य संसारकारणात्, ज्ञाननिवर्तकत्वात् पुरु- षस्यैव वेद्यत्वं, .. १४-१५ ७ ईश्वरस्यैवात्मशब्दवाच्यत्वं न विराज इति, .. १६-१७
१८ प्राणोपासनं प्रति प्राणविद्याप्राप्तयोरनस्नताबुद्दयाचमन- यो: अनग्नताबुद्देरेव विधेयत्वं, .. ... १९१० काण्वानामग्निरहस्यब्राह्मणबृहदारण्यकयोः पठितायाः शाण्डिल्यविद्याया एकविधात्वं, ... ... २०-२२ ११ अहरित्यादित्यगतस्याहमित्यक्षिगतस्य च वेद्यपुरुष- स्यैकत्वेऽपि स्थानविशेषे तन्नामविशेषस्य युक्तत्वं, २३ १२ विद्यैकत्वाभावात् सम्भृत्यादीनां गुणानां शाण्डिल्य- विद्यादिषु अनुपसंहार्यत्वम् .. २४ १३ तैत्तिरीयकताण्डिनो: पुरुषविद्यायाः पृथक्त्वम् २५ १४ वेदमन्त्रप्रवर्ग्यादीनां विद्यानङृत्वं, .. २६ १५ अर्थवादत्वेन पापपुण्ययोरुपाय- नस्य हानावुपसंहर्तव्यत्वं, १ वर्णकं पापपुण्यविधूननस्य हानार्थकत्व- मेव न चालनार्थकत्वं, २ वर्णकं २७-२८१६ मरणात् प्राक् उपास्ये साक्षातूळ ते सुकतदुष्कतक्षयः, ३ वर्णकं उपासकस्यैवार्चिरादिमार्गो न ज्ञानिन इत्यस्य व्यवस्था, २९-३०१७
Page 19
(११) प्रतिपाद्यविषयाः । सू० अधि० सर्वासूपासनासु उत्तरमार्गविधानं, .. .. ३१ १८ ब्रह्मतच्वज्ञानिनां मुक्तिर्नियता न तु पाक्षिकीत्यस्य प्रति- पादनम्, ... ... ३२ १९ आत्मस्वरूपलक्षकाणां निषेधानां परस्परोपसंहर्त- व्यत्वम्, ... ३३ २० ऋतं पिबन्ताविति द्दा सुपर्णाविति च मन्त्रयोवेबै- कत्वम्, .. ३४ २१ एकशाखास्थयोः उषस्तकहोलयोर्ब्रा्मणयोर्विबयैक्यप्रति- पादनम्, .. ३५-३६. २२ उपासनार्थ पृथक्त्वेनोपास्यस्य दैधज्ञानम्, ... ३७ २३ सत्यविद्याया एकत्वप्रतिपादनम्, ... ३८ २४ दहराकाशहार्दाकाशयोरुपसंहर्तव्यत्वम्, ३९ २५ उपासकस्य भोजने प्राणाहुतिलोपापत्तिः, ... 8 ० - ४१ २६ उद्वीथकर्माङ्गीभूतदेवतोपासनाया अनियतत्वम्, ४२ २७ संवर्गविद्योक्ताधिदैववाय्वध्यात्म प्राणयोरनुचिन्तनस्य पृथक्त्वम्, ४३ २८ मनश्व्विदादीनां स्वतन्त्रविद्यात्वस्वीकारः, ... ४४-५२ २९ भौतिकस्यात्मत्वनिराकरणपूर्वकतदन्यस्यात्मत्व प्रति- पादनम्, .. ५३-५४ ३० ऐतरेयगतोक्थोपासनायां पृथिव्यादिदष्टेः कौशीत- क्यामपि समानत्वम्, ५५-५६ ३१ विराडूपवैश्वानरस्य कत्सस्यैव ध्यातव्यत्वं न तदंशस्येति५७ ३२ अनुष्ठातव्य-शाण्डिल्यदहरादिविदयानां वेधब्रह्मभिन्न- त्वेन भिन्नत्वं, ... ३३ आत्मनः सगुणोपासनायां एकस्य इ्योर्बहूनाश्च उपास-
Page 20
(१२) प्रतिपाद्यविषयाः । सू० अधि० नानां वैकल्पिकनियमकथनं, ... ... ५९ ३४ विकल्पेन समुच्चयेन वा प्रतीकोपासनाया ऐच्छिकत्वं, ६० ३५ विकल्पसमुच्ययोर्याथाकाम्यं, ... .. ६१-६६ ३६
उक्ताध्यायस्य चतुर्थेपादे।
आत्मज्ञानस्य स्वतन्त्रत्वं न कत्वर्थत्वं, ऊर्ध्वरेतोरूपाश्रमाणामस्तित्वव्यवस्थापनं, १ वर्णकं। १-१७
लोककामिनामाश्रमिणां ब्रह्मनिष्ठानहत्वं, २ वर्णकं १८-२० २ उद्धीथावयवस्योङ्गारस्य ध्येयत्वं, ... औपनिषदाख्यानानां विद्यास्तावकत्वं, २१-२२ २३-२४ ४ आत्मबोधस्य कर्मानपेक्षत्वम्, विद्यायाः स्वोत्पत्तौ कर्मसापेक्षत्वम्, ... २५ ... २६-२७ ६ आपदि सर्वान्नाभ्यनुज्ञानं ·.. ... ... २८-३१ विद्यार्थानामाश्रमधर्माणाञ्च यज्ञादीनां सकदनुष्ठानं, ३२-३५ अनाश्रमिणो ज्ञानसम्भावनम्, ... ३६-३९ ९ आश्रमिणामवरोहाभावनिरूपणम्, ... ४० १० भ्रष्टोर्ध्वरेतसः प्रायश्चित्तस्भावः, .. ११-४२ भ्रष्टो्ध्वरेतसः प्रायश्विवत्तस्य आमुष्मिकशुद्धिजनकत्वं सादृशशुद्धिमतो व्यवहारानहत्वश्च, ४ ३ १२ उपासनस्य ऋत्विक्कर्मत्वम्, .. ४ ४-४ ६ १३ मौनस्य विधेयत्वम्, ... ... ४७-४१ १४ बाल्यस्य भावशुद्धित्वं न वयःकामचारोभयत्वम्, ५० १५ इह वा जन्मान्तरे वा ज्ञानोत्पत्तिरिति ज्ञानोत्पत्तेः पाक्षिकत्वम्, .. ... ५१ १६
Page 21
( १३ ) पतिपाव्यविषयाः । सू० अधि० सालोक्यादिमुक्तीनां जन्यत्वेन सातिशयत्वं निर्वाणमु- क्ेश्ष निरतिशयत्वम्,. ... ५२ १७ इति तृतीयाध्यायः
फलाख्यचतुर्थाध्यायस्य प्रथमपादे।
श्रवणादीनामावर्तनीयत्वम्, ... ... ... १-२ ज्ञात्रा जीवेन स्वात्मतया ब्रह्मणो ग्राहयत्वम् ... ३ २ प्रतीकेऽहंदृष्ट्यभावः, .. . ४ ३ अब्रह्मणि प्रतीके ब्रह्मधियः कर्तव्यत्वम्, ... कर्माङ्गेष्वादित्यादिद्ृष्टीनां कर्तव्यत्वम्, ५ उपासनायामासनस्य नियतत्वम्, ... ७- १० ६ ध्यानसाधनस्थैकाय्यस्य प्रधानत्वेन दिग्देशकालानाम- नियम:, 99 9
उपास्तीनामामरणमावृत्तिः, .. . १२ ज्ञानिन: पापलेपाभावः, . . . १३ ९ ज्ञानिन: पुण्यलेपाभावः, .. १४ १० सच्चितयोरिवारब्धयोः पुण्यपापयोर्ज्ञानोदयसमये वि- नाशाभाव:, .. ... १५ ११ अग्निहोत्रादिनित्यकर्मणो विद्योपयोग्यांशस्याविनाश:,१६-१७१२ सोपासनस्य निरुपासनस्य च नित्यकर्मणस्तारतम्येन विद्यासाधनत्वम्, ... १८ १३ अधिकारिणां मुक्तिसद्भावः, ... १९ १४
Page 22
(१४) प्रतिपाद्यविषयाः । सू० अधि० उक्ताध्यायस्य द्वितीयपादे।
वागादीनां मनसि वृत्तिप्रविलयो न स्वरूपेण, ... १-२ १ मनसः प्राणे वृच्या प्रविलयः, ..... ३ २ प्राणस्य जीवे लयान्तरं पुनर्भूतेषु लय:, ... ... ४-६ ३ ज्ञान्यज्ञानिनोरुत्क्ान्तेरपि साम्यम, ७ ४ तेजःप्रभृतीनां परमात्मनि वृच्या लयः, ... .. . ८-9१ देहादेव प्राणोत्क्रान्तेर्निषेधः, ... ... ... १२-१४ ६ तत्वज्ञानिनो वागादीनां परमात्मनि लयः, .... १५ ७ तच्वविदो वागादीनां निःशेषेण परमात्मनि लयः १६ उपासकस्योत्कान्तेर्विशेषवच्वम्, ... १७ निशायामपि मृतानां रश्मिप्रापितिः, 9८-१९ १० दक्षिणायनमृतस्योपासकस्य ज्ञानफलप्रामतिः, .. २०-२१११
उक्ताध्यायस्य तृतीयपादे।
अचिरादिकस्य ब्रह्मलोकमार्गस्यैकत्वम्, ... १ संवत्सरादित्ययोर्मध्ये देवलोकवायुलोकौ सन्निवेशयि- तव्यौ, २ वरुणादीनां सन्निवेशादर्रिरादिमार्गस्य व्यवस्थापितत्वं, ३ ३ अर्चिरादीनामातिवाहिकत्वम्, ... ४-६ ४ उत्तरमार्गेण कार्यब्रह्मगमनम्, ७-१४ प्रतीकोपासकानां ब्रह्मलोकाSप्रापणं, १५-१६
Page 23
(१५) प्रतिपाद्यविषयाः। सू० उक्ताध्यायस्य चतुर्थपादे। अधि०
मुक्तिरूपस्य वस्तुनः पुरातनत्वम्, ... .. . . . मुक्तस्य ब्रह्मणोऽभिन्नत्वम, १-३ २ मुक्तस्वरूपभूतस्य ब्रह्मणो युगपत् सविशेषत्वनिर्विशे- षत्वे, ... ... .. ५-७ अर्चिरादिमार्गेण ब्रह्मलोकं प्राप्तस्योपासकस्य भोग्य- ३
वस्तूनां सृष्टौ मानससङ्कल्पस्यैव हेतुत्वं, ... 6-९ एकस्यापि पुरुषस्य देहभावाभावयोरैच्छिकत्वम्, १०-१४ ५ सर्वेषां देहानां सात्मकत्वम्, ... ... ... १५-१६ ब्रह्मलोकगतानामुपासकानां जगत्सृष्टौ स्वातन्त्र्याभा- वेऽपि भोगमोक्षयोस्तेषां स्वातन्त्र्यसिद्धिः, १७-२२ ७ इति चतुर्थध्यायः
Page 25
॥ श्रीः।।
।। ॐ नमो गणेशाय॥
यमिह कारुणिकं शरणं गतोप्यरिसहोदर आप महत् पदम् तमहमाशु हरें परमाश्रये जनकजाङ्कमनन्तसुखाृतिम् ॥१॥ श्रीगौर्या सकलार्थदं निजपदाम्भोजेन मुक्तिप्रदम् प्रौढं विघ्नवनं हरन्तमनघं श्रीदुष्ढितुण्डासिना। वन्दे चर्मकपालिकोपकरणैवैराग्यसौख्यात् परम् नास्तीति प्रदिशन्तमन्तविधुरं श्रीकाशिकेशं शिवम् ॥ २ ॥ यत्कपालवमात्रेण मूको भवति पण्डितः । वेदशास्त्रशरीरान्तां वाणीं वीणाकरां भजे ॥ ३ ॥ कामोक्षीदत्तदुग्धप्रचुरसुर नुतप्राज्यभोज्याधिपूज्य- श्री गौरी नायकाभित्पकटनशिवरा मार्यलब्धात्मबोधैः श्रीमद्गोपालगीर्भि: प्रकटितपरमाहवैत भासास्मितास्य- श्रीमद्गोविन्दवाणी चरणकमलगो निर्वृतो 5हं यथालि: ॥ ४ ॥ श्रीशङ्गरं भाष्यकृतं प्रगम्य व्यासं हरिं सूत्रकृतं च वच्मि। श्रीभाष्यतीर्थे परहंसतुष्ट्यै वाग्जालबन्धच्छिदमभ्युपायम् ॥५॥ विस्तृतग्रन्थवीक्षायामलसं यस्य मानसम् । व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा॥ ६ ॥ श्रीमच्छारीरकं भाष्यं प्राप्य वाक् शुद्धिमाप्तुयात्। इति श्रमो मे सफलो गङ्गगं रथ्योदकं यथा॥ ७ ॥ १ मोक्षपुर्या श्रीकांच्यां श्रीकामाक्ष्या दत्तं पायसं देवैरपि स्तुतं म्राज्यं सम्पूर्ण प्रकृषाज्य युक्त वा यद्धोज्यमननं तेनाधिपूज्याः श्रीशिवरामयोगिनः किश्च्च शिवश्रासौ रामश्चेति स्व्रनाम्ा श्रीगौरीनायकयोरभेदं प्रकटयंति तेभ्यो गुरुभ्यो लब्धात्मबोधो यैः श्रीमद्वोपाल सरस्वतीभिस्तैरित्यर्थः। २ अत्र भाष्ये कठिनवागूपेण जालेन यो बंधः जालब द्धपक्षिणामिव परमहंसानां क्ेशकरस्तन्नाशकमभीष्टमुपायं वच्मीत्यर्थः ।
Page 26
(२ ) रत्नप्रभाभासिते [अ० १। पा० १।
सत्यज्ञानसुखानन्तं तदहं ब्रह्म निर्भयम् ॥८ ।। इह खलु "स्वाध्यायोऽध्येतव्य" इति नित्याध्ययनविधिनाSधीत- साङ्गस्वाध्याये "तहिजिज्ञासस्व" "सोऽन्वेष्टव्यः स विजिज्ञासितव्यः" "आत्मा वा अरे द्रष्टव्यः श्रोतव्य" इति श्रवणविधिरुपलभ्यते। तस्या- र्थः, अमृतत्वकामेनादैतात्मविचार एव वेदान्तवाक्यैः कर्तव्य इति । तेन काम्येन नियमविधिनाऽर्थादेव भिन्नात्मशास्त्रप्रवृत्ति: वैदिकानां पु- राणादिप्राधान्यं वा निरस्यत इति वस्तुगतिः। तत्र कश्विदिह जन्मनि जन्मान्तरे वाऽनुष्ठितयज्ञादिभिर्नितान्तं निर्मलस्वान्तोऽस्यश्रवणविधेः को विषयः? किं फलं? कोऽधिकारी? कः सम्बन्धः? इति जिज्ञासते। तं जिज्ञासुमुपलभमानो भगवान् बादरायणस्तदनुबन्धचतुष्टयं श्र- वणात्मकशास्त्रारम्भप्रयोजकं न्यायेन निर्णेतुमिदं सूत्रं रचयाच्चकार "अथातो ब्रह्मजिज्ञासा" इति। नन्वनुबन्धजातं विधिसन्निहितार्थवादवाक्यैरेव ज्ञातुं शक्यम् । तथाहि।"तयथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लो- कः क्षीयत" इति श्रुत्या यत् कृतकं तदनित्यमिति न्यायवत्या "न जायते स्रियते वा विपक्चित्" "यो वै भूमा तदमृतमतोऽन्यदार्त्तम्" इ- त्यादिश्रुत्या च भूत्तात्मा नित्यस्ततोऽन्यदनित्यमिति विवेको लभ्यते। कर्मणा कृष्यादिना चितः सम्पादितः सस्यादिलोंको भोग्य इत्यर्थः। विपश्चित् नित्यज्ञानस्वरूपः। "परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकत: कृतेन" "आत्मनस्तु कामाय सर्व प्रियं भव- ति" इत्यादिश्रुत्या अनात्ममात्रे वैराग्यं लभ्यते। परीक्ष्यानित्यत्वेन नि- श्रित्य। अतो मोक्ष: कृतेन कर्मणा नास्तीति। कर्मतत्फलेभ्यो वै- १अत्रव्रिधौ कालविशेषानुपादानान्नित्येत्यर्थसिद्धम्। अधिकारिणीतिशेषः। इभि न्नात्मप्रतिपादकशास्त्रप्रवृत्तिरित्यर्थ:, अन्वयस्तु अस्य पदस्य निरस्यते इत्यनेन साकम्। क० पा०-आत्मशास्त्रप्रवृत्तिः।
Page 27
सू० १ । अ ० १ ॥] शाङ्करब्रह्मसूत्रभाष्ये (३) राग्यं प्राप्तवानित्यर्थः। "शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्र- द्वान्चित्तो भूत्वाऽडत्मन्येवात्मानं पश्येत्" इति श्रुत्या शमादिषट्कं ल- भ्यते। "समाहितो भूत्वा" इति काण्वपाठः । उपरतिः संन्यासः। "न स पुनरावर्तत" इति स्वयं ज्योतिरानन्दात्मकमोक्षस्य नित्यत्वश्रुत्या मुमुक्षा लभ्यते। तथा च विवेकादिविशेषणवानधिकारीति ज्ञातुं श- क्यम्। यथा "एता रात्रीरुपयन्ति" इति रात्रिसत्रविधौ प्रतितिष्ठन्ती- त्यर्थवादस्थप्रतिष्ठाकीमस्तद्त्। तथा "श्रोतव्य" इत्यत्र प्रत्ययार्थस्य नियोगस्य प्रकत्यर्थो विचारो विषयः । विचारस्य वेदान्ता विषय इति शक्यं ज्ञातुम्। "आत्मा द्रष्टव्य" इत्युद्वैतात्मदर्शनमुद्दिश्य "श्रोतव्य" इति विचारविधानात्। न हि विचारः साक्षाद्दर्शनहेतुः अप्रमाणत्वात् अपि तु प्रमाणविषयत्वेन । प्रमाणं चाद्वैतात्मनि वेदान्ता एव। "तं- त्वौपनिषदं पुरुषं" "वेदान्तविज्ञानसुनिश्चितार्था" इति श्रुतेः। वेदा- न्तानां च प्रत्यग्व्र्मैक्यं विषयः "तत्त्वमसि" "अहं ब्रह्मास्मि" इति श्रुतेः। एवं विचारविधे: फलमपि ज्ञानद्वारा मुक्तिः "तरति शोकमात्म- वित्" "ब्रह्मविद् ब्रह्मैव भवति" इत्यादि श्रुतेः। तथा सम्बन्धोऽप्य- धिकारिणा विचारस्य कर्त्तव्यतारूपः फलस्य प्राप्यतारूप इति यथायो- गं सुबोधः। तस्मादिदं सूत्रं व्यर्थमिति चेतू न, तासामधिकार्यादिश्रु- तीनां स्वार्थे तात्पर्यनिर्णायकन्यायसूत्राभावे किं विवेकादिविशेषण- वान्धिकारी उतान्यः? किं वेदान्ताः पूर्वतन्त्रेण गतार्था अगतार्था वा? किं ब्रह्म प्रत्यगभिन्नं न वा? किं मुक्ति: स्वर्गादिवत् लोकान्तरम् आत्मस्वरूपा वेति संशयानिवृत्तेः। तस्मादागमवाक्यैरापाततः प्रति- पन्नाधिकार्यादिनिर्णयार्थमिदं सूत्रमावश्यकम्। तदुक्तं प्रकाशात्मश्री- १ अधिकारीतिपदं पूर्ववाक्यादिहाकृष्यताम् । नचैतद्विधौ विश्वजिन्न्यायेन स्वर्ग एव कुतो न फलं कल्प्यते इति वाच्यम्, अनुपस्थितस्वर्गफलकल्पने तस्य च प्रकृत- सत्रसंबंधकल्पने गौरवादर्थवादोपस्थितस्यैव प्रस्तुतसत्रफलत्वकल्पनौचित्यात्, तदुक्तं, "फलमत्रियो निर्देशादभुतौ ह्यनुमानं स्याद" इति जै०।
Page 28
(४) रत्नप्रभाभासिते [अ० १। पा० १। चरणैः।"अधिकार्यादीनामागमिकत्वेऽपि न्यायेन निर्णयार्थमिदं सूत्रम्" इति। येषां मते श्रवणे विधिर्नार्ति तेषामविहितश्रवणेऽधिकार्यादि- निर्णयानपेक्षणात् सूत्रं व्यर्थमित्यापतति इत्यलं प्रसङ्गेन। तथा चास्य सूत्रस्य श्रवणविध्यपेक्षिताधिकार्यादिश्रुतिभि: स्वा- र्थनिर्णयायोत्थापितत्वात् हेतुहेतुमद्भावश्रुतिसङ्गतिः । शास्त्रारम्भहेत्व- नुबन्धनिर्णायकत्वेनोपोद्दांतत्वाच्छास्त्रादौ सङ्गतिः । अधिकार्यादि- श्रुतीनां स्वार्थे समन्वयोक्ते: समन्वयाध्यायसङ्गतिः ।"ऐतदात्म्यमिदी सर्वम् तत् सत्यम् स आत्मा तत्त्वमसि" इत्यादिश्रुतीनां सर्वात्म- त्वादिस्पष्टव्रह्मलिङ्गानां विषयादौ समन्वयोक्ते: पादसङ्गतिः। एवं स- र्वसूत्राणां श्रुत्यर्थनिर्णायकत्वात् श्रुतिसङ्गतिः। तत्तदध्याये तत्तत्पादे च समानप्रमेयत्वेन सङ्गतिरूहनीया। प्रमेयं च कृत्लशास्त्रस्य ब्रह्म, अध्यायानां तु समन्बयाविरोधसांधनफलानि। तत्र प्रथमपादस्य स्पष्टबल्मलिङ्गानां समन्वयः प्रमेयः । द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गा- नां। चतुर्थपादस्य पदमात्रसमन्वय इति भेदः । अस्याधिकरणस्य प्राथम्यान्नाधिकरणसङ्गतिरपेक्षिता। अथाधिकरणमारच्यते। "श्रोतव्य" इति विहितश्रवणात्मकं वेदा न्तमीमांसाशास्त्रं विषयः। तत् किमारब्धव्यं न वेति विषयप्रयोजनस- म्भवासम्भवाभ्यां संशयः। तत्र "नाहं ब्रह्म" इति भेदग्राहिप्रत्यक्षेण कर्तृत्वाकर्तृत्वादिविरुद्धधर्म्मवत्त्वलिङ्गकानुमोनेन च विरोधेन ब्रह्मा त्मनोरैक्यस्य विषयस्यासम्भवात्, सत्यबन्धस्य ज्ञानान्निवृत्तिरूपफ लासम्भवान्नारम्भणीयमिति प्राप्ते, सिद्धान्तः "अथातो ब्रह्मजिज्ञा
१ प्रकृतार्थसिद्धयनुकूलचिन्ताविषयत्वं तत्त्वम्, तथा चाहुः, "चिन्तां प्रकृतसिद्धयथ। मुपोद्घातं विदुर्बुधाः" इति। २ यथाक्रमं प्रमेयाणीतिशेषः । ३क० पा० आरभ्यत अधिकरणलक्षणं तु "विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः । सङतिश्चेति पञ्ञान शास्त्रेऽधिकरणं स्मृतम्" इति। ४ सहार्थयोंग तृतीयेयम्। ५ अयमत्रानुमानप्रय गः जीवत्रह्मणी मिथो भिन्ने विरुद्धधर्मवच्वात्तेजस्तिमिरवदिति।
Page 29
सू० १ । अ० १] शाङ्करव्रह्मसूत्रभाष्ये (५) सा" इति। अत्र श्रवणविधिसमानार्थत्वाय "कर्तव्या" इति पद- मध्याहर्तव्यम् । अध्याहृतं च भाष्यकता "ब्रह्मजिज्ञासा कर्तव्या" इति। तत्र प्ररुतिप्रत्ययार्थयोर्ञानेच्छयोः कर्तव्यत्वानन्वयात् प्रक- त्या फलीभूतं ज्ञानमजहल्लक्षणयोच्यते। प्रत्ययेनेच्छासाध्यो विचा- रो जहल्लक्षणया। तथा च "ब्रह्मज्ञानाय विचारः कर्तव्य" इति सू- त्रस्य श्रौतार्थः सम्पयते। तत्र ज्ञानस्य स्वतः फलत्वायोगात् प्रमानृ- त्वकर्तृत्वभोकृत्वात्मका नर्थनिवर्तकत्वेनैव फलत्वं वक्तव्यम् । तत्रान- र्थस्य सत्यत्वे ज्ञानमात्राननिवृत्त्ययोगादध्यस्तत्वं वक्तव्यमिति बन्ध- स्याध्यस्तत्वमर्थात् सूचितम् । तच्च शास्त्रस्य विषयप्रयोजनवत्त्वसि- द्विहेतुः। तथा हि, शास्त्रमारब्धव्यं विषयप्रयोजनवत्त्वाद् भोजनादिवत्। शास्त्रं प्रयोजनवद् बन्धनिवर्तकज्ञानहेतुत्वात् रज्जुरियम् इत्यादिवा- क्यवत्। बन्धो ज्ञाननिवर्त्योऽध्यस्तत्वात् रज्जुसर्पवत्, इति प्रयोज- नसिद्धिः। एवमर्थाद् ब्रह्मज्ञानाज्जीवगतानर्थभ्रमनिवृत्तिं फलं सूत्रयन् जीवब्रह्मणोरैक्यं विषयमप्यर्थात् सूचयति । अन्यज्ञानादन्यत्र भ्रमा- निवृत्तेः। जीवो ब्रह्माभिन्नः तज्ज्ञाननिवर्त्याध्यासाश्रयत्वात्, यदित्थं तत्तथा यथा शुक्यभिन्न इदमंश इति। विषयसिद्धिहेतुरध्यास इत्येवं विषयप्रयोजनवत्त्वाच्छास्त्रमारम्भणीयमिति। अत्र पूर्वपक्षे बन्धस्य सत्यत्वेन ज्ञानादनिवृत्तेरुपायान्तरसाध्या मुक्तिरिति फलम्। सिद्धान्ते ज्ञानादेव मुक्तिरिति विवेकः। इति सर्व मनसि निधाय ब्रह्मसूत्राणि व्याख्यातुकामो भगवान् भाष्यकारः सूत्रेण विचारकर्त्तव्यतारूपश्रौ- तार्थान्यथानुपपत्त्याऽर्थात् सूत्रितं विषयप्रयोजनवत्त्वमुपोद्दातत्वात् तत्सिद्धिहेत्वध्यालसाक्षेपसमाधानभाष्याभ्यां प्रथमं वर्णयति "युष्म- दस्मत्प्रत्ययगोचरयोः" इति। एतेन सूत्रार्थास्पर्शित्वादध्यासग्रन्थो न भाष्यमिति निरस्तम् आर्थिकार्थस्पर्शित्वात्। १ विषयस्य अध्यस्तत्वम्। २ यो यज्ज्ञाननिवर्त्याध्यासाश्रयः स तदभिन्न इति स्प षोडर्य:। ३ वक्ष्यमाणहेसुना।
Page 30
(६) रत्नप्रभाभासिते [अ० १।पा० १। ॐ न मो भगवते वासुदेवाय॥ युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्त-
यत्तु मङ्गला चरणाभावादव्याख्येयमिदं भाष्यमिति, तन्न, "सुतरा- मितरेतरभावानुपपत्तिः" इत्यन्तभाष्यरचनार्थ तदर्थस्य सर्वोप- द्रवरहितस्य विज्ञानघनप्रत्यगर्थस्य तच्वस्य स्मृतत्वात्। अतो निर्दोष- त्वादिदं भाष्यं व्याख्येयम्। लोके शुक्ताविदं रजतमिति भ्रमः सत्यरजते इदं रजतमित्यधिष्ठा- नसामान्यारोप्यविशेषयोरैक्यप्रमाहितसंस्कारजन्यो दृष्ट इति। अत्रा- प्यात्मन्यनात्माहङ्गाराध्यासे पूर्वप्रमा वाच्या, सा चात्मानात्मनोर्वा- स्तवैक्यमपेक्षते, न हि तदस्ति। तथा हि, आत्मानात्मानावैक्यशून्यौ परस्परैक्यायोग्यत्वात् तमःप्रकाशवदिति मत्वा हेतुभूतं विरोधं वस्तु- तः प्रतीतितो व्यवहारश् साधयति॥ युष्मदस्मत्प्रत्ययगोचरयो- रिति॥ न च "प्रत्ययोत्तरपदयोश्" [७।२।९८] इति सूत्रेण "प्र- त्यये चोत्तरपदे च परतो युष्मदस्मदोर्मपर्यन्तस्य त्वमादेशौ स्त" इति विधानात् "त्वदीयं मदीयं त्वत्पुत्रो मत्पुत्र" इतिवत् "त्वन्म- त्प्रत्ययगोचरयोः" इति स्यादिति वाच्यं, "त्वमावेकवचने" [७२॥ ९७] इत्येकवचनाधिकारात्, अंत्र च युष्मदस्मत्पेदयोरेकार्थवाचि- त्वाभावादनात्मनां युष्मदर्थानां बहुत्वादस्मदर्थचैतन्यस्याप्युपावितो बहुत्वात्। नन्वेवं सति कथमत्र भाष्ये विग्रहः? न च "यूयमिति प्रत्ययो यु- ष्मत्प्रत्ययः वयमिति प्रत्ययोऽस्मत्प्रत्ययस्तद्रोचरयोरिति विग्रह" इति वाच्यं, शब्दसाधुत्वेऽप्यर्थासाधुत्वात्। न हहङ्काराधनात्मनो यूयमिति १ आत्मानात्मनोर्वास्तिवैक्यम्। २ युष्मदस्मत्प्रत्ययगोचरयोरितिभाष्ये। ३ क० पा० युष्मदस्मदोरेकार्थवाचित्वाभावात्।
Page 31
सु० । अ० ] (७)
प्रत्ययविषयत्वमस्तीति चेत्, न, गोचरपदस्य योग्यतापरत्वात्। चि- दात्मा तावद्स्मत्प्रत्यययोग्यः, तत्प्रयुक्तसंशयादिनिवृत्तिफलभाक्त्वा- त्, "न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात्" इति भा- ष्योक्तेश्। यवप्यहङ्गारादिरपि तय्योग्यस्तथापि चिदात्मनः सकाशा- दत्यन्तभेदसिद्दयर्थ युष्मत्प्रत्यययोग्य इत्युच्यते। आश्रमश्रीचरणास्तु टीकायोजनायामेवमाहुः । "सम्बोध्यचेतनो युष्मत्पदवाच्यः, अहङ्कारादिविशिष्टचेतनोऽस्मत्पदवाच्यः, तथा च यु- ष्मदस्मदोः स्वार्थे प्रयुज्यमानयोरेव त्वमादेशनियमो, नलाक्षणिकयोः "युष्मदस्मदोः षष्ठीचनुर्थीद्दिती यास्थयोर्वान्नावौ" [८१।२] इति पौम सूत्रासाङ्गत्यप्रसङ्गात अत्र शब्दलक्षकयोरिव चिन्मात्रजडमात्रलक्ष-नी सुर् कयोरपि न त्वमादेशो लक्षकत्वाविशेषाद्" इति। यदि तयोः शब्दबो- धकत्वे सत्येव त्वमादेशाभाव इत्यनेन सूत्रेण ज्ञापितं, तदाऽस्मि- न् भाष्ये युष्मत्पदेन युष्मच्छब्दजन्यप्रत्यययोग्यः परागर्थो लक्ष्यते अस्मत्पदेन अस्मच्छब्दजन्यप्रत्यययोग्यः प्रत्यगात्मा। तथा च लक्ष्य- तावच्छेदकतया शब्दोऽपि बोध्यत इति न त्वमादेशः।न च पराक्त्व- प्रत्यक्त्वयोरेव लक्ष्यतावच्छेदकत्वं, न शब्दयोग्यत्वांशस्य गौरंवा- दिति वाच्यं, पराक्प्रतीचोविरोधस्फुरणार्थ विरुद्धशब्दयोग्यत्वस्यापि वक्तव्यत्वात्। अत एवेदमस्मत्प्रत्ययगोचरयोरिति वक्तव्येऽपीदंशब्दो Sस्मदर्थे लोके वेदे च बहुशः"इमे वयमास्महे" "इमे विदेहाः" "अय महमस्मि" इति च प्रयोगदर्शनात्, नास्मच्छब्दविरोधीति मत्वा यु- ष्मच्छद: प्रयुक्त:, इदंशब्दप्रयोगे विरोधास्फूर्तेः।एतेन चेतनवाचित्वा- १ अयमात्मा एकान्तेन नियमेनाविषयो न। २ युस्मदष्मदोः षष्ठीत्यादिसूत्रे। ३ समनियतलघुधर्मस्यावच्छेदकत्वे संभवति गुरोधर्मस्य तदभाव इति सिद्धान्तः । ४ वक्ष्यमाणहेतुह्येन।
Page 32
(८) रत्नप्रभाभासिते [अ० १। पा० १। पत्तौ सिद्धायां तद्वर्माणामपि सुतरामितरेतर दस्मच्छब्दः पूर्व प्रयोक्तव्यः" अभ्यर्हितं पूर्वमितिन्यायात्" "त्यदा- दीनि सवैनित्यम्" [१।२।७२] इति सूत्रेण विहित एकशेषश्र स्यादिति निरस्तम् "युष्मदस्मदोरिति" सूत्र इवात्रापि पूर्वनिपातैकशे- षयोरप्राप्तेः, एकशेषे विवक्षितविरोधास्फूर्तेश्र। वृद्धास्तु "युष्मदर्थाद- नात्मनो निष्कष्य शुद्धस्य चिद्धांतोरध्यारोपापवादन्यायेन ग्रहणं योत- यितुमादौ युष्मद्गहणम्" इत्याहुः। तत्र युष्मदस्मत्पदाभ्यां पराक्प्र- त्यत्केनात्मानात्मनोर्वस्तुतो विरोध उक्तः ॥ प्रत्ययपदेन प्रतीतितो विरोध उक्तः। प्रतीयत इति प्रत्ययो ऽह- झारादिरनात्मा दृश्यतया भाति, आत्मा तु प्रतीतित्वात् प्रत्ययः स्वप्र- काशतया भाति। गोचरपदेन व्यवहारतो विरोध उक्तः । युष्मदैर्थः प्रत्यगात्मतिरस्कारेण कर्ताहमित्यादि व्यवहारगोचरः, अस्मदर्थस्त्व- नात्मप्रविलापेन "अहं ब्रह्मेति" व्यवहारगोचर इति त्रिधा विरोधः स्फुटीकतः। युष्मच्चास्मच्च युष्मदस्मदी, ते एव प्रत्ययौ च तौ गोचरौ चेति युष्मदस्मत्प्रत्ययगोचरौ तयोस्त्रिधा विरुद्स्वभावयोरितरेतरभावो उत्यन्ताभेदस्तादात्म्यं वा तदनुपपत्तौ सिद्धायामित्यन्वयः । ऐक्यास- म्भवेपि शुक्लो घट इतिवत्तादात्म्यं किं न स्यादित्यत आह॥ विषय विषयिणोरिति॥चिज्जडयोविषयविषयित्वाद्दी पघटयोरिव न तादात्म्य मिति भाव:। युष्मदस्मदी पराक्प्रत्यग्वस्तुनी, ते एव प्रत्ययश्ष गो- चरश्षेति वा विग्रहः। अत्र प्रत्ययगोचरपदाभ्यां आत्मानात्मनोः प्र- त्यक्पराग्भावे चिदचित्त्वं हेतुरुक्तः, तेत्र हेतुमाह विषयविषयिणोरि- ति। अनात्मनो ग्राहयत्वादचित्त्वं आत्मनस्तु ग्राहकत्वाच्चित्वं वाच्यम्। अचिच्वे स्वस्य स्वेन ग्रहस्य कर्मकर्तृत्वविरोधेनासम्भवादप्रत्यक्षत्वा- १ चैतन्यस्य धारकस्य सर्वाधिष्ठानस्येति यावत्। २ अध्यारोपापवादाभ्यां निष्प्र- पञ्चं प्रपंच्यते इति न्यायस्वरूपम्। ३ अहंकारः। ४ चिदात्मा। ५ तिदचिच्े।
Page 33
सू० १ । अ ० १ ] ( ९ ) आावानुपपत्तिरित्यतोऽस्मस्त्ययगोचरे विषयि-
पत्तेरित्यर्थः। यथेष्टं वा हेतुहेतुमद्भावः।नन्वेवमात्मानात्मनोः पराक्प्रत्य- क्केन चिद्चिच्वेन ग्राहग्राहकत्वेन से च विरोधात् तमःप्रकाशवदैक्यस्य तादात्म्यस्य चानुपपत्तौ सत्यां तत्प्रमित्यभावेनाध्यासाभावेडाप तद्ध- र्माणां चैतन्यसुखजाड्यदुःखादीनां विनिमयेनाध्यासोऽस्त्वित्यत आह ॥ तद्धर्माणामपीति ॥ तयोरात्मानात्मनोर्धर्मासतद्वर्मास्तेषामपि इ- तरेतरभावानुपपत्तिः। इतरत्र धर्म्यन्तरे इतरेषां धर्माणां भावः संसर्गस्त- स्या नुपपत्तिरित्यर्थः । न हि धर्मिणोः संसर्ग विना धर्माणां विनिमयोऽ- स्ति। स्फटिके लोहितवस्तुसान्निध्यात् लौहित्यधर्मसंसर्गः। असंगात्म- धर्मिणः केनाऽप्यसंसर्गाद्धमिसंसर्गपूर्वको धर्मसंसर्ग: कुतस्त्य इत्य-
सर्गस्य चाभावेऽप्यध्यास: किं न स्यादित्यत आह॥इत्यत इति।इत्युक्त रीत्या तादात्म्याद्यभावेन तत्प्रमाया अभावावृतः प्रमाजन्यसंस्कारस्या ध्यासहेतोरभावादध्यासो मिथ्येति भवितुं युक्तमित्यन्वयः। मिथ्याशब्दो द्चर्थः, अपक्कववचनः अनिर्वचनीयतावचनश्रेति।अत्र चापन्हवार्थः। ननु कुत्र कस्याध्यासोऽपड्गयते इत्याशङ्क्च् आत्मन्यनात्मतद्वर्माणाम् अनात्मन्यात्मतद्धर्माणोमध्यासो निरस्यत इत्याह॥ अरमत्प्रत्यय- गोचर इत्यादिना। अहमितिप्रत्यययोग्यत्वं बुद्ध्यादेरप्यस्तीति मत्वा तत आत्मानं विवेचयति॥विषयिणीति। बुद्ध्यादिसाक्षिणीत्यर्थः। साक्षित्वे हेतुः॥ चिदात्मक इति ॥ अहमिति भासमाने चिदंशात्म नीत्यर्थः ॥युष्मत्प्रत्वयगोचरस्थेति ॥ त्वंकारयोग्यस्य इदमर्थस्येति १ विषयविषयित्वे चिदचित्वं हेतुः, चिदचिच््वे प्रत्यक्पराग्भावो हेतुः । यद्ा विषयविषयित्वे पराक्पत्यग्भावो हेतुः, प्रत्यक्पराग्भावे चिदचित्वं हेतुः। अथवा प्रत्य- क्पराग्भावे चिदचित्वं हेतुः, चिदचित्वे विषयविषयिभावो हेतुः । इतिरीत्या यथेष्टम्। २ धर्माणां विनिमयो नाम स्व्धर्म्यतिरिक्त भानम्। ३ चकारोऽत्राध्याहर्तव्यः । २
Page 34
(१० ) रत्नप्रभाभासिते [अ० १।पा० १। णि चिदात्मके युष्मत्त्ययगोचरस्य विषयस्य
यावत्। नन्वहमिति भासमानबुद्द्यादेः कथमिदमर्थत्वमित्यत आह विषयस्येति॥ साक्षिभास्यस्येत्यर्थः । साक्षिभास्यत्वरूपलक्षणयोगा- ट् बुद्द्यादेर्घटादिवदिदमर्थत्वं न प्रतिभासत इति भावः ।अथ वा यदात्मनो मुख्यं सर्वान्तरत्वरूपं प्रत्यत्कं प्रतीतित्वं ब्रह्मास्मीति व्यवहारगोचरत्वं चोक्तं तदसिद्धम्, अहमिति प्रतीयमानत्वात् अह- ङ्कारवदित्याशङ्क्चाह॥अस्मत्प्रत्ययगोचर इति ॥अस्मच्चासौ प्रत्य- यश्ष्ासौ गोचरश्र तस्मिन्नित्यर्थः। अहंवृत्तिव्यङ्ग्चस्फुरणत्वं स्फुरणवि- षयत्वं वा हेतुः। आये, दृष्ठान्ते हेत्वसिद्धिः। द्वितीये तु, पक्षे तदसि- द्विरित्यात्मनो मुख्यं प्रत्यत्कादि युक्तमिति भावः। ननु यदात्मनो वि- षयित्वं तदसिद्धम् "अनुभवामि" इति शब्दवत्त्वाद् अहङ्कारवदित्यत आह॥ विषयिणीति॥ वाच्यत्वं लक्ष्यत्वं वा हेतुः। नायः पक्षे तद- सिद्धेः। नान्त्यः, दष्टान्ते तद्दैकल्यादिति भावः। "देहं जानामि" इति देहाहङ्कारयोविषयविषयित्वेऽपि मनुष्योऽहमित्यभेदाध्यासवदात्माह- ङ्ारयोरप्यंध्यासः स्यादित्यत आह ॥ चिदात्मक इति॥ तयोर्जा- ज्याल्पत्वाभ्यां सादृश्यादध्यासेऽपि चिदात्मन्यनवच्छिन्ने जडाल्पाह- ड्ारादेर्नाध्यास इति भावः। "अहम्" इति भास्यत्वादात्मवदहङ्का- रस्यापि प्रत्यत्कादिकं मुख्यमेव, ततः पूर्वोक्तपराक्कायसिद्धिरित्याश- ड्क्याह॥ युष्मदिति ॥ अहंवृत्तिभास्यत्वमहङ्कारे नासिति कर्तृकर्म- त्वविरोधात्, चिद्धास्यत्वं चिदात्मनि नास्ति इति हेत्वसिद्धिः। अतो बुद्ध्यादेः प्रतिभासतः प्रत्यत्केऽपि परात्कादिकं मुख्यमेवेति भावः। युष्मद् पराक् तच्चासौ प्रतीयत इति प्रत्ययश्र्ासौ कर्तृत्वादिव्यवहार- गोचरश्ष् तस्येति विग्रहः। तैस्य हेयत्वार्थमाह ॥ विषयस्थेति॥ षि- १ का०पा० :- रप्यभेदाध्यासः २ अहंवृत्तिभास्यत्वं हेतुः, अहंवृ्त्त्यभिव्यक्त्तचिद्वा- स्यत्वं वा हेतुस्तत्रेति शेषः । ३ युष्भत प्रत्ययगोचरस्य।
Page 35
सू ० १ । अ ० १ । ] शाङ्करव्रह्म सूत्रभाष्ये (११) तद्र्माणां चाध्यासः । तद्विपर्ययेण विषयिण-
ञ् बन्धने। विसिनोति बन्नाति इति विषयसतस्येत्यर्थः । आत्मन्य- नात्मतद्धर्माध्यासो मिथ्या भवतु, अनात्मन्यात्मतद्दर्माध्यासः किं न स्यात्? "अहं स्फुरामि, सुखी" इत्याय्यनुभवादित्याशङ्क्याह • । तद्विपर्ययेणेति॥ तस्मादनात्मनो विपर्ययो विरुद्धस्वभावश्र्वैत- न्यं, इत्थम्भावे तृतीया। चैतन्यात्मना विषयिणस्तद्धर्माणां च योऽह- झारादौ विषयेडध्यासः स मिथ्येति नास्तीति भवितुं युक्तम्, अध्या- ससामग्यभावात्। न ह्यत्र पूर्वप्रमाहितसंस्कारः सादृश्यमज्ञानं वा- डस्ति। निरवयवनिर्गुणस्वप्रकाशात्मनि गुणावयवसादृश्यस्य चाज्ञान- स्य चायोगात्। नन्वात्मनो निर्गुणत्वे तद्धर्माणामिति भाष्यं कथमिति चेद्, उ- च्यते। बुद्धिवृत्यभिव्यक्तं चैतन्यं ज्ञानं विषयाभेदेनाभिव्यक्तं सफुर- णम्, शुभकर्मजन्यवृत्तिव्यक्तमानन्द इत्येवं वृत्युपाधिकृतभेदात् ज्ञानादीनामात्मधर्मत्वव्यपदेशः। तदुक्तं टीकायाम्, "आनन्दो वि- षयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथत्केऽपि चैतन्यात् पृथ- गिवावभासन्ते" इति। अंतो निर्गुणब्रह्मात्मत्वमते "अहङ्करोमि" इति प्रतीतेरर्थस्य चाध्यासत्वायोगात् प्रमात्वम्, "अहं नर इति सामानाधिकरण्यस्य गौणत्वमिति" मतमास्थेयम्। तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासम्भवाद् बद्दमुक्तयोजीवब्रह्मणोरै- क्यायोगेन विषयासम्भवात् शास्त्रं नारम्भणीयमिति पूर्वपक्षभाष्य- तात्पर्थ्यम्। युक्तग्रहणात् पूर्वपक्षस्य दुर्बलत्वं सूचयति। तथा हि, किमध्यासस्य नास्तित्वमयुक्तत्वाद्, अभानाद्दा, कारणाभावाद्दा? आय इष्ट इत्याह ॥ तथापीति ॥ एतदनुरोधादादौ ययपीति
Page 36
(१२) रत्नप्रभाभासिते [अ० १। पा० १। स्तद्वर्माणां च विषयेऽध्यासो मिथ्येति भवितुं यु- क्तम्। तथाप्यन्योन्यस्मिन्नन्योन्यात्मकताम-
पठितव्यम् । अध्यासस्यासङ्गस्वप्रकाशात्मन्ययुक्तत्वमलङ्गार इति भावः। न द्वितीय इत्याह ॥ अयमिति ॥"अज्ञः कर्ता मनुष्योऽहम्" इति प्रत्यक्षानुभवादध्यासस्याभानमसिद्धमित्यर्थः । न चेदं प्रत्य- क्षं कर्तृत्वादौ प्रमेति वाच्यम्, अपौरुषेयतया निर्दोषेणोपक्रमादि- लिङ्गावैधृततात्पर्येण च "तत्वमसि" इत्यादिवाक्येनाकर्तृत्वव्रह्मत्व- बोधनेनास्य भ्रमत्वनिश्रयात्। न च ज्येष्ठप्रत्यक्षविरोधादागमज्ञानस्यै- व बाध इति वाच्यम् देहात्मवादप्रसङ्गात्। "मनुष्योऽहम्" इति प्र- त्यक्षविरोधेन "अथायमशरीरः" इत्यादिश्रुत्या देहान्यात्मासिद्देः । "तस्मादिदं रजतम्" इतिवत् सौमानाधिकरण्यप्रत्यक्षस्य स्र्मत्वश- क्काकलाङ्गितस्य नागमात् प्रावल्यमित्यास्थेयम्। किश्च ज्येष्ठत्वं पूर्व- भावित्वं वा? आगमज्ञानं प्रत्युपजीव्यत्वं वा?। आयेन प्राबल्यं। ज्ये- प्ठस्यापि रजतभ्रमस्य पश्चाज्माविना शुक्तिज्ञानेन बाधदर्शनात्। न द्वितीयः । आगमज्ञानोत्पत्तौ प्रत्यक्षादिमूलवृद्दव्यवहारे च संगति- ग्रहद्दारा शब्दोपल्धिद्दारा च प्रत्यक्षादेर्व्यवहारिकप्रामाण्यस्योपजी- व्यत्वेऽपि तात्त्विकप्रामाण्यस्यानपेक्षितत्वादनपेक्षितांशस्यागमेन बा- धसंभवादिति। यन्तु क्षणिकयागस्य श्रुतिबलात् कालान्तरभाविफलहेतुत्ववत् "त था विद्वानामरूपाद्विमुक्तः", इति श्रुतिबलात् सत्यस्योपि ज्ञानानिनि वृतिसम्भवादध्यासवर्णनं व्यर्थमिति तन्न ज्ञानमात्रनिवर्त्यस्य क्वापि १ "उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम। अर्थवादोपपत्तीच लिंगं तात्पर्यनिर्णये" इतिश्लोकोक्ताः षडुपक्रमादयः। २ निश्चित। ३ अज्ञः कर्ता मनुष्योऽहमित्यादि- रूपस्य। ४ उपजीव्यते कार्यायाश्रीयते इत्युपजीव्यं कारणं तस्य भावः तत्वम्। ५ बंधस्येतिशेषः ।
Page 37
सू० १ । अ ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (१३) न्योन्यधर्माश्र्ाध्यस्येतरेतराविवेकेनात्यन्तवि- सत्यत्वादर्शनात्, सत्यस्य चात्मनो निवृच्यदर्शनाच्च, अयोग्यतानि- श्रये सति सत्यबन्धस्य ज्ञानान्निवृत्तिश्रुतेर्बोंधकत्वायोगात्। न च सेतुदर्शनात् सत्यस्य पापस्य नाशदर्शनान्नायोग्यतानिश्रय इति वा- च्यम्। तस्य श्रद्धानियमादिसापेक्षज्ञाननाश्यत्वात्, बन्धस्य च 'जा- न्य: पन्थाः" इति श्रुत्या ज्ञानमात्रान्निवृत्तिप्रतीतेः। अतः श्रुतज्ञान- निवर्त्यत्वनिर्वाहार्थमध्यस्तत्वं वर्णनीयम्। किश्च ज्ञानैकनिवर्च्यस्य किं नाम सत्यत्वम्? न तावदज्ञानाजन्यत्वम्। "मायां तु प्रकृतिम्" इति श्रुतिविरोधात् मार्याविद्ययोरैक्यात्। नापि स्वाधिष्ठाने स्वाभावशून्य- त्वम् । "अस्थूलम्" इत्यादि निषेधश्रुतिविरोधात्। नापि ब्रह्मवद्दा- धायोग्यत्वं ज्ञानान्निवृत्तिश्रुतिविरोधात्। अथ व्यवहारकाले बाधशून्य- त्वम्, तर्हि व्यावहारिकमेव सत्यत्वमित्यागतमध्यस्तत्वम्। तच्च श्रु- त्यर्थे योग्यताज्ञानार्थ वर्णानीयमेव यागस्यापूर्वद्दारत्ववत्। न च तदन- न्यत्वाधिकरणे तस्ये वर्णनात् पौनरुक्त्यम्। तत्रोक्ताध्यासस्यैव प्रवृ- त्यङ्गविषयादिसिद्धचर्थमादौ स्मार्यमाणत्वादिति दिक्। अध्यासं दे- धा दर्शयति।। लोकव्यवहार इति॥लोक्यते मनुष्योऽहमित्यभ्िम- न्यत इति लोकोऽर्थाध्यासः तदिषयो व्यवहारोऽभिमान इति ज्ञा- नाध्यासो दर्शितः । द्विविधाध्यासस्वरूपलक्षणमाह ॥ अन्योन्य- स्मित्ित्यादिना धर्मधर्मिणोरित्यन्तेन ।। जाउ्यचैतन्यादिधर्माणां धर्मिणावहङ्गारात्मानौ तयोरत्यन्तं भिन्नयोरितरेतरभेदाग्रहेणान्यो- न्यस्मिन् अन्योन्यतादात्म्यमन्योन्यधर्माश्र व्यत्यासेनाध्यस्य लो- कव्यवहार इति योजना। अतः "सोडयम्" इति प्रमाया नाध्यास- १अयमभिप्रायः यदि बन्धे सत्यत्वस्वीकारस्ते मते तदातूपनिषदां सहस्त्रैरवि बन्धनिवृ- ततिर्न शक्यते बोधयितुं, बंधो न निरवृत्तिप्रतियोगी सत्यत्वात्, आत्मवत्, इत्यनुमानेन तस्य निवृत्त्यभावबोधनादिति। २ मायाभासेन जीवेशौ करोति मायाचाविद्या च स्व- यमेव भवतीतिश्रुतेस्तयोरैक्यमवसेयम्। ३वन्धाध्यस्तत्वस्य। ४ अत्यन्तपदोपादानात्।
Page 38
(१४) रत्नप्रभाभासिते [अ० १।पा० १। त्वं तदिदमर्थयोः कालभेदेन कल्पितभेदेपि अत्यन्तभेदाभावात्, इ- ति वक्तुमत्यन्तेत्युक्तम्। न च धर्मितादात्म्याध्यासे धर्माध्याससिद्धे: "धर्माश्रेति" व्यर्थमिति वाच्यम् अन्धत्वादीनामिन्द्रियधर्माणां ध- र्म्यध्यासास्फुटत्वेऽप्यन्धोऽहमिति स्फुटोऽध्यास इति ज्ञापनार्थत्वात्। नन्वात्मानात्मनोः परस्पराध्यस्तत्वे शून्यवादः स्यादित्याशङ्ग्चयाह॥ ॥ सत्यानृते मिथुनीकत्येति॥ सत्यमनिदं चैतन्यं, तस्यानात्मनि संसर्गमात्राध्यासो न स्वरूपस्य। अनृतं युष्मदर्थः तस्य स्वरूपतोऽ- प्यध्यासात् तयोमिथुनीकरणमध्यास इति न शून्यतेत्यर्थः । नन्वध्यासमिथुनीकरणलोकव्यवहारशब्दानामेकार्थत्वेऽध्यस्य मि धुनीकृत्येति पूर्वकालत्ववाचि "क्क्" प्रत्ययादेशस्य ल्यपः कथं प्रयोग इति चेन्न, अध्यासव्यक्तिभेदात्। तत्र पूर्वपूर्वाध्यासस्योत्त- रोत्तराध्यासं प्रति संस्कारद्दारा पूर्वकालत्वेन हेतुत्वदोतनार्थ ल्यपः प्रयोगः। तदेव स्पष्टयति॥ नैसर्गिक इति॥प्रत्यगात्मनि हेतुहेतुमद्धा- वेनाध्यासप्रवाहोऽनादिरित्यर्थः ॥ ननु प्रवाहस्यावस्तुत्वादध्यासव्य- कीनां सादित्वात् कथमनादित्वमिति चेद्, उच्यते। अध्यासत्वावच्छि- लव्यक्तीनां मध्येऽन्यतमया व्यक्त्या विनाSनादिकालस्य अवर्तनं का- र्यानादित्वमिति, अङ्गीकारात्। एतेन कारणाभावादिति कैल्पो निर- स्तः संस्कारस्य निमित्तस्य नैसर्गिकपदेनोक्तत्वात् । न च पूर्वप्रमाज- न्य एव संस्कारो हेतुरिति वाच्यम, लाघवेन पूर्वानुभवजन्यसंस्कार- स्य हेतुत्वात्। अतः पूर्वाध्यासजन्यसंस्कारोऽस्तीति सिद्धम् । अ- ध्यासस्योपादानमाह ॥ मिथ्याज्ञाननिमित्त इति। मिथ्या च तद- ज्ञानं च मिथ्याज्ञानं तन्निमित्तमुपादानं यस्य स तन्निमित्तसतदुपादान इ- त्यर्थः । अज्ञानस्योपादानत्वेऽि संस्फुरदात्मतत्वावरकतया दोषत्वे- नाहङ्काराध्यासकर्तुरीश्वरस्योपाधित्वेन संस्कारकालकर्मादिनिमित्तपारि- १ का० पा० विकरूपो।
Page 39
सू० १ । अ ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (१५) विक्तयोर्धर्मधार्मणोमिथ्याज्ञाननिमित्तः सत्या- नृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गि- णामित्वेन च निमित्तत्वमिति द्योतयितुं निमित्तपदम्। स्वप्रकाशात्म- न्यसङ्गे कथमविद्यासङ्ग इति शङ्कानिरासार्थ मिथ्यापदम्। प्रच- ण्डमार्तण्डमण्डले पेचकांनुभवसिद्धान्धकारवत् "अहमज्ञ" इत्यनुभव सिद्धमज्ञानं दुरपङ्गवं कल्पितस्याघिष्ठानास्पर्शित्वात् नित्यस्वरूपज्ञा- नस्याविरोधित्वाच्चेति। यद्दा अज्ञानं ज्ञानाभाव इति शङ्कानिरासार्थ मिथ्यापदम्। मिथ्यात्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानस्य लक्षणं मिथ्याज्ञानपदेनोक्तम्। ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति व- देन्तं प्रति मिथ्यात्वे सतीत्युक्तम्। अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यब- न्धेऽतिव्याप्तिनिरासाय साक्षादिति। अनाधुपादानत्वे सति मिथ्यात्वं वा लक्षणम्। ब्रह्मनिरासार्थ मिथ्यात्वमिति । मृदादिनिरासार्थमना- दीति। अविद्यात्मनोः सम्बन्धनिरासार्थमुपादानत्वे सतीति। संप्रति अध्यासं द्रढयितुमभिलपति ॥ अहमिदं ममेदमिति॥ आध्या- त्मिककार्याध्यासेष्वहमिति प्रथमोऽध्यासः। न चाघिष्ठानारोप्यांश- द्दयानुपलम्भात् नायमध्यास इति वाच्यम्, "अयो दहति" इतिवत् "अहमुपलभे" इति दृक्दृश्यांशयोरुपलम्भात्। इदंपदेन भोग्यः संघा- त उच्यते। "अत्रअहमिदम्" इत्यनेन "मनुष्योऽहम्" इति तादा- त्म्याध्यासो दर्शितः। "ममेदं शरीरम्" इति संसेर्गाध्यासः॥ ननु देहात्मनोस्तादात्म्यमेव संसर्ग इति तयो: को भेद इति चेतू, सत्यम्, सत्तैक्ये सति मिथोऽभेदसतादात्म्यम् । तत्र "मनुष्योऽहम्" १ दिवान्धस्योलूकस्य। २ प्रतियोगिपागभावनिवृत्तिः प्रतियोगिस्वरूपान्नातिरि- च्यते इति चिरंतनतार्किकं प्रति। तन्मते इच्छाप्रागभावनिवृत्तेरिच्छास्व्ररूपानतिरिक्तत- या इच्छाया ज्ञानसाध्यत्वांगीकारादेव इच्छापागभावनिवृत्तेरपि ज्ञानसाध्यत्वसंभवादि- ति बोध्यम्। ३ दर्शित इति पूर्वोक्तमत्रानुवर्त्य चकारं चाध्याहृत्य संसर्गाध्यास दर्शित इति योज्यम्।
Page 40
(१८) रत्नप्रभाभासिते [अ०१।पा० १। भासः। तं केचिद्"अन्यत्रान्यधर्माध्यास"इति- वदन्ति। केचित्तु "यच् यदध्यासस्तद्विवेकाग्रह- निबन्धनो भ्रम" इति। अन्ये तु "यत्र यदध्या- सस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षत" इ- ति।सर्वथापि त्वन्यस्यान्यधर्मावभासतां नव्य- भ्िचरति। तथा च लोकेऽनुभवः "शुक्तिका हि रजतवदवभासते एकश्र्न्द्रः सद्वितीयवद्" इति योजना। ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्वदर्शनादवभास- त इति वाक्यंयोजनीयमिति संक्षेपः। ननु अध्यासे वादिविप्रतिपत्तेः
त्र परावभास" इति लक्षणे संवादायुक्तिभिः सत्याधिष्ठाने मिथ्यार्थाव- भाससिद्धे:सर्वतन्त्रसिद्धान्ते इदं लक्षणमिति मत्वा अन्यथात्मख्याति- वादिनोर्मतमाह ॥ तंकेचिदिति॥ केचिदन्यथाख्यातिवादिनोऽन्य- त्र शुकत्यादावन्यधर्मस्य स्वावयवधर्मस्य देशान्तरस्थरूप्यादेरध्यास इ- ति वदन्ति। आत्मख्यातिवादिनस्तु बाह्ये शुक्त्यादौ बुद्धिरूपात्मनो ध- र्मस्य रजतस्याध्यास आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्ती- त्यर्थः । अख्यातिमतमाह ॥ केचिदिति ॥ यत्र यस्याध्यासो लोक- सिद्धस्तयोरर्थयोस्तद्वियोश्ष भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः । तैरपि विशिष्टव्यवहारान्यथानुप- पत्त्या विशिष्टभ्रान्तेः स्वीकार्यत्वात् परत्र परावभाससम्मतिरिति भा- वः। शून्यमतमाह ॥ अन्ये त्विति॥ तस्यैवाधिष्ठानस्य शुक्त्यादेवि- १ "आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा। तथा निर्वचनख्यातिरित्येत- त्ख्यातिपञ्चकम्" इत्येवं पञ्च प्राचीना विप्रतिपत्तयो ज्ञेयाः। २ अन्यथाख्यातिवादि- नस्तारकिकस्य आत्मख्यातिवादिनो बोद्धस्य च मतमाहेत्यर्थः। ३ अख्यातिवादिनां मीमांसकानां मतमाहेत्यर्थः ।
Page 41
स०१। अ० १॥] शाङ्करब्रह्म सूत्रभाष्ये (१९) इति।कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो वि- षयतद्र्माणाम्! सर्वो हि पुरोऽवस्थिते विष- ये विषयान्तरमध्यस्यति। युष्मत्प्रत्ययापेतस्य परीतधर्मत्वकल्पनां विपरीतो विरुद्धो धर्मो यस्य तन्भावस्तस्य रजता- देरत्यन्तासतः कल्पनामाचक्षते इत्यर्थः । एतेषु मतेषु परत्र परावभा- सत्वलक्षणसंवादमाह ॥ सर्वथापि त्विति॥ अन्यथाख्यातित्वादि- प्रकारविवादेऽप्यध्यासः परत्र परावभासत्वलक्षणं न जहातीत्यर्थः। शुक्तावपरोक्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वायोगात् शून्यत्वे प्र- त्यक्षत्वायोगात्, शुक्तौ सत्त्वे बाधायोगान्मिथ्यात्वमेवेति भावः। आं- रोप्यमिथ्यात्वेन युक्त्यपेक्षा तस्यानुभवसिद्धत्वादित्याह ॥तथा चेति॥ बाधानन्तरकालीनोऽयमनुभवः, तत्पूर्व शुक्तिकात्वज्ञानायोगाद् रज- तस्य बाधप्रत्यक्षसिद्धं मिथ्यात्वं वच्छव्देनोच्यते। आत्मनि निरुपा- धिकेडहङ्गाराध्यासे दृष्टान्तमुक्का ब्रह्मजीवान्तरभेदस्याविद्यादुपाधि- कस्याध्यासे दष्टान्तमाह॥ एक इति॥ द्वितीय चन्द्रसहितवदेक ए- वाङ्गुल्या द्िधा भातीत्यर्थः । लक्षणप्रकरणोपसंहारार्थ 'इति'शब्दः । भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न संभवतीत्याक्षिपति ॥ कथं पुनरिति॥ यत्रापरोक्षाध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिः शुक्यादौ दृष्टा। तत्र व्यापकाभावादात्मनोऽधिष्ठानत्वं न संभवतीत्यभिप्रेत्याह ॥ प्रत्यगात्मनीति ॥ प्रतीचि पूर्ण इन्द्रिया- ग्राह्ये विषयस्याहङ्गारादेसद्वर्माणां चाध्यासः कथमित्यर्थः। उक्तव्याप्ति- माह॥ सर्वोहीति। पुरोऽवस्थितत्वमिन्द्रियसंयुक्तत्वम्। नन्वात्मनोड प्यधिष्ठानत्वार्थ विषयत्वादिकमस्त्वत्यत आह॥ युष्मदिति॥ इंदं प्रत्ययानर्हस्य प्रत्यगात्मनो "न चक्षुषा गृह्यते" इत्यादि श्रुतिमनुसृ- १ सत्ख्यातिवादिनां मुरारिमिश्रादीनां मतं खण्डयति। २ अपरोक्षाध्यासाधिष्ठा नस्वं व्याप्यम्, इन्द्रियसंयुक्त्तत्वं विषयत्वं चेति व्यापकम्।
Page 42
(२२) रत्नप्रभाभासिते [अ० १। पा. १। न्यन्ते, तद्विवेकेन च वस्तुस्वरूपावधारणं "वि- द्याम्" आहुः। तन्नैवं सति यत्र यदध्यासस्त- त्कृतेन दोषेण गुणेन वाऽणुमात्रेणापि सन सम्ब- व्यते। तमेतमविद्यार्यमात्मानात्मनोरितरेत- राध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा पराणि मोक्षशास्त्राणि वेदान्तवाक्यानीति विभागः। एवं व्यवहारहे- तुत्वेनाध्यासे प्रत्यक्षसिद्धेऽपि प्रमाणान्तरं पृच्छति ॥ कथं पुनरिति॥ X अविद्यावानहमित्यध्यासवानात्मा प्रमाता सविषय आश्रयो येषां तानि अविद्यावद्दिषयाणीति विग्रहः। तत्तत्प्रमेयव्यवहारहेतुभूतायाः प्रमाया अध्यासात्मकप्रमात्राश्रितत्वात्। प्रमाणानामविद्यावद्विषयत्वं यद्यपि प्रत्यक्षं, तथापि पुनरपि कथं केन प्रमाणेनाविद्यावद्दिषयत्वमिति यो- जना। यद्दाऽविद्यावद्विषयाणि कथं प्रमाणानिः स्युः? आश्रयदोषादप्रा- माण्यापत्तेरित्याक्षेपः । तत्र प्रमाणप्रश्ने व्यवहारार्थापत्तिं तल्लिङकानु- मानं चाह ॥ "उच्यते" इत्यादिना "तस्मात्" इत्यन्तेन ॥ दे- वदत्तकर्तृको व्यवहारस्तदीयदेहादिष्वहंममाध्यासमूलस्तदन्वयव्यतिरे- कानुसारित्वात्, यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः। तत्र व्यतिरकं दर्शयति ॥ देहेति ॥ देवदत्तस्य सुुप्तावध्यासाभावे व्यव- हाराभावो दृष्टः। जागत्स्वप्नयोरध्यासे सति व्यवहार इत्यन्वयः रफु- टत्वाननोक्तः। अनेन लिड्गेन कारणतयाध्यासः सिद्धयति, व्यवहाररू- पकार्यानुपपच्या वेति भावः। ननु मनुष्यत्वादिजातिमति देहेऽहमि- त्यभिमानमात्राद्यवहारः सिद्धचतु, किमिन्द्रियादिषु ममाभिमानेने- त्याशङ्ग्याह॥ न हीति॥ इन्द्रियपदं लिङ्गदेरप्युपलक्षणं प्रत्यक्षा- दीत्यादिपदप्रयोगात्। तथा च प्रत्यक्षलिङ्गादिप्रयुक्तो यो व्यवहारो द्रष्टा १ यो यदन्वयव्यविरेकानुसारी स तन्मूल इत्यर्थः ।
Page 43
सू ० १ । अ ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (२ ३) लौकिका वैदिकाश्र प्रतृत्ताः। सर्वाणि च शास्त्रा- णि विधिप्रतिषेधमोक्षपराणि। क्थ पुनरविद्याव द्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चे- ति! उच्यते। देहेन्द्रियादिष्वहंममाभिमानरहित स्य प्रमातृत्वानुपपत्तौ प्रमाणप्रत्त्यनुपपत्तेः। नहोन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः स- म्भवति। न चाधिष्ठनिमन्तरेणेन्द्रियाणां व्यंव- हारः सम्भवति। न चानध्यस्तात्मभावेन देहेन अनुमाता श्रोताऽहमित्यादिरूपः स इन्द्रियादीनि ममतास्पदान्यगृ- हीत्वा न सम्भवतीत्यर्थः । यद्दा तानि ममत्वेनानुपादाय यो व्यवहारः स नेति योजना। पूर्वत्रानुपादानासम्भवक्किययोरेको व्यवहारः कर्ता इति क्काप्रत्ययः साधुः । उत्तरत्रानुपादानव्यवहारयोरेकात्मकर्तृक- त्वात् तत्साधुत्वमिति भेदः। इन्द्रियादिषु ममेत्यध्यासाभावेऽन्धादे- रिव द्रष्टृत्वादिव्यवहारो न स्यादिति भावः। इन्द्रियाध्यासेनैव व्यव- हारादलं देहाध्यासेनेत्यत आह ॥ न चेति॥ इन्द्रियाणामधिष्ठानम् आश्रयः शरीरमित्यर्थः । नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किमध्यासेनेत्य्राह॥ न चानध्यस्तात्मभावेनेति॥ अनध्यस्त आ- त्मभाव: आत्मतादात्म्यं यस्मिन् तेनेत्यर्थः। "असङ्गो हि" इति श्रु- तेराध्यासिक एव देहात्मनोः सम्बन्धो न संयोगादिरिति भावः । न- न्वात्मनो देहादिभिराध्यासिकसम्बन्धोऽपि मास्तु। स्वतश्र्वेतनतया प्र- मातृत्वोपपत्तेः, न च सुषुप्तौ प्रमातृत्वापत्तिः करणोपरमादिति तन्राह ॥ न चैतस्मिन्निति । प्रमाश्रयत्वं हि प्रमातृत्वं। प्रमा यदि नित्य- चिन्मात्रं तर्ह्ाश्रयत्वायोगः, करणवैयर्थ्य च। यदि वृत्तिमात्रं, जगदा- · १ क० पा० ठयापारः। २ करणानां समनस्केन्द्रियाणासुपरमादविद्यायां विलयादित्यर्थः।
Page 44
(२४) रत्नप्रभाभासिते [अ० १। पा० १। कश्विद् व्याप्रियते। न चैतस्मिन् सर्वस्मिन्नस- व्यासङ्गस्यात्मनः प्रमातृत्वमुपपद्यते।नचप्र- मातृत्वमन्तरेण प्रमाणप्रवत्तिरस्ति। तस्मादवि- द्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शा- न्ध्यप्रसङ्ग: वृत्तेर्जडत्वात्, अतो वृत्तीद्ो बोधः प्रमा, तदाश्रयत्वमस- ङस्यात्मनो वृत्तिमन्मनस्तादात्म्याध्यासं विना न सम्भवतीति भावः । देहाध्यासे, तद्दर्माध्यासे चासतीत्यक्षरार्थः, तर्हात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह॥ न चेति।। तस्मादात्मनः प्रमातृत्वादिव्यवहा- रार्थमध्यासोऽङ्गीकर्तव्य इत्यनुमानार्थापत्त्योः फलमुपसंहरति ॥त- स्मादिति। प्रमाणसत्त्वादित्यर्थः। यद्ा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति॥ तस्मादिति॥ अहमित्यध्यासस्य प्रमात्रन्तर्गतत्वेनादो- पत्वादविद्यावदाश्रयाण्यपि प्रमाणान्येवेति योजना । सति प्रमातरि पश्राज्जवन्दोष इत्युच्यते यथा काचादि, अविदया तु प्रमात्रन्तर्गतत्वा- न् दोषः, येन प्रत्यक्षादीनामप्रामाण्यं भवेदिति भावः । ननु यदुक्तम- न्वयव्यतिरेकाभ्यां व्यवहारोऽध्यासकार्य इति तदयुक्तं, विदुषामध्या- साभावेऽपि व्यवहारदष्टेरित्यत आह॥ पश्वादिभिश्रेति।। "च'श- ब्दः शङ्कानिरासार्थः। किं विद्वत्त्वं "ब्रह्मास्मीति" साक्षात्कारः? उत- यौक्तिकमात्मानात्मभेदज्ञानम्? आये "बाधिताध्यासानुवृत्त्या व्यव- हार" इति समन्वयसूत्रे वक्ष्यते। द्वितीये परोक्षज्ञानस्यापरोक्षध्रान्त्य- 3 निवर्त्तकत्वात् विवेकिनामपि व्यवहारकाले पश्चादिभिरविशेषादध्यास- वच्वेन तुल्यत्वाङ््यवहारोऽध्यासकार्य इति युक्तमित्यर्थः। अन्नायं प्र- योग: विवेकिनोऽध्यासवन्तो व्यवहारवत्त्वात् पश्चादिवदिति। तत्र सं- १ केन प्रमाणेनाविद्यावद्विषयाणि प्रत्यक्षादीनीति प्रश्नम्। २ अविद्यावद्विषयाणि चेतप्रमाणानि करथं स्युरिति खण्डनम। ३ व्यवहारदर्शनात्।
Page 45
सु० १।अ० १ ] (२५) स्त्राणि चं। पश्वादिभिश्व्वाविशेषात्। यथा हि प- शादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अ नुकूले च प्रवर्तन्ते, यथा दण्डोद्यतकरं पुरुषमि- मुखमुपलभ्य मां हन्तुमयमिच्छतीति पलायि- तुमारभन्ते, हरिततणपूर्णपाणिमुपलभ्य तं प्र- व्यभिमुखीअवन्ति, एवं पुरुषा अपि व्युत्पन्न- चित्ता: क्रूरदृष्टीनाक्रोशतः खड़ोद्यतकरान् ब- लवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान् प्र- ति प्रंवर्तन्ते। अतः समानः पश्वादिभिः पुरु- षाणां प्रमाणप्रमेयव्यवहारः। पश्ादीन च प्र- सिद्ध एवाविवेकपूर्वकः प्रत्यक्षादिव्यवहारः त- ग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति॥ यथाहीति ॥ विज्ञान- स्यानुकूलत्वं प्रतिकूलत्वं चेष्टानिष्टसाधनगोचरत्वम्, तदेवोदाहरति । यथेति ॥ अयं दण्डो मदनिष्टसाधनं दण्डत्वात् अनुभूतदण्डवत्। इदं तृणमिष्टसाधनम् अनुभूतजातीयत्वात् अनुभूततृणवत् इत्यनुमा- य व्यवहरन्तीत्यर्थः । अधुना हेतोः पक्षधर्मतामाह ॥ एवमिति॥ व्युत्पन्नचित्ता अपीत्यन्वयः। विवेकिनोऽपीत्यर्थः । फलितमाह ॥ ॥। अत इति ॥ अनुभवबलादित्यर्थः । समान इति अध्यासकार्यत्वेन तुल्य इत्यर्थः। नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्चादयो ब्रुवन्ति, नापि परेषामेततू प्रत्यक्षम्, अतः साध्यविकलो दृष्टान्त इति नेत्याह ॥ पश्वादीनां चेति॥ तेषामात्मानात्मनोज्ञानमात्रमस्ति, न विवेक:, १ क० पा० चेति। २ क० पा० अभिमुखीभधन्ति। ४
Page 46
(२६) रत्नप्रभाभासिते [अ० १। पा० १। त्सामान्यदर्शनाद्युत्पत्तिमतामपि पुरुषाणां प्र- त्यक्षादिव्यवहारस्तत्कालः समान इति निश्री- यते। शास्त्रीये तु. व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वात्मनः परलोकसम्बन्धमधिक्रियते, : तथापि न वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्म- क्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते। अनुपयोगादधिकारविरोधाच्च।प्राकू तथाभूता- उपदेशाभावात्, अतः सामग्रीसच्वादध्यासस्तेषां प्रसिद्ध इत्यर्थः । निगमयति ॥तत्सामान्येति ॥ तैः पश्चादिभिः सामान्यं व्यवहारव- चवं तस्य दर्शनाद्विवेकिनामप्ययं व्यवहारः समान इति निश्रीयत इति सम्बन्धः। समानत्वं व्यवहारस्याध्यासकार्यत्वेनेत्युक्त पुरसात्। त- त्रोक्तान्वयव्यतिरेकौ स्मारयति । तत्काल इति॥ तस्याध्यासस्य काल एव कालो यस्य स तत्कालः। यदा अध्यासस्तदा व्यवहारः। त- भावे सुषुप्तौ तदभाव इत्युक्तान्वयादिमानिति यावत्। अतो व्यवहा- रलिङ्गाद्दिवेकिनामपि देहादिष्वहंममाभिमानोऽसतीत्यनवद्यम् । ननु लौकिकव्यवहारस्याऽSध्यासिकत्वेऽपि ज्योतिष्ठोमादिव्यवहारस्य ना- ध्यासजन्यत्वं, तस्य देहातिरिक्तात्मज्ञानपूर्वकत्वादित्याशङ्ग्च हेतुम- ङीकरोति॥ शास्त्रीये खिति॥ तर्हि कथं वैदिककर्मणोऽध्यासज- न्यत्वसिद्धिरित्याशङ्ग्च किं तत्र देहान्यात्मधीमात्रमपेक्षितमुत आ- त्मतच्वज्ञानम्? आधे तस्याध्यासाबाधकत्वात् तत्सिद्धिरित्याह॥ त- थापीति॥ न द्वितीय इत्याह ॥ न वेदान्त इति ॥ क्षुत्पिपासादिग्र- स्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्दिपरीता- त्मतच्वज्ञानम्, अनुपयोगात् प्रवृत्तिबाधाच्चेत्यर्थः । शास्त्रीयकर्मणोS- १ उपसंहरति।
Page 47
सू ० १ । अ ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (२७ ) त्मविज्ञानात् प्रवर्तमानंशास्त्रमविद्यावद्विषयत्वं- नातिवर्तते। तथा हि ब्राह्मणो यजेतेत्यादीनि- शास्राणि आत्मनि वर्णाश्रमवयोऽवस्थादिविशे- षाध्यासमाश्रित्य प्रवर्तन्ते। अध्यासो नाम "अतस्मिंस्तहुद्धिरिति" अवोचाम। तथथा पु- त्रभार्यादिषु विकलेषु सकलेषु वा अहमेव वि- कलः सकलो वेति बाह्य्यधर्मानात्मन्यव्यस्यति। तथा देहधर्मान् स्थूलोऽहं कृशोऽहं गौरोऽहं ति- ध्यासजन्यत्वं निगमयति॥ प्राकू तथेति॥ अध्यासे आगमं प्रमा- णयति॥ तथा हीति॥ यथा प्रत्यक्षानुमानार्थापत्तयोऽध्यासे प्रमाणं तथाSSगमोऽपीत्यर्थः।"ब्राह्मणो यजेत""न हवै लात्वा भिक्षेत" "अ-
दिपदैरधिकारिणं वर्णाद्यभिमानिनमनुवदन् अध्यासं गमयतीति भावः। एवमध्यासे प्रमाणसिद्धेऽपि कस्य कुत्राध्यास इति जिज्ञासा- यां तमुदाहर्तु लक्षणं स्मारयति ॥ अध्यासो नामेति ॥उदाहरति॥ iी तद्यथेति ॥ तल्लक्षणं यथा स्पष्टं भवति तथोदा्हियत इत्यर्थः । स्वदेहान्जेदेन प्रत्यक्षाः पुत्रादयो बाह्याः, तद्वर्मान् साकल्यादीन् देह- विशिष्ठात्मन्यध्यस्यति, तद्धर्मज्ञानात् स्वरिंमिस्तत्तुल्यधर्मानध्यस्यतीत्य- र्थः। भेदापरोक्षज्ञाने तद्वर्माध्यासायोगाद् अन्यथाख्यात्यनङ्गीकारा- च्चेति द्रष्टव्यम्। देहेन्द्रियधर्मान् मनोविशिष्ठात्मन्यध्यस्यतीत्याह॥।तथे- ति। रुशत्वादिधर्मवतो देहादेरात्मनि तादात्म्येन कल्पितत्वात्तद्- र्माः साक्षादात्मन्यध्यस्ता इति मन्तव्यम्। अज्ञाते प्रत्यय्रूपे साक्षि- १ स्नानमत्र समावर्तनम्, तथा च ब्रह्मचर्यान्त्यस्नानमनुष्ठाय गार्हस्थ्ये भिक्षाटनं न कार्यमितिभावः।
Page 48
रत्नप्रभाभासिते [अ० १। पा० १। ष्ठामि गच्छामि लङ््यामि चेति। तथेन्द्रियधर्मा- नू मूक: काण: क्वीबो बधिरो Sन्धोऽहमिति। त- थान्त:करणधर्मान् कामसङ्ल्पविचिकित्साध्य- वसायादीन्। एवमहम्प्रत्ययिनमशेषस्वप्रचार- साक्षिणि प्रत्यगात्मन्यध्यस्य तच प्रत्यगात्मा- नं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्व- ध्यस्यति।एवमयमनादिरनन्तो नैसर्गिकोध्या- णि मनोधर्माध्यासमाह ॥ तथान्तःकरणति। धर्माध्यासमुक्ता त- द्ददेव धर्म्यध्यासमाह ॥ एवमिति॥ अन्तःकरणं साक्षिण्यभेदेना- ध्यस्य तद्धर्मान् कामादीन् अध्यस्यतीति मन्तव्यम्। स्वप्रचारा म- नोवृत्तयः प्रातिलोम्येनासज्जडदुःखात्मकाहङ्कारादिविलक्षणतया स- चितूसुखात्मकत्वेनाश्चति प्रकाशत इति प्रत्यक् । एवमात्मन्यनात्म- तद्र्माध्यासमुदाहृत्यानात्मन्यात्मनोऽपि संसृष्टत्वेनाध्यासमाह॥तं- चेति॥ अहमित्यध्यासे चिदात्मनो भानं वाच्यम्, अन्यथा जगदा- छटा न्ध्यापत्तेः। न चानध्यस्तस्याभ्यासे भानमस्ति। तरमाद्रजतादाविद- म इवात्मनः संसर्गाध्यास एष्टव्यः। "तद्विपर्ययेणे ति तस्याध्यस्तस्य जडस्य विपर्ययोऽधिष्ठानत्वं चैतन्यं च तदात्मना स्थितमिति यावत्। तत्राज्ञाने केवलात्मनः संसर्गः, मनस्युज्ञानोपहितस्य देहादौ मनउप- हितस्येति विशेषः । एवमात्मनि बुद्धयायध्यासात् कर्तृत्वादिलाभः । बुद्धचादौ चात्माध्यासाच्ैतन्यलाभ इति भावः । वर्णिताध्यासमुपसं- हरति ॥ एवमयमिति ॥ अनादविद्यात्मकतया कार्याध्यासस्याना- दित्वम्। अध्यासात् संस्कारस्ततोध्यास इति प्रवाहतो नैसर्गिकत्वम्॥ एवमुपादानं निमित्तं चोक्तं भवति। ज्ञानं विना ध्वंसाभावादानन्त्यम्। तदुक्तं भगवद्गीतासु, "न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न
Page 49
सू० १ । अ ० १। ] शाङ्करब्रह्मसूत्रभाष्ये (२९) सो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आर- भ्यन्ते। यथा चायमर्थः सर्वेषां वेदान्तानां तथा च सम्प्रतिष्ठेति"। हेतुमुत्का स्वरूपमाह ॥ मिथ्येति॥ मिथ्या मा- या तया प्रतीयते इति प्रत्ययः कार्यप्रपंचः, तत्प्रतीतिश्रवेत्येवंस्वरूपः इत्यर्थः । तस्य कार्यमाह ॥ कर्तृत्वेति । प्रमाणं निगमयति ॥ स- वेति ।। साक्षिप्रत्यक्षमेवाध्यासधार्मग्राहकंमानम्, अनुमानादिकं तु सम्भावनार्थमित्यभिप्रेत्य प्रत्यक्षापसंहारः कतः। एवमध्यासं वर्ण- यित्वा तत्साध्ये विषयप्रयोजने दर्शयति ॥ अस्येति ॥कर्तृत्वाययनर्थ- हेतोरध्यासस्य समूलस्याSऽत्यन्तिकनाशो मोक्षः स केनेत्यत आह ॥ आत्मेति ॥ ब्रह्मात्मैक्यसाक्षात्कारस्य प्रतिपत्तिः श्रवणादिभिरप्र- तिबन्धेन लाभस्तस्या इत्यर्थः । विद्यायां कारणमाह ॥ सर्व इति॥ आरभ्यन्ते अधीत्य विचार्यन्ते इत्यर्थः। विचारितवेदान्तानां ब्रह्मा- त्मैक्यं विषयो, मोक्ष: फलमित्युक्ततं भवति। अर्थात्तदविचारात्मकशास्त्र- स्यापि ते एव विषयप्रयोजने इति ज्ञेयम्। ननु वेदान्तेषु प्राणाद्युपा- स्तीनां भानादात्मैक्यमेव तेषामर्थ इति कथमित्यत आह॥ यथा चेति॥ शरीरमेव शरीरकं कुत्सितत्वात्तनिनिवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः। उपास्तीनां चित्तैकाय्यद्वारा- त्मैक्यज्ञानार्थत्वात्तद्वाक्यानामपि महातात्पर्यमैक्ये इति विवक्ष्यते। एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभवेन विषयप्रयोजनवत्वाच्छास्त्र मारम्भणीयमिति दर्शितम् ॥ इति प्रथमवर्णकम्॥ विचारस्य सा १ का० पा० वक्ष्यते। २ प्रथमसूत्रस्य हि चत्वारि वर्णकानि, तत्राध्यासवर्णकं प्र- थमम् । अगतार्थवर्णकं द्वितीयम् । अधिकारिवर्णकं तृतीयम्। ब्रह्मण आपातप्रसिद्धि- वर्णकं चतुर्थम्। वर्णयति गहनमर्थमिति वर्णकं व्याख्यानमिति यावत्।
Page 50
(३० ) रत्नप्रभाभासिते [अ० १। पा० १। च वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्या- मः। वेदान्तमीमांसाशास्रस्य व्याचिर्यासित- स्येदमादिमं सूत्रम्। अथातो बह्लजिज्ञासेति॥१॥ तन्नाथशब्द आनन्तर्यार्थः परिगृत्यते नाधि- कारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात्। क्षाद्दिपया वेदान्ताः, तेषां गतार्थत्वागतार्थत्वाभ्यामारम्भसन्देहे क- त्सस्य वेदस्य विधिपरत्वाद्दिघेश्र "अथातो धर्मजिज्ञासा" इत्यादि- ना पूर्वतन्त्रेण विचारितत्वाद्वगतार्था एव वेदान्ता इत्यव्यवहितविष- याभावालारम्भ इति प्राप्ते ब्रूते ॥वेदान्तेति॥ वेदान्ताविषयकपूजि- तविचारात्मकशास्त्रस्य व्याख्यातुमिष्टस्य सूत्रसन्दर्भस्येदं प्रथमसूत्रमि- त्यर्थः। यदि विधिरेव वेदार्थः स्यात्तदा सर्वज्ञो बादरायणो ब्रह्मजिज्ञासांन ब्रूयात्, ब्रह्मणि मानाभावात्। अतो ब्रह्मणो जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणा नवगतव्रह्मपरवेदान्तविचार आरम्भणीय इति सूत्रकद्दर्शयति। तच्च "व्याचिख्यासितस्य"इति पदेन भाष्यकारो बभाषे॥ ॥ इति द्वितीय वर्णकमू।। ॥एवं वर्णकद्दयेन वेदान्तविचारस्य कर्तव्यतायां वि षयप्रयोजनवत्वम् आगतार्थत्वं चेति हेतुद्दयं सूत्रस्यार्थिकार्थ व्याख्या- याक्षरव्याख्या मारभमाण: पुनरप्यधिकारिभावाभावाभ्यां शास्त्रारम्भस- न्देहे सति अथशब्दस्यानन्तर्यार्थकत्वोक्त्या अधिकारिणं साधयति ॥'तत्राथशब्द" इति॥। सूत्र इत्यर्थः । "मङ्गलानन्तरारम्भप्रश्नकात्स्न्ये व्वथो अथेति"अथशद्दस्य बहवोऽर्थाःसन्ति।तत्रा"'थयोगानुशासनम्" इत्यत्र सूत्रे यथा अथशब्द आरम्भार्थकः योगशास्त्रमारभ्यत इति तद्ददत्र किं न स्यादित्यत आह॥ नाधिकारार्थ इति॥ अयमाशयः।
Page 51
सू ० १ । अ ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (३१) मङगलस्य च वाक्यार्थे समन्वयाभावात्। अर्था- न्तरप्रयुक्त एव हि अथशब्दः श्रुत्या मङ्गलप्रयो- जनो भवति। पूर्वप्रकृतापेक्षायाश्र फलत आन-
किं जिज्ञासापदं ज्ञानेच्छापरम्,उत विचारलक्षकम्? आयेऽथशब्दस्या- रम्भार्थत्वेन ब्रह्मज्ञानेच्छाऽडरभ्यत इति सूत्रार्थः स्यात् स चासङ्गतः, तस्या अनारभ्यत्वात्। न हि प्रत्यधिकरणम् इच्छा क्रियते किंतु तया वि- चारः। न द्वितीयः । कर्तव्यपदाध्याहारं विना विचारलक्षकत्वायो- गातू। अध्याहते च तेनैवारम्भोक्तेरथशब्दवैयर्थ्यात् किन्त्वधिकारिसि- द्धचर्थमानन्तर्यार्थतैव युक्तेति। अधुना सम्भावितमर्थान्तरं दूषयति ॥ मङ्गलस्येति॥ वाक्यार्थो विचारकर्तव्यता। न हि तत्र मङ्गलशब्द- स्य कर्तृत्वादिनाऽन्वयोऽस्तीत्यर्थः। ननु सूत्रकता शास्त्रादौ मङ्गलं का- र्यमिति अथ शब्द: प्रयुक्त इति चेतू सत्यम्, न तस्यार्थो मङ्गलं किं- तु तच्छरूवणमुच्चारणं च मङ्गलकृत्यं करोति तदर्थस्त्वानन्तर्यमेवे- त्याह॥ अर्थान्तरति। आर्थान्तरम् आनन्तर्यम्।श्रुत्या श्रवणेन शं- खवीणादिनादश्रवणवदोङ्गाराथशब्दयो: श्रवणं मङ्गलफलकम्। "ॐकारश्वाथशब्दश्र द्वावेतौ ब्रह्मणः पुरा। कण्ठं भिच्वा विनिर्यातौ तस्मान्माङ्गलिकाविमौ।" इति स्मरणादिति भावः। ननु प्रपश्चो मिथ्येति प्रकते सति,अथैत- न्मतम् 'प्रपञ्चःसत्य इत्यत्र पूर्वप्रकतार्थादुत्तरार्थस्यार्थान्तरत्वार्थोऽथश- ब्दो दृष्टः । तथात्र किं न स्यादित्यत आह॥ पूर्वेति॥ फलतः फल- स्येत्यर्थः। ब्रह्मजिज्ञासायाः पूर्वमर्थविशेषः प्रकतो नास्ति यस्मात्त- स्या अर्थान्तरत्वमथशद्देनोच्येत। यतः कुतश्रिवदर्थान्तरं सूत्रकता न वकव्यं, फलाभावात्। यदि फलस्य जिज्ञासापदोक्तकर्तव्यविचारस्य १ अध्यात्ृतकर्तव्यपदेन। २ मङ्गलकार्यम्। ३ 'वुभौ' इत्यपि पाठः क्रचित्।
Page 52
( ३२ ) रत्नप्रभाभासिते [अ० १। पा० १। न्तर्याव्यतिरेकात्। सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासापूर्ववत्तं वेदाध्ययनं नियमेनापेक्ष- ते, एवं ब्रह्मजिज्ञासाऽपि यत् पूर्ववृत्तं नियमेना- पेक्षते तद्दक्तव्यम।स्वाध्यायानन्तर्य तुसमानम्। नन्विह कर्मावबोधानन्तर्य विशेषः।न। धर्मजि- हेतुत्वेन यत्पूर्व प्रकतं तदपेक्षास्तीति अपेक्षाबलात् प्रकृतहेतुमाक्षिप्य ततोऽर्थान्तरत्वमुच्येत, तदार्थान्तरत्वमानन्तर्येऽन्तर्भवति हेतुफलभा- वज्ञानायानन्तर्यस्यावश्यं वाच्यत्वात्। तस्मादिदमर्थान्तरमित्युक्ते तस्य हेतुत्वाप्रतातः। तस्मादिदमनन्तरमित्युक्ते भवत्येव हेतुत्वप्रती- तिः। न चाश्वादनन्तरो गौरित्यत्र हेतुत्वभानापत्तिरिति वाच्यम्, त- योर्देशतः कालतो वा व्यवधानेनानन्तर्यस्यामुख्यत्वात्। अतः साम- ग्रीफलयोरेव मुख्यमानन्तर्यम्,अव्यवधानात् । तस्मिन्नुक्ते सत्यर्थान्त- रत्वं न वाच्यम्, ज्ञातत्वाह्वैफल्याच्चेतिभावः। फलस्य विचारस्य पूर्वप्र- कृतहेत्वपेक्षाया बलावदर्थान्तरत्वं तस्यानन्तर्याभेदात्, न पृथगथ- शब्दार्थत्वमित्यध्याहृत्य भाष्यं योजनीयम् । यद्दा पूर्वप्रकृतेऽर्थेऽपेक्षा यस्या अर्थान्तरतायास्तस्याः फलं ज्ञानं तद्दाराSSनन्तर्याव्यतिरेकात्त- ज्ज्ञाने तस्याः ज्ञानतोऽन्तर्भावान्नाथशब्दार्थतेत्यर्थः । नन्वानन्तर्यार्थ- कत्वेऽप्यानन्तर्यस्यावधि: क इत्याशङ्कयाह॥ सति चेति॥ यन्नियमे- न पूर्ववृत्तं पूर्वभावि पुष्कलकारणमिति यावत्, तदेवावधिरिति वक्त- व्यमित्यर्थः। नन्वस्तु धर्मविचार इव ब्रह्मविचारेऽपि वेदाध्ययनं पु- ष्कलकारणमित्यत आह ॥ स्वाध्यायेति॥ समानं ब्रह्मविचारे सा- धारणकारणम्, न पुष्कलकारणमित्यर्थः । ननु संयोगपृथतक्कन्यायेन "यज्ञेन दानेन" इत्यादिश्रुत्या "यज्ञादिकर्माणि ज्ञानाय विधीयन्त" १ का० पा० इतिचेन्न
Page 53
सू० १ । अ ०।9] (३३ ) ज्ञासाया: प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासो- पपत्तेः। यथा च हृदयाद्यवदानानामानन्तर्यनि- यम: क्रमस्य विवक्षितत्वात्, न तथेह क्रमो वि- वक्षितः।शेषशेषित्वेऽधिकृताधिकारे वा प्रमाण-
इति सर्वापेक्षाधिकरणे वक्ष्यते। तथा च पूर्वतन्त्रेण तद्वबोधः पुष्क- लकारणमिति शङ्कतेक ॥। नन्विति॥ इह ब्रह्मजिज्ञासायाम्। विशेषो- Sसाधारणम् कारणम्। परिहरति ॥ नेत्यादिना ॥ अयमाशयः । न तावत् पूर्वतन्त्रस्थन्यायसहलं ब्रह्मज्ञाने तहिचारे वा पुष्कलकारणम्, तस्य धर्मनिर्णयमात्रहेतुत्वात्, नापि कर्मनिर्णयः, तस्यानुष्ठानहेतुत्वा- त्। न हि धूमाश्योरिव धर्मब्रह्मणोर्व्याप्तिरस्ति, यया धर्मज्ञानाद् ब्रह्म- ज्ञानं भवेत्। यवपि शुद्धिविवेकादिद्वारा कर्माणि हेतवस्तथापि तेषां ना- धिकारिविशेषणत्वम्, अज्ञातानां तेषां जन्मान्तरकतानामपि फलहे- तुत्वात्। अधिकारिविशेषणं ज्ञायमानं प्रवृत्तिपुष्कलकारणमानन्तर्याव- धित्वेन वक्तव्यम्। अतः कर्माणि तदवबोधस्तन्न्यायविचारो वा नावधि- रिति न ब्रह्मजिज्ञासाया धर्मजिज्ञासानन्तर्यमिति। ननु धर्मव्रह्मजि-
ब्दः। "हृदयस्यायेऽवययत्यथ जिह्वाया अथ वक्षस" इत्यवदानानां क्रम- ज्ञानार्थाथशब्दवदित्याशङ्गचाह ।। यथेति॥ अवदानानामानन्तर्य- नियम: क्रमो यथाथशब्दार्थस्तस्य विवक्षितत्वाद् न तथेह धर्म- ब्रह्मजिज्ञासयोः क्रमो विवृक्षितः । एककर्तृकत्वाभावेन तयोःक- १ एकस्य तूभयत्वे संयोगपृथकत्वमितिजैमिन्यषिसूत्रम्। संयोगो वाक्य तस्य पृथ- व्त्वं भेद एकस्योभयार्थत्वे नियामक इत्यर्थः । यथा दभ्नाजुहुयादितिफलासंयुक्त्तवा- क्येन कत्वर्थत्वेन विहितस्यापि दभ्ः दश्नेन्द्रियकामस्य जुहुयादित्यनेन फलायविधाना- त्पुरुषार्थत्वमपि। तथा ज्योतिष्टोमादीनां स्वर्गार्थत्वेन विहितानामपि "यज्ञेन दानेन" इत्यादि वाक्यैर्ज्ञान साधनत्वमपिस्यादिति भावः। २ अवदानं खण्डनम्। ५
Page 54
(३४) रत्नप्रभाभासिते [अ० १।पा० १। ] मानपेक्षणात्। अतो न क्रमार्थोऽथशब्द इत्यर्थः। ननु तयोरेककर्तृक त्वं कुतो नास्तीत्यत आह॥ शषेति॥ येषामेकप्रधानशेषतायथावदा- नानां प्रयाजादीनां च, ययोश्र शेषशेषित्वं यथा प्रयाजदर्शयोः, यस्य चाधिकताधिकारत्वं यथा अपांप्रणयनं दर्शपूर्णमासाङ्गमाश्रित्य "गो- दोहनेन पशुकामस्य "इति विहितस्य गोदोहनस्य, यथा वा "दर्श- पूर्णमासा्यामिष्टा सोमेन यजेत" इति दर्शायुत्तरकाले विहितस्य सोमयागस्य दर्शायधिकताधिकारत्वं, तेषामेककर्तृकत्वं भवति। त- तश्षैकप्रयोगवचनगृहीतानां तेषां युगपद्नुष्ठानासम्भवात् क्रमाकाङ्का यां श्रुत्यादिभिर्हि कमो बोध्यते; नैवं जिज्ञासयोः शेषशेषित्वेश्रुतिलि- ङ्ादिकं मानमस्ति । ननु "ब्रह्मचर्य समाप्य गृही भवेत् गृहाहनी भूत्वा प्रव्जेत्" इति श्रुत्या, "अधीत्य विधिवद्देदान् पुत्रांश्ोत्पाद धर्मतः । इष्टा च शक्तितो यज्ञैर्मनों मोक्षे निवेशयेत्"॥ इति स्मृत्या चाधिकृताधिकारत्वं भातीति। तन्न। "ब्रह्मचर्यादेव प्रवजेत्", "आसादयति श्रुद्धात्मा मोक्ष वै प्रथमाश्रमे"। इति श्रुतिस्मृतिभ्यां। त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषय- त्वावगमाद् एतदुक्तं भवति"यदि जन्मान्तरकृतकर्मभिः शुद्धं चित्तं तदा ब्रह्मचर्यादेव संन्यस्य ब्रह्म जिज्ञासितव्यं, यदि न शुद्धमिति रागेण ज्ञायते तदा गृही भवेत्, तत्राप्यशुद्धौ वनी भवेत्, तन्नाप्य- शुद्धौ तथैव कालमाकलयेत् , वने शुद्धौ प्रवजेदिति"। तथा च श्रु- तिः "यदहरेव विरजेतू तदहरेव प्रबजेत्"इति तस्मान्नानयोरधिकता- धिकारत्वे किचिन्मानमिति भावः । ननु मीमांसयोः शेषशेषित्वम धिकृताधिकारत्वं च मास्तु, एकमोक्षफलकत्वेनैककर्तृकत्वं स्यादेव। वदन्ति हि "ज्ञानकर्मभ्यां मुक्तिः" इति समुचयवादिनः। एवमेकवेदा-
Page 55
सू० १। अ० १।] शाङ्करब्रह्मसूत्रभाष्ये (३५) आावाद्धर्मब्रह्मजिज्ञासयोः; फलजिज्ञास्यभेदाच। अभ्युदयफलं धर्मज्ञानं, तच्चानुष्ठानापेक्षम्।नि- श्रेयसफलं तु ब्रह्मविज्ञानं न चानुष्ठानान्तरापे- क्षमाअव्यश्र धर्मो जिज्ञास्यो न ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात्। इहतु भूतं ब्रह्म जिज्ञा- र्थजिज्ञास्यकत्वाच्चैककर्तृकत्वम्। तथा चाग्नेयादिषड्यागानामेकस्व- र्गफलकानां द्ादशाध्यायानां चैकधर्मजिज्ञास्यकानां क्रमवत्तयोः क्रमो विवक्षित इति क्रमार्थोऽथशब्द इत्याशङ्ग्याह॥ फलेति॥ फलभे- दाज्जिज्ञास्यभेदाच् न क्रमो विवक्षित इत्यनुषङ्गः। यथा सौर्यार्यम्ण- प्राजापत्यचरूणां ब्रह्मवर्चस स्वर्गायुः फलभेदात्, यथा वा कामचि- कित्सातन्त्रयोजिज्ञास्यभेदान्न क्रमापेक्षा तद्दन्मीमांसयोर्नक्रमापेक्षेति भावः, तत्र फलभेदं विवृणोति॥ अभ्युद्येति । विषयाभिमुख्येनो- देतीत्यभ्युदयो विषयाधीनं सुखं स्वर्गादिकं तच्च धर्मज्ञानहेतोर्मीमां- सायाः फलमित्यर्थः । न केवलं फलस्य स्वरूपतो भेदः किन्तु हे- तुतोऽपीत्याह॥ तज्चेति ॥ ब्रह्मज्ञानहेतोर्मीमांसायाः फलं तु तदि- रुद्धमित्याह॥ निःश्रेयसेति॥ नित्यं निरपेक्ष श्रेयो निःश्रेयसं मो- क्षस्तत् फलमित्यर्थः । ब्रह्मज्ञानं च स्वोत्पत्तिव्यतिरिक्तमनुष्ठानं नापे- क्षत इत्याह ॥न चेति।। स्वरूपतो हेतुतश्र फलभेदान्न समुच्चय इति भावः । जिज्ञास्यभेदं विवृणोति ॥ भव्यक्चेति॥ भवतीति भव्येः साध्य इत्यर्थः। साध्यत्वे हेतुमाह ॥नेति ॥तर्हि तुच्छत्वं नेत्याह॥ पुरुषेति।। पुरुषव्यापारः प्रयत्नस्तन्त्रं हेतुर्यस्य तत्वादित्यर्थः । कति- साध्यत्वात् कृतिजनकज्ञानकाले धर्मस्यासच्वं, न तुच्छत्वादित्यर्थः । ब्रह्मणो धर्माहैलक्षण्यमाह॥ इह त्विति ॥उत्तरमीमांसायामित्यर्थः। १ धर्मब्रह्मजिज्ञासयोः। २ "भव्य गेयप्रवचनीये" त्यादि सूत्रेण कर्तरि यत्प्रत्ययः
Page 56
(३६) रत्नप्रभाभासिते अ० १।पा० १।] स्यं नित्यनिर्वृत्तत्वात्, न पुरुषव्यापारतन्त्रं, चो- दनानवत्तिभेदाच। या हि चोदना धर्मस्य लक्ष- णं सा स्वविषये नियुआनैव पुरुषमवबोधयति। ब्रह्मचोदना तु पुरुषमव बोधयत्येव केवलम्, अ- वबोधस्य चोदनाजन्यत्वान्न पुरुषोऽवबोधे नियु- ज्यते। यथा अक्षार्थसन्निकर्षेणार्थावबोधे तद्दत्। तस्मातू किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञा- भूतमुसाध्यम्। तत्र हेतुः॥ नित्येति॥ सदा सच्वादित्यर्थः । साध्या- साध्यत्वेन धर्मब्रह्मणोः स्वरूपभेदमुक्का हेतुतोऽप्याह ॥नेति॥ध- र्मवत् कत्यधीनं नेत्यर्थः । मानतोऽपि भेदमाह ॥ चोदनेति॥ अ- ज्ञातज्ञापकं वाक्यमुत्र चोदना। तस्याः प्रवृत्तिर्बोधकत्वं तहैलक्षण्या- च् जिज्ञास्यभेद इत्यर्थः। सङ्यहवाक्यं विवृणोति॥या हीति॥लक्षणं- प्रमाणं "स्वर्गकामो यजेत"इत्यादिवाक्यं हि स्वविषये धर्मे यागादि- करणस्वर्गादिफलकभावनारूपे फलहेतुयागादिगोचरनियोगे वा हि- तसाधने यागादौवा पुरुषं प्रवर्तयदेवावबोधयति। "अयमात्मा ब्रह्म" इत्यादि वाक्यं तु त्वमर्थ केवलमुप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्त- यति, विषयाभावादित्यर्थः । नन्ववबोध एव विषयस्तत्राह ॥ न पुरु- प इति। ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्त्यत, इत्यत्र हेतुं पूर्व- वाक्येनाह॥ अवबोधस्येति॥ स्वजन्यज्ञाने स्वयं प्रमाणं न प्रवर्त- कमित्यत्र दृष्टान्तमाह ॥ यथेति॥ मानादेव बोधस्य जातत्वात् जा- ते च विध्ययोगातू न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः । तथा च प्रवर्तक- मानमेयो धर्मः, उदासीनमानमेयं ब्रह्म, इति जिज्ञास्यभेदात् न त- 1 न्मीमांसयो: क्रमार्थोऽथशब्द इति भावः। एवमथशब्दस्यार्थान्तरा- सम्भवादानन्तर्यवाचित्वे सति तदवधित्वेन पुष्कलकारणं वक्तव्य-
Page 57
सू० १। अ० १] शाङ्करब्रह्मसूत्रभाष्ये ( ३७ ) सोपदिश्यत इति। उच्यते। नित्यानित्यवस्तुवि- वेकः,इहामुन्रार्थभोगविरागः,शमदमादिसाध- नसम्पत्, मुमुक्षुत्वं च। तेषु हि सत्सु प्रागपि ध- मजिज्ञासाया ऊर्ध्व च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च, न विपर्यये। तस्मादथशब्देन यथोक्त- साधनसम्पत्त्यानन्तर्यमुपदिश्यते। अतः शब्दो हेत्वर्थः। यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसा- मित्याह ॥ तस्मादिति ॥ उपदिश्यते सूत्रकतेति शेषः । तत्कि मित्यत आह॥ उच्यत इति ॥ विवेकादीनामागमिकत्वेन प्रामा- णिकत्वं पुरस्तादेवोक्तम्। लौकिकव्यापारान्मनस उपरमः शमः।बा- हकरणानामुपरमो दमः। ज्ञानार्थ विहितनित्यादिकर्मसंन्यास उ- परतिः । शीतोष्णादिद्दन्द्सहनं तितिक्षा। निद्रालस्यप्रमादत्यागेन मनःस्थितिः समाधानम्। सर्वत्रास्तिकता श्रद्धा। एतत्षट्कप्राप्तिः शमादिसम्पत्। अत्र विवेकादीना मुत्तरोत्तरहेतुत्वेनाधिकारिविशेषणत्वं सन्तव्यम्। तेषामन्वयव्यतिरेकाभ्यां ब्रह्मजिज्ञासाहेतुत्वमाह॥ते- ष्विति॥ अथ कथंचित् कुतूहलितया ब्रह्मविचारे प्रवृत्तस्यापि फल- पर्यन्तं तज्ज्ञानानुदयाव्यतिरेकसिद्दिः। अथशब्दव्याख्यामुपसंहराते ॥ तस्मादिति॥ ननूक्तविवेकादिकं न सम्भवति। "अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकतम्" इत्यादिश्रुत्या कर्मफलस्य नित्यत्वेन ततो वैराग्यासिद्धेः। जीवस्य ब्रह्मस्वरूपमोक्षश्रायुक्त:, भेदौतू,। तस्य लोष्टादिवत् पुरुषार्थत्वायोगाच्च ततो न मुमुक्षासम्भव इत्याक्षेपपरि- हारार्थोऽत:शब्दः, तं व्याचष्टे॥अतः शब्द इति॥ अथशब्देनानन्त- र्यवाचिना तद्वधित्वेनार्थाद्विवेकादिचतुष्टयस्य ब्रह्मजिज्ञासाहेतुत्वं १ क० पा० इहामुत्रार्थफलभोगविरागः। २ जीवस्य ब्रह्मणः सकाशाद् भेदात्।
Page 58
(३८) रत्नप्रभाभासिते अ० १।पा० १] धनानामनित्यफलतां दर्शयति, "तद्यथेह कर्म- चितोलोक:क्षीयत एवमेवामुत्र पुण्यचितो लोक: क्षीयते" इत्यादिः, तथा ब्रह्मविज्ञानादपि परं पुरुषार्थ दर्शयति, "ब्रह्मविदाप्नोति परम्" इ- त्यादिः, तस्माद्यथोक्तसाधनसंपत्यनन्तरं ब्रह्म- जिज्ञासा कर्त्तव्या।ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञा- सा। ब्रह्म च वक्ष्यमाणलक्षणं "जन्माद्यस्य य- यदुक्तं तस्यार्थिकहेतुत्वस्याक्षेपनिरासायानुवादकोतःशब्द इत्यर्थः । उक्त विवृणोति ॥ यसमादिति ॥ तस्मादित्युत्तरेण सबन्धः। "यदल्पं तन्मर्त्य यत् कतकंतदनित्यम् इति न्यायवती "तयथेह"इत्यादिश्रुतिः कर्मफलाक्षयत्वश्रुतेर्वाधिका। तस्मात् "अतोऽन्यदार्तम्"इति श्रुत्या अनात्ममात्रस्यानित्यत्वविवेकाद्वैराग्यलाभ इति भावः। मुमुक्षां स- मभावयति ॥ तथेति॥ यथा वेदः कर्मफलानित्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशान्तशोकानलमपारं स्वयंज्योतिरानन्दं दर्शयतीत्यर्थः। जीवत्वादेरध्यासोक्त्या ब्रह्मत्वसम्भव उक्त एवेति भावः। एवमथातः शब्दाभ्यां पुष्कलकारणवतोऽधिकारिणः समर्थनाच्छास्त्रमारब्धव्य मित्याह॥ तस्मादिति॥ सूत्रवाक्यपूरणार्थमध्याहृतकर्तव्यपदान्व- यार्थ ब्रह्मजिज्ञासापदेन विचारं लक्षयितुं तस्य स्वाभिमतसमासकथने- नावयवार्थ दर्शयति॥ ब्रम्हण इति॥ ननु "धर्माय जिज्ञासा" इ- 2/6. तिवत् "ब्रह्मणे जिज्ञासा" इति चतुर्थीसमासः किं न स्यादिति चेत्, उच्यते। जिज्ञासापदस्य हि मुख्यार्थ इच्छा, तस्याः प्रथमं कर्मकार- कमपेक्षितं पश्रात् फलं, ततश्वादौ कर्मज्ञानार्थ षष्ठीसमासो युक्तः। कर्मण्युक्तेत सत्यर्थात् फलमुक्तं भवति, इच्छाया: कर्मण एव फल- २ सिद्धस्य ब्रह्मणः ।
Page 59
सू० १। अ० १।] शाङ्करब्रह्मसूत्रभाष्ये ( ३३ ) त इति"। अत एव न ब्रह्मशब्दस्य जात्याद्यर्था- न्तरमाशङ्ितिव्यम्। ब्रह्मण इति कर्मणि पष्ठी न शेषे। जिज्ञास्यापेक्षत्वाज्ज्ञासायाः, जिज्ञा- स्यान्तरानिर्देशाच्च। ननु शेषषष्ठीपरिग्रहेऽपिब्र- ह्मणो जिज्ञासाकर्मत्वं न विरुध्यते, सम्बन्धसा-
त्वात्। यथा 'स्वर्गस्येच्छा" इत्युक्ते स्वर्गस्य फलत्वं लभ्यते तद्दत्। अत एव "धर्मजिज्ञासा" इत्यत्रापि सा हि तस्य ज्ञातुमिच्छेति इ- च्छां गृहीत्वा षष्ठीसमासो दर्शितः । विचारलक्षणायां तु विचारस्य केशात्मकतया प्रथमं फलाकाङृत्वात् धर्माय जिज्ञासेति चतुर्थी- समास उक्त:, तथा वृत्तिकारैः "ब्रह्मणे जिज्ञासा" इत्युक्तं चेदस्तु ज्ञात- वृन्तिविषयनून प्रति लिमि न तेन च +
त्वेन ब्रह्मणः फलत्वादिति। अधुना ब्रह्मपदार्थमाह॥ ब्रह्म चेति॥ ननु"ब्रह्म क्षत्रमिदं ब्रह्म आयाति ब्रह्म स्वयम्भुर्व्रह्म प्रजापति"रिति श्रुतिषु लोके च ब्राह्मणत्वजातौ जीवे वेदे कमलासने च ब्रह्मशब्द: प्रयुज्यत इत्याशङ्ग्याह ॥। अत एवति। जगत्कारणत्वलक्षणप्रति- पादकसूत्रासाङ्गत्यप्रसङ्गादेवेत्यर्थः ॥ वृत्यन्तरे शेषे षष्ठीत्युक्तं दूषयति ॥ ब्रह्मण इतीति॥ सम्बन्धसामान्यं शेषः जिज्ञासेत्यत्र सन्प्रत्य- यवाच्याया इच्छाया ज्ञानं कर्म । तस्य ज्ञानस्य ब्रह्म कर्म। तत्र सकर्मकक्रियायाः कर्म ज्ञानं विना ज्ञातुमशक्यत्वात्। इच्छाया विषयज्ञानजन्यत्वाच्च प्रथममापेक्षितं कर्मैव षष्ठचा वाच्यं न शेष इ- त्यर्थः। ननु प्रमाणादिकमन्यदेव तत् कर्मास्तु ब्रह्म तु शेषितया सम्बध्यतां तत्राह॥ जिज्ञास्थान्तरेति॥ श्रुतं कर्म त्यत्क्ान्यद्श्रुतं कल्पयन् "पिण्डमुत्सृज्य करं लेढि" इति न्यायमनुसरतीति भावः। गुढाभिसन्धिः शङ्कते ॥ नन्विति॥ "षष्ठीशेषे" [ २।३।५०] १ त्रह्माश्रिताशेषप्रमाणादिविचारप्रतिज्ञानार्था शेषषष्ठी स्वीकार्येत्याशयवान्।
Page 60
(8.) रत्नप्रभाभासिते अ० १।पा० १।) मान्यस्य विशेषनिष्ठत्वात्, एवमपि प्रत्यक्षं ब्रह्म- णः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थ: प्रयासः स्यात्, न व्यर्थो ब्रह्मा- श्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेद्, न। प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षितत्वात्।व्र- ह्म हि ज्ञानेनानुमिष्ठतमत्वात् प्रधानम्। तस्मि- नू प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञा- सितैर्विना ब्रह्म जिज्ञासितं न भवति तान्यर्था- क्षिप्तान्येवेति न पृथक सूत्रयितव्यानि। यथा इति विधानात् षष्ठ्या सम्बन्धमात्रं प्रतीतमपि विशेषाकांक्षायां स- कर्मकक्रियासन्निधानात् कर्मत्वे पर्यवस्यतीत्यर्थः । अभिसन्धिम- जानन्निवोत्तरमाह ॥ एवमपीति ॥ कर्मलाभेऽपि प्रत्यक्ष "कर्तृक- र्मणोः कृतीति [ २।३।५ ] सूत्रेण जिज्ञासापदस्य अकारान्त- त्वेन कृदन्तंस्य योगे विहितं प्रथमापेक्षितं कर्मत्वं त्यक्का परोक्षमशा- ब्दं कल्पयत इत्यर्थः। शेषवादी स्वाभिसन्धिमुद्धाटयति ॥ न व्यर्थ- इति॥ शेषषष्ठयां ब्रह्मसम्बन्धिनी जिज्ञासा प्रतिज्ञाता भवति। तत्र यानि ब्रह्माश्रितानि लक्षणप्रमाणयुक्तिज्ञानसाधनफलानि तेषा- मपि विचारः प्रतिज्ञातो भवति। तज्जिज्ञासाया अपि ब्रह्मज्ञानार्थ- त्वेन ब्रह्मसम्बन्धित्वात्। कर्मणि षष्ठ्यां तु ब्रह्मकर्मक एव विचारः प्रतिज्ञातो भवतीत्युभिसन्धिना शेषषष्ठीत्युच्यते। अतो मत्पयासो न व्यर्थः। ब्रह्मतत्सम्बधिनां सर्वेषां विचारप्रतिज्ञानमर्थः फलं यस्य तत्त्वादित्यर्थः । तत्प्रयासस्येदं फलं न युक्तम् सूत्रेण मुखतः प्रधान- स्य ब्रह्मणो विचारे प्रतिज्ञाते सति तदुपकरणानां विचारस्यार्थिकप्र- १ "अः प्रत्यया" दिति सूत्रेण अकारप्रत्ययो विहित इति वोध्यम्।
Page 61
सू० १ । अ ० १ ] शाङ्करबरह्मसूत्रभाष्ये (४9) "राजाऽसौ गच्छति" इत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति तद्दत्। श्रुव्यनुगमाच्च।"यतो वा इमानि भूतानि जायन्ते" इत्याद्याःश्रुतयः, "तद्विजिज्ञासस्व तद्रह्म" इति प्रत्यक्षमेव ब्रह्म- णो जिज्ञासाकर्मत्वं दर्शयन्तितच्च कर्मणिषष्ठीप- रिग्रहे सूत्रेणानुगतं भवति। तस्माद्वह्रण इति कर्मणि षष्ठी। ज्ञातुमिच्छा जिज्ञासा। अवगति- पर्यन्तं ज्ञानं सन्वाच्याया इच्छाया:, कर्म फु- लविषयत्वादिच्छाया: ज्ञानेन हि प्रमाणेनावग
तिज्ञाया उदितत्वादित्याह सिद्धान्ती ॥ न प्रधानेति॥ संगृहीतमर्थ सदृष्टान्तं व्याकरोति ॥ ब्रह्म हीत्यादिना ॥ "तहिजिज्ञासस्व" इति मूलश्रुत्यनुसाराच्च कर्मणि षष्ठीत्याह । श्रुत्युनुगमान्चेति॥श्रुति- सूत्रयोरेकार्थत्वालाभाच्चेत्यर्थः । जिज्ञासापदस्यावयवार्थमाह॥ज्ञातु- मिति।। नन्वनवगते वस्तुनीच्छाया अदर्शनात्तस्या मूलं विषयज्ञानं वक्तव्यं, ब्रह्मज्ञानं तु जिज्ञासायाः फलं, तदेव मूलं कथमित्याशङ्ग्या- ह ॥ अवगतीति ॥ आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यम वगतिः पर्यन्तोऽवधिर्यस्याखण्डसाक्षात्कारवृत्तिज्ञानस्य तदेव जिज्ञासायाः क- र्म, तदेव फलम् । मूलं त्वापातज्ञानमित्यधुना वक्ष्यत इति फलमूल- ज्ञानयोर्भेदान जिज्ञासानुपपत्तिरित्यर्थः। ननु गमनस्य ग्रामः कर्म, तत्प्राप्तिः फलमिति भेदातू कर्म एव फलमित्युक्तं तत्राह॥ फलेति॥। क्रियान्तरे तयोर्भेदेऽपि इच्छायाः फलविषयत्वात् कर्मैव फलमि- त्यर्थः। ननु ज्ञानावगत्योरैक्याज्नेदोक्तिरयुक्तेत्यतआह॥ ज्ञानेनेति॥ १ प्राप्तिकर्मणोः । ६
Page 62
(४२) रत्नप्रभाभासिते [अ० १। पा० १। न्तुमिष्टं ब्रह्म । ब्रह्मावगतिर्हि पुरुषार्थः । निःशे षसंसारबीजाविद्याद्यनर्थनिबर्हणात्। तस्माद्र- ह्म जिज्ञासितव्यम्। तत् पुनर्ब्रह्म प्रसिद्धमप्रसि- द्वं वा स्यात्! यदि प्रसिद्वं, न जिज्ञासितव्यं, अथाप्रसिद्धं, नैव शक्यं जिज्ञासितुमिति। उच्यते। अस्ति तावन्नित्यशुद्धबुद्धमुक्तस्व- ज्ञानं वृत्तिः अवगतिस्तत्फलम् इति भेद इति भावः । अवगन्तुमभि- व्यञ्जयितुम्। अवगतेः फलत्वं स्फुटयति॥ ब्रह्मेति ॥ हिशब्दोक्तं हे- तुमाह ॥निःेषेति। बीजमविद्या आदिर्यस्यानर्थस्य तन्नाशकत्वादि- त्यर्थः। अवयवार्थमुक्का सूत्रवाक्यार्थमाह ॥ तरुमादिति ॥अत्र स- नूप्रत्ययस्य विचारलक्षकत्वं तव्यप्रत्ययेन सूचयति। अथातःशब्दा- भ्यामधिकारिणः साधितत्वात् तेन ब्रह्मज्ञानाय विचारः कर्तव्य इ- त्यर्थः ॥ इति तृतीयवर्णकम्। प्रथमवर्णके बन्धस्याध्यासत्वो्त्या विषयादिसिद्धावपि ब्रह्मप्रसि- द्वयप्रसिद्ध्योविषयादिसम्भवासम्भवाभ्यां शास्त्रारम्भसन्देहे पूर्वपक्ष- माह॥तत् पुनरिति॥ पुनःशब्दो वर्णकान्तरद्योतनार्थः॥ यदि वेदान्त- विचारात् प्रागेव ब्रह्म ज्ञातं, तर्हज्ञातत्वरूपविषयत्वं नास्ति।अज्ञाना- भावेन तन्निवृत्तिरूपफलमपि नास्तीति न विचारयितव्यम्।अथाज्ञा- तं केनापि तर्हि तदुद्देशेन विचारः कर्तु न शक्यते, अज्ञातस्योद्देशायो- गातू। तथा च बुद्धावनारूढस्य विचारात्मकशास्त्रेण वेदान्तैश्ष प्रति पादनायोगातू। तत्प्रतिपाद्यत्वरूपः सम्बन्धो नास्तीति ज्ञानानुत्पत्ते: फलमपि नास्तीत्यनारभ्यं शास्त्रमित्यर्थः । आपातप्रसिद्ध्या विषयाढिलाभादारम्भणीयमिति सिद्धान्तयति १ प्रमाणेनेति शेष,।
Page 63
सू० १ । अ ० १ ] शाङ्करव्रह्मसूत्रभाष्ये (४३) भावं, सर्वज्ञं सर्वशक्तिसमन्वितं ब्रह्म। ब्रह्मशब्द- स्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वाढयोर्थाः प्रतीयन्ते, बहतेर्धातोरर्थानुगमात्, सर्वस्यात्म-
। उच्यत इत्यादिना ॥I प्रसिद्धं तावदित्यर्थः । अस्तित्वस्याप्रकृत- त्वेनास्तिपदस्य प्रसिद्धिपरत्वात्। ननु केन मानेन ब्रह्मणः प्रसिद्धिः। न च "सत्यं ज्ञानमनन्तं ब्रह्म" इति श्रुत्या सेति वाच्यम्, ब्रह्मप- दस्य लोके सङ्गतिग्रहाभावेन तद्धटितवाक्यस्याबोधकत्वादित्याशङ्ग्च ब्रह्मपदव्युत्पच्या प्रथमं तस्य निर्गुणस्य सगुणस्य च प्रसिद्धिरित्याह । ब्रह्मशब्दस्य हीति ॥ अस्यार्थः । श्रुतौ सूत्रे ब्रह्मशव्दस्य प्रयो- गान्यथानुपपच्या कश्विदर्थो Sसतीति ज्ञायते, प्रमाणवाक्ये निरर्थक- शब्दप्रयोगादर्शनात्। स चार्थो "महत्वरूप" इति व्याकरणान्निश्री- यते, "वृहि वृद्धाविति" स्मरणात्। सा च वृद्धिनिरवधिकमहत्वमिति सङ्कोचकाभावात् श्रुतावनन्तपदेन सह प्रयोगाच्च ज्ञायते। निरवधि- कमह्त्वं चान्तवच्वादिदोषवच्वे सर्वज्ञत्वादिगुणहीनत्वे च न सम्भवति। लोके गुणहीनदोषवतोरल्पत्वप्रसिद्धेः। अतो बृंहणाद् ब्रह्मेति व्युत्प- च्या देशकालवस्तुतःपरिच्छेदाभावरूपं नित्यत्वं प्रतीयते। अविद्यादिदो- ष शून्यत्वं शुद्धत्वम्। जाड्यराहित्यं बुद्धत्वम्। बन्धकालेऽपि स्वतो ब- नधाभावो मुक्तत्वं च प्रतीयते। एवं सकलदोषशून्यं निर्गुणं प्रसिद्धम्, तथा सर्वज्ञत्वादिगुणकं च तत्पदवाच्यं प्रसिद्धम्। ज्ञेयस्य कार्यस्य चा- परिशेषेऽल्पत्वप्रसङ्गन सर्वज्ञत्वस्य सर्वकार्यशक्तिमच्वस्य चालाभा-
जिज्ञासोपपत्तिः" इति उत्क्ा त्वंपदार्थात्मनापि ब्रह्मणः प्रसिद्ध्या त- दुपपत्तिरित्याह॥सर्वस्येति॥ सर्वस्य लोकस्य योऽयमात्मा तदभेदाद् २ व्यापनात्।
Page 64
(४8) रत्नप्रभाभासिते [अ० १। पा० १। त्वाच्च ब्रह्मास्तित्वप्रसिद्धिः । सर्वो हि आत्मा- स्तित्वं प्रत्येति, न नाहमस्मीति। यदि हिनात्मा- स्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात्। आत्मा च ब्रह्म। यदि लोके ब्रह्मात्म- त्वेन प्रसिद्धमस्ति ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्, न। तद्विशेषं प्रति विप्रतिपत्तेः । "देहमात्रं चैतन्यविशिष्टमात्मा" इति प्राकृता ब्रह्मणः प्रसिद्धिरित्यर्थः। नन्वात्मनः प्रसिद्धिः केत्यत आह॥ सर्वो हीति॥ "अहमस्मीति" न प्रत्येति इति न, किन्तु प्रत्येत्येव, सैव सच्चिदात्मनः प्रसिद्धिरित्यर्थः । आत्मनः कुतः सत्तेति शून्यमतमाशङ्ग्याह ॥यदि हीति॥ आत्मनः शून्यस्य प्रतीतौ "अहं नास्मि"इति लोको जानीयात्। लो- कस्तु"अहमस्मि"इति जानाति, तस्मादात्मनोऽस्तित्वप्रसिद्धिरित्यर्थः। आत्मप्रसिद्धावपि ब्रह्मणः किमायातं तत्राह॥ आत्मा चेति॥ "अ- यमात्मा ब्रह्मइत्यादि श्रुतेरितिभावः। प्रसिद्धिपक्षोक्तं दोषं पूर्वपक्षेण स्मारयति॥ यदीति ॥ अज्ञातत्वाभावेन विषयाद्यभावादविचार्यत्वं प्राप्तमित्यर्थः । यथा "इदं रजतम्"इति वस्तुतः शुक्तिप्रसिद्धिस्तद्दत् "अहमस्मि" इति सच्चचैतन्यरूपात्मत्वसामान्येन वस्तुतो ब्रह्मणः प्रसिद्धिः नेयं पूर्णानन्दबह्मत्वरूपविशेषगोचरा, वादिनां विवादा- , भावप्रसङ्गातू। न हि शुक्तित्वविशेषदर्शने सति"रजतंरङ्गमन्यद्वा" इ- ति विप्रत्तिपत्तिरस्ति।अतो विप्रतिपत्यन्यथानुपपच्या सामान्यतः प्रसि- द्वावपि विशेषस्याज्ञातत्वाद्दिषयादिसिद्धिरिति सिद्धान्तयति॥नेत्यादि- ना । सामान्यविशेषभावस्त्वात्मनि सच्चितपूर्णादिपदवाच्यभेदात् क- ल्पित इति मन्तव्यम्। तत्र स्थूलसूक्ष्मक्रमेण विप्रतिपत्तीरुपन्यस्यति -1
Page 65
सू० १ । अ ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (४५) जना लोकायतिकाश्र प्रतिपन्नाः।"इन्द्रियाण्ये- व चेतनान्यात्मा" इत्यपरे। "मन" इत्यन्ये "इ- न्द्रियाणिमनोवा" इति तदेकदेशिनः। "वि- ज्ञानमात्रं क्षणिकम्" इत्येके। "शून्यम्" इत्य- परे। "अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्ता" इत्यपरे। "भोक्तैव केवलं न कर्ता" इ- त्येक। "अस्ति तद्यतिरिक्त ईश्वरः सर्वज्ञः सर्व- शक्तिः"' इति केचित्। "आत्मा स भोक्तुः" इत्यपरे। एवं बहवो
।देहमात्रमित्यादिना। शास्त्रज्ञानशून्या: प्राकताः। वेदबाह्यमतान्यु- क्का तार्किकादिमतमाह॥ अस्तीति॥साङ्ग्यमतमाह ॥ भोक्तेति॥ किमात्मा देहादिरूपः उत तज्जिन्न इति विप्रतिपत्तिकोटित्वेन देहे- न्द्रियमनोबुद्धिशून्यान्युक्का तन्जिन्नोऽपि कर्तृत्वादिमान् वेति विप्र- तिपत्तिकोटित्वेन तार्किकसाङ्ग्यपक्षावुपन्यस्याकर्तापीश्वराज्जिन्नो न वेति विवादकोटित्वेन योगिमतमाह ॥अस्ति तद्वयतिरिक्त ईश्वर इति॥ निरतिशयसच्वं गृहीत्वा ईश्वरः सर्वज्ञत्वादिसम्पन्न इति यो- गिनो वदन्ति। भेदकोटिमुक्ता सिद्दान्तकोटिमाह।। आत्मा स भोक्तुरिति॥ भोकतुर्जीवस्याकर्तुः साक्षिणः स ईश्वर आत्मा स्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः, विप्रतिपत्तीरुपसंहरति॥ एवं बहव इति॥ विश्रति प- त्तीनां प्रपश्चो निरासश्ष विवरणोपन्यासेन दर्शितः सुखबोधायेतीहोपर- म्यते; तत्रं युक्तिवाक्याश्रयाः सिद्धान्तिनो "जीवो ब्रह्मैव आत्मत्वाद् १ विविधवादिषु।
Page 66
(४६) रत्नप्रभाभासिते [अ० १। पा० १। विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः । तत्राविचार्य यत् किंचित् प्रतिपद्यमानो निःश्रेयसात् प्रतिहन्येतानर्थ चेयात्। तस्मादू ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमी ब्रह्मवत्" इत्यादियुक्तेः, "तत्त्वमसि" इत्यादिश्रुतेश्राबाधितायाः स- चवात्। अन्ये तु देहादिरात्माSहंप्रत्ययगोचरत्वाव्यतिरकेण घटादिव- दित्यादियुक्त्याभासम्, "स वा एष पुरुषोऽन्नरसमयः" इन्द्रियसंवादे "चक्षुरादयः ते ह वाचमूचु: मन उवाच, योऽयं विज्ञानमयः, असदे- वेदमग्र आसीत् कर्ता बोद्धा, अनश्नन्नन्यःआत्मानमन्तरो (यमयति" इति वाक्याभासं चाश्रिता इति विभाग: । "देहादिरनात्मा भौतिक- .त्वादृश्यत्वात्" इत्यादिन्यायैः "आनन्दमयोऽभ्यासात्" इत्यादिसूत्रै- श्वाभासत्वं वक्ष्यते । ननु सन्तु विप्रतिपत्तयस्तथापि यस्य यन्मते श्र द्वा तदाश्रयणात्तस्य स्वार्थः सेत्स्यति, किं ब्रह्मविचारारम्भेणेत्यत आ ह॥ तत्राविचार्येति ॥ ब्रह्मात्मैक्यज्ञानादेव मुक्तिरिति वस्तुगतिः । मतान्तराश्रयणे तदभावान्मोक्षासिद्धिः। किंचात्मानमन्यथा ज्ञात्वात- त्पापेन संसारान्धकूपे पतेत् ॥। "अन्धं तमः प्रविशन्ति ये के चात्म' हनो जनाः" इति श्रुतेः। "योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते। किं तेन न रुतं पापं चोरेणात्मापहारिणा॥। इति वचनाच्चेत्यर्थः। अतः सर्वेषां मुमुक्षूणां निःश्रेयसफलाय वेदा- न्तविचारः कर्तव्य इति सूत्रार्थमुपसंहरति ॥ तस्मादिति॥बन्ध- स्याध्यस्तत्वेन विषयादिसद्भावादगतार्थत्वादधिकारिलाभादापातप्रसि- द्धयाविषयादिसम्भवाच्च वेदान्तविषया मीमांसापूजिता विचारणा वेदा न्ताविरोधिनो ये तर्कास्तन्त्रान्तरस्थास्तान्युपकरणानि यस्याःसा निःश्रे
