Books / Vedanta Rakshna Mani Ananta Krishna Sastri N.S. Vol 2

1. Vedanta Rakshna Mani Ananta Krishna Sastri N.S. Vol 2

Page 1

Barcode : 4990010048016 Title - Vedantarakshamani,Pt.2 Author - Sastri, Ananta krishna ed. Language - sanskrit Pages - 204 Publication Year - 1938 Barcode EAN.UCC-13

4 990010 048016

Page 2

तमसो मा ज्ोतिर्गमय

SANTINIKETAN VISWA BHARATI LIBRARY 16.19 A14 Vol. 2 44253

Page 5

वेदान्तरक्षामणि:

द्वितीयभागः (आनन्द्मयाधिकरणविचार:)

सम्पादक: प्रकाशकश्च महामहोपाध्यायानन्तकृष्णशास्त्री

प्रथमसंस्करणम् ]. १६३८ [ मूल्यम्-रूप्यकचतुष्टयम्

Page 7

भूमिका आनन्दमयाधिकरणमुपलक्ष्य यस्यैव राद्धान्तस्य सूत्रारूढत्वमिति महानेव विचारस्तत्र तत्र निबन्धेषूमलभ्यते, तत्र श्रोमदप्पय्यदीक्षितेन्द्रा न्यायरक्षामणिमुखे- नाव्वैतमतस्यैव सूत्रारूढत्वमिति वृत्तिकारमंतनिरासमसङ्गेन व्0- वातिष्ठिपन; तन्निरसनेन पाराशर्थविजयाख्यस्वनिबन्ध द्वारा तुमहा- चार्या श्रीविशिष्टाद्वैतसिद्धान्तस्यैव सूत्रारूढत्वं स्थापयन्ति स्म। तयोरेव ग्रन्थयोरावापोद्वापाभ्यां महामहोपाध्याय-श्रीदेशिकाचार्य- महाशयाः श्रीतिरुपतिस्वामिपादाश्च श्रीविशिष्टाद्वैतमतमेव सूत्रा- रूढमिति श्रीव्याससिद्धान्तमार्ताण्ड-परपक्षनिराकृतिनामनिब न्धद्रयेन संगृह्य प्रत्यपीपदन। वयमपि यथाशक्ति-अद्वैतमार्तण्डेन सामान्यतोऽद्वैतमतमेव सूत्रारूढमिति प्रतिपाद्, बहोः कालात् पूर्व संग्रथितमपि वेदान्तरक्षामणिनामानं श्रीभाष्यसमालोचना- त्मना प्रसिद्ं निबन्धमिमं प्रियपाठकानां सविध उपहारमुखेन समानिनीषामः । अत्रहि-श्रीभाष्यं सामान्यतः, विशेषतः परपक्षनिरा- कृति समालोचयाम। यद्यप्यत्र निबन्धे पुनरुक्तयो बहुश एव यु- क्तिविशेषाणां वर्तन्ते, तथापि परपक्षनिराकृतिकाराणां यथासं- भवं विचारक्रममनुसृत्यैयात्र विचारा प्रवर्तिताः, इति तत्रत्यपौन- रुक्त्यानामनुसरणपि कर्तव्यं समापतितम् । अयं हि पूर्वतनवत्सर एव प्रकाशयितव्य इति प्रथमभाग- भूमिकायां सूचितमासीत, परंतु मद्रासपान्तीयाखिलभारतवर्षी- यविद्वत्परिषदर्थ' धर्मप्रदीपाख्यनिबन्धलेखन-तत्प्रकाशनादौ व्या- पारात् यथासमयं न प्राकाशयं प्रापयितुमपार्यत, साप्रतमेव तु तथा कर्तुमशक्यत इति, प्रिथपाठका: सादरं निवेद्यन्ते। इति व्रिधेयतमः कलकत्ता १७-८-३८ अनन्तक्कृष्णशास्त्री

Page 9

वेदान्तरक्षामणौ

आनन्दमयाधिकरणविषयानुक्रमणिका

पृष्ठसंख्या आनन्दमयाधिकरणस्य सांख्याभिमतजीवकारणत्वनिरासपरत्वमिति वाद- १ समालोचनम् अद्वैत्यभिमतानन्दमयाधिकरणसिद्धान्तः, जीवविकार्यतोपपत्तिः, NVW २ आनन्दमय इत्यत्र मयटा तस्य जीवत्वव्यवस्था च ८ सोडकामयतेत्यादिसन्दर्भाणां पुच्छब्रह्मविषयत्वम् अभ्यासादिति हेतो: पुच्छब्रह्मवाद एव स्वारस्यम् .... १२ इ्लोकानां पुच्छवद्विषयकत्वनिरासः, विज्ञानमयान्यत्वस्य परमात्मता- १४ साधनत्वायोग:, आनन्दमयोऽ्यासा दितिसुत्रार्थनश्र्व पुच्छश्रह्मस्तुतेरानन्डमयंस्तुत्यपर्यवसायित्वम्, पुच्छपदेनावयवार्थाविवक्षा च २३ २५ आनन्दशब्दस्य धर्मिपरत्वनिरासः, श्रह्मनिर्विशेषता च २६ मतान्तराभिमताभ्यासादिपदार्थनिरासः ३१ आनन्दमीमांसाया ब्रह्ममीमांसात्वम् ३२ आत्मैकत्वस्य. प्रकरणार्थत्वम् ब्रह्मभावस्यैव मोक्षत्वम ३५ अवच्छिन्नस्यापि कार्यत्वम् ४० मयड्र्ुविचार: पाणिनिसृत्रानुसारी ४३ प्राचुर्यार्थपरीक्षा मुक्त्तौ साधम्यविचार: ४६

.. सोऽश्नुते इति वाक्यार्थपरीक्षा ४६ ५० ब्रह्मोपादानत्वस्वरूपविचारः ७२ यतो व्राच इतिश्रुत्यर्थविचारः, श्रह्मण एव वायवादिकारणत्वेऽपि . ८१ "आकाशाद्वायुरित्यादीनां तात्पर्यम् ८६ नकरणयम्

Page 10

[ २ ]

विषय पृष्ठसंख्या "यतो एचो निवर्तन्ते" इत्यस्या श्रुतेर्मतद्वयरीत्या विवरणसमालोचनम् हट स एको ब्रह्मण इति वाक्यगतब्रंह्मानन्दस्य यतो वाच इति वाक्याविषयत्वम, १०४ . आनन्दमय-ब्रह्मणोर्भेदस्यैव प्रकरणार्थत्वम् ... १०४

... ११५ आनन्दमीमांसायाः पुच्छंश्रह्ममीमांसात्वोपसंहारः .... १७७ स्वानतिरिक्तानां शिरःपक्षादिमत्त्वाभावनिरूपणम् ... ११७ भूमविद्यादष्टान्तेन उपकमोपसहारयोरेकशैली- ११६ नियमाभावसमर्थनम् , तस्यैष एवेतिवाक्यस्य तत्पर्यायावयविव्यतिरिक्तविषय- १२० त्वेन ब्रह्मपुच्छ वाक्यानन्तस्याप्यानन्दमयातिरिक्तविषयत्वम् पुच्छब्रह्मवाक्ये ब्रह्मभेदस्यैव वाक्यार्थत्वम् .... १२५ आनन्दमयानन्दपदयोर्भिन्नार्थत्वम्, पुच्छत्वप्रतिष्ठात्वादी नामुपपत्तिश्च १२६ अन्नमयादिमुखेन प्रदर्शनाद् नानन्दमयसगुणब्रह्मत्वम् १२६ सूत्रे आनन्दमयादिपदस्वारस्यमद्वैतमते १३० सर्वेषु पर्यायेषु श्लोकस्यावयविविषयकत्वाभावः १३२ अद्वैतिनां द्वितीयसुत्रार्थः १३३ प्रियशिरस्त्वाद्यप्राप्तिरित्यादीनामद्वैतमत एव स्वारस्यम् १३८ मान्त्रवार्णिकसूत्रार्थ: १४४ भेदव्यपदेशादित्यस्याद्वैत मतानुसारिविवरणस्यैव बादरायणाभिमतत्वम् १४६ कामाच्च नानुमानापक्षेतिसूत्रार्थ: अष्टमसूत्रार्थश्र .... १४८ श्रीभाष्यमतेऽधिकरणवैयर्थ्यम्, तन्मते सर्वेषां सुत्राणामस्वारस्यं च १४६ श्रीभाष्यमतसंग्रहः, तत्समालोचनं च ... १५ह' अद्वैतमत एव माण्डूक्यश्रुत्येकवाक्यता ... ... १६१ श्रुतिविरोधे सूत्राणामन्यथानयनयोगः, आनन्दमय पदस्य परक्षपरत्वाभावोपगत्तिश्च१६३ आनन्दमयाब्रह्मतायां विष्णुपुराणात्मपुराणाग्निपुराण-पैङ्गिलोपनिषत्सवंसारो- पनिषादादीनां तात्पर्यम् ... १६७ ब्रह्मविद्याभरणोपक्षिप्तयुक्तीनां संग्रहः, तदनुपपत्तिशक्का-तन्निरासौ च १७४ उपसंहार: '१८७

Page 11

  • श्रीरस्तु # वेदान्तरक्षामणिः। (द्वितीयो भाग:) मातामह महाशैलं महस्तदपितामहम्। कारणं जगतां वन्दे कण्ठादुपरि वारणम॥ आनन्दमयोऽभ्यासात्। तैत्तरीयोपनिषत्सु ब्रह्मवल्ली भृगुवल्ली च किं निर्गुंणब्रह्मपरोत सगुणब्रह्मपरेति निर्धारणार्थ प्रवृत्तमानन्दमयाधिकरणम्। तत्र यथ्ा- नन्दमयो जीवः, तर्हिं पश्चकोशान्तरं पुच्छं ब्रह्म तदर्थ; यदि तु स एव परमात्मा, तर्हि कोशचतुष्टयान्तरं सगुणं ब्रह्मैव तदर्थः। तत्र प्रथम- मते-सगुणं ब्रह्मैवानन्दमयपर्यायप्रतिपाद्यम्, निर्गुणं तु ब्रह्म शश- शृङ्गायमाणमिति पूर्वपक्षः, अयं च द्वैत-विशिष्टाद्वैतसिद्धान्तानुया- यिनां सिद्धान्तः, इति द्वैतादिमतानुयायिनोऽत्र पूर्वपक्षिणः, पुच्छ- वाक्यद्वाराऽडनन्दमयपर्यायप्रतिपादं निर्गुणं व्रत्मैवेति मतानुसारि- णोउद्वैतिन एवात्र सिद्धन्तिन:। द्वितीयमते तु-अद्वैतिनः, कर्माङ्गक- र्तृस्तावकतया वेदान्तानां पर्यवसानमिति वादिनो मीमांसका वा "सोऽकामयते" इत्यादिकारणवाक्यसंदर्भाणां जीवपरतयैव योजन- मभिप्रयन्त: पूर्वपक्षिणः, सगुणव्रह्मण एवानन्दमयपर्यायप्रतिपाद्यतेति मन्वाना द्वैतादिमताभिमानिनः, अद्वैत्येकदेशिन: केचन वृत्तिकारा वा सिद्धान्तिनः, नतु साङ्ख्यादय :; तन्मते प्रधानकारणताया एव ख्वोकारेणाकर्तृस्वभावस्य जीवस्य कारणताया अनङ्गीकारेण "सोडंका- मयते"त्यादिवाक्यसंदर्भाणामानन्दमयविषयतया योजनासंभवात्। 1 पतेन-जीव एवानन्दमय इति प्रतिपत्तंव्यंम्; आनन्दप्रचुर इत्युक्तेऽल्पदु:खसङ्गावावगमात्, तस्य च जीव एव संभवात। अतोऽन्

Page 12

२ श्रीभाष्य समालोचनम् प्रकरणे जीव्र एंव कारणतयाऽवगम्यत इति साङ्ख्येन तदनुसारिणाड़- न्येन वा प्रत्यवस्थान इदमधिकरणमारभ्यते-"आनन्द्मयोऽभ्या- सादि" त्यादिवादः परास्तः। साड्ख्येन तदनुसारिणा वा जीव- कारणताया अनङ्गीकारेण प्रकरणस्यास्य तत्परताया असंभवात्। एतेन-"किश्च जीवस्य कारणत्वं न संभवत्येव ; तस्य परि- णामायोगेनोपादानत्वासंभवात" इति स्वोक्तिविरोधोऽपि- व्याख्यातः। यदि त्वभ्युपगम्य जीवकारणत्वं पूर्वपक्ष:, परमार्थ- गत्या तु सिद्धान्त इति मन्यते, तर्हि साङ्ख्येन तदनुयायिना वेति व्यर्थ साङ्ख्यानामेवोपर्यशनिपातनम्। अयमत्र द्वैत्यभिमतः सूत्राष्टकप्रतिपाद्यपूर्वपक्षपरिहार निष्कर्षः । आनन्दमयपदे हि मयटोऽन्नमयादिपर्यायेष्विव विकारार्थ- कत्वमेवाङ्गीकर्तव्यम्, नतु प्राचुर्यार्थकत्वम्,प्रक्रमभङ्गे कारणाभावात्, आनन्दमीमांसाया धस्यानन्दपद्प्रतिपाद्यस्य विकारो जीव आनन्द- मयः, तस्यैवावाङ्मनसगोचरत्वप्रतिपादनार्थत्वम्, नतु आनन्द- मयप्रतिपाद्यस्य प्रचुरानन्दत्वप्रतिपादनार्थत्वम्। तदुक्तम्- "त एते सर्व आनन्दा यत्रैकत्व व्रजन्ति नः। कामश्च तन्निमित्तोत्थो ज्ञानं यच्च द्वयात्मकम्। तथाऽकामहतत्वं च निष्ठां यत्र प्रपद्यते। तमानन्दं विज्ानीयाम् वर्त्मनाऽनेन वाक्यतः ।"-इति "सैषाSSनन्दस्य मीमांसा भवति" इति आनन्दस्यैव मीमांसा प्रस्तूयते, नत्वानन्द्मयस्य। आनन्दमयगोचरत्वे हि सर्वस्योपरि- तनस्य संदर्भस्यानन्दमय एव सर्वत्रानुकृष्येत, नत्वानन्दमात्रम्। आनन्दपदं. हि "यदेष आकाश आनन्दो न स्यात्" इत्या- दिसन्दर्भेंषु ब्रह्मपरमेव सवैर पि विवक्ष्यते, यस्यानन्दमयपर्योपान्तिम- मेन "ब्रह्म पुच्छं प्रतिष्ठे" ति वाक्येन समर्पणम्, "असन्नेव स

Page 13

श्रीभाष्य समालोचनम् भवति" इत्यादिवाक्येन इलोकनम्, "उताविद्वानि"त्यादिप्रश्नोत्त- रपरम्परया यद्रावस्योत्कान्तिनिरपेक्षं सूर्याग्नि-यमादिभावषिल- क्षणत्वस्य प्रतिपादनम्, तस्यैव ब्रह्मणः"सैषानन्दस्य मीमांसा भवति" इत्यानन्दपदेन ग्रहणम्, नत्वानन्दमयस्य । तदुक्तम्- "यस्मादू ब्रह्मण आनन्दादू भीता वातादयोऽवशाः। स्वकर्मसु प्रवर्तन्ते भृत्या: स्वामिवशा इव । तस्यानन्दस्य मीमांसा विचार: क्रियतेऽधुना" इति॥ तथाच सातिशयानन्द एव हिरण्यगर्भानन्दपर्यन्त आनन्द- मीमांसाविषय :; "आव्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुंन।" इति स्मृतेः,यः कर्म निबन्धनः, उत्क्रान्तिसापेक्षश्र।ब्रह्मरूपानन्दस्तु ज्ञानमा- त्राधीनो निरतिशयो नोत्कान्तिमपेक्षते, इति हिरण्यगर्भान्तो जीव आनन्दमयपदार्थ:, न निरतिशयं ब्रह्मैव, यस्य विकारो हिरण्यगर्भान्तो जीववर्ग:, प्राप्यतया विवक्षतं ज्ञेयं तु पुच्छं ब्रत्मेत्येव प्रकृतसन्दर्भार्थः॥ तथाच न ह्यानन्दमयोऽन्र मीमांस्यतया विवक्षितः, किन्तु . तत्कारणमानन्दरूपं ब्रह्मैव जिज्ञास्यतया विवक्षितम् ; अन्यथा- "स एको ब्रह्मण आनन्दः" इत्यनेन प्रचुरानन्दस्यानन्दमयस्य स्पष्टं प्रतिपादनात् "यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे"ति वाङ्मनसागोचरत्वप्रतिपाद्नमसङ्गतमेव स्यात्। अस्मन्मते तु- हिरण्यगर्भान्तजीवराशेरपि कारणस्य निरतिशयानन्दरूपस्य ब्रह्मणो वाड्नसागोचरत्वस्यैवात्र विवक्षणादू न कोऽपि दोषः। "यतो वाचो निवर्तन्ते" इति हि ब्रह्मवल्यामानन्दमीमांसाश्लोकतया, "आनन्द- मयमात्मानसुपसंक्रम्ये" त्युत्तरश्लोकतया च दिरभ्यस्यते। इदं च पूर्णानन्दस्यात्मन एव निरुपाघिकस्य कोशपश्चकातीतस्य प्राप्य- तथा विवक्षणात् तत्माप्तेश्च नित्यप्राप्तिरूपत्वेन गतिनिरपेक्षत्वादू गतिसापेक्षपाप्तियोग्यस्यानन्द्मयान्तस्यैव वाङ्मनसगोचरत्वम्, नतु तत्कारणस्यानन्दस्यापीति विवक्षायामेव खवरसम् ;अन्यथा-

Page 14

श्रीभाष्य समालोचनम्

त्रमयाद्यानन्दमयान्तस्यकरूपं प्राप्यत्वं सातिशयानन्दवत्त्वं.भेप्रतीति- विषयत्वं च, ब्रह्ममात्रस्य तु ज्ञानमात्रमेव प्राप्तिः, निरतिशयानन्द- रूपत्वं भेदप्रतीत्यविषयत्वं चात्र प्रतिपादितमनुपपन्नमेव स्थात्। तदुक्तम्-"न साधनमयं किश्वित्स्वात्मसिद्धावपेक्षते। स्वतः सिद्धेरविद्याया हानमात्रमपेक्षते ॥" इति ॥ एतेन-"आनन्दं ब्रह्मणो विद्वानि"ति षष्ठीश्रवणादू आन- न्द-ब्रह्मणोगुण-गुणिभावो विवक्ष्यत इति शङ्कापि-परास्ता;"उदर- मन्तरं कुर्ते" इति भेदनिन्दायां सत्यां ब्रह्मणि कस्यापि भेदस्य कल्पनाया: श्रुत्यसम्मतत्वात्। तदुक्तम्-"आनन्दानन्दिनोश्चात्र न भेद: स्याद् मनागपि। श्रुत्यैवापोदितो यस्माच्छिद्रं कुर्वन् मनागपि"-इति ॥ अनेन च स्पष्टमिद्मवगम्यते-निर्गुणं ब्रह्मैवोत्कान्तिनिर- पेक्षतद्वावयोग्यं तैत्तरीयोपनिषत्प्रतिपधम्, नतु सगुणं ब्रह्म; अन्यथा-सगुणब्रह्मभावस्य गतिसापेक्षत्वेऽविवादात्-"उतावि- दानमुं लोकं प्रेत्य कश्चन गच्छती ३? आहो विद्रानमुं लोकं प्रेत्य कश्चित्समश्नुता ३ उ"इति विद्वदविद्वद्गेदेन गतिसम्भवासम्भवप्रश्न एवानुपपन्न: स्यात। सति चैवं हिरण्यगर्भान्तो जीव एव ब्रझ्मा- भासरूपः, ब्रह्मप्रतिबिम्बरूपो वा ब्रह्मकार्यत्वादू आनन्दविकार- त्वेनानन्द्मयः, नतु कारणं ब्रह्म। न हि तैत्तरीयोपनिषदि कारण- स्वरूपं मयडन्तपदप्रतिपाद्यम् ; अन्यथा-कार्यमुखेन ब्रह्मवल्यामुप- क्रान्तस्य. ब्रह्मण: कारणमुखेन भृगुवल्यां प्रतिपादनावसरेऽन्नादिपर्या येष्विवानन्दपर्यायेऽपि मथट्परित्यागो व्यर्थ एव समापद्येत। अनेन हीद्मवगम्यते-अन्नमयादयो यथाऽन्नादिविकारा:, तथाSS नन्दमयोऽप्यानन्दविकार एवेति। एतेन-जीववाचित्वपक्षे हि विकारार्थत्वं न संभवति; तस्यापि नित्यत्वेन घटादेरिव कार्यत्वायोगात्, विकारवाचिनो मयटश्च प्रकृत्य-

Page 15

श्रीभाष्य समालोचनम् ५

र्थान्यथाभावरूपविकारवाचित्वमेव युक्तम् ; तत्रैव प्रयोगदर्शनात् , व्या- करणस्मृतिगतविकारशब्दस्वारस्याच। अतोऽत्रानन्दमयः प्रभूतानन्दः पर एवेत्यादि-परास्तम्। विम्बस्यैव प्रतिबिम्बरूपेणान्यथाभावेन प्रतिबिम्बस्य बिम्ब- कार्यत्वस्य तद्विकार्यत्वस्य वाऽविरोधात्, प्रतिबिम्बस्यानित्यत्वेन जीवस्याप्यनित्यत्वेऽपि बाधकाभावात्, "तत्त्वमसि"अहं ब्रत्मा- स्मी"ति बाधायामेव सामानाधिकरण्यमिति मतस्यापि जागरूक- त्वात्, अवच्छेदवादेऽप्यवच्छेदकस्य ब्रह्मकार्यत्वेनानित्यत्वेन चाव- च्छिन्नस्यापि घटाकाशादेरिवान्तःकरणाध्यवच्छिन्नजीवस्य स्वरूपतो नित्यत्वेऽपि विशिष्टरूपेणानित्यत्वात्, जीवस्य कचिदुत्पत्तिश्रवणस्य कचिन्नित्यत्वश्रवणस्य चौपाधिकमनित्यत्वं स्रूपतो नित्यत्वमित्ये- वमेवाविरोधस्य ब्रह्ममीमांसावसेयत्वाच्। तथाच सूत्रम्-"चरा- चरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्"इति॥ अनेन हि सूत्रेण जीवस्योत्पत्ति-प्रलयावौपाधिकौ, इति निरुप्यत इत्यद्वैतिनो मन्यन्ते। श्रीभाष्यकारास्तु आकाशादि- पदानां मुख्यतया परमात्मपराणामपि गौण्या वृत्त्याऽडकाशादि- परत्वमपि सम्भवतीति प्रतिपादनार्थमिदं सूत्रमिति मन्यन्ते। इंदं च शरीरवाचकानां पदानां शरीरिपर्यन्तत्वं मुख्यमिति सिद्धान्तं सूंत्रारूढं सिद्धवत्कृत्य विवरणं प्रवृत्तम्, वस्तुतस्तु नायं सिद्धान्तः सूत्रारूढो दर्शनान्तराभिमतो वा; ततश्च जीवस्यापि गौणमनि- त्यत्वं सूत्रकाराभिमतं गृहीत्वाऽऽनन्द्मयपदेन जीवविवक्षायां न कोऽपि विरोघ:। यथाच श्रीभाष्यमते-"चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्त:" इति सूत्रे तद्व्यपदेश इति तत्पदं व्यर्थम, व्यपदेशपदेनैव चराचरश्रयो व्यपदेशो भाक्त इति तद्भिमतयोजनाया अन्तरेणापि तत्पदं निर्वाहात्, अद्वैतमत एव तु तत् सार्थकम; चराचरव्यपा-

Page 16

श्रीभाष्य समालोचनम्ं

श्रयः तद्व्यदेशः जीवानित्यत्वव्यपदेश इति तद्भिमताया योज- नायास्तत्पर्द विनाऽसम्भवात्, तथाऽन्यत्र व्यक्तम्। यत्तु-"नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः" इति सूत्रम्, तदिदं स्वरूपतश्च्रैतन्यरूपेण नित्यत्वमेव जीवस्थापीति बोधनार्थमे वेति तत्रैवाधिकरणे व्यक्तम्। श्रीभाष्यकारा अपि "जीवस्य सवरू- पान्यथाभावलक्षणैवोत्पत्तिरत्र निषिध्यते" इति प्रतिपाद्यन्त्येव। इयान् विशेष :- यत् ज्ञानसङ्कोच-विकासलक्षणोत्पत्तिरभिमन्यते श्रीभाष्यकारैः, अद्वैतिभिस्तु औपाधिकमनित्यत्वमुत्पत्तिर्वाS- भिमन्यत इति। इदमेवाभिप्रेत्योक्तम्-"कार्योपाधिरयं जीवः कारणोपाघिरीश्वरः" इति॥ अयमाशय :- जीव ईश्वरश्च न स्वरूपतः कार्यम्, कारणं वा, किन्तूपाधे: कार्यत्वात् कारणत्वाच्च कार्यम्, कारणं वा। तथाच जीवस्यापि कथंचन कार्यत्वमवच्छेदवादेन, मुख्यतया प्रतिबिम्बवादेन वा कार्यत्वमद्वैतिनो मन्यन्त एव, इति कथं वा नानन्दरूपब्रह्म- विकारत्वासंभवो जीवस्य ? सति चैवं मयडर्थस्य विकारस्य जीवे- जपि संभवात् प्रक्रमभङ्ग्ेनानन्दमयपदे मयटः प्राचुर्यार्थत्वासंभवादू नानन्द्मय: पर आत्मा, किन्तु पुच्छवाक्यप्रतिपाद् एव पर आत्मा; तत्रैव "ब्रह्मविदापोति परमि"ति प्रकान्तस्य ब्रह्मपदस्याम्नानांत्। यद्यपि-"अन्योऽन्तर आत्माऽऽनन्द्मयः"इत्यात्मपदं ब्रह्मपदसमा- नार्थकं "तस्माद्वा एतस्मादात्मनः"इति वाक्ये ब्रह्मपदस्थाने प्रयुज्य- मानमानन्द्मयव्रस्मतापक्षेऽपि न विरुद्धम्; तथाप्यन्नमयाद्यमु- ख्यात्मसमानाधिकरण आत्मशब्दो मुख्यवृत्त्यैवानन्दमयपर्यायमात्र आत्मस्वरूपबोधक इति कल्पनेऽपि प्रक्रमभङ्गो दुरपहय एव। तदेव- मानन्द्मय इत्यत्र विकारार्थकत्वसंभवमभिप्नेत्यानन्दमयाव्रह्मतावादो व्यवस्थापितः ।. आमन्द्मय इति मयटः प्राचुर्यार्थकत्वेऽपि. प्राचुर्यस्य.

Page 17

श्रीभाष्य समालोचनम् ७

स्वसमानाघिकरणविज्ञातीयाल्पतानिरूपकत्वाद् दुःखाल्पत्वस्य च ब्रह्मण्यसंभवात् आनन्दमयब्रह्मतावादो न युक्तः । यद्पि प्रचुर- प्रकाशश्चन्द्र इत्यादिस्थले चन्द्रे तमोलेशाप्रतीतेर्न प्राचुर्यस्य स्व- समानाधिकरणविजातीयाल्पतानिरूपकत्वं नियतम्ं, किन्त्वौत्स- र्गिकमेव; तथाप्यानन्द्मयपदे स्वसमानाधिकरणविजातीयाल्पता- निरूपकत्वस्य प्रक्रमप्राप्तपञ्चमकोशत्वोपपादकस्य बाधकप्रमाणा- भावाद् उत्सर्गत्यागेपि न कारणं पशयाम: । यदि प्रमाणान्तरेणा- नन्द्मयस्य ब्रह्मत्वं सिद्धं स्यात्, तर्हि सत्यमुत्सर्गत्यागेनापि प्रकृते प्राचुर्यस्य न स्वसमानाधिकरणविजातीयाल्पतानिरूपकत्वमिति युज्येत, परंतु न तत्र प्रमाणलेशोऽपि वर्तते, प्रत्युताकामहत-

सायां प्रक्रमात् पूर्वोक्तरीत्या आनन्दमयाब्रह्मतायामेवोपरितनस्य सर्वस्थ संदर्भस्य स्वारस्याच्च तद्ब्रह्मतायामेव प्रमाणानि वर्तन्ते, इति न प्राचुर्यस्य स्वसमानाधिकरणविज्ञातीयाल्पता निरूपकत्वबाघ- संभव: । एतेन-परमात्मैवानन्दमयः प्रतिपत्तव्यः; अल्पदुःखावगमस्तुन भवति; प्रचुरप्रकाशश्चन्द्र इत्यादौ तमोलेशसम्बन्धाप्रतीतेस्तथानियमायोगा- दित्यादि-परास्तम् ; नियमायोगेऽप्युत्सर्गत्यागे कारणभावेन दुःखा- ल्पत्वावगमस्यावारणीयत्वात्। तथाच. नानन्द्मयब्रह्मतावादो युक्तः। अत एव-"तस्यैष एव शारीर आत्मा"इति,आनन्द्मयस्याप्यान्तरस्यात्र प्रकरणे समा- म्नानमुपपद्यते ; अन्यथा-"अन्योऽन्तर आत्माSSनन्द्मयः" इति वाक्यगतेनान्तरपदेनैव विज्ञानमयान्तरत्वमानन्दमयस्थावगंव्यते, इति "तस्यैष एव शारीर आत्मे"ति प्रथमपर्याय इषान्तिमपर्यायेऽपि व्ितथमेव समापथते, अस्मन्मते तु पुच्छवांक्येऽन्तरपदाश्रवणात् आनन्द्मयान्तरत्वं पुच्छव्रह्मण: प्रकान्तसर्वान्तरत्वोपपदर्क "तस्यैष

Page 18

८ श्रीभाष्य समालोचनम्

एवे"तिवाक्याभावे न सिद्ध्येत्, इति तत्सार्थक्यार्थम पि नानन्दुमय- ब्रह्मतांवादो युक्त: । एर्तेन-अतोऽत्रानन्दमयः पर एवात्मा; शारीरत्वमपि निरध- पाधिकं सर्वजगच्छशरीरकस्य तस्थैवोपपद्यत इत्याद्यपि-व्याख्या- तम्; "तस्पैष एव शारीर आत्मे"त्यानन्दयमपर्यायानन्तरस्य वाक्यस्य पूर्वोक्तरीत्या वैयर्थ्यापच्याSSनन्द्मय विषयत्वासंभवेन पुच्छब्रत्मविष- यत्वस्यैव संभवेन शरीरपरम्परया प्रदर्श्यमानत्वस्य असङ्कचितशारी- रत्वस्य वा पुच्छब्रह्मविषयत्व एव संभवेनानन्द्मयविषयत्वासंभवात्। शारीरत्वं ह्यसंकुचितमन्नमयादिसर्वकोशाघिष्ठानत्वेन पुच्छव्रह्मणोऽपि संभवत्येव, यदि शरीरित्वमेव शारीरपदेन विवक्षणीयमित्याग्रहः। वस्तुतस्तु-शरीरमुखेनोपदिश्यमानत्वमेव शारीरत्वमत्र विवक्षणी- यम्, नतु शरीरित्वम् ; प्राणमयादीनां शरीरित्वस्य भवन्मतरीत्याS- संभवात्। अतो नानन्दमयः परमात्मा, किन्तु जीव एव। अत एवान्नमयादीनामिवानन्द्मयस्यापि शोध्यत्वश्रवणमुपप- दते। मतान्तरे तु यत्र शोध्यत्वं प्रसाद्यत्वरूपं विवक्षितम्, तत्र न केवलमर्थवैरूप्यम्, किन्तु एकस्यैव शुद्धचन्तामितिपद्स्यार्थभेद- कल्पनयाSवृत्त्यापत्या वाक्यभेदापत्तिरपि। न केवलमियत्, किन्तु शुद्ध चन्तांपदस्यावृत्तस्य प्रसाद्यत्वपरत्वे लक्षणापि। एतेन-एवं भक्ति-प्रपत्तिभ्यां प्रसाद्यत्वरूपं शोध्यत्वमपि परमात्मन एवानन्द्मयस्य संभवति, न जीवस्येत्यपि-प्रयुक्त्म्। यत्तु-जीवस्य कारणत्वं न संभवत्येव; तस्य परिणामा- योगेनोपादानत्वासंभवात्, जगच्छरीरित्वाभावेन सूक्ष्मजगदि- शिष्टत्वंस्यापि दुरुपपादत्वात्, ब्रह्मण इव तस्य विशिष्टस्योपादा- नत्वमित्यपि न वक्तुं शक्यम्; वाक्यान्तरानुगुण्याद्वैशिष्टथोप- योग्यात्मत्वंश्रवणाच्चात्रोपादानत्वमपि विवक्षितमेव। अतः कार णत्वोक्तिरानन्द्मयस्य जावत्वं निवारयतीत्यादिवाक्यजालम्;

Page 19

श्रीभाष्य समालोचनम्

तदिदमानन्दमयजीवतावादिभिः "सोऽकामयते" त्यादि वांक्यानां पुच्छव्रत्मविषयत्वस्यैव स्वीकारेणानन्दमयपद्बोध्यजीव- विषयत्वस्यानङ्गीकारेण पुच्छब्रह्मणः कारणत्वोक्तंरानन्दमयजीवता- पक्षाप्रतिकूलत्वेन प्रत्युतानुकूलत्वेन च न क्षोदक्षमम्। "अत एव-एष होवानन्दयाती' ति जीवानन्दयितृत्वं पुच्छब्रत्म- णः प्रतिपादितमप्युपपदते। नहीदं वाक्यमानन्दमयस्यानन्दयितृत्वप्र- तिपादनपरम्, येन-"आकाशादिकारणत्वेन निर्दिष्टस्यानन्द्मयस्य "एष ह्ेवानन्दयाती"तिजीवानन्दयितृत्वं व्यपदिश्यत इति जीवादन्य एवानन्दमयः प्रतिपत्तव्य इति शङ्का सावसरा स्यात्। सत्यं "सोऽका- मयते"ति"एष ह्येव" इति च पुंलिङ्गेन परामर्शो मान्त्रवर्णिकब्रह्मणः "तस्माद्वा एतस्मादि"ति पुंलिङ्गतदेतच्छब्दाभ्यां प्रक्रमात् पुच्छब्रत्मवि- षयत्व एव स्वरसः, नानन्द्मयविषयत्वे। न ह्यानन्दमयस्य सगुणस्य ब्रत्म- णो "बहु स्यां प्रजायेय" इति व्यपदिश्यमानमुपादानत्वनिबन्धनं सर्व- प्रपश्चतादात्मयं संभवति; सगुणस्य ब्रह्मण: स्वरूपत उपादानत्वा- संभवात्, औपाधिकस्योपादानत्वस्य विवक्षणे चाद्वैतमत एव प्रवे- शात्। तथाच परिशुद्धखभावं शुद्धं ब्रह्मैव पुच्छवद्घिष्ठानं "सोऽका- मयते" त्यादिवाक्यप्रतिपाध्यम्, इति "सत्यं ज्ञानमनन्तं ब्रह्म" इति मान्त्रवर्णिकत्वमपि पुच्छब्रह्मण एव, नानन्द्मयस्य। यथाच पुच्छब्रह्मण एवाज्ञान निवतेकवृत्तिविषयत्वमात्र विवक्षाभिप्रायेणैव ब्रह्मवेद्यत्वश्रुतीनाम्, अप्राप्तत्वभ्रमनिवर्तकत्वेनैव प्राप्तिश्रुतीनां च प्रवृत्तिः, न ह्यन्यथा-"उताविद्वानि"त्यादिपश्नानामेव संभवः, तथा- जन्यत्र विस्तृतम्, इति-"ब्रह्मविद् ब्रत्मैव भवती" त्यादिश्रुत्यन्तरै- र्वाक्यतयैव-"ब्रह्मविदाप्नोति परम्" इति वाक्यं स्वार्थबोधकम, नान्यथा। तथाच-प्राप्यत्वेन वेद्यत्वेन च प्रस्तुतस्यैव प्राप्तृभूतो- पासकमिन्नस्य मन्त्रे विवरणमित्यादिशङ्कापि-परास्ता; यो वेद निहितं गुहायांमि" त्यादिसंदर्भेण ज्ञात्रभिन्नमेव ज्ञेयं ब्रह्म, "तत्त्व-

Page 20

१० श्रीभाष्य समालोचनम्

मसी" त्यादिवाक्यस्वारस्यादपीति निर्धारितत्वेन भेदप्रतीतिकल्प- नाया निर्मलत्वात। यथाच "तत्त्वमसी"त्यादावपि न भेदे सत्येव शरीरात्मभावनिबन्धनं तादात्म्यमेव, तथान्यत्र व्यक्तम्; शरीर- वाचकानां पदानीं शरोरिपर्यन्तत्ववादस्य निर्मूलत्वात्। एतेन-मान्त्रवर्णिकस्य जीवान्यत्वमङ्गीकर्तव्यम्; सत्यादिपदोक्ततान सत्त्व-चित्व-त्रिविधपरिच्छेदशून्यत्वानां जीवेऽसंभवात्। तस्मादू मान्त्रवर्णिकस्य जीवभिन्नत्वेन तदतिरिक्त आनन्दमयः पर एवेत्याद्यपि- निरस्तम् ; अद्वैतिभिर्मान्त्रवर्णिकत्वस्य पुच्छब्रह्मण्येव स्वीकारेणानन्द- मयजीवतायामपि मान्त्रवर्णिकस्य जीवान्यत्वाङ्गीकाराविरोघात्। तथा- चानन्दमयो जीव एव, न पर इत्येवोरीकर्तव्यम्।

य्तु-"श्रुति-सूत्रयोर्विरोधे श्रुतेः प्राबल्येन तद्नुरोधेन सूत्राणां नेयत्वात्" इति भामतीवाक्यम्, तदिदं विषयवाक्यं सूत्रस्य किं विवक्षितमिति विशये यत्र सूत्रगतेन पदेन स्वरसतः कस्यचन निर्णीतस्यैव वाक्यस्य प्रतीतिः, कथंचन लक्षणयाऽपि सन्दिग्वत्य च वाक्यस्य प्रतीतिः, तत्र सूत्राणां सन्दिग्घार्थनिर्णयार्थत्वात् लक्षण- याऽपि सन्दिग्धं श्रुतिवाक्यमेव सौत्रेण पदेन विवक्षणीयम्; अन्यथा-"सर्वत्र प्रसिद्धोपदेशात्", "अत्ता चराचरग्रहणादि"- त्यादौ "सर्वे खल्विद्मि" त्यादीनामेव विषयवाक्यतया ग्रहण- मनुपपन्नं स्यात्। एतेन-"तद्नन्यत्वमारम्भणशब्दादिभ्यः" इत्यादि सूत्रमपि व्याख्यातम् ; तत्रापि "किस्वादारम्भणमि"- त्यादिवांक्यान्तरस्यैव विषयतया ग्रहणापत्तेः । सति चैवमानन्द- मयपदेनानन्द्मयस्यैव सरसत उपस्थितत्वेऽपि मयटो विकारार्थत्वे प्राचुर्यार्यत्वे वोभयथाऽप्यानन्दमयजीवत्वस्य निर्णीतत्वात् सन्दिग्घं व्रत्म पुच्छमेव लक्षणयापि विषयवाक्यतयाऽत्र विवक्षणम्ईति; अभ्यासांदिति हेतोस्तत्रैव स्वारस्यात्। एतेन-आनन्द्मय इति पड़े मयटो विकारार्थत्वमसम्मवि;

Page 21

श्रीभाष्य समालोचनम् ११

जीव ब्रह्मणोरु्भयोर पि किञ्चन प्रति विकारत्वस्य दुरुपपाद्तया ब्रह्म- परत्वे जीवपरत्वे वा तस्य तदर्थकत्वासंभवादिति शङ्कापि-परास्ता; ब्रह्मण: किश्चन प्रति विकारत्वायोगेऽपि जीवस्य पूर्वोक्तरीत्या ब्रह्म- कार्यत्वेन तदिकारत्वस्य सूपपद्त्वात्, आनन्दमयपददेन ब्रह्मविष- क्षाया असंभवेनानक्गीकाराव। न ह्यानन्द्मयस्य ब्रंह्मत्वे तस्यैवाव- यवित्वमवयवत्वमुभयमुपपथते, अवयवात्रयविभावस्य भेदसापेक्ष- त्वात, "आनन्द आत्मा" इत्यानन्दस्य वैषयिकानन्दरूपस्यैव मध्य- कायत्वस्यास्माभिर्विवक्षणादू नास्मन्मते ब्रह्मण एव पुच्छत्व-मध्य- कायत्वे खीक्रियेते। एतेन-आनन्द्मयस्य ब्रह्मत्वेऽपि तस्यैवाकारभेदेनावय वित्व- मवयवत्वं चोपपद्यते, कथमेकस्य ब्रह्मण: पुच्छत्व-मध्यकायत्वे ? इति पर्यनुयोगे भवतामप्येवमेव वक्तव्यत्वादिति-परास्तम्; आकार- भेदस्य विवक्षणीयस्येदन्तयाऽत्र प्रकरणे बोघनाभावात्, पुच्छपदेना- घारस्यैव पुच्छब्रह्मवाक्ये विवक्षणेनावयवावयविभावस्यास्मन्मतेऽि- वक्षणात्, शिरःपक्षादिपदानां तु प्रियादीनामवयवत्वकल्पनाया अनौ- चित्याभावेन तेषां यथाश्रुतार्थत्वेऽपि ब्रह्मण आनन्दमयावयवत्वकल्प- नाया असंभवेन पुच्छपद्मात्रस्यैवाधारलक्षणत्वस्य स्वीकरसंभवात, उपासनार्थतया स्वस्यैव स्ावयवत्वकल्पनं हि ब्रह्मण उपास्यतयैव प्रकान्तत्व एव संभवति, नतु ज्ञेयत्वेन प्रक्रान्तत्वे, इति "ब्रह्मवि- दामोति परमि"त्यत्र वेद्यतया प्रक्रान्तस्य ब्रह्मण उपास्यतयोपसंहा- रानुपपस्थापि न स्वस्यैव स्ावयवत्वकल्पनं संभवति; ब्रह्मप्राधान्य- भङ्गापत्ते: । यथाच "प्रियशिरस्त्वाद्यप्रासतिरुपचयापचयौ हि भेदे" इति सूत्रस्य प्रियशिरस्त्वादीनां नानन्द्मयावयवत्वेनाप्युपास्थतापां तात्पर्यम्, तथा तत्रैवाकरे व्यक्तम्। अस्तुवा प्रिंयशिरस्त्वादीनामान- न्दमयावयवत्वेनोपास्यता, पुच्छब्रत्मावयवकत्वेनोपास्यता तुन विव-

Page 22

१२ श्रीभाष्य समालोचनम्

क्षिता। पुच्छव्रह्मोपदेशार्थ प्रवृत्तेनान्नमयादिपर्यायेण शिरःपक्षपुच्छा- वयवकत्वेनोपासनासमर्पणेऽप्यानन्द्मयपर्याये पुच्छतया निर्दिष्टस्या- नन्द्मया घिष्ठानत्वेन तदपेक्षयापि प्रधानत्वेनाप्राधान्यप्रयोजकावयव- त्वकल्पनाया अयोगेन तदितरावयवकत्वेनानन्दमयोपास्यता, पुच्छ- ब्रह्मणस्तु प्राधाम्येन ज्ञेयतैवेत्येव तात्पर्यमत्रोहनीयम्। तत्र प्रक्रान्त- शैल्यपरित्यागेन ब्रह्मोपदेशार्थमेव पुच्छपदेनाघिष्ठानस्य ब्रह्मणोऽत्र विवक्षेति तु निष्कर्षः । सति चैवम्-"तस्माद्वा एतस्मादात्मन आकाशः संभूतः" इति वाक्यप्रतिपाथं कारणत्वं ब्रह्मण: कार्य-करणविशिष्टजीवाघिष्ठा- नत्वमात्रम्, नतु कुलाला दिवत् केवल निमित्तकारणत्वम्, नवा मृदा- दिवत्पणिाम्युपादानत्वं वेति सूचनमर्थसिद्धं भवति। अधिष्ठानत्वं च ब्रह्मणः सद्रूपेण चिद्रूपेण च ज्ञातस्याप्यानन्दरूपेणाज्ञानादेव भवति, ततश्वानन्दात्मनाऽज्ञातं ब्रल्मैवानन्दमयः, तद्रूपेण ज्ञातं तु ब्रह्मैव निर्गुणं परमार्थतः सर्वप्रपश्चासंबन्धम्, इत्यानन्दात्मनाऽज्ञात- मविद्योपहितं ब्रह्म कारणम्, तदेव विद्योपहितं सदेव प्राप्यं भवति, इति प्राप्यं ब्रह्म विधोपहितमेव, नाविद्योपहितम्, इत्यविद्यासा- धारण्येन सर्वस्य ब्रह्मणि कल्पितत्वेन ब्रह्मेतरसर्वमिथ्यात्वसूचन- मप्यनेन प्रकरणेन क्रियते। सति चैवं ज्ञेयं प्राप्यं च ब्रह्मैबोपसंहियते, इत्युपक्रमोपसंहा- रैकरूप्यमपि सिद्धं भवति। इदं चोपक्रमोपसंहारैकरूप्यमानन्दमये वोत पुच्छब्रह्मणि वेति संदेहस्तु तात्पर्यग्राहकप्रमाणान्तराभ्यास- स्यापि समालोचनेनैव निवर्तनीयो भवति, नान्यथेति मनसि निधा- यैव-"आनन्द्मयोऽभ्यासात्" इत्यभ्यासहेतुनिर्देशः। अनेन च ब्रह्मशब्दाभ्यासस्यैवोपरि दर्शनादानन्दमयाभ्यासादर्शनाच्च पुच्छं ब्रह्मैव तात्पर्यविषय इति ज्ञायत इति सिद्ध्यति। ब्रह्मण एवाव- यवत्वकल्पनापक्षे तु "व्रह्मविदानोति परमि"तिप्रकान्तं ब्रह्म

Page 23

श्रीभाष्य समालोचनम् १३

प्रियशिरस्त्वादिविशिष्टमेव ज्ञेयं प्राप्यं चेति विवक्षणीयम्। यथाच ब्रह्मप्राप्तिसाघने ज्ञाने भासमानमुपास्यं वा ब्रह्म न प्रियशिरस्त्वा- दिविशिष्टम्, तस्यानन्दादेरिव ज्ञेयव्रह्मासाघारण्याभावात्, तथा "प्रियशिरस्त्वाद्यप्राप्तिरपचयापचयौ हि भेदे" इति सूत्रत एव व्य- क्तम्, इति कथमत्रोपक्मोसंहारैकरूव्यमपि ? केवलब्रह्मण उपक्रमः, प्रियशिरस्त्वादिविशिष्टस्योपसंहार इति तयोवैरूप्यात्। अस्मन्मते तु ज्ञेयं ब्रह्म यत् प्रक्रान्तं गुहानिहिताभिन्नतया सर्वकारणतया च, तदेव तस्य कारणत्वमविद्योपहितत्वेन, स्वरूपतश्च ज्ञेयत्वं प्राप्यत्वं च, अविद्यादिस्थूलशरीरान्तं तु कोश इति च झ्ञापयति, इति न कोऽपि विरोध: । एतेन-कल्पितशिरस्त्वा दिविशिष्टपरत्वमेव पर्यायान्तरातु- गुणमास्थेयमिति ब्रह्मणोऽपि पुच्छत्वकल्पनं दुस्त्यजम्; अन्यथा रूपकप्रकरणविच्छेदादिति शङ्कापि-परास्ता; भूमविद्यायां "एष तु वा अतिवद्ति" इति भूयःपश्नशैलीपरित्यागेन शैल्यन्तराव- लम्बनस्यापि दर्शनेन शैल्यैकरूप्यनियमाभावात्, सस्यैव स्ावयव- त्वकल्पनस्य निष्प्रयोजनत्वात्, प्रकरणस्यास्य निर्विशेषब्रह्मप्रतिप- न्यर्थत्वेनोपास्यसगुणविषयत्वायोगाच्च। यथाचास्य प्रकरणस्य निर्वि- शेषपरत्वभेव, तथा यथावसरं विवेचयिष्यते। एतेन-प्रकरणस्य निर्विशेषपरत्वं तु परस्ताद्विस्तरेण दूषयिष्यत इति-परास्तम् ; तत्रैव प्रकरणे . तस्य सविस्तरं व्यवस्थापयिष्यमाणत्वात्। अयं भाव :- आनन्दमयपदेन ब्रह्मविवक्षणे किं ब्रह्म प्रिय- शिरस्त्वादिशिष्टमेव विवक्षणीयम् ? उत प्रकृतानन्दमयोपसनामात्रं तत् तादृशं विवक्षणीयम्। आध्ये-"प्रियशिरस्त्वाद्यप्ाप्तिरि"ति सूत्रविरोधः, द्वितीये ब्रह्मवल्ली-भृगुवल्योभिन्नार्थकत्वापत्ति :; तत्तदवयव विशिष्टतया भृगुवल्ल्याम्-"अन्नं ब्रह्मेति व्व्यजानात्" इत्यादावन्नादीनामनुपदेशात्। तथाचावचनसिद्धमिदम्-यत् "तस्य

Page 24

१४ श्रीभाष्य समालोचनम्ं

प्रियमेव शिरः" इत्यादिसंदर्भस्यावयवकल्पनापरत्वस्याप्यनङ्गीकारे निरर्थकतैव स्यादि"ति शङ्कापि निरवसरैवैति; तत्सार्थक्यस्य कथमपि समर्थयितुमशक्यत्वात्, केवलब्रह्मशव्देन प्रक्रमस्य केवल- ब्रह्मशब्देनैवोपसंहार एवोचितत्वेन पुच्छब्रह्मवाक्यस्यैवोपसंहारत्वौ- चित्याच। एतेन-आनन्द्मयपर्याये ब्रह्मशब्देन समापनस्य "ब्रह्म- विदान्नोति परमि" त्युपकान्तस्यानन्दमय उपसंहार इति ज्ञापनार्थ- तथाऽन्यथासिद्धत्वाच्चेति शङ्कापि-परास्ता; "ब्रह्मविदानोति परम्" इति प्रक्रान्तं प्रियशिरस्त्वादिविशिष्टमेवेति कल्पनाया अयोगेन तत्र तत्समापनस्यासंभवात, पुच्छवाक्य एव तत्समापनस्य पूर्वोक्तरीत्यौचित्याच। अत एव-"असन्नेव स भवति" इति वाक्यशेषोऽपि ब्रह्मशब्दघटित एव दृश्यते, नानन्दमयशब्दघटितः । न ह्यानन्द्मये प्रियशिरस्त्वादिविशिष्टे सत्त्वासत्वसंदेहोऽपि सावसर :; तस्य वाङ्मनसागोचरत्वायोगात्। अधिष्ठानमात्रस्य तु ज्ञेयस्य प्राप्यस्य वा निर्विशेषस्य तु वाङ्मनसागोचरत्वेन सत्त्वासत्त्वशङ्का सावसरैव। अतो निगमनइलोकसङ्गत्यर्थमपि पुच्छव्रह्मप्राधान्यवाद एव समादरणीय: ।

एतेन-पर्यायान्तरश्लोकानां नियमेन पुच्छवद्विषयत्वदर्शनेनास्यापि तद्विपयत्व आवश्यके आनन्दमयस्य च पूर्वोक्तहेतुभिर्श्रह्मत्वनिश्चय आन- न्दमयात्मश्रह्मादिशव्देष्वन्यतमेन निर्देशे बाघकाभावेन ब्रह्मशब्देन निर्देशस्यानन्दमयप्राधान्यविवक्षाविरोधित्वाभाव इति शङ्कापि न सावस- रेति-सूचितम्।

न हि कस्यापि पर्यायस्य पुच्छवद्विषयकत्वं दृष्टम्; अन्नमय- पर्यायश्लोको हि-"अन्नाद्वै प्रजाः प्रजायन्ते" इत्यन्नमयकारण- मात्रमेवोपश्लोकयति। एतेन-प्राणमय-मनोमय-विज्ञानमयइलोका अपि-व्याख्याता:, तेषामपि क्रमेण "प्राणं देवा अनुप्राणन्ति" "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" "विज्ञानं यज्ञं तनुते".

Page 25

श्रीभाष्य समालोचनम् १५

इति श्लोकेषु मयद् मकृत्यर्थप्राण-मनो-विषयत्वस्यैव दर्शनात्। सति चैवमानन्द्मयपर्यायेऽपि मयद्प्रकृत्यर्थस्यानन्दस्यैव ब्रह्मरूपस्य निग- मनश्लोकप्रतिपाद्यत्वमावश्यकं पर्यायान्तरानुगुण्यार्थम्, नत्वानन्दम वविषयकत्वम्, इति पर्यायाणां पुच्छ-तत्कारणविषयकत्वनियम एव श्रुत्याऽवगम्पते, नतु पुच्छवद्विषयकत्वम् इति निर्मूलमनुपपन्नं च पर्यायाणां पुच्छवद्विषयकत्वदर्शनम्। तथाच नानन्दमयस्य ब्रह्मत्व- निश्चयः । अयं भाव :- "यो वेद निहितं गुहायामि"ति गुहानिहिता- भिन्नत्वेन ब्रह्म प्रस्तुतम्; गुहानिहितं च जीवस्वरूपं शरीराद्यात्मवादेन शरीररूपं प्राणरूपं मनोरुपं विज्ञानरूपं कारणशरीररपं चेति जाग्र- तसप्न-सुषुप्त्यवस्थात्रयपर्यालोचनेन ज्ञायते। जाग्रदाद्यवस्थासु शरी- रादितादात्म्यापन्नतया प्रतीयमानं जीवसरूपमघिष्ठानभूतचैतन्यख- रूपमात्रं गृहोत्वा जीवाभिन्नम्, शरीरादिरूपं शरीरादिविशिष्टचै- तन्यस्वरूपं वा गृहीत्वा तु जीवभिन्नम्। तथाच शरीरादिविशिष्टाद् भिन्नमपि ब्रह्म सर्वाधिष्ठानसर्वान्तरचैतन्यसवरूपमात्रद्ट ट्या तु गुहा- निहिताभिन्नमेवेति निरूपणार्थमेवान्नमयादिपर्यायाणां तद्ुत्तरस- न्दर्भाणां च प्रवृत्तिः। तथाच प्रतीयमानभेदानुवादपूर्वकमभेदोपदे- शार्थमेव ब्रह्मवल्ल्या: प्रवृत्तत्वाद् अन्नमयादिपदैरिवानन्दमयपदेना- प्यज्ञानरूपकारणशरीरोपहित: सुषुप्त्यवस्थापन्नो जीव एव विवक्ष्यते। अयं च जीवो यद्यपि जाग्रदाय्यवस्थोपहित जीवाद भिन्न एव; अव- स्थाभेदेऽपि स्वरूपाभेदात्, तथाप्यवस्थाविशेषमादाय भिन्नोऽपि। तथाचान्नमय-प्राणमय-मनोमय-विज्ञानमयपदे रिवानन्दमयपदेनापिजी- वस्यैव विवक्षणेऽपि विज्ञानमयादिपद्प्रतिपाद्याद् जीवादानन्द्मयस्य भेदेऽपि च गुहानिहिताभिन्नं श्ञेयं ब्रह्म नानन्द्मयपदार्थ:, किन्तु- पुच्छवाक्यार्थ एव। एतेन-सांक्षादेव स्वशब्देनानन्दमयस्य जीवाद् मेदो व्यपदिश्यते-,

Page 26

१६ श्रीभाष्य समालोचनम्

"विज्ञानमयादन्योऽन्तर आत्माऽऽनन्दयः" इति। अत्र विज्ञानमय इति 'जीव उच्यते, न बुद्धिः, बुद्धिप्राचुर्यस्य बुद्धिविकारत्वस्य वा बुद्धाव- संभवेन तस्य तत्परत्वायोगात्। अतः प्राचुर्यार्थो मयद्, इति विज्ञान- प्रचुरो जीव एव विज्ञानमयः । तस्य बुद्धिपरत्वे प्रत्ययनिरर्थकता, न्यायविरोधश्चेत्यादि-व्याख्यातम् ; बुद्ध्युपाधिकस्य स्वप्नावस्था- पन्नस्य जीवस्यैव विज्ञानमयपदार्थत्वम्, नतु बद्धिमात्रस्येत्येवाद्वैतिभि- रपि स्वीकारेण विज्ञानमयाद् भेदनिर्देशस्यानन्दमयपरमात्मतासाधकत्वा संभवात्।

अन्यथा-अन्नमयादिवाक्यैरपि जाग्रदाथवस्थापन्नजीवस्यैव विवक्षणात् ततो भेदेन निर्देशेन प्राणमयादिरपि परमात्मा स्यात। अधिकं वेदान्तसारादौ व्यक्तम्। सति चैवमानन्दमयजीवत्वे न कोऽपि विरोध :; "भीषाऽस्मादू वातः पवते' इत्यादिसन्दर्भाणां सर्वेषां पूर्वोक्तरीत्या पुच्छब्रह्मपरत्वस्यैव स्वीकारेण कस्यापि बाधक- स्यात्रासंभवात्। एतेन-"भीषाऽस्माद्वातः पवते" इत्यादिना वातादित्यादिजीववर्गस्य शासनीयत्वमाकाशकारणत्वादिना पूर्वप्रस्तुतस्येदंपदबोध्यस्य तच्छास कत्वं च प्रतिपाद्यते, इति शासनीयात् जीवात् शासिताऽडनन्दमयोऽन्य एवेत्याद्यपि-व्याख्यातम् ; दत्तोत्तरत्वात्। अयमत्र सूत्रार्थ :- (आनन्द्मयोऽभ्यासात्) आनन्दमयपदे- नानन्द्मयपर्यायो विवक्ष्यते, वाक्यानां ब्रह्मणि समन्वयनिरूपणपरेषु प्रथमाध्यायप्रथम-द्वितीय-तृतीयपादेषु पदमात्रार्थ निर्णयस्यानपेक्षत्वात्। "अन्तस्तंद्र्मोपदेशात्" "आकाशस्तह्लिङ्गात," अत एव प्राणः," "ज्यो तिश्चरणाभिधानात्," "प्राणस्तथानुगमात्" इत्यादावपि तत्तच्छब्द्घटितं वाक्यमेव विषय:, पद्मान्नश्रवणेन संशयाप्रसरात्। यत्र त्वानुमानिकाधिकरणादिषु पदार्थनिर्णयो विवक्षितः, तत्र पद्मात्रदर्शनेन तत्तन्मता भिमतार्थवद् मतान्तराभिमतार्थान्तरप्रती- तेरविशेषात् भवति संदेहः। यथा-"महतः परंमव्यक्तमि"

Page 27

श्रीभाष्य समालोचनम् १७

त्यत्राव्यक्तपद्मात्रेण साङ्ख्याभिमतप्रधानाव्वैताभिमताविद्ययोः प्रतीतिः, ""अजामेकामि" त्यत्राजाशब्देनापि तयोरेव प्रतीतिः, पश्चपञ्चजनपदेन मतदयाभिमतयोरर्थयो: प्रतीतिः, कर्मशब्देन पुण्य- पापादिकर्मणः, परिस्पन्दादिलक्षणकर्मणश्च प्रतीतिः, आत्मपदेन जीवात्म-परमात्मनोरुभयोरपि प्रतीतिः; प्रकृते तु नानन्दमयपद्- श्रवणमात्रेण जीव-परमात्मनोरुभयोरपि प्रतीतिः, विकारार्थत्वे मयटो जीवस्यैव, प्राचुर्यार्थत्वे च प्रतीतिः, न ब्रह्मणः, इति किं जीव एव प्राधान्येन प्रतिपाध:, उत स एव ब्रह्माघिष्ठेयतयाऽप्रा- धान्येन प्रतिपाद्य इति जीवस्यानन्दमयपदार्थस्यैवाप्राधान्येन प्रतिपा- धत्वम्, उत प्राधान्येन प्रतिपाद्यत्वमित्येव भवति संशयः । तत्र प्राधान्येन प्रतिपाद्यत्वेन पूर्वपक्षः, अप्राधान्येन प्रतिपाद्यत्वे पुच्छ- ब्रह्मण एव प्राधान्यस्य विवक्षणात् सिद्धान्तः । अत्र च मोमांसका एव पूर्वपक्षिणः, जीवातिरेकेण कारणस्येश्वरस्यानङ्गीकारात्, वृत्तिकारादय: सिद्धान्तिनः । यदि प्राधान्येन प्रतिपाद्य आनन्द- मयो विवक्ष्यते, तर्हि परमात्माऽऽनन्दमय इति वादिनो वृत्तिका- रादय: पूर्वपक्षिणः, अप्राधान्येन प्रतिपाद्यत्वे तु आनन्दमयाधिष्ठा- नपुच्छब्रह्मप्राधान्यस्य विवक्षणाद्द्वैतिन: सिद्धान्तिन: ॥ तथाच-आनन्दमयः प्राधान्येन प्रतिपाद्य :; अभ्यस्यमानान- न्दवत्वात्, निगमनश्लोकादिप्रतिपाद्यत्वाद्वा, इति पूर्वपक्षरीत्या सुत्रयोजना, आनन्दमयः, पुच्छब्रह्माघिष्ठेयतयाऽप्राधान्येनानन्दमय- पर्यायप्रतिपाद्यः, अभ्यस्यमानव्रह्मशब्दादिघटितवाक्यशेषाविषय- त्वात, अथवा पुच्छं ब्रह्म, प्राधान्येन प्रतिपाद्यम्; अभ्यस्यमानत्वात्; अभ्यस्यमानस्यैव हि तात्पर्यविषयत्वेन प्राघान्येन प्रतिपाद्यत्वम्, नानभ्यस्यमानस्य। आनन्दमयपर्यायवाक्यशेषेषु-'असन्नेव सभवति असद् ब्र्मेति वेद चेत्, 'रसो वै सः,यदेष आकांश आनन्दो न स्यात्' इत्यादिषु ब्रह्मण एव समाकर्षो दृश्यते, न त्वानन्द्मयपद्स्य। अभ्याः ३

Page 28

१८. श्रीभाष्य समालोचनम्

सो नामानन्यपरपुन:श्रवणमेव। यथा 'अहो रमणीया अहो रम- णीया' "तत्त्वमसि तत्त्वमसी"त्यादिपुनःश्रवणम्। न हात्र वाक्येशेषेषु कुत्राप्यानन्दमयस्य पुनः श्रवणम्, यत्र पुनः श्रवणम्-"आनन्द- मयमात्मानमुगर्सक्रामती"ति, तदपि गतिसापेक्षपाप्िरानन्दमयप- र्यन्तस्येति सूचनार्थमेव, नतु प्राधान्येन स्वस्वरूपप्रतिपादनार्थम्। तथाचाभ्यासादिति सौत्रहेतोः स्वरसं योजनं सिद्धान्त एव भवति, न पूर्वपक्षे। तत्र हि-अभ्यस्यमानानन्दवत्वात् इति अभ्यासा- दित्यस्यैव लक्षणयारऽर्थान्तरपरत्वं स्वीक्रियते। एतेन-अभ्यासशब्दः कर्मणि घनन्तः। आनन्दमयपदे प्रकृत्युपस्थापितत्वेन वुद्धिस्थ आनन्दो विशेष्यम्। नेतर इत्या- कृष्यते। तथाचानन्दमयपद्वाच्यो न जीवः, अपितु परमात्मा, वाङ्मनसागोचरत्वेनाभ्यस्यमानानन्दाश्रयत्वादिति प्रकृतसूत्रयो- जनम्-परास्तम्; अभ्यासात् इति सौत्रपदस्यानन्दपदसापेक्ष- स्यैव हेतुसमर्पकत्वस्वीकारेण न्यायपरे सूत्रे न्यायस्यैव परिपूर्णम्या- विवक्षणेन च सूत्रकाराणां न्यायनिर्देशेऽप्यनैपुण्यव्यवस्थापनेन सूत्राशयान्यथाकरणेन स्वकपोलकल्पितार्थमादाय सूत्रस्य योज- नात्, स्वयमानन्द्मयस्यानभ्यस्यमानत्वात्। यथाच ब्रह्मरूपस्या- नन्दस्यैव "यतो वाचो निवर्तन्ते" इति द्विरभ्यासः, नतु ब्रह्मधर्म- स्यानन्दस्य, तथा पूर्वमेव विवेचितम् ; "उदरमन्तरं कुरुते" इत्या- दीनामन्यथाऽनुपपत्तेः । तथाच वाङ्मनसागोचरत्वेनाभ्यस्यमाना- नन्दाश्रयत्वमप्यसिद्धमेव। नहि शतगुणितप्रजापत्यानन्दो ब्रह्मधर्म आनन्दो वाङ्मनसागोचर :; तदियत्ताया: श्रुत्यैवावधारितत्वात। वस्तुतस्तु-शतगुणप्रजापत्यानन्दाश्रयत्वं सगुणव्रह्मण इव जीवस्याप्यविशिष्टमेव; "श्रोत्रियस्य धाकामहृतस्ये"ति प्रजापत्या- नन्दात् 'शतगुणस्यानन्दस्याकामहतश्रोत्रियजीवसाधारण्यस्य तत्रैव प्रतिपादनात्। तथाच-वाड्मनसागोचरत्वेनाम्थस्यमानानन्दा-

Page 29

श्रीभाष्य समालोचनम् १६

श्रयत्वस्य जीवेऽपि सत्वेन व्यभिचरितोऽप्ययं हेतुः। एतेन-न जीव इत्यपि प्रत्युक्तम् ; आनन्दमयो जीव:, वाङ्मनसागोचरत्वे- नाभ्यस्यमानानन्दाश्रयत्वात, इति सूत्रास्यानन्दमयजीवतापक्षे- णापि योजनासंभवात्। तथाच विरुद्धोऽप्ययं हेतुर्भवदभिमतयोज- नाविवक्षणे। यदा तु "नेतरः" इत्यनुकर्षेण काकाक्षिन्यायेन नञू- योजनया च सृत्रयोजना, तदा-आनन्दमयो न ब्रह्म, अनभ्या- सात्, इति सत्प्रतिपक्षोऽपि भवति। एतेन-बाघोऽपि-व्या- ख्यात :; विकारस्य प्राचुर्यस्य वा मयडर्थत्वे पूर्वोक्तरीत्याऽऽन्दम- यस्य ब्रह्मत्वासंभवात्। सर्वथा तु-"आनन्दमयोऽभ्यासादि"ति सृत्रमानन्दमयाब्रह्मतायामेवानुकुलम्, नतु तद्ब्रह्मतायाम्। "ब्रह्मविदापोति परमि"ति प्रस्तुतं व्रम्मैव हि प्राधान्येनात्र प्रतिपाद्म्। तब्व तत्रैव वाक्ये प्राघान्येन प्रतिपाध्म्, यत्र ब्रह्मशब्देनोपसंहियते। स च "ब्रह्म पुच्छं प्रतिष्ठे"ति वाक्य एव वर्तते, नत्वानन्दमयवाक्ये। वाक्यशेषा अपि ब्रह्मशब्दमुखेन रसानन्दादिशब्दमुखेनैव वा ब्रह्मस्वरूपं प्रतिपादं विधृण्वन्ति, न त्वानन्द्मयशब्देन, इति कथमानन्द्मयः प्राधान्येन प्रतिपाधं ब्रह्म? अत्र सूत्रे-आनन्द्मयपक्षकः, तत्पर्यायगतपुच्छब्रह्मपक्षकश् द्वौ न्यायौ विवक्षितौ। तत्र प्रथमन्याये "ईक्षतेर्नाशब्दम्" इत्यतो नञनुकर्षणेन-आनन्दमयो न ब्रह्म, अनभ्यासादिति योजना। द्वितीये तु पुच्छं ब्रह्मैव जिज्ञास्यम्, अभ्यस्यमान- त्वादू इति योजना, इति योजनाद्वयमावश्यकं मत्वैव ब्रह्मपुच्छ- मभ्यासादिति वक्तव्ये "आनन्दमयोऽभ्यासादि"ति सृत्रणम्। "अपराण्यपि सूत्राणि यथासंभवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपाद्कानि द्रष्टव्यानी"ति वदन्तः प्रथमसूत्रस्वारस्यमद्वैतमत एघ, न मतान्तरे, द्वितीयसूत्रे विकारादिशव्देन कस्य ग्रहणमिति शङकायां पुच्छादिपदेनेत्यादि विवरणमूहनीयम् ; स्फुटत्वादिति न

Page 30

२० श्रीभाष्य समालोचनम्

विवरणापेक्षेत्येव भाष्यकारा मन्यन्ते, नतु सुघ्राणां प्रतीयमाना- र्थविरोधेनान्यार्थतया विवरणं यथासम्भवं स्वयमूहनीयं मन्यन्ते। सन्दिग्घवेदान्तवाक्यकुसुमग्रथनार्थत्वात् सृत्राणां तत्तत्सूत्रवि- वरणावसरे सन्दिग्धान्येव तत्तत्सूत्रसम्बम्धयोग्यानि वाक्यानि ग्राह्याणीत्येवाभिप्नायो भाष्यकाराणाम्, नतु सूत्राशयविरोधेनापि सूत्राणामन्यथा योजनं कर्तव्यमिति। "लोके येष्वर्थेषु यानि पदानि प्रसिद्धानि, तानि सति संभवे तदर्थान्येव सूत्रेष्ववगन्तव्यानि, नाध्याहारादिभिरेषामर्थः परिकल्पनीयः, परिभाषितव्यो वे"ति वदन्तः शबरस्वामिनोऽपि यदि प्रतोयमानार्थग्रहणमसंभवि, तर्हि प्रतीयमानार्थस्य परित्यागे- नापि अध्याहारादिभिरर्थान्तपरपरिकल्पनमावश्यकं मन्यन्ते । तथाचानन्दमयपदे पक्षनिर्देशकेव्यथानयनं मतद्वयेऽपि समानमेव ; पर्यायविवक्षाया आवश्यकत्वात्। अभ्यासादितिहेतोरन्यथा नयनं तु अनावश्यकमयोग्यं च पूर्वोक्तरीत्या, इति न कुश्रापि भगवत्पादा: श्रीभाष्यकारादय इव यथेच्छमध्याहारादिना सृत्राणि योजयन्ति। एतेन-"सूत्राणि त्वेवं व्याख्येयानि" इति वदद्भिः श्रीशङ्कराचायेः- "वे दान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणामि'ति स्वोक्तिरपि स्वप्रज्ञामात्र- परिकल्पतसिद्धान्तविशेषपरिरक्षणाय विस्मृता" इत्यादि-परास्तम् ; पूर्वोक्तरीत्या सूत्राणां भगवत्पादसंमतयोजनाया एव सांप्रतत्वात्। अत्र हि प्रकरणेऽन्नमयादिपर्यायेषु श्लोकेषु अन्नादिषु ब्रत्मो- पासनाविधाने तात्पर्यम्-'येऽन्नं ब्रह्मोपासते, ये प्राणं ब्रम्मोपासते; विज्ञानं देवा: सर्वे कर्म ज्येष्ठमुपासते' इत्यादिवाक्यैर्थथावगम्यते, न तथाऽड़नन्द्मयपर्यायश्लोक आनन्दस्य ब्रह्मरूपेणोपास्यता प्रतीयते। केवल ब्रह्मज्ञानमेव तु संपादनीयं प्रतीयते। यथाच मनोमयपर्यायइलोक- स्थापि मनोव्रह्मोपासनापरत्वम्, तथाऽन्यत्र व्यक्तम्। अतः कार- णादवगम्यते-नानन्दमयपर्यायोऽपि पर्यायान्तर मिवोपास्यखरूप-

Page 31

श्रीभाष्य समालोचनम् २१

समपणार्थ प्रवृत्त:, किन्तु ज्ञेयखवरूपसमर्पणार्थमेव, इति पुच्छवाक्ये प्रकरणोपसंहारकल्पनमेव युक्तम्, न त्वानन्दमयवाक्ये।. अत एव भृगुवल्यामपि-"आनन्दो व्रह्मेति व्यजानात्" इति मयट् परित्यागेनानन्दपद्मात्रस्य प्रयोग उपपथते। अनेन चानन्द- रूपेणाज्ञानं संसार निमित्तम्, तद्रूपेण ब्रह्मणों ज्ञानमेव मुक्तिसाघन- मित्यपि ज्ञाप्यते, इति प्रियशिरस्त्वा दिविशिष्टानन्द्मयोपासनमेव मोक्षसाधनमिति वादो निर्मल एव। तदेवं वस्तुगतिमनुसृत्य सर्वेषां पर्यायाणां पुच्छवद्विषयकत्वनियमो व्याहत इति प्रति- पादितम्। अस्तु वा पर्यायाणां कोषांचन पुच्छवद्विषयकत्वं तुष्यतुदुर्जन- न्यायेन, तथापि नेदं नियतम्, किंत्वौत्सर्गिकमात्रम् ; मनोमय- पर्यायस्य पुच्छवद्विषयकत्वात्। नहि अत्र मनसो ब्रह्मज्ञानसाधन- त्वेन स्तूयमानस्य ब्रह्मरूपेणोपदेशोऽपि प्राणादिविज्ञानानामिव दृश्यते, इति निगमश्लोकस्यावयविप्रकृत्यर्थव्रह्मोपासनापरत्व- नियमो मनोयपर्याये व्यभिचरत्येव। एतेन-मनोमयपर्यायइलोकस्यापि साक्षादेव पुच्छवद्दिषय- कत्वसच्वेन तादृशनियमोपपत्तिरिति-परास्तम्; यथाकथंचिन्मनो- मयपरामर्शमात्रविविक्षायां तु-"असन्नेव स भवति" इति निग- मनइलोकेऽपि स इति तच्छव्देनानन्दमयपरामर्शसंभवात् साक्षात् पु- च्छवद्विषयकत्वमानन्द्मयपर्याय एव संभवति, न पर्यायान्तरेषु; तेषां कारणपरामर्श विघयैव पुच्छयद्विषयकत्वेन साक्षात् पुच्छवद्िष- यकत्वादर्शनात्। यथाच मनोमयपर्याये-"यतो वाचो निवर्तन्ते। अप्राप्य मनसा सहे"ति पूर्वभागेन मनसो ब्रह्मण्यपवृत्तिप्रतिपादनेन निन्दायामपि-'विद्ानि'त्यनेन विशुद्धेन मनसेतिपदाध्याहारेण मनसः प्रशंसोत्तरवाक्येनावगम्यते, एक्मानन्द्मथपर्यायइ्लोकेऽपि "असन्नेव स. भवति" इति पूर्वभागेनानन्दमयस्य निन्दायामपि

