Books / Vedanta Muktavali Bellamkonda Rama Raya Kavi

1. Vedanta Muktavali Bellamkonda Rama Raya Kavi

Page 1

1875 भारद्वाजगोत्रोद्भवस्य 1914 बेल्लड्कोण्डरामरायकवेः कृतिषु वेदान्त मुक्तावळी संज्ञिता

Page 3

VEDANTA MUKTHAVALLI - SANSKRIT.

AUTHOR :

SRI BELLAMKONDA RAMA RAYA KAVINDRULU.

DIGITALISED BY jan-2011.

Bellamkonda Chakradhar Kumar.Great Grand Son of Sri Rama Raya Kavindrulu.

C

Copy Rights Reserved

SRI BELLAMKONDA RAMA RAYA KAVINDRA TRUST.

ADDRESS :

SRI BELLAMKONDA RAMA RAYA KAVINDRA TRUST.

SRI NILAYAM

Do.No :- 12-8-5/5

PRAKASH NAGAR

NARASARAO PET (P o)

PIN - 522 601

GUNTUR (Dt)

ANDHRA PRADESH INDIA.

CONTACT NO'S : - (+91) 0 9700311109 AND 0 9866400133.

NOTE :- PLEASE TAKE A4 SIZE PRINT PREFARBULE.

Page 5

BELLAMKONDA VENKATA BELLAMKONDA SUBRAMANYA SARMA. SRINIVASASARMA

BELLAMKONDA CHAKRADHAR KUMAR.

Page 7

भारद्वाजगोत्रोद्भवस्य

बेल्लड्कोण्डरामरायकवेः कृतिषु वेदान्त मुक्तावळी संज्ञिता ईशावास्योपनिषत्कारिका

Page 8

भारद्वाजगोत्रोद्भवस्य

बेल्लङ्कोण्डरामरायकवेः कृतिषु वेदान्त मुक्तावळी संज्ञिता ईशावास्योपनिषत्कारिका

तन्निर्मितदिनकरीव्याख्यासहिता

तत्पौत्रस्य शाकलशाखाघ्यायिन: अद्वैतवेदान्तविदुषः बेल्लङ्कोण्ड श्रीनिवासशर्मण: आहिताग्नेः

प्रथमाग्निष्टोमसोमयाग-अनुष्ठानसमये विदुषां

प्रमोदाय प्रकाशिता १८-०५-१६६७ ईश्वरवत्सरीय वैशाखशुद्धैकादशी।।

Page 9

हरि: ओम्। श्री हयग्रीवाय नमः।

दिनकरव्याख्यासहितवेदान्तमुक्तावळी ईशावास्योपनिषत्

श्लो. श्रीरामश्रुतिशुक्तिगर्भजनितान्येतानि मुक्ताफलानि आसन्दभ्य सुनिर्मलानि ललितैः शार्दूलविक्रीडितैः। सूत्रैस्ते गळमर्चितुं कलयते चित्तं मदीयंमुदा कारुण्यादनुकूलतां मयिमजत्वन्मेस्तिनान्यागतिः।।

श्लो भित्वा तमोऽखिलपदार्थबिभासक:सन् पद्मान्तरङ्गसुविकास विधायको यः। ब्रह्मास्पदाधिगतये बुधमण्डलस्य द्वारायते दिनकर: सगतिर्ममास्तु।।

अथ विवृतभगवद्गीतावाक्यभाष्यार्थः भारद्वाजसोगोत्रोद्भवः मोहन्रायतनूभवः रामोनाम कविः भगवद्गीता मूलभूता उपनिषदः श्लोकरूपेण व्याचिख्यासुः तदविघ्नपरिसमाप्या दिकृतये स्वाभीष्टदेवतां प्रपद्यते श्रीरामेति।। हे श्रीराम लक्ष्मीकळत्रमायाविन्परमेश्वर श्रुतिशुक्तिगर्भ जनितानि श्रुतयशशुक्तयः तद्गर्भाज्जनितानि एतानि वक्ष्य माणाति ईशावास्यमित्यादीनि सुनिर्मलानि निरवद्यानि श्वेतानिच वाक्यानि अथवा पदान्येव मुक्ताफलानि ललितैः शार्दूलविक्रीडतैः सूर्याश्वैर्मसजास्ततः सगुरव: शार्दूलविक्रीडितमिनिलक्षणलक्षितैर्वृत्तैरेव सूत्रैः तन्तुभि: आसन्दृभ्य आसमन्तात् ग्रथयित्वा ते गळं सर्वात्मनस्तव कण्ठं अर्चितुं भूषयितुं मदीयं चित्तं मुदा कलयते इच्छति जातोत्कण्ठमित्यर्थः। अधिष्ठानं तथा कर्ता करणं च पृथग्नि धम्। विविधाच पृथक्चेष्टा दैवं चैवात्र पञ्चमम्" इति गीता वचनात् दैवानुकूल्याभावे चिकीर्षितकार्यासिद्धेराह-कारुण्यादिति। त्वंमयि

