1. Vedantadarsana With Bhashya of Keshvananda
Page 2
॥ श्री: ।E
उत्तरमीमांसा
नाम वेदान्तदर्शनम्।
श्रीमद्देदव्यासप्रणीतम्
स्वामिगोविन्दानन्दोह्भावितया भाष्यरत्नप्रभया भासितेन
श्रीशङ्कराचार्यकृत- शारीरकनाम्ना भाष्येण संयुतम्। श्रीमदुदासीनपरमहंसपण्डित केशवानन्दस्वाभिकृत- टिप्पणीसमेतं च ।
एतच्च भारतीतीर्थककृताधिकरणमालासमन्वितम् ऐनापुरे इत्युउपारव्योद्धवाचार्यण च शोधयित्वा
श्रीकृष्णदासात्मज- गङ्गाविष्णु, खेमराजाम्यां मुम्बय्यां
संवत् १९४४ शके १८०९ (१८६७ खिष्टाब्दिक २५ तमनियमानुसारेण राजराजपटारुढीकृतोयं ग्रन्थः )
Page 4
।। भ्रूमिका ॥
इह खलुधर्मार्थकाम मोक्षेषु चतुर्विधपुरुषार्थेषु मोक्ष एव परम: पु रुषार्थ: तस्य निखिलदुःखनिवृत्युपरक्तनिरतिशयानन्दरूपात्मात्मकतया नित्यत्वेनानावृत्तिरूपत्वात। एवमेव ि श्रुतिस्मृतीहासपुराणयुत्त्यनु- भवसिद्धम्। स च वेदान्तैकवेय्याशनायाव्यतीतापेतब्र ्मामक्ष त्रादिभेदासं- सारिब्रह्मात्मैकत्वनिश्चयसाध्यः।स च निश्षयो देहेन्द्रियादिष्वहंममा-
नाविधकुतर्काकुलचेतसां दुःसाध्यः न तांस्र्ककुशलश्रुत्यर्थविवेचक- गुरुमनुपादायोपनिषदां सहलाण्यपि यथाभूतमात्मतच्वं संबोधयि- तुमीशते अतस्तानुद्दिधीर्षुर्भगवान् वेदव्यासोऽहैतब्रह्मात्मकं श्रुत्य-
चयांचकार। साध्यतिसंक्षिपार्थकतया विना भाष्यं पुरुषायुषेणापि दु- विज्ञेयेति विलोच्य परमकारुण्योपेतमानसोभगवानू स्वामिश्रीशंकरा- चार्यो भाष्यवलयालंकतां तां चकार। तदपि गूढगम्भीरार्थकतयाऽना- यासेन नार्थबोधदिति पर्यालोच्य सर्वान् नरानुपचिकीर्षुः स्वामि- श्रीगोविन्दानन्दोनुकम्पया रत्प्रभयाभासयांचकार।सापि क्वचित् क्- चित् गुप्तार्थकेति विलोच्य मया क्वचित् क्वचिट्टिपणैरलंकता। यद्यपि व्या- सनिर्मितेष्वेषु सूत्रेष्विदानीं नानाविधानि भाष्याण्युपलभ्यन्ते तथा पि.शाङ्करभाष्यस्यास्य निष्पक्षार्थप्रतिपादकतया प्रामाणिकैः प्रामा- ण्याङ्गीकारेण सर्वापेक्षयास्याभ्यर्हितत्वमिति सूपादेयमिदमासैः।य- वप्येतन्नाष्यं पूर्व मुद्रितमभूत्तथापि यथावद्भाष्यकारसंप्रदायसिद्ध- समग्रपाठकं न मुद्रितमितीदानीं गङ्गाविष्णुवणिकपार्थनया मया भा- ष्यकारसम्प्रदायसिद्धपाठानुसारेण संशोधितम्। प्रार्थये चादौ विश्वेश्वरं मुद्रणकर्तु: श्रेष्ठिश्रीगङ्गाविष्णोः प्रयतनं सफलीकर्तुम।प्रसीदन्तु चानेन
Page 5
प्रयत्नेन भगवद्भाष्यकारचरणा इति मुहुरभ्यर्थयेहं श्रीमदुदासीनपरम- हंसपण्डितेकशवानन्दस्वामी॥ उपरि तावत्केशवानन्दस्वामिना लिखितंयथायर्थं ज्ञेयमेव। परं च। कलिकातायां एशियाटिकसोसायटीनाम्न्या जनतया मुद्रितपुस्तके तृतीयाध्यायचतुर्थपादीया रत्नप्नभा न मिलितेति स पादो: रत्नप्रभा- भासितो न इति केषांचिदाभास: समजनि इति भाति।परं चास्मानू अमरकोशटीका कारमहेश्वरपुरतकालयतो लब्घशाङ्गरभाष्ये मिलिते- ति सपाद: पश्रात्तथैवाद्गित्वा पुस्तकचरमभनागे निवेशितो विद्यते पर्या- सौ चाधिकरणज्ञानार्थ श्रीभारतीतीर्थविरचिताधिकरणमालापि संवे- शिता इति। अत्र पुस्तकमुद्रण काले मनुजनिष्ठनिसर्गत्रमेणार्वरिता- नप्रमादांस्तावत्सहन्तामार्या इति प्रार्थित प्रायमेवेत्यशेषमतिमङ्गलम्। ऐनापुरे इत्युपारव्यवाळाचार्या- त्मज उद्दवाचार्य:।
Page 6
बह्म सूतीय षोडशपादार्थदर्शनम् निर्घण्टपत्रम्।
प्रतिपाद्यविषया: अध्यायाडा: पादाडा: सुस्पष्टव्रह्मबोधकश्रुतिवाक्यानां समन्वयः,
ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिवाक्यानां समन्वय:, अव्यक्तादिसन्दिग्धपदमात्राणामेव समन्वयः, ...
साङ्ययोगकाणादादिस्मृतिभि: साङ्यादिप्रयुक्ततकैंश्र वेदान्तसमन्वयस्य विरोधपरिहारः, साङ्यादिमतानां दुष्ठत्वप्रदर्शनम्, पूर्वभागेण पक्चमहाभृतश्रुतीनां उत्तरभागेण च जीवश्रुतीनां परस्परविरोधपरिहारः, २ लिङ्गशरीरश्रुतीनां विरोधपरिहारः,
जीवस्य परलोकगमनागमनविचारपूर्वकवैराग्यनि- रूपणम्, .. ३ पूर्वभागेण त्वं-पदार्थस्य उत्तरभागेण तत्-पदार्थस्य च शोधनं, .. BY सगुणविद्यासु गुणोपसहारस्य, निर्गुणे व्रह्मणि अपुन- रुक्तपदोपसंहारस्य च निरूपणम्, nY निर्गुणज्ञानस्य बहिरङ्गसाधनभूतानां आश्रमयज्ञा- दीनां, अन्तरङ्साधनभूतानां च शमदमश्रवण- मननादीनां निरूपणम्, ...
Page 7
(२ ) प्रतिपाद्यविपयाः । अध्यायाड: । पादा। श्रवणाद्यावृच्या निर्गुणं, उपासनया सगुणं वा ब्रह्म साक्षातूकृतवतो जीवतः पुण्यपापलेपवि- नाशलक्षणाया मुक्तेरभिधानम् ... त्रियमाणस्य उत्क्रान्तिप्रकारदर्शनम्, २ सगुणव्रह्मविदो मृतस्योत्तरमार्गाभिगमनम् ४ पूर्वभागेण निर्गुणव्रह्मविदो विदेहकैवल्यप्रामे:, उ- त्तरभ्ागेण च सगुणव्रह्मविदो ब्रह्मलोकस्थिते- निरूपणम्, ४
Page 8
व्यासाधिकरणार्थदर्शनं निर्घण्टपत्रम्।
समन्वयाख्यप्रथमाध्यायस्य प्रथमपादे।
पतिपाधविषया: । रुनाडा:।अवडा। ब्रह्मणो विचार्यत्वम्, ब्रह्मणो लक्ष्यत्वं ब्रह्मणो वेदकर्तृत्वं, १ वर्णकम्, ay ब्रह्मणो वेदैकमेयता, २ वर्णकं, ..
वेदान्तानां ब्रह्मबोधकत्वं, १ वर्णकं, वेदान्तानां ब्रह्मण्यवसितत्वं, २ वर्णकम्, ४
प्रधानस्य जगत्कर्तृत्वाभावकथनम्, .. ५-११ आनन्दमयकोषस्य परमात्मत्वं, १ वर्णकं, ? ब्रह्मण आनन्दमयजीवाधारत्वं, २ वर्णकं, १२-१९
आदित्यान्तर्गतहिरण्मयपुरुषस्येश्वरत्वम्, ... २०-२१ परब्रह्मण आकाशशब्दवाच्यत्वम्, २२ ब्रह्मण आकाशशब्दवत् प्राणशब्दवाच्यत्वं, २३ परव्रह्मणो ज्योतिःशब्दवाच्यत्वं, २४-२७ १० ब्रह्मण: प्राणशब्दप्रतिपाययत्वं, .. २८-३१ ११
उक्ताध्यायस्य द्वितीयपादे।
ब्रह्मण उपास्यत्वम्, 9-6 ब्रह्मणो जगत्कर्तृत्वं, ... ९-१० ११-१२ ३ छायाजीवान्यदेवान् हित्वा परव्रह्मण एवोपास्यत्वम् १३-१७
Page 9
(:)
प्रतिपाद्य. वपयाः। सृ०
5 प्रधानजीवौ निराकत्येश्वरस्य भूतयोनित्वम्, २१-२३ ६.
ब्रह्मणो वैश्वानरशव्दवाच्यत्वम्, २४-३२
उक्ताव्यायस्य तृतीयपादे।
सूत्रात्महिरण्यगर्भप्रधानभोक्तृजीवेश्वराणां मध्ये केवलमीश्वरस्यैव सर्वाधिष्ठानभूतत्वम्, पाणपरेशयोर्मध्ये परेशस्यैव सत्यशव्देन श्रेष्ठत्वम, 6-९ प्रणवव्रह्मणोर्मध्येव्रह्मण एवाक्षरशव्दवाच्यत्वम्, अपर-परव्रह्मणोर्मध्ये परत्रह्मण एव त्रिमात्रेण प्रणवेन ध्येयत्वम, १३ दूहराकाशत्वेन प्रतीयमानानां वियजीवव्रह्मणां मध्ये ब्रह्मण एव तदाकाशवाच्यत्वम्, अक्षिपुरुषत्वेनापाततः प्रतीयमानयोर्जीवपरेशयोः परेशस्यैव तत्पदवाच्यत्वम्, १९-२१ जगत्पकाशत्वेनोपलव्धयो: सूर्यादितेजःपदार्थचैतन्ययो- श्रैतन्यस्यैव तत्प्रकाशत्वम्, २२-२३ जीवात्मपर मात्मनोर्मध्ये परमात्मन एवाङ्गुष्ठमात्रपुरुष- शव्देन प्रतिपादनम्, .... २४-२५ देवानां निर्गुणविद्यायामधिकारनिरूपणम्, ... २६-३३ शूद्राणां वेदानधिकारकथनपूर्वकः शोकाकुलत्वेन शूद्रनाममात्रधारिणो जानश्रुतेरवेदविद्याघिगम:, ३४-३८१६ भाणत्वेनाम्नातानां वज्रवायुपरेशानां मध्ये परेशस्यैव
Page 10
(५)
पतिपाद्यविषयाः । सू० अधि० ब्रह्मण: परत्वज्योतिष्ट, ४० १२ ब्रह्मण आकाशशब्दवाच्यत्वं, ४9 १३ ब्रह्मणो विज्ञानमयशब्दवाच्यत्वं, ४२-४३
उक्ताध्यायस्य चतुर्थपादे।
कारणावस्थापन्नस्य स्थूलशरीरस्यैवाव्यक्तशद्वाच्यत्वं, १-७ श्रुतिप्रमितप्रकति-स्मृतिसम्मतप्रधानयोर्मध्ये तादशप्र- कतेरेवाजाशब्दवाच्यत्वम्, ... २.
ब्रह्मप्रतिपादकवेदान्तवाक्यसमन्वयानां युक्तियुक्तत्वं, १४-१५ ४ प्राणजीवपरात्मनां मध्ये परात्मन एव कृत्लजगत्कर्तृ- त्वेन बालाकिना ब्रह्मतवेनोक्तानां षोडशपुरुषाणां कर्तृत्वनिराकरणं, .. १६-१८ 5 संशयितजीवपरमात्मनार्मध्ये परमात्मन एव श्रव- णमननादिविषयीकर्तृत्वम्, .. १९-२२ ब्रह्मणो निमित्तोपादानोभयकारणत्वं, .. २३-२७ ७
परमाणुशून्यादीनां श्रुत्युक्तानामपि जगत्कारणत्व- मपहाय ब्रह्मण एवं प्रतिनियतजगत्कारणत्वं, २८
इति प्रथमाध्यायः
Page 11
(६ ) अविरोधार्यद्वितीयोव्यायस्य प्रथमपादे।
प्रतिपाद्यविषयाः । अधि साङ्चस्मृत्या वेदसङ्कोचस्यायुक्त्वं, १-२
mY योगस्मृत्याऽपि वेदसङ्कोचस्यायुक्तत्वं, .. २ वैलक्षण्यार्ययुक्तिद्ाराऽपि वेदान्तवाक्यानामवाध्यत्वं,४-११ काणादबौद्धादीनां स्मृतियुक्तिभ्यामपि वेदवाक्याना- मवाध्यत्वम्, १२ १३ ५
च तात्विकत्वम्, .. .. ... १४-२० सर्वज्ञत्वेन जीवसंसारमिथ्यात्वं च स्वनिर्लेपत्वं च पश्यतः परमेश्वरस्य न हिताहितभाग्दोषः, २१-२३ अद्वितीयस्यापि ब्रह्मणः क्रमेण नानाकार्याणां सृष्टिसम्भावना, २४-२५ V ईश्वरस्योपादानरूपपरिणामिकारणत्वव्यवस्थापनं, २६-२९ ईश्वरस्याशरीरित्वेऽपि मायावित्वम्, ... ३० -३१ ९० नित्यतृप्तस्येश्वरस्यापि प्रयोजनं विनाऽशेषजगदुत्पादनं, ३२-३३११ कर्मनियन्त्रितानां जीवानां सुखदुःखनिमित्तमात्रस्य जगतूसंहरतश् नैर्धृण्यदोषाभावः, ३४-३६ १२ निर्गुणस्यापि व्रह्मणो विवर्त्तरूपेण प्रकृतित्वसिद्धि:, ३७ १३
उक्ताध्यायस्य द्वितीय पादे। साङ्गयानुमतप्रधानस्य जगद्वेतुत्वखण्डनं, 3-90 १
असदृशोज्वे काणाददृदष्टान्तस्यास्तित्वं, परमाणूनां संयोगेन जगदुत्पत्तेर्युक्तिविरुद्धत्वं, १२-१७ ३
Page 12
(७) पतिपाधविषया:। सृ० अधि:
षसम्मतानां परमाणूनां शव्दास्पर्शादीनाश्च जगदुत्पादकत्वमतखण्डनं, १८-२७ विज्ञानवादिवौद्दसम्मतविज्ञानस्य जगत्कर्तृत्वा- दिखण्डनं, .. .. .... २८-३२ जीवादिसप्तपदार्थवादिनांबौद्धान्तराणां मतखडनं, ३३-३६ तटस्थेश्वरवादस्यायुक्तत्वं, ... ३७-४१. ७
४२-४५
उक्ताध्यायस्य तृतीयपादे।
वेदान्तवादिमते आकाशस्यानित्यत्वकथनम्, .. १-७ १ खरूपवतो ब्रह्मणो वायोरुत्पत्तिकथनम्, .. ८ २
सद्पस्य ब्रह्मणोऽजन्यत्वं जगज्जनकत्वञ्च, .. कार्यकारणयोरभेदेन वायुभूतस्य ब्रह्मणसतेजःसृष्टिः, ४ वेदोक्ततेजोरूपब्रह्मणो जलोत्पत्तिसिद्धिः, ११ छान्दोग्योपनिंषदुक्तजलोत्पन्नाल्नस्य पृथिव्यर्थकत्वं, १२ पूर्वपूर्वकार्योपाधिकाद्व्रह्मण उत्तरोत्तरकार्योत्पत्ति- सिद्धिः, १३ ७ लयकाले पृथिव्यादीनां विपरीतक्रमकल्पनं 4 .. १४ प्राणादीनां भूतेष्वन्तर्भावान्न तेषां सृष्टिकमभङ्ग:, १.4. वपुषो जन्ममरणयोर्मुख्यत्वेन जीवस्यैतयोर्भाक्तत्वं, १६: १0 जीवजन्मन औपाधिकत्वेन तस्य वस्तुतो नित्यत्वं, १७ 39 जीवस्याचिद्वपत्वखण्डनपूर्विका तत्चिदूपत्वसिद्धि :, १८ १२ जीवस्याणुत्वखण्डनपूर्वकं तत्सर्वगत्वप्रतिपादनं, १९-३२
Page 13
(6)
प्रतिपाद्यविषया:। सू० अधिक जीवस्याकर्तृत्वनिरसनपूर्वकं तत्कर्तृत्वप्रतिपादनं, ३३-३९ 98 जीवकर्तृत्वस्याध्यस्तत्वेनावास्तविकत्वं, ४० १५ जीवस्येश्वरप्रवृत्तत्वेन न रागप्रवृत्तत्वं, . ४१-४२ १ ६.
व्यवहारव्यवस्था, .. ... ४३-५ ३ १७
उक्ताध्यायस्य चतुर्थपादे। इन्द्रियाणामनादित्वनिराकरणपूर्वकं तेषामात्म- समुत्पन्नत्वम्, .. १-४ इन्द्रियाणामेकादशसङग्याकत्वस्य वेदान्तसम्मतत्वं, ५-६ २ साङ्र्यसम्मतेन्द्रियसर्वगत्वनिराकरणपूर्वकं तेषां प- रिच्छिन्नत्वकथनं, पाणस्यानादित्वखण्डनपूर्वकं तदुत्पत्तिसमाधानं, माणवायो: स्वतन्त्रताकथनं, .. .. १-१२ ५ प्राणस्य समष्टिरूपेणाधिदैविकी विभुता आध्यात्मि- की तु तस्याल्पताऽदृश्यता चेन्द्रियवदिति, .. १३ ६
इन्द्रियगणस्य देवताविशेषाधीनत्वकथनम्, ... १४-१६ 9
विलक्षणत्वेन प्राणादिन्द्रियाणां पृथकृत्वं, १७-१९. ८ सर्वजगत्सर्जने जीवस्याशक्तत्वादीशस्यैव सर्वशक्ति- मत्वात् तस्यैव तन्निर्मातृत्वं, २०-२२ इति द्वितीयाध्याय:॥ साधनाख्यतृतीध्यायस्य प्रथमपादे।
गमनम्
Page 14
(९) प्रतिपादविषयाः । अधि० कर्मान्तरैः सानुशयस्य जीवस्य लोकान्तरारोहणम्, 6-99 २ पापिनां याम्यलोकगमनम्, ... ... १२-२१ अवरोहिणो जीवस्य वियदादिसमानत्वं, 00: २२ स्वर्गादवतरणकाले स्वर्ग-वृष्टि-पृथिवी-पुरुष-योषित्सु क्रमशो जनिष्यतो जीवस्य स्वर्गे वृष्टौ च जन्मनि त्वरा, तदितरेषु च जन्मनि विलम्ब इति ... २३ सस्यादौ जीवस्य न मुख्यजन्म किन्तु संश्वेषमात्रमिति, २४-२७ ६
उक्ताध्यायस्य द्वितीयपादे।
स्वप्नदष्टेरमिथ्यात्वकथनम् ... .. .. १-६ सुषुप्तिस्थानरूपस्य हृत्स्थब्रह्मण एकत्वस्थापनम्, ... ७-८ स्वप्नावस्थितस्यैव जीवस्य तस्मात् समुद्दोधो नापरस्थेति, ९ AY मूर्च्छाया जाग्रदायवस्थान्तरभिन्नत्वं, ... .. . ब्रह्मणो नीरूपभावस्य वेदान्तसम्मतत्वं, ... ११-२१ ब्रह्मणो निषेधातीतत्वेन सत्यत्वस्थापनं, ... २२-३० ब्रह्मणोऽन्यस्यावस्तुत्वव्यवस्थापनं, .. ३१-३७ कर्मफलोत्पत्तिं प्रति ईश्वरस्यैव कर्तृत्वं नापूर्वस्येति, ३८-४१ ८
उक्ताध्यायस्य तृतीयपादे।
छान्दोग्यवृहदारण्यकश्रुत्युक्तयो: पञ्चाग्निविद्योपास- नयो: विध्यनुष्ठानफलसाम्येनैकत्वं, १-४ गुणोपसंहारस्य कर्तव्यत्वं, छान्दोग्यकाण्वशाखयोरुद्वीथविद्याभेदकथनं, ६-6 ३
९
Page 15
(90)
प्रतिपाद्यविपया: । सू० अधि० वसिष्ठत्वादिगुणानामुपसंहर्तव्यत्वं, 90 ५. आनन्दसत्यत्वादीनां ब्रह्मगुणानां प्रतिपत्तिफलत्वेन सर्वशाख्रासु समानत्वात् व्यवस्थापकविध्यभावाच्च तेषामुपसंहर्तव्यत्वम् .. ११-१३ पुरुषज्ञानस्य संसारकारणात्, ज्ञाननिवर्तकत्वात् पुरु- षस्यैव वेद्यत्वं, .. ... १४-१५ ७ ईश्वरस्यैवात्मशब्दवाच्यत्वं न विराज इति, .. १६-१७ V
काण्वच्छान्दोग्यपष्ठयोई्योर्वस्त्वेकत्वम्, १८ 3 प्राणोपासनं प्रति प्राणविद्याप्राप्तयोरनग्नतावुद्दयाचमन- यो: अनग्नताबुद्देरेव विधेयत्वं, १९ १० काण्वानामग्निरहस्यव्राह्मणबृहदारण्यकयोः पठितायाः शाण्डिल्यविद्याया एकविधात्वं, २०-२२ ११ अहरित्यादित्यगतस्याहमित्यक्षिगतस्व् च वेद्यपुरुप- स्यैकत्वेऽपि स्थानविशेषे तन्नामविशेपस्य युक्तत्वं, २३,१२ विभैकत्वाभावात् सम्भृत्यादीनां गुणानां शाण्डिल्य- विद्यादिषु अनुपसंहार्यत्वम् २४ १३ तैत्तिरीयकताण्डिनो: पुरुषविद्यायाः पृथक्त्वम् २५ १४ वेदमन्त्रप्रवर्ग्यादीनां विद्यानङगत्वं, ... २६ १५ अर्थवादत्वेन पापपुण्ययोरुपाय- नस्य हानावुपसंहर्तव्यत्वं, १ वर्णकं पापपुण्यविधूननस्य हानार्थकत्व- सेव न चालनार्थकत्वं, २ वर्णकं २७-२८ १६ मरणातू प्राक् उपास्ये साक्षातूक ते सुकृतदुष्कतक्षयः, ३ वर्णकं उपासकस्यैवार्चिरादिमार्गो न ज्ञानिन इत्यस्य व्यवस्था, २९-३०१७
Page 16
(११) प्रतिपाद्यविषयाः। सू० अधि० सर्वासूपासनासु उत्तरमार्गविधानं, ३.१ १८ ब्रह्मतच्वज्ञानिनां मुक्तिर्नियता न तु पाक्षिकीत्यस्य प्रति- पादनम्, ... ... ३२ १९ आत्मस्वरूपलक्षकाणां निषेधानां परस्परोपसंहर्त- व्यत्वम्, ... ar २० ऋतं पिबन्ताविति द्दा सुपर्णाविति च मन्त्रयोरवेबै- कत्वम्, ... ३४ २१ एकशाखास्थयो: उषसकहोलयोर्वरा्मणयोर्विययैक्यप्रति- पादनम्, ... ... .. १५-३६ २२ उपासनार्थ पृथक्त्वेनोपास्यस्य द्वैधज्ञानम्, ... ३७ २३ सत्यविद्याया एकत्वप्रतिपादनम्, ... २४ दहराकाशहार्दाकाशयोरुपसंहर्तव्यत्वम्, .. ३९ २५ उपासकस्य भोजने प्राणाहुतिलोपापत्तिः, ... ४०-४१ २६ उद्धीथकर्माङ्गीभूतदेवतोपासनाया अनियतत्वम्, ४२ २७
पृथक्त्वम्, .. ४३ २८ मनश्व्विदादीनां स्वतन्त्रविद्यात्वस्वीकारः, ... ४४-५२ २९ भौतिकस्यात्मत्वनिराकरणपूर्वकतदन्यस्यात्मत्वप्रति- पादनम्, .. ५३-५४ ३० ऐतरेयगतोक्थोपासनायां पृथिव्यादिदष्टेः कौशीत- क्यामपि समानत्वम्, ... ... .५५-५६ ३१ विराडगपवैश्वानरस्य कत्लस्यैव ध्यातव्यत्वं न तदंशस्येति५७ ३२ अनुष्ठातव्य-शाण्डिल्यदहरादिविदयानां वेधव्रह्मभिन्न- त्वेन भिन्नत्वं, ५९३३ आत्मनः सगुणोपासनायां एकस्य इयोर्बहूनाञ्च उपास-
Page 17
(१२) प्नतिपाद्यविषयाः। अधि.
नानां वैकल्पिकनियमकथनं, ५९ ३४ विकल्पेन समुच्चयेन वा प्रतीकोपासनाया ऐच्छिकत्वं, ६० ३५ विकल्पसमुच्चययोर्याथाकाम्यं, .. ६१-६६ ३६
उक्ताध्यायस्य चतुर्थेपादे।
आत्मज्ञानस्य स्वतन्त्रत्वं न क्रत्वर्थत्वं, ऊर्ध्वरेतोरूपाश्रमाणामस्तित्वव्यवस्थापनं, १ वर्णकं १-१७१
लोककामिनामाश्रमिणां ब्रह्मनिष्ठानर्हत्वं, २ वर्णकं १८-२० २ उद्धीथावयवस्योङ्कारस्य ध्येयत्वं, .. २१-२२ औपनिषदाख्यानानां विद्यास्तावकत्वं, २१-२४ आत्मबोधस्य कर्मानपेक्षत्वम्, .. २५ विद्यायाः स्वोत्पत्तौ कर्मसापेक्षत्वम्, ... २६-२७ आपदि सर्वान्नाभ्यनुज्ञानं ... .. २८-३१ ७ विद्यार्थानामाश्रमधर्माणाञ्च यज्ञादीनां सकदनुष्ठानं, ३२-३५ ८ अनाश्रमिणो ज्ञानसम्भावनम्, ... ३६-३९ ९ आश्रमिणामवरोहाभावनिरूपणम्, :. १.० ऋ्रष्टो्ध्वरतसः प्रायश्चित्तसद्भावः, .89-४२ ११ भष्टोध्वरेतसः प्रायश््वित्तस्य आमुष्मिकशुद्धिजनकत्व तादृशशुद्दिमतो व्यवहारानरहत्वञ्च, ४३ १२ उपासनस्य ऋत्विक्कर्मत्वम्, १३ मौनस्य विधेयत्वम्, ... .१७-४९ १४ वाल्यस्य भावशुद्धित्वं न वयःकामचारोभयत्वम्, ५० १५ इह वा जन्मान्तरे वा ज्ञानोत्पत्तिरिति ज्ञानोत्पत्ते: पाक्षिकत्वमू, ५१ १६
Page 18
(१३) प्रतिपावविषयाः । सालोक्यादिमुक्तीनां जन्यत्वेन सातिशयत्वं निर्वाणमु- केश्ष निरतिशयत्वम्, ... .... ५२ १७ इति तृतीयाध्यायः
फलाख्यचतुर्थाध्यायस्य प्रथमपादे।
श्रवणादीनामावर्तनीयत्वम्, ... ... १-२ 9 3.
ज्ञात्रा जीवेन स्वात्मतया ब्रह्मणो ग्राह्यत्वम् २ प्रतीकेऽहंदृष्ट्यभावः, .. ... ... अब्रह्मणि प्रतीके ब्रह्मधियः कर्तव्यत्वम्, ...
कर्माङ्गेष्वादित्यादिद्ृष्टीनां कर्तव्यत्वम्, ...
उपासनायामासनस्य नियतत्वम्, ... ७-१० ध्यानसाधनस्यैकाश्र्यस्य प्रधानत्वेन दिग्देशकालानाम- नियम:, ... ... 99 ७
उपास्तीनामामरणमावृत्ति:, .. १२ ज्ञानिनः पापलेपाभावः, १३ ज्ञानिन: पुण्यलेपाभावः, .. .. १४ १० सश्चितयोरिवारब्धयोः पुण्यपापयोर्ज्ञानोदयसमये वि- नाशाभाव:, ... ... ... १५ 9.9 अग्निहोत्रादिनित्यकर्मणो विद्योपयोग्यांशस्याविनाश:,१६-१७१२ सोपासनस्य निरुपासनस्य च नित्यकर्मणसारतम्येन विद्यासाधनत्वम्, १३ अधिकारिणां मुक्तिसद्भावः, १९ १४
Page 19
( १४)
पतिपाद्यविषयाः । सृ० अधि० उक्ताध्यायस्य द्वितीयपादे।
वागादीनां मनसि वृत्तिप्रविलयो न स्वरूपेण, १-२ मनसः प्राणे वृत्या प्रविलयः, ... ३ २ प्राणस्य जीवे लयान्तरं पुनर्भूतेषु लयः, ... ४-६ ३ ज्ञान्यज्ञानिनोरुत्क्रान्तेरपि साम्यम्, ७
तेजःप्रभृतीनां परमात्मनि वृच्या लयः, . देहादेव प्राणोत्क्रान्तेर्निषेधः, १२-१४ तत्वज्ञानिनो वागादीनां परमात्मनि लयः, १५ तच्वविदो वागादीनां निःशेषेण परमात्मनि लयः १६ 6 उपासकस्योत्क्रान्तेर्विशेषवच्वम्, १७ निशायामपि मृतानां रश्मिप्रा्ति:, १८-१९ १० दक्षिणायनमृतस्योपासकस्य ज्ञानफलप्राप्तिः, २०-२१ ११
उक्ताध्यायस्य ततीयपादे।
अचिरादिकस्य व्रह्मलोकमार्गस्यैकत्वम्, .. संवत्सरादित्ययोर्मध्ये देवलोकवायुलोकौ सन्निवेशयि- तव्यौ, २ वरुणादीनां सुन्निवेशादचिरादिमार्गस्य व्यवस्थापितत्वं, मनस्य विधपत बाल्यस्य भावशावाहिकत्वम्, ४-६ इह वा जन्मान्तस लगमनम्, .. ७-१४
पाक्षिकत्वम्, १५-१६
Page 20
(१५)
सु० अधि० उक्ताध्यायस्य चतुर्थपादे।
मुक्तिरूपस्य वस्तुनः पुरातनत्वम्, ... १-३ मुक्तस्य ब्रह्मणोडभिन्नत्वम्, २ मुक्तस्वरूपभूतस्य ब्रह्मणो युगपत् सविशेषत्वनिर्विशे- षत्वे, ... ५-७ ३ अर्चिरादिमार्गेण ब्रह्मलोकं प्राप्तस्योपासकस्य भोग्य- वस्तूनां सृष्टौ मानससङ्कल्पस्यैव हेतुत्वं, ... ८-९ एकस्यापि पुरुषस्य देहभावाभावयोरैच्छिकत्वम्, १०-१४ ५ सर्वेषां देहानां सात्मकत्वम्, ... ... ... १५-१६ ब्रह्मलोकगतानामुपासकानां जगत्सृष्टौ स्वातन्त्र्याभा- वेऽपि भोगमोक्षयोस्तेषां स्वातन्त्रयसिद्दि:, १७-२२ ७ इति चतुर्थध्यायः
Page 22
॥ श्री:
।। ॐ नमो गणेशाय॥
यमिह कारुणिकं शरणं गतोप्यारेसहोदर आप महत् पदम् तमहमाशु हरें परमाश्रये जनकजाङ्गमनन्तसुखारुतिम्॥ १ ॥ श्रीगौर्या सकलार्थदं निजपदाम्भोजेन मुक्तिप्रदम् .. औढं विघ्नवनं हरन्तमनघं श्रीढुण्ठितुण्डासिना। चन्दे चर्मकपालिकोपकरणैवैराग्यसौख्यात् परम् नास्तीति प्रदिशन्तमन्तविधुरं श्रीकाशिकेशं शिवम् ॥ २ ॥ यत्कपालवमात्रेण मूको भवति पण्डितः। वेदशास्त्रशरीरान्तां वाणीं वीणाकरां भजे ॥ ३ ॥ कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्य-
श्रीमद्वोपालगीर्भि: प्रकठित परमाहैतभासास्मितास्य- श्रीमह्ोविन्दवाणीचरणकमलगो निर्वृतो ऽहं यथालि: ॥४॥ श्रीशङ्गरं भाष्यकतं प्रणम्य व्यासं हरें सूत्रकतं च व्मि। श्रीभाष्यतीर्थे परहंसतुष्टयै वाग्जालबन्धच्छिदमभ्युपायम्॥५॥ विस्तृतग्रन्थवीक्षायामलसं यस्य मानसम्। व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा॥ ६ ॥ श्रीमच्छारीरकं भाष्यं प्राप्य वाक् शुद्धिमाप्रुयात्। इति श्रमो मे सफलो गङ्गनं रथ्योदकं यथा॥ ७॥ . १ मोक्षपुर्यां श्रीकांच्यां श्रीकामाक्ष्या दत्तं पायसं देवैरपि स्तुतं प्राज्यं सम्पूर्ण प्रकृष्टाज्य युक्त्तं वा यञ्ञेज्यमन्नं तेनाधिपूज्याः श्रीशिवरामयोगिनः किश्च शिवश्रासौ रामश्चेति स्व्रनामा श्रीगौरीनायकयोरभेदं प्रकटयंति तेभ्यो गुरुभ्यो लब्धात्मवोधो यैः श्रीमद्गोपाल सरस्वतीभिस्तैरित्यर्थः। २ अन्र भाष्ये कठिनवाग्रूपेण जालेन यो वंधः जालव द्पक्षिणामिव परमहंसानां केशकरस्तननाशकमभीष्रमुपायं वच्मीत्यर्थः।
Page 23
(२) रत्नप्रभाभासिते [अ० १। पा० १।
सत्यज्ञानसुखानन्तं तदहं ब्रह्म निर्भयम्॥ ८॥। इह खलु "स्वाध्यायोऽध्येतव्य" इति नित्याध्ययनविधिनाऽधीत- साङ्गस्वाध्याये "तदिजिज्ञासस्व" "सोऽन्वेष्टव्यः स विजिज्ञासितव्यः" "आत्मा वा अरे द्रष्टव्यः श्रोतव्य" इति श्रवणविधिरुपलभ्यते।तस्या- र्थः, अमृतत्वकामेनाह्ैतात्मविचार एव वेदान्तवाक्यैः कर्तव्य इति। तेन काम्येन नियमविधिनाऽर्थादेव भि्न्नात्मशास्त्रप्रवृत्तिः वैदिकानां पु- राणादिप्राधान्यं वा निरस्यत इति वस्तुगतिः। तत्र कश्विदिह जन्मनि जन्मान्तरे वाऽनुष्टितयज्ञादिभिर्नितान्तं निर्मलस्वान्तोSस्वश्रवणविधे: को विषयः? किं फलं? कोऽधिकारी? कः सम्बन्धः इति जिज्ञासते। तं जिज्ञासुमुपलभमानो भगवान् वादरायणस्तदनुबन्धचतुष्टयं श्र- वणात्मकशास्त्रारम्भप्रयोजकं न्यायेन निर्णेतुमिदं सूत्रं रचयाच्चकार "अथातो ब्रह्मजिज्ञासा" इति। नन्वनुबन्धजातं विधिसन्निहितार्थवादवाक्यैरेव ज्ञानुं शक्यम्। तथाहि।"तयथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लो- क: क्षीयत" इति श्रुत्या यत् कतकं तदनित्यमिति न्यायवत्या "न जायते म्रियते वा विपश्चित्""यो वै भूमा तदमृतमतोऽन्यदार्त्तम्" इ- त्यादिश्रुत्या च भूतात्मा नित्यस्ततोऽनयदनित्यमिति विवेको लभ्यते। कर्मणा कष्यादिना चिंतः सम्पादितः सस्यादिलोंको भोग्य इत्यर्थः। विपश्ित् नित्यज्ञानस्वरूपः। "परीक्ष्य लोकानू कर्मचितान् ब्राह्मणो निर्वेदसायान्नास्त्यकतः कृतेन" "आत्मनस्तु कामाय सर्व प्रियं भव- ति" इत्यादिश्रुत्या अनात्ममात्रे वैराग्यं लभ्यते। परीक्ष्यानित्यत्वेन नि- श्रित्य। अकतो सोक्ष: कतेन कर्मणा नास्तीति। कर्मतत्फलेभ्यो वै -. १अत्रविधौ कालविशेषानुपादानान्नित्येत्यर्थसिद्धम्। २अधिकारिणीतिशेषः। ३भि स्रात्मप्रतिपादकशास्त्रपवृत्तिरित्यर्थः, अन्वयस्तु अस्य पदस्य निरस्यते इत्यनेन साकम्। क० पा० -- आत्मशास्त्रपवृन्तिः।
Page 24
सू० १। अ० १ ।] शाङ्करव्रह्मसूत्रभाष्ये ( ३ ) राग्यं प्राप्तवानित्यर्थः। "शान्तो दान्त उपरतस्तितिक्षुः समाहितः अ्र- द्वावित्तो भूत्वाSSत्मन्येवांत्मानं पश्येत्" इति श्रुत्या शमादिषट्कं ल- भ्यते। "समाहितो सूत्वा" इति काण्वपाठः । उपरतिः संन्यासः। "न सपुनरावर्तत" इति स्वयं ज्योतिरानन्दात्मकमोक्षस्य नित्यत्वश्रुत्या मुमुक्षा लभ्यते। तथा च विवेकादिविशेषणवानधिकारीति ज्ञातुं श- क्यम्। यथा "एता रात्रीरुपयन्ति" इति रात्रिसत्रविधौ प्रतितिष्ठन्ती- त्यर्थवादस्थप्रतिष्ठाकोमस्तहत्। तथा "श्रोतव्य" इत्यत्र प्रत्ययार्थस्य नियोगस्य प्ररुत्यर्थो विचारो विषयः । विचारस्य वेदान्ता विषय इति शक्यं ज्ञातुम्। "आत्मा द्रष्टव्य" इत्यद्ैतात्मदर्शनसुद्दिश्य "श्रोतव्य" इति विचारविधानातू। न हि विचारः साक्षाद्दर्शनहेतुः अप्रमाणत्वात् अपि तु प्रमाणविषयत्वेन । प्रमाणं चादैतात्मनि वेदान्ता एव। "तं- त्वौपनिषदं पुरुषं" "वेदान्तविज्ञानसुनिश्चितार्था" इति श्रुतेः। वेदा- न्तानां च प्रत्यग्व्रल्मैक्यं विषयः "तत्त्वससि" "अहं ब्रह्मास्मि" इति श्रुतेः। एवं विचारविधे: फलमपि ज्ञानद्वारा मुक्तिः "तरति शोकमात्म- वित्" "ब्रह्मविद् ब्रह्लैव भवति" इत्यादि श्रुतेः। तथा सम्बन्धोऽप्य- धिकारिणा विचारस्य कर्त्तव्यतारूपः फलस्य प्राप्यतारूप इति यथायो- गं सुबोधः। तस्मादिदं सूत्रं व्यर्थमिति चेतू न, तासामधिकार्यादिश्रु- तीनां स्वार्थे तात्पर्यनिर्णायकन्यायसूत्राभावे किं विवेकादिविशेषण- वानधिकारी उतान्यः? किं वेदान्ताः पूर्वतन्त्रेण गतार्था अगतार्था वा? किं ब्रह्म प्रत्यगभिनं न वा! किं सुक्ति: स्वर्गादिवत् लोकान्तरम् आत्मस्वरूपा वेति संशयानिवृत्तेः। तस्मादागमवाक्यैरापाततः प्रति- पन्नाधिकार्यादिनिर्णयार्थमिदं सूत्रमावश्यकम्। तदुक्तं प्रकाशात्मश्री-
१ अधिकारीतिपदं पूर्ववाक्यादिहाकृष्यताम्। नचैतद्वियौ विश्वजिन्न्यायेन स्वर्ग एव कुतो न फलं कल्प्यते इति वाच्यम्, अनुपस्थितस्वर्गफलकल्पने तस्य च प्रकृत- सत्रसंवंधकल्पने गौरवादर्थवादोपस्थितस्यैव प्रस्तुतसत्रफलत्वकल्पनौचित्यात्, तदुक्तं, "फल मत्रियो निर्देशाद्श्रुतौ ह्यनुमानं स्याट" इति जै०।
Page 25
(४) रत्नप्रभाभासिते [अ० १।पा० १ चरणैः।"अधिकार्यादीनामागमिकत्वेSपि न्यायेन निर्णयार्थमिदं सूत्रम्" इति। येषां सते श्रवणे विधिर्नास्ति तेपामविहितश्रवणेडधिकार्यादि- निर्णयानपेक्षणात् सूत्रं व्यर्थमित्यापतति इत्यलं प्रसङ्गेन। तथा चास्य सूत्रस्य श्रवणविध्यपेक्षिताधिकार्यादिश्रुतिभि: स्वा- र्थनिर्णयायोत्थापितत्वात् हेतुहेतुमन्भावश्रुतिसङ्गतिः । शास्त्रारम्भहेत्व- नुबन्धनिर्णायकत्वेनोपोद्धांतत्वाच्छास्रादौ सङ्गतिः । अधिकार्यादि- श्रुतीनां स्वार्थे समन्वयोक्ते: समन्वयाध्यायसङ्गतिः। "ऐतदात्म्यमिंद सर्वम् तत् सत्यम् स आत्मा तत्त्वमि" इत्यादिश्रुतीनां सर्वात्म- त्वादिस्पष्टव्ल्मलिङ्गानां विपयादौ समन्वयोक्ते: पादसङ्गतिः। एवं स- र्वसूत्राणां श्रुत्यर्थनिर्णायकत्वात् श्रुतिसङ्गतिः। तत्तदध्याये तत्तत्पाढे च समानप्रमेयत्वेन सङ्गतिरूहनीया। प्रमेयं च कत्लशास्त्रस्य व्रल्म, अध्यायानां तु समन्वयाविरोधसाँधनफलानि। तत्र प्रथमपादस्य स्पष्टब्रह्मलिङ्गानां समन्वयः प्रमेयः । द्वितीयतृतीययोरस्पष्टत्रह्मलिङ्ग- नां। चतुर्थपादस्य पदमात्रसमन्वय इति भेदः । अस्याधिकरणस्य प्राथम्यान्नाधिकरणसङ्गतिरपेक्षिता। अथाधिकरणमारच्यते। "श्रोतव्य" इति विहितश्रवणात्मकं वेदा- न्तमीमांसाशास्त्रं विषयः। तत् किमारब्धव्यं न वेति विषयप्रयोजनस- म्भवासम्भवाभ्यां संशयः। तत्र "नाहं ब्रह्म" इति भेदग्राहिप्रत्यक्षेण कर्तृत्वाकर्तृत्वादिविरुद्धधर्म्मवत्त्वलिङ्गकानुमोनेन च विरोधेन ब्रह्मा- त्मनोरैक्यस्य विपयस्यासम्भवात्, सत्यवन्धस्य ज्ञानान्निवृत्तिरूपफ- लासम्भवान्नारम्भणीयमिति प्राप्ते, सिद्धान्तः "अथातो ब्रह्मजिज्ञा-
१ प्रकृतार्थसिद्धयनुकलच्िन्ताविषयत्वं तत्वम्, तथा चाहुः, "चिन्तां प्रकृतसिद्धयर्था मुपोद्घातं विदुर्बुधाः" इति। २ यथाक्रमं प्रमेयाणीतिशेषः। ३क० पा० आरभ्यते। अधिकरणलक्षणं तु "विपयो विशयश्चैव पूर्वपक्षस्तथोत्तरः। सङ्गतिश्चेति पञ्चाङ्गं शात्त्रेऽधिकरणं स्मृतम्" इति ४ सहार्थयोग तृतीयेयम्। ५ अयमत्रानुमानप्रयो गः जीवत्रह्मणी मिथो भिन्ने विरुद्धधर्मवत्वात्तेजस्तिमिरवदिति।
Page 26
सू० १ । अ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (५) सा" इति। अत्र श्रवणविधिसमानार्थत्वाय "कर्तव्या" इति पद- मध्याहर्तव्यम्। अध्याहृतं च भाष्यकता "ब्रह्मजिज्ञासा कर्तव्या" इति। तत्र प्रकतिप्रत्ययार्थयोर्ज्ञानेच्छयोः कर्तव्यत्वानन्वयात प्रक- त्या फलीभूतं ज्ञानमजहल्लक्षणयोच्यते। प्रत्ययेनेच्छासाध्यो विचा- रो जहह्लक्षणया। तथा च "ब्रह्मज्ञानाय विचारः कर्तव्य" इति सू- त्रस्य श्रौतार्थः सम्पयते। तत्र ज्ञानस्य स्वतः फलत्वायोगात् प्रमातृ- त्वकर्तृत्वभो क्तृत्वात्मकानर्थनिवर्तकत्वेनैव फलत्वं वक्तव्यम्। तत्रान- र्थस्य सत्यत्वे ज्ञानमात्रान्निवृत्त्ययोगादध्यस्तत्वं वक्तव्यमिति बन्ध- स्याध्यस्तत्वमर्थात् सूचितम् । तच्च शास्त्रस्य विषयप्रयोजनवत्त्वसि- द्विहेतुः। तथा हि; शास्त्रमारव्धव्यं विषयप्रयोजनवत्त्वाद् भोजनादिवत्। शास्त्रं प्रयोजनवद् बन्धनिवर्तकज्ञानहेतुत्वात् रज्जुरियम् इत्यादिवा- क्यवत्। बन्धो ज्ञाननिवर्त्योऽध्यस्तत्वात् रज्जुसर्पवत्, इति प्रयोज- नसिद्धिः। एवमर्थाद् ब्रह्मज्ञानाज्जीवगतानर्थत्रमनिवृत्तिं फलं सूत्रयन् जीवब्रह्मणोरैक्यं विषयमप्यर्थात् सूचयति । अन्यज्ञानादन्यत्र भ्रमा- निवृत्तेः। जीवो ब्रह्माभिन्नः तज्ज्ञाननिवर्त्याध्यासाश्रयत्वात्, यदित्थं तत्तेथा यथा शुक्त्यभिन्न इदमंश इति। विषयसिद्धिहेतुरध्यास इत्येवं विषयप्रयोजनवत्त्वाच्छास्त्रमारम्भणीयमिति। अत्र पूर्वपक्षे बन्धस्य सत्यत्वेन ज्ञानादनिवृत्तेरुपायान्तरसाध्या मुक्तिरिति फलम्। सिद्धान्ते ज्ञानादेव सुक्तिरिति विवेकः। इति सर्व मनसि निधाय ब्रह्मसूत्राणि व्याख्यातुकामो भगवान् भाष्यकारः सूत्रेण विचारकर्त्तव्यतारूपश्रौ- तार्थान्यथानुपपत्त्यार्थात् सूत्रितं विषयप्रयोजनवत्त्वमुपोद्धातत्वात् तत्सिद्धिहेत्वध्याससाक्षेपसमाधानभाष्याभ्यां प्रथमं वर्णयति "युष्म- दस्मत्प्रत्ययगोचरयोः" इति। एतेन सूत्रार्थास्पर्शित्वादध्यासग्रन्थो न भाष्यमिति निरस्तम् आर्थिकार्थस्पशित्वात्। १ विषयस्य अध्यस्तत्वम्। २ यो यज्ज्ञाननिवर्त्याध्यासाश्रयः स तदभिन्न इति स्प टोडर्थ:। ३ वक्ष्यमाणहेतुना।
Page 27
(६) रत्नप्रभाभासिते [अ० १।पा०१। ॐ नमो भगवते वासुदेवाय।। युष्मदस्मत्प्रत्ययगोचरयोरविषयविषयिणोस्त- यन्तु मङ्गलाचरणाभावादव्याख्येयमिदं भाप्यमिति, तन्न, "सुतरा- मितरेतरभावानुपपन्तिः" इत्यन्तभाप्यरचनार्थ तदर्थस्य सर्वोप- द्रवरहितस्य विज्ञानघनप्रत्यगर्थस्य तत्वस्य स्मृतत्वात्। अतो निर्दोष- त्वादिदं भाष्यं व्याख्येयम्। लोके शुक्ताविदं रजतमिति भ्रमः सत्यरजते इदं रजतमित्यधिष्ठा- नसामान्यारोप्यविशेषयोरैक्यप्रमाहितसंस्कारजन्यो दृष्ट इति। अत्रा- प्यात्मन्यनात्माहङ्काराध्यासे पूर्वप्रमा वाच्या, सा चात्मानात्मनोर्वा- स्तवैक्यमपेक्षते, न हि तदस्ति। तथा हि, आत्मानात्मानावैक्यशून्यौ परस्परैक्यायोग्यत्वात् तमःप्रकाशवदिति मत्वा हेतुभूतं विरोधं वस्तु- तः प्रतीतितो व्यवहारश्र साधयति॥ युष्मदस्मत्प्रत्ययगोचरयो- रिति॥ न च "प्रत्ययोत्तरपदयोश्ष" [७२९८] इति सूत्रेण "प्र- त्यये चोत्तरपदे च परतो. युप्मदस्मदोर्मपर्यन्तस्य त्वमादेशौ रत" इति विधानात् "त्वदीयं मदीयं त्वत्पुत्रो मत्पुत्र" इतिवत् "त्वन्म- त्प्रत्ययगोचरयोः" इति स्यादिति वाच्यं, "त्वमावेकवचने"[७२। ९७] इत्येकवचनाधिकारात्, अंत्र च युष्मदस्मत्पंदयोरेकार्थवाचि- त्वाभावादनात्मनां युष्मदर्थानां बहुत्वादर्मदर्थचैतन्यस्याप्युपाधितो बहुत्वात्।। नन्वेवं सति कथमत्र भाष्ये विग्रहः? न च "यूयमिति प्रत्ययो यु- प्मत्प्रत्ययः वयमिति प्रत्ययोऽस्मत्प्रत्ययस्तद्वोचरयोरिति विग्रह" इति वाच्यं, शब्दसाधुत्वेऽप्यर्थासाधुत्वात्। न हहङ्गाराधनात्मनो यूयमिति १ आत्मानात्मनोर्वास्तवैक्यम् २ युष्मदस्मत्प्रत्यय गोचरयोरितिभाष्ये। ३ क० पा० युष्मदस्मदोरेकार्थवाचित्वाभावात्।
Page 28
सु० ।अ० ] (७)
प्रत्ययविषयत्वमस्तीति चेत्, न, गोचरपदस्य योग्यतापरत्वात्। चि- दात्मा तावदस्मत्प्रत्यययोग्यः, तत्प्रयुक्तसंशयादिनिवृत्तिफलभाक्त्वा- त्, "न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात्" इति भा- ष्योक्तेश्र। यव्यप्यहङ्गारादिरपि तबोग्यस्तथापि चिदात्मनः सकाशा- दत्यन्तसेदसिद्धचर्थ युष्मत्प्रत्यययोग्य इत्युच्यते। आश्रमश्रीचरणास्तु ठीकायोजनायामेवमाहुः।"सम्बोध्यचेतनो युष्मत्पदवाच्यः, अहङ्कारादिविशिष्टचेतनोऽस्मत्पदवाच्यः, तथा च यु- ष्मदस्मदो: स्वार्थे प्रयुज्यमानयोरेव त्वमादेशनियमो, नलाक्षणिकयोः "युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वाल्नावौ" [८।१।२] इति सूत्रासाङ्कत्यप्रसङ्गात् अत्र शब्दलक्षकयोरिव चिन्मात्रजडमात्रलक्ष- कयोरपि न त्वमादेशो लक्षकत्वाविशेषाद्" इति। यदि तयोः शब्दबो- धकत्वे सत्येव त्वमादेशाभाव इत्यनेन सूत्रेण ज्ञापितं, तदाऽस्मि- न् भाष्ये युष्मत्पदेन युष्मच्छव्दजन्यप्रत्यययोग्यः परागर्थो लक्ष्यते अस्मत्पदेन अस्सच्छव्दजन्यप्रत्यययोग्यः प्रत्यगात्मा। तथा च लक्ष्य- तावच्छेदकतया शव्दोऽपि बोध्यत इति न त्वमादेशःन च पराक्त्व- प्रत्यक्त्वयोरेव लक्ष्यतावच्छेदकत्वं, न शब्दयोग्यत्वांशस्य गौरवा- दिति वाच्यं, पराक्प्रतीचोर्विरोधस्फुरणार्थ विरुद्धशव्दयोग्यत्वस्यापि वक्तव्यत्वात्। अत एवेदमस्मत्प्रत्ययगोचरयोरिति वक्तव्येऽपीदंशब्दो Sस्मदर्थे लोके वेदे च बहुशः"इमे वयमास्महे" "इमे विदेहाः" "अय महमस्मि" इति च प्रयोगदर्शनात्, नास्मच्छब्दविरोधीति मत्वा यु- ष्मच्छद: प्रयुक्त:, इदंशव्दप्रयोगे विरोधास्फूर्तेः।एतेन चेतनवाचित्वा- १ अयमात्मा एकान्तेन नियमेनाविषयो न। २ युस्मदष्मदो: पष्टीत्यादिसूत्रे। ३ समनियतलघुधर्मस्यावच्छेदकत्वे संभवति गुरोधर्मस्य तदभाव इति सिद्धान्तः। ४ वक्ष्यमाणहेतुह्येन।
Page 29
(८) रत्नप्रभाभासिते [अ० १।पा० १। पत्तौ सिद्धायां तद्र्माणामपि सुतरामितरेतर दस्मच्छव्दः पूर्व प्रयोक्तव्यः" अभ्यर्हितं पूर्वमितिन्यायात्" "त्यदा- दीनि सवैंनित्यम्" [१।२।७२] इति सूत्रेण विहित एकशेपश्र स्यादिति निरस्तम् "युष्मदस्मदोरिति" सूत्र इवात्रापि पूर्वनिपातैकशे- षयोरप्राप्तेः, एकशेषे विवक्षितविरोधास्फूर्तेश्र। वृद्धास्तु "युष्मदर्थाद- नात्मनो निष्कष्य शुद्धस्य चिद्धांतोरध्यारोपांपवादन्यायेन ग्रहणं दयोत- यितुमादौ युष्मद्गहणम्" इत्याहुः। तत्र युष्मदस्मत्पदाभ्यां पराकप्र- त्यत्क्ेनात्मानात्मनोर्वस्तुतो विरोध उक्तः॥ प्रत्ययपदेन प्रतीतितो विरोध उक्तः। प्रतीयत इति प्रत्ययो डह- झारादिरनात्मा दृश्यतया भाति, आत्मा तु प्रतीतित्वात् प्रत्ययः स्वम- काशतया भाति। गोचरपदेन व्यवहारतो विरोध उक्तः । युप्मदर्थः प्रत्यगात्मतिरस्कारेण कर्ताहमित्यादि व्यवहारगोचरः, अस्मदर्थस्त्व- नात्मप्रविलापेन "अहं ब्रह्मेति" व्यवहारगोचर इति त्रिधा विरोधः स्फुटीकतः। युष्मच्चास्मच्न युष्मदस्मदी, ते एव प्रत्ययौ च तौ गोचरौ चेति युष्मदस्मत्प्रत्ययगोचरौ तयोस्त्रिधा विरुद्धस्वभावयोरितरेतरभावो त्यन्ताभेदसतादात्म्यं वा तदनुपपत्तौ सिद्दायामित्यन्वयः । ऐक्यास- म्भवेऽपि शुक्को घट इतिवत्तादात्म्यं किं न स्यादित्यत आह॥ विषय विषयिणोरिति। चिज्जडयोविषयविषयित्वाद्दीपघठयोरिव न तादात्म्य मिति भावः। युष्मदस्मदी पराक्प्रत्यग्वस्तुनी, ते एव प्रत्ययश्र गो- चरश्षेति वा विग्रहः। अत्र प्रत्ययगोचरपदाभ्यां आत्मानात्मनोः प्र- त्यक्पराग्भावे चिदचित्त्वं हेतुरुक्तः, तेत्र हेतुमाह विषयविषयिणोरि- ति। अनात्मनो ग्राह्यत्वादचित्त्वं आत्मनस्तु ग्राहकत्वाञ्चित्वं वाच्यम्। अचिच्वे स्वस्य स्वेन ग्रहस्य कर्मकर्तृत्वविरोधेनासम्भवादप्रत्यक्षत्वा- १ चैतन्यस्य धारकस्य सर्वाधिष्ठानस्येति यावत्। २ अध्यारोपापवादाभ्यां निष्न- पञ्चं प्रपंच्यते इति न्यायस्वरूपम्। ३ अहंकारः। ४ चिदात्मा। ५ चिदचित्वे।
Page 30
सू० १। अ० १ ] ( ९ ) आावानुपपत्तिरित्यतोSस्मस्प्रत्ययगोचरे विपयि-
पत्तेरित्यर्थः। यथेष्ट वा हेतुहेतुमन्नावः।नन्वेवमात्मानात्मनोःपराक्परत्य- स्केन चिदचिन्वेन ग्राह्मगाहकत्वेन न च विरोधात् तसःप्रकाशवदैक्यस्य तादात्म्यस्य चानुपपत्तौ सत्यां तत्प्रमित्यभावेनाध्यासाभावेडापे तद्ध- र्माणां चैतन्यसुखजाड्यदुःखादीनां विनिमयेनाध्यासोSस्त्वित्यत आह । तद्र्माणामपाति ॥ तयोरात्मानात्मनोर्थमस्तिद्वर्मास्तेषामपि इ- तरेतरभावानुपपत्तिः। इतरत्र धर्म्यन्तरे इतरेपां धर्माणां भावः संसर्गस्त- स्या नुपपत्तिरित्यर्थः। न हि धर्मिणोः संसर्ग विना धर्साणां विनिमयोS- स्ति।स्फटिके लोहितवस्तुसान्निध्यात् लौहित्यधर्मसंसर्गः। असंगात्म- धमिणः केनाऽप्यसंसर्गाद्दर्मिसंसर्गपूर्वको धर्मसंसर्ग: कुतस्त्य इत्य- भिप्रेत्योक्तम्।। सुतरामिति॥ नन्वात्मानात्मनोस्तादात्म्यस्य तद्र्मसं सर्गस्य चाभावेऽप्यध्यासः किंन स्यादित्यत आह।।इत्यत इति।।इत्युक्त रीत्या तादात्म्यादयभावेन तत्प्रमाया अभावादतः प्रमाजन्यसंस्कारस्या ध्यासहेतोरभावादध्यासो मिथ्येति भवितुं युक्तमित्यन्वयः। मिथ्याशब्दो ह्चर्थः, अपक्कववचनः अनिर्वचनीयतावचनश्रेति।अत्र चापन्हवार्थः।
अनात्मन्यात्मतद्धर्माणोमध्यासो निरस्यत इत्याह॥ अस्मत्प्रत्यय- गोचर इत्याढिना॥ अहमितिप्रत्यययोग्यत्वं वुद्ध्यादेरप्यस्तीति मत्वा तत आत्मानं विवेचयति ॥विषयिणीति॥ वुद््यादिसाक्षिणीत्यर्थः। साक्षित्वे हेतुः॥ चिदात्मक इति॥ अहमिति भासमाने चिदंशात्म नीत्यर्थः ॥युष्मत्प्रत्ययगोचरस्थेति ॥ त्वंकारयोग्यस्य इदमर्थस्येति १ विषयविघयित्वे चिदचित्वं हेतु:, चिदचित्वे प्रत्यक्पराग्भावो हेतुः । यहा विषयविषयित्वे पराक्प्रत्यग्भावो हेतु, प्रत्यकपराग्भावे चिदचित्वं हेतुः। अथवा प्रत्य- कपराग्भावे चिदचित्वं हेतु:, चिदचित्वे विषयविपयिभावो हेतुः। इतिरीत्या यथेटम्। २ धर्माणां विनिमयो नाम स्वधर्म्यतिरिक्त भानम्। ३ चकारोऽत्राध्याहर्तव्यः ।
Page 31
(१०) रत्नप्रभाभासिते [अ० १। पा. १। णि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य यावत्।। नन्वहमिति भासमानवुद्दयादे: कथमिदमर्थत्वमित्यत आह विषयस्येति॥ साक्षिभास्यस्येत्यर्थः। साक्षिमास्यत्वरूपलक्षणयोगा- द् बुद्ध्यादेर्घठादिवदिदमर्थत्वं न प्रतिभासत इति भावः।अथ वा यदात्मनो मुख्यं सर्वान्तरत्वरूपं प्रत्यत्कं प्रतीतित्वं ब्रह्मास्मीति व्यवहारगोचरत्वं चोक्तं तदसिद्धम्, अहमिति प्रतीयमानत्वात् अह- ड्ारव दित्याशङ्ग्याह॥।अस्मतुप्रत्ययगोचर इति ॥अस्मव्चासौ प्रत्य- यश्वासौ गोचरश् तस्मिन्नित्यर्थः। अहंवृत्तिव्यङ्ग्चस्फुरणत्वं स्फुरणवि- षयत्वं वा हेतुः। आबे, दृष्टान्ते हेत्वसिद्धिः। द्वितीये तु, पक्षे तदसि- द्विरित्यात्मनो मुख्यं प्रत्यक्कादि युक्तमिति भावः। ननु यदात्मनो वि- षयित्वं तदसिद्धम् "अनुभवामि" इति शब्दवत्त्वाद् अहङ्कारवदित्यत आह।। विषयिणीति॥ वाच्यत्वं लक्ष्यत्वं वा हेतुः। नायः पक्षे तद- सिद्धेः। नान्त्यः, दृष्टान्ते तद्दैकल्यादिति भावः। "देहं जानामि" इति देहाहङ्कारयोविषयविषयित्वेऽपि मनुष्योऽहमित्यभेदाध्यासवदात्माह- ङ्ारयोरप्यध्यासः स्यादित्यत आह ।॥ चिदात्मक इति॥ तयोर्जा- ड्याल्पत्वाभ्यां सादृश्यादध्यासेऽपि चिदात्मन्यनवच्छिन्ने जडाल्पाह- झारादेर्नाध्यास इति भाव:। "अहम्" इति भास्यत्वादात्मवदहङ्ग- रस्यापि प्रत्यत्कादिकं सुख्यमेव, ततः पूर्वोक्तपरा ्कायसिद्धिरित्याश- ड्क्याह॥ युष्मदिति॥ अहंवृत्तिभास्यत्वमहङ्कारे नास्ति कर्तृकर्म- त्वविरोधात्, चिन्धास्यत्वं चिदात्मनि नास्ति इति हेत्वसिद्धिः। अतो बुद्दयादेः प्रतिभासतः प्रत्यक्केऽपि परात्कादिकं मुख्यमेवेति भावः। युष्मतू पराक् तच्चासौ प्रतीयत इति प्रत्ययश्रवासौ कर्तृत्वादिव्यवहार- गोचरथ् तस्येति विग्रहः। तैस्य हेयत्वार्थमाह ॥ विषयस्थेति॥ षि- १ का०पा० :- रव्यभेदाध्यासः २ अहंवृत्तिभास्यत्वं हेतुः, अहंवृत्त्यभिव्यक्त्तचिद्जा- स्यत्वं वा हेतुस्तन्रेति शेषः ।
Page 32
सू०१। अ० १॥ शाङ्गरव्रह्मसूत्रभाष्ये (११) तदर्माणां चाध्यासः । तद्विपर्ययेण विषयिण-
ञ् बन्धने। विसिनोति बन्नाति इति विषयस्तस्येत्यर्थः । आत्मन्य- नात्मतद्र्माध्यासो मिथ्या भवतु, अनात्मन्यात्मतद्धर्माध्यासः किं न स्यात्? "अहं स्फुरामि, सुखी" इत्यादनुभ्नवादित्याशङ्क्याह । तद्विपर्ययेणेति ॥ तस्मादनात्मनो विपर्ययो विरुद्धस्वभ्ावश्रैत- न्यं, इत्थमभावे तृतीया। चैतन्यात्मना विषयिणसद्धर्माणां च योऽह- झरादौ विषयेऽध्यासः स मिथ्येति नासतीति भवितुं युक्तम्, अध्या- ससाम्र्यभावातू। न ह्त्र पूर्वप्रमाहितसंस्कारः सादृश्यमज्ञानं वा- डसिति। निरवयवनिर्गुणस्वप्रकाशात्मनि गुणावयवसादृश्यस्य चाज्ञान- स्य चायोगात्। नन्वात्मनो निर्गुणत्वे तद्धर्माणामिति भाष्यं कथमिति चेद्, उ- च्यते। वुद्धिवृत्यभ्भिव्यक्तं चैतन्यं ज्ञानं विषयाभेदेनाभिव्यक्तं स्फुर- णम्, शुभकर्मजन्यवृत्तिव्यक्तमानन्द इत्येवं वृत्युपाधिकतभेदातू ज्ञानादीनामात्मधर्मत्वव्यपदेशः। तदुक्तं ठीकायाम्, "आनन्दो वि- पयानुभ्वो नित्यत्वं चेति सन्ति धर्मा अपृथक्केऽपि चैतन्यात् पृथ- गिवावभासन्ते" इति। अंतो निर्गुणव्रह्मात्मत्वमते "अहङ्गरोमि" इति प्रंतीतेरर्थस्य चाध्यासत्वायोगात् प्रमात्वम्, "अहं नर इति सामानाधिकरण्यस्य गौणत्वमिति" मंतमास्थेयम्। तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासम्भवाद् बद्धमुक्तयोर्जीवव्रह्मणोरै- क्यायोगेन विषयासम्भवात् शास्त्रं नारम्भणीयमिति पूर्वपक्षभाष्य- तात्पर्य्यम्। युक्तग्रहणात् पूर्वपक्षस्य दुर्वलत्वं सूचयति। तथा हि, किमध्यासस्य नास्तित्वमयुक्तत्वाद्, अभानाद्दा, कारणाभावाद्दा? आब इष्ट इत्याह ॥ तथापीति ॥ एतदनुरोधादादौ यद्पीति
Page 33
(१२) रत्नप्रभाभासिते [अ० १। पा०१। स्तदर्माणां च विषयेऽध्यासो मिथ्येति भवितुं यु- क्तम्। तथाप्यन्योन्यस्मिन्नन्योन्यात्मकताम-
पठितव्यम्। अध्यासस्यासङ्गस्वप्रकाशात्मन्ययुक्तत्वमलङ्गर इति भावः। न द्दितीय इत्याह ॥ अयमिति॥"अज्ञः कर्ता मनुष्योऽहम्" इति प्रत्यक्षानुभवादध्यासस्याभानमसिद्दमित्यर्थः । न चेदं प्रत्य- क्षं कर्तृत्वादौ प्रमेति वाच्यम्, अपौरुषेयतया निर्दोषेणोपकमादि- लिङ्गावैधृततात्पर्येण च "तच्वमसि" इत्यादिवाक्येनाकर्तृत्वव्रह्मत्व- बोधनेनास्य भ्रमत्वनिश्रयात्। न च ज्येष्ठप्रत्यक्षविरोधादागमज्ञानस्यै- वं बाध इति वाच्यम् देहात्मवादप्रसङ्गात्। "मनुष्योऽहम्" इति प्र- त्यक्षविरोधेन "अथायमशरीरः" इत्यादिश्रुत्या देहान्यात्मासिद्देः । "तस्मादिदं रजतम्" इतिवत् साँमानाधिकरण्यप्रत्यक्षस्य भ्रमत्वश- ङ्ाकलाङ्गितस्य नागमात् प्रावल्यमित्यास्थेयम्। किश्च ज्येष्ठत्वं पूर्व- भावित्वं वा! आगमज्ञानं प्रत्युपजीव्यत्वं वा?। आबेन प्राबल्यं। ज्ये- प्स्यापि रजतभ्रमस्य पश्चाग्गाविना शुक्तिज्ञानेन वाधदर्शनातू। न दितीयः । आगमज्ञानोत्पत्तौ प्रत्यक्षादिमूलवृद्दव्यवहारे च संगति- ग्रहद्वारा शव्दोपलव्धिद्वारा च प्रत्यक्षादेरव्यावहारिकप्रामाण्यस्योपजी- व्यत्वेऽपि तात्त्विकप्रामाण्यस्यानपेक्षितत्वादनपेक्षितांशस्यागमेन वा- धसंभवादिति। यत्तु क्षणिकयागस्य श्रुतिवलात् कालान्तरभाविफलहेतुत्ववत् "त था विद्दानामरूपाद्दिमुक्तः", इति श्रुतिबलात् सत्यस्योपि ज्ञानानिनि वृतिसम्भवादध्यासवर्णनं व्यर्थमिति तन्न ज्ञानमात्रनिवर्त्यस्य क्वापि १उपक्रमोपसंहारोवभ्यासोऽपूर्वताफलम । अर्थयादोपपत्तीच लिंग तात्पर्यनिर्णये" इतिश्लोकोक्त्ताः पडुपक्रमादयः। २ निश्ित। ३ अज्ञः कर्ता मनुष्योऽहमित्यादि- रूपस्य। ४ उपजीव्यते कार्यायाश्रीयते इत्युपजीव्यं कारणं तस्य भावः तत्व्रम्। ५ वंधस्येतिशेष:।
Page 34
सू० १। अ० १] शाङ्गरब्रह्मसूत्रभाष्ये (१३)
सत्यत्वादर्शनात, सत्यस्य चात्मनो निवृच्यदर्शनाच्च, अयोग्यतानि- श्रये सति सत्यबन्धस्य ज्ञानान्निवृत्तिश्रुतेर्बोधकत्वायोगातू। न च सेतुदर्शनात् सत्यस्य पापस्य नाशदर्शनान्नायोग्यतानिश्रय इति वा- च्यम्। तस्य श्रद्धानियमादिसापेक्षज्ञाननाश्यत्वात्, बन्धस्य च "ना- न्यः पन्थाः" इति श्रुत्या ज्ञानमात्रान्निवृत्तिप्रतीतेः। अतः श्रुतज्ञान- निवर्त्यत्वनिर्वाहार्थमध्यसतत्वं वर्णनीयम्। किश्च ज्ञानैकनिवर्च्यस्य किं नाम सत्यत्वम्? न तावदज्ञानाजन्यत्वम्। "मायां तु प्रकतिम्" इति श्रुतिविरोधात् मार्याविद्ययोरैक्यात्। नापि स्वाधिष्ठाने स्वाभावशून्य- त्वम्। "अस्थूलम्" इत्यादि निषेधश्रुतिविरोधात्। नापि व्रह्मवद्दा- धायोग्यत्वं ज्ञानानिनिवृत्तिश्रुतिविरोधात्।अथ व्यवहारकाले बाधशून्य- त्वम्, तहि व्यावहारिकमेव सत्यत्वमित्यागतमध्यस्तत्वम्। तच्च श्रु- त्यर्थे योग्यताज्ञानार्थ वर्णानीयमेव यागस्यापूर्वद्दारत्ववत्। न च तदन- न्यत्वाधिकरणे तस्थे वर्णनातू पौनरुक्त्यम्। तत्रोक्ताध्यासस्यैव प्रवृ- त्यङ्गविषयादिसिद्धयर्थमादौं स्मार्यमाणत्वादिति दिक्। अध्यासं दे- धा दर्शयति॥ लोकव्यवहार इति॥ लोक्यते मनुष्योSहमित्यभिम- न्यत इति लोकोऽर्थाध्यास: तदिषियो व्यवहारोऽभिमान इति ज्ञा- नाध्यासो दर्शितः । द्विविधाध्यासस्वरूपलक्षणमाह ।। अन्योन्य- स्मित्नित्यादिना धर्मधर्मिणोरित्यन्तेन ।I जाड्यचैतन्यादिधर्माणां धर्मिणावहङ्कारात्मानौ तयोरत्यन्तं भिन्नयोरितरेतरभेदाग्रहेणान्यो- न्यस्मिन् अन्योन्यतादात्म्यमन्योन्यधर्माश् व्यत्यासेनाध्यस्य लो- कव्यवहार इति योजना। अतः "सोऽयम्" इति प्रमाया नाध्यास- १अयमभिप्रायः यदि बन्धे सत्यत्व्रस्त्रीकारस्ते मते तदातूपनिषदांसहस्त्रैरवि वन्धनिवृ- नितिर्न शक्यते वोधयितुं, वंधो न निवृत्तिप्रतियोगी सत्यत्वात, आत्मवत्, इत्यनुमानेन तस्य निवृत्त्यभाववोधनाढिति। २ मायाभासेन जीवेशौ करोति मायाचाविद्या च स्व- यमेव भवतीतिश्रुनेस्तयोरैक्यमवसेयम। ३वन्धाध्यस्तत्वस्य। ४ अत्यन्तपदोपादानात्।
Page 35
(१४) रत्नप्रभाभासिते [अ० १। पा० १। त्वं तदिदमर्थयोः कालभेदेन कल्पितभेदेऽपि अत्यन्तभेदाभावातू, इ- ति वक्तुमत्यन्तेत्युक्तम्। न च धर्मितादात्म्याध्यासे धर्माध्याससिद्धेः "धर्माश्रेति" व्यर्थमिति वाच्यम् अन्धत्वादीनामिन्द्रियधर्माणां ध- क्र्यध्यासास्फुटत्वेऽप्यन्धोSहमिति स्फुटोऽध्यास इति ज्ञापनार्थत्वात्। नन्वात्मानात्मनो: परस्पराध्यस्तत्वे शून्यवादः स्यादित्याशङ्क्याह ॥ ॥ सत्यानृते मिथुनीकृत्येति ॥ सत्यमनिदं चैतन्यं, तस्यानात्मनि संसर्गमात्राध्यासो नं स्वरूपस्य। अनृतं युष्मदर्थः तस्य स्वरूपतोऽ- प्यध्यासातू तयोमिथुनीकरणमध्यास इति न शून्यतेत्यर्थः । नन्वध्यासमिथुनीकरणलोकव्यवहारशव्दानामेकार्थत्वेऽध्यस्य मि धुनीकत्येति पूर्वकालत्ववाचि "क्का" प्रत्ययादेशस्य ल्यपः कर्थ प्रयोग इति चेन्न, अध्यासव्यक्तिभेदात्। तन्र पूर्वपूर्वाध्यासस्योत्त- रोत्तराध्यासं प्रति संस्कारद्वारा पूर्वकालत्वेन हेतुत्वदोतनार्थ ल्यपः प्रयोगः। तदेव स्पष्यति॥ नैसर्गिक इति॥प्रत्यगात्मनि हेतुहेतुमन्ना- वेनाध्यासप्रवाहोऽनादिरित्यर्थः ॥ ननु प्रवाहस्यावस्तुत्वादध्यासव्य- कीनां सादित्वात् कथमनादित्वमिति चेद्, उच्यते।अध्यासत्वावच्छि- नव्यक्तीनां मध्येऽन्यतमया व्यक्त्या विनाऽनादिकालस्य अवर्तनं का- र्यानादित्वमिति, अङ्गीकारातू। एतेन कारणाभावादिति कैल्पो निर- स्तः संस्कारस्य निमित्तस्य नैसर्गिकपदेनोक्तत्वात्। न च पूर्वप्रमाज- न्य एव संस्कारो हेतुररिति वाच्यम्, लाघवेन पूर्वानुभवजन्यसंस्कार- स्य हेतुत्वात्। अतः पूर्वाध्यासजन्यसंस्कारोडस्तीति सिद्धम्। अ- ध्यासस्योपादानमाह ॥I मिथ्याज्ञाननिमित्त इति ॥ मिथ्या च तद- ज्ञानं च मिथ्याज्ञानं तन्निमित्तमुपादानं यस्य स तन्निमित्तस्तटुपादान इ- त्यर्थः । अज्ञानस्योपादानत्वेऽपि संस्फुरदात्मतच्वावरकतया दोषत्वे- नाहङ्काराध्यासकर्तुरी श्वरस्योपाधित्वेन संस्कारकालकर्मादिनिमित्तपररि- १ का० पा० विकरपो।
Page 36
सू० १। अ० १ ] शाङ्गरव्रह्मसूत्रभाष्ये (१५) विक्तयोर्धर्मधार्मणोर्मिथ्याज्ञाननिमित्तः सत्या- नृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गि-
णामित्वेन च निमित्तत्वमिति दयोतयितुं निमित्तपदम्। स्वप्रकाशात्म- न्यसङ्गे कथमविद्यासङ्ग इति शङ्गानिरासार्थ मिथ्यापदम्। प्रच- ण्डमार्तण्डमण्डले पेचकांनुभवसिद्धान्धकारवत् "अहमज्ञ" इत्यनुभव सिद्धमज्ञानं दुरपङ्गवं कल्पितस्याधिष्ठानास्पर्शित्वात् नित्यस्वरूपज्ञा- नस्याविरोधित्वाच्चेति। यद्दा अज्ञानं ज्ञानाभाव इति शङ्गानिरासार्थ मिथ्यापदम्। मिथ्यात्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानस्य लक्षणं मिथ्याज्ञानपदेनोक्तम्। ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति व- देन्तं प्रति मिथ्यात्वे सतीत्युक्तम्। अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यव- न्धेऽतिव्याप्तिनिरासाय साक्षादिति। अनाधुपादानत्वे सति मिथ्यात्वं वा लक्षणम्। ब्रह्मनिरासार्थ मिथ्यात्वमिति। मृदादिनिरासार्थमना- दीति। अविद्यात्मनोः सम्बन्धनिरासार्थमुपादानत्वे सतीति। संप्रति अध्यासं द्रढयितुमभनिलपति । अहमिदं ममेदमिति॥ आध्या- त्मिककार्याव्यासेष्वहमिति प्रथमोऽध्यासः। न चाधिष्ठानारोप्यांश- द्दयानुपलम्भात् नायमध्यास इति वाच्यम्, "अयो दहति" इतिवत् "अहमुपलभे" इति दक्दृश्यांशयोरुपलम्भात्। इदंपदेन भोग्यः संघा- त उच्यते। "अत्रअहमिदम्" इत्यनेन "मनुष्योऽहम्" इति तादा- त्म्याध्यासो दर्शितः। "ममेदं शरीरम्" इति संसर्गाध्यासः॥ ननु देहात्मनोसतादात्म्यमेव संसर्ग इति तयोः को भेद इति चेतू, सत्यम्, सत्तैक्ये सति मिथोऽभेदसतादात्म्यम्। तत्र "मनुष्योऽहम्" १ दिवान्धस्योलूकस्य। २ प्रतियोगिपागभावनिवृत्तिः प्रतियोगिस्वरूपान्नातिरि- च्यते इति चिरंतनतार्किक प्रति। तन्मते इच्छायागभावनिवृत्तेरिच्छास्व्ररूपानतिरिक्त्त- या इच्छाया ज्ञानसाध्यत्वांगीकारादेव इच्छामागभावनिवृत्तेरपि ज्ञानसाध्यत्वसंभवादि- ति वोध्यम्। ३ द्शित इति पूर्वोक्तमन्रानुवर्त्य चकारं चाध्याहृत्य संसर्गाव्यासश्र दर्शित इति योज्यम् ।
Page 37
(१८) रत्नप्रभाभासिते [अ० १।पा० १।
वदन्ति। केचितु "यत्र यदध्यासस्तद्विवेकाग्रह- निबन्धनो भ्रम" इति। अन्येतु"यत्र यदध्या- सस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षत"इ- ति।सर्वथापि त्वन्यस्यान्यधर्मावभासतांनव्य- भिचरति। तथा च लोकेऽनुभवः "शुक्तिका हि रजतवदवभासते एकश्रन्द्रः सद्वितीयवद्" इति योजना। ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्वदर्शनादवभास- त इति वाक्यंयोजनीयमिति संक्षेपः। ननु अध्यासे वादिविप्रतिपेत्तेः
त्र परावभास" इति लक्षणे संवादाबुक्तिभिः सत्याधिष्ठाने मिथ्यार्थाव- भाससिद्धेःसर्वतन्त्रसिद्धान्ते इदं लक्षणमिति मत्वा अन्यथात्मख्याति- वादिनोर्मतमाह ॥ तंकेचिदिति ॥ केचिदन्यथांख्यातिवादिनोऽन्य- त्र शुक्त्यादावन्यधर्मस्य स्वावयवधर्मस्य देशान्तरस्थरूप्यादेरध्यास इ- ति वदन्ति। आत्मख्यातिवादिनस्तु बाहये शु्यादौ बुद्धिरूपात्मनो ध- र्मस्य रजतस्याध्यास आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्ती- त्यर्थः । अख्यातिसतमाह ॥ केचिदिति ॥ यत्र यस्याध्यासो लोक- सिद्दस्तयोरर्थयोस्तद्वियोक्ष भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिषव्यवहार इति वदन्तीत्यर्थः । तैरपि विशिष्टव्यवहारान्यथानुप- पत्त्या विशिष्टभ्रान्तेः स्वीकार्यत्वात् परत्र परावभाससम्मतिरिति भा- वः। शून्यमतसाह ॥ अन्ये तिति॥ तस्यैवाधिष्ठानस्य शुक्त्यादेवि- १ "आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा। तथा निर्वचनख्यातिरित्येत- रख्यातिपञ्चकम्" इत्येवं पञ्च प्राचीना विप्रतिपत्तयो ज्ञेयाः। २ अन्यथाख्यातिवादि- नस्ताार्ककस्य आत्मख्यातिवादिनो बोद्धस्य च मतमाहेत्यर्थः। मीमांसकानां मतमाहेत्यर्थः । ३ अख्यातिवादिनां
Page 38
स.१। अ० १।] शाङ्करब्रह्मसूत्रभाष्ये (१९) इति। कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो वि- षयतदर्माणाम्! सर्वो हि पुरोऽवस्थिते दिष- ये विषयान्तरमध्यस्यति। युष्मत्प्रत्ययापेतस्य परीतधर्मत्वकल्पनां विपरीतो विरुद्धो धर्मो यस्य तज्भावस्तस्य रजता- देरत्यन्तासतः कल्पनामाचक्षते इत्यर्थः। एतेषु मतेषु परत्र परावभा- सत्वलक्षणसंवादमाह ॥ सर्वथापि तििति॥ अन्यथाख्यातित्वादि- प्रकारविवादेऽप्यध्यासः परत्र परावभासत्वलक्षणं न जहातीत्यर्थः । शुक्तावपरोक्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वायोगात् शून्यत्वे प्र- त्यक्षत्वायोगात्, शुक्तौ सत्त्वे बाधायोगान्मिथ्यात्वमेवेति भावः। आ- रोप्यमिथ्यात्वेन युक्त्यपेक्षा तस्यानुभवसिद्धत्वादित्याह॥तथा चेति॥ वाधानन्तरकालीनोऽयमनुभवः, तत्पूर्व शुक्तिकात्वज्ञानायोगाद् रज- तस्य बाधप्रत्यक्षसिद्धं मिथ्यात्वं वच्छब्देनोच्यते। आत्मनि निरुपा- धिकेऽहङ्गाराध्यासे दृष्टान्तमुक्क ब्रह्मजीवान्तरभेदस्याविद्यायुपाधि- कस्याध्यासे दष्टान्तमाह ॥ एक इति ॥ द्वितीय चन्द्रसहितवदेक ए- वाङ्गुल्या दिधा भातीत्यर्थः । लक्षणप्रकरणोपसंहारार्थ 'इति'शब्दः । भवत्वध्यासः शुक््यादौ, आत्मनि तु न संभवतीत्याक्षिपति॥ कथं पुनरिति॥ यत्रापरोक्षाध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दष्टा। तन्र व्यापकाभावादात्मनोऽधिष्ठानत्वं न संभवतीत्यभिप्रेत्याह । प्रत्यगात्मनीति। प्रतीचि पूर्ण इन्द्रिया- ग्राझे विषयस्याहङ्करादेसतद्वर्माणां चाध्यासः कथमित्यर्थः।उक्तव्याप्ति- माह॥ सर्वोहीति। पुरोऽवस्थितत्वमिन्द्रियसंयुक्तत्वम्। नन्वात्मनोS प्यधिष्ठानत्वार्थ विषयत्वादिकमास्त्वत्यत आह॥ युष्मढिति॥ इदं प्रत्ययानर्हस्य प्रत्यगात्मनो "न चक्षुषा गृह्यते" इत्यादि श्रुतिमनुसृ- १ सत्ख्यातिवादिनां मुरारिमिश्रादीनां मतं खण्डयति। २ अपरोक्षाध्यासाचिठ्ठा नत्वं व्याप्यम्, इन्द्रियसंयुक्तत्वं विषयत्वं चेति व्यापकम्।
Page 39
(२०) रत्नप्रभाभासिते [अ० १।पा० १। च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि। उच्यते। न तावदयमेकान्तेनाविषयः। अस्मत्प्रत्ययविषय- त्वात्, अपरोक्षव्वाच्च प्रत्यगात्मप्रसिद्धेः। नचा-
त्य त्वमविषयत्वं ब्रवीषि। संप्रत्यध्यासलोभेन विषयत्वाङ्गीकारे श्रु- तिसिद्धान्तयोर्बाधः स्यादित्यर्थः। आत्मन्यध्याससंभावनां प्रतिजानी- ते।। उच्यते इति॥ अधिष्ठानारोप्ययोरेकस्मिन् ज्ञाने भासमानत्व- मात्रमध्यासव्यापकम्, तंच्च भानप्रयुक्तसंशयनिवृत्त्यादिफलभात्क्म्, तदेव भानभिन्नत्वघटितं विषयत्वम्, तन्न व्यापकं गौरवादिति मत्वा- ह॥ न ताचदिति॥ अयमात्मा नियमेनाविषयो न भवति तत्र हेतु- माह॥ अस्मदिति॥ अस्मत्प्रत्ययोऽहमित्यध्यासस्तत्र भासमानत्वा- दित्यर्थः। अस्मदर्थ्विदात्मा प्रतिबिम्बितत्वेन यत्र प्रतीयते सोऽस्म- त्प्रत्ययोऽहङ्कारस्तत्र भासमानत्वादिति वार्थः। न चाध्यासे सति भा- समानत्वम्, तस्मिन् सति स इति परस्पराश्रय इति वाच्यम्, अना- दित्वात्। पूर्वाध्यासे भासमानात्मन उत्तराध्यासाधिष्ठानत्वंसम्भवात्। नन्वहमित्यहङ्कारविषयकभानरूपस्यात्मनो भासमानत्वं कथम्? तदिषियत्वं विना तत्फलभाक्कायोगांदित्यत आह ॥ अपरोक्षत्वाच्चे ति॥ चशब्दः शङ्कानिरासार्थः। स्वप्रकाशत्वादित्यर्थः। स्वप्रकाशत्वं साधयति॥ प्रत्यगिति॥ आबालपण्डितमात्मनः संशयादिशून्यत्वेन प्रसिद्धे: स्वप्रकाशत्वमित्यर्थः। अतः स्वप्रकाशत्वेन भासमानत्वादा- त्मनोऽध्यासाधिष्ठानत्वं संभवतीति भावः। यदुक्तमपरोक्षाध्यासाधि- ष्टानत्वस्येन्द्रियसंयुक्तया ग्राह्यत्वं व्यापकमिति तत्राह॥ न चायमिति॥ तत्र हेतुमाह ॥ अप्रत्यक्षेऽपीति ॥ इन्द्रियाग्राहेऽपीत्यर्थः। बाला अविवेकिन: तलमिन्द्रनीलकटाहकल्पं नभो मलिनं पीतमित्येवमप- १भासमानत्वं च। २ भानं तच्छब्दार्थः।
Page 40
सू०१। अ. १] शाङ्करब्रह्मसूत्रभाष्ये (२१ ) यमस्ति नियमः "पुरोऽबस्थित एव विषये विष- यान्तरमध्यसितव्यमिति"। अप्रत्यक्षेपि त्या- काशे बालास्तलमलिनताद्यध्यस्यन्ति। एवम- विरुद्धः प्रत्यगात्मन्यप्यनात्माध्यासः। तमेत- मेवंलक्षणमध्यासं पण्डिता "अविद्या" इति म- रोक्षमध्यस्यन्ति। तत्रेन्द्रियग्राहयत्वं नास्तीति व्यभिचारान् व्याप्िः। ए- तेनात्मानात्मनोः सादृश्याभावान्नाध्यास इत्यपास्तम्, नीलनभसोसद- भावेऽप्यध्यासदर्शनात्। सिद्धान्त आलोकाकारचाक्षुषवृत्तिव्यक्तसा- क्षिवेद्यत्वं नभस इति ज्ञेयम् । संभावनां निगमयति ॥ एवमिति॥ ननु ब्रह्मज्ञाननाश्यत्वेन सूत्रितामविद्यां हित्वा अध्यास: किमिति व- ण्र्यत इत्यत आह॥ तमेतमिति॥ आक्षिप्ं समाहितमुक्तलक्षणल- क्षितमध्यासमविद्याकार्यत्वादविद्येति मन्यन्त इत्यर्थः । विद्यानिवर्च्य- त्वाच्चास्याविद्यात्वमित्याह॥ तद्विवेकेनेति॥ अध्यस्तनिषेधनाधिष्ठा- नस्वरूपनिधररिणं विद्यामध्यासनिवर्त्तिकामाहुरित्यर्थः । तथापि कार- णावियां त्यत्का कार्याविद्या किमिति वर्ण्यते तत्राह॥ तत्रेति॥ त स्मिन्नध्यासे उक्तन्यायेनाविद्यात्मके सतीत्यर्थः । मूलाविद्यायाः सुषु- पावनर्थत्वादर्शनातू कार्यात्मना तस्या अनर्थत्वज्ञापनार्थ तद्दर्णनमिति भाव:। अध्यस्तकृतगुणदोषाभ्यां अधिष्ठानं न लिप्यत इत्यक्षरार्थः । एवमध्यासस्य लक्षणसंभावने उत्क्ा प्रमाणमाह॥ तमेतमिति ॥तं वर्णितमेतं साक्षिप्रत्यक्षसिद्धं पुरस्कृत्य हेतुं कृत्वा लौकिक: कर्मशा- स्त्रीयो मोक्षशास्त्रीयश्र्ेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः। तन्र वि- धिनिषेधपराणि कर्मशास्त्राण्यृग्वेदादीनि, विधिनिषेधशून्यप्रत्यग्ब्ल्म- १ नभसि। २ तथा च परदण्डेन परस्ताडनीय इति न्यायमनुसृत्य परमतसिद्धमा का शस्याप्रत्यक्षत्वमुक्त्वा भाष्यकृद्िः परिहारः कृत इति वोध्म् ।३ कार्या विद्या त च्छब्दार्थः ।
Page 41
(२२) रत्नप्रभाभासिते. [अ० १। पा० १। न्यन्ते, तद्विवेकेन च वस्तुस्वरूपावधारणं "वि- द्याम्" आहुः। तत्रैवं सति यत्र यदध्यासस्त- त्कृतेन दोषेण गुणेन वाऽणुमात्रेणापि सनसम्ब- व्यते। तमेतमविद्याख्यमात्मानात्मनोरितरेत- राध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा पराणि मोक्षशास्त्राणि वेदान्तवाक्यानीति विभाग:। एवं व्यवहारहे- तुत्वेनाध्यासे प्रत्यक्षसिद्धेऽपि प्रमाणान्तरं पृच्छाते॥ कथं पुनरिति॥ अविद्यावानहमित्यध्यासवानात्मा प्रमाता सविषय आश्रयो येषां तानि अविद्यावद्विषयाणीति विग्रहः। तत्तत्प्रमेयव्यवहारहेतुभूतायाः प्रमाया अध्यासात्मकप्रमात्राश्रितत्वात्। प्रमाणानामविद्यावद्विषयत्वं यद्यपि प्रत्यक्षं, तथापि पुनरपि कथं केन प्रमाणेनाविद्यावद्दिषयत्वमिति यो- जना। यहाऽविद्यावदिषयाणि कथं प्रमाणानिः स्युः! आश्रयदोषादप्रा- माण्यापत्तेरित्याक्षेपः। तत्र प्रमाणप्रश्ने व्यवहारार्थापततं तल्लिङ्गकानु- मानं चाह ॥ "उच्यते" इत्यादिना "तस्मात्" इत्यन्तेन ॥ दे- वदत्तकर्तृको व्यवहारस्तदीयदेहादिष्वहंममाध्यासमूलस्तदन्वयव्यतिरे- कानुसारित्वात्, यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः। तत्र व्यतिरेकं दर्शयति ॥ देहेति ॥ देवदत्तस्य सुपुप्तावध्यासाभावे व्यव- हाराभावो दृष्टः। जाग्रत्स्वप्रयोरध्यासे सति व्यवहार इत्यन्वयः रफु- ठत्वान्नोक्तः । अनेन लिङ्गेन कारणतयाध्यासः सिद्धयति, व्यवहाररू- पकार्यानुपपच्या वेति भावः। ननु मनुष्यत्वादिजातिमति देहेऽहमि- त्यभिमानमात्राद््यवहारः सिद्धचतु, किमिन्द्रियादिषु ममाभिमानेने- त्याशङ्ग्याह॥ न हीति॥ इन्द्रियपदं लिद्गनदेरप्युपलक्षणं प्रत्यक्षा- दीत्यादिपदप्रयोगातू। तथा च प्रत्यक्षलिङ्गादिप्रयुक्तो यो व्यवहारो द्रष्टा १ यो यदन्ययव्यतिरेकानुसारी स तन्मूल इत्यर्थः ।
Page 42
सू ० १ । अ०१ ] शाङ्करब्रह्मसूत्रभाष्ये (२.३) लौकिका वैदिकाश्र प्रवत्ताः। सर्वाणि च शाख्ता- णि विधिप्रतिषेधमोक्षपराणि। क्थ पुनरविद्याव द्विपयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चे- ति!उच्यते।देहेन्द्रियादिष्वहंममाभिमानरहित स्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवत्त्यनुपपत्तेः। नहोन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारःस- मभवति। न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यंव हारः सम्भवति। न चानध्यस्तात्मभावेन देहेन अनुमाता श्रोताऽहमित्यादिरूपः स इन्द्रियादीनि ममतास्पदान्यगृ- हीत्वा न सम्भवतीत्यर्थः । यह्ा तानि ममत्वेनानुपादाय यो व्यवहारः स नेति योजना। पूर्वत्रानुपादानासम्भवक्रिययोरेको व्यवहारः कर्ता इंति क्काप्रत्ययः साधुः। उत्तरत्रानुपादानव्यवहारयोरेकात्मकर्तृक- त्वात् तत्साधुत्वमिति भेदः। इन्द्रियादिषु ममेत्यध्यासाभावेऽन्धादे- रिव द्रष्टृत्वादिव्यवहारो न स्यादिति भावः। इन्द्रियाध्यासेनैव व्यव- हारादलं देहाध्यांसेनेत्यत आह ॥ न चेति॥ इन्द्रियाणासधिष्ठानम् आश्रयः शरीरमित्यर्थः । नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किमध्यासेनेत्यत्राह॥ न चानध्यस्तात्मभावेनेति॥ अनध्यसत आ- त्मभाव: आत्मतादात्म्यं यस्मिन् तेनेत्यर्थः। "असङ्गे हि" इति श्रु- तेराध्यासिक एव देहात्मनोः सम्बन्धो न संयोगादिरिति भावः । न- न्वात्मनो देहादिभिराध्यासिकसम्बन्धोऽपि मास्तु। स्वतश्र्वेतनतया प्र- मातृत्वोपपत्तेः, न च सुघुप्तौ प्रमातृत्वापत्तिः कैरणोपरमादिति तत्राह ॥ न चैतस्मिन्निति॥ प्रमाश्रयत्वं हि प्रमातृत्वं। प्रमा यदि नित्य- चिन्मात्रं तर्हाश्रयत्वायोग:, करणवैयर्थ्य च। यदि वृत्तिमात्रं, जगदा- १ क० पा० व्यापारः। २ करणानां समनस्केन्द्रियाणामुपरमादविद्यायां विलयादित्यर्थ:।
Page 43
(२४ ) रत्नप्रभाभासिते: [अ० १। पा० १। कश्विद् व्याप्रियते। न चैतस्मिन सर्वस्मिन्नस- व्यासङ्गस्यात्मनः प्रमातृत्वमुपपद्यते।न च प्र- मातृत्वमन्तरेण प्रमाणप्रवत्तिरस्ति। तस्मादवि- द्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शा-
न्ध्यप्रसङ्ग: वृत्तेर्जडत्वातू, अतो वृत्तीद्ो बोध: प्रमा, तदाश्रयत्वमस- ङस्यात्मनो वृत्तिमन्मनस्तादात्म्याध्यासं विना न सम्भवतीति भावः । देहाध्यासे, तद्धर्माध्यासे चासतीत्यक्षरार्थः, तर्ह्ात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह॥ न चेति॥ तस्मादात्मनः प्रमातृत्वादिव्यवहा- रार्थमध्यासोऽङ्गीकर्तव्य इत्यनुमानार्थापत्त्योः फलमुपसंहरति॥ त- स्मादिति॥ प्रमाणसत्त्वादित्यर्थः। यद्ा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति॥ तस्मादिति ॥ अहमित्यध्यासस्य प्रमात्रन्तर्गतत्वेनादो- षत्वादविद्यावदाश्रयाण्यपि प्रमाणान्येवेति योजना। सति प्रमातरि पश्वाङ्जवन्दोष इत्युच्यते यथा काचादि, अविदा तु प्रमात्रन्तर्गतत्वा- न् दोषः, येन प्रत्यक्षादीनामप्रामाण्यं भवेदिति भावः । ननु यदुक्तम- न्वयव्यतिरेकाभ्यां व्यवहारोऽध्यासकार्य इति तदयुक्तं, विदुषामध्या- साभावेऽपि व्यवहारदष्टेरित्यत आह॥ पश्वादिभिश्रेति॥ "च'श- ब्दः शङ्कानिरासार्थः। किं विद्दत्त्वं "ब्रह्मास्मीति" साक्षात्कारः? उत- यौक्तिकमात्मानात्मभेदज्ञानम्? आये "वाधिताध्यासानुवृत्त्या व्यव- हार" इति समन्वयसूत्रे वक्ष्यते। द्दितीये परोक्षज्ञानस्यापरोक्षभ्रान्त्य- निवर्त्तकत्वात् विवेकिनामपि व्यवहारकाले पश्चादिभिरविशेषादध्यास- वत्वेन तुल्यत्वाह्यवहारोऽध्यासकार्य इति युक्तमित्यर्थः। अत्रायं प्र- योग: विवेकिनोऽध्यासवन्तो व्यवहारवत्त्वात् पश्चादिवदिति। तत्र सं- १ केन प्रमाणेनाविद्यावदिषयाणि प्रत्यक्षादीनीति प्रश्रम्। २ अविद्यावद्विपयाणि चेत्पमाणानि कथं स्युरिति खण्डनम्। ३ व्यवहारदर्शनात्।
Page 44
सू० १ । अ ० १ ] (२५) साणि चें। पश्वादिभ्षिश्वाविशेषात्। यथा हि प- शादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अ नुकूले च प्रवर्तन्ते, यथा दण्डोधतकरं पुरुषमशि- सुखसुपलभ्य मां हन्तुमयमिच्छतीति पलायि- तुमारभन्ते, हरिततणपूर्णपाणिसुपलभ्य तं प्र- त्यश्षिमुखीभवन्ति, एवं पुरुषा अपि व्युत्पन्न- चित्ता: क्ूरदष्टीनाक्रोशतः खड्ोद्यतकरानू ब- लवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान््- ति प्रंवर्तन्ते।अतः समानः पश्ादिभिः पुरु-
सिद्ध एवाविवेकपूर्वकः प्रत्यक्षादिव्यवहारः त- ग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति॥ यथाहीति॥ विज्ञान- स्यानुकूलत्वं प्रतिकूलत्वं चेष्टानिष्टसाधनगोचरत्वम्, तदेवोदाहरति ॥। यथेति ॥ अयं दण्डो सदनिष्टसाधनं दण्डत्वात् अनुभूतदण्डवत्। इदं तृणमिष्टसाधनम् अनुभूतजातीयत्वात् अनुभूततृणवत् इत्यनुमा- य व्यवहरन्तीत्यर्थः । अधुना हेतोः पक्षधर्मतामाह ॥ एवमिति॥ व्युत्पन्नचित्ता अपीत्यन्वयः । विवेकिनोऽपीत्यर्थः । फलितमाह ॥ । अत इति ॥ अनुभववलादित्यर्थः। समान इति अध्यासकार्यत्वेन तुल्य इत्यर्थः। नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्चादयो त्रुवन्ति, नापि परेषामेतत् प्रत्यक्षम्, अतः साध्यविकलो दृष्टान्त इति नेत्याह ॥ पश्वादीनां चेति॥ तेणमात्मानात्मनोर्ञानमात्रमस्ति, न विवेक:, १ क० पा० चेति। २.क० पा० भभिमुखीभषन्ति।
Page 45
(२६) रत्नप्रभाभासिते [अ० १। पा० १। त्सामान्यदर्शनाद्युत्पत्तिमतामपि पुरुषाणां प्र- त्यक्षादिव्यवहारस्तत्काल: समान इति निश्री- यते। शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वात्मनः परलोकसम्बन्धमधिक्रियते, तथापि न वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्म-
अनुपयोगादधिकारविरोधाच्च।प्राकू तथाभूता- उपदेशाभावात्, अतः सामग्रीसच्वादध्यासस्तेपां प्रसिद्ध इत्यर्थः । निगमयति ॥ तत्सामान्येति ॥ तैः पश्रादिभिः सामान्यं व्यवहारव- चवं तस्य दर्शनाद्विवेकिनामप्ययं व्यवहारः समान इति निश्वीयत इति सम्बन्धः। समानत्वं व्यवहारस्याध्यासकार्यत्वेनेत्युक्तं पुरस्तात्। त- त्रोक्तान्वयव्यतिरेकौ स्मारयति ॥ तत्काल इति ॥ तस्याध्यासस्य काल एव कालो यस्य स तत्कालः। यदा अध्यासस्तदा व्यवहारः। त- दभावे सुषुपौ तदभाव इत्युक्तान्वयादिमानिति यावत्। अतो व्यवहा- रलिङ्गाद्विवेकिनामपि देहादिप्वहंममाभिमानोऽस्ीत्यनवद्यम् । ननु लौकिकव्यवहारस्याSSधयासिकत्वेपि ज्योतिष्ठोमादिव्यवहारस्य ना- ध्यासजन्यत्वं, तस्य देहातिरिक्तात्मज्ञानपूर्वकत्वादित्याशङ्क्य हेतुम- ङ्रीकरोति॥ शास्त्रीये लिति॥ तर्हिं कथं वैदिककर्मणोऽध्यासज- न्यत्वसिद्धिरित्याशङ्क्य किं तत्र देहान्यात्मधीमात्रमपेक्षितमुत आ- त्मतच्वज्ञानम्? आये तस्याध्यासावाधकत्वात् तत्सिद्धिरित्याह॥ त- थापीति॥ न द्वितीय इत्याह॥ न वेदान्त इति॥ क्षुत्पिपासादिग्- स्तो जातिविशेपवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तदिपरीता- त्मतच्वज्ञानम्, अनुपयोगात् प्रवृत्तिवाधाव्चेत्यर्थः। शास्त्रीयकर्मणोS- १ उपसंहरति।
Page 46
सू० १। अ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (२७ ) त्मविज्ञानात् प्रवर्तमानंशास्त्रमविद्यावद्विषयत्वं- नातिवर्तते। तथा हि ब्राह्मणो यजेतेत्यादीनि- शास्त्राणि आत्मनि वर्णाश्रमवयोऽवस्थादिविशे- षाध्यासमाश्रित्य प्रवर्तन्ते। अध्यासो नाम "अतस्मिस्तहुद्विरिति" अवोचाम।तदथा पु- त्रभार्यादिषु विकलेषु सकलेषु वा अहमेव वि- कल: सकलो वेति बात्य्यधर्मानात्मन्यध्यस्यति। तथा देहधर्मानू स्थूलोऽहं कृशोऽहं गौरोऽहं ति- ध्यासजन्यत्वं निगमयति॥ प्राकू तथेति॥ अध्यासे आगमं प्रमा- णयति॥ तथा हीति॥ यथा प्रत्यक्षानुमानार्थापत्तयोऽध्यासे प्रमाणं तथाSSगमोऽपीत्यर्थः। "ब्राह्मणो यजेत""न हवै सनात्वा भिक्षेत" "अ- ष्टवर्षब्राह्मणमुपनयीत" "कुष्णकेशोSग्रीनादधीत" इत्यागमोब्राह्मणा- दिपदैरधिकारिणं वर्णाद्यभिमानिनमनुवदन् अध्यासं गमयतीति भाव:। एवमध्यासे प्रमाणसिद्धेऽपि कस्य कुत्राध्यास इति जिज्ञासा- यां तमुदाहर्तु लक्षणं स्मारयति॥ अध्यासो नामेति॥उदाहरति॥ ।ं तद्यथेति ॥ तल्लक्षणं यथा स्पष्टं भवति तथोदान्हियत इत्यर्थः । स्वदेहाज्नेदेन प्रत्यक्षा: पुत्रादयो बाहाः, तद्वर्मान् साकल्यादीन् देह- विशिष्ठात्मन्यध्यस्यति, तद्धर्मज्ञानात् स्वरिं्मिस्तत्तुल्यधर्मानध्यस्यतीत्य- र्थः। भेदापरोक्षज्ञाने तद्वर्माध्यासायोगाद् अन्यथाख्यात्यनङ्गीकारा- च्चेति द्रष्टव्यम्। देहेन्द्रियधर्मान् मनोविशिष्टात्मन्यध्यस्यतीत्याह।।तथे- ति। कृशत्वादिधर्मवतो देहादेरात्मनि तादात्म्येन कल्पितत्वात्तद- र्मा: साक्षादात्मन्यध्यस्ता इति मन्तव्यम् । अज्ञाते प्रत्यय्रूपे साक्षि-
कार्यमितिभावः। १ सानमत्र समावर्तनम्, तथा च त्रह्मचर्यान्त्यस्नानमनुष्ठाय गार्हस्थ्ये भिक्षाटनं न
Page 47
(२) रत्नप्रभाभासिते [अ० १।पा० १। ष्ठामि गच्छामि लङयामि चेति। तथेन्द्रियधर्मा- नू मूक: काण: क्वीवो बधिरो Sन्धोऽहमिति।त- थान्त:करणधर्मान् कामसङ्कल्पविचिकित्साध्य- वसायादीन्। एवमहम्प्रत्ययिनमशेपस्वप्रचार- साक्षिणि प्रत्यगात्मन्यव्यस्यतं च प्रत्यगात्मा- नं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्व-
णि मनोधर्माध्यासमाह॥ तथान्तःकरणेति॥ धर्माध्यासमुक्का त- ददेव धर्म्यध्यासमाह ॥ एवमिति॥ अन्तःकरणं साक्षिण्यभेदेना- ध्यस्य तद्धर्मान् कामादीन् अध्यस्यतीति मन्तव्यम्। स्वप्रचारा म- नोवृत्तयः प्रातिलोम्येनासज्जडदुःखात्मकाहङ्कारादिविलक्षणतया स- च्चितू सुखात्मकत्वेनाश्चति प्रकाशत इति प्रत्यक् । एवमात्मन्यनात्म- तद्र्माध्यासमुदाहृत्यानात्मन्यात्मनोऽपि संसृष्ठत्वेनाध्यासमाह। तं- चेति। अहमित्यध्यासे चिदात्मनो भानं वाच्यम्, अन्यथा जगदा- न्ध्यापत्तेः। न चानध्यस्तस्याभ्यासे भानमस्ति। तस्माद्रजतादाविद- · म इवात्मनः संसर्गाध्यास एष्टव्यः। "तद्विपर्ययेणे"ति तस्याध्यस्तस्य जडस्य विपर्ययोऽधिष्ठानत्वं चैतन्यं च तदात्मना स्थितमिति यावत्। तत्राज्ञाने केवलात्मनः संसर्ग:, मनस्यज्ञानोपहितस्य देहादौ मनउप- हितस्येति विशेषः। एवमात्मनि बुद्ध्यायध्यासात् कर्तृत्वादिलाभः । धुद्धयादौ चात्माध्यासाच्चैतन्यलाभ इति भावः। वर्णिताध्यासमुपसं- हरति॥ एवमयमिति॥ अनावविद्यात्मकतया कार्याध्यासस्याना- दित्वम्। अध्यासात् संस्कारस्ततोध्यास इति प्रवाहतो नैसर्गिकत्वम्।। एवमुपादानं निमित्तं चोकं भवति। ज्ञानं विना ध्वंसाभावादानन्त्यम्। तदुक्तं भगवद्गीतासु, "न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न
Page 48
सु० १ । अ० १।] शाङ्करव्रह्मसूत्रभाष्ये (२९) सो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आर- भ्यन्ते। यथा चायमर्थः सर्वेषां वेदान्तानां तथा च सम्प्रतिष्ठेति"। हेतुमुक्का स्वरूपमाह॥ मिथ्येति॥ मिथ्या मा- या तया प्रतीयते इति प्रत्ययः कार्यप्रपंचः, तत्प्रतीतिश्ववेत्येवंस्वरूपः इत्यर्थः। तस्य कार्यमाह ॥ कर्तृत्वेति ॥ प्रमाणं निगमयति॥ स- वेति ।। साक्षिप्रत्यक्षमेवाध्यासधार्मग्राहकमानम्, अनुमानादिकं तु सम्भावनार्थमित्यभिप्रेत्य प्रत्यक्षापसंहारः कतः। एवमध्यासं वर्ण- यित्वा तत्साध्ये विषयप्रयोजने दर्शयति ॥ अस्येति ॥ कर्तृत्वायनर्थ- हेतोरध्यासस्य समूलस्याऽऽत्यन्तिकनाशो मोक्षः स केनेत्यत आह । आत्मेति ॥ ब्रह्मात्मैक्यसाक्षात्कारस्य प्रतिपत्तिः श्रवणादिभिरप्र- तिबन्धेन लाभस्तस्या इत्यर्थः। विद्यायां कारणमाह ॥ सर्व इति। आरभ्यन्ते अधीत्य विचार्यन्ते इत्यर्थः।विचारितवेदान्तानां ब्रह्मा- त्मैक्यं विषयो, मोक्ष: फलमित्युक्तं भवति। अर्थात्तदिचारात्मकशास्त्र- स्यापि ते एव विषयप्रयोजने इति ज्ञेयम्। ननु वेदान्तेषु प्राणाधुपा- स्तीनां आानादात्मैक्यमेव तेषामर्थ इति कथमित्यत आह॥ यथा चेति॥ शरीरमेव शरीरकं कुत्सितत्वात्तन्निवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः। उपास्तीनां चित्तैकाय्यद्वारा- त्मैक्यज्ञानार्थत्वात्तदाक्यानामपि महातात्पर्यमैक्ये इति विवक्ष्यते। एवमध्यासोक्त्या व्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनवत्वाच्छास्त्र मारम्भणीयमिति द्शितम्॥ इति प्रथमवैर्णकम्॥ विचारस्य सा १ का० पा० वक्ष्यते। २ प्रथमसूत्रस्य हि चत्वारि वर्णकानि, तत्राध्यासवर्णकं प्र- थमम्। अगतार्थवर्णकं द्वितीयम्। अधिकारिवर्णकं तृतीयम्। ब्रह्मण आपातप्रसिद्धि - वर्णकं चतुर्थम्। वर्णयति गहनमर्थमिति वर्णकं व्याख्यानमिति यावत्।
Page 49
(३० ) रत्नप्रभाभासिते [अ० १। पा० १। च वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्या- मः।वेदान्तमीमांसाशासस्य व्याचिर्यासित- स्येदमादिमं सूत्रम्। अथातो बह्मजिज्ञासेति॥१॥ तत्राथशब्द आनन्तर्यार्थ: परिगृत्यते नाधि- कारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात्। क्षाद्विषया वेदान्ताः, तेषां गतार्थत्वागतार्थत्वाभ्यामारम्भसन्देहे क- त्सस्य वेदस्य विधिपरत्वाद्दिधेश्र "अथातो धर्मजिज्ञासा" इत्यादि- ना पूर्वतन्त्रेण विचारितत्वादवगतार्था एव वेदान्ता इत्यव्यवहितविष- याभावान्नारम्भ इति प्राप्ते व्रूते॥ वेदान्तेति॥ वेदान्ताविषयकपूजि- तविचारात्मकशास्त्रस्य व्याख्यातुमिष्टस्य सूत्रसन्दर्भस्येदं प्रथमसूत्रमि- त्यर्थः। यदि विधिरेव वेदार्थः स्यात्तदा सर्वज्ञो बादरायणो ब्रह्मजिज्ञासांन ब्रूयात्, ब्रह्मणि मानाभावात्। अतो ब्रह्मणो जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणा नवगतव्रह्मपरवेदान्तविचार आरम्भणीय इति सूत्रकद्दर्शयति। तच्च "व्याचिख्यासितस्य"इति पदेन भाष्यकारो बभाषे॥ ॥ इति द्वितीय वर्णकमू॥। ॥एवं वर्णकद्दयेनवेदान्तविचारस्य कर्तव्यतायां वि- षयप्रयोजनवच्वम् आगतार्थत्वं चेति हेतुद्वयं सूत्रस्यार्थिकार्थ व्याख्या- याक्षरव्याख्यामारभ्रमाणः पुनरप्यधिकारिभावाभावाभ्यां शास्त्रारम्भस- न्देहे सति अथशव्दस्यानन्तर्यार्थकत्वोक्त्या अधिकारिणं साधयति ॥"तत्राथशब्द" इति।। सूत्र इत्यर्थः।"मङगलानन्तरारम्भप्रश्नकात्स्न्ये ्वथो अथेति"अथशद्दस्य बहवोर्ऽर्थाःसन्ति।तत्रा"थयोगानुशासनम्" इत्यत्र सूत्रे यथा अथशब्द आरम्भार्थकः योगशास्त्रमारभ्यत इति तद्ददत्र किं न स्यादित्यत आह॥ नाधिकारार्थ इति॥ अयमाशयः।
Page 50
सू० १ । अ० १] शाङ्करब्रह्मसूत्रभाष्ये (३१. )' मङ्गलस्य च वाक्यार्थे समन्वयाभावात्।अर्था- न्तरप्रयुक्त एव हि अथशब्दःश्रुत्या मङ्गलप्रयो- जनो भवि। पूर्वप्रकृतापेक्षायाश्र फलत आन-
किं जिज्ञासापदं ज्ञानेच्छापरम्,उत विचारलक्षकम्? आबेऽथशब्दस्या- रम्भार्थत्वेन ब्रह्मज्ञानेच्छाऽडरभ्यत इति सूत्रार्थ: स्यातू स चासङ्गतः तस्या अनारभ्यत्वात्। न हिप्रत्यधिकरणम् इच्छा क्रियते किंतु तया वि- चारः। न द्वितीयः । कर्तव्यपदाध्याहारं विना विचारलक्षकत्वायो- गातू। अध्याहते च तेनैवारम्भोक्तेरथशब्द वैयर्थ्यात् किन्त्वधिकारिसि- द्धयर्थमानन्तर्यार्थतैव युक्तेति। अधुना सम्भावितमर्थान्तरं दूषयति । मङ्गलस्येति॥ वाक्यार्थो विचारकर्तव्यता।न हि तत्र मङ्गलशब्द- स्य कर्तृत्वादिनाऽन्वयोऽस्तीत्यर्थः।ननु सूत्रकता शास्त्रादौ मङ्गलं का- र्यमिति अथ शब्द: प्रयुक्त इति चेतू सत्यम्, न तस्यार्थो मङलं किं- तु तच्छ्रूवणमुच्चारणं च मङ्लकैत्यं करोति तदर्थस्त्वानन्तर्यमेवे- त्याह ॥ अर्थान्तरेति॥ आर्थान्तरम् आनन्तर्यम्।श्रुत्या श्रवणेन शं- खवीणादिनादश्रवणवदोङ्गाराथशब्दयो: श्रवणं मङ्गलफलकम्। "ॐकारश्वाथशब्दश् द्वावेतौ ब्रह्मणः पुरा। कण्ठं भिच्वा विनिर्यातौ तस्मान्माङ्गलिकाविमौ॥" इति स्मरणादिति भावः। ननु प्रपश्वो मिथ्येति प्रकृते सति,अथैत- न्मतम् 'प्रपश्चः सत्य इत्यत्र पूर्वप्रकृतार्थादुत्तरार्थस्यार्थान्तरत्वार्थोऽथश- ब्दो दृष्टः । तथात्र किं न स्यादित्यत आह॥ पूर्वेति ॥ फलतः फल- स्येत्यर्थः। ब्रह्मजिज्ञासायाः पूर्वमर्थविशेषः प्रकतो नास्ति यस्मात्त- स्या अर्थान्तरत्वमथशद्वेनोच्येत। यतः कुतश्विदर्थान्तरं सूत्रकता न वक्तव्यं, फलाभावात्। यदि फलस्य जिज्ञासापदोक्तकर्तव्यवचारस्य १ अध्यात्हतकर्तव्यपदेन। २ मङ्गलकार्यम्। ३ 'वुभौ' इंत्यपि पाठः क्रचित्।