Page 32

२२ श्रीभाष्य समालोचनम्

"सन्तमेनं ततो विद्दुरि"ति पाश्चात्यभागेनानन्दमयस्यैव साक्षात् प्रशंसाडवगम्यते, इति सर्वात्मना साम्यं मनोमयपर्यायइ्लोकेनानन्द- मयपर्यायइलोकस्य।

विधं प्रतिपाद्यत्वम् ; "असन्नेव स भवती"ति तस्य निन्दाया एव प्रतीते:, उपक्रमे निन्दाप्रतीत्या "सन्तमेनं ततो विद्दुरि"ति प्रशं- साया अकिश्चत्करत्वादित्यादि-परास्तम् ; मनोमयपर्यायश्लो- कस्यापि पूर्वोक्तपरकारेणोपक्रमे मनोनिन्दापूर्वकं परवृत्तस्य मनोमय- प्रशंसापरत्वानापत्या तत्पर्यायइलोकस्यापि पुच्छवद्विषयकत्वासंभ- वात इलोकस्य पुच्छवद्दिषयकत्वं हि न नियतम् ; मनोमये व्य- भिचारात्। तथाच मनोमयपर्यायइलोको यदि मनोमयप्रशंसा- पर्यवसानेन पुच्छवद्विषयकः, तर्थानन्दमयश्लोकोऽपि तादृश इति न कोऽपि विशेष: । एतेन-आनन्दमयप्रशंसाया असिद्तया विज्ञानमयपरा- मर्शित्वमेव तच्छब्दस्य, नानन्दमयपरामर्शित्वम्; विज्ञानमयस्य पा- पप्रहाणपूर्वकसवंकामावासतिरूपमोक्षफल साधनवेद न विषयताश्रवणाच्च जीवपरताया अविचाल्यत्वादिति शङ्कापि-परास्ता; पूर्वप्रस्तुता- नन्द्मयपरामर्शित्वे संभवति व्यवहित विज्ञानमयपरामर्शित्वासंभ- बात्, चेच्छन्द्घटितावान्तरवाक्ये श्रुतस्यैव कर्तुमुख्यवाक्यार्थेऽन्व- घस् रामो लङ्गां तरति चेतू, रावणं हनिष्यतीत्यादौ दर्शनेन प्रथमस्यैव

इयमेव गतिरानन्दमयव्रह्मतावादिमतेऽपि, यत्र स इत्यनेन विज्ञान- मयस्यैव परामर्शः, तत्राप्यवलम्बनीया। तथाच निगमनइलोकस्य पुच्छब्रह्मवादेऽपि पुच्छवद्वयविविषयत्वं न दुर्लभम्। तदेवमानन्दमयस्यैव इलोकविषयत्वमभ्युपगम्य पुच्छब्रह्म- बाद: प्रतिष्ठापितः। वस्तुतस्तु-नानन्द्मयस्य पूर्वोक्तरीत्या श्लोक-

Page 33

श्रीभाष्य समालोचनम् २३

प्रतिपाधत्वम् ; पुच्छब्रह्मण एव तत्वात्। तथाच श्लोकाप्रति- पाद्यत्वात् नानन्द्मयप्राधान्यमपि संभर्वात; अवयवस्य पक्ष- शिरआदेः तदपतिपाद्यस्याप्रधानत्वात्।

इलोकानां नियतम्, नत्ववयविवाचकशब्दघटितत्वमिति वादो- Sपि-परास्तः; अन्नमयादिशलोकानां केषामप्यवयविस्तुतिपर्य- वसाय्यवयवविषयत्वाभावेन व्यभिचारात्, न ह्यन्न-प्राण-मनो- विज्ञानानामन्नमयाद्यवयवत्वं संभवति ; अन्नादीमन्नमयादिशिर :- पक्षादिरूपत्वाभावात्। तथाचानन्दमयस्य कथमपि इलोकप्रतिपा- दत्वाभावाद् न प्रधानत्वम्। यदि सम्बन्धिस्तुतेः सम्बन्ध्यन्तरस्तुतौ पर्यवसानात् "आपो वै शान्ताः" इति वाक्यस्येवान्नादिस्तुतेर- न्नमयादिस्तुतौ पर्यवसानमिति मन्यते, तहि ब्रह्मण्यध्यस्तत्वेनानन्द- मयस्तुतिरपि न दुष्टा; परंतु कार्य-कारणयोरारोप्याधिष्ठानयोर्वा कारणाधिष्ठानयोरेव प्राधान्यात् पुच्छब्रह्मप्ाधान्येनैव श्लोकपर्यव- सानमूरीकर्तव्यम्, नत्वानन्दमयप्राधान्येन। तथाचानन्दमयस्य ब्रह्म- कार्यस्याब्रह्मत्वादू ब्रह्मविद्याया: प्रक्रान्ताया नानन्दमये पर्यवासनम्, इति नानन्दमयस्य इलोकप्रतिपाद्यत्वम्। अन्नमयादौ तु ब्रह्म- विद्याया अपर्यवसानादू अवान्तरतात्पर्यमादायावान्तरप्राधान्यस्यैव विवक्षणीयत्वात् तत्पर्यायश्लोकानामवान्तरतात्पर्यविधया तत्प्रति- पाद्कत्वादवान्तरप्राधान्येऽपि न दोषः। तथाच-आनन्द्मयस्य मुख्यप्राधान्याभावे श्लोकमुख्यतात्पर्यविषयत्वाभावस्यैव हेतुत- याऽत्र विवक्षणाद् मनोमयादौ हेतु-साध्ययोरुभयोरप्यभावेन न मनोमयादौ व्यभिचारशङ्का। एतेन-पूर्वोत्तर सन्दर्भाणां स्तुत्यत्वेन प्रधानानन्दविषयकत्व- स्यैवाकामेनाप्यङ्गोकार्यतया त्वदभिमतपुच्छव्रत्मविषयताया दत्तति- लाज्जलित्वप्रसङ्ग इति-परास्तम् ; पुच्छब्रह्मण आनन्दमयावयवत्वा-

Page 34

२४ श्रीभाष्य समालोचनम्

भावेनावयविस्तुतिपर्यव साय्यवयव विषयत्वस्य बाधात्।. न ह्यन्नम- यादिस्थलेंऽन्नमयादेरेवावयवित्वमवयवत्वमुभयं च दृश्यते, इत्येक- स्यैव शा्दमवयवित्वमवयवत्वं चानन्द्मयपर्यायमात्रे गत्यन्तरसम्भ- वेऽनुपपन्नमेव; अन्यथा ब्रह्मण एव प्राधान्यमप्राधान्यं चोभयं स्यादिति विरोधः । एतेन-आनन्द्मयस्येव पुच्छब्रह्मणोऽपि स्वप्रधानत्वमिष्टमेवास्माक्रम्, परन्तु सा प्राधान्यप्रतीतिर्व्रह्मखभाव- परामर्शमूलाऽ्डर्थीति वादोऽपि-पराहत; ज्ञानमात्रप्रामाण्यवादिनां भवतां कल्पितावयवत्वस्यापि वास्तवत्वेन वास्तवावयवत्वस्य वास्तव- प्राधान्यविरोधित्वस्यैवापातेनैकस्यैवावयवत्वस्यावय वित्वत्वस्य चास- म्भवात्। तथाचोक्ताविरोघार्थमानन्दपर्याये पुच्छपदेनाधारलक्षणैव स्वीकर्तव्या, आधारपदे प्रयोक्तव्ये पुच्छपद्प्रयोगस्तु शब्दतः पर्या- यान्तरसारूप्यार्थम्, अर्थस्वभावपरामर्शमृलब्रह्मप्राधान्यं तु भवता- मप्यभिमतमेव। तथाचोभयाभ्युपेतपुच्छब्रह्मपाधान्यमात्रेण निर्वाह आनन्दमयस्यापि प्राधान्यकल्पनमनावश्यकमेव ; तस्य जीवत्वेऽपि सन्दर्भशुद्धिसम्भवात्। नच विनिगमनाविरह :; आनन्दमय इति मयट एव तज्जीवतानियामकत्वात्। एतेन-ब्रह्मपद्वदानन्दमय- पदस्यापि श्रुतित्वेन तयैव तस्यापि प्राधान्यसिद्धिरिति शङ्कापि- प्रत्यस्ता; ब्रह्मपदानन्दमयपद्योरपर्यायत्वात्, "तस्यैष एव शारीर आत्मा" ब्रह्मत्वाच्च ।। इंदं पुच्छपद्स्याधारलक्षकत्वावधारणम्-"विकारशब्दा- दिति चेत्, न प्राचुर्यादि"ति सूत्राधीनमेव। अयमत्राद्वैत्यभिमतः सूत्रार्थ :- पुच्छवाक्यं प्राधान्येन न ब्रह्मपरम्, ब्रह्मणोऽप्राधान्योपपा- दकावयववाचिपुच्छशन्दवत्वात्, इति चेत्, न; पुच्छपद्स्य पर्या- यान्तरेषु सर्वत्र दर्शनेनात्रापि पर्यायान्तर इव तत्पदप्रयोगेऽपि तस्याधारलक्षकत्वेनावयवाबोधकत्वात्। अत्र प्राचुर्यादित्यनेन

Page 35

श्रोभाष्य समालोचनम् २५

पुच्छ शब्दपावुर्धरूपप्रायपाठो विवक्ष्यते। पुच्छशब्दादिति वक्तव्ये विकारशब्दादितिपदेन पुच्छपदं तस्य नैरर्थक्यं च व्युत्पत्तिभेदेन

व्यक्तम्।। एतेन-विकारवाचिमयट्शब्दादू नानन्दमयः परमात्मेति चेत्, न; प्राचुर्यात्, मयटर्थस्यान्र प्राचुर्यस्यैव विवक्षणादानन्दप्रचुरं ब्रह्मैवानन्दमय इति सूत्रयोजना-परास्ता; आनन्दप्राचुर्यविवक्षा यामप्ानन्दमयापरमात्मतायाः पूर्वमुपपादितत्वात् तत्माचुर्यस्य सिद्धान्ताहेतुत्वात, प्राचुर्यस्य खसमानाघिकरणविजातीयाल्पता- निरूपकत्वाच्। सत्यं प्राचुर्यस्य स्वव्यधिकरणविजातीयाल्पतानिरूपकत्वमपि प्रचुरप्रकाशः सवितेत्यादी दृष्टम्, तथाप्यानन्दमये तु खसमाना- धिकरणविजातीयाल्पतानिरूपकत्वमेव स्वीकर्तव्यम; प्रिय-मोदा- नन्दादिभिन्नजातीयानन्दविशेषवत आनन्दमयस्यापरिच्छन्नानन्द- वत्वाभावेन तत्र स्वसमानाधिकरणविजातीयाल्पतानिरूपकत्वस्यैव विवक्षणीयत्वात्, प्रतिशरीरं प्रियादिभेदेन निरतिशयस्य प्रियादि- पदार्थस्यैवासम्भवद्दुक्तिकत्वात्, ब्रह्मणो हि नित्यसुखस्याप्तकामस्ये- ष्टानिष्टविभागर हितस्येष्टवस्तुदर्शनजन्यसुखस्य तल्लाभजन्यसुखा- न्तरस्य चासम्भवः । तथाच स्मृतिः-"नच द्रेष्यो नच प्रियः" इति। "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः" इति तु विदुषो ब्रह्मणश्च स्वरूपाभेदाभिप्रायम्; "ज्ञानी त्वात्मैव मे.मतम्" इति वाक्यशेषात्।। अत एव-"स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाका- महतस्ये"ति हिरण्यगर्भानन्दृपर्यन्त आनन्दो जीवानन्द एवेति बोध्यते। अत्र हि ब्रह्मपदेनानन्दमयो विवक्ष्यत इति तु मतद्यसम्प-

Page 36

२६ श्रीभाष्य समालोचनम्

तिपन्नम्। इयान् विशेष :- यद्द्वैतमते कार्य ब्रह्म जीवकोटिप्रविष्ट आदिजीवो हिरण्यगर्भ :; "हिरण्यगर्भ: समवर्तताग्रे" इत्यादि- वचनात्। यतो हि-"आनन्दमयमात्मानमुपसंक्रामति" इति गतिप्राप्यत्वमानन्दमयस्य प्रतिपादितम्। यथाच गतिप्राप्यत्वं कार्यब्रह्मण एव, नतु परस्य ब्रह्मण; तथा-"कार्य बादरिरस्य गत्युपपत्तेरि"ति सूत्रे व्यक्तम्। परब्रह्मणोऽपि गतिप्राप्यत्वे हि कार्यविवक्षायामेव गत्युपपत्तिर्न हेतुर्भवितुमर्हति। यथाच कार्या- धिकरणे वादरिपक्ष एव सूत्रस्वरस्येन सिद्धान्तपक्ष:, न जैमिनिपक्षः, नवा-"प्रतीकालम्बनान् नयतीति बादरायणः" इत्यस्य सूत्रस्य "स एनान्" इत्यत्रैनान्पदार्थव्यवस्थापकस्य तद्वाक्यघटकब्रह्मपदा- र्थनिरूपणपरात् कार्याधिकरणात् पृथगधिकरणत्वम्; विषयभेदात्, नतु कार्याधिकरणगुणसूत्रत्वं श्रीभाष्याभिमतम्, तथाऽस्मदीयाद्वैत- मार्तण्डे व्यक्तम् ; अन्यथा आनन्दमयशब्देन ब्रह्मण एव विवक्षणे शतगुणोत्तरानन्दमीमांसायां प्रतिमीमांसमकामहत्तश्रोत्रियस्थापि निर्देशोऽनुपपन्रः स्यात्। अनेन ज्ञाप्यते-प्रचुरानन्दविवक्षाया- मपि जीव एवानन्दमय इति। यतश्चक्वर्तिनमारभ्य हिरण्यगर्भ- पर्यन्तस्य सर्वस्य प्रचुरानन्दस्य यादृशं प्राचुर्यम्, तादृशमकामहत- श्रोत्रियाख्यस्य प्रसिद्धस्य जीवस्यापि वर्तत एव। तथाच न केवलं सुषुप्त्यवस्थामेवादाय जीवस्यानन्दमयत्वं व्यवस्थापनीयम्, किन्त्वं- कामहतत्वे जाग्रदाद्यवस्थायामपीति बोधनार्थमेवानन्दमोमांसा प्रस्तुता.। तथाच केवलानन्दरूपं यद् ब्रह्म, न तदानन्दप्रचुरम्; वाङ्म- नसगोचरत्वात्, किन्तु स्वल्पद्दुःखो जीव एवानन्द्मयः, न ब्रह्मेति प्रकृतसन्दर्भशुद्धिरपि व्याख्याता॥

एतेन-ब्रह्मगतानन्दप्राचुर्य जीवगतानन्दाल्पत्वप्रत्यायकमित्येवाश्रयितुं युक्तन् ; श्राव्यते च :तत्प्रकरणेऽपि-"ते ये शतं प्रजापतेरानन्दाःस एको ब्रह्मण आनन्दः" इति। अतः प्रकरणोक्तमानन्दप्राचर्यनिरूपकमु-

Page 37

श्रीभाष्य समालोचनम् २७

नुपपन्नं न प्रमाणशरणहृद्यङ्गममिति शङ्कापि-परास्ता ; वस्तुस्वभावस्य प्रमाणान्तरानुगुण्यस्य प्रकरणपरिशुद्धेश्चानन्दमयजीवतायामेवानुकूलत्व- स्यासकृदावेदितत्वान।।

प्राणमय-मनोमध-विज्ञानमयपदेषु हि न स्वव्यधिकरण- सजातीयाल्पतानिरूपकत्वं दृष्टम्, जीवादन्यत्र ज्ञानाद्यल्पत्वस्य वक्तुमशक्यत्वात्, इति खसमानाधिकरणविजातीयाल्पतानिरूप- कत्वमेवात्र प्रकरणे सर्वत्र दृष्टम्, इति प्राथम्यरूपप्रमाणान्तरानुगु- ण्यमानन्द्मयजीवतापक्ष एव, न तत्परमात्मतापक्षे। एतेन-वस्तु- स्वभावोऽपि व्याख्यातः, आनन्दमयाजीवतायां दुःखल्पत्वावगम- स्यैव स्वाभाविकत्वात। यथाच प्रकरणं पुच्छब्रह्मब्रह्मतायामेवानु- कूलम्, न त्वानन्दमयब्र्मतायाम्, तथा पूर्वमेव निरूपितम्। एतेन-प्रकरणादानन्दमयस्य ब्रह्मत्वनिश्चये साहचर्येण तम्मिन् दुःखोपपादनायोग इति-अपास्तम्; दत्तोत्तरत्वात्। जयब्रह्म- प्रकरणं हि ब्रह्मवल्ली, न तूपास्यब्रह्मप्रकरणम्। अत एव-"उतावि- द्ानमुं लोकं प्रेत्य कशचन गच्छती" इत्यविद्वद्विषये गतिप्रश्नः, "आहो विद्वानमुं लोकं प्रेत्य कश्चित् समशनुता उ" इति विद्व- द्विषये समशनप्रश्नइचोपपद्यते। अत्र विदुषः सर्वकामानुभवितृत्व- मुत्क्ान्तिसापेक्षं न वेति प्रशनेन विद्वद्विषये गतिनिरपेक्षं ब्रह्मता- दात्म्यमेव-"ब्रह्मणा समश्नुते" इत्यत्र विवक्षितं वा, उत ब्रह्म- सहभाव एव गतिसापेक्षो विवक्षणीय इति प्रश्नान्तरमेव मुख्यं विवक्ष्यते। अत एव-"सोऽकामयते" ति ब्रह्मणः सर्वतादात्म्यो- पपादनेनोत्तरग्रन्थ: प्रवर्तते ; अन्यथा गतिप्रश्नसमाधानं "सोऽक- मयते" त्यादिसन्दर्भेण कथं सिद्ध्येत्? तथाचानन्दमयपर्यन्तमुप- संक्रमितव्यम् विद्वद्विषयगतिप्रश्नसमाधानव्याजेनोक्त्वा "यतो वाचो निवर्तन्ते" इति विद्द्गतिविषये मौनमेव वरमुत्तरम्;

Page 38

५८ श्रीभाष्य समालोचनम्

तस्य गतेरसंभवात्। सर्वतादात्म्येन हि विदुषो भाव:, नतु सर्वो- पभोक्तृत्वमित्येव ब्रह्मवल्ली भृगुवल्ली च मन्यते। अनेन च-"अत्र ब्रह्म समश्नुते न तस्य प्राणा उत्कामन्ती" ति श्रुत्यन्तरैकवाक्यताऽपि "ब्रह्मणा विपश्चिते" त्यत्र ब्रह्मतादा त्म्यविवक्षायामेव भवति, नान्यथेत्यपि ज्ञाप्यते। अयं चार्थो ब्रह्म- मीमांसायामपि-"प्रतिषेधादिति चेत्, न" "स्पष्टो ह्येकेषाम्" इत्यत्र विस्तरेणालोचितः । यथा चेदमप्यधिकरणं श्रीभाष्यकारैर- न्यथा नीयमानं बहुतरसूत्र विरुद्वम्, तथाऽद्वैतमार्सण्डेऽस्मदीये निपु- णतरसुपपादितम्। तथाच स्पष्टमिद्मवगम्यते-यद् ब्रह्मवरली भृगुवल्ली च निर्विशेषमेव ब्रह्म प्रतिपादयति, नतु सविशेषं ब्रह्मे- ति, कथं वा प्रकरणादानन्दप्रचुरं सविशेषं ब्रह्मैव प्राधान्येन प्रति- पादं ज्ञेयतया प्राप्यतया च विवक्षितम् ? अत एवा नन्दो ब्रह्मेति व्यजानादि"त्यानन्दस्वरूपमेव ब्रह्मेति प्रतिपादितमुपपद्यते। मतान्तरे हि-"आनन्दं ब्रह्मेति व्यजानादि" त्येव पाठः स्यात्, यद्यानन्दप्रचुरं ब्रह्मेति धर्म-धर्मिभावो विवक्षितः स्यात्। तथाचानन्दप्रातिपदिकमात्रस्य सर्वत्राभ्यासोऽप्युपपद्यते। न ह्यानन्दानन्द्मयपदयोरेकार्थत्वं संभवति; आनन्दमयपदस्य धर्मि- परत्वात्, आनन्दशब्दस्य च धर्मपरत्वात्; अन्यथा-"आनन्दो ब्रह्मेति व्यजानादि" त्यत्रापि पुंलिङ्गनिर्देशोऽनुपपन्न एव स्यात्। "ब्रह्मण आनन्दमि"तितु"राहोः शिर इतिवद्भेदेऽपिन विरुद्वम्। तद्गुणसारत्वात् तद्वव्यपदेशस्तु गौण एव, न मुख्य :; गौण- मुख्ययोर्हि मुख्ये कार्यसंप्रत्ययः, इति मुख्यार्थबाधायोग:। • तथाचानन्दमयशब्दस्य पूर्वोक्तरीत्या विकारार्थत्वस्यैव युक्त- त्वात् प्राचुर्यार्थत्वेऽपि "आनन्दमयमुपसंक्रामती"ति गतिप्राप्यत्व- स्य बोधनेन प्राचुर्यस्य प्रकृते दुःखाल्पतानिरूपकत्वस्यावश्यकत्वेन च जीवपरत्वस्यैवोचितत्वेन नानन्दमयब्रह्मा दिपदानां पर्यायत्वम्।"ब्रह्म-

Page 39

श्रोभाष्य समालोचनम् रह

विदाप्ोति परमि"ति केवलब्रह्मपदेनोपक्रमः, "ब्रह्म पुच्छं प्रतिष्ठे"ति तेनैवोपसंहार:, तदर्थतयैव चान्नमयादिवाक्यानां प्रवृत्तिः।सति चवं जतिलादिवाक्यस्येवोत्तरवाक्येन बाधे पूर्ववाक्यस्य ग्राह्यसमर्पक- त्वायोगेनान्नमयादीनामिवानन्द्मयस्यापि "तस्यैष. एव शारीर आत्मे" ति वाक्येनाथतो निषेध्यतयाऽवगतस्प न ग्राह्यत्वमित्ये- वावगन्तव्यम्। एतेन-रसानन्दानन्दमयादिपदानामेकार्थत्वम्। इत्थं च-धर्मिपर्यन्त- बोधकानन्दमयघटितोपकरमानुसारेण मध्यपतितमानन्दपदं तत्समाना- र्थकं रसपदं चानन्दवत्परमिति युक्त्तमिति-अपास्तम्। "सत्यं ज्ञानमनन्तं ब्रह्मे" त्युपक्रमस्य "ब्रह्म पुच्छमि"त्यु पसंहारस्य च निर्विशेषपरत्वेनोपक्रमोपसंहारयोर्धर्मिपर्यन्ताविषय त्वात्, विना मयडन्तं भृगुवल्याम्-"अन्नं ब्रह्मेति व्यजानात्" "प्राणो ब्रह्मेति व्यजानात्" मनो ब्रह्मेति व्यजानात्," आनन्दो ब्रह्मति व्यजानात्" इति स्वरूपबोधकपदेनैवोपक्रमोपसंहारयोः प्रवृत्तत्वात्। अन्नमयादीनां मयडन्तेनोपक्रान्तानाममुख्यात्मपरत्व-

प्रवृत्तयोरमुख्यात्मविषयत्वस्यैव युक्तत्वेनाङ्गानुरोधन प्रधाननयन- स्यायुक्तत्वेन चानन्द-रसादिपदानां धर्मिपरत्वायोगात्।। एतेन-अपृथक सिद्धविशेषणवाचकानां पदानां विशेष्यपर्यन्तत्वबोधक- ताया लोक-वेदसिद्धत्वेन तन्न्यायेनानन्दादिपदानां तद्वत्परत्वमिति- अपास्तम्। "गुणिलिङ्गास्तु तद्वति" इति न्यायेन विशेष्यलिङ्गत्वं विना विशेष्यपर्यन्तबोधकताया असम्भवात् "आनन्दो ब्रह्मेति व्यजानादि"त्यत्रानन्द्मयपरत्वासम्भवात्। अन्यथा, रूपं घट इति प्रयोगोऽपि हि साधुः स्यात्। एतेन-"स यो मनुष्याणां राद्वू: समृद्ध:, .. संपन्नतमः स मनुष्याणां परम आनन्दः"इति श्रुतिरपि

Page 40

३० श्रीभाष्य समालोचनम्

व्याख्याता; तस्य मुक्तात्मपरत्वेनानन्दरूपताबोधन एव तात्प- र्यात्।नन ह्यत्राप्यानन्दशब्देनानन्दमय एव ग्रहीतव्य इति संभवति। तथाच कुत्राप्यानन्दवत्यानन्दशव्दप्रयोगस्यासंभवादू रसानन्दादि- पदानां नानन्दमयपर्यायत्वं संभवति। नहि ब्रह्मानन्द एकरूपे प्रिय- मोदादिविभागोऽपि संभवति; वृत्तितारतम्येन प्रतिबिम्बानन्दानां जीवगतानामेव भेदसंभवात्, ब्रह्मानन्दस्य बिम्बरूपस्य भेदकप्रमा- णाभावात्।

एतेन-प्रकरणस्य निर्विशेषविषयता शपथैकनिर्णेया; उपक्रमप्रभृ- त्युपसंहारान्तं बहुविधविशेषाणां तत्र प्रतीतेः, बृहत्त्वोपास्यत्व-

ज्ञानान्तरत्व-निरतिशयानन्दवत्वादयो हिधर्मा: स्फुटतरमुपलभ्य- न्त इति-परास्तम्।

निर्विशेषत्वं हि ब्रह्मण: परमार्थतो विशेषराहित्यमेव, न विशेषसामान्यराहित्यम्; कल्पितविशेषवत्ताया: पारमार्थिक विशेष- राहित्याविरोधित्वात्। बृहत्त्वादयस्तु सर्वेऽपि धर्मा व्यवहारार्थ कल्पिता व्यावहारिका एव, न पारमार्थिकाः। ब्रह्मणो बृहत्वं नित्य-शुद्ध-बुद्ध-निरतिशयस्वरूपत्वमेव, नतु कश्चन धर्मविशेषः। उपा- स्यत्वं तु ब्रह्मणो नात्र प्रकरणे विवक्ष्यते; ज्ञेयत्वस्यैवात्र विवक्षणात। वेद्यत्वं तुब्रह्मणो वृत्तिव्याप्यत्वं यावद्वृ त्तिकालमवतिष्ठमानं कल्पित- मेव; वृत्तिनाशानन्तरं सतः प्रकाशमानचैतन्यसरूपमात्रस्यैव प्रका- शात्, तादृश चैतन्यमात्रस्यैव मुख्यब्रह्मपदार्थत्वाच्च। प्राप्यत्वं तुब्रह्म- णोऽज्ञानहानमित्यादि पूर्वमेव विवेचितम्। सत्यत्वं हि त्रिकाल- बाध्यत्वाभावत्वोपल क्षितं ब्रह्मसवरूपमेव। एतेन-चिद्रपत्वमपि- व्याख्यातम्; सप्रकाशानावृतचैतन्यस्यैव ज्ञानरूपत्वात्। हृदयगुहा- निहितत्वं हि ब्रह्मणो नात्र प्रकरणे निदिष्टम; "यो वेद निहितं

Page 41

श्रीभाष्य समालोचनम् ३१

गुहायामि"त्यत्र तु गुहानिहितजीवात्माभेद एव ब्रह्मणः प्रतिपा- धते। इदं च निर्विशेषवादस्यैवानुकूलम्, नतु सविशेषत्रह्मवादस्य। एतेन-देहाध्यन्तरत्वादिकमपि-व्याख्यातम्; तस्यापि जीवाभेद- निरूपणार्थत्वात्। परमव्योमनिलयत्वं हि गुहानिहितत्वापेक्षया नातिरिक्तो धर्मः । विपश्चित्वं तु सर्वज्ञत्वं ब्रह्मणोडभिन्ननिमित्तो- पादानत्वव्यवस्थापन विधया सर्वतादात्म्ययोग्यत्वव्यवस्थापनार्थ कल्पि- तमेव। अन्यथा -- 'ब्रह्मणे'ति सहयोगतृतीयैव, नाभेदे तृतीयेति स्यान्। तथाचेदमत्र सूच्यते-यद् ब्रह्मणेनि सहयोगतृतीयाविव- क्षणे विपश्चितापद्वैयर्थ्यापत्ति :; तद्विशेषणस्य तन्मते व्यर्थत्वात्, अत एव-तद्नन्तरमेव-"तस्माद्वा एतस्मात" इति कारणवाक्य- प्रवृ त्तिरुपपद्यते। एतेन-आकाशादिकारणत्वमपि-व्याख्यातम्; तस्य तदुपादानत्वरूपस्य निर्विशेषवादव्यवस्थापनार्थत्वात्। नहि श्रीभा- ष्यमते-ब्रह्म सत उपादानकारणं खवीक्रियते। निरतिशयानन्द- वत्वं तु नात्र प्रकरणे ब्रह्मधर्मतया प्रतिपाद्यते; आनन्दमयपदस्य निर्विशेषवादिभिर्जीवपरत्वस्यैव स्वीकारेण ब्रह्मपरत्वानङ्गीकारात्, प्रिय-मोदानन्द-ब्रह्मणां ब्रह्मण्यसंभवेन, अभ्यासरूपहेतोरानन्दमया-

एतेन-अभ्यासपद्स्य घञ्रन्तत्वमाश्रित्य आनन्दमयः, परं श्रह्म, निरतिशयद्शाशिर स्कत्वेनाभ्यस्यमानानन्दवत्त्वादिति सूत्रार्थ एव युक्ततर :; बहिर्भताभ्यासस्य हेतुत्वाश्रयणापेक्षया निरतिशयदशा-' शिरस्काभ्यासस्य हेतुत्वाङ्गीकारस्यात्यन्तोचितत्वादित्यादि- परास्तम्।

त्राशयासंस्पशित्वात। तात्पर्यलिङ्गं ह्यम्यासमात्रसव, नत्वभ्यस्य- मानधर्माश्रयत्वम्। यथाच निरतिशयद्शाशि सक्रानन्दाश्रयत्वं

Page 42

३२ श्रीभाष्य समालोचनम्

वाड्मनसागोचरानन्दवत्त्वं वा नानन्दमयस्य, किन्तु पुच्छब्रह्मण एव, तथा पूर्वमेवोपपादितम् ।। वस्तुतस्तु-आनन्दमयब्रह्मतासाधकहे तावभ्यस्यमानपदं व्य- र्थम् ; वाङ्मनसागोचरानन्दवत्त्वमात्रस्य यदि संभवः। तथाच सौत्रस्याभ्यासपंदस्यैवाञ्जलिप्रदानमापद्यते, इति सौत्राभ्यासपदसा- र्थक्यार्थमपि नानन्दमयब्रह्मतावादो युक्त:। स्पष्टं चैतदाकरे

ख्यावसरे विशदीकृतम्। आनन्द्मोमांसासमाप्तिर्हि "स यश्चायं पुरुषे यश्चासावादित्ये स एकः" इति वाक्येन क्रिय- माणा "असावादित्यो ब्रह्मे"ति महावाक्यार्थब्रह्मरूपानन्द एव मीमांस्य आनन्दः, नतु हिरण्यगर्भान्तानन्द इयत्तापरिच्छिन्नो वाङ्मनसगोचरो वेति ज्ञापयति। सति चैवं "स य एवंवित्" इत्यत्रापि "सत्यं ज्ञानमि"ति प्रस्तुतं ब्रह्म न केवलं गुहानिहिता- भिन्नम्, किन्तु सुर्यान्तर्याम्यपीति ज्ञापनेन आनन्दमयशब्देनाधि- देवं जीवस्वरूपमपि विवक्ष्यते, इति सूचनादू अधिदैवं परमकाष्ठा- पन्नो हिरण्यगर्भोऽपि जीवकोटिप्रविष्ट आनन्द्मय एव, परमात्मा तु सर्वाघिष्ठानं शुद्धमानन्दरूपं ब्रह्मैवेति सिद्ध चति॥ एतेन-भवद्रीत्या पूर्व परमानन्दस्य निर्देशाभावेन यत्पदेन परामर्शा- योगः । "ब्रह्मण आनन्दः" इत्यत्र हि-श्रह्मपदं भवन्मते हिरण्यगर्भपर- मेव, आनन्दुपदं च परमानन्दमात्राभूतानन्दपरम्। अस्य हिरण्यगर्भान- न्दत्वे "सैषानन्दस्ये"त्यानन्दपदमपि न भवत्पक्षे परमानन्दपरं भवितु- मर्हति, आदित्यग्रहणस्य सर्वात्मनाऽसङ्गतत्वाच्चेत्यादि-परास्तम्।

आ. पीमांसाया हि न "स एको ब्रह्मणः"इत्यत्र समाप्तिः, किन्तु-"'यश्चायं पुरुषे यश्चासावादित्ये स एकः" इत्यत्रैवेति "सैषानन्दुर त्यत्र प्रस्तुत आनन्द एव जीवसूर्योभयान्तर्यामिन्रह्म- रूपतया वि ने, इति न परमानन्दस्यात्र परामर्शायोगः। अत्र

Page 43

श्रीभाष्य समालोचनम् ३३ पुरुषे सूर्ये चानन्द एकरूपो न सातिशय इति बोधनाद् हिरण्य- गर्भान्तानन्दर यैव तत्तदुपाधितारतम्यप्रयुक्त्तोत्कर्षापकर्षाभावःसंभ- वतीति कृत्वैव-"स एकः" इत्यनेन तस्योत्कर्षापकर्षापोहार्थत्वमा- करे व्यवस्थापितम्। एतेन-"अस्माल्लोकादि"त्यत्र लोकपदमपि दष्टादृष्टविषय- समुदायपरमेव, न प्रकृतिमण्डलपरम्; प्रकृनिभण्डलस्यापि दृष्टादृष्ट- समुदायरूपत्वेनानर्थान्तरत्वात्। प्रेत्यपदेन लोकान्तरावाप्तिविवक्षा तु मतान्तररीत्याऽयुक्तैव; अन्नमयशरीरप्राप्तेरलोकान्तरप्राप्तिनिर- पेक्षत्वात्। एतेनोपमंक्रामतिपद्मपि ज्ञानमात्रपरम्, ननु प्राप्तिपर- मिति व्याख्यातम् ; गत्यर्थानां ज्ञानार्थकत्वेन क्लेशलेशस्याप्यभा- वात्। विषयसमुदायान्निरपेक्षो भूत्वाऽन्नमयममुख्यात्मानं जानाती- त्युक्क्के प्रस्तुतत्वादू विषयममुदायमन्नमयात्मना जानातीत्यर्थसिद्धम्, इति न विषयजातमित्यस्याध्याहारोऽप्यत्र विवरणे। एतेन-उप- संक्मणकर्ताऽपि परमात्मैव, न जीव इति-व्याख्यातम्; "स एक:" इत्यैकात्म्यवादस्य श्रुतिसिद्धत्वेनान्यस्यान्यात्मना ज्ञानवर्णना- सम्भवात्। एतेन-प्रकरणविरुद्धमात्मैकत्वकथनमिति-प्रत्युक्तम्; प्रक- रणस्यापि गुहानिहताभिन्नतया व्रत्मोपकमात् "स एक:"इत्युप- सहाराच्चात्मैक्यपरत्वेनातद्ेदपरत्वात्। अत एव "तदनुप्रविश्ये"ति परमात्मन एवौपाधिको जीवभावः प्रतिपादित उपपद्यते। एतेन- "ब्रह्मविदाप्नोति परमि"ति वाक्यमपि-व्याख्यातम्; "स य एवं वित्"इति वाक्ये एवंवित्पदेनोपसंहियमाणस्य ब्रह्मवित्पदस्या-

विवक्षायोगात्। ब्रह्मप्राप्तिर्नाम तदज्ञानहानमेव, नतु भेदसापेक्षा गतिरिति पूर्वमेव व्यवस्थापितम् ; अन्यथा-आत्मैक्यसिद्धान्त· विरोघापत्ते:। ५

Page 44

३४ श्रीभाष्य समालोचनम्

एतेन-नचात्र प्रकरणेजज्ञानम्, ब्रह्मणि तत्कृतप्रपध्वारोपः, आत्म- नोऽन्नमयादितादात्म्यभ्रमः, अधिष्ठानज्ञानेन तद्वाधः, प्रपश्वमिथ्यात्वम्, ब्रह्मणो निर्विशेषत्वम्, आत्मैकत्वम्, श्रह्मण एव जीवभाव इत्यादयो भवत्कल्पिता अर्थाः प्रतिपादिता उपलभ्यन्ते, यद्वलेन सूत्रस्थानीयस्य वाक्यस्य लक्षणादिनाऽर्थान्तरपरत्वं शङ्क्येतापि इत्यादि-परास्तम् ॥

"असद्वा इद्मग्र आसीदि"त्यत्र वाक्येऽज्ञानस्य ब्रह्मणि तत्कृतप्रपञ्चारोपस्य च प्रतीतेः, "अन्योऽन्तर आत्माऽन्योन्तर

भ्रमाधिष्ठानज्ञाननिबन्धनतद्वाघयोः, "उदरमन्तरं कुरुते अथ तस्य भयं भवति" इति भेदनिषेधनाभेदबोधनेन ब्रह्मणि प्रपश्चाभाव- रूपप्रपश्चमिथ्यात्वस्य, "सत्यं चानृतं च सत्यमभवत्" इति वाक्येन ब्रह्मव्यतिरिक्तस्यापारमार्थिकत्वरूप मिथ्यात्वोपपादनद्वारा ब्रह्मणो निर्विशेषत्वस्य, "स यश्चायं पुरुषे यश्चासावादित्ये स एक:" इत्यात्मैकत्वस्य, "तत्सष्टा तदेवानुप्ाविशत्" "यो वेद निहितं गुहायामि"त्यादौ ब्रह्मणो जीवभावस्य चात्र प्रकरणे- Sवगमेन प्रकरणस्याद्वैतवादानुकूल्यमेव, न मतान्तरानुकूल्यमिति हि स्पष्टमेव।। एतेन-ब्रह्मण एव जीवभावोऽपि-व्याख्यात; "तदनु- प्रविश्य" इत्यादिना तद्वगमात्। ब्रह्मणः शरीरप्रवेशो हि तदे- कदेशान्त:करणप्रतिबिम्बता वा, तद्वच्छेदो वेति-"अत एव चोपमा सूर्यकादिवत्" इत्यादिसूत्रेषु व्यक्तम्।। एतेन-ब्रह्मणोऽन्तःकरणप्रतिबिम्बतादिकं न भवतीति शङ्कापि-परास्ता; मुख्यस्य प्रवेशपदार्थस्य भवताऽपि वक्तुशक्य- त्वेन गौणस्यैव प्रवेशपदार्थस्योभाभ्यामङ्गीकार्यत्वात्। यथाच- "ब्रह्मविदाप्नोति" इत्यादिसंपूर्णसंदर्भस्याद्वैतमत एव स्वारस्यम्, तथा पूर्वमेव विवेचितम्।।

Page 45

श्रीभाष्य समालोचनम् ३५

एतेन-अहो न केवलमनुप्रवेशपदार्थम्, "अपितु ब्रह्मविदा- प्नोति परम्"इत्यादि संपूर्णाव्यायगतसकलवाक्यार्थमन्यथयतोऽद्वैतवादिनो भवतोऽप्यत्रैवमस्वारस्यशद्कावकाशः। स एव सह्यतां तावदित्यादि- परास्तम्, सर्वप्रकरणान्यंथाकरणस्य भवद्धिरेव क्रियमाणत्वात्। अत एव-तद्गानापत्तेविवक्षितत्वात् पर एवात्मा संक्रमि- तेत्यपि-व्याख्यातम् ; संक्रमितुरेव संक्राम्यत्वं हि नित्यमाप्तस्यै- वाप्तत्वभ्रमनिवर्तनेनैव। ततश्च जीव ब्रह्मणोरौपाधिक आविधयके वा भेदे सत्यपि परमार्थगत्या भेदाभावात् प्राप्तैव प्राप्तव्योऽपीति निष्कर्षः ; अन्यथोपासनासाध्यत्वे हि मोक्षस्यानित्यत्वमापद्येत। एतेन-कर्मसाध्यत्वेऽपि मोक्षस्य नानित्यत्वापातः;प्रतिबन्धककर्म- निवृत्तिर्हि ज्ञानेन साध्यते ? "यथा न क्रियते जोत्स्ना मलप्रक्षालनान्मणेः। दोषप्रहाणादू न ज्ञानमात्मन: क्रियते तथा। यथोदपानकरणात् क्रियते न जलाम्बरम्। सदेव नीयत व्यक्तिमसतः संभवःकुतः।"इत्यादिशास्त्रादिति -परास्तम्। एतादृशसाध्यत्वस्य प्राप्यत्वाद्यन्यतमसंस्कार्यत्वरूपस्य गुणा- घानरूपस्य दोषापनयनरूपस्य वाऽप्यनित्यत्वापादकत्वस्य समन्वय- सूत्र आकरे व्यक्तमुपपादितत्वात्, ज्ञानेन तत्त्वज्ञाननिवृत्तिरेव क्रियते, नतु वस्तुपापणम् ; तस्य नित्यप्राप्तत्वात्, इति लेशतोऽपि क्रियासम्बन्घाभावादू न मोक्षानित्यत्वमद्वैतमते भवति। आत्मभावो हि मोक्षः । स च जीव ब्रह्मभेदपक्षे नानुकूल:, "सोऽशनुते सर्वान् कामान सह। ब्रह्मणा विपश्चिता"इति वाक्य- स्यापि सर्वजब्रह्मभावमापन्नः सन् सह युगपत् सर्वानन्दाननुभव- तीत्येवमर्थपरत्वमेव। तथाच तदानुगुण्येन-"अस्माल्लोकात् प्रेत्ये" त्यादीनामपि पूर्वोक्तविघयाऽर्थवर्णनमेव युक्तम्, नतु कर्मानुभवस्था- नाल्लोकात् परलोकं प्राप्य हार्दप्राणमनोजीवविशिष्टमानन्दमयं दिव्यमङ्गल् विग्रहविशिष्टं परमात्मानं वासुदेवमुपसंपद् मुक्त

Page 46

३६ श्रीभाष्य समालोचनम्

बन्धो भवतीत्यर्थकत्वम्। मुक्तानां धर्मभूतज्ञानद्वारा सर्वजगत्समी पप्राप्ते: कमिकत्वाभावेन तथार्थवर्णनस्यासांप्रतिकत्वात्। सत्यम्- "आवृत्तिरसकृद्ुपदेशात्।" "आप्रायणात्तत्रापि हि दृष्टम्" इति सत्रेणावृत्तिरुपपादिता, सा त्व नावृत्तिश्श्दात्" इत्यना- वृत्तिर्यतोऽन्तिमाधिकरणेन व्यवस्थापिता, तत्साधनविषयैव। अनावृत्तिस्तु-"न स पुनरावर्तते" इत्यादिश्रुत्या जगद्व थापारवर्ज- कार्यब्रह्मभाव उपासनासाध्य एव बोध्यते, यत्र गत्यागत्यो: संभा- वना, नतु परब्रह्मभावे; तस्य गतिनिरपेक्षत्वस्य पूर्वमेव साधित- त्वात्। तथाच तेन सूत्रद्वयेन गौणमुक्तिसाधनस्यैव विचाराद् न मुख्य-मुक्तिसाधनज्ञान विषयत्वमप्यस्य सूत्रस्य। एतेन-मोक्षप्रकरणे तत्साधनतयोपदिष्टं ज्ञानमुपासनारूपमेव, इति "आप्रायणात्तत्रापि हि दष्टम्" "आवृत्तिरसकृदुपदेशात्" इति सूत्राकृतैव स्पष्टमुक्तम्। नहि भवदभिमताघ्रह्मत्वव्यावृत्तिरूपमोक्षप्राप्ते- र्ञानावृत्त्यपेक्षा; भ्रयस्थले तदपेक्षाया अदर्शनादित्यादि-परास्तम्। तथाहि-"सोऽकामयते"त्यादिना प्रपश्नसृष्टिम्, "तत्स- त्यमित्याचक्षते" इत्यनेन ब्रह्ममात्रस्य सत्यत्वं चोत्तवा सत्यस्य ब्रह्मण एव व्यावहारिक-प्रातिभासिकरूपेण भानं "सत्यं चानृतं च सत्यमभवदि"त्यनेन प्रतिपाद्यानन्तरं पवृत्तम्-"असद्वा इदमग्र आसीदि"ति। अत्र चाभिव्यक्तनामरूपात्मकस्य प्रपञ्चस्य सृष्टे: पूर्वमसदूपत्वं ततः सदूपत्वं च प्रतिपाद्यमानं तदैवोपपद्येत, यदि सद्रूपेणाज्ञातं ब्रह्म सृष्टे: प्रागासीत्, सृष्टिकाले तु ब्रह्मण: सद्रूपेण ग्रहणे ततो जायमान: प्रपश्चोऽपि सद्ूपोऽभवत्-यथा रजतं झ्ञायमानेदंरूपेण भवति, इति प्रक्रियाऽत्र वाक्ये विवक्ष्यते। ततच ब्रह्मणोऽज्ञानमसदेवेति वाक्येन स्पष्टमवगम्यते। अन्यथा- "कथमसतः सजायेले"ति श्रुतिविरोधात् "सोऽकामयते"ति पूर्व- तनग्रन्थविरोधाच्चासङ्गतमेवेदं प्रकरणमापद्येत। एतेन-ब्रह्मणि

Page 47

श्रीभाष्य समालोचनम् प्रपश्चारोपोऽपि-व्याख्यातः; सत्यज्ञानादिरूपेण प्रक्रान्तस्य सद्रूपे- णाप्यज्ञाने प्रलयः, आनन्दरूपेणापि ज्ञाने तु मुक्तिरित्येव हि तैत्तरीयोपनिषत्तात्पर्यम्। तथाच सदूरपमाश्रेण ज्ञातादानन्दरूपे- णाज्ञातच ब्रह्मणः प्रपश्चोत्पत्तिरिति सिद्धौ शुक्तिरुपेणाज्ञातादिदं- रूपेण ज्ञाताच शुक्तिपदार्थादुत्पद्यमानं रजतं यथा शुक्तावध्यारोप्यम्, एवं प्रपश्चोऽपि सद्रृपेण ज्ञाताद् आनन्दरूपेणाज्ञाताच्च ब्रह्मण उत्पद्यमानो ब्रह्मण्यध्यारोप्यते। अन्नमयाद्यानन्द्मयान्तस्य "अन्योऽन्तर आत्मा" अन्यो- उन्तर आत्मा" "तस्येष एव शारीर आत्मे"त्यादिरूपेण पूर्वपूर्व- निषेधेनोत्तरस्योपदिश्यमानत्वात् पुच्छव्रत्मोपदेशानन्तरमन्यस्या- नुपदेशाच्च पुच्छब्रह्मेतरमिथ्यात्वमवगम्यते। ततश्रान्नमयात्मत्व- ज्ञानस्य भ्रमत्वं चावगभ्यते। वस्तुतस्तु -- अप्रामाण्यज्ञानानास्कन्दितपटुतमसंस्कारसहितभु- कयमानादृष्टाभावसहितसाक्षात्कारस्यैव मोक्षसाघनत्वात् तङ्डु- त्पत्तिपर्यन्तं श्रवणाद्यावृत्तिनिरूपणार्थमावृत्त्यधिकरणमिति सिद्धा- न्तादू आवृत्त्यधिकरणं न साक्षाद् मोक्षसाधनविषयम्। सति चैवं ब्रह्मभाव एव मोक्ष:, नतु भेदापेक्षा ब्रह्मप्ाप्तिः, "सेऽकाम- यते" त्यादिना सर्वतादात्म्यस्य प्रतिपादितस्याऽन्यथानुपपत्तेः। इदं हि तादात्म्यं बोध्यमानं निर्विशेषत्रह्माभिन्ननिमित्तोपादानता- पक्ष एव संभवति। सति चैवं सन्निहितं पुच्छं ब्रत्मैव ब्रह्मवल्लीप्रतिपावं तत्त्वम्। "सोऽकामयते" तिपुंलि्गेन तच्छब्देन निर्दशस्तु ब्रह्मण एवात्मत्वाद् आत्मभावापेक्षया "तस्माद्वा एतस्मादात्मनः" इत्यत्रेव नानुपंपत्रः ।। एतेन-सन्निहिततमत्वात् तत्रैव पुंलिङ्गन निर्देशान्च"तस्यैष एव शारीर आत्मा" इत्यत्र निर्दिष्टानन्दमयविषयत्त्रमेंव युक्तमित्यादि- परास्तम्।

Page 48

३८ श्रीभाष्य समालोचनम्

"तस्यैष एव शारीर आत्मे"त्यस्य पुच्छब्रह्मविषयत्वस्यैव युक्तत्वेनानन्द्मय विषयत्वाभावेनोक्तशङ्ाया निर्मूलत्वात्॥ "तस्येष एव शारीर आत्मा यः पूर्वस्ये"ति हि वाक्यम्-यः पूर्वस्यान्नमयस्य शारीर आत्मा, तस्य प्राणमयस्य एष वक्ष्यमाणो मनोमय आत्मा" इति योजनायामानन्दमयपर्यायगत- मानन्दमयातिरिक्तात्मसंभवे तत्परमेव स्वोकर्तव्यम्। सति चैवम्-"ब्रह्म पुच्छं प्रतिष्ठे"ति वाक्यप्रतिपादितात्मस्वरूपमेवा- नन्द्मयस्याप्यात्मेति सिद्धथति, इति नानन्दमयपरमात्मतायामिदं वाक्यमनुकूलम्॥ एतेन-यः पूर्वस्यान्नमयस्यात्मा प्राणमयस्तस्यैष वक्ष्यमाणो मनोमयः शारीर आत्मेति योजनायां यच्छब्दप्रतिनिर्देशरूपत्वमेवकारस- मभिव्याहृतप्रथमान्तैतच्छब्दस्यैव स्वरसम्, इति तत्त्यागाद् नानुपपत्ति- रिति-परास्तम् ; तस्यपद्वैयर्थ्यापत्या योजनान्तरासंभवात्। घोऽयं प्राणमयः, एष तस्य पूर्वस्यान्नमयस्य शारीर आत्मेति योजनायां तु तस्यपद्वैयर्थ्यम्, यच्छब्द्वैयर्थ्यम्, अयंपदाध्या- हारदोष:, भिन्नवाक्यस्थयोस्तच्छब्दपूर्वशब्दयोरन्वयास्ारस्यं च।। य एष एव प्राणमयस्तस्य पूर्वस्यान्नमयस्य शारीर आत्मेत्येक- वाक्यतां गृहीत्वा योजनायामप्येतद्दोषतादवस्थ्यमेव। पूर्वस्यान्न- मयस्य यः, एष प्राणमयः तस्यान्नमयस्य शारीर आत्मेति योजनायां तु यद्यपि तृतीययोजनायामिवानन्दमयातिरिक्तात्मापेक्षा न भवति; तथापि-अन्तरात्मत्व-शारीरत्वयोरभिन्नत्वेन पृथगू निर्देशानुपपत्तिः । तथाच यः पूर्वस्येति भागवैयर्थ्यापत्तिः। "तस्मादवा एतस्मादात्मन आकाशः सम्भूतः" इत्यादिनाऽ"आात् पुरुषः"इत्यन्तेनाकाशादिशरीरान्तविकारजातं प्रति "आत्मनः" इत्यात्मशब्द्रवाच्यस्य. शरीरप्रतिसम्बधित्वमात्मत्वं विकारजा- तस्य शरीरत्वं जीवविलक्षणत्वं च सिद्धम्। सति चैवम्-"अन्नमय-

Page 49

श्रीभाष्य समालोचनम् ३६

मात्रस्य परमात्मविकारत्वकीर्तनात् तदात्मकत्वे सिद्धेऽपि प्राणम- यादौ तदात्मकत्वमसिद्धम्, एवं मनोमय-विज्ञानमयानन्दमयेष्व- पीति शङ्कावारणार्थम्-"तस्यैष एव शारीर आत्मे"तिवाक्यं पधृत्तम्, इति प्राणमयादिपर्यायेषु प्राणमयादेरिवानन्द्मयपर्याय आनन्द्मयस्थापि परमात्मशरीरत्वमेव स्वीकर्तव्यय्; अन्यथा प्रक्रमभ- द्ापत्तेः । तथाच नानन्द्मयब्रह्मतावाद उत्तयोजनपक्षेऽपि संभवति। एतेन-आनन्दमयान्तरात्मा न दुर्वचः; अन्तःकरणावच्छिन्नात्मा हि जीवः । स चात्मा परमात्माऽभिन्नः, इति तदन्तरात्मत्वं परमात्मनो न संभवति, इत्यादि-परास्तम्। "तस्माद्वा एतस्मादि"ति वाक्यनिर्दिष्टस्य पुच्छब्रह्मवाक्ये- नाप्युपक्षिप्तस्य ब्रह्मण आनन्दमयरूपजीवाघिष्ठानत्वस्य पूर्वमुपपादित- त्वेनाधिष्ठानारोप्ययोरभेद्वद् भेदस्यापि स्वीकारेण जीव ब्रह्मणो- रभेदेऽपि ब्रह्मणो जीवान्तरात्मत्वस्य संभवात्। तथाच-"तस्यैष एव शारीर आत्मा"इति वाक्यं प्रक्रमैकरूप्यार्थ यथाकथमपि योज्य- मानमानन्द्मयजीवतावाद एव सरसम्, नतु तद्ब्रह्मतावादे; आनन्द- पद्वाच्यब्रह्मविकारानन्दमयस्य ब्रश्मत्वासंभवात्। एतेन-"आनन्दो ब्रह्मेति व्यजानात्" इत्यानन्दशब्दस्थाने

त्वावगामादानन्दमयस्य परमात्मत्वमिति शङ्कापि-पराहता। प्रथमा दिपर्यायान्नान्नमयादीनामपि हि स्थानसाम्येनान्नादिप- र्यायत्वापत्या-"अन्नात् पुरुषः" इति श्रुतविकारि-विकारभावोऽ- नुपपन्नः स्यात्, इति ब्रह्मवल्यां विकाराणामानन्दवल्यां च प्रकृतेरेव ग्रह- णेनान्नमयादेरिवानन्दमयस्यापि प्रकृतेरेव स्थानसाम्येन स्ीकर्तव्यत्वेन स्थानसाम्यस्याद्वैतपक्ष एवानुकूलत्वात्। तथाच भृगुवल्युपदिष्टान- न्दमयोऽपि पूर्वोक्त विधयोपसंक्रमितव्यत्वस्यानन्द्मयेऽपि साम्यार्थम- न्नमयादीनामिय परमात्मेतरत्वसाधकत्वादू जीव एव। अतश्च "सस्पैष

Page 50

४० श्रीभाष्य समालोचनम्

एव शारीर आत्मे"ति वाक्य आनन्दमयस्याप्यात्मान्तरसत्त्वविषय- तया नयनमेव युक्तम् ; अन्यथा वैरुप्यप्रसङ्गात्। विद्यते चात्रापि "ब्रह्म पुच्छं प्रतिष्ठे"तिशैल्यन्तरावलम्बनेनात्मान्तरप्रस्तावः, यस्या- नन्दमयस्याप्यात्मतया विवक्षणं संभवति। अन्नमयादिपर्यायाणा- सुपासनार्थत्वम्, तद्राक्यशेष उपासनाविधिदर्शनात, आनन्दमयप- र्यायस्तु प्रियमोदादिशिरस्कत्वाद्युपदेशात् पुच्छब्रह्मप्रतिपत्तिशेष एव, इति नात्रोपास्यस्वरूपविवक्षा, किन्तु ज्ञेयसरूपविवक्षैव। सति चैवं "सोऽकामयते"त्यादिसंदर्भोऽपि पुच्छब्रत्मपर एव; तस्यैव सर्व- तादात्म्यस्य कारणत्वनिबन्धनस्य संभवात्। एतेन-रसो वै स इत्यादिकमपि पुच्छब्रह्मपरमेव; रसानन्दादि- पदानां ब्रह्मण्येव स्वरसत्वात्। तथाच-"यदेष आकाश आनन्दो न स्यात" "आनन्दो ब्रह्मेति व्यजानात्" इत्यादौ केवलानन्दपदस्य मतान्तररीत्या ब्रह्मप- रत्वमपि सवोककुर्म एव। इदमेव तु विप्रतिपन्नम्-यदानन्दमग एवा- त्रानन्दादिपद्बोध्य इति मतान्तरम्, वयं तु पश्याम :- पूर्वोक्तरीत्या बहुभि: कारणैरानन्दमयजीवत्वस्यैव युक्तत्वादू नानन्दादिशन्दो ब्रह्मपर आनन्द्मयपरो भवतीति। आनन्दविकार एव ह्यानन्दमयपदार्थः; विकारर्थे मयटोऽत्रान्नमया दिसारूप्यार्थमङ्गोकर्तव्र्यत्वात्। एतेन-आनन्दमयपदस्य जीववाचित्वे ब्रह्मवाचित्वे वा मयटो विकारार्थत्वासंभवः । नहि जीवस्य श्रह्मपरिणामित्वं केनापि स्वीक्रियते। प्रकृत्यर्थान्यथाभावो हि विकारः; मृन्मयो घट इत्यादौ तथैव दर्शनात्, आत्मनो देह-प्राणादिविशिष्टत्वेऽपि तत्कार्यत्वायोगात्। अन्यथा हि गृहमयो घटः जलमयं दर्पणमयं वा प्रतिबिम्बमित्यादि व्यवहारापत्तिः । तथाच-प्राणादयुपाधिपरिच्छिन्न आत्मा प्राणादिविकार इति निर्मलं कल्पनमित्यादि-परास्तम्। प्रतिबिम्बादि बिम्बकार्य बिम्बमयमिति व्यवहयत एवं; तत्र बिम्बस्य यादृशमुपादानत्वम्, तादृशमेव जीवकारणे परमा-

Page 51

श्रीभाष्य समालोचनम् ४९

त्मन्युपादानत्वं स्वीक्रियते, इत्यानन्दविकारत्वं जीवस्य प्रतिबिम्ब- वादे न बाधितम्। अवच्छेदवादेऽप्यवच्छेदकं तद्द्वारा विशिष्टं च चैतन्यं कार्यम्, इति तस्यापि ब्रह्मोपादानकत्वादू ब्रह्मविकारत्वो- पपत्तिः, इति आनन्दमयो जीव इति वादो नायुक्त:। प्रकृत्यर्थान्यथा- भाव इव प्रत्यकृत्यर्थान्यथाभानेऽि हि विकारशन्दोनानुपपन्नः; इदं- मयं रजतमिति व्यवहारे बाघकाभावात, कारणाभेद एव हि कार्य- स्य विकारो नाम। स च परिणाम-विवर्तोभयसाधारण एव। एतेन-प्राणमयादिशब्दोऽपि-व्याख्यातः; यदवच्छेदप्रयुक्तं यस्य कार्यत्वम्, स्वरूपतस्तु नित्यत्वमेव, तत्रोपाधिकार्यत्वप्रयुक्तमे- वोपहितकार्यत्वमित्युपा धिमय उपहित इति व्यवहारोऽपिन विरुद्धः। घटकार्यत्वं हि न गृहकार्यत्वनिबन्धनम्, इति न गृहमयो घट इति व्यवहारापत्तिः। एतेन-जलमयं दर्पणमयं वा प्रतिबिम्बमिति व्यपदेशापत्तिरपि परिहृतप्राया; प्रतिबिम्बस्यापि घटादिवत्स्रूपत एव कार्यत्वेनोपाधिकार्यत्वापेक्षं न प्रतिबिम्बकार्यत्वमिति हि सर्व- संप्रतिपन्नम्। घटाकाशे घटमय इति व्यपदेशापत्तिस्त्विष्रापत्तिरेव। सति चैवमानन्दमय इति विकारार्थमयडन्त इति सांप्रतमेव। एतेन-अन्न-प्राण-मनो-विज्ञानशब्दा भृगुवल्लीगता हिरण्यगर्भस- म्बन्घिस्थूलसूक्ष्मशरीरपरा इति पक्षोऽपि युक्त एव। तत्रान्नं स्थूलशरीरम्; मनो-प्राण-विज्ञानानि सूक्ष्मशरीराणि। अधिकं तु वेदान्तसारादौ व्यक्तम्। ब्रह्मवल्यामन्नमयादिशन्दास्तु-समष्टि- कार्यव्यष्टिजीवशरीरपराः। व्यष्टेः समष्टिकार्यत्वं चाग्निका- र्यत्वाद् विस्फुलिङ्गस्य न विवादास्पदम्। सति चैवमानन्दमयशब्दो व्यष्टिजीवपर :; स्थूल-सूक्ष्म-शरीरावचच्छिन्नचैतन्यस्यैव विशिष्टस्य जीवत्वात्, अस्यानन्द्मयत्वं चानन्दरूपव्रम्माध्यस्तकारणशरी- रावच्छेदेनानन्दकार्यत्वात् । स चानन्दमयो व्यष्टिरूपः समष्टि- रूपश्च; उभयोरपि ब्रह्मकार्यत्वाविशेषात्। भृगुवल्यामानन्दपदेन ६

Page 52

४२ श्रीभाष्य समालोचनम्

तु व्यष्टिसमष्ट्र युभयविधजीवकारणं ब्रह्म निर्दिश्यते, व्यष्टिकारणं समष्टिशरीरो हिरण्यगर्भ: ; जीवहिरण्यगर्भयोरुभयोरपि पूर्वोक्तवि- घया बह्मकार्यशरीरावच्छेदेन ब्रह्मकार्यत्वस्यैव सवीकारेण जीवस्य हिरण्यगर्भकार्यत्वाभावात्।

एतेन-अद्वैतमतरीत्या जीवशरीरादेर्हिरण्यगर्भशरीर कार्यत्वादू जी- वस्य हिरण्यगर्भकार्यत्वमेव युक्तम् ; तदर्थमानन्दपदमपि भृगुबल्लीगतं हिर- ण्यगर्भपरमेव व्याख्यातव्यम्, नतु ब्रह्मपरम्, इत्यादि-परास्तम्। पूर्वोक्तरोत्या जीवस्य हिरण्यगर्भकार्यत्वाभावात्, शरीरस्ये- व जीवस्य हिरण्यगर्भस्य वा मुख्यकार्यत्वस्यास्वीकारात्, औपा- घिकविकारत्वस्थैव तयोरङ्गीकारात्। औपाघिक विकारत्वं नामोपा-

धीन विनाशकत्वं वा। जीवस्योत्पत्तिरुपाधिसबन्धमात्रेणैव भवति, नान्यथा। एवं तन्नाशोऽप्युपाधिनाशमात्राधीनो भवति। तथाच- यथा 'शिखी ध्वस्तः' इति शिखाध्वंसमात्रेण शिखि- ध्वंसव्यवहारः, एवं घटाकाशोत्पत्ति-नाशव्यवहारोऽ घटसम्बन्ध- नाशमात्राधीन:, घटोत्पत्ति-नाशव्यवहारौ तु न घटस्य भूतलसम्य- न्घोत्पत्तिनाशमात्राधीनौ। एतेन-सम्बन्धस्य कादाचित्कत्वेन कार्यत्वेऽप्युपाधिविकारत्वाभावेन तदूद्वाराऽत्मनि विकारोपपादनं न संभवति। न हि भूतलसम्बन्धस्य भूतलपरिणामत्वव्यवहारस्तन्निबन्धनो 'भूतलं घटमयम्'इति प्रयोगो वा दृश्यत इत्यादि-परास्तम्। उपाधिगतस्यैव विकारस्योपहितेऽपि व्यवहारेण गौण एव हि विकार औपाधिको विकारः, इति उपाधिपरिणामत्वाभावेऽप्य- दोषात्। प्राणमय-मनोमय-विज्ञानमयेष्वेताटृशमेब विकार्यत्वं मन्यते। विकारे भयट्प्रत्ययो हि गौण-मुख्यप्ताधारणविकारविषय एव। यथाऽग्निन्दो गौण-मुख्यसाधारण एव प्रयुज्यते, इति प्राण-

Page 53

श्रीभाष्य समालोघनम् ४३

मयादिशब्दगतमयटो विकारार्थत्वं न विरुद्धम्; गौण-मुख्यार्थभेदेऽपि तद्बोधकशब्दभेदस्यानावश्यकत्वात्, मुख्यार्थबोघकस्यैव गौणार्थ- घोधकत्वाभावस्याप्यसंभवात् ; अन्यथा गौण्या एव लोपापते:। तथाच प्राणमयादिस्थले गौणविकारेऽपि मयट प्रत्ययप्रयोगोपपत्तौ किमु वक्तव्यम्-पूर्वोक्तविधया ब्रह्मविकारे जीव आनन्दमय इति विकारार्थो मयडिनि॥ अस्ति च-आनन्दशब्दादृपि विकारार्थे मयड् विधायकं पाणिनीयं सूत्रम्-"नित्यं शृद्ध-शरादिभ्यः" इति ; आनन्दशब्दस्य वृद्धत्वात्। अत्रे सत्र भाषायामित्यनुवृत्या भाषायामेव वृद्ध-शरा- दिभ्यो मयडिति तुन प्रामोति; भाषायां वृद्ध-शरादिभ्यो नित्यमेव, छन्दसि तु विकल्प इत्यभिप्रायस्यैव युक्तत्वात्; अन्यथा-"शरमयं बर्हिः स्तृणाती"त्यादौ वेदे शरमयादिशब्दानु- पपतेः। अत एव हि मतान्तरानुसारिणां "विकारशब्दादिति चेत्" इत्यस्यानन्दमयशब्दे मयटो विकारार्थत्वमभिप्रेत्य शङ्काग्रन्थ प्रवृत्तिविवरणमुपपद्यते; अन्यथा-आनन्दमय इत्यत्र तन्मतरीत्या विकारार्थत्वशङ्कैब नोदेति, इति सूत्राशयासंस्पर्शिता समापद्येत। अनेन तुज्ञायते-यद् बादरायणोऽपि"नित्यं वृद्ध-शरादिभ्यः"इत्यत्र भाषायामेवेति विवरणं नानुमन्यत इति मतान्तरानुसारिणामाशय इति। एतेन-आनन्दपदाद् विकारार्थे"नित्यं शृद्ध-शरादिभ्यः" इति स्मृत्या हि मयड् वक्तव्यः । स च न संभवति; तत्र सूत्रे "मयड्वैतयोर्भाषायाम्". इति सूत्राद् भाषायामित्यनुवृत्तेश्शाब्दिकेरुक्तत्वान्, छन्दसि तत्प्रवृ्त्त्ययो- गात्, शास्त्रान्तरस्य चानुपलम्भादित्यादि-परास्तम्। पूर्वोक्तरीत्या भाषायां नित्यमेवेति विवरणस्यैव-युक्त- त्वात्; अन्यथा-पृथक् सूत्रबलेनैव नित्यत्वसिद्धेर्नित्यपद्वैधर्थ्या- पत्तेः, अन्यथा शरमयमिति वैदिकोदाहरणा साङ्गत्यपसङ्गात्।।

Page 54

४४ श्रीभाष्य समालोचनम्

"एकाचो नित्यम्" इति व्याकरणान्तरसंग्रहणं तु शरादि- गणपठितमृत्पदेनाप्युपलक्षणविधया भविष्यति। व्यक्तं चैतदू बालमनोरमायाम्। एतेन-नित्यपदाभावे भाषायां वृद्ध-शरादिभ्यो मयडित्यर्थे सति "मयड्वैतयोरि"त्यनेनैव सिद्धे किमर्थमिदमिति प्रश्ने भक्ष्याच्छादनरूपा- रथेऽपि प्राप्त्यर्थमित्यपि तात्पर्यवर्णनसंभवेन तद्वारणेन वृद्ध-शरादि- विषयेऽपि विकल्पनिवृत्तितात्पर्यबोधनार्थ नित्यपदमिति कथनं भव- तीति शङ्कापि-परास्ता । 'वृद्ध-शरादिभ्यो भक्ष्याच्छादनयोरि'त्येवाभक्ष्याच्छाद- नव्यवृत्त्यर्थत्वेऽस्य सूत्रस्य सूत्रणमापद्येत, नतु "नित्यं घृद्ध-शरा- दिभ्यः" इति। सति चैवं भाषायां प्राप्तो विकल्पो नित्यपदेन वार्यत इत्येव पर्यवस्यति; अन्यथा सत्यपि नित्यपदे भक्ष्याच्छादनयोरथे वृद्ध- शरादिभ्यो भाषायां नित्यमित्यापत्तेः पुनरप्यपरिहार्यत्वात्, वा भाषायांपदयोरिवाभक्ष्याच्छादनयोरित्यस्यापि सम्बन्धस्यावश्य- कत्वादू भक्ष्याच्छादनयोरपि स्यादिति शङ्काया एवानुदयेन व्यर्थ चेदं सूत्रमापघेत वापदानुवृत्तिप्रतिबन्धकस्यात्राविवक्षायाम्, इत्येवं तत्सूत्रवैयर्थ्यापत्तिशङ्गावारणार्थ वृद्धपदे स्वरितविवक्षाव्य- वस्थापनेनैव विकल्पव्यावृत्तिसिद्धौ नित्यपद् वैधर्थ्यमपरिहरणीय- मेव। अतो योगविभागेन-"एकाचो नित्यमि"त्येतत्संग्रहार्थ नित्यपदम् , अथवा भाषायामेव वृद्ध-शरादिभ्यो नित्यम्, छन्दसि तु विकल्प इत्येतदर्थ नित्यपद्मिति वक्तव्यम्। तत्र च मृच्छन्दस्य सर्वेकाजुपलक्षणत्वस्वीकारेणैवैकाचो नित्यमित्यस्य संग्रहे सिद्धे पक्षान्तरानुसरणमेव पर्यवस्यति। तथाच छन्दसि मयटो वृद्ध-शर- टादिभ्यो विकल्प इत्येव स्वरसम्। एतेन-वेदे बह्वचः प्रातिपादिकात् परस्य मयटः प्राचुर्यार्थकत्व- मेवेति शाब्दिकरुपवर्णितमित्यादि --- प्रत्युक्त्तम्; प्रायिकाभिप्रायत्वात तदुक्त्तेः।

Page 55

श्रीभाष्य समालोचनम् ४५

तथाच विकारार्थत्वासंभवे प्राचुर्यार्थत्वमपि वेदे न विरुद्ध- मित्येव वक्तव्यम्। सत्रकृताऽत्र मयटो विकारार्थत्वशङ्का,तद्बाधात् प्राचुर्यार्थकत्वव्यवस्थापनं व न मयटो वेदे विकारार्थत्वासंभवेन, किन्तु प्रकृते तदर्थविवक्षाऽसंभवेनैवेत्येव वृत्तिकृतोऽपि मन्यन्ते। अद्वै- तमतरीप्या तु-नानन्दमयशब्दस्य विकारार्थत्वनिरसनेन प्राचुर्यार्थ- त्वसमर्थनपरम्-"विकारशब्दादिति चेत्, न प्राचुर्यादि" ति सूत्रम्, किन्तु पुच्छशव्द्श्रवणाद् न ब्रह्मणः प्राधान्येन प्रतिपादय- तेति शङ्कानिराकरणपरमेवोक्तं सृत्रम् ॥ एतेन-"विकारशब्दाद् नेति चेदि"ति सूत्रेण मयटो भगवतैवात्र विकारार्थत्वनिरसनपूर्वकं प्राचुर्यार्थकत्वं स्थाप्यते, इति नात्र सूत्रकृत्नि- रस्तार्थकत्वशङ्कापि शोभते ; तस्य स्वबुद्धिपरि कल्पितात्यन्तास्वरसार्थ- कत्वं तु परस्ताद् निराकरिष्यत इत्यादि --- निरस्तम्। भवद्भिमतार्थे मयटो विकारार्थत्वस्यैवासंभवे सति" विका- रशन्दादि"ति शङ्कोत्तरयोरकाशमुष्टिहननतुल्यत्वेन सृत्रकाराणा- मानन्दमयपदे मयटो विकारर्थत्वनिरसनाभिप्रायवर्णनस्यात्यन्ताव- हेत्वात्। आनन्दमीमांसाया ब्रह्मणो निरतिशयानन्दवत्वतात्पर्यमेक- मेवानन्दमय इत्यत्र मयटो विकारर्थत्वासंभवेन प्राचुर्यार्थत्वे गमक- मिति मतान्तराभिमतम्। यथाचानन्दमीमांसा ब्रह्मस्वरूपानन्द- निरूपणाथैव, तथा पूर्वमेव विवेचितम्। वस्तुतस्तु-आनन्दमय इत्यत्र मयटो वेदे विकारार्थत्वाभावेनैव प्राचुर्यार्थत्वसंभवे व्यर्थ- मभ्यासेनानन्द्मयस्य ब्रह्मत्वसावनम्। तथाच-"आनन्दमयोऽभ्या- सात्" इति सुत्रस्यैव वैदर्थ्य मतान्तरे स्यात्, आनन्दमयपदे विक्का- रार्थत्वस्यैवासंभवेन जोवपरत्वसंदेहस्यैवानवसरात्। यथा चैवं सत्या नन्दमयाधिकरणस्यापि वैधर्थ्यम्, तथापि सृचितपायमेव; सन्देहा- आव्रेन विचारस्यैवानपेक्षणात। यदि चानन्दमय इत्यत्र न मयटो