3

Page 10

कारुण्यादनुकूलतां भज। ननु भजस्वान्यदेवं रुद्रं ब्रह्माणं वेत्यत आह - त्वत् त्वत्तः मे अन्या गतिर्नास्ति तवैव सर्वात्मत्वादिति भावः । अथापव्याव्यातृभियास्वग्रन्थस्य स्वयमेव व्याव्याकर्तुकाम: कविराह-भित्वेति। यः तमः पदार्था- वरण भूतमज्ञानं अन्धकारं च भित्वा अखिलपदार्थविभासकः सर्वपदार्थानां जीवेश्वरादीनां घटपटादीनांच विशेषेण भासक: सन् पद्मान्तरङ्गसुविकासविधायकः पद्मायाः लक्ष्म्याः अन्तरङ्ग- स्य मनसः शोभनो विकासः आनन्दः पद्मानां कमलानां अन्तरङ्ग स्य गर्भस्य शोभनो विकासश्र तस्य विधायकः भूत्वा बुधम ण्डलस्य विद्वन्द्वृन्दस्य ब्रह्मास्पदाधिगतये ब्रह्मलोकप्राप्तये द्वारायते द्वारवदाचरति। सदिनकरः दिनकरनामा व्याख्याग्रन्थः आदित्यश्र मम ब्रह्मलोकं यियासो: गतिःसेव्यः अस्तु - इति।

श्लो. ईशावास्यमिदं समस्तभुवनं त्यक्त्वार्थगेहादिकं ब्रह्मण्येन मुमुक्षुणा Sनवरतं निषा विधेयात्मनि। अर्हत्वायचतत्र कर्मविहितं कार्यं पुरानिष्फलं विद्वानित्थमुपाचरन्हि भजते निर्लेप आत्मेश्वरम्।।

व्या. ननुव्यर्थस्तवायमायास: अजरामरत्वादिलक्षणलक्षितस्य ब्रह्मणोऽसिद्धत्वेन तद्वोधकानां वेदान्तानामप्रामाण्यादितिचेत् मैवम्-विद्वदनुभव- सिद्धत्वाद्वह्मणः । तर्हि सिद्धबोधकत्वेन व्यर्थत्वादप्रामाण्यं तेषाम्। न विविदिषु साध्यत्वतात्। साध्यं चेद्वह्मानित्यमेव स्यात्। न, सिद्धेपिब्रह्मणि अविद्याव्यवधानेन साध्यत्वस्य कल्पितत्वात्। ननु आत्म्रायस्य क्रियार्थत्वात् अक्रियार्थानां वेदान्तानां आनर्थक्यादप्रामाण्यमितिचेत् - मैवमपि। अविद्याव्यव धाननिवृत्तिरूपक्रियार्थत्वात्। नचप्रवृत्तिरेव क्रिया, नतुनिवृत्तिरिति वाच्यम्। प्रवृत्ति वन्निवृत्तिरपि क्रियैवेति। कर्मण्यकर्मयः पश्येदिति गीताश्लोकेन स्थापितत्वात्। यद्वा - अविद्याव्यवधान निवर्तकत्वं क्रियैव। भाव धर्मत्वात् - दाहकत्ववत्।

4

Page 11

किञ्चब्रह्मज्ञानजनकत्वं वैदान्तानां संप्रतिपन्नम्। तच्चज्ञानंमनो वृत्तिरूपं क्रियैवेति। ननु ब्रह्मज्ञानं व्यर्थंधटज्ञानवत्। तत्प्राप्यभ फलाभावादिति कृत्वा वेदान्ता अप्रमाणमेवेतिचेत् मैवमपि। ब्रह्मज्ञानात् सर्वसंसारनिवृत्तिः फलमिति। यद्वा ब्रह्मानन्दावाप्तिः। नचनित्यप्राप्तएव ब्रह्मानन्दइतिवाच्यम्। नित्यप्राप्तेपि तस्मिन् अविद्याव्यवधानेन अप्राप्तत्वभ्रामसत्वात् तदपगमेन पुनःप्राप्त इव सभवतीति। इदमेव फलं मोक्ष इत्युच्यते। सत्वनित्यः। ब्रह्मस्वरूपत्वात्। धर्मार्थकामास्तु त्रयोप्यनित्या एव कृतकत्वात्। यत्कृतकरंतदनित्यं हिलोके। नचज्ञानलभ्यत्वात् मोक्षोपि कृतकएवेतिवाच्यम्। ज्ञानाकार्यत्वात्। एवं नित्यवात् निरतिशयसुखत्वाच्च मोक्षः परमपुरुषार्थः। तदुपायस्तु ब्रह्मज्ञानम्। तच्चवैदान्तैकसाध्यामिति वेदान्ताःपरं प्रमाणम्। ननु तर्कादिशास्त्रान्तरादेव ब्रह्मज्ञानसिद्धेः अत्तं वेदान्तैःरितिचेत् - मैवम्। सादिभि: शास्त्रान्तरैः आनादिवेदान्तप्रतिषेधस्य दुष्करत्वात् प्रत्युत वेदान्तैरेव शास्त्रान्तरप्रतिषेध इति। नन्वादिमत्वाभावेपि वेदान्ता अनुभवविरुद्धार्थ वाचित्वादप्रमाणमेवेति चेन्मैवं - वेदान्तार्थस्यानुभवाऽविरुद्धत्वात्। जीवस्यासंसारित्वमविद्वदनुभवविरुद्धमपि विद्वदनुभवाऽविरुद्धंहि। अविदुषां च सुषुप्यनुभवाऽविरुद्धंच। नच वेदान्ता अपिसादय एव जनकयाज्ञवल्क्यादिसंवादरूपत्वादिति वाच्यम्। संवादस्य श्रुत्या सुखवोधाद्यर्थमनूदितत्वात्। त्रिकालवृत्तान्ताभिज्ञाहि श्रुतिः। न चेश्वरनिर्मितत्वात् सादिरेवइति वाच्यम्। ईश्वरेणापि पूर्वकल्पस्थवेदसमानानुपूर्वीकस्यैव वेदस्येह कल्पे उच्चरितत्वनापौरुषेथत्वात्। उच्चारणानूच्चारणविषयत्वं ह्यपौरुषेयत्वं अनादित्वंचवेदस्यास्माभिरुच्यतेनतुसुत रामाद्यभाव:। ब्रह्मभिन्नरूपसर्वस्यापि सादित्वात्। नन्वेवमपि मिथोविरुद्धार्थवादित्वात् वेदान्ता अप्रमाणमेव तथाहि- एकमेवद्वितीयंब्रह्म, नेहनानस्तिकिज्चन, मृत्योस्स मृत्युमाप्नोति यइहनानेवपश्यति - इत्याद्याः निष्प्रपञ्चं ब्रह्म बोधयन्ति। यतो वा इमानि भूतानि जायन्ते, आत्मन: आकाश: संभूतः, स सर्वज्ञः सर्ववित्-इत्याद्याः सप्रपञ्चं ब्रह्म बोधयन्ति। तथा द्वा सुपर्णा-ज्ञाज्ञौद्वावजावीशानीशौ-इत्याद्या जीवेश्वरभेदं ब्रुवन्ति। तत्वमसि