Page 51
(३२) रत्नप्रभाभासिते [अ० १। पा० १। न्तर्याव्यतिरेकातू। सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासापूर्ववत्तं वेदाध्ययनं नियमेनापेक्ष- ते, एवं ब्रह्मजिज्ञासाऽपि यत् पूर्ववत्तं नियमेना- पेक्षते तद्वक्तव्यमास्वाध्यायानन्तर्य तुसमानम्। नन्विह कर्मावबोधानन्तर्य विशेषः।ने।धर्मजि- हेतुत्वेन यत्पूर्व प्रकतं तदपेक्षास्तीति अपेक्षावलात् प्रकतहेतुमाक्षिप्य ततोऽर्थान्तरत्वमुच्येत, तदार्थान्तरत्वमानन्तर्येंऽन्तर्भवति हेतुफलभा- वज्ञानायानन्तर्यस्यावश्यं वाच्यत्वात्। तस्मादिदमर्थान्तरमित्युक्ते तस्य हेतुत्वाप्रतािः। तस्मादिंदमनन्तरमित्युक्ते भवत्येव हेतुत्वप्रती- तिः। न चाश्वादनन्तरो गौरित्यत्र हेतुत्वभानापत्तिरिति वाच्यम्, त- योदेंशतः कालतो वा व्यवधानेनानन्तर्यस्यामुख्यत्वातू। अतः साम- ग्रीफलयोरेव मुख्यमानन्तर्यम्, अव्यवधानात्। तस्मिन्नुक्ते सत्यर्थान्त- रत्वं न वाच्यम्, ज्ञातत्वाद्वैफल्याच्चेतिभावः। फलस्य विचारस्य पूर्वप्र- कृतहेत्वपेक्षाया वलायदर्थान्तरत्वं तस्यानन्तर्याभेदात्, न पृथगथ- शब्दार्थत्वमित्यध्याहृत्य भाष्यं योजनीयम्। यद्दा पूर्वप्रकतेऽ्थेऽपेक्षा यस्या अर्थान्तरतायास्तस्याः फलं ज्ञानं तद्दाराSSनन्तर्याव्यतिरेकान्त- जज्ञाने तस्याः ज्ञानतोऽन्तर्भावानाथशब्दार्थतेत्यर्थः। नन्वानन्तर्यार्थ- कत्वेऽप्यानन्तर्यस्यावधिः क इत्याशङ्क्याह॥ सति चेति॥ यन्नियमे- न पूर्ववृत्तं पूर्वभावि पुष्कलकारणमिति यावत्, तदेवावधिरिति वक्त- व्यमित्यर्थः। नन्वस्तु धर्मविचार इव व्रह्मविचारेऽपि वेदाध्ययनं पु- ष्कलकारणमित्यत आह॥ स्वाध्यायेति॥ समानं ब्रह्मविचारे सा- धारणकारणम्, न पुष्कलकारणमित्यर्थः । ननु संयोगपृथक्कन्यायेन "यज्ञेन दानेन" इत्यादिश्रुत्या "यज्ञादिकर्माणि ज्ञानाय विधीयन्ते" १ का० पी० इतिचेन
Page 52
सू० १।अ०19] (३३) ज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासो- पपत्तेः। यथा च हृदयाघवदानानामानन्तर्यनि- यमः क्रमस्य विवक्षितत्वात्, न तथेह क्मो वि- वक्षितः।शेषशेषित्वेऽधिकृताधिकारे वा प्रमाणा-
इति सर्वापेक्षाधिकरणे वक्ष्यते। तथा च पूर्वतन्त्रेण तदवबोधः पुष्क- लकारणमिति शङ्कते। नन्विति॥ इह ब्रह्मजिज्ञासायाम्। विशेषो- Sसाधारणम् कारणम्। परिहरति॥ नेत्याढिना॥ अयमाशयः । न तावत् पूर्वतन्त्रस्थन्यायसहलं ब्रह्मज्ञाने तहिचारे वा पुष्कलकारणम्, तस्य धर्मनिर्णयमान्नहेतुत्वात्, नापि कर्मनिर्णयः, तस्यानुष्ठानहेतुत्वा- तू। न हि धूमाश्योरिव धर्मव्रह्मणोर्व्याप्तिरस्ति, यया धर्मज्ञानाद् व्रह्म- ज्ञानं भवेत्। यव्पि शुद्धिविवेकादिद्वारा कर्माणि हेतवस्तथापि तेषां ना- धिकारिविशेषणत्वम्, अज्ञातानां तेषां जन्मान्तरकतानामपि फलहे- तुत्वात्। अधिकारिविशेषणं ज्ञायसानं प्रवृत्तिपुष्कल कारणमानन्तर्याव- धित्वेन वक्तव्यम्। अतः कर्माणि तदवबोधसन्न्यायविचारो वा नावधि- रिति न ब्रह्मजिज्ञासाया धर्मजिज्ञासानन्तर्यमिति। ननु धर्मब्रह्मजि- ज्ञासयोः कार्यकारणत्वाभावेऽप्यानन्तर्योकिदारा करमज्ञानार्थोड़थश- व्दः। "हृदयस्याग्रेऽवदत्यथ जिह्वाया अथ वक्षस" इत्यवदानानां क्रम- ज्ञानार्थाथशव्दवदित्याश््चाह ।। यथति॥ अवदानानामानन्तर्य- नियम: क्रमो यथाथशब्दार्थस्तस्य विवक्षितत्वाद् न तथेह धर्म- ब्रह्मजिज्ञासयोः क्रमो विवक्षितः । एककर्तृकत्वाभावेन तयोःक्र- १ एकस्य तूभयत्वे संयोगपृथक्त्वसितिजैमिन्यषिसून्नम्। संयोगो वार्क्य तस्य पृथ- वत्वं भेद एकस्योभयार्थत्वे नियामक इत्यर्थः । यथा दन्नाजुहुयादितिफलासंयुक्त्तवा- क्येन कत्वर्थत्वेन विहितस्यापि दश्नः दन्नेन्द्रियकामस्य जुहुयादित्यनेन फलायविधाना- स्पुरुषार्थत्वमपि। तथा ज्योतिष्टोमादीनां स्वर्गार्थत्वेन विहितानामपि "यज्ञेन दानेन" इत्यादि वाक्मैर्ज्ञान साधनत्वमपिस्यादिति भावः। २ भवदानं खण्डनम्। ५
Page 53
(३४) रत्नप्रभाभासिते [अ० १। पा० 9।] मानपेक्षणात्। अतो न क्रमार्थोऽथशब्द इत्यर्थः। ननु तयोस्ककर्तृक त्वं कुतो नास्तीत्यत आह।। ड्ोपेति॥ येषामेकप्रधानशेपतायथावदा- नानां प्रयाजादीनां च, ययोश्व शेषशेषित्वं यथा प्रयाजदर्शयोः, यस्य चाधिकृताधिकारत्वं यथा अपां प्रणयनं दर्शपूर्णमासाङ्गमाश्रित्य "गो- दोहनेन पशुकामस्य "इति विहितस्य गोदोहनस्य, यथा वा "दर्श- पूर्णमासाभ्यामिष्टा सोमेन यजेत" इति दर्शायुत्तरकाले विहितस्य सोमयागस्य दर्शायधिकताधिकारत्वं, तेषामेककर्तृकत्वं भवति। त- तश्ववैकप्रयोगवचनगृहीतानां तेपां युगपदनुष्ठानासम्भवात् क्रमाकाङ्का यांश्रुत्यादिभिर्हि क्रमो बोध्यते; नैवं जिज्ञासयोः शेषशेषित्वश्रुतिलि- ङादिकं मानमस्ति । ननु "व्रह्मचर्य समाप्य गृही भवेत् गृहाइ्दनी भूत्वा प्रव्रजेत्" इति श्रुत्या, "अधीत्य विधिवहेदान् पुत्रांश्योत्पाद धर्मतः । इष्ट्रा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत्"॥ इति स्मृत्या चाविकताधिकारत्वं भातीति। तन्न। "ब्रह्मचर्यादेव प्रवजेत्", "आसादयति श्रुद्धात्मा मोक्षं वै प्रथमाश्रमे"। इति श्रुतिस्मृतिभ्यां। त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषय- त्वावगमाद् एतदुक्तं भवति"यदि जन्मान्तरकृतकर्मभिः शुद्ध चित्तं तदा व्रह्मचर्यादेव संन्यस्य व्रह्म जिज्ञासितव्यं, यदि न शुद्धमिति रागेण ज्ञायते तदा गृही भवेत्, तत्राप्यशुद्धौ वनी भवेत्, तत्राप्य- शुद्धौ तथैव कालमाकलयेत्, वने शुद्दौ प्रवजेदिति"। तथा च श्रु- तिः "यदहरेव विरजेत् तदहरेव प्रव्रजेत्"इति तस्मान्नानयोरधिकता- धिकारत्वें किचिन्मानमिति भावः । ननु मीमांसयोः शेषशेषित्वम धिकृताधिकारत्वं च सास्तु, एकमोक्षफलकत्वेनैककर्तृकत्वं स्यादेव। वदन्ति हि "ज्ञानकर्मभ्यां मुक्तिः" इति समुच्चयवादिनः। एवमेकवेदा-
Page 54
सू० १।अ० १] (३५ ) भावाद्र्मब्रह्मजिज्ञासयो :- फलजिज्ञास्यभेदाञ्। अभ्युद्यफलं धर्मज्ञानं, तच्वानुष्ठानापेक्षस्। नि- श्रेयसफलं तु ब्रह्मविज्ञानं न चानुष्ठानान्तरापे- क्षमाअव्यश्र धर्मो जिज्ञास्यो न ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वातू। इह तु भूतं ब्रह्म जिज्ञा- र्थजिज्ञास्यकत्वाचचैककर्तृकत्वम्। तथा चाग्नेयादिषड्यागानामेकस्व- र्गफलकानां द्ादशाध्यायानां चैकधर्मजिज्ञास्यकानां क्रमवत्तयोः कमो विवक्षित इति क्रमार्थोऽथशब्द इत्याशङ्ग्याह॥ फलेति॥ फलभे- दाज्जिज्ञास्यभेदाच्च न कमो विवक्षित इत्यनुषङ्गः। यथा सौर्यार्यम्ण- प्राजापत्यचरूणां व्रह्मवर्चसं स्वर्गायुः फलभेदात्, यथा वाकामचि- कित्सातन्त्रयोजिज्ञास्यभेदान्न कमापेक्षा तदन्सी मांसयोर्नक्रमापेक्षेति भाव:, तत्र फलभेदं विवृणोति॥ अभ्युदयेति ॥ विषयाभिमुख्येनो- देतीत्यम्युदयो विषयाधीनं सुखं स्वर्गादिकं तच्च धर्मज्ञानहेतोमीमां- सायाः फलमित्यर्थः। न केवलं फलस्य स्वरूपतो भेदः किन्तु हे- तुतोऽपीत्याह॥ तव्वेति ॥ ब्रह्मज्ञानहेतोर्मीमांसायाः फलं तु तदि- रुद्मित्याह॥ निःश्रेयसेति॥ नित्यं निरपेक्ष श्रेयो निःश्रेयसं मो- क्षस्तत् फलमित्यर्थः । व्रह्मज्ञानं च स्वोत्पत्तिव्यतिरिक्तमनुष्ठानं नापे- क्षत इत्याह ॥न चेति। स्वरूपतो हेतुतश्र फलभेदान्न समुच्चय इति भावः । जिज्ञास्यभ्ेदं विवृणोति ॥ भव्यश्रेति॥ अवतीति सव्येः साध्य इत्यर्थः। साध्यत्वे हेतुमाह ॥ नेति ॥ तर्हि तुच्छत्वं नेत्याह॥ पुरुषेति॥ पुरुषव्यापारः प्रयत्नस्तन्त्रं हेतुर्यस्य तच्वादित्यर्थः। कति- साध्यत्वात् कृतिजनकज्ञानकाले धर्मस्यासच्वं, न तुच्छत्वादित्यर्थः । ब्रह्मणो धर्माहैलक्षण्यमाह॥ इह तिति ॥ उत्तरमीमांसायामित्यर्थः। १ धर्मव्रह्मजिज्ञासयोः। २ "भव्य गेयपवचनीये" त्यादि सूत्रेण कर्तरि यत्मत्ययः।
Page 55
(३६) रत्नप्रभाभासिते अ० १पा० ै] स्यं नित्यनिर्वत्तत्वात्, न पुरुषव्यापारतन्त्रं, चो- दनाप्रवत्तिभेदाच्च। या हि चोदना धर्मस्य लक्ष- णं सा स्वविपये नियुश्जनैव पुरुषमवबोधयति। ब्रह्मचोढ़ना तु पुरुषमवबोधयत्येव केवलम्, अ- वबोधस्य चोदनाजन्यत्वान्न पुरुषोऽववोधे नियु- ज्यते। यथा अक्षार्थसन्निकर्षेणार्थावबोधे तद्दत्। तस्मात् किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञा- भूतमसाध्यम्। तत्र हेतुः॥ नित्येति॥ सदा सच्वादित्यर्थः। साध्या- साध्यत्वेन धर्मव्रह्मणोः स्वरूपभेदमुत्का हेतुतोऽप्याह॥नेति॥ध- र्मवत् कृत्यधीनं नेत्यर्थः । मानतोऽपि भेदमाह॥ चोढनेति॥ अ- ज्ञातज्ञापकं वाक्यमत्र चोदना। तस्याः प्रवृत्तिर्बोधकत्वं तद्दैलक्षण्या- ञ् जिज्ञास्यभेद इत्यर्थः। सङ्य्रहवाक्यं विवृणोति।या हीति।लक्षणं- प्रमाणं "स्वर्गकामो यजेत"इत्यादिवाक्यं हिस्वविपये धर्मे यागादि- करणस्वर्गादिफलकभावनारूपे फलहेतुयागाढ़िगोचरनियोगे वा हि- तसाधने यागादौवा पुरुषं प्रवर्तयदेवावबोधयति। "अयमात्मा ब्रल्म" इत्यादि वाक्यं तु त्वमर्थ केवलमप्रपश्चं व्रह्म बोधयत्येव न प्रवर्त- यति, विषयाभावाढ़ित्यर्थः । नन्वववोध एव विषयस्तन्नाह ॥ न पुरु- ष इति। ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्त्यत, इत्यन्न हेतुं पूर्व- वाक्येनाह॥ अववोधस्येति ॥ स्वजन्यज्ञाने स्वयं प्रमाणं न प्रवर्त- कमित्यत्र दृष्ठान्तमाह॥ यथेति॥ मानादेव बोधस्य जातत्वात् जा- ते च विध्ययोगात् न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः। तथा च प्रवर्तक- मानमेयो धर्मः, उदासीनमानमेयं व्रह्म, इति जिज्ञास्यभेदात् न त- न्मीमांसयो: क्रमार्थोऽयशव्द इति भावः। एवमथशव्दस्यार्थान्तरा- सम्भवादानन्तर्यवाचित्वे सति तदवधित्वेन पुष्कलकारणं वक्तव्य-
Page 56
सू० १। अ० १] (३७ ) सोपदिश्यत इति। उच्यते। नित्यानित्यवस्तुवि-
नसम्पत्, मुमुक्षुत्वं च। तेषु हि सव्सु प्रागपि ध- *
मजिज्ञासाया ऊर्ध्व च शक्यते ब्रह्म जिज्ञासिंतुं ज्ञातुं च, न विपर्यये। तस्मादथशब्देन यथोक्त- साधनसम्पत्यानन्तर्यमुपदिश्यते। अतः शब्दो हेत्वर्थः। यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसा- मित्याह ॥ तस्मादिति ॥ उपदिश्यते सूत्रकतेति शेषः । तत्कि- मित्यत आह॥ उच्यत इति ॥ विवेकादीनामागमिकत्वेन प्रामा- णिकत्वं पुरस्तादेवोक्तम्। लौकिकव्यापारान्मनस उपरमः शमः।बा- हकरणानामुपरमो दमः । ज्ञानार्थ विहितनित्यादिकर्मसंन्यास उ- परतिः । शीतोष्णादिद्दन्द्सहनं तितिक्षा। निद्रालस्यप्रमादत्यागेन मनःस्थितिः समाधानम् । सर्वत्रास्तिकता श्रद्धा। एततूषट्कप्राप्तिः शमादिसम्पत्। अन्र विवेकादीना मुत्तरोत्तरहेतुत्वेनाधिकारिविशेषणत्वं मन्तव्यम्। तेषामन्वयव्यतिरेकाभ्यां ब्रह्मजिज्ञासाहेतुत्वमाह॥ ते- ष्विति ॥ अथ कथंचित् कुतूहलितया ब्रह्मविचारे प्रवृत्तस्यापि फल- पर्यन्तं तज्ज्ञानानुदयाव्यतिरेकासद्िः। अथशब्दव्याख्यामुपसंहरति ॥ तस्मादिति ॥ ननूक्तविवेकादिकं न सम्भवति । "अक्षय्यं ह वै चातुर्मास्ययाजिन: सुक्ृतम्" इत्यादिश्रुत्या कर्मफलस्य नित्यत्वेन ततो वैराग्यासिद्धेः। जीवस्य ब्रह्मस्वरूपमोक्षश्रवायुक्त:, भेदोत्,। तस्य लोष्ठादिवत् पुरुषार्थत्वायोगाच्च ततो न मुमुक्षासम्भव इत्याक्षेपपरि- हारार्थोऽतःशब्दः, तं व्याचष्टे॥अतः शब्द इति। अथशब्देनानन्त- र्यवाचिना तदवधित्वेनार्थाद्विवेकादिचतुष्टयस्य व्रह्मजिज्ञासाहेतुत्वं १ क० पा० इहामुत्रार्थफलभोगविरागः। २ जीवस्य ब्रह्मणः सकाशाद् मेदात्।
Page 57
(३८) रत्नप्रभाभासिते अ० १/पा० १॥] धनानामनित्यफलतां दर्शयति, "तद्थेह कर्म- चितोलोक:क्षीयत एवमेवामुत्र पुण्यचितोलोकः क्षीयते" इत्यादिः, तथा ब्रह्मविज्ञानादपि परं पुरुषार्थ दर्शयति, "ब्रह्मविदान्नोति परम्" इ- त्यादि:, तस्माद्यथोक्तसाधनसंपत्यनन्तरंब्रह्म- जिज्ञासा कर्त्तव्या।ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञा- सा। ब्रह्म च वक्ष्यमाणलक्षणं "जन्माद्यस्य य- यदुक्तं तस्यार्थिकहेतुत्वस्याक्षेपनिरासायानुवादकोतःशब्द इत्यर्थः । उक्त विवृणोति ॥ यस्मादिति ॥ तस्मादित्युत्तरेण सवन्धः। "यदल्पं तन्मर्त्य यत् कृतकंतदनित्यम्" इति न्यायवती "तबथेह"इत्यादिश्रुतिः कर्मफलाक्षयत्वश्रुतेर्वाधिका। तस्मात् "अतोऽन्यदार्तम्इति श्रुत्या अनात्ममात्रस्यानित्यत्वविवेकाद्दैराग्यलाभ इति भावः। मुमुक्षां स- मभावयति॥ तथेति॥ यथा वेद: कर्मफलानित्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशान्तशोकानलमपारं स्वयंज्योतिरानन्दं दर्शयतीत्यर्थः। जीवत्वादेरध्यासोक्या ब्रह्मत्वसम्भव उक्त एवेति भावः। एवमथातः शब्दाभ्यां पुष्कलकारणवतोऽधिकारिणः समर्थनाच्छास्त्रमारव्धव्य मित्याह॥ तस्मादिति॥ सूत्रवाक्यपूरणार्थमध्याहृतकर्तव्यपदान्व- यार्थ व्रह्मजिज्ञासापदेन विचार लक्षयितुं तस्य स्वाभिमंतसमासकथने- नावयवार्थ दर्शयति॥ ब्रम्हण इति ॥ ननु "धर्मय जिज्ञासा" इ- तिवत् "ब्रह्मणे जिज्ञासा" इति चतुर्थीसमासः किं न स्यादिति चेतू, उच्यते। जिज्ञासापदस्य हि मुख्यार्थ इच्छा, तस्याः प्रथमं कर्मकार- कमपेक्षितं पश्ात् फलं, ततश्वादौ कर्मज्ञानार्थ षष्ठीसमासो युक्त:। कर्मण्युक्ते सत्यर्थात् फलमुक्तं भवति, इच्छायाः कर्मण एव फल- २ सिद्धस्य त्रह्मणः।
Page 58
सू० १।अ० १] शाङ्करत्रह्मसूत्रभाष्ये ( ३९ ) त इति"। अत एव न ब्रह्मशब्दस्य जात्याद्यर्था न्तरमाशङ्ितव्यम्। ब्रह्मण इति कर्मणि षष्ठी न शेषे। जिज्ञास्या पेक्षत्वाज्जिज्ञासायाः, जिज्ञा- स्थान्तरानिर्देशाच्च। ननु शेषषष्टीपरिग्रहेऽपिब्र- हणो जिज्ञासाकर्मत्वं न विरुध्यते, सम्बन्धसा- त्वात्। यथा "स्वर्गस्येच्छा" इत्युक्ते स्वर्गस्य फलत्वं लभ्यते तद्दत्। अत एव "धर्मजिज्ञासा" इत्यन्रापि सा हि तस्य ज्ञातुमिच्छेति इ- च्छां गृहीत्वा षष्ठीसमासो दर्शितः । विचारलक्षणायां तु विचारस्य कवेशात्मकतया प्रथमं फलाकाङ्कत्वातू धर्माय जिज्ञासेति चतुर्थी- समास उक्त:, तथा वृत्तिकारैः "ब्रह्मणे जिज्ञासा" इत्युक्तं चेदस्तु ज्ञात- त्वेन व्रह्मणः फलत्वादिति। अधुना ब्रह्मपदार्थमाह॥ ब्रह्म चेति॥ ननु"ब्रह्म क्षत्रमिदं ब्रह्म आयाति ब्रह्म स्वयम्भुर्व्रह्म प्रजापति"रिति श्रुतिषु लोके च व्राह्मणत्वजातौ जीवे वेदे कमलासने च ब्रह्मशब्द: प्रयुज्यत इत्याशङ्ग्चाह ॥ अत एवेति॥ जगत्कारणत्वलक्षणप्रति- पादकसूत्रासाङ्गत्यप्रसङ्गादेवेत्यर्थः ॥ वृच्यन्तरे शेषे षष्ठीत्युक्तं दूषयति ।ब्रह्मण इतीति॥ सम्बन्धसामान्यं शेषः जिज्ञासेत्यत्र सन्प्रत्य- यवाच्याया इच्छाया ज्ञानं कर्म । तस्य ज्ञानस्य ब्रह्म कर्म। तत्र सकर्मकक्रियायाः कर्म ज्ञानं विना ज्ञातुमशक्यत्वात्। इच्छाया विषयज्ञानजन्यत्वाञ्च प्रथममापेक्षितं कर्मैव षष्ठया वाच्यं न शेष इ- त्यर्थः। ननु प्रमाणादिकमन्यदेव तत् कर्मास्तु ब्रह्म तु शेषितया सम्बध्यतां तत्राह॥ जिज्ञास्यान्तरेति ॥ श्रुतं कर्म त्यक्कान्यदश्रुतं कल्पयन् "पिण्डमुत्सृज्य करं लेढि" इति न्यायमनुसरतीति भावः। गुढाभिसन्धिः शङ्कते॥ नन्विति ॥ "षष्ठीशेषे" [ २।३५०] १ त्रह्माश्रिताशेषपमाणादिविचारपतिज्ञानार्था शेषषष्ठी स्वीकार्येत्याशयवान्।
Page 59
(४२) रत्नप्रभाभासिते [अ० १। पा० १। न्तुमिष्टं ब्रह्म। ब्रह्मावगतिर्हिं पुरुषार्थः । निःशे पसंसारवीजाविद्याद्यनर्थनिवर्हणात्। तस्माद्र- हा जिज्ञासितव्यम्। तत् पुनर्ब्रह्म प्रसिद्धमप्रसि- दं वा स्थात्! यदि प्रसिद्वं, न जिज्ञासितव्यं, अथाप्रसिद्वं, नैव शक्यं जिज्ञासितुमिति। उच्यते। अस्ति तावन्नित्यशुद्धबुद्दमुक्तस्व- ज्ञानं वृत्ति: अवगतिस्तत्फलम् इति भेद इति भावः । अवगन्तुमभि- व्यक्जयितुम्। अवगतेः फलत्वं स्फुटयति॥ ब्रह्मेति॥ हिशब्दोक्तं हे- तुमाह ।निःशोषेति। वीजमविद्या आदिर्यस्यानर्थस्य तन्नाशकत्वादि- त्यर्थः। अवयवार्थमुत्का सूत्रवाक्यार्थमाह ॥ तस्मादिति ॥अत्र स- नूपरत्ययस्य विचारलक्षकत्वं तव्यप्रत्ययेन सूचयति। अथातःशब्दा- भ्यामधिकारिणः साधितत्वात् तेन व्रह्मज्ञानाय विचारः कर्तव्य ड़- त्यर्थ: ॥ इति तृतीयवर्णकम्। प्रथमवर्णके बन्धस्याध्यासत्वोक्त्या विषयादिसिद्धावपि ब्रह्मप्रसि- द्वयप्रसिद्धयोविषयादिसम्भवासम्भवाभ्यां शास्त्रारंम्भसन्देहे पूर्वपक्ष- साहतत् पुनररिति॥ पुनःशब्दो वर्णकान्तरद्योतनार्थः॥ यदि वेदान्त- विचारात् प्रागेव ब्रह्म ज्ञातं, तर्हज्ञातत्वरूपविषयत्वं नारिति।अज्ञाना- भावेन तन्निवृत्तिरूपफलमपि नास्तीति न विचारयितव्यम्।अथाज्ञा- तं केनापि तर्हिं तदुद्देशेन विचारः कर्तु न शक्यते, अज्ञातस्योद्देशायो- गातू। तथा च बुद्धावनारूढस्य विचारात्मकशास्त्रेण वेदान्तैक्ष प्रति पादनायोगातू। तत्प्रतिपाद्यत्वरूपः संम्बन्धो नास्तीति ज्ञानानुत्पचे: फलमपि नास्तीत्यनारभ्यं शास्त्रमित्यर्थः। आपातप्रसिद्ध्या विषयाढिलाभादारम्भणीयमिति सिद्धान्तयति १ प्रमाणेनेति शेष, ।
Page 60
सू० १ । अ ० १ ] शाङ्करव्रह्मसूत्रभाष्ये (४१) आावं सर्वजं सर्वशक्तिसमन्वितं ब्रह्म। ब्रह्मशब्द- स्य हि व्युत्पाधमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बहतेर्धातोर्रर्थानुगमातू, सर्वस्यात्म-
।। उच्चत इत्यादिना ॥ प्रसिद्धं तावदित्यर्थः । अस्तित्वस्याप्रकत- त्वेनास्तिपदस्य प्रसिद्धिपरत्वातू। ननु केन मानेन व्रह्मणः प्रसिद्धिः। न च "सत्यं ज्ञानमनन्तं ब्रह्म" इति श्रुत्या सेति वाच्यम्, व्रह्मप- दस्य लोके सङ्गतिग्रहाभावेन तद्धटितवाक्यस्याबोधकत्वादित्याशङ्ग्च ब्रह्मपदव्युत्पच्या प्रथमं तस्य निर्गुणस्य सगुणस्य च प्रसिद्धिरित्याह । ब्रह्मशव्दस्य हीति ॥ अस्यार्थः । श्रुतौ सूत्रे ब्रह्मशब्दस्य प्रयो- गान्यथानुपपन्या कश्विदर्थो Sस्तीति ज्ञायते, प्रमाणवाक्ये निरर्थक- शब्दप्रयोगादर्शनात्। स चार्थो "महत्वरूप" इति व्याकरणानििश्री- यते, "बृहि वृद्धाविति" स्मरणात्। सा च वृद्धिनिर्वधिकमह्च्वमिति सङ्कोचकाभावात् श्रुतावनन्तपदेन सह प्रयोगाच् ज्ञायते। निरवधि- कमहत्त्वं चान्तवच्वादिदोषवच्वे सर्वज्ञत्वादिगुणहीनत्वे च न सम्भवति। लोके गुणहीनदोषवतोरल्पत्वप्रसिद्धेः। अतो वृंहणाद् ब्रह्मेति व्युत्प- च्या देशकालवस्तुतःपरिच्छेदाभावरूपं नित्यत्वं प्रतीयते।अविध्यादिदो- प्र शून्यत्वं शुद्धत्वम्। जाडयराहित्यं बुद्धत्वम्। बन्धकालेऽपि स्वतो ब- न्धाभावो मुक्तत्वं च प्रतीयते। एवं सकलदोषशून्यं निर्गुणं प्रसिद्धम् तथा सर्वज्ञत्वादिगुणकं च तत्पदवाच्यं प्रसिद्धम्।ज्ञेयस्य कार्यस्य चा- परिशेषेऽल्पत्वप्रसङ्गन सर्वज्ञत्वस्य सर्वकार्यशक्तिमच्वस्य चालाभा-
जिज्ञासोपपत्तिः" इति उत्का त्वंपदार्थात्मनापि ब्रह्मणः प्रसिद्धया त- दुपपत्तिरित्याह॥सर्वस्येति॥ सर्वस्य लोकस्य योऽयमात्मा तदभेदाद् २ व्यापनात्।
Page 61
(88) रत्नप्रभाभासिते [अ० १। पा० १। त्वाच्च ब्रह्मास्तित्वप्रसिद्धिः । सर्वो हि आत्मा- स्तित्वं प्रत्येति,न नाहमस्मीति। यदि हि नात्मा- स्तित्वप्रसिद्धि: स्यात् सर्वो लोको नाहमस्मीति प्रतीयात्। आत्मा च ब्रह्म।यदि लोके ब्रह्मात्म- त्वेन प्रसिद्धमस्ति ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्, न । तद्विशेषं प्रति विप्रतिपत्तेः। "देहमात्रं चैतन्यविशिष्ठमात्मा" इति प्राकृता ब्रह्मणः प्रसिद्धिरित्यर्थः। नन्वात्मनः प्रसिद्धिः केत्यत आह॥ सर्वो हीति॥ "अहमस्मीति" न प्रत्येति इति न, किन्तु प्रत्येत्येव, सैव सच्िदात्मनः प्रसिद्धिरित्यर्थः । आत्मनः कुतः सत्तेति शून्यमतमाशङ्चाह ॥यदि हीति॥ आत्मनः शून्यस्य प्रतीतौ"अहं नास्मि"इति लोको जानीयात्। लो- कस्तु "अहमस्मि"इति जानाति, तस्मादात्मनोऽस्तित्वप्रसिद्धिरित्यर्थः। आत्मप्रसिद्धावपि ब्रह्मणः किमायातं तत्राह॥ आत्मा चेति॥"अ- यमात्मा व्रह्म"इत्यादि श्रुतेरितिभावः। प्रसिद्धिपक्षोक्तं दोषं पूर्वपक्षेण स्मारयति॥ यदीति ॥ अज्ञातत्वासावेन विषयावभावादविचार्यत्वं प्राप्तमित्यर्थः । यथा "इदं रजतम्"इति वस्तुतः शुक्तिप्रसिद्धिस्तद्दत् "अहमस्मि" इति सच्वचैतन्यरूपात्मत्वसामान्येन वस्तुतो ब्रह्मणः प्रसिद्धि:, नेयं पूर्णानन्दवह्मत्वरूपविशेषगोचरा, वादिनां विवादा- भावप्रसङ्गात्। न हि शुक्तित्वविशेषदर्शने सति"रजतं रङ्गमन्यद्दा" इ- ति.विप्रत्तिपत्तिरस्ति। अतो विप्रतिपच्यन्यथानुपपच्या सामान्यतःप्रसि- द्धावपि विशेषस्याज्ञातत्वाद्दिषयादिसिद्धिरिति सिद्धान्तयति॥नेत्यादि- ना । सामान्यविशेषभावरत्वात्मनि सच्चित्पूर्णादिपदवाच्यभेदात् क- ल्पित इति मन्तव्यम्। तत्र स्थूलसूक्ष्मकमेणविप्रतिपत्तीरुपन्यस्यति
Page 62
सू०१। अ०१] शाङ्करब्रह्मसूत्रभाष्ये (8५) जना लोकायतिकाश्ष प्रतिपन्नाः।"इन्द्रियाण्ये- व चेतनान्यात्मा" इत्यपरे। "मन" इत्यन्ये "इ- न्द्रियाणिमनोवा" इति तदेकदेशिनः। "वि- ज्ञानमात्रं क्षणिकम्" इत्येके। "शून्यम्" इत्य- परे। "अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्ता" इत्यपरे। "भोक्तैव केवलंन कर्ता"इ- त्येके।"अस्ति तद्यतिरिक्त ईश्वरः सर्वज्ञः सर्व- शक्तिः" इति केचित्। "आत्मा स ओोक्तुः" इत्यपरे। एवं बहवो
।देह मात्रमित्यादिना। शास्त्रज्ञानशून्याः प्राकताः। वेदबाहयमतान्यु- क्का तार्किकादिमतमाह॥ अस्तीति॥साङ्यमतमाह॥ भोक्तेति॥ किमात्मा देहादिरूपः उत तज्जिन इति विप्रतिपत्तिकोटित्वेन देहे- न्द्रियमनोबुद्दिशून्यान्युक्ता तज्मिनोऽपि कर्तृत्वादिमान वेति विप्र- तिपत्तिकोटित्वेन तार्किकसाङ्ग्चपक्षावुपन्यस्याकर्तापीश्वराज्जिन्नो न वेति विवादकोटित्वेन योगिमतमाह॥ अस्ति तद्वयतिरिक्त ईश्वर इति॥ निरतिशयसच्वं गृहीत्वा ईश्वरः सर्वज्ञत्वादिसम्पन्न इति यो- गिनो वदन्ति। भेदकोटिमुत्त्ता सिद्धान्तकोटिमाह॥। आत्मा स भोक्तुरिति ॥ भोकुर्जीवस्याकर्तुःसाक्षिणः स ईश्वर आत्मा स्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः, विप्रतिपत्तीरुपसंहरति॥ एवं बहव इति॥ विग्रति प- त्तीनां प्रपश्चो निरासश् विवरणोपन्यासेन दर्शितः सुखबोधायेतीहोपर- म्यते; तत्रं युक्तिवाक्याश्रयाः सिद्धान्तिनो "जीवो ब्रह्मैव आत्मत्वाद् १ विविधवादिषु।
Page 63
(8६) रत्नप्रभाभासिते [अ०१।पा०91 विप्रतिपन्ना युक्तिवाक्यतदाभ्ाससमाश्रयाः सन्तः। तत्राविचार्य यत् किंचित् प्रतिपद्यमानो निःश्रेयसात् प्रतिहन्येतानर्थ चेयात्। तस्माद्ं ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यसी- शह्मवत्" इत्यादियुक्तेः, "तत्त्वमसि" इत्यादिश्रुतेश्वावाधितायाः स- चवात्। अन्ये तु देहादिरात्माऽहंप्रत्ययगोचरत्वाव्यतिरकेण घटादिव- दित्यादियुक्त्याभासम्; "स वा एष पुरुषोऽल्रसमयः" इन्द्रियसंवादे "चक्षुरादयः ते ह वाचमूचुः मन उवाच, योऽयं विज्ञानमयः, असदे- वेदमग्र आसीतू कर्ता बोद्धा, अनश्नन्नन्य:आत्मानमन्तरो Sयमयति" इति वाक्याभासं चाश्रिता इति विभागः। "देहादिरनात्मा भौतिक- त्वादृश्यत्वात्" इत्यादिन्यायैः "आनन्दभयोऽभ्यासात्" इत्यादिसूत्रै- श्याभासत्वं वक्ष्यते। ननु सन्तु विप्रतिपत्तयस्तथापि यस्य यन्मते श्र द्वा तदाश्रयणात्तस्य स्वार्थः सेत्स्यति, किं व्रह्मविचारारम्भेणेत्यत आ है। तत्राविचार्येति ॥ ब्रह्मात्मैक्यज्ञानादेव मुक्तिरिति वस्तुगतिः । मतान्तराश्रयणे तदभावान्मोक्षासिद्धिः। किंचात्मानमन्यथाज्ञात्वात- त्पापेन संसारान्धकूपे पतेत् ॥ "अन्धं तमः प्रविशन्ति ये के चात्म- हनो जनाः" इति श्रुतेः। "योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा"॥ इति वचनाञ्चेत्यर्थः। अतः सर्वेषां मुमुक्षूणां निःश्रेयसफलाय वेदा- न्तविचारः कर्तव्य इति सूत्रार्थमुपसंहरति ॥ तस्मादिति॥बन्ध-
द्वयाविपयादिसम्भवाञ्च वेदान्तविषया मीमांसापूजिता विचारणा वेदा- न्ताविरोधिनो ये तर्कास्तन्त्रान्तरस्थास्तान्युपकरणानि यस्याःसा निःश्रे-
Page 64
सू ० २। अ० १।] शाङ्करब्रह्मसूत्रभाष्ये (४७) मांसा तदविरोधितर्कोपकरणा निश्श्रेयसप्रयो- जना प्रस्तूयते॥१॥! · "ब्रह्म जिज्ञासितव्यम" इत्युक्तम्। किंलक्ष- णकं पुनस्तद्रह्म! इत्यत आह भगवान सूत्रकारः। जन्माद्यस्य यत इति॥२ ॥ जन्मोत्पत्तिरादिरस्येति तह्गुणसंविज्ञानो ब- यसायारभ्यत इत्यर्थः। ननु सूत्रे विचारवाचिपदाभावात्तदारम्भः कथं सूत्रार्थ इत्यत आह॥ ब्रह्मेति॥ ब्रह्मज्ञानेच्छोक्तिद्दारा विचारं ल- क्षयित्वा तत्कर्तव्यतां ब्रवीतीति भावः । एवं प्रथमसूत्रस्य चत्वारो ऽर्था व्याख्यानचतुष्टयेन दर्शिताः। सूत्रस्य चानेकार्थतवं भूषणम्। न- न्विदं सूत्रं शास्त्राद्हिः स्थित्वा शास्त्रमारम्भयति अन्तर्भूत्वा वा?आ- दे तस्य हेयता, शास्त्रासम्बन्धात्। द्वितीये तस्यारम्भकं वाच्यम् न च स्वयमेवारम्भकं स्वस्मात् स्वोत्पत्तेरित्यात्माश्रयात्, न चारम्भकान्तरं पश्याम इति। उच्यते। श्रवणविधिना आरव्धमिदं सूत्रं शास्त्रान्तर्ग- तमेव शास्त्रारम्भं प्रतिपादयति। यथाऽध्ययनविधिर्वेदान्तर्गत एव क- त्लवदस्याध्ययने प्रयुक्के तद्ददित्यनवद्यम्॥१॥ प्रथमसूत्रं समाप्म् ॥ प्रथमसूत्रेण शास्त्रारम्भमुपपाद शास्त्रमारभमाणः पूर्वोत्तराधिक- रणयो: सङ्गतिं वकतुं वृत्तं कीर्तयति ॥ ब्रह्मेति ॥मुमुक्षुणा ब्रह्मज्ञानां- य वेदान्तविचारः कर्तव्य इत्युक्तम् ब्रह्मणो विचार्यत्वोक्त्या अर्थात् प्रमाणादिविचारणां प्रतिज्ञातत्वेऽपि ब्रह्मप्रमाणं व्रह्मयुक्तिरित्यादि- विशिष्टविचाराणां विशेषेण ब्रह्मज्ञानं विना कर्तुमशक्यत्वात्तत्स्वरूप- ज्ञानायादौ लक्षणं वक्तव्यंतन्न सम्भवतीत्याक्षिप्य सूत्रकतं पूजयन्नेव लक्षणसूत्रमवतारयति ॥ किंलक्षणकमिति॥ किमाक्षेपे, नास्त्येव
Page 65
(५८) रत्नप्रभाभासिते [अ० १। पा० १। ज्ञानं वस्तुतन्त्रत्वात्। एवम्भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम्। तत्रैवं सति ब्रह्मज्ञानम- पि वस्तुतन्त्रमेव भूतवस्तुविषयत्वात्। ननु भू- तवस्तुविषयत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमे- वेति वेदान्तवाक्यविचारणाSनर्थिकैव प्राप्ता, न, इन्द्रियाविषयत्वेन सम्बन्धाग्रहणात्। स्वभाव-
णावित्यर्थ:स्थाणावुक्तन्यायं घटादिष्वतिदिशति।।एवमिति।प्रकतमा- ह।तत्रैवंसतीति॥ सिद्धेऽर्थे ज्ञानप्रमात्वस्य वस्त्वधीनत्वे सति ब्रह्म- ज्ञानमपि वस्तुजन्यमेव यथार्थ, न पुरुषतन्त्रं भूतार्थविषयत्वात् स्था- णुज्ञानवदित्यर्थः। अतः साध्येऽर्थे सर्वे विकल्पाः पुन्तन्त्रा, न सिद्धे- 5र्थे इति वैलक्षण्यात्, न धर्मसाम्यं ब्रह्मण इति मननायपेक्षा सिद्धे- ति भाव:। ननु तर्हि ब्रह्मप्रत्यक्षादिगोचरं धर्मविलक्षणत्वाद् घटा- दिवतू। तथा च जन्मादिसूत्रे जगत्कारणानुमानं विचार्य सिद्धार्थे त- स्य मानत्वात् न श्रुतिः, सिद्धार्थे तस्या अमानत्वेन तदिचारस्य नि- प्फलत्वादिति शङ्कते ॥ नन्विति ॥ प्रमाणान्तरविषयत्वमेव प्राप्तमि- ति कृत्वा प्रमाणान्तरस्यैव विचारप्राप्ाविति शेषः। अत्र पूर्वपक्षी प्रष्टव्य:, किं यत् कार्य तद्रह्लजमित्यनुमानं ब्रह्मसाधकं, किंवा यत् कार्य तत् सकारणमिति ? नाथः, व्याप्यसिद्धेरित्याह।नेति॥ ब्रह्मण इन्द्रियाय्ाह्यत्वात् प्रत्यक्षेण व्याप्तिग्रहायोगान्न प्रमाणान्तरविषयत्व- मित्यर्थः। इन्द्रियाग्राहयत्वं कुत इत्यत आह॥ स्वभावत इति॥"प- राश्चि खानि व्यतृणत् स्वयम्भूः'इति श्रुतेः, ब्रह्मणो रूपादिहीनत्वा- १ कार्यमात्रस्य पक्षीकरणाद् दृष्टान्ता प्रसिद्धा व्याप्यसिद्धिरित्यर्थः ।न च पक्षैकदे- शो. दृटटान्तः संभवतीति वाच्यम्, एतदनुमानात्पूर्व ब्रह्मसिद्धया तज्जत्वस्य पक्षैकदेशेऽपि निश्चेतुमशक्यत्वात्। अत एव व्यजिरेकिदृष्टान्तोपि न दर्शनीयः, इतः पूर्वं ब्रम्मासिद्ध्या तद्घटित ब्रह्मजत्वाभावस्य दृष्टान्तेऽनिश्ितत्वादितिभावः।
Page 66
सू० १/ अ० २] शाङ्करव्रह्मसूत्रभाष्ये (५९) तो विषयाणि इन्द्रियाणि न ब्रह्मविषयाणि। सति हीन्द्रियविषयत्वे ब्रह्मण, इदं ब्रह्मणा स- म्बद्धं कार्यमिति गत्ेत। कार्यमात्रमेव तु गव्य- माणं किं ब्रह्मणा सम्बद्धं किमन्येन केनचिद्वा स- म्बद्धमिति न शक्यं निश्चेतुमा तस्माजन्मादिसू- नंनानुमानोपन्यासार्थ किंतर्हि वेदांतवाक्यप्रद- र्शनार्थमूकिं पुनस्तद्ेदान्तवाक्ययत्सूत्रेणेह वि- लक्षयिषितम्।"भृगुर्वै वारुणिर्वरुण पितरमुपस- सार अधीहि भगवो ब्रह्मेति" इत्युपकरम्याह- च्चेत्यर्थः । इन्द्रियाग्राहत्वेऽपि व्याप्तिग्रहः कि न स्यादत आह॥ स- तिहीति॥ तन्नासतीति शेषः। इदं कार्य ब्रह्मजमिति व्याप्तिप्रत्यक्ष ब्रह्मणोऽतीन्द्रियत्वान्न सम्भवतीत्यर्थः । द्वितीये कारणसिद्धावपि का- रणस्य ब्रह्मत्वं श्रुतिं विना ज्ञातुमशक्यमित्याह ॥ कार्यमात्रमिति॥ सम्बद्धं कतं यस्मात्, श्रुतिमन्तरेण जगत्कारणं ब्रह्मेति निश्चयला- भस्तस्मात् तल्ाभाय श्रुतिरेव प्राधान्येन विचारणीया, अनुमानं तू- पादानत्वादिसामान्यद्वारा मृदादिवद् व्रह्मणः स्वकार्यात्मकादिश्रौ- तार्थसम्भावनार्थ गुणतया विचार्यमित्युपसंहरति॥ तस्मादिति॥ एतत्सूत्रस्य विषयवाक्यं पृच्छति॥ किं पुनरिति॥ इह ब्रह्मण लक्ष- णार्थतवेन विचारयितुमिष्टं वाक्यं किमित्यर्थः । अत्र हि प्रथमसूत्रे विशिष्ठाधिकारिणो व्रह्मविचारं प्रतिज्ञाय व्रह्मज्ञातुकामस्य द्वितीय- सूत्रे लक्षणमुच्यते, तथैव श्रुतावपि मुमुक्षोर्व्रह ज्ञातुकामस्य जगत्- कारणत्वोपलक्षणानुवादेन ब्रह्म ज्ञाप्यत इति श्रतार्थक्रमानुसारित्वं सूत्रस्य दर्शयितुं सोमक्रमं वाक्यं पठति॥ भृगुरिति ॥ अधिहि
Page 67
(६०) रत्नप्रभाभासिते [अ० १। पा० १। "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति,यत्प्रयन्त्यभ्िसंविशन्ति, तद्विजिज्ञास- स्व, तद्रह्म" इति। तस्य च निर्णयवाक्यं "आन- न्दाद्घेव खल्विमानि भूतानि जायन्ते, आनन्दे न जातानि जीवन्ति, आनन्दं प्रयन्त्यभिसंवि- शन्ति" इति। अन्यान्यप्येवं जातीयकानि वा- क्यानि नित्यशुद्धबुद्दमुक्तस्वभावसर्वज्ञस्वरू पकारणविषयाण्युदाहर्तव्यानि॥२॥ जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षि- तं तदेव द्रढयन्नाह। स्मारय उपदिशेत्यर्थः । अत्र येनेत्येकत्वं विवक्षित्वं नानात्वे ब्रह्मत्व- विधानायोगात्। यज्जगत्कारणं तदेकमित्यवान्तरवाक्यं, यदेकं कार- णं तद् ब्रह्मेति वा, यत्कारणं तदेकं ब्रह्मेति वा महावाक्यमिति भेदः किंतहि स्वरूपलक्षणमित्याशङ्ड्च वाक्यशेषान्निर्णीतो यतःशब्दार्थ: सत्यज्ञानानन्द इत्याह ॥ तस्य चेति॥ "यः सर्वज्ञः" "तस्मादेतद् व्रह्मनामरूपमन्नं च जायते" "विज्ञानमानन्दं ब्रह्म"इत्यादिशाखान्त- रीयवाक्यान्यप्यस्य विषय इत्याह॥ अन्यान्यपीति॥ एवं जातीय- कत्वमेवाह॥ नित्येति ॥ तदेवं सर्वासु शाखासु लक्षणद्वेयवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानि तद्धिया मुक्तिरिति सिद्धम् ।। २।। यस्य निश्वसितं वेदाः सर्वार्थज्ञानशक्तयः। श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे॥ वृत्तानुवादेन सङ्गतिं वदन्ुत्तरसूत्रमवतारयति ॥ जगदिति॥ १ जन्माद्यस्य यत इति सूतस्य। २ स्वरूपलक्षण तटस्थलक्षणचेति लक्षणहयं नगज्न्मादि कारणत्वमाद्यभ्, सत्यज्ञानानन्तानन्दादिरूपं द्वितीयमिति विवेकः।
Page 68
सू० ३ / अ० ३ ] (६१) चैतन्यस्य व्रह्मणो जगत्कारणत्वोक्त्या सर्वज्ञत्वमर्थात् प्रतिज्ञातं सूत्र- कता चेतनसृष्टेर्ज्ञानपूर्वकत्वात्। तथा च ब्रह्म सर्वजञं सर्वकारणक- त्वातू, यो यत्कर्ता स तज्ज्ञः यथा कुलाल इति स्थितं; तदेवार्थिकं सर्वज्ञत्वं प्रधानादिनिरासाय वेदकर्तृत्वहेतुना द्रढयन्नाहेत्यर्थः । हेतुद्द- यस्यैकार्थसाधनत्वादेकविषयत्वमवान्तरसङ्गतिः । यद्ा वेदस्य नि- त्यत्वाद् व्रह्मणः सर्वहेतुता नास्तीत्याक्षेपसङ्गत्या वेदहेतुत्वमुच्यते "अस्य महतो भूतस्य निश्वसितमेतयदग्वेदो यजुर्वेद: सामवेदोऽथ- र्वाङ्गिरस" इतिवाक्यं विषयः। ततू किं वेदहेतुत्वेन ब्रह्मणः सर्वज्ञ- त्वं साधयति उत न साधयति इति सन्देहः ; तत्र व्याकरणादिवद्े- दस्य पौरुषेयत्वे मूलप्रमाणसापेक्षत्वेनाप्रामाण्यापातान्न साधयतीति पूर्वपक्षे जगद्वेतोश्षवेतनत्वासिद्धिः फलम्। सिद्धान्ते तत्सिद्धिः। अ- स्य वेदान्तवाक्यस्य स्पष्टव्रह्मलिङ्गस्य वेदकर्तरि समन्वयोक्ते: श्रुति- शास्त्राध्यायपादसङ्गतयः । एवमापादं श्रुत्यादिसङ्गतय ऊहाः । वेदे हि सर्वार्थप्रकाशनशक्तिरुपलभ्यते, सा तद्ुपादानव्रह्मगतशक्तिपूर्वि- का तदता वा? प्रकाशनशक्तित्वात् कार्यगतशक्तित्वाद्या प्रदीपश- क्तिवदिति वेदोपादानत्वेन व्रह्मणः स्वसम्बद्धाशेषार्थप्रकाशनसाम- थर्यरूपं सर्वसाक्षित्वं सिद्धयति। यद्दा यथा अध्येतारः पूर्वक्रमं ज्ञा- त्वा वेदं कुर्वन्ति, तथा विचित्रगुणमायासहायोऽनावृतानन्तस्वप्रका- शचिन्मात्र: परमेश्वरः स्वकतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वे- दराशिं तदर्थाश्र युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता। यत्र हर्थज्ञानपूर्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अत्र च यौगपयान सा; अतो वेदकर्ता वेदमिव तदर्थमपि स्वसम्बद्धं नान्तरीयकतया जानातीति सर्वज्ञ इति सिद्धान्तयति। ॥ शास्त्रेति॥ शास्त्रं प्रति हेतुत्वात् ब्रह्म सर्वज्ञं सर्वकारणं च इ- १ इश्रे। २ अर्थज्ञानवाक्यज्ञानयो:।
Page 69
(६२) रत्नप्रभाभासिते [अ० १/पा०१। शास्त्रयोनित्वादिति॥३॥ महत ऋग्वेदादेः शास्त्रस्यानेकविद्यास्था- नोपबंहितस्य प्रदीपवत् सर्वार्थावद्योतिनःस वज्ञकल्पस्य योनि: कारणं ब्रह्म। न हीद्वशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वि तस्य सर्वज्ञादन्यतः सम्भवोऽस्ति। यद्यद्वि- स्तरार्थ शासत्रं यस्मात् पुरुषविशेषात् सम्भ- वति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैक- ति सङ्गतिद्दया नुसारेण सूत्रयोजनामंभिप्रेत्य पदानि व्याचष्टे।। मह- त इति । हेतो: सर्वज्ञत्वसिद्धये वेदस्य विशेषणानि। तत्र ग्रन्थतो- उर्थतश्र महत्त्वं, हितशासनात् शास्त्रत्वं शास्त्रशब्दः शव्दमात्रोपलक्ष- णार्थ इति मत्वाह॥ अनेकति ॥ "पुराणन्यायमीमांसाधर्मशास्त्रा- णि, शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि षडङ्गानि" इति दशविद्यास्थानानि वेदार्थज्ञानहेतवः तैरुपकतस्येत्यर्थः । अनेन म- न्वादिभि: परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम्। अबोधकत्वा- भावादपि प्रामाण्यमित्याह। प्रदीपवदिति॥ सर्वार्थप्रकाशनशक्ति- मच्चेऽप्यचेतनत्वात् सर्वज्ञकल्पत्वं योनिरुपादानं कर्तृ च। ननु सर्व- ज्ञस्य यो गुण: सर्वार्थज्ञानशक्तिमच्वं वेदस्य तदन्वितत्वेऽपि तयोने: सर्वज्ञत्वं कुत इत्यत आह॥ न हीति॥ उपादाने तच्छक्ति विना कार्ये तदयोगाद्देदोपादानस्य सर्वज्ञत्वम्। अनुमानं तु पूर्व दर्शितम्। न चाविद्यायास्तदापत्तिः। शक्तिमच्वेऽप्यचेतनत्वादिति भावः। वेद:स्व विषयादधिकारार्थज्ञानवज्जन्यः, प्रमाणवाक्यत्वात्, व्याकरणरामाय- णादिवदित्यनुमानान्तरम् । तत्र व्याप्तिमाह॥ यद्यदिति॥ विस्तरः
Page 70
सू० ३।अ०३ ] देशार्थमपि, सततो Sप्यधिकतरविज्ञान इति- प्रसिद्धं लोके, किमु वक्तव्यमनेकशाखाभेदशषि- न्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहे- तो: ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्याप्रयतने- नैव लीलान्यायेन पुरुषनिश्वासवद्यस्मान्महतो भूताद्योने: सम्भवः"अस्यमहतो भूतस्य निश्व- सितमेतद्यदग्वेद" इत्यादिश्रुतेस्तस्य महतो भू- तस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्वं चेति।
शब्दाधिक्यम् अनेनार्थतोऽल्पत्वं वदन् कर्तुज्ञानस्यार्थाधिक्यं सू- चयति; दृश्यते चार्थवादाधिक्यं वेदे। अत्रैषा योजना यद्च्छासत्रं यस्मादाप्तात् सम्भवति स ततः शास्त्रादधिकार्थज्ञान इति प्रसिद्धं यथा शब्दसाधुत्वादिज्ेयैकदेशोऽर्थो यस्य तदपि व्याकरणादि पा- णिन्यादेरधिकार्थज्ञानात् सम्भवति। यदल्यार्थमपि शास्त्रमधिका- र्थज्ञानातू सम्भवति तदा "अस्य महत" इत्यादिश्रुतेर्यस्मान्म- हतोऽपरिच्छिन्नाद्भूतात् सत्याद्योने: सकाशादनेकशा खे त्या द्िविशि - ष्टस्य वेदस्य पुरुषनिश्वासवदप्रयल्नेनैव सम्भवः तस्य सर्वज्ञत्वं स- र्वशक्तिमच्वं चेति किमुवक्तव्यमिति, तत्र वेदस्य पौरुषेयत्वशङ्कानिरा सार्थ श्रुतिस्थनिश्वसितपदार्थमाह॥ अप्रयत्नेनेति॥ प्रमाणान्तरे- णार्थज्ञानप्रयासं विना निमेषादिन्यायेनेत्यर्थः।अत्रानुमानेन "यः सर्व- ज्ञ" इति श्रुत्युक्तसर्वज्ञत्वदार्ढर्याय पाणिन्यादिवद्देदकर्तरि अधि.का- र्थज्ञानसत्तामात्रं साध्यते, न त्वर्थज्ञानस्य वेदहेतुत्वं, निश्वसितश्रुति- विरोधात, वेदज्ञानमात्रेणाध्येतृवद्देदकर्तृत्वोपपत्तेश्र। इयान् विशेषः, अध्येता परापेक्ष :; इश्वरस्तु स्वकतवेदानुपूर्वी स्वयमेव स्मृत्वा तथैव
Page 71
(५८) रत्नप्रभाभासिते [अ० १।पा० १। ज्ञानं वस्तुतन्त्रत्वात्। एवम्भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम्। तत्रैवं सति ब्रह्मज्ञानम- पि वस्तुतन्त्रमेव भूतवस्तुविषयत्वात्। ननु भू- तवस्तुविषयत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमे- वेति वेदान्तवाक्यविचारणाSनर्थिकैव प्राप्ता,न, इन्द्रियाविषयत्वेन सम्बन्धाग्रहणात्। स्वभाव- णावित्यर्थ:।स्थाणावुक्तन्यायं घटादिप्वतिदिशति।।एव मिति।प्रकतमा- ह। तत्रैवंसतीति॥ सिद्धेऽर्थे ज्ञानप्रमात्वस्य वस्त्वधीनत्वे सति ब्रह्म- ज्ञानमपि वस्तुजन्यमेव यथार्थ, न पुरुषतन्त्रं भूतार्थविपयत्वात् स्था- णुज्ञानवदित्यर्थः। अतः साध्येऽर्थे सर्वे विकल्पाः पुन्तन्त्रा, न सिद्धे- 5र्थे इति वैलक्षण्यात्, न धर्मसाम्यं व्रह्मण इति मननादपेक्षा सिद्धे- ति भावः । ननु तर्हिं ब्रह्मप्रत्यक्षादिगोचरं धर्मविलक्षणत्वाद् घटा- दिवत्। तथा च जन्मादिसूत्रे जगत्कारणानुमानं विचार्य सिद्धार्थे त- स्य मानत्वात् न श्रुतिः, सिद्धार्थे तस्या अमानत्वेन तदिचारस्य नि- ष्फलत्वादिति शङ्कते॥ नन्विति ॥ प्रमाणान्तरविषयत्वमेव प्राप्तमि- ति कत्वा प्रमाणान्तरस्यैव विचारप्राप्ाविति शेषः। अत्र पूर्वपक्षी प्रष्टव्यः किं यत् कार्य तद्रह्मजमित्यनुमानं ब्रह्मसाधकं, किंवा यत् कार्य तत् सकारणमिति ? नाथः, व्यात्यसिंद्धेरित्याह॥नेति॥ व्रह्मण इन्द्रियाग्राह्यत्वात् प्रत्यक्षेण व्याप्तिग्रहायोगान्न प्रमाणान्तरविषयत्व- मित्यर्थः। इन्द्रियाग्राहयत्वं कुत इत्यत आह॥ स्वभावत इति ॥"प- राश्चि खानि व्यतृणत् स्वयम्भू:इति श्रुतेः, ब्रह्मणो रूपादिहीनत्वा- १. कार्यमात्रस्य पक्षीकरणाद् दृष्टान्ता प्रसिद्धा व्याप्यसिद्धिरित्यर्थः । न च पक्षैकदे- शो दृष्ठान्तः संभवतीति वाच्यम्, एतदनुमानात्पूरव ब्रह्मसिद्धया तज्जत्वस्य पक्षैकदेशेऽपि निश्रेतुमशक्यत्वात्। अत एव व्यशिरेकिदृष्टान्तोपि न दर्शनीयः, इतः पूर्वं ब्रम्मासिद्धया तद्घटित ब्रह्मजत्वाभावस्य दृष्टान्तेऽनिश्ितत्वादितिभावः ।
Page 72
सू०२/अ०२] शाङ्करब्रह्मसूत्रभाष्ये (५९) तो विषयाणि इन्द्रियाणि न ब्रह्मविषयाणि। सति हीन्द्रियविषयत्वे ब्रह्मण, इदं ब्रह्मणा स- म्बद्ं कार्यमिति ग्रह्येत। कार्यमात्रभेव तु गृत्य- माणं कि ब्रह्मणा सम्बद्ं किसन्येन केनचिद्वा स० म्बद्मिति न शक्यं निश्चेतुम्। तस्माज्न्मादिसू- त्रंनानुमानोपन्यासार्थ किंतहि वेदांतवाक्यप्रद- र्शनार्थमू।किं पुनस्तद्वेदान्तवाक्यंयत्सूत्रेणेह वि- लक्षयिषितम्।"भृगुर्वै वारुणिर्वरुणं पितरमुपस- सार अधीहि भगवो ब्रह्मेति" इत्युपक्रम्याह- च्चेत्यर्थः । इन्द्रियाग्राह्यत्वेऽपि व्याप्तिग्रहः किं न स्यादत आह॥ स- तिहीति॥ तन्नास्तीति शेषः। इदं कार्य ब्रह्मजमिति व्याप्तिप्रत्यक्ष ब्रह्मणोऽतीन्द्रियत्वान्न सम्भवतीत्यर्थः । द्वितीये कारणसिद्धावपि का- रणस्य ब्रह्मत्वं श्रुतं विना ज्ञातुमशक्यमित्याह ॥ कार्यमात्रमिति॥ सम्बद्धं कतं यस्मात्, श्रुतिमन्तरेण जगत्कारणं ब्रह्मेति निश्यला- भस्तस्मातू तल्लाभाय श्रुतिरेव प्राधान्येन विचारणीया, अनुमानं तू- पादानत्वादिसामान्यद्वारा मृदादिवद् ब्रह्मणः स्वकार्यात्मकादिश्रौ- तार्थसम्भावनार्थ गुणतया विचार्यमित्युपसंहरति॥ तस्मादिति॥ एतत्सूत्रस्य विषयवाक्यं पृच्छति॥ किं पुनरिति॥ इह ब्रह्मण लक्ष- णार्थत्वेन विचारयितुमिष्टं वाक्यं किमित्यर्थः । अत्र हि प्रथमसूत्रे विशिष्टाधिकारिणो ब्रह्मविचारं प्रतिज्ञाय ब्रह्मज्ञातुकामस्य द्वितीय- सूत्रे लक्षणमुच्यते, तथैव श्रुतावपि मुमुक्षोर्व्रह्म ज्ञातुकामस्य जगत्- कारणत्वोपलक्षणानुवादेन ब्रह्म ज्ञाप्यत इति श्रौतार्थक्रमानुसारित्वं सूत्रस्य दर्शयितुं सोमक्रमं वाक्यं पठति॥ भृगुरिति ॥ अधिहि
Page 73
(६०) रत्नप्रभाभासिते [अ०१।पा०१। "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति,यत्यन्त्यभिसंविशन्ति, तद्विजिज्ञास- स्व, तद्हा" इति। तस्य च निर्णयवाक्यं "आन- न्दाद्येव खल्विमानि भूतानि जायन्ते, आनन्दे न जातानि जीवन्ति, आनन्दं प्रयन्त्यभ्िसंवि- शन्ति" इति। अन्यान्यप्येवं जातीयकानि वा- क्यानि नित्यशुद्धबुद्दमुक्तस्वभावसर्वज्ञस्वरू पकारणविषयाण्युदाहर्तव्यानि ॥ २॥ जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षि- सं तदेव द्रढयन्नाह। स्मारय उपदिशेत्यर्थः। अत्र येनेत्येकत्वं विवक्षित्वं नानात्वे ब्रह्मत्व- विधानायोगात्। यज्जगत्कारणं तदेकमित्यवान्तरवाक्यं, यदेकं कार- णं तद् ब्रह्मेति वा, यत्कारणं तदेकं व्रह्मेति वा महावाक्यमिति भेद: किंतर्ह स्वरूपलक्षणमित्याशङ्कच वाक्यशेपान्निर्णीतो यतःशब्दार्थ: सत्यज्ञानानन्द इत्याह ॥ तस्य चेति॥ "यः सर्वज्ञः" "तस्मादेतद् व्रह्मनामरूपमन्नं च जायते" "विज्ञानमानन्दं व्रह्म"इत्यादिशाखान्त- रीयवाक्यान्यप्येस्य विषय इत्याह॥ अन्यान्यपीति॥ एवं जातीय- कत्वमेवाह॥ नित्येति ॥ तदेवं सर्वासु शाखासु लक्षणहवेयवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानि तद्धिया मुक्तिरिति सिद्धम् ॥। २ ।। यस्य निश्सितं वेदा: सर्वार्थज्ञानशक्तयः। श्रीरामं सर्ववेत्तारं वेदवेवमहं भजे॥ वृत्तानुवादेन सङ्कतिं वदन्नुत्तरसूत्रमवतारयति ॥ जगदिति॥ १ जन्माद्यस्य यत इति सूत्रस्य। २स्वरूपलक्षण तटस्थलक्षणंचेति लक्षणदयं जगजन्मादि कारणत्वमाद्यम्, सत्यज्ञानानन्तानन्दादिरूपं द्वितीयमिति विवेक: ।
Page 74
सू० ३ । अ ० ३ ] शाङ्गरव्रह्मसूत्रभाष्ये (६१) चैतन्यस्य ब्रह्मणो जगत्कारणत्वोक्त्या सर्वज्ञत्वमर्थात् प्रतिज्ञातं सूत्र- कता चेतनसृष्टेर्ज्ञानपूर्वकत्वात्। तथा च व्रह्म सर्वज्ञं सर्वकारणक- त्वात्, यो यत्कर्ता स तज्ज्ञः यथा कुलाल इति स्थितं; तदेवार्थिकं सर्वज्ञत्वं प्रधानादिनिरासाय वेदकर्तृत्वहेतुना द्रढयन्नाहेत्यर्थः । हेतुद्- यस्यैकार्थसाधनत्वादेकविषयत्वमवान्तरसङ्गतिः । यदा वेदस्य नि- त्यत्वाद् ब्रह्मणः सर्वहेतुता नास्तीत्याक्षेपसङ्गत्या वेदहेतुत्वमुच्यते "अस्य महतो भूतस्य निश्वसितमेतबदग्वेदो यजुर्वेद: सामवेदोऽथ- र्वाड्गिरस" इतिवाक्यं विषयः। तत् किं वेदहेतुत्वेन ब्रह्मणः सर्वज्ञ- त्वं साधयति उत न साधयति इति सन्वेहः ; तत्र व्याकरणादिवद्रे- दस्य पौरुषेयत्वे मूलप्रमाणसापेक्षत्वेनाप्रामाण्यापातान्न साधयतीति पूर्वपक्षे जगद्वेतोश्रेतनत्वासिद्धि: फलम्। सिद्धान्ते तत्सिद्धिः। अ- स्य वेदान्तवाक्यस्य स्पष्टब्रह्मलिङ्गस्य वेदकर्तरि समन्वयोक्ते: श्रुति- शास्त्राध्यायपादसङ्गतयः । एवमापादं श्रुत्यादिसङ्गतय ऊह्याः । वेदे हि सर्वार्थप्रकाशनशक्तिरुपलभ्यते, सा तदुपादानब्रह्मगतशक्तिपूर्वि- का तह़ता वा ? प्रकाशनशक्तित्वात् कार्यगतशक्तित्वाहा प्रदीपश- क्तिवदिति वेदोपादानत्वेन ब्रह्मणः स्वसम्बद्दाशेषार्थप्रकाशनसाम- थर्यरूपं सर्वसाक्षित्वं सिद्धयति। यदा यथा अध्येतारः पूर्वक्रमं ज्ञा- त्वा वेदं कुर्वन्ति, तथा विचित्रगुणमायासहायोऽनावृतानन्तस्वप्रका- शचिन्मात्र: परमेखरः स्वकतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वे- दराशिं तदर्थाश्र युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता। यत्र हर्थज्ञानपूर्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अंत च यौगपवान सा; अतो वेदकर्ता वेदमिव तदर्थमपि स्वसम्बद्धं नान्तरीयकतया जानातीति सर्वज्ञ इति सिद्धान्तयति। ।। शास्त्रेति । शास्त्रं प्रति हेतुत्वात् ब्रह्म सर्वज्ञं सर्वकारणं च इ- १ इश्वरे। २ अर्थज्ञानवाक्यज्ञानयोः।
Page 75
(६२) रत्नप्रभाभासिते [अ० १।पा०. १। शास्त्रयोनित्वादिति॥३॥ महत ऋग्वेदादेः शास््स्यानेकविद्यास्था- नोपबंहितस्य प्रदीपवत् सर्वार्थावद्योतिनः स वज्ञकल्पस्य योनि: कारणं ब्रह्म। न हीद्शस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वि- तस्य सर्वज्ञादन्यतः सम्भवोऽस्ति। यद्द्ि- स्तरार्थ शासत्रं यस्मात् पुरुषविशेषात् सम्भ- वति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैक- ति सङ्गतिद्दया नुसारेण सूत्रयोजनामभिप्रेत्य पदानि व्याचष्टे।। मह- त इति ॥ हेतो: सर्वज्ञत्वसिद्धये वेदस्य विशेषणानि। तत्र ग्रन्थतो- डर्थतश्र् महत्त्वं, हितशासनात् शास्त्रत्वं शास्त्रशव्दः शव्दमात्रोपलक्ष- णार्थ इति मत्वाह ॥ अनेकति ॥"पुराणन्यायमीमांसाधर्मशास्त्रा- णि, शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि पडड्गानि" इति दशविद्यास्थानानि वेदार्थज्ञानहेतवः तैरुपकतस्येत्यर्थः । अनेन म- न्वादिभि: परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम्। अबोधकत्वा- भावादपि प्रामाण्यमित्याह। प्रदीपवदिति॥ सर्वार्थप्रकाशनशक्ति- मच्वेऽप्यचेतनत्वात् सर्वज्ञकल्पत्वं योनिरुपादानं कर्तृ च। ननु सर्व- ज्ञस्य यो गुणः सर्वार्थज्ञानशक्तिमच्वं वेदस्य तदन्वितत्वेऽपि तय्ोने: सर्वज्ञत्वं कुत इत्यत आह॥ न हीति॥ उपादाने तच्छकतिं विना कार्यें तदयोगाद्देदोपादानस्य सर्वज्ञत्वम्। अनुमानं तु पूर्व दर्शितम्। न चाविद्यायास्तदापत्तिः। शक्तिमच्वेऽप्यचेतनत्वादिति भावः। वेद:स्व विषयादधिकारार्थज्ञानवज्जन्यः, प्रमाणवाक्यत्वात्, व्याकरणरामाय- णादिवदित्यनुमानान्तरम् । तत्र व्याप्तिमाह॥ यद्यदिति॥ विस्तरः
Page 76
सू० १।अ० ३] शाङ्गरब्ह्मसूत्रभाष्ये (६३) देशार्थमपि, सततो Sप्यधिकतरविज्ञान इति- प्रसिद्ध लोके, किमु वक्तव्यमनेकशाखवाभेदभि- न्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहे- तो: ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्याप्रयत्ने- नैव लीलान्यायेन पुरुषनिश्वासवद्यस्मान्महतो भूता दोने:सम्भवः"अस्यमहतो भूतस्य निश्व- सितमेतद्दग्वेद" इत्यादिश्रुतेस्तस्य महतो भू- तस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्वं चेति।
शब्दाधिक्यम् अनेनार्थतोऽल्पत्वं वदन् कर्तुज्ञांनस्यार्थाधिक्यं सू- चयति; दृश्यते चार्थवादाधिक्यं वेदे। अत्रैषा योजना यद्च्छास्तरं यस्मादाप्तात् सम्भवति स ततः शास्त्रादधिकार्थज्ञान इति प्रसिद्धं यथा शब्दसाधुत्वादिज्ञेयैकदेशोऽर्थो यस्य तदपि व्याकरणादि पा- णिन्यादेरधिकार्थज्ञानात् सम्भवति। यद्यल्यार्थमपि शास्त्रमधिका- र्थज्ञानात् सम्भवति तदा "अस्य महत" इत्यादिश्रुतेर्यस्मान्म- हतोऽपरिच्छिन्नाद्भूतात् सत्याधोने: सकाशादनेकशाखे ादिविशि- ष्टस्य वेदस्य पुरुषनिश्वासवदप्रयनेनैव सम्भवः तस्य सर्वज्ञत्वं स- र्वशक्तिमच्वं चेति किमुवक्तव्यमिति, तत्र वेदस्य पौरुषेयत्वशङ्कानिरा सार्थ श्रुतिस्थनिश्वसितपदार्थमाह॥ अप्रयत्नेनेति॥ प्रमाणान्तरे- णार्थज्ञानप्रयासं विना निमेषादिन्यायेनेत्यर्थः।अत्रानुमानेन"यः सर्व- ज्ञ" इति श्रुत्युक्तसर्वज्ञत्वदार्ढ्याय पाणिन्यादिवद्देदकर्तरि 3.धिका- र्थज्ञानसत्तामात्रं साध्यते, न त्वर्थज्ञानस्य वेदहेतुत्वं, निश्चसितश्रुति- विरोधात, वेदज्ञानमात्रेणाध्येतृवद्देदकर्तृत्वोपपत्तेश्र। इयान् विशेषः, अध्येता परापेक्षः; इश्वरस्तु स्वकृतवेदानुपूर्वी स्वयमेव स्मृत्वा तथैव
Page 77
(६४) रत्नप्रभाभासिते [अ० १।पा० १। अथवा यथोक्तमग्वेदादिशास्त्रं योनिः कारणं प्र- माणमस्य ब्रह्मणो यथावत् स्वरूपाधिगमे। शास््ादेव प्रमाणात् जगतो जन्मादिकारणं त्र- ह्माधिगम्यत इत्यकिप्रायः। शास्त्रमुद़ाहतं पूर्व- सूत्रे "यतो वा इमानि भूतानि जायन्ते"इत्या- दि। किमर्थ तर्हि इदं सूत्रं यावता पूर्वसूत्र एवैवं- जातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं त्रह्मणो
जानातीति सर्वज्ञ इत्यनवद्यम्। अधुना व्रह्मणो लक्षणान्तरं प्रमाण- जिज्ञासायां वर्णकान्तरमाह॥ अथवेति ॥ लक्षणप्रमाणयोर्व्रललनि- र्णयार्थत्वादेकफलकत्वं सङ्गतिः। "तन्त्वौपनिपदं पुरुपम् " इति श्रु- तिर्व्रह्मणो वेदेकवेदयत्वं त्रूते न वेति संशये, कार्यलिङ्गेनैव लाघवात् कर्तुरेकस्य सर्वज्ञस्य त्रह्मणः सिद्धेन ब्रूत इति पाते वेदपमाणकत्वात् व्रह्मणो न प्रमाणान्तरवेद्यत्वमिति सिद्धान्तयति॥ शास्त्रयोनित्वा- दिति॥ तव्याचष्टे । यथोक्तमिति॥ सर्वत्र पूर्वोत्तरपक्षयुक्तिवयं सं- शयवीजं द्रष्टव्यम् अत्र पूर्वपक्षे अनुमानस्यैव विचार्यतासिद्धि: फलं, सिद्धान्ते वेदान्तानामिति भेदः । अनुमानादिना व्रह्मसिद्धिः पूर्वसूत्रे प्रसङ्गान्निरसता। किश्च विचित्रप्रपश्चस्य प्रासादादिवदेककर्तृकताया- धान लाघवावतारः। न च सर्वज्ञत्वात् कर्तुरेकत्वसम्भवः, एकत्वज्ञा- नातू सर्वज्ञत्वज्ञानं ततसतदित्यन्योन्याश्रयमभिप्रेत्याह॥ शास्त्रादेवे- ति॥। कि तच्छास्त्रमिति तत्राह॥ शास्त्रमिति॥ पृथगारम्भमाक्षिप- ति।। क्रिमर्थमिति॥ येन हेतुना दर्शितं ततः किमर्थमित्यर्थः। ज- न्मादि लिङ्गकानुमानस्य स्वांतन्त्रयेणोपन्यासशङ्कानिरासार्थ पृथकसू- १. सव ज्ञत्वज्ञानात्। २ एकत्वज्ञानम् ।
Page 78
सू० ३/ अ० ३॥] शाङ्करब्रह्मसूत्रभाष्ये (६५) दर्शितम! उच्यते। तत्र पूर्वसूत्राक्षरेण स्पर्ष्ट शा- सस्यानुपादानात् जगतो जन्मादि केवलमनु- मानमुपन्यस्तमित्याशङ्गेत, तामाशङ्गं निवर्त- यितुमिदं सूत्रं प्रवते। "शास्रयोनिव्वादिति"॥ कर्थ पुनर्ब्रह्मण: शास्त्रप्रमाणकत्वमुच्यते! याव ता "आम्नायस्य क्रियार्थव्वादानर्थक्यमतदर्था- त्रमित्याह॥ उच्यत इति ॥३॥वेदान्ताः सिद्धव्रह्मपरा उत कार्यपरा इति निष्फलत्वसापेक्षत्वयोः प्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वसूत्रे दि- तीयवर्णकेनाक्षेपसङ्गत्या पूर्वपक्षमाह।। कर्थ पुनरित्यादिना ॥ "सदेव सोम्य" इत्यादीनां सर्वात्मत्वादिस्पष्टवह्मलिङ्गानां ब्रह्मणि स- मन्वयोक्ते: श्रुत्यादिसङ्गतयः पूर्वपक्षे वेदान्तेषु सुमुक्षुप्रवृत्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः । कथमित्याक्षेपे हेतुः ॥ यावतेति॥ यतो जैमिनिसूत्रेण शास्त्रस्य वेदस्य क्रियापरत्वं दर्शितमतोऽक्रियार्थ त्वाहेदान्तानासानर्थक्यं फलवदर्थशून्यत्वं प्राप्तमित्यन्वयः। सूत्रस्याय- मर्थः। प्रथमसुत्रे तावद्देदस्याध्ययनकारणकभावनाविधिसाव्यस्य फ- लवदर्थपरत्वमुक्तम् "चोदनालक्षणोऽर्यो धर्म" इति द्वितीयसूत्रे धर्मे कार्ये चोदना प्रसाणसिति वेदप्रामाण्यव्यापकं कार्यपरत्वमवसितम्। तन्न"वायुर्वे क्षेपिष्ठा" इत्यायर्थवादानां धर्मे प्रामाण्यसस्ति न वेति सं- शये आन्नायप्रामाण्यस्य करियार्थत्वेन व्याप्तत्वादर्थवादेषु धर्मस्याप्रतीतेर- क्रियार्थानां तेपामानर्थक्यं निष्फलार्थत्वं, न चाध्ययनविध्युपात्तानां नि- प्फले सिद्ेऽर्ये प्रामाण्यं युक्तं, तस्मादनित्यमेपां प्रामाण्यसुच्यते। व्यापकाभावाव्याप्यं प्रामाण्यं नास्त्यवेति यावतू। एवं पूर्वपक्षे "वि- विना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः इति सूत्रेण सिद्दान्त- १ मसङ्ग्शव्दोऽन भाप्तिवचनः । ९
Page 79
(६८) रत्नप्रभाभासिते [अ० १। पा.१।] धनाभिधायित्वेन कर्मसमवायित्वसक्तम। न छ- चिदपि वेदवाक्यानां विधिसस्पर्शमन्तरेणार्थव- ता टष्टा उपपन्ना वा। न च परिनिश्ठिते वस्तुस्व- रूपे विधि: सम्भवति, क्रियाविपयत्वाद्विधेः। तस्मात् कर्मापेक्षितकर्तदेवतादिस्वरूपप्रकाश- र्वन्ति,उत दृष्टेनैवार्थस्मरणेनेति सन्देहे चिन्तादिनाप्यध्ययनकालावग- तमन्त्रार्थस्य स्मृतिसम्भवाद्दृष्टार्था मन्त्रा इति प्राप्ते सिद्धान्तः। "अविशिष्टस्तु वाक्यार्थ" इति लोकवेदयोर्वाक्यार्थस्याविशेषान्मन्त्र- वाक्यानां दृष्टेनैव स्वार्थप्रकाशनेन कतूपकारकत्वसम्भवात् दृष्टे सम्भ- वति अदृष्टकल्पनानुपपत्तेः फलवदनुष्ठानापेक्षितेन क्रियातत्साधन- स्मरणेन द्वारेण मन्त्राणां कर्माङृत्वम् । "मन्त्रैरेवार्थः स्मर्तव्यः" इति नियमस्त्वदष्टार्थ इति। तथा चार्थवादानां स्तुतिपदार्थद्वारा पदैकवाक्यत्वं विधिभिर्मन्त्राणां तु वाक्यार्थज्ञानद्दारा तैर्वाक्यैकवा- क्यत्वमिति विभागः। नन्वस्तु कर्मप्रकरणस्थवाक्यानां विध्येकवा- क्यत्वं, वेदान्तानां तु सिद्धे प्रामाण्यं किंन स्या दिति तत्राह॥ न क्वचिदिति॥ वेदान्ता विध्येकवाक्यत्वेनैवार्थवन्तः सिद्धार्था वेदक- त्वान्मन्त्ार्थवादादिवदित्यर्थः, अन्यत्रादष्टापि वेदान्तेषु कल्प्यतामिति तन्राह॥ उपपन्नावेति॥ नेत्यनुषङ्ग: । सिद्धे फलाभावस्योक्तत्वादि- ति भाव:। तर्हि ब्रह्मण्येव स्वार्थे विधिः कल्प्यतां कतं वेदान्तानां वि- ध्यन्तरशेषत्वेनेत्यत आह॥ नचेति॥ ननु "दभा जुहोति" इति सिद्धे दधनि विधिर्दष्टसतत्राह॥I क्रियेति॥दभ: क्रियांसाधनस्यप्रयुज्यमान- तया साध्यत्वाद्दिधेयता, निष्क्रयव्रह्मणः कथमप्यसाध्यत्वान् विधे- यत्वमित्यर्थः । भासतमुपसंहरति॥ तस्मादिति॥ स्वयमेवारुचिं १ अनिहोत्रं जुह्यादितिविहितहोमक्रियासाधनस्य।
Page 80
सू० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (६९) नेन क्रियाविधिशेषत्वं वेदान्तानाम्। अथ प्रक- रणान्तरक्षयान्नैतदभ्युपगम्यते, तथापि स्ववा- क्यगतोपासनादिकर्मपरत्वम्। तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते॥
तत्तु समन्वयात् ॥४ ॥ तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः। तत् ब्रह्म सर्व- शक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशा- सादेव अवगम्यते। कथ! समन्वयात्। सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैव तस्यार्थस्य प्रतिपादकत्वेन समनुगतानि "सदेव सौम्येद- वदन् पक्षान्तरमाह । अथेति॥ सिद्धान्तसूत्रं व्याचष्टे॥ तु शब्द इति। तद् ब्रह्म वेदान्तप्रमाणकम् इति प्रतिज्ञातेऽर्थे हेतुं पृच्छति॥क- थमिति॥ हेतुमाह॥समिति॥अन्वयस्तात्पर्यविषयत्वं, तस्मादित्ये- व हेतु: तात्पर्यस्य सम्यक्त्वम् अखण्डार्थविषयकत्वं सूचयितुं सम्पदं प्रतिज्ञान्तर्गतमेव तथा चाखण्डं ्रह्म वेदान्तजप्रमाविषयः वेदान्त- तात्पर्यविषयत्वात्। यो यद्दाक्यतात्पर्यविषयः स तद्ाक्यप्रमेयः, यथाक- र्मवाक्यप्रमेयो धर्म इति प्रयोगः। वाक्यार्थस्याखण्डत्वम् असंसृष्टत्वं, वा- क्यस्य चाखण्डार्थकत्वं, स्वपदोपस्थिता ये पदार्थास्तेषांयः संसर्ग:तद- गोचरप्रमाजनकत्वम्। न चेदमप्रसिद्धम्। प्ररुष्ठप्रकाशश्रन्द्र इत्यादि- लक्षणवाक्यानां लोके लक्षणया चन्द्रादिव्यक्तिमात्रप्रमाहेतुत्वात् स- र्वपदलक्षणा चाविरुद्धा। सर्वैरर्थवादपदैरेकस्याः स्तुतेर्लकष्यत्वाङ्गी कारातू। तथा सत्यज्ञानादिपदैरखण्डं ब्रह्म भातीति न पक्षासिद्धिः।
Page 81
(७०) रत्नप्रभाभासिते अ० १।पा०१ मग्रआसीत"', "एकमेवाद्वितीयम्"।"आत्मावा इदमेक एवाग्र आसीत्"'। "तदेतद् ब्रह्मापूर्वम- नपरमन्तरमबात्यम्" अयमात्माब्रह्म सर्वानु- नापि हेत्वसिद्धिः । उमक्रमादिलिड्गैर्वेदान्तानामद्वितीयाखण्डव्रह्मणि तात्पर्यनिर्णयात् तत्र छान्दोग्यपष्ठे उपक्रमं दर्शयति॥ सदेवेति॥ उद्दालकः पुत्रमुवाच, "हे सौम्य प्रियदर्शन इदं सर्व जगद् अग्रे उत्प- त्ते: प्राक्काले सदबाधितं व्रह्मैवासीत्"। एवकारेण जगतः पृथक्सत्ता निषिध्यते। सजातीयविजातीयस्वगतभेदनिरासार्थम् "एकमेवादि- तीयम्"इति पढत्रयम्। एवमद्वितीयं व्रह्मोपक्रम्य "ऐतदात्म्यमिदं सर्वम्" इत्युपसंहति। इदमुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गम् तथा "तच्वमसि" इवि नवकत्वोऽभ्यासः । रूपादिहीनाद्दितीयव्रह्मणो मा- नान्तरायोग्यत्वात् अपूर्वत्वमुक्त्तम्, "अत्र वाव किल सत् सौम्य न निभालयसे" इति सङ्घाते स्थितं प्रत्यगव्रह्म न जानासीत्यर्थः।"त स्य तावदेव चिरं यावन विमोक्ष्ये अथ सम्पत्स्ये" इति ब्रह्मज्ञानात् फलमुक्तं विदुषस्तस्य यावत् कालं देहो न विमोक्ष्यते तावदेव देहपा- तपर्यन्तो विलम्बः। अथ देहपातानन्तरं विद्दान् व्रह्म सम्पत्स्यते वि- देहकैवल्यमनुभ्नवतीत्यर्थः । "अनेन जीवेनात्मनानुप्रविश्य" इत्या- वद्दितीयज्ञानार्थोऽर्थवादः। मृदादिदष्टान्तैः प्रकृत्यतिरेकेण विकारो नास्तीत्युपपत्तिरुक्ता। एवं ष्विधानि तात्पर्यलिङ्गानि व्यस्तानि सम- स्तानि वा प्रतिवेदान्तं दृश्यन्त इत्यैतरेयकोपक्रमवाक्यं पठति॥ "आत्मा वै" इति॥ बृहदारण्यके मधुकाण्डोपसंहारवाक्यं सदात्म- नो निर्विशेषत्वार्थमाह॥तदेतदिति॥ मायाभिर्बहुरूपं तद् ब्रह्म।ए- तदापरोक्षम्। अपूर्व कारणशून्यम्। अनपरं कार्यरहितम् अनन्तरं जा- त्यन्तरम् अस्य नास्तीत्यनन्तरम, एकरसमित्यर्थ। अवाह्यम् अद्दितीय-
Page 82
४। अ० ४।] (७१) भूः"। "ब्रह्मैवेदममृतं पुरस्ताद्" इत्यादीनि। न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्च्िवते समन्वयेऽगम्यमाने जर्थान्तरकल्पना युक्ता, श्रु- तहान्यश्रुतकल्पनाप्रसङ्गात्। न च तेषां कर्त- स्वरूपप्रतिपादनपरतावसीयते। "तत् केन कें पश्येद्" इत्यादिक्रियाकारकफलनिराकरणश्रु- तेः। न च परिनिष्ठितवस्तुस्वरूपत्वेऽपि प्रत्य- क्षादिविषयत्वं ब्रह्मणः।"तत्वमसि" इति ब्र- म्। तस्यापरोक्षत्वमुपपादयति ॥ अयमिति ॥ सर्वमनुभवतीति स- र्वानुभू:, चिन्मात्रमित्यर्थः । ऋग्यजुःसामवाक्यान्युक्का आथर्वणवा- क्यमाह॥ ब्रह्मवेदमिति॥ यत् पुरस्तात् पूर्वदिग्वस्तुजातमिदमव्रह्मै- वाविदुषां भाति तदमृतं ब्रह्मैव वस्तु इत्यर्थः । आदिपदेन "सत्यं ज्ञानम्" इत्यादिवाक्यानि गृह्यन्ते।नन्वस्तु ब्रह्मणस्तात्पर्यविषयत्वं वे- दान्तानां कार्यमेवार्थ: किं न स्यादिति तत्राह॥ न चेति॥ वेदान्तानां ब्रह्मणि तात्पर्ये निश्वीयमाने कार्यार्थत्वं न युक्तं "यतूपरः शब्दः स श- ब्दार्थः" इति न्यायादित्यर्थः । यदुक्तमर्थवादन्यायेन वेदान्तानां कर्त्रा- दिस्तावकत्वमिति तत्राह ॥ न च तेषा मिति॥ तेषां कर्मशेषस्ताव- कत्वं न भाति किंतु ज्ञानद्दारा कर्म तत्साधननाशकमेव, तत्तत्र वि- द्याकाले "कः कर्ता केन करणेन कं विषयं पश्येद्"इति श्रुतेरित्यर्थः, अर्थवादानां तु स्वार्थे फलाभावात् स्तुतिलक्षणतेति भावः। यदुक्तं सिद्धत्वेन मानान्तरवेधं ब्रह्म, न वेदार्थ इति तत्राह ॥ न च परीति। "तच्वमसि" इति शास्त्रमन्तरेणेतिसम्बन्धः। धर्मो न वेदार्थः साध्य- त्वेन पाकवन्मानान्तरवेद्यत्वात् । यदि वेदं विना धर्मस्यानिर्ण- यान मानान्तरवेद्यता तदा ब्रह्मण्यपि तुल्यम्। यच्चोकतं निष्फलत्वा-
Page 83
(७२) रत्नप्रभाभासिते अ० १। पा० १॥] ह्मात्मभावस्य शासमन्तरेणानवगम्यमानत्वा- त्। यत्तु हेयोपादेयरहित व्वादुपदेशानर्थक्यमि- ति, नैष दोष:। हेयोपादेयशून्यव्रह्मात्मतावग- मादेव सर्वक्वेशप्रहाणात् पुरुषार्थसिद्धेः।देवता- दिप्रतिपादनस्य तु स्ववाक्यगतोपासनार्थत्वे- डपि न कश्विद्विरोधः।नतु तथा ब्रह्मण उपास- नाविधिशेषत्वं सम्भवति। एकत्वे हेयोपादेयशू- न्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्दोपप- तेः। न हि एकत्वविज्ञानेनोन्मथितस्य द्वैतवि-
द् ब्रह्म न वेदार्थ इति तदनूद परिहरति ॥ यत्वित्यादिना ॥ रहि- तत्वाद्भिन्नत्वाद् व्रह्मण इति शेषः। यदप्युक्तम् "उपासनापरत्वं वेदा- न्तानाम् "इति तत्र किं प्राणपश्चाग्न्यादिवाक्यानामुत सर्वेषामिति? तत्रादमङ्गीकरोति॥ देवतादीति॥ श्रेष्ठत्वादिगुणः फलं चादिशब्दा- र्थः न द्वितीयः विधिशून्यानां "सत्यज्ञानम् " इत्यादीनां स्वार्थे फ- लवतामुपासनापरत्वकल्पनायोगात्। किश्च तदर्थस्य ब्रह्मणस्तच्छे- पत्वं। ज्ञानात् प्रागूर्ध्व वा ? आधे, अध्यस्तगुणवतस्तस्य तच्छेषत्वे- डपि न द्वितीय इत्याह ॥ नतु तथेति॥ प्राणादिदेवतावदित्यर्थः । "अहं व्रह्मास्मि" इत्येकत्वे ज्ञाते सति हेयोपादेयशून्यतया ब्रह्मात्म- नः फलाभावादुपास्योपासकद्दैतज्ञानस्य कारणस्य नाशाच्च नोपास- नाशेषत्वमित्याह ॥ एकत्व इति ॥ द्ैतज्ञानस्य संस्कारबलात् पुनरु- दये विधानमिति नेत्याह॥ न हीति॥ दृढस्येति शेषः। भ्रान्तित्वानि- श्रयो दारढर्य, संस्कारोत्थं तु भ्रान्तित्वेन निश्चितं न विधिनिमित्तम् । "येनेति" उपासनायां कारणस्य सच्वेनेत्यर्थः। वेदप्रामाण्यस्य व्यापकं
Page 84
(७३) ज्ञानस्य पुनः सम्भवोऽस्ति, येनोपासनाविधि- शेषत्वं ब्रह्मण: प्रतिपाद्येत।यद्प्यन्यत्न वेदवा- क्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं न हष्टं, तथाप्यात्मविज्ञानस्यफलपर्यन्तत्वान्न तद्विषय- स्य शासस्य प्रामाण्यं शक्यं प्रत्याख्यातुस्।न चानुमानगन्यं शाखप्रामाण्यं येनान्यत्र दष्ट नि- दर्शनमपेक्षेत। तस्मात् सिद्धं ब्रह्मण:शास्त्रप्नमा- णकत्वम्।
क्रियार्थकत्वमनुवदति॥ यद्यपीति॥ कर्मकाण्डेऽर्थवादादीनामित्यर्थः तथा च व्यापकाभावाद्देदान्तेषु व्याप्याभावानुमानमिति भावः। वे- दान्ता न स्वार्थे मान अक्रियार्थवात्, "सोऽरोदीतू" इत्यादिवदित्य- नुमाने निष्फलार्थकत्वसुपाधिरित्याह। तथापीति॥ अर्थवादानां निष्फलस्वार्थमानत्वेऽपीत्यर्थः । तदिषयस्य तत्कारणस्य स्वार्थे व्र- ह्मात्मनीति शेषः । सफलज्ञानकरणत्वेन वेदान्तानां स्वार्थे मान- त्वसिद्धेर्न क्रियार्थकत्वं तव्यापकमिति भावः। ननु साभूद्ेदपामा- ण्यस्य व्यापकं, क्रियार्थकत्वं व्याप्यं तु भविष्यति तदभावाहेदा- न्तानां प्रामाण्यं दुर्ज्ञानमिति नेत्याह ॥ न चेति॥ येन वेदप्रामा- पयं स्वस्यानुमानगम्यत्वेनान्यत्र क्चिद् दष्टं दष्टान्तमपेक्षेत तदेव ना- स्तीत्यर्थः। चक्षुरादिव द्वेदस्य स्वतः प्रामाण्यज्ञानान् तव्याप्तिलिङ्गाय्य- पेक्षा। प्रामाण्यसंशये तु फलवदज्ञाता बाधितार्थतात्पर्याद प्रामाण्य- निश्चयो न क्रियार्थत्वेन "न कूपे पतेद्" इति वाक्ये व्यभिचारादिति भाव: । वर्णकार्थमुपसंहरति ॥ तस्मादिति ॥ समन्वयादित्यर्थः। विधिवाक्यानामपि फलवद्ज्ञातार्थत्वेन आ्माण्यं तत्तुल्यं वेदान्ता- १०
Page 85
(७४). रत्नप्रभाभासिते [अ० १। पा०१। अत्रापरे प्रत्यवतिष्ठन्ते "यद्यपि शास्त्रप्रमा- णक ब्रह्म तथापि प्रतिपत्तिविधिविषयतयैव शा- स्रेण ब्रह्म समर्प्यते, यथा यूपाहवनीयादीन्य- लौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते नामपीति स्थितम्। एवं पदानां सिद्धेऽ्थें व्युत्पत्तिमिच्छतां ब्रह्मना- स्तिकानां मतं ब्रह्मणो मानान्तरायोग्यत्वात् सफलत्वाच्च वेदान्तैक- मेयत्वमित्युक्त्या निरस्तम्। सम्प्रति सर्वेषां पदानां कार्यान्वितार्थे श- क्तिमिच्छतां विधिशेपत्वेन प्रत्यग्ब्रह्म वेदान्तैर्वोध्यते न स्वातन्त्र्ये- णेति वदतां वृत्तिकाराणां मतनिरासाय सूत्रस्य वर्णकान्तरमारभ्यते, तत्र वेदान्ता: किसुपासनाविधिशेषत्वेन ब्रह्म बोधयन्ति उत स्वात- न्येणेति? इति सिद्धे व्युत्पच्यभावभावाभ्यां संशये पूर्वपक्षमाह॥ अत्रापर इति। ब्रह्मणो वेदान्तवेद्यत्वोक्तौ वृत्तिकारा: पूर्वपक्षयन्ती- त्यर्थः । उपासनातो मुक्ति: पूर्वपक्षे तच्वज्ञानादेवेति सिद्धान्ते फलं विधिर्नियोग: तस्य विषयः प्रतिपत्तिरुपासना । अस्याः को विषयः, इत्याकाङ्गायां सत्यादिवाक्यैविधिपरैरेव ब्रह्म समर्प्यत इत्याह॥ प्र- तिपन्तीति॥ विधिविषयप्रत्तिपतिविषयतयेत्यर्थः। विधिपराद्ाक्यात्त- च्छेपलाभे दृष्टान्तमाह ॥ यथेति॥"यूपे पशुं बभ्नाति""आहवनीये जुहोति""इन्द्रं यजेत" इति विधिषु के यूपादयः, इत्याकाङ्यां "यूपं तक्षत्यष्टालीकरोति" इति तक्षणादिसंस्कृतं दारु यूपः। "अग्नी- नाद्धीत" इत्याधानसंस्कृतोऽगनिराहवनीयः।"वज्रहस्तः पुरन्दर" इति विधिपरैरेव वाक्यैःसमर्प्यन्ते तद्दद् व्रह्मेत्यर्थः। विधिपरवाक्यस्यापि अ- न्यार्थवोधित्वे वाक्यभेद: स्यादिति शङ्कानिरासार्थमपिशब्दः। माना- न्तराज्ञातान्यपि शेषतयोच्यन्ते न प्रधानत्वेनेति न वाक्यभेदः, प्रधाना- र्रभेदस्यैव वाक्यभेदकत्वादिति भावः।ननूक्तषड्गिधलिङ्गैस्तात्पर्यविषय-
Page 86
स०४। अ० ४] शाङ्करबह्मसूत्रभाष्ये (७५) तद्त्। कुत एतत्? प्रवत्तिनिवत्तिप्रयोजनत्वा- च्छासस्य; तथा हिशास्रतात्पर्यविद आहुः, "इ- ष्टो हि तस्यार्थ: कर्मावबोधनस्" इति चोदनेति क्रियायाः प्रवर्तंक वचनम्। तस्य ज्ञानमुपदे- शः। "तद्गतानां क्रियार्थेन समाप्नायः" "आ- स्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि- ति" च। अतः पुरुषं कचिद्विषयविशेषे प्रवर्तयत् स्य व्रह्मण: कुतो विधिविशेषत्वमिति शङ्कते॥कुत इति। वृद्धव्यवहारे- ण हि शास्त्रतात्पर्यनिश्रयः। वृद्दव्यवहारे च श्रोतुःप्रवृत्तिनिवृत्ती उद्दि- श्यासप्रयोगो दृश्यते।अतः शास्त्रस्यापिते एव प्र रेजने, ते च कार्यज्ञान- जन्ये इति कार्यपरत्वं शास्त्रस्य ततः कार्यशषत्वं ब्रह्मण इत्याह ॥प्रवृत्ती- ति। शास्त्रस्य नियोगपरत्वे वृंद्सम्मतिमाह॥ तथा हीत्यादिना।।क्रि- या कार्य, नियोगो विधिः, धर्मोSपूर्वमित्यनर्थान्तरम्। को वेदार्थः, इत्या- काङ्ायां शाबरभाष्यकुतोक्तम्॥ दृष्टो हीति॥ तस्य वेदस्य कार्य वेदार्थः इत्यत्रचोदनासूत्रस्थं भाष्यमाह॥चोदनेति। क्रियाया नियोगस्य ज्ञान- द्वारा प्रवर्तकं वाक्यं चोदनेत्युच्यत इत्यर्थः । शवरस्वामिसंमति- मुक्का जैमिनिसंमतिमाह॥ तस्य ज्ञानमिति ॥ तस्य धर्मस्य ज्ञा- पकम् अपौरुषेयविधिवाक्यसुपदेशः तस्य धर्मेणाव्यतिरेकादित्यर्थः । पदानांकार्यान्वितार्थे शक्तिरित्यत्र सूत्रं पठति॥ तद्ूतानामिति॥ तत्तत्र वेदे भूतानां सिद्धार्थनिष्ठानांपदानां क्रियार्थेन कार्यवाचिना लिङ्गा- दिपदेन समाम्नायः सहोच्चारणं कर्तव्यम्। पदार्थज्ञानस्य वाक्यार्थरूप- कार्यधीनिमित्तत्वादित्यर्थः। कार्यान्वितार्थे शक्तानि पदानि कार्यवाचिप देन सह पदार्थ: स्मृतिद्वारा कार्यमेव वाक्यार्थ बोधयन्तीति भाव:फलि- १ शवरसम्मतिम्। २ एते शब्दाः समानार्थका इत्यर्थः।
Page 87
(७६) रत्नप्रभाभासिते [अ० १। पा०१।
च्छेपतया चान्यदुपयुक्तं, तव्सामान्याद्वेदान्ता- नाभपि तथैवार्थव्त्वं स्यात्। सति च विधिपर- त्वे यथा स्वर्गादिकामस्याग्निहोत्रादि साधनं विधीयते, एवमभृतत्वकामस्य ब्रह्मविज्ञानं वि- धीयते इति युक्तम। नन्विह जिज्ञास्थवैलक्षण्य- सुक्तस् कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह- तु भूत नित्यनिर्द्तं ब्रह्म जिज्ञास्यमिति। तत्र- धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञान- फलं अवितुम्हति। नार्हत्येवं भवितुम्। कार्य तमाह॥अत इति॥यतो वृद्धा एवमाङुः, अतोविधिनिषेधवाक्यमेव शास्त्रम्, अर्थवादादिकं तु तच्छेपतयोपक्षीणं, तेन कर्मशास्त्रेण सामान्यं शास्त्रत्वं, तस्माद्वेदान्तानां कार्यपरत्वेनैव अर्थवच्वं स्यादित्यर्थः। ननु वेदान्तेषु नियोज्यस्य विधेयस्य चादर्शनातू कथं कार्यधीरिति तत्राह ॥ सति चेति॥ ननु धर्मब्रह्मजिज्ञासासूत्रकाराभ्यामिह काण्डद्ये- डर्थभेद उक्त:, एककार्यार्थत्वे शास्त्रभेदानुपपत्तेः। तत्र काण्डइ्ये जि- ज्ञास्यभेदे सति फलवैलक्षण्यं वाच्यम्। तथा च न सुक्तिफलाय ज्ञा- नस्य विधेयता, सुक्तेविधेयक्रियाजन्यत्वे कर्मफलादविशेषप्रसङ्गादवि- शेषे जिज्ञास्यभेदासिद्धेः। अतः कर्मफलविलक्षणत्वान्नित्यंसिद्धमुक्ते- स्तव्यअ्ञकज्ञानविधिरयुक्त इत्याशङकते॥ नन्विहेति॥ मुक्ते: कर्मफलाहै- लक्षण्यमसिद्दमिति तदर्थ ज्ञानं विधेयम् । न चतर्हि सफलं कार्यमेव वे दान्तेष्वपि जिज्ञास्यमिति तव्जेदासिद्धरिति वाच्यम्, इष्ठत्वात्। न च त्रह्मणो जिज्ञास्यत्वसूत्रविरोधः, ज्ञानविधिशेषत्वेन सूत्रकता ब्रह्मप्र-
Page 88
सू० ४ । अ० ४ ] शाङ्गरब्रह्मसूत्रभाष्ये (७७) विधिन्नयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात्। "आत्मा वा अरे द्रष्टव्यः "य आत्मापहतपा- प्मा सोऽन्वेष्ठव्यः स विजिज्ञासितव्यः""आ- त्मेत्येवोपासीत""आत्मानमेवलोकसुपासीत" "ब्रह्म वेद ब्र्मैव भ्वति इत्यादिषु हि विधाने- पु सत्सु "कोऽसावात्मा किं तद् ब्रह्म" इत्याका- द्गायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उप- युक्ताः, "नित्यः सर्वगतो नित्यतप्तो नित्यशुद्ध- बुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म" इत्येव- मादय:। तदुपासनाञ् शासटष्टोऽटष्टो मोक्ष: फ- लं क्षविष्यति। कर्तव्यविध्यननुप्रवेशे तु वस्तु- मात्रकथने हानोपादानासम्भवात् "सप्दीपा वसुमती""राजाऽसौ गच्छति" इत्यादिवाक्य- वद्वेदान्तवाक्यानामानर्थक्यमेव स्यात्। ननु वस्तुमात्रकथनेऽषि "रज्जुरियं नायं सर्पः" इ- तिपादनादिति परिहरति॥ नार्हत्येवमिति॥ ब्रह्मणो विधिप्रयुक्तत्वं- स्फुटयति॥आत्मावा इति।"ब्रह्म वेद" इत्यत्र व्रह्मभावकामो ब्रह्म- वेदनं कुर्यादिति विधि: परिणम्यत इति द्रष्टव्यम्। लोकं ज्ञानस्वरूपं वेदान्तानेवार्थतो दर्शयति ॥नित्य इति॥ ननु किं विधिफलमिति- तदाह॥तदुपासनादिति।प्रत्यग्वल्मोपासनाद् बह्मविदाप्नोति परम्" इति शास्त्रोक्तो मोक्ष: स्वर्गवलोकाप्रसिद्ध: फलमित्यर्थः । व्रह्मणः क- र्तव्योपासनाविषयकविधिशेषत्वानङ्गीकारे बाधकमाह॥ कर्तव्येति।
Page 89
(७८) रत्नप्रभाभासिते [अ० १। पा० १ त्यादौ ध्रान्तिजनितभीतिनिवर्तनेनार्थव्त्वं ह- ष्म्। तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारि- त्वभ्नान्तिनिवर्तनेनार्थव्त्त्वं स्थात्। स्यादेतदेवं यदि रज्जुस्वरूपश्रवण इव सर्पभ्रान्तिः संसा रित्वभ्रान्तिर्व्रह्मस्वरूपश्रवणमात्रेण निवर्तेत, न तु निवर्तते। श्रुतव्रह्मणोऽपि यथापूर्व सुखदुः- खादिसंसारित्वधर्मदर्शनात्। "श्रोतव्यो मन्त- व्यो निदिध्यासितव्यः" इति च श्रवणोत्तरका- लयोर्मनननिदिव्यासनयोर्दर्शनात्। तस्मात् प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्मा- भ्युपगन्तव्यमिति"। विध्यसम्बद्धसिद्धवोधे प्रवृत्यादिफलाभावाद्वेदान्तानां वैफल्यं स्या- दित्यर्थःनन्विति शङ्क स्पष्टार्था। दष्टान्तवैपम्येन परिहरति।।स्वादिति एतदर्थवत्त्वमेवं चेत् स्यादित्यर्थः। एवंशव्दार्थमाह॥ यदीति ॥ किं- च, यदि ज्ञानादेव मुक्तिस्तदा श्रवणजन्यज्ञानानन्तरं मननादिविधिर्न- स्यातू, तदिधेश्र कार्यसाध्या मुक्तिरित्याह॥ श्रोतव्य इति॥ शब्दा- नां कार्यान्वितशक्ते: प्रवृत्त्यादिफलस्यैव शास्त्रत्वात् सिद्धे फलाभावा- न्मननादिविधेश् कार्यपरा वेदान्ता इति पूर्वपक्षमुपसंहरति ॥ त- स्माढिति॥ वेदान्ता न विधिपराः स्वार्थे फलवच्वे सति नियोज्यवि- धुरत्वात्, "नायं सर्पः" इति वाक्यवत् "सोऽरोदीत्" "स्वर्गकामो यजेत" इति वाक्ययोनिरासाय हेतौ विशेषणद्दयमिति सिद्धान्तयति ॥ अत्रेति। यदुक्तं मोक्षकामस्य नियोज्यस्य ज्ञानं विधेयमिति तन्ने- १ नियोज्यः सच कार्यं यः स्वकीयत्वेन बुध्यते इत्यत्रोक्तलक्षणकः ।
Page 90
सू० ४ । अ ० ४ ] (७९) अत्राभिधीयते, न, कर्मब्रह्मविद्याफलयोवे- लक्षण्यात्। शारीरं वाचिकं मानसंच कर्म श्रु- तिस्मृतिप्रसिद्वं धर्मार्यं यद्विषया जिज्ञासा, "अथातो धर्मजिज्ञासा" इति सूत्रिता। अधर्मो डपि हिंसादि: प्रतिषेधचोदनालक्षणत्वात् जि- ज्ञास्यः परिहाराय। तयोश्रोदनालक्षणयोरर्था- नर्थयोर्धर्माधर्मयो: फले प्रत्यक्षे सुखदुःखे शरी- रवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयो- गजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे। मनु- ष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारत- म्यमनुश्रूयते। ततश्र तद्देतोर्धर्मस्य तारतम्यं त्याह ॥ नेति॥ मोक्षो न विधिजन्यः कर्मफलविलक्षणत्वादात्मव- दित्यर्थः। उक्तहेतुज्ञानाय कर्मतत्फले प्रपश्चयति ॥ शारीरमित्यादिना वर्णितं संसाररूपम् अनुवदृतीत्यन्तेन। अथ वेदाध्ययनानन्तरम् अतो वेदस्य फलवदर्थपरत्वात् धर्मनिर्णयाय कर्मवाक्यविचारः कर्त- व्य इति सूत्रार्थः। न केवलं धर्माख्यं कर्म किं तु अधर्मोऽपीत्याह ॥ ॥ अधर्मोऽपीति ॥ निषेधवाक्यप्रमाणकत्वादित्यर्थः । कर्मोक्ता फ- लमाह॥ तयोरिति॥ मोक्षस्तु अतीन्द्रियो विशोक: शरीरायभोग्यो विषयाद्यजन्योSनात्मवित्स्वप्रसिद्ध इति वैलक्षण्यज्ञानाय प्रत्यक्षत्वा- दीनि विशेषणानि। सामान्येन कर्मफलमुक्का धर्मफलं पृथक् प्रपश्च- यति॥ मनुष्यत्वादिति ॥ "स एको मानुष आनन्दसतः शतगुणो गन्धर्वादीनाम्" इति श्रुतेरनुभवानुसारित्वमनुशव्दार्थः । ततश्र सु- खतारतम्यादित्यर्थः। मोक्षस्तु निरतिशयस्तत्साधनं च तच्वज्ञानमेक-
Page 91
(८०) रत्नपभाभासिते [अ०९।पा०१। गम्यते।वर्मतारतम्यादधिकारितारतम्यं।प्रसि- द्वं चार्थित्व सामर्थ्यादिकृतमधिकारितारतम्यम्।
षादुत्तरेण पथा गमनम्। केवलैरिष्टापूर्तदत्तसा- धनैर्धूमादिक्रमेण दक्षिणेन पथा गमनम्। तन्ना- पि सुखतारतम्यं तत्साधनतारतम्यं च शाखाद्
मनुष्यादिपु नारकस्थावरान्तेपु सुखलव श्र्ोदना-
रूपमिति वैलक्षण्यम्। किंच साधनचतुष्टयसम्पन्न एकरूप एव मोक्षविद्याधिकारी। कर्मणि तु नानाविध इति वैलक्षण्यमाह॥ ध- रमेति। गम्यते न केवलं किंतु प्रसिद्धं चेत्यर्थः । अित्वं फलकामि- त्वम्। सामर्थ्य लौकिकं पुत्रादि। आदिपदादिदित्त्वं शास्त्रानिन्दित- त्वं च। किंच, कर्मफलं मार्गप्राप्यं, मोक्षस्तु नित्याप्त इति भेदमाह ॥ तथेति॥ उपासनायां चित्तस्थैर्यप्रकर्पादािरादिमार्गेण ब्रह्मलोक- गमनं "तेऽचिषम्" इत्यादिना श्रूयत इत्यर्थः। "अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम्। आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते"॥ "वापीकूपतडागादि देवतायतनानि च। अन्नप्रदानमारामः पूर्तमित्यािधीयते"॥ "शरणागतसन्त्राणं भूतानां चाप्यहिंसनम्। १ कर्मकाण्डे क्रियाकर्तरादिस्वरूपविभागविज्ञानवान् विद्वान् ग्राह्यो न त्रह्मात्मैकत्ववि ज्ञाता, तस्य विध्यकिङूरत्वान्। अत एवं भगवानविद्वद्विषयत्वं शास्त्रस्य वर्णयाम्वभूव । तथा च विद्व्त्वस्याधिकारिविशषणत्वानङ्गीकारे पशुशृद्रादीनामपि अधिकारो दुर्वार: स्यात्।
Page 92