Page 56

४६ श्रीभाष्य समालोचनम्

विकारार्थत्वमेव संभवति, तदा प्रायपाठेनापि कथं वा शङ्कोदेति ? अथ मन्येत-लक्षणया "तस्यैष एव शारीर आत्मे"त्यादिवाक्यो- पपत्यर्थ जीवपरत्वशङ्का,तदापि सिद्धान्तासिद्धिः। तत्र च "विका- रशब्दादिति चेदि"ति सृत्रासंभवः; अभ्यासेनानन्दमयस्य परमा- त्मत्वे निर्धारिते लाक्षणिकार्थ विवक्षाशङ्कानवसरात्। तथाच विका- रार्थत्वमपि मयटो वर्तत इति कृत्वैवोक्तसूत्राणां प्रवृत्तिरिति स्ी- कर्तव्यम्। सति चैवं प्रायपाठनुगृहीतं लिङ्गम्, आनन्दमयपद्स्य श्रुतित्वे शब्द:, आनन्दमयो जीवः, जीवाहंकारास्पदोत्तरोत्तरसूक्ष्मा- र्थरूपत्वादित्यनुमानं चानन्दमयजीवत्वे मानम्। एतेन-आनन्दमयो श्रह्म, शरीरादिपश्चमस्थानत्वात्, भृगुवल्या- म्नातानन्दवदिति प्रत्यनुमानमपि-प्रत्युक्तम्: विकारार्थकमयडन्तपदा- प्रतिपाद्यत्वस्योपाधित्वात्। भृगुवल्ल्यां हि "आनन्दोव्रह्मति व्यजानात्" इत्यानन्दो न विकारार्थकमयडन्तपदप्रतिपाद्यः, इति न ब्रह्म, इत्युपाध्यभावेन साध्याभावसाधनादेव न प्रतिपक्षानुमानावसर:। आनन्दमय इति हि विकारार्थकमयडन्त एव; निरतिश यत्वापरपर्यायप्राचुर्यार्थकत्वस्य तत्रासंभवात्। तदुक्तं परिमले- "तत्प्रकृतवचने मयट्" इति सृत्रं द्वेधा व्याख्यातं शाब्दिकैः-प्रथ- मान्तात् प्राचुर्येण प्रस्तुतमिदमित्यर्थे वर्तमानात् सार्थे मयट्। प्रकृत- शन्दस्य प्रस्तुतमात्रपरत्वेऽपि वचनग्रहणसामर्थ्यात् प्राचुर्यलाभ इत्ये- कं व्याख्यानम्, अन्नमय मित्युदाहरणम्। प्राचुर्येण प्स्तुतमन्नमि- त्यादिरर्थः । प्रथमान्तात् प्रकृतमुच्यतेऽस्मिन् इत्यर्थे मयडित्यपरम्। अन्नमयो यज्ञ इत्युदाहरणम्। एतत् द्विविधमपि व्याख्यानं न वृत्ति- कारमतानुकूलम्। प्रथमपक्ष आनन्दमयपद्स्य प्राचुर्येण प्रस्तुतानन्द- मात्रपरत्वस्य द्वितीये प्रस्तुतानन्दवत्परत्वस्य च सिद्धावपि तद्भि- मतस्य प्राचुर्येण प्रस्तुतानन्दवत्परत्वस्यालाभात्, प्रथमेऽन्यपदार्थस्य द्वितीये प्राचर्यस्य च लाभोपायाभावात्" इति।

Page 57

श्रीभाष्य समालोचनम् ४७

द्विविधमिदं व्याख्यानं गृहीत्वैव श्रीभाष्यकारा अपि "प्राणवृत्तिमत्तामात्रेण प्राणमयत्वम्, प्राणापानादिषु पश्चसु प्राण- वृत्ते: प्राचुर्याद्वे"ति वदन्ति: व्याख्याद्वयेऽपि प्राचुर्य-सम्बन्धयोरुभ- योरषि विवक्षायां तु प्राचुर्याद्वेति न संगतं स्यात्। तथाचोक्त्तव्या- ख्यद्वयस्य परिमलादृतस्य निरसनं स्वमूलाचार्याद्टतपक्षस्यैव निरस- नम्। सर्वधा तु तुष्यतुदुर्जनन्यायेन श्रीभाष्यमतं गृहीत्वैव परिमल- काराणां योजनावयम्, नतु वस्तुगत्येति नकोऽपि दोषः। आनन्दम- याधिकरणे बहुषु स्थलेषु स्वार्थिको मयडिति तदीयानां व्यवहा- रोऽप्यत एवोपपदते। एतेन-आनन्द इत्यस्य "तद्गुणमारत्वादि"त्यादिना "आनन्दो श्रह्मेति व्यजानादि"त्यत्रेवानन्दवदर्थकतया सदन्वितेन मयटा महो- दार: परमकारुणिकः" इत्यादौ महत्व-पारम्यादेरिव विशेषणान्वयिनः प्राचुर्यस्य बोधो निगबाधः, इति प्रथमव्याख्यानमपि वृत्तिकारानुकूलमे- वेति-परास्तम्। "तद्गुणसारत्वत्" इति न्यायो हि केवलगुणवाचकशब्दप- . योगस्थल एव प्रवर्तते, नतु यथाकथंचिद् धर्मिबोधसंभवेऽपि। तथाचानन्दमयशब्दस्य द्वितीयव्याख्यानरीत्या धर्मिबोघकत्वसंभ- वादू विना प्राचुर्यमानन्दविशिष्टबोधनेन जीवपरत्वस्यैव युक्तत्वाच्च न निरतिशयानन्दवतोऽत्र प्रतीतिसंभवः । अस्तु वा कथंचिद् धर्मिबोधकत्वं तद्गुणसारत्वनयेना- नन्दपदस्य; तथापि प्राचुर्यमानन्दवत एव प्रतीयेत; प्रत्ययानां प्रकृ- त्यर्थान्वितस्वार्थबोधकत्वम्, नतु प्रकृत्यर्थविशेषणान्वितखवार्थयो- धकत्वमिति नियमेन प्रकृत्यर्थविशेषणस्थानन्दस्य प्राचुर्येऽन्वयस्य वाधितत्वात्। 'परमोदारः परमकारुणिकः' इत्यादौ साक्षात्विशे- षणस्य विशेष्येणान्वयः। अत्र तु विशेष्यान्वितस्य विशेषणस्य विशे- व्यान्तरेणान्वयः, इत्येकान्वितस्यार्थस्य सविशेष्यापारतन्त्रयेणान्या- न्वयो हि बाधित एव।

Page 58

४८ श्रीभाष्य समालोचनम्

वस्तुतस्तु-परमोदार इत्यादावपि परमादिपदस्योदारादि- विशेष्येणैवान्वयः, नतु विशेषणेन; अभेदान्वय एकदेशान्वयस्य 'ऋद्धस्य राजमानङ्ग:' इत्यादावव्युत्पन्नत्वस्य प्रसिद्धत्वात्। अस्तु. वा करथंचित प्रचुरानन्दवद्वोधकत्वमानन्द्मयपद्स्य, यत्रानन्दमयपदं प्रचुराणामानन्दानां निरूपणानन्तरं प्रयुक्तम्। "तस्माद्ा एतस्मादिज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमयः" इति वाक्यं तु नानन्दानां प्रचुराणां प्रस्तावानन्तरं प्रवृत्तम्, प्रस्तोष्या- माणमेव खल्वानन्दप्राचुर्यम्, नतु तत्र प्रस्तुतम् । प्रस्तोष्यामाणास्तु आनन्दाः हिरण्यगर्भानन्दान्ताः, नतु ब्रह्मानन्दः; "यतो वाचो निवर्तन्ते" इति तस्यावाङ्मनसगोचरत्वबोधनात्। "तत्प्रकृतवचने मयडि"ति सत्रं हि सिद्धान्तकौमुदादिव्याख्यानरीत्यापि प्राचु- र्येण प्रस्तुतानन्दशब्दादेव मयटं विद्धाति, नतु प्रस्तोष्यमाणानन्द- शब्दात्। प्रस्तुतपद्स्य प्रस्तोष्यमाणपरत्वं तुन सङ्गतम्; यथाश्रुतार्थ- त्यागे कारणाभावात्। अस्तु वा प्रस्तोष्यमाणानन्दानामपि प्रस्तुतशब्देन ग्रहणम्, एवमपि गन्धर्व-कर्मदेव-देवेन्द्र-बृहस्पति-प्रजापतीनां जीवानामानन्दा अपि प्राचुर्येण प्रस्तोष्यन्ते, इति प्रचुरानन्दवत्त्वमपि जीवसाधारण- मेव। तथाच जीव-ब्रह्मणोरुभयोरप्यानन्दमीमांसायां प्रचुरानन्दवत्वेऽ- वगम्यमाने किमानन्दमयो जीवः, उत ब्रह्मेतिसंशये "तस्पैष एव शारीर आत्मे"त्यादिवाक्यान्वयस्वारस्यस्यानन्दमयजीवतायामेवोप- पत्तिः, नतु तद्ब्रह्मतायामपि। "सएको ब्रह्मण आनन्दः" इत्यस्यापि हिरण्यगर्भपरत्वे तु जीवस्यैव प्रचुरानन्दवत्त्वं प्रस्तुतम्, नतु ब्रह्मणः, इति कथं वाऽऽनन्दप्राचुर्यविवक्षायामपि नानन्दमयो जीवः ? निर्वि- शेषप्रधानाया ब्रह्मवल्या: सविशेषानन्दब्रह्मबोधकत्वं तु बाधितमेव। एतेन-तस्य प्रकरणस्य स्वाभाविकबहुविधधर्मप्रतिपादन- परत्वदर्शनेन निर्विशेषपरत्वासंभव इति-परास्तम्; "यतो वाचो

Page 59

श्रीभाष्य समालोचनम् ४६

निवर्तन्ते" इत्यस्य तत्र सर्वधर्मनिषेधपरस्य वाक्यशेषस्य सच्वेन निर्विशेषपरत्वस्य निर्बाधत्वात। यथाचेदं वाक्यं ब्रह्मणो न निरति- शयानन्दवत्वं बोधयति, तथा पूर्वमेवोक्तम्। अत एव "ब्रह्मविदा- प्रोति परम्" इति ज्ञेयतया प्राप्यतया च विवक्षितं ब्रह्म "सत्यं ज्ञानमनन्तं ब्रह्मे"ति ज्ञानरूपं त्रिविधपरिच्छेदशून्यं "यी वेद निहितं गुहायामि"ति गुहानिहितजीवाभिन्नं च प्रतिपादितमुपपद्यते। "ब्रह्मविदाप्नोति परमि"ति प्राप्य-प्रापकभावेन भेदव्यवहारस्तु आनन्दरूपेणाज्ञानद्शामभिप्रेत्य, आनन्दरूपेणापि ज्ञाने तु-"स यश्चायं पुरुषे। यश्चासावादित्ये। स एक: ।" इत्येकत्वेनैव व्यप- देश:, इति काल्पनिक एव। अत एव-"ब्रह्म वेद ब्रह्मैव भवति" "अमृतं मा कुर्वि" त्यादिवाक्यान्युपपद्यन्ते। "निरञ्जनः परमं' साम्यमुपैति" इति

जगद्ू यापार-भोगादिसर्वसाम्यप्रतिपादनार्थमेव प्रवृत्तम् ; अन्यथा परमपद्वैयर्थ्यापत्तः । "मम साधर्म्यमागताः" इति तु परमप- दाभावादू भेदापेक्षां गौणमुक्तिमेव प्रतिपाद्यतीति सर्वसंप्रति- पन्नमिदम्। एतेन-"जगद्वयापरावर्ज प्रकरणादसन्नहितत्वाच्च" इत्यादिश्रुति- स्मृतिसूत्रैमुक्तिदशायां मुक्त्तस्य ब्रह्मणोऽत्यन्तसादृश्यमात्रबोधनेन "अमृतं मा कुवि" त्यादिवाक्यानां तद्विरुद्धश्रह्माभेदबोधकत्ववर्णनं हेयमेव; अमृत- शब्देनात्र मुत्तस्यैव ग्रहणात्, ब्रह्मणोऽग्रहणात् ; अन्यथा जीवत्रह्माभेदस्य स्वतः सिद्धत्वान् कुर्विति कर्तव्यत्वप्रार्थना नोपपन्ना स्यादिति-परास्तम्।

"जगद्चापारवर्जमि"ति हि सूत्रमुत्क्मापेक्षमुक्तिपर मित्यु- भयसंप्रतिपन्नम्। उत्क्रमणापेक्षा च मुक्तिगौंणमुक्तिरित्यद्रैनमतम्, परममृक्तिरप्युत्क्मणमपेक्षत इति तु मतान्तरम्। तत्र चोत्कमणं न परममुक्तिरपेक्षत इति बोधनार्थमेव "प्रतिषेधादिति चेत्,न" स्पष्टो

Page 60

५० श्रीभाष्य समालोचनम्

ह्येकेषामि"ति सृत्रद्वयम्-"अत्र ब्रह्म समश्नुते" "न तस्य प्राणा उत्क्ामन्ती" त्यादिवाक्यानुसारेण बोधयति, इति जगद्वचापारेण साकं ब्रह्मभाव: परममुक्तिरित्येव सूत्रकाराशयः । अत एवो"त्तरा- च्चेदाविर्भृतस्वरूपस्तु" "व्राह्मेण रूपेण जैमिनिरुपन्यासादिभ्यः" इत्यादिसृत्रेषु मुक्तस्य जीवस्य ब्रह्मणा साकमभेद: प्रतिपादित उप- पद्मते। सति चैवम्-"निरञ्ञनः परमं साम्यमुपैति" इत्यादिवा- क्यान्यपि ब्रह्मभावमेव मोक्ष गमयन्ति, नतु साधर्म्यमात्रम्। "माममृतं कुरु" इति अमृतत्वेन जीवनकरणप्रार्थनापि तु नानुप- पन्ना; मृतत्वावस्थानिरसनमेव हि जीवस्यामृतत्वकरणं नाम। तथाच "ब्रह्मविदाप्नोति परमि"त्युपक्रमोऽद्वैतमतस्यैवानु- कृलः। इदं हि वाक्यं संग्रहरूपम्-"तदेषाऽभ्युक्ता" इत्युपक्रम्या- म्नातैर्व्याख्यारपैः-"सत्यं ज्ञानमनन्तं ब्रह्मे" त्यादिवाक्यैरेव निर्धार्यम्, इति युक्तमेव पूर्वोक्तं सर्वमपि, इति ब्रह्मनिर्विशेषता- प्रकरणमेव ब्रह्मवल्ली भृगुवल्ली च।। एतेन-"सोऽशनुते सर्वान् कमान् सह। ब्रह्मणा विपश्चिते' ति वाक्यमपि-व्याख्यातम्; स ब्रह्मवित ब्रह्मणा ब्रह्मरूपेण ब्रह्मभावमापन्नः सन् सह=युगपत् सर्वान् कामान् सर्वानानान्दान् अनुभवति, इति विवरणस्यैवात्र विवक्षितत्वेन सहयोगतृतीयाया अत्र विवक्षणाभावेनास्यापि भेदप्रतिपादनपरत्वाभावात्। सत्यं "सोऽइनुते सर्वान् कामान् सह" इत्याप्रोतिपदार्थ- विवरणम्। ब्रह्मणा विपश्चितेत्यपि तु "सोऽशनुते सर्वान् कामान् सहे" त्यस्य तात्पर्यार्थकथनरूपमेव । सति चैवम्-'परमामनोति'- इतिपद्द्वयमपि विधृतं भवति; अन्यथा ब्रह्मणा सह सर्वकामानु- भवितृत्वविवक्षणे-"परमाप्नोतीति" इत्यविधृतमेव स्यात्। तत्प्राप्तिर्हि तदैव पुरुषार्थो भवेत्, यदि प्राप्यमानन्दरूपं स्यात्। आनन्दरूपत्वं तु ब्रह्मण आनन्दरूपस्य ब्रह्मणोऽवाङ्मनसगोरत्व-

Page 61

श्रीभाष्य समालोचनम्

स्योपरि वर्णयिष्यमाणत्वात् "एतस्यैवानन्दस्यान्यानि भूतानि मात्रासुपजीवन्ती"तिश्रुत्या युगपद नुभूयमाना: सर्व आनन्दा आन- न्दात्मकं व्रह्मेति बोधननैवोपपादितप्रायं भवति, इति "सोऽश्नुते सर्वान् कामान, सहे"ति वाक्यं पवृत्तम्। मतान्तरे तु ब्रह्मणा सहेति सहयोगतृतीयाया विवक्षणाद् ब्रह्मण आनन्दानुभवितृत्वं न भवत्येव-"दशभिस्सह पुत्रैस्तु भारं वहति गर्दभी"इतिवत, इति स्यात्, अथवा पुत्रेण सहागतः पितेत्यादाविवाप्राधान्यं ब्रह्मण: स्यात्, इति सहपदार्थो युगपदित्यर्थविवक्षव युक्ता। तथाच-युगपत् सर्वानानन्दाननुभ्वात इति विवक्षणे कथमिद्- मुपपद्यते-बद्धमुक्तसाधारणसर्वानान्दानां मुक्तेनानुभवासम्भवा- दिति शङ्कायाम्-युगपत्मवानन्दानुभवितृत्वं नाम सप्रकाशचैत- न्यस्वरूपब्रह्मभाव एवेति बोधनार्थ ब्रह्मणा विपश्चितेति वाक्यं परघृत्तमिति तु निष्कर्षः ॥ एतेन-अस्मदादिभिस्तरतमभावेनानुभूयमानानामानन्दानां विषयवृत्ति-

सिद्धप्रमाणलेशोऽपि नास्ति, स्वेच्छया तदभ्युपगमेऽपि ब्रह्मभूतस्सन सर्वान् कामान् युगपदनुभवतीति प्रतीयमानवाक्यार्थसामर्जस्यामम्भव इत्यादि-परास्तम्; "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुप- जीवन्ति", इति श्रुत्या लौकिकानन्दानां ब्रह्मानन्दैकदेशत्वसिद्धेः॥ यद्यपि लोके वेदे च-विष्णुमित्रस्य ज्ञानं देवदत्तज्ञानेऽन्त- र्गतम्, एवमेवं सर्व तदभिसमेति यत्किश्च प्रजाः साधु कुर्वन्ति, इत्यादीन्यन्यज्ञानकर्मापेक्षया देवदत्त-रैक्रज्ञान-कर्मणोराधिक्यमेव प्रतीयते, नत्वंशांशिभाव :; तथाप्यत्रांशवाचकस्य मात्रापदस्य विद्य- मानत्वात् हस्तादिप्रतिप्रतिबिम्बा देवदत्तशरीरस्य मात्रामेवोप- जीवन्तीत्यादाविवांशांशिभाव एवात्र मुख्यतयाऽवगम्यते, इति मुख्यार्थत्यागे कारणाभावादू न ब्रम्मानन्दानामधिक्यापेक्षया-

Page 62

श्रोभाष्य समालोचनम्

"एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती"ति श्रुतिवाक्यं प्रवृत्तम्, किन्तु ब्रह्मानन्दस्यैवांशा: प्रतिबिम्बरूपा जीवानन्दा इति भावेनैव प्रवृत्तम्; अन्यथा-बद्ध-मुक्तसाधारणजीवानन्दानां ब्रह्मा- नन्दापेक्षयाऽत्यन्तभेदे "सोऽशनुते सर्वान् कामान् सहे"तिवाक्ये ब्रह्मणा सह जोवानामानन्दानुभवितृत्वं किं नाम विवक्ष्यत इति वक्तव्यम्। यदि ब्रह्म स्वानन्दाननुभवति, जीवोऽपि खानन्दान्, नतु ब्रह्मानन्दमित्यर्थः, तर्हि-बद्धोऽप्येवमेव सानन्दाननुभवति, इति बद्ध-मुक्ताविवेक: समापदेत। नहि बद्ूजीवानामानन्दानुभ- वकाले ब्रह्म नानन्दाननुभवतीत्यत्र प्रमाणमस्ति॥ एतेन-श्रह्मणा सह तद्गुणानश्नुते; सकलकल्याणगुणविशिष्टघ्रह्मानुभ- वतीत्यर्थे ब्रह्मणो गुणापक्षयाऽप्राधान्यस्येष्टत्वेन विरोधगन्धाभाव इति- परास्तम् ॥ तथा सति हि ब्रह्मणो गौणं प्राप्यत्वम्, कामानामेव मुख्यं प्राप्यत्वमित्यर्थविवक्षाऽडपद्येत । तथाच-"परमाप्नोति"इति श्रुतौ परस्य ब्रह्मणोऽवगतं प्राप्यत्वमत्र बाधितं स्यात्, इति "सोऽशनुते' इत्यस्य भवदभिमतं "परमाप्नोति"विवरणार्थत्वमपि हीयेत॥ एतेन-'परमे व्योमन्' विपश्चता ब्रह्मणा सह सर्वान कामान् समश्नुते इत्यन्वयात् परमव्योमशब्दिताप्राकृतदेशविशेपे एप ब्रह्मणा सह तद्गुणाननुभवतीत्येवोक्तश्रुत्यर्थ इति --- परास्तम्। "यो वेद निहितं गुहायां परमे व्योमन्नि"ति वाक्यान्तर- श्रुतस्य परमव्योमपदस्य "सोऽश्नुते सर्वान् कामान् सहे"ति वाक्य- श्रुतस्य सहपदस्य च सति संभवे वाक्यान्तरेऽन्वयं विनैवोपपत्तौ तत्कल्पनाया अयोगेनोक्तार्थवर्णनं ह्वसांप्रतमेव; परमव्योमशब्दस्या- प्राकृतदेशविशेषपरत्वे प्रमाणाभावात्, "त्रिपादस्यामृतं दिवि"इ- त्यस्य वाक्यस्य सर्वेषां प्रपश्चानां ब्रह्मण्यारोपितानामेकपादत्वम्, पादत्रयं तु ब्रह्मण: प्रपश्ासम्बन्घं सच्चिदानन्दरूपमिति बोधन एव

Page 63

श्रीभाष्य समालोचनम् ५३

तात्पर्षेण ब्रह्मणोऽप्राकृतदेशविशेषेऽवस्थानबोधनेऽस्य वाक्यस्य तात्पर्यासंभवात् ; अन्यथा ब्रह्मणः स्तो व्यापकत्वासंभवापस्या "आकाशावत्सवगतइच नित्यः" इति श्रुतिविरोधापत्तेः। अत एव "ज्योतिश्चरणाभिघानात्" इति सृत्रगुणसूत्रे- "भूता दिपाडव्यपदेशोपपत्तेशचैवम्।" "उपदेशभेदादिति चेन्नोभ- यस्मिन्नप्यविरोधात्" इति उपपद्येते ; अन्यथा-"त्रिपादस्यामृतं दिवि" इति वाक्ये दिविपदस्याम्ाकृतदेशविशेषपरत्वे तस्य पर- मात्मदेशत्वात् ततः परत्वं परमात्मनः "अथ यदतः परो दिवो ज्योतिरि"ति वाक्ये प्रतिपादितं विरुद्मेव स्यात्, इत्यु"भयास्मि- न्नप्य विरोधादि"ति सूत्रणमनुपपन्नमेव स्यात्। एतेन-"तद्विष्णोः परमं पदम्" इति श्रुतिरपि निर्विशेषं ब्रह्मैव बोधयतीति-सचितम् ; कठवल्ल्यां हीयं श्रूयते, इति तस्या: शुद्धचैतन्यमात्रपर त्वस्यैव युक्तत्वात्।अत एव-"त्रयाणामेव चैवमुपन्यास: प्रश्नइच"इति वरत्रयप्रदानानुसारेणैकत्वेऽप्यात्मविष- यस्य प्रशनस्य प्रायणावस्थायां देहादिव्यतिरिक्तास्तित्वमात्रविचि- कि सनेन कर्तृत्वाद्यनपोहनाच् जोवविषयत्वम्, धर्माद्यतीतत्वसंकी- नेन तस्यैव कर्तृत्वादिरहितचैतन्यमात्रस्वरूपत्वं चादाय पितृसौ मनस्याग्निविद्यात्मविद्याप्नानामेवात्र त्रयाणां विवक्षणमुपपद्ते;

चतुष्टयकल्पनापत्त्या वरत्रयातिरेकेण प्रश्नकल्पनाप्रसङ्ग: । अत एव-"यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्यु- र्यस्योपसेचनं क इत्था वेद यत्र सः" इति सकलजगत्कारणस्य संहर्तुः परमेश्वरस्याघिष्ठानं स्वरूपचैतन्यं "तं दुर्दशं गूढमनुप्रविष्टम्" इति वाक्यनिर्दिष्टं दुर्दशरूपतयोपसंहियते। "क इत्था वेद यत्र सः" इति; स संहर्ता यत्र, तत् क इत्था इदंतया जानातीति वाक्यंयोजनात्। मतान्तरे तु-यत्रपदवैयर्थ्यापत्तिः; स इत्था ईदृदश इति को जाना-

Page 64

५४ श्रभाष्य समालोचनम्

तीति योजनमात्रेण तद्भिमतार्थसिद्धः। अत्र-"गूढमनुप्विष्टम्" इति वाक्येन गुहानिहिताभिन्नत्वमपि दुर्दर्शस्य स्वरूपचैतन्यस्य विवक्षितम्, इति "ब्रह्मविदाप्नोति परम्, यो वेद निहितं गुहाया- मि"ति वाक्षद्रयेनाप्येकवाक्यताऽवगम्यते, "परमे व्योमन्नि"त्यनेन तु हृदयाकाशस्यैव विवक्षितत्वेऽपि तस्यैव बुद्धिस्थानत्वाद् बुद्धिता- दात्म्यापन्नत्वमप्यर्थसिद्धमेव। "हार्दमेव तु परमं व्योमे"ति न्या- य्यम्" इति वदन्तो भाष्यकारा अप्यत्रानुकूलाः। तत्रतत्र गुहा- पदेन बुद्धि विवक्षणमप्येतद भिप्नायमेव। एतेन-"गुहाहितं गह्वरेष्ठं पुराणम्" "दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः" "गुहां प्रविष्टौ परमे पराध्ये"इत्या- दिवाक्यान्यपि-व्याख्यातानि। यद्यपि "गुहाहितम्" "दहरोऽ- स्मिन्नन्तराकाशः" इति वाक्यदये परमात्मन एव ग्रहणम्, न जोवात्मनः, इति "यो वेद निहितं गुहायामि"तिवाक्येऽपि पर- मात्माभेदस्यैव विवक्षा, न जीवाभेदस्य; तथापि-"गुहां प्रविष्टा- वात्मानौ हि"इति जीवत्मनोऽपि गुहानिहितत्वस्य विद्यमानत्वाद् यत्र प्रकरणे जीवरूपेण परमात्मविवक्षा प्रतीयते; तत्र गुहानिहित- पदेन जीवात्मनो विवक्षा, यत्र तु जीवव्यावृत्तरूपेणोपासना विशेषे जीवव्यावृत्तघर्माणां निर्देशानुसारेण परमात्मनो विवक्षा, तत्र पर- मात्मन एव विवक्षेत्येव निष्कर्षः । तथाच-"तस्यैष एव शारीर आत्मा"ति शरीरा दिनिहितत्वेनैव सर्वान्तरतया परमात्मनोऽत्र वि- वक्षणादूं जीवाभेद्विवक्षायाः प्रकरणेनावगतत्वादू नात्र केवलपर- मात्मरूपेण ब्रह्मणो विवक्षा, किन्तु जीवाभेदेनैव। यथा-दहरे पुण्डरीके वेश्मनि अन्तराकाशोऽपि दहराकाशपद्वाच्यपर- मात्मस्थानसया विवक्ष्यते, तथाऽत्रापि गुहायां परमं व्योम विवक्षितम्, इति हार्द व्योम परमात्माभिव्यक्तिस्थानत्वात् परमं व्योम।

Page 65

श्रीभाष्य समालोचनम् ५५

एतेन-हार्दाकाशपरत्वे व्योम्नः परम इति विशेषणमपि न संग- चछते। अतः सर्वथोत्तरवाक्य एव 'परमे व्योमन्' इत्यस्यान्वय आव- श्यक इति शङ्का-परास्ता । इदमेवाभिप्रेत्योंकं ब्रह्मविद्याभरणे-गुहानिहितत्वरूपमा- न्तरत्वं न ब्राह्मेण रूपण, किन्तु जैवेनवेति। अनवच्छिन्नं रूपं ब्राह्मम्, अवच्छिन्नं तु जैवम्, इत्यन्तःकरणोपहितस्य जीवस्य ब्रह्मणश्च स्वरूपतोऽभेदविवक्षामेव तद्वाक्यं गमयति। एतेन-वेदनकर्तृत्वेन प्रस्तुतस्य जीवस्यानुपदमेव तत्कर्मत्व- मङ्गीकृत्य गुहानिहितत्वाभिधानमत्यन्तासङ्गतमिति-परास्तम्; श्रह्मा- नेदयोग्यचैतन्यांशमात्रमभिप्रेत्य कर्मत्वस्य विशिष्टरूपेण कर्तृत्वस्य च विवक्षायां बाधकाभावात्। 'परमे व्योमन्' इति परमव्योमशब्दस्य परमात्मपरत्वेन तदा- श्रितं हि रूपं जैवं रूपमेवेति हि वस्तुस्थितिः । विशदं हि परम- व्योमशब्दस्य परमात्मपरत्वं "सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिते"त्यत्र। एतेन-"यो वेद निहितं गुहायामि"ति वाक्ये परमव्योमशब्दस्य परमात्मपरत्वेऽत्र जीवाश्रयत्वस्य ब्रह्मणि

ब्रह्मतैवेति-परास्तम्; विज्ञानमयमात्रजीवताया अनभ्युपगमात्, आनन्द्मयस्यैव वस्तुगत्यास्यापि जीवत्वात् तदाश्रयस्य पुच्छब्रह्मण एव प्राधान्यसिद्धेश्च। अस्तुवा कथंचन गुहानिहितपदेन परमात्मन एव विवक्षा, एव- मपि ब्रह्मणा विपश्चितेति अभेदतृतीयया मुक्तस्य ब्रह्मभाव एव विवक्ष्यते, सच न लोकान्तरे, इति नोत्कमणमपेक्षते। तथाच 'परमे व्योमन्नि'त्यस्योत्तरवाक्येनान्वयोऽनवसर एव; 'धान्येन धन- वान्' इत्यादिप्रयोगेष्वभेदेऽपि तृतीयाया दर्शनात्। एतेन-ब्रह्मरूपेणेति "विपश्चिता ब्रह्मणेति चोत्थंभूतलक्षणे तृतीया न संभवति; जटाभिस्तापस इत्यादौ तदुदाहर णेडभेद्बोधादर्श- नादिति-परास्तम्।।

Page 66

५६ श्रीभाष्य समालोचनम्

अत्रेदं तत्त्वम्-अद्वैतमत एकजोववादोऽनेकजीववादश्चेति समस्ति प्रक्रियाभेदः। तत्रैकजीववादे शुद्धब्रह्मभावो मुक्तिः, अनेक- जीववादे यावत्सर्वमुक्ति ईश्वरभाव एव मुक्तिः। तथाच-विप- श्चिता ब्रह्मणेति सर्वज्ञेनेश्वरेणाभेदो विवक्ष्यते, ज्ञेयं तु ब्रह्माचि- दयोपहितमेवेति जागदूध्यापारसहितब्रह्मभाव एव तन्मते मुक्ति:। व्यक्तं चैतत् सिद्धान्तलेशसंग्रहे-मुक्तात्मखवरूपनिरूपणप्रकरणे चतु- र्थपरिच्छेदे। सति चैवमीश्वरभावद्शायामीश्वरदृष्ट्या "लोकवत्तु लीलाकैवल्यम्" इति न्यायेन मिथ्याभूतस्य भेदस्य सत्त्वात् "सोऽ- इनुने सर्वान् कामान् सहे"ति भेदव्यपदेशोऽपि नानुपपन्नः । एतेन-अखण्डानन्दरूपश्रह्मतापत्तिहिं तव मते साक्षान्मुक्ति: । तस्यां च दशायां कस्यचिदपि भेदस्याभावेनाखण्डानन्दरूपश्रह्मण एवा- नुभवविषयत्वासंभवे कथं कामपदवाच्यबहुविधसुखानां तत्त्वं संभवदु- क्तिकमित्यादि-निरस्तम्; उक्तरीत्येश्वरभावरूपमुक्तिविवक्षायां सर्व- दोपनिरासात्। एवं च सर्वनदी-नदसम्भेदसमये सरखति स्नातो घथा सर्वत्र स्नातो भवति, एवं सर्वानन्दबिम्बरूपं ब्रह्मानन्दमनुभवन् सर्वान् कामान् समशनुत इति युक्तमेव। अत्र नदीममुद्रदृष्टान्तादूरणं समुद्रसङ्गमानन्तरं नदीनां समुद्रेणेव बिम्ब-प्रतिबिम्बयोरप्यभेदमभि- प्रेत्य, नतु समुद्रस्य नदी-नद्समुदायरूपत्ववत् ब्रह्मानन्दस्य लौकिकां- नन्दसमुदायभावमभिप्रेत्य; अवयवावयविनोरिव बिम्ब-प्रतिबिम्ब- योरपि कल्पितभेदाविरोध्यभेदस्यैव सवीकाराद्। लौकिकानन्दानां ब्रह्मानन्देन नात्यन्ताभेदोऽद्वैतमते विवक्षितः; इति "लौकिका- नन्दानां ब्रह्मानन्दत्वे तेषां हेयतैव न स्यादिति शङ्काया नावसरले- शोऽपि ;. प्रतिबिम्बनाशेऽपि बिम्बानाशन बिम्ब-प्रतिबिम्ब- भावस्थले बिम्बाभेदेन प्रतिबिम्बानामपि बिम्बसमानकालिकत्वा- धभ्युपगमासम्भवात्। तथाचैकानन्दानुभवकाल आनन्दान्तर-

Page 67

श्रीभाष्य समालोचनम् ५७

कालासम्भवादू युगपत् सर्वान् कामान समश्नुते इत्यस्य सर्ववैषयि- कानन्दबिम्बानन्दानुभवितृत्वबोधन एव तात्पर्थमवगम्यते, नतु विनश्वरतत्तादृशसर्ववैषयिकानन्दानुभवितृत्वबोघने; हेयत्वेनाभि- मतानां प्राप्यत्वस्यानङ्गीकारात॥

एतेन-हेयत्वेनाभिमतानां प्राप्यत्वेनाभिधानं-'सर्वान् कामा- नि'त्यभिधानं च न साम्प्रतम्; ततश्चाद्वतमते-"सर्वान् कामान् समश्नुते"इत्यस्य सर्वथा बाध एव प्रसज्येतेत्यादिकम्-अपास्तम्; दत्तोत्तरत्वात्।।

निर तिशयानन्दरूपपुरुषार्थप्रतिपादनमेव स्वीकर्तव्यम्; अन्यथा- सहपदस्य-"ब्रह्मणा विपश्चिते"त्यनन्तरमेवाम्नानापत्तिः। तथा- च-ब्रह्मणा सहेत्यन्वयः सम्प्रदायागतवाक्यविच्छेदाननुगुण:।। अत एव "तेषां ऋग् यत्रार्थवशेन पाद्व्यवस्था"इति ऋगलक्षणोपपत्ति: ॥ एतेन-अर्थवशेन वृत्तवशेन वा पादव्यवस्थैवात्राभिमतेति शङ्का- परास्ता; यत्रार्थवशेन पादव्यवस्थाया असंभवः, तत्रैव हि वृत्तवशेन पादव्यवस्था स्वीकर्तव्या। अस्मदीययोजनातां तु वृत्तवशेनार्थ- वशेनोभयविधेनापि निमित्तेन पादव्यवस्था खरसा, इति किमिति मुख्यं सौत्रं चार्थवशेन पादव्यवस्थारूपं लक्षणमत्र परित्यक्तव्यम् ? अर्थवशेनेत्यनेनोंत्थिताकाङ्क्षया सापेक्षार्थवशेनेत्येव विवक्षितम् ; अन्यथा-"अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्न- धातममि" त्यादावप्यर्थवशेन पादव्यवस्था न स्थात् ; होतारं रत्न- धातमम्"' इति पादान्तरापेक्षयैवार्थबोधकत्वात्। तथाच सहशब्द- स्य यौगपद्यार्थकत्वे 'युगपत् सर्वान् कामानवामोति' इति वाक्यार्थ- स्योत्थिताकांक्षया निरपेक्षस्य घोघनादू 'ब्रह्मणा विपश्चिते'ति पादा- ८

Page 68

५८ श्रीभाष्य समालोचनम्

न्तरार्थस्य कर्तृ विशेषणतयोत्थाप्याकाक्षड््यैवान्वयादू न किश्चदनुपप- न्नम्।- एतेन-अर्थवशेन पादव्यवस्थेत्यनुसरणमसंभव्येव, सहशब्दार्थ- भागेऽर्थसमाप्त्यभावात्, ब्रह्मणेति भागान्तरस्यापि यत्किश्चिदवा- न्तरार्थबोधकत्वाभावादित्यादि-परास्तम् ; यत्किंचिदवान्तरार्थ-तदेक- देशकर्तृ-कर्मादिविशेषणान्यतरार्थबोधकत्वस्यैवार्थवशेनेत्यनेन विवक्षणेन प्रकृतेऽपि तत्संभवेनादोषात्। अस्तु वा वृत्तवशेनैवात्र पादव्यवस्था, नार्थवशेन, अर्थस्तु यथासंभवमूहनीय इति। तथापि-सहशव्दस्य यौगपद्यार्थकत्वस्य "ब्रह्मणा विपश्चिते" त्यस्य सर्वज्ञब्रह्मभावार्थकत्वस्पैव च योगेन न भवद्भीष्टसिद्धि:।

एतेन-नाप्येवमन्वये ब्रह्मणोऽप्राधान्यं दोषः; गुणापेक्षया तस्ये- ष्टत्वात् , भोग्यसाहित्यस्यैव विवक्षितत्वात्, गुणप्राधान्यं हि गुण्यति- शये पर्यवस्यतीति-परास्तम्। परमाप्नोतीति परस्थैव प्राप्यत्वनिर्देशेन गुणप्राधान्यविवक्षा हि निर्मला, स्तुतशस्त्राधिकरणे विनाऽपि गुणिनं गुणप्रति- तिपादकत्वं स्नोत्राणां शस्त्राणां चेति व्यवस्थापनादू गुणातिशयो न गुण्यतिशये पर्यवस्यतीति नियमः ॥ वस्तुतस्तु-मुक्तोपभोग्या गुणा: खवीया आनन्दा एव, न ब्रह्मानन्दा:, जैवानन्दव्रम्मानन्दयोरत्यन्तभेदात्, इति भवदीय- सिद्धान्ते जीवधर्मकामानामुपभोग्यत्ववर्णनं कथं ब्रत्मातिशयपर्यव- सायि स्यात् ? अतः"पयसा सहौदनं भुङ्क्ते" इत्यादाविव भोग्य- साहित्यविवक्षाया अत्रासंभवात्-'ब्रह्मणा सहे"त्यत्रागत्या कर्तृ- साहित्यमेव विवक्षणीयम्-यथा "पुत्रेण सहागतः पिता,""दश- भिस्सह पुत्रैस्तु भारं वहति गर्दभी"त्यादाविति नियतमूरीकर्तव्यम्। सति चैवं सिद्धान्तसिद्धाज्जनोक्तरीत्या ब्रह्मणोऽशनुवानापेक्षयाऽ-

Page 69

श्रीभाष्य समालोचनम्

प्राघान्यापततिः, ब्रह्मसहभावस्य बद्ध-मुक्तसाधारणसर्वजीवकर्तृकस्व- सानन्दानुभवसाधारण्यात् तत्सहभावविवक्षाया आनर्थक्यम्। एतेन-श्रह्मसहभावविवक्षाऽनर्थक्योक्तिरयुक्ता; अचिज्जीव-तत्स- म्बन्धिगुणादिरू पसकलप्रकार विशिष्टस्य ब्रह्मण एव श्रह्म-जीवोभ्यानुभा- व्यत्वोपगमेन तदानर्थक्याभावादित्यादि-परास्तम्। "ब्रह्मणा सह कामान्" इति वाक्ये कामपदेनाचिज्जीवादि- प्रकाराणां प्रतीत्यभावात्, नत्सम्बन्धिगुणा दिप्रतीत्या तेषां ब्रह्मवि- शिष्टानां प्रतीनावपि तत्तद्गुणादिविशिष्टस्य ब्रह्मणोऽप्रतीतेः। 'परमाप्नोती'त्यनेन तादृशब्रह्मणोSप्रस्तुतत्वेन तद्विवक्षाया निष्प्रयोज- नत्वात्, व्रत्मणस्सर्वदा सर्वानुमन्तृत्वाद् मुक्तमात्रानुमन्तृत्वेन सहत्वो- क्तेरेनतिप्रयोजनत्वात्, ब्रह्मवल्यां मुक्तभोक्तृत्वमिति विवक्षायां लक्षणाप्रसङ्गात्, मुक्तानन्दानां ब्रह्मानन्दानां च विलक्षणत्वेन तुल्य- त्वायागाच्च। भोगमात्रसाम्यं तु सूत्रोक्तमुपासकभोगविषयम्, नतु मुक्तभोगविषयम्; तस्यैवानन्दरूपत्वेनेश्वररूपत्वेन वा मुख्यभोगा- भावात्। स्वस्यैव स्वप्राप्यत्वोक्तिस्तु श्रीभाष्यमते-स्वस्रूपस्यापि प्रत्यगात्मनो नित्यमाप्तस्य प्रापकत्वानुसन्धानवद् न विरुद्ध यते; ब्रह्मवित् प्रागनाप्तमिव प्रापोतीति तात्पर्यात्। तथाच व्यवहा- रिकभेदमादायैवाप्रोतीति भेदव्यपदेशः। एतेन-गृहिणोऽतिथ्यपेक्षया प्राधान्येऽपि गृहिणा क्रिममाणमादरा- तिशयं पर्यालोच्यातिथिप्राधान्यद्योतनाय यथा "गृहिणा सहातिथिर्भु ङूक्ते- इति व्यवहियते, तद्वत्प्रकृतेऽपि मुक्तविषये श्रह्मकर्तृकादरातिशयत- न्निबन्धनतद्भिमतगुणानुभवस्वातन्त्र्यद्योतनाय ब्रह्मणा सह गुणाननु- भवतीति व्यवह्ियते। एवं ब्रह्मणः सर्वकामभोक्तृत्वस्य सार्वकालिकतया मुक्तस्यैव स भोग: सांप्रतिकोऽपूर्वः, इत्यत्र प्राधान्यविवक्षया श्रह्मणा सहेत्युक्तमित्यादिकम्-परास्तम्। सहयोगतृतीयानिमित्तस्याप्राधान्यस्य शाब्दगुणाद्यन्वयि- त्वाभावरूपस्य विवक्षाधीनत्वेनातिथिप्राधान्यविवक्षायां गृहिणोऽ

Page 70

६० श्रीभाष्य समालोचनम्

प्राधान्यविवक्षायां च 'गृहिणा सहातिथिर्भुङ्क्ते' इति व्यवहारवद- त्रापि शाब्दगुणाद्यन्वयित्वाभावरूपाप्नाधान्यविवक्षयैव हि ब्रह्मणा विपश्चिता सहेति वक्तव्यम्। उच्यते चैवमेव भवद्भिः-ब्रह्मापेक्ष- यापि तद्गुणा भोग्यतया प्रधाना इति द्योतनाय तथा प्रयोग इत्यादि- वद्द्गिः। सति चैवम्-"ब्रह्मविदाप्नोति परमि"ति प्राप्यत्वेन प्रधानतया मूलवाक्ये विवक्षितस्य ब्रह्मणो हठादेवाप्राधान्यविव- क्षाकारणाभावात् सहशब्दस्य यौगपद्यार्थकत्वपक्षे तत्प्राधान्यविवक्षा- साधके स्वीक्रियमाणेऽपि वाक्यार्थसामञ्जस्याद् अनाकाडिक्षतब्रह्मा-

एतेन-नहि सहयोगतृतीयाङ्गीकारमात्रेण स्वाभाविकप्राधान्या- प्राधान्यनिर्णयस्सुकर इत्यापि-प्रत्युक्त्म्॥ न हि वयं ब्रह्मणो वस्तुतोऽप्राधान्यविरोधापत्या सहयोग- तृतीयां वारयाम:, किन्तु वाक्याविच्छेदखारस्यादिसिद्धये सम्भव- दर्थान्तरविवक्षयाऽपि गतिसंभवेऽपेक्षितब्रह्मप्नाधान्यपरित्यागेन तद्प्राधान्यविवक्षाया अप्रोजनत्वादेव। तथाच परप्राप्त्युपपादनार्थ प्रवृत्तैस्तद्गुणानामेव प्राप्यत्वोक्तिव्यवस्था नितरामेवायोग्या। नहि सहयोगतृतीयाश्रयणेन ब्रह्मणोऽप्राधान्यविवक्षायाः किमपि प्रयो- जनमस्ति। यथाच परमं साम्यमभेदे एव, तथा पूर्वमेव निरूपितम्, इति "राम-सुग्रीवयोरैक्यमि" त्यादेरिवात्यन्तसाम्यपरत्वस्यैवाङ्गीकार्यत- याऽऽपाततः प्रतीयमानतद्भेदविषयकं ज्ञानं भ्रम इति द्योतनाय सहभावोक्तिरिति शङ्कापि न सावसरा; सहभावेनात्यन्तसाम्य- विवक्षाऽसम्भवाच। नहि किङ्करेण सहागतो राजेत्यादौ राज- किङ्करयोस्सहविवक्षितयोरत्यन्तसाधर्म्यम्, सत्यं ब्रह्मणा सहेति वर्णनादू जीव-ब्रह्मणोर्भेद: प्रतीयते ; साहिस्यस्य भेदगर्भत्वात्; तथापि नात्र भेद: सम्भावितः, इति ब्रह्मभावापत्तिरेव विवक्ष्यते।

Page 71

श्रीभाष्य समालोचनम् ६१

ब्रह्मणोऽनुन्तृमत्वेन ब्रह्मवज्जीवस्यानुभवितृत्वेन साहित्यविवक्षाऽपि ब्रह्मण: सदा सर्वानुमन्तृत्वेन सहपदस्य तुल्यार्थकत्वे लक्षणापत्या च न सम्भवतीति पूर्वमेवोक्तम् । एतेन-लोकेऽन्यकर्तृकस्य स्वकीयसर्वविषयकानुभवस्यं स्वान- भिमतत्वद्शनेन तन्न्यायेन मुक्तकर्तृकश्रह्मसम्बन्धिगुणानुभवे तदनभिम- तत्वनिरामाय विशिष्यानुमन्तृत्वोक्ति:, एवमर्थसौन्दर्ये सति लक्षणा- दोषस्यादोषत्वमित्यादि-परास्तम्। "परानु तच्छ तेरिति"न्यायेन सार्वदिके व्रत्मानुमन्तृत्वे तस्याभिमतत्वानभिमतत्वविवक्षाया अनावश्यकत्वात्, ब्रह्मभावा पत्तिरूपार्थविवक्षायामिय तुल्यार्थविवक्षायामर्थसौन्दर्याभावेन लक्षणाया अदोषत्वाभावाच्। नहि भोगमात्रसाम्यं मुक्त-ब्रह्मणोः कुत्रापि प्रतिपादितम् ; ईशवरभावाख्ये निर्गणब्रत्मभावाख्ये वा मोक्षे गतिनिरपेक्षे जगद्च्ापारवर्जे भोगमात्रसाम्यासम्भवात्। अत एव-"न स पुनरावर्तते"इति गतिप्राप्यादपुनरावृत्तिप्रति- पादकवाक्यार्थेनैव "जगद्व चापारवर्जमि"त्यधिकरणसमापतिः॥ एतेन-निर्गुण-सगुणभेदेन ब्रह्मद्वैविध्यस्य तदनुसारेणोपसनाज्ञान- द्वैविध्यस्य तदानुगुण्येन मुक्तिद्वैविध्यस्य चोपपत्तिवैधुर्यादिभिस्सुदूर- निरास इत्यादि-परास्तम्। अन्तस्तद्धर्मादिषु सगुणविचारस्य न स्थानतोऽपीत्यादिषु निर्गुणब्रह्मविचारस्य च सर्वेन हि निर्गुण-सगुणभेदेन ब्रह्मद्वैविद्यं श्रुतिसृत्राद्यारूढम्। एवमुपास्वेति तत्र तत्र विधीयमानं पुरुष- कृतिसाध्यम्, "तत्त्वमसी"त्याद्युपदेशमात्रजन्यब्रह्मसाक्षात्काररूपं प्रमाणतन्त्रं च ज्ञानमपि हि द्विविधं प्रसिद्धमेव। एतेन-मुक्ति- द्वैविध्यमपि-व्याख्यातम्; गतिसापेक्ष-तन्निरपेक्षमुक्तिद्वैविध्यस्य चतुर्थध्यायद्वितीयपादे सत्रकारैरेव व्यवस्थापितत्वात्। अत एव- "ब्राह्मेण रूपेण जैमिनिरुपन्यासादिभ्यः' इति ब्राह्मरूपेण मुक्ता-

Page 72

६२ श्रोभाष्य समालोचनम्

वस्थानं प्रतिपाद्य-"जगद् यापारवर्जमि"ति भोगमात्रसाम्यमपि प्रतिपादितमुपपद्यते ; अन्यथा-"जगद् चापारवर्जमि"ति- "ब्राह्मण. रूपेणे"त्यस्यैव गुणसूत्रतया सूत्रणीयं स्यात्। अस्मिन् प्रकरणे-"अविभागेन दृष्टत्वात्" इति मुक्तस्य ब्रह्मणाऽविवेक- प्रतिपादनमपि जीवस्य ब्रह्मसाहित्येनानन्दानुभवितृत्वशङ्कां विरु- णद्धि। तथाच भेदगर्भंसाहित्यविवक्षा"तत्वमसि" "ब्रह्म वेद ब्रह्मैव भवति" "अविभागेन दृष्टत्वादि"त्यादि श्रुति-सूत्रादि- विरुद्धत्वादृपि न सम्भवति। अत एव "परं ज्योतिरुपसंसद्य स्वेन रूपेणाभिनिष्पद्यते" इत्यादौ विवक्षितं सवसरूपम्-आत्मैवेति"आत्मा प्रकरणादि"ति सृत्रेण प्रतिपादितमुपपद्यते। निर्विशषचैतन्यमेवात्रात्मपदेन विव- क्ष्यते, यस्य "चितितन्मात्रत्वादित्यौडुलोमिः" इत्यत्र चिति- तन्मत्रपदेन व्यपदेशः ।

एतेन-गुणसामान्यरहितस्य ब्रह्मण: शशशृङ्गसोदरतेत्यादि- परास्तम् ;"न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि"इतिपदार्थशोधना- वसरे सूत्रकारैनिर्विशेषब्रह्मप्राधान्यमेव वेदान्तानामिति व्यवस्थापिततयो- क्तशङ्कानवतारात्। यथाचोक्ताधिकरणस्य श्रीभाष्याद्यभिमता योजना सूत्राक्षराननुगुणा, तथाऽद्वैतमार्तण्डादौ व्यक्तम्। सति चैवं "ब्रह्मविदाभोति परमि"त्यत्रापि गुणवाचकं शब्दं विना केवलब्रह्मशब्देनवोपक्रमाद् गुणसामान्यरहितं ब्रह्मैव प्राप्यतया विवक्षितमित्यकामेनापि सवीकर्तव्यम्। अंत एव "सत्यं ज्ञानमनन्तं ब्रत्म" इति सवरूपलक्षणमुपपद्यते। सविशेषस्य वस्तु- परिच्छिन्नस्य त्रिविधपरिच्छेदराहित्यरूपानन्तत्वासम्भवेन त्रिका- लाबाध्यत्व-ज्ञानरूपत्वयोरपि सविशेषेऽसम्भवेन च प्रकरणस्य निर्वि- शेषपरतांया एव युक्तत्वात्। तदुक्तं भाष्ये-"ब्रह्मशब्दस्थ हि व्युत्पाद्यमानस्य नित्य-शुद्ध-बुद्धत्वादयोऽर्थाः प्रतीयन्ते; बृहतेर्घातो-

Page 73

श्रीभाष्य समालोचनम् ६३

रर्थानुगमात्"-इति। ज्ञानरूपत्वादेव तु ब्रह्म न घटादिवद् वृत्ति- प्रतिफलितचैतन्यभास्यत्वेन वेद्यमपि। "यो वेदे"त्यादौ ब्रह्मणोऽ- ज्ञानप्रहाणार्थवृत्तिविषयत्वमेव बोध्यते। अत एवाज्ञाननिवृत्तिमात्रेण ब्रह्मभाप्यत्वव्यवहारोऽपि-"आप्नोति परमि"ति। त्रथाचाज्ञान- निवृत्त्युपलक्षितत्वमेव ब्रह्मण: प्राप्यत्वम्, नतु ग्रामादिवत् क्रिया- विषयत्वम्। व्यक्तं चैतदाकरे समन्वयसृत्रे। एतेन-ब्रह्मपदस्य निर्विशेषपरत्व उपक्रमावगतवृहत्त्व-वेद्यत्व-प्राप्यत्व-परत्वानामपि मरहाणापत्तिरिति-परास्तम्; पूर्वोक्तरीत्या निर्विशेषब्रह्मवादेऽपि सर्वोपपत्ते: सम्भवात्। मतान्तर उपक्रमे ब्रह्मणः प्राप्यत्वनिर्देशः, "सो इनुते"इति तु कामानां प्राप्यत्वपरामर्श इति वैरूप्यापति:। यथाचाद्वैतमते-कामानिति बहुवचनेन बहुविधोपाधि- भेदावच्छेदेनानन्दरूपं ब्रह्मैव विवक्ष्यते, औपाघिकभेदमादाय बह- वचनेऽपि वस्तुगत्याऽविरोघात्,तथाऽन्यत्र विस्तृतम्। . अत एव-ब्रह्मपदस्यैकवचनान्तस्य बहुवचनान्तव्यधिकर- णब्रह्मपद्समभिव्याहृतकामपदस्य चैकार्थत्ववर्णनायोग इत्यदि- निरस्तम् ; ब्रह्मव्य तिरेकेण कामानां ब्रह्मविदश्वाभाववर्णनार्थ ब्रह्मण एवौपाधिकं रूपान्तरं कल्पितम्-यत् ब्रह्मवित् कामा वेति बोध- नार्थ ब्रह्मविदो ब्रह्मभावत्ववर्णनवत् कामानामपि प्राप्यतया विव- क्षितब्रह्मपदस्थाने प्रयोगेण सर्वोपपत्तेः । सत्यमस्मिन् पक्षे ब्रह्मणो ब्रह्मपदेन बहुक्चनान्तकामपदेन च निर्देशेनाथवैरुप्यमिवापतति; तथाप्यौपाधिकभेदमादाय वैरूप्यस्य पारमार्थिकाभेदाविरोधि- त्वादू न कोऽपि दोषः। एतेन-फलदशायामुपाध्यवच्छिन्नस्य प्राप्य- त्वाभावेन वाक्यार्थासङ्गतिरिति-परास्तम्; ईश्वरभावरूपायां मुक्तौ सिद्धान्तलेशे श्रुति-सूत्रभाष्यारूढतया प्रतिपादितायामुपा- ध्य्वच्छित्रमायाघृ तिप्रतिषिम्ब-तत्तादृशानन्दानुभंवेऽपि बाघकाभा- वात्। ब्रह्मभूतो भवतीति वक्तव्ये-ब्रह्मभूतः सर्वान् कामानिति

Page 74

६४ श्रीभाष्य समालोचनम्

वर्णनस्थाप्ययमेवाशयः। अखण्डविम्बानन्दानुभवो हि तदैवोपपा- दित: स्पात्, सर्वान् कामान सह समशनुत इति यदि सर्वशब्देन कामा विशेष्येरन्। एतेन-सर्वानिति विशेषणस्यासुन्दरत्वापादनमपि-परा- स्तम् ; सर्वसब्दविशेषणं विना केवलकामपदेनाखण्डानन्दरूपब्रह्मो- पस्थापनासंभवात्। अत एव-विना गुणिप्रासतिं गुणमात्रप्राप्तेर- संभवेन ब्रह्मपाप्तिरप्यर्थादुक्तेति-निरस्तम्; मतान्तरे मुक्तैरनुभूय- मानानन्दानां ब्रह्मानन्दादू भेदस्य तैरेव वर्णिततया ब्रह्मसंकल्पेनाप्य- नुभूयमाना आनन्दा न ब्रह्मधर्मा भवितुमर्हन्ति, किन्तु जीवधर्मा एव, इति तदीयन्यायेनापि कामप्राप्तिवर्णनेन तद्धर्मिब्रह्मप्राप्तेरर्थसि- द्वत्वाभावात्। सति चैवम् ब्रह्मणा हेतुना कामानवाप्नोतीति हेतुतृतीया- पक्षोऽपि नोपपत्रः, परपाप्तेरुपक्रान्ताया अनुपपादनात्। एतेन-्रह्मणा परमात्मना हेतुना सकलकल्याणगुणविशिष्टं श्रह्मानुभवतीत्यर्थ इति विवरणमपि चिन्त्योपपत्तिकमिति-सूचितम्; कामपदस्य ब्रह्मगुणपरत्वे प्रमाणाभावात्॥ तथाऽभ्युपगमेऽपि-सकलकल्याणगुणविशिष्टं ब्रह्मानुभ- वतीत्यर्थस्य त्वदभिमतस्य ब्रह्मवित्पदार्थत्वेन 'परमाप्नोती'त्येतद्ि- वरणार्थत्वायोग :; अन्यथा ब्रह्मवित् ब्रह्मविदित्येवापत्तेः, अस्मन्मते तु ब्रह्मवित् ब्रह्म भवतीति वाक्यार्थः "ब्रह्म वेद ब्रह्मैव भवती"ति श्रुत्येकवाक्यतायोग्यः सीकृतो भवतीति सर्वमुपपत्रम्। अत एव-ब्रह्मणा विपश्चितेति 'ब्रह्मभूतः सन्' इत्यर्थ एव स्वरसमित्यभिप्रेत्यैवेत्थंभूतलक्षणैवात्र तृतीया, न सहयोगादि- तृतीयेत्युक्तम्। तथाच 'जटाभिस्तापसः' 'श्वेतच्छत्रेण राजा' 'धान्येन धनमि' त्यादौ जटादीनामिय मुक्तात्मस्वरूपज्ञापकं ब्रह्मैव, नतु व्रह्मातिरिक्तं किमपि स्वरूपं मुक्तस्य वर्तते। यथाहि जटैव

Page 75

श्रीभाष्यसमालोचनम् ६५

तापसत्वम्, श्वेतच्छत्रमेव राजत्वम्, धान्यमेव तु धनम्, एवमत्रापि ज्ञाप्य-ज्ञापकयोरपेक्षितोऽभेदो वर्तते। इयान् विशेष :- कुत्रचन धर्मो ज्ञाप्य: कुत्रचन धर्मी ज्ञाप्य इति। उभयत्राप्यभेद एव ृतीया। तथाच धान्येन धनमित्यादौ धर्मिणो. ज्ञाप्यत्ववत् मुक्तात्मस्वरूपस्य ब्रह्मज्ञाप्यत्वे विवक्षिते ब्रह्मैव मुक्तात्मस्वरूपमि- त्यर्थसिद्धं भवति। धर्म्स्येव स्वरूपप्यापि लक्षणत्वमत्यन्ताभेदे- डपि भवनीति बहुशोऽद्वैतसिद्धयादो व्यवस्थापितम्। इत्थंभूत- स्येदंरूपेण निश्चेयस्य लक्षणं ज्ञापकमेवेत्थंभूतलक्षणम् -- तटस्थलक्ष- ण-स्वरूपलक्षणसाधारणम्, नतु कंचन प्रकार प्राप्तस्य लक्षणमेवेत्थं- भूतलक्षणम् ; प्रकाशाभिन्नस्य सूर्यस्य प्रकाशलक्षणत्वस्य दर्शनात्। तथाच "सोऽशनुते सर्वान कामान् सहे" त्युक्त्ते कोऽयमिति प्रश्ने ब्रह्मणा विपश्चितेति वाक्यं प्रवृत्तम्, इति सर्वकामानशनुवानोऽय- मेव-यत् सर्वज्ञं ब्रह्मति सुष्ठु लगति। • अयमत्र निष्कर्ष :- यदू ब्रह्मसाक्षात्कारपर्यन्तमहंरूपेण प्रतीयमानो जीवो मुक्तः सन् जीवभावपरित्यागेन ब्रह्मभूतो भवतीति ब्रह्मेव तल्लक्षणम्, नान्यः कोऽपि जीवो वा तद्वर्मो वा तदा भवतीति। एतेन-सर्वकामावाप्तेर्ब्रह्मज्ञाप्यत्वासंभवान्ने त्थंभूतलक्षणेत्यादि-परास्तम् ; मुक्तस्वरूपस्यैव ज्ञाप्यत्वेन सर्व- कामावाप्तेस्तदज्ञाप्यत्वात्। सर्वेषां कामानां ब्रह्मानन्दैकदेशत्वेना- खण्डानन्देन ब्रह्मणा सर्वकामावाप्तेरेव ज्ञाप्यत्वेऽप्यविरोधात्। वैषयि- कसुखानि हि ब्रह्मानन्दस्यैव तत्तचन्दनादिसंपर्कजनितवृत्त्यवच्छेदेन तत्प्रतिफलनेन वा प्रतीयमाना: परिच्छिन्नाः प्रतिफलिता वा ब्रह्मा- नन्दा एव। तेषां हेयत्वं तु परिच्छिन्नरूपेणैव, नतु स्वरूपेण। पार- मार्थिकं हि स्वरूपं तेषां ब्रह्मानन्द एव, औपाधिकमेव तु विषयसुखं नामेत्युंपाधिहेयता भिप्रायमेव तत्र तत्र वैषयिकसुखहेयतावचनम्।

Page 76

६६ श्रीभाष्यसमालोचनम्

सति चैवम्-श्रह्मणो निरतिशयानन्दादिगुणविशिष्टत्वेनानन्दरू- पत्वाभावः, हेयतया शास्त्रसिद्धसुखविशेषाणामखण्डानन्दात्मकश्रह्म- लेशत्वासंभवः, ब्रह्मणो वैषयिकसुखममुदायरूपत्वे चावयवातिरिक्ताव- यव्यंभावेनोभयोर्भेदाभावेन ज्ञाप्य-ज्ञापकभावायोगः, सर्वसखण्डानन्दा- नामखण्डानन्दस्य च क्रमिकत्वेन यौगपद्यासंभवः, अखण्डानन्दलाभद- दशायां जगतो बाधितत्वेन ब्रह्मव्यतिरिक्तविषयाभावाच्च ज्ञापकत्वासंभवः, ज्ञाप्यत्वेनाभिमतानां तेपां तदानीमभावेन-अश्नुते इत्युक्तिविरोधः, ब्रह्मण: सांशत्व-बाधितत्वादिप्रसङ्गश्चेति-परास्तम्। "यदेष आकाश आनन्दो न स्यात्" "आनन्दो ब्रह्मेति व्यजानात्" इति वाक्यैब्रह्मैव ह्यानन्दरूपम्, हेयतया तत्र तत्र वर्णिनानां सुविशेषाणामुपाधिहेयताभिप्रायेण हेयत्वम्, नतु स्वरूपन इति प्रतिपादितम्। वैषयिकसुखानां ब्रह्मानन्दप्रति- बिम्बा दिरूपत्वस्यैव स्वीकारेणावयवावयविभावानङ्गीकारात्, एकेन बिम्बेन बहुविधप्रतिबिम्बलक्षणाविरोधात्, बिम्बातिरिक्तप्रति विम्बाभावेन बिम्बानन्दानुभवे सर्वानन्दानुभवस्याप्यर्थसिद्धत्वेन सर्वानन्दानुभवयोगपद्याविरोधात्, स्रूपस्यैव लक्षणत्वे ज्ञाप्य- ज्ञापक भेदस्यानपेक्षणात्, ज्ञाप्यत्वेनाभिमतानामपीशवरभावाव- स्थायां मिथ्याभूतानामपि लीलामात्रेण प्रत्यक्षाविरोधात्, लौकि- कानन्दानां ब्रह्मावयवत्वानङ्गीकारेण ब्रह्मण: सावयवत्वानङ्गीकारेण च ब्रह्मणः सांशत्व-बाधितत्वयोरप्यप्रसङ्गाच्च। तथाच-"ब्रह्मणा विपश्चिते" त्यत्रेत्मंभूतलक्षणैव तृतीया स्वीकर्तव्येति न कथमपि भगवत्पादीयानां विवरणमसाधु भवितुर्हति। अस्तु वा सर्वकामानुभवस्य सर्वकामानां वा ब्रह्मानन्दानु- भवांशत्वं ब्रह्मानन्दांशत्वं वा कल्पितम। नहि कल्पितमंशत्वं मिथ्यात्वप्रयोजकम्। एतेन-किमेतद्वाक्यप्रवृत्तेः प्रागेवास्य ब्रह्मानुभवैकदेशत्वं ज्ञातम् ? उत न ? न चेदू, अंशत्वज्ञानाभावे ब्रह्मानुभवज्ञापितत्वस्यासिद्धतया

Page 77

श्रीभाष्यसमालोचनम् ६७

नकृततृतीयायास्ताद्ृशार्थकत्वनिश्चयासंभवः, ज्ञातं चेत्, तर्हि विनैव प्रमाणेन तत्सिद्धौ तत्परप्रकृतवाक्यवैयर्थ्यम्। अतः-"अश्नुते सर्वान् कामान् सहे"ति कृत्स्नस्य ब्रह्मानुभवांशप्राप्त्यर्थकत्वे श्रौताबाधितार्थ- त्यागप्रसङ्गाच्च ज्ञापकतृतीया दुर्घटेत्यादि-निरस्तम् ; ज्ञातत्वपक्षमादाय सर्वनिर्वाहात्। अनेन हि वाक्येन प्रमाणान्तज्ञातमंशाशिभावमादाय ब्रह्मानुभवस्य सर्वकामानुभवज्ञापकत्वमात्रं क्रियते-यथा जटा- भिस्तापस इत्यादौ जटया प्रमाणान्तरज्ञातया तापसत्वस्य ज्ञानम्, इति नैतद्वाक्यवैयर्थ्यापत्तिः। तदेवं "सोऽशनुते सर्वान् कामान् सह। ब्रह्मणा विपश्चिते" त्यस्य ब्रह्मभूतस्सन् सर्वान् आनन्दान् युगपदनुभवतीत्येव वाक्यार्थोऽनुसन्धंयः, नतु मतान्तराभिमतरी- त्येति सिद्धम्। यथा श्रीभाष्यानुयायिन: शिवाद्वैतं शंकर भगवत्पादाननुमतं सकलश्रुति-पुराणतिहासादिविरुदवूं च मन्यन्ते, एवमद्वैतिनो विष्ण्वद्वैतमपि तादृशमेव मन्यन्ते ; शिव-विष्णुभयानुगतचैतन्य- स्वरूपस्थैव मायातीतस्य परमात्म-परब्रह्मादिपद्वाच्यस्याद्वैनिभिः सकलश्रुति-स्मृति-पुराणादितात्पर्याङ्गीकारात्। दहरविद्यादिषु तु यत्र सगुणं प्रतिपाद्यमुपास्यम्, तस्य सूतसंहिताद्यनुसारेण यदि मदाशिवत्वं शैवा मन्यन्ते, यदि वा नारायणत्वं वैष्णवाः, मन्यन्तां नाम ते सर्वेऽपि यथासंभवम्। शङ्करभगवत्पादा हि शिव-विष्ण्वो- रन्तरपक्षविरोधिन: सर्वपद्वाच्यस्य सर्वरूपस्य च तस्य शिवादि- वाच्यत्वं न विरुन्धन्ति। तथाच- "अस्मिन् ब्रह्मपुरे वेश्म दहरं यदिदं सुराः। पुण्डरीकं तु तन्मध्ये आकाशो दहरोऽसि्ति तु। स शिव: सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुशुभिः। स विजिज्ञासितव्यश्च विना संकोचमांस्तिका:।

Page 78

६८ श्रीभाष्यसमालोचनम्

अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः, तेनायं हृदयं प्रोक्त: शिव: संसारमोचक:।" इत्यादिश्लोका अपि यदि प्रमाणम्, ननः किचिदपि छिन्नम्। स्मृत्यधिकरणे- "अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः स सर्गकाले च करोति सर्व संहारकाले च तदत्ति भूयः ।" इत्यादिभगवत्पाद भाष्यं तु यदि तुरीयस्य परमात्मनः सदा- शिवादिपद्वाच्यत्वमिव सूतसंहितादिवचनानुसारेण, नारायण- पदवाच्यत्वमपि स्वीक्रियते, तावताऽषि न नः छिन्नमित्येव गोचर- यति। अत एव तत्र तत्राधिकरणे संशय-सिद्धान्तादि निरूपणा- वसरे परमात्म-परब्रह्मादिशैव-वैष्णवोभयाभ्युपेतपदेनैव परमात्मनो निर्देशो भाष्ये दृश्यते, नतु शिव-नारायणादिपदेन। वस्तुतस्तु-परमात्म-परब्रह्मादिशब्दैरिव परमेश्वरशब्देनापि बहुषु स्थलेषु भगवत्पादा: परमात्मानं निर्दिशन्ति, इति तुरीयसदा- शिवतावादस्यापि न भगवत्पादा विरोधिन :; परमेश्वरशब्दस्य शिव-महादेवादिशब्दानामिव सदाशिव एव मुख्यत्वात्। गौण्या वृत्या विष्णुपरत्वकल्पनायां तु नाराघणपद्स्यापि शिवपरत्वकल्पना तथैवाविशिष्टेति न कापि विनिगमना शङ्कूरभगवत्पादानां वैष्णव- मतपक्षपातित्वे। एतेन-"सोऽपि नारायणः श्रीमान्" इत्यादिवचना- न्यपि-व्याख्यातानि। सूतसंहिताश्लोका: प्रक्षिप्ताः, साभिमता एव इलोकाः प्रमाणमिति तु मनोरथमात्रम्। भवदीयइलोका एव प्रक्षिप्ताः, सूतसहितावचनान्येव प्रमाणानीत्यपि हि समा- पद्येत। यथाच नारायणोत्कर्षनिरूपणपरत्वं पुरुषसृक्तादेवैष्णवै- र्मन्यते-"स ब्रह्म स शिवस्सेन्द्रः सोऽक्षरः परमः खराट्" इति

Page 79

श्रीभाष्यसमालोचनम् छ६

मन्त्रे "स हरिः" इति भागस्य प्रक्षिप्तत्ववर्णनेन, एवं शौवा अपि शिवोत्कर्षपरत्वमेव पुरुषसूक्तस्येति-"स ब्रह्म स हरिः सेन्द्र:" इतिमन्त्रपाठं "स शिव" इत्यस्य प्रक्षिप्तत्ववर्गनेन व्यव- स्थापयन्ति। वयं त्वद्वैतिन :- "स ब्रह्म स शिवः स.हरिः सेन्द्रः सोऽक्षरः परमः खराट्" इति शिव-हर्यादिसर्वशव्दवाच्यत्वं तुरी- यस्य पुरुषस्य कस्याप्यंशस्य प्रक्षिप्तत्वानङ्गीकारेण स्वीकुर्मः । एतेन- इलोकशैल्यपि प्रक्षिप्तत्वमवगमयनीत्यादि परास्तम्; "सोऽपि नारायण: श्रीमान्" इत्यादीनामपि तथासति प्रक्षिप्तवापतेरित्यल- मधिकेन प्रासङ्गिकेन विचारेण। तथाच सगुणस्य तुरोयस्योपास्यतया विवक्षितस्य सदा- शिवत्वं नारायणत्वं वा न वयं विशिंषामः, इत्यनेकजीववादेन यावत्सर्वमुक्ति यादृशेश्वरभावो मुक्ति:, स परमात्मा परं ब्रह्मेत्ये- वमेव वयं निष्कर्षामः । मुक्ती हि जीवस्य वस्तुगत्याऽभेदेऽपि सर्वमु क्ट्यनन्तरं निर्विशेषब्रह्मणा साकमत्यन्ताभेदेऽपि वा प्राप्यप्रापकत्व- व्यवहारो नानुपपत्रः; यथा श्रीभाष्यमते-आविर्भतगुणाष्टकस्य जीवात्मन एव परिशुद्धसभावस्य प्राप्तृत्वं प्राप्यत्वं च। एतेन-मुक्ती सर्वकर्म निवृत्त्या गुणाष्टरकाविर्भावाभ्युपगमेन तद्वि- शिष्टस्यात्मनः प्राप्यत्वं केवलस्य प्रापकत्वमिति शुद्धाद्विशिष्टस्य विशे- षणभेदेन भेद इत्यपि-व्याख्यातम्। इयान् विशेष :- यद्स्मन्मतेऽन्तःकरणविशिष्टस्य प्रापकत्वम्, विगलितान्तःकरणस्य स्वरूपस्य प्राप्यत्वमिति। अन्तःकरणोपाधि- सम्बन्धासम्बन्धंप्रयुक्तो भेदो जीवेश्वरयोरिव जीवनिर्विशेषचैतन्य- योरपि नाद्वैतिनामपि विरुद्धः। इममेव भेदं गृहीत्वा-"भेदव्यप- देशाचान्यः" "नेतरोऽनुपपत्तेः" "अधिकं तु भेदनिर्देशात्""अंशो नाना व्यपदेशादित्यादि" सृत्राणि प्रवृत्तानि, इति तत्तत्सृत्रभाष्ये भगवत्पादैरेव विशदीकृतम्। इदमेवाभिप्रेत्य सिद्धान्तसिद्धाञ्ज-