5

Page 12

अयमात्मा ब्रह्मेत्याद्याः तदद्वैतंब्रुवन्ति। तथा - अक्षय्यंन्हवै चातुर्मा स्ययाजिनः सुकृतं भवतीत्याद्या नित्यफलहेतुत्वं कर्मणोब्रुवन्ति। तद्यन्थेह कर्मचितो लोक: क्षीयते इत्याद्यादिकर्मफलमनित्यमिति ब्रुवन्ति। इतिचेन्मैवं वादीः। व्यवहारदशा परमार्थदशाति अस्तिदशाद्वयम्। तत्र मायामयीव्यवहारदशा जागरादिः। मायातीता परमार्थदशा सुषुप्ति मृतिमूछा समाध्यादिः। परमार्थदशायां निष्प्रपञ्चं ब्रह्म। व्यवहारादशायांतु सप्रपञ्चामिति नप्रथमविरोधः। मायाबुद्धिरूपोन डपाधिप्रयुक्तो जीवेश्वरभेदः। स्वतश्रैतन्यमेकमेवेति अभेद इतिनद्वितीयः। कर्मफलस्य नित्यत्वं स्तुतिप्रयुक्तमेव नतात्विकमिति नतृतीयः। नन्वेवमपि उपनिषद्भिः सभाष्याभिरेव ब्रह्मज्ञानसिद्धेःव्यर्थ स्तवायमारंभइतिचेत्-न-तासां गंभीरार्थत्वात्, सर्वेषांतत्रानधिकाराच्च। तस्मात् सफलएवायं ममायासः।

अस्यचवेदान्तशास्त्रस्य अद्वितीयं ब्रह्मविषयः। प्रयोजनमुक्तम् अधिकारी प्रकृतश्लोकेनैवोक्तः सन्यासी मुमुक्षुः शान्तचेताइति। प्रतिपाद्यप्रतिपादकभावादिः संबन्धः इत्यनुबन्धचतुष्टयम् । वेदान्ताश्चष्टोन्तरंशतंप्रसिद्धाः। तेष्वपिदशातिप्रसिद्धाः, ईश केनकटप्रश्नमुण्डमाण्डूक्यातित्तिरिः। छान्दोग्यं बृहदारण्य मैतरेयंचेति। तत्र ईशावास्यादयः छान्दोग्यान्ताः अत्र इह वेदान्तमुक्तावळ्यां पूर्वार्धेव्याख्यायन्ते। तावदीशावास्योपनिषद्व्याख्याते। ईशेति। इदं प्रत्यक्षादिप्रमाणविषयं समस्तभुवनं सर्वं जगत् ईशाईश्वरेण चैतन्यरूपेण वास्यं व्याप्तं भवति। यद्वा वास्यं आच्छादनीयं भवति। रज्जावुदितस्सर्पोयथा रज्जुज्ञानेनाच्छाद्यते अभावमापद्यते एवं ब्रह्मणिमायया जातमिदं जगत् ब्रह्मज्ञानेनाच्छादनीयमित्यर्थः। एतेनास्मिन्मते - दृक्दृश्यं तिद्वावेवपदार्थौ। तत्रदृक्सन्या दृश्यंमिथ्या इति सिद्धम्। ईशा व्याप्तमित्यनेनच सर्वव्यापकएकएवेश्वरः नतुजीवेशाख्यं वस्तुद्वयं अस्तीति गम्यते। एकस्यैवेश्वरस्य सर्वदेहेषु जीवरूपेणानुप्रवशस्य तैन्तिरीयकादिषूक्तवात्। व्यापकादीश्वरादन्यस्य व्याप्यस्य जीवस्य सत्वे तस्यदृश्यत्वापत्या मिथ्यात्वात्। यहृश्यं तन्मिथ्याहि रज्ुसर्पवत् व्याप्यस्य परिच्छिन्नत्वेनापि मिथ्यात्वम्। जीवस्तु अजोनित्यः शाश्वतइति सत्य एवेत्यपरिच्छिन्नएव। नाहिमिथ्या वस्तु क्वापिनित्यं भवति। तस्मात् ईट्छद्वोऽत्र प्रत्यगभिन्नपरमात्मपरएव। नचदेहादिपरिच्छिन्न एवैष