Page 67
सू० २ । अ ० १ । ] शाङ्करब्रह्मसूत्रभाष्ये (४७) मांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयो- जना प्रस्तूयते॥१॥ "ब्रह्म जिज्ञासितव्यम्" इत्युक्तम्। किंलक्ष- णकं पुनस्तद्रह्म! इत्यत आह भगवान् सूत्रकारः। जन्माद्यस्य यत इति॥ २ ॥ जन्मोत्पत्तिरादिरस्येति तद्रुणसंविज्ञानो ब- यसायारभ्यत इत्यर्थः। ननु सूत्रे विचारवाचिपदाभावात्तदारम्भः कथ सूत्रार्थ इत्यत आह ॥ ब्रह्मेति॥ ब्रह्मज्ञानेच्छोक्तिद्वारा विचारं ल- क्षयित्वा तत्कर्तव्यतां ब्रवीतीति भावः। एवं प्रथमसूत्रस्य चत्वारो डर्था व्याख्यानचतुष्टयेन दर्शिताः। सूत्रस्य चानेकार्थत्वं भूषणम् । न- न्विदं सूत्रं शास्त्राद्वहिःस्थित्वा शास्त्रमारम्भयति अन्तर्भूत्वा वा?आ- दे तस्य हेयता, शास्त्रासम्बन्धात्। द्वितीये तस्यारम्भकं वाच्यम् न च स्वयमेवारम्भकं स्वस्मात् स्वोत्पत्तेरित्यात्माश्रयात्, न चारम्भकान्तरं पश्याम इति। उच्यते। श्रवणविधिना आरब्धमिदं सूत्रं शास्त्रान्तर्ग- तमेव शास्त्रारम्भं प्रतिपादयति। यथाऽध्ययनविधिर्वेदान्तर्गत एव क- त्लवदस्याध्ययने प्रयुङ्के तद्ददित्यनवद्यम्॥१॥ प्रथमसूत्रं समाप्तम्॥ प्रथमसूत्रेण शास्त्रारम्भमुपपाद्य शास्त्रमारभमाणः पूर्वोत्तराधिक- रणयोः सङृगतिं वक्तुं वृत्तं कीर्तयति॥ब्रह्मेति॥ मुमुक्षुणा ब्रह्मज्ञाना- य वेदान्तविचारः कर्तव्य इत्युक्तम् ब्रह्मणो विचार्यत्वोक्त्या अर्थात् प्रमाणादिविचारणां प्रतिज्ञातत्वेऽपि ब्रह्मप्रमाणं ब्रह्मयुक्तिरित्यादि- विशिष्टविचाराणां विशेषेण ब्रह्मज्ञानं विना कर्तुमशक्यत्वात्तत्स्वरूप- ज्ञानायादौ लक्षणं वक्तव्यंतन्न सम्भवतीत्याक्षिप्य सूत्रकतं पूजयन्नेव लक्षणसूत्रमवतारयति किंलक्षणकमिति ॥ किमाक्षेपे, नास्त्येव
Page 68
(४८) रत्नप्रभाभासिते [अ० १। पा० १। हुव्रीहिः। जन्मस्थितिभङ्गंसमासार्थः। जन्मन श्र्ादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च।श्रु- तिनिर्देशस्तावत्, "यतो वा इमानि भूतानि जा- यन्ते2 इत्यस्मिन् वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात्। वस्तुटृत्तमपि जन्मना लब्धसत्ता- कस्य धर्मिणः स्थितिप्रलयसम्भवात्।"अस्य" लक्षणमित्यर्थः । आक्षेपेणास्योत्थानादाक्षेपसङ्गतिः। लक्षणयोतिवे- दान्तानां स्पष्टब्रह्मलिङ्गानां लक्ष्ये ब्रह्मणि समन्वयोक्तेःश्रुतिशास्त्राध्या- यपादसङ्गतयः । तथा हि। "यतो वा इमानि भूतानि जायन्ते" ३- त्यादिवाक्यं विषयः ॥ तत्कि ब्रह्मणो लक्षणं वक्ति न वेति सन्देहः। तत्र पूर्वपक्षे ब्रह्मस्वरूपासिद्धया मुक्त्यसिद्धिः फलं सिद्धान्तें तत्सि- द्विरिति भेदः। यवप्याक्षेपसङ्गतौ पूर्वाधिकरणफलमेव फलमिति क- त्वा पृथक् न वक्तव्यम् तदुक्तम्. "आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि। प्रयोजनं न वक्तव्यं, यच्च कृत्वा प्रवर्तते" इति।। तथापि स्पष्टार्थमुक्तमिति मन्तव्यं, यत्र पूर्वाधिकरणसिद्धान्तेन पूर्वपक्ष: तत्रापवादिकी सङ्गतिः । प्राप्तिस्तदर्था चिन्ता। तत्र न व क्तीतिप्राप्तम्। जन्मादेर्जगद्दर्मत्वेन ब्रह्मलक्षणत्वायोगात् ।न च जगदुपादानत्वे सति कर्तृत्वं लक्षणमिति वाच्यम् कर्तुरुपादानत्वे ह- ष्टान्ताभावेनानुमानाप्रवृत्तेः । न च श्रौतस्य ब्रह्मणः श्रुत्यैव लक्षण सिद्धे: किमनुमानेनेति वाच्यम् अनुमानस्य श्रुत्यनुग्राहकत्वेन तद' भावे तदिरोधे वा श्रुत्यर्थासिद्धेः। न च जगत्कर्तृत्वमुपादानत्वं वा प्रत्येकं लक्षणमस्त्विति वाच्यम्, कर्तृमात्रस्योपादानाद्भिन्नस्य ब्रह्म
Page 69
सू० १ । अ० २] शाङ्गरब्रह्मसूत्रभाष्ये (४९) त्वायोगात्। वस्तुतः परिच्छेदादिति प्राप्ते पुरुषाभ्यूहमात्रस्यानुमान- स्याप्रतिष्ठितस्यातीन्द्रियार्थे स्वातन्त्रयायोगात्। अपौरुषेयतया निर्दो- षश्रुत्युक्तोभयकारणत्वस्यसुखादिदृष्टान्तेन सम्भावयितुं शक्यत्वात्। तदेव लक्षणमिति सिद्धान्तयति ॥ जन्माद्यस्य यत इतीति॥ अत्र यद्यपि जगज्जन्मस्थितिलयकारणत्वं लक्षणं प्रतिपादते तथाप्य- ग्रे"प्ररतिश्रव"इत्यधिकरणे तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृत्वो- पादानत्वोभयरूपत्वमिति वक्ष्यमाणं सिद्धवत्कृत्वोभयकारणत्वं लक्ष- णमित्युच्यत इति न पौनरुक्तयम्। ननु जिज्ञास्यनिर्गुणब्रह्मणः कारणत्वं- कथं लक्षणमिति चेद्, उच्यते। यथा रजतं शुक्तेर्लक्षणं यद्रजतं सा शु- किरिति, तथा यज्जगत्कारणं तद्रह्लेति कल्पित कारणत्वं तटस्थं सदेव ब्रह्मणो लक्षणमित्यनवयम्। सूत्रं व्याचष्टे॥ जन्मेत्यादिना। बहुव्रीहौ पदार्थाः सर्वे वाक्यार्थस्यान्यपदार्थस्य विशेषणानि। यथा चित्रगोर्देवदत्तस्य चित्रा गावः तद्ददत्रापि। जन्मादीति नपुंसकैकव- चनदोतितस्य समाहारस्य जन्मस्थितिभङ्गस्य जन्मविशेषणं, तथा च जन्मनः समासार्थैकदेशस्य गुणत्वेन संविज्ञानं यस्मिन् बहुव्रीहौ स तदुणसंविज्ञान इत्यर्थः। तत्र यज्जन्मकारणं तद् ब्रह्मेति ब्रह्मत्व- विधानम्युक्तम्, स्थितिलयकारणाद्जिन्त्वेन ज्ञाते ब्रह्मत्वस्य ज्ञातुमश- क्यत्वात्। अतो जन्मस्थितिभङ्गैनिरूपितानि त्रीणि कारणत्वानि मिलितान्येव लक्षणमिति मत्वा सूत्रे समाहारो बोतित इति ध्येयम्। नन्वादित्वं जन्मनः कथं ज्ञातव्यं संसारस्यानादित्वादित्यत आह॥। जन्मनश्चेति॥ मूलश्रुत्या वस्तुगत्या चादित्वं ज्ञात्वा तदपेक्ष्य सू- त्रकता जन्मन आदित्वमुक्तमित्यर्थः । इदमः प्रत्यक्षार्थमात्रवाचि- त्वमाशङ्गयोपस्थित सर्वकार्यवाचित्वमाह॥अस्येतीति॥ वियदादि- १ यथा तार्किकमते अदृष्टवदात्मनः कार्यमात्रे निमित्तत्वाङ्गीकारेण सुखस्यापि कार्य- त्वात् तत्प्रतिनिमित्तत्वमात्मनः समवायिकारणाख्यमुपादानत्वं च स्पष्टमेव तथा च यथा सुखं प्रति निमित्तत्वमुपादानत्वं चात्मनस्तथा ब्रह्मणोपि घटेतैवैतदिति भावः ७
Page 70
(५०) रत्नप्रभाभासिते अ० १।पा० १।) इति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशः । पष्ठी जन्मादिधर्मसम्बन्धार्था।"य- त इति" कारणनिर्देशः । अस्य जगतो नाम- रूपाभ्यां व्याकृतस्यानेककर्तभोक्तृसंयुक्तस्य प्रतिनियतदेशका लनिमित्तक्रियाफलाश्रयस्य
जगतो नित्यत्वान्न जन्मादिसम्बन्ध इत्यत आह॥ षष्ठीति ॥ वि- यत्पादे महाभूतानां जन्मादिसम्बन्धो वक्ष्यत इति भावः। ननु जग- तो जन्मादेर्वा ब्रह्मसम्बन्धाभावान्न लक्षणत्वमित्याशङ्क्य तत्कारणत्वं लक्षणमिति पश्चम्यर्थमाह॥।यत इतीति॥यच्छब्देन सत्य ज्ञानमनन्त- मानन्दरूपं वस्तूच्यते।"आनन्दाद्धयेवेति"निर्णीतत्वात्।तथा च स्वरूप- लक्षणसिद्धिरिति मन्तव्यम्।पदार्थमुक्क्ा पूर्वसूत्रस्थब्रह्मपदानुषङ्गेण त- च्छब्दाध्याहारेण च सूत्रवाक्यार्थमाह॥अस्येत्यादि ना।।कारणस्य सर्व- ज्ञत्वादिसम्भावनार्थानि जगतो विशेषणानि। यथा कुम्भकारः प्रथमं कुम्भशब्दाभेदेन विकल्पितं पृथुबुध्नोदराकारस्वरूपं बुद्धावालिख्य तदात्मना कुम्भं व्याकरोति बहिः प्रकटयति, तथा परमकारणमपि स्वेक्षितं नामरूपात्मना व्याकरोति इत्यनुमीयत इति मत्वाह॥ ना मरूपाम्यामिति। इत्थम्भावे तृतीया। आयकार्य चेतनजन्यं का- र्यत्वात् कुम्भवदिति प्रधानशून्ययोर्निरासः। हिरण्यगर्भादिजीवजन्य- त्वं निरस्यति ॥ अनेकेति।। श्राद्धवैश्वानरेष्टचादौ पितापुत्रयोः कर्तृ- भोक्त्रोभेदातू पृथगुक्तिः। "यो ब्रह्माणं विदधाति पूर्व सर्व एत आ- त्मानो व्युच्चरन्ति" इति श्रुत्या स्थूलसूक्ष्मदेहोपाधिद्दारा जीवानां का- र्यत्वेन जगन्मध्यपतित्वान्न जगत्कारणत्वमित्यर्थः । कारणस्य सर्व- जत्वं सम्भावयति ॥ प्रतिनियतेति।। प्रतिनियतानि व्यवस्थितानि १ विकल्पाख्यवृत्त्या विषयीकृतम्।
Page 71
सृ० २/ अ० २।] शाङ्करब्रह्मसूत्रभाष्ये (५१) मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तः कारणाद्गवति तद्गल्ले- ति वाक्यशेषः । अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम्। यास्कपरिपठितानां तु "जायते अ- स्ति" इत्यादीनां ग्रहणे तेषां जगतः स्थितिका- ले सम्भाव्यमानत्वात् मूलकारणादुत्पत्तिस्थि- तिनाशा जगतो न गहीता: स्युरित्याशङ्येत त- देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयस्येत्यर्थः। स्वर्गस्य क्रियाफलस्य मेरुपृष्ठं देशः। देहपातादूर्ध्व काल उत्तरायणमरणादिनि- मित्तं च प्रतिनियतम्। एवं राजसेवाफलग्रामादेर्देशादिव्यवस्था जेया। तथा च यथा सेवाफलं देशायभिज्ञदातृकं तथा कर्मफलं फलत्वा- दिति सर्वज्ञत्वसिद्धिरिति भावः । सर्वशक्तित्वं सम्भाक्यति ॥ मन- सापीति।। नन्वन्येऽपि विपरिणामादयो भावविकाराः सन्तीति कि- मिति जन्मादीत्यादिपदेन न गृह्यन्ते तत्राह ॥ अन्येषामिति॥ वृद्धिपरिणामयोर्जन्मनि अपक्षयस्य नाशेऽन्तर्भाव इतिभावःननु "देहो जायते अस्ति वर्धते विपारणमते अपक्षीयते नश्यति" इति यास्क- मुनिवाक्यं एतत्सूत्रमूलं किं न स्यादत आह॥ यास्केति॥ या- स्कमुनि: किल महाभूतानामुत्पन्नानां स्थितिकाले भौतिकेषु प्रत्यक्षे- ण जन्मादिषट्कमुपलभ्य निरुक्तवाक्यं चकार तन्मूलीकृत्य जन्मा- दिषट्ककारणत्वं लक्षणं सूत्रार्थ इति ग्रहणे सूत्रकता ब्रह्मलक्षणं न सङ्गृहीतं किन्तु महाभूतानां लक्षणमुक्तमिति शङ्का स्यातू सा मा भू- दिति ये श्रुत्युक्ता जन्मादयसत एव गृह्यन्त इत्यर्थः। यदि निरुक्तस्या- पि श्रुतिर्मूलमिति महाभूतजन्मादिकमर्थस्ताहि सा श्रुतिरेव सूत्रस्य
Page 72
(५२) रत्नप्रभाभासिते अ० १। पा० १] न्माशङ्गीति योत्पत्तिर्ब्रह्मणस्तत्रैव स्थितिःप्रलय- श्र त एव गृह्यन्ते।न यथोक्तविशेषणस्य जग- तो यथोक्तविशेषणमीश्वरं मुक्काऽन्यतः प्रधाना- दचेतनाद्णुभ्यो वाभावाद्ा संसारिणो वोत्पच्या- दि सम्भावयितुं शक्यं, न च स्वभावतः । विशि- ष्टदेशकालनिमित्तानामिहोपादानात्। एवदेवा- मूलमस्तु किमन्तर्गडुना निरुक्तेनेति भावः। यदि जगतो ब्रह्मातिरिक्तं कारणं स्यात् तदा ब्रह्मलक्षणस्य तत्रातिव्यान्यादिदोषः स्यात्, अ- तस्तन्निरासाय लक्षणसूत्रेण ब्रह्म विना जगज्जन्मादिकं न सम्भवति कारणान्तरासम्भवादिति युक्ति: सूत्रिता, सा तर्कपादे विस्तेरण व- क्षयते; अधुना सङ्क्षेपेण तां दर्शयति॥ न यथोक्तेत्यादिना॥ ना- मरूपाभ्यां व्याकतस्येत्यादीनां चतुर्णा जगद्दिशेषणानां व्याख्यानाव- सरे प्रधानशून्ययोः संसारिणश्र निरासो दर्शितः । परमाणूनामचेत- नानां स्वतः प्रवृत्ययोगाज्जीवादन्यस्य ज्ञानशून्यत्वनियमेनानुमानातू सर्वज्ञेश्वरासिद्धौ तेषां प्रेरकाभावात् जगदारम्भकत्वासम्भव इति भा- वः। स्वभावादेव विचित्रं जगदिति लोकायतस्तं प्रत्याह॥ न चेति॥ जगत उत्पच्यादि सम्भावयितुं न शक्यमित्यन्वयः। किं स्वयमेव स्वस्य हेतुरिति स्वभाव, उत कारणानपेक्षत्वम्? नाथः,आत्माश्रयात्। न द्वितीय इत्याह॥ विशिष्टेति॥। विशिष्टान्यसावारणानि देशकाल- निमित्तानि तेषां कार्यार्थिभिरुपादीयमानत्वात् कार्यस्य कारणानपेक्षत्वं न युक्तमित्यर्थ;। अनपेक्षत्वे धान्यार्थिनां भूविशेषे वर्षादिकाले बीजादि- निमित्ते च प्रवृत्तिर्न स्यादिति भावः। पूर्वोक्तसर्वज्ञत्वादिविशेषणकमी- शवरं मुक्ता जगत उत्पत्त्यादिकं न सम्भवतीति भाष्येण कर्तारं विना कार्य नास्तीति व्यतिरेक उक्तः। तेन "यत् कार्य तत् सकर्तृकिति"
Page 73
सू० २१ अ० २] शाङ्करब्रह्मसूत्रभाष्ये (५३) नुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं- मन्यन्त ईश्वरकारणिनः।नन्विहापि तदेवोपन्य- व्यामतिर्ज्ञायते। एतदेव व्याप्तिज्ञानं जगति पक्षे कर्तारं साधयत् सत् स- र्वज्ञेश्वरं साधयति, किं श्रुत्येति तार्किकाणां ध्रान्तिमुपन्यस्यति॥ एतदेवेति॥ एतदेवानुमानमेव साधनं न श्रुतिरिति मन्यन्ते, इति योजना। अथवा एतव्याप्तिज्ञानमेव श्रुत्यनुग्राहकयुक्तिमात्रत्वेनास्मत्- सम्मतं सदनुमानं स्वतन्त्रमिति मन्यन्त इत्यर्थः । सर्वज्ञत्वमादिश- ब्दार्थः। यदा व्याप्तिज्ञानसहकृतमेतल्लक्षणमेवानुमानं मन्यन्त इत्यर्थः। तत्रायं विभागः । व्याप्तिज्ञानाद् जगतः कर्तास्तीत्यस्तित्वसिद्धिः, प- श्रात् स कर्ता सर्वज्ञः जगत्कारणत्वाव्यतिरेकेण कुलालादिवदिति स- र्वज्ञत्वसिद्धिर्लक्षणादिति, अत्र "मन्यन्ते" इत्यनुमानस्याभासत्वं सू- चितम्। तथाहि। अङ्कुरादौ तावज्जीवःकर्ता न भवति जीवाद्िन्न- स्य घटवदचेतनत्वनियमादन्यः कर्ता नास्त्येवेति व्यतिरेकनिश्यात्, "यत् कार्य तत् सकर्तृकम्" इति व्यापिज्ञानासिद्धिः। लक्षणलिङ्गकानु- माने तुबाधः, अशरीरस्य जन्यज्ञानायोगात्, "यज्ज्ञानं तन्मनोजन्य- म्" इति व्याप्तिविरोधेन नित्यज्ञानासिद्धेर्ज्ञानाभावनिश्रवयात्, तस्माद- तीन्द्रियार्थे श्रुतिरेव शरणम्। श्रुत्यर्थसम्भावनार्थत्वेनानुमानं युक्तिमा- त्रं न स्वतन्त्रमितिभावः। नन्विदमयुक्तं, श्रुतेरनुमानान्तर्भावमभिप्रेत्य भवदीयसूत्रकताऽनुमानस्यैवोपन्यस्तत्वादिति वैशेषिकः शङ्कते॥न न्विति।ततो"मन्यन्ते"इत्यनुमानस्याभासोक्तिरयुक्तेति भावःयदिश्रु- तीनां स्वतन्त्रमानत्वं न स्यात्तर्हि "तन्तु समन्वयाद्" इत्यादिनातासां तात्पर्य सूत्रकन्न विचारयेत्, तस्मादुत्तरसूत्राणां श्रुतिविचारार्थत्वाज्ज- न्मादिसूत्रेऽपि श्रुतिरेव स्वातन्त्रयेण विचार्यते, नानुमानमितिपरिहरति
१ व्यासपादेन ।
Page 74
(48) रत्नप्रभाभासिते [अ० १।पा०१।] स्तं जन्मादिसूत्रे। न।वेदान्तवाक्यकुसुमग्रथना- र्थत्वात् सूत्राणाम्। वेदान्तवाक्यानि हि सूत्रैरु- दाहत्य विचार्यन्ते।वाक्यार्थविचारणाध्यवसान- निर्वत्ता हि ब्रह्मावगतिर्नानुमानादिप्रमाणान्तर- निर्वृता। सत्सु तु वेदान्तवाक्येषु जगतो जन्मा- दिकारणवादिषु तदर्थग्रहणदार्व्यायानुमानम- पिवेदान्तवाक्याविरोधि प्रमाणं भवन्न निवार्य- ते। श्रुत्यैव च सहायत्वेन तर्कस्याप्यभ्युपेत- त्वात्। तथाहि "श्रोतव्यो मन्तव्य" इति श्रुतिः"पण्डितो मेधावी गन्धारानेवोपसम्पद्ये- च नानुमानात्, "तन्त्वौपनिषदम्" इति श्रुतेः, अतो नानुमानंविचार्य- मित्याह।वाक्यर्थेति।वाक्यस्य तदर्थस्य च विचाराद्यदध्यवसानं ता- त्पर्यनिश्रयःप्रमेयसम्भवनिश्र्वयश्व तेन जाता ब्रह्मावगतिर्मुक्तये भवती- त्यर्थ:।सम्भवो बाधाभावःननु किमनुमानमुपेक्षितमेव, नेत्याह॥सत्सु
तसुखादिवदित्यनुमानं श्रुत्यर्थदार्ढ्या्यापेक्षितमित्यर्थ।दार्ढ्य संशयविप- र्यासनिवृत्तिः।"मन्तव्य" इति श्रुत्यर्थस्तर्केण सम्भावनीयइत्यर्थः।यथा कश्विद् गन्धारदेशेभ्यश्ोरैरन्यत्रारण्ये बद्धनेत्र एव त्यक्तः केनचिन्मुक्त- बन्धस्तदुक्तमार्गग्रहणसमर्थः पण्डितः स्वयं तर्ककुशलो मेधावी स्वदे- शानेव प्राप्नुयात्,एवमेवेहाविद्याकामादिभि: स्वरूपानन्दात् प्रच्याव्या- स्मिन्नरण्ये संसारे क्षिपः केनचिद्दयापरवशेनाचार्येण "नासि त्वं संसा- री" किन्तु "तच्मसि" इत्युपादिष्टस्वरूपः स्वयं तर्ककुशलश्षवेत् "स्वरूपं जानीयान्नान्यथा" इतिश्रुतिः स्वस्याः पुरुषमतिरूपतर्कापेक्षां दर्शय-
Page 75
सू० २/ अ० २।] शाङ्गरव्रह्मसूत्रभाष्ये (५५) त एव मेवेहाचार्यवान् पुरुषो वेद"इति च पुरु- षबुद्धिसाहाय्यमात्मनो दर्शयति। न धर्मजिज्ञा- सायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञा- सायां, किन्तु श्रुत्यादयोऽनुभवादयश्च यथास- म्भवमिह प्रमाणम, अनुभवावसानत्वाद् भूत वस्तुविषयत्वाच्च ब्रह्मविज्ञानस्य कर्तव्ये हि वि- षये नानुभवापेक्षास्तीतिश्रुत्यादीनामेव प्रामा- तीत्याह॥ पण्डित इति॥ आत्मनः श्रुतेरित्यर्थः। ननु ब्रह्मणो मनना- द्यपेक्षा न युक्ता वेदार्थत्वाद्धर्मवत् किन्तु श्रुतिलिङ्गवाक्यादय एवापे- क्षिता इत्यतआह ॥। नेति॥ जिज्ञास्ये धर्म इव जिज्ञास्ये ब्रह्मणि इति व्याख्येयम् अनुभवो ब्रह्मसाक्षात्काराख्यो विद्ददनुभवः। आदि- पदान्मनननिदिध्यासनयोर्ग्रहः । तत्र हेतुमाह ॥ अनुभवेति॥ मुक्यर्थ ब्रह्मज्ञानस्य शाब्दस्य साक्षात्कारावसानत्वापेक्षणात् प्रत्यग्- भूतसिद्धब्रह्मगोचरत्वेन साक्षात्कारफलकत्वसम्भवात्तदर्थ मननायपे- क्षा युक्ता। धर्मे तु नित्यपरोक्षे साध्ये साक्षात्कारस्यानपेक्षितत्वादस- म्भवाच श्रुत्या निर्णयमात्रमनुष्ठानायापेक्षितम्। लिङ्गादयस्तु श्रुत्य- न्तर्भूता एव श्रुतिद्वारा निर्णयोपयोगित्वेनापेक्ष्यन्ते, न मननादयः, अनुपयोगादित्यर्थः । निरपेक्ष: शब्दः श्रुतिः । शब्दस्यार्थप्रकाशनसा- मर्थ्य लिङ्गं। पदयोग्येतरपदाकाङ्गं वाक्यम्। अङ्गवाक्यसापेक्षं प्रधानवाक्यं प्रकरणम्। क्रमपठितानामर्थानां क्रमपठितैर्यथाक्रमं सम्बन्धः स्थानम्। यथा ऐन्द्राग्न्यादय इष्टयो दश क्रमेण पठिताः, दशमन्त्राश्र् "इन्द्रान्नीरोचना दिव" इत्यायाः तत्र प्रथमेष्टौ प्रथमम- न्त्रस्य विनियोग इत्याबूहनीयम्। संज्ञासाम्यं समाख्या। यथाऽSध्व- १ प्रकरणस्थानसमाख्या आदिशब्दमाह्याः।
Page 76
(५६) रत्नप्रभाभासिते अ० १। पा० १।] णयं स्यात्, पुरुषाधीनात्मलाभव्वाच्च कर्तव्यस्य । कर्तुमकर्तुमन्यथा वा कर्तु शक्यं लौकिकं वै- दिकं च कर्म। यथा अश्वेन गच्छति पद्धयाम- न्यथा वा न गच्छतीति, तथा "अतिरात्रे षोड- शिनं गृक्लाति नातिरात्रे षोडशिनं गृक्ाति", "उ- दिते जुहोति अनुदिते जुहोति" इति। विधिन्न- तिषेधाश्रात्रार्थवन्तः स्युः विकल्पोत्सर्गापवा- र्यवसव्ज्ञकानां मन्त्राणामाध्वर्यवसञ्ज्ञके कर्मणि विनियोग इति विवेक:, एवं तावद्रह्ल न मननावपेक्षं वेदार्थत्वात् धर्मवदित्यनुमाने साध्यत्वेन धर्मस्यानुभवायोग्यत्वम, अनपेक्षितानुभवत्वं चोपाधिरि- त्युक्तम् उपाधिव्यतिरेकाद् ब्रह्मणि मननावपेक्षित्वं चोक्तम्। तत्र यदि वेदार्थत्वमात्रेण ब्रह्मणो धर्मेण साम्यं त्वयोच्येत तर्हि कतिसाध्यत्वं विधिनिषेधविकल्पोत्सर्गापवादाश्र ब्रह्मणि धर्मवत् स्युरिति। विपक्षे बाधकमाह॥ पुरुषेत्यादिना॥ पुरुषकत्यधीन आत्मलाभ उत्पत्तिर्य- स्य तद्भावाच्च धर्मे श्रुत्यादीनामेव प्रामाण्यमित्यन्वयः। धर्मस्य साध्य- त्वं लौकिककर्मदष्टान्तेन स्फुठयति॥कर्तुमिति।। लौकिकवदित्यर्थः । दृष्टान्तं स्फुठयति॥ यथेति। दार्ष्टान्तिकमाह ॥ तथेति॥ तद्दद्धर्म- स्य कर्तुमकर्तु शक्यत्वमुक्का अन्यथाकर्तु शक्यत्वमाह॥उाित इति॥। धर्मस्यसाध्यत्वमुपमाय तत्र विध्यादियोग्यतामाह ॥ विधीति॥ विधिप्रतिषेधाश् विकल्पादयक्ष धर्मे साध्ये येऽर्थवन्तः सावकाशा भवन्ति ते ब्रह्मण्यपि स्युरित्यर्थः। "यजेत " "न सुरां पिबेत् "इ- त्यादयो विधिनिषेधाः। व्रीहिभिर्यवैर्वा यजेतेति संभावितो विकल्पः ग्रहणाग्रहणयोरैच्छिकउदितानुदित होम योर्व्यवस्थितविकल्पः । " न हिंस्यात् " इत्युत्सर्गः । "अप्नीषोमीयं पशुमालभेत" इत्यपवादः ।
Page 77
सू० २ । अ० २] शाङ्करब्रह्मसूत्रभाष्ये (4७) . दाश्र। नतु वस्त्ेवं नैवमस्ति नास्तीति वा वि- कल्प्यते। विकल्पनास्तु पुरुषबुद्यपेक्षाः,नव- स्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षं, किं तर्हि व- स्तुतन्त्रमेव तत्। नहि स्थाणावेकस्मिन् स्था- णुर्वा पुरुषोऽन्यो वेति तत्वज्ञानं भवति। तत्र पु- रुषोऽन्यो वेति मिथ्याज्ञानं, स्थाणुरेवेति तत्त्व- तथा "आहवनाये जुहोति" इत्युत्सर्गः," अश्वस्य पद़ेपदे जुहोति" इत्यपवाद इति विवेक:, एते ब्रह्मणि स्युरित्यत्रेष्टापत्तिं वारयति। नत्वित्यादिना भूतवस्तुविषय त्वादित्यन्तेन ।। इंदं वस्तु एवं नैवं घटः पटो वेति प्रकारविकल्पः। अस्ति नास्ति वेति सत्तास्वरूपवि- कल्पः। ननु वस्तुन्यपि आत्मादौ वादिनामस्ति नास्तीत्यादिविकल्पा दृश्यन्ते तत्राह॥ विकल्पनास्त्विति ॥ अस्तित्वादिकोटिस्मरणं पु- रुषबुद्धिस्तन्मूला मनस्पन्दितमात्राः संशयविपर्ययविकल्पाः न प्रमा- रूपा इत्यक्षरार्थः । अयं भावः, "धर्मो हि यथायथा ज्ञायते तथा- तथा कर्तु शक्यते" इति यथाशास्त्रं पुरुषबुद्ध्यपेक्षाः विकल्पाः सर्वे प्रमारूपा एव भवन्ति, तत्साम्ये ब्रह्मण्यपि सर्वे विकल्पा यथार्थाः स्युरिति। तत्रापि ओमिति वदन्तं प्रत्याह ॥ नेति॥ यदि सिद्धवस्तु- ज्ञानमपि साध्यज्ञानवत् पुरुषबुद्धिमपेक्ष्य जायेत तदा सिद्धे विक- ल्पा यथार्थाः स्युः, न सिद्धवस्तुज्ञानं पौरुषं, किं तर्हि प्रमाणवस्तुज- न्यं, तथा च वस्तुन एकरूपत्वादेकमेव ज्ञानं प्रमा, अन्ये विकल्पा अयथार्था एवेत्यर्थः । अत्र दष्टान्तमाह॥न हि स्थाणाविति॥ स्था- णुरेवेत्यवधारणे सिद्धे सर्वेविकल्पा यथार्था नभवन्तीत्यर्थः।तत्र यद्दस्तु- तन्त्रं ज्ञानं तवथार्थ,यत् पुरुषतन्त्रं तन्मिथ्येति विभजते।तित्रेति॥स्था- १ भनःसमुल्लासमात्राः। ८
Page 78
(५८) रत्नप्रभाभासिते [अ० १। पा० १। ज्ञानं वस्तुतन्त्रत्वात्। एवम्भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम् । तत्रैवं सति ब्रह्मज्ञानम- पि वस्तुतन्त्रमेव भूतवस्तुविषयत्वात्। ननु भू- तवस्तुविषयत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमे- वेति वेदान्तवाक्यविचारणाSनर्थिकैव प्राप्ता, न, इन्द्रियाविषयत्वेन सम्बन्धाग्रहणात्। स्वभाव- णावित्यर्थ:।स्थाणावुक्तन्यायं घटादिष्वतिदिशति।।एवमिति।प्रकतमा- ह।। तत्रैवंसतीति॥ सिद्धेऽर्थे ज्ञानप्रमात्वस्य वस्त्वधीनत्वे सति ब्रह्म- ज्ञानमपि वस्तुजन्यमेव यथार्थ, न पुरुषतन्त्रं भूतार्थविषयत्वात् स्था- णुज्ञानवदित्यर्थः। अतः साध्येऽर्थे सर्वे विकल्पाः पुन्तन्त्रा, न सिद्धे- ऽर्थे इति वैलक्षण्यात्, न धर्मसाम्यं ब्रह्मण इति मननायपेक्षा सिद्धे- ति भावः । ननु तर्हि ब्रह्मप्रत्यक्षादिगोचरं धर्मविलक्षणत्वाद् घटा- दिवत्। तथा च जन्मादिसूत्रे जगत्कारणानुमानं विचार्य सिद्धार्थे त- स्य मानत्वात् न श्रुतिः, सिद्धार्थे तस्या अमानत्वेन तद्विचारस्य नि- ष्फलत्वादिति शङ्कते ॥नन्विति ॥ प्रमाणान्तरविषयत्वमेव प्राप्तमि- ति कत्वा प्रमाणान्तरस्यैव विचारप्राप्ताविति शेषः। अत्र पूर्वपक्षी प्रष्टव्यः, किं यत् कार्य तद्दह्जमित्यनुमानं ब्रह्मसाधकं, किंवा यत् कार्य तत् सकारणमिति ? नाथः, व्याप्यसिद्धेरित्याह॥नेति॥ ब्रह्मण इन्द्रियाग्राह्यत्वात् प्रत्यक्षेण व्याप्तिग्रहायोगान्न प्रमाणान्तरविषयत्व- मित्यर्थः । इन्द्रियाग्राहयत्वं कुत इत्यत आह॥ स्वभावत इति॥"प- राश्चि खानि व्यतृणत् स्वयम्भूः इति श्रुतेः, ब्रह्मणो रूपादिहीनत्वा- १ कार्यमात्रस्य पक्षीकरणाद् दृष्टान्ता प्रसिद्धा व्याप्यसिद्धिरित्यर्थः । न च पक्षैकदे- शो दृषान्तः संभवतीति वाच्यम्, एतदनुमानात्पूर्व ब्रह्मसिद्धया तज्जत्वस्य पक्षैकदेशेऽपि निश्चेतुमशक्यत्वात्। अत एव व्यनिरेकिदृष्टान्तोपि न दर्शनीयः, इतः पूर्वं ब्रह्मासिद्धया तद्घटित ब्रह्मजत्वाभावस्य वृष्टान्तेऽनिश्वितत्वादितिभावः ।
Page 79
सू० २/ अ० २] शाङ्करव्रह्मसूत्रभाष्ये (५९) तो विषयाणि इन्द्रियाणि न ब्रह्मविषयाणि। सति हीन्द्रियविषयत्वे ब्रह्मण, इदं ब्रह्मणा स- म्बद्ं कार्यमिति गत्येत। कार्यमात्रमेव तु गृत्य- माणं किं ब्रह्मणा सम्बद्धं किमन्येन केनचिद्वा स- म्बद्मिति न शक्यं निश्रेतुम्।तस्माज्जन्मादिसू- त्रंनानुमानोपन्यासार्थ किंतहि वेदांतवाक्यप्रद- शनार्थमू।किं पुनस्तद्वेदान्तवाक्यंयत्सूत्रेणेह वि-ल लक्षयिषितम्।"भृगुर्वै वारुणिर्वरुणं पितरमुपस- सार अधीहि भगवो ब्रह्मेति" इत्युपक्रम्याह- च्चेत्यर्थः । इन्द्रियायाह्यत्वेऽपि व्याप्तिग्रहः किं न स्यादत आह॥ स- तिहीति॥ तन्नास्तीति शेषः। इंदं कार्य ब्रह्मजमिति व्याप्तिप्रत्यक्ष ब्रह्मणोऽतीन्द्रियत्वान्न सम्भवतीत्यर्थः । द्वितीये कारणसिद्धावपि का- रणस्य ब्रह्मत्वं श्रुतिं विना ज्ञातुमशक्यमित्याह ॥ कार्यमात्रमिति॥ सम्बद्धं कृतं यस्मात्, श्रुतिमन्तरेण जगत्कारणं ब्रह्मेति निश्च्वयला- भस्तस्मात् तल्लाभाय श्रुतिरेव प्राधान्येन विचारणीया, अनुमानं तू- पादानत्वादिसामान्यद्वारा मृदादिवद् ब्रह्मणः स्वकार्यात्मकादिश्रौ- तार्थसम्भावनार्थ गुणतया विचार्यमित्युपसंहरति ॥ तस्मादिति॥ एतत्सूत्रस्य विषयवाक्यं पृच्छति॥ किं पुनरिति॥ इह ब्रह्मणि लक्ष- णार्थत्वेन विचारयितुमिष्टं वाक्यं किमित्यर्थः । अत्र हि प्रथमसूत्रे विशिष्टाधिकारिणो ब्रह्मविचारं प्रतिज्ञाय ब्रह्मज्ञातुकामस्य द्वितीय- सूत्रे लक्षणमुच्यते, तथैव श्रुतावपि मुमुक्षोर्व्रह्म ज्ञातुकामस्य जगत्- कारणत्वोपलक्षणानुवादेन ब्रह्म ज्ञाप्यत इति श्रौतार्थक्रमानुसारित्वं सूत्रस्य दर्शयितुं सोमक्रमं वाक्यं पठति॥ भृगुरिति॥ अधिहि
Page 80
(६०) रत्नप्रभाभासिते [अ० १।पा०१। "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यलयन्त्यभिसंविशन्ति, तद्विजिज्ञास- स्व, तद्रह्म" इति। तस्य च निर्णयवाक्यं "आन- न्दादघेव खल्विमानि भूतानि जायन्ते, आनन्दे न जातानि जीवन्ति, आनन्दं प्रयन्त्यभिसंवि- शन्ति" इति। अन्यान्यप्येवं जातीयकानि वा- क्यानि नित्यशुद्धबुद्दमुक्तस्वभावसर्वज्ञस्वरू- पकारणविषयाण्युदाहर्तव्यानि ॥ २॥ जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षि- तं तदेव द्रढयन्नाह। स्मारय उपदिशेत्यर्थः। अत्र येनेत्येकत्वं विवक्षित्वं नानात्वे ब्रह्मत्व- विधानायोगात्। यज्जगत्कारणं तदेकमित्यवान्तरवाक्यं, यदेकं कार- णं तद् ब्रह्मेति वा, यत्कारणं तदेकं ब्रह्मेति वा महावाक्यमिति भेदः किंतहि स्वरूपलक्षणमित्याशङ्कच वाक्यशेषान्निर्णीतो यतःशब्दार्थ: सत्यज्ञानानन्द इत्याह ॥ तस्य चेति॥"यः सर्वज्ञः" "तरमादेतद् ब्रह्मनामरूपमल्नं च जायते" "विज्ञानमानन्दं ब्रह्म"इत्यादिशाखान्त- रीयवाक्यान्यप्यस्य विषय इत्याह॥ अन्यान्यपीति॥ एवं जातीय- कत्वमेवाह॥ नित्येति ॥ तदेवं सर्वासु शाखासु लक्षणद्देयवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानि तद्धिया मुक्तिरिति सिद्धम् ॥ २ ॥ यस्य निश्चसितं वेदा: सर्वार्थज्ञानशक्तयः। श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे॥ वृत्तानुवादेन सङ्गतिं वदन्नुत्तरसूत्रमवतार्यति । जगदिति॥ १ जन्माद्यस्य यत इति सुत्रस्य। २ स्वरूपलक्षणं तटस्थलक्षणचेति लक्षणद्दयं जगज्जन्मादि कारणत्वमाद्यम्, सत्यज्ञानानन्तानन्दादिरूपं द्वितीयमिति विवेकः ।
Page 81
सू० ३ । अ० ३ ] शाङ्गरव्रह्मसूत्रभाष्ये (६१) चैतन्यस्य ब्रह्मणो जगत्कारणत्वोक्त्या सर्वज्ञत्वमर्थात् प्रतिज्ञातं सूत्र- कृता चेतनसृष्टेर्ज्ञानपूर्वकत्वात्। तथा च ब्रह्म सर्वज्ञं सर्वकारणक- त्वात्, यो यत्कर्ता स तज्ज्ञः यथा कुलाल इति स्थितं; तदेवार्थिकं सर्वज्ञत्वं प्रधानादिनिरासाय वेदकर्तृत्वहेतुना द्रढयन्नाहेत्यर्थः । हेतुद्व- यस्यैकार्थसाधनत्वादेकविषयत्वमवान्तरसङ्गतिः । यद्ा वेदस्य नि- त्यत्वाद् ब्रह्मणः सर्वहेतुता नास्तीत्याक्षेपसङ्गत्या वेदहेतुत्वमुच्यते "अस्य महतो भूतस्य निश्चसितमेतयद्टग्वेदो यजुर्वेद: सामवेदोऽथ- वाङ्गिरस" इतिवाक्यं विषयः। तत् किं वेदहेतुत्वेन ब्रह्मणः सर्वज्ञ- त्वं साधयति उत न साधयति इति सन्देहः ; तत्र व्याकरणादिवद्े- दस्य पौरुषेयत्वे मूलप्रमाणसापेक्षत्वेनाप्रामाण्यापातान्न साधयतीति पूर्वपक्षे जगद्वेतोश्र्वेतनत्वासिद्धिः फलम्। सिद्धान्ते तत्सिद्धिः। अ- स्य वेदान्तवाक्यस्य स्पष्टब्रह्मलिङ्गस्य वेदकर्तरि समन्वयोक्तेः श्रुति- शास्त्राध्यायपादसङ्गतयः । एवमापादं श्रुत्यादिसङ्गतय ऊहाः । वेदे हि सर्वार्थप्रकाशनशक्तिरुपलभ्यते, सा तटुपादानब्रह्मगतशक्तिपूर्वि- का तद्ता वा ? प्रकाशनशक्तित्वात् कार्यगतशक्तित्वाद्या प्रदीपश- क्तिवदिति वेदोपादानत्वेन ब्रह्मणः स्वसम्बद्वाशेषार्थप्रकाशनसाम- थर्यरूपं सर्वसाक्षित्वं सिद्धयति। यद्दा यथा अध्येतारः पूर्वक्रमं ज्ञा- त्वा वेदं कुर्वन्ति, तथा विचित्रगुणमायासहायोSनावृतानन्तस्वप्रका- शचिन्मात्र: परमेश्वरः स्वकतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वे- दराशिं तदर्थाश्र् युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता। यत्र हर्थज्ञानपूर्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अत्र च यौगेपदान्न सा ; अतो वेदकर्ता वेदमिव तदर्थमपि स्वसम्बद्धं नान्तरीयकतया जानातीति सर्वज्ञ इति सिद्धान्तयति। ॥ शास्त्रेति। शास्त्रं प्रति हेतुत्वात् ब्रह्म सर्वज्ञं सर्वकारणं च इ- १ इश्वरे। २ अर्थज्ञानवाक्यज्ञानयोः ।
Page 82
(६२) रत्नप्रभाभासिते [अ०१।पा० १। शास्रयोनित्वादिति॥३॥ महत ऋग्वेदादेः शास्त्रस्यानेकविद्यास्था- नोपबंहितस्य प्रदीपवत् सर्वार्थावद्योतिनःस वज्ञकल्पस्य योनिः कारणं ब्रह्म। न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वि- तस्य सर्वज्ञादन्यतः सम्भवोऽस्ति। यद्द्वि स्तरार्थ शासत्रं यस्मात् पुरुषविशेषात् सम्भ- वति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैक- ति सङ्गतिद्दयानुसारेण सूत्रयोजनामभिप्रेत्य पदानि व्याचष्टे॥ मह- त इति॥ हेतो: सर्वज्ञत्वसिद्धये वेदस्य विशेषणानि। तत्र ग्रन्थतो- ऽर्थतश्र महत्त्वं, हितशासनात् शास्त्रत्वं शास्त्रशब्दः शब्दमात्रोपलक्ष- णार्थ इति मत्वाह ॥ अनेकति ॥ "पुराणन्यायमीमांसाधर्मशास्त्रा- णि, शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि षडङ्गानि" इति दशविद्यास्थानानि वेदार्थज्ञानहेतवः तैरुपकतस्येत्यर्थः । अनेन म- न्वादिभि: परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम्। अबोधकत्वा- भावादपि प्रामाण्यमित्याह॥ प्रदीपवदिति॥ सर्वार्थप्रकाशनशक्ति- मच्वेऽप्यचेतनत्वात् सर्वज्ञकल्पत्वं योनिरुपादानं कर्तृ च। ननु सर्व- ज्ञस्य यो गुणः सर्वार्थज्ञानशक्तिमच्वं वेदस्य तदन्वितत्वेऽपि तथोनेः सर्वज्ञत्वं कुत इत्यत आह॥ न हीति॥ उपादाने तच्छक्तिं विना कार्ये तदयोगाद्देदोपादानस्य सर्वज्ञत्वम्। अनुमानं तु पूर्व दर्शितम्। न चाविदयायास्तदापत्तिः। शक्तिमच्वेऽप्यचेतनत्वादिति भावः। वेद:स्व विषयादधिकारार्थज्ञानवज्जन्यः, प्रमाणवाक्यत्वात्, व्याकरणरामाय- णादिवदित्यनुमानान्तरम् । तत्र व्याप्तिमाह॥ यद्यदिति॥ विस्तरः
Page 83
सू० ३।अ० ३ ] शाङ्करब्रह्मसूत्रभाष्ये (६३) देशार्थमपि, सततो Sप्यधिकतरविज्ञान इति- प्रसिद्धं लोके, किमु वक्तव्यमनेकशाखाभेदभि- न्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहे- तो: ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्याप्रयत्ने- नैव लीलान्यायेन पुरुषनिश्वासवद्यस्मान्महतो भूताद्योने: सम्भवः"अस्यमहतो भूतस्य निश्व- सितमेतद्यदग्वेद"इत्यादिश्रुतेस्तस्य महतो भू- तस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति।
शब्दाधिक्यम् अनेनार्थतोऽल्पत्वं वदन् कर्तुज्ञानस्यार्थाधिक्यं सू- चयति; दृश्यते चार्थवादाधिक्यं वेदे। अत्रैषा योजना ययच्छास्त्रं यस्मादाप्तात् सम्भवति स ततः शास्त्रादधिकार्थज्ञान इति प्रसिद्धं यथा शब्दसाधुत्वादिर्ज्ञेयैकदेशोऽर्थो यस्य तदपि व्याकरणादि पा- णिन्यादेरधिकार्थज्ञानात् सम्भवति। यद्यल्यार्थमपि शास्त्रमधिका- र्थज्ञानात् सम्भवति तदा "अस्य महत" इत्यादिश्रुतेर्यस्मान्म- हतोऽपरिच्छिन्नाद्भूतात् सत्याद्योने:, सकाशादनेकशाखेत्यादिविशि- ष्टस्य वेदस्य पुरुषनिश्व्ासवदप्रयत्नेनैव सम्भवः तस्य सर्वज्ञत्वं स- र्वशक्तिमच्वं चेति किमुवक्तव्यमिति, तत्र वेदस्य पौरुषेयत्वशङ्कनिरा सार्थ श्रुतिस्थनिश्वसितपदार्थमाह॥ अप्नयत्ननेति॥ प्रमाणान्तरे- णार्थज्ञानप्रयासं विना निमेषादिन्यायेनेत्यर्थः।अत्रानुमानेन"यः सर्व- ज्ञ" इति श्रुत्युक्तसर्वज्ञत्वदाढर्याय पाणिन्यादिवद्देदकर्तारि अधिका- र्थज्ञानसत्तामात्रं साध्यते, न त्वर्थज्ञानस्य वेदहेतुत्वं, निश्नसितश्रुति- · विरोधात्, वेदज्ञानमात्रेणाध्येतृवद्देदकर्तृत्वोपपत्तेश्र। इयान् विशेषः, अध्येता परापेक्ष :; इश्वरस्तु स्वकृतवेदानुपूर्वी स्वयमेव स्मृत्वा तथैव
Page 84
(६४) रत्नप्रभाभासिते [अ० १।पा० १। अथवा यथोक्तमृग्वेदादिशासत्रं योनिः कारणं प्र- माणमस्य ब्रह्मणो यथावत् स्वरूपाधिगमे । शास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्र- ह्माधिगम्यत इत्यभिप्रायः। शास्त्रमुदाहतं पूर्व- सूत्रे "यतो वा इमानि भूतानि जायन्ते" इत्या- दि। किमर्थ तर्हि इदं सूत्रं यावता पूर्वसूत्र एवैवं- जातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो
जानातीति सर्वज्ञ इत्यनवय्यम्। अधुना ब्रह्मणो लक्षणान्तरं प्रमाण- जिज्ञासायां वर्णकान्तरमाह॥ अथवेति ॥ लक्षणप्रमाणयोर्बह्मनि- र्णयार्थत्वादेकफलकत्वं सङ्गतिः। "तन्त्वौपनिषदं पुरुषम् " इति श्रु- तिर्व्रह्मणो वेदकवेद्यत्वं ब्रूते न वेति संशये, कार्यलिङ्गेनैव लाघवात् कर्तुरेकस्य सर्वज्ञस्य ब्रह्मणः सिद्देन ब्रूत इति प्राप्ते वेदप्रमाणकत्वातू ब्रह्मणो न प्रमाणान्तरवेद्यत्वमिति सिद्धान्तयति ॥ शास्त्रयोनित्वा- दिति॥ तव्याचष्टे ॥ यथोक्तमिति॥ सर्वत्र पूर्वोत्तरपक्षयुक्तिदयं सं- शयबीजं द्रष्टव्यम् अत्र पूर्वपक्षे अनुमानस्यैव विचार्यतासिद्धिः फलं, सिद्धान्ते वेदान्तानामिति भेदः। अनुमानादिना ब्रह्मसिद्धिः पूर्वसूत्रे प्रसङ्गान्तनिरसता। किश्च विचित्रप्रपश्चस्य प्रासादादिवदेककर्तृकताबा- धान्न लाघवावतारः। न च सर्वज्ञत्वात् कर्तुरेकत्वसम्भवः, एकत्वज्ञा- नातू सर्वज्ञत्वज्ञानं ततसतैदित्यन्योन्याश्रयमभिप्रेत्याह ॥ शास्त्रादेवे- ति।। किं तच्छास्त्रमिति तत्राह॥ शास्त्रमिति॥ पृथगारम्भमाक्षिप- ति ॥ क्िमर्थमिति॥ येन हेतुना दर्शितं ततः किमर्थमित्यर्थः । ज- न्मादि लिङ्गकानुमानस्य स्वातन्त्रयेणोपन्यासशङ्कानिरासार्थ पृथकसू- -१ सवंज्ञत्वज्ञानात्। २ एकत्वज्ञानम्।
Page 85
सू० ३ । अ० ३] शाङ्गरब्रह्मसूत्रभाष्ये (६५) दर्शितम्! उच्यते। तत्र पूर्वसूत्राक्षरण स्पष्टं शा- स््स्यानुपादानात् जगतो जन्मादि केवलमनु- मानमुपन्यस्तमित्याशङ्गेत, तामाशङ्गां निवर्त- यितुमिदं सूत्रं प्रवटते॥"शास्त्रयोनिव्वादिति"॥ कथं पुनर्व्रह्मण: शास्त्रप्रमाणकत्वमुच्यते! याव- ता "आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्था- तमित्याह ॥ उच्यत इति ॥३॥वेदान्ताः सिद्धब्रह्मपरा उत कार्यपरा इति निष्फलत्वसापेक्षत्वयोः प्रसङ्गान्रसङ्गाभ्यां संशये पूर्वसूत्रे द्वि- तीयवर्णकेनाक्षेपसङ्गत्या पूर्वपक्षमाह ।। कथं पुनरित्यादिना ॥ "सदेव सोम्य" इत्यादीनां सर्वात्मत्वादिस्पष्टवह्मलिङ्गानां ब्रह्मणि स- मन्वयोक्तेः श्रुत्यादिसङ्गतयः पूर्वपक्षे वेदान्तेषु मुमुक्षुप्रवृत्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः । कथमित्याक्षेपे हेतुः ॥ यावतेति। यतो जैमिनिसूत्रेण शास्त्रस्य वेदस्य क्रियापरत्वं दर्शितमतोऽक्रियार्थ त्वाद्देदान्तानामानर्थक्यं फलवदर्थशून्यत्वं प्राप्तमित्यन्वयः। सूत्रस्याय- मर्थः। प्रथमसूत्रे तावद्देदस्याध्ययनकारणकभावनाविधिभाव्यस्य फ- लवदर्थपरत्वमुक्तम् "चोदनालक्षणोऽर्थों धर्म" इति द्दितीयसूत्रे धर्मे कार्ये चोदना प्रमाणमिति वेदप्रामाण्यव्यापकं कार्यपरत्वमवसितम्। तत्र"वायुर्वै क्षेपिष्ठा" इत्यादर्थवादानां धर्मे प्रामाण्यमस्ति न वेति सं- शये आम्नायप्रामाण्यस्य क्रियार्थत्वेन व्याप्तत्वादर्थवादेषु धर्मस्याप्रतीतेर- क्रियार्थानां तेषामानर्थक्यं निष्फलार्थत्वं,न चाध्ययनविध्युपात्तानां नि- ष्फले सिद्धेऽर्ये प्रामाण्यं युक्तं, तस्मादनित्यमेषां प्रामाण्यमुच्यते। व्यापकाभावाव्य्याप्यं प्रामाण्यं नास्त्यवेति यावत्। एवं पूर्वपक्षे "वि- घिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः" इति सूत्रेण सिद्धान्त- १ प्रसङ्गशब्दोऽत्र प्राप्तिवचनः । ९
Page 86
(६६) रत्नप्रभाभासिते अ० १।पा० १॥ नाम्" इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम्, अतो वेदान्तानामानर्थक्यम्, अक्रियार्थत्वात्; कर्तदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिवि-
हि परिनिष्ठितवस्तुप्रतिपादनं सम्भवति प्रत्य- माह॥ क्रियापरत्वमिति॥अनित्यमिति प्राप्ते द्शितमित्यर्थः। "वा युर्वै क्षिप्रतमगामिनी देवता तद्देवताकं कर्म क्षिप्रमेव फलं दास्यति" इत्येवं विधेयार्थानां स्तुतिरूपार्थेन द्वारेण "वायव्यं ख्वेतमालभेत" इ- त्यादि विधिवाक्येनैकवाक्यत्वादर्थवादाः सफलाः स्युः। स्तुतिलक्ष- णया सफलकार्यपरत्वात् प्रमाणमर्थवाद इति यावत्। नन्वध्ययन- विधिगृहीतानां वेदान्तानामानर्थक्यं न युक्तमित्यत आह॥ कत्रिति। न वयं वेदान्तानामानर्थक्यं साधयामः किंतु लोके सिद्स्य मा- नान्तरवेव्यत्वान्निष्फलत्वाच्च सिद्धब्रह्मपरत्वे तेषां मानान्तरसापेक्ष- त्वनिष्फलत्वयोः प्रसङ्गादप्रामाण्यापातात् कार्यशेषकर्तृदेवताफलानां प्रकाशनद्दारा कार्यपरत्वं वक्तव्यमिति ब्रूमः । तत्र त्वंतत्पदार्थवाक्या- नां कर्तृदेवतास्तावकत्वं विविदिषादिवाक्यानां फलस्तावकत्वम्। ननु कर्म विशेषमनारभ्य प्रकरणान्तराधीतानां वेदान्तानां कथं तच्छेषत्वम्? मानाभावादित्यरुच्या पक्षान्तरमाह॥ उपासनेति॥ मोक्षकामोऽस- द्रह्माभेदमारोप्य "अहं ब्रह्मास्मि" इत्युपासीत इत्युपासनाविधि:। आदिशव्दाच्छ्रवणादयः, तत्कार्यपरत्वं वा वक्तव्यमित्यर्थः । ननु श्रुतं ब्रह्म विहायाश्रुतं कार्यपरत्वं किमर्थ वक्तव्यमिति तत्राह ॥ न ही- ति।। परितः समन्तान्निश्वयेन स्थितं परिनिष्ठितं कृत्यनापेक्षं सिद्धमि- ति यावत् तस्य प्रतिपादनज्ञातस्य वेदेन ज्ञापनं तन्न सम्भवति, माना- १ असन्तमविद्यमानं स्वस्मिन् ब्रह्माभेदम्
Page 87
सू० ३। अ० ३] शाङ्करब्रह्मसूत्रभाष्ये (६७) क्षादिविषयत्वात् परिनिष्ठितवस्तुनः। तख्ति- पादने च हेयोपादेयरहिते पुरुषार्थाभावात्। अत एव "सोऽरोदीत्" इत्यादीनामानर्थक्यं माभूदिति "विधिनात्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः इति स्तावकत्वेनार्थवत्त्वमुक्तम्। मन्त्राणां च "इषेत्वा' इत्यादीनां क्रियातत्सा- न्तरयोग्येऽर्थे वाक्यस्य संवादे सत्यनुवादकत्वाद् "अन्निर्हिमस्य भेष- जम्" इति वाक्यवत् विसंवादे वाडबोधकत्वाद् "आदित्यो यूप" इति वाक्यवदित्यर्थः । सिद्धो न वेदार्थः मानान्तरयोग्यत्वादू घटवदित्यु- क्का निष्फलत्वाच्च तथेत्याह॥तदिति॥ सिद्धज्ञापने हेयोपादेयागोचरे फलाभावाच्च तन्ने सम्भवतीत्यर्थः । फलं हि सुखावाप्तिर्दुःखहानिश्च। तच्च प्रवृत्तिनिवृत्तिभ्यां साध्यम् ते चोपादेयस्य प्रवृत्तिप्रयत्नकार्यस्य हेय- स्य निवृत्तिप्रयत्नकार्यस्य ज्ञानाभ्यां जायेते, न सिद्धज्ञानादिति भावः। तर्हि सिद्धबोधिवेदवादानां साफल्यं कथमित्याशङ्च"आम्नायस्य" इत्यादि- सङ्गहवाक्यं विवृणोति॥अतएवेति॥ सिद्धवस्तुज्ञानात् फलावाभादेवे त्यर्थ:। "देवैनिरुद्ध: सोऽभनिररोदीत्" इति वाक्यस्याश्रुजत्वेन रजतस्य नि- न्दाद्दारा "बहिषि न देयम्" इति सफलनिषेधशेषत्ववद्देदान्तानां वि- ध्यादिशेषत्वं वाच्यमित्यर्थः। ननु तेषां मन्त्रवत् स्वातन्त्र्यमस्तु नार्थ- वादवाद्दिध्येकवाक्यत्वमित्याशङ्क्य दृष्टान्तासिद्धिमाह ॥ मन्त्राणांचे- ति। प्ररमाणलक्षणेऽर्थवादलक्षणचिन्तानन्तरं मन्त्रचिन्ता न कृता "इषेत्वा" इति मन्त्रे "छिनझि" इत्यध्याहाराच्छाखाच्छेदनक्रियाप्रती- तेः "अग्निर्मूर्द्वा" इत्यादौ च क्रियासाधनदेवतादिप्रतीतेर्मन्त्राः श्रुत्या- दिभिः कतौ विनियुक्ताः, ते किमुच्चारमात्रेणादृष्टं कुर्वन्तः क्रतावुपकु- १ ब्रह्मप्रतिपादनम्। २ प्रमाणलक्षणं द्वादशलक्षण्याः प्रथमाध्यायस्तस्मिन्
Page 88
(६८) रत्नप्रभाभासिते मे [अ० १। पा० १।] धनाभिधायित्वेन कर्मसमवायित्वमुक्तम।नक्क- चिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थव- त्ता टष्टा उपपन्ना वा। न च परिनिष्ठिते वस्तुस्व- रूपे विधि: सम्भवति, क्रियाविषयत्वाद्विधेः । तस्मात् कर्मापेक्षितकर्तदेवतादिस्वरूपप्रकाश- र्वन्ति,उत दृष्टेनैवार्थस्मरणेनेति सन्देहे चिन्तादिनाप्यध्ययनकालावग- तमन्त्रार्थस्य स्मृतिसम्भवाददृष्टार्था मन्त्रा इति प्राप्ते सिद्धान्तः। "अविशिष्टस्तु वाक्यार्थ" इति लोकवेदयोर्वाक्यार्थस्याविशेषान्मन्त्र- वाक्यानां दृष्टेनैव स्वार्थप्रकाशनेन कतूपकारकत्वसम्भवात् दृष्टे सम्भ- वति अदष्टकल्पनानुपपत्तेः फलवदनुष्ठानापेक्षितेन क्रियातत्साधन- स्मरणेन द्वारेण मन्त्राणां कर्माङ्गत्वम् । "मन्त्रैरेवार्थः स्मर्तव्यः" इति नियमस्त्वदष्टार्थ इति। तथा चार्थवादानां स्तुतिपदार्थद्वारा पदैकवाक्यत्वं विधिभिर्मन्त्राणां तु वाक्यार्थज्ञानद्दारा तैर्वाक्यैकवा- क्यत्वमिति विभागः। नन्वस्तु कर्मप्रकरणस्थवाक्यानां विध्येकवा- क्यत्वं, वेदान्तानां तु सिद्धे प्रामाण्यं किंन स्या दिति तत्राह॥ न क्वचिदिति॥ वेदान्ता विध्येकवाक्यत्वेनैवार्थवन्तः सिद्धार्था वेदक- त्वान्मन्त्रार्थवादादिवदित्यर्थः, अन्यत्रादष्टापि वेदान्तेषु कल्प्यतामिति तत्राह ॥ उपपन्नावेति॥ नेत्यनुषङ्गः । सिद्धे फलाभावस्योक्तत्वादि- ति भाव:। तर्हि ब्रह्मण्येव स्वार्थे विधिः कल्प्यतां कतं वेदान्तानां वि- ध्यन्तरशेषत्वेनेत्यत आह॥ नचति॥ ननु "दधा जुहोति" इति सिद्धे दधनि विधिर्दष्टस्तत्राह॥ क्रियेति॥दधः क्रियांसाधनस्यप्रयुज्यमान- तया साध्यत्वाद्दिधेयता, निष्क्रयब्रह्मणः कथमप्यसाध्यत्वान्न विधे- यत्वमित्यर्थः । भाटमतमुपसंहरति ॥ तस्मादिति॥ स्वयमेवारुचिं १ अमिहोत्रं जुहुयादितिविहितहोमक्रियासाघनस्य।
Page 89
सू० ४। अ० ४।] (६९) नेन क्रियाविधिशेषत्वं वेदान्तानाम्।अथ प्रक- रणान्तरक्षयान्नैतदभ्युपगम्यते, तथापि स्ववा- क्यगतोपासनादिकर्मपरत्वम्। तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते॥
तत्तु समन्वयात्॥४ ॥ तुशब्दः पूर्वपक्षव्यावत्त्यर्थः। तत् ब्रह्म सर्व- शक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशा- स्त्रादेव अवगम्यते। कथ! समन्वयात्। सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैव तस्यार्थस्य प्रतिपादकत्वेन समनुगतानि "सदेव सौम्येद- वदन् पक्षान्तरमाह ॥ अथेति।। सिद्धान्तसूत्रं व्याचष्टे॥ तु शब्द इति॥ तद् ब्रह्म वेदान्तप्रमाणकम् इति प्रतिज्ञातेऽर्थे हेतुं पृच्छति।क- थमिति। हेतुमाह॥समिति॥अन्वयस्तात्पर्यविषयत्वं, तस्मादित्ये- व हेतु: तात्पर्यस्य सम्यक्त्वम् अखण्डार्थविषयकत्वं सूचयितुं सम्पदं प्रतिज्ञान्तर्गतमेव तथा चाखण्डं ब्रह्म वेदान्तजप्रमाविषयः वेदान्त- तात्पर्यविषयत्वात्।यो यद्दाक्यतात्पर्यविषयः स तद्दाक्यप्रमेयः, यथाक- र्मवाक्यप्रमेयो धर्म इति प्रयोगः। वाक्यार्थस्याखण्डत्वम् असंसृष्टत्वं, वा- क्यस्य चाखण्डार्थकत्वं, स्वपदोपस्थिता ये पदार्थास्तेषांयः संसर्ग:तद- गोचरप्रमाजनकत्वम्। न चेदमप्नसिद्धम्। प्ररुष्टप्रकाशश्रवन्द्र इत्यादि- लक्षणवाक्यानां लोके लक्षणया चन्द्रादिव्यक्तिमात्रप्रमाहेतुत्वात् स- र्वपदलक्षणा चाविरुद्धा। स्वैरर्थवादपदैरेकस्याः स्तुतेर्लक्ष्यत्वाङ्गी- कारातू। तथा सत्यज्ञानादिपदैरखण्डं ब्रह्म भातीति न पक्षासिद्धिः।
Page 90
(७०). रत्नप्रभाभासिते अ० १।पा० १।) मग्रआसीत", "एकमेवाद्वितीयमू''।"आत्मावा इदमेक एवाग्र आसीत्"'। "तदेतद् ब्रह्मापूर्वम- नपरमन्तरमबात्य्यम्" अयमात्माब्रह्म सर्वानु-
नापि हेत्वृसिद्धिः । उमक्रमादिलिङ्गैर्वेदान्तानामद्दितीयाखण्डव्रह्मणि तात्पर्यनिर्णयात् तत्र छान्दोग्यपष्ठे उपक्रमं दर्शयति॥ सदेवेति॥ उद्दालकः पुत्रमुवाच, "हे सौम्य प्रियदर्शन इदं सर्व जगद् अग्रे उत्प- त्तेः प्राक्काले सद्बाधितं ब्रह्मैवासीत्"। एवकारेण जगतः पृथक्सत्ता निषिध्यते। सजातीयविजातीयस्वगतभेदनिरासार्थम् "एकमेवादि- तीयम्" इति पदत्रयम्। एवमद्दितीयं ब्रह्मोपक्रम्य "ऐतदात्म्यमिदं सर्वम्" इत्युपसंहति। इदमुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गम् तथा "तत्वमसि" इवि नवरत्वोऽभ्यासः । रूपादिहीनाद्दितीयब्रह्मणो मा- नान्तरायोग्यत्वात् अपूर्वत्वमुक्तम्, "अत्र वाव किल सत् सौम्य न निभालयसे" इति सङ्घाते स्थितं प्रत्यग्बह्म न जानासीत्यर्थः।"त- स्य तावदेव चिरं यावन् विमोक्ष्ये अथ सम्पत्स्ये" इति ब्रह्मज्ञानात् फलमुक्तं विदुषस्तस्य यावत् कालं देहो न चिमोक्ष्यते तावदेव देहपा- तपर्यन्तो विलम्बः। अथ देहपातानन्तरं विद्दान् ब्रह्म सम्पत्स्यते वि- देहकैवल्यमनुभवतीत्यर्थः । "अनेन जीवेनात्मनानुप्रविश्य" इत्या- द्यद्दितीयज्ञानार्थोऽर्थवादः। मृदादिदृष्टान्तैः प्रकत्यतिरेकेण विकारो नास्तीत्युपपत्तिरुक्ता। एवं षद्विधानि तात्पर्यलिङ्गानि व्यस्तानि सम- स्तानि वा प्रतिवेदान्तं दृश्यन्त इत्यैतरेयकोपक्रमवाक्यं पठति॥ "आत्मा वै" इति॥ बृहदारण्यके मधुकाण्डोपसंहारवाक्यं सदात्म- नो निर्विशेषत्वार्थमाह॥तदेतदिति॥ मायाभिर्बहुरूपं तद् ब्रह्म।ए- तदापरोक्षम्। अपूर्व कारणशून्यम्। अनपरं कार्यरहितम् अनन्तरं जा- त्यन्तरम् अस्य नास्तीत्यनन्तरम, एकरसमित्यर्थ। अबाह्यम् अद्वितीय-
Page 91
सू० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (७१) भूः"। "ब्रह्मैवेदममृतं पुरस्ताद्" इत्यादीनि। न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निशच्िते समन्वयेsगम्यमाने ऽर्थान्तरकल्पना युक्ता, श्रु- तहान्यश्रुतकल्पनाप्रसङ्गात्। न च तेषां कर्त- स्वरूपप्रतिपादनपरतावसीयते। "तत् केन कं पश्येद्" इत्यादिक्रियाकारकफलनिराकरणश्रु- ते: । न च परिनिष्ठितवस्तुस्वरूपत्वेऽपि प्रत्य- क्षादिविषयत्वं ब्रह्मणः। "तत्वमसि" इति ब्र- म्। तस्यापरोक्षत्वमुपपादयति॥ अयमिति ॥ सर्वमनुभवतीति स- र्वानुभू:, चिन्मात्रमित्यर्थः । ऋग्यजुःसामवाक्यान्युक्का आथर्वणवा- क्यमाह॥ ब्रह्मवैदमिति ॥ यत् पुरस्तात् पूर्वदिग्वस्तुजातमिदमब्रह्मै- वाविदुषां भाति तदमृतं ब्रह्मैव वस्तु इत्यर्थः । आदिपदेन " सत्यं ज्ञानम्" इत्यादिवाक्यानि गृह्यन्ते।नन्वस्तु ब्रह्मणस्तात्पर्यविषयत्वं वे- दान्तानां कार्यमेवार्थः किं न स्यादिति तत्राह॥ न चेति॥ वेदान्तानां ब्रह्मणि तात्पर्ये निश्चीयमाने कार्यार्थत्वं न युक्तं "यत्परः शव्दः स श- ब्दार्थः" इति न्यायादित्यर्थः । यदुक्तमर्थवादन्यायेन वेदान्तानां कर्त्रा- दिस्तावकत्वमिति तत्राह । न च तेषा मिति॥ तेषां कर्मशेषस्ताव- कत्वं न भाति किंतु ज्ञानद्वारा कर्म तत्साधननाशकमेव, तत्तत्र वि- व्याकाले "कः कर्ता केन करणेन कं विषयं पश्येद्" इति श्रुतेरित्यर्थः, अर्थवादानां तु स्वार्थे फलाभावात् स्तुतिलक्षणतेति भावः। यदुक्तं सिद्धत्वेन मानान्तरवेदं ब्रह्म, न वेदार्थ इति तत्राह॥ न च परीति॥ तच्वमसि" इति शास्त्रमन्तरेणेतिसम्बन्धः। धर्मो न वेदार्थः साध्य- त्वेन पाकवन्मानान्तरवेद्यत्वात् । यदि वेदं विना धर्मस्यानिर्ण- यान्न मानान्तरवेबता तदा ब्रह्मण्यपि तुल्यम्। यच्चोकं निष्फलत्वा-
Page 92
(७२) रत्नप्रभाभासिते अ० १। पा० १।] ह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानव्वा- त्। यतु हेयोपादेयरहितत्वादुपदेशानर्थक्यमि- ति, नैष दोषः। हेयोपादियशन्यब्रह्मात्मतावग- मादेव सर्वक्वेशप्रहाणात् पुरुषार्थसिद्धेः।देवता- दिप्रतिपादनस्य तु स्ववाक्यगतोपासनार्थत्वे- डपि न कश्विद्विरोधः।नतु तथा ब्रह्मण उपास- नाविधिशेषत्वं सम्भवति। एकत्वे हेयोपादेयशू- न्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्दोपप- तेः। न हि एकत्वविज्ञानेनोन्मथितस्य द्वैतवि-
द् ब्रह्म न वेदार्थ इति तदनूद परिहरति ॥। यतत्वित्यादिना ।। रहि- तत्वाद्जिन्नत्वाद् ब्रह्मण इति शेषः। यदप्युक्तम् "उपासनापरत्वं वेदा- न्तानाम् " इति तत्र किं प्राणपश्चाग्न्यादिवाक्यानामुत सर्वेषामिति? तत्रादमङ्गीकरोति॥देवतादीति ॥ श्रेष्ठत्वादिगुणः फलं चादिशब्दा- र्थः न द्वितीयः विधिशून्यानां "सत्यज्ञानम् " इत्यादीनां स्वार्थे फ- लवतामुपासनापरत्वकल्पनायोगात्। किश्च तदर्थस्य ब्रह्मणस्तच्छे- षत्वं। ज्ञानात् प्रागूर्ध्व वा ? आये, अध्यस्तगुणवतस्तस्य तच्छेषत्वे- डपि न द्वितीय इत्याह॥ नतु तथेति॥ प्राणादिदेवतावदित्यर्थः । "अहं ब्रह्मास्मि" इत्येकत्वे ज्ञाते सति हेयोपादेयशून्यतया ब्रह्मात्म- नः फलाभावादुपास्योपासकद्दैतज्ञानस्य कारणस्य नाशाच्च नोपास- नाशेषत्वमित्याह ॥ एकत्व इति ॥ द्वैतज्ञानस्य संस्कारबलात् पुनरु- दये विधानमिति नेत्याह ॥ न हीति॥ दृढस्येति शेषः। भ्रान्तित्वानि- श्रयो दाढर्च, संस्कारोत्थं तु भ्रान्तित्वेन निश्चितं न विधिनिमित्तम् । "येनेति" उपासनायां कारणस्य सच्वेनेत्यर्थः। वेदप्रामाण्यस्य व्यापकं
Page 93
सू० ४ । अ० ४।] शाङ्करव्रह्म सूत्रभाष्ये (७३) ज्ञानस्य पुनः सम्भवोऽस्ति, येनोपासनाविधि- शेषत्वं ब्रह्मण: प्रतिपाद्येत। यद्यप्यन्यत्र वेदवा- क्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं न दष्टं, तथाप्यात्मविज्ञानस्यफलपर्यन्तव्वान्न तद्विषय- स्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् ।न चानुमानगम्यं शास्त्रप्रामाण्यं येनान्यत्र दृष्टं नि- दर्शनमपेक्षेत। तस्मात् सिद्धं ब्रह्मणःशास्त्रप्रमा- णकत्वम्।
क्रियार्थकत्वमनुवदति॥ यद्यपीति॥ कर्मकाण्डेऽर्थवादादीनामित्यर्थ: तथा च व्यापकाभावाद्देदान्तेषु व्याप्याभावानुमानमिति भावः । वे- दान्ता न स्वार्थे मार्न अक्रियार्थवात्, 'सोडरोदीत्" इत्यादिवदित्य- नुमाने निष्फलार्थकत्वमुपाधिरित्याह ॥। तथापीति॥ अर्थवादानां निष्फलस्वार्थमानत्वेऽपीत्यर्थः । तदविषयस्य तत्कारणस्य स्वार्थे ब्र- ह्मात्मनीति शेषः । सफलज्ञानकरणत्वेन वेदान्तानां स्वार्थे मान- त्वसिद्धेर्न क्रियार्थकत्वं तव्यापकमिति भावः । ननु माभूद्देदप्रामा- ण्यस्य व्यापकं, क्रियार्थकत्वं व्याप्यं तु भविष्यति तदभावाद्देदा- न्तानां प्रामाण्यं दुर्ज्ञानमिति नेत्याह ॥।न चेति॥ येन वेदप्रामा- ण्यं स्वस्यानुमानगम्यत्वेनान्यत्र क्वचिद् दष्ट दष्टान्तमपेक्षेत तदेव ना- स्तीत्यर्थः। चक्षुरादिवद्वेदस्य स्वतः प्रामाण्यज्ञानान्न तव्याप्तिलिङ्गाय्- पेक्षा। प्रामाण्यसंशये तु फलवदज्ञाता-बाधितार्थतात्पर्यात् प्रामाण्य- निश्रवयो न क्रियार्थत्वेन "न कूपे पतेद्" इति वाक्ये व्यभिचारादिति भावः। वर्णकार्थमुपसंहरति ॥ तस्मादिति ॥ समन्वयादित्यर्थः। विधिवाक्यानामपि फलवदज्ञातार्थत्वेन प्रामाण्यं तत्तुल्यं वेदान्ता- १०
Page 94
(७४) रत्नप्रभाभािते [अ० १। पा० १। अन्रापरे प्रत्यवतिष्ठुन्ते "यद्यपि शास्त्रप्रमा- णकं ब्रह्म तथापि प्रतिपत्तिविधिविषयतयैव शा- स्त्रेण ब्रह्म समर्प्यते, यथा यूपाहवनीयादीन्य- लौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते नामपीति स्थितम्। एवं पदानां सिद्धेऽर्थे व्युत्पत्तिमिच्छतां ब्रह्मना- स्तिकानां मतं ब्रह्मणो मानान्तरायोग्यत्वात् सफलत्वाच्च वेदान्तैक- मेयत्वमित्युक्त्या निरस्तम्। सम्प्रति सर्वेषां पदानां कार्यान्वितार्थे श- क्तिमिच्छतां विधिशेषत्वेन प्रत्यग्ब्ह्म वेदान्तैर्बोध्यते न स्वातन्त्रये- णेति वदतां वृत्तिकाराणां मतनिरासाय सूत्रस्य वर्णकान्तरमारभ्यते, तत्र वेदान्ताः किसुपासनाविधिशेषत्वेन ब्रह्म बोधयन्ति उत स्वात- न्त्येणेति ? इति सिद्धे व्युत्पच्यभावभावाभ्यां संशये पूर्वपक्षमाह॥ अन्रापर इति॥ ब्रह्मणो वेदान्तवेद्यत्वोक्तौ वृत्तिकाराः पूर्वपक्षयन्ती- त्यर्थः । उपासनातो मुक्तिः पूर्वपक्षे तच्वज्ञानादेवेति सिद्धान्ते फलं विधिर्नियोग: तस्य विषयः प्रतिपत्तिरुपासना । अस्याः को विषयः, इत्याकाङ्गायां सत्यादिवाक्यैविधिपरैरेव ब्रह्म समर्प्यत इत्याह॥ प् तिपन्तीति॥ विधिविषयप्रत्तिपतिविषयतयेत्यर्थः । विधिपराद्याक्यात्त- च्छेषलाभे दृष्टान्तमाह ॥। यथेति॥ "यूपे पशुं बध्नाति" "आहवनीये जुहोति""इन्द्रं यजेत" इति विधिषु के यूपादयः, इत्याकाङ्ायां "यूपं तक्षत्यष्टाल््रीकरोति" इति तक्षणादिसंस्कृतं दारु यूपः। "अग्नी- नादधीत" इत्याधानसंस्कृतोऽग्निराहवनीयः।"वज्रहस्तः पुरन्दर" इति विधिपरैरेव वाक्यैःसमर्प्यन्ते तद्दद् ब्रह्मेत्यर्थः। विधिपरवाक्यस्यापि अ- न्यार्थबोधित्वे वाक्यभेदः स्यादिति शङ्कानिरासार्थमपिशब्दः। माना- न्तराज्ञातान्यपि शेषतयोच्यन्ते न प्रधानत्वेनेति न वाक्यभेदः, प्रधाना- र्थभेदस्यैव वाक्यभेदकत्वादिति भावः।ननूक्तषद्विधलिङ्गैस्तात्पर्यविषय-
Page 95
सू० ४ | अ ० ४ ] (७५) तद्रत्। कुत एतत्? प्रवृत्तिनिवृत्तिप्रयोजनत्वा- छास्स्य; तथा हिशास्त्रतात्पर्यविद आहुः, "६ प्ो हि तस्यार्थः कर्मावबोधनम् इति चोदनेति क्रियायाः प्रवर्तक वचनम्। तस्य ज्ञानमुपदे- शः। "तद्गूतानां क्र्यार्थेन समास्नायः" "आ- म्रायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि- ति" च। अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्तयत् स्य ब्रह्मणः कुतो विधिविशेषत्वमिति शङ्कते॥कुत इति। वृद्धव्यवहारे- ण हि शास्त्रतात्पर्यनिश्रयः। वृद्दव्यवहारे च श्रोतुः प्रवृत्तिनिवृत्ती उद्दि- श्याप्तप्रयोगो दृश्यते।अतः शास्त्रस्यापि ते एव प्रयोजने, ते च कार्यज्ञान- जन्ये इति कार्यपरत्वं शास्त्रस्य ततः कार्यशषत्वं ब्रह्मण इत्याह ॥प्रवृत्ती- ति।। शास्त्रस्य नियोगपरत्वे वृंद्दसम्मतिमाह॥ तथा हीत्यादिना।।क्रि- या कार्य, नियोगो विधिः, धर्मोSपूर्वमित्यनर्थान्तरम्। को वेदार्थः, इत्या- काड्ायां शाबरभाष्यकृतोक्तम्।दृष्टो हीति॥ तस्य वेदस्य कार्य वेदार्थ: इत्यत्र चोदनासूत्रस्थ भाष्यमाह॥चोदनेति। क्रियाया नियोगस्य ज्ञान- द्दारा प्रवर्तकं वाक्यं चोदनेत्युच्यत इत्यर्थः । शबरस्वामिसंमति- मुक्का जैमिनिसंमतिमाह॥ तस्य ज्ञानमिति ॥ तस्य धर्मस्य ज्ञा- पकम् अपौरुषेयविधिवाक्यमुपदेशः तस्य धर्मेणाव्यतिरेकादित्यर्थः । पदानांकार्यान्वितार्थे शक्तिरित्यत्र सूत्रं पठति॥ तद्रूतानामिति॥ तत्तत्र वेदे भूतानां सिद्धार्थनिष्ठानांपदानां क्रियार्थेन कार्यवाचिना लिङ्गा- दिपदेन समाम्नायः सहोच्चारणं कर्तव्यम्। पदार्थज्ञानस्य वाक्यार्थरूप- कार्यधीनिमित्तत्वादित्यर्थः। कार्यान्वितार्थे शक्तानि पदानि कार्यवाचिप देन सह पदार्थ: स्मृतिद्वारा कार्यमेव वाक्यार्थ बोधयन्तीति भावःफलि- १ शबरसम्मतिम्। २ एते शब्दाः समानार्थका इत्यर्थः ।
Page 96
(७६) रत्नप्रभाभासिते [अ० १। पा० १।
च्छेषतया चान्यदुपयुक्तं, तव्सामान्याद्वेदान्ता- नामपि तथैवार्थवत्वं स्यात्। सति च विधिपर- त्वे यथा स्वर्गादिकामस्याग्निहोत्रादि साधनं विधीयते, एवममृतत्वकामस्य ब्रह्मविज्ञानं वि- धीयते इति युक्तम्। नन्विह जिज्ञास्यवैलक्षण्य- मुक्तम् कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह- तु भूतं नित्यनिर्वत्तं ब्रह्म जिज्ञास्यमिति। तत्र- धर्मज्ञानफलादनुष्ठानापिक्षाद्विलक्षणं ब्रह्मज्ञान- फलं भवितुमर्हति। नार्हत्यवं भवितुम्। कार्य तमाह॥अत इति॥यतो वृद्धा एवमाङुः, अतोविधिनिषेधवाक्यमेव शास्त्रम्, अर्थवादादिकं तु तच्छेषतयोपक्षीणं, तेन कर्मशास्त्रेण सामान्यं शास्त्रत्वं, तस्माद्वेदान्तानां कार्यपरत्वेनैव अर्थवत्वं स्यादित्यर्थः । ननु वेदान्तेषु नियोज्यस्य विधेयस्य चादर्शनात् कथं कार्यधीरिति तत्राह ॥ सति चेति॥ ननु धर्मब्रह्मजिज्ञासासूत्रकाराभ्यामिह काण्डद्दये- डर्थभेद उक्तः, एककार्यार्थत्वे शास्त्रभेदानुपपत्तेः। तत्र काण्डद्दये जि- ज्ञास्यभेदे सति फलवैलक्षण्यं वाच्यम्। तथा च न मुक्तिफलाय ज्ञा- नस्य विधेयता, मुक्तेविधेयक्कियाजन्यत्वे कर्मफलादविशेषप्रसङ्गादवि- शेषे जिज्ञास्यभेदासिद्धेः। अतः कर्मफलविलक्षणत्वान्नित्यसिद्धमुक्ते- स्तव्यञ्ञकज्ञानविधिरयुक्त इत्याशङकते॥नन्विहेति॥ मुक्ते: कर्मफलाहै- लक्षण्यमसिद्धमिति तदर्थ ज्ञानं विधेयम् । न च तर्हि सफलं कार्यमेव वे दान्तेष्वपि जिज्ञास्यमिति तज्नेदासिद्दरिति वाच्यम, इष्टत्वात्। न च ब्रह्मणो जिज्ञास्यत्वसूत्रविरोधः, ज्ञानविधिशेषत्वेन सूत्रकता ब्रह्मप्र-
Page 97
सू० ४ । अ ० ४ ] शाङ्करब्रह्मसूत्रभाष्ये (७७) विधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात्। "आत्मा वा अरे द्रष्टव्यः" "य आत्मापहतपा- प्मा सोऽन्वेष्ठव्य: स विजिज्ञासितव्यः" "आ- त्मेत्येवोपासीत""आत्मानमेव लोकमुपासीत" "ब्रह्म वेद त्रह्मैव भवति" इत्यादिषु हि विधाने- षु सत्सु "कोडसावात्मा कि तद् ब्रह्म" इत्याका- ड्रायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उप- युक्ताः, "नित्यः सर्वगतो नित्यतप्तो नित्यशुद्ध- बुद्मुक्तस्वभावो विज्ञानमानन्दं ब्रह्म" इत्येव- मादयः। तदुपासनाच्च शासटष्टोऽटष्टो मोक्ष: फ- लं अविष्यति। कर्तव्यविध्यननुप्रवेशे तु वस्तु- मात्रकथने हानोपादानासम्भवात् "सप्तद्वीपा वसुमती"राजाऽसौ गच्छति" इत्यादिवाक्य- वद्ददान्तवाक्यानामानर्थक्यमेव स्यात्। ननु वस्तुमात्रकथनेऽपि "रज्जुरियं नायं सर्पः" इ- तिपादनादिति परिहरति॥ नार्हत्येवमिति॥ ब्रह्मणो विधिप्रयुक्तत्वं- स्फुटयति॥आत्मावा इति।"ब्रह्म वेद" इत्यत्र ब्रह्मभावकामो ब्रह्म- वेदनं कुर्यादिति विधिः परिणम्यत इति द्रष्टव्यम्। लोकं ज्ञानस्वरूपं वेदान्तानेवार्थतो दर्शयति ॥ नित्य इति। ननु किं विधिफलमिति- तदाह।तदु पासनादिति।।प्रत्यग्बल्मोपासनाद् ब्रह्मविदाप्नोति परम्" इति शास्त्रोक्तो मोक्ष: स्वर्गवल्लोकाप्रसिद्धः फलमित्यर्थः। ब्रह्मणः क- र्तव्योपासनाविषयकविधिशेषत्वानङ्गीकारे बाधकमाह॥ कर्तव्येति॥
Page 98
(७८) रत्नप्रभाभासिते [अ० १।पा० १। त्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्वं ह- एम्। तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारि- त्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात्। स्यादेतदेवं यदि रज्जुस्वरूपश्रवण इव सर्पभ्रान्तिः संसा
तु निवर्तते। श्रुतब्रह्मणोऽपि यथापूर्व सुखदुः- खादिसंसारित्वधर्मदर्शनात्।"श्रोतव्यो मन्त- व्यो निदिध्यासितव्यः" इति च श्रवणोत्तरका- लयोर्मनननिदिध्यासनयोर्दर्शनात्। तस्मात् प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्मा- भ्युपगन्तव्यमिति"। विध्यसम्बद्धसिद्धबोधे प्रवृत्यादिफलाभावाद्देदान्तानां वैफल्यं स्या- दित्यर्थ:नन्विति शङ्का स्पष्टार्था। दृष्टान्तवैषम्येन परिहरति।स्यादिति एतदर्थवत्त्वमेवं चेत् स्यादित्यर्थः । एवंशब्दार्थमाह ॥ यदीति ॥ किं- च, यदि ज्ञानादेव मुक्तिस्तदा श्रवणजन्यज्ञानानन्तरं मननादिविधिर्न- स्यात्, तदिधेश् कार्यसाध्या मुक्तिरित्याह॥ श्रोतव्य इति॥ शब्दा- नां कार्यान्वितशक्ते: प्रवृत्त्यादिफलस्यैव शास्त्रत्वात् सिद्धे फलाभावा- न्मननादिविधेश् कार्यपरा वेदान्ता इति पूर्वपक्षमुपसंहरति ॥ त- स्मादिति॥ वेदान्ता न विधिपराः स्वार्थे फलवच्वे सति नियोज्यवि- धुरत्वात्, "नायं सर्पः" इति वाक्यवत् सोऽरोदीत्" "स्वर्गकामो यजेत" इति वाक्ययोनिरासाय हेतौ विशेषणद्दयमिति सिद्धान्तयति ॥ अत्रेति। यदुक्तं मोक्षकामस्य नियोज्यस्य ज्ञानं विधेयमिति तन्ने- १ नियोज्यः सच कार्यं यः स्वकीयत्वेन बुध्यते इत्यत्रोक्तलक्षणकः ।
Page 99
सू० ४ । अ ० ४ ] शाङ्करब्रह्मसूत्रभाष्ये (७९) अन्नाभिधीयते, न, कर्मब्रह्मविद्याफलयोरवै- लक्षण्यात्। शारीरं वाचिकं मानसं च कर्म श्रु- तिस्मृतिप्रसिद्धं धर्मार्यं यद्विषया जिज्ञासा, "अथातो धर्मजिज्ञासा" इति सूत्रिता। अधर्मो डपि हिंसादि: प्रतिषेधचोदनालक्षणत्वात् जि- ज्ञास्यः परिहाराय। तयोश्रोदनालक्षणयोरर्था- नर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरी- रवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयो- गजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे। मनु- ष्यव्वादारभ्य ब्रह्मान्तेषु देहवव्सु सुखतारत- म्यमनुश्रूयते। ततश्र् तद्देतोर्धर्मस्य तारतम्यं त्याह ॥ नेति॥ मोक्षो न विधिजन्यः कर्मफलविलक्षणत्वादात्मव- दित्यर्थः। उक्तहेतुज्ञानाय कर्मतत्फले प्रपश्चयति ॥ शारीरमित्यादिना वर्णितं संसाररूपम् अनुवदतीत्यन्तेन। अथ वेदाध्ययनानन्तरम्। अतो वेदस्य फलवदर्थपरत्वात् धर्मनिर्णयाय कर्मवाक्यविचारः कर्त- व्य इति सूत्रार्थः । न केवलं धर्माख्यं कर्म किंतु अधर्मोऽपीत्याह ॥ ॥ अधर्मोऽपीति ॥ निषेधवाक्यप्रमाणकत्वादित्यर्थः । कर्मोक्ता फ- लमाह॥ तयोरिति ॥ मोक्षस्तु अतीन्द्रियो विशोकः शरीरायभोग्यो विषयाद्यजन्योऽनात्मवित्स्वप्रसिद्ध इति वैलक्षण्यज्ञानाय प्रत्यक्षत्वा- दीनि विशेषणानि। सामान्येन कर्मफलमुक्ता धर्मफलं पृथक् प्रपश्च- यति॥ मनुष्य त्वादिति ॥ "स एको मानुष आनन्दसतः शतगुणो गन्धर्वादीनाम्" इति श्रुतेरनुभवानुसारित्वमनुशब्दार्थः । ततश्र् सु- खतारतम्यादित्यर्थः । मोक्षस्तु निरतिशयस्तत्साधनं च तच्वज्ञानमेक-
Page 100
( ८०) रत्नप्रभाभासिते [अ० १।पा० १। गम्यते।धर्मतारतम्यादधिकारितारतम्यं। प्रसि- द्वं चार्थित्वसामर्थ्यादिकृतमधिकारितारतम्यम्। तथा चयागाद्यनुष्ठायिनामेव विद्यासमाधिविशे- षादुत्तरेण पथा गमनम्। केवलैरिष्ठापूर्तदत्तसा- धनैर्धूमादिक्रमेण दक्षिणेन पथा गमनम्। तत्रा- पि सुखतारतम्यं तत्साधनतारतम्यं च शास्त्रादू "यावत्सम्पातमुषित्वा"इत्यस्माद्गम्यते।तथा मनुष्यादिषु नारकस्थावरान्तेषु सुखलवश्रवोदना- रूपमिति वैलक्षण्यम्। किंच साधनचतुष्टयसम्पन्न एकरूप एव मोक्षविद्याधिकारी। कर्मणि तु नानाविध इति वैलक्षण्यमाह ॥ ध मैति। गम्यते न केवलं किंतु प्रसिद्धं चेत्यर्थः। अित्वं फलकामि- त्वम्। सामर्थ्य लौकिकं पुत्रादि। आदिपदाद्दिद्वंत्त्वं शास्त्रानिन्दित- त्वं च। किंच, कर्मफलं मार्गप्राप्यं, मोक्षस्तु नित्याप्त इति भेदमाह ॥ तथेति।। उपासनायां चित्तस्थैर्यप्रकर्षादचिरादिमार्गेण ब्रह्मलोक- गमनं "तेऽचिषम्" इत्यादिना श्रूयत इत्यर्थः। "अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम्। आतिथ्यं वैशवदेवं च इष्टमित्यभिधीयते"॥ "वापीकूपतडागादि देवतायतनानि च। अन्नप्रदानमाराम: पूर्तमित्यभिधीयते"॥ "शरणागतसन्त्राणं भूतानां चाप्यहिंसनम्। १ कर्मकाण्डे क्रियाकर्त्रादिस्वरूपविभागविज्ञानवान् विद्वान् गाहो न ब्रह्मात्मैकत्ववि ज्ञाता, तस्य विध्यकिडूरत्वात्। अत एव भगवानविद्वद्विषयत्वं शास्त्रस्य वर्णयाम्बभूव । तथाच विद्वत्त्वस्याधिकारिविशेषणत्वानङ्गीकारे पशुशूद्रादीनामपि अधिकारो दुर्वारः स्यात्।
Page 101
सू० ४ । अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (८g) लक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्त- मान:तथोर्ध्वगतेष्वधोगतेषु च देहवत्सु दुःखता- रतम्यदर्शनात्तद्वेतोरधर्मस्य प्रतिषेधचोदनाल- क्षणस्य तदनुष्ठायिनां च तारतम्यं गम्यते। एवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम् । तथा च श्रुतिः "न ह वै सशरीरस्य सतः प्रियाप्रिययो- रपहतिरस्ति" इति यथा वर्णितं संसाररूपम- नुवदति। "अशरीरं वाव सन्तं न प्रियाप्रिये- बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते॥ तत्रापि। चन्द्रलोकेऽपीत्यर्थः। सम्पतति गच्छति अस्माल्लोकादमुं लोकमनेनेति सम्पातः कर्म, यावत् कर्म भोक्तव्यं तावत् स्थित्वा पुन- रायान्तीत्यर्थः । मनुष्यत्वादूर्ध्वगतेषु सुखस्य तारतम्यमुत्ता अधोगतेषु तदाह ॥ तथेति॥ इदानीं दुःखतद्वेतुतदनुष्ठायिनां तारतम्यं वदन् अधर्मफलं प्रपश्चयति ॥तथोध्वमिति। द्विविधं कर्मफलं मोक्षस्य त- द्वैलक्षण्यज्ञानाय प्रपश्चितमुपसंहरति ॥ एवमिति॥ अस्मिताकाम- क्रोधभयान्यादिशब्दार्थः।"ते तं भुक्क्ा स्वर्गलोकं विशालम्" इत्यायाः स्मृतिः काष्ठोपचयात् ज्वालोपचयदर्शनात् फलतारतम्येन साधनता- रतम्यानुमानं न्यायः । श्रुतिमाह ॥ तथा चेति॥ मोक्षो न कर्मफलं
व्यतिरेकेण स्वर्गादिवदिति न्यायानुग्राह्यां श्रुतिमाह॥अशरीरमिति॥ वावेत्यधारणे। तच्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखेनैव प ११
Page 102
(८२) रत्नप्रभाभासिते अ० १। पा० १॥ स्पृशतः इति प्रियाप्रिययोः स्पर्शनप्रतिषेधा- चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीर- त्वस्य प्रतिषिध्यत इति गम्यते । धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्यते। अ- शरीरत्वमेव धर्मकार्य भवत्विति चेन्न, तस्य स्वा भाविकत्वात्। "अशरीरं शरीरेषु अनवस्थेष्व- वस्थितम्। महान्तं विभुमात्मानं मत्वा धीरो न शोचति"।"अप्नाणो ह्यमनाः शुभः" "असङ्गो त्ययं पुरुषः इत्यादि श्रुतिभ्यः। अत एवानुष्ठे- यकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्य- मिति सिद्धम्। त्र किश्चित्परिणामिनित्यं स्या- स्पृशत इत्यर्थः । मोक्षश्रेदुपासनारूपधर्मफलं तदेव प्रियमर्तीति तन्निषेधायोग इत्याह ॥ धर्मकार्यत्े हीति॥ ननु प्रियं नाम वैषयिकं सुखं तन्निषिध्यते, मोक्षस्तु धर्मफलमेव कर्मणां विचित्रदानसामर्थ्या दिति शङ्कते ॥ अशञरीरत्वमेवेति ॥ आत्मनो देहासद्ित्वमशरीर- त्वं तस्यानादित्वान्न कर्मसाध्यतेत्याह॥ नेति ॥ अशरीरं स्थूलदेह- शून्यं देहेष्वनेकेषु अनित्येषु एकं नित्यमवस्थितं महान्तं व्यापिनं, आपेक्षिकमहत्त्वं वारयति ॥ विभुमिति ॥तमात्मानं ज्ञात्वा धीरः सन् शोकोपलक्षितं संसारं नानुभवतीत्यर्थः। सूक्ष्मदेहाभावे श्रुति- माह॥ अप्राण इति ॥ प्राणमनसोः क्रियाज्ञानशक्योर्निषेधात्, त- दधीनानां कर्मज्ञानेन्द्रियाणां निषेधो हि यतः, अतः श्रुद्ध इत्यर्थः। देहद्याभावे श्रुतिः "असङ्गो हि" इति, निर्देहात्मस्वरूपमोक्षस्याना- दिभावत्वे सिद्धे फलितमाह ॥ अत एवेति॥ नित्यत्वेऽपि परिणा-
Page 103
सू० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (८ ३) दयस्मिन् विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते। यथा पृथिव्यादि जगन्नित्यत्ववादि- नां, यथा च साख्यानां गुणा: । इदंतु पार- मार्थिकं कूटस्थं नित्यं व्योमवत् सर्वव्यापि सर्व- विक्रियारहितं नित्यतृत्तं निरवयवं स्वयंज्योतिः- स्वभावम्। यत्र धर्माधर्मो सह कार्येण कालत्र- यं च नोपावर्तेते तदशरीरत्वं मोक्षाख्यम्। "अ- न्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् अन्यत्र भूताच्च भव्याञ्च" इत्यादिश्रुतिभ्यः ।
मितया धर्मकार्यत्वं मोक्षस्येत्याशङ्क् नित्यं द्वेधा विभजते ॥ तत्- किश्चिदिति॥ नित्यवस्तुमध्य इत्यर्थः । परिणामि च तन्नित्यं चेति परिणामिनित्यं आत्मा तु कूटस्थनित्य इतिन कर्मसाध्य इत्याह॥ इदं- त्विति॥ परिणामिनो नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव, कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकं कूटस्थत्वसिद्धचर्थ परिस्यन्दाभा- वमाह ॥ व्योमवदिति॥ परिणामाभावमाह॥सर्वक्रियारहितमि- ति। फलानपेक्षित्वान्न फलार्थापि क्रियेत्याह ॥ नित्यतृप्तमिति॥ तृप्तिरनपेक्षत्वं, विशोकं सुखं वा निरवयवत्वान्न किया तस्य भानार्थ- मपि न क्रिया स्वयंज्योतिष्टात्, अत्रः कूटस्थत्वान कर्मसाध्यो मोक्ष इत्युक्तम्। कर्मतत्कार्यासङ्गित्वाच्च तथेत्याह ॥ यत्रेति॥ कालानव- च्छिन्नत्वाचेत्याह ॥ कालेति॥ कालत्रयं च नोपावर्तत इति योग्य- तया सम्बन्धनीयम्। धर्मायनवच्छेदे मानमाह ॥ अन्यत्रेति॥ अ- न्यदित्यर्थः । कतात् कार्यात्। अकताच कारणात्। भूतान्द्रव्याच। च- काराद्दर्तमानाच्च। अन्ययत् पश्यससि तद्ददित्यर्थः। ननु उक्ताः श्रुतयो
Page 104
(eg) रत्नप्रभाभासिते अ० १। पा० १ अतस्तद्रह्म यस्येयं जिज्ञासा प्रस्तुता। तद्यदि कर्तव्यशेषत्वेनोपदिश्येत तेन च कर्तव्येन सा- ध्यश्रेन्मोक्षोऽभयुपगम्येत अनित्य एव स्यात्। तत्रैवं सति यथोक्तकर्मफ लेष्वेव तारतम्यावस्थि- तेष्वनित्येषु कश्विदतिशयो मोक्ष इति प्रसज्येत। नित्यश्र् मोक्ष: सर्वैर्मोक्षवादिभिरभ्युपगम्यते। अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः। अ- पि च "ब्रह्म वेद ब्रह्मैव अवति" "क्षीयन्ते चा-
ब्रह्मणः कुटस्थासङ्गित्वं वदन्तु मोक्षस्य नियोगफलत्वं किं न स्या- दिति तत्राह॥ अत इति ॥ तत् कैवल्यं ब्रह्मैव, कर्मफलविलक्षण- त्वादित्यर्थः। ब्रह्माभेदान्मोक्षस्य कूटस्थत्वं धर्मायसङ्गित्वं चेति भा- वः।यद्दा यज्जिज्ञास्यं तद् ब्रह्म अतः पृथक्जिज्ञास्यत्वात् धर्मावस्पृष्ट- मित्यर्थः । अतःशब्दाभावपाठेऽप्ययमेवार्थः ब्रह्मणो विधिस्पर्शेशास्त्र- पृथक्कं न स्यात्, कार्यविलक्षणानधिगतविषयालाभातू। न हि ब्रह्मात्मै- क्यं भेदप्रमाणे जाग्रति विधिपरवाक्याल्लब्धुं शक्यं न वा तद्दिना विधेर- नुपपत्ति: योषिदग्न्यैक्योपास्तिविधिदर्शनादिति भावः अथवा मोक्षस्य नियोगासाध्यत्वे फलितं सूत्रार्थमाह॥अत इति॥यदत्र जिज्ञास्यं ब्रह्म तत् स्वतन्त्रमेव वेदान्तैरुपदिश्यते, समन्वयादित्यर्थः।विपक्षे दण्डंपा- तयति ॥तद्यदीति।तत्रैवं सतीति।मोक्षे साध्यत्वेनानित्ये सतीत्यर्थः ॥अत इति। मुक्तेनियोगासाध्यत्वेन नियोज्यालाभात् कर्तव्यनियोगा- भावादित्यर्थः । प्रदीपात् तमोनिवृत्तिवज्ज्ञानादज्ञाननिवृत्तिरूपमोक्षस्य दृष्टफलत्वाच्च न नियोगसाध्यत्वमित्याह॥अपि चेति। "यो ब्रह्माहम्" इति वेद स ब्रह्मैव भवति। परं कारणमवरं कार्य तद्रूपे तदधिष्ठाने
Page 105
सू० ४। अ० ४।] शाहरब्रह्मसूत्रभाष्ये (८५) स्य कर्माणि तस्मिन् दृष्टे परावरे" "आनन्दं ब्र- ह्णो विद्वान्न विभेति कुतश्र्न""अभयं वै ज- नक प्राप्तोऽसि""तदात्मानमेवावेदहं ब्रह्मास्मी- ति" "तस्मात्तव्सर्वमभवत्"' "तत्र को मोहः कः शोक एकत्वमनुपश्यत" इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यौ मध्ये तत्कृतं- कार्यान्तरं वारयन्ति। तथा "तद्वैतत् पश्यत्रृषि- र्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्र्" इति ब्र- तस्मिन् दृष्टे सति अस्य द्रष्टुरनारब्धफलानि कर्माणि नश्यन्ति। ब्रह्म- णः स्वरूपमानन्दं विद्ान् निर्भयो भवति द्दितीयाभावात्। "अभयं ब्रह्म प्राप्तोऽसि"। अज्ञानहानात् तज्जीवाख्यं ब्रह्मगुरूपदेशादात्मा- नमेव "अहं ब्रह्मास्मि" इत्यवेत् विदितवत्। तस्माद्देदनात्तङ्रह्म पू- र्णमभवत् परिच्छेदभ्रान्तिहानादेकत्वम्, "अहं ब्रह्म" इत्यनुभवः तत्रानुभवकाले मोहशोकौ न स्त इति श्रुतीनामर्थः, तासां तात्पर्य- माह॥ ब्रह्मेति ॥ विद्यातत्फलयोर्मध्य इत्यर्थः । मोक्षस्य विधिफलत्वे स्वर्गादिवत् कालान्तरभावित्वं स्यात्। तथा च श्रुतिबाध इति भावः। इतश्र मोक्षो वैधो नेत्याह ॥ तथेति ॥ तद्ह्मैतत् प्रत्यगस्मीति पश्य- नू तस्मात् ज्ञानात् वामदेवो मुनीन्द्रः शुद्धं ब्रह्म प्रतिपेदे ह तत्र ज्ञाने तिष्ठन् दृष्टवानात्ममन्त्रान् स्वस्य सर्वात्मत्वप्रकाशकान् "अहं मनुः" इत्यादीन् ददर्शेत्यर्थः। यवपि स्थितिर्गानक्रियाया लक्षणं, ब्रह्मदर्श- नं तु ब्रह्मप्रतिपत्तिक्रियाया हेतुरिति वैषभ्यमर्ति, तथापि "लक्षण- हेत्वो: क्रियाया" [३ । २। १२६ ] इति सूत्रेण क्रियां प्रति ल- क्षणहेत्वोरर्थयोवर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत १ पारब्धेतराणि संचितान्यागामीनि चेत्यर्थः ।
Page 106
(८६) रत्नप्रभाभासिते अ० १।पा० १।) ह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवार- णायोदाहार्यम्। यथा तिष्ठन गायतीति तिष्ठति- गायत्योर्मध्येतत्कर्तृकं कार्यान्तरं नास्तीति ग- म्यते। "व्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि; श्रुतं त्येव मे भगवद्दशेभ्य- स्तरति शोकमात्मविद्" इति। "सोऽहं भगवः शोचामि तन्मा भ्षगवाञ्छोकस्य परं पारं तार- यतु" इति "तस्मै मृदितकषायाय तमसः प- रंपारं दर्शयतिभगवान् सनत्कुमारः" इति चै- वमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवत्तिमात्रमे- इति विहितशतृप्रत्ययसामर्थ्यात् तिष्ठन् गायति इत्युक्ते तत्कर्तृकं कार्यान्तरं मध्ये न भातीत्येतावता पश्यन् प्रतिपेदे इत्यस्य दृष्टान्त- माह ॥ यथेति ॥ किश्च, ज्ञानादज्ञाननिवृत्तिः श्रूयते ज्ञानस्य वि- धेयत्वे कर्मत्वादविद्यानिवर्तकत्वं न युक्तम, अतो बोधका एव वे- दान्ता न विधायका इत्याह ॥ त्वं हीति॥ भारद्वाजादयः षड्ऋष- यः पिप्पलादं गुरुं पादयोः प्रणम्य ऊचिरे त्वं खल्वस्माकं पिता यस्त्वमविद्यामहोदधेः परं पुनरावृत्तिशून्यं पारं ब्रह्मविद्याप्वेनास्मां- स्तारयसि प्रापयसि ज्ञानेनाज्ञानं नाशयसीति यावत्। प्रश्नंवाक्यमुक्ता छान्दोग्यमाह॥ श्रुतमिति॥ अत्र तारयत्वित्यन्तमुपक्रमस्थं शेष- मुपसंहारस्थमिति भेदः। "आत्मविच्छोकं तरति" इति भगवत्तुल्ये- भ्यो मया श्रुतमेव हि न दृष्टम्, "सोऽहमज्ञत्वात् हे भगवः शोचामि तं शोचन्तं मां भगवानेव ज्ञानप्ठवेन शोकसागरस्य परं पारं प्रापयतु"
Page 107
सृ० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (८७) वात्मज्ञानस्य फलं दर्शयन्ति तथा चाचार्यप्रणी- तं न्यायोपबंहितं सूत्रं "दुःखजन्मप्रवत्तिदोष- मिथ्याज्ञानानामुत्तरो त्तरापाये तदनन्तरापाया- दपवर्गः" इति। मिथ्याज्ञानापायश्र ब्रह्मात्मै- कत्वविज्ञानाद्गवति। न चेदं ब्रह्मात्मैकत्वविज्ञा- इति नारदेनोक्तः सनत्कुमारस्तस्मै तपसा दग्धकिल्बिषाय नारदाय तमसः शोकनिदानाज्ञानस्य ज्ञानेन निवृत्तिरूपं परं पारं ब्रह्म दर्शित- वानित्यर्थः "एतयो वेद विहितं गुहायां सोडविद्यायन्थि विकिरति" इति वाक्यमादिशब्दार्थः। एवं श्रुतेस्तत्वप्रमा मुक्तिहेतुर्न कर्मेत्युक्तम्। तत्राक्षपादगौतममुनिसम्मतिमाह॥ तथा चेति॥"गौरोऽहम्" इति मिथ्याज्ञानस्यापाये रागद्वेषमोहादिदोषाणां नाशः, दोषापायाद्धर्माध- र्मस्वरूपप्रवृत्तेरपायः, प्रवृत्यपायात् पुनर्देहप्ाप्तिरूपजन्मापायः, एवं पाठक्रमेणोत्तरोत्तरस्य हेतुनाशान्नाशे सति तस्य प्रवृत्तिरूपहेतोरनन्त- रस्य कार्यस्य जन्मनोऽपायात् दुःखध्वंसरूपोऽपवर्गो भवतीत्यर्थः । ननु पूर्वसूत्रे "तच्वज्ञानान्निःश्रेयसाधिगमः" इत्युक्तेते सतीतरपदार्थ- भिन्नात्मतच्वज्ञानं कथं मोक्षं साधयतीत्याकाङ्कायां मिथ्याज्ञाननिवृ- त्तिद्वारेणेति वक्तुमिदं सूत्रं प्रवृत्तम्। तथा च भिन्नात्मज्ञानान्मुक्तिं व- दत् सूत्रं सम्मतं चेतू परमतानुज्ञा स्यादित्यत आह ॥ मिथ्येति॥ "तच्वज्ञानान्मुक्तिः" इत्यंशे सम्मतिरुक्ता, भेदज्ञानं तु. "यत्र हि द्वैत- मिव भवति" इति श्रुत्या ध्रान्तित्वात् "मृत्योः स मृत्युमाप्नोति य इ- ह् नानेव पश्यति" इतिश्रुत्या अनर्थहेतुत्वाच्च न मुक्तिहेतुरिति भावः। ननु ब्रह्मात्मैकत्वविज्ञानमपि भेदज्ञानवन् प्रमा, सम्पदादिरूपत्वेन भ्रान्तित्वादित्यत आह।Iन चेदमित्यादिना। अल्पालम्बनतिरस्कारे- णोत्रुष्टवस्त्वभेदज्ञानं सम्पयथा मनः स्ववृच्यानन्त्यादनन्तं तत उत्क-
Page 108
(<c) रत्नप्रभाभासिते [अ० १। पा० १।] नं सम्पद्रपं, "यथानन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति" इति।नंचाध्या- सरूपं यथा "मनो ब्रह्म" इत्युपासीत, "आदि: त्यो ब्रह्म" इत्यादेश इति च मनआदित्यादिषु ब्रह्मदृध्यध्यासो, नापि विशिष्टक्रियायोगनिमित्तं "वायुर्वाव संवर्ग: प्राणो वाव संवर्गः" इतिवत्। नाप्याज्यावेक्षणादिकर्मवत् कर्माङसंस्काररू- पमूासम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभयु-
ष्टा विश्वेदेवा अप्यनन्ता इत्यनन्तत्वसाम्याद “विश्वेदेवा एव मनः" इ- ति सम्पत्तयाSनन्तफलप्राप्तिर्भवति तथा चेतनत्वसाम्याज्जीवे ब्रह्माभे- दः सम्पदिति न चेत्यर्थः। आलम्बनस्य प्राधान्येन ध्यानं, प्रतीकोपा- स्तिरध्यासः। यथा ब्रह्मदष्ट्या मनस आदित्यस्य वा। तथा "अहं ब्र- ह्म" इति ज्ञानमध्यासो नेत्याह ॥न चेति॥ आदेशः उपदेशः क्रिया- विशेषो विशिष्टक्रिया, तया योगो निमित्तं यस्य ध्यानस्य तत्तथा। यथा प्रलयकाले वायुरग्न्यादीन् संवृणोति संहरतीति संवर्गः, स्वापकाले प्रा- णो वागादीन् संहरतीति संहारक्रियायोगात् संवर्ग इति ध्यानं छा- न्दोग्ये विहितं तथा वृद्धिक्रियायोगाज्जीवो ब्रह्मेति ज्ञानमिति नेत्याह ।नापीति॥ यथा "पत्न्यवेक्षितमाज्यं भवति" इति उपांशुयाजाय- ङःस्याज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्मणि कर्तृत्वेनाङ्गस्यात्म- नः संस्कारार्थ ब्रह्मज्ञानं नेत्याह॥नाप्याज्येति।।प्रतिज्ञाचतुष्टये हेतुमा- ह। सम्पदादीति।उपक्रमादिलिड्गैर्बह्मात्मैकत्ववस्तुनि प्रमितिहेतुर्यः समानाधिकरणवाक्यानां पदनिष्ठः समन्वयःतात्पर्य निश्चितं तत्पीड्ये त। किं च। एकत्वज्ञानादाज्ञानिकस्य हृदयस्यान्तःकरणस्य यो रागा-
Page 109
सू० ४ । अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (<१) पगम्यमाने तत्वमसि "अहं ब्रह्मास्मि" "अ- यमात्मा ब्रह्म" इत्येवमादीनां वाक्यानां ब्र- ह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयःपी- ्येत। "िद्यते हृदययन्थिश्छिद्यन्ते सर्वसं- शयाः" इति चैवमादीन्यविद्यानिवत्तिफलश्रव- णान्युपरुध्येरन्। "ब्रह्म वेद ब्रह्मैव भवति" इति- चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिप- क्षेन सामअ्जस्येनोपपदयेरनू।तस्मान्न सम्पदा- दिरूपं ब्रह्मात्मैकत्वविज्ञानम्। अतो न पुरुष- व्यापारतन्त्रा ब्रह्मात्मविद्या, किंतर्हि प्रत्यक्षादि- प्रमाणविषयवस्तुज्ञानवद्दस्तुतन्त्रैव। एवम्भूत- स्य ब्रह्मणस्तज्ज्ञानस्य वा न कयाचिद्युत्त्या श- क्यः कार्यानुप्रवेशः कल्पयितुम्। नच विदि- दिग्रन्थिश्िन्मनस्तादात्म्यरूपाहङ्कारग्रन्थिर्वा नश्यतीत्यज्ञाननिवृत्तिफ- लवाक्यबाधः स्यात् सम्पदादिज्ञानस्याप्रमात्वेनाज्ञानानिवर्तकत्वातू। किंच जीवस्य ब्रह्मत्वसम्पदा कथं तद्जावः। पूर्वरूपे स्थिते नष्टेवान्य- स्यान्यात्मतायोगात्। तस्मान्न सम्पदादिरूपमित्यर्थः। सम्पदादिरू- पत्वाभावे फलितमाह ॥अत इति॥ प्रमात्वान्न कृतिसाध्या किं त- हि नित्यैव न प्रमाणसाध्येत्यर्थः। उक्तरीत्या सिद्धब्रह्मरूपमोक्षस्य का- र्यसाध्यत्वं तज्ज्ञानत्य नियोगविषयत्वं च कल्पयितुमशक्यं कृत्यसा- ध्यत्वादित्याह॥ एवम्भूतस्येति॥ ननु ब्रह्म कार्याङं कारकत्वातू पल्यवेक्षणकर्मकारकाज्यवदिति चेतू, किं ज्ञाने ब्रह्मणः कर्मकारकत्वं उत्तोपासनायाम् ? नाथ इत्याह॥ नचेति॥ शाब्दज्ञानं विदिक्रिया- १२
Page 110
(९०) रत्नप्रभाभासिते [अ०१।पा. १। क्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः।"अन्य- देवतद्विदितादथोऽविदितादधि2 इति विदिक्रि- याकर्मत्वप्रतिषेधात् "येनेदं सर्व विजानाति तं केन विजानीयाद्" इति च। तथोपास्तिक्रियाक- र्मत्वप्रतिषेधोऽपि भवति। "यद्वाचानम्युदितंये- न वागभ्युद्यते" इत्यविषयत्वं ब्रह्मण उपन्य- स्य, "तदेव ब्रह्म व्वं विद्धि नेदं यदिदमुपासते" इति। अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपप- त्तिरिति चेन्न, अविद्याकल्पितभेदनिवत्तिपर- त्वाच्छासस्य। न हिशास्त्रमिदन्तया विषयभू- तं ब्रह्म प्रतिपिपादयिषति किं तर्हि प्रत्यगात्म- त्वेनाविषयतया प्रतिपादयदविद्याकल्पितं वेद्य- शब्दार्थ:, विदितं कार्यम् अविदितं कारणं तस्मादधि अन्यदित्यर्थः । येनात्मना इदं सर्वै दृश्यं लोको जानाति तं केन करणेन जानीयात्, तस्मादविषय आत्मेत्यर्थः । न द्वितीय इत्याह ॥तथेति ॥ "यन्मनसा न मनुते" इति श्रुत्या लोको मनसा यत् ब्रह्म न जानातीत्यविषयत्व- मुत्ता "तदेवावेवं ब्रह्म त्वं विद्धि" यत्तूपाधिविशिष्टं देवतादिकमित्यु- पासते जनाः नेदं ब्रह्मेत्यर्थः। ब्रह्मणः शाब्दबोधाविषयत्वे प्रतिज्ञाहा- निरिति शङ्कते ॥ अविषयत्व इति॥ वेदान्तजन्यवृत्तिकताविद्यानि- वृत्तिफलशालितया शास्त्रप्रमाणकत्वं वृत्तिविषयत्वेऽपि स्वप्रकाशब्र- ह्रणो वृत्यभिव्यक्तरफुस्णाविषयत्वादप्रमेयत्वमिति परिहरति ॥ने- ति। परत्वात् फलत्वादित्यर्थः। निवृत्तिरूपब्रह्मतात्पर्यादिति वार्थः। उक्ततं विवृणोति॥ न हीति। चिद्दिषयत्वमिदन्त्वम् । अविषयतया
Page 111
सू· ४ । अ . ४ ] (९१) वेदितृवेदनादिभेदमपनयति। तथा च शाखं "यस्यामतं तस्य मतं मतं यस्य न वेद सः"। "अविज्ञातं विजानतांविज्ञातमविजानताम्"न दष्टेर्द्रष्टारं पश्येर्न विज्ञातेविज्ञातारं विजानीयाः" इति चैवमादि। अतोऽविद्याकल्पितसंसारित्व- निवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मो- क्षस्यानित्यत्वदोषः । यस्य तूत्पाद्यो मोक्षस्त- स्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इ- ति युक्तम्। तथा विकार्यत्वे च। तयोः पक्षयो- अनिदन्तया। अदृश्यत्वे श्रुतिमाह ॥ तथा चेति॥ यस्य ब्रह्मामतं चैतन्याविषय इति निश्र्वयस्तेन सम्यवगतम्। यस्य त्वज्ञस्य बह्म चै- तन्यविषय इति मतं स न वेद। उक्तमेव दार्ढ्यार्थमनुवदति॥ अवि- ज्ञातमिति॥अविषयतया ब्रह्म विजानतामविज्ञातमदश्यमिति पक्षः। अज्ञानां तु ब्रह्म विज्ञातुं दृश्यमिति पक्ष इत्यर्थः । दृष्टेर्द्रष्टारं चाक्षुष- मनोवृत्तेः साक्षिणं अनया दृश्यया दृष्ट्यान पश्येविज्ञातेर्बुद्धिवृत्तेर्निश्व- यरूपायाः साक्षिणं तया न विषयीकुर्या इत्याह ॥ नेति॥ नन्वविद्या- दिनिवर्तकत्वेन शास्त्रस्य प्रामाण्येऽपि निवृत्तेरागन्तुकत्वात् मोक्षस्या- नित्यत्वं स्यादिति नेत्याह ॥ अत इति ॥ तच्वज्ञानादित्यर्थः । ध्वंस- स्य नित्यत्वादात्मरूपत्वाच्च नानित्यत्वप्रसङ्ग इत्यर्थः। उत्पत्तिविका- राप्तिसंस्काररूपं चतुर्विधमेव क्रियाफलं तद्भिन्नत्वान्मोक्षस्य नोपास- नासाध्यत्वमित्याह ॥ यस्य त्वित्यादिना तस्मात् ज्ञानमेकं मुक्के- ८ त्यन्तेन । तथोत्पाययत्ववद्दिकार्यत्वे चापेक्षत इति युक्तमित्यन्वयं दू- उम
षयति॥ तयोरिति ॥स्थितस्यावस्थान्तरं विकारः। नन्वनित्यत्वनिरा- १ जन्यत्वादितिफलितोऽर्थः।
Page 112
(१२) रत्नप्रभाभासिते [अ० १। पा०१। र्मोक्षस्य ध्रुवमनित्यत्वम्। न हि दध्यादि विका- र्यमुत्पादं वा घटादि नित्यं दृष्ठ लोके। न चाप्य- त्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यना- प्यत्वात्। स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो ना- प्यत्वम्। सर्वगतव्वेन नित्याप्तस्वरूपत्वात् स- र्वेण ब्रह्मण आकाशस्येव। नापि संस्कार्यो- मोक्षो येन व्यापारमपेक्षेत। संस्कारो हि ना- म संस्कार्यस्य गुणाधानेन वा स्याद्दोषाप- नयेन वा न तावद् गुणाधानेन सम्भवति, अ- नाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य। नापि दोषापनयेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्ष- स्य। स्वात्मधर्म एव संस्तिरोभूतो मोक्षः क्रि- ययात्मनि संस्क्रियमाणेऽभिव्यज्यते। यथा- SSदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वर- साय क्रियया स्थितस्यैव ब्रह्मणो ग्रामवदाप्तिरस्तु नेत्याह॥ न चेति॥ ब्रह्म जीवाभिनं न वा! उभयथाप्यनाप्यत्वात् न क्रियापेक्षेत्याह॥ ॥ स्वात्मेत्यादिना॥ यथा व्रीहीणां संस्कार्यत्वेन प्रोक्षणापेक्षा, तथा मोक्षस्य नेत्याह॥ नापीत्यादिना ॥ गुणाधानं ब्रीहिषु प्रोक्षणा- दिना, क्षालनादिना वस्त्रादौ मलापनयः। शङकूते॥र्वात्मधर्म इति॥ ब्रह्मात्मस्वरूप एव मोक्षोऽनाद्यविद्यामलावृतः उपासनया मले नष्टे- Sभिव्यज्यते इत्यत्र दष्टान्तः ॥ यथेति ॥ सस्कांरो मलनाशः, किमा- त्मनि मलः सत्यः कल्पितो वा ! द्वितीये ज्ञानादेव तन्ाशो न क्रिय-
Page 113
सू० ४ । अ ० ४ ] शाङ्करब्रह्मसूत्रभाष्ये त्वधर्म इति चेन्न, क्रियाश्रयत्वानुपपत्तेरात्मनः। (९३)
यदाश्रया हि क्रिया तमविकुर्वती नेवात्मानं ल- अते। यद्यात्मा क्रियया विक्रियेतानित्यत्वमा- त्मनः प्रसज्येत। अविकार्योऽयमुच्यते "इति चै- वमादीनि वाक्यानि बाध्येरन्। तच्चानिष्टम्। त- स्मान्न स्वाश्रया क्रियात्मनः सम्भवति। अ- न्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते। ननु देहाशयया स्नानाचमनयज्ञो- पवीतादिकया क्रियया देही संस्क्रियमाणो दष्टः। न देहादिसंह तस्यैवाविद्यागृहीतस्यात्मनः सं- स्क्रियमाणत्वात्। प्रत्यक्षं हिस्नानाचमनादेर्देह- समवायित्वम। तया देहाश्रयया तव्संहत एव क- शि्विद्विद्ययात्मत्वेन परिगहीतः संस्क्रियत इति
या; आये क्रिया किमात्मनिष्टा अन्यनिष्ठा वा? नाथ इत्याह॥ न कि येति॥ अनुपपत्ति स्फुटयति ॥। यदीति॥ क्रिया हि स्वाश्रये संयो- गादिविकारमकुर्वती न जायते इत्यर्थः। तच्च वाक्यबाधनं न द्वितीय इत्याह ॥ अन्येति ॥ अविषयत्वात् क्रियाश्रयद्रव्यासंयोगादिति या- वत्। दर्पणं तु सावयवं क्रियाश्रयेष्टकाचूर्णादिद्रव्यसंयोगित्वात् सं- स्क्रियत इति भाव: । अन्यक्रियया अन्यो न संस्क्रियत इत्यत्र व्य- भिचारं शङ्कते ॥ नन्विति ॥ आत्मनो मूलाविद्याप्रतिबिम्बितत्वे- न गृहीतस्य नरोऽहमिति भ्रान्त्या देहतादात्म्यमापन्नस्य क्रिया- श्रयत्वभ्रान्त्या संस्कार्यत्वत्रमान्न व्यभिचार इत्याह ॥ नेति॥
Page 114
(१४) रत्नप्रभाभासिते [अ०१।पा० 9.1
युक्तम्। यथा देहाश्रयचिकित्सानिमिचेन धातु- साम्येन तत्संहतस्य तदभिमानिन आरोग्यफलं "अहमरोगः" इति यत्रबुद्धिरुत्पद्यते, एवं स्नाना चमनयज्ञोपवीतादिना "अहं शुद्धः संस्कृतः" इति यत्र बुद्धिरुत्पद्यते स संस्क्रियते, स च देहे- न संहत एव। तेनैव त्यहंकर्त्राहंप्रत्ययविषयेण प्रत्ययिना सर्वा: क्रिया निर्वर्त्यन्ते तत्फलं च स एवाश्राति।"तयोरन्यः पिप्पलं स्वाद्ृत्यनश्ष- न्नन्योऽभिचाकशीति" इति मन्त्रवर्णाद् "आत्मे- न्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः" इति च। कश्विदिति ॥ अनिश्रिवतब्रह्मस्वरूप इत्यर्थः। यत्रात्मनि विषये आ- रोग्यबुद्धिरुत्पयते तस्य देहसंहतस्यैवारोग्यफलमित्यन्वयः। ननु देहा- भिन्नस्य कथं संस्कार :? तस्यामुष्मिकफलभोकृत्वायोगादित्यत आह ॥ तेनेति॥ देहसंहतेनैवान्तःकरणप्रतिबिम्बात्मना कर्त्राहमितिभा- समानेन प्रत्ययाः कामादयो मनस्तादात्म्यादस्य सन्तीति प्रत्ययिना क्रियाफलं भुज्यत इत्यर्थः, मनोविशिष्टस्यामुष्मिकभोक्तु: संस्कारो युक्त इति भाव: । विशिष्टस्य भोक्तृत्वं, न केवलस्य साक्षिण इत्यत्र मानमाह ॥ तयोरिति ॥ प्रमातृसाक्षिणोर्मध्ये सच्वसंसर्गमात्रेण क- ल्पितकर्तृत्वादिमान् प्रमाता पिप्पलं कर्मफलं भुङ्के, स एव शोधि- तत्वेनान्यः साक्षितया प्रकाशत इत्यर्थः। आत्मा देहः, देहादियुक्तं प्र- मात्रात्मानमित्यर्थः । एवं सोपाधिकस्य चिद्धातोमिथ्यासंस्कार्यत्वमु- क्क्ा निरुपाधिकस्यासंस्कार्यत्वे मानमाह ॥ एक इति ॥ सर्वभूतेष्व- द्वितीय एको देवः स्वप्रकाशः, तथापि मायावृतत्वान्न प्रकाशत इ-