Page 80

७० श्रीभाष्यसमालोचनम्

कारा :- "आप्रोति परम्" इति भेदव्यपदेशस्तु प्राचीनभेदाश्रयो नेयः; ब्रह्मवित् प्रागनाप्तमिवाप्ोतोति तात्पर्यादिति वर्णयन्ति। एतन-यदपि सिद्धान्तसिद्धाज्जनकाराणां भेदव्यपदेशनयनम्, तदपि क्विष्टत्वादव हेयम्, मुक्तावभेदवोधकानन्यथासिद्वप्रमाणाभावादि- त्यादि-परास्तम्; "ब्रह्म वेद ब्रह्मैव भवति" "तत्वमसि" "स याश्च्ायं पुरुपे यश्चासावादित्ये स एक:" इत्यादीनामनन्यथासिद्धानां बहूनां प्रमा- णानां पूर्वमेव प्रदर्शितत्वात्। तथाच-"ब्रह्मविदाप्ोति परमि"ति श्रुतिरद्वैतमतमेव पोषर्यात। श्रीभाष्यमते तु यत्राविर्भतगुणाष्टकसवरूपस्य जीवा- त्मन एव प्राप्तिर्मुक्तिर्नाम, तत्र "ब्रह्मविदाप्नोति परमि"त्यत्र पर- पदार्थो यद्याविर्भतगुणाष्टको जीव एव स्यात्, तर्हि ब्रह्मप्ाप्तिरेव पुरुषार्थ इति समन्वयाधिकरणादिप्रतिपादितमसङ्गतं स्यात्। यदि "आनन्द्मयमात्मानमुपसंक्रामती"त्यादीनां तदभिमतयोजनाप्रका- रेण ब्रह्मप्राप्तिरेव परप्राप्तिः, तर्हि सर्वकर्मनिवृत्त्या गुणाष्टकाविर्भा- वेण तद्विशिष्टस्य सात्मन एव प्राप्यत्वमिति स्वोक्तिविरोध इत्युभ- यत:पाशा रज्जुः । अस्मन्मते तु ब्रह्मण एव विगलितान्त:करणादु- पाधिकस्य कोशपश्चकातीतस्य वा परपदार्थत्वादू न कोऽपि विरोध:। एतेन-परस्य तु मुक्तिदशायां प्रागनाप्स्य कस्यचिद्भ्युपग- मादू निर्विशेषस्यैकस्यैवावस्थानं मुक्तिरिति स्वीकागत्, तदा प्राप्य- प्रापकाकारभेदानभ्युपगमात्, मुक्तिदशायां क्रिया-कर्तृ-कर्मणां त्रयाणां भेदानङ्गीकारेण मुक्तौ ब्रह्मानुभवतीत्युक्त्यसंभवात् "परमाप्नोती'त्यस्य स्वरसार्थबोधकत्वभङ्गापत्तिः; तादास्विक-प्रामाणिकभेदाविरोधेन व्या- ख्याया एव युक्तत्वादित्यादि-परास्तम्। पूर्वोक्तरीत्या केवलरूपेण प्रागनापस्यैव विशिष्टशुद्धभेदाङ्गो- कारेऽद्वैतिभिरपि प्राप्त्यभ्युपगमो हि संभवत्येव। अनाप्तमिव मन्य- मानं प्राप्तमेव प्राप्तत्वेन व्यपदिश्यत इत्यद्वैतिनां तत्र तत्र व्यवहारस्तु "विशिष्टं शुद्धादतिरिच्यते इति मताभिप्रायेणैव। तथांचानेक-

Page 81

श्रीभाष्यसमालोचनम् ७१

जीववादे सर्वमुक्त्यनन्तरं निर्विशेषावस्थानस्यैव मुक्तित्वस्वीकारेऽपि मुक्तिक्षणपर्यन्तं प्राप्यप्रापकाकारभेदस्य क्रियाकर्तृकर्मभेदस्य,चाद्वैत- वादेऽप्युपपन्नतया ब्रह्मवित् परमाप्नोतीति नानुपपन्न। मुक्तो ब्रह्मजूत इत्येवाद्वैतिनां सिद्धान्तः, नतु मुक्तो ब्रह्मानुभवतीति। 'मुक्तो

ब्रह्मभेदसाधकमनन्यथासिद्धमेकमपि प्रमाणमस्ति, इति तादात्वि- कपामाणिकभेदलाभ इत्यादि तु स्वमनोरथमात्रकल्पितमाशामोद- कमेव। तदेवं प्रमाणान्तरानुगुणोपवर्णितस्वार्थिकाया "ब्रह्मविदा- प्रोति पराम"तिश्रुतेः, यथाश्रुतेऽनन्वयादिदोषपराहृतस्य "सोऽशनुते सर्वान् कामान् सहे"तिइ्लोकस्य चोपबृंहणीयोपबृंहणभावाभावाद- विश्वसनीयार्थक इतिशङ्का तु-भगवत्पादादृतप्रणाल्या-स := ब्रह्म- वित्, विपश्चिता=ब्रह्मणा=सर्वज्ञब्रह्मभावापन्नः सन्, सह=युगपत्, सर्वान् कामान्=सर्वानानन्दाननुभवति; ब्रह्मस्वरूपातिरेकेण वैषयि- कानन्दानामभवात् ब्रह्मस्वरूपानुभवस्य सर्वकामानुभवरूपत्वादि- त्यर्थ विवक्षणे सर्वथा निवसरा। यत्तु-सः ब्रह्मोपासकः जीवन्नपि-एतद्वेहविशिष्टोऽपि मुक्तः सर्व ब्रह्मशरीरत्वेन त्रह्मात्मकं पश्यन् सकलकल्याणगुणकत्रह्मानुभवेकर- नस्तत एव मुक्ततुल्यः विदितघ्रह्मरूपेण ब्रह्मणो दिव्यमङ्गत्विग्रहेण हेतुना सकलान् पुत्रादीन् शास्त्राविरुद्धान् स्वस्येच्छाभावेडपि भगवता प्रीनिपरवशन दत्तान् युगपदश्रुते। तत्र न मंशयः कार्यः, इति मक्तनु- भवटढीकरणे वाक्यतात्पर्यम्। अथवा-सः मुक्ः त्यक्तमांसारिक- जीवनो विदितघ्रह्मरूपण जीवन् ्रह्मस्वरू पदर्शनलब्धात्मजीवनो निदि- ध्यातत्रह्मरूपमलक्षणाप्राकृतरूपलाभेन कैद्गर्यवृत्त्या जीवन् सर्वान कामा- नश्नुते-इत्येवं "सोजश्नुते सर्वान् कामान् सहे"त्यस्य तिवरणम्। तदिदं ब्रह्मप्राप्त्यनुपपादकत्वात् "ब्रह्मविदाप्नोती" त्यस्य अर्चिरा दिमार्गसापेक्षदिव्यमङ्गलविग्रहलाभ निबन्धनोक्तविघसर्वका मावाप्तेः सगुणविद्याफलत्वेन प्रक्रान्तनिविशेषव्रह्मविद्याफलत्वा- भावात् सगुण-निर्गुणभेदेन ब्रह्मद्वैविध्यस्य कल्पित-पारमार्थिकरूपेण पूर्व व्यवस्थापनाच न क्षोदक्षमम्।

Page 82

७२ श्रीभाष्यममालोचनम्

एतेन-नच पूर्वोक्तं सगुणोपासनाफलमिति वाच्यम्; ब्रह्मद्वैविध्ये प्रमाणाभावादित्यादि-परास्तम् ; "तस्माद्वा एत- स्मादि"त्यादिना वस्तुपरिच्छेदरूपानन्त्यप्रतिपादनाय प्रपश्चा- ध्यारोपस्य कियमाणस्य ब्रह्मनिर्विशेषतामपि विनाऽनुपपतेः। अयं भाव :- "तस्माद्वा एतस्मादात्मन आकाशस्संभूतः" इत्यादिना ब्रह्मण आकाशादिकार्यजातं प्रत्युपादानत्वमुभयसंप्रति- पन्नम्। इदं चोपादानत्वमन्नमयादीनामानन्दरूपब्रह्मणि पर्यवस्यति। तच्चोपादानत्वं घटादौ मृदादेरिव यदि परिणामित्वम्, तर्हि "कृत्स्नप्रमक्तिनिरवयवत्वशब्दकोपो वे" त्यपि मतद्यसंप्रतिपन्नम्! सति चवं तच्छरीरप्रकृतगतमेवोपादानत्वं श्रह्मगततयाऽप्युपचारान् किं विवक्ष्यते, उत श्रह्मेव कथमप्युपादानं भवितुमर्हतीनि समालोचनीयम्। तत्र परिणाम्युपादानातिरिक्तोपादानासंभवात् ब्रह्मपरिणामित्वस्य च स्वतोऽमंभवात् प्रथम एव पक्षः साधीयानिति श्रीभाष्यानुसारिणो मन्यन्तं। नहि शुक्तिकाया रजतमुत्पद्ते, रज्ज्वा वा सर्प इति व्यवहारो वर्नते, येन शुक्तिकाया इत पारिभाषिकं विवर्तोपादानत्वमूरीक्रियेत। तन्निष्ठावस्थाविशेपपूर्वभाव्यवस्थाविशेषवत्त्वं ह्युपादानत्वं मृदादौ हृष्टम्, इति तदाशयः। अद्वैतिनस्तु मन्यन्ते-ब्रह्मण एवोपादानत्वं सतन्त्रमङ्गी- कर्तव्यम। अन्यथा "सर्वे खल्विदं ब्रह्म" "सच त्यच्चाभवत्। निरुक्तं चानिरुक्तं च। सत्यं चानृतं च सत्यमभवत्" इति प्रकृति- कार्यव्याकृतप्रपश्चतादात्म्यं ब्रह्मणोऽवगम्यमानमनुपपन्नं स्यन्। न ह्यन्यकार्यस्यान्येन तादात्म्यम्। स्वाभिन्नकार्यजनकत्वं हुपादानत्वं नाम-। नहि शरीरतादात्म्यमिव शरीरकार्यतादात्म्यमपि शरोरिणि कुत्रापि दृष्टम्, येन प्रकृतितादात्म्यनिबन्धनं तत्कार्यतादात्म्यमपि स्वरसं स्यात् । अन्यच्च प्रकरणे-"सत्यं चानृतं च सत्यमभवत्"इति सत्यानृततादात्म्यं ब्रह्मणः प्रतिपादितमनृतस्यापि स्वशरीरप्रकृति- कार्यत्वस्वीकारेणैव वक्तव्यम्। तच् प्रकृतिकार्यस्यासत्यत्वायोगादू नोपपद्यते। सति चैवं ब्रह्मण एव शुक्त्याद्यवच्छेदेन विवर्तोपादा-

Page 83

श्रीभाष्य समालोचनम् ७३

नत्वसोकार मेव तद्डुपपस्तिवर्णनीया। विवर्तोपादानत्वमपि साभिन्न- कार्यजनकत्वं परिणाम्युपादानत्वसाधारणमेव, नं पारिभाषिकम्। इयान् विशेष :- यत् सनिष्ठावस्थाविशेषपूर्वभाव्यवस्थ विंशेषवत्वं भवद्भिमतमुपादानत्वं परिणाम्युपादानत्वस्यैवासाघारणं रूपम्। नचेदं भवदुक्तरीत्या मृदादाविव ब्रह्मणि संभवति। घटोपादान- मृदादौ पिण्डत्वाद्यवस्थाया घटोत्पन्यनन्तरमविद्यमानत्वात्पूर्वभावि- त्वमात्रमिव ब्रह्मणि प्रपश्ोत्पत्यनन्तरमविद्यमानाया: पूर्वमेव विदय- मानायाश्च कस्याश्चनावस्थाया निर्वक्तुमशक्यात्वात्। सति चैवं कथं ब्रह्म घटाधुपादानं भवन्मतरीत्येति भवन्त एव विवेचयन्तु। घटादौ मृदाधुपादानत्वात् परमतेऽपि मृद इव तद्वच्छिन्नचै- तन्यस्थापि तद्ठुपादानत्वमवश्यमेव स्वीकर्तव्यम् ; अन्यथा घटः सन् इत्यादिव्यवहारानुपपत्तेः। एतादृशं चैतन्यगतमुपादानत्वं गृहीत्वैव-"वाचाराम्भणं विकारो नामधेयम्। मृत्तिकेत्येव सत्य- मिति" श्रुतौ मृत्तिकासत्यत्वं तत्कार्यस्य सत्यविलक्षणत्वं च प्रतिपादितमुपपद्मते। इदं च विवर्तोपादानत्वं चैतन्यस्य विशदं गमयति। श्रीभाष्यमते तु-कार्य-कारणयोरुभयोरपि सत्यत्वात् "मृत्तिकेत्येव सत्यमिति"मृत्तिकामात्रसत्यत्वमनुपपन्नं स्यात्। चैतव्यमात्रसत्यत्वविवक्षायां तु न किमपि विरुद्धम्। यथाच वाचारम्भणश्रुतेः श्रीभाष्यानुयायिनां विवरणं चिन्त्योपसिकम्, तथाउद्वैतमार्तण्डेऽस्मदीये व्यक्तम्। तदिदं सिद्धम्-"तस्माद्वा एतस्मादात्मन आकाशस्संभूतः" इत्यादिसन्दर्भो ब्रह्मणि प्रपञ्ञचा- ध्यारोपमादाय तद्िवर्तोपादानत्वमेव गोघरयतीति प्रपञ्चस्य सर्वस्य तत्रारोपितस्य मिथ्यात्यादू निर्विशेषब्रह्मवाद उत्तश्रुत्यारूढोऽपि। एतेन-न ह्त्र वस्तुतशशुक्तिकामुद्दिश्येदं रजतमितिवत् वस्तुतो निर्विशेषं ब्रत्मोदिश्यायं प्रपश्च इति व्यवहारो दृश्यत, इत्यांदि-परास्तम् ;"सच त्यचाभवत्" इत्यादिना "सत्यं धानृरत

Page 84

७४ श्रभाष्य समालोचनम्

च सत्यमभवत्" इत्यन्तेन निर्विशेषं ब्रत्मोदिश्यायं प्रपश् इति.व्य. वहारस्थोपपादनात्। अत एव-'असद्ा इदमग्र आसीत्। ततो वै सद्ंजायत" इत्यत्र सद्रूपेणाज्ञातात् ब्रह्मण: सत्तादात्म्यापन्नस्य प्रपश्चस्योत्पत्तिराम्नायते। अनेन च-वस्तुगत्या प्रपश्चस्य न सत्य- त्वम्, किन्तु सद्रूपकारणसंसर्गादेव सत्यत्वमिति ज्ञाप्यते। अयमेद चार्थ :- "यदिदं किंच तत्सत्यमित्याचक्षते" इत्यत्र सत्यस्य सत्या- नृतभावोपपादनानन्तरं प्रवृत्तेः, सत्यकारणकत्वादेव स्वस्य दृश्य- मानस्य सत्यानृतरूपकार्यजातस्य सत्यत्वम्, नतु स्वरूपतः सत्य- त्वमित्येत्तन्निरूपणपरे विशदीक्रियते। सति चैवम्-नेदं रजतप्, अपितु शुक्तिकेतिवत नायं प्रपश्चः किन्तु ब्रह्मैवेत्येव निरूपितप्रायम्; यदिदं राजतं सेयं शुक्तिकेतिवत्, यदिदं किञ्च तत्सत्यमित्याच- क्षते इति विशद्माम्नानात्। एतेन-नवा नेदं रजतम् अपितु शक्तिकेतिवत् नायं प्रपभ्वः, किन्तु म्रह्मेति बाध उपलभ्यत इत्यादि-परास्तम्। तथाचाध्यारोपापवादस्थले दृशयमानास्सवैंडशा अत्राप्युपल- भ्यन्ते, इति कथं निर्विशेषब्रह्मवाद्स्याप्रामाणिकत्वम्? अध्यासा- घिष्ठानत्वरूपस्यैवोपादानत्वस्य-"तस्माद्वा एतस्मादि" त्यत्र विव- क्षणात् , तस्य च ब्रह्मनिर्विशेषतां विनाऽसंनवात्। एतेन-अध्यासाघिष्ठानत्वमुपादानत्वमिति तु स्वाभिमतार्थसाध- नप्रत्याशया स्वनिर्मितमपूर्वमेव लक्षणमित्यादि-परास्तम्। श्रुत्यर्थपौर्वापर्यस्वारस्यस्य लोकासिद्धत्वमात्रेण स्कल्पितत्वाप्ा- माणिकत्वादिव्यपदेशेन दूषणे भवद्भिमतदिव्यमङ्गल विग्रहादिकल्प- नाया अप्यप्रामाण्यापातेन सगुणव्रह्मणोऽप्यसिद्ध चापत्या निर्वि- शेषब्रह्मवादखण्डनार्थ प्रवृत्ता भवन्तः कथं सगुणब्रह्मवाद्मपि न दूषयन्ति ? अयं भाव :- "कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वे" ति

Page 85

श्रीभाष्य समालोचनम्

परिणामवादाक्षेपानन्तरं प्रवृत्तेन "दृश्यते तु" इति सृश्रेण हि श्रुतौ ब्रह्मण उपादानकारणत्वस्य श्रवणादू यथा तदुपपदते ब्रह्मण एव, तद् यवस्थापनीयमित्युक्तम्। इदं च ब्रह्मणो निरवयवस्यापि परिणा- मित्वाङ्गीकारेण यदि समर्थ्यते, तर्हि लोकविरोधः । यवितु विवर्तो- पादानत्वं शुक्त्यादौ दृष्टमादायैतत्समर्थ्यते, तर्हितु न केवलं लोका- विरोघ:, किन्तु लोकानुरोधोऽपि। अलौकिकत्वेऽपि विवर्तोपादा- नत्वस्य सगुणब्रत्मणो दिव्यमङ्गलविग्रहादेरिव नाश्रौतत्वकल्पना- संभव: ।। "जनिकर्तु: प्रकृतिरि"ति सूत्रसिद्धमुपादानत्वं तु परिणा- मि-विवर्तसाधारणं निर्वक्तुं शक्यत एव-कार्याघारत्वे सति कार्य- जनिहेतुत्वम् , स्वात्मनि कार्यजनिहेतुत्वम्, साभिन्नकार्यजनकत्वं वा, इति न विवर्तोपादाने पञ्चम्यनुपपत्तिः। "प्रकृतिश्च प्रतिज्ञा- दृष्टान्तानुपरोधात्" इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्यर्थ साध्यमानं प्रकृतित्वं ब्रह्मव्यतिरेकेण प्रपञ्चाभावसिद्धान्तं विना नोपपद्यते, इति विवर्तोपादानत्वमेवेति नियतमूरीकर्तव्यम्। कार- णविज्ञानेन कार्यविज्ञानं गृहीत्वा खल्वेकविज्ञानेन सर्वविज्ञान- प्रतिज्ञा। इयं च ब्रह्मव्यतिरेकेण जीवादोनां केषामप्यभाव एव स्व- रसा। सा च ब्रह्मण एव सर्वोपादानत्वेनैव निर्वहति, इति जीवादिसा- धारणमुपादानत्वं विवर्तोपादानत्वमेव। अधिकं चात्र वक्तव्यं पूर्वमेव निरूपितम् । एतेन-कार्याधारत्वे सति कार्यजनिहेतुत्वं नोपादानत्वमुभयसा- धारणम् ; कालादावतिव्याप्तेः, विलक्षणाधारत्वविवक्षणे च विशेष्यद- लवैयर्थ्यात्। मृदादेर्भवन्मतरीत्या घटायाधारत्वाभावेन तत्राव्याप्तेः अज्ञान परिणामभूतजगद्वस्थाधारत्वस्य ब्रह्मण्यसम्भत्ाद असत्यस्य सत्याभेदस्य च लोकवेदव्यवहारविरुद्धत्वाश्चेत्यादि-परास्तम्। घटे रूपमित्यादिप्रतीत्या तादात्म्यसम्बन्वस्यापि समवाय- देरिव वृत्तिनियामकत्वात् तादात्म्यसम्बन्घेन कार्याघरत्वमेव कार्या-

Page 86

७६ श्रीभाष्य समालोचनम्

घारत्वपदेन विवक्षितम्। अद्वैतमते कार्य-कारणयोर्मोमांसकमत इव तादात्म्यस्यैव स्वीकारात्, देश-कालयोस्तु कालिकविशेषे णता-दैशिकविशेषणतासम्बन्घत एव घटाघारत्वं विवक्षि- तम्। अथवा कार्याधारत्वपदेन तादात्म्ये सतीत्येव विवक्षितम् इति तादात्म्यसम्बन्घावच्छिन्नं कारणत्वमुपादानत्वमिति विव- क्षितम्, इति देश-कालयोर्ना तिव्याप्तिशङ्कापि। अनेन विशेष्यदल- वैयर्थ्यमपि परिहृतं भवति; सम्बन्घान्तरेण कार्यजनिहेतुत्वमादाय निमित्तकारणादावतिव्याप्तिवारणेन तत्सार्थक्यात्, मृदादीनाम- व्यस्मन्मते परिणामिकारणत्वस्य सवीकारात्। मृद् घट इति प्रतितेर- स्मन्मतेप्यविशेषात् तादात्म्यसम्बन्घेनैव मृदादीनामपि कारण- त्वादू न मृदादावव्यासि: । एतेन-ब्रह्मण्यव्याप्तिरपि-परिह्ृता; "सर्व खल्विदं ब्रह्म" "सोऽकामयते" त्युपक्रम्य "सच त्यचाभवत्" इत्यादौ ब्रह्म प्रपश्च- योरपि तादात्म्यस्य श्रवणात् ब्रह्मकारणत्वस्यापि बहश आम्नानात् लक्षणसम्बन्धो त्राप्यशिष्टः। इदं चोपादानत्वं ब्रह्मगतं विवर्तो- पादानत्वं कार्यविषमसत्ताककारणत्वं कार्याध्यासनिबन्धनमेव, नतु परिणामनिबन्धन मित्यपि "सोऽकामयते" ति सन्दर्भ एव "सत्यं चानृतं च सत्यमभवत्" इति श्रुतिरिव प्रतिपादर्यात। सति चैवमसत्यस्यापि सत्यकार्यता सत्याभेद्श्च न वेद- विरुद्धः। इदं रजतमित्यादौ लोकेऽपि सत्यस्यासत्याभेदादिकं विशद्मेव। इदं च सत्यानृततादात्म्यमनिर्वचनीयख्यातिं विना न निर्वहृति, इति सत्ख्यातिवादिनो भवन्तः केवलप्राकृतसिद्धान्तपक्ष पातिनो वा न वस्तुतत्वपक्षपातिन इत्येव वक्तव्यम्। "यथार्थ सर्वविज्ञानमिति वेदविदां मतम्" इति तु लोकवेदविरुद्धं न कोऽप्य- न्योऽनुवद्ति। अख्यातिवादी प्रभाकरोऽपि न भवतां बहुमांन्य :- यः खलु "यस्तु वह्मविदामेष निश्चयो यत्ुपलभ्यते, न तत् तथ्यम्,

Page 87

श्रौभाष्य समालोचनम्

धन्नोपलभ्यते, तत् तथ्यमिति, नमस्तेभ्यः, विद्ठुर्षा नोत्तरं वाच्यम्" इत्यादि वदन् अद्वैतवादमेव समादरणीयं मन्यते। यत्तु भवतां शुक्तिकायामेव रजतावयवा विद्यमानाएव रजत मुत्पाद्यन्ति, इति नीवारादिप्रतिनिधित्वव्यवस्थापकन्यायानुसारेण कल्पनम्, नेदं कस्यापि दार्शनिकस्य सम्मतम् । यथाच भ्रमज्ञानमपि मीमांसकानां नानभिमतम्, तथा प्राभाकरादिग्रन्थमूलशाघरभाष्य- सिद्धूमित्याध्यन्यत्र विस्तृतम्। तथाच श्रोतानिर्वचनीयव्यवस्थाप- कानामनिर्वधनीयवादस्य खर्गाहेरिवालौ किकत्वं भूषणमेव, न दृषणम्

एतेन-विवर्तोपादानत्वस्य श्रति-स्मृति-सूत्रेषु कचिदपि कोणेऽनाघ्रात- तयोपादानद्वैविध्यस्यैव सगुण-निर्गुणब्रह्मद्वैविध्यवद् स्वेच्छामात्रपरिक- ल्पितत्वेनाप्रसिद्धत्वेन स्त्रात्मनि कार्यजनिहेतुत्वमित्यत्र स्वाभिन्नकार्य- जनकत्वमित्यत्र च स्वपदेन ब्रह्मग्रहणासंभवेन सूक्ष्मप्रपश्चविशिष्टस्य ब्रह्मण: सूक्ष्मप्रपश्चस्य वा कारणत्वेन प्रतिपन्नस्य म्राह्यत्वाश्यंभाव इत्यादि-परास्तम्। . यतो वा "इमानि भूतानि जायन्ते" इत्यादौ सूक्ष्मप्रपञ्च- विशिष्टस्यैव ग्रहणमिति हि नोभयसंप्रतिपन्नम्। सूक्ष्मप्रपञ्च- मात्रस्य ग्रहणे तस्यैव प्रकृतित्वात् प्रकृतिमात्रोपादानतावादस्यैव स्वीकारात् "ईक्षतेर्नाश्दम्" "रचनानुपपत्तेश्च नानुमानमि" त्यादिसृत्रविरोधापत्तेः, "सर्वे खल्विदं ब्रह्मे" त्यादौ ब्रह्मतादा- त्म्यव्यपदेशस्यासाङगत्यापत्तेः, पूर्वोक्तरीत्या ब्रह्मद्वैविध्यस्योपादानद्वै- विध्यस्य च प्रामाणिकत्वाच। तथाच स्वाभिन्नकार्यजनिह्ेतुत्व- रूपमुपादानत्वं ब्रह्मणि निरपोहमेव। अश्रेयं प्रकरणशुद्धि :- वाचस्पतिमते ब्रह्मैवोपादानम्, माया तु निमित्तमात्रमेव। मतान्तरे तुब्रह्म विवर्तोपादानम्, माया परिणाम्युपादानम्, इत्यभयमप्युपादानम्। सतदयेऽपि स्वाभिन्न- कार्यज निहेतुत्वं ब्रह्ममात्रे ब्रह्माज्ञानयोर्वाडविशिष्टमेव। तत्र माया-

Page 88

श्रौभाष्य समालोचनम्

प्रपञ्चयोः समसत्ताकयोरभेद:, ब्रह्म-प्रपञ्चयोस्तु विषमसत्ताकयो- रिति विशेषोऽद्वैतिभिरनुमन्यते। तथाच तद्भिन्नाभिन्नस्य तदभिन्नत्वेमिति न्यायस्य तद्भिन्नाभिन्नयोः समसत्तावि- षयत्वात नाज्रोल-ब्रह्मणोरभोदापसिः। वस्तुतस्तु-तद्भिन्नाभिन्नस्य तद्भिन्नत्वमिति न्यायो येन रूपेण ययोरभेद:, तेन रूपेण तद्भिन्नेनैव तस्याभेदं गोचर- यति, यथा हेमरूपेण स्वर्णाभिन्नस्य कटकस्य हेमरूपेण कुण्डला- भेदात् कुण्डलस्यापि ह्ेमाभिन्नत्वम्। तथाच हेम कटकमितिवत् कटकादुत्पम्नं कुण्डलमपि हेम कुण्डल मिति प्रतीयत इत्युपपन्नं तद्ः भिन्नाभिन्नस्य तद्भिन्नत्वम्। अन्यथा-कुण्डलाभिन्नहेमा- भिन्नत्वात्, कटकस्य कुण्डलेनाप्यभेदापच्या कटकं कुण्डलमिति प्रतीतिरप्यापद्येत। इदमेवाभिप्रेत्योक्त्तम्-"कार्यात्मना तु नानात्व- मभेद: कारणात्मना। हेमात्मना यथाऽभेद: कुण्डलाद्यात्मना भिदा" इति। सति चैवमज्ञानाभेद: प्रपश्चस्य येन जडत्वादिरूपेण, तेन रूपेण प्रपञ्चस्य न ब्रह्माभेद:, किन्तु सद्रूपेणैव, इति कथमज्ञान- ब्रह्मणोरभेदापत्तिः ? वस्तुतस्तु तदभिन्नाभिन्नस्येति न्यायः परि- णामि-परिणामयोरेव, न विवर्तमान-विवर्तयोरपि; अन्यथा हि शुक्त्यज्ञानयोरप्यभेदापत्ति:। एतेन-घटादेरज्ञान-ब्रह्मोभयोपादानत्वे तदभिन्नाभिन्नस्य तद- भिन्नत्वमिति न्यायेनाज्ञान-ब्रह्मणोर्भेदप्रसङ्ग इति-परास्तम्। • प्रपश्चस्याज्ञानानुपादानकत्वमिति भामतीमते तु नोक्तायाः शङ्काया अवसरलेशोऽपि। यदि तु-घटादेरिवाज्ञानस्यापि ब्रह्मणि कल्पितत्वेन सद्रूपेण घट-ब्रह्मणोरिवाज्ञान-ब्रंह्मणोरप्यभेद आपाद्यते, तर्हि इष्टमेवेदम्। तथाच घटादेरज्ञानोपादानकत्वे मतभेदेऽपि ब्रह्मो- पादानकत्वे मतभेदाभावात् ब्रह्मोपादानकत्वे न कोऽपि दोषः प्रस- जयते, इति 'सन् घट' इत्यादिप्रतीतेर्घटादौ सत्तादात्म्यविषयकत्व-

Page 89

श्रीमाष्य समालोचनम् ७E

मेव, मिथ्यात्वा विरोधि-व्यावहारिकप्रमाणसम्बन्धार्हत्वरूपसत्तावि- षयकत्वमित्यद्वैतसिद्धान्तात् 'सन् घटः' इति प्रतोतिरेकसत्तावादेन सद्गूपब्रह्मतादात्म्यम्, अनेकसत्तावादेन व्यावहारिकस्त्तवं घटांदौ विष- पीकरोति-यथेदंतादात्म्याध्यासेन न रजत इदन्त्वप्रतीतिः। असन् घट इत्यादिप्रतीतिस्तु घटादिगतं सत्वाभार्व गोचरयन्ती घटादीनां मिथ्यात्वमेव विषयीकरोति, न त्वसत्तादात्म्यं घट इत्यसद्घिष्ठा- नकत्वापत्तिर्नावसरति॥ सामानाधिकरण्यं हि-नीलो घट इत्यादौ विशेषण-विशे- जयभावनिबन्धनम्, यतो न नीलज्ञानवाध्यो घटः। इदं रजतमित्या- दौ तु बाघानिबन्धनम्-यत इदंपदार्थशक्तिज्ञानबाध्यं रजतम्। तथाच सन् घट इत्पपि सद्रूपब्रह्मज्ञानयाध्यत्वेन घटस्य वाघायामेव सामानाघिकरण्यम्। असन् घट इति तु नेदं रजतमितिवत् बाघ- ज्ञानमेव; अन्यथा-नेदं रजतमित्यनिदंतादात्म्यापन्नरजतविषयक- मापदेत। म्रमज्ञाने यस्याघिष्ठानस्य भावरूपेण भानम्, बाघज्ञाने तस्य निषेधमुखेन ज्ञानमिति हि नेदं रजतमित्यादौ दृष्टम्। यदि तत्र नतः प्रसज्यप्रतिषेधत्वाद् नानिदंपदार्थस्य भानम्, तर्हि प्रकृते- ऽपि असन् घट इति प्रतीतावकारस्य-"अ-मा-नो-ना निषेघोक्तो" इति कोशात सन् घटो न भवतीत्येव वाक्यार्थः, नासन् घट इति।

एतेन-सन् घट इत्यादौ सत्पदार्थस्य श्रद्मस्वरूपात्मकस्य रजत इदम इव घटेऽनुवृत्त्या घटादौ सत्यत्वावगम इति चेत्, असन् घटः' 'असन्· पटः' इत्यसतोऽपि तत्रानुवृत्त्या तस्य कुतोऽसत्वं नेष्यत इत्यादि- शङ्कापि-परास्ता ॥ तथाच-"सत्यं ज्ञानमनन्तं ब्रह्म" "सदेव सोम्येदमग्र आसीत्" इत्यादिश्रुत्या ब्रह्मण एव वाध्यस्य सत्पदार्थत्वांत् घटा- देर्नश्वरस्य व्यभिचारेण सत्त्वान्वयासंभवात्, "अंतोऽन्यदार्तम्" "नेह नानास्ति किञने"त्यादिभि: खरसतो घटादिमिध्यात्व-

Page 90

८० भोभाष्य समालोचनम्

षोधनस्यैव सांप्रतत्वाच सत्तादात्म्यमेव घटादौ भासते, नं त्वबाध्य- रूपं सत्वार। अन्यादृशं तु सत्त्वं घटादेमिथ्यात्वाविरोधि भास- मानं गृंहात्वा यद्यपि घटादेर्व्रत्मतादात्म्येन सन् घट इति प्रतीति: प्रमाणमिति वक्तु शक्यम्; तथापि "सत्यं चानृतं य सत्यमभ- वदि"ति श्रुतिरत्र मानमिति तु नापहवमर्हति। तथाच यदि सत्तात्रैविध्यमतेन-"घटस्सन्" इति घटगतसत्त्वविषयकं ज्ञानम्, तर्हि "सत्यं चानृतं च सत्यमभवत्" इति ्रुत्या घटादेर्व्रह्मतादा- त्म्येन ब्रह्मोपादानकत्वं पर्यवस्यति, न सन् घट इति प्रत्यक्षेणैव; तस्य विशेषण-विशेष्यभावनिबन्धनसामानाधिकरण्यविषयकत्वात। एक- सत्तावादेन तु सद्रूपब्रह्मतादात्म्यविषयकमेव 'सन् घटः' इति ज्ञान- मिति न दोष: । नहि वयं सर्व सामानाधिकरण्यं बाघानिबन्धन- मेवेति वदाम:, येन मृद् घट इत्यादौ घटगतमृत्त्वादिकमिव सन् घट इत्यत्र घटगतसत्त्वमेव विषयीकर्तव्यमिति स्यात्।। अत एव परिणामिकार्ये परिणामिकारणघर्मोऽपि कार्यघर्म :; कार्य-कारणयोः समससाकत्वात्, विवर्ते तु कारणतादात्म्यमेव कार्ये भासते, नतु कारणधर्म एव कार्यघर्मतयापि सीक्रियते। तदुक्त्तम्-"विषयस्य तु रूपेण समारोपो न रूपवान्" इति।

प्रसङ्गादू आकाशघिकरणादिघटितः सर्वोऽपि समन्वयाध्यायः प्रायेण वितथ: स्यात्। अयमत्र निष्कर्ष :- सर्वात्मना ज्ञातं कारणं परिणामिकारणम्, नतु किश्िदवपेणाज्ञातं किन्धिद्वूपेण ज्ञातं च कारणं परिणामिकारणम्, विवर्तकारणं तु तद्विपरीतम् ; इदरूपेण ज्ञातस्य शुक्तित्वरूपेणाज्ञातस्यैवेदंपदार्थस्य विवर्तोपादा- नत्वात्। तथाच सर्वात्मना ब्रह्मज्ञाने कारणत्वमेव वाघितम्, इति ब्रह्म जगत् इति मृदू घट इतिवद् न प्रतोत्यापत्ति:। एतेन-परिणामे दृष्टस्य विवर्ते न वर्णनं संभवति। ब्रह्मकार्यत्वे दि ब्रझ्म घट इति प्रतीतेरिव सन् घट इति प्रतोतेरसंभवः । नदि रजत-

Page 91

श्रीमाष्य समालोचनम् ८१

मन्यस्पतः पुंसः इद रजतमितिवI शुक्ती रजतमिति प्रतीतिः संभवती- त्या.दि-परस्तम्। सद्रृपेण ज्ञातस्याप्यानन्दरूपेणाज्ञातत्वावस्थायामेव हि सन् घट इ ति प्रतीतिः। तथाच-यथा शुक्ती रजतमिति बाधायां सामा- नाधिकरण्यम्, न तथा सन् घट इति बाधायां पामानाधिकरण्यमेव। इयान् विशेष :- शुक्तो रजतमिति ज्ञानं शुक्तित्वांशस्थापि ज्ञानात् षायज्ञानम्, सन् घः इति तु सर्वात्मना सद्वूपस्याज्ञातत्वातू न यावज्ञानम्। सन् घट इति न बावज्ञानाकार:, परमार्थगत्या तु षाधज्ञानमेवेति तु वस्तुस्थिति:। 'इदं रजतम्' इति वाक्यं हि सामान्यरूपेण विशेषरूपेण वा शुक्ति जानन्तं यः सर्वदा शुक्तिं रजतत्वेनैव गृह्लाति, मं प्रति शुक्तिज्ञापनाय प्रयुज्यते, यदा शुक्तिस्वरूपप्रइनः, तदाहि- इदं रजतं शुक्ति: इति वाक्यार्थः सिद्वो भवति। यदिदं रजतमभ- वान् सेयं शुक्तिरिति तु निष्कृष्टार्थः । अत्र ' इदं रजतं शुक्तिरि'ति व्यवहार इदं रजतमिति व्यवहारो मुख्यवृत्या शुक्तिस्वरूपं ज्ञापयितुं न शक्रोनि, इति नेदं रजतम् , किन्तु शुक्तिरिति रजतनिषेधमुखेन शुक्तिस्वरूपज्ञापने परम्परया तस्योपयोगोऽङ्गोकरणीयः, एवमेव 'सन घटः इत्यादिवाक्यं मुख्यविघया ब्रह्मबोधनासमर्थ परम्परया निषेधमुखेन ब्रल्म बोधयतीति न कोऽपि विरोध : ।

एतेन-नहि लोके-'इद रजतमि'ति व्यवहार: शुद्तिरप्राप्त्य- पेक्षया प्रवृत्तो दृश्यते; एवं दाष्टिन्तिकेप 'मन् घटः' इत्यादिव्यवद्दारो नाखण्डाकार प्राप्त्यपेक्षया प्रवृत्तो दृश्यते, इति "इदं रजतम्' 'सन् घटः

-परास्तम् । अत्राऽप्राप्य निवर्नन्ते इस्यनेन ,तदविषयोकरणेन.ततो निव्ट- सिरेव प्रतोयते, नतु "देवदत्तस्तटाकपर्यन्तमगत्वा तटाके सलिलं

Page 92

श्रीभाष्य समाछोचनम्

नास्नीति केनचिद्ुक्ते निवर्तत इत्युक्ते प्रषटतवस्नटाकप्रनतगोघरत्वं मध्ये तत्रापे क्षिताभावज्ञाने निवृत्तिश्च यथा प्रतोयते, तदत् प्रकृते सन् घट इति व्यवहारपवृत्तेर खण्डाकारपर्यन्तगोचरत्वम्-"अथात आदेशो नेति नेति" इति निषेघशास्त्रेण तद्भावज्ञाने तदप्राप्य मध्ये निवृत्तिश्चपतीयन इति परकल्पितप्रणाल्या सिद्धा प्राप्तिपूर्विका निवृत्तिः। येन व्यवहारपवृत्तेरखण्डाकारगोचरपर्यन्तत्वस्याभवा- दित्य, धनुक्तोपालम्भनानामवकाशः स्पात् । तथाच सर्वाणि स- गुणवाक्यानि ब्रह्मस्वरूपयोधनार्थ प्रवृत्तान्यपि न पारमार्थिक ब्रत्म- स्वरसतो बोर्घायतु समर्थानि, किन्तु कथंचन तटस्थलक्षणविधया सेयं शुक्ति:, यदिदं रजतम्" इत्यादिवाक्यानीवेतर निषेधमुखेनैव घोर्धायतुं समर्थानीत्येवात्र तात्पर्यार्थेः । एतेन-अप्राप्येति अद्वैताभिमतं सद्वयाख्यानं वा सर्वथासङ्गत- मिति-परास्तम्। सन्घट इत्यादित्यवहारो हि घटता त्म्यापन्नं ब्रह्म ब्रह्मता- दात्म्यापन्नं घटदिकं वा विषयीकुर्वन् न ब्रह्मस्वरूपमात्रविषयीकरण- समर्थम्, अख्ण्डस्य ब्रह्मणो निविकल्पकज्ञानमात्रावेद्यत्वेन सन् घट इ यादिसविकल्पकज्ञानावेद्यत्वात्। एतेन-सन् घट इति व्यवहारस्य ब्रह्मण्यध्यस्तपरश्चतादा- त्म्योल्लेखित्वकथनमसङ्गतम् ; तथासति ब्रह्मवाचकसत्पदप्रयोगा- योगात्। तस्य तद्ाचकत्वं हि त्वद्भिमतम्। नचाध्यासस्थले तत्प्र- योंग उपपद्यते, भ्रमोपमरदपसङ्गस्योक्तत्वात्। अतः प्रमाविषयत्वा- दिरूासतावर्माश्रयो घट इत्येव सन् घटः इत्यत्र बोध इत्यादि- कम्-अपास्तन्; सद्रूपेण ज्ञातस्यानन्दरूपेण ज्ञातस्य च ब्रह्मण एव घटाद्यघिष्ठानत्वेन सत्पदेन ब्रह्मविवक्षायामपि हि नाध्यास- विरोध: ; अदण्डब्रल्मणोऽनावृतस्यैष भ्रमविरोधित्वम्, नतु सख- पडस्यावृतस्यापीति हि वस्तुस्थितिः । इयमेव रीति: शुक्तिरजतब्रम-

Page 93

शौभाष्य समाछोचनम्

स्थरेडपि दष्टा, यत्र शुक्तिकाया इदन्त्वेन ज्ञानं शुक्तित्वेनाज्ञानं च विना न भ्रम उद्देति। यथाच शुक्तिकाया: यावद्ब्रह्मसाक्षात्कारम- नुवर्नमानाया: कल्पितेनैव स्वरूपेणावस्थानं सविशेषरूपेण, एंव ब्रह्म- णोडिप परमार्थगत्या निविशेषस्यापि यावदखण्डाकारसाक्षात्कारं कल्पितास्सविशेषाकारा बहव एव वर्तन्ते, इति सत्त्व-चित्वानन्द- त्वादानां कल्पितेन विशेषेण ब्रह्मघर्मत्वाविरोधादू काल्पिनिका- कारमादाय निर्धहसंभवः। तत्र यथा शुक्तित्वेन ज्ञातायाः शुक्ते- रेव रजतभ्रनविरोधित्वेनानिष्ठानत्वव्यपदेशः, न त्विदंपदार्थस्य सर्वदिभ्रमसाघारणस्य, तथा प्रकृतेषिप-अखण्डब्रह्मसाक्षात्कार- स्यैव सवप्रपश्नभ्रमविरोधित्वादू अखण्डब्रह्मणो निविशेषस्टेवाधि- षठानत्वन्, नतु सत्पदार्थस्य क्राह्मणः, सवनिवर्तकज्ञानविषयस्पैवा- विष्ठानत्वादिति ह्वद्वैतिनां प्रक्रिया। एतेन-काल्पनिकाकारमादाय तुन विर्वाद :; निर्विशेषब्रह्मण एव घटपटाद्यनुगतत्वस्याद्वैतिभिः स्वीकारादित्यादि-परास्तम ; निर्विं- शेषस्य श्रह्मण एव सदात्मना कल्पितेन घटाद्यनुगतिस्वीकारेडपि पारमा- थिंकनिर्विशेपत्वाविघातात्। 'निर्विशेषेण सर्वविकारानुगतेन सच्चिदादन्दरूपस्य ब्रह्मणः प्रपञ्चे तादात्म्यमि' ति पूर्वाचार्याणामुक्तिस्तु वस्तुगतिमनुरुध्येव; नतु सन् घट इति व्यवहारदशायामपि निर्विशेषस्याखण्डस्टैव सन्- पदेन भानमनुरुध्य। सन् घट इति हि व्यवहारो यावद्घटादिपताति नियतमनुवर्तेत. इति युक्तमाम्नातम्-"यतो वाचो निवतन्तें अप्राप्य मनसा सहे" ति। अनेन हि वाक्येन व्यवहारदशायां वावामखा्डस्तन्मात्रविकयरुत्वनेव निवार्यते, नतु सत् घट इत्या- दिव्यवहारमात्रम्, "घटादिव्यवहाराणाम्"-अथात आदेशो- नेति नेति" इति श्रुत्या बाधे व्यवहार्याभावादेव निधृत्तिर्भविष्यति, इति नाक्य वाक्यस्य किश्चित् प्रयोजनमिति शङ्का सावसरा

Page 94

८४ श्रीभाष्य समालोचनम्

स्यात्। तदयं निष्फर्ष :- यथा इदं रजतमिति व्यवहारो शुक्तिं शुक्ति त्वेनावितरषीकृत्य ततो निवतंते, तथा सत् घट इति व्यवहा- रोऽपिं निविशेषं ब्रह्माविषयीकृत्य ततो निवर्तते। इदमेवात्रारोचनीयम्-यत् क्थं वाङ्मनसागोचरत्वं ब्रह्मण:, यदि सगुणं ब्रत्म प्रकरणाथ: स्यात् ? वयं तु प्रतीम :- ब्रम्म- निविशेषनात्यवस्थापनार्थत्त्वादस्य वाक्यसन्दर्भस्य निविशेषे चाज्ञा- ननिवृत्तिव्यतिरेकेण परस्य कार्यस्यानपेक्षगात् सर्वाणि प्रमाणानि घटादोनामिव न प्रमेयत्वमप्यात्मन आपादयन्तोति बोधनार्थमेवै- तावान् वाक्यसन्दर्भः। सति चैवं ब्रत्मणि सृष्टिवाक्येन पूर्वतने- नाध्यारोपितस्य प्रपञ्चस्यापवाद एव "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह।" इत्यादिवाक्यार्थः। अत एव-द्वितोयाद्वे भयं भवती"त्यादिना द्वितीयदर्शनफलभयनिवृत्तिफलेनोपसंहार उप- पद्यते। अयं शुपसंहारो ब्रम्मणोऽत्र वाक्येऽद्रतीयत्वतात्पर्य विना नोपपद्यते।

एतेन-उपक्रमानुरोघात् प्रकरणगततत्तद्वाक्यपरामर्शाद् उपरितन- वाक्यानुगुण्यात्, श्रुत्यन्तरकार्थ्यात्च-आनन्देयत्तारूपं पारमप्राप्या- नन्दात् वाचो मनसा सह निवर्तन्न इत्यर्थपरत्वमेत्र "यतो वाचो निव- र्तन्ते" इत्यादि वाक्यार्थः, न तु श्रह्मण्यध्यारोपितप्रपश्चापवादपरतेत्यादि . -परास्तम्। एतदुक्तं भवति-ब्रह्मवाक्यानि हि सर्वाणि 'सन् घटः' "सर्व खवल्विदं ब्रह्मे" त्यादीनि नाखण्डं व्रत्म गोचरयन्ति, यतः सद्रूपेण ज्ञातमानन्दरूपेणाज्ञातमेव ब्रह्म पूर्वोक्त विधया कारणं मन्यते, यस्य कारणवाक्येषु सन् घट इत्यादिलौकिकव्यवहारे च भानं भर्वात। तथाचानन्दात्मनाऽपि ज्ञानं यद् अपेक्षितम्, तदिद्मना- नन्दतापादकाज्ञाननिवृर्ति विना न संभवति। सा च "अथात आदेशो नेति" इतीनरनिषेधमुखेन स्वस्वरूपज्ञानमात्राधोना, इति

Page 95

श्रोभाष्य समालोचनम्

वेदान्तवाक्यानोतर निषेधार्थान्येव, नात्मस्वरूपार्थानि; खप्रकाश- त्वात् सस्रूपस्य। इदमेवाभिव्रेत्योक्तमाकरे-"नहि शास्त्रमिद- न्तया ब्रम्म प्रतिरादयति; अविद्यानिवृत्तिपरत्वाद् शास्त्रस्ये"ति। सन्मात्रावगतिर्हि निविकल्पज्ञानं न विकल्पसुखेन प्रवर्त- माना वाचो मुरुसृत्या जनयन्ति, न वा शास्त्राचार्योपदेशासंस्कृतं मन :; सविकल्पकज्ञानजनकत्वादू प्रयेण मुख्यया वृत्या शब्दानां मनसइच। तथाच ब्रह्मणो वाङ्मनसागोचरत्वप्रतिपादनपर मिदं घाक्यजातं ब्रह्मणि सजातीय-विजातोय-स्वगतभेदरा हित्ययोधनार्थ- सेव प्रवृत्तमित्यकामैरपि स्व्रीकरणीयम्। सति चैवम्-'इदं रजर्ताम'ति सविकल्पज्ञानं तादृशव्य- वहारो वा यथा रजताघिष्ठानशुक्तिस्वरूपमात्रं न विषयीकरोति; सत्यानृतमिथनीकरणरूपत्वात् तस्य, तथा सन् घट इत्यादिव्यव- हारा अपि घटाद्यधिष्ठानं सद्ूपं ब्रह्ममात्रं न गोचरयन्ति। शुक्ति- त्वाज्ञानदशायां हि जायमान :- "इदं रजतम्" इति व्यवहारो वस्तुगत्या रजततादात्म्यापन्नेदंपदार्थस्य शुक्तित्वेऽपि शुक्तिरेव रजतमिति न विषयीकरोतीति सर्वसम्मतमिदम् ; अधिष्ठानग- तामाधारणधर्मज्ञानस्य एवं सृष्टिवाक्यानि सन् घट इत्यादिव्यवहारा वा सत्पदार्थस्य वस्तु- गत्या ब्रह्मत्वेऽपि नाखण्डं ब्रह्म गोचरयन्ति; सद्वितोयताज्ञानस्या- खण्डज्ञानविरोधित्वात। तथाच-'इदं रजतमि'ति व्यवहारो यथा शुक्तित्वमप्राप्य निवर्तते, एवं सन् घट इत्यादिव्यवहारा अपि यदखण्डानन्दरूपं ब्रह्म, तदप्राप्य निवर्तनने, इति सुष्ठु दष्टान्त-दा- र्ध्ान्तिकभावो लगति। यथा-शुक्तित्वज्ञाने सति नेदं रजत- मिति बाधो दृश्यते, एवमत्राप्यखण्डानन्दरूपव्रल्मज्ञाने सति त सन् घट इंति बाघो भवितेति तु पारमार्थिको भावः। अनेन च प्रपञ्वा- पबादोऽप्यर्थसिद्धो भवतोति तु हृदयम्।।

Page 96

श्रीभाष्य समालोचनम्

एतेन-शुक्तो रजतमिति ज्ञानस्य बाधायां सामानाधिकरण्ये तुल्य- न्यायेन सन् घट इत्यनि शुक्तो रजतमिति ज्ञानवत् बाघज्ञानमेव स्यादि- त्यादि-निरस्तम्। नहि. सति घटादे: कल्पनां विना बाध्यस्य घटादेस्सद्रूपेण प्रनोतिः संभवति। तथाच सत्त्वं न घटादेवर्मः, किन्तु सत्तादात्म्य- मेव घटादेः खाक्रियते, इति घटादव्यसाघिष्ठानमदयं ब्रम्म घटा- दीनां विवर्तोगदानमित्येव स्वीकर्तव्यम्। "आत्मनः आकाशः संभूत:" इत्यादौ श्रुती पश्चम्पा आत्मन उपादानत्वस्य प्रतातेः, "जनिकर्तु: प्रकृतिरि"ति ततः पञ्चम्या विधानात्। उणदानत्वं च, घटादिनिरू पितं ब्रह्मण: पूर्वोक्तपकारेण नद्ध्यासाधिष्ठानत्वरूपमेव। सति चैवम्-"आत्मन आकाशस्संभूनः" इति श्रुत्या पञ्चम्दैवाकाशादिकं ब्रह्मण्यध्यस्तनिति ज्ञायते। एतेन-"आत्मन आकाशस्संभूतः" इति वचनव्यक्तौ केनोपाये- नात्मन्यकाशाध्यारोप इत्यर्थः संपद्यते इत्यादि शङ्कापि-निरवसरा। "यतो वाचो निवर्तन्ते" अप्राप्य मनसा सह इति श्रुत्दैव ब्रह्मणो वाङ्मनसागोचरत्वप्रतिपादनद्वारा ब्रह्मणो निविशेषत्वस्य सूचनेन कारणवाक्यपासस्य सतपञ्चत्वस्य बायसूचनेन तताऽप्याका- शादेरात्मन्यध्यारोपप्रतिपत्तेश्च। सत्यं सपपञ्चत्वं प्रथमतोऽवगतसुः पक्रमा धिकरणन्यायेन यथाश्रुतार्थमिति प्रतोयते; तथापि विवि-नि- षेघरूपण प्रवृत्तयोरुपक्रमोसंहारयोरुपसंहारस्योपक्रमबरघेनैव प्रामा- ण्यस्य स्वीकर्तव्यत्वात् "पूर्वात परबलीयस्त्वं तत्र नाम प्रतोयनाम्। अन्योन्यनिरपेक्षाणां यत्र जन्म घियां भवेत्" इति रीत्याऽपच्छेद- न्यायेनोपसंहारप्राधल्यस्पैयात्र विवक्षितत्वादू नोपक्रमाधिकरण न्यायस्यात्र प्रसङ्ग: । "तस्माद्वां एत्तस्मात्" इत्यनेन यद्यप्याकाशकारणत्वमेव म्रह्मणोऽवगम्यते, न वाय्ादिकारणत्वम; वाय्वादेराकाशादिकांर-

Page 97

शीभाब्य समालाचनम्

णकत्वस्य प्रनिपादनात्, इति वाय्वादीनां ब्रह्मण्यध्यस्तत्वं न संभव- दुक्तिकम्; तथापि "एतेन मातरिश्वा व्याख्यातः" "तेजोऽतस्तथा- हाह हि" "आपः" "पृथिव्यधिकाररूपशब्दान्तरेभ्यः""तदभि- ध्यानादेंव तु तहिद्वात् सः" इत्यादिषु स्थलेषु वाय्वादीनामप्याका- शाधिष्ठितव्रम्मकार्रत्वं स्थापितमेवेति न कोऽपि विरोधः। एतेन-प्रथमान्ता: पश्चम्यन्ताश्चाकाशवारवादिशब्दाः अध्यस्ता- काशादिमात्रपराः, उताकाशभावापन्नब्रह्मबोध+ा :? आद्येश्रह्मण आकाशा- धिष्ठानतामात्रं सिद्धति, न वाय्वाद्यधिष्ठानत्वम्, तम्याकाशादेव प्रतीतेः । अन्त्येदिप किं ब्रह्मण आकाशादिभावापत्तिराकाशादि रूपेण परिणामः, उत तदात्मतयाऽवस्थानम् ? अथवा तदनुगतत्वमात्रम्। न प्रथम :; "सत्यं ज्ञानमि"ति निविकारत्वश्रुतिविरोघात, आकाशादेरपि ब्रह्मपरिणामस्य ब्रह्मवत्सत्यत्वापत्तेश्च। न द्वितीयः; त्वत्पक्षे शुक्तिकायां रजतस्येव ब्रह्म- ण्याकाशादीनामध्यस तत्वेन रजतं प्रात शुक्तिकाया इवाकाशादिकं प्रति इक्- ण आत्मत्वायोगः । नदि रजतस्यात्मभूता शुक्तिरिति कश्चित् प्रतति, अपि तु साहश्यात् शुक्तिं रजततया भ्राम्यतीत्यादि-परास्तम; प्रथमा- न्ताकाशादादिशब्दानामध्यस्ताकाशपरत्वस्य पञचम्यन्ताकाशादिशब्दा- नामाकाशाद्यभिन्नात्मपरत्वस्य च स्वीकारे कस्यापि दं षस्याप्रसगात्। अयं भाव :- "आत्मन आकाश संभूतः" इत्यननाकाश- स्यात्माघिष्ठानकत्वं सिद्धय्ति; प्रथमान्ताकाशपदेनात्मतादात्म्ययो- ग्याकाशमात्रस्य बोधनेऽपि पर्यवसितव।घेनात्मताद त्म्यापन्नारा- शस्पैव बोधनेन केवलस्याकाशस्य न पर्यवसितबोधविषयत्वम्। यथा-शुक्तिकायां रजतमात्रस्थाध्यासेऽपि 'इदं रजतमिति' प्रतो- त्या शुक्तितादात्म्यापन्नमेव रजतं प्रतीयते। तत्र च परस्पराध्यासम- हिम्ना शुक्तितादात्म्यापन्नरजतं रजततादात्म्यापन्ना शुक्तिका च यथा प्रतीयते, एवमात्मतादात्म्यापन्नाकाशस्येवाकाशतादात्म्या- पन्नात्मनोऽपि पर्यवसितबोघ: फलति। सति चैवम् "आकाशा- दायुरिं" त्याकाशपदेनाप्यात्मनादात्म्यापन्नाकाशो वं:SSकाशतादा- स्म्पापन्नात्मस्वरूपं वा प्रतीयत इति वक्तव्यम्। तथाच-"तस्मादा

Page 98

८८ श्रीमाष्य समाछोचनम्

एतस्मादात्मन: इत्यस्याकाशात वायोरग्ने: पृथित्या ओषघोभ्य इत्यदिपश्चम्यन्तैस्सर्वैरप्यनुकृष्य सम्बन्धः स्वीकर्तव्य इत्यभिप्रेत्यैव- "एतेन भानरिश्वा व्याख्यातः" इत्यादिसूत्राणि प्रवृतानि। सति चैवम् 'हेम्न: कटकम्' कटकात् कुण्डल मित्या दिव्यवहारंऽपि कुण्ड- लादिनां हेमैव यथोपादानम् नतु कटकम्, एवमत्राप्याकाशा- दवायुरित्यादोनामाकाशतादात्म्यापन्नादात्मनो वायु:, एवं वायुता- दात्म्यापन्नादात्मन इत्येवं क्रमेणैवान्वयः सिद्धयति, नतु केव्रलादा- काशादित्या दिरूपेण। शुक्तिकायां रजतभ्रमानन्तरं बाधज्ञानात् पूर्व शुक्तिकावाचकुशव्देन रजतस्येव तस्य रजतशब्देनापि वस्तुगत्या शुक्तिया एव प्रतीतिरित्यनुभवाद् न किमप्यनुपपन्नम्। ब्रम्मण आ० काशाद्यात्मना भानमेवाकाशादिभावः; आका।दिर्व्रअ्विवर्त- तंःरोकाशात् न त्वाकाशात्मना परिणामः । तथाचाकाशादिकार- णत्वेऽप्यात्मनो न निर्विकारत्वश्रुतिविरोधः। व्यक्तं चैतत् कृत्स्न- प्रसक्त्य धिकरणे-"दृश्यते तु" इति सृत्रे। तेन नाकाशादिनित्य- त्वापातः, तदात्मना भानं तद्विवर्तोपादानत्वमित्येकसत्तावादेन दृष्टिसष्टिवादेन वा; मतान्नरे तु तदात्मतयाऽवस्थानमेव तद्विवर्तोपा- दानत्वम्। दृश्यते हि शुक्तिकात्मनावस्थानं रजतस्य भ्रमकाले; इदं रजतमिति तादात्म्यत्यवहारात्। सादृश्यात् शुक्तिं रजनतथा भ्राम्यतीति तु नामान्तरेण शुक्ती रजतात्मना भात्यवतिष्ठते वा भ्रमकाल इत्येय; सादृइयावो- नभ्रमस्या निर्वचनीयख्या तिदृष्टयाऽघिष्ठानात्मनाऽरोप्यभानरूपत्वात्। सर्वमिदमभिप्नेत्टैवोक्तं कल्पतरौ तेजोऽघिकरणे- "ब्रम्म-वाय्वोरभेदा- भिधानं वायौ कारणत्वेनानुगतं यद् ब्रत्मस्वरूपं तदभिन्नायम्, नतु विकाराधभिप्रायम् ; अध्यस्तस्य तात्विरुब्रह्माभेदायोगादि'ति। अ़त एव हि-इंदं रजतमित्यादौ तादात्म्येनेदंपदार्थस्येव नियमेन सन् घट इति घढादितादात्म्यस्य सद्वूपस्य ब्रह्मणो घटायनुगततया

Page 99

श्रीभाव्य समालोचनम् ८६

प्रतीतिरुपपद्यते। तद्नुगतत्वं नाम तादात्म्यसम्बन्घेन तत्पकारक- धोविशेष्यत्वमेव, नतु परिणामिविवर्तकारणोभयसाधारणम्, तत्स- म्बन्धितया प्रतीयमानघमवत्त्वमात्मपरिणामिकारणासाघास्णम्। · एतेन-अध्यासपक्षे घटादौ मृद्रूपस्येव वाय्यादौ श्रह्मरूपानुवृत्ति- रूपानुगमायोगादित्यादि-परास्तम् ; पूर्वोत्तस्यानुगमस्य तादात्म्य- प्रतीतिमात्रेण निर्वाहान्। अस्ति हि-रजते शुक्तिकाया अप्यनुगम; इदं रजतमितीदंतादात्म्यविषयत्वात। तथाच सकलचेतनाचेननप्रपञच- विवर्ताधिष्ठानं सवविकारानुगतं निर्विशेषचैतन्यमेव तेन तेनाकाशादि- रूपेण वायवादीनामुपादानमिनि निष्कर्षः । अधिकं कल्पतरुपरिमाले व्यक्तम्।

यथाचाहमज्ञ इति प्रतीतिरज्ञानान्त:करणयोरेकचैतन्य एवाध्यासेऽप्येकत्र दयमिति रीत्या भवति, एवमाकाश-वाय्वाद्यव- च्छिन्नस्य चैतन्यस्यैकत्वेऽपि चैतन्यांशस्यैवोपादानत्वादघिष्ठानत्वा- द्वाSडकाशाद्वायुरित्यादिकमुपपन्नम्। तथाचाकाशादिकं तद्व- च्छिन्नं विशिष्टं चैतन्यं वा न वाय्वादयुपादानम्, येन-"आका- शात्मकविकारस्य तदच्छिन्नचैतन्यस्य वा ब्रह्मणो न वायपादान- त्वम् ; तथोः कल्पितत्वेनाध्यासाधिष्ठानत्वायोगात्" इति शङ्का सावसरा स्थात्, इत्याकाशादनुगतचैतन्यमात्रस्य निर्विशेषस्यैक- स्यैव ब्रह्मण आकाशादिसर्वविकाराध्यासाधिष्ठानत्वं फलति। सति चैवं ब्रह्मत एवेदं सर्वम्, "सर्वे खल्विद्ं ब्रह्मे"ति वैकोक्त्या सर्वाधिष्ठानं ब्रह्मत्येवोक्त भर्वात। अत एव-"आत्मन एवेदं सर्वम्""सर्वे खल्विदं ब्रह्म""यतो वा इमानि भूतानि जायन्ते"यः सर्वज्ञः सर्ववित्। तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते" इत्या- घेकोक्त्या सर्वकारणत्वेन ब्रंह्मोपदेशपराणि वचनान्तराण्युपपद्यन्ते। ""आकाशाद्वायुर्वायोरभ्रिरग्नेरापः" इत्युक्तिरतिसूक्ष्मं क्रमविशेष- मपि सूंचयति। तस्य च प्रयोजनं शुक्त्यवच्छिन्नस्य, चैतन्यस्येव तदाश्रिताविद्याया एव वा रजतकारणत्वेऽपि शुक्तेरप्यध्यासाधा- १२

Page 100

श्रोभाष्य समालोचनम्

रत्वात् शुक्तितादात्म्यमिव रजतस्याकाशादितादात्म्यमपि वाय्वा- देरार्थिकमिति सृचनमेव, येनाकाशादिघर्माणां शब्दादीनां वायवादौ समावेशोऽप्युपपद्यते।

एतेन-आत्मनः सर्वमित्येकोक्त्यैव सर्वसामञ्जस्येन-"आका- शाद्वायुर्वायोरभिः" इत्येवंरीत्या वचनप्रवृत्तिरद्वैतमते निर्विशेषचैतन्य- स्यैकस्यैव सर्वविकाराध्यासाधिष्ठानत्वस्य फलिततया व्यर्थैव स्यादिति -- अपास्तम्। उभयावच्छिन्यचैतन्नस्यैक्येनोभयोरपि तादात्म्ये न कोऽपि विराध इति तु विवरणाद्यभिमतो मार्ग:। भामतीसम्मतस्तु मार्ग :- आकाशादीनां सर्वेषां केवलावि- दोपहितब्रह्मकार्यत्वमेव। माया हि नोपादानम्, किन्तु निमित्त- कारणमेव। जडत्वादिकं घटादेर्घटत्वादिकमिव तस्यैवासाधारणो धर्मः, न कारणधर्मः। सत्तादात्म्यमेव हि कार्य-कारणभावनिबन्ध- मिति यत्र मते सवीक्रियते, सोऽयम्-वाय्वादीनां शब्दादिगुणकत्वं सत एव, न त्वाकाशादिधर्म इति सिद्धान्तात् कारणे ब्रह्मणि सर्वे- षामुत्पत्तिप्रदर्शन एव तात्पर्ये न दोषलेशस्यापि संभव इति। अस्तु वाऽडकाशावच्छिन्नं चैतन्यमेव वाय्वाद्युपादानम्, तत्राप्युपादानत्वं चैतन्यांशस्य विवर्तोपादानत्वम्, आकाशादे: परिणाम्युपादानत्वम; अज्ञानावस्थाविशेषस्यैवाकाशत्वात्। तथाचा- काशाधात्मनाऽवस्थाज्ञानेनावृतं ब्रह्म वाय्वा दिकारणमित्येव सिद्धा- न्तादवस्थाज्ञानसादित्वपक्षमादायाका शादिपरिणामो वाय्वादि- रिति सवोकारेऽपि न तस्य ब्रह्मकार्यत्वविरोधः । अस्मिंश्र पक्षे "आका- शाहायुरि"ति सृष्टिक्रमः कुत्रचनात्मत एवेदं सर्वमिति सृष्टि- यौगपद्यं सर्वमुपपद्यते। अनवच्छिन्नं चैतन्यमेव मूलाज्ञानविच्छिन्नं सदाकाशकारणम्, अवस्थाज्ञानावच्छिन्नं तु वाय्व्रादिकार- णमिति तु निष्कर्षः । तथाचात्र पक्षे कल्पितस्याघिष्ठानत्वायोग

Page 101

श्रीभाष्य समालोचनम् ६१

इति प्रशनस्य नावसरलेशोऽपि। न ह्यविद्यासम्बन्घेन तदावरणेन वा ब्रह्मणो विकार्यत्वापातः । एनेन-विकारानुंगतत्वमपि-व्याख्यातम्; तत्तदसाधारण- वस्था विशेषसम्पन्घस्यैव विकारनुगमरूपत्वात्। तथाच-निर्विशेष- चैतन्यस्यैव मूलाज्ञानावृतस्येव तत्तद्वस्थाज्ञानेनाप्यावरणादू अवि- द्यावस्थाविशेषोपहितब्रह्मणः कारणत्वमपि निर्विशेषकारणताया- मेव पर्यवस्यति। सति चैवम्-"ब्रह्म-वायवोरभेदाभिधानं वायौ कारणत्वेनानुगतं यद् ब्रह्म तदभिप्रायमि"ति कल्पतरुवाक्यमप्युपप- न्नमेव। तथाच सर्वेषां ब्रह्मकार्यत्वाविशषेऽप्याकाशादिकार्यत्वमपि

एतेन-सर्वथाSSकाशादिम्बन्धाभावे वाय्वादिकारणस्य चै- तन्यस्य वायवाद्यनुगतब्रह्मणोऽप्याकाशोत्पत्तिर्वक्तव्या स्यात्; अस- म्बन्धसाम्यात्। अत आकाशादिसम्बद्धस्पैव ब्रह्मणो वाय्वादिकारण- त्वमृरोकर्तव्यम्। अत एव तेजोधिकरणभाष्ये भगवत्पादकृतेऽपि वायोरुर्ध्वम भनिरुत्पद्यत इत्यर्थपरत्वं पूर्वपक्षयित्वा तत्परिहारेण केवल- ब्रह्मण: सर्वोपादानत्वानङ्गोकारेणैव समाहितम्; अन्यथा तद्विरोधा-

स्यैव कारणत्वेडिप निर्विशेषचैतन्योपादानतापक्षाविरोधात। यथाच-"तच्च वायुविकारानुगतस्य ब्रह्मणोऽघिष्ठानत्व एवो- पपद्यते, न विकाशन्तरानुगतस्य केवलस्य वे"ति परिमलोक्तिरपि -व्याख्याता;' अत्र केवलस्यानुपादानत्वाभिधानम् अविद्यासम्ब- न्वाभावेन व्रह्मणो विवर्तोपादानत्वमिति सिद्धान्तात् तत्तद्वस्था- ज्ञानोपहितस्यैत् ब्रह्मणस्तत्तदवान्तरकार्यकारणत्वमिति सूचनार्थम्, नतु चैतन्यांशस्यैव निर्विशेषस्योपादानत्वमित्येतदर्थनिरासार्थमपि। एतेन-विकारवच्छिन्नस्येव तदनुगतस्यापि तत्सम्बन्धायुपग- मस्यावश्यकतयाउद्वैतमतरीत्या तस्य काल्पनिकत्वावश्यंभावेनाध्यस्त-

Page 102

श्रभा्य समालोचनम्

स्याधिष्ठानत्वायोग इति तदुक्त्यनुसारेणाप्यघिष्ठानत्वासंभव इति- परास्तम्; अनुक्तोपालम्भनत्वात्। · 'इदं रजतमि'त्यादौ रजत इदंतादात्म्याध्यासं प्रत्यपीदमंशा- ज्ञानमेव कारणम्, न प्रातिभा सिकरजताज्ञानम् ; तस्याप्रसक्तेरिति वद द्गिर्गुरुचन्द्रिका कारैः प्रातिभा सिकस्य तदर्व्छिन्नचैतन्यस्य वाऽधि- ष्ानत्वासंभव एव मन्यते, नतुष्यावहारिकस्य तदवच्छिन्नस्य चैतन्यस्य वा; यस्यासत्वापादकमभानापादकं वाजज्ञानं न विरुद्धम्। तथाचा- ध्यस्तानुपादानत्वोक्तीनां प्रातिभासिकानधिष्ठानत्व एव तात्पर्यम्, नतु व्यावहारिकान घिष्ठानत्वे। सति चैवमाकाशादवच्छिन्नस्योपादा- नत्वस्वीकारोऽपि नाद्वैतवादविरुद्धः। यथाचैवं सति-प्रथमान्त- पञ्चम्यन्ताकाशादिपदानां न समानार्थकता, तथा पूर्वमेव निरूपितम्; प्रथमान्ताकाशपद्स्य केवलाकाशपरत्वस्य पश्चम्यन्ताकाशपदस्या- काशतादात्म्यापन्नात्मपर्यन्तत्वस्य च स्वीकारात्। एतेन-"आकाशाद्वायुः" इत्यत्राकाशपदस्याकाशभावापन्नब्रह्म- परत्वं न संभवति; अस्याकाशस्यात्मन्यध्यस्तत्वेनावगतस्याधिष्ठानत्वा- योगादित्यादि-परास्तम्; अनुक्तोपालम्भनत्वादेव। अस्तु वा प्रथमान्तपश्चम्यन्तयोरकाशपदयो: समानार्थकतैव; तावताप्याकाशादिविकारनुगतं ब्रह्मैव तदधिष्ठानमिति "सच- त्यच्चाभवत्" इति वाक्यान्तरेण ब्रह्मणः सर्वप्रपश्चाध्यासाघिष्ठा- नत्वस्यावगमादर्थत एव सिद्धधति। "सच्च त्यच्चाभवत्" इति वाक्यं हि-'सोडकामयते'ति सृष्टिमुपक्रम्य प्रवृत्तम्। अत्र व सशब्देन-मान्त्रवर्णिकं "ब्रह्म- विदाप्रोती"तिप्रस्तुतं "तस्माद्वा एतस्मादात्मन आकाशः संभूतः" इत्यारभ्यान्नमय-प्राणमय-मनोमया दिमुखेनोपदिष्टं ब्रह्मैव विवक्ष्यत इत्युभयसंप्रतिपन्नम्। तथाचोत्तरत्र सर्वकारणत्वमत्राकाशमात्र- कारणत्वं ब्रह्मण: प्रतिपाद्यत इति वर्णनासंभवादू वायवादि कारणमपि ब्रह्मैवेति बोधने तात्पर्यमवश्यमेव स्वीकर्तव्यम्;