सू० ४ । अ० ४॥] शाङ्करत्रह्मसूत्रभाष्ये (८9) लक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्त- मान:तथोर्ध्वैगतेष्वधोगतेषुच देहवत्सु दुःखता- रतम्यदर्शनात्तद्वेतोरधर्मस्य प्रतिषेधचोदनाल- क्षणस्य तद्नुष्ठायिनां च तारतम्यं गम्यते। . एवमविद्यादिदोषवता धर्माधर्मतारतम्यनिमितं शरीरोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्दम्। तथा च श्रुतिः "न ह वै सशरीरस्य सतः प्रियाप्रिययो- रपहतिरस्ति" इति यथा वर्णितं संसाररूपम- नुवदति। "अशरीरं वाव सन्तं न प्रियाप्रिये- बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते"॥ तत्रापि। चन्द्रलोकेऽपीत्यर्थः। सम्पतति गच्छति अस्माल्ोकादमुं लोकमनेनेति सम्पातः कर्म, यावत् कर्म भोक्तव्यं तावत् स्थित्वा पुन- रायान्तीत्यर्थः। मनुष्यत्वादूर्ध्वगतेषु सुखस्य तारतम्यमुक्त्ा अधोगतेषु तदाह ॥ तथेति॥ इदानीं दुःखतद्वेतुतदनुष्ठायिनां तारतम्यं वदन् अधर्मफलं प्रपश्चयति ॥तथोध्वमिति॥ द्विविधं कर्मफलं मोक्षस्य त- दैलक्षण्यज्ञानाय प्रपश्चितमुपसंहरति ॥ एवमिति॥ अस्मिताकाम- क्रोधभयान्यादिशव्दार्थः।"ते तं भुक्का स्वर्गलोकं विशालम्" इत्यायाः स्मृतिः काष्ठोपचयात् ज्वालोपचयदर्शनात् फलतारतम्येन साधनता- रतम्यानुमानं न्यायः। श्रुतिमाह ॥ तथा चेति॥ मोक्षो न कर्मफलं
व्यतिरेकेण स्वर्गादिवदिति न्यायानुग्राहयां श्रुतिमाह॥अशरीरमिति। वावेत्यधारणे। तत्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखेनैव ११
Page 93
(८२) रत्नप्रभाभासिते अ० १। पा०5।] स्पृशतः इति प्रियाप्रिययोः स्पर्शनप्रतिषेधा- चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीर- त्वस्य प्रतिषिध्यत इति गम्यते। धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्यते। अ- शरीरत्वमेव धर्मकार्य भवत्विति चेन्न, तस्य स्वा भाविकत्वात्। "अशरीरं शरीरेषु अनवस्थेष्व- वस्थितम्। महान्तं विभुमात्मानं मत्वा धीरो न शोचति"।"अप्राणो ह्यमनाः शुभः""असङ्गो ह्ययं पुरुषः इत्यादि श्रुतिभ्यः। अत एवानुष्ठे- यकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्य- मिति सिद्दम्। तत्र किश्ित्परिणामिनित्यं स्या- स्पृशत इत्यर्थः । मोक्षश्र्वेदुपासनारूपधर्मफलं तदेव प्रियमस्तीति तन्निषेधायोग इत्याह॥ धर्मकार्यत्वे हीति॥ ननु प्रियं नाम वैषयिकं सुखं तन्निपिध्यते, मोक्षस्तु धर्मफलमेव कर्मणां विचित्रदानसामर्थ्या- दिति शङ्कते॥ अशरीरत्वमेवेति ॥ आत्मनो देहासङङित्वमशरीर- त्वं तस्यानादित्वान्न कर्मसाध्यतेत्याह॥ नेति ॥ अशरीरं स्थूलदेह- शून्यं देहेप्वनेकेपु अनित्येषु एकं नित्यमवस्थितं महान्तं व्यापिनं, आपेक्षिकमहत्त्वं वारयति ॥ विभुमिति ॥ तमात्मानं ज्ञात्वा धीरः सन् शोकोपलक्षितं संसारं नानुभवतीत्यर्थः। सूक्ष्मदेहाभावे श्रुति- माह॥ अप्राण इति ॥ प्राणमनसोः क्रियाज्ञानशक्त्योनिषेधात्, त- दधीनानां कर्मज्ञानेन्द्रियाणां निषेधो हि यतः, अतः श्रुद्ध इत्यर्थः । देहद्दयाभावे श्रुतिः "असङ्गो हि" इति, निर्देहात्मस्वरूपमोक्षस्याना- दिभावत्वे सिद्धे फलितमाह ॥ अत एवेति ॥ नित्यत्वेऽपि परिणा-
Page 94
सृ० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (८३) दयस्मिन् विक्रियमाणेपि तदेवेदमिति बुद्दिर्न विहन्यते।यथा पृथिव्यादि जगन्नित्यत्ववादि- नां, यथा च साड्यानां गुणाः। इदंतु पार- मार्थिकं कूटस्थं नित्यं व्योभवत् सर्वव्यापि सर्व- विक्रियारहितं नित्यतृत्तं निरवयवं स्वयंज्योतिः- स्वभावम्। यत्र धर्माधर्मौ सह कार्येण कालत्र- यं च नोपावतेते तदशरीरत्वं मोक्षाख्यम्। "अ- न्यत्र धर्मादन्यत्राधर्मादन्यन्नास्मात् कृताकृतात् अन्यत्र भूताच भव्याच्च" इत्यादिश्रुतिभ्यः । मितया धर्मकार्यत्वं मोक्षस्येत्याशङ्क्च नित्यं द्वेधा विभजते॥ तत्र- किश्चिदिति॥ नित्यवस्तुमध्य इत्यर्थः । परिणामि च तन्नित्यं चेति परिणामिनित्यं आत्मा तु कूटस्थनित्य इतिन कर्मसाध्य इत्याह॥ इदं- त्विति॥ परिणामिनो नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव, कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकं कूटस्थत्वसिद्दचर्थ परिस्यन्दाभा- वमाह॥ व्योमवदिति॥ परिणामाभावमाह॥ सर्वक्रियारहितमि- ति॥ फलानपेक्षित्वान्न फलार्थापि क्रियेत्याह ॥ नित्यतृप्नमिति॥ तृप्तिरनपेक्षत्वं, विशोकं सुखं वा निरवयवत्वान्न क्रिया तस्य भानार्थ- मपि न क्रिया स्वयंज्योतिष्टात्, अत्रः कूटस्थत्वान्न कर्मसाध्यो मोक्ष इत्युक्तम्। कर्मतत्कार्यासङ्ित्वाच्च तथेत्याह ॥यत्रेति॥ कालानव- च्छिन्नत्वाच्चेत्याह॥ कालेति॥ कालन्रंयं च नोपावर्तत इति योग्य- तया सम्बन्धनीयम्। धर्माद्यनवच्छेदे मानमाह ॥ अन्यत्रेति॥अ- न्यदित्यर्थः । कतात् कार्यात्। अकताच कारणात्। भूताङ्ज्व्याच्च। च- कारादर्तमानाच्च। अन्ययत् पश्यसि तद्ददित्यर्थः। ननु उक्ताः श्रुतयो
Page 95
(c8) रत्नप्रभाभासिते अ० १।पा० १।] अतस्तद्रह्म यस्येयं जिज्ञासा प्रस्तुता। तथदि कर्तव्यशेषत्वेनोपदिश्येत तेन च कर्तव्येनसा- व्यश्रेन्मोक्षोऽभ्युपगम्येत अनित्य एव स्यात्। तत्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थि- तेष्वनित्येषु कश्रिदतिशयो मोक्ष इति प्रसज्येत। नित्यश्र मोक्ष: स्वैर्मोक्षवादिभिरम्युपगस्यते। अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः। अ- पि च "ब्रह्म वेद ब्रह्मैव भवति" "क्षीयन्ते चा-
व्रह्मणः कुटस्थासङ्गित्वं वदन्तु मोक्षस्य नियोगफलत्वं किं न स्या- दिति तत्राह॥ अत इति॥ तत् कैवल्यं व्रह्लैव, कर्मफलविलक्षण- त्वादित्यर्थः। ब्रह्माभेदान्मोक्षस्य कूटस्थत्वं धर्मायसङ्गित्वं चेतिभा- वः।यहा यज्जिज्ञास्यं तद् ब्रह्म अतः पृथक्जिज्ञास्यत्वात् धर्माद्यस्पृष्ट- मित्यर्थः। अतःशव्दाभावपाठेऽप्ययमेवार्थः ब्रह्मणो विधिस्पर्शेशास्त्र- पृथत्कं न स्यात्, कार्यविलक्षणानधिगतविषयालाभातू।नहि ब्रह्मात्मै- क्यं भेदप्रमाणे जाग्रति विधिपरवाक्याल्लव्धुं शक्यं न वा तद्विना विधेर- नुपपत्ति: योषिदग्न्यैक्योपास्तिविधिदर्शनादिति भावः अथवा मोक्षस्य नियोगासाध्यत्वे फलितं सूत्रार्थमाह॥अत इति॥यदत्र जिज्ञास्यं ब्रह्म तत् स्वतन्त्रमेव वेदान्तैरुपदिश्यते, समन्वयादित्यर्थः।विपक्षे दण्डंपा- तयति ॥तद्दीति।तत्रैवं सतीति।।मोक्षे साध्यत्वेनानित्ये सतीत्यर्थः ।अत इति। मुक्तेर्नियोगासाध्यत्वेन नियोज्यालाभातू कर्तव्यनियोगा- भावादित्यर्थः। प्रदीपात् तमोनिवृत्तिवज्ज्ञानादज्ञाननिवृत्तिरूपमोक्षस्य दृष्टफलत्वाच्च न नियोगसाध्यत्वमित्याह।अपि चेति।। "यो ब्रह्माहम्" इति वेद स व्रह्लैव भवति। परं कारणमवरं कार्य तद्रूपे तदधिष्ठाने
Page 96
सू० ४। अ० ४।] शाङ्करव्रह्मसूत्रभाष्ये (८५) स्य कर्माणि तस्मिन् दृष्टे परावरे""आनन्दं ब्र- हवणो विद्वान्न बिभेति कुतश्रन""अभयं वै ज- नकप्राप्तोऽसि""तदात्मानमेवावेदहं ब्रह्मास्मी- ति" "तस्मात्तत्सर्वमभवत्" "तत्र को मोहः कः शोक एकत्वमनुपश्यत" इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यौ मध्ये तत्कृतं- कार्यान्तरं वारयन्ति। तथा "तद्वैतत् पश्यन्नृषि- र्वानदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्र" इति ब्र- तस्मिन् दृष्टे सति अस्य द्रष्टुरनारब्धफलानि कर्माणि नश्यन्ति। ब्रह्म- णः स्वरूपमानन्दं विद्ान् निर्भयो भवति द्ितीयाभावात्। "अभयं ब्रह्म प्राप्तोऽसि"। अज्ञानहानात् तज्जीवाख्यं ब्रह्मगुरूपदेशादात्मा- नमेव "अहं ब्रह्मास्मि" इत्यवेत् विदितवत्। तस्माद्देदनात्तद्रह्ल पू- र्णमभवत् परिच्छेदभ्रान्तिहानादेकत्वम्, "अहं ब्रह्म" इत्यनुभवः तत्रानुभवकाले मोहशोकौ न स्त इति श्रुतीनामर्थः, तासां तात्पर्य- माह॥ ब्रह्मेति ॥ विद्यातत्फलयोर्मध्य इत्यर्थः । मोक्षस्य विधिफलत्वे स्वर्गादिवत् कालान्तरभावित्वं स्यातू। तथा च श्रुतिबाध इति भावः। इतश्र मोक्षो वैधो नेत्याह॥ तथेति ॥ तद्रह्लैतत् प्रत्यगस्मीति पश्य- नू तस्मात् ज्ञानात् वामदेवो मुनीन्द्रः शुद्धं ब्रह्म प्रतिपेदे ह तत्र ज्ञाने तिष्ठन् दृष्टवानात्ममन्त्रान् स्वस्य सर्वात्मत्वप्रकाशकान् "अहं मनुः" इत्यादीन् ददर्शेत्यर्थः। यद्यपि स्थितिर्गानक्रियाया लक्षणं, ब्रह्मदर्श- नं तु ब्रह्मप्रतिपत्तिक्रियाया हेतुरिति वैषम्यमरति, तथापि "लक्षण- हेत्वोः क्रियाया" [३ ।२।१२६ ] इति सूत्रेण क्रियां प्रति ल- क्षणहेत्वोरर्थयोवर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत १ प्रार्घेतराणि संचितान्यागामीनि चेत्यर्थः ।
Page 97
(८६) रत्नप्रभाभासिते अ०१।पा० १।) ह्मदर्शनसर्वात्मभावयोर्मव्ये कर्तव्यान्तरवार- णायोदाहार्यम्। यथा तिष्ठन गायतीति तिष्ठति- गायत्योर्मध्येतत्कर्तृकं कार्यान्तरं नास्तीति ग- म्यते।"व्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि; श्रुतं त्येव मे भगवद्दशेभ्य- स्तरति शोकमात्मविद्" इति। "सोऽहं भगवः शोचामि तन्मा भगवाञ्छोकस्य परं पारं तार- यतु" इति "तस्मै मृदितकषायाय तमसः प- रंपारं दर्शयतिभगवान् सनत्कुमारः" इतिचै- वमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवत्तिमात्रमे-
इति विहितशतृप्रत्ययसामर्थ्यात् तिष्ठन् गायति इत्युक्तते तत्कर्तृकं कार्यान्तरं मध्ये न भातीत्येतावता पश्यन् प्रतिपेदे इत्यस्य दृष्टान्त- माह ॥ यथेति ॥ किश्च, ज्ञानादज्ञाननिवृत्ति: श्रूयते ज्ञानस्य वि- धेयत्वे कर्मत्वादविद्यानिवर्तकत्वं न युक्तम्, अतो बोधका एव वे- दान्ता न विधायका इत्याह ॥ त्वं हीति॥ भारहाजादयः षड्ऋष- यः पिप्पलादं गुरुं पादयोः प्रणम्य ऊचिरे त्वं खल्वस्माकं पिता यस्त्वमविदामहोदधे: परं पुनरावृत्तिशून्यं पारं ब्रह्मविद्याप्नवेनास्मां- स्तारयसि प्रापयसि ज्ञानेनाज्ञानं नाशयसीति यावत्। प्रश्नवाक्यमुत्का छान्दोग्यमाह॥ श्रुतमिति॥ अत्र तारयत्वित्यन्तमुपक्रमस्थं शेष- मुपसंहारस्थमिति भेदः। "आत्मविच्छोकं तरति" इति भगवत्तुल्ये- भ्यो मया श्रुतमेव हि न दष्टम्, "सोऽहमज्ञत्वात् हे भगवः शोचामि तं शोचन्तं मां भगवानेव ज्ञानप्नुवेन शोकसागरस्य परं पारं प्रापयतु" १. प्रभोपनिषद्वाक्यमित्यर्थः।
Page 98
सृ० ४। अ० ४।] शाङ्गरब्रह्मसूत्रभाष्ये (<७) वात्मज्ञानस्य फलं दर्शयन्ति तथा चाचार्यप्रणी तं न्यायोपबंहितं सूत्रं "दुःखजन्मप्रवत्तिदोष- मिथ्याज्ञानानामुत्तरो त्तरापाये तदनन्तरापाया- दपवर्गः इति। मिथ्याज्ञानापायश्र ब्रह्मात्मै- कत्वविज्ञानाङ्गवति। न चेद ब्रह्मात्मैकत्वविज्ञा- इति नारदेनोक्त: सनत्कुमारस्तस्मै तपसा दग्धकिल्बिषाय नारदाय तमसः शोकनिदानाज्ञानस्य ज्ञानेन निवृत्तिरूपं परं पारं ब्रह्म दर्शित- वानित्यर्थः "एतथो वेद विहितं गुहायां सोऽविद्याग्रन्थि विकिरति" इति वाक्यमादिशब्दार्थः। एवं श्रुतेस्तच्वप्रमा मुक्तिहेतुर्न कर्मेत्युक्तम्। तत्राक्षपादगौतममुनिसम्मतिमाह॥ तथा चेति॥"गौरोऽहम्" इति मिथ्याज्ञानस्यापाये रागद्देषमोहादिदोषाणां नाशः, दोषापायाद्र्माध- र्मस्वरूपप्रवृत्तेरपायः, प्रवृच्यपायात् पुनर्देहमाप्तिरूपजन्मापायः, एवं पाठक्रमेणोत्तरो्तरस्य हेतुनाशान्नाशे सति तस्य प्रवृत्तिरूपहेतोरनन्त- रस्य कार्यस्य जन्मनोऽपायात् दुःखध्वंसरूपोऽपवर्गो भवतीत्यर्थः । ननु पूर्वसूत्रे "तच्वज्ञानानिनिःश्रेंयसाधिगमः" इत्युक्ते संतीतरपदार्थ- भिन्नात्मतच्वज्ञानं कथं मोक्षं साधयतीत्याकाङ्कायां मिथ्याज्ञाननिवृ- त्तिद्वारेणेति वंकतुमिदं सूत्रं प्रवृत्तम्। तथा च भिन्नात्मज्ञानान्मुक्तिं व- दत् सूत्रं सम्मतं चेत् परमतानुज्ञा स्यादित्यत आह॥ मिथ्येति ॥ "तच्वज्ञानान्मुक्तिः" इत्यंशे सम्मतिरुक्ता, भेदज्ञानं तु "यत्र हि द्वैत- मिव भवति" इति श्रुत्या भ्रान्तित्वात् "मृत्योः स मृत्युमाप्नोति य इ- ह नानेव पश्यति" इतिश्रुत्या अनर्थहेतुत्वाच्च न मुक्तिहेतुरिति भावः। ननु व्रह्मात्मैकत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, सम्पदादिरूपत्वेन भ्रान्तित्वादित्यत आह। न चेदमित्यादिना।। अल्पालम्बनतिरस्कारे- णोत्कष्टवस्त्वभेदज्ञानंसम्पयथा मनः स्ववृच्यानन्त्यादनन्तंतत उत्क-
Page 99
(<८) रत्नप्रभाभासिते [अ०: १।पा० १।] नं सम्पद्रपं, "यथानन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति" इति।नचाध्या- सरूपं यथा "मनो ब्रह्म" इत्युपासीत, "आदि- त्यो ब्रह्म" इत्यादेश इति च मनआदित्यादिषु ब्रह्मदृध्यध्यासो, नापि विशिष्टक्रियायोगनिमित्त "वायुर्वाव संवर्ग: प्राणो वाव संवर्गः" इतिवत्। नाप्याज्यावेक्षणादिकर्मवत् कर्माङ्गसंस्काररू- पमासम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभ्यु-
ष्टा विश्वेदेवा अप्यनन्ता इत्यनन्तत्वसाम्याद् "विश्वेदेवा एव मनः"इ- ति सम्पत्तयाऽनन्तफलप्राप्तिर्भवति तथा चेतनत्वसाम्याज्जीवे ब्रह्माभे- दः सम्पदिति न चेत्यर्थः। आलम्बनस्य प्राधान्येन ध्यानं, प्रतीकोपा- स्तिरध्यासः । यथा ब्रह्मदृष्ट्या मनस आदित्यस्य वा। तथा "अहं व्र- ह" इति ज्ञानमध्यासो नेत्याह॥ न चेति॥ आदेश: उपदेशः क्रिया- विशेषो विशिष्टक्रिया, तया योगो निमित्ं यस्य ध्यानस्य तत्तथा। यथा प्रलयकाले वायुरग्न्यादीन् संवृणोति संहरतीति संवर्ग:, स्वापकाले.प्रा- णो वागादीन् संहरतीति संहारक्रियायोगात् संवर्ग इति ध्यानं छा- न्दोग्ये विहितं तथा वृद्धिक्कियायोगाज्जीवो व्रह्मेति ज्ञानमिति नेत्याह । नापीति॥ यथा "पत्न्यवेक्षितमाज्यं भवति" इति उपांशुयाजाय- ङुस्याज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्मणि कर्तृत्वेनाङ्गस्यात्म- नः संस्कारार्थ ब्रह्मज्ञानं नेत्याह॥नाप्याज्येति।।प्रतिज्ञाचतुष्टये हेतुमा- ह॥सम्पदादीति।। उपक्रमादिलिड्गैर्व्रह्मात्मैकत्ववस्तुनि प्रमितिहेतुर्यः समानाधिकरणवाक्यानां पदनिष्ठः समन्वयः तात्पर्य निश्वितं तत्पीडये त। किं च। एकत्वझानादाज्ञानिकस्य हृदयस्यान्तःकरणस्य यो रागा-
Page 100
सू० ४ । अ. ४।] शाङ्करब्रह्मसूत्रभाष्ये (८१) पगम्यमाने तत्वमसि "अहं ब्रह्मास्मि" "अ- यमात्मा ब्रह्म" इत्येवमादीनां वाक्यानां ब्र- ह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पी ड्वेत। "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसं- शयाः" इति चैवमादीन्यविद्यानिवत्तिफलश्रव- णान्युपरुध्येरन्।"ब्रह्म वेद ब्रह्मैव भवति" इति- चैवमादीनि तद्ावापत्तिवचनानि सम्पदादिप- क्षेन सामअ्जस्येनोपपद्येरन्।तस्मान्न सम्पदा- दिरूपं ब्रह्मात्मैकत्वविज्ञानम्। अतो न पुरुष- व्यापारतन्त्रा ब्रह्मात्मविद्या, किंतर्हि प्रत्यक्षादि- प्रमाणविषयवस्तुज्ञानवद्दस्तुतन्त्रैव। एवम्भूत- स्य ब्रह्मणस्तज्ज्ञानस्य वान कयाचिद्युत्त्या श- क्यः कार्यानुप्रवेशः कल्पयितुम्। नच विदि- दिग्रन्थिश्षिन्मनसतादात्म्यरूपाहद्कारग्रन्थिर्वा नश्यतीत्यज्ञाननिवृत्तिफ- लवाक्यबाधः स्यात् सम्पदादिज्ञानस्याप्रमात्वेनाज्ञानानिवर्तकत्वात्। किंच जीवस्य ब्रह्मत्वसम्पदा कथं तद्भावः। पूर्वरूपे स्थिते नष्टे वान्य- स्यान्यात्मतायोगात्। तस्मान्न सम्पदादिरूपमित्यर्थः । सम्पदादिरू- पत्वाभावे फलितमाह॥अत इति॥ प्रमात्वान्न कतिसाध्या किं त- रहि नित्यैव न प्रमाणसाध्येत्यर्थः। उक्तरीत्या सिद्धव्रह्मरूपमोक्षस्य का- र्यसाध्यत्वं तज्ज्ञानत्य नियोगविषयत्वं च कल्पयितुमशक्यं कृत्यसा- ध्यत्वादित्याह। एवम्भूतस्येति॥ ननु ब्रह्म कार्याङं कारकत्वात् पत्न्यवेक्षणकर्मकारकाज्यवदिति चेतू, किं ज्ञाने ब्रह्मणः कर्मकारकत्वं उतोपासनायाम्: नाथ इत्याह ॥ नचेति॥ शाब्दज्ञानं विदिक्रिया- १२
Page 101
(९०) रत्नप्रभाभासिते [अ०१।पा.१ क्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः।"अन्य- देवतद्विदितादथोऽविदितादधि" इति विदिक्रि- याकर्मत्वप्रतिषेधात् "येनेदं सर्व विजानाति तं केन विजानीयाद्" इतिच। तथोपास्तिक्रियाक- र्मत्वप्रतिषेधोऽपि भवति।"यद्वाचानभ्युदितं ये- न वागभ्युद्यते" इत्यविषयत्वं ब्रह्मण उपन्य- स्य, "तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इति। अविषयत्वे ब्रह्मणः शासत्रयोनित्वानुपप- त्तिरिति चेन्न, अविद्याकल्पितभेदनिवत्तिपर- त्वाच्छासस्य। न हिशास्त्रमिदन्तया विषयभू- तं ब्रह्म प्रतिपिपादयिषति किं तर्हि प्रत्यगात्म- त्वेनाविषयतया प्रतिपादयदविद्याकल्पितं वेद्य- शब्दार्थ :; विदितं कार्यम् अविदितं कारणं तस्मादधि अन्यदित्यर्थः। येनात्मना इदं सर्वै दृश्यं लोको जानाति तं केन करणेन जानीयात्, तस्मादविषय आत्मेत्यर्थः। न द्वितीय इत्याह ॥तथेति॥"यन्मनसा न मनुते" इति श्रुत्या लोको मनसा यत् ब्रह्म न जानातीत्यविषयत्व- मुक्का "तदेवावेवं ब्रह्म त्वं विद्धि" यन्तूपाधिविशिष्टं देवतादिकमित्यु- पासते जनाः नेदं ब्रह्मेत्यर्थः। ब्रह्मणः शाब्दबोधाविषयत्वे प्रतिज्ञाहा- निरिति शङ्कते ॥ अविषयत्व इति॥ वेदान्तजन्यवृत्तिकताविद्यानि- वृत्तिफलशालितिया शास्त्रप्रमाणकत्वं वृत्तिविषयत्वेऽपि स्वप्रकाशब्र- झणो वृत्यभिव्यक्तस्फुर्णाविषयत्वादप्रमेयत्वमिति परिहरति ॥ ने- ति॥ परत्वात् फलत्वादित्यर्थः। निवृत्तिरूपब्रह्मतात्पर्यादिति वार्थः। उक्त विवृणोति॥ न हीति॥ चिद्दिषयत्वमिदन्त्वम्। अविषयतया
Page 102
सू· ४। अ. ४] (89) वेदितवेदनादिभेदमपनयति। तथा च शाखं "यस्यामतं तस्य मतं मतं यस्य न वेद सः"। "अविज्ञातंविजानतांविज्ञातमविजानताम्""न दृष्टर्द्रष्टारं पश्येर्न विज्ञातेर्विज्ञातारं विजानीयाः" इति चैवमादि। अतोऽविद्याकल्पितसंसारित्व- निवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मो- क्षस्यानित्यव्वदोषः। यस्य तूत्पाद्यो मोक्षस्त- स्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इ- ति युक्तम्। तथा विकार्यत्वे च। तयोः पक्षयो- अनिदन्तया। अदृश्यत्वे श्रुतिमाह ॥ तथा चेति॥ यस्य ब्रह्मामतं चैतन्याविषय इति निश्रयस्तेन सम्यवगतम्। यस्य त्वज्ञस्य ब्रह्म चै- तन्यविषय इति मतं सन वेद। उक्तमेव दार्ढ्यार्थमनुवदति॥ अि- ज्ञातमिति॥अविषयतया ब्रह्म विजानतामविज्ञातमदश्यमिति पक्षः। अज्ञानां तु ब्रह्म विज्ञातुं दृश्यमिति पक्ष इत्यर्थः । दष्टेर्द्रष्टारं चाक्षुष- मनोवृत्ते: साक्षिणं अनया दृश्यया दृष्ट्या न पश्येविज्ञातेर्बुद्धिवृत्तेनिश्र्व- यरूपायाः साक्षिणं तया न विषयीकुर्या इत्याह॥ नेति॥ नन्वविद्या- दिनिवर्तकत्वेन शास्त्रस्य प्रामाण्येऽपि निवृत्तेरागन्तुकत्वातू मोक्षस्या- नित्यत्वं स्यादिति नेत्याह ॥ अत इति॥ तच्वज्ञानादित्यर्थः । ध्वंस- स्य नित्यत्वादात्मरूपत्वाञ्च नानित्यत्वप्रसङ्ग इत्यर्थः। उत्पत्तिविका- राप्तिसंस्काररूपं चतुर्विधमेव क्रियाफलं तज्ज्िन्त्वान्मोक्षस्य नोपास- नासाध्यत्वमित्याह ॥ यस्य त्वित्यादिना तस्मात् ज्ञानमेकं मुक्के- त्यन्तेन । तथोत्पादयत्ववद्दिकार्यत्वे चापेक्षत इति युक्तमित्यन्वयं दूं- षयति॥ तयोरिति ॥स्थितस्यावस्थान्तरं विकारः। नन्वनित्यत्वनिरा- १-जन्यत्वादितिफ लितोऽर्थः।
Page 103
(१२) रत्नप्रभाभासिते [अ०9।पा०। र्मौक्षस्य ध्रुवमनित्यत्वम्। न हि दध्यादि विका- र्यमुत्पादयं वा घटादि नित्यं दष्ठ लोके। न चाप्य- त्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यना- प्यत्वात्। स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो ना- प्यत्वम्। सर्वगतत्वेन नित्याप्तस्वरूपत्वात् स- र्वेण ब्रह्मण आकाशस्येव। नापि संस्कार्यो- मोक्षो येन व्यापारमपेक्षेत। संस्कारो हि ना- म संस्कार्यस्य गुणाधानेन वा स्याद्दोपाप- नयेन वा न तावद् गुणाधानेन सम्भवति, अ- नाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य। नापि दोषापनयेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्ष- स्य। स्वात्मधर्म एव संस्तिरोभूतो मोक्षः क्रि- ययात्मनि संस्क्रियमाणेऽभिव्यज्यते। यथा- SSदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वर-
साय क्रियया स्थितस्यैव व्रह्मणो ग्रामवदाप्तिरस्तु नेत्याह॥ न चेति॥ ब्रह्म जीवाभिन्नं न वा? उभयथाप्यनाप्यत्वात् न क्रियापेक्षेत्याह॥ ॥ स्वात्मेत्यादिना॥ यथा व्रीहीणां संस्कार्यत्वेन प्रोक्षणापेक्षा, तथा मोक्षस्य नेत्याह ॥ नापीत्याढिना ॥ गुणाधानं व्रीहिषु प्रोक्षणा- दिना, क्षालनादिना वस्त्रादौ मलापनयः। शङ्कते॥स्वात्मधर्म इति। व्रह्मात्मस्वरूप एव मोक्षोऽनायविद्यामलावृतः उपासनया मले नष्टे- डभिव्यज्यते इत्यत्र दष्टान्तः ॥ यथेति॥ सस्कारो मलनाशः, किमा- त्मनि मलः सत्यः कल्पितो वा? द्विताये ज्ञानादेव तन्नाशो न क्रिय-
Page 104
सू०४। अ० ४] शाङ्करब्रह्मसूत्रभाष्ये (९३) त्वधर्म इति चेन्न, क्रियाश्रयत्वानुपपत्तेरात्मनः। यदाश्रया हि क्रिया तमविकुर्वती नैवात्मानं ल- भते। यद्यात्मा क्रियया विक्रियेतानित्यत्वमा- त्मनः प्रसज्येत। अविकार्योऽयमुच्यते "इति चै- वमादीनि वाक्यानि बाध्येरन्। तच्चानिष्टम्। त- स्मान्न स्वाश्रया क्रियात्मनः सम्भवति। अ- न्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते। ननु देहाशयया स्नानाचमनयज्ञो- पवीतादिकया क्रियया देही संस्क्रियमाणो दृष्टः न देहादिसंह तस्यैवाविद्यागृहीतस्यात्मनः सं- स्क्रियमाणव्वात्। प्रत्यक्षं हिस्नानाचमनादेर्देह- समवायित्वम्। तया देहाश्रयया तव्संहतएवक- श्रिवदविद्ययात्मत्वेन परिगहीतः संस्क्रियत इति
या; आये क्रिया किमात्मनिष्टा अन्यनिष्ठा वा? नाथ इत्याह॥न क्रि- येति ॥ अनुपपत्तिं स्फुटयति ॥ यदीति॥ क्रिया हि स्वाश्रये संयो- गादिविकारमकुर्वती न जायते इत्यर्थः। तञ्व वाक्यबाधनं न द्वितीय इत्याह ॥ अन्येति ॥ अविषयत्वात् क्रियाश्रयद्रव्यासंयोगादिति या- वत्। दर्पणं तु. सावयवं क्रियाश्रयेष्टकाचूर्णादिद्रव्यसंयोगित्वात् सं- स्क्रियत इति भाव: । अन्यकियया अन्यो न संस्क्रियत इत्यत्र व्य- भिचारं शङ्कते ॥ नन्विति ॥ आत्मनो मूलाविद्याप्रतिबिम्बितत्वे- न गृहीतस्य नरोऽहमिति भ्रान्त्या देहतादात्म्यमापन्नस्य क्रिया- श्रयत्वभ्रान्त्या संस्कार्यत्वभ्रमान्न व्यभिचार इत्याह ॥ नेति॥
Page 105
(९६) रत्नप्रभाभासिते [अ० १। पा० १। तस्माज्ज्ञानमेकं मुक्का क्रियाया गन्धमात्रस्या- प्यनु प्रवेश इह नोपपद्यते। ननु ज्ञानं नाम मानसी क्रिया, न, वैलक्षण्यात्। क्रिया हि नाम सा यत्र वस्तुस्वरूपनिरपेक्षैव चोधते। पुरुष- व्यापाराधीना च यथा "यस्यै देवताये हविर्ग- हीतं स्यात् तां मनसा ध्यायेद्वषट्करिष्यन्"इ- ति "सन्ध्यां मनसाध्यायेत्" इति चैवमादिपु। ध्यानं चिन्तनं यद्यपि मानसंतथापि पुरुपेण क- र्तुमकर्तुमन्यथा वा कर्तुशक्यं पुरुषतन्त्रत्वात्। ज्ञानं तु प्रमाणजन्यं प्रमाणं च यथाभूतवस्तु- विषयम्, अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तु- भावादित्यर्थः । व्याघातं शङ्कते ॥ नन्विति ॥ तथा च मोक्षे क्रिया- नुप्रवेशो नासतीति व्याहतमिति भावः। मानसमपि ज्ञानं न विधि- योग्या क्रिया वस्तुतन्त्रत्वात् कृत्यसाध्यत्वाञ्चेत्याह। नेति॥ वैलक्ष- ण्यं प्रपश्चयति ॥ क्रिया हीति॥ यत्र विषये तदनपेक्षैव या चो- घते तत्र सा हि क्रियेति योजना। विषयवस्त्वनपेक्षा, कृतिसाध्या च क्रियेत्यत्र दृष्टान्तमाह॥ यथेति ॥ गृहीतमध्वर्युणेति शेपः। "वपद् करिष्यन् होता सन्ध्यां देवताम्" इति चैवमादिवाक्येषु यथा यादशी ध्यानक्रिया वस्त्वनपेक्षा पुन्तन्त्रा च चोधते तादशी क्रियेत्यर्थः। ध्या- नमपि मानसत्वात् ज्ञानवन्न क्रियेत्यत आह॥ ध्यानमित्यादिना॥ तथापि क्रियैवेति शेष: रुत्यसाध्यत्वमुपाधिरिति भावः। ध्यानक्रिया- मुक्क्ा ततो वैलक्षण्यं ज्ञानस्य स्फुटयति॥ ज्ञानन्त्विति॥ अतः प्र- १ क्रियाभेदवति ज्ञाने वर्तनात्साध्यव्यापकत्वम् ध्याने मानसत्वहेतुमति चास्यावर्त- नात्साधनाव्यापकत्वं बोध्यम।
Page 106
सू· ४। अ० ४।]. शाङ्करब्रह्मसूत्रभाष्ये (१७) मशक्यं केवलं वस्तुतन्त्रमेव, तत् न चोदनातन्त्रं नापि पुरुषतन्त्रं, तस्मान्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम्। यथा च "पुरुषो वाव गौतमा- प्निर्योषा वाव गौतमाग्निः," इत्यत्र योषितपुरु- षयोरग्निबुद्धिर्मानसीकवति केवलचोदनाजन्य- त्वाततु क्रियैव सा पुरुषतन्त्रा च। या तु प्रसि- द्वेडग्रावग्निबुद्धि: न सा चोदनातन्त्रा, नापि पु- रुषतन्त्रा, किं तर्हि, प्रत्यक्षविषयवस्तुतन्त्रेवे- ति ज्ञानमेव तन्न क्रिया। एवं सर्वप्रमाणविष- यवस्तुषु वेदितव्यम्। तत्रैवं सति यथाभूतब्र- ह्मात्मविषयमपि ज्ञानं न चोदनातन्त्रम्। अत- स्तद्विषया लिडादय: श्रूथमाणा अप्यनियो- मात्वान्न चोदनातन्त्रं न विधेविषयः । पुरुषः कृतिद्वारा तन्त्रं हेतुर्यस्य तत्पुरुषतन्त्रं, तस्मादस्त्वव्यभिचारादपुंतन्त्रत्वाच्च ध्यानात् ज्ञानस्य म- हान् भेद इत्यर्थः। भेदमेव दष्टान्तान्तरेणाह।यथा चेति॥ अभेदास- च्वेऽपि विधितो ध्यानं कर्तु शक्यं न ज्ञानमित्यर्थः। ननु प्रत्यक्षज्ञानस्य विषयजन्यतया तत्तन्त्रत्वेSपिशाब्दबोधस्य तदभावाद्दिधेयक्रियात्वमि- ति नेत्याह ॥ एवं सर्वेति॥ शब्दानुमानार्थेष्वपि ज्ञानमविधेयक्रि- यात्वेन ज्ञातव्यम्। तत्रापि मानादेव ज्ञानस्य प्राप्तेविध्ययोगादित्यर्थः । तत्रैवं सति लोके ज्ञानस्याविधेयत्वे सतीत्यर्थः। यथाभूतत्वमबाधित- त्वम्। ननु "आत्मानं पश्येत्" "ब्रह्म त्वं विद्धि" "आत्मा द्रष्टव्यः" इति विज्ञाने लिङ्लोट्तव्यप्रत्यया विधायकाः श्रूयन्ते, अतो ज्ञानं विधेयमित्यत आह ॥ तदिषय इति ॥ तस्मिन् ज्ञानरूपविषये वि- १३
Page 107
(१८) रत्नप्रभाभासिते [अ० १।पा०१] ज्यविषयत्वात् कुण्ठीभवन्त्युपलादिपुप्रत्युक्तक्षु- रतैक्ष्ण्यादिवत्, अहेयानुपादेयवस्तुविषयत्वा- त्। किमर्थानि तर्हि "आत्मा वा अरे द्रष्ट- व्यः श्रोतव्यः " इत्यादीनि विधिच्छायानि वचनानि! स्वाभ्ाविकप्रवत्तिविपयविमुखी क- रणार्थानि इति ब्रूमः । यो हि वहिर्मुखः प्रव- तते पुरुष "इष्टं मे ूयादनिष्टं मा भूत" इ- ति, न च तत्रात्यन्तिकं पुरुषार्थ लक्षते। तमात्य- तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसं- घातप्रवत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रो- तस्तया प्रवर्तयन्ति "आत्मा वा अरे दृष्टव्यः" धयः पुरुषं प्रवर्तयितुं अशक्ता भवन्ति। अनियोज्यं कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानं तदिपयकत्वादित्यर्थः । "ममायं नियोगः" इति वोद्धा नियोज्यो विपयश्र विधेर्नास्तीति भावः । तर्हि ज्ञेयं ब्रह्म विधीयतां नेत्याह॥ अहेयेति ॥ वस्तुस्वरूपो विषयस्तत्वात् व्रह्मणो निरतिशयस्यासाध्यत्वान्न विधेयत्वमित्यर्थः। उदासीनवस्तु- विषयकत्वाच्च ज्ञानं न विधेयं, प्रवृत्यादिफलाभावादित्यर्थः । विधिप- दानां गति पृच्छति॥ किमर्थानीति॥ विधिच्छायानि प्रसिद्धया- गादिदिधितुल्यानीत्यर्थः । विधिप्रत्ययैरात्मज्ञानं परमपुरुषार्थसाधन- मिति स्तूयते स्तुत्या आत्यन्तिकेष्टहेतुत्वभ्रान्त्या या विपयेषु प्रवृत्तिः आत्मश्रवणादिप्रतिबन्धिका तन्निवृत्तिफलानि विधिपदानीत्याह।। । स्वाभाविकति ॥ विवृणोति ॥ यो हीत्यािना॥ तत्र विषयेपु सङ्घातस्य या प्रवृत्ति: तद्ोचराच्छव्दादेरित्यर्थः। लोतश्षित्तवृत्तिप्रवा-
Page 108
सु. ४। अ० ४।] शाङ्करव्रह्मसूत्रभाष्ये (९९) इत्यादीनि। तस्यात्मान्वेषणाय पवत्तस्याहे- यमनुपादेयं चात्मतत्त्वमुपदिश्यते "इदं सर्व य- दयमात्मा"यत्र व्वस्य सर्वमात्मैवाभूत तत् के- न कंपश्येत् केन कं विजानीयात्""विज्ञातार- मरे केन विजानीयादयमात्माब्रह्म" इत्येवमा- दिश्रुतिभिः।यदव्यकर्तव्यप्रधानमात्मज्ञानं हा- नायोपादानाय वा न अ्वतीति तत्तर्थैवेत्यभ्युप- गम्यते।अलङ्गारो ह्ययमस्माकं यद्रह्मात्मावग- तौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति। तथा च श्रुतिः। "आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत्" इति। "एतहुद्दा बुद्धिमान स्यात् कृतकृत्यश्च हः।प्रवर्तयन्ति ज्ञानसाधनश्रवणादाविति शेषः। श्रवणस्वरूपमाह ॥ तस्येति। अन्वेषणं ज्ञानम्।यदिदं जगत्तत् सर्वआत्मैवेत्यनात्मबाधेन आत्मा बोध्यते। अद्वितीयादृश्यात्मबोधे क विधिः तपस्वी हैतवनोप- जीवनः स्थास्यतीति भावः । आत्मज्ञानिनः कर्तव्याभावे मानमाह । तथा चेति॥ "अयं स्वयंप्रभानन्दः परमात्माहमस्मि" इति। य- दि कश्ित् पुरुष आत्मानं जानीयात्तदा कि फलमिच्छन् कस्य वा भोकु: प्रीतये शरीरं तप्यमानमनुसंज्वरेत् तप्येत, भोक्तृभोग्यद्वैताभा- वात्, कृतकृत्य आत्मविदित्यभिप्रायः । ज्ञानदौर्लभ्यार्थश्रेच्छंब्दः। १ स्व प्रकाशानन्दरूप इत्यर्थः।
Page 109
(१००) जत्प्रभाभासिते [अ० १। पा० १। भारत, इति च स्मृतिः। तस्मान्न प्रतिपत्तिवि धिविषयतया ब्रह्मणः समर्पणम्। यदपि केचि-
वलवस्तुवाढ़ी वेदभागो नास्ति,, इति, तन्नाऔ- पनिपदस्य पुरुषस्यानन्यशेषत्वात्। योऽसावु- पनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मोत्पा- द्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोऽन न्यशेषो नासौ नास्ति नाधिगस्यतइतिवा वदितुं एतद् गुहतमं तखं वृत्तिकारमतनिरासमुपसंहरति ॥ तस्मादिति॥ प्राभाकरोक्तमुपन्यस्यति।यदपिकेचिदिति।। कर्तात्मा लोकसिद्धत्वा- न वेदान्तार्थ:। तदन्यत् व्रह्म नास्त्येव वेदस्य कार्यपरत्वेन मानाभा- वादित्यर्थः। मानाभावोऽसिद्ध इत्याह ॥ नेति॥ अज्ञातस्य फलस्व- रूपस्यात्मन उपनिषदेकवेद्यस्याकार्यशेषत्वात् कत्लवेदस्य कार्यपर- त्वमसिद्म्। न च प्रवृत्तिनिवृत्तिलिङ्गाभ्यां श्रोतुस्तद्वेतुं कार्यवोधमनु- माय वक्तृवाक्यस्य कार्यपरत्वं निश्चित्य वाक्यस्थपदानां कार्यान्विते शक्त्यग्रहान्न सिद्धस्य अपदार्थस्य वाक्यार्थत्वमिति वाच्यं "पुत्रस्ते- जातः" इति वाक्यश्रोतुः पितुर्हर्पलिङ्गेनेष्टं पुत्रजन्मानुमाय पुत्रादि- पदानां सिद्धे सङ्गतिग्रहात् कार्यान्वितापेक्षयान्वितार्थे शक्तिरित्यङ्गी- कारे लाघवात् सिद्धस्यापि वाक्यार्थत्वादित्यलम्। किश्च ब्रह्मणो ना- सितित्वादेव कत्लवेदस्य कार्यपरत्वसुत वेदान्तेषु तस्याभानात् अथवा कार्यशेपत्वात् किंवा लोकसिद्धत्वादाहोस्वित् मानान्तरविरोधात्? तत्रावं पक्षत्रयं निराचष्टे। योऽसाविति॥ अनन्यशेषत्वार्थमसंसारि इत्यांदि विशेषणं नास्तित्वाभावे हेतुं वेदान्तमानसिद्धत्वमुक्का हेत्व- न्तरमात्मत्वमाह। स एष इति॥ इतिरिदमर्थे "इदंन इदं न"
Page 110
सू० ४। अ० ४।] शाङ्रव्रह्मसूत्रभाष्ये (१०१) शक्यं "स एष नेति नेत्यात्मा" इत्यात्मशब्दात्, आत्मनश्च प्रत्याख्यातुमशक्यत्वात्। य एव निराकर्ता तस्यैवात्मत्वप्रसंगात्। नन्वात्माहंप्र- त्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुप- पन्नम् न, तत्साक्षित्वेन प्रत्युक्तत्वात्। न त्यहंप्र- त्ययविषयकर्तव्यतिरेकेण तत्साक्षी सर्वभूतस्थः समएक: कूटस्थनित्यः पुरुषो विधिकाण्डेतर्कस- मये वा केनचिदधिगतः सर्वस्यात्मा;अतःसन केनचित् प्रत्याख्यातुं शक्यो विधिशेषत्वं वा नेतु- म्, आत्मत्वादेव च सर्वेषां न हेयो नाप्युपादेयः। सर्व हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति। इति सर्वदृश्यनिषेधेन य आत्मा उपदिष्टः स एष इंत्यर्थः । चतुर्थश-
त्वस्य निरस्तत्वान्न लोकसिद्धतेत्याह॥नेति॥यं तीर्थकारा अपि न जान- न्ति तस्यालौकिकत्वं किमु वाच्यमित्याह॥न हीति॥समस्ततारतम्यव- ज्जितः, तत्तन्मते आत्मानधिगतिद्योतकानि विशेषणानि। पश्चमंनिर- स्यति।अत इति।केनचिददादिना प्रमाणेन युक््या वेत्यर्थः। अग्यत्वा- लमानान्तरविरोध इति भाव:। साक्षी कर्माङ्गं चेतनत्वात् कर्तृवदिति तत्राह॥ विधीति॥ अज्ञातसाक्षिणोऽनुपयोगाज्ज्ञातस्य घातकत्वा- न कर्मशेषत्वमित्यर्थः। साक्षिणः सर्वशेषित्वादहेयानुपादेयत्वाच्च न कर्मशेषत्वमित्याह॥ आत्मत्वादिति॥ अनित्यत्वेनात्मनो हेयत्व- माशङ्ग्याह ॥ सर्वै हीति॥ परिणामित्वेन हेयतां निराचष्टे॥ वि- १. शास्त्रकारा:।
Page 111
(१०२) रत्नप्रभाभासिते अ० १।पा० १ पुरुषो हि विनाशहेत्वभावादविनाशी विक्रिया- हेत्वभावाच्च कूटस्थनित्योऽत एव नित्यशुद्धबु- द्वमुक्तस्वभावः तस्मात् "पुरुषात् न परं कि- श्चित् सा काष्ठा सा परा गतिः""तन्त्वौपनि- षदं पुरुषं पृच्छामि" इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्स्वेव प्राधान्येन प्रकाश्यमान- त्वे उपपद्यते। अतो भूतवस्तुपरो वेदभागो ना- स्तीति वचनं साहसमात्रम्। यदपिशास्त्रतात्प- र्यविदामनुक्रमणं, दृष्टो हि तस्यार्थः कर्माववो- धनमित्येवमादिः तद्र्मजिज्ञासाविषयत्वाद्दि
क्रियेति॥ उपादेयत्वं निराचष्टे॥ अत एवेति॥ निर्विकारित्वादि- त्यर्थः । उपादेयत्वं हि साध्यस्य, न त्वात्मनः नित्यसिद्धत्वादित्यर्थः । परप्राप्त्यर्थ आत्मा हेय इत्यत आह॥ तस्मात् पुरुषान्न परं किश्चिदि- ति॥ काष्ठा सर्वस्यावधिः। एवमात्मनोऽनन्यशेषत्वादबाध्यत्वादपू- र्वत्वाद्ेदान्तेषु स्फुटभानाच्च वेदान्तैकवेदयत्वमुक्तम् तत्र श्रुतिमाह । तन्त्वेति॥ तं सकारणसूत्रस्याधिष्ठानं पुरुषं पूर्ण हे शाकल्य त्वा त्वां पृच्छामीत्यर्थः । अत इति। उक्तलिङै: श्रुत्या च वेदान्ताना- मात्मवस्तुपरत्वनिश्रयादित्यर्थः । पूर्वोक्तमनुवदति ॥ यदपीति॥ वेदस्य नैरर्थक्ये शङ्किते तस्यार्थवत्तापरमिदं भाष्यम्॥ दृष्टो हीति॥ तंत्र फलवदर्थावबोधनमिति वक्तव्ये धर्मविचार प्रक्रमात् कर्मावबोध- नमित्युक्तं नैतावता वेदान्तानां ब्रह्मपरत्वनिरासः। अत एवानुपलव्धे- 5र्थे "तत्प्रमाणमिति" सूत्रकारो धर्मस्य फलवदज्ञातत्वेनैव वेदार्थतां १ जैमिनिः ।
Page 112
सू० ४। अ० ४।] शाङ्करब्रह्म सूत्रभाष्ये (१०३) धिप्रतिषेधशास्त्राभिप्रायं द्रष्ठव्यम्। अपि च "आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थाना- म्" इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशान- र्थक्यप्रसङ्ग: प्रवृत्तिनिवृत्तिविधिव्यतिरेकेण भू- तं चेद्वस्तपदिशति भव्यार्थत्वेन कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः। न हिभूतमुपदि- दर्शयति। "तच्चावशिष्टं ब्रह्मणः" इति न वृद्धवाक्यैविरोध इत्याह । तद्धमैति॥ निषेधशास्त्रस्यापि निवृत्तिकार्यपरत्वमस्ति, तत् सूत्र- भाष्यवाक्यजातं कर्मकाण्डस्य कार्यपरत्वाभिप्रायमित्यंर्थः । वस्तुत- स्तु लिडर्थे कर्मकाण्डस्य तात्पर्य, लिरडर्थश्र लोके प्रवर्तकज्ञानगोच- रत्वेन क्लपं यागादिक्रियागतमिष्टसाधनत्वमेव न क्रियातोऽतिरिकं कार्य तस्य कूर्मलोमवदप्रसिद्धत्वादिति तस्यापि पराभिमतकार्यविल- क्षणे सिद्धे दधिसोमादौ प्रामाण्यं किमुत ज्ञानंकाण्डस्येति मन्तव्यम्। किश्च वेदान्ता: सिद्धवस्तुपरा: फलवहूतशव्दत्वाद्दध्यादिशब्दवादि- त्याह॥ अपि चेति॥ किमक्कियार्थकशब्दानामानर्थक्यमभिधेयाभावः फलाभावो वा? आय आह। आन्नायस्येति ॥ इतिन्यायेन एतद- भिधेयराहित्यं नियमेनाङ्डीकुर्वतां "सोमेन यजेत" "दधा जुहोति" इत्यादिवाक्येषु दधिसोमादिशव्दानामर्थशून्यत्वं स्यादित्यर्थः । ननु केनोक्तमभिधेयराहित्यमित्याशङ्चाह। प्रवृत्तीति॥ कार्यातिरेकेण भव्यार्थत्वेन कार्यशेषत्वेन दध्यादिशव्दो भूतं वक्ति चेतू, तर्हि सत्या- दिशव्दः कूटस्थं न वक्तीत्यन्र को हेतुः किं कूटस्थस्याक्कियात्वादुता- क्रियाशेषत्वाद्देति प्रश्नः। ननु दध्यादेः कार्यान्वयित्वेन कार्यत्वादुपदेशः न कूटस्थस्याकार्यत्वादित्यायमाशङ्क्य निरस्यति॥ न हीति॥ दध्यादेः १ कर्मकाण्डस्य ।
Page 113
(१.४). रत्नप्रभाभासिते [अ. १।पा० १। श्यमानं क्रिया भवति। अक्ियात्वेऽपि भूतस्य क्रियासाधनत्वात् क्रियार्थ एव भूतोपदेश इति चेत्, नैष दोष:। क्रियार्थत्वेऽपि क्रियानिर्वर्तन- शक्तिमद्दस्तूपदिष्ठमेव। क्रियार्थत्वं तु प्रयोजनं तस्य। न चैतावता वस्त्वनुपदिष्ठं भवति। यदि नामोपदिष्टं किं तव तेन स्यादिति। उच्यते, अ- नवगतात्मवस्तूपदेशश्र तथैव क्षवितुमर्हति; त- दवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवत्तिः कार्यत्वे कार्याभेदे शेषत्वहानिः। अतो भूतस्य कार्यान्जिन्स्य दध्यादेःश- व्दार्थत्वं ल्धमिति भावः। द्वितीयं शङ्गते ॥अक्रिया त्वेऽपीति॥ क्रि यार्थ: कार्यशेषपरः कूटस्थस्य त्वकार्यशेषत्वान्नोपदेशइति भाव:।भूत- स्प कार्यशेषत्वं शब्दार्थत्वाय फलाय वा?नाथ इत्याह॥नैष दोष इति॥ दध्यादे: कार्यशेषत्वे सत्यपिशव्देन वस्तुमात्रमेवोपदिष्टं न कार्यान्वयी शब्दार्थः। अन्वितार्थमात्रे शब्दानां शक्तिग्रहणादित्यर्थः । द्वितीयम- ङ्रीकरोति ॥ क्रियार्थत्वंत्वि ति । तस्य भूतविशेषस्य दध्यादेः क्रि- याशेषत्वं फलमुद्दिश्याङ्गीक्रियत इत्यर्थः, न तु व्रह्मण इति तु शब्दा- र्थः। ननु भूतस्य कार्यशेषत्वाङ्गीकारे स्वातन्त्र्येण कथं शव्दार्थतेति तन्नाह'।। नचेति ॥ फलार्थ शेषत्वाङ्गीकारमात्रेण शव्दार्थत्वभङ्गो नास्तीत्यर्थः। आनर्थक्यं फलाभाव इति पक्षं शङ्कते॥ यदीति॥ यद्यपि दधैयादि स्वतो निष्फलमपि क्रियाद्दारा सफलत्वादुपदिष्टं त- थापि कूटस्थ ्रह्मवादिनः क्रियाद्दाराभावात् तेन दष्टान्तेन किं फलं स्यादित्यर्थः। भूतस्य साफल्ये क्रियैव द्वारमिति न नियमः, रज्ज्वा- ज्ञानमात्रेणं सा फल्यदर्शनादित्याह॥ उच्यते इति ॥ तथैव दध्या- दिवदेवेत्यर्थः। द ध्यादेः क्रियाद्वारा साफल्यं, व्रह्मणस्तु स्वत इति वि-
Page 114
सू·४।अ० ४] शाङ्कसन्नह्लसूत्रभाष्ये (१०५) प्रयोजनं क्रियत इत्यविशिष्टमर्थव्त्वं क्रियासा- धनवस्तूपदेशेन। अपि च "ब्राह्मणो न हन्तव्यः इति चैवमाद्या निवत्तिरुपदिश्यते। न च साक्रि- या नापि क्रियासाधनम। अक्रियार्थानामुपदे- शोऽनर्थकश्चेत् "ब्राह्मणो न हन्तव्यः" इत्यादि- निवृत्त्युपदेशानामानर्थक्य प्राप्तं, तञ्वानिष्टम् न च स्वभावप्राप्तहन्त्यर्थानुरगेण नञ्रः शक्यम- शेषे सत्यपि वेदान्तानां सफलभूतार्थकत्वमात्रेण दध्यायुपदेशसा- म्यमित्यनवयम्। इदानीं वेदान्तानां निषेधवाक्यवत् सिद्धार्थप- रत्वमित्याह ॥ अपि चेति ॥ नञः प्रकृत्यर्थेन सम्बन्धात् हन- नाभावोनञर्थ: इष्टसाधनत्वं तव्यादिप्रत्ययार्थ:, इष्टथ्ात्र नरकदु :- खाभावः, तत्परिपालको हननाभाव इति निषेधवाक्यार्थः । ह- ननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधत्वधिया पुरुषो निवर्त्तते, नात्र नियोग: कश्विदर्ति, तस्य क्रिया तत्साधन- दध्यादिविषयत्वाद्। न च हननाभावरूपा नञ््वाच्या निवृत्तिः कि- या। अभावत्वान्नापि क्रियासाधनम्। अभावस्य भावार्थाहेतुत्वा- द्वावार्थासत्त्वाच्चेत्यर्थः। अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भाव:। विपक्षे दण्डमाह॥ अक्रियेति ॥ ननु स्वभावतो रागतः प्रा- पेन हन्त्यर्थेनानुरागेण नञ्सम्बन्धेन हेतुना हननविरोधिनी सङ्कल्प- क्रिया बोध्यते, सा च नञर्थरूपा तत्राप्राप्तत्वाद्दिधीयते "अहननं कु- र्यात्" इति। तथा च कार्यार्थमिंदं वाक्यमित्याशङ््च निषेध- ति। न चेति॥ औदासीन्यं पुरुषस्य स्वरूपं, तञ्व हननक्रिया- निवृत्युपलक्षितं निवृच्यौदासीन्यं हननभाव इति यावत् तव्तिरेके- १ ब्राह्मणो न हन्तव्य इतिवाक्यम्
Page 115
(१०६) रत्नप्रभाभासिते [अ०१।पा० १। प्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिठ्त्त्यौ- दासीन्यव्यतिरेकेण। नञ्रश्रैष स्वभावो यत् स्वसम्बन्धिनोऽभावं बोधयतीति, अभावबुद्धि-
ण नञ्ः क्रियार्थतवं कल्पयितुं न च शक्यमिति योजना, मुख्यार्थस्या- भावस्य नञर्थत्वसम्भवे तहिरोधिक्रियालक्षणाया अन्याय्यत्वात् नि- षेधवाक्यस्यापि कार्यार्थत्वे विधिनिषेधभेदविप्ववापत्तेश्रेति भावः। ननु तदभाववत्तदन्यतद्विरुद्दयोरपि नञ्ः शक्तिः कि न स्यातू, "अव्राह्मणः अधर्मः" इति प्रयोगदर्शनात्, "तत्सादृश्यमभावश् तदन्यत्वं तदल्प- ता।अप्राशस्त्यं विरोधश् नञर्थाः पट् प्रकीर्तिताः"इत्यनेकार्थत्वादिति चेतू, न। अनेकार्थत्वस्यान्याय्यत्वादित्याह।नञ्श्चेति। गवादिशव्दा- नां तु अगत्या नानार्थत्वं, स्वर्गेषुवाग्वज्रादीनां शक्यपशुसम्वन्धाभावेन लक्षणानवतारात्।अन्यविरुद्धयोस्तु लक्षत्वं युक्तं शक्यसम्बन्धात्। व्रा- ह्णादन्यस्मिन् क्षत्रियादौ धर्मविरुद्धे वा पापे ब्राह्मणायभावस्य नञ्ूश- क्यस्य सम्बन्धात्, प्रकते च आख्यातायोगात् नञ् प्रसज्यप्रतिषेधक,ए- व न पर्युदासलक्षक इति मन्तव्यम्। यदा नञःप्रकत्या न सम्बन्ध:। प्रकते: प्रत्ययार्थोपसर्ज्जनत्वात् प्रधानसम्बन्धाच्चाप्रधानानां किन्तु प्र- कृत्यर्थनिष्ठेन प्रत्ययार्थेनेष्टसाधनत्वेन सम्बन्धो नञः। इष्ंच स्वापे- क्षया बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रं विषसं- युक्तानभोगस्यापि इष्टत्वापत्ते:, तथा च "न हन्तव्यः" हननं बलव- दनिष्टासाधनत्वे सति इष्टसाधनं न भवतीत्यर्थः।अत्रच "हन्तव्यः"इति हनने विशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलवदनि- प्टसाधनं हननमितिबुद्धिर्भवति, हनने तात्कालिकेष्टसाधनत्वरूपवि- शेष्यसच्वेन विशिष्टाभावबुद्धेर्विशेषणाभावपर्यवसानातू। विशेषणं बलवदनिष्टासाधनत्वमिति तदभावो बलवदनिष्टसावनत्वं नअर्थइति
Page 116
सू० ४ । अ . : ] शाङ्करब्रह्मसूत्रभाष्ये (१०७) श्रौदासीन्ये कारणं, सा च दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति, तस्मात् प्रसक्तक्रियानिट- च्यौदासीन्यमेव "ब्राह्मणोन हन्तव्यः"इत्या- दिषु प्रतिषेधार्थ मन्यामहे अन्यत्र प्रजापतिव्र- तादिभ्यः, तस्मात् पुरुषार्थानुपयोग्युपाख्याना- पर्यवसन्नं तद्दुद्दिरौदासीन्यपरिपालिकेत्याह ॥ अभावेति॥ चोऽप्य- र्थः, पक्षान्तरयोती प्रकृत्यर्थाभावबुद्धिवत् प्रत्ययार्थाभावबुद्धिरपीत्यर्थः। बुद्धे: क्षणिकत्वात्तदभावे सत्यौदासीन्यातू प्रच्युतिरूपा हननादौ प्र- वृत्ति: स्यात् इति तत्राह ॥ सा चेति॥ यथाग्निरिन्धनं दग्ध्वा शा- म्यति एवं सा नञर्थाभावबुद्धिः हननादाविष्टसाधनत्वभ्रान्तिमूलं रा- गेन्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः,रागनाशे कुतः प्रच्युतिरिति भाव: यद्दा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः। पर- पक्षे तु हननविरोधिक्रिया कार्येत्युक्तेऽपि हननस्येष्टसाधनत्वभ्रान्त्यनि- रासातू प्रच्युतिर्दुर्वारा। तस्मात्तदभावएव नञर्थ इत्युपसंहरति ॥ त- स्मादिति॥ भावार्थाभावेन तदिषयककत्यभावात् कार्याभावस्तच्छा- ब्दार्थः। यद्वेत्युक्तपक्षे निवृत्त्युपलक्षित मौदासीन्यं यस्माददिशिष्टाभावाय- त्तमेवेतिव्याख्येयं स्वतःसिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वोपपादनार्थ निवृत्युपलक्षितत्वमिति ध्येयम्। तस्य बटोर्वतमित्यनुष्ठेयक्रियावाचि- वतशब्देन कार्यमुपक्रम्य "नेक्षेतोन्तमादित्यम्" इति प्रजापतिव्रत- मुक्तम्, अत उपकमबलात्तत्र नञ ईक्षणविरोधिसङ्कल्पक्रियालक्षणा- ङ्रीकता एवमगौरसुरा अधर्म इत्यादौ नामधात्वर्थयुक्तस्य नञ्रः प्रति- षेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्व एतेभ्यः प्रजापतिव्रतादि- भ्योऽन्यत्राभावमेव नञर्थ मन्यामहे इत्यर्थः। दुःखाभावफलके नञ- र्थे सिद्धे निषेधशास्त्रमानत्ववद्देदान्तानां ब्रह्मणि मानत्वमिति भावः।त-
Page 117
(१०८) रत्नप्रभाभासिते [अ१।पा.१। दिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्ठव्य- म्। यदप्युक्त कर्तव्यविध्यनुप्रवेशमन्तरेण व- स्तुमात्रमुच्यमानमनर्थकं स्यात् "सत्तद्वीपा व- सुमती" त्यादिवदिति तत् परिहतं, रजुरियं ना- यं सर्प इति वस्तुमात्रकथनेऽपि प्रयोजनस्य ह- ष्टत्वात्। ननु श्रुतब्रह्मणोऽपि यथापूर्व संसारि- त्वदर्शनात् न रज्ुस्वरूपकथनवदर्थवत्वमित्यु- कम्, अत्रोच्यते।नावगतब्रह्मात्मभावस्य यथा- पूर्व संसारित्वं शक्यं दर्शयितुं वेदप्रमाणजनित ब्रह्मात्मभावविरोधात्। न हि,शरीराद्यात्माभि- मानिनो दुःखभ्यादिमत्त्वं दष्टमिति, तस्यैव वे- दप्रमाणजनितव्रह्मात्मावगमे तदभिमाननिवृ- तौ तदेव मिथ्याज्ञाननिमितं दुःखक्यादिम्त्त्वं अवतीति शक्यं कल्पयितुम। न हि,धनिनो गह- स्थस्य धनाभ्िमानिनो धनापहारनिमित्तं दुः- खं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमानर- हितस्य तदेव धनापहारनिमित्तं दुःखं कवति। हक्रियार्थानामानर्थक्यमिति सूत्रं किंविषयमिति तत्राह॥ तस्मादि- ति।। वेदान्तानां स्वारथें फलवत्वाव्वर्थकथाविषयं तदित्यर्थः। यदपी- त्यादिस्पष्टार्थ श्रवणज्ञानमात्रात् संसारानिवृत्तावपि साक्षात्काराजी- वतएव मुक्तिर्दुरपक्कवेति सदष्टान्तमाह। अन्नोच्यते इत्यादिना॥व- हाहमिति साक्षात्कारविरोधादित्यर्थः। तम्वविदो जीवन्मुक्तौ मानमाह
Page 118
सू०४। अ० ४] शाङ्करब्रह्मसूत्रभाष्ये (१०९) न च कुण्डलिन: कुण्डलित्वाशिमाननिमित्तं सु- खं दष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलि- त्वाभिमानरहितस्य तदेव कुण्डलित्वाशिमान- निमित्तं सुखंभवति।तदुक्तं श्रुत्या"अशरीरं वाव- सन्तं न प्रियाप्रिये स्पृशतः"इतिशरीरे पतिते,- अशरीरत्वं स्यात् न जीवत इति चेत्, न, सशरी- रत्वस्य मिथ्याज्ञाननिमित्तत्वात्। न त्यात्मनः शरीरीत्यभिमानलक्षणंमिथ्याज्ञानंमुक्काअन्य- तः सशरीरत्वं शक्यं कल्पयितुम्। नित्यमशरी- रत्वं अकर्मनिमित्तत्वादित्यवोचाम। तत्कृतघर्मा- धर्मनिमितं सशरीरत्वमिति चेत्, न, शरीरस-
द्ेःशरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य- ॥ तदुक्तं श्रुत्येति॥ जीवतोऽशरीरत्वं विरुद्धमिति शङ्गते॥ शरीर इति ॥ आत्मनो देहसम्बन्धस्य भ्रान्तिप्रयुक्तत्वास्तच्वधिया तन्नाश- रूपशरीरत्वं जीवतो युक्तमित्याह । नेत्याढिना ॥ असङ्गात्मस्व- रूपं त्वशरीरत्वं भ्रांत्यावृतं तच्वधिया जीवतो व्यज्यत इत्याह। नि- त्यमिति ॥ देहात्मनोः सम्बम्धः सत्य इति शङ्कते ॥ तत्कतेति॥ तन्नाशार्थ कार्यापेक्षेति भावः। आत्मनः शरीरसम्बन्धे जाते धर्मा- धर्मोत्पतिः, तस्यां सत्यां सम्बन्धजन्मेत्यन्योन्याश्रयादेकस्यासिध्या दितीयस्यासिद्धि:स्यादिति परि हरति।। नेत्यादिना।नन्वेतद्देहजन्यध- र्माधर्मकर्मण एतद्देहसम्बन्धहेतुत्वे स्यादन्योन्याश्रयः, पूर्वदेहकर्मण एत द्वेहसम्बन्धोत्पत्ति:, पूर्वदेहश्र पूर्वदेहकतकर्मण इतिवीजाङ्कुरवदना-
Page 119
(१0) रत्नप्रभाभासिते [अ० १ पा० १। चेतरेतराश्रयत्वप्रसङ्गादन्धपरम्परैवैषा अना- दिव्वकल्पना क्रियासमवायाभावाच्चात्मनः क र्तृत्वानुपपत्तेः। सन्निधानमात्रेण राजप्रभृतीनां दृष्टं कर्तत्वमिति चेन्न। धनदानादुपार्जितभृत्य- सम्बन्धित्वात्तेषां कर्तृत्वोपपत्तेर्न व्वात्मनो धन- दानादिवच्छरीरादिभिः स्वस्वामिसम्बन्धनि- मित्तं किश्िच्छक्यं कल्पयितुम्। मिथ्याशिमा- नस्तु प्रत्यक्ष: सम्बन्धहेतुः। एतेन यजमानत्व- मात्मनो व्याख्यातम्। अत्राहु:, देहादिव्यति- रिक्तस्यात्मन आत्मीये देहादावभिमानो गौणो नमिथ्येति चेत्, न, प्रसिद्धवस्तुभेदस्य गौणत्वमु- दित्वान्नायं दोष इत्यत आह।अन्धेति॥ अप्रामाणिकीत्यर्थः। नहि बी- जादङकुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दश्यते तद्ददात्मनो देहस- म्बन्धः पूर्वकर्मकतः प्रत्यक्ष:, नाप्यस्ति कश्विदागमः प्रत्युत असङ्गो हीत्यादि: श्रुतिः सर्वकर्तृत्वं वारयतीति भावः। तत्र युक्तिमाह॥ क्रि- येति ॥ कूटस्थस्य कत्ययोगान्न कर्तृत्वमित्यर्थः। स्वतो निष्क्रयस्या- पि कारकसन्निधानात् कर्तृत्वमिति शङ्का दष्टान्तवैषम्येण निरस्यति ॥ नेति। राजादीनां स्वक्रीतभृत्यकार्ये कर्तृत्वं युक्तं नात्मन इत्यर्थः । देहकर्मणौरविद्याभूमौ बीजाङ्कुरवदावर्तमानयोरात्मना सम्बन्धो भ्रा- न्तिकुत एवेत्याह । मिथ्येति॥ ननु “यजेत " इति विध्यनुपपच्या- त्मन: कर्तृत्वेष्टव्यमिति तत्राह ॥I एतेनेति॥ भ्रान्तिकतेन देहादि- सम्बन्धेन योगादिकर्तृत्वमाव्रह्मबोधाव्याख्यातमित्यर्थः ॥ अत्राङु: प्राभाकरा इत्यर्थः। भ्रान्त्यभावाद्देहसम्बन्धादिकं सत्यमिति भावः
Page 120
सु ० ४ । अ. ४।] शाङ्करब्रह्मसूत्रभाव्ये (१११) र्यत्वप्रसिद्धेः।यस्य हि प्रसिद्धो वस्तुभेदो यथा केसरादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां-
न्यःपुरुषः प्राथिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः सम्पन्नः सिद्धः तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतःनाप्रसिद्धवस्तुभेदस्य तस्य त्वन्य त्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः, न गौणौ। यथा मन्दान्धकारे "स्थाणुरयं" इत्य गृह्ययमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुवि- षयौ यथा वा, शुक्तिकायामकस्मात् "रजतमि- दं" इति निश्चितौशब्दप्रत्ययौ तद्रद्देहादिस- ड््घातेऽहमिति निरुपचारेण शब्दप्रत्ययावात्मा नात्मविवेकेनोत्पद्यमानौ कथ गौणौ शक्यौ व- दितुम्। आत्मानात्मविवेकिनामपि पण्डिता नामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ
भेदज्ञानाभावान गौण इत्याह॥ नेति॥ प्रसिद्धो ज्ञातो वस्तुनोभेदो येन तस्य गौणमुख्यज्ञानाश्रयत्वप्रसिद्धेरित्यर्थः।यस्य तस्य पुंसो गौणौ भवतः इत्यन्वयः। शौर्यादिगुणविषयावित्यर्थः।।तस्य त्विति॥भेद- ज्ञानशून्यस्य पुंस इत्यर्थ:॥शवदप्रत्ययाविति॥शब्दः शाब्दबोधश्रेत्य- र्थः। संशयमूलौ तावुदाहरति।यथा मन्देति। यदा संशय मूलयोर्न गौ- णत्वं तदा भ्रान्तिमूलयोः किं वाच्यमित्याह॥यथावेति॥ अकस्मा- दिति॥ अतर्कितादष्टादिना संस्कारोदोधे सतीत्यर्थः। निरुपचारेण गु-
Page 121
(११२) रत्नप्रभाभासिते [अ० १। पा०१। भवतः । तस्माद्वेहादिव्यतिरिक्तात्मास्तित्ववा दिनां देहादावहंप्रत्ययो मिथ्यैव न गौणः, त- स्मान्मिथ्याप्रत्ययनिमित्तत्वात् सशरीरत्वस्य सिद्धं जीवतोऽपि विदुषोऽशरीरव्वम्। तथा च ब्रह्मविद्विषया श्रुतिस्तद्था "अहिनिल्वयनी वल्मीकेम्ृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव" इति।"सचक्षुरचक्षुरिव सकर्णोडकर्ण इव सवाग- वागिव समना अमना इव सप्राणोऽप्राण इव" इति च। स्मृतिरपि च "स्थितप्रज्ञस्य का भाषा" इत्याद्या स्थितप्रज्ञलक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसम्बन्धं दर्शयति। तस्मान्नावगतव्र- णज्ञानं विनेत्यर्थः । देहादिव्यतिरिक्तात्मास्तित्ववादिनामिति, देहा- त्मवादिनां तु प्रमेत्यभिमान इति भावः। जीवन्मुक्तौ प्रमाणमाह ॥ तथा चेति॥ ततू तत्र जीवन्मुक्तस्य देहे यथा दृष्टान्तः। अहि- निर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ता- भिमाना वर्तते, एवमेवेदं विदुषा त्यक्काभिमानं शरीरं तिष्ठति। अथ तथा त्वचानिर्मुक्तसर्पवदेवायं देहस्थोऽशरीर;, विदुषो देहसर्पस्य त्व- चीवाभिनाभावादशरीरत्वादमृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव किं तद्रल्म तेजः स्वयं ज्योतिरानन्द एवेत्यर्थः, वस्तुतोऽचक्षुरपि बा- धितचक्षुरायनुवृच्या सचक्षुरिवेत्यादि योज्यम्। इत्यनवद्यमिति॥ ्रह्मात्मज्ञानान्मुक्तिलाभातू सिद्धं वेदान्तानां प्रामाण्यं हितशासनाच्छा- स्त्रत्वं निर्दोपतया स्थितमित्यर्थः । ब्रह्मज्ञानमुद्दिश्य श्रवणवन्मनन-
Page 122
सू. ४ । अ० ४॥] शाङ्करत्रह्मसूत्रभाष्ये (११३) ह्ात्मभावस्य यथापूर्व संसारित्म। यस्य तु यथापूर्व संसारित्वं नासाववगतत्रह्मात्मभाव इत्यनवद्यम्।यत्तु पुनरुक्ते श्रवणात् पराचीन- योर्मनननिदिध्यासनयोर्दर्शनाद्विधिशेषत्वं व्र- ह्रणो न स्वरूपपर्यवसायित्वमिति, न, अवग- त्यर्थत्वात् मनननिदिध्यासनयोः। यदि त्यवग- तं ब्रह्मान्यत्र विनियुज्येत अवेत् तदा विधिशेष- त्वम्। न तु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात्। तस्मान्न प्रतिपत्तिवि- धिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भव- तीत्यतः स्वतन्त्रमेव ब्रह्म शासत्रप्रमाणकं वेदा- न्तवाक्यसमन्वयादिति सिद्धं, एवं च स"त्यथा- निदिध्यासनयोरप्यवान्तरवाक्यभेदेन विध्यङ्गीकारान्न ब्रह्मणो विधि- शेषत्वमुद्देश्यज्ञानलभ्यतया प्राधान्यादित्याह । नेति॥ श्रवणं ज्ञान- करणवेदान्तगोचरत्वात् प्रधानं मनननिदिध्यासनयोः प्रमेयगोचर- त्वात्तद्ङ्गत्वं नियमादष्टस्य ज्ञान उपयोगः सर्वापेक्षान्यायादिति म- न्तव्यम्। त्हि ज्ञाने विधि: किमिति त्यक्तस्तव्राह ॥ यदि हीति॥ यदिज्ञाने विधिमङ्गीकृत्य वेदान्तैरवगतं ब्रह्म विधेयज्ञाने कर्म कारक- त्वेन विनियुज्येत तदा विधिशेषत्वं स्यात्। न त्ववगतस्य विनियुक्त- त्वमस्ति, प्राप्तावगत्या फललाभे विध्ययोगादित्यर्थः ॥ तसमादिध्यस- मभवात्। अतः शेषत्वासम्भवात्। सत्यादिवाक्यैर्लब्वज्ञानेन अज्ञा- ननिवृत्तिरूप फललाभे सतीत्यर्थः। सूत्रं योजयति ॥स्वतन्त्रसिति॥ एवं च सतीति। चोवधारणे उक्तरीत्या ब्रह्मणः स्वातन्त्रये सत्येव भ-
Page 123
(१९४) रत्नप्रभाभासिते [अ० १। पा० १] तो ब्रह्मजिज्ञासे" ति तद्विषयः पृथक् शासारम्भ उपपद्यते। प्रतिपत्तिविधिपरत्वे हि "अथातो ध- मजिज्ञासे" त्येवारब्धत्वान्न पृथक्शास्त्रमारभ्ये त, आरभ्यमाणं चैवमारभ्येत "अथातः परि- शिष्टधर्मजिज्ञासे" व्यथातः क्रत्वर्थपुरुषार्थयो- ्जिज्ञासेतिवत् ब्रह्मात्मैक्यावगतिस्त्व प्रतिज्ञाते- ति, तदर्थो युक्त: शास्त्रारम्भो "Sथातो ब्रह्मजि- ज्ञासे" ति। तस्मादहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विधयः सर्वाणि चेतराणि प्रमाणानि। न ख्यहेयानुपादेयाद्वैतात्मावगतौ निर्विषया- गवतो व्यासस्य पृथक्शास्त्रकृतिर्युक्ता, धर्मविलक्षणप्रमेयलाभातू वे- दान्तानां कार्यपरत्वे तु प्रमेयाभेदान्न युक्तेत्यर्थः । ननु मानसधर्मवि- चारार्थ पृथगारम्भ इत्याशङ्ग्याह॥आरभ्यमाणं चेति॥अथ वाहय- साधनधर्मविचारानन्तरम, अतो वाह्यधर्मस्य शुद्धिद्वारा मानसोपा- सना धर्महेतुत्वात् परिशिष्टो मानसधर्मों जिज्ञास्य इति सूत्रं स्यादित्यत्र दृष्टान्तमाह ॥ अथेति ॥ तृतीयाध्याये श्रुत्यादिभि: शेषशेषित्वनिर्णयानन्तरं शेषिणा शेषस्य प्रयोगसम्भवात् क: कतु- शेष: को वा पुरुषशेष इति जिज्ञास्यत इत्यर्थः । एवमारभ्येत ग- त्वारब्धं तस्मादान्तरधर्मार्थमारम्भ इत्ययुक्तमिति भावः । स्वमते सूत्रानुगुण्यमस्तीत्याह ।। ब्रह्मेति ॥ जैमिनिना ब्रह्म न विचारित- मिति तज्जिज्ञास्यत्वसूत्रणं युक्तमित्यर्थः । वेदान्तार्थश्वेदह्ैतं तहि द्वैतसापेक्षविध्यादीनां का गतिरित्याशङ्, ज्ञानात् प्रागेव तेषां प्रा- माण्यं न पश्ादित्याह ।I तस्मादिति । ज्ञानस्य प्रमेयप्रमातृबा-
Page 124
सू. ४। अ. ४।] शाङ्करत्रह्मसूत्रभाष्ये (११५) ण्यप्रमातृकाणिच प्रमाणानि भवितुमर्हन्ती- ति। अपि चाहुः॥ "गौणमिथ्यात्मनो Sसत्वे पुत्रदेहादिवाधनात्। सदू ब्रह्मात्माहमित्येवंबोधे कार्य कथं भवेत्। अन्वेष्ठव्यात्मविज्ञानात् प्राक् प्रमातृत्वमात्मनः। अन्विष्टः स्यात् प्रमातैव पाप्मदोषादिवर्जितः। देहात्मप्रत्ययो यद्दत् प्रमाणत्वेन कल्पितः। लौकिकं तद्देवेदं प्रमाणं त्वात्मनिश्चयात् इति॥ धकत्वादित्यर्थः । व्रह्म न कार्यशेषः तद्दोधात् प्रागेव सर्व व्यवहार इ- त्यत्र ब्रह्मविदां गाथामुदाहरति ॥ अपि चेति॥ सदबाधितं ब्रह्म पू- 成 华 心 先 र्णमात्मा विषयानादत्त इति सर्वसाक्ष्यहमित्येवम्बोधे जाते सति पुत्र- देहादेः सत्ताबाधनात् मायामात्रत्वनिश्यात् पुत्रदारादिरहमिति स्वी- यदुःखसुखभात्क्कगुणयोगाद्गौणात्माभिमानस्य "नरोऽहं कर्ता मूढः" इति मिथ्यात्माभिमानस्य च.सर्वव्यवहारहेतोरसच्वे कार्य विधिनिषे- धादिव्यवहारः कथं भवेत्, हेत्वभावात् न कथंचिन्धवेदित्यर्थः । न- न्वहं व्रह्मेति बोधो बाधितः, अहमर्थस्य प्रमातुः ब्रह्मत्वायोगादित्या- शङ्क्च, प्रमातृत्वस्याज्ञानविलसितान्तःकरणतादात्म्यकतत्वान्न बाध इत्याह॥ अन्वेष्टव्य इति ॥ "य आत्मापहतपाप्मा विजरो विमृत्यु- विशोक: सोऽन्वेष्टव्यः" इति श्रुतेः ज्ञातव्यपरमात्मविज्ञानात् प्रागे- वाज्ञानाचचिद्धातोरात्मनः प्रमातृत्वं, प्रमातैव ज्ञातः सन् पाप्मरागद्देष- मरणविवर्जितः परमात्मा स्यादित्यर्थः । प्रमातृत्वस्य कल्पितत्वे त- दाश्रितानां प्रमाणानां प्रामाण्यं कथमित्यत आह ॥ देहेति॥ यथा
इति वृद्धोक्ते:। १ यदामोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्यसततं भावस्तस्मादात्मेति गीयते
Page 125
(११६) रत्नप्रभाभासिते [अ० १।पा० १] एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्र योजनानां व्रह्मात्मनि तात्पर्थेण समन्विताना- मन्तरेणापि कार्यानुप्रवेश ब्रह्मणि पर्यवसा- नमुक्तन्। ब्रह्म च सर्वज्ञं सर्वशक्ति जगदु- पत्तिस्थितिनाशकारणमित्युक्तम । साड्ा- दयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्य- मेवेति मन्यमाना: प्रधानादीनि कारणान्त- राण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टि
देहात्मप्रत्ययः कल्पितो भ्रमेऽपि व्यवहाराङतया मानत्वेनेष्यते वै- दिकैः, तद्लौकिकमध्यक्षादिकमात्मबोधावधि व्यवहारकाले वाधा- भावात् व्यावहारिकं प्रामाण्यमिष्यतां, वेदान्तानां तु कालत्रयाबाध्य- बोधित्वात् तच्वावेदकं प्रामाण्यमिति तुशव्दार्थः ॥ आत्मनिश्चया- त्।। आ आत्मनिश्रयादित्याङ् मर्यादायांम् प्रमातृत्वस्य कल्पितत्वेऽ- पि विषयाबाधात् प्रामाण्यमिति भावः। "रामनास्नि परे धाम्नि कत्लाम्नायसमन्वयः । कार्यतात्पर्यवाधेन साधितः शुद्धबुद्दये"॥
भवतु सिद्धे वेदान्तानां समन्वयः, तथापि मानान्तरायोग्ये ब्रह्मणिश- किग्रहायोगात् कूठस्थत्वेन अविकारित्वेन कारणत्वायोगाच् न समन्व- यः, किंतु सर्गायं कार्य जडप्रकुतिकं कार्यत्वात् घटवत् इत्यनुमानगम्ये त्रिगुणे प्रधाने समन्वय इत्याक्षिपन्तीत्यर्थः। सिद्धं मानान्तरगम्यमेवे- त्याग्रहः शक्तिगहार्थ:, अत एव प्रधानादावनुमानोपस्थिते शक्तिग्हस-
Page 126
सू० ४। अ० ४।] शाङ्करब्रह्मसूत्रभाष्ये (११७) विषयेषु अनुमानेनैव कार्येण कारणं लिलक्षयि- षितम्। प्रधानपुरुषसंयोगानित्यानुमेया इति साङ्या मन्यन्ते। काणादास्त्वेतेभ्य एव वाक्ये- भ्य ईश्वरं निमित्तकारणमनुमिमते, अणूंश्ष स- मवायिकारणम्। एवम् अन्येऽपि तार्किका वा- क्याभासयुत्त्याभासावष्ठम्भाः पूर्वपक्षवादि- न इहोत्तिश्ठन्ते। तत्र पदवाक्यप्रमाणज्ञेना- चार्येण वेदान्तवाक्यानां ब्रह्मावगतिपरत्वप्रद- ्शनाय वाक्याआसयुत्त्यभासप्रतिपत्तयः पूर्व-
मभवातू तत्परतया वाक्यानि योजयन्तीत्युक्तं । किश्च "तेजसा सोम्य शुङ्ेन सन्मूलमन्विच्छ"' इत्यायाः श्रुतयः। शुङ्गेन लिद्गेन कारणस्य स्वतो Sन्वेषणं दर्शयन्तो मानान्तरसिद्धमेव जगत्कारणं वदन्तीत्याह ॥ सर्वेष्विति॥ नन्वतीन्द्रियत्वेन प्रधानादेर्व्याप्तिग्रहायोगात् कथम- नुमानं तत्राह॥ प्रधानेति॥ यत्कार्य तज्जडप्रकृतिकं यथा घटः, य- ज्डं तच्चेतनसंयुक्तं यथा रथादिरिति सामान्यतोदृष्टानुमानगम्याः प्र- धानपुरुषसंयोगा इत्यर्थः। अदवितीयब्रह्मणः कारणत्वविरोधिमतान्त- रमाह ॥ काणादास्त्विति ॥ सृष्टिवाक्येभ्य एव परार्थानुमानरू- पेभ्यो यत् कार्य तत् बुद्धिमत्कर्तृकमिति ईश्वरं कर्तारं परमाणूंश्व यत् कार्यद्रव्यं तत् सवन्यूनपरिमाणद्रव्यार्धमित्यनुमिमत इत्यर्थः। अ- न्येऽपि बौद्धादयः "असद्दा इदमग्र आसीतू"इत्यादिवाक्याभासः। यद्दस्तु तच्छून्यावसानं यथा दीप इति युक्त्या भास:। एवं वादिवि- प्रतिपत्तिमुक्का तन्निरासायोत्तरसूत्रसन्दर्भमवतारयति ॥ तत्रेति॥ वादिविवाद सतीत्यर्थः।। व्याकरणमीमांसान्यायनिधित्वात् पदवाक्य-
Page 127
(११८) रत्नप्रभाभासिते [अ० १। पा० १। पक्षीकृत्य निशक्रियन्ते। तत्र साड्याः प्रधानं त्रिगुणमचेतनं जगतः कारणमिति मन्यमाना- श्राहुः "यानि वेदान्तवाक्यानि सर्वज्ञस्य स र्वशक्तेर्व्रह्मणो जगत्कारणत्वं दर्शयन्ति, इत्यवो- चस्तानि प्रधानकारणपक्षेऽपि योजयितुं श- क्यन्ते। सर्वशक्तित्वं तावत् प्रधानस्यापि स्व- विकारविषयमुपपद्यते, एवं सर्वज्ञत्वमप्युपद्यते। कथम्। यनु ज्ञानं मन्यसे स सत्त्वधर्मः "सत्वा- त् सआ्जायते ज्ञानम्" इति स्मतेः। तेन च सत्व- धर्मेण ज्ञानेन कार्यकारणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः, सत्वस्य हि निरतिशयोत्क- र्षे सर्वज्ञत्वं प्रसिद्धम्। न केवलस्याकार्यकरण- स्य पुरुषस्योपलब्धिमात्रस्य सर्वज्ञत्वं किश्ि- उज्ञव्वं वा कल्पयितुं शक्यं, त्रिगुणत्वात्तु प्रधा- प्रमाणज्ञत्वं यज्जगत्कारणं तच्चेतनमचेतनं वेति ईक्षणस्य मुख्यत्वगौ- णत्वाभ्यां संशये पूर्वपक्षमाह ।I तत्र साङ्ग्या इति॥ अपिशब्दावे- वकारार्थौ सदेवेत्यादिस्पष्टव्रह्मलिङ्गवाक्यानां प्रधानपरत्वनिरासेन व्रह्मपरत्वोक्ते: श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवस्य प्रधानैक्योपास्तिः सिद्धान्ते व्रह्मैक्यज्ञानमिति विवेकः । अचेतनसच्वस्यैव सर्वज्ञत्वं, न चेतनस्येत्याह॥ तेन च सत्त्वधर्मेणेति ॥ न केवलस्येति । ज- न्यज्ञानस्य सत्त्वधर्मत्वात् नित्योपलब्धेरकार्यत्वाच्चिन्मात्रस्य न स- र्वज्ञानकर्तृत्वमित्यर्थः । ननु गुणानां साम्यावस्थाप्रधानमिति सा- ड्र्या वदन्ति तदेवावस्थायां सच्स्योत्कर्षाभावात् कथं सर्वज्ञतेत्याह
Page 128
सू. ५अ० ५] (११९) नस्य सर्वज्ञानकारणभूतं सत्वं प्रधानावस्था- यामपि विद्यते, इति प्रधानस्याचेतनस्येव सतः सर्वज्ञत्वमुपचर्यंते वेदान्तवाक्येषु। अवश्यञ्च त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानश- क्तिमत्वेनैव सर्वज्ञत्वमभ्युपगन्तव्यम्। न हि सर्वदा सर्वविषयज्ञान कुर्वदेव ब्रह्म वर्तते। तथा हि ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत। अथानित्यं तदिति ज्ञानक्रिया- या उपरमेतापि ब्रह्म। तदा सर्वज्ञानशक्तिमत्वे- नैव सर्वज्ञव्वमापतति। अपि च प्रागुत्पत्तेः सर्व- कारकशन्यं ब्रह्मेष्यते त्वया। न च ज्ञानसाधना- नां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्य- चिदुपपन्ना। अपि च प्रधानस्यानेकात्मकस्य परिणामसम्भवात् कारणव्वोपपत्तिः मृदादिवत्
। त्रिगुणत्वादिति॥ त्रयो गुणा एव प्रधानं तस्य साम्यावस्था तदभेदात् प्रधानमित्युच्यते। तदवस्थायामपि प्रलये सर्वज्ञान- शक्तिमच्वरूपं ससर्वज्ञत्वमक्षतमित्यर्थः । ननु मया किमिति श- क्िमच्वरूपं गौणं सर्वज्ञत्वमङ्गीकार्यमिति तत्राह ॥ न हीति॥ अनित्यज्ञानस्य प्रलये नाशात् शक्तिमच्वं वाच्यं कारकाभावाच्चेत्याह ॥ अपि चेति॥ मतद्यसाम्यमुक्का स्वमते विशेषमाह ॥अपि चेति। ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते प्रधानादेः कारणत्वं तर्कपादे १ त्रह्मवादिना
Page 129
(१२०) रत्नप्रभाभासिते [अ० १पा० १। नासंहृतस्यैकात्मकस्य ब्रह्मणः" इत्येवं प्राप्ते इ- दे सूत्रमारभते।। ईक्षतेर्नाशव्दम्॥५॥ न साड्यपरिकल्पितमचेतनं प्रधानं जगतः का- रणं शक्यं वेदान्तेष्वाश्रयितुम्। अशब्दं हि तत्। कथमशब्दत्वम्। ईक्षतेः ईक्षितृत्वश्रवणात् का- रणस्य। कथम्। एवं हि श्रूयते "सदेव सौम्येद- मग्र आसीत्" "एकमेवाद्वितीयं" इत्युपक्रम्य "तदैक्षत बहु स्यां प्रजायेय" इति "तत्तेजोऽसृ- जत" इति तत्रेदंशब्दवाच्यं नामरूपविकृतं ज- गत् प्रागुत्पत्ते: सदात्मनावधार्य तस्यैव प्रक- तस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजः प्रभृतेः स्त्रषटृत्वं दर्शयति। तथा अन्यत्र "आत्मा वा इद मेक एवाग्र आसीन्नान्यत् किञ्चन मिषत् स ऐ- क्षत लोकान्नुसृजा इति "स इमाँलोकानसृजत" इति ईक्षापूर्विकामेव सृष्टिमाचष्ठे। कचिच्च षोड- युक्तिभिनिरस्यते। अधुना तु श्रुतिभिनिरस्यति ॥ ईक्षतेर्नाशब्द- मिति॥ ईक्षणश्रवणात् वेदशव्दवाच्यमशव्दं प्रधानम्। अशब्दत्वान्न कारणमिति सूत्रयोजना। तत् सच्छव्दवाच्यं कारणमैक्षत ईक्षणमे- वाह॥ वह्निति ॥ बहुप्रपश्चरूपेण स्थित्यर्थमहमेवोपादानतया का- र्याभेदाजनिष्यामीत्याह।प्रजेति॥ एवं तत् सदीक्षित्वा आकाशं वा- युं च सृष्टा तेजः सृष्ट्रवदित्याह ॥।तदिति॥ मिषच्चलत् सच्वाकान्त-
Page 130
सू०५/ अ . ५] (१२१) शकलं पुरुषं प्रस्तुत्याह "स ईक्षाञ्चके सप्रा- णमसृजत" इति।ईक्षतेरिति च धात्वर्थनिर्दे- शोडकिप्रेतः यजतेरितिवत् न धातुनिर्देशः।तेन "यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः तस्ना देतद्रह्म नामरूपमन्नं च जायते" इत्येवमादी- न्यपि सर्वज्ञेश्वरकारणपराणि वाक्यानि उद़ाह- र्तव्यानि।यत्तु उक्त सत्त्वधर्मेण ज्ञानेन सर्वजञं त्र- धानं भविष्यतीति, तन्नोपपद्यते। न हि प्रधा- नावस्थायां गुणसाम्यात् सत्त्ववर्मो ज्ञानंसम्भ- वति।ननूक्तं सर्वज्ञानंशक्तिमत्वेन सर्वजञं भ- विष्यतीति, तदपि नोपपद्यते। यदि गुणसा- म्ये सति सत्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य मिति यावत्। सजीवाभिन्नः परमात्मा "प्राणमसृजत प्राणाच्छ्रद्धां खँ वायुज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाहीर्य तपो मन्त्राः कर्म लोका: लोकेषु नाम च" इत्युक्ताः षोडशकलाः, ननु इक्श्तिपौ- धातुनिर्देशे इति कात्यायनस्मरणादीक्षतेरिति पदेन तिवन्तेन धातुरु- च्यते। तेन धात्वर्थ ईक्षणं कथ व्याख्यायत इत्याशङ्क्य लक्षणयेत्या- ह। ईक्षतेरिति चेति॥ इतिकर्तव्यताविधेर्यजतेः पूर्ववच्चमिति जै- मिनिसूत्रे यथा यजतिपदेन लक्षणया धात्वर्थो याग उच्यते तद्ददिहापी- त्यर्थः सौर्यादिविकतियागस्याङ्गानामविधानात्पूर्वत्वं दर्शादिप्रकृति- स्थाङ्गवत्त्वमिति सूत्रार्थः। घात्वर्थनिर्देशेन लाभमाह।।तेनेति।सामान्य- तः सर्वज्ञो विशेषतः सर्वविदिति भेद: ज्ञानमीक्षणमेव तपः। तपस्विनः फलमाह ॥तस्मादिति॥ एतत्कार्य सूत्राख्यं व्रल्म। केवलसच्वव्त्तेर्ज्ञा १६
Page 131
(१२२ ) रत्नप्रभाभासिते [अ०१।पा० १। ज्ञानशक्तिम्त्वेन सर्वज्ञं प्रधानमुच्येत कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धशक्ति- माश्रित्य किश्चिज्ज्ञमुच्येत। अपि च नासाक्षि- का सत्ववत्तिर्जानाति नाऽभिधीयते। न चा- चेतनस्य प्रधानस्य साक्षित्वमस्ति। तस्मादनु- पपन्नं प्रधानस्य सर्वज्ञत्वम्। योगिनां तु चेत- नव्वात् सत्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमि- त्यनुदाहरणम्। अथ पुनः साक्षिनिमित्तमीक्षि- तृत्वं प्रधानस्य कल्पेत यथाग्निनिमित्तमयः पि- ण्डादेर्दग्घृत्वम्। तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः का- रणमिति युक्तम। यत् पुनरुक्तं ब्रह्मणोऽपि न मु- र्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञान क्रियां प्रति स्वातन्त्र्यासम्भवादित्यत्रोच्यते। इ- दं तावद्रवान् प्रष्टव्यः कथं नित्यज्ञानक्रियत्वे नत्वमङ्गीकृत्य प्रधानस्य सर्वज्ञत्वं निरस्तम्। सम्प्रति नकेवलजडवृत्ति र्ञानशब्दार्थ: किन्तु साक्षिबोधविशिष्टा वृत्तिर्वृत्तिव्यक्तबोधो वा ज्ञानं त्चान्धस्य प्रधानस्य नास्तीत्याह ॥ अपि चेति॥ साक्षित्वमसिति ये- नोकज्ञानवच्वं स्यादिति शेषः। ननु सच्ववृत्तिमात्रेण योगिनां सर्वज्ञ- त्वमुक्तमित्यत आह॥। योगिनां त्विति ॥ सेश्वरें साङग्मतमाह ॥ ॥ अथेति ॥ सर्वज्ञत्वं नाम सर्वगोचरज्ञानवत्त्वं न ज्ञानकर्तृत्वं ज्ञान- १ दृष्टान्तो न सम्भवतीत्यर्थः।
Page 132
(१२३) सर्वज्ञव्वहानिरिति, यस्य हि सर्वविषयावभास- नक्षमं ज्ञानं नित्यमस्ति सोऽसर्वज्ञ इति विप्रति- षिद्म्, अनित्यत्वे हि ज्ञानस्य कदाचित् जा- नाति कदाचिन्न जानाति, इत्यसर्वज्ञत्वमपि स्यात् नासौ ज्ञाननित्यत्वे दोषोडस्ति। ज्ञान- नित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नाप- पद्यत इति चेत्, न, प्रततौष्ण्यप्रकाशेपि स- वितरि दहति प्रकाशयति, इति स्वातन्त्र्यव्यप- देशदर्शनात्। ननु सवितुर्दात्य्यप्रकाश्यसंयोगे सति दहति प्रकाशयतीति व्यपदेशः स्यात्, न
विषमो दष्ठान्तः। नासत्यपि कर्मणि सविता प्र- काशत इति कर्तृत्वव्यपदेशदर्शनादेवमसत्यपि ज्ञानकर्मणि ब्रह्मणस्तदैक्षतेति कर्तृत्वव्यपदेशो- पपत्तेरन वैषम्यं, कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्व- स्य कृत्यसाध्यत्वादिति हृदि कृत्वा पृच्छति ॥ इदं तावदिति॥स- वै जानातीति शब्दासाधुत्वं शङ्कते ॥ ज्ञाननित्यत्व इति॥ नित्य- स्यापि ज्ञानस्य तत्तदर्थोपहितत्वेन ब्रह्मस्वरूपान्नेदं कल्पयित्वा का- र्यत्वोपचाराद्व्लणसत्कर्तृत्वव्यपदेशः साधुरिति सदष्टान्तमाह ॥ न प्रततेति ॥ सन्ततेत्यर्थः। असत्यपि अविवक्षितेऽपि, ननु प्रकाशते- रकर्मकत्वात् सविता प्रकाशते इति प्रतियोगेऽपि जानातेः सकर्मक- त्वातू कर्माभावे तदैक्षतेत्ययुक्तमिति तत्राह ॥ कर्मापेक्षायां त्वि-
Page 133
(१२४) रत्नप्रभाभासिते [अ० १पा०१। श्रुतयः सुतरामुपपन्नाः, किं पुनस्तत्कर्म यत् प्रागुत्पलेरीश्वरज्ञानस्य विषयो भ्रवति इति!त- च्वान्यत्वास्यामनिर्वचनीये नामरूपे अव्याक- ते व्याचिकीर्षिते इति ब्रूम:, यत्प्रसादाद्दि यो- गिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छ न्ति योगशास्त्रविद: किमु वक्तव्यं तस्य नित्यशु- दस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञा- नं अवतीति। यदप्युक्तं प्रा गुत्पत्तर्र् हमणःशरीरा- दिसम्बन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, नत- ति। कर्माविवक्षायामपि प्रकाशरूपे सवितारि प्रकाशत इति कथं। चितू प्रकाशक्रियाश्रयत्वेन कतृत्वोपचारवत्चिदात्मन्यपि चिद्रूपेक्षण- कर्तृत्वोपचारान्न वैषम्यमित्युक्तं पूर्वम्। अधुना तु कुम्भकारस्य स्वो- पाध्यन्तःकरणवृत्तिरूपेक्षणवदीश्वरस्यापि स्वोपाध्यविद्यायाः विवि- धसृष्टिसंस्कारायाः प्रलयावसानेनोहुद्दसंस्कारायाः स्गोन्मुखः कश्ि- तू परिणामः सम्भवति अतः तस्यां सूक्ष्मरूपेण निलीनसर्वकार्यविष- यकं ईक्षणं तस्य कार्यत्वात् कर्मसद्भावाञ्च तत्कर्तृत्वं मुख्यमिति घो- तयति॥ सुतरामिति॥ ननु मायोपाधिकविम्बचिन्मात्रस्येश्वरस्य कथमीक्षणं प्रति मुख्यं कर्तृत्वं कृत्यभावादिति चेत्। न। कार्यानुकूल- ज्ञानवत एव कर्तृत्वादीख्वरस्यापि ईक्षणानुकूलनित्यज्ञानवच्वात्। न च नित्यज्ञानेनैव कर्तृत्वनिर्वाहात् किमीक्षणेनति वाच्यं। वाय्वादेरेव शब्दवत्त्वसम्भवात् किमाकाशेनेत्यतिप्सङ्गात्, अतःश्रुतत्वाद्दाय्वादि- कारणत्वेनाकाशवदैक्ष तेत्यागन्तुकत्वेन श्रुत मीक्षणमाकाशादिहेतुत्वे- नाङ्गीकार्यमित्यलम्। अव्याकते सक्ष्मात्मना स्थिते व्याकर्तु स्थूली-
Page 134
सू·५। अ. ५] (११५) च्चोद्यमवतरति सवितृप्रकाशवद्रह्मणो ज्ञानस्व- रूपनित्यत्वे ज्ञानसाधनापेक्षानुपपत्तेः । अपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षाज्ञानो- त्पत्तिः स्यात्, न ज्ञानप्रतिबन्धकारणरहितस्ये- श्वरस्य। मन्त्रौ चेमावीश्वरस्य शरीरादनपे- क्षतामनावरणज्ञानतां च दर्शयतः। "न तस्य कार्य करणं च विद्यते न तत्समश्र्ाभ्यधिकश्र् दश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च'॥ इति॥
कर्तुमिष्टे इत्यर्थः। अव्याकतकार्योपरक्तचैतन्यरूपेक्षणस्य कारकानपे- क्षत्वेऽपि वृत्तिरुपेक्षणस्य कारकं वाच्यमित्याशङ््च्ाह।। अपि चावि द्यादिमत इति॥ यथैकस्य ज्ञानं तथान्यस्यापीति नियमाभावान्मा- यिनोऽशरीरस्यापि जन्येक्षणकारकत्वमिति भावः। ननु यत् जन्य- ज्ञानं तत् शरीरसाध्यमिति व्याप्तिरस्तीत्याशङ्क्य, श्रुतिबाधमाह॥ म- न्त्रौ चेति । कार्यशरीरं। करणमिन्द्रियं। अस्येश्वरस्य शक्तिर्माया स्वकार्यापेक्षया परा, विचित्रकार्यकारित्वाद्विविधा सा त्वैतिह्यमात्रसि- द्वा न प्रमाणसिद्धेत्याह॥श्रूयत इति॥ ज्ञानरूपेण बलेन या सृष्टिक्रिया सा स्वाभाविकी अनादिमायात्मकत्वादित्यर्थः। ज्ञानस्य चैतन्यस्य बलं मायावृत्तिप्रतिविम्बितत्वेन स्फुटत्वं तस्य क्रियानामबिम्बत्वेन ब्रह्मणो जनकता ज्ञातृतापि स्वाभाविकीतिवार्थः॥ अपाणिरपि ग्रहीता। अपा- दोऽपि जवनः ॥ ईश्वरस्य स्वकार्यें लौकिकहेत्वपेक्षा नास्तीति भावः। अग्र्यमनादिं पुरुषं अनन्तं महान्तं विभुमित्यर्थः। अपसिद्धान्तं शङ्क-
Page 135
रत्नप्रभाभासिते [अ. १ पा०। "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षु: स शृणोत्यकर्णः। स वेचि वेद्यं न च तस्यास्तिवेत्ता तमाहुरग्यं पुरुषं महान्तम्"॥इति च॥ ननु नास्ति तव ज्ञानप्रतिबन्धकारणवानीश्वरा- दन्यः संसारी "नान्योऽतोऽस्ति द्रष्ठा नान्योतो डस्ति विज्ञाता" इति श्रुतेः। तत्र किमिद्मुच्य- ते संसारिणः शरीरादपेक्षा ज्ञानोत्पत्तिर्नेश्वर- स्येति! अत्रोच्यते। सत्यं नेश्वरादन्यः संसारी, तथापि देहादिसङ्घातोपाधिसम्बन्ध इष्यतएव घटकरकगिरिगुहाद्युपाधिसम्बन्ध इव व्योम्तः, तत्कृतश्र शब्दप्रत्ययव्यवहारो लोकस्य दृष्टो घटच्छिद्रं करकादिच्छिद्रमित्यादिराकाशाव्य - तिरेकेऽपि, तत्कृता चाकाशे घटाकाशादिभेदमि- थ्याबुद्धिर्द्ष्टा; तथेहापि देहादिसङ्घातोपाधिस- ते।। नन्विति॥ ज्ञाने प्रतिबन्धककारणान्यविद्यारागादीनि श्रुतावत ईश्वरादन्यो नास्तीत्यन्वयः। औपाधिकस्य जीवेश्वरभेदस्य मयोक्तत्वा- नापसद्दान्त इत्याह ॥ अत्रोच्यत इति ॥ तत्कत उपाधिसम्बन्ध- कृतः शब्दतज्जन्यप्रत्ययरूपो व्यवहारः, असङ्कीर्ण इति शेषः। अव्य तिरेके कथमसङूरस्तत्राह॥ तत्कता चेति॥ उपाधिसम्बन्धकते- त्यर्थ: ॥ तथेति॥ देहादिसम्बन्धस्य हेतुरविवेकोनायविद्या तया कत इत्यर्थः । अविधाया हि प्रतिविम्बो जीवः, बिम्बचैतन्यमीश्वर
Page 136
सू· ई। अ . ५] शाङ्करत्रह्मसूत्रभाष्ये (१२७)
दृश्यते चात्मन एव सतो देहादिसड्घाते अना- त्मन्यात्मत्वाभ्िनिवेशोमिथ्याबुद्दिमात्रेण पूर्वपू- र्वेण, सति चैवंसंसारित्वे देहाद्यपेक्षमीक्षितृत्वमु- पपन्नं संसारिणः।यदप्युक्तंप्रधानस्यानेकात्मक त्वात् मृदादिवत् कारणत्वोपपत्तिर्नासंहतस्य ब्र- ह्रण इति, तत् प्रधानस्याशब्दत्वेनैव प्रत्युक्तम्। यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वो- ढुं शक्यते न प्रधानादीनां तथा प्रपञ्चयिष्यते "न विलक्षणत्वादस्य" इत्येवमादिना ॥५॥ अत्राह। यदुक्तं, नाचेतनं प्रधानं जगत्कारण- मीक्षितत्वश्रवणादिति, तदन्यथाप्युपपद्यते। इतिभेदोऽविद्याधीनसत्ताकः । अनादिभेदस्य कार्यत्वायोगात्। का- र्यबुद्ध्यादिकुतप्रमान्नादिभेदश्र कार्य एवेति विवेकः। नन्वखण्डस्व- प्रकाशात्मनि कथमविवेकः तत्राह ॥ दृश्यते चेति॥ वस्तुतो दे- हादिभिन्नस्वप्रकाशस्यैव सत आत्मनो नरोऽहमिति भ्रमो दष्टत्वा- हुरपङ्गवः। सच मिथ्याबुद्धया मीयत इति मिथ्याबुद्दिमात्रेण भ्रान्ति- सिद्धाज्ञानेन कल्पित इति चकारार्थः । यद्दोक्तमिथ्याबुद्दौ लोकानुभ- वमाह, । दृश्यते चेति॥ इत्थंभावे तृतीया। भ्रान्त्यात्मना दृश्यत इत्यर्थः । पूर्वपूर्वभ्रान्तिमात्रेण दृश्यते न च प्रमयेति वार्थः। कूटस्थ- स्यापि मायिकं कारणत्वं युक्तमित्याह॥ यथा तिति॥ यच्ववेये श- व्दशक्तिग्रहायोग इति तन्न। सत्यादिपदानामबाधितादयर्थेषु लोका- वगतशक्तिकानां
Page 137
(१२८) रत्नप्रभाभासिते [भ०१।पी." अचेतनेऽपि चेतनवदुपचारदर्शनात् यथा प्र- त्यासन्नपतनतां नद्या: कूलस्यालक्ष्य कूलं पि- पतिषतीत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्ट- स्तद्वद्चेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतन- वदुपचारो भविष्यति तदैक्षतेति। यथा लोके क- श्रिच्चेतन: स्नात्वा भुक्का चापराके ग्रामं रथेन गमिष्यामीतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नि- यमेन प्रवर्तते तस्माच्चेतनवदुपचर्यते। कस्मा- त् पुनः कारणात् विहाय मुख्यमीक्षितत्वमौप- चारिकं कल्प्यते! "तत्तेज ऐक्षत" "ता आप ऐ- क्षन्त" इति चाचेतनयोरत्ेजसोश्रेतनवदुषचा- रदर्शनात्। तस्मात् सत्कर्तकमपीक्षणमौपचा- रिकमिति गम्यते। उपचारप्राये वचनादित्येवं प्राप्ते इदं सूत्रमारभ्यते॥