Page 115
सू० ४ । अ ० ४ ] शाङ्करब्रह्मसूत्रभाष्ये (९५) तथा"एको देवःसर्वभूतेषु गूढः सर्वव्यापी सर्व- ूतान्तरात्मा कर्माध्यक्ष: सर्वभूताधिवासःसा- क्षी चेता केवलो निर्गुणश्र्" इति। "स पर्यगात् शुक्रमकायमत्रणमस्नाविरं शुद्धमपापविद्दम्" इति चैतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः । ब्रह्मभावश्र् मोक्षः । त- समान्न संस्कार्योपि मोक्षः। अतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं न शक्यं केनचिद्दर्शयितुम् । त्याह ॥ गूढ इति ॥ ननु जीवेनासम्बन्धाज्जिन्नत्वाद्दा देवस्याभानं न तु मायागूहनादिति नेत्याह ॥ सर्वव्यापी सर्वभूतान्तरात्मेति॥ देवस्य विभुत्वात् सर्वप्राणिप्रत्यक्काच्चावरणादेवाभानमित्यर्थः। प्रत्य- क्के कर्तृत्वं स्यादिति चेतू, न। कर्माध्यक्षः क्रियासाक्षीत्यर्थः। तर्हि साक्ष्यमस्तीति द्वैतापत्तिः, न। सर्वभूतानामधिष्ठानं भूत्वा साक्षी भवति, साक्ष्यमधिष्ठाने साक्षिणि कल्पितमिति भावः । साक्षिशब्दार्थमाह ॥ चेता केवल इति ॥ बोद्धत्वे सति, अकर्ता साक्षीति लोकप्रसिद्धम्। चकारो दोषाभावसमुच्चयार्थः, निर्गुणत्वान्निर्दोषत्वाच्च। गुणो दोषना- शो वा संस्कारो नेत्यर्थः। स इत्युपक्रमात्। शुकादिशब्दाः पुंस्त्वेन वाच्याः, स एव आत्मा परि सर्वमगात् व्याप्तः, शुक्रो दीपिमान्, अ- कायो लिङ्गन्शून्यः, अव्रणोऽक्षतः, अलाविरः शिराविधुरः अनश्न- र इति वा। आभ्यां पदाभ्यां स्थूलदेहशून्यत्वमुक्तम् । शुद्धो रा- गादिमलशून्यः, अपापविद्धः पुण्यपापाभ्यामसंस्पृष्ट इत्यर्थः । अत इति । उत्पत्याप्तिविकारसंस्कारेभ्योऽन्यत् पश्चमं क्रियाफलं नास्ति यन्मोक्षस्य क्रियासाध्यत्वे द्वारं भवेदित्यर्थः। ननु मोक्षस्यासाध्यत्वे शास्त्रारम्भो वृथा, न, ज्ञानार्थत्वादित्याह ।। तस्मादिति॥ द्वारा-
Page 116
(१६) रत्नप्रभाभासिते [अ० १।पा० १। तस्माज्ज्ञानमेकं मुक्का क्रियाया गन्धमात्रस्या- प्यनु प्रवेश इह नोपपद्यते। ननु ज्ञानं नाम मानसी क्रिया, न, वैलक्षण्यात्। क्रिया हि नाम सा यत्र वस्तुस्वरूपनिरपेक्षैव चोधते। पुरुष- व्यापाराधीना च यथा यस्ये देवताये हविर्ग- हीतं स्यात् तां मनसा ध्यायेद्वष ट्करिष्यन्"इ- ति "सन्ध्यां मनसा ध्यायेत्" इति चैवमादिषु। ध्यानं चिन्तनं यद्यपि मानसंतथापि पुरुषेण क- र्तुमकर्तुमन्यथा वा कर्तु शक्यं पुरुषतन्त्रत्वात्। ज्ञानं तु प्रमाणजन्यं प्रमाणं च यथाभूतवस्तु- विषयम्, अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तु- भावादित्यर्थः । व्याघातं शङ्कते॥ नन्विति ॥ तथा च मोक्षे क्रिया- नुप्रवेशो नास्तीति व्याहतमिति भावः। मानसमपि ज्ञानं न विधि- योग्या क्रिया वस्तुतन्त्रत्वात् कत्यसाध्यत्वाच्चेत्याह ॥ नेति ॥ वैलक्ष- ण्यं प्रपश्चयति ॥ क्रिया हीति॥ यत्र विषये तदनपेक्षैव या चो- दयते तत्र सा हि क्रियेति योजना। विषयवस्त्वनपेक्षा, कृतिसाध्या च क्रियेत्यत्र दृष्टान्तमाह॥ यथेति॥ गृहीतमध्वर्युणेति शेषः। "वषद् करिष्यन् होता सन्ध्यां देवताम्" इति चैवमादिवाक्येषु यथा यादृशी ध्यानक्रिया वस्त्वनपेक्षा पुन्तन्त्रा च चोबते तादशी क्रियेत्यर्थः। ध्या- नमपि मानसत्वात् ज्ञानवन्न क्रियेत्यत आह॥ ध्यानमित्यादिना॥ तथापि क्रियैवेति शेष: कुत्यसाध्यत्वमुपाधिरिति भावः। ध्यानक्रिया- मुक्का ततो वैलक्षण्यं ज्ञानस्य स्फुटयति॥ ज्ञानन्त्विति॥ अतः प्र- १ क्रियाभेदवति ज्ञाने वर्तनात्साध्यव्यापकत्वम् ध्याने मानसत्वहेतुमति चास्यावर्त- नात्साधनाव्यापकतवं बोध्यम्।
Page 117
सू० ४ । अ० ४।] मशक्यं केवलं वस्तुतन्त्रमेव, तत् न चोदनातन्त्रं (९७ )
नापि पुरुषतन्त्रं, तस्मान्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम्। यथा च "पुरुषो वाव गौतमा- सनिर्योषा वाव गौतमाग्निः," इत्यत्र योषित्पुरु- षयोरग्निबुद्धिर्मानसीकवति केवलचोदनाजन्य- त्वात्तु क्रियेव सा पुरुषतन्त्रा च। या तु प्रसि- द्वेडग्नावग्निबुद्धिः न सा चोदनातन्त्रा, नापि पु- रुषतन्त्रा, किं तर्हि, प्रत्यक्षविषयवस्तुतन्त्रैवे- ति ज्ञानमेव तन्न क्रिया। एवं सर्वप्रमाणविष- यवस्तुषु वेदितव्यम्। तत्रैवं सति यथाभूतब्र- ह्मात्मविषयमपि ज्ञानं न चोदनातन्त्रम्। अत- स्तद्विषया लिडदयः श्रूयमाणा अप्यनियो- मात्वान्न चोदनातन्त्रं न विधेर्विषयः । पुरुषः कतिद्वारा तन्त्रं हेतुर्यस्य तत्पुरुषतन्त्रं, तस्माद्दस्त्वव्यभिचारादपुंतन्त्रत्वाच्च ध्यानात् ज्ञानस्य म- हान् भेद इत्यर्थः। भेदमेव दष्टान्तान्तरेणाह।। यथा चेति ॥ अभेदास- च्वेऽपि विधितो ध्यानं कर्तु शक्यं न ज्ञानमित्यर्थः। ननु प्रत्यक्षज्ञानस्य विषयजन्यतया तत्तन्त्रत्वेऽपिशाब्दबोधस्य तदभावाद्दिधेयक्रियात्वमि- ति नेत्याह ॥ एवं सर्वेति ॥ शब्दानुमानायर्थेष्वपि ज्ञानमविधेयक्रि- यात्वेन ज्ञातव्यम्। तत्रापि मानादेव ज्ञानस्य प्राप्तेविध्ययोगादित्यर्थः । तत्रैवं सति लोके ज्ञानस्याविधेयत्वे सतीत्यर्थः। यथाभूतत्वमबाधित- त्वम्। ननु "आत्मानं पश्येत्" "ब्रह्म त्वं विद्धि" "आत्मा द्रष्टव्यः" इति विज्ञाने लिङ्लोद्तव्यप्रत्यया विधायकाः श्रूयन्ते, अतो ज्ञानं विधेयमित्यत आह॥ तद्विषय इति ॥ तस्मिन् ज्ञानरूपविषये वि- १३
Page 118
(९८) रत्नप्रभाभासिते [अ० १।पा० १। ज्यविषयत्वात् कुण्ठीभवन्त्युपलादिषुप्रत्युक्तक्षु- रतैक्ष्ण्यादिवत्, अहेयानुपादेयवस्तुविषयत्वा- त्। किमर्थानि तर्हि "आत्मा वा अरे द्रष्ट- व्यः श्रोतव्यः " इत्यादीनि विधिच्छायानि वचनानि! स्वाभाविकप्रवत्तिविषयविमुखी क- रणार्थानि इति ब्रूमः । यो हि बहिर्मुखः प्रव- र्तते पुरुष "इष्टं मे भूयादनिष्टं मा भूत्" इ- ति, न च तत्रात्यन्तिकं पुरुषार्थ लभते। तमात्य- तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसं- घातप्रवत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रो- तस्तया प्रवर्तयन्ति "आत्मा वा अरे दृष्टव्यः" धयः पुरुषं प्रवर्तयितुं अशक्ता भवन्ति । अनियोज्यं कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानं तद्विषयकत्वादित्यर्थः । "ममायं नियोगः" इति बोद्धा नियोज्यो विषयश्र विधेर्नास्तीति भावः । तर्हि ज्ञेयं ब्रह्म विधीयतां नेत्याह॥ अहेयेति ॥ वस्तुस्वरूपो विषयस्तच्वात् ब्रह्मणो निरतिशयस्यासाध्यत्वान्न विधेयत्वमित्यर्थः। उदासीनवस्तु- विषयकत्वाच्च ज्ञानं न विधेयं, प्रवृत्यादिफलाभावादित्यर्थः । विधिप- दानां गति पृच्छति॥ किमर्थानीति॥ विधिच्छायानि प्रसिद्धया- गादिविधितुल्यानीत्यर्थः । विधिप्रत्ययैरात्मज्ञानं परमपुरुषार्थसाधन- मिति स्तूयते स्तुत्या आत्यन्तिकेष्टहेतुत्वभ्रान्त्या या विषयेषु प्रवृत्तिः आत्मश्रवणादिप्रतिबन्धिका तन्निवृत्तिफलानि विधिपदानीत्याह।। ॥ स्वाभाविकेति ॥ विवृणोति ॥ यो हीत्यादिना॥ तत्र विषयेषु सङ्घातस्य या प्रवृत्तिः तद्रोचराच्छब्दादेरित्यर्थः। सोतश्िवित्तवृत्तिप्रवा-
Page 119
सू० ४। अ० १।] शाङ्करब्रह्म सूत्रभाष्ये इत्यादीनि। तस्यात्मान्वेषणाय प्रवृत्तस्याहे- (९९)
यमनुपादेयं चात्मतत्वमुपदिश्यते "इद सर्व य- दयमात्मा"यत्र व्वस्य सर्वमात्मैवाभूत् तत् के- न कंपश्येत् केन कं विजानीयात्""विज्ञातार- मरे केन विजानीयादयमात्मा ब्रह्म" इत्येवमा- दिश्रुतिभिः।यदप्यकर्तव्यप्रधानमात्मज्ञानं हा- नायोपादानाय वा न भवतीति तत्तथैवेत्यभ्युप- गम्यते।अलङ्गारो व्ययमस्माकं यद्रह्मात्मावग- तौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति। तथा च श्रुतिः। "आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत्" इति। "एतहुद्वा बुद्धिमान् स्यात् कृतकृत्यश्र हः। प्रवर्तयन्ति ज्ञानसाधनश्रवणादाविति शेषः। श्रवणस्वरूपमाह ॥ तस्येति।अन्वेषणं ज्ञानम्।यदिदं जगत्तत् सर्वआत्मैवेत्यनात्मबाधेन आत्मा बोध्यते। अदवितीयादृश्यात्मबोधे क्व विधिः तपस्वी द्वैतवनोप- जीवनः स्थास्यतीति भावः । आत्मज्ञानिनः कर्तव्याभावे मानमाह ॥ तथा चेति॥ "अयं स्वयंप्रभानन्दः परमात्माहमस्मि" इति। य- दि कश्चिवत् पुरुष आत्मानं जानीयात्तदा किं फलमिच्छन् कस्य वा भोकु: प्रीतये शरीरं तप्यमानमनुसंज्वरेत् तप्येत, भोक्तृभोग्यद्वैताभा- वातू, कुतकत्य आत्मविदित्यभिप्रायः । ज्ञानदौर्लभ्यार्थश्रेच्छब्दः। १ स्व प्रकाशानन्दरूप इत्यर्थः ।
Page 120
( १०० ) रत्नप्रभाभासिते [अ० १। पा० १। भारत,, इति च स्मृतिः । तस्मान्न प्रतिपत्तिवि- धिविषयतया ब्रह्मणः समर्पणम्। यदपि केचि- दाहुः"प्रवत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण के- वलवस्तुवादी वेदभागो नास्ति,, इति, तन्नाऔ- पनिषदस्य पुरुषस्यानन्यशेषत्वात्। योऽसावु- पनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मोत्पा- द्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोड़न न्यशेषो नासौ नास्ति नाधिगम्यत इतिवा वदितुं एतद् गुह्यतमं तच्वं वृत्तिकारमतनिरासमुपसंहरति ॥ तस्मादिति॥ प्राभाकरोक्तमुपन्यस्यति॥यदृपिकेचिदिति।। कर्तात्मा लोकसिद्धत्वा न वेदान्तार्थः। तदन्यत् ब्रह्म नास्त्येव वेदस्य कार्यपरत्वेन मानाभा- वादित्यर्थः । मानाभावोऽसिद्ध इत्याह ॥ नेति॥ अज्ञातस्य फलस्व- रूपस्यात्मन उपनिषदेकवेव्यस्याकार्यशेषत्वात् कृत्लवेदस्य कार्यपर त्वमसिद्दम्। न च प्रवृत्तिनिवृत्तिलिङ्गाभ्यां श्रोतुसतद्धेतुं कार्यबोधमनु- माय वक्तृवाक्यस्य कार्यपरत्वं निश्चित्य वाक्यस्थपदानां कार्यान्विते शक्त्यग्रहान्न सिद्धस्य अपदार्थस्य वाक्यार्थत्वमिति वाच्यं "पुत्रस्े जातः" इति वाक्यश्रोतुः पितुर्हर्षलिङ्गेनेष्टं पुत्रजन्मानुमाय पुत्रादि पदानां सिद्धे सङ्गतिग्रहात् कार्यान्वितापेक्षयान्वितार्थे शक्तिरित्यङ्गी कारे लाघवात् सिद्धस्यापि वाक्यार्थत्वादित्यलम्। किश्च ब्रह्मणो ना स्तित्वादेव कत्लवेदस्य कार्यपरत्वमुत वेदान्तेषु तस्याभानात् अथवा कार्यशेषत्वात् किंवा लोकसिद्धत्वादाहोस्वित् मानान्तरविरोधात् तत्राथं पक्षत्रयं निराचष्टे। योऽसाविति॥अनन्यशेषत्वार्थमसंसाि इत्यादि विशेषणं नास्तित्वाभावे हेतुं वेदान्तमानसिदत्वमुत्क हेत्व न्तरमात्मत्वमाह॥ स एष इति॥ इतिरिदमर्थे "इदं न इदं न"
Page 121
सू० ४। अ० ४।] शाङ्गरब्रह्मसूत्रभाष्ये (१०१) शक्यं "स एष नेति नेत्यात्मा" इत्यात्मशब्दात्, आत्मनश्र प्रत्याख्यातुमशक्यत्वात्। य एव निराकर्ता तस्यैवात्मत्वप्रसंगात्। नव्वात्माहंप्र- व्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुप- पन्नम् न, तत्साक्षित्वेन प्रत्युक्तत्वात्। न ह्यहंप्र- त्ययविषयकर्तव्यतिरेकेण तत्साक्षी सर्वभूतस्थः समएक: कूटस्थनित्य: पुरुषो विधिकाण्डेतर्कस- मये वा केनचिदधिगतः सर्वस्यात्मा;अतःसन केनचित् प्रत्याख्यातुं शक्यो विधिशेषत्वं वा नेतु- म्, आत्मत्वादेव च सर्वेषां न हेयो नाप्युपादेयः। सर्व हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति। इति सर्वदृश्यनिषेधेन य आत्मा उपदिष्टः स एष इत्यर्थः । चतुर्थश-
त्वस्य निरस्तत्वान्न लोकसिद्धतेत्याह॥नेति॥यं तीर्थकारा अपि न जान- न्ति तस्यालौकिकत्वं किमु वाच्यमित्याह॥न हीति।।समस्ततारतम्यव- ज्जितः, तत्तन्मते आत्मानधिगतिद्योतकानि विशेषणानि। पश्चमंनिर- स्यति।अत इति।किनचिद्वादिना प्रमाणेन युक्त्या वेत्यर्थः। अगम्यत्वा- नमानान्तरविरोध इति भावः। साक्षी कर्माङ्गं चेतनत्वात् कर्तृवदिति तत्राह॥ विधीति॥ अज्ञातसाक्षिणोऽनुपयोगाज्ज्ञातस्य घातकत्वा- न् कर्मशेषत्वमित्यर्थः । साक्षिणः सर्वशेषित्वाद्हेयानुपादेयत्वाच्च न कर्मशेषत्वमित्याह॥ आत्मत्वादिति ॥ अनित्यत्वेनात्मनो हेयत्व- माशङ्ग्चाह ॥ सर्व हीति॥ परिणामित्वेन हेयतां निराचष्टे॥ वि- १ शास्त्रकाराः ।
Page 122
(१०२) रत्नप्रभाभासिते [अ० १। पा० १। पुरुषो हि विनाशहेत्वभावादविनाशी विक्रिया- हत्वभावाच्च कूटस्थनित्योऽत एव नित्यशुद्धबु- द्वमुक्तस्वभावः तस्मात् "पुरुषात् न परं कि- श्वित् सा काष्ठा सा परा गतिः" "तन्त्वौपनि- षदं पुरुषं पृच्छामि" इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्स्वेव प्राधान्येन प्रकाश्यमान- त्वे उपपद्यते। अतो भूतवस्तुपरो वेदभागो ना- स्तीति वचनं साहसमात्रम्। यदपि शास्त्रतात्प- र्यविदामनुक्रमणं, दृष्टो हि तस्यार्थः कर्मावबो- धनमित्येवमादिः तद्र्मजिज्ञासाविषयत्वाद्वि- क्रियेति। उपादेयत्वं निराचष्टे॥ अत एवेति॥ निर्विकारित्वादि- त्यर्थः। उपादेयत्वं हि साध्यस्य, न त्वात्मनः नित्यसिद्धत्वादित्यर्थः । परप्राप्त्यर्थ आत्मा हेय इत्यत आह॥ तस्मातू पुरुषान्न परं किश्चिदि- ति॥ काष्ठा सर्वस्यावधिः। एवमात्मनोऽनन्यशेषत्वादबाध्यत्वादपू- र्वत्वाद्देदान्तेषु स्फुटभानाच्च वेदान्तैकवेय्यत्वमुक्तम् तत्र श्रुतिमाह । तन्त्वेति॥ तं सकारणसूत्रस्याधिष्ठानं पुरुषं पूर्ण हे शाकल्य त्वा त्वां पृच्छामीत्यर्थः । अत इति। उक्तलिङ्गै: श्रुत्या च वेदान्ताना- मात्मवस्तुपरत्वनिश्रयादित्यर्थः । पूर्वोक्तमनुवदति ॥ यदपीति॥ वेदस्य नैरर्थक्ये शङ्गिते तस्यार्थवत्तापरमिदं भाष्यम्॥ दृष्टो हीति॥ तत्र फलवदर्थावबोधनमिति वक्तव्ये धर्मविचार प्रक्रमात् कर्मावबोध नमित्युक्तं नैतावता वेदान्तानां ब्रह्मपरत्वनिरासः। अत एवानुपलब्धे- 5र्थे "तत्प्रमाणमिति" सूत्रकारो धर्मस्य फलवदज्ञातत्वेनैव वेदार्थता १ जैमिनिः।
Page 123
सू० ४। अ० ४।] (१०३) धिप्रतिषेधशासत्राभिप्रायं द्रष्टव्यम्। अपि च "आम्नायस्य क्रियार्थव्वादानर्थक्यमतदर्थाना- म्"' इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशान- र्थक्यप्रसङ्ग: प्रवत्तिनिवृत्तिविधिव्यतिरेकेण भू- तं चेद्दस्तपदिशति भव्यार्थत्वेन कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः । न हि भूतमुपदि- दर्शयति। "तच्चावशिष्टं ब्रह्मणः" इति न वृद्दवाक्यैविरोध इत्याह ॥ तद्धमेति॥ निषेधशास्त्रस्यापि निवृत्तिकार्यपरत्वमरिति, तत् सूत्र- भाष्यवाक्यजातं कर्मकाण्डस्य कार्यपरत्वाभिप्रायमित्यर्थः। वस्तुत- स्तु लिडर्थे कर्मकाण्डस्य तात्पर्य, लिडर्थश्र लोके प्रवर्तकज्ञानगोच- रत्वेन क्लप्तं यागादिक्रियागतमिष्टसाधनत्वमेव न क्रियातोऽतिरिक्तं कार्य तस्य कूर्मलोमवदप्रसिद्धत्वादिति तस्यापि पराभिमतकार्यविल- क्षणे सिद्धे दधिसोमादौ प्रामाण्यं किमुत ज्ञानकाण्डस्येति मन्तव्यम्। किश्च वेदान्ताः सिद्धवस्तुपराः फलवदूतशव्दत्वाद्दध्यादिशब्दवादि- त्याह॥ अपि चेति॥ किमक्रियार्थकशब्दानामानर्थक्यमभिधेयाभावः फलाभावो वा? आद आह॥ आम्नायस्येति॥ इति न्यायेन एतद- भिधेयराहित्यं नियमेनाङ्गीकुर्वतां "सोमेन यजेत" "दवा जुहोति" इत्यादिवाक्येषु दधिसोमादिशव्दानामर्थशून्यत्वं स्यादित्यर्थः । ननु केनोक्तमभिधेयराहित्यमित्याशङ्ग्ाह ।। प्रवृत्तीति॥ कार्यातिरेकेण भव्यार्थत्वेन कार्यशेषत्वेन दध्यादिशव्दो भूतं वक्ति चेतू, तर्हि सत्या- दिशब्दः कूटस्थं न वक्तीत्यत्र को हेतुः किं कूटस्थस्याक्रियात्वादुता- क्रियाशेषत्वाद्देति प्रश्नः। ननु दध्यादेः कार्यान्वयित्वेन कार्यत्वादुपदेशः न कूटस्थस्याकार्यत्वादित्याय्माशङ्क्य निरस्यति॥न हीति॥ दध्यादेः १ कर्मकाण्डस्य ।
Page 124
(१०४) रत्नप्रभाभासिते [अ० १।पा० १। श्यमानं क्रिया भवति। अक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात् क्रियार्थ एव भूतोपदेश इति चेत्, नैष दोषः। क्रियार्थत्वेऽपि क्रियानिर्वर्तन- शक्तिमद्दस्तूपदिष्ठमेव । क्रियार्थत्वं तु प्रयोजनं तस्य।न चैतावता वस्त्वनुपदिष्ठं भवति। यदि नामोपदिष्टं किं तव तेन स्यादिति। उच्यते, अ- नवगतात्मवस्तूपदेशश्र तथैव भवितुमर्हति; त- दवगत्या मिथ्याज्ञानस्य संसारहेतोर्नित्तिः कार्यत्वे कार्याभेदे शेषत्वहानिः। अतो भूतस्य कार्याज्जिन्नस्य दध्यादेःश- ब्दार्थत्वं लब्धमिति भावः। द्वितीयं शङ्गते ॥अक्रिया त्वेऽपीति॥ क्रि- यार्थ: कार्यशेषपरः कूटस्थस्य त्वकार्यशेषत्वान्नोपदेश इति भावः।भूत- स्य कार्यशेषत्वं शब्दार्थत्वाय फलाय वा? नाथ इत्याह॥नैष दोष इति॥ दध्यादेः कार्यशेषत्वे सत्यपि शब्देन वस्तुमात्रमेवोपदिष्टं न कार्यान्वयी शब्दार्थः । अन्वितार्थमात्रे शव्दानां शक्तिग्रहणादित्यर्थः । द्वितीयम- ङ्रनीकरोति ॥ क्रियार्थत्वंत्वि ति ॥ तस्य भूतविशेषस्य दध्यादेः क्रि- याशेषत्वं फलमुद्दिश्याङ्गीक्रियत इत्यर्थः, न तु ब्रह्मण इति तु शब्दा- र्थः। ननु भूतस्य कार्यशेषत्वाङ्गीकारे स्वातन्त्रयेण कथं शब्दार्थतेति तत्राह। नचेति॥ फलार्थ शेषत्वाङ्गीकारमात्रेण शब्दार्थत्वभङ्गे नास्तीत्यर्थः । आनर्थक्यं फलाभाव इति पक्षं शङ्कते ॥ यदीति॥ यद्यपि दध्यादि स्वतो निष्फलमपि क्रियाद्वारा सफलत्वादुपदिष्टं त- थापि कूटस्थब्रह्मवादिन: करियाद्दाराभावात् तेन दृष्टान्तेन किं फलं स्यादित्यर्थः । भूतस्य साफल्ये क्रियैव द्वारमिति न नियमः, रज्ज्वा- ज्ञानमात्रेण साफल्यदर्शनादित्याह॥ उच्यते इति ॥ तथैव दध्या- दिवदेवेत्यर्थः । दध्यादेः क्रियाद्दारा साफल्यं, ब्रह्मणस्तु स्वत इति वि-
Page 125
सू. ४। अ० ४ ] शाङ्करत्रह्मसूत्रभाष्ये (१0५) प्रयोजनं क्रियत इत्यविशिष्टमर्थव्त्वं क्रियासा- धनवस्तूपदेशेन। अपि च "ब्राह्मणो न हन्तव्यः इति चैवमाद्या निवत्तिरुपदिश्यते। न च साक्रि- या नापि क्रियासाधनम्। अक्रियार्थानामुपदे- शोऽनर्थकश्र्ेत् "ब्राह्मणो न हन्तव्यः" इत्यादि- निवृत्त्युपदेशानामानर्थक्यं प्राप्तं, तच्चानिष्ठम् न च स्वभावप्राप्तहन्त्यर्थानुरागेण नञ्रः शक्यम- शेषे सत्यपि वेदान्तानां सफलभूतार्थकत्वमात्रेण दध्याद्युपदेशसा- म्यमित्यनवद्यम्। इदानीं वेदान्तानां निषेधवाक्यवत् सिद्धार्थप- रत्वमित्याह ॥ अपि चेति । नञः प्रकत्यर्थेन सम्बन्धात् हन- नाभावोनञर्थः इष्टसाधनत्वं तव्यादिप्रत्ययार्थः, इष्टश्ष्यात्र नरकदुः- खाभावः, तत्परिपालको हननाभाव इति निषेधवाक्यार्थः । ह- ननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधत्वधिया पुरुषो निवर्त्तते, नात्र नियोग: कश्िवदस्ति, तस्य क्रिया तत्साधन- -दध्यादिविषयत्वात्। न च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रि- या। अभावत्वान्नापि क्रियासाधनम्। अभावस्य भावार्थाहेतुत्वा- द्वावार्थासत्त्वाच्चेत्यर्थः। अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भावः। विपक्षे दण्डमाह॥ अक्रियेति॥ ननु स्वभावतो रागतः प्रा- भेन हन्त्यर्थेनानुरागेण नञ्सम्बन्धेन हेतुना हननविरोधिनी सङ्कल्प- क्रिया बोध्यते, सा च नञर्थरूपा तत्रापाप्तत्वाद्दिधीयते "अहननं कु- र्यात्" इति। तथा च कार्यार्थमिंद वाक्यमित्याशङ्क्च निषेध- ति । न चेति॥ औदासीन्यं पुरुषस्य स्वरूपं, तच्च हननक्रिया- निवृत्युपलक्षितं निवृच्यौदासीन्यं हननभाव इति यावत् तव्यतिरेके- १.ब्राह्मणो न हत्तव्य इतिवाक्यम् १४
Page 126
(१०६) ! रत्नप्रभाभासिते [अ०१।पा० १। प्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौ- दासीन्यव्यतिरेकेण। नञ्श्र्वैष स्वभावो यत् स्वसम्बन्धिनोऽभावं बोधयतीति, अभाववुद्धि-
ण नञ्ः क्रियार्थत्वं कल्पयितुं न च शक्यमिति योजना, मुख्यार्थस्या- भावस्य नञर्थत्वसम्भवे तद्विरोधिक्रियालक्षणाया अन्याय्यत्वात् नि- षेधवाक्यस्यापि कार्यार्थत्वे विधिनिषेधभेदविप्वापत्तेश्र्वेति भावः। ननु तदभाववत्तदन्यतद्विरुद्धयोरपि नञ्रः शक्तिः किं न स्यात्, "अब्राह्मणः अधर्मः" इति प्रयोगदर्शनात्, "तत्सादृश्यमभावश्र तदन्यत्वं तदल्प- ता।अप्राशस्त्यं विरोधक्ष नञर्थाः षट् प्रकीर्तिताः" इत्यनेकार्थत्वादिति चेत्, न। अनेकार्थत्वस्यान्याय्यत्वादित्याह॥नञ्श्चेति।। गवादिशब्दा- नांतुअगत्या नानार्थत्वं, स्वर्गेषुवाग्वज्रादीनां शक्यपशुसम्बन्धाभावेन लक्षणानवतारात्। अन्यविरुद्धयोस्तु लक्षत्वं युक्तं शक्यसम्बन्धात्। ब्रा- ह्मणादन्यस्मिन् क्षत्रियादौ धर्मविरुद्धे वा पापे ब्राह्मणायभावस्य नञूश- क्यस्य सम्बन्धात्, प्ररुते च आख्यातायोगात् नञ् प्रसज्यप्रतिषेधक, ए- व न पर्युदासलक्षक इति मन्तव्यम्। यदा नञःप्रकत्या न सम्बन्धः। प्रकते: प्रत्ययार्थोपसर्ज्जनत्वात् प्रधानसम्बन्धाच्चाप्रधानानां किन्तु प्र- कृत्यर्थनिष्ठेन प्रत्ययार्थेनेष्टसाधनत्वेन सम्बन्धो नञः। इष्टंच स्वापे- क्षया बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रं विषसं- युक्तान्भोगस्यापि इष्टत्वापत्ते:, तथा च "न हन्तव्यः" हननं बलव- दनिष्टासाधनत्वे सति इष्टसाधनं न भवतीत्यर्थः। अत्रच "हन्तव्यः"इति हनने विशिष्टेष्टसाधनत्वं ध्रान्तिप्राप्तमनू नेत्यभावबोधने बलवदनि- ष्टसाधनं हननमितिबुद्धिर्भवति, हनने तात्कालिकेष्टसाधनत्वरूपवि- शेष्यसच्वेन विशिष्टाभावबुद्देर्विशेषणाभावपर्यवसानात् । विशेषणं बलवदनिष्टासाधनत्वमिति तदभावो बलवदनिष्टसाधनत्वं नअर्थइति
Page 127
सू· ४ । अ० ४ ] शाङ्करब्रह्मसूत्रभाष्ये (१०७ ) श्रौदासीन्ये कारणं, सा च दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति, तस्मात् प्रसक्तक्रियानिट- त्यौदासीन्यमेव "ब्राह्मणो न हन्तव्यः" इत्या- दिषु प्रतिषेधार्थ मन्यामहे अन्यत्र प्रजापतिव्र- तादिभ्यः, तस्मात् पुरुषार्थानुपयोग्युपाख्याना- पर्यवसन्नं तद्दुद्धिरौदासीन्यपरिपालिकेत्याह ॥ अभावेति॥ चोडप्य- र्थः, पक्षान्तरद्योती प्रकत्यर्थाभावबुद्धिवत् प्रत्ययार्थाभावबुद्धिरपीत्यर्थ:। बुद्धे: क्षणिकत्वात्तदभावे सत्यौदासीन्यात् प्रच्युतिरूपा हननादौ प्र- वृत्तिः स्यात् इति तत्राह ॥ सा चेति॥ यथाग्निरिन्धनं दग्ध्वा शा- म्यति एवं सा नञर्थाभावबुद्धिः हननादाविष्टसाधनत्वभ्रान्तिमूलं रा- गेन्धनं दग्धवैव शाम्यतीत्यक्षरार्थः, रागनाशे कुतः प्रच्युतिरिति भावः। यद्दा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः । पर- पक्षे तु हननविरोधिक्रिया कार्येत्युक्तेऽपि हननस्येष्टसाधनत्वभ्रान्त्यनि- रासात् प्रच्युतिर्दुर्वारा। तस्मात्तदभावएव नञर्थ इत्युपसंहरति ॥ त- स्मादिति॥ भावार्थाभावेन तद्विषयककत्यभावात् कार्याभावस्तच्छा- ब्दार्थः। यद्देत्युक्तपक्षे निवृत्त्युपलक्षित मौदासीन्यं यस्मादिशिष्टाभावाय- त्तमेवेतिव्याख्येयं स्वतःसिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वोपपादनार्थ निवृत्युपलक्षितत्वमिति ध्येयम्। तस्य बटोर्व्रतमित्यनुष्ठेयक्रियावाचि- व्रतशब्देन कार्यमुपक्रम्य "नेक्षेतोयन्तमादित्यम्"इति प्रजापतिव्रत- मुक्तम्, अत उपक्मबलात्तत्र नञ ईक्षणविरोधिसङ्कल्पक्रियालक्षणा- ड्गीकता एवमगौरसुरा अधर्म इत्यादौ नामधात्वर्थयुक्तस्य नञः प्रति- षेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्व एतेभ्यः प्रजापतिव्रतादि- भ्योऽन्यत्राभावमेव नञर्थ मन्यामहे इत्यर्थः। दुःखाभावफलके नञ्- र्थे सिद्धे निषेधशास्त्रमानत्ववद्देदान्तानां ब्रह्मणि मानत्वमिति भावः।त-
Page 128
(१०८) रत्नप्रभाभासिते [अ०१। पा० भ दिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्य- म्। यदप्युक्तं कर्तव्यविध्यनुप्रवेशमन्तरेण व- स्तुमात्रमुच्यमानमनर्थकं स्यात् "सप्तद्वीपा व- सुमती" त्यादिवदिति तत् परिहतं, रजुरियं ना- य सर्प इति वस्तुमात्रकथनेऽपि प्रयोजनस्य ह- ष्टव्वात्। ननु श्रुतब्रह्मणोऽपि यथापूर्व संसारि- त्वदर्शनात् न रज्ुस्वरूपकथनवदर्थवत्त्वमित्यु- क्तम्, अत्रोच्यते।नावगतब्रह्मात्मभावस्य यथा- पूर्व संसारित्वं शक्यं दर्शयितुं वेदप्रमाणजनित ब्रह्मात्मभावविरोधात्। न हि, शरीराद्यात्माभि- मानिनो दुःखभ्यादिमत्त्वं दृष्टमिति, तस्यैव वे- दप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृ- तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिम्त्त्वं क्षवतीति शक्यं कल्पयितुम।न हि,धनिनो गृह- स्थस्य धनािमानिनो धनापहारनिमित्तं दुः- खं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमानर- हितस्य तदेव धनापहारनिमित्तं दुःखं भवति। ह्रंक्रियार्थानामानर्थक्यमिति सूत्रं किंविषयमिति तत्राह॥ तस्मादि- ति। वेदान्तानां स्वार्थे फलवत्वाव्यर्थकथाविषयं तदित्यर्थः। यदपी- त्यादिस्पष्टार्थ श्रवणज्ञानमात्रात् संसारानिवृत्तावपि साक्षात्काराज्जी- वतएव मुक्तिर्दुरपक्रवेति सदृष्टान्तमाह॥ अन्नोच्यले इत्यादिना॥व- ह्ाहमिति साक्षात्कारविरोधादित्यर्थः। तच्वविदो जीवन्मुक्तौ मानमाह
Page 129
सू० ४। अ० ४] शाङ्करब्रह्मसूत्रभाष्ये (१०९) न च कुण्डलिन: कुण्डलित्वाभिमाननिमित्तं सु- खं दष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलि- व्वाभिमानरहितस्य तदेव कुण्डलित्वाभिमान- निमित्तं सुखंभवति।तदुक्तं श्रुत्या"अशरीरं वाव- सन्तं न प्रियाप्रिये स्पृशतः" इतिशरीरे पतिते,- अशरीरत्वं स्यात् न जीवत इति चेत्, न, सशरी- रत्वस्य मिथ्याज्ञाननिमित्तत्वात्। न ह्यात्मनः शरीरीत्यभिमानलक्षणंमिथ्याज्ञानंमुक्काअन्य- तः सशरीरत्वं शक्यं कल्पयितुम्। नित्यमशरी- रत्वं अकर्मनिमित्तत्वादित्यवोचाम। तत्कृतधर्मा- धर्मनिमितं सशरीरत्वमिति चेत्, न, शरीरस-
द्वेः।शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य- ।। तदुक्तं श्रुत्येति॥ जीवतोऽशरीरत्वं विरुद्धमिति शङ्कते॥ शरीर इति॥ आत्मनो देहसम्बन्धस्य ्रान्तिप्रयुक्तत्वास्तच्वधिया तन्नाश- रूपशरीरत्वं जीवतो युक्तमित्याह । नेत्यादिना॥ असङ्गात्मस्व- रूपं त्वशरीरत्वं भ्रांत्यावृतं तच्वधिया जीवतो व्यज्यत इत्याह।। नि- त्यमिति ॥ देहात्मनोः सम्बम्धः सत्य इति शङ्कते ॥ तत्कृतेति॥ तन्नाशार्थ कार्यापेक्षेति भावः। आत्मनः शरीरसम्बन्धे जाते धर्मा- धर्मोत्पतिः, तस्यां सत्यां सम्बन्धजन्मेत्यन्योन्याश्रयादेकस्यासिध्या द्वितीयस्यासिद्धि: स्यादिति परि हरति।। नेत्यादिना।नन्वेतद्देहजन्यध- र्माधर्मकर्मण एतद्देहसम्बन्धहेतुत्वे स्यादन्योन्याश्रयः, पूर्वदेह कर्मण एत द्देहसम्बन्धोत्पत्ति:, पूर्वदेहश्र पूर्वदेहरुतकर्मण इतिबीजाङ्कुरवदना-
Page 130
(११०) रत्नप्रभाभासिते [अ० १।पा० १। चेतरेतराश्रयत्वप्रसङ्गादन्धपरम्परैवैषा अना- दिव्वकल्पना क्रियासमवायाभावाच्चात्मनः क तृत्वानुपपत्तेः। सन्निधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेन्न। धनदानाद्युपार्जिजितभृत्य- सम्बन्धित्वात्तेषां कर्तृत्वोपपत्तेर्न व्वात्मनो धन- दानादिवच्छरीरादिभिः स्वस्वामिसम्बन्धनि- मित्तं किश्िच्छक्यं कल्पयितुम्। मिथ्याभिमा- नस्तु प्रत्यक्ष: सम्बन्धहेतुः । एतेन यजमानत्व- मात्मनो व्याख्यातम्। अत्राहुः, देहादिव्यति- रिक्तस्यात्मन आत्मीये देहादावभिमानो गौणो नमिथ्येति चेत्, न, प्रसिद्धवस्तुभेदस्य गौणत्वमु- दित्वान्नायं दोष इत्यत आहा।अन्धेति। अप्रामाणिकीत्यर्थः। नहि बी- जादङ्कुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दृश्यते तद्ददात्मनो देहस- म्बन्धः पूर्वकर्मकतः प्रत्यक्षः, नाप्यस्ति कश्विदागमः प्रत्युत असङ्गे हीत्यादि: श्रुतिः सर्वकर्तृत्वं वारयतीति भावः। तत्र युक्तिमाह॥ क्रि- येति॥। कूटस्थस्य कत्ययोगान्न कर्तृत्वमित्यर्थः । स्वतो निष्क्रयस्या- पि कारकसन्निधानात् कर्तृत्वमिति शङ्का दृष्टान्तवैषम्येण निरस्यति ॥ नेति॥ राजादीनां स्वक्ीतभृत्यकार्ये कर्तृत्वं युक्तं नात्मन इत्यर्थः । देहकर्मणोरविद्याभूमौ बीजाङ्-कुरवदावर्तमानयोरात्मना सम्बन्धो भ्रा- न्तिरुत एवेत्याह॥ मिथ्येति॥ ननु "यजेत " इति विध्यनुपपच्या- त्मन: कर्तृत्वमेष्टव्यमिति तत्राह ॥ एतेनेति॥ भ्रान्तिरुतेन देहादि- सम्बन्धेन यागादिकर्तृत्वमाब्रह्मबोधाव्याख्यातमित्यर्थः ॥ अत्राहुः प्राभाकरा इत्यर्थः। भ्रान्त्यभावाद्देहसम्बन्धादिकं सत्यमिति भाव:
Page 131
सू० ४ । अ० ४।] शाङ्करव्रह्मसूत्रभाष्ये ख्यत्वप्रसिद्धेः।यस्य हि प्रसिद्धो वस्तुभेदो यथा (१११) केसरादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां- न्यःपुरुषः प्रायिकैः क्रौर्यशौर्यादििः सिंहगुणैः सम्पन्नः सिद्धः' तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतःनाप्रसिद्धवस्तुभेदस्य तस्य त्वन्य त्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः, न गौणौ। यथा मन्दान्धकारे "स्थाणुरयं" इत्य गृत्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुवि- षयौ यथा वा, शुक्तिकायामकस्मात् "रजतमि- दं" इति निश्चितौशब्दप्रत्ययौ तद्वद्देहादिस- ङ्घातेऽहमिति निरुपचारेण शब्दप्रत्ययावात्मां नात्मविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ व- दितुम्। आत्मानात्मविवेकिनामपि पण्डिता नामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ
भेदज्ञानाभावान गौण इत्याह ॥ नेति॥ प्रसिद्धो ज्ञातो वस्तुनोभेदो येन तस्य गौणमुख्यज्ञानाश्रयत्वप्रसिद्धेरित्यर्थः। यस्य तस्य पुंसो गौणौ भवतः इत्यन्वयः । शौर्यादिगुणविषयावित्यर्थः॥तस्य त्विति॥भेद- ज्ञानशून्यस्य पुंस इत्यर्थः।।शब्दप्रत्ययाविति॥शब्दः शाब्दबोधश्वेत्य- र्थः। संशयमूलौ तावुदाहरति॥यथा मन्देति। यदा संशय मूलयोर्न गौ- णत्वं तदा भ्रान्तिमूलयो: किं वाच्यमित्याह॥यथावेति॥ अकस्मा- दिति॥ अतर्कितादष्टादिना संस्कारोदोधे सतीत्यर्थः। निरुपचारेण गु-
Page 132
(१.१२) रलप्रभाभासित [अ० १।पा०१।
दिनां देहादावहंप्रत्ययो मिथ्यैव न गौणः, त- स्मान्मिथ्याप्रव्ययनिमित्तव्वात् सशरीरत्वस्य सिद्धं जीवतोऽपि विदुषोऽशरीरत्वम्। तथा च ब्रह्मविद्विषया श्रुतिस्तदयथा "अहिनिल्वयनी वल्मीकेमृता प्रत्यस्ता शयीतैव मेवेदं शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव" इति।"सचक्षुरचक्षुरिव सकणोऽकर्ण इव सवाग- वागिव समना अमना इव सप्राणोऽप्राण इव" इति च। स्मृतिरपि च "स्थितप्रज्ञस्य का भाषा" इव्याद्या स्थितप्रज्ञलक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसम्बन्धं दर्शयति। तस्मान्नावगतब्र- णज्ञानं विनेत्यर्थः । देहादिव्यतिरिक्तात्मास्तित्ववादिनामिति, देहा- त्मवादिनां तु प्रमेत्यभिमान इति भावः। जीवन्मुक्तौ प्रमाणमाह । तथा चेति॥ ततू तत्र जीवन्मुक्तस्य देहे यथा दृष्टान्तः। अहि- निर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिपा मृता सर्पेण त्यक्ता- भिमाना वर्तते, एवमेवेदं विदुषा त्यक्ताभिमानं शरीरं तिष्ठति। अथ तथा त्वचानिर्मुक्तसर्पवदेवायं देहस्थोऽशरीरः, विदुषो देहसर्पस्य त्व- चीवाभिनाभावादशरीरत्वादमृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव किं तद्रह्ल तेजः स्वयं ज्योतिरानन्द एवेत्यर्थः, वस्तुतोऽचक्षुरपि बा- धितचक्षुरायनुवृच्या सचक्षुरिवेत्यादि योज्यम्॥ इत्यनवद्यमिति॥ ब्रह्मात्मज्ञानान्मुक्तिलाभातू सिद्धं वेदान्तानां प्रामाण्यं हितशासनाच्छा- स्त्नत्वं निर्दोषतया स्थितमित्यर्थः । ब्रह्मज्ञानमुद्दिश्य श्रवणवन्मनन-
Page 133
सू. ४ । अ ० ४ ।] शाङ्गरब्रह्मसूत्रभाष्ये ह्मात्मभावस्य यथापूर्व संसारित्म। यस्य तु (११३) यथापूर्व संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम्। यत्तु पुनरुक्तं श्रवणात् पराचीन- योर्मनननिदिध्यासनयोर्दर्शनाद्विधिशेषत्वं ब्र- ह्मणो न स्वरूपपर्यवसायित्वमिति, न, अवग- त्यर्थत्वात् मनननिदिध्यासनयोः। यदि त्यवग- तं ब्रह्मान्यत्र विनियुज्येत भवेत् तदा विधिशेष- त्वम्। न तु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वातू। तस्मान्न प्रतिपत्तिवि- धिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भव- तीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदा- न्तवाक्यसमन्वयादिति सिद्ध, एवं च स"त्यथा- निदिध्यासनयोरप्यवान्तरवाक्यभेदेन विध्यङ्गीकारान्न ब्रह्मणो विधि- शेषत्वमुद्देश्यज्ञानलभ्यतया प्राधान्यादित्याह ।। नेति॥ श्रवणं ज्ञान- करणवेदान्तगोचरत्वात् प्रधानं मनननिदिध्यासनयोः प्रमेयगोचर- त्वात्तदङ्गत्वं नियमादृष्टस्य ज्ञान उपयोगः सर्वापेक्षान्यायादिति म- न्तव्यम्। तर्हि ज्ञाने विधिः किमिति त्यक्तस्तत्राह ॥ यदि हीति॥ यदिज्ञाने विधिमङ्गीकृत्य वेदान्तैरवगतं ब्रह्म विधेयज्ञाने कर्म कारक- त्वेन विनियुज्येत तदा विधिशेषत्वं स्यात्। न त्ववगतस्य विनियुक्त- त्वमस्ति, प्राप्तावगत्या फललाभे विध्ययोगादित्यर्थः ॥ तस्माद्विध्यस- सभवात्। अतः शेषत्वासम्भवात् । सत्यादिवाक्यैर्लव्वज्ञानेन अज्ञा- ननिवृत्तिरूप फललाभे सतीत्यर्थः। सूत्रं योजयति॥स्वतन्त्रमिति॥ एवं च सतीति। चोवधारणे उक्तरीत्या ब्रह्मणः स्वातन्त्रये सत्येव भ- १५
Page 134
(११४) रत्नप्रभाभासिते F [अ० १।पा० १।] तो ब्रह्मजिज्ञासे" ति तद्विषयः पृथक् शास्त्रारम्भ उपपद्यते। प्रतिपत्तिविधिपरत्वे हि "अथातो ध- र्मजिज्ञासे" त्येवारब्धत्वान्न पृथक्शास्त्रमारभ्ये- त, आरम्यमाणं चैवमारभ्येत "अथातः परि- शिष्टधर्मजिज्ञासे" त्यथातः क्रत्वर्थपुरुषार्थयो- जिज्ञासेतिवत् ब्रह्मात्मैक्यावगतिस्त्व प्रतिज्ञाते- ति, तदर्थो युक्त: शास्त्रारम्भो "डथातो ब्रह्मजि- ज्ञासे" ति। तस्मादहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विधयः सर्वाणि चेतराणि प्रमाणानि। न ह्यहेयानुपादेयाद्वैतात्मावगतौ निर्विषया- गवतो व्यासस्य पृथक्शास्त्रकृतिर्युक्ता, धर्मविलक्षणप्रमेयलाभात् वे- दान्तानां कार्यपरत्वे तु प्रमेयाभेदान्न युक्तेत्यर्थः । ननु मानसधर्मवि- चारार्थ पृथगारम्भ इत्याशङ्ग्याह॥आरभ्यमाणं चेति॥अथ बाह्य- साधनधर्मविचारानन्तरम, अतो बाह्यधर्मस्य शुद्धिद्दारा मानसोपा- सना धर्महेतुत्वात् परिशिष्टो मानसधर्मो जिज्ञास्य इति सूत्रं स्यादित्यत्र दृष्टान्तमाह ॥ अथेति ॥ तृतीयाध्याये श्रुत्यादिभिः शेषशेषित्वनिर्णयानन्तरं शेषिणा शेषस्य प्रयोगसम्भवात् कः कतु- शेष: को वा पुरुषशेष इति जिज्ञास्यत इत्यर्थः । एवमारभ्येत ग- त्वारब्धं तस्मादान्तरधर्मार्थमारम्भ इत्ययुक्तमिति भावः । स्वमते सूत्रानुगुण्यमस्तीत्याह ।। ब्रह्मेति ॥ जैमिनिना ब्रह्म न विचारित- मिति तज्जिज्ञास्यत्वसूत्रणं युक्तमित्यर्थः । वेदान्तार्थश्रवेदद्वैतं तर्हि द्वैतसापेक्षविध्यादीनां का गतिरित्याशङ्क्य, ज्ञानात् प्रागेव तेषां प्रा- माण्यं न पश्ादित्याह । तस्मादिति ॥ ज्ञानस्य प्रमेयप्रमातृबा-
Page 135
सू० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (११५) ण्यप्रमातृकाणि च प्रमाणानि भवितुमर्हन्ती- ति। अपि चाहुः॥ "गौणमिथ्यात्मनो Sसत्वे पुत्रदेहादिवाधनात्। सद् ब्रह्मात्माहमित्येवंबोधे कार्य कथं अवेत्॥ अन्वेष्ठव्यात्मविज्ञानात् प्राक् प्रमातृत्वमात्मनः। अन्विष्टः स्यात् प्रमातैव पाप्मदोषादिवर्जितः। देहात्मप्रत्ययो यद्दत् प्रमाणत्वेन कल्पितः। लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्र्वयात्" इति॥ धकत्वादित्यर्थः । ब्रह्म न कार्यशेषः तद्दोधात् प्रागेव सर्व व्यवहार इ- त्यत्र ब्रह्मविदां गाथामुदाहरति ॥ अपि चेति॥ सदबाधितं ब्रह्म पू- र्णमात्मा विषयानादत्त इति सर्वसाक्ष्यहमित्येवम्बोधे जाते सति पुत्र- देहादेः सत्ताबाधनात् मायामात्रत्वनिश्वयात् पुत्रदारादिरहमिति स्वी- यदुःखसुखभात्क्कगुणयोगाद्वौणात्माभिमानस्य "नरोऽहं कर्ता मूढः" इति मिथ्यात्माभिमानस्य च सर्वव्यवहारहेतोरसच्वे कार्य विधिनिषे- धादिव्यवहारः कथं भवेत्, हेत्वभावात् न कथंचिन्नवेदित्यर्थः । न- न्वहं ब्रह्मेति बोधो बाधितः, अहमर्थस्य प्रमातुः ब्रह्मत्वायोगादित्या- शङ्च, प्रमातृत्वस्याज्ञानविलसितान्तःकरणतादात्म्यकतत्वान्न बाध इत्याह ॥ अन्वेष्टव्य इति ॥ "य आत्मापहतपाप्मा विजरो विमृत्यु- विशोक: सोऽन्वेष्टव्यः" इति श्रुतेः ज्ञातव्यपरमात्मविज्ञानात् प्रागे- वाज्ञानाच्चिद्दातोरात्मनः प्रमातृत्वं, प्रमातैव ज्ञातः सन् पाप्मरागद्देष- मरणविवर्जितः परमात्मा स्यादित्यर्थः । प्रमातृत्वस्य कल्पितत्वे त- दाश्रितानां प्रमाणानां प्रामाण्यं कथमित्यत आह ॥ देहेति॥ यथा
इति वृद्धोक्ते:। १ यदामोति यदादत्ते यच्चात्ति विषयानिह ॥I यच्चास्यसततं भावस्तस्मादात्मेति गीयते
Page 136
(११६) रत्नप्रभाभासिते [अ० १। पा० १] एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्र- योजनानां ब्रह्मात्मनि तात्पर्येण समन्विताना- मन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसा- नमुक्तम् । ब्रह्म च सर्वज्ञं सर्वशक्ति जगदु- पत्तिस्थितिनाशकारणमित्युक्तम । साड्या- दयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्य- मेवेति मन्यमाना: प्रधानादीनि कारणान्त- राण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टि-
देहात्मप्रत्ययः कल्पितो भ्रमेऽपि व्यवहाराङ्गतया मानत्वेनेष्यते वै- दिकै:, तद्दल्लौकिकमध्यक्षादिकमात्मबोधावधि व्यवहारकाले बाधा- भावात् व्यावहारिकं प्रामाण्यमिष्यतां, वेदान्तानां तु कालत्रयाबाध्य- बोधित्वात् तत्वावेदकं प्रामाण्यमिति तुशव्दार्थः ॥ आत्मनिश्चया- त्।। आ आत्मनिश्रयादित्याङ् मर्यादायाम् प्रमातृत्वस्य कल्पितत्वेऽ- पि विषयाबाधात् प्रामाण्यमिति भावः। "रामनाम्नि परे धाम्नि कुत्लाम्नायसमन्वयः । कार्यतात्पर्यवाधेन साधितः शुद्धबुद्दये"॥
भवतु सिद्धे वेदान्तानां समन्वयः, तथापि मानान्तरायोग्ये ब्रह्मणिश- क्िग्रहायोगात् कूटस्थत्वेन अविकारित्वेन कारणत्वायोगाच्च न समन्व- यः, किंतु सर्गायं कार्य जडप्रकुतिकं कार्यत्वात् घटवत् इत्यनुमानगम्ये त्रिगुणे प्रधाने समन्वय इत्याक्षिपन्तीत्यर्थः। सिद्धं मानान्तरगम्यमेवे- त्याग्रहः शक्तिग्रहार्थः, अत एव प्रधानादावनुमानोपस्थिते शक्तिग्रहस-
Page 137
सू० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (११७) विषयेषु अनुमानेनैव कार्येण कारणं लिलक्षयि- षितम्। प्रधानपुरुषसंयोगानित्यानुमेया इति साङ्या मन्यन्ते। काणादास्त्वेतेभ्य एव वाक्ये- भ्य ईश्वरं निमित्तकारणमनुमिमते, अणूंश्र स- मवायिकारणम्। एवम् अन्येऽपि तार्किका वा- क्याआसयुक्त्याआसावष्टम्भा: पूर्वपक्षवादि- न इहोत्तिश्ठन्ते। तत्र पदवाक्यप्रमाणज्ञेना- चार्येण वेदान्तवाक्यानां ब्रह्मावगतिपरत्वप्रद- र्शनाय वाक्याभासयुत्तयभासप्रतिपत्तयः पूर्व-
मभवात् तत्परतया वाक्यानि योजयन्तीत्युक्तं । किश्च "तेजसा सोम्य शुद्रेन सन्मूलमन्विच्छ" इत्यायाः श्रुतयः । शुङ्गेन लिङ्ेन कारणस्य स्वतो Sन्वेषणं दर्शयन्तो मानान्तरसिद्धमेव जगत्कारणं वदन्तीत्याह ॥ सर्वेष्विति । नन्वतीन्द्रियत्वेन प्रधानादेर्व्याप्तिग्रहायोगात् कथम- नुमानं तत्राह॥ प्रधानेति॥ यत्कार्य तज्जडप्ररुतिकं यथा घट, य- ज्डं तच्चेतनसंयुक्तं यथा रथादिरिति सामान्यतोदृष्टानुमानगम्याः प्र- धानपुरुषसंयोगा इत्यर्थः । अद्वितीयब्रह्मणः कारणत्वविरोधिम तान्त- रमाह ॥ काणादास्तिवति॥ सृष्टिवाक्येभ्य एव परार्थानुमानरू- पेभ्यो यत् कार्य तत् बुद्धिमत्कर्तृकमिति ईश्वरं कर्तारं परमाणूंश्र यत् कार्यद्रव्यं तत् स्वन्यूनपरिमाणद्रव्यारब्धमित्यनुमिमत इत्यर्थः। अ- न्येऽपि बौद्धादयः "असद्दा इदमग्र आसीत्" इत्यादिवाक्याभासः। यद्दस्तु तच्छून्यावसानं यथा दीप इति युक्त्या भास:। एवं वादिवि- प्रतिपत्तिमुक्ता तन्निरासायोत्तरसूत्रसन्दर्भमवतारयति ॥ तत्रेति॥ वादिविवाद सतीत्यर्थः।। व्याकरणमीमांसान्यायनिधित्वात् पदवाक्य-
Page 138
(११८) रत्नप्रभाभासिते [अ० १। पा० १। पक्षीकृत्य निराक्रियन्ते। तत्र साडय्याः प्रधानं त्रिगुणमचेतनं जगतः कारणमिति मन्यमाना- श्राहुः "यानि वेदान्तवाक्यानि सर्वज्ञस्य स र्वशक्तेर्ब्रह्मणो जगत्कारणत्वं दर्शयन्ति, इत्यवो- चस्तानि प्रधानकारणपक्षेऽपि योजयितुं श- क्यन्ते। सर्वशक्तित्वं तावत् प्रधानस्यापि स्व- विकारविषयमुपपद्यते, एवं सर्वज्ञत्वमप्युपद्यते। कथम्। यनु ज्ञानं मन्यसे स सत्त्वधर्मः "सत्वा- त् सआ्षायते ज्ञानम्" इति स्मतेः। तेन च सत्त्व- धर्मेण ज्ञानेन कार्यकारणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः, सत्वस्य हि निरतिशयोत्क- र्षे सर्वज्ञत्वं प्रसिद्धम्। न केवलस्याकार्यकरण- स्य पुरुषस्योपलन्धिमात्रस्य सर्वज्ञत्वं किश्च- ज्ज्ञत्वं वा कल्पयितुं शक्यं, त्रिगुणत्वात्तु प्रधा- प्रमाणज्ञत्वं यज्जगत्कारणं तच्चेतनमचेतनं वेति ईक्षणस्य मुख्यत्वगौ- णत्वाभ्यां संशये पूर्वपक्षमाह ॥। तत्र साङगया इति॥ अपिशब्दावे- वकारार्थौ सदेवेत्यादिस्पष्टव्रह्मलिंङ्गवाक्यानां प्रधानपरत्वनिरासेन ब्रह्मपरत्वोक्तेः श्रुत्यादिसङ्गतयः। पूर्वपक्षे जीवस्य प्रधानैक्योपास्तिः सिद्धान्ते ब्रह्मैक्यज्ञानमिति विवेकः। अचेतनसच्वस्यैव सर्वज्ञत्वं, न चेतनस्येत्याह॥तेन च सत्वधर्मेणेति ॥ न केवलस्येति॥ ज- न्यज्ञानस्य सतत्वधर्मत्वात् नित्योपलब्धेरकार्यत्वाच्चिन्मात्रस्य न स- र्वज्ञानकर्तृत्वमित्यर्थः । ननु गुणानां साम्यावस्थाप्रधानमिति सा- ङन्या वदन्ति तदेवावस्थायां सखस्योत्कर्षाभावात् कथं सर्वज्ञतेत्याह
Page 139
सू० ५/ अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (११९) नस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्था- यामपि विद्यते, इति प्रधानस्याचेतनस्येव सतः सर्वज्ञत्वमुपचर्यते वेदान्तवाक्येषु। अवश्यञ्च त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानश- क्तिमत्वेनैव सर्वज्ञत्वमभ्युपगन्तव्यम्। न हि सर्वदा सर्वविषयज्ञान कुर्वदेव ब्रह्म वर्तते। तथा हि ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्रयं ब्रह्मणो हीयेत। अथानित्यं तदिति ज्ञानक्रिया- या उपरमेतापि ब्रह्म। तदा सर्वज्ञानशक्तिमत्वे- नैव सर्वज्ञव्वमापतति। अपि च प्रागुत्पत्तेः सर्व- कारकशन्यं ब्रह्मेष्यते त्वया। न च ज्ञानसाधना- नां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्य- चिदुपपन्ना। अपि च प्रधानस्यानेकात्मकस्य परिणामसम्भवात् कारणत्वोपपत्तिः मृदादिवत्
।। त्रिगुणत्वादिति ॥ त्रयो गुणा एव प्रधानं तस्य साम्यावस्था तदभेदात् प्रधानमित्युच्यते। तदवस्थायामपि प्रलये सर्वज्ञान- शक्तिमच्वरूपं ससर्वज्ञत्वमक्षतमित्यर्थः । ननु मयां किमिति श- क्तिमच्वरूपं गौणं सर्वज्ञत्वमङ्गीकार्यमिति तत्राह ॥ न हीति॥ अनित्यज्ञानस्य प्रलथे नाशात् शक्तिमच्वं वाच्यं कारकाभावाच्चेत्याह ॥ अपि चेति ॥ मतद्दयसाम्यमुक्का स्वमते विशेषमाह ॥अपि चेति॥ ब्रह्मण: कारणत्वं स्मृतिपादे समर्थ्यते प्रधानादेः कारणत्वं तर्कपादे १ ब्रह्मवादिना
Page 140
(१२०) रत्नप्रभाभासिते [अ० १।पा० १। नासंहतस्यैकात्मकस्य ब्रह्मणः" इत्येवं प्राप्ते इ- द सूत्रमारभते॥ ईक्षतेर्नाशब्दम्॥५॥ न साड््यपरिकल्पितमचेतनं प्रधानं जगतः का- रणं शक्यं वेदान्तेष्वाश्रयितुम्। अशब्दं हि तत्। कथमशब्दत्वम्। ईक्षतेः ईक्षितृत्वश्रवणात् का- रणस्य। कथम्। एवं हि श्रूयते "सदेव सौम्येद- मग्र आसीत्" "एकमेवाद्वितीयं" इत्युपक्रम्य "तदैक्षत बहु स्यां प्रजायेय" इति "तत्तेजोऽसृ- जत" इति तत्रेदंशब्दवाच्यं नामरूपविकृतं ज- गत् प्रागुत्पत्ते: सदात्मनावधार्य तस्यैव प्रकृ- तस्य सच्छ्दवाच्यस्येक्षणपूर्वक तेजः प्रभुतेः स्रष्टत्वं दर्शयति। तथा अन्यत्र "आत्मा वा इद मेक एवाय् आसीन्नान्यत् किश्चन मिषत् स ऐ- क्षत लोकान्नुसृजा इति "स इमाँलोकानसृजत" इति ईक्षापूर्विकामेव सृष्टिमाचष्टे। क्रचिच्च पोड- युक्तिभिनिरस्यते । अधुना तु श्रुतिभिनिरस्यति॥ ईक्षतेर्नाशब्द- मिति॥ ईक्षणश्रवणात् वेदशब्दवाच्यमशब्दं प्रधानम्।अशब्दत्वान कारणमिति सूत्रयोजना। तत् सच्छव्दवाच्यं कारणमैक्षत ईक्षणमे- वाह॥ बहिति ॥ बहुप्रपञ्चरूपेण स्थित्यर्थमहमेवोपादानतया का- यभदाज्जनिष्यामीत्याह ।प्रजेति॥ एवं तत् सदीक्षित्वा आकाशं वा- युं च सृष्टा तेजः सृष्टवदित्याह ॥तदिति॥ मिषच्लत् सच्वाक्रान्त-
Page 141
सू० ५ । अ. ५] शाङ्करब्रह्मसूत्रभाष्ये (१२१) शकलं पुरुषं प्रस्तुत्याह "स ईक्षाञ्चके सप्रा- णमसृजत" इति।ईक्षतेरिति च धात्वर्थनिर्दे- शोऽभिप्रेतः यजतेरितिवत् न धातुनिर्देशः।तेन "यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः तस्मा देतद्रह्म नामरूपमन्नं च जायते" इत्येवमादी- न्यपि सर्वज्ञेश्वरकारणपराणि वाक्यानि उदाह- र्तव्यानि।यत्तु उक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्र- धानं भविष्यतीति, तन्नोपपद्यते। न हि प्रधा- नावस्थायां गुणसाम्यात् सत्त्ववर्मो ज्ञानंसम्भ- वति। ननक्तं सर्वज्ञानशक्तिमत्वेन सर्वज्ञं भ- विष्यतीति, तदपि नोपपद्यते । यदि गुणसा- म्ये सति सत्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य मिति यावत्। सजीवाभिन्नः परमात्मा "प्राणमसृजत प्राणाच्छ्रद्दां खं वायुज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्दीर्यं तपो मन्त्रा: कर्म लोका: लोकेषु नाम च' इत्युक्ताः पोडशकलाः, ननु इक्श्तिपौ- धातुनिर्देशे इति कात्यायनस्मरणादीक्षतेरिति पदेन तिबन्तेन धातुरु- च्यते। तेन धात्वर्थ ईक्षणं कथं व्याख्यायत इत्याशङ्ग्य लक्षणयेत्या- ह ॥ ईक्षतेरिति चेति॥ इतिकर्तव्यताविधेर्यजतेः पूर्ववच्वमिति जै- मिनिसूत्रे यथा यजतिपदेन लक्षणया घात्वर्थों याग उच्यते तद्ददिहापी- त्यर्थः सौर्यादिविकृतियागस्याङ्गानामविधानात् पूर्वत्वं दर्शादिप्ररुति- स्थाङ्गवत्त्वमिति सूत्रार्थः। धात्वर्थनिर्देशेन लाभमाह।तेनेति।सामान्य- तः सर्वजञो विशेषतः सर्वविदिति भेदः ज्ञानमीक्षणमेव तपः। तपरिविनः फलमाह॥ तस्मादिति॥ एतत्कार्य सूत्राख्यं ब्रह्म। केवलसत्ववृत्तर्ञा १६
Page 142
(१२२ ) रत्नप्रभाभासिते [अ०१।पा० १। ज्ञानशक्तिमत्वेन सर्वज्ञं प्रधानमुच्येत कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धशक्ति- माश्रित्य किश्चिज्ज्ञमुच्येत। अपि च नासाक्षि- का सत्ववृत्तिर्जानाति नाऽभिधीयते। न चा- चेतनस्य प्रधानस्य साक्षित्वमस्ति। तस्मादनु- पपन्नं प्रधानस्य सर्वज्ञत्वम्। योगिनां तु चेत- नत्वात् सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमि- त्यनुदाहरणम्। अथ पुनः साक्षिनिमित्तमीक्षि- तृत्वं प्रधानस्य कल्पेत यथाग्निनिमित्तमयः पि- ण्डादेर्दग्धृत्वम्। तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः का- रणमिति युक्तम। यत् पुनरुक्तं ब्रह्मणोऽपि न मु- ख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञान- क्रियां प्रति स्वातन्त्र्यासम्भवादित्यत्रोच्यते।इ- दं तावद्रवान् प्रष्टव्य: कथ नित्यज्ञानक्रियत्वे नत्वमङ्गीकृत्य प्रधानस्य सर्वज्ञत्वं निरस्तम्। सम्प्रति नकेवलजडवृत्ति र्ज्ञानशव्दार्थ: किन्तु साक्षिबोधविशिष्टा वृत्तिर्वृत्तिव्यक्तबोधो वा ज्ञानं तच्चान्धस्य प्रधानस्य नास्तीत्याह॥ अपि चेति॥ साक्षित्वमस्ति ये- नोक्तज्ञानवच्वं स्यादिति शेषः। ननु सत्ववृत्तिमात्रेण योगिनां सर्वज्ञ- त्वमुक्तमित्यत आह॥ योगिनां त्विति ॥ सेश्वरं साङ्ड्चमतमाह॥ ॥ अथेति ॥ सर्वज्ञत्वं नाम सर्वगोचरज्ञानवत्त्वं न ज्ञानकर्तृत्वं ज्ञान- १ दृष्टान्तो न सम्भवतीत्यर्थः ।
Page 143
सू . ५ । अ . ५] शाङ्करव्रह्मसूत्रभाष्ये (१२३) सर्वज्ञत्वहानिरिति, यस्य हि सर्वविषयावभास- नक्षमं ज्ञानं नित्यमस्ति सोऽसर्वज्ञ इति विप्रति- षिद्म्, अनित्यत्वे हि ज्ञानस्य कदाचित् जा- नाति कदाचिन्न जानाति, इत्यसर्वज्ञत्वमपि स्यात् नासौ ज्ञाननित्यत्वे दोषोऽस्ति। ज्ञान- नित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नाप- पद्मत इति चेत्, न, प्रततौष्ण्य प्रकाशेऽपि स- वितरि दहति प्रकाशयति, इति स्वातन्त्र्यव्यप- देशदर्शनात्। ननु सवितुर्दात्य्यप्रकाश्यसंयोगे सति दहति प्रकाशयतीति व्यपदेशः स्यात्,न तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमो दृष्ठान्तः। नासत्यपि कर्मणि सविता प्र- काशत इति कर्तृत्वव्यपदेशदर्शनादेवमसत्यपि ज्ञानकर्मणि ब्रह्मणस्तदैक्षतेति कर्तृत्वव्यपदेशो- पपत्तेर्न वैषम्यं, कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्व- स्य कृत्यसाध्यत्वादिति हृदि कृत्वा पृच्छति॥ इदं तावदिति॥स- वै जानातीति शब्दासाधुत्वं शङ्कते ॥ ज्ञाननित्यत्व इति ॥ नित्य- स्यापि ज्ञानस्य तत्तदर्थोपहितत्वेन ब्रह्मस्वरूपाद्जेदं कल्पयित्वा का- र्यत्वोपचाराद्वह्मणस्तत्कर्तृत्वव्यपदेशः साधुरिति सदृष्टान्तमाह ॥ न प्रततेति॥ सन्ततेत्यर्थः । असत्यपि अविवक्षितेऽपि, ननु प्रकाशते- रकर्मकत्वात् सविता प्रकाशते इति प्रतियोगेऽपि जानातेः सकर्मक- त्वात् कर्माभावे तदैक्षतेत्ययुक्तमिति तत्राह ॥ कर्मापेक्षायां त्वि-
Page 144
(१२४) रत्नप्रभाभासिते [अ० १।पा०१। श्रुतयः सुतरामुपपन्नाः, किं पुनस्तत्कर्म यत् प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो अ्वति इति! त- च्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याक- ते व्याचिकीर्षिते इति ब्रूमः, यत्प्रसादाद्दि यो- गिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छ- न्ति योगशास्त्रविदः किमु वक्तव्यं तस्य नित्यशु- द्वस्येश्वरस्य सृष्टिस्थितिसंहतिविषयं नित्यज्ञा- नं अवतीति। यदप्युक्तं प्रागुत्पत्तेर्व्रह्मणः शरीरा- दिसम्बन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, न त- ति। कर्माविवक्षायामपि प्रकाशरूपे सवितारि प्रकाशत इति कथं। चित् प्रकाशक्रियाश्रयत्वेन कतृत्वोपचारवचचिदात्मन्यपि चिद्रूपेक्षण- कर्तृत्वोपचारान्न वैषम्यमित्युक्तं पूर्वम्। अधुना तु कुम्भकारस्य स्वो- पाध्यन्तःकरणवृत्तिरूपेक्षणवदीश्वरस्यापि स्वोपाध्यविद्यायाः विवि- धसृष्टिसंस्कारायाः प्रलयावसानेनोहुद्दसंस्कारायाः सर्गोन्मुखःकश्िवि- त् परिणामः सम्भवति अतः तस्यां सूक्ष्मरूपेण निलीनसर्वकार्यविष- यकं ईक्षणं तस्य कार्यत्वात् कर्मसद्भावाच्च तत्कर्तृत्वं मुख्यमिति यो- तयति ॥ सुतरामिति ॥ ननु मायोपाधिकबिम्बचिन्मात्रस्येश्वरस्य कथमीक्षणं प्रति मुख्यं कर्तृत्वं कृत्यभावादिति चेतू। न। कार्यानुकूल- ज्ञानवत एव कर्तृत्वादीख्वरस्यापि ईक्षणानुकूलनित्यज्ञानवत्वातू। न च नित्यज्ञानेनैव कर्तृत्वनिर्वाहात् किमीक्षणेनेति वाच्यं। वाय्वादेरेव शब्दवत्त्वसम्भवात् किमाकाशेनेत्यतिप्रसङ्गात्, अतःश्रुतत्वाद्दाय्वादि- कारणत्वेनाकाशवदैक्ष तेत्यागन्तुकत्वेन श्रुतमीक्षणमाकाशादिहेतुत्वे- नाङ्गीकार्यमित्यलम्। अव्यारते सुक्ष्मात्मना स्थिते व्याकर्तु स्थूली-
Page 145
सू० ५। अ. ५] शाङ्करब्रह्मसूत्रभाष्ये (११५) चोदसवतरति सवितृप्रकाशवद्रह्मणो ज्ञानस्व- रूपनित्यत्वे ज्ञानसाधनापेक्षानुपपत्तेः। अपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षाज्ञानो- त्पत्तिः स्यात्, न ज्ञानप्रतिबन्धकारणरहितस्ये- श्वरस्य। मन्त्रौ चेमावीश्वरस्य शरीराद्यनपे- क्षतामनावरणज्ञानतां च दर्शयतः। "न तस्य कार्य करणं च विद्यते न तत्समश्ाभ्यधिकश्र् दृश्यते। परास्य शक्तिर्विविधेव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च॥इति॥
कर्तुमिष्टे इत्यर्थः। अव्याकतकार्योपरक्तचैतन्यरूपेक्षणस्य कारकानपे- क्षत्वेऽपि वृत्तिरूपेक्षणस्य कारकं वाच्यमित्याशङ्क्याह॥ अपि चावि- द्यादिमत इति॥ यथैकस्य ज्ञानं तथान्यस्यापीति नियमाभावान्मा- यिनोऽशरीरस्यापि जन्येक्षणकारकत्वमिति भावः। ननु यत् जन्य- ज्ञानं तत् शरीरसाध्यमिति व्याप्तिरस्तीत्याशङ्ग्य श्रुतिबाधमाह॥म- न्त्रौ चेति ।। कार्यशरीरं। करणमिन्द्रियं। अस्येश्वरस्य शक्तिर्माया स्वकार्यापेक्षया परा, विचित्रकार्यकारित्वाद्विविधा सा त्वैतिहमात्रसि- द्वा न प्रमाणसिद्धेत्याह॥श्रूयत इति॥ ज्ञानरूपेण बलेन या सृष्टिक्रिया सा स्वाभाविकी अनादिमायात्मकत्वादित्यर्थः । ज्ञानस्य चैतन्यस्य बलं मायावृत्तिप्रतिबिम्बितत्वेन स्फुटत्वं तस्य क्रियानामबिम्बत्वेन ब्रह्मणो जनकता ज्ञातृतापि स्वाभाविकीतिवार्थः॥ अपाणिरपि ग्रहीता। अपा- दोपि जवनः ॥ ईश्वरस्य स्वकार्ये लौकिकहेत्वपेक्षा नासीति भावः। अध्ट्यमनािं पुरुषं अनन्तं महान्तं विभुमित्यर्थः । अपसिद्धान्तं शङ्क-
Page 146
(१२ ६) रत्नप्रभाभासिते [अ० १। पा० १। "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेचि वेदं न च तस्यास्तिवेत्ता तमाहुरश्यं पुरुषं महान्तम्"॥ इति च॥ ननु नास्ति तव ज्ञानप्रतिबन्धकारणवानीश्वरा- दन्यः संसारी "नान्योऽतोऽस्ति द्रष्टा नान्योतो Sस्ति विज्ञाता" इति श्रुतेः। तत्र किमिदमुच्य- ते संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वर- स्येति! अत्रोच्यते। सत्यं नेश्वरादन्यः संसारी, तथापि देहादिसङ्घातोपाधिसम्बन्ध इष्यतएव घटकरकगिरिगुहाद्युपाधिसम्बन्ध इव व्योम्न्ः, तत्कृतश्व शब्दप्रत्ययव्यवहारो लोकस्य दृष्टो घटच्छिद्रं करकादिच्छिद्रमित्यादिराकाशाव्य- तिरेकेऽपि, तत्कृता चाकाशे घटाकाशादिभेदमि- थ्याबुद्िर्दष्टा; तथेहापि देहादिसङ्घातोपाघिस- ते। नन्विति॥ ज्ञाने प्रतिबन्धककारणान्यविद्यारागादीनि श्रुतावत ईश्वरादन्यो नास्तीत्यन्वयः। औपाधिकस्य जीवेश्वरभेदस्य मयोक्तत्वा- नापसिद्धान्त इत्याह॥ अत्रोच्यत इति ॥ तत्कत उपाधिसम्बन्ध- कृतः शब्दतज्जन्यप्रत्ययरूपो व्यवहारः, असङ्कीर्ण इति शेषः। अव्य तिरेके कथमसङ्करस्तत्राह ॥ तत्कता चेति ॥ उपाधिसम्बन्धरते- त्यर्थः ॥ तथेति॥ देहादिसम्बन्धस्य हेतुरविवेकोनायविद्या तया कृत इत्यर्थः । अविद्यायां हि प्रतिविम्बो जीवः, बिम्बचैतन्यमीश्वर
Page 147
सू· ६। अ ० ५ ] शाङ्करब्रह्मसूत्रभाष्ये (१२७) म्बन्धाविवेक कृतेश्वरसंसारिभेदमिथ्याबुद्दिः । दृश्यते चात्मन एव सतो देहादिसड्घाते अना- त्मन्यात्मत्वाभिनिवेशोमिथ्याबुद्धिमात्रेण पूर्वपू- र्वेण, सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितत्वमु - पपन्नं संसारिणः।यदप्युक्तंप्रधानस्यानेकात्मक- त्वात् मृदादिवत् कारणत्वोपपत्तिर्नासंहतस्य ब्र- ह्रण इति, तत् प्रधानस्याशब्दव्वेनैव प्रत्युक्तम्। यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वो- ढुं शक्यते न प्रधानादीनां तथा प्रपञ्चयिष्यते "न विलक्षणत्वादस्य" इत्येवमादिना ॥५॥ अत्राह। यदुक्तं, नाचेतनं प्रधानं जगत्कारण- मीक्षितृत्वश्रवणादिति, तदन्यथाप्युपपद्यते। इतिभेदोऽविद्याधीनसत्ताकः । अनादिभेदस्य कार्यत्वायोगात्। का- र्यबुद्ध्यादिकतप्रमात्रादिभेदश्र्व कार्य एवेति विवेकः। नन्वखण्डस्व- प्रकाशात्मनि कथमविवेकः तत्राह ॥ दृश्यते चेति॥ वस्तुतो दे- हादिभिन्नस्वप्रकाशस्यैव सत आत्मनो नरोऽहमिति भ्रमो दृष्टत्वा- द्दुरपङ्गवः। सच मिथ्याबुद्धया मीयत इति मिथ्याबुद्दिमात्रेण भ्रान्ति- सिद्धाज्ञानेन कल्पित इति चकारार्थः। यद्दोक्तमिथ्याबुद्दौ लोकानुभ- वमाह, ॥ दृश्यते चेति॥ इत्थंभावे तृतीया। भ्रान्त्यात्मना दृश्यत इत्यर्थः । पूर्वपूर्वभ्रान्तिमात्रेण दृश्यते न च प्रमयेति वार्थः। कूटस्थ- स्यापि मायिकं कारणत्वं युक्तमित्याह॥ यथा तिवति॥ यच्ववेधे श- ब्दशक्तिग्रहायोग इति तन्न। सत्यादिपदानामबाधितायर्थेषु लोका- वगतशक्तिकानां वाच्यैकदेशत्वेनोपस्थिताखण्डब्रह्मलक्षकत्वादिति
Page 148
(१२८) रत्नप्रभाभासिते [अ० १। पा० १। अचेतनेऽपि चेतनवदुपचारदर्शनात् यथा प्र- त्यासन्नपतनतां नद्या: कूलस्यालक्ष्य कूलं पि- पतिषतीत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्ट- स्तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतन- वदुपचारो भविष्यति तदैक्षतेति। यथा लोके क- श्विच्ेतन: स्नात्वा भुक्का चापराले ग्रामं रथेन गमिष्यामीतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नि- यमेन प्रवर्तते तस्माच्चेतनवदुपचर्यते। कस्मा- त् पुनः कारणात् विहाय मुख्यमीक्षितव्वमौप- चारिकं कल्प्यते? "तत्तेज ऐक्षत" "ता आप ऐ- क्षन्त2 इति चाचेतनयोरत्ेजसोश्र्वेतनवदुपचा- रदर्शनात्। तस्मात् सत्कर्तकमपीक्षणमौपचा- रिकमिति गम्यते। उपचारप्राये वचनादित्येवं प्राप्ते इदं सूत्रमारभ्यते॥
यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मि- स्थितं। सम्प्रत्युत्तरसूत्रं निरस्याशङ्कामाह॥अत्राहेति। अन्यथापि।। अचेतनत्वेऽपि। ननु प्रधानस्य चेतनेन किं साम्यं येन गौणमीक्षण- मिति तत्राह॥ यथेति ॥ नियतक्रमवत् कार्यकारित्वं साम्यमित्य- र्थः॥ उपचारप्राये वचनादिति ॥ गौणार्थप्रचुरे प्रकरणे समाम्ना-
Page 149
सू० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (१२९) न्नौपचारिका ईक्षतिः अप्नेजसोरिवेति तदसत्। कस्मात्। आत्मशब्दात्। "सदेव सोम्येदमग्र आसीत्" इत्युपक्रम्य "तदैक्षत""तत्तेजोऽसृज- त' इति च तेजोऽबन्नानां सृष्टिमुक्ता तदेव प्रक- तं स्दीक्षित तानि च तेजोऽबन्नानि देवताशब्दे- न परामृश्याह, "सेयं देवतैक्षत" "हन्ताहमि- मास्तिस्त्रो देवता अनेन जीवेनात्मनानुप्रवि- श्य नामरूपे व्याकरवाणि" इति। तत्र यदि प्र- धानमचेतनं गुणवत्त्येक्षित कल्प्येत तदेव प्रकृ- तत्वात् सेयं देवतेति परामृश्येत, न तदा देवता जीवमात्मशब्देनाभिदध्यात्। जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता प्रसिद्धे- निर्वचनाच।स कथमचेतनस्य प्रधानस्य आ- त्मा अवेत्? आत्मा हि नाम स्वरूपं, नाचेत- नस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितु- तादित्यर्थः । अप्ेजसोरिवाचेतने सति गौण ईक्षतिरिति चेतू, न, आत्मशब्दात् सतश्वेतनत्वनिश्रवयादिति सूत्रार्थमाह॥ यदुक्तमित्या- दिना।I सा प्रकता सच्छव्दवाच्या इयमीक्षित्री देवता परोक्षा हन्त इदानीं भूतसृष्ट्यनन्तरं इमा: सृष्टास्तिस्त्रस्तेजोऽबन्रूपाः, परोक्षत्वा- द्वेवता इति द्वितीयाबहुवचनं, अनेन पूर्वकल्पानुभूतेन जीवेनात्मना मम स्वरूपेण ता अनुप्रविश्य तासां भोग्यत्वाय नाम च रूपं च स्थूलं करिष्यामीत्यैक्षतेत्यन्वयः। लौकिकप्रसिद्धेर्जीव प्राणधारण इति धातो- १७
Page 150
(१३०) रत्नप्रभाभासिते [अ० १। पा० १। मर्हति; अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ प- रिग्त्येत, तस्य जीवविषय आत्मशब्दप्रयोग उपपद्येत। तथा "सय एषोऽणिमैतदात्म्यमिदं सर्व तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" इत्यत्र स आत्मेति प्रकृतं सदणिमानमात्मान- मात्मशब्देनोपदिश्य "तत्त्वमसि श्वेतकेतो" इ- ति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति। अ- प्रेजसोस्तु विषयत्वाद् अचेतनत्वं नामरूप- व्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात्, न चात्मशब्दवत् किश्िन्मुख्यत्वे कारणमस्तीति जीवति प्राणान् धारयतीति निर्वचनाच्चेत्यर्थः॥ अथ त्विति॥ सवपक्षे तु बिम्बप्रतिबिम्बयालोंके भेदस्य कल्पितत्वदर्शनाज्जीवो ब्रह्मणः सत आत्मेति युक्तमित्यर्थः । जीवस्य सच्छब्दार्थ प्रत्यात्मशब्दात् सन्न प्रधानमित्युक्का सतो जीवं प्रत्यात्मश्दान्न प्रधानमिति विधान्तरे- ण हेतुं व्याचष्टे।। तथेति॥ स यः सदाख्य एषोऽणिमा परमसूक्ष्म;ए- तदात्मकमिदं सर्व जगत् तत्सदेव सत्यं विकारस्य मिथ्यात्वात्, सः स पदार्थः सर्वस्यात्मा हे श्वेतकेतो, त्वं च नासि संसारी, किं तु त देव सदबाधितं सर्वात्मकं ब्रह्मासीति श्रुत्यर्थः। इत्यत्रोपदिशतिअ- तश्रेतनात्मकत्वात् सञ्चेतनमेवेति वाक्यशेषः। यदुक्तमप्तेजसोरिव सत ईक्षणं गौणमिति तत्राह॥ अपेजसोस्त्वति॥ नामरूपयोर्व्याकरणं सृष्टि:आदिपदान्नियमनं अप्े जसोर्दग्विषयत्वात् सृज्यत्वान्नियम्यत्वा- च्चाचेतनत्वमीक्षणस्य मुख्यत्वे बाधकमस्ति साधकं च नास्तीति हेतो- १ प्रकारान्तरेण।
Page 151
सू० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (१३१) युक्तं कूलवत् गौणत्वमीक्षितत्वस्य। तयोरपि च सदधिष्ठितत्वापेक्षमेवेक्षितत्वम्। सतस्त्वा- त्मशब्दात् न गौणमीक्षितत्वमित्युक्तम। अथो- च्येताचेतनेऽपि प्रधाने भवत्यात्मशब्दः आत्म- नः सर्वार्थकारित्वात्, यथा राज्ञः सर्वार्थकारि- णिभृत्ये भवत्यात्मश्दो ममात्मा भद्रसेन इ- ति; प्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्व- दुपकरोति राज्ञ इव भृत्यः सन्धिविग्रहादिषु व- र्तमानः। अथवैक एवात्मशब्दश्र्वेतनाचेतनवि- षयो भविष्यति भूतात्मेन्द्रियात्मेति च प्रयोग- दर्शनात्, यथैक एव ज्योतिःशब्द: क्रतुज्वल- नविषयः। तत्र कुत एतदात्मशब्दादीक्षतेरगौण- त्वम् मित्यत उत्तरं पठति। र्युक्तमीक्षणस्य गौणत्वमिति योजना; चेतनवत् कार्यकारित्वं गुणः ते- ज ऐक्षत चेतनवत् कार्यकारीत्यर्थः। यद्दा तेजःपदेन तदधिष्ठानं स- ल्वक्ष्यते, तथा च मुख्यमीक्षणमित्याह॥तयोरिति॥स्यादेतत् यादिसत ईक्षणं मुख्यं स्यात्तदेव कुत इत्यतआह॥सतस्त्वति ॥ गौणमुख्य- योरतुल्ययोः संशयाभावेन गौणप्रायपाठस्यानिश्ायकत्वादात्मशब्दा- च् सत ईक्षणं मुख्यमित्यर्थः । आत्महितकारित्वगुणयोगादात्मश- ब्दोऽपि प्रधाने गौण इति शङ्कते॥ अथेत्यादिना॥ आत्मशब्दः प्रधानेऽपि मुख्यो नानार्थकत्वादित्याह ॥ अथवेति॥ नानार्थकत्वे दृष्टान्तः ॥ यथेति॥ अथैकज्योतिरिति श्रुत्या सहल्दक्षिणाके कर्तां ज्योतिष्टोमे लोकप्रयोगादग्नौ च ज्योतिःशब्दो यथा मुख्यस्तद्ददित्यर्थः।
Page 152
(१३२ ) रत्नप्रभाभासिते [अ० १। पा० १। तन्निष्ठस्य मोक्षोपदेशात् ॥७॥ न प्रधानम्चेतनमात्मशब्दालम्बनं भवितुमर्हति "स आत्मा" इति प्रकृतं सदणिमानमादाय "तत्वमसि श्वेतकेतो" इति चेतनस्य श्वेतकेतो- र्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य “आचार्यवा- न् पुरुषो वेद" तस्य तावदेव चिरं यावन्न विमो- क्ष्ये अथ सम्पत्स्ये? इति मोक्षोपदेशनात्।य- दि व्वचेतनं प्रधानं सच्छब्दवाच्यं तदसीति ग्रा- हयेत् मुमुक्षुं चेतनं सन्तमचेतनोऽसीति तदा विपरीतवादिशासत्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात्;नतु निर्दोषशास्त्रम प्रमाणं कल्पयितुं युक्त- मं। यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मा- नमात्मेत्युपदिशेत् प्रमाणभूतं शासं, स श्रद्दधा- नतयान्धगोलाङ्गलन्यायेन तदात्मदृष्टिंन परि- तस्मिन् सत्पदार्थे निष्ठा अभेदज्ञानं यस्य स तन्निष्ठस्तस्य मुक्तिश्रव- णादिति सूत्रार्थमाह ॥ नेत्यादिना । श्रुतिः समन्वयसूत्रे व्याख्या- ता। अनर्थायेत्युक्तं प्रपश्चयति ॥ यदि चाज्ञस्येति॥ कश्िवत् किल दुष्टात्मा महारण्यमार्गे पतितमन्धं स्वबन्धुनगरं जिगमिषुं बभाषे कि- मत्रायुष्मता दुःखितेन स्थीयत इति स चान्धः सुखवाणीमाकर्ण्य त- मापतं मत्वोवाच अहो मद्धागंधेयं यदत्र भवान् मां दीनं स्वाभीष्टनग- रप्रात्यसमर्थ भाषत इति स च विप्रलिप्सुर्दुष्टगोयुवानमानीय तदी- यलाङ्गूलं अन्धं ग्राहयामास, उपदिदेश च एनमन्धं एष गोयुवा
Page 153
सू० ५। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१३३) त्यजेत्, तद््यतिरिक्तं चात्मानं न प्रतिपद्येत, त- था सति पुरुषार्थाद्विहन्येतानर्थ चर्च्छेत। तस्मा- द्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथा- अूतमुपदिशति तथा मुमुक्षोरपि "स आत्मा" "तत्वमसि श्वेतकेतो" इति यथाभूतमेवात्मानमु- पदिशतीति युक्तम्। एवं च सति तप्तपरशुग्रहण- मोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते। अन्यथा हि अमुख्ये सदात्मतत्वो- पदेशे अहमुक्थमस्मीति विद्यादितिवत् सम्प- न्मात्रमिदमनित्यफलं स्यात्। तत्र मोक्षोपदेशो नोपपद्येत; तस्मान्न सदणिमन्याव्मशब्दस्य गौणत्वं, भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वा- दुपपन्नो गौण आत्मशब्दो ममात्मा भद्रसेन त्वां नगरं नेष्यति, मा त्यज लाङ्गूलमिति स चान्धः श्रद्दालुतया तद्त्यजन् स्वाभीष्टमप्राप्यानर्थपरम्परां प्राप्तः, तेन न्यायेनेत्यर्थः ॥ त- था सतीति॥ आत्मज्ञानाभावे सति विहन्येत मोक्षं न प्राप्तुयात् प्र- त्युतानर्थसंसारं च प्राप्नुयादित्यर्थः । ननु जीवस्य प्रधानैक्यसम्पदु- पासनार्थमिदं वाक्यमस्त्विति तत्राह ॥ एवं च सतीति॥ अबाधि- तात्मप्रमायां सत्यामित्यर्थः। कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्नतो मोक्षो दृष्टः तद्दृष्टान्तेन सत्ये ब्रह्मणि अहमित्यभिस- न्धिमतः मोक्षो यथा सत्याभिसन्धः तप्तपरशुं गृह्णाति स न दह्यते अथ मुच्यत इति श्रुत्योपदिष्टः स उपदेशः सम्पत्पक्षे न युक्त इत्याह ॥अन्यथेति॥ देहमुत्थापयतीत्युक्थं प्राणस्तस्मान्मोक्षोपदेशान्मुख्ये
Page 154
(१३४) रत्नप्रभाभासिते [अ० १। पा० १। इति। अपि च क्वचिद्ौणः शब्दो दृष्ट इति नैताव- ताशब्दप्रमाणकेऽर्थेगौणी कल्पनान्याय्या सर्व- त्रानाश्वासप्रसङ्गात्ायत्तूक्तं चेतनाचेतनयोः सा- धारण आत्मशब्द: क्रतुज्वलनयोरिव ज्योतिःश- ब्द इति, तन्न, अनेकार्थत्वस्यान्याय्यत्वात्।त- स्माच्चेतनविषय एव मुख्य आत्मशब्दश्र्वेतनत्वो- पचाराद्ूतादिषु प्रयुज्यते भूतात्मेन्द्रियात्मेति च, साधारणत्वेऽप्यात्मशब्दस्य न प्रकरणमुपपदं
र्धारयितुं शक्यते। न चात्राचेतनस्य निश्चायकं किश्चित् कारणमस्ति प्रकृतं तु सदीक्षित सन्नि- हितश्र चेतनः श्वेतकेतुः, न हि चेतनस्य श्र्वेतके- तोरचेतन आत्मा सम्भवतीत्यवोचाम। तस्मा- च्चेतनविषय इहात्मशब्द इति निश्रवीयते, ज्यो- सम्भवति गौणत्वस्यान्याय्यत्वाच्चात्मशब्दः सति मुख्य इत्याह॥ अ- पि चेति।। क्चिह्ृत्यादौ सर्वत्राहमात्मेत्यत्रापि मुख्य आत्मशब्दो न स्यादित्यर्थः। चेतनत्वोपचारात् भूतादिषु सर्वत्र चैतन्यतादात्म्या- दित्यर्थः। आत्मशब्दश्वेतनस्यैवासाधारण इत्युक्तं।अस्तु वा अव्यापि- वस्तूनां साधारण: तथापि तस्यात्र श्रुतौ प्रधानपरत्वेऽपि निश्षायका- भावान्न प्रधानवृत्तितेत्याह । साधारणत्वेऽपीति ॥। चेतनवाचित्वे तु प्रकरणं श्ेतकेतुपदं च निश्वायकमस्तीत्याह॥ प्रकृतं तिवति॥ उपपदस्य निश्चायकत्वं रफुटयति॥ न हीति॥ ततः किं तत्राह॥
Page 155
सू· ४ । अ० ४॥] (१३५) तिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढ: अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्र- तौ प्रवृत्त इत्यद्टष्ठान्तः । अथवा पूर्वसूत्र एवाश-
या व्याख्याय ततः स्वतन्त्र एव प्रधानकारण- निराकरणहेतुर्व्याख्येयः "तन्निष्ठस्य मोक्षोपदे- शा" दिति। तस्मान्नाचेतनं प्रधानं सच्छब्दवा- च्यम्। कुतश्र् न प्रधानं सच्छ्दवाच्यम्। हेयत्वावचनाच्च ॥८॥ यदि अनात्मैव प्रधानं सच्छब्दवाच्यं "स आत्मा" "तत्वमसि" इति इहोपदिष्टं स्यात् स तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा ॥ तस्मादिति॥ आत्मशब्दो ज्योतिःशब्दवन्नानार्थक इत्युक्तं द- ष्टान्तं निरस्यति ॥ ज्योतिरिति॥ कथं तर्हिं ज्योतिषा यजेतेति ज्यो- तिष्टोमे प्रयोगस्तत्राह ॥ अर्थवादेति॥ "एतानि वाव तानि ज्योतीषि य एतेऽस्य स्तोमाः" इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यं, "त्रिवृत्प- श्चदशस्त्रिवृत्सप्तदशस्त्रिवृदेकविंशस्तोमाः" तत्तदर्थप्रकाशकत्वेन गु- णेन ज्योतिःपदोक्ता ऋक्सङ्घाः, तथा च ज्योतींषि सोमा अस्येति ज्योतिष्टोम इत्यत्र ज्योतिःशब्दो गौण इत्यर्थः ॥ नन्वात्मशब्दा- दिति। पूर्वसूत्र एवात्मशब्दस्य प्रधाने गौणत्वसाधारणत्वशङ्कानिरासः कर्तुमुचितः मुख्यार्थस्य लाघवेनोक्तिसम्भवे गौणत्वनानार्थशङ्काया दुर्बलत्वेन तन्निरासार्थ पृथक्सूत्रायासानपेक्षणातू। तथा च शङ्को-
Page 156
(१३ ६) रत्नप्रभाभासिते [अ० १। पा० १।] भूदिति मुख्यमात्मानमुपदिदिक्षुस्तस्य हेयत्वं ब्रूयात्। यथा अरुन्धतीं दिदर्शयिषुः तत्समीप- स्थां स्थूलां ताराम् मुख्यां प्रथममरुन्धतीति ग्राहयित्वा तां प्रत्याख्याय पश्ादरुन्धतीमेव ग्राहयति तद्रन्नायमात्मेति ब्रूयात्। न चैवमवो- चत्। सन्मात्रावगतिनिष्ठैव हि षष्ठप्रपाठकप- रिसमाप्तिर्दश्यते। चशब्दः प्रतिज्ञाविरोधाभ्यु- च्चयप्रदर्शनार्थः। सत्यपि हेयत्ववचने प्रतिज्ञावि- रोधः प्रसज्येत कारणविज्ञानाद्ि सर्व विज्ञात- मिति प्रतिज्ञानम्। उत तमादेशमप्नाक्षः, येना- त्तरत्वेन सूत्रव्याख्यानं नातीव शोभते, इत्यरुचेराह ॥ अथ वेति॥ निरस्ता समस्ता गौणत्वनानार्थत्वशङ्क यस्यात्मशब्दस्य स तच्छङ्कस्तस्य भावस्तत्ता तया इत्यर्थः ॥ तत इति॥ सत आत्मशब्देन जीवाभि- नत्वादिति हेत्वपेक्षया मोक्षोपदेशः स्वतन्त्र एव प्रधानकारणत्वनि- रासे हेतुरित्यर्थः। ननु यथा कश्विदरुन्धतीं दर्शयितुं निकटस्थां स्थू- लां तारां अरुन्धतीत्वेनोपदिशति तद्ददनात्मन एव प्रधानस्य सत्प- दार्थस्यात्मत्वोपदेश इति शङ्कते॥ कुतश्रेति॥ प्रधानं सच्छब्दवाच्यं नेति कुत इत्यर्थः । सौत्रश्वकारोऽनुक्तसमुच्चयार्थ इत्याह ॥ चश़ब्द इति॥ विवृणोति ॥ सत्यपीति ॥ अपिशब्दान्नास्त्येवेति सूचयति। वेदानधीत्यागतं सब्धं पुत्रं पितोवाच, हे पुत्र उत अपि आदिश्यत इत्यादेश: उपदेशैकलभ्यः सदात्मा तमप्यप्राक्षः गुरुनिकटे पृष्टवान- सि यस्य श्रवणेन मननेन विज्ञानेनान्यस्य श्रवणादिकं भवतीत्यन्वयः । नन्वन्येन ज्ञातेन कथमन्यदज्ञातमपि ज्ञातं स्यादिति पुत्रः शङ्कते १ अनस्रम्।
Page 157
सू० १ । अ० ५] (१३७) श्रुतं श्रुतं भवति अमतं मतं, अविज्ञातं विज्ञा- तम्,, इति।"कर्थं नु भगवः सआदेशो भवति, इति। यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात्, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं, एवं सोम्य सआदेशो अवति" इति वाक्योपक्रमे श्रवणात्। नच सच्छब्दवा- च्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति अप्रधा- नविकारत्वाद्गोक्तृवर्गस्य, तस्मान्न प्रधानं स- च्छब्दवाच्यम्। कुतश्र् न प्रधानं सच्छव्दवाच्यम्॥ ॥ कथमिति॥ हे भगवः कथं नु खलु स भवतीत्यर्थः, कार्यस्य का- रणान्यत्वं नास्तीत्याह ॥। यथेति ॥ पिण्डः स्वरूपं तेन विज्ञातेनेति शेषः। तत्र युक्तिमाह ॥वाचेति॥ वाचा वागिन्द्रियेणारभ्यत इति वि- कारो वाचारम्भणम् ननु वाचा नामैवारभ्यते न घटादिरित्याशङ्क्च नाममात्रमेव विकार इत्याह॥नामधेयमिति। "नामधेयं विकारोऽ- यं वाचा केवलमुच्यते वस्तुतः कारणाद्जिन्नो नास्ति तस्मान्मृषैव स इति भाव:। विकारमिथ्यात्वे तदभिन्नकारणस्यापि मिथ्यात्वमिति नेत्याह॥ मृत्तिकेति॥ कारणं कार्याह्विन्नसत्ताकं, न कार्य कारणा- द्विन्नं, अतः कारणातिरिक्तस्य कार्यस्वरूपस्याभावात् कारणज्ञाने- न तज्ज्ञानं भवतीति स्थिते दार्ष्टान्तिकमाह ॥ एवमिति॥ मृद्द- द्रह्लैव सत्यं वियदादिविकारो मृषेति ब्रह्मज्ञाने सति ज्ञेयं किश्चिन्ना- वशिष्यते इत्यर्थः । यदपि प्रधाने ज्ञाते तत्तादात्म्याद्विकाराणां ज्ञानं भवति न पुरुषाणां, तेषां प्रधानविकारत्वाभावादित्याह ॥ न चेति॥ १८
Page 158
(१३८) रत्नप्रभाभासिते [अ० १। पा० १।
स्वाप्ययात्॥ ९॥ तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते न. "यत्रैत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो अवति तस्मादेनं स्वपितीव्याचक्षते स्वं त्यपीतो भवति" इति ए- षा श्रुतिः स्वपितीत्येतत् पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति। स्वशब्देनेहात्मोच्यते यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवती- त्यर्थः। अपिपूर्वस्य एतर्लयार्थत्वं प्रसिद्धं, प्रभ- वाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात्।
- सनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान् अस्माकं जीवानां संद्रूपत्वात्तज्ज्ञाने ज्ञानमिति भावः ॥ कुतश्चेति॥ पुनरपि करमाद्वेतोरित्यर्थः, सुषुप्तौ जीवस्य सदात्मनि स्वस्मिन् अ -. प्ययश्रवणात् सच्चेतनमेवेति सूत्रयोजना। एतत् स्वपनं यथा स्यात्तथा यत्र सुषुप्तौ स्वपितीति नाम भवति तदा पुरुषः सता सम्पन्न एकी- भ्रवति सदैक्येऽपि नामप्रवृत्तिः कथं तत्राह ॥ स्वमिति॥ तत्र लोक- प्रसिद्धिमाह ॥ तस्मादिति ॥ हि यस्मात् स्वं सदात्मानमपीतो भव- तीति तस्मादित्यर्थः। श्रुतेस्तात्पर्यमाह॥ एषेत्यादिना ॥ कथमेता- वता प्रधाननिरास इत्यत आह॥ स्वशद्देनेति॥ एतेर्धातोर्गत्यर्थ- स्यापि पूर्वस्य लयार्थत्वेऽपि कथं नित्यस्य जीवस्य लय इत्याशङ्ग्य उपाधिलयादिति वक्तुं जाग्रत्स्वप्रयोरुपाधिमाह ॥ मन इति ॥ ऐन्द्रि- यकमनोवृत्तय उपाधयः, तैर्घटादिस्थूलार्थविशेषाणामात्मना सम्ब- १ ब्रह्माभिन्नत्वात्।
Page 159
सू० १०। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१३९) गृह्ंस्तद्विशेषापन्नो जीवो जागर्ति, तद्वासना- विशिष्टः स्वन्नान् पश्यन् मनःशब्दवाच्यो भव- ति, स उपाधिद्वयोपरमे सुषुप्तावस्थायाम् उपा- धिकृतविशेषाभावात् स्वात्मनि प्रलीन इवेति स्वं त्यपीतो भवतीत्युच्यते। यथा हृदयं शब्दनि- र्वचनं श्रुत्या दर्शितम् "सवा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृदयम्" इति,तस्माडृद्यमि- ति, यथा वा अशनायोदन्याशब्दप्रवत्तिमूलं द- ्शयति श्रृतिः "आप एव तद्शितं नयन्ते तेज एव तत्पीतं नयते" इति च, एवं "स्वमात्मानं सच्छब्दवाच्यमपीतो क्षवति" इति इममर्थ स्व- पितिनामनिर्वचनेन दर्शयति।नच चेतन आत्मा न्धादात्मा तानिन्द्रियार्थान् पश्यन् स्थूलविशेषेण देहेनैक्यभ्रान्तिमा- पन्नो विश्वसंज्ञो जागर्ति जाग्रद्वासनाश्रयमनोविशिष्टः सन् तैजससं- ज्ञः स्वप्ने विचित्रवासनासहकृतमायापरिणामान् पश्यन् "सोम्य त- न्मनः" इति श्रुतिस्थमनःशब्दवाच्यो भवति, स आत्मा स्थूलसूक्ष्मो- पाधिद्दयोपरमेऽहं नरः कर्तेति विशेषाभिमानाभावाल्लीन इत्युपचर्य- त इत्यर्थः। ननु स्वपितीति नामनिरुक्तेरर्थवादत्वान्न यथार्थतेत्यत आ- ह। यथेति॥ तस्य हृदयशव्दस्यैतनिनिर्वचनं "तदशितमन्नं द्रवीकत्य नयन्ते जरयन्तीत्याप एवाशनायापदार्थः तत्पीतं उदकं नयते शोषय- ति" इति "तेज एवोदन्यं" अंत्र दीर्घश्छान्दसः। एवमिदमपि निर्वच- नं यथार्थमित्याह॥ एवमिति। इदं च प्रधानपक्षे न युक्तमित्याह ॥न १ अशनायाशब्दे।
Page 160
(१४०) रत्नप्रभाभासिते [अ० १।पा०१। अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत। यदि पुनः प्रधानमेवात्मीयत्वात् स्वशब्देनैवोच्येतै- वमपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येत, श्रुत्यन्तरं च "प्राज्ञेनात्मना सम्परिष्वक्तो न बात्ययं किंच न वेद नान्तरम्" इति सुषुप्तावस्था- यां चेतनेऽप्ययं दर्शयति, अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं, न प्रधानम्। कुतश्र न प्रधानं जगतः कारणम्। गतिसामान्यात् ॥१०॥ यदि तार्किकसमय इव वेदान्तेष्वपि भषिन्ना का- रणावगतिरभविष्यत् क्वचिच्चेतनं ब्रह्म जगतः कारणम् क्वचिद्चेतनं प्रधानं क्वचिदन्यदेवेति ततः कदाचित् प्रधानकारणवादानुरोधेनापी- क्षत्यादिश्रवणमकल्पयिष्यत्, न त्वेतदस्ति, समानैव हि सर्वेषु वेदान्तेषु चेतनकारणा- चेति। स्वशब्दस्यात्मनीवात्मीयेडि शक्तिरस्तीत्याशङ्ग्चाह।।यदीति। प्राज्ञेन बिम्बचैतन्येनेश्वरेण सम्परिष्वङ्गे भेदभ्रमाभावेनाभेदइत्यर्थः। तत्तद्वेदान्तजन्यानामवगतीनां चेतनकारणविषयकत्वेन सामान्यान्न चेतनं जगतः कारणमिति सुत्रार्थ व्यतिरेकमुखेनाह॥ यदि तार्किके- त्यादिना। अन्यत् परमाण्वादिकम् ॥ न त्वेतदिति॥ अवगतिवैष-
Page 161
सू०११। भ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१8१) वगतिः, यथाग्नेर्ज्वलतः सर्वा दिशो विस्फु- लिङ्गा विप्रतिष्ठेरन, एवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते। "प्राणेभ्यो दे- वा देवेभ्यो लोकाः" इति "तस्माद्वा एतस्मादा- त्मन आकाश: सम्भूतः" इति "आत्मन एवेदं सर्वम्" इति "आत्मन एष प्राणो जायते" इति चात्मनः कारणत्वं दर्शयन्ति सर्वेवेदान्ताः।आ- त्मशब्दश् चेतनवचन इत्यवोचाम। महच्च प्रा- माण्यकारणमेतद्यद्वेदान्तवाक्यानां चेतनकार- णत्वे समानगतित्वं चक्षुरादीनामिव रूपादिषु, अतो गतिसामान्यात् सर्वज्ञं ब्रह्म जगतः कार- णम्। कुतश्र सर्वज्ञं ब्रह्म जगतः कारणम्। श्रृतत्वाच्॥ ११॥ स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति न्यमित्यर्थः। विप्रतिष्ठेरन् विविधं नानादिशः प्रतिगच्छेयुः प्राणाश्र- क्षुरादयो यथा गोलकं प्रादुर्भवन्ति प्राणेभ्योऽनन्तरं देवाः सूर्यादयस्त- दनुग्राहकाः, तदनन्तरं लोक्यन्त इति लोका विषया इत्यर्थः। ननु वे- दान्तानां स्वतः प्रामाण्यत्वेन प्रत्येकं स्वार्थनिश्रायकत्वसम्भवात् किं गतिसामान्येनेत्याह॥ महञ्चेति ॥ एकरूपावगतिहेतुत्वं वेदान्तानां प्रामाण्यसंशयनिवृत्तिहेतुरित्यत्र दृष्टान्तमाह॥ चक्षुरिति॥यथा स- रवेषां चक्षुषां एकरूपावगतिहेतुत्वं श्रवणानां शब्दावगतिहेतुत्वं घ्रा- णादीनां गन्धादिषु, एवं ब्रह्मणि वेदान्तानां गतिसामान्यं प्रामाण्य-
Page 162
(१४२) रत्नप्रभाभासिते [अ०१।पा० १। श्रूयते श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमी- श्वरं प्रकृत्य "न तस्य कश््वित्पतिरस्ति लोके, न- चेशिता नैव च तस्य लिङ्गम्, स कारणं करणा- धिपाधिपो न चास्य कश्िजनिता न चाधिपः"' इति, तस्मात् सर्वज्ञं ब्रह्म जगतः कारणं, नाचेत- नं प्रधानमन्यद्वेति सिद्धम् ॥ ११ ॥ "जन्मा- दस्य यत" इत्यारभ्य "श्रुतत्वाच्चे" त्येवमन्तैः सूत्रैर्यान्युदाहतानि वेदान्तवाक्यानि,तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलय कारण- मित्येतस्यार्थस्य प्रतिपादकत्वम् न्यायपूर्वकं प्रतिपादितम्। गतिसामान्योपन्यासेन च स- र्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातं दाढर्यहेतुरित्यर्थः एवमीक्षत्यादिलिड्गैरचेतने वेदान्तानां समन्वयं नि- रस्य चेतनवाचकशब्देनापि निरस्यति॥ श्रुतत्वाच्चेति ॥ सूत्रं व्याच- ष्॥ स्वशब्देनेति ॥ स्वस्य चेतनस्य वाचकःसर्वविच्छव्दज्ञः का- लकालो गुणी सर्वविद्यः"इति सर्वज्ञं परमेश्वरं प्रकत्य "स सर्ववित् कारणं" इति श्रुतत्वान्नाचेतनं कारणमिति सूत्रार्थः । करणाधिपा जीवास्तेषामधिपः, अधिकरणार्थमुपसंहरति ॥ तस्मादिति ॥ ईक्ष- णात्मशब्दादिकं परमाण्वादावप्ययुक्तमिति मत्वाह ॥ अन्यद्वेति॥ । ११ ॥ वृत्तानुवादेनोत्तरसूत्रसन्दर्भमाक्षिपति ॥ जन्मादीति ॥ प्र- थमसूत्रस्य शास्त्रोपोद्दातत्वात् जन्मादिसूत्रमारभ्येत्युक्तं सर्ववेदान्तानां कार्ये प्रधानायचेतने च समन्वयनिरासेन ब्रह्मपरत्वं व्याख्यातम्, अतः प्रथमाध्यायार्थस्य समाप्तत्वादुत्तरग्रन्थारम्भे किं कारणमित्यर्थः,
Page 163
सू० ११ । अ० ५] शाङ्करव्रह्मसूत्रभाष्ये (१४३) अतः परस्य ग्रन्थस्य किमुत्थानमिति उ- च्यते, द्विरूपं हि ब्रह्मावगम्यते नामरूपविकार- भदोपाधिविशिष्टं, तद्विपरीतं च सर्वोपाधिविव- र्जितम्। "यत्र हि द्वैतमिव भवति तदितर इतरं प- श्यति,यत्र व्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये- त्, यत्र नान्यत् पश्यति नान्यच्छणोति नान्यद्वि- जानाति सभूमा, अथ यत्रान्यत्पश्यत्यन्यच्छृणो- वेदान्तेषु सगुणनिर्गुणब्रह्मवाक्यानां बहुलमुपलब्धेः। तत्र कस्य वाक्य- स्य सगुणोपासनाविधिद्वारा निर्गुणे समन्वयः कस्य वा गुणविवक्षां विना साक्षादेव ब्रह्मणि समन्वय इत्याकाङ्गैव कारणमित्याह ॥ उच्यत इति ॥ सङ्विप्य सगुणनिर्गुणवाक्यार्थमाह ॥ द्विरूपं हीति॥ नामरू- पात्मको विकारः सर्व जगत् तद्ज्ेदो हिरण्यश्मश्रुत्वादिविशेष इति वाक्यार्थः। वाक्यान्युदाहरति ॥ यत्र हीत्यादिना॥ यस्यां खल्व- ज्ञानावस्थायां द्वैतमिव कल्पितं भवति तत्तदेतरः सन्नितरं पश्यतीति दृश्योपाधिकं वस्तु भाति। यत्र ज्ञानकाले विदुषः सर्व जगदात्ममात्र- मभूत्तदा तु केन कं पश्येदित्याक्षेपान्निरुपाधिकं तच्वं भाति, यत्र भूम्नि निश्चिवतो विद्वान् द्वितीयं किमपि न वेत्ति सोऽद्वितीयो भूमा प- रमात्मा निर्गुणः । अथ निर्गुणोक्त्यनन्तरं सगुणमुच्यते, यत्र सगुणे स्थितो द्वितीयं वेत्ति तदल्पं परिच्छिन्नं, यस्तु भूमा तदमृतं नित्यम् ॥ अथेति ॥ पूर्ववत् व्याख्येयम्। धीरः परमात्मैव सर्वाणि रूपाणि विचित्य सृष्टा नामानि च कत्वा बुद्धयादौ प्रविश्य जीवसंज्ञो व्यव- हरन् यो वर्त्तते,ससगुणसं निर्गुणत्वेन विद्दानप्यमृतो भवति, निर्गताः कला अंशा यस्मात्तनिनष्कलं, अतो निरंशत्वान्निष्क्रियं, अतः शान्तम- १ भूमामृतो ्तयनन्तरमित्यर्थोथ शब्दस्य व्याख्येय इति भावः ।
Page 164
(१४४) रत्नप्रभाभासिते [अ० १।पा० १। त्यन्यद्विजानाति, तदल्पं, यो वै भूमा, तदमृतं, अथ यदल्पं, तन्मर्व्य, सर्वाणि रूपाणि विचित्य धीर:, नामानि कृत्वाभिवदन् यदास्ते, निष्कलं निष्क्रियं शान्तं निरवदयं निरअनं, अमृतस्य परं सेतुं दग्धेन्धनमिवानलं, नेति नेत्यात्मा अस्थूल- मनणुम-्हस्वमदीर्घम्"इति "न्यूनमन्यत् स्था- नं, सम्पूर्णमन्यत्" इति च, एवं सहस्रशो वि- घाविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शय- न्ति वाक्यानि। तत्राविद्यावस्थायां ब्रह्मण उ- परिणामि निरवयं रागादिदोषशून्यं, अअ्जनं मूलैतमःसम्बन्धो धर्मा- दिकं वा तच्छून्यं निरञ्जनं, किश्चामृतस्य मोक्षस्य स्वयमेव वाक्योत्थ- वृत्तिस्थत्वेन परमुत्कष्टं सेतुं लौकिकसेतुवत् प्रापकं यथा दग्धेन्धनो- Sनल: शाम्यति तमिवाविद्या तज्जं दग्ध्वा प्रशान्तं निर्गुणमात्मानं वि- व्यादित्यर्थः ॥ नेति नेतीति ॥ व्याख्यातं। स्थूलादिद्ैतशून्यम्। रूप- द्दये श्रुतिमाह॥ न्यूनमिति॥ द्वैतस्थानं न्यूनं अल्पं सगुणरूपं नि- र्गुणादन्यत् तथा सम्पूर्ण निर्गुणं सगुणादन्यदित्यर्थः, एकस्य हिरूप- त्वं विरुद्धमित्यत आह॥ विद्येति॥ विद्याविषयो ज्ञेयं निर्गुणं सत्यं, अविद्याविषय उपास्यं सगुणकल्पितमित्यविरोधः । तत्राविद्याविष- यं विवृणोति ॥ तत्रेति ॥ निर्गुणज्ञानार्थमारोपितप्रपश्चमाश्रित्य बो- धातू प्राक्काले गुडजिह्विकान्यायेन तत्फलार्थान्युपासनानि विधीयन्ते तेषां चित्तैका्यद्वारा ज्ञानं मुख्यं फलमिति तद्दाक्यानामपि महातात्प- रये ब्रह्मणीति मन्तव्यं, नामब्रह्मेत्याद्युपास्तीनां कामचारादिरभ्युदयःफ- लं,दहरायुपास्तीनां क्रममुक्तिः उद्धीथादिध्यानस्य कर्मसमृद्धिःफलमिति १ कारणाविद्यासम्बन्ध इत्यर्थः।
Page 165
सू० ११। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१४५) पास्योपासकादिलक्षणः सर्वो व्यवहारः। तत्र कानिचित् ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित् क्रममुत्त्यर्थानि, कानिचित् कर्मसमृ- द्वयर्थानि, तेषां गुणविशेषोपाधिभेदेन भेद:।ए- क एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैरविशिष्ठ उपास्यो यद्यपि भवति, तथापि यथागुणोपा- सनमेव फलानि भिद्यन्ते "तंयथा यथोपासते तदेव अवति" इति श्रुतेः "यथा ऋतुरस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवति" इति च। स्मृतेश्र। "यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्ावभावितः"इति॥ यद्यप्येक एव आत्मा सर्वभूतेषु स्थावरज- ङ्रमेषु गूढस्तथापि चित्तोपाधिविशेषतारतम्यात् आत्मनः कूटस्थनित्यैकरूपस्याप्युत्तरोत्तरमा- विष्कृततारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते "त- भेदः, ध्यानानां मानसत्वात्,ज्ञानान्तरङ्गत्वाच्च, ज्ञानकाण्डेविधानमिति भावः। ननूपास्यब्रह्मण एकत्वात् कथमुपासनानां भेदस्तत्राह तेषा- मिति॥ गुणविशेषा: सत्यकामत्वादयो हृदयादिरुपाधिः । अत्र स्व- यमेवाशङ्क्य परिहरति ॥ एक इति॥ परमात्मस्वरूपाभेदेऽप्युपा- धिभेदेनोपहितोपास्यरूपभेदादुपासनानां भेदे सति फलभेद इति भा- वः। तं परमात्मानं ययद्गुणत्वेन लोका राजानमिवोपासते तत्तद्ु- १९
Page 166
(१४६) रत्नप्रभाभासिते [अ० १।पा० १ । स्य य आत्मानमाविस्तरां वेद" इत्यत्र। स्मृतावपि। यद्द्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्। इति यत्र यत्र विभूत्याद्यतिशयःस स ईश्वर इत्यु- पास्यतया चोदते, एवमिहापि आदित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिद्गात् पर एवे- ति, वक्ष्यति, एव "माकाशस्तल्लिद्गादि" त्यादि- षु द्रष्टव्यं एवं सदोमुक्तिकारणमप्यात्मज्ञानमु- णवच्वमेव तेषां फलं भवति, कतुः सङ्कल्पो ध्यानम् इह यादशध्या- नवान् भवति मृत्वा तादृशोपास्यरूपो भवतीत्यत्रैव भगवद्दाक्यमाह ॥ र्मृतेश्रेति॥ ननु सर्वभूतेषु निरतिशयात्मन एकत्वादुपास्योपा- सकयोस्तारतम्यश्रुतयः कथमित्याशङ्गां परिहरति ॥ यद्यप्येक इति॥ उक्तानामुपाधीनां शुद्धितारतम्यादै्धर्यज्ञानसुखरूपशक्तीनां तारतम्य- रूपा विशेषा वन्ति तैरेकरूपस्यात्मन उत्तरोत्तरं मनुष्यादिहिरण्यग- र्भान्तेष्वाविर्भावतारतम्यं श्रूयते। तस्यात्मन आत्मानं स्वरूपमाविस्तरां प्रकटतरं यो वेद उपास्ते सोऽश्रुते तदिति तरप्प्रत्ययादित्यर्थः। तथा च निकृष्टोपाधिरात्मैवोपासकः उत्कष्टोपाधिरीश्वर उपास्य इत्यौपाधिकं तारतम्यमविरुद्धमिति भावः। अत्रार्थे भगवद्गीतामुदाहरति॥ स्मृता- विति॥ अत्र सूर्यदेरपि न जीवत्वेनोपास्यता किं त्वीश्वरत्वेनेत्युक्तं भवति। तत्र सूत्रकारसम्मतिमाह ॥ एवमिति॥ उदयः असम्बन्धः एवं यस्मिन् वाक्ये उपाधिर्विवक्षितः तद्दाक्यमुपासनापरमिति वक्तु- मुत्तरसुत्रसन्दर्भस्यारम्भ इत्युक्क्ता यत्र न विवक्षितः तद्दाक्यं ज्ञेयब्रह्म- परमिति निर्णयार्थमारम्भ इत्याह ॥ एवं सद्य इति ॥ अन्नमयादि- कोशा उपाधिविशेषा:, वाक्यगतिस्तात्पर्यम्। आरम्भसमर्थनमुपसं-
Page 167
सू० १२। अ० ५॥] शाङ्करब्रह्मसूत्रभाष्ये (१४७) पाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितो- पाधिसम्बन्धविशेषं परापरविषयं परापरविष यत्वेन सन्दित्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवति। यथैव हिताव "दानन्दमयो- ड्भ्यासा" दिति, एवमेकमपि ब्रह्मापेक्षितोपा- धिसम्बन्धं निरस्तोपाधिसम्बन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषु उपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते। यच्च "गतिसामान्यादि"- त्यचेतनकारणनिराकरणमुक्तं तदपि वाक्यान्त- राणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीत- कारणनिषेधेन प्रपञ्यते॥