Page 103

श्रीभाष्य समालोचनम ६३

दिश्रुतिसिद्धमनुपपन्नं स्यात्, आत्मनो धर्मान्यथाभावेनो- स्पत्तिः,आकाशादीनां तु सरूपान्यधाभवेन; तेषां प्रकृतिपरिणामि- स्वादिति हिमतान्तरसिद्धान्तः। तत्र च प्रथमान्ताकाशपदेन मुख्य- वृत्या तदन्तर्योमिणो ग्रहणे ब्रह्मण्युत्पच्यापत्तिः । यदि गौण्या वृत्त्या काशमात्रपरत्वम्, तहिं पश्चम्यन्तेनाकाशपदेनापि ताव- मात्रमेव समानार्थकत्वार्थ समादरणीयं स्यात्। यदि-आकाशा- दिपश्चम्यन्तमात्रेण परमात्मनो ग्रहणम्, तर्हि मार्गेणैवायातम्। यतोऽ्द्वैतिनामेव पक्षो नामान्तरेण भवद्विरपि मन्यते। इयान् विशेष :- पच्छरीरवाचकानां पदानामसति बाघके शरीरिपयंन्तत्व- मिति स्वकल्पितप्रक्रियाविशेषेणात्र वाक्यसमन्वयो मतान्तरे, अद्वैतमते तु-"तस्माद्वा एतस्मादात्मनः" इत्यस्टैव सर्वत्रानुषङ्गेणा- थवा वाक्यान्तर कवाक्यताबलादू आकाशादिपदस्य तदधिष्ठानचैत- न्यादिपरत्वमिति। एतेन-"मच्च त्यच्चाभवन" इत्यस्याध्यासपरत्वेऽपि श्रह्मणः सर्वा- धिष्ठानत्वमात्रस्यैव लाभेनाकाशादयनुगतभ्रह्मणो वाय्वाद्यध्यासाधिष्ठा- नत्वरूपविशेषालाभ इति-परास्तम्। "सच्च त्यच्चाभवत्" इत्यनेन सर्वाध्यासाधिष्ठानत्वस्येव "आकाशात् वायुरि" त्यादेरकाशादनुगतब्रह्मणोऽप्यघिष्ठानत्व- स्यावगमेन नत्तदुपहिताघिष्ठानत्वस्वीकारेणोभयोपपत्तेरेवादरणीय- त्वेन विशेषाघिष्ठानत्ववादेऽपि तद्ाक्यस्य पूर्वोक्तरीत्या सन्दर्भ- शुद्धचर्थ स्वीकरणीयत्वात्। "सच्च त्यच्चाभवदि" त्यस्य सर्वतादात्म्यपरस्य वाक्यस्येव "आकाशाद्ायुरि"त्यादेः कारणवाक्यस्यापि विवर्तोपादानोपादे यभावपरतैव हि युक्ता। नहि विवर्तापादानत्वं विहाम ब्रह्मण: कार- णस्वं सर्वप्रपश्चतादात्म्यप्रयोजकं किमपि संभवति। तथाचे"दंरजतम्"

Page 104

६४ श्रीभाष्य समालोचनम्

इत्यादिमामानाधिकरण्यप्रनीतिरिव ब्रह्मणः "सच्चत्यच्चा भवत्" इत्या दिसामाना धिकरण्यप्रती तिरपि बाघा निबन्धनैव सोकर्तव्या, इति बाधकज्ञानविषयस्य ब्रह्मणो बाध्यज्ञानविषयस्य चाघिष्ठानाघिष्ठेय- भाव उक्तसामानाधिकरण्यप्रतोतिरेव प्रमाणम्। अत एव "तदनु- प्रविशये"ति ब्रह्मणः सर्वेषु प्रपञ्चेष्वनुगतिप्रतिपादनमुपपद्यते। "सन् घटः" इत्यादौ सदात्मना घटादेः प्रतीतिर्ब्रह्मण- स्तेन रूपेग घटाद्यनुगतिनिबन्धनैव। इयं चानुगतिर्ब्रह्मणः सर्व- प्रपश्चाध्यासाधिष्ठानत्वं विना नोपपद्यते; प्रकारान्तरेण ब्रह्म- णस्तत्रानुगतिनिरूपणासंभवात्। तथाच शुक्तिकाया रजतानुग- तिरिव ब्रह्मणोऽपि प्रपश्चानुगतिर्ब्रह्मण: प्रपश्चोपादानत्वं विशद्मा- क्षिपति, इति "आकाशाद्वायुरि" त्यादिवाक्यादिव- "तदनु- प्रविइये" त्यादिसन्दर्भादपि फलत एव ब्रह्मणोऽघिष्ठानत्वं सिद्धध्यति, नतु शक्त्या। वस्तुतस्तु-पूर्वोक्तपकारेण पश्चमी समाना- धिकरणविभक्तिश्र शक्त्यैव ब्रह्मणोऽघिष्ठानत्वं गमयति॥ "तत् सृद्ठ"ति प्रपञ्चस्य सृष्टिकर्मत्वप्रतिपादनं हि स्वाभि- कानामिव सत्यत्वं विनाऽप्युपपद्यते। नहि सृज्यमानत्वं सत्यत्व व्याप्यम् ; स्वाप्नेषु व्यभिचारात्। अत एव-"मायामात्रं तु कार्त्स््येनानभिव्यक्तस्वरूपत्वादि"ति स्वाप्निकानां "वैधर्भ्याच्च न स्वप्रादिवत्" इति जागरिकविलक्षणतया प्रतिपादितानां माया- मात्रत्वप्रतिपादनसुपपद्यते। यथाचोक्तयो: सृत्रयोर्न श्रीभाष्यमते स्वारस्यम्, तथाऽद्वैतमार्तण्डादौ व्यक्तम्। एतेन-सृष्टिकर्मत्व-प्रवेशकर्मत्वाभ्यां प्रपश्वस्य सत्यत्वावगमेन त्वदुक्तार्थोडपि बाधित एव। नहि शुक्तिका रजतं सृष्ट्वा रजतमनुम्रविश्य रजतमभवदिति व्यवहारस्त्वयापि कचिदपि दृष्टचर इत्यादि-परास्तम्ं। "तत्मृष्ठा"."तदनुप्रविश्य" "तदभवत्" इति व्यवंहारो वभिन्ननिमित्तोपादानविषयः, केवलोपादानविषयस्तु 'तदनुमविश्य'

Page 105

श्रीभाष्य समालोचनम्

तद्भवत् इत्येव व्यवहारः। तथाच ब्रह्मणीव शुक्तिकायां केवलोपा- दानकारणे मृदसदौ वा तदनुप्रविश्येति व्यवहारेऽवि तत्सष्टेति न व्यवहारः। सति चैवम्-ब्रह्मण: प्रपश्चानुप्रवेश निबन्धनं तादात्म्यमा- म्नायमानं नान्यथोपपद्यते। 'तदनुर्पावश्ये'ति तदनुप्रवेशस्य तद्भावापति प्रति हेतुत्वस्यावगतस्य प्रकारन्नरेणोपपत्त्यसंभवात्।

एतेन-सर्वेषु वस्तुपु नियन्तृनया भगवताऽवस्थानान् सर्वेपां च

तदापत्तिरिति-परास्तम्।

नहि नियम्य-नियामकभावस्तदनुप्रवेशहेतुकः । राजादीनां परजाख्ननुप्रविष्टानामपि प्रजानियन्तृत्वदर्शनात्। एतेन-"अहमात्मा गुडाकेशः सर्वभूताशयस्थितः।"आ- दित्यानामहं विष्णुः" "सर्वे समाप्नोषि ततोऽसि सर्वः" इत्यादि- वाक्यान्यपि-व्याख्यातानि; अह्मात्मेति वाक्यं हि जीव-ब्रह्म- णोरभेदमेव गोचरयति; नतु जीवनियन्तृत्वमपि ब्रह्मणः । जीवो- पाध्यवस्थानेन जीवत्वेऽप्यात्मस्वरूपेणाहमेव सर्वभूताशयस्थित इति हि प्रथमवा्क्यार्थः । अत एव-सर्वभूताशयस्थितः आत्माऽ्हमिति निर्देश उपपद्यते; अन्यथाऽन्यतरपद्वैयय्यापत्तिः, इति कथमिदं वाक्यं जीव-ब्रह्मणो :- शरीर-शरीरिभावानुगुणम् ? शरीर-शरीरिभावो हि परमात्मनो यद्यत्र सर्वभूताशय- शरीरकत्वेन विवक्ष्यते, तर्ह्यात्मपद्वैयर्थ्यम्। यदि सर्वभूताशय- स्थितात्मशरीरकत्वेन, तर्हि न केवलमात्मपदस्टैकवचनान्तत्वायोगः, किन्तु सर्वभूताशयस्थित इति पद्वैधर्थ्यमपि। नहि सामानाघिक- रण्यं सर्वत्र शरीर-शरीरिभावनिबन्धनमिति नियमः, "उद्विदा यजेत" इत्यादौ व्यभिचारात्। अत एव हि 'सोऽयं देवदत्त: इति सामाना घिकरण्यप्रतीतिनिर्वाहः। यथाच सर्वशरीरकंत्वमेव परमा- त्मनो नासाधारणं रूपम्, तथा प्रमाणाभावादन्यत्र व्यक्तम्। अन्त-

Page 106

श्रीभाष्य समालोचनम

रथामिब्राह्मणं तु परमात्मनस्तथोपासनाविशेषविधानपरमेव, नतु पारमार्थिकपरमात्मसवरूपनिरूपणपरम्। "आदित्यानामहं विष्णुः" इत्यादिवाक्यमपि परमात्मविभूतिस्वरूप निरूपणपरसुपसंहारे सर्व- स्य भगवद्विभूतित्वस्य व्यवस्थापनात् सर्वस्य परमात्मकार्यत्वमभि- प्रेत्यैव प्रवृत्तम्, नतु शरीर-शरीरिभावमादाय॥ एतेन-"सर्वे समामनोषि ततोऽसि सर्वः" इति वाक्यमपि -व्याख्यातम् ; उपादानत्वापरपर्यायाघिष्ठानत्वप्रयुक्तानुगतिनिरु- पणपरत्वादुक्तवाक्यस्य। यथाचा "वस्थितेरिति काशकृत्स्नः" इति सूत्रं न शरीर-शरोरिभावनिरूपणपरम, किन्तु ब्रह्मण एव जीवा- त्मनाऽवस्थाननिरूपणद्वारा जीवब्रम्माभेदस्यैव निरूपणपरम्, तथा व्यक्तमाकरे। "बहु स्यां प्रजायेय" इत्युपक्रमोऽपि ब्रह्मण एव बहु- भाव:, नतु ब्रह्मव्यतरेकेण बहुभावो नामेति बोधयन, शरीरात्म भावनिबन्घनं न सामानाधिकरण्यम्, किन्त्वधिष्ठानारोप्यभावा- परपर्यायोपादानोपेदेयभार्वनिबन्धनमेव तदिति गमयति। नहि मृत्पिण्डादेरिव ब्रह्मणः परिणामिकारणत्वं संभवतीत्युभयसम्मत- मिदम्॥ सति चैवं 'बहु स्यामि' ति संकल्पो मिथ्यापदार्थरूपेण बहु- भवनसंकल्पमेव गोचरयति। सत्यं सत्यस्य ब्रम्मणो मिथ्यापदार्थे- नाभेद: पारमार्थिको न संभवति, तथापि तद्च्तिरेकेण तद्भावेन भेद निषेधरूपोऽभेद: संभवत्येव। एतादृश एव ब्रह्मणा सर्वेषाम- भेद:, नतु सर्वैरैक्यरूपमित्यादिकं बहु विस्तृतं "तद्नन्यत्वमारम्भ- णशब्दादिभ्यः"इत्यादावाकरे; अन्यथा हि-"सत्यं चानृतं च सत्य- मभवत्" इति ब्रह्मणोऽनृतेनाप्यभेद: प्रतिपादितः कथसुपपद्येत?

एतेन-नहि सत्यासत्ययोरभेदः संभवति। तस्मात् "सभ्न सश्ाभर्वम्" इत्यादेः कथमपि त्वदभिमतार्थबोधकत्वासंभवात् तदनुरोधेन -"माकाशाद्वायुरि" त्यत्रार्थवर्णनं सुतरामनुपपन्नपित्यादि -- परास्तेम्;

Page 107

श्रीभाष्यसमालोचनम् ६७

"आकाशाद्वायुरि"त्यादेः प्रकरणस्य पूर्वोक्तरीत्या ्रह्मणि प्रपश्चाध्यारो- पपरत्वाङ्गीकारस्यव युक्तत्वात्। यथाचाकाश-वाय्वादिमृष्टेः कभिकत्वेऽपि चैतन्यसेव सर्वे- षामधिष्ठानम्, न त्वाकाशाद्वच्छिन्नं विशिष्टचैतन्यम्, तथा पूर्व- मेव विवेचितम्, इति ब्रह्मविज्ञानादेकस्मात् सर्वाध्यासनिवृत्ति- रपि नानुपपन्ना। यस्तु "विपर्ययेण तु क्रमोऽत उपपद्यते च" इति प्रलयेऽपि क्रमो व्यवस्थापितः, स निवृत्त्यभिप्रायः, नतु बाधा- भिप्रायः। निवृत्तिरूपो हि नाशो नाघिष्ठानज्ञाननिबन्धनः, किन्तु निमित्तान्तराधीन इत्यादि व्यक्तमन्यत्र विस्तरेण। अयं च प्रलयकमः सृष्टिकमश्च पूर्वपूर्वस्थाध्यस्यमानस्य परिणामिकारणता- विधयोत्तरोत्तराधारत्वाभिप्रायेण, न त्वधिष्ठानत्वाभिप्रायेणेति पूर्वमेव निरूपणात् सृष्टि-प्रलयक्रमनिरूपणं परिणाम-निवृत्युभया- भिप्नायम्, नतु तदात्मना भानरूप विवत तद्वचतिरेकेणाभावरूपं बाधं वा गोचर्यति। तथाच स्थूलरूपता्पत्तस्तत्तत्साय्यवस्थाज्ञानस्य सृष्टिः, तत्तत्स्थूलकार्याणां तत्तदवस्थाज्ञानरूपसृक्ष्मकारणभावा्पत्त: प्रलयः। तत्र सष्टिः केवलायाः प्रकृतेरुपादानत्वासंभवात् चैत- न्याधिष्ठानस्यापेक्षणीयत्वे चैतन्यविवर्तत्वं विना नात्मानं लभते, प्रलयस्तु बाघं विनाप्युपपद्यते, इति सृष्टि-प्रलययो: सत्रंपु क्रमव्यव- स्थापनं न विवर्त-बाधयोरपि क्रमं विषयीकरोति; चैतन्यस्याज्ञायमा- मंस्य ज्ञायमानस्य च क्रमेणोपहित-शुद्द भावाङ्गीकारे बाघकाभावात्। एतेन-क्रमिकाव्यासाङ्गीकारे "विपर्ययेण तु क्रमः'इनि प्रलयक्रमव्यव- स्थाविरोधादुक्ताधिकरणविगेधः, यदि विनाशो निवृत्तेग्न्यः, तर्हि तुल्य- न्यायेन सृष्टिरप्यध्यामो न स्यादित्यादि-परस्तम्, सृष्टेग्ध्यासापे- क्षायामपि स्वयमध्याममात्ररूपत्वानङ्गीकार पक्षेण सर्वदोपनिरामात्। अयं भाव :- "तस्माद्वा एतस्मादात्मनः" इति वाक्यमा- त्मपदेन कारणशरीरोपहितब्रह्मविवक्षणेनांशत आकाशादिपरि: १३

Page 108

हट श्रीभाष्यसमालोचनम्

णामहेतुं तद्विवर्तहेतुं च बोधयति; गुहानिहिताभिन्नरुपस्य "तस्माद्वा एतस्मादि" त्यंशेनानुकर्षणस्यान्यथा निष्प्रयोजनत्वा- पत्तेः। तथाच-"आकाशाद्वायुः" इत्यादावुपाधीनां परिणामि- कारणानां भेदेन क्रमापेक्षायामप्युप हितस्यात्मन एकत्वेन न तत्र क्रमा- पेक्षेति परिणाम-प्रलयावेव क्रमापेक्षौ, न विवर्त-बाधौ, कारणशरी- रोपहितमाकाश-वाय्वाद्युपहितं च विवर्तोपादानतयाभिमतं चात्म- स्वरूपं तुन विशिष्टम्, किन्तु शुद्धमेवेति सूचनार्थमेव श्रुनौ प्रति- सृष्ट्यात्मपदानाम्नानम्। तथाचाकाशाघुपाध्यपेक्षयैव सृष्टि-प्रलययोः क्रम:, न तु परमात्मस्वरूपापेक्षया। तत्र तु-एकोक्त्यैव सर्व- कार्यत्वं सर्वबाधो वा। अत एव-"सोऽकामयते" त्यादिके पर- मात्मस्वरूपमात्राभिप्रायेण प्रवृत्ते प्रकरण एकोक्त्यैव-"बहु स्यां प्रजायेये" त्यादिना सृष्ट्याम्नानमुपपद्यते। व्यक्तं चैतत्-"तानि परे तथाह्याह हि" इति सृत्र-तदाकरयोः। श्रीभाष्यादिमते तु तत्सृत्रं वितथमेवेत्यादि वेदान्तपरिभाषाभूमिकायामस्मदीयायां व्यक्तम्। इदमेवाभिप्रेत्य-"यतो वाचो निवर्तन्ते" इति वाङ्- मनसागोचरत्वोपपादनव्याजेन निर्विशेषत्वमप्यात्मनः कारणत्वेनोप- कान्तस्याध्यारोपितानां कार्यजातानामपवादद्वारा प्रतिपाद्यते; अन्यथा कारणस्य ब्रह्मणो ब्रह्मरूपस्य वाऽनन्दस्य शब्दशक्त्या सर्ववेदान्तप्रतिपाद्यत्वसंभवात् वाङ्मनसागोचरत्वप्रतिपादनम- सङ्गतमेव स्यात्। यत :- आनन्दात् इयत्तारूपं पारं प्राप्य वाचो मनसा सह निवर्तन्ते इति "यतो वाचः" इत्यस्य मतान्तराभिमतं विवरणम्, अद्वैताभि- मतं तु यतः-आनन्दरूपात् ब्रह्मणो मनसा सह वाचो निवर्तन्ते इति। तत्र प्रथममते इयत्तारूपं पारं प्राप्येत्यध्याहारदोषः, प्रजा- पत्यानन्दशतगुणिदत्वेन ब्रह्मानन्देयत्तायाः पारस्यापि निर्णीतत्वाद्

Page 109

श्रीभाष्यसमालोचनम् हह

इयत्तारूपं पारं प्राप्य निवर्तन्ते इत्युक्त्यनुपपत्तिः, ब्रह्मण एवा- नन्दमयशब्देन पुच्छशब्देन वा प्रस्तुतस्य प्रकरणार्थत्वाद् ब्रह्मसम्ब- न्ध्यानन्दस्योपसंहरणायोगश्च दूषणान्यपरिहरणीयानि, अद्वैतमते

एको ब्रह्मण आनन्दः" इत्यत्र ब्रह्मपदेन ज्ञेयब्रह्मणोऽग्रहणात् तस्या- वाङ मनसगोचरत्वोपपत्तिः, यथाश्रुतान्वयादू नाध्याहारादिदोषश्च; ब्रह्मण आनन्दमित्यभेदे पष्ठी तु राहो: शिर इत्यादौ दृष्टत्वाद् न दूषणम्। इदमेवात्रालोचनीयम्-यत् रथं वाङ्मनसागोचत्वं ब्रह्मणः यदि सगुणं ब्रह्म प्रकरणार्थः स्यात् ? वयं तु प्रतीम :- ब्रह्मनिर्वि- शेषताव्यवस्थापनार्थत्वादस्य वाक्यसन्दर्भस्य निर्विशेषे चाज्ञाननि वृत्तिव्यतिरेकेणापरस्य कार्यस्थानपेक्षणात् सर्वाणि प्रमाणानि घटा- दीनामिव न प्रमेयत्वमप्यात्मन आपादयन्तीति बोधनार्थमेवैतावान् वाक्यसन्दर्भः । सति चैवं ब्रह्मणि सृष्टिवाक्येन पूर्वतनेनाध्यारोपि- तस्य प्रपश्चस्थापवाद एव "यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह" इत्यादिवाक्यार्थः। अत एव-"द्वितीयादै भयं भवति" इत्यादिना द्वितीयदर्शनफलभयनिवृत्तिफलेनोपसंहार उपपद्यते। अथं हयुपसंहारो ब्रह्मणोऽत्र वाक्येऽद्वितीयत्वतात्पर्य विना नोपप- दते। एतेन-उपक्रमानुरोधात् प्रकरणगततत्तद्वाक्यपरामर्शात्, उपरित- नवाक्यानुगुण्यान्, श्रुत्यन्तरैकार्थ्यान्च-आनन्देयत्तारूपं पारमप्राप्या- नन्दान् वाचो मनसा सह निवर्तन्त इत्यर्थपरत्वमेव "यतो वाचो निव- र्तन्ते" इत्यादिवाक्यार्थः, नतु ब्रह्मण्यारोपितप्रपच्चापवादपरतेत्यादि- परास्तम् । एतदुक्तं भवति-ब्रह्मवाक्यानि हि सर्वाणि 'सन् घटः' "सर्व खल्विदं ब्रह्मे" त्यादीनि नाखण्डं ब्रह्म गोचरयन्ति, यतः

Page 110

श्रीभाष्यसमालोचनम्

सद्रृपेण ज्ञातमानन्दरूपेणाज्ञातमेव ब्रह्म पूर्वोक्तविधया कारणं मन्यते, यस्य कारणवाक्येषु सन् घट इत्या दिली किकव्यवहारे च भानम्। तथा- चानन्दात्मंनाऽपि ज्ञानं यद अपेक्षितम्, तदिदमनानन्दतापादकाज्ञा- ननिवृत्ति विना न संभवति। सा चा"थात आदेशो नेति नेति" इतीतर निषेधमुखेन स्वस्वरूपज्ञानमात्राधीना, इति वेदान्त- वाक्यानीतरनिषेधार्थान्येव, नात्मस्वरूपार्थानि; खप्रकाशत्वात् स्वस्वरूपस्य। इद्मेवाभिप्रेत्योक्तमाकरे-"नहि शास्त्रमिदन्तया ब्रह्म प्रतिपादयति; अविद्यानिवृत्तिपरत्वात् शास्त्रस्ये"ति॥ सन्मात्रावगतिर्हि निर्विकल्पज्ञानं न विकल्पमुखेन प्रवर्तमाना वाचो मुख्यया वृत्त्या जनयन्ति, नवा शास्त्राचार्योपदेशासंस्कृतं मनः, सविकल्पकज्ञानजनकत्वाद् प्रायेण मुख्यया गौण्या वा वृत्या शब्दानां मनसश्च। तथाच ब्रह्मणो वाङ्मनसागोचरत्वप्रतिपादनपर मिदं वाक्यजातं ब्रह्मणि सजातीय-विजातीय-स्वगतभेदराहित्य बोधनार्थ- मेव प्रवृत्तमित्यकामैरपि स्वीकरणीयम्। सति चैवम्-'इदं रजतमि'ति सविकल्पकज्ञानं तादृशव्यव- हा .. वा यथा रजताघिष्ठानशुक्तिस्वरूपमात्रं न विषयीकरोति; सत्यानृतमथुनीकरणरपत्वात् तस्य, तथा नन् घट इत्यादिध्यवहारा अपि घटादयघिष्ठानं सद्रृपं व्रत्ममात्रं न गोचरर्यान्त। शुक्तित्वाज्ञान- दशायां हि जायमान :- "इदं रजतम्" इति व्यवहारो वस्तुगत्या रजततादात्म्यापन्नस्येदंपदार्थस्य शुक्तित्वेऽपि शुक्तिरेव रजतमिति न विषयोकरोतीति सर्वसम्मतमिदम्, अधिष्ठानगतासाधारणधर्म- ज्ञानस्य तद्विरुदूधर्मारोपात्मकभ्रमविरोधित्वात्, एवं सृष्टिवाक्यानि सन् घट इत्यादिव्यवहारा वा सत्पक्षार्थस्य वस्तुगत्या ब्रह्मत्वेऽपि नाखण्डं ब्रह्म गोचरयन्ति; सद्वितीयताज्ञानस्याखण्डज्ञानविरोधि- त्वात। तथाच-'इदं रजतमि'ति व्यवहारो यथा शुक्तित्वम-

Page 111

श्रीभाष्यसमालोचनम् १०१

प्राप्य निवर्तते, सन् घट इत्यादिव्यवहारा अपि यदखण्डानन्द- रूपं ब्रह्म,दपाप्य निवर्तन्त इति सृष्ठु द्ृष्टान्त-दार्ष्टान्तिकभावो लर्ग। यथा-शुक्तित्वज्ञाने सति 'नेद रजतमि'ति बाधो दंश्यते, वमन्राप्यखण्डानन्दरूपब्रह्मज्ञाने सति 'न सन् घटः' इति बाघो भवितेति तु पारमार्थिको भावः। अनेन च प्रपश्चापवादोऽप्यर्थ- सिद्धो भवतीति तु हृदयम्। 'इदं रजतम्' इति वाक्यं हि सामान्यरूपेण शुक्तिं जानन्तं विशेषरूपेण नामजानन्तं च पुरुषं प्रति शुक्तिस्वरूपज्ञापनाय प्रयुज्यते। यदा शुक्तिसरूपप्रइनः, तदाहि-'इदं रजतम्' इति वाक्यार्थः सिद्धा भर्वात। यदिदं रजतमभात् सेयं शुक्तिरि- ति तु निष्कृष्ठार्थः । अत्र'इदं रजतं शुक्तिरि'ति व्यवहार इदं रजत- मिति व्यवहारो मुख्यवृत्त्या शुक्तिस्वरूपं ज्ञापयितुं न शक्रोति, इति 'नेदं रजतम्', किन्तु शुक्तिरिति निषेधमुखेन स्वरूपज्ञापने परम्परया तस्योपयोगोऽङ्गोकरणीयः, एवमेव सन् घट इत्यादिवाक्यं मुख्यविधया ब्रह्मबोधनासमर्थ परम्परया निषेधमुखेन ब्रह्म बोध- यतीति न कोऽपि विरोध: । एतेन-नहि लोक इद रजनमिति व्यवहारः शुक्तित्वपराप्त्यपेक्षया प्रवृत्तो दश्यते; एवं दार्ष्टान्तिकोऽपि मन् घटः इत्यादिव्यवहारो नाखण्डाकारप्राप्त्यपेक्षया प्रवृत्तो दृश्यते, इति इदंरजतम् सन् घट इति व्यवहारयोरद्वेत्यभिमतदप्टान्न-दार्प्टान्तिकभावा- योग इत्यादिकमपि-परास्तम्। अत्राप्राप्य निवर्तन्ते इत्यनेन तदविषयीकरणेन ततो निष्ट न्तिरेव प्रतीयते, नतु देवदत्तस्तदाकपर्यन्तं गत्वा तटाके सलिलं नास्तीति केनचिद्ुक्ते निवर्तत इत्युक्कं प्रवृत्तस्तटाकपर्यन्त गोच- रत्वम, मध्ये तत्रापेक्षिताभावज्ञाने निवृत्तिइच यथा प्रतीयते, तद्त् प्रकृते सन् घट इति व्यवहारवृत्तेरखण्डाकारपर्यन्तगोचरत्वम्, "अथात आदेशो नेति नेति" इति निषेधशास्त्रेण तंदभावज्ञाने

Page 112

१०२ श्रीभाष्यसमालोचनम्

तदपाप्य मध्ये निवृत्तिश्च प्रतीयत इति परकल्पितप्रणाल्या सिद्धा प्राप्तिपूर्विका निधृत्तिः, येन-"व्यवहारप्रवृत्तेरखण्डाकारगोचर- पर्यन्तत्वस्यासंभवादि" त्याद्यनुक्तोपालम्भनानामवकाशः स्थात्। तथाच सर्वाणि सगुणवाक्यानि ब्रह्मसवरूपबोधनार्थ प्रवृत्तान्यपि न पारमार्थिकं ब्रह्म स्वरसतो प्रबोधयितुं समर्थानि, किन्तु कथंचन. तटस्थलक्षणविधया 'सेयं शुक्ति:, यदिदं रजतम्' इत्यादिवाक्या- नीवेतर निषेधमुखनैव बोधयितुं समर्थानीत्येवात्र तात्पर्यार्थः । एतेन- अप्राप्येति अद्वैताभिमतं व्याख्यानं सर्वथाऽसङ्गतमिति-परास्तम्। सन् घट इत्यादिव्यवहारो हि घटतादात्म्यापन्नं ब्रह्म, ब्रह्म- तादात्म्यापन्नं घटादिकं वा विषयीकुर्वन् न ब्रह्मस्वरूपमात्रविषयी- करणसमर्थः; अखण्डरूपब्रह्मणो निर्विकल्पकज्ञानमात्रवेद्यत्वेन सन् घट इत्यादिसविकल्पज्ञानावेद्यत्वात्। एतेन-सन् घट इति व्यवहारस्य घ्रह्मण्यध्यस्तप्रपश्चतादात्म्यो- ल्लेखित्वकथनमसङ्गनम् ; तथासति ब्रह्मवाचकसत्पदप्रयोगायोगात्। तस्य तद्वाचकत्वं हि त्वदभिमतम्। नचाध्यासस्थले तत्प्रयोग उपप- द्यते; भ्रमोपमदप्रसंगस्योक्तत्वात, अतः प्रमाविपयत्वादिरूपसत्ताधर्मा- श्रयो घट इत्यंव सन् घट इत्यत्र बोध इत्यादिकम्-अपास्तम्। सद्रृपेण ज्ञातस्यानन्दरूपेणाज्ञातस्य च ब्रह्मण एव घटादधिष्ठानत्वेन सत्पदेन ब्रह्मविवक्षायामपि हि नाध्यांस- विरोध :; अखण्डब्रह्मणोऽनावृतस्यैव भ्रमविरोधित्वम्, नतु सखण्डस्यावृतस्यापीति हि वस्तुस्थितिः । इयमेव रीतिः शुक्ति- रजतभ्रमस्थलेऽपि दृष्टा, यत्र शुक्तिकाया इदन्त्वेन ज्ञानं शुक्तित्वेनाज्ञानं च विना न भ्रम उदेति। यथाच शुक्तिकाया: यावदूब्रह्मसाक्षात्कारमनुवर्तमानायाः कल्पितेनैव स्वरूपे- णावस्थांनं सविशेषरूपेण, एवं ब्रह्मणोऽपि परमार्थगत्या .निर्वि- शेषस्थापि यावदखण्डाकारसाक्षात्कारं कल्पितास्सविशेषाकारा ब-

Page 113

श्रीभाष्यसमालोचनम् १०३

हव एव वर्तन्ते, इति सत्य-चित्वानन्दत्वादीनां कल्पितेन विशे- घेण ब्रह्मघर्मत्वाविरोधाद् काल्पनिकाकारमादाय निर्वाहसंभवः। तत्र यथा शुक्तित्वेन ज्ञातायाः शुक्तेरेव रजतभ्रमविंरोधि- त्वेनाधिष्ठानत्वव्यपदेशः, न त्विदंपदार्थस्थ सर्पादिभ्रमसाधारणस्य, तथा प्रकृतेऽपि-अखण्डब्रह्मसाक्षात्कारस्यैव सर्वप्रपश्चभ्रमविरो- धित्वाद् अखण्डब्रह्मणो निर्विशेषस्गैवाधिष्ठानत्वम्, नतु सत्प- दार्थस्य ब्रह्मण :; स्वनिवर्तकज्ञानविषयस्यैवाघिष्ठानत्वादिति ह्ाद्वैतिनां प्रक्रिया। • एतेन-कान्यनिकाकारमादाय तु न निर्वाहः ; निर्विशेषत्रह्मण एव घट-पटाद्यनुग- तत्वस्याद्वैतिभिः स्व्रीकागदित्यादि-परास्तम् ; निर्विशेपस्य ब्रह्मण एव सदात्मना कल्पितेन घटादनुगतिस्व्रीकारेऽपि पारमार्थिकनिर्विशेपत्वाविघानात्। 'निर्विशेषेण सर्वविकारानुगतेन' 'सचिदान्दरूपस्य ब्र- ह्मण: प्रपञ्चे तादात्म्यमिति पूर्वाचार्याणामुतिस्तु वस्तुशक्तिमनु- रुध्यैव; नतु सन् घट इति व्यवहारदशायामपि निर्विशेषस्या- खण्डस्यैव सत्पदेन भानमनुरुध्य। सन् घट इति हि व्यवहारो यावद्घटादिमतीति नियतमनुवर्तेत। घटादिप्रतीति विनाऽखण्ड- सद्ृपमात्रं तुन सन् घट इत्यादिप्रतीती भासते, इति सन् घट इत्यादिव्यवहाराणां निर्विशेषत्रह्माविषयीकरणात्-युक्तमाम्ना- तम्-"यतो वाचो निवर्तन्ते। अप्राप्य मनसा महे" ति। अनेन हि वाक्येन व्यवहारदशायां वाचामखण्डसन्मात्रविषयकत्वमेव निवार्यते, नतु सन् घट इत्यादिव्यवहारमात्रम्, येन घटादिव्यवहारा- णाम्-"अथात आदेशो नेतिःनेति" इति श्रत्या बाधे व्यवहार्या- भावादेव निवृत्तिर्भविष्यतींति नास्य वाक्यस्य किश्चित् प्रयोजन- मिति शङ्का सावसरा स्थात्। तदयं निष्कर्ष :- यथा 'इदं रजतमि'ति व्यवहारो शुक्ति,

Page 114

१०४ श्रीभाष्य समालोनचम्

शुक्तित्वेनाविषयीकृत्य ततो निवर्तते, तथा सन् घट इति व्यव- हारोऽपि निर्विशेषं ब्रह्माविषयीकृत्य ततो निवर्तते। तथाचेयमत्र वाक्ययोजना-यतः=ब्रह्मरूपादानन्दात्, वाच :- सन् घट इत्यादिव्यवहाराः सृष्ट्यादिवाक्यानि वा अप्राप्य=अविषयोकृत्य, निवर्तन्ते=कुण्ठितशक्तिका भवन्ति, तं ब्रह्मण आनन्दम्=ब्रह्मरूपमानन्दम्, विद्वान्=जानन्, न बिभेति कुतश्चन=द्वितीयादनात्मनो न भयं प्राप्नोति; भयनिमित्तस्य द्वितीयस्य ब्रह्मणि बाधात्-इति, ननु परकल्पिता-यतः=यस्माद् हेतोर्वाचो निवर्तन्ते, तस्माद् ब्रह्मण आनन्दं विद्रानिति वा 'यतः यस्मात् ब्रह्मणो वाचो निवर्तन्ते, तस्य ब्रह्मण इति वा, येनासामस्जस्यं विरोधो वा परकल्पितरीत्या समापवेत। सति चैवं व्यवहारदशायामज्ञाताखण्डब्रह्मसाक्षात्कारात् द्वितीयाधीनभयनिवृ- त्तिप्रतिपादनपरेणानेन वाक्येनाखण्डसाक्षात्कार निवर्त्यत्वं द्वितीय- स्यार्थतो गम्यते, इति रज्जुज्ञानेन सर्पाद् न विभेतीति वारक्यं यथा रज्जोः सर्पापवादमेव तात्पर्यतो गोचरयति, तथा प्रकृते ब्रह्मणि प्रपश्चापवद एव तात्पर्य पर्यवस्यति। एतेन-अस्य वाक्यस्य प्रपच्चापवाद्परत्वे 'न घ्रह्मणि प्रपश्चः' 'न ब्रह्म प्रपश्चः' इति वैवं श्रयेत, न 'वाचो निवर्तन्ते' इति वक्रोक्ति:। नहि 'इदं रजतमि'ति भ्रमे वर्त- माने तन्निषेधाय रजनवाग् निवर्तते' इत्युत्तियुक्ता दष्टा वेत्यादि-परास्तम्। यतो रज्ोरयं सर्प इति व्यवहारो निवर्तते, तां रज्जुम् तस्या रज्वा रज्जुत्वं वा विद्वान् न विभेति सर्पात् इति वाक्यप्रयो- गस्येवात्रापि तत्संभवात्। एतेन-शुक्ति ज्ञात्वा रजतवाङ् निवर्तत इत्युक्तियोगोऽपि-व्याख्यातः । अत्र-'आनन्दं विद्वान्' इति वा 'ब्रह्म विद्रानि'ति वा प्रयोगेणापि निर्वाहेऽप्यानन्दं ब्रह्मण इत्याम्नानादिदं ज्ञाप्यते-

Page 115

श्रीभाष्य समालोचनम् १०५

आनन्दांशेन ज्ञानमेव मोक्षसाधनम्; सचिदंशाभ्यां ज्ञात- स्याप्यानन्दांशात्मनाऽज्ञानेनैव प्रपश्चविभ्रमादिति। इदमेवाभि- प्रेत्य-ब्रह्मण इति षष्ीप्रयोगोऽपि कल्पितं भेदमादाय प्रवृत्तः । एतेन आनन्दं ब्रह्मण इति निर्देशाद् ब्रह्मानन्दयोर्धर्म-धर्मि- भावोऽपि निरस्तो वेदितव्यः ; अन्यथा हि शतगुणितप्रजापत्या- नन्दतुल्यत्वस्य-"ते ये शतं प्रजापतेरानन्दाः। स एको ब्रह्मण आनन्दः" इति विशदं ब्रह्मसम्बन्ध्यानन्देऽवगमाद् वाङ्मनस- गोचरे तत्र "यतो वाचो निवर्तन्ते। अप्राप्य मनसा महे" त्युक्ति- रक्ष्यन्तमेवासङ्गता स्थात्।

परिच्छिन्नत्वशङ्का, तन्निवृत्त्यर्थ तस्य वाड्मनसागोचरत्वकथनेनापरिच्छिन्नत्वं बोधय- न्ी श्रुतिस्ताहशानन्दविशिष्टत्रह्मोपामनस्य सर्वभयनिवृत्तिफलकत्वं प्रतिपादयतीत्ययमर्थः कुतो नाद्वेतिभ्यो गेचत इत्युक्तिरपि-परास्ता।

श्रुत्यैव-"स को ब्रह्मण आनन्दः" इत्यत्र यस्प ब्रह्मणो विवक्षा, तस्य "ते ये शतं प्रजापतेरानन्दाः। म एको ब्रह्मण आनन्दः" इति स्पष्टं तस्यानन्दस्याकामहतश्रीत्रियानन्दमावारण्येन परिच्छिन्नत्व- व्यवस्थापनेन तत्र परिच्छिन्नत्वशङ्काया एवानुदयेन तन्निवृत्त्यर्थत- योक्तवाक्यप्रवृत्तिवर्णनासंभवात। अस्मन्मतेतु-"यतो वाचो निवर्तन्ते"इति वाक्यसन्दर्भस्य "स एको ब्रह्मण आनन्दः" इत्यस्य च विषयभेदात्-"यतो वाचो निवर्तन्ते"इति सुष्ठु लगति, इति कर्थं वा आनन्दविशिष्टव्र्मोपासनस्य सर्वभयनवृत्तिफलकत्व- मेवोक्तश्रुतिः प्रतिपादयतीत्ययमर्थः पामरायापि रोचेत? तथाच-अप्राप्य निवर्तन्त इत्युत्त्या हि प्रवृत्तयोरेव वाड्- मनसयोरर्धपथ एव निवृत्तिप्रतीतेरन्यस्य कस्पचिदानन्दपरिच्छेद- विषयस्य वाक्यस्य प्रवृत्तस्यादर्शनात् प्रवृत्तस्य .शतणुणितोत्तरक्रमे- . १४

Page 116

१०६ श्रीभाष्य समालोचनम्

णोत्कर्षप्रतिपादकस्य तद्विषयस्यापि प्रवृत्तत्वादेव निवृत्त्यसंभवादद्वैत्य- भिमतार्थ एव सर्वैरप्येष्टव्यः। "ते ये शतमि"ति पर्यायेषु शतशब्दो हि न शतसंख्यामात्रपरः, किन्तु सहस्रादिसंख्यापर इत्येवाङ्गीकर्तव्यम्; अन्यथा-भवन्मतरीत्या ब्रह्मानन्दस्य प्रजापत्यानन्दापेक्षया शत- गुणितानन्दत्वेन परिच्छिन्नत्वशङ्कायाः सहस्त्रेणापि-"यतो वाचो निवर्तन्ते"इति वाक्येन वारणासंभवः। यतः-शतगुणितप्रजा- पत्यानन्दतुल्यत्वमान्नातमबाधित्वा न वाक्यार्थवर्णनं भवतां संभवति, इति "ते ये शतं प्रजापतेरानन्दाः। स एको ब्रह्मण आनन्दः"इति वाक्यमनर्थकमेव भवन्मते स्यात्, प्रजापत्यानन्दवर्णनानन्तरमेव- "यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह।" इति वाक्यप्रवृत्यैव भवद्भिमतार्थनिर्वाहसंभवात्। यथाच-"ब्रह्मविदाप्नोति परम्" इत्युपक्रमादिस्वारस्यं "यतो वाचो निवर्तन्ते"इत्यस्य ब्रह्मरूपाखण्डा- नन्दपरत्व एव, नान्यथा, तथा पूर्वमेव विवेचितम्। अयमाशयः-नात्र श्रुनौ ब्रह्मसम्बन्ध्यानन्दाद् वाचां निवृ- त्तिरभिधीयते, तत्र "स एको ब्रह्मण आनन्दः" इत्यादिवाक्यानां स्वरसतः प्रवृत्तत्वेन ततो निवृत्तिवर्णनासंभवात्। "सैषानन्दस्य मीमांसा भवतो'ति हि आनन्दमीमांसा प्रवृत्ता मध्येमार्ग ब्रह्म- सम्बन्ध्यानन्दपर्यन्तं गत्वा ब्रह्मरूपमानन्दमप्राप्य निवृत्तेति हि सुष्टु लगत्यद्वैताभिमतयोजनाश्रयणे। आनन्दमीमांसा हीयमानन्दरूप- ब्रह्ममीमांसैव, न ब्रह्मसम्बन्ध्यानन्दमीमांसा; अप्रस्तुतत्वात्। तथा- यानन्दमीमांसा सविशेषब्रह्मानन्दपर्यन्तमेव प्रवर्तते, यावद्वाङ्- मनसयोरपि प्रवृत्तिरकुण्ठिता; निर्विशेषाखण्डानन्दस्वरूपं तु पुच्छ- ब्रह्माभिधेयं नेदन्तया केनापि वाक्येन निर्धारयितुं शक्यम्, इति नानन्दमीमांसाSSनन्देयत्तामीमांसा, किन्तु तत्सरूपजिज्ञासैव।

Page 117

श्रीभाष्य समालोचनम १०७

म्वविशेष: प्रजापत्यानन्दः, तत्प्रति बिम्बविशेषो बृहस्पत्यानन्दः, नत्प्र- तिबिम्बादिविशेषा इन्द्राद्यानन्दा इति प्रतिबिम्बानामेवानन्दानाम- खण्डानन्दमात्रोप तीविनां वाङ्मनसगोचरत्वम्, नतु · बिम्बा- नन्दष्य निर्विशेषव्रह्मरूपस्येत्येव "यतो वाचो निवर्तन्ते" इति वाक्यार्थः ।

एनेन-व्रह्मानन्दपरिच्छेदाय प्रवृत्ता वाचो घ्रह्मानन्दे परिच्छदा- भावान् ततो निवतन्ते इत्येवात्र वाक्यार्थ इत्यादि-प्रत्युत्तम ; आनन्द- स्वरूपजिज्ञामाया एव प्रस्तुतत्वेन तदियत्ताया अप्रस्तुनत्वान्। तथाच-"एतस्थैवानन्दस्यान्यानि भूतानि मात्रामुपजी- वन्ती"ति श्रुत्यन्तर सिद्धार्थोपपादनार्थेवाSSनन्दमीमांसेति तदेकवा- क्यताप्यत्र सिद्धयति। तदयं निर्गलितार्थ :- ब्रह्मसम्बन्ध्यानन्दस्य परमावधिः शत- गुणितप्रजापत्यानन्दः, यत्र वाङ्मनसे सम्यगेव प्रवर्तेते, स्वरूपा- नन्दस्तु सतो निरतिशयो नेयत्तापरिच्छिन्नः, इति न चरमावधिम- पेक्षते, येन "सैषाऽऽनन्दस्ये"त्यानन्दमीमांसाया आनन्दचरमावधि- प्राप्तिपर्यन्तमेव प्रवृत्तिविवक्षोचिता। वस्तुतस्तु-"यतो वाचो निवर्तन्ते" इति वाक्यसन्दर्भें- णापि ब्रह्मानन्दस्यापरिच्छिन्नत्वमेव वाङ्मनसागोचरत्वेन प्रति- पाद्यते, नतु तस्य चरमावधि: प्रतिपाद्यते, इति कथं ब्रह्मानन्देयत्ता- परिच्छेदार्थत्वमानन्दमीमांसायाः पराभिमतं संभवदुक्तिकमपि ? एतेन-उपर्युपरि शतशः परिकल्पनेऽपि नेयत्ता प्राप्येन, अतोऽत्रैव निवृत्तिवरमिति पश्यन्ती श्रुनिर्निववृत इत्यादिकल्पनापि-पगस्ता। शतगुणितवृहस्पत्याननदप्रजापत्यानन्दपरिच्छेदेनैव निवृत्यौ- चित्येन "ते ये शतं प्रजापतेरानन्दाः। स एको ब्रह्मण आनन्दः" इति मीमांसावशंषस्यासाङ्गत्यापत्तेः । नहि शतगुणितत्वेन.ब्रह्मानन्देय-

Page 118

१०८ श्रीभाष्य समालोचनम्

त्तापरिच्छेदः, तत्रैव निवृत्तिश्चेति सुश्लिष्टं बचः; व्याहतत्वात्। अप्राप्य निवृत्तिर्हि महाभाष्यस्य लेशतोऽप्यपठन एव-देवदत्तो महाभाष्यपठनपर्यन्तं प्रवृत्तोऽपाप्यैव तं मनोरथं निवृत्त इत्यादौ दृशयते, नतु महाभाष्यपठनेऽपि प्रवृत्त्यनन्तरम्। तथाचात्रापि ब्रह्मानन्दस्य लेशतोऽप्यमीमांसयैव यद्यानन्दमीमांसा निवृत्ता स्पात्, तदैव-"यतो वाचो निवर्तन्ते। अप्राप्य मनसा सहे"तिवाक्यमु- पपद्येत, नतु "स एको ब्रह्मण आनन्दः" इत्यानन्दपरिच्छेदप्रवृत्यन- न्तरमपि। अत :- "ते ये शतमि"त्यादिवचस्तत्र प्रवृत्तमेवेति न तस्य कदापि निवृत्तिर्मतान्तरे। अस्मन्मते तु-सन् घट इत्यादिव्यवहाराणामखण्डब्रह्मा- विषयकत्वेन तत्र कुण्ठितशक्तिकत्वाद् अखुण्डानन्दंब्रह्माप्राप्य "यतो वाचो निवर्तन्ते" इत्युपपन्नतरम्।

एतेन-कस्यचिद् ब्रह्मानन्दतत्वं जिज्ञासमानस्य वेनचित् प्रमाणा- भासेन तस्य शतगुणितप्रजापत्यानन्दत्वं भ्राम्यतो त्रह्मानन्दपरिच्छिन्नत्व- व्यवहारसंभवात् तन्निवर्तकत्वेन "यतो वाचो निवर्तन्तं" इत्यस्य सार्थक्यमिति शङ्कापि-परास्ता। श्रौतस्य शतगुणितप्रजापत्यानन्दत्वस्य ब्रह्मसम्बन्ध्यानन्दे ज्ञातस्य भ्रान्तत्वकल्पनायां श्रुरतिबाघाद्यापत्या तन्निरासकतया "यतो वे' तिवाक्यसार्थक्यासंभवात्, "धतो वाचः" इति वाक्येऽसंकोचेन सर्वेषां शब्दानां मुख्यवृत्या ब्रह्मण्यप्राप्य निवृत्तेरव गताया वाधेनानन्देयत्तावाड्मात्रनिवृत्तिपरतया संकोचस्यायोगा- च्। न ह्यसंकोचेनान्वये संकोचो न्याय्य: । वस्तुतस्तु-शतगुणितानन्दरूपेणापरेषामानन्दानां पूर्वपूर्वेषा- मपेक्षयाSSनन्दान्तरोपक्षेपक्रमभङ्गेनैव ब्रह्ममम्बध्यानन्दे तदियत्ता- परिच्छेदकवाङ मनसाप्वृत्तिरर्थतः सिद्धयति, इति कथं ब्रह्मानन्दा-

Page 119

श्रीभाष्य समालोचनम १०६ पेक्षया शतगुणानन्दान्तरसत्वशङ्काया अवसरलेशोऽपि, इति व्यर्थ मेव-"यतो वाचो निवर्तन्ते" इति वाक्यजातम्; "आनन्दं ब्रह्मणो विद्रान् न बिभेति कदाचने"ति वाक्यांशेनैव निरपेक्षबांध- संभावात् । परमार्थतस्तु-"यतो वाचः" इति वाक्यस्य नानन्देय- .त्ाऽपरिच्छेद र्थत्वन्, किन्तु प्राप्यव्रह्मसवरूपप्रतिपत्त्यर्थतवमेवेत्युत्तरत्र स्फुटोभविष्यति। एतेन-'असन् घटः' 'ब्रह्मणि प्रपश्चोऽध्यस्तः' 'ब्रह्मभिन्नं मिथ्या' निविशेषं ब्रह्म' 'अद्वैतमेव तत्त्वम्' इत्यादिवाचोऽपि- व्याख्याता :: प्रथम-द्वितीय-तृतीयवाक्यानां सद्रपेण ज्ञातस्य ब्रह्मण एव बोधनेन निविशंषाखण्डब्रह्मणोऽबोधनेन, तुरीय-पश्चमवाक्या- भ्यामि विशेषनिषेधमुखेन बोधनेनेदन्तया ब्रह्मणोऽबोधनेन च निर्विशषत्रह्मणो वाङ्मात्रागोचरत्वं हुपपद्यते। नहि शुद्धं ब्रह्म शास्त्रप्रतिपाद्यम्, किन्तृपहितमेवेति भामतीसिद्धान्ताच। एतेन-अद्वैतमतेऽपि संकोच आवश्यकः; 'असन् घटः' 'त्रह्मणि पप्रश्वीडध्यस्तः' 'ब्रह्मभिन्नं मिश्ये'त्याढिनां वाकपदेनाग्रहणादित्यादि- परास्तम्। किश्चिद्ृपेण ज्ञातत्वेऽपि किश्चिद्रपेणाज्ञातस्यैव वस्तुगत्या सत्यस्याधिष्ठानत्वेनाखण्डरूपेण न तेषु वाक्येषु ब्रह्म विपयी- क्रियते। न ह्यखण्डरूपेण ब्रह्मग्रहणदशायां ब्रह्मभेद-प्रष्श्च-तन्मि थ्यात्वादीनां बोध: संभवद्दुक्तिक: । वस्तुतस्तु-वाचां न ब्रह्मणि प्राप्तिरित्येवात्र वाक्यार्थः । एतासांच वाचां सविकल्पकज्ञानजनकत्वस्यौत्सर्गिकत्वात् तादशीनां सर्वासां वाचां परोक्तरीत्यैवाखण्डाकारप्राप्त्यपेक्षया प्रवृत्तरेवायोगात् अप्राप्य निवर्तन्ते इति सुष्टूपपन्रम्। भ्रम-प्रमासाधारण्येन सर्वेषां

Page 120

११० श्रीभाष्य समालोचनम्

यद्यपि-"तत्वमसि" अहं ब्रह्मास्मि "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिवचसां ब्रह्मणि प्रवृत्तिर्वर्तते, तथापि न मुख्यवृत्या तत्र प्रवृत्तिरिति मुख्यवृत्या शुद्धब्रह्मणि कस्यापि वचनस्य न प्राप्तिरिति न कोऽपि दोष: ।

एतेन 'तत्त्वममि' 'सत्यं ज्ञानम्' इत्यादीनामपि ब्रह्मणो निवृत्तिहिं दवंचा ; अन्यथा केनापि प्रमाणेन ब्रह्मणो दुःसाधनतया शून्यवाद एव पर्यवसानं स्यादित्यादि-परास्तम्। तत्त्वमसीत्यादीनामप्युपहितब्रह्म- परत्वस्यैव स्वीकारेऽपि सत एव सिद्धत्वाद् ्रह्मणो न शून्य- वादापत्तिरिति हि भामतीसिद्धान्तः । व्यक्तं चेदमद्वैतसिद्धयादौ जडत्व- निरुन्तिप्रकरणे, इनितत एवाधिकमवगन्तव्यम्। परमार्थनस्तु वाकूपदे- नाखण्डत्रह्मेनग्वाच एत विवक्षिताः नतु ब्रह्मवाचोऽपि ; व्याघानात।

एतेन-सगुणवाक्यान्यपि-व्याख्यातानि; तेषां यथावस्थि- तस्वरूपसमर्पकत्वाभावात्, गुणानां तत्तद्वाक्यावगतानाम्- "अथात आदेशो नेति नेति" इत्यादिवाक्यैरयथावस्थितत्वावग- मात्। अत्रादिपदेन-'आनन्दं ब्रह्मणो विद्रान् न बिभेनि कुत- ख्रने' ति वाक्यांशोऽपि गृह्यते। सति चैवं 'यतो वाचः' इत्य- स्याखण्डब्रह्मेतरवाचां सर्वासां ब्रह्मणि न प्राप्तिः । अतशच ततो निवृत्तिः; सगुणवाचां लौ किकवागन्तराणां चयथावस्थित निविशेषा- खण्डस्वरूपबोधकत्वासंभवादिति पर्यवस्यति। यथाचात्रैवार्थ प्रक- रणसंशुद्धिः, तथा पूर्वमेव विवेचितम्।

पतेन-कुत्सितां बुद्धिमवष्टभ्याद्वतादिकमेव तत्त्त्वं प्रतिपन्नानामयथाव- स्थितार्थपरा वाचोऽविशुद्वेन मनसा सहेवाप्राप्येव यतो निवर्नन्ते, तस्य ब्रह्मण आनन्दं विद्वान् न बिभेतीत्यर्थ इति व्यवस्थापि-परा-

प्रोऽवाडमनसगोचरत्व्यवस्थापनपरतया नयनेन पूर्वापर विरोधान, ब्रह्म,- रूपत्वेत्वानन्दस्याभ्युपगम्यमाने आनन्दस्य ब्रह्मधर्मत्वपक्षपरित्यागादू

Page 121

श्रीभाष्य समालोचनम् १११

अद्वैतमत एव प्रवेशान, अयथावस्थितार्थपराणां वाचामविशुद्धस्य च मनसो म्रह्मरूपानन्दमनराप्य निवृत्तेग्द्वैतिनामपि सम्मतत्वात्, मगुणश्रह्मप्रतिपादनार्थानां वाचां वाकपदेन ग्रहणे तासां ततो निवृत्ति- वर्णनायोगात, निगुणवाक्यानार्माप सगुणपरत्वस्येव भवदभिमतत्वेन

शिवद्रोहतात्पर्येणैव, न वस्तुगत्या। एतदुक्ता भवति-विदुषो व्रअ्मपाप्तिर्गतिनिरपेक्षेति बोध- नार्थ ब्रह्मण एव प्रपश्चभावं जीवस्वरपत्वम्-"म यश्चायं पुरुषे, यइचासावादित्ये स एक:" इति जीव ब्रह्मणोरुपाधिविलयेत्य- न्तवभेदं च प्रतिपाद्य जीवाभिन्नव्रम्मज्ञानिनोऽन्नमया दिवा स्तर्था गतिनिरपेक्षा, एवं ब्रह्मभावोऽपि गतिनिरपेक्ष इति बोधनार्थ- मन्नमयाद्यानन्दमयान्तस्योपसंक्रमितव्यत्वं प्रतिपाद्य च प्रवृत्तमिदं वाक्यजातम्-"यतो वाचो निवर्तन्ते। अप्राप्य मनसा सहे" ति। अनेन च यादृशब्रह्मभावो मोक्ष:, यदनन्तरमभयं प्रतिष्ठां विन्दते, तादृशानन्दृम्पाखण्डब्रह्मणि सर्वासां वाचां न प्रवृत्तिः। तस्य हि केवलं मौनव्याख्ययैव प्रकटीकरणसंभवः, नत्विदन्तया वाक्य- विशरषेण तत्प्रकटीकरणसंभवः, इति प्राप्यं ब्रह्म प्रस्तुतमेव- "तदप्येष इलोको भवती" त्युपक्रम्य प्रवृत्तन "यतो वाचो निवर्नन्ते" इति वाक्येन तात्पर्यतो विषयीक्रियते। तथाच- "तद्प्येष इलोको भवती'त्यनेन तस्मिन् प्राप्ये ब्रह्मणि प्रस्तुत एष इलोको भवतीत्येव विवक्ष्यते। सति चैवं भवन्मत इवास्मन्म- तेऽपि-"अथ सोऽभयं गतो भवती" ति प्रस्तुताया अभय- प्राप्तेरेव ब्रह्मपापतिरूपायाः प्रपश्चनं "यतो वाचो निवर्तन्ते" इति इलोकः इलोकयनि। अयं च इलोकोऽभयप्राप्तिरेव ब्रह्मप्राप्तिरिति श्लोकयन् भयनिमित्तद्वैताभावमपि ब्रह्मण्यर्थसिद्धं बोधयति, इति ब्रह्मणोऽवाङ्मनसगोचरत्वप्रतिपादनमिदं घ्रह्मणि प्रपश्चाप -:

Page 122

११२ श्रीभाष्य समालोचनम्

वादमपि सिद्धवत्करोतीति वक्तव्यम्। अत्र-"न बिभेति कुतशच- ने" ति कुतःशब्दस्वारस्यं ब्रह्मव्यतिरिक्तस्य कस्यापि भयनिभि- तस्य ब्रह्मप्राप्तिदशायामभावबोधन एव संभवति। एतेन-भयहेतूनां सकलपुण्यपापरूपकर्मणां निग्वशेपमुन्मूलिततया मकलसांमारिकभयनिवृत्तिपूर्वा ब्रह्मप्राप्तिरेवात्र विवक्षितत्यादिव्यत- स्थापि-परास्ता। तदेवं प्रपश्चमिथ्यात्वस्य ब्रह्मनिरविशेषत्वस्य चैव तैत्तरीयोपनि- षदर्थत्वाद् ब्रह्मसप्रपश्चतायामेव "यतो वाचो निवर्तन्ते" इत्यादि- वाक्यतात्पर्यमिति वादो निरवकाशीकृतः । इदमेवाभिप्रेत्योक्तं सिद्धान्तसिद्धाक्ञने-"यतो वाच इत्यस्य-व्रह्मणि प्रवृत्ते वाङ मनसे सर्वप्रवृत्तिनिमित्तमृषात्वादेव तदेवाप्राप्य निवर्तन्ते इत्येवार्थ:, ब्रह्मानन्दमभिदधाना एव वाचस्न- दियत्तामप्राप्य निवर्तन्ते इत्यर्थेऽध्याहारप्रसङ्गात, प्रवत्तिनिवृ्त्त्योरेक- निरूप्यत्वस्वारस्यं परित्यज्य भिन्ननिरुप्यत्वकल्पनाप्रसङ्गाच्चं" ति। अयं भाव :- यच्छब्दस्य तच्छव्दावधिकार्थद्योतकत्वस्य "यो विद्रान् स दीक्षितः" इत्यादी दृष्टत्वात् येन रपेण ब्रह्मणः सन् घट इत्यादिव्यवहारतः प्राप्तिः, तादृशस्य सद्रपस्य ब्रह्मण एव यतो ब्रह्मशन्दाभ्यां ग्रहणम्, नत्वखण्डानन्द्रूपेणापि। तथाच सद्रू- पेण ज्ञायमानमपि ब्रह्माखण्डरूपेणाज्ञानाद् न सन् घट इत्यादि- व्यवहारेष्वसंकीर्णमवभासते, इति सन् घट इत्यादिव्यवहारा ब्रह्मा- प्राप्य निवर्तन्ते, अखण्डरूपे तु ब्रह्मण श्रवण-मनन-निदिध्यासनसं- स्कृतान्त:करणमात्रगोचरत्वादसंस्कृतमनसो वाचां चन तत्र प्रवृत्तिः। सति चैवं सन् घट इति व्यवहारा ब्रह्मप्राप्तीच्छ्या प्रयुज्यमाना अपि कथमपि ब्रह्म सद्रृपेण संस्पृशन्तोऽपि न पूर्णरूपेण तद् गृह्लन्ति, इति युक्तमाम्नातम्-'अप्राप्प निवर्तन्ते' इति। एवं च श्रतौ सह-

Page 123

श्रीभाष्यसमालोचनम् ११३ स्रशः प्रयुज्यमानेषु ब्रह्मबोधकपदेषु लक्षणाङ्गीकारेणैवोपपत्तिर्वर्ण- नीया, इति न दोष: । परिच्छिन्नविषयाणां वाचामपरिच्छिन्न्रह्मा - विषयत्वं न मुख्यया वृत्या भवतीति तु निष्कर्षः । ऐतेन-ब्रह्मगः परिच्छिन्नत्वेन वागादिविषयत्वाभाव्रस्य विवक्षणी . यत्वेन स्वरूपतः परिच्छेदाभावस्य कालादिसाधारणतयाऽडनन्दादिगुण- द्वारा तदभावस्य तत्र तरिवक्षा नियना, इति यत इत्यस्यानन्दपरत्वमेवा- ङ्गीकर्तव्यम्, नतु ब्रह्मपरत्वमित्यादि-प्रत्युक्तम्। त्रिविधपरिच्छेदाभावस्थात्र विवक्षणेन तस्य कालादिसा- धारणत्वाभावादू आनन्दादिगुणद्वारा तदभावस्याविवक्षणीयत्वात्, ब्रम्मानन्दस्य पूर्वमज्ञातत्वेन यतःशब्देन तत्परामर्शायोगात्, आन- न्दप्राचुर्यस्य पूर्वोक्तप्रकारेणाप्रस्तुतत्वेन तदियत्ताभाववर्णनस्यानव- सरात्, ब्रह्मधर्मानन्दस्यापि जीवाधर्मत्वेन परिच्छिन्नत्वाद् ब्रह्मणः एव, ब्रह्मरूपस्यानन्दस्य वैव वा यतःशब्दार्थत्वेन ब्रह्मसम्बन्ध्यानन्दस्य यतःशब्दार्थत्वाभावाचच। एतेन-ब्रह्माप्राप्य ततो निवर्तन्त इत्यनुपपन्नम ; नहि आ्रममप्राप्य ग्रामादू निवर्तत इति व्यवहियते। ग्रामं गतस्तत्रेप्सितमप्राप्य निवर्नत इत्येव व्यवहारादित्यादि-परास्तम्। प्रकृतेऽपि ब्रह्म प्राप्य तदीयमानन्दांशमप्राप्य सन् घट इत्यादिव्यवहारो निवर्तत इत्येव विवक्षणनापि हि न विरोध: । तथाच ब्रह्मण्येव प्रवृत्ते: सन् घट इत्यादिव्यवहारो मुख्यवृत्त्या निर्विशेषतत्सरूपानभिधानात् ततो निवर्तते, इति तदनभिधान- रूपा निवृत्तिर्वाचामर्थसिद्धैव। तथाच ब्रह्मण्येव वाचां प्रवृत्तिस्तत एव निवृत्तिरिति प्रवृत्ति-निवृत्त्योरेकनिरूप्यत्वमपि सिद्धघतति। मतान्तरे तु ब्रह्मणि प्रवृत्तिः तदीयानन्दादू निवृत्तिरिति तयोभिंन्न-

विशिष्टे शब्दानां प्रवृत्तिः, शुद्धाद् निवृत्तिरितिभेदोऽकिश्चित्कर:। १५

Page 124

११४ श्रीभाष्यसमालोचनम्

एतेन-नचांशभेदेन प्रवृत्ति-निवृत्त्युभयोपपत्तिः; श्रह्मणो निरश- त्वात्, प्रवृत्ति-निवृत्त्योभिन्ननिरूप्यत्वप्रसङ्गात्, प्रवृत्त्यधिकंरणस्यैव निवृत्त्यपादानताया वक्तव्यत्वेन विशिष्टे प्रवृत्तिः शुद्धाद् निवृत्तिरिति वाक्यार्थामाम ्जस्याच्चेत्यादि-परास्तम्।

विशिष्टं शुद्धाद् नातिरच्यत इति सिद्धान्तेनोक्तदोषा- प्रसरात्। 'गुणादिकं गुण्यादिना भिन्नाभिन्नं समानाधिकरणत्वा- दि'त्यादिना भेदसामानाधिकरण्योपलक्षिताभेदस्यैव विशिष्ट-शु- द्वयोरङ्गीकारस्य लघुचन्द्रिकायां विस्तरेणोपपादितत्वाच।

एतेन-विशिष्ट-शुद्धयोगभेदाद् नासाम जस्यमित्यपि मन्दम्; तथासति तत्र प्रवृत्तस्य ततो निवृत्तेरयोगादिति-निरस्तम् ; तयोर्भेदाभेदाभ्युप- गमेनाविरोधान्। तथाच ब्रह्मणि प्रवृत्ते वाङ्मनसे अखण्डब्रह्माविषयीकरणात् ततो निवर्तेते, प्रवृत्तिनिमित्तस्य तत्राभावादित्येव "यतो वाचो निवर्तन्ते" इत्यादिवाक्यार्थः, नतु आनन्देयत्तामप्राप्य ब्रह्मणो निवर्तन्ते इति, परवृत्ति-निवृत्योर्भिन्ननिरूप्यत्वापत्तेः, इयत्तादिपदा- ्याहाराच। यथाच-"अप्राप्येति पदं नेयत्तामपेक्षते, तथा पूर्वमेवोप- पादितम्। एतेन-अप्राप्येत्येतदाकाडिक्षततया यत्किश्वित्पदाध्याहार आवश्यक इति-प्रत्युत्तम् ; निवृत्त्यपादानस्यैवाप्राप्यकर्मत्वेन तदनावश्यकत्वात्। तथाचानन्द्मयब्रह्मतावादे तत्पर्यायगतस्य-"तस्य पुरुषविधताम अन्वयं पुरुषविधः" इत्यस्यानन्वयापत्तिरपि दुष्परिहरं दूषणम्। अतोऽपि ज्ञायते-यदानन्दमय-ब्रह्मणोरत्यन्तमेव भेदोऽत्र विव- क्षितः, इति पुच्छब्रह्मवाद एव खरसः । . एतेन-काल्पनिकावयवावयविभावनिबन्धन आनन्दमय-ब्रह्मणोर्भेद इति-परास्तम् : स्वस्मिन्नेव स्वावयवत्वकल्पनाया निर्मलत्वात्।

Page 125

श्रीभाष्यसमालोचनम् ११५ एतेन-घटात् पटस्येवानन्दमयाद् श्रह्मणोऽत्यन्तमेदाभावेऽप्यभेदस- हिष्णोरंशाशिभावनिबन्धनमेदस्याङ्गीकार इति-प्रत्युक्तम् । यथाचानन्दमय-ब्रह्मणोर्नाकारभेदस्तथा पूर्वमेव विवेचितम्; अन्यथाऽनन्द्मयाकारस्य ब्रह्माकारातिरिक्तत्वे ज्ञेयत्वेन प्रक्रान्तं ब्रह्म कथमानन्द्मयपदेन प्रतिपाद्येत? इति पुच्छब्रह्मवाक्येनैव तत्स- मर्पणं कर्तव्यं समापततीति घट्टकुट्यां प्रभातं स्यात्। "ब्रह्मविदा- प्नोति परमि"ति प्रस्तुतस्य ब्रह्मणो गुहानिहितत्वेन कोशान्त- रत्वनिरूपणार्थ ह्यानन्दमधादीनां पुरुषविधत्वकीर्तनम्, नतु शरीरा- कारतानिरूपणार्थम् ; शरीराकारतया तज्ज्ञानस्य मोक्षसाधनत्वे- नाप्रकमात्॥ एतेन-पूर्वपर्यायोक्तपुरुपविधत्वमनुसृत्यानन्दमयोऽपि पुरुपविध इत्यु- क्तौ तर्ह्यस्य शिरआदिकं किमित्यपेक्षायां "तस्य प्रियमेव शिरः" इत्येवं- रीत्या श्रुतिप्रवृत्तिरित्यादिकमपि-पगस्तम् ; तस्य परमात्मतायां पुरु- षविधत्वनिरूपणस्यैवायोगात् तद्वैयर्थ्यापत्तेः। तदिदं सिद्धम्-अन्नमयाद्यानन्दमयान्ता: कोशा: पश्च, पुच्छं ब्रह्म तु तदन्तरं ज्ञेयं ब्रह्म, यद् विद्वान् सर्वान् कामान् युगप- दश्नुते इति सन्दर्भपरिशुद्धि:। अत एव-"अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमया मे

शरीरत्वमाम्नायमानमुपपद्यते, मतान्तरे तु आनन्दमयस्यैव सर्वान्तर- त्वेन मुख्याहमर्थत्वात् ममानन्दमय इत्यनन्वितं स्यादिति प्रकृतवाक्ये 'मे' शब्दस्यानन्दमयशव्देनानन्वायापत्तिरपि दुरपह्ववं दृूषणम्। अनेन हि विज्ञायते-आनन्दमयस्यापि प्राणमयादेरिव कश्चिदन्त- रात्मा वर्तते, यो मुख्य आत्मेति। सति चैवमन्नमयादीनां यादृशं शोध्यत्वम्, तादृशमेवानन्दमयस्यापि, अन्यथा मेपद-शुद्धयन्तांपदयो- रानन्द्मयेन सम्बन्धावसरेऽर्थान्तरम्, अन्नमयादिभि: सम्बन्धावसः

Page 126

११६ श्रीभाष्यसमालोचनम् रेऽर्ान्तरमिति सत्कृत्पयुक्तस्वैव पदस्यार्थवैरूप्यमङ्गीकरणीयं स्यात्, इति प्रकृतवाक्ये मेपद-शुद्ध थन्तांपद्योरंशभेदनार्थवैरूप्यमपरमपरि- हरणोयं दूषणम्। वस्तुतस्तु-"अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमया मे शुद्धधन्तामि"त्यन्राननदमयपदेन परमात्मग्रहणे तदन्वययोग्य- शुद्धिप्रार्थनाया न संभवलेशोऽपि; नित्यशुद्ध परमात्मन्यशुद्धर-

कयत्वकल्पनेऽपि परमात्मनि स्वापेक्षया नित्यप्रसन्नेऽप्रसादस्याप्य- संभवाच। जीवापेक्षया "लोकवत्तु लीलाकैवल्यमि"ति न्यायेन प्रसादोऽप्रसादो वा वैषम्य-नैघृ ण्यवारणार्थ तत्तत्कर्माधीन: फलोत्पच्या स्वयमेव नश्यतीति नोक्तविधाशुद्विविनाशेन शुद्धिपार्थना सफला। यत्तु-निवृत्त्युक्त्यैव तत्र प्रवृत्तरर्थसिद्धतया नाध्याहारा- पेक्षेति वर्णनम्, तदिदं मतान्तरे प्रवृत्ति-निवृत्योभिन्ननिरूप्यत्वस्वी- कारादू न संभवद्ुक्तिकम्। एतेन-अस्मन्मतेऽपि प्रवृत्ति-निवृत्त्योरे कनिरूप्यत्वमेवाभ्युपगम्यते। देवदत्तो यज्ञदत्तान्वेपणाय प्रामे प्रवृत्तस्तत्र तमलब्ध्वा तस्माद् निवृत्त इतिवद् ब्रह्मानन्दावधिलाभायानन्दे प्रवृत्ता वाकू तामलब्ध्वा तस्मादू निवतत इत्यभ्युपगमे तयोरे कनिरूप्यत्वानपायादित्यादि-परास्तम्। उक्तदष्टान्तबलेन प्रकृतेऽपि ब्रह्मणि आनन्दान्वेषणया प्रवृत्तस्तत्र तमप्राप्य ततो निवर्तत इति यद्यर्थो विवक्ष्यते, तर्हि यतः- शब्देन ब्रह्मण एव ग्रहणापत्या पूर्वापर विरोधः । यथ्यानन्दे प्रवृत्ता वाकू तमप्राप्येत्यर्थो विवक्ष्यते, तर्हि "ग्राममप्राप्य ग्रामाद् निव तते" इतिव्यवहारादिति पूर्वोक्तिविरोधः। वस्तुतस्तु-न ब्रह्मानन्देयत्तालाभायानन्दमीमांसा प्रवृत्ता, किन्त्वानन्दस्वरूप निर्धारणाय। अत एव "सैषाऽडनन्दस्य मोमांसा