6

Page 13

इतिवाच्यम् "येनसर्वमिदंततम्" इति गीतावचनात् सर्वव्याप्येव जीवः तत्तद्देहादिपरिच्छेदो भान्तिसिद्धएव एवेजीवेशयोरेक - त्वादेवान्योन्यदृश्यत्वप्रयुक्तमन्योन्यमिथ्यात्वं नासीत्। द्रष्टाहि जीवः ईशश्च। किञ्च सलिल एकोद्रष्टा अद्वैत "इति द्रष्टुः एक त्वमेवोच्यते श्रुत्या। नानात्वज्व प्रतिषिध्यते। नान्योतोस्तिद्रेष्टेति। यदिजीवेशावुभौस्तः तर्हिकोऽनयोर्द्रष्टा निश्चित्यब्रूहि। नहिद्रषुद्वयमस्ति। नापि द्रष्टुःदृश्यत्वमुचितम्। दग्धुरिव दात्य्यत्वम्। तस्माज्जीवेशयोरद्वैतमेव। युक्तंचेदं चैतन्य रूपत्वादुभयोः। चैतन्यस्यचैकत्वात्। चैतन्यानेकत्वेमानाभावात्। तच्च स्वतन्त्रं स्वातन्त्र्यस्यक्वचित् एकस्मिन् वस्तुनि पर्यवजितत्वात्। तस्यापिपारतन्त्र्ये अनवस्थादोषात्। सर्वस्याप्यचेतनस्य घटादेः चेतनपारतन्त्र्यदर्शनाच्च। अतएवेदमीडित्युच्यते। ईशए श्रवर्यइतिधातोः कर्तरिक्किपि ईडिति रूपनिष्पत्तिः। एतत्परतन्त्रत्वादेव जगदीशाव्याप्त मित्युक्तम्। व्याषकस्यहि व्याप्यंवशेवर्तते। जगह्यापकत्वंचेश्वरस्य जगत्सृष्टिस्थितिलयहेतु त्वप्रयक्तम् घटसृष्ट्यादिहेतुत्वात् घटस्य व्यापकोहिमृत्पदार्थः। व्याप्यं च वस्तुव्यापकादनन्यमेव। अन्यत्वेव्यापकस्य व्यापकत्वस्यैवासिद्धेः। कार्यंचकारणादनन्यमेवमीश्व व्यतिरेकेण जगदभावादेव ईशा जगदाच्छादनीयमित्युक्तम्। अतएवजगतोमिथ्यात्वंच यद्धि यद्दयतिरेकेण नास्तिन्मिश। यथामृद्यतिरेकेण असन्घटोमिथ्या। एवं दृश्यस्य मिथ्यात्वेसति दृशईशस्य एकस्यैव सत्यत्व मित्येकमेवाद्वितीयं ब्रह्मेति श्रुतिसिद्धान्त उपपद्यते। नहिमिथ्यावस्तुशतेनापि सत्यवस्तुनः सद्वितीयत्वंभवेत्। एतेन-ईशावास्यामिदं समस्तभुवनमिति वाक्यस्य ब्रह्मसत्यं जगन्मिथ्येत्यर्थःइति सिद्धम्। तस्मात् मुमुक्षुणा मोक्षकामिना अर्थगेहादिकं त्यक्त्वा सर्वं सन्यस्य अनवरतं सर्वदा ब्रह्मण्येव सत्येवस्तुनि निष्ठास्थितिर्विधेया कर्तव्या। कथं ब्रह्मणिपरोक्षे निष्ठा विधातुं शक्येत्यतआह-आत्मनि इति। अयमात्मा ब्रह्मेति श्रुतेरिति भावः। कोसावात्मेति चेत्-स्वयमेवेति विद्धि। आत्मशब्दोहि स्वमेव वक्तिएवंमात्मत्वा देव ब्रह्म अपरोक्षम् "यत्साक्षादपरोक्षात् ब्रह्मेति श्रुतिः। न च मुमुक्षोः संसारिणो जीवस्य कथं ब्रह्माभेद इति वाच्यम्। संसारस्योपाधिगतत्वात् निरुपाधिकस्यात्मनो ब्रह्मत्वाच्च एवं मोक्षाय ब्रह्मनिष्ठायाविधेयत्वात् ब्रह्मणश्र वेदान्तैकवेद्यत्वात् वैयर्थं कर्मकाण्डस्येत्यत आह-अर्हत्वायेति। पुरा आदौ तत्र ज्ञाननिष्ठायां अर्हत्वाय योग्यत्वसिद्धये निष्फलं फलाभिसन्धिरहितं 7 7