आनन्दमयोऽयासात् ॥१२॥ तैत्तिरीयके "अन्नमयं" "प्राणमयं""मनो- हरति॥ एवमेकमपीति ॥ सिद्धवदुक्तगतिसामान्यस्य साधनार्थ- मप्युत्तरारम्भ इत्याह ॥ यञ्चेति ॥ अन्नं प्रसिद्धं प्राणमनोबुद्धयः हिरण्यगर्भरूपाः, बिम्बचैतन्यमीश्वर आनन्दः "तेषां पञ्चानां विकारा आध्यात्मिका देहप्राणमनोबुद्धिजीवा अन्नमयादयः पश्चकोशाः"इ- ति श्रुतेः परमार्थः। पूर्वाधिकरणे गौणमुख्येक्षणयोरतुल्यत्वेन संशया- भावाद्गौणप्रायपाठो न निश्वायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्यें च मुख्यत्वात् संशये विकारप्रायपाठादानन्दविकारो जीव आनन्दम- य इति निश्रवयोऽस्तीति प्रत्युदाहरणसङ्गत्या पूर्वपक्षमाह॥कस्मादि- ति। आकाङ्गापूर्वकं, अन्नमयादीति श्रुत्यादिसङ्गतय: स्फुटा एव,
Page 168
(१४८) रत्नप्रभाभासिते [अ० १।पा० १। मयं""विज्ञानमयं च" अनुक्रम्याम्नायते "त- स्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मा- नन्दमयः इति। तत्र संशयः। किमिह आनन्द- मयशब्देन परमेव ब्रह्मोच्यते "यत् प्रकृतं सत्यं ज्ञानमनन्तं ब्रह्म" इति, किंवा अन्नमयादिवत् ब्रह्मणोऽर्थान्तरमिति, किं तावत् प्राप्तं ब्रह्मणोS- र्थान्तरममुख्य आत्मा आनन्दमयः स्यात्।क- स्मात्, अन्नमयादमुख्यात्मप्रवाहपतितत्वात्। अथापि स्यात् सर्वान्तरत्वादानन्दमयो मुख्यए- वात्मेति न स्यात् प्रियाद्यवयवयोगात्, शारी- रत्वश्रवणाच्च।मुख्यश्रेदात्मा आनन्दमयःस्या- न्नप्रियादिसंस्पर्श : स्यात् तस्य इहतु "प्रियमेव शिरः" इत्यादि श्रूयते, शारीरव्वं चश्रूयते "तस्यै- प एव शारीर आत्मा य: पूर्वस्य" इति तस्य पू- र्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः । न व स शरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्य:, तस्मात् सं- पूर्वपक्षे वृत्तिकारमते जीवोपास्त्या प्रियादिप्राप्तिः फलं, सिद्धान्ते तु ब्रह्मोपास्त्येति भेदः, शङ्गते ॥ अथापीति॥ परिहरति ॥ न स्यादि- ति। संगृहीतं विवृणोति ॥ मुख्य इति॥ परमात्मेत्यर्थः, शारीरत्वे- Sपीश्वरत्वं किं न स्यादित्यत आह ॥ न चेति॥ जीवत्वं दुर्वारमि- त्यर्थः। नन्वानन्दपदाभ्यासेऽप्यानन्दमयस्य ब्रह्मत्वं कथमित्याश-
Page 169
सू० १२। अ० ५] शाङ्करत्रह्मसूत्रभाष्ये (१४९) सार्येवानन्दमय आत्मा इत्येवं प्राप्ते इदमुच्यते, आनन्दमयोऽभ्यासात्, पर एवात्मानन्दम- यो भवितुमर्हति। कुतोऽभ्यासात्।परस्मिन्नेव त्या- त्मन्यानन्दशब्दो बहुकृत्वाऽभ्यस्यते आनन्दम- यं प्रस्तुत्य "रसो वै सः" इति तस्यैव रसत्वमु- क्कोच्यते। "रसं त्येवायं लब्ध्वानन्दी अवति को ह्येवान्यात् क: प्राण्याद्यदेष आकाश आनन्दो न स्यात् , एष त्येवानन्दयाति, सैषानन्दस्य मीमांसा अवति" "एतमानन्दमयमात्मानमुप- संक्रामति?।"आनन्दं ब्रह्मणो विद्वान्न विभेति कु- तश्ष्न" इति।"आनन्दोब्रह्मेति व्यजानात्" इति च। श्रुत्यन्तरे च "विज्ञानमानन्दंब्रह्म" इति ब्र- ङन्च ज्योतिष्टोमाधिकारे ज्योतिःपदस्य ज्योतिष्टोमपरत्ववदानन्दम- यप्रकरणस्थानन्दपदस्यानन्दमयपरत्वात् तदभ्यासस्स्य ब्रह्मत्वसाधक इत्यभिप्रेत्याह॥आनन्दमयं प्रस्तुत्येति॥रसः सार आनन्द इत्यर्थः अयं लोकः यत् यदि एष आकाशः पूर्णः आनन्दःसाक्षी प्रेरको न स्या- तू तदा को वान्याच्चलेत् को वा विशिष्य प्राण्याज्जीवेत् तस्मादेष ए- वानन्दयाति, आनन्दयतीत्यर्थः। "युवा स्यात् साधुयुवा" इत्यादिना वक्ष्यमाणमनुष्ययुवानन्दमारभ्य ब्रह्मानन्दावसाना एषा सन्निहिता आनन्दस्य तारतम्यमीमांसा भवति, उपसंक्रामति "विद्वान् प्राप्नोति" इत्येकदेशिनामर्थः । मुख्यसिद्धान्ते तूपसंक्रमणं विदुषः कोशानां प्र- त्यङ्मात्रत्वेन विलापनमिति ज्ञेयं शिष्टमुक्तार्थम् आनन्दशव्दाङ्र्ला- वगतिः सर्वत्र समानेति गतिसामान्यार्थमाह॥ श्रुत्यन्तरे चोति॥।लि-
Page 170
(१५०) रत्नप्रभाभासिते · [अ० १।पा० १। ह्ण्येव आनन्दशब्दो दष्टः, एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासात् आनन्दमय आत्मा ब्रह्मेति गम्यते। यत्तूक्तं अन्नमयाद्यमुख्यात्मप्र- वाहपतितत्वादानन्दमयस्याप्यमुख्यात्मत्वमि- ति, नासौ दोषः, आनन्दमयस्य सर्वान्तरत्वात्। मुख्यमेव त्यात्मानं उपदिदिक्षु शास्त्रं लोकबुद्धि- मनुसरद् अन्नमयं शरीरमनात्मानमत्यन्तमूढा- नामात्मत्वेन प्रसिद्धमनूद्य मूपानिषिक्तद्रुतता- ्ादिप्रतिमावत् ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मा इति ग्राहयेत् प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्िंषत- रम्। यथारुन्धतीनिदर्शने बह्ञीष्वपि तारास्व- 3 मुख्यास्वरुन्धतीषु दर्शितासु या अन्ते प्रदर्श्यते सा मुख्यैवारुन्धती भवति, एवमिहाप्यानन्दम- यस्य सर्वान्तरत्वान्मुख्यमात्मत्वम्। यन्तु ब्रूषे ङ्गादमुख्यात्मसन्निधेर्बाध इति मत्वाह॥ नासाविति॥ सर्वान्तरत्वं न श्रुतमित्याशङ्क्च्य ततोऽन्यस्यानुक्तेस्तस्य सर्वान्तरत्वमिति विवृणोति । मुख्यमिति लोकबुद्धिमिति।तस्याः स्थूलग्राहितामनुसरदित्यर्थ: ताम्रस्य मूषाकारत्ववत् प्राणस्य देहाकारत्वं देहेन सामान्यं तथा मनः प्राणाकारं तेन समामत्याह॥ पूर्वेणति॥ अतीतो योऽनन्तर उपा- अतिसम्बद्धमित्यर्थः।
Page 171
सू० १३। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१५१) प्रियादीनां शिरस्त्वादिकल्पना अनुपपन्ना मु- ख्यस्यात्मनः इत्यतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः। शारीरत्वमप्यानन्दम- यस्यान्नमयादिशरीरपरम्परया प्रदृश्यमानत्वा- त्, न पुनः साक्षादेव शारीरत्वं संसाखिवत्, त- स्मादानन्दमयः पर एवात्मा ॥१२॥ विकारशव्दान्नेति चेन्न प्राचुर्यात्॥।१३।। अत्राह नानन्दमयः पर आत्मा भवितुमर्हति। कस्मात्। विकारशब्दात्, प्रकृतवचनाद्यमन्यः शब्दो विकारवचनः समधिगत आनन्दमय इ- ति मयटो विकारार्थत्वात्, तस्मादन्नमयादिश- ब्दवत् विकारविषय एवायमानन्दमयशब्द इति चेत्, न, प्राचुर्यार्थेऽपि मयटः स्मरणात्तत्परकृतव- चने मयडिति हि प्रचुरतायामपि मयट् स्मर्यते, यथान्नमयो यज्ञ इति अन्नप्रचुर उच्यते, एव- मानन्दप्रचुरं ब्रह्मानन्दमयं उच्यते। आनन्द प्र-
धिरविज्ञानकोशस्तत्कता सावयवत्वकल्पना शरीरेण ज्ञेयत्वाच्छारीर- त्वमिति लिङ्गइदयं दुर्बलं, अतः सहायाभावादभ्याससर्वान्तरत्वाभ्यां विकारसन्निधेबाध इति भावः ॥१२ ॥ विकारार्थकमयट् श्रुतिसहाय इत्याशङ्ग्य मयटः प्राचुर्येऽपि विधानान्मैवमित्याह॥विकारेत्यादि- ना ।। तत्प्रकतवचने मयडिति तदिति प्रथमासमर्थाच्छब्दात् प्राचुर्य-
Page 172
(१५२) रत्नप्रभाभासिते [अ० १। पा० १। चुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन् उ- त्तरस्मिन स्थाने शतगुण आनन्द इत्युक्का ब्र- ह्मानन्दस्य निरतिशयत्वावधारणात्, तस्मात् प्राचुर्यार्थे मयट्॥१३॥ तद्धेतुव्यपदेशाच॥ १४॥ इतश्र प्राचुर्यार्थे मयट् यस्मादानन्दहेतुव्वं ब्र- ह्मणो व्यपदिशति श्रुतिः "एष त्येवानन्दया- ति" इति आनन्दयतीत्यर्थः; यो ह्यन्यानानन्द- यति स प्रचुरानन्द इति प्रसिद्वं भवति। यथा लोके योऽन्येषां धनिकत्वमापादयति सप्रचुरध- न इति गम्यते तद्वत्, तस्मात्, प्राचुर्यरार्थऽपि मयटः सम्भवादानन्दमयः पर एव आत्मा॥१४॥ मान्त्रवणिकमेव च गीयते॥ १५॥ इतश्रानन्दमयः पर एवात्मा यस्मात् "ब्र- विशिष्टस्य प्रस्तुतस्य वचनेऽभिधाने गम्यमाने मयट्प्रत्ययो भवतीति सूत्रार्थः । अत्र वचनग्रहणात् प्रकतस्य प्राचुर्यवैशिष्ट्यसिद्धिः, तादश- स्य लोके मयटोऽभिधानायथा अन्नमयो यज्ञ इति, अत्र ह्यन्नं प्रचुर- मस्मिन्नित्यन्नशब्द: प्रथमाविभक्तियुक्तस्तस्मान्मयट्प्रत्ययः यज्ञस्य प्र- कत्यर्थान्नप्राचुर्यवाची दृश्यते न शुद्धप्रकृतवचन इति ध्येयम्॥१ ३॥ सूत्रस्थचशब्दोऽनुक्तसमुच्चयार्थ इति मत्वा व्याचष्टे॥ इतश्रेति॥ त- च्ानुक्तं ब्रह्मानन्दस्य निरतिशयत्वावधारणं पूर्वमुक्तम् ।। १४।। आ- नन्दमयस्य ब्रह्मत्वे लिङ्गमुत्ता प्रकरणमाह ॥ मान्त्रेति॥ यस्मादेवं
Page 173
(१५३) हविदाप्नोति परम्" इत्युपक्रम्य "सत्यं ज्ञान- मनन्तं ब्रह्म" इति अस्मिन्मन्त्रे यत् ब्रह्म प्रक- तं सत्यज्ञानानन्तविशेषणैनिर्धारितं, यस्मादा- काशादिक्रमेण स्थावरजङ्गमानि भूतान्यजाय- न्त, यच्च भूतानि सृष्ट्रा तान्यनुप्रविश्य गुहायाम- वस्थितं सर्वान्तरं, यस्य विज्ञानायान्योऽन्तर आत्मा, अन्योऽन्तर आत्मेति प्रकान्तं तन्मान्त्र- वर्णिकमेव ब्रह्मेह गीयते Sन्योन्तर आत्मानन्द- मय इति। मन्त्रब्राह्मणयोश्रवैकार्थत्वं युक्तम् अ विरोषात्; अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्यातां, न चान्नमयादिभ्य इवानन्दमयादन्योS- न्तर आत्माऽिधीयते। "एतन्निष्ठैव च सैषा भार्गवी वारुणी विद्या"। तस्मादानन्दमयः प- र एवात्मा ॥१५॥
रुतं तस्मान्मान्त्रवणिकमेव ब्रह्मानन्दमय इति वाक्ये गायत इति योजना। ननु मन्त्रोक्तमेवात्र ग्राहमिति को निर्बन्धस्तत्राह॥ मन्त्रे- ति। ब्राह्मणस्य मन्त्रव्याख्यानत्वादुपायत्वमस्ति मन्त्रस्तूपेयः तदि- दमुक्तं ॥अविरोधादिति॥तयोरुपायोपेयभावादित्यर्थः। तर्हन्नमया- दीनामपि मान्त्रवर्णिकब्रह्मत्वं स्यादित्यत आहा।न चेति ॥किं च भृ- गवे प्रोक्ता वरुणेनोपदिष्टा भृगुवल्ली पश्चमपर्यायस्थानन्दे प्रतिष्ठिताततः स्थानन्यायेन तदेकार्थब्रह्मवह्लया आनन्दमये निष्ठेत्याह॥एतन्निष्टैवे- ति ॥ स ईश्वरः तप: सृष्टा लोचनमतप्यत रुतवानित्यर्थः, अभिध्या- २०
Page 174
(१५४) रत्नप्रभाभासिते [अ० १। पा० १। नेतरोऽनुपपत्तेः॥१६॥ इतश्रानन्दमयः पर एवात्मा नेतरः। इतर ईश्वरादन्य: संसारी जीव इत्यर्थः। न जीव आ- नन्दमयशब्देनाभिधीयते। कस्मात्, अनुपपत्तेः। आनन्दमयं हि प्रकृत्य श्रूयते "सोऽकामयत बहु स्यां प्रजायेय" इति "स तपोऽतप्यत स तप- स्तत्वा इदं सर्वमसृजत यदिदं किञ्र्" इति। त- त्र प्राक् शरीराद्युत्पत्तेरभिध्यानं सृज्यमानानां च विकाराणां स्त्रष्टुरव्यतिरेकः सर्वविकारसृष्टिश्र् न परस्मादात्मनोऽन्यत्रोपपद्यते ॥१६॥ भेदव्यपदेशाच ॥ १७॥ इतश्र नानन्दमयः संसारी यस्मादानन्दम- याधिकारे "रसो वै सः, रसं त्येवायं लब्ध्वान- नन्दी अवति" इति जीवानन्दमयौ भेदेन व्यप- दिशति। न हि लब्धैव लब्धव्यो भवति। कथं त- र्र्य्यात्माSन्वेष्टव्य: "आत्मलाभान् पर विद्यते" इति च श्रुतिस्मृती यावता न लब्धैव भवतीत्यु- नं कामना, बहु स्यामित्यव्यतिरेकः॥१५॥६॥ अधिकारे प्रकरणे स आनन्दमयो रसः। ननु लब्धृलव्धव्याभावेऽप्यभेदः किंन स्यादत आह॥ न हि लब्धैवेति॥ ननु लब्घृलव्धयोभेंदस्यावश्यकत्वे श्रु- तिस्मृत्योर्बाधः स्यादित्याशङ्कते ॥ कथमिति॥ यावता यतस्त्वयेत्यु-
Page 175
सू०१७। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१५५) क्म्। बाढ । तथाप्यात्मनोऽप्रच्युतात्मभाव- स्यैव सतस्तत्वानवबोधनिमित्तो मिथ्यैव देहा- दिष्वनात्मस्वात्मत्वनिश्र्वयो लौकिको दृष्टः, ते-
ज्योऽलब्धो लब्धव्योऽश्रुतः श्रोतव्योSमतो म- न्तव्योSविज्ञातो विज्ञातव्य इत्यादिभेदव्यपदे- श उपपद्यते। प्रतिषिध्यत एव तु परमार्थतः स- र्वज्ञात् परमेश्वरादन्यो द्रष्टा श्रोता वा "नान्यो- Sतोऽस्ति द्रष्टा" इत्यादिना परमेश्वरस्त्वविद्या- कल्पिताच्छारीरात् कर्तुर्भोक्तुर्विज्ञानात्माख्या- दन्यः, यथा मायाविनश्रर्मखडधरात् सूत्रेणा- क्तम् अतः श्रुतिस्मृती कथमित्यन्वयः। उक्तां शङ्कामङ्गीकरोति॥बाढ- मिति॥ तर्हात्मन एवात्मना लभ्यत्वोक्तिबाधः अभेदादित्याशङ्कच कल्पितभेदान बाध इत्याह॥ तथापीति॥ अभेदेपीत्यर्थ: लौकिकः भ्रमः आत्मनः स्वाज्ञानजभ्रमेण देहायभिन्नस्य भेदभ्रान्त्या परमा- त्मनो ज्ञेयत्वायुक्तिरित्यर्थः । अन्वेष्टव्यो देहादिव्यतिरिक्ततया ज्ञेयः विवेकज्ञानेन लब्धव्यः साक्षात्कर्तव्यः तदर्थ श्रोतव्यः विज्ञानं निदि- ध्यासनं साक्षात्कारो वा श्रुत्यन्तरस्थार्थानुवादादपौनरुक्त्यम्। ननु भेद: सत्य एवास्तु तत्राह ॥ प्रतिषिध्यत इति ॥ अत ईश्वरात् द्रष्टा जी- वोऽन्यो नास्तीति चेतू जीवाभेदादीख्रस्यापि मिथ्यात्वं स्यादत आ- है।। परमेश्वर इति ॥ अविद्याप्रतिबिम्बत्वेन कल्पिताज्जीवाचिन्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम्। कल्पितस्याधिष्ठानाभेदेऽप्यविष्ठा- नस्य ततो भेद इत्यत्र दृष्टान्तमाह॥ यथेति॥ सूत्रारूढः स्वतोऽपि
Page 176
(१५६) रत्नप्रभाभासिते [अ० १। पा० १ काशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यःयथा वा घटाकाशादुपाधिपरिच्छि- न्नाद्नुपाधिरपरिच्छिन्न आकाशोऽन्यः। ईदशं च विज्ञानात्मपरमात्मभेदमाश्रित्य "नेतरोऽनु- पपत्ते""र्भेदव्यपदेशाच्चे" त्युक्तम्॥१७॥ कामाच्च नानुमानापेक्षा।।१८।। आनन्दमयाधिकारे च "सोऽकामयत बहु स्यां प्रजायेय" इति कामयितृत्वनिर्देशान्नानु- मानिकमपि सांख्यपरिकल्पितसचेतनं प्रधान- मानन्दमयत्वेन कारणत्वेन वापेक्षितव्यम।"ईक्ष- तेर्नाशब्द" मिति निराकृतमपि प्रधानं पूर्वसूत्रो- दाहतां कामयितृत्वश्रुतिं आश्रित्य प्रसङ्गात् पु- नर्निराक्रियते गतिसामान्यप्रपंचनाय ॥१८॥ अस्मिन्नस्य च तद्योगं शारिति॥।१९॥ इतश्रन प्रधाने जीवे वाऽडनन्दमयशब्द, मिथ्या, न जीव इत्यरुच्या भेदमात्रमिथ्यात्वे दृष्टान्तान्तरमाह॥ थ था वेति॥ ननु सूत्रबलाज्जेद: सत्य इत्यत आह॥ ईद्शं चेति॥ क ल्पितमेवेत्यर्थः। सूत्रे भेदः सत्य इति पदाभावात्तदनन्यत्वादिसूत्रणा च्छृत्यनुसाराच्चेति भावः॥१७॥ नन्वानन्दात्मकसत्वप्रचुरं प्रधान मानन्दमयमस्तु। तत्राह॥ कामाच्चेति॥ अनुमानगम्यमानुमानिक म्। पुनरुक्तिमाशङ्क्चाह ॥। ईक्षतेरिति ॥ १८॥ अस्मिन्निति वि-
Page 177
सु०१९।अ०५] शाङ्करब्रह्मसूत्रभाष्ये (१५७) यस्मादस्मिन्नानन्दमये प्रकृते आत्मनि प्रतिबु- इ्स्यास्य जीवस्य तद्योगं शास्ति तदात्मना यो- गस्तद्योगस्तद्रावापत्तिः, मुक्तिरित्यर्थः। तद्यो- गं शास्ति शास्त्रम्।"यदा त्वेवैष एतस्मिन्नदश्ये- नात्म्येऽनिरुक्ेडनिलय ने Sअयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो अवति; यदा त्येवैष एतस्मि- ब्ुदरमन्तरं कुरुते, अथ तस्य भयं भवति" इति। एतदुक्तं भवति यदैतस्मिन्नानन्दमयेऽल्पमप्य- न्तरम् अतादात्म्यरूपं पश्यति तदा संसारभ- यान्न निवर्तते। यदा त्वेतस्मिन्नानन्दमये निरन्त- रं तादात्म्येन प्रतितिष्ठति तदा संसारभया- न्निवर्तते इति; तञ्च परमात्मपरिग्रहे घटते न प्र- धानपरिग्रहे जीवपरिग्रहे वा तस्मादानन्दमयः परमात्मेति सिद्धम्। इदं त्विह वक्तव्यं "सवा पयसप्तमी, आनन्दमयविषयप्रबोधवतो जीवस्य तयोगं यस्माच्छासित तस्मान प्रधानमिति योजना। जीवस्य प्रधानयोगोऽप्यस्तीत्यत आह ॥। तदात्मेति॥ जीवस्य ब्रह्माभेदो नास्तीत्यत आह॥ मुक्तिरिति॥ अदृश्ये स्थूलप्रपश्चशून्ये आत्मसम्बद्दमात्म्यं लिङ्गशरीरं तद्रहिते। निरुक्तं शब्दशक्यं तद्भिन्े। निःशेषलयस्थानं निलयनं माया तच्छू- न्ये। ब्रह्मण्यभयं यथा स्यात्तथा यदैव प्रतिष्ठां मनसः प्ररुष्टां वृत्तिमेष विह्ाल्लभते अथ तदैवाभयं ब्रह्म प्राप्नोतीत्यर्थः। उत् अपि अरमल्पेम- ल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना १ अभेदसामानाधिकरण्यं हि भेदे अल्पत्वं बाध्यम्।
Page 178
(१५६) रत्नप्रभाभासिते [अ० १।पा० १। काशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यःयथा वा घटाकाशादुपाधिपरिच्छि- न्नादनुपाधिरपरिच्छिन्न आकाशोऽन्यः। ईदशं च विज्ञानात्मपरमात्मभेदमाश्रित्य "नेतरोऽनु- पपत्ते""रभेदव्यपदेशाच्चे" त्युक्तम्॥१७॥ कामाच नानुमानापेक्षा।।१८।। आनन्दमयाधिकारे च "सोऽकामयत बहु स्यां प्रजायेय" इति कामयितृत्वनिर्देशान्नानु- मानिकमपि सांख्यपरिकल्पितसचेतनं प्रधान- मानन्दमयत्वेन कारणत्वेन वापेक्षितव्यम्। "ईक्ष- तेर्नाशब्द" मिति निराकृतमपि प्रधानं पूर्वसूत्रो- दाहतां कामयितृत्वश्रुतिं आश्रित्य प्रसङ़ात् पु- नर्निराक्रियते गतिसामान्यप्रपंचनाय ॥१८॥ अस्मिन्नश्य च तद्योगं शास्ति॥।१९॥ इतश्र्न प्रधाने जीवे वाऽडनन्दमयशब्दः, मिथ्या, न जीव इत्यरुच्या भेदमात्रमिथ्यात्वे दृष्टान्तान्तरमाह॥ य- था वेति॥ ननु सूत्रबलाज्जेदः सत्य इत्यत आह॥ ईदृटशं चेति ॥क- ल्पितमेवेत्यर्थः । सूत्रे भेदः सत्य इति पदाभावात्तदनन्यत्वादिसूत्रणा- च्छृत्यनुसाराचेति भावः॥१७॥ नन्वानन्दात्मकसच्वप्रचुरं प्रधान- मानन्दमयमस्तु। ततराह ॥ कामाच्चेति॥ अनुमानगम्यमानुमानिक- म्। पुनरुक्तिमाशङ्ग्याह ॥ ईक्षतेरिति ॥ १८॥ अस्मिन्निति वि-
Page 179
सू०१९।अ०५] शाङ्करब्रह्मसूत्रभाष्ये (१५७) यस्मादस्मिन्नानन्दमये प्रकृते आत्मनि प्रतिबु- इ्वस्यास्य जीवस्य तद्योगं शास्ति तदात्मना यो- गस्तदयोगस्तद्भावापत्तिः, मुक्तिरित्यर्थः। तद्यो- गं शास्ति शास्त्रम्।"यदा त्वेवैष एतस्मिन्नदृश्ये- Sनात्म्येऽनिरुक्तेऽनिलय नेऽअयं प्रतिष्ठां विन्दते, अथ सोऽअयं गतो अवति; यदा त्येवैष एतस्मि- न्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति" इति। एतदुक्तं अवति यदैतस्मिन्नानन्दमयेऽल्पमप्य- न्तरम् अतादात्म्यरूपं पश्यति तदा संसारभ- यान्न निवर्तते। यदा त्वेतस्मिन्नानन्दमये निरन्त- रं तादात्म्येन प्रतितिष्ठति तदा संसारभया- न्निवर्तते इति; तञ्च परमात्मपरिग्रहे घटते न प्र- धानपरिग्रहे जीवपरिग्रहे वा तस्मादानन्दमयः परमात्मेति सिद्धम्। इद त्विह वक्तव्यं "सवा षयसप्तमी, आनन्दमयविषयप्रबोधवतो जीवस्य तयोगं यस्माच्छास्ति तस्मान प्रधानमिति योजना। जीवस्य प्रधानयोगोऽप्यस्तीत्यत आह ॥ तदात्मेति॥ जीवस्य ब्रह्माभेदो नारतीत्यत आह ॥ मुक्तिरिति॥ अदृश्ये स्थूलप्रपश्चशून्ये आत्मसम्बद्धमात्म्यं लिङ्गशरीरं तद्रहिते। निरुक्तं शब्दशक्यं तद्भिन्ने। निःशेषलयस्थानं निलयनं माया तच्छू- न्ये। ब्रह्मण्यभयं यथा स्यात्तथा यदैव प्रतिष्ठां मनसः प्ररुष्टां वृत्तिमेष विद्याँल्लभते अथ तदैवाभयं ब्रह्म प्राप्नोतीत्यर्थः। उत् अपि असमल्पेम- ल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना १ अभेदसामानाधिकरण्यं हि भेदे अल्पत्वं बाध्यम्।
Page 180
(१५८) रत्नप्रभाभासिते [अ० १।पा० १। एष पुरुषोSन्नरसमय: "तस्माद्वा एतस्मादन्न- रसमयात्, अन्योऽन्तरात्मा प्राणमयः", "त- स्मादन्योऽन्तरात्मा मनोमयः","तस्मादन्योऽ- न्तरात्मा विज्ञानमयः" इति च विकारार्थे मयट् प्रवाहे सत्यानन्दमय एवाकस्मादर्धजरतीयन्या- येन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं वा आश्रीयते इति। मान्त्रवर्णिकब्रह्माधिका- रादिति चेतू, न, अन्नमयादीनामपि ताहि ब्रह्म- त्वप्रसङ्गः । अत्राह युक्तमन्नमयादीनामब्रह्म- व्वं तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्य- स्यात्मन उच्यमानत्वात्, आनन्दमयाततु न कश्विदन्योऽन्तर आत्मोच्यते। तेनानन्दमयस्य ब्रह्मत्वं, अन्यथा प्रकृतहानाSप्रकृतप्रक्रियाप्र- सङ्गादिति। अत्रोच्यते, यद्यप्यन्नमयादिभ्य इ- वानन्दमयादन्योऽन्तर आत्मेति न श्रूयते तथा- इति। वृत्तिकारमतं दूषयति॥इदं त्ति॥ इह परव्याख्यायां विकारा- र्थके मयटि बुद्धिस्थे सत्यकस्मात् कारणं विना एकप्रकरणस्थस्य मय- टः पूर्व विकारार्थकत्वं, अन्ते प्राचुर्यार्थकत्वमित्यर्धजरतीयं कथामवके- न दृष्टान्तेन आश्रीयत इति इदं वक्तव्यमित्यन्वयः । प्रश्नं मत्वाशङ्कते ॥ मान्त्रेति॥ स्फुटमुत्तरम्। किमान्तर इति न श्रूयते किं वा वस्तु- तोऽप्यान्तरं ब्रह्म न श्रूयत इति विकल्प्य आयमङ्गीकरोति ॥ अ- त्रोध्यते यद्यपीति ॥ विकारप्रायपाठानुगृहीतमयट्श्रुतेः सावयव-
Page 181
सू०१९। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१५९) पि नानन्दमयस्य ब्रह्मत्वं, यत आनन्दमयं प्र- कृत्य श्रूयते "तस्य प्रियमेव शिरः, मोदो दक्षि- णः पक्ष:, प्रमोद उत्तर: पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा" इति। तत्र यद्रह्म मन्त्रवर्णे प्रकृतं "सत्यं ज्ञानमनन्तं ब्रह्म" इति तदिह ब्र- ह्म पुच्छं प्रतिष्ठेत्युच्यते तद्विजिज्ञापयिषयैवान्न- मयादय आनन्दमयपर्यन्ताः पञ्चकोशा: क- ल्प्यन्ते, तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्र- सङ: । नन्वानन्दमयस्यावयवत्वेन ब्रह्म पुच्छं प्रतिष्ठेत्युच्यते। अन्नमयादीनामिवेदं पुच्छंप्र- तिष्ठेत्यादि, तत्र कथ ब्रह्मणः स्वप्रधानत्वं श- क्यं विज्ञातुं, प्रकृत्वादिति ब्रूमः । नन्वानन्दम- त्वलिङ्गाच्चेत्याह॥ तथापीति ॥ इष्टार्थस्य दृष्टया जातं सुखं प्रियं, समृत्याSSमोदः, स चाभ्यासात् प्ररुष्टः प्रमोदः, आनन्दस्तु कारणं विम्बचैतन्यमात्मा, शिरःपुच्छयोर्मध्यकायः ब्रह्म शुद्धमिति श्रुत्य- र्थः। द्वितीयं प्रत्याह॥ तत्र यदिति॥ यन्मन्त्रे प्रकतं गुहानिहित- त्वेन सर्वान्तरं ब्रह्म तदिह पुच्छवाक्ये ब्रह्मशब्दात् प्रत्यभिज्ञायते तस्यैव विज्ञापनेच्छया पश्चकोशरूपा गुहा प्रपश्चिता, तत्र तात्पर्य नास्तीति वक्तुं कल्प्यन्त इत्युक्तम्। एवं पुच्छवाक्ये प्ररुतस्वप्रधान- ब्रह्मपरे सति न प्रकतहान्यादिदोष इत्यर्थः । ब्रह्मणः प्रधानत्वं पुच्छ- श्रुतिविरुद्धमिति शङ्कते ॥ नन्विति ॥ अत्र ब्रह्मशव्दात् प्रकुतस्वप्र- धानब्रह्मप्रत्यभिज्ञाने सति पुच्छशब्दविरोधप्राप्तावेकस्मिन् वाक्ये प्र- थम्चरमश्रुतशब्दयोराव्यस्यानुपसआ्तविरोधिनो बलीयस्त्वात् पुच्छ-
Page 182
(१६०) रत्नप्रभाभासिते [अ० १।पा० १। यावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रक- तत्वं हीयते आनन्दमयस्य ब्रह्मत्वादिति। अ- त्रोच्यते तथा सति तदेव ब्रह्मानन्दमय आत्मा- वयवी तदेव च ब्रह्म पुच्छं प्रतिष्ठावयव इत्यसा- मअ्जस्यं स्यात्। अन्यतरपरिग्रहे तुयुक्तं ब्रह्म पुच्छं प्रतिष्ठेत्यत्रैव ब्रह्मनिर्देश आश्रयितुं ब्रह्म- शब्दसंयोगान्नानन्दमयवाक्ये ब्रह्मशब्दसंयो- गाभावादिति। अपि च ब्रह्म पुच्छं प्रतिष्ठेति उ- क्ेदमुच्यते "तदप्येष क्रोको भवति, असन्नेव स भवति, असद्रह्मेति वेद चेत्, अस्ति ब्रह्मे- ति चेद्वेद, सन्तमेनं ततो विदुः" इति। अस्मिंश्र श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभा- ववेदनयोर्गुणदोषाभिधानाद्गम्यते ब्रह्म पुच्छं प्रतिष्ठेत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति। न चानन्दमयस्यात्मनो भावाभावशङ्गा युक्ता प्रियमोदादिविशेषस्यानन्दमयस्य सर्वलोक- प्रसिद्धत्वात्। कथं पुनः स्वप्रधानं सद्रह्मानन्दम- शब्देन प्राप्तगुणत्वस्य बाध इति मत्वाह॥ प्रकृतत्वादिति ॥ प्रक- रणस्यान्यथासिद्धिमाह ॥ नन्विति ॥एकस्यैव गुणत्वं प्रधानत्वं च विरुद्धमित्याह ॥ अत्रोच्यत इति ॥ तत्र विरोधनिरासायान्यतरस्मिन् वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीकार्यमित्याह॥ अन्यतरे- ति॥ वाक्यशेषाच्चैवमित्याह ॥ अपि चेति ॥ तत् तत्र ब्रह्मणि क्रो-
Page 183
सू १९। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१६१) यस्य पुच्छत्वेन निर्दिश्यते ब्रह्म पुच्छं प्रतिष्ठेति। नैष दोष: पुच्छवत् पुच्छं प्रतिष्ठा परायणमेकनी- डं लौकिकस्यानन्दजातस्य ब्रह्मानन्द इत्येतद- नेन विवक्ष्यते नावयवत्वम्।"एतस्यैवानन्दस्या- न्यानि भूतानि मात्रामुपजीवन्ति" इति श्रुत्य- न्तरात्। अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्य- वयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम्। निर्वि- शेषं तु ब्रह्मवाक्यशेषे श्रूयते वाङ्मनसयोरगो- चरत्वाभिधानात्, "यतो वाचो निवर्तन्ते, अ- प्राप्य मनसा सह", "आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्र्न" इति। अपि चानन्दप्रचुर इ- कोऽपीत्यर्थः। पुच्छशव्दस्य गति पृच्छति ॥ कथं पुनरिति ॥त्व- याऽषि पुच्छशव्दस्य मुख्यार्थो वक्तुमशक्यः ब्रह्मण आनन्दमयला- ङ्गूलत्वाभावात् पुच्छदृष्टिलक्षणायां चाधारलक्षणा युक्ता प्रतिष्ठाप- दयोगात्, ब्रह्मशव्दस्य मुख्यार्थलाभाच। त्वत्पक्षे ब्रह्मपदस्याप्य- वयवलक्षकत्वादित्याह॥ नैष दोष इति॥ पुच्छमित्याधारत्वमात्र- मुक्तं प्रतिष्ठेत्येकनीडत्वम् एकं मुख्यं नीडम् अधिष्ठानं सोपादानस्य जगत इत्यर्थः । ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं ब्रह्मणि समन्वितम् दृष्टं, तत्र किमुदाहरणभेदेनेत्याशङ्ग्चाह ॥ अपि चेति॥ यत्र सविशे- षत्वं तत्र वाङ्मनसगोचरत्वमिति व्याप्तेरत्र व्यापकाभावोत्त्या निर्वि- शेषमुच्यत इत्याह॥ निर्विशेषमिति ॥ निवर्तन्ते अशक्ता इत्यर्थः। सविशेषस्य मृषात्वादभयं चयुक्त, अतो निर्विशेषज्ञानार्थ पुच्छवाक्य- मेवोदाहरणमिति भाव:। प्राचुर्यार्थकमयटा सविशेषोक्तौ निर्विशेष-
Page 184
(१६२) रत्नप्रभाभासिते [अ० १।पा० १। त्युक्ते दुःखास्तित्वमपि गम्यते प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात्। तथाच सति "यत्र नान्यत् पश्यति, नान्यच्छृणोति, नान्यद्विजाना- ति, स भूमा" इति भूम्नि ब्रह्मणि तद्यतिरिक्ता- आावश्रुतिरुपंरुध्येत। प्रतिशरीरं च प्रियादिभे- दादानन्दमयस्यापि भिन्नत्वं, ब्रह्म तुन प्रतिश- रीरं भिद्यते "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यान- न्त्यश्रुतेः, "एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा" इति च श्रुत्यन्तरात्। न चा- नन्दमयस्याभ्यासः श्रूयते, प्रातिपदिकार्थ- मात्रमेव हि सर्वत्राभ्यस्यते "रसो वै सः, रसं त्येवायं लब्ध्वाSSनन्दी भवति, को त्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्, ए- ष ह्येवानन्दयाति सैषानन्दस्य मीमांसा भव- ति""आनन्दं ब्रह्मणो विद्वान्न बिशेति कुतश्रन" श्रुतिबाध उक्तः। दोषान्तरमाह ॥अपि चेति। प्रत्ययार्थत्वेन प्रधान- स्य प्राचुर्यस्य प्रकृत्यर्थो विशेषणं, विशेषणस्य यः प्रतियोगी विरो- धीति तस्याल्पत्वमपेक्षते यथा विप्रमयो ग्राम इति शूद्राल्पत्वम्। अ- स्तु को दोषस्तत्राह ॥ तथा चेति॥ प्रकत्यर्थप्राधान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाश: सवितेत्यत्र तमसोल्पस्याप्यभानात् परं त्वानन्द- मयपदस्य प्रचुरानन्दे लक्षणादोषः स्यादिति मन्तव्यम्। किंच भिन्न- त्वाद् घटवन्न ब्रह्मतेत्याह ।प्रतिशरीरमिति॥। नन्वभ्यस्यमानानन्द- १ विरुध्येदित्यर्थः ।
Page 185
सू० १९।अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१६३) "आनन्दो बह्मेति व्यजानात्" इति चायदि चा- नन्दमयशब्दस्य ब्रह्मविषयत्वं निश्वितं भवेत् तत उत्तरेष्वप्यानन्दमयाभ्यास: कल्प्येत न व्वानन्दमयस्य ब्रह्मत्वमस्ति प्रियशिरस्त्वादि- भिर्हेतुभिरित्यवोचाम। तस्माच्छत्यन्तरे "विज्ञा- नमानन्दंब्रह्म"इति आनन्दप्रातिपदिकस्य ब्रह्म- णि प्रयोगदर्शनात् "यदेष आकाश आनन्दोन स्यात्" इत्यादिर्ब्रह्मविषयः प्रयोगो न त्वानन्द- मयाभ्यास इत्यवगन्तव्यम्। यस्त्वयं मयडन्त- स्यैवानन्दशब्दस्याभ्यास एतमानन्दमयमा- त्मानमुपसङक्रामतीति न तस्य ब्रह्मविषयत्व- मस्ति विकारात्मनामेवान्नमयादीनामनात्मना- मुपसङक्रमितव्यानां प्रवाहे पठितत्वात्। न- न्वानन्दमयस्योपसडक्मितव्यस्यान्नमयादि- वदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिफलं नि- र्दिष्टं भवेत्। नैष दोषः।आनन्दमयोपसड्क्रमण- पदँ लक्षणयानन्दमयपरं इत्यभ्याससिद्धिरित्यत आह॥ यदिचेति॥ आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्परत्वज्ञानादभ्यास- सिद्धिःतत्सिद्दौ तन्निर्णय इति परस्पराश्रय इति भावः।अयमभ्यासः पुच्छब्रह्मण इत्याह ॥ तस्मादिति ॥ उपसंक्रमणं बाधः॥ ननु सय एवंविदिति ब्रह्मविदं प्रक्रम्योपसंक्रमणवाक्येन फलं निर्दिश्यते तत्त- स्याब्रह्मत्वेन सिध्यतीति शङ्गते॥नन्विति ॥ उपसंक्रमणं प्राभिरित्य- 1
Page 186
(१६४) रत्नप्रभाभासिते [अ० १।पा० १। निर्देशेनैव विदुष: पुच्छप्रतिष्ठाभूतब्रह्मप्राप्ते:फ- लस्य निर्दिष्ठत्वात् "तदप्येष शलोको भवति, य- तो वाचो निवर्तन्ते" इत्यादिना च प्रपंच्यमान- त्वात्। या त्वानन्दमयसन्निधाने "सोऽकामयत, बहु स्यां प्रजाषेय"इतीयं श्रुतिरुदाहता सा "ब्रह्म पुच्छं प्रतिष्ठा" इत्यनेन सन्निहिततरेण ब्र- ह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्र- तिबोधयति, तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य "- सो वै सः' इत्यादेर्नानन्दमयविषयता। ननु "सोडकामयत" इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते। नायं दोषः । "तस्माद्वा एतस्मा- दाल्मन आकाश: सम्भूतः' इत्यत्र पुंलिद्गेना प्यात्मशब्देन ब्रह्मण: प्रकृतत्वात्। यत्तु भा- र्गवी वारुणी विद्या "आनन्दो ब्रह्मेति व्य- जानात्" इति तस्यां मयडश्रवणात् प्रिय- ङ्रनीकत्य विशिष्टप्राप्युकत्या विशेषणाप्राप्तिफलमुक्तमित्याह।नैष इति॥। ज्ञानेनाकाशानां बाधसेदिति सिद्धान्ते बाधावधिप्रत्यगानन्दला- भोडर्थादुक्त उत्तरश्लोकेन स्फुटीकत इत्याह॥ तदपीति ॥ तदपेक्ष- त्वादिति कामयितृपुच्छव्रह्मविषयत्वादित्यर्थः। यदुक्तं पश्चमस्थान- स्थत्वादानन्दमये ब्रह्मवल्ली समाप्ता भृगुवल्लीवदिति तत्राह॥ यतत्वि- ति। या त्वित्यर्थः। मयट्श्रुत्या सावयवत्वादिलिङ्गन च स्थानं बा- १ उप संक्रमणम्।
Page 187
सू० ११। अ०५] शाङ्करब्रह्मसूत्रभाष्ये (१६५) शिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्। तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते, न चे- ह सविशेषं ब्रह्म प्रतिपिपादयिषितं वाड्मन- सगोचरातिक्रमश्रुतेः । तस्मादन्नमयादिष्विवा- नन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयो न प्रा- चुर्यार्थः। सूत्राणि त्वेवं व्याख्येयानि ब्रह्म पुच्छं प्रतिष्ठेत्यत्र किमानन्दमयस्यावयवत्वेन ब्रह्म विवक्ष्यते, उत स्वप्रधानत्वेनेति। पुच्छशब्दाद- वयवत्वेनेति प्राप्त उच्यते। "आनन्दमयोऽभ्या- सात्"। आनन्दमय आत्मेत्यत्र ब्रह्म पुच्छं प्र- तिष्ठेति स्वप्रधानमेव ब्रह्मोपदिश्यतेऽभ्यासात्। "असन्नेव स भवति," इत्यस्मिन्निगमनश्लोके ध्यमिति भावः। गोचरातिकरमो गोचरत्वाभावः। वेदसूत्रयोविरोधे गुणे त्वन्याय्यकाल्पनेति सूत्राणि अन्यथा नेतव्यानीत्याह॥ सूत्राणीति॥ पूर्वमीक्षतेः संशयाभावात् इति युक्त्या गौणप्रायपाठो न निश्षवायक इत्यु क्तम्। तर्हि अत्र पुच्छपदस्याधारावयवयोर्लक्षणासाम्यात् संशयोऽस्ती- त्यवयवप्रायपाठो निश्रायक इति पूर्वाधिकरणसद्धान्तयुक्त्यभावेन पू- र्वपक्षयति।।पुच्छशब्दादिति।।तथा च प्रत्युदाहरणसङ्गतिः पूर्वपक्षे स- गुणोपास्तिः सिद्धान्ते निर्गुणप्रमितिः फलं वेदान्तवाक्यसमन्वयोक्ते: श्रुत्यादिसङ्गतयः स्फुटा एव, सूत्रस्थानन्दमयपदेन तद्दाक्यस्थं ब्रह्मपदं लक्ष्यते। विक्रियतेऽनेनेति विकारोऽवयवः प्रायापत्तिरिति अवयवक्रमस्य बुद्दौ प्राप्तिरित्यर्थः।अत्र हि प्ररुतस्य ब्रह्मणो ज्ञानार्थ कोशा: पक्षित्वेन
Page 188
(१६६) रत्नप्रभाभासिते [अ० १। पा० १। ब्रह्मण एव केवलस्याभ्यस्यमानत्वात्। विकार- शब्दान्नेति चेन्न प्राचुर्यात्। विकारशब्देनावयव- शब्दोऽभिप्रेतः, पुच्छमित्यवयवशब्दान्न स्वप्र- धानत्वं ब्रह्मण इति यदुक्तं तस्य परिहारो वक्त- व्यः। अत्रोच्यते नायं दोषः प्राचुर्यादप्यवयव- शब्दोपपत्तेः। प्राचुर्य प्रायापत्तिरवयवप्रायवच- नमित्यर्थः । अन्नमयादीनां हि शिरआदिषु पु- च्छान्तेषु अवयवेषू केष्वानन्दमयस्यापि शिर- ब्रह्म पुच्छं प्रतिष्ठेत्याह नावयवविवक्षया यत्का- रणमभ्यासादिति स्वप्रधानत्वं ब्रह्मणः समर्थि- तम्। "तद्ेतुव्यपदेशाच्च"। सर्वस्य च विकार- कल्प्यन्ते नात्र तात्पर्यमस्ति, तत्रानन्दमयस्यापि अवयवान्तरोक्तयन- न्तरं करिंमश्विवित् पुच्छे वक्तव्ये प्रकतं ब्रह्म पुच्छपदेनोक्तं तस्यान- न्दमयाधारत्वेनावश्यं वक्तव्यत्वादित्यर्थः॥ तद्धेतुव्यपदेशाज्च।। तस्य ब्रह्मणः सर्वकार्यहेतुत्वव्यपदेशात् प्रियादिविशिष्टत्वाकारेणानन्दमय- स्य जीवस्य कार्यत्वात्तं प्रति शेवत्वं ब्रह्मणो न युक्तमित्यर्थः। मान्त्र- वर्णिकमेव च गीयते "ब्रह्मविदाप्नोति पर"मिति यस्य ज्ञानान्मुक्तिरु- क्ता यत् सत्यं ज्ञानमिति मन्त्रोक्तं ब्रह्म तदतरैव पुच्छवाक्ये गीयते ब्र हपदसंयोगात्, नानन्दमयवाक्य इत्यर्थः । नेतरोऽनुपपत्तेः । इतर आनन्दमयो जीवोऽत्र न प्रतिपायः सर्वस्रष्टत्वाद्यनुपपत्तेरित्यर्थः । भें- दव्यपदेशाच। अयमानन्दमयो ब्रह्मरसं लब्ध्वानन्दी भवतीति, भेदो- क्ेश्ष तस्याप्रतिपाद्यतेत्यर्थः । आनन्दमयो ब्रह्म तैत्तिरीयकपश्चम-
Page 189
सू० २०/ अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१६७) जातस्य सानन्दमयस्य कारणतवेन ब्रह्म व्यप- दिश्यते "इदं सर्वमसृजत यदिदं किं च" इति न च कारणं सद्रह्म स्वविकारस्यानन्दमयस्य मुख्य- या वृत्त्याऽवयव उपपद्यते। अपराण्यपि सूत्रा- णि यथासम्भवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्याणि॥ १९॥ अन्तस्तद्धर्मोपदेशात् ॥२०॥ इदमाम्नायते "अथ य एपोऽन्तरादित्ये हिर- पमयः पुरुषो दृश्यते हिरण्यश्मश्रर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः। तस्य यथा कप्या- स्थानस्थत्वात् भृगुवल्लीस्थानन्दवदित्याशङ्ग्याह। "कामाच्च नानु- मानापेक्षा" काम्यत इति काम आनन्दः तस्य भृगुवल्ल्यां पश्चम- स्य ब्रह्मत्वदष्टेरानन्दमयस्यापि ब्रह्मत्वानुमानापेक्षा न कार्या, विका- रार्थकमयड्डिरोधादित्यर्थः। भेदव्यपदेशश्रेत् सगुणं ब्रह्मात्र वेयं स्या- दित्याशङ्क्चाह। "अस्मिन्नस्य च तद्योगं शास्ति"। गुहानिहित- त्वेन प्रतीचि स एक इत्युपसंहते पुच्छवाक्योक्ते ब्रह्मण्यहमेव परं ब्र- ह्ेति प्रबोधवत् आनन्दमयस्य यदा हीति शास्त्रे ब्रह्मभावं शास्ति, अ- तो निर्गुणब्रह्मैक्यज्ञानार्थ जीवभेदानुवाद इत्यभिप्रेत्याह॥ अपरा- ण्यपीति॥ अन्तसतद्धर्मोपदेशात्। छान्दोग्यवाक्यमुदाहरति ॥अथ य इति॥ अथेत्युपास्तिप्रारम्भार्थः । हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णोंडपि मूर्त्तिमानुपासकैर्दश्यते। मूर्त्तिमाह ॥ हिरण्येति॥ प्रणखो नखायं तेन सहेत्यभिविधावाङ़। नेत्रयोविशेषमाह॥ तस्येति॥ क- पेर्मर्कटस्य आस: पुच्छभागोर्ऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथा
Page 190
(१६८) रत्नप्रभाभासिते [अ० १। पा० १। सं पुण्डरीकमेवमक्षिणी, तस्योदिति नाम, स ए- ष सर्वेभ्यः पाष्मभ्य उदित, उदेति ह वै सर्वेभ्यः पाष्मभ्योय एवं वेद" इत्यधिदैवतम। अथा- ध्यात्मम्"अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते" इत्यादि। तत्र संशयः । कि विद्याकर्मातिशयव- शात् प्राप्तोत्कर्षः कश्र्िवित् संसारी सूर्यमण्डले च- क्षुषि चोपास्यत्वेन श्रूयते, किंवा नित्यसिद्धः परमेश्वर इति। किंतावत् प्राप्तं संसारीति, कुतः, रूपवत्वश्रवणात्। आदिव्यपुरुषे तावद्धिरण्य- श्मश्रुरित्यादिरूपमुदाहतं, अक्षिपुरुषेऽपि तदे- वातिदेशेन प्राप्यते "तस्यैतस्य तदेव रूपं यद- मुष्य रूपम् इति। न च परमेश्वरस्य रूपवच्चं यु- कतं "अशब्दमस्पर्शमरूपमव्ययम" इति श्रु- दीप्तिमदेवं तस्य पुरुषस्याक्षिणि सदोविकसितरक्ताम्भोजनयन इ- त्यर्थः। उपासनार्थमादित्यमण्डलं स्थानं रूपं चोत्का नाम करोति॥ ॥ तस्योदिति॥ उन्नाम निर्वक्ति ॥ स इति॥ उदित उद्तः सर्वपा- प्मास्पृष्ट इत्यर्थः।उपासनार्थ नामज्ञानफलमाह॥उदेति हेति॥देव- तास्थानम् आदित्यमधिकत्योपास्त्युक्त्यनन्तरमात्मानं देहमधिकत्या- पि तदुक्तिरित्याह ॥ अथेति ॥ पूर्वत्र ब्रह्मपदमानन्दमयपदमानन्द- पदाभ्यासश्रेति मुख्यत्रितयादि बहुप्रमाणवशान्निर्गुरणनिर्णयवद्रूपव- श्वादिबहुप्रमाणवशाज्जीबो हिरण्मय इति पूर्वसिद्दान्तदृष्टान्तसङ्ग- त्या पूर्वमुत्सर्गतः सिद्धनिर्गुणसमन्वयस्यापवादार्थ पूर्वपक्षयति॥ ॥ संसारीति॥ अत्र पूर्वोत्तरपक्षयोजीवब्रह्मणोरुपास्ति: फलं, अक्षि-
Page 191
सू० २०। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१६९) तेः। आधारश्रवणाच्च"य एपोऽन्तरादित्ये य ए- पोऽन्तरक्षिणि" इति।न ह्यनाधारस्य स्वमहि- मप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उ- पदिश्येत "स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिस्नि" इति "आकाशवत्सर्वगतश्व नित्यः" इति च श्रुती भवतः। ऐश्वर्यमर्यादाश्रुतेश्"सए- ष ये चामुष्मात् परांचो लोकास्तेषां चेष्टे देव- कामानां च" इत्यादित्यपुरुषस्यैश्वर्यमर्यादा "स एष चैतस्मादर्वीचो लोकास्तेषां चेष्टे मनु- व्यकामानां च" इत्यक्षिपुरुषस्य। न च परमे- शवरस्य मर्यादावदैश्वर्य युक्तं "एप सर्वेश्वर एप अताधिपतिरेष भूतपाल एव सेतुर्विधरण एपां लोकानामसम्मेदाय" इत्यविशेषश्रुतेः।तस्मा- न्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः, अन्तस्तवर्मोपदेशात्, इति "य एपोऽन्तरादित्ये
णीत्याधारश्रवणाच्च संसारीति सम्बन्धः । श्रुतिमाह ॥ स एष इति। आदित्यस्थः पुरुषः, अमुष्मादादित्यादूर्ध्वगा ये केचन लोकास्तेषामी- ख्वरो देवभोगानां चेत्यर्थः। स एषोऽक्षिस्थः पुरुष एतस्मादक्ष्णोडधस्त- ना ये लोका ये च मनुष्यकामा भोगास्तेषामीश्वर इति मर्यादा श्रूयते। अतः श्रुतेश्रव संसारीत्यर्थः। एव सर्वेश्वर इत्यविशेषश्रुतेरिति सम्बन्धः। भूताधिपतिर्यमः, भूतपाल इन्द्रादिश्र्व एष एव। किश्च जलानामसङ्करा- य लोके विधारको यथा सेतुरेवमेषां लोकानां वर्णाश्रमादीनां मर्यादा- २२
Page 192
(१७० ) रत्नप्रभाभासिते [अ० १ । पा ० १। य एषोऽन्तरक्षिणि" इति च श्रूयमाणः पुरुषःस परमेश्वर एव न संसारी कुतः। तद्र्मोपदेशात्। तस्य हि परमेश्वरस्य धर्मा इहोपदिष्ठास्तदथा "तस्योदिति नाम" इति श्रावयित्वा "अस्या- दित्यपुरुषस्य नाम स एप सर्वेभ्यः पाप्मभ्य उ- दित:" इति सर्वपाप्मापगमेन निर्व्ति, तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति "यन्नाम तन्नाम इति। सर्वपाप्मापगमश्र् पर- मात्मन एव श्रूयते "य आत्मा अपहतपाप्मा" इत्यादौ। तथा "चाक्षुषे पुरुषे सैव ऋकू तत् सा- म तदुक्थं तद्यजुस्तद्रह्म" इत्यृक्सामाद्यात्मक- तां निर्धारयति, सा च परमेश्वरस्योपपद्यते सर्व- कारणत्वात् सर्वात्मकत्वोपपत्तेः । पृथिव्यनन्या- हेतुत्वात् सेतुरेष एव, अतः सर्वेश्वर इत्यर्थः। सूत्रं व्याचष्टे॥ य एष इति॥ यव्प्येकस्मिन् वाक्ये प्रथमश्रुतानुसारेण चरमं नेयं, तथाप्य- त्र प्रथमं श्रुतं रूपवच्वं निष्फलं ध्यानार्थमीश्वरे नेतुं शक्यं च सर्वपा- पासङ्ित्वं सर्वात्मैकत्वं तु सफलं जीवे नेतुमशक्यं चेति प्रबलं न च "न ह वै देवान् पापं गच्छति"इति श्रुतेरादित्यजीवस्यापि पाप्मा- स्पर्शित्वमिति वाच्यम्,श्रुतेरधुना कर्मानधिकारिणां देवानां क्रियमा- णपाप्मासम्बन्धे तत्फलास्पर्शे वा तात्पर्यात् तेषां सश्चितपापाभावे "क्षीणे पुण्ये मर्त्यलोकं विशन्ती"ति अयोगादित्यभिप्रेत्याह ॥ सर्व- पाप्मापगमश्च परमात्मन एवेति ॥ सार्वात्म्यमाह ॥। तथोति॥ अत्र तच्छव्दैश्वाक्षुषः पुरुष उच्यते ऋगाद्यपेक्षया लिङ्गव्यत्ययः॥उ-
Page 193
सू० २०।अ०५] शाङ्करत्रह्मसूत्रभाष्ये (१७१) द्यात्मके चाधिदैवतमृकूसामे वाकप्राणाद्यात्मके चाध्यात्ममनुक्रम्याह तस्यर्क साम च गेष्णा- वित्यधिदैवतं तथाध्यात्ममपि "यावमुष्य गेष्णौ तौ गेष्णौ" इति।तच्च सर्वात्मकत्वे सत्येवोपपद्यते "तद इमे वीणायां गायन्त्येतं त्वेव ते गायन्ति तस्मात्ते धनसनयः"' इति च लौकिकेष्वपि गा- नेष्वस्यैव गीयमानत्वं दर्शयति। तच्च परमेश्वर- परिग्रहे घटते॥ यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ व्वं मम तेजोंऽशसम्भवम्॥ इति भगवद्गीतादर्शनात् लोककामेशितृत्वमपि क्थं शस्त्रविशेषः। तत्साहचर्यात् साम स्तोत्रम् उक्थादन्यच्छस्त्रमृगु- च्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः ॥ पृथिव्यग्न्याद्या- त्मक इति॥ अधिदैवतमृक् पृथिव्यन्तरिक्षधुनक्षत्रादित्यगतशुल्कभा- रूपा पश्चविधा श्रुत्युक्ता, साम चाग्निवाय्वादित्यचन्द्रादित्यगताति- कृष्णरूपमुक्तं पश्चविधम् । अध्यात्मं तु ऋग्वाक्चक्षुःश्रोत्राक्षिस्थ- शुकभारूपा चतुरविधा, साम च प्राणच्छायात्ममनोऽक्षिगतातिनील- रूपं चतुर्विधमुक्तम्। एवं क्रमेण ऋक्सामे अनुक्रम्याह श्रुतिः॥तस्ये- ति। यौ सर्वात्मकऋक्सामात्मकौ गेष्णावमुष्यादित्यस्थस्य तावेवा- क्षिस्थस्य गेष्णौ पर्वणीत्यर्थः ॥ तञ्चेति॥ ऋक्सामगेष्णत्वमित्यर्थः। सर्वगानगेयत्वं लिङ्गान्तरमाह ॥तद्य इति ॥तत्तत्र लोके धनस्य सनि- र्लाभो येषां ते धनसनयो विभूतिमन्त इत्यर्थः। ननु लोके राजानो गी- यन्ते नेश्वर इत्यत आह ॥ यद्यदिति ॥ पशुवित्तादिर्विभूतिः, श्रीः
Page 194
(१७२) रत्नप्रभाभासिते [अ० १। पा० १। निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति। यत्तूक्तं हिरण्यश्मश्रुरित्यादिरूपश्रवणं परमेश्वरे नोपप- द्यते इत्यत्र ब्रूम:, स्यात् परमेश्वरस्यापीच्छाव- शान्मायामयं रूपं साधकानुग्रहार्थम्। माया त्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूतगुणैर्युक्तं मैवं मां द्रष्ट मर्हसि। इति स्मरणात्। अपि च यत्र तु निरस्तसर्व- विशेषं पारमेश्वरं रूपमुपदिश्यत भवति तत्र शा- खं "अशब्दमस्पर्शमरूपमव्ययम्" इत्यादि। सर्वकारणत्वात्तु विकारधर्मैरपि कैश्विद्विशिष्टः परमेश्वर उपास्यव्वेन निर्दिश्यते "सर्वकर्मा स- र्वकाम: सर्वगन्धः सर्वरसः" इत्यादिना, तथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यति। यद- प्याधारश्रवणान्न परमेश्वर इत्यत्रोच्यते स्वम- हिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो अ्विष्यति सर्वगतत्वाद्गह्मणो व्योमवत् सर्वा- कान्तिः। ऊर्जितत्वं बलं, तदुक्तं सच्ं राजादिकं मदंश एवेति त- द्वानमीश्वरस्यैवेत्यर्थः निरङ्कुशमनन्याधीनं, एषा विचित्ररूपा मूर्ति- र्माया विकृतित्वान्माया मया सृष्टेत्यर्थः । यदुक्तमशब्दमित्यादिवाक्यं तत् ज्ञेयपरमित्याह ॥। अपि चेति ॥ तर्हि रूपं कुतस्तत्राह ॥ सर्वे- ति। यत्र तूपास्यत्वेनोच्यते तत्रेत्यध्याहृत्य सर्वकारणत्वात् प्राप्तरूप- वत्वं सर्वकर्मेत्यादिश्रुत्या निर्दिश्यत इति योजना। मर्यादावदैश्वर्य-
Page 195
सू० २१। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (५७३) न्तरत्वोपपत्तेः । ऐश्वर्यमर्यादाश्रवणमप्याध्या- त्माधिदेवतविभागापेक्षमुपासनार्थमेव, तस्मा- त्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते॥२०॥ भेदव्यपदेशाच्ान्य: ॥२१।। अस्ति च आदित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी "य आदित्ये ति- प्न्नादित्यादन्तरो, यमादित्योन वेद यस्यादि- त्यः शरीरं य आदित्यमन्तरो यमयत्येष त,आ- त्माऽन्तर्याम्यमृतः" इति श्रुत्यन्तरे भेदव्यपदे- शात्। तत्र ह्यादित्यादन्तरो यं आदित्योनवे- देति वेदितुरादित्यात्। विज्ञानात्मनोऽन्योऽन्त- र्यामीति स्पष्टं निर्दिश्यते स एवेहाप्यन्तरादित्ये
मीश्वरस्य नेत्युक्तं निराकरोति ॥ ऐश्वर्येति॥ अध्यात्माविदैवतध्या- नयोविभाग: पृथक्प्रयोगः, तदपेक्षमेव न त्वैश्वर्यस्य परिच्छेदार्थमि- त्यर्थः ॥ २०॥ ननु उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणो व्रीह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्ग्चाह ॥ भेदेति ॥ आदित्यजी- वादीश्वरस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्व्वरः सिद्ध इति सूत्रार्थ- माह॥ अस्तीति ॥ आदित्ये स्थितरश्मिनिरासार्थमादित्यादन्तर इ- ति। जीवं निरस्यति॥ यमिति॥ अशरीरस्य कथं नियन्तृत्वं तत्रा- ह। यस्येति ॥ अन्तर्यामिपदार्थमाह ॥ य इति ॥ तस्यानात्मत्व- निरासायाह ॥ एष त इति ॥ ते तव स्वरूपमित्यर्थः, आदित्यान्त- रत्वश्रुतेः समानत्वादित्यर्थः। तस्मात् पर एवादित्यादिस्थानक उद्गी-
Page 196
(१७४) रत्नप्रभाभासिते [अ० १। पा० १। पुरुषो भवितुमर्हति श्रुतिसामान्यात्। तस्मात् परमेश्वर एवेहोपदिश्यत इति सिद्धम् ॥ २१॥ आकाशस्तल्लिङ्गात् ॥२२॥ इदमामनन्ति "अस्य लोकस्य का गतिरि- त्याकाश इति होवाच सर्वाणि ह वा इमानि भू- तान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त्याकाशो त्येवैभ्यो ज्यायानाकाशः परायण- म्" इति। तत्र संशयः। किमाकाशशब्देन परं ब्र- ह्माभिधीयते, उत भूताकाशमिति। कुतः संश- यः। उ्यत्र प्रयोगदर्शनात्। भूतविशेषे तावत् सुप्रसिद्धो लोकवेदयोराकाशशब्दो ब्रह्मण्यपि क्वचित् प्रयुज्यमानो दृश्यते, यत्र वाक्यशेषवशा- दसाधारणगुणश्रवणाद्दा निर्धारितं ब्रह्म भवति यथा "यदेष आकाश आनन्दो न स्यात्" इति, "आकाशो वै नाम रूपयोनिर्वहिता ते यदन्तरा त- ङ्रह्र" इति चैवमादौ, अतः संशयः। कि पुनरत्र यु- थे उपास्य इति सिद्धम्॥ २१ ॥ भवतु रूपवच्वादिदुर्बललिङ्गानां पापास्पर्शित्वाद्यव्यभिचारिब्रह्मलिङ्गैरन्यथानयनं, इह त्वाकाशपदश्रु- तिः लिङ्गगद्दलीयसीति प्रत्युदाहरणेन प्राप्ते प्रत्याह॥ आकाशस्तद्वि- ङादिति॥ छान्दोग्यवाक्यमुदाहरति॥इदमिति॥ शालावत्यो ब्राह्म- णो जैवलिं राजानं पृच्छति, अस्य पृथ्वीलोकस्यान्यस्य च क आधार
Page 197
सू० २२। अ० ५ ] (१७५) क्तंभूताकाशमिति, कुतः, तद्धि प्रसिद्धतरेण प्रयो- गेण शीघ्रं बुद्धिमारोहति। न चायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुं, अनेकार्थत्व- प्रसङ्गात् । तस्माद्गह्मणि गौण आकाशशब्दो अवितुमर्हति। विभुत्वादिभिर्हि बहुभिर्धर्मैःसद- शमाकाशेन ब्रह्म भवति, न च मुख्यसम्भवे गौ- णोर्ऽर्थो ग्रहणमर्हति,सम्भवति चेह मुख्यस्यैवा- काशस्य ग्रहणम्। ननु भूताकाशपरिग्रहे वा- क्यशेषो नोपपद्यते "सर्वाणि ह वा इमानि भूता- नि आकाशादेव समुत्पद्यन्ते" इत्यादिः। नैष दोषो भूताकाशस्यापि वाय्वादिक्रमेण कारण- त्वोपपत्तेः। विज्ञायते हि "तस्माद्वा एतस्मादा- त्मन आकाश: सम्भूतः आकाशाद्वायु: वायोर- पनिः इत्यादि।ज्यायस्त्वपरायणत्वे अपि भूता- नतरापेक्षयोपपद्येते भूताकाशस्यापि, तस्मा- दाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूम:, आकाशस्तल्विङ्गात्। आकाशशब्देनेह ब्र- इति। राजा ब्रूते आकाश इतिहेति॥ यदेष आकाश इत्यानन्दत्व- स्यासाधारणस्य श्रवणादाकाशो ब्रह्मेत्यवधारितम्। आकाशो वै नामे- त्यत्र तद्रह्मेति वाक्यशेषादिति विभागः। निर्वहिता उत्पत्तिस्थितिहेतुः, ते नामरूपे, यदन्तरा यस्माद्गिन्ने यत्र कल्पितत्वेन मध्ये स्त इति वा- र्थः। अत्र पूर्वपक्षे भूताकाशात्मनोद्गीथोपास्तिः, सिद्धान्ते ब्रह्मात्मना
Page 198
(१७६) रत्नप्रभाभासिते [अ० १।पा० १। ह्मणो ग्रहणं युक्तम्। कुतः। तल्लिद्वात्। परस्य हि ब्रह्मण इदं लिङ्गं. "सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते"इति। परस्माद्वि ब्र- ह्रणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा। न- नु भूताकाशस्यापि वाय्वादिकरमेण कारणत्वं द- शितम्। सत्यं दर्शितम्। तथापि मूलकारस्य ब्र- ह्मणोऽपरिग्रहादाकाशादेवेत्यवधारणं सर्वाणी- ति च भूतविशेषणं नानुकूलं स्यात्। तथा "आ- काशं प्रत्यस्तं यन्ति" इति ब्रह्मलिद्गं "आका- शो त्येवैभ्यो ज्यायानाकाशः परायणम्" इति च जायस्त्वपरायणत्वे ज्यायस्त्वं ह्यनापेक्षिकं परमात्मन्येवैकस्मिन्नाम्ातं "ज्यायान् पृथि- व्या ज्यायानन्तरिक्षात् ज्यायान्दिवो ज्याया- नेभ्यो लोकेभ्यः" इति, तथा परायणत्वमपिप- रमकारणत्वात् परमात्मन्येवोपपन्नतरम्। श्रु- इति फलम् उपास्ये स्पष्टन्रह्मलिङ्गवाक्यसमन्वयोक्तेरापादं श्रुत्यादि- सङ्गतयः । स्पष्टमत्र भाष्यम्। तेजःप्रभृतिषु वाय्वादेरपि कारणत्वात् एवकारश्रुतिवाधः । सर्वश्रुतेश्रवाकाशातिरिक्तविषयत्वेन सङ्गोचः स्या- दित्याह ।। सत्यं दर्शितमिति ॥ ब्रह्मणस्तु सर्वात्मकत्वात्तस्मादेव सर्वमिति श्रुतिर्युक्तेति भावः। तथा सर्वलयाधारत्वं निरतिशयमहत्वं स्थितावपि परमाश्रयत्वमित्येतानि स्पष्टानि ब्रह्मलिङ्गानीत्याह॥त- था आकाशमित्यादिना॥ रातेर्धनस्य दातुः। रातिरिति पाठे बन्धु-
Page 199
सू० २१।अ० ८।] शाङ्करब्रह्मसूत्रभाष्ये (१७७) तिश्र् भवति "विज्ञानमानन्दं ब्रह्म रातेर्द्ातुः प- रायणम्। इति। अपि चान्तवत्वदोषेण शाला- वत्यस्य पक्षं निन्दित्वाऽनन्तं किश्िद्क्तुकामेन जैवलिनाऽSकाश: परिग्ृहीतः, तञ्ाकाशमुद्गीथे सम्पाद्योपसंहरति "स एष परो वरीयानुद्गीथः स एषोऽनन्तः"इति, तच्चानन्त्यं ब्रह्मलिङ्गम्। यत् पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं रित्यर्थः। लिङ्गन्तरमाह ॥ अपि चेति॥ दाल्म्यशालावत्यौ ब्राह्मणौ राजा चेति त्रय उद्वीथविद्याकुशला विचारयामासुः किमुद्वीथस्य प- रायणमिति। तत्र स्वर्गादागताभिरद्िर्जीवितेन प्राणेन क्रियमाणोद्वी- थस्य स्वर्ग एव परायणमिति दाल्म्यपक्षमप्रतिष्ठादोषेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोकः प्रतिष्ठेत्युवाच। तं शा- लावत्यस्य पक्ष"मन्तवदै किलते शालावत्य सामे"ति राजा निन्दित्वा- नन्तमेवाकाशं वक्ति भूताकाशोक्तावन्तवच्वदोषताद्वस्थ्यादित्यर्थः । नन्वाकाशोऽनन्त इति न श्रुतम् इत्याशङ्गचाह॥ तं चेति॥ उद्धीथ आकाश एवेति सम्पादनात् उद्वीथस्यानन्तत्वादिकं न स्वत इति भा- वः। स उद्ीथावयव ॐँकार एष आकाशात्मकः परः रसतमत्वादि- गुणैरुत्रुष्टः। अतोऽक्षरान्तरेभ्यो वरीयान् श्रेष्ठ इत्यर्थः ॥ पर इति अव्ययं सकारान्तं वा, परः कत्लमिति प्रयोगात्। परश्रासौ वरेभ्यो- Sतिशयेन वरः परोवरीयान् इत्यर्थः। प्राथम्यात् श्रुतित्वाच्चाकाशश- ब्दो बलीयानित्युक्तं स्मारयति ॥ यत् पुनरिति ॥। एवकारसर्वशब्दा- नुगृहीतानन्त्यादिबहुलिङ्गानामनुग्रहाय "त्यजेदेकं कुलस्यार्थे" इति न्यायेनैकस्याः श्रुतेबाधो युक्त इत्याह॥ अत्र ब्रूम इति॥ आकाशप- दाजूतस्यैव प्रथमप्रतीतिरिति नियमो नास्तीत्यपिशब्देन द्योतितम् । २३
Page 200
(१७८) रत्नप्रभाभासिते [अ० १।पा० १। प्रतीयत इति अत्र ब्रमः, प्रथमतरं प्रतीतमपि सद्वाक्यशेषगतान् ब्रह्मगुणान् दष्टा न परिग- ह्यते। दर्शितश्र ब्रह्मण्यप्याकाशशब्दः "आ- काशो वै नामरूपयोनिर्वहिता" इत्यादौ। तथा- काशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दश्यते "ऋचोअक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः "सैषा भार्गवी वारुणी विद्या प- रमे व्योमन् प्रतिष्ठिता""ॐ कं ब्रह्म खं ब्रह्म खं पुराणम्" इति चैवमादौ। वाक्योपक्रमेऽपि व- र्तमानस्याकाशशब्दस्य वाक्यशेषवशाधुक्ता ब्रह्मविषयत्वावधारणा।"अस्निरधीतेऽनुवाकम्" इति हि वाक्योपक्रमगतोऽप्यगिशब्दो माणव- कविषयो दृश्यते। तस्मादाकाशशब्दं ब्रह्मेति सिद्दम् ॥२२॥ तत्र युक्तिमाह॥ दर्शितश्चेति॥ आकाशपदाद्गौणार्थस्य ब्रह्मणोऽपि प्रथमप्रतीतिरस्ति तस्य तत्पर्यायाणां च ब्रह्मणि प्रयोगप्राचुर्यादिति भावः। अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः। ॐकारः कं सुखं ब्रह्म खं व्यापकमित्युपासीत श्रुत्यन्तरप्रयोगमाह ॥ खवं पुराणमिति ॥ व्या- प्यनादि ब्रह्मेत्यर्थः। कं ब्रह्म खं ब्रह्मेति छान्दोग्यं, ॐ खं ब्रह्म खं पु- राणमिति बृहदारण्यकमिति भेदः। किं च तत्रैव प्रथमानुसारेणोत्तरं नेयं यत्र तन्नेतुं शक्यं, यत्र त्वशक्यं तत्रोत्तरानुसारेण प्रथमं नेयमि- त्याह॥ वाक्येति ॥ तरमादुपास्ये ब्रह्मणि वाक्यं समन्वितमित्युप-
Page 201
सू० २३/ अ० ९] शाङ्करब्रह्मसूत्रभाष्ये (१७९) अतएव प्राणः।२३॥ "उद्गीथे प्रस्तोतर्या देवता प्रस्तावमन्वाय- त्ता" इत्युपकम्य श्रूयते "कतमा सा देवतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूता- नि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सै- षा देवता प्रस्तावमन्वायचा" इति। तत्र संशय- निर्णयौ पूर्ववदेव द्रष्टव्यौ, "प्राणबन्धनं हि सो- म्य मनः प्राणस्य प्राणम्" इति चैवमादौ ब्र- ह्मविषयः प्राणशब्दो दृश्यते, वायुविकारे तुप्र सिद्धतरो लोकवेदयोरत इह प्राणशब्देन कतर- स्योपादानं युक्तमिति भवतिसंशयः। किं पुन- संहरति ॥ तस्मादिति ॥ २२॥ आकाशवाक्योक्तन्यायं तदुत्तरवा- क्येऽतिदिशति ॥ अत एव प्राणः ॥ उद्वीथप्रकरणमिति ज्ञापनार्थमु- द्वीथ इति भाष्यपदम् उद्वीथप्रकरणे श्रूयते इत्यन्वयः। कश्िविदषिश्रा- कायण: प्रस्तोतारमुवाच, हे प्रस्तोतः या देवता प्रस्तावं सामभक्तिमनु- गताध्यानार्थ तां चेद्देवतामज्ञात्वा मम विदुषो निकटे प्रस्तोष्यसि मू- र्धा ते पतिष्यतीति । ततो भीतः सन् पप्रच्छ कतमा सा देवतेति उत्तरम्।। प्राण इति ॥ प्राणमभिलक्ष्य सम्यक् विशन्ति लीयन्ते त- मभिलक्ष्योज्जिहते उत्पयन्त इत्यर्थः । अतिदेशत्वात् पूर्ववत् संश- यादि द्रष्टव्यमित्युक्तं विवृणोति॥ प्राणेति ॥ मनउपाधिको जीवः, प्राणेन ब्रह्मणा वध्यते सुषुप्तावेकीभवति प्राणस्य वायोः प्राणं प्रेरकं तस्य सत्तास्फूर्ततिप्रदमात्मानं ये विदुस्ते ब्रह्मविद इत्यर्थः । पुर्वेण गता-
Page 202
(१८०) रत्नप्रभाभासिते [अ० १।पा० १। रत्र युक्तं वायुविकारस्य पञ्चवत्तेः प्राणस्योपा- दानं युक्तम्। तत्र हि प्रसिद्धतरः प्राणशब्द इ त्यवोचाम। ननु पूर्ववदिहापि तल्िद्गात् ब्रह्मण- एव ग्रहणं युक्तमिहापि हि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते। न, मु- खयेऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात्। एवं त्याम्नायते "यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं म- नः स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते" इति। प्रत्यक्षञ्रैतत् स्वापकाले प्राणतृत्तावप- रिलुप्यमानायामिन्द्रियवत्तयः परिलुप्यन्ते, प्र- बोधकाले च पुनः प्रादुर्भवन्तीति। इन्द्रियसार- त्वाञ्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसं- वेशनोद्गमनवादी वाक्यशेषः। अपि चादित्योS-
र्थत्वात् पृथकूसूत्रं व्यर्थमिति शङ्कते॥ ननु पूर्ववदिति॥ अधिका- शङ्कानिरासार्थमतिदेशसूत्रमिति मत्वा शङ्कामाह॥ न मुख्येऽपी- ति। तहि तदा चक्षुरप्येतीति एवम्प्रकारेण सर्वत्र सम्बन्धः। नन्वत्रे- न्द्रियाणां प्राणे लयोदयौ श्रूयेते तावता महाभूतलयादिप्रतिपादकवा- क्यशेषोपपत्तिः कथमित्यत आह॥ इन्द्रियसारत्वादिति॥ "इत्यस्य ह्ेष रसः," इति श्रुतेः इन्द्रियाणि लिङ्गात्मरूपाणि अपश्चीकतभूता- नां साराणि तेषां लयायु्त्या भूतानामपि प्राणे लयादिसिद्धे: वाक्य- शेषोपपत्तिरित्यर्थः । अब्रल्लसहपाठाच्च प्राणो न ब्रह्मेत्याह ॥ अपि
Page 203
सू० २३। अ० ९।] शाङ्करब्रह्मसूत्रभाष्ये (१८१) न्नश्ोद्ीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्रा- णस्यानन्तरं निर्दिश्येते, न च तयोर्ब्रह्मत्वमस्ति तत्सामान्याच्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह। "अतएव प्राण" इति।त- छ्विङ्गादिति पूर्वसूत्रे निर्दिष्टमत एव तल्लिङ़ात् प्रा- णशब्दमपि परं ब्रह्म अवितुमर्हति, प्राणस्यापि हि ब्रह्मलिङ़सम्बन्धः श्रयते "सर्वाणि ह वा इ- मानि भूतानि प्राणमेवाभ्िसंविशन्ति प्रणमभ्यु- जिहते" इति प्राणनिमित्तौ सर्वेषां भूतानामुत्प- त्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः। ननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्श- नमविरुद्धं स्वापप्रबोधयोर्दर्शनादिति। अत्रो- च्यते। स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, न सर्वेषां भूता- नाम् इह तु सेन्द्रियाणां सशरीराणाञ्च जीवा- विष्ठानां भूतानां "सर्वाणि ह वा इमानि भूता- चेति॥ उद्धातृप्रतिहर्तृभ्यामुद्गीथे प्रतिहारे च का देवतेति पृष्टेन चा- कायणेनादित्योऽन्ं च निर्दिश्येते आदित्य इति होवाच अनमिति हो- वाचेति श्रुतावित्यर्थः। सामान्यं सन्निध्यनुगृहीतप्रथमश्रुतप्राणश्रु- त्या मुख्यप्राणनिर्णये तद्दृष्ट्या प्रस्तावोपास्तिरिति पूर्वपक्षफलं, सिद्धा- न्ते ब्रह्मदृष्टिरूपोपास्तिः। अस्याधिकरणस्यातिदेशत्वमेव पूर्वेण सङ्ग- तिरिति विभाग: भवन्तीति भूतानीति व्युत्पच्या यत्किश्चिद्भवनधर्म
Page 204
(१८२) रत्नप्रभाभासिते 8 [अ० १। पा० १। नि" इति श्रुतेः। यदाऽपि भूतश्रुतिः महाभूत- विषया परिगृद्वते तदापि ब्रह्मलिङ़त्वमविरुद्ध- म्। ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबो- धयोः प्राणेऽप्ययं प्राणाच्च प्रभवं शृणुमः "यदा सुप्रः स्वनं न कञ्चन पश्यत्यथास्मिन् प्राण ए- वैकधा भवति तदैनं वाकू सर्वैर्नामभिः सहाप्ये- ति" इत्यत्र तन्नापि तल्लिङ्गात् प्राणशब्दं ब्रह्मैव। यत् पुनरन्नादित्यसन्निधानात् प्राणस्याब्रह्मत्व- मिति तदयुक्तं वाक्यशेषबलेन प्राणशब्दस्य ब्र- ह्मविषयतायां प्रतीयमानायां सन्निधानस्या- किश्चित् करत्वात्। यत् पुनः प्राणशब्दस्य पञ्च- वृत्तौ प्रसिद्धतरत्वं तदाकाशशब्दस्येव प्रतिविं- कं कार्यमात्रं तस्य लयोदयौ वायुविकारे प्राणेन युक्तावित्युत्का भूतशब्द- स्य रूढार्थग्रहेऽपि लयादेर्ब्रह्मनिर्णायकत्वमित्याह ॥ यदापीति॥ भौतिकप्राणस्य भूतयोनित्वायोगादित्यर्थः। तस्य तयोनित्वं श्रुत्या श- ङते॥ नन्विति ॥ अथ यदा सुषुपौ जीवः प्राणे ब्रह्मण्येकीभवति तदा एनं प्राणं सविषया वागादयोऽपि यन्तीत्यर्थः। अत्र जीवाभिन्नत्व- सर्वलयाधारत्वलिङ्गान्नमुख्यः प्राण इत्याह ॥तत्रापीति। वाक्यान्त- रसन्निध्यपेक्षया स्ववाक्यगतं लिङ्गूं बलीय इत्याह।। तदयुक्तमिति। एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्रतं लिङं तेनेत्यर्थः। प्राणमेवे- त्यवधारणेन सर्वभूतप्रकृतित्वलिड्गेन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह ।। तदाकाशशब्दस्येवेति ॥ वृत्तिरुतामुदाहरणं सं- १ समाधेयम।
Page 205
सू० २४ । अ ० १ ० ।] शाङ्करब्रह्मसूत्रभाष्ये (१८३) धेयम्। तस्मातू सिद्धं प्रस्तावदेवतायाः प्राण- स्य ब्रह्मत्वम। अत्र केचिदुदाहरन्ति "प्राणस्य- प्राणं प्राणबन्धनं हि सोम्य मन"इति च तद्यु- कतंशब्दभेदात् प्रकरणाच्च संशयानुपपत्तेः।यथा पितुःपितेति प्रयोगे अन्यः षष्टीनिर्दिष्ठात्प्रथमा- निर्दिष्टः पितुः पितेति गम्यते, तद्वत् प्राणस्य प्राणमिति शब्दभेदात् प्रसिद्धात् प्राणादन्यः प्राणस्य प्राणम् इति निश्रीयते। न हिसएव तस्येति भेदनिर्देशार्हो भवति। यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकर- णनिर्दिष्ट इति गम्यते। यथा ज्योतिष्टोमाधिकारे "वसन्ते वसन्ते ज्योतिषा यजेत" इत्यत्र ज्यो- तिःशब्दो ज्योतिष्टोमविषयो भ्वति तथा परस्य ब्रह्मण: प्रकरणे"प्राणबन्धनं हि सोम्य मन"इति श्रुतेः प्राणशब्दो वायुविकारमात्रं कथमवगम- येदतः संशयाविषयव्वान्नैतदुदाहरणं युक्तम्। प्रस्तावदेवतायान्तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः।२३।। ज्योतिश्रणाभिधानात्॥२४॥ इदमामनन्ति "अथ यदतः परो दिवो ज्योति- शयाभावेनायुक्तमित्याह॥ अत्रेत्यादिना।। शब्दभेदमुक्का प्रकरणं
Page 206
(१८४) रत्नप्रभाभासिते र्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमे- षु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे- ज्योतिः" इति। तत्र संशशयः । किमिह ज्योतिः शब्देनादित्यादिकं ज्योतिरभ्षिधीयते किंवा पर आत्मेति अर्थान्तरविषयस्यापि शब्दस्य त- छ्विङ्गाद्वह्मविषयत्वमुक्तम्, इह तल्लिद्मेवास्ति नास्तीति विचार्यते। किंतावत् प्राप्तम्, आ- दित्यादिकमेव ज्योतिःशव्देन परिगत्यते इ- ति। कुतः। प्रसिद्धेः, तमो ज्योतिरिति हीमौ श- ब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ। चक्षुर्व- त्तेर्निरोधकं शार्वरादिकं तम उच्यते तस्या एवा- प्रपश्चयति ॥ यस्य चेति॥ २३॥ ज्योतिश्चरणाभिधानात्॥ छा- न्दोग्यमेवोदाहरति॥ इदमिति ॥ गायत्र्युपाधिकब्रह्मोपास्त्यानन्त- र्यार्थोऽथशब्दः। अतो दिवो बुलोकातू परः परस्तावत् ज्योतिर्दीप्यते तद्यदिदमिति जाठराय्नावध्यस्यते। कुत्र दीप्यते तत्राह॥विश्वत इति॥ विश्वस्मात् प्राणिवर्गादुपरि सर्वस्मात् भूरादिलोकादुपरि ये लोकास्ते- षूत्तमेषु न विद्यन्ते उत्तमा येभ्य इत्यनुत्तमेषु सर्वसंसारमण्डलातीतं परं ज्योतिरिदमेव यद्देहस्थमित्यर्थः। अस्य पूर्वेणागतार्थत्वं वदन् प्रत्युदा- हरणसङ्गतिमाह॥अर्थान्तरेति॥ अत्र स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावे- डपि "पादोस्ये"ति पूर्ववाक्ये भूतपादत्वं लिङ्गमसतीति पादसङ्गतिः। पूर्वोत्तरपक्षयोर्जडब्रह्मज्योतिषोरुपास्तिः फलमिति भेदः । नन्वज्ञानत- मोविरोधित्वात् ब्रह्मापि ज्योतिःपदशक्यतया प्रसिद्धमस्ति नेत्याह॥ चक्षुरिति ॥ शर्वर्या रात्रौ भवं शार्वरं नीलमिति यावत्, अनेनावर-
Page 207
सू० २४ । अ० १०] शाङ्करब्रह्मसूत्रभाष्ये (१८५) नुग्राहकमादित्यादिक ज्योतिस्तथा दीप्यते, इ- तीयमपि श्रुतिरादित्यादिविषया प्रसिद्दा। न हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्ह- ति। घुमर्यादत्वश्रुतेश्र, न हि चराचरवीजस्य ब्रह्मण: सर्वात्मकस्य धयौर्मर्यादा युक्ता, कार्य- स्य तु ज्योतिषः परिच्छिन्नस्य दयौर्मर्यादा स्यात् परो दिवो ज्योतिरिति च ब्राह्मणम्। ननु कार्य- स्यापि ज्योतिषः सर्वत्र गम्यमानत्वात् दुमर्या- दावत्वमसमअसम् अस्तु तर्त्यत्रिवृत्कृतं तेजः प्रथमजम्। न, अत्रिवृत्कृतस्य तेजसःप्रयोजना- भावादिति। इदमेव प्रयोजनं यदुपास्यत्वमिति चेतू, न, प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपा- स्यत्वदर्शनात्।"तासां त्रिवृतं त्रिवृतमेकैकां क-
कत्वाद्रूपवत्वाच्च कुड्यवद्भावरूपं तम इत्यर्थादुक्तं भवति। ज्योतिः- श्रुतेरनुग्राहकलिङ्गान्याह ॥तथेत्यादिना॥ भास्वररूपात्मिका दीप्ति- स्तेजस एवलिङगमित्याह॥नहीति॥ मास्तु मर्यादेत्याशङ्् श्रुतत्वा- न्मैवमित्याह ॥ परो दिव इति ॥ मर्यादां ब्रूत इति शेषः। ब्रह्मवत् कार्यस्यापि मर्यादायोगान्निरर्थक ब्राह्मणमिति कश्विदाक्षिपति॥। नन्विति॥ एकदेशी ब्रूते॥। अस्त्विति॥ स्वर्गादौ जातं किश्चिदती- न्द्रियं तेजो दिवःपरस्तादस्ति श्रुतिप्रामाण्यादित्यर्थः। अध्ययनविध्यु- पात्तश्रुतेर्निष्फलं वस्तु नार्थ इत्याक्षेम्ा बूते ॥ नेति॥ ध्यानं फलमि- त्याशङुन्य निष्फलस्य क्वापि ध्यानं नास्तीत्याह॥ इदमेवेत्यादिना॥। २४
Page 208
(१८६) रत्नप्रभाभासिते [अ०१।पा० १। राणि" इति चाविशेषश्रुतेःन चात्रिवत्कृतस्या- पि तेजसोद्युमर्यादव्वं प्रसिद्धम्,अस्तुतर्हित्रिट- त्कृतमेव तत्तेजो ज्योतिःशब्दम्।ननक्तमर्वागपि दिवोऽवगम्यतेSग्न्यादिकं ज्योतिरिति,नैषदोषः सर्वत्रापि गम्यमानस्य ज्योतिषः परो दिव इति उपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते, न तु निष्प्रदेशस्य ब्रह्मण: प्रदेशविशेषकल्पनाभा- गिनी।"सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु" इति चाधारबहुत्वश्रुतिः कार्ये ज्योतिषि उपपद्यतेत- राम, "इदं वाव तद्दिदमस्मिन्नन्तः पुरुषे ज्यो- तिः" इति च कौक्षेये ज्योतिषि परं ज्योतिर- प्रयोजनान्तरं तमोनाशादिकम् अत्निवृत्कतं तेजोडङ्गीकत्याफलत्वमु- क्का तदेव नास्तीत्याह॥ तासामिति॥ तेजोऽबन्नानां देवतानामेके- कानू द्विधा विभज्य पुनश्ैकैकं भागं द्वेधा कृत्वा स्वभागादितरभाग- योर्निक्षिप्य तत्रिगुणरज्जुवत्निवृतं करवाणीत्यविशेषोक्त्ते्नास्त्यत्रिवृ- त्कतं किश्विदित्यर्थः । किश्चात्र यदतः पर इति यच्छव्देनान्यतः प्रसि- द्वं युमर्यादत्वं ध्यानायानूयते। न चात्रिवृत्कतस्य तस्य तत् क्वचित् प्र- सिद्धमित्याह॥ न चेति ॥ एकदेशिमते निरस्ते साक्षात् पूर्वपक्षी ब्रू- ते॥ अस्तु तहीति॥ प्रदेशविशेषः दिवः परस्ताद्वेदीप्यमानः सूर्या- दितेजोऽवयवविशेषः तस्य परिग्रह उपासनार्थो न विरुध्यत इत्यन्वयः सएव कौक्षये ज्योतिषि उपास्यते तस्यापि तेजस्त्वादिति भावःब्रह्मणो- S पिध्यानार्थ प्रदेशस्थत्वं कल्प्यतां नेत्याह॥न त्विति।। निष्प्रदेशस्य नि- रवयवस्य विशेषेऽति दिवः परस्ताद्देदीप्यमानब्रह्मावयवकल्पनाभागि-
Page 209
सू० २४ । अ० १०] शाङ्करब्रह्मसूत्रभाष्ये (१८७) ध्यस्यमानं दृश्यते। सारूप्यनिमित्ताश्र्ाध्यासा भवन्ति यथा "तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्"इति कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वं "तस्यैषा दृष्टिस्तस्यैषा श्रुतिः" इति चौष्ण्यघोषविशिष्ठत्वस्य श्रवणात् "तदेत- त् दष्टञ्च श्रुतञ्चेत्युपासीत" इति च श्रुतेश्वक्षु- ष्य: श्रुतो भवति, य एवं वेदेति चाल्पफलश्रव- णादब्रह्मत्वं महते हि फलाय ब्रह्मोपासनमि- ष्यते। न चान्यदपि किश्चित् स्ववाक्ये प्राणा- काशवज्जोतिषोऽस्ति ब्रह्मलिङ्गम्। न च पूर्वस्मि- न्नपि वाक्ये ब्रह्म निर्दिष्ठमस्ति "गायत्री वा इदं सर्व भूतम्" इति छन्दोनिर्देशात्। अथापि कथ- नी युक्ता न त्वित्यन्वयः । अप्रामाणिकगौरवापातादिति भावः। ततः किं तत्राह ॥ सारूप्येति॥ यथा एकत्वसाम्याद्जूरिति व्याहतौ प्रजापतेः शिरोदृष्टिः श्रुता तथा जाठराग्नावब्रह्मत्वं घोषादिश्रुत्या सिद्धमिति जडज्योतिष्टं साम्यं वाच्यमित्यर्थः। यद्देहस्पर्शनेनौष्ण्यज्ञानं प्रसिद्धं सै- षा तस्य जाठरागेर्दष्टिः, यत् कर्णपिधानेन घोषश्रवणं, सैषा तस्य श्रु- तिरित्यर्थः। ज्योतिषो जडत्वे लिङ्गान्तरमाह ॥ तदेतदिति॥ ज्योति- रित्यर्थः । चक्षुष्यश्वक्षुर्हितः सुन्दरः, श्रुतो विख्यातः। न चान्यदपी- ति। ब्रह्मलिंगमपि किश्चिदन्यन्नास्तीत्यन्वयः। ननु त्रिपादस्यामृतंदि- वीति पूर्ववाक्योक्तं ब्रह्मात्र ज्योतिःपदेन गृह्यतामित्याशङ्ग्याह॥न चेति॥ ननु सर्वात्मकत्वामृतत्वाभ्यां ब्रह्मोक्तमित्यत आह॥ अथा- पीति ॥। कर्थचिच्छन्दोद्दारेत्यर्थः । दिवि दिव इति विभक्तिभदाल
Page 210
(१८८) रत्नप्रभाभासिते [ [अ० १। पा० १। ज्चित् पूर्वस्मिन वाक्ये ब्रह्म निर्दिष्ठंस्यात्, एव- मपि न तस्येह प्रत्यभिज्ञानमस्ति तत्र हि "त्रि- पादस्यामृतं दिवि" इति धयौरधिकरणत्वेन श्रू- यते, अत्र पुनः "परो दिवो ज्योतिः" इति दौ- र्मर्यादाव्वेन। तस्मात् प्राकृतं ज्योतिरिह ग्रात्यय- मित्येवं प्राप्ते ब्रूम: ज्योतिरिह ब्रह्म ग्रात्यम्। कुतः, चरणाभिधानात्, पादाभिधानादित्यर्थः। पूर्वस्मिन हि वाक्ये चतुष्पाङ्वह्म निर्दिष्टं "तावा- नस्य महिमा ततो ज्यायांश्र पुरुषः। पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" इत्यनेन प्रत्यभिज्ञेत्यर्थः । प्रकतेर्जातं प्राकतं कार्यमित्यर्थः । आचार नि- रस्यति ॥ पादेति ॥ गायत्री वा इदं सर्व भूतं वाग्वै गायत्री येयं पृथिवी यदिदं शरीरं यदस्मिन् पुरुषे हृदयमिमे प्राणा इति भू- तवाक्पृथिवीशरीरहृदयप्राणात्मिका षड्डिधा षड्भिरक्षरैश्र्वतुष्पदा गा- यत्रीति। यदुक्तं तावान् तत्परिमाणः सर्वः प्रपश्चोऽस्य गायत्रयनुग- तस्य ब्रह्मणो महिमा विभूतिः, पुरुषस्तु पूर्णब्रह्मरूपः, अतः प्रपश्चा- ज्यायानधिकः । आधिक्यमेवाह ॥ पाद इति ॥ सर्व जगदेकः पादों- 5श: "विष्टम्याहमिदं कृत्लमेकांशेन स्थितो जगत्" इति स्मृतेः। अस्य पुरुषस्य दिवि स्वप्रकाशस्वरूपे त्रिपादमृतरूपमर्ति, दिवि सूर्यमण्डले वा ध्यानार्थमस्ति, कल्पिताज्जगतो ब्रह्मस्वरूपमनन्त- मस्तात्यर्थः । यथा लोके पादात् पादत्रयमधिकं तथेदमधिकमिति बोधनार्थ त्रिपादमृतमित्युक्तं न त्रिपाच्वं विवक्षितमिति म- न्तष्यं। यदतः पर इति यच्छव्दस्य प्रसिद्धार्थवाचित्वात् पूर्ववा-
Page 211
सू ० २४ । अ ० १०।] शाङ्करब्रह्मसूत्रभाष्ये (१८९) मन्त्रेण। तत्र यञ्चतुष्पदो ब्रह्मणस्त्रिपाद्मृतं घु- सम्बन्धिरूपं निर्दिष्टं तदेवेह दुसम्बन्धात् नि- र्दिष्टमिति प्रत्यभिज्ञायते। तत् परित्यज्य प्राक- तं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्र- सज्येयाताम्। न केवलं ज्योतिर्वाक्य एव ब्रह्मा- नुवत्ति:, परस्यामपि हि शाण्डिल्यविद्यायामनु- वर्तिष्यते ब्रह्म। तस्मादिह ज्योतिरिति ब्रह्म प्र- तिपत्तव्यम् । यत्तूक्तं"ज्योतिर्दीप्यते" इति च एतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायं दोषः, प्रकरणात्। ब्रह्मावगमे सत्यनयोः शब्द- योरविशेषकत्वात् दीप्यमानकार्यज्योतिरुपल- क्षिते ब्रह्मण्यपि प्रयोगसम्भवात्। "येन सूर्यस्त- क्यप्रसिद्धं ब्रह्म ग्राह्यमित्याह ॥ तत्रेति॥ ननु यदाग्नेयोऽष्टाक- पाल इत्यत्र यत्पदस्याप्रकतार्थकत्वं दष्टमित्यत आह ॥ तत्परि- त्यज्येति॥ तत्र यागस्यान्यतः प्रसिद्धेरभावेनापूर्वत्वादगत्या यदो- Sप्रसिद्धार्थत्वमाश्रितं, इह तु पूर्ववाक्यप्रसिद्धस्य ब्रह्मणो युसम्ब- न्धेन प्रत्यभिज्ञातस्य यदर्थत्वनिश्वयाद्यत्पदैकार्थकज्योतिःपदस्यापि स एवार्थ इत्यर्थः । सन्दंशन्यायादप्येवमित्याह ॥ न केवलमिति॥ सर्व खल्विदं ब्रह्मेत्युत्तरत्र ब्रह्मानुवृत्तेर्मध्यस्थं ज्योतिर्वाक्यं ब्रह्मपर- मित्यर्थः ॥ प्रकरणादिति॥ प्ररुतापेक्षयत्पद्श्रुत्या दुसम्बन्धभूतपा- दत्वादिलिङ्गैश्वेत्यर्थः । अतः प्रकरणाज्योतिःश्रुतिबोधो न युक्त इति
जसा चैतन्येनेद्धः प्रकाशितः सूर्यस्तपति प्रकाशयति तं बृहन्तमवेद-
Page 212
(१९०) रत्नप्रभाभासिते [अ० १। पा० १। पति तेजसेदः"' इति च मन्त्रवर्णात्। यद्ा नायं ज्योतिःशब्दश्र्वक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते। अन्यत्रापि प्रयोगदर्शनात् "वाचैवायंज्योतिषा- स्तेमनोज्योतिर्जु पताम्" इतिचातस्माद्यद्यत् क- स्यचिदवभासकं तत्तज्योतिःशब्देनाभिधीयते। तथा सति ब्रह्मणोऽपि चैतन्यरूपस्य समस्तज- गदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः।"तमे- व भान्तमनुभाति सर्व तस्य भासा सर्वमिद वि- आाति" "तद्देवा ज्योतिषां ज्योतिरायुहोपासते अमृतम्" इत्यादिश्रुतिभ्यश्च। यदप्युक्तं घुम- र्यादव्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति, अ- त्रोच्यते, सर्वगतस्यापि ब्रह्मण उपासनार्थःप्र- देशविशेषपरिग्रहो न विरुध्यते। ननूक्तंनिष्प्दे- शस्य ब्रह्मण: प्रदेशविशेषकल्पना नोपपद्यत इ- विन्न मनुत इत्यर्थः । ज्योतिःशब्दस्य कार्यज्योतिष्येव शक्तिरित्यङ्गी- कृत्य कारणब्रह्मलक्षकत्वमुत्ता ब्रह्मण्यपि शक्तिमाह॥ यद्वेति॥ गा- ढान्धकारे वाचैव ज्योतिषा लोक आसनादिव्यवहारं करोतीत्यर्थः। "आज्यं जुषतां, पिबतां मनो ज्योतिःप्रकाशकं भवति" इत्याज्यस्तु तिः। यथा गच्छन्तमनुगच्छतः स्वस्यापि गतिरस्ति तथा सर्वस्य स्व- निष्ठं भानं स्यादित्यत आह ॥। तस्य भासेति ॥ तत्कालानवच्छिन्नं ब्रह्म सूर्यादिज्योतिषां साक्षिभूतमायुरमृतमिति च देवा उपासत इ- त्यर्थः। ज्योतिषोऽग्नित्ववत् युमर्यादत्वादिकं ध्यानार्थ कल्पितं ब्रह्म-
Page 213
सू ० २४ | अ० १०] शाङ्करत्रह्मसूत्रभाष्ये (१९१) ति।नायं दोषः, निष्प्रदेशस्यापि ब्रह्मण उपाधि- विशेषसम्बन्धात् प्रदेशविशेषकल्पनोपपत्तेः। तथा त्यादित्ये चक्षुषि हृदये इति प्रदेशविशेषस- म्बन्धीनि ब्रह्मण उपासनानि श्रूयन्ते, एतेन वि- शवतः पृष्ठेष्वित्याधारबहुत्वमुपपादितम्। यद- प्येतदुक्तम् औष्ण्यघोषाभ्यामनुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात् परमपि दिवः कार्य ज्योतिरेवेति तदप्ययुक्तम्, परस्यापि ब्रह्म- णो नामादिप्रतीकत्ववत् कौक्षेयज्योतिः प्रतीक- त्वोपपत्तेः। "टष्टन्न श्रुतञ्त इत्युपासीत" इति तु प्रतीकद्वारकं दष्टत्वं श्रुतत्वं च भविष्यति। यद- प्यल्पफलश्रवणान्न ब्रह्मेति तदप्यनुपपन्नम।न हि इयते फलाय ब्रह्माश्रयणीयमियते नेति नियमे हेतुरस्ति। यत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते। यत्र तु गुणविशेषसम्बन्धं प्रती- णो युक्तमित्याह॥। अत्रोच्यते इत्यादिना ॥ दिवः परमित्यन्वयः, आ- रोप्यस्य ध्येयस्यालम्बनस्य च सादृश्यनियमो नास्तीत्याह॥ परस्या- पीति॥ भविष्यति ब्रह्म ज्योतिष इति शेषः। तं यथा यथोपासते त- था फलं भवतीति श्रुतेरित्याह ॥ न हीयत इति॥ ज्ञानफलवदुपा- स्तिफलमेकरूपं किं न स्यादत आह॥यत्र हीति॥ज्ेयैकत्वादित्यर्थः। ध्येयं तु नाऽनेत्याह ।। यत्र त्विति ॥ ईश्वरो जीवरूपेणान्नमत्तीत्य-
Page 214
(१९२) रत्नप्रभाभासिते [अ० १। पा० १। कविशेषसम्बन्धं वा ब्रह्मोपदिश्यते तत्र संसार- गोचराण्येवोच्चावचानि फलानि दृश्यन्ते "अन्ना- दो वसुदानो विन्दते वसु य एवं वेद" इत्यादयास श्रुतिषु। यद्यपि न स्ववाक्ये किञ्चिज्योतिषो ब्र- ह्मलिङ्गमस्ति तथापि पूर्वस्मिन् वाक्ये दृश्यमानं गृहीतव्यं भवति। तदुक्तं सूत्रकारेण ज्योतिश्र्वर- णाश्िधानादिति। कथं पुनः वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रतिः स्वविषयात् प्र- च्याव्य शक्या व्यावर्तयितुम्। नैष दोषः।"यद- तः परो दिवो ज्योतिः"इति प्रथमतरपठितेन य- च्छब्देन सर्वनाम्न्ना दुसम्बन्धात् प्रत्यभिज्ञाय- माने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्यन प- रामृष्टे सति अर्थाज्योतिःशब्दस्यापि ब्रह्मवि- षयत्वोपपत्तेः। तस्मादिह ज्योतिरिति ब्रह्म प्रति- पत्तव्यम्॥२४॥
न्नादः, अन्नस्यासमन्ताद्दाता वा। वसु हिरण्यं ददातीति वसुदान इ- ति गुणविशेषसम्बन्धं यो वेद स धनं विन्दते दीप्ताग्निश्व भवति ना- स्रो वागुत्तमा मनोवा प्रतीकं वाचोभूय इति प्रतीकविशेषध्यानश्रुति- संग्रहार्थमाद्यपदं सन्निधे:श्रुतिर्बलीयसीति शङ्कते॥कर्थ पुनरिति॥अथ प्रथमश्रुत्यनुसारेण चरमश्रुतिर्नीयत इत्याह।निषइति।सर्वनाम्ना स्वसा- मर्थ्येन स्वस्य सर्वनाम्नःसामर्थ्य सन्निहित वाचित्वं तद्लेन परामृष्टे सती- ति योजना। अर्थायत्पदसामानाधिकरण्यादित्यर्थः। छन्दोऽभिधानाद्व-
Page 215
सू० २५। अ० १०।] शाङ्करब्रह्मसूत्रभाष्ये (१९३). छन्दोऽभिधानान्नेति चेन्न तथा चेतो- उर्पणनिगदात्तथाहि दर्शनम् ॥२५॥। अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्माभि- हितमस्ति "गायत्री वा इदं सर्व भूतं यदिदं कि- ञ" इति गायत्र्याख्यस्य छन्दसोऽभिहितत्वा- दिति तत् परिहर्तव्यम्। पुनश्छन्दोऽभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुं, यावता "तावा- नस्य महिमा" इत्येतस्यामृचि चतुष्पाद्वह्म द- शिंत। नैतदस्ति। "गायत्री वा इद सर्व" इति गायत्रीमुपक्रम्य तामेव भूतपृथिवीशरीरहृदय- वाक्प्राणप्रभेदैर्व्याख्याय"सैषा चतुष्पदा षड्वि- धा गायत्री" तदेतदृचाभ्यनूक्तं "तावानस्य म- हिमा" इति तस्यामेव व्याख्यातरूपायां गाय- त्र्यामुदाहतो मंत्रः कथमकस्माद्गह्मचतुष्पादभि- दध्यात्। योऽपि तत्र "यद्वै तत् ब्रह्म" इति ब्रह्म- शब्द:, सोऽपि छन्दसः प्रकृतत्वात् छन्दोविषय एव। "य एतामेवं ब्रह्मोपनिषदं वेद" इत्यत्र हि ह्म प्रकृतं नास्तीति शङ्गामेकदेशी दूषयति ॥कथमिति॥शंकां साधयति ॥ नैतदित्यादिना। चतुष्पदत्वादिकं पूर्वमेव व्याख्यातं॥ य एता- मेवमिति॥ वेदरहस्यभूतां मधुविद्यामेवमुक्तरीत्या यः कश्व्विद्वेद त- स्योदयास्तमयरहितब्रह्मप्राप्तिर्भवतीत्यर्थः । तथा च वेदत्वात् गायत्र्यां २५
Page 216
(१९४) रत्नप्रभाभासिते [अ० १। पा० १। वेदोपनिषद्मिति व्याचक्षते। तस्माच्छन्दोऽभि- धानान्न ब्रह्मणः प्रकृतत्वमिति चेत्। नैष दोषः। तथा चेतोऽर्पणनिगढ़ात्,तथा गायत्र्याख्यच्छ- न्दोद्वारेण तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तस- माधानमनेन ब्राह्मणवाक्येन निगद्यते गायत्री वा इदं सर्व" इति। न ह्यक्षरसन्निवेशमात्राया गायत्र्याः सर्वात्मकत्वं सम्भवति। तस्माद्यद्रा- यत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म निर्दि- ष्टं,तदिह "सर्व" इत्युच्यते। यथा "सर्व खल्विदं ब्रह्म" इति। कार्य्व कारणादव्यतिरिक्तमिति वक्ष्यामः। "तदनन्यत्वमारम्भणशब्दादिभ्यः" इत्यत्र, तथान्यत्रापि विकारद्वारेण ब्रह्मण उपा- सनं दृश्यते "एतं त्वेव बव्हचा महत्युक्थे मीमां- ब्रह्मशव्दो युक्त इति भावः॥ गायत्रीशब्देन तदुपादानत्वेनानुगतब्रह्म- लक्षणायां बीजमनुपपत्तिमाह ॥ न ह्यक्षरेति ॥ ब्रह्मणोऽपि कथ सर्वात्मकत्वं तत्राह॥ कार्यश्चेति॥न च गायत्रया ध्यानार्थ सर्वात्म- कत्वारोप इति वाच्यं स्वतः सर्वात्मनो ध्यानसम्भवेनासदारोपायो- गादिति भावः । तथा हि दर्शनमिति सूत्रशेषं व्याचष्टे । तथान्यत्रे- ति। दृश्यत इति दर्शनं दृष्टमित्यर्थः । एतं परमात्मानं बव्हचा ऋ- ग्वेदिनो महत्युक्थे शस्त्रे तदनुगतमुपासते। एतमेवाग्निरहस्ये तमे- तमस्निरित्यध्वर्यव उपासत इति श्रुतेः यजुर्वेदिनोऽय्नौ उपासते। ए- तमेव छान्दोगा: सामवेदिनो महाव्रते कतौ उपासते, इति तैत्तिरीय- के दृष्टमित्यर्थः। गायत्रीशब्दो ब्रह्मलक्षक इति व्याख्याय गौण इत्या-
Page 217
सू० २५।अ०१०।] शाङ्करब्रह्मसूत्रभाष्ये (१९५) सन्ते एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः" इति। तस्मादस्ति छन्दोऽभिधानेऽपि पूर्वस्मिन् वाक्ये चतुष्पादू ब्रह्म निर्दिष्टं,तदेव ज्योतिर्वाक्ये- डपि परामृश्यते, उपासनान्तरविधानाय। अपर आह साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते संख्यासामान्यात् यथा गायत्री चतुष्पदा षड- क्षरैः पादैस्तथा ब्रह्म चतुष्पात् । तथाऽन्यत्रापि छन्दोडभिधायी शब्दोऽर्थान्तरे संख्यासामा- न्यात् प्रयुज्यमानो दृश्यते। तद्यथा "ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तः तत्कृतंइत्युपक्र- ह। अपर इति॥ साक्षादेव वाच्यार्थग्रहणं विनैवेति यावत् पूर्व तू- पास्यतया गायत्रीपदेनाजहल्लक्षणया गायत्री ब्रह्मणी दे अपि लक्षिते। न च गायत्री सर्वमित्यन्वयासम्भवः । घटो रूपीति पदार्थैकदेशे व्यक्तौ रूपान्वयवत् गायत्रीपदार्थैकदेशे गायत्रयनुगते ब्रह्मणि प्रधाने सर्वात्मकत्वान्वयसम्भवादितिभावः। तथा च सूत्रे सिद्धान्तभागस्या- यमर्थः। तथा गायत्रीवच्चतुष्पात्वगुणसामान्याच्चेतो ब्रह्मणि समर्प्यते येन स चेतोऽर्पणो गायत्रीशब्दस्तेन ब्रह्मण एव निगदात्, अभिधाना- तू, छन्दोऽभिधानमसिद्धमिति । अधुना तथा हि दर्शनमिति शेषं व्याचष्टे। तथेति ॥ संवर्गविद्यायामधिदैवमन्निसूर्यचन्द्राम्भांसि वा- यौ लीयन्ते। अध्यात्मं वाक्चक्षुःश्रोत्रमनांसि प्राणमपि यन्तीत्युक्तं ते वा एते पश्चान्ये आधिदैविका:, पश्चान्ये आध्यात्मिकास्ते मिलि- त्वा दशसंख्याका: सन्तः कृतमित्युच्यन्ते। सन्ति हि रुतत्रेताद्दापर- कलिसंज्ञकानि चत्वारि यूतानि क्रमेण चतुरङ्कन्यङ्गव्यट्कैकाङ्कानि त-
Page 218
(१९६) रत्नप्रभाभासिते [अ० १।पा० १। म्याह "सैषा विराडन्नादिनी" इति।अस्मिन् प- क्षे व्रह्मैवाभिहितमिति न छन्दोऽभिधानं सर्वथा- डप्यस्ति पर्वा्मिन् वाक्ये प्रकृतं ब्रह्म ॥२५॥ अतादिपादव्य पदेशोपप त्तेश्र्वैवम् २६॥ इतश्रवैवमभ्युपगन्तव्यमस्ति । पूर्वस्मिन वाक्ये प्रकृतं ब्रह्मेति यतो भूतादीन पादान् व्यपदिशति। भूतपृथिवीशरीरहृदयादीनि हि निर्दिश्याह "सैषा चतुष्पदा षड़िधा गायत्री" इति। न हिब्रह्मानाश्रयणे केवलस्य छन्दसो भूतादयः पादा उपपद्यन्ते। अपि च ब्रह्मानाश्र- यणे नेयमृक् सम्बध्येत "तावानस्य महिमा" इति। अनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीय- त्र कतं दशात्मकं भवति चतुर्ष्वकेषु त्रयाणां त्रिषु द्वयोई्योरेकस्य चा- न्तर्भावात्, तथा च दशत्वगुणेन वाय्वादयः कतशव्देनोच्यन्ते। एवं कृतत्वं वाय्वादीनामुपकम्याह॥ सैषेति॥ विधेयापेक्षया स्त्रीलिङ्गनि- र्देश:, विराट्पदं छन्दोवाचकं "दशाक्षरा विराट्" इतिश्रुते; दशत्व- साम्येन वाय्वादयो विराडित्युच्यन्ते। एवश्च दशत्वद्वारा वाय्वादिषु क- तत्वं विराद्त्वञ्च ध्येयं, तत्र विराद्त्वध्यानात् सर्वमस्यान्नं भवति "अन्नं विराठ्" इति श्रुतेः कृतत्वध्यानादन्ादो भवति कतदूतस्या- नादत्वात्। कतं हि स्वीयचतुरङ्गेषु 5यङ्गादिकमन्तर्भावयदन्नमत्तीव लक्ष्यते। अत एव कृतजयादितरययूतजयः श्रुत्युक्तः। कताय विजिता- याधरया: संयन्तीति, अयो बूतं कृतसंज्ञोऽयः कृतायः स विजितो ये- न तस्मै, अधरेया: त्र्यंकादयः अयाः संयन्ति उपनमन्ते तेन
Page 219
सू० २६। अ०१०।] शाङ्करब्रह्मसूत्रभाष्ये (१९७) ते "पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दि- वि" इति सर्वात्मत्वोपपत्तेः पुरुषसूक्तेऽपीयमृ- कू ब्रह्मपरतयैव समाम्नायते। स्मृतिश्र् ब्रह्मण एवं रूपतां दर्शयति विष्टभ्याहमिदं कृत्स्मेकां- शेन स्थितो जगत्" इति "यद्वै तद्रह्म" इति च निर्देश:। एवं सति मुख्यार्थ उपपद्यते। "तेवा जिता भवन्तीत्यर्थः । एवश्च सा वाय्वादिदशात्मिका एषा कतश- व्दिता विराडन्नं कृतत्वादन्ादिनीत्यर्थः ॥ सर्वथापीति ॥ गा- यत्रीति पदस्य लक्षकत्वे गौणत्वेऽपि चेत्यर्थः । अत्रापर आहे- त्यूपरपदेन गौणत्वं स्वमतं नेति योतयति । अजहल्लक्षणापक्षे हि वाग्वै गायत्रीति वागात्मत्वं गायति च त्रायते चेति निरुक्तनामकञ्च गायत्रया उपाधित्वेनोपास्यत्वादुपपन्नतरं गौणपक्षे गायत्रीत्यागात्तदु- भयं सर्वात्मकत्वमात्रेणोपपादनीयं, एवं गायत्रीपदस्य स्वार्थत्यागो- Sप्रसिद्धचतुष्पात्त्वगुणद्दारा विप्रकृष्टलक्षणा चेति बहुसमञ्जसम्। ननु "गायत्री वा इदं सर्व" इति प्रथमगायत्रीश्रुतेः कर्थ लक्षणेत्या- शाङ्क्य वाक्यशेषगतसर्वात्मकत्वायनकबलवत् प्रमाणसंवादेन ब्रह्म- णि तात्पर्यावगमादित्याह । भूतादिपादेति॥ पदार्थमाह ॥ इत- श्चेति॥ सूत्रस्थादिपदार्थ दर्शयति॥ भूतप्टथिवीति॥ अत्र सूत्रभा- व्यकारयोर्भूताददिभिश्ववतुष्पदा गायत्रीति सम्मतं षडक्षरैश्वतुष्पाच्वं वृ- त्तिकारोक्तप्रसिद्धं चकारसूचितं युक्त्यन्तरमाह ॥ अपि चेति॥ ब्रह्म- परसूक्तोत्पन्नत्वाच्च तस्यास्तत्परत्वमित्याह ॥ पुरुषेति॥ ब्रह्मपदस्य छन्दवाचित्वमुक्तं निरस्यति ॥ यह्वै तत् ब्रह्मेति॥ पूर्वस्यामृचि ब्र- ह्ोक्तावित्यर्थ: हृदयस्य चतुर्दिक्षू्ध्व च पश्चसुषयः सन्ति तेषु ब्रह्मस्था- नहन्नगरस्य प्रागादिद्वारेषु क्रमेण प्राणव्यानापानसमानोदानाः पञ्च
Page 220
(१९८) रत्नप्रभाभासिते [अ० १।पा० १। एते पञ्च ब्रह्मपुरुषाः" इति च " हृदयसुषिषु ब्र- ह्मपुरुषः" इति श्रुतिः ब्रह्मसम्बन्धितायां विव- क्षितायां सम्भवति। तस्मादस्ति पूर्वस्मिन् वा- क्ये प्रकृतं ब्रह्म। तदेव ब्रह्म ज्योतिर्वाक्ये घ्युस- म्बन्धात् प्रत्यभिज्ञायमानं परामृश्यत इति स्थि- तम् ॥ २६ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्य- विरोधात्॥२७॥ यद्प्येतदुक्तं पूर्वत्र "त्रिपादस्यामृतं दिवी"ति सपत्तम्या धयौराधारत्वेनोपदिष्ठा, इह पुनरथ यद- तः परो दिव इति पञ्चम्या मर्यादात्वेन तस्मादु- पदेशभेदात् न तस्येह प्रत्यभिज्ञानमस्तीति तत् परिहर्तव्यं। अत्रोच्यते, नायं दोष उभ्यस्मिन्न- द्वारपाला इति ध्यानार्थ श्रुत्या कल्पितं। तत्र हृदयच्छिद्रस्थप्राणेषु ब्रह्मपुरुषत्वश्रुतिर्हृदि गायत्रयाखव्यब्रह्मण उपासनासम्बन्धितायां ब्र- ह्णा द्वारपालत्वाद्रह्मपुरुषा इति सम्भवतीत्याह ॥ पञ्च ब्रह्मेति॥ दिवि दिव इति विभक्तिभेदात् प्ररुतप्रत्यभिज्ञा नास्तीत्युक्तं नोपेक्षणी- यमित्याह॥ तत्परिहर्तव्यमिति।परिहारं प्रतिजानीते॥अत्रेति॥सूत्रे नञर्थ वदन् परिहारमाह॥ नायमिति॥ एवं सर्वत्र व्याख्येयं। प्रधान- प्रातिपदिकार्थाद् युसम्बन्धेन प्रत्यभिज्ञाया विभक्त्यर्थभेदो न प्रतिब- न्धकः, कथश्चिदाधारस्यापि मर्यादात्वसम्भवात्। यथा वृक्षायं स्वलग्न- भागावच्छिन्नश्येनस्याधारः सन्नेव स्वालग्नभागावच्छिन्नस्य तस्यैव
Page 221
सू० २८।अ० ११।] शाङ्करब्रह्मसूत्रभाष्ये (१९९) प्यविरोधात्,उभयस्मिन्नपिसप्तम्यन्ते पञ्चम्य- न्ते चोपदेशेन प्रत्यभिज्ञानं विरुध्यते।यथा लोके वृक्षाये सम्बधोऽपि श्येन उभयथोपदिश्यमानो दृश्यते, वृक्षाग्रे श्येनो वृक्षाग्रात् परतः श्येन इति च, एवं दिव्येव सत् ब्रह्म दिवः परमित्युपदिश्य- ते। अपर आह यथा लोके वृक्षाग्रेणासम्बद्ोऽपि श्येन उभ्यथोपदिश्यमानो दृश्यते वृक्षाय्रे श्येनो वृक्षाग्रात् परतः श्येन इति च, एवं च दिवः परम- पि सत् ब्रह्म दिवीत्युपदिश्यते। तस्मादस्ति पू- र्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानं। अतः पर- मेव ब्रह्म ज्योतिःशब्दमिति सिद्धं॥२७॥ पाणस्तथानुगमातृ॥२८॥ अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रत- मर्यादा भवति, एवं दिवि सूर्ये हार्दाकाशे वा मुख्ये आधारे सद् ब्र- ह्म दिवो मर्यादत्वं तद्लग्नाकाशावच्छिन्नं ब्रह्म प्रति कल्पयित्वा दिवः परमित्युच्यत इत्यर्थः । यव्याकाशेन अनवच्छिन्नं ब्रह्म गृहीत्वा पश्च- म्या दिवो मर्यादात्वमेव मुख्यं तदा गङ्गायां घोष इतिवत् सप्तक्या सामीप्यलक्षणयाSSधारत्वं व्याख्येयमित्याह॥ अपर इति ॥ सम्ब- द्वं प्रत्याधारत्वं मुख्यं पूर्वमुक्तं दिव्येव सदिति असम्बद्धं प्रति मर्या- दात्वं मुख्यमधुनोच्यते। दिवः परमपीति भेदः। तस्माज्योतिर्वाक्य- मुपास्ये ब्रह्मणि समन्वितमिति सिद्दम् ॥२७॥ प्राणस्तथानुगमा- तू। दिवोदासस्यापत्यं दैवोदासि: प्रतर्दनो नाम राजा युद्धेन पुरुषका-
Page 222
(२०० ) रत्नप्रभाभासिते अ० १1 पा०१॥ र्दनाख्यायिका "प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्देन च पौरुषेण च" इ- त्यारभ्याम्नाता। तस्यां श्रूयते "स होवाच प्रा- णोडस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व" इति, तथोत्तरत्रापि "अथ खल प्राण एव प्रज्ञा- त्मा इद शरीरं परिग्ृत्योत्थापयति" इति, तथा "न वाचं विजिज्ञासीत वक्तारं विद्यात्" इत्यादि अन्ते च "स एष प्राण एव प्रज्ञात्मानन्दोऽजरो- डमृतः" इत्यादि। तत्र संशयः, किमिह प्राणश- व्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेतिनन्वत एव प्राण इत्यत्र वर्णित प्राणशब्दस्य ब्रह्मपरत्वमिहापि च ब्रह्म- लिङ्गमस्ति "आनन्दोऽजरोऽमृतः" इत्यादि क- थमिह पुनः संशयः सम्भवति। अनेकलिङ्गदर्श- रेण च कारणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम तं ह इन्द्र उवाच प्रतर्द- न वरं ते ददामीति स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्य- से सं वरं त्वमेवालोच्य महं देहीति नत इन्द्र इदमाह प्राणोऽस्मी- त्यादि मुख्यं प्राणं निरसितुं प्रज्ञात्मत्वमुक्तं निर्विशेषचिन्मात्रं निर- स्यति॥ तं मामिति॥ इदं प्राणस्येन्द्रदेवतात्वे लिङ्गम्। मुख्यप्राण- त्वे लिङ्गमाह॥ अथेति॥ वागादीनां देहधारणशक्त्यभावनिश्वयान- न्तरमित्यर्थः। प्राणस्य देहधारकत्वमुत्थापकत्वश्च प्रसिद्धमिति वकुं खल्वित्युक्तं। प्राणस्य जीवत्वे वकृत्वं लिङ्गमाहान वाचमिति।आन- न्दत्वादिकं ब्रह्मलिङ्गमाह॥अन्ते चेति ॥ अनेकेषु लिङ्गेषु दृश्यमानेषु
Page 223