Page 127

श्रीभाष्यसमालोच नम ११७ भवती"ति केवलानन्दपद्मेवाSडम्नायते, नतु ब्रह्मानन्दस्य मीमांसा भवतीति। तथाच ब्रह्ममीमांसैवात्राSऽनन्दमीमांसेति स्वीकरणीयत्वात, आनन्दपंदेन ब्रह्मण एव ग्रहणीयत्वात् आनन्दमयपदं जीवपरमेव, न ब्रह्मपर मिति स्वीकर्नव्यम्। आनन्दानन्दमययोरत्र प्रकरणे बहुशो भेदव्यपदेशात, इति नानन्दमये नैत्तरीयोपनिषदः पर्यवसानम्, किन्तु तस्याप्यधिष्ठाने पुच्छब्रह्मण्येव तत्पर्यवसानम्। सति चैवमा- नन्दमयब्रह्मत्वे दोषबाहुल्यात् पुच्छब्रह्मवाद एव सृत्राणां स्वा- रक्यस्य सहृदयसाक्षिकं प्रतीतेश्च पुच्छं ब्रह्मैव परमात्मेति पक्ष एव सूत्रानुमारिभि: प्रमाणशरणैरास्थेय इति सिद्धम्। तदिदं सिद्धम्-यत् नानन्दमय-ब्रह्मणोरभेदः संभवति ; ऋकूसामादीनां मनोभिन्नत्वेनान्नमयेऽपि शिरःप्रभृतीनां देहस्य चावयवावयविभावप्रयुक्त्तभेदसत्वेन प्रकरणस्य स्वस्मादनतिरिक्तैः शिरःपक्ष-पुच्छ त्वरूपणासंभवात्। तस्मात्-"ब्रह्म पुच्छमि"तिस्वर- सतः प्रतीयमानानन्दमयभेदो ब्रह्मणि न त्यक्तुं योग्यः । सत्य- मन्नमयपर्यायेSवयवावयविनोस्तादात्म्यात् स्वानतिरिक्तस्यैव पक्षत्वा- दिना निर्देशो दृश्यते ; तथापि भेदगर्भाभेदस्यैव तत्र स्वीकारा- दृत्यन्ताभिन्नशिर:पक्षादिमत्वं कुत्रापि पर्याये न दृष्टमिति सर्व- सम्मतमिदम्। एतेन-उपक्मेSन्नमयपर्याये स्वस्मादनतिरित्तस्वावयवानामेव पक्षादि- त्वरूपण दर्शनेनानन्दमयपर्यायेऽपि तथाऽम्युपगमो न दोषायेति शङ्कापि- परास्ता । अङ्गीकृतं हि भवतैव-"अवयवावयविनोर्न घट-पटयो- रिवात्यन्तं भेदः, नापि घट-कलशयोरिवात्यन्तमभेदः" इत्यादि प्रकृ- तम्रकरणे वदता नात्यन्ताभेदोऽन्रमय-शिरःप्रभृतीनां सभवतीति।

Page 128

११८ श्रीभाष्यसमालोचनम्

तथाचानन्द्मय ब्रह्मणोरत्यन्ताभेदाभिप्रायेण पुच्छवाक्ययोजनं प्रक्रमविरुद्वम्, अस्मन्मते तु जीव-ब्रह्मणोरपि भेदाभेदस्वीकारात् आनन्दमयपदेन जीवस्य पुच्छवाक्येन परमात्मनश्च ग्रहणात् सुष्डु, प्रक्रमान्तरानुगुणं योजनम् । एतेन प्राणमयपर्यायोऽपि-व्याख्यातः; तत्रापि हि भेदगर्भाभेदवत एव शिरःपक्षादेर्ग्रहणम्, नात्यन्ता- भिन्नस्य। मनोमयपर्याये तु यजुरादीनां मन्त्राणां मनोमयादत्यन्त- भिन्नत्वान्नानतिरिक्तैः शिरःपक्षादिभी रूपणं संभवदृक्तिकमपि। यजुरादिपदानि तत्तत्प्रतिपाद्यार्थ विषयकज्ञानजनकमनोव्यापारपरा- णीति भवत्पूर्वाचार्यविवरणादरेऽपि तु नात्यन्ताभेद: प्रामाणिक :; मनोमय-मनोव्यापार विशेषाणामत्यन्ताभेदायोगात्। एतेन-मनो- मयशब्दो मनःसहितवागिन्द्रियपरः, ऋगादयश्च तदंशा इत्यपि- व्याख्यातम्। विज्ञानमयपर्यायेऽपि श्रद्धा-सत्यादीनां ज्ञानवि- शेषरूपत्वेऽपि भेदगर्भ एवाभेदः, नात्यन्ताभंद इति स्थिते आनन्दमयपर्यायमात्रंऽत्यन्तान्भिन्नेन ब्रह्मणा पुच्छरूपणं प्रक्रमविरुद्धूं भवतीत्यानन्दमयपदं जीवपरमेव युक्तम्, न ब्रह्मपरम्। एतेन-आनन्दमयपर्यायेऽपि प्रधानानन्दमयानतिरिक्तानामेव शिर- स्त्वादिना रूपणम् ; ब्रह्मणो बहुविधसुखरविशेषसंभवेन तत्तत्सुखवि- शेषरूपधर्म एव हि शिरस्त्वादिना रूप्यते। प्रियादिसुखविशेषाश्रय- भूतं श्रह्म वानन्दमयपद्वाच्यम्, श्रह्मेवाधारत्वेन पुच्छमिति रूप्यत इत्यादि-परास्तम् ; आत्यन्ताभिन्नयोर्घट-कलशयोरिव काल्पनिकभेद- स्याप्यभावेन पुच्छत्वरूपणासंभवात। नहि घटत्वेन कलशत्वेन च घट-कलशयोर्भेंदः संभवति, येनानन्द्मयत्वेन ब्रह्मत्वेन च विवेककल्पनं साधोयः स्यात्, आन- न्दमय-ब्रह्मपद्योर्भवद्भि: पर्यायत्वाङ्गोकारात्। अत एव आन- न्दमयस्यापि विज्ञानमयपुरुषविधता देहाकारता-"तस्य पुरुषविध- ताम् अन्वयं पुरुषवितः" इत्यनेनोपपद्यते। मतान्तरे त्वानन्द्मयस्य

Page 129

श्रीभाष्यसमालोचनम् ११६ चिद् चिच्छरीरकपरमात्मतास्वीकारात् शरीराकारतावर्णनमत्यन्त- मेवानुपपन्नम्। अनेन तु विज्ञायते-यत् अन्नमयादय इवा- नन्दमयोऽपि कोशरूप एव, नतु सर्वकोशान्तरः परमात्मेति। "काम एष क्रोध एषः" कृतप्रत्नापेक्षस्तु विहितप्रतिषेघावैयर्थ्या- दिभ्यः" इति स्मृति-सृत्र-तद्भाष्यादिभिरिच्छाकृत्योः पुरुषकार- प्रावल्यस्यावगतत्वेनेश्वरेच्छायाः तत्प्रसादस्य तद्प्रसादस्य वा प्रयत्नपर्यन्तानधिकाराच्च; अन्यथा हि विधिप्रतिषेधमोक्षादिशा- स्त्राणि वितथानि समापघ्येरन्। इदमेवाभिप्रेत्योत्तं. न्यायरक्षा- मणौ-"ब्रह्मणः पूर्वमप्रसाद्यत्वरूपमशुद्धत्वं न संभवति; अन्यथा नित्यशुद्धत्वश्रुतीनां संकोचप्रसङ्गात्"-इति। एतेन-शुद्धत्वश्रुतीनां संकोचस्त्वधिकारिविशेषविपये भगवतो निग्रहा- नुग्रहबोधकप्रमाणाधीन इत्यादि-पगस्तम ; भगवतो निग्रहानुग्रहयो- रस्मत्कर्माधीनत्वेन स्वतस्तस्येतरविपये निग्राहानुग्रहविनियोगायो- गात्। तदुक्तम्-"वैषम्य-नैघृ ण्ये न सपेक्षत्वान् तथाहि दशनम्"इति। सति चैवमन्नमयादय इवानन्दमयोऽपि कोश इति पक्ष एव समु- चितः। तस्मिन्नेव पक्षे-"तस्य पुरुषविधतामन्वयं पुरुषविधः" "अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमया मे शुध्यन्ताम्" इत्यादिवाक्यसार्थक्यसंभवात्। कोशनिरूपणे हि पुरुषविधत्व- निरूपणापेक्षा, नतु सर्वकोशान्तर-सर्वशरीरिपरमात्मनिरूपणे। तत्र चानन्दमयस्याप्यन्तरः परमात्मा यदि पर्यायान्तरोपक्रमे- णोपदिश्येते, तर्हि पर्यायान्तरेऽपि पूर्वतनपर्यायसारूप्यान्वेषणे कियमाणे तस्थापि कोशत्वापत्तिरिति गुहाप्रकरणसमापनेन गुहानि- हितप्रकरणान्तरे उपक्रान्तव्ये सति तन्त्रेण "ब्रह्म पुच्छं प्रतिष्ठे" ति वाक्येनैव गुहानिहितव्रह्मप्रकरणमप्यारभते श्रुतिरिति शङ्कर- भगवत्पादानुयायिनो मन्यन्ते। गुहानिहितोपदेशार्थमनुषङ्गत एव हि गुहाप्रकरणम्, नतु प्रधानतया, इति गुहाप्रकरणान्तेनैव गुहा-

Page 130

१२० श्रीभाष्यसमालोचनम् निहितप्रकमोऽपि श्लिष्टतम एव। यद्यपि प्राणयादिपर्यायेषु सर्वेषु प्रतिपर्यायं गुहानिहितमपि प्रक्रम्यत एव ; तथापि सर्वे पर्यायाः न पर्यवस्यन्ति तत्रैव; पर्यायान्तरोपक्रमात्। तथाच यद्यानन्द- मयादन्यस्यानुपदेशः, तहिं आनन्दमयो गुहानिहितो भवि- ष्यति; परं तु-"अन्योऽन्तर आत्माऽऽनन्द्मयः" "तद्प्येष इ्लो- को भवती"त्येवमेव श्रुतिपवृत्तिर्योग्या स्यात्, नतु "तस्य पुरुषविध- तामि"त्यादिपूर्वतनपर्यायसाधारण्येन।वर्तते ह्यत्रानन्दमयस्याप्यन्तर आत्मोपदिष्टः, यमधिकृत्य-"तस्यैष एव शारीर आत्मा। यः पूर्वस्ये" त्याम्नायते। इयान् विशेष :- यत् पूर्वतनपर्यायेषु-तद्वा- क्यानन्तरम्-"तस्माद्वा एतस्मादि" ति स्पष्टमन्य आत्मोपदि- इयते, अत्र तु "तस्माद्वा एतस्मादि" निशैल्याऽऽत्मान्तरस्यानन्तरम- प्यनुपदेशात् आनन्दमयपर्यायशषेणैवानन्दयस्याप्यनतर आत्मो- पदिष्ट इति निश्चीयते। तथाचान्तिमोऽयं पर्याय इति पूर्वतनपर्याया दृतशैलीपरित्यागेन श्रुतिः प्रववृते। नहि यया शैल्या यद्वस्तूपदेशः प्रक्रम्पते, तथैव शैल्या तद्ु- पदेशः समापनीय इति नियम: ; "अस्ति वाव वाचो भूयः" इति भूय:प्रश्नोत्तरपरम्परया प्रक्रान्ताया भूमविद्याया "एष तु वा अतिवद्ति यस्सत्येनातिवद्ती"ति भूयःप्रदनपरित्यागेन प्राणाद- धिकस्थ सत्यस्योपदेशन प्रवृत्तिदर्शनात्। तदुक्तं न्यायरक्षामणौ- "भूम विद्याप्रकरणे प्रइन-प्रतिवचनाभ्यां तद घिकप्रतिपादनशैल्याःप्राण एव समापनेऽपि तुशब्दश्रुति-प्राणोत्पत्तिलिङ्गाभ्यां सत्यस्य प्राणाद- र्थान्तरत्वम्-"एष तु वे"त्यादेर्यथाऽवगम्यते, तथेहापि "तस्माद्वा- एतस्मादन्योऽन्तर"इति शैल्या आनन्दमय एव समापनेऽपि पूर्वेक्तैः प्रमाणैर्ब्रह्मणस्तस्मादप्यर्थान्तरपरत्वं "ब्रह्म पुच्छम्" इत्यस्याभ्युपगन्तुं युक्तम् ; वैषम्याभावात्-इति।

Page 131

श्रीभाष्य समालोचनम् १२१ अयमाशय :- यथाहि भूमविद्याया हठादेव प्रश्न-प्रतिवचन- शैल्या: प्राणे समापनेऽपि न तत्रैव पर्यवसानम् ; प्राणोत्पच्यादिलि- द्ात, "एष तु वे"तितुश्रुनिबलाच् प्राणादन्यस्योपदेशप्रतोतेः, एव- मत्राप्यन्नमयादौ हठादेव-"असन्नेव स भवति" इति .पुच्छब्रह्म- परामर्शेन इलोकस्य प्रवृत्तत्वात् "तस्यैष एव शारीर आत्मेति" वाक्येशेषेणोपदेशप्रणाल्याः समापनात् मयट्परित्यागेन केवलानन्द- शब्देनैवोपर्युपदिष्टस्य ब्रह्मणो निर्देशाच्ानन्दमयादर्थान्तरस्यानन्द- रूपस्यैव ब्रह्मण उपक्षेपोऽवगम्यते, ति नानन्दमयब्रह्मतायामेव श्रुति- तात्पर्यम्। नहि कुत्रापि मयडन्तानन्दमयपदं ब्रह्मपरं मन्ते श्रुतिषु। "सुषुप्तस्थान एकीभूत आनन्दमय आनन्दभुक्" इत्यत्राप्यानन्दमयपदं सुषुप्त्यवस्थामादाय प्रवृत्तत्वात् जीवपरमेव, नेश्वरपरम्। "एष सर्वे- श्वरः" इतिवाक्यशेषे तस्य सर्वेश्वरत्ववचनं तु समष्टिरूपापेक्षया तस्य तेनाभेदमादायैवेत्यादिकं व्यक्तमन्यत्र सिद्धान्तलेशसंग्रहादौ।

एतेन-भूमविद्यायां हि पूर्वमनुक्तस्यातिवादित्वस्य प्राण- विषय उक्त्या प्राण एव प्रक्रान्त आत्मेति मन्वानस्य तूष्णींभावे तद्भिप्नायवेदिन आचार्यस्य स्वयमेव तस्मादप्यर्थान्तरभूतसत्यस्यो- पक्षेप इति प्रक्रान्तशौलीभङ्ग: प्रसक्तो युक्त:, अत्रतु सर्वान्तरत- याउंऽत्मन उपपादनाय प्रवृत्ततया "तस्माद्वा एतस्मादन्नमयादिति" रीते: प्रकरणे सर्वान्तत्वेनात्मत्वं यस्य प्रतिपिपाद्यिषितम्, तत्रैव समापनोयतया विना प्रबलकारणमन्यत्र वस्तुनि तत्समापनमयुक्तमि- त्यादि-परास्तम् ; पूर्वोक्तः प्रबलकारणैरत्रापि पुच्छब्रह्मण एवोप- देशपम्परायास्समापनस्य योग्यतया वैषम्यलेशस्याप्यभावात्। अत एव-"ब्रह्म पुच्छं प्रतिष्ठे"तिपर्यायान्तरेष्वनुक्तस्य ब्रह्माध।रत्व- स्यानन्द्मयपर्यायमात्रे निर्देश उपपद्यते। १६

Page 132

१२२ श्रीभाष्य समालोनचम् अनेन हि ज्ञायते-यद् ब्रह्मनिरूपणं परस्सहस्रैस्तादृशप- र्यायैरपि न शक्यम्, यत्किञ्चिच्छिरःप्रभृत्यादिकत्वेन तस्य निर्वि- शेषस्य दुर्निरूपत्वात्। सति चैवं सर्वाधारतया पुच्छत्वेन निर्देशेनैव प्रकान्तशैली समापनीया, येन सर्व इमे पर्यायाः गुहापदार्थकोश- निरूपणार्था एव, गुहानिहितपदार्थ निरूपणार्थ नैता दशयुपदेशपरम्परा युक्ता; तस्यैकरूपस्य निर्विशेषस्य च शिर :- पक्षादिद्वारा निरूपणा- संभवेन पृथगेव-"असन्नेव स भवती"त्यादिरूपेणोपदेशस्य योग्य- त्वादिति फलति। तथाच कस्मिंश्चित् पुच्छ आनन्दमयस्य निर्देष्टव्ये ज्ञेयं प्रधानतमं ब्रह्मैव यदि निर्दिश्यते, तर्हि सर्वान्तरात्मनिरूपणार्थ पर्यो- यान्तरानपेक्षाऽर्थसिद्धा भवति। सति चैवमानन्दमयपर्यायेणैव सर्वान्तरोपदेशसमापनं मतद्वयसंप्रतिपन्नम्। इयान् विशेष :- यत् आनन्दमयवाक्यं श्रीभाष्यकाराणां मते ब्रह्मबोधकम्, अद्वैतमते तत्पर्यायगतपुच्छब्रह्मवाक्यं ब्रह्मपरमिति। पुच्छशब्देन ब्रह्मणोऽप्राधान्यं तु मतान्तरेऽपि प्रधानस्य ब्रह्मण एव पुच्छत्वस्य स्वीकाराद न शङ्कास्पद्मपि, अन्यथा प्रतिष्ठात्वमानन्दमयं प्रति ब्रह्मणोऽनुपपन्नं स्यात्। अन्तरात्मत्वं तु पुच्छब्रह्मणो न पुच्छत्वप्र- तिष्ठात्वाभ्यां गम्यत इति वदाम:, किन्तु "तस्यैष एव शारीर आत्मा"इति तदनन्तरवाक्यान्तरेणैव। नहि पूर्वतनपर्यायेष्वपि सर्वा- न्तरत्वं तस्य तस्य तत्तत्पर्यायगतपुच्छत्व-प्रतिष्ठात्वाभ्यां ज्ञायते, किन्तु "तस्यैष एव शारीर आत्मा" इति तत्तत्पर्यायगतवाक्येनैव। यथाच "तस्यैष एव शारीर आत्मा" इतिवाक्यस्य पुच्छब्रह्मसर्वा- न्तरत्व एव तात्पर्यम्, अन्यथा तद्वाक्यवैयर्थ्यापातात्, तथा पूर्व- मेवोपपादितम्। पर्यायसमाप्तिर्हि प्राणमयादिस्थले "तस्यैष एव शारीर आत्मा यः पूर्वस्य" इति वाक्यपूर्वतनवाक्येनैव दृशयते,

Page 133

श्रीभाष्य समालोचनम् १२३ यतस्तेनैव प्राणमयाद्यतिरिक्त आत्मा प्रतिपाधते। सति चैवमान- न्दमयपर्यायानन्तरेणापि तेन वाक्येनानन्दमयातिरिक्त एव कशचन प्रतिपाद्यत इति वक्तव्यम्। तत्र पर्यायान्तरस्यादर्शनात् ज्ञायते आनन्दमयपर्यायगतवाक्यविशेषेण केनचन तदान्तरोऽपि प्रतिपा- दते, इत्यगत्या पुच्छवाक्यस्यैव ब्रह्मशब्दघटितस्य मुख्यब्रत्मोपदेष्ट- त्वमिति। पर्यायान्तरारम्भस्तु-तत्रापि शिर:पक्षाद्यवयवभेदविव- क्षायां मुख्यब्रह्म निरूपणासंभवात्, प्रायपाठात् तस्याप्यमुख्यत्वश- ङ्वापत्तेश्च न कृतकारी स्थात्, इति पुच्छवाक्येन तत्समर्प्यत इत्येव शोभते। प्रायपाठेन हि साम्यमेवापेक्ष्यते, न सर्वात्मना साम्यम्। इति नान्नमयादीनामिवानन्दमयस्याचेतनत्वस्यापादनसंभवः। सत्यं बहुप्रमाणविरोधे प्रायपाठो न किश्चित्करः, बहुपरमाणविरोधस्तु पुच्छवाक्याप्राधान्यपक्ष एव, नानन्दमयवाक्याप्राधान्यपक्षे। एतेन-पर्यायान्तरारम्भं विना विवक्षितलाभायोग इति-परास्तम्, शैल्यन्तरेगोपदेशस्य भूमविद्यायामिवाविरोधात्। इतश्चैतदभ्युपगन्तव्यम्-यत् पुच्छमेव ब्रह्मानन्दमयाख्य- जोवान्तरम्-इति; यतः-"स यश्चायं पुरुषे। यइचासावादित्ये" इति पुच्छब्रह्मणो जीवान्तरत्वं प्रतिपादते। इयमत्राद्वैतिनां व्या- ख्या-"यो गुहायां विहितः परमे व्योम्न्याकाशादिकार्य सृष्टाऽन्र- मयान्तम्, तदेवानुप्रविष्टः, सः य इति निर्दिश्यते। कोऽसावयं पुरुषे? यश्चासावादित्ये। यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टः, यस्यैकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युपजीवन्ति, स 'यश्चासा- वादित्ये' इति निर्दिश्यते। स एक; भिन्नदेशस्थघटाकाशैकत्व- वदिति। अनया हि व्याख्यया गुहानिहितस्यैवा दित्यान्तरेणात्मना साकमैक्यं प्रतिपाधते। गुहापदार्थइचानन्दमयान्ता: कोशा एव, इति तदन्तरस्य परमात्मन: पुच्छब्रह्मण एव गुहानिहितपदेन पर-

Page 134

१२४ श्रीभाष्य समालोचनम मार्श:। अयं हि परमात्मा श्रीत्रियाणामेव परमानन्दरूपेण प्रत्यक्ष:, नान्य :; आनन्दमयादीनां परमानन्दरूपत्वाभावात्। अंत्र "ब्रत्मा- दीनि भूतानी'ति ब्रह्मणोऽपि कस्यचन जीवकोटौ निर्दिशन्तो हि व्याख्यातार :- "स एको ब्रह्मण आनन्दः" इत्यत्रत्यब्रह्मपदा- र्थमपि जीवमेव मन्यन्ते। व्यक्तइचायमर्थो बृहदारण्यकचतुर्थाध्याये- Sपीति जिज्ञासाधिकरणसमालोचनावसर एव विशदीकृतम्। युक्तं चैतत्-"असन्नेव स भवती" त्यादीनां वाक्यशेषाणां पुच्छब्रह्मवि- षयत्वस्यैवाद्वैतिभिरङ्गीकारात्। एतेन-य एव चिद्धातुर्निरतिशया- नन्द उत्कृष्टोपाधौ प्रतिबिम्बतः, स एव निकृष्टोपाधौ शिर :- पाण्यादिमति पुरुषे प्रतिबिम्वितः, इति परमानन्द्मपेक्ष्य समत्वं विशिष्टयोः स्वभावैक्यं विवक्षितमिति टीकापि-व्याख्याता; अनया तु बिम्बानन्दः परमानन्दः पुच्छं ब्रह्मैव, आनन्दमयानन्दस्तु व्यष्टिरूपेणेव समष्टिरूपेणापि प्रतिबिम्बरूपत्वाद् न मुख्यं ब्रह्मेति पुच्छब्रह्मप्राधान्यवाद एवानुमन्यते।

एतेन-आविद्यकं भेदमादाय न तस्य जीवान्तरत्वमत्र व्याख्यायां टीकायां वोक्तम्। किश्च तत्र ब्रह्मणो जीवान्तरत्वकथनेऽपि नाद्वैत्यभि- मतसिद्धिः; अस्मद्रीत्यापि तदुपपत्तेः, नहि तत्रानन्दमयस्य पुच्छघ्रह्मा- त्मभूतमिति विविच्योक्तमिति शङ्कापि-परास्ता; आनन्दमयपदपरित्या- गेन परमानन्दुपदस्य ब्रह्मण्यत्र प्रयोगेणानन्दमयातिरित्तस्यैव प्रकरण- णार्थत्वविवेचनात्।

परमत्वं ह्यानन्दस्यापरिच्छिन्नत्वमेव। न हि ब्रह्मानन्दमयः, य :- स एको ब्रह्मण इति वाक्ये ब्रह्मपदार्थः, न सोऽपरिच्छिन्नानन्दः, शतगुणितप्रजात्यानन्दो हि सः कथं वाऽपरिच्छिन्नानन्दः स्यात्? तदिदं सिद्धम्-यत् पुच्छवाक्येनैव ब्रह्म समर्प्यते, नानन्दमय- वाक्येन। तदुक्तं भामत्याम्-

Page 135

श्रीभाष्य समालोचनम् १२५

ब्रह्मपुच्छ' प्रतिष्ठेति ब्रह्मशब्दात्प्रतीयते। विशुद्धं ब्रह्म, विकृतं त्वानन्दमयशब्दतः ।। प्रायपाठपरियागो मुख्य त्रितयल ङ्गनम्। पूर्वस्मिन्, उत्तरे पक्षे प्रायपाठस्य बाघनम्-इति ॥ यथाच-मयटो नानन्दमयशब्दे प्राचुर्यार्थकत्वसंभवः, संभवे- डपि वा न दुःखामिश्रानन्दवतो:विवक्षा, पुच्छशव्देन च न विका- रतापादकावयवविवक्षा, तथा पूर्वमेव विवेचितम्। अत्र विशुद्वपदेनापरिच्छिन्नमकार्यरूपमित्येव विवक्षितम्, नतु कल्पितविशेषराहित्यमपि। तेन सर्वप्रपश्चाधारत्वोपादानत्वादी- नामपि कल्पितानामभावविवक्षां भामत्यभिमतां गृहीत्वा-पुच्छ- ब्रह्मण आनन्दमयाधारत्वानुपपत्तिः, 'सोडकामयत'इत्यादौ कर्तृत्वा- दिना तस्य निर्देशायोग इत्यादिदृषणानामभिधानं परपक्षनिराकृति- काराणामनुक्तोपालम्भनमेव। एतेन-ब्रह्मपदं स्वार्थत्यागेनावयवपरं व्याख्यायताम् ? आ- नन्दमयपदं च ब्रह्मण्यप्रसिद्धं ब्रह्मणि व्याख्यायताम् ? उत्तरत्रानन्द- शब्देनानन्दमयो लक्ष्यतामिति भामत्यपि-व्याख्याता; आनन्द- मयब्रह्मतायां हि "ब्रह्म पुच्छं प्रतिष्ठे"तिवाक्ये यत् ब्रह्म पुच्छ- तया विवक्ष्यते, तद् निरतिशयवृहत्त्वविशिष्टं यदि मुख्यं ब्रह्म, तर्हि तस्यावययत्वविरोधः, यदि तद् अवयवत्वायोग्यमन्यदेव ब्रह्म, तर्हिं खार्थत्यागः। मुख्यमेव ब्रह्मपदार्थः, तस्यैवावयवत्वमिति तु व्याहतमिदम्। आनन्दमयस्यापि मुख्यत्वमवयविनः पुच्छब्रह्मणोऽ- वयवस्यापि मुख्यत्वमिति कथमिदं संभवति ?

एतेन-निरतिशयबृहत्त्वविशिष्टे ब्रह्मपदार्थे कल्पितावयववत्त्वस्यव स्वीकारः, तत्कल्पने च स्वतःसिद्धस्वप्राधान्याविरोधित्वं चेति-परास्तम्।

Page 136

१२६ श्रीभाष्य समालोचनम् कल्पितत्वं हि यदि भ्रान्तिसिद्धत्वम्, तर्हि भवन्मते भ्रमस्यै- वास्वीकारात् नोपपत्तिः, अन्यच तत् स्वप्राधान्याविरोधि किं वेति, नैतावताप्युक्तमिति नास्माकमपि किमपि वत्तव्यम्। एतेन-आनन्द्मयानन्दपदे अपि-व्याख्याते ; आनन्दा- नन्द्मयपद्योरुभयोरपि ब्रह्मणि मुख्यत्वं न संभवति; ब्रह्मण आनन्दमयत्वानन्दरूपत्वोभयासंभवात्। तत्राद्वैतिनो ब्रह्मण आ- नन्दरूपत्वं मन्यन्त इति आनन्दपदं ब्रह्मणि मुख्यं मन्यन्ते, आनन्द- मयपदं तु तस्याबोधकमेवेति, तस्य जीवपरत्वमेव। श्रीभाष्यमते तु पद्द्वयस्थापि ब्रह्मणि प्रयोगस्य स्वीकरणीयत्वात् आनन्दमयपदं ब्रह्मणि यदि मुख्यम्, आनन्दपदं तर्हि गौणं लाक्षणिकं वेति स्वीकर्तव्यम्। इदमेव खलु तेषामपि मतम् ; तद्गुणसारत्वेनैवा- नन्दपद्मानन्दमये प्रवर्तत इति तैरूरीकारात्। तथाच पदद्यस्यापि मुख्यार्थत्वमद्वैतपदे, मतान्तरे तु एकं मुख्यार्थमपरं गौणार्थमिति। इदं तुन युक्तमिति भामत्याशयः ।

एतेन-आनन्दमयपदस्य प्रकरणानुरोधेनानन्दप्रचुरब्रह्मपरत्वसं- भवेन नाप्रसिद्धार्थकल्पना, आनन्दपदस्यापि तद्गुणसारत्वादिन्यायेन प्रकारान्तरेण च मुख्यवृत्त्या ब्रह्मपरत्वसंभवेन न लक्षणायाः प्रसत्ति- रिति-परास्तम्।

नहि ब्रह्मप्रकरणमिति कृत्वाऽन्नमयादीनामपि ब्रह्मपरत्वेऽपि प्रसिद्धार्थत्वम्, इति तेषामिवानन्दमयस्यापि न ब्रह्मपरत्वम्; कुत्रापि तस्य ब्रह्मण्यप्रयोगात्; आनन्दपदं तु "यदेष आकाश आनन्दो न स्यात" इत्यादौ ब्रह्मणि प्रसिद्धम्। ब्रह्मप्रकरणं तु पुच्छब्रह्मप्राधान्येनापि लगतीति नानन्दमयस्यैव ब्रह्मत्व उपपद्यते, इति तद्गुणसारत्वादिना गौण्यैव वृत्त्याऽऽनन्द्पदस्य ब्रह्मणि प्रसिद्धि: संफादनीयाऽSनन्द्मयब्रह्मतावादे। यत्त-प्रकारान्तरेण

Page 137

श्रीभाष्य समालोचनम् १२८ मुख्यवृक्या ब्रह्मपरत्वमुच्यते, तत्र किं :तत् प्रकारान्तरमिति वक्त- व्यम्, नतु तदुक्तम्। पुच्छपद्विषये तु बहक्तं पूर्वमेव। यद्यपि- पुच्छत्वेन ब्रह्मण उपासनाविवक्षणात् मतान्तरे पुच्छपदं सुख्यार्थम्; तथ्रापि "ब्रह्मविदाप्ोति" इति प्रस्तुतं ब्रह्म न शिर:पक्षादिवि- शिष्टमिति न तादृशस्यानन्दमयस्य प्रक्रान्तब्रत्मपरत्वसंभवः, इति पुच्छत्वादित्यागेनैव केवलं ब्रह्मैवोपास्यतया ज्ञेयतया वा विचक्ष- णोयम्, इति पुच्छादिपदं कथं चनावयवादिपरतयैव नेयमिति युक्तमुक्तं भामत्याम्-पक्षद्वयेऽपि पुच्छपदं गौणमिति॥ यत्तु-लाङगले मुख्यं पुच्छपदं न करचरणाद्यवयवे। आनन्दमयस्यात्मनो न मुख्यलांगूलसंभव इति परिमल उत्तम्, नस्थायं भाव :- पुच्छपदं न करचरणाद्यवयवमात्रपरम्, किन्तु लाङ्गलवस्यैव बोघकम्। अत्र प्रथमांशोनुवाद:, अंशान्तरे तु विधिः। तथाच पुच्छपदस्य मतान्तरे आधारपरत्वस्याप्यस्वीकारे वैतथ्यमेव स्यादिति। एतेन-पश्चाद्रागोऽपि नात्र पुच्छपदार्थ इति-व्यारपातम्; पश्चाद्गागादिविशिष्टनया ब्रह्मणोऽप्रकृतत्वात्, आनन्द्मयस्य परमात्मन एव स्पश्चा्गागत्वायोगाच्च। एतेन- अवयवप्रायपाठ-विकारपायपाठावपि-व्याख्याती; यतोऽन्नमय इत्य- त्रेव प्रायपाठेन प्राणमयादिष्वपि विकारार्थकत्वमेव मथटो युक्तम्। एतेन-प्राणमयादिप्वपि मयटः प्राचुर्यार्थकत्वमेवेनि-प्रत्युक्तम्, प्रायपाठत्यागे कारणाभावान्। यथाच मतान्तर एव प्रकरणवाधाद्यो बहवो दोषा:, तथा पूर्वमेवोक्ताः, वक्ष्यन्ते चोत्तरत्रेति निर्दु ष्टोऽद्वैतिनामेव पक्ष उपादेय: यतः प्रतिष्ठात्वोक्तिसामर्थ्यात् आनन्दमयस्याप्यन्तरं ब्रह्मेति फलति। प्रतिष्ठात्वं हि तदधीनस्थितिकत्वं तत्प्रतीत्यधीनप्रतीति- विषयत्वं वा ब्रह्मण एवाघिष्ठानत्वात् मुख्यमुपपद्यते। "पृथिवी पुच्छं

Page 138

१२८ श्रीभाष्य समालोचनम् प्रतिष्ठा" इत्यादौ न मुख्यं प्रतिष्ठात्वम्, किन्तूपासनार्थ कल्पित- मिति न दोष:। एतेन-"पृथिवी पुच्छं प्रतिष्ठा" "अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा" "महः पुच्छं प्रतिष्ठा" इति तस्य तस्य तं तं प्रति प्रतिष्ठात्वोक्तिमात्रेण तत्तदन्तरात्मत्वं न सिद्धयतीति तन्न्यायेनात्रापि न तत्सिद्विरिति- परास्त। तत्र हि प्राणमयाद्यन्तरात्मत्वमन्यस्य मनोमयादेः श्रौत- मिति, नार्थापत्या लिङ्गेन पृथिव्यादीनामन्तरात्मत्वमवगम्यने, आनन्दमयपर्यायानन्तरं तु पुच्छब्रह्मातिरिक्तान्तरात्मानिरूपणात् वैषम्यमिति नार्थापत्तिप्रमाणभङ्ग:। तथाच-आदित आरभ्य पुच्छत्व-प्रतिष्ठात्वयोरुल्लेखेन पुच्छस्यान्तरात्मत्वं प्रसक्त्तं बाधका- न्तरसत्व एवान्यत्र प्राणमयादौ नाङ्गीक्रियते; अन्यथा-शिर :- पक्षादिस्थल इव इदं पुच्छमित्येव निर्देशस्यौचित्यात् सर्वत्र पुच्छ- पर्यायमात्रे प्रतिष्ठापदस्याधिकस्य निर्देशो वितथ एव समापद्ेत। रज्जुसर्पादौ हि सर्पाद्यधारत्वात्, सर्पादिप्रतिष्ठात्वाच्च सर्पाद्यन्तरा- त्मत्वमेव रज्ज्वादेर्द्ष्टम्, रज्जुस्वरूपव्यतिरेकेण सर्पस्वरूपाभावात। समुद्रस्तु न नौकाप्रतिष्ठा, समुद्रादन्यत्रापि नौकायाः स्थिति- सम्भवात्, इति न व्यभिचारः । एतेन-शरीरमपि-व्याख्यातम्। न हि शरीरमात्मनः प्रतिष्ठा; आत्मन एव शरीरप्रतिष्ठात्वात्। एतेन-यत्र तदाधारत्वे सति तत्प्रतिष्ठात्वम्, तत्र तदन्तरात्म- त्वमिति हि व्याप्तिराभिमता; सा चनसंभवति। न हि नौकाप्रतिष्ठिति- हेतोस्तदाधारस्य च समुद्रस्य तन्निरूपितान्तरात्मत्वमभ्युपगम्यते। न खलु जीवप्रतिष्ठतिहेतोस्तदाधारस्य च शरीरस्य तद्न्तरात्मत्वमिति शङ्का- परास्ताम् । यथाच सर्वान्तरत्वं पुच्छब्रह्मण एव; स्थूल-सूक्ष्म-कारण- शरीरांवच्छिन्नस्य जीवस्य पुच्छब्रह्माघिष्ठानकत्वेनैव स्वरूपलाभात्

Page 139

श्रीभाष्य समालोचनम् १२१ तथाऽन्यत्र व्यक्तम्। तत्र स्थूलशरीरान्नमयकोशावच्छिन्नो जग्रत् जीव :; प्राणमय-मनोमय-विज्ञानमयकोशात्मकसूक्ष्मशरीरा- वच्छिन्न: स्वप्नावस्थापन्नो जीवः, कारणशरीररूपानन्दमयकोशा- वच्छिन्नः सुपुप्त्यवस्थावान् जीवः, अवस्थात्रयातीतं तुरीय- चैतन्यं पुच्छं ब्रह्मेनि वेदान्तसारादौ व्यक्तम्। तथाच सर्वान्त- रात्मत्वं पुच्छब्रह्मण एव, नतु जीवस्यैकावस्थावतोऽवस्थात्रयवतो वा व्यष्टिरूपस्य समष्टिरूपस्य वेति त्वंपदार्थशोधनेन तत्पदार्थ- शोधनेन वा तत्वमस्यादिमहावाक्यार्थ एवेतरनिषेधमुखेन तैत्त- रीयश्रुत्यर्थः, इति जीव-ब्रह्माभेद एव शास्त्रार्थः; अन्यथा सत्य-

रूपणं कथमपि नोपयुज्येत। एतेन-जीव-ब्रह्मणोरभंदो बाधितः; "गुहाहितं गह्वरेष्ठं पुराण- मि"तादौ ब्रह्मण एव हृदयदेशसन्निधानमात्रेण गुहाहितादिपदेन निर्देशात् इति न जीवश्रह्मामेदोऽत्र वाक्यार्थ इत्यादिकम्-अपस्तम्। अन्नमयादिगुहानिहितत्वेन जीव-व्रह्माभेद् विवक्षाया एवात्र युक्तत्वात् ; अन्यथाऽकस्मात् "या वेद निहितं गुहायामि"ति पृथक् कर्मपद्प्रयोगं विना जीवस्याप्यन्तरात्मतया तत्प्रतिपादनमनु- पपन्नमेव। अप्राकृतदेशेऽवस्थितपरमात्मनो ज्ञानमेव यद्यत्र वाक्यार्थः, तर्हि अन्नमयादिरूपेण तदुपदेशः किंप्रयोजनः? सर्वथा तु आनन्दमयान्ता: कोशा: गुहाः, तदन्तरात्मा तस्याप्यघिष्ठानभूतं

तुरीयं चैतन्यमेव ज्ञेयं ब्रह्म। तच्च निर्विशेषत्वात् नानन्दमयपदेन बोध्यते, किन्तु "ब्रह्म पुच्छ प्रतिष्ठे"ति वाक्येनैव। "आनन्दम- योऽभ्यासादि" त्यादिसृत्राणामपि तत्रैव तात्पर्यम्। तत्राद्वैत्यभिमतः प्रथमसूत्रार्थ :- आनन्दमयपर्यायाम्नातं पुच्छं ब्रत्म, खप्राधान्येन प्रतिपाद्यम; अभ्यासात् "असन्नेव स भव-

Page 140

१३० श्रीभाष्य समालोचनम्

इति अन्रेमे पर्यनुयोगाः परपक्षनिराकृतिकाराणाम्-"आनन्दमयपदस्य पुच्छवाक्यपर्यन्ततात्पर्यकत्वे किं मानम् ? को वा प्रतीयमानार्थपरिग्रहे दुरुद्ंरे विरोध: ? (३) कथं च ताद्ृशस्य साध्यस्याध्याहारः ? (४) को वार्थ एवं व्याख्यानेन साध्यते ? (५) सूत्रनिर पेक्षमानन्दमस्याघ्रह्मत्वे पुच्छत्रह्मणश्च प्राधान्ये विवक्षिते प्रतिपन्ने किं सूत्रसाध्यमवशिष्यते ? इति। आनन्दमयब्रह्मतासाधकत्वाभावात् सौत्रस्य हेतो :- "आन- न्दमयोऽभ्यासादि"तिसत्रं पुच्छब्रह्मप्मेयतामेव यतः सिद्धान्त- विधया प्रतिपाद्यति, ततः पक्षसमर्पकमानन्दमयपद्मगत्या पुच्छ- ब्रह्मपर्यन्तमेव स्वीकर्तव्यम्, इति सौत्रहेत्वनुपपत्तिरेव तात्पर्यग्रा- हिका। प्राधान्येन प्रतिपाद्यत्वं नाम मुख्यतात्पर्यविषयत्वं मुख्यप्रमेयत्वं वा; तत्रैवाभ्यासस्य हेतुत्वात्, नतु ब्रह्मतामात्रम्। आकाशाधिकर- णादिषु यत्राकाशादिपदानां व्रत्मपरत्वं साध्यते, तत्र तल्निङ्गादिकमेव हेतुतया निर्दिश्यते, ननु तात्पर्यग्राहकोऽभ्यासादिः, अतो नानन्द- मयपद्ब्रह्मतासाधनपरमिदं सूत्रम्। प्रथमध्यायप्रथमपादे हि- ईक्षत्य धिकरणेन छान्दोग्यगतसदविद्याप्रकरणस्य ब्रह्मपरत्वं प्रसाध्यते, आनन्दमयाधिकरणेन तु तैत्तरीयोपनिषदः केनांशेन ब्रह्मपरत्वमिति साध्यते। अन्तरधिकरणेन वाक्यविशेषगतमुपास्यं स्शब्दतोऽनि- र्दिष्टं तद्वाक्यगतलिङ्गविशषैनिधार्यते, आकाशादघिकरणैस्तु ज्ञेयस्योपास्यस्य वार्ऽर्थान्तरे प्रसिद्धशब्दैनिंदिश्यमानस्यापि लिङ्गवि- शंषैः सन्दंशादिन्यायैश्र ब्रह्मत्वमेवेति व्यवस्थाप्यत इति हि वस्तु- स्थितिः। तत्र यद्यानन्दमयपद्मप्यर्थान्तरे प्रसिद्धं स्यात्, तर्हि तस्य ब्रह्मपरत्वव्यवस्थानार्थमिदमधिकरणमिति वक्तव्यम्। छन्दसि तु इचच एव विकारारथे यदा मयट, तदा तत्माचुर्यार्थकत्वव्यवस्थापन-

Page 141

श्रीभाष्य समालोचनम् १३१

मपि मतान्तरे निष्प्रयोजनमेव। अद्वैतमतेतु-गुहास्वरूपम्, ज्ञेयनिर्विशेषता च सिद्धान्तफलम्, पूर्वपक्षफलंतु ज्ञेयसविशेषता विशेषतः। इद्ं तु न विप्रतिपन्नम्-यद् आनन्दमयज़ीवत्वं, तत्परमा- त्मत्वं वैव पूर्वेत्तरपक्षयोर्मतद्वयेऽपि विषय इति। तत्र यद्यानन्द- मयो जीव इति पूर्वपक्ष:, तर्हि केन वाक्येन ब्रह्म समर्प्यत इति वक्त- व्यम्? नहि ब्रह्मैवात्र प्रकरणे न प्रतिपाद्यते इति वक्तुं शक्यते। तन्न यदि तत्पूर्वपक्षरीत्या-पुच्छब्रह्मवाक्यं ब्रह्मबोधकमिति मन्यते, तर्हि पूर्वपक्षिभिस्तद् ब्रह्म किंरूपमिति प्रमाणानुसारेण वक्त- व्यम्; अन्यथा व्यर्थमेवाधिकरणमापद्येत। सति चैवम्-ब्रह्मनि- विशेषता, तत्सविशेषता चोभयमपि मुख्यतात्पर्यविषयतयाS- वान्तरतात्पर्यविषयनया च प्रामाणिकमिति स्थिते एव कस्य ब्रह्म- णोऽत्र विवक्षेति शङ्का संभवति। तत्रच सविशेषब्रह्मणोऽयान्तरता- त्पर्यविषयस्य केवलमुपास्यस्य सत्त्वमसत्वम्, प्रमेयत्वं कल्पितत्वं वा न प्रयोजकम्, इति-"अभ्यासादि"ति हेतुं निर्दिशन्तः सूत्रकारा: ज्ञेयं ब्रह्मैवात्र प्रमेयं प्रतिपाद्यन्तीति प्रतीयते। इदंतु विचारं बिना न सिद्धयतीति पुच्छवाक्यमेवात्र विचारयन्तीति विशदम्, यतो नानन्दमयपद्मसन्दिग्धम्। सन्दिग्धार्थनिर्धारणार्थ खत् सूत्रम्, इति न प्रथमस्य पर्यनुयोगस्यावसरः।

एतेन-हेतुरत्राप्रयोजकः; पुच्छन्रह्मणोडप्राधान्येऽपि वस्तुमत्प्राधान्य- मादाय श्लोकस्थत्रह्मशब्दोपपत्तेः "तदप्येष श्लोकः" इत्यत्रत्यैपशब्देन प्रकृतस्यानन्दमयस्यव पगामर्शात्, अस्मद्रीत्या श्लोकस्थब्रह्मशब्दस्य पुच्छ- वदानन्दमयविषय कत्वेन स्वरूपासिद्रेरित्यादि-परास्तम्।

अनन्यपरपुनःश्रवणं त्यभ्यासो नाम। सच पुच्छवाक्यस्थ- ब्रह्मशब्दस्यैव इ्लोके दृशयते, नानन्दमयवाक्यगलानन्दमयंपद्स्य।

Page 142

१३२ श्रीभाष्य समालोचनम् न हभ्यस्यमानत्वमानन्दमयस्य। न ह्यानन्दमय-ब्रह्मशब्दौ पर्याये, येन ब्रह्मशब्दाभ्यासोऽ़प्यानन्दमयाभ्यास एव स्थात्। यथाच प्रकृतं ब्रह्म पुच्छमेव ब्रह्म, नानन्दमयः, तथा पूर्वमेवोक्तमिति नैषशब्देनान- न्दमयपरामर्शः संभवति। यथाच इलोकस्य नावयविविषयकल्वं नियतम् ; मनोमयादौ व्यभिचारात्, तथा पूर्वमेवोक्तम्। वस्तुतस्तु नैकोऽपि श्लोक :- अवयविविषयकः, अन्नमया- दिश्लोकानामपि तत्कारणान्नादिविषयकत्वस्यैव दर्शनात्, किन्तु- अन्नमयादिकारणविषयक एथ। एवं च-आनन्दमयपर्यायगतइलो- कस्याप्यानन्दमयकारणानन्दरूपपुच्छब्रह्मविषयकत्वमेव युक्तम्, इसि आनन्दमयो ब्रह्म, निगमनश्लोकप्रतिपाद्यत्वादिति मतान्तरानुमान एव स्वरूपासिद्धिः, नाद्वैताभिमतानुमाने। तथाच कार्यमुखेन कार- णज्ञापनमेवात्र प्रकरणार्थः । अत एव-"अन्नं ब्रह्मेति व्यजानात्" इत्यादौ कारणमुखेनैव ब्रह्मस्वरूपावधारणमुपपद्यते, इति कथं स्वरू- पासिद्धिरद्वैतमते ? तथाच पूर्वसृतात् नञ्रमनुकृष्य-आनन्दमययो न ब्रह्म अभ्यस्यमानब्रह्मशब्दाबोध्यत्वादिति सूत्रयोजनाया अप्यत्र विवक्ष- णात् मतान्तरापादिता स्वरूपासिद्धि: सूत्रयोजनयाऽपि वारयितुं शक्यते। इदमेवाभिप्रेत्योक्त्तं परिमले-"भसिद्धिशङ्कायामपि सूत्र- मेवोत्तरमि"ति। एतेन-अत्रापि ब्रशब्दाभ्यासे सत्यानन्दमयस्य श्लोकप्रतिपाद्यत्वे को विरोधः ? नहि पूर्वत्रैकेन पदेनोपात्तस्य परत्र तेनैव पदेनोपादानं कर्तव्य- मिति नियम इति-परास्तम् ; पूर्वोक्तरीत्याऽऽन्दमयस्यावयविनः श्लो- कप्रतिपाद्यत्वस्यैवायोगात्, अन्नमयाद।वपि सक्ष्भावात्। एतेन-प्रतीयमानार्थपरिग्रहे को वा दुरुद्वरो दोष इति पर्यनुयोगोऽपि-व्याख्यातः; हेत्वन्वयायोग एव, इति पूर्वोक्तसा

Page 143

श्रीभाष्य समालोचनम् १३३

ध्योरीकारेणैव विवरणं योग्यम्, यतः "तत्तु समन्वयात्" इति व्यवस्था पितं शस्त्रयो नित्वमेवेक्षत्यधिकरणेन प्रधानाद् व्यावर्तितं बुद्धि- स्थमिति तस्यैवानुषङ्गेणान्वयो युक्तः, इति नाद्वैतमतेऽध्याहारले- शोऽपि साध्यांशस्य। को वार्थोडनेन व्याख्यानेन साध्यत.इति पर्य- नुयोगस्तु-निर्विशेषतुरीयब्रह्मपारमार्थिकतैवेति दत्तोत्तरत्वादू नाव- सरति। नहि सुत्रनिग्पेक्षमानन्दमयाव्रश्मत्वं वदाम:, किन्तु-आन- न्दमयब्रह्मतापूर्वपक्षनिरासार्थत्वमेव सृत्राणाम्, इति सूतसाध्य- त्वादस्मदीयस्य सिद्धान्तस्य, कि सृत्रसाध्यमवशिष्यत इति पर्यनुयोगोऽपि निरवकाश एव। "विकारशब्दादिति चेत्, न प्रा- चुर्यात्" इत्यादिसृत्राणामपि प्रकृतसिद्धान्तानुगुणं योजनं तुभाम-

अयमम्राद्वैताभिमत उक्तसृत्रार्थ :- विकार शब्दात्-अव- यववाचकपुच्छशब्दात् ब्रह्मणः सप्रधानत्वं नेति चेत्, न ; प्राचु-

ति। अन्र विकारशव्देन कार्य विवक्ष्यते, पुच्छमपि अवयवविशे- षः कार्यमिति कृत्वाऽवयववाचिना पुच्छशव्देन कार्यमेव ब्रह्म वि- वक्षितं भवति, न शास्त्रतात्र्यविषयो ब्रह्म पुच्छवाकयार्थ इति शङ्काहृदयम्। प्राचुर्यात्-इत्यनेनतु प्रायपाठादिति विवक्षितम, पुच्छशब्द: पूर्वतनेषु सर्वेषु पर्यायेषु वर्तते, इति प्रकृतेऽपि तत्प्र- योग:, नावयवविवक्षयेति विवक्ष्यते। अनेन चावयववाचित्वाभावे प्रतिपादिते "विकारशब्दादि"त्यंशोपक्षिप्तसत्पतिपक्षनिरासो भ- वति। तथाच सत्प्रतिक्षानुमानेऽप्रयोजकत्वशङ्कानिरूपणपरं प्राचु- र्यादिति सौघ्रं पदम्, यतः पुच्छपद्मात्रं न मुख्यब्रह्मताविरोधि भवति, किन्त्ववयववाचकपुच्छशब्दवतत्वमेव। नचात्र तद् वंर्तते .;

Page 144

१३४ श्रीभाष्य समालोचनम्

अभ्यासादिना प्राधान्येऽवगते तस्याधारतामात्रतात्पर्यकत्वखवीका- रात्। पुच्छशब्द: प्रायपाठात, इत्युक्ते नावयबविवक्षयेति फल- तीति-कृत्वा सत्प्रतिपक्षानुमाने स्वरूपासिद्धिरपि सूच्यत इति मन्त- व्यम्। तथाच प्राचुर्यस्यैव प्रकृताक्षेपपरिहारार्थत्वखारस्यमपिःसिद्धम्। एतेन-पर्यायान्तरानुसारिपुच्छपदनिर्देशस्य तादशार्थविवक्षायामेव हेतुत्वात् सौत्रो हेतुरनन्वित इति-परास्तम्। नहि पर्यायान्तरेषु पृथिव्यादीनां प्राणमयाद्यवयवत्वर्मिव कल्पितमप्यवयवत्वमानन्दमयब्रह्मतावादिमतेऽपि संभवति, इति अवयववाचकत्वाभाव उभयसम्मत इति वक्तव्यम्, इति, विकार- शब्दसाम्यमेवात्र विवक्ष्यते, नतु विकारशन्दत्वमिति फलति, इति स्वरूपासिद्धिसाधकत्वात् कथं सौधो हेतुरनन्वितः । पुच्छशव्दनि- र्दशमात्र एव पर्यायान्तरानुसरणम्, न तदीयार्थविवक्षायामपीति तु निष्कर्षः । इदमेवाभिप्रेत्योक्तं परिमलादौ-पुच्छपदं न ब्रह्मप्राधा- न्यविरोधि; आधारलक्षकत्वादिति। नहि पूर्वतनवाक्यगतस्य यत्प- पदस्य यदर्थपरत्वम्, तदनुसारिवाक्यान्तरगतस्यापि तस्य पदस्य स एवार्थः स्वीकर्तव्य इति नियम: ; अन्यथा-"यजमान: प्रस्तरः" इत्यत्रेव-"यजमानादयजमानमुत्तरं करोति। तस्माद् यजमानोऽयज- मानादुत्तरः"इति तद्नुसारिवाक्यान्तरगतयजमानपदस्यापि तत्सि- द्वचा गौणार्थकत्वं कोऽपि मन्येत, इति एकत्र प्रयुक्तस्य शब्दस्य पुनरपि प्रयुज्यमानेन तेनैय शव्देन समानार्थत्वं न स्वीकरणीयम्। इयान् विशेष :- यत् 'यजमानः प्रस्तरः' इत्यत्र प्रथमस्य गौणार्थत्वम्, परस्य मुख्यार्थत्वम्, अत्र तु पूर्वेषां मुख्यार्थत्वम्, उत्तरस्य गौणार्थत्व- मिति ; पुच्छवत् पुच्छमिति विवक्षणात्। अत एव-"भसौ वाव लोको गौतमाग्निरि" त्यत्र पर्याय- पञ्चके षष्ठपर्याये चाग्न्यादिशब्दानां सांपादिक-मुख्याग्निविषयकत्वेन

Page 145

श्रीभाष्य समालोचनम् १३५

भेदेऽप्यग्न्यादिशब्दानां मुख्याग्निपरत्वावगतिः। तत्र यथा षष्ठपर्याये सांपादिकाग्निपरत्वं बाधितम्, एवमेवात्रापि पुच्छपदस्य ब्रह्मपद समानाधिकरणस्यावयवपरत्वं बाधितम्, इति न विषमो दृष्टान्तः। इयान् विशेष :- यत् दृष्टान्तेऽग्न्यादिपदार्थाः सांपादिका ; मुख्या- इच, प्रकृते तु पुच्छपदार्थो मुख्यो गौणो लक्ष्यो वेति, इदं त्ववि शिष्टम्-पर्यायान्तरानुसारिपुच्छपदस्य पर्यायान्तरगतपुच्छपद्स्य चैकार्थकत्वं तुन खोक्रियते इति । सर्वधातु तत्र सर्वेषु पर्यायेषु नैक- रूपार्थत्वं खवीक्रियते। नहि वयमपि प्रकृतेऽपि पुच्छपद्स्यार्थ एव नास्तीति बदाम: ।

एतेन-तत्र सर्वेषु अग्न्यादिशब्दार्थस्तावदविशिष्टः, तस्य सांपादि- कत्व-तदभावौ च समभित्याहारबलायत्तौ, इति तत्र शब्दार्थवैपम्याभा- वात् इह वैपम्यकथनाच् नायं दष्टान्त इत्यादि-परास्तम् ; सर्वेपां पर्यायाणामनेकरूप्यमात्रे दष्टान्तताश्रयणात्। गौणवृत्तिस्थले सर्व- तरारोपितत्वमम्बन्धेन शक्यार्थगुणवत्तैव पदार्थ इति सिद्धान्तरीत्या पुच्छपदेनाप्याधारत्वमात्राविविक्षायां दोपाभावाच्च। तथाच ब्रह्मणोऽव- यवतयाऽपि "ब्रह्म पुच्छमि"तिवाक्ये विवक्षाभावात् नावयववाचकत्वं पृच्छशब्दस्य 'ब्रह्म पुच्छं प्रांतष्ठं'ति वाक्येऽपि सूत्रकाराभिमतम्।

स्पष्टं हि सूत्रकारा :- "आध्यानाय प्रयोजनाभावात्" इत्येतद्गुणसत्रेण-"आत्मशब्दाच" इतिमृत्रणात्मनो निरवयवत्वेन मतान्तरेऽपि शिरःपक्षादिमत्त्वाभावमनुमन्यन्ते, तद्वेतुत्वविवक्षया। अत्रेदं श्रीभाष्यम्-"अन्योऽन्तर आत्माऽनन्दमयः" इत्यात्म- शब्दनिर्देश्यत् आत्मनः शिरःपक्षपुच्छासंभवात् प्रिर्याशरस्त्वा- दयस्तस्य सुखप्रतिपत्यर्य रूपणमात्रामि"ति। अन्रेयं श्रुतप्रका- शिका-शास्त्रंण प्रतिपत्तौ बुद्धावारोहणाय प्रियशिरस्त्वादि प्रति- पत्तव्यम्, एवमपरिच्छिन्नानन्दे प्रतिपन्ने सत्युपास्तौ प्रियशिरस्त्वा-

Page 146

१३६ श्रीभाव्य समालोचनम्

दिकं नानुसन्धेयमित्यर्थ इति। स्पष्टं च-"पिनशिरस्त्वाद्यप्राप्तिरुप- चयापचयौ हि भेदे" इति सूत्रभाष्ये श्रीभाष्यकारा अपि शिर :- पक्षाद्वयवशून्यत्वं ब्रह्मणः प्रतिपाद्यन्ति। .एतेन-पुच्छपदस्यावयवविशेषपरत्वाभावे-"आध्यानाय प्रयोजना- भावात्" इति सूत्रेणानन्दमयं ब्रह्म ध्यानरूपवेदनसिद्धये प्रियमोदादिशिरः पक्षपुच्छादिमत्त्वेनोपदिश्यते इत्यर्थ केनात्रत्यपुच्छपदस्याप्यवयवपरताया अवगमितत्वेन तद्विरोधो दुर्वारः ।नहि दृष्टान्तसद्भावमात्रेण सूत्रकाराशय- विरोधोऽपि श्लाध्य इत्यादि-परास्तम्।

न ह्रत्र सूत्रे ध्येयकोटौ प्रियशिरस्त्वादिकमपि ग्राह्यमिति बोध्यते, किन्तु केनचन कल्पितेन रूपेण बुद्धावारोपणमेव। सति चैवम्-शिर:पक्षाद्यवयवकत्वं ब्रह्मणो ध्येयस्य न विवक्षितमित्येव

इति न श्रीभाष्यकाराणामपि मतम्, किन्तु-आनन्दमयवाक्य- मेव तन्निरूपणपरमित्येव। तत्रच "ब्रह्म पुच्छं प्रतिष्टे"ति वाक्यस्य न मुख्यब्रह्मप्रतिपत्तावुपयोग इति तन्मतम्, अस्मन्मते तु तस्यैव परमं प्रामाण्यमिति। तत्र श्रीभाष्यमते-सर्वशरीरकस्य परमात्मनस्त- स्मादन्य इति पृथग उपदेशो नोपपद्यते, इति-"तस्माद्वा एतस्माद- न्योऽन्तर आत्माऽऽनन्द्मयः"इतिन परमात्मोपदेशपरं भवितुमर्हति, अद्वैतमतेतु "ब्रह्म पुच्छमि"तिवाक्यं सर्वाधिष्ठानतुरीयचैतन्यनिरू- पणपरं भवितुमर्हति । मतद्रयेऽपि प्रियशिरत्वादिविशिष्ट आनन्द- मयो न परमात्मेति सम्मतम्। इदमपि संप्रतिपन्नम्-यदानन्दम- यपर्यायेणैव परमात्मोपदेशः पर्यवसन्न इति। इदमेव टु विवादा- स्पदम्-घदानन्दमयपदं ज्ञेयब्रह्मपरम्, उत तत्पर्यायगतपुच्छब्रह्म- पदं तत्परमिति। तत्रानन्दमयस्य प्रियादिशिरस्कस्य न परमात्म- त्वमित्युभयसंप्रतिपन्नम्। पुच्छंतु ब्रह्म किमानन्द्मयावयवतया विव-

Page 147

श्रीभाष्यसमालोचनम १३७

क्षितम्, उत न । आदये-"आत्मशब्दाच"ति पूर्वोक्तसूत्रभाष्या- दिविरोघ: । अन्त्येतु तस्यैव प्रक्रान्तव्रह्मसमर्पकत्वमित्यङ्गीकार एवार्थप्राप्त इति कथमानन्दमयब्रह्मतायां सूत्रस्य तात्पर्यम् ? इदमभ्युपगम्याध्यानायाधिकरणस्य पूर्वोक्तं विवरणमुपपादि- तम्। वस्तुतस्तु-"प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे" इति सृत्रणैव प्रियशिरस्त्वादीनां ब्रह्मघर्मत्वाभावस्य प्रतिपादनात् तद्धर्माणामाध्यानप्रसङ्गस्यैवाभावात् व्यर्थमिद्मधिकरणमापद्येत- यदि श्रीभाष्यकारादृतमेव विवरणं सूत्रकाराणां विवक्षितं स्यात्। "आत्मशब्दाच्न"ति आत्मशब्दः प्रियादिशिरस्कत्वाभावे कारणं यन्मन्यते, तद्पि अन्नमय-प्राणमयादावप्यात्मशब्दात् नोचितं प्रतीयते। ततश्च-"अकृतकरत्वप्रसङ्गात्, सूत्राक्षराननुगुणत्वात्, वि- चारणीयवाक्याविचाराच् न श्रीभाष्यादुत्परेक्षितार्थकत्वमस्याघिकर- णस्य योग्यम्, किन्तु अर्थान्तरविचार एवात्र योग्यः । सतु-"इन्द्रि- येभ्यः परा हयर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्वुद्धेरात्मा महान् परः"इत्यत्र किं प्रत्येकमर्थादीनां परत्वं चिन्तनीयम्, उतात्म- मात्रे सर्वतः परत्वमिति। यद्यपि कठवल्ल्याः परमात्मपरत्वं बहुरः सूत्रकारैरालोचितम्, निर्णीतं च; तथापि प्रत्येकं परत्वाध्यानमपि आत्मपरत्वाध्यानाङ्गतया कर्तव्यमिति शङ्का तु परिहरणीयैव, इति नायं विचार: कृतकरः। दृद्यन्ते हि बहून्येवाधिकरणानि कठवल्लीगत- वाक्यार्थ निर्णयार्थानि ; अन्यथा हि-प्राणमयादिषु प्रत्येकमन्तरा- त्मानुसन्वानमिव प्रत्येकमर्थादिष्वपि परत्वानुसन्धानमावश्यकमि- त्यापद्येत। एतेन-गन्घर्वाद्यानन्दानां पूर्वपूर्वानन्दशतगुणितत्वा- ध्यानमपि-व्याख्यातम् ; तत्रापि तदनुसन्धानं विनोत्तरोत्तरान- न्दसरूपज्ञानासंभवेन पूर्वपूर्वाघिकत्वाध्यानं हात्यन्तमेवापेक्षितम्। १८

Page 148

१३८ श्रीभाष्यसमालोचनम्

एतेन-उक्ततैत्तरोयवाक्यपरित्यागेन कठवल्लीविषयवाक्यग्रहणेऽपि कारणं सूचितम्-भवति। वस्तुतस्तु-इन्द्रियपरार्थपरमनःपरवु- द्विपरत्वेनात्मोपदेश इव ब्रम्मानन्दो नान्यानन्दापेक्षयाऽधिकतयाSत्र निर्दिश्यते; "यतो वाचो निवर्तन्ते" इत्यवाङ्मनसगोचरत्वेनैव ब्रह्मानन्दोपदेशात्, इति नैतद्विषयवाक्यसाम्यं प्राणमयादीनां गन्ध- र्वाद्यानन्दानां च भवितुमर्हति। वस्तुतस्तु-पुरुषविधत्वरूपणार्थमेव ह्यत्र शिर:पक्षाद्यवयवकी- र्तनमिति हि "प्रियशिरस्त्वाद्यप्राप्ति" रित्यत्रत्यं श्रीभाष्यम्। परमात्मा तु पुरुष एव; "सहस्रशीर्षा पुरुषः" इत्यादिश्रुतेः, नतुपुरु- षविधः, पुरुषविधस्तु-प्रथमजीवहिरण्यगर्भपर्यन्तो जोवराशिरेव। अत एव "स एको ब्रह्मण आनन्दः" इति हिरण्यगर्भानन्दपर्यन्तमेव परिच्छेदेन शतगुणितत्वेन ससमानाधिकदुःखाल्पनिरूपकस्य प्राचु- र्थस्य विवरणं दृशयते। शङ्करभगवत्पादा अपि-आत्मगृहीत्यधि- करणे यत्र पुरुषविधत्वविशेषणम्, तत्र हिरण्यगर्भादेर्ग्रहणं भवतु, "आत्मा वा इदमग्र आसीत" इत्यत्र तूक्तविशेषणाभावात् पर- मात्मैव गृह्यत इति वदन्तोऽमुमर्थमुपष्टम्भयन्तीति व्यष्टिरूपेण सम- ष्टिरूपेण च जीवस्वरूपनिरूपणार्थमेवानन्दमयान्ता: पर्यायाः, न पर- मात्मसवरूपनिरूपणार्थमिति जानीमः, इति परमात्मावयवतया पुच्छशब्दपरव्ृत्तिरिति न कथमप्युपपद्यते। तदत्र प्रकरणशुद्धचर्थम्-"प्रियशिरस्त्वाद्यप्राप्तिः" रित्या- रभ्य-"अन्वयादिति चेत् स्याद्वधारणात्" इत्येतदन्तसूत्राणां

तत्र लेखनीं व्यापारयामः । "आनन्दादय: प्रधानस्ये"ति निर्विशेषस्य ब्रह्मणः खशा- खागतैरिव शाखान्तरगतैरपि धर्मैंः प्रमितिसिद्धिरिति निरूप-

Page 149

श्रीभाष्यसमालोचनम् १३६

णार्थम विकरणमित्यद्वतमतम्, एतन्मते-'प्रियशिरत्त्वाद्यप्राप्तिरि" त्यादिकं प्रियशिरस्त्वादीनामपि पुच्छब्रत्मप्तिपत्तावुपयोगेऽप्यान- न्दादिवद् ब्रह्मस्वरूपत्वाभावादू न ब्रह्मपमितावुपयुज्यते, इत्ि तस्यै- वांविकरणस्य गुणसृत्रम्-"प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे" इति। तत्र को वा विशेष :- प्रियशिरस्त्वादिभ्य आनन्दा- दीनामिति शङ्कानिराकरणार्थमपरं गुणसूत्रम्-"इतरे त्वर्थसामा- न्यात्" इति। सत्यज्ञानानन्तानन्दानां सर्वासु शाखास्पसंहार: कर्तव्य इति तु तात्पर्यम्। तथाच व्रह्मस्वरूपलक्षणानि सर्वाणि रर्वत्रानुसन्धेयानि, अन्येतु-अध्यारोपविधया प्रवृत्तधर्मा नोपसंह- र्तव्या इति फलति। यद्यपि "सर्वाभेदात्" इत्यनेनैव न्यायेनेदमपि सिद्धयति; तथापि प्राणस्य सविशेषत्वात सविशेषविषय एवोप- मंहारः, न निर्विशेषविषय इति शङ्कावारणार्थम्, निर्विशेषेऽपि स्वरूपलक्षणानामेवोपसंहारो नान्येषामिति निरूपणार्थ चेदमधिकर- णमावश्यकम्। श्रीभाष्यमते तु-अब्रह्मधर्माणामुपसंहारं प्रतिपाद् ब्रह्मध- र्माणामप्यानन्दत्वादीनां स्वरूपप्रतिपत्यनुबन्धिनामुपसंहारव्यवस्थाप- नार्थम्-"आनन्दादयः प्रधानस्ये"ति सत्रं पृथगधिकरणम्। "प्रियशिरस्त्वाद्यप्राप्तिरि" सूत्रम्-"इतरे त्वर्थसामान्या"ति सूत्रं चाधिकरणान्तरम्। इदमेवात्रालोचनीयम्-यदि प्रधानस्य ब्रह्मणोऽभेदेन तत्स्व- रूपप्रतीत्यनुबन्धिनां गुणानामुपसंहारः, तर्हि आनन्दमयब्रह्मता- वादे तत्रापि प्रधानस्यानन्दमयस्य ब्रह्मणः सर्वत्राभेदात् कर्थ नोप- संहार :? अङ्गीकृतं हि श्रीभाष्यानुयायिभिरपि-"शास्त्रेण.प्रति- पत्तौ बुद्धयारोहणाय प्रित्यशिरस्त्वादि प्रतिपत्तव्यमि"ति-"आ- ध्यानायाधिकरणप्रघट्टके वद्द्विब्रंह्मस्वरूपप्रतिपत्तौ पियशिरस्त्वादी-

Page 150

१४० श्रीभाष्यसमालोचनम्

नामप्युपयोगः, इति को वा विशेष: सत्यकामत्वानन्दत्वादिधर्मेभ्यः प्रियशिरस्त्वादेः १ अद्वैतमतेतु-आनन्दादिकं स्वरूपम्, प्रियशिर- स्त्वादिकं तुन स्वरूपमिति विशेषः सर्वविदित एव। सर्वथातु- आनन्दादीनां प्रियशिरस्त्वादीनां च विशेषप्रतिपादनार्थत्वात्. त्रयाणां सूत्राणामेकाधिकरणत्वमेव समुचितम्। सति चैवम्- "इतरे" इति स्वविषयैकदेशस्यैव ग्रहणं सुष्ठु संगच्छते। एतेन-"कामादीतरत्र तत्र चायतनादिभ्यः" इत्यधिरण- सार्थक्यमपि-व्याख्यातम् ; यतो विद्याविशेषत्व एव सत्यकामत्वा- दीनामुपसंहाररूपता निधार्यते, श्रीभाष्यमते तु-आनन्दत्वादीना- मिव सत्यकामत्वादीनामपि "-आनन्दादयः प्रधानस्ये" ति सूत्रे- णैवोपसंहारस्य साधितत्वाद् व्यर्थ तदधिकरणम्। यत्तु-"आध्यानाय प्रयोजनाभावात्" इति सत्रम्, तदि- दम्-उपासनाय सम्यग् दर्शनाय वा प्रयोजनाभावात् कस्य चना- नुपसंहारं बोधयतीति मतद्वयसंप्रतिपन्नम्। तत्र प्रकृत एवानन्द-

श्रीभाष्यमतम्, अद्वैतमते-"इन्द्रियेभ्यः परा ह्यर्था" इति वाक्या- न्तरमधिकृत्यात्मप्रतिपत्तौ परम्परयोपयुक्तानामर्थादिपरत्वानामपि ब्रह्मसम्यगदर्शने नोपयोग इत्यनुपसंहारनिरूपणपरमिति। वक्तव्यं चात्र सर्व पूर्वमेव वर्णितम्। "आत्मशब्दाच्चे"ति सूत्रं तु श्रीभाष्यमते सर्वथा विरु- द्वम् ; यतो निरवयवत्त्रहेतुः खल्वात्मशब्देन विवक्ष्यतेः, अयं च विरुद्वो हेतुः, परमात्मनो निरवयवतायास्तैरनङ्गोकारात्। विभा- गासहत्वरूपमेव खलु श्रीभाष्यमते निरवयवत्वम्, न त्ववयवशून्य- त्वम्। अतोऽवश्यमिदं सूत्रमद्वैतप्रक्रियामनुसृत्यैव विचारणीयम्, नतु स्वमत प्रक्रियाम्। "आत्मनो निरवयवत्वप्रसिद्धिमपजीव्य प्रतृ-