Page 14

यथातथाविदितं कर्म कार्यं मुमुक्षुणेत्येव। अज्ञेनेतिवा। ज्ञाननिष्ठा कर्मनिष्ठाचेति द्वेएवनिष्ठे लोकेऽस्मिन्स्तः। तत्राज्ञानांकर्म निष्ठाया मधिकारः। एवं कर्मनिष्ठयां शुद्धचित्तानां विरक्तानां सन्यासिनां ज्ञाननिष्ठायामधिकारः। तथाचोक्तम्- लोकेऽस्मिन् द्विविधानिष्ठापुराप्राक्ता मयानघ। ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्" इति गीतासु भगवता। कर्मनिष्ठानाम प्रवृत्तिमार्ग: ज्ञानंनिष्ठानामनिवृत्तिमार्ग:। इमौ न युगपदेकपुरुषानुष्ठेयौ विभिन्नाधिकारिविषयत्वात्। अतएव न कर्मज्ञानयोः समुच्चयः परन्तु ज्ञानमार्गप्रवेशयोग्यतालक्षणविविदिषा सिध्यर्थ: कर्मयोगः तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनदानेन तपसानाशकेनेति श्रुतेः। ननुं कर्मनिष्ठयाः ब्रह्मनिष्ठास्यात्। ब्रह्मनिष्ठया किंपुनःस्यात् ? अत आह - इत्थं उक्तप्रकारेण अनवरतं ब्रह्मनिष्ठामुपाचरन् कुर्वन् विद्वान् निर्लेपस्सन् आत्मेश्वरं प्रत्यगभिन्नं परमात्मानं भजते प्राप्नोति सएवभवतीत्यर्थः। ब्रह्मविद्वह्मैव भवतीति श्रुतेः। हि :- प्रसिद्धौ। शुकवामदेवादीनामेवं ब्रह्मभावं प्राप्तत्वंशास्त्रप्रसिद्धमेवेति भावः। यद्वाहियस्मा दित्थं उपाचरन् विद्वान् आत्मेश्वरंभजते तस्मात् मुमुक्षुणा अनवरतं ब्रह्मण्यात्मानिनिष्ठा विधेयेति। एवमनेन श्लोकेन अधिकारी मुमुक्षुः फलमात्मेश्वरसायुज्यं-विषयःईशजीवा भेदश्चोक्तइतिवोध्यम्। अत्र संक्षेपत उक्ताएवार्था: उत्तरे श्लोकेषुविस्तरेणोच्यन्तइति सर्ववेदान्तशास्त्रमूलभूतोऽयंश्लोक: एतछूश्लोकार्थएव अथतोब्रह्मजिज्ञासेति सूत्रार्थः। अतस्तद्धा ष्योक्तार्थाः मया शारीरकचतुःसूत्राव्यास्थानाभिधेग्रन्थे तत्सूत्रस्यवर्णितः सर्वोर्थश्र इहानुसन्धेयः।।१ श्लो. भिन्नोऽस्माद्विषयाशयोऽन्धस्थतमसो लोकान्प्रया त्यात्महा, संसारं यदविद्यया कलयते स्वात्मन्ययं ह्यात्महा। तत्वंनिश्रलमात्म- नोऽपि जववच्चित्ताद्वतातीन्द्रियं, सर्वव्याप्यप विक्रियं रविमरुद्वह्व्यादिचेष्टा दधत्।।२ व्या. विदुषएवमोक्ष: नाविदुषः इत्येतदेव स्थापयितुं अविदुषां दुर्गतिमाह - भिन्नइति। अस्मात् पूर्वोक्तात् कर्मनिष्ठाक्रमेण ज्ञाननिष्ठायामधिकृतात् विदुषः भिन्नः विपरीतः अज्ञः अतएव विषयाशयः विषयासक्तचित्तः पुरुषः