सू० २८। अ० ११] शाङ्करब्रह्मसूत्रभाष्ये (२०१) नादिति ब्रूम:। न केवलमिह ब्रह्मलिङ्गमेवोपल- भ्यते सन्ति हि इतरलिङ्गान्यपि। "मामेव वि- जानीहि" इतीन्द्रस्य वचनं देवतात्मलिङ्गम् इ- दं शरीरं परिग्टद्योत्थापयतीति प्राणलिङ्गम्।"न वाचं विजिज्ञासीत वक्तारं विद्यादि" त्यादि जी- वलिङ्गं, अत उपपन्नः संशयः। तन्र प्रसिद्धो वा- युः प्राण इति प्राप्ते, उच्यते, प्राणशब्दवाच्यं ब्रह्म विज्ञेयं। कुतः। तथानुगमात्। तथा हि पौ- र्वापर्येण पर्यालोच्यमाने वाक्ये पदार्थानां स- मन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते, उपक्रमे तावत् वरं वृणीष्वेतीन्द्रेणोक्तः। प्रतर्दनः पर- मपुरुषार्थ वरमुपचिक्षेप "त्वमेव मे वृणी- बलाबलनिर्णयार्थमिदमधिकरणमित्यगतार्थमाह ॥ अनेकलिङ्गेति॥ पूर्वत्र प्रकृतब्रह्मवाचकयच्छव्दवलाज््योतिःश्रुतिः ब्रह्मपरेत्युक्तं, न तथे- ह प्राणश्रुतिभङ्गे किश्चिद्दलमस्ति। मिथो विरुद्धानेकलि ड्ुानामनिश्र्या- यकत्वादिति प्रत्युदाहरणसङ्गत्या पूर्वपक्षयति ॥ तत्रेति ॥ पूर्व प्र- धानप्रातिपदिकार्थबलात् विभत्त्यर्थबाधवद्दाक्यार्थज्ञानं प्रति हेतुत्वे- न प्रधानानेकपदार्थवलादेकवाक्यताभङ्ग इति दृष्टान्तसङ्गतिर्वाड- स्तु। पूर्वपक्षे प्राणाययुनेकोपास्तिः, सिद्धान्ते प्रत्यग्ब्रह्मधारिति वि- वेकः। तथा ब्रह्मपरत्वेन पदानामन्वयावगमादिति हेत्वर्थमाह॥त- था हीति॥ हिततमत्वकर्मक्षयादिपदार्थानां सम्बन्धो ब्रह्मणि ता- त्पर्यनिश्षवायक उपलभ्यत इत्युक्तं विवृणोति ॥उपक्रम इत्यादिना ॥ यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः । स यः कश्ित् मां ब्रह्मरूपं २६
Page 224
(२०२) रत्नप्रभाभासिते [अ० १। पा० १। ष्व यं व्वं मनुष्याय हिततमं मन्यसे" इति। तस्मै हितत मत्वेनोपदिश्यमानः प्राण: कथं प- रमात्मा न स्यात्। न ह्यन्यत्र परमात्मज्ञा- नात् हिततमप्राप्तिरस्ति "तमेव विदिव्वाऽति- मृत्युमेति नान्य: पन्था विद्यतऽयनाय" इ- व्यादिश्रुतिभ्यः । तथा "सयो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्ते- येन न भ्रूणहत्यया" इत्यादि च ब्रह्मपरिग्र- हे घटते, ब्रह्मविज्ञाने हि सर्वकर्मक्षयः प्रसिद्धः। "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्याद्यासु श्रुतिषु, प्रज्ञात्मत्वं च ब्रह्मपक्ष एवो- पपद्यते।न त्यचेतनस्य वायोः प्रज्ञात्मव्वं स- म्भवति।तथोपसंहारेऽपि "आनन्दोऽजरोऽमृतः" इत्यानन्दत्वादीनि न ब्रह्मणोऽन्यत्र सम्यक् स- मभवन्ति "सन साधुना कर्मणा भूयान् नो ए- वासाधुना कनीयानेष त्येव साधु कर्म कारयति" "तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासा- धु कर्म कारयति। तं यमेभ्यो लोकेभ्योऽधो निनी- षते" इति "एष लोकपाल एष लोकाधिपतिरेष वेद साक्षादनुभवति तस्य विदुषा लोको मोक्षो महताऽपि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानान्निना कर्मतूलराशेर्दग्ध- त्वादित्याह॥ स य इति ॥ साध्वसाधुनी पुण्यपापे ताभ्यामसपृष्टत्वं
Page 225
सू० २१ । अ० ११] शाङ्करब्रह्मसूत्रभाष्ये (२०३) लोकेशः इति च। सर्वमेतत् परस्मिन् ब्रह्मण्या- श्रीयमाणे अनुगन्तुं शक्यते न मुख्ये प्राणे। त- स्मात् प्राणो ब्रह्म ॥२८ ॥ न वक्तुरत्मोपदेशादिति चेदध्यात्मस- म्बन्धभूमा हयस्मिन्॥ २९॥ यदुक्तं प्राणो ब्रह्मेति तदाक्षिप्यते, न परं ब्र- ह्म प्राणशब्दम्।कस्मात्, वक्तुरात्मोपदेशात्।व- क्ता हीन्द्रोनाम कश्विद्विग्रहवान् देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे "मामेव विजानी- हि" इत्युपक्रम्य "प्राणोऽस्मि प्रज्ञात्मा" इत्य- हङ्गारवादेन स एष वक्तुरात्मत्वेनोपदिश्यमानः प्राण: कथं ब्रह्म स्यात्। न हि ब्रह्मणो वक्तृत्वं सम्भवति "अवागमनाः"इत्यादिश्रुतिभ्यः।त- था विग्रहसम्बन्धिभिरेव ब्रह्मण्यसम्भवद्धिर्धर्मै- रात्मानं तुष्ठाव "त्रिशीर्षाणं त्वाष्ट्रमहनं, अरुन्मु- खान् यतीन् शालाळकेभ्य: प्रायच्छम्" इत्येव- तत्कारयितृत्वं निरङकुशैश्ववर्य च सर्वमेतदित्यर्थः ॥२८॥अहङ्गारवा- देन स्वात्मवाचकशव्दैराचचक्षे, उक्तवान् इत्यर्थः। वाक्यस्य इन्द्रो- पासनापरत्वे लिङ्गान्तरमाह॥ तथा विग्रहेति॥ त्रीणि शीर्षाणि य- स्येति त्रिशीर्षा त्वष्टुः पुत्रोः विश्वरूपोनाम ब्राह्मणः तं हतवानस्मि। रौति यथार्थ शब्दयतीति रुत् वेदान्तवाक्यं तन्मुखे येषां ते रुङ्मुखा-
Page 226
(२०४) रत्नप्रभाभासिते [अ० १।पा० १। मादिभिः। प्राणत्वं चेन्द्रस्य बलवत्वादुपपद्यते, "प्राणो वै बलम्" इति हि विज्ञायते बलस्य चेन्द्रो देवता प्रसिद्दा। या च काचन बलकृतिरिन्द्रक- र्मैव तदिति हि पठन्ति। प्रज्ञात्मत्वमप्यप्रतिह- तज्ञानत्वाद्देवतात्मनः सम्भवति, अप्रतिहत- ज्ञाना देवता इति हि वदन्ति। निश्चिते चैवं देव- तात्मोपदेशे हिततमत्वादिवचनानि यथासम्भ- वं तद्विषयाण्येव योजयितव्यानि। तस्माद्वक्तुरि- न्द्रस्यात्मोपदेशान्न प्राणो ब्रह्मेत्याक्षिप्य प्रति- समाधीयते। अध्यात्मसम्बन्धभूमा त्यस्मिन्नि- ति। अध्यात्मसम्बन्धः प्रत्यगात्मसम्बन्धस्त- स्य भूमा बाहुल्यमस्मिन्नध्याय उपलभ्यते। "यावदध्यस्मिन् शरीरे प्राणो वसति तावदायुः"' स्तेभ्योऽन्यान् वेदान्तबहिर्मुखान् यतीनरण्यश्वभ्यो दत्तवानस्मीत्यर्थः। इन्द्रे प्राणशब्दोपपत्तिमाह॥ प्राणत्वं चेति॥ पठन्ति लौकिका अपी- त्यर्थः। बलवाचिना प्राणशव्देन बलदेवता लक्ष्यत इति भावः। इन्द्रो हितप्रदातृत्वाद्धिततमः कर्मानधिकारादपाप इत्येवं व्याख्येयानीत्याह । निश्चितं चेति ॥ किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मात्रमुच्यते उत विग्रहः। आये वाक्यस्य ब्रह्मपरत्वं सिद्धं, न द्वितीय इत्याह ॥ अध्यात्मेति॥ आत्मनि देहेऽधिगत इत्यध्यात्मं प्रत्यगात्मा स सम्बध्यते यैः शरीरस्थत्वादिभिरिन्द्रतनावसम्भावितैर्धर्मैस्ते अध्या- त्मसम्बन्धास्तेषां भूमेत्यर्थः । आयुरत्र देहे प्राणवायुसश्चारः । अस्ति - त्वे प्राणस्थितौ प्राणानामिन्द्रियाणां स्थितिरित्यर्थतः श्रुतिमाह॥अ-
Page 227
सू ० २९।अ ० ११] शाङ्करत्रह्मसूत्रभाष्ये (२०५) इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुः- प्रदानोपसंहारयोः स्वातन्त्रयं दर्शयति न देव- ताविशेषस्य पराचीनस्य। तथाऽस्तित्वेच प्रा- णानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्रा- णं दर्शयति। तथा "प्राण एव प्रज्ञात्मेदं शरीरं परिग्टत्योत्थापयति" इति, "न वाचं विजिज्ञा- सीत वक्तारं विद्यात्" इति चोपक्रम्य "तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता:"ए- वमेवैता भूतमात्रा: प्रज्ञामात्रास्वर्पिताः प्रज्ञा- मात्रा: प्राणेऽर्पिताः"स एष प्राण एव प्रज्ञात्मा- नन्दोऽज रोऽमृतः इति विषयेन्द्रियव्यव हारैरन- अिभूतं प्रत्यगात्मानमेवोपसंहरति"समआत्मे- स्तित्व इति॥ अथातो निःश्रेयसादानमित्याया श्रुतिः। इन्द्रियस्था- पकत्ववद्देहोत्थापकत्वमाह ॥ तथेति॥ वकृत्वमुक्का सर्वाधिष्ठानत्वं दशितमित्याह॥ इति चोपक्रम्पेति॥ तत्तत्र नानाप्रपश्चस्यात्मनि कल्पनायां यथा दष्टान्तः लोके प्रसिद्धस्य रथस्यारेषु नेमिनाभ्योर्म- ध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता नाभौ चक्रपिण्डिकायाम- रा अरपपिता एवम्भूतानि पञ्च पृथिव्यादीनि मीयन्त इति मात्राः भो- ग्याः शब्दादयः पच्चेति दशभूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः इन्द्रि- यजा: पश्चशव्दादिविषयप्रज्ञाः। मीयन्ते आभिरिति मात्राः पश्चधी- न्द्रियाणि नेमिवत् ग्राह्यम्। ग्राहकेषु अरेषु कल्पितमित्युक्का नाभि- स्थानीये प्राणे सर्व कल्पितमित्याह ॥ प्राणेऽर्पिता इति॥ स प्राणो मम स्वरूपमित्याह॥ स म इति ॥ तर्हि प्रत्यगात्मनि समन्वयो न
Page 228
(२०६) रत्नप्रभाभासिते [अ० १। पा० १। ति विद्यात्" इति चोपसंहारः प्रत्यगात्मपरिय्रहे साधुः न पराचीनपरिग्रहे। "अयमात्मा ब्रह्म सर्वानुभूः" इतिच श्रुत्यन्तरं।तस्मादध्यात्मस- म्बन्धबाहुल्यात् ब्रह्मोपदेश एवायं न देवतात्मो- पदेश:॥२९॥कथं तर्हि वक्तुरात्मोपदेशः॥ शास्त्रदृध्ट्या तूपदेशो वामदेववत्॥३० इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वे- नाहमेव परं ब्रह्मेत्यार्षेण दर्शनेन यथाशाखरं पश्य- त्नुपदिशति स्म मामेव विजानीहीति। यथा त- द्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे, अहं मनुर- अवं सूर्यश्रेति तद्वत्, "तद्ो यो देवानां प्रत्यवु- ध्यत स एव तदभवत्" इति श्रुतेः। यत् पुनरुक्तं "मामेव विजानीहि" इव्युक्ता विग्रहधर्मैरिन्द्र आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति तत्परिहर्त- व्यं। अत्रोच्यते। न व्वाष्ट्रवधादीनां विज्ञेयेन्द्र- स्तुत्यर्थव्वेनोपन्यासः, यस्मादेवंकर्माहं तस्मा- न्मां विजानीहीति, क्थं तर्हि, विज्ञानस्तुत्यर्थ- तु ब्रह्मणि। तत्राह॥अयमिति॥२९॥ अहङ्कारवादस्य गति पृच्छति । कथमिति॥ सूत्रमुत्तरं। तव्याख्याति ॥ इन्द्र इति॥ जन्मान्तरक- तश्रवणादिना अस्मिन् जन्मनि स्वतःसिद्धं दर्शनमार्ष विज्ञेयेन्द्र- स्तुत्यर्थ उपन्यासः न चेतू कथं तहि स इति पृच्छति॥ कथमिति॥
Page 229
सू० ३१ । अ० ११।] शाङ्करब्रह्मसूत्रभाष्ये (२०७ ) त्वेन। यत् कारणं त्वाष्ट्रवधादीनि साहसानि उ- पन्यस्य परेण विज्ञानस्तुतिमनुसन्दधाति "त- स्य मे तत्र लोम च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयते" इत्यादि- ना। एतदुक्तं भवति यस्मादीद्ृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापिन हिंस्यते स योऽन्योऽपि मां वेद न तस्य केनचि- दपि कर्मणा लोको हिंस्यत इति। विज्ञेयं तु ब्र- ह्मैव प्राणोऽस्मि प्रज्ञात्मेति वक्ष्यमाणं। तस्मात् ब्रह्मवाक्यमेतत्॥ ३०॥ जीवमुख्यमाणलिङ्गान्नेति चेन्नोपासा- वैविध्यादाश्रितत्वादिह तद्योगात् ३१।। यद्यप्याध्यात्मसम्बन्धभूमदर्शनान्न परा- चीनस्य देवतात्मन उपदेशस्तथाऽपि न ब्रह्म- वाक्यं भवितुमर्हति। कुतः । जीवलिङ्गान्मुख्य- प्राणलिङ्गाच्च। जीवस्य तावदस्मिन् वाक्ये वि- स्पष्टं लिङ्मुपलभ्यते "न वाचं विजिज्ञासीत ब्रह्मज्ञानस्तुत्यर्थः स इत्याह॥ विज्ञानेति॥ नियामकं ब्रूते॥ यदि- ति। परेण तस्य मे इत्यादिना वाक्येनेत्यन्वयः । स्तुतिमाह॥एत- दुक्तकमिति ॥ तस्मात् ज्ञानं श्रेष्ठमिति शेषः। स्तुतज्ञानविषय इन्द्र इत्यत आह॥ विज्ञेयं तििति॥ ३०॥ देहोत्थापनं जीवलिङ्गं किं न
Page 230
(२०८) रत्नप्रभाभासिते [अ० १। पा० १। वक्तारं विद्यात्" इत्यादि अत्र हिवागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमश्निधीयते तथा मुख्यप्राणलिङ्गमपि। "अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृद्यो- त्थापयती ति।शरीरधारणं च मुख्यप्राणस्य ध- र्मः। प्राणसंवादेवागादीन प्राणान् प्रकृत्य "ता- न् वरिष्ठः प्राण उवाच मा मोहमापद्यथाऽहमेवै- तत् पञ्चधाऽडत्मानं प्रविभज्यैतद् वाणमवष्टभ्य विधारयामि" इति श्रवणात्। ये त्विमं शरीरं प- रिग्टत्येति पठन्ति तेषामिमं जीवमिन्द्रियग्रामं वापरिगृत्य शरीर मुत्थापयतीति व्याख्येयम्। प्र- ज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नं मुख्येऽ- पि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्न- मेव। जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्म- स्यात्तत्राह॥ शरीरधारणं चेति॥ सर्वे वागादयः प्राणा अहमहं श्रे- छठ इति विवदमानाः प्रजापतिमुपजग्मुः।स च तानुवाच यस्मिन्नु- त्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति । तथा क्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्य- प्राणस्य तु उच्चिकमिषायां सर्वेषां व्याकुलत्वामौ तान् वागादीन् व- रिष्ठः प्राण उवाच यूयं मोहमापयथ यतोऽहमेवैतत् करोमि। किं तत् पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्दाति गच्छतीति वानं तदेव वाणमस्थिरं शरीरमवष्टभ्याश्रित्य धारयामीत्यर्थः । द्विव- चनसहवासोत्क्ान्तिश्रुतेश्र न बह्म ग्राह्यमित्याह॥ जीवमुख्येति॥
Page 231
सू ३१। अ० ११।] शाङ्करब्रह्मसूत्रभाष्ये (२०९) नो: सहवत्तित्वेनाभेदेन निर्देश: स्वरूपेण च भे- दनिर्देश इत्युभयथा निर्देश उपपद्यते "यो वै प्रा- णःसा प्रज्ञा या वै प्रज्ञा स प्राणः" इति, "सह त्ये- तावस्मिन् शरीरे वसतः सहोत्क्रामतः"इति।ब्र- हमपरिग्रहे तु किं कस्मात् भिद्येत, तस्मादिह जी- वमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत्, नैतदेवं, उपासात्रैविध्यात्। एवं सति त्रिविधमुपासनं प्रसज्येत जीवोपासनं मु- र्यप्राणोपासनं ब्रह्मोपासनं चेति। न चैत- देकस्मिन वाक्येऽभ्युपगन्तुं युक्तं, उपक्रमोप- संहाराभ्यां हि वाक्यैककत्वमवगम्यते। "मामे- व विजानीहि" इत्युपक्रम्य"प्राणोऽस्मिन्प्रज्ञा- त्मा तं मामायुरमृतमित्युपास्व" इत्युक्काऽन्ते "स एष प्राण एव प्रज्ञात्माSSनन्दोऽजरोऽमृतः" इत्येकरूपावुपक्रमोपसंहारौ दृश्येते। तत्रार्थैक- अभेदनिर्देशमाह॥ यो वा इति ॥ भेदमाह ॥सहेति ॥ यदि जीव- मुख्यप्राणयोलिङ्गादुपास्यत्वं तर्हि ब्रह्मणोऽपि लिङ्गानामुक्तत्वादुपास- नं स्यात्, न चेष्टापत्तिः। उपक्रमादिना निश्चिवितैकवाक्यताभङ्गप्रसङ्ग: इत्याह॥ नैतदेवमित्यादिना॥ न च स्वतन्त्रपदार्थभेदाद्वाक्यभेदः किं न स्यादिति वाच्यं जीवमुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणि नेतुं शक्यतया स्वातन्त्रयासिद्धेः, अफलपदार्थस्य फलवद्दाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्विङनयनस्योचितत्वाच्च। न हि प्रधानवा- २७
Page 232
(२१०) रत्नप्रभाभासिते अ० १। पा०१] व्वं युक्तमाश्रयितुम्।न च ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यं दशानां भूतमात्राणां प्रज्ञामा- त्राणां च ब्रह्मणोऽन्यत्रार्पणानुपपत्तेः। आश्रि- तत्वाच्चान्यत्रापि ब्रह्मलिङ्गवशात् प्राणशब्दस्य ब्रह्मणि प्रवृत्तेः। इहापि च हिततमोपन्यासा- दिब्रह्मलिद्गयोगाङ्कह्मोपदेश एवायमिति गम्य- ते। यत्तु मुख्यप्राणलिङ्गं दर्शितं "इदं शरी- रं परिग्ृत्योत्थापयति" इति तदसत्, प्राणव्या- पारस्यापि परमात्मायत्तत्वात् परमात्मन्युपच- रितुं शक्यत्वात्, "न प्राणेन नापानेन म्व्यो जी वति कश्र्वन। इतरेण तु जीवन्ति यस्मिन्नेतावु- पाश्रितौ" इति श्रुतेः ।यदपि "न वाचं विजि- ज्ञासीत वक्तारं विद्यात्" इत्यादि जीवलिड़ं द- र्शितं, तदपि न ब्रह्मपक्ष निवारयति, न हिजी- वो नामात्यन्तभिन्नो ब्रह्मणः "तत्वमसि " क्यार्थब्रह्मलिङ्गमन्यथा नेतुं शक्यं। न वा तदुचितमित्याह॥ न च- ब्रह्मलिङ्गमिति॥ सूत्रशेषं व्याचष्टे॥ आश्रितत्वाच्चेति॥ अन्यत्रा- त एव प्राण इत्यादौ वृत्तेराश्रितत्वादि्हापि तस्य ब्रह्मलिङस्य योगा- द् ब्रह्मपर एव प्राणशब्द इत्यर्थः। प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्य- नायासेन नेतुं शक्यानीत्याह। यत्त्वित्यादिना॥ यस्मिन्नेतौ प्रेर्य- त्वेन स्थितौ ते ने तरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः। विशेषं परिच्छेदाभिमानमित्यर्थः। वक्तारं विद्यादिति न वक्तु्ज्ेयत्वमुच्यते तस्य
Page 233
सू० ३१।अ०११।] शाङ्करब्रह्मसूत्रभाष्ये (२११) "अहं ब्रह्मास्मि" इत्यादिश्रुतिभ्यः । बुद्धया- द्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन्जीवः कर्त्ता भोक्ता चेत्युच्यते तस्योपाधिकृतविशेषप- रित्यागेन स्वरूपं ब्रह्म प्रदर्शयितुं "न वाचं वि- जिज्ञासीत वक्तारं विद्यात्" इत्यादिना प्रत्य- गात्माभिमुखीकरणार्थमुपदेशो न विरुध्यते। "यद्ाचाऽनभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म- त्वं विद्धि नेदं यदिद्मुपासते" इत्यादि च श्रुत्य- न्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्म- त्वं दर्शयति। यत् पुनरेतदुक्तं "सह त्येतावस्मि- नू शरीरे वसतः सहोक्क्रामतः" इति प्राणप्र- ज्ञात्मनोर्भेददर्शनं ब्रह्मवादिनो नोपपद्यत इति। नैष दोषः । ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धि- प्राणयोः प्रत्यगात्मोपाधिभतयोर्भेदनिर्देशोप- पत्तेः। उपाधिद्वयोपहितस्य तुप्रत्यगात्मनः स्व- रूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मेत्येकीकरण- मविरुद्धं।अथवा नोपासात्रैविध्याश्रितत्वादिह लोकसिद्धत्वात्, किन्तु तस्य ब्रह्मत्वं बोध्यते तद्दोधाभिमुख्याय लिडादय इत्यत्र श्रुत्यन्तरमाह॥यद्वा चेति॥ येन चैतन्येन वागभ्यु- व्यते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादेरगम्यं ब्रह्मेत्यर्थः। तच्वम्पद- वाक्ययोः स्वरूपतो भेदस्ताभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दि- श्यत इत्याह ॥ नैष दोष इति॥ स्वमतेन सूत्रं व्याख्याय वृत्तिकन्म-
Page 234
(२१२) रत्नप्रभाभासिते [अ० १।पा० १। तद्योगादित्यस्यायमन्योऽर्थः। न ब्रह्मवाक्येऽ- पि जीवमुख्यप्राणलिङ्गं विरुध्यते। कथ। उपा- सात्रैविध्यात्। त्रिविधमिह ब्रह्मोपासनं विवक्षि- तं प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण चातत्र"आ- युरमृतमित्युपास्वायुः प्राणः" इति "इदं शरीरं परिग्ृत्योत्थापयति" इति "तस्मादेतदेवोक्थ- मुपासीत" इति च प्राणधर्मः । अथ "यथास्यै प्रज्ञायै सर्वाणि भूतानि एकीअवन्ति तत् व्या- ख्यास्याम:" इत्युपक्रम्य "वागेवास्या एकम. तेन व्याचष्टे। अथवे ति । उपासनात्रित्वप्रसङ्गादिति पूर्वमुक्तं। अत्र त्रिप्रकारकस्यैकब्रह्मविशेष्यकस्यैकस्योपासनस्य विवक्षितत्वा- दित्यर्थः । अतो न वाक्यभेद इति भावः। देहे चेष्टात्मकजीवनहेतु- त्वं प्राणस्यायुष्टं देहापेक्षया तस्यानुक्तेरवस्थानादमृतत्वमुत्थापयती- त्युक्थत्वमिति प्राणधर्मः । जीवधर्मानाह ॥ अथेति॥ बुद्धिप्राणयोः सहस्थित्युत्क्ान्त्युक्त्यनन्तरमित्यर्थः । अत्र प्रज्ञापदेन साभासा जी- वाख्या बुद्धिरुच्यते। तस्याः सम्बन्धीनि दृश्यानि सर्वाणि भूतानि य- थैकं भवन्त्यधिष्ठानचिदात्मना तथा व्याख्यास्याम इत्युपक्रम्योक्तं वागेवेत्यादि चक्षुरेवास्या एकमङ्गमदूदुहदित्यादिपर्यायाणां संक्षिप्ा- र्थ उच्यते । उत्पन्नाया असत्कल्पायाः साभासबुद्देर्नामप्रपश्चविष- यित्वमर्धशरीरं, अर्थात्मकरूपप्रपश्चविषयित्वमर्धशरीरमिति मिलि- त्वा विषयित्वाख्यं पूर्ण शरीरमिन्द्रियसाध्यं। तत्र कर्मेन्द्रियेषु वागे- वास्या: प्रज्ञाया एकमङ्ग देहार्धमदूदुहत् पूरयामास, वागिन्द्रियद्दारा नाम प्रपश्चवषियित्वं बुद्धिलभत इत्यर्थः । चतुर्थी षष्टचर्था। तस्याः पु-
Page 235
सू० ३१।अ०११।] शाङ्करब्रह्मसूत्रभाष्ये (२१३) ङमदूदुहत् तस्यै नाम परस्तात् प्रतिविहिता भू- तमान्रा प्रज्ञया वाचं समारुत्य वाचा सर्वाणि नामान्याप्नोति" इत्यादिः प्रज्ञाधर्मः।"ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतं यद्धि भूतमात्रा न स्युः न प्रज्ञामात्रा: स्यु: यद्धि प्रज्ञामात्रा: न स्युः न भूतमात्रा: स्यु: न त्यन्यतरतो रूपं किध्चन सिध्येत्, नो एतन्ना- ना तदथा रथस्यारेषु नेमिरर्पिता नाभावरा अ-
नर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापिता भूतमात्रा रूपादर्थ- रूपापरस्तादपरार्धे कारणं भ्यवति ज्ञानकरणद्दाराऽर्थप्रपश्चविषयित्वं बुद्धिः प्राप्नोतीत्यर्थः । एवं बुद्धे: सर्वार्थदष्टत्वमुपपाय तन्निष्ठचित्प्र- तिबिम्बद्दारा साक्षिणि द्रषटृत्वाध्यासमाह ॥ प्रज्ञयेति ॥ बुद्धिद्वारा चिदात्मा वाचमिन्द्रियं समारुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि प- श्यतीत्येवं द्रष्टा भवतीत्यर्थः। तथा च सर्वद्रषटृत्वं चिदात्मनि द्रष्टृत्वा- ध्यासनिमित्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वाधारत्वानन्दत्वादिब- . हधर्म इत्याह॥ ता वा इति ॥ दशत्वं व्याख्यातं, प्रज्ञा इन्द्रियजाः ता अधिरुत्य ग्राह्यभूतमात्रा वर्त्तन्ते प्रज्ञामात्रा इन्द्रियाणि ग्राहं भूत- जातमधिकुत्य वर्त्तन्त इति गाहग्राहकयोर्मिथःसापेक्षत्वमुक्तं साध- यति॥ यदिति ॥ तदेव स्फुटयति ॥न हीति॥ ग्राह्येण ग्राह्यस्वरू- पं न सिध्यति किन्तु ग्राहकेण। एवं ग्राहकमपि ग्राह्यमनपेक्ष्य न सि- ध्यति, तस्मात् सापेक्षत्वादेतद् ग्राह्मग्राहकद्दयं वस्तुतो न भिन्नं कि- न्तु चिदात्मन्यारोपितमित्याह ॥ नो इति॥ तयथेत्यादि कतव्या-
Page 236
(२१४) रत्नप्रभाभासिते [अ० १। पा० १। र्पिता एवमेवैता भूतमात्रा प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्रा: प्राणेऽर्पिता: स एष प्राण एव प्रज्ञा- त्मा2 इत्यादिर्ब्रह्मधर्मः ।तस्मात् ब्रह्मण एवैत- दुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम्। अन्यत्रापि मनोमयः प्राणशरीर इ- त्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितं,इ- हापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्या- मेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिद्गावगमा- च्च।तस्माङ्गह्मवाक्यमेतदिति सिद्धं ॥ इति श्री- ख्यानं। सूत्रार्थमुपसंहरति ॥ तस्मादिति ॥ अन्यधर्मेणान्यस्यो- पसानं कथमित्याशंक्याSS श्रितत्वादित्याह ॥ अन्यत्रापीति ॥उ- पाधिर्जीवः। तत् अन्यधर्मेणोपासनम् इयमसङ्गता व्याख्या, तथा- हि न तावदारुण्यादनेकगुणविशिष्टप्राप्तक्रयणवत्, उपासात्रयविशिष्ट- स्य ब्रह्मणो विधि: संभवति सिद्धस्य विध्यनर्हत्वात्, नापि ब्रह्मानु- वादेनोपासात्रयविधि: वाक्यभेदात्, न च नानाधर्मविशिष्टमेकमुपा- सनं विधीयत इति वाच्यं, तादृशविधिवाक्यस्यात्राश्रवणात्, न च तमायुरमृतमित्युपास्वेति, अत्र मामिति जीवेनायुरिति प्राणेनामृत- मिति ब्रह्मणा स्वस्वधर्मवता विशिष्टोपासनाविधिरिति वाच्यं, सर्वे- षां धर्माणामश्रवणाद् ब्रह्मश्रुतेश्र। प्राणो वा अमृतमिति प्राणस्यै- वामृतत्वश्रुतेः। अत्र उपासनाविधिलुब्धे न वक्तारं विद्यात्, एतदे- वोक्थमुपासीत स म आत्मेति विद्यादिति जीवप्राणवह्मोपासन- विधयः, अन्ये गुणविधय इति स्वीकत्यैकवाक्यत्वं त्याज्यं तच्चायुक्त- मुपक्मादिनैकवाक्यतानिर्णयात्। तस्माद् ज्ञेयप्रत्यग् ब्रह्मपरमिदं
Page 237
सू० ३६।अ०११।] शाङ्करब्रह्मसूत्रभाष्ये (२१५) मच्छारीरकमीमांसाभाष्ये शङ्रभगवत्पाद- कृतौ प्रथमाध्यायस्य प्रथम: पाद:॥ वाक्यमित्युपसंहरति ॥ तर्मादिति ॥ इति श्रीमत्परमहंसपरित्रा- जकाचार्यश्रीगोविन्दानन्दभगवत्पादकतौ श्रीमच्छारीरकमीमांसा- व्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य प्रथमः पादः ॥१॥
गाइ
Page 238
(92) रत्नप्रभाभासिते [अ० १। पा० २। नमः परमात्मने। प्रथमे पाढे जन्माद्यस्य यत इत्याकाशादेः समस्तस्य जगतो जन्मादि- कारणं ब्रह्मेत्युक्तम्। तस्य समस्तजगत्कारण- स्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वश- क्तित्वं सर्वात्मकत्वमित्येवंजातीयका धर्मा उक्ता एव भवंति। अर्थान्तरप्रसिद्धानां च केषाश्ि- च्छब्दानां ब्रह्मविषयत्वे हेतुप्रतिपादनेन कानि- चिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दित्यमाना- नि ब्रह्मपरतया निर्णीतानि। पुनरप्यन्यानि वा- क्यानि अस्पष्टब्रह्मलिङानि सन्दित्यन्ते किं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किश्िव- दिति। तन्निर्णयाय द्वितीयतृतीयपादावारभ्येते। सर्वत्र प्रसिद्धोपदेशात्॥१॥ इदमाम्नायते। "सर्व खल्विदं ब्रह्म तज्-
नमः परमात्माने। श्रीरामं सिद्धमत्तारं गुहाशयिनमन्तरम्। अन्तर्यामिणमज्ञेयं वैख्वानरमहं भजे॥ पूर्वपादेनोत्तरपादयोः सङ्गतिं वक्तुं वृत्तमनुवदति ॥ प्रथम इति॥ जगत्कारणत्वोक्त्या व्यापित्वादिकमर्थात् सिद्धम्। तदुपजीव्योत्तरं पादद्दयं प्रवर्त्तत इति हेतुहेतुमद्भावः सङ्गतिः। कथं पादभेद इत्याश- इन्य पादानां प्रमेयभेदमाह॥अर्थान्तरेति॥। आकाशादिशब्दानां स्पष्ट- ब्रह्मलिड्गैर्वह्मणि समन्वयो दर्शितः । अस्पष्टब्रह्मलिङ्गवाक्यसमन्वयः
Page 239
सू० १ । अ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (२१७) लानिति शान्त उपासीत अथ खलु करतुमयः पुरुषो यथा ऋतुरस्मिन लोके पुरुषो भवति त- थेतः प्रेत्य भवति स कतुं कुर्वीत मनोमयः प्रा- णशरीराभारूपः इत्यादि। तत्र संशयः। किमि- ह मनोमयत्वादिभ्िर्धर्मैः शारीर आत्मोपास्य- त्वेनोपदिश्यते, आहोस्वित् परं ब्रह्मेति। किं तावत् प्राप्तं शारीर इति। कुतः। तस्य हि कार्य- करणाधिपतेः प्रसिद्धो मनआदिभिः सम्ब- पादद्ये वक्ष्यते। प्रायेणोपास्यज्ञेयब्रह्मभेदात् पादयोरवान्तरभेद इति भावः।छान्दोग्यमुदाहरति।इदमिति॥ तस्माज्जायत इति तज्जं, तस्मि- न्लीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं तज्जञ्च तत्तलञ्च त- त्तदनश्चेति, तज्जलान् कर्मधारयेऽस्मिन् शाकपार्थिवन्यायेन मध्यप- दस्य तच्छब्दस्य लोपः, तज्जलानमिति वाच्ये छान्दसोवयवलोपः, इ- तिशब्दो हेतौ। सर्वमिदं जगद्रह्लैव तद्विवर्त्तत्वादित्यर्थः। ब्रह्मणि मि- त्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः स कतु- मुपासनं कुर्वीतेति विहितोपासनस्योपासीतेत्यनुवादात् फलमाह ॥ अथेति ॥ कतुमयः सङ्कल्पविकार इत्यर्थः। पुरुषस्य ध्यानविका- रत्वं स्फुठयति ॥ यथेति॥ इह यद्ध्यायति मृत्वा ध्यानमहिम्रा त- द्वयेयरूपेण जायत इत्यर्थः ॥ कतुमयः सङ्कल्पप्रधान इति वाऽर्थः। कतोविषयमाह। मन इति॥ ब्रह्मेत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमन्तर्हृदये ध्येयमित्यर्थः । पूर्वत्र ब्रह्मलिड्गैरब्रह्मलि- ङुन्बाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणं। तच्च शान्तिगुणविधानार्थमन्यथासिद्धं। अतो जीवलिङं: बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति । शारीर इत्यादिना ॥ श्रुतिमाशङ्क्या- २८
Page 240
(२१८) रत्नप्रभाभासिते [अ० १। पा० २। न्धो न तु परस्य ब्रह्मणः "अप्राणो त्यमना: शु- भः० इत्यादिश्रुतिभ्यः। ननु "सर्व खल्विद ब्र- ह" इति स्वशब्देनैव ब्रह्मोपात्तं कथमिह शारीर आत्मोपास्य इत्याशङ्ग्यते। नैष दोषः। नेदं वा- क्यं ब्रह्मोपासनाविधिपरं। किं तर्हि। शमविधि- परम्। यत् कारणं सर्व खल्विदं ब्रह्म तज्जला- निति शान्त उपासीतेत्याह। एतदुक्तं भवति। यस्मात् सर्वमिदं विकारजातं ब्रह्मेव तज्जत्वा- त्तह्लत्वात्तदनव्वाच्च। न च सर्वस्यैकात्मत्वे रा- गाद्यः सम्भवन्ति, तस्माच्छान्त उपासीते- ति। न च शमविधिपरत्वे सत्यनेन वाक्येन ब्र- हमोपासनं नियन्तुं शक्यते, उपासनं तु स क्रतुं कुर्वीतेत्यनेन विधीयते। क्रतुः सङ्गल्पो ध्यान- मित्यर्थः। तस्य च विषयत्वेन श्रूयते "मनो- मयः प्राणशरीरः" इति जीवलिंगम् । अतो ब्रमो जीवविषयमेतदुपासनमिति। "सर्वकर्मा सर्व- कामः" इत्याद्यपि श्रूयमाणं पर्यायेण जीववि- न्यथासिद्ध्या परिहरति॥ नैष दोष इति ॥ शमविधिपरत्वे हेतु- माह॥ यत् कारणमिति ॥ यत एवमाह तस्माच्छमविधिपरमि- त्यन्वयः ॥ न च शमेति ॥ शमध्यानयोरविधौ वाक्यभेदापत्तेरि- त्यर्थः। जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसम्भवमाह ॥ सर्व- कर्मेति॥ सर्वाणि कमाणि यस्य सर्वे कामा भोग्या यस्य सर्वगन्धः
Page 241
सू० १ । अ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (२१९) षयमुपपद्यते। "एष म आत्माऽन्तर्हदयेऽणीया- न् व्रीहेर्वा यवाद्वा" इति च हृदयायतनत्वमणी- यस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते नाप- रिच्छिन्नस्य ब्रह्मणः। ननु "ज्यायान् पृथिव्याः" इत्याद्यपि न परिच्छिन्नेऽवकल्पते, इति, अत्र ब्रू- मः, न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेक- स्मिन समाश्रयितुं शक्यं विरोधात्, अन्यतरा- श्रयणे च प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयि- तुं। ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यति। निश्िते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तन- मेतद् ब्रह्मेति तदपि प्रकृतपरामर्शार्थत्वाजीव-
उपास्य इत्येवं प्राप्ते ब्रूम:, परमेव ब्रह्म मनोम- यत्वादिभिर्धर्मैरुपास्यम्। कुतः । सर्वत्र प्रसि- द्ोपदेशात्। यत् सर्वेषु वेदान्तेषु प्रसिद्ध ब्रह्म- शब्दस्यालम्बनं जगत्कारणमिह च सर्व ख- सर्वरस इत्यादिरादिशब्दार्थः ॥ आरागमात्रस्येति ॥तोत्रप्रोतायः- शलाकाग्रपरिमाणस्येत्यर्थः । सर्वत्र प्रसिद्धब्रह्मण एवात्रोपास्यत्वो- पदेशान्न जीव उपास्य इति सूत्रार्थमाह ॥ सर्वत्रेति॥यत्र फलं नो- च्यते तत्र पूर्वोत्तरपक्षसिद्धिः फलमिति मन्तव्यं। यद्यपि निराकाङ्क ब्रह्म तथापि मनः प्रचुरमुपाधिरस्य प्राणः शरीरमस्येति समासान्त- र्गतसर्वनाम्नः सन्निहितविशेष्याकाङकत्वाद् ब्रह्म सम्बध्यते। "स्योनं
Page 242
(२२०) रत्नप्रभाभासिते [अ०१।पा० २। ल्विदं ब्रह्मेति वाक्योपक्रमे श्रुतं तदेव मनोमय- त्वादिधर्मैविशिष्ठमुपदिश्यत इति युक्तम्। एवं- च प्रकृतश्ननाप्रकृतप्रक्रिये न भविष्यतः । ननु वाक्योपकरमे शमविधिविवक्षया ब्रह्म निर्दिष्टंन स्वविवक्षया, इत्युक्तं। अन्नोच्यते। यद्यपि शम- विधिविवक्षया ब्रह्म निर्दिष्टं तथापि मनोमय- व्वादिषपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भव- ति। जीवस्तु न सन्निहितो न च स्वशब्देनोपात्त इति वैषम्यम्॥१॥ विवक्षित गुणोपपत्तेश्र॥ २॥ वक्तुमिष्टा विवक्षिताः। यद्यप्यपौरुषेये वे दे वक्तु- रक्षावान्नेचछार्थः संभवति तथाप्युपादानेन फ- लेनोपचर्यते। लोके हि यच्छब्दाभिहितमुपादेयं ते सदनं कुणोमि" इति संस्कारार्थसदनस्य निराकाङ्कस्यापि तस्मिन् सादेति साकाङ्गतच्छव्देन परामर्शदर्शनादित्याह॥ अत्रोच्यत इति। स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः । जीवोऽपि लिङ्गात् सन्नि- हित इत्यत आह । जीवस्त्विति॥ इंदं लिङ्गद्दयं लोकसिद्धं जीवं न सन्निधापयति। दुःखिन उपास्त्ययोग्यत्वात् फलाभावाच्च, अतो विश्वजिन्न्यायेन सर्वाभिलषितमानन्दरूपं ब्रह्मैवोपासनाक्रियानुब- न्धीति भाव:, किश् ब्रह्मपदश्रुत्या लिङ्गबाध इत्याह ॥ न चेति॥ अन्यतराकाङ्कानुगृहीतं फलवत् प्रकरणं विफललिङ्गाह्दलीय इति स- मुदायार्थः ॥ १ ॥ वस्तुनो विवक्षायाः फलमुपादानं स्वीकारः सच प्रकृतेषु गुणेष्वस्तीति विवक्षोपचार इत्याह॥तथाप्युपादानेनेति।न
Page 243
सू० २ । अ ० १।] शाङ्करब्रह्मसूत्रभाष्ये (२२१) अवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तद- विवक्षितमिति, तद्दद्वेदेSप्युपादेय व्वेनाभिहितं वि- वक्षितं भवतीतरदविवक्षितं। उपादानानुपादा- ने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते। तदिह ये विवक्षिता गुणा उपासनायामुपादेय- त्वेनोपदिष्ठाः सत्यसङ्कल्पप्रभृतयः ते परस्मिन् ब्रह्मण्युपपद्यन्ते। सत्यसङ्कल्पव्वं हि सृष्टिस्थि- तिसंहारेष्वप्रतिबन्धशक्तित्वात् परमात्मन एवा- 3 वकल्पते। परमात्मगुणत्वेन च "य आत्माSपह- तपाप्मा"' इत्यत्र "सत्यकाम: सत्यसङ्कल्पः" इति श्रुतं "आकाशात्मा" इत्यादिनाSSकाशव- दात्मास्येत्यर्थः। सर्वगतत्वादिभिर्धर्मैः संभव- त्याकाशेन साम्यं ब्रह्मणः। "ज्यायान् पृथि- व्याः" इत्यादिना चैतदेव दर्शयति। यदाप्या- काश आत्माऽस्य इति व्याख्यायते तदापि सं- अवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वमत एव सर्वकर्मेत्यादि। एवमिहो- पास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते। न्विदं ग्राह्यमिदं त्याज्यमिति धीर्विवक्षाधीना वेदे कुतः स्यादित्यत आह।। उपादानानुपादाने त्विति। तात्पर्य नाम फलवदर्थप्रतीत्यनुकूलतवं शब्दधर्मः। उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः ॥ तदिहे- ति॥ तत् तस्मात् तात्पर्यवच्वादित्यर्थः। सर्वात्मत्वे प्रमाणमाह॥त
Page 244
(२२२) रत्नप्रभाभासिते [अ० १।पा० २। यत्पुनरुक्तं "मनोमयः प्राणशरीरः" इति जीव- लिङ्गं न तद्रह्मण्युपपद्यत इति, तदपि ब्रह्मण्युप- पद्यत इति ब्रूमः। सर्वात्मत्वाद्दि ब्रह्मणो जीवस- म्बन्धीनि मनोमयत्वादीनि ब्रह्मसम्बन्धीनिभ- वन्ति। तथा च ब्रह्मविषये श्रुतिस्मृती भवतः "त्वं स्त्रो व्वं पुमानसि व्वं कुमार उत वा कुमारी व्वं जीर्णो दण्डेन वञ्चसि त्वंजातो भवसि वि- श्वतोमुखः" इति। "सर्वतः पाणिपादं तत्सर्व- तोऽक्षिशिरोमुखम्। सर्वतः श्रुतिमल्लोके सर्वमा- वृत्य तिष्ठति" इतिच। "अप्राणो त्यमना: शु भः" इति श्रुतिः शुद्धब्रह्मविषया । इयं तु मनो- मयः प्राणशरीर इति सगुणब्रह्मविषयेति विशे- षः। अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्मेहो- पास्यत्वेनोपदिष्टमिति गम्यते॥२ ॥ = अनुपपत्ेस्तु न शारीरः॥ ३॥ पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामु- था चेति॥ जीर्ण:स्थविरो यो दण्डेन वश्चति गच्छति सोऽपि त्वमेव- यो जातो बाल: स त्वमेव सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्ये- ति सर्वतः श्रुतिमत् सर्वजन्तूनां प्रसिद्धाः पाण्यादयस्तस्येति सर्वात्म- त्वोक्तिः ॥ २ ॥ ननु जीवधर्माश्र्वेद्वह्मणि योज्यन्ते तर्हि ब्रह्मधर्मा एव जीवे किमिति न योज्यन्ते। तत्राह॥ अनुपपत्तेरिति ॥ सूत्रं व्याचष्टे ॥ पूर्वेणेति॥ सर्वात्मत्वादिरुक्तन्यायः । कल्पितस्य धर्मा अधिष्ठाने
Page 245
सू० ४। अ० १।] शाङ्करब्रह्मसूत्रभाष्ये (२२३) पपत्तिरुक्ता, अनेन शारीरे तेषामनुपपत्तिरुच्य- ते। तुशब्दोऽवधारणार्थः। ब्रह्मैवोक्त्तेन न्यायेन मनोमयत्वादिगुणं, न तु शारीरो जीवो मनोम- यत्वादिगुणः, "यत्कारणं सत्यसङ्गल्प आकाशा- त्माऽवाक्यानादरो ज्यायान् पृथिव्याः" इत्ये- वश्जातीयका गुणा न शारीरे आअ्स्येनोपपद्यं- न्ते शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरो- डपि शरीरे भवति। सत्यं। शरीरे भवति न तुश- रीर एव भवति। "ज्यायान् पृथिव्या ज्याया- नन्तरिक्षादाकाशवत् सर्वगतश्र्नित्यः" इति च व्यापित्वश्रवणात्। जीवस्तु शरीर एव भवति। तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात् ३॥ कर्मकर्तृव्यपदेशाच॥४॥ इतश्र् न शारीरो मनोमयत्वादिगुणः, य- स्मात् कर्मकर्तव्यपदेशो भवति "एतमितः प्रे- त्याभिसंभविताऽस्मि" इति। एतमिति प्रकृतं सम्बध्यन्ते, न अधिष्ठानधर्माः कल्पिता इति भावः, वागेव वाकः सोऽ- स्यास्तीति वाकी न वाकी अवाकी अनिन्द्रिय इत्यर्थः । कुत्राप्यादरः कामोऽस्य नास्तीत्यनादरः नित्यतृप्त इत्यर्थः। ज्यायस्त्वाद्यनुपपत्तौ शरीर इति परिच्छेदो हेतुः सूत्रोक्त। स तु जीवस्यैव नेश्वरस्येत्याह ॥ स- त्यमित्यादिना॥ ३॥। प्रापकत्वेन व्यपदिशतीति सम्बन्धः। कर्म-
Page 246
(२२४) रत्नप्रभाभासिते [अ० १। पा० २। मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति। अभिसंभवितास्मीति शारीरमुपासकं कर्तत्वेन प्रापकत्वेन।अभ्िसं- अवितास्मीति प्राप्तास्मीत्यर्थः ।न च सत्यां गतावेकस्य कर्मकर्तव्यपदेशो युक्तः, तथोपा- स्योपासकभावोऽपि भेदाधिष्ठान एव, तस्मा- दपि न शारीरो मनोमयत्वादिविशिष्टः ॥४।। शब्दविशेषात् ॥५॥ इतश्र शरीरादन्यो मनोमयत्वादिगणः, यस्मा- च्छव्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरे "यथा ब्रीहिर्वा यवो वा श्यामाको वा श्यामाक- तण्डुलो वैवमयमन्तरात्मन् पुरुषो हिरण्मयः" इति शारीरस्यात्मनो यः शब्दोऽभिधायकः स-
थमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्या- त्मनोऽभिधायक:, तस्मात्तयोर्भेदोऽधिगम्यते॥५ स्मृतेश्र ॥ ६॥ स्मृतिश्रशारीरपरमात्मनोर्भेदेन दर्शयति"ईश्व- कर्तृव्यपदेशपदस्यार्थान्तरमाह॥ तथोपास्येति॥४ ॥एकार्थत्वं प्रकरणस्य समानत्वं। अन्तरात्मनिनति विभक्तिलोपश्छान्दस: शब्द- योर्विशेषो विभक्तिभेदः। तस्मात्तदर्थयोर्भेद इति सूत्रार्थः॥५॥ समृ-
Page 247
सू० ६। अ० १।] शाङ्करब्रह्मसूत्रभाष्ये (२२५) रः सर्वभूतानां हद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया" इत्याद्या। अत्राह। कः पुनरयं शारीरो नाम परमात्मनोऽ- न्यो यः प्रतिषिध्यते, "अनुपपत्तेस्तु न शारीरः" इत्यादिना। श्रुतिस्तु "नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता" इत्येवआतीयका पर- मात्मनोऽन्यमात्मानं वारयति। तथा स्मृतिरपि "क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत" इत्ये- नी वआ्यीयकेति।अत्रोच्यते। सत्यमेवमेतत् पर एवात्मा देहन्द्रियमनोबुद्ध्युपाधिभिः परिच्छि- द्यमानो बालैः शारीर इत्युपचर्यते। यथा घट- करकादयुपाधिवशादपरिच्छिन्नमपि नभः परि- छिन्नवदवभासते तद्दत्। तदपेक्षया च कर्मत्वक- र्तृत्वादिभेदव्यवहारो न विरुध्यते प्राक् "तत्त्व- मसि" इत्यात्मैकत्वोपदेशग्रहणात्। गृहीते त्वा- त्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्ति- रेव स्यात् ॥ ६॥ तौ हृदिस्थस्य जीवान्जेदोक्तेरत्रापि हृदिस्थो मनोमय ईश्वर इत्याह । स्मृतेश्रेति॥ भूतानि जीवान् यन्त्रं शरीरं। अत्र सूत्रकता सत्य- भेद उक्त इति भ्रान्तिनिरासापेक्षेत्यधिकरणे निरस्तमपि चोयमुद्भा- व्य निरस्यति॥ अत्राहेत्यादिना॥ त्वदुक्तरीत्या वस्तुत एकत्वमेव भेदस्तु कल्पितः, सूत्रेष्वनूबत इत्याह .।। सत्यमिति॥ ६॥ अर्भ- २९
Page 248
(२२६) रत्नप्रभाभासिते अ० १। पा० २] अर्भकौकस्त्वात्तदयपदेशाच्च नेति चे- न निचाय्यत्वादेवं व्योमवच्च॥७॥ अर्भकमल्पमोको नीडं एष मे आत्मान्तर्हृदय- मिति परिच्छिन्नायतनत्वात्। स्वशब्देन चाणीया- न्व्रीहेर्वा यवाद्वेत्यणीय स्त्वव्यपदेशात्, शारीर ए- वाराग्रमात्रो जीव इहोपदिश्यते न सर्वगतः पर- मात्मेति यदुक्तं तत् परिहर्तव्यं, अत्रोच्यते। नायं दोषः। न तावत् परिच्छिन्नदेशस्य सर्वगतत्व- व्यपदेशः कथमप्युपपद्यते, सर्वगतस्य तु सर्व- देशेषु विद्यमानत्वात् परिच्छिन्नदेशव्यपदेशेऽ- पि कयाचिदपेक्षया संभवति, यथा समस्तवसु- धाधिपतिरपि हि सन्नयोध्याधिपतिरिति व्यप- दिश्यते। कया पुनरपेक्षया सर्वगतः सन्नीश्वरो- डर्भकौका अणीयांश्र व्यपदिश्यत इति। निचा- य्यत्वादेवमिति ब्रूमः । स एवमणीयस्वादिगुण- कमोको यस्य सोडर्भकौकाः तस्य भावस्तच्वं तस्मादार्थिकमल्पत्वं अणीयानित्यल्पत्ववाचकशव्देनापि श्रुतमित्याह॥ स्वशब्देनेति॥ नायं दोष इत्युक्तं विवृणोति॥ न तावदिति ॥ कथमपि ब्रह्मभावा- पेक्षयाऽपीत्यर्थः । परिच्छेदत्यागं विना ब्रह्मत्वासम्भवात् तन्यागे च ब्रह्मण एवोपास्यत्वमायातीति भावः । विभो: परिच्छेदोक्तौ दष्टान्त- माह॥ यथा समस्तेति॥ सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षापरिच्छेदो-
Page 249
सू० ८। अ० १] शाङ्करब्रह्मसूत्रभाप्ये (२२७) गणोपेत ईश्वरस्तत्र हृदयपुण्डरीके निचाय्यो द्र- ष्टव्य उपदिश्यते, यथा शालगामे हरिस्तत्रास्य बुद्धिविज्ञानं ग्राहकम्।सर्वगतोऽपीश्वरस्तन्नोपा- स्यमान: प्रसीदति। व्योमवच्चैतद् द्रष्टव्यम्।य- था सर्वगतमपि सद् व्योम सूचीपाशाद्पेक्षया- ऽर्9कौकोऽणीयश्र् व्यपदिश्यते, एवं ब्रह्मापि। तदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणी- यस्त्वं च न पारमार्थिकम्। तत्र यदाशङ्यते ह- दयायतनत्वादू ब्रह्मणो हृदयायतनानां च प्रति- शरीरं भिन्नत्वादू भिन्नायतनानां च शुकादीना- मनेकत्वसावयवत्वा Sनित्य त्वादिदोषदर्शनाड्रह्म णोऽपि तत्प्रसङ्ग इति तदपि परिहतं भवति॥७ सम्भोगपाप्तिरिति चेन्न वैशेष्यात्।।८।। व्योमवत् सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदय- सम्बन्धाचिद्रपतया च शारीरादविशिष्टत्वात् सु- क्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः। ननु किमिति हृदयमेव प्राये- णोच्यते तत्राह॥ तत्रेति ॥ हृदये परमात्मनो बुद्धिवृत्तिर्याहिका भव- ति। अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः । व्योमदृष्ठान्तासि- ना शङ्कालताऽपि काचित् छिन्नेत्याह॥ तत्र यदाशङयत इत्यादि ना।। भिन्नायतनत्वेऽपि व्योम्नः सत्यभेदायभावादिति भावः॥७॥ ब्रह्मणो हार्दत्वेऽनिष्टसंभोगापत्तेर्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे॥ व्यमवदिति॥ ब्रह्म भोक्तृ स्यात् हार्दत्वे सति चेतनत्वा-
Page 250
(२२८) रत्नप्रभाभासित [अ० १।पा० २। खदुःखादिसंभोगोऽप्यविशिष्टः प्रसज्येत। एक- त्वाच्चान हिपरस्मादात्मनोऽन्यः कश्विदात्मा सं- सारी विद्यते नान्योऽतोऽस्ति विज्ञाता"इत्यादि- श्रुतिभ्यः।तस्मात् परस्यैव संसारसम्भोगप्राप्ति- रिति चेत्। न। वैशेष्यात्। न तावत् सर्वप्राणिहृद- यसम्बन्धाच्छारीराद्वह्मणः सम्भोगप्रसङ़ो वैशे- ष्यात्ाविशेषोहि भवति शारीरपरमेश्वरयोः।एकः कर्ताभोक्ता धर्माधर्मसाधनः सुखदुःखादिमांश्र, एकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणः । एत. स्मादनयोर्विशेषादेकस्य भोगो नेतरस्य। यदि च सन्निधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्य- सम्बन्धोऽभ्युपगम्येत आकाशादीनामपि दाहा- दिप्रसङ़:। सर्वगताने कात्मवादिनामपि समावे- तौ चोदपरिहारौ। यदप्येकत्वाद्रह्मण आत्मा- न्तराभावात् शारीरस्य भोगेन ब्रह्मणो भोगप्र- सङ्ग इति अत्र वदाम: इदं तावद्देवानां प्रियः प्र- ज्जीवाभिन्नत्वाच्च जीववदित्युक्तं निरस्यति॥ न वैशेष्यादिति।। धर्मा- धर्मवच्चमुपाधिरित्यर्थःअयमेव विशेषो वैशेष्यं स्वार्थे ष्यञ्् प्रत्ययः वि- शेषस्यातिशयार्थो वा धर्मादे: स्वाश्रये फलहेतुत्वमतिशयः, तस्मादि- ति सूत्रार्थः। किं च विभवो बहव आत्मान इति वादिनामेकस्मिन् दे- हे सर्वात्मनां भोकृत्वप्रसङ्ग: स्वकर्माजित एव देहे भोग इति परिहारश्र तुल्य इति न वयं पर्यनुयोज्या इत्याह॥ सर्वगतेति॥ वस्तुतस्तेषामेव
Page 251
सू० ८।अ०१॥] शाङ्करब्रह्मसूत्रभाष्ये (१२१) ष्व्य: कथमयं त्वया आत्मान्तराभावोऽध्यव- सित इति। तत्वमस्यहं ब्रह्मास्मि नान्योSतोऽ- स्ति विज्ञातेत्यादि शास्तरेभ्य इति चेत्, यथाशा= खं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यो न तत्रार्घजर- यतीयं लभ्यम्।शास्त्रं च तत्त्वमसीत्यपहतपाप्म- व्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशत्। शारीरस्यैव तावदुपभोक्तृत्वं वारयति। कुतस्त- दुपभोगेन ब्रह्मण उपभोगप्रसङ्ग:। अथागही- तं शारीरस्य ब्रह्मणैकव्वं तदा मिथ्याज्ञाननिमि- त्तः शारीरस्योपभोगो न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः। न हि बालैस्तलमलिनतादि- भिर्व्योम्ति विकल्प्यमाने तलमलिनतादिविशि- ष्टमेव परमार्थतो व्योम भवति। तदाह "न वै- भोगसाङ्गर्यमित्यग्रे वक्ष्यते। ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य ते- न भोकतृत्वानुमाने उपजीव्यश्रुतिबाधमाह ॥ यथाशास्त्रमिति॥अ- र्ध मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सोऽयमर्थजरती- यन्यायः स चात्र न युक्तः। न हभेदमङ्गाकत्याभोकृत्वं त्यक्तुं युक्तं श्रुत्यैवाभेदसिद्धचर्थ भोकृत्ववारणादित्याह॥शास्त्रं चोति॥ नन्वेकत्वं मया श्रुत्या न गृहीतं येनोपजव्यिश्रुत्या बाधःस्यात्। किन्तु त्वदुक्त्या गृहीतमित्याशङ्् बिम्बप्रतिबिम्बयोः कल्पितभेदेन भोक्तृत्वाभोक्त- त्वव्यवस्थोपपत्तेरप्रयोजको हेतुरित्याह ॥ अथ गृहीतमित्यादिना॥
। तदाहेति ॥ ब्रह्मणो हार्दत्वे बाधकाभावाच्छाण्डिल्यविद्यावाक्यं
Page 252
(२३०) रत्नप्रभाभासिते [अ० १।पा० २। शेष्यात्" इति। नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गो वैशेष्यात्। विशेषो हि अवति मिथ्याज्ञानसम्यग्ज्ञानयोः ।मिथ्याज्ञा- नकल्पित उपभोगः,सम्यग्ज्ञानदृष्टमेकत्वम्।न च मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञा- नद्ृष्टं वस्तु संस्पृश्यते तस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम्॥८॥ अत्ता चराचरत्रहणात् ॥ ९॥ कठवल्लीषु पठ्यते "यस्य ब्रह्म च क्षत्रं चोभे भव- त ओदन: मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः इति। अत्र कश्िविदोदनोपसेचनसूचितोऽ- त्ता प्रतीयते। तत्र किमग्निरचा स्यादुत जीवोऽ- थवा परमात्मेति संशयः, विशेषानवधारणात्, त्र- याणां चाग्निजीवपरमात्मनामस्मिन् ग्रन्थे प्र- ब्रह्मण्युपास्ये समन्वितमिति सिद्धम् ॥ ८ ॥अत्ता चराचरग्हणात्॥ यस्य ब्रह्मक्षत्रादिजगदोदनो मृत्युः सर्वप्राणिमारकोऽपि यस्योपसेच- नमोदनसंस्कारकघृतप्रायः सोडत्ता यत्र शुद्धे चिन्मात्रेऽभेदकल्पनया वर्तते तच्छुद्धं ब्रह्म इत्था इत्थं ईश्वरस्याप्यधिष्ठानभूतं को वेद, चि- त्तशुद्धयादयुपायं विना कोऽपि न जानाती्यर्थः संशयबीजमाह ॥ वि- शेषति ॥ स त्वमनिं प्रबूहीत्यय्नेः येयं प्रेते विचिकित्सेति जीवस्य अन्यत्र धर्मादिति ब्रह्मणः प्रश्नः। लोकादिमत्निं तमुवाचेत्यग्नेः, हन्तत इदं प्रवक्ष्यामीतीतरयोः प्रतिवचनमुपलभ्यत इत्यर्थः । पूर्वत्र ब्रह्मणो
Page 253
सू० १। अ० २] शाङ्करब्रह्मसूत्रभाष्ये (२३१) श्रोपन्यासोपलब्धेः। किं तावत्प्रात्तं! अभनिरत्ते- ति। कुतः। "अग्निरन्नादः" इति श्रुतिप्रसिद्धि- भ्याम्। जीवो वाऽत्ता स्यात् "तयोरन्यः पिप्पलं स्वाद्वत्ति" इति दर्शनात्। न परमात्मा "अनश्न- न्नन्यो अभिचाकशीति" इति दर्शनादित्येवं प्राप्ते ब्रूम:, अत्तात्र परमात्मा भवितुमर्हति। कुतः। चराचरग्रहणात् । चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते। तादृशस्य चाद्यस्य न परमात्मनोऽन्यः कार्त्स्न्येनात्ता स- म्भवति परमात्मा तु विकारजातं संहरन् सर्वम- त्तीत्युपपद्यते। नन्विह चराचरग्रहणं नोपलभ्य- ते, तत् क्थं सिद्धवच्चराचरग्रहणं हेतुव्वेनोपादी- यते। नैष दोषः। मृत्यूपसेचनत्वेन सर्वस्य प्रा- णिनिकायस्य प्रतीयमानत्वाद्. ब्रह्मक्षत्रयोश्र प्राधान्यात् प्रदर्शनार्थत्वोपपत्तेः। यत्तु परमात्म- भाकृत्वं नास्तीत्युक्तं तदुपजीव्य पूर्वपक्षयति ।II किं तावदिति॥ अग्निप्रकरणमतीतमित्यरुचेराह॥ जीवो वेति॥ पूर्वपक्षे जीवोपास्ति- सिद्धान्ते निर्विशेषव्रह्मज्ञानमिति फलभेदः। ओदनशब्दो भोग्यवा- चीति पूर्वपक्ष:, सिद्धान्तस्तु ब्रह्मक्षत्रशव्दैरुपस्थापितकार्यमात्रे गौण ओदनशब्दः। गुणश्ात्र मृत्यूपसेचनपदेन सन्निधापितं प्रसिद्धौदनगतं विनाश्यत्वं गृह्यते गौणशब्दस्य सन्निहित गुणग्राहित्वात् । तथाच सर्व- स्य विनाश्यत्वेन भानाल्विङ्गादीश्वरोऽत्तेत्याह॥ नैष दोष इति॥तस्य
Page 254
(२३२) रत्नप्रभाभासिते [अ० १।पा० २। नोडपि नात्तृत्वं सम्भवति "अनश्नन्नन्यो अभि- चाकशीति" इति दर्शनादिति अत्रोच्यते, कर्मफ- लभोगस्य प्रतिषेधकमेतद्दर्शनं तस्य सन्निहित- त्वात् न विकारसंहारस्य प्रतिषेधकं, सर्ववेदा- न्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्र- सिद्धत्वात्, तस्मात् परमात्मैवेहात्ता भवितुम- हति॥९॥ प्रकरणाञ्च ॥१०॥ इतश्र् परमात्मैवेहात्ता भवितुमर्हति यत् का- रणं प्रकरणमिद परमात्मनः"न जायते म्रियते वा विपश्चित्"इत्यादि। प्रकृतग्रहणं च न्याय्यं "क इत्था वेद यत्र सः" इति च दुर्विज्ञानव्वं पर- मात्मलिङ्गम् ॥ १० ॥ गुहां प्रविष्ठावात्मानौ हि तदर्शनात११ कठवल्लीष्वेव पठ्यते सन्निहितत्वादिति पिप्पलं स्वाद्दत्तीति भोगस्य पूर्वोक्तत्वादित्यर्थः । ॥९।१॥अत्तृवाक्यानन्तरवाक्यस्यापि ज्ेयात्मनि समन्वयमाह॥गु- हामिति॥ ऋतमवश्यम्भावि कर्मफलं पिबन्तौ भुञ्जानौ सुरतस्य क- र्मणो लोके कार्ये देहे परस्य ब्रह्मणोर्ऽर्ध स्थानमर्हतीति परार्ध्य हृदयं परमं श्रेष्ठं तस्मिन् या गुहा नभोरूपा बुद्धिरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथोविरुद्धौ तौ च ब्रह्मविदः कर्मिणश्र वदन्ति। त्रि-
Page 255
सू० ११। अ० ३ ] शाङ्करब्रह्मसूत्रभाष्ये (२३३) "ऋतं पिबन्तौ सुकतस्य लोके गुहां प्रविष्ठौ प- रमे पराध्ये। छायातपौ ब्रह्मविदो वदन्ति पञ्चा- स्यो ये च त्रिणाचिकेताः"॥ इति। त्र संशयः। किमिह बुद्दिजीवौ नि- र्दिष्टौ, उत जीवपरमात्मानाविति।यदि बुद्धिजी- वौ ततो बुद्धिप्रधानात् कार्यकरणसंघाताद् वि- लक्षणो जीवः प्रतिपादितो भवति, तदपीह प्र- तिपादयितव्यम्।"येयं प्रेते विचिकित्सा मनुष्ये- Sस्तीत्ये के नायमस्तीति चैके। एतद्विद्यामनुशि- ष्टस्त्वयाहं वराणामेष वरस्तृतीयः"इति पृष्ठत्वा- तू। अथ जीवपरमात्मनौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति, तदपीह प्रतिपा- दयितव्यम्।"अन्यत्र धर्मादन्यत्राधर्मादन्यत्रा- स्मात् कृताकृतादन्यत्र भूताच् भव्याच्च यत्तत् प- श्यसि तद्दद" इति पृष्ठत्वात्। अत्राह आक्षेत्ता
नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेताः तेऽपि वदन्तीत्यर्थः। ना- चिकेतवाक्यानामध्ययनं तदर्थज्ञानं तदनुष्ठानं चेति त्रित्वं बोध्यम् बु- द्वय वच्छिन्नजीवस्य परमात्मनश्र प्रकृतत्वात्। संशयमाह ॥तत्रेति॥ पूर्वोत्तरपक्षयोः फलं स्वयमेवाह॥ यदीत्यादीना ॥ तदपि जीवस्य बुद्धिवैलक्षण्यमपीत्यर्थः। मनुष्ये प्रेते मृते सति येयं विचिकित्सा सं- शयः परलोकभोक्ताऽस्तीत्येके नास्तीत्यन्ये, अतत्वयोपदिष्टोऽहमेत- दात्मतच्वं जानीयामित्यर्थः ॥ तद्पोति॥ परमात्मस्वरूपमपीत्य- ३०
Page 256
(२३४) रत्नप्रभाभासिते [अ०१।पा० २। उभावप्येतौ पक्षौ न संभवतः। कस्मात्। ऋत- पानं कर्मफलोपभोगः सुकृतस्य लोक इति लि- झात्। तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति नाचे- तनाया बुद्धेः। पिबन्ताविति च द्विवचनेन दयोः पानं दर्शयति श्रुतिः। अतो बुद्धिक्षेत्रज्ञपक्षस्ता- वन्न सम्भवति। अत एव क्षेत्रज्ञपरमात्मपक्षो- डपि न सम्भवति चेतनेऽपि परमात्मनि ऋतपा- नासम्भवात्। "अनश्नन्नन्यो अभिचाकशीति" इति मन्त्रवर्णादिति। अत्रोच्यते। नैष दोषः। छ- त्रिणो गच्छन्ती त्येकेनापि छत्रिणा बहूनां छत्रि- त्वोपचारदर्शनात्, एवमेकेनापि पिबता द्ौ पिब- न्तावुच्येयातां। यद्वा जीवस्तावत् पिबति, ईश्वर- स्तुपाययतिपाययन्नपिपिबतीत्युच्यते।पाचयि- तर्यपि पक्तृत्वप्रसिद्धिदर्शनात्। बुद्धिक्षेत्रज्ञपरिग्र- र्थः उभयोर्भोक्ृत्वायोगेन संशयमाक्षिपति॥ अत्राहेति॥ छत्रिप- देन गन्तार इव पिबत्पदेनाजहल्लक्षणया प्रविष्टावुच्येते इत्याह ॥ अ- त्रोच्यत इति॥ पानकर्तृवाचिपदेन पानानुकूलौ वा लक्ष्यावित्याह ॥ यद्वेति ॥ नियतपूर्वभाविरतिमन्वरूपमनुकूलत्वं कर्तृकारयित्रोः साधारणं यः कारयति स करोत्येवेति न्यायादिति भावः अत्र प्रक- तिर्मुख्यार्था प्रत्यये लक्षणामिश्राऽस्तु कृतिः प्रत्ययार्थो मुख्यः प्रक- त्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याह्ुः। पूर्वपक्षे पिबन्ताविति क- र्तृवांचिशतृप्रत्ययेन बुद्धिजीवसाधारणं कारकत्वं लक्ष्यमित्याह॥ बु-
Page 257
सू० ११/अ०३।] शाङ्करत्रह्मसूत्रभाष्ये (२३५) होऽपि सम्भवति करणे कर्तृत्वोपचारात्,एधांसि पचन्तीति प्रयोगदर्शनात्।न चाध्यात्माधिकारे- डन्यौ कौचिद्दावृतं पिबन्तौ सम्भवतः,तस्माहु- द्विजीवौ स्यातां जीवपरमात्मानौ वेति संशयः। किं तावत्प्राप्तं बुद्धिक्षेत्रज्ञाविति। कुतः। गुहां प्र- विष्ठाविति विशेषणात्। यदि शरीरं गुहा यदि वा हृदय मुभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावु- पपद्येते। न च सति सम्भवे सर्वगतस्य ब्रह्मणो विशिष्टदेशव्वं युक्तं कल्पयितुं।"सुकृतस्य लोके" इति च कर्मगोचरानतिक्रमं दर्शयति। परमात्मा तु न सुकृतस्य दुष्कृतस्य वा गोचरे वर्तते।"न कर्मणा वर्धते नो कनीयान्" इति श्रुतेः। छाया- तपाविति च चेतनाचेतनयोर्निर्देश उपपद्यते छायातपवत् परस्परस्य विलक्षणत्वात्। तस्मा- हुद्दिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः।
द्वीति॥ एधांसि काष्ठानि पचन्तीत्याख्यातेन कारकत्वं लक्ष्यं प्र- कृतिस्तु मुख्यैवेति भावः । मुख्यपातारौ प्रसिद्धपक्षिणौ ग्राह्ावित्यत आह॥ नचेति ॥ ब्रह्मक्षत्रपदस्य सन्निहितमृत्युपदादनित्यवस्तुपर- त्ववदिहापि पिवत्पदस्य सन्निहितगुहापदाद्वुद्दिजीवपरतेति द- ष्न्तेन पूर्वपक्षयति ॥ किं तावदिति ॥ गोचरं फलं। एकस्मिन् जा- तिमति क्लप्ते सजातीयमेव द्वितीयं ग्राह्यम्। व्यक्तिमात्रग्रहे लाघवात् न विजातीयं जातिव्यक्त्युभयकल्पनागौरवात्। न चास्तु कारकत्वेन
Page 258
(२३६) रत्नप्रभाभासिते [अ० १। पा० २। विज्ञानात्मपरमात्मानाविहोच्येयाताम्।कस्मा- त्। आत्मानौ हि तौ उभावपि चेतनौ समान- स्वभावौ, सङ्याश्रवणे च समानस्वभावेष्वेव लोके प्रतीतिर्द्श्यते, अस्य गोर्द्वितीयोऽन्वेष्टव्य इति ह्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्ः पुरु- षोवा, तदिह ऋतपानेन लिङ्रेन निश्िते विज्ञा- नात्मनि द्वितीयान्वेषणायां समानस्वभावश्र्वेत- नः परमात्मैव प्रतीयते। ननूक्तं गुहाहितत्वदर्श- नान्न परमात्मा प्रत्येतव्य इति। गुहाहितत्व- दर्शनादेव परमात्मा प्रत्येतव्य इति वदामः । गुहाहितव्वं तु श्रुतिस्मतिष्वसकृत् परमात्मन एव दृश्यते। "गुहाहितं गह्रेष्ठं पुराणं", "यो वे- द निहितं गुहायां परमे व्योमन्", "आत्मानम- न्विच्छ गुहां प्रविष्ठं" इत्याद्यासु। सर्वगतस्या- पि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न वि- रुध्यत इत्येतदप्युक्तमेव। सुकतलोकवर्तित्वं तु छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम्। सजातीया बुद्धिरेव जीवस्य द्वितयिेति वाच्यं, चेतनत्वस्य जीवस्वभा- वस्य कारकत्वादन्तरङ्गत्वातू। तथा च लोके द्दितीयस्यान्तरङ्गजाति- मच्वदर्शनाज्जविस्य द्वितीयश्रेतन एवेति सूत्रार्थमाह॥ सङ्याश्रवणे चेति॥ गुहायां बुद्धौ स्थितं गह्नरे अनेकानर्थसङ्कुले देहे स्थितं पुरा- णमनादिपुरुषं विदित्वा हर्षशोकौ जहाति परमश्रेष्टे व्योमन् हार्दा-
Page 259
सू० १२। अ ० ३ ] शाङ्करव्रह्मसूत्रभाष्ये (२३७ ) छायातपावित्यप्यविरुद्दम्। छायातपवत् पर- स्परविलक्षणव्वात् संसारित्वासंसारित्वयोः । अविद्याकृतत्वात् संसारित्वस्य पारमार्थिकत्वा- च्ासंसारित्वस्य, तस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गत्येते॥ ११॥ कुतश्र् विज्ञानात्मपरमात्मानौ गृह्येते। विशेषणाच॥ १२॥ विशेषणं च विज्ञानात्मपरमात्मनोरेव स- मभवति "आत्मानं रथिनं विद्ि शरीरं रथमेव तु" इत्यादिना परेण ग्रन्थेन रथिरथादिरूपक- कल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयो- र्गन्तारं कल्पयति।"सोऽध्वनः पारमाप्नोति त- द्विष्णो परमं पदम्" इति परमात्मानं गन्तव्यं क- ल्पयति। तथा "तं दुर्दर्श गूढमनुप्नविष्टं गुहाहि- काशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वद सोऽश्रुते सर्वान् का- मानित्यन्वयः, अन्विच्छ विचारयेत्यर्थः ॥ ११ ॥ विशेषणं गन्तृगन्त- व्यत्वादिकं लिङ्ग्माह ॥ विशेषणाञ्चेति॥ स जीवोऽध्वनः संसार- मार्गस्य परमं पारं किं तत्, विष्णोर्व्यापनशीलस्य परमात्मनः पदं स्वरूपमाप्नोतीत्यर्थः । दुर्दर्श दुर्ज्ञानं तन्र हेतुर्गूढमायावृत्तं मायानुप्र- विष्टं पश्राद् गुहानिहितं गुहाद्दारा गह्वरेष्ठं, एवं बहिरागतमात्मानम- ध्यात्मयोगः स्थूलसूक्ष्मकारणदेहलयक्रमेण प्रत्यगात्मनि चित्तसमा- धानं तेनाधिगमो महावाक्यजा वृत्तिः तया विदित्वेत्यर्थः। ऋतपान-
Page 260
(२३८) रत्नप्रभाभासिते [अ० १। पा० २। तं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन दे- वं मत्वा धीरो हर्षशोकौ जहाति" इति पूर्वस्मि- न्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ। प्रकरणं चेदं परमात्मनः। ब्रह्मविदो वदन्तीति च वक्तविशेषोपादानं परमात्मपरिग्रहे घटते, त- स्मादिह जीवपरमात्मानावुच्येयाताम्। एष एव न्यायो "द्वा सुपर्णा सयुजा सखाया" इत्येव- मादिष्वपि। तत्रापि त्यध्यात्माधिकारान्न प्रा- कृतौ सुपर्णावुच्येते "तयोरन्यः पिप्पलं स्वा- द्त्ति" इति अदनलिद्गद्विज्ञानात्मा भवति। "अनश्नन्नन्योअभिचाकशीति" इत्यनशनचेतन- त्वाभ्यां परमात्मा। अनन्तरे च मन्त्रे तावेव द्रष्ट- द्रष्टव्यभावेन विशिनष्टि "समाने वृक्षे पुरुषो नि- मग्नोऽनीशया शोचति मुत्यमानः। जुष्टं यदा प- मन्त्रे जीवानुवादेन वाक्यार्थज्ञानाय तत्पदार्थो ब्रह्म प्रतिपायत इति उपसंहरति ॥ तसमादिहेति॥ उक्तन्यायमतिदिशति ॥ एष इति॥ दा द्ौ छान्दसो द्विवचनस्याकारः। सुपर्णाविव सहैव युज्येते नियम्य- नियामकभावेनेति सयुजौ। सखायौ चेतनत्वेन तुल्यस्वभावौ समान- मेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः । गुहां प्रविष्टा- विति यावत्। एतावात्मानौ। तल्लिङुदर्शनादित्याह।।तयोरन्य इति॥ विशेषणाच्चेत्याह॥अनन्तर चेति॥ अनीशया स्वस्येश्वरत्वाप्रतीत्या दे- हनिमग्न: पुरुषो जीवः शोचति।निमन्नपदार्थमाह॥मुह्यमान इति॥
Page 261
सू० १२। अ ० ३। ] शाङ्करब्रह्मसूत्रभाष्ये (२३९ ) श्यत्यन्यमीशमस्य महिमानमिति वीतशोक:" इति। अपर आह।द्ा सुपर्णेति। नेयमृगस्याधि- करणस्य सिद्धान्तं भजते पैद्विरहस्यब्राह्मणेना- न्यथाव्याख्यातत्वात्।तयोरन्य: पिप्पलंस्वाद्- त्तीति सच्चम्। अनश्नन्नन्यो अभिचाकशीतीत्य- नश्नन्नन्योऽभ्षिपश्यति ज्ञस्तावेतौ सत्वक्षेत्रज्ञा- विति, सच्चशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्येत, तन्न। सत्वक्षेत्रज्ञशब्दयोरन्तःकरण- शारीरपरतया प्रसिद्धत्वात् तत्रैव च व्याख्यात- त्वात्। "तदेतत् स्त्वं येन स्वन्नं पश्यत्यथ योऽयं नरोऽहमिति भ्रान्त इत्यर्थः । जुष्टं ध्यानादिना सेवितं यदा ध्यानपरि- पाकदशायामीशमन्यं विशिष्टरूपाद्भिन्नं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदाऽस्य महिमानं स्वरूपमेति प्राप्नोतीव ततो वीतशोको भवतीत्यर्थः। हा सुपर्णेति वाक्यं जीवेश्वरपरमिति कत्वा चिन्तितम्। अधुना कतां चिन्तामुद्धाटयति॥ अपर इति ॥ अन्यथा बुद्धिविल- क्षणत्वं पदलक्ष्यपरत्वेनेत्यर्थः । सच्वं बुद्धििति शङ्कते॥ सत्त्वशब्द इति॥ बुद्धिजीवौ चेतू पूर्वपक्षार्थः स्यादित्यत आह॥ नापीति॥ पूर्वपक्षार्थसतदा स्याद् यव्त्र बुद्धिभिन्नः संसारी प्रतिपायेत, न हन्न संसारी विवक्ष्यते। किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः । श्रुतिस्मृति- भ्यां चायमर्थो युक्त इति शेषः। तावता मन्त्रव्याख्यामात्रेण। एवमेव जीवस्य ब्रह्मत्वोक्तावेव। न हि जीवो बुद्धिभिन्न इति विवेकमात्रे- णोपसंहारो युक्तः। भेदज्ञानस्य ध्रान्तित्वाद्वैफल्याच्चेति भावः। अवि- वाविदुषि किमपि स्वकार्य नाध्वंसते न सम्पादयति, ज्ञानाग्निना स्व-
Page 262
(२४० ) रत्नप्रभाभासिते [अ० १।पा० २। शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्वक्षेत्रज्ञौ" इति। नाप्यस्याधिकरणस्य पूर्वपक्षं भजते। न त्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिसंसार- धर्मेणोपेतो विवक्ष्यते।कथं तर्हि सर्वसंसारधर्मा-
इति वचनात्। "तत्वमसि", "क्षेत्रज्ञं चापि मां विद्वि" इत्यादिश्रुतिस्मृतिभ्यश्र। तावता च वि-
ज्ञौ","न हवा एवं विदि किञ्चवन रज आध्वंसते" इत्यादि।कथ पुनरस्मिन्पक्षे "तयोरन्यः पि- प्पलं स्वाद् नीति सत्वम्"इत्यचेतने सच्चे भो- क्तृत्ववचनमिति। उच्यते। नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रटृत्ता। किं तर्हि चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां व- क्ष्यामीति। तदर्थ सुखादिविक्रियावति सत्वे भोक्तृव्वमध्यारोपयति। इदं हि कर्तृत्वं भोकृत्वं स्या एव दग्धत्वादित्यर्थः। अविया नागच्छतीति वाडर्थः। जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते ॥ कथमिति॥ बुद्देर्भोंकृ- त्वोक्तावतात्पर्यात् नात्र युक्तिचिन्तया मनः खेदनीयमित्याह॥उच्य- त इति । तदर्थ ब्रह्मत्वबोधनार्थ भोकतृत्वमुपाधिमसतके निक्षिपती- त्यर्थः। वस्तुतो जीवस्याभोक्तृत्वे भोक्तृत्वधीः कथमित्यत आह्॥इदं
Page 263
सू० १३। अ० ४।] शाङ्करब्रह्म सूत्रभाष्ये (२४९) सत्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं क- ल्प्यते, परमार्थतस्तु नान्यतरस्यापि सम्भवति, अचेतनत्वात् सत्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञ- स्य, अविद्याप्रत्युपस्थापितस्वभावत्वाच्च स- त्वस्य सुतरां न सम्भवति। तथा च श्रुतिः "य- त वान्यदिव स्यात्तन्रान्योऽन्यत् पश्येत्" इत्या- दिना स्वन्नटष्टहस्त्यादिव्यवहारवदविद्यावि- षय एव कर्तत्वादिव्यवहारं दर्शयति।"यत्र त्व- स्य सर्वमात्मैवाभूत तत् केन कं पश्येत्" इत्या- दिना च विवेकिन: कर्तृत्वादिव्यवहारं वारयति १२॥ अन्तर उपपत्तेः॥१३॥ "य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवा चैत दमृतमभयमेतदू ब्रह्मेति तद्यद्य प्यस्मि- न् सर्पिर्वोदकं वा सिध्चति वर्त्मनी एव गच्छ हीति। चित्तादात्म्येन कल्पिता बुद्धि: सुखादिरूपेण परिणमते बु- द्वयविवेकाचचिदात्मनः सुखादिरूपवृत्तिव्यक्तचैतन्यवच्वं भोकतृत्वं भाती- त्यर्थः। भोक्तृत्वमाविद्यकं न वस्तुत इत्यत्र मानमाह॥ तथा चेति॥ यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा द्रष्टृत्वादिकं, न वस्तुनि ज्ञात इत्यर्थः। तस्मादतं पिबन्ताविति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥ १२॥ अन्तर उपपत्तेः ॥ उपकोसलविद्यावाक्यमु- दाहरति॥ य इति ॥ तदक्षिस्थानमसङ्गत्वेन ब्रह्मणोऽनुरूपं यतो- डस्मिन् क्षिम्ं वर्त्मनी पक्ष्मणी एव गच्छतीत्यर्थः। दर्शनस्य लौकिक- ३१
Page 264
(२४२) रत्नप्रभाभासिते [अ० १। पा० २। ति" इत्यादि श्रयते। तत्र संशयः। किमयं प्रति- बिम्बात्माऽक्ष्यधिकरणो निर्दिश्यते, अथ विज्ञा- नात्मा, उत देवतात्मेन्द्रियस्याधिष्ठाताऽथवेश्वर इति। किं तावत् प्रात्तं, छायात्मा पुरुषप्रतिरूप इति। कुतः। तस्य दृश्यमानत्वप्रसिद्धेः"य एषो- क्षिणि पुरुषो दृश्यते" इति चप्रसिद्धवदुपदेशा- त्। विज्ञानाव्मनो वा अयं निर्देश इति युक्तम्। स हि चक्षुषा रूपं पश्यन् चक्षुषि सन्निहितो भवति, आत्मशब्दश्र्वास्मिन् पक्षेऽनुकूलो भवति। आ- दित्यपुरुषो वा चक्षुषोऽनुग्राहकः प्रतीयते "३- श्मिलिरेषोडस्मिन् प्रतिष्ठितः"' इति श्रुतेः।अ- मृतत्वादीनां च देवतात्मन्यपि कथश्ित् सम्भ- वात्, नेश्वरः, स्थानविशेषनिर्देशादित्येवं प्राप्ते ब्रूमः। परमेश्वर एवाक्षण्यभ्यन्तरः पुरुष इहो- त्वशास्त्रीयत्वाभ्यां संशयमाह॥ तन्रेति॥ पूर्वत्र पिबन्ताविति प्रथम- श्रुतचेतनत्वानुसारेण चरमश्रुता गुहाप्रवेशादयो नीताः, तद्ददिहापि दृश्यत इति चाक्षुषत्वानुसारेणामृतत्वादयो ध्यानार्थ कल्पितत्वेन नेया इति दृष्ठान्तेन पूर्वपक्षयति॥छायात्मेति॥पूर्वपक्षे प्रतिबिम्बोपास्तिः सिद्धान्ते ब्रह्मोपास्तिरिति फलम् प्रसिद्धवदिति चाक्षुषत्वेनेत्यर्थः। सम्भावनामात्रेण पक्षान्तरमाह॥ विज्ञानात्मन इत्यादिना ॥ म- नो ब्रह्मेतिवत्, एतद्रल्लेति इति वाक्यस्येतिपदशिरस्कत्वान्न रवा- र्थपरत्वमिति पूर्वपक्षः । मनो ब्रह्मेत्युपासीतेत्यत्र इतिपदस्य प्रत्य-
Page 265
सू०१३। अ०४। ] शाङ्करब्रह्म सूत्रभाष्ये (२४३) पदिष्ठ इति। कस्मात्। उपपत्तेः। उपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम्।आत्मव्वं तावन्मुख्यया वत्त्या परमेश्वर उपपद्यते "स आत्मा तच्चमसि" इति श्रुतेः। अमृतत्वाभयत्वे च तस्मिन्नसकृत् श्रुतौ श्रूयेते। तथा परमेश्वरा- नुरूपमेतदक्षिस्थानम्। यथा हि परमेश्वरः सर्व- दोषैरलिप्तोऽपहतपाप्मादिश्रवणात् तथाक्षि- स्थानं सर्वलेपरहितमुपदिष्टं "तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति" इति श्रुतेः। संयद्वामत्वादिगुणोपदेशश्र तस्मि- न्नवकल्पते "एतं संयद्दाम इत्याचक्षते"।"एतं हि सर्वाणि वामान्यभिसंयन्ति। एष उ एव वा- मनीरेष हि सर्वाणि वामानि नयति एष उ एव आामनीरेष हि सर्वेषु लोकेषु भाति" इति च। अत उपपत्तेरन्तरः परमेश्वरः॥१३॥
यपरत्वात्। इह च ब्रह्मेत्युवाचेत्यन्वयेन इतिपदस्योक्तिसम्बन्धिनो- डर्थपरत्वाद्वैषम्यमिति सिद्धान्तयति ॥ परमेश्वर एवेति॥ बहुप्र- माणसंवादस्तात्पर्यानुग्राहक इति न्यायानुगृहीताभ्यामात्मब्रह्मश्रु- तिभ्यां दृश्यत्वलिङ्गं: बाध्यमित्याह ॥ संयद्वामेति॥ वामानि कर्म- फलान्येतमक्षिपुरुषमभिलक्ष्य संयन्ति उत्पयन्ते सर्वफलोदयहेतुरि- त्यर्थः। लोकानां फलदाताप्ययमेवेत्याह ॥। वामनीरिति ॥ नयति फलानि लोकान् प्रापयतीत्यर्थः। भामानि भानानि नयत्ययमित्याह
Page 266
(२४४) रत्नप्रभाभासिते [अ० १।पा० २। स्थानादिव्य पदेशाच॥ १४॥ कथं पुनराकाशवत् सर्वगतस्य ब्रह्मणोऽ- क्ष्यल्पस्थानमुपपद्यते इति। अत्रोच्यते। भवेदे- षाऽनवक्लप्ति: यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत्। सन्ति हि अन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्ठानि "यः पुथिव्यां तिष्ठन्" इत्यादिना। तेषु हि चक्षुरपि निर्दिष्टं "यश्क्षु- षितिष्ठत्" इति। स्थानादिव्य पदेशादित्यादिय्- हणेनैतद्र्शयति। न केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यमानं निर्दिश्यते, किं तर्हि नाम- रूपमित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणो- डनुचितं निर्दिश्यमानं दृश्यते, "तस्योदिति नाम हिरण्यश्मश्रुः" इत्यादि निर्गुणमपि सत् ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थ तत्र तत्रोप- दिश्यते इत्येतदप्युक्तमेव। सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थ स्थानविशेषो न विरुध्यते शालगा- म इव विष्णोरित्येतदप्युक्तमेव ।। १४ ।। ॥ भामनीरिति ॥ सर्वार्थप्रकाशक इत्यर्थः ॥ १३ ॥ स्थाननामरू- पाणां ध्यानार्थ श्रुत्यन्तरेऽप्युपदेशादक्षिस्थानत्वोक्तिर्त्र न दोष इति सुत्रयोजना। अनवक्लप्तिः अक्लप्तकल्पना तदा भवेदयत्रैव निर्दिष्ठं भवेदित्यन्वयः । नन्वनुचितवाहुल्योक्तिरसमाधानमित्याशङ्क्य यु- किमाह॥ निर्गुणमपीति ॥१४॥ प्रकरणादपि ब्रह्म ग्राह्यमित्या-
Page 267
सू०१५। अ०४।] शाङ्करब्रह्मसूत्रभाष्ये (२४५) सुखविशिष्टाभिधानादेव च॥। १५॥। अपि च, नैवात्र विवदितव्यं, किं ब्रह्मास्मिन् वाक्येऽभिधीयते न वेति। सुखविशिष्टाभिधा- नादेव ब्रह्मत्वं सिद्धम्।सुखविशिष्टं हि ब्रह्म यद्दा- क्योपक्रमे प्रक्रान्तं "प्राणो ब्रह्म कं ब्रह्म खं ब्र- ह्म'इति तदेवेहाभिहितं, प्रकृतपरिग्रहस्य न्या- य्यत्वात्, "आचार्यस्तु ते गतिं वक्ता" इति च गतिमात्रािधानप्रतिज्ञानात्। कथ पुनर्वाक्यो- पक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति। उच्यते। ह।सुख विशिष्टेति। ध्यानार्थ भेदकल्पनया सुखगुणविशिष्टस्य ब्रह्म- णः प्ररतस्य य एष इति सर्वनाम्नाभिधानादन्तरः परमात्मा स्यादि- ति सूत्रार्थः। ननु प्रकरणात् प्रवलेन दृश्यत्वलिद्गेनोपस्थापितः छाया- त्मा सर्वनामार्थ इत्यत आह॥ आचार्यस्त्विति ॥ उपकोसलो- नाम कश्चित् ब्रह्मचारी जाबालस्याचार्यस्याग्नीन् द्दादश वत्सरान् प- रिचचार। तमनुपदिश्य देशान्तरगते जाबाले गार्हपत्याद्यग्निभिर्दयया प्राणो व्रह्मेत्यात्मविद्यामुपदिश्योक्तं आचार्यस्त्विति। तवात्मविद्याफ- लावाप्ये मार्गमर्चिरादिकं वदिष्यतीत्यर्थः। पश्ादाचार्येणागत्य य एषोऽक्षिणीत्युक्कार्चिरादिका गतिरुक्ता। तथा चागनिभिरुक्तात्मविद्या- वाक्यस्य गतिवाक्येनैकवाक्यता वाच्या, सा च सर्वनाम्ना प्रकतात्म- ग्रहे निर्वहतीत्येकवाक्यतानिर्वाहकं प्रकरणं वाक्यभेदकाल्विङ्गादलव- दिति भाव:।श्रुति व्याचष्टे॥ उच्यत इति॥ प्राणश्र सूत्रात्मा बृ- हत्वाद्वह्लेति यत् तज्जानामि कं विषयसुखं खं च भूताकाशं ब्र्मत्वे- न ज्ञातुं न शक्रोमीत्यर्थः। खं कथम्भूतं यत् कं तदेव खमिति सुखेन
Page 268
(२४६) रत्नप्रभाभासिते: [अ० १।पा० २। "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इत्येतदग्नीनां वच- नं श्रुत्वोपकोसल उवाच।"विजानाम्यहं यत्प्रा- णो ब्रह्म कं च तु खं च न विजानामि" इति।तत्रेदं प्रतिवचनम्।"यद्वाव कं तदेव खं यदेव खं तदेव क- म्" इति। तत्र खंशब्दो भूताकाशे निरूढो लो- के। यदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत, तथा सति केवले भूताकाशे ब्रह्मश- ब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यात्। तथा कंशब्दस्य विषयेन्द्रियस- म्पर्कजनिते सामये सुखे प्रसिद्धत्वात्। यदि त- स्य खंशब्दो विशेषणत्वन नोपादीयेत लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात्। इतरेतरविशेषितौ तु कंखवंशब्दौ सुखात्मकं ब्रह्म गमयतः। तत्र द्वि- विशेषितस्य खस्य भूतत्वनिरासः। तथा क कथम्भूतं यत् खं तदेव कमिति विभुत्वेन विशेषितस्य कस्य जन्यत्वनिरास इति व्यतिरेक- मुखेनाह॥ तत्र खमित्यादिना॥आत्मविदेति श्रुतिविरोधात् प्रतीक ध्यानमत्रानिष्टमितिभावः।सामय इति।। आमयो दोषः। साधनपारत न्यानित्यत्वादि: तत्सहित इत्यर्थः। प्रत्येकग्रहणे दोषमुत्का इयोर्ग्रह- णे फलितमाह॥ इतरेतरेति॥ विशेषितार्थकावित्यर्थः। नन्वेकं बह्मे वात्र ध्येयं चेद् ब्रह्मपदान्तरं किमर्थमित्यत आह ॥ तत्रेति ॥ विशेष- णत्वेन खस्य भूतत्वव्यावर्त्तकत्वेनेत्यर्थः। ब्रह्मशब्दः शिरो ययोस्तन्व- मिति विग्रहः। अध्येयत्वे को दोषस्तवाह ॥ इष्टं हीति॥ मार्गोक्या सगुणविद्यात्वावगमादिति भावः। आत्मविद्यापदेनोपसंहारादवि प्र"
Page 269
सू ० १५। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (२४७) तीये ब्रह्मशब्देऽनुपादीयमाने कं खं ब्रह्मेत्येवो- च्यमाने कंशब्दस्य विशेषणव्वेनैवोपयुक्तत्वात् सुखस्य गुणस्याध्येयत्वं स्यात्, तन्माभूदित्यु- अयो: कंखंशब्दयो: ब्रह्मशब्दशिरस्त्वं"कं ब्रह्म खं ब्रह्म2 इति।इष्टंहि सुखस्यापिगुणस्य गुणिवद्धये- यत्वम्। तदेवं वाक्योपक्रमे सुखविशिष्ट ब्रह्मोप- दिष्टम्। प्रत्येकं च गार्हपत्यादयोऽग्नयः स्वंस्वं महिमानमुपदिश्य "एषा सोम्य ते अस्मद्विद्या- SSत्मविद्या च' इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दि- ष्टमिति ज्ञापयन्ति।"आचार्यस्तु ते गति वक्ता" इति च गतिमात्राभ्िधानप्रतिज्ञानमर्थान्तरवि- वक्षां वारयति। "यथा पुष्करपलाशे आपो न श्लिष्यन्ते, एवमेवं विदि पापं कर्म न श्लिष्यते" इति चाक्षिस्थानं पुरुषं विजानतः पापेनानुप- घातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्श- यति। तस्मात् प्रकृतस्यैव ब्रह्मणोऽक्षिस्थानतां रुतं ब्रह्मेत्याह ॥। प्रत्येकं चेति ॥ पृथिव्यग्निरन्नमादित्य इति मम वतलस्तनवो विभृतिरिति गार्हपत्य उपदिदेश।आपो दिशो नक्षत्राणि चन्द्रमा इति अन्वाहार्यपचन उवाच। प्राण आकाशो यौवियु- दिि स्वमहिमानमाहवनीयो जगादेति भावः । इयमस्माकमग्नीना विद्या प्रत्येकमत्का आत्मविय्या तु पूर्वमस्माभिर्मिलित्वा प्राणो व- लेत्युक्तेत्यर्थः। उच्यतामन्निभिर्ब्रह्मछायात्मा गुरुणोच्यतां वक्तभेदा-
Page 270
(२४८) रत्नप्रभाभासिते [अ० १।पा० २। संयद्वामत्वादिगुणतां च उक्क्ा अर्चिरादिकां त- द्विदो गति वक्ष्यामीति उपक्रमते "य एपोडक्षि- णि पुरुषो दृश्यत एष आत्मेति होवाच" इति१५ श्रुतोपनिषत्कगत्यभिधानाच्॥१६॥ इतश्र्ाक्षिस्थानः पुरुषः परमेश्वरो यस्मात् श्रु- तोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौ "अथोत्तरे- णं तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानम- न्विष्यादित्यमभ्निजयन्ते, एतह्वै प्राणानामाय- तनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरा- वर्तन्ते" इति। स्मृतावपि। "अग्निर्ज्योतिरहः शुक्कः षण्मासा उत्तरायणम्। दिति तत्राह॥ आचार्यस्त्विति ॥ एकवाक्यतानिश्वयाद्कृभेदेऽपि नार्थभेद इत्यर्थः ॥१५॥श्रुता अनुष्ठिता उपनिषद्रहस्यं सगुणव्र- ह्ोपासनं येन तस्य या गतिः श्रुतौ स्मृतौ च प्रसिद्धा तस्या अत्रा- भिधानातू लिङ्गादिति सूत्रार्थमाह ॥ इतश्रेति॥ यस्माद् दृश्यते त- त्तस्मादिहेत्यन्वयः । श्रुतिमाह ॥ अथेति ॥ देहपातानन्तरमित्यर्थः । स्वधर्मस्तपः तपोब्रह्मचर्यश्रद्धाविद्याभि: आत्मानं ध्यात्वा तया ध्या- नविदयोत्तरं देवयानमार्ग प्राप्यते नोत्तरेण पथा। आदित्यद्दारा सगु- णब्रह्मस्थानं गच्छन्ति एतह्ै ब्रह्म प्राणानां व्यष्टिसमष्टिरूपाणामाय- तनं लिङ्गात्मकं हिरण्यगर्भरूपं वस्तुतस्त्वेतदमृतादिरूपं निर्गुणं स- र्वाधिष्ठानम्। अतः कार्यब्रह्म प्राप्य तत् स्वरूपं निर्गुणं ज्ञात्वा मुच्यन्त
Page 271
सू० १७। अ० ४ ] (२४९) तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः"॥
श्यते।"अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदुच-
त्याच्चन्द्रमसं चन्द्रमसो विद्युत तत् पुरुषोSमान- वः स एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ ए- तेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते" इति। तदिह ब्रह्मविद्विषयया प्रसिद्धया गत्याऽ- क्षिस्थानस्य ब्रह्मत्वं निश्रीयते॥१६॥ अनवस्थितेरसम्भवाच्च नेतरः॥१७॥ यत् पुनरुक्तं "छायात्मा विज्ञानात्मा देव-
इत्यर्थः। अन्निरेव ज्योतिर्देवता एवमहराया देवता एव स्मृतौ उक्ताः॥ अस्मिन्नुपासके मृते सति यदि पुत्रादयः शव्यं शवसंस्कारादिकं कु- र्वन्ति यदि च न कुर्वन्ति उभयथाप्युपास्तिमहिम्ना अचिरादिदेवान् क्रमेण गच्छन्ति। अचिषमत्निं ततोऽहरङ्ग: शुळ्कपक्ष तत उत्तरायणं तस्मात् संवत्सरं ततो देवलोकं ततो वायुं वायोरादित्यं ततश्वन्द्रं चन्द्रादिद्युतं गत्वा तत्र विद्युल्लोके स्थितानुपासकान् अमानवः पुरुषो ब्रह्मलोकादागत्य कार्यब्रह्मलोंकं प्रापयति। एषोऽचिरादिभिर्देवैर्विशि- ष्टो देवपथो गन्तव्येन ब्रह्मणा योगाद्वह्मपथश्च। एतेन कार्य ब्रह्मप्र- तिपद्यमाना उपासका इमं मानवं मनोः सर्ग आवर्त्त जन्ममरणा- वृत्तियुक्तं नावर्तन्ते नागच्छन्तीत्यर्थः ॥१६ ॥ चक्षुरासीदतीति उ- पगच्छतीत्यर्थः। अनवस्थितस्योपास्यत्वं सदा न सिध्यतीति भावः। ३२
Page 272
(२५०) रत्नप्रभाभासिते [अ०१।पा० २। तात्मा वा स्यादक्षिस्थानः" इति। अत्रोच्यते, न छायात्मादिरितर इह ग्रहणमर्हति। कस्मात्। अनवस्थितेः। न तावत् छायात्मनश्र्वक्षषि नि- त्यमवस्थानं सम्भवति।यदैव हि कश्वित् पुरुषश्वक्षुरासीदति तदा चक्षुषि पुरुषच्छा- या दृश्यतेऽपगते तस्मिन्न दृश्यते, "य ए- षोऽक्षिणि पुरुषः" इति च श्रुतिः । सन्निधा- नातू स्वे चक्षुषि दृश्यमानं पुरुषमुपास्यत्वे- नोपदिशति।न चोपासनकाले स छायाकर क- श्चित् पुरुषं चक्षःसमीपे सन्निधाप्योपास्त इति युक्तं कल्पयितुम्।"अस्यैव शरीरस्य नाशमन्वेष नश्यति" इति श्रुतिश्छायात्मनोऽप्यनवस्थित- व्वं दर्शयति। असम्भवाच्च। तस्मिन्नमृतत्वाढी- नां गुणानां न छायात्मनि प्रतीतिः। तथा विज्ञा- नात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रियसम्ब- न्धे सति चक्षुष्येवावस्थितत्वंवक्तुं न शक्यम्। ब्र- किश्च व्यवधानात् स्वाक्षिस्थ उपास्यः। न च तस्य स्वचक्षुषा दर्शनं सम्भवतीत्याह॥ य एष इति॥ अस्तु ता्हे परेण दृश्यमानस्योपा- स्तिरित्यत आह॥ न चेति॥ कल्पनागौरवादित्यर्थः । युक्तिसिद्धान- वस्थितत्वे श्रुतिमाह ॥ अस्येति।। छायाकरस्य बिम्बस्य नाशमद- र्शनमनुसृत्यैष छायात्मा नश्यतीत्यर्थः। जीवं निरस्यति॥ तथेति॥जा- त्यन्ध स्याप्यहमित्यविशेषेण जीवस्याभिव्यक्तेश्वक्षुरेव स्थानमित्ययुक्त-
Page 273
सू०१७। अ० ५] (२५१ ) ह्रणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हद- यादिदेशविशेषसम्बन्धः। समानश्र् विज्ञाना- त्मन्यप्यमृतत्वादीनां गुणानामसम्भवः।यद- पि विज्ञानात्मा परमात्मनोऽनन्य एव तथाप्य- विद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं अयं चेत्यमृतव्वाभयत्वे नोपपद्येते। संयद्दाम- त्वाद्यश्रैतस्मिन्ननैश्वर्यादनुपपन्ना एव। देवता- त्मनस्तु "रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः" इति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात् तथाप्यात्म- व्वं तावन्न सम्भवति परायूपत्वात्। अमृतत्वाद- योऽपि न सम्भवन्ति उत्पत्तिप्रलयश्रवणात्।अ- मरत्वमपि देवानां चिरकालावस्थानापेक्षम्।ऐ- शवर्यमपि परमेश्वरायतं न स्वााविकं, "भीषा- स्माद्वातः पवते भीषोदेति सूर्य:। भीषास्मादग्नि- श्र्वेन्द्रश्र्व मृत्युर्धावति पञ्चमः"॥इति मन्त्रवर्णा- त्। तस्मात् परमेश्वर एवायमक्षिस्थानः प्रत्ये- तव्यः। अस्मिंश्र पक्षे दृश्यत इति प्रसिद्धवदुपा- मित्यर्थः॥ दृष्ट इति॥श्रुताविति शेषः। ननु "चक्षोः सूर्यो अजायत सू- योरडस्तमेति" इति वाक्यं अमरा देवा इति प्रसिद्धिबाधितमित्याशङ्ड्या- है। अमरत्वमपीति॥भीषा भयेनास्मादीश्वराद्वायुश्वलति। अभनिश्वे- न्द्ृश् स्वस्वकार्य कुरुतः। उक्तापेक्षया पश्चमो मृत्युः समाप्तायुषां नि- कटे धावतीत्यर्थः । ईश्वरपक्षे दृश्यत इत्ययुक्तं तत्राह ॥अस्मिन्निति॥
Page 274
(२९२) रत्नप्रभाभासिते .[अ० १। पा० २। दानं शास्त्रापेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्या- ख्येयम् ॥१७॥ अन्तर्याम्यधिदैवादिषु तन्दर्मव्यप- देशात् ॥ १८।l "य इमं च लोकं परं च लोकं सर्वाणि च भू- तान्यन्तरो यमयति" इत्युपक्रम्य श्रूयते "यः पथिव्यां तिष्ठन पथिव्या अन्तरोयं पथिवी न वे- द यस्य पथिवी शरीरं यः पथिवीमन्तरो यमयः त्येष त आत्मान्तर्याम्यमृतः" इत्यादि। अत्र "अधिदैवतमधिलोकमधिवेदमधियज्ञमधिभू- तमध्यात्मं च कश्िविदन्तरवस्थितो यमयितान्त- दर्शनमनुभवः। तस्य शास्त्रे श्रुतस्य शास्त्रमेव करणं कल्प्यं सन्निधा- नातू। तथा च शास्त्रकरणको विद्ददनुभव उपासना स्तुत्यर्थ उच्यत इत्यर्थः । तस्मादुपकोसलविद्यावाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १७ ॥ अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशञात्॥ बृ- हदारण्यकवाक्यमुदाहरति ॥ य इति ॥ अन्तर्यामिब्राह्मणे प्रतीयमा- नार्थमाह॥ अत्रेति॥ यः पृथिव्यामित्यादिना देवताः पृथिव्याया अ- धिरुत्य यमयिता श्रूयते । तथा यः सर्वेषु लोकेष्विति अधिलो- कम्। यः सर्वेषु वेदेष्वित्यधिवेदम् । यः सर्वेषु यज्ञेष्विति अधियज्ञम्। यः सर्वेषु भूतेष्वित्यधिभूतम्। यः प्राणे तिष्ठन्नित्यादि य आत्मनी- त्यन्तमध्यात्मं चेति विभागः। अशरीरस्य नियन्तृत्वसम्भवासम्भ- वाभ्यां संशयः । पूर्वत्रेश्वरस्याक्षिस्थानत्वसिद्धये पृथिव्यादिस्थाननि-
Page 275
सू० १८। अ. ५ ] शाङ्करब्रह्मसूत्रभाष्ये (२५३) र्यामी" इति श्रूयते।स किमधिदेवाद्यभिमानी दे- वतात्मा कश्िवित्, किंवा प्राप्ताणिमाद्यैश्वर्यः क- श्रि्विद्योगी, किंवा परमात्मा, किंवाऽर्थान्तरं कि- श्विदित्यपूर्वसञज्ञादर्शनात् संशयः । किं तावन्नः प्रतिभाति सञ्ज्ञाया अप्रसिद्धत्वात् सञ्जिनोS- प्यप्रसिद्धेर्नार्थान्तरेण केनचित् भवितव्यमिति, अथवा नानिरूपितरूपमर्थान्तरं शक्यमस्ती- त्यभ्युपगन्तुम । अन्तर्यामिशब्दश्र्ान्तर्थमन- योगेन प्रवृत्तो नात्यन्तमप्रसिद्धः । तस्मात् पृ- थिव्याद्यभिमानी कश्विद्देवोऽन्तर्यामी स्यात्। तथा च श्रूयते "पृथिव्येव यस्यायतनमग्निलोको मनो ज्योतिः" इत्यादि।स च कार्यकरणवत्वात् पथिव्यादीनन्तस्तिष्ठन् यमयतीति युक्तं देवा- त्मनो यमयितृत्वम्। योगिनो वा कस्यचित् सि- र्देशो दृष्टान्त उक्तस्तस्य दृष्टान्तवाक्यस्येश्वरपरत्वमत्राक्षिप्य समाधी- यत इत्याक्षेपसङ्गतिः, अतः पूर्वफलेनास्य फलवत्त्वम् । अवान्तरफलँ तु पूर्वपक्षे अनीश्वरोपास्तिः सिद्धान्ते प्रत्यग्ब्रह्मज्ञानमिति मन्तव्यं स्वयमेवारुचिं वदन् पक्षान्तरमाह ।। अथवेति॥ अनिश्चितार्थे फ- लाभावेनाफलस्य वेदार्थत्वायोगादिति भावः । बथा च श्रूयते यस्य देवस्यायतनं शरीरं लोक्यतेऽनेनेति लोकश्र्वक्षुज्योतिः सर्वार्थप्रकाश- कं मन इत्यर्थः । उपक्रमादिनाऽन्तर्याम्यैक्यनिश्चयादनेकदेवपक्षो न युक्त इत्यरुचेराह ॥ योगिनो वेति । आगन्तुकसिद्धस्यान्तर्यामित्वे सिद्धसाधनकल्पनागौरवात् नित्यसिद्ध एवान्तर्यामीति सिद्धान्तयति
Page 276
(२५४) रत्नप्रभाभासिते [अ० १।पा० २। द्वस्य सर्वानुप्रवेशेन यमयितृत्वं स्यात्। न तुप- रमात्मा प्रतीयेत अकार्यकरणवत्त्वादित्येवं प्ाप्त इदमुच्यते। योऽन्तर्याम्यधिदैवादिषु श्रूयते स परमात्मैव स्यान्नान्य इति। कुतः । तद्र्मव्य- पदेशात्। तस्य हि परमात्मनो धर्मा इह निर्दि- श्यमाना दृश्यन्ते। पथिव्यादि तावदधिदैवादि- भेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन् यम- यतीति परमात्मनो यमयितृत्वं धर्म उपपद्ते, सर्वविकारकारणत्वे सति सर्वशत्तयुपपत्तेः। "ए- षत आत्मान्तर्याम्यमृतः" इति चात्मत्वामृत- त्वे मुख्ये परमात्मन उपपद्येते। "यं पृथिवी नवेद" इति च पथिवीदेवताया अविज्ञेयम- न्तर्यामिणं त्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं द- र्शयति, पथिवीदेवता ह्यहमस्मि पथिवीत्या- त्मानं विजानीयात् । तथा "अदष्टोऽश्रुतः" इत्यादिव्यपदेशो रूपादिविहीनत्वात् परमा- त्मन उपपद्यत इति। यत्तु कार्यकरणहीन- स्य परमात्मनो यमयितृत्वं नोपपद्यत इति नै- । एवं प्राप्त इति॥ देवतानिरासे हेत्वन्तरमाह ॥ यं पृथिवीति॥ ईश्वरो न नियन्ता अशररित्वात् घटवदित्युक्तं निरस्यति॥ नैष दोष इति॥ नियम्यातिरिक्तशरीरशून्यत्वं वा हेतुःशरीरासम्बन्धित्वं वा। आ- ये स्वदेहनियन्तरि जीवे व्यभिचारः द्दितीयस्त्वसिद्धः ईश्वरस्य स्वावि-
Page 277
सू० १९। अ० ३] शाङ्करब्रह्मसूत्रभाष्ये (२५५) ष दोषः, यान्नियच्छति तत्त्कार्यकरणैरेव त- स्य कार्यकरणवत्वोपपत्तेः। तस्याप्यन्यो निय- न्तेत्यनवस्थादोषश्र न सम्भवति भेदाभावात्। भेदे हि सत्यनवस्थादोषोपपत्तिः। तस्मात् पर- मात्मैवान्तर्यामी॥१८॥ न च स्मार्तमतद्दर्माभिलापात्॥१९॥ स्यादेतददृष्टत्वादयो धर्माः साङ्यस्मृति- कल्पितस्य प्रधानस्याप्युपपद्यन्ते रूपादिही- नतया तस्य तैरभ्युपगमात्।"अप्रतर्क्यमविज्ञे- यं प्रसुप्तमिव सर्वतः" इति हि स्मरन्ति। त- स्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्य- ते। तस्मात् प्रधानमन्तर्यामिशब्दं स्यात्, ईक्ष- योपारजितसर्वसम्बन्धित्वादित्याह ।। यान्नियच्छतीति ॥स शरीरो नियन्तेति लोकदृष्टिमनुसृत्यैतदुक्तम्। वस्तुतस्तु चेतनसान्निध्याज्जड- स्य व्यापारो नियमनं तच्छक्तिमच्वं नियन्तृत्वम्। तच्चाचिन्त्यमायाशके- श्विदात्मनः शरीरं विनैवोपपन्नम्।कार्यकरणसङ्गातात्मको देहो ग्राह्यःते- नलिङगनदेहस्य या वृत्तिः ननु देहनियन्तुर्जीवस्यान्यो नियन्ता चेतू तस्या- प्यन्यः, अत आह।इत्यनवस्थेति॥ निरंकुशं सर्वनियन्तृत्वं ईश्वरस्य श्रुतम्। तस्या नियन्त्रन्तरानुमाने श्रुतिबाध इति नानवस्थेत्यर्थः। यद्दा
र्थः॥१८॥ प्रधानं महदादिक्रमेण कथ प्रवर्तत इति तर्कस्याविषय इत्या- है।। अप्रतर्क्यमिति॥ रूपादिहीनत्वादविज्ञेयं सर्वतो दिक्षु प्रसुप्मिव
Page 278
(२५६) रत्नप्रभाभासिते [अ० १। पा० २। तेर्नाशब्दमित्यत्र निराकृतमपि सत् प्रधानमि- हाटष्टत्वादिव्यपदेशसम्भवेन पुनराशङ््यते। अत उत्तरमुच्यते। न च स्मार्त प्रधानमन्तर्या- मिशब्दं भवितुमर्हति। कस्मात्। अतद्धर्माभि- लापात् । यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्य सम्भवति तथापि न द्रष्टत्वादिव्यपदेशः सम्भ- वति प्रधानस्याचेतनत्वेन तैरभ्युपगमात्। "अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अ- विज्ञातो विज्ञाता" इति हि वाक्यशेष इह भव- ति। आत्मत्वमपि न प्रधानस्योपपद्यते॥ १९॥ यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसम्भवान्नान्त- र्याम्यभ्युपगम्यते शारीरस्तर्यन्तर्यामी भवतु। शारीरो हि चेतनत्वादू द्रष्टा श्रोता मन्ता विज्ञा- ता च भवत्यात्मा च प्रत्यक्कात्, अमृतश्र धर्मा- धर्मफलोपभोगोपपनेः। अदृष्टत्वादयश् धर्माः शारीरे सुप्रसिद्दा: दर्शनादिक्रियायाःकर्तरिप्रतृ- तिष्ठति जडत्वादित्यर्थः। अतत्, अप्रधानं चेतनं तस्य धर्माणामभि- धानादिति हेत्वर्थः ॥ १९ ॥ उत्तरसूत्रनिरस्याशङ्कामाह ॥ यदि प्र- धानमित्यादिना॥अमृतश्रेति ।! विनाशिनो देहान्तरभोगानुपपत्ते- रित्यर्थः। यथा देवदत्तकर्तृकगमनक्रियायाःग्राम: कर्म न देवदत्तस्तथा- त्मकर्तृकदर्शनादिक्रियाया अनात्मा विषयः न त्वात्मा क्रियायाः क- र्तृविषयत्वायोगादित्याह ॥। कर्तरीति ॥ क्रियायां गुणः कर्ता प्रधानं
Page 279
सू०२०। अ०५] शाङ्करब्रह्मसूत्रभाष्ये (२५७) त्तिविरोधात्। "न दष्टेर्द्रष्टारं पश्येत् "इत्यादि- श्रुतिभ्यश्र। तस्य च कार्यकरणसङ््घातमन्तर्य- मयितुं शीलं भोक्तृत्वात्। तस्माच्छारीरोऽन्तर्या- मीति अत उत्तरं पठति। शारीरश्ोभयेऽपि हिभेदेनैनमधीय- ते॥ २०॥ नेति पूर्वसूत्रादनुवर्तते शारीरश्र नान्तर्या- मी इष्यते क: स्यात्। यद्यपि द्रष्टत्वादयो धर्मा- स्तस्य सम्भवन्ति तथापि घटाकाशवदुपाधिप- रिच्छिन्नत्वान्न स कात्स्न्येन पृथिव्यादिष्वन्तर- वस्थातुं नियन्तुं च शक्कोति। अपि च। उभयेऽपि हि शाखिन: काण्वा माध्यन्दिनाश्र्ान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नि- यम्यत्वेन चाधीयते। "यो विज्ञाने तिष्ठन्" इति काण्वाः।"य आत्मनि तिष्ठन्" इति माध्यन्दि- नाः। य आत्मनि तिष्ठुन्नित्यस्मिंस्तावत् पाठे भ- वत्यात्मशब्दः शारीरस्य वाचकः। यो विज्ञाने कर्म तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोरविरोधान कर्तुः कर्मत्वमित्यर्थः। दृष्टेर्द्रष्टारमात्मानं तया दृश्यया दृष्ट्या न विषयी- कुर्या इत्यादिश्रुतेश्रादृष्टत्वादिधर्माः शारीरस्येत्याह ॥ नेति॥ अपि- शब्दसूचितहेतुमुक्ता कण्ठोक्तं हेतुमाह ॥ अपि चोभयेऽपीति॥ ३३
Page 280
(२५८) रत्नप्रभाभासिते [अ० १। पा० २ । तिष्ठुन्नित्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो हि शारीर इति। तस्माच्छा- रीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम्। कथं पुनरे- कस्मिन्देहे दौ द्रष्टारावुपपद्येते।यश्रायमीश्वरोंऽ- न्तर्यामी यश्वायमितरः शारीरः। कापुनरिहानु- पपत्तिः। "नान्योऽतोऽस्ति द्रष्टा" इत्यादिश्रुति- वचनं विरुव्येत। अत्र हि प्रकृतादन्तर्यामिणोS- न्यं द्रष्ठारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति। नियन्त्रन्तरप्रतिषेधार्थमेतद्वचन- मिति चेत्, न, नियन्त्रन्तराप्रसङ्गत्, अविशेष- श्रवणाच्च। अत्रोच्यते। अविद्याप्रत्युपस्थापित- कार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामि- णोर्भेदव्यपदेशो न पारमार्थिकः । एको हि प्र- भेदेनेति सूत्रात् ताच्विकभेदे ध्रान्तिं निरसितुं शङ्कते ॥ कथमिति॥ नन्वत्रैको भोक्ता जीवः ईश्वरस्त्वभोक्तेति न विरोध इति शङ्कते ॥ का पुनरिति॥ तयोर्भेंदः श्रुतिविरुद्ध इति पूर्ववाद्याह॥ नान्य इति॥ स एव श्रुत्यर्थमाह ॥। अत्रेति॥ श्रुतेरर्थान्तरमाशङ्क्य निषेधति ॥ नियन्त्रन्तरेत्यादिना॥ न केवलमप्रसक्तप्रतिषेधः, किन्त्वविशे- षेण द्रष्ट्रन्तरनिषेधश्रुतेरन्तर्याम्यन्तरनिषेधार्थत्वे बाधश्वेत्याह ।। अ- विशेषेति ॥ तस्मात् सूत्रे य आत्मनि तिष्ठन्निति श्रुतौ च द्रष्ट्भेदो- क्तिरयुक्ता नान्य इति वाक्यशेषे भेदनिरासादिति प्राप्तभेद उपाधि- कल्पितः श्रुतिसूत्राभ्यामनूबत इति समाधत्ते॥ अत्रोच्यत इति॥ भेदः सत्यः किं न स्यादत आह ॥ एको हीति॥ गौरवेण इयोरहंधी-
Page 281