Page 151

श्रीभाष्यसमालोचनम् १४१

त्तमिदं सूत्रम्" इति वदन्त: श्रुतप्रकाशिकाकारा अपीद मेव सूचयन्ति। अद्वैतिनां विवरणं तु पुरुष आत्मशब्दात् तस्य सम्यग् दर्शनाय प्रयत्न: कर्तव्यः, नान्येषामर्थादोनाम् ; तेषामनात्मत्वात्, यतः सुज्ञा- ना अनात्मानः, आत्मैव तु दुर्ञानः । अत्रात्मशब्दादित्यनेव आत्म- शब्दघटितवाक्यस्य ग्रहणात् तस्य च "एप सर्वेषु भूतेषु गृढ्ो त्मा न प्रकाशते" इत्याकारस्योक्तार्थपरत्वात् न दोषलेशोऽपि। मता- नतरे तु-'अन्योऽन्तर आत्माऽनन्द्मयः' इत्यात्मशब्देन निर्दिष्ट- स्यैव प्रियादिशिरस्कत्वस्यापि निर्देशात्, प्राणमयादिपर्यायेषु तदपरित्यागाच्च कथमात्मशब्दो निरवयवतायां प्रमाणं स्यात् ? तथाच करणम्। इदमत्रालोचनीयम्-यत प्रियशिरस्त्वादिकं यथा न विव- क्षितम् , एवमात्मत्वमपि मतान्तरे न विवक्षितं वा, उत विवक्षि- तमिति। तत्र प्राणमयादावात्मत्वस्याविवक्षणे ततोऽन्यस्योप- देश एव कारणमिति वक्तव्यम्, न तु प्रकृते तादृश उपदेशो वर्तत इति विवक्षितमात्मत्वमिति कृत्वैवात्मशब्दादिति हेतुनिर्देश इति वक्तव्यम्। अत एव-"प्रियशिरस्त्वाद्यप्राप्तिरि"त्येव सूत्रम्, नात्मत्वादीति । वयंतु मन्यामहे-ततोऽन्यस्थाप्यन्तरात्मनः "तस्पैष एव शारीर आत्मा" इत्युपदेशात् तस्यापि प्राणमयादेरिव गौणमेवात्मत्वमिति। तथाच प्राणमयादिसाधारणोऽयमात्म- शब्द: कथमानन्दमयमात्रनिरवयवतायां हेतुः स्यात्? तथाच- "आत्मशब्दादि" ति सूत्रं कथमपि न मतान्तरानुगुणम्; अन्यथा मतान्तरा भितस्वैव विवरणस्यादरणे-"आत्मशब्दाच" इत्यनेनैव गतार्थत्वात् व्यर्थम्-आत्मगृहीतिरितरवद्दुत्तरादि"ति सूत्रादिक- मधिकरणं तन्मतरीत्या।

Page 152

१४२ श्रीभाष्यसमालोचनम्

मतान्तरे हि-इदमधिकरणमपि-आनन्दमयपर्यायगता- त्मशब्दस्यैव परमात्मपरत्वव्यवस्थापनार्थमिति मन्यते। अत्रेदमा- लोचनीयम्-यत् पूर्वमात्मशब्दस्य प्राणमया दिपर्यायगतात्मशब्देनै- कार्थ्य विवक्षितम्, उत भिन्नार्थत्वम्, आद्ये विरोघ :; अन्त्य उक्ता- धिकरणवैयर्थ्यम्। किश्चात्र सूत्रे इतरवदिति कि विवक्ष्यते-"यद्या- त्मा वा इदमेक आसीदिति वाक्यम्, तर्हि तत्रत्यात्मशब्दस्य परमात्मपरत्वं कथं निर्धार्यते। तदपीदानीमेव हि निर्धारणीयमिति मन्वाना ह्यद्वैतिनस्तस्यैव विषयवाक्यत्वं मन्यन्ते। अत्र मते "इत- रवत्" इति "आत्मन आकाशः संभूतः"इति वाक्यगतात्मशब्द्ो विवक्ष्यते। नचायमनिर्णीतार्थः; 'तस्माद्रा एतस्मादि" ति तदेत- च्छन्दाभ्यां गुहानिहितब्रह्मपरामर्शात्। तथाच मतान्तरेऽपि तस्यै- वात्मशब्दस्यानन्दमये समापनं यदि विवक्ष्यते, तर्हि कथं संश- यावसरः? अतो ज्ञायते-आनन्दमयनिरवयवत्वादी न किमपि प्रमाणम्, इति नानन्दमयब्रह्मतावादो युक्त:, इति "विकारशब्दादि- ति चेन्न प्राचुर्यादि"ति सूत्रं पुच्छब्रह्मणो निरवयवस्य प्राधान्येन प्रतिपाद्यत्वमेव व्यवस्थापयतीति सांप्रदायिक: पन्थाः । अयं भाव :- "ब्रह्मविदान्नोतीति" प्रस्तुतस्य ब्रह्मणो सत्य- ज्ञानादिरूपत्वेन व्यवस्थापनात् ब्रह्म किमिति न शङ्कास्ति, किन्तु- अन्नमय-प्राणमययादीनां तत्वे उपदिष्टेऽन्यस्यान्यस्य चोपदेशप्रक्र- माच्च पर्यवसितं ब्रह्म किमित्येव शङ्का वर्तत इति प्राधान्येन प्रति- पाद्यत्वमेव साधनीयम्, इति तदेवानेनाधिकरणेन साध्यते। तच्च प्रधानं ब्रह्म-"तस्माद्वा एतस्मादात्मन आकाशः सं- भूतः" इति कारणतया निर्दिष्टमेवेति, उपर्यपि कारणतया यन्नि- र्दिष्टम, तदेव मुख्यं ब्रह्मेति वक्तव्यम्। आनन्दमयस्तु न सर्वका- रणतयात्र प्रतिपाद्ते, तस्यापि कार्यकोटौ प्रवेशेन सर्वकारणत्वायो-

Page 153

श्रीभाष्यसमालोचनम् १४३

गात्। अतः सानन्दमयविकारजातकारणतया निर्देशादपि पुच्छं व्रत्मैव प्रकरणार्थ इति निरूपणार्थ तृतीयं सूत्रम्-"तद्वेतुव्यपदेशा- चचे"ति। सानन्दमय विकारजातं प्रति कारणत्वेन व्यपदेशात् पुच्छं व्रऔ्मैव प्रधानमिति भगवत्पादाभिप्रेतः सूत्रार्थः । यथाच-नानन्द- मयब्रह्मत्वनिशचयः, तत्कारणत्वस्य पुच्छत्रह्मणि संभवः, मतान्तरे आकारान्तर विशिष्टस्य ब्रह्मणो वरतुगत्या निरवयवत्वमेव तदीय- भाष्यकारादिभिर्मन्यते, इति आनन्दमयजीवतापक्षस्यैव सम्घक् व्यवस्था, "सोऽकामयते" त्यादौ पुच्छब्रह्मण एव कारणत्वेन परिग्रहश्च, तथा पूर्वमेवोपपादितम्। एतेन-यथा आनन्दमयस्य जीवत्वं सिद्धवत्कृत्य सानन्दमयवि- कारहेतुव्यपदेशात् पुच्छं ब्रह्म प्रधानमित्युच्यते, तथा पुच्छब्रह्मण एवा- नन्दभयावयवत्वादिनाऽडन्दमयपर मात्मत्वं सिद्धवत्कृत्य सपुच्छत्रह्मसर्व- विकारहेतुव्यपदेशान् आनन्दमय एव प्रधानभूत इत्येवार्थःकुतो न भवि- ष्यति ? इति-परास्तम्। पुच्छमपि ब्रह्म कार्यकोटिप्रविष्टमिति कस्येदं मतम् ? यदि श्रीभाष्यकारणाम्, तर्हि आनन्दमयानतिरिक्तस्यैव ब्रह्मण: पुच्छ- त्वमिति तदीयसिद्धान्ते तस्य कार्यत्वासंभवः, मतान्तरं तु तादृशं न प्रसिद्धमिति न केवलं परदृष्ट्या, किन्तु सवदृष्ट्यापि हि स्वरूपा- सिद्धिः। यथाच पुच्छपदस्यापि मुख्यार्थपरित्यागो मतान्तरे, तथा पूर्वमेव तदीयग्रन्थदृष्टयैव प्रदर्शितम्। "पुच्छत्वकल्पना न कारण- त्वश्रुतिमुपरोद्ुमलमि" त्यत्रैव प्रकरणे भवन्तोऽपि हि वदान्ति, इति तस्य मुख्यार्थापरित्यागो न तन्मते गुणो वर्सते। तद्ुक्तं परिमले-व्रत्मणि पुच्छत्वकल्पने तस्यानन्दमयमुख्यावयवत्वमेवाङ्गी- कार्यम्, प्रकरणे मुख्यावयवेष्वेव शिरस्त्वादिकल्पनादर्शनात्- इति। यत्तु-अद्वैतिनो जीवं प्रति पुच्छत्वं ब्रह्मणो मन्यन्ते, तदिदं नावयवंतया, किन्त्वधिष्ठानतया।

Page 154

१४४ श्रीभाष्यसमालोचनम्

एतेन-जीवं प्रत्यवयवत्वेऽपि वस्तुविरोधाभावं वदतस्ते स्वं प्रति त्वे कः प्रद्वेष इति-प्रत्युक्तम् ; अनुक्तोपालम्भनत्वात्। तदेवं सानन्दमय विकार हे तुन्यपदेशेन पुच्छं ब्रह्मैव प्रधानमिति व्यवस्थापितम्, यत :- "सत्यं ज्ञानमनन्तं ब्रह्म" ति प्रकृतं ब्रह्म- पद्मेव पुच्छवाक्य उपसंहियते। तदेव च-"असन्नेव स भव- ती" त्युपरितनप्रकरणेष्वनुकृष्यते, नानन्दमय इति निरूपणार्थ तु- रीयं सूत्रम्-"मान्त्रवर्णिकमेव च गोयते" इति। अयमस्पार्थ :- यत् सत्यं ज्ञानमिति मन्त्रोक्तं ब्रह्म, तदेव ब्रह्म पुच्छं प्रतिष्ठेति ब्राह्मणेन प्राधान्येन गीयते, पुच्छपद्स्यावयवपरत्वे तु मन्त्रे प्राधान्यम्, ब्राह्मणे त्वप्राधान्यमिति मन्त्र ब्रह्मणयोर्विरोध: स्यादिति। अवयव- त्वं पुच्छत्वं वा ब्रह्मणो नाध्यानायोपयुज्यते प्रयोजनाभावादिति हि परेषामपि मतम्, तेन वस्तुतः प्रधानस्यैव ब्रह्मण आध्यानायाव- यवत्वकल्पनोपपत्तिरिति शङ्का न सावसरा। अत्र सूत्रे-मान्त्रवर्णिकमिति नपुंसकनिर्देशेन आनन्द- मयपर्यायगतात्मशन्दानुसारेण मान्त्रवर्णिकत्वं न स्वीकर्तव्यम्, किन्तु ब्रह्मैव गृहीत्वेति गम्यते। अत्रोभयप्राधान्यवादो यदि कैश्चनानन्दमय-पुच्छब्रह्मणोरनतिरेकमाश्रित्य कल्प्येत, तस्यापि निरास: कर्तव्य इत्येव सूत्र -- एवकारप्रयोगः। एतेन-ब्रह्मपदस्य मन्त्रवर्णगतत्वेनोपक्रमस्थत्वेऽपि पुच्छवा- क्यादानन्द्मयवाक्यस्य प्राचीनतया तद्ाक्यार्थालोचनदशायामेवा- पेक्षितेन "आत्मन आकाशस्संभूतः" इति वाक्येन पूर्वमेवानन्द- मयप्राधान्ये सिद्धे उपकमस्थेनापि पुच्छवाक्यार्थालोचनकालापे- क्षिततया पश्चात्तनेन मान्त्रवर्णिकेन पदेन सञ्जातविरोधितया पुच्छप्राधान्यनिश्चयासंभव इति-परास्तम्। मान्त्रवर्णिकसूत्रेणोपक्रमोपसंहारयोरैकरूप्यमेव प्राधान्य-

Page 155

श्रीभाष्यसमालोचनम् १४५

कारणं विवक्ष्यते, तच्च आनन्दमयवाक्येनैवोपसंहारेणैव भवति, न पुच्छब्रह्मवाक्येन। आनन्दभयवाक्येतु न ब्रह्मपदं मान्त्र- वर्णिकं वर्तत इति स्पष्टं न तत्रोपसंहारः, पुच्छवांक्य एव तु तत् वर्नत इति तत्रैवोपसंहार इत्यवश्यमेव स्वीकर्तव्यम्। "आत्मन आकाश: संभूतः" इति तु ब्राह्मणमेव, नतु मन्त्रः, इति आत्म- पद्मादायैवोपक्रमोपसंहारी, न मन्त्र-ब्राह्मणयोरुपक्रमोपसंहारौ। न ह्यात्मपदं मान्त्रवर्णिकम्। इदं च-"मान्त्रवर्णिकमि"ति नपुंसकपदे- नापि सूच्यते। यत्त-पूर्व त्रिभिः मूत्रैरपक्रमोपमंहारावगतब्रह्मप्राधान्यस्यैवानन्दम- याप्राधान्यं प्रति हेतुत्वं प्रदर्शितमित्यनन्यलभ्यत्वाभावात् सूत्रवैय- थर्यमित्युक्तम्।, तत्र प्रथमसूत्रेणाभ्यासः, द्वितीयसूत्रेणाशङ्गापरिहारः,

निर्देशेन तच्छङ्कानिरासः, तुरीयेण न केवलमभ्यासः, किन्तूपक्र- मोपसंहारैकरूप्यमपि तात्पर्यग्राहकं विविच्यते, इति न सूत्रवैयर्थ्य- मिति द्रष्टव्यम्, इति तुरीयमपि सूत्रं नानन्दमयब्रह्मतावादसमर्थना- यालम्। पश्चम-षष्ठसूत्रे तु प्रधानस्यैव पुच्छब्रह्मण आनन्दमयोप- सर्जनत्वमपि भवतु, न ह्येकत्र प्रधानस्थान्यत्र नाप्राधान्यमिति नियमः, अत एवाद्गीथविचारावसरे शालावत्यप्रश्ने "स एष परो- वरीयानुद्गीथः"इति मध्य उद्गीथप्राधान्यमपि दृश्यते;तथाच पूर्वो- तरयो: पुच्छब्रह्मसन्दर्भयोरप्यानन्दमयशंषत्वं भर्वात्वति शङ्कानि- वारणार्थे।. तत्र प्रथमेन सूत्रेणानन्द्मयशेषत्वं बाधितम्; उपक्रमोपसं-

नहि "स एष परोवरीयानुद्गीथः"इति वाक्यंयथोद्गीथविचाराव- सरगतम्, एवमानन्दयमविचारावसरगतं पुच्छवाक्यम्, प्रत्युत त- १६

Page 156

१४६ श्रीभाष्यसमालोचनम्

द्विपरोतम्, इति केवलं ब्रह्मप्रकरणत्वादू न तस्योपसर्जनत्वशङ्गाव- सरोऽपि।

एतेन-शालावत्यप्रश्ने-इदंलोकगतिप्रश्नस्यैव कृतत्वेन "आकाश इति होवाच" इति तदुत्तरवाक्यस्य परम्परया ब्रह्मगतिकं सामेत्यर्थ एव पर्यवसानेन न पूर्वसंदर्भस्य प्राधान्यपरत्वमिति दृष्टान्तायोग इति- परास्तम्। सत्यं पूर्वसन्दर्भस्य न ब्रह्मप्राधान्यपरत्वम्, उद्गीथप्राधान्यपरत्वं तु वर्तत एवेति कर्थं दष्टान्तायोग :? एतेन-दार्ष्टान्तिकोऽपि- व्याख्यातः; अन्नमयादिप्रायपाठानुसारेणात्राप्यानन्दमयोपासन- कल्पनस्यावश्यकत्वेन तत्प्राधान्यवादस्यापि संभवात्। सर्वथातु ना- नन्दमयोपसर्जनत्वमिति पश्चमसूत्रार्थः । वस्तुतस्तृपस्य आनन्दमयो मिथ्यात्वात् न ब्रह्मप्रधानता- मर्हति; सत्यस्यासत्योपसर्जनत्वायोगात्, सत्योपसर्जनं ह्यसत्यम्; तस्य तत्रारोपात्, इति भेदव्यपदेशसूत्रेण प्रतिपाद्यते। भेदव्यपदेशो नाम भेदविरुद्वोपदेशः, "यतो वाचो निवर्तन्ते"इति श्रुतिबोधितो बाध एव। यथाचास्य बाधे तात्पर्यम्, तथा पूर्वमेवोक्तम्। व्यपदे- शश्दो यद्यपि व्यवहार एव प्रसिद्धः, तथापि विशिष्टमपदेशम् अपदेशविशेषमपि कुत्रचन गोचरयति। यथा-"तद्वयपदेशं चे" तिसूत्रे। इयान् विशेष :- तत्र विशिष्टोऽपदेशः=उपमानोपमेयभाव- व्यपदेशोऽपि तस्यैव तत्वविरोधित्वात् विरोध्येवापदेशः। सच दृष्टान्तस्थले स्वस्यैव सवोपमानत्वानुपपत्तिरूप:, दार्ष्टान्तिकेतु आन- न्दमयस्य पुच्छब्रह्मबाध्यत्वरूप इति। तथाच दृष्टान्ते यथा श्येनपद्स्य द्रव्यपरत्वे वाक्यशेषविरोधः, स्वस्यैव स्वोपादानत्वानुपपत्तिनिबन्धनः, एवं प्रकृतेऽपि आनन्दमयस्यैव प्राधान्ये पुच्छब्रह्मबाध्यत्वनिरूपण-

Page 157

श्रीभाष्यसमालोचनम् १४७

परवाक्यशेषविरोध: समानः, इति युक्तम्-तदयपदेशसूत्रमत्र दृष्टा- न्ततया गृहीतम्। विशव्दो हि विकत्थनम्, इत्यादौ विरोधेऽपि दृश्यते, अन्यत्रार्थान्तरेऽपि। तत्र प्रयोगानुसारिणी व्यवस्था; आरोपे सति निमित्तानुसरणम्, नतु निनित्तमस्तीति नैमित्तिका- रोप इति न्यायात्तु 'वेदस्य विभाषते' इत्यादिप्रयोगापादनं निरव- सरम्। नहि विधित्सितस्योपमानोद्मेयभावेन निर्देश एव तद्चप- देश :; किन्त्वन्यथापि। अत एव-नामधेयत्वे निमित्तचतुष्टयमेवेति मते-"यद्विइवेदेवाः समयजन्न तद्वैश्वदेवस्य वैश्वदेवत्वभि"त्यर्थवा- दव्यपदेशमहिम्नाऽपि नामत्वं निर्धार्यते। न ह्वत्र न्यायान्तरस्य प्रसङ्गोऽस्ति; विवदेवानां कर्तृतयैव निर्देशात्। एतेन-'भेदमिथ्यात्वात्' 'भेदविरोधात्' 'भेदापवादात्' इत्येवं सूत्रं किमिति सूत्रकारो न प्रणिनायेति-शङ्कापि- परास्ता; विशेषाभावात्, विद्यमानपदेनाप्युक्तविधयार्थलाभात्। व्यपदेशपदप्रयोगे प्रयोजनान्तरं त्वनन्तरसृत्र एव व्यक्तीभविष्यति। "कामाच नानुमानापेक्षा" इति सूत्रं स्थानसाम्यात् आन- न्दमयप्राधान्यशङ्कावारणार्थम्। काम्यत इति काम := भृगुवल्ल्या- म्रात आनन्द:। तं दृष्टान्तमवलम््यानन्दमयप्राधान्यापेक्षा न संभ- वतीति सूत्रार्थः। आनन्दमयः, प्राधान्येन प्रनिपाध:, पूर्वपूर्वनि- षेधपुरस्सर पर्यव सितपश्चमस्थानगतत्वात्, भृगुवल्लीगतानन्दवत्, इतितु पूर्वपक्षिणामनुमानम्। सिद्धान्तिनस्तु मन्यन्ते स्वरूपा- सिद्धोऽयं हेतुः। तत्रहि "सैषा भार्गवी वारुणी विद्या। परमेव्योमन् प्रतिष्ठिते"ति श्रुत्यैवानन्द उपदेशस्य पर्यवसानमान्नायते, न तथाऽनन्दमये। यदि वैषम्यमिदं सूत्रकारेण न सृत्रितं स्पष्टमिति मन्यते, तर्हि 'भेदव्यपदेशादि'त्यनुषज्यते। तथाच वैषम्येणोप- देशादिति हेतुलाभः । अनेन चेद्मपि सूच्यते-भेदापवादादि-

Page 158

१४८ श्रीभाष्यसमालोचनम्

त्यादिरूपेण सूत्रणं परित्यज्य भेदव्यपदेशादिति सूत्रणमेव योग्यम्, येनोत्तरत्राप्यन्वयो हेतुत्वेन स्यादिति। एतेन-अवश्यवक्तव्यं हेतुं परित्यज्य प्रतिज्ञामात्रसूत्रणे सृत्रस्य न्यायनिबन्धनत्वासिद्धिः, वैषम्यादिति पदाध्याहारस्यायुक्तता चेति- परास्तम्। आनन्दादिति सूत्रयितव्ये कामादितिपदं तु प्रधानवाद- स्थापि निरासार्थम्। आनन्दरूपत्वं तु प्रधानस्यापि सात्त्विकस्य तदनुकूलशक्तिमत्वेन साधारणम्, इति तदसाधारणकामस्यैव हेतुत्वं सूत्रयितुमुचितम्। कामस्त्वन्तःकरणपरिणामविशेषः, नाचेतनस्य प्रधानस्य संभवति। एतेन-अचेतनत्य प्रधानस्यानन्दरूपत्वासंभव इति-परास्तम्। वरतुतस्तु-प्रकाशमान एवानन्दोऽखण्डब्रह्मरूपः, नावृतोऽपि। तथाच केवलानन्दपदप्रयोगे न सोऽर्थः प्रतीयेत, इति तस्यापि भानार्थ "कामादित्येव" सूत्रणं युक्तम्। प्रकाशमानानन्द एव खलु भृगुवल्ल्यां समाप्तिर्द्दश्यते, इति न कोऽपि विरोध: । एतेन "अस्मिन्नस्य च तद्योगं शास्ती"तिसृत्रे तद्योग पदार्थोऽपि प्रकाशमानानन्दरूपब्रह्मभाव इति विवक्ष्यते इति- सूचितम्। अयं चार्थः तत्पदेन कामपदार्थप्रकाशमानानन्द एव विवक्षिते। तथाचैकैकेन सूत्रेण संभाविततत्तच्छङ्गा विशेषनि- रासेन पुच्छब्रह्मप्राधान्यवाद एव व्यवस्थाप्यते, इति न कस्यापि सूत्रस्य वैयर्थ्यम्। यावत्यो युक्तयः पुच्छब्रह्म- प्राधान्यवादे संभाव्यन्ते, सर्वासां तासां संग्रहणमेव भग- वत्पादा: सूत्रकाराइच कर्तव्यं मन्यन्ते। यद्येकैनैव न्यायेन सिद्धा- न्तेऽवगते गुणसूत्राण्यपराणि वितथानीति मन्यते, तर्हि श्रीभाष्या- भिमतसौत्रविवरणेऽपि समान एवायं दोषः। व्यक्तीकरिष्यते

Page 159

भाष्यसमालोचनम् १४६

चेदं तदीयसौन्रविवरणसमालोचनावसरे। सांप्रतं तु स्वमतसम- र्थनमात्रसंदर्भ इति कृत्वा केवलं दोषाणां परिहार एव क्रियते तदापाधमानानाम्। पूर्व सूत्रषट्कस्य पृथक् स्वतन्त्राशङ्गान्तर- दिराकरणार्थत्वं प्रतिपादितम्। सप्तमेनापि स्वतन्त्राशङ्कैव निरस्यते। अष्टमेनतु सूत्रेण प्राप्यप्रापकभावेनानन्दमयब्रह्मणो निर्देशादपि नानन्द्मयब्रह्मत्वमिति व्यवस्थाप्यते। इदमत्रालोचनीयम्-"रसो वै सः। रसं ह्ेवाडयं लब्ध्वाऽ- नन्दीभवतीति" वाक्ययोः सशव्दार्थ:, अयंशब्दार्थश्च क इति? यदि सशन्दार्थ आनन्दमयः, तर्थयंपदार्थो विज्ञानमयः स्यात्। नच विज्ञानमयस्य "अनन्दीभवती"त्यानन्दीभावो हठाद् भवति, किन्त्वानन्दमयस्यैव। यदि-सशब्दार्थ: पुच्छं ब्रह्म, तर्ह्ययंपदार्थ आनन्दमय: स्यात्। तत्र च "रसो वै स" इति आनन्दतादात्म्यं बोध्यमानमप्युपपद्यते, आनन्दमयस्यतु श्रीभाष्यमतरीत्याऽवि तङ्ग- णसारत्वेनैवानन्दत्वम्। सति चैवं पुच्छब्रह्मभावेनैवानन्दभावः । स चानन्दमयस्यैवेति "रसो वै सः" इत्यादिसन्दर्भार्थ इति वक्तव्यम्, इति कथमानन्दमयः प्राप्यं ब्रह्म स्पादिति, च इति युक्त्यभ्युच्चयः, इति न किमपि सूत्रमद्वैतमतेऽनर्थकम्। श्रीभाष्यमते तु-विज्ञानमयेन जीवस्य विवक्षणात् जीवविलक्षणत्वस्य-"तस्माद्वा एतस्मादन्योऽन्तर आत्मे" नि वाक्येनैव स्पष्टमवगमात्-आनन्दमयो जीवो वा ब्रह्म वेति संशयस्यैवानुत्थानात्-सर्वमधिकरणं वितथम्। न केवलं वैधर्थ्र्यमा- त्रम्, किन्तु सौत्रपदानामपि तन्मत एव क्लिष्टकल्पना। तत्रानन्दमय इति पक्षनिर्देशः, जीवभिन्नः इति साध्याध्या- हार:, आनन्दपद चिहनितवाक्यप्रतिपन्ननिरतिशयानन्दवत्व। दिति, अवाङ्मनसगोचरत्वेनाभ्यस्यमानानन्दवत्त्वादिति वा हेतुरिति

Page 160

१५० श्रीभाष्यसमालोचनम्

हि तन्मतम्। तत्र जीवादन्य इति साध्याध्याहारः, अभ्यासपदस्य हेतुपरस्य लक्षणयारऽर्ान्तरपरत्वमिति विशदोऽयं दोषः। अपरस्तु दोष :-- पथमस्य हेतोरकामहतश्रोत्रिये व्यभिचारः, तत एव विरो- घोऽपि। आनन्द्मयो जीवः, आनन्दपदचिह्नितवाक्यप्रतिपन्न- निरतिशयानन्दवत्वात्, अकामहृतश्रोत्रियवदिति। द्वितीयहेतोस्तु स्वरूपासिद्धिरस्मद्दृष्ट्या; "यतो वाचः" इत्यस्यानन्दमयाविषय- कत्वस्य साधनात्। अप्रयोजकत्वशङ्का तु विशदैव। अभ्यासस्य तात्पर्यग्राहकप्रमाणस्य मुख्यतात्पर्यविषयतासाधकस्य तत्वाविवक्षा। तथाच प्रथमसूत्रं श्रीभाष्यमते स्वाभोष्टासाधकम्। तथाच श्री- भाष्यमते-केवलाभ्यासपदस्वारस्यभङ्गोऽपि दूषणम्। अद्वैतमतेतु आनन्दमयपदमात्रे पक्षनिर्देशपरे लक्षणा। सा तु सह्या: ; सूत्राणां न्यायतात्पर्यवतां न्यायलाक्षणिकताया एवायोगात्, "सर्वत्र प्रसिद्धोपदेशात्" "अत्ता चराचरग्रहणात्" अन्तस्तद्धर्मोपदे- शात्" इत्यादौ पक्षशव्दस्य सौत्रस्य लाक्षणिकताया उभयसम्मत- त्वाच। निमित्तान्तरमादायानन्दमय इति प्रयोग इति तु “तद्धेतुव्य- पदेशादि"ति सूत्रार्थसमालोचनावसरे वर्णयिष्यते। एतेन द्वितीयसृत्रमपि व्याख्यातम्; अभ्यस्यमानान- न्दातिशयवत्वे हेतौ निश्चिते विकारार्थकत्वशङ्काया एव नावसरः, अनिश्चिते च 'प्राचुर्यादि'ति प्राचुर्यार्थविवक्षाया अप्यसंभव इत्युभयतःपाशा रज्जुः। अकामहृतश्रोत्रियस्यापि प्रचुरानन्दवत्त्वस्य श्रुतिसिद्धत्वेनानन्दप्राचुर्थस्य स्वविजातीयदुःखाल्पतानिरूपकत्वा- वश्यकत्वात् प्राचुर्यार्थत्वसाधनेनापि न जीवभेदसाधनम्। "द. चः छन्दसी"ति नियमविधिना सूत्रकारस्यापि प्राचुर्यार्थकत्वसा- धनाशक्तिश्चेति नेदमपि सूत्रं सार्थकं तन्मते, किन्त्वद्वैतमत एव पूर्वोक्तविधया। अन्रेदं समालोचनीयम्-यत् विकारशन्दादिति

Page 161

श्रीभाष्यसमालोचनम् १५१

सूत्रे प्राचुर्यादित्यत्रेव विकारादित्येव निर्वाहे शब्दपदं किमर्थम् ? मयट इतिचेत्, इति सृत्रणमेव कुतो न कृतम् ? तथाच मयट इति प्रयोक्तव्ये विकारशव्दादिति सत्रणादद्वैताभिमत एवार्थो गम्यते, इतिशव्दशब्द्वैयर्थ्यमपि एकं मतान्तरे दूषणम्। "तद्धतुत्यपदेशादि"ति तृतीयसूत्रं तु-मयट आनन्दमय- पदे प्राचुर्यार्थकत्वव्यवस्थापनार्थमिति खलु तन्मतम्। तन्मते च प्राणमयादिष्वपि प्राचुर्यार्थकत्वमेवेति स्वीकारात् प्रायपाठस्यापि प्राचुर्यार्थकत्व एव साधकत्वात् विकारार्थकत्वशङ्गैव नीदेतीति पुनरपि द्रढीकरणं किंप्रयोजनम् ? न तस्य किर्माप प्रयोजनमिति विशद्मिदं सर्वेषाम्। तदेवं सूत्रत्रयमपि आनन्दमय इत्यत्र प्राचु- यर्र्थिकत्वमुपजीव्य प्रवृत्तं न कथमपि जीवभेदसाधकमिति न सिद्धा- न्तसाधनायालम्, यदि श्रीभाष्यकाराणामेव मतं सूत्रकाराणामपि मतम्। इदं पाराशर्यविजयमनुसृत्य समालोचितम्। श्रीभाष्यकारास्तु-आनन्दमयपरमात्मत्वसघकमेवेदमधि- करणं मन्यन्ते ; तन्मतेतु ब्रह्मण उपस्थितत्वाद् न साध्यपदाध्याहा- रो दोष: ; अवाङ्मनसगोचरत्वेनाभ्यस्यमानानन्दवत्वादिति हेतो- रेव प्रथमसूत्र विवक्षणात् हेतुदोषाः सर्वेऽप्यपरिहरणीयाः । एते- षामपि दृष्ट्या विज्ञानमयो हि बद्ध-मुक्तसाधारणजीव एव, इति "अन्योऽन्तर आत्माऽऽनन्द्मयः"इति वाक्येनैव सिद्धत्वात् न संश- योत्थानमिति दोषो दुरपह्व एव। अपरं सूत्रद्वयं तु पूर्वोक्तरीत्या विज्ञानमय एव विकारर्थ- त्वत्यागात् प्रांचुर्यार्थकत्वोपपादनासंभवाच वितथमेव, यदि प्राचुर्या- र्थोपपादकम्। उक्त्तंच श्रीभाष्ये-"औचित्यं च प्राणमय एव परित्य- क्तमि"ति। यदितु श्रीभाष्योक्तदिशा "तद्वंतु्यपदेशात्" इति सूत्रमपि स्वतन्त्रमानन्द्मयब्रह्मतासाधकम्, जीवानन्दयितृत्वोपदेशा-

Page 162

१५२ श्रीभाष्यसमालोचनम्

दिति मन्यते, तदापि पूर्वपक्षिणां मते पूर्वोक्तरीत्या-"रसो वैसः" इत्यादिवाक्यसन्दर्भस्य पुच्छब्रह्मविषयकत्वेनानन्दमयविषयकत्वा- भावात् स्वरूपासिद्धिः, "अस्मिन्नस्य च तद्योगं शास्ती" त्यनेना- व्यस्थैव हेतोर्विवक्षणात् पौनरुक्त्यम्। इदं हि तत्रत्यं श्रीभाष्यम्- "रसशब्दा भिधेयानन्दलाभादयमानन्दीभवतीत्युच्यमाने यल्लाभाद्य आनन्दीभवति; स स एवेत्यनुन्मत्त; को ब्रवीती"ति। अद्वैतमते तु आनन्दमयहेतुत्वमेव हेतुरिति न दोषः । अत्रेदमालोचनीयम्-यत् "तद्वेतुव्यपदेशात्" इत्यत्र न तत्पदेनानन्दस्य परामर्शः ? न ह्यत्रा- नन्दोपस्थापकं किमपि वर्तते। अद्वैतमते तु-आनन्दमयोऽभ्या- सात्" इति शब्दोपस्थापित आनन्दमयः, इति आनन्दमयहेतुत्व- व्यपदेशात्" इति सुष्ठु संगच्छते। एतेन-"ब्रह्म पुच्छमभ्या- सात्" इति वक्तव्ये-"आनन्दमयोऽभ्यासात्" इत्यानन्द्मयपद्- प्रक्षेपस्यापि निमित्तं सूचितम् ; "तद्वेतु्यपदेशाच्चे" ति सूत्र- गततत्पदार्थसमर्पकत्वात्तस्य। तथाच श्रीभाष्यमते उक्तसूत्रगततत्प- दार्थनिर्णायकाभावोऽप्यपरं दूषणम्। केवलमानन्दशब्द: कथमानन्दमयपर इति शङ्कायां हि श्री- भाष्यकारा वदन्ति-एवमानन्दमयः परं ब्रह्मेति निश्चिते सति "य- देष आकाश आनन्दो न स्यात्" "विज्ञानमानन्दं ब्रह्मे" त्यादि- ष्वानन्दशव्देनानन्दमय एव परामृश्यते इति। अन्रानन्दरसादि- शब्दानामानन्दमयपरत्वाधीनमानन्दमयस्य जीवानन्दयितृत्वेन पर- मात्मत्वम्, तत्परमात्मत्वनिश्चयाधीनं च रसानन्दादिशब्देन परा- मर्शनमित्यन्योन्याश्रयोऽपि दुष्परिहरः। मतद्वयेऽपि जीवादन्यत् घ्रह्मेतितु संप्रतिपन्नम्, को वा जीवः? किं विज्ञानमयः ? उतानन्दमय इति चेत्, तत्र विज्ञानमयजीवत्वे प्रकारान्तरेणाघिकर- णात् बहिरेव निर्णीते को वाऽवसर एतावतां सत्रसन्दर्भाणाम्?

Page 163

श्रीभाष्य समालोचनम् १५३

एतेन-"तुरीयं मान्त्रवर्णिकमेव च गीयते" इति सूत्र- मपि-व्याख्यातम् ; अनेनापि सूत्रेण-आनन्दमयो ब्रह्म मान्त्र- वर्णिकत्वादिति खलु विवक्ष्यते। अत्रापि पूर्वपक्षिभि: स्वरूपा- सिद्धिरेव मन्थते। आनन्दमयो न मान्त्रवर्णिकं ब्रह्म, तत्रत्यब्रह्म- शब्दासमाना धिकरणत्वात्, इति सत्प्रतिपक्षोऽपि। एतेन-अ- द्वैतमतेऽपि स्वरूपासिद्धिरिति शङ्ापि नेति-सूचितम्। अत्र मन्त्रवर्णेति वर्णपदप्रयोगात्, न त्वर्थतः, किन्तु वर्णतोऽपिमान्त्रवर्णि- कत्वमपेक्ष्यत इति सूच्यते, इति ब्रह्मशब्दसामानाधिकरण्यमेव हेतुनया मूत्रकारैविवक्ष्यत इति तक्तव्यम्। तथाच श्रीभाष्यमते सूत्रगनवर्णपदस्वारस्यभङ्गोऽप्यपरं दूषणम्। एतेन-गीयतेपदस्वारस्यमपि-व्याख्यातम्; गीयमानत्वं हि-"तदप्येष इलोको भवती" ति श्लोकप्रतिपाद्यत्वमेव। तच्व मान्त्रवर्णिकव्रह्मशव्दस्यव तत्र दर्शनात् पुच्छब्रत्मप्राधान्यमेव गम- यति। तथाच-पुच्छं ब्रह्म, प्रधानम्, निगमनइलोकप्रतिपाद्यत्वा- दित्येव सौत्रं तात्पर्यम्। इदं चाद्वैतमत एव स्वरसम्। पश्चमं तु सूत्रम्-"नेतरोऽनुपपत्तेः" इति श्रीभाष्य एवं व्याख्या- तम्-परमात्मन इतर := जीवशब्दाभिलाप्यो मुक्तावस्थोपि न भवति मान्त्रवर्णिकः ; कुतः ? अनुपपत्तेः । तथाविधस्यात्मनो निरवधिकं . विपश्चित्वं नोपपद्यते। इदमेव हि निरुपाधिकं विपश्चित्वम्-"सोडका- मयत बहु स्यां प्रजायेयेति सत्यसंकल्पत्वप्रदर्शनेन विवरिष्यते। विविधं पश्यत् चित्वं हि विपश्चित्वम् ; पृषोदरादित्वात्। यद्यपि मुक्तस्य विप- श्वित्वं संभवति ; तथापि तस्यवात्मनः संसारदशायां विपश्चित्वं निरुपाधिकं नोपपद्यते। निर्विशेषचिन्मात्रस्य मुक्तस्य दर्शना- भावात् सुतरां विपश्चित्वं न संभवति, न केनापि प्रमाणेन निर्वि- शेषं वस्तु प्रतिपाद्यत इति च पूर्वमेवोक्तम्। किंचास्य मान्त्रवर्णिकस्य विपश्चितः "सोऽकामयते" त्यारभ्य वक्ष्यमाण संकल्पावधृतजगञ्ज- न्म-स्थिति जगदन्तर।त्मत्वादेमु प्तात्मस्वरूपादन्यत्वं स्पष्टमेव-इति। २० -

Page 164

१५४ श्रीभाष्य समालोचनम्

अनेन यदि "सोऽकामयत" इत्यादिवाक्यशेषानन्वय एवा- नन्द्मयजीवतानिरासे हेतुतया मन्यते, तर्हि "कामाच नानुमाना- पेक्षे"नि सूत्रं निरर्थकम्, अथवा तेनैवोक्तस्यार्थस्य सिद्धत्वात् इदं सूत्रमनर्थकमित्यन्यतरसूत्रानर्थक्यं दुरपह्मवम्। किश्च-विज्ञानम- यशब्देन यो जीवो विवक्षित,: स किं केवलं बद्ध :? उत बद्ध-मुक्तसा- धारण :? आदे-"भेदव्यपदेशाच्च" इति सूत्रेण-येन"विज्ञानम- यादन्योऽन्तर आत्मे"ति वाक्यमनुमृत्यैवानन्दमयस्य ब्रह्मत्वं सा- ध्यत इति श्रीभाष्यकरैर्मन्यते, तेन विज्ञानमयान्यत्वेनोपरि मुक्त- त्मत्वमपि साध्येत, अथवा मुक्तात्मनि व्यभिचारात् परमात्मत्वं न साध्येतेत्यर्थान्तरादिप्रसङ्ग:। द्वितीयेतु-तेनैव सूत्रेण गतार्थत्वा दिदं सूत्रं वितथमिति सर्वविदितमिदम्। अपिच-"मान्त्रव- र्णिकमेव च गोयते"इति सूत्रेण "सत्यं ज्ञानमिति"तिमन्त्रपस्तुतब्र- ह्मत्व आनन्दमयस्य साधिते श्रीभाष्यमतरीत्या सत्यज्ञानानन्तादि- रूपत्वं मुक्तात्मनोऽपि न मन्यते, इति कथं मुक्तात्मनोऽमान्त्रवर्णिक- स्य मान्त्रवर्णिकत्वशङ्कोदेति ? सति चैवं निरसनीयाशङ्काभावादपि सूत्रमिदं निष्पयोजनमापदेत। इदं च विपश्चित्वानुपपत्तेरिति हेत्व- र्थसंभवं स्वीकृत्योपपादितम्। वस्तुतस्तु-अनुपपसेरित्यस्य विपश्चित्वानुपपत्तेरित्यर्थः कथं सूत्रारूढः? कथंच तस्य मुक्तजीवव्यावर्तकत्वमित्यपि चि- न्त्यमेव। यतोऽदवैतमतरीत्या अनेकजीववाद ईश्वरभावो मुक्ति- रित्येव तदीयसिद्धान्तस्य सिद्धान्तलेशसंग्रहगतमुक्तात्मस्वरूपनिरू- पणादौ श्रुति-सूत्र-भाष्यारूढत्वेन व्यवस्थापनेन जगद्ूयापारेण साकं ब्रह्मभावस्यैवाद्वैतमते मुक्तिस्वरूपत्वात् जगदाकारेण परिणममानावि- द्याविषयत्वरूपाधिष्ठानत्वस्य शुद्धब्रह्मण्येव संभव इति संक्षेपशा- रीरकसिद्धान्ताच मुक्तात्मनो ब्रह्मभावमापन्नस्य जीवत्वस्यैवाभावात्

Page 165

श्रीभाष्य समालोचनम् १५५

पुच्छ ब्रह्मणो यादृशं काटणत्वम्, तादृशस्य मुक्तात्मन्यपि स्वीका- राच विपश्चित्वादिकं ब्रह्मलिद्गं सर्व तत्र संभवति, इति परेषां दृष्टया स्वरूपासिद्धिः। श्रीभाष्यकाराणां परमतरीत्यापि न स्वरूपा- सिद्धिरिति स्थापनार्थम्-"निर्विशेषचिन्मात्रभावापन्नस्ये" त्या- धुपक्षेपस्तु नाद्वैतमतानुसारी। तन्मतदृष्ठ्यापि समालोचनायाम्-पूर्वतनानां हेतूनां मुक्ता- त्मपरमात्मसाधारण्यशङ्कायां खलु तदूयावर्तनार्थ सूत्रान्तरमपेक्षि- तम् ; हेत्वन्तरेण साधितस्यैवार्थस्य हेत्वन्तरेणापि साधनं त्वम्युच्च- गार्थ बहुशो दृष्टम्। स्वतन्त्राशङ्कानु सूत्रेण तत्रैव निरस्यते, यत्र पूर्वतनैस्सृत्रैर्न सापि निरस्तमाया।"तद्वेतुत्यपदेशाच्च" इति सृत्रण हि प्राप्यप्रापकभावो जीवानन्दमययोरवगम्यमानो जीवविलक्षणत्वमा नन्दमयस्य ज्ञापयनीति श्रीभाष्यानुयायिनामेव मतम्। तत्रेद- मेवालोचनीयम्-यन्मुक्तात्मप्राप्त्या जीवस्यानन्दः कुत्राप्यवगम्यते वा, नवेति। नाद :; प्रमाणाभावात्, द्वितीयेतु मुक्तात्मनोऽप्या- नन्दमयमाप्तिनिबन्धन एवानन्दानुभव इति तदयावृत्तिरप्पर्थसिद्वैव, इति तेनैव मुक्तव्यावृत्तरपि सिद्ध: का वाऽधिका शङ्का व्यावर्त्यते ? मान्त्रवर्णिकत्वविषये तु पूर्वमेवोक्तम्, इति जर्जरमिदं विवरणं न क्षोदक्षममिति भगवत्पादानुयायिनो मन्यन्ते। तन्मतेतु-पूर्वतनै- स्सूत्रै: पुच्छब्रह्मणः प्राधान्यं प्रतिपाद्य, "नेतरोऽनुपपत्तः" इति मा- न्त्रवर्णिकब्रह्मव्यतिरिक्त आनन्दमय आत्मा न प्राधान्येन प्रतिपा- द्यते, इति पक्षान्तरनिरासार्थमिदं सूत्रमुत्तराणि च सूत्राणि। पूर्व- तनसूत्रेषु हि मान्त्रवर्णिकमिति नपुंसकपदेन ब्रह्म, अन्यार्थत- याऽपि निर्दिष्टेनानन्दमयपदेनानन्दमयश्चोपतिष्ठतः। तत्रैकस्य प्राधान्यमपरस्यापाधान्यम्, इति स्थिते इतर इति पुंलिङ्गेन पदेना- नन्द्मयः पक्ष एवोपस्थाप्यते, इत्यानन्दमयपक्षकाम्राधान्यत्यवस्था-

Page 166

१५६ श्रीभाष्य समालोचनम

पन एव सूत्रस्यास्य तात्पर्यम्। तथाच-"मान्त्रवर्णिकमेव च" इति सूत्रगतैवकारव्यावर्त्य एव विशदं सूत्रकारैरत्र निर्दिश्यते। सति चैवम्-पुच्छं ब्रत्मैव प्रधानम्, अभ्यस्यमानत्वात्, तद्वतुव्यपदेशात्, निगमनश्लोकप्रतिपाद्यत्वाच्चेति पूर्वतनसूत्रः प्रतिपादिते-इतरः आनन्दमयः, न प्रधानः, अनभ्यासात्, पुच्छ- ब्रह्मकार्यत्वात्, निगमनश्लोकाप्रतिपाद्यत्वाच्चेति, अभ्यासादी- नामप्यानन्दमय विषयत्वयोजना निरासार्थमेव "नेतरोऽनुपपत्तेः," इति सूत्रम्। श्रीभाष्यकाराणाम्-"भेदव्यपदेशाच्च" इति सूत्रगतं विवरणम्- "तस्माद्वा एतस्मादात्मन आकाशः" इत्यारभ्य मान्त्रवर्णिकं घ्रह्म व्यञ्जय- द्वाक्यमन्न-प्राण-मनोभ्य इव जीवादपि तस्य भेदं व्यपदिशति-"तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्माऽडनन्दमयः" इति। अतो जीवादू भेदस्य व्यपदेशाच्चायं मान्त्रवर्णिक आनन्दमयोऽन्य एवेति ज्ञायत इति। विज्ञानामयजीवत्वं हि यद्यवस्थात्रयापन्नजीवत्वम्, तर्हि षाधितम् ; सप्नाद्यवस्थायामिव सुषुप्त्यवस्थायां जीवस्य विज्ञाना- भावात्। यदि जाग्रत्स्वप्नावस्थाद्वयवत्त्वमान्नम्, तर्हि विज्ञानम- यान्यत्वात् जीवान्यत्वं विरुद्धम्, सुषुप्त्यवस्थापन्ने जीवे व्यभि- चारश्च। तथाच-आनन्दमयः, जीवान्यः, विज्ञानमयान्यत्वादि- त्यनुमानप्रयोग एव यदि सूत्राभिप्नेतः, तर्हि हेतु-साध्ययोरैक्यम्, सौषुप्तजीवत्वमादाय सिद्धसाघनम्, तत्रैव व्यभिचारः, आनन्द- मयो जीवः, विज्ञानमयान्यत्वात्, इति विरोध:, इत्यादिदूषणानां सत्त्वात् इदं सूत्रं यथाश्रुतं न व्याख्येयम्। 'भेदादि'ति सृत्रयितव्ये व्यपदेशपदवैयर्थ्य च। व्यपदेशपदेन हि व्यवहारमात्रस्योपस्थाप- नात् भेदव्यावहारिकत्वं प्रतीयते, इति तत्र तत्र तत्पारमार्थिक- तानिषेधार्थमेव व्यपदेशपदं प्रयुज्यत इत्यद्वैतिनो मन्यन्ते, इति तन्मते

Page 167

श्रीभाष्य समालोचनम् १५७

व्यपदेशपदसाथक्यं सृत्रे भवति, श्रीभाष्यमते तु न प्रयोजनले शोऽपि। तथाच "भेदव्यपदेशात्" इत्यनेन भेदव्यवहारादित्यर्थ- विवक्षणात् भेदमिथ्यात्वावगमात इत्यप्यर्थसिद्धमेव भवति, इति कृत्वैवाद्वैतिनो भेदव्यपदेशादित्यस्थैव भेदविरोध्यपदेशादिति विधृण्वते। सति चैवमाथिकं मिथ्यात्वं शाब्दमपीति तदाशयः। एतादृशहार्दिक भावस्यात्र संकलने हेतुः मतान्तराभिमतविवरणादरणे- "अस्मिन्नस्य चे"ति सृत्रणैव तदर्थस्यावगतत्वात् उक्तसृत्रवैधर्थ्यम्, पूर्वोक्तरीत्योक्तार्थस्याकृतकारित्वं चैव। तथाच न केवलं व्यपदेश- पदसार्थक्यम्, किन्तु सूत्रसार्थक्यमप्यद्वैताभिमतार्थविवक्षण एव। किंच-विज्ञानमयोऽयं किं बद्धः, इत बद्मुक्तोभयसाधारण :? आद्ये आनन्दमयस्य बद्धान्यत्वेऽपि मुक्तान्यत्वस्य पर्यायान्तरं विना- Sसंभवात् मुक्तान्यत्वसिद्धान्तविरोधः । द्वितीये तु किं प्रयोज- नम्-"नेतरोऽनुपपत्तेरि" त्यस्य? अधिकं पूर्वमेवोक्तम्। यदि मुक्तस्यैवानन्दमयत्वाभावे बद्धस्यानन्दमयत्वे का कथेति मत्वा पूर्वेणैव बद्धस्यापि व्यावृत्तिः, तर्हि किं वा प्रयोजनमस्य सृत्रस्य?। एवं चात्राद्वैतिनामेव विवरणं शरणम्। वस्तुतस्तु-यत्रान्यत्वं स्वष्टम- नाम्नातम्, तत्रैव भेदव्यपदेशाद् अन्यत्वं साध्यते-"भंदव्य- पदेशाच्चान्यः" इत्यादौ, प्रकृते तु-स्पष्टमन्यत्वाम्नानात् तेन भेद- साधनपरतया विवरणं सूत्रशैलीविरुद्धमेव। सप्तमं तु सृत्रम्-"कामाच्च जानुमानापेक्षा" इति। इदमत्र श्रीभा- व्यकाराणां विवरणम्-"सोडकामयत" इत्यचित्संसर्गरहितस्य स्वका- मादेव विचित्रचिद्चिद्वस्तुनः सृष्टिः-"इटं सर्वमसृजत। यदिदं किं च" इत्याम्नायते। अतोऽस्यानन्दमयस्य जगत्सृजतो नानुमानिकाचि- द्वस्तुसंसर्गापेक्षा प्रतीयते-इति। इद्मन्रालोचनीयम्-यत् नानुमानिकाचिद्स्तुसंसर्गापेक्षे- त्यनेन यदि देहानपेक्षसंकल्पादिमत्त्वं विवक्षितम् , तर्हि-आन-

Page 168

१५८ श्रीभाष्य समालाचनम्ँ

न्दमयो न जीवः, आनुमानिकदेहानपेक्षसंकल्पादिमत्त्वादिति फलति। अत्रच शिरःपक्षादिमत्वेन शरीरसम्बन्धस्यानन्दमये प्रत्यक्षत्वात्, "तस्यैष एव शारीर आत्मा य पूर्वस्ये"ति विज्ञान- मयपर्यायानन्तरवाक्येन स्पष्टं तस्य शारीरत्वावगमाच्च शरीरसम्बन्धा- नुमानिकत्वं पुच्छब्रह्मण्येव कल्पनीयम्, नानन्दमये। तथाच शरी- रानपेक्षसंकल्पादिमत्त्वमपि नानन्दमये सिद्धम्, इति स्वरूपा- सिद्धि: प्रथमं दूषणम्, इति"सोऽकामयते"त्यादीनामपि पुच्छब्रह्मविष- यकत्वमेवेति निष्कर्षः। द्वितीयं तु दषणम्-पूर्वोक्तरीत्या "नेतरो- जनुपपत्तेरि" त्यनेनैव गतार्थत्वादेतत्सत्रवैयर्थ्यम्, "कामाच्चे' त्यने- नैव निर्वाहे "नानुमानापेक्षे"ति सूत्रांशवैफल्यं तु तृतोयं दूषणम्, इत्यद्वैतिनां विवरणमेव शरणीकर्तव्यम्। वक्तव्यं चात्र सर्व पूर्वमेव वर्णितम्।

"अस्मिन्नस्य च तद्योगं शास्ति" इति सूत्रव्याख्यानं तु श्रीभाष्य- काराणाम्-अस्मिन्=आनन्डयोगम्, शास्ति शास्त्रम्-"रसो वे सः। रसं ह्येवायं लब्ध्वाSSनन्दीभवती"ति। रसशब्दाभिधेयानन्दम- यलाभादयं जीव आनन्दीभवतीत्युच्यमाने यह्लाभादू य आनन्दीभवति, स स एवेत्यनुन्मत्तः को ब्रवीति-इति।

इदं च "तद्वेतुव्यपदेशादि"त्यनेनैव गतार्थत्वात् वितथमिति पूर्वमेव सूचितम्। यत्तु-पूर्वत्र सामान्येन समस्तसुखहेतुत्वम्, अत्रतु मोक्षहेतुत्वमुक्तमिति वा, पूर्वत्रोपायनिर्देशः, अत्रोपेयनि- रदेशो वा, इत्यादि श्रुतप्रकाशिकायामुक्तम्, तत्र विवरणद्वयेऽपि कर्तृकर्मभावेन वा, कर्तृसाधनभावेन वा भेदव्यवस्थायामेव तात्प- र्यात् एकस्यैव कर्तृकर्मत्ववत्, कर्तृकरणत्वयोरप्यसंभवस्य न्यायसा- म्येन सिद्धौ सूत्रद्वयवैयर्थ्यमपरिहरणीयमेव। परमार्थतस्तु-"भेद- वय्पदेशात् " इत्यत्रैव सर्वेषामेषां वाक्यानां विवक्षणेन सर्वेष्टसि-

Page 169

श्रीभाष्य समालोचनम् १५६ द्वौ व्यर्थान्येव बहूनि सूत्राण्येकस्यैव साधनार्थम्। तदेवं श्रीभाष्याभिमतविवरण एव बहूनां सूत्राणाम्, किं यहुनाऽधिकर- णस्यैव वैधर्थ्यमिति हि परिस्थितिः ।

तदयं संग्रह :- (१) "मोऽकामयत" इत्यनन्तरवाक्ये पुंलिङ्गश- ब्देनानन्दमयस्य परमर्शात्, (२) स्वस्मादनतिरित्तरवयवैः शिरःपक्ष- पुच्छादिभी रूपणाद्, (३) समुदायावयवविषयतया "तस्य पुच्छमि" ति पश््युपपत्ते; (४) निरतिशयानन्दे सदसद्गाशङ्कासंभवेन ब्रह्मानन्दा- नन्दमयशब्दानां पर्याचत्वेन चानन्दमयस्यैव इ्लोकप्रतिपाद्यत्वात्, शोध्यत्वस्य वम्त्वानुरूप्येणानन्दमयेऽविरोवात, (५) अवयवित्वस्यापि पुच्छत्वस्येव रूपणसंभवात्, (६) "तस्यैप एव शारीर आत्मा"इति- वाक्यशेपस्याप्यानन्दमय एव संभवात्, (७) स्वतःसिद्धनिर तिशय- दशाशिरस्कानन्दाभ्यासस्यानन्दयितृत्वस्य, अभयहेतुत्वस्य, प्राप्यत्वस्य, निरुपाधिकविपशशचित्त्वस्य चानन्दमयार्थब्रह्मतायामेव स्वारस्याच्चानन्दमय एव प्रधानं ब्रह्म, न पुच्छं ब्रह्म; आनन्दमयस्य जीवत्वायोगान्। अयमत्र- संग्रहश्लोक :-

"पुं लिङ्गान्तप्रधानप्रकृतपर वचोरूपणं चाप्यनन्यैः श्लोका: पुच्छं नचाहुः सरसमपि हि नः सूत्रमन्योऽन्तरो न। षछयादिश्चांशभावान्निरतिशयतया रूपणादानुरूप्यात् पर्यायत्वादनन्यात्मकवचनतया पुच्छहेतु: परास्तः" इति ॥

आनन्दमयस्य जीवत्वमेव, नतु ब्रह्मत्वम् ; पुच्छस्पैव तत्वा- दिति मन्वानानामद्वैतिनां वादास्तु-(१) पुच्छब्रह्मण एव तस्यैष एव शारीर आत्मे"ति सर्वान्तरात्मत्वेनोपदेशात् आत्मशब्दम- भिप्रेत्यैव पुंलिङ्गगयोगेण "सोऽकामयते"ति तच्छव्दस्यापि पुच्छ- परामर्शित्वस्यैव योग्यत्वात्, (२) प्राणमय-मनोमय-विज्ञानमयेषु स्वातिरिक्तैरेव शिर:पक्षादिरूपणेनानन्दमयेऽपि तदतिरिक्तेनैव तन्निरूपणस्थैव योग्यत्वात्, (३) आनन्द्मयब्रह्मतायामानन्द्मग्न-

Page 170

१६० श्रीभाष्य समालोचनम्

ब्रह्मणो: समुदायावयवभावाभावात् क्थचन पुच्छशव्दयोध्यत्व मात्रेणैव ब्रह्मण आधारतया पुच्छत्वस्य विवक्षणीयत्वेन षष्ठ्या- अप्येवमेव स्वारस्यात्, (४) बद्ध-मुक्तसाधारणजीवव्याधृत्तेनानन्द- मयपदेन वारणं यदा मन्यते, तदा मुक्तानामपि निरतिशयानन्दस- द्वावासङ्गावशङ्का, तैर्व्यवस्थापनीया, न च सा मुक्तृष्ठ्यापि संभव- तीति निर तिशयानन्देऽपि सदसद्गावशङ्काSसंभवेन, ब्रह्मानन्दशब्दयोः पर्यायत्वेऽपि कुत्राप्यानन्दमयशब्दस्योभयसंप्रतिपन्नतया ब्रह्मपरत्वा- भावेन ब्रह्मनन्दमयशब्दयोः पर्यायत्वासंभवेन चानन्दमयस्य श्लो- काप्रतिपाद्यत्वात्, प्रत्युत "मान्त्रवर्णिकमेव च गीयते" इति सूत्रेण नपुंसकब्रह्मण एव गीयमानत्वेन इलोकप्रतिपाद्यत्वव्यवस्था- पनात्, (५) "अन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्दमया मे शुद्धयन्ताम् " इत्यत्र मेपदस्य स्वारस्येनावस्थाविशेषापन्नजीवस्यै- वान्नमयादेरिव शोध्यत्वावगमेन वस्त्वनुरूपत्वेऽपि शोध्यत्वस्पान्न- मयादिसाधारणस्यैव तस्य विवक्षणीयत्वेनानन्दमयब्रह्मतायां तद्विरोधात्, (६) स्वरूपचैतन्यमात्रस्यैव ज्ञेयत्वेन पुच्छत्वस्य रूपणाभावेन "पुच्छत्वस्येव"इति दृष्टान्तासंप्रतिपत्या "आत्मश- ब्दाच" इत्याध्यानायाधिकरणगुणसृत्रेण ब्रह्मणोऽवयवविधया रूपण- स्याभावेन दार्ष्टान्तिकस्याभावेन चाधिष्ठानलक्षणया पुच्छत्वेन निरू- पणसंभवेऽप्यवयवितया रूपणासंभवात्, (७) "तस्यैष एव शारीर आत्मा। यः पूर्वस्य" इति वाक्यस्य पर्यायान्तरेष्विव स्वपर्याय- प्रतिपाद्यावयविनोऽप्यन्तरस्यात्मान्तरस्य व्यवस्थापनेन पुच्छब्रह्म- सर्वान्तरतायामेव स्वारस्येन तस्यानन्दमये प्रवृत्त्यसंभंवात्, (८) बृहदारण्यकचतुर्थाध्यायगतैतत्सजातीयानन्दमीमांसाया इव निरति- शयशिरस्कानन्दाभ्यासस्य "स एको ब्रह्मण आनन्दः" इत्येतद- न्तस्य समष्ट्यानन्द्मयविषयकत्वेन ब्रह्मविषयकत्वाभावस्य स्पष्टं

Page 171

श्रीमाष्यसमालोचनम् १६१ जिज्ञासाधिकरण एव वेदान्तरक्षामणौ व्यवस्थापनेन ब्रह्मविषय- कत्वाभावेन तस्यानन्दमयब्रह्मताऽसाधकत्वात्, (९) अनन्दयितृत्वा- भयहेतुत्व-प्राप्यत्व-निरुपाधिक विपश्चित्वादीनां पुच्छब्रह्मण्येव स्वार- स्याब पुच्छं ब्रह्मैव प्रधानम्, नानन्दमयः; आनन्दमयस्य मयडन्त-

दियोगप्रयुक्तशारीरत्वा दिभिर्जीवत्वस्येव योगात्-इति। माण्डक्यश्रुत्येकवाक्यताप्यानन्दमयजीवतायामेव भवति- नतु तद्ब्रह्मतायामिति तु युक्त्यन्तरम्। तथाहि-

क्यतया, किन्तु माण्डूक्यश्रुत्येकवाक्यतयापि तैत्तरीयोपनिषद आनन्दमयाधिष्ठानशुद्धतुरीयचैतन्यपरत्वम्। तत्रहि-"सर्वें हंतद् ब्रह्मायमात्मा सोऽयं चतुष्पात्। जागरितस्थानो बहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुक्वैश्वानरः प्रथमः पादः। स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीय: पादः । यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति, तत्सुपुप्तम्। सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुकू चेतोमुखः प्राज्ञस्तृतीय: पादः। एष सर्वेश्चर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययी हि भूतानाम्। नान्त:प्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्। अदृष्टमव्यवहार्यमलक्षणमचिन्त्यमत्यपदेश्यमेकात्म- प्रत्ययसारं प्रपश्चीपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते। स आत्मा स विज्ञेयः"इति चतुष्पादात्मेति विभज्यानन्दमयस्य तृतीय- पादत्वं प्रतिपाद्य तुरीयस्यैव ज्ञेयात्मत्वं प्रतिपाधते। तत्र तुरी- यस्य-"न प्रज्ञम्" इति तृतीयानन्दमयभिन्नत्वम्" एकात्मप्रत्यय- सारमिति सर्वान्तरत्वम्, "प्रपश्चोपशममि"ति सर्वप्रपश्चाधिष्ठानत्वं २१

Page 172

१६२ श्रीभाष्यसमालोचनम्

प्रतिष्ठारूपं पुच्छपद्लक्ष्यम् "अद्वैतम्"इति वाङ्मनसागोचरत्वम्, शिवमित्यानन्दरूपत्वमेव, न त्वानन्द्मयत्वम्, "अलक्षणम्" इति शिर:पक्षादिराहित्येन निरवयवत्वेन निर्धर्मकत्वेन वा स्वस्वरूपाति- रेकेण केनचन धर्मेणालक्ष्यत्वं च प्रतिपादते। अनेन च पुच्छमेव ब्रह्म तैत्तरीयोपनिषदर्थस्तुरीयपादतया माण्ड्क्यश्रुत्यापि निरूप्यत इति विशदीक्रियते। अयं चार्थो वेदान्तसारे-अन्नमया दिकोशानां पादत्रये व्यष्टि- रूपेण समष्टिरूपेण चान्तर्भाव इति विवेचनेन विशदीक्रियते। तत्र प्रथम: पादोऽन्नमयकोशावच्छिन्नो जीवो जागरितावस्थः, द्वितीय: पाद :- प्राणमय-मनोमय-विज्ञानमयाख्यकोशत्रयपद्वाच्य- सृक्ष्मशरीरावच्छिन्नः समावस्थो जीवः, तृतीय: कारणशरीराख्यानन्द- मयकोशावच्छिन्नः सौषुप्तो जीवः, तुरीयं तु शुद्धचैतन्यमति प्रतिपादनात् माण्डूक्य-तैक्षरीययोरैकार्थ्यमेव व्यवस्थाप्यते। अत्रच कारणम्-तृतीयपादे आनन्दमयपद प्रयोगेणानन्दमयवाक्येनैकाथ्यँ- प्रत्यभिज्ञानमेव। सति चैवमुपनिषत्त्रयस्याप्यकार्थ्यमानन्दमयब्रह्म- तावादे न संभवति, किन्तु पुच्छब्रह्मतावाद एवेति, ततोऽपि पुच्छ- ब्रह्मवाद एवौपनिषदानां शरणीकर्तव्यः ; "आनन्दमयोऽभ्यासात्" इत्यादिसूत्राणामपि सर्वेषामत्रैव सार्थक्यम्। एतेन-कण्ठतः सूत्रकृदुत्तेपु हेतुपु न कश्चिदपि त्वदभीष्टसाधकः । संभवत्येकवाक्यत्व इत्यपि ममैवानुकूलम्; एकवाक्यतया महाप्रकरणस्या नन्दमयपरतयैव योजनसंभवादित्यादि-परास्तम्। यथाच कस्यापि सौत्रहेतोर्मतान्तरे न समन्वयः एव, स्र- सार्थपरित्यागेनाभ्यासादिपदानां लाक्षणिकार्थत्वेन सौत्रहेतूनां नयनं च, तथा बहुशः पूर्वसुपपादितम्। तथाच बहूनां पदानां सौत्राणां प्रतीयमानार्थपरित्यागेन लाक्षणिकार्थग्रहणापेक्षया

Page 173

श्रीभाष्यसमालोचनम १६३

"आनन्दमयः"इति पक्षनिर्देशपरस्य लाक्षणिकार्थवर्णनमेव वरम्।

अत एव-"लोके येष्वर्थेषु प्रसिद्धानि पदानि, तानि सति संजवे तदर्धान्येव सूत्रेष्वप्यवगन्तव्यानी"ति वाक्ये भगवता शबरस्वामिना "सति संभवे" इति प्रयुक्तम्। अनेनासति संभवे सूत्रेष्वपि लक्षणादिकमध्याहारादिकं वाडङ्रीकर्तव्यमेवेति सृच्यते। विशदीतकृश्चायमेवार्थः कुमारिलपादैरपि इलोकवार्तिके बहुतर- सृत्रेष्वध्याहारादिनैव व्याख्यानमिति तत्तदुदाहरणप्रपश्चनेन । युक्तं चैतत्। सन्दिग्धार्थनिर्णयार्थानि हि सूत्राणि। न त्यानन्दमयपदार्थे विज्ञानमयान्यत्वादौ संशयलेशोऽपि, इति न तदर्थनिर्णयार्थ- मधिकरणमपेक्षामहे।

तिपत्तिनिवारणपूर्व कमनन्यथा सिद्धप्रमाणान्तर सधीचीनतर्कसाचिव्येन वि- शदीकरणार्थ प्रवृत्ते परमर्पिवेदव्यासविहिते सूत्रजाले तुल्यबलेदश- व्याख्यानान्तरविरोधगन्धा हिते आकाश-प्राण-ज्योतिगद्यशपोत्तराधि- करणेष्विवानन्दमयं ब्रह्मेत्येवं तत्तत्सूत्रस्वरसप्रतिपन्नार्थस्य बाधकल्पना- योग इति-परास्तम्।

न्यायनिबन्धनपरे सूत्रे न्यायस्वरूपे लक्षणादिकल्पनमेव हि दोष:, नतु विषयवाक्यनिर्देशपरे भागे; तस्य सन्दिग्घांशमात्रोप- स्थापकत्वात्। अत एव-"अन्तस्तद्वर्मोपदेशात्" इत्यन्तःपदमात्रं विषयवाक्यस्य सर्वस्योपस्थापकं निर्दिश्यते, नतु "य एषः" इति पद्द्वयर्ाप, घदर्थ एव मुख्यतया निर्धारणीयः। आकाश-प्राण- ज्यतिःपदेषु तु यद्यपि तदर्थ एव निर्धारणीयः; तथापि नायं नियम :- यत् सन्दिग्धं पदमेव प्रथमाध्यायप्रथमपादे निर्दिश्यते इति। नहि- "अथातो 'ब्रह्मजिज्ञासे'त्यारभ्येक्षत्यधिकरणान्तेषु तथा निर्देशो

Page 174

१६४ श्रीभाष्यसमालोचनम्

वर्तते; तत्र यथा सामान्यतः छान्दाग्यगताध्यायविशेषो व्यव- स्थाप्य :; एवमानन्दमयाधिकरणेऽपि तैत्तरीयगतानन्दवल्यर्थः सर्वोडपि निर्धार्यः । अत एव "मान्त्रवर्णिकमेव च गीयते" "कामाच नानुमानापेक्षे"त्यादिना सर्वमपि ब्रह्मवल्लीप्रकरणमत्रो- पक्षिप्यते, इति नात्रापि पदविशेषमात्रार्थो निर्धारणीयः; आका- शादिशब्दाना मिवानन्दमयशब्दस्य रूढत्वाभावात्। "आकाशस्त- छिद्रात्" इत्यादावप्याकाशादिपदं पूर्वपक्षसूचनार्थमेव। न ह्यत्रा- नन्दमयपदं पूर्वपक्षबीजम्। तथाच स्पष्टब्रह्मलिङ्गवाक्यसमन्वय- पादत्वादस्य न पद्विशेषार्थनिर्णयः प्रधानं लक्ष्यम्; प्रथमाध्यायचतुर्थ- पादार्थत्वात्तस्य। तत्रापि निर्णेयानि पदानि न कुत्रापि सूत्रेषु निर्दिश्यन्ते। तद्यथा-आनुमानिकाधिकरणे आनुमानिकपद्मेव वर्तते, नतु श्रुतिगताव्यक्तादिपदम्। एवं चमसाधिकरणेऽपि। तत्रापि हि न निर्णेयाजाशब्द; सूत्रकारैनिदिश्यते। एतेन-न संख्योपसंग्रहादि"त्यपि-व्याख्यातम; पश्चपश्चजनशव्दानुल् खात्। "कारणत्वेन चाकाशादिषु" इत्यादावप्येवमेव। सति चैवं यदर्थ- निर्णये सृत्रस्य तात्पर्य तस्पैव शब्दतो निर्देशः सूत्र इति नायं नियमः। एतेन-"प्राणस्तथानुगमात्" इत्यधिकरणमपि-व्याख्यातम्। नहि तत्र प्राणपदार्थमात्रं निर्णेयम्, किन्तु मांपदार्थोऽपि। तथाचैक- देशानुवाद: सूत्रे सर्वस्य वाक्यस्य प्रकरणस्य वोपस्थापनायेत्येव स्व्रीकतत्र्यम्। एवं चानन्द्मयपद्मपि तत्पर्यायोपस्थापकमित्येव, इत्यवचनसिद्धम्। आनन्दमयवाक्ये तु पूर्वोक्तरोत्या विज्ञा- नमयभिन्नत्वस्य सिद्धत्वात् न संशयः। पुच्छ ब्रह्मवाक्ये तु कथं पुच्छत्वं ब्रह्मण इति संशयो मतद्यसाधारण एव। तत्र चाभ्यासेन तात्पर्यंग्राहकप्रमाणेन तदविवक्षितत्वेऽथवाऽडघारलक्षकत्वे तद्वाक्य- स्य ब्रश्मसमर्पकत्वम्, अन्यथा तु प्रकारान्तरेण केनापीति वक्तव्यम्।

Page 175

श्रीभाष्यसमालोचनम् १६५

नचात्र प्रकारान्तरं किमपि सूत्रकारैः सृत्रितमिति प्रथमपक्ष एव सूत्राभिमन इति प्रतीयते। तथाच-सौत्रेण पदेन निर्णीत-सन्दि- ग्घांशद्वयघ टितवैदिकवाक्योपस्थापने सन्दिग्धांशपरत्वमेव सूत्रस्य। अतः प्रधानवेदाविरोघार्थ सूत्रान्यथानयनमपि न दोषाय। इयमेव हि नीतिः श्रीभाष्यकारैरपि सूत्रव्याग्यानावसरे सामान्यतः, विशिष्य च-"आनन्दमयोऽभ्यासात्" इति सृत्रगताभ्यासपद- विवरणावसरे चावलम्व्यते; तैरपि तत्र लक्षणाया एव सवीकारात्। आनन्दमयपदेन तदर्थस्थैव निर्णेयत्वमिति स्वीकारे हिन केवलं सौत्राभ्यासपदस्य, किन्तु-"असन्नेव स भवति" "तस्पैष एव शारीर आत्मा" "यतो वाचो निवर्तन्ते" "अन्नमय-प्राणमय- मनोमय-विज्ञानमयानन्दमया मे शुद्धधन्ताम्" "सौ वै सः" "आनन्दो ब्रह्मति' व्यजानात्" "सोऽशनुते सर्वान् कामान् सह। ब्रह्मणा विपश्चितेति" इत्यादिवैदिकवाक्यानामपि क्रिष्टकल्पन- याऽन्यथानयनं कर्तव्यं समापतति, पुच्छब्रह्मवादे तु केवलमानन्दमय- पदे पक्षपरे।

नयनं बादरायणानभिमनमि" ति-परास्तम्। श्रुतिविरोधे हि स्मृतिवाक्यानामप्यन्यथा नयने कैव कथा सूत्रंषु, इति श्रुत्यविरोधार्थ स्मृतिष्विव सृत्रेष्वपि लक्षणा न दोषः। इदमेवाभिप्रेत्य-"सति संभवे" इति प्रथमवाक्ये शबर- सामिना प्रयुक्तम्। भामत्यामपि-गुणे त्वन्याय्यकल्पनेति न्यायेन सूत्राणामेवान्यथानयनमिति। सत्यं ब्याख्यानतो विशेषप्रतिपत्तिरिति न्यार्यविदो मन्यन्ते, परंतु सन्देहस्थले एव। तत एव-"नहि सन्देहादलक्षणमि"ति वाक्यंशेष:। सूत्र तु व्याख्यानरूपं हेत्वंशे, न विषयवाक्यांशे;