8

Page 15

आत्महा आत्मानं हन्ति नाशयतीत्यात्महा, अतएव अन्धतमसः अन्धं तमो येषुतानन्धतमसो लोकान् प्रयाति प्राप्नोति आत्महननदोषादिति भावः। कथं नित्यस्यात्मनोहननं ? अत आह संसारमिति। अयं अज्ञः यत् व्यस्मादविद्यया स्वात्मनि संसारंकलयते पश्यति कल्पयमीतिवा हितस्मादयमात्महा भवति। अयमर्थ: जीवोऽनादि कालादारभ्यानादिकर्मवशात् चतुरशीतिलक्ष जन्मानि प्रपन्नः सन् गर्भवासोत्क्रमणादिषु नानाविधानि दुःखान्यनुभूय तेषु क्रिमिकीटपशुपक्ष्यादिजन्मसु कर्मज्ञान विधानासंभवात् केवलं शोचित्वा शोचित्वा सुकृतातिशायवशादिमां मनुष्ययोनिमागतः गर्भेवसन्नेवैवं मन्यते-गर्भान्निः स्सृतोऽहं कर्मणाभक्त्याचेश्वरमाराध्य तदनुग्रहवशात् ज्ञानं लब्ध्वा मोक्ष्यमीति। ततोगर्भान्निर्गतःसन् अपहृत्विवेकः बाल्ये क्रीडाभिः तारुण्ये कामादिभिः अपरवयसि चिन्तादिभिश्र कालं गर्मयित्वा विहिताननुष्ठानात् निन्दितस्य सेवनाच्च प्रेत्य रौरवादिनरकयातना अनुभवति, पशुस्थावरादियोनीर्वा प्राप्नोति, नतु पुनर्मनुष्यजन्म, नापि देवजन्म, तयोः सुकृतातिहायलभ्यत्वात्। एवं स्थिते यो मोक्षसाधनानुष्ठानयोग्यमनुष्यदेहं प्राप्यापि तदनुष्ठायात्माना संसारान्नमोचयति, प्रत्युतसंसार एव पुनः पातयति, सं आत्महा भवत्येव। आत्मानं कूपादौ पातयन्हि लोके आत्महेत्युच्यते। तस्मात् विद्ययाय आत्मानं मोचयति स मनुष्यः आत्मबन्धुः। यस्त्वविद्ययाऽत्मानं संसारयति स मनुष्य आत्मशत्रुत्वान्

दिति। आत्महा भवति। उक्तं च गीतासु -'अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुव"

किंच देहात्माभिमानी अज्ञः आत्मत्वेनगृहीतं देहमिमं प्रारब्धावसाने विनाश्य पुनः देहान्तरमापद्यते। तच्चविनाश्य पुनअन्यत्। तदपि बिनाश्य पुनःअपरमित्येवं देहात्मतां बिनाशकत्वात् आत्महा भवति। एवं मनुष्यजन्मन्यननुष्ठितमोक्षसाधनस्य पुरुषस्यात्महत्यादोषप्राप्तेः। मोक्षसाधनानुष्ठानेन मोक्षप्राप्तेश्र सत्वात् अवश्यं मनुष्येण विषयाशाः परित्यज्य मोक्षसाधनान्यनुष्ठेयानि यथाधिकारमिति भावः। इदमेवोक्तं भागवते-"लब्ध्वा सुदुर्लभमिदं बहुसंभवान्ते, मानुष्यमर्थदमनित्यमपीह धीरः। तूर्णं यतेत न पतेदनुमृत्ययावन्न्, निःश्रेयसाय विषयः खलु सर्वतः स्यात्"-इति। मुमुक्षुणा ब्रह्मण्यात्मनि निष्ठा विधेया, सचविद्वानात्मेश्वरंभजत इत्युक्तम्। किंपुनस्तस्य,

9

Page 16

ब्रह्मण आत्मनः ईश्वरस्यतत्वं ? अत आह - तत्वमिति । तत्वं ब्रह्म। "तत्वं नारायण: परः" इति श्रुतेः। तदिति ब्रह्मवाची, "ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः" इति गीतावचनात्। तस्य भावस्तत्वं, तदपितदेव निर्धमके ब्रह्मणि धर्मायोगात्। यद्वा-तद्वह्मत्वं त्वमेव। कीदृशं ब्रह्मेत्यत आह- निश्चलमप्यात्मनः-स्वस्य चित्तादपि जववदिति। यद्वा-आत्मनः तत्वं स्वरूपं निश्चलमपि चित्तादपि जववदिति अन्वयः। बतेत्यद्भुते। निश्चलस्यापि जववत्वमद्भुतक़रमित्यर्थं। नचैवं विरुद्धत्वादप्रमाणमेवेदमिति वाच्यम् । निश्चलेपि जववस्योदयोपचारादुपपन्तिः। कथम् ? उच्यते - ग्रामाद्गामान्तरं प्रत्येकदा प्रस्थितयो: द्वयोर्मध्ये एकेन ग्रामान्तरं प्रविशता यदि ग्रामान्तरं प्रविष्टो दृश्येत अन्यस्तर्हि स प्रविष्टः अन्यस्मात् जववनित्युच्यते। एवं यं देशं मनोजिगामिषति तस्मिन्नपिदेशे मनसः प्रवेशात् प्रागेवात्मास्तीनि मनसोजवीयानात्मेति उच्यते। अतएवेदमतीन्द्रियमिन्द्रियाग्राह्यम्। नहि मनसोपि जवीयांसमर्थमिन्द्रियाणि गृहणीत्युः। यथाऽश्ाञ्जवीयांसं हरिणं महिषाः। कस्मादिदं निश्चलं ? अत आह - सर्वव्यापीति। नहिपूर्णस्य क्वतित् कुतश्चित् केनचित् चलनमुपपद्यते। अतएव आपविक्रियं निर्विकारम्, परिपूर्णस्य जन्ममरणे तावन्न स्तः। कुतश्चिदा गतेः क्वचित्प्रयतेश्र जन्ममरणरूपत्वात्तयोः पूर्णे असंभवात्। जन्म मरणाभावेच सत्तावृद्धिविपरिणामक्षयाणांमप्यभावात् जन्म पूर्वकाहिते। योहि जातः सएवास्तीति वर्धत इति विपरिणमत इति क्षीयत इतिच कालभेदादुच्यते। नच सत्ता ब्रह्मधर्म एवेति वाच्यम्। जन्माधीन सत्ताया अतथात्वात्। कालत्रयसत्ता हि ब्रह्मधर्मः। यद्वा इन्द्रियविषयत्वरूपसत्तेयं भावविकारः। नन्वेवमतीन्द्रियस्य वस्तुनः कथं सद्भावाभ्युपगमः ? अत आह - रविमरुद्वह्न यादिचेष्टा दधदिति। रव्यादीनां याश्चेष्टाः क्रिया: गमनचालनभासनाद्याः ताः दधत्। दधाति विभजति धारयतीतिवा दधत्। रव्यादिचेष्टाभि: तद्विधातृ ब्रह्म ज्ञाप्यत इत्यर्थः । नच रव्यादीनां ताश्र्ेष्टाः स्वभाविक्य एवेति वाच्यम्। अचेतनत्वात्। वास्यादिवत्सर्वस्यास्यचेतनस्य चेष्टाहि चेतनानुग्रहकृता। त्यद्वा रव्यादिचेष्टा नियामकमिर्थः। अग्न्यादीनां दाहकत्वादिकमेव यथास्यादन्यद्यथा नस्यात् तथा व्यवस्थापकमित्वर्थः। जगतो