सू० २१। अ० ६।] शाङ्गरब्रह्मसूत्रभाष्ये (२५९) त्यगात्मा भवति न दौ प्रत्यगात्मानौ सम्भवतः। एकस्यैव तुभेदव्यवहार उपाधिकृतः, यथा घटा- काशो महाकाश इति।ततश्र ज्ञातृज्ञेयादिभेदश्रु- तयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधिप्रतिषेधशासतरं चेति सर्वमेतदुपपद्यते। तथा चश्रतिः "यत्रहि द्वैतमिव भवति तदितर इतरं प- श्यति" इत्यविद्याविषये सर्वव्यवहारं दर्शयति। "यत्र व्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्येत्" इति विद्याविषये सर्वव्यवहारं वारयति ॥२०॥ अदृश्यत्वादिगुण को धर्मोक्तेः ॥२१॥ "अथ परा यया तदक्षरमधिगम्यते"यत्तद- द्रेश्य मग्रात्य्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणि-
गोचरत्वासम्भवादेक एव तद्रोचरः तदगोचरस्य घटवदनात्मत्वान्ना- त्मभेदः सत्य इत्यर्थः ॥ ततश्रेति॥ कल्पितभेदाङ्गीकाराज्जेदापेक्षं सर्व युज्यत इत्यर्थः तस्मादन्तर्यामि ब्राह्मणं ज्ञेये ब्रह्मणि समन्वित- मिति सिद्धम्॥२०॥अदृश्यत्वादिगुणको धर्मोक्तेः॥मुण्डकवाक्य- मुदाहरति॥ अथेति॥ कर्मविद्यारूपापरविद्योक्त्यनन्तरं यया निर्गुणं ज्ञायते परा सोच्यते तामेव विषयोक्त्या निर्दिशति ॥ यत्तदिति॥ अद्रेश्यं अदृश्यं ज्ञानेन्द्रियैः अग्राहयं कर्मेन्द्रियैश्र। गोत्रं वंशः वर्णों ब्राह्मणत्वादिजातिः चक्षुःश्रोत्रशून्यं अचक्षुःश्रोत्रं पाणिपाद- शून्यमपाणिपादं ज्ञानकर्मेन्द्रियविकलमित्यर्थः। विभुं प्रभुं सुसूक्ष्मं दुज्ञेयत्वान्नित्याव्ययपदाभ्यां नाशापक्षययोनिरासः । भूतानां योनि
Page 282
(२६०) रत्नप्रभाभासिते [अ० १। पा० २। पादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं य- द्रूतयोनिं परिपश्यन्ति धीराः2 इति श्रूयते। तत्र संशयः। किमयमदृश्यत्वादिगुणको भूतयोनिः प्रधानं स्यात्, उत शारीरः, आहोस्वित् परमे- शवर इति। तत्र प्रधानमचेतनं भूतयोनिरिति यु- क्तं, अचेतनानामेव तत्र दृष्टान्तत्वेनोपादानात् "यथोर्णनाभिः सृज्यते गृह्ते च यथा पृथि- व्यामोषधयः सम्भवन्ति यथासतः पुरुषात् के- शलोमानि तथाSक्षरात् सम्भवतीह विश्वम्"इ- ति। ननूर्णनाभिः पुरुषश्र्ेतनाविह दृष्टान्तत्वेनो- पात्तौ, नति ब्रूमः, न हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं चास्ति। चेतना- धिष्ठितं त्यचेतनमूर्णनाशिशरीरं सूत्रस्य योनिः पुरुषशरीरं च केशलोम्नामिति प्रसिद्धम् । अपि च। पूर्वत्रादृष्टत्वाद्यभिलापसम्भवेऽपि द्रष्टत्वा- द्यभिलापासम्भवान्न प्रधानमभ्युपगतम्। प्ररुतिं यत् पश्यन्ति धीराः पण्डितास्तदक्षरं तदिया परेत्यन्वयः। अद- श्यत्वादिगुणानां ब्रह्मप्रधानसाधारणत्वात् संशयः। पूर्ववद् द्रष्टृत्वादी- नां चेतनधर्माणामत्राश्रुतेः अस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्ष- यति॥ तत्रेति ॥ पूर्वपक्षे प्रधानायुपास्तिः सिद्धान्ते निर्गुणधीरि- ति फलम्। ऊर्णनाभिर्लूताकीटः तन्तून स्वदेहात् सृजति उपसं- हरति चेत्यर्थः। सतो जीवतः। ननु पूर्व निरस्ं प्रधानं कथमुत्थाप्यते
Page 283
सू० २१। अ० ६।] शाङ्करब्रह्मसूत्रभाष्ये (२६१) इह त्वदृश्यव्वादयो धर्माः प्रधाने सम्भवन्ति, न चात्र विरुध्यमानो धर्म: कश्विदभिलप्यते। ननु "यः सर्वज्ञः सर्ववित्" इत्ययं वाक्यशेषोऽचेतने प्रधाने न सम्भवति। कथं प्रधानं भूतयोनिः प्र- तिज्ञायत इति। अत्रोच्यते।"यया तदक्षरमधि- गम्यते यत्तदद्रेश्यम्" इत्यक्षरशब्देनादृश्यत्वा- दिगुणकं भूतयोनिं श्रावयित्वा पुनः श्रावयि- ष्यति "अक्षरात् परतः परः" इति। तत्र यः परो- Sक्षरात् श्रुतः स सर्वज्ञः सर्वविच्च सम्भविष्य- ति प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः।य- दा तु योनिशब्दो निमित्तवाची तदा शारीरोऽ- पि भूतयोनिः स्यात्, धर्माधर्माभ्यां भूतजात- स्योपसर्जनादिति। एवं प्राप्तेऽभिधीयते, योऽ- यमदृश्यत्वादिगुणको भूतयोनिः स परमेश्वर एव स्यान्नान्य इति। कथमेतदवगम्यते। धर्मो- क्ेः। परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते तत्राह॥ अपि चेति ॥ अत्र प्रधाने विरुंध्यमानोSसम्भावितो वा- क्यशेष: श्रुत इति शङ्गते ॥ ननु य इति ॥ पश्चम्यन्ताक्षरश्रुत्या भूतप्रकृतेः प्रत्यभिज्ञानात् प्रथमान्तपरशब्दोक्तस्य जगनिनिमित्तेश्वर- स्य सर्वज्ञत्वादिकमित्याह॥ अत्रोच्यत इति ॥ सन्दिग्धे तु वाक्य- शेवादिति न्यायेन सिद्धान्तयति ॥ एवं प्राप्त इति॥ चेतनाचेतनत्वे- न सन्दिग्धे भूतयोनौ यः सर्वज्ञ इति वाक्यशेषादीश्वरत्वनिर्णय इत्य-
Page 284
(२६२) रत्नप्रभाभासिते [अ० १।पा० २। "यः सर्वज्ञः सर्ववित्" इति। न हि प्रधानस्या- चेतनस्य शारीरस्य वोषाधिपरिच्छिन्नदृष्टेः स- र्वज्ञत्वं सर्ववित्वं वा सम्भवति। नन्वक्षरशब्द- निर्दिष्टाद्गतयोने: परस्यैवैतत् सर्वज्ञत्वं सर्व- वित्त्वं च न भूतयोनिविषयमित्युक्तम्। अत्रोच्य- ते। नैवं सम्भवति यत्कारणम् "अक्षरात् स- म्भवतीह विश्वम्" इति प्रकृतं भूतयोनिमिह जायमानप्रकृतिव्वेन निर्दिश्यानन्तरमपि जाय- मानप्रकृतित्वेनैव सर्वजञं निर्दिशति। "यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्वह्म नाम रूपमन्नं च जायते"॥इति॥ तस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वा- तू प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्व- विच्वं च धर्म उच्यत इति गम्यते।"अक्षरातू पर-
युक्तम्, वाक्यशेषे भूतयोने: प्रत्यभिज्ञापकाभावादिति शङ्कते॥ नन्वि- ति।।"जनिकर्तुः प्रकुतिः" [१।४।३०] इति सूत्रेण प्रकतेरेपादानसज्ज्ञा- यां पश्चमीरमरणा दक्षरात् सम्भवती ति प्रकुतित्वेनोक्ताक्षरस्य भूतयोने- वक्यशेषे तस्मादिति प्रकृतित्वलिङ्गेन प्रत्यभिज्ञानमस्तीति समाधत्ते । अत्रोच्यत इति ॥ एतत् कार्य ब्रह्म सूक्ष्मात्मकं नामरूपं स्थूलं ततोऽन्नं व्रीह्यादीत्यर्थः । यदुक्तं पश्चम्यन्ताक्षरश्रुत्या भूतयोने: प्रत्य- भिज्ञानादचेतनत्वमिति तत्राह॥ अक्षरात् परत इति॥ नायमक्षर- शब्दो भूतयोनिं परामृशति परविद्याधिगम्यत्वेनोक्तस्याक्षरस्य भूत-
Page 285
सू०२१। अ० ६।] शाङ्करब्रह्मसूत्रभाष्ये (२६३ ) तः परः" इत्यत्रापि न प्रकृतात् भूतयोनेरक्षरात् परः कश्विदभ्िधीयते। कथमेतदवगम्यते। "ये- नाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्र- ह्मविद्याम्" इति प्रकृतस्यैवाक्षरस्य भूतयो- नेरदृश्यत्वादिगुणकस्य वक्तव्यव्वेन प्रतिज्ञा- तव्वात्। कथं तर्त्यक्षरात् परतः पर इति व्यप- दिश्यत इत्युत्तरसूत्रे तद्दक्ष्यामः । अपि चात्र द्वे विद्ये वेदितव्ये उक्ते "परा चैवापरा च" इ- ति। तत्रापरामृग्वेदादिलक्षणां विद्यामुक्ा ब्र- वीति "अथ परा यया तदक्षरमधिगम्यते" इ- त्यादि। तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रु- तम्। यदि पुनः परमेश्वरादन्यददृदश्यत्वादिगुण- कमक्षरं परिकल्प्येत नेयं परा विद्या स्यात्। प- रापरविभागो ह्ययं विद्ययोरभ्युदयनिःश्रेयस-
योनेरक्षरं पुरुषं वेदेत्यक्षरश्रुत्या वेयत्वलिङ्गवत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह॥ येनेति ॥ येन ज्ञानेनाक्षरं भूतयोनिं सर्वजञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रूयादित्युपक्रम्य "अप्राणो हम- नाःशुभ्रोहक्षरात् परतः परः" इति उच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः। तर्हि पञ्चम्यन्ताक्षरशव्दार्थः क इत्याशङ्क्याज्ञानमिति व- क्ष्यत इत्याह ॥ कथमिति॥ परविद्येति समास्ययाऽपि तद्विषयस्य ब्रह्मत्वमित्याह ॥ अपि चेति ॥ ननु प्रधानविद्याऽपि कारणविषय- त्वात् परेत्यत आह॥ परापरविभागो हीति॥ अनित्यफलत्वेना-
Page 286
(२६४) रत्नप्रभाभासिते [अ० १।पा० २। फलतया परिकल्प्यते। न च प्रधानविद्या निः- श्रेयसफला केनचिदभ्युपगम्यते। तिस्रश्र विद्याः प्रतिज्ञायेरन् त्वत्पक्षे अक्षराद्गूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात्। दे एव तु विद्ये वेदितव्ये इह निर्दिष्ट "कस्मिन्रु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति चैकवि- ज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि वि- वक्ष्यमाणेऽवकल्प्यते, नाचेतनमात्रैकायतने प्र- धाने भोग्यव्यतिरिक्ते वा भोक्तरि। अपि च "स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठाय पु- त्राय प्राह" इति। ब्रह्मविद्यां प्राधान्येनोपकम्य परापरविभागेन परां विद्यामक्षराधिगामिनीं द- र्शयंस्तस्या ब्रह्मविद्यात्वं दर्शयति।साच ब्रह्मवि- परविय्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्यशेषोक्तेरि- त्यर्थः। अस्तु प्रधानवियाऽपि मुक्तिफलत्वेन परेत्यत आह ॥ न चेति॥ ननु यः सर्वज्ञ इत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवा- क्येन तु प्रधानविदयोच्यत इत्यत आह॥ तिस्रश्चेति॥ इतश्र भू- तयोनेर्ब्र्मत्वमित्याह ॥ कस्मिन्निति॥ अचेतनमात्रस्यैकायतनमु- पादानं तज्ज्ञानात् कार्यज्ञानेऽपि तदकार्याणामात्मनां ज्ञानं न भव- ति। एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः । ब्र- हवियाशब्दाच्च भूतयोनिर्बह्ेत्याह॥ अपिचेति॥ स ब्रह्मविद्यां स- वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्मविद्यामुवाच।ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्तर्भावाद्गल्लविद्या सर्वविय्याप्रतिष्ठा। नन्वपरवि-
Page 287
सू० २१। अ० ५।] शाङ्करत्रह्मसूत्रभाष्ये (२६५) द्यासमाख्या तदधिगम्यस्याक्षरस्या ब्रह्मत्वे बा धितास्यात्।अपरा ऋग्वेदा दिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रम उपन्यस्यते ब्रह्मविद्या प्रशंसायै "पवा त्येते अदृढा यज्ञरूपा अष्टादशोक्तमव- रं येषु कर्म। एतत् श्रेयो येऽभिनन्दन्ति मूढा जरां मृत्युं ते पुनरेवापि यन्ति" इत्येवमादिनिन्दावच- नात्। निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयति "परीक्ष्य लोकान क- र्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृत: कृ- तेन तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् समित्या- णिःश्रोत्रियं ब्रह्मनिष्ठम्" इति।यत्तूक्तमचेतना- नां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्ार्टा- या परप्रकरणे किमर्थमुक्तेत्यत आह ॥ अपरेति ॥ प्रवन्ते गच्छन्ती- ति पवा विनाशिनः। अदृढा नित्यफलसम्पादनाशक्ताः षोडशरत्वजः पत्नी यजमानश्वेत्यष्टादश। यज्ञेन नामनिमित्तेन निरूप्यन्त इति य- ज्ञरूपाः। तथा हिऋतुषु याजयन्ति यज्ञं कारयन्तीत्यृत्विजः, यज- त इति यजमान:, पत्युनो यज्ञसंयोगे (४।१।३३) इति सूत्रेण पतिश- वदस्य नकारान्तादेशो यज्ञसम्बन्धे विहित इति पत्नी, एवमृत्वि- गादिनामप्रवृत्तिनिमित्तं यज्ञ इति यज्ञरूपा येष्ववरमनित्यफलकं कर्म श्रुत्युक्तं, एतदेव कर्म श्रेयो नान्यदात्मज्ञानमिति ये मूढास्तु- ष्यन्ति ते पुनःपुनर्जन्ममरणमाप्नुवन्तीत्यर्थः । तद्विज्ञानार्थ गुरुमभि- गच्छेदेवेति नियमः । ब्रह्मनिष्ठस्याप्यनधीतवेदस्य गुरुत्वं वारयति ॥ श्रोत्रियमिति । कार्यमुपादानाभिन्मित्यंशे दृष्टान्तः । स- ३४
Page 288
(२६६) रत्नप्रभाभासिते [अ० १। पा० २। न्तिकेनाप्यचेतनेन भूतयोनिना भवितव्यमि- ति, तदयुक्तम्। न हि दृष्टान्तदार्टान्तिकयोरत्य- न्तसाम्येन भवितव्यमिति नियमोऽस्ति। अपि च स्थूला: पृथिव्यादयो दृष्ठान्तत्वेनोपात्ता इति न स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्य- ते, तस्माददृश्यत्वादिगुणको भूतयोनिः परमे- श्वर एव ॥ २१॥ विशेषणभेदव्यपेदशाभ्यां च नेतरौ २२ इतश् परमेश्वर एव भूतयोनिः, नेतरौ शा- रीरः प्रधानं वा। कस्मात्। विशेषणभेदव्यपदे- शाभ्याम्।विशिनष्टि हिप्रकृतं भूतयोनिं शारीरा- द्विलक्षणत्वेन "दिव्यो ह्यमूर्तः पुरुषः स बा- व्याभ्यन्तरो त्यजोऽप्राणो ह्यमनाः शुभ्रः" इ- त्यादि। न त्येतद्विव्यत्वादिविशेषणमविद्याप्र- त्युपस्थापितनामरूपपरिच्छेदाभिमानिनः तद्ध- र्वसाम्ये तवाप्यनिष्टापत्तेरित्याह ॥ अपि च स्थूला इति ॥२१॥ विशेषणाल जीवो भेदोक्तेर्न प्रधानमिति हेतुद्दयं विभज्य व्याचष्टे । विशिनष्टि हीत्यादिना॥ दिव्यो दयोतनात्मकः स्वयंज्योतिरमूर्तः पूर्णः पुरुषः पुरिशयः प्रत्यगात्मा. बाह्यं स्थूलमाभ्यन्तरं सकारणं सू- क्षमं ताभ्यां सहाधिष्ठानत्वेन तिष्ठति स बाहाभ्यन्तरः, हि तथा श्रुति- पु प्रसिद्ध इत्यर्थः। अविद्याकतं नामरूपात्मकं शरीरं तेन परिच्छे- दोडल्पत्वम्। तस्य शरीरस्य धर्मान् जाज्यमूर्तत्वादीनित्यर्थः । नन्व-
Page 289
सू० २२। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (२६७) मशश्र स्वात्मनि कल्पयतः शारीरस्योपपद्यते। तस्मात् साक्षादौपनिषदः पुरुष इहोच्यते। तथा प्रधानादपि प्रकृतं भूतयोनि भेदेन व्यपदिशति "अक्षरात् परतःपरः"इति। अक्षरमव्याकृतं ना- मरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यै- क्षरशब्देन प्रधानोक्तावशब्दत्वं प्रधानस्य प्रतिज्ञातं बाध्येत। तत्राह ॥ अक्षरमव्याकृतमिति ॥ अश्नोति व्याप्नोति स्वविकारजातमि- त्यक्षरम् अव्याकतमव्यक्तं अनादीति यावत्। नामरूपयोर्बीजं ईश्वरः तस्य शक्तिरूपं परतन्त्रत्वादुपादानमपि शक्तिरित्युक्तम्। भूतानां सू- क्षमाः संस्कारा यत्र तद्ूतसूक्ष्मम् । ईश्वरश्चिन्मात्र आश्रयो यस्य त- त्तथा। तस्यैव चिन्मात्रस्य जीवेश्वरभेदोपाधिभूतं यत्तु ईश्वर आश्रयो विषयो यस्येति नानाजीववादिनां व्याख्यानं तद्वाष्यबहिर्भूतम्। एत- स्मिन् खल्वक्षरे आकाश ओतश् प्रोतश्र्वेत्योतप्रोतभावेनाव्याकतस्य चिदाश्रयत्वश्रुतेः, आश्रयपदलक्षणाया निर्मूलत्वात् । न हि मूलप्- कतेर्भेदे किश्चिन्मानमस्ति। न च"इन्द्रो मायाभिः इति श्रुतिर्मान- म् "अजामेकाम्" इत्यायनेकश्रुतिबलेन लाघवतर्कसहायेन तस्याः श्रुतेर्वुद्धिभेदेन मायाभेदानुवादित्वात्। तदुक्तं सुरेश्वराचार्येः "स्वतस्त्व- विद्याभेदोऽत्र मनागपि न विद्यते" इति। साङ्ग्योगाचार्याः पुराणे- तिहासकर्तारश्ष मूलप्ररुत्यैक्यं वदन्ति। नन्वविबैक्ये बन्धमुक्तिव्य- वस्था कथम्?न च व्यवस्था नास्तीति वार्च्य श्रवणे प्रवृत्यादिबाधापा- तादिति चेतू, उच्यते। ये हविद्यानानात्वमिच्छन्ति तैरपि परिणामित्वे- न सांशत्वमविद्याया अङ्गीकार्य, तथा चानर्थात्मकस्वीयसङ्घातात्म- ना परिणता विद्यांशोपहित जीवभेदाव्यवस्था सिध्यति। यस्य ज्ञानमन्त :- करणे जायते तस्यान्त:करणपरिणाम्यज्ञानांशनाशो मुक्तिरिति। एवं च
Page 290
(२६८) रत्नप्रभाभासिते [अ० १। पा० २१ वोपाधिभूर्त सर्वस्माद्विकारात् परो योऽविकार: तस्मात् परतः परं इति भेदेन व्यपदेशातू पर- मात्मानमिह विवक्षितं दर्शयति। नात्र प्रधानं नाम किश्चित् स्वतन्त्रं तत्त्वमभ्युपगम्यं तस्मा- द्वेदव्यपदेश उच्यते। किं तर्हि। यदि प्रधानम- पिकल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्द- वाच्यं भूतसूक्ष्मं परिकल्प्येत परिकल्प्य तां त- स्माद्गेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येत- दिह प्रतिपाद्यते ॥२२॥ कुतश्र परमेश्वरो भूतयोनिः। रूपोपन्यासाच॥ २३॥ अपि च "अक्षरात् परतः परः" इत्यस्यान- न्तरं "एतस्माजायते प्राणः" इति प्राणप्रभृती- श्रोतुः स्वरूपानन्दप्राप्तिः श्रवणादौ प्रवृत्तिविद्ददनुभवो जीवन्मुक्ति- शास्त्रं चेति सर्वमबाधितं भवति। न चैवं नानाजीवपक्षादविशेष मूलप्ररुतिनानात्वाभावादित्यलम् परत्वे हेतुः ॥। अविकार इति॥ ननु सूत्रकता श्रुतौ प्रधानाज्वेदव्यपदेश उक्तस्तत्र कथमज्ञानान्गे- दोक्तिर्व्याख्यायते तत्राह॥| नान्रेति । कार्यात्मना प्रधीयत इति प्रधानमज्ञानमेव । ततोऽन्यस्याप्रामाणिकत्वादित्यर्थः । अतोऽत्ाज्ञा- नमेव भूतयोनिरिति पूर्वपक्षं कत्वा निरस्यते। तन्निरासेनार्थात् सा- डून्यकल्पितप्रधाननिरास इति मन्तव्यम् ॥ २२ ॥ वृत्तिकन्मतेना- दौ सूत्रं व्याचष्टे ।। अपि चेत्यादिना । "प्राणो मनः सर्वेन्द्वि-
Page 291
सू० २३ । अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (२६९) नां पृथिवीपर्यन्तानां तत्वानां स्वर्गमुक्का तस्यै- व भूतयोने: सर्वविकारात्मकं रूपमुपन्यस्य- मानं पश्यामः।"अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यो दिश: श्रोत्रे वाग्विदताश्र् वेदा:।वायुः प्राणो ह- दयं विश्वमस्य पङ्धयां पृथिवी त्येष सर्वभूता- न्तरात्मा" इति। तच्च परमेश्वरस्यैवोचितं सर्व- विकारकारणत्वान्न शारीरस्य तनुमहिस्नो नापि प्रधानस्यायं रूपोपन्यासः सम्भवति सर्वभू- तान्तरात्मव्वासम्भवात्, तस्मात् परमेश्वर ए- व भूतयोनिर्नेतराविति गम्यते। कथं पुनर्भूतयो- नेरयं रूपोपन्यास इति गम्यते। प्रकरणात्। "एषः" इति च प्रकृतानुकर्षणाद्गूतयोनिं हि प्र- कृत्य "एतस्माजायते प्राणैः""एष सर्वभूतान्त- रात्मा" इत्यादिवचनं भूतयोनिविषयमेव भ- वति। यथोपाध्यायं प्रकृत्य "एतस्मादधीष्व एष वेदवेदाङ्गपारगः" इति वचनं उपाध्याय- विषयं भवति तद्वत्। कथं पुनरदृश्यत्वादिगुण- याणि च खं वायुर्ज्योतिरापः पृथिवी"इति श्रुतिः। "अग्निर्युलोकः असौ वाव लोको गोतमाग्निः" इति श्रुतेः । विवृताः वेदाः वागित्य- न्वयः। पञ्चचां पादावित्यर्थः। यस्येदं रूपं स एष सर्वप्राणिनामन्तरात्मे- त्यर्थः। तनुमहिम्न इति अल्पशकेरित्यर्थः । यथा कश्वत् ब्रह्मवित् स्वस्य सर्वात्मत्वप्रकटनार्थमहमन्नमिति साम गायति न त्वन्नत्वादि-
Page 292
(२७० ) रत्नप्रभाभासिते [अ० १ । पा ० २। कस्य भूतयोने विग्रहवद्रूपं सम्भवति। सर्वात्म- व्वविवक्षयेदमुच्यते न तु विग्रहतत्त्वविवक्षये- त्यदोषः। "अहमन्नमहमन्नादः" इत्यादिवत्। अन्ये पुनर्मन्यन्ते नायं भूतयोने रूपोपन्यासः जायमानव्वेनोपन्यासात् “एतस्माजायते प्रा- णो मनः सर्वेन्द्रियाणि च खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी" इति हि पूर्वत्र प्राणा- दिपृथिव्यन्तं तत्वजातं जायमानत्वेन निरदि- क्षत्। उत्तरत्रापि च"तस्मादन्निः समिधो यस्य सूर्य:" इत्येवमादि, "अतश्र सर्वा ओषधयो रसश्र" इत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यति। इहैव कथमकस्मादन्तराले भूतयोने रूपमुपन्य- स्येत। सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदे- क्ष्यति "पुरुष एवेदं विश्वं कर्म" इत्यादिना। कमात्मनो विवक्षति । अफलत्वात्, तथेहापीत्याह॥ अहमन्नमि- ति। वृत्तिव्याख्यां दूषयति ॥अन्ये पुनरिति॥ "एष सर्वभूतान्तरा- त्मा सूत्रात्मा एतस्माद्ूतयोनेर्जायते"इति श्रुत्यन्वयेन हिरण्यगर्भस्या- न् जायमानत्वेनोपन्यासादित्यर्थः। निरदिक्षदवोचदित्यर्थः। अग्निर्थुलो- को यस्य समिदूप: सूर्य: सोऽपि दुलोकान्निस्तस्मादजायतेत्यर्थः। "त- स्यादित्य एव समितू" इति श्रुत्यन्तरात्। अतो मध्येऽपि सृष्टिरेव वाच्या न रूपमिति भावः । यदुक्तमग्निर्मूर्धेत्यत्र भूतयोनेः सर्वात्मत्वं विवक्षितमिति तन्नेत्याह॥ सर्वात्मत्वमपीति॥ ननु हिरण्यगर्भस्य
Page 293
सू० २३ । अ ० ५ ] शाङ्करब्रह्मसूत्रभाष्ये (२७१) श्रुतिस्मृत्योश्र् त्रैलोक्यशरीरस्य प्रजापतेर्ज- न्मादिनिर्दिश्यमानमुपलभामहे "हिरण्यगर्भः समवर्तताय्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हवि- षा विधेम" इति समवर्ततेत्यजायत इत्यर्थः । तथा "स वै शरीरी प्रथमः स वै पुरुष उच्यते, आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत"॥ इति च। विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममव- स्थानात्। अस्मिन् पक्षे"पुरुष एवेदं विश्वं कर्म" इत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहे- तुरिति व्याख्येयम् ॥ २३ ।। जन्मान्यत्रानुक्तं कथमत्र वक्तव्यं तत्राह॥ श्रुतीति॥अग्रे समवर्तत जातः सन् भूतग्रामस्यैकः पतिरीश्वरप्रसादादभवत् स सूत्रात्मा या- मिमां पृथिवीं च स्थूलं सर्वमधारयत् । कशव्दस्य प्रजापतिसंज्ञात्वे सर्वनामत्वाभावेन स्मा इत्ययोगादेकारलोपेनैकस्मै देवाय प्राणात्म- ने हविषा विधेम परिचरेमेति व्याख्येयम्। "कतम एको देव इति प्रा- णः" इति श्रुतेः।यद्दा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः।"एको देवः सर्वभूतेषु गूढः" इति श्रुत्यन्तरात्। ननु तस्य भूतान्तरात्मत्वं कथम्? तत्राह॥ विकारेति ॥ पूर्वकल्पे प्रकष्टोपासनकर्मसमुच्च- यानुष्ठानादस्मिन् कल्पे सर्वप्राणिव्यष्टिलिङ्गानां व्यापकं सर्वप्राण्य- म्तर्गतं ज्ञानकर्मेन्द्रियप्राणात्मकसमष्टिलिङ्गशरीरं जायते तद्रूपस्य सू- त्रात्मनः सर्वभूतान्तरात्मत्वं युक्तमित्यर्थः । स्वपक्षे सूत्रार्थमाह॥अ-
Page 294
(२७२) रत्नप्रभाभासिते [अ०१।पा० २। वैश्वानरःसाधारणशब्दविशेषात् २४।। "को न आत्मा कि ब्रह्मेति आत्मानमेवेमं वैश्वा- नरं सम्प्रत्यध्येषितमेव नो ब्रूहीति" इति चो- पक्रम्य द्युसूर्यवाय्वाकाशवारिपृथ्वीनां सुतेज- स्त्वादिगुणयोगमेकैकोपासननिन्दया च प्रत्ये- स्मिन् पक्ष इति॥ कर्म सफलं सर्व श्रौतस्मार्तादिकं तपश्र पुरुष ए- वेति सर्वान्तरत्वरूपोपन्यासाच्च भूतयोनौ ज्ञेये वाक्यं समन्वितमि- त्यर्थः ॥ २३ ॥ वैश्वानरः ॥ छान्दोग्यमुदाहरति ॥ को न इति॥ प्रा- चीनशालसत्ययज्ञेन्द्रयुम्नजनकबुडिला मिलित्वा मीमांसाश्चकु: को न आत्मा किं ब्रह्मेति। आत्मैव ब्रह्मेति ज्ञापनार्थ पदद्दयम्। ते प- श्चापि निश्वयार्थमुद्दालकमाजन्मुः। सोऽपि सम्यक् न वेदेति तेनो- द्दालकेन सह षडप्यश्वपतिं कैकेयं राजानमागत्योचुः आत्मानमिति अध्येषि स्मरसि तमेव नो ब्रूहीति। राजा तु तेषां भ्रान्तिनिरासार्थ तान् प्रत्येकमपृच्छत्, 'कं त्वमात्मानमुपास्से कं त्वमात्मानमुपास्से?' इति। ते च प्राचीनशालादयः क्रमेण तं प्रत्येकमूचुः। दिवमेवाहं वैश्वानरं वेदि। आदित्यमेवाहं वेदनि। वायुमेव। आकाशमेव। अप एव। पृथिवीमेवाहं वेन्मीति। ततो राजा युसूर्यादीनां षण्णां यथा-
गुणान् विधाय भवन्तो यादि मामपृष्टा बुसूर्यादिषु भगवतो वैश्वान- रस्याङ्गेष्वेव प्रत्येकं वैश्वानरत्वदृष्टयो भवेयुसतदा क्रमेण मूर्धपातान्धत्व- प्राणोत्क्मणदेहविशीर्णत्ववस्तिभेदपादशोषा भवतां स्युरिति प्रत्ये- कोपासनं निन्दित्या सुतेजस्त्वगुणको बुलोकोऽस्यात्मनो वैश्वानरस्य मूर्धा विश्वरूपत्वगुणकः सूयों यस्य चक्षुरित्येवं बुसूर्यादीनां मूर्धादि-
Page 295
सू. २४। अ०७ ] शाङ्गरब्रह्मसूत्रभाष्ये (२७३) षां मूर्धादिभावमुपदिश्याम्न्नायते "यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपा- स्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्व- न्नमत्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्वक्षुविश्वरूपः प्राणः पृथग्वर्त्मा- त्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः" इ- त्यादि। अत्र संशयः। किं वैश्वानरशब्देन जाठ-
भावमुपादिश्य समस्तवैश्वानरध्यानविधिराम्नायते ॥ यस्त्वेतमिति॥ आभिमुख्येनापरोक्षतया विश्वं विमिमीते जानातीत्यभिविमानः। तं सर्वज्ञं स तदुपासकः सर्वत्र भोगं भुङ्ग इत्यर्थः । लोका भूराद- यो भूतानि शरीराण्यात्मानो जीवा इति भेद: सुष्टु तेजः कान्तिर्यस्य ुलोकस्य स सुतेजाः विश्वानि रूपाणि अस्य सूर्यस्य। "एष शु्क एष नीलः" इति श्रुतेः। पृथक् नानाविधं वर्त्मगमनं आत्मा स्वभा- वो यस्य वायोः स नानागतित्व गुणकोडस्य प्राणः बहुलत्वं व्यापि- त्वं तद्गुण आकाशोऽस्य सन्देहो देहमध्यं रयित्वं धनत्वं तद्रुणा आपो यस्य बस्तिर्मूत्रस्थानं, प्रतिष्ठात्वगुणा पृथिवी तस्य पादौ, तस्य होमाधारत्वं सम्पादयति॥ उर एवेत्यादिना ॥ पूर्वमुपक्रमस्थाद- श्यत्वादिसाधारणवर्मस्य वाक्यशेषस्थसर्वज्ञत्वादिलिङ्गेन ब्रह्मनिष्ठ- त्वमुक्तं तद्ददत्राप्युपक्रमस्थसाधारणवैश्वानरशब्दस्य वाक्यशेषस्थहो- माधारत्वलि्गिन जाठरनिष्ठत्वमिति दृष्टान्तेन पूर्वपक्षयति॥किं ताव- दित्यादिना। पूर्वोत्तरपक्षयोर्जाठरब्रह्मणो्ध्यानं फलम्। यद्यते तदलं ३५
Page 296
(२७४) रत्नप्रभाभासिते [अ० १।पा० २। रोऽग्निरुपदिश्यत उत भूताग्निरथ तदभिमानि- नी देवता अथ वा शारीर आहोस्वित् परमेश्वर इति। किं पुनरत्र संशयकारणं। वैश्वानर इति जाठरभूतान्निदेवतानां साधारणशब्दप्रयोगा- दात्मेति च शारीरपरमेश्वरयोः। तत्र कस्योपा- दानं न्याय्यं कस्य वा हानमिति भवति संशयः ।किं तावत् प्राप्तं जाठरोऽग्निरिति। कुतः। तत्र हि विशेषण क्वचित्प्रयोगो दृश्यते अयमननिर्वैशान- रो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदि्दम- द्यते" इत्यादौ।अग्निमात्रं वा स्यात्सामान्येनापि प्रयोगदर्शनात् "विश्वस्मा अभनिं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्" इत्यादौ।अग्निशरी- रा वा देवता स्यात् तस्यामपि प्रयोगदर्शनात् "वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवना- नामभिश्रीः" इत्येवमाद्यायाः श्रुतेर्देवतायामै- शवर्याद्युपेतायां सम्भवात्। अथात्मशब्दसामा- येन पच्यते सोऽयं पुरुषशरीरेऽन्तरस्तीत्यर्थः । पक्षान्तरमाह॥ अग्नि- मात्रं चेति।। विश्वस्मै भुवनाय वैश्वानरमग्निमङ्गां केतुं चिङ्ग सूर्य देवा अरुण्वन् कृतवन्तः । सूर्योदये दिनव्यवहारादित्यर्थः । स्याद्वै- श्वानर इत्यनुषङ्गः । हि यस्मात् कं सुखप्रदो भुवनानां राजा वैश्वा- नरो Sभिमुखा श्रीरस्येत्यभिश्रीरीश्वरः। तस्मात् तस्य वैश्वानरस्य सु- मतौ वयं स्याम तस्यास्माद्विपया शुभमतिर्भवत्वित्यर्थः। पक्षत्रयेऽप्य-
Page 297
सू० २४। अ०७] शाङ्करब्रह्मसूत्रभाष्ये (२७५) नाधिकरण्यात् उपक्रमे च "को न आत्मा किं तदू ब्रह्म" इतिकेवलात्मशब्दप्रयोगादात्मशब्द- वशेन वैश्वानरशब्दः परिणेय इत्युच्यते। तथापि शारीर आत्मा स्यात् तस्य भोककृत्वेन वैश्वा- नरसन्निकर्षात्, प्रादेशमात्रमिति च विशेषण- स्य तस्मिन् उपाधिपरिच्छिन्ने सम्भवात्। त- स्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते। तत इदमुच्य- ते वैश्वानरः परमात्मा भवितुमर्हति। कुतः।सा- धारणशब्दविशेषात्। साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः । यद्यप्येतावुभावप्या- त्मवैश्वानरशब्दौ साधारणशब्दौ, वैश्वानरश- ब्दस्तु त्रयाणां साधारणः, आत्मशब्दश्र् द्योः तथापि विशेषो दृश्यते येन परमेश्वरपरत्वं तयो- रभ्युपगम्यते "तस्य ह वा एतस्यात्मनो वैश्वा- नरस्य मूर्धैव सुतेजाः" इत्यादि। अत्र हि परमे- रुचिं वदन् कल्पान्तरमाह॥अथेत्यादिना ॥"आत्मा वैख्वानरः" इति श्रुतेरित्यर्थः। केवलत्वं वैश्वानरशब्दशून्यत्वम्।अत्र जाठरो वैश्वानर इ- ति मुख्यः पूर्वपक्ष: प्राणाग्निहोत्रहोमाधारत्वलिङ्गात्। तस्य देहव्या- पित्वादात्मत्वम्। श्रुत्या दुमूर्द्धत्वादिकल्पनया बृहत्वाद्रह्मत्वमिति ध्येयम्। सिद्धान्तयति ॥। तत इदमिति॥ साधारणश्रुत्योरुपक्रम- स्थयोविशेषात् प्रथमश्रुतमुख्यन्रैलोक्यशरीरलिङ्गात् । सर्वात्मकेश्घर- परत्वं युक्तं न चरमश्रुतकल्पितहोमाधारत्वं लिङ्गेन जाठरपरत्वमि- त्यर्थः। ननु निर्विशेषस्य कुतो विशेष इत्यत आह ॥। अत्र हीति॥
Page 298
(२७६) रत्नप्रभाभासित [अ० १। पा०२।
त्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते। कारणत्वात्। कारणस्य हि सर्वाभिः कार्यगता- भिरवस्थाभिरवस्थावत्वाद् घुलोकाद्यवयवत्व- मुपपद्यते। "स सर्वेषु लोकेषु सर्वेषु भूतेषु स- रवैष्वात्मस्वन्नमत्ति" इति च सर्वलोकाद्याश्र- यं फलं श्रूयमाणं परमकारणपरिग्रहे सम्भव- ति। "एवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति च तद्विदः सर्वपापप्रदाहश्रवणं। "को न आत्मा किं तद् ब्रह्म" इति चात्मब्रह्मशब्दाभ्यामुपक्र- म इत्येवमन्तानि ब्रह्मलिङ्गानि परमेश्वरमेव ग- मयन्ति। तस्मात् परमेश्वर एव वैश्वानरः॥२४॥ स्मर्थमाणमनुमानं स्यादिति।२५॥ इतश्र परमेश्वर एव वैश्वानरः, यस्मात् प- रमेश्वरस्यैवान्निरास्यं द्यौर्मूर्धेतीद्शं त्रैलोक्या- त्मकं रूपं स्मर्यते "यस्याननिरास्यं दयौर्मूर्द्वा खं नाशिश्वरणौ क्षिति: सूर्यश्र्क्षुर्दिशः श्रोत्रे तस्मै अवस्थान्तरगतः त्रैलोक्यात्मना स्थित इत्यर्थः। जाठरस्यापि ध्या- नार्थ विशेषकल्पनेति चेतू, न, असत्कल्पनापत्तेः । ईश्वरस्य तु उ- पादानत्वाद्दिशेष: सन्नेव ध्यानार्थ उच्यतामित्याह ।। कारणत्वादि- ति। लिङ्गान्तराण्याह ॥ स सर्वेष्वित्यादिना ॥ यथान्नौ विक्षिप्- मिषाकातूलं दहते एवं हास्य विदुष इत्यर्थः॥ २४ ॥ नन्वसदारो-
Page 299
सू०२६। अ० ७ ] शाङ्करब्रह्म सूत्रभाष्ये (२७७ ) लोकात्मने नमः"इति तत् स्मर्यमाणं रूपं मूल- भूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य प- रमेश्वरपरत्वेनानुमानं लिङ्गं गमकं स्यादित्य- र्थः। इतिशब्दो हेत्वर्थे यस्मादिदं गमकं लिङ्गं तस्मादपि वैश्वानरः परमात्मैवेत्यर्थः । यद्यपि स्तुतिरियं तस्मै लोकात्मने नम इति। स्तुतित्व- मपि नासति मूलभूते वेदवाक्ये सम्यगीद्टशेन रूपेण सम्भवति। "द्ां मूर्द्ानं यस्य विप्रा वदन्ति खं वै नाभि चन्द्रसूर्यो च नेत्रे। दिश: श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता"॥ इत्येवंजातीयका च स्मतिरिहोदाहर्तव्या।।२५।। शब्दादिभ्योऽन्तःप्रतिष्ठानाच नेतिचेन्न तथा दृध््युपदेशादसम्भवात् पुरुषमपि चैनमधीयते॥२६॥ अत्राह न परमेश्वरो वैश्वानरो भवितुमर्हति पेणापि स्तुतिसम्भवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह॥ यद्यपि स्तुति- रिति ॥ तथापीति पदमर्थतः पठति ॥ स्तुतित्वमपीति। युमूर्घ- त्वादिरूपेण स्तुतिर्नरमात्रेण कर्तुमशक्या विना श्रुतिमित्यर्थः । सता रूपेण स्तुतिसम्भवान्नासदारोप इति भाव:॥ २५॥ शब्दादीनां
Page 300
(२७८) रत्नप्रभाभासिते [अ० १। पा० २ । कुतः। शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च।शब्दस्ता- वद्वैश्वानरशब्दो न परमेश्वरे सम्भवति, अर्था- न्तरे रूढत्वात्। तथाSग्निशब्दः “स एषोऽगनिर्वै- श्वानरः" इति। आदिशब्दाद् हृदयगार्हपत्य इ- त्याद्यननित्रेताप्रकल्पनं। तद्यद्गक्तं प्रथममाग- च्छेत् तद्दोमीयमित्यादिना च प्राणाहुत्यधिक- रणतासङ्गीर्तनम्। एतेभ्यो हेतुभ्यो जाठरो वै- श्वानरः प्रत्येतव्यः। तथान्तःप्रतिष्ठानमपि श्रू- यते "पुरुषेऽन्तःप्रतिष्ठितं वेद" इति तच्च जाठरे सम्भवति यदप्युक्तं "मूर्धैव सुतेजाः" इत्यादे- विशेषात् कारणात् परमात्मा वैश्वानर इत्यत्र ब्रूमः। कुतो त्येष निर्णयो यदुभयथापि विशेष- प्रतिभाने सति परमेश्वरविषय एव विशेष आ- गतिं वक्तुमुक्तसिद्धान्तमाक्षिप्य समाधन्ते॥ शब्दादिभ्य इति ॥"स एषोडग्निर्वैश्ानर" इत्यग्निरहस्ये वैश्वानरविद्यायां श्रुतोSगनिशब्द ईश्वरे न सम्भवतीत्यन्वयः । सूत्रस्थादिशब्दार्थमाह ॥ आदिशब्दादिति॥ भक्तमन्नं होमीयं होमसाधनं तेन प्राणाग्निहोत्रं कार्यमित्यर्थः। वा- जसनेयिनामग्निरहस्ये सप्रपश्चां वैश्वानरविद्यामुत्ता "स यो हैत- मत्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वत्रान्नमत्ति" इत्युक्तं देहान्तरस्थत्वं जाठरे सम्भवति प्रसिद्धेरित्याह॥ तथेति॥ अत्र सूत्रे आदिपदेनैवान्तःप्रतिष्ठानस्य ग्रहे सम्भवति पृथगुक्तिः साधारणलिङ्गत्वयोतनार्था, शब्दादिबलादिदमपि जाठरं गमयती- त्यभ्युच्चयः। यव्यपि युमूर्द्धत्वादिविशेष ईश्वरपक्षपाती होमाधारत्वा-
Page 301
सू ० २६। अ०७ ] शाङ्करब्रह्मसूत्रभाष्ये (२७९) श्रयणीयो न जाठरविषय इति। अथवा भू- ताग्नेरन्तर्वहिश्र्वावतिष्ठमानस्यैष निर्देशो भवि- ष्यति। तस्यापि हि भूलोकादिसम्बन्धो मन्त्र- वर्णादवगम्यते "यो भानुना पृथिवीं द्यामुतेमा- माततान रोदसी अन्तरिक्षम" इत्यादौ। अ- थ वा तच्छरीराया देवताया ऐश्वर्ययोगाद् द्यु- लोकाद्यवयवत्वं सम्भवति। तस्मान्न परमेश्वरो वैश्वानर इति। अत्रोच्यते। न तथा दृष्टयुपदेशा- दिति। न शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम्।कुतः! तथा जाठरापरित्या- गेन दष्टयुपदेशात्। परमेश्वरदृष्टिर्हि जाठरे वै- श्वानर इहोपदिश्यते "मनो ब्रह्मेत्युपासीतइ- त्यादिवत्। अथ वा जाठरवैश्वानरोपाधि: पर- मेश्वर इह द्रष्टव्यत्वेनोपदिश्यते "मनोमयः प्रा-
दिर्जाठरपक्षपातीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न सम्भवतीति बलवानित्यत आह॥ अथ वेति॥ एष युमूर्त्वादि- निर्देश इत्यर्थः । इमां पृथिवीं दयामपि ते एव यावापृथिव्यौ रोदसी तयोर्मध्यमन्तरिक्षं च यो भूताग्निर्भानुरूपेणाततान व्याप्वान् स ध्यातव्य इत्यर्थः। जडमात्रस्य न ध्येयत्वमित्यत आह॥ अथ वेति॥ सिद्धान्तयति ॥न तथा दष्टयुपदेशादितीति॥परमेश्वरदृष्ट्योपास्य-
श्वरो लक्ष्य इत्युक्क्ता कल्पान्तरमाह ॥ अथ वा जाठर इति ॥ अ-
Page 302
(२८०) रत्नप्रभाभासिते [अ० १।पा० २। णशरीरो भारूपः इत्यादिवत्। यदि चेह पर- मेश्वरो न विवक्ष्येत, केवल एव जाठरोSग्निर्विव- क्ष्येत, ततो "मूर्ैव सुतेजाः" इत्यादेर्विशेषस्या- सम्भव एव स्यात्। यथा तु देवताभूतान्निव्यपा- श्रयेणाप्ययं विशेष उपपादयितुं न शक्यते, तथोत्तरसूत्रे वक्ष्यामः। यदि च केवल एव जाठ- रो विवक्ष्येत पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यात्, न तु पुरुषत्वं, पुरुषमपि चैनमधीयते वाजसनेयिनः "स एषोऽननिर्वैश्वानरो यत् पु- रुष: स यो हैतमेवमन्निं वैश्वानरं पुरुषविधं पु- रुषेन्तःप्रतिष्ठितं वेद" इति । परमेश्वरस्य तु सर्वात्मत्वात् पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चो अयमुपपद्यते। ये तु पुरुषविधमपि चैनमधीय- ये इति सूत्रावयवं पठन्ति तेषामेषोऽर्थः। केवल- जाठरपरिग्रहे पुरुषेन्तःप्रतिष्ठितत्वं केवलं स्या- त्, न तु पुरुषविधत्वम् । पुरुषविधमपि चैनम- स्मिन् पक्षे प्राधान्येनेश्वरोपास्यता, पूर्वत्र गुणतयेति भेदः । उपाधि- वाचिभ्यां पदाभ्यामुपहितो लक्ष्य इत्यर्थः। लक्षणाबीजमसम्भवं व्या- चष्टे॥ यदि चेति॥ पुरुषमपीत्यादिसूत्रशेषं व्याचष्टे। यदि च केवल इति ॥ ईश्वरप्रतीकत्वोपाधित्वशून्य इत्यर्थो विवक्ष्येत तदेति शेषः। यथ: पुरुषः पूर्णः, स एषोडन्निवैश्वानरशब्दितजाठरोपाधिक इति श्रु- त्यर्थः। यो वेद स सर्वत्र भुङ्क्त इत्यर्थः। पुरुषत्वं पूर्णत्वमचेतनस्य
Page 303
सू० २७।अ०७ ] शाङ्करबरह्मसूत्रभाष्ये (२८१) धीयते वाजसनेयिनः "पुरुषविध पुरुषेन्तःप्र- तष्ठितं वेद" इति पुरुषविधव्वं च प्रकरणात्। य
यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादिचुबुकप्रतिष्ठित त्वान्तं, तत् परिग्ृस्यते॥ २६॥ अत एव न देवता भूतं च ॥ २७ ।। यत् पुनरुक्तं भूताग्नेरपि मन्त्रवर्णेद्युलोकादि- सम्बन्धदर्शनात् “मूर्धैव सुतेजा" इत्याद्यवयव- कल्पनं तस्यैव भविष्यतीति तच्छरीराया देव- ताया वा ऐश्वर्ययोगादिति तत् परिहर्तव्यमत्रो- च्यते।अत एवोक्तेभ्यो हेतुभ्यो न देवता वैश्वान- रः,तथाभूतान्निरपि न वैश्वानरः।न हिभूतान्नेरौ- षण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनो- जाठरस्य नेत्युक्त्ा पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह॥ ये त्विति॥ ननु जाठरस्यापि देहव्यापित्वात् तद्दिधत्वं स्यादित्यत आह॥ पुरुषविधत्वं च प्रकरणादिति ॥ न देहव्यापित्वं पुरुषवि- धत्वं किन्तु विराड्देहाकारत्वमधिदैवं पुरुषविधत्वमध्यात्मं चोपासक- मूर्द्धादिचुबुकान्तेष्वङ्गेषु सम्पन्नत्वमीश्वरस्य पुरुषविधत्वमित्यर्थः ॥ २ ६ ॥ ईश्ववरस्याङ्गेषु सम्पत्तिर्वक्ष्यते। एवं जाठरं निरस्य पक्षह्वयं निरस्यति ॥ अत एवेति॥ सूत्रं व्याचष्टे ॥। यत् पुनरित्यादिना॥ धुमूर्द्धत्वादि:, सर्वलोकफलभात्त्ं, सर्वपाप्मप्रदाहः, इति आत्मब्रह्म- शब्दोपक्रम एते उक्तहेतवः। तानेव स्मारयति ॥ न हि भूताग्नेरित्या ३६
Page 304
(२८२) रत्नप्रभाभासिते [अ० १। पा० २। पपद्यते विकारस्य विकारान्तरात्मत्वासम्भवा- त्। तथा देवतायाः सत्यप्यैश्वर्ययोगे न घुमूर्द- त्वादिकल्पनासम्भवति, अकारणत्वात् परमे- श्वराधीनैश्वर्यत्वाच्च। आत्मशब्दासम्भवश्र स- र्वेष्वेषु पक्षेषु स्थित एव ।२७।। साक्षादप्यविरोधं जैमिनिः॥२८॥ पूर्व जाठरान्निप्रतीको जाठरान्युपाधिको वा परमेश्वर उपास्य इत्युक्तमन्तःप्रतिष्ठितत्वा- द्यनुरोधेन, इदानीं तु विनैव प्रतीकोपाधिकल्प- नाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे न कश्रिविद्विरोध इति जैमिनिराचार्यो मन्यते। ननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दा- दीनि च कारणानि विरुद्धयेरन्निति। अत्रोच्यते। दिना॥ यो भानुनेति मन्त्रेणेश्वरदृष्ट्या महिमोक्त इति भावः॥२७॥पू- र्वमग्निवैश्वानरशब्दावीश्वरलक्षकावित्युक्तं, अधुना प्रतीकोपाधिपरित्या- गेन विराद्पुरुषाकारस्य भगवतो वैश्वानरस्याध्यात्ममूर्धादि चुबुकान्ते- षु सम्पाद्योपास्यत्वाङ्गीकारेऽपि न शब्दादिविरोध: शब्दयोरीश्वरे यो- गवृच्या मुख्यत्वादन्तःस्थत्वादीनां च तत्र सम्भवादित्याह॥ साक्षा- दपीति। साक्षात्पदस्यार्थमाह ॥। विनैवेति॥ जाठराग्निसम्बन्धं विनेश्वरस्योपास्यत्वेऽपि शब्दायविरोधं जैमिनिर्मन्यत इत्यर्थः । इद- मन्तस्थत्वमुदरस्थत्वरूपं नोच्यते किन्तु नखादिशिखान्तावयवसमु- दायात्मकपुरुषशरीरे मुर्धादिचुबुकान्ताङ्गानि वृक्षे शाखावत्प्ति-
Page 305
सू० २८.।अ०७ ] शाङ्करब्रह्मसूत्रभाष्ये (२८३) अन्तःप्रतिष्ठितत्ववचनं तावन्नविरुध्यते। न ही- ह "पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदे"ति जाठ- राग्न्यभिप्रायेणेदमुच्यते तस्थाप्रकृतत्वादसंश- व्दितव्वाच्च। कथं तर्हि यत् प्रकृतं मूर्द्ादिषु चुबु- कान्तेषु पुरुषावयवेषु पुरुषविधव्वं कल्पितं तद- भिप्रायेणेद मुच्यते "पुरुषविधं पुरुषेऽन्तःप्रतिष्ठि- तं वेदे"ति, यथा वक्षेशाखां प्रतिष्ठितां पश्यतीति तद्दत्। अथ वा यः प्रकृत: परमात्माऽध्यात्मम- धिदैवतं च पुरुषविधत्वोपाधिः, तस्य यत् केवलं साक्षिरूपं तदभिप्रायेणेदमुच्यते "पुरुषविधं पु- रुषेऽन्तःप्रतिष्ठितं वेदे" ति।निश्चिते च पूर्वापरा- लोचनवशेन परमात्मपरिग्रहे तद्विषय एव वैश्वा नरशब्दः केनचिद्योगेन वर्तिष्यते, विश्वश्र्वायं नरश्र्वेति, विश्वेषां वाडयं नरः, विश्वेवानरा अ- स्येति विश्वानरः परमात्मा सर्वात्मत्वात्, वि- प्वितानि, तेषु सम्पन्नो वैश्वानरः पुरुषेऽन्तःप्रतिष्ठित इत्युच्यते। अतो यथा शाखास्थस्य पक्षिणो वृक्षान्तस्थत्वं तथा वैश्वानरस्य पुरुषान्तः- स्थत्वमित्याह ।। न हीह पुरुषविधमित्यादिना। अग्न्यादिशब्द- स्येश्वरवादित्वाज्जाठराग्रेरसंशब्दितत्वम्। अन्रेश्वरस्य पुरुषावयवेषु स- म्पादनात् पुरुषविधत्वमन्तस्थत्वं चेत्यर्थः। पक्षान्तरमाह॥अथ वेति॥ पुरुषविधत्वं पूर्ववत्। अन्तःस्थत्वं माध्यस्थ्यं साक्षित्वमित्यर्थः। ए- वमन्तःस्थत्वमीश्वरे व्याख्याय शब्दादीति व्याचष्टे।। निश्चिवते चेति॥
Page 306
(२८४) रत्नप्रभाभासिते [अ०१।पा०२। श्ानर एव वैश्वानरस्तद्ितोऽनन्यार्थो राक्षस- वायसादिवत्। अग्निशब्दोऽप्यग्रणीत्वादियो- गाश्रयणेन परमात्मविषय एव अ्षविष्यति। गा- र्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं च परमा- त्मनोऽपि सर्वात्मत्वादुपपद्यते॥२८॥ कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरु पपद्यते, इति तां व्याख्यातुमारभते॥ अभिव्यक्तेरित्याश्मरथ्य:॥२९॥ अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्व- मभिव्यक्तिनिमित्तं स्यात्। अभिव्यज्यते किल प्रादेशमात्रपरिमाण: परमेश्वर उपासकानां कृ- ते। प्रदेशविशेषेषु हृदयादिषु उपलब्धिस्थानेषु विशेषेणाभिव्यज्यते। अतः परमेश्वरेऽपि प्रा- विश्वश्र्वायं नरो जीवश्र सर्वात्मत्वात्। विश्वेषां विकाराणां वा नरः क- र्ता। विश्वे सर्वे नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तीति विश्वानरः, रक्ष एव राक्षस इतिवत् स्वार्थे तद्धितप्रत्ययः। "नरे संज्ञाया- मू"(६।३।१२९) इति पूर्वपदस्य दीर्घता।अगिधातोर्गत्यर्थस्य निप्रत्य- यान्तस्य रूपमग्निरिति। अङ्ग्यति गमयत्यय्रंकर्मफलं प्रापयतीति अग्नि- रग्रणीरुक्तः । अभितोऽगत इति वा अग्निः,वैश्वानरोपासकस्यातिथिभो- जनात् पूर्व प्राणाम्निहोत्रं विद्याङ्गत्वेन विहितं, तदर्थमग्नित्रेतादिकल्पनं प्रधानाविरोधेन नेतव्यमित्याह॥ गार्हपत्येति ॥२८॥ मात्रां पारि- माणमतिकान्तोSतिमात्र: तस्य विभोरित्यर्थः। उपासकानां कतेऽनु-
Page 307
सू० ३१। अ०७ ] शाङ्करब्रह्मसूत्रभाष्ये (२८५) देशमात्रश्रुतिरभिव्य क्तेरुपपद्यत इत्याश्मरथ्य- आचार्यो मन्यते ॥२९॥ अनुस्मृतेर्बारिः॥३०॥ प्रादेशमात्रहृदय प्रतिष्ठेन वाडयं मनसाऽनु- स्मर्यते तेन प्रादेशमात्र इत्युच्यते। यथा प्रस्थ- मिता यवा: प्रस्था इत्युच्यन्ते तद्वत्। यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसम्बधाद्यज्यते न चेह परमेश्वरगतं किश्च्ित् परिमाणमस्ति य- द् हृदय सम्बन्धाद्व्यज्येत तथापि प्रयुक्तायाः प्रा- देशमात्रश्रुतेः सम्भवति यथा कथच्िदनुस्मर- णमालम्बनमित्युच्यते। प्रादेशमात्रत्वेन वाऽय- मप्रादेशमात्रोऽनुस्मरणीय: प्रादेशमात्रश्रुत्यर्थ- वत्तायै। एवमनुस्मतिनिमित्ता परमेश्वरे प्रादेश- मात्रश्रुतिरिति बादरिराचार्यो मन्यते ॥ ३० ॥ सम्पत्तेरिति जैमिनिस्तथा हि दर्श- यति॥३१॥ सम्पत्तिनिमित्ता वा स्यात् प्रादेशमात्रश्रु- ग्रहाय प्रादेशमात्रोऽभिव्यज्यते प्रदेशेषु वा मीयतेभिव्यज्यत इति प्रादेशमात्र: ॥२९॥ मतान्तरमाह॥अनुस्मृतेरिति॥ प्रादेशेन मन- सा मितः प्रादेशमात्र इत्यर्थः॥ यथा कथश्चिदिति ॥ मनःस्थं प्रा- देशमात्रत्वं स्मृतिद्वारा स्मर्यमाणे कल्पितं श्रुतेरालम्बनमित्यर्थः ॥
Page 308
(२८६) रत्नप्रभाभासिते [अ० १। पा० २। तिः। कुतः१ तथा हि समानप्रकरणं वाजसनेयि- ब्राह्मणं द्युप्रभृतीन पृथिवीपर्यन्तान् त्रैलोक्या- त्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पादयत् प्रादेश- मात्रसम्पत्तिं परमेश्वरस्य दर्शयति। "प्रादेश- मात्रमिव ह वै देवा: सुविदिता अभिसम्पन्नाः तथा नु व एतान् वक्ष्यामि यथा प्रादेशमात्रमेवा- भिसम्पादयिष्यामीति स होवाच मूर्धानमुपदि- शत्रुवाच, एष वा अतिष्ठा वैश्वानरः, इति चक्षु- षी उपदिशन्रुवाच, एष वै सुतेजा वैश्वानरः, इ- ति नासिके उपदिशन्नुवाच, एप वै पृथग्वर्त्मा- सूत्रस्यार्थान्तरमाह।। प्रादेशेति ॥३०॥ सम्प्रति श्रुत्युक्तां प्रादे- शमात्रश्रुतेर्गतिमाह ॥ सम्पत्तेरिति ॥ ब्राह्मणं पठति ॥ प्रादेशमा- त्रमिवेति ।। अपरिच्छिन्नमपीश्वरं प्रादेशमात्रत्वेन सम्पच्या कल्पितं सम्यग्विदितवन्तो देवास्तमेवेश्वरमभिप्रत्यक्केन सम्पन्नाः प्राप्तवन्तो ह वै पूर्वकाले ततो वो युष्मभ्यं तथा ुप्रभृतीनवयवान् वक्ष्यामि, य- था प्रादेशमात्रं प्रादेशपरिमाणमनतिक्रम्य मूर्धायध्यात्माङ्गेषु वैश्वानरं सम्पादयिष्यामीति प्राचीनशालादीन् प्रति राजा प्रतिज्ञाय स्वकी- यमूर्धानमुपदिशन् करेण दर्शयन्नुवाच, एष वै मे मूर्धा भूरादीलाकान- तीत्य उपरि तिष्ठतीत्यतिष्ठाऽसौ बुलोको वैश्वानरः । तस्य मूर्धेति यावत्। अध्यात्ममूर्धावेदेनाधिदैवमूर्धा सम्पाद्य ध्येय इत्यर्थः । एवं- चक्षुरादिपूहनीयम् स्वकीयचक्षुषी दर्शयन् एष वै सुतेजाः सूर्यो वै- व्वानरस्य चक्षुरित्युवाच । नासिकापदेन तन्निष्टः प्राणो लक्ष्यते त-
Page 309
सू० ३२। अ० ७] शाङ्करब्रह्मसूत्रभाष्ये (१८७) त्मा वैश्वानरः, इति मुख्यमाकाशमुपदिशन्नुवा- च, एष वै बहुलो वैश्वानरः, इति मुख्या अप उप- दिशन्नुवाच, एष वै रयिर्वैश्वानरः, इति चुबुकमु- पदिशन्नुवाच, एष वै प्रतिष्ठा वैश्वानरः, इति"। चुबुकमित्यधरं मुखफलकमुच्यते। यद्यपि वा- जसनेयके धौरतिष्ठातव्वगुणा समान्न्नायते, आ- दित्यश्र् सुतेजस्त्वगुणः, छान्दोग्ये पुनर्धोःसु- तेजस्त्वगुणा समाम्नायते, आदित्यश्र विश्व- रूपत्वगुणः, तथापि नैतावता विशेषेण कि- श्रिद्वीयते प्रादेशमात्रश्रुतेरविशेषात् सर्वशाखा- प्रत्ययत्वाच्च। सम्पत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते॥३१॥ आमनन्ति चैनमस्मिन् ॥ ३२॥ आमनन्ति चैनं परमेश्वरमस्मिन् मूर्धचुबु- कान्तराले जाबालाः। "य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति सोऽविमुक्त:
अत्र सर्वत्र वैश्वानरशव्दसतदङ्गपरः। मुखस्थं मुख्यं तस्मिन्नधिदैवं ब- हुलाकाशदृष्टिः मुखस्थलालारूपास्वप्सु रयिशब्दिततदीयबस्तिस्थो- दकदृष्टिः चुबुके प्रतिष्ठा पादरूपा पृथिवी द्रष्टव्या। ननु गुणवैष- म्येण विद्ययोर्भेदादमनिरहस्यश्रुत्यनुसारेण छान्दोग्यस्थप्रादेशमात्र- श्रुतिः कथं व्याख्येयेत्याशङ्ग्याह॥ यद्यपीत्यादिना। एतावताल्प-
Page 310
(२८८) रत्नप्रभाभासिते [अ० १। पा० २ कस्मिन् प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति का वै वरणा का च नासीति"। तत्र चेमामेव नासिकां वरणा नासीति निरुच्य स- र्वाणीन्द्रियकृतानि पापानि वारयति सा वरणा सर्वाणीन्द्रियकतानि पापानि नाशयतीति सा नासीति पुनरामनन्ति।"कतमच्चास्य स्थानं भ- वतीति ध्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यु- लोकस्य परस्य च सन्घिर्भवति" इति। त- स्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः।अभि- विमानश्रुतिः प्रत्यगात्मत्वाभिप्राया। प्रत्यगा- त्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभ्षिवि- मानः। अभिगतो वाडयं प्रत्यगात्मत्वात्। वि- वैषम्येण बहुतरप्रत्यभिज्ञासिद्धं विद्यैक्यं न हीयते शाखाभेदेऽपि सर्व- शाखासु प्रतीयमानं वैश्वानराधयुपासनं एकमिति न्यायस्य वक्ष्यमाण- त्वाच्च । अतिष्ठात्वगुणश्छान्दोग्य उपसंहर्तव्यः । विश्वरूपत्वगुणश्र वाजिभिर्ग्राह्यः। तथा च बुसूर्ययोः सुतेजस्त्वं सममतिष्ठात्वविश्वरू- पत्वयोर्व्यवस्था। यद्दा शाखाभेदेन गुणव्यवस्थाऽस्तु न विद्याभेद इति भावः॥ ३१॥ प्रादेशत्वस्य सम्पत्तिप्रयुक्तत्वे श्रुत्यन्तरं संवादयति॥ आमनन्तीति ॥ य एषोऽनन्तोSपरिच्छिन्न: अतोऽव्यक्तो दुर्विज्ञेयस्तं कथं जानीयामित्यत्रेः प्रश्ने याज्ञवल्क्यस्योत्तरम्, स ईश्वरो अविमुक्ते कामादिभिर्बद्धे जवे भेदकल्पनया प्रतिष्ठित उपास्यः पुनरत्रिप्रश्नः स इत्युत्तरं वरणायामिति। एवं प्रश्नोत्तरे अग्रेडपि जेये। तत्र च श्रुतौ इमामेव भ्रूसहितां नासिकां निरुच्येति भाष्ययोजना। सर्वानिन्द्रि-
Page 311
सू० ३२। अ०७] शाङ्करब्रह्मसूत्रभाष्ये (३८९) मानश्र् मानवियोगादित्यभ्िविमानोऽभिविमि- मीते वा सर्व जगत्कारणत्वादित्यभिविमानः, त- स्मात् परमेश्वर एव वैश्वानर इति सिद्धम्॥३२॥ इति श्रीमच्छारीरकमीमांसाभाष्ये शङरभ्गव- त्पादकृतौ प्रथमाध्यायस्य द्वितीयपादः॥ यकतान् दोषान् वारयतीति वरणा भ्रूः । सर्वान् दोषान् नाशयतीति नासी नासिकेति निर्वचनं श्रुतम्। नासाभ्रुवोजीवद्दारेश्वरस्थानत्वध्या नातू पापवारकत्वमिति मन्तव्यम् । तयोर्मध्येऽपि विशिष्य जीवस्य स्थानं पृच्छति कतमदिति त्रुवोरित्युत्तरम्। प्राणस्थेति पाठेपि घ्राण- स्येत्यर्थः । स एष सन्धिर्धुलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य स- न्धित्वेन ध्येय इत्याह ॥ स एष इति ॥ आभिमुख्येनाहं ब्रह्मेति विमीयते ज्ञायते इत्यभिविमानः प्रत्यगात्मा। अभिगतश्रासौ विमा- नश् सर्वस्वरूपत्वे सत्यानन्त्यान् मानमत्र परिमाणम्। अभिविमि- मीते निर्मिमीते। तस्माद्वैश्वानरवाक्यमुपास्ये ब्रह्मणि समन्वित- मिति सिद्धम्॥ ३२॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोवि- न्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्न- पभायां प्रथमाध्यायस्य द्वितीय: पादः ॥
३७
Page 312
(२९० ) रत्नप्रभाभासिते [अ० १।पा० ३ । नमः परमात्मने। द्युभ्वाद्यायतनं स्वशब्दात् ।१॥ इदं श्रूयते "यस्मिन् घौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्व सर्वैस्तमेवैकं जानथ आत्मा- नमन्या वाचो विमुश्चथामृतस्यैष सेतुः इति। अत्र यदेतद् द्युप्नभृतीनामोतत्ववचनादायतनं नमः परमात्मने।
श्रीराममल्पहृदि भान्तमधीशितारम्। इन्द्रादिवेद्यमखिलस्य च शासितारं ज्योतिर्नभःपदमनिद्रमजं भजेडहम् ॥ एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो द्वि- तीयपादे द्शितः। अधुना यौगिकपदबहुलानां निर्विशेषप्रधानानां वा- क्यानां समन्वयं वक्तुं तृतीयपाद आरभ्यते॥ अतोऽत्राधिकरणानां श्रु- त्यध्यायपादसङ्ग्तयस्तत्र पूर्वमुपक्मस्थसाधारणशव्दस्य वाक्यशे- षस्थयुमूर्द्धत्वादिना ब्रह्मपरत्वमुक्तम्। तद्ददत्राप्युपक्रमस्थसाधारणा- यतनत्वस्य वाक्यशेषस्थसेतुश्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दष्टान्तलक्षणाधिकरणसङ़तिः पूर्वपक्षे प्रधानाद्युपासितिः । सिद्धान्ते निर्विशेषब्रह्मधीरिति फलम्। मुण्डकवाक्यमुदाहरति॥इदमि- ति॥ यस्मिन् लोकत्रयात्मा विराट् प्राणैःसवैंः सह मनः सूत्रात्मकं च- कारादव्याकतं कारणम् ओतं कल्पितं तदपवादेन तमेवाधिष्ठानात्मानं प्रत्यगभन्नं जानथ श्रवणादिना अन्या अनात्मवाचो विमुश्चथ विशेषे- ण निःशेषं त्यजथ एष वाग्विमोकपूर्वकात्मसाक्षात्कारोSमृतस्य मोक्ष-
Page 313
सू ० १। अ० १।] प शाङ्करब्रह्मसूत्रभाष्ये (२९१) किश्च्िदवगम्यते तत् किं परं ब्रह्म स्यादाहो- स्विदर्थान्तरमिति सन्दित्वते। तत्रार्थान्तरं कि- मप्यायतनं स्यादिति प्राप्तम्। कस्मात्। अमृत- स्यैष सेतुरिति श्रवणात्। पारवान हि लोके से- तुः प्रख्यातः।न च परस्य ब्रह्मणः पारवत्वं श- क्यमभ्युपगन्तुमनन्तमपारमिति श्रवणात्। अ- र्ान्तरे चायतने परिगृत्यमाणे स्मृतिप्रसिद्धं प्र- धानं परिग्रहीतव्यं, तस्य हि कारणत्वादायतन- त्वोपपत्तेः। श्रुतिप्रसिद्धो वा वायुः स्यात् "वा- युर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोक: परश् लोक: सर्वाणि च भूतानि सन्द- ब्धानि भवन्ति" इति। वायोरपि विधारणत्व- श्रवणात्। शारीरो वा स्यात्, तस्यापि भोक्त- स्यासारापारदुर्वारसंसारवारिधे: परपारस्य सेतुरिव सेतुः प्रापक इति मातृवत् श्रुतिर्मुमुक्षूनुपदिशति। तत्रायतनत्वस्य साधारणधर्मस्य द- र्शनात् संशयमाह ॥ तत् किमिति ॥ अमृतस्य ब्रह्मणः सेतुरिति षष्ठचा ब्रह्मणो भिन्नत्वेन सेतोः श्रुतत्वादेषशब्दपरामृष्टं बुभ्वायायत- नमब्रह्मैव सेतुरिव सेतुरित्याह ॥। अमृतस्येति ॥ भेदश्रवणात् सेतुरिति श्रवणाच्चेत्यर्थः । तत्र भेदश्रवणं व्याख्यातं, सेतुश्रवणं स्वयं विवृणोति॥ पारवानिति ॥ अनन्तं कालतः, अपारं देशतः, ज- लविधारकमुख्यसेतोर्ग्रहणासम्भवात् गौणसेतुग्रहे कर्तव्ये मुख्यसे- त्वविनाभूतपारवत्वगुणवानेव कश्र्विद् ग्राहः। न तु मुख्यस्यानिय- तविधारणगुणवानीश्वर इति भावः। यथा लोके मणयः सूत्रेण ग्रथिता
Page 314
(२९२) रत्नप्रभाभासिते [अ० १। पा० ३। त्वाद्गोग्यं प्रपञ्चं प्रत्यायतनव्वोपपत्तेरित्येवं प्रा- प इद माह, "दुम्वाद्यायतन"मिति। धौश्र् भू- श्र द्ुभुवौ द्युभुवावादी यस्य तदिदं दयुभ्वादि। यदेतस्मिन् वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगदोतत्वेन निर्दिष्टं त- स्यायतनं परं ब्रह्म भवितुमर्हति। कुतः। स्व- शब्दादात्मशब्दादित्यर्थः। "आत्मशब्दो हीह भवति तमेवैकं जानथ आत्मानम्" इति।आत्म- शब्दश्र परमात्मपरिग्रहे सम्यगवकल्पते ना- र्थान्तरपरिग्रहे। क्चिच्च स्वशब्देनैव ब्रह्मण आ- यतनत्वं श्रूयते "सन्मूलाः सोम्येमाः सर्वाःप्र- जा: सदायतना: सत्प्रतिष्ठाः इति। स्वशब्देनै- व चेह पुरस्तादुपरिष्ठाच्च ब्रह्म सङ्गीत्यते "पुरुष । एवं हे गौतम समष्टिलिङ्गात्मकवायुना स्थूलानि सर्वाणि संदव्धानि ग्रथितानि भवन्तीति श्रुत्यर्थः। आत्मशव्दात् पक्षद्दयमप्ययुक्त मित्यत आह॥इरीरो वेति।सदवितीयत्वेन सेनुशब्दोपपत्तेश्रवेत्यर्थः।नन्वात्मश- ब्दो जीवे सम्भवतीत्यत आह॥ आत्मशब्दश्रेति। उपाधिपरिच्छिन्न- स्य जीवस्य सर्ववस्तुप्रत्यत्कं मुख्यं नास्तीत्यर्थः।उपक्रमस्थसाधारणा- यतनत्वस्य गौणसेतुत्वलिङ्गात् प्रथमश्रुतात्मश्रुत्या ब्रह्मत्वनिश्रय इति भाव:। स्वशब्दादित्यस्यार्थान्तरमाह ॥ क्वचिच्चेति॥ प्रजाना- मुत्पत्तौ सदेव मूलं स्थितावायतनं लयप्रतिष्ठेति ब्रह्मवाचिसत्पदेन छान्दोग्ये ब्रह्मण आयतनत्वश्रुतेरत्रापि तथेत्यर्थः । अर्थान्तरमाह ॥ स्वशब्देनैवेति ॥ यस्मिन् औौरिति वाक्यातू पूर्वोत्तरवाक्ययोः
Page 315
सू० १।अ० १।] शाङ्करब्रह्मसूत्रभाष्ये (२९३) एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्" इति, "ब्रह्मैवेदममृतं पुरस्तात् ब्रह्म पश्राद् ब्रह्म द- क्षिणतश्र्ोत्तरेण" इति च। तत्र त्वायतनायतन- वद्रावश्रवणात् "सर्वे ब्रह्म" इति च सामाना- धिकरण्यात्। यथाऽनेकात्मको वृक्ष: शाखास्क- न्धो मूलं चेत्येवं नानारसो विचित्र आत्मेत्या- शङ्ग सम्भवति तां निवर्तयितुं सावधारणमाह "तमेवैकं जानथ आत्मानम्" इति। एतदुक्तं भवति न कार्यप्रपञ्विशिष्टो विचित्र आत्मा विज्ञेयः । किताहै। अविद्याकृतं कार्यप्रपञ्चं- विद्यया प्रविलापयन्तस्तमेवैकमायतनभूतमा- त्मान जानीथैकरसम् इति। यथा यस्मिन्नास्ते देवदत्तः तदानयेत्युक्त आसनमेवानयति न देवदत्तं तद्वदायतनभूतस्यवैकरसस्यात्मनो वि- ज्ञेयत्वमुपदिश्यते विकारान्ृताभिसम्बन्धस्य
पुरुषब्रह्मादिशब्देन ब्रह्मसङ्कीर्तनान्मध्येऽपि ब्रह्म ग्राह्ममित्यर्थः । पुरुष इति पूर्ववाक्यं, ब्रह्मैवेत्युत्तरवाक्यं, सर्वासु दिक्षु स्थितं सर्व ब्रह्मैवेत्यर्थः। उत्तरेणोत्तरस्यां दिशि उदाहृतवाक्यस्य सविशेषब्रह्मपरत्व- माशङ्क्य वाक्यं व्याचष्टे।तत्रेत्यादिना॥ सामानाधिकरण्याद्दिचित्र आत्मेति सम्बन्धः। यस्मिन् सर्वमोतंतमेवैकमित्येवकारैकशब्दा- भ्यां निर्विशेष ज्ञेयमित्युत्का हेत्वन्तरमाह॥ विकारानृतेति॥विका- रे अनृते कल्पिते अभिसन्धोऽभिमानो यस्य तस्यानर्थभात्केन निन्दाश्रु-
Page 316
(२९४) रत्नप्रभाभासिते [अ० १। पा० ३। चापवाद: श्रूयते "मृत्योः स मृत्युमान्नोति य इह नानेव पश्यति" इति। सर्व ब्रह्मेति तु सामाना- धिकरण्यं प्रपञ्च्विलापनार्थ नानेकरसताप्रति- पादनार्थम् "स यथा सैन्धवघनोऽनन्तरोऽबा- त्यः कृत्स्नो रसघन एवैंवं वा अरेऽयमात्माSन- न्तरोऽबात्य्य: कृत्स्ः प्रज्ञानघन एव" इत्येकर- सताश्रवणात्। तस्माद्दयुभ्वाद्यायतनं परं ब्रह्म। यत् तूक्तं सेतुश्रुतेः सेतोश्र पारवत्वोपपत्तेर्ब्रह्म- णोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति, अत्रोच्यते। विधारणत्वमात्रमत्र सेतुश्रुत्या वि- वक्ष्यते न पारवत्वादि। न हि मृद्दारुमयो लोके सेतुर्द्ृष्ट इत्यत्रापि मृद्दारुमय एव सेतुरभ्युपग- म्यते सेतुशब्दार्थोऽपि विधारणत्वमात्रमेव न पा- तेश्र कूटस्थसत्यं ज्ञेयमित्यर्थः। कथं तार्है सामानाधिकरण्यं तत्राह। ॥ सर्व ब्रह्मेति॥यश्रोरः स स्थाणुरितिवद्यत् सर्व तद्रल्लेति सर्वोद्देशेन ब्रह्मत्वविधानाद् बाधनार्थ, न तु यद्रह्म तत्सर्वमिति नानारसत्वार्थमि- त्यर्थः।तत्र नियामकमाह॥सयथेति॥लवणपिण्डोऽन्तर्बहिश्र रसान्त- रशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि चिदेकरस आत्मेत्यर्थः। यद्यपि पारवच्वसावयवत्वादिकं मुख्यसेत्वव्यभिचारि तथापि सेतोर्ज- लादिबन्धनरूपं यदिधारणं तदेव व्यभिचारित्वेऽपि सेतुपदार्थैकदे- शत्वाद्गुणत्वन ग्राह्यं न तु सेतुपदार्थबहिर्भूतं पारवच्वादिकामित्याह ॥ अत्रोच्यत इति ॥ दृष्टत्वात्तद्वहेडतिप्रसङ्गमाह॥ न हीति॥ अत्र श्रुतौ परेणेति शेषः । विधारणस्य शब्दार्थत्वं स्फुटयति॥ षि-
Page 317
सू० २/ अ०१।] शाङ्गरब्रह्मसूत्रभाष्ये (२९५) रवत्वादि षित्रो बन्धनकर्मणः सेतुशब्दव्युत्पत्ते: । अपर आह तमेवैकं जानथ आत्मानमिति य- देतत् सङ्कीर्ति तमात्मज्ञानं यच्चैतदन्या वाचो विमुश्चथेति वाग्विमोचनं तदत्रामृतव्वसाधन- त्वादमृतस्यैष सेतुरिति सेतुश्रुत्या सङ्गीत्यंते न तु धुभ्वाद्यायतनम्। तत्र यदुक्तं सेतुश्रुतेर्ब्रह्म- णो उर्थान्तरेण द्युम्वाद्यायतनेन भवितव्यमि- त्येतदयुक्तम् ॥१॥ मुक्तोपसृप्यव्यपदेशात्॥२ ॥ इतश्र परमेव ब्रह्म दुम्वाद्यायतनं यस्मान्मु- क्तोपसृप्यताऽस्यव्यपदिश्यमाना दृश्यते। मुक्तै- रुपसृप्यं मुक्तोपसृप्यम्। देहादिष्वनात्मस्वह- मस्मीत्यात्मबुद्दिरविद्या, ततस्तत्पूजनादौ रा- गस्तत्परिभवादौ च द्वेषः, तदुच्छेददर्शनाङ्गयं ञ इति॥ सिनोति बध्नातीति सेतुपदार्थैकदेशो विधारणमित्यर्थः। तथा चामृतपदस्य भावप्रधानत्वादमृतत्वस्य सेतुर्विधारकं ब्रह्मास्यै- वामृतत्वं नान्यस्येत्यर्थः। यद्दा युभ्वायाधारो ब्रह्म न सेतुशब्दार्थ: किन्त्वव्यवहितं ज्ञानमित्याह ॥ अपर इति ॥ फलितमाह॥तत्र- यदुक्तमिति॥ ज्ञाने सेतौ गृहीते सतीत्यर्थ ॥१॥ मुक्तरुपसृप्यं प्रत्यक्केन प्राप्यं यद् ब्रह्म तस्यात्रोक्तेरिति सूत्रार्थः। मुक्तिप्रतियोगिनं बन्धं दर्शयति॥ देहादिष्विति॥ तद्विपर्ययेणेति उक्तपश्चकेशात्मक- बन्धनिवृत्याSSत्मना स्थितमित्यर्थः।यथा नये गङ्गाया नामरूपे वि-
Page 318
(२९६) रत्नप्रभाभासिते [अ० १। पा० ३। मोहश्र्वेत्येवमयमनन्तभेदोऽनर्थव्रातः सन्ततः सर्वेषां नः प्रत्यक्षः, तद्विपर्ययेणाविद्या रागद्वे- षादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युम्वा- द्यायतनं प्रकृत्यव्यपदेशो भवति। कथम्। "भि द्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मित् दृष्टे परावरे"॥ इत्युक्ता ब्रवीति "तथा विद्वान्नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यम" इति ब्रह्मणश्र मुक्तोपसृप्यत्वं प्रसिद्ध शाखे। "यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः, अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म सम- श्नते"। इत्येवमादौ। प्रधानादीनां तुन क्वचि- न्मुक्तोपसृप्यत्वं प्रसिद्धमस्ति। अपि च "तमेवै- कं जानथ आत्मानमन्या वाचो विमु्चथ" इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतन- हाय समुद्रात्मना तिष्ठन्ति तथा ब्रह्मात्मविदपि संसारं विहाय परातू कारणादव्यक्तातू परं पूर्ण स्वयंज्योतिरानन्दं प्रत्यत्केन प्राप्य तिष्ठ- तीत्याह॥ तथा विद्वानिति ॥ इदं प्रधानादेः किं न स्यादत आह॥ ब्रम्हणश्रेति॥ अस्य मुमुक्षो: हृदीति पदेनात्मधर्मत्वं कामानां नि- रस्तं यदा कामनिवृत्तिरथ तदाऽमृतो भवति मरणहेत्वभावान्न केवल- मनर्थनिवृत्तिः किन्त्वत्र देहे तिष्ठन्ेव ब्रह्मानन्दमश्ुत इत्यर्थः। लि- झान्तरमाह ॥ अपि चेति॥ धीरो विवेकी तमेवात्मानं विज्ञाय वि-
Page 319
सू० ३।अ० १।] शाङ्करब्रह्मसूत्रभाष्ये (२९७ ) स्योच्यते। तच्च श्रुत्यन्तरे ब्रह्मणो दृष्ठम्। "तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।
त्"। इति। नानुध्यायाद्वहूंश्छब्दान् वाचो विग्लावनं हि त-
तस्मादपि द्युम्वाद्यायतनं परं ब्रह्म ॥ २ ॥ नानुमानमतच्छव्दात्॥ ३ ॥ यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरु- को नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादको- स्तीत्याह। नानुमानं साङ्ग्यस्मृतिपरिकल्पि- तं प्रधानमिह द्युम्वाद्यायतनत्वेन प्रतिपत्तव्य- म्, कस्मात्! अतच्छब्दात्। तस्या चेतनस्य प्र- धानस्य प्रतिपादकः शब्दस्तच्छब्दो न तच्छ- ब्दोतच्छब्दः। न त्यत्राचेतनस्य प्रधानस्य प्र- तिपादकः कश्रिच्छब्दोऽस्ति येनाचेतनं प्रधानं शुद्धं लक्ष्यपदार्थ ज्ञात्वा वाक्यार्थज्ञानं कुर्यात्। ज्ञानार्थिनो ज्ञानप्रति- बन्धककर्मकाण्डादेवैमुख्यमाह॥ नेति॥ बहूनित्युक्क्ता अल्पान् वे- दान्तशब्दानङ्गीकरोति। "अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्भा। जिह्वामूलँ च दन्ताश्र नासिकोष्ठौ च तालु च"॥ इति॥ एतानि वागिन्द्रियस्थानत्वाद् वाक्यशब्देनोच्यन्ते तेषां शो- षणमात्रमनात्मशब्दोच्चारणफलं तद्यानान्मनसो ग्लानिमात्रमित्यर्थ: ॥ २ ॥ वैशेषिक इति ॥ असाधारण आत्मशब्दादिरित्यर्थः । अ- ३८
Page 320
(२९८) रत्नप्रभाभासिते [अ० १। पा० ३। कारणत्वेनायतनत्वेन वाऽवगम्येत। तद्विपरी- तस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्ति "यः सर्वज्ञ: सर्ववित्" इत्यादिः। अत एव न वायुर- पीह द्युभ्वाद्यायतनव्वेनाश्रीयते॥ ३॥ माणभृच्च ॥ ४॥ यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वंचेतन- त्वंचसम्भवति तथाऽप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसम्भवे सत्यस्मादेवातच्छब्दात् प्रा-
चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो घुभ्वा- द्यायतनत्वमपि सम्यक् सम्भवति। पृथग्योग- करणमुत्तरार्थम् ॥४ ॥ कुतश्र् न प्राणभृद् द्ु- भ्वाद्यायतनत्वेनाश्रयितव्यः! भेदव्यपदेशात्॥५॥ भेदव्यपदेशश्रेह भवति "तमेवैकं जानथ तच्छब्दादित्यस्यार्थान्तरमाह ॥ तद्विपरीतस्येति ॥ अत एवात- च्छव्दादेव ॥ ३ ॥ "प्राणभृच्चे"ति सूत्रे चकारः पूर्वसूत्रस्थनञोऽनुष- द्ार्थ: । सर्वज्ञपदसमानाधिकरण आत्मशब्दो न जीववाचीत्यत- च्छब्दस्तस्मादित्यर्थः । ननु नानुमानप्राणभृतावतच्छव्दादित्येकमेव सूत्रं किमर्थ न कृतम्, उभयनिरासहेतोरेकत्वादित्यत आह॥ पृथ- गिति॥ योग: सूत्रम्, उत्तरसूत्रस्थहेतूनां जीवमात्रनिरासेनान्वयेऽपि
Page 321
सृ०७। अ०१]. शाङ्करब्रह्म सूत्रभाष्ये (२९९) आत्मानम्" इति ज्ञेयज्ञातभावेन। तत्र प्राण- भृत् तावत् मुमुक्षुत्वाज्ज्ञाता परिशेषादात्मश- ब्दवाच्यं ब्रह्म ज्ञेयं द्युभ्वाद्यायतनमिति गम्यते, न प्राणभृत्।५।। कुतश्र न प्राणभृद् दुम्वाद्या-
प्रकरणात् ॥ ६ ॥ प्रकरणाच्चेदं परमात्मनः "कस्मित्रु भगवो विज्ञाते सर्वमिदं विज्ञातं अवति" इत्येकविज्ञा- नेन सर्वविज्ञानापेक्षणात्। परमात्मनि हि सर्वा- त्मके विज्ञाते सर्वमिदं विज्ञातं स्यात्, न केवले प्राणभृति ॥६॥ कुतश्र न प्राणभृद् धुम्वाद्याय- तनत्वेनाश्रयितव्यः स्थित्यदनाभ्यांच॥७॥ धुम्वाद्यायतनं च प्रकृत्य "द्वा सुपर्णा सयु- जा सखायौ? इत्यत्र स्थित्यदने निर्दिश्येते, "त-
सुबोधार्थ प्राणभृच्चेति प्रथक् सूत्रकरणमित्यर्थः ॥४॥ तानेव हे- तूनाकाङ्काद्दारा व्याचष्टे ।I कुतश्र नेत्यादिना ॥ यव्पि विशुद्धः प्रत्यगात्मैवात्र ज्ञेयः, तथापि जीवत्वाकारेण ज्ञातुर्ज्ञेयान्ेदान ज्ञे- यरूपत्वमित्यर्थः । एवं च जीवत्वलिङ्गविशिष्टत्वेन जीवस्ययुभ्वा- दिवाक्यार्थत्वँ निरस्यते, न शुद्धरूपेणेति मन्तव्यम्॥ ५॥६ ॥ । ननु स्थित्येश्वरस्यादनाज्जीवस्य द्वासुपर्णेत्यत्रोक्तावपि ईश्वर आ-
Page 322
(३०० ) रत्नप्रभाभासिते [अ० १। पा०३। योरन्यः पिप्पलं स्वाद्ृत्ति" इति कर्मफलाशनम्, "अनश्नन्नन्योऽभिचाकशीति" इत्यौदासीन्ये- नावस्थानंच ताभ्यां च स्थित्यदनाभ्यामीश्वर- क्षेत्रज्ञौ तत्र गृह्येते। यदि चेश्वरो धुम्वाद्याय- तनत्वेन विवक्षितस्ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात् पृथग्वचनमवकल्पते, अन्यथा त्यप्- कृतवचनमाकस्मिकमसम्बद्ं स्यात्। ननु तवा- पि क्षेत्रज्ञस्येश्वरात् पृथग्वचनमाकस्मिकमेव प्रसज्येत, न, तस्याविवक्षितत्वात्। क्षेत्रज्ञो हि कर्तृत्वेन भोकृत्वेन च प्रतिशरीरं बुद्धयाद्युपाधि- कसम्बद्ो लोकत एव प्रसिद्धो नासौ श्रुत्या ता- त्पर्येण विवक्ष्यते। ईश्वरस्तु लोकतोSप्रसिद्धत्वा- त् श्रुत्या तात्पर्येण विवक्ष्यते, इति न तस्याक- स्मिकवचनं युक्तम् "गुहां प्रविष्ठावात्मानौ हि" इत्यत्राप्येतद्दर्शितम् द्वासुपर्णेत्यस्यामृचीश्वर- यतनवाक्येन किमर्थ ग्राहय इत्यत आह ॥ यदि चेश्वर इति॥ अत्र चेश्वरः शुद्धचिन्मात्रो ग्राह्यः। न सर्वज्ञत्वादिविशिष्टः तस्यात्रा- प्रतिपाद्यत्वात्। तथा चाप्रतिपाय्यार्थस्याकस्मान्मध्ये वचनासम्भ- बातू। आयवाक्येन ग्रहणं कार्यमित्यभिसन्धिः । तमज्ञात्वाSडशङ्कते ॥ ननु तवापीति ॥ ब्रह्मस्वरूपप्रतिपादनार्थमकसमादप्ररुतस्यापि लोकप्रसिद्धस्य जीवस्यानुवादसम्भव इति परिहरति ॥ नेति॥ननु ह्ासुपर्णेत्यत्र बुद्धिजीवयोरुक्तेः कथमिदं सूत्रमित्यत आह॥ गुहामि- ति। स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञयोरनुवादेनैक्यं द्शितमित्यर्थः । न-
Page 323
सू० ७ । अ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (३०१) क्षेत्रज्ञावुच्येते इति। यदाऽपि पैङ्गयुपनिषत्कृते- न व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते तदाऽपि न विरोध: कश्चिवत्। कथं! प्राणभृद्धीह घटादिच्छिद्रवत् सत्त्वाद्युपाध्यभिमानित्वेन प्र- तिशरीरं गृह्माणो दयुम्वाद्यायतनं न भवतीति प्रतिषिद्यते। यस्तु सर्वशरीरेषूपाधिभिर्विनोप- लक्ष्यते परमात्मा सभवति। यथा घटादिच्छि- द्राणि घटादिभिरुपाधिभिर्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्दत् प्राणभृतः परस्मा- दन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यते, तस्मात् सत्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्व- प्रतिषेध:, तस्मात् परमेव ब्रह्म दुम्वाद्यायतन- म्। तदेतत् "अदृश्यव्वादिगुणको धर्मोक्तेः" इ- त्यनेनैव सिद्धम्, तस्यैव हि भूतयोनिवाक्यस्य मध्य इदं पठितं "यस्मिन् दयौः पृथिवी चान्त- रिक्षम्" इति। प्रपञ्चार्थ तु पुनरुपन्यस्तम् ।।७। न्वत्र जीवेशौ नानुवायौ पैङ्गिव्याख्याविरोधादतः सूत्रासङ्गतिरित्यत आह॥ यदापीति ॥ तदापि सूत्रस्यासङ्गतिर्नास्तीत्यर्थः । अदनवा- क्येन बुद्धिमनूद स्थितिवाक्येन बुद्ध्यादिविलक्षणशुद्धप्रत्यग्ब्रह्मणो ज्ञेयस्योक्तेर्धुभ्वादिवाक्ये तदेव ग्राहं न बद्धयुपहितो जीव इति सूत्र- सङ्गतिमाह ॥ कथमित्यादिना । नन्वत्रानुपहितो जीव उक्तो न परं ब्रह्मेत्यत आह॥ यस्त्वति ॥ पौनरुक्त्यं शङ्कते ॥ तदेतदिति ॥
Page 324
(३०२) रत्नप्रभाभासिते [अ०१।पा० ३। भूमा सम्प्रसादादध्युपदेशात्।।८।। इदं समामनन्ति "भूमा त्वेव विजिज्ञासि· तव्यः"इति,"भूमानं भगवो विजिज्ञासे" इति, "यत्र नान्यत् पश्यति नान्यच्छृणाति नान्यद्विजा- नाति सभूमा, अथ यत्रान्यत् पश्यत्यन्यच्छ- णोत्यन्यद्विजानाति तदल्पम्" इत्यादि। तत्र संशयः किं प्राणो भूमा स्यादाहोस्वित् परमा- त्मेति। कुतः संशयः । भूमेति तावद् बहुत्वम- ्िधीयते "बहोरलोपो भू च बहोः" (पा०६। ४। १५८) इति भूमशब्दस्य भावप्रत्ययान्त- तास्मरणात्। किमात्मकं पुनस्तद्वहुत्वमिति वि- शेषाकाड्ायां"प्राणो वा आशाया भूयान्" इति युभ्वादिवाक्यस्य ब्रह्मपरत्वमित्यर्थः । समाधत्ते ॥ प्रपश्चार्थमिति॥ सेतुशव्दव्याख्यानेन भूतयोने: प्रत्यगात्मत्वस्फुटीकरणमित्यर्थः । त- स्मान्मुण्डकोपनिषद्, ब्रह्मणि समन्वितेति सिद्धम् ॥ ७॥ भूमा ॥ छान्दोग्यमुदाहरति॥ इदमिति॥ नाल्पे सुखमस्ति भूमैव सुखं त- स्मान्निरतिशयसुखार्थिना भूमैव विचार्य इति नारदं प्रति सनत्कुमा- रेणोक्ते सति नारदो बते। भूमानमिति॥ भूम्नो लक्षणमद्दितीयत्वमाह ॥ य त्रेति॥ भूमलक्षणं परिच्छिन्नलक्षणोक्त्या स्फुटयति॥ अथेति।। अत्र संशयबीजं प्रश्नपूर्वकमाह॥कुत इत्यादिना॥ बहोर्भाव इति वि- ग्रहे "पृथ्वादिभ्य इमनिच्"[५।१।१२२]इति इमनिच्प्रत्यये कते "ब- होलोपो भ् च बहो:"[६।४।१५८]इति सूत्रेण बहोः परस्येमनिच्प्रत्य-
Page 325
सू० ८। अ० २ ] शाङ्करब्रह्मसूत्रभाष्ये . (३०३) सन्निधानात् प्राणो भूमेति प्रतिभाति/। तथा "श्रुतं त्येव मे भगवद्दशेभ्यस्तरति शोकमात्म- वित्" इति, "सोऽहं भगवः शोचामि तं माभ- गवान् शोकस्य परं पारं तारयतु" इति प्रकर- णोत्थानात् परमात्मा भूमा इत्यपि प्रतिभाति। तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भ वति संशयः । किंतावत् प्राप्तं प्राणो भूमेति। कस्मात्? भूयः प्रश्नप्रतिवचनदर्शनात्। यथा हि "अस्ति भगवो नाम्नो भूयः" इति, "वाग्वा- व नाम्न्नो भूयसी''इति, तथा "अस्ति भगवो वा- चो भूयः" इति, "मनो वाव वाचो भूयः" इति च नामादिभ्यो ्याप्राणात् भूयःप्रश्नप्रतिवचनप्र- यस्यादेरिकारस्य लोप: स्यात् बहोः स्थाने भूरित्यादेशश्र्व स्यादित्युक्तेत भूम निनितिशब्दो निष्पन्नः, तस्य भावार्थके मनिच्प्रत्ययान्तत्वाद्दहुत्वं वाच्य- म् तत् किं धर्मिकमित्याकाङ्कायां सन्निहित प्रकरणस्थः प्राणो धर्मीभा- ति। वाक्योपक्रमस्थ आत्माऽपि स्वप्रतिपादनापेक्षो धर्मित्वेन भातीति सन्निहित व्यवहितप्रकरणाभ्यां संशय इत्यर्थः। पूर्वमात्मशब्दाद् यु- भ्वादायतनं ब्रह्मेत्युक्तं, तदयुक्तं तरति शोकमात्मविदित्यव्रह्मण्यप्या- त्मशब्दप्रयोगादित्याक्षेपसङ्गत्या पूर्वपक्षयति॥प्राणोभूमेति॥ धर्मध- मिणोरभेदात् सामानाधिकरण्यं द्रष्टव्यम्। पूर्वोत्तरपक्षयोः प्राणोपा स्तिः, ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम्। अत्राध्याये भूयः प्रश्नोत्तरभेदा- दर्थभेदो दृश्यते। भूमातु प्राणात् परं भूयः प्रश्नं विनैवोक्ताललिङ्गन प्रा- णादभिन्न इत्याह॥कस्मादित्यादिना।।प्राणाद् भूय इति न दृश्यत इति
Page 326
(३०४) रत्नप्रभाभासिते [अ० १।पा०३। वाहः प्रवत्ताः, नैवं प्राणात्परं भूयः प्रश्नप्नतिवच- नं दृश्यते।"अस्ति भगवःप्राणाड््यः"इति,"अ- दो वाव प्राणाडूयः"इति, "प्राणमेवतु नामादि- भ्यआशान्तेभ्यो भूयांसं प्राणोवाव आशाया भू- यान्" इत्यादिना सप्रपञ्चमुक्ता प्राणदार्शन- श्र्ातिवादित्वं "अतिवाद्यसि" इति, "अति- वाद्यस्मीति ब्रुयान्नापह्ुवीत" इत्यभ्यनुज्ञाय, "एष तुवा अतिवदति यः सत्येनातिवदति"इ- ति प्राणव्रतमतिवादित्वमनुकृष्या,परित्य ज्यैव प्रा- णं सत्यादिपरम्परया भूमानं समवतारयन्, "प्राणमेवभूमानं मन्यते" इति गम्यते। कथं पुनः प्राणे भूमनि व्याख्यायमाने "यत्र नान्यत् पर्वेण सम्बन्धः । नन्वेष तु वा अतिवदतीति तुशब्देन प्राणप्रकरण विच्छेदान्न प्राणो भूमेत्यत आह ॥| प्राणमेवेति ॥ नामाय्याशा- न्तानुपास्यानतीत्य प्राणं श्रेष्ठं वदतीत्यतिवादी प्राणवित् तं प्रति अ- तिवादसीति केनचित् प्रश्ने कृते अस्मीति ब्रूयात्, नाहमतिवादी- त्यपङ्रवं न कुर्यादित्युक्तंपाणविदं, एष इति परामृश्य सत्यवचन- ध्यानमननश्रद्धादिधर्मपरम्परां विधाय भूमोपदेशान्न प्रकरणविच्छे दः। तुशब्दो नामाधुपासकस्यातिवादित्वनिरासार्थ इत्यर्थः । भू- * स्रो लक्षणवचनं सुखत्वममृतत्वं च प्राणेप्श्नपूर्वकं योजयति ॥ क- थंपुनरित्यादिना । प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुपुप्तः पुरुष इतिशेष:। "गार्हपत्यो ह वा एषोऽपानोव्यानोऽन्वाहार्यपचनः आह- १ दाक्षिणात्योगिः।
Page 327
. सृ० ८। अ० २।] शाङ्गरब्रह्मसत्रभाष्ये (३०५) पश्यती"त्येतद् भूम्नो लक्षणपरं वचनं व्याख्या- येतेति? उच्यते। सुपुत्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवत्तिदर्शनात् स- मभवति प्राणस्यापि यत्र नान्यत् पश्यतीत्या- दि तल्लक्षणम्। तथा च श्रुतिः "न शृणोति न प- श्यति" इत्यादिना सर्वकरणव्यापारप्रत्यस्त- मयरूपां सुषुध्यवस्थामुक्का"प्राणाम्नय एवैत- स्मिन् पुरे जाग्रति" इति तस्यामेवावस्थायां प- अवृत्तेः प्राणस्य जागरणं ब्रुवती प्राणप्रधानां सुषुध्यवस्थां दर्शयति। यच्चैतद्ूम्नः सुखत्वं श्रुतं "यो वै भूमा तत् सुखम्" इति तदप्यविरुद्धम्, "यत्रैष देवः स्वन्नान्नपश्यत्यथ यदेतस्मित्श्छ- रीरे सुखं भवति" इति सुषुत्यवस्थायामेव सु- खश्रवणात्। यच्च "यो वै भूमा तदमृतम" इति, तदपि प्राणस्याविरुद्धम्, "प्राणो वा अमृतम्" इति श्रुतेः। कथं पुनः प्राणं भूमानं मन्यमानस्य "तरति शोकमात्मवित्" इत्यात्मविविदिषया प्रकरणस्योत्थानं उपपद्यते, प्राण एवेहात्मा वि- वनीयः प्राणः" इति श्रुतेः, प्राणा अग्नय इह पुरे शरीरे जाग्रति स- व्यापारा एव तिष्ठन्तीत्यर्थः । देवो जीवः, अथ तदा स्वप्नदर्शनकाले सुखश्रवणात् प्राणस्य सुखत्वमविरुद्धमित्यन्वयः। आत्मपदेनोपक्रम- विरोधं परिहरति ॥प्राण एवेति। प्राणस्यात्मत्वं कथमित्याशङ्ग्च श्रु- ३९
Page 328
(३०६) रत्नप्रभाभासिते [अ० १। पा० ३। वक्षित इति ब्रूमः। तथा हि "प्राणो ह पिता प्रा- णो माता प्राणो माता प्राण: स्वसा प्राण आ- चार्यः प्राणो ब्राह्मणः" इति प्राणमेव सर्वात्मा- नं करोति।"यथा वा अरा नाभौ समार्पिता एव- मस्मिन् प्राणे सर्वे समर्पितम्" इति च सर्वा- त्मत्वारना भिनिदर्शनाभ्यां च सम्भवति वैपुल्या त्मिका भूमरूपता प्राणस्य । तस्मात् प्राणो भू- मेत्येवं प्राप्तम्। तत इदमुच्यते। परमात्मैवेह भू- मा अवितुमहति, न प्राणः। कस्मात्? सम्प्रसा- दादव्युपदेशात्। सम्प्रसाद इति सुषुप्तं स्था- नमुच्यते सम्यक प्रसीदत्यस्मिन्निति निर्वचना- त्। बहदारण्यके च स्वन्नजागरितस्थानाभ्यां सह पाठात्, तस्यां च सम्प्रसादावस्थायां प्राणो जागतीति प्राणोऽ्र सम्प्रसादोऽभिप्रेयते प्रा- तत्वादित्याह॥तथा हीति॥ सर्व समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुतिरित्यन्वयः । अत आत्मत्वं प्राणेऽपि मुख्यमिति भा- वः। भूमरूपत्वं योजयति ॥सर्वात्मत्वेति ॥ सम्प्रसादशव्देन प्राणं ल- क्षयितुं मुख्यार्थ दर्शयति।सम्प्रसाद इति।।"सवा एष एतस्मिन् सम्प्र- सादे स्थित्वा पुनराद्रवती"ति प्रयोगाच। ततू पदं सुषुपिवाचकमित्याह ॥ बृहदिति॥ वाच्यार्थ सम्बन्धात् प्राणो लक्ष्य इत्याह॥तस्यां चेति॥ अत्र सूत्र इत्यर्थः । भूमा प्राणाज्जिन्नः अत्राध्याये तस्मादूर्ध्वमुपदि- १ संप्रसादपदम् ।
Page 329
सू० ८। अ० २ । ] शाङ्गरब्रह्मसूत्रभाष्ये (३८७ ) णादूर्ध्व भूम्न उपदिश्यमानत्वादित्यर्थःप्राण एव चेद्गूमा स्यात् स एव तस्मादूर्ध्वमुपदिश्येतेत्य- श्लिष्टमेतत् स्यात्। न हि नामैव नास्न्नो भूय इति नाम्न ऊर्ध्वमुपदिष्टम्। किं तार्हे? नाम्नोऽन्यद- र्थान्तरमुपदिष्टं, वागारयं वाग्वाव नाम्न्नो भूय- सीति, तथा वागादिभ्योऽप्याप्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्ठं, तद्दत् प्राणादूर्ध्वमुपदिश्यमा- नो भूमा प्राणादर्थान्तरभूतो अवितुमईति । नन्विहनास्ति प्रश्नः, "अस्ति भगवः प्राणाद्गू- यः"इति, नापि प्रतिवचनमस्ति"प्राणाददो वा- व अूयोऽस्ती"ति। कथ प्राणादधिभूमोपदिश्य- ते इत्युच्यते प्राणविषयमेव चातिवादित्वमुत्तर- त्रानुकृष्यमाणं पश्यामः।"एष तुवा अतिव- दति यः सत्येनातिवदति"इति,तस्मान्नास्ति प्रा- णादध्युपदेश इति। अत्रोच्यते। न तावत् प्रा- छठत्वान्नामादेरूर्ध्वमुपदिष्टवागादिवदित्यर्थः। विपक्षे हेतूच्छेदं वाधक- माह॥ प्राण एव चेदिति ॥ स्वस्यैव स्वस्मादूर्ध्वमुपदिष्टत्वमयुक्तं नामादिषु अदृष्टं चेत्यर्थः । हेत्वसिद्धिं शङ्कते॥नन्विहेति॥ प्रकतप्रा- णवित् परामर्शक एषशब्दो न भवति तस्य यच्छब्दपरतन्त्रत्वेन स- त्यादिवादिवाचित्वात्। अतः प्राणप्रकरणं विच्छिन्नमिति हेतुसि- द्विरित्याह ॥। अत्रोच्यत इति ॥ सत्येनातिवादित्वं विशेषः तद्दतो य एष इत्युक्तेर्न पूर्वानुकर्ष इत्यर्थः । य एष प्राणविदतिवदति इत्यनू-
Page 330
(३९) रत्नप्रभाभासिते [अ० १। पा० ३। णविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति श- क्यं वक्तुं विशेषवादाद्यः सत्येनातिवदतीति। ननु विशेषवादोऽप्ययं प्राणविषय एव भविष्य- ति। कथ! यथैषोऽननिहोत्रीयः सत्यं वदतीत्युक्ते न सत्यवदनेनाग्निहोत्रित्वं, केन तर्हि, अग्निहोत्रे- णैव, सत्यवदनं व्वग्निहोत्रिणो विशेष उच्यते, तथै- षतुवाअतिवदतियः सत्येनातिवदतीत्यु क्ते न स- त्यवदनेनातिवादित्वं, केन तर्हि, प्रकृतेन प्राण- विज्ञानेनैव, सत्यवदनं तु प्राणविदो विशेषो वि- वक्ष्यत इति, नेति ब्रूम:, श्रुत्यर्थपरित्यागप्रसङ्गा- त्, श्रुत्या त्यत्र सत्यवदनेनातिवादित्वं प्रतीयते य: सत्येनातिवदति सोऽतिवदतीति। नात्र प्रा- णविज्ञानस्य सद्कीर्तनमस्ति।प्रकरणात् तु प्राण- विज्ञानंसम्बद्येत।तत्र प्रकरणानुरोधेनश्रुतिःपरि- त्यक्ता स्यात्। प्रकृतव्यावृत्यर्थश्र्व तुशब्दो न स- व स सत्य वदेदिति विधानान्न प्राणप्रकरणविच्छेद: इति दष्टान्तेन शङकूते॥ नन्विति ॥ सत्यशव्दो हबाधिते रूढो ब्रह्मवाचकः, तद- न्यस्य मिथ्यात्वात्। सत्यवचने त्वबाधितार्थसम्बन्धाल्लाक्षणिक इति नात्र लक्ष्यवचनविधिरित्याह॥ नेति ब्रूम इति॥ कि च सत्येन ब्रह्म- णातिवदतीति तृतीयाश्रुत्या ब्रह्मकरणकमतिवादित्वं श्रुतं, तस्य प्रकरणाद् बाधो न युक्त इत्याह॥ श्रुत्या हीत्याढिना॥ नात्रेति ॥ सत्यवाक्ये इत्यर्थः । एवं सत्येनेतिश्रुत्या प्रकरणं बाध्यमित्युत्क्ा
Page 331
सू ० ८। अ० २।] शाङ्करब्रह्म सूत्रभाष्ये (३०९) दच्छेत। एष तुवा अतिवदतीति। सत्यं त्वेव वि- जिज्ञासितव्यमिति चप्रयत्नान्तरकरणमर्थान्तर- विवक्षां सुचयति। तस्माद्यथैकवेदप्रशंसायां प्र- कृतायामेष तु महाब्राह्मणो यश्र्तुरो वेदानधीत इत्येकवेदेभ्योऽर्थान्तरभूतश्र्वतुर्वेद: प्रशस्यते ता- दगेतद् द्रष्टव्यम्।न च प्रश्नप्रतिवचनरूपयैवा- र्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति, प्रकृतसम्बन्धासम्भवकारितत्वादर्थान्तरविव- क्षायाः।तत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णीं- भूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति। यत् प्राणविज्ञानेन विकारानृतविषयेणातिवा- दिव्वमनतिवादित्वमेव तदेष तु वा अतिवदति यः सत्येनातिवदतीति। तत्र सत्यमिति परं ब्र- तुशब्देनापि तद्ाध्यमाह ॥ प्रकृतेति॥ विजिज्ञास्यत्वलिङ्गाच्च पू- र्वोक्ाद्जिन्नमित्याह ।I सत्यं त्वेवेति॥ प्रकरणविच्छेदे दृष्टान्तमा- ह। तस्मादिति॥ श्रुतिलिङ्गबलादेतत् सत्यं प्रकतात् प्राणात् प्रा- धान्येन भिन्नं द्रष्टव्यमित्यर्थः । एवमतिवादित्वस्य ब्रह्मसम्बन्धोक्त्या प्राणलिङगत्वं निरस्तम्। यत्तु प्रश्नं विनोक्तत्वलिङ्गाद भूमा प्राण इति तन्न, तस्याप्रयोजकत्वादित्याह॥ न चेति॥ प्रश्नभेदादर्थभेद इति न नियम:, एकस्यात्मनो मैत्रेय्या बहुशः पृष्टत्वात् प्रश्नं विनोक्तचा- तुर्वेदस्य प्ररुतैकवेदाद्जिन्नत्वदर्शनाच्चेत्यर्थः । तत्र यथा चतुर्वेदत्वस्य प्रकुतासम्बन्धादर्थभेद:, एवमिहापीति स्फुटयति॥ तत्रेत्यादिना॥ सत्यपदेन प्राणोक्तिरित्यत आह॥ तत्र सत्यमिति ॥ विज्ञानं नि-
Page 332
(३१s) रत्नप्रभाभासिते [अ० १। पा० ३। ह्मोच्यते परमार्थरूपत्वात् "सत्यं ज्ञानमनन्तं ब्रह्म" इति च श्रुत्यन्तरात्। तथा व्युत्पादिताय नारदाय "सोऽहं भगवः सत्येनातिवदानि" इ- त्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भू- मानमुपदिशति। तत्र यत् प्राणादधिसत्यं वक्त- व्यं प्रतिज्ञातं तदेवेह भूमेत्युच्यत इति गम्यते। तस्मादस्ति प्राणादधिभूम्न उपदेश इत्यतः प्रा- णादन्यः परमात्मा भूमा भवितुमर्हति। एवं चे- हात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भ- विष्यति। प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते। न हि प्राणस्य मुख्यया वृत्त्याSS- त्मत्वमस्ति। न चान्यत्रपरमात्मज्ञानाच्छोकवि- निटृत्तिरस्ति, "नान्य: पन्था विद्यतेऽयनाय"
गृह्यन्ते । इमान्यपि श्रवणादीनि ज्ञेयस्य सत्यस्य ब्रह्मत्वे लिद्गानि- । एवं श्रुतिलिङ्गै: प्राणस्यावान्तरप्रकरणं बाधित्वा प्रस्तुतं सत्यं ब्रह्म भूमपदोक्तबहुत्वधर्मीत्याह।।तत्र यदिति॥ किश्च सन्निहितादपि व्य- वहितं साकाङूं बलीय इति न्यायेन सन्निहितं निराकाङ् प्राणं दृष्टा वाक्योपक्रमस्थ आत्मा स्वप्रतिपादनाय भूमवाक्यापेक्ष इह भूमा ग्राह इत्याह ॥ एवं चेतिः किं च "शोकस्य परं पार"मित्युपक्रम्य त- मसः पारमित्युपसंहारात् शोकस्य मूलोच्छेदं विना तरणायोगाच्च। शो- कपदेन मूलतमो गृह्यते तन्निवर्तकज्ञानगम्यत्वलिङ्गात्, आत्मा ब्रह्मे- त्याह॥न धान्यत्रेति॥ब्राह्मणमात्मायत्ततवं प्राणस्य वदतीति सम्ब-
Page 333
· सू० ९।अ०१।] शाङ्करब्रह्म सूत्रभाष्ये (३११ ) इति श्रुत्यन्तरात्। "तं मां भगवान् शोकस्य परं पारं तारयतु" इति चोपक्रम्योपसंहरति "तस्मै सृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः" इति। तम इति शोकादिकारणम- विद्योच्यते। प्राणान्ते चानुशासने न प्राणस्या- न्यायत्ततोच्येत। आत्मनः प्राण इति च ब्राह्म- णम्। प्रकरणान्ते च परमात्मविवक्षा भविष्य- ति, भूमा तु प्राण एवेति चेन्न। "स भगवः क- स्मिन् प्रतिष्ठित इति स्वे महिम्नि" इत्यादिना भूम्न एवाप्रकरणसमाप्तेरनुकर्षात् । वैपुल्या- त्मिका च भूमरूपता सर्वकारणत्वात् परमात्मनः सुतरामुपपद्यते॥८॥ धर्मोपपत्तश्॥ ९॥ अपि च ये भूम्नि श्रूयन्ते धर्मास्ते परमात्म- न्युपपद्यन्ते। यत्र "नान्यत् पश्यतिनान्यच्छृणो- ति नान्यद्विजानाति स भूमेतिदर्शनादिव्यवहा- राभावं भूमन्यवगमयति परमात्मनि चायं द- न्धः। नन्विदं चरमं ब्राह्मणं ब्रह्मपरमस्तु ततः प्रागुक्तो भूमा प्राण इ- ति शङ्कते ॥ प्रकरणान्त इति ॥ तच्छब्देन भूमानुकर्षात् मैवमि- त्याह॥ नेति ॥८॥ भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह ॥धर्मेति सूत्रम्॥ यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदन्य
Page 334
(३१२) रत्नप्रभाभासिते [अ०१। पा० ३। शनादिव्यवहाराभावोऽवगतः,"यत्र व्वस्य सर्व- मात्मैवाभूत्तत् केन कं पश्येदि"ति श्रुत्यन्तरात्। योऽप्यसौ सुपुत्यवस्थायां दर्शनादिव्यवहारा- भाव उक्तः सोऽप्यात्मन एवासङ्गत्वविवक्षया उक्तो न प्राणस्वभावविवक्षया, परमात्मप्रकर- णात्। यदपि तस्यामवस्थायां सुखमुक्तं तद- प्यात्मन एव सुखरूपत्वविवक्षयोक्तम्।यत आ- ह" एषोऽस्य परम आनन्द एतस्यैवानन्दस्या- न्यानि भूतानि मात्रामुपजीवन्तीथति। इहापि "योवै भूमा तत् सुखं नाल्पे सुखमस्ति भूमैव सु- ख2 मिति सामय सुखनिराकरणेन ब्रह्मैव सुखं भू- मानं दर्शयति। "योवै भूमा तदमृत'मिति अ- मृतत्वमपीह श्रूयमाणं परमकारणं गमयति, विकाराणाममतत्वस्य आपेक्षिकत्वात्, "अतो- विघटयति ॥ योऽप्यसावित्यादिना ।। सति बुद्ध्याद्युपाधावात्म- नो द्रष्टृत्वादिस्तंदभावे सुषुप्तौ तदभाव इत्यसङ्गत्वज्ञानार्थ प्रश्नोपनि- षदि न शृणोति न पश्यतीति परमात्मानं प्रकत्योक्तम्। तथा तत्रै- वात्मनः सुखत्वमुक्तं न प्राणस्य। यतः श्रुत्यन्तरम् आत्मन एव सु- खत्वमाह तस्मादित्यर्थः । आमयो नाशादिदोषः तत् सहितं सामयम् आर्त नश्चरम्।स एवाधस्तात् स उपरिष्टादिति सर्वगतत्वं, स एवेदं सर्वमिति सर्वात्मत्वं च श्रुतं, तस्माद्जूमाध्यायो निर्गुणे समन्वित इति सिद्धम्। ९ ।। १ बुद्ध्याद्युपाद्यभावे। २ आत्मनोद्रटृत्वाभावः ।
Page 335
- सू०१०। अ०३ ] शाङ्करब्रह्मसूत्रभाष्ये (३१३) ऽन्यदार्त"' मिति च श्रुत्यन्तरात्। तथा च सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्व- मिति चैते धर्मा: श्रूयमाणा: परमात्मन्येवोप- पद्यन्ते नान्यत्र तस्माड्ूमा परमात्मेति सिद्धम्॥९॥ अक्षरमम्बरान्तधृतेः॥१०॥ "कस्मिन्रु खल्वाकाश ओतश्र प्रोतश्र्ेति स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिव- दन्त्यस्थूलमनण्वि" त्यादि श्रूयते। तत्र संश- यः किमक्षरशब्देन वर्ण उच्यते किंवा पर ए- वेश्वर इति। तत्राक्षरसमाम्नाय इत्यादावक्षर- शब्दस्य वर्णे प्रसिद्धत्वात् प्रसिद्धव्यतिक्रमस्य ॥ अक्षरमम्बरान्तघृतेः। बृहदारण्यकं पठति ॥ कस्मिन्निति॥ यद्हूतं भवच्च भविष्यच्च तत्सर्व कमिन्नोतमिति गार्ग्या पृष्टेन मुनिना याज्ञवल्क्येनाव्याकताकाश: कार्यमात्राश्रय उक्तः। आकाशः कस्मि- लोत इति द्वितीयप्रश्नेस मुनिरुवाच। तत् अव्याकतस्याधिकरण- मेतदक्षरम् अस्थूलादिरूपमित्यर्थः । उभयत्राक्षरशब्दप्रयोगात संश- यः। यथा सत्यशब्दो ब्रह्मणि रूढ इति ब्रह्म भूमेत्युक्तं तथाक्षरशब्दो वर्णे रूढ इति दष्टान्तेन पूर्वपक्षः, तंत्रोङ्कारोपास्तिः फलम्। सिद्धान्ते निर्गुणब्रह्मधीरिति विवेकः। ननु न क्षरतीत्यचलत्वानाशित्वयागादब्र- ह्मण्यप्यक्षरशब्दो मुख्य इत्यत आह ॥ प्रसिद्धिव्यतिक्रमस्येति॥ रूढिरयोगमपहरतीति न्यायादित्यर्थः । वर्णस्योङ्कारस्य सर्वाश्रयत्वं क- १ वर्णे प्मात्मनि चेत्यर्थः । २ पूर्वपक्षे। ४०
Page 336
(३१४ ) रत्नप्रभाभासिते [अ० १। पा० ३। चायुक्तत्वात्, अकार एवेदं सर्वमित्यादौ च श्रु- त्यन्तरे वर्णस्याप्युपास्यव्वेन सर्वात्मकत्वाव- धारणात् वर्ण एवाक्षरशब्द इति, एवं प्राप्ते उ- च्यते। पर एवात्माक्षरशब्दवाच्यः, कस्मादम्ब- रान्तधृतेः पृथिव्यादेराकाशान्तस्य विकारजा- तस्य धारणात्। तत्र हि पृथिव्यादेः समस्त- स्य विकारजातस्य कालत्रयविभक्तस्याकाश एव तदोतं च प्रोतं चेत्याकाशे प्रतिष्ठितत्वमुक्का कस्मिन्नु खल्वाकाश ओतश्र् प्रोतश्र्वेव्यनेन प्र- श्रेनेदमक्षरमवतारितं, तथा चोपसंहृतमेतस्मि- न्रु खल्वक्षरे गार्ग्याकाश ओतश् प्रोतश्र्वेति। न चेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र सम्भवति। यदप्योद्वार एवेदं सर्वमिति तदपि ब्रह्मप्रतिप- त्तिसाधनत्वात् स्तुत्यर्थ द्रष्टव्यम्। तस्मान्न क्ष- रत्यश्रुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं पर- मेव ब्रह्म ॥ १०॥ स्यादेतत् कार्यस्य चेत् का- रणाधीनव्वमम्वरान्तधृतिरभ्युपगम्यते प्रधान- कारणवादिनोSपीयमुपपद्यते कथं अम्बरान्तधृ- थमित्याशङ्गच ध्यानार्थामदं यथा श्रुत्यन्तरे सर्वात्मत्वमित्याह॥ॐ कारइति॥प्रश्नप्रतिवचनाभ्यां आकाशान्तजगदाधारत्वे तात्पर्यनि- श्वयान्न ध्यानार्थता, अतस्तल्विङूबलाद्रूढिं बाधित्वा योगवृत्तिर्य्राह्येति सिद्धान्तयति ॥ एवमित्यादिना॥१०॥ अकाशंभूतं कत्वा शङ्कते।
Page 337
सू०१२/ अ० ३] शाङ्करब्रह्मसूत्रभाष्ये (३१५) तेर्ब्रह्मत्वप्रतिपत्तिरिति, अत उत्तरं पठति। साच प्रशासनात् ॥११॥ सा चाम्बरान्तधृतिः परमेश्वरस्यैव कर्म, कस्मात्! प्रशासनात्। प्रशासनं हीह श्रूयते "एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रम- सौ विधृतौ तिष्ठत" इत्यादि। प्रशासनं च पा- रमेश्वरं कर्म नाचेतनस्य प्रशासनं सम्भवति। न त्यचेतनानां घटादिकारणानां मृदादीनां घ- टादिविषयं प्रशासनमस्ति॥११॥
अन्यभावव्यावत्तेश् कारणात् ब्रह्मैवाक्षर- शब्दवाच्यं, तस्यैवाम्बरान्तधृतिः कर्म नान्यस्य कस्य चित्। किमिदमन्यभावव्यावतेरिति। अ- न्यस्य भावोऽन्यभावस्तस्माद्यावृत्तिरन्यभाव- स्यादेतदिति। चेतनकर्तृकशिक्षाया अत्र श्रुतेमैंवमित्याह॥ सा चे- ति। सूत्रं व्याचष्टे ।। सा चेति । चकार आकाशस्य भूतत्व- निरासार्थः । भूताकाशस्य कार्यान्तःपातिना श्रुतसर्वकार्याश्रयत्वा- योगात् अव्याकतमज्ञानमेवाकाश: प्रधानशब्दित इति तदाश्रयत्वा- च्चाक्षरं न प्रधानमित्यर्थः । विधृतौ विषयत्वेन धृतौ ॥ ११ ॥ प्रश्नपूर्वकं सूत्रं व्याकरोति॥ किमिदमिति॥ घटत्वात् व्या- वृत्तिरिति भ्रान्तिं निरस्यति ॥एतदिति॥ अम्बरान्तस्याधारमक्षरं श्रु-
Page 338