Page 176

१६६ श्रीभाष्यसमालोचनम्

तत्रानुवादस्यैव स्वीकरणीयत्वात्। तथाचायं न्यायो हेतुपदलक्षणि- कतापक्षस्यैव विरोधी, नतु पक्षांशलक्षकतापक्षस्य। एवंच भवन्त एव भावयन्तु-के वा पारमर्षसूत्रव्याख्यानमपि महर्षिकर्तृकं निर्भयं परित्यजन्तीति। ब्रह्मसूत्रव्याख्यानेषु तु परस्परविरुद्धेषु न कर्तृगौरवमात्रेण स्वस्ाभिमतेन व्याख्यानविशेषप्राबल्यं निर्धारयितुं शक्यते। स्रसतः सत्रानुगुणं व्याख्यानं प्रबलम्, अन्यद् दुर्बल मित्येव स्वीकर्तव्यम्। स्वारस्यं च सूत्राणाद्वैतमत एवे- ति बहुशो निरूपितम्। यतोऽन्येषु व्याख्यानेषु पूर्वोक्तरीत्या बहवः श्रुतिविरोधा दृश्यन्ते। प्रदर्शिताइचैते पूर्वमेव। एतेन-कम्मिन्नंशे श्रुति-सूत्रयोर्विरोधो दृश्यते, येन 'गुणे त्वन्याय्य- कल्पने'ति न्यायोऽकाशेत, श्रुतावन्याय्यकल्पनाप्रसक्ौ किलैतन्न्याय- प्रवृत्तिरभिमतेति-परास्तम्। इदमेवाभिप्रेत्योक्तं परिमले-"पौरुषेयसूत्रविषये खायत्ते शब्दप्रयोगे किमर्थ श्रुतिविरोधभ्रमापादकसूत्रप्रणयनम्? इति तत्र लक्षणाध्याहारादिभिरनेकार्थप्रत्यायनम्"इति। अनेन चेदमेव ज्ञाप्यते-यत् "आनन्दमयोऽभ्यासात्" इति सूत्रादिकमधिकरण- मद्वैतपरमेवेति। अन्यथा हि-"तस्यैष एव शारीर आत्मे" त्यादिविपतिपन्नवाक्यानामन्यथानयनेन मतान्तरा भिमतविवरणस- मर्थनार्थमपि क्थं न सत्राणि रचितानि, इति तेषां यथाश्रुतार्थ परित्यागे कारणाभावात् सूत्रानारूढखतन्त्रकल्पनाप्राचुर्यात्, पूर्वोक्तरीत्योपनिषत्त्रायकवाक्यताभङ्गापत्तेश्च पुच्छव्रत्मवाद एव सूत्रकृदभिमत इति निश्चीयते। अभ्युपगम्यते हि श्रीभाष्यकारैः-सूत्रार्थनिर्णये विष्णुपुराण- मत्यन्तमुपकरोतीति। षष्ठांशषष्ठाध्यायगतानि वचनानि तुकानिचा- नाघ: संगृह्यमाणानि पुच्छब्रह्मवाद्मेवोत्तप्रकरणार्थ मन्यन्ते इति

Page 177

श्रीभाष्यसमालोचनम् १६७

विशदमिदं सर्वेषाम्। तथाच तदविरोधेन सूत्राणां योजनमेव समु- चितम्। तानीमानि विष्णुपुराणवचनानि- पशुभ्यो मनुपजाश्चाति शक्त्या पुंसो विभाविता: । एभ्थोऽपि नग-गन्धर्व-यक्षाद्या देवता नृप।।. शक्स्लमस्तदेवभ्यः ततश्चाति प्रजापतिः। हिरण्यगर्भोऽपि ततः पुंमः शक्त्योपलक्षितः ॥ एतान्यशेषरूपाणि नस्य रूपाणि पार्थिव। अमृर्त ब्रह्मणो रूपं यत तत्सदित्युच्यते तुधैः ॥ समस्तशक्तयश्चैता नृप यत्र प्रतिष्ठिताः ॥" इति ॥ अन्र "समस्तशक्तयश्चैताः" इत्यनेन "ब्रह्म पुच्छं प्रतिष्ठं" ति वाक्यमर्थतोऽनूदते। "अमूर्ते ब्रह्मणो रूपमि" त्यनेन तु "अस्ति ब्रह्मेति चेद्रेद सन्तमेनं ततो विदुरि"ति पुच्छब्रह्मशलो- कार्थ: संगृह्यते। पशुभ्य इत्यारभ्य-"एतान्यशेषरूपाणि" इत्य- न्तानि वचनानि हिरण्यगर्भान्तानां तत्कार्यत्वप्रतिपादनद्वारेण "सोडकामयते"ति वाक्यस्य सानन्दमयविकारहेतुत्वं प्रतिपाद- यन्ति। अत्र-प्रजापतितोऽधिको हिरण्यगर्भ इति स्पष्टं वर्ण नात्-"स एको ब्रह्मण आनन्दः" इत्यत्र हिरण्यगर्भस्य कार्य- ब्रह्मण एव ग्रहणम् , न मुख्यब्रह्मण इति सूच्यते। तथाच निरति- शशिरस्कतयाऽभ्यस्यमानत्वरूपः सौत्रो हेतुरपि हिरण्यगर्भपर्यन्त एव, नतु शुद्धब्रह्मपर्यन्त इति ज्ञाप्यते, इति तस्य मुख्यब्रह्मतासाधकत्वं न भवतीति सूच्यते। तथाच-"आनन्दमयोऽभ्यासात्" इति सूत्रस्यानन्द्मयब्रह्मतायां साघकत्वाभावो विष्णुपुराणवचनानामपि सम्मत इति प्रतीयते। अत एव-'तस्मात्समस्तशक्तीनामाधारे यत्र चेतसः । कुर्वीत संस्थिति सा तु विज्ञेया शुद्धधारणा॥"इति प्रकृतप्रकरणोपसंहार: पुच्छब्रह्मपदेन शुद्धं चैतन्यमेवेति ज्ञापयन्नुपप-

Page 178

१६८ श्रीभाष्यसमालोचनम्

धते, इति न केवलसुपनिषत्त्रयेण पूर्वोक्तविधया पुच्छब्रह्मवाद एकवाक्यता, किन्तु विष्णुपुराणेनापि। यत्र- "प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम्। वचसामांत्मसंवेद्यं तद् ज्ञानं ब्रह्मसंज्ञिनम्।।" इति प्रकृतमकरणोपक्रमेSवाङ्मनसगोचरत्वन निर्गुणमेव चैतन्यं प्रस्तूयते। तथाच-"यतो वाचो निवर्तन्ते" इत्यस्यापि प्रपश्चषा- धपर्यवसायितायामेव तात्पर्यमिति विष्णुपुराणमपि प्रमाणयति।

आन्तरो ह्यन्य एवायमात्माऽव्याकृतरूपधक्।" "यस्यावगमसंप्राप्त्यै कोशपश्चकमीरितम्। अस्य पुच्छं प्रतिष्ठेति तदेवोक्तं मनीषिभि: ॥" "आनन्दात्मानमात्माSयमात्मत्वेनाधिगच्छति। प्रजापतेः शतं ये स्युरानन्दा एक एव सः। भवेत् परम आनन्दो ब्रह्मण: सूत्ररूपिण: । अस्मात् परो न कोऽपि स्यादानन्दो देहिनामिह। आनन्दात्मानमराकाशं मुक्त्वा स्वयंप्रभम्।" इत्यात्मपुराणे "स एको ब्रह्मण आनन्दः" इत्यानन्दमया- त्मतामभिप्रेत्य सूत्रात्मैव ब्रह्मपदार्थ इति यद्विवेचितम्, इदमपि विष्णुपुराणगतम्-"शक्रस्समस्तदेवेभ्यः ततशचाति प्रजापतिः । हिरण्यगर्भोऽपि ततः पुंसः शक्त्योपलक्षितः"इति वचनांशमादायैव परवृत्तमिति विष्णुपुराणैकवाक्यतापन्नमेवात्मपुराणमपि पुच्छब्रह्म- वादमेवोसंपहरति। भगवान् वेदव्यासोऽपि-अग्निपुराणे-३७९ तमेऽध्याये- अहं ब्रह्म परंज्योतिर्जाग्रत्स्थानविवर्जितम्। अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम्॥

Page 179

श्रीभाष्यसमालोचनम् १६६

अहं ब्रह्म परं ज्योति: स्वप्नावस्था विवर्जितम्। अहं ब्रह्म परं ज्योतिस्तैजमादिविवर्जितम्॥ अहं ब्रह्म परं ज्योतिः सुषुप्तिस्थानवजितम्। अहं ब्रह्म परं ज्योतिः प्राज्ञभावविवर्जितम् ॥ जाग्रत्स्वप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकम्। • नित्यशुद्धबुद्धमुक्तं सत्यमानन्दमदयम्।। ब्रह्माह्मस्म्यहं ब्रह्म सविज्ञानं विमुक्त ओम्। अहं ब्रह्म परं ज्योतिः समाधिर्मोक्षदः परः ॥" इति माण्डक्यश्रुत्यर्थ संगृह्धान: प्राज्ञशब्दशब्दितानन्दमयेन ब्रह्मोपदेशसमाप्तिं वारयतीति सर्वविदितमिदम्। तथाच स्वयं बादरायणेनैवानन्दमयाब्रह्मतायाः पुराणेष्वपि साधनात् कथमेत- द्ूयाख्यानविरुद्धमन्येषां महर्षोणामपि विवरणं सृत्राणां समादतु शक्यम् ? पैङ्गलोपनिषदि "द्वितीयाध्यायेऽपि-अन्नमय-प्राणमय-मनो- मय-विज्ञानमयानन्दमयाः पञ्चकोशा इत्युपक्रम्य-"स्वरूपाज्ञानमा- नन्द्मयकोश:, तत्कारणशरीरमि"त्यादिना विश्व-तैजसादिभेदेन भिन्नः व्यष्ट्यात्मक: समष्ठ्यात्मकश्च जीव एवानन्दमय इति विशदं प्रतिपादते। न केवलं पैङ्गलोपनिषदि, किन्तु सर्वसारोपनिषद्यपि पश्चकोश निरूपणप्रकर णमस्यार्थस्योपष्टम्भकमेव। सुबालोपनिषद्पि- द्वितीयानुशासनान्ते-"नान्तःप्रज्ञो न बहिःप्रज्ञो नाभयतःप्रज्ञः न प्रज्ञानघनो न प्रज्ञः" इत्यादिना माण्डरक्योपनिषद्मेवानुकरोति, इति साप्यात्रानुकूलैव। यथाच-"प्रियशिरस्त्वाद्यप्राप्तिरुचयापचयौ हि भेदे"इत्या- दिसृत्राणामप्यद्वैतमत एव स्वारस्यम्, तथा पूर्वमेवोपपादितम्। यत्तु-अद्वैतमते निर्भेदे ब्रह्मणि प्रिय-मोदा दिस्वरूपमान्नसम्बन्ध- . २२

Page 180

१७० श्रीभाष्यसमाळोचनम् स्थापि निर्भेदत्वविरोधित्वेनानिष्टतयोपचयापचयरूपशिरआदि- गतधर्मपर्यन्तानुधावनं विफलमेव, न केवलमिदम्, किन्त्वद्वैतमते प्रियशिरसत्वादीनामानन्दमयपदवाच्यजीवसम्बन्धित्वेन पुच्छब्रझ्मा- सम्बन्धात् कथं प्रियशिरस्त्वादीति सूत्रोत्थानमिति परपक्षनिराकृति- कारा :- वदन्ति,तत्रेद मेवास्माकं वक्तव्यम्, यत्-श्रीभाष्यमतेऽपि- "आध्यानाय प्रयोजनाभावात्" इत्यत्र तदुक्तरीत्या प्रियशिरस्त्वदी- नामानन्दमयब्रह्मतायामपि ब्रह्मसम्बन्धाभावस्येव सम्मतत्वात् उपच- यापचयरूपशिरआदिगतधर्मपर्यन्तघावनवैफल्यम्, एवमानन्दमयब्र- ह्मासम्बन्यात् प्रियशिरत्वाद्यप्राप्तिरिति सतानुत्थानं च दृषणं समानमेव, इति "यश्चोभयोः समो दोषो न तत्रान्यतरः पर्यनुयो- ज्यः" इति न्यायेन नोक्तदूषणापादनं बाघकम्। तत्र यदि ब्रह्मणो बुद्धावारोपार्थमेव तद्रूपणम्, तर्श्त्रापि तत् समानमेव। तथाच सत्त्वादीनामिव कल्पितत्वाविशेषेऽपि तद्धर्मिस्वरूपत्वाभातादू नोपसंहार इति बोधनेनाद्वैतमते तत्सूत्रसाफल्यादिकं संभवत्येव।

एतेन-कोशघर्मत्वाविशेषात् प्राणशिरस्त्वाद्यप्राप्िरपि किमिति न साध्यते इति शक्कापि-परास्ता।

प्राणशिरसत्वादिकं तुन ब्रह्मप्रतिपत्तौ मुख्यतयोपयुज्यते, प्राणमयादन्यस्यात्मन उपदेशात्, इति परैरपि वक्तव्यम्, अन्यथो- क्तस्य पर्यनुयोगस्य तैरप्यसमाधेयत्वात। प्रियशिरसत्वादिकमेव खलु ब्रह्मप्रतिपत्तौ साघनं मन्यते। तत्र ब्रह्म यद्यानन्द्मयः, यदि वा पुच्छं ब्रह्म, उभयथापि समान एव प्रियशिरस्त्वाद्यप्राप्तिविचारः, इति न तेनाघिकरणेन कोऽपि विशेषो मतान्तरे। सर्वथा स्वा- नन्द्मयव्रह्मतावादो न क्षोदक्षमः, इति पुच्छब्रह्मतावाद एव समुचित:।

Page 181

श्रीभाष्यसमालोचनम् १७१

एतेन-प्रियशिरस्त्वादयो ब्रह्मसम्बन्धित्वेनानन्दवल्ल्यामुक्ता:, इत्यानन्दादीनामिव तस्य प्रसक्त्याम, नानन्दादिवदेते वस्तुतो श्रह्मधर्माः; तथासति ब्रक्मणः स्थूलत्वकृशत्वादिप्रसङ्गात्, अपितु ब्रह्मणः पुरषविधत्वरूपणानुगुण्येन तद्वयवत्वेन कल्पितप्रियादिषु शिरस्त्वादं- योऽपि कल्पिता, इति 'न तेषां प्राप्तिप्रसक्तिः' इति प्राप्तिनिषेधः कर्तव्य इति स्वमते तत्साथक्यप्रकारवर्णनमपि-परास्तम। अव्वैतमतेऽपि हि प्रियशिरस्वादयो पुच्छब्रह्मणो रूप- णानुगुण्येनैव वर्णिताः, आनन्दवल्ल्यां च प्रतिपादिता इति हि समानमेव सर्वमपि। तथाच नाघिकरणान्तरपर्यालो- चनयापि पुच्छब्रह्मवादाभिप्रायः सत्रकाराणां वारयितुं शक्यते, प्रत्युन तत्रैव बहुतरश्रुतिपुराणाद्येकवाक्यतया पूर्वोक्तविधयाSSनन्द- मयाधिकरणसार्थक्यस्यान्यथाSसंभवाच सूत्रकाराणां हृदयमिति गम्यत इति सिद्धम्। तदिदं सर्व मनसि निधायैव ब्रह्मविद्याभरण- कारा: पुच्छब्रह्मवादं तत्तादृशग्रन्थान्तरानुक्तकारणविशेषाणामप्यु- ल्लेखेन समर्थयन्ति। अत्र प्रसभ्गात् तदीयान्यपि वाक्यानि संगृ- ह्न्ते। तदयं संग्रह :- (१) आनन्दमयादन्यस्य कस्यचिदन्तरस्यात्मन आन्नानाभ- वात् न तस्य सर्वान्तरत्वसिद्धिः; "तस्यैष एव शारीर आत्मा" इति तस्याप्यन्तरस्य निरूपणात्। तथाच तत्रैव सर्वान्तरत्वाकाशका- रणत्वादिकमपि पर्यवसाययितुं शक्यते। अत एव मान्त्रवर्णिकत्य- मपि तस्यैव। (२) वस्तुतस्तूपक्रमोक्तं ं गुहानिहितित्वं न ब्राह्म्मेण रुपेण, किन्तु जैवेन, इंति तस्यानन्दमये पर्यवसानं तस्य जीवत्वमेव साघयेत्। तत्र परमव्योमशव्दस्य भृगुवल्ल्यां सप्रपंचं ब्रह्मस्वरूपं निरूप्य- "सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता"इति संग- मनात् परमेश्वरपरत्वम्, इति परमव्योमाश्रितं मुहानिहिर्त रूपं

Page 182

१७२ श्रीभाष्यसमालोचनम्

जैवमेवेत्यास्थेयम्। तथाचेद्मेव जैवं रूपमानन्दमयपदेनोपस्थाप्यत इति युकतं प्रतिपत्तुम्। अत्रापि "ब्रम्म पुच्छं प्रतिष्ठा"इति प्रति- ष्ात्वोक्त्याSSनन्द्मयस्य ब्रह्माश्रितत्वोक्त्या तदेवेद्मिति हि प्रत्य भिज्ञायते। (३) वुद्धधु पाधिको जीवो विज्ञानमयः, अज्ञानोपाधिक- स्त्वानन्दमयः, इति विवक्षोपपत्तेविज्ञानमयाद् जीवादन्यत्वेन निर्दे- शादानन्दमयो व्रह्मेति साधनमपि न घटते, "घोऽयं विज्ञानमयः प्राणेषु" इति विज्ञानमयशब्दस्येव-"सुषुप्तस्थान एकीभूतः प्रज्ञा- नघन एवानन्दमयः" इत्यानन्दमयशन्दोऽपि हि जीवपर एव दृशयते। अत्र हि सुषुप्तलिङ्गाद् जीव एवानन्दमयः । (४) आनन्द्मयस्य ब्रह्मत्वाभ्युपगमे "ब्रह्म पुच्छ" मित्यु- क्तिस्ारस्यसिद्धं तस्याब्रह्मत्वं बाध्येत, तदपेक्ष्य "ब्रह्मविदाप्ोती"ति प्रकृतम्रह्मप्रत्यभिज्ञानात् ब्रह्मणः सप्राधान्यसिद्धये पुच्छपद् प्रयोगा- वगतमप्राधान्यमेव वाघितुं युक्तम्। (५) प्रकरणं चेदम्-"यतो वाचो निवर्तन्ते" इति वाक्य- वशादू निर्विशेषपर मित्युक्तार्थ एवाभ्युपगन्तव्यः, नानन्दमयप्राधान्यं तद्डुपासनं घा। अत्र वाच इत्यस्य मतान्तर एव संकोचो नाद्वैतमते। उपक्रमप्रतिज्ञातानन्त्योपपादकतया प्रवृत्तेन सष्टिवाक्येन सष्टितद्ु- पयुक्तगुणप्रतिपादने वस्तुपरिच्छेदप्रसक्त्या सृष्टिवाक्यस्य स्वापवाद- वाक्यापेक्षणात् तद्नुगुणापवादपरत्वमेव "यतो वाचः" इत्यस्य युक्तम्। (६) "ब्रह्मविदाप्रोति परम्" इति वाक्ये आमोतिपद भवत्यर्थकमेव; ब्रह्म वेद ब्रह्मैव भवती"तिश्रुत्यन्तरात, इति नोप- क्रमो भेदपरः। अतः प्रकरणस्योपक्रमोपसंहाराभ्यां निर्विशेषपरत्वा- ध्यवसायात् अभ्यासाच पुच्छब्रह्मण एव प्राधान्यं स्वीकर्तव्यम्-इति।

Page 183

श्रीभाष्यसमालोचनम् १७३

अत्रेदं परपक्षनिराकृतिकारा वदन्ति- "तस्येष एव शारीर आत्मा" इत्यस्य पूर्वोक्तरीत्याऽद्वैताभिम- तार्थसाधकत्वायोगः । पूर्वस्य=अन्नमयस्य जनक आत्मैय तस्य प्राण- मयस्यापि जनक इति विवरणं तु घटस्य दण्ड इत्यादिप्रयोगाभांवेन षष्ठया अन्यजनकभावेऽप्रयोगात् न संभवति; अन्यथा-पूर्वस्य=आन- नदमयस्य जनक एव तस्य पुच्छब्रह्मणोऽप्यात्मा, य एष इति पुच्छश्रह्मणोऽ- प्यन्तरात्मनिरूपणप्रसङ्गः । प्रमाणान्तरानुरोधेन ब्रह्मण आत्मान्तराभावे तु आनन्दमयस्यापि स समान एवेसि।

अयमत्राद्वैतिनां समाधानप्रकार :- यत् "तस्यैष एव शारीर आत्मा" इत्यस्य पुच्छव्रत्मवाद एवानुगुण्यं पूर्योक्तरीत्यैव। सर्वकार- णत्वादात्मनः कारणस्यैव तस्यात्रात्मपदेन परामर्शेन च देवदत्तस्य पितेत्यादाविव जन्यजनकभावेऽपि षष्ठ्यु पपत्तिः। तस्यपदेनानन्द- मयस्यैव ग्रहणम्, नतु पुच्छब्रह्मण :; तस्य-पूर्वस्यपदाभ्यां प्रक्रम्य- माणव्यतिरिक्तयो: पूर्वतनयोरेव पर्यायान्तरेषु विवक्षणात्। तथाच- पूर्वस्य विज्ञानमयस्य जनक एवायमात्मा पुच्छब्रह्मपदबोध्य: आन- न्दमयस्यापि जनक इत्येवार्थो विवक्षणीय इति न पुच्छब्रह्मणोऽपि जनकस्यात्मान्तरस्यात्रोपदेशप्रसङ्गः। तथाच-तस्येष आत्मा यः पूर्वस्येति वाक्यान्यथानुपपत्तिरानन्दमयाव्रह्मतायां प्रथमं निमिस- मिति ब्रह्मविद्याभरणोक्तं साधीय एव। ब्रह्मणो जैवव्रह्मात्मकरूपद्वये प्रमाणाभावः, उपक्रमे वेदनकर्तृत्वेन प्रस्तुतस्य तस्य तत्कर्मत्वायोग: अत एन-"यो वेद" इति तस्मिन्नेव वाक्ये जीवस्य कर्तृत्वेन परामर्श उपपथ्ते। परमव्योमपदस्य श्रह्मपरत्व- मपि न.कुत्रापि दश्यते। अत्र प्रकरणेऽपि-"परमे व्योमन्" इत्यस्य हृदया- काशपरत्वमेव शङ्करभगवत्पादा अपि मन्यन्ते। अस्तु वा भार्गवविद्यायां परमे-व्योमन्पदयोः ब्रह्मपरत्वम्, प्रकृतेतु-परमे व्योमन्नित्यस्य नोत्ता- र्थपरत्वम्। अन्यथा-अनेन वाक्येन ब्रह्मणो जीवाश्रयत्वे प्रतिपादिते, "विज्ञानमयादन्योऽन्तर आत्मा" इत्यत्रापि विज्ञानमयपदवाच्यजीवाश्रय-

Page 184

१७४ श्रीभाष्यसमालोचनम्

त्वमानन्दमयस्य प्रतीयते, इति प्रत्यभिज्ञाबलादानन्दमयस्य ब्रह्मत्वमेव सिद्धयेत्, न जीवत्वम्। विज्ञानमयपदं हि बहुषु श्रुतिषु जीवे प्रयुज्यत इति तस्य न जीवपरत्वमिति वादो न योग्यः । स च जीवो न बुद्धयु- पाधिक इत्यन्यदेतत्। आनन्दपदस्याज्ञानरूपोपाधिपरत्वं तु परिहसनी- यमेव। आनन्दमयपदंतु-"आनन्दमयो ह्यानन्दभुक " इत्यत्रापि परमा- त्मपरमेव; "एष सर्वेश्वरः"ति वाक्यशेषात् , सुषुप्तिसंम्बन्धस्तु आनन्द- मयस्य परमात्मन एव जीवाभेदाप्रायेणेति संभवात्। "आनन्दं ब्रह्मणः" इत्यादिवाक्यानुमारेणानन्दसम्बन्धस्य ब्रह्मण्येवावगमेनानन्दमयशब्देन त्रह्मण एवोपस्थितेश्च। तथाच विज्ञानमयाद् भेदकथनमानन्दमयस्य जीवातिरिक्तत्वं साधयत्येवेति तु तेपां द्वितीययुक्तिनिरासप्रकारः ।

अद्वैतिनां स्वपक्षसाधनप्रकारस्त्वयमेव-"तञ्च सर्वमिदं विशवं जगदेतचराचरम्। परमन्रह्मसवरूपस्य विष्णोः शक्तिसम- न्वितम्। विष्णुशक्ति: परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा"। इति विष्णुपुराणषष्ठांशसप्तमाध्यायवचनं हि परमात्मनो जैव ब्रात्मा- मकरूपद्ये प्रमाणम्। "ब्रह्मविदि"ति वेदनकर्तृत्वेन प्रस्तुतस्तु विशि- परूप:, कर्मत्वेन निर्दिष्टस्तु तुरीयरूपः। तस्यापि हि गुहानिहि - तत्वं विशिष्टस्य जोवस्यापि गुहापदार्थत्वस्यैव तैत्तिरीयश्रुती विवक्ष- णात् न विरुद्म्। तथाच संसारी जीवः खस्यासंसारिरूपं जानन् मुक्तो भवतीति वाक्यार्थः। सति चैवमानन्दमयस्यापि जीवत्वमभिप्रेत्यैव-"परमे व्योमन् प्रतिष्ठिते"ति वाक्यम्। अत्र 'परमे व्योमन्' इत्यस्येव ब्रह्मपरत्वं भवतु, अथवा परमपदस्य; सर्वथातु अद्वैतानन्दरूपे प्रतिष्ठा तु भगवत्पाद्सम्मतेति तुन विप्रतिपन्नमि- दम्। तथाच-"यो वेद निहितं गुहायाम्" इति जीवाश्रयत्वं ब्रह्मणो बोधनीयमेव। सत्यप्येवं यथाऽऽन्नमयगुहात्वे तदन्तरस्य तदाश्रयत्वम्, एवं विज्ञानमयान्तरस्थानन्दमयस्यापि तदाश्रयत्वं तु सिद्धमेव। एवमपि-प्राणमयादोनामिव नानन्दमयस्यापि परमात्म-

Page 185

श्रीभाष्यसमालोचनम् १७५

त्वम्। न हाद्वैतिनोऽपि प्राणमघ-मनोमय-विज्ञानमयान् सप्नावस्थं जीवं मन्वाना विज्ञानमयजीवत्वे विवदन्ते। नहि तावताऽडनन्द- मयपरमात्मत्वं सिद्ध्च्ति; तस्य विज्ञानमयजीवव्यतिरिक्तस्थैव सौषु- धनीवत्वस्य तै: स्वीकारात्। न धद्वैतिनो गुहानिहितमित्यत्र जैवरूपेणेत्यध्याहारं मन्यन्ते; तस्य वस्तुम्थितिप्रदर्शनमात्रपरत्यात्।

परत्वमेव साक्षात्, आत्मपद्सामानाधिकरण्यात्तु तद्ुपहितस्यापि तेन पदेन व्यवहार इति व्यक्तम्। अधिकं वेदान्तसारादौ द्रष्ट- व्यम्। तथाच-आनन्दमयपदस्यैदाज्ञानपरत्वम्, तदुपहितत्वात्तु सौषुप्तजीवस्याप्यात्मपद्सामानाघिकरण्येन। तथाच-आनन्दपद- स्यांज्ञानपरत्वं नाद्वैतिनो मन्यन्ते, इति के वात्रोपहसनीया इति भघन्त एव विभावयन्तु। न द्वैतिनोऽन्नादिविकारत्वं जीवस्य स्वीकुर्वन्ति, इति विकारार्थकत्वं मयटो न जीवत्वव्यवस्थापनाय, रकन्तु तद्ुपाधिविशेषनिर्धारणायैव। उपाध्युपहितयोस्तादात्म्यासु तत्पदेन व्यवहार :- यथा 'देवदत्तोऽहं जानामी'त्यादौ। घटाकाश- योस्तु न तादात्म्यम्, इति न घटपदेनाकाशग्रहणापत्ति: । तथाच गुहास्वरूप निरूपणं मयडन्तेन पदेन विज्ञानमयपर्यन्तेन वाक्येन यदा विवक्ष्यते, तदाSSनन्दमयपद्मात्रे मयडन्ते क्थं न गुहास्वरूपपर- त्वम् ? तथाच-मयडर्थो विकारो वा प्राचुर्य वेति विचारस्यैव नात्र प्रसङ्ग इति तु वस्तुस्थितिः । न्यायरक्षामण्यादौ भाष्यादौ च तत्रापि जीवपरत्वादिव्यवस्थापनं तु अभ्युपगमवादेनैव। "आननद- मयो ह्यानन्द्भुकु " इत्यत्राप्यानन्दमयशब्दस्य जीवपरत्वमेव। "एप सर्वेश्वरः" इति तदभेदाभिप्रायेणैव। नहि जोवघर्मेण पर- मात्मनो व्यवहारः, इति हि "भोक्त्रापत्तेरि"त्यादौ व्यक्तम्। अतः सुषुप्तसम्बन्धो मतान्तरे न कथमपि संभवति ; अन्यथा-परमा-

Page 186

१७६ श्रीभाष्यसमालोचनम्

त्मन एव तृतीयपादत्वमवि स्वीकर्तव्यं स्यादिति तुरीयपादोऽनिरुपित एव स्यात्, इति व्यष्टिरूपेण समष्टिरूपेण व जीव एव तृतीय- पाद इत्यवश्यमूरीकर्तव्यम्। एतेन-प्राज्शब्दस्य परमात्मन्येव- "प्राज्ञवत्" इत्यादिस्थले विवक्षेति-परास्तम्। यथाच ज्ञप्तिमा- त्रस्य जीवस्य प्राज्ञत्वेन व्यपदेशः, तथाऽन्यत्र व्यक्तम् एतेन-"उपक्रमानुसारेण हि सापेक्षोपसंहारस्थानन्यथा नयनम्, न तूपसंहारानुसारेणोपक्रमस्य, येन-सुषुप्तेर्जीवद्दा राऽन्वयोपगमे बाघकाभाव इति-परास्तम् ; आनन्द एव हि ब्रह्म, नानन्दमयम् ; "आनन्दो ब्रह्मेति व्यजानात्" इति गुरुशिष्यसंवादादिना प्रवृत्तेऽज्ञातार्थबोधनेनोपदेशरूपे विधि- कल्पे च वाक्ये लक्षणाया "न विधौ परः शब्दार्थः" इति व्याये- नान्याय्यत्वात्। एतेन-"आनन्दं ब्रह्मणो विद्रानि"ति वाक्यमपि व्याख्यातम् ; विद्वान्-पर्यन्तस्यानुवादत्वेनाभेदषष्ठैघव तस्य नेय- त्वात्। एतेन-उपक्रमानुसारेण न सर्वेश्वरादिपदस्वर सार्थस्त्यक्तुं योग्य इत्यादि-परास्तम्; "एष सर्वेश्वरः" इति प्रतिपादितसर्वे- श्वरतादात्म्यस्याद्वैतमते आनन्दमयपदेन जीवविवक्षायामप्यबाधेना- न्यार्थकल्पनाभावात्। यदि तु-'एष सर्वेश्वरः" इत्यादिवाक्यशेषवशात् उप- क्रमविरोधेनापि माण्डूक्योक्त आनन्दमयः परमात्मैवेति मन्यते, तर्हि तुल्ययुक्त्या तैत्तिरोयोपनिषद्यपि "तस्यैष एव शारीर आत्मे" त्यादिवाक्यशेषवशेन परमात्मनोऽतिरिक्त आनन्दमयो न ब्रह्म भवि- तुमर्हति। यथाच-"तस्पैष एवे"तिवाक्यस्य भवदभिमतार्थानां सर्वे- षामानन्द्मयव्रह्मतासाधकानां न प्रसङ्ग:, तथा पूर्वमेव विवेचितम्। एतेन-तद्राक्ययोजनाविषये संभावितानां पक्षाणामेकस्यापि नाद्वैताभिमतार्थसार्थकत्वसंभव इति-दत्तोत्तरम्।

Page 187

श्रीभाष्यसमालोचनम् १७७

अभ्युपगम्य-"एष सर्वेश्वरः" इति वाक्यस्यानन्दमयपरत्व- मानन्दमयस्य तैत्तरीयगतस्य जीवत्वं व्यवस्थापितम्। वस्तुतस्तु- "एष सर्वे्वरः" इत्यस्य नानन्दमयविषयत्वम्, तस्य "नान्त:प्रज्ञमि" त्युत्तरवाक्येनैवान्वयेन चतुर्थपादरूपपरमात्मपरत्वात्। नहि पर- मात्मा तृतीय: पादः; प्रथमद्वितीययोर्जागरितस्वन्नावस्थागतयो- रिव सुषुप्तावस्थागतस्यापि जीवत्वस्यैवोचितत्वात् 'त्रिकालातीत- मि'त्यवस्थान्रयातीतं हि ब्रह्मरूपेणोपक्रम उपन्यस्तम्, अन्यथा तृतीय- पादस्यापि ब्रह्मत्वे कस्य तुरीयपादत्वमिति त एव नाम विभावयन्तु? सर्वथातु-माण्डूक्यगतोऽप्यानन्दमयः सुषुप्तावस्थापन्नो जोव एव। अथवा-"नान्तःप्रज्ञं न बहिःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्र- ज्ञमि" ति परमात्मनो विश्वादिभेद इव प्रज्ञानघनभेदोऽपि प्रति- पादित उपपद्यते। एतेन-प्रज्ञानघनत्व-प्राज्ञत्वयोः "र्यस्सर्वज्ञः सर्व- वित्" इत्येत्रेवापुनरुक्तिरिति-व्याख्यातम् ; एवं सति हि-न प्रज्ञानघनम्, इत्यनेन न प्राज्ञ इत्यप्युक्तप्रायमिति ज्ञेयं ब्रह्म न तृतीयपाद्गतेन प्रज्ञानघनशब्देन प्राज्ञशव्देन वा मन्यते, इत्यगत्या भवद्धिरपि वक्तव्यम्। सति चैवम्-कथं वाऽडनन्दमय: प्राज्ञशब्दे- नोद्िखितोऽपि परमात्मा स्यात्? अद्वैतमतेतु जागरितस्था- कस्य जीवस्य वैश्वानरत्वोल्लेखेन-व्यष्टि-सर्मा्टभावेनैव जीवेश्वर- व्यवहारात् तृतीयपादस्यापि समष्टिभावेनेश्वरत्वप्रतिपादनार्थ प्राज्ञ- पद्मीश्वरपद्रमप वा न दोषाय; सर्माष्टरूपेणेश्वराभेद्सूचनार्थ- त्वाद् तन्निर्देशस्य। सति चैवम्-"एष सर्वेश्वरः" इत्यनेनापि समष्टिभावेनास्यैवानन्दमयस्य सर्वकारणत्वमिति विवेचनपूर्वकं तु- रीयं स्वरूपं सगुणेश्वरातीतं निविशेषमेव पारमार्थिकं माण्ड्क्यो- पनिषत्प्रतिपाद्यमवगम्यते। तथाच-तैत्तरीयोपनिषद्यपि-यद्यन्न- मयादिशब्देन व्यष्टिसमष्टयुभयस्वरूपविवक्षा गृह्यते, तर््ानन्द- २३

Page 188

१७८ श्रीभाष्यसमालोचनम्

मयशब्दन दोषाय। सत्यप्येवं प्राधान्येन प्रतिपादं माण्डूक्ये तुरीयपाद इवा- त्रापि पुच्छं ब्रह्मैव, नानन्दमय इत्यगत्या स्वीकरणीयम्। एतेन- "प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेदे"त्यादि वाक्य- मपि-व्याख्यातम् ; तस्यापि समष्टिस्वरूपाभेदाभिप्रायेण प्रवृत्त- त्वात्। तथाच-"प्राज्ञवत्" इति परमात्माभिप्रायेण प्राज्ञशब्दो- जपि न विरुद्वः । इदमेवात्रालोचनीयम्-यत् प्राज्ञशव्देन तत्र प्रतिपाद्यमान: परमात्मा कि कार्यकारणभावातीतं निर्विशेषम्, उत सविशेषम्? यदि सविशेषमेव, तर्हि ततोऽप्यन्यस्य तुरीयपादस्य ब्रह्मणो माण्डूक्योपनिषदि प्रतिपादनात् तस्य प्राधान्यं तु बाघितमेव। निर्विशेषवादस्तु मतान्तरानभिमतत्वात् न तेषां संस्पर्शमप्यर्हतीति, न प्रथमपक्षं गृहीत्वा बहु वर्णनं सांप्रतम्। सति चैवमानन्दमयपद्स्य व्यष्टयभिप्रायेण यत्र प्रवृत्तिस्तत्र- मयटो विकारार्थत्वम्, समष्टयभिप्रायेणोभयाभिप्रायेण च यत्र प्रवृत्ति :- तत्र मयटः प्रचुर्यार्थकत्वम्, इति तैत्तरीयोपनिषदोऽपि व्यष्टयभिप्रायेण प्रवृत्तिमादाय विकारार्थत्वम्, उभयाभिप्रायेण प्रवृ- मादाय प्राचुर्यार्थकत्वं च मयटो नानुपपन्नम्। अत एव भाष्यकारा अपि पक्षद्वयमपि स्वीकृत्यानन्दमयाप्राधान्यमेव स्थापयन्ति, नतु तस्य प्रधानपरमात्मत्वपीति प्रधानं ब्रह्म नानन्दमयप्रतिपाद्यतया कुत्रापि दृशयते ; माण्डूक्योपनिषद्यप्यप्रधानस्यैवानन्दमयस्य प्रति- तिपादनादित्युक्ति: कथमपि न बाघिता। तथाच प्राचुर्यार्थ- कत्वं मयटोऽद्वैतमतानुयायिभि: सवीकृतं नानन्दमयप्राधान्यव्यवस्था- पकं भवति। इदमेवाद्वैतिनां मतम्-यत् आनन्दप्रचुरोऽप्यानन्द- मयो न समष्टि-व्यष्टिजोवातिरिक्त्तं प्रधानं ब्रह्मेति।

Page 189

श्रीभाष्यसमालोचनम् १७ह

एतेन-मयटः प्राचुर्यार्थत्त्रमानन्दमयस्य जीवत्वं निवारयति, सुत- रां सुषु पजीवस्य बाह्यान्वरसर्वपदार्थविषयकज्ञानाभावस्य तत्र तत्र श्रवणेन ज्ञानविशेपात्मकानन्दवत्वस्येव दुर्लभतया तत्प्राचुर्यकताया दूर निरस्तत्वान्, आत्मस्त्ररूपवत धर्मभूनं ज्ञानं तस्यां दशायां वर्तत इत्य- न्यदेतन्। तादशं तदादायानन्दप्राचुर्यव्यवहारोपपत्तेस्संपादियतुमश क्यत्वादित्यादि-पगास्तम ; सपुत्प्यवस्थायां जीवस्य वैषयिकानन्द- ज्ञानाभावमात्रे श्रृतीनां तात्पर्येण स्वरूपानन्दप्रकाशस्यावाधेन चानन्द- प्रकाशस्य स्व्रीकगणीयत्वात्। अत एव 'सुखमहमस्वाप्समि'ति प्रत्यभिज्ञोषपत्तिः। ज्ञान- विशेष एवानन्द इति त् मतान्तराभिमता स्वकपोलकल्पना न प्रमाणपदवोमध्यास्ते। एतेन-धर्मभूतज्ञानकथापि-व्याख्याता। धर्मभूतं ज्ञानमात्मस्वरपं नित्यं च संकोचविकासशालि चेति खलु भवतां मतम्। संकोच विकासशालित्वं नित्यत्वं च यदि न व्याहतम्, तर्हि कि जैनेनापराद्म्? मति नैवम्-"एवं चात्माकात्सर्न्यम्" इति सौत्रन्यायविरोधो न कर्थ भवति? आत्मस्वरूपत्वं धर्मत्वं चंत्यपि कर्थ न व्याहतम्? नहि सएव तद्दर्मोभवति। किश्च धर्मभूत- ज्ञानमिदं संकुचितस्वभावं वा? विकसितस्वभावं वोभयस्वभावं वा ? अनुभयस्वभावं वा? आदोमुक्त्यनुपपत्तिः, द्वितीये संसारानुपपत्तिः? तृतीये संकोचविकासी किं सनिमित्ती, उत निर्निमित्ती? आये ईश्वरानन्दानुभवस्यापि सनिमित्तत्वापत्तिः, अन्त्ये बन्ध-मोक्षसांक- र्यापात्तिः। अनुभयस्वरूपत्वेतु धमभूनज्ञानं संकोचविकसाशालि चे ति व्याहतम्। अथ यदि प्राज्ञसंपरिष्वङ्ग ज्ञानविकासः, बाह्यसंप- रिष्यङ्गे तत्संकोच इति मन्यते, तहि सुषुप्तजीवेन किमपरादम्? यः प्राज्ञसंपरिष्वक्तोऽपि न विकसितज्ञानी, न वाडनन्दमयः, इति रिक्तविदं सर्वे वचः ॥ तदिदं सिद्धम्-यत् सुषप्तिदशायां प्राज्ञभावापन्नो जीवः

Page 190

१८० श्रीभाष्यसमालाचनम्

प्राज्ञरूपेणैव पश्यति, नतु जागरितस्वप्नावस्थयोरिव स्वीयजीव- त्वविशिष्टरूपेणेति हि परमार्थगतिः। अत एव-"सलिल एको द्रष्टे"ति जीवस्य सुषुप्त्यवस्थायां द्रष्टत्वनिर्देशोऽप्युपपद्यते। एतेन-सुपुप्प्त्यवस्थायां द्रष्टेति जीवस्य ज्ञानाश्रयत्वव्यपदेशादपि न पराभिमतो घ्रह्मभावः सुपुप्त्यामुपपद्मत इति-परास्तम् : कारण- शरीराज्ञानोपहितरूपेण जीवस्य सुपुप्त्यवस्थायामपि सच्वेन समष्ट्य- ज्ञानोपहितम्रह्मभावेऽपि जीवत्वानपायेनोत्तदोषाप्रसरात्। अतश्च माण्ड क्योपवर्णित आनन्दमयोऽपि यदि वा जीवः, यदिवा समष्ठ्यभिप्रायेणेश्वरः, यदि वा विकारार्थे मयट्, यदि वा प्रानुर्थार्थे मयट्, सर्वथातु न प्रधानं ब्रह्म ; तुरीयस्यैव तत्र प्रधा- नत्वात्, इति तदेकवाक्यतैव तैत्तरीयश्रुतावपि भवन्मतरीत्यापि यदि विवक्ष्यते, तदा तैत्तरीयोप निषत्प्रतिपाद्योऽप्यानन्दमयोऽप्र- धानं ब्रह्म, यो व्यष्ट्यभिप्रायेण जीवः, समष्ट्यभिप्रायेणेश्वरो वा; पुच्छमेव तु ब्रह्म तुरीयमानन्दमयाघिष्ठानम्-"ब्रह्मविदा- प्नोति परम् " इति ज्ञंयत्वेन प्राप्यत्वेन च विवक्षितमिति सिद्धम्। इदमेवाभिप्रेत्योक्तं वेदान्तसारे-यदन्नमयो जागरिको जीवः, प्राणमय-मनोमय-विज्ञानमयास्मंमिलिता: स्वप्नावस्थापन्नो जीवः, आनन्द्मयस्तु सुषुप्त्यवस्थापन्नो जीव इति। सति चैवं माण्ड क्य- सैत्तरीययोरेकवाक्यताऽद्वैतमतेऽपि न विरुद्धा। एतेन-माण्डूक्यानन्दमयपदे प्राचुर्यार्थकत्वं वढ़ता तैत्तरी- येऽपि तस्य तदर्थकत्वसिद्धयाविष्कारेणानन्दमयाधिकर णसूत्रार्थान्यथा- करणाद्यास्पदः सर्वोव्यद्वैतिनां कलहस्तट्टीकाकारैरव शान्तिं नीत

रपि स्फुटीकरणात्। ब्रह्मानन्दप्राचुर्य जोवव्यावृत्तम् ; आनन्दमीमांसया मनु- ष्यमारम्य हिरण्यगर्भाख्यादिजोवपर्यन्तमानन्दप्राचर्यस्य मोमांस-

Page 191

श्रीभाष्यसमालोचनम् १८१

नात्, इति कथं वाऽडनन्दमय इति मघटः प्राचुर्यार्थत्वमप्यानन्द- मयजीवताविरोधि? नहि विज्ञानमयेनैवाप्रधानब्रह्मजोवप्रकरणं समाप्तम्। तेन बुद्धयुपाधिकस्थैव विवक्षणेन सौषुप्तजीवपरत्वा- भावात्, सौषुप्तजीवेनैव हि जीवस्वरूपं समाप्यते, नतु खाप्नेन जोवेन; अन्यथा सुषुप्तेर्मरणादविशेषापत्तेः। इदमेवाभिप्रेत्योक्तं ब्रह्म विद्याभरणे-बुद्धहतदुपाधिकजीव- विकारत्वात् विज्ञानमयो बुद्धयुवाधिको जीव इति। यदा त्वन्न- मयादिशब्दानां शरीरमात्रपरत्वम्, तदातु विज्ञानमयशव्देनाधि- द विकविज्ञानकार्या बुद्धिरेव विवक्ष्यते, नतु तदुपाधिको जीवोऽपी- त्यपि ब्रह्मविद्याभरणोक्तं साधीय एव। विज्ञानशब्दस्य "यो विज्ञाने तिष्ठन्नित्या"दौ जोवेऽपि प्रयोगदर्शनेन जीवाधिष्ठताया युद्धरपि जीवकार्यत्वाभिप्रायेण विज्ञानमयशव्देन व्यवहारे बाधकाभावात्। जीवाधिष्ठानत्वं हि जीवस्वरूपचैतन्याधिष्ठान- त्वमेव, नतु विशिष्टजीवाघिष्ठानत्वम् ; कार्याणां कारणरूपेण निर्दिष्टानां कारणात्मताया एव विवक्षणीचित्यस्य पूर्वमेव विवे- चितत्वात्। अत एव हेमकार्थमपि कटकं कुण्डलात् कटकमिति व्यवहनियते। तथाच-यथा कुण्डलमयं कटकमिति न व्यवहारः, एवं जीवमयी बुद्धिरिति न व्यवहारः, किन्तु विज्ञानमय इत्येव व्यवहारः। तथाच स्वप्रकाशं चैतन्यमात्ररूपं ज्ञानमेवाधिदैविकविज्ञा- नशन्दार्थ:, अन्नमयाद्यधिष्ठानं तु सद्रूपमात्रेण ज्ञातं ब्रह्मैव; तेषां भानंतु बुद्धितादात्म्याधीनमेव, नतु चैतन्यमात्राध्यासात्, अत एव घटादीनां न सदा प्रत्यक्षम्, बुद्धिस्तु सदा प्रत्यक्षेति व्यवहारः। एतेन-विज्ञानद्वैविध्यस्य तयोर्विकार-विकारिभावस्य च भवत्सं- केतमात्रत्वात् उपेक्षणीयत्वमिति-परास्तम्; "मत्यं ज्ञानमि"ति प्रतिपादितब्रह्मरूपज्ञानातिरेकेण बुद्धेः सर्वसम्मतत्वान्"

Page 192

१८२ श्रीभाष्यसमालोचनम

यथाच "यतो वाचो निवर्तन्ते" इत्यस्य पर्यायद्वयगतस्यापि वाङ्मनसयोर्ब्रह्मरूपानन्दपर्यन्तं प्रवृत्तिः, न ततोऽधिकमिति निर्विशेषव्रह्मणोऽवाङ्मनसगोचरतायामेव तात्पर्यम्, तथा पूर्वमेव विवेचितम्। एतेन-मनोमयपर्यायो न निर्विशेषपरः; तद्नन्तरम्-"अ- न्योऽन्तर आत्मा विज्ञानमयः""आनन्दमयः""सोऽकाममते"त्यादि बहु- विधविशेपप्रतिपादनविरोधादित्यादि-परास्तम् ; मनोमयपर्यायगतस्य तस्य वाङ्मनसयोस्तावत्पर्यन्तं प्रवृत्त्येव स्तुतिसिद्धौ मनोमयब्रह्म- प्राधान्यवादे ततोऽन्यस्य निरूपणान्यथानुपपत्या तात्पर्यकल्पानायोगेन तस्य निर्विशेषपरत्वानङ्गीकारान। त्रह्मणो वाङमनसागोचरत्वांशमादाय- तस्यापि मनोमयस्तुतिप्रमङ्गे न निर्विशेषपरत्वं प्रतीयमानं तु विवक्ष्यते चेदपि न विरुद्मिति तु वस्तुस्थितिः । सति चैवं "ब्रह्मविदाप्नोति परम्" इतिवाक्यमपि-"ब्रह्म- वेद ब्रह्मैव भवती"ति वाक्यैकवाक्यतया तद्ब्रह्माभेदनिरूपणपर- मेव, नतु तद्गेदपरम्। "आप्नोति परमि"ति तु व्यवहारदृष्टया, 'ब्रह्मैव भवती'ति तु परमार्थगत्या। अत एव-"ब्रह्मविदाप्नोती"- त्यनन्तरं शरीरादिपरम्परयात्मोपदेशः, "ब्रह्म वेद ब्रह्मैव भवती"- त्यनन्तरं तुन तथोपदेशः। एतेन-"ब्रह्म वेद त्रह्मैव भवती'त्यतैव भवतेः प्राप्त्यर्थकत्वं कुनो न स्यादिति शङ्कापि-परास्ता; आत्मनेपदस्यैव भवतेः प्रात्प्यर्थकत्वाच्च। "तस्मिन्नेव यजमानास्सर्वे सैन्धवघना इव लीयन्त्येषा वै ब्रह्मैकता नामे"ति मैत्रायणश्रुतिरप्यन एवोपपद्यते। नहि जीवस्य लयो नाम मतान्तरप्रसिद्ध :; तस्य सत्यत्वात्, कारणात्मता हि लयो नाम। तथाच ब्रह्मणोऽपि जीवोपादानकारणत्वं विना न तत्र तस्य लय: प्रतिपादयितुं शक्यते। उपादानत्वं च तस्प तद्चतिरेके- णाभावोपपादकं विवर्तोपादानत्वमेव; तदानीमेवैकताया: सिद्वः।

Page 193

श्रीभाष्यसमालोचनम् १८३

तथाच-न कथमपि जीवब्रह्मभेदे पारमार्थिके "तैत्तरीयोप- निषत् प्रमाणम्, किन्तु आकाशादिजीवान्तस्य, किं बहुना ? सर्वस्य

प्रसाणम्, यदेव हि-"जन्याद्यस्य यतः" इति सृत्रेण "भृगुवैं वारु- णिरि"त्यारभ्य "सैषा भार्गवी वारुणी विद्या। परमे व्योमन, प्रतिष्ठते"त्यन्तं प्रवृत्तनृगुवल्लीप्रतिपाद्यतया व्यवस्थापितम्। भृगु- वल्ली-ब्रह्मवल्ल्योश्च कारणमुखेन कार्यमुखेन च ब्रह्मस्वरूपनिर्धारणार्थ प्रवृत्तयोरेकार्थत्वस्यैव युक्तत्वान् ब्रह्मवल्ल्या अपि तादृशाखण्डनि- रविशेषात्मस्वरूप एव पर्यवसानम्, इति निरूपणार्थमेव खल्वा- नन्दमयाधिकरणप्रव्ृत्तिः। सति चैवमानन्दमयाधिकरणेनाप्यानन्द- मयस्थापि कारणरूपानन्दरूपपुच्छब्रह्मप्राधान्य एव स्वारस्यमित्यवचन- सिद्धमिदम। अतोऽत्रानन्दमयाधिकरणशरीरं ब्रह्मविद्याभरणोक्त- मेव साधु, न मतान्तराभिमतम्। अयमत्र ब्रह्मविद्याभरणोक्त: संशयाकार :- किं "ब्रह्म पुच्छं प्रतिष्ठे"ति वाक्यमवयवतयाऽप्राधान्येन ब्रह्मोपस्थापकं प्राय- पाठानुसारेण ? उतोपक्रमोपमंहारावगतप्राधान्यकस्य ब्रह्मणो ब्रह्म पदेन प्रत्यभिज्ञानात् सम्राधान्येनैव तत्प्तिपादयतीति। प्रायपाठानुगृ- हीता पुच्छशव्दश्रुतिः, अभ्याससहिता ब्रह्मशब्दभ्रुतिश्च संशायक- सामग्रीति तु निष्कर्षः । आध्ये पु्छपदस्य मुख्यार्थत्वम्, ब्रह्मपद्स्य त्वानन्दमयभिन्नव्रह्माकारमान्रसमर्पकत्वाद् गौणत्वम्, द्वितीये तस्य गौणार्थत्वम्, ब्रह्मपदं तु मुख्यार्थमिति पर्यवसितार्थः । तत्र च यस्य स्वतन्त्रतया वाक्यशेषेऽभ्यासः, तस्य मुख्यार्थत्वम्, यस्य तु न, तस्य गोणार्थत्वमिति हि व्यवस्था न्यायवित्सम्मता। तथाच वाक्यशेषे ब्रह्मशब्दाभ्यासात् पुच्छशव्दपायपाठोऽकिश्चित्कर इति निरूपणार्थमानन्दमयोऽभ्यासादिति सतं प्रवृत्तम्, इति प्रथमसत्र-

Page 194

१८४ श्रीभाष्यसमालोचनम्

निरस्य: पूर्वपक्ष: पुच्छब्रह्माप्राधान्यपक्षः, तत्समर्थनीयः सिद्धान्तस्तु पुच्छ ब्रह्मपाधान्यपक्ष:, इति पूर्वपक्ष-सिद्धान्तावपि सूचितप्रायौ। एतेन -पुच्छत्वेन निरूपितस्याग्नमयादिष्विवावयवत्वेनाप्राधान्यस्य मनसि गाढलम्तया तद्वाधकादर्शनेन संशयानुदयः, अस्याभ्यासहेतुना निवृत्त्यसंभवश्च; अभ्यस्यमानत्वहेतोरन्नमयादो ब्रह्मदष्टयोपासनावि- धायके वाक्येऽपि सत्त्वादित्यादि-परास्तम्; श्रुतिद्वयविरोधे प्रायपाठ- वाक्यशेषयोरपि प्राबल्य-दोर्बल्यानिर्णये च संशयोदयसंभवात्, प्रायपाठ- वाक्यशेपयोर्वाक्यशेपस्यैव प्राबल्येनाभ्यासेन पुच्छत्रह्मप्राधान्यस्येव युक्त- त्वात्, अन्नमयादिपर्यायेपु-"असन्नेव स भवती"त्यादाविव स्वनन्त्र- तया श्रह्मशब्दादर्शनेन तत्र व्यभिचाराभावाच्च। अयमत्रानुमानप्रयोग :- ब्रह्मपुच्छ मित्यानन्दमय पर्यायगतं वा- क्यम्, तद्र्थब्रह्मप्रधानम्, अभ्यस्यमानस्वघटक-ब्रह्मशब्दघटित- वाक्यशेषवत्त्वात्, यत् अभ्यस्यमानयद्घटकशब्दघटितवाक्यशेष- वत्, तत तदर्थप्रधानम्, यथा तत्त्वमसिवाक्यम्। अन्नमयादि- पर्यायवाक्यशेषेषु न ब्रह्मशब्दस्यान्नमयादिवाक्ये प्रयोगो न वाभ्यासः। "असन्नेव स भवती"ति वाक्येतु यो ब्रह्मशब्दोऽभ्य- स्यते, स पुच्छवाक्येपि वर्तत इति न कोऽपि विरोधः । एतेन- "स यो नाम ब्रह्मोपास्ते" इत्याद्यपि-व्याख्यातम्, तत्रापि ब्रह्मशब्दाभ्यासस्योक्तविधस्याभावात्, पुच्छब्रह्म, प्रधानम्, वाक्य- शेषेऽभ्यस्यमानत्वादिति यथाश्रुतार्थविवक्षापि पुच्छब्रह्मपक्षकत्वे न विरुद्वा। वाक्यशेषे इति पूरणं तु-'आकाशस्तहिङ्गात', 'अन्त- स्तद्र्मोपदेशात्' इत्यादिषु सर्वत्र समानम्। अत्रान्नमयाद्यप्राधान्यस्यान्यस्य निरूपणेनैव ज्ञातत्वात् अन्न- मयाधन्यत्वे सतीति हेतुविशेषणात् नान्नमयादौ व्यभिचारः। तथा- चानन्दमय इति पदमन्नमयाद्युपलक्षणारथेमपीति मन्तव्यम्। तथाच- "ब्रह्मपुच्छमभ्यासा दि"तिसूत्रणाभावे निमित्तान्तरमपि सूचितम्।

Page 195

श्रीभाष्यसमालोचनम् १८५

परताया: विलक्षणसाध्यवाचकपदाध्याहारस्य आनन्दमयपदलक्षणाया- श्वान्याय्यत्वात् सूत्रार्श्रवर्णनमपि श्रोतृश्रवणारुन्तुदमिति-परास्तम; अभ्यासावगतप्राधान्यकब्रह्मण एवात्र प्रतिज्ञानादिति हि फलितार्थकथनं- पग्म्, न त्वभ्यासपदार्थ विवरणम्। आनन्द्मयपदवाच्य: प्रधानः परमात्मा, वाक्यशेषे शतगुणो- मता- न्तरविवरणेडभ्यासपदस्य यथाश्रुतार्थत्यागेनार्थान्तरपरत्ववत् नात्रा- र्थान्तरपरत्वम्, किन्तु वाक्यशेषेऽभ्यस्यमानत्वमेव विवक्ष्यते, इति वाक्यशेष इत्यस्याध्याहारस्य सर्वमतमाधारण्येन सम्मतत्वात् नाध्याहारदोषो मतान्तर इव।' एतेन साध्यांशोऽपि व्याख्यातः ; अर्थपक्षकत्वेऽद्वैतमतेऽपपि प्रधान: परमात्मेत्यस्यैव विवक्षस बाधकाभावात्। आनन्दमयपदस्य पुच्छब्रह्मलक्षकत्वं तु यद्यप्यद्वैतमते भर्वात, तथापि तस्य कार्या- न्तरोपयोगस्य पूर्वमुक्तत्वात् न स दोषः । अभ्यामपदस्य प्राधान्य- साधनसमर्थस्य ब्रह्मत्वसाधनत्वायोगात् अप्रयोजकत्वं भवन्मते, अवाङ्मनसगोचरत्वेनाभ्यस्यमानेत्यादि तु सकपोलकल्पनम्, सृत्रा- क्षरानवगतमिति सौत्रहेत्वाञ्जस्यं न मतान्तरे। अभ्यस्यमानो ह्यान- न्दो नावाङ्मनसगोचरः, नवा धर्मभूतः, किन्तु पुच्छं ब्रह्मैव, इति हेत्वसिद्धिरपि मतान्तरे। प्राधान्यं हि साध्यघटकं महातात्पर्यविष- त्वम्। अयं चाभ्यासो हेतुतया विवक्षितो नान्नमयादयुपासनाविधिषु वर्तते, इति पूर्वमेव निरूपितम्।

क्रोडीकरणार्थमभ्यासादिति हेतुरिति-परास्तम, अभ्यासपदंन तदर्थ- प्रतीतेरभावात्। पथाच सृत्रान्तराणामप्यद्वैतमत एव स्ारस्यम, तत्रत्यमपि . २४

Page 196

१८६ श्रीभाष्यसमालोचनम्

ब्रह्मविद्याभरणादिविवरणं साधीयः, तथा तत्तत्सूत्रप्घट्टक एवं समालोचितम्। अयमत्र निष्कर्ष :- आनन्द्मयपर्याय आनन्दमयोपासना- विधानार्थमिति वृत्तिकारमतम्, प्रियादिशिरस्कतया बुद्धावारोहा- र्थमानन्द्मयपर्याय इति श्रीभाष्यानुसारिमतम्, जीव-तदधिष्ठान- व्रह्मोभयनिरूपणद्वारा प्रत्यगभिन्नपरमात्मखरूप निरूपणार्थमानन्द- मयपर्याय इत्यद्वैतमतम्। तत्राद्यमते जगद्व्यपारवर्जब्रह्माभेदस्यैव मुक्तित्वात् तस्योपासनासाध्यत्वस्यापि स्वीकारादानन्दमयोपासना नासंभाविता। एतेन-ईदृशमुक्तेब्रह्मोपासनाफलत्वाभावस्य तत्क- तुन्यायसिद्धूतयाऽत्रानन्दमयोपासना न संभावितेति-परास्तम्। तृतीये-"तस्माद्वा एतस्मादि"ति प्रस्तुतकारणत्वस्य परिणममाना- विद्याविषयत्वरूपाधिष्ठानत्वरूपत्वात् तस्य च शुद्धब्रह्ममान्रस- म्बन्धित्वात् पुच्छब्रह्मणोऽपि कारणत्वादिनिर्देशो नानुपपत्नः । कार-

न विशिष्टेश्वराभिप्रायत्वमिति हि सिद्धान्तलेशसंग्रहादौ व्यक्तम्। एतेन-"आत्मन आकाशः संभूतः" इत्यादिनाऽडकाशादिकारणत्वेन श्रुतस्येव पुच्छत्रह्मत्वस्याभ्युपगमनीयतया तस्य चेश्वरनिष्ठस्य पुच्छब्रह्म-

आकाशादिकारणत्वस्यापि पूर्वोक्तविधया शुद्धचैतन्य एव स्वीकारेण शुद्धब्रह्मप्रकरणस्य कुत्राप्यविच्छेदेन सर्वस्योपक्रमोपसंहार- साधारणस्य प्रकरणस्य शुद्धब्रह्मण्येव हि तात्पर्यम्। यथाच "यतो वाचो निवर्तन्ते" इत्यस्य वाङ्मनसागोचरत्वमतिपादनेऽपि "आनन्दं विद्वानि" त्यानन्दरूपस्य ब्रह्मणो वृत्तिव्याप्यत्वमात्र- स्वीकारेण न विशोध:, तथाऽन्यत्र व्यक्तम्।

Page 197

श्रीभाष्यसमालोचनम् १८७

सर्वथातु-"आनन्दमयोऽभ्यासादि"तिसूत्रं नानन्दमयब्रह्म- तापरम्, किन्तु पुच्छब्रह्मण एव ज्ञेयप्राप्यब्रह्मत्वपरम् ; तस्यैव सर्वान्तरत्वात्, "असन्नेव स भवती" त्यादीनां मान्त्रवर्णिकब्रह्म- विषयाणां पुच्छब्रह्मप्राधान्य एव स्वारस्यात "तस्यैष एव. शारीर आत्मे"त्यानन्दमयपर्यायवाक्यस्यान्यथानुण्पत्तेः, विज्ञानमयादन्य- त्वस्य .श्रुतिन एव सिद्धत्वेनानन्दमयजीवतानिरासार्थमधिकरण- प्रवृत्तेर्वितथत्वात्, "रसो वै सः" इत्यादीनां पुच्छब्रह्माविषयत्वे वैयर्थ्यापातात्, सर्वेषां सूत्राणां पुच्छब्रह्मवाद एव स्वारस्यात्, आनन्द्मयब्रह्मतावादस्य बहुतरदूषणग्रस्तत्वाच्चेति सिद्धम्। अधि- कं चात्र वक्तव्यमन्यत्र विस्तृतं भामतीकल्पतर्वाद्युपेतब्रह्मसूत्रभाष्य- भूर्मिका दिषु। सृत्रानुगुण्यसिद्धिनिबन्धखण्डनसमालोचनं तु तन्निबन्धका- रैरेवान्यत्र सुष्ठु संपादितम्, इति चर्वितचर्वणभयात् ग्रन्थविस्तर- भयाच नात्र क्रियते। अतः पूर्वोक्तर्हतुभि: शङ्करभगवत्पादाय्ुपवरणणितानन्दम- याधिकरणार्थस्यैव सुस्थत्वात्, सन्भिस्सम्यगादरणीयत्वात्, तत्रैव सूत्राणामुप निषदां प्रमाणान्तराणां च सारस्यात्,अनुपपत्तिलेशस्यापि तत्राभावात्, श्रीभगवत्पादानुग्रहीत एवोक्ताधिकरणार्थः सर्वेषां निःश्रेयसाय स्थात्, इति स एव सर्वाङ्गसुन्दरः, यत्र परे- षामाकमणस्य लेशतोऽपि नावसरः, यश्च खलु सुरक्षितः सर्वेषु पुरा- णेतिहासादिष्वपीति शिवम्।।

Page 199

शुद्धाशुइपत्रिका

अशुद्धम् शुद्धम् प्रष्ठ. प० अशुद्धम् शुद्धम् परष्ट० प० तंदर्थ ; तदर्थः नाम्य नाभ्य १८ २६ w १ सिद्धन्तिनः सिद्धान्तिन: १ १५ डडन्द डडनन्द १ह ८

कामयते कामयन १७ कुलम कृलम् " १०

अयमत्र अगमत्रा मम्वम्ध मम्बन्ध ४

यत्रेकत्व यत्रेकत्वं १७ थन्तिपर र्थान्तिर ११ न्तिममेन न्तिमेन २५ केऽव्यथा केऽन्यथा ", १२

वाङनसा वाङ्मनमा ३ २० कल्पन कल्पित " १८

भंप्रति भेदप्रति ४ १ कोपां केपां २१ १०

पद्मम् पाद्म १३ मनोय मनोमय १५

चग्श्रयो चराश्रयो 4 २५ विविक्षा विवक्षा १८

व्यदेशः व्यपदेशः ६ १ प्रातिष्ठा प्रतिष्ठा २२ २६

कारण कारणा १८ अन्नाद्ीम अन्नादीनाम २३ ८ पदकं पादकं २६ पर्यवासनम् पर्यवसानम १६

यम मय ५ मयटथ मयडर्थ २५ ६ V

प्रयुक्तम् प्रत्युक्तम् " २० नम नमा २२

क्ताना क्तानां १० दुःखल्प दुःखाल्प २७ १०

किंस्व्रा किंस्वि २० सेऽक मोडका २३

स्वीकर स्वीकार ११ १७ चवं चैवं

प्रकान्न प्रक्रान्त ११ १६ कर्पाभावः कर्पभावः ३३ २

भेव मेव १३ सूत्रा सूत्र ३६ १३

दिशिष्ट दिविशिष्ट २२ भ्रय भ्रम १३

पसना पासना २२ स्पष्ट स्पष्ट २४

मिन्नं भिन्न २४ सेऽकाम सोडकाम ३७ १७

नन्दय: नन्दमय: १६ १ निर्दश निर्देश ", ५२२

Page 200

=)

अशुद्धम शुद्धम् प्रृष्ठ प० अशुद्धम् शुद्धम् पg्ठ प०

अत्रेसूत्र अेत्रसृत्रे ४६ ३ कांक्षा काङ्क्षा २६

व्यवृत्ति व्यावृत्ति ४४ १० यागा योगा ५ह १४

रादिभ्यः दिभ्यः व्यव व्याव " १८.

रीप्या रीत्या ४५ ५ अप्रो अप्रयो ६० १५

हेत्वात् हेयत्वात् १५ पसना पामना ६१ १६

ख्यद्वय ख्याद्वय ४७ ५ द्वैविधां द्वैविध्यं

सारत्वत् सारत्वात् तन्मत्र ६२ १३ " १५ तन्मात्र

वाधित बाधित २४ इत्यदि इत्यादि ६३ १५

प्रस्तोष्या प्रस्तोष्य ४८ सब्द शब्द ६४ ५

प्रस्तोष्या प्रस्तोष्य ४८ ८ शक्यात्वात् शक्यत्वात् ६७ ८

वज वज ४६ १८ चाराम्भणं चारम्भणं १३

कमान् कामान् ५० १५ म्रह्मण्य त्रह्मण्य २४

नानान्दान् नानन्दान् १७ समावाय समवाय २६

गोरत्व गोचरत्व २६ घर धार २७

नान्दानां नन्दानां ५१ १० शेपे शेप

सवानन्द्रा सर्वानन्द्रा ११ च्छिन्नं च्छिन्नं

एवमेवं एवमेव २१ प्रति प्रती "9. प्रतिप्रति प्रति २४ बहशः बहुशः मधिक्या माधिक्या २६ प्यशिष्टः प्यविशिष्टः

पक्षया पेक्षया ५२ ११ म्रहा म्रह्म विपश्चिता विपश्चता १८ श्रोता श्रीता

काशावत् काशव न् ३ श्रति श्रुति संकी संकीर्त " १६ इत्यभय इत्युभय २४ दुर्दशं दुर्दश " २३ भोदा भंदा ४ दुर्दशं दुर्दशं " २४ शक्ति शुक्ति ७ह १० त्मा"ति त्मा"इति ५४ २० हात्वा हीत्वा ८० ३ चोत्थं चेत्थं ५५ २६ काशधि काशाधि "' १६

जाग जग ५६ ५ भावात् भातू ८१ १४ नातां नायां ५७ १८ दार्ष्टि दार्ष्टा " २१

Page 201

अशुद्धम् शुद्धम् पं० अशुद्धम् शुद्धम् /पृष्ठ प०, भवा भावा ८२ ६. पित्या मित्या २६ घंटदि' घटादि १४ सिद्धा सिद्धो' २०१ १० सनर्थम् समर्थः " १५ सवण्ड खण्ड १०३ १६ नन्दरूपेण नन्दरूपेणा २२ वद वाद १०४ १६ काल्पिनि काल्पनि ८३ ६ सको सपको १०५ १४ कृतेडिपि • कृतेऽपि भावात् भवात् १०६ ४ बिशेप विशेष " १० तन्ते तेते ११२ १२

दादन्द दानन्द " ५७ न्वाया न्वया ११५ २२ हारो हार: १ सभव सम्भव ११७ २६ तीनर तीतर २७ प्रत्ना प्रयन्ना ११६ ४

छिष्ठान धिष्ठान १६ सपेक्ष मापेक्ष " १४

स्वण्ड खण्ड दश दर्श १४

तमन्: नसन् २४ इयेते इयेत , २१

दाध्यस दाध्यास ८६ ६ किय क्रिय २२ दिनां दीनां ८८ ५ प्राणया प्राणमया १२० १ काशान्:' कारात् पूर्व पूर्वो " १२ २३

धम धर्म ३ वाक्ये वाक्य १२१ ६

मव संर्व ८ ति इति " ८

माले . मले शोली शैली १७ तदच्छिन्न तदवच्छिन्न " पम्परा परम्परा " २२ चैतन्न चैतन्य ८ विहित: निहित: १२३ १६ दिम्बन्धा दिसम्बन्या ११ पर पगा १२३ २६ भवेन भावेन ६३ ३ मार्श: मशः १२४ १

मात्र न्मात्र ६३ ७ प्रजात्या प्रजापत्या १२४ २२ धर्म्या धर्म्या ह४ १८ यागो त्यागो १२५ ३

कारन्त कागन्त ५ ययत्व यवत्व १२५ १६ केशः केश ११ लवस्ये लस्यै १२७ १२ पेदेय पादेय u ६ १४ परास्त परास्तम्

सच्चा त्यच्चा २५ द्यधार .द्याधार . १२८ शछ़े

Page 202

अशुद्धम् शुद्धम् पृष्ठ प० अशुद्धम् शुद्धम् पृष्ठ प०

राभिमता रभिमता १२८ २१ तच्व तच्च १५३ १२

तिष्ठति तिष्ठिति १२८ २३ स्यव स्यैव १५३ १३

जग्रत् जाप्रत् १२६ २ मुक्त मुक्ता १५४ . ८

पस्तम् पास्तम् १२ह १४ इत उत . १०

ननु न तु १३० १ स्वष्ट स्पष्ट १५७ १६

निदि निर्दि १३० २१ यपूर्व य:पूर्व १५८ ३

पूर्वेत्तर पूर्वोत्तर १३१ ६ दप दूप १५८ ८

पदमस पदं स १३१ १८ सद्ाशङ्का सज्धावशङ्का १५६

मययो मयो १३२ १ ब्रह्मानन्द ब्रह्मानन्द १६० ८

दिका दिकाः १३५ ४ अनन्द मानन्द १६१ २

विविक्षा विवक्षा १३५ १५ छान्दा छान्दो १६४ ? पत्त्यर्य पत्त्यर्थ १३५ २३ लक्षणिक लाक्षणिक :१६६

प्रिन प्रिय १३६ १ णाद्वत णामद्वैत १६६ 60

शिरत्त्वा शिरस्त्वा १३६ १ पत्त्त्राय षत्त्रय १६६ २१

मित भिमत १४१ २२ कानिचा कानिच १६६ २४

मयया मया १४२ १६ मनुप मनु १६० ३

र्दिष्टम दिष्टम् २४ शशि शयशि १६७ १६

Sडन्द डडनन्द १४३ १२ ज्ञिनम् ज्ञितम् '१६८ ४

कारणाम् काराणाम् १४३ १६ त्वन त्वंन १६८ ५

वदान्ति वदन्ति १४३ २१ धक धृक् १६८

यम मय १४५ २ मरा ममरा १६८ १६ निनित्त निमित्त १४७ ४ नाभय नोभय २० नत्य नस्य १४८ १६ह १०

तद्ग तद् गु १४६ १३ प्यात्रा प्यत्रा १६६ २२

सह्ाः सह्या १५० ११ नाभ नाभा १७१ १७

सधक साधक १५१ १४ ति · इति २७४ ६