10

Page 17

नियाम्यत्वेन लिंगेन नियामकं ब्रह्मानुमीयत इतिभावः। अथवा निर्वशेषमपितद्वह्न रविमरुद्वहन्नादिरूपं सत् चेष्टा दधत् भवति। यत्सूर्याद्युपाधिद्वारा भासनादिचेष्टा धत्ते तस्य ब्रह्मणस्तद्भावोऽवश्यमभ्यपगन्तव्यइतिभावः। नच रव्यादयश्चेतना एवेति वाच्यम्, चेतनत्वेपि तेषां तदन्तर्गतं यदेकमेवाखण्डं चैतन्यं अस्ति तदेव ब्रह्मेति ज्ञाप्यत इति। यद्वा रविमरुद्वह्य्रादीन् तच्चेष्टाश्च दधत् नामरूपकर्माणि दधतित्यर्थः। यस्मिन् ब्रह्मणि ईश्वरेणमायविना सर्वमिदं नामरूपक्रियामयं जगत्कल्पितं तदितियावत्। आरोप्यभूतेन जगता अधिष्ठानभूतंब्रह्मज्ञाप्यत इतिभावः। यद्वा सूत्रात्मनेति शेषः। ब्रह्महि सूत्रात्मना रव्यादिचेष्टा विधत्ते। एवंच हिरण्यगर्भेण तदात्मभूतं ब्रह्म ज्ञाप्यत इति सिद्धम्। २।।

श्लो. नेदीयो विदुषां विभात्यविदुषां दूरस्थवद्यत्पुनः। सर्वान्तर्बहिरास्थितं तदयते भूतेषु सर्वेषुय।: भूतान्यात्मनि तत्र पश्यति चयो भूतानि यस्याप्यसौ आत्मैवास्तियदा तदास्य विदुषः कश्शोकमोहोदयः।।३

व्या. ननुनब्रह्म सर्वव्यापि, दूरंस्थवदप्रत्यक्षत्वात् अत आह-नेदीय इति। यत् विदुषां नेदीयः सन्निहिततरं अपि आत्मत्वादिति भावः। अविदुषांतुदूरस्थवद्विभाति। विस्मृतकण्ठचामीकरन्यायादिति भावः। वत्करणात् दूरस्थत्वमिदमपास्तमेवेति द्योत्यते। सर्वान्तर्बहिरास्थितं - सर्वस्यान्तर्बहिश्र आसमन्तात् व्याप्य स्थितम्। "अन्तर्बहिश्रतत्सर्वव्याप्य नारायणः स्थितः इति श्रुतेः। तद्वह्म सर्वेषु भूतेषु य; अयते पश्यति। यः आत्मनि प्रत्यग्भूते तत्र ब्रह्मणि भूतानि पश्यति, यस्य सर्वाणि भूतान्यपि असावात्मैवास्ति भवति। आत्मैव भूतान्यस्तीत्यत्वयः। यदा- यस्मिन्काले तदा, अस्यविदुषः - एकत्वदर्शिनः शोकमोहोदयः - शोकमोहयोरुदयः कः ? शोकमोहौ न जायेते इत्यर्थः। आत्मनि कल्पितानां भूतानां आत्मातिरेकेणाभावात् सर्वेष्वात्मकार्येषु भूतेषु मत्कार्येषुघटादिषु मृदइवात्मन एकस्यैवानुगतत्वात आत्मैवेदं सर्वमिति विद्वान् यदापश्यति तदा द्वितीयवस्तुन एवाभावात् नास्तिशोकमोहोदयावकाशशति भाव:।३