(३१६) रत्नप्रभाभासिते [अ० १।पा० ३। व्यावत्तिरिति। एतदुक्तं भवति यदन्यद्रह्मणोऽ- क्षरशब्दवाच्यमिहाशङ्यते तद्भावादिदमम्बरा- न्तविधारणमक्षरं व्यावर्तयति श्रुतिः, "तद्ा एत- दक्षरं गार्ग्यटष्टं द्रष्ट अश्रुतं श्रोत अमतं मन्तृ अविज्ञातं विज्ञात्रि" ति।तत्रादष्टत्वादिव्य पदेशः प्रधानस्यापि सम्भवति, द्रष्टत्वादिव्यपदेशस्तु- न तस्य सम्भवत्यचेतनत्वात्, तथा"नान्यदतो- डस्ति द्रष्ट नान्यदतोऽस्ति श्रोत नान्यदतोS- स्ति मन्तु नान्यदतोऽस्ति विज्ञात्रि" यात्मभेद- प्रतिषेधात् न शारीरस्याप्युपाधिमतोऽक्षरशब्द- वाच्यत्वं, "अचक्षुष्कमश्रोत्रमवागमन"इतिचो- पाधिमत्ताप्रतिषेधात्। न हि निरुपाधिकः शा- रीरो नाम भवति। तस्मात् परमेव ब्रह्माक्षरमि- ति निश्वयः॥१२॥ ईक्षतिकर्मव्यपदेशात् स०॥१३॥ "एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोड़गा- तिरचेतनत्वाव्यावर्तयतीत्यर्थः। जीवनिरासपरत्वेनापि सूत्रं योजय- ति। तथेति॥ अन्यभावो भेदः तन्निषेधादिति सूत्रार्थः । तर्हि शो- घितो जीव एवाक्षरं न पर इत्यत आह ॥ न हीति॥ शोघिते जी- वत्वं नास्तीत्यर्थः । तस्माद्वार्गिवराह्मण निर्गुणाक्षरे समन्वितमिति सिद्धम् ॥ १२॥ १ गार्गीशब्दस्य 'ड्यापो:संज्ञाउन्दसोर्बहुलमि' ति व्हस्त्ो बोध्यः।
Page 339
सु ०१३ । अ० ४ ] शाङ्करब्रह्मसूत्रभाष्ये (३१७ ) रस्तस्माद्विद्वा ने तेनैवाय तने नैकतरमन्वेती"ति प्रकृत्य श्रयते "यः पुनरेतं त्रिमात्रेणोमित्येतेनै- वाक्षरेण परं पुरुषमभिध्यायीते" ति। किमस्मि- नू वाक्ये परं ब्रह्माभिध्यातव्यमुपदिश्यते आ- होस्विदपरमि "त्येतेनैवायतनेन परमपरं चैक- तरमन्वेती" ति प्रकृतत्वात् संशयः। तत्रापरमि- ईक्षतिकर्मव्यपदेशात् सः॥ प्रश्नोपनिषदमुदाहरति ॥ एतदि- ति। पिप्पलादो गुरुः सत्यकामेन पृष्टो ब्रूते, हे सत्यकाम परं निर्गुणम- परं सगुणं त्वब्रह्मैतदेव योऽयमोङ्कारः, स हि प्रतिमेव विष्णोस्तस्य प्रतीकस्तस्मात् प्रणवं ब्रह्मात्मना विद्दानेतेनैवोङ्गारध्यानेनायतनेन प्राप्तिसाधनेन यथाध्यानं परमपरं चान्वेति प्राप्नोतीति प्रकृत्य मध्ये- एकमात्रद्दिमात्रोड्डरयोध्यानमुक्ता व्रवीति॥ यः पुनरिति ॥ इत्थ- म्भावे तृतीया ब्रह्मोङ्गारयारेभेदोपक्रमात् । यो हकारादिमात्रात्र- ये एकस्या मात्राया अकारस्य ऋष्यादिकं जाग्रदादिविभूति च जा- नाति तेन सम्यक् ज्ञाता एकमात्रा यस्योङ्कारस्य स एकमात्र:। एवं मात्राद्दयस्य सम्यग्विभूतिज्ञाने द्विमात्रस्तथा त्रिमात्र:। तमोङ्कारं पु- रुषं योऽभिध्यायीत स ॐकारविभूतित्वेन ध्यातैः सामभि: सूर्यद्दारा . ब्रह्मलोकं गत्वा परमात्मानं पुरुषं ईक्षत इत्यर्थः । संशयं तद्दीजं चा- है। किमित्याढिना। अस्मिन् त्रिमात्रवाक्य इत्यर्थः। पूर्वत्र पू- र्वपक्षत्वेनोक्त ॐकारे बुद्धिस्थं ध्यातव्यं निश्चीयत इति प्रसङ्गसङ्ग- तिः। यद्दा पूर्वत्र वर्णे रूढस्याक्षरशव्दस्य लिङ्गात् ब्रह्मणि वृत्तिरुक्त्ता तद्ददत्रापि ब्रह्मलोकप्राप्तिलिङ्गात् परशब्दस्य हिरण्यगर्भे वृत्तिरिति १ त्रिमात्रेणेतितृतीया। २ प्रओोपनिषदि पंचमप्रश्न एतह्वै तसत्यकामपरंचापरं च- ब्रह्मपदोंकार इत्येवमभेदोपक्रम इति ध्येयम्।
Page 340
(३१८) रत्नप्रभाभासिते [अ० १। पा० ३। दं ब्रह्मेति प्राप्तं, कस्मात्! "स तेजसि सूर्ये स- म्पन्नः, स सामभिरुन्नीयते ब्रह्मलोक" मिति च तद्विदो देशपरिच्छिन्नस्य फलस्योच्यमानत्वात्। न हि परब्रह्मविद्देशपरिच्छिन्नं फलमश्रुवीतेति युक्तं, सर्वगतत्वात् परस्य ब्रह्मणः। नन्वपरब्रह्म- परिग्रहे परं पुरुषमिति विशेषणं नोपपद्यते, नै- ष दोषः, पिण्डापेक्षया प्राणस्य परत्वोपपत्तेः, इत्येवं प्राप्तेऽभिधीयते। परमेव ब्रह्मेहाभिध्या- तव्यमुपदिश्यते,कस्मात् !'ईक्षतिकर्मव्यपदेशा- तू'। ईक्षतिर्दर्शन दर्शनव्याप्यमीक्षतिकर्म, ईक्ष- तिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वा- दृष्टान्तेन पूर्वपक्षयति ।। तत्रापरमिति। कार्यपरव्रह्मणोरुपास्तिरुभ- यत्र फलम्। स उपासकः। सूर्ये सम्पन्नः प्रविष्टः । ननु वसुदान ई- वर इति ध्यानात् विन्दते वस्वित्वल्पमपि फलं ब्रह्मोपासकस्य श्रु- तमित्यत आह॥ नहीति ॥ अन्यत्र तथात्वेऽपि अत्र परवितू पर- मपरविदपरमन्वेतीत्युपक्रमात् परविदोऽपरप्राप्तिरयुक्ता उपक्रमवि- रोधात्। न चात्र परप्राप्तिरेवोक्तेति वाच्यं, परस्य सर्वगतत्वात्। अत्रैव प्राप्तिसम्भवेन सूर्यद्वारा गतिवैयर्थ्यात् । तस्मात् उपक्रमानु- गृहीतादपरप्राप्तिरूपाल्लिङ्गात् परं पुरुषमिति परश्रुतिर्बाध्येत्यर्थः । परश्रुतेर्गतिं पृच्छति॥ नन्विति ॥ पिण्डः स्थूलो विराट् तदपेक्षया सूत्रस्य परत्वमिति समाध्यर्थः सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञा- तत्वेन तं व्याचष्टे । परमेवेति ॥ स उपासक एतस्माद्विरण्यग- १ कार्यब्रह्मणो हिरण्यगर्भस्योपास्तिः पूर्वपक्षे फलं परब्रह्मण उपास्तिः सिद्धान्ते फ- लमितिषिवेकः ।
Page 341
सू० १३। अ ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (३१९) क्यशेषे व्यपदेशो भवति, "स एतस्माजीवघ- नात् परात् परं पुरुषं पुरिशयं ईक्षत" इति। त- त्राशिध्यायतेरतथाभूतमपि वस्तु कर्म भवति मनोरथकल्पितस्यापि अभ्िध्यायतिकर्मत्वात्। ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दष्टमि- त्यतः परमात्मैवायं सम्यग्दर्शनविषयभूत ईक्ष- तिकर्मत्वेन व्यपदिष्ट इति गम्यते।स एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञाय- ते। नन्वभिध्याने पर पुरुष उक्त ईक्षणे तु परा- त्पर: कथमितर इतरत्र प्रत्यभिज्ञायते इति, अ- त्रोच्यते। परपुरुषशब्दौ तावदुभयत्र साधारणौ। न चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्य: र्भातू परं पुरुषं ब्रह्माहमितीक्षत इत्यर्थः । नन्वीक्षणविषयोऽप्य- परोऽस्तु तत्राह ॥ तत्राभिध्यायतेरिति॥ नन्वीक्षणं प्रमात्वादि- षयसत्यतामपेक्षत इति भवतु सत्यः पर ईक्षणीयः, ध्यातव्यस्त्वस- त्योऽपरः किं न स्यादित्यत आह ॥ स एवेति॥ श्रुतिभ्यां प्रत्यभि- ज्ञानात् सएवायमिति सौत्रः सशब्दो व्याख्यातः। अत्रैवं सूत्रयोजना, ॐ कारे यो ध्येयः स पर एवात्मा वाक्यशेषे ईक्षणीयत्वोक्तेः, अत्र च श्रुतिप्रत्यभज्ञानात् स एवायमिति। ननु शब्दभेदात् न प्रत्यभिज्ञेति शङकते ॥ न न्विति॥ परात् पर इति शब्दभेदं अङ्गीकत्य श्रुति- भ्यामुक्तप्रत्यभिज्ञाया अविरोधमाह ॥ अत्रेति॥ नन्वेतस्माजी- वघनात् परादित्येतत्पदेनोपक्रान्तध्यातव्यपरामर्शादीक्षणीयः परात्मा ध्येयादन्य इत्यत आह॥ न चात्रेति॥ध्यानस्य तत्फलेक्षण स्य चलो-
Page 342
(३२० ) रत्नप्रभाभासिते [अ० १। पा०३। परः पुरुषः परामृश्यते येन तस्मातू परात्परोऽ- यमीक्षितव्यः पुरुषोऽन्यः स्यात् । कस्तर्हि, जीवघन इत्युच्यते घना मूर्तिर्जीवलक्षणो घ- नो जीवघनः सैन्धवखिल्यवत् यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः परश् विष- येन्द्रियेभ्यः सोऽत्र जीवघन इति। अपर आह "स सामभिरुन्नीयते ब्रह्मलोकमि"ति अतीता- नन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोक: परश् लोका- न्तरेभ्यः सोऽत्र जीवघन इत्युच्यते। जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिर- ण्यगर्भे ब्रह्मलोकनिवासिनि सङ््घातोपपत्तेर्भ- वति ब्रह्मलोको जीवघनः, तस्मात् परो यः पर- मात्मेक्षणकर्मभूतः स एवािध्यानेऽपि कर्मभू- के समानविषयत्वाद्धचेय एवेक्षणीयः। एवं चोपक्मोपसंहारयोरेकवा- क्यता भवतीति भावः।"स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जी- वघनादित्येतत्पदेन सन्निहिततरो ब्रह्मलोकस्वामी परामृश्यत इतिप्र- श्न पूर्वकं व्याचष्टे॥। कस्तर्हीत्यादिना ॥ 'मूतौ घनः' (३।३।७७) इति सूत्रादिति भावः। सैन्धवखिल्यो लवणपिण्डः खिल्यवदल्पो भाव: परिच्छेदो यस्य स खिल्यभावः। एतत्पदेन ब्रह्मलोको वा परा- मृश्यते इत्याह ॥ अपर इति ॥ जीवघनशब्दस्य ब्रह्मलोके लक्षणां दर्शयति। जीवानां हीति ॥ व्यष्टिकरणाभिमानिनां जीवानां घनः सङ्घातो यस्मिन् सर्वकरणाभिमानिनि स जीवघनः तत्स्वामिक- त्वात् परम्परासम्बन्धेन लोको लक्ष्य इत्यर्थः । तस्मात् परः सर्वलो-
Page 343
सू०१३।अ० ४।] शाङ्गरव्रह्मसत्रभाष्ये (३२१ ) त इति गम्यते। परं पुरुषमिति च विशेषणं पर- मात्मपरिग्रह एवावकल्पते। परो हि पुरुषः पर- मात्मैव भवति यस्मात् परं किंचिदन्यन्नास्ति, "पुरुषान्न परं किश्चित् सा काष्ठा सा परागति- रि"ति च श्रुव्यन्तरात्। परं चापरं च ब्रह्म य- दोङ्गार इति च विभज्यान्तरमोङ्गारेण परं पुरुष- मभ्िध्यातव्यं ब्रुवन् परमेव ब्रह्म परं पुरुषं ग- मयति। "यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्त" इति पाप्मविनिर्मो- कफलवचनं परमात्मानमिहाभिध्यातव्यं सूचय- ति। अत्र यदुक्त परमात्माभिध्यायिनो न देश- परिच्छिन्नं फलं युज्यत इति, अत्रोच्यते। त्रिमा-
फलं ब्रह्मलोकप्राप्तिः क्रमेण च सम्यग्दर्शनोत्प-
कातीतः शुद्ध इत्यर्थः। परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह ॥ परमिति॥ यस्मात् परं नापरमस्ति किंचित् स एव मुख्यः परः न तु पिण्डात् परः सूत्रात्मेत्यर्थः। किंच परशब्देनो- पक्रमे निश्चितं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यित्याह।परं चापरं चेति। पापनिवृत्तिलिङ्गाच्चेत्याह ॥ यथेति ॥ पादोदरः सर्पः । ऊकारे पर- ब्रह्मोपासनया सूर्यद्दारा ब्रह्मलोकं गत्वा परब्रह्मेक्षित्वा तदेव शा- न्तमभयं प्राप्नोतीत्यविरोधमाह ॥ अत्रोच्यत इति ॥ एवमेकवाक्य- तासमर्थनप्रकरणानुगृहीतपरपुरुषश्रुतिभ्यां परब्रह्मप्रत्यभिज्ञया ब्रह्म-
Page 344
(३२२ ) रत्नप्रभाभासिते [अ० १ । पा० ३। त्तिरिति क्रममुत्त्यभिप्रायमेतद्गविष्यतीत्य दोषः१३ दहर उत्तरेभ्यः॥ १४॥ "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरी- कं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन यद- न्तस्तदन्वेष्टव्यं, तद्दाव विजिज्ञासितव्यम्" इ त्यादि वाक्यं समान्नायते। तत्र योऽयं दहरे ह- दयपुण्डरीके दहर आकाश: श्रुतः स किम्भूता- काशोऽथ विज्ञानात्माथ वा परमात्मेति संश- य्यते। कुतः संशयः, आकाशब्रह्मपुरशब्दाभ्या- म्, आकाशशब्दो त्ययं भूताकाशे परस्मिञश्र ब्रह्मणि प्रयुज्यमानो दृश्यते। तत्र किम्भूताका- श एव दहरः स्यात् किंवा पर इति संशयः।त- था ब्रह्मपुरमिति किं जीवोऽत् ब्रह्मनामा तस्येदं लोकप्राप्तिलिङ्गं बाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमि- ति सिद्धम्॥ १३ ॥ ॥ दहर उत्तरेम्यः। छान्दोग्यमुदाहरति ॥ अथेति॥ भूमविद्या- नन्तरं दहरविद्याप्रारम्भार्थोऽथशब्दः। ब्रह्मणोऽभिव्यक्तिस्थानत्वात् ब्रह्मपुरं शरीरं अस्मिन् यत् प्रसिद्धं दहरमल्पं हृत्पद्मं तस्मिन् हृद- ये यदन्तराकाशशब्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः। अ- त्राकाशो जिज्ञास्यस्तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः । तत्र य- व्याकाशस्तदा संशयद्यम्। तत्राकाशशब्दादेकं संशयमुत्ता ब्रह्मपु- रशब्दात् संशयान्तरमाह॥ तथा ब्रह्मपुरमितीति ॥ अत्र शब्दे जी-
Page 345
सू०१४। अ०५] शाङकरब्रह्मसूत्रभाष्ये (३२३) पुरं शरीरं ब्रह्मपुरमथ वा परस्यैव ब्रह्मणः पु- रं ब्रह्मपुरमिति।तत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः। तत्राकाश- शब्दस्य भूताकाशे रूढत्वाद्गूताकाश एव दह- रशब्द इति प्राप्तं, तस्य चदहरायतनापेक्षया दह- रत्वं, "यावान् वा अयमाकाशस्तावानेषोऽन्त- र्हृदयआकाश" इति च बात्याभ्यन्तरभावकृत- भेदस्योपमानोपमेयभावो द्यावापृथिव्यादि च तस्मिन्नन्तःसमाहितमवकाशात्मनाकाशस्यैक-
वस्य ब्रह्मणो वा पुरमिति संशयः । तत्र तस्मिन् संशये सतीति यो- जना। परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वात् ब्रह्म ध्येयमित्युक्तं । तथे- हाप्याकाशपदस्य भूताकाशे रूढत्वाद्ूताकाशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति ॥ तत्राकाशेत्यादिना॥ दहरवाक्यस्यानन्तरं प्रजापति- वाक्यस्य च सगुणे निर्गुणे च समन्वयोक्तेः श्रुत्यादिसङ्गतयः । पू- र्वपक्षे भूताकाशायुपास्तिः सिद्धान्ते सगुणब्रह्मोपास्त्या निर्गुणधीरि- ति फलभेदः। न चा "काशस्तलिङ्गादि"त्यनेनास्य पुनरुक्तता श- ङनीया। अत्र तस्मिन् यदन्तस्तदन्वेष्टव्यमित्याकाशान्तस्थस्यान्वेष्टव्य- त्वादिलिङ्गान्वयेन दहराकाशस्य ब्रह्मत्वे स्पष्टलिङ्गाभावातू। ननु भू- ताकाशस्याल्पत्वं कथमेकस्योपमानत्वम् उपमेयत्वं च कथं "उभे अ- स्मिन् यावापृथिवी अन्तरेव समाहिते उभावग्निक्ष वायुश्रवे"त्यादिना श्रुतसर्वाश्रयत्वं च कथमित्याशङ्ग्य क्रमेण परिहरति ॥ तस्येत्या- दिना ॥ हृदयापेक्षया अल्पत्वं ध्यानार्थ कल्पितभेदात् सादृश्यं, स्वत एकत्वात् सर्वाश्रयत्वमित्यर्थः । नन्वे"षआत्मे"त्यात्मशब्दो भूते
Page 346
(३२४ ) रत्नप्रभाभासिते [अ० १।पा० ३। त्वात्। अथ वा जीवो दहर इति प्राप्तं ब्रह्मपु- रशब्दात्, जीवस्य हीदं पुरं मच्छरीरं ब्रह्मपुर- मित्युच्यते। तस्य स्वकर्मणोपार्जितत्वात्। अ- त्तया च तस्य ब्रह्मशब्दवाच्यत्वम। न हि पर- स्य ब्रह्मण: शरीरेण स्वस्वामिभावः सम्ब- न्धोऽस्ति। तत्र पुरस्वामिन: पुरैकदेशेऽवस्थानं दृष्टं यथा राज्ञः, मनउपाधिकश्र जीवो मनश्र् प्रायेण हृदये प्रतिष्ठितमित्यतो जीवस्यैवेदं ह- दयान्तरवस्थानं स्यात्। दहरत्वमपि तस्यैवा- रायोपमितत्वादवकल्पते।आकाशोपमितत्वादि च ब्रह्माभेदविवक्षया अविष्यति। न चात्र दह- न युक्त इत्यरुचेराह ॥ अथ वेति ॥भक्त्येति चैतन्यगुणयोगेनेत्यर्थः । मुख्यं ब्रह्म गृह्यतामित्यत आह॥ न हीति ॥ अस्तु पुरस्वामी जी- वो हृदयस्थाकाशस्तु ब्रह्मेत्यत आह । तत्रेति॥ पुरस्वामिन एव तदन्तःस्थत्वसम्भवात् नान्यापेक्षेत्यर्थः । व्यापिनोऽन्तःस्थत्वं कथ- मित्यत आह । मन इति॥ आकाशपदेन दहरमनुकष्योक्तोपमा- दिकं ब्रह्माभेदविवक्षया भविष्यतीत्याह॥ आकाशेति॥ननु जीव- स्याकाशपदार्थत्वमयुक्तेमित्याशङ्ग्च् ताहि भूताकाश एव दहरोस्तु तस्मिन्नन्तःस्थं किंचिद्धयेयमिति पक्षान्तरमाह॥ न चान्रेति ॥ प- रमन्तःस्थं वस्तु, तद्विशेषणत्वेनाधारत्वेन दहराकाशस्य तच्छव्देनोपा- दानादित्यर्थः । यद्दा अन्वेष्यत्वादिलिङ्गात् दहरस्यब्रह्मत्वनिश्वयादा" काइस्ताल्लिङ्गा" दित्यनेन गतार्थत्वमिति शद्कात्र निरसनीया, अन्वेष्य- १ आकाशपदस्य भूताकाशमात्रे रूढत्वादिति शेषः ।
Page 347
सू०१४। अ०५। ] शाङ्करब्रह्मसूत्रभाष्ये (३२५) रस्याकाशस्यान्वेष्टव्यतव्वं विजिज्ञासितव्यत्वं च श्रूयते, तस्मिन् यदन्तरिति परविशेषणत्वे- नोपादानादिति, अत उत्तरं ब्रूमः। परमेश्वर ए- व दहराकाशो अवितुमर्हति, न भताकाशो जी- वो वा। कस्मादुत्तरेभ्यो वाक्यशेषगतेभ्यो हे- तुभ्यः। तथा हि अन्वेष्टव्यतया अभिहितस्य दहराकाशस्य"तं चेद्वयुरि"त्युपक्रम्य "किंतद- त् विद्यते यदन्वेष्टव्यं यद्ा विजिज्ञासितव्यम्" इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति "स ब्रूयाद् यावान् वा अयमाकाशस्तावानेषोऽ- न्तर्हदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते" इत्यादि। तन्र पुण्डरीकद- हरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाका- शौपम्येन दहरत्वं निवर्तयन् भूताकाशत्वं दह रस्याकाशस्य निवर्तयतीति गम्यते। यद्यप्या-
त्वादे: परविशेषणत्वेन ग्रहणात् दहरस्य ब्रह्मत्वे लिङ्गं नास्तीत्यर्थः। अप- हतपाप्मत्वादिलिङ्गोपेतात्मश्रुत्या केवलाकाशश्रुतिर्बाध्येति सिद्धान्त- यति॥परमेश्वर इत्यादिना॥ आकाशस्याक्षेपपूर्वकमिति सम्बन्धः।त- माचार्य प्रति यदि ब्रूयुः हृदयमेव तावदल्पं तत्रत्याकाशोऽल्पतरः, किं तदत्राल्पे विद्यते, यदिचार्य ज्ञेयमिति, तदा स आचार्यो ब्रयादाकाश- स्याल्पतानिवृत्तिमित्यर्थः। वाक्यस्य तात्पर्यमाह॥ तत्रेति॥ निवर्तय- ति आचार्य इति शेषः। नन्वाकाशशब्देन रूढ्या भृताकाशस्य भा-
Page 348
(३२६) रत्नप्रभाभासिते [अ० १। पा० ३। काशशब्दो भूताकाशे रूढस्तथापि तेनैव त- स्योपमा नोपपद्यत इति भूताकाशंशङग निव- र्तिता भवति। नन्वेकस्याप्याकाशस्य बात्या- भ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः सम्भवतीत्युक्तम्। नैवं सम्भवति। अगति- का हीयं गतिर्यत् काल्पनिकभेदाश्रयण- म्। अपि च कल्पयित्वा भेदमुपमानोपमेयभा- वं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य न बा्य्याकाशपरिमाणत्वमुपपद्येत।ननु परमेश्वर- स्यापि "ज्यायानाकाशादि"ति श्रुत्यन्तरान्नै- वाकाशपरिमाणत्वमुपपद्येत, नैष दोष:, पुण्ड-
रामरावणयोरिवे"त्यभेदेऽप्युपमा दृष्टेति चेत्, न, अभेदे सादृश्यस्यान- न्वयेन युद्धस्य निरुपमत्वे तात्पर्यात् अयमनन्वयालङ्कार इति काव्य- विदः। पूर्वोक्तमनूद निरस्यति । नन्वित्यादिना ॥ "सीताश्विष्ट इवाभाति कोदण्डप्रभया युत" इत्यादौ प्रभायोगसीताश्ेषरूपवि- शेषणभेदाद् भेदाश्रयणमेकस्यैव श्रीरामस्योपमानोपमेयभावसि- द्वचर्थमगत्या कतमित्यनुदाहरणं द्रष्टव्यं नैवमत्राश्रयणं युक्तं वाक्य- स्याल्पत्वनिवृत्तिपरत्वेन गतिसद्धावात् । किंच हार्दाकाशस्यान्तर- त्वात्यागे अल्पत्वेन व्यापकबाह्याकाशसादृश्यंन युक्तमित्याह॥ अपि चेति॥। आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमितिभावः। ननु हार्दाकाशस्याल्पत्वनिवृत्तौ तावच्े च तात्पर्य किं न स्यादि १ आकाशपरिमाणत्वे च।
Page 349
सू० १४। अ०५] शाङ्करब्रह्मसूत्रभाष्ये (३२७ )
तावत्वप्रतिपादनपरत्वम्। उभ्यप्रतिपादने हि वाक्यं भिद्येत।न च कल्पितभेदे पुण्डरीकवेष्टि- ते आकाशैकदेशे द्यावापृथिव्यादीनामन्तःस- माधानमुपपद्यते। "एष आत्मापहतपाप्मा वि- जरो विमृत्युरविशोको विजिघत्सोऽपिपास: स- त्यकाम: सत्यसङ्कल्प2 इति चात्मत्वापहत- पाप्मत्वादयश्र् गुणा न भ्ूताकाशे सम्भवन्ति। यद्यप्यात्मशब्दो जीवे सम्भवति तथापीतरेभ्यः कारणेश्यो जीवाशङ्गपि निवर्तिता भवति। न- ह्युपाधिपरिच्छिन्नस्यारागोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितुं ब्र- ह्माभेदविवक्षया जीवस्य सर्वगतत्वादिविवक्ष्येत इति चेत् यदात्मतया जीवस्य सर्वगत्वादिविव क्ष्येत तस्यैव ब्रह्मणः साक्षात् सर्वगतत्वादि वि- वक्ष्यतामिति युक्तम्। यदप्युक्तं ब्रह्मपुरमिति जीवेन पुरस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेदं त्यत आह॥ उभयेति ॥ अतोऽल्पत्वनिवृत्तावेव तात्पर्यमिति भा- वः । एवमाकाशोपमितत्वाद्दहराकाशो न भूतमित्युक्तं सर्वाश्रयत्वा- दिलिङ्गेभ्यश्र तथेत्याह ॥ न चेत्याढिना । विगता जिघत्सा ज- ग्धुमिच्छा यस्य सोऽयं विजिघत्सः बुभूक्षाशून्य इत्यर्थः। प्रथमश्रु- तब्रह्मशब्देन तत्सापेक्षचरमश्रुतषष्ठीविभत्तयर्थः सम्बन्धो नेयः न
Page 350
(३२८) रत्नप्रभाभासिते [अ० १। पा० ३। पुरस्वामिन: पुरैकदेशवर्तित्वमस्त्वत्यत्र ब्रूम:। परस्यैवेदं ब्रह्मणःपुरं सच्छरीरं ब्रह्मपुरमित्युच्य- ते ब्रह्मशब्दस्य तस्मिन् मुख्यत्वात्। तस्या- प्यस्ति पुरेणानेन सम्बन्ध उपलब्ध्यधिष्ठान- त्वात्। "स एतस्माजीवघनात् परात् परं पु- रिशयं पुरुषमीक्षते,""सवा अयं पुरुषः सर्वा- सु पूर्षु पुरिशय" इत्यादिश्रुतिभ्यः । अथ वा जीवपुरे एवास्मिन् ब्रह्म सन्निहितमुपलक्ष्यते। यथा शालग्रामे विष्णुः सन्निहित इति तद्दत्। तद्यथेह कर्मचितो लोक: क्षीयते एवमेवामुन्न पुण्यचितो लोकः क्षीयते" इति च कर्मणामुन्त- तु ब्रह्मणः पुरमिति षष्ठचर्थ: स्वस्वामिभावो ग्राह्यः।निरपेक्षेण तत्सा- पेक्षं बाध्यमिति न्यायादित्याह॥ अन्र ब्रूम इति ॥ शरीरस्य ब्रह्म- णा तदुपलब्धिस्थानत्वरूपे सम्बन्धे मानमाह ॥ स इति॥ पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः। ननु ब्रह्मशब्दस्य जी- वेऽप्यन्नादिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठचर्थ: कथं चिन्नेय इत्य- त आह॥ अथ वेति॥ बृहयति देहमिति ब्रह्म जीवः तत्स्वामिके पु- रे, हृदयं ब्रह्मवेश्म भवतु राजपुरे मैत्रसद्मवदित्यर्थः। अनन्तफल- लिङ्गगदपि दहरः परमात्मेत्याह॥ तद्यथेति॥ अथ कर्मफलाद्वैराग्या- नन्तरमिह जीवद्दशायामात्मानं दहरं तदाश्रितांश्र सत्यकामादिगु- णान् आचार्योपदेशमनुविद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां- सर्वलोकेष्वनन्तमैश्वर्य स्वेच्छया संचलनादिकं भवतीत्यर्थः । दहरे उक्तलिङ्गान्यन्यथासिद्धानि तेषां तदन्तःस्थगुणत्वादित्युक्तं स्मारयि-
Page 351
सू०१४। अ०५] शाङ्करब्रह्मसूत्रभाष्ये (३२९ ) वत्फलत्वमुक्ता"अथ य इहात्मानमनुविद्य व्र जन्त्येतांश्र् सत्यान् कामान् तेषां सर्वेषु लोके- षुकामचारो भवती"ति प्रकृतदहराकाशवि- ज्ञानस्यानन्तफलत्वं वदन् परात्मत्वमस्य सूच- यति। यदप्येतदुक्तं न दहरस्याकाशस्यान्वे- ष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रुतं परविशेष- णत्वेनोपादानादित्यत्र ब्रूमः। यद्याकाशो नान्वे- ष्टव्यत्वेनोक्त: स्यात् "यावान् वा अयमा- काशस्तावानेषोऽन्तर्हृदय आकाश" इत्याद्या- काशस्वरूपप्रदर्शनं नोपयुज्येत। नन्वेतद- व्यन्तर्वर्तिवस्तुसद्गावदर्शनायैव प्रदर्श्यते "तं- चेद् ब्रयुः, यदिदमस्मिन् ब्रह्मपुरे दहरं पु. ण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश: किं तदत्र विद्यते यदन्वेष्ठव्यं यद्वाव विजिज्ञासित- व्यमि"व्याक्षिप्य परिहारावसरे आकाशौप- म्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहि- तत्वदर्शनात् नैतदेवम्। एवं हि सति यदन्तः त्वा दूषयति॥यदपीत्यादिना॥ उत्तरत्राकाशस्य स्वरूपप्रतिपादना- न्यथानुपपच्या पूर्व तस्यान्वेष्यत्वादिकमित्यत्रान्यथोपपतति शङते ॥ नन्विति ॥ एतदाकाशस्वरूपं आक्षेपबीजमाकाशस्याल्पत्वमुप- मया निरस्यान्तःस्थवस्तूक्ते: तदन्तःस्थमेव ध्येयमित्यर्थः । तर्हि ज- गदेव ध्येयं स्यादित्याह॥ नैतदेवमिति॥ अस्तु को दोषस्तत्राह ४२
Page 352
(३३०) · रत्नप्रभाभासिते [अ० १। पा० ३। समाहितं द्यावापृथिव्यादि तदन्वेष्टव्यं विजिज्ञा- सितव्यं चोक्तं स्यात्। तत्र वाक्यशेषो नोपपद्ये- त।"अस्मिन् कामाः समाहिता: एष आत्माप- हतपाप्मा" इति हि प्रकृतं द्यावापृथिव्यादिसमा- धानाधारमाकाशमाकृष्या"थ य इहात्मानम- नुविद्य त्रजन्त्येतांश्र सत्यान् कामानि"ति स- मुच्चयार्थेन च शब्देनात्मानं च कामाधारमाश्रि- तांश्र कामान् विज्ञेयान् वाक्यशेषो दर्शयति। तस्माद्वाक्योपकरमेऽपि दहर एवाकाशो हृदयपु- ण्डरीकाधिष्ठानः सहान्तःस्थैःसमाहितैः पृथि- व्यादिभ्िः सत्यैश् कामैः विज्ञेय उक्त इति ग- म्यते। स चोक्तभ्यो हेतुभ्यः परमेश्वर इति॥१४॥ गतिशब्दाभ्यां तथा हि दृष्ट लिङं च १५ दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम्। ॥ तत्रेति । सर्वनामभ्यां दहराकाशमाकष्यात्मत्वादिगुणानुक्का गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो ब्रुते, तद्दिरोध इत्यर्थः । 'तस्मिन् यद- न्तरि'ति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह ॥ त- स्मादिति॥ यद्दा आकाशस्तस्मिन् यदन्तस्तदुभयमन्वेष्टव्यमिति योजनां सूचयति॥ सहान्तः स्थैरिति ॥४ ॥ दहराकाशस्य ब्रह्मत्वे हेत्वन्तरमाह॥गतीति॥ प्रजा जीवा एतंह- दयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छन्त्यस्तदात्मना स्थिता अप्यनृताज्ञानेनावृतास्तं न जानन्ति अतः पुनरुत्तिष्ठन्तीत्यर्थः ।
Page 353
सू०१५। अ० ५1 ] (३३१) त एवोत्तरे हेतव इदानीं प्रपञ््यन्ते।इतश्र पर- मेश्वर एव दहरो यस्मात् दहरवाक्यशेषे परमे- श्वरस्यैव प्रतिपादकौ गतिश्दौ भवतः।"इ- मा:सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ती"ति, तत्र प्रकृतं दहरं ब्रह्मलोकशब्दे- नाशिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानां अभिधीयमाना दहरस्य ब्रह्मतां ग- मयति। तथा त्यहरहर्जीवानां सुषुध्यवस्थायां ब्रह्मविषयं गमनं दष्टं श्रुत्यन्तरे "सता सोम्य तदा सम्पन्नो भवती" त्येवमादौ। लोकेऽपि किल गाढं सुषुप्तमाचक्षते 'ब्रह्मीभूतो ब्रह्मतां गत' इति। त- था ब्रह्मलोकशब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशाशङ्गां निवर्तयन् ब्रह्मतामस्य ग- मयति।ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत्, गमयेद्यदि ब्रह्मणो लोक इति षष्ठी-
नन्वेतत्पदपरामृष्टदहरस्य स्वापे जीवगम्यत्वेऽपि ब्रह्मत्वे किमायातमि- त्याशङ्क्य तथा हि दृष्टमिति व्याचष्टे॥ तथा हीति॥ लोकेSपि दृष्टमित्य र्थान्तरमाह॥लोकेडपीति।।गतिलिङ्गंव्याख्याय शब्दं व्याचष्ट।तथेति। जीवभूताकाशयोर्ब्रह्मलोकशब्दस्याप्रसिद्धेरिति भावः। ब्रह्मण्यपि त- स्याSपसिद्धिंश ङुते॥नन्विति॥निषादस्थपतिन्यायेन समाधन्े॥गम- येदिति॥ षष्ठे चिन्तितं स्थपतिर्निषादः शब्दसामर्थ्यात्। रौद्रीमिष्टिं १ ब्रह्मलोक शब्दस्य।
Page 354
(३३२) रत्नप्रभाभासिते [अ० १।पा० ३। समासवृत्त्या व्युत्पाद्येत। सामानाधिकरण्यतृ: त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यति। एतदेव चाहर- हर्ब्रह्मलोकगमनं दष्ट ब्रह्मलोकशब्दस्य सामा- नाधिकरण्यवृत्तिपरिग्रहे लिङ्गम्। न त्यहरहरि- मा: प्रजा: कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छ- न्तीति शक्यं कल्पयितुम्॥१५॥ धृतेश् महिम्नोऽस्यास्मिन्नुपलब्धेः१६॥ धृतेश्र हेतो: परमेश्वरएवायंदहरः कथं!"द- हरोऽस्मिन्नन्तराकाश" इति हि प्रकृत्याकाशौप-
विधाय एतया निषादस्थपतिं याजयेदित्याम्नायते। तत्र निषादाना स्थपतिः स्वामीति पष्ठीसमासेन त्रैवर्णिको ग्राहः अग्निविद्यादिसाम- थ्यात् न तु निषादश्ासौ स्थपतिरिति कर्मधारयेण निषादो ग्राहोऽ- सामर्थ्यादिति प्राप्ते सिद्धान्तः, निषाद एव स्थपतिः स्यात् नि- षादशब्दस्य निषादे शक्तत्वात्, तस्याश्रुतषष्ठचर्थसम्बन्धलक्षकत्व- कल्पनायोगात् श्रुतद्वितीयाविभक्ते: पूर्वपदसम्बन्धकल्पनायां लाघ- वात् अतो निषादस्येष्टिसामर्थ्यमात्रं कल्प्यमिति । तद्द्रह्मलोकशब्दे कर्मधारय इत्यर्थः । कर्मधारयेलिङ्गं चासीति व्याचष्टे॥ एतदेवेति। सूत्रे चकार उक्तन्यायसमुचयार्थः॥१५॥ सर्वजगद्धारणलिङ्गाच्च दहरः पर इत्याह ॥ धृतेरिति ॥ न- न्वथशब्दाद्दहरप्रकरणं विच्छिय श्रुता धृतिर्न दहरलिङ्गमिति शङ्कते। ॥। कथमिति ॥ य आत्मेति प्रकतापकर्षात् अथशब्दो दहरस्य धृ-
Page 355
सू०१६। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (३३३) म्यपूर्वकं तस्मिन् सर्वसमाधानमुक्का तस्मिन्ने- व चात्मशब्दं प्रयुज्यापहतपाष्मत्वादिगुणयोगं चोपदिश्य तमेवानतिवृत्तप्रकरणं निर्दिशत्य "थ य आत्मा स सेतुर्विधृतिरेषां लोकानामस- म्भेदाये"ति। तत्र विधृतिरित्यात्मशब्दसामा- नाधिकरण्याद्विधारयितोच्यते,क्तिच:कर्तरि स्म- रणात्। यथोदकसन्तानस्य विधारयिता लो- के सेतुः क्षेत्रसम्पदामसम्भेदायैवमयमात्माए- षामव्यात्मादिभेदभिन्नानां लोकानां वर्णाश्र- मादीनां च विधारयिता सेतुरसम्भेदायासङ्करा- येति। एवमिह प्रकते दहरे विधारणलक्षणं म- हिमानं दर्शयति, अयं च महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते "एतस्य वाक्षरस्य प्रशास- ने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत”इत्या-
धृतिशब्द: कर्तृवाचित्वात् किजन्तः। सूत्रे तु महिमशव्दसामानाविकर- ण्यादू धृतिशब्द: किन्नन्तो विधारणं ब्रूते, 'स्त्रियां किन् (३।३।९४)इति भावोकिनो विधानादिति विभागः। सेतुःसङ्गरहेतुः, विधृतिस्तु स्थितिहे- तुरित्यपौनरुक्त्यमाह ॥ यथोदकेति ॥सूत्रं योजयति। एवमिहेति॥ धृतेश्र दहरः परः अस्य धृतिरूपस्य नियमस्य च महिम्नोऽस्मिन पर- मात्मन्येव श्रुत्यन्तर उपलब्धेरिति सूत्रार्थः । धृतेश्रेति चकारातू सेतुपदोक्तनियामकत्वलिङ्गं ग्राहं तत्र नियमने श्रुत्यन्तरोपलब्धिमा-
Page 356
(३३४) रत्नप्रभाभासिते [अ० १। पा० ३। देः: तथान्यत्रापि निश्रिते परमेश्वरवाक्ये श्रू- यते "एष सर्वेश्वर एष भूताधिपतिरेष भूतपा- ल एष सेतुर्विधारण एषां लोकानामसम्भेदा- ये"ति। एवं धृतेश्र् हेतोः परमेश्वर एवायं दह- र।१६। प्रसिद्धेश्र्व॥ १७॥ इतश्र् परमेश्वर एव दहरोस्मिन्नन्तराकाश इत्युच्यते। यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः । "आकाशो वै नामरूपयोनिर्वहि- ता, "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त" इत्यादिप्रयोगदर्शनात् । जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्य- ते। भूताकाशस्तु सत्यामप्याकाशशब्दप्रसि- द्ौ उपमानोपमेयभावाद्यसम्भवान्न ग्रहीतव्य इत्युक्तम् ॥१७॥ इतरपरामर्शात् स इति चेन्नासम्भवा तू ॥ १८ ॥ यदि वाक्यशेषबलेन दहर इति परमेश्व- ह। एतस्येति ॥धृतौ तामाह॥ तथेति ॥१६॥आ समन्तात् काशतें दीप्यते इति स्वयंज्योतिषि ब्रह्मण्याकाशशब्दस्य विभुत्वगुण- तो वा प्रसिद्धिः प्रयोगप्राचुर्यम्॥१७॥
Page 357
सू०१८। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (३३५) रः परिगृत्ेतास्तीतरस्यापि जीवस्य वाक्य- शेषे परामर्शः । "अथ य एष सम्प्रसादो डस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्प- घ्य स्वेन रूपेणाभिनिष्पद्यते एष आत्मेति हो- बाचेशति। अत्र हि सम्प्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वादवस्थावन्तं जीवं शक्को- त्युपस्थापयितुं नार्थान्तरम।तथा शरीरव्यपा- श्रयस्यैव जीवस्य शरीरात् समुत्थानं सम्भव- ति। यथाकाशव्यपाश्रयाणां वाय्वादीनामा- काशात् समुत्थानं, तद्दत्। यथा चादष्टोऽपि लो- के परमेश्वरविषयआकाशशब्दः परमेश्वरधर्म- यदि एष आत्मापहतपाप्मेत्यादिवाक्यशेषबलेन दहरः परस्तर्हि जी- वोऽपीत्याशङ््य निषेधति ॥ इतरेति॥ जीवस्यापि वाक्यशेषमाह ॥ अथेति॥दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते, य एष सम्प्र- सादो जीवोऽस्मात् कार्यकरणसङ्घात् सम्यगुत्थाय आत्मानं तस्माद्ि- विच्य विविक्म् आत्मानं स्वेन ब्रह्मरूपेणाभिनिष्पय साक्षात्कत्य तदेव प्रत्यक परं ज्योतिरुपसम्पद्यते प्राप्नोतीति व्याख्येयम्। यथा- मुखं व्यादाय स्वपितीति वाक्यं सुप्वा मुखं व्यादत्ते इति व्याख्या- यते तद्दत्। ज्योतिषोऽनात्मत्वं निरस्यति ॥ एष इति॥ सम्प्रसादे रच्वा चरित्वेति श्रुत्यन्तरम्। अवस्थावदुत्थानमपि जीवस्य लिङ्गमि- त्याह ॥ तथेति ॥ तदाश्रितस्य तस्मात् समुत्थाने दृष्टान्तः॥यथेति॥ ननु क्वाप्याकाशशब्दो जीवेन दृष्ट इत्याशंक्योक्तावस्थोत्थानलिङ्गब- लातू कल्प्य इत्याह ॥ यथा चेति॥ नियामकाभावाज्जीवो दहरः किं
Page 358
(३३६) ारत्नप्रभाभासिते [अ० १।पा० ३। समभिव्या हारादा"काशो वै नामरूपयोनिर्व- हिते" त्येवमादौ परमेश्वरविषयोऽभ्युपगतः, ए- वं जीवविषयोऽपि भविष्यति। तस्मादितरप- रामर्शात् दहरोऽस्मिन्नन्तराकाश इत्यत्र स एव जीव उच्यते इति चेत्, नैतदेवं स्यात्, कस्माद- सम्भवात्। नहि जीवो बुद्धयाद्युपाधि परिच्छेदा- भ्िमानी सन्नाकाशेन उपमीयेत।न चोपाधि- . धर्मानभिमन्यमानस्यापहतपाप्मत्वादयो ध- र्मा:सम्भवन्ति । प्रपञ्चितं चैतत् प्रथमसूत्रे, अतिरेकाशङ्गापरिहाराय तु पुनरुपन्यस्तम्। पठिष्यति चोपरिष्ठात्"अन्यार्थश्र् परामर्श" (सू ० १।३।२०) इति ॥ १८॥ उत्तराचेदाविर्भूतस्वरूपस्तु॥१९॥ इतरपरामर्शाद्या जीवाशङ्ग जाता सा अ- सम्भवात् निराकता। अथेदानीं मृतस्यैवामृत- न स्यादिति प्राप्ते नियामकमाह॥नैतदित्यादिना॥ दहरे श्रुतधर्मा- णामसम्भवात् न जीवो दहर इत्यर्थः तर्हि पुनरुक्तिस्तत्राह ॥ अति- रेकेति ।। उत्तराच्चेत्यविकाशङ्कानिरासार्थमित्यर्थः । का तर्हि जी- वपरामर्शस्य गतिस्तत्राह॥ पठिष्यतीति॥ जीवस्य स्वापस्थानभ्- तब्रह्मज्ञानार्थोडयं परामर्श इति वक्ष्यते ॥ १८॥ असम्भवादिति हेतोरसिद्धिमाशङ्क्च परिहरति ॥। उत्तराज्चे- त्यादिसूत्रम्।। निराकताया जीवाशङ्कायाः प्रजापतिवाक्यबलात्
Page 359
सू०१९। अ०६।] शाङरब्रह्मसूत्रभाष्ये (३३७ ) सेकात् पुनः समुत्थानं जीवाशङायाः क्रियते उ- त्तरस्मात् प्राजापत्याद्वाक्यात् । तत्र हि "य
आत्मानमन्वेष्ठव्यं विजिज्ञासितव्यं च प्रतिज्ञाय- "य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मे"ति ब्रुवन्नक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति "एतं त्वेव ते भूयोनुव्याख्यास्यामी"ति च तमेव पुनःपुनः परामृश्य, "य एष स्वन्ने म- हीयमानश्र्रत्येष आत्मे"ति।"तद्यत्रैतत् सु- प्ः समस्तः सम्पन्नः खन्नं न विजानात्येष आत्मे"ति च जीवमेवावस्थान्तरगतं व्याचष्टे। तस्यैव चापहतपाष्मत्वादि दर्शयत्ये तदमृत- पुनः समुत्थानं क्रियते तत्र जीवस्यैवापहतपाप्म त्वादिग्रहणेनासम्भ- वासिद्वेरित्यर्थः, कथं तत्र जीवोक्तिस्तत्राह ॥ तन्नेत्यादिना। यद्प्यु- पक्रमे जीवशब्दो नास्ति तथाप्यपहतपाप्मत्वादिगुणकमात्मानमुपक्र- म्य तस्य जाग्रदायवस्थात्रयोपन्यासादवस्थालिङ्गेन जीवनिश्र्यात्तस्यैव ते गुणाः सम्भवन्तीति समुदायार्थः । इन्द्रं प्रजपतिर्बूते॥य एष इति॥ प्राधान्यादक्षिग्रहणं सवैरिन्द्रियैविषयदर्शनरूपजाग्रदवस्थापन्नमित्याह ।द्रष्टारमिति॥महीयमान: वासनामयैविषयैः पूज्यमान इति स्वप्- पर्याये, तप्यत्रेति, सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्टे इत्यन्वयः। यत्र काले तदेतत् स्वप्नं यथा स्यात्तथा सुप्तः सम्यक् अस्तो निरस्तः करण- य्रामो यस्य स समस्तः, अत एवोपहृतकरणत्वात् कृतकालुष्यहीनः संघ्र- सन्नः, स्वप्नं प्रपश्चमज्ञानमात्रत्वेन विलापयति अतोऽज्ञानसच्वात् मुक्ता ४३
Page 360
(३३८) रत्नप्रभाभासिते [अ० १। पा० ३। मभयमेतत् ब्रह्मे"ति। "नाह खल्वयमेवं स- म्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवे- मानि भूतानी"ति च सुषुप्तावस्थायां दोषमुप- लभ्य "एतं व्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतदस्मादि"ति चोपक्रम्य शरीर- सम्बन्धनिन्दापूर्वक"मेष सम्प्रसादोSस्माच्छ- रीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रू. पेणाभिनिष्पद्यते स उत्तम: पुरुष" इति जीव- शरीरात् समुत्थितं उत्तमं पुरुषं दर्शयति। तस्मादस्ति सम्भवो जीवे पारमेश्वराणां ध- र्माणाम्,अतो दहरोऽस्मिन्नन्तराकाश इति जीव एवोक्त इति चेत् कश्चिद्रूयात् तं प्रतिब्रयादावि- हिलक्षण: प्राज्ञः एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्ता- स्फूर्तिप्रदत्वादात्मेत्यर्थः । चतुर्थपर्याये ब्रह्मोंक्तेः तस्यैवापहतपाप्मत्वा- दिगुणा इत्याशङ्क्य तस्यापि पर्यायेऽस्य जीवत्वमाह॥नाहेति॥अहेति निपातः खेदार्थे। खिदमानो हीन्द्रः उवाच न खलु सुप्ः पुमानयं स- मप्रति सुषुप्यवस्थायामयं देवदत्तोऽहमित्येवमात्मानं जानाति। नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति। ना- हमत्र भोग्यं पश्यामि इति दोषमुपलभ्य पुनः प्रजापतिमुपससाद। तं दोषं श्रुत्वा प्रजापतिराह ॥ एतमिति॥ एतस्मात् प्रकतादात्म- नोऽन्यत्रान्यं न व्याख्यास्यामीत्युपक्रम्य मघवन्मर्त्य वा इदं शरीरं इति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः।तस्मात् प्रजापतिवाक्यात्। अतः सम्भवासिद्वेः। सिद्धान्तयति॥ तं प्रतीति ॥ अवस्थान्नया-
Page 361
सू ० १९। अ० ६।] शाङ्करब्रह्मसूत्रभाष्ये (३३९) भूतस्वरूपस्त्िति। तुशब्दः पूर्वपक्षव्यावृत्त्य- र्थो नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्गा सम्भवतीत्यर्थः। कस्मादयतस्तत्रापि आविर्भू- तस्वरूपो जीवो विवक्ष्यते। आविर्भूतं स्वरू- पमस्येत्याविर्भूतस्वरूपः, भूतपूर्वगत्या जीव- वचनम्। एतदुक्तं भवति। 'यएषोऽक्षिणी' त्यक्षि- लक्षितं द्रष्टारं निर्दिश्योदशरावब्राह्मणेनैनं शरी- रात्मताया व्युत्थाप्यै"तंतवेवत" इति पुनःपु- नस्तमेव व्याख्येयत्वेनाकृष्य स्वन्नसुषुप्तोप- न्यासक्रमेण परं ज्योतिरुपसम्पद्य स्वेन रूपे- भिनिष्पद्यत" इति यदस्य पारमार्थिकं स्वरू- च्छोधनेनाविर्भूतं शोधितत्वम् अर्थस्य वाक्योत्थवृत्यभिव्यक्तत्वमि- त्यर्थ:। तार्है सूत्रे पुंल्लिद्रेन जीवोक्ति:ः कथं ज्ञानेन जीवत्वस्य निवृ- त्तत्वादित्यत आह ॥ भूतपूर्वेति ॥ ज्ञानात् पूर्वमविया तत्कार्यप्र- तिबिम्बितत्वरूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपोपि जी- वनाम्नोच्यत इत्यर्थः। विश्वतैजसप्राज्ञतुरीयपर्यायचतुष्टयात्मकप्रजाप- तिवाक्यस्य तात्पर्यमाह॥ एतदिति॥ जन्मनाशवच्वात् प्रतिबि- म्बवद्दिम्बदेहो नात्मेति ज्ञापनार्थ प्रजापतिरिन्द्रविरोचनौ प्रत्यु- वाचोदशरावे आत्मानमवेक्ष्य यदात्मनो न विजानीथसन्मे ब्रूतमि त्यादिबराह्मणेनेत्याह। उदशरावेति। उदकपूर्णे शरावे प्रतिविम्बा- त्मानं देहं दृष्ट्ा स्वस्याज्ञातं यत्तन्महँ वाच्यमित्युक्तश्रुत्यर्थः । व्युत्था- प्य विचार्याभिनिष्पाद्यते इत्यत्रैतदुक्तं भवतीति सम्बन्धः। किमुक्तमि- त्यत आह। यदस्येति। जीवत्वरूपेण जीवं न व्याचष्टे लोकसिद्ध
Page 362
(३४०) रत्नप्रभाभासिते [अ० १।पा० ३। पं परं ब्रह्म तद्रूपतयैनं जीवं व्याचष्टे, न जैवेन रूपेण यत् परं ज्योतिरुपसम्पत्तव्यं श्रुतं तत् परंब्रह्म तच्चापहतपाप्मत्वादिधर्मकं तदेव चजी- वस्य पारमार्थिक स्वरूपं तत्त्वमसीत्यादिशा- सरभ्यो नेतरदुपाधिकल्पितम् । यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निर्व- र्तयन् कूटस्थनित्यटकस्वरूपमात्मानमहं ब्रह्मा- स्मीति न प्रतिपद्यते तावजीवस्य जीवत्वम्। य- दा तु देहन्द्रियमनोबुद्धिसङ्घाताद्युत्थाप्य श्रु- त्याप्रतिबोध्यते। 'नासिव्वं देहेन्द्रियमनोबुद्धि सङ्घातो नासि संसारी' कि तार्ह तद्यत् सत्यं स आत्मा चैतन्यमात्रस्वरूपस्तत्वमसीति। तदा कूटस्थनित्यदक्स्व रूपमात्मानं प्रतिबुध्यास्मा- च्छरीराद्यभिमानात् समुत्तिष्ठन् स एव कूटस्थ- त्वातू किंतु तमनूद्य परस्परव्यभिचारिणीभ्योऽवस्थाभ्यो विविच्य ब्रह्मस्वरूप बोधयति अतो यद्रह्म तदेवापहतपाप्मत्वादिधर्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्माभेदेन तद्धर्मोक्तेरित्यर्थः । एवम वस्थोपन्यासस्य विवेकार्थत्वान्न जीवलिङ्गत्वम् एतदमृतमभयमेतद्रह्ले- तिलिङ्गोपतश्रुतिविरोधादिति मन्तव्यम्। ननु जीवत्वब्रह्मत्वविरुद्ध- धर्मवताः कथमभेदस्तवाह।तदेवेति। अन्वयव्यतिरकाभ्यां जीवत्व- स्याविद्याकल्पितत्वादविरोधः इति मत्वा दृष्टान्तेनान्वयमाह। याव- दिति। व्यतिरेकसाह॥ यदेति। अविद्यायां सत्यां जीवत्वं वाक्योत्थ-
Page 363
सू० १९। अ० ६।] शाङ्करब्रह्म सूत्रभाष्ये (३४१) नित्यटक्स्वरूप आत्मा भवति, "सयो हवै त- तू परमं ब्रह्म वेद ब्रह्मैव भवती"त्यादिश्रुतिभ्यः। तदेव चास्य पारमार्थिक स्वरूपं, येन शरीरात् समुत्थाय स्वेन रूपेणाभिनिष्पद्यते कथं पुनः स्वं च रूपं स्वेनैव च निष्पद्त इति सम्भव- ति कूटस्थनित्यस्य। सुवर्णादीनां तु द्रव्यान्त-
धारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमा- नानां स्वरूपेणाभिनिष्पत्तिः स्यात् तथा नक्ष-
योगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात्। न तु तथा आत्मचैतन्यज्योतिषो नित्यस्य केन- चिदभिभ्नवः सम्भवत्यसंसर्गित्वात् व्योम्न इव दृष्टविरोधाच्च, दृष्टिश्रुतिमतिविज्ञातयो हि जीव- प्रवोधात्तन्निवृत्तौ तन्निवृत्तिरित्याविद्यकं तदित्यर्थः । संसारित्वस्य कल्पितत्वे सिद्धं निगमयति ॥ तदेव चास्येति ॥ समुत्थाय स्वेन रूपेणाभिनिष्पयत इति श्रुति व्याख्यातुम् आक्षिपति ॥कथं पुनरित्यादिना ॥I कूटस्थनित्यस्य स्वरूपमित्यन्वयः । मलस- ङ्गिनो हि क्रियया मलनाशादभिव्यक्तिर्न तु कूटस्थस्यासङ्िन इत्याह॥ सुवर्णेति॥ द्रव्यान्तरं पार्थिवो मलः। अभिभूतेत्यस्य व्या- ख्यानमनभिव्यक्तेति। असाधारणो भास्वरत्वादिः अभिभावकः सौरालोकः। जीवस्वरूपस्याभिभवे बाधकमाह ॥ द्ृष्टेति ॥ विज्ञा- नघन एवेति श्रुत्या चिन्मात्रस्तावदात्मा तच्चैतन्यं चक्षुरादिजन्यवृ-
Page 364
(३४२) रत्नप्रभाभासिते [अ०१पा० श स्य स्वरूपं, तच्च शरीरादसमुत्थितस्यापि जी- वस्य सदा निष्पन्नमेव दृश्यते। सर्वो हि जीवः पश्यन् शृण्वन्मन्वानो विजानन् व्यवहरत्यन्य- था व्यवहारानुपपत्तेः। तच्चेच्छरीरात् समुत्थित- स्य निष्पद्येत प्राक् समुत्थानात् दृष्टो व्यवहा- रो विरुध्येत। अतः किमात्मकमिदं शरीरात् समुत्थानं किमात्मिका च स्वरूपेणाभ्िनिष्प- त्तिरिति, अत्रोच्यते, प्राक् विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविवि- क्तमिव जीवस्य दध्यादि ज्योतिःस्वरूपं भव- ति। यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौळ्यं- च स्वरूपं प्राक् विवेकग्रहणाद्रक्त्तनीलाद्युपा- धिभिरविविक्तमिव भवति प्रमाणजनितविवेक- त्तिव्यक्तं दृष्टचादिपदवाच्यं सत् व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत हेत्वभावाव्यवहारोन स्यादि- त्यर्थः। अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्तमित्यङ्गीकार्य व्यवहारदर्शना- दित्याह॥तञ्चेति॥ अन्यथेत्युक्त स्फुटयति॥ तञ्चेदिति॥ स्वरूपं चेत् ज्ञानिन एव व्यज्येत ज्ञानात्पूर्व व्यवहारोच्छित्तिरित्यर्थः।अतः सदैव व्य- कस्वरूपत्वादित्यर्थ:सदा वृत्तिषु व्यक्तस्य वस्तुतोऽसङ्गस्यात्मनः आ- विद्यकदेहाद्विवेकरूपस्य मलसङ्गस्य सच्वात्तद्विवेकापेक्षया समुत्था- नादिश्रुतिरित्युत्तरमाह॥ अत्रेति ॥ वेदना हर्षशोकादिः। अविविक्त- मिवेति तादात्म्यस्य सङ्गस्य कल्पितत्वमुक्तम।तत्र कल्पितसङ्गे दृष्टा- न्तः॥। चथेति॥श्रुतिकृतमिति त्वंपदार्थश्रुत्या योऽयं विज्ञानमयः प्रा-
Page 365
सू ० १९। अ ० ६। ] शाङ्गरब्रह्मसूत्रभाष्ये (३४३) ग्रहणात्तु पराचीनस्फटिकः स्वाच्छयेन शौळ्ठयेन च स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन्, तथा देहादुपाध्यविविक्तस्यैव स- तो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात् स- मुत्थानं विवेकविज्ञानफलं स्वरूपेणाभिनिष्प- त्तिः केवलात्मस्वरूपावगतिः। तथा विवेकावि- वेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं च मन्त्र- वर्णात्,"अशरीरं शरीरेष्चि"ति "शरीरस्थोऽपि कौन्तेय न करोति न लिप्यत" इति च सशरी- रत्वाशरीरत्वविशेषाभावस्मरणात्। तस्माद्विवे- कविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेक- विज्ञानादाविर्भूतस्वरूपइत्युच्यते,न त्वन्यादशा- वाविर्भावानाविर्भावौ स्वरूपस्य सम्भवतःस्व-
णे्वित्यायया सिद्धमित्यर्थः । प्राणादिभिन्नशुद्धत्वंपदार्थज्ञानस्य वा- क्यार्थसाक्षात्कारः फलमित्याह॥ केवलेति ॥ सशरीरत्वस्य सत्यत्वा- तू समुत्थानमुक्कान्तिरिति व्याख्येयं न विवेक इत्याशङ्ग्याह॥तथावि- वेकेति ॥ उक्तश्रुत्यनुसारेणेत्यर्थः । शरीरेष्वशरीरमवस्थितमिति श्रुतेः अविवेकमात्रकल्पितं सशरीरत्वम्, अतो विवेक एव समुत्थाममित्यर्थः। ननु स्वकमारजिते शरीरे भोगस्यापरिहार्यत्वात् कथं जीवत एव स्वरू- पाविर्भाव इत्यत आह। शरीरस्थोऽपीति। अशरीरवत् शरीरस्थस्या- पि बन्धाभावस्मृतेर्जीवतो मुक्तिर्युक्तत्यर्थः। अविरुद्धे श्रुत्यर्थे सूत्रशे- षोक्त इत्याह ॥ तस्मादिति॥ अन्यादृशौ सत्यावित्यर्थः । ज्ञानाज्ञा- नरुताविर्भावतिरोभावाविति स्थिते भेदोऽप्यंशांशित्वकतो निरस्त
Page 366
(३४४) स्त्प्रभाभासिते [अ०१। पा० ३। रूपत्वादेव। एवं मिथ्याज्ञानकृत एव जीवपर- मेश्वरयोर्भेदो न वस्तुकृत: व्योमवदसङ्गत्वावि- शेषात् । कुतश्र्वैतदेवं प्रतिपत्तव्यम्। यतो "य एषोडक्षिणि पुरुषो दृश्यते" इत्युपदिश्यै "तदमृ- तमभयमेतत् ब्रह्मे"त्युपदिशति। योऽक्षिणि प्र- सिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते सोऽमृताभयल- क्षणाद्वह्मणोऽन्यश्रेत् स्यात् ततोSमृताभयब्रह्म- सामानाधिकरण्यं न स्यात्। नापि प्रतिच्छाया- त्माऽयमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावा- दिव्वप्रसङ्गात्। तथा द्वितीयेऽपि पर्याये "य ए- ष रवन्ने महीयमानश्र्रती"ति न प्रथमपर्या- यनिर्दिष्ठादक्षिपुरुषात् द्रष्टरन्यो निर्दिष्टः, "एतं
किं चाहमद्य स्वन्ने हस्तिनमद्राक्षं नेदानीं तंप- इत्याह॥एवमिति॥ अंशादिशून्यत्वमसङ्गत्वम् आत्मा द्रव्यत्वव्या- प्यजातिशून्यः विभुत्वात् व्योमवदित्यात्मैक्यसिद्धेर्भेदो मिथ्येत्यर्थः। प्रजापतिवाक्याच्च भेदो मिथ्येत्याका ङ्गपूर्वकमाह॥। कुतश्रेत्यादिना।। एतज्जेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयःछायायां ब्रह्मदृष्टिपरमि- दं वाक्यं, नाभेदपरमित्यत आह। नापीति॥यस्य ज्ञानात् कृतकत्यता सर्वकाम प्राप्तिस्तमात्मानमन्विच्छाव इति प्रवृत्तयोरिन्द्रविरोचनयोर्ययय- नात्मच्छायां प्रजापतिर्बूयात् तदा मृषावादी स्यादित्यर्थः। प्रथमवत् दवि- तीयादिपर्याये व्यावृत्तास्ववस्थासु अनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह ॥ तथेति ॥ अवस्थाभेदेऽप्यनुस्यूतौ युक्तिमाह ॥ किंचेति ॥ सुपुप्ौ-
Page 367
सू० १९। अ ० ६] शाङ्करब्रह्मसूत्रभाष्ये (३४५) श्यामीति दष्टमेव प्रतिबुद्धः प्रत्याचष्टे, द्रष्टारं तु तमेव प्रत्यभनिजानाति "य एवाहं स्वन्मद्राक्षं स एवाहं जागरितं पश्यामी" ति। तथा तृतीये- डपि पर्याये "नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति, नो एवेमानि भूतानी"' ति सुषप्तावस्थायां विशेषविज्ञानाआवमेव दर्श- यति, न विज्ञातारं प्रतिषेधति।यत्तु "तत्र विना- शमेवापीतो भवती"ति तदपि विशेषविज्ञानवि- नाशाभिप्रायमेव, न विज्ञातविनाशाभिप्रायम्। नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते "अवि- नाशित्वा"दिति श्रुत्यन्तरात् ।तथा चतुर्थेऽपिप- र्याये"एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नोए- वान्यत्रैतस्मादित्युपक्रम्य"मघवन्मर्त्य वा इदं शरीर"मित्यादिना प्रपच्चेन शरीराद्युपाधिस- म्बन्धप्रत्याख्यानेन सम्प्रसादशब्दोदितं जीवं स्वेन रूपेणाभिनिष्पद्यत इति ब्रह्मस्वरूपाप- न्नं दर्शयन् न परस्मात् ब्रह्मणोऽमृताभयस्व-
ज्ञातुर्ष्यावृत्तिमाशङ््चाह ॥ तथा तृतीय इति ॥ सुपुप्तौ निर्विकल्प- ज्ञानरूप आत्मास्तीत्यत्र बृहदारण्यकश्रुतिमाह ॥ नहीति ॥ बुद्धे: साक्षिणो नाशो नास्ति नाशकाभावादित्यर्थः । एवमवस्थाभिरसङ्ग- त्वेनोक्त आत्मैव तुरीयेऽपि ब्रह्मत्वेनोक्त इत्याह ॥ तथेति॥ श्रुतेरेक- ४४
Page 368
(३४६) रत्नप्रभाभासिते [अ० १।पा० ३। रूपादन्यं जीवं दर्शयति। केचित्तु परमात्मवि- वक्षायां"एतन्त्वेव ते" इतिजीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहत- पाप्मत्वादिगुणकमात्मानं "ते भूयोनुव्याख्या- स्यामी"ति कल्पयन्ति, तेषामेतमिति सन्नि- हितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत, भू- यः श्रुतिश्र्वोपरुध्येत, पर्यायान्तराभिहितस्य पर्यायान्तरेऽनभिधीयमानत्वात्,"एतन्त्वेवते" इति च प्रतिज्ञाय प्राक् चतुर्थात् पर्यायादन्य- मन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्र- सज्येत, तस्माद्यदविद्याप्रत्युपस्थापितमपार- मार्थिकं जैवं रूपं कर्तभोक्तृरागद्देषादिदोषक- लुषितमनेकानर्थयोगि तद्विलयनेन तद्विपरीत- मपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपाद्यते। सर्पादिविलयनेनेव र- देशिव्याख्यां दूषयति ॥ केचित्विति ॥ जीवपरयोर्भेदादिति भावः। श्रुतिबाधान्मैवमित्याह॥ तेषामिति॥ सन्निहितो जीव एव सर्व- नामार्थ इत्यर्थः। उक्तस्य पुनरुक्तौ भूय इति युज्यते। तवतूपक्रान्तपर- मात्मनश्रवतुर्थ एवोक्तेस्तद्वाघ इत्याह।भूय इति॥ लोकसिद्धजविानुवा- देन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति॥ तस्मादिति॥ व्याख्या- नान्तरासम्भवादित्यर्थः । विलयनं शोधनं विद्यया महावाक्येनेति यावत्। ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारीरकमेवोत्तरमि-
Page 369
सू० १९ । अ ० ६/] शाङ्करब्रह्मसूत्रभाष्ये (३४७) ज्वादीन्। अपरे तु वादिन: पारमार्थिकमेव जै- वं रूपमिति मन्यन्ते। अस्मदीयाश्र् केचित् ते- षां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धमेक एव परमेश्व- रः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया- मायाविवदनेकधा विभाव्यते नान्यो विज्ञान- धातुरस्तीति। यच्विदं परमेश्वरवाक्ये जीवमा- शङन्य प्रतिषेधति सूत्रकारः'नासम्भवात्' (१।३। १८।) इत्यादिना तत्रायमभिप्रायः नित्यशु- द्बुद्मुक्तस्वभावे कूटस्थनित्य एक्मिन्नस- डे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादिपरिकल्पितं तदात्मैकत्वप्रतिपादन-
मीति परमात्मनो जीवादन्यत्वं द्रढयति, जी- त्याह।। अपरे त्वित्यादिना॥ शारीरकस्यार्थ सङ्गेपेणोपदिशति ।। एक एवेति॥ अविद्यामाययोर्भेंदं निरसितुं सामानाधिकरण्यं आव-
संसरति न ततोऽन्यो जीव इति शारीरकार्थ इत्यर्थः। तर्हि सूत्रकारः कि- मिति भेदं ब्रूते तत्राह। यत्त्विति। परमात्मनोऽसंसारित्वसिद्धयर्थ जीवाज्जेदं द्रढयति। तस्यासंसारित्वनिश्रयाभावे तदभेदोक्तावपि जीव- स्य संसारित्वानपायादित्यर्थः । अधिष्ठानस्य कल्पितान्जेदेऽपि क- ल्पितस्याधिष्ठानान्न पृथक् सत्वमित्याह ॥ जीवस्य त्विति ॥क-
Page 370
. (३४८) रत्नप्रभाभासिते [अ० १। पा. ३। वस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति किंत्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जी- वभेदम्। एवं हि स्वाभाविककर्तृत्वभोक्तृत्वा- नुवादेन प्रवृत्ता: कर्मविधयो न विरुध्यन्त इति मन्यते, प्रतिपादं तु शास्त्रार्थमात्मैकत्वमेव दर्श- यति "शास्रदृष्ट्या तूपदेशो वामदेवव" दित्या- दिना, वर्णितश्र्वास्माभिर्विद्वदविद्वद्गेदेन कर्म- विधिविरोधपरिहारः॥१९॥ अन्यार्थश्र परामर्शः॥२०॥ अथ यो दहरवाक्यशेषे जीवपरामर्शो दर्शि- तः "अथ य एप सम्प्रसाद" इत्यादि: स द- हरे परमेश्वरे व्याख्यायमाने न जीवोपासनोप- देशो न प्रकृतविशेषोपदेश इत्यनर्थकत्वं प्रान्नो- तीत्यत आह, अन्यार्थः । अयं जीवपरामर्शः न ल्पितभेदानुमानस्य फलमाह ॥ एवं हीति ॥ सूत्रेष्वभेदो नोक इ- ति भ्रान्तिं निरस्यति। प्रतिपाद्यमिति॥ आत्मेति तूपगच्छन्ती- त्यांदिसूत्राणि आदिपदार्थः । नन्वद्वैतस्य शास्त्रार्थत्वे द्वैतापेक्षवि- िविरोधस्तत्राह ॥ वर्णितश्रेति ॥ अद्वैतमजानतः कल्पितह्वैताश्रया विधयो न विदुष इति सर्वमुपपन्नमित्यर्थः ॥१९॥ एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवापहतपाप्मत्वायु- के: जीवे तदसम्भवान्न जीवो दहर इत्युक्तं तर्हि जीवपरामर्शस्य का गतिरित्यत आह॥ अन्यार्थश्रेति॥ सूत्रं व्याचष्टे ॥। अथेत्या-
Page 371
सू० २१ । अ ० ६] शाङ्करव्रह्मसूत्रभाष्ये (३४९) जीवस्वरूपपर्यवसायी किं तहि! परमेश्वरस्व- रूपपर्यवसायी, कथम् सम्प्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपअ्जराध्यक्षो भूत्वा तद्दासनानिर्मितांश्र स्वन्ान्नाडीचरोऽनु- भूय श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीरा- भिमानात् समुत्थाय सुषुप्तावस्थायां परं ज्योति- राकाशशब्दितं परं ब्रह्मोपसम्पद्य विशेषविज्ञान- वध्वं परित्यज्य स्वेन रूपेणाभिनिष्पद्यते यद- स्योपसम्पत्तव्यं परं ज्योतिः, येन स्वेन रूपे- णायमभिनिष्पद्यते एष आत्मापहतपाप्मत्वा- दिगुण उपास्य इत्येवमर्थोऽयं जीवपरामर्शः परमेश्वरवादिनोऽप्युपपद्यते॥ २०॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥।२१ ।। यदप्युक्तं दहरोSस्मिन्नन्तराकाश इत्याका- शस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जी- वस्य व्वाराय्रोपमितस्याल्पत्वमवकल्पत इति तस्य परिहारो कक्तव्यः। उक्तो त्यस्य परिहारः परमेश्वरस्यापेक्षिकमल्पत्वमवकल्पत इत्य- दिना। प्ररुते दहरे विशेषो गुणतस्तदुपदेशोऽपि नेत्यर्थः । तत्र दह- रवाक्यशेषरूपं सम्प्रसादवाक्यमाशङ्गापूर्वकं दहरब्रह्मपरत्वेन व्या- चष्टे॥ कथमित्यादिना॥२०॥
Page 372
(३५०) रत्नप्रभाभासिते [अ० १। पा० ३। "अर्कौकस्त्वात्तद्यपदेशाच्च नेति चेन्न निचाय्य त्वादेवं व्योमवच्चे" त्यत्र स एव इह परिहारोऽनु- सन्धातव्य इति सूचयति। श्रुत्यैव चेदमल्प- व्वं प्रत्युक्तं प्रसिद्देनाकाशेनोपमिमानया "या वान वा अयमाकाशस्तावानेषोऽन्तर्हदय आ- काश" इति॥२१॥ अनुकृतेस्तस्य च ।। २२।। "न तत्र सूर्यो भाति न चन्द्रतारकं नेमा वि- दुतो भान्ति कुतोऽयमननिः तमेव भान्तमनु- भाति सर्व तस्य भासा सर्वमिदं विभाती" ति समामनन्ति। तत्र यं भान्तमनुभाति सर्व य- स्य च भासा सर्वमिद विभाति स किं तेजो- धातुः कश्विदुत प्राज्ञ आत्मेति विचिकित्सायां उपास्यत्वादल्पत्वमुक्तमिति व्याख्याय श्रुत्या निरस्तमित्यर्था- न्तरमाह॥ श्रुत्यैव चेदमिति। एवं दहरवाक्यं प्रजापतिवाक्यं च सगुणे निर्गुणे च समन्वितमिति सिद्धम् ॥२१ ॥ अनुकृतेतस्य च। मुण्डकयाक्यमुदाहरति॥न तत्रेति॥ तस्मिन् ब्रह्मणि विषये न भाति तं न भासयतीति, यावत्। यदा चन्द्रभास्क- रादिर्न भासयति तदा अल्पदीप्ेरग्नेःका कथेत्याह ॥ कुत इति ॥ किं- च सर्वस्य सूर्यादेस्तद्ास्यत्वान्न तद्भासकत्वमित्याह ॥ तमेवेति॥ अनुगमनवद्नुभानं स्वगतमिति शङ्गं निरस्यति ॥ तस्येति ॥तत्रे- १ तेन ब्रह्मणा भास्यत्वादित्यर्थः। २ गच्छन्तमनुगच्छतीतिप्रयोगप्रतीतानुगमनवत्।
Page 373
सू० २२। अ०७] शाङ्करव्रह्मसूत्रभाष्ये (३५१) तेजोधातुरिति तावत् प्राप्तम्, कुतः! तेजोधातू- नामेव सूर्यादीनां भानप्रतिषेधात्। तेजःस्व- भावकं हि चन्द्रतारकादि तेजःस्वभावके एव सूर्य भासमानेऽहनि न भासत इति प्रसिद्धम्, तथा सह सूर्येण सर्वमिद चन्द्रतारकादि यस्मि- न्नभासते सोऽपि तेजःस्वभावक एव कश्ि- दित्यवगम्यते । अनुभानमपि तेजःस्वभाव- क एवोपपद्यते समानस्वभावकेष्वनुकारदर्श- नात्, गच्छन्तमनुगच्छतीति वत्, तस्मात् तेजो- धातुः कश्विदित्येवं प्राप्ते ब्रूमः । प्राज्ञ एवाय- मात्मा भवितुमर्हति। कस्मात् ! अनुकृतेः, अ- ति सप्तम्याः सति विषये च साधारण्यात् सशयमाह ॥तत्रेति॥पू- र्वत्रात्मश्रुत्यादिबलादाकाशशब्दस्य रूढित्यागादीश्वरे वृत्तिराश्रिता तथेहापि सतिसप्तमीबलात् वर्तमानार्थत्यागेन यस्मिन् सति सूर्याद- यो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्तिराश्रयणी- या अधुना भासमाने सूर्यादौ न भातीति विरोधात् इति दृष्टान्तेन पू- र्वपक्षयति ॥ तेजोधातुरिति ॥ तेजोध्यानं निर्गुणस्वयंज्योतिरात्म- ज्ञानमित्युभयत्र फलम्। तेजोधातुत्वे लिङ्गमाह ॥ तेजोधातूनामि- ति ।यत्तेजसोऽभिभावकं तत्तेज इति व्याप्िमाह॥ तेजःस्वभावक- मिति॥ यस्मिन् सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह॥ अनुभानमिति ॥ततो निरष्टभानं विवक्षितमिति भावः। मुख्यसम्भवे विवक्षानुपपत्तेः मुख्यानुभानलिङ्कातू सर्वभासकः परमा- त्मा स्वप्रकाशकोडत्र ग्राहःइति सिद्धान्तमाह।प्राज्ञइति।प्राज्ञत्वं स्व-
Page 374
(३५२) रत्नप्रभाभासिते [अ०१।पा० ३। नुकरणमनुकृतिः, यदेत "तमेव भान्तमनुभाति सर्वमित्यनुभानं तत् प्राज्ञपरिग्रहेऽवकल्पते। आारूप: सत्यसङ्गल्प इति हि प्राज्ञमात्मान- मामनन्ति, न तु तेजोधातुं कश्च्चित् सूर्यादयो- डनुभान्तीति प्रसिद्धम्। समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्यपेक्षास्ति यं भान्तमनुभायुः। न हि प्रदीपः प्रदीपान्तरम- नुभाति। यदप्युक्तं समानस्वभावकेष्वनुका- रो दृश्यत इति नायमेकान्तो नियमोऽस्ति, भि- न्नस्वभावकेष्वपि ह्यनुकारो दृश्यते, यथा सुत- पोऽय:पिण्डोऽग्न्यनुकृतिरभनिं दहन्तमनुदह- ति, भौमं वा रजो वायुं वहन्तमनुवहतीति। अ- नुकतेरित्यनुभानमसुसूचत्। तस्य चेति चतुर्थ- पादमस्य श्रोकस्य सूचयति। "तस्य आसा सर्वमिदं विभाती"ति च तद्वेतुकं भानं सूर्यादे- प्रकाशकत्वं भासकत्वार्थमुक्तं,तत्र श्रुतिमाह।।भारूप इति।मानाभा- वाच्च तेजोधातुर्न ग्राह इत्याह॥न त्विति॥ किश्च सूर्यादयस्तेजोऽन्तर- भानमनु न भान्ति तेजस्त्वात् प्रदीपवदित्याह । समत्वाच्चेति-॥ योऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह॥ नायमेका- न्त इति॥ पौनरुक्त्यमाशङ्ग्योक्तानुवादपूर्वकं सूत्रोक्तं हेत्वन्तरं व्या- चष्टे।। अनुकृतेरिति॥ तमेव भान्तमित्येवकारोक्तं तद्गानं विना सर्व स्य पृथग्भानाभावरूपं अनुभानमनुरुतेरित्यनेनोक्तम् । तस्य चेति ।
Page 375
सू० २२। अ०७] शाङ्करब्रह्मसूत्रभाष्ये (३५३) रुच्यमानं प्राज्ञमात्मानं गमयति। "तदेवा ज्यो- तिषां ज्योतिरायुहोंपासतेऽमृत"मिति हि प्रा- ज्ञमात्मानमामनन्ति। तेजोऽन्तरेण तु सूर्यादि- तेजो विभातीत्यप्रसिद्धं विरुद्वं च, तेजोऽन्तरेण तेजोऽन्तरस्य प्रतिघातात्।अथ वा न सूर्यादी- नामेव श्रलोकपरिपठितानामिदं तद्वेतुकं विभान- मुच्यते, किं तर्हि "सर्वमिदमि"व्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य याऽभिव्यक्ति: सा ब्रह्मज्योतिःसत्तानिमित्ता। यथा सूर्यादिज्योतिःसत्तानिमित्ता सर्वस्य रू- पजातस्याभिव्यक्तिस्तद्वत्। "न तत्र सूर्यो भा- ती"ति च तत्रशब्दमाहरन् प्रकृतग्रहणं दर्शयति प्रकृतं च ब्रह्म यस्मिन् द्यौः पृथिवी चान्तरि- क्षमोतमित्यादिना। अनन्तरं च, हिरण्मये प- रे कोशे विरजं ब्रह्म निष्कलम्। तच्छुमं ज्यो- सर्वभासकत्वमुक्तम् इत्यपौनरुत्त्यमित्यर्थः । आत्मन: सूर्यादिभास- कत्वं श्रुत्यन्तरप्रसिद्धमविरुद्धं चेत्याह॥ तदेवा इति॥ सर्वशब्दः प्र- कृतसूर्यादिवाचकत्वेन व्याख्यातः । सम्प्रति तस्यासंकुचद्वत्तितां म- त्वाऽर्थान्तरमाह ॥ अथवेति ॥ तत्रेति सर्वनामश्रुत्या प्ररतं ब्रह्म ग्राह्यमित्याह॥ न तत्र सूर्य इति ॥ किंच स्पष्टव्रह्मपरपूर्वमन्त्राका- ङ्ापूरकत्वादयं मन्त्रो ब्रह्मपर इत्याह ॥। अनन्तरं चेति ॥ हिरण्मये ज्योतिर्मये अन्नमयाद्यपेक्षया परे कोशे आनन्दमयाख्ये पुच्छशब्दि- ४५
Page 376
(३५४) रत्नप्रभाभासिते [अ० १। पा० ३। तिषां ज्योतिस्तघदात्मविदो विदुरिति। कथं तज्योतिषां ज्योतिरित्यत इदमुत्थितं "न तत्र सूर्यो भाती"ति। यदप्युक्तं सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नवकल्पते सूर्य इवेतरेषाम् इति, तत्र तु स एव तेजोधातु- रन्यो न सम्भवतीत्युपपादितम्। ब्रह्मण्यपि चै- षां भानप्रतिषेधोऽवकल्पते, यतो यदुपलभ्य- ते तत् सर्व ब्रह्मणैव ज्योतिषोपलभ्यते, ब्रह्म तु नान्येन ज्योतिषोपलभ्यते स्वयंज्योतिःस्व- रूपत्वात्, येन सूर्यादयस्तस्मिन् भायुः।ब्रह्म ह्यन्यद् व्यनक्ति न तु ब्रह्मान्येन व्यज्यते "आ- तं ब्रह्म विरजं आगन्तुकमलशून्यं निष्कलं निरवयवं शुभं नैसर्गिक- मलशून्यं सूर्यादिसाक्षिभूतं ब्रह्मवित्प्रसिद्धमित्यर्थः । सतिसप्तमी- पक्षमनुवदति॥ यदपीति ॥ सूर्यायभिभावकतेजोधातौ प्रामाणिके- तस्येह ग्रहणशङ्का स्यात् न तत्र प्रमाणमस्तीत्याह॥ तत्रेति॥सिद्धा- न्ते तत्रेति वाक्यार्थः कथमित्याशङ्याह॥ ब्रह्मण्यपीति ॥ सतिस- प्मीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यत्त्ा तस्मिन् सति न भा- स्यन्तीत्यश्रुतभविष्यच्वं कल्पनीयं प्रत्यक्षविरोधनिरासाय, विषयस- पमीपक्षे तु न भासयतीत्यश्रुतणिजध्याहारमात्रं कल्प्यं न श्रुतत्याग इति लाघवं, अतो ब्रह्मणि विषये सूर्यादेर्भासकत्वनिषेधेन ब्रह्मभा- स्यत्वमुच्यत इत्यर्थः । येनान्यभास्यत्वेन हेतुना सूर्यादयस्तस्मिन् ब्र- ह्रणि विषये भासका: स्युः, तथा तु ब्रह्मान्येन नोपलभ्यते स्वप्रकाश- त्वादिति योजना। उक्तमेव श्रुत्यन्तरेण द्रढयति ॥ ब्रह्मेति॥ स्वप्रका-
Page 377
सू० २४। अ०८।] शाङ्करब्रह्मसूत्रभाष्ये (३५५) त्मनैवायं ज्योतिषास्ते" "अग्टत्यो नहि गृह्य- ते" इत्यादिश्रुतिभ्यः ॥२२॥ अपिच स्मर्यते ॥ २३॥ अपि चेदं रूपं प्राज्ञस्यैवात्मनः स्मर्यते भ- गवद्गीतासु। "न तद्रासयते सूर्यो न शशाङ्ो न पावकः। यद्गत्वा न निवर्तन्ते तद्ाम परमं मम"॥ इति। "यदादित्यगतं तेजो जगद्गासयतेऽखिलम् यच्चन्द्रमसि यञ्चासौ तत्तेजो विद्दि मामकम्"। इति च ॥ २३॥ शब्दादेव प्रमितः॥२४।। "अङ्गुप्टमात्र: पुरुषो मध्य आत्मनि ति प्रति" इति श्रूयते, तथा "अङ्गुष्ठमात्रः पुरुषो शत्वेऽन्याभास्यत्वे च श्रुतिद्दयम्। ग्रहणायोग्यत्वादग्राह्य इत्यर्थ: २२ णिजध्याहारपक्षे स्मृतिबलमप्यस्तीत्याह ॥। अपि चेति॥ सूत्रं व्याचष्टे ।। अपि चेति ॥। अभास्यत्वे सर्वभासकत्वे च श्रोक- दयं द्रष्टव्यं तस्मादनुभानमन्त्रो ब्रह्मणि समन्वित इति सिद्धम् ॥ २३॥ शब्दादेव प्रमित:॥काठकवाक्यं पठति॥अङ्गुष्ठेति।।पुरुषः पूर्णोSप्यात्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठतीत्यङ्गुष्ठमात्र इ- त्युच्यते तस्यैव परमात्मत्ववादिवाक्यान्तरमाह॥।तथेति॥अधूमकमिति पठनीयम्। योऽङ्गुष्ठमात्रो जीवः सवस्तुतो निर्धूमज़ोतिर्वन्निर्मलप्र-
Page 378
(३५६) रत्नप्रभाभासिते [अ० १। पा० ३। ज्योतिरिवाधूमकः ईशानो भूतभव्यस्य सए- वाद्य स उश्व एतद्वैतत्" इति च तत्र योऽयम- ङ्गुष्ठमात्र: पुरुषः श्रूयते, स किं विज्ञानात्मा किं वा परमात्मति संशयः। तत्र परिमाणोपदे- शाद्विज्ञानात्मेति तावत् प्राप्तमू। न ह्यनन्ताया- मविस्तारस्य परमात्मनोऽङ्गुष्टुमात्रपरिमाण- मुपदिश्येत। विज्ञानात्मनस्तूपाधिमत्वात् स- म्भवति कयाचित् कल्पनयाडङगुष्टुमात्रत्वम्, समृतेश्र्, अथ सत्यवतः कायात् पाशबद्धं वशङ्गतम्। अङ्गुष्ठमात्रं पुरुषं निश्र्कर्ष यमो बलात्॥इति। काशरूप इति त्वमर्थ संशोध्य तस्य ब्रह्मत्वमाह।।ईशान इति॥तस्या- द्वितीयत्वमाह॥ स एवेति॥ कालत्रयेऽपि स एवास्ति नान्यतू नचिके- तसा पृष्ट ब्रह्म तदेतदेवेत्यर्थः । परिरमाणेशानशब्दाभ्यां संशयमाह। ॥ तत्रेति ॥यथानुभानादिलिङ्गात् णिजध्याहारेण सूर्याद्यगोचरो ब्र- ह्रेत्युक्तं तथा प्रथमश्रुतपरिमाणलिङ्कता जीवप्रतीतावीशानोऽस्मीति ध्यायेदिति विध्यध्याहारेण ध्यानपरं वाक्यमिति पूर्वपक्षयति॥ तत्र- परिमाणेति॥ पूर्वपक्षे ब्रह्मदृष्ट्या जीवोपासितिः, सिद्धान्ते तु प्रत्य- ग्र्लैक्यज्ञानं फलमिति मन्तव्यम्। आयामो दैर्ध्य विस्तारो मह्त्व- मिति भेद:॥ कयादिचिति॥अङ्गुष्ठमात्रहृदयस्य विज्ञानश्दित- बुद्धच भेदाध्यासकल्पनयेत्यर्थः। स्मृतिसंवादादप्यङ्गुष्ठमात्रो जीव इ- त्याह।स्मृतेश्चेति॥अथ मरणानन्तरं यमपाशैर्बद्धं कर्मवशं प्राप्तमित्यर्थ: १ जीवमित्यर्थः । २ मं गुष्टमात्र इति परिमाणशब्दः ।
Page 379
सू० २४। अ० ८।] शाङ्करब्रह्मसूत्रभाष्ये (३५७ ) नहि परमेश्वरो बलाद्यमेन निष्क्रष्ठुं शक्य: तेन तत्र संसार्यङ्गुष्ठमात्रो निश्चितः स एवेहा- पीत्येवं प्राप्ते ब्रूमः। परमात्मैवायमङ्गुष्ठमात्र- परिमितः पुरुषा अवितुमर्हति। कस्मात्! श० ब्दात् "ईशानो अूतभव्यस्ये"ति। न त्यन्यः परमेश्वराद् भूतभव्यस्य निरङकुशमीशिता। "एतद्वै तदि"तिच। प्रकृतं पृष्टमिहानुसन्दधाति, "एतद्वैतत् यत् पृष्ठम्" ब्रह्मेत्यर्थः।पृष्ठ चेह ब्रह्म। "अन्यत्र धर्मादन्यत्नाधर्मादन्यत्रास्मात् कृ- ताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत् प- श्यसि तद्वद" इति। शब्दादेवेति अभिधान- श्रुतेरेवेशान इति परमेश्वरोऽवगम्यत इत्य र्थः॥२४॥ कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूम:।। हृद्यपेक्षया तु मनुष्याधिकारत्वात् २५ तत्रापीश्वरः किंन स्यादित्यत आह ॥ न हीति ॥ 'प्रभवति संयमने ममापि विष्णु'रिति यमस्येश्वरनियम्यत्वस्मरणादिति भावः। भूत- भव्यस्येत्युपपदाद्वाधकाभावाच ईशान इतीशत्वशब्दानिरङ् कुशमी- शिता भातीति श्रुत्या लिङ्गं बाध्यमिति सिद्दान्तयति॥ परमात्मैवे- ति। प्रकरणाच्च ब्रह्मपरमिदं वाक्यमित्याह ॥ एतदिति॥ शब्दो वाक्यं लिङ्गात् दुर्बलमित्याशङ्ड्याह॥ शब्दादिति ॥२४॥
Page 380
(३५८) रत्नप्रभाभासिते [अ० १। पा० ३। सर्वगतस्यापि परमात्मनो हृदयेऽवस्थान- मपेक्ष्याड्गुष्ठमात्रव्वमिदमुच्यते, आकाशस्येव वंशपर्वापेक्षमरत्निमात्रत्वम्।न ह्यअ्सातिमा- त्रस्यैव परमात्मनोऽङ्गुष्ठामात्रत्वमुपपद्यते। न चान्य: परमात्मन इह ग्रहणमर्हति ईशानश- ब्दादिभ्य इत्युक्तम्। ननु प्रतिप्राणिभेदं हृदया-
पपद्यत इत्यत उत्तरमुच्यते, मनुष्याधिकारत्वा- दिति। शास्त्रं त्य्यविशेषप्रवत्तमपि मनुष्यानेवा-
करः सकानीष्ठिकाडेरति ॥ मुख्याङ्गुष्ठमात्रो जीवो गृह्यतां किं गौणग्रहणेनेत्यत आह ॥ न चान्ये इति ॥ सति सम्भवे मुख्यग्रहो न्याय्यः अत्र तु श्रुतिविरोधादसम्भव इति गौणग्रह इत्यर्थः। मनु व्यानेवेति त्रैवणिकानेवेत्यर्थः । शक्तत्वादित्यनेन पश्चादीनां देवाना- मृषीणांचाधिकारो बाधितः । तत्र पश्चादीनां शास्त्रार्थज्ञानादिसाम- व््यभावात् कर्मण्यशक्तिः, इन्द्रादेः स्वदेवताके कर्मणि स्वोद्देशेन द्र- व्यत्यागायोगादशक्तिः ऋषीणामार्षेयवरणे ऋष्यन्तराभावादशक्तिः। अर्थित्वादित्यनेन निष्कामानां मुमुक्षूणां स्थावराणां चाधिकारो वा- सितिस्तत्र मुमुक्षूणां शुद्धयर्थित्वे नित्यादिष्वधिकारो, न काम्येषु। शुद्ध- चित्तानां मोक्षार्थित्वे अ्रवणादिषु व्यअ्जकेष्वधिकारो, न कर्म्विति मन्तव्यम्। शूद्रस्याधिकारं निरस्यति ॥ अपर्युदस्तत्वादिति॥ 'शू- द्रो यज्ञेऽनवक्लप्त इति पर्युदासातू, 'उपनयीत तमध्यापयीते'ति शा- स्त्राच्च न शूद्रस्य वैदिके कर्मण्यधिकारः । तस्यैकजातित्वस्मृतेरुपनय- नप्रयुक्तद्विजातित्वाभावेन वेदाध्ययनाभावात् । अत्रापेक्षितोन्यायः
Page 381
सू० २५। अ० ८। ] शाङ्गरब्रह्मसूत्रभाष्ये (३५९) धिकरोति शक्तत्वादर्थित्वादपर्युंदस्तत्वादुपन- यनादिशास्त्राच्चेति। वर्णितमेतदधिकारलक्षणे, मनुष्याणां च नियतपरिमाण: कायः औचि- त्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हद- यम्। अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्य-
मात्मनः । यदप्युक्तं परिमाणोपदेशात् स्मृ- तेश्र् संसार्येवायमङ्गुष्टमात्रः प्रत्येतव्य इ- ति तत् प्रत्युच्यते 'स आत्मा, तत्त्वमसी' त्या- दिवत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्र- ह्मत्वमिद्मुपदिश्यत इति। द्विरूपा हि वेदान्त- वाक्यानां प्रवृत्तिः,क्वचित् परमात्मस्वरूपनि- रूपणपरा क्वचिद्विज्ञानात्मनः परमात्मैकत्वोप- षष्ठाध्याये वर्णित इत्याह ॥ वर्णितमिति॥ स्वर्गकामो यजेतेत्या- दिशास्त्रस्याविशेषेण सर्वान् फलार्थिनः प्रति प्रवृत्तत्वात् प्राणिमात्र- स्य सुखार्थित्वाच्च फलार्थे कर्मणि पश्चादीनामप्यधिकार इत्याशङ्डन्यो- करीत्या तेषां शक्तत्वाद्यभावात् स्वर्गकामपदं मनुष्यपरतया सङ्गोच्य मनुष्याधिकारत्वे स्थापिते चातुर्वर्ण्याधिकारित्वमाशङ्क्च 'वसन्ते ब्रा- ह्लणोSग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्य' इति त्रयाणामेवाग्नि- सम्बन्धश्रवणात् तेषामेवाधिकार इति वर्णितमित्यर्थः । प्रस्तुते कि- मायातं तत्राह॥ मनुष्याणाश्चेति। प्रायेण सप्तवितस्तिपरिमितो म- नुष्यदेह इत्यर्थः। एवमङ्गुष्ठशब्दः हृत्परिमाणवाचकः तत्रस्थं ब्रह्म लक्षयतीत्युक्तं, सम्प्रति तच्छव्देनाङ्गुष्ठमात्रजीवमनूयायमीशान इति
Page 382
(३६०) रत्नप्रभाभासिते [अ०१। पा० ३। देशपरा । तदत्र विज्ञानात्मनः परमात्मनैकत्व- मुपदिश्यते नाङगुष्रुमात्रत्वं कस्यचित्। एतमे- वार्थ परेण स्पष्टीकरिष्यति।"अङ्गुष्ठमात्र: पु- रुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः। तं स्वाच्छरीरात् प्रबहेन मुआदिवेषीकां धैर्येण तं विद्याच्छुक्ममृत" मिति॥२५॥ तदुपर्यपि बादरायण: सम्भवात्॥२६।। अद्गुष्टमात्रश्रुतिर्मनुष्यहृदयापेक्षा मनुष्या- धिकारत्ाच्छास्त्रस्येत्युक्त, तव्यसङ्गादिदमुच्य- ते। वाढं, मनुष्यानधिकरोति शासत्रं न तु मनु- ब्रह्माभेदो बोध्य इति वक्तुमुक्तमनुवदति ॥ यदपीति॥ प्रतिपाद्याभे- दविरोधात् अनुवाद्याङ्गुष्ठमात्रत्वं वाध्यंतात्पर्यार्थस्य बलवच्वादित्या- ह ॥ तदिति ॥ क्रचिदस्थूलमित्यादौ । क्वचित्तच्वमसीत्यादौ। ए- कत्वार्थे वाक्यशेषमनुकलयति। एतमिति। श्रुतिर्यमो वा कर्ता द्रष्ट- व्यः तं जीवं प्रवृहेत् पृथक् कुर्यात् धैर्येण बलवदिन्द्रियनिग्रहादिना तं विविक्तमात्मानं शुक्कं स्वप्रकाशममृतं कूटस्थं ब्रह्म जानीयादित्यर्थः । तस्मात् कठवाक्यं प्रत्यग्ब्रह्मणि ज्ञेये समन्वितमिति सिद्धम् ॥२५।। शास्त्रस्य मनुष्याधिकारत्वे देवादीनां ब्रह्मविद्यायामप्यनधिकारः स्यादित्याशङ्ग्याह ॥तदुपर्यपि बादरायण: सम्भवात्॥ ननु सम- न्वयाध्यायेऽधिकारचिन्ता न सङ्गतेत्यत आह॥ अङ्गुष्ठेति॥ स्मृत- स्योपेक्षानर्हत्वं प्रसङ्ग अत्र मनुष्याधिकारत्वोक्त्या स्मृतानां देवादी- नां वेदान्तश्रवणादावधिकारोडस्ति न वेति सन्देहे भोगासक्तानां वै- राग्यावसम्भवान्नेति प्राप्ते सिद्धान्तमाह ॥बाढमिति ॥ एवमधि-
Page 383
सू ० २६ । अ ० ९] शाङ्करब्रह्मसूत्रभाष्ये (३६१ ) ष्यानेवेतीह ब्रह्मज्ञाने नियमोऽस्ति, तेषां मनु- ष्याणामुपरिष्ठाद्ये देवादयस्तानप्यधिकरोति शास्त्रमिति बादारायण आचार्यो मन्यते, क- स्मात! सम्भवात्। सम्भवति हि तेषामप्यर्थि- त्वाद्यधिकारकारणम्। तत्रार्थित्वं तावन्मोक्षवि- षयं देवादीनामपि सम्भवति विकारविषयवि- भूत्यनित्यव्वालोचनादिनिमित्तम्। तथा साम- थर्यमपि तेषां सम्भवति मन्त्रार्थवादितिहासपु- राणलोकेभ्यो विग्रहत्वाद्यवगमात्। न च तेषां कश्िवत् प्रतिषेधोऽस्ति। न चोपनयनादिशासत्रे- कारविचारात्मकाधिकरणद्दयस्य प्रासङ्गिकी सङ्गतिः । अत्र पूर्वप- क्षे देवादीनां ज्ञानानधिकारात् देवत्वप्राप्तिद्वारा क्रममुक्तिफंलासु दह- राधुपासनासु क्रममुक्त्याथनां मनुष्याणां अप्रवृत्तिः फलं सिद्धान्ते तु प्रवृत्तिः। उपासनाभिर्देवत्वं प्राप्तानां श्रवणादिना ज्ञानान्मुक्तिसम्भवा- दिति सफलोडयं विचारः। ननु भोगासक्तानां तेषां मोक्षाित्वाभावा- नाधिकार इत्यत आह। अर्थित्वं तावदिति। विकारत्वेनानृतविष- यसुखस्य क्षयासूयादिदोषदष्ट्या निरतिशयसुखमोक्षार्थित्वं सच्वप्रक- तीनां देवानां सम्भवतीत्यर्थः। नन्विन्द्राय स्वाहेत्यादौ चतुर्थ्यन्तशब्दा तिरिक्ता विग्रहवती देवता नास्ति शब्दस्य चासामर्थ्यान्नाधिकार इ- त्यत आह। तथेति। अर्थित्ववदित्यर्थः । अपर्युदस्तत्वमाहा न च तेषामिति ॥"शूद्रो यज्ञेऽनवक्लप्तः" इतिवत् देवादीनां विद्याधि- कारनिषेधो नास्तीत्यर्थः। ननु विग्रहवच्वेन दृष्टसामथ्यें सत्यप्युप- नयनाभावात् शास्त्रीयसामर्थ्य नास्तीत्यत आह ॥न चेति॥ जन्मा- १ देवानाम् । ४६
Page 384
(३६२) रत्नप्रभाभासिते [अ० १। पा० ३। णैषामधिकारो निवर्त्येत। उपनयनस्य वेदा- ध्ययनार्थत्वात्,तेषां च स्वयंप्रतिभातवेदत्वात्। अपि चैषां विद्याग्रहणार्थ ब्रह्मचर्यादि दर्शय- ति "एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्र- ह्रचर्यमुवास,""भृगुर्वे वारुणिर्वरुणं पितरमु- पससार अधीहि भगवो ब्रह्मे"त्यादि। यदपि कर्मस्वनधिकारकारणमुक्तं न देवानां देवतान्त- राभावात्न ऋषीणामार्षियान्तराभावादिति न तद्विद्यास्वस्ति। न हीन्द्रादीनां विद्यास्वधि- क्रियमाणानामिन्द्रादुद्देशेन किंचित् कृत्यम- स्ति, न च भृग्वादीनां भृग्वादिसगोत्रतया। तस्मादेवादीनामपि विद्यास्वधिकारः केन वा- न्तराध्ययनबलातू स्वयमेव प्रतिभाताः स्मृता वेदा येषां ते तथा तन्भा- वादित्यर्थः । बालादिषु प्रविष्टपिशाचादीनां वेदोद्दोषदर्शनात् । देवयो- नीनां जन्मान्तरस्मरणमस्तीति स्मृतवेदान्तानामर्थविचारो युक्त इ- त्यर्थः। देवानां च ऋषीणां च विद्याधिकारे कारणमर्थित्वादिकमुक्ता श्रौतं गुरुकुलवासादिलिङ्गमाह॥ अपि चेति। ननु ब्रह्मविद्या देवा- दीनाधिकरोति वेदार्थत्वात् अग्निहोत्रवदित्यत आह ॥ यदपीति॥ देवानां कर्मसु नाधिकारः देवतान्तराणामुद्देश्यानामभावादिति प्रथ- मसूत्रार्थः, ऋषीणामनधिकारः ऋष्यन्तराभावात् ऋषियुक्ते कर्म- ण्यशक्तेरिति द्वितीयसूत्रार्थः । असामर्थ्यमुपाधिरिति परिहरति ॥ न- तदिति॥ असामर्थ्यरूपं कारणमित्यर्थः, न हस्ति येनासामर्थ्य स्या- दिति शेष:, "तयो यो देवानां प्रत्यबुध्यत सएव तदभवत्, तथर्षीणा"-
Page 385
सू० २७।अ० ९।] (३६३ ) र्यते। देवाद्यधिकारेऽप्यङ्गुष्ठुमात्रश्रुतिः स्वा- ङ्गुष्ठापेक्षया न विरुध्यते ॥२६॥ विरोध: कर्मणीति चेन्नानेकप्रतिपत्तेर्द- र्शनात् ॥२७॥ स्यादेतत् यदि विग्रहवत्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत विग्रहव- ्वात् ऋत्विगादिवत् इन्द्रादीनामपि स्वरूप- सन्निधानेन कर्माङ्गभावोडभ्युपगम्येत, तदा च- विरोध: कर्मणि स्यात्, न हीन्द्रादीनां स्वरू- पसन्निधानेन यागेडङ्गभावो दृश्यते, न च स- मिति वाक्यबाधोऽप्यनुमानस्य द्रष्टव्यः। ननु देवादीन् प्रत्यङ्गुष्ठमा- त्रश्रुतिः कथं तेषां महादेहत्वेन हृदयस्यास्मदङ्गुष्ठमात्रत्वाभावात्। अतः श्रुतिषु तेषां नाधिकार इत्यत आह॥ देवाद्यधिकारेऽ- पीति ॥ २६॥ ननु मन्त्रादीनां प्रतीयमानविग्रहवच्वे तात्पर्य कल्पयित्वा देवादीनामधिकार उक्तः स चायुक्त: अन्यपराणां तेषां प्रत्यक्षादिविरो- धेन स्वार्थे तात्पर्यकल्पनानुपपत्तेरित्याक्षिप्य सूत्रचतुष्टयेन परिहरति ॥ विरोधः कर्मणीत्यादिना ॥ वर्ण्येत, तहीति शेषः। स्वरूपं वि- यहः अभ्युपगमे प्रत्यक्षेण देवता दृश्येत न च दृश्यते अतो योग्यानु- पलब्ध्या देवताया विग्रहवत्या अभावात् सम्प्रदानकारकाभावेन कर्मनिष्पत्तिर्न स्यादित्याह ।। तदा चेति॥ विग्रहस्याङ्गत्वं अनुपल- ब्धबाधितं युक्त्या च न सम्भवतीत्याह॥ न चेति॥ तस्मादर्थोप-
Page 386
(३६४) रत्नप्रभाभासिते [अ० १। पा० ३। म्भवति। बहुषु यागेषु युगपदेकस्येन्द्रस्य स्व रूपसन्निधानतानुपपत्तेरिति चेत्, नायमस्ति- विरोधः, कस्मादनेकप्रतिपत्तेः एकस्यापि देव- तात्मनो युगपदनेकस्वरूपप्रतिपत्तिः सम्भव- ति। कथमेतदवगम्यते, दर्शनात्। तथा हि 'कति देवा' इत्युपक्म्य 'त्रयश् त्रीच शता त्र- यश्च त्री च सहस्रेति निरुच्य 'कतमे ते' इत्यस्यां पृच्छायां 'महिमान एवैषामेते त्रय- खिरंशच्वेव देवा2 इति ब्रुवती श्रुतिरेकैकस्य दे- वतात्मनो युगपदनेकरूपतां दर्शयति। तथा त्रयखिंशतोऽपि षडाद्यन्तर्भवक्रमेण 'कतम ए- को देव' इति 'प्राण' इति प्राणैकरूपतां देवा- हितशब्द एव देवता तस्या अचेतनत्वान विद्याधिकार इति शङ्का- र्थ परिहरति॥ नायमिति ॥ एकस्यापि देवस्य योगबलादनेकदेह- प्राप्ति: श्रुतिस्मृतिदर्शनात् सम्भवति। अतो न कर्मणि विरोध इति व्याचष्टे॥ करमादित्यादिना। वैश्वदेवशास्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा त्रयश्र्वेत्यादिरूपया उत्तरं ददौ। निविन्नाम शस्यमानदेवसङ्ग्यावाचकः शब्दः। पडधिकानि त्रीणि श- तानि त्रीणि सहलाणीति सङ््चोक्तौ सङ्गचेयस्वरूपप्रश्ने महिमानो विभूतयः सर्वे देवा:, एषां त्रयस्त्रिंशद्देवानां अष्टौ वसव एकादश रुद्रा दादशादित्या इन्द्रः प्रजापतिश्रेति त्रयस्त्रिंशद्देवास्तेऽपि षण्णां अभि- पृथिवविाय्वन्तरिक्षादित्यदिवां महिमानसतेऽपि पट्सु देवेषु अन्तर्भव- न्ति। षटू देवास्त्रिषु लोकेषु त्रयश् इ्योरन्नप्राणयोद्दौं च एकस्मिन् प्रा-
Page 387
सू०२७। अ ० ९ ] शाङ्करब्रह्मसूत्रभाष्ये (३६५) नां दर्शयन्ती तस्यैवैकस्य प्राणस्य युगपद्ने- करूपतां दर्शयति। तथा स्मृतिरथि। "आत्मनो वै शरीराणि बहूनि भरतर्षभ। योगी कुर्याह्वलं प्राप्य तैश्व सर्वैर्महीं चरेत्।। प्रापुयाद्विषयान कैश्र्वित् कैश्िविदुयं तपश्ररेत् सङ्गिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव"॥ इत्येवंजातीयिका प्राप्ताणिमाद्यैश्वर्याणां यो- गिनामपि युगपदनेकशरीरयोगं दर्शयति किमु वक्तव्यमाजानसिद्धानां देवानाम्।अनेकरूपप्र- तिपत्तिसम्भवाचैकैका देवता बहुभी रूपैरात्मा- नं प्रविभज्य बहुषु यागेषु युगपदङ्भावं गच्छ- ति परैश्र् न दृश्यतेऽन्तर्धानादिशक्तियोगादि- त्युपपद्यते। अनेकप्रतिपत्तेदर्शनात् इत्यस्याप- णे हिरण्यगर्भे अन्तर्भवत इति दर्शितमित्यर्थः। त्रयस्त्रिंशतोSपि देवा- नामिति सम्बन्धः । दर्शनं श्रौतं व्याख्याय स्मार्त व्याचष्टे॥ तथा स्मृतिरिति॥ बलं योगसिद्धिम्। अणिमा महिमा चैव लघिमा प्राप्तिरीशता। प्राकाम्यं च वशित्वं च यत्र कामावसायिता।। इत्यष्टैच्वर्याणि। क्षणेन अणुर्महान् लघुर्गुरुश्ष भवति योगी। अ- ङ्ःगुल्या चन्द्रस्पर्श: प्राप्तिः। ईशता सृष्टिशक्तिः। प्राकाम्यं इच्छानभि- घातः। वशित्वं नियमनशक्तिः। सङ्गल्पमात्रादिष्टलाभो यत्र कामा- वसायितेति भेदः। आजानसिद्धानां जन्मना सिद्धानामित्यर्थः । फ- लितमाह॥ अनेकेति ॥ अनेकेषु कर्मस्वेकस्य प्रतिपत्तिरङ्गभावः ।
Page 388
(३६६) रत्नप्रभाभासिते [अ० १। पा० ३। रा व्याख्या विग्रहवतामपि कर्माङ्गभावचोदना- स्वनेका प्रतिपत्तिर्दृश्यते। क्वचिदेकोऽपि विग्रह- वाननेकत्र युगपदङ्गभावं न गच्छति यथा बहु- भिर्भोजयद्गिर्नैको ब्राह्मणो युगपद्धोज्यते।क्व- चित्वेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति। यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते तद्ददिहोद्देशपरित्यागात्मक- त्वाद्यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वंस्वं द्रव्यं युगपत् परित्यक्ष्यन्तीति विग्रहवत्वेऽपि देवानां किंचित् कर्मणि विरुध्य- ते॥२७॥ न, शब्द इति चेन्नातः प्रभवात् प्रत्यक्षा- नुमानाभ्याम्॥२८॥ मा नाम विग्रहवत्वे देवादीनामभ्युपगम्य -- माने कर्मणि कश्विद्विरोधः प्रसक्वि शब्दे तु वि- तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह । क्वचिदेक इति। प्रक- तोपयुक्तमन्वयदृष्टान्तमाह। कचिदिति॥२७॥ कर्मण्यविरोधमङ्गीकत्य शब्दप्रामाण्यविरोधमाशङ्कच् परिहरति॥३T- ब्द इति चेदिति।मा प्रसञ्जि प्रसको माभूनामेत्यर्थः। औत्पत्तिकसू- वे शब्दार्थयोरनायोः सम्बन्धस्यानादित्वाद्वेदस्य मानान्तरानपेक्षत्वेन प्राणाण्यमुक्तम्, इदानीं अनित्यविग्रहव्यक्यभ्युपगमे तत्सम्बन्धस्या-
Page 389
सू०२८।अ०९ ] (३६७) रोध: प्रसज्येत, कथं औव्पत्तिकं हि शब्दस्या- · र्थेन सम्बन्धमाश्रित्यानपेक्षव्वादिति वेदस्य प्रामाण्यं स्थापितम्। इदानों तु विग्रहवती दे- वताऽभ्युपगम्यमाना यद्यप्यैश्वर्ययोगाद्युगप- दनेककर्मसम्बन्धीनि हवींषि भुख्जीत तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति नित्यस्य शब्दस्यानित्येनार्थेन नित्यसम्बन्धे प्रलीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितं त- स्य विरोध: स्यादिति चेन्नायमप्यस्ति विरो- धः, कस्मात् अतः प्रभवात्। अत एव हि वै- दिकाच्छब्दाद्ेवादिकं जगत् प्रभवति। ननु ज- न्मादयस्य यत इति ब्रह्मप्रभवत्वं जगतोऽवधा- रितं कथमिह शब्दप्रभवत्वमुच्यते।अपि च यदि नाम वैदिकाच्छब्दादस्य प्रभवोऽभ्युपगतः क- थमेतावता विरोधः शब्दे परिहतः यावता व-
प्यनित्यत्वात् मानान्तरेण व्यक्तिं ज्ञात्वा शब्दस्य सङ्गेतः पुंसा कर्त- व्यः इति मानान्तरापेक्षत्वात् प्रामाण्यस्य विरोधः स्यादित्याह। क- थमित्यादिना।किं शब्दानामनित्यतया सम्बन्धस्य कार्यत्वमापा- दते उतार्थानामनित्यतया, नाय इत्याह॥ नायमपीति॥ कर्मण्य- विरोधवदित्यपेरर्थः। देवादिव्यक्तिहेतुत्वेन प्रागेव शब्दानां सच्वात् नानित्यत्वमिति भावः। अन्र पूर्वापरविरोधं शङ्कते ॥नन्विति॥ शब्दस्य निमित्तत्वेन ब्रह्मसहकारित्वादविरोध इत्याशङ्गन्य द्वितीयं
Page 390
(३६८) रत्नप्रभाभासिते [अ०१।पा० ३। सवो रुद्रा आदित्या विश्वे देवा मरुत इत्येते- डर्था अनित्या एवोत्पत्तिमत्वात् तदनित्यत्वे च तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन निवार्यते। प्रसिद्धं हि लोके देवदत्तस्य पुत्रे उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियते इ- ति। तस्माद्विराध एव शब्द इति चेन्न गवा- दिशब्दार्थसम्बन्धनित्यत्वदर्शनात्। नहि गवा- दिव्य क्तीनामुत्पत्तिमच्वे तदाकृतीनामप्युत्पत्ति- मत्वं स्यात्, द्रव्यगुणकर्मणां हि व्यक्तय एवो- त्पद्यन्ते नाकृतयः । आकृतििश्र् शब्दानां स- स्बन्धो न व्यक्तिभिः।व्यक्तीनामानन्त्यात् स- म्बन्धग्रहणानुपपत्तेः । व्यक्तिषत्पद्य मानास्व- प्याकृतीनां निव्यत्ान्न गवादिशब्देषु कश्विद्वि- किल्पमुत्थापयति ॥ अपि चेति॥ अनित्यत्वं सादित्वं व्यक्तिरुपार्था- नामनित्यतया शब्दानां सम्बन्धस्यानित्यत्वं दुर्वारं, तस्मात् पौरुषे- यसम्बन्धसापेक्षत्वात् प्रामाण्यविरोध इत्यर्थः। न च व्यक्तीनामनि- त्यत्वेपि घटत्वादिजातिसमवायवत् शब्दसम्बन्धोऽपि नित्यः स्यादि- ति वाच्यम्, उभयाश्रितसम्बन्धस्यान्यतराभावे स्थित्ययोगेन दृष्टान्ता- सिद्धेरिति भावः। यथा गोत्वादयो गवादिशब्दवाच्याः तथा वसुत्वा- व्याकृतयो वस्वादिशब्दार्थाः न व्यक्तय इति परिहरति। नेत्यादिना॥ शब्दानां तदर्थानां जातीनां च नित्यत्वात्तत्सम्बन्धोऽपि नित्य इति प्रति- पादयति॥न ही त्यादिना ॥व्यक्तीनामानन्त्यादिति॥न च गोत्वा- वच्छेदेन व्यक्तिषु शक्तिः सुग्रहेति वाच्यं, सामान्यस्याप्रत्यासत्तित्वेन पराट न
Page 391
सू० २८। अ० ९।] शाङ्करव्रह्मसूत्रभाष्ये (३६९) रोधो दृश्यते तथा देवादिव्यक्तिप्रभवाभ्युपग- मेडपि आकृतिनित्यत्वान्न कश्िद्वस्वादिशव्देषु विरोध इति द्रष्टव्यम्। आकृतिविशेषस्तु देवादी- नां मन्त्रार्थवादादिभ्यो विग्रहवत्वाद्यवगमाद- वगन्तव्यःस्थानविशेषसम्बन्धनिमित्ताश्रेन्द्रा- सर्वव्यक्त्युपस्थित्यभावात् गोत्वं शक्यतावच्छेदकमितिग्रहापेक्षया गोत्वं शक्यमिति लाघवात् निरूढजहल्लक्षणया व्यक्तेलभिनानन्यल- भ्यत्वाभावाच्ेति भावः । यद्दा केवलव्यक्तिषु शक्तिरत्र निरस्यतेऽ- नुपपत्तिज्ञानं विनैव व्यक्तेः शब्दशक्त्यायत्तजातिज्ञानविषयत्वेन उभयशक्तेरावश्यकत्वात् । तथा च नित्यजातितादात्म्येन व्यक्ते- रनादित्वात्तत्सम्बन्धोऽप्यनादिः सत्कार्यवादात् अतएव वाक्यवृत्तौ सखमस्यादिवाक्ये भागलक्षणोक्ता युज्यते केवलसामान्यस्यावाच्य- त्वेऽखण्डार्थस्य वाच्यैकदेशत्वाभावात्।"अतः प्रभवादि'ति सू- त्रस्वारस्याच्च केवलव्यक्तिनिरास इति गम्यते। केवलव्यक्तिवचनाः खलु डित्थादिशब्दाः अर्थानन्तरभाविनः साङ्केतिकाः गवादिशब्दास्तु व्यक्तिप्रभावहेतुत्वेन प्रागेव सन्तीति न व्यक्तिमात्रवचनाः साङ्केति- का: किन्तु स्थूलसूक्ष्मभावेनानुस्यूतव्यक्त्यविनाभूतसामान्यवचना इति मन्तव्यम्। न चेन्द्रादिव्यक्तेरेकत्वेन जात्यभावादाकाशशब्दवत् इन्द्रचन्द्रादिशब्दाः केवलव्यक्तिवचना इति साम्प्रतं अतीतानागत- व्यक्तिभेदेन जात्युपपत्तेरित्यलं प्रपश्चेन, दष्टान्तमुपसंहृत्य दार्ष्टान्ति- कमाह ॥व्यक्तिष्वित्यादिना ॥ आकृतिर्जातिः। ननु कासा व्यक्तिः यदनुगतेन्द्रत्वादिजातिः शब्दार्थः स्यादित्यत आह॥ आकृतिवि- शेषस्त्विति ॥ वज्रहस्तः पुरन्दर इत्यादिभ्य इत्यर्थः । इन्द्रादिशब्दा- नां जातिः इन्द्रादिषु प्रवृत्तिनिमित्तमित्युत्क्ा उपाधिनिमित्तत्वमाह ४७
Page 392
(३७ ५ ) रत्नप्रभाभासिते [अ० १। पा० ३। दिशब्दाः सेनापत्यादिशब्दवत्। ततश् यो य- स्तत्तत्स्थानमधितिप्रुति स स इन्द्रादिशब्दैर- भिवीयते इति न दोषो भवति। न चेदं शब्दप्र- भवत्वं ब्रह्मप्रभवत्ववदुपादानकारणत्वाभिप्रा- येणोच्यते कथं तर्हि स्थितिवाचकात्मना नित्ये शब्दे नित्यार्थसम्बन्धिनि शब्दव्यव हारयोग्या- र्थव्यक्तिनिष्पत्तिरतः प्रभव इत्युच्यते। कथं पुन खवगम्यते शब्दात् प्रभवति जगदिति प्रत्यक्षा- नुमानाभ्याम।प्रत्यक्षं श्रुतिः प्रामाण्यं प्रत्यनपे- क्षव्वात्। अनुमानं स्मृतिःप्रामाण्यंप्रति सापेक्ष- त्वात्।ते हि शब्दपूर्वा सृष्टिंदर्शयतः।"एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव । स्थानेति॥ व्यक्तिप्रलयेऽपि स्थानस्य स्थायित्वात् शब्दार्थसम्ब- न्धनित्यता इत्यत आह॥ ततश्रेति॥ उक्तं पूर्वापरविरोधं परिहरति ॥ न चेति ॥ शब्दो निमित्तमित्यविरोधं मत्वा सूत्रशेषमवतारयति । कथं पुनरिति। स्मृत्या स्वप्रामाण्यार्थ मूलश्रुतिरनुमीयत इत्य- नुमानं स्मृतिः। "एतैः असृग्रमिन्दवस्तिरःपवित्रमाशवः । विश्वान्यि- सौभगे"त्येतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत। तत्रैत इति पद सर्वनामत्वात् देवानां स्मारकं, असृयुधिरं तत्प्रधाने देहे रमन्त इति असृया मनुष्याः । चन्द्रस्थानां पितृणां इन्दुशब्दः स्मारकः। पवित्रं सोमस्थानं तिरस्कुर्वतां ग्रहाणां तिरःपवित्रशब्दः । ऋचो- श्रुवतां स्तोत्राणां गीतिरूपाणामाशुशब्दः । "ऋच्यध्यूढं सामे"ति श्रुतेः । स्ोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः । सर्वत्र
Page 393
सू०२८। अ० ९।] शाङ्करब्रह्म सूत्रभाष्ये (३७१) इति पितृंस्तिर:पवित्रमिति हानाशव इति स्तोत्रं विश्वानीति शस्त्रमभिसौक्षगेत्यन्याः प्र- जा" इति श्रुतिः । तथान्यत्रापि "स मनसा वाचं मिथुनं समभवदित्यादिना तत्र तत्र श- ब्दपूर्विका सृष्टिः श्राव्यते।स्मृतिरपि। अनादिनिधना नित्या वागुत्सृष्ठा स्वयमभुवा। आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तय:॥इति। उत्सर्गोऽप्ययं वाच: सम्प्रदायप्रवर्तनात्मको द्र- ष्व्य: अनादिनिधनाया अन्याद्ृशस्योत्सर्ग- स्यासम्भवात्। तथा। नामरूपे च भूतानां कर्मणां च प्रवर्तनम्। वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः॥इति॥ सर्वेषां च स नामानि कर्माणि च पृथक्पृथक्। वेदशब्देभ्य एवादौ पृथक् संस्थाश्र निर्ममे।इतिच।। अपि च चिकीर्षितमर्थमनुतिष्ठन् तस्य वा-
सौभाग्ययुक्तानामभिसौभगशब्दः स्मारक इति छन्दोगब्राह्मणवाक्या- र्थः। स प्रजापतिर्मनसा वाचं त्रयीमिथुनं समभवत्। मनोवाय्ूपं मिथुनं सम्भावितवान् मनसा त्रयाप्रकाशितां सृष्टिमालोचितवानि- त्यर्थः । रश्मिरित्येवादित्यमसृजतेत्यादिः श्रुतिरादिशब्दार्थः । सम्प्र- दायो गुरुशिष्यपरम्पराध्ययनं। संस्था अवस्थाः या प्रजापतिसृष्टिः सा शब्दपूर्विका सृष्टित्वात् प्रत्यक्षघटादिवदिति प्रत्यक्षानुमानाभ्यामि त्यस्यार्थान्तरमाह। अपिचेति। अतः प्रभवत्वप्रसङ्गात् शब्दस्वरूपं
Page 394
(३७२) रत्नप्रभाभासिते [अ० १।पा० ३। चकं शब्दं पूर्व स्मृत्वा पश्चा्तमर्थमनुतिष्ठतीति सर्वेषां नः प्रत्यक्षमेतत्। तथा प्रजापतेरपि स्नषुः सृष्टेः पूर्व वैदिकाः शब्दा मनसि प्रादुर्वभूवु: पश्रात्तदनुगतानर्थान् ससजेति गम्यते। तथा च श्रुतिः "स भूरिति व्याहरन् स भूमिमसृज- ते"त्येवमादिका भूरादिशब्देभ्य एव मनसि प्रा- दुर्भूतेभ्यो भूरादीन लोकान सृष्टान् दर्शयति। किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभव- त्वमुच्यते। स्फोटमित्याह। वर्णपक्षे हि तेषा- मुत्पन्नप्रध्वंसित्वान्नित्येभ्यःश्देभ्यो देवादिव्य- क्ीनां प्रभव इत्यनुपपत्नं स्यात्। उत्पन्न प्रध्वं- सिनश्र वर्णाः प्रत्युच्चारणमन्यथा चान्यथा च् प्रतीयमानत्वात्। तथा त्यटश्यमानोऽपि पुरु- षविशेषोऽध्ययनध्वनिश्रवणादेव विशेषतो नि- वक्तुमुक्तमाक्षिपति॥। किमात्मकमिति॥ वर्णरूप तदतिरिक्तस्फोटरूपं चेति किंशब्दार्थः। तत्र वर्णानामनित्यत्वात् स्फोटस्य चासच्वात् न जगद्वेतुत्वं इत्याक्षेपे द्वितीयपक्षं वैयाकरणो गृह्नाति। सफोटमिति॥ स्फुच्यते वर्णैर्व्यज्यत इति स्फोटो वर्णव्यङ्गचोऽर्थस्य व्यञ्जकोगवा- दिशब्दो नित्यस्तमभिप्रेत्येदमुच्यते इति पूर्वणान्वयः, सें एवाद्यपक्षं दूषयति ॥ वर्णेति ॥ सोडयं गकार इति प्रत्यभिज्ञया वर्णनित्यत्वसि- द्वेर्नानुपपत्तिरित्यत आह। उत्पन्नेति॥ तारत्व मन्दत्वादिविरुद्धधर्म- वच्वेन तारो गकारो मन्दो गकार इति प्रतीयमानगकारस्य भेदानुमा- १ वैयाकरणः ।
Page 395
सू० २८।अ०९] शाङ्करब्रह्मसूत्रभाष्ये ७३) धार्यते देवदत्तोऽयमधीते यज्ञदत्तोऽयमधीते इ- ति। नचायं वर्णविषयोऽन्यथात्वप्रत्ययो मि- थ्याज्ञानं बाधकप्रत्ययाभावात् ।नच वर्णेभ्यो- डर्थावगतिर्युक्ता, न त्येकैको वर्णोडर्थ प्रत्याय- येत् व्यभिचारात्। न च वर्णसमुदायप्रत्ययो-
नितसंस्कारसहितोऽन्त्यो वर्णोडर्थ प्रत्याययि- ष्यतीति यद्युच्येत, तन्न, सम्बन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोऽर्थ प्रत्याययेत् धूमा- दिवत्, न च पूर्वपूर्ववर्णानुभवजनितसंस्कारस- नातू प्रत्यभिज्ञा गत्वजातिविषयेत्यर्थः। ननु विरुद्ध धर्मज्ञानं ध्वन्युपाधि- कं श्रम इत्यत आह।। नचेति॥ तथा च वर्णानामनित्यत्वात् न जग- द्वेतुत्वमिति भावः। किं च तेषामर्थबोधकत्वायोगात् स्फोटोडङ्गीकार्य इत्याह॥ नचवर्णेभ्य इत्यादिना॥ व्यभिचारात् एकस्माद्दर्णादर्थप्रती- त्यदर्शनात् वर्णान्तरवैयर्थ्यप्रसङ्गाच्चेत्यर्थः। तर्हि वर्णानां समुदायो बोधक इत्याशङ्क्या क्षणिकानां से नास्तीत्याह ॥नचेति॥ वर्णानां स्व तःसाहित्याभावेऽपि संस्कारलक्षणापूर्वद्दारा साहित्यमाग्नेयादियागा- नामिवेति शङ्कते ॥ पूर्वेति॥ किमयं संस्कारो वणैर्जनितोऽपूर्वार्यः कश्ित् उत वर्णानुभवजनितो भावनाख्यः । नायो मानाभावात्। किंचायमज्ञातो ज्ञातो वाऽर्थधीहेतुः नाय इत्याह॥ तन्नेति॥ संस्कार- सहितः शब्दो ज्ञात एवार्थधीहेतुः सम्बन्धग्रहणमपेक्ष्य बोधकत्वात् धूमादिवदित्यर्थः । द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन, नाथ १ समुदायः ।
Page 396
(३७४ ) रत्नप्रभाभासिते [अ० १। पा० ३। हितस्यान्त्यवर्णस्य प्रतीतिरस्त्यप्रत्यक्षत्वात् संस्काराणाम्। कार्यप्रत्यायितैः संस्कारैःसहि- तोऽन्त्यवर्णोऽर्थ प्रत्याययिष्यतीति चेन्न, सं- स्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात्, त- स्मात् स्फोट एव शब्दः, स चैकैकवर्णप्रत्यया- हितसंस्कार बीजे ऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभा- इत्याह॥ नचेति ॥ द्वितीयं शङ्कते॥कार्येति॥ कार्यमर्थधीस्तस्यां जा- तायां संस्कारप्रत्ययः तस्मिन् ज्ञाते सेति परस्पराश्रयेण दूषयति॥नेति॥ पदार्थस्मरणस्यापि पदज्ञानानन्तरभावित्वात् तेन संस्कारसहितान्त्य- वर्णात्मकपदस्य ज्ञानं न युक्तमित्यक्षरार्थः । अपिशब्दः परस्पराश्रय- योतनार्थः। एतेन भावनासंस्कारपक्षोऽपि निरस्तः। तस्य वर्णस्मृति- मात्रहेतुत्वेनार्थधीहेतुत्वायोगात् । न चान्त्यवर्णसाहित्यादर्थधीहे- तुत्वं केवलसंस्कारस्य तु वर्णस्मृतिमात्रहेतुत्वमिति वाच्यं अर्थधी- पूर्वकाले भावनाया ज्ञानाभावेनार्थधीहेतुत्वायोगात् । न च वर्णस्म- रणेनानुमिता सा अन्त्यवर्णसहिता अर्थधीहेतुरिति वाच्यं, तत्कार्य- स्य कमिकस्य वर्णस्मरणस्याप्यन्त्यवर्णानुभवानन्तरभावित्वेन तेनान- नुमितभावनानामन्त्यवर्णसाहित्याभावादितिभावः । वर्णानामर्थबो- धकत्वासम्भवे फलमाह ॥ तस्मादिति।स्फोटेSपि किं मानमित्या- शङ्कचैकं पदमिति प्रत्यक्षं प्रमाणमित्याह॥ स चेति॥ यथा रत्नतच्वं बहुभिश्वाक्षुषप्रत्ययैः सफुटं भासते तथा गवादि पदस्फोटो गकारा- घेकैकवर्णरुतप्रत्ययैः सफोटविषयैः आहिताः संस्कारा बीजं यस्मि- न् चित्ते तस्मिन्नन्त्यवर्णकतप्रत्ययेन जनितः परिपाकोऽन्त्यः संस्का- रो य्मिन् तस्मिन् प्रत्ययिनि चित्ते एकं गौरितिपदमिति प्रत्ययः प्र-
Page 397
सू० २८। अ० ९।] शाङ्करव्रह्मसूत्रभाष्ये (३७५) सते।नचायमेकप्रत्ययोवर्णविषयास्मृतिः,वर्णा- नामनेकत्वादेकप्रत्ययविषयत्वानुपपत्तेः । तस्य च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वं,भेद- प्रत्ययस्य वर्णविषयत्वात्। तस्मान्नित्याच्छब्दा- त् स्फोटरूपात् अभिधायकात् क्रियाकारकफ- ललक्षणं जगदभिधेयभूत प्रभवतीति । वर्णा एव तु शब्द इति भगवानुपवर्षः। ननूत्पन्नप्रध्वं- सित्वं वर्णानामुक्तं तन्न, त एवेति प्रव्यभिज्ञा- नात्। सादृश्यात् प्रत्यभिज्ञानं केशादिष्विवे- ति चेन्न प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधा- नुपपत्तेः। प्रत्यभिज्ञानमाकृतिनिमित्तमिति चे- त्यक्षस्तद्विषयतया स्पष्ट अवभासत इत्यर्थः। अनेन वर्णान्वयव्यति- रेकयो: स्फोटज्ञाने Sन्यथासिद्धिः। नचैकस्मादर्णात्सम्यक् स्फोटाभि- व्यक्तिः येन वर्णान्तरवैयर्थ्य किन्तु रत्नवद्दहुप्रत्ययसंस्कते चित्ते सम्यक् स्फोटाभिव्यक्तिरित्युक्तंभवति। नन्वेकपदमेकं वाक्यमिति प्रत्ययः पद- वाक्यस्फोटयोर्न प्रमाणं तस्य वर्णसमूहालम्वनस्मृतित्वादित्याशङ्ग्च् निषेधति॥न चेति।स्फोटस्य जगद्ेतुत्वार्थ नित्यत्वमाह।।तस्य चेति॥न नु तदेवेदंपदमिति प्रत्यभिज्ञा श्रमः उदात्तादिभेद प्रत्ययादित्यत आह। ॥भेदेति। आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तयति॥वर्णा एवेति॥ वर्णातिरिक्तस्फोटात्मकशब्दस्यानुभवानारोहादित्यर्थः । सादश्यदोषा- दियं भ्रान्तिरीति शङ्गते॥सादृश्यादिति॥ वपनानन्तरं त एवेमे केशा इति धीर्धान्तिरिति युक्तं भेदधीविरोधात्, स एवायं वर्ण इति धीस्तु प्रमैव बाधकाभावादित्याह॥नेति॥गोत्वादिप्रत्यभिज्ञावत् वर्णेषु प्रत्य-
Page 398
(३७६ ) रत्नप्रभाभासिते [अ०१। पा० ३। त् न, व्यक्तिप्रत्यभिज्ञानात्। यदि हि प्रत्युच्चार- णं गवादि व्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरंस्तत आकृतिनिमितं प्रत्यभभिज्ञानं स्या- त्। नव्वेतदस्ति वर्णव्यक्तय एव हि प्रत्युच्चार- णं प्रत्यभिज्ञायन्ते। द्विर्गोशब्द उच्चारित इति- हि प्रतिपत्तिः न तु द्ौ गोशब्दाविति। ननु वर्णा अप्युच्चारणभेदेन भिन्नाः प्रतीयन्ते देवदत्तयज्ञ दत्तयोरध्ययनध्वनिश्रवणादेव भेदप्रतीतेरित्यु- कतं। अन्नाभनिधीयते। सति वर्णविषये निश्च्ििते प्रत्यभिज्ञाने संयोगविभागाभिव्यङ्गयत्वादर्णा- नामभिव्यअकवैचित्र्यनिमित्तोऽयं वर्णविषयोवि- चित्रः प्रत्ययो न स्वरूपनिमित्तः । अपि च वर्ण- भिज्ञा गत्वादिविषयेति शङ्कते। प्रत्यभिज्ञानमिति। व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात्, यत् त्वया पीतं जलं तदेव मया पी- तमित्यादौ न तथेह व्यक्तिभेदः सिद्ध इति परिहरति। न व्यक्तीति। नत्वेतदिति ॥ व्यक्त्यन्यत्वज्ञानमित्यर्थः। उदात्तत्वादिविरुद्धधर्मत्वात् व्यक्तिभेदोऽनुमानसिद्ध इत्यनुवदति। नन्विति। भेदप्रत्ययस्य कुम्भ- कूपाकाशभेदप्रत्ययवदौपाधिकभेदविषयत्वादन्यथासिद्धेः। अनन्यथा- सिद्धव्यक्यैक्यप्रत्यभिज्ञया निरपेक्षस्वरूपालम्बनया बाध इत्युत्तरमा- ह।।अत्रेति। ताल्वादिदेशैःकोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्गन्चत्वात् वर्णेषु वैचित्रयधीरित्यर्थ। कल्पनागौरवाच्च वर्णेषु स्वतो भेदो नास्तीत्याह। अपि चेति॥ अनन्ताः गकारादिव्यक्तयस्तासु प्रत्यभिज्ञानार्थगत्वादिजातयस्तासु चोदात्तत्वादिभेदस्यौपाधिकत्वमि-
Page 399
सू० २८। अ० ९ ] (३७७) व्यक्तिभेदवादिनापि प्रत्यभिज्ञानसिद्धये वर्णा- कृतयः कल्पयितव्या:।तासुच परोपाधिको भे- दप्रत्यय इत्यभ्युपगन्तव्यंतद्वरं वर्णव्यक्तिष्वेव प- रोपाधिकोभ्ेदप्रत्ययः,स्वरूपनिमित्तं च प्रत्यभ्षि- ज्ञानमिति कल्पना लाघवम्।एष एव च वर्णविष- यस्य भेदप्रत्ययस्य बाधकः प्रत्ययो यत् प्रत्य- भिज्ञानम्। कथं तर्त्येकस्मिन् काले बहूनामुच्चा- रयतामेक एव सन् गकारो युगपदनेकरूपः स्यात् उदात्तश्रानुदात्तश्र स्वरितश्र सानुना- सिकश्र निरनुनासिकश्र् इति। अथवा ध्वनि- कृतोऽयं प्रत्ययभेदो न वर्णकृत इत्यदोषः।कः पुनरयं ध्वनिर्नाम यो दूरादाकर्णयतो वर्णविवे-
ति कल्पनाद्दर वर्णव्यक्तिभेदमात्रस्यौपाधिकत्वकल्पनमिति व्यक्त्यान- न्त्यस्य जातीनां च कल्पनमयुक्तमित्यर्थःननु भेदस्य बाधकाभावात् नौ- पाधिकत्वमित्यत आह।एष इति॥अस्तु तर्हिप्रत्ययद्दयप्रामाण्याय भेदा- भेदयोः सत्यत्वं तत्राह। कथं तहीति। उभयोरेकत्रविरोधात् भेद औपा- घिक एवेत्यर्थः। ननु वायुसंयोगादेरतीन्द्रियत्वात् न तद्तवैचित्रयस्योदा- त्तत्वादेवर्णेषु प्रत्यक्षारोपः सम्भवतीत्यरुचिं वदिष्यन् स्वमतमाह। अथ वेति॥ ध्वनिधर्मा उदात्तत्वादयो ध्वन्यभेदाध्यासादर्णेषु भान्तीत्यर्थः। प्रश्नपूर्वकं ध्वनिस्वरूपमाह ॥ क इति ॥ अवतरति, स्वध्वनिरिति शेषः । वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः । समपिं गतस्य पुंसस्तार- १ भेदाभेदयोः । ४८
Page 400
(३७८) रत्नप्रभाभासिते [अ० १।पा०३। कमप्रतिपद्यमानस्य कर्णपथमवतरति प्रत्या- >सीदतश्र मन्दत्वपटुत्वादिभेदं वर्णेष्वासअ्जय- ति तन्निबन्धनाश्र्ोदात्तादयो विशेषा न वर्णस्व- रूपनिबन्धनाः। वर्णानां प्रत्युच्चारणं प्रत्यभि- ज्ञायमानत्वात्। एवं च सति सालम्बना उदा- त्तादिप्रत्यया भविष्यन्ति, इतरथा हि वर्णानां प्र- त्यभिज्ञायमानानां निर्भेदत्वात् संयोगविभा- गकृता उदात्तादिभेदा: कल्पेरन्। संयोगविभा- गानां चाप्रत्यक्षत्वात् न तदाश्रया विशेषा: व- र्णेष्वध्यवसितुं शक्यन्त इत्यतो निरालम्बना ए- वैते उदात्तादिप्रत्ययाः स्युः।अपिच नैवैतद- त्वमन्दत्वादिधर्मान् स्वगतान् वर्णेषु से एवारोपयतीत्याह।। प्रत्या- सीदतश्चेति॥ आदिपदं विवृणोति ॥ तदिति ॥ नन्वव्यक्तवर्ण एव ध्वनिर्नातिरिक्त इत्यत आह ॥ वर्णानामिति॥ प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिवर्तत इति भेद इत्यर्थः । अन्यथाऽवाचिके जपे वर्णेषु अव्यक्तेषु ध्वनिबुद्धिः स्यात् दुन्दुभ्यादिध्वनौ शब्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यं एवं ध्वन्यु- पाधिकत्वे स्वमते गुणं वदन् वायूपाधिकत्वे पूर्वोक्तामरुचिं दर्शयति। । एवं चेत्यादिना॥ अरतु को दोषस्तत्राह ॥ संयोगेति॥ वायुसंयो- गादेरश्रावणत्वादित्यर्थः । तस्मात् श्रावणध्वनिरेवोदात्तत्वाय्यारोपो- पाधिरितिभाव:। एवं विरुद्धधर्मकध्वनीनां भेदेपि न तेष्वनुगता वर्णा भियन्त इत्युक्तं, तदेव दृष्टान्तेन द्रढयति ॥ अपि चेति ॥ यथा १ ध्वनिः। २ संयोग विभागकृतो भेद इतिशेषः ।
Page 401
सू० २८। अ० ९] शाङ्करब्रह्मसूत्रभाष्ये (३७९ ) भिनिवेष्टव्यमुदात्तादिभेदेन वर्णानां प्रत्यभि- ज्ञायमानानां भेदो भवेदिति। न त्यन्यस्य भेदे- नान्यस्याभिद्यमानस्य भेदो भवितुमर्हति।न- हि व्यक्तिभेदेन जाति भिन्नां मन्यन्ते.। वर्णेभ्य- श्रार्थप्रतीते: सम्भवात् स्फोटकल्पनानर्थिका। न कल्पयाम्यहं स्फोटं प्रत्यक्षमेव त्वेनमवग- चछामि। एकैकवर्णग्रहणाहितसंस्कारायां बुद्दौ झटिति प्रत्यवभासनादिति चेत्, न अस्या अपि बुद्धेर्वर्णविषयत्वात्, एकैकवर्णग्रहणोत्तरकाली- ना हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया नार्थान्तरविषया। कथमेतदवगम्यते, यतोऽ- स्यामपि बुद्धौ गकारादयो वर्णा अनुवर्त्तन्ते न खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अ- भिन्ना एवेत्यर्थः। उदात्तादिर्ध्वनिस्तन्नेदेन हेतुना वर्णानामपीति योज- ना प्रत्यभिज्ञाविरोधादित्यक्षरार्थः। यद्दा उदात्तत्वादिभेदविशिष्टतया प्र- त्यभिज्ञायमानत्वात् वर्णानां भेद इत्याशङ्कं दृष्टान्तेन निरस्यति ॥। अपि चेति॥ वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं सफोटं विघटयति ॥ वर्णेभ्यश्रेति॥ कल्पनामसहमान आशङ्कते ।। नेति॥ चक्षुषा दर्पणयुक्तायां बुद्धौ मुखवत् श्रोत्रेण श्रवणयुक्तायां बुद्धौ विनैव हेत्वन्तरं स्फोटः प्रत्यक्ष इत्याह॥ झटितीति॥ यस्यां संविदि योऽर्थों भासते सा तत्र प्रमाणं एकपदमिति बुद्धौ वर्णा एव स्फु- रन्ति नातिरिक्तस्फोट: प्रमाणमित्याह॥ नास्या अपीत्यादिना॥ न- नु गोपदबुद्धे: स्फोटो विषयो गकारादीनां तु व्यअ्जकत्वादनुवृत्तिरि-
Page 402
(३८०) रत्नप्रभाभासिते [अ० १ । पा० ३। तु दकारादयः। यद़ि त्यस्या बुद्देर्गकारादिभ्यो- डर्थान्तरं स्फोटो विषयः स्यात् ततो दकाराद- य इव गकारादयोऽप्यस्या बुद्देर्व्यावर्तेरन्, न- तु तथास्ति, तस्मादियमेक बुद्धिवर्णविषयैव स्मृ - तिः। नन्वनेकत्वाद्वर्णानां नैकबुद्धिविषयतोपप- द्यत इत्युक्तं तत्प्रति ब्रूमः। सम्भवत्यनेकस्याप्ये- कबुद्विविषयत्वम्। पङक्तिर्वन सेना दशशतं सह- स्त्रमित्यादिदर्शनात्। या तु गौरित्येकोडयं शब्द इति बुद्धिः सा बहुष्वेव वर्णेषु एकार्थावच्छेदनि- बन्धनौपचारिकी वनसेनादिबुद्धिवदेव। अन्राह, यदि वर्णा एव सामस्त्येनैकबुद्धिविषयतामाप- त्यतआह ॥। यदिहीति ॥! व्यङ््यवड्गिबुद्दौ व्यअ्ञकधूमानुवृत्तेरद- शनादित्यर्थः । वर्णसमूहालम्वनत्वोपपत्तेर्न स्फोट: कल्पनीयः पदा- र्थान्तरकल्पनागौरवादित्याह॥ तस्मादिति॥ अनेकस्याप्यौपाधिक- मेकत्वं युक्तमित्याह॥ सम्भवतीति। ननु तत्रैकदेशादिरुपाधिरस्ति प्र- कृते क उपाधिरित्यत आह। या त्विति॥एकार्थे शक्तमेकं पदं प्रधा- नार्थे एकस्मिन् तात्पर्यवदेकं वाक्यमित्येकार्थसम्बन्धादेकत्वोपचार इत्यर्थः। न चैकपदत्वे ज्ञाते एकार्थज्ञानं, अस्मिन् ज्ञाते तदित्यन्यो- न्याश्रय इति वाच्यं।उत्तमवृद्दोक्तानां वर्णानां क्रमेणान्त्यवर्णश्रवणान- न्तरं बालस्यैकस्मृत्यारूढानां मध्यमवृद्दस्य प्रवृत्यादिलिङ्गानुमितै- कार्थधीहेतुत्वनिश्रये सत्येकपदवाक्यत्वनिश्वयात्। वर्णसाम्येऽपि - पदभेददृष्टेवर्णातिरिक्तं पदं स्फोटाख्यमङ्गीकार्यमिति शङ्कते ॥ अत्रा- 1
१ पंक्तिवनसेनादौ। २ एकारथे। ३ एकपदत्वज्ञानम्।
Page 403
सू० २८।अ० ९।] - शाङ्करव्रह्मसूत्रभाष्ये (३८१) द्यपानाः पदं स्युः ततो जारा राजा कपिः पि- क इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात्, त एव हि वर्णा इतरत्र चेतर एव प्रत्यवभासन्त इ- ति। अत्र वदामः। सत्यपि समस्तवर्णप्रत्यवम- रशेयथा क्रमानुरोधिन्य एव पिपीलिका: पङ्- क्िबुद्धिमारोहन्त्येवं क्रमानुरोधिन एव वर्णाः प- दबुद्धिमारोक्ष्यन्ति,तत्रवर्णानामविशेषऽपिक्रमवि- शेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते।वृद्व्य- वहारे चेमे वर्णाः क्रमाद्यनुगहीताग्हीतार्थविशे- षसम्बन्धाः सन्तः स्वव्यवहारेऽप्येकैकवर्णग्रह- णानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादशा ए- वप्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्र- त्याययिष्यन्तीति वर्णवादिनो लघीयसी क- ल्पना। स्फोटवादिनस्तु दृष्टहानिरदृष्टकल्पना च। वर्णाश्रेमे क्रमेण गृह्यमाणा: स्फोट व्यअ- हेति॥ कमभेदाद्वर्णेष्वेव पदभेददृष्टिरिति परिहरति ॥ अत्रेति॥ ननु नित्यविभूनां वर्णानां कथ क्रमः कथ वा पदत्वज्ञानेनार्थधीहेतुत्वं तताह ॥ वृद्धेति ॥ व्युत्पत्तिदशायामुच्चारणक्रमेण उपलव्धिकममु- पलभ्यमानवर्णेष्वारोप्यैते वर्णा एतत्कमैतत्सङ्ग्यावन्त एतदर्थशक्ता इति गृहीता: सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढाः स्वस्वार्थ- बोधयन्तीत्यर्थः । स्थायिवर्णवादमुपसंहरति ॥ वर्णेति ॥ दृष्टं वर्णा- नामर्थबोधकत्वं, अदृष्टः स्फोटः । सम्प्रति वर्णानामस्थिरत्वमङ्गी-
Page 404
(३८२) रत्नप्रभाभासिते [अ० १। पा० ३। यन्ति, स स्फोटोऽर्थ व्यनक्तीति गरीयसी क- ल्पना स्यात्। अथापि नाम प्रत्युच्चारणमन्येऽ- न्ये च वर्णाः स्युस्तथापि प्रत्यभिज्ञालम्बनभा- वेन वर्णसामान्यानामवश्याभ्युपगम्यत्वात् या वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्ये पुसञ्चारयितव्या, ततश् नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम्॥२८॥ अत एव च नित्यत्वम् । २ ९ ॥ स्वतन्त्रस्य कर्तुरस्मरणादिभिस्थिते वेद- स्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन त- स्य विरोधमाशङ््य, अतः प्रभवादिति परिह- त्येदानीं तदेव वेदस्य नित्यत्यं स्थितं द्रढयति, अत एव च नित्यत्वमिति। अत एव च नियता कृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वाद्वेदशब्दनि- कृत्य प्रौढिवादेन स्फोटं विघटयति॥ अथापीति ॥ स्थिराणि गत्वा- दिसामान्यानि क्रमविशेषवन्ति गृहीतसङ्गतिकान्यर्थबोधकानीति क्लप्ेषुसामान्येषु प्रक्रिया सश्चारयितव्या न त्वक्लप्तः स्फोट: कल्प- नीय इत्यर्थः । वर्णानां स्थायित्ववाचकत्वयोः सिद्धौ फलितमाह। ततश्चेति॥ २८॥ पूर्वतन्त्रवृत्तानुवादपूर्वकं सूत्रं व्याचष्टे॥ कर्तुरित्यादिना॥ पू- र्वतन्त्रसिद्धमेव वेदस्य नित्यत्वं देवादिव्यक्तिसृष्टौ तद्दाचकशब्दस्या- पि सृष्टेरसिद्धमित्याशङ्कच नित्याकतिवाचकाच्छव्दात् व्यक्तिजन्मो
Page 405
सू० २०। अ० ९ ] शाङ्करब्रह्मसूत्रभाष्ये (३८३ ) त्यत्वमपि प्रत्येतव्यम्।तथा च मन्त्रवर्णः, यज्ञे- न वाच: पदवीयमायन् तामन्वविन्दन्नृषिषु प्रवि षामि"ति स्थितामेव वाचमनुविन्नां दर्शयति। वेदव्यासश्र्वैवमेव स्मरति,IRT युगान्तेऽन्तर्हितान् वेदान् सेतिहा सान्महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाता: स्वयमभूवा॥ इति। २९॥ समाननामरूपत्वाच्चाव त्तावप्यव- रोधो दर्शनात् स्मृतेश्र॥। ३०।। अथापि स्यात् यदि पश्वादिव्यक्तिवत् दे- वादिव्यक्तयोऽपि सन्तत्यैवोत्पघ्येरन् निरुध्ये- रंश्र् ततोऽभिधानाभिधेयाभिधातृव्यवहारावि- च्छेदात् सम्बन्धनित्यत्वेन विरोध: शब्दे परि- व्हियेत। यदा तु खलु सकलं त्रैलोक्यं परित्यक्त- क्या साङ्गेतिकत्वं निरस्य वेदोऽवान्तरप्रलयावस्थायी जगद्वेतुत्वा- दीश्वरवदित्यनुमानेन द्रढयतीत्यर्थः। यज्ञेन पूर्वसुरुतेन, वाचो वेद- स्य, लाभयोग्यतां प्राप्ताः सन्तो याज्ञिकास्तामृषिषु स्थितां लब्धवन्त इति मन्त्रार्थः । अनुविन्नामुपलब्धां। पूर्वमवान्तरकल्पादौ॥ २३॥ ननु महाप्रलये जातेरप्यसत्त्वात् शब्दार्थसम्बन्धानित्यत्वं इ- त्याशङ्क्याह ॥ समानेति॥ सूत्रं निरस्याशङ्कामाह॥ अथापीति॥ व्यक्तिसन्तत्या जातीनां अवान्तरप्रलये सच्वात् सम्बध्तिष्ठति व्य-
Page 406
(१८४) रत्नप्रभाभासिते [अ०१।पा० ३। नामरूपं निर्लेपं प्रलीयते प्रभवति चाभिनवमि ति श्रुतिस्मृतिवादा वदन्ति तदा कथमविरोध इति। तव्नेदमभिधीयते समाननामरूपत्वादि- ति। तदापि संसारस्यानादित्वं तावदभ्युपगन्त- व्यम्। प्रतिपादयिष्यति चाचार्यः संसारस्या- नादित्वमुपपद्यते चाप्युपलभ्यते चेति अनादौ च संसारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रव- णेऽपि पूर्वप्रबोधवदुत्तरप्रबोधेऽपि व्यवहारान्न कश्विद्विरोधः।एवं कल्पान्तरप्रभवप्रलययोरपी-
ते। "यदा सुप्तः खन्नं न कञ्चन पश्यत्यथास्मिन वहाराविच्छेदातू ज्ञायते चेति वेदस्यानपेक्षत्वेन प्रामाण्येन कश्िद्दिरो- धः स्यात्। निर्लेपलये तु सम्बन्धनाशात् पुनः सृष्टौ केनचित् पुं- सा सङ्गेतः कर्तव्य इति पुरुषबुद्धिसापेक्षत्वेन वेदस्याप्रामाण्यं अ- ध्यापकस्याश्रयस्य नाशादाश्रितस्यानित्यत्वं च प्राप्तमित्यर्थः । म- हाप्रलयेऽपि निर्लेपलयोSसिद्धः सत्कार्यवादात्। तथा च संस्कारात्म- ना शब्दार्थतत्सम्बन्धानां सतामेव पुनः सृष्टावभिव्यक्तेर्नानित्यत्वम्। अभिव्यक्तानां पूर्वकल्पययिनामरूपसमानत्वात् न सङ्गेतःकेनचित् का- र्यः, विषमसृष्टौ हि सङ्केतापेक्षा न तुल्यसृष्टाविति परिहरति॥तत्रे- दमित्यादिना॥ नन्वायसृष्टसङ्कतः केनचित् कार्य इत्यत आह ॥ तदापीति॥ महासर्गप्रलयप्रवृत्तावपीत्यर्थः । नन्वस्त्वनादिसंसारे सम्बन्धस्यानादित्वं तथापि महाप्रलयव्यवधानादस्मरणे कथं वेदार्थ- व्यवहारसतत्राह ॥ अनादौ चेति॥न कश्चिद्दिरोधः, शब्दार्थसम्बन्ध-
Page 407
सू०। ३०अ० ९। ] शाद्करब्रह्मसूत्रभाष्ये (३८५) प्राण एवैकधा भवति तदैनं वाक सर्वैर्नामभिः सहाप्येति, चक्षु: सर्वैः रूपैः सहाप्येति, श्रोत्रं सर्वैः शब्दैः सहाप्येति, मनः सर्वैरध्यानैः सहा- प्येति, स यदा प्रतिबुध्यते यथाभ्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेस्नेवमेवैतस्मादात्म- नः सर्वे प्राणा यथायतनं विप्रतिषुन्ते प्राणेभ्यो देवा देवेम्यो लोका:"(कौ० ब्रा० उ०अ०३ ख० ३) इति। स्यादेतत् स्वापे पुरुषान्तरव्यव- हाराविच्छेदात् स्वयं च सुषुप्तप्रबुद्स्य पूर्वप्रबो-
लये तुसर्वव्यव हारोच्छेदा ज्म्नान्तरव्यव हारवच्च कल्पान्तरव्यवहारस्यानुसन्धातुमशक्यत्वात् वै- षम्यम् इति।नैषदोषः, सत्यपि सर्वव्यवहारोच्छे- दिनि महाप्रलये परमेश्वरानुग्रहादीश्वराणां हि- रण्यगर्भादीनां कल्पान्तरव्यवहारानुसन्धानो- स्मरणादेरिति शेषः । स्वापप्रबोधयोलयसर्गासिद्दिमाशङ्क्च् श्रुति- माह॥। स्वापेति ॥ अथ तदा सुषुप्तो प्राणे परमात्मनि जीव एकी- भवति एनं प्राणं सजीवस्तदैतीतिशेषः । एतस्मात् प्राणात्मनः, आ- पतनं गोलकं। आनन्तर्ये पश्चमी प्राणेभ्य इत्यादौ द्रष्टव्या। विप्नवत् कल्पितस्याज्ञातसच्वाभावात् दर्शनं सृष्टिः अदर्शनं लयः इते दृष्टिसृष्टिपक्षः श्रुत्यभिप्रेत इति भावः । दृष्टान्तवैषम्यमा- राङ्य परिहरति ॥। स्यादित्यादिना ॥ अविरुद्धमनुसन्धानादि- ४९
Page 408
(३८६) रत्नप्रभाभासिते [अ० १ । पा० ३ । पपत्तेः। यद्यपि प्राकृताः प्राणिनो न जन्मान्तर- व्यवहारमनुसन्दधाना दृश्यन्ते इति, न तत् प्रा कृतवदीश्वराणां भवितव्यम। यथा हि प्राणि- त्वाविशेषेऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्व- वर्यादिप्रतिबन्धः परेणपरेण भूयान् भवन् दृश्यते, तथा मनुष्यादिष्वेव हिरण्यगर्भपर्यन्तेषु ज्ञानै- शवर्याद्यभिव्यक्तिरपि परेणपरेण भूयसी भवती- व्येतत् श्रुतिस्मृतिवादेष्वसकृत् श्रूयमाणं न श- क्यं नास्तीति वदितुम। ततश्वातीतकल्पानुष्ठि- तप्रकृष्टज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्वरानुग्ही- तानां सुप्तप्रतिबुद्धवत् कल्पान्तरव्यवहारानु- सन्धानोपपत्तिः। तथा च श्रुतिः। "यो ब्रह्मा- कमिति शेषः। हिरण्यगर्भादय: पूर्वकल्पानुसन्धानश न्याः संसारित्वा- दस्मदादिवदित्याशङ््याह। यद्यपीति।।इति यवपि तथापि न प्राक- तवदितियोजना। ज्ञानादेनिकर्षवदुत्कर्षोऽप्यङ्गीकार्यः बाधाभावादि- ति न्यायानुगृहीतश्रुत्यादिभिः सामान्यतो दृष्टानुमानं बाध्यमित्याह। यथा हीत्यादिना॥ ननु तथापि पूर्वकल्पेश्वराणां मुक्तत्वादस्मिन् कल्पे कोऽनुसन्धातेत्यत आह। ततक्रेति ॥ ज्ञानाुत्कर्षादित्यर्थः। मुक्तेभ्योऽन्येडनुसन्धातार इति भावः। परमेश्वरामुगृहीतानां ज्ञानाति- शये पूर्वोक्तश्रुतिस्मृतिवादानाह। तथा चेति॥ पूर्व कल्पादौ सृजति तस्मै च ब्रह्मणे प्रहिणोति गमयति तस्य बुद्धौ वेदानाविर्भावयति यस्तं देवं स्वात्माकारं महावाक्योत्थवुद्धौ प्रकाशमानं शरणं पर,
Page 409
सू० ३०। अ०९। ] शाङ्करव्रह्म सूत्रभा ष्ये (३८७) णं विद्धाति पूर्व यो वै वेदांश् प्रहिणोति त- स्मै तं ह देवमात्मबुद्धिप्रकार्श मुमुक्षुर्वै शरण- महं प्रपद्ये" इति। स्मरन्ति च शौनकादयो न- धुच्छन्दःप्रभृतिभिऋषिभिर्दाशतय्यो दृष्टा इ- ति। प्रतिवेदश्नैवमेव काण्डर्ष्यादयः स्मर्यन्ते। श्रुतिरप्यृषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्श- यति "यो ह वा अविदितार्षेय च्छन्दोदेवतब्राह्म- णेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं च्च्छति गर्त्त वा प्रपद्यते" इत्युपक्रम्य "तस्मा- देतानि मन्त्रेमन्त्रे विद्या'दिति। प्राणिनां च सु- खप्राप्तये धर्मो विधीयते दुःखपरिहाराय चा- धर्मः प्रतिषिध्यते। दृष्टानुश्रविकसुखदुःखविष- ममभयस्थानं निःश्रेयसरूपमहं प्रपय इत्यर्थः । न केवलमेकस्यैव ज्ञानातिशयः किन्तु बहूनां शाखाद्रष्टणामिति विश्वासार्थमाह॥ स्मरन्तीति। ऋग्वेदो दशमण्डलावयववान् तत्र भवा ऋचो दाशत- य्यः वेदान्तरेऽपि काण्डसूक्तमन्त्राणां द्रष्टारो बोधायनादिभि: स्मृता इत्याह ॥ प्रतीति ॥ किञ्च मन्त्राणां ऋष्यादिज्ञानावश्यकत्वज्ञापिका श्रुतिर्मन्त्रदगृषीणां ज्ञानातिशयं दर्शयतीत्याह। श्रुतिरपीति। आ- र्षेय ऋषियोगः, छन्दो गायतर्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोग: एतान्यविदितानि यस्मिन्मन्त्रे तेनेत्यर्थः। स्थाणुं स्थावरं, गर्तै नरकं, तथा च ज्ञानाधिकै: कल्पान्तरितं वेद स्मृत्वा व्यवहारस्य प्रवर्तित- त्वात् वेदस्यानादित्वमनपेक्षत्वं चाविरुद्धमिति भावः। अधुना समान- नामरूपत्वं प्रपञ्चयति। प्राणिना चेति। ततः किं तत्राह। दष्टेति।
Page 410
(३८८) रत्नप्रभाभासिते [अ० १।पा० ३। यौ च रागद्वेषौ भवतो न विलक्षणविषयावित्य- तो धर्माधर्मफलभूतोत्तरोत्तरा सृष्टिर्निष्पद्यमा- ना पूर्वसृष्टिसदृश्येव निष्पद्यते। स्मृतिश् भवति, "तषां ये यानि कर्माणि प्राक्सृष्यां प्रतिपेदिरे। तान्येव ते प्रपद्यन्ते सृज्यमाना: पुनःपुनः॥ हिंस्त्राहिंस्त्रे मृदुकूरे धर्माधर्मावतानते। तद्गाविता: प्रपद्न्ते तस्मात्ततस्य रोचते? इति॥ प्रलीयमानमचि चेदं जगच्छत्तयवशेषमेव प्रलीयते शक्तिमूलमेव च प्रभवतीतरथा आक-
ऐहिकामुष्मिकविषयसुखरागकतधर्मस्य फलं पश्चादिकं दृष्टपश्वादि- सदृशमिति युक्तं विसदृशे कामाभावेन हेत्वभावात्। तथा दृष्टदुःख- द्वेषकताधर्मफलं दष्टसदशदुःखमेव न सुखं कृतहान्यादिदोषापत्तेरित्य- र्थः। तर्कितेर्थे मानमाह ॥स्मृतिश्चेति॥ उत्तरसृष्टिः पूर्वसृष्टिसजाती- या कर्मफलत्वात् पूर्वसृष्टिवदित्यनुमानाच्चशब्दार्थः। तेषां प्राणिनां म- ध्ये तान्येव तज्जातीयान्येव। तानि दर्शयन् तत्प्राप्तौ हेतुमाह॥ हिं- स्रेति॥ कर्माणि विहितनिषिद्धत्वाकारेणापूर्व क्रियात्वेन संस्कारं चज- नयन्ति। तत्रापूर्वात् फलं भुङ्क्ते संस्कार भावितत्वात् पुनस्तज्जातीयानि करोतीत्यर्थः । संस्कारेलिङमाह ॥ तस्मादिति ॥ संस्कारवशादेव पुण्यं पापं वा रोचते। अतोभिरुचिलिङ्गात् पुण्यापुण्यसंस्कारो- Sनुमेयः स एव स्वभावः प्रकतिर्वासनेति च गीयते। एवं कर्मणा सृष्टिसादृश्यमुक्का सवोपादाने लीनकार्यसंस्काररूपशक्तिबलादपि सा- दृश्यमाह।। प्रलीयमानमिति॥ इतरथा संस्कारप्लये जगद्वैचि- कयस्याकस्मिकत्वं स्यादित्यर्थः । ननु जगद्वैचित्रयकारिण्योऽन्याः श-
Page 411
सू० ३०। अ० ९।] शाङ्गरब्रह्मसूत्रभाष्ये (३८९) स्मिकत्वप्रसङ्गात्। न चानेकाकाराः शक्त्तयः शक्या: कल्पयितुम्। ततक्ष् विच्छिद्यविच्छिय्या- प्युद्गवतां भूरादिलोकप्रवाहाणां देवतिर्यङ्मनु- ष्यलक्षणानांच प्राणिनिकायप्रवाहाणां वर्णाश्र- मधर्मफलव्यवस्थानाञ्चानादौ संसारे नियतत्व- मिन्द्रियविषयसम्बन्धनियतत्ववत् प्रत्येतव्यम्। नहीन्द्रियविषयसम्बन्धादेर्व्यवहारस्य प्रति स- र्गमन्यथाव्वं षष्ठेन्द्रियविषयकल्पं शक्यमुत्पे- क्षितुं। अतश्र सर्वकल्पानां तुल्यव्यवहारत्वा- त् कल्पान्तरव्यवहारानुसन्धानक्षमत्वाच्चेश्वरा- क्यः कल्प्यन्तां तत्राह ॥ न चेति ॥ अविद्यायां लीनकार्यात्मकसं- स्कारादन्याः शक्तयो न कल्प्याः मानाभावद्वौरवाच्च, स्वोपादाने ली- नकार्यरूपा शक्तिस्तु महान् न्ययोधस्तिष्ठति श्रद्धत्स्व सोम्येति श्रु- तिसिद्धा, अतोऽविद्यातत्कार्यादन्याः शक्तयो न सन्ति आत्मावियैव त- च्छक्तिरिति सिद्धान्त इत्यर्थः। निमित्तेष्वप्युपादानस्थकार्यमेवाविद्याघ- टनया शक्तिरन्या वेत्यनाग्रहः। उपादाने कार्यसंस्कारसिद्धे: फलमाह । ततश्चेति॥ यथा सुप्तोत्थितस्य पूर्वचक्षुजातीयमेवचक्षुर्जायते तच्च रूपजातीयमेव गृढ्लाति न रसादिकं, एवं भोग्यलोका भोगाश्रयाः प्रा- णिनिकाया भोगहेतुकर्माणि संस्कारबलात् पूर्वलोकादितुल्यान्येवेति नियम इत्यर्थः। निकायाःसमूहाः।टष्टान्तासिद्धिमाशड्याह॥न ही- ति। यथा षष्ठेन्द्रियस्य मनसोऽसाधारणविषयो नास्ति सुखादेः सा- क्षिवेद्यत्वात्, तथा व्यवहारान्यथात्वमसदित्यर्थः। षष्ठमिन्द्रियं त- द्विषयश्वासन्निति वार्थः। उक्तार्थ सङ्गिपति ॥ अतश्रेति॥ व्यवहा-
Page 412
(३९० ) •रत्नप्रभाभासिते [अ० १। पा० ३। णां समाननामरूपा एव प्रतिसर्ग विशेषा: प्रा- दुर्भवन्ति समाननामरूपत्वाच्चावृत्तावपि महा- सर्गमहाप्रलय लक्षणायां जगतोऽभ्युपगम्यमा- नायां न कश्विच्छब्दप्रामाण्यादिविरोधः। समा- ननामरूपतां च श्रुतिस्मती दर्शयतः। "सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्।। दिवञ्ञ पृथिवीञ्चान्तरीक्षमथों स्वः"॥।इति। यथा पूर्वस्मिन् कल्पे सूर्याचन्द्रमःप्रभृति जगत् कवृप्तं तथास्मिन्नपि कल्पे परमेश्वरोऽक- ल्पयदित्यर्थः। तथा "अग्निर्वा अकामयत अ- न्नादो देवानां स्यामिति" "स एवमसये कृत्ति- का्य: पुरोडाशमष्टाकपालं निरव पदिति" नक्ष- त्रेष्टिविधौ योऽनिनिरवपत् यस्मै वाग्रये निरवप- त् तयो: समाननामरूपतां दर्शयतीव्येवं जाती- यिका श्रुतिरिहोदाहर्तव्या। स्मृतिरपि, "ऋषीणां नामधेयानि याश्र् वेदेषु दृष्टयः। शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः॥ रसाभ्यात्सम्भवाच्च व्यवड्वियमाणा व्यक्तयः समाना एवेत्यर्थः । सूत्रं यो- जयति॥समानेत्यादिना॥ भाविदृष्ट्या यजमानोग्निः,अन्नादोडग्निरहं स्यामिति कामयित्वा कृत्तिकानक्षत्राभिमानिदेवायाग्नये अष्टसु कपा- लेषु पचनीयं हविर्निरुप्वानित्यर्थः। नक्षत्रव्यक्तिबहुत्वाद्वहुवचनं। १ सूर्यशब्दे "हवताइन्हेचे।त्यानअदेशेन दीर्घाकारघटितं रूप संसाध्यम्।
Page 413
सू० ३१। अ० ९।] शाङ्करब्रह्मसूत्रभाष्ये (३९१) यथर्तुष्टतुलिद्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु॥ यथाभिमानिनोऽतीतास्तुल्यास्ते साम्प्रतैरिह। देवा देवैरतीतैर्हिरूपैर्नामभिरेव चथ॥ इत्येवं जातीयिका द्रष्टव्या॥३०॥ मध्वादिष्वसम्भवादनधिकारं जैमि निः॥। ३१॥ इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्रतिज्ञातं तत्पर्यावर्त्यते। देवादीनामन- धिकारं जैमिनिराचार्यो मन्यते। कस्मात् मध्वा- दिष्वसम्भवात्। ब्रह्मविद्याधिकाराभ्युपगमे हि विद्यात्वाविशेषान्मध्वादिविद्यास्वप्यधिकारोऽ- भ्युपगम्येत।न चैवं सम्भवति, कथम् "असो आदित्यो देव मध्वि"त्यत्र मनुष्या आदित्यं म- स्मृतौ, वेदेष्विति विषयसप्तमी, शर्वयन्ते प्रलयान्ते । ऋतूनां वसन्ता- दीनां, लिङ्गानि नवपल्लवादीनि। पर्यये वटीयन्त्रवदावृत्तौ, भावाः प- दार्थाः, तुल्या इति शेषः॥ ३०॥ तस्माज्जन्मनाशवद्वियहाङ्गीकारेऽपि कर्मणि शब्दे च विरोधाभा- वात् देवानामस्ति विद्याधिकार इति स्थितमाक्षिपति। मध्वादिष्वि- ति। ब्रह्मविद्या देवादीन् नाधिकारोति विद्यात्वात् मध्वादिविययाव- दित्यर्थः। दष्टान्तं विवृणोति। कथमित्यादिना। युलोकारव्यवंशदण्डे अन्तरिक्षरूपे मध्वयूपे स्थित आदित्यो देवानां मोदनान्मध्विवम-
Page 414
(३९२) रत्नंप्रभाभासिते [अ० १। पा• ३। ध्वध्यासेनोपासीरन्, देवादिषु ह्युपासकेष्वभ्यु- पगम्यमानेषु आदित्यः कमन्यमादित्यमुपासी- । त पुनश्र्वादित्यव्यपाश्रयाणि पञ्च रोहितादी- न्यमृतान्युनुपक्रम्य "वसवो रुद्रा आदित्या म- रुत: साध्याश्र् पञ्च देवगणा: क्रमेण तत्तदमृत- मुपजीवन्तीत्युपदिश्य "सय एतदेवममृतं वेद वसूनामेवैको भूत्वान्निनैव मुखेनैतदेवामृतं द्ृष्टा तृप्यती"त्यादिना वस्वाद्युपजीव्यान्यमृतानि वि- जानतां वस्वादिमहिमप्राप्तिं दर्शयति। वस्वाद- यस्तु कानन्यान वस्वादीन् अमृतोपजीविनो वि- जानीयुः, कं चान्यं वस्वादिमहिमानं प्रेप्सेयुः। तथा"पिः पादो वायुः पाद आदित्य: पादो दिशः पादो वायुर्वाव सम्वर्ग: आदित्यो ब्रह्मेव्यादेश" ध्वित्यारोप्य ध्यान कार्यम्। तत्रादित्यस्याधिकारोन युक्तः ध्यातृध्येयभे- दाभावात् इत्याह। देवादिष्चिति।अस्तु वस्वादीनां तत्राधिकार इ- ति आशङ्ग्त तेषामपि च ध्येयत्वात् प्राप्यत्वाच्च न ध्यातृत्वमित्याह ॥पुनश्चेति।चतुर्वेदोक्तकर्माणि प्रणवक्षेति पश्च कुसुमानि तेभ्यः सो- माज्यादिद्रव्याणि हुतानि लोहितशुकरुष्णपररष्णगोपाख्यानि पश्चा- मृतानि तत्तन्मन्त्रभागैः प्रागाधूर्ध्वान्तपश्चदिगवस्थिताभिरादित्यरश्मि- नाडीभिर्मध्ययूपस्थितच्छिद्ररूपाभिरादित्य मण्डलमानीतानि यशस्ते जइन्द्रियवीर्यान्नात्मना परिणतानि पश्चदिक्षु स्थितैर्वस्वादिभिरुपजी- व्यानीति ध्यायतांवस्वादिप्राप्तिरुक्तेत्यर्थः। सूत्रस्थादिपदार्थमाह॥ त- थागनिरिति॥ आकाशब्रह्मणश्रत्वारः पादाःदौ कर्णो हे नेत्रे द्वेनासिके
Page 415
सू०३२।अ० ९] शाङ्करब्रह्मसूत्रभाष्ये (३९३) इत्यादिषु देवतात्मोपासनेषु न तेषामेव देवता- त्मनामधिकारः सम्भवति। तथे "मावेव गौतम- भरद्वाजावयमेव गौतमोडयं भरद्वाज" इत्यादि- ष्टृषिसम्बन्धेषु उपासनेषु न तेषामेवर्षीणाम- धिकारः सम्भवति कुतश्रन देवादीनामनधि- कारः॥ ३१॥ ज्योतिषिभावाच्च ॥३२॥ यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बंभ्रमज्गदवभासयति तस्मिन्नादित्यादयो दे- वतावचना: शब्दा: प्रयुज्यन्ते लोकप्रसिद्धेर्वा- क्यशेषप्रसिद्धेश्र्। न च ज्योतिर्मण्डलस्य हद- यादिना विग्रहेण चेतनतयाऽर्थित्वादिना वा यो एका वागिति सप्तस्विन्द्रियेषु शिरश्रमसतीरस्थेषु सप्तर्षिध्यानं कार्य- मित्याह॥ तथेमावेवेति॥ अयं दक्षिणः कर्णः गौतमो वामो भरद्दाज एवं दक्षिणनेत्रनासिके विश्वामित्रवसिष्ठौ वामे जमदन्निकश्यपौ वाग- त्रिरित्यर्थः॥ अत्र ऋषीणां ध्येयत्वान्नाधिकारः॥ ३१॥ किश्च विग्रहाभावात् देवादीनां न क्वाप्यधिकार इत्याह॥ ज्योतिषि भावाच्चेति। आदि- त्यः सूर्यश्र्वन्द्रः शुकोऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेपु प्रयोगस्य भावात् सच्वान्न विग्रहवान् देव: कश्विदस्तीत्यर्थः। आदित्यः पुरस्ता- दुदेता पश्चादस्तमेतेति मधुविद्यावाक्यशेषे ज्योतिष्येवादित्यशब्दःप्र- सिद्धः। तर्हि ज्योतिःपिण्डानामेवाधिकारोऽस्तु तत्राह॥न चेति॥ अ- ५०
Page 416
(३९४ ) रत्नप्रभाभासिते [अ० १। पा० ३। गोऽवगन्तुं शक्यते, मृदादिवदचेतनव्वावगमात्। एतेनाग्न्यादयो व्याख्याता:।स्यादेतत्, मन्त्रा- र्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रह- वत्वाद्यवगमादयमदोषः इति नेत्युच्यते, न ता- वल्लोको नाम किश्चित् स्वतन्त्रं प्रमाणमस्ति, प्र- त्यक्षादिभ्य एव त्यविचारित विशेषेभ्यः प्रमाणे- भ्यः प्रसिध्यन्नर्थो लोकात् प्रसिध्यतीत्युच्यते,न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति। इति- हासपुराणमपि पौरुषेयत्वात् प्रमाणान्तरमूलता माकाङृति। अर्थवादा अपि विधिनैकवाक्यत्वात् ग्न्यादीनामधिकारमाशङ्ग्चाह॥ एतेनेति ॥ अग्निर्वायुर्भूमिःइत्यादि- शब्दानां अचेतनवाचित्वेनेत्यर्थः।सिद्धान्ती शङ्कते॥ स्यादेतद्ित्या- दिना॥ वज्रहस्तः पुरन्दरः इत्यादयो मन्त्राः। सोऽरोदीदित्यादयोऽ- र्थवादाः। "इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः। ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः"॥ इत्यादीतिहासपुराणानि। लोकेऽपि यमं दण्डहस्तं लिखन्ति, इ- न्द्रं वञ्रहस्तमिति विग्रहादिपञ्चकस्याभावात् अनधिकारदोषो नास्ती- त्यर्थः। "विग्रहो हविषां भाग ऐश्वर्यश्च प्रसन्नता। फलप्रदानमित्येतत् पञ्चकं विग्रहादिकम्"॥ मानाभावादेतन्नास्तीति दूषयति॥ नेत्यादिना॥ न चात्रेति, वि- ग्र हादावित्यर्थः । अर्थवादा मन्त्रा वा मूलमित्याशङ्ग्चाह ॥ अर्थवा-
Page 417
सू० ३३। अ ० ९ ।] (३१५ ) स्तुत्यर्थाः सन्तो न पार्थगर्थ्येन देवादीनां विग्र- हादिसद्रावे कारणभावं प्रतिपद्यन्ते। मन्त्रा अ- पि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनोऽभि- धानार्था न कस्यचिदर्थस्य प्रमाणमित्याचक्षते। तस्मादभावो देवादीनामधिकारस्य॥ ३२॥ भावं तु बादरायणोडस्ति हि॥ ३३॥ तुशब्दः पूर्वपक्षं व्यावर्तयति। बादरायण- स्त्वाचार्यो भावमधिकारस्य देवादीनामपि म- न्यते। यद्यपि मध्वादिविद्यासु देवतादिव्यामि- श्रास्वसम्भवोऽधिकारस्य तथाप्यस्ति हिशुद्धा- यां ब्रह्मविद्यायां सम्भवोऽर्थित्वसामर्थ्याप्रति- षेधाद्यपेक्षत्वादधिकारस्य। नच क्वचिदसम्भव इत्येतावता यत्र सम्भवस्तत्राप्यधिकारोऽपोदे- त, मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वे- षु राजसूयादिष्वधिकारः सम्भवति, तत्र यो न्या- दा इत्यादिना॥ व्रीह्यादिवत् प्रयोगविधिगृहीता मन्त्राः प्रयोगसम्ब- न्धार्थाभिधानार्थाः नाज्ञातविग्रहादिपरा इति मीमांसका आचक्षत इत्यर्थः । तस्माद्वियहाभावादित्यर्थः ॥ ३२ ॥ सूत्राभ्यां प्राप्त पूर्वपक्षं निरस्यति॥ तुशब्द इत्यादिना॥ ब्रह्मवि- दया देवादीनाधिकरोति विद्यात्वात् मध्वादिविद्यावत् इतिउक्तहेतुर- प्रयोजक इत्याह॥ यद्यपीति॥ दर्शादिक न ब्राह्मणमधिकरोति कर्म- त्वातू राजसूयादिवदिति आभाससाम्यं विद्यात्वहेतोराह ॥ न चेति॥
Page 418
(३९६) रत्नप्रभाभासिते [अ० १। पा० ३। यः सोऽत्रापि भविष्यति। ब्रह्मविद्यां च प्रकृत्य अवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्, "तदोयो देवानां प्रत्यबुध्यत स एव तदभवत्तथ- र्षीणां तथा मनुष्याणामिति""ते होचुर्हन्त त- मात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वा- श्र लोकानाप्नोति सर्वाश्र कामानिति""इन्द्रो ह वै देवानामभि प्रवब्राज विरोचनोऽसुराणा'मि- त्यादि च। स्मार्तमपि गन्धर्वयाज्ञवल्क्यसंवा- दादि।यदप्युक्तं ज्योतिषि भावाच्चेति,अत्रब्रूमः, ज्योतिरादिविषया अपिआदित्यादयो देवताव- चना: शब्दाच्चेतनावन्तमैश्वर्याद्युपेतं तंतं देवा- त्मानं समर्पयन्ति, मन्त्रार्थवादेषु तथा व्यवहा- रात्।अस्ति त्वैश्वर्ययोगाद्देवतानां ज्योतिराद्या- यत्र यस्याधिकारः सम्भवति स तत्राधिकारीति न्यायस्तुल्य इत्यर्थः । यतः सर्वेषां सर्वत्राधिकारो न सम्भवति ततो न चापोदेतेत्यन्वयः। तत् ब्रह्म योयो देवादीनां मध्ये प्रत्यक्केनाबुध्यत स तत् ब्रह्माभवदि- त्यर्थः । ते ह देवा ऊचुरन्योन्यं, तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापति ब्रह्मविद्याप्रदं जग्मतुरिति च लिङ्गमस्तीत्यर्थः । किमन्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवादीनामधिकारलिङ्गमित्याह॥ स्मार्तमिति॥ यथा बालानां गोलकेषु चक्षुरादिपदयोगेऽपि शास्त्रज्ञैर्गोलकातिरिक्तेन्द्रियाणि स्वी- क्रियन्ते, तथा ज्योतिरादौ सूर्यादिशब्दप्रयोगेऽपि विग्रहवद्देवताः स्वीकार्या इत्याह। ज्योतिरादीति। तथा चेतनत्वेन व्यवहारा-
Page 419
सू० ३३ । अ ० ९ ] शाङ्करब्रह्मसूत्रभाष्ये (३९७ ) त्मभिश्र्ावस्थातुं यथेष्टं च तंतं विग्रहं ग्रहीतुं सामर्थ्य। तथा हिश्रूयते सुब्रह्मण्यार्थवादे मे- धातिथेर्मेषेति, मेधातिथिं ह काण्वायनं इन्द्रो मेषो भूत्वा जहारेति।स्मर्यते च, "आदित्य:पुरु- पो भूता कुन्तीमुपजगाम हे?' ति। मृदादिष्वपि चे- तनाधिष्ठातारोऽभ्युपगम्यन्ते मृदबवीदापोडनु- वन्नित्यादिदर्शनात्। ज्योतिरादेस्तु भूतधातोरा- दित्यादिष्वप्य चेतनत्वमभ्युपगम्यते, चेतना- स्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम्। यदप्युक्तं मन्त्रार्थवादयोर- न्यार्थत्वान्नदेवताविग्रहादिप्रकाशनसामर्थ्यमि- ति, अत्र ब्रूमः। प्रत्ययाप्रत्ययौ हि सद्ावास- द्रावयो: कारणं नान्यार्थत्वमनन्यार्थत्वंवा।तथा दित्यर्थः । एकस्य जडचेतनोभयरूपत्वं कथं तत्राह॥ असित ही- ति॥ तथा हि विग्रहवत्तया देवव्यवहारः श्रूयते । सुब्रह्मण्य उद्वातृ- गणस्थः ऋत्विक् तत्सम्बन्धी योर्ऽर्थवाद इन्द्रागच्छेत्यादि: तत्र मे- धातिथेर्मेषत्द्रिसम्बोधनं श्रुतं तव्याचष्टे॥ मेधेति॥ मुनिं मेषो भू- त्वा जहारेति ज्ञापनार्थ मेषेतीन्द्रसम्बोधनमित्यर्थः । यदुक्तमादित्या- दयो मृदादिवदचेतना एवेति तन्न सर्वत्र जडाजडांशद्यसच्वादित्या- ह। मृदिति। आदित्यादौ को जडभागः कश्व्वेतनांश इति तत्राह। ज्योतिरादेस्त्विति। मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ सवा- र्थे न प्रमाणं अन्यपरत्वात्, विष भुंक्ष्वेति वाक्यवत् इत्याह। यद- पीति। अन्यपरादपि वाक्यात् बाधाभावे स्वार्थो ग्राह् इत्याह। अत्र
Page 420
(११८) रत्नप्रभाभासिते [अ०१।पा० ३। त्यन्पार्थमपि प्रस्थितः पथि पतितं तणपर्णादि अस्तीत्येवं प्रतिपद्यते। अत्राह विषम उपन्या- सः तत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवत्तम- स्ति येन तदस्तित्वं प्रतिपद्यते। अत्र पुनर्विध्युं- द्वेशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे न पार्थग- र्थर्येन वत्तान्तविषया प्रवत्तिः शक्याव्यवसा- तुं। न हि महावाक्येऽर्थप्रत्यायकेऽवान्तरवाक्य- स्य पृथक् प्रत्यायकत्वमस्ति, यथा "न सुरां पिबेदिति नञ्रवति वाक्ये पदत्रयसम्बन्धात् सुरापानप्रतिषेध एवैकोऽर्थोवगम्यते न पुनःसु- रां पिबेदिति पदद्दयसम्बन्धात् सुरापानविधिर- पीति। अन्रोच्यते। विषम उपन्यासः, युक्तं यत् सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवा- क्यार्थस्याग्रहणं, विध्युद्देशार्थवादयोस्त्वर्थवा- ब्रूम इति। तात्पर्यशून्येऽप्यर्थे प्रत्ययमात्रेणास्तित्वमुदाहरति! ॥ तथा हीति ॥ तृणादौ प्रत्ययोडस्ति विग्रहादौ स नास्तीति वैषम्यं शङ्कते ॥I अत्राहेति ॥ विध्युद्देशो वाक्यं तदेकवाक्यतया प्रश- स्तो विधिरित्येवार्थवादेषु प्रत्ययः । वृत्तान्तो भूतार्थो, विग्रहादि: तद्विषयः प्रत्ययो नास्तीत्यर्थः। नन्ववान्तरवाक्येन विग्रहादिप्रत्य- योडस्त्वित्यत आह ॥ न हीति ॥ सुरापानप्रत्ययोऽपि स्यादि- तिभावः। पदैकवाक्यत्ववाक्यैकवाक्यत्ववैषम्यान्मैवमित्याह॥ अ- त्रोध्यत इति॥ नञ्पदमेकं यदा सुरां पिवेदिति पदाभ्यामन्वे-
Page 421
सू०३३। अ० ९ ] शाङ्करब्रह्मसूत्रभाष्ये (३९९) दस्थानि पदानि पृथगन्वयं वत्तान्तविषयं प्रति- पद्यानन्तरं कैमर्थक्यवशेन विधिस्तावकत्वं प्र- तिपद्यन्ते। यथा हि "वायव्यं श्वेतमालभेत भू- तिकामः" इत्यत्र विध्युद्देशवर्तिनां वायव्यादि- पदानां विधिना सम्बन्धः, नेवं "वायुर्वैक्षेपिष्ठा देवता वायुमेव स्वेन आगधेयेनोपधावति स ए- वैनंभूतिं गमयति" इत्येषामर्थवादगतानांपदा- नां न हि भवति वायुर्वा आलभेत क्षेपिष्ठा देवता वा आलभेतेत्यादि वायुस्वभावसङ्गीर्तनेन त्व- वान्तरमन्वयं प्रतिपद्य एवं विशिष्टदैवत्यमिदं क- र्मेति विधिं स्तुवन्ति। तघत्र योऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति तत्र तदनुवादेनार्थ- वादः प्रवर्तते। यत्र प्रमाणान्तरविरुद्धस्तत्र गु- णवादेन। यत्र तु तदुभयं नास्ति तत्र किं प्रमा- णान्तराभावाहगुणवादः स्यादाहोस्वित् प्रमाण- ति तदा पदैकवाक्यं एकमेवार्थानुभवं करोति न तु पदद्दयं पृ- थक सुरापानं बोधयति तस्य विधौ निषेधानुपपत्तेः वाक्यार्थानुभवं त्यद्दारत्वात, अर्थवादस्तु भूतार्थसंसर्गस्तुतिद्वारं बोधयन् विधिना वाक्यैकवाक्यतां भजत इत्यस्ति विग्रहायनुभव इत्यर्थः । नन्वर्थवा- दस्थपदानामवान्तरसंसर्गबोधकत्वं विना साक्षादेव विध्यन्वयोऽस्तु तत्राह ॥ यथा हीति॥ साक्षादन्वयायोगं दर्शयति॥ न हीति॥ अर्थवादात् सर्वत्र स्वार्थग्रहणमाशङ्ड्यार्थवादान् विभजते ॥ तद्यत्रे-
Page 422
(800) रत्नप्रभाभासिते [अ० १।पा० ३। न्तराविरोधाद्विद्यमानार्थवाद इति प्रतीतिशरणै- विद्यमानार्थवाद आश्रयणीयो न गुणवादः। एतेन मन्त्रो व्याख्यातः। अपि च, विधिभिरेवे- न्द्रादिदैवत्यानि हवींषि चोदयद्विरपेक्षितमि- न्द्रादीनां स्वरूपं, न हि स्वरूपरहिता इन्द्राद- यश्र्वेतस्यारोपयितुं शक्यन्ते।न च चेतस्यना- रूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्य- ते। श्रावयति च, "यस्यै देवतायै हविर्गहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्नि"ति। न ति । तन्तत्रार्थवादेषु यत्राग्निर्हिमस्य भेषजमित्यादावित्यर्थः। आदि- त्यो यूप इत्यभेदो बाधित इति तेजस्वित्वगुणवादः, यत्र वज्रहस्तः पुरन्दर इत्यादौ मानान्तरसंवादविसंवादौ न स्तः तत्र भूतार्थवाद इत्यर्थ:, इति विमृश्येत्यध्याहारः। विग्रहार्थवादः स्वार्थेऽपि तात्पर्य- वान् अन्यपरत्वे सत्यज्ञानाबाधितार्थकशब्दत्वात् प्रयाजादिवाक्य- वत् इति न्यायं मन्त्रेष्वतिदिशति॥ एतेनेति॥ वेदान्तानुवादगुणवा- दानां निरासाय हेतौ पदानि न चोभयपरत्वे वाक्यभेदोऽवान्तरार्थस्य महावाक्यार्थद्दारत्वादिति भावः। विध्यनुपपच्यापि स्वर्गव द्देवताविग्रहो- डङ्गीकार्य इत्याह । अपि चेति। ननु लेशात्मके कर्मणि विधि: फलं विना अनुपपन्न इति भवतु यन्न दुःखेन संभिन्नमित्यर्थवाद- सिद्धः स्वर्गो विधिप्रमाणकः विग्रहं विना विधे: कानुपपत्तिसामाह॥ न हीति॥ उद्दिश्य त्यागानुपप्या चेतस्यारोहो डङ्गीकार्य इत्यत्र श्रुतिमप्याह॥ यस्या इति ॥ अतश्रेतस्यारोहार्थ विग्रह एष्टव्यः । किश्व कर्मप्रकरणपाठातू विग्रहप्रमितिः प्रयाजवत् कर्माद्गत्वेना-
Page 423
सू०। ३३अ ० ९। ] शाङ्गरब्रह्मसूत्रभाष्ये (४०१ ) च शब्दमात्रमर्थस्वरूपं सम्भवति शब्दार्थयो- र्भेदात्, तत्र यादशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत्तादशं शब्दप्रमाणकेन प्र- त्याख्यातुं युक्तम्।इतिहासपुराणमपि व्याख्या- तेन मार्गेण सम्भवन्मन्त्रार्थवादमूलत्वात् प्र- भवति देवताविग्रहादि साधयितुम्। प्रत्यक्षामू- लमपि सम्भवति। भवति त्यस्माकमप्रत्यक्षम- पि चिरन्तनानां प्रत्यक्षम्। तथा च व्यासादयो दे- वादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते। यस्तु- ब्रूयादिदानीन्तनानामिव पूर्वेषामपि नास्ति दे- वादिभि:व्यवहरतु सामर्थ्यमिति स जगद्वैचित्र्यं प्रतिषेधेत्। इदानीमिव च नान्यदापि सार्वौ- मः क्षत्रियोऽस्तीति ब्रूयात्, ततश्र राजसूया- ङ्ीकार्यतां, विना कर्मापूर्वासिद्धेः । किश्च सुप्रसन्नविग्रहवद्देवतां त्यत्का शब्दमात्रं देवतेति भक्तिरयुक्तेत्याह॥न च शब्देति॥ न चा- रुतिमात्रं शब्दशक्यमस्तु किं विग्रहेणेति वाच्यं, निर्व्यक्त्याकृत्ययोगा- त्, अतः शब्दस्यार्थाकाङ्कायां मन्त्रादिप्रमितविग्रहोऽङ्गीकार्य इत्या- ह॥ तन्नेति॥ एवं मन्त्रार्थवादमूलकमितिहासादिकमपि विग्रहे मान- मित्याह॥ इतिहासेति॥ प्रमाणत्वेन संभवदित्यर्थः। व्यासादीनां योगिनां देवतादिप्रत्यक्षमपीतिहासादेर्मूलमित्याह॥ प्रत्यक्षेति॥व्या- सादयो देवतादिप्रत्यक्षशून्या: प्राणित्वादस्मद्ददित्यनुमानमतिप्रसङ्गेन दूषयति। यस्त्वित्यादिना। सर्व घठाभिन्नं वस्तुत्वात् घटवदिति ज- गद्दैचित्रयं नास्तीत्यपि स ब्रूयात्। तथा क्षत्रियाभावं वर्णाश्रमाभावं ५१
Page 424
(४०२) रत्नप्रभाभासिते [अ० १। पा० ३। दिचोदना उपरुन्ध्यात्। इदानीमिव च काला- न्तरेऽप्यव्यवस्थितप्रायान् वर्णाश्रमधर्मान्प्र- तिजानीत ततश्र् व्यवस्थाविधायिशास्त्रमनर्थ- कं स्यात् तस्माद्वर्मोत्कर्षवशाच्चिरन्तना देवादि- भिः प्रत्यक्षं व्यवजहूरिति श्लिष्यते। अपि च स्मरन्ति स्वाध्यायादिष्ठदेवतासम्प्रयोग इत्या- दि। योगोऽप्यणिमाद्यैश्वर्यप्रातिफलकः स्मर्य- माणो न शक्यते साहसमात्रेण प्रत्याख्यातुम्। श्रुतिश्र योगमाहात्म्यं प्रत्याख्यापयति "पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवत्ते। न तस्य रोगो न जरा न मृत्यु: प्राप्तस्य योगाभ्निमयं शरीरम्", इति॥ ऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्य
वर्णाश्रमाव्यव्यवस्थां च ब्रूयात् निरङ्कुशबुद्धित्वात्। तथा चराजसूया- दिशास्त्रस्य कतादियुगधर्मव्यवस्थाशास्त्रस्य बाध इत्यर्थः । योगसूत्रा- र्थादपि देवादिप्रत्यक्षसिद्धिरित्याह। अपि चेति। मन्त्रजपात् देवसा- न्निध्यं तत्संभाषणं चेति सुत्रार्थः । योगमाहात्म्यस्य श्रुतिस्मृतिसि- द्वत्वात् योगिनामस्ति देवादिप्रत्यक्षमित्याह॥ योग इति ॥ पादतला- दाजानोर्जानोरानाभेरायीवं ग्रीवायाश्वाकेशप्ररोहं ततश्राब्रह्मरन्ध्रं पृथिव्यादिपश्चके समुत्थिते धारणजाते योगगुणे चाणिमादिके प्रवृत्ते योगाभिव्यक्तं तेजोमयं शरीरं प्राप्तस्य योगिनो न रोगादिस्पर्श इत्य-
Page 425
सु०३४। अ०१०।] शाङ्करब्रह्मसूत्रभाष्ये (४०३) नास्मदीयेन सामर्थ्येनोपमातुं युक्तं, तस्मात् स- मूलमितिहासपुराणम्। लोकप्रसिद्धिरपि न स- ति सम्भवे निरालम्बनाध्यवसातुं युक्ता, तस्मा- दुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यव- गमः। ततश्रार्थित्वादिसम्भवादुपपन्नो देवादी- नामपि ब्रह्मविद्यायामधिकारः। कममुक्तिदर्श- नान्यप्येवमेवोपपद्यन्ते॥ ३३॥ शुगस्य तद्नादरश्रवणात्तदाद्रवणात् सूच्यते हि॥ ३४ ॥ यथा मनुष्याधिकारनियममपोद्य देवादी- नामपि विद्यास्वधिकार उक्तस्तथैव द्विजात्य- धिकारनिय मापवादेन शूद्रस्याप्यधिकारः स्या- दित्येतामाशङ़ां निवर्तयितुं इदमधिकरणमार- र्थः। चित्रकारादिप्रसिद्धिरपि विग्रहे मानमित्याह ॥लोकेति॥ अधि- करणार्थमुपसंहरति॥तस्मादिति ॥ चिन्तायाःफलमाह॥ क्रमेति॥ एवमेव देवादीनां ब्रह्मविद्याधिकारे सत्येव देवत्वप्राप्तिद्वारा मुक्तिफ- लान्युपासनानि युज्यन्ते देवानामनधिकारे ज्ञानाभावात् क्रममुक्त्य- थिनामुपासनेषु प्रवृत्तिर्न स्यात्, अतोऽधिकारनिर्णयात् प्रवृत्तिसिद्धि- रिति भावः ॥ ३३ ॥। शुगस्य-सूच्यते हि॥ पूर्वेणास्य दृष्टान्तसङ्गतिमाह॥ यथेति॥ पूर्वत्र देवादीनां अधिकारसिद्धचर्थ मन्त्रादीनां भूतार्थे विग्रहादौ सम-
Page 426
(४०४) रत्नप्रभाभासिते [अ० १।पा० ३। भ्यते। तत्र शूद्रस्याप्यधिकारः स्यादिति ताव- त् प्रात्तं, अर्थित्वसामर्थयोः सम्भवात्,"तस्मा- च्छूद्रो यज्ञेऽनवक्लप्तः" इतिवत् शूद्रो विद्याया- मनवक्लप्त इति च निषेधाश्रवणात्। यच्च कर्म- स्वनधिकारकारणं शूद्रस्यानस्नित्वंन तद्विद्यास्व- धिकारस्यापवादकं लिंगम्। न त्यावहनीयादि- रहितेन विद्या वेदितुं न शक्यते। भवति च लिङ़ं शूद्राधिकारस्योपोद्वलकं, संवर्गविद्यायां हिजा- नश्रुतिं पौत्रायणं शुश्रषुं शद्रशब्देन परामृशति "अह हारेत्वा शूद्र तवैव सह गोभिरस्तु" इति। विदुरप्रभृतयश्र शूद्रयोनिप्रभवा अपि विशिष्ठ- न्वयोक्त्या वेदान्तानामपि भूतार्थे ब्रह्मणि समन्वयो दृढीकतः, अन्ा- पि शूद्रशब्दस्य श्रौतस्य क्षत्रिये समन्वयोक्त्या से दढीक्रियत इत्यधि- करणद्दयस्य प्रासड्गिकस्यास्मिन् समन्वयाध्यायेSन्तर्भाव इति मन्त- व्यं। पूर्वपक्षे शूद्रस्याऽपि द्विजवद्देदान्तश्रवणे प्रवृत्तिः, सिद्धान्ते तद- भाव इति फलं, अत्र वेदान्तविचारो विषयः, स किं शूद्रमधिकरोति न वेति संभवासंभवाभ्यां सन्देहे पूर्वपक्षमाह॥तत्र शूद्रस्यापीत्या- दिना॥ तस्मादनग्नित्वादनवक्लप्तोऽसमर्थः । विद्यार्थिनि शूद्रशब्दप्र- योगाल्लिङनादपि शूद्रस्याधिकार इत्याह॥ भवति चेति॥ जानश्रुतिः किल षठ् शतानि गवां रथं च रैक्काय गुरवे निवेध मां शिक्षयेत्युवाच, ततो रैक्को विधुरः कन्यार्थी सन् इदमुवाच। अहेति निपातः खेदा- र्थः। हारेण निष्केन युक्त इत्वा गन्ता रथो हारेत्वा स च गोभि: सह १ ब्रह्मणिसमन्वयः ।
Page 427
सू० ३४। अ० १०।] शाङ्गरब्रह्मसूत्रभाष्ये (४०५) विज्ञानसम्पन्नाः स्मर्यन्ते, तस्मादधिक्रियते शू- द्रो विद्यास्वित्येवं प्राप्ते ब्रूमः।न शूद्रस्याधिका- रो वेदाध्ययनाभावात्। अधीतवेदो हि विदित- वेदार्थो वेदार्थेष्वधिक्रियते, न च शूद्रस्य वेदा- ध्ययनमस्ति, उपनयनपूर्वकत्वाद्वेदाध्ययनस्य, उपनयनस्य च वर्णत्रयविषयत्वात्। यत्त्वर्थित्वं न तदसति सामर्थ्येऽधिकारकारणं भवति। सा- मर्थ्यमपि न लौकिकं केवलमधिकारकारणं भ- वति। शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापे- क्षितत्वात्। शास्त्रीयस्य च सामर्थ्यस्याध्ययन- निराकरणेन निराकृतत्वात्। यच्चेदं "शूद्रो यज्ञे- Sनवक्लप्त" इति तत् न्यायपूर्वकत्वाद्विद्यायाम- हे शूद्र तवैवास्तु किमल्पेनानेन मम गार्हस्थ्यानुपयोगिनेति भावः। अर्थित्वादिसंभवे श्रेयःसाधने प्रवृत्तिरुचिता स्वाभाविकत्वादिति न्या- योपेताल्लिड्गदित्याह॥तस्मादिति॥सूत्राद्दहिरेव सिद्धान्तयति ॥ न- शूदस्याधिकार इत्यादिना ।। आपाततो विदितो वेदार्थो येन तस्येत्यर्थः । अध्ययनविधिना संस्कृतो वेदस्तदुत्थमापातज्ञानञ्च वे- दार्थविचारेषु शास्त्रीयं सामर्थ्य तदभावात् शूद्रस्यार्थित्वादिसंभवन्या- यासिद्धेर्नास्ति वेदान्तविचाराधिकार इत्यर्थः । यद्दाध्ययनसंस्कृतेन वेदेन विदितो निश्चितो वेदार्थो येन तस्य वेदार्थेषु विधिष्वधिकारो नान्यस्य अनधीतवेदस्याऽपि, वेदार्थानुष्ठानाधिकारेSध्ययनविधिवैय- थ्यापातात् । अतः फलपर्यन्तब्रह्मविद्यासाधनेषु श्रवणादिविधिषु शूद्रस्यानधिकार इत्यर्थः। अधीतवेदार्थज्ञानवच्वरूपस्याध्ययनविधि-
Page 428
( ४• ६) रत्नप्रभाभासिते [अ० १। पा० ३। प्यनवक्लप्तत्वं द्योतयति, न्यायस्य साधारण- त्वात्। यत् पुनः संसर्गविद्यायां शद्रशब्दश्रवणं लिङ्गं मन्यसे न तल्ङ़ं, न्यायाभावात्। न्यायो- क्तेर्हिं लिङ्दर्शनं द्योतकं भवति, न चात्र न्यायोS स्ति। कामञ्चायं शद्रशब्द: संवर्गविद्यायामेवैक- स्यां शूद्रमधिकुर्यात् तद्विषयत्वात् न सर्वासु वि- द्यासु, अर्थवादस्थत्वात् न तु क्वचिदप्ययं शूद्र- मधिकर्तुमुत्सहते। शक्यते चायं शूद्रशब्दोऽवि- कृतविषये योजयितुं। कथमित्युच्यते। "कं वर एनमेतत् सन्तं सयुग्वानमिव रैक्कमात्थे"त्यस्मा- लभ्यस्य सामर्थ्यस्याभावादिति न्यायस्य तुल्यत्वात् यज्ञपदं वेदार्थो- पलक्षणार्थमित्याह ॥ न्यायस्य साधारणत्वादिति ॥! तस्माच्छूद्र इत्येतच्छब्दपरामृष्टन्यायस्य यज्ञव्रह्मविद्ययोस्तुल्यत्वादित्यर्थः । पूर्वो- कं लिङगं दूषयति ॥ यदिति । असामर्थ्यन्यायेनार्थित्वादिसम्भवन्या- यस्य निरस्तत्वादित्यर्थः। ननु निषादस्थपति याजयेदित्यत्राध्ययनाभा- वेऽपि निषादशब्दातू निषादस्येष्टाविव शुद्रशव्दात् शूद्रस्य विद्याया- मधिकारोऽस्त्वित्याशङ्क्च संवर्गविद्यायामधिकारमङ्गीकरोति ॥ का- ममिति॥ तद्दिषयत्वात् तत्र श्रुतत्वादित्यर्थः । वस्तुतस्तु विधिवा- क्यस्थत्वान्निषादशब्दोऽप्यधिकारिसमर्पकः, शूद्रश्दस्तु विद्यावि- धिपरार्थवादस्थो नाधिकारिणं बोधयति, असामर्थ्यन्यायविरोधेना- न्यपरशब्दस्य स्वार्थबोधित्वासम्भवात् इति मत्वाङ्गीकारं त्यजति ॥ अर्थवादेति॥ तर्हि शूद्रशब्दस्यात्र श्रुतस्य कोऽर्थ इत्याशङ्क्च सू- त्रेणार्थमाह॥ शक्यते चेत्यादिना ॥ जानश्रुतिर्नाम राजा निदाघ-
Page 429
सू ० ३४। अ० १०।] शाङ्करब्रह्मसूत्रभाष्ये (४०७) दवंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुगुत्पेदे तामृषी रैक्क: शूद्रशब्देना- नेन सूचयांबभूवात्मनः परोक्षज्ञानस्य ख्याप- नायेति गम्यते, जातिशूद्रस्यानधिकारात्। कर्थं- पुनः शूद्रशव्देन शुगुत्पन्ना सूच्यते इति, उच्य- ते, तदा द्रवणाच्छुचमभिदुद्राव शुचा वासिदु- द्रुवे शुचा वा रैक्कमभिदुद्रावेति शूद्रावयवार्थस- मभवात् रूढार्थस्य चासम्भवात्। दृश्यते चाय- मर्थोऽस्यामाख्यायिकायाम्॥३४॥
समये रात्रौ प्रासादतले सुष्वाप, तदा तदीयान्दानादिगुणगणतोषि- ता ऋषयोऽस्य हितार्थ हंसा भूत्वा मालारूपेण तस्योपरि आजग्मुः, तेषु पाश्रवात्यो हंसोऽग्रेसरं हंसमुवाच, भो भो भद्राक्ष किं न पश्यसि जानश्रुतेरस्य तेजः स्वर्ग व्याप्य स्थितं तत् त्वां धक्ष्यति न गच्छेति तमग्रेसर उवाच, कमप्येनं वराकं विद्याहीनं सन्तं अरे सयुग्वानं युग्वा गन्त्री शकटी तया सह स्थितं रैक्कमिवैतदचनमात्थ। रैक्कस्य हि ब्रह्मिष्ठस्य तेजो दुरतिकमं नास्यानात्मज्ञस्येत्यर्थः । अस्मद्दचनात् खिन्नो राजा शकटलिङ्गेन रैक्क ज्ञात्वा विद्यावान् भविष्यतीति हंसा- नामभिप्रायः। कम् उ अरे इति पदच्छेद: उशब्दोऽप्यर्थः।तेषां हंसा- नामनादरवाक्यश्रवणात् अस्य राज्ञः शुगुत्पन्ना, सा शूद्रशब्देन रैक्केन सूच्यते, हीति सूत्रान्वयः । श्रुतयौगिकार्थलाक्े सति अनन्वितरू- ढ्यर्थस्त्याज्य इति न्याययोतनार्थो हि शब्दः। तदा द्रवणातू तया शु- चा आद्रवणात्। शूद्र: शोक प्राप्तवात्। शुचा वा क्त्र्या राजा अ- भिदुद्रुवे प्राप्तः। शुचा वा करणेन रैक्वं गतवानित्यर्थः ॥ ३४॥
Page 430
(8०८) रत्नप्रभाभासिते [अ०१। पा० ३। क्षत्रियत्वगतेश्र्वोत्तरत्र चैवरथेन लिझात्॥ ३५॥! इतश्र न जातिशूद्रो जानश्रुतिः, यत्कारणं प्रकरणनिरूपणेन क्षत्रियव्वमस्योत्तरत्र चैत्ररथे- नाभिप्रतारिणा क्षत्रियेण समभिव्याहारात् लि- ङात् गम्यते। उत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः सङ्गीत्यते। "अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसे- निं सूदेन परिविष्यमाणौ ब्रह्मचारी विभिक्षे" इति। चैत्ररथित्वं चाभिप्रतारिणः कापेययो- गादवगन्तव्यं, कापेययोगो हि चैत्ररथस्याव- गतः। "एतेन वै चैत्ररथं कापेया अयाजय- न्नि"ति। समानान्वयानां च प्रायेण समाना- न्वया याजका भ्वन्ति। "तस्माच्चैत्ररथिर्नामै- शूद्रशव्दस्य यौगिकत्वे लिङ्गमाह॥ क्षत्रियत्वेति ॥संवर्गविद्या- विध्यन्तरमथार्थवाद आरभ्यते। शुनकस्यापत्यं कपिगोत्रं पुरोहितम- भिप्रतारिनामकं राजानं च कक्षसेनस्यापत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटुभिक्षितवानित्यर्थः। नन्वस्य चैत्ररथित्वं न श्रु- तमित्यत आह।।चैत्ररथित्वश्चेति।।एतेन द्विरात्रेणेति छान्दोग्यश्रुत्यैव पूर्व चित्ररथस्य कापेययोग उक्तः । अभिप्रतारिणोऽपि तयोगात् चित्ररथवंश्यत्वं निश्चीयते। राजवंश्यानां हि प्रायेण पुरोहितवंश्या या- जका भवन्तीत्यर्थः । नन्वरत्वभिप्रतारिणः चैत्ररथित्वं तावता कथं
Page 431
सू० ३६। अ०१०] शाङ्करब्रह्मसूत्रभाष्ये (४०९)
क्षत्रियत्वमस्यावगन्तव्यं। तेन क्षत्रियेणाभिप्र- तारिणा सह समानायां विद्यायां सङ्गीर्तनं जा- नश्रुतेरपि क्षत्रियत्वं सूचयति। समानानामेव हि प्रायेण समभिव्याहारा भवन्ति। क्षतृप्रेष- णाधैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिः। अतो न जातिशूद्रस्याविकारः॥३५॥ संस्कारपरामर्शात् तद्भावाजिला- पाच॥ ३६॥ इतश्रन शूद्रस्याधिकारो यद्विद्याप्रदेशेषू- पनयनादयः संस्कारा: परामृश्यन्ते, "तं हो- पनिन्ये अधीहि भगव इति होपससाद "व्र- क्षत्रियत्वं तत्राह॥ तस्मादिति॥ चित्ररथादित्यर्थः। क्षत्ता सूतः तस्य रैक्कान्वेषणाय प्रेषणं, अन्नगोदानादिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गनम् ।३५॥ अत्र शूद्रशब्दो यौगिक एवेति न शूद्रस्याधिकार इति स्थि- तं तत्र लिङ्गान्तरमाह॥ संस्कारेति॥ उपनयनं वेदग्रहणाङ्गं शूद्रस्य नास्तीति पूर्वमुक्त इह विद्यागहणाङ्गस्योपनयनसंस्कारस्य सर्वत्र परा- मर्शात् शूद्रस्य तदभावान्न विद्याधिकार इत्युच्यते। भाष्ये आदिपदे- नाध्ययनगुरुशुश्रुषादयो गृह्यन्ते। तं शिष्यमाचार्य उपनीतवानित्य- र्थः। नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन सनत्कुमारमुपगत इत्याह। ॥। अधीति॥ उपदिशेति यावत्। ब्रह्मपरा वेदपारगाः, सगुणब्रह्मनि- ष्ाः परं निर्गुणं ब्रह्मान्वेषमाणाः, एष पिप्पलादः तज्जिज्ञासितं सर्व ५२
Page 432
(४१०) रत्नप्रभाभासिते [अ० १। पा० ३। हपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष हवै तत्सर्व वक्ष्यतीति"ते ह समित्पाणयो भग- वन्तं पिप्पलाद्मुपसन्ना" इति च तान् हानुप- नीयैवेत्यपि प्रद्शितैवोपनयनप्राप्तिर्भवति। शू- द्रस्य च संस्काराभावोऽभिलप्यते, शूद्रश्वतुर्थो वर्ण एकजातिरित्येकजातित्वस्मरणात्, न शूद्रे पातकं किश्च्िन्न च संस्कारमर्हतीत्यादिभिश्च॥।३६॥ तद्भावनिर्धारणे च प्रवृत्तेः॥३७॥ इतश्र न शूद्रस्याधिकारो यत् सत्यवचने- वक्ष्यतीति निश्चित्य ते भरद्ाजादयः षट् ऋषयः तमुपगता इत्यर्थः । ननु वैश्वानरविद्यायां ऋषीन् राजा अनुपनीयैव विद्यामुवाचेति श्रुते- रनुपनीतस्याप्यस्ति विद्याधिकार इत्यत आह॥ तानाहेति ॥ ते ह समित्पाणयः पूर्याढ्ने प्रतिचक्रमिर इति पूर्ववाक्ये ब्राह्मणा उपनय- नार्थमागता इति उपनयनप्राप्तिं दर्शयित्वा निषिध्यते। हीनवर्णे- नोत्तमवर्णा अनुपनीयैवोपदेष्टव्या इत्याचारज्ञापनार्थमित्यर्थः । एक- जातिः अनुपनीतः । पातकं अभक्ष्यभक्षणरुतं ॥ ३ ६ ॥ सत्यकाम: किल मृतपितृको जावालां मातरमपृच्छत् किंगोत्रोSहमिति, तं मातो- वाच भर्तृसेवाव्यय्तयाहमपि तव पितुर्गोनं न जानामि जावाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति एतावज्जानामीति ततः स जाबालो गोतममागत्य तेन किंगोत्रोऽसीति पृष्ट उवाच नाहं गोवं वेदमि न माता वेत्ति परन्तु मे मात्रा कथितं उपनयनार्थमाचा- ये गत्वा सत्यकामो जाबालोडस्मीति ब्रूहीति अनेन सत्यवचनेन त- स्य शूद्रत्वाभावो निर्धारितः । अब्राह्मण एतत् सत्यं विविच्य वक्तुं
Page 433
सू०३८। अ० १०]. शाङ्करब्रह्मसूत्रभाष्ये (४११) न शूद्रत्वाआवे निर्द्वारिते जाबालं गौतम उप- नेतुमनुशासितुं च प्रवळते, "नैतदब्राह्मणो विव- क्मर्हति समिधं सोम्याहरोप त्वा नेष्ये न स- त्यादगाः" इति श्रुतिलिङ्गात्॥३७॥ श्रवणाध्ययनार्थप्रतिषेधात् स्मृते- श॥३८।। इतश्र न शूद्रस्याधिकारो यदस्य स्मृतेः श्रव- णाध्ययनार्थ प्रतिषेधो भ्वति वेदश्रवणप्रतिषेधो वेदाध्ययनप्रतिषेधः तदर्थज्ञानानुष्ठानयोश्च प्र- तिषेधः शूद्रस्य स्मर्यते। श्रवणप्रतिषेधस्तावद- "थास्य वेदमुपशण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपू- रण"मिति, "पद्यु हवा ए तत् श्मशानं यच्छूद्रस्त- स्मात् शूद्रसमीपे नाध्येतव्य"मिति च। अत ए- वाध्ययनप्रतिषेधो यस्य हिसमीपेऽपि नाध्ये- नार्हतीति निर्धार्य, हे सोम्य सत्यात् त्वन्नागाः सत्यं न त्यक्तवान- सि, अतस्त्वामुपनेष्ये तदर्थ समिधमाहरेति।। गौतमस्य प्रवृत्तेश्व लिङ्गात् न शूद्रस्याधिकार इत्याह। तदभा- वेति॥ ३७॥ स्मृत्या अवणादिनिषेधाच्च नाधिकार इत्याह। श्रवणेति। अस्य शुद्रस्य द्विजैः पव्यमानं वेदं प्रमादाच्छृण्वतः सीसलाक्षाभ्यां तप्ताभ्यां श्रोत्द्दयपूरणं प्रायश्रिवित्तं कार्यमित्यर्थः । पद्ु पादयुक्तं सश्चरिष्णुरूप- मिति यावत्। भवति च स्मृतिरिति शेषः। मति वेदार्थज्ञानं । दानं
Page 434
(४१२) रत्नप्रभाभासिते [अ० १।पा० ३। तव्यं भवति स कर्थ श्रुतमधीयीत। अवति च- वेदोचारणे जिह्रा चछेदो धारणे शरीरक्षेद इति। अंत एव च तदर्थज्ञानानुष्ठानयोः प्रतिषेधो - वति।"न शूद्राय मति दद्यादि"ति "द्विजातीना- मध्ययनमिज्या दानशमिति च। येषां पुनः पू- र्वकृतसंस्कारवशात् विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिस्तेषां न शक्यते फलप्राप्तिः प्रतिब- हुं, ज्ञानस्यैकान्तिकफलत्वात्। "श्रावयेच्चतुरो वर्णाशनिति चेतिहासपुराणाधिगमे चातुर्वर्ण्या- धिकारस्मरणात्। वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् ॥३८॥ कम्पनात् ॥ ३९ ॥। अवसितः प्रासङ्गिकोऽधिकारविचारः, प्रक- तामेव इदानीं वाक्यार्थविचारणां प्रवर्तयिष्या- मः।"यदिदं किश्व जगत् सर्व प्राण एजति निः- नित्यं निषिध्यते शूद्रस्य नैमित्तिकं तु दानसस्त्येव। यदुक्तं विदुरादीनां ज्ञानित्वं दष्टमिति तत्राह॥ येषामिति॥ सिद्धानां सिद्धर्दुरपहरत्वेऽपि साधकैः शूद्रैः कथं ज्ञानं लब्धव्यमित्यत आह। श्रावथेदिति ॥३८॥ कम्पनात्॥ अस्यापि प्रासंज्ञिकत्वमाशङ्क्याह॥अवसित इति॥ समाप्त इत्यर्थः। काठकं पठति॥ यदिदमिति ॥सर्वै जगत् प्राणात् निःसृतं उत्पन्नं प्राणे चिदात्मनि प्रेरके सति एजति चेष्टते, तच्च प्रा- णाख्यं कारणं महद्ह्म विभेत्यस्मादिति भयं तस्मिन् भयहेतुत्वे दष्टा-
Page 435
सू ० ३९। अ० ११/] शाङ्करब्रह्मसूत्रभाष्ये (४१३) सृतं महद्नयं वजमुद्यतं य एतद्विदुरमतास्ते अव- नती"ति। एतद्वाक्यं एजृ कम्पन इति धात्वर्थानु- गमात् लक्षितं। अस्मिन् वाक्ये सर्वमिदं जग- त् प्राणाश्रयं स्पन्दते। महच्च किश्िद्रयकारणं वज्चशब्दितं उद्यतं, तद्विज्ञानाच्चामृतत्वप्राप्तिरि- ति श्रूयते। तत्र कोऽसौ प्राणः किश्च तद्रयानकं वज्चमित्यप्रतिपत्तेरविचारे क्रियमाणे प्रात्तं तावत् प्रसिद्धे: पञ्चवत्तिर्वायुः प्राण इति, प्रसिद्देरेव चाशनिर्वजं स्याद्वायोश्र्वेदं माहात्म्यं संकीर्त्यते। 1 कथं सर्वमिदं जगत् पञ्चवत्तौ वायौ प्राणशब्दि- • ते प्रतिष्ठायैजति वायुनिमित्तमेव च महद्रया- न्तमाह। वज्मिति। यथोदत वज्रं भर्यं तथेत्यर्थः ये तत्प्राणाख्यं ब्रह्म निर्विशेषं विदुस्ते मुक्ता भवन्तीत्याह। य इति। नन्वस्मिन् सूत्रे कथमिद वाक्यमुदाहतमित्यत आह। एतदिति। एजत्यर्थस्य सूत्रितत्वात् एजतिपदयुक्तं वाक्यं उदाहृतमित्यर्थः। प्रासङ्गिकावि- कारचिन्तयास्य सङ्गतिर्नापेक्षितेति 'शब्दादेवप्रमित' इत्यनेनोच्यते। तत्राङ्गुष्टवाक्ये जीवानुवादो वल्लैक्यज्ञानार्थ इत्युक्त, न तथेह प्राणा- नुवाद ऐक्यज्ञानार्थ: सभवति, प्राणस्वरूपेण कल्पितस्यैक्यायोगात्, अतः प्राणोपास्तिपरं वाक्यमिति प्रत्युदाहरणेन पूर्वपक्षयति॥ प्रसि- द्वे: पश्चवृत्तिरिति ॥ नन्वत एव प्राण इत्यादौ ब्रह्मणि लिङ्गात् प्राणश्रुतिर्नीता, अत्रापि सर्वचेष्टाभयहेतुत्वं ब्रह्मलिङ्गमस्तीति ना- स्ति पूर्वपक्षावसरो गतार्थत्वादित्यत आह। वायोश्व्वेति । प्रतिष्ठा- य स्थिति लब्ध्वा प्राणे वायौ निमित्ते जगच्चलतीति प्रसिद्धं, अतः १ अनिश्र्वयात् संशयादितियावत्।
Page 436
(४१४) रत्नप्रभाभासिते [अ० १।पा० ३। नकं वज्मुद्यम्यते। वायौ हि पर्जन्यभावेन वि- वर्तमाने विद्युत्स्तनयित्नुवृष्ट्यशनयो विवर्तन्त इत्याचक्षते। वायुविज्ञानादेव चेदममृतत्वं।तथा हि श्रुत्यन्तरं वायुरेव व्यष्टिर्वायुःसमष्टिरप पुन- र्मृत्युं जयति य एवं वेदे"ति तस्माद्वायुरयमिहप्र- तिपत्तव्य इत्येवं प्राप्ते ब्रूमः। ब्रह्मैवेदमिह प्रति- पत्तव्यं, कुतः पूर्वोत्तरालोचनात्। पूर्वोत्तरयोर्हि ग्रन्थभागयोर्बह्मैव निर्दिश्यमानमुपलभामहे, इ- हैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्र- तिपद्येमहि। पूर्वत्र तावत् "तदेव शुकं तद्ह्म तदैवामृतमुच्यते। तस्मिँलोका: श्रिता: मर्वे तदु नात्येति कश्वन"॥ इति। ब्रह्मनिर्दिष्ठं तदेवेहापि सन्निधानात् ज- गत् सर्व प्राण एजतीति च लोकाश्रयत्वप्रत्य- भिज्ञानान्निर्दिष्टमिति गम्यते। प्राणशब्दोऽप्य- यं परमात्मन्येव प्रयुक्त:,"प्राणस्य प्राण'मिति दर्शनात्, एजयितृत्वमपीदं परमात्मन एवो- पपद्यते न वायुमात्रस्य, तथाचोक्तम्, स्पष्टं ब्रह्मलिङ्गं: नास्तीतिभावः। वज्रलिङ्गाच्च वायुरित्याह॥वाय्विति॥ व्यष्टिर्विशेषः समष्टिः सामान्यं। सूत्राद्वहिरेव सिद्धान्तं प्रतिजानीते॥ ब्रह्मैवेति॥ पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वाश्रयत्वं लिङं वाक्य- भेदकप्राणश्रुतेर्बाधकमित्याह । पूर्वत्रेत्यादिना ॥ शुक्ं स्वप्रकाशं।
Page 437
सू० ३९। अ० ११] शाङ्करव्रह्मसूत्रभाष्ये (8१५) न प्राणेन नापानेन मर्त्यो जीवति कश्वन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ"॥ इति। उत्तरत्रापि, "अयादस्याग्निस्तपति अयात्तपति सूर्य:। अयादिन्द्रश्ष वायुश् मृत्युर्धावति पञ्चमः'इति। ब्रह्मेव निर्द्ेक्ष्यते न वायुः, सवायुकस्य ज- गतो भयहेतुत्वाभिधानात् तदेवेहापि सन्निधा- नात् महद्रयं वज्तमुद्यतमिति च भयहेतुत्वप्रत्य- भिज्ञानान्निर्दिष्टमिति गम्यते। वज्शब्दोऽप्य- यम्भयहेतुत्वसामान्यात् प्रयुक्त:, यथा हि वज्- मुद्यतं ममैव शिरसि निपतेत् यद्यहमस्य शास- नं न कुर्यामित्यनेन भयेन जनो नियमेन राजा- दिशासने प्रवर्तते। एवमिदमन्निवायुसूर्यादिक जगदस्मादेव ब्रह्मणो बिभ्यन्नियमेन स्वव्यापा- रे प्रवर्तते इति भयानकं वज्चोपमितं ब्रह्म । तथा च ब्रह्मविषयं श्रुत्यन्तरम, "भीषास्माद्दातः पवते भीषोदेति सूर्य:। भीषास्मादनिश्रेन्द्रश्र मृत्युर्धावति पञ्चमः"॥ तदु नात्येति ब्रह्मानाश्रितः कोऽपि लोको नास्त्येवेत्युकारार्थः । सौ- तलिङं: व्याचष्टे॥ एजयितृत्वमिति॥ सवायुकस्य सर्वस्य कम्पन- श्रवणादपि प्राणः परात्मैवेत्यर्थः । ब्रह्मणि वज्रशब्द: कथमित्याश- डू् गौणइत्याह ॥ बजशब्द इति ॥ बृहदारण्यके वायुरव व्य-
Page 438
(४१६) रत्नप्रभाभासिते [अ० १। पा०३। इत्यमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यते। ब्रह्मज्ञानाड््यमृतत्वप्राप्तिः, "तमेव विदित्वाSति- मृत्युमेति नान्य: पन्थाविद्यतेऽय नाये"ति मन्त्रव र्णात्। यत्तु वायुविज्ञानात् क्वचिदमृतत्वमभिहि- तं तदापेक्षिकं तत्रैव च प्रकरणान्तरकरणन परमा- त्मानमभिधाय अतोऽन्यदार्तमिति वाय्बादेरा- र्तत्वाभिधानात्।प्रकरणादप्यत्र परमात्मनिश्र्वयः। "अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताद् भव्याच् यत् तत्पश्यसि तद्वदथ॥ इति परमात्मनः पृष्ठत्वात्॥३९॥ ज्योतिर्दर्शनात्॥ ४० ॥ "एष संप्रसादोSस्माच्छरीराव्स मुत्थाय परं ज्यो तिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते"इति श्रू- यते, तत्र संशय्यते किं ज्योतिःशब्दं चक्षुर्विषयं ष्टिरित्यत्रापपुनर्मृत्युमिति अपमृत्युजयरूपमापेक्षिकममृतत्वमुच्यते न मुख्यामृतत्वं। तत्रैव वायूपास्तिप्रकरणं समाप्याथ है नमुषस्तःपप्र- च्छेति ज्ञेयात्मानमुक्ता वाय्वादेर्नाशित्वोक्तेरित्याह॥ यन्तु वाय्वि- स्याढिना। तस्मात् काठकवाक्यं ज्ञेयें समन्वितमिति सिद्धम्॥ ३९॥ ॥ ज्योतिर्दर्शनात्॥ छान्दोग्ये प्रजापतिविद्यावाक्यमाह ॥ एष इति॥ परंज्योतिःश्रुतिभ्यां संशयमाह ॥ तत्रेति॥ घटादिविषयाव- रकतमोनाशकं सौरमित्यर्थः। पूर्वत्र ब्रह्मपकरणस्यानुग्राहकः सर्वश- १ ब्रह्मणीतिशेषः।
Page 439
सृ० ४०। अ०१२।] शाङ्करब्रह्म सूत्रभाष्ये (४१७) तमोऽपहं तेजः किं वा परं ब्रह्मेति, किं तावत् प्राप्तं, प्रसिद्धमेव तेजो ज्योतिःशब्दमिति, कुतः तत्र ज्योतिःशब्दस्य रूढत्वात्। ज्योतिश्र्वरणा- भिधानादित्यत्र हि प्रकरणात् ज्योतिःशब्दः स्वार्थ परित्यज्य ब्रह्मणि वर्तते। न चेह तद्वत् कि- श्ित् स्वार्थपरित्यागे कारणं दृश्यते। तथा च नाडीखण्डे,"अथ यत्रैतदस्मात् शरीरादुक्काम- त्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते" इति मुमुक्षो- रादित्य प्राप्तिरकषिहिता, तस्मात्प्रसिद्धमेव तेजो
ब्दसङ्कोचाययोगोऽस्तीति प्राणश्रुतिर्व्रह्मणि नीता, न तथात्र य आ- त्मापहतपाप्मेति प्रकरणस्यानुग्राहकं पश्याम इति प्रत्युदाहरणेन पू- र्वपक्षमाह॥ प्रसिद्धमेवत्यादिना ॥ पूर्वपक्षे सूर्योपास्तिः सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलं। ननु ज्योतिरधिकरणे ज्योतिःशब्दस्य ब्र- ह्रणि वृत्तेरुक्तत्वात् कथ पूर्वपक्ष इत्यत आह॥ ज्योतिरिति॥ तत्र गायत्रीवाक्ये प्रकतव्रह्मपरामर्शकयच्छब्दसामानाधिकरण्यात् ज्यो- तिःशब्दस्य स्वार्थत्यागः कृतस्तथात्र स्वार्थत्यागे हेत्वदर्शनात् पूर्वपक्ष इत्यर्थः। ज्योतिःश्रुतेरनुग्राहकत्वेनार्चिरादिमार्गस्थत्वं लिङ्गमाह ॥त- था चेति॥ ता वा एता हृदयस्य नाड्य इति कण्डिकया नाडीनां र- श्मीनां च मिथः संश्वेषमुक्का अथ संज्ञालोपानन्तरं यत्र काले एत- न्मरणं यथा स्यात्तथोत्कामति अथ तदा एतैर्नाडीसंश्विष्टरश्मिभिरुर्ध्व सन्नुपरि गच्छति, गत्वादित्यं ब्रह्मलोकद्दारभूतं गच्छति इत्यभिहितं, ·तथैवात्रापि शरीरातू समुत्थाय मृत्वा परं ज्योतिरादित्याख्यमुपसम्पय तद्दारा ब्रह्मलोकं गत्वा स्वस्वरूपेणाभिंनिष्पयत इति वक्तव्यं। समु- ५३
Page 440
(४९८) रत्नप्रभाभासिते [अ० १। पा० ३। ज्योतिःशब्दवाच्यमिति, एवं प्राप्ते ब्रूमः। परमे- व ब्रह्म ज्योतिःशब्दं, कस्माद्दर्शनात्।तस्य हीह प्रकरणे वक्तव्यत्वेनानुवत्तिर्दश्यते। "य आत्मा-
नः प्रकरणादावन्वेष्ठव्यत्वेन विजिज्ञासितव्यत्वे- न च प्रतिज्ञानात्"एतं व्वेव ते भूयोऽनुव्याख्या- स्यामी"ति चानुसन्धानात्, "अशरीरं वाव- सन्तं न प्रियाप्रिये स्पृशतः" इति च अशरीर- तायै ज्योतिःसम्पत्तेरस्याभिधानात् ब्रह्मभा- वाच्चान्यत्राशरीरतानुपपत्तेः, परं ज्योतिः सउ- त्तम: पुरुष इति च विशेषणात्। यत्तूक्तं मुमुक्षो- रादित्य प्राप्तिरभिहितेति, न चासावात्यन्तिको
दित्यर्थः । अतो मार्गस्थसूर्योपास्त्या क्रममुक्तिपरं वाक्यमिति प्राप्ते सिद्धान्तयति ॥ एवमिति ॥ व्याख्येयत्वेनोपकान्त आत्मैवात्र ज्यो- तिःशब्देन व्याख्येय इति ज्योतिर्वाक्येनैकवाक्यता प्रयोजकप्रकरणा- नुगृहीता, उत्तमपुरुषश्रुत्या वाक्यभेदकज्योतिःश्रुतिर्बाध्येति भावः। अशरीरत्वफललिंङ्गात् ब्रह्मैव ज्योतिर्न सूर्य इत्याह ॥अशरीरमिति॥ न च सूर्यप्राप्या क्रमेणाशरीरत्वं स्यादिति वाच्यं, परत्वेन विशेषि- तस्य ज्योतिष एव स उत्तम इति परामर्शेनाशरीरत्वनिश्र्वयादित्याह । परमिति॥ पूर्वोक्तलिङ्गं: दूषयति॥ यन्विति॥ नाडीखण्डे दहरो- पासकस्य या सूर्यप्राप्तिरुक्ता स न मोक्ष इति युक्ता सूर्योक्ति:, अत्र तु प्रजापतिवाक्ये निर्गुणविद्यायामचिरादिगतिस्थसूर्यस्यानन्वयादनर्थ-
Page 441
सू ० ४१। अ० १३।] शाङ्करब्रह्मसूत्रभाष्ये (४१९) मोक्षो गत्युत्क्रान्तिसम्बन्धात्। न हि आत्य- न्तिके मोक्षे गव्युत्क्रान्ती स्त इति वक्ष्यामः॥४0॥ आकाशोर्थान्तरत्वादिव्य पदे- शात्॥४१॥ "आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तत् ब्रह्म तदमृतं स आत्मेति श्रूय- ते। तत् किमाकाशशब्दं परं ब्रह्म किंवा प्रसिद्ध- मेव भूताकाशमिति विचारे भूतपरिग्रहो युक्तः, आकाशशब्दस्य तस्मिन् रूढत्वात्, नामरूप- निर्वहणस्य चावकाशदानद्वारेण तस्मिन् योज यितुं शक्यत्वात्। स्त्रष्टृत्वादेश्र स्पष्टस्य ब्रह्म- लिङ्गस्याश्रवणात् इत्येवं प्राप्ते इदमभिधीयते। परमेव बह्मेहाकाशशब्दं भवितुमर्हति, कस्मात्, कत्वात् श्रुतिव्यत्यासेन स्वरूपं साक्षात्कत्य परं ज्योतिस्तदेवोपस- म्पयत इति व्याख्येयमितिभावः ॥४० ॥ आकाशो-व्यपदेशात्॥ छान्दोग्यमुदाहरति॥ आकाश इति॥ यथोपक्रमबलात् ज्योतिःश्रुतिबाधस्तथाकाशोपक्मातू ब्रह्मादिशब्द- बाधइति दृष्टान्तेन पूर्वपक्षयति ॥ भूतेति॥ श्रुतैर्गुणैराकाशोपास्ति- निर्गुणब्रह्मज्ञानं चेत्युभयत्र फलं। 'आकाशस्तल्लिङ्नदि'त्यनेन पौन- रुत्त्यमाशङ्ग्य तद्ददत्र स्पष्टलिङ्गाश्रवणादिति परिहरति॥स्त्रघटृत्वादेशे ति॥। वै नामेति प्रसिद्धिलिङ्गस्याकाशश्रुतेश्र वाक्यशेषगताम्यां ब्रह्मा- त्मश्रुतिभ्यामनेकलिङ्गेपेताभ्यां बाधो युक्तः। यत्र बहुप्रमाणसंवादस्तत्र
Page 442
(४२०) रत्नप्रभाभासिते [ अ० १। पा० ३। अर्थान्तरत्वादिव्यपदेशात् "ते यदन्तरा तद्रह्मे"- ति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यप- दिशति।न च ब्रह्मणोऽन्यन्नामरूपाभ्यामर्था- न्तरं सम्भवति, सर्वस्य विकारजातस्य नामरू- पाभ्यामेव व्याकृतत्वात्। नामरूपयोरपि नि- र्वहणं निरङ्कुशं न ब्रह्मणोऽन्यत्र सम्भवति। "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याक- खाणी"ति ब्रह्मकर्तृत्वश्रवणात्।ननु जीवस्या- पि प्रत्यक्षं नामरूपविषयं निर्वोढ़त्वमस्ति। बाढ- मस्ति अभेदस्त्वत्र विवक्षितः नामरूपनिर्वह- णाभिधानादेव च स्त्रषटृत्वादि ब्रह्मलिङ्गमभिहि- तं भवति। "तत् ब्रह्म तदमृतं स आत्मे"ति चब्र- ह्रवादस्य लिङ्गानि। आकाशस्तलिङ्गादित्य- स्यायं प्रपञ्च:।४9॥
वाक्यस्य तात्पर्यमिति निर्णयादिति सिद्धान्तयति॥ परमेवेत्यादिना । नामरूपे शब्दाथौं, तदन्तःपातिनस्तद्भिन्नत्वं तत्कर्तृत्वं चायुक्तमि- त्यर्थः। नामादिकर्तृत्वं न ब्रह्मलिङ्गं जीवस्थत्वादिति शङ्गते॥नन्वि- ति। अनेन जीवेनेत्यत्र जीवस्य ब्रह्माभेदेन तत् कर्तृत्वमुच्यते साक्षाद- योगादिति परिहरति॥बाढमिति॥यच्चोक्तं स्पष्ट लिङं नास्तीति तत्रा- ह।। नामेति ॥ तर्हि पुनरुक्तिस्तत्राह॥ आकाशेति ॥ तस्यैव सा- धकोडयं विचारः अत्राकाशशव्दस्य ब्रह्मणि वृत्तिं सिद्धवत्कृत्य तत्र संशयादिप्रवृत्तेरुक्तत्वादिति न पौनरुक्त्यमिति भावः ॥४१॥
Page 443
सू० ४२। अ० १४।] शाङ्करब्रह्मसूत्रभाष्ये (४२१)
व्यपदेशादित्यनुवर्तते, बहदारण्यके षष्ठे प्र- पाठके "कतम आत्मेति योडयं विज्ञानमयः प्रा- णेषु हद्यन्तर्ज्योतिः पुरुषः" इत्युपक्रम्य भूया- नात्मविषयः प्रपञ्चः कृतः।तत् कि संसारिस्व- रूपमात्रान्वाख्यानपरं वाक्यमुतासंसारिस्वरू- पप्रतिपादनपरमिति संशयः, किं तावत् प्रात्तं संसारिस्वरूपमात्रविषयमेवेति। कुतः, उपक्र- मोपसंहाराभ्यां। उपक्रमे योऽयं विज्ञानमयः प्राणेष्विति शारीरलिङ्गात्, उपसंहारे च सवा एष महानज आत्मा योऽयं विज्ञानमयः प्राणे- ष्विति तदपरित्यागान्मध्येऽपि बुद्धान्ताद्यव- स्थोपन्यासेन तस्यैव प्रपञ्चनादित्येवं प्राप्ते ब्रू- सुशुत्युत्कान्त्योर्भेदेन॥ अहंधीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह। योऽयमिति। विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः, स- पमी व्यतिरेकार्था प्राणबुद्धिम्यां भिन्नइत्यर्थः । वृत्तेरज्ञानाच्च भेदमा- ह।। अन्तर्ज्योतिरिति॥ पुरुषः पूर्ण इत्यर्थः। उभयलिङ्गानां दर्शनात् संशयमाह। तत् किमिति। पूर्वत्र नामरूपाभ्यां भेदोक्ेराकाशो ब्र- ह्रेत्युक्तं तदयुक्तं, प्राज्ञेनात्मना सम्परिष्वक्त इति अभिन्नेऽपि जीवा- त्मनि भेदोक्तिवदौपचारिकभेदोक्तिसम्भवादित्याक्षेपसङ्गतिः । पूर्व- पक्षे कर्मकर्तृजीवस्तुतिः सिद्धान्ते जीवानुवादेन ततः कल्पितभेदभि- न्स्य प्राज्ञस्य परमात्मनः स्वरूपैक्यप्रमितिरिति फलं, बुद्धान्तो जा-
Page 444
(४२२) रत्नप्रभाभासिते [अ० १।पा० ३। मः।परमेश्वरोपदेशपरमेवेदं वाक्यं न शरीरमा- त्रान्वाख्यानपरं, कस्मात्, सुषुप्तावुत्क्रान्तौ च शारीरात् भेदेन परमेश्वरस्य व्यपदेशात्। सुपुप्तौ तावदयं पुरुष: प्राज्ञनात्मना सम्परिष्व- क्तो न बात्यं किञ्चन वेद नान्तरमिति शारीराद्रे देन परमेश्वरं व्यपदिशति। तत्र पुरुषः शारीरः स्यात्तस्य वेदितृत्वात् बाह्याभ्यन्तरवेदनप्रस- ड्े सति तत्प्रतिषेधसम्भवात्। प्राज्ञः परमेश्व- रः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् तथोत्क्रान्तावप्य यं शारीर आत्मा प्राज्ञेना- त्मनान्वारूढ उत्सर्जन् याती"ति जीवाद्ेदे न परमेश्वरं व्यपदिशति, तत्रापि शारीरो जीवः स्यात् शरीरस्वामित्वात्। प्राज्ञस्तु स एव पर- मेश्वरः, तस्मात् सुपुध्युत्क्ान्त्योर्भेदेन व्यपदे- शात् परमेश्वर एवात्र विवक्षित इति गम्यते। ग्रदवस्था। आदिमध्यावसानेषु जीवोक्तेरजीवस्तावकमिदं वाक्यमिति प्राप्ते सिद्धान्तयति॥ परमेश्वर इत्यादिना॥वाक्यस्य जीवस्तावकत्वे जीवान्जेदेन प्राज्ञस्याज्ञातस्योक्तिरसङ्गता स्यात्, अतो ज्ञाताज्ञातसान्नि- पाते ज्ञातानुवादेनाज्ञातं प्रतिपादनीयं अपूर्वे वाक्यतात्पर्यमिति न्या- यादिति सिद्धान्ततात्पर्य। पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्ति वा- र्यति॥ तत्र पुरुष इत्यादिना ॥ देहस्य वेदनाप्रसक्तेर्निषेधायोगात् पुरुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः । अन्वारूढोSघिष्ठितः,
Page 445
सू०। ४२अ०१४।] शाङ्करब्रह्मसूत्रभाष्ये (४२३) यदुक्तमाद्यन्तमव्येषु शारीरलिङ्गात् तत्परत्वम- स्य वाक्यस्येति, अत्र ब्रूमः।उपक्रमे तावत् योऽ- यंविज्ञानमयः प्राणेष्विति न संसारिस्वरूपं वि- वक्षितं, किं तर्थनूद्य संसारिस्वरूपं परेण ब्रह्म- णाSस्यैकतां विवक्षति, यतो "ध्यायतीव लोलाय- तीवे" त्येवमादयुत्तरग्रन्थप्रवत्तिः संसारिधर्मनिरा- करणपरा लक्ष्यते। तथोपसंहारेपि यथोपक्रम- मेवोपसंहरति।"स वा एष महानज आत्मा योऽ- यं विज्ञानमयः प्राणेष्वि"ति। योऽयं विज्ञान- मयः प्राणेषु संसारी लक्ष्यते स वा एष महा- नज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः। यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासा- त् संसारिस्वरूपविवक्षां मन्यते स प्राचीमति दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत, य- तो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्वं सं- सारित्वं वा विवक्षितं, किं तर्त्यवस्थारहितत्वम- संसारित्वं च विवक्षति। कथमेतदवगम्यते। यद उत्सर्ज्जन् घोरान् शब्दान् मुश्चन्, बुद्धौ ध्यायन्त्यां ध्यायतीव चल- न्त्यां चलतीव। वस्तुतः सर्वविक्रियाशून्य इत्युक्तेर्न संसारिणि तात्प- र्यमित्याह। यत इति। उपक्रमवत् उपसंहारवाक्येऽप्यैक्यं विवक्षित- मित्याह॥ तथेति॥व्याचष्टे॥योऽयमिति॥अवस्थोपन्यासस्य त्वम- र्थशुद्धिद्दारैक्यपरत्वात् न जीवलिङ्गत्वमित्याह।यतो न बुद्धान्तेति।।
Page 446
(४२४) रत्नप्रभाभासिते [अ० १। पा० ३। "त ऊर्ध्च विमोक्षायैव ब्रूही2ति पदेपदे पृच्छ- ति, यच्चा"नन्वागतस्तेन भवति असङ्गो त्य्य- यं पुरुषः" इति पदेपदे प्रतिवक्ति। "अनन्वा- गतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा स- र्वान् शोकान् हृदयस्य भवती" ति च, तस्माद- संसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यव- गन्तव्यम् ॥४२॥ पत्यादिशव्देभ्यः॥४३॥ इतश्र्वासंसारिस्वरूप प्रतिपादन परमेवैतद्वा- क्यमित्यवगन्तव्यं। यदस्मिन् वाक्ये पत्यादि- शब्दा असंसारिस्वरूपप्रतिपादनाः संसारिस्व- भावप्रतिषेधनाश्र भवन्ति।"सर्वस्य वशी सर्व- स्येशान: सर्वस्याधिपति"रित्येवंजातीयका अ- संसारिस्वभावप्रतिपादनाः "सन साधुना कर्म- प्रश्नोत्तराभ्यामसंसारित्वं गम्यत इत्याह ॥।यदत ऊ्ध्वमिति॥ का- मादिविवेकानन्तरमित्यर्थः ॥ भवतीति ॥ चेति, यवस्माइ्दक्ति त- स्मादवगम्यत इति योजना। तेनावस्थाधर्मेणानन्वागतोऽस्पष्टो भव- ति असङ्गत्वात् सुषुप्तावप्यात्मतच्वं पुण्यपापाभ्यामस्पृष्टं भवति। हि यस्मात् आत्मा सुपुप्तौ सर्वशोकातीत: तस्मात् हृदयस्यैव सर्वशोका इति श्रुत्यर्थः ॥ ४२ ॥ वाक्यस्य ब्रह्मात्मैक्यपरत्वे हेत्वन्तरमाह॥ पत्यादीति॥सूत्रं व्याचष्टे॥ इतश्रेति॥ वशी स्वतन्त्रोSपराधीन इति यावतू। ईशानो
Page 447
सू०४३। अ० १४ } शाङ्करब्रह्मसूत्रभाष्ये (४२५) णा भूयान्नो एवासाधुना कनीया"नित्येवंजाती- यकाः संसारिस्वभावप्रतिषेधनास्तस्मादसं- सारी परमेश्वर इहोक्त इति गम्यते ॥४३॥ इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीम- चछङुरभगवत्पादकृतौ प्रथमाध्यायस्य तृतीयः पादः॥३॥ नियमनशक्तिमान्। शक्ते: कार्यमाधिपत्यमिति भेदः। तस्माच्छोधि- तत्वमर्थैक्ये षष्ठाध्यायसमन्वय इति सिद्धम् ॥४३॥ इति श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमा- ध्याये तृतीयः पादः समाप्ः ॥ ३।
५४
Page 448
(४२६) रत्नप्रभाभासिते १. [अ०१।पा०४। ॐ नमः परमात्मने। आनुमानिकमप्येकेषामिति चे- न्न शरीररूपकविन्यस्तगृहीतेर्द- र्शयति च।। १॥ ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तं जन्माद्यस्य यत इति, तल्लक्षणं प्रधानस्यापि समानमित्याशङ्ड् तदशब्दत्वेन निराकृतमीक्ष- तेर्नाशब्दमिति, गतिसामान्यं च वेदान्तवाक्या- नां ब्रह्मकारणवादं प्रति विद्यते न प्रधानकारण- वादं प्रतीति प्रपश्चितं गतेन ग्रन्थेन। इदन्त्विदा- नीमवशिष्ठमाशङ्ग्यते। यदुक्तं प्रधानस्याशब्द- त्वं तदसिद्धं, कासुचिच्छाखासु प्रधानकारणस- मर्पणाभासानां शब्दानां श्रूयमाणत्वात्।अतः प्रधानस्य कारणत्वं वेदसिद्दमेव महद्विः परम- ्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रस- ॐ ब्रह्मणे नमः। अव्यक्तेशमजं पञ्चजनाधारं च कारणम् ।। वेदितव्यं प्रियं वन्दे प्रकातें पुरुषं परम्॥ १॥ आनुमानिकम॥ अस्मिन् पादेऽधिकरणत्रयस्येक्षत्यधिकरणेन सङ्गाततिं वक्तुं वृत्तमनुवदति। ब्रह्मेति। तदशब्दत्वेन प्रधानस्य वैदिक- शब्दशून्यत्वेनेत्यर्थः । ईक्षत्यधिकरणे गतिसामान्यमशब्दत्वञ्च प्रति-
Page 449
सू०१।अ० १:] शाङ्करब्रह्मसूत्रभाष्ये (४२७) ज्यते। तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रति- पादते, तावत् सर्वजञं ब्रह्म जगतः कारणमिति प्रतिपादित मप्याकुलीभवेत्, अतस्तेषामन्यप- रत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते। आनुमानि- कमपि अनुमाननिरूपितमपि प्रधानमेकेषां शाखिनां शब्दवदुपलभ्यते। काठके हि पठयते, "महतः परमव्यक्तमव्यक्तात् पुरुष: परः" इति। तत्र य एव यन्नामानो यत्क्मकाश्र् महदव्यक्तपु- रुषा: स्मृतिप्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते, तत्राव्यक्तमिति स्मृतिप्रसिद्धे: शब्दादिहीनत्वा- ञ्वन व्यक्तमव्यक्तमिति व्युत्पत्तिसम्भवात् स्मृ- ज्ञातं, तत्र ब्रह्मणि वेदान्तानां गतिसामान्यं प्रपश्चितं, अधुना प्रधा- नस्याशव्दत्वमसिद्धमित्याश ङ्ग्य निरूप्यत इत्याक्षेपसङ्गतिः । तेनाश- ब्दत्वनिरूपणेन ब्रह्मणि वेदान्तानां समन्वयो दृढीकतो भवतीत्यध्या- यसङ्गतिरप्यधिकरणत्रयस्य ज्ञया। अत्राव्यक्तपदंविषयः। तत् किं प्र- धानपरं पूर्वोक्तशरीरपरं वेति स्मृतिप्रकरणाभ्यां संशये पूर्वमप्रसिद्ध- ब्रह्मपरत्वं यथा षष्ठाध्यायस्य दर्शितं तद्ददव्यक्तपदमप्रसिद्धप्रधानपर- मिति पूर्वपक्षयति। आनुमानिकमिति। अपिशब्दात् ब्रह्माङ्गीका- रेणायमशब्दत्वाक्षेप इति सूचयति। तथा च ब्रह्मप्रधानयोर्विकल्पेन कारणत्वात् ब्रह्मण्येव वेदान्तानां समन्वय इति नियमासिद्धि: फलं सिद्धान्ते नियमसिद्धिरिति विवेकः । पदविचारत्वादधिकरणानामे- तत्पादसङ्गतिर्बोध्या, स्मार्तक्रमरूढिम्यां अव्यक्तशब्दः प्रधानपरः। शब्दस्पर्शादिशून्यत्वेन योगसम्भवाच्चेत्याह ।। शब्दादीति॥ प्रधा-
Page 450
(४२८) रत्नप्रभाभासिते [अ० १ । पा०४। तिप्रसिद्धं प्रधानमभिवीयतेऽतस्तस्य शब्दव- त्वादशब्दत्वमनुपपन्नं, तदेव प्रधानं ता दृशं प्रत्य- भिज्ञायते जगतः कारणं च, श्रतिस्मृतिन्यायप्र- सिद्धिभ्य इति चेत्, नैतदेवं। न स्वेतत्काठकवा- क्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरं। न त्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रि- गुणं प्रधानं तादशं प्रत्यभिज्ञायते, शब्दमात्रं ह्यत्राव्यक्तमिति प्रत्यभिज्ञायते,सच शब्दो न व्यक्तमव्यक्तमिति यौगिकत्वादन्यस्मिन्नपि सू- क्ष्मे दुर्लक्ष्ये च प्रयुज्यते, न चायं कस्मिंश्चिदूढः। या तु प्रधानवादिनां रूढ़ि: सा तेषा मेव पारिभा- षिकी सती न वेदार्थनिरूपणे कारणभावं प्रति- नस्य वैदिकशब्दवाच्यत्वे का क्षतिरित्यत आह॥ तदेवेति॥अजा- सेकामित्याया श्रुतिः, हेतुः प्ररुतिरुच्यते इत्याया स्मृतिः, यदल्पं तज्जडप्रकतिकमितिन्यायः, ततो ब्रह्मैव कारणमिति मतक्षतिरिति- भावः। सूत्रे नञर्थ वदन् सिद्धान्तयति ॥ नैतदिति॥ प्रधानं वैदि- कं नेत्यत्र तात्पर्याभावं हेतुमाह॥ नहीति॥ ननु प्रधानस्यात्र प्रत्य- भिज्ञानाद्वैदिकत्वमित्यत आह॥ न ह्यन्रेति॥ ननु शब्दप्रत्यभिज्ञा- यामर्थोऽपि प्रत्यभिज्ञायते इत्याशङ्क्च यौगिकाच्छब्दादसति निया- मके नार्थविशेषधीरित्याह॥ सचेति॥ रूठ्या तद्दीरित्याशङ्ड्य रूढि: किं लौकिकी रमार्ता वा, नाय इत्याह॥ नचेति॥ द्वितीयं प्रत्याह॥ या तिविति॥ पुरुषसङ्गेतो नानादिवेदार्थनिर्णयहेतुः पुंमतेर्विचित्र- त्वादित्यर्थः । यत्तु रमार्तकमप्नत्यभिज्ञया क्रमिकार्थः रमार्त एवेति त-