यदुक्तं प्रधानमचेतनं सच्छ्दवाच्यं तस्मि- स्थितं। सम्प्रत्युत्तरसूत्रं निरस्याशङ्गामाह॥अत्राहेति॥ अन्यथापि। अचेतनत्वेऽपि। ननु प्रधानस्य चेतनेन किं साम्यं येन गौणमीक्षण- मिति तत्राह॥ यथेति ॥ नियतक्मवत् कार्यकारित्वं साम्यमित्य- र्थः॥ उपचारप्राये वचनादिति॥ गौगार्थप्रचुरे प्रकरणे समाम्रा-
Page 138
सू० ४। अ० ४।] शाङ्करत्रह्मसूत्रभाष्ये (१२९) न्नौपचारिका ईक्षतिः अप्तेजसोरिवेति तदसत्। कस्मात्। आत्मशब्दात्। "सदेव सोम्येदमग्र आसीत्"'इत्युपक्रम्य "तदैक्षत""तत्तेजोऽसृज- त" इति च तेजोऽवन्नानां सृष्टिमुक्ता तदेव प्रक- तं सदीक्षित तानि च तेजोऽबन्नानि देवताशब्दे- न परामृश्याह, "सेयं देवतैक्षत" "हन्ताहमि- मास्तिस्त्रो देवता अनेन जीवेनात्मनानुप्रवि- श्य नामरूपे व्याकरवाणि" इति। तत्र यदि प्र- धानमचेतनं गुणवत्त्येक्षित कल्प्येत तदेव प्रक- तत्वात् सेयं देवतेति परामृश्येत, न तदा देवता जीवमात्मशब्देनाभिदध्यात्। जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता प्रसिद्धे- निर्वचनाच्च।स कथमचेतनस्य प्रधानस्य आ- त्मा अवेत्? आत्मा हि नाम स्वरूपं, नाचेत- नस्य प्रधानस्य चेतनो जीव: स्वरूपं भवितु- तादित्यर्थः । अप्ेजसोरिवाचेतने सति गौण ईक्षतिरिति चेतू, न, आत्मशब्दात् सतश्वेतनत्वनिश्वयादिति सूत्रार्थमाह॥ यदुक्तमित्या- दिना।I सा प्रकता सच्छब्दवाच्या इयमीक्षित्री देवता परोक्षा हन्त
देवता इति द्वितीयाबहुवचनं, अनेन पूर्वकल्पानुभूतेन जीवेनात्मना मम स्वरूपेण ता अनुप्रविश्य तासां भोग्यत्वाय नाम च रूपं च स्थूलं करिण्यामीत्यैक्षतेत्यन्वयः। लौकिकप्रसिद्धेर्जीव प्राणधारण इति धातो- १७
Page 139
(१३०) रत्नप्रभाभासिते [अ० १पा०१। मर्हति; अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ प- रिग्टत्येत, तस्य जीवविषय आत्मशव्दप्रयोग उपपद्येत। तथा "सय एषोऽणिमैतदात्म्यमिदं सर्व तत् सत्यं स आत्मा तत्त्वमसि श्र्वेतकेतो" इत्यत्र स आत्मेति प्रकृतं सदणिमानमात्मान- मात्मशब्देनोपदिश्य "तत्त्वमसि श्ेतकेतो" इ- ति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति। अ- त्ेजसोस्तु विषयत्वाद् अचेतनत्वं नामरूप- व्याकरणाद़ौ च प्रयोज्यत्वेनैव निर्देशात्, न चात्मशब्दवत् किश्चिन्मुख्यत्वे कारणमस्तीति र्जीवति प्राणान् धारयतीति निर्वचनाञ्चेत्यर्थः॥ अथ त्विति॥ सवपक्षे तु बिम्बप्रतिविम्बयालोंके भेदस्य कल्पितत्वदर्शनाजीवो ब्रह्मणः सत आत्मेति युक्तमित्यर्थः । जीवस्य सच्छव्दार्थ प्रत्यात्मशव्दात् सन्न प्रधानमित्युक्का सतो जीवं प्रत्यात्मशव्दान्न प्रधानमिति विधान्तरे- ण हे्तु व्याचष्टे। तथेति॥ स यः सदाख्य एषोडणिमा परमसूक्ष्म;ए- तदात्मकमिदं सर्व जगत् तत्सदेव सत्यं विकारस्य मिथ्यात्वात्, सःस पदार्थ: सर्वस्यात्मा हे श्वेतकेतो, त्वं च नासि संसारी, किं तु त देव सर्द्वाधितं सर्वात्मकं व्रह्मासीति श्रुत्यर्थः। इत्यत्रोपदिशतिअ- तश्रेतनात्मकत्वात् स्चेतनमेवेति वाक्यशेषः। यदुक्तमनेजसोरिव सत ईक्षणं गौणमिति तत्राह। अतेजसोस्त्विति॥ नामरूपयोर्व्यकिरणं सृष्टि:आदिपदोन्नियमनं अपेजसोर्दग्विषयत्वात् सृज्यत्वान्नियम्यत्वा- च्वाचेतनत्वमीक्षणस्य मुख्यत्वे वाधकमस्ति साधकं च नास्तीति हेतो- १ प्रकारान्तरेण।
Page 140
सू० ४। अ० ४] शाङ्करब्रह्मसूत्रभाष्ये (१३१) युक्तं कूलवत् गौणत्वमीक्षितव्वस्य। तयोरपि च सदधिष्ठितत्वापेक्षमेवेक्षितत्वम्। सतस्त्वा- त्मशब्दात् न गौणमीक्षितत्वमित्युक्तुम्। अथो- च्येताचेतनेऽपि प्रधाने अवत्यात्मशब्द: आत्म- नः सर्वार्थकारित्वात्, यथा राज्ञः सर्वार्थकारि- णिभृत्ये भवत्यात्मशब्दो ममात्मा भद्रसेन इ- ति; प्रधानं हि पुरुषस्यात्मनो भोगापवर्गो कुर्व- दुपकरोति राज्ञ इव भृत्यः सन्धिविग्रहादिषु व- र्तमानः। अथवैक एवात्मशब्दश्र्वेतनाचेतनवि- षयो भविष्यति भूतात्मेन्द्रियात्मेति च प्रयोग- दर्शनात्, यथैक एव ज्योतिःशब्द: ऋतुज्वल- नविषयः। तत्र कुत एतदात्मशब्दादीक्षतेरगौण- त्वम् मित्यत उत्तरं पठति। र्युक्तमीक्षणस्य गौणत्वमिति योजना; चेतनवत् कार्यकारित्वं गुण: ते- ज ऐक्षत चेतनवत् कार्यकारीत्यर्थः। यद्दा तेजःपदेन तदधिष्ठानं स- ल्वक्ष्यते, तथा च मुख्यमीक्षणमित्याह॥तयोरिति॥स्यादेतत् यादिसत ईक्षणं मुख्यं स्यात्तदेव कुत इत्यतआह॥सतस्त्विति ॥ गौणमुख्य- योरतुल्ययोः संशयाभावेन गौणप्रायपाठस्यानिश्वायकत्वादात्मशब्दा- ञ्च.सत ईक्षणं मुख्यमित्यर्थः। आत्महितकारित्व गुणयो गा दा त्मश - व्दोऽपि प्रधाने गौण इति शङ्कते ॥ अथेत्यादिना॥ आत्मशब्द: प्रधानेपि मुख्यो नानार्थकत्वादित्याह ॥ अथवेति॥ नानार्थकत्वे दृष्टान्तः ॥ यथेति॥ अथैकज्योतिरिति श्रुत्या सहलदक्षिणाके कर्ता ज्योतिष्टोमे लोकप्रयोगादय्ौ च ज्योतिःशब्दो यथा मुख्यस्तद्ददित्यर्थः।
Page 141
(१३२) रत्नप्रभाभासिते [अ० १।पा० १। तन्निष्ठस्य मोक्षोपदेशात् ॥७॥ न प्रधानसचेतनमात्मशव्दालम्वनं कवितुमर्हति "स आत्मा" इति प्रकतं सदणिमानमादाय "तत्वमसि श्वेतकेतो" इति चेतनस्य श्ेतकेतो- र्मोक्षयितव्यस्थ तन्निष्ठामुपदिश्य "आचार्यवा- न् पुरुषो वेढ" तस्य तावदेव चिरं यावन्न विमो- क्ष्ये अथ सम्पत्स्ये" इति मोक्षोपदेशनात्। य- दि व्वचेतनं प्रधानं सच्छब्दवाच्यं तदसीति ग्रा- हयेत् सुमुक्षुं चेतनं सन्तमचेतनोऽसीति तदा विपरीतवादिशासर पुरुषस्यानर्थाेत्यप्रमाणं स्यात्; नतु निर्दोषशास्त्रमप्रमाणं कल्पयितुं युक्त- मू। यदि चाजस्य सतो मुमुक्षोरचेतनमनात्मा- नमात्मेत्युपदिशेत् प्रमाणभूतं शासत्रं, स श्रद्दधा- नतयान्धगोलाङ्गूलन्यायेन तदात्मदृष्टिंन परि- तस्मिन् सत्पदार्थे निष्ठा अभेदज्ञानं यस्य स त्निष्ठस्तस्य मुक्तिश्रव- णादिति सूत्रार्थमाह ॥ नेत्यादिना॥ श्रुतिः समन्वयसूत्रे व्याख्या- ता। अनर्थायेत्युक्तं प्रपश्चयति ॥ यदि चाजस्येति॥ कश्ष्वत् किल दुष्टात्मा महारण्यमार्गे पतितमन्वं स्वबन्धुनगरं जिगमिषुं बभाषे कि- मत्रायुष्मता दुःखितेन स्थीयत इति स चान्धः सुखवाणीमाकर्ण्य त- मापं मत्वोवाच अहो मन्भागधेयं यदत्र भवान् मां दीनं स्वाभीष्टनग- रप्रात्त्यसमर्थ भाषत इति स च विप्रलिप्सुर्टुष्टगोयुवानमानीय तदी- यलाङ्-गूलं अन्धं ग्राहयामास, उपदिदेश च एनमन्धं एष गोयुवा
Page 142
सू० ५/अ० ५] शाङ्गरब्रह्मसूत्रभाष्ये (१३३ ) त्यजेत्, तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत, त- था सति पुरुषार्थाद्विहन्येतानर्थ चर्च्छेत्। तस्मा- दथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथा- भूतमुपदिशति तथा मुमुक्षोरपि "सआत्मा" "तत्वमसि श्वेतकेतो" इति यथाभूतमेवात्मानमु- पदिशतीति युक्तम्। एवं च सति तप्तपरशुग्रहण- मोक्षदृष्ठान्तेन सत्याभ्िसन्धस्य मोक्षोपदेश उपपद्यते। अन्यथा हि अमुख्ये सदात्मतत्वो- पदेशे अहमुक्थमस्मीति विद्यादितिवत् सम्प- न्मात्रमिदमनित्यफलं स्यात्। तत्र मोक्षोपदेशो नोपपद्येत; तस्मान्न सदणिमन्याव्मशब्दस्य गौणत्वं, भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वा- दुपपन्नो गौण आत्मशब्दो ममात्मा भद्रसेन त्वां नगरं नेष्यति, मा त्यज लाङ्गूलमिति स चान्धः श्रद्दालुतया तदत्यजन् स्वाभीष्टमप्राप्यानर्थपरम्परां प्राप्तः, तेन न्यायेनेत्यर्थः॥ त- था सतीति॥ आत्मज्ञानाभावे सति विहन्येत मोक्षं न प्राप्नुयात प्र- त्युतानर्थसंसारं च प्राप्तुयादित्यर्थः । ननु जीवस्य प्रधानैक्यसम्पदु- पासनार्थमिदं वाक्यमस्त्विति तत्राह ॥ एवं च सतीति॥ अबाधि- तात्मप्रमायां सत्यामित्यर्थः। कस्यचिदारोपितचोरत्वस्य सत्येन तमं परशुं गृह्लतो मोक्षो दृष्टः तद्दृष्टान्तेन सत्ये ब्रह्मणि अहमित्यभिस- न्धिमतः मोक्षो यथा सत्याभिसन्धः तप्तपरशुं गृह्णाति स न दहते अथ सुच्यत इति श्रुत्योपदिष्टः स उपदेशः सम्पत्पक्षे न युक्त इत्याह ॥अन्यथेति॥ देहमुत्थापयतीत्युक्थं प्राणस्तस्मान्मोक्षोपदेशान्मुख्ये
Page 143
(१३६) रत्नप्रभाभासिते [अ० १। पा०।] भूदिति मुख्यमात्मानमुपदिदिक्षुस्तस्य हेयत्वं ब्रूयात्। यथा अरुन्धतीं दिदर्शयिपुः तत्समीप- स्थां स्थूलां ताराम् मुख्यां प्रथममरुन्धतीति ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहयति तद्वन्नायमात्मेति ब्रयात्। न चैवमवो- चत्। सन्मान्रावगतिनिष्ठैव हि पत्टप्रपाठकप- रिसमाप्तिर्दश्यते। चशब्दः प्रतिज्ञाविरोधाभ्यु- च्चयप्रदर्शनार्थः। सत्यपि हेयत्ववचने प्रतिज्ञावि- रोधः प्रसज्येत कारणविज्ञानाद्वि सर्व विज्ञात- मिति प्रतिज्ञानम्। उत तमादेशमप्राक्षः, येना- त्तरत्वेन सूत्रव्याख्यानं नातीव शोभते, इत्यरुचेराह ॥ अथ वेति॥ निरसता समस्ता गौणत्वनानार्थत्वशङ्का यस्यात्मशव्दस्य स तच्छङ्कस्तस्य भावस्तत्ता तया इत्यर्थः ॥ तत इति ॥ सत आत्मशव्देन जीवाभि- नत्वादिति हेत्वपेक्षया मोक्षोपदेशः स्वतन्त्र एव प्रधानकारणत्वनि- रासे हेतुरित्यर्थः। ननु यथा कश्िविदरुन्धतीं दर्शयितुं निकटस्थां स्थू- लां तारां अरुन्धतीत्वेनोपदिशति तद्ददनात्मन एव प्रधानस्य सत्प- दार्थस्यात्मत्वोपदेश इति शङ्कते॥ कुतश्रेति॥ प्रधानं सच्छव्दवाच्यं नेति कुत इत्यर्थः । सौत्रश्कारोऽनुक्तसमुच्चयार्थ इत्याह ॥ चश़ब्द इति ॥ विवृणोति॥ सत्यपीति॥ अपिशव्दान्नास्त्येवेति सूचयति। वेदानधीत्यागतं स्ैव्धं पुत्रं पितोवाच, हे पुत्र उत अपि आदिश्यत इत्यादेश: उपदेशैकलभ्यः सदात्मा तमप्यप्राक्षः गुरुनिकटे पृष्टवान- सि यस्य श्रवणेन मननेन विज्ञानेनान्यस्य श्रवणादिकं भवतीत्यन्वयः । निन्वन्येन ज्ञातेन कथमन्यदज्ञातमपि ज्ञातं स्यादिति पुत्रः शङ्ते : १ अनम्रम्।
Page 144
सू०१।अ०५] शाङ्कसत्रह्मसूत्रभाष्ये (१३७ ) श्रुतं श्रुतं भवति अमतं मतं, अविज्ञातं विज्ञा- तम्,, इति।"कर्थ नु भगवः स आदेशो अ्वति,, इति। यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात्, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं,एवं सोम्य सआदेशो भ्वति" इति वाक्योपक्रमेश्रवणात्। नच सच्छब्दवा- च्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोकतवर्गो विज्ञातो भवति अप्रधा- नविकारत्वाद्गोक्तृवर्गस्य, तस्मान्न प्रधानं स- च्छब्दवाच्यम। कुतश्र न प्रधानं सच्छव्दवाच्यम्।। ॥ कथमिति॥ हे भगवः कथं नु खलु स भवतीत्यर्थः कार्यस्य का- रणान्यत्वं नास्तीत्याह ॥ यथेति॥ पिण्डः स्वरूपं तेन विज्ञातेनेति शेषः। तत्र युक्तिमाह ॥वाचेति। वाचा वागिन्द्रियेणारभ्यत इति वि- कारो वाचारम्भणम् ननु वाचा नामैवारभ्यते न घटादिरित्याशङ्ड्च नाममात्रमेव विकार इत्याह॥नामधेयमिति। "नामधेयं विकारोऽ- यं वाचा केवलमुच्यते वस्तुतः कारणाज्जिन्ो नास्ति तस्मान्मृषैव स इति भाव:। विकारमिथ्यात्वे तदभिन्नकारणस्यापि मिथ्यात्वमिति नेत्याह॥ मृत्तिकेति॥ कारणं कार्याद्विन्नसत्ताकं, न कार्य कारणा- ्विन्ं, अतः कारणातिरिक्तस्य कार्यस्वरूपस्याभावात् कारणज्ञाने- न तज्ज्ञानं भवतीति स्थिते दार्टान्तिकमाह ॥ एवमिति॥ मृद्द- द्रह्मैव सत्यं वियदादिविकारो मृषेति ब्रह्मज्ञाने सति ज्ञेयं किश्चिन्ना- वशिष्यते इत्यर्थः। यद्पि प्रधाने ज्ञाते तत्तादात्म्याह्दिकाराणां ज्ञानं भवति न पुरुषाणां, तेषां प्रधानविकारत्वाभावादित्याह ॥। न चेति।। १८
Page 145
(१३८) रत्नप्रभाभासिते [अ० १।पा०।
स्वाप्ययात् ॥। ९॥ तदेव सच्छ्दवाच्यं कारणं प्रकृत्य श्रूयते "यत्रैत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नी वति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ख्यपीतो भ्रवति" इति ए- षा श्रुतिः स्वपितीत्येतत् पुरुपस्य लोकप्रसिद्धं नाम निर्वक्ति। स्वशव्देनेहात्मोच्यते यः प्रकृतः सच्छब्दवाच्यस्तमपोतो भवत्यपिगतो भ्रवती- व्यर्थः। अपिपूर्वस्य एतेर्लयार्थत्वं प्रसिद्ध, प्रभ- वाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात्। मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान् अस्माकं जीवानां संद्रूपत्वात्तज्ज्ञाने ज्ञानमिति भावः॥ कुतश्रेति॥ पुनरपि करमाद्वेतोरित्यर्थ:, सुषुप्तौ जीवस्य सदात्मनि स्वस्मिन् अ- प्ययश्रवणात् सच्चेतनमेवेति सूत्रयोजना। एतत् सवपनं यथा स्यात्तथा यत्र सुषुप्तौ स्वपितीति नाम भवति तदा पुरुषः सता सम्पन्न एकी- भवति सदैक्येऽपि नामप्रवृत्तिः कथं तत्राह॥ स्वमिति॥ तत्र लोक- प्रसिद्धिमाह॥ तस्मादिति ॥ हि यस्मात् स्वं सदात्मानमपीतो भव- तीति तस्मादित्यर्थः। श्रुतेस्तात्पर्यमाह॥ एषेत्यादिना ॥ कथमेता- वता प्रधाननिरास इत्यत आह ॥ स्वश्व्देनेति ॥ एतेर्घातोर्गत्यर्थ- स्यापि पूर्वस्य लयार्थत्वेऽपि कथं नित्यस्य जीवस्य लय इत्याशङ्ड्च् उपाधिलयादिति वक्तुं जाग्रत्स्वप्नयोरुपाधिमाह ॥। मन इति॥ ऐन्द्रि- यकमनोवृत्तय उपाधयः, तैर्घटादिस्थूलार्थविशेषाणामात्मना सम्ब- १ ब्रकाभिन्नत्वात्।
Page 146
सू०१०।अ० ५] शाङ्करव्रह्मसूत्रभाष्ये (११९) गृकंस्तद्विशेषापन्नो जीवो जागर्ति, तदासना विशिष्टः स्वन्नान् पश्यन् मनःशब्दवाच्यो भव- ति, स उपाधिद्वयोपरमे सुषुप्तावस्थायाम् उपा- धिकृतविशेषाभावात् स्वात्मनि प्रलीन इवेति स्वं त्यपीतो भवतीत्युच्यते।यथा हृदयं शब्दनि- र्वचनं श्रुत्या दर्शितम् "सवा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृदयम्" इति, तस्माडृदयमि- ति, यथा वा अशनायोदन्याशब्दप्रवत्तिमूलं द- र्शयति श्रृतिः "आप एव तदशितं नयन्ते तेज एव तत्पीतं नयते" इति च, एवं "स्वमात्मानं सच्छ्दवाच्यमपीतो भवति" इति इममर्थ स्व- पितिनामनिर्वचनेन दर्शयति। नच चेतन आत्मा न्धादात्मा तानिन्द्रियार्थान् पश्यन् स्थूलविशेषेण देहेनैक्यभ्रान्तिमा- पन्नो विश्वसंज्ञो जागर्ति जाग्रहासनाश्रयमनोविशिष्टः सन् तैजससं- ज्ञः रवप्े विचित्रवासनासहकृतमायापिणामान् पश्यन् "सोम्य त- न्मनः" इति श्रुतिस्थमनःशब्दवाच्यो भवति, स आत्मा स्थूलसूक्ष्मो- पाधिद्दयोपरमेऽहं नरः कर्तेति विशेषाभिमानाभावाल्ीन इत्युपचर्य- त इत्यर्थः। ननु स्वपितीति नामनिरुक्तेरर्थवादत्वान्न यथार्थतेत्यत आ- ह। यथेति॥ तस्य हृदयशव्दस्यैतन्निर्वचनं "तदशितमन्नं द्रवीकृत्य नयन्ते जरयन्तीत्याप एवाशनायापदार्थ: तत्पीतं उदक नयते शोषय- ति" इति "तेज एवोदन्यं" अंत्र दीर्घश्छान्दसः। एवमिदमपि निर्वच- नं यथार्थमित्याह॥ एवमिति॥ इदं च प्रधानपक्षे न युक्तमित्याह॥न १ अशनायाशब्दे।
Page 147
(१४०) रत्नप्रभाभासिते अ० १। पा० १। अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत। यदि पुनः प्रधानमेवात्मीयत्वात् स्वशब्देनैवोच्येतै- वमपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येत, श्रुत्यन्तरं च "प्राज्ञेनात्मना सम्परिष्वक्तो न बात्यं किं च न वेद नान्तरम्" इति सुपुप्तावस्था- यां चेतनेऽप्ययं दर्शयति, अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छव्दवाच्यं जगतः कारणं, न प्रधानम्। कुतश्र न प्रधानं जगतः कारणम्। गतिसामान्यात् ॥१०॥ यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना का- रणावगतिरभविष्यत् क्वचिच्चेतनं ब्रह्म जगतः कारणम् क्वचिदचेतनं प्रधानं क्वचिदन्यदेवेति ततः कदाचित् प्रधानकारणवादानुरोधेनापी क्षत्यादिश्रवणमकल्पयिष्यत्, न व्वेतदस्ति, समानैव हि सर्वेषु वेदान्तेषु चेतनकारणा-
प्राज्ञेन विम्बचैतन्येनेश्वरेण सम्परिष्वङ्गो भेदत्रमाभावेनाभेदइत्यर्थः। तत्तदेदान्तजन्यानामवगतीनां चेतनकारणविषयकत्वेन सामान्यान्न चेतनं जगतः कारणमिति सूत्रार्थ व्यतिरेकमुखेनाह॥यदि तार्किके- त्यादिना। अन्यत् परमाण्वादिकम्॥ न त्वेतदिति। अवगतिवैध-
Page 148
सू०११। अ.५] शाङ्करव्रह्मसूत्रभाष्ये (१8) वगतिः, यथाग्नेर्ज्वलतः सर्वा दिशो विस्फु- लिङ्गा विप्रतिष्ठेरन, एवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते। "प्राणेभ्यो दे- वा देवेभ्यो लोकाः" इति "तस्माद्वा एतस्मादा- त्मन आकाशः सम्भूतः इति "आत्मन एवेदं सर्वम्" इति "आत्मन एष प्राणो जायते" इति चात्मन: कारणत्वं दर्शयन्ति सर्वेवेदान्ताः।आ- त्मशब्दश्र चेतनवचन इत्यवोचाम। महच्च प्रा- माण्यकारणमेतद्यद्वेदान्तवाक्यानां चेतनकार- णत्वे समानगतित्वं चक्षुरादीनामिव रूपादिषु, अतो गतिसामान्यात् सर्वज्ञं ब्रह्म जगतः कार- णम्। कुतश्र सर्वज्ञं ब्रह्म जगतः कारणम्। श्रुतत्वाच्च॥११॥ स्वशब्दनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति म्यमित्यर्थः । विप्रतिष्ठेरन् विविधं नानादिशः प्रतिगच्छेयुः प्राणाश्- क्षुरादयो यथा गोलकं प्रादुर्भवन्ति प्राणेभ्योऽनन्तरं देवाः सूर्यादयस्त- दनुग्राहकाः, तदनन्तर लोक्यन्त इति लोका विषया इत्यर्थः। ननु वे- दान्तानां स्वतः प्रामाण्यत्वेन प्रत्येकं स्वार्थनिश्वायकत्वसम्भवात् किं गतिसामान्येनेत्याह॥ महच्वेति ॥ एकरूपावगतिहेतुत्वं वेदान्तानां प्रामाण्यसंशयनिवृत्तिहेतुरित्यत्र दृष्टान्तमाह॥ चक्षुरिति॥ यथा स- वेषां चक्षुषां एकरूपावगतिहेतुत्वं श्रवणानां शब्दावगतिहेतुत्वं घ्रा- णादीनां गन्धादिषु, एवं ब्रह्मणि वेदान्तानां गतिसामान्यं प्रामाण्य-
Page 149
(१४२) रत्नप्रभाभासिते [अ० १।पा० १ श्रयते श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमी श्वरं प्रकृत्य "न तस्य कशरिित्पतिरस्ति लोके, न- चेशिता नैव च तस्य लिङ्गम्, स कारणं करणा- धिपाधिपो न चास्य कश्िज्निता ने चाधिपः" इति, तस्मात् सर्वज्ञं ब्रह्म जगतः कारणं, नाचेत नं प्रधानमन्यद्वेति सिद्धम् ॥ ११ ॥ "जन्मा- दस्य यत" इत्यारभ्य "श्रुतत्वाच्चे" त्येवमन्तैः सूत्रैर्यान्युदाहतानि वेदान्तवाक्यानि,तेषां सर्वज्ञ: सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारण- मित्येतस्यार्थस्य प्रतिपादकत्वम् न्यायपूर्वकं प्रतिपादितम्। गतिसामान्योपन्यासेन च स- र्वे वेदान्ताश्षेतनकारणवादिन इति व्याख्यातं दार्ढर्यहेतुरित्यर्थः एवमीक्षत्यादिलिड्गैरचेतने वेदान्तानां समन्वयं नि- रस्य चेतनवाचकशव्देनापि निरस्यति॥ श्रुतत्वाच्चेति॥ सूत्रं व्याच- ष्े॥ स्वशब्देनेति ॥ स्वस्य चेतनस्य वाचकः"सर्वविच्छव्दज्ः का- लकालो गुणी सर्वविधः"इति सर्वजञं परमेश्वरं प्रकृत्य "स सर्ववित् कारणं" इति श्रुतत्वान्नाचेतनं कारणमिति सूत्रार्थः ।करणाधिपा जीवास्तेपामधिपः, अधिकरणार्थमुपसंहरति ॥ तस्मादिति॥ ईक्ष- णात्मशव्दादिकं परमाण्वादावप्ययुक्तमिति मत्वाह ॥ अन्यद्वेति॥ । १.१ ॥ वृत्तानुवादेनोत्तरसूत्रसन्दर्भमाक्षिपति॥ जन्मादीति ॥ प्र- थमसूत्रस्य शास्त्रोपोद्दातत्वात् जन्मादिसू त्रमारभ्येत्युक्तं सर्ववेदान्तानां कार्ये प्रधानावचेतने च समन्वयनिरासेन ब्रह्मपरत्वं व्याख्यातम्, अतः प्रथमाध्यायार्थस्य समापत्वादुत्तरग्रन्थारम्भे कि कारणमित्यर्थः,
Page 150
सू०११। अ० ५॥] शाङ्गरव्रह्मसूत्रभाष्ये (१४२) अतः परस्य ग्रन्थस्य किमुत्थानमिति उ- च्यते,द्विरूपं हि ब्रह्मावगम्यते नामरूपविकार- भदोपाधिविशिष्टं, तद्विपरीतं च सर्वोपाधिविव- जितम्। "यत्र हि द्वैतमिव अ्रवति तदितर इतरं प- श्यति, यत्र व्वस्य सर्वमात्मैवाभूत्तत् केन कंपश्ये- त्, यत्र नान्यत् पश्यति नान्यच्छणोति नान्यद्वि- जानाति सभूमा, अथ यत्रान्यत्पश्यत्यन्यच्छृणो- वेदान्तेषु सगुणनिर्गुणव्रह्मवाक्यानां बह्ुलमुपलव्धेः। तत्र कस्य वाक्य- स्य सगुणोपासनाविधिद्वारा निर्गुणे समन्वयः कस्य वा गुणविवक्षां विना साक्षादेव ब्रह्मणि समन्वय इत्याकाङ्गैव कारणमित्याह॥ उच्यत इति॥ सङ्गिप्य सगुणनिर्गुणवाक्यार्थमाह॥ द्विरूपं हीति॥ नामरू- पात्मको विकार: सर्व जगत् तज्जेदो हिरण्यश्मश्रुत्वादिविशेष इति वाक्यार्थः। वाक्यान्युदाहरति ॥ यत्र हीत्यादिना॥ यस्यां खल्व- ज्ञानावस्थायां द्वैतमिव कल्पितं भवति तत्तदेतरः सन्नितरं पश्यतीति दृश्योपाधिकं वस्तु भाति। यत्र ज्ञानकाले विदुषः सर्व जगदात्ममात्र- मभूत्तदा तु केन कं पश्येदित्याक्षेपान्निरुपाधिकं तत्वं भाति, यत्र भूम्नि निश्चितो विद्दान् द्वितीयं किमपि न वेत्ति सोऽद्दितीयो भूमा प- रमात्मा निर्गुणः । अथ निर्गुणोक्त्यनन्तरं सगुणमुच्यते, यत्र सगुणे स्थितो द्वितीयं वेत्ति तदल्पं परिच्छिन्नं, यस्तु भूमा तदमृतं नित्यम् ॥ अथेति॥ पूर्ववत् व्याख्येयम्। धीरः परमात्मैव सर्वाणि रूपाणि विचित्य सृष्टा नामानि च कत्वा बुद्धयादौ प्रविश्य जीवसंज्ञो व्यव- हरनू यो वर्त्तते, ससगुणसं निर्गुणत्वेन विद्दानप्यमृतो भवति, निर्गताः कला अंशा यस्मान्तन्निष्कलं, अतो निरंशत्वान्निष्क्रियं, अतः शान्तम- १ भूमामृतोस्तयनन्तरमित्यर्थोथ शष्दस्य व्याख्येय इति भाव:।
Page 151
(१४४) रत्नप्रभाभासिते [अ. १पा०१। त्यन्यद्विजानाति, तदल्पं, यो वै भूमा, तदमृतं, अथ यदल्पं, तन्म्व्य, सर्वाणि रूपाणि विचित्य धीरः, नामानि कृत्वाभिवदन् यदास्ते, निष्कलं निष्क्रियं शान्तं निरवद्यं निरख्नं, अमृतस्य परं सेतुं दग्धेन्धनमिवानलं, नेति नेत्यात्मा अस्थूल- मनणुम-्हस्वमदीर्घम्" इति "न्यूनमन्यत् स्था- नं, सम्पूर्णमन्यत्" इति च, एवं सहस्रशो वि- द्याविद्याविषयभेदेन ब्रह्मणो द्िरूपतां दर्शय न्ति वाक्यानि। तत्राविद्यावस्थायां ब्रह्मण उ- परिणामि निरवयं रागादिदोषशून्यं, अज्जनं मूलैतमःसम्बन्धो धर्मा- दिकं वा तच्छून्यं निरञ्जनं, किश्चामृतस्य मोक्षस्य स्वयमेव वाक्योत्थ- वृत्तिस्थत्वेन परमुत्कष्टं सेतुं लौकिकसेतुवत् प्रापकं यथा दग्धेन्धनो- नल: शाम्यति तमिवाविद्या तज्जं दग्ध्वा प्रशान्तं निर्गुणमात्मानं वि- य्यादित्यर्थः ॥ नेति नेतीति॥ व्याख्यातं। स्थूलादिदैतशून्यम्। रूप- इये श्रुतिमाह॥ न्यूनमिति॥ द्वैतस्थानं न्यूनं अल्पं सगुणरूपं नि- र्गुणादन्यत् तथा सम्पूर्ण निर्गुणं सगुणादन्यदित्यर्थः, एकस्य िरूप- त्वं विरुद्धमित्यत आह॥ विद्येति॥ विद्याविषयो ज्ञेयं निर्गुणं सत्यं, अविवाविषय उपास्यं सगुणकल्पितमित्यविरोधः । तत्राविद्याविष- यं विवृणोति॥ तत्रेति ॥ निर्गुणज्ञानार्थमारोपितप्रपश्चमाश्रित्य बो- धातू प्राक्काले गुडजिह्विकान्यायेन तत्फलार्थान्युपासनानि विधीयन्ते तेषां चित्तैकाय्यद्वारा ज्ञानं मुख्यं फलमिति तद्दाक्यानामपि महातात्प- ये ब्रह्मणीति मन्तव्यं, नामव्रह्मेत्याययुपास्तीनां कामचारादिरम्युदय:फ- लं,दहराघुपास्तीनां क्रममुक्ति: उद्ीथादिध्यानस्य कर्मसमृद्धिःकलमिति १ कारणाविद्यासम्बन्ध इत्यर्थः।
Page 152
सु. ११। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१४५) पास्योपासकादिलक्षणः सर्वो व्यवहारः। तत्र कानिचित् ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित् क्रममुत्त्यर्थानि, कानिचित् कर्मसमृ- द्वयर्थानि,तेषां गुणविशेषोपाधिभेदेन भेद:।ए- क एव तु परमात्मेश्वरस्तैस्तैर्गणविशेषैरविशिष्ठ उपास्यो यद्यपि भवति, तथापि यथागुणोपा- सनमेव फलानि भिद्यन्ते "तंयथा यथोपासते तदेव अवति" इति श्रुतेः "यथा क्तुरस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य अवति" इति च।स्मृतेश्र। "यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्ावभावितः' इति॥ यद्प्येक एव आत्मा सर्वभूतेषु स्थावरज- ङ्रमेषु गूढस्तथापि चित्तोपाघिविशेषतारतम्यात् आत्मनः कूटस्थनित्यैकरूपस्याप्युत्तरोत्तरमा- विष्कृततारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते "त- भेद:, ध्यानानां मानसत्वातू, ज्ञानान्तरङ्गुत्वाञ्च, ज्ञानकाण्डेविधानमिति भाव:। ननूपास्यत्रह्मण एकत्वातू कथमुपासनानां भेदस्तव्राह तेषा- मिति॥ गुणविशेषा: सत्यकामत्वादयो हृदयादिरुपाधिः । अत्र स्व- यमेवाशङकन्य परिहरति ॥एक इति॥ परमात्मस्वरूपाभेदेऽप्युपा- धिभेदेनोपहितोपास्यरूपभेदादुपासनानां भेदे सति फलभेद इति भा- वः। तं परमात्मानं ययद्रुणत्वेन लोका राजानमिवोपासते तत्तदु-
Page 153
(१४६) रत्नप्रभाभांसिते [अ० १। पा० १। स्य य आत्मानमाविस्तरां वेद" इत्यत्र। स्मृतावपि। यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्। इति यत्र यत्र विभूत्याद्यतिशयःस सईश्वरइत्यु- पास्यतया चोदते, एवमिहापि आदित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिद्गात् पर एवे- ति, वक्ष्यति, एव "माकाशस्तल्लिद्गादि" त्यादि- षुद्रष्टव्यं एवं सद्योमुक्तिकारणमप्यात्मज्ञानमु- णवच्वमेव तेषां फलं भवति, कतुः सङ्कल्पो ध्यानम् इह यादशध्या- नवान् भवति मृत्वा तादशोपास्यरूपो भवतीत्यत्रैव भगवद्दाक्यमाह ॥ स्मृतेश्रेति॥ ननु सर्वभूतेषु निरतिशयात्मन एकत्वादुपास्योपा- सकयोस्तारतम्यश्रुतयः कथमित्याशङ्गां परिहरति॥ यद्यप्येक इति॥ उक्तानामुपाधीनां शुद्धितारतम्यादैश्वर्यज्ञानसुखरूपशक्तीनां तारतम्य- रूपा विशेषा भवन्ति तैरेकरूपस्यात्मन उत्तरोत्तरं मनुष्यादिहिरण्यग- र्भान्तेष्वाविर्भावतारतम्यं श्रूयते। तस्यात्मन आत्मानं स्वरूपमाविस्तरां प्रकटतरं यो वेद उपास्ते सोऽश्रुते तदिति तरप्प्रत्ययादित्यर्थः। तथा च निकष्टोपाधिरात्मैवोपासकः उत्कष्टोपाधिरीश्वर उपास्य इत्यौपाधिकं तारतम्यमविरुद्धमिति भावः। अत्रार्थे भगवद्गीतामुदाहरति॥ स्मता- विति॥ अत्र सूर्यादेरपि न जीव्रत्वेनोपास्यता किं त्वीश्वरत्वेनेत्युक्तं भवति। तत्र सूत्रकारसम्मतिमाह ॥ एवमिति॥ उदयः असम्बन्धः एवं यस्मिन् वाक्ये उपाधिर्विवक्षितः तद्दाक्यमुपासनापरमिति वक्तु- मुत्तरसुन्नसन्दर्भस्यारम्भ इत्युक्का यत्र न विवक्षित: तद्दाक्यं ज्ञेयब्रह्म- परमिति निर्णयार्थमारम्भ इत्याह ॥ एवं सद इति ॥अन्नमयादि- कोशा उपाधिविशेषाः, वाक्यगतिस्तात्पर्यम् । आरम्भसमर्थनमुपसं-
Page 154
सू० १२ अ० ५॥] शाङरव्रह्मसूत्रभाष्ये (१४७) पाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितो- पाधिसम्बन्धविशेषं परापरविषयं परापरविष- यत्वेन सन्दित्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवति।यथैव हिताव "दानन्दमयो- डभ्यासा" दिति, एवमेकमपि ब्रह्मापेक्षितोपा- धिसम्बन्धं निरस्तोपाधिसम्बन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषु उपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते। यञ्च "गतिसामान्यादि"- त्यचेतनकारणनिराकरणमुक्तं तदपि वाक्यान्त- राणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीत- कारणनिषेधेन प्रपञ्च्यते॥ आनन्दमयोऽभयासात्॥१२॥ तैत्तिरीयके "अन्नमयं""प्राणमयं""मनो- हरति ॥ एवमेकमपीति ॥ सिद्धवटुक्तगतिसामान्यस्य साधनार्थ- मप्युत्तरारम्भ इत्याह। यञ्चेति ॥ अन्नं प्रसिद्धं प्राणमनोबुद्दयः हिरण्यगर्भरूपाः, बिम्बचैतन्यमीश्वर आनन्दः "तेषां पञ्चानां विकारा आध्यात्मिका देहप्राणमनोबुद्धिजीवा अन्मयादयः पञ्चकोशाः "इ- ति श्रुते: परमार्थः। पूर्वाधिकरणे गौणमुख्येक्षणयोरतुल्यत्वेन संशया- भावाद्वौणप्रायपाठो न निश्रायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्यत्वात् संशये विकारप्रायपाठादानन्दविकारो जीव आनन्दम- य इति निश्रयोऽस्तीति प्रत्युदाहरणसङ्गत्या पूर्वपक्षमाह॥कस्मादि- ति। आकाङ्ापूर्वकं, अन्नमयादीति श्रुत्यादिसङ्गतयः स्फुटा एव,
Page 155
(१४८) रत्नप्रभाभासिते [अ० १।पा० १। मयं""विज्ञानमयं च" अनुक्रम्याम्नायते त- स्माद्वा एतस्मादविज्ञानमयादन्योऽन्तर आत्मा- नन्दमयः" इति। तत्र संशयः। किमिह आनन्द- मयशब्देन परमेव ब्रह्मोच्यते "यत् प्रकृतं सत्यं ज्ञानमनन्तं ब्रह्म" इति, किंवा अन्नमयादिवत् ब्रह्मणोऽर्थान्तरमिति, किं तावत् प्राप्तं ब्रह्मणोS- र्थान्तरममुख्य आत्माआनन्दमयः स्यात्।क- स्मात्, अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात्। अथापि स्यात् सर्वान्तरत्वादानन्दमयो मुख्यए- वात्मेति न स्यात् प्रियाद्यवयवयोगात्, शारी- रत्वश्रवणाच्च।सुख्यश्ेदात्मा आनन्दमयःस्या- न्नप्रियादिसंस्पर्शः स्यात् तस्य इह तु "प्रियमेव शिरः" इत्यादि श्रूयते, शारीरत्वं चश्रूयते "तस्यै- ष एव शारीर आत्मा यः पूर्वस्य" इति तस्य पू- र्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः । न च स शरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः, तस्मात् सं- पूर्वपक्षे वृत्तिकारमते जीवोपास्त्या प्रियादिप्राप्तिः फलं, सिद्धान्ते तु ब्रह्मोपास्त्येति भेद:, शङूते ॥ अथापीति॥ परिहरति ॥ न स्यादि- ति॥ संगृहीतं विवृणोति ॥ मुख्य इति ॥ परमात्मेत्यर्थः, शारीरत्वे- Sपीश्वरत्वं किं न स्यादित्यत आह ॥ न चेति॥ जीवत्वं दुर्वारमि- त्यर्थः । नन्वानन्दपदाभ्यासेऽप्यानन्दमयस्य ब्रह्मत्व कथमित्याश-
Page 156
सू· १२। अ० ५।] शाङ्करत्रह्मसूत्रभाष्ये ( १४९) सार्येवानन्दमय आत्मा इत्येवं प्राप्ते इदमुच्यते, आनन्दमयोऽभ्यासात्, पर एवात्मानन्दम-
त्मन्यानन्दशब्दो बहुकृत्वाऽभ्यस्यते आनन्दम- यं प्रस्तुत्य "रसो वै सः" इति तस्यैव रसत्वमु- कोच्यते। "रसं त्येवायं लब्ध्वानन्दी भवति को त्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् , एष त्येवानन्दयाति, सैषानन्दस्य मीमांसा अवति" 'एतमानन्दमयमात्मानमुप- संक्रामति"।"आनन्दंब्रह्मणो विद्वान्न विभेति कु- तश्चन" इति।"आनन्दोब्रह्मेति व्यजानात्" इति च।श्रुत्यन्तरे च "विज्ञानमानन्दंब्रह्म" इति ब्र- ङ्य ज्योतिष्टोमाधिकारे ज्योतिःपदस्य ज्योतिष्टोमपरत्ववदानन्दम- यप्रकरणस्थानन्दपदस्यानन्दमयपरत्वात् तद्भ्यासस्तस्य ब्रह्मत्वसाधक इत्यभिप्नेत्याह॥आनन्दमय प्रस्तुत्येति॥रसः सार आनन्द इत्यर्थः अयं लोक: यत् यदि एष आकाश: पूर्णः आनन्दःसाक्षी प्रेरको न स्या- तू तदा को वान्याच्चलेत को वा विशिष्य प्राण्याज्जीवेतू तस्मादेष ए- वानन्दयाति, आनन्दयतीत्यर्थः। "युवा स्यात् साधुयुवा" इत्यादिना वक्ष्यमाणमनुष्ययुवानन्दमारभ्य ब्रह्मानन्दावसाना एषा सन्निहिता आनन्दस्य तारतम्यमीमांसा भवति, उपसंक्रामति "विद्दान् प्राप्नोति" इत्येकदेशिनामर्थः। सुख्यसिद्धान्ते तूपसंक्रमणं विदुषः कोशानां प्र- त्यङ्मात्रत्वेन विलापनमिति ज्ञेयं शिष्टमुक्तार्थम् आनन्दशव्दाद्रल्ा- वगतिः सर्वत्र समानेति गतिसामान्यार्थमाह॥ श्रुत्यन्तरे चति॥लि-
Page 157
(१५०) रत्नप्रभाभासिते [अ० १।पा० १। ह्मण्येव आनन्दशब्दो हष्ठः, एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासात् आनन्दमय आत्मा ब्रह्मेति गम्यते। यत्तूक्तं अन्नमयाद्यमुख्यात्मप्र- वाहपतितत्वादानन्दमयस्याप्यमुख्यात्मत्वमि- ति, नासौ दोषः, आनन्दमयस्य सर्वान्तरत्वात्। मुख्यमेव त्यात्मानं उपदिदिक्षु शास्त्रं लोकबुद्धि- मनुसरद् अन्नमयं शरीरमनात्मानमत्यन्तमूढा- नामात्मत्वेन प्रसिद्धमनूद् ूपांनिषिक्तद्रुतता- म्रादिप्रतिमावत् ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मा इति ग्राहयत् प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्िंछत- रमू। यथारुन्धतीनिदर्शने बज्ीष्वपि तारास्व- मुख्यास्वरुन्धतीषु दर्शितासु या अन्ते प्रदर्श्यते सा मुख्यैवारुन्धती भवति, एवमिहाप्यानन्दम- यस्य सर्वान्तरत्वान्मुख्यमात्मत्वम्। यनु ब्रूष दराद् मुख्यात्म सन्निधेर्वाध इति मत्वाह॥ नासाविति॥ सर्वान्तरत्वं नश्रुतमित्याशङ्क्च ततोऽन्यस्यानुक्तेसस्य सर्वान्तरत्वमिति विवृणोति । मुख्यामिति लोकबुद्धिमिति।तस्या: स्थूलग्राहितामनुसरदित्यर्थः ताम्रस्य, मू षाकारत्ववत् प्राणस्य देहाकारत्वं देहेन सामान्यं तथा मनः प्राणाकारं तेर समामत्याह॥ पूर्वेणोति॥ अतीतो योऽनन्तर उपा- भतिसम्वद्धमिर्त यर्थः।
Page 158
(१५१) प्रियादीनां शिरस्त्वादिकल्पना अनुपपन्ना मु- र्यस्यात्मनः इत्यतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः। शारीरत्वमप्यानन्दम- यस्यान्नमयादिशरीरपरम्परया प्रदश्यमानत्वा- तू, न पुनः साक्षादेव शारीरत्वं संसाखिवत्, त- स्मादानन्दमयः पर एवात्मा ॥१२॥ विकारशव्दान्नेति चेन्न प्राचुर्यात्॥।१३।। अत्राहनानन्दमय: पर आत्मा अवितुमर्हति। कस्मात्। विकारशब्दात्, प्रकृतवचनादयमन्यः शब्दो विकारवचनः समधिगत आनन्दमय इ- ति मयटो विकारार्थत्वात्, तस्मादन्नमयादिश- ब्दवत् विकारविषय एवायमानन्दमयशब्द इति चेत्, न, प्राचुर्यार्थेऽयि मयटः स्मरणात्तत्पकृतव- चने मयडिति हि प्रचुरतायामपि मयट् स्मर्यते, यथान्नमयो यज्ञ इति अन्नप्रचुर उच्यते, एव- मानन्दप्रचुरं ब्रह्मानन्दमयं उच्यते। आनन्द प्र-
धिर्विज्ञानकोशस्तत्कता सावयवत्वकल्पना शरीरेण ज्ञेयत्वाच्छारीर- त्वमिति लिङ्गइयं दुर्बलं, अतः सहायाभावादभ्याससर्वान्तरत्वाभ्यां विकारसन्निधेर्बाध इति भावः ॥१२॥ विकारार्थकमयट् श्रुतिसहाय इत्याशङ्क्च मयटः प्राचुर्येडपि विधानान्मैवमित्याह॥विकारेत्यादि- ना ।। तत्प्रकतवचने मयडिति तदिति प्रथमासमर्थाच्छव्दात् प्राचुर्य-
Page 159
(१५२) रत्नप्रभाभासिते [अ० १। पा० १। चुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन् उ- त्तरस्मिन स्थाने शतगुण आनन्द इत्युक्क्ता व्र- ह्मानन्दस्य निरतिशयत्वावधारणात्, तस्मात् प्राचुर्यार्थे मयट्॥ १३॥
इतश्र प्राचुर्यार्थे मयट् यस्मादानन्दहेतुत्वं ब्र- ह्रणो व्यपदिशति श्रुतिः "एष त्येवानन्दया- ति" इति आनन्दयतीत्यर्थः; यो ह्यन्यानानन्द- यति स प्रचुरानन्द इति प्रसिद्वं भवति। यथा लोके योऽन्येषां धनिकत्वमापादयति सप्रचुरध- न इति गभ्यते तद्वत्, तस्मात्, प्राचुर्यार्थेडपि मयटः सम्भवादानन्दमयः पर एव आत्मा॥ १४॥ मान्त्रवर्णिकमेव च गीयते॥ १५॥ इतश्रानन्दमयः पर एवात्मा यस्मात् "ब्र- विशिष्टस्य प्रस्तुतस्य वचनेऽभिधाने गम्यमाने मयद्प्रत्ययो भवतीति सूत्रार्थः। अत्र वचनग्रहणात् प्रकतस्य प्राचुर्यवैशिष्टयसिद्धिः, तादृश- स्य लोके मयटोऽभिधानावथा अन्नमयो यज्ञ इति, अत्र हयन्नं प्रचुर- मस्मिन्नित्यन्नशब्द: प्रथमाविभक्तियुक्तस्तरमान्मयट्प्रत्ययः यज्ञस्य प्र- कत्यर्थान्नप्राचुर्यवाची दृश्यते न शुद्धप्रकृतवचन इति ध्येयम् ॥१ ३॥ सूत्रस्थचशब्दोऽनुक्तसमुच्चयार्थ इति मत्वा व्याचष्टे। इतश्रेति॥ त- च्चानुकं व्रह्मानन्दस्य निरतिशयत्वावधारणं पूर्वमुक्तम्॥१४॥। आ- नन्दमयस्य ब्रह्मत्वे लिङ्गमु्का प्रकरणमाह ॥। मान्त्रेति ॥ यस्मादेवं
Page 160
(94 元 ) ह्मविदान्नोति परम्" इत्युपक्रम्य "सत्यं ज्ञान- मनन्तं ब्रह्म" इति अस्मिन्मन्त्रे यत् ब्रह्म प्रकृ- तं सत्यज्ञानानन्तविशेषणैनिर्धारितं, यस्सादा- काशादिक्रमेण स्थावरजङ्गमानि भूतान्यजाय- न्त, यच्च भूतानि सृष्टा तान्यनुभ्रविश्य गुहायाम- वस्थितं सर्वान्तरं, यस्य विज्ञानायान्योऽन्तर आत्मा, अन्योऽन्तर आत्मेति प्रक्रान्तं तन्मान्त्र- वर्णिकमेव ब्रह्मेह गीयते Sन्योन्तर आत्मानन्द- मय इति। मन्त्रब्राह्मणयोश्रैकार्थत्वं युक्तम् अ- विरोधात्; अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्यातां, न चान्नमयादिभ्य इवानन्दमयादन्योऽ- न्तर आत्माऽभ्िधीयते। "एतन्निष्ठैव च सैषा भार्गवी वारुणी विद्या"। तस्मादानन्दमयः प- र एवात्मा ॥१५॥
कृतं तस्मान्मान्त्रवर्णिकमेव ब्रह्मानन्दमय इति वाक्ये गायत इति योजना। ननु मन्त्रोक्तमेवात्र ग्राह्ममिति को निर्बन्धसतत्राह॥मन्त्रे- ति। व्राह्मणस्य मन्त्रव्याख्यानत्वादुपायत्वमस्ति मन्त्रस्तूपेयः तदि- दमुकतं ॥अविरोधादिति॥तयोरुपायोपेयभावादित्यर्थः। तर्हन्नमया- दीनामपि मान्त्रवर्णिकव्रह्मत्वं स्यादित्यत आहान चेति॥किं च भृ- गवे प्रोक्ता वरुणेनोपदिष्टा भृगुवल्ली पञ्चमपर्यायस्थानन्दे प्रतिष्ठिताततः स्थानन्यायेन तदेकार्थव्रह्मवह्वया आनन्दमये निष्ठेत्याह॥एतन्निष्ठैवे- ति। स ईश्वरः तपः सृष्टा लोचनमतप्यत कृतवानित्यर्थ:, अभिध्या- २०
Page 161
(१५४) रत्नप्रभाभासिते [अ ० १। पा० १। नेतरोऽनुपपत्ते:॥१६॥ इतश्रानन्दमयः पर एवात्मा नेतरः। इतर ईश्वरादन्यः संसारी जीव इत्यर्थः। न जीव आ- नन्दमयशब्देनाभिधीयते। कस्मात्, अनुपपत्तेः आनन्दमयं हि प्रकृत्य श्रूयते "सोऽकामयत बहु स्यां प्रजायेय" इति "स तपोऽतप्यत स तप- स्तत्वा इदं सर्वमसृजत यदिदं किश्च" इति।त- त्र प्राक् शरीराद्युत्पत्तेरभ्िध्यानं सृज्यमानानां च विकाराणां स्रष्ुरव्यतिरेक: सर्वविकारसृष्टिश्र न परस्मादात्मनोऽन्यत्रोपपद्यते ॥१६॥ भेदव्यपदेशाच॥१७॥ इतश्ष नानन्दमयः संसारी यस्मादानन्दम- याधिकारे "रसो वै सः, रसं त्येवायं लब्ध्वान- नन्दी अवति" इति जीवानन्दमयौ भेदेन व्यप- दिशति। न हि लब्घैव लब्धव्यो भवति। कर्थ त- रर्य्यात्माऽन्वेष्ठव्यः "आत्मलाभान्न परं विद्यते" इति च श्रुतिस्मृती यावता न लब्धैव भवतीत्यु- नं कामना, बहु स्यामित्यव्यतिरेकः॥१५॥१६॥ अधिकारे प्रकरणे स आनन्दमयो रसः। ननु लब्धृलव्धव्याभावेऽप्यभेदः किंन स्यादत आह॥ न हि लब्धैवेति॥ ननु लब्घृलव्धयोभेंदस्यावश्यकत्वे श्रु- तिस्मृत्यार्बाधः स्यादित्याशङ्गते ॥ कथमिति ॥ यावता यतस्त्वयेत्यु-
Page 162
सु०१७।अ०५] शाङ्गरब्रह्मसूत्रभाष्ये (१५५) क्तम्। बाढं। तथाप्यात्मनोऽप्रच्युतात्मभाव- स्यैव सतस्तत्वानवबोधनिमित्तो मिथ्यैव देहा- दिष्वनात्मस्वात्मत्वनिश्चयो लौकिको दृष्टः, ते-
व्योऽलब्धो लब्धव्योऽश्रुतः श्रोतव्योऽमतो म- न्तव्योSविज्ञातो विज्ञातव्य इत्यादिभेदव्यपदे- श उपपद्यते। प्रतिषिध्यत एव तुपरमार्थतःस- र्वज्ञात् परमेश्वरादन्यो द्रष्टा श्रोता वा "नान्यो- Sतोऽस्ति द्रष्टा इत्यादिना.परमेश्वरस्त्वविद्या- कल्पिताच्छारीरात् कर्तुर्भोक्तुर्विज्ञानात्माख्या- दन्यः, यथा मायाविनश्रर्मखद्धरात् सूत्रेणा- कम् अतः श्रुतिस्मृती कथमित्यन्वयः। उक्तांशङ्कामङ्गीकरोति॥बाढ- मिति ॥ तर्हात्मन एवात्मना लभ्यत्वोक्तिबाधः अभेदादित्याशङ्क्च कल्पितभेदान बाध इत्याह॥ तथापीति॥ अभेदेपीत्यर्थः लौकिकः भ्रमः आत्मनः स्वाज्ञानजभ्रमेण देहायभिन्नस्य भेदभ्रान्त्या परमा- त्मनो ज्ञेयत्वादुक्तिरित्यर्थः । अन्वेष्टव्यो देहादिव्यतिरिक्ततया ज्ञेयः विवेकज्ञानेन लब्धव्यः साक्षात्कर्तव्यः तदर्थ श्रोतव्यः विज्ञानं निदि- ध्यासनं साक्षात्कारो वा श्रुत्यन्तरस्थार्थानुवादादपौनरुक्त्यम्। ननु भेद: सत्य एवास्तु तत्राह॥ प्रतिषिध्यत इति ॥ अत ईश्वरात् द्रष्टा जी- वोऽन्यो नास्तीति चेतू जीवाभेदादीश्वरस्यापि मिथ्यात्वं स्यादत आ- है ।। परमेश्वर इति ॥ अविद्याप्रतिबिम्बतवेन कल्पितांजीवाचचिन्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम्। कल्पितस्याधिष्ठानाभेदेऽप्यविष्ठा- नस्य ततो भेद इत्यत्र दृष्टान्तमाह॥ यथेति॥ सूत्रारूढ: स्वतोऽपि
Page 163
(१५६) रत्नप्रभाभासिते [अ० १। पा० १। काशमधिरोहतः स एव नायावी परमार्थरूपो भूमिष्ठोऽन्यःयथा वा घटाकाशादुपाधिपरिच्छि- न्नादनुपाधिरपरिच्छिन्न आकाशोऽन्यः। ईदशं च विज्ञानात्मपरमात्मभेदमाश्रित्य "नेतरोऽनु- पपत्ते""र्भेदव्यपदेशाचे" त्युक्तम्॥१७॥ कामाच्च नानुमानापेक्षा ॥ १८। आनन्दमयाधिकारे च "सोऽकामयत बहु स्यां प्रजायेय" इति कामयितृत्वनिर्देशान्नानु- मानिकमपि सांख्यपरिकल्पितसचेतनं प्रधान- मानन्दमयत्वेन कारणत्वेन वापेक्षितव्यम।"ईक्ष- तेर्नाशव्द" मिति निराकृतमपि प्रधानं पूर्वसूत्रो- दाहतां कामयितृत्वश्रुतिं आश्रित्य प्रसङ़गात् पु- नर्निराक्रियते गतिसामान्यप्रपंचनाय॥१८॥ अस्मिन्नस्य चतद्योगं शास्ति॥१९॥ इतश्र न प्रधाने जीवे वाऽऽनन्दमयशब्दः, मिथ्या, न जीव इत्यरुच्या भेदमात्रमिथ्यात्वे दष्टान्तान्तरमाह॥ य- था वेति। ननु सूत्रवलाज्वेदः सत्य इत्यत आह॥ ईद्वशं चेति॥ क- ल्पितमेवेत्यर्थः । सूत्रे भेदः सत्य इति पदाभावात्तदनन्यत्वादिसूत्रणा- च्छृत्यनुसाराच्चेति भावः ॥१७॥ नन्वानन्दात्मकसत्वप्रचुरं प्रधान- मानन्दमयमस्तु। तत्राह॥ कामाच्चेति ॥ अनुमानगम्यमानुमानिक- म्। पुनरुक्तिमाशङ््चाह ॥ ईक्षतेरिति ॥१८॥अस्मिन्निति वि-
Page 164
सू०१९।अ० ५] शाङ्गरव्रह्मसूत्रभाष्ये (१५७) यस्मादस्मिन्नानन्दमये प्रकृते आत्मनि प्रतिबु- इस्यास्य जीवस्य तद्योगं शास्ति तदात्मना यो- गस्तद्योगस्तद्गावापत्तिः, मुक्तिरित्यर्थः। तद्ो- गं शास्ति शास्त्रम।"यदा त्येवैष एतस्मिन्नदृश्ये- डनात्म्येऽनिरुक्तेऽनिलय नेऽअयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भ्वति; यदा त्येवैष एतस्मि- त्ुदरमन्तरं कुरुते, अथ तस्य भयं भवति" इति। एतदुक्तं भवति यदैतस्मिन्नानन्दमयेऽल्पमप्य- न्तरम् अतादात्म्यरूपं पश्यति तदा संसारभ- यान्न निवर्तते। यदा त्वेतस्मिन्नानन्दमये निरन्त- रं तादात्म्येन प्रतितिष्ठति तदा संसारभ्या- न्निवर्तते इति; तञ्च परमात्मपरिग्रहे घटते न प्र- धानपरिग्रहे जीवपरिग्रहे वा तस्मादानन्दमयः परमात्मेति सिद्धम्। इदं त्विह वक्तव्यं “सवा षयसप्तमी, आनन्दमयविषयप्रबोधवतो जीवस्य तद्योगं यस्माच्छास्ति तस्मानन प्रधानमिति योजना। जीवस्य प्रधानयोगोऽप्यस्तीत्यत आह ॥ तदात्मेति॥ जीवस्य व्रह्माभेदो नास्तीत्यत आह॥ मुक्तिरिति ॥ अदृश्ये स्थूलप्रपश्चशून्ये आत्मसम्बद्धमात्म्यं लिङ्गशरीरं तद्रहिते। निरुक्तं शब्दशक्यं तज्जिने। निःशेषलयस्थानं निलयनं माया तच्छू- न्ये। ब्रह्मण्यभ्रयं यथा स्यात्तथा यदैव प्रतिष्ठां मनसः प्रकष्टां वृत्तिमेष विद्वाल्लभते अथ तदैवाभयं ब्रह्म प्राप्नोतीत्यर्थः।उत् अपि अरमल्पेम- ल्यमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना १ अभेदसामानाधिकरण्यं हि भेदे अल्पत्वं बोध्यम्।
Page 165
(१५८) रत्नप्रभाभासिते [अ०१।पा० १। एष पुरुषोऽन्नरसमयः""तस्माद्वा एतस्मादन्न- रसमयात्, अन्योऽन्तरात्मा प्राणमयः", "त- स्मादन्योऽन्तरात्मा मनोमयः","तस्मादन्योऽ- न्तरात्मा विज्ञानमयः इति च विकारार्थे मयट् प्रवाहे सत्यानन्दमय एवाकस्मादर्धजरतीयन्या- येन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं वा आश्रीयते इति। मान्त्रवर्णिकव्रह्माधिका- रादिति चेत्, न, अन्नमयादीनामपि तहं ब्रह्म- त्वप्रसङ्ग: । अत्राह युक्तमन्नमयादीनामब्रह्म- त्वं तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्य- स्यात्मन उच्यमानत्वात्, आनन्दमयात्तु न कश्विदन्योऽन्तर आत्मोच्यते। तेनानन्दमयस्य ब्रह्मत्वं, अन्यथा प्रकृतहानाSप्रकृतप्रक्रियाप्र- सङ्गादिति। अत्रोच्यते, यद्यप्यन्नमयादिभ्य इ- वानन्दमयादन्योऽन्तर आत्मेति न श्रूयते तथा- इति। वृत्तिकारमतं दूषयति॥ इदंतिति॥ इह परव्याख्यायां विकारा- र्थके मयटि बुद्धिस्थे सत्यकरमात् कारणं विना एकप्रकरणस्थस्य मय- टः पूर्व विकारार्थकत्वं, अन्ते प्राचुर्यार्थकत्वमित्यर्धजरतीयं कथमिवके- न दृष्टान्तेन आश्रीयत इति इदं वक्तव्यमित्यन्वयः । प्रक्षं मत्वाशङ्गते । मान्त्रेति स्फुट मुत्तरम्। किमान्तर इति न श्रूयते किं वा वस्तु- तोऽप्यान्तरं ब्रह्म न श्रूयत इति विकल्प्य आयमङ्गकरोति॥ अ- त्रोच्यते यद्यपीति ॥ विकारप्रायपाठानुगृहीतमयद्श्रुतेः सावयव-
Page 166
सू०१९। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१५९) पि नानन्दमयस्य ब्रह्मत्वं, यत आनन्दमयं प्र- कृत्य श्रूयते "तस्य प्रियमेव शिरः, मोदो दक्षि- णः पक्ष:, प्रमोद उत्तर: पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा" इति । तत्र यद्रह्म मन्त्रवर्णे प्रकृतं "सत्यं ज्ञानमनन्तं ब्रह्म" इति तदिह ब्र- ह्म पुच्छं प्रतिष्ठेत्युच्यते तद्विजिज्ञापयिषयैवान्न- मयादय आनन्दमयपर्यन्ताः पश्चकोशाः क- ल्प्यन्ते, तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्र- सङ्ः। नन्वानन्दमयस्यावयवत्वेन ब्रह्म पुच्छं प्रतिष्ठेत्युच्यते। अन्नमयादीनामिवेद पुच्छंप्र- तिष्ठेत्यादि, तत्र कथं ब्रह्मणः स्वप्रधानव्वंश- क्यं विज्ञातुं, प्रकृत्वादिति ब्रूमः। नन्वानन्दम- त्वलिङ्गाच्चेत्याह॥ तथापीति॥ इष्टार्थस्य दृष्ट्या जातं सुखं प्रियं, समृत्याऽडमोद:, स चाभ्यासातू प्रकष्टः प्रमोदः, आनन्दस्तु कारणं विम्बचैतन्यमात्मा, शिरःपुच्छयोर्मध्यकायः ब्रह्म शुद्धमिति श्रुत्य- र्थः। द्वितीयं प्रत्याह॥ तत्र यढिति॥ यन्मन्त्रे प्रकतं गुहानिहित- त्वेन सर्वान्तरं ब्रह्म तदिह पुच्छवाक्ये ब्रह्मशव्दात् प्रत्यभिज्ञायते तस्यैव विज्ञापनेच्छया पश्चकोशरूपा गुहा प्रपश्चिता, तत्र तात्पर्य नास्तीति वक्ुं कल्प्यन्त इत्युक्तम्। एवं पुच्छवाक्ये प्रकतस्वप्रधान- ब्रह्मपरे सति न प्रकृतहान्यादिदोष इत्यर्थः। ब्रह्मणः प्रधानत्वं पुच्छ- श्रुतिविरुद्धमिति शङ्कते॥ नन्विति ॥ अत्र ब्रह्मशव्दात् प्रकृतस्वन्र- धानव्रह्मप्रत्यभिज्ञाने सति पुच्छशब्दविरोधप्राप्तावेकस्मिन् वाक्ये प्र- थमचरमश्रुतशब्दयोराव्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात् पुच्छ-
Page 167
(१६०) रत्नप्रभाभासिते [अ०१) पा०१। यावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रक- तत्वं हीयते आनन्दमयस्य ब्रह्मत्वादिति। अ- त्ोच्यते तथा सति तदेव ब्रह्मानन्दमय आत्मा- वयवी तदेव च ब्रह्म पुच्छं प्रतिष्ठावयव इत्यसा- मञ्जस्यं स्यात्। अन्यतरपरिग्रहे तु युक्तं ब्रह्म पुच्छं प्रतिष्ठेत्यत्रैव ब्रह्मनिर्देश आश्रयितुं ब्रह्म- शब्दसंयोगान्नानन्दमयवाक्ये त्रह्मशव्दसंयो- गाभावादिति। अपि च ब्रह्म पुच्छं प्रतिष्ठेति उ- क्केदमुच्यते "तदप्येष श्रोको भवति, असन्नेव स भवति, असद्रह्मेति वेद चेत्, अस्ति ब्रह्मे- ति चेद्वेद, सन्तमेनं ततो विदुः" इति। अस्मिंश्र श्रलोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभा- ववेदनयोर्गुणदोपाशिधानाद्रम्यते ब्रह्म पुच्छं प्रतिष्ठेत्यत्र ब्रह्मण एव. स्वप्रधानत्वमिति। न चानन्दमयस्यात्मनो आावाभावशङ्गा युक्ता प्रियमोदादिविशेषस्यानन्दमयस्य सर्वलोक- प्रसिद्धत्वात्। कथं पुनःस्वप्रधानं सद्रहमानन्दम- शव्देन प्राप्तगुणत्वस्य बाध इति मत्वाह॥ प्रकृतत्वादिति ॥ प्रक- रणस्यान्यथासिद्धिमाह ।I नन्विति ॥ एकस्यैव गुणत्वं प्रधानत्वं च विरुद्धमित्याह॥। अत्रोच्यत इति ॥ तत्र विरोधनिरासायान्यतरस्मिन् वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीकार्यमित्याह ॥ अन्यतरे- ति॥ वाक्यशेवाचैवमित्याह ॥ अपि चेति ॥ तत् तत्र ब्रह्मणि क्रो-
Page 168
सू. १९। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१६१) यस्य पुच्छत्वेन निर्दिश्यते ब्रह्म पुच्छं प्रतिष्ठेति। नैष दोष: पुच्छवत् पुच्छं प्रतिष्ठा परायणमेकनी- डं लौकिकस्यानन्दजातस्य ब्रह्मानन्द इत्येतद- नेन विवक्ष्यते नावयवव्वम्।"एतस्यैवानन्दस्या- न्यानि भूतानि मात्रामुपजीवन्ति" इति श्रुत्य- न्तरात्। अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्य- वयवत्वेन सविशेषं ब्रह्माम्युपगन्तव्यम्। निर्वि- शेषं तु ब्रह्मवाक्यशेषे श्रूयते वाड्सनसयोरगो- चरत्वाभिधानात्, "यतो वाचो निवर्तन्ते, अ- प्राप्य मनसा सह", "आनन्दं ब्रह्मणो विद्वान्न विशेति कुतश्वन" इति। अपि चानन्दप्रचुर इ- कोऽपीत्यर्थः। पुच्छशब्दस्य गाते पृच्छति ॥ कथं पुनरिति॥ त्व- याऽपि पुच्छशव्दस्य मुख्यार्थो वक्तुमशक्यः व्रह्मण आनन्दमयला- ङ्-गूलत्वाभावात् पुच्छदृष्टिलक्षणायां चाधारलक्षणा युक्ता प्रतिष्ठाप दयोगात्, ब्रह्मशब्दस्य मुख्यार्थलाभाच। त्वत्पक्षे ब्रह्मपदस्याप्य- वयवलक्षकत्वादित्याह॥ नैष दोष इति॥ पुच्छमित्याधारत्वमात्र- मुक्तं प्रतिष्ठेत्येकनीडत्वम् एक सुख्यं नीडम् अधिष्ठानं सोपादानस्य जगत इत्यर्थः । ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं व्रह्मणि समन्वितम् दृष्टं, तत्र किमुदाहरणभेदनेत्याशङ््चाह॥ अपि चेति॥ यत्र सविशे- षत्वं तत्र वाङ्मनसगोचरत्वमिति व्याप्तेरत्र व्यापकाभावोक्त्या निर्वि- शेषमुच्यत इत्याह॥ निर्विशेषमिति ॥ निवर्तन्ते अशक्ता इत्यर्थः। सविशेपस्य मृषात्वादभयं चयुक्त, अतो निविशेषज्ञानार्थ पुच्छवाक्य- मेवोदाहरणमिति भाव:। प्राचुर्यार्थकमयटा सविशेषोक्तौ निर्विशेष- २१
Page 169
(१६२) रत्नप्रभाभासिते [अ० १]पा० १ त्युक्ते दुःखास्तिव्वमपि गम्यते प्राचुर्यस्य लोके प्रतियोग्यल्पव्वापेक्षत्वात्। तथाच सति "यत्र नान्यत् पश्यति, नान्यच्छृणोति, नान्यद्दिजाना- ति, स भूमा" इति भूम्नि ब्रह्मणि तद्यतिरिक्ता- भावश्रुतिरुपरुध्येत। प्रतिशरीरं च प्रियादिभे- दादानन्दमयस्थापि भिन्नत्वं, ब्रह्म तुन प्रतिश- रीरं भिद्यते "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यान- न्त्यश्रुतेः, "एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा" इति च श्रुत्यन्तरात्। न चा- नन्दमयस्याभ्यासः श्रूयते, प्रातिपदिकार्थ- मात्रमेव हि सर्वत्राभ्यस्यते "रसो वै सः, रसं त्येवायं लब्ध्वाSSनन्दी भवति, को त्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्, ए- ष त्येवानन्दयाति सैषानन्दस्य मीमांसा भव- ति""आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्न" श्रुतिवाध उक्तः। दोषान्तरमाह॥अपि चेति॥ प्रत्ययार्थत्वेन प्रधान- स्य प्राचुर्यस्य प्रकृत्यर्थों विशेषणं, विशेषणस्य यः प्रतियोगी विरो- धीति तस्याल्पत्वमपेक्षते यथा विप्रमयो ग्राम इति शूद्राल्पत्वम्। अ- स्तु को दोषस्तत्राह ॥ तथा चेति॥ प्रकृत्यर्थप्राधान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाश: सवितेत्यत्र तमसोल्पस्याप्यभानात् परं त्वानन्द- मयपदस्य प्रचुरानन्दे लक्षणादोषः स्यादिति मन्तव्यम्। किंच भिन्न- त्वाद् घटवन्न व्रह्मतत्याह।प्रतिशरीरमिति। नन्वभ्यस्यमानानन्द- १ विरुध्येदित्यर्थः ।
Page 170
सू. १९।अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (१६३) "आनन्दो बह्मेति व्यजानात्" इति चायदि चा- नन्दमयशब्दस्य ब्रह्मविषयत्वं निश्च्ितं भवेत् तत उत्तरेष्वप्यानन्दमयाभ्यासः कल्प्येत न व्वानन्दमयस्य ब्रह्मत्वमस्ति प्रियशिरस्त्वादि- भिर्हेतुभिरित्यवोचान। तस्माच्छृत्यन्तरे "विज्ञा- नमानन्दंब्रह्म"इति आनन्दप्रातिपदिकस्थब्रह्म- णि प्रयोगदर्शनात् "यदेष आकाश आनन्दो न स्यात्" इत्यादिर्ब्रह्मविषयः प्रयोगो न त्वानन्द- मयाभ्यास इत्यवगन्तव्यम्। यस्वयं मयडन्त- स्यैवानन्दशब्दस्याभ्यास एतमानन्दमयमा- त्मानमुपसङक्रामतीति न तस्य ब्रह्मविषयत्व- मस्ति विकारात्मनामेवान्नमयादीनामनात्मना- मुपसडकमितव्यानां प्रवाहे पठितत्वात्। न-
वढब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिफलं नि- र्दिष्टं भवेत्। नैष दोष:।आनन्दमयोपसङ्क्रमण- पदं लक्षणयानन्दमयपरं इत्यभ्याससिद्धिरित्यत आह॥ य दिचेति॥ आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्परत्वज्ञानादभ्यास- सिद्धिःतत्सिद्धौ तन्निर्णय इति परस्पराश्रय इति भाव:।अयमभ्यासः पुच्छव्रह्मण इत्याह ॥ तस्मादिति॥ उपसंक्रमणं बाधः॥ ननु सय एवंविदिति ब्रह्मविदं प्रक्रभ्योपसंक्रमणवाक्येन फलं निर्दिश्यते तत्त- स्याव्रह्मत्वेन सिध्यतीति शङ्गते ॥नन्विति॥ उपसंक्मणं प्राप्तिरित्य-
Page 171
(१६४) रत्नप्रभाभासिते [अ० १। पा० १। निर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतव्रह्मप्राप्तेःफ- लस्य निर्दिष्ठत्वात् "तदप्येष श्रोको भवति, य- तो वाचो निवर्तन्ते" इत्यादिना च प्रपंच्यमान- त्वात्।या त्वानन्दमयसन्निधाने "सोऽकामयत, बहुस्यां प्रजायेय"इतीर्यं श्रुतिरुदाहता सा "ब्रह्म पुच्छं प्रतिष्ठा" इत्यनेन सन्निहिततरेण ्र- ह्रणा सम्बध्यमाना नानन्दनयस्य ब्रह्मतां प्र- तिबोधयति, तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य "र- सो वै सः" इत्यादेर्नानन्दमयविषयता। ननु "सोडकामयत" इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते। नायं दोषः । "तस्माद्वा एतस्मा- दात्मन आकाश: सम्भूतः इत्यत्र पुंलिद्गेना प्यात्मशब्देन ब्रह्मणः प्रकृतत्वात्। यत्तु भा- र्गवी वारुणी विद्या "आनन्दो ब्रह्मेति व्य- जानात्" इति तस्यां मयडश्रवणात् प्रिय- झङीकत्य विशिष्टप्रान्युक्त्या विशेषणाप्रापिफलमुक्तमित्याह।नैष इति। ज्ञानेनाकाशानां बाधस्तैदिति सिद्धान्ते बाधावधिप्रत्यगानन्दला- भोऽर्थादुक्त उत्तरश्लोकेन स्फुटीकत इत्याह॥ तदपीति ॥तदपेक्ष- त्वादिति कामयितृपुच्छव्रह्मविषयत्वादित्यर्थः। यदुक्तं पश्चमस्थान- स्थत्वादानन्दमये ब्रह्मवल्ली समाप्ता भृगुवल्लीवदिति तत्राह॥ यत्त्वि- ति।। या त्वित्यर्थः । मयट्श्रुत्या सावयवत्वादिलिदेन च स्थानं बा- १ वृप संक्रमणम्।
Page 172
सू० १९।अ०५॥ शाङ्करव्रह्मसूत्रभाष्ये (१६५) शिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्। तस्माद्णुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते, न चे- ह सविशेषं ब्रह्म प्रतिपिपादयिषितं वाङ्मन- सगोचरातिक्रमश्रुतेः । तस्मादन्नमयादिष्विवा- नन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयो न प्रा- चुर्यार्थः। सूत्राणि त्वेवं व्याख्येयानि ब्रह्म पुच्छं प्रतिष्ठेत्यत्र किमानन्दमयस्यावयवत्वेन ब्रह्म विवक्ष्यते, उत स्वप्रधानव्वेनेति। पुच्छशब्दाद- वयवत्वेनेति प्राप्त उच्यते। "आनन्दमयोऽभ्या- सात्"। आनन्दमय आत्मेत्यत्र ब्रह्म पुच्छं प्र- तिष्ठेति स्वप्रधानमेव ब्रह्मोपदिश्यतेऽभ्यासात्। "असन्नेव स भवति," इत्यस्मिन्निगमनश्लोके ध्यमिति भावः। गोचरातिकमो गोचरत्वाभावः। वेदसूत्रयोविरोधे गुणे त्वन्याय्यकाल्पनेति सूत्राणि अन्यथा नेतव्यानीत्याह॥ सूत्राणीति॥ पूर्वमीक्षतेः संशयाभावात् इति युक्त्या गौणप्रायपाठो न निश्वायक इत्यु कम्। तर्हि अत्र पुच्छपदस्याधारावयवयोर्लक्षणासाम्यातू संशयोऽस्ती- त्यवयवप्रायपाठो निश्रवायक इति पूर्वाधिकरणासिद्धान्तयुक्त्यभावेन पू- र्वपक्षयति।पुच्छशव्दादिति।तथा च प्रत्युदाहरणसङ्गतिः पूर्वपक्षे स- गुणोपास्तिः सिद्धान्ते निर्गुणप्रमिति: फलं वेदान्तवाक्यसमन्वयोक्ते: श्रुत्यादिसङ्गतय: स्फुटा एव, सूत्रस्थानन्दमयपदेन तद्दाक्यस्थं ब्रह्मपदं लक्ष्यते।विक्रियतेSनेनेति विकारोऽवयवः प्रायापत्तिरिति अवयवक्रमस्य बुद्धौ प्राप्तिरित्यर्थः।अत्र हि प्रकतस्य ब्रह्मणो ज्ञानार्थ कोशा: पक्षित्वेन
Page 173
(१६६) रत्नप्रभाभासिते [अ० १। पा. १। ब्रह्मण एव केवलस्याभ्यस्यमानत्वात्। विकार- शब्दान्नेति चेन्न प्राचुर्यात्। विकारशव्देनावयव- शब्दोडभिप्रेतः, पुच्छमित्यवयवशव्दान्न स्वप्र- धानत्वं ब्रह्मण इति यदुक्तं तस्य परिहारो वक्त- व्यः। अत्रोच्यते नायं दोषः प्राचुर्यादप्यवयव- शब्दोपपत्तेः। प्राचुर्य प्रायापत्तिरवयवप्रायवच- नमित्यर्थः । अन्नमयादीनां हि शिरआदिषु पु- च्छान्तेषु अवयवेषूक्ेष्वानन्दमयस्यापि शिर-
ब्रह्म पुच्छं प्रतिष्ठेत्याह नावयवविवक्षया यत्का- रणमभ्यासादिति स्वप्रधानत्वं ब्रह्मणः समर्थि- तम्। "तद्वेतुव्यपदेशाच्च"। सर्वस्य च विकार- कल्प्यन्ते नात्र तात्पर्यमस्ति, तत्रानन्दमयस्यापि अवयवान्तरोक्यन- न्तरं करिंमश्रिवत् पुच्छे वक्तव्ये प्रकतं व्रह्म पुच्छपदेनोक्तं तस्यान- न्दमयाधारत्वेनावश्यं वक्तव्यत्वादित्यर्थः॥ तद्वेतुव्यपदेशाच्च॥ तस्य व्रह्मण: सर्वकार्यहेतुत्वव्यपदेशात् प्रियादिविशिष्टत्वाकारेणानन्दमय- स्य जीवस्य कार्यत्वात्ं प्रति शेवत्वं ब्रह्मणो न युक्तमित्यर्थः। मान्त्र- वाणिकमेव च गीयते "ब्रह्मविदाप्नोति पर"मिति यस्य ज्ञानान्मुक्तिरु- का यत् सत्यं ज्ञानमिति मन्त्रोक्तं ब्रह्म तदत्रैव पुच्छवाक्ये गीयते ब्र- ह्रपदसंयोगात्, नानन्दमयवाक्य इत्यर्थः । नेतरोऽनुपपत्तेः । इतर आनन्दमयो जीवोऽन्र न प्रतिपादः सर्वलष्टत्वाद्यनुपपत्तेरित्यर्थः । भे- दव्यपदेशाच्च। अयमानन्दमयो ब्रह्मरसं लब्ध्वानन्दी भवतीति, भेदो- केश् तस्याप्रतिपाद्तेत्यर्थः । आनन्दमयो ब्रह्म तैत्तिरीयकपश्चम-
Page 174
सू० २०।अ० ५] शाङ्रत्रह्मसूत्रभाष्ये (१६७) जातस्य सानन्दमयस्य कारणतेन ब्रह्म व्यप- दिश्यते "इदं सर्वमसृजत यदिदं किं च" इतिन च कारणं सद्रह्म स्वविकारस्यानन्दमयस्य मुख्य- या वृत्त्याऽवयव उपपद्यते। अपराण्यपि सूत्रा- णि.यथासम्भवं पुच्छवाक्यनिर्दिष्ठस्यैव ब्रह्मण उपपादकानि द्रष्टव्याणि॥ १९॥ = इदमाम्नायते "अथ य एषोऽन्तरादित्ये हिर- ण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः।तस्य यथा कप्या- स्थानस्थत्वात् भृगुवल्लीस्थानन्दवदित्याशङ्ग्चाह। "कामाच्च नानु- मानापेक्षा"' काम्यत इति काम आनन्दः तस्य भृगुवल्ल्यां पश्चम- स्य ब्रह्मत्वदृष्टेरानन्दमयस्यापि ब्रह्मत्वानुमानापेक्षा न कार्या, विका- रार्थकमयड्डिरोधादित्यर्थः । भेदव्यपदेशश्रवेत् सगुणं ब्रह्मात्र वेयं स्या- दित्याशङ्ग्याह। "अस्मिन्नस्य च तद्योगं शास्ति"। गुहानिहित- त्वेन प्रतीचि स एक इत्युपसंहते पुच्छवाक्योंक्ते ब्रह्मण्यहमेव परं ब्र- हेति प्रबोधवत् आनन्दमयस्य यदा हीति शास्त्रे ब्रह्मभावं शास्ति, अ- तो निर्गुणव्रह्मैक्यज्ञानार्थ जीवभेदानुवाद इत्यभिप्रेत्याह॥ अपरा- ण्यपीति॥ अन्तसद्धर्मोपदेशात्। छान्दोग्यवाक्यमुदाहरति ॥अथ य इति॥ अथेत्युपास्तिप्रारम्भार्थः। हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णोऽपि. मूर्ततिमानुपासकैर्दश्यते। मूर्ततिमाह ॥ हिरण्येति ॥ प्रणखो नखायं तेन सहेत्यभिविधावाङ्। नेत्रयोदिशेषमाह॥ तस्येति॥ क- पेर्मर्कटस्य आसः पुच्छभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथा
Page 175
(१६८) रत्नप्रभाभासिते [अ० १पा०१। सं पुण्डरीकमेवमक्षिणी, तस्योदिति नाम, स ए- ष सर्वेभ्यः पाप्मभ्य उदित, उदति हवै सर्वेभ्य: पाप्मभ्यो य एवं वेद" इत्यधिदैवतम्। अथा- ध्यात्मम्"अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते" इत्यादि। तत्र संशयः। किं विद्याकर्मातिशयव- शात् प्राप्तोत्कर्ष: कश्र्ित् संसारी सूर्यमण्डले च- क्षुषि चोपास्यत्वेन श्रूयते, किंवा नित्यसिद्द: परमेश्वर इति। किंतावत् प्राप्तं संसारीति, कुतः, रूपवत्वश्रवणात्। आदित्यपुरुषे तावद्दिरण्य- श्मश्रुरित्यादिरूपमुदाहतं, अक्षिपुरुषेऽपि तदे- वातिदेशेन प्राप्यते "तस्यैतस्य तदेव रूपं यद- मुष्य रूपम् इति।न च परमेश्वरस्य रूपवत्वं यु- कं "अशव्दमस्पर्शमरूपमव्ययम्" इतिश्रु- दीप्तिमदेवं तस्य पुरुषस्याक्षिणि संवोविकसितरक्ताम्भोजनयन इ- त्यर्थः। उपासनार्थमादित्यमण्डल स्थानं रूपं चोत्का नाम करोति॥ ॥ तस्योदिति॥ उन्नाम निर्वक्ति॥स इति॥ उदित उद्रतः सर्वपा- प्मास्पृष्ट इत्यर्थः। उपासनार्थ नामज्ञानफलमाह॥उदेतिहेति॥ देव- तास्थानम् आदित्यमधिकत्योपास्त्युक्त्यनन्तरमात्मानं देहमधिकत्या- पि तटुक्तिरित्याह। अथेति ॥ पूर्वत्र ब्रह्मपदमानन्दमयपदमानन्द- पदाभ्यासश्रेति मुख्यत्रितयादि बहुप्रमाणवशान्निर्गुणनिर्णयवद्रूपव- नवादिवहुप्रमाणवशाज्जीवो हिरण्मय इति पूर्वसिद्धान्तदृष्टान्तसङ्ग :- त्या पूर्वमुत्सर्गतः सिद्धनिर्गुणसमन्वयस्यापवादार्थ पूर्वपक्षयति ॥ ॥ संसारीति ॥ अत्र पूर्वोत्तसपक्षयोजीवव्रह्मणोरुपास्तिः फलं, अक्षि-
Page 176
सू०२०।अ. ५] शाङ्गरव्रह्मसूत्रभाष्ये (१६९) तेः। आधारश्रवणाच्च "य एषोऽन्तरादित्ये य ए- षोऽन्तरक्षिणि" इति।न ह्यनाधारस्य स्वमहि- मप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उ- पदिश्येत "स भ्षगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि" इति "आकाशवत्सर्वगतश्र नित्यः' इतिच श्रुती भवतः। ऐश्वर्यमर्यादाश्रुतेश्र"सए- षये चामुष्मात् परांचो लोकास्तेषां चेष्टे देव- कामानां च" इत्यादित्यपुरुषस्यैश्वर्यमर्यादा "स एष चैतस्मादवींचो लोकास्तेषां चेष्ठे मनु- ष्यकामानां च' इत्यक्षिपुरुषस्य। न च परमे- शरस्य मर्यादावदैश्वय युक्तं "एष सर्वेश्वर एष भताधिपतिरेष भूतपाल एव सेतुर्विधरण एषां लोकानामसम्भेदाय" इत्यविशेषश्रुतेः।तस्मा- न्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं पाप्े ब्रूमः, अन्तस्तवर्मोपदेशात्, इति "य एपोऽन्तरादित्ये
णीत्याधारश्रवणाच्च संसारीति सम्बन्धः । श्रुतिमाह॥ स एष इति॥ आदित्यस्थः पुरुषः, अमुष्मादादित्यादूर्ध्वगा ये केचन लोकास्तेषामी- श्वरो देवभोगानां चेत्यर्थः। स एषोऽक्षिस्थः पुरुष एतस्मादक्ष्णोडघसत- ना ये लोका ये च मनुष्यकामा भोगास्ेषामीश्वर इति मर्यादा श्रूयते। अतः श्रुतेश्र संसारीत्यर्थः। एष सर्वेश्वर इत्यविशेषश्रुतेरिति सम्बन्धः। भूताधिपतिर्यमः, भूतपाल इन्द्रादिश्रव एष एव।किञ्च जलानामसंक्करा- य लोके विधारको यथा सेतुरेवमेषां लोकानां वर्णाश्रमादीनां मर्यादा- 22
Page 177
(१७0) रत्नप्रभाभासिते [अ०१।पा०१। य एषोऽन्तरक्षिणि" इति च श्रूयमाणः पुरुषःस परमेश्वर एव न संसारी कुतः। तर्मोपदेशात्। तस्य हि परमेश्वरस्य धर्मा इहोपदिष्ठास्तयथा "तस्योदिति नाम" इति श्रावयित्वा "अस्या- दित्यपुरुषस्य नाम स एष सर्वेभ्यः पाप्मभ्य उ- दितः" इति सर्वपाप्मापगमेन निर्वक्ति, तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति "यन्नाम तन्नाम" इति। सर्वपाप्मापगमश् पर- मात्मन एव श्रूयते "य आत्मा अपहतपाप्मा" इत्यादौ। तथा "चाक्षुषे पुरुषे सैव ऋकू तत् सा- म तदुक्थं तद्यजुस्तद्रह्म" इत्यृक्सामाद्यात्मक- "तां निर्धारयति, साच परमेश्वरस्योपपद्यते सर्व- कारणत्वात् सर्वात्मकत्वोपपत्तेः। पृथिव्यस्या- हेतुत्वातू सेनुरेष एव, अतः सर्वेश्वर इत्यर्थः। सूत्रं व्याचष्टे॥ य एष इति॥ यद्प्येकस्मिन् वाक्ये प्रथमश्रुतानुसारेण चरमं नेयं, तथाप्य- त्र प्रथमं श्रुतं रूपवच्वं निष्फलं ध्यानार्थमीश्वरे नेतुं शक्यं च सर्वपा- पासङ्ित्वं सर्वात्मैकत्वं तु सफलं जीवे नेतुमशक्यं चेति प्रवलं न च "न ह वै देवान् पापं गच्छतिइति श्रुतेरादित्यजीवस्यापि पाप्मा- स्पर्शित्वमिति वाच्यम्,श्रुतेरधुना कर्मानधिकारिणां देवानां क्रियमा- णपाप्मासम्बन्धे तत्फलास्पर्श वा तात्पर्यात् तेषां सश्चितपापाभावे "क्षीणे पुण्ये मर्त्यलोकं विशन्ती"ति अयोगादित्यभिप्रेत्याह । सर्व- पाप्मापगमश्र परमात्मन एवेति ॥ सार्वाल्म्यमाह ॥ तथेति॥ अत्र तच्छव्दैश्वाक्षुषः पुरुष उच्यते ऋगावपेक्षया लिङ्व्यत्ययः॥-
Page 178
सृ०२०।अ० ५] शाङ्करत्रह्मसूत्रभाष्ये (१७१) द्यात्मके चाधिदैवतमकसामे वाकप्राणाद्यात्मके चाध्यात्ममनुक्रम्याह तस्यर्क साम च गेष्णा- वित्यधिदैवतं तथाध्यात्ममपि "यावमुष्य गेष्णौ तौ गेष्णौ"इति।तच्च सर्वात्मकत्वे सत्येवोपपद्यते "तथ इमे वीणायां गायन्त्येतं त्वेव ते गायन्ति तस्मात्ते धनसनयः इति च लौकिकेष्वपिगा- नेष्वस्यैव गीयमानत्वं दर्शयति। त् परमेश्वर- परिग्रहे घटते॥ यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ व्वं मम तेजोऽशसम्भवम्॥ इति भगवद्गीतादर्शनात् लोककामेशितृत्वमपि क्थं शस्त्रविशेषः। तत्साहचर्यात् साम सतोत्रम् उक्थादन्यच्छस्त्रमृगु- च्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः ॥ प्ृथिव्यग्न्याद्या- त्मक इति। अधिदैवतमृक् पृथिव्यन्तरिक्षधुनक्षत्रादित्यगतशुल्कभा- रूपा पश्चविधा श्रुत्युक्ता, साम चाग्निवाय्वादित्यचन्द्रादित्यगताति- कृष्णरूपमुक्तं पश्चविधम् । अध्यात्मं तु ऋग्वाक्चक्षुःश्रोत्राक्षिस्थ- शुभारूपा चतुर्विधा, साम च प्राणच्छायात्ममनोऽक्षिगतातिनील- रूपं चतुर्विधमुक्तम्। एवं क्मेण ऋक्सामे अनुक्रम्याहश्रुतिः॥तस्ये- ति। यौ सर्वात्मकऋकूसामात्मकौ गेष्णावमुष्यादित्यस्थस्य तावेवा- क्षिस्थस्य गेष्णौ पर्वणीत्यर्थः॥ तञ्चेति॥ ऋक्सामगेष्णत्वमित्यर्थः। सर्वगानगेयत्वं लिङ्गान्तरमाह ॥तद्य इति॥ तत्तत्र लोके धनस्य सनि- र्लाभो येषां ते धनसनयो विभूतिमन्त इत्यर्थः। ननु लोकेराजानो गी- यन्ते नेश्वर इत्यत आह ॥ यद्यदिति ॥ पशुवित्तादिर्विभूतिः, श्रीः
Page 179
(१७२) रत्नप्रभाभासिते [अ० १। पा० १। निरड्कुशं श्रूयमाणं परमेश्वरं गमयति। यत्तूक्तं हिरण्यश्मश्रुरित्यादिरू पश्रवणं परमेश्वरे नोपप- दते इत्यत्र ब्रूम:, स्यात् परमेश्वरस्यापीच्छाव- शान्मायासयं रूपं साधकानुग्रहार्थभ्। माया हयेषा मया सृषा यन्मां पश्यसि नारद। सर्वभूतगुणैर्युक्तं मैवं मां द्रष्टुमर्हसि। इति स्मरणात्। अपि च यत्र तु निरस्तसर्व- विशेषं पारमेश्वरं रूपमुपदिश्यत भवति तत्र शा- सं "अशब्दमस्पर्शमरूपमव्ययम्" इत्यादि। सर्वकारणत्वातु विकारधर्मैरपि कैश्रिद्विशिष्टः परमेश्वर उपास्यव्वेन निर्दिश्यते "सर्वकर्मा स- र्वकास: सर्वगन्धः सर्वरसः" इत्यादिना, तथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यति। यद- प्याधारश्रवणान्न परमेश्वर इत्यत्रोच्यते स्वम- हिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो अविष्यति सर्वगतत्वाद्गह्मणो व्योमवत् सर्वा- कान्तिः। ऊर्जितत्वं वलं, तघुक्तं सच्वं राजादिकं मदंश एवेति त- द्वानमीश्वरस्यैवेत्यर्थः निरङ्कुशमनन्याधीनं, एषा विचित्ररूपा मूर्ति- र्माया विकृतित्वान्माया मथा सृष्टेत्यर्थः । यदुक्तमशब्दमित्यादिवाक्य तत् ज्ञेयपरमित्याह ।। अपि चेति॥ तर्हि रूपं कुतस्तत्राह॥ सर्वे- ति। यत्र तूपास्यत्वेनोच्यते तत्रेत्यध्याहृत्य सर्वकारणत्वात् प्रामरूप- वत्वं सर्वकमत्यादिश्रुत्या निर्दिश्यत इति योजना। मर्यादावदैश्वर्य-
Page 180
सू०२१।अ० ५] शाङ्गरब्रह्मसूत्रभाष्ये (१७३) न्तरत्वोपपत्तेः। ऐश्वर्यमर्यादाश्रवणमप्याध्या- त्माधिदेवतविभागापेक्षमुपासनार्थमेव, तस्मा- त्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते॥२०॥
अस्ति च आदित्यादिशरीराभ्िमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी "य आदित्ये ति- ष्ठन्नादित्यादन्तरो यमादित्योन वेद यस्यादि- त्यः शरीरं य आदित्यमन्तरो यमयत्येष त आ- त्माऽन्तर्याम्यमृतः" इति श्रुत्यन्तरे भेदव्यपदे- शात्। तत्र त्यादित्यादन्तरो यं आदित्यो नवे- देति वेदितुरादित्यात्। विज्ञानात्मनोऽन्योऽन्त- र्यामीति स्पष्ट निर्दिश्यते स एवेहाप्यन्तरादित्ये
मीश्वरस्य नेत्युक्तं निराकरोति ॥ ऐश्वर्येति॥ अध्यात्माधिदैवतध्या- नयोविभाग: पृथक्प्रयोगः, तदपेक्षमेव न त्वैश्वर्यस्य परिच्छेदार्थमि- त्यर्थ: ॥ २०॥ ननु उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणो ब्रीहयादिवदन्यतः सिद्धिर्वाच्येत्याशङ््याह॥ भेदेति ॥ आदित्यजी- वादीश्वरस्य भेदोक्ते: श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थ- माह॥ अस्तीति ॥I आदित्ये स्थितरश्मिनिरासार्थमादित्यादन्तर इ- ति। जीवं निरस्यति॥ यमिति॥ अशरीरस्य कथं नियन्तृत्वं तत्रा- है। यस्येति॥ अन्तर्यामिपदार्थमाह॥ य इति ॥ तस्यानात्मत्व- निरासायाह ॥ एष त इति ॥ ते तव स्वरूपमित्यर्थः, आदित्यान्त- रत्वश्रुतेः समानत्वादित्यर्थः। तस्मातू पर एवादित्यादिस्थानक उंद्गी-
Page 181
(१७४) रत्नप्रभाभासिते [अ० १। पा० १। पुरुषो भवितुमर्हति श्रुतिसामान्यात्। तस्मात् परमेश्वर एवेहोपदिश्यत इति सिद्दम् ॥२१॥ आकाशस्तलिङात् ॥२२॥ इदमामनन्ति "अस्य लोकस्य का गतिरि- त्याकाश इति होवाच सर्वाणि ह वा इमानि भू- तान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्त यन्त्याकाशो त्येवैभ्यो ज्यायानाकाशः परायण- म्" इति। तत्र संशयः। किमाकाशशव्देन परं व्र- ह्माभिधीयते, उत भूताकाशमिति। कुतः संश- यः। उभयत्र प्रयोगदर्शनात्। भूतविशेषे तावत् सुप्रसिद्धो लोकवेदयोराकाशशब्दो ब्रह्मण्यपि क्वचित् प्रयुज्यमानो दृश्यते, यत्र वाक्यशेषवशा- दसाधारणगुणश्रवणाद्दा निर्धारितं ब्रह्म भवति यथा "यदेष आकाश आनन्दोन स्यात्" इति, "आकाशो वै नामरूपयोनिर्वहिता ते यदन्तरा त- ड्रह्र" इति चैवमादौ,अतः संशयः। किं पुनरत्र यु- थे उपास्य इति सिद्धम्॥ २१ ॥ भवतु रूपवत्वादिदुर्बललिङ्गानां पापास्पर्शित्वाद्यव्यभिचारिव्रल्मलिङ्गैरन्यथानयनं, इह त्वाकाशपदश्रु- तिः लिङगाद्दलीयसीति प्रत्युदाहरणेन प्राप्ते प्रत्याह॥ आकाशस्तह्ि- झादिति॥ छान्दोग्यवाक्यमुदाहरति॥इदमिति॥ शालावत्यो ब्राह्म- णो जैवलिं राजानं पृच्छति, अस्य पृथ्वीलोकस्यान्यस्य च क आधार
Page 182
सू० २२।अ० ५] शाङ्करत्रह्मसूत्रभाष्ये (१७५) कंभूताकाशमिति, कुतः, तद्दि प्रसिद्धतरेण प्रयो- गेण शीघ्रं बुद्धिमारोहति। न चायमाकाशशब्द उभयो: साधारणः शक्यो विज्ञातुं, अनेकार्थत्व- प्रसङ्गात्। तस्माद्रह्मणि गौण आकाशशब्दो भवितुमर्हति। विभुत्वादिभिर्हि बहुशिर्धर्मैःसह- शमाकाशेन ब्रह्म भवति, न च मुख्यसम्भवे गौ- णोर्ऽर्थो ग्रहणमर्हति, सम्भवति चेह मुख्यस्यैवा- काशस्य ग्रहणम्। ननु भूताकाशपरिग्रहे वा- क्यशेषो नोपपद्यते "सर्वाणि ह वा इमानि भूता- नि आकाशादेव समुत्पद्यन्ते" इत्यादिः। नैष दोषो भूताकाशस्यापि वाय्वादिक्रमेण कारण- त्वोपपत्तेः। विज्ञायते हि "तस्माद्ा एतस्मादा- त्मन आकाश: सम्भूतः आकाशाद्वायुः वायोर- ग्निः" इत्यादि।ज्यायस्त्वपरायणत्वे अपि भूता- तरापेक्षयोपपद्येते भूताकाशस्यापि, तस्मा- दाकाशशव्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते न्रूम:, आकाशस्तल्लिद्गात्। आकाशशब्देनेह व्र- इति। राजा ब्रूते आकाश इतिहेति॥ यदेष आकाश इत्यानन्दत्व- स्यासाधारणस्य श्रवणादाकाशो ब्रह्मेत्यवधारितम्। आकाशो वै नामे- त्यत्र तद्रह्लेति वाक्यशेषादिति विभागः।निर्वहिता उत्पत्तिस्थितिहेतुः, ते नामरूपे, यदन्तरा यरमान्निन्ने यत्र कल्पितत्वेन मध्ये स इति वा- र्थः। अत्र पूर्वपक्षे भूताकाशात्मनोद्रीथोपासितिः, सिद्धान्ते ब्रह्मात्मना
Page 183
(१७६) रत्नप्रभाभासिते [अ० १पा० १1 ह्रणो ग्रहणं युक्तम्। कुतः। तल्लिङ्गात्। परस्य हि ब्रह्मण इदं लिङ्गं. "सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते"इति। परस्माद्वि व्र- ह्रणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा। न- नु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं द- रशितम्। सत्यं दर्शितम्। तथापि मूलकारस्य व्र- ह्मणोऽपरिग्रहादाकाशादेवेत्यवधारणं सर्वाणी- ति च भूतविशेषणं नानुकूलं स्यात्। तथा "आ- काशं प्रत्यस्तं यन्ति" इति ब्रह्मलिद्गं "आका- शो त्येवैभ्यो ज्यायानाकाशः परायणम्" इति च जायस्त्वपरायणत्वे ज्यायस्त्वं त्यनापेक्षिकं परमात्मन्येवैकस्मिन्नाम्ननातं "ज्यायान् पृथि- व्या ज्यायानन्तरिक्षात् ज्यायान्दिवो ज्याया- नेभ्यो लोकेभ्यः इति, तथा परायणत्वमपिप- रमकारणत्वात् परमात्मन्येवोपपन्नतरम्। श्रु- इति फलम् उपास्ये स्पष्टन्रह्मलिङ्गवाक्यसमन्वयोक्तेरापादं श्रुत्यादि- सङ्गतयः । स्पष्टमत्र भाष्यम्। तेजःप्रभृतिषु वाय्वादेरपि कारणत्वात् एवकारश्रुतिबाधः। सर्वश्रुतेश्व्वाकाशातिरिक्तविषयत्वेन सङ्कोचः स्या- दित्याह ॥ सत्यं दर्शितमिति ॥ ब्रह्मणस्तु सर्वात्मकत्वात्तस्मादेव सर्वमिति श्रुतिर्युक्तेति भावः। तथा सर्वलयाधारत्वं निरतिशयमहत्वं स्थितावपि परमाश्रयत्वमित्येतानि स्पष्टानि व्रह्मलिङ्गानीत्याह॥ त- था आकाश़मित्यादिना॥ रातेर्धनस्य दातुः। रातिरिति पाठे बन्धु-
Page 184
सू० २२।अ० ८।] शाङ्करब्रह्मसूत्रभाष्ये (९७७) तिश्च क्रवति "विज्ञानमानन्दं ब्रह्म रातेर्द्ातुः प- रायणम्। इति। अपि चान्तवत्वदोषेण शाला- वत्यस्य पक्षं निन्दित्वाऽनन्तं किश्चिद्कतुकामेन जैवलिनाSSकाश: परिगृहीतः, तञ्चाकाशमुद्गीथे सम्पाद्योपसंहरति "स एष परो वरीयानुद्वीथः स एषोऽनन्तः" इति, तच्चानन्त्यं ब्रह्मलिङ्गम्। यत् पुनरुक्तं भूताकारशं प्रसिद्धिबलेन प्रथमतरं रित्यर्थः। लिङ्गान्तरमाह ॥ अपि चेति॥ दाल्भ्यशालावत्यौ ब्राह्मणौ राजा चेति त्रय उद्वीथविद्याकुशला विचारयामासुः किमुद्रीथस्य प- रायणमिति। तत्र स्वर्गादागताभिरद्िर्जीवितेन प्राणेन क्रियमाणोद्ी- थस्य स्वर्ग एव परायणमिति दाल्भ्यपक्षमप्रतिष्ठादोषेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोक: प्रतिष्ठेत्युवाच। तं शा- लावत्यस्य पक्ष"मन्तवद्ै किलते शालावत्य सामे"ति राजा निन्दित्वा- नन्तमेवाकाशं वक्ति भूताकाशोक्तावन्तवत्वदोषतादवस्थ्यादित्यर्थः । नन्वाकाशोऽनन्त इति न श्रुतम् इत्याशङ्कयाह॥ तं चेति॥उद्वीथ आकाश एवेति सम्पादनात् उद्वीथस्यानन्तत्वादिकं न स्वत इति भा- वः। स उद्गीथावयव ऊँकार एष, आकाशात्मकः परः रसतमत्वादि- गुणैरुत्कष्टः। अतोऽक्षरान्तरेभ्यो वरीयान् श्रेष्ठ इत्यर्थः ॥ पर इति अव्ययं सकारान्तं वा, परः कत्लमिति प्रयोगात्। परश्ासौ वरेभ्यो- डतिशयेन वरः परोवरीयान् इत्यर्थः। प्राथम्यात् श्रुतित्वाच्चाकाशश- व्दो वलीयानित्युक्त स्मारयति॥ धत् पुनरिति ॥ एवकारसर्वशब्दा- नुगृहीतानन्त्यादिबहुलिङ्गानामनुग्रहाय "त्यजेदेकं कुलस्यार्थे" इति न्यायेनैकस्थाः श्रुतेबाधो युक्त इत्याह॥ अत्र ब्रूम इति॥ आकाशप दाङूतस्यैव प्रथमप्रतीतिरिति नियमो नास्तीत्यपिशव्देन य्योतितम। 22
Page 185
(१७८) रत्नप्रभाभासिते [अ० १। पा० १। प्रतीयत इति अत्र ब्रूम:, प्रथमतरं प्रतीतमपि सद्वाक्यशेषगतान् ब्रह्मगुणान् दृष्टा न परिग- त्यते। दर्शितश्र ब्रह्मण्यप्याकाशशब्दः "आ- काशो वै नामरूपयोनिर्वहिता" इत्यादौ। तथा- काशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यते "ऋचोअक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः "सैषा भार्गवी वारुणी विद्या प- रमे व्योमन् प्रतिष्ठिता""ऊ कं ब्रह्म खं ब्रह्म खं पुराणम्" इति चैवमादौ। वाक्योपक्रमेऽपि व- र्तमानस्याकाशशब्दस्य वाक्यशेषवशाधुक्ता
इति हि वाक्योपक्रमगतोऽप्यग्निशब्दो माणव- कविषयो दृश्यते। तस्मादाकाशशब्दं ब्रह्मेति सिद्दम्॥ २२ ॥ त्र युक्तिमाह॥ दर्शितश्रेति॥ आकाशपदाद्गौणार्थस्य ब्रह्मणोऽपि प्रथमप्रतीतिरस्ति तस्य तत्पर्यायाणां च ब्रह्मणि प्रयोगप्राचुर्यादिति भाव:। अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः । ॐकारः कं सुखं ब्रह्म खं व्यापकमित्युपासीत श्रुत्यन्तरप्रयोगमाह ॥ खं पुराणमिति॥ व्या- प्यनादि ब्रह्मेत्यर्थः। कं ब्रह्म खं ब्रह्मेति छान्दोग्यं, ॐ खं ब्रह्म खं पु- राणमिति वृहदारण्यकमिति भेदः। किं च तत्रैव प्रथमानुसारेणोत्तरं नेयं यत्र तन्नेतुं शक्यं, यत्र त्वशक्यं तत्रोत्तरानुसारेण प्रथमं नेयमि- त्याह॥ वाक्येति॥ तस्मादुपास्ये ब्रह्मणि वाक्यं समन्वितमित्युप-
Page 186
(१७९)
अतएव प्राणः ॥ २३।। "उद्गीथे प्रस्तोतर्या देवता प्रस्तावमन्वाय- त्ता" इत्युपक्रम्य श्रूयते "कतमा सा देवतैति प्राण इति होवाच सर्वाणि ह वा इमानि भूता- नि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सै- षा देवता प्रस्तावमन्वायदा" इति। तत्र संशय- निर्णयौ पूर्ववदेव द्रष्टव्यौ, "प्राणवन्धनं हि सो- म्य मनः प्राणस्य प्राणम्" इति चैवमादौ ब्र- ह्रविषयः प्राणशब्दो दृश्यते, वायुविकारे तुप्र सिद्धतरो लोकवेदयोरत इह प्राणशब्देन कतर- स्योपादानं युक्तमिति भवतिसंशयः। किं पुन- संहरति॥ तस्मादिति॥ २२॥ आकाशवाक्योक्तन्यायं तदुत्तरवा- क्येऽतिदिशति॥ अत एव प्राणः ॥। उद्वीथप्रकरणमिति ज्ञापनार्थमु- द्वीथ इति भाप्यपदम् उद्गीथप्रकरणे श्रूयते इत्यन्वयः। कश्ििदृषिश्रा- क्रायण: प्रस्तोतारमुवाच, हे प्रस्तोतः या देवता प्रस्तावं सामभक्तिमनु- गताध्यानार्थ तां चेद्देवतामज्ञात्वा मम विदुषो निकटे प्रस्तोष्यसि मू- र्धा ते पतिप्यतीति। ततो भीतः सन् पप्रच्छ कतमा सा देवतेति उत्तरम्। प्राण इति॥ प्राणमभिलक्ष्य सम्यक् विशन्ति लीयन्ते त- मभिलक्ष्योज्जिहते उत्पयन्त इत्यर्थः । अतिदेशत्वात् पूर्ववत् संश- यादि द्रष्टव्यमित्युक्तं विवृणोति॥ प्राणेति ॥ मनउपाधिको जीवः, प्राणेन व्रह्मणा वध्यते सुपुपावेकीभवति प्राणस्य वायोः प्राणं प्रेरकं तस्य सत्तारफृतितिप्रदमात्मानं वे विदुस्ते ब्रह्मविद इत्यर्थः । पृर्वेण गता-
Page 187
(9c0). रत्नप्रभाभासिते [अ० १।पा० १। रत्र युक्तं वायुविकारस्य पञ्चवत्ते: प्राणस्योपा- दानं युक्तम्। तत्र हि प्रसिद्धतरः प्राणशब्द इ त्यवोचाम। ननु पूर्ववदिहापि तह्िङ्गात् ब्रह्मण- एव ग्रहणं युक्तमिहापि हि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते। न, मु- रवयेऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात्। एवं स्याम्नायते "यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं म- नः स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते" इति। प्रत्यक्षञ्चैतत् स्वापकाले प्राणवत्तावप- रिलुप्यमानायामिन्द्रियवत्तयः परिलुप्यन्ते, प्र- बोधकाले च पुनः प्रादुर्भवन्तीति। इन्द्रियसार- त्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसं- वेशनोद्गमनवादी वाक्यशेषः। अपि चादित्योऽ-
र्थत्वात् पृथक्सूत्रं व्यर्थमिति शङ्कते॥ ननु पूर्ववदिति॥ अधिका- शङ्कानिरासार्थमतिदेशसूत्रमिति मत्वा शङ्कामाह ॥ न मुख्येऽपी- ति॥ तहि तदा चक्षुरप्येतीति एवम्प्रकारेण सर्वत्र सम्बन्धः। नन्वत्रे- न्द्रियाणां प्राणे लयोदयौ श्रूयेते तावता महाभूतलयादिप्रतिपादकवा- क्यशेषोपपत्तिः कथमित्यत आह॥इन्द्रियसारत्वादिति॥ "इत्यस्य झेप रसः," इति श्रुतेः इन्द्रियाणि लिङ्गात्मरूपाणि अपश्चीकुतभूता- नां साराणि तेषां लयायुक्त्या भूतानामपि प्राणे लयादिसिद्धे: वाक्य- शेपोपपत्तिरित्यर्थः। अव्रह्मसहपाठाच प्राणो न ब्रह्मेत्याह ॥ अपि
Page 188
सृ. २३। अ० १] शाङ्करब्रह्मसूत्रभाष्ये (१८१) न्नश्चोद्ीथप्रतिहारयोर्देवते प्रस्तावदेवतायाःप्रा- णस्यानन्तरं निर्दिश्येते, न च तयोर्ब्रह्मत्वमस्ति तव्सामान्याच्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह। "अतएव प्राण" इति।त- छ्विङ्गादिति पूर्वसूत्रे निर्दिष्टमत एव तल्लिङ़ात् प्रा- णशब्दमपि परं ब्रह्म अवितुमर्हति, प्राणस्यापि हिब्रह्मलिङ्सम्बन्धः श्रयते "सर्वाणि ह वा इ- मानि भूतानि प्राणमेवाभ्िसंविशन्ति प्रणमभ्यु- जिहते" इति प्राणनिमित्तौ सर्वेषां भूतानामुत्य- त्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः। ननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्श- नमविरुद्धं स्वापप्रबोधयोर्दर्शनादिति। अत्रो- च्यते। स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, न सर्वेषां भूता- नाम् इह तु सेन्द्रियाणां सशरीराणाञ्च जीवा- विष्ठानां भूतानां "सर्वाणि ह वा इमानि भूता- चेति। उद्धातृप्रतिहर्तृभ्यामुद्रीथे प्रतिहारे च का देवतेति पृष्ठेनच कायणेनादित्योSन्नंच निर्दिश्येते आदित्य इति होवाच अन्दमितस वाचेति श्रुतावित्यर्थः। सामान्यं सन्निध्यनुगृहीतप्रथमद्य त्या मुख्यप्राणनिर्णये तद्दष्ट्या प्रस्तावोपास्तिरिति पूर्वपक्पर न्ते ब्रह्मदृष्टिरूपोपासितः। तिरिति विभाग: भवन्तीति भूतानीति
Page 189
(१८२) रत्नप्रभाभासिते [अ० १।पा० १ नि" इति श्रुतेः। यदाऽपि भूतश्रुतिः महाभूत- विषया परिग्ृव्व्ते तदापि ब्रह्मलिङ़त्वमविरुद्ध- म्। ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबो धयोः प्राणेऽप्ययं प्राणाञ्च प्रभवं शृणुमः "यदा सुप्तः स्वनं न कञ्चन पश्यत्यथास्मिन् प्राण ए- वैकधा भवति तदैनं वाकू सर्वैर्नामभिः सहाप्ये- ति" इत्यत्र तत्रापि तल्िङ्ात् प्राणशब्दं ब्रह्मैव। यत् पुनरन्नादित्यसन्निधानात् प्राणस्याव्रह्मत्व- मिति तद्युक्तं वाक्यशेषबलेन प्राणशब्दस्य व्र- ह्मविषयतायां प्रतीयमानायां सन्निधानस्या- किश्चित्करव्वात्। यत् पुनः प्राणशब्दस्य पञ्च- वत्तौ प्रसिद्धतरत्वं तदाकाशशब्दस्येव प्रतिविं- कं कार्यमात्रं तस्य लयोदयौ वायुविकारे प्राणेन युक्तावित्युक्का भूतशब्द- स्य रूढार्थग्रहेऽपि लयादेर्वह्मनिर्णायकत्वमित्याह ॥ यदापीति॥ भौतिकप्राणस्य भूतयोनित्वायोगादित्यर्थः।तस्य तयोनित्वं श्रुत्या श- ङते॥ नन्विति ॥ अथ यदा सुषुप्तौ जीवः प्राणे ब्रह्मण्येकीभवति तदा एनं प्राणं सविषया वागादयोऽपि यन्तीत्यर्थः।अत्र जीवाभिन्नत्व- सर्वलयाधारत्वलिङ्गगन्नमुख्यः प्राण इत्याह ॥तत्रापीति॥ वाक्यान्त- रसन्निध्यपेक्षया स्ववाक्यगतं लिङगूं बलीय इत्याह॥।ं तद्युक्तमिति॥ एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्रतं लिङं तेनेत्यर्थः। प्राणमेवे- त्यवधारणेन सर्वभूतप्रकृतित्वलिड्गेन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह ।। तदाकाशशव्दस्येवेति॥ वृत्तिकतामुदाहरणं सं- १ समाधेयम्।
Page 190
सू० २४ /अ० १०।] शाङ्गरव्रह्मसूत्रभाष्ये (१८३) धेयम्। तस्मातू सिद्धं प्रस्तावदेवतायाः प्राण- स्य ब्रह्मत्वम। अत्र केचिदुदाहरन्ति "प्राणस्य- प्राणं प्राणबन्धनं हि सोम्य मन" इति च तद्यु- कंशब्दभेदात् प्रकरणाच् संशयानुपपत्तेः। यथा पितुःपितेति प्रयोगे अन्यः षष्टीनिर्दिष्टात्प्रथमा- निर्दिष्टः पितुः पितेति गम्यते, तद्दत् प्राणस्य प्राणमिति शब्दभेदात् प्रसिद्धात् प्राणादन्यः प्राणस्य प्राणम् इति निश्चीयते। न हिसएवं तस्येति भेदनिर्देशार्हो भवति। यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकर- णनिर्दिष्ट इति गम्यते। यथा ज्योतिष्ठोमाधिकारे "वसन्ते वसन्ते ज्योतिषा यजेत" इत्यत्र ज्यो- तिःशब्दो ज्योतिष्ठोमविषयोभवति तथा परस्य ब्रह्मणः प्रकरणे"प्राणबन्धनं हि सोम्यमन"इति श्रुतेः प्राणशब्दो वायुविकारमात्रं कथमवगम- येदतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम्। प्रस्तावदेवतायान्तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः ॥२३॥
इदमामनन्ति "अथ यदतःपरो दिवो ज्योति- शयाभावेनायुक्तमित्याह ॥ अत्रेत्यादिना ॥ शब्दभेदमुक्का प्रकरणं
Page 191
(१८४) रत्नप्रभाभासिते दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेपूत्तमे षु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे- ज्योतिः" इति।तत्र संशशयः। किमिह ज्योतिः शब्देनादित्यादिक ज्योतिरभ्षिधीयते किंवा पर आत्मेति अर्थान्तरविषयस्यापि शब्दस्य त-
नास्तीति विचार्यते। किंतावत् प्राप्तम्, आ- दित्यादिकमेव ज्योतिःशब्देन परिगृद्यते इ- ति।कुतः।प्रसिद्धेः, तमो ज्योतिरिति हीमौ श- व्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ। चक्षुर्व- त्तेर्निरोधकं शार्वरादिकं तम उच्ते तस्या एवा- प्रपश्चयति ॥ यस्य चेति॥ २३॥ ज्योतिश्ररणाभिधानात्॥ छा- न्दोग्यमेवोदाहरति॥ इदमिति ॥ गायत्रयुपाधिकव्रल्मोपास्त्यानन्त- र्थार्थोऽथशव्दः। अतो दिवो युलोकातू परः परस्तायत् ज्योतिर्दीप्यते तथदिदमिति जाठरान्नावध्यस्यते। कुत्र दीप्यते तत्राह॥विश्वत इति॥ विश्वसमात् प्राणिवर्गादुपरि सर्वस्मातू भूरादिलोकादुपरि ये लोकास्ते- सूत्तमेपु न विद्यन्ते उत्तमा येभ्य इत्यनुत्तमेत्रु सर्वसंसारमण्डलातीतं परं ज्योतिरिदमेव यद्देहस्थमित्यर्थः। अस्य पूर्वेणागतार्थत्वं वदन् प्रत्युदा- हरणसङगतिमाह॥अर्थान्तरेति॥अत्र स्ववाक्ये स्पष्टव्रह्मलिङ्गाभावे- Sपि "पादोस्ये"ति पूर्ववाक्ये भूतपादत्वं लिङ्गमस्तीति पादसङ्गतिः। पूर्वोत्तरपक्षयोर्जडव्रल्मज्योतिषोरुपार्तिः फलमिति भेदः । नन्वज्ञानत- मोविरोधित्वात् व्रह्मापि ज्योतिःपदशक्यतया प्रसिद्धमसिति नेत्याह॥ चक्षुरिति॥ शर्वर्या रात्रौ भवं शार्वरं नीलमिति यावत्, अनेनावर-
Page 192
सू०२४ । अ०१०] शाङ्गरब्रह्मसूत्रभाष्ये (१९५) नुग्राहकमादित्यादिक ज्योतिस्तथा दीप्यते, इ- तीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा। न हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्ह- ति। घुमर्यादत्वश्रुतेश्र्, न हि चराचरवीजस्य ब्रह्मण: सर्वात्मकस्य धयौर्मर्यादा युक्ता, कार्य- स्य तु ज्योतिष: परिच्छिन्नस्य दयौर्मर्यादा स्यात् परो दिवो ज्योतिरिति च ब्राह्मणम्। ननु कार्य- स्यापि ज्योतिषः सर्वत्र गम्यमानत्वात् दुमर्या- दावत्च्वमसमअ्जसम् अस्तु तर्त्यत्रिवृत्कृतं तेजः प्रथमजम्। न, अत्रिवत्कृतस्यतेजसः प्रयोजना- भावादिति। इदमेव प्रयोजन यदुपास्यत्वमिति चेत्, न, प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपा- स्यत्वदर्शनात्। "तासां त्रिळतं त्रिळतमेकैकां क-
कत्वाद्रूपवच्वाच्च कुड्यवद्धावरूपं तम इत्यर्थादुक्तं भवति। ज्योति :- श्रुतेरनुग्राहकलिङ्गान्याह ॥तथेत्याढिना॥ भास्वररूपात्मिका दीप्ति- स्तेजस एवलिङ्गमित्याह॥नहीति॥ मास्तु मर्यादेत्याशङ्क्य श्रुतत्वा- न्मैवमित्याह ॥ परो दिव इति ॥ मर्यादां ब्रूत इति शेषः। ब्रह्मवत् कार्यस्यापि मर्यादायोगान्निरर्थकं व्राह्मणमिति कश्विदाक्षिपति ॥ नन्विति॥ एकदेशी त्रूते॥ अस्त्विति॥ स्वर्गादौ जातं किश्चिदती- न्द्रियं तेजो दिवःपरस्तादस्ति श्रुतिप्रामाण्यादित्यर्थः। अध्ययनविध्यु- पात्तश्रुतेर्निष्फलं वस्तु नार्थ इत्याक्षेपा ब्रूते । नेति॥ध्यानं फलमि- त्याशडून्यः निष्फलस्य क्ापि ध्यानं नास्तीत्याह॥ इदमेवेत्यादिना।।
Page 193
(१८६) रत्नप्रभाभासिते [अ०१।.पा० १) रवाणि" इति चाविशेषश्रुतेः न चात्रिवत्कृतस्या- पि तेजसोघुमर्यादव्वं प्रसिद्दम्, अस्तुतहित्रिट- त्कृतमेव तत्तेजो ज्योतिःशब्दम्।ननूक्तमर्वागपि दिवोऽवगम्यते Sग्न्यादिकं ज्योतिरिति,नैषदोषः सर्वत्रापि गम्यमानस्य ज्योतिषः परो दिव इति उपासनार्थ: प्रदेशविशेषपरिग्रहो न विरुध्यते, न तु निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पनाक्षा- गिनी।"सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु"इति चाधारबहुत्वश्रुतिः कार्ये ज्योतिषि उपपद्यतेत- रामू, "इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्यो- तिः" इति च कौक्षेये ज्योतिषि परं ज्योतिर- प्रयोजनान्तरं तमोनाशादिकम् अत्निवृत्कतं तेजोऽड्गीकत्याफलत्वमु- क्का तदेव नास्तीत्याह॥ तासामिति॥ तेजोऽबनानां देवतानामेकै- कानू द्दिधा विभज्य पुनश्रवैकैकं भागं द्वेधा कृत्वा स्वभागादितरभाग- योनिक्षिप्य तत्निगुणरज्जुवत्निवृतं करवाणीत्यविशेषोक्तेर्नारित्यत्रिवृ - त्कतं किश्चिढित्यर्थः । किश्चात्र यदतः पर इति यच्छव्देनान्यतः प्रसि- द्वं बुमर्यादत्वं ध्यानायानूदते। न चात्रिवृत्कतस्य तस्य तत् क्वचित् प्र- सिद्धमित्याह॥ न चेति ॥ एकदेशिमते निरस्तें साक्षात् पूर्वपक्षी त्रू- ते॥ अस्तु तहीति॥ प्रदेशविशेषः दिवः परस्ताद्देदीप्यमानः सूर्या- दितेजोऽवयवविशेषः तस्य परिग्रह उपासनार्थो न विरुध्यत इत्यन्वयः स एव कौक्षये ज्योतिषि उपास्यते तस्यापि तेजरत्वादिति भाव:ब्रह्मणो- S पिध्यानार्थ प्रदेशस्थत्वं कल्प्यतां नेत्याह॥न त्विति।।निष्प्रदेशस्य नि- रवयवस्य विशेषेऽति दिवः परस्ताद्वेदीप्यमानव्रह्मावयवकल्पनाभागि-
Page 194
सू०२४। अ०१०] शाङ्करव्रह्मसूत्रभाष्ये (१८७) ध्यस्यमानं दृश्यते। सारूप्यनिमित्ताश्राध्यासा अवन्ति यथा "तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्"इति कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वं "तस्यैषा दृष्टिस्तस्यैषा श्रुतिः" इति चौष्ण्य घोषविशिष्ठत्वस्य श्रवणात् "तदेत त् दृष्टञ्च श्रुतश्च्ेत्युपासीत" इति च श्रुतेश्र्वक्षु- ष्यःश्रुतो भवति, य एवं वेदेति चाल्पफलश्रव- णादब्रह्मत्वं महते हि फलाय ब्रह्मोपासनमि- ष्यते। न चान्यदपि किश्चित् स्ववाक्ये प्राणा- काशवज्जोतिषोऽस्ति ब्रह्मलिङ्गमू। न च पूर्वस्मि- न्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति "गायत्री वा इद सर्व भूतम्"इति छन्दोनिर्देशात्। अथापि कथ- नी युक्ता न त्वित्यन्वयः । अप्रामाणिकगौरवापातादिति भावः।ततः किं तत्राह ॥ सारूप्येति॥ यथा एकत्वसाम्याद्ूरिति व्याहतौ प्रजापतेः शिरोदृष्टि: श्रृता तथा जाठरान्नावव्रह्मत्वं घोषादिश्रुत्या सिद्धमिति जडज्योतिष्टं साम्यं वाच्यमित्यर्थः। यद्देहस्पर्शनेनौष्ण्यज्ञानं प्रसिद्धं सै- षा तस्य जाठराग्नेर्दष्टिः, यत् कर्णपिधानेन घोषश्रवणं, सैषा तस्य श्रु- तिरित्यर्थः। ज्योतिषो जडत्वे लिङ्गान्तरमाह॥ तदेतदिति॥ ज्योति- रित्यर्थः। चक्षुष्यश्र्वक्षुर्हितः सुन्दरः, श्रुतो विख्यातः। न चान्यदपी- ति॥ ब्रह्मलिंगमपि किश्चिदन्यन्नास्तीत्यन्वयः।ननु त्रिपादस्यामृतंदि- वीति पूर्ववाक्योक्तं ब्रह्मात्र ज्योतिःपदेन चेति। ननु सर्वात्मकत्वामृतत्वाभ्यां ङ्डच्याह ॥ न आह॥ अथा- पीति ॥। कथंचिच्छन्दोद्वारेत्यर्थः
Page 195
(१८८) रत्नप्रभाभासिते [अ० १।पा०" ञ्चित् पूर्वस्मिन् वाक्ये ब्रह्म निर्दिष्टंस्यात्, एव- मपि न तस्येह प्रत्यभिज्ञानमस्ति तत्र हि "त्रि- पादस्यामृतं दिवि" इति दयौरधिकरणत्वेन श्रू- यते, अत्र पुनः "परो दिवो ज्योतिः" इति घौ- र्मर्यादाल्वेन। तस्मात् प्राकृतं ज्योतिरिह ग्रात्य्य- मित्येवं प्रात्ते ब्रूमः ज्योतिरिह ब्रह्म ग्रात्म्। कुतः, चरणाभिधानात्, पादाभिधानादित्यर्थः। पूर्वस्मिन हि वाक्ये चतुष्पाद्वह्म निर्दिष्ठं "तावा- नस्य महिमा ततो जयायांश्र पुरुषः। पादोडस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि? इत्यनेन प्रत्यभिज्ञेत्यर्थः । प्रकृतेर्जातं प्राकतं कार्यमित्यर्थः । आचारं नि- रस्यति॥ पादेति॥ गायत्री वा इदं सर्व भूतं बाग्वै गायत्री येयं पृथिव्री यदिदं शरीरं यदस्मिन् पुरुषे हृदयमिमे प्राणा इति भू- तवाकपृथिवीशरीरहृदयप्राणात्मिका पड्डिधा पड्भिरक्षरैश्र्वतुप्पदा गा- यत्रीति। यदुक्तं तावान् तत्परिमाणः सर्वः प्रपश्चोऽस्य गायत्रयनुग- तस्य ब्रह्मणो महिमा विभूतिः, पुरुषस्तु पूर्णव्रह्मरूप:, अतः प्रपश्चा- ज्यायानधिकः। आधिक्यमेवाह॥ पाद इति॥ सर्व जगदेक: पादों- ऽश: "विष्टम्याहमिदं कत्लमेकांशेन स्थितो जगत्" इति स्मृतेः। अस्य पुरुषस्य दिवि स्वप्रकाशस्वरूपे त्रिपादमृतरूपमरिति, दिवि सूर्यमण्डले वा ध्यानार्थमरिति, कल्पिताज्जगतो व्रह्मस्वरूपमनन्त- मस्तात्यर्थः। यथा लोके पादात् पादत्रयमधिकं तथेदमधिकमिति बोधनार्थ त्रिपादमृतमित्युक्तं न त्रिपाच्वं विवक्षितमिति म नतव्यं। यदतः पर इति यच्छव्दस्य प्रसिद्धार्थवाचित्वात् पूर्ववा-
Page 196
सू० २४। अ० १०।] शाङ्गरब्रह्मसूत्रभाष्ये (१6९) मन्त्रेण। तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं दु- सम्बन्धिरूपं निर्दिष्टं तदेवेह दुसम्बन्धात् नि- र्दिष्टमिति प्रत्यभिज्ञायते। तत् परित्यज्य प्राकृ- तं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्नक्रिये प्र- सज्येयाताम्। न केवलं ज्योतिर्वाक्य एव ब्रह्मा- नुवत्तिः, परस्यामपि हि शाण्डिल्यविद्यायामनु- वर्तिष्यते ब्रह्म। तस्मादिह ज्योतिरिति ब्रह्म प्र- तिपत्तव्यम्। यत्तूक्तं "ज्योतिर्दीप्यते" इति च एतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायं दोष:, प्रकरणात्। ब्रह्मावगमे सत्यनयोः शब्द- योरविशेषकत्वात् दीप्यमानकार्यज्योतिरुपल- क्षिते ब्रह्मण्यपि प्रयोगसम्भवात्।"येन सूर्यस्त- क्यप्रसिद्धं ब्रह्म ग्रह्यमित्याह ॥ तत्रेति ॥ ननु यदाग्नेयोऽष्टाक- पाल इत्यत्र यत्पदस्याप्कतार्थकत्वं दष्टमित्यत आह ॥ तत्परि- त्यज्येति॥ तत्र यागस्यान्यतः प्रसिद्धेरभावेनापूर्वत्वादगत्या यदो- Sप्रसिद्धार्थत्वमाश्रितं, इह तु पूर्ववाक्यप्रसिद्धस्य ब्रह्मणो ुसम्ब- न्धेन प्रत्यभिज्ञातस्य यदर्थत्वनिश्वयाद्यत्पदैकार्थकज्योतिःपदस्यापि स एवार्थ इत्यर्थः। सन्दंशन्यायादप्येवमित्याह ॥ न केवलमिति ॥ सर्व खल्विदं ब्रह्मेत्युत्तरत्र ब्रह्मानुवृत्तेर्मध्यस्थं ज्योतिर्वाक्यं ब्रह्मपर- मित्यर्थः ॥ प्रकरणादिति ॥ प्रकतापेक्षयत्पद्श्रुत्या दुसम्बन्धभूतपा- दत्वादिलिङ्गैश्वेत्यर्थः । अतः प्रकरणाज्योतिःश्रुतिबोधो न युक्त इति निरस्तं॥ अविशेषत्वादिति॥व्रह्मव्यावर्तकत्वाभावादित्यर्थः।येन ते- जसा चैतन्येनेद्ः प्रकाशितः सूर्यस्तपति प्रकाशयति तं बृहन्तमवेद-
Page 197
(१९२) रत्नप्रभाभासिते [अ० १ ।पा.१। कविशेषसम्बन्धं वा ब्रह्मोपदिश्यते तत्र संसार गोचराण्येवोच्चावचानि फलानि दश्यन्ते "अन्ना- दो वसुदानो विन्दते वसुय एवं वेद" इत्याद्यासु श्रुतिषु। यद्यपि न स्ववाक्ये किञ्चिज्योतिषो व्र- ह्मलिद्गमस्ति तथापि पूर्वस्मिन् वाक्ये दृश्यमानं गृहीतव्यं भवति। तदुक्तं सूत्रकारेण ज्योतिश्र- णाश्िधानादिति। कथं पुनः वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिः स्वविषयात् प्र- च्याव्य शक्या व्यावर्तयितुम्।नैष दोषः।"यद- तः परो दिवो ज्योतिःइति प्रथमतरपठितेन य- च्छब्देन सर्वनाम्त्ना दुसम्बन्धात् प्रत्यभिज्ञाय- माने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्यन प- रामृष्टे सति अर्थाज्योतिःशब्दस्यापि ब्रह्मवि- षयत्वोपपत्तेः। तस्मादिह ज्योतिरिति ब्रह्म प्रति- पत्तव्यम्॥२४॥
न्नाद:, अन्नस्यासमन्ताद्दाता वा। वसु हिरण्यं ददातीति वसुदान इ- ति गुणविशेषसम्बन्धं यो वेद सधनं विन्दते दीप्तान्निश्व भवति ना- स्रो वागुत्तमा मनो वा प्रतीकं वाचो भूय इति प्रतीकविशेषध्यानश्रुति- संग्रहार्थमाद्यपदं सन्निधे:श्रुतिर्बलीयसीति शङ्कते॥कर्थ पुनरिति॥अथ प्रथमश्रुत्यनुसारेण चरमश्रुतिर्नीयत इत्याहानिषइति।सर्वनाम्रा रवसा- मर्थ्येन स्वस्य सर्वनाम्नःसामर्थ्य सन्निहित वाचित्वं तइलेन परामृष्टे सती- तियोजना। अर्थायत्पदसामानाधिकरण्यादित्यर्थः। छन्दोऽभिधानाद्-
Page 198
२५/अ०१०।] शाङ्करब्रह्मसूत्रभाष्ये (१९३ ) छन्दोऽभिधानान्नेति चेन्न तथा चेतो- उर्पणनिगदात्तथाहि दर्शनम् ॥२५॥ अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्माभि- हितमस्ति "गायत्री वा इदं सर्व भूतं यदिदं कि- ञ्ञ" इति गायत्र्याख्यस्य छन्दसोऽसिहितत्वा- दिति तत् परिहर्तव्यम्। पुनश्छन्दोडभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तु, यावता "तावा- नस्य महिमा" इत्येतस्यामृचि चतुष्याद्वह्म द- शित। नैतदस्ति। "गायत्री वा इदं सर्व) इति गायत्रीमुपक्रम्य तामेव भूतपृथिवीशरीरहृदय-
धा गायत्री" तदेतदृचाभ्यनूक्तं "तावानस्य म- हिमा" इति तस्यामेव व्याख्यातरूपायां गाय- त्यामुदाहतो मंत्रः कथमकस्माद्वह्मचतुष्पादभि- दध्यात्। योऽपि तत्र "यद्वै तत् ब्रह्म" इति ब्रह्म- शब्द:, सोऽपि छन्दसः प्रकृतत्वात् छन्दोविषय एव।"य एतामेवं ब्रह्मोपनिषदं वेद" इत्यत्र हि झ्र प्रकतं नास्तीति शङ्कामेकदेशी दूपयति॥कथमिति॥शंकां साधयति । नैतदित्यादिना॥ चतुष्पदत्वादिकं पूर्वमेव व्याख्यातं॥ य एता- मेवमिति॥ वेदरहस्यभूतां मधुविद्यामेवमुक्तरीत्या यः कश्विद्देद त- स्योदयास्तमयरहितत्रह्मप्राप्तिर्भवतीत्यर्थः। तथा च वेदत्वात् गायत्र्यां २५
Page 199
(१९४) रत्नप्रभाभासिते [अ० १।पा० १। वेदोपनिषदमिति व्याचक्षते। तस्माच्छन्दोऽभि- धानान्न ब्रह्मणः प्रकृतत्वमिति चेतु। नैष दोषः। तथा चेतोऽर्पणनिगढ़ात्, तथा गायत्र्याख्यच्छ- न्दोद्वारेण तदनुगते ब्रह्मणि चेत सोऽर्पणं चित्तस- माधानमनेन ब्राह्मणवाक्येन निगद्यते"गायत्री वा इदं सरव इति। न त्यक्षरसन्निवेशमात्राया गायत्र्याः सर्वात्मकत्वं सम्भवति। तस्माद्यद्गा- यत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म निर्दि- एं,तदिह "सर्व" इत्युच्यते। यथा"सर्व खल्विदं ब्रह्म" इति। कार्यब्र कारणादव्यतिरिक्तमिति
इत्यत्र, तथान्यत्रापि विकारद्वारेण ब्रह्मण उपा- सनं दश्यते "एतं त्येव बव्हचा महत्युक्थे मीमां- ब्रह्मशव्दो युक्त इति भावः॥ गायत्रीशब्देन तदुपादानत्वेनानुगतव्रह्म- लक्षणायां बीजमनुपपत्तिमाह ॥ न ह्यक्षरेति ॥ त्रह्मणोऽपि कथं सर्वात्मकत्वं तत्राह॥ कार्यश्चेति॥ न च गायत्र्या ध्यानार्थ सर्वात्म- कत्वारोप इति वाच्यं स्वतः सर्वात्मनो ध्यानसम्भवेनासदारोपायो- गादिति भावः। तथा हि दर्शनमिति सूत्रशेषं व्याचष्टे । तथान्यत्रे- ति। दृश्यत इति दर्शनं दृष्टमित्यर्थः । एतं परमात्मानं वव्हचाऋ- ग्वेदिनो सहत्युक्थे शस्त्रे तद्नुगतमुपासते। एतमेवागनिरहस्ये तमे- तमग्निरित्यध्वर्यव उपासत इति श्रुतेः यजुर्वेदिनोऽय्रौ उपासते। ए- तमेव छान्दोगाः सामवेदिनो महाव्रते कतौ उपासते, इति तैत्तिरीय- के दष्टमित्यर्थः। गायत्रीशब्दो ब्रह्मलक्षक इति व्याख्याय गौण इत्या-
Page 200
सू० २५/अ०१०] शाङ्करब्रह्मसूत्रभाष्ये (१९५) सन्ते एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः इति। तस्मादस्ति छन्दोडभिधानेऽपि पूर्वस्मिन् वाक्ये चतुष्पाद् ब्रह्म निर्दिष्टं,तदेव ज्योतिर्वाक्ये- डपि परामृश्यते, उपासनान्तरविधानाय। अपर आह साक्षादेव गायत्रीशव्देन ब्रह्म प्रतिपाद्ते संख्यासामान्यात् यथा गायत्री चतुष्पदा षड- क्षरैः पादैस्तथा ब्रह्म चतुष्पात्। तथाऽन्यत्रापि छन्दोडभिधायी शब्दोऽर्थान्तरे संख्यासामा- न्यात् प्रयुज्यमानो दृश्यते। तद्यथा "ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तः तत्कृतं"इत्युपक्र- ह। अपर इति॥ साक्षादेव वाच्यार्थग्रहणं विनैवेति यावंतू पूर्व तू- पास्यतया गायत्रीपदेनाजहल्लक्षणया गायत्री ब्रह्मणी हे अपि लक्षिते। न च गायत्री सर्वमित्यन्वयासम्भवः । घटो रूपीति पदा्थैकदेशे व्यक्तौ रूपान्वयवत् गायत्रीपदार्थैकदेशे गायत्रयनुगते ब्रह्मणि प्रधाने सर्वात्मकत्वान्वयसम्भवादितिभावः। तथा च सूत्रे सिद्धान्तभागस्या- यमर्थः। तथा गायत्रीवञ्चतुष्पात्वगुणसामान्याच्चेतो ब्रह्मणि समर्प्यते येन स चेतोऽर्पणो गायत्रीशब्दस्तेन ब्रह्मण एव निगदात्, अभिधाना- तू, छन्दोडभिधानमसिद्धमिति। अधुना तथा हि दर्शनमिति शेषं व्याचष्टे। तथेति ॥ संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्राम्भांसि वा- यौ लीयन्ते। अध्यात्मं वाक्चक्षुःश्रोत्रमनांसि प्राणमपि यन्तीत्युक्तं ते वा एते पश्चान्ये आधिदैविका:, पश्चान्ये आध्यात्मिकास्ते मिलि- त्वा दशसंख्याकाः सन्तः कृतमित्युच्यन्ते । सन्ति हि कृतत्रेताद्दापर- कलिसंज्ञकानि चत्वारि यूतानि क्रमेण चतुरङ्कतयद्ूव्यड्ैकाङ्कानि त-
Page 201
(984) रत्नप्रभाभासिते [अ० १। पा० १। म्याह "सैषा विराडन्नादिनी" इति।अस्मिन् प- क्षे व्रह्मैवाभिहितमिति न छन्दोऽभिधानं सर्वथा- ऽप्यस्ति पूर्वस्मिन् वाक्ये प्रकतंब्रह्म॥२५॥
इतश्रैवमभ्युपगन्तव्यमस्ति। पूर्वस्मिन् वाक्ये प्रकृतं ब्रह्मेति यतो भूतादीन् पादान् व्यपदिशति। भूतपृथिवीशरीरहदयादीनि हि निर्दिश्याह "सैषा चतुष्पदा षड़िधा गायत्री" इति। न हिब्रह्मानाश्रयणे केवलस्य छन्दसो भूतादय: पादा उपपद्यन्ते। अपि च ब्रह्मानाश्र- यणे नेयमृक् सम्बध्येत "तावानस्य महिमा" इति। अनया हिऋचा स्वरसेन ब्रह्मैवाशिधीय- त्र कृतं दशात्मकं भवति चतुर्ष्वकेपु त्रयाणां त्रिषु इयोद्दयोरेकस्य चा- न्तर्भावात्, तथा च दशत्वगुणेन वाय्वादयः कृतशव्देनोच्यन्ते। एवं कृतत्वं वाय्वादीनासुपकम्याह॥ सैषेति॥ विधेयापेक्षया स्त्रीलिङ्गनि- र्देशः, विराट्पदं छन्दोवाचकं "दशाक्षरा विराट्" इतिश्रुते; दशत्व- साम्येन वाय्वादयो विराडित्युच्यन्ते। एवश्च दशत्वद्वारा वाय्वादिषु क- तत्वं विरादत्वञ्च ध्येयं, तत्र विराद्त्वध्यानात् सर्वमस्यान्नं भवति "अन्नं विराट्" इति श्रुतेः कृतत्वध्यानादनादो भवति कतघूतस्या- नादत्वात्। कृतं हि स्वीयचतुरङ्गेषु तयङनदिकमन्तर्भावयदन्नमत्तीव लक्ष्यते। अत एव कृतजयादितरद्यूतजयः श्रुत्युक्तः। कताय विजिंता- याध गया: संयन्तीति; अयो बूत कृतसंज्ञोऽयः कतायः स विजितो ये- न तस्मै, अधरेयाः त्र्यंकादयः अयाः संयन्ति उपनमन्ते तेन
Page 202
सू० २६।अ०१० शाङ्करबरह्मसूत्रभाष्ये (१९७) ते "पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दि- वि" इति सर्वात्मत्वोपपत्तेः पुरुषसूक्तेऽपीयमृ- कू ब्रह्मपरतयैव समाम्न्नायते। स्मृतिश्र्व ब्रह्मण एवं रूपतां दर्शयति"विष्टभ्याहमिदं कृत्स्मेकां- शेन स्थितो जगत्" इति "यह्ै तद्रह्म" इति च निर्देश:। एवं सति मुख्यार्थ उपपद्यते। "ते वा जिता भवन्तीत्यर्थः । एवञ्च सा वाय्वादिदशात्मिका एषा कतश- ब्दिता विराडन्नं कृतत्वादन्ादिनीत्यर्थः ॥ सर्वथापीति ॥ गा- यत्रीति पदस्य रक्षकत्वे गौणत्वेऽपि चेत्यर्थः । अत्रापर आहे- त्यपरपदेन गौणत्वं स्वमतं नेति दोतयति । अजहल्लक्षणापक्षे हि वाग्वै गायत्रीति वागात्मत्वं गायति च त्रायते चेति निरुक्तनामकश्च गायत्र्या उपाधित्वेनोपास्यत्वादुपपन्नतरं गौणपक्षे गायत्रीत्यागात्तदु- भयं सर्वात्मकत्वमात्रेणोपपादनीयं, एवं गायत्रीपदस्य स्वार्थत्यागो- Sप्रसिद्धचतुष्पात्त्वगुणद्दारा विप्रकष्टलक्षणा चेति बह्वसमञ्जसम्। ननु "गायत्री वा इदं सर्व" इति प्रथमगायत्रीश्रुतेः कथं लक्षणेत्या- शङ्कच वाक्यशेषगतसर्वात्मकंत्वादनेकबलवतू प्रमाणसंवादेन ब्रह्म- णि तात्पर्यावगमादित्याह ।भूतादिपादेति॥ पदार्थमाह ॥ इत- श्रेति॥ सूत्रस्थादिपदार्थ दर्शयति ॥भूतप्टथिवीति॥अत्र सूत्रभा- ष्यकारयोर्भूतादिभिश्व्वतुष्पदा गायत्रीति सम्मतंषडक्षरैश्र्वतुष्पाच्वं वृ- त्तिकारोक्तप्रसिद्धं चकारसूचितं युक्त्यन्तरमाह॥ अपि चेति॥ ब्रह्म- परसूक्तोत्पनत्वाच्च तस्यास्तत्परत्वमित्याह ॥ पुरुषेति॥ ब्रह्मपदस्य छन्दवाचित्वमुक्तं निरस्यति ॥ यद्वै तत् ब्रह्मेति॥ पूर्वस्यामृचि व्र- झ्लोक्ावित्यर्थ: हृदयस्य चतुर्दिक्षूध्व च पश्चसुषयः सन्ति तेषु ब्रह्मस्था- नहन्नगरस्य प्रागादिद्दारेषु क्रमेण प्राणव्यानापानसमानोदानाः पश्च
Page 203
(१९८) रत्नप्रभाभासिते [अ० १।पा० १। एते पञ्च ब्रह्मपुरुषाः इति च "हृदयसुषिषु त्र- ह्मपुरुष:"इतिश्रुतिः ब्रह्मसम्बन्धितायां विव- क्षितायां सम्भवति। तस्मादस्ति पूर्वस्मिन् वा- क्ये प्रकृतं ब्रह्म। तदेव ब्रह्म ज्योतिर्वाक्ये घ्ुस- म्बन्धात् प्रत्यभ्िज्ञायमानं परामृश्यत इतिस्थि- तम् ॥ २६॥ उपदेशभेदाननेति चेन्नोभयस्मिन्नप्य- विरोधात्॥२७॥ यदप्य इप्येतदुक्तं पूर्वत्र "त्रिपादस्यामृतं दिवी"ति सप्तम्या दौराधारत्वेनोपदिष्ठा, इह पुनरथ यद- तः परो दिव इति पञ्चम्या मर्यादालवेन तस्मादु- पदेशभेदात् न तस्येह प्रत्यभिज्ञानमस्तीति तत् परिहर्तव्यं। अत्रोच्यते, नायं दोष उभयस्मिन्न- द्वारपाला इति ध्यानार्थ श्रुत्या कल्पितं। तत्र हृदयच्छिद्रस्थप्राणेषु ब्रह्मपुरुषत्वश्रुतिर्हृदि गायत्र्याख्यव्रह्मण उपासनासम्बन्धितायां ब्र- हरणा द्वारपालत्वाद्रल्मपुरुषा इति सम्भवतीत्याह ॥ पञ्च ब्रह्मेति॥ दिवि दिव इति विभक्तिभेदात् प्रकुतप्रत्यभिज्ञा नारतीत्युक्तं नोपेक्षणी- यमित्याह॥ तत्परिहर्तव्यमिति।।परिहारं प्रतिजानीते।।अत्रेति॥सूत्रे नञर्थ वदन् परिहारमाह॥नायमिति॥एवं सर्वत्र व्याख्येयं। प्रधान- प्रातिपदिकार्थाद् दुसम्बन्धेन प्रत्यभिज्ञाया विभक्यर्थभेदो न प्रतिब- नधक:, कथश्चिदाधारस्यापि मर्यादात्वसम्भवात। यथा वृक्षायं स्वलग्न- 7 .. चारः सन्नेव स्वालग्रभागावच्छिन्नस्य तस्यैव
Page 204
सू. २८।अ०११।] शाङ्करब्रह्मसूत्रभाष्ये (१९९)
न्ते चोपदेशेन प्रत्यभिज्ञानं विरुध्यते।यथा लोके वक्षाग्रे सम्बधोऽपि श्येन उभयथोपदिश्यमानो दृश्यते, वक्षाग्रे श्येनो वृक्षाग्रात् परतः श्येन इति च, एवं दिव्येव सत् ब्रह्म दिव: परमित्युपदिश्य- ते। अपर आह यथा लोके वृक्षाग्रेणासम्बद्धोडपि श्येन उभ्यथोपदिश्यमानो दृश्यते वृक्षाय्रे श्येनो वृक्षाग्रात् परतः श्येन इति च, एवं च दिवः परम- पि सत् ब्रह्म दिवीत्युपदिश्यते। तस्मादस्ति पू- र्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानं। अतः पर- मेव ब्रह्म ज्योतिःशब्दमिति सिद्वं॥ २७॥ प्राणस्तथानुगमात् ॥२८॥ अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रत- सर्यादा भवति, एवं दिवि सूर्ये हार्दाकाशे वा मुख्ये आधारे सद् ब्र- ह्म दिवो मर्यादत्वं तदलग्नाकाशावच्छिन्नं ब्रह्म प्रति कल्पयित्वा दिव: परमित्युच्यत इत्यर्थः । यद्याकाशेन अनवच्छिनं ब्रह्म गृहीत्वा पञ्च- ्या दिवो मर्यादात्वमेव मुख्यं तदा गङ्गायां घोष इतिवंत् सप्तम्या सामीप्यलक्षणयाSSधारत्वं व्याख्येयमित्याह॥ अपर इति॥ सम्ब- द्वं प्रत्याधारत्वं मुख्यं पूर्वमुक्त दिव्येव सदिति असम्बद्दं प्रति मर्या- दात्वं मुख्यमधुनोच्यते। दिवः परमपीति भेदः। तस्माज्योतिर्वाक्य- मुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥२७॥ प्राणस्तथानुगमा- त्।। दिवोदासस्यापत्यं दैवोदासि: प्रतर्दनो नाम राजा युद्धेन पुरुषका-
Page 205
(२००) रत्नप्रभाभासिते. अ० १1पा०9।] र्दनाख्यायिका "प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्देन च पौरुषेण च" इ- त्यारभ्याम्न्नाता। तस्यां श्रूयते "स होवाच प्रा- णोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व" इति, तथोत्तरत्रापि "अथ खलु प्राण एव प्रज्ञा- त्मा इंदं शरीरं परिग्ृत्योत्थापयति" इति, तथा "न वाचं विजिज्ञासीत वक्तारं विद्यात्" इत्यादि अन्तेच "स एष प्राण एव प्रज्ञात्मानन्दोऽजरो- डमृतः" इत्यादि। तत्र संशयः, किमिह प्राणश- ब्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीव:, अथवा परं ब्रह्मेतिनन्वत एव प्राण इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वमिहापि च ब्रह्म- लिङ्गमस्ति "आनन्दोऽजरोऽमृतः" इत्यादि क- थमिह पुनः संशयः सम्भवति। अनेकलिद्गदर्श- रेण च कारणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम तं ह इन्द्र उवाच प्रतर्द- न वरं ते ददामीति स होवाच प्रतर्दन:, यं त्वं मर्त्याय हिततमं मन्य- से तं वरं त्वमेवालोच्य महं देहीति तत इन्द्र इदमाह प्राणोऽस्मी- त्यादि मुख्यं प्राणं निरसितुं प्रज्ञात्मत्वमुक्तं निर्विशेषचिन्मात्रं निर- स्यति॥ तं मामिति॥ इदं प्राणस्येन्द्रदेवतात्वे लिङ्गम्। मुख्यप्राण- त्वे लिङ्गन्माह॥ अथेति ॥ वागादीनां देहधारणशक्यभावनिश्रवयान- न्तरमित्यर्थः। प्राणस्य देहधारकत्वमुत्थापकत्वश्च प्रसिद्धमिति वक्तुं खल्वित्युक्तं।प्राणस्य जीवत्वे वकृत्वं लिङ्गमाहान वाचमितति।।आन- न्दत्वादिकं ब्रह्मलिङ्गमाह॥अन्ते चेति॥ अनेकेषु लिङ्गेषु दृश्यमानेषु
Page 206
सू० २८।अ० ११] शांङ्करब्रह्मसूत्रभाष्ये (२०१) नादिति ब्रूमः।न केवलमिह ब्रह्मलिङ्गमेवोपल- भ्यते सन्ति हि इतरलिङ्गान्यपि। "मामेव वि- जानीहि" इतीन्द्रस्य वचनं देवतात्मलिङ्गम् इ- दं शरीरं परिग्ृस्य्योत्थापयतीति प्राणलिङ्गम्।"न वाचं विजिज्ञासीत वक्तारं विद्यादि" त्यादि जी- वलिङ्गं, अत उपपन्नः संशयः। तत्र प्रसिद्धो वा- युः प्राण इति प्राप्ते, उच्यते, प्राणशब्दवाच्यं ब्रह्म विज्ञेयं। कुतः। तथानुगमातू। तथा हि पौ- र्वापर्येण पर्यालोच्यमाने वाक्ये पदार्थानां स- मन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते, उपक्रमे तावत् वर वृणीष्वेतीन्द्रेणोक्तः। प्रतर्दनः पर- मपुरुषार्थ वरमुपचिक्षेप "त्वमेव मे वृणी- बलाबलनिर्णयार्थमिदमधिकरणमित्यगतार्थमाह ॥ अनेकलिङ्गेति॥ पूर्वत्र प्रकुतव्रह्मवाचकयच्छव्दबलाज्योतिःश्रुतिः व्रह्मपरेत्युक्तं, न तथे- ह प्राणश्रुतिभङ्गे किश्चिदलमस्ति। मिथो विरुद्धानेकलिङ्गानामनिश्र्वा- यकत्वादिति प्त्युदाहरणसङ्गत्या पूर्वपक्षयति ॥ तन्नेति ॥ पूर्व प्र- धानप्रातिपदिकार्थबलात् विभक्त्यर्थबाधवद्दाक्यार्थज्ञानं प्रति हेतुत्वे- न प्रधानानेकपदार्थवलादेकवाक्यताभङ्ग इति दृष्टान्तसङ्गतिर्वाS- सु। पूर्वपक्षे प्राणाबयनेकोपास्तिः, सिद्धान्ते प्रत्यग्ब्ह्मधीरिति वि- वेकः । तथा ब्रह्मपरत्वेन पदानामन्वयावगमादिति हेत्वर्थमाह॥ त- था हींति॥ हिततमत्वकर्मक्षयादिपदार्थानां सम्बन्धो व्रह्मणि ता- त्पर्यनिश्वायक उपलभ्यत इत्युक्तं विवृणोति ॥ उपक्रम इत्यादिना॥ यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः। स यः कश्रिवत् मां बह्मरूपं २६
Page 207
(२०२) रत्नप्रभाभासिते [अ० १। पा० १। ष्व यं त्वं मनुष्याय हिततमं मन्यसे" इति। तस्मै हितत मत्वेनोपदिश्यमानः प्राणः कथ प- रमात्मा न स्यात्। न रन्यत्र परमात्मज्ञा- नात् हिततमप्राप्तिरस्ति "तमेव विदित्वाऽति- मृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इ- त्यादिश्रुतिभ्यः । तथा "सयो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्ते- येन न भ्रणहत्यया" इत्यादि च ब्रह्मपरिग्र- हे घटते, ब्रह्मविज्ञाने हि सर्वकर्मक्षयः प्रसिद्धः। "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्याद्यासु श्रुतिषु, प्रज्ञात्मत्वं च ब्रह्मपक्ष एवो- पपद्यते।न त्वचेतनस्य वायोः प्रज्ञात्मत्वं स- मभवति।तथोपसंहारेऽपि "आनन्दोऽजरोऽमृतः" इत्यानन्दत्वादीनि न ब्रह्मणोऽन्यत्र सम्यक् स- म्भवन्ति "सन साधुना कर्मणा भूयानूनो ए- वासाधुना कनीयानेष त्वेव साधु कर्म कारयति" "तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासा- धु कर्म कारयति। तं यमेभ्यो लोकेभ्योऽधो निनी- षते" इति "एष लोकपाल एष लोकाधिपतिरेष वेद साक्षादनुभवति तस्य विदुषा लोको मोक्षो महताऽपि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानान्निना कर्मतूलराशेर्दग्ध- त्वादित्याह॥ स य इति॥ साध्वसाधुनी पुण्यपापे ताभ्यामरपृष्टत्वं
Page 208
सू ० २९। अ०११] शाङ्करव्रह्मसूत्रभाष्ये (२०३) लोकेशः"इति च। सर्वमेतत् परस्मित् ब्रह्मण्या- श्रीयमाणे अनुगन्तुं शक्यते न मुर्ये प्राणे। त- स्मात् प्राणो ब्रह्म ॥ २८ । न वक्तुशत्मोपदेशादिति चेदध्यात्मस- म्बन्धभूमा ह्यास्मिन् ॥२९।। यदुक्तं प्राणो ब्रह्मेति तदाक्षिप्यते, न परं ब्र- हा प्राणशब्दम्।कस्मात्, वक्तुरात्मोपदेशात्।व- क्ता हीन्द्रोनाम कश्िद्विग्रहवान् देवताविशेष: स्वमात्मानं प्रतर्दनायाचचक्षे "मामेव विजानी- हि" इत्युपक्रम्य "प्राणोऽस्मि प्रज्ञात्मा" इत्य- हङ्गारवादेन स एष वक्तुरात्मत्वेनोपदिश्यमानः प्राण: कथ ब्रह्म स्यात्। न हि ब्रह्मणो वक्तृत्वं सम्भवति "अवागमनाः"इत्यादिश्रुतिभ्यःत- था विग्रहसम्बन्धिभिरेव ब्रह्मण्यसम्भवद्गिर्धर्मैं- रात्मानं तुष्टाव "त्रिशीर्षाणं त्वाष्ट्रमहनं, अरुन्मु- खानू यतीनू शालावकेम्यः प्रायच्छम्" इत्येव- तत्कारयितृत्वं निरङकुशैश्वर्य च सर्वमेतदित्यर्थः ॥२८॥अहङ्कारवा- देन स्वात्मवाचकशव्दैराचचक्षे, उक्तवान् इत्यर्थः। वाक्यस्य इन्द्रो- पासनापरत्वे लिङ्गान्तरमाह॥ तथा विग्रहेति ॥ त्रीणि शीर्षाणि य- स्येति त्रिशीर्षा त्वषटुः पुत्रोः विश्वरूपोनाम ब्राह्मणः तं हतवानस्मि। रौति यथार्थ शब्दयतीति रुत् वेदान्तवाक्यं तन्मुखे येषां ते रुङ्मुखा-
Page 209
(२०४) रत्नप्रभाभासिते [अ०भ।पा० १। मादि्षिः।प्राणत्वं चेन्द्रस्य वलवत्वादुपपद्यते, "प्राणो वै वलम्"इति हि विज्ञायते बलस्य चेन्द्रो देवता प्रसिद्दा। या च काचन बलकृतिरिन्द्रक- नैव तढिति हि पठन्ति। प्रज्ञात्मत्वमप्यप्रतिह- तज्ञानत्वाद्देवतात्मनः सम्भवति, अप्रतिहत- ज्ञाना देवता इति हि वढन्ति। निशच्िते चैवं देव- तात्मोपदेशे हिततमत्वादिवचनानि यथासम्भ- वं तद्विषयाण्येव योजयितव्यानि। तस्माद्वक्तुरि- न्द्रस्यात्मोपदेशान्न प्राणो ब्रह्मेत्याक्षिप्य प्रति- समाधीयते। अध्यात्मसम्बन्धभूमा ह्यस्मिन्नि- ति। अध्यात्मसम्बन्धः प्रत्यगात्मसम्बन्धस्त- स्य भूमा बाहुल्यमस्मिन्नध्याय उपलभ्बते। "याददव्यस्मिन् शरीर प्राणो वसति तावदायुः" स्तभ्योऽन्यान् वेदान्तवहिर्मुखान् यतीनरण्यख्वभ्यो दत्तवानस्मीत्यर्थः। इन्द्रे प्राणशब्दोपपत्तिमाह॥प्राणत्वं चेति॥पठन्ति लौकिका अपी- त्यर्थः। वलवाचिना प्राणशव्देन बलदेवता लक्ष्यत इति भावः । इन्द्रो हितप्रदातृत्वाद्धिततम: कर्मानधिकारादपाप इत्येवं व्याख्येया नीत्याह । निश्चितं चेति ॥ किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मात्रमुच्यते उत विग्रहः। आधे वाक्यस्य ब्रह्मपरत्वं सिद्धं, न द्वितीय इत्याह ॥अध्यात्मेति॥ आत्मनि देहेऽधिगत इत्यध्यात्मं प्रत्यगात्मा स सम्बध्यते यैः शरीरस्थत्वादिभिरिन्द्रतनावसम्भावितैर्धमैस्ते अध्या- त्मसम्वन्धास्तेषां भूमेत्यर्थः । आयुरत्र देहे प्राणवायुसश्चारः । अस्ति- त्वे प्राणस्थितौ प्राणानामिन्द्रियाणां स्थितिरित्यर्थतः श्रुतिमाह॥अ-
Page 210
सू ० २९।अ०११] शाङ्करब्रह्मसूत्रभाष्ये (२०५) इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायु :- प्रदानोपसंहारयोः स्वातन्त्रयं दर्शयति न देव- ताविशेषस्य पराचीनस्य। तथाऽस्तित्वेच प्रा- णश्नां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्रा- णं दर्शयति। तथा "प्राण एव प्रज्ञात्मेदं शरीरं परिग्ृत्योत्थापयति" इति, "न वाचं विजिज्ञा- सीत वक्तारं विद्यात्" इति चोपक्रम्य "तदथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिताः"ए- वमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञा- मात्रा: प्राणेऽर्पिताः"स एष प्राण एव प्रज्ञात्मा- नन्दोऽजरोऽमृतः इति विषयेन्द्रियव्यवहारैरन- भिभूतं प्रत्यगात्मानमेवोपसंहरति"समआत्मे- स्तित्व इति॥। अथातो निःश्रेयसादानमित्याद्याश्रुतिः। इन्द्रियस्था- पकत्ववद्देहोत्थापकत्वमाह ॥ तथेति ॥ वकतृत्वमुक्का सर्वाधिष्ठानत्वं दर्शितमित्याह ॥ इति चोपक्रम्पेति॥ तत्तत्र नानाप्रपश्चस्यात्मनि कल्पनायां यथा दष्टान्तः लोके प्रसिद्धस्य रथस्यारेषु नेमिनाभ्योर्म- ध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता नाभौ चक्रपिण्डिकायाम- रा अपता एवम्भूतानि पञ्च पृथिव्यादीनि मीयन्त इति मात्राः भो- ग्याः शव्दादयः पच्चेति दशभूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः इन्द्रि- यजा: पश्चशव्दादिविषयप्रज्ञाः। मीयन्ते आभिरिति मात्रा: पश्चधी- न्द्रियाणि नेमिवत् ग्राह्यम्। ग्राहकेषु अरेषु कल्पितमित्युक्का नाभि- स्थानीये प्राणे सर्व कल्पितमित्याह ॥ प्राणेऽपिता इति॥ स प्राणो मम स्वरूपमित्याह॥ स म इति ॥ तर्हि प्रत्यगात्मनि समन्वयो न
Page 211
(२०६) रत्नप्रभाभासिते [अ० १। पा० १। ति विद्यात्" इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुः न पराचीनपरिग्रहे। "अयमात्मा ब्रह्म सर्वानुभू:" इतिच श्रुत्यन्तरं।तस्मादध्यात्मस- म्वन्धवाहुल्यात् ब्रह्मोपदेश एवायं न देवतात्मो- पढेशः॥२९॥कथं तहि वक्तुरात्मोपदेशः। शास्त्रदृध््या तूपदेशो वामदेववत्॥३० इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वे- नाहमेव परं व्रझ्ेत्यार्षेण दर्शनेन यथाशासरं पश्य- त्रुपदिशति स्म मामेव विजानीहीति। यथा त- द्वैतत् पश्यन् ऋपिर्वामदेवः प्रतिपेदे, अहं मनुर- भवं सूर्यश्रेति तद्वत्, "तद्यो यो देवानां प्रत्यवु- ध्यत स एव तदभवत्" इति श्रुतेः। यत् पुनरुक्तं "मामेव विजानीहि" इत्युक्का वित्रहधर्मैरिन्द्र आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति तत्परिहर्त- व्यं। अत्रोच्यते। न व्वाष्ट्वधादीनां विज्ञेयेन्द्र- स्तुत्यर्थत्वेनोपन्यासः, यस्मादेवंकर्माहं तस्मा- न्मां विजानीहीति, कथं तर्हि, विज्ञानस्तुत्यर्थ- तु ब्रह्मणि। तत्राह॥अयमिति॥२९। अहङ्कारवादस्य गतिं पृच्छति । कथमिति ॥ सूत्रमुत्तरं। तव्याख्याति ॥ इन्द्र इति॥ जन्मान्तरक- तश्रवणादिना अस्मिन् जन्मनि स्वतःसिद्धं दर्शनमार्ष विज्ञेयेन्द्र- स्तुत्यर्थ उपन्यासः न चेतू कथं ताह स इति पृच्छति॥ कथमिति॥
Page 212
सू० ३१।अ० ११।] शाङ्करव्रह्मसूत्रभाष्ये (२०७ ) त्वेन। यत् कारणं त्वाष्ट्रवधादीनि साहसानि उ- पन्यस्य परेण विज्ञानस्तुतिमनुसन्दधाति "त- स्य मे तत्र लोम च न मीयते सयो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयते" इत्यादि- ना। एतदुक्तं भवति यस्मादीदृशान्यपि क्रराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापिन हिंस्यते स योऽन्योऽपि मां वेद न तस्य केनचि- दपि कर्मणा लोको हिंस्यत इति। विज्ञेयं तु ब्र- ह्ैव प्राणोऽस्मि प्रज्ञात्मेति वक्ष्यमाणं।तस्मात् ब्रह्मवाक्यमेतत्॥ ३०॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासा - त्रैविध्यादाश्रितत्वादिह तद्योगात् ३१।। यद्यप्याध्यात्मसम्बन्धभूमदर्शनान्न परा- चीनस्य देवतात्मन उपदेशस्तथाऽपि न ब्रह्म- वाक्यं भवितुमर्हति। कुतः । जीवलिङ्गान्मुख्य- प्राणलिङ्गाच्च। जीवस्य तावदस्मिन वाक्ये वि- स्पष्ट लिङ्मुपलभ्यते "न वाचं विजिज्ञासीत ब्रह्मज्ञानस्तुत्यर्थः स इत्याह॥ विज्ञानेति॥ नियामकं ब्रूते॥ यदि- ति ॥ परेण तस्य मे इत्यादिना वाक्येनेत्यन्वयः । स्तुतिमाह ॥ एत- दुक्तमिति॥ तस्मात् ज्ञानं श्रेष्ठमिति शेषः। स्तुतज्ञानविषय इन्द्र इत्यत आह॥ विज्ञेयं खिविति॥ १०॥ देहोत्थापनं जीवलिङं किं न
Page 213
(२०८ ) रल्नप्रभाभासिते [अ० १। पा०. १। वक्तारं विद्यात्" इत्यादि अत्र हिवागादिभिः करणैर्व्यापृतस्य कार्यकरणाव्यक्षस्य जीवस्य विज्ञेयत्वमश्िधीयते तथा मुख्यप्राणलिङ्गमपि। "अथ खलु प्राण एव प्रज्ञाव्मेदं शरीरं परिग्ृत्य्यो- स्थापयती ति।शरीरधारणं च मुख्यप्राणस्य ध- र्मः।प्राणसंवादेवागादीन प्राणान् प्रकृत्य "ता- नू वरिष्ठः प्राण उवाच मा मोहमापद्यथाऽहमेवै- तत् पञ्चधाऽडत्मानं प्विभज्यैतद् वाणमवष्ठम्य विधारयामि" इति श्षवणात्। ये त्विमं शरीरं प- रिग्टत्येति पठन्ति तेषामिमं जीवमिन्द्रियग्रामं वापरिगृत्य शरीरमु्थापयतीति व्याख्येयम्।प्र- ज्ञात्मत्वमपि जीवे तवच्चेतनत्वादुपपन्नं मुख्येऽ- पि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्न- मेव। जीवमुख्यजाणपरिग्रहे च प्राणपज्ञात्म- स्यात्तत्राह॥ इारीरधारणंचति। सरवे वागादयः प्राणा अहमहं श्रे- छठ इति विवदमाना: प्रजपतिमुपजग्मुः।स च तानुवाच यस्मिन्नु- त्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति। तथा क्रमेण वागादिषूत्कान्तेष्वपि मकादिभावेन शरीरं स्वस्थमस्थात्। मुख्य- प्राणस्य तु उन्विकमिषाय सर्वेषां व्याकुलत्वाप्तौ तानू वागादीन् व- रिष्ठः प्राण उवाच यूयं साहमापयथ यतोऽहमेवैतत् करोमि। कि ततू पश्चधा प्राणापानारभावेनात्मानं विभज्य एतद्दाति गच्छतीति वानं तदेव वाणमस्थिरं परीरमवष्टभ्याश्रित्य धारयामीत्यर्थः । दविव- चनसहवासोत्कान्तिश्रुतेश् न ब्रह्म ग्राहमित्याह॥ जीवमुख्येति॥
Page 214
(२०९) नो: सहवत्तित्वेनाभेदेन निर्देश: स्वरूपेण च भे- दनिर्देश इत्युभयथा निर्देश उपपद्यते "यो वै प्रा- णःसा प्रज्ञा या वै प्रज्ञा सप्राणः इति, "सह त्ये- तावस्मिन् शरीरे वसतः सहोक्कामतः" इति।ब्र- हपरिग्रहे तु ककिं कस्मातू भिद्येत, तस्मादिह जी- चमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातांन ब्रह्मति चेत्, नैतदेवं, उपासात्रैविध्यात्। एवं सति त्रिविधमुपासनं प्रसज्येत जीवोपासनं मु- ख्यप्राणोपासनं ब्रह्मोपासनं चेति। न चैत- देकस्मिन् वाक्येऽभ्युपगन्तुं युक्त, उपक्रमोप- संहाराभ्यां हि वाक्यैककत्वमवगस्यते।"मामे- व विजानीहि" इत्युपकरम्य "प्राणोऽस्मिन्प्रज्ञा- त्मा तं मामायुरम्तमित्युपास्व" इत्युक्काऽन्ते "स एष प्राण एव प्रज्ञात्माSSनन्दोऽजरोडमृतः" इत्येकरूपावुपकरमोपसंहारौ दृश्येते। तत्रार्थेक- अभ्रेदनिर्देशमाह॥ यो वा इति॥ भेदमाह ॥ सहेति॥ यदि जीव- मुख्यप्राणयोलिंङ्गगाटुपास्यत्वं तर्हि ब्रह्मणोऽपिलिङ्गानामुक्तत्वादुपास- नं स्यात्, न चेष्टापत्तिः। उपक्रमादिना निश्चितैकवाक्यताभङ्गप्रसङ्ग इत्याह। नैतदेवमित्यादिना॥ न च स्वतन्त्रपदार्थभेदाद्ाक्यभेद: किंन स्यादिति वाच्यं जीवम्ुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणि नेतुं शक्यतया स्वातन्त्र्यासिद्धे:, अफलपदार्थस्य फलवद्दाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्विङनयनस्योचितत्वाच्च। न हि प्रधानवा- २७
Page 215
(२१०) रत्नप्रभाभासिते अ. १।पा०१।] व्वं युक्तमाश्रयितुम्।न चव्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यं दशानां भूतमात्राणां प्रज्ञामा- त्राणां च ब्रह्मणोऽन्यत्रार्पणानुपपत्तेः। आश्रि- तत्वाच्चान्यत्रापि ब्रह्मलिद्गवशात् प्राणशब्दस्य ब्रह्मणि प्रवत्ते: । इहापि च हिततमोपन्यासा- दिव्रह्मलिद्गयोगाद्गह्मोपदेश एवायमिति गम्य- ते। यनु मुख्यप्राणलिङ्गं दर्शितं "इदं शरी- रं परिग्ृत्योत्थापयति" इति तदसत्, प्राणव्या- पारस्यापि परमात्मायत्तव्वात् परमात्मन्युपच- रितुं शक्यत्वात्,"न प्राणेन नापानेन मर्व्यो जी- वति कश्षन। इतरेण तु जीवन्ति यस्मिन्नेतावु- पाश्रितौ" इति श्रुतेः । यदपि "न वाचं विजि- ज्ञासीत वक्तारं विद्यात्" इत्यादि जीवलिड़ंद- रशितं, तदपि न ब्रह्मपक्ष निवारयति, न. हि जी- वो नामात्यन्तभिन्नो ब्रह्मणः "तत्वमसि" क्यार्थव्रह्मलिङ्गमन्यथा नेतुं शक्यं। न वा तदुचितमित्याह॥ न च- ब्रह्मलिङ्गमिति॥ सूत्रशेषं व्याचष्टे। आश्रितत्वाच्चेति॥ अन्यत्रा- त एव प्राण इत्यादौ वृत्तेराश्रितत्वादिहापि तस्य ब्रह्मलिङस्य योगा- द् बह्मपर एव प्राणशव्द इत्यर्थः। प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्य- नायासेन नेतुं शक्यानीत्याह।। यत्त्वित्यादिना॥ यस्मिन्नेतौ प्रेर्य- त्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः। विशेषं परिच्छेदाभिमानमित्यर्थः। वक्तारं विद्यादिति न वक्तुर्जेयत्व मुच्यते तस्य
Page 216
सू० ३१।अ०११।]. शाङ्करब्रह्मसूत्रभाष्ये (२११) "अहं ब्रह्मास्मि" इत्यादिश्रुतिभ्यः । बुद्धया- द्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन्जीवः कर्त्ता भोक्ता चेत्युच्यते तस्योपाधिकृतविशेषप- रित्यागेन स्वरूपं ब्रह्म प्रदर्शयितुं "न वाचं वि- जिज्ञासीत वक्तारं विद्यात्" इत्यादिना प्रत्य- गात्माभिमुखीकरणार्थमुपदेशो न विरुध्यते। "यद्वाचाऽनभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म- त्वं विद्धि नेदं यदिदमुपासते" इत्यादि च श्रुत्य- न्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्म- त्वं दर्शयति।यत् पुनरेतदुक्तं "सह त्येतावस्मि- नू शरीरे वसतः सहोक्कामतः इति प्राणप्र- ज्ञात्मनोर्भेददर्शनं ब्रह्मवादिनो नोपपद्यत इति। नैष दोषः। ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धि- प्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोप- पत्तेः। उपाधिद्वयोपहितस्य तुप्रत्यगात्मनःस्व- रूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मेत्येकीकरण- मविरुद्धं।अथवा नोपासात्रैविध्याश्रितत्वादिह लोकसिद्धत्वातू, किन्तु तस्य ब्रह्मत्वं बोध्यते तद्दोधाभिमुख्याय लिडादय इत्यत्र श्रुत्यन्तरमाह॥ यद्ा चेति॥ येन चैतन्येन वागभ्यु- वयते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादेरगम्यं ब्रह्मेत्यर्थः। तच्वम्पद- वाक्ययोः स्वरूपतो भेदसाभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दि- श्यत इत्याह॥ नैष दोप इति॥ स्वमतेन सूत्रं व्याख्याय वृत्तिकन्म-
Page 217
(२१२) रत्नप्रभाभासिते [अ० १। पा०१। तद्योगादिव्यस्यायमन्योऽर्थः। न ब्रह्मवाक्येऽ- पि जीवमुख्यप्राणलिङ्गं विरुध्यते। कथं। उपा- सात्रैविध्यात्। त्रिविधमिह ब्रह्मोपासनं विवक्षि- तं प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण चातत्र"आ- युरम्तमित्युपास्वायुः प्राणः" इति "इदं शरीरं परिग्ृत्योत्थापयति" इति "तस्मादेतदेवोक्थ- सुपासीत" इति च प्राणधर्मः। अथ "यथास्यै प्रज्ञायै सर्वाणि भूतानि एकीक्षवन्ति तत्व्या- ख्यास्यामः" इत्युपक्रम्य "वागेवास्या एकम.
तेन व्याचष्टे॥ अथवे ति ॥ उपासनात्रित्वप्रसङ्गादिति पूर्वमुक्तं। अत्र त्रिप्रकारकस्यैकव्रह्मविशेष्यकस्यैकस्योपासनस्य विवक्षितत्वा- दित्यर्थः। अतो न वाक्यभेद इति भावः। देहे चेष्टात्मकजीवनहेतु- त्वं प्राणस्यायुष्ट देहापेक्षया तस्यानुक्तेरवस्थानादमृतत्वमुत्थापयती- त्युक्थत्वमिति प्राणधर्मः। जीवधर्मानाह ॥ अथेति॥ बुद्धिप्राणयोः सहस्थित्युत्क्ान्त्ुक्त्यनन्तरमित्यर्थः । अत्र प्रज्ञापदेन साभासा जी- वाख्या बुद्धिरुच्यते। तस्याः सम्बन्धीनि दृश्यानि सर्वाणि भूतानि य- थैकं भवन्त्यधिष्ठानचिदात्मना तथा व्याख्यास्याम इत्युपकम्योक्तं वागेवेत्यादि चक्षुरेवास्या एकमङ्ग्मदूदुहृदित्यादिपर्यायाणां संक्षिप्ता- र्थ उच्यते। उत्पन्नाया असत्कल्पायाः साभासबुद्देर्नामप्रपञ्चविष- यित्वमर्धशरीरं, अर्थात्मकरूपप्रपश्चविषयित्वमर्धशरीरमिति मिलि- त्वा विषयित्वाख्यं पूर्ण शरीरमिन्द्रियसाध्यं। तत्र कर्मेन्द्रियेषु वागे- वास्या: प्रज्ञाया एकमङ्गं देहार्धमदूदुहत् पूरयामास, वागिन्द्रियद्दारा नाम प्रपश्चविपयितवं बुद्धिर्लभत इत्यर्थः । चतुर्थी षष्टचर्था। तस्या: पु-
Page 218
सू० ३१।अ०११॥] शाङ्करव्रह्मसूत्रभाष्ये (२१३) ङ्मदूदुहत् तस्यै नाम परस्तात् प्रतिविहिता भू- तमात्रा प्रज्ञया वाच समारुत्य वाचा सर्वाणि नामान्याप्नोति" इत्यादिः प्रज्ञाधर्मः।"ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतं यद्ि भूतमात्रा न स्युः न प्रज्ञामात्राः स्युः यद्धि प्रज्ञामात्राः न स्युः न भूतमात्राः स्युः न त्यन्यतरतो रूपं किश्चन सिध्येत्, नो एतन्ना- ना तदथा रथस्यारेषु नेमिरर्पिता नाभावरा अ-
नर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापिता भूतमात्रा रूपाद्यर्थ- रूपापरस्तादपरारघें कारणं भवति ज्ञानकरणंद्वाराऽर्थप्रपश्चविषयित्वं बुद्धि: प्राप्नोतीत्यर्थः । एवं बुद्धे: सर्वार्थदष्टत्वमुपपाद तन्निष्ठचित्प्- तिबिम्बद्दारा साक्षिणि द्रष्टत्वाध्यासमाह।I प्रज्ञयेति ॥ बुद्धिद्दारा चिदात्मा वाचमिन्द्रियं समारुह तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि प- श्यतीत्येवं द्रष्टा भवतीत्यर्थः । तथा च सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृत्वा- ध्यासनिमित्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वाधारत्वानन्दत्वादि्- हलधर्म इत्याह॥ ता वा इति॥ दशत्वं व्याख्यांतं, प्रज्ञा इन्द्रियजाः ता अधिरुत्य ग्राहभूतमात्रा वर्त्तन्ते प्रज्ञामात्रा इन्द्रियाणि ग्राह्मं भूत- जातमधिकुत्य वर्त्तन्त इति ग्राह्यग्राहकयोमिथःसापेक्षत्वमुक्तं साध- यति॥ यदिति ॥ तदेव स्फुटयति ॥ न हीति॥ ग्राह्येण ग्राह्मस्वरू- पं न सिध्यति किन्तु ग्राहकेण। एवं ग्राहकमपि ग्राह्ममनपेक्ष्यन सि- ध्यति, तस्मात् सापेक्षत्वादेतद् ग्राह्मग्राहकद्दयं वस्तुतो न भिन्नं कि- न्तु चिदात्मन्यारोपितमित्याह ॥ नो इति॥ तथथेत्यादि कतव्या-
Page 219
(२१४) रत्नप्रभाभासिते [अ० १।पा०१ र्पिता एवमेवैता भूतमात्रा प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्रा: प्राणेऽर्पिता: स एष प्राण एव प्रज्ञा- त्मा" इत्यादिर्ब्रह्मधर्मः ।तस्मात् ब्रह्मण एवैत- दुपाधिद्रयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम्। अन्यत्रापि मनोमयः प्राणशरीर इ- त्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितं, इ- हापि तद्ुज्यते वाक्यस्योपक्रमोपसंहाराभ्या- मेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिङ्गावगमा- ञ्च।तस्माङ्गह्मवाक्यमेतदिति सिद्वं । इति श्री- ख्यानं। सूत्रार्थमुपसंहरति ॥ तस्मादिति ॥ अन्यधर्मेणान्यस्यो- पसानं कथमित्याशंक्याSS श्रितत्वादित्याह ॥ अन्यत्रापीति॥उ- पाधिर्जीवः। ततू अन्यधर्मेणोपासनम् इयमसङगता व्याख्या, तथा- हि न तावदारुण्याद्यनेक गुणविशिष्टप्राप्तक्रयणवत्, उपासात्रयविशिष्ट- स्य ब्रह्मणो विधि: संभवति सिद्धस्य विध्यनर्हत्वात्, नापि ब्रह्मानु- वादेनोपासात्रयविधि: वाक्यभेदात्, न च नानाधर्मविशिष्टमेकमुपा- सनं विधीयत इति वाच्यं, तादृशविधिवाक्यस्यान्नाश्रवणात्, न च तमायुरमृतमित्युपास्वेति, अत्र मामिति जीवेनायुरिति प्राणेनामृत- मिति ब्रह्मणा स्वस्वधर्मवता विशिष्टोपासनाविधिरिति वाच्यं, सर्वे- षां धर्माणामश्रवणाद् ब्रह्मश्रुतेश्र। प्राणो वा अमृतमिति प्राणस्यै- वामृतत्वश्रुतेः। अत्र उपासनाविधिलुब्धे न वक्तारं विद्यात्, एतदे- वोक्थमुपासीत स म आत्मेति विद्ादिति जीवप्राणत्रह्मोपासन- विधयः, अन्ये गुणविधय इति स्वीकृत्यैकवाक्यत्वं त्याज्यं तच्चायुक्त- मुपक्नमादिनैकवाक्यतानिर्णयात् । तस्माद् ज्ञेयप्रत्यग् ब्रह्मपरमिदं
Page 220
सू ३६।अ० ११॥] शाङ्करव्रह्मसूत्रभाप्ये (२१५)
कृतौ प्रथमाध्यायस्य प्रथम: पाद:॥ वाक्यमित्युपसंहरति॥ तस्मादिति ॥इति श्रीमत्परमहंसपरित्रा- जकाचार्यश्रीगोविन्दानन्दभगवत्पादकतौ श्रीमच्छारीरकमीमांसा- व्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य प्रथमः पादः ॥१॥
Page 221
(५९६) रत्नप्रभाभासिते [अ० १।पा० २। नमः परमात्मने। प्रथमे पाढे जन्माद्यस्य यत इत्याकाशादे: समस्तस्य जगतो जन्मादि- कारणं ब्रह्मेत्युक्तम्। तस्य समस्तजगक्कारण- स्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वश- क्तित्वं सर्वात्मकत्वमित्येवंजातीयका धर्मा उक्ता एव भवंति। अर्थान्तरप्रसिद्धानां च केषाश्चि- चछब्दानां ब्रह्मविषयत्वे हेतुप्रतिपादनेन कानि- चिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दित्यमाना- नि ब्रह्मपरतया निर्णीतानि। पुनरप्यन्यानि वा- क्यानि अस्पष्टब्रह्मलिङानि सन्दित्यन्ते किं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किश्ि दिति। तन्निर्णयाय द्वितीय तृतीयपादावारभ्येते। सर्वत्र प्रसिद्धोपदेशात्॥१॥ इदमाम्नायते। "सर्व खल्विदं ब्रह्म तज्ज- नमः परमात्माने। श्रीरामं सिद्धमत्तारं गुहाशयिनमन्तरम्। अन्तर्यामिणमज्ञेयं वैश्वानरमहं भजे॥। पूर्वपदेनोत्तरपादयो: सङ्गर्ति वर्क्तु वृत्तमनुवदति॥ प्रथम इति। जगत्कारणतवोक्त्या व्यापित्वादिकमर्थात् सिद्धम्। तदुपजीव्योत्तरं पादहयं प्रवत्त त इति हेतुहेतुमन्नावः सङ्गतिः। कथं पादभेद इत्याश- ङत्य पादानां प्रपेयभेदमाह।।अर्थान्तरेति।।आकाशादिशब्दानां स्पष्ट- ब्रह्मलिङ्गैर्व्रह्मणि समन्वयो दर्शितः । अस्पष्टव्रह्मलिङववाक्यसमन्वयः
Page 222
सू०१।अ०१] शाङ्करब्रह्मसूत्रभाष्ये (२१७) लानिति शान्त उपासीत अथ खलु क्रतुमयः पुरुषो यथा क्रतुरस्मिन् लोके पुरुषो भवति त- थेतः प्रेत्य अ्वति स कतुं कुर्वीत मनोमयः प्रा- णशरीराभारूप:" इत्यादि।तत्र संशयः। किमि- ह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्य- व्वेनोपदिश्यते, आहोस्वित् परं ब्रह्मेति। किं तावत् प्रात्तं शारीर इति। कुतः। तस्य हि कार्य- करणाधिपतेः प्रसिद्धो मनआदिभिः सम्ब- पादइये वक्ष्यते। प्रायेणोपास्यज्ञेयब्रह्मभेदात् पादयोरवान्तरभेद इति भावः। छान्दोग्यमुदाहरति॥इदमिति॥ तस्माज्जायत इति तज्जं, तस्मि- नूलीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं तज्जञ्च तत्तल्वथ्च त- त्तदनश्चेति, तज्जलान् कर्मधारयेऽस्मिन् शाकपार्थिवन्यायेन मध्यप- दस्य तच्छब्दस्य लोप:, तज्जलानमिति वाच्ये छान्दसोऽवयवलोप:, इ- तिशब्दो हेतौ। सर्वमिदं जगद्रल्लैव तद्विवर्तत्वादित्यर्थः। ब्रह्मणि मि- त्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः स कतु- मुपासनं कुर्वीतेति विहितोपासनस्योपासीतेत्यनुवादात् फलमाह ॥ अथेति ॥ कतुमयः सङ्कल्पविकार इत्यर्थः। पुरुषस्य ध्यानविका- रत्वं स्फुठयति ॥ यथेति॥ इह यद््यायति मृत्वा ध्यानमहिम्रा त- द्येयरूपेण जायत इत्यर्थः ॥ क्रतुमयः सङ्कल्पप्रधान इति वाऽर्थः। कतोरविषयमाह। मन इति॥ ब्रह्मेत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यस ङ्कल्पमन्तर्हृदये ध्येयमित्यर्थः । पूर्वत्र ब्रह्मलिड्गैरब्रह्मलि- ङ्बाध उक्त:, न तथेहोपक्रमे ब्रह्मणो लिङ्गमरिति, किन्तु प्रकरणं। तच्च शान्तिगुणविधानार्थमन्यथासिद्धं। अतो जीवलिङ़ं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति ॥ शारीर इत्यादिना ॥ श्रुतिमाशङ्कया- २८
Page 223
(२१८) रत्नप्रभाभासिते [भ०१। पा० २। न्धो न तु परस्य ब्रह्मणः"अप्राणो ह्यमनाः शु- भ्रः इत्यादिश्रुतिभ्यः। ननु "सर्व खल्विदं ब्र- ह्म" इति स्वशब्देनैव ब्रह्मोपात्तं कथमिह शारीर आत्मोपास्य इत्याशङ्यते। नैष दोषः। नेदं वा- क्यं ब्रह्मोपासनाविधिपरं। किं तर्हि। शमविधि- परम्। यत् कारणं सर्व खल्विद ब्रह्म तज्ला- निति शान्त उपासीतेत्याह। एतदुक्तं भवति। यस्मात् सर्वमिदं विकारजातं ब्रह्मेव तज्जत्वा- त्तल्लत्वात्तदनत्वाच्च । न च सर्वस्यैकात्मत्वे रा- गादयः सम्भवन्ति, तस्माच्छान्त उपासीते- ति। न च शमविधिपरत्वे सत्यनेन वाक्येन व्र- ह्मोपासनं नियन्तुंशक्यते, उपासनं तु स क्रतुं कुर्वीतेत्यनेन विधीयते। क्रतुःसङ्गल्पो ध्यान- मित्यर्थः। तस्य च विषयत्वेन श्रूयते "मनो- मयः प्राणशरीरः"इति जीवलिंगम्। अतो ब्रमो जीवविषयमेतदुपासनमिति। "सर्वकर्मा सर्व- काम: इत्याद्यपि श्रूयमाणं पर्यायेण जीववि- न्यथासिद्धया परिहरति ॥नैष दोष इति॥ शमविधिपरत्वे हेतु- माह॥ यत् कारणमिति ॥ यत एवमाह तस्माच्छमविधिपरमि- त्यन्वयः ॥ न च शमेति ॥ शमध्यानयोविधौ वाक्यभेदापत्तेरि- त्यर्थः। जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसम्भवमाह॥ सर्व- करमेति ॥ सर्वाणि कमाणि यस्य सर्वे कामा भोग्या यस्य सर्वगन्धः
Page 224
सू० १। अ०१ ] शाङ्करव्रह्मसूत्रभाष्ये (२१९) षयमुपपद्यते। "एष म आत्माऽन्तर्हदयेऽणीया- नू व्रीहेर्वा यवाद्वा" इति च हृदयायतनत्वमणी यस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते नाप- रिच्छिन्नस्य ब्रह्मणः। ननु "ज्यायान् पृथिव्याः" इत्याद्यपि न परिच्छिन्नेऽवकल्पते, इति, अत्र ब्रू- मः, न तावदणीयस्त्वं ज्यायस्त्वं चोक्षयमेक- स्मिन् समाश्रयितुं शक्यं विरोधात्, अन्यतरा- श्रयणे च प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयि- तुं। ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यति। निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तन- मेतदू ब्रह्मेति तदपि प्रकृतपरामर्शार्थत्वाजीव- विषयमेव। तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते ब्रूम:, परमेव ब्रह्म मनोम- यत्वादिभिर्धर्मैरुपास्यम्। कुतः। सर्वत्र प्रसि- द्ोपदेशात्। यत् सर्वेषु वेदान्तेषु प्रसिद्ध ब्रह्म- शब्दस्यालम्बनं जगत्कारणमिह च सर्व ख- सर्वरस इत्यादिरादिशव्दार्थः ॥ आराग्रमात्रस्येति ॥तोत्रप्रोतायः- शलाकाग्रपरिमाणस्येत्यर्थः । सर्वत्र प्रसिद्धब्रह्मण एवात्रोपास्यत्वो- पदेशान्न जीव उपास्य इति सूत्रार्थमाह ॥ सर्वत्रेति॥ यत्र फलं नो- च्यते तत्र पूर्वोत्तरपक्षसिद्धिः फलमिति मन्तव्यं। यवपि निराकाङ्कं व्रह्म तथापि मनः प्रचुरमुपाधिरस्य प्राणः शरीरमस्येति समासान्त- र्गतसर्वनाम्नः सन्निहितविशेष्याकाङ्कत्वाद् ब्रह्म सम्बध्यते । "स्योनं
Page 225
(२२०) रत्नप्रभाभासिते [अ०१पा० २। ल्विदं ब्रह्मेति वाक्योपक्रमे श्रुतं तदेव मनोमय- व्वादिध्मैर्विशिष्ठमुपदिश्यत इति युक्तम्। एवं- च प्रकृतश्मनाप्रकृतप्रक्रिये न भविष्यतः। ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टंन स्वविवक्षया, इत्युक्तं। अत्रोच्यते। यद्यपि शम- विधिविवक्षया ब्रह्म निर्दिष्टं तथापि मनोमय- त्वादिषपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भव- ति। जीवस्तु न सन्निहितो न च स्वशब्देनोपात्त इति वैषम्यम्॥१॥ विवक्षितगुणोपपत्तेश्र॥ २ ॥। वक्तुमिष्ठा विवक्षिताः। यद्प्यपौरुषेये वेदे वक्तु- रभावान्नेचार्थः संभवति तथाप्युपादानेन फ- लेनोपचर्यते। लोके हि यच्छब्दाभिहितमुपादेयं ते सदनं कुणोमि" इति संस्कारार्थसदनस्य निराकाङ्स्यापि तस्मिन् सादेति साकाङूतच्छब्देन परामर्शदर्शनादित्वाह॥ अत्रोच्यत इति। स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः । जीवोऽपि लिङ्गातू सन्नि- हित इत्यत आह ।। जीवस्त्विति ॥ इदं लिङ्गद्दयं लोकससिद्धं जीवं न सन्निधापयति। दुःखिन उपास्त्ययोग्यत्वात् फलाभावाच्च, अतो विश्वजिन््यायेन सर्वाभिलषितमानन्दरूपं ब्रह्मैवोपासनाक्रियानुब- न्धीति भाव:, किश्च ब्रह्मपदश्रुत्या लिङ्गबाध इत्याह ॥ न चेति॥ अन्यतराकाङ्कानुगृहीतं फलवत् प्रकरणं विफलाङ्गाद्दलीय इति स- मुदायार्थः॥ ॥ वस्तुनो विवक्षायाः फलमुपाढानं स्वीकारःसच प्रकृतेषु गुणेण्वस्तीति विवक्षोपचार इत्याह॥तथाप्युपादानेनेति।न
Page 226
सू ० २।अ ० १] शाङ्करब्रह्मसूत्रभाष्ये (२२१ ) भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तद- विवक्षितभिति, तद्द्वेदेSप्युपादेय व्वेनाभिहितं वि- वक्षितं भवतीतरदविवक्षितं। उपादानानुपादा- ने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते। तदिह ये विवक्षिता गुणा उपासनायामुपादेय- व्वेनोपदिष्ठाः सत्यसङ्कल्पप्रभृतयः ते परस्मिन् ब्रह्मण्युपपद्यन्ते। सत्यसङ्कल्पव्वं हि सृष्टिस्थि- तिसंहारेष्वप्रतिबन्धशक्तित्वात् परमात्मन एवा- वकल्पते। परमात्मगुणत्वेन च "य आत्माऽपह- तपाप्मा" इत्यत्र "सत्यकामः सत्यसङ्गल्पः" इति श्रुतं "आकाशात्मा" इत्यादिनाSSकाशव- दात्मास्येत्यर्थः। सर्वगतत्वादिभिर्धर्मैः संभव- त्याकाशेन साम्यं ब्रह्मणः। "ज्यायान् पृथि- व्याः" इत्यादिना चैतदेव दर्शयति। यदाप्या- काश आत्माऽस्य इति व्याख्यायते तदापि सं- अवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वमत एव सर्वकर्मेत्यादि।एवमिहो- पास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते। न्विदं ग्राह्यमिदं त्याज्यमिति धीविवक्षाधीना वेदे कुतः स्यादित्यत आह।। उपादानानुपादाने त्विति । तात्पर्य नाम फलवदर्थप्रतीत्यनुकूलत्वं शब्दधर्मः। उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः॥ तदिहे- ति॥ तत् तरमात् तात्पर्यवच्वादित्यर्थः। सर्वात्मत्वे प्रमाणमाह॥ त-
Page 227
(२२२) रत्नप्नभाभासिते [अ० १। पा० २। यत्पुनरुक्तं "मनोमयः प्राणशरीरः" इति जीव- लिङ्गं न तद्रह्मण्युपपद्यत इति, तदपि ब्रह्मण्युप पद्यत इति ब्रूमः। सर्वात्मत्वाद्दि ब्रह्मणो जीवस- म्बन्धीनि मनोमयत्वादीनि ब्रह्मसम्बन्धीनि भ- वन्ति। तथा च ब्रह्मविषये श्रुतिस्मती भवतः "त्वं स्रो त्वं पुमानसि त्वं कुमार उत वा कुमारी व्वं जीर्णो दण्डेन वञ्चसि त्वंजातो भवसि वि- शवतोमुखः" इति। "सर्वतः पाणिपादं तत्सर्व- तोऽक्षिशिरोमुखम्। सर्वतः श्रुतिमल्ोके सर्वमा- वृत्य तिष्ठति" इतिच।"अप्राणो ह्यमनाः शु- भ्ः" इति श्रुतिः शुद्धब्रह्मविषया। इयं तु मनो- मयः प्राणशरीर इति सगुणव्रह्मविषयेति विशे- षः। अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्मेहो- पास्यत्वेनोपदिष्टमिति गम्यते ॥२ ॥ अनुपपत्तेस्तु नशारीरः॥।३॥ पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामु- था चेति॥ जीर्ण:स्थविरो यो दण्डेन वश्चति गच्छति सोऽपि त्वमेव- यो जातो बाल: स त्वमेव सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्ये- ति सर्वतः श्रुतिमत् सर्वजन्तूनां प्रसिद्धाः पाण्यादयस्तस्येति सर्वात्म- त्वोकि: ॥ २ । ननु: जीवधर्माश्वेद्ह्लणि योज्यन्ते तर्हि ब्रह्मवर्मा एव जीवे किमिति न योज्यन्ते। तत्राह॥ अनुपपन्तेरिति ॥ सूत्रं व्याचष्टे ॥ पूर्वेणेति ॥ सर्वात्मत्वादिरुक्तन्यायः। कल्पितस्य धर्मा अधिष्ठाने
Page 228
सू०४। अ०१] शाङ्करब्रह्मसूत्रभाष्ये (२२३) पपत्तिरुक्ता, अनेन शारीरे तेषामनुपपत्तिरुच्य- ते। तुशब्दोऽवधारणार्थः। ब्रह्मैवोक्तेन न्यायेन मंनोमयत्वादिगुणं, न तुशारीरो जीवो मनोम- यत्वादिगुणः, "यत्कारणं सत्यसङ्कल्प आकाशा- त्माऽवाक्यानादरो ज्यायान् पथिव्याः" इत्ये- वआ्जतीयका गुणा न शारीरे आअ्जस्येनोपपद्यं- न्ते शारीर इति शरीरे भव इत्यर्थः। नन्वीश्वरो- डपि शरीरे भ्वति। सत्यं। शरीरे भवति न तुश- रीर एव भवति। "ज्यायान् पृथिव्या ज्याया- नन्तरिक्षादाकाशवत् सर्वगतश्रनित्यः" इतिच व्यापित्वश्रवणात्। जीवस्तु शरीर एव भवति। तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वत्त्यभावात् ३॥
इतश्र न शारीरो मनोमयत्वादिगुणः, य- स्मात् कर्मकर्तव्यपदेशो भवति "एतमितः प्रे- त्याशिसंभवितास्मि" इति। एतमिति प्रकृतं सम्बध्यन्ते, न अधिष्ठानधर्माः कल्पिता इति भावः, वागेव वाक: सोऽ- स्यास्तीति वाकी न वाकी अवाकी अनिन्द्रिय इत्यर्थः । कुत्राप्यादरः कामोऽस्य नास्तीत्यनादरः नित्यतृप्त इत्यर्थः। ज्यायस्त्वाद्यनुपपत्तौ शरीर इति परिच्छेदो हेतुः सूत्रोक्त। स तु जीवस्यैव नेश्वरस्येत्याह॥ स- त्यमित्यादिना॥ ३॥ प्रापकत्वेन व्यपदिशतीति सम्बन्धः। कर्म-
Page 229
(२२४) र्त्नप्रभाभासिते [अ० १। पा० २। मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति। अभिसंभवितास्मीति शारीरमुपासकं कर्तव्वेन प्रापकत्वेन।अभिसं- अ्रवितास्मीति प्राप्तास्मीत्यर्थः ।न च सत्यां गतावेकस्य कर्मकर्तव्यपदेशो युक्त:, तथोपा- स्योपासकभावोऽपि भेदाधिष्ठान एव, तस्मा- दपि न शारीरो मनोमयत्वादिविशिष्ठः॥।४॥। शब्दविशेषात् ॥५॥ इतश्र शरीरादन्यो मनोमयत्वादिगणः, यस्मा- च्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरे "यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाक- तण्डुलो वैवमयमन्तरात्मन् पुरुषो हिरण्मयः" इति शारीरस्यात्मनो यः शब्दोऽभिधायकः स-
थमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्ठस्या-
स्मृतेश्र्व ॥ ६।
कर्तृव्यपदेशपदस्यार्थन्तरमाह॥ तथोपास्येति॥ ४ ॥ एकार्थत्वं प्रकरणस्य समानत्वं। अन्तरात्मन्निति विभक्तिलोपश्छान्दस: शब्द- योविशेषो विभक्तिभेदः। तस्मात्तदर्थयोर्भेद इति सूत्रार्थः॥८॥रमृ-
Page 230
सू· ६।अ०१।] शाङ्करब्रह्मसूत्रभाष्ये (२२५) रः सर्वभूतानां हद्देशेऽर्जुन तिष्ठति। ध्रामयन् सर्वभूतानि यन्त्रारूढानि मायया" इत्याद्या। अत्राह। कः पुनरयं शारीरो नाम परमात्मनोऽ- न्यो यः प्रतिषिध्यते, "अनुपपत्तेस्तु नशारीरः इत्यादिना। श्रुतिस्तु "नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता" इत्येवआतीयका पर- मात्मनोऽन्यमात्मानं वार्यति। तथा स्मृतिरपि "क्षेत्रज्ञं चापि मां विद्ि सर्वक्षेत्रेषु भारत" इत्ये- वआ्यीयकेति। अत्रोच्यते। सत्यमेवमेतत् पर एवात्मा देहन्द्रियमनोबुद्दयुपाधिभि: परिच्छ- दमानो बालैः शारीर इत्युपचर्यते। यथा घट- करकादयुपाधिवशादपरिच्छिन्नमपि नभः परि- छिन्नवदवभासते तद्त्। तदपेक्षया च कर्मत्वक- र्तृत्वादिभेदव्यवहारो न विरुध्यते प्राकू "तत्त्व- मसि" इत्यात्मैकत्वोपदेशग्रहणात्। गहीते त्वा- त्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्ति- रेव स्यात् ॥ ६॥ तौ हृदिस्थस्य जीवाज्नेदोक्तेर त्रापि हदिस्थो मनोमय ईश्वर इत्याह । स्मृतेश्रेति॥ भूतानि जीवान् यन्त्रं शरीरं। अत्र सूत्रकता सत्य- भेद उक्त इति ्रान्तिनिरासापेक्षेत्यधिकरणे निरस्तमपि चोयमुद्भा- व्य निरस्यति ॥ अत्राहेत्यादिना॥ त्वदुक्तरीत्या वस्तुत एकत्वमेव भेदस्तु कल्पितः, सूत्रेष्वनूबत इत्याह ॥ सत्यमिति॥६॥अर्भ- २९
Page 231
(२२६) रत्नप्रभाभासिते अ० १। पा०२] अर्भकौकस्त्वात्तद्वयपदेशाच्च नेति चे- न्न निचाय्यत्वादेवं व्योमवच्च॥।७॥ अर्भकमल्पमोको नीडं एष मे आत्मान्तर्हृदय मिति परिच्छिन्नायतनत्वात्।स्वशब्देन चाणीया- न्व्रीहेर्वा यवाद्वेत्यणीयस्त्वव्यपदेशात्, शारीर ए- वाराग्रमान्नो जीव इहोपदिश्यते न सर्वगतः पर- मात्मेति यदुक्तं तत् परिहर्तव्यं, अत्रोच्यते।नायं दोषः। न तावत् परिच्छिन्नदेशस्य सर्वगतत्व- व्यपदेश: कथमप्युपपद्यते, सर्वगतस्य तु सर्व- देशेषु विद्यमानत्वात् परिच्छिन्नदेशव्यपदेशेऽ- पि कयाचिदपेक्षया संभवति, यथा समस्तवसु- धाधिपतिरपि हि सन्नयोध्याधिपतिरिति व्यप- दिश्यते। कया पुनरपेक्षया सर्वगतः सन्नीश्वरो- ऽर्भकौका अणीयांश्र व्यपदिश्यत इति। निचा- य्यत्वादेवमिति ब्रूम: ।सएवमणीयस्वादिगुण- कमोको यस्य सोऽर्भकौकाः तस्य भावस्तच्वं तस्मादार्थिकमल्पत्वं अणीयानित्यल्पत्ववाचकशव्देनापि श्रुतमित्याह॥ स्वशब्देनेति॥ नायं दोप इत्युक्तं विवृणोति॥ न तावढिति ॥ कथमपि ब्रह्मभावा- पेक्षयाSपीत्यर्थः । परिच्छेदत्यागं विना व्रह्मत्वासम्भवात् तच्यागे च त्रह्मण एवोपास्यत्वमायातीति भावः । विभो: परिच्छेदोक्तौ दृष्टान्त- माह॥ यथा समस्तेति॥ सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षापरिच्छेदो-
Page 232
सू०८।अ०१] (२२७) गणोपेत ईश्वरस्तत्र हृदयपुण्डरीके निचाय्यो द्र- ष्व्य उपदिश्यते, यथा शालगामे हरिस्तत्रास्य बुद्धिविज्ञानं ग्राहकम्।सर्वगतोऽपीश्वरस्तत्रोपा- स्यमान: प्रसीदति। व्योमवच्चैतदू द्रष्टव्यम्।य- था सर्वगतमपि सद् व्योन सूचीपाशाधपेक्षया- डर्भकौकोऽणीयश् व्यपदिश्यते, एवं ब्रह्मापि। तदेवं निचाय्यत्वापेक्षं ब्रह्मणोरऽर्कौकस्त्वमणी- यस्त्वं च न पारमार्थिकम्। तत्र यदाशङ््यते ह- दयायतनत्वाद् ब्रह्मणो हृदयायतनानां च प्रति- शरीरं भिन्नत्वादू भिन्नायतनानां च शुकादीना- मनेकत्वसावयवत्वा ऽनित्य त्वादिदोपदर्शनाड्रह्म णोऽपि तत्प्रसङ्ग इति तदपि परिहतं भवति॥७ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ।।८।। व्योमवत् सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदय- सम्बन्धाचिद्रपतया च शारीरादविशिष्ठत्वात् सु- क्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः। ननु किमिति हृदयमेव प्राये- णोच्यते तत्राह॥ तत्रेति ॥ हृदये परमात्मनो बुद्धिवृत्तिर्याहिका भव- ति। अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः । व्योमदष्टान्तासि- ना शङ्गालताऽपि काचित् छिन्नेत्याह॥ तत्र यदाशङ्यत इत्यादि- ना ॥। भिन्नायतनत्वेऽपि व्योम्नः सत्यभेदायभावादिति भावः॥७ ॥ ब्रह्मणो हार्दत्वेSनिष्टसंभोगापत्तेर्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे। व्यामवदिति। ब्रह्म भोककृ स्यात् हार्दतवे सति चेतनत्वा-
Page 233
(२२८) रत्नप्रभाभासिते [अ० १। पा० २। खदुःखादिसंभोगोऽप्यविशिष्टः प्रसज्येत। एक त्वाच्चान हिपरस्मादात्मनोऽन्यःकश्र्विदात्मा सं- सारी विद्यते"नान्योऽतोऽस्ति विज्ञाता"इत्यादि- श्रुतिभ्यः।तस्मात् परस्यैव संसारसम्भोगप्राप्ति- रिति चेतू। न। वैशेष्यात्। न तावत् सर्वप्राणिहद- यसम्बन्धाच्छारीराद्रह्मणः सम्भोगप्रसङ़े वैशे- प्याताविशेषोहि भ्षवति शारीरपरमेश्वरयो:एकः कर्ताभोक्ता धर्माधर्मसाधनः सुखदुःखादिमांश्र, एकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणः । एत- स्मादनयोविशेषादेकस्य भोगो नेतरस्य। यदि च सन्निधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्य- सम्बन्धोऽभ्युपगम्येत आकाशादीनामपि दाहा- दिप्रसङ्ग:। सर्वगतानेकात्मवादिनामपि समावे- तौ चोदपरिहारौ। यदप्येकत्वाद्रह्मण आत्मा- न्तराभावात् शारीरस्य भोगेन ब्रह्मणो भोगप्र सङ्गइति अत्र वदाम: इदंतावह्देवानां प्रिय: प्र- जीवाभिन्नत्वाञ्च जीववदित्युक्तं निरस्यति॥ न वैशोष्याढिति॥। धर्मा- धर्मवच्वसुपाधिरित्यर्थःअयमेव विशेषो वैशेष्यं स्वार्थे ष्यञ् प्रत्ययः वि- शेषस्यातिशयार्थों वा धर्मादे: स्वाश्रये फलहेतुत्वमतिशयः, तस्मादि- ति सूत्रार्थः। किं च विभवो बहव आत्मान इति वादिनामेकस्मिन् दे- हे सर्वात्मनां भोक्तृत्वप्रसङ्ग: स्वकर्माजित एव देहे भोग इति परिहारश्र तुल्य इति न वयं पर्यनुयोज्या इत्याह॥ सर्वगतेति ॥ वस्तुतस्ेषामेव
Page 234
सू० ८अ०१।] शाङ्करब्रह्मसूत्रभाष्ये (२२१) ष्ठव्य: कथमयं त्वया आत्मान्तराभ्ावोऽध्यव- सित इति। तत्वमस्यहं ब्रह्मास्मि नान्योSतोऽ- स्ति विज्ञातेत्यादि शास्ेभ्य इति चेत्, यथाशा- सं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्योन तत्रार्धजर- यतीयं लभ्यम्।शासत्रं च तत्त्वमसीत्यपहतपाप्म- त्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशत्। शारीरस्यैव तावदुपभोक्तृत्वं वारयति। कुतस्त- दुपभोगेन ब्रह्मण उपभोगप्रसङ्ग:। अथागही- तं शारीरस्य ब्रह्मणैकत्वं तदा मिथ्याज्ञाननिमि- तः शारीरस्योपभोगो न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः। न हि बालैस्तलमलिनतादि- भिर्व्योस्न्ि विकल्प्यमाने तलमलिनतादिविशि- ष्टमेव परमार्थतो व्योम अवति। तदाह "न वै- भोगसाङ्गर्यमित्यग्रे वक्ष्यते। ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्वित्य ते- न भोकृत्वानुमाने उपजीव्यश्रुतिबाधमाह॥ यथाशञास्त्रमिति।अ- र्ध मुखमात्रं जरत्या वृद्धायाः कामयते नाङानीति सोऽयमर्वजरती- यन्यायः स चात्र न युक्तः। न हभेदमङ्गाकत्याभो कृत्वं त्यक्तुं युक्तं श्रुत्यैवाभेदसिद्धयर्थ भोक्तृत्ववारणादित्याह॥शास्त्रं चेति॥ नन्वेकत्वं मया श्रुत्या न गृहीतं येनोपजव्यिश्रुत्या बाधःस्यात्। किन्तु त्वदुक्त्या गृहीतमित्याशङ््च विम्बप्रतिबिम्बयोः कल्पितभेदेन भोकृत्वाभोक्त- त्वव्यवस्थोपपत्तेरप्रयोजकों हेतुरित्याह ॥ अथ गृहीतमित्यादिना॥ कल्पितासङ्ित्वमधिष्ठानस्य वैशेष्यमित्यस्मिन्नर्थेडपि सूत्रं पातयति ॥तदाहृति ॥ ब्रह्मणो हार्दत्वे बाधकाभावाच्छाण्डिल्यविद्यावाक्यं
Page 235
(२३०) रत्नप्रभाभासित [अ० १पा० २। शेष्यात्" इति। नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गो वैशेष्यात्। विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोः । मिथ्याज्ञा- नकल्पित उपभोगः, सम्यग्ज्ञानदष्टमेकत्वम्। न च मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञा- नदृष्टं वस्तु संस्पृश्यते तस्मान्नोपभ्ोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम्॥८॥ अत्ता चराचरग्रहणात्॥ ९॥ कठवल्लीषु पठ्यते "यस्य ब्रह्म च क्षत्रं चोभे भव- त ओदन: मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः इति। अत्र कश्विदोदनोपसेचन सूचितोऽ- त्ता प्रतीयते। तत्र किमन्निरचा स्यादुत जीवोऽ- थवा परमात्मेति संशयः,विशेषानवधारणात्, त्र- याणां चाग्निजीवपरमात्मनामस्मिन् ग्रन्थे प्र- ब्रह्मण्युपास्ये समन्वितमिति सिद्धम्॥ ८॥अन्ता चराचरग्रहणात्॥ यस्य ब्रह्मक्षत्रादिजगदोदनो मृत्युः सर्वप्राणिमारकोऽपि यस्योपसेच- नमोदनसंस्कारकघृतप्रायः सोडत्ता यत्र शुद्धे चिन्मान्रेSभेदकल्पनया वर्तते तच्छुद्धं व्रह्म इत्था इत्थं ईश्वरस्याप्यधिष्ठानभूतं को वेद, चि- त्तशुद्धयाद्युपायं विना कोऽपि न जानाती्यर्थः संशयबीजमाह॥ वि- शेषेति ॥स त्वमननिं प्रबूहीत्यन्नेः येयं प्रेते विचिकित्सेति जीवस्य अन्यत्र धर्मादिति ब्रह्मणः प्रश्नः। लोकादिमन्निं तमुवाचेत्ययेः, हन्तत इदं प्रवक्ष्यामीतातरयोः प्रतिवचनमुपलभ्यत इत्यर्थः । पूर्वत्र ब्रह्मणो
Page 236
सू० १।अ०२] शाङ्करव्रह्मसूत्रभाष्ये (२३१) श्नोपन्यासोपलब्धेः। किं तावत्प्राप्तं! अग्निरत्ते- ति। कुतः।"अग्निरन्नादः" इति श्रुतिप्रसिद्धि- भ्याम्। जीवो वात्ता स्यात् "तयोरन्यः पिप्पलं स्वाद्ृत्ति इति दर्शनातू। न परमात्मा "अनश्न- न्नन्योअभिचाकशीति" इति दर्शनादित्येवं प्राप्ते ब्रूम:, अत्तात्र परमात्मा भवितुमर्हति। कुतः। चराचरग्रहणात्। चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते। तादशस्य चाद्यस्य न परमात्मनोऽन्यः कार्व्स्न्येनात्ता स- म्भवति परमात्मा तु विकारजातं संहरन सर्वम- त्तीत्युपपद्यते। नन्विह चराचरग्रहणं नोपलभ्य- ते, तत् कर्थ सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादी- यते। नैष दोषः। मृत्यूपसेचनत्वेन सर्वस्य प्रा- णिनिकायस्य प्रतीयमानत्वाद् ब्रह्मक्षत्रयोश्र प्राधान्यात् प्रदर्शनार्थत्वोपपत्तेः। यततु परमात्म- भोकृत्वं नासतीत्युक्तं तदुपजीव्य पूर्वपक्षयति ॥॥ किं तावदिति॥ अग्निप्रकरणमतीतमित्यरुचेराह॥ जीवो वेति॥ पूर्वपक्षे जीवोपास्ति- सिद्धान्ते निर्विशेषव्रह्मज्ञानमिति फलभेदः । ओदनशब्दो भोग्यवा- चीति पूर्वपक्ष:, सिद्धान्तस्तु ब्रह्मक्षत्रशब्दैरुपस्थापितकार्यमात्रे गौण ओदनशब्दः। गुणश्रात्र मृत्यूपसेचनपदेन सन्निधापितं प्रसिद्धौदनगतं विनाश्यत्वं गृह्यते गौणशब्दस्य सन्निहित गुणग्राहित्वात्। तथाच सर्व- स्य विनाश्यत्वेनभानाल्विङ्गादीश्वरोऽत्तेत्याह॥ नैष दोष इति॥तस्य
Page 237
(२३२ ) रत्नप्रभाभासिते [अ० १।पा० २1 नोडपि नातृत्वं सम्भवति "अनश्नन्नन्यो अभि- चाकशीति"इति दर्शनादिति अत्रोच्यते, कर्मफ- लभोगस्य प्रतिषेधकमेतद्दर्शनं तस्य सन्निहित- त्वातू न विकारसंहारस्य प्रतिषेधकं, सर्ववेदा- न्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्र- सिद्धत्वात्, तस्मात् परमात्मैवेहात्ता भवितुम- हति॥९॥ प्रकरणाच्च॥ १०॥ इतश्र परमात्मैवेहात्ता भवितुमर्हति यत् का- णं प्रकरणमिद परमात्मनः"न जायते स्तियते वा विपश्च्ित्"' इत्यादि। प्रकृतग्रहणं च न्याय्यं "क इत्था वेद यत्र सः" इति च दुर्विज्ञानव्वं पर- मात्मलिङ्गम् ॥ १ ॥ गुहां प्रविष्ठावात्मानौ हि तद्दर्शनात११ कठवह्ीष्वेव पठ्यते सन्निहितत्वादिति पिप्पलं स्वाद्दत्तीति भोगस्य पूर्वोक्तत्वादित्यर्थ: । ।।९।१।।अत्तृवाक्यानन्तरवाक्यस्यापि ज्ञेयात्मनि समन्वयमाह॥ गु- हामिति। ऋतमवश्यम्भावि कर्मफलं पिबन्तौ भुञ्जानौ सुकतस्य क- मणो लोके कार्ये देहे परस्य ब्रह्मणोऽर्व स्थानमर्हतीति परार्व्य हृदयं परमं श्रेष्ठं तरिसिन् या गुहा नभोरुपा बुद्दिरुपा वा तां प्रविश्य स्थितौ छायातपवत् मिशोविरुद्ौ तौ च ब्रह्मविद: कर्मिणश्र वदन्ति। त्रि-
Page 238
सू० ११/अ० :] शाङ्गरव्रह्मसूत्रभाष्ये (२३३) "ऋतं पिबन्तौ सुकतस्य लोके गुहां प्रविष्ठौ प- रमे परार्ध्ये। छायातपौ ब्रह्मविदो वदन्ति पञ्चा- ग्रयो ये च त्रिणाचिकेताः"॥ इति। तत्र संशयः। किमिह बुद्धिजीवौ नि- र्दिष्टौ, उत जीवपरमात्मानाविति।यदि बुद्धिजी- वौ ततो बुद्धिप्रधानात् कार्यकरणसंघातादू वि- लक्षणो जीव: प्रतिपादितो भवति, तदपीह प्र- तिपादयितव्यम्।"येयं प्रेते विचिकित्सा मनुष्ये- Sस्तीत्येके नायमस्तीति चैके। एतद्विदयामनुशि- ष्टस्त्वयाहं वराणामेष वरस्तृतीयः"इति पृष्ठत्वा- त्। अथ जीवपरमात्मनौ, ततो जीवाद्दिलक्षणः परमात्मा प्रतिपादितो भवति, तदपीह प्रतिपा- दयितव्यम्।"अन्यत्र धर्मादन्यत्राधर्मादन्यत्ना- स्मात् कृताकृतादन्यत्र भूताच्च भव्याच्च यत्तत् प- श्यसि तद्दद" इति पृष्ठत्वात्। अत्राह आक्षेप्ता नाचिकेतोSसनिश्िवतो थैस्ते त्रिणाचिकेताः तेऽपि वदन्तीत्यर्थः ।ना- चिकेतवाक्यानामध्ययनं तदर्थज्ञानं तदनुष्ठानं चेति त्रित्वं बोध्यम् बु- द्यवच्छिन्नजीवस्य परमात्मनश्ष प्रकृतत्वात्। संशयमाह॥ तत्रेति॥ पूर्वोत्तरपक्षयोः फलं स्वयमेवाह॥ यदीत्यादीना ॥ तदपि जीवस्य बुद्धिवैलक्षण्यमपीत्यर्थः। मनुष्ये प्रेते मृते सति येयं विचिकित्सा सं- शयः परलोकभोक्ताऽस्तीत्येके नारतीत्यन्ये, अतत्वयोपदिष्टोऽहमेत- दात्मतच्वं जानीयामित्यर्थः ॥ तदपीति॥ परमात्मस्वरूपमपीत्य-
Page 239
(२३४) रत्नप्रभाभासिते [अ० १।पा० २। उभावप्येतौ पक्षौ न संभवतः।कस्मात्। ऋत- पानं कर्मफलोपभोग: सुकतस्य लोक इति लि ङात्। तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति नाचे- तनाया बुद्धे:। पिबन्ताविति च द्विवचनेन द्योः पानं दर्शयति श्रुतिः। अतो बुद्धिक्षेत्रज्ञपक्षस्ता- वन्न सम्भवति। अत एव क्षेत्रज्ञपरमात्मपक्षो- डपि न सम्भवति चेतनेऽपि परमात्मनि ऋतपा- नासम्भवात्। "अनश्नन्नन्यो अभिचाकशीति" इति मन्त्रवर्णादिति। अत्रोच्यते। नैष दोषः।छ- त्रिणो गच्छन्ती त्येकेनापि छत्रिणा बहूनां छत्रि- त्वोपचारदर्शनात्, एवमेकेनापि पिबता दौ पिब- न्तावुच्येयातां। यद्वा जीवस्तावत् पिबति, ईश्वर- स्तुपाययतिपाययन्नपिपिबतीत्युच्यते।पाचयि- तर्थपि पक्तृत्वप्रसिद्धिदर्शनात्। बुद्धिक्षेत्रज्ञपरिग्र- र्थः उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति॥ अत्राहेति॥ छंत्रिप- देन गन्तार इव पिबत्पदेनाजहल्लक्षणया प्रविष्टावुच्येते इत्याह॥ अ- त्रोच्यत इति। पानकर्तृवाचिपदेन पानानुकूलौ वा लक्ष्यावित्याह । यद्वेति ॥ नियतपूर्वभाविरृुतिमच्वरूपमनुकूलत्वं कर्तृकारयित्रोः साधारणं यः कारयति स करोत्येवेति न्यायादिति भावः अत्र प्रक- तिर्मुख्यार्था प्रत्यये लक्षणामिश्राऽस्तु कृतिः प्रत्ययार्थो मुख्यः प्रक- त्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः। पूर्वपक्षे पिबन्ताविति क- तृवाचिशतृप्रत्ययेन बुद्धिजीवसाधारणं कारकत्वं लक्ष्यमित्याह॥ बु
Page 240
सू०११।अ०३।] शाङ्करब्रह्मसूत्रभाष्ये (२३५) होऽपि सम्भवति करणे कर्तृत्वोपचारात्, एधांसि पचन्तीति प्रयोगदर्शनात्।न चाध्यात्माधिकारे- डन्यौ कौचिद्दाछतं पिबन्तौ सम्भवतः, तस्माहु- द्विजीवौ स्यातां जीवपरमात्मानौ वेति संशयः। किं तावतप्रातं बुद्दिक्षेत्रज्ञाविति। कुतः। गुहां प्र- विष्ठाविति विशेषणात्। यदि शरीरं गुहा यदि वा हृदयमुभयथापि बुद्दिक्षेत्रज्ञौ गुहां प्रविष्ठावु- पपद्येते। न च सति सम्भवे सर्वगतस्य ब्रह्मणो विशिष्टदेशव्वं युक्तं कल्पयितुं।"सुकृतस्य लोके" इति च कर्मगोचरानतिक्रमं दर्शयति।परमात्मा तु न सुकृतस्य दुष्कृतस्य वा गोचरे वर्तते।"न कर्मणा वर्धते नो कनीयान्" इति श्रुतेः।छाया- तपाविति च चेतनाचेतनयोनिर्देश उपपद्यते छायातपवत् परस्परस्य विलक्षणत्वात्। तस्मा- हुद्दिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः। द्धीति। एधांसि काष्ठानि पचन्तीत्याख्यातेन कारकत्वं लक्ष्यं प्र- कृतिस्तु मुख्यैवेति भावः । मुख्यपातारौ प्रसिद्धपक्षिणौ ग्राहमावित्यत आह।। नचेति ॥ ब्रह्मक्षत्रपदस्य सन्निहितमृत्युपदादनित्यवस्तुपर- त्ववदिहापि पिवत्पदस्य सन्निहितगुहापदाद्वुद्दिजीवपरतेति दं- ष्टान्तेन पूर्वपक्षयति ॥ किं तावढिति॥ गोचरं फलं। एकस्मिन् जा- तिमति क्लम्ते सजातीयमेव द्वितीयं ग्राह्यम्। व्यक्तिमात्रग्रहे लाघवात् न विजातीयं जातिव्यक्त्युभयकल्पनागौरवात्। न चास्तु कारकत्वेन
Page 241
(२३६)' रत्नप्रभाभासिते [अ० १। पा.० २। विज्ञानात्मपरमात्मानाविहोच्येयाताम्।कस्मा- तू। आत्मानौ हि तौ उभावपि चेतनौ समानॅ- स्वभावौ, सङ्ग्याश्रवणे च समानस्वभ्ावेष्वेव लोके प्रतीतिर्दश्यते, अस्य गोर्द्वितीयोऽन्वेष्ठव्य इति हयुक्ते गौरेव द्वितीयोऽन्विष्यते नाश्ः पुरु- षो वा, तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञा- नात्मनि द्वितीयान्वेषणायां समानस्वभ्ावश्रेत- नः परमात्मैव प्रतीयते। ननूक्तं गुहाहितत्वदर्श- नान्न परमात्मा प्रत्येतव्य इति। गुहाहितत्व- दर्शनादेव परमात्मा प्रत्येतव्य इति वदामः। गुहाहितत्वं तु श्रुतिस्मतिष्वसकृत् परमात्मन एव दश्यते। "गुहाहितं गह्वरेष्ठं पुराणं", "यो वे- द निहितं गुहायां परमे व्योमन्","आत्मानम- न्विच्छ गुहां प्रविष्ठं" इत्याद्यासु। सर्वगतस्या- पि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न वि- रुध्यत इत्येतदप्युक्तमेव। सुकृतलोकवर्तित्वं तु छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम्। सजातीया बुद्धिरेव जीवस्य द्वितयेति वाच्यं, चेतनत्वस्य जीवस्वभा- वस्य कारकत्वादन्तरङगत्वात्। तथा च लोके द्वितीयस्यान्तरङ्गजाति- मच्वदर्शनाज्जविस्य द्वितीयश्रेतन एवेति सूत्रार्थमाह॥ सड्याश्रवणे चेति॥ गुहायां बुद्धौ स्थितं गह्रे अनेकानर्थसङ्कुले देहे स्थित पुरा- णमनादिपुरुषं विदित्वा हर्षशोकौ जहाति परमश्रेष्टे व्योमन् हार्दा-
Page 242
सू० १२ । अ० ३ ] शाङ्करब्रह्मसूत्रभाष्ये (२३७ ) छायातपावित्यप्यविरुद्वम्। छायातपवत् पर- स्परविलक्षणतव्वात् संसारित्वासंसारित्वयोः । अविद्याकृतत्वात् संसारित्वस्य पारमार्थिकत्वा- च्चासंसारित्वस्य, तस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गत्येते॥ ११॥ कुतश्र विज्ञानात्मपरमात्मानौ गृत्येते। विशेषणाच्च॥ १२॥ विशेषणं च विज्ञानात्मपरमात्मनोरेव स- मभवति "आत्मानं रथिनं विद्धि शरीरं रथमेव तु" इत्यादिना परेण ग्रन्थेन रथिरथादिरूपक- कल्पनया विज्ञानाव्मानं रथिनं संसारमोक्षयो- र्गन्तारं कल्पयति।"सोऽध्वनः पारमाप्नोति त- द्विष्णो परमं पदम्"' इति परमात्मानं गन्तव्यं क- ल्पयति। तथा "तं दुर्दर्श गूढमनुप्रविष्टं गुहाहि- काशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वद सोऽश्रुते सर्वान् का- मानित्यन्वयः, अन्विच्छ विचारयेत्यर्थः ॥ ११ ॥ विशेषणं गन्तृगन्त- व्यत्वादिकं लिङ्गमाह॥ विशेषणाच्चेति॥स जीवोऽध्वनः संसार- मार्गस्य परमं पारं किं तत्, विष्णोर्व्यापनशीलस्य परमात्मनः पदं स्वरूपमाप्नोतीत्यर्थ:। दुर्दर्श दुर्ज्ञानं तत्र हेतुर्गूढमायावृत्तं मायानुप्- विष्टं पश्राद् गुहानिहितं गुहाद्दारा गह्नरेष्ठं, एवं बहिरागतमात्मानम- ध्यात्मयोगः स्थूलसूक्ष्मकारणदेहलयक्रमेण प्रत्यगात्मनि चित्तसमा- धानं तेनाधिगमो महावाक्यजा वृत्तिः तया विदित्वेत्यर्थः। ऋतपान-
Page 243
(२३८) रत्नप्रभाभासिते [अ० १।पा. २ तं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन दे- वं मत्वा धीरो हर्षशोकौ जहाति" इति पूर्वस्मि- न्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ। प्रकरणं चेदं परमात्मनः। ब्रह्मविदो वदन्तीति च वक्तविशेषोपादानं परमात्मपरिग्रहे घटते, त- स्मादिह जीवपरमात्मानावुच्येयाताम्। एष एव न्यायो "द्वा सुपर्णा सयुजा सखाया" इत्येव- मादिष्वपि। तत्रापि त्यव्यात्माधिकारान्न प्रा- कृतौ सुपर्णावुच्येते" तयोरन्यः पिप्पलं स्वा- द्वत्ति" इति अदनलिङ्गाद्विज्ञानात्मा भवति। "अनश्नन्नन्योअभिचाकशीति"इत्यनशनचेतन- त्वाभ्यां परमात्मा। अनन्तरे च मन्त्रे तावेव द्रष्ट- द्रष्टव्यभ्षावेन विशिनष्टि "समाने वक्षे पुरुषो नि- मग्नोऽनीशया शोचति मुत्यमानः।जुष्टं यदा प- सन्त्रे जीवानुवादेन वाक्यार्थज्ञानाय तत्पदार्थों ब्रह्म प्रतिपायत इति उपसंहरति ॥ तस्मादिहेति ॥ उक्तन्यायमतिदिशति ॥एष इति॥ हा हौ छान्दसो दिवचनस्याकारः। सुपर्णाविव सहैव युज्येते नियम्य- नियामकभावेनेति सयुजौ। सखायौ चेतनत्वेन तुल्यस्वभावौ समान- मेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः । गुहां प्रविष्टा- विति यावत्। एतावात्मानौ। तल्लिङदर्शनादित्याह।।तयारन्य इति। विशेषणाचेत्याह॥अनन्तरे चेति॥ अनीशया स्वस्येश्वरत्वाप्रतीत्या दे- हनिमग्रः पुरुषो जीवः शोचति।निमग्नपदार्थमाह।मुह्यमान इति।
Page 244
सू० १२। अ०३।] (२३९) श्यत्यन्यमीशमस्य महिमानमिति वीतशोक:" इति। अपर आह।द्ा सुपर्णेति। नेयमृगस्याधि- करणस्य सिद्धान्तं भजते पैद्गिरहस्यब्राह्मणेना- न्यथाव्याख्यातत्वात्।तयोरन्यः पिप्पलंस्वाद्द- तीति सत्वम्। अनश्नन्नन्यो अभिचाकशीतीत्य- नश्नन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्वक्षेत्रज्ञा- विति, सत्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यद्ुच्येत, तन्न। सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरण- शारीरपरतया प्रसिद्धत्वात् तत्रैव च व्याख्यात- त्वात्। "तदेतत् सत्वं येन स्वन्नं पश्यत्यथ योऽयं नरोऽहमिति भ्रान्त इत्यर्थः । जुष्टं ध्यानादिना सेवितं यदा ध्यानपरि- पाकदशायामीशमन्यं विशिष्टरूपाद्िनं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदाऽस्य महिमानं स्वरूपमेति प्राप्तोतीव ततो वीतशोको भवतीत्यर्थः। हा सुपर्णेति वाक्यं जीवेश्वरपरमिति कत्वा चिन्तितम्। अुना कतां चिन्तामुद्दाठयति॥ अपर इति ॥ अन्यथा बुद्धिविल- क्षणत्वं पदलक्ष्यपरत्वेनेत्यर्थः। सच्वं बुद्धिरिति शङ्कते ॥ सत्त्वशव्द इति॥ बुद्धिजीवौ चेतू पूर्वपक्षार्थ: स्यादित्यत आह॥ नापीति॥ पूर्वपक्षार्थस्तदा स्याद् यवत्र बुद्धिभिन्नः संसारी प्रतिपायेत, न हन्न संसारी विवक्ष्यते। किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः । श्रुतिस्मृति- भ्यां चायमर्थो युक्त इति शेषः। तावता मन्त्रव्याख्यामात्रेण। एवमेव जीवस्य ब्रह्मत्वोक्तावेव। न हि जीवो बुद्धिभिन्न इति विवेकमात्रे- णोपसंहारो युक्तः। भेदज्ञानस्य भ्रान्तित्वाह्वैफल्याच्चेति भावः। अवि- व्याविदुषि किमपि स्वकार्य नाध्वंसते न सम्पादयति, ज्ञानागनिना स्व-
Page 245
(२४०) रत्नप्रभाभासिते [अ:१। पा० २। शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्वक्षेत्रज्ञौ" इति। नाप्यस्याधिकरणस्य पूर्वपक्षं भजते।न त्यन्र शारीरः क्षेत्रज्ञः कर्तृत्वभोकृत्वादिसंसार- धर्मेणोपेतो विवक्ष्यते।कथं तर्हि सर्वसंसारधर्मा-
न्योअभिचाकशीतीव्यनश्नन्नन्योऽभिपश्यतिज्ञः" इति वचनात्।"तत्वमसि", "क्षेत्रज्ञं चापि मां विद्धि" इत्यादिश्रुतिस्मृतिभ्यश्र। तावता चवि- द्योपसंहारदर्शनमेवावकल्प्यते"तावेतौसत्त्वक्षेत्र- ज्ञौ","न हवा एवं विदि किञ्चन रज आध्वंसते" इत्यादि। कथ पुनरस्मिन्पक्षे "तयोरन्यः पि- प्पलं स्वाद् त्ीति सत्वम्"इत्यचेतने सत्वे भो- क्ृत्ववचनमिति। उच्यते। नेयं श्रुतिरचेतनस्य सत्वस्य भोक्तृत्वं वक्ष्यामीति प्रढत्ता। किं तर्हि चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां व- क्ष्यामीति। तदर्थ सुखादिविक्रियावति सत्वे ओोक्तव्वमध्यारोपयति। इदंहि कर्तृत्वं भोकृत्वं स्या एव दग्धत्वादित्यर्थः। अविय्या नागच्छतीति वार्ऽर्थः । जीवस्य व्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते ॥ कथभिति ॥ बुद्देर्भोंकृ- त्वोक्तावतात्पर्यात् नात्र युक्तिचिन्तया मनः खेदनीयमित्याह॥उच्य- त इतिः॥ तदर्थ ब्रह्मत्वबोधनार्थ भोकृत्वसुपाधिमसके निक्षिपती- त्यर्थ: । वस्तुतो जीवस्याभोक्तत्वे भोक्तृत्वधीः कथमित्यत आह। इद
Page 246
सू० १३।अ०४।] (२४९ )
ल्प्यते, परमार्थतस्तु नान्यतरस्यापि सम्भवति, अचेतनत्वात् सत्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञ- स्य, अविद्याप्त्युपस्थापितस्वभावत्वाच्च स- त्वस्य सुतरां न सम्भवति। तथा च श्रुतिः "य- त्र वान्यदिव स्यात्तत्ान्योऽन्यत् पश्येत्"इत्या-
षय एव कर्तृत्वादिव्यवहारं दर्शयति। "यत्र त्व- स्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्" इत्या- दिना च विवेकिन: कर्तत्वादिव्यवहारं वाश्यति १२॥ अन्तर उपपतेः॥१३॥ "य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैत दमृतमभयमेतदू ब्रह्मेति तद्यद्यप्यस्मि- नू सर्पिर्वोदकं वा सिश्ति वर्त्मनी एव गच्छ- हीति॥ चित्तादात्म्येन कल्पिता बुद्धि: सुखादिरूपेण परिणमते बु-
त्यर्थः। भोकृत्वमाविद्यकं न वस्तुत इत्यत्र मानमाह॥ तथा चेति॥ यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा द्रषटृत्वादिकं, न वस्तुनि ज्ञात इत्यर्थः। तस्मादतं पिबन्ताविति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥ १२॥ अन्तर उपपन्तेः ॥ उपकोसलविद्यावाक्यमु- दाहरति॥ य इति ॥ तदक्षिस्थानमसङ्गत्वेन ब्रह्मणोऽनुरूपं यतो- डस्मिन् क्षिप्ं वर्त्मनी पक्ष्मणी एव गच्छतीत्यर्थः। दर्शनस्य लौकिक- ३१
Page 247
(२४२) रत्नप्रभाभासिते [अ० १। पा०२ ति" इत्यादिश्रूयत। तत्र संशयः। किमयं प्रति- बिम्बात्माऽक्ष्यधिकरणो निर्दिश्यते, अथ विज्ञा- नात्मा, उत देवतात्मेन्द्रियस्याधिष्ठाताऽथवेश्वर इति। किं तावत् प्रात्तं, छायात्मा पुरुषप्रतिरूप इति। कुतः। तस्य दश्यमानव्वप्रसिद्धेः "य एषो- डक्षिणि पुरुषो दृश्यते" इति चप्रसिद्दवदुपदेशा- त्। विज्ञानात्मनो वा अरयं निर्देश इति युक्तम्।स हि चक्षुषा रूपं पश्यन् चक्षुषि सन्निहितो अवति, आत्मशब्दश्र्ास्मिन् पक्षेऽनुकूलो अदति।आ- दित्यपुरुषो वा चक्षुषोऽनुग्राहकः प्रतीयते "३- श्मिकिरेषोऽस्मिन् प्रतिष्ठितः"' इति श्रुतेः।अ- मृतत्वादीनां च देवतात्मन्यपि कथश्च्ित् सम्भ- वात्, नेश्वरः, स्थानविशेषनिर्देशादित्येवं प्राप्ते ब्रूम:। परमेश्वर एवाक्षण्यभ्यन्तरः पुरुष इहो-
त्वशास्त्रीयत्वाभ्यां संशयमाह॥ तत्रेति ॥ पूर्वत्र पिवन्ताविति प्रथम- श्रुतचेतनत्वानुसारोण चरमश्रुता गुहाप्रवेशादयो नीताः, तद्दिहापि दृश्यत इति चाक्षुरषद्वानुसारेणामृतत्वादयो ध्यानार्थ कल्पितत्वेन नेया इति दृष्टान्तेन पूर्वपक्षयति।छायात्मेति॥पूर्वपक्षे प्रतिबिम्बोपास्तिः सिद्धान्ते व्रह्मोपास्तिरिति फलम् प्रसिद्धवदिति चाक्षुषत्वेनेत्यर्थः। सम्भावनामात्रेण प्क्षान्तरमाह ॥ विज्ञानात्मन इत्यादिना ॥ म- नो व्रह्मेतिवत्, एतह्ह्रेति इति वाक्यस्येतिपदशिरस्कत्वान्न स्वा- र्थपरत्वमिति पूर्वपक्षः मनो ब्रह्मेत्युपासीतेत्यन्र इतिपदस्य प्रत्य-
Page 248
सू०१ ३। अ०४।] (२४३) पदिष्ठ इति। कस्मात्। उपपत्तेः। उपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम्।आत्मव्वं तावन्मुख्यया वृत्त्या परमेश्वर उपपद्यते "स आत्मा तत्वमसि" इति श्रुतेः। अमृतत्वाभयत्वे च तस्मिन्नसकृत् श्रुतौ श्रूयेते। तथा परमेश्वरा- नुरूपमेतदक्षिस्थानम्। यथा हि परमेश्वरःसर्व- दोषैरलिप्तोऽपहतपाप्मादिश्रवणात् तथाक्षि- स्थानं सर्वलेपरहितमुपदिष्ठं "तद्यद्यप्यस्मिन् स्पिर्वोदकं वा सिश्वति वर्त्मनी एव गच्छति" इति श्रुतेः। संयद्दामत्वादिगुणोपदेशश्र तस्मि- न्नवकल्पते "एतं संयद्दाम इत्याचक्षते""एतं हि सर्वाणि वामान्यभ्षिसंयन्ति। एष उ एव वा- मनीरेष हि सर्वाणि वामानि नयति एष उएव भामनीरेष हि सर्वेषु लोकेषु भाति" इति च। अत उपपत्तेरन्तरः परमेश्वरः॥१३॥
यपरत्वात्। इह च व्रह्मेत्युवाचेत्यन्वयेन इतिपदस्योक्तिसम्बन्धिनो- डर्थपरत्वाद्वैषम्यमिति सिद्धान्तयति ॥ परमेश्वर एवेति॥ बहुप्र- माणसंवादस्तात्पर्यानुग्राहक इति न्यायानुगृहीताभ्यामात्मव्रह्मश्रु- तिभ्यां दृश्यत्वलिङ्गं: बाध्यमित्याह ॥ संयद्वामेति॥ वामानि कर्म- फलान्येतमक्षिपुरुषमभनिलक्ष्य संयन्ति उत्पयन्ते सर्वफलोदयहेतुरि- त्यर्थः। लोकानां फलदाताप्ययमेवेत्याह ॥ वामनीरिति ॥ नयति फलानि लोकान् प्रापयतीत्यर्थः। भामानि भानानि नयत्ययमित्याह
Page 249
(२४४) रत्नप्रभाभासिते [अ० १। पा० २। स्थानादिव्यपदेशाच॥१४॥ कथं पुनराकाशवत् सर्वगतस्य ब्रह्मणोऽ- क्ष्यल्पस्थानमुपपद्यते इति। अत्रोच्यते।भवेदे- षाऽनवक्लृप्ति: यद्येतदेवैकं स्थानमस्य निर्दिष्ठं भवेत्। सन्ति हि अन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्ठानि "यः पृथिव्यां तिष्ठन्" इत्यादिना। तेपु हि चक्षुरपि निर्दिष्टं "यश्चक्षु- षितिष्ठत्" इति। स्थानादिव्य पदेशादित्यादिय- हणेनैतद्दर्शयति। न केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यमानं निर्दिश्यते, किं तर्हि नाम- रूपमित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणो- डनुचितं निर्दिश्यमानं दृश्यते, "तस्योदिति नाम हिरण्यश्मश्रुः" इत्यादि निर्गुणमपि सत् ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थ तत्र तत्रोप- दिश्यते इत्येतदप्युक्तमेव। सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थ स्थानविशेषो न विरुध्यते शालगा- म इव विष्णोरित्येतदप्युक्तमेव।। १४॥ । भामनीरिति ॥ सर्वार्थप्रकाशक इत्यर्थः ॥ १३ ॥ स्थाननामरू- पाणां ध्यानार्थ प्रुत्यन्तरेSप्युपदेशादक्षिस्थानत्वोकतिस्त्र न दोष इति सूत्रयोजना। अनवक्लृप्तिः अक्लप्तकल्पना तदा भवेदयत्रैव निर्दिष्टं भवेदित्यन्वयः। नेन्वनुचितबाहुल्योक्तिरसंमाधानमित्याशङ्क्च यु- किमाह ॥ निर्गुणमपीति ॥१४॥ प्रकरणादपि ब्रह्म ग्राहमित्या-
Page 250
सू०१५। अ०४। ] शाङ्करब्रह्मसूत्रभाष्ये (२४५) सुखविशिष्टाभिधानादेव च।।१५॥ अपि च, नैवात्र विवदितव्यं, किं ब्रह्मास्मिन् वाक्येऽभिधीयते न वेति। सुखविशिष्टाभिधा- नादेव ब्रह्मत्वं सिद्धम्। सुखविशिष्टं हि ब्रह्म यद्दा- क्योपक्रमे प्रक्रान्तं "प्राणो ब्रह्म कं ब्रह्म खंब्र- ह्म"इति तदेवेहाभिहितं, प्रकृतपरिग्रहस्य न्या- य्यत्वातू, "आचार्यस्तु ते गतिं वक्ता" इति च गतिमात्राभिधानप्रतिज्ञानात्। कथं पुनर्वाक्यो- पक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति। उच्यते। ह।सुखविशिष्टेति।। ध्यानार्थ भेदकल्पनया सुखगुणविशिष्टस्य ब्रह्म- णः प्रुतस्य य एष इति सर्वनाम्नाभिधानादन्तरः परमात्मा स्यादि- ति सूत्रार्थः। ननु प्रकरणात् प्रबलेन दृश्यत्वलिङ्ेनोपस्थापितः छाया- त्मा सर्वनामार्थ इत्यत आह॥ आचार्यस्त्विति ॥ उपकोसलो- नाम कश्ष्ित ब्रह्मचारी जावालस्याचार्यस्यान्नीन् द्दादश वत्सरान् प- रिचचार। तमनुपदिश्य देशान्तरगते जाबाले गार्हपत्याव्यग्निभिर्दयया प्राणो ब्रह्मेत्यात्मविद्यामुपदिश्योक्तं आचार्यस्त्वति। तवात्मविद्याफ- लावासये मार्गमचिरादिकं वदिष्यतीत्यर्थः। पश्रादाचार्येणागत्य य एषोऽक्षिणीत्यु क्कार्चिरादिका गतिरुक्ता। तथा चागनिभिरुक्तात्मविद्या- वाक्यस्य गतिवाक्पेनैकवाक्यता वाच्या, सा च सर्वनाम्ना प्रकतात्म- श्रहे निर्वहतीत्येकवाक्यतानिर्वाहकं प्रकरणं वाक्यभेदकाल्लि्ाद्दलव- दिति भाव:। श्रुति व्याचष्टे॥ उच्यत इति॥ प्राणश्र सूत्रात्मा वृ- हच्वाद्रल्लेति यत् तज्जानामि कं विषयसुखं खं चं भूताकाशं ब्र्मत्वे- न ज्ञातुं न शक्ोमीत्यर्थः। खं कथम्भूतं यत् कें तदेव खमिति सुखेन
Page 251
(२४६) रत्नप्रभाभासिते [अ० १।पा० २ "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इत्येतदग्रीनां वच- नं श्रुत्वोपकोसल उवाच।"विजानाम्यहं यत्प्रा णो व्रह्म कं च तु खं च न विजानामि" इति।तत्रेदं प्रतिवचनम्।"यद्वाव कं तदेव खं यदेव खं तदेव क- म्" इति। तत्र खंशब्दो भूताकाशे निरूढो लो- के। यदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत, तथा सति केवले भूताकाशे ब्रह्मश- ब्दो नामादिष्विव प्रतीकाश्िप्रायेण प्रयुक्त इति प्रतीतिः स्थात्। तथा कंशब्दस्य विषयेन्द्रियस- म्पर्कजनिते सामये सुखे प्रासद्धत्वात्। यदि त- स्य खंशब्दो विशेषणत्वेन नोपादीयेत लौकिकं सुखं ब्रह्मेति प्रतीतिः स्थात्। इतरेतरविशेषितौ तु कंखंशब्दौ सुखात्मकं ब्रह्म गमयतः।तत्र द्वि- विशेषितस्य खस्य भूतत्वनिरासः। तथा कं कथम्भूतं यत् खं तदेव कमिति विभुत्वेन विशेषितस्य कस्य जन्यत्वनिरास इति व्यतिरेक- मुखेनाह॥ तत्र खमित्यांदिना।आत्मविदेति श्रुतिविरोधात् प्रतीक- ध्यानमत्रानिष्टमितिभावः।।सामय इति।।आमयो दोषः।साधनपारत- न्त्यानित्यत्वादि: तत्सहित इत्यर्थः। प्रत्येकग्रहणे दोषमुत्का द्दयोर्ग्रह- णे फलितमाह॥ इतरेतरेति ॥ विशेषितार्थकावित्यर्थः। नन्वेकं ब्रह्मै- वात्र ध्येयं चेद ब्रह्मपदान्तरं किमर्थमित्यत आह ॥ तत्रेति॥ विशेष- णत्वेन खस्य भूतत्वव्यावर्त्तकत्वेनेत्यर्थः। ब्रह्मशब्दः शिरो ययोस्तच्व- मिति विग्रहः। अध्येयत्वे को दोषस्तत्राह ॥ इष्टं हीति॥ मार्गोक्या सगुणविद्यात्वावगमादिति भावः। आत्मविद्यापदेनोपसंहारादपि प्र-
Page 252
सु० १५। अ०४।] (२४७) तीये ब्रह्मशब्देऽनुपादीयमाने कं खं ब्रह्मेत्येवो- च्यमाने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वात् सुखस्य गुणस्याध्येयत्वं स्यात्, तन्माभूदित्यु- भयो: कंखंशब्दयो: ब्रह्मशब्दशिरस्त्वं "कं ब्रह्मखं ब्रह्म'इति।इष्टंहिसुखस्यापिगुणस्य गुणिवद्धये- यत्वम्। तदेवं वाक्योपक्मे सुखविशिष्टं ब्रह्मोप- दिष्ठम्। प्रत्येकं च गार्हपत्यादयोऽग्नय: स्वंस्वं. महिमानमुपदिश्य"एषा सोम्य ते अस्मद्विद्या- SSत्मविद्या च" इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दि- ष्टमिति ज्ञापयन्ति।"आचार्यस्तुते गतिं वक्ता" इति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरवि- वक्षां वारयति। "यथा पुष्करपलाशे आपो न श्लिष्यन्ते, एवमेवं विदि पापं कर्म न श्लिष्यते" इति चाक्षिस्थानं पुरुषं विजानतः पापेनानुप- घातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्श- यति। तस्मात् प्रकृतस्यैव ब्रह्मणोऽक्षिस्थानतां कृतं ब्रह्मेत्याह॥ प्रत्येकं चेति ॥ पृथिव्यग्निरन्नमादित्य इति मम चतलस्तनवो विभूतिरिति गार्हपत्य उपदिदेश।आपो दिशो नक्षत्राणि चन्द्रमा इति अन्वाहार्यपचन उवाच। प्राण आकाशो यौर्विधयु- दिति स्वमहिमानमाहवनीयो जगादेति भावः । इयमस्माकमस्नीनां विद्या प्रत्येकमुक्का आत्मविद्या तु पूर्वमस्माभिमिलित्वा प्राणो ब्र- हेत्युक्तेत्यर्थः । उच्यतामग्निभिर्व्रह्मछायात्मा गुरुणोच्यतां वक्तभेदा-
Page 253
(२४८) रत्नप्रभाभासिते [अ० १। पा० २। संयद्दामत्वादिगुणतां च उत्का अचिरादिकां त- द्विदो गति वक्ष्यामीति उपक्रमते “य एषोSक्षि णि पुरुषो दृश्यत एष आत्मेति होवाच" इति१५
इतश्राक्षिस्थानः पुरुषः परमेश्वरो यस्मात् श्रु- तोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौ "अथोत्तरे- ण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानम- न्विष्यादित्यमश्िजयन्ते, एतद्वै प्राणानामाय- तनमेतदमृतमभ्यमेतत्परायणमेतस्मान्न पुनरा- वर्तन्ते" इति। स्मृतावपि। "अग्निर्ज्योतिरहः शुक्: षण्मासा उत्तरायणम्।
दिति तत्राह ॥ आचार्यस्त्विति ॥ एकवाक्यतानिश्वयादकृभेदेऽपि नार्थभेद इत्यर्थः ॥ १५॥श्रुता अनुष्ठिता उपनिषद्रहस्यं सगुणब्र- ह्रोपासनं येन तस्य या गतिः श्रुतौ स्मृतौ च प्रसिद्धा तस्या अत्रा- भिधानातू लिङ्गदिति सूत्रार्थमाह॥ इतश्रेति॥ यस्माद् दृश्यते त- त्तस्मादिहेत्यन्वयः । श्रुतिमाह ॥ अथेति ॥ देहपातानन्तरमित्यर्थः। स्वधर्मस्तपः तपोव्रह्मचर्यश्रद्धाविद्यािः आत्मानं ध्यात्वा तया ध्या- नविवयोत्तरं देवयानमार्ग प्राप्यते नोत्तरेण पथा। आदित्यद्दारा सगु- णव्रह्मस्थानं गच्छन्ति एतहै ब्रह्म प्राणानां व्यष्टिसमष्टिरूपाणामाय- तनं लिङ्गात्मकं हिरण्यगर्भरूपं वस्तुतस्त्वेतदमृतादिरूपं निर्गुणं स- र्वाधिष्ठानम। अतः कार्यब्रह्म प्राप्य तत् स्वरूपं निर्गुणं ज्ञात्वा मुच्यन्त
Page 254
सृ०१७। अ. ४ ] शाङ्करब्रह्मसूत्रभाष्ये (२४९) तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।
श्यते।"अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदुच-
त्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत् पुरुषोSमान- वः स एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ ए- तेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते" इति। तदिह ब्रह्मविद्विषयया प्रसिद्धया गत्याऽ- क्षिस्थानस्य ब्रह्मत्वं निश्चीयते॥१६॥ अनवस्थितेरसम्भवाच्च नेतर:॥१७। यत् पुनरुक्तं "छायात्मा विज्ञानात्मा देव-
इत्यर्थः । अन्निरेव ज्योतिर्देवता एवमहराया देवता एव स्मृतौ उक्ताः॥ अस्मिन्नुपासके मृते सति यदि पुत्रादय: शव्यं शवसंस्कारादिकं कु- र्वन्ति यदि च न कुर्वन्ति उभयथाप्युपास्तिमहित्ना अचिरादिदेवान् क्रमेण गच्छन्ति। अचिषमन्निं ततोऽहरङ्ग: शुक्पक्ष तत उत्तरायणं तस्मात् संवत्सरं ततो देवलोकं ततो वायुं वायोरादित्यं ततश्न्द्रं चन्द्रादिद्युतं गत्वा त्र विधुल्लोके स्थितानुपासकान् अमानवः पुरुषो ब्रह्मलोकादागत्य कार्यव्रह्मलोंकं प्रापयति। एषोऽचिरादिभिर्देवैविशि- ष्टो देवपथो गन्तच्येन ब्रह्मणा योगाद्रह्मपथश्च। एतेन कार्य ब्रह्मप- तिपययमाना उपासका इमं मानवं मनोः सर्ग आवर्त्त जन्ममरणा- वृत्तियुक्तं नावर्तन्ते नागच्छन्तीत्यर्थः ॥१६ ॥ चक्षुरासीदतीति उ- पगच्छतीत्यर्थः। अनवस्थितस्योपास्यत्वं सदा न सिध्यतीति भावः।
Page 255
(२५०) रत्नप्रभाभासिते [अ०१।पा० २। तात्मा वा स्यादक्षिस्थानः" इति। अत्रोच्यते, न छायात्मादिरितर इह ग्रहणमर्हति। कस्मात्। अनवस्थितेः। न तावत् छायात्मनश्र्वक्षुषि नि- त्यभवस्थानं सम्भवति। यदैव हि कश्वित् पुरुषश्रक्षुरासीदति तदा चक्षुषि पुरुषच्छा- या दृश्यतेऽपगते तस्मिन्न दृश्यते, "य ए- षोऽक्षिणि पुरुषः इति च श्रुतिः । सन्निधा- नात् स्वे चक्षुषि दृश्यमानं पुरुषमुपास्यत्वे- नोपदिशति। न चोपासनकाले स छायाकरं क- श्चित् पुरुषं चक्षुःसमीपे सन्निधाप्योपास्त इति युक्तं कल्पयितुम्।"अस्थैव शरीरस्य नाशमन्वेष नश्यति" इति श्रुतिश्छायात्मनोऽप्यनवस्थित- व्वं दर्शयति। असम्भवाच्च। तस्मिन्नमृतत्वादी- नां गुणानां न छायात्मनि प्रतीतिः। तथा विज्ञा- नात्मनोऽपि साधारणे कृत्स्शरीरेन्द्रियसम्ब- न्घे सति चक्षुष्येवावस्थितत्वंवक्तुं नशक्यम्।ब्र- किश्च व्यवधानात् स्वाक्षिस्थ उपास्यः। न च तस्य स्वचक्षुषा दर्शनं सम्भवतीत्याह॥। य एष इति॥ अस्तु तार्ह परेण दृश्यमानस्योपा- स्तिरित्यत आह॥ न चेति॥ कल्पनागौरवादित्यर्थः । युक्तिसिद्धान- वस्थितत्वे श्रुंतिमाह॥ अस्येति॥ छायाकरस्य विम्बस्य नाशमद- र्शनमनुसृत्यैष छायात्मा नंश्यतीत्यर्थः। जीवं निरस्यति॥ तथेति॥जा- त्यन्ध स्याप्यहमित्यविशेषेण जीवस्याभिव्य क्तेश्र्वक्षुरेव स्थानमित्ययुक्त-
Page 256
सू०१७।अ०५] (२५१) ह्मणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृद- यादिदेशविशेषसम्बन्धः। समानश्र विज्ञाना- त्मन्यप्यमृतत्वादीनां गुणानामसम्भवः। यध पि विज्ञानात्मा परमात्मनोऽनन्य एवं तथाप्य- विद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं अयं चेत्यमृतत्वाभयत्वे नोपपद्ेते। संयद्दाम- व्वादयश्रैतस्मिन्ननैश्वर्यादनुपपन्ना एव। देवता- त्मनस्तु "रश्मिशिरेषोऽस्मिन् प्रतिष्ठितः" इति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात् तथाप्यात्म- व्वं तावन्न सम्कवति पराग्रूपत्वात्।अमृतत्वाद- योऽपि न सम्भवन्ति उत्पत्तिप्रलयश्रवणात्।अ- मरत्वमपि देवानां चिरकालावस्थानापेक्षम्।ऐ- शवर्यमपि परमेश्वरायतंन स्वाकाविकं, "भीषा- स्माद्वातः पवते भीषोदेति सूर्य:।भीषास्मादन्नि- श्र्वेन्द्रश् मृत्युर्धावति पञ्चमः"॥इति मन्त्रवर्णा- त्। तस्मात् परमेश्वर एवायमक्षिस्थानः प्रत्ये- तव्यः। अस्मिंश्र पक्षे दृश्यत इति प्रसिद्धवदुपा- मित्यर्थ:॥ दृष्ट इति॥श्रुताविति शेषः। ननु "चक्षोः सूर्यो अजायत सू- योर्डस्तमेति" इति वाक्यं अमरा देवा इति प्रसिद्धिवाधितमित्याशङ्क्या- है॥ अमरत्वमपीति॥भीषा अयेनास्मादीश्वराद्ायुश्षलति। अग्निश्वे- न्द्रश्र स्वस्वकार्य कुरुतः। उक्तापेक्षया पञ्चमो मृत्युः समापतायुषां नि- कटे धावतीत्यर्थः । ईश्वरपक्षे दृश्यत इत्ययुक्तं तत्राह ॥अस्मिन्निति।।
Page 257
(२९२) रत्नप्रभाभासिते [अ०१।. पा०२ दानं शास्त्रापेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्या- र्येयम्॥ १७॥ अन्तर्याम्यधिदैवादिषु तद्दर्मव्यप- देशात् ॥१८। "य इमं च लोकं परं च लोकं सर्वाणि च भू- तान्यन्तरो यमयति" इत्युपक्रम्य श्रूयते "यः पथिव्यां तिष्ठन पथिव्या अन्तरोयं पथिवी नवे- द यस्य पथिवी शरीरं यः पथिवीमन्तरो यमय त्येष त आत्मान्तर्याम्यमृतः" इत्यादि। अत्र "अधिदैवतमधिलोकमधिवेदमधियज्ञमधिभू- तमध्यात्मं च कश्विदन्तरवस्थितो यमयितान्त- दर्शनमनुभवः। तस्य शास्त्रे श्रुंतस्य शास्त्रमेव करणं कल्प्यं सन्निधा- नातू। तथा च शास्त्रकरणको विद्ददनुभव उपासना स्तुत्यर्थ उच्यत इत्यर्थः। तस्मादुपकोसलविद्यावाक्यमुपास्ये त्रह्मणि समन्वितमिति सिद्धम् ॥ १७ ॥ अन्तर्याम्यधिदेवादिधु तदर्मव्यपदेशात्॥ वृ- हदारण्यकवाक्यमुदाहरति ॥ य इति ॥ अन्तर्यामिव्राह्मणे प्रतीयमा- नार्थमाह॥ अत्रेति॥ यः पृथिव्यामित्यादिना देवताः पृथिव्याया अ- धिरुत्य यमयिता श्रूयते। तथा यः सर्वेषु लोकेप्विति अधिलो- कम्। यः सर्वेपु वेदेप्वित्यधिवेदम्। यः सर्वेपु यज्ञेष्विति अधियज्ञम्। यः सर्वेषु भूतेष्वित्यधिभूतम्। यः प्राणे तिष्ठन्नित्यादि यआत्मनी- त्यन्तमध्यात्म चेति विभागः। अशरीरस्य नियन्तृत्वसभवासम्भ- वाम्यां संशयः । पूर्वत्रेश्वरस्याक्षिस्थानत्वसिद्धये पृथिव्यादिस्थाननि
Page 258
सू०१८।अ•५] शाङ्करव्रह्मसूत्रभाव्ये (२५३) र्यामी" इति श्रूयते।स किमधिदेवाद्यभिमानी दे- वतात्मा कश्चित्, किंवा प्राप्ताणिमाद्यैश्वर्यःक- श्रिद्योगी, किंवा परमात्मा, किंवाऽर्थान्तरं कि- ञ्चिदित्यपूर्वसत्ज्ञादर्शनात् संशयः ।किं तावन्नः प्रतिभाति सञ्ज्ञाया अप्रसिद्धत्वात् सब्ज्ञिनोऽ- प्यप्रसिद्धेर्नार्थान्तरेण केनचित् भवितव्यमिति, अथवा नानिरूपितरूपमर्थान्तरं शक्यमस्ती- त्यभ्युपगन्तुम । अन्तर्यामिशब्दश्रान्तर्थमन- योगेन प्रवृत्तो नात्यन्तमप्रसिद्धः । तस्मात् पृ- थिव्याद्यभ्षिमानी कश्विद्देवोऽन्तर्यामी स्यात्। तथा च श्रूयते "पृथिव्येव यस्यायतनमग्निरलोको मनो ज्योतिः इत्यादि।स च कार्यकरणवत्वात् पथिव्यादीनन्तस्तिष्ठन् यमयतीति युक्तं देवा- त्मनो यमयितृत्वम्।योगिनो वा कस्यचित् सि- र्देशो दृष्टान्त उक्तस्तस्य दृष्टान्तवाक्यस्येश्वरपरत्वमत्राक्षिप्य समाधी- यत इत्याक्षेपसङ्गतिः, अतः पूर्वफलेनास्य फलवत्त्वम् । अवान्तरफल तु पूर्वपक्षे अनीश्वरोपास्तिः सिद्धान्ते प्रत्यग्ब्रह्मज्ञानमिति मन्तव्यं स्वयमेवारुचिं वदन् पक्षान्तरमाह । अथवेति॥ अनिश्चितार्थे फ- लाभावेनाफलस्य वेदार्थत्वायोगादिति भावः। तथा च श्रूयते यस्य देवस्यायतनं शरीरं लोक्यतेऽनेनेति लोकश्वक्षुज्योतिः सर्वार्थप्रकाश- कं मन इत्यर्थः । उपक्रमादिनाऽन्तर्याम्यैक्यनिश्वयादनेकदेवपक्षो न युक्त इत्यरुचेराह॥ योगिनो वेति॥ आगन्तुकसिद्धस्यान्तर्यामित्वे सिद्धसाधनकल्पनागौरवात् नित्यसिद्ध एवान्तर्यामीति सिद्धान्तयति
Page 259
(348) रत्नप्रभाभासिते [अ० १। पा० २। द्वस्य सर्वानुप्रवेशेन यमयित्ृत्वं स्यात्। नतुप- रमात्मा प्रतीयेत अकार्यकरणवत्वादित्येवं प्राप्त इदमुच्यते। योऽन्तर्याम्यधिदैवादिषु श्रूयते स परमात्मैव स्यान्नान्य इति। कुतः । तद्दर्मव्य- पदेशात्। तस्य हि परमात्मनो धर्मा इह निर्दि- श्यमाना दृश्यन्ते। पथिव्यादि तावदधिदैवादि- भेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन् यम- यतीति परमात्मनो यमयितृत्वं धर्म उपपद्यते, सर्वविकारकारणत्वे सति सर्वशन्तयुपपत्तेः। "ए- षत आत्मान्तर्याम्यमृतः" इति चात्मत्वामृत- त्वे मुख्ये परमात्मन उपपद्येते। "यं पृथिवी न वेद " इति च पथिवीदेवताया अविज्ञेयम- न्तर्यामिणं त्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं द- शैयति, पथिवीदेवता ह्यहमस्मि पथिवीत्या- त्मानं विजानीयात्। तथा "अदृष्टोऽश्रुतः" इत्यादिव्यपदेशो रूपादिविहीनत्वात् परमा- त्मन उपपद्यत इति। यत्तु कार्यकरणहीन- स्य परमात्मनो यमयितृत्वं नोपपद्यत इति नै- ॥ एवं प्राप्त इति॥ देवतानिरासे हेत्वन्तरमाह ॥ यं पृथिवीति॥ ईश्वरो न नियन्ता अशरारत्वात् घटवदित्युक्तं निरस्यति॥ नैष दोष इति॥ नियम्यातिरिक्तशरीरशून्यत्वं वा हेतुःशरीरासम्बन्धित्वं वा। आ- ये. स्वदेहनियन्तरि जीवे व्यभिचारः द्वितीयस्त्वसिद्ध: ईश्वरस्य स्वावि-
Page 260
सू०१९। अ . ५] शाङ्करब्रह्मसूत्रभाष्ये (२५५) ष दोष:, यान्नियच्छति तत्कार्यकरणैरेव त- स्य कार्यकरणवत्त्वोपपत्तेः। तस्याप्यन्यो निय- न्तेत्यनवस्थादोषश्र न सम्भवति भेदाभावात्। भेदे हि सत्यनवस्थादोषोपपत्तिः। तस्मात् पर- मात्मैवान्तर्यामी॥१८॥
स्यादेतदद्ृष्टत्वादयो धर्माः साड्यस्मृति- कल्पितस्य प्रधानस्याप्युपपद्यन्ते रूपादिही- नतया तस्य तैरभ्युपगमात्।"अप्रतर्क्यमविज्ञे- यं प्रसुप्तमिव सर्वतः"इतिहि स्मरन्ति। त- स्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्य- ते। तस्मात् प्रधानमन्तर्यामिशब्द स्यात्, ईक्ष-
दोपार्जितसर्वसम्बन्धित्वादित्याह ।। यान्नियच्छतीति ॥ स शरीरो नियन्तेति लोकदृष्टिमनुसृत्यैतदुक्तम्। वस्तुतस्तु चेतनसानिनिध्याज्ड- स्य व्यापारो नियमनं तच्छक्तिमच्वं नियन्तृत्वम्। तच्चाचिन्त्यमायाशक्ते- श्विदात्मनःशरीर विनैवोपपन्नम्।कार्यकरणसङ्गातात्मको देहो ग्राह्यःते- न लिदग-देहस्य या वृत्तिः ननु देहनियन्तुजीवस्यान्यो नियन्ता चेतू तस्या- प्यन्यः, अत आह।।इत्यनवस्थेति॥ निरंकुशं सर्वनियन्तृत्वं ईश्वरस्य श्रुतम्। तस्या नियन्त्रन्तरानुमाने श्रुतिबाध इति नानवस्थेत्यर्थः। यद्दा ईश्वरा्जेदकल्पनया जीवस्य नियन्तृत्वोक्ते: सत्यभेदाभावान्नानवस्थेत्य- र्थः॥१८॥प्रधानं महदादिकमेण कथ प्रवर्तत इति तर्कस्याविषय इत्या- है। अप्रतर्क्यमिति॥। रूपादिहीनत्वादविज्ञेयं सर्वतो दिक्षु प्रसुप्तमिव
Page 261
(२५६). रत्नप्रभाभासिते [अ० १।पा०२। तेर्नाशब्दमित्यत्र निराकृतमपि सत् प्रधानमि- हादृष्ठत्वादिव्यपदेशसम्भवेन पुनराशङ्यते। अत उत्तरमुच्यते। न च स्मार्त प्रधानमन्तर्या- मिश्दं भवितुमर्हति। कस्मात्। अतद्वर्माभि- लापात्। यद्यप्यददष्ठत्वादिव्यपदेशः प्रधानस्य सम्भवति तथापि न द्रषटृत्वादिव्यपदेश: सम्भ- वति प्रधानस्याचेतनत्वेन तैरभ्युपगमात्। "अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अ- विज्ञातो विज्ञाता" इति हि वाक्यशेष इह भव- ति। आत्मत्वमपिन प्रधानस्योपपद्यते॥१९॥ यदि प्रधानमात्मत्वद्रष्टत्वाद्यसम्भवान्नान्त- र्याम्यभ्युपगम्यते शारीरस्तर्यन्तर्यामी भवतु। शारीरो हि चेतनत्वादू द्रष्टा श्रोता मन्ता विज्ञा- ता च भ्वत्यात्मा च प्रत्यक्कात्, अमृतश्र् धर्मा- धर्मफलोपभोगोपपनेः। अदष्ठत्वादयश्ष धर्माः शासीरे सुप्रसिद्धा: दर्शनादिक्रियायाः कर्तरि प्रव- तिष्ठति जडत्वादित्यर्थः। अतत्, अप्रधानं चेतनं तस्य धर्माणीमभि- धानादिति हेत्वर्थ: ॥ १९ ॥ उत्तरसूत्रनिरस्याशङ्कासाह॥ यदि प्र- धानमित्यादिना॥अमृतश्चेति ॥ विनाशिनो देहान्तरभोगानुपपत्ते- रित्यर्थः। यथा देवदत्तकर्तृकगमनक्रियाया: ग्रामःकर्म न देवढत्तस्तथा- त्मकर्तृकदर्शनादिकियाया अनात्मा विषयः न त्वात्मा क्रियायाःक- र्तृविषयत्वायोगादित्साह ॥ कर्तरीति॥ क्रियायां गुणः कर्ता प्रधानं
Page 262
सू०२०। अ०५] शाङ्करब्रह्म सूत्रभाष्ये (२५७) त्तिविरोधात्। "न दृष्टेद्रष्ारं पश्येत्"इत्यादि- श्रुतिभ्यश्र।तस्य च कार्यकरणसड्घातमन्तर्य- मयितुं शीलं भोक्तृत्वातू। तस्माच्छारीरोऽन्तर्या- मीति अत उत्तरं पठति। शारीरश्षोभ्नयेऽपि हिभेदेनैनमधीय- ते॥२०॥ नेति पूर्वसूत्रादनुवर्तते शारीरश्ष नान्तर्या- मीइष्यते क: स्थात्। यद्यपि द्रष्टत्वादयो धर्मा- स्तस्य सम्भवन्ति तथापि घटाकाशवदुपाधिप- रिच्छिन्नत्वान्न स कार्त्स्न्येन पृथिव्यादिष्वन्तर- वस्थातुं नियन्तुं च शक्रोति। अपि च। उभ्येऽपि हि शाखिन: काण्वा माध्यन्दिनाश्रान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानव्वेन नि- यम्यत्वेन चाधीयते।"यो विज्ञाने तिष्ठन्" इति काण्वाः।"य आत्मनि तिष्ठन्" इति माध्यन्दि- नाः। य आत्मनि तिष्ठन्नित्यस्मिंस्तावत् पाठे भ- वत्यात्मशब्दः शारीरस्य वाचकः। यो विज्ञाने कर्म तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोरविरोधान कर्तुः कर्मत्वमित्यर्थः। दृष्टेर्द्रषारमात्मानं तया दृश्यया दृष्ट्या न विषयी- कुर्या इत्यादिश्रुतेश्ादृष्टत्वादिधर्माः शारीरस्येत्याह ॥ नेति॥ अपि- शव्दसूचितहेतुमुक्का कण्ठोक्तं हेतुमाह ॥ अपि चोभयेऽपीति॥
Page 263
(२५८). रत्नप्रभाभासिते [अ० १।पा० २। तिष्ठन्नित्यस्मिन्नपि पाठे विज्ञानशव्देन शारीर उच्यते, विज्ञानमयो हि शारीर इति। तस्माच्छा- रीरादन्य ईश्वरोऽन्तर्यामीति सिद्म्। कथं पुनरे- कस्मिन्देहे दौ द्रष्टारावुपपद्येते।यश्चायमीश्वरोंऽ- न्तर्यामी यश्रायमितरः शारीरः। कापुनरिहानु- पपत्तिः। "नान्योऽतोऽस्ति द्रष्टा" इत्यादिश्रुति- वचनं विरुव्येत। अत्र हिप्रकृतादन्तर्यामिणोऽ- न्यं द्रष्ठारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति। नियन्त्रन्तरप्रतिषेधार्थमेतद्रचन- मिति चेत्, न, नियन्त्रन्तराप्रसङ्गात्, अविशेष- श्रवणाच्च। अत्रोच्यते। अविद्याप्रत्युपस्थापित- कार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामि- णोर्भेदव्यपदेशो न पारमार्थिकः। एको हि प्र- भेदेनेति सूत्रात् ताच्विकभेदे ध्रान्तिं निरसितुं शङ्कते॥ कथमिति॥ नन्वत्रैको भोक्ता जीवः ईश्वरस्त्वभोक्तेति न विरोध इति शङ्कते ॥ का पुनरिति॥ तयोर्भेंदः श्रुतिविरुद्ध इति पूर्ववाद्याह॥ नान्य इति॥ स एव श्रुत्यर्थमाह ।। अत्रेति॥ श्रुतेरर्थान्तरमाशङच निषेधति ॥ नियन्त्रन्तरेत्याढिना॥ न केवलमप्रसक्तप्रतिषेधः, किन्त्वविशे-
विशेपेति॥ तस्मात् सूत्रे य आत्मनि तिष्ठन्निति श्रुतौ च द्रष्टभेदो- किरयुक्ता नान्य इति वाक्यशेषे भेदनिरासादिति प्राप्भेद उपाधि- कल्पितः श्रुतिसूत्राभ्यामनूदत इति समाधत्ते ॥ अत्रो्यत इति॥ भेद: सत्यः किं ने स्यादत आह॥ एको हीति॥ गौरवेण इयोरहंधी-
Page 264
सू० २१।अ० ६।] (२५९) त्यगामा अ्रवति न दौ प्रत्यगात्मानौ सम्भवतः। एकस्यैव तुभेदव्यवहार उपाधिकृतः, यथा घटा- काशो महाकाशइति।ततश्र ज्ञातृज्ञेयादिभेदश्रु- तयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधिप्रतिषेधशासत्रं चेति सर्वमेतदुपपद्यते। तथा चश्रतिः"यत्रहि द्वैतमिव भवति तदितर इतरंप- श्यति" इत्यविद्याविषये सर्वव्यवहारं दर्शयति। "यत्र व्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्येत्" इति विद्याविषये सर्वव्यवहारं वारयति ॥२०॥ अदृश्यत्वादिगुणको धर्मोक्तक:॥२॥ "अथ परा यया तदक्षरमधिगम्यते"यत्तद-
गोचरत्वासम्भवादेक एव तद्ोचरः तदगोचरस्य घटवदनात्मत्वान्ना- त्मभेदः सत्य इत्यर्थः ॥ ततश्रेति॥ कल्पितभेदाङगीकारा्वेदापेक्षं सर्व युज्यत इत्यर्थः तस्मादन्तर्यामि ब्राह्मणं ज्ेये ब्रह्मणि समन्वित- मिति सिद्धम्॥२०॥अदृश्यत्वादिगुणको धर्मोक्तः॥मुण्डकवाक्य- मुदाहरति ।। अथेति॥ कर्मविद्यारूपापरविद्योक््यनन्तरं यया निर्गुणं ज्ञायते परा सोच्यते तामेव विषयोक्त्या निर्दिशति ॥ यत्तदिति॥ अद्रेश्यं अदृश्यं ज्ञानेन्द्रियैः अग्राहं कर्मेन्द्रियैश्ष। गोत्रं वंश: वर्णो व्राह्मणत्वादिजातिः चक्षुःश्रोत्रशून्यं अचक्षुःश्रोत्रं पाणिपाद- शून्यमपाणिपादं ज्ञानकर्मेंन्द्रियविकलमित्यर्थः। विभुं प्रभुं सुसूक्षमं दुर्ज्ञेयत्वान्नित्याव्ययपदाभ्यां नाशापक्षययोनिरासः । भूतानां योनि
Page 265
(२६०) रत्नप्रभाभासिते [अ. १। पा० २। पाद नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं य- द्रूतयोनिं परिपश्यन्ति धीराः इति श्रयते। तत्र संशयः। किमयमदृश्यत्वादिगुणको भूतयोनिः प्रधान स्यात्, उत शारीरः, आहोस्वित् परमे- शवर इति। तत्र प्रधानमचेतनं भूतयोनिरिति यु- कं, अचेतनानामेव तत्र दृष्ठान्तत्वेनोपादानात् "यथोर्णनाशिः सृज्यते ग्ते च यथा पृथि- व्यामोषधयः सम्भवन्ति यथासतः पुरुषात् के शलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्"इ- ति।ननूर्णनाभिः पुरुषश्रेतनाविह दृष्टान्तत्वेनो- पात्तौ, नेति ब्रूमः, न हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं चास्ति। चेतना- घिष्ठितं त्यचेतनमूर्णनाशिशरीरं सूत्रस्य योनिः पुरुषशरीरं च केशलोम्नामिति प्रसिद्धम् । अपि च। पूर्वत्रादष्टत्वाद्यशिलापसम्भवेऽपि द्रष्टत्वा- द्यक्षिलापासम्भवान्न प्रधानमभ्युपगतम्। प्रकृति यत् पश्यन्ति धीरा: पण्डितासतदक्षरं तहिया परेत्यन्वयः। अट- श्यत्वादिगुणानां ब्रह्मप्रधानसाधारणत्वात् संशयः। पूर्ववद् द्रष्टत्वादी- नां चेतनधर्माणामत्राश्रुतेः अस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्ष- यति॥ तत्रेति ॥ पूर्वपक्षे प्रधानायुपास्तिः सिद्धान्ते निर्गुणधीरि- ति फलम्। ऊर्णनाभिर्लूताकीट: तन्तून स्वदेहात् सृजति उपसं- हरति चेत्यर्थः। सतो जीवतः। ननु पूर्व निरस्ं प्रधानं कथमुत्थाप्यते
Page 266
सू०२॥अ० शाङ्करव्रह्मसूत्रभाष्ये (२६१) इह त्वदश्यत्वादयो धर्माः प्रधाने सम्भवन्ति, न चात्र विरुव्यमानो धर्म: कश्विदभिलप्यते। ननु "यः सर्वज्ञः सर्ववित्" इंत्ययं वाक्यशेषोऽचेतने प्रधाने न सम्भवति। कथं प्रधानं भूतयोनिः प्र- तिज्ञायत इति। अत्रोच्यते।"यया तदक्षरमधि- गम्यंते यत्तदद्रेश्यम्" इत्यक्षरशब्देनादृश्यत्वा- दिगुणकं भूतयोनिं श्रावयित्वा पुनः श्रावयि- ष्यति "अक्षरात् परतः परः" इति।तत्र यः परो- क्षरात् श्रुतः स सर्वज्ञः सर्वविश्च सम्भविष्य- ति प्रधानमेव त्वक्षरशब्दनिर्दिष्ठं भूतयोनिः।य- दा तु योनिशब्दो निमित्तवाची तदा शारीरोऽ- पि भूतयोनि: स्थात्, धर्माधर्माभ्यां भूतजात- स्योपसर्जनादिति। एवं प्राप्तेऽभिधीयते, योऽ- यमदृश्यत्वादिगुणको भूतयोनिः स परमेश्वर एव स्यान्नान्य इति। कथमेतदवगम्यते। धर्मो- के:। परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते तत्राह॥ अपि चेति ॥ अत्र प्रधाने विरुंध्यमानोSसम्भावितो वा- क्यशेष: श्रुत इति शङ्गते ॥ ननु य इति ॥ पश्चम्यन्ताक्षरश्रुत्या भूतप्रकतेः प्रत्यभिज्ञानात्ं प्रथमान्तपरशब्दोक्तस्य जगन्निमित्तेश्वर- स्य सर्वज्ञत्वादिकमित्याह॥ अत्रोच्यत इति॥ सन्दिग्धे तु वाक्य- शेवादिति न्यायेन सिद्धान्तयति ॥ एवं प्राप्त इति॥ चेतनाचेतनत्वे- न सन्दिग्धे भूतयोनौ यः सर्वज्ञ इति वाक्यशेषादीव्वरत्वनिर्णय इत्य-
Page 267
(२६२) रत्नप्रभाभासिते [अ० १। पा० २। "यः सर्वज्ञः सर्ववित्" इति। न हि प्रधानस्या- चेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदष्टेः स- वज्ञत्वं सर्ववित्वं वा संम्भवति। नन्वक्षरशब्द- निर्दिष्टाङ्गूतयोने: परस्यैवैतत् सर्वज्ञत्वं सर्व- वित्वं च न भूतयोनिविषयमित्युक्तम्। अत्रोच्य ते। नैवं सम्भवति यत्कारणम् "अक्षरात् स- मभवतीह विश्वम्" इति प्रकृतं भूतयोनिमिह जायमानप्रकृतिव्वेन निर्दिश्यानन्तरमपि जाय- मानप्रकृतित्वेनैव सर्वजञं निर्दिशति। "यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्रह्म नाम रूपमन्नं च जायते"।इति॥ तस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वा- तू प्रकृतस्यैवाक्षरस्य भूतयोने: सर्वज्ञत्वं सर्व- - वित्वं चधर्म उच्यत इति गम्यते।"अक्षरातू पर-
युक्तम्, वाक्यशेषे भूतयोने: प्रत्यभिज्ञापकाभावादिति शङ्कते॥ नन्वि- ति।।"जनिकर्तुः प्रकतिः" [१४।३०] इति सूत्रेण प्रकतरेपादानसज्ज्ञा- यां पश्चमीस्मरणा दक्षरात् सम्भवती ति प्रकतित्वेनोक्ताक्षरस्य भूतयोने- र्वक्यशेषे तस्मादिति प्रकृतित्वलिङ्गेन प्रत्यभभिज्ञानमस्तीति समाधत्ते । अत्रोच्यत इति॥ एतत् कार्य ब्रह्म सूक्ष्मात्मकं नामरूपं स्थूलं ततोऽन्नं वीह्यादात्यर्थः। यदुक्तं पश्चम्यन्ताक्षरश्रुत्या भूतयोने: प्रत्य- भिज्ञानादचेतनत्वमिति तव्राह॥ अक्षरात् परत इति॥ नायमक्षर- शब्दो भूतयोनिं परामृशति परविद्याधिगम्यत्वेनोक्तस्याक्षरस्य भूत-
Page 268
(२६३) तः परः" इत्यत्रापि न प्रकृतात् भूतयोनेरक्षरात् परः कश्विदश्षिधीयते। कथमेतद्वगम्यते। "ये- नाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्र- ह्मविद्याम्" इति प्रकृतस्यैवाक्षरस्य भूतयो- नेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञा- तत्वात्। कथं तर्त्क्षरात् परतः पर इति व्यप- दिश्यत इत्युत्तरसूत्रे तद्दक्ष्यामः । अपि चात्र द्वे विद्ये वेदितव्ये उक्ते "परा चैवापरा च" इ- hr t hr 55 ति। तत्रापरामृग्वेदादिलक्षणां विद्यामुक्का ब्र- वीति "अथ परा यया तदक्षरमधिगम्यते"इ- त्यादि। तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रु- तम्। यदि पुनः परमेश्वरादन्यदद्दश्यत्वादिगुण- कमक्षरं परिकल्प्येत नेयं परा विद्या स्यात्।प- रापरविभागो ह्ययं विद्ययोरभ्युदयनिःश्रेयस-
योनेरक्षरं पुरुषं वेदेत्यक्षरश्रुत्या वेधयत्वलिङ्गवत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह॥ येनेति:॥ येन ज्ञानेनाक्षरं भूतयोनिं सर्वजञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रूयांदित्युपक्रम्य "अप्राणो हम- नाःशुभ्रोझक्षरातू परतः परः"इति उच्यमानः परो भूतयोनिरिति गस्यत इत्यर्थः। त्हि पश्चम्यन्ताक्षरशव्दार्थः क इत्याशङ्चाज्ञानमिति व- क्ष्यत इत्याह ॥ कथमिति ॥ परविधेति समास्ययाऽपि तदिषयस्य ब्रह्मत्वमित्याह॥ अपि चेति॥ ननु प्रधानविद्याऽपि कारणविषय- त्वात् परेत्यत आह ॥ परापरविभागो हीति ॥ अनित्यफलत्वेना-
Page 269
(२६४) रत्नप्रभाभासिते [अ० १पा० २ फलतया परिकल्प्यते।न च प्रधानविद्या निः- अेयसफला केनचिदभ्युपगम्यते। तिस्रश्ष विद्याः प्रतिज्ञायेरन् त्वत्पक्षे अक्षराङ्गूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात्।दे एव तु विद्ये वेदितव्ये इह निर्दिष्ट "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति चैकवि- ज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि वि- वक्ष्य माणेऽवकल्प्यते, नाचेतनमात्रैकायतने प्र- धाने भोग्यव्यतिरिक्ते वा भोक्तरि। अपि च "स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठाय पु- त्राय प्राह" इति। ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभ्ागेन परांविद्यामक्षराधिगामिनीं द- शयंस्तस्या ब्रह्मविद्यातंदर्शयति।साचब्रह्मवि- परविद्यां निन्दित्वा मुक्यर्थिने ब्रह्मविय्यां प्रोवाचेति वाक्यशेषोक्तेरि- त्यर्थः। अस्तु प्रधानविद्याऽपि सुक्तिफलत्वेन परेत्यत आह ॥ न चेति ।। ननु यः सर्वज्ञ इत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवा- क्येन तु प्रधानविद्योच्यत इत्यत आह॥ तिस्रश्रेति॥ इतश् भू- तथोनेर्व्रम्मत्वमित्याह ॥। कस्मिन्निति ॥ अचेतनमात्रस्यैकायतनमु- पादानं तज्ज्ञानात् कार्यज्ञानेऽपि तदकार्याणामात्मनां ज्ञानं न भव- ति। एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः । व्र- हविद्याशव्दाच् भूतयोनिर्व्रल्नत्याह। अपिचेति॥ स ब्रह्मविद्यां स- र्वविदानां प्रतिष्ठां समाप्तिभूमिं ब्रह्मविद्यामुवाच।ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्तर्भावाद्रल्लविय्या सर्वविद्याप्रतिष्ठा। नन्वपरवि-
Page 270
सू०२१।अ०५।] (२६५) : द्यासमांख्या तदधिगम्यस्याक्षरस्या ब्रह्मत्वे बा धितास्यात्।अपरा ऋग्वेदा दिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रम उपन्यस्यते ब्रह्मविद्याप्रशंसायै "पवा हेते अदढा यज्ञरूपा अष्टादशोक्तमव- रं येषुकर्म। एतत् श्रेयो येऽशिनन्दन्ति मूढा जरां मृत्युं ते पुनरेवापि यन्ति" इत्येवमादिनिन्दावच- नात्। निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयति "परीक्ष्य लोकानू क- र्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृ- तेन तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् समित्पा- णिःश्रोत्रियं ब्रह्मनिष्ठम्" इति।यत्तूक्तमचेतना- नां पृथिव्यादीनां दृष्टान्तत्वेनोपादानादार्ष्टा- य्या परप्रकरणे किमर्थमुक्तेत्यत आह॥ अपरेति॥ पवन्ते गच्छन्ती- ति परवा विनाशिनः। अदृढा नित्यफलसम्पादनाशक्ताः षोडशर्तिवजः पत्नी यजमानश्रेत्यष्टादश। यज्ञेन नामनिमित्तेन निरूप्यन्त इति य- ज्ञरूपाः। तथा हिऋतुषु याजयन्ति यज्ञं कारयन्तीत्यृत्विजः, यज- त इति यजमान:, पत्युनो यज्ञसंयोगे (४।१।३३) इति सूत्रेण पतिश- व्दस्य नकारान्तादेशो यज्ञसम्बन्धे विहित इति पत्नी, एवमृत्वि- गादिनामप्रवृत्तिनिमित्तं यज्ञ इति यज्ञरूपा येष्ववरमनित्यफलकं कर्म श्रुत्युक्तं, एतदेव कर्म श्रेयो नान्यदात्मज्ञानमिति ये मूढास्तु- व्यन्ति ते पुनःपुनर्जन्ममरणमाप्रुवन्तीत्यर्थः । तदिज्ञानार्थ गुरुमभि- गच्छेदेवेति नियमः । ब्रह्मनिष्ठस्याप्यनधीतवेदस्य गुरुत्वं वारयति । श्रोत्रियमिति ॥कार्यमुपादानाभिन्नमित्यंशे दृष्टान्तः। स- ३४
Page 271
(२६८) स्त्नप्रभाभासिते [अ० १।पा० २। वोपाधिभूतं सर्वस्माद्विकारात् परो योऽविकार: तस्मात् परतः परं इति भेदेन व्यपदेशात पर- मात्मानमिह विवक्षितं दर्शयति। नात्र प्रधानं नाम किश्चित् स्वतन्त्रं तत्त्वमभ्युपगम्यं तस्मा- द्रेदव्यपदेश उच्यते। किं त्हि। यदि प्रधानम- पिकल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्द- वाच्यं भूतसूक्ष्मं परिकल्प्येत परिकल्प्यतांत- स्मान्गेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येत- दिह प्रतिपाद्यते ॥।२२॥ कुतश्र परमेश्वरो भूतयोनिः। रूपोपन्यासाच्च॥ २३॥ अपि च "अक्षरात् परतः पर" इत्यस्यान- न्तरं "एतस्माजायते प्राणः इति प्राणप्रभृती श्रोतुः स्वरूपानन्दपाप्तिः श्रवणादौ प्रवृत्तिरविद्ददनुभवो जीवन्मुक्ति- शास्त्रं चेति सर्वमवाधितं भवति।न चैवं नानाजीवपक्षादविशेष मूलुप्रकुतिनानात्वाभावादित्यलम् परत्वे हेतुः ॥ अविकार इति॥ ननु सूत्रक्ता श्रुतौ प्रधानान्जेदव्यपदेश उक्तरतन्र कथमज्ञानाने दोक्तिर्व्याख्यायते तव्नाह॥ नात्रेति ॥ कार्यात्मना प्रधीयत इति प्रधानमज्ञानमेव । ततोऽन्यस्याप्रामाणिकत्वादित्यर्थः ।अतोऽत्राज्ञा- नमेव भूतयोनिरिति पूर्वपक्षं कृत्वा निरस्यते। तन्निरासेनार्थात् सा- डुन्कल्पितप्रधाननिरास इति मन्तव्यम् ॥ २२ ॥ वृत्तिकन्मतेना- दौ सूत्रं व्याचष्टे ॥ अपि चेत्याढिना ॥ "प्राणो मनः सर्वेन्द्रि-
Page 272
सू० २३। अ०५] शाङ्करब्रह्मसूत्रभाष्ये (२६९) नां पृथिवीपर्यन्तानां ततत्वानां स्वर्गमुक्का तस्यै- व अूतयोने: सर्वविकारात्मकं रूपमुपन्यस्य- मानं पश्याम:।"अशनिर्मूर्धा चक्षुषी चन्द्रसूर्यो दिश: श्रोत्रे वाग्विवृताश्ष वेदाः।वायुःप्राणो ह- दयं विश्वमस्य पङ्मयां पृथिवी त्येष सर्वभूता- न्तरात्मा" इति। तञ्व परमेश्वरस्यैवोचितं सर्व- विकारकारणत्वान्न शारीरस्य तनुमहिस्नो नापि प्रधानस्यायं रूपोपन्यासः सम्भवति सर्वभू- तान्तरात्मत्वासम्भवात्, तस्मात् परमेश्वर ए- व भ्ूतयोनिर्नेतराविति गम्यते। कथं पुनर्भूतयो- नेरयं रूपोपन्यास इति गम्यते। प्रकरणात्। "एषः" इति च प्रकृतानुकर्षणाद्गूतयोनिंहि प्र- कृत्य "एतस्माजायते प्राणैः""एष सर्वभूतान्त- रात्मा" इत्यादिवचनं भूतयोनिविषयमेव अ- वति। यथोपाध्यायं प्रकृत्य "एतस्मादधीष्व एष वेदवेदाङ्गपारगः" इति वचनं उपाध्याय- विषयं भवति तद्दत्। कथं पुनरदश्यत्वादिगुण- याणि च खं वायुरज्योतिरापः पृथिवीइति श्रुतिः । "अग्निर्धुलोकः असौ वाव लोको गोत्माग्निः" इति श्रुतेः । विवृताः वेदाः वागित्य- न्वयः। पन्नचां पादावित्यर्थः। यस्येदं रूपं सएष सर्वप्राणिनामन्तरात्मे- त्यर्थः । तनुमहिम्न इति अल्पशक्ेरित्यर्थः । यथा कश्रिवित् ब्रह्मवित् स्वस्य सर्वात्मत्वप्रकटनार्थमहमन्नमिति साम गायति न त्वन्नत्वादि-
Page 273
(२७०) रत्नप्रभाभासिते [अ० १। पा० २ कस्य भूतयोनेर्विग्रहवद्रूपं सम्भवति। सर्वात्म त्वविवक्षयेदमुच्यते न तु विग्रहतत्वविवक्षये त्यदोषः। "अहमन्नमहमन्नादः" इत्यादिवत्। अन्ये पुनर्मन्यन्ते नायं भूतयोने रूपोपन्यासः जायमानव्वेनोपन्यासात् "एतस्माजायते प्रा- णोमनः सर्वेन्द्रियाणि च खं वायुज्योंतिरापः पृथिवी विश्वस्य धारिणी" इति हि पूर्वत्र प्राणा- दिपृथिव्यन्तं तत्वजातं जायमानत्वेन निरदि- क्षत्। उत्तरत्रापि च"तस्मादग्निःसमिधो यस्य सूर्य:" इत्येवमादि, "अतश्र सर्वा ओषधयो रसश्र्य" इत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यति। इहैव कथमकस्मादन्तराले भूतयोने रूपमुपन्य- स्येत। सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदे- क्ष्यति "पुरुष एवेदं विश्वं कर्म" इत्यादिना।
कमात्मनो विवक्षति। अफलत्वात्, तथेहापीत्याह॥ अहमन्नमि- ति।। वृत्तिकव्धाख्यां दूषयति ॥अन्ये पुनरिति॥ "एष सर्वभूतान्तरा- त्मा सूत्रात्मा एतरमादूतयोनेर्जायते" इति श्रुत्यन्वयेन हिरण्यगर्भस्या- त्र जायमानत्वेनोपन्यासादित्यर्थः। निरदिक्षदवोचदित्यर्थः। अग्निर्युलो- को यस्य समिद्रपः सूर्य: सोऽपि धुलोकाग्निस्तस्मादजायतेत्यर्थः। "त- स्यादित्य एव समित" इति श्रुत्यन्तरात्। अतो मध्येऽपि सृष्टिरेव वाच्या न रूपमिति भावः । यदुक्तमग्निर्मूर्धेत्यत्र भूतयोने: सर्वात्मत्वं विवक्षितमिति तन्मेत्याह॥ सर्वात्मत्वमपीति॥ ननु हिरण्यगर्भस्य
Page 274
स० २३।अ०५] शाङ्गरव्रह्मसूत्रभाष्ये (२७१) श्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्ज- न्मादिनिर्दिश्यमानमुपलभामहे "हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्॥ स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हवि- षा विधेम" इति समवर्ततेत्यजायत इत्यर्थः । तथा "स वैशरीरी प्रथम: स वै पुरुष उच्यते, आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत"॥ इति च। विकारपुरुषस्थापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममव- स्थानात्।अस्मिन् पक्षे"पुरुष एवेदं विश्वं कर्म" इत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहे- तुरिति व्याख्येयम्॥। २३।। जन्मान्यत्रानुकं कथमत्र वक्तव्यं तत्राह॥ श्रुतीति॥ अग्रे समवर्ततः जातः सन् भूतग्रामस्यैकः पतिरीश्वरप्रसादादभवत् स सूत्रात्मा या- मिमां पृथिवीं च स्थूलं सर्वमधारयत् । कशव्दस्य प्रजापतिसंज्ञात्वे सर्वनामत्वाभावेन स्मा इत्ययोगादेकारलोपेनैकस्मै देवाय प्राणात्म- ने हविषा विधेम परिचरेमेति व्याख्येयम्। "कतम एको देव इति प्रा- णः" इति श्रुतेः।यदा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः।"एको देवः सर्वभूतेषु गूढः" इति श्रुत्यन्तरात्। ननु तस्य भूतान्तरात्मत्वं कथम्? तत्राह॥ विकारेति ॥ पूर्वकल्पे प्रकृष्टोपासनकर्मसमुच्च- यानुष्ठानादस्मिन् कल्पे सर्वप्राणिव्यष्टिलिङ्गानां व्यापकं सर्वप्राण्य- न्तर्गतं ज्ञानकर्मेन्द्रियप्राणात्मकसमष्टिलिङ्गशरीरं जायते तद्रूपस्य सू- त्रात्मनः सर्वभूतान्तरात्मत्वं युक्तमित्यर्थः। स्वपक्षे सूत्रार्थमाह॥अ-
Page 275
(२७२) स्त्नप्रभाभासिते [अ० १।पा० २।
वैश्वानरः साधारणशब्दाविशेषात्२४।। "को न आत्मा कि ब्रह्मेति आत्मानमेवेमं वैश्वा नरं सम्प्रत्यध्येषितमेव नो ब्रूहीति" इति चो- पक्रम्य द्युसूर्यवाय्वाकाशवारिपृथ्वीनां सुतेज- स्त्वादिगुणयोग मेकैकोपासननिन्दया च प्रत्ये- स्मिन् पक्ष इति॥ कर्म सफलं सर्व श्रौतरमार्तादिकं तपश्र पुरुष ए- वेति सर्वान्तरत्वरूपोपन्यासाच्च भूतयोनौ ज्ञेये वाक्यं समन्वितमि- त्यर्थः॥ २३॥ वैश्वानरः॥ छान्दोग्यमुदाहरति॥ को न इति॥ प्रा- चीनशालसत्ययज्ञेन्द्रधुन्नजनकबुडिला मिलित्वा मीमांसाश्चकु: को न आत्मा किं ब्रह्मेति। आत्मैव ब्रह्मेति ज्ञापनार्थ पदद्दयम्। ते प- ञ्चापि निश्चयार्थमुद्दालकमाजन्मुः। सोऽपि सम्यक् न वेदेति तेनो- द्दालकेन सह षडप्यश्चपतिं कैकेयं राजानमागत्योचुः आत्मानमिति अध्येषि स्मरसि तमेव नो ब्रूहीति। राजा तु तेषां भ्रान्तिनिरासार्थ तानू प्रत्येकमपृच्छत्, 'कं त्वमात्मानमुपास्से कं त्वमात्मानमुपास्से!' इति। ते च प्राचीनशालादयः क्रमेण तं प्रत्येकमूचुः। दिवमेवाहं वैश्वानरं वेदि। आदित्यमेवाहं वेझि। वायुमेव। आकाशमेव। अप एवं पृथिवीमेवाहं वेझ्मीति। ततो राजा बुसूर्यादीनां षण्णां यथा-
गुणान् विधाय भवन्तो याद मामपृष्टा युसूर्यादिषु भगवतो वैश्वान- रस्याङ्ेष्वेव प्रत्येकं वैश्वानरत्वदृष्टयो भवेयुस्तदा क्रमेण मूर्धपातान्धत्व- प्राणोत्कमणदहविशीर्णत्ववस्तिभेदपादशोषा भवतां स्युरिति प्रत्ये- कोपासनं निन्दित्या सुतेजसत्वगुणको दुलोकोऽस्यात्मनो वैख्वानरस्य मूर्धा विश्वरूपत्वगुणकः सूयों यस्य चक्षुरित्येवं बुसूर्यादीनां मूर्धादि-
Page 276
सू० २४। अ०७] (२७३) षां मूर्धादिभावमुपदिश्याम्न्नायते "यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपा- स्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्व- न्नमत्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्र्क्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा- त्मा सन्देहो बहुलो बस्तिरेव रथि: पृथिव्येव पादावुर एव वेदिर्लोमानि बहिर्हदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः" इ- त्यादि। अत्र संशयः। किं वैश्वानरशब्देन जाठ-
भावमुपदिश्य समस्तवैश्वानरध्यानविधिराम्नायते ॥ यस्त्वेतमिति। आभिमुख्येनापरोक्षतया विश्वं विमिमीते जानातीत्यभिविमानः। तं सर्वज्ञं स तदुपासकः सर्वत्र भोगं भुङ्ग इत्यर्थः । लोका भूराद- यो भूतानि शरीराण्यात्मानो जीवा इति भेद: सुष्ठु तेजः कान्तिर्यस्य दुलोकस्य स सुतेजाः विश्वानि रूपाणि अस्य सूर्यस्य। "एष शुक्क एष नीलः" इति श्रुतेः। पृथक् नानाविधं वर्त्मगमनं आत्मा स्वभा- वो यस्य वायोः स नानागतित्वगुणकोऽस्य प्राणः बहुलत्वं व्यापि- त्वं तद्गुण आकाशोऽस्य सन्देहो देहमध्यं रयित्वं धनत्वं तह्ुणा आपो यस्य बस्तिर्मूत्रस्थानं, प्रतिष्ठात्वगुणा पृथिवी तस्य पादौ, तस्य होमाधारत्वं सम्पादयति॥ उर एवेत्यादिना ॥ पूर्वमुपक्रमस्थाढ- श्यत्वादिसाधारणवर्मस्य वाक्यशेषस्थसर्वज्ञत्वादिलिङ्गेन ब्रह्मनिष्ठ- त्वमुक्तं तद्ददत्राप्युपक्रमस्थसाधारणवैश्वानरशव्दस्य वाक्यशेषस्थहो- माधारत्वलिङ्गेन जाठरनिष्ठत्वमिति दृष्टान्तेन पूर्वपक्षयति॥किं ताव- दित्यादिना॥ पूर्वोत्तरपक्षयोर्जाठरब्रह्मणोर्ध्यानं फलम्। यदधते तदनं ३५
Page 277
(२७४) रत्नप्रभाभासिते [अ० १पा० २। रोडग्निरुपदिश्यत उत भूताननिरथ तदभिमानि नी देवता अथ वा शारीर आहोस्वित् परमेश्वर इति। किं पुनरत्र संशयकारणं। वैश्वानर इति जाठरभूतान्निदेवतानां साधारणशब्दप्रयोगा- दात्मेति च शारीरपरमेश्वरयोः।तत्र कस्योपा दानं न्याय्यं कस्य वा हानमिति भवति संशयः ैकिं तावत् प्राप्तं जाठरोऽननिरिति। कुतः। तत्र हि विशेषण क्कचित्प्रयोगो दश्यते"अयमग्निर्वैश्वान- शे योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदम- धते>इत्यादौ।अगनिमात्रं वा स्यात्सामान्येनापि प्रयोगदर्शनात् "विश्वस्मा अभनिंभुवनाय देवा
रा वा देवता स्यात् तस्यामपि प्रयोगदर्शनात् "वैश्वानरस्य सुमतौ स्याम राजा हि कं ुदना- नामश्िश्री:' इत्येवमाद्यायाः श्रुतेर्देवतायामै- शर्याद्युपेतायां सम्भवात्। अथात्मशब्दसामा- येन पच्यते सोडयं पुरुषशरीरेऽन्तरस्तीत्यर्थः । पक्षान्तरमाह॥ अभि- मात्रं चेति ॥ विश्वस्मै भुवनाय वैश्वानरमग्निमङ्गां केतुं चिङ्ग सूर्य देवा अकेण्वन कतवन्तः । सूर्योदये दिनव्यवहारादित्यर्थः । स्याहै- शानर इत्यनुषङ्ग: । हि यस्मात् कं सुखप्रदो भुवनानां राजा वैश्वा- नरो Sभिमुखा श्रीरस्थेत्यभिश्रीरीश्वरः। तस्मात् तस्य वैश्वानरस्य सु मतौ वयं स्याम तस्यास्माद्विषया शुभमतिर्भवत्वित्यर्थः। पक्षत्रयेऽप्य-
Page 278
सू. २४।अ०७i] शाङ्करब्रह्मसूत्रभाष्ये (२७५) नाधिकरण्यात् उपक्रमे च "को न आत्मा किं तद् ब्रह्म" इतिकेवलात्मशब्दप्रयोगादात्मशब्द- वशेन वैश्वानरशब्दः परिणेय इत्युच्ते। तथापि शारीर आत्मा स्यात् तस्य भोकूल्वेन वैश्वा- नरसन्निकर्षात्, प्रादेशमात्रमिति च विशेषण- स्य तस्मिन् उपाधिपरिच्छिन्ने सम्भवात्।त- स्मान्नेश्वरो वैश्वानर इत्येवं प्रात्ते। तत इदमुच्य- ते वैश्वानरः परमात्मा अ्वितुमहति। कुतः।सा- धारणशब्दविशेषात्। साधारणशब्दयोर्विशेष: साधारणशब्दविशेषः । यद्यप्येतावुभावप्या- त्मवैश्वानरशब्दौ साधारणशब्दौ, वैश्वानरश- व्दस्तु त्रयाणां साधारण:, आत्मशब्दश् दयोः तथापि विशेषो दश्यते येन परमेश्वरपरत्वं तया- रभ्युषगंम्यते "स्य ह वा एतस्यात्मनो वैश्वा- नरस्य मूर्धेव सुतेजा:" इत्यादि। अन्न हि परमे- रुचिं वदन् कल्पान्तरमाह॥अथेत्यादिना॥ "आत्मा वैश्वानरः" इति श्रुतेरित्यर्थः। केवलत्वं वैश्वानरशव्दशून्यत्वम्।अत्र जाठरो वैश्वानर इ- ति मुख्यः पूर्वपक्ष: प्राणाग्निहोत्रहोमाधारत्वलिङ्गातू। तस्य देहव्या- पित्वादात्मत्वम्। श्रुत्या दुमूर्द्धत्वादिकल्पनया वृहत्वाद्रह्मत्वमिति ध्येयम्। सिद्धान्तयति ॥ तत इदमिति॥ साधारणश्रुत्योरुपक्रम- स्थयोविशेषात् प्रथमश्रुतमुख्यन्रैलोक्यशरीरलिङ्गगत्। सर्वात्मकेश्वर- परत्वं युक्तं न चरमश्रुतकल्पितहोमाधारत्वं लिङ्गेन जाठरपरत्वमि- त्यर्थः। ननु निर्विशेषस्य कुतो विशेष इत्यत आह ॥ अत्र हीति।
Page 279
(२७६) रत्नप्रभाभासिते [अ० १। पा० २। श्वर एव दुमूर्द् त्वादिविशिष्टोऽवस्थान्तरगतःप्र- त्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते। कारणत्वात्। कारणस्य हि सर्वाभिः कार्यगता- भिरवस्थाशिरवस्थावत्वाद् दयुलोकाद्यवयवत्व- सुपपद्यते। "स सर्वेषु लोकेषु सर्वेषु भूतेषु स- र्वैष्वात्मस्वन्नमत्ति" इति च सर्वलोकाद्याश्र- यं फलं श्रूयमाणं परमकारणपरिग्रहे सम्भव- ति।"एवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति च तद्विदः सर्वपापप्रदाहश्रवणं।"को न आत्मा किं तद् ब्रह्म" इति चात्मब्रह्मशब्दाभ्यामुपक्र- म इत्येवमन्तानि ब्रह्मलिङ्गानि परमेश्वरमेव ग- मयन्ति। तस्मात् परमेश्वर एव वैश्वानरः॥२४॥ स्मर्यमाणमनुमानं स्यादिति॥२५॥ इतश्र परमेश्वर एव वैश्वानरः, यस्मात् प- रमेश्वरस्यैवान्निरास्यं दौर्मूर्धेतीदशं त्ैलोक्या- त्मकं रूपं स्मर्यते "यस्थान्निरास्यं द्यौर्मुर्द्ा खं नाभिश्ररणौ क्षिति: सूर्यश्रक्षुर्दिशःश्रोत्रे तस्मै अवस्थान्तरगतः त्रैलोक्यात्मना स्थित इत्यर्थः। जाठरस्यापि ध्या- नार्थ विशेषकल्पनेति चेतू, न, असत्कल्पनापत्तेः । ईश्वरस्य तु उ- पादानत्वाद्दिशेषः सन्नेव ध्यानार्थ उच्यतामित्याह ॥ कारणत्वांि- ति। लिङ्गान्तराण्याह ॥ स सर्वेष्वित्यादिना ॥ यथायौ विक्षिन्- मिषाकातूलं दहते एवं हास्य विदुष इत्यर्थ: ॥ २४ ॥ नन्वसदारो-
Page 280
सू० २६।अ०७] शाङ्करब्रह्मसूत्रभाष्ये (२७७) लोकात्मने नमः"इति तत् स्मर्यमाणं रूपं मूल- भूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य प- रमेश्वरपरत्वेनानुमानं लिङ्ग गमकं स्यादित्य- र्थः। इतिशब्दो हेत्वर्थे यस्मादिदं गमकं लिङ्धं तस्मादपि वैश्वानरः परमात्मैवेत्यर्थः। यद्यपि स्तुतिरियं तस्मै लोकात्मने नम इति। स्तुतित्व- मपि नासति मूलभूते वेदवाक्ये सम्यगीदशेन रूपेण सम्भवति। "द्यां मर्द्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यो च नेत्रे। दिशःश्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता"॥ इत्येवंजातीयका च स्मतिरिहोदाहर्तव्या।।२५।। शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेतिचेन्न तथा दृध्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते॥२६॥ अत्राह न परमेश्वरो वैश्वानरो भवितुमर्हति पेणापि स्तुतिसम्भवान् मूलश्रुत्यपेक्षेत्याशङ्ग्ाह॥ यद्यपि स्तुति- रिति ॥ तथापीति पदमर्थतः पठति ॥ स्तुतित्वमपीति। बुमूर्ध- त्वािरूपेण स्तुतिर्नरमात्रेण कर्तुमशक्या विना श्रुतिमित्यर्थः । सता रूपेण स्तुतिसम्भवान्नासदारोप इति भावः॥ २५ ॥ शब्दादीनां
Page 281
(२७८) रत्नप्रभाभासिते [अ० १।पा० २। कुतः। शब्दादिभ्योऽनतःप्रतिष्ठानाच्च।शब्दस्ता- वद्वैश्वानरशब्दोन परमेश्वरे सम्भवति, अर्था- न्तरे रूढत्वात्। तथाऽग्निशब्दः“स एषोऽगिर्वै- श्वानरः" इति। आदिशव्दाद् हृदयगार्हपत्य इ- त्याद्यग्नित्रेताप्रकल्पनं। तद्यज्नक्तं प्रथममाग- छछेत् तद्दोमीयमित्यादिना च प्राणाहुत्यधिक रणतासङ्गीर्तनम्। एतेभ्यो हेतुभ्यो जाठरो वै- श्ानरः प्रत्येतव्यः। तथान्तःप्रतिष्ठानमपि श्रू- यते "पुरुषेऽन्तःप्रतिष्ठितं वेद" इति तच्च जाठरे सम्भवति यदप्युक्तं "मूर्धैव सुतेजाः" इत्यादे- रविशेषात् कारणात् परमात्मा वैश्वानर इत्यत्र ब्रूमः। कुतो द्येष निर्णयो यदुभयथापि विशेष- प्रतिभाने सति परमेश्वरविषय एव विशेष आ- गतिं वक्तुमुक्तसिद्धान्तमाक्षिप्य समाधत्ते॥ शव्दादिभ्य इति ॥"स एषोडग्निर्वैश्वानर" इत्यग्निरहस्ये वैश्वानरविद्यायां श्रुतोSग्निशब्द ईश्वरे न सम्भवतीत्यन्वयः । सूत्रस्थादिशब्दार्थमाह ॥ आदिशव्दादिति॥ भक्तमन्नं होमीयं होमसाधनं तेन प्राणाग्निहोत्रं कार्यमित्यर्थः। वा- जसनेयिनामग्निरहस्ये सप्रपश्चां वैश्वानरविद्यामुक्का "स यो हैत- मतनिं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वत्रान्नमत्तिः इत्युक्तं देहान्तरस्थत्वं जाठरे सम्भवति प्रसिद्धेरित्याह॥ तथेति॥ पाद सूत्रे आदिपदेनैवान्तःप्रतिष्ठानस्य ग्रहे सम्भवति पृथगुक्तिः वि। लिङ त्वदोतनार्था, शव्दादिबलादिदमपि जाठरं गमयती- मिषाकातूर यवपि युमूर्द्धत्वादिविशेष ईश्वरपक्षपाती होमाधारत्वा-
Page 282
सृ०२६।अ० ७] शाङ्करत्रह्मसूत्रभाष्ये (२७९) श्रयणीयोन जाठरविषय इति । अथवा भू- तान्नेरन्तर्वहिश्र्वावतिष्ठमानस्यैष निर्देशो भवि- ष्यति। तस्यापि हि भूलोकादिसम्बन्धो मन्त्र- वर्णादवगम्यते "यो भानुना पृथिवीं द्यामुतेमा- माततान रोदसी अन्तरिक्षम" इत्यादौ। अ- थ वा तच्छरीराया देवताया ऐश्वर्ययोगाद् दु- लोकाद्यवयवत्वं सम्भवति। तस्मान्न परमेश्वरो वैश्वानर इति। अत्रोच्यते। न तथा दृष्टयुपदेशा- दिति। न शब्दादिम्यः कारणेभ्यः परमेश्वरस्थ प्रत्याख्यानं युक्तम्।कुतः! तथा जाठरापरित्या- गेन दृष्टयुपदेशात् । परमेश्वरदृष्टिर्हि जाठरे वै- शानर इहोपदिश्यते "मनो ब्रह्मेत्युपासीत"इ- त्यादिवत्। अथ वा जाठरवैश्वानरोपाधिः पर- मेश्वर इह द्रष्ठव्यत्वेनोपदिश्यते "मनोमयःप्रा-
दिर्जाठरपक्षपातीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न सम्भवतीति बलवानित्यत आह॥ अथ वेति॥ एष धुमूर्त्वादि- निर्देश इत्यर्थः। इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तयोर्मध्यमन्तरिक्षं च यो भूताग्निर्भानुरूपेणाततान व्याप्तवान् स ध्यातव्य इत्यर्थः । जडमात्रस्य न ध्येयत्वमित्यत आह॥ अथ वेति॥ सिद्धान्तयति॥न तथा दष्टयुपदेशादितीति॥परमेश्वरदृष्टयोपास्य-
श्वरो लक्ष्य इत्युक्का कल्पान्तरमाह ॥ अथ वा जाठर इति॥ अ-
Page 283
(२८० ) रत्नप्रभाभासिते [अ० १।पा० २। णशरीरो भारुपः इत्यादिवत्। यदि चेह पर- मेश्रो न विवक्ष्येत, केवल एव जाठरोऽग्निर्विव क्ष्येत, ततो "मूर्धैद सुतेजाः इत्यादेविशेषस्या- सम्भव एव स्यात्। यथा तु देवताभूतान्निव्यपा- श्रयेणाप्ययं विशेष उपपादयितुं न शक्यते, तथोत्तरसूत्रे वक्ष्यामः।यदि च केवल एव जाठ- रो विवक्ष्येत पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यात्, न तु पुरुषत्वं, पुरुषमपि चैनमधीयते वाजसनेयिन: "स एषोऽग्निर्वैश्वानरो यत् पु- रुष: स यो हैतमेवमन्निं वैश्वानरं पुरुषविधं पु- रुषेन्तःप्रतिष्ठितं वेद" इति। परमेश्वरस्य तु सर्वात्मत्वात् पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चो अयमुपपद्यते। ये तु पुरुषविधमपि चैनमधीय- ये इति सूत्रावयवं पठन्ति तेषा मेषोऽर्थः। केवल- जाठरपरिग्रहे पुरुषेन्तःप्रतिष्ठितत्वं केवलं स्या- तू, न तु पुरुषविधत्वम्। पुरुषविधमपि चैनम- स्मिनू पक्षे प्राधान्येनेश्वरोपास्यता, पूर्वत्र गुणतयेति भेदः । उपाधि वाचिभ्या पदाभ्यामुपहितो लक्ष्य इत्यर्थः। लक्षणाबीजमसम्भवं व्या- चष्टे।।यदि चेति॥ पुरुषमपीत्यादिसूत्रशेषं व्याचष्टे। यदि च केवल इति॥ ईश्वरपतीकत्वोपाधित्वशून्य इत्यर्थो विवक्ष्येत तदेति शेषः। यदः पुरुष: पूर्णा:, स एषोडग्निवैश्वानरशव्दितजाठरोपाधिक इति श्रु- त्यर्थः यो वेद स सर्वत्र भुङ्क इत्यर्थः। पुरुषत्वं पूर्णत्वमचेतनस्य
Page 284
(२८१) धीयते वाजसनेयिनः "पुरुषविध पुरुषेन्तःप्र- तष्ठितं वेद" इति पुरुषविधव्वं च प्करणात्। य दधिदैवतं द्युमूर्धत्वादिपृथिवीप्रतिष्ठितत्वान्तं, यच्चाध्यात्मं प्रसिद्ध मूर्धत्वादिचुबुकप्रतिष्ठित त्वान्तं, तत् परिग्ृस्यते॥ २६ । अत एव न देवता भूतं च॥।२७।। यत् पुनरुकतं भूताझनेरपि मन्त्रवर्णेद्युलोकादि- सम्बन्धदर्शनात् "मूर्घेव सुलेजा" इत्याद्यवयव- कल्पनं तस्यैव भविष्यतीति तच्छरीराया देव- ताया वा ऐश्वर्ययोगादिति तत् परिहर्तव्यमत्रो- च्यते।अत एवोक्तेम्यो हेतुभ्यो न देवता वैश्वान- रः,तथाभूताभनिरि न वैश्वानरः।न हि भूताझेरौ-
जाठरस्य नेत्युक्ता पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह।। ये त्विति ॥ ननु जाठरस्यापि देहव्यापित्वात् तद्दिधत्वं स्यादित्यत आह॥ पुरुषविधत्वं च प्रकरणादिति ॥ न देहव्यापित्वं पुरुषवि- धत्वं किन्तु विराड्देहाकारत्वसधिदैवं पुरुषविधत्वमध्यात्मं चोपासक- मूर्द्धादिचुवुकान्तेष्वङ्गेषु सम्पन्नत्वमीश्चरस्य पुरुषविधत्वमित्यर्थः । २ ६ । ईश्वरस्याङ्गेषु सम्पत्तिर्वक्ष्यते। एवं जाठरं निरस्य पक्षद्यं निरस्यति । अत एवेति॥ सूत्रं व्याचष्टे । यत् पुनरित्यादिना॥ धुमूर्द्धत्वादि:, सर्वलोकफलभात्क्ं, सर्वपाप्मप्रदाहः, इति आत्मब्रह्म- शब्दोपक्रम एते उक्तहेतवः। तानेव समारयति॥ न हि भ्रूतामनेरित्या ३६
Page 285
(२८२) रत्नप्रभाभासिते [अ० १।पा० २। पपद्ते विकारस्य विकारान्तरात्मत्वासम्भवा- त्। तथा देवतायाः सत्यप्यैश्वर्ययोगे न दुमूद- त्वादिकल्पनासम्भवति, अकारणत्वात् परमे- शवराधीनैश्वर्यत्वाच्च। आत्मशब्दासम्भवश्र स- र्वेष्वेषु पक्षेषु स्थित एव ॥२७।। साक्षादप्यविरोधं जैमिनिः॥२८॥ पूर्व जाठरान्निप्रतीको जाठराश्युपाधिको वा परमेश्वर उपास्य इत्युक्तमन्तःप्रतिष्ठितत्वा- द्यनुरोधेन, इदानीं तु विनैव प्रतीकोपाधिकल्प- नाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे न कश्िवद्विरोध इति जैमिनिराचार्यो मन्यते। ननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दा- दीनि च कारणानि विरुद्धयेरन्निति।अत्रोच्यते। दिना। यो भानुनेति मन्त्रेणेश्वरदृष्ट्या महिमोक्त इति भाव:॥।२७।।पू- र्वमग्निवैश्वानरशव्दावीश्वरलक्षकावित्युक्तं, अधुना प्रतीकोपाधिपरित्या- गेन विराट्पुरुषाकारस्य भगवतो वैश्वानरस्याध्यात्ममूर्धादि चुबुकान्ते षु सम्पाद्योपास्यत्वाङ्गीकारेऽपि न शब्दादिविरोध: शब्दयोरीश्वरे यो- गवृच्या सुख्यत्वादन्तःस्थत्वादीनां च तत्र सम्भवादित्याह॥ साक्षा- ढपीति॥ साक्षात्पदस्यार्थमाह ॥। विनैवेति॥ जाठराग्निसम्बन्ध विनेश्वरस्योपास्यत्वेऽपि शब्दायविरोधं जैमिनिर्मन्यत इत्यर्थः । इद- मन्तस्थत्वमुदरस्थत्वरूपं नोच्यते किन्तु नखादिशिखान्तावयवसमु- दायात्मकपुरुषशरीरे मुर्धादिचुवुकान्ताङ्गानि वृक्षे शाखावत्प्रति-
Page 286
सू० २८।अ०७] (२८३) अन्तःप्रतिष्ठितत्ववचनं तावन्नविरुध्यते। न ही- ह "पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदे"ति जाठ- राग्न्यभिप्नायेणेदमुच्यते तस्थाप्रकृतत्वादसंश- व्दितत्वाच्च। कर्थ तर्हि यत् प्रकृतं मूर्दादिषु चुबु- कान्तेषु पुरुषावयवेषु पुरुषविधव्वं कल्पितं तद- भ्िप्रायेणेदमुच्यते "पुरुषविधं पुरुषेऽन्तःप्रतिष्ठि- तं वेदे"ति, यथा वक्षे शाखां प्रतिष्ठितां पश्यतीति तद्रत्। अथ वा यः प्रकृत: परमात्माऽव्यात्मम- धिदैवतं च पुरुषविधत्वोपाधिः, तस्य यत् केवलं साक्षिरूपं तदभिप्रायेणेदमुच्यते "पुरुषविधं पु- रुषेऽन्तःप्रतिष्ठितं वेदे" ति।निश्चिते च पूर्वापरा- लोचनवशेन परमात्मपरिग्रहे तद्विषय एव वैश्वा नरशब्द: केनचिद्योगेन वर्तिष्यते, विश्वश्रायं नरश्रेति, विश्वेषां वाडयं नरः, विश्वेवानरा अ- स्येति विश्वानरः परमात्मा सर्वात्मत्वात्, वि- छ्वितानि, तेषु सम्पन्नो वैश्वानरः पुरुषेऽन्तःप्रतिष्ठित इत्युच्यते। अतो यथा शाखास्थस्य पक्षिणो वृक्षान्तस्थत्वं तथा वैश्वानरस्य पुरुषान्तः- स्थत्वमित्याह ।। न हीह पुरुषविधमित्यादिना। अग्न्यादिशब्द- स्येश्वरवादित्वाज्ाठराग्नेरसंशब्दितत्वम्। अत्रेश्वरस्य पुरुषावयवेषु स- म्पादनात् पुरुषविधत्वमन्तस्थत्वं चेत्यर्थः। पक्षान्तरमाह॥अथ वेति।। पुरुषविधत्वं पूर्ववत्। अन्तःस्थत्वं माध्यस्थ्यं साक्षित्वमित्यर्थः । ए- वमन्तःस्थत्वमीख्वरे व्याख्याय शब्दादीति व्याचष्टे।। निश्चिते चेति॥
Page 287
(२८४) रत्नप्नभाभासिते [अ० १।पा० २। श्वानर एव वैश्वानरस्तदवितोऽनन्यार्थो शाक्षस- वायसादिवत्। अभनिशब्दोऽप्यग्रणीत्वादियो- गाश्रयणेन परमात्मविषय एव अविष्यति। गा- रहपत्यादिकल्पनं प्राणाहुत्यघिकरणत्वं च परमा त्मनोऽपि सर्वात्मत्वादुपपद्यते ॥२८।। कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरु पपदते, इति तां व्याख्यातुमारभते ॥ अभिव्य क्ेरित्याश्मरथ्य:॥।२९। अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्व- मभिव्यक्तिनिमित्तं स्यात्। अभिव्यज्यते किल प्रादेशमात्रपरिमाण: परमेश्वर उपासकानां कृ- ते। प्रदेशविशेषेषु हृदयादिषु उपलब्धिस्थानेषु विशेषेणाभिव्यज्यते। अतः परमेश्वरेऽपिप्रा- विश्वश्वायं नरो जीवश्र सर्वात्मत्वातू। विश्वेषां विकाराणां वा नरः क- र्ता। विश्वे सर्वे नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तीति विश्वानरः, रक्ष एव राक्षस इतिवत् स्वार्थे तद्धितप्रत्ययः।"नरे संज्ञाया- म्"(६।३।१२९) इति पूर्वपदस्य दीर्घता।अगिधातार्गत्यर्थस्य निप्रत्य- यान्तस्य रूपमग्निरिति।अङन्यति गमयत्यग्रंकर्मफलं प्रापयतीति अग्नि- रग्रणीरुक्तः। अभितोऽगत इति वा अग्निः,वैश्वानरोपासकस्यातिथिभो- जनातू पूर्व प्राणाग्निहोत्रं विद्याङ्गत्वेन चिहितं, तदर्थमत्नित्रेतादिकल्पनं प्रधानाविरोधेन नेतव्यमित्याह॥ गार्हपत्येति ॥२८॥ मात्रां पारि- माणमतिक्रान्तोSतिमात्र: तस्य विभोरित्यर्थः। उपासकानां कतेऽनु-
Page 288
सू ० ३१। अ० ७] शाङ्गरव्रह्मसूत्रभाष्ये (२८५) देशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य- आचार्यो मन्यते ॥२९॥ अनुस्मृतेर्बादरिः॥३०॥ प्रादेशमात्रहृदयप्रतिष्ठेन वाडयं मनसाडनु- स्मर्यते तेन प्रादेशमात्र इत्युच्यते। यथा प्रस्थ- मिता यवा: प्रस्था इत्युच्यन्ते तद्रत्। यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसम्बधाद्यज्यते न चेह परमेश्वरगतं किश्चित् परिमाणमस्ति य- द् हृदय सम्बन्धाद्यज्येत तथापि प्रयुक्तायाः प्रा- देशमात्रश्रुतेः सम्भवति यथा कथश्िदनुस्मर- णमालम्बनमित्युच्यते। प्रादेशमान्रव्वेन वाडय- मप्रादेशमात्रोऽनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थ- वत्तायै। एवमनुस्मतिनिमित्ता परमेश्वरे प्रादेश- मात्रश्रुतिरिति बादरिराचार्यो मन्यते ॥३० ॥ सम्पत्तेरिति जैमिनिस्तथा हि दर्श- यति॥३१॥ सम्पत्तिनिमित्ता वा स्यात् प्रादेश मात्रश्रु- ग्रहाय प्रादेशमात्रोऽभिव्यज्यते प्रदेशेषु वा मीयतेऽभिव्यज्यत इति प्रादेशमान्न:॥२९॥ मतान्तरमाह॥ अनुस्मृतेरिति ॥ प्रादेशेन मन- सा मितः प्रादेशमात्र इत्यर्थः॥ यथा कथश्चिदिति ॥ मनःस्थं प्रा- देशमान्रत्वं स्मृतिद्वारा स्मर्यमाणे कल्पितं श्रुतेरालम्बनमित्यर्थः ॥
Page 289
(२८६) रत्नप्रभाभासिते [अ ० १। पा ० २। तिः। कुतः! तथा हि समानप्रकरणं वाजसनेयि- ब्राह्मणं द्ुप्रभृतीन पृथिवीपर्यन्तान् त्रैलोक्या- त्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पादयत् प्रादेश- मात्रसम्पत्तिं परमेश्वरस्य दर्शयति। "प्रादेश- मात्रमिव ह वै देवा: सुविदिता अभिसम्पन्नाः तथा नु व एतान् वक्ष्यामि यथा प्रादेशमात्रमेवा- भिसम्पादयिष्यामीति स होवाच मूर्धानमुपदि- शत्रुवाच, एष वा अतिष्ठा वैश्वानरः, इति चक्षु- षी उपदिशन्नुवाच, एष वै सुतेजा वैश्वानरः, इ- ति नासिके उपदिशन्नुवाच, एष वै पृथग्वर्त्मा- सूत्रस्यार्थान्तरमाह ॥ प्रादेशेति ॥३०॥ सम्प्रति श्रुत्युक्तां प्रादे- शमात्रश्रुतेर्गतिमाह ॥ सम्पन्तेरिति ॥ ब्राह्मणं पठति॥ प्रादेशमा- त्रमिवेति ॥। अपरिच्छिन्नमपीश्वरं प्रादेशमात्रत्वेन सम्पच्या कल्पितं सम्यग्विदितवन्तो देवास्तमेवेश्वरमभिप्रत्यक्केन सम्पन्नाः प्राप्तवन्तो ह वै पूर्वकाले ततो वो युष्मभ्यं तथा द्ुप्रभृतीनवयवान् वक्ष्यामि, य- था प्रादेशमान्नं प्रादेशपरिमाणमनतिक्रम्य मूर्धायध्यात्माङ्गेषु वैश्वानरं सम्पादयिष्यामीति प्राचीनशालादीन् प्रति राजा प्रतिज्ञाय स्वकी- यमूर्धानमुपदिशन् करेण दर्शयन्नुवाच, एष वैमे मूर्धा भूरादील्वाकान- तील्य उपरि तिष्ठतीत्यतिष्ठाऽसौ दुलोको वैश्वानरः । तस्य मूर्धेति यावतू। अध्यात्ममूर्धावेदेनाधिदैवमूर्धा सम्पाद्य ध्येय इत्यर्थः। एवं- चक्षुरादिपूहनीयम् स्वकीयचक्षुषी दर्शयन् एष वै सुतेजाः सूर्यो वै- व्वानरस्य चक्षुरित्युवाच। नासिकापदेन तन्निष्टः प्राणो लक्ष्यते त-
Page 290
सू० ३२। अ० ७] शाङ्करव्रह्मसूत्रभाष्ये (२८७) त्मा वैश्वानरः, इति मुख्यमाकाशमुपदिशन्रुवा- च, एष वै बहुलो वैश्वानरः, इति मुख्या अप उप- दिशन्रुवाच, एष वै रयिर्वैश्वानरः, इति चुबुकमु- पदिशन्नुवाच, एष वै प्रतिष्ठा वैश्वानरः, इति"। चुबुकमित्यधरं मुखफलकमुच्यते। यद्यपि वा- जसनेयके धौरतिष्ठाव्वगुणा समाम्न्नायते, आ- दित्यश्र सुतेजस्त्वगुणः, छान्दोग्ये पुनर्धोः सु- तेजस्त्वगुणा समाम्नायते, आदित्यश्र विश्व- रूपत्वगुणः, तथापि नैतावता विशेषेण कि- श्र्िद्वीयते प्रादेशमात्रश्रुतेरविशेषात् सर्वशाखा- प्रत्ययत्वाञ्च। सम्पत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते॥३१॥ आमनन्ति चैनमस्मिन् ॥ ३२॥ आमनन्ति चैनं परमेश्वरमस्मिन् मूर्धचुबु- कान्तराले जाबालाः। "य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति सोऽविमुक्त: स्मिन्नाध्यात्मिकप्राणेSविदैवप्राणस्य वायोर्दष्टिमाह॥नासिके इति। अत्र सर्वत्र वैश्वानरशव्दसदङ्गपरः। मुखस्थं मुख्यं तस्मिन्नधिदैवं व- हुलाकाशदृष्टिः मुखस्थलालारूपास्वप्सु रयिश्दिततदीयवस्तिस्थो- दकदृष्टिः चुबुके प्रतिष्टा पादरूपा पृथिवी द्रष्टव्या। ननु गुणवैष- म्येण विद्ययोर्भेदादसनिरहस्यश्रुत्यनुसारेण छान्दोग्यस्थप्रादेशमात्र- श्रुति: कथं व्याख्येयेत्याशङ्ग्याह॥ यद्यपीत्यादिना॥ एतावताल्प-
Page 291
(२८८) रत्नप्रभाभासिते [अ०१। पा. २ कस्मिन् प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति का वै वरणा का चनासीति"।तत्र चेमामेव नासिकां वरणा नासीति निरुच्य स- र्वाणीन्द्रियकृतानि पापानि वारयति सा वरणा सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीति पुनरामनन्ति।"कतमच्चास्य स्थानं भ- वतीति त्रुवोर्धाणस्य च यः सन्धिः सएपद्यु- लोकस्य परस्य च सन्घिर्भवति" इति। त- स्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः।अभि- विमानश्रुतिः प्रत्यगात्मव्वाभिप्राया। प्रत्यगा- त्मतया सर्वैंः प्राणिभ्िरभ्षिविमीयत इत्यक्षिवि- मानः। अभिगतो वाडयं प्रत्यगात्मत्वात्।वि- वैषम्येण बहुतरप्रत्यभिज्ञासिद्धं विबैक्यं न हीयते शाखाभेदेऽपि सर्व- शाखासु प्रतीयमानं वैश्वानराधुपासनं एकमिति न्यायस्य वक्ष्यमाण- • त्वाञ्च। अतिष्ठात्वगुणश्छान्दोग्य उपसंहर्तव्यः । विश्वरूंपत्वगुणश्र वाजिभिर्ग्राह्यः। तथा च वुसूर्ययोः सुतेजस्त्वं सममतिष्ठात्वविश्वरू- पत्वयोर्व्यवस्था। यद्ा शाखाभेदेन गुणव्यवस्थाSस्तु न विद्याभेद इति भावः॥ ३१ ॥ प्रादेशत्वस्य सम्पत्तिप्रयुक्तत्वे श्रुत्यन्तरं संवादयति। आमनन्तीति ॥ य एषोऽनन्तोऽपरिच्छिन्नः अतोऽव्यक्तो दुर्विज्ञेयस्तं कथं जानीयामित्यत्रेः प्रश्ने याज्ञवल्क्यस्योत्तरम्, स ईश्वरो अविमुक्ते कामादिभिरबद्धे जवे भेदकल्पनया प्रतिष्ठित उपास्यः पुनरत्रिपश्रः स इत्युत्तरं वरणायामिति। एवं प्रशनोत्तरे अग्रपि झेये। तत्र च श्रुतौ इमामेव ुसाहितां नासिकां निरुच्येति भाष्ययोजना। सर्वानिन्द्रि-
Page 292
सू० ३२ अ०७] शाङ्करब्रह्मसूत्रभाष्ये (२८९)
मीते वा सर्द जग त्कारणत्वादित्यभ्िविमानः, त- स्मात् परमेश्वर एव वैश्वानर इति सिद्धमू॥३२॥ इति श्रीमच्छारीरकमीमांसाभाष्ये शङ्रभगव- त्पादकृतौ प्रथमाध्यायस्थ द्वितीयपाद:॥ यकतान् दोषान् वारयतीति वरणा भ्रूः । सर्वान् दोषान् नाशयतीति नासी नासिकेति निर्वचनं श्रुतम्। नासाभ्रुवोजीवद्दारेश्वरस्थानत्वध्या नातू पापवारकत्वमिति मन्तव्यम्। तयोर्मध्येऽपि विशिष्य जीवस्य स्थानं पृच्छति कतमदिति त्रुवोरित्युत्तरम्। प्राणस्येति पाठेपि घ्राण- स्येत्यर्थः। स एष सन्धिर्धुलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य स- न्धित्वेन ध्येय इत्याह ॥ स एष इति ॥ आभिमुख्येनाहं ब्रह्मेति विमीयते ज्ञायते इत्यभिविसानः प्रत्यगात्मा। अभिगतश्रासौ विमा- नश्व सर्वस्वरूपत्वे सत्यानन्त्यान् मानमत्र परिमाणम्। अभिविमि- मीते निर्मिमीते। तस्मादैश्वानरवाक्यमुपास्ये ब्रह्मणि समन्वित- मिति सिद्धम्॥ ३२ ॥ इति श्रीमत्परमहंसपरिवराजकाचार्यश्रीगोवि- न्दानन्दभगवत्पादकृता श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्न- प्रभायां प्रथमाध्यायस्य द्वितीय: पाद:॥
Page 293
(२९०) रत्नप्रभाभासिते [अ० १।पा० ३। नमः परमात्मने।
द्युभ्वाद्यायतनं स्वशब्दात्॥१॥ इदं श्रूयते "यस्मिन् घौःपृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्र सर्वैस्तमेवैकं जानथ आत्मा- नमन्या वाचो विमुश्चथामृतस्यैप सेतुः" इति। अत्र यदेतद् द्युप्रभृतीनामोतत्ववचनादायतनं नमः परमात्मने।
श्रीराममल्पहृदि भान्तमधीशितारम्। इन्द्रादिवेद्यमखिलस्य च शासितारं ज्योतिर्नभःपदमनिद्रमजं भजेऽहम्॥ एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो दि- तीयपादे दर्शितः। अधुना यौगिकपदबहुलानां निर्विशेषप्रधानानां वा- क्यानां समन्वयं वकतुं तृतीयपाद आरभ्यते॥ अतोऽत्राधिकरणानां श्रु- त्यध्याय्रपादसङ्गतयस्तत्र पूर्वमुपक्मस्थसाधारणशब्दस्य वाक्यशे- पस्थबुमूर्द्धत्वादिना व्रह्मपरत्वमुक्तम्। तद्ददत्राप्युपक्रमस्थसाधारणा- यतनत्वस्य वाक्यशेषस्थसेतुश्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दृष्टान्तलक्षणाधिकरणसङ्गतिः पूर्वपक्षे प्रधानाधुपासितिः । सिद्धान्ते निर्विशेषव्रह्मधीरिति फलम्। मुण्डकवाक्यमुदाहरति॥इदमि- ति॥यस्मिन् लोकत्रयात्मा विराट्प्राणैःसर्वैः सह मनः सूत्रात्मकं च- कारादव्याकते कारणम् ओतं कल्पितं तदपवादेन तमेवाधिष्ठानात्मानं प्रत्यगभन्नं जानथ श्रवणादिना अन्या अनात्मवाचो विमुश्चथ विशेषे- ण निःशेषं त्यजथे एष वाग्विमोकपूर्वकात्मसाक्षात्कारोऽमृतस्य मोक्ष-
Page 294
सू ० १। अ०१] शाङ्करत्रह्मसूत्रभाष्ये (२९१) किश्िदवगम्यते तत् किं परं ब्रह्म स्यादाहो- स्विदर्थान्तरमिति सन्दित्यते। तत्रार्थान्तरं कि- मप्यायतनं स्यादिति प्राप्तम्। कस्मात्। अमृत- स्यैष सेतुरिति श्रवणात्। पारवान् हि लोके से- तुः प्रख्यातः।न च परस्य ब्रह्मण: पारवत्वंश- क्यमभ्युपगन्तुमनन्तमपारमिति श्रवणात्। अ- र्थान्तरे चायतने परिग्ृत्य्यमाणे स्मृतिप्रसिद्धं प्र- धानं परिग्रहीतव्यं, तस्य हि कारणत्वादायतन- त्वोपपत्तेः। श्रुतिप्रसिद्धो वा वायुः स्यात् "वा- युर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोक: परश्र लोक: सर्वाणि च भूतानि सन्द- ब्धानि भ्वन्ति" इति। वायोरपि विधारणत्व- श्रवणात्। शारीरो वा स्यात्, तस्यापि भोक्तृ- स्यासारापारदुर्वारसंसारवारियेः परपारस्य सेतुरिव सेतुः प्रापक इति मातृवत् श्रुतिर्मुमुक्षनुपदिशति। तत्रायतनत्वस्य साधारणधर्मस्य द- र्शनात् संशयमाह ॥ तत् किमिति॥ अमृतस्य ब्रह्मणः सेतुरिति षष्ठचा ब्रह्मणो भिन्नत्वेन सेतो: श्रुतत्वादेषशव्दपरामृष्टं बुभ्वादायत- नमव्रह्मैव सेतुरिव सेतुरित्याह ॥। अमृतस्येति ॥ भेदश्रवणात् सेतुरिति श्रवणाच्चेत्यर्थः। तत्र भेदश्रवणं व्याख्यातं, सेतुश्रवणं स्वयं विवृणोति॥ पारवानिति ॥ अनन्तं कालतः, अपारं देशतः, ज- लविधारकमुख्यसेतोर्रहणासम्भवातू गौणसेतुग्रहे कर्तव्ये मुख्यसे- त्वविनाभूतपारवच्वगुणवानेव कश्विद् ग्राह्यः । न तु मुख्यस्यानिय- तविधारणगुणवानीश्वर इति भावः। यथा लोके मणयः सूत्रेण ग्रथिता
Page 295
(२९६) रत्नप्रभाभासिते [अ० १। पा० ३ै मोहश्रेत्येवमयमनन्तभेदोऽनर्थव्रातः सन्ततः संर्वेषां नः प्रत्यक्ष:, तद्विपर्ययेणाविद्या रागदे- षादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युम्वा- द्यायतनं प्रकृत्यव्यपदेशो भ्वति। कथम्। "भि द्यते हृदयग्रन्थिष्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे"। इत्युक्का ब्रवीति "तथा विद्दान्नामरूपाद्दिमुक्तः परात् परं पुरुषमुपैति दिव्यम्" इति ब्रह्मणश्र मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्े। "यदा स्वेप्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः, अथ मर्त्योडमृतो भवत्यत्र ब्रह्म सम- श्ुते"। इत्येवमादौ। प्रधानादीनां तुन क्वचि- न्मुक्तोपसृप्यत्वं प्रसिद्धमस्ति। अपि च "तमेवै- कं जानथ आत्मानमन्या वाचो विमुञ्चथ इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युम्वाद्यायतन- हाय समुद्रात्मना तिष्ठन्ति तथा ब्रह्मात्मविदपि संसारं विहाय परातू कारणादव्यक्तातू परं पूर्ण स्वयंज्योतिरानन्दं प्रत्यत्केन प्राप्य तिष्ठ- तीत्याह॥ तथा विद्वानिति॥ इदं प्रधानादेः कि न स्यादत आह॥ ब्रम्हणश्रेति॥ अस्य सुमुक्षो: हृदीति पदेनात्मधर्मत्वं कामानां नि- रस्तं यदा कामनिवृत्तिरथ तदाSमृतो भवति मरणहेत्वभावान केवल- मनर्थनिवृत्ति: किन्त्वत्र देहे तिष्ठनेव ब्रह्मानन्दमश्षुत इत्यर्थः1 लि- ङन्तरमाह ॥ अपि चेति ॥ धीरो विवेकी तमेवात्मानं विज्ञाय वि-
Page 296
सू० ३।अ० १।] (२९७ ) स्योच्यते। तच्च श्रुत्यन्तरे ब्रह्मणो दष्टस्। "तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः। नानुध्यायाद्वहंश्छब्दानू वाचो विग्लावनं हित- त्"। इति। तस्मादपि द्युम्वाद्यायतनं परं ब्रह्म ॥ २ ।। नानुमानमतच्छव्ढात्॥३ ॥ यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरू- क्ो नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादको- डस्तीत्याह। नानुमानं साङ्ग्यस्मृतिपरिकल्पि- तं प्रधानमिह घुम्वाद्यायतनत्वेन प्रतिपत्तव्य- म्, कस्मात्! अतच्छब्दात्। तस्या चेतनस्य प्र- धानस्य प्रतिपादक: शब्दस्तच्छब्दो न तच्छ- ब्दोऽतच्छब्दः।न त्यन्राचेतनस्य प्रधानस्यप्र- तिपादकः कश्चिच्छब्दोऽस्ति येनाचेतनं प्रधानं शुद्धं लक्ष्यपदार्थ ज्ञात्वा वाक्यार्थज्ञानं कुर्यात्। ज्ञानार्थिनो ज्ञानप्रति- बन्धककर्मकाण्डादेवैमुख्यमाह। नेति॥ बहूनित्युक्क्ा अल्पान् वे-
"अष्टी स्थानानि वर्णानामुरः कण्ठः शिरसथा। जिह्वामूलँ च दन्ताश्ष नासिकोष्ठौ च तालु च" ॥ इति॥ एतानि वागिन्द्रियस्थानत्वाद् वाक्यशव्देनोच्यन्ते तेषां शो- षणमात्रमनात्मशव्दोच्चारणफलं तद्यानान्मनसो ग्लानिमात्रमित्यर्थ: ॥ ३॥ वैशेषिक इति ॥ असाधारण आत्मशब्दादिरित्यर्थः । अ- ३८
Page 297
(२९८) रत्नप्रभाभासिते [अ० १।पा० ३ कारणत्वेनायतनत्वेन वाऽवगम्येत। तद्विपरी- तस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्ति "यः सर्वज्ञ: सर्ववित्" इत्यादिः। अत एव न वायुर- पीह द्ुम्वाद्यायतनत्वेनाश्रीयते॥ ३॥ पराणभृच्च॥४॥ यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वंचेतन- त्वंचसम्भवति तथाऽप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञव्वाद्यसम्भवे सत्यस्मादेवातच्छब्दात् प्रा- णभृदपि न दयुम्बाद्यायतनत्वेनाश्रयितव्यः। न चोपाधिपरिच्छिन्नस्याविभो: प्राणभृतो धुभ्वा- द्यायतनत्वमपि सम्यक् सम्भवति। पृथग्योग- करणमुत्तरार्थम्॥ ४ ॥ कुतश्र न प्राणभृद् घु- भ्वाद्यायतनत्वेनाश्रयितव्यः! भेदव्यपदेशात्॥५॥ भेदव्यपदेशश्रेह भवति "तमेवैकं जानथ तच्छव्दादित्यस्यार्थान्तरमाह ॥ तद्विपरीतस्येति ॥ अत एवात- च्छव्दादेव॥ ३ ॥ "प्राणभृच्चे"ति सूत्रे चकारः पूर्वसूत्रस्थनञोऽनुष- डार्थः । सर्वज्ञपदसमानाधिकरण आत्मशब्दो न जीववाचीत्यत- च्छव्दसतस्मादित्यर्थः। ननु नानुमानप्राणभृतावतच्छव्दादित्येकमेव सूत्रं किमर्थ न कृतम्, उभयनिरासहेतोरेकत्वादित्यत आह॥ पृथ- गिति॥ योग: सूत्रम, उत्तरसूत्रस्थहेतूनां जीवमान्ननिरासेनान्वयेऽपि
Page 298
सु०७।अ०१ ] शाङ्करव्रह्मसूत्रभाष्ये (२९९ ) आत्मानम्" इति ज्ञेयज्ञातृभ्ावेन। तत्र प्राण- भृत् तावत् मुमुक्षुत्वाज्ज्ञाता परिशषादात्मश- ब्दवाच्यं ब्रह्म ज्ञेयं धुम्वाद्यायतनमिति गम्यते, न प्राणभृत् ।।५।। कुतश्र न प्राणभृद् दुम्वादा- यतनत्वेनाश्रयितव्यः! प्रकरणात्॥ ६ ॥ प्रकरणाचेदं परमात्मनः "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इत्येकविज्ञा- नेन सर्वविज्ञानापेक्षणात्।परमात्मनि हि सर्वा- त्मके विज्ञाते सर्वभिदं विज्ञातं स्यात्, न केवले प्राणभृति॥६॥ कुतश्र न प्राणभृद् धुम्वाद्याय- तनत्वेनाश्रयितव्यः! स्थित्यदनाभ्यांच ।।७॥ धुम्वाद्यायतनं च प्रकृत्य "दा सुपर्णा सयु- जा सखायौ" इत्यत्र स्थित्यदने निर्दिश्येते, "त-
सुबोधार्थ प्राणभृच्चेति प्रथक् सूत्रकरणमित्यर्थः ॥४॥ तानेव हे- तूनाकाङ्काद्दारा व्याचष्टे । कुतश्र नेत्यादिना ॥ यद्यपि विशुद्ध: प्रत्यगात्मैवात्र ज्ञेयः, तथापि जीवत्वाकारेण ज्ञातुर्ेयान्नेदान्न ज्ञे- यरूपत्वमित्यर्थः । एवं च जीवत्वलिङ्गविशिष्टत्वेन जीवस्यधुभ्वा- दिवाक्यार्थत्वं निरस्यते, न शुद्धरूपेणेति मन्तव्यम्॥ ५॥६ ॥ ।। ननु स्थित्येश्वरस्यादनाज्जीवस्य दासुपर्णेत्यत्रोक्तावपि ईश्वर आ-
Page 299
(३००) रत्प्नभाभासिते [अ० १। पा०३। योरन्यः पिप्पलं स्वाद्ृत्ति" इति कर्मफलाशनम् "अनश्नन्नन्योऽभिचाकशीति" इत्यौदासीन्ये- नावस्थानंच तास्यां च स्थित्यदनाभ्यामीश्वर- क्षेत्रज्ञौ तत्र गह्ते। यदि चेश्वरो घुभ्वाद्याय- तनत्वेन विवक्षितस्ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात् पृथग्वचनमवकल्पते, अन्यथा त्यप्र- कृतवचनमाकस्मिकमसम्बद्ं स्यात्। ननु तवा- पि क्षेत्रज्ञस्येश्वरात् पृथग्वचनमाकस्मिकमेव प्रसज्येत, न, तस्याविवक्षितत्वात्। क्षेत्रज्ञो हि कर्तत्वेन भोकृत्वेन च प्रतिशरीरं बुद्धयाद्युपाधि- कसम्बदो लोकत एव प्रसिद्दो नासौ श्रुत्या ता- त्पर्थेण विवक्ष्यते। ईश्वरस्तु लोकतोऽप्रसिद्धत्वा- त् श्रुत्या तात्पर्येण विवक्ष्यते, इति न.तस्याक- स्मिकवचनँ युक्तम् "गुहां प्रविष्ठावात्मानौ हि"
यतनवा्यिन किमर्थ ग्राह इत्यत आह ॥ यदि चेश्वर इति ॥ अत्र चेश्वरः शुद्चिन्मात्रो ग्राह्मः। न सर्वज्ञत्वादिविशिष्टः तस्यात्रा- पतिपाद्यल्वातू। तथा चाप्रतिपाद्यार्थस्याकस्मान्मध्ये वचनासम्भ- चछन्। आयवाक्येन ग्रहणं कार्यमित्यभिसन्धिः । तमज्ञात्वाऽडशङ्गते कार्थन तवापीति ॥ ब्रह्मस्वरूपप्रतिपादनार्थमकरमादप्ररुतस्यापि च्छव्दरसिद्धस्य जीवस्यानुवादसम्भव इति परिहरति ॥ नेति॥ ननु सूत्रं किम पत्र बुद्धिजीवयोरुक्ेः कथमिद सूत्रमित्यत आह।। गुहामि- गिति॥ यो दनाभ्यामीश्वरक्षेत्रज्ञयोरनुवादेनैक्य दशितमित्यर्थः ।न-
Page 300
सू० ७ । अ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (२०१) क्षेत्रज्ञावुच्येते इति। यदापि पैङ्रयुपनिषत्कते- न व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते तदाऽपि न विरोध: कश्च्ित्। कथ! प्राणभृद्दीह घटादिच्छिद्रवत् सत्त्वाद्युपाध्यभिमानित्वेन प्र- तिशरीरं गृत्य्यमाणो दुम्वाद्यायतनं न भवतीति प्रतिषिद्यते। यस्तु सर्वशरीरेषपाधिभिर्विनोप लक्ष्यते परमात्मा सक्षवति। यथा घटादिच्छि-
महाकाश एव भवन्ति, तद्दत् प्राणभृतः परस्मा- दन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यते, तस्मात् सत्वाद्युपाध्यशिमानिन एव दयुम्वाद्यायतनत्व- प्रतिषेध:, तस्मात् परमेव ब्रह्म द्युम्वाद्यायतन- म्। तदेतत् "अदश्यत्वादिगुणको धर्मोक्तेः" इ- त्यनेनैव सिद्धम्, तस्यैव हिभूतयोनिवाक्यस्य मध्य इदं पठितं "यस्मिन् दौः पृथिवी चान्त- रिक्षम्" इति। प्रपञ्चार्थ तु पुनरुपन्यस्तम् ॥७। न्वत्र जीवेशौ नानुवायौ पैङ्गिव्याख्याविरोधादतः सूत्रासङ्गतिरित्यत आह॥ यदापीति ॥ तदापि सूत्रस्यासङ्गतिर्नास्तीत्यर्थः। अदनवा- क्येन बुद्धिमनूद स्थितिवाक्येन बुद्ध्यादिविलक्षणशुद्धप्रत्यगव्रह्मणो ज्ञेयस्योकतर्धुभ्वादिवाक्ये तदेव ग्राहमं न बद्धयुपहितो जीव इति सूत्र- सङ्गतिमाह ॥ कथमित्यादिना । नन्वत्रानुपहितो जीव उक्तो न परं व्रह्मेत्यत आह॥ यस्त्विति॥ पौनरुक्त्यं शङ्कते॥ तदेतदिति॥
Page 301
(३०२) रत्नप्रभाभासिते [अ० १पा० ३। भूमा सम्प्रसादादध्युपदेशात्॥८।। इंद समामनन्ति "भूमा त्वेव विजिज्ञासि तव्यः"इति,"भूमानं भगवो विजिज्ञासे" इति, "यत्र नान्यत् पश्यति नान्यचछणोति नान्यद्िजा- नाति सभूमा, अथ यत्रान्यत् पश्यत्यन्यच्छृ- णोत्यन्यद्विजानाति तदल्पम्" इत्यादि। तत्र संशयः किं प्राणो भूमा स्यादाहोस्वित् परमा- त्मेति। कुतः संशयः। भूमेति तावद् बहुत्वम- क्षिधीयते "बहोर्लोपो भू च बहोः" (पा०६। ४। १५८) इति भूमशब्दस्य भावप्रत्ययान्त- तास्मरणात्। किमात्मकं पुनस्तद्वहुत्वमिति वि- शेषाकाङूायां"प्राणो वा आशाया भूयान्"इति धुभ्वादिवाक्यस्य ब्रह्मपरत्वमित्यर्थः । समाधत्ते ॥ प्रपश्चार्थमिति॥ सेतुशब्दव्याख्यानेन भूतयोनेः प्रत्यगात्मत्वस्फुटीकरणमित्यर्थः। त- स्मान्मुण्डकोपनिषद्, ब्रह्मणि समन्वितेति सिद्धम् ॥ ७॥ भूमा ॥ छान्दोग्यमुदाहरति॥ इदमिति॥ नाल्पे सुखमस्ति भूमैव सुखं त- स्मान्निरतिशयसुखार्थिना भूमैव विचार्य इति नारदं. प्रति सनत्कुमा- रेणोकें सति नारदो व्रते। भूमानमिति॥ भूम्रो लक्षणमद्दितीयत्वमाह । य त्रेति। भूमलक्षणं परिच्छिन्नलक्षणोक्त्या स्फुटयति॥ अथेति॥ अत्र संशयवीजं प्रश्नपूर्वकमाह॥ कुत इत्याढिना॥ बहोर्भावइति वि- ग्रहे "पृथ्वादिभ्ध इमनिच्"[५।१।१२२]इति इमनिच्प्रत्यये कुते "ब- होलोपो भ् चवहो:"[६।४।१५८]इति सूत्रेण बहोः परस्येमनिच्प्रत्य-
Page 302
(३०३) सन्निधानात् प्राणो भूमेति प्रतिभाति। तथा "श्रुतं त्येव मे भगवद्दशेभ्यस्तरति शोकमात्म- वित्" इति, "सोऽहं भगवः शोचामि तं मा भ- गवान् शोकस्य परं पारं तारयतु"इति प्रकर- णोत्थानात् परमात्मा भूमा इत्यपि प्रतिभाति। तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति क्ष वति संशयः । किंतावत् प्राप्तं प्राणो भूमेति। कस्मात्! भूयः प्रश्नप्रतिवचनदर्शनात् ।.यथा हि "अस्ति भगवो नाम्नो भूयः"इति, "वाग्वा- व नाम्नो भूयसी"इति,तथा"अस्ति भगवो वा- चो भूय:" इति, "मनो वाव वाचो भूयः" इति च नामादिभ्योह्याप्राणात् भूयःप्रश्नप्रतिवचनप्र- यस्यादेरिकारस्य लोप: स्यात् बहोः स्थाने भूरित्यादेशश्र स्यादित्युक्ते भूम नितिशब्दो निष्पन्नः, तस्य भावार्थके मनिच्प्रत्ययान्तत्वाद्वहुत्वं वाच्य- मू तत् किं धर्मिकमित्याकाङ्कायां सन्निहित प्रकरणस्थः प्राणो धर्मीभा- ति।वाक्योपक्रमस्थ आत्माऽपि स्वप्रतिपादनापेक्षो धर्मित्वेन भातीति सन्निहित व्यवहित प्रकरणाभ्यां संशय इत्यर्थः। पूर्वमात्मश्दाद् यु- भ्वादायतनं ब्रह्मेत्युक्तं, तदयुक्तं तरति शोकमात्मविदित्यब्रह्मण्यप्या- त्मशव्दप्रयोगादित्याक्षेपसङ्गत्या पूर्वपक्षयति॥प्राणोभूमेति॥ धर्मध- मिणोरभदात् सामानाधिकरण्यं द्रष्टव्यम्। पूर्वोत्तरपक्षयोः प्राणोपा स्तिः, ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम्। अत्राध्याये भूयः प्रश्नोत्तरभेदा- दर्थभेदो दृश्यते। भूमातु प्राणातू परं भूयः प्रश्नं विनैवोक्तलिद्गेन प्रा- णादभिन्न इत्याह॥ कस्मादित्यादिना।।प्राणाद् भूय इति न दृश्यत इति
Page 303
(१०४) रत्नप्रभाभासिते [अ० १। पा० ३। वाहःप्रळत्ताः, नैवं प्राणात्परं भूयः प्रश्नप्रतिवच- नं दश्यते।"अस्ति भगवःप्राणाड्ूयः'इति,"अ- दो वाव प्राणाडूयः"इति, "प्राणमेवतु नामादि- भ्यआशान्तेभ्यो भूयांसं प्राणो वाव आशाया भू- यान्" इत्यादिना सप्रपञ्चमुक्ता प्राणदर्शिन- श्र्ातिवादित्वं "अतिवाद्यसि" इति, "अति- वाद्यस्मीति ब्रुयान्नापहुवीत" इत्यम्यनुज्ञाय, "एष .तु वा अतिवदति यः सत्येनातिवदति"इ- तिप्राणव्रतमतिवादित्वमनुकृष्यापरित्यज्यैव प्रा- णं सत्यादिपरम्परया भूमानं समवतारयन्, "प्राणमेवभूमानं मन्यते" इति गम्यते। कर्थ पुनःप्राणे भूमनि व्याख्यायमाने "यत्र नान्यत् पूर्वेण सम्वन्धः। नन्वेष तु वा अतिवदतीति तुशव्देन प्राणप्रकरण विच्छेदान्न प्राणो भूमेत्यत आह ।। प्राणमेवेति॥ नामायाशा- न्तानुपास्यानतीत्य प्राण श्रेष्ठं वदतीत्यतिवादी प्राणवित् तं प्रति अ- तिवाद्सीति केनचित् प्रश्ने कते अस्मीति ब्रूयातू, नाहमतिवादी- त्यपड्वों न कुर्यादित्युक्तंपाणविदं, एष इति परामृश्य सत्यवचन- ध्यानमनानश्रद्धादिधर्मपरम्परां विधाय भूमोपदेशान्न प्रकरणविच्छे द: । तुशर्वदो नामाद्युपासकस्यातिवादित्वनिरासार्थ इत्यर्थः । भू- स्त्रो लक्षणएवचनं सुखत्वममृतत्वं च प्राणेम्श्नपूर्वकं योजयति ॥ क- थंपुनरित्या देना। प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुपुप्तः पुरुष इतिशेष:। "गशिर्हपत्यो ह वाः एषोऽपानोव्यानोऽन्वाहार्यपचनः आह- १. दाक्षिणात्य्मिम
Page 304
(३०५ ) पश्यती" त्येतद् भूम्रो लक्षणपरं वचनं व्याख्या- येतेति! उच्यते। सुषुत्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिटत्तिदर्शनात् स- मभवति प्राणस्थापि यत्र नान्यत् पश्यतीत्या- दि तल्लक्षणम्। तथा च श्रुतिः"न शृणोति न प- श्यति" इत्यादिना सर्वकरणव्यापारप्रत्यस्त- मयरूपां सुषुध्यवस्थामुक्ता*प्राणाग्नय एवैत- स्मिन् पुरे जाग्रति" इति तस्यामेवावस्थायां प- झवृत्तेः प्राणस्य जागरणं ब्रुवती प्राणप्रधानां सुषुध्यवस्थां दर्शयति। यच्चैतद्ूम्नः सुखत्वं श्रुतं "यो वै भूमा तत् सुखम्" इति तदप्यविरुद्धम्, "यत्रैष देवः स्वनान्न पश्यत्यथ यदेतस्मितश्छ- रीरे सुखं भवति" इति सुषुत्यवस्थायामेव सु- खश्रवणात्। यञ्च "यो वै भूमा तदमृतम" इति, तदपि प्राणस्याविरुद्स्, "प्राणो वा अमृतम्" इतिश्रुतेः। कथं पुनः प्राणं भूमानं मन्यमानस्य "तरति शोकमात्मवित्" इत्यात्मविविदिषया प्रकरणस्योत्थानं उपपद्यते, प्राण एवेहात्मा वि- वनीयः प्राणः" इति श्रुतेः- प्राणा अग्नय इह पुरे शरीरे जाग्रति स- व्यापारा एव तिष्ठन्तीत्यर्थः । देवो जीवः, अथ तदा स्वप्नदर्शनकाले सुखश्रवणात् प्राणस्य सुखत्वमविरुद्धमित्यन्वयः। आत्मपदेनोपक्रम- विरोधं परिहरति ॥प्राण एवेति। प्राणस्यात्मत्वं कथमित्याशङ्ग् श्रृ- ३९
Page 305
(३०६) रत्नप्रभाभासिते [अ० १।पा०३। वक्षित इति ब्रूमः। तथा हि "प्राणो ह पिता प्रा णो माता प्राणो धाता प्राणः सवसा प्राण आ- चार्य: प्राणो ब्राह्मणः इति प्राणमेव सर्वात्मा- नं करोति।"यथा वा अरा नाभौ समर्पिता एव- मस्मिन् प्राणे सर्व समर्पितम्" इति च सर्वा- त्मत्वारनाक्षिनिदर्शनाभ्यां च सम्भवति वैपुल्या त्मिका भूमरूपता प्राणस्य। तस्मात् प्राणो भू- मेत्येवं प्राप्तम्। तत इदमुच्यते। परमात्मैवेह भू- माअवितुमहति, न प्राणः। कस्मात्! सम्प्रसा- दादव्युपदेशात्। सम्प्रसाद इति सुषुत्तं स्था- नमुच्यते सम्यक् प्रसीदत्यस्मिन्निति निर्वचना- त्। बहदारण्यके च स्वनजागरितस्थानाभ्यां सह पाठात्, तस्यां च सम्प्रसादावस्थायां प्राणो जागतीति प्राणोऽत्र सम्प्रसादोऽभिप्नेयते प्रा-
तत्वादित्याह॥तथा हीति॥ सर्व समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुतिरित्यन्वयः । अत आत्मत्वं प्राणेऽपि मुख्यमिति भा- वः। भूमरूपत्वं योजयति॥सर्वात्मत्वेति॥ सम्प्रसादशव्देन प्राणं ल- क्षयितुं मुख्यार्थ दर्शयति।सम्प्रसाद इति॥"सवा एष एतस्मिन् सम्प्र- सादे स्थित्वा पुनराद्रवती" ति प्रयोगाच्च। ततू पदं सुषुप्तिवाचकमित्याह । बृहदिति। वाच्यार्थ सम्बन्धात् प्राणो लक्ष्य इत्याह ॥तस्यां चेति॥ अन्र सूत्र इत्यर्थः । भूमा प्राणा्मिन्नः अन्राध्याये तस्मादूर्ध्वमुपदि- १ संप्रसादपदम्।
Page 306
सू०८। अ०२1 ] शाङ्करब्ह्मसूत्रभाष्ये (३८७ ) णादूर्ध्व भूम्न उपदिश्यमानत्वादित्यर्थःप्राण एव चेद्गूमा स्यात् स एव तस्मादूर्ध्वमुपदिश्येतत्य- श्िष्टमेतत् स्यात्। न हि नामैव नाम्न्नो भूय इति नाम्न ऊर्ध्वमुपदिष्टम्। किं तार्हे? नाम्नोऽन्यद- र्थान्तरमुपदिष्टं, वागाख्यं वाग्वाव नाम्नो भूय- सीति, तथा वागादिभ्योऽप्याप्राणादर्थान्तरमेव तत्रतत्रोर्ध्वमुपदिष्टं, तद्दत् प्राणादूर्ध्वमुपदिश्यमा- नो भूमा प्राणादर्थान्तरभूतो भवितुमईति । नन्विहनास्ति प्रश्नः, "अस्ति भगवः प्राणाड्ू- यः"इति, नापि प्रतिवचनमस्ति"प्राणाददो वा- व भूयोऽस्ती'ति। कथं प्राणादधिभूमोपदिश्य- ते इत्युच्यते प्राणविषयमेव चातिवादित्वमुत्तर- त्रानुकृष्यमाणं पश्यामः।"एष तुवा अतिव- दति यःसत्येनातिवदतिइति,तस्मान्नास्ति प्रा- णादध्युपदेश इति। अत्रोच्यते। न तावत् प्रा- ष्ठत्वान्नामादेरूर्ध्वमुपदिष्टवागादिवदित्यर्थः। विपक्षे हेतूच्छेदं बाधक- माह॥ प्राण एव चेदिति । स्वस्यैव स्वस्मादूर्ध्वसुपदिष्टत्वमयुक्तं नामादिषु अदृष्टं चेत्यर्थः । हेत्वसिद्धिं शङ्कते॥नन्विहेति॥ प्रकतपा- णवित् परामर्शक एषशब्दो न भवति तस्य यच्छब्दपरतन्त्रत्वेन स- त्यादिवादिवाचित्वात् । अतः प्राणप्रकरणं विच्छिन्नमिति हेतुसि- द्विरित्याह ।। अत्रोच्यत इति ॥ सत्येनातिवादित्वं विशेष: तद्दतो य एष इत्युक्तेर्न पूर्वानुकर्ष इत्यर्थ: । य एष प्राणविदतिवदति इत्यनू-
Page 307
(३०६) रत्नप्रभाभासिते [अ० १।पा. ३१
क्यं वक्तु विशेषवादाद्यः सत्येनातिवदतीति। ननु विशेषवादोऽव्ययं प्राणविषय एव भविष्य- ति। कथ! यथैषोऽगिहोत्रीयः सत्यं वदतीत्युक्ते न सत्यवदनेनाग्निहोत्रिव्वं, केन तर्हि, अग्निहोत्रे- णैव, सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते, तथै- षतुवाअतिवदतियः सत्येनातिवदतीत्युक्तेनस- त्यवदनेनातिवादितवं, केन तर्हि, प्रकृतेन प्राण- विज्ञानेनैव, सत्यवदनं तु प्राणविदो विशेषो वि- वक्ष्यत इति, नेति ब्रूमः, श्रुत्यर्थपरित्यागप्रसङ्गा- त्,श्रुत्या त्यन्न सत्यवदनेनातिवादित्वं प्रतीयते यः सत्येनातिवदति सोऽतिवदतीति। नात्र प्रा- णविज्ञानस्य सद्कीर्तनमस्ति।प्रकरणात् तुप्राण- विज्ञानसम्बद्येत।तत्र प्रकरणानुरोधेनश्रुतिःपरि- त्यक्ता स्यात्। प्रकृतव्यावृत्यर्थश् तुशब्दोनस- द स सत्यं वदेदिति विधानान्न प्राणप्रकरणविच्छेद: इति दृष्टान्तेन शङ्कते॥ नन्विति॥ सत्यशव्दो हवाधिते रूढो ब्रह्मवाचक:, तद- न्यस्य मिथ्यात्वात्। सत्यवचने त्ववाधितार्थसम्बन्धाल्लाक्षणिक इति नान्न लक्ष्यवचनविधिरित्याह॥ नेति ब्रूम इति। कि च सत्येन ब्रह्म- णातिवद्तीति तृतीयाश्रुत्या ब्रह्मकरणकमतिवादित्वं श्रुतं, तस्य प्रकरणाद् बाधो न युक्त इत्याह ॥ श्रुत्या हीत्यादिना॥ नात्रेति । सत्यवाक्ये इत्यर्थः । एवं सत्येनेतिश्रुत्या प्रकरणं बाध्यमित्युत्का
Page 308
सू० ८। अ०२] शाङ्करब्रह्मसूत्रभाष्ये (३०९) दरच्छेत। एष तुवा अतिवदतीति। सत्यं त्वेव वि- जिज्ञासितव्यमिति चप्रयत्नान्तरकरणमर्थान्तर- विवक्षां सचयति। तस्माद्यथैकवेदप्रशंसायां प्र- कृतायामेष तु महाब्राह्मणो यश्चतुरो वेदानधीत इत्येकवेदेभ्योऽर्थान्तरभूतश्र्वतुर्वेद: प्रशस्यते ता- दगेतद् द्रष्टव्यम्।न च प्रश्नप्रतिवचनरूपयैवा- र्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति, प्रकृतसम्बन्धासम्भवकारितत्वादर्थान्तरविव- क्षायाः।तत्र प्राणान्तमनुशासनं श्रुत्वा तृष्णीं- भूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति। यत् प्राणविज्ञानेन विकारानृतविषयेणातिवा- दिव्वमनतिवादित्वमेव तदेष तु वा अतिवदति यः सत्येनातिवदतीति। तन्र सत्यमिति परं ब्र- तुशब्देनापि तद्वाध्यमाह॥ प्रकृतेति॥ विजिज्ञास्यत्वलिङ्गाञ्च पू- र्वोक्ताद्भिन्नमित्याह ।I सत्यं त्वेवेति ।। प्रकरणविच्छेदे दृष्टान्तमा- ह॥ तस्मादिति॥ श्रुतिलिङ्गबलादेतत् सत्यं प्रकतात् प्राणात् प्रा- धान्येन भिन्नं द्रष्टव्यमित्यर्थः। एवमतिवादित्वस्य ब्रह्मसम्बन्धोक्त्या प्राणलिङ्गत्वं निरस्तम। यत्तु प्रश्नं विनोक्तत्वलिङ्गाद् भूमा प्राण इति तन्न, तस्याप्रयोजकत्वादित्याह॥ न चेति ॥ प्रश्नभेदादर्थभेद इति न नियम:, एकस्यात्मनो मैत्रेय्या बहुशः पृष्टत्वात् प्रश्नं विनोक्तचा- तुर्वेदस्य प्ररतैकवेदाद्िन्नत्वदर्शनाच्चेत्यर्थः। तत्र यथा चतुर्वेदत्वस्य प्रकतासम्बन्धादर्थभेद:, एवमिहापीति स्फुठयति॥ तत्रेत्यादिना॥ सत्यपदेन प्राणोक्तिरित्यत आह॥ तत्र सत्यमिति ॥ विज्ञानं नि-
Page 309
(३१s) रत्नप्रभाभासिते [अ०१।पा० ३। ह्मोच्यते परमार्थरूपत्वात् "सत्यं ज्ञानमनन्तं ब्रह्म" इति च श्रुत्यन्तरात्। तथा व्युत्पादिताय नारदाय "सोऽहं भगवः सत्येनातिवदानि"इ- त्येवं प्रवत्ताय विज्ञानादिसाधनपरम्परया भू- मानमुपदिशति। तत्र यत् प्राणादधिसत्यं वक्त- व्यं प्रतिज्ञातं तदेवेह भूमेत्युच्यत इति गम्यते। तस्मादस्ति प्राणादधिभूम्न उपदेश इत्यतः प्रा- णादन्यः परमात्मा भूमा अवितुमर्हति। एवं चे- हात्मविविदिषया प्रकरणस्योत्थानमुपपत्नं भ- विष्यति।प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते। न हि प्राणस्य मुख्यया वत्त्याऽड- त्मत्वमस्ति। न चान्यत्रपर मात्मज्ञानाच्छोकवि- निवृत्तिरस्ति, "नान्यः पन्था विद्यतेऽयनाय"
गृहन्ते । इमान्यपि श्रवणादीनि ज्ञेयस्य सत्यस्य ब्रह्मत्वे लिङ्गानि- । एवं श्रुतिलिङै: प्राणस्यावान्तरप्रकरणं बावित्वा प्रस्तुतं सत्यं ब्रह्म भूमपदोक्तबहुत्वधर्मीत्याह॥तत्र यदिति॥ किश्च सन्निहितादपि व्य- वहितं साकाङूं- बलीय इति न्यायेन सन्निहितं निराकाङ्कं प्राणं दृष्टा वाक्योपक्रमस्थ आत्मा स्वप्रतिपादनाय भूमवाक्यापेक्ष इह भूमा याह्य इत्याह॥ एवं चेति॥ किं च "शोकस्य परं पार"मित्युपक्रम्य त- मसः पारमित्युपसंहारात् शोकस्य मूलोच्छेदं विना तरणायोगाच्च। शो- कपदेन मूलतमो गृह्यते तन्निवर्तकज्ञानगम्यत्वलिङ्गात्, आत्मा ब्रह्मे- त्याह॥न चान्यत्रेति ॥ब्राह्मणमात्मायत्ततवं प्राणस्य वदतीति सम्ब-
Page 310
सू . ९।अ० १।] (३११) इति श्रुत्यन्तरात्। "तं मां भगवान् शोकस्य परं पारं तारयतु" इति चोपक्रम्योपसंहरति "तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः" इति।तम इति शोकादिकारणम- विद्योच्यते।प्राणान्ते चानुशासने न प्राणस्या- न्यायत्ततोच्येत। आत्मनः प्राण इति च ब्राह्म- णम्। प्रकरणान्ते च परमात्मविवक्षा भविष्य- ति, भूमा तु प्राण एवेति चेन्न।"स भगवः क- स्मिन् प्रतिष्ठित इति स्वे महिम्नि" इत्यादिना भूम्न एवाप्रकरणसमाप्ेरनुकर्षात्। वैपुल्या- त्मिका च भूमरूपता सर्वकारणत्वात् परमात्मनः सुतरामुपपद्यते॥८॥ धर्मोपपत्तेश्र॥९॥ अपि च ये भूम्नि श्रूयन्ते धर्मास्ते परमात्म- न्युपपद्यन्ते। यत्र "नान्यत् पश्यतिनान्यच्छृणो- ति नान्यद्विजानाति स भूमेतिदर्शनादिव्यवहा- राभावं भूमन्यवगमयति परमात्मनि चायं द- न्धः। नन्विदं चरमं ब्राह्मणं ब्रह्मपरमस्तु ततः प्रागुक्तो भूमा प्राण इ- ति शङ्कते ॥ प्रकरणान्त इति ॥ तच्छब्देन भूमानुकर्षात् मैवमि- त्याह॥ नेति ॥ ८॥ भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह ॥ धर्मेति सूत्रम्॥ यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदन्य
Page 311
(३१२) रत्नप्रभाभासिते [अ० १। पा० ३। र्शनादिव्यवहाराभावोऽवगतः," यत्र व्वस्य सर्व- मात्मैवाभूत्तत् केन कं पश्येदि"ति श्रुव्यन्तरात्। योऽप्यसौ सुपुध्यवस्थायां दर्शनादिव्यवहारा- भाव उक्तः सोऽप्यात्मन एवासङ्गत्वविवक्षया उक्त्ो न प्राणस्वभावविवक्षया, परमात्मप्रकर- णात्। यदपि तस्यामवस्थायां सुखमुक्तं तद- प्यात्मन एव सुखरू पत्वविवक्षयोक्तमू। यत आ- ह"एषोऽस्य परम आनन्द एतस्यैवानन्दस्या- न्यानि भूतानि मात्रामुपजीवन्ती"ति। इहापि "योवै भूमा तत् सुखं नाल्पे सुखमस्ति भूमैव सु- ख"मिति सामयसुखनिराकरणेन ब्रह्मैव सुखं भू- मानं दर्शयति।"यो वै भूमा तदमृत"मिति अ- मृतव्वमपीह श्रूयमाणं परमकारणं गमयति, विकाराणाममतत्वस्य आपेक्षिकत्वात्, "अतो- विघटयति ॥ योऽ्यसावित्याढिना ॥ सति बुद्ध्यादयुपाधावात्म- नो द्रष्टृत्वादिस्तंदभावे सुषुप्तौ तर्दभाव इत्यसङ्गत्वज्ञानार्थ प्रश्नोपनि- षदि न शृणोति न पश्यतीति परमात्मानं प्रकृत्योक्तम्। तथा तत्रै- वात्मनः सुखत्वमुक्तं न प्राणस्य। यतः श्रुत्यन्तरम् आत्मन एव सु- खत्वमाह तस्मादित्यर्थः । आमयो नाशादिदोषः तत् सहितं सामयम् आत नश्वरम्।स एवाधस्तात् स उपरिष्ठादिति सर्वगतत्वं, स एवेदं सर्वमिति सर्वात्मत्वं च श्रुतं, तस्माहूमाध्यायो निर्गुणे समन्वित इति सिद्धम् ।। 3॥
Page 312
सू०१०/ अ०३] (३१३): ऽन्यदार्त"मिति च श्रुत्यन्तरात्। तथा च सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्व- मिति चैते धर्मा: श्रूयमाणा: परमात्मन्येवोप- पद्यन्ते नान्यत्र तस्माडूमा परमात्मेति सिद्धम्॥९॥ अक्षरमम्बरान्तधृतेः॥१०॥ "कस्मिन्रु खल्वाकाश ओतश्र प्रोतश्र्ेति स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिव- दन्त्यस्थूलमनण्वि" त्यादि श्रूयते। तत्र संश- यः किमक्षरशब्देन वर्ण उच्यते किंवा पर ए- वेश्वर इति। तत्राक्षरसमान्नाय इत्यादावक्षर- शब्दस्य वर्णे प्रसिद्धत्वात् प्रसिद्धव्यतिक्रमस्य ॥ अक्षरमम्वरान्तधृतेः। बृहदारण्यकं पठति ॥ कस्मिन्निति॥ यद्हूतं भवच्च भविष्यच्च तत्सर्व कमिन्नोतमिति गार्ग्या पृष्ठेन मुनिना याजवल्क्येनाव्याकताकाश: कार्यमात्राश्रय उक्तः। आकाशः कस्मि- लोत इति द्वितीयप्रश्नेस मुनिरुवाच। तत् अव्याकृतस्याधिकरण- मेतदक्षरम् अस्थूलादिरूपमित्यर्थः । उभयत्राक्षरशब्दप्रयोगात् संश- यः। यथा सत्यशब्दो ब्रह्मणि रूढ इति ब्रह्म भूमेत्युक्तं तथाक्षरशब्दो वर्णे रूढ इति दष्ठान्तेन पूर्वपक्ष:, तैत्रोङ्कारोपास्तिः फलम्। सिद्धान्ते निर्गुणव्रह्मधीरिति विवेकः। ननु न क्षरतीत्यचलत्वानाशित्वयागाद् ब्र- ह्मण्यप्यक्षरशव्दो मुख्य इत्यत आह ॥ प्रसिद्धिव्यतिक्रमस्येति॥ रूर्ढिर्योगमपहरतीति न्यायादित्यर्थः । वर्णस्योङ्कारस्य सर्वाश्रयत्वं क- १ वर्णे परमात्मनि चेत्यर्थः।२ पूर्वपक्षे। ४०
Page 313
(३१४) रत्नप्नभाभासिते [अ० १। पा० ३। चायुक्तत्वात्, औँकार एवेदं सर्वमित्यादौ च श्रु- त्यन्तरे वर्णस्याप्युपास्यव्वेन सर्वात्मकत्वाव- धारणात् वर्ण एवाक्षरशब्द इति, एवं प्राप्ते उ- च्यते। पर एवात्माक्षरशब्दवाच्यः, कस्मादम्ब- रान्तधृतेः पृथिव्यादेराकाशान्तस्य विकारजा- तस्य धारणात्। तत्र हि पृथिव्यादेः समस्त- स्य विकारजातस्य कालत्रयविभक्तस्याकाश एव तदोतं च प्रोतं चेत्याकाशे प्रतिष्ठितत्वमुक्का कस्मिन्नु खल्वाकाश ओतश्ष प्रोतश्चेत्यनेन प्र- श्रेनेदमक्षरमवतारितं, तथा चोपसंहृतमेतस्मि- न्नु खल्वक्षरे गार्ग्याकाश ओतश्र प्रोतश्र्वेति। न चेयमम्बरान्तधृतिर्व्रह्मणोऽन्यत्र सम्भवति। यदप्योद्कार एवेदं सर्वमिति तदपि ब्रह्मप्रतिप- त्तिसाधनत्वात् स्तुत्यर्थ द्रष्टव्यम्। तस्मान्न क्ष- रत्यश्रुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं पर- मेव ब्रह्म॥ १०॥ स्यादेतत् कार्यस्य चेत् का- रणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते प्रधान- कारणवादिनोऽपीयमुपपद्यते कथं अम्बरान्तधृ- थमित्याशङ्कच ध्यानार्थामदं यथा श्रुत्यन्तरे सर्वात्मत्वमित्याह॥ॐ कारइति॥प्रश्नप्रतिवचनाभ्यां आकाशान्तजगढ़ाधारत्वे तात्पर्यनि- श्रवयान्न ध्यानार्थता, अतसतल्लिङ्गबलाद्रूढिं बाधित्वा योगवृत्तिर्याह्मेति सिद्धान्तयति ॥ एवमित्यादिना॥ १०॥ अकाशं भूतं कृत्वा शङ्कते।
Page 314
सू०१२।अ०३] शाङ्करब्रह्मसूत्रभाष्ये (३१५) तेर्बह्मत्वप्रतिपत्तिरिति, अत उत्तरं पठति॥ साचप्रशासनात् ॥११॥ सा चाम्बरान्तधृतिः परमेश्वरस्यैव कर्म, कस्मात्! प्रशासनात्। प्रशासनं हीह श्रूयते "एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रम- सौ विधृतौ तिष्ठत" इत्यादि। प्रशासनं च पा- रमेश्वरं कर्म नाचेतनस्य प्रशासनं सम्भवति। न ह्यचेतनानां घटादिकारणानां मृदादीनां घ- टादिविषयं प्रशासनमस्ति॥१9॥ अन्यभावव्यावृत्तेश्र ॥१२। अन्यभावव्यावत्तेश्र कारणात् ब्रह्मैवाक्षर- शब्दवाच्यं, तस्यैवाम्बरान्तधृतिः कर्म नान्यस्य कस्य चित्। किमिदमन्यभावव्याटतेरिति। अ- न्यस्य भावोऽन्यभावस्तस्माद्यावत्तिरन्यभाव- स्यादेतदिति। चेतनकर्तृकशिक्षाया अत्र श्रुतेमैंवमित्याह॥ सा चे- ति। सूत्रं व्याचष्टे॥ सा चेति। चकार आकाशस्य भूतत्व- निरासार्थः । भूताकाशस्य कार्यान्तःपातिना श्रुतसर्वकार्याश्रयत्वा- योगात् अव्याकतमज्ञानमेवाकाश: प्रधानशब्दित इति तदाश्रयत्वा- च्चाक्षरं न प्रधानमित्यर्थः । विधृतौ विषयत्वेन वृतौ ॥ ११ ॥ प्रश्नपूर्वकं सूत्रं व्याकरोति॥ किमिदमिति॥ घटत्वात् व्या- वृत्तिरिति भ्रान्तिं निरस्यति।एतदिति॥ अम्बरान्तस्याधारमक्षरं श्रु-
Page 315
(३१६) रत्नप्रभाभासिते [अ० १।पा० ३। व्यावत्तिरिति। एतदुक्तं भवति यदन्यद्रह्मणोऽ- क्षरशब्दवाच्यमिहाशङ्यते तद्रावादिदमम्बरा- न्तविधारणमक्षरंव्यावर्तयति श्रुतिः,"तद्दा एत- दक्षरं गार्ग्यदष्टं द्रष्ट अश्रुतं श्रोत अमतं मन्त अविज्ञातं विज्ञात्रि" ति।तत्रादष्ठत्वादिव्यपदेशः प्रधानस्थापि सम्भवति, द्रष्टत्वादिव्यपदेशस्तु न तस्य सम्भवत्यचेतनत्वात्, तथा"नान्यदतो डस्ति द्रष्ट नान्यदतोऽस्ति श्रोत नान्यदतवोऽ- स्ति मन्त नान्यदतोऽस्ति विज्ञात्रि"्याल्म9नेद- प्रतिषेधात् न शारीरस्याप्युपाधिमतोडक्षरशब्सद-
पाधिमत्ताप्रतिषेधात्। न हि निरुपाधिकः शा।- रीरो नाम भवति। तस्मात् परमेव ब्रह्माक्षरमि- ति निश्चयः॥१२॥। ईक्षतिकर्मव्यपदेशात् सः॥१३॥ "एतह्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्ग- तिरचेतनत्वाव्यावर्तयतीत्यर्थः। जीवनिरासपरत्वेनापि सूत्रं योजय- ति। तथेति॥अन्यभावो भेद: तन्निषेधादिति सूत्रार्थः। तर्हिं शो- धितो जीव एवाक्षर न पर इत्यत आह ।। न हीति॥ शोघिते जी- वत्वं नास्तीत्यर्थः । तस्मादवार्गिव्राह्मणं निर्गुणाक्षरे समन्वितमिति सिद्धम् ॥ १२॥ १ गारगीशव्दस्य 'उन्चापो:संज्ञाछन्दसार्वहुलमि' ति व्हस्त्रो बध्य।
Page 316
सु०१३। अ०४] शाङ्करब्रह्मसूत्रभाष्ये (३१७)
प्रकृत्य श्रूयते "यः पुनरेतं त्रिमात्रेणोमित्येतेनै- वाक्षरेण परं पुरुषमिध्यायीते" ति।किमस्मि- न् वाक्ये परं ब्रह्माशिध्यातव्यमुपदिश्यते आ- होस्विदपरमि "त्येतेनैवायतनेन परमपरं चैक- तरमन्वेती" ति प्रकृतत्वात् संशयः। तत्रापरमि- ईक्षतिकर्मव्यपदेशात् सः॥ प्रश्नोपनिषदमुदाहरति ॥एतदि- ति। पिप्पलादो गुरुः सत्यकामेन पृष्टो ब्रूते, हे सत्यकाम परं निर्गुणम- परं सगुणं त्वब्रह्मैतदेव योऽयमोङ्करः, सहि प्रतिमेव विष्णोस्तस्य प्रतीकस्तस्मात् प्रणवं ब्रह्मात्मना विद्यानेतेनैवोङ्गारध्यानेनायतनेन प्राप्तिसाधनेन यथाध्यानं परमपरं चान्वेति प्राप्तोतीति प्ररुत्य मध्ये- एकमात्रद्विमात्रोङ्कारयोध्यानमुत्का व्रवीति॥ यः पुनरिति॥ इत्य- मभावे तृतीया ब्रह्मोङ्गरयारेभेदोपकमात्। यो हकारादिमात्रात्र- ये एकस्या मात्राया अकारस्य ऋष्यादिकं जाग्रदादिविभूति च जा- नाति तेन सम्यक ज्ञाता एकमात्रा यस्योङ्करस्य स एकमात्र: । एवं मात्राद्ययस्य सम्यग्विभूतिज्ञाने दिमात्रस्तथा त्रिमात्र:। तमोडकरं पु- रुषं योऽभिध्यायीत स ॐकारविभूतित्वेन ध्यातैः सामभि: सूर्यद्वारा ब्रह्मलोकं गत्वा परमात्मानं पुरुषं ईक्षत इत्यर्थः। संशयं तद्दीजं चा- ह॥। किमित्यादिना । अस्मिन् त्रिमात्रवाक्य इत्यर्थः। पूर्वत्र पू- र्वपक्षत्वेनोक्त अँकारे बुद्धिस्थं ध्यातव्यं निश्वीयत इति प्रसङ्गसङ्ग- तिः। यद्ा पूर्वत्र वर्णे रूढस्याक्षरशव्दस्य लिङ्गात् ब्रह्मणि वृत्तिरुक्त्ा तहदत्रापि ब्रह्मलोकप्राप्तिलिङ्गात् परशब्दस्य हिरण्यगर्भे वृत्तिरिति १. त्रिमान्नेणेतितृतीया । २ प्रभोपनिवदि पंचमप्रभ्नएतहै तसत्यकामपरंचापरं च- ब्रह्मपदोंकार इत्येवॅमभेदोपक्रम इति ध्येयम्।
Page 317
(११८) रत्नप्रभाभासिते [अ० १। पा० ३ दं ब्रह्मेति प्राप्तं, कस्मात्!"स तेजसि सूर्ये स- म्पन्नः, स सामभिरुन्नीयते ब्रह्मलोक" मिति च तद्विदो देशपरिच्छिन्नस्य फलस्योच्यमानत्वात्। न हि परव्रह्मविद्देशपरिच्छिन्नं फलमश्नुवीतेति युक्तं, सर्वगतत्वात् परस्य ब्रह्मणः।नन्वपरब्रह्म- परिग्रहे परं पुरुषमिति विशेषणं नोपपद्यते, नै- ष दोष:, पिण्डापेक्षया प्राणस्य परव्वोपपत्तेः, इत्येवं प्राप्तेऽभ्षिधीयते। परमेव ब्रह्मेहाभिध्या- तव्यमुपदिश्यते, कस्मात् ! 'ईक्षतिकर्मव्यपदेशा- तू'। ईक्षतिर्दर्शनं दर्शनव्याप्यमीक्षतिकर्म, ईक्ष- तिकर्मव्वेनास्याशिध्यातव्यस्य पुरुषस्य वा- दृष्टान्तेन पूर्वपक्षयति। तत्रापरमिति। कार्यपरव्रह्मणोरुपास्तिरुभ- यत्र फलम्। स उपासकः। सूर्य सम्पन्नः प्रविष्टः। ननु वसुदान ई- श्वर इति ध्यानात् विन्दते वस्वित्वल्पमपि फलं व्रह्मोपासकस्य श्रु- तमित्यत आह॥ नहीति ॥ अन्यत्र तथात्वेऽपि अत्र परवित् पर- मपरविदपरमन्वेतीत्युपक्रमातू परविदोऽपरप्राप्तिरयुक्ता उपक्रमवि- रोधात्। न चात्र परप्राप्तिरेवोक्तेति वाच्यं, परस्य सर्वगतत्वात्। अत्रैव प्राप्तिसम्भवेन सूर्यद्वारा गतिवैयर्थ्यात् । तस्मात् उपक्मानु- गृहीतादपरप्राप्तिरूपाल्लिङ्गातू परं पुरुषमिति परश्रुतिर्बाध्येत्यर्थः परश्रुतेर्गतिं पृच्छति॥ नन्विति ॥ पिण्डः स्थूलो विराठ् तदपेक्षया सूत्रस्य परत्वमिति समाध्यर्थः सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञा- तत्वेन तं व्याचष्टे ।। परमेवेति ॥ स उपासक एतस्माद्विरण्यग- १ कार्यब्रह्मणो हिरण्यगर्भस्योपास्तिः पूर्वपक्षे फलं परत्रह्मण उपास्तिः सिद्धान्ते फर- लमितिविवेकः ।
Page 318
सू० १३।अ०४।] शाङ्करब्रह्मसूत्रभाष्ये (३१९) क्यशेषे व्यपदेशो भवति, "स एतस्माजीवघ- नात् परात् परं पुरुषं पुरिशयं ईक्षत" इति।त- त्राभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति मनोरथकल्पितस्यापि अभ्िध्यायतिकर्मत्वात्। ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दष्टमि- त्यतः परमात्मैवायं सम्यग्दर्शनविषयभूत ईक्ष- तिकर्मत्वेन व्यपदिष्ट इति गम्यते।स एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञाय- ते। नन्वभिध्याने पर पुरुष उक्त ईक्षणे तु परा- त्पर: कथमितर इतरत्र प्रत्यभिज्ञायते इति, अ- त्रोच्यते। परपुरुषशब्दौ तावदुभयत्र साधारणौ। न चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः र्भातू परं पुरुषं ब्रह्माहमितीक्षत इत्यर्थः। नन्वीक्षणविषयोऽप्य- परोडस्तु तत्राह । तत्राभिध्यायतेरिति॥ नन्वीक्षणं प्रमात्वादि- षयसत्यतामपेक्षत इति भवनु सत्यः पर ईक्षणीयः, ध्यातव्यसत्वस- त्योऽपरः किं न स्यादित्यत आह ॥ स एवेति॥ श्रुतिभ्यां प्रत्यभि- ज्ञानात् सएवायमिति सौत्रः सशब्दो व्याख्यातः। अत्रैवं सूत्रयोजना, ॐकारे यो ध्येयः स पर एवात्मा वाक्यशेषे ईक्षणीयत्वोक्तेः, अत्र च श्रुतिप्रत्याभज्ञानात् स एवायमिति । ननु शब्दभेदात् न प्रत्यभिज्ञेति शङकते॥ न न्विति॥ परातू पर इति शब्दभेदं अङ्गीकत्य श्रुति- भ्यामुक्तपत्यभिज्ञाया अविरोधमाह ॥ अत्रेति ॥ नन्वेतस्माजी-
ध्येयादन्य इत्यत आह॥ न चात्रेति॥ध्यानस्य तत्फलेक्षणस्य चलो-
Page 319
(३२०) रत्नप्रभाभासिते [अ० १। पा०३। पर: पुरुषः परामृश्यते येन तस्मात् परात्परोऽ यमीक्षितव्यः पुरुषोऽन्यः स्यात्। कस्तर्हि, जीवघन इत्युच्यते घना मूर्तिर्जीवलक्षणो घ- नो जीवघनः सैन्धवखिल्यवत् यः परमात्मनो जीवरूपः खिल्यभ्ाव उपाधिकृतः परश्च विष- येन्द्रियेभ्यः सोऽन्र जीवघन इति। अपर आह "स सामभिरुन्नीयते ब्रह्मलोकमि"ति अतीता- नन्तरवाक्यनिर्दिष्ठो यो ब्रह्मलोक: परश्र लोका- न्तरेभ्यः सोऽन्र जीवघन इत्युच्यते। जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिर- ण्यगर्भे व्रह्मलोकनिवासिनि सङ्घातोपपत्तेर्भ- वति ब्रह्मलोको जीवघनः, तस्मात् परो यः पर- मात्मेक्षणकर्मभूतः स एवाशिध्यानेऽपि कर्मभ्ू- के समानविषयत्वाद्धचेय एवेक्षणीयः। एवं चोपक्रमोपसंहारयोरेंकवा- क्यता भवतीति भावः। "स सामभिरुन्नीयते ब्रल्मलोकं सएतर्माज्जी- वघनादित्येतत्पदेन सन्निहिततरो ब्रह्मलोकस्वामी परामृश्यत इति प्र- श्र पूर्वकं व्याचष्टे।। कस्तर्हीत्यादिना ॥ 'मूर्तौ घनः' (३।३।७७) इति सूत्रादिति भावः । सैन्धवखिल्यो लवणपिण्डः खिल्यवदल्पो भावः परिच्छेदो यस्य स खिल्यभावः। एतत्पदेन व्रह्मलोको वा परा- मृश्यते इत्याह ॥ अपर इति ॥ जीवघनशव्दस्य ब्रह्मलोके लक्षणां दर्शयति। जीवानां हीति ॥ व्यष्टिकरणाभिमानिनां जीवानां घनः सङ्घातो यस्मिन् सर्वकरणाभिमानिनि सजीवधनः तत्स्वामिक- त्वातू परम्परासम्बन्धेन लोको लक्ष्य इत्यर्थः । तस्मात् परः सर्वलो-
Page 320
सू०१३। अ० ४] शाङ्करब्रह्मसूत्रभाष्ये (१२१) त इति गम्यते। परं पुरुषमिति च विशेषणं पर- मात्मपरिग्रह एवावकल्पते। परो हि पुरुषः पर- मात्मैव भवति यस्मात् परं किंचिदन्यन्नास्ति, "पुरुषान्न परं किञ्चित् सा काष्ठा सा परागति- रि"ति च श्रुव्यन्तरात्। परं चापरें च ब्रह्म य- दोड्ार इति च विभज्यान्तरमोङ्गरेण परं पुरुष- मश्िध्यातव्यं ब्रुवन् परमेव ब्रह्म परं पुरुष ग- मयति। "यथा पादोदरस्तचा विनिर्मुच्यते एवं ह वै सपाप्मना विनिर्मुक्त' इति पाप्मविनिर्मो- कफलवचनं परमात्मानमिहाभ्िध्यातव्यं सूचय- ति। अत्र यदुक्तं परमात्माभिध्यायिनो न देश- परिच्छिन्नं फलं युज्यत इति, अत्रोच्यते। त्रिमा- त्रेणोड़ारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्ति: क्रमेण च सम्यम्दर्शनोत्प- कातीतः शुद्ध इत्यर्थः। परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह ॥ परमिति॥ यस्मात् परं नापरमस्ति किंचित् स एव मुख्यः परः न तु पिण्डातू परः सूत्रात्मेत्यर्थः । किंच परशब्देनो- पक्रमे निश्चितं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यमित्याह॥।परं चापरं चेति।। पापनिवृत्तिलिङ्गाच्चेत्याह ॥ यथेति ॥ पादोदरः सर्पः । ॐकारे पर- ब्रह्मोपासनया सूर्यद्वारा ब्रह्मलोकं गत्वा परब्रल्मेक्षित्वा तदेव शा- न्तमभयं प्राप्नोतीत्यविरोधमाह ॥ अत्रोच्यत इति ॥ एवमेकवाक्य- तासमर्थनप्रकरणानुगृहीतपरपुरुषश्रुतिभ्यां परब्रह्मप्रत्यभभज्ञया ब्रह्म-
Page 321
(३२२) रतप्रभाभासिते [अ०१।पा०३। त्तिरिति क्रममुत्त्यभिप्रायमेतद्रविष्यतीत्यदोप:१३ दहर उत्तरेश्यः॥१४॥ "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरी- कं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन यद- न्तस्तदन्वेष्ठव्यं, तद्दाव विजिज्ञासितव्यम्"इ त्यादि वाक्यं समास्नायते। तत्र योऽयं दहरे ह- दयपुण्डरीके दहर आकाशः श्रुतः स किम्भूता- काशोऽथ विज्ञानात्माथ वा परमात्मेति संश- य्यते। कुतः संशयः, आकाशब्रह्मपुरशब्दाभ्या- म्, आकाशशब्दो त्ययं भूताकाशे परस्मिञश्ष् ब्रह्मणि प्रयुज्यमानो दृश्यते। तत्र किम्भूताका- श एव दहरः स्यात् किंवा पर इति संशयः।त- था ब्रह्मपुरमिति किं जीवोऽत्र ब्रह्मनामा तस्येदं लोकप्रातिलिङ्गं वाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमि- ति सिद्दम् ॥ १३ ॥ ॥ दहर उत्तरेम्यः। छान्दोग्यमुदाहरति ॥ अथेति ॥ भूमविद्या-
ब्रह्मपुरं शरीरं अस्मिन् यत् प्रसिद्धं दहरमल्पं हृत्पझ्मं तस्मिन् हृद- ये यदन्तराकाशशव्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः। अ- त्राकाशो जिज्ञास्यस्तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः । तत्र य- वाकाशस्तदा संशयद्दयम्। तत्राकाशशब्दादेकं संशयमुक्ता ब्रह्मपु- रशब्दातू संशयान्तरमाह ॥ तथा ब्रह्मपुरमितीति ॥ अत्र शब्दे जी-
Page 322
सू०१४। अ०५] शाङ्करब्रह्मसूत्रभाष्ये (३२३) पुरं शरीरं ब्रह्मपुरमथ वा परस्यैव ब्रह्मण: पु- रं ब्रह्मपुरमिति। तत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः। तत्राकाश- शब्दस्य भूताकाशे रूढत्वाबूताकाश एव दह- रशब्द इति प्राप्तं, तस्य चदहरायतनापेक्षयादह- रत्वं, "यावानू वा अयमाकाशस्तावानेषोऽन्त- र्हृदयआकाश" इति च बात्य्याभ्यन्तरभावकृत- भेदस्योपमानोपमेयक्षावो द्यावापृथिव्यादि च तस्मिन्नन्तःसमाहितमवकाशात्मनाकाशस्यैक-
वस्य ब्रह्मणो वा पुरमिति संशयः। तत्र तस्मिन् संशये सतीति यो- जना। परपुरुषशब्दस्य ब्रह्मणि सुख्यत्वात् ब्रह्म ध्येयमित्युक्तं । तथे- हाप्याकाशपदस्य भूताकाशे रूढत्वाद्ूताकाशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति ॥ तत्राकाशेत्यादिना॥ दहरवाक्यस्यानन्तरं प्रजापति- वाक्यस्य च सगुणे निर्गुणे च समन्वयोक्ते: श्रुत्यादिसङ्गतयः । पू- र्वपक्षे भूताकाशायुपास्तिः सिद्धान्ते सगुणब्रह्मोपास्त्या निर्गुणधीरि- ति फलभेदः। न चा"काशस्तलिङ्गादि"त्यनेनास्य पुनरुक्तता श- ङनीया। अत्र तस्मिन् यदन्तस्तदन्वेष्टव्यमित्याकाशान्तस्थस्यान्वेष्टव्य- त्वादिलिङ्गान्वयेन दहराकाशस्य ब्रह्मत्वे स्पष्टालङ्गाभावातू। ननु भू- ताकाशस्याल्पत्वं कथमेकस्योपमानत्वम् उपमेयत्वं च कथं "उभे अ- स्मिन् दावापृथिवी अन्तरेव समाहिते उभावन्निश् वायुश्रे"त्यादिना श्रुतसर्वाश्रयत्वं च कथमित्याशङ्ग् क्रमेण परिहरति ॥ तस्येत्या- दिना ॥ हृदयापेक्षया अल्पत्वं ध्यानार्थ कल्पितभेदात् सादृश्यं, स्वत एकत्वात् सर्वाश्रयत्वमित्यर्थः । नन्वे"वआत्मे"त्यात्मशब्दो भूते
Page 323
(३२४) रत्नप्रभाभासिते [अ० १।पा० ३। तवात्। अथ वा जीवो दहर इति प्राप्तं ब्रह्मपु- रशव्दात्, जीवस्य हीदं पुरं मच्छरीरं ब्रह्मपुर- नित्युच्यते। तस्य स्वकर्मणोपार्जितत्वात्। अ- त्तया च तस्य ब्रह्मशब्दवाच्यत्वम। न हि पर- स्य ब्रह्मणः शरीरेण स्वस्वामिभ्ावः सम्ब- न्धोडस्ति। तत्र पुरस्वामिन: पुरैकदेशेऽवस्थानं हषटं यथा राज्ः, मनउपाधिकश्र जीवो मनश्र् प्रायेण हृदये प्रतिष्ठितमित्यतो जीवस्यैवेदं ह- दयान्तरवस्थानं स्यात्। दहरत्वमपि तस्यैवा- राग्रोपमितत्वादवकल्पते।आकाशोपमितत्वादि च ब्रह्माभेदविवक्षया भविष्यति। न चात्र दह- न युक्त इत्यरुचेराह॥ अथ वेति॥भक्येति चैतन्यगुणयोगेनेत्यर्थः । मुख्यं व्रह्म गृह्यतामित्यत आह॥ न हीति ॥ अस्तु पुरस्वामी जी- वो हृदयस्थाकाशस्तु व्रह्लेत्यत आह ॥ तत्रेति ॥ पुरस्वामिन एवं तदन्तःस्थत्वसम्भवात् नान्यापेक्षेत्यर्थः । व्यापिनोऽन्तःस्थत्वं कथ- मित्यंत आह॥ मन इति। आकाशपदेन दहरमनुकष्योक्तोपमा- दिकं व्रह्माभेदविवक्षया भविष्यतात्याह॥ आकाशेति ॥ननु जीव- स्याकाशपदार्थत्वमयुक्तमित्याशङ्कच ताहै भूताकाश एवं दहरोस्तु तस्मिन्नन्तःस्थं किंचिद्ध्येयमिति पक्षान्तरमाह॥ न चात्रेति॥ प- रमन्तःस्थंवस्तु, तद्विशेषणत्वेनाधारत्वेन दहराकाशस्य तच्छव्देनोपा- दानादित्यर्थः । यहा अन्वेष्यत्वादिलिङ्गात् दहरस्यब्रह्मत्वनिश्वयादा" काशस्ताल्िङ्गा" दित्यनेन गतार्थत्वमिति शङ्कात्र निरसनीया, अन्वेष्य- १ आकाशपदस्य भूनाकाशमात्रे रूत्वादिति शेषः।
Page 324
सू० १४। अ०५।] शाङ्करब्रह्मसूत्रभाष्ये (३२५) रस्याकाशस्यान्वेष्टव्यव्वं विजिज्ञासितव्यत्वं च श्रूयते, तस्मिन् यदन्तरिति परविशेषणत्वे- नोपादानादिति, अत उत्तरं ब्रूमः। परमेश्वर ए- व दहराकाशो भवितुमर्हति, न भताकाशो जी- वो वा। कस्मादुत्तरेम्यो वाक्यशेषगतेभ्यो हे- तुभ्यः। तथा हि अन्वेष्टव्यतया अभिहितस्य दहराकाशस्य"तं चेड्रयुरि"त्युपक्रम्य "किंतद- त्र विद्यते यदन्वेष्ठव्यं यद्ा विजिज्ञासितव्यम्" इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति "स ब्रूयाद् यावानू वा अयमाकाशस्तावानेषोऽ- न्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते" इत्यादि। तत्र पुण्डरीकद- हरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाका- शौपम्येन दहरत्वं निवर्तयन् भूताकाशत्वं दह रस्याकाशस्य निवर्तयतीति गम्यते।यद्यप्या-
त्वादे: परविशेषणत्वेन ग्रहणात् दहरस्य व्रह्मत्वे लिङगं नास्तीत्यर्थः । अप- हतपाप्मत्वादिलिङ्गोपेतात्मश्रुत्या केवलाकाशश्रुतिर्बाध्येति सिद्धान्त- यति॥परमेश्वर इत्यादिना॥ आकाशस्याक्षेपपूर्वकमिति सम्बन्धः। त- माचार्य प्रति यदि ब्रूयुः हृदयमेव तावदल्पं तत्रत्याकाशोऽल्पतरः, किं तदत्राल्पे विद्यते, यदिचार्य ज्ञेयमिति, तदा स आचार्यो ब्रूयादाकाश- स्याल्पतानिवृत्तिमित्यर्थः। वाक्यस्य तात्पर्यमाह॥ तत्रेति॥ निवर्तय- ति आचार्य इति शेषः। नन्वाकाशशब्देन रूढया भूताकाशस्य भा-
Page 325
(३२६) रत्नप्रभाभासिते [अ० १।पा० ३। काशशब्दो भूताकाशे रूढस्तथापि तेनैव त- स्योपमा नोपपद्यत इति भूताकाशशङ्ग निव- र्तिता भवति। नन्वेकस्याप्याकाशस्य वात्या- भ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः सम्भवतीत्युक्तम्। नैवं सम्भवति। अगति- का हीयं गतिर्यत् काल्पनिकभेदाश्रयण- म्। अपि च कल्पयित्वा भेदमुपमानोपमेयभा- वं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य न बात्य्याकाशपरिमाणत्वमुपपद्येत।ननु परमेश्वर- स्थापि "ज्यायानाकाशादि"ति श्रुत्यन्तरान्नै- वाकाशपरिमाणत्वमुपपद्येत, नैष दोष:, पुण्ड- नातू कथं तन्निवृत्तिरित्याशङ्कचाह॥यद्यपीति। ननु "रामरावणयोर्युद्वं रामरावणयोरिवे"त्यभेदेऽप्युपमा दृष्टेति चेतू, न, अभेदे सादृश्यस्यान- न्वयेन युद्धस्य निरुपमत्वे तात्पर्यात् अयमनन्वयालङ्कार इति काव्य- विदः। पूर्वोक्तमनूद्य निरस्यति । नन्वित्यादिना ॥ "सीताश्िष्ट इवाभाति कोदण्डप्रभया युत" इत्यादौ प्रभायोगसीताक्षेषरूपवि- शेषणभेदाद् भेदाश्रयणमेकस्यैव श्रीरामस्योपमानोपमेयभावसि- द्वचर्थमगत्या कृतमित्यनुदाहरणं द्रष्टव्यं नैवमत्राश्रयणं युक्तं वाक्य- स्याल्पत्वनिवृत्तिपरत्वेन गतिसद्भावात्। किंच हार्दाकाशस्यान्तर- तंवात्यागे अल्पत्वेन व्यापकबाह्याकाशसादृश्यंन युक्तमित्याह॥ अपि चेति ॥ आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमितिभावः। ननु हार्दाकाशस्याल्पत्वनिवृत्तौ तावच्वे च तात्पर्य किं न स्यादि 2. आकाशपरिमाणत्वे च।
Page 326
सू० १४। अ०५] शाङ्करब्रह्मसूत्रभाष्ये (३२७ ) रीकवेष्ठन प्राप्तदहरत्वनिवत्तिपरत्वाद्वाक्यस्य, न तावत्वप्रतिपादनपरत्वम्। उभयप्रतिपादने हि वाक्यं भिद्येत। न च कल्पितभेदे पुण्डरीकवेष्टि- ते आकाशैकदेशे द्यावापृथिव्यादीनामन्तःस- माधानमुपपद्यते। "एष आत्मापहतपाप्मा वि- जरो विमृत्युर्विशोको विजिघत्सोऽपिपास:स- त्यकाम: सत्यसङ्गल्प" इति चात्मत्वापहत- पाप्मत्वादयश्च गुणा न भूताकाशे सम्भवन्ति। यद्यप्यात्मशब्दो जीवे सम्भवति तथापीतरेभ्यः कारणेश्यो जीवाशङ्गपि निवर्तिता भवति। न- ह्युपाधिपरिच्छिन्नस्यारागोपमितस्य जीवस्य पुण्डरीकवेष्ठनकृतं दहरत्वं शक्यं निवर्तयितुं ब्र- ह्ाभेदविवक्षया जीवस्य सर्वगतत्वादि विवक्ष्येत इति चेत् यदात्मतया जीवस्य सर्वगत्वादिविव क्ष्येत तस्यैव ब्रह्मणःसाक्षात् सर्वगतत्वादि वि- वक्ष्यतामिति युक्तम्। यदप्युक्तं ब्रह्मपुरमिति जीवेन पुरस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेद त्यत आह॥ उभयेति ॥ अतोऽल्पत्वनिवृत्तावेव तात्पर्यमिति भा- वः । एवमाकाशोपमितत्वाद्दहराकाशो न भूतमित्युक्तं सर्वाश्रयत्वा- दिलिङ्गेभ्यश्र तथेत्याह ॥I न चेत्याढिना । विगता जिघत्सा ज- गघुमिच्छा यस्य सोऽयं विजिघत्सः बुभूक्षाशून्य इत्यर्थः। प्रथमश्रु- तब्रह्मशव्देन तत्सापेक्षचरमश्रुतषष्ठीविभक्त्यर्थः सम्बन्धो नेयः न
Page 327
(३२८) रत्नप्रभाभासिते अ०१। पा० ३। पुरस्वामिनः पुरैकदेशवर्तित्वमस्त्वत्यत्र ब्रूमः। परस्यैवेदं ब्रह्मणःपुरं सच्छरीरं ब्रह्मपुरमित्युच्य ते ब्रह्मशब्दस्य तस्मिन् मुख्यत्वात्। तस्या- प्यस्ति पुरेणानेन सम्बन्ध उपलब्ध्यधिष्ठान- त्वात्। "स एतस्माजजीवघनात् परात् परं पु- रिशयं पुरुषमीक्षते,""सवा अयं पुरुषः सर्वा- सु पूर्षु पुरिशय" इत्यादिश्रुतिभ्यः। अथ वा जीवपुरे एवास्मिन् ब्रह्म सन्निहितमुपलक्ष्यते। यथा शालग्रामे विष्णुः सन्निहित इति तद्दत्। तद्थेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते" इति च कर्मणामन्त- तु व्रह्मणः पुरमिति षष्ठचर्थः स्वस्वामिभावो ग्राह्यः।निरपेक्षेण तत्सा- पेक्षं बाध्यमिति न्यायादित्याह॥ अत्र ब्रूम इति ॥ शरीरस्य ब्रह्म- णा तदुपलब्धिस्थानत्वरूपे सम्बन्धे मानमाह ॥ स इति ॥ पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः। ननु ब्रह्मशव्दस्य जी- वेऽप्यन्ादिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठचर्थः कथं चिन्नेय इत्य- त आह। अथ वेति॥ बृहयति देहमिति ब्रह्म जीवः तत्स्वामिके पु- रे, हृदयं ब्रह्मवेश्म भवतु राजपुरे मैत्रसद्मवदित्यर्थः। अनन्तफल- लिङ्गादपि दहरः परमात्मेत्याह॥ तद्यथेति॥ अथ कर्मफलादैराग्या- नन्तरमिह जीवद्दशायामात्मानं दहरं तदाश्रितांश्र सत्यकामादिगु- णान् आचार्योपदेशमनुविद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां- सर्वलोकेष्वनन्तमैश्वर्य स्वेच्छया संचलनादिकं भवतीत्यर्थः । दहरे उक्तलिङ्गगान्यन्यथासिद्धानि तेषां तदन्तःस्थगुणत्वादित्युक्तं स्मारयि-
Page 328
सू०१४। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (३२९ ) वत्फलत्वमुक्ता "अथ य इहात्मानमनुविद्य व्र- जन्त्येतांश्र सत्यान् कामान् तेषां सर्वेषु लोके- षुकामचारो अवत्ती"ति प्रकृतदहराकाशवि ज्ञानस्यानन्तफलत्वं वदन् परात्मत्वमस्य सूच- यति। यदप्येतदुक्तं न दहरस्याकाशस्यान्वे- ष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रुतं परविशेष- णत्वेनोपादानादित्यत्र ब्रूम:। यद्याकाशो नान्वे ष्ठव्यव्वेनोक्त: स्यात् "यावानू वा अयमा- काशस्तावानेषोऽन्तर्हृदय आकाश" इत्याद्या काशस्वरूपप्रदर्शनं नोपयुज्येत। नन्वेतद- प्यन्तर्वर्तिवस्तुसन्नावदर्शनायैव प्रदर्श्यंते "तं. चेद् ब्रयु:, यदिदमस्मिन् ब्रह्मपुरे दहरं पु- ण्डरीक वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासित- व्यमि"व्याक्षिप्य परिहारावसरे आकाशौप- म्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहि- तत्वदर्शनात् नैतदेवम्। एवं हि सति यदन्तः त्वा दूषयति॥यदपीत्यादिनां । उत्तरत्राकाशस्य स्वरूपप्रतिपादना- न्यथानुपपच्या पूर्व तस्यान्वेष्यत्वादिकमित्यत्रान्यथोपपत्ति शङ्कते ।नन्विति ॥ एतदाकाशस्वरूपं आक्षेपबीजमाकाशस्याल्पत्वसुप- मया निरस्यान्तःस्थवस्तूक्ते: तदन्तःस्थमेव ध्येयमित्यर्थः । तर्हि ज- गदेव ध्येयं स्यादित्याह। नैतदेवमिति॥ अस्तु को दोषस्तत्राह ४२
Page 329
(३३० ) रत्नप्रभाभासिते [अ० १।पा०३1 समाहितं द्ावापृथिव्यादि तदन्वेष्ठव्यं विजिज्ञा- सितव्यं चोक्तं स्यात्। तत्र वाक्यशेषो नोपपद्ये- त।"अस्मिन् कामाः समाहिता: एष आत्माप- हतपाप्मा"इति हि प्रकृतं द्यावापृथिव्यादिसमा- धानाधारमाकाशमाकृष्या"थ य इहात्मानम- नुविद्य व्रजन्त्येतांश्र सत्यान् कामानि"ति स- मुच्चयार्थेन च शब्देनात्मानं च कामाधारमाश्रि- तांश्र कामान् विज्ञयान् वाक्यशेषो दर्शयति। तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपु- ण्डरीकाविष्ठानः सहान्तःस्थैःसमाहितैः पृथि- व्यादिभि: सत्यैश्ष कामैःविज्ञेय उक्त इति ग- म्थते।स चोक्तेभ्यो हेतुम्यः परमेश्वर इति॥१४॥ गतिशब्दाभ्यां तथा हि दष्ट लिङं च १५ दहरः परमेश्वर उत्तरम्यो हेतुम्य इत्युक्तम्। ॥ तत्रेति । सर्वनामभ्यां दहराकाशमाकष्यात्मत्वादिगुणानुक्का गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो त्रूते, तद्विरोध इत्यर्थः । 'तस्मिन् यद- न्तरिति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह ॥ त- स्मादिति॥ यद्दा आकाशस्तस्मिन् यंदन्तसतदुभयमन्वेष्टव्यमिति योजनां सूचयति॥ सहान्तः स्थेरिति ॥४। दहराकाशस्य ब्रह्मत्वे हेत्वन्तरमाह॥गतीति॥ प्रजा जीवा एतंह- दयसथं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छन्त्यस्तदात्मना स्थिता अप्यनृताज्ञानेनावृतास्तं न जानन्ति अतः पुनरुत्तिष्ठन्तीत्यर्थः।
Page 330
सू०१५। अ०५] (१३१) त एवोत्तरे हेतव इदानीं प्रपशयन्ते।इतश्र पर- मेश्वर एव दहरो यस्मात् दहरवाक्यशेषे परमे- शवरस्यैव प्रतिपादकौ गतिशब्दौ भवतः।"इ- मा: सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ती"ति, तत्र प्रकृतं दहरं ब्रह्मलोकशब्दे- नाभिधाय तद्विषया गतिःप्रजाशब्दवाच्यानां जीवानां अभिधीयमाना दहरस्य ब्रह्मतां ग- मयति। तथा त्यहरहर्जीवानां सुषुध्यवस्थायां ब्रह्मविषयं गमनं दृष्ट श्रुत्यन्तरे "सता सोम्यतदा सम्पन्नोक्षवती"त्येवमादौ। लोकेऽपि किल गाढं सुषुप्तमाचक्षते 'ब्रह्मीभूतो ब्रह्मतां गत' इति।त- था ब्रह्मलोकशब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशाशङ्गं निवर्तयन् ब्रह्मतामस्य ग- मयति।ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत्, गमयेद्यदि ब्रह्मणो लोक इति षष्टी-
नन्वेतत्पदपरामृष्टदहरस्य स्वापे जीवगम्यत्वेऽपि ब्रह्मत्वे किमायातमि- त्याशङ्क् तथा हिदष्टमिति व्याचष्टे॥ तथा हीति॥ लोकेSपि दष्टमित्य र्थान्तरमाह॥लोकेSपीति।।गतिलिङगं व्याख्याय शब्दं व्याचष।।तथेति। जीवभूताकाशयोर्व्रह्मलोकशव्दस्याप्रसिद्धेरिति भावः। ब्रह्मण्यपि त- स्याSप्रसिद्धिंशङ्कते॥नन्विति। निर्षादस्थपतिन्यायेन समाधन्ते।गम- येढिति।। पष्ठे चिन्तितं स्थपतिर्निषादः शब्दसामर्थ्यात्। रौद्रीमिष्टिं १ त्रहमलोक शब्दस्य।
Page 331
(३३२) रत्नप्रभाभासिते [अ० १। पा. ३) समासवृ्त्या व्युत्पाद्येत। सामानाधिकरण्यतृ त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव व्रह्म गमयिप्यति। एतदेव चाहर- हर्व्रह्मलोकगमनं दष्ट ब्रह्मलोकशब्दस्य सामा- नाधिकरण्यवत्तिपरिग्रहे लिङ्गम्। न त्यहरहरि- मा: प्रजा: कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छ- न्तीति शक्यं कल्पयितुम्॥१५॥ धृतेश्र महिम्नोस्यास्मिन्नुपलब्धेः१६॥ धृतेश् हेतो: परमेश्वर एवायंदहरः कथं!"द- हरोऽस्मिन्नन्तराकाश" इति हि प्रकृत्याकाशौप-
विधाय एतया निपादस्थपति याजयेदित्याम्नायते। तन्र निषादानां स्थपतिः स्वामीति पष्ठीसमासेन त्रैवर्णिको ग्राह्यः अग्निविद्यादिसाम- थ्यात् न तु निषादश्वासौ स्थपतिरिति कर्मधारयेण निषादो ग्राहमोऽ- सामर्थ्यादिति प्राप्ते सिद्धान्तः, निपाद एव स्थपतिः स्यात् नि- पादशव्दस्य निषादे शक्तत्वात्, तस्याश्रुतषष्टचर्थसम्बन्धलक्षकत्व- कल्पनायोगात् श्रुतद्दितीयाविभक्ते: पूर्वपदसम्बन्धकल्पनायां लाघ- वात् अतो निषादस्येष्टिसामर्थ्यमात्रं कल्प्यमिति। तद्दद्रह्मलोकशव्दे कर्मधारय इत्यर्थ:। कर्मधारयेलिङं चासीति व्याचषे॥ एतदेवेति॥ सूत्रे चकार उक्तन्यायसमुच्यार्थः॥१५॥ सर्वजगद्धारणलिङ्गाच्च दहरः पर इत्याह ॥ धृतेरिति ॥ न- न्वथशव्दाद्दहरप्रकरणं विच्छिय श्रुता धृतिर्न दहरलिङ्गमिति शङ्कते। ॥ कथमिति॥य आत्मेति प्रकतापकर्षात् अथशब्दो दहरस्य धू-
Page 332
सु०१६।अ०५] शाङ्करब्रह्मसूत्रभाष्ये (३३३) म्यपूर्वकं तस्मिन् सर्वसमाधानमुक्कता तस्मिन्ने- व चात्मशब्दं प्रयुज्यापहतपाप्मत्वादिगुणयोगं चोपदिश्य तमेवानतिवत्तप्रकरणं निर्दिशत्य "थ य आत्मा स सेतुर्विधृतिरेषां लोकानामस- म्भेदाये"ति। तत्र विधृतिरित्यात्मशब्दसामा- नाधिकरण्याद्विधारयितोच्यते,क्तिच: कर्तरि स्म- रणात्। यथोदकसन्तानस्य विधारयिता लो- के सेतुः क्षेत्रसम्पदामसम्भेदायैवमयमात्माए- षामव्यात्मादिभेदभिन्नानां लोकानां वर्णाश्र- मादीनां च विधारयिता सेतुरसम्भेदायासड्गरा- येति। एवमिह प्रकृते दहरे विधारणलक्षणं म- हिमानं दर्शयति, अयं च महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते "एतस्यवाक्षरस्य प्रशास- ने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत"इत्या-
धृतिशब्द: कर्तृवाचित्वात् किजन्तः। सूत्रे तु महिमशव्दसामानाधिकर- ण्याद् धृतिशब्दःकिन्नन्तो विधारणं ब्रूते, 'स्त्रियां कितन् (३।३।९४)इति भावोक्तनो विधानादिति विभाग:। सेतुःसङ्करहेतुः विधृतिस्तु स्थितिहे- तुरित्यपौनरुक्त्यमाह॥ यथोदकेति ॥ सूत्रं योजयति। एवमिहेति॥ धृतेश्र दहरः परः अस्य धृतिरूपस्य नियमस्य च महिम्रोऽस्मिन् पर- मात्मन्येव श्रुत्यन्तर उपलब्धेरिति सूत्रार्थः । धृतेश्वेति चकारात् सेतुपदोक्तनियामकत्वलिङ्गं ग्राह्यं तत्र नियमने श्रुत्यन्तरोपलव्धिमा-
Page 333
(३३४) रत्नप्रभाभासिते [अ० १। पा० ३। देः। तथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रू- यते "एष सर्वेश्वर एप भूताधिपतिरेष भूतपा- ल एष सेतुर्विधारण एषां लोकानामसम्भेदा- ये"ति। एवं धृतेश्र हेतो: परमेश्वर एवायं दह- र॥१६॥। प्रसिद्वेश्र ॥ १७॥ इतश्र परमेश्वर एव दहरोस्मिन्नन्तराकाश इत्युच्यते। यत्कारणमांकाशशब्दः परमेश्वरे प्रसिद्धः । "आकाशो वै नामरूपयोनिर्वहि- ता,"सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त" इत्यादिप्रयोगदर्शनात् । जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्य- ते। भूताकाशस्तु सत्यामप्याकाशशब्दप्रसि- दौ उपमानोपमेयभावाद्यसम्भवान्न ग्रहीतव्य इत्युक्तम्।१७॥ इतरपरामर्शात् स इति चेन्नासम्भवा त् । १८॥ यदि वाक्यशेषबलेन दहर इति परमेश्- ह। एतस्येति ॥ धृतौ तामाह॥ तथेति ॥१६॥आ समन्तात् काशते दीप्यते इति स्वयंज्योतिषि ब्रह्मण्याकाशशव्दस्य विभुत्वगुण- तो वा प्रसिद्धि प्रयोगप्राचुर्यम्॥१७॥
Page 334
सू०१८।अ०५] शाङ्करब्रह्मसूत्रभाष्ये (३३५ ) रः परिगृत्येतास्तीतरस्यापि जीवस्य वाक्य- शेषे परामर्शः । "अथ य एष सम्प्रसादो डस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्प- द स्वेन रूपेणाभिनिष्पद्यते एष आत्मेति हो- वाचेशति। अत्र हि सम्प्रसादशब्द: श्रुत्यन्तरे सुषुप्तावस्थायां दृष्ठत्वादवस्थावन्तं जीवं शक्रो- त्युपस्थापयितुं नार्थान्तरम।तथा शरीरव्यपा- अयस्यैव जीवस्य शरीरात् समुत्थानं सम्भव- ति। यथाकाशव्यपाश्रयाणां वाय्वादीनामा- काशात् समुत्थानं, तद्त्। यथा चादष्टोऽपि लो- के परमेश्वरविषयआकाशशब्द: परमेश्वरधर्म- यदि एष आत्मापहतपाप्मेत्यादिवाक्यशेषबलेन दहरः परसर्हि जी- वोऽपीत्याशङ्् निषेधति ॥ इतरेति॥ जीवस्यापि वाक्यशेषमाह । अथेति॥दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते, य एष सम्प्र- सादो जीवोडस्मात् कार्यकरणसङ्घात् सम्यगुत्थाय आत्मानं तस्मादि- विच्य विविक्म् आत्मानं स्वेन ब्रह्मरूपेणाभिनिष्पय साक्षात्कत्य तदेव प्रत्यक् परं ज्योतिरुपसम्पयते प्राप्ोतीति व्याख्येयम्। यथा- मुखं व्यादाय स्वपितीति वाक्यं सुप्वा मुखं व्यादत्ते इति व्याख्या- यते तद्दत्। ज्योतिषोऽनात्मत्वं निरस्यति ॥ एष इति॥सम्प्रसादे रच्वा चरित्वेति श्रुत्यन्तरम्। अवस्थावदुत्थानमपि जीवस्य लिङ्गमि- त्याह ॥ तथेति ॥ तदाश्रतस्य तस्मात् समुत्थाने दृष्टान्तः॥यथेति। ननु क्वाप्याकाशशब्दो जीवेन दृष्ट इत्याशंक्योक्तावस्थोत्थानलिङब- लातू कल्प्य इत्याह॥ यथा चेति॥ नियामकाभावाज्जीवो दहरः किं
Page 335
(१३६). रत्नप्रभाभासिते [अ० १।पा० ३। समभिव्याहारादा"काशो वै नामरूपयोनिर्व- हिते"त्येवमादौ परमेश्वरविषयोऽभ्युपगतः,ए- वं जीवविषयोऽपि अविष्यति। तस्मादितरप- रामर्शांत्दहरोऽस्मिन्नन्तराकाश इत्यत्र स एव जीव उच्यते इति चेत्, नैतदेवं स्यात्, कस्माद- सम्भवात्। नहि जीवो बुद्धयादयुपाधि परिच्छेदा- भिमानी सन्नाकाशेन उपमीयेत।न चोपाधि-
र्मा:सम्भवन्ति। प्रपञ्चितं चैतत् प्रथमसूत्रे, अतिरेकाशङ्ापरिहाराय तु पुनरुपन्यस्तम्। पठिष्यति चोपरिष्ठात्"अन्यार्थश्र परामर्श (सू . १.।३। २०) इति ।। १८ ।। उत्तराचेदाविर्भतस्वरूपस्तु॥१९॥ इतरपरामर्शाद्या जीवाशङ्ग जाता सा अ- सम्भवात् निराकता। अथेदानी मृतस्यैवामृत- न स्यादिति प्राप्ते नियामकमाह॥नैतदित्यादिना॥ दहरे श्रुतधर्मा- णामसम्भवात् न जीवो दहर इत्यर्थ: तर्हि पुनरुक्तिस्तत्राह ।अति- रेकेति ।। उत्तराच्चेत्यविकाशङ्कानिरासार्थमित्यर्थः । का तर्हि जी- वपरामर्शस्य गतिस्तत्राह ॥ पठिष्यतीति ॥ जीवस्य स्वापस्थानभ्- तब्रलज्ञानार्थोऽयं परामर्श इति वक्ष्यते॥ १८॥ असम्भवादिति हेतोरसिद्धिमाशङ््य परिहरति।। उत्तराच्चे - त्यादिसूत्रम्।। निराकुताया जीवाशङ्कायाः प्रजापतिवाक्यबलातू
Page 336
सू०११7 अ० ६1] शाङ्करबह्मसूत्रभाष्ये (३३७ ) सेकात् पुनःसमुत्थानं जीवाशङ्गाया: क्रियते उ- त्तरस्मात् प्राजापत्याद्वाक्यात्। तत्र हि "य
आत्मानमन्वेष्ठव्यं विजिज्ञासितव्यं च प्रतिज्ञाय- "य एषोडक्षिणि पुरुषो दृश्यते एष आत्मे"ति ब्रुचन्नक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति "एतं त्वेव ते भूयोऽनुव्याख्यास्यामी"ति च तमेव पुनःपुनः परामृश्य, "य एष स्वने म- हीयमानश्वरत्येष आत्मे"ति।"तध्त्रैतत् सु- प्रः समस्तः सम्पन्नः खनं न विजानात्येष आत्मे"ति च जीवमेवावस्थान्तरगतं व्याचष्ठे। तस्यैव चापहृतपाप्मत्वादि दर्शयत्ये"तदमृत- पुनः समुत्थानं क्रियते तत्र जीवस्यैवापहतपाप्म त्वादिग्रहणेनासम्भ- वासिद्वेरित्यर्थः, कथं तत्र जीवोक्तिस्तत्राह॥ तत्रेत्यादिना। यद्यप्यु- पक्रमे जीवशब्दो नास्ति तथाप्यपहतपाप्मत्वादिगुणकमात्मानमुपक्र-
ते गुणाः सम्भवन्तीति समुदायार्थः। इन्द्रं प्रजपतिर्रूते॥य एषइति॥ प्राधान्यादक्षिग्रहणं सवैरिन्द्रियैविषयदर्शनरूपंजाग्रदवस्थापन्नमित्याह ॥द्रष्टारमिति॥ महीयमानः वासनामयैविषयैः पूज्यमान इति स्वप्न- पर्याये, तथत्रेति, सुषुप्तिपर्याये चजीवमेव प्रजापतिर्व्याचष्टे इत्यन्वयः। यत्र काले तदेतत् स्वप्नं यथा स्यात्तथा सुप्ः सम्यक् अस्तो निरस्तः करण- ग्रामो यस्य स समस्तः, अत एवोपहृतकरणत्वात् कृतकालुष्यहीन: संप्र- सन्नः स्वप्नं प्रपश्चमज्ञानमात्रत्वेन विलापयति अतोऽज्ञानसच्वात् मुक्त ४३
Page 337
(३३८ ) रत्नंप्रभाभासिते [अ० १।पा० ३। मभयमेतत् ब्रह्मे"ति।"नाह खल्वयमेवं स- म्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवे- मानि भूतानी"ति च सुषुप्तावस्थायां दोषमुप- लभ्य"एतं व्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतदस्मादि"ति चोपक्रम्य शरीर- सम्बन्धनिन्दापूर्वक "मेष सम्प्रसादोऽस्माच्छ- रीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रू- पेणाभिनिष्पद्यते स उत्तम: पुरुष" इति जीव- शरीरात् समुत्थितं उत्तमं पुरुषं दर्शयति। तस्मादस्ति सम्भवो जीवे पारमेश्वराणां ध- र्माणाम्, अतो दहरोऽस्मिन्नन्तराकाश इति जीव एवोक्त इति चेत् कश्चिद्रयात् तं प्रतिब्रूयादावि- दिलक्षणः प्राज्ञः एषस्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्ता- स्फूर्तिप्रदत्वादात्मेत्यर्थः । चतुर्थपर्याये ब्रह्मोक्ते: तस्यैवापहतपाप्मत्वा- दिगुणा इत्याशङ्क्य तस्यापि पर्यायेऽस्य जीवत्वमाह॥नाहेति॥अहेति निपातः खेदार्थे। खिद्यमानो हीन्द्रः उवाच न खलु सुप्ः पुमानयं स- म्प्ति सुषुप्यवस्थायामयं देवदत्तोऽहमित्येवमात्मानं जानाति। नो एव नैवेमानि भूतानि जांनाति किन्तु विनाशमेव प्राप्तो भवति। ना- हमत्र भोग्यं पश्यामि इति दोषमुपलभ्य पुनः प्रजापतिमुपससाद। तं दोषं श्रुत्वा प्रजापतिराह ॥ एतमिति॥ एतस्मातू प्रकतादात्म- नोऽन्यत्रान्यं न व्याख्यास्यामीत्युपक्रम्य मघवन्मर्त्य वा इदं शरीरं इति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः।तरमातू प्रजापतिवाक्यात्। अतः सम्भवासिद्वेः । सिद्धान्तयति ॥ तं प्रतीति॥ अवस्थात्रया-
Page 338
सू०१९। अ०६।] शाङरव्रह्मसूत्रभाष्ये (३३९) भूतस्वरूपस्त्विति। तुशब्दः पूर्वपक्षव्यावृत्त्य- र्थों नोत्तरस्मादपि वाक्यादिह जीवस्याशङा सम्भवतीत्यर्थः । कस्माद्यतस्तत्रापि आविर्भू- तस्वरूपो जीवो विवक्ष्यते। आविर्भूत स्वरू- पमस्येत्याविर्भृतस्वरूप:, भूतपूर्वगत्या जीव- वचनम्। एतदुक्त भवति। 'यएषोऽक्षिणी' त्यक्षि- लक्षितं द्रष्टारं निर्दिश्योदशरावब्राह्मणेनैनं शरी- रात्मताया व्युत्थाप्यै"तंत्वेवत" इति पुनःपु- नस्तमेव व्याख्येयत्वेनाकृष्य स्वन्सुषुप्ताप- न्यासक्रमेण परं ज्योतिरुपसम्पद्य स्वेन रुपे- भिनिष्पद्यत" इति यदस्य पारमार्थिकं स्वरू- च्छोधनेनाविर्भूतं शोधितत्वम् अर्थस्य वाक्योत्थवृच्यभिव्यक्त्वमि- त्यर्थ:। तार्है सूत्रे पुंछ्िदेन जीवोक्ति: कथं ज्ञानेन जीवत्वस्य निवृ- त्तत्वादित्यत आह ॥। भूतपूर्वेति ॥ ज्ञानात् पूर्वमविद्या तत्कार्यप्र- तिविम्बितत्वरूपं जीवत्वमभूदिति कत्वा ज्ञानानन्तरं ब्रंह्मरूपोपि जी- वनाम्नोच्यत इत्यर्थ:। विश्वतैजसभाजतुरीयपर्यायचतुष्टयात्मकप्रजाप- तिवाक्यस्य तात्पर्यमाह ॥ एतदिति॥ जन्मनाशवच्वात् प्रतिबि- म्ववदिम्वदेहो नात्मेति ज्ञापनार्थ प्रजापतिरिन्द्रविरोचनौ प्रत्यु- वाचोदशरावे आत्मानमवेक्ष्य यदात्मनो न विजानीथसन्मे बरूतमि त्यादिव्राह्मणेनेत्याह। उदशरावेति। उदकपूर्णे शरावे प्रतिविम्बा- त्मानं देहं दृष्टा स्वस्याज्ञातं यत्तन्महयं वाच्यमित्युक्तश्रुत्यर्थः। व्युत्था- प्य विचार्याभिनिष्पायते इत्यत्रैतटुक्तं भवतीति सम्बन्धः। किमुक्तमि- त्यत आह। यदस्येति। जीवत्वरूपेण जीवं न व्याचष्टे लोकसिद्ध
Page 339
(३४०) रत्नप्रभाभासिते [अ० १। पा० ३। पं परं ब्रह्म तद्रपतयैनं जीवं व्याचष्टे, न जैवेन रूपेण यत् परं ज्योतिरुपसम्पत्तव्यं श्रुतं तत् परंब्रह्म तच्चापहतपाप्मत्वादिधर्मक तदेव चजी- वस्य पारमार्थिकं स्वरूपं तत्वमसीत्यादिशा- खेभ्यो नेतरदुपाधिकल्पितम्। यावदेव हि स्थाणाविव पुरुषवुद्धिं द्वैतलक्षणामविद्यां निर्व- र्तयन् कूटस्थनित्यदक्स्वरूपमात्मानमहं ब्रह्मा- स्मीति न प्रतिपद्यते तावजीवस्य जीवत्वम्। य- दा तु देहन्द्रियमनोबुद्धिसङ्घाताद्युत्थाप्य श्रु- त्याप्रतिबोध्यते। 'नासि त्वं देहेन्द्रियमनोबुद्धि- सड्घातो नासि संसारी' किं तार्है तद्त् सत्यं स आत्मा चैतन्यमात्रस्वरूपस्तत्वमसीति। तदा कूटस्थनित्यदक्स्व रूपमात्मानं प्रतिबुध्यास्मा- चरीराद्यश्षिमानात् समुत्तिष्ठन् स एव कूटस्थ- त्वादू किंतु तमनूय परस्परव्यभिचारिणीभ्योऽवस्थाभ्यो विविच्य ब्रह्मस्वरूपं वोधयति अंतो यद्रह्म तदेवापहतपाप्मत्वादिधर्मकंन जीव इत्युक्तं भ्रवति, शोधितस्य ब्रह्माभेदेन तद्मोक्तेरित्यर्थः। एवम वस्थोपन्यासस्य विवेकार्थत्वान्न जीवलिङत्वम् एतदमृतमभयमेतङ्रह्रे- तिलिङ्गोपतश्रुतिविरोधादिति मन्तव्यम्। ननु जीवत्वव्रह्मत्वविरुद्ध- धर्मवतोः कथमभेदस्तव्राह। तदेवेति। अन्वयव्यतिरकाभ्यां जीवत्व- स्पावियाकल्पितत्वादविरोधः इति मत्वा दृष्टान्तेनान्वयमाह । याव- दिति। व्यतिरेकमाह॥ यदेति।। अविद्यायां सत्यां जीवत्वं वाक्योत्थ-
Page 340
·१९/अ०६।] (३४१ ) नित्यटकूस्वरूप आत्मा ्रवति, "सयोहवैत- त् परमं ब्रह्म वेद ब्रह्मैव भवती"त्यादिश्रुतिभ्यः। तदेव चास्य पारमार्थिकं स्वरूपं, येन शरीरात् समुत्थाय स्वेन रूपेणाभिनिष्पद्यते कर्थ पुनः स्वं च रूपं स्वेनैव च निष्पद्यत इति सम्भव- ति कूटस्थनित्यस्य। सुवर्णादीनां तु द्रव्यान्त- रसम्पर्कादभिभूतस्वरूपाणामनभिव्यक्तासा- धारणविशेषाणां क्षारप्रक्षेपादिभ्षिः शोध्यमा- नानां स्वरूपेणाभिनिष्पत्तिः स्यात् तथा नक्ष- त्रादीनामहन्यभिभूतप्रकाशानामभिभावकवि- योगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् । न तु तथा आत्मचैतन्यज्योतिषो नित्यस्य केन- चिदभिभ्नवः सम्भवत्यसंसर्गित्वात् व्योम्न इव दृष्टविरोधाच्च, दृष्टिश्रुतिमतिविज्ञातयो हि जीव- प्रबोधात्तन्निवृत्तौ तन्निवृत्तिरित्याविद्यकं तदित्यर्थः । संसारित्वस्य कल्पितत्वे सिद्धं निगमयति ॥ तदेव चास्येति॥ समुत्थाय स्वेन रूपेणाभिनिष्पयत इति श्रुति व्याख्यातुम आक्षिपति ॥ कथं पुनरित्यादिनाः ॥ कूटस्थनित्यस्य स्वरूपमित्यन्वयः । मलस- ङ्गिनो हि क्रियया मलनाशादभिव्यक्तिर्न तु कूटस्थस्यासङ्रिन इत्याह॥ सुवर्णेति ॥ द्रव्यान्तरं पार्थिवो मलः। अभिभूतेत्यस्य व्या -- ख्यानमनभिव्यक्तेति । असाधारणो भास्वरत्वादिः अभिभावकः सौरालोकः। जीवस्वरूपस्याभिभवे बाधकमाह॥ दृष्टेति ॥ विज्ञा- नघन एवेति श्रुत्या चिन्मात्रसतावदात्मा तच्चैतन्यं चक्षुरादिजन्यवृ-
Page 341
(३४४) रतप्रभाभासिते [अ० १। पा० ३। रूपत्वादेव। एवं मिथ्याज्ञानकृत एव जीवपर मेश्वरयोर्भेदो न वस्तुकृतः व्योमवदसङ्गत्वावि- शेषात्। कुतश्र्वैतदेवं प्रतिपत्तव्यम्। यतो "य एषोऽक्षिणि पुरुषो दृश्यते" इत्युपदिश्यै"तदमृ- तमभयमेतत् ब्रह्मे"त्युपदिशति। योऽक्षिणि प्र- सिद्धो द्रष्टा द्रष्टत्वेन विभाव्यते सोऽमृताभ्यल- क्षणाद्रह्मणोऽन्यश्रेत् स्यात् ततोSमृताभयब्रह्म- सामानाधिकरण्यं न स्यात्। नापि प्रतिच्छाया- त्माऽयमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावा- दिव्वप्रसङ्गात्। तथा द्वितीयेऽपि पर्याये "य ए- ष स्वने महीयमानश्र्वरती"ति न प्रथमपर्या- यनिर्दिष्ठादक्षिपुरुषात् द्रष्टुरन्यो निर्दिष्टः, "एतं त्वेव ते भूयोऽनुव्याख्यास्यामी"त्युपक्रमात्। किं चाहमद्य सवने हस्तिनमद्राक्षं नेदानीं तंप- इत्याह॥ एवमिति॥अंशादिशून्यत्वमसङ्गत्वम् आत्मा द्रव्यत्वव्या- प्यजातिशून्यः विभुत्वात् व्योमवदित्यात्मैक्यसिद्धेर्भेदो मिथ्येत्यर्थः । प्रजापतिवाक्याच्च भेदो मिथ्येत्याकाङ्कापूर्वकमाह॥ कुतश्रेत्यादिमा।। एतन्ज्वेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयःछायायां ब्रह्मदष्टिपरमि- दं वाक्यं, नाभेदपरमित्यत आह॥ नापीति॥यस्य ज्ञानात् कतकत्यता सर्वकामप्राप्तिसतमात्मानमन्विच्छाव इति प्रवृत्तयोरिन्द्रविरोचनयोर्यय- नात्मच्छायां प्रजापतिर्बरूयात् तदा मृषावादी स्यादित्यर्थः। प्रथमवत् हि- तीयादिपर्याये व्यावृत्तास्ववस्थासु अनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह ॥ तथेति ॥ अवस्थाभेदेडप्यनुस्यूतौ युक्तिमाह ॥ किंचेति ॥ सुपुप्तौ-
Page 342
सू० १९। अ० ६] शाङ्करब्रह्मसूत्रभाष्ये (३४५) श्यामीति दष्टमेव प्रतिबुद्धः प्रत्याचष्टे, द्रष्ठारं तु तमेव प्रत्यभ्िजानाति "य एवाहं स्वन्मद्राक्षं स एवाहं जागरितं पश्यामी" ति। तथा तृतीये- डपि पर्याये "नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्नीति, नो एवेमानि भूतानी" ति सुषुप्तावस्थायां विशेषविज्ञानाभवमेव दर्श- यति, न विज्ञातारं प्रतिषेधति।यतु "तत्र विना- शमेवापीतो भव ती"ति तदपि विशेषविज्ञानवि- नाशाभिप्रायमेव, न विज्ञातविनाशाभिप्रायम्। नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते "अवि- नाशित्वा'दिति श्रुत्यन्तरात्।तथा चतुर्थेऽपिप- र्याये"एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नोए- चान्यत्रैतस्मादित्युपक्रम्य"मघवन्मर्त्यं वा इर्द शरीरमित्यादिना प्रपञ्चेन शरीराद्युपाधिस- म्बन्धप्रत्याख्यानेन सम्प्रसादशब्दोदितं जीवं स्वेन रूपेणाभिनिष्पद्यत इति ब्रह्मस्वरूपाप- न्नं दर्शयन् न परस्मात् ब्रह्मणोऽमृताभयस्व-
ज्ञातुर्व्यावृत्तिमाशङ्गचाह ॥ तथा तृतीय इति॥ सुपुपौ निर्विकल्प- ज्ञानरूप आत्मास्तीत्यत्र बृहदारण्यकश्रुतिमाह ॥ नहीति॥ बुद्धे: साक्षिणो नाशो नास्ति नांशकाभावादित्यर्थः । एवमवस्थाभिरसङ्ग- त्वेनोक्त आत्मैव तुरीयेऽपि ब्रह्मत्वेनोक्त इत्याह॥ तथेति॥ श्रुतेरेक- ४४
Page 343
(३४६) रत्नप्रभाभासिते [अ० १।पा० ३। रूपादन्यं जीवं दर्शयति। केचितु परमात्मवि- वक्षाया"एतन्त्वेव ते" इतिजीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहत- पाप्मत्वादिगुणकमात्मानं "ते भूयोनुव्याख्या- स्यामी"ति कल्पयन्ति, तेषामेतमिति सन्नि- हितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत, भू- यः श्रुतिश्रोपरुध्येत, पर्यायान्तराभिहितस्य
इति च प्रतिज्ञाय प्राक् चतुर्थात् पर्यायादन्य- मन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्र- सज्येत, तस्माददविद्याप्रत्युपस्थापितमपार- मार्थिकं जैवं रूपं कर्तभोक्तृरागद्देपादिदोषक- लुषितमनेकानर्थयोगि तद्विलयनेन तद्विपरीत- मपहतपाष्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपादते। सर्पादिविलयनेनेव र- देशिव्याख्यां दूपयति ॥ केचित्त्विति ! जीवपरयोर्भेदादिति भावः। श्रुतिवाधान्मैवमित्याह॥ तेषामिति॥ सनिहितो जीव एव सर्व- नामार्थ इत्यर्थः। उक्तस्य पुनरुक्तौ भूय इति युज्यते। तवतूपक्रान्तपर- मात्मनश्वतुर्थ एवोक्तेस्तद्वाघ इत्याह।भूय इति॥ लोकसिद्धजीवानुवा- देन व्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति॥ तस्मादिति॥ व्याख्या- नान्तरासम्भवादित्यर्थः । विलयनं शोधनं विद्यया महावाक्येनेति यावत्। ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारीरकमेवोत्तरमि-
Page 344
सू ०१९।अ०६।] शाङ्करब्रह्मसूत्रभाष्ये (३४७) जवादीन्। अपरे तु वादिन: पारमार्थिकमेव जै- वं रूपमिति मन्यन्ते। अस्मदीयाश्र केचित् ते- षां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धमेक एव परमेश्व- रः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया- मायाविवदनेकधा विभाव्यते नान्यो विज्ञान- धातुरस्तीति। यतत्विदं परमेश्वरवाक्ये जीवमा- शङ््य प्रतिषेधति सूत्रकारः'नासम्भवात्' (१।३। १८।) इत्यादिना तन्रायमभिप्रायः नित्यशु- द्धबुद्दमुक्तस्वभावे कूटस्थनित्य एकस्मिन्नस- ड़े परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादिपरिकल्पितं तदात्मैकत्वप्रतिपादन-
मीति परमात्मनो जीवादन्यत्वं द्रव्यति, जी- त्याह ॥ अपरे त्वित्याढिना ॥ शारीरकस्यार्थ सङ्केपेणोपदिशति ।। एक एवेति॥ अविद्यामाययोभेंदं निरसितुं सामानाधिकरण्यं आव- रणविक्षेपशकतिरूपश्दप्रवृत्तिनिमित्तभेदात् सहप्रयोगःब्रह्मैवाविद्यया संसरति न ततोऽन्यो जीव इति शारीरकार्थ इत्यर्थः। तर्हि सूत्रकारः कि- मिति भेदं ब्रूते तत्राह। यच्विति। परमात्मनोऽसंसारित्वसिद्धयर्थ जीवान्जेदं द्रढयति। तस्यासंसारित्वनिश्याभावे तदभेदोक्तावपि जीव- स्य संसारित्वानपायादित्यर्थः । अधिष्ठानस्य कल्पितान्नेदेऽपि क- ल्पितस्याधिष्ठानान्न पृथक् सत्वमित्याह ॥ जीवस्य त्विति॥क-
Page 345
(३४९) रत्नप्रभाभासिते [अ० १।पा० ३। वस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति किंत्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जी- वभेदम्। एवं हि स्वाभाविककर्तृत्वभोकृत्वा- नुवादेन प्रटत्ता: कर्मविधयो न विरुध्यन्त इति मन्यते, प्रतिपा्दं तु शास्त्रार्थमात्मैकत्वमेव दर्श- यति "शास्दष्ट्या तूपदेशो वामदेवव" दित्या- दिना, वर्णितश्ास्माभिर्विद्वदविद्वद्गेदेन कर्म- विधिविरोधपरिहारः॥१९॥ अन्यार्थश्व परामर्शः॥२०॥ अथ यो दहरवाक्यशेषे जीवपरामर्शो दर्शि- तः "अथ य एष सम्प्रसाद" इत्यादि: स द- ! हरे परमेश्वरे व्याख्यायमाने न जीवोपासनोप- देशो न प्रकृतविशेषोपदेश इत्यनर्थकत्वं प्राप्नो- तीत्यत आह, अन्यार्थः। अयं जीवपरामर्शःन ल्पितभेदानुमानस्य फलमाह ॥ एवं हीति ॥ सूत्रेष्वभेदो नोक इ- ति भ्रान्तिं निरस्यति। प्रतिपाद्यमिति॥ आत्मेति तूपगच्छन्ती- त्यादिसूत्राणि आदिपदार्थः । नन्वह्वैतस्य शास्त्रार्थत्वे द्वैतापेक्षवि- धिविरोधस्तत्राह ॥I वर्रतश्रेति॥ अद्वैतमजानतः कल्पितहैताश्रया विधयो न विदुष इति सर्वमुपपन्नमित्यर्थः ।१९॥ एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवापहतपाप्मत्वाय्यु- के: जीवे तदसम्भवान जीवो दहर इत्युक्त तर्हिं जीवपरामर्शस्य का गतिरित्यत आह॥ अन्यार्थक्ेति॥ सूत्रं व्याचष्टे । अथेत्या-
Page 346
सू० २१। अ ० ६ ] शाङ्गरव्रह्मसूत्रभाष्ये (३४९) जीवस्वरूपपर्यवसायी किं तहि! परमेश्वरस्व- रूपपर्यवसायी, कथम्! सम्प्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपअ्राध्यक्षो अूत्वा तद्रासनानिर्मितांश्र स्वनान्नाडीचरोऽनु- भूय श्रान्तः शरणं प्रेप्सुरुअयरूपादपि शरीरा- भिमानात् समुत्थाय सुषुप्तावस्थायां परं ज्योति- राकाशशब्दितंपरं ब्रह्मोपसम्पद्य विशेषविज्ञान- वत्त्वं परित्यज्य स्वेन रूपेणाभिनिष्पद्यते यद- स्योपसम्पचव्य परं ज्योतिः, येन स्वेन रुपे- णायमभिनिष्पद्यते एष आत्मापहतपाप्मत्वा- दिगुण उपास्य इत्येवमर्थोडयं जीवपरामर्शः परमेश्वरवादिनोऽप्युपपद्यते॥२०॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥।२१।। यदप्युक्तं दहरोऽस्मिन्नन्तराकाश इत्याका- शस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जी- वस्य त्वाराग्रोपमितस्याल्पत्वमवकल्पत इति तस्य परिहारो कक्तव्यः। उक्तो त्यस्य परिहारः परमेश्वरस्यापेक्षिकमल्पत्वमवकल्पत इत्य- दिना। प्रकते दहरे विशेषो गुणतस्तदुपदेशोऽपि नेत्यर्थः । तत्र दह- रवाक्यशेषरूपं सम्प्रसादवाक्यमाशङ्कापूर्वकं दहरव्रह्मपरत्वेन व्या- चष्टे॥ कथमित्यादिना॥ २०॥
Page 347
(२५०) : रत्नप्रभाभासिते [अ० १।पा०३। "अकौकस्त्वात्तद्यपदेशाच्च नेति चेन्न निचाय्य त्वादेवं व्योमवचे"त्यत्र स एव इह परिहारोऽनु- सन्धातव्य इति सूचयति। श्रुत्यैव चेदमल्प- व्वं प्रत्युक्तं प्रसिद्वेनाकाशेनोपमिमानया "या वान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आ- काश" इति॥२१॥ अनुकृतेस्तस्य च ।। २२। "न तत्र सूर्यो भाति न चन्द्रतारकं नेमा वि- द्ुतो भान्ति कुतोऽयमन्निः तमेव ान्तमनु- अाति सर्व तस्य भासा सर्वमिदं विभाती" ति समामनन्ति। तत्र यं ान्तमनुभाति सर्व य- स्य च भासा सर्वमिद विभाति स किं तेजो- धातुः कश्विदुत प्राज्ञ आत्मेति विचिकित्सायां उपास्यत्वादल्पत्वमुक्तमिति व्याख्याय श्रुत्या निरस्तमित्यर्था- न्तरमाह॥ श्रुत्यैव चेदमिति। एवं दहरवाक्यं प्रजापतिवाक्यं च सगुणे निर्गुणे च समन्वितमिति सिद्धम् ।। २१ ।। अनुकतेतस्य च। मुण्डकवाक्यमुदाहरति॥ न तत्रेति॥ तस्मिन् ब्रह्मणि विषये न भाति तं न भासयतीति, यावतू। यदा चन्द्रभासक- रादिर्न भासयति तदा अल्पदीप्ेरय्नेः का कथेत्याह॥ कुत इति ॥किं- च सर्वस्य सूर्यदेस्तंद्वास्यत्वान्न तज्भासकत्वमित्याह ॥ तमेवेति॥ अनुगमनवदनुभानं स्वगतमिति शङ्गां निरस्यति ॥ तस्येति ॥ तत्रे- १ तेन ब्रह्मणा भास्यत्वादित्यर्थः । २ गच्छन्तमनुगच्छतीतिप्रयोगप्रतीतानुगमनवत्।
Page 348
सू० २२। अ० ७] (३५१.) तेजोधातुरिति तावत् प्राप्तम्, कुतः! तेजोधातू- नामेव सूर्यादीनां भानप्रतिषेधात्। तेजःस्व- भावकं हि चन्द्रतारकादि तेजःस्वभावके एव सूर्य भासमानेऽहनि न भासत इति प्रसिद्म्, तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मि- न्नभासते सोपि तेजस्वाक एव कश्- दित्यवगम्यते। अनुभानमपि तेजःस्वभाव- क एवोपपद्यते समानस्वभावकेष्वनुकारदर्श- नातू, गच्छन्तमनुगच्छतीति वत्, तस्मात् तेजो- धातुः कश्विदित्येवं प्राप्ते ब्रूमः । प्राज्ञ एवाय- मात्मा अवितुमर्हति। कस्मात् ! अनुकतेः, अ- ति सप्तम्याः सति विषये च साधारण्यात् सशयमाह ॥ तत्रेति॥ पू- र्वत्रात्मश्रुत्यादिबलादाकाशशव्दस्य रूढित्यागादीश्वरे वृत्तिराश्रिता तथेहापि सतिसप्तमीबलात् वर्तमानार्थत्यागेन यस्मिन् सति सूर्याद- यो न भास्यन्ति स तेजोविशेष उपास्य इति भ्रविष्यदर्थे वृत्तिराश्रयणी- या अधुना भासमाने सूर्यादौ न भातीति विरोधात् इति दृष्टान्तेन पू- र्वपक्षयति ॥ तेजोधातुरिति ॥ तेजोध्यानं निर्गुणस्वयंज्योतिरात्म- ज्ञानमित्युभयत्र फलम्। तेजोधातुत्वे लिङ्गमाह ॥तेजोधातूनामि- ति।यत्तेजसोऽभिभावकं तत्तेज इति व्याप्तिमाह ॥ तेजःस्वभावक- मिति॥ यस्मिन् सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह। अनुभानमिति ॥ ततो निकृष्टभानं विवक्षितमिति भावः। मुख्यसम्भवे विवक्षानुपपत्तेः मुख्यानुभानलिङ्गात् सर्वभासकः परमा- त्मा स्वप्रकाशकोSत्र ग्राह्यःइति सिद्धान्तमाह॥प्राज्ञइति॥प्राज्ञत्वं स्व-
Page 349
(३५२) रत्नप्रभाभासिते [अ० १पा० ३। नुकरणमनुकृतिः, यदेत "तमेव भान्तमनुभाति सर्वमित्यनुभानं तत् प्राज्ञपरिग्रहेऽवकल्पते। आारूपः सत्यसङल्प इति हि प्राज्ञमात्मान- मामनन्ति, न तु तेजोधातुं कश्चित् सूर्यादयो- डनुभान्तीति प्रसिद्धम्। समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्यपेक्षास्ति यं भान्तमनुभायुः। न हि प्रदीपः प्रदीपान्तरम- नुभाति। यदप्युक्तं समानस्वभावकेष्वनुका- रो दृश्यत इति नायमेकान्तो नियमोऽस्ति, भि- न्नस्वभावकेष्वपि त्नुकारो दश्यते, यथा सुत- पोडय:पिण्डोऽग्न्यनुकृतिरिं दहन्तमनुदह- ति, भौमं वा रजो वायुं वहन्तमनुवहतीति।अ- नुकृतेरित्यनुभानमसुसूचत्। तस्य चेति चतुर्थ- पादमस्य श्रोकस्य सूचयति। "तस्य भासा सर्वमिदं विभाती"ति च तज्ेतुकं भानं सूर्यादे- प्रकाशकत्वं भासकत्वार्थमुक्त,तत्रश्रुतिमाह।।भारूप इति।मानाभा- वाच्च तेजोधातुर्न ग्राह इत्याह॥ न त्विति॥ किश्च सूर्यादयस्तेजोऽन्तर- भानमनु न भान्ति तेजस्त्वात् प्रदीपवदित्याह ॥ समत्वाच्चेति॥ योऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह॥ नायमेका- न्त इति॥ पौनरुक्त्यमाशङ्ग्योक्तानुवादपूर्वकं सूत्रोक्तं हेत्वन्तरं व्या -: चष्टे। अनुकृतेरिति ॥ तमेव भान्तमित्येवकारोक्तं तद्गानं विना सर्व स्य पृथग्भानाभावरूपं अनुभानमनुकृतेरित्यनेनोक्तम् । तस्य चेति।
Page 350
(R4) रुच्यमानं प्राज्ञमात्मानं गमयति।"तद्देवा ज्यो- तिषां ज्योतिरायुर्होपासतेऽमृत"मिति हि प्रा- ज्ञमात्मानमामनन्ति। तजोऽन्तरेण तु सूर्यादि- तेजो विभातीत्यप्रसिद्धं विरुद्वं च, तेजोऽन्तरेण तेजोऽन्तरस्य प्रतिघातात्।अथ वा न सूर्यादी- नामेव श्रलोकपरिपठितानामिदं तव्वेतुकं विभान- मुच्यते, किं तर्हि "सर्वमिदमि"व्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्ियाकारकफलजांतस्य याऽभिव्यक्ति: सा ब्रह्मज्योतिःसत्तानिमित्ता। यथा सूर्यादिज्योतिःसत्तानिमिता सर्वस्य रू- पजातस्याभिव्यक्तिस्तद्त्।"न तत्र सूर्यो भा- ती'ति च तत्रशब्दमाहरन् प्रकृतग्रहणं दर्शयति प्रकृतं च ब्रह्म यस्मिनू द्यौः पृथिवी चान्तरि- क्षमोतमित्यादिना। अनन्तर्र च, हिरण्मये प- रे कोशे विरजं ब्रह्म निष्कलम्। तच्छुयं ज्यो- सर्वभासकत्वमुक्तम् इत्यपौनरुक्त्यमित्यर्थः । आत्मनः सूर्यादिभास- कत्वं श्रुत्यन्तरप्रसिद्धमविरुद्ध चेत्याह॥ तद्देवा इति॥ सर्वशब्द: प्र- कतसूर्यादिवाचकत्वेन व्याख्यातः । सम्प्रति तस्यासंकुचद्वृत्तितां म- त्वाऽर्थान्तरमाह ॥ अथवेति ॥ तन्रेति सर्वनामश्रुत्या प्रकृतं ब्रह्म ग्राहमित्याह॥ न तत्र सूर्य इति । किंच स्पष्टव्रह्मपरपूर्वमन्त्राका- ङ्ापूरकत्वादयं मन्त्रो ब्रल्मपर इत्याह ॥ अनन्तरं चेति ॥हिरण्मये ज्योतिर्मये अनमयादयपेक्षया परे कोशे आनन्दमयाख्ये पुच्छशव्दि- ४५
Page 351
(३५४) रत्नप्रभाभासिते [अ० १।पा० ३। तिषां ज्योतिस्तददात्मविदो विदुरिति। कथं तज्योतिषां ज्योतिरित्यत इदमुत्थितं "न तन्र सूर्यो भाती"ति। यदप्युक्त सूर्यादीनां तेजसां
सूर्य इवेतरेषाम् इति, तत्र तु स एव तेजोधातु- रन्यो न सम्भवतीत्युपपादितम्। ब्रह्मण्यपि चै- षां भानप्रतिषेधोऽवकल्पते, यतो यदुपलभ्य- ते तत्ं सर्व ब्रह्मणैव ज्योतिषोपलभ्यते, ब्रह्म तु नान्येन ज्योतिषोपलभ्यते स्वयंज्योतिःस्व- रूपव्वात्, येन सूर्यादयस्तस्मिन् भायुः। ब्रह्म त्न्यद् व्यनक्ति न तु ब्रह्मान्येन व्यज्यते "आ- तं ब्रह्म विरजं आगन्तुकमलशून्यं निष्कलं निरवयवं शुधं नैसर्गिक- मलशन्यं सूर्यादिसाक्षिभूतं ब्रह्मवित्प्रसिद्धमित्यर्थः । सतिसप्तमी- पक्षमनुवदति॥ यदपीति ॥ सूर्याद्यभिभावकतेजोघातौ प्रामाणिके- तस्येह ग्रहणशङ्का स्यातू न तत्र प्रमाणमस्तीत्याह॥ तत्रेति॥सिद्धा- न्ते तत्रेति वाक्यार्थः कथमित्याशङ््ाह॥ ब्रह्मण्यपीति ॥ सतिस- समीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यक्त्ता तस्मिन् सति न भा- स्यन्तीत्यश्रुतभविष्यच्वं कल्पनीयं प्रत्यक्षविरोधनिरासाय, विषयस- समीपक्षे तुन भासयतीत्यश्रुतणिजध्याहारमात्रं कल्प्यं न श्रुतत्याग इति लाघवं, अतो व्रह्मणि विषये सूर्यादेर्भासकत्वनिषेधेन ब्रह्मभा- स्यत्वमुच्यत इत्यर्थः। येनाव्यभास्यत्वेन हेतुना सूर्यादयस्तस्मिन् ब्र- ह्णि विषये भासका: स्यु:, तथा तु ब्रह्मान्येन नोपलभ्यते रवप्रकाश- त्वादिति योजना। उक्तमेव श्रुत्यन्तरेण द्रढयति। ब्रह्मेति॥ सवप्रका-
Page 352
सू०२४। अ०८।] (३५५) त्मनैवायं ज्योतिषास्ते" "अग्त्यो नहि गृत्य- ते" इत्यादिश्रुतिभ्यः॥२२॥ अपि च स्मर्यते॥२३॥ अपि चेदं रूपं प्राज्ञस्यैवात्मनः स्मर्यते भ्- गवद्रीतासु। "न तद्धासयते सूर्यो न शशाङ्गे न पावकः। यद्गत्वा न निवर्तन्ते तद्ाम परमं मम" ॥ इति। "यदादित्यगतं तेजो जगद्रासयतेऽखिलम्। यच्चन्द्रमसि यञ्चागौ तत्तेजो विद्धि मामकम्"॥ इति च॥ २३॥ शब्दादेव प्रमितः॥२४॥ "अङ्गुष्टमात्रः पुरुषो मध्य आत्मनि ति- ष्ठति" इति श्रूयते, तथा "अङ्गुष्टभात्रः पुरुषो शत्वेऽन्याभास्यत्वे च श्रुतिद्दयम्। ग्रहणायोग्यत्वादग्राह इत्यर्थ: २२ णिजध्याहारपक्षे स्मृतिबलमप्यस्तीत्याह ॥। अपि चेति॥ सूत्रं व्याचष्टे ।। अपि चेति॥ अभास्यत्वे सर्वभासकत्वे च क्षोक- इयं द्रष्टव्यं तस्मादनुभानमन्त्रो ब्रह्मणि समन्वित इति सिक्धम् ॥ २३॥ शब्दादेव प्रमित:॥काठकवाक्यं पठति॥अङ्-गुष्ठेति।।पुरुषः पूर्णोऽप्यात्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठतीत्यङ्गुष्ठमात्र इ- त्युच्यते तस्यैव परमात्मत्ववादिवाक्यान्तरमाह।।तथेति॥अधूमकमिति पठनीयम्। योऽङ्गुष्ठमात्रो जीवः सवस्तुतो निर्धूमजोतिर्वन्निर्मलप्र-
Page 353
(३५६) रत्नप्रभाभासिते [अ० १।पा० ज्योतिरिवाधूमकः ईशानो भूतभव्यस्य सए- वाद् सउश्व एतद्वैतत्" इति च तत्र योऽयम- ङ्गुष्ठमात्र: पुरुषः श्रूयते, स किं विज्ञानात्मा किं वा परमात्मति संशयः। तत्र परिमाणोपदे- शाद्विज्ञानात्मेति तावत् प्राप्तमू। न ह्यनन्तायां- मविस्तारस्य परमात्मनोऽङ्गुप्टुमात्रपरिमाण- मुपदिश्येत। विज्ञानात्मनस्तूपाधिमत्वात् स- मभवति कयाचित् कल्पनयाऽङ्गुष्ठमात्रत्वम्, स्मृतेश्र्, अथ सत्यवतः कायात् पाशबद्दं वशङ्गतम्। अङ्गुष्टमात्रं पुरुषं निश्च्वकर्ष यमो बलात्॥इति। काशरूप इति त्वर्मर्थ संशोध्य तस्य व्रह्मत्वमाहाईशधन इति॥तस्या- दितीयत्वमाह॥ स एवेति। कालन्रयेऽपि स एवास्ति नान्यत् नचिके- तसा पृष्ट व्रह्म तदेतदेवेत्यर्थः । परिमाणेशानशव्दाभ्यां संशयमाह। ॥ तत्रेति ।यथानुभानादिलिङ्गात् णिजध्याहारेण सूर्याद्यगोचरो व्र- हेत्युक्तं तथा प्रथमश्रुतपरिमाणलिङ्गता जीवप्रतीतावीशानोऽसमीति ध्यायेदिति विध्यध्याहारेण ध्यानपरं वाक्यमिति पूर्वपक्षयति॥ तत्र- परिमाणेति। पूर्वपक्षे ब्रह्मदष्टया जीवोपासितिः, सिद्धान्ते तु प्रत्य- ख्वल्ैक्यज्ञानं फलमिति मन्तव्यम्। आयामो दैर्ध्य विस्वारो महच्व- मिति भेद:॥ कयादिचिति॥अङ्गुष्टमान्रहृदयस्य विज्ञानशब्दित-
१ जीवमिस्यर्थः २ अंगुठ्मात्र इति परिमाणशब्दः ।
Page 354
सू• २४।अ०८।] शाङ्करव्रह्मसूत्रभाष्ये (३५७ ) नहि परमेश्वरो बलादयमेन निष्क्रष्टं शक्यः तेन तत्र संसार्यङ्गुष्ठमात्रो निश्चितः स एवेहा- पीत्येवं प्राप्ते ब्रूमः। परमात्मैवायमङ्गुष्ठमात्र- परिमितः पुरुषो अवितुमर्हति। कस्मात्! श- ब्दात् "ईशानो भूतभव्यस्ये"ति।न त्यन्यः परमेश्वराद् भूतभव्यस्य निरङ्कुशमीशिता। "एतद्रै तदि"ति च। प्रकृतं पृष्ठमिहानुसन्दधाति, "एतद्वैतत् यत् पृष्ठम्" ब्रह्मेत्यर्थः।पृष्ठं चेह ब्रह्म। "अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् क- ताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत् प- श्यसि तद्दद" इति। शब्दादेवेति अभिधान- श्रुतेरेवेशान इति परमेश्वरोऽवगम्यत इत्य र्थः॥२४॥ कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूम:।। हृद्यपेक्षया तुमनुष्याधिकारत्वात् २५ तत्रापीश्वरः किं न स्यादित्यत आह ॥ न हीति॥ 'प्रभवति संयमने ममापि विष्णु'रिति यमस्येश्वरनियम्यत्वस्मरणादिति भावः। भूत- भव्यस्येत्युपपदाद्ाधकाभावाच्च ईशान इतीशत्वशब्दान्िरङ्कुशमी- शिता भातीति श्रुत्या लिङं बाध्यमिति सिद्धान्तयति ॥ परमात्मैवे- ति। प्रकरणाच्च ब्रह्मपरमिदं वाक्यमित्याह ॥ एतदिति॥ शब्दो वाक्यं लिङ्गात् दुर्बलमित्याशङ््चाह॥ शब्दादिति ॥२४॥ १ अथमच्यवतेंइतिस्मृतौ।
Page 355
(३५८) रत्नप्रभाभासिते [अ० १। पा० ३। सर्वगतस्यापि परमात्मनो हृदयेऽवस्थान- मपेक्ष्याड्गुष्ठमात्रव्वमिदमुच्यते, आकाशस्येव वंशपर्वाेक्षमरत्निमात्रत्वम्।न ह्यअ्षसातिमा- त्रस्यैव परमात्मनोऽङ्गुष्ठामात्रत्वमुपपद्यते। न चान्यः परमात्मन इह ग्रहणमर्हति ईशानश- ब्दादिभ्य इत्युक्तम्। ननु प्रतिप्राणिभेदं हृदया- नामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नो- पपद्यत इत्यत उत्तरमुच्यते, मनुष्याधिकारत्वा- दिति। शास्त्रं ्यविशेषप्रवत्तमपि मनुष्यानेवा-
करः सकानीष्टकाडरति ॥ मुख्याङ्गुष्ठमात्रो जीवो गृह्यतां किं गौणग्रहणेनेत्यत आह । न चान्ये इति॥ सति सम्भवे मुख्यग्रहो न्याय्यः अत्र तु श्रुतिविरोधादसम्भव इति गौणग्रह इत्यर्थः। मनु ष्यानेवेति त्रैवाणिकानेवेत्यर्थः । शक्तत्वादित्यनेन प्ादीनां देवाना- मृषीणांचाधिकारो बाधितः। तत्र पश्चादीनां शास्त्रार्थज्ञानादिसाम- उ्यभावात् कर्मण्यशक्तिः, इन्द्रादेः स्वदेवताके कर्मणि स्वोद्देशेन द्र- व्यत्यागायोगादशक्तिः ऋषीणामार्षेयवरणे ऋष्यन्तराभावादशक्तिः। अर्थित्वादित्यनेन निष्कामानां सुमुक्षूणां स्थावराणां चाधिकारो वा- रिलस्तत्र मुमुक्षूणां शुद्धयर्थित्वे नित्यादिष्वधिकारो, न काम्येषु। शुद्ध- चित्तानां सोक्षार्थित्वे श्रवणादिषु व्यञ्ञकेष्वधिकारो, न कर्मस्विति मन्तव्यम्। शूद्रस्याधिकारं निरस्यति ॥ अपर्युदस्तत्वादिति॥ 'शू- द्रो यज्ञेऽनवक्लप् इति पर्युदासात्, 'उपनयीत तमध्यापयीते'ति शा- स्त्राच न शूद्रस्य वैदिके कर्मण्यधिकारः। तस्यैकजातित्वस्मृतेरुपनय- नप्रयुक्तद्िजातित्वाभावेन वेदाध्ययनाभावात् । अत्रापेक्षितोन्यायः
Page 356
सू० २५/अ०८। ] (३५९) धिकरोति शक्तत्वादर्थित्वादपर्युदस्तत्वादुपन- यनादिशास्त्राच्चेति। वर्णितमेतदधिकारलक्षणे, मनुष्याणां च नियतपरिमाण: कायः औचि- त्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हृद- यम्। अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्य- हृदयावस्थानापेक्षमङ्गुष्टमान्रत्वमुपपन्नं पर- मात्मनः । यदप्युक्तं परिमाणोपदेशात् स्मृ- तेश्र संसार्येवायमङ्गुष्ठमात्रः प्रत्येतव्य इ- ति तत् प्रत्युच्यते 'सआत्मा, तत्त्वमसी' त्या- दिवत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्र- ह्मत्वमिदमुपदिश्यत इति। दिरूपा हि वेदान्त- वाक्यानां प्रवत्तिः, क्वचित् परमात्मस्वरूपनि- रूपणपरा क्वचिद्विज्ञानात्मनः परमात्मैकत्वोप- षष्ठाध्याये वर्णित इत्याह ॥ वर्णितमिति॥ स्वर्गकामो यजेतेत्या- दिशास्त्रस्याविशेषेण सर्वान् फलार्थिनः प्रति प्रवृत्तत्वात् प्राणिमात्र- स्य सुखार्थित्वाच्च फलार्थे कर्मणि पश्चादीनामप्यधिकार इत्याशङ्कन्यो- करीत्या तेषां शक्तत्वाद्यभावात् स्वर्गकामपदं मनुष्यपरतया सङोच्य मनुष्याधिकारत्वे स्थापिते चांतुर्वर्ण्याधिकारित्वमाशङ्ग् 'वसन्ते ब्रा- ह्मणोSग्नीनादधीत ्रीष्मे राजन्यः शरदि वैश्य' इति त्रयाणामेवाग्नि- सम्बन्धश्रवणात् तेषामेवाधिकार इति वर्णितमित्यर्थः । प्रस्तुते कि- मायातं तत्राह॥ मनुष्याणाश्चेति। प्रायेण सप्तवितस्तिपरिमितो म- नुष्यदेह इत्यर्थः । एवमङ्गुष्टशब्द: हृत्परिमाणवाचकः तत्रस्थं ब्रह्म लक्षयतीत्युक्तं, सम्प्रति तच्छब्देनाङ्गुष्ठमात्रजीवमनूवायमीशान इति
Page 357
(३६०) रत्नप्रभाभासिते - [अ० १। पा० ३। देशपरा। तदत्र विज्ञानात्मनः परमात्मनेकत्व- मुपदिश्यते नाङ्गुष्टुमात्रत्वं कस्यचित्। एतमे- वार्थ परेण स्पष्टीकरिष्यति।"अङ्गुष्ठमात्र:पु- रुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ः। तं स्वाच्छरीरात् प्रबहेन मुआदिवेषीकां धैर्येण तं विद्याच्छुक्रममृत" मिति॥२५॥ तदुपर्यपि बादरायण: सम्भवात्॥२६॥ अङ्गुष्टमात्रश्रुतिर्मनुष्यहृदयापेक्षा मनुष्या- धिकारत्वाच्छास्त्रस्येत्युक्तं, तत्रसङ्गादिदमुच्य- ते। बाढं, मनुष्यानधिकरोति शास्त्रं न तु मनु- ब्रह्माभेदो बोध्य इति वक्तुमुक्तमनुवदति ॥ यदपीति ॥ प्रतिपादयाभे- दविरोधात् अनुवाद्याङ्गुष्ठमात्रत्वं वाध्यं तात्पर्यार्थस्य बलवच्वादित्या- ह ॥ तदिति ॥ क्वचिदस्थूलमित्यादौ। क्वचित्तच्वमसीत्यादौ। ए- कत्वार्थे वाक्यशेषमनुकलयति। एतमिति। श्रुतिर्यमो वा कर्ता द्रष्ट- व्यः तंजीवं प्रवृहेत् पृथक् कुर्यात् धैर्येण बलवदिन्द्रियनिग्रहादिना तं. विविक्मात्मानं शुक्कं स्वप्रकाशममृतं कूटस्थं ब्रह्म जानीयादित्यर्थः । तस्मात् कठवाक्यं प्रत्यगब्रह्मणि ज्ञेये समन्वितमिति सिद्धम्।।२५।। शास्त्रस्य मनुष्याधिकारत्वे देवादीनां ब्रह्मविद्यायामप्यनधिकारः स्यादित्याशङ्ग्चाह ॥तदुपर्यपि बादरायणः सम्भवात्॥ ननु सम- न्वयाध्यायेSविकारचिन्ता न सङ्गतेत्यत आह॥ अङ्गुष्ठेति॥ स्मृत- स्योपेक्षानर्हत्वं प्रसङ्ग: अत्र मनुष्याधिकारत्वोक्त्या स्मृतानां देवादी- नां वेदान्तश्रवणादावधिकारोस्ति न वेति सन्देहे भोगासक्तानां वै- राग्यासम्भवान्नेति प्राप्ते सिद्धान्तमाह ॥ बाढमिति ॥ एवमधि-
Page 358
सू ०२६। अ० ९] शाङ्करब्रह्मसूत्रभाष्ये (३६१) व्यानेवेतीह ब्रह्मज्ञाने नियमोऽस्ति, तेषां मनु- व्याणामुपरिष्ठाधे देवादयस्तानव्यधिकरोति शास्त्रमिति बाढारायण आचार्यो मन्यते, क- स्मात्! सम्भवात्। सम्भवति हि तेषामप्यर्थि- त्वाद्यधिकारकारणस्। तत्रार्थित्वं तावन्मोक्षवि- षयं देवादीनामपि सम्भवति विकारविषयवि- भूत्यनित्यत्वालोचनादिनिमित्तम्। तथा साम- थर्यमपि तेषां सम्भवति मन्त्रार्थवादेतिहासपु- राणलोकेभ्यो विग्रहत्वाद्यवगमात्। न च तेषां कश्चित् प्रतिषेधोऽस्ति। न चोपनयनादिशाखत्रे- कारविचारात्मकाधिकरणद्दयस्य प्रासङ्गिकी सङ्गतिः । अत्र पूर्वप- क्षे देवादीनां ज्ञानानधिकारात् देवत्वप्राप्तिद्वारा क्रममुक्तिफलासु दह- राधुपासनासु क्ममुक्त्यार्थनां मनुष्याणां अप्रवृत्ति: फलं सिद्धान्ते तु प्रवृत्तिः। उपासनाभिर्देवत्वं प्राप्तानां श्रवणादिना ज्ञानान्मुक्तिसम्भवा- दिति सफलोडयं विचारः। ननु भोगासक्तानांतेषं मोक्षाित्वाभावा- नाधिकार इत्यत आह। अर्थित्वं तावदिति। विकारत्वेनानृतविष- यसुखस्य क्षयासूयादिदोषदृष्टया निरतिशयसुखमोक्षार्ित्वं सच्प्रक- तीनां देवानां सम्भवतीत्यर्थः। नन्विन्द्राय स्वाहेत्यादौ चतुर्थ्यन्तशब्दा तिरिक्ता विग्रहवंती देवता नास्ति शब्दस्य चासामर्थ्यान्नाधिकार इ- त्यत आह। तथेति। अर्थित्ववदित्यरथः । अपर्युदस्तत्वमाह ॥ न च तेषामिति॥ "शूद्रो यज्ञेऽनवक्लपः" इतिवत् देवादीनां विद्याधि- कारनिषेधो नास्तीत्यर्थः। ननु विग्रहवत्वेन दृष्टसामर्थ्ये सत्यप्युप- नयनाभावात् शास्त्रीयसामर्थ्य नारतीत्यत आह ॥ न चेति॥ जन्मा- १ देवानाम् । ४६
Page 359
(३६२ ) रत्नप्रभाभासिते [अ० १। पा०३। णैषामधिकारो निवत्येत। उपनयनस्य वेदा- ध्ययनार्थत्वात्,तेषां च स्वयंप्रतिभातवेदत्वात्। अपि चैषां विद्याग्रहणार्थ ब्रह्मचर्यादि दर्शय- ति "एकशतं ह वै वर्षाणि मघवान् प्रजापतौ व्र- ह्रचर्यमुवास,""भृगुर्वै वारुणिर्वरुणं पितरमु- पससार अधीहि भगवो ब्रह्मे त्यादि। यदपि कर्मस्वनधिकारकारणमुक्तं न देवानां देवतान्त- राभावात्न ऋषीणामार्षियान्तराभावादिति न तद्विद्यास्वस्ति। न हीन्द्रादीनां विद्यास्वधि- क्रियमाणानामिन्द्रादुद्देशेन किंचित् कृत्यम- स्ति, न च भृग्वादीनां भृग्वादिसगोत्रतया। तस्माददेवादीनामपि विद्यास्वधिकारः केन वा- न्तराध्ययनवलात् स्वयमेव प्रतिभाताः स्मृता वेदा येषां ते तथा तन्ना- वादित्यर्थः। वालादिषु प्रविष्टपिशाचादीनां वेदोद्दोषदर्शनात् । देवयो- नीनां जन्मान्तरस्मरणमस्तीति स्मृतवेदान्तानामर्थविचारो युक्त इ- त्यर्थः। देवानां च ऋषीणां च विद्याधिकारे कारणमथित्वादिकमुत्ता श्रौतं गुरुकुलवासादिलिङ्गमाह॥ अपि चेति॥ ननु ब्रह्मविद्या देवा- दीन्ाविकरोति वेदार्थत्वात् अग्निहोत्रवदित्यत आह ॥ यदपीति॥ देवानां कर्मसु नाधिकार: देवतान्तराणामुद्देश्यानामभावादिति प्रथ- मसूत्रार्थः, ऋषीणामनधिकारः ऋष्यन्तराभावात् ऋपियुक्ते कर्म- ण्यशक्तेरिति द्दितीयसूत्रार्थः। असामर्थ्यमुपाधिरिति परिहरति॥ न- तदिति॥ असामर्थ्यरूपं कारणमित्यर्थः, न हस्ति येनासामर्थ्य स्या- दिति शेषः "तयो यो देवानां प्रत्यबुध्यत सएव तदभवत्, तथपीणा"-
Page 360
सू. २७/अ० १॥] (३६३) र्यते। देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वा- ड्गुष्ठापेक्षया न विरुध्यते॥२६॥ विरोध: कर्मणीति चेन्नानेकप्रतिपत्तेद- र्शनात्॥२७॥ स्यादेतत् यदि विग्रहवतत्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत विग्रहव- चवात् ऋत्विगादिवत् इन्द्रादीनामपि स्वरूप- सन्निधानेन कर्माङ्गभावोऽभ्युपगम्येत, तदा च- विरोधः कर्मणि स्यात्, न हीन्द्रादीनां स्वरू- पसन्निधानेन यागेऽङ्गभावो दृश्यते, न च स- मिति वाक्यबाधोऽप्यनुमानस्य द्रष्टव्यः। ननु देवादीन् प्रत्यङ्गुष्ठमा- त्रश्रुतिः कथं तेषां महादेहत्वेन हृदयस्यास्मद्ङ्गुष्ठमात्रत्वाभावातू। अतः श्रुतिषु तेषां नाधिकार इत्यत आह ॥ देवाद्यधिकारेऽ- पीति॥ २६॥ ननु मन्त्रादीनां प्रतीयमानविग्रहवच्वे तात्पर्य कल्पयित्वा देवादीनामधिकार उक्तः स चायुक्तः अन्यपराणां तेषां प्रत्यक्षादिविरो- धेन स्वार्थे तात्पर्यकल्पनानुपंपत्तेरित्याक्षिप्य सूत्रचतुष्टयेन परिहरति ॥। विरोधः कर्मणीत्यादिना॥ वर्ण्येत, तहीति शेषः । स्वरूपं वि- ग्रहः अभ्युपगमे प्रत्यक्षेण देवता दृश्येत न च दृश्यते अतो योग्यानु- पलब्ध्या देवताया विग्रहवत्या अभावात् सम्प्रदानकारकाभावेन कर्मनिष्पत्तिर्न स्यादित्याह ॥ तदा चेति॥ विग्रहस्याङ्कत्वं अनुपल- ब्धिवाधितं युक्त्या च न सम्भवतीत्याह ॥ न चेति॥ तस्मादर्थोप- .
Page 361
(३६४) रत्नप्रभाभासिते [अ०१। पा०३। म्भवति। बहुषु यागेषु युगपदेकस्येन्द्रस्य स्व रूपसत्निधानतानुपपत्तेरिति चेत्, नायमस्ति- विरोध:, कस्मादनेकप्रतिपत्ेः एकस्यापि देव- तात्मनो युगपदनेकस्वरूपप्रतिपत्तिः सम्भव- ति। कथमेतदवगम्यते, दर्शनात्। तथा हि 'कति देवा' इत्युपक्रम्य 'प्यश्ष् त्रीच शता त्र- यश्र त्री च सहस्रेति निरुच्य 'कतमे ते' इत्यस्यां पृच्छायां 'महिमान एवैषामेते त्रय- खिंशत्वेव देवा? इति ब्रुवती श्रुतिरेकैकस्य दे- वतात्मनो युगपदनेकरूपतां दर्शयति। तथा त्रयसितिरंशतोऽपि पडाद्यन्तर्भावक्रमेण 'कतम ए- को देव' इति 'प्राण' इति प्राणैकरूपतां देवा- हितशब्द छव देवता तस्या अचेतनत्वान्न विद्याधिकार इति शङ्का- र्थें परिहरति। नायमिति ॥ एकस्यापि देवस्य योगवलादनेकदेह- प्राम्ति: श्रुतिरमृतिदर्शनात् सम्भवति। अतो न कर्मण विरोध इति व्याचष्टे। कम्समादित्यादिना। वैखदेवशास्त्रे शस्यमानदेवा: कतीति शाकल्येन पृष्टेवे याज्ञवल्क्यो निविदा त्रयश्वेत्यादिरूपया उत्तरं ददौ। निविलाम शस्तयमानदेवसङ्चावाचक: शब्दः।पडधिकानि त्रीणि श- तानि त्रीणि सहन्ल्राणीति सङ्गयोक्तौ सङ्ग्येयस्वरूपप्रश्ने महिमानो विभूतयः सर्वे देवापः, एषां त्रयसित्रिंशद्देवानां अष्टौ वसव एकादश रुद्रा हादशादित्या इन्द्रःयप्रजापतिश्रेति त्रयस्त्रिंशद्देवास्तेSपि षण्णां अग्नि- पृथिववाथ्वन्तरिक्षायदत्यदिवां महिमानस्तेपि षट्सुदेवेषुअन्तर्भव- न्ति। पटू देवास्त्रिु लो देकेषु त्रयश् इयोरन्नप्राणयोद्ौं च एकस्मिन् प्रा-
Page 362
सू० २७ । अ० १] शाङ्करब्रह्मसूत्रभाष्ये (३६५) नां दर्शयन्ती तस्यैवैकस्य प्राणस्य युगपदने- करूपतां दर्शयति। तथा स्मृतिरपि। "आत्मनो वै शरीराणि बहूनि भरतर्षअ। योगी कुर्याह्वलं प्राप्य तैश्व सवैर्महीं चरेत्॥ प्राप्ुयाद्विषयान् कैश्वित् कैश्र्िविदुयं तपश्ररेत् सट्गिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव॥ इत्येवंजातीयिका प्राप्ताणिमाद्यैश्वर्याणां यो- गिनामपि युगपदनेकशरीरयोगं दर्शयति किमु वक्तव्यमाजानसिद्धानां देवानाम्।अनेकरूपप्र- तिपत्तिसम्भवाचचैकैका देवता बहुभी रूपैरात्मा- नं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छ- ति परैश् न दृश्यतेऽन्तर्धानादिशक्तियोगादि- त्युपपद्यते। अनेकप्रतिपत्तेर्दर्शनात् इत्यस्याप- णे हिरण्यगर्भे अन्तर्भवत इति दर्शितमित्यर्थः। त्रयस्त्रिंशतोऽपि देवा- नामिति सम्बन्धः । दर्शनं श्रौतं व्याख्याय स्मार्त व्याचष्टे॥ तथा स्मृतिरिति॥ बलं योगसिद्धिम्। अणिमा महिमा चैव लघिमा प्राप्तिरीशता। प्राकाम्यं च वशित्वं च यत्र कामावसायिता॥ इत्यष्टैश्व्वर्याणि। क्षणेन अणुर्महान् लघुर्गुरुश्ष भवति योगी। अ- ङ्-गुल्या चन्द्रस्पर्श: प्राप्तिः। ईशता सृष्टिशक्तिः। प्राकाम्यं इच्छानभि- घातः। वशित्वं नियमनशक्तिः। सङकल्पमात्रादिष्टलाभो यत्र कामा- वसायितति भेदः। आजानसिद्धानां जन्मना सिद्धानामित्यर्थः।फ लितमाह॥ अनेकेति ॥ अनेकेषु कर्मस्वेकस्य प्रतिपत्तिरङ्गभावः।
Page 363
:(१.६.६) रत्नप्रभाभासिते [अ० १। पा० ३। रा व्याख्या विग्रहवतामपि कर्माङ्गभावचोदना- स्वनेका प्रतिपत्तिर्दश्यते। क्वचिदेकोऽपि विग्रह- वाननेकत्र युगपदङगभावं न गच्छति यथा बहु- निर्भोजयद्विर्नैको ब्राह्मणो युगपद्गोज्यते। क्व- चित्वेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति। यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते तद्ददिहोद्देशपरित्यागात्मक- त्वाद्यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वंस्वं द्रव्यं युगपत् परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां किंचित् कर्मणि विरुध्य- ते॥२७॥ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षा- नुमानाध्याम्॥२८।। मा नाम विग्रहवत्वे देवादीनामभ्युपगम्य- माने कर्मणि कश्विद्विरोध: प्रसख्ि शब्दे तु वि- तस्य लोके दर्शनादिति वकुं व्यतिरेकमाह। क्वचिदेक इति। प्रक- तोपयुक्तमन्वयदृष्ठान्तमाह। क्वचिढ़िति ॥२७॥ कर्मण्यविरोधमङ्गीरुत्य शब्दप्रामाण्यविरोधमाशङ्गच्य परिहरति॥- ब्द इति चेदिति।मा प्रसञ्नि प्रसक्तो माभूनामेत्यर्थः। औत्पत्तिकसू- त्रे शब्दार्थयोरनायोः सम्बन्धस्यानादित्वाद्देदस्य मानान्तरानपेक्षत्वेन प्राणाण्यमुक्तम, इदानीं अनित्यविग्रहव्यक्त्यभ्युपगमे तत्सम्बन्धस्या-
Page 364
सू०२८।अ०९ ] शाङ्करव्रह्मसूत्रभाष्ये . (३६७) रोध: प्रसज्येत, कर्थं औत्पत्तिकं हि शब्दस्या- र्थेन सम्बन्धमाश्रित्यानपेक्षत्वादिति वेदस्य प्रामाण्यं स्थापितम। इदानों तु विग्रहवती दे- वताऽभ्युपगम्यमाना यद्यप्यैश्वर्ययोगाद्युगप- दनेककर्मसम्बन्धीनि हवींषि भुख्जीत तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति नित्यस्य शब्दस्यानित्येनार्थेन नित्यसम्बन्धे प्रलीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितं त- स्य विरोधः स्यादिति चेन्नायमप्यस्ति विरो- धः, कस्मात् अतः प्रभवात्। अत एव हि वै- दिकाच्छब्दाद्देवादिकं जगत् प्रभवति। ननु ज- न्मादस्य यत इति ब्रह्मप्रभवत्वं जगतोऽवधा- रितं कथमिह शब्दप्रभवत्वमुच्यते।अपि च यदि नाम वैदिकाच्छब्दादस्य प्रभवोऽभ्युपगतः क- थमेतावता विरोधः शब्दे परिहतः यावता व-
प्यनित्यत्वात् मानान्तरेण व्यक्तिं ज्ञात्वा शब्दस्य सङ्गेतः पुंसा कर्त- व्यः इति मानान्तरापेक्षत्वात् प्रामाण्यस्य विरोधः स्यादित्याह। क- थमित्यादिना। किं शब्दानामनित्यतया सम्बन्धस्य कार्यत्वमापा- दते उतार्थानामनित्यतया, नाथ इत्याह ॥ नायमपीति ॥ कर्मण्य- विरोधवदित्यपेरर्थः। देवादिव्यक्तिहेतुत्वेन प्रागेव शब्दानां सच्वात् नानित्यत्वमिति भावः। अत्र पूर्वापरविरोधं शङ्गते ॥ नन्विति॥ शब्दस्य निमित्तत्वेन ब्रह्मसहकारित्वादविरोध इत्याशङ्ग्य द्वितीर्य
Page 365
(३६८) रत्नप्रभाभासिते [अ० १।पा० ३। सवो रुद्रा आदित्या विश्वे देवा मरुत इत्येते- ऽर्था अनित्या एवोत्पत्तिमत्वात् तदनित्यत्वे च तद्वाचिनां वैदिकानां वस्वादिशव्दानामनित्यत्वं केन निवार्यते। प्रसिद्धं हि लोके देवदत्तस्य पुत्रे उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियते इ- ति। तस्माद्विरोध एव शब्द इति चेन्न गवा- दिशब्दार्थसम्बन्धनित्यत्वदर्शनात्। नहि गवा- दिव्यक्तीनामुत्पत्तिमत्वे तदाकृतीनामप्युत्पत्ति मत्त्वं स्यात्, द्रव्यगुणकर्मणां हि व्यक्तय एवो- त्पद्यन्ते नाकृतयः । आकृतिभिश्र शब्दानां स- म्बन्धो न व्यक्तिभिः।व्यक्तीनामानन्त्यात् स- म्बन्धग्रहणानुपपत्तेः । व्यक्तिषृत्पद्यमानास्व- प्याकृतीनां नित्यत्वान्न गवादिशव्देषु कश्िद्वि- कल्पमुत्थापयति ॥ अपि चेति॥ अनित्यत्वं सादित्वं व्यक्तिरूपार्था- नामनित्यतया-शब्दानां सम्बन्धस्यानित्यत्वं दुर्वारं, तस्मात् पौरुषे- यसम्बन्धसापेक्षत्वात् प्रामाण्यविरोध इत्यर्थः। न च व्यक्तीनामनि- त्यत्वेपि घटत्वादिजातिसमवायवत् शब्दमम्बन्धोSपि नित्यः स्यादि- ति वाच्यम्,उभयाश्रितसम्बन्धस्यान्यतराभावे स्थित्ययोगेन दृष्टान्ता- सिद्धेरिति भावः। यथा गात्वादयो गवादिशब्दवाच्याः तथा वसुत्वा- व्याकतयो वस्वादिशब्दार्थाः न व्यक्तय इति परिहरति। नेत्यादिना।। शब्दानां तदर्थानां जातीनां च नित्यत्वात्तत्सम्बन्धोऽपि नित्य इति प्रति- पादयति॥न ही त्यादिना ॥व्यक्तीनामानन्त्यादिति॥न च गोत्वा- वच्छेदेन व्यक्तिषु शक्ति: सुग्रहेति वाच्यं, सामान्यस्याप्रत्यासत्तित्वेन
Page 366
सु०२८1अ०१।] शाङरब्रह्मसूत्रभाष्ये (३६९) रोधो दृश्यते तथा देवादिव्यक्तिप्रभदाभ्युपग- मेऽपि आकृतिनित्यत्वान्न कश्विद्स्वादिशब्देषु विरोध इति द्रष्टव्यम्। आकृतिविशेषस्तु देवादी- नां मन्त्रार्थवादादिभ्यो विग्रहवत्वाद्यवगमाद- वगन्तव्यः।स्थानविशेषसम्बन्धनिमित्ताश्रेन्द्रा-
सर्वव्यक्तयुपस्थित्यभावात् गोत्वं शक्यतावच्छेदकमितिग्रहापेक्षया गोत्वं शक्यमिति लाघवात् निरूढजहल्लक्षणया व्य्क्तेलभिनानन्यल- भ्यत्वाभावाच्चेति भावः। यद्दा केवलव्यक्तिषु शक्तिरत्र निरस्यतेऽ- नुपपन्तिज्ञानं विनैव व्यक्तेः शब्दशक्त्यायत्तजातिज्ञानाविषयत्वेन उभयशक्तेरावश्यकत्वात् । तथा च नित्यजातितादात्म्येन व्यक्ते- रनादित्वात्तत्सम्बन्धोऽप्यनादि: सत्कार्यवादात् अतएव वाक्यवृत्तौ सत्वमस्यादिवाक्ये भागलक्षणोक्ता युज्यते केवलसामान्यस्यावाच्य- त्वेऽखण्डार्थस्य वाच्यैकदेशत्वाभावात्।"अतः प्रभवादि"ति सू- त्रस्वारस्याच्च केवलव्यक्तिनिरास इति गम्यते। केवलव्यक्तिवचनाः खलु डित्यादिशब्दा: अर्थानन्तरभाविनः साङ्गेतिकाः गवादिशब्दास्तु व्यक्तिप्रभावहेतुत्वेन प्रागेव सन्तीति न व्यक्तिमान्रवचना: साङ्केति-
इति मन्तव्यम्। न चेन्द्रादिव्यक्तेरेकत्वेन जात्यभावादाकाशशब्दवत् इन्द्रचन्द्रादिशव्दा: केदलव्यक्तिवचना इति साम्प्रतं अतीतानागत- व्यक्तिभेदेन जात्युपपत्तेरित्यलं प्रपश्चेन, दष्टान्तमुपसंहत्य दार्ष्टान्ति- कमाह ॥व्यक्तिष्वित्यादिना ॥ आकतिर्जातिः। ननु का सा व्यक्ति: यदनुगतेन्द्रत्वादिजातिः शब्दार्थः स्यादित्यत आह॥ आकृतिवि- शोषस्त्विति॥ वज्रहस्तः पुरन्दर इत्यादिस्य इत्यर्थः । इन्द्रादिशब्दा- नां जातिः इन्द्रादिषु प्रवृत्तिनिमित्तमित्युक्क्ा उंपाधिनिमित्तत्वमाह ४७
Page 367
(३७ ८ ) रत्नप्रभाभासिते [अ०१।पा० ३। दिशब्दाः सेनापत्यादिशब्दवत्। ततश्र यो य- स्तत्तत्स्थानमधितिष्ठति स स इन्द्रादिशब्दैर- भ्षिवीयते इति न दोषो भवति। न चेदं शब्दप्र- भवत्वं ब्रह्मप्रभवत्ववदुपादानकारणत्वाभ्िप्रा- येणोच्यते कथं तर्हि स्थितिवाचकात्मना नित्ये शब्दे नित्यार्थसम्बन्धिनि शब्दव्यवहारयोग्या- र्थव्यक्तिनिष्पत्तिरतः प्रभव इत्युच्यते। कथं पुन- रवगम्यते शब्दात् प्रभवति जगदिति प्रत्यक्षा- नुमानाभ्याम्।प्रत्यक्ष श्रुतिः प्रामाण्यं प्रत्यनपे- क्षव्वात अनुमानं स्मति: प्रामाण्यंप्रति सापेक्ष- त्वातू।तेहि शब्दपूर्वी सृष्टिंदर्शयतः।"एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव । स्थानेति॥ व्यक्तिपलयेऽपि स्थानस्य स्थायित्वात् शब्दार्थसम्ब- न्धनित्यता इत्यत आह॥ ततश्रेति॥ उक्त पूर्वापरविरोधं परिहरति ॥ न चेति॥ शब्दो निमित्तमित्यविरोधं मत्वा सूत्रशेपमवतारयति । कथं पुनरिति॥ स्मृत्या स्वप्रामाण्यार्थ मूलश्रुतिरनुमीयत इत्य- नुमानं स्मृतिः। "एतैः असृयरमिन्दवस्तिरःपवित्रमाशवः। विश्वान्यभि- सौभगे"त्येतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत। तत्रैत इति पदं सर्वनामत्वात् देवानां स्मारकं, असृय्ुधिरं तत्प्रधाने देहे रमन्त इति असृया मनुष्याः । चन्द्रस्थानां पितृणां इन्टुशब्दः स्मारकः। पवित्रं सोमस्थानं तिरस्कुर्वतां ग्रहाणां तिरःपवित्रशव्दः। ऋचो- श्रुवतां स्तोत्राणां गीतिरूपाणामाशुशव्दः। "ऋच्यध्यूढं सामे"ति श्रुतेः। स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः । सर्वत्र
Page 368
सू०२८।अ०१।] शाङ्गरब्रह्मसूत्रभाष्ये (३७१) इति पितृंस्तिरःपवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभिसौभगेत्यन्याः प्र- जा" इति श्रुतिः । तथान्यत्रापि "स मनसा वाचं मिथुनं समभवदित्यादिना तन्र तत्र श- ब्दपूर्विका सृष्टिः श्राव्यते।स्मृतिरपि। अनादिनिधना नित्या वागुत्सृष्ा स्वयम्भुवा। आदौवेदमयी दिव्या यतः सर्वा: प्रटत्तय:।।इति। उत्सर्गोऽप्ययं वाच सम्प्रदायप्रवर्तनात्मको द्र- ष्व्य: अनादिनिधनाया अन्यादृशस्योत्सर्ग- स्यासम्भवात्। तथा। नामरूपे च भूतानां कर्मणां च प्रवर्तनम्। वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः॥इति॥ सर्वेषां च स नामानि कर्माणि च पृथक्पृथक्। वेदशब्देभ्य एवादौ पृथक् संस्थाश्ष निर्ममे।इतिच॥ अपि च चिकीषितमर्थमनुतिष्ठन् तस्य वा-
सौभाग्ययुक्तानामभिसौभगशब्दः स्मारक इति छन्दोगव्राह्मणवाक्या- र्थः। स प्रजापतिर्मनसा वाचं त्रयीमिथुनं समभवत्। मनोवायूपं मिथुनं सम्भावितवान् मनसा त्रयाप्काशितां सृष्टिमालोचितवानि- त्यर्थः । रश्मिरित्येवादित्यमसृजतेत्यादि: श्रुतिरादिशब्दार्थः । सम्प्र- दायो गुरुशिष्यपरम्पराध्ययनं । संस्था अवस्था: या प्रजापतिसृष्टिः सा शब्दपूर्विका सृष्टित्वात् प्रत्यक्षवटादिवदिति प्रत्यक्षानुमानाभ्यामि त्यस्यार्थान्तरमाह। अपि चेति। अतः प्रभवत्वप्रसङ्गात् शब्दस्वरूपं
Page 369
(३७२) रत्नप्रभाभासित [अ० १पा. ३। चकं शब्दं पूर्व स्मत्वा पश्राद्मर्थमनुतिष्ठतीति सर्वेपां नः प्रत्यक्षमेतत्। तथा प्रजापतेरपि स्रफु: सृष्टेः पूर्व वैदिका: शब्दा मनसि प्रादुर्वभूवुः पश्चात्तदनुगतानर्थान् ससजेंति गम्यते। तथा च श्रुतिः "स भूरिति व्याहरन् स भूमिमसृज- ते"'त्येवमादिका भूरादिशव्देभ्य एव मनसि प्रा- दुर्भूतेभ्यो भूरादीन लोकान सृष्टान् दर्शयति। किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभव- त्वमुच्यते। स्फोटमित्याह। वर्णपक्षे हि तेषा- मुत्पन्नप्रध्वंसित्वान्नित्येभ्यःशव्देभ्यो देवादिव्य- कीनां प्रभव इत्यनुपपन्नं स्यात्। उत्पन्नप्रध्वं- सिनश्र वर्णाः प्रत्युच्चारणमन्यथा चान्यथा च प्रतीयमानत्वात्। तथा त्यदश्यमानोऽपि पुरु- षविशेषोऽध्ययनध्वनिश्रवणादेव विशेषतो नि वक्तुमुक्तमाक्षिपति।। किमात्मकमिति। वर्णरूपं तदतिरिक्तरफोटरूपं चेति किशव्दार्थ:। तत्र वर्णानामनित्यत्वात् स्फोटस्य चासच्वात् न जगद्वेतुत्वं इत्याक्षेपे द्वितीयपक्षं वैयाकरणो गृह्वाति। स्फोटमिति॥ स्फुच्यते त त्र्यज्यत इति स्फोटो वर्णव्यङगच्ोऽर्थस्य व्यञ्जकोगवा- िवनामत् स्तमभिप्रेत्येदमुच्यते इति पूर्वणान्वयः, से एवाद्यपक्षं ति असृया म॥ सोडयं गकार इति प्रत्यभिज्ञया वर्णनित्यत्वसि- मं सोमस्थानत आह। उत्पन्नेति ॥ तारत्व मन्दत्वादिविरुद्धधर्म- वच्वेन चात्राणां गे मन्डो गकार इति प्रतीयमानगकारस्य भेदानुमा- १ वैयाच नानन्तर
Page 370
सू० २८। अ० ९] शाङ्करब्रह्मसूत्रभाष्ये (३७३) धार्यते देवदत्तोऽयमधीते यज्ञदत्तोऽयमधीते इ- ति। नचायं वर्णविषयोऽन्यथात्वप्रत्ययो मि- थ्याज्ञानं बाधकप्रत्ययाभावात्। न च वर्णेभ्यो- डर्थावगतिर्युक्ता, न. त्येकैको वर्णोऽर्थ प्रत्याय- येत् व्यभिचारात्। न च वर्णसमुदायप्रत्ययो- स्ति क्रमवत्वादूर्णानाम्। पूर्वपूर्ववर्णानुभवज- नितसंस्कारसहितोऽन्त्यो वर्णोडर्थ प्रत्याययि- ष्यतीति यद्युच्येत, तन्न, सम्बन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोऽर्थ प्रत्याययेत् धूमा- दिवत्, न च पूर्वपूर्ववर्णानुभवजनितसंस्कारस- नातू प्रत्यभिज्ञा गत्वजातिविषयेत्यर्थः।ननु विरुद्धधर्मज्ञानं ध्वन्युपाधि- कं भ्रम इत्यत आहा। नचेति॥ तथा च वर्णानामनित्यत्वात् न जग- द्वेतुत्वमिति भावः। किं चतेषामर्थबोधकत्वायोगात् स्फोटोडड्ीकार्य इत्याह॥ नचवर्णेभ्य इत्यादिना॥ व्यभिचारात् एकस्मादर्णादर्थप्रती- त्यदर्शनात्: वर्णान्तरवैयर्थ्यप्रसङ्गाच्चेत्यर्थः। तर्हि वर्णानां समुदायो बोधक इत्याशङ्ड्या क्षणिकानां से नास्तीत्याह॥नचेति॥ वर्णानां स्व तःसाहित्याभावेऽपि संस्कारलक्षणापूर्वद्दारा साहित्यमाग्नेयादियागा- नामिवेति शङ्कते ॥ पूर्वेति॥ किमयं संस्कारो वणर्जनितोऽपूर्वाख्यः कश्वित् उत वर्णानुभवजनितो भावनाख्यः । नायो मानाभावात्। किंचायमज्ञातो ज्ञातो वार्ऽर्थधीहेतुः नाथ इत्याह ॥ तन्नेति॥संस्कार- सहितः शब्दो ज्ञात एवार्थधीहेतुः सम्बन्धग्रहणमपेक्ष्य बोधकत्वात् धूमादिवदित्यर्थः । द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन, नाय १ समुदायः।
Page 371
(३७४) रत्नप्रभाभासिते [अ०१।पा० ३। हितस्यान्त्यवर्णस्य प्रतीतिरस्त्यप्रत्यक्षत्वात् संस्काराणाम्। कार्यप्रत्यायितैः संस्कारैःसहि- तोऽन्त्यवर्णोऽर्थ प्रत्याययिष्यतीति चेन्न, सं- स्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात्, त- स्मात् स्फोट एव शब्द:, स चैकैकवर्णप्रत्यया- हितसंस्कारबीजेऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभ्ा- इत्याह॥ नचेति॥ द्वितीयं शङ्कते॥कार्येति॥ कार्यमर्थधीस्तस्यां जा- तायां संस्कारप्रत्ययः तस्मिन् ज्ञाते सेति परस्पराश्रयेण दूपयति॥नेति। पदार्थस्मरणस्यापि पदज्ञानानन्तरभावित्वात् तेन संस्कारसहितान्त्य- वर्णात्मकपदस्य ज्ञानं न युक्तमित्यक्षरार्थः । अपिशव्दः परस्पराश्रय- ब्योतनार्थः। एतेन भावनासंस्कारपक्षोऽपि निरस्तः। तस्य वर्णस्मृति- मात्रहेतुत्वेनार्थधीहेतुत्वायोगात्। न चान्त्ववर्णसाहित्यादर्थधीहे- तुत्वं केवलसंस्कारस्य तु वर्णस्मृतिमात्रहेतुत्वमिति वाच्यं अर्थधी- षा भावनाया ज्ञानाभावेनार्थधीहेतुत्वायोगातू। न च वर्णस्म- वक्तुमुक्तता सा अन्त्यवर्णसहिता अर्थधीहेतुरिति वाच्यं, तत्कार्य- चेति किंश जगद्वेतुत्वं नामन्त्यवर्णसाहित्याभावादितिभावः । वर्णानामर्थबो- स्फुच्तेफलमाह ॥ तस्मादिति।।स्फोटेऽपि कि मानमित्या- दिशविनामलज्ञे प्रत्यक्ष प्रमाणमित्याह॥ स चेति॥ यथा रत्नतच्वं दरत असृया मत: स्फुटं भासते तथा गवादि पदस्फोटो गकारा- द्वेनत सोमस्था-स्फोटविपयैः आहिताः संस्कारा बीजं यस्मि- वच्वेन सात्राणां सेर णतप्रत्ययेन जनितः परिपाकोऽन्त्यः संस्का- १ वैयावी क्ोतानन्तर यिनि चित्ते एक गौरितिपदमिति प्रत्ययः प्र-
Page 372
सू० २८। अ० ९/] शाङ्करव्रह्मसूत्रभाष्ये (३७५) सते।नचायमेकप्रत्ययो वर्णविषयास्मतिः, वर्णा- नामनेकव्वादेकप्रत्ययविषयत्वानुपपत्तेः। तस्य च प्रत्युच्चारणं प्रत्यभिज्ञाय मानत्वान्नित्यत्वं, भेद - प्रत्ययस्य वर्णविषयत्वात्। तस्मान्नित्याच्छब्दा- त् स्फोटरूपात् अभिधायकात् क्रियाकारकफ- ललक्षणं जगदभिधेयभूतं प्रभवतीति। वर्णा एव तुशब्द इति भगवानुपवर्षः। ननूत्पन्नप्रध्वं- सिव्वं वर्णानामुक्तं तन्न, त एवेति प्रत्यभिज्ञा- नात्। सादृश्यात् प्रत्यभिज्ञानं केशादिष्विवे- ति चेन्न प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधा- नुपपत्तेः। प्रत्यभिज्ञानमाकृतिनिमित्तमिति चे- त्यक्षस्तदविषयतया स्पष्ट अवभासत इत्यर्थः । अनेन वर्णान्वयव्यति- रेकयो: स्फोठज्ञाने ऽन्यथासिद्धिः। नचैकस्मादर्णात्सम्यक् स्फोटाभि- व्यक्तिः येन वर्णान्तरवैयर्थ्य किन्तु रल्नवद्दह्डुप्रत्ययसंस्कते चित्ते सम्यक् स्फोटाभिव्यक्तिरित्युक्तं भवति।नन्वेकपदमेकं वाक्यमिति प्रत्यय: पद- वाक्यस्फोटयोर्न प्रमाणं तस्य वर्णसमूहालम्बनस्मृतित्वादित्याशङ्च निषेधति॥न चेति।।स्फोटस्य जगद्धेतुत्वार्थ नित्यत्वमाह॥।तस्य चेति॥ न नु.तदेवेदं पदमिति प्रत्यभिज्ञा श्रमः उदान्तादिभेद प्रत्ययादित्यत आह। ।भेदेति॥ आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तयति॥ वर्णा एवेति॥ वर्णातिरिक्तस्फोटात्मकशब्दस्यानुभवानारोहादित्यर्थः । सादृश्यदोषा- दियं भ्रान्तिरीति शङ्कते॥सादृश्यादिति॥। वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तं भेदधीविरोधात्, स एवायं वर्ण इति धीस्तु प्रमैव बाधकाभावादित्याह॥नेति।।गोत्वादिपत्यभिज्ञावत् वर्णेषु प्रत्य-
Page 373
(३७६) रत्नप्रभाभासिते [अ० १। पा० ३। त् न, व्यक्तिप्रत्यभिज्ञानात्। यदि हि प्रत्युच्चार- णं गवादि व्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरंस्तत आकृतिनिमितं प्रत्यभिज्ञानं स्या- त्। नव्वेतदस्ति वर्णव्यक्तय एव हि प्रत्युच्चार- णं प्रत्यभिज्ञायन्ते। द्विर्गोशब्द उच्चारित इति- हि प्रतिपत्तिः न तुदौ गोशब्दाविति। ननु वर्णा अप्युच्चारणभेदेन भिन्ना: प्रतीयन्ते देवदत्तयज्ञ- दत्तयोरध्ययनध्वनिश्रवणादेव भेदप्रतीतेरित्यु- कतं।अन्राभिधीयते। सति वर्णविषये निश्च्िते प्रत्यभिज्ञाने संयोगविभागाभिव्यङ््यत्वाद्वर्णा- नामभिव्यअ्जकवैचित्र्यनिमित्तोऽयं वर्णविषयोवि- चित्रः प्रत्ययो न स्वरूपनिमित्तः । अपि च वर्ण- भिज्ञा गत्वादिविषयेति शङ्कते। प्रत्यभिज्ञानमिति। व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात्, यत् त्वया पीतं जलं तदेव मया पी- तमित्यादौ न तथेह व्यक्तिभेदः सिद्ध इति परिहरति। न व्यक्तीति॥
व्यक्तिभेदोऽनुमानसिद्ध इत्यनुवदति। नन्विति। भेदप्रत्ययस्य कुम्भ- कूपाकाशभेदप्रत्ययवदौपाधिकभेदविषयत्वादन्यथासिद्वेः। अनन्यथा- सिद्धव्यक््यैक्यप्रत्यभिज्ञया निरपेक्षस्वरूपालम्बनया बाध इत्युत्तरमा- ह।अत्रेति। ताल्वादिदेशैः कोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राम्यां व्यङ्गन्यत्वात् वर्णेषु वैचित्रयधीरित्यर्थ। कल्पनागौरवाच्च वर्णेषु स्वतो भेदों नास्तीत्याह। अपि चेति ॥ अनन्ताः गकारादिव्यक्तयरतासु प्रत्यभिज्ञानार्थगत्वादिजातयस्तासु चोदात्तत्वादिभेदस्यौपाधिकत्वमम
Page 374
सू० २८।अ० ९ ] शाङ्करव्रह्मसूत्रभाष्ये (३७७) व्य क्तिभेदवादिनापि प्रत्यभिज्ञानसिद्धये वर्णा- कृतय: कल्पयितव्याः। तासु च परोपाधिको भे- दप्रत्यय इत्यभ्युपगन्तव्यंतद्वरं वर्णव्यक्तिष्वेवप- रोपाधिको भेदप्रत्यय:, स्वरूपनिमितं च प्त्यभति ज्ञानमिति कल्पना लाघवमूाएष एव च वर्णविष- यस्य भेदप्रत्ययस्य बाधकः प्रत्ययो यत् प्रत्य- भिज्ञानम्। कथं तर्र्वेकस्मिन काले बहूनामुद्चा- शयतामेक एव सन् गकारो युगपदनेकरूप: स्यात् उदात्तध्यानुदात्तश्य स्वरितश्र्व सानुना- सिकश्च निरनुनासिकश्र इति। अथवा ध्वनि- कृतोऽयं प्रत्ययभ्ेदो न वर्णकृत इत्यदोष:।कः पुनरयं ध्वनिर्नाम यो दूरादाकर्णयतो वर्णविवे-
ति कल्पनाद्र वर्णव्यक्तिभेदमात्रस्यौपाधिकत्वकल्पनमिति व्यक्यान- न्त्यस्य जातीनां च कल्पनमयुक्तमित्यर्थ:ननु भेदस्य बाधकाभावात् नौ- पाधिकत्वमित्यत आहा।एष इति॥अस्तु तर्हिपत्ययद्यप्रामाण्याय मेदा- भेदयोः सत्यत्वं तत्राह। कथ तहीति।। उभयोरेकत्रविरोधात् भेद औया- धिक एवेत्यर्थः। ननु वायुसंयोगादेरतीन्द्रियत्वात् न तद्वतवैचित्रयस्योदा- त्तत्वादेवर्णेघु प्रत्यक्षारोपःसम्भवतीत्यरुचिं वदिष्यन् स्वमतमाह।अथ वेति॥ ध्वनिधर्मा उदात्तत्वादयो ध्वन्यभेदाध्यासादर्णेषु भान्तीत्यर्थः। प्रश्नपूर्वकं ध्वनिस्वरूपमाह ॥ क इति॥ अवतरति, स्वध्वनिरिति शेषः। वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः। समापं गतस्य पुंसस्तार- १ भेदाभेदयोः । ४८
Page 375
(३७८) रत्नप्रभाभासिते [अ० १।पा० ३। कमप्रतिपद्यमानस्य कर्णपथमवतरति प्रत्या- सीदतश्र मन्दत्वपटुत्वादिभेदं वर्णेष्वासअ्जय- ति तन्निबन्धनाश्रोदात्तादयो विशेषा न वर्णस्व- रूपनिबन्धनाः। वर्णानां प्रत्युच्चारणं प्रत्यभि ज्ञायमानत्वात्। एवं च सति सालम्बना उदा- त्तादिप्रत्यया भविष्यन्ति, इतरथा हिवर्णानां प्र- त्यश्षिज्ञायमानानां निर्भेदत्वात् संयोगविभा- गकृता उदात्तादिभेदा: कल्पेरन्। संयोगविभा- गानां चाप्रत्यक्षत्वात् न तदाश्रया विशेषा: व- र्णेष्वध्यवसितुं शक्यन्त इत्यतो निरालम्बना ए- वैते उदात्तादिप्रत्ययाः स्युः।अपिच नैवैतद- त्वमन्दत्वादिधर्मान् स्वगतान् वर्णेषु से एवारोपयतीत्याह। प्रत्या- सीदतश्रेति॥ आदिपदं विवृणोति ॥ तदिति॥ नन्वव्यक्तवर्ण एव ध्वनिर्नातिरिक्त इत्यत आह ॥ वर्णानामिति॥ प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिवर्तत इति भेद इत्यर्थः । अन्यथाऽवाचिके जपे वर्णेषु अव्यक्तेषु ध्वनिवुद्धिः स्यात् दुन्दुभ्यादिध्वनौ शव्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यं एवं ध्वन्यु- पाधिकत्वे स्वमते गुणं वदन् वायूपाधिकत्वे पूर्वोक्तामरुचिं दर्शयति। । एवं चेत्यादिना॥ अरतु को दोषस्तत्राह ॥ संयोगेति॥ वायुसंयो- गादेरश्रावणत्वादित्यर्थः । तस्मात् श्रावणध्वनिरेवोदात्तत्वाद्यारोपो- पाधिरितिभावः। एवं विरुद्धधर्मकध्वनीनां भेदेऽपि न तेष्वनुगता वर्णा भिदन्त इत्युक्कतं, तदेव दृष्टान्तेन द्रढयति ॥ अपि चेति ॥ यथा १ध्वनिः। २ संयोग विभागकृतो भेद इतिशेषः।
Page 376
सू०२८।.अ०९] शाङ्करव्रह्मसूत्रभाष्ये (३७९) भिनिवेष्टव्यमुदात्तादिभेदेन वर्णानां प्रत्यभि ज्ञायमानानां भेदो भवेदिति। न त्यन्यस्य भेदे- नान्यस्याभिद्यमानस्य भेदो भवितुमर्हति। न- हि व्यक्तिभेदेन जाति भिन्नां मन्यन्ते। वर्णेभ्य- श्रार्थप्रतीते: सम्भवात् स्फोटकल्पनानर्थिका। न कल्पयाम्यहं स्फोट प्रत्यक्षमेव त्वेनमवग- चछामि। एकैकवर्णग्रहणाहितसंस्कारायां बुद्धौ झटिति प्रत्यवभासनादिति चेत्, न अस्या अपि बुद्धेर्वर्णविषयत्वात्, एकैकवर्णग्रहणोत्तरकाली- ना हीयमेका बुद्धिगौरिति समस्तवर्णविषया नार्थान्तरविषया। कथमेतदवगम्यते, यतोऽ- स्यामपि बुद्धौ गकारादयो वर्णा अनुवर्त्तन्ते न खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अ- भिन्ना एवेत्यर्थः। उदात्तादिर्ध्वनिस्तन्नवेदेन हेतुना वर्णानामपीति योज- ना प्रत्यभिज्ञाविरोधादित्यक्षरार्थः। यदा उदात्तत्वादिभेदविशिष्टतया प्र- त्यभिज्ञायमानत्वात् वर्णानां भेद इत्याशङ्गं दृष्टान्तेन निरस्यति ॥ अपि चेति॥ वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति ॥ वर्णेभ्यश्चेति॥ कल्पनामसहमान आशङ्कते । नेति॥ चक्षुषा दर्पणयुक्तायां बुद्दौ मुखवत् श्रोत्रेण श्रवणयुक्तायां वुद्धौ विनैव हेत्वन्तरं स्फोट: प्रत्यक्ष इत्याह॥ झटितीति॥ यस्यां संविदि योऽर्थो भासते सा तत्र प्रमाणं एकपदमिति बुद्धौ वर्णा एव स्फु- रन्ति नातिरिक्तस्फोट: प्रमाणमित्याह॥ नास्या अपीत्यादिना॥ न- नु गोपदबुद्धे: स्फोटो विषयो गकारादीनां तु व्यअ्कत्वादनुवृत्तिरि-
Page 377
(२८०) रत्नग्रभाभासिते [अ० १।पा०श। तु दकारादयः। यदि त्वस्या बुद्देर्गकारादिभ्यो- डर्थान्तरं स्फोटो विषयः स्यात् ततो दकाराढ़- य इव गकारादयोऽप्यस्या वुद्देर्व्यवर्तेरन्, न- तु तथास्ति, तस्मादियमेकबुद्धिर्वर्णविषयैव स्मृ- तिः। नन्वनेकत्वाहर्णानां नैकबुद्विविषयतोपप धत इत्युक्तं तत्पति ब्रूम:।सम्भवत्यनेकस्याप्ये- कबुद्दिविषयत्वम्। पड्किर्वनं सेना दशशतं सह- स्त्रमित्यादिदर्शनात्। या तु गौरित्येकोऽयं शब्द इति बुद्धिः सा वहुष्वेव वर्णेषु एकार्थावच्छेदनि- बन्धनौपचारिकी वनसेनादिबुद्धिवदेव।अत्राह, यदि वर्णा एव सामस्त्येनकबुद्धिविषयतामाप- त्यतआह ॥। यदिहीति ॥ व्यङ्ग्यवक्विवुद्दौ व्यक्षकधूमानुवृत्तेरद- र्शनादित्यर्थः । वर्णसमूहालम्वनत्वोपपत्तेर्न स्फोट: कल्पनीयः पदा- र्थान्तरकल्पनागौरवादित्याह। तस्लादिति॥ अनेकस्याप्यौपाधिक- मेकत्वं युक्तमित्याह॥ सम्भवतीति। ननु तत्रैकदेशादिरुपाधिरसिति प्र- कते क उपाधिरित्यत आह।।या त्विति॥एकार्थे शक्तमेकं पदं प्रधा- नार्थे एकस्मिन् तात्पर्यवदेक वाक्यमित्येकार्थसम्वन्धादेकत्वोपचार इत्यर्थः। न चैकपदत्वे ज्ञाते एकार्थज्ञानं, अस्मिन् ज्ञाते तैदित्यन्यो- न्याश्रय इति वांच्यं। उत्तमवृद्दोक्तानां वर्णानां क्रमेणान्त्यवर्णश्रवणान- न्तरं बालस्यैकस्मृत्यारूढानां मध्यमवृद्दस्य प्रवृत्यादिलिङ्गानुमितै- कार्थधीहेतुत्वनिश्चये सत्येकपदवाक्यत्वनिश्वयात् । वर्णसाम्येऽपि पदभेददृष्टेवर्णातिरिकं पदं स्फोटाख्यमङ्गीकार्यमिति शङ्गते॥ अत्रा- १ पंक्तिवनसेनादौ। २ एकार्थे। ३ एकपदत्वज्ञानम्।
Page 378
सू० २८/अ० ९॥] शाङ्करव्रह्मसूत्रभाष्ये "(३८१) द्यपानाः पदं स्युः ततो जारा राजा कपिः पि- क इत्यादिषु पदविशेषप्रतिपत्तिर्न स्थात्, त एव हि वर्णा इतरत्र चेतर एव प्रत्यवभासन्त इ- ति। अत्र वदामः। सत्यपि समस्तवर्णप्रत्यवम- शेयथा क्रमानुरोधिन्य एव पिपीलिका: पङ- क्तिबुद्दिमारोहन्त्येवं क्रमानुरोधिन एव वर्णाः प. दबुद्धिमारोक्ष्यन्ति, तत्रवर्णानामविशेषऽपिक्रमवि- शेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते।वृद्धव्य- वहारे चेमे वर्णाः क्रमाद्यनुगही तागहीतार्थविशे- षसम्बन्धाः सन्तः स्वव्यवहारेऽप्येकैकवर्णग्रह- णानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादशा ए- वप्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्र- त्याययिष्यन्तीति वर्णवादिनो लघीयसी क- ल्पना। स्फोटवादिनस्तु दष्टहानिरद्ष्टकल्पना च। वर्णाश्चेमे क्रमेण गृह्यमाणा: स्फोर्ट व्यक्ष- हेति। करमभेदाद्ूर्णेष्वेव पदभेददृष्टिरिति परिहरति॥ अत्रेति॥ ननु नित्यविभूनां वर्णानां कथ क्रमः कथ वा पदत्वज्ञानेनार्थीहेतुत्वं तत्राह ॥ वृद्देति ॥ व्युत्पत्तिदशायामुच्चारणक्रमेण उपलब्धिक्रममु- पलभ्यमानवर्णेष्वारोप्यैते वर्णा एतत्क्रमैतत्सङ्चावन्त एतदर्थशक्ता, इति गृहीता: सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढा: स्वस्वार्थ- बोधयन्तीत्यर्थः । स्थायिवर्णवादमुपसंहरति ॥ वर्णेति ॥दृष्ट वर्णा- नामर्थबोधकत्वं, अदृष्टः स्फोठ: । सम्प्रति वर्णानामस्थिरत्वमङ्गी-
Page 379
(३८२)' रत्नमभाभासिते [अ०१।पा० ३। यन्ति, स स्फोटोऽर्थ व्यनक्तीति गरीयसी क- ल्पना स्यात्। अथापि नाम प्रत्युच्चारणमन्येऽ- न्ये च वर्णाः स्युस्तथापि प्रत्यभिज्ञालम्वनभा- वेन वर्णसामान्यानामवश्याभ्युपगम्यत्वात् या वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्ये षु सञ्चारयितव्या, ततश्र नित्येभ्यः शव्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम्॥२८॥ अत एव च नित्यत्वम् ॥ २ ९॥ स्वतन्त्रस्य कर्तुरस्मरणादिभिस्थिते वेद- स्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन त- स्य विरोधमाशङ्य, अतः प्रभवादिति परिह- त्येदानीं तदेव वेदस्य नित्यत्यं स्थितं द्रढयति, अत एव च नित्यत्वमिति।अत एव च नियता कृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वाद्वेदशब्दनि- कृत्य प्रौढिवादेन स्फोटं विघटयति॥ अथापीति ॥ स्थिराणि गत्वा- दिसामान्यानि क्रमविशेषवन्ति गृहीतसङ्गतिकान्यर्थबोधकानीति क्लमेषुसामान्येषु प्रक्रिया सश्चारयितव्या न त्वक्लप्तः स्फोट: कल्प- नीय इत्यर्थः । वर्णानां स्थायित्ववाचकत्वयोः सिद्धौ फलितमाह। ततश्चेति॥२८॥ः पूर्वतन्त्रवृत्तानुवादपूर्वकं सूत्रं व्याचष्टे॥ कर्तुरित्यादिना ॥पू- र्वतन्त्रसिद्धमेव वेदस्य नित्यत्वं देवादिव्यक्तिसृष्टौ तद्ाचकशब्दस्या- पि सृष्टेरसिद्धेमित्याशङ्कच नित्याकृतिवाचकाच्छव्दात् व्यक्तिजन्मो
Page 380
सू०३ण।अ०९ ] शाङ्करव्रह्मसूत्रभाष्ये त्यत्वमपि प्रत्येतव्यम्।तथा च मन्त्रवर्णः,"यज्ञे- न वाच: पदवीयमायन् तामन्वविन्दव्नृषिषु प्रवि पामि"ति स्थितामेव वाचमनुविन्नां दर्शयति। वेदव्यासश्रैवमेव स्मरति, युगान्तेऽन्तर्हितान् वेदान् सेतिहा सान्महर्षयः। लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भूवा॥ इति। २९। समाननामरूपत्वाच्चावृत्तावप्यवि- रोधो दर्शनात् स्मृतेश्र॥३०। अथापि स्यात् यदि पश्वादिव्यक्तिवत् दे- वादिव्यक्तयोऽपि सन्तत्यैवोत्पद्येरन् निरुध्ये-
च्छेदात् सम्बन्धनित्यत्वेन विरोध: शब्दे परि- ह्हियेत। यदा तु खलु सकलं त्रैलोक्यं परित्यक्त- क्या साङ्गेतिकत्वं निरस्य वेदोऽवान्तरप्रलयावस्थायी जगद्ेतुत्वा- दीश्वरवदित्यनुमानेन द्रढयतीत्यर्थः। यज्ञेन पूर्वसुकतेन, वाचो वेद- स्य, लाभयोग्यतां प्राप्ताः सन्तो याज्ञिकास्तामृषिषु स्थितां लब्धवन्त इति मन्त्रार्थ:। अनुविन्नामुपलव्धां। पर्वमवान्तरकल्पादौ॥। २९॥ ननु महाप्रलये जातेरप्यसत्त्वात् शब्दार्थसम्बन्धानित्यत्वं इ- त्याशङ्क्चाह ॥ समानेति॥ सूत्रं निरस्याशङ्गामाह॥ अथापीति॥ व्यक्तिसन्तत्या जातीनां अवान्तरप्रलये सच्वात् सम्बधस्तिष्ठति व्य-
Page 381
(१८४) रत्नप्रभाभासिते [अ० १।पा० ३। नामरूपं निर्लेपं प्रलीयते प्रभवति चाभ्िनवमि ति श्रुतिस्मतिवादा वदन्ति तदा कथमविरोध इति। तत्रेदमभिधीयते समाननामरपत्वादि- ति। तदापि संसारस्यानादित्वं तावदभ्युपगन्त- व्यम्। प्रतिपादयिष्यति चाचार्यः संसारस्या- नादित्वमुपपद्यते चाप्युपलभ्यते चेति अनादौ च संसारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रव- णेडपि पूर्वप्रबोधवदुत्तरप्रबोधेऽपि व्यवहारान्न कश्िद्विरोधः।एवं कल्पान्तरप्रभवप्रलययोरपी-
ते। "यदा सुप्तः खननं न कञ्चन पश्यत्यथास्मिन् वहाराविच्छेदात् ज्ञायते चेति वेदस्यानपेक्षत्वेन प्रामाण्येन कश्रिवद्दिरो- धः स्यात्। निर्लेपलये तु सम्बन्धनाशात् पुनः सृष्टौ केनचित् पुं- सा सङ्केतः कर्तव्य इति पुरुषबुद्धिसापेक्षत्वेन वेदस्याप्रामाण्यं अ- ध्यापकस्याश्रयस्य नाशादाश्रितस्यानित्यत्वं च प्राप्तमित्यर्थः । म- हाप्रलयेऽपि निर्लेपलयोऽसिद्ध: सत्कार्यवादात्। तथा च संस्कारात्म- ना शब्दार्थतत्सम्बन्धानां सतामेव पुनः सृष्टावभिव्यक्ेर्नानित्यत्वम्। अभिव्यक्तानां पूर्वकल्पािनामरूपसमानत्वात् न सङ्गेतःकेनाचित् का- र्यः, वरिषमसृष्टौ हि सङ्केतापेक्षा न तुल्यसृष्टाविति परिहरति॥ तत्रे- दमित्यादिना ॥ नन्वायसृष्टासङ्गतः केनचित् कार्य इत्यत आह ॥ तदापीति॥ महासर्गप्रलयप्रवृत्तावपीत्यर्थः । नन्वस्त्वनादिसंसारे सम्बन्धस्यानादित्वं तथापि महाप्रलयव्यवधानादस्मरणे कथं वेदार्थ- ्यवहारसत्राह। अनादौ चेति॥न कश्िविद्विरोध:, शब्दार्थसम्बन्ध-
Page 382
सू०। ३०अ०१।] शाङ्करब्रह्मसूत्रभाष्ये (३८५) प्राण एवैकधा भवति तदैनं वाक् सर्वैर्नामभिः सहाप्येति, चक्षु: सर्वैः रूपैः सहाप्येति, श्रोत्रं सर्वैः शब्दैः सहाप्येति, मनः सर्वैर्ष्यानैः सहा- प्येति, स यदा प्रतिबुध्यते यथाभ्नेरज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेश्न्नेवमेवैतस्मादात्म- नः सर्वे प्राणा यथायतनं विप्रतिश्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका:"(कौ० ब्रा०उ०अ०३। ख. ३) इति।स्यादेतत् स्वापे पुरुषान्तरव्यव- हाराविच्छेदात् स्वयं च सुषुप्तप्रबुद्दस्य पूर्वप्रबो-
लये तुसर्वव्यवहारोच्छेदा ज्म्नान्तरव्यवहारवञ्च कल्पान्तरव्यवहारस्यानुसन्धातुमशक्यत्वात् वै- षम्यम् इति।नैषदोष:, सत्यपि सर्वव्यवहारोच्छे- दिनि महाप्रलये परमेश्वरानुगरहादीश्वराणां हि- रण्यगर्भादीनां कल्पान्तरव्यवहारानुसन्धानो- स्मरणादेरिति शेषः । स्वापप्रबोधयोरलयसर्गासिद्धिमाशङ्ग्य श्रुति- माह॥ स्वापेति ॥ अथ तदा सुषुप्तो प्राणे परमात्मनि जीव एकी- भवति एनं प्राणं संजीवस्तदैतीतिशेषः। एतस्मात् प्राणात्मन:, आ- यतन गोलकं। आनन्तर्ये पश्चमी प्राणेभ्य इत्यादौ द्रष्टव्या। स्वप्नवत् कल्पितस्याज्ञातसच्वाभावात् दर्शनं सृष्टिः अदर्शनं लयः इति दृष्टिसृष्टिपक्ष: श्रुत्यभिप्रेत इति भावः । दृष्टान्तवैषभ्यमा- शङ्ग्य परिहरति ॥ स्यादित्यादिना ॥ अविरुद्धमनुसन्धानादि- ४९
Page 383
(३८६) : रत्नप्रभाभासिते [अ० १। पा० ३। पपत्तेः।यद्यपि प्राकृताः प्राणिनो न जन्मान्तर- व्यवहारमनुसन्दधाना दृश्यन्ते इति, न तत् प्रा कृतवदीश्वराणां भवितव्यम्। यथा हि प्राणि- त्वाविशेषेऽरपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्व- व्यादिप्रतिबन्धःपरेणपरेण भूयान्भवन्दृश्यते, तथा मनुष्यादिष्वेव हिरण्यगर्भपर्यन्तेषु ज्ञानै- श्रवर्याद्यभिव्यक्तिरपि परेणपरेण भूयसी भवती- व्येतत् श्रुतिस्मतिवादेष्वसकृत् श्रूयमाणं न श- क्यं नास्तीति वदितुम। ततश्रातीतकल्पानुष्ठि- तप्रकृष्ठज्ञानकर्मणामीश्वराणां हिरण्यगरभादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्वरानुग्ही- तानां सुप्तप्रतिबुद्धवत् कल्पान्तरव्यवहारानु- सन्धानोपपत्तिः। तथा च श्रुतिः।"यो ब्रह्मा- कमिति शेष:।हिरण्यगर्भादयः पूर्वकल्पानुसन्धानशन्याः संसारित्वा- दस्मदादिवदित्याशङच्याह। यद्यपीति।इति यद्यपि तथापि न प्राक- तवदितियोजना। ज्ञानादेनिकर्षवदुत्कर्षोडप्यङ्गीकार्य: बाधाभावादि- ति न्यायानुगृहीतश्रुत्यादिभिः सामान्यतो दृष्टानुमानं बाध्यमित्याह। यथा हीत्यांदिना॥ ननु तथापि पूर्वकल्पेश्वराणां मुक्तत्वादस्मिन् कल्पे कोऽनुसन्धातेत्यत आह। ततश्रेति ॥ ज्ञानाधुत्कर्षादित्यर्थः। मुक्तेम्योऽनयेडनुसन्धातार इति भावः। परमेश्वरानुगृहीताना ज्ञानाति- शये पूर्वोक्तश्रुतिस्मृतिवादानाह। तथा चेति॥ पूर्व कल्पादौ सृजति तस्मै च ब्रह्मणे प्रहिणोति गमयति तस्य बुद्धौ वेदानाविर्भावयति यस्तं देवं स्वात्माकारं महावाक्योत्थबुद्द प्रकाशमानं शरणं पर
Page 384
सू०३०।अ०१।] शाङ्करब्रह्मसूत्रभाष्ये (३८७) णं विदधाति पूर्व यो वै वेदांश्र प्रहिणोति त- स्मै तंह देवमात्मबुद्धिप्रकारशं मुमुक्षुर्वे शरण -: महं प्रपद्ये" इति। स्मरन्ति च शौनकादयो म- धुच्छन्दःप्रभृतिभिऋषिभिर्दाशतय्यो दष्टा इ- ति। प्रतिवेदञ्वैवमेव काण्डर्ष्यादयः स्मर्यन्ते। श्रुतिरप्यृषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्श- यति "यो ह वा अविदितार्षेयच्छन्दोदैव तब्राह्म- णेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं चच्छति गर्त्त वा प्रपद्यते" इत्युपक्रम्य "तस्मा- देतानि मन्त्रेमन्त्रे विद्या'दिति। प्राणिनां च सु- खप्राप्तये धर्मो विधीयते दुःखपरिहाराय चा- धर्मः प्रतिषिध्यते। दृष्टानुश्रविकसुखदुःखविष- ममभयस्थानं निःश्रेयसरूपमहं प्रपय इत्यर्थः । न केवलमेकस्यैव ज्ञानातिशयः किन्तु बहूनां शाखाद्रष्टणामिति विश्वासार्थमाह॥ स्मरन्तीति। ऋग्वेदो दशमण्डलावयववान तत्र भवा ऋचो दाशत- य्यः वेदान्तरेऽपि काण्डसूक्तमन्त्राणां द्रष्टारो बोधायनादिभि: स्मृता इत्याह॥ प्रतीति ॥ किश्च मन्त्राणां ऋष्यादिज्ञानावश्यकत्वज्ञापिका श्रुतिर्मन्त्रदगृषीणां ज्ञानातिशयं दर्शयतीत्याह। श्रुतिरपीति। आ- र्षैय ऋषियोगः, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोग: एतान्यविदितानि यस्मिन्मन्त्रे तेनेत्यर्थः। स्थाणुं स्थावरं, गर्त नरकं, तथा च ज्ञानाधिकैः कल्पान्तरितं वेदं स्मृत्वा व्यवहारस्य प्रवर्तित- त्वात् वेदस्यानादित्वमनपेक्षत्वं चाविरुद्धमिति भावः। अधुना समान- नामरूपत्वं प्रपश्चयति। प्राणिना चेति। ततः किं तत्राह। दृष्टेति।
Page 385
(३८८) रत्नप्रभाभासिते [अ० १।पा० ३। यौ च रागद्वेपौ भरवतो न विलक्षणविषयावित्य- दो धर्माधर्मफलभूतोत्तरोत्तरा सृष्टिर्निष्पद्यमा- ना पूर्वसृष्टिसदृश्येव निष्पद्यते।स्सृतिश्रव भवति, "तषां ये यानि कर्माणि प्राक्सृष्टां प्रतिपेदिरे। तान्येव ते प्रपद्यन्ते सृज्यमाना: पुनःपुनः॥ हिंस्राहिंस्त्रे मृदुकूरे धर्माधर्माटतानते। तद्राविताःप्रपद्मन्ते तस्मात्तत्तस्य रोचते"इति। प्रलीयमानमपि चेदं जगच्छत्तयवशेषमेव प्रलीयते शक्तिमूलमेव च प्रभवतीतरथा आक-
ऐहिकामुष्मिकविषयसुखरागकतधर्मस्य फलं पश्चादिकं दृष्टपश्वादि- सदृशमिति युक्तं विसदृशे कामाभावेन हेत्वभावातू। तथा दृष्टदुःख- द्वेषकताधर्मफलं दष्टसददशदुःखमेव न सुखं कृतहान्यादिदोषापत्