11

Page 18

श्लो. आत्माऽसौविभुरभ्ावत्प्रविमलो भास्वानलिङ्गोऽतनुः शुद्धोऽपापहतः प्रभु: सकलटृङ्मुक्तो मनीषीध्रुवः। सर्वेषां परिभू:स्वभू: सममयः संवत्सराख्यप्रजा- नाथेभ्यो विद्धद्यथोचितमिमानर्थात् समीप्टेस्वयम्।४ व्या. भूतान्यात्मैवेत्युक्तम्। कीदृगात्मेत्यत आह - आत्मेति असावयमात्मा अभ्रवत् गगनवत् विभु: व्यापकः प्रविमलश्र, तर्हि गगनमेवात्मा - नेत्याह - भास्वानिति। स्वप्रकाशचैतन्यरूपः । तर्हि किं पश्यामि मनोमीत्येवं देहे उपलभ्यमानः पुरुषः संसारी जीवः आत्मा - नेत्याह - अलिङ्ग इति। लिङ्गशरीरहितः। अतएव अतनु; स्थूलशरीरहितः। अतएव शुद्धः अतएवापापह्यतः पापेनाऽहतः। अतएव प्रभुरीश्वरः। पापहतोहनीश्वरः। अतएव सकलदृक् सकल साक्षी। अतीश्वरस्य ह्यसार्वज्ञम्। अतएव मुक्तः नित्यमुक्तः। अतएव मनीषी मनस इष्ठय (इ)ति मनीषा बुद्धि: साऽस्यास्तीति मनीषी सर्वबुद्ध्युपलभ्यः नतुतद्धर्मोपलिप्त इति भावः। अतएव ध्रुवः शाश्वतः। प्रभुत्वादेवसर्वेषां परिभू: सर्वाभिभवकरः "नतत्रसूर्यो भातीत्यादिश्रुतेः। भीषास्माद्वतः पवत इत्यादि श्रुतेश्र । एवं स्वप्रकाशचैतन्यरूपत्वादेव स्वभू: स्वेनैव भवतीति स्वभू: अज इत्यर्थः। सर्वस्याप्यनात्मन; आत्मकार्यत्वादेवा त्मायमज इत्याह - सममय इति सर्वात्मकः। एवंविधः आत्मा संवत्सराख्यप्रजानाथेभ्यः संवत्सरनामकेभ्यः प्रजापतिभ्यः सथोचितमिमानर्थान् विरुधत्सन् स्वयं समीष्टे सभ्यगीष्टेईश्वरो भवतीत्यर्थः।।४ श्लो. आत्मानं य उपासते दधतिते स्वाभाविकीं ब्रह्मतां कार्यं ब्रह्मतु ये भजान्ति त इमे हैरण्यगर्भं पदम्। यऽविद्यां समुपासते मलदृशो गच्छन्तितेऽन्धं तमो देवादीनपि यन्ति हन्त कुधियो देवादिपूजापराः।।५ व्या. प्रकृतात्मज्ञानस्य फलंवदन् तत्स्तुतये उपासनान्तरफलान्यपि दर्शयति-ये आत्मानमुपासते अहंब्रह्मस्मीति पश्यन्ति यद्वा चिन्तयन्ति, ते इमे विद्वांस: स्वाभाविकीं सहजां ब्रह्मतां दधति। येतु कार्यं सोपाधिकं ब्रह्म भजन्तितइमे हैरण्यगर्भं पदं सत्यलोकं भजन्ति। ये अविद्यां प्रकृतिमुपासते मलदृशः विचेतसः ते अन्धंतमो गच्छन्ति। देवादिपूजापराः कुधियस्तु देवादीनेव

12

Page 19

यान्ति। हन्तेति खेदे। किमिति सर्वोलोक; आत्मानमेवोपास्यात्मसायुज्यं न प्राप्नोतीति शोचति लोकमुद्दिश्य कविः।।५ श्लो. यो भानोरपि मण्डलान्तरगतं स्वावामनेत्रस्यच ख्यातं ध्यायति काञ्चनाङ्गपुरुषं ब्रह्मात्मकं स्वाभिधा। एकर्षेयमवैधसप्रकट्यछन्नं मुखं ब्रह्मणः सूर्योSस्रानुपसंहरेति कलयन्नन्ते सयातीश्वरम्।। व्या. यदुक्तं कार्यब्रह्मतुयेभजन्ति त इमे हैरण्यगर्भं पदमिति तदेव विवृणोति - य इति। योपि यस्तु भानोर्मण्डलान्तरगतं स्वावामनेत्रस्य स्वदक्षिणनेत्रस्य चान्तरगतंख्यातं प्रसिद्धं ब्रह्मात्मकं काज्चनाङ्गपुरुषं हिरण्मयं पुरुषं स्वाभिधास्वाभे देन स एवाहमस्मीति ध्यायति सध्याता अन्ते मरणकाले हे एकर्ष हे यम हे वैधस प्राजापत्य ब्रह्मण:संबन्धिछन्नं हिरण्मयपात्रेणेतिशेष: मुखं प्रकटय प्रकाशय। हे सूर्य उस्रान् किरणानुपसंहर इति कलयन् प्रार्थयन्सन् ईश्वरं सगुणं ब्रह्म प्रयाति तत्सायुज्यमेति।

इति ईशांवास्योपनिषद्याख्याता ओं शान्ति: शान्तिः शान्ति:

13

Page 20

SRI BELLAMKONDA RAMA RAYA KAVINDRA TRUST Do.No.12-8-5/5 NARASARAOPET. REG NO : - 112/bk - g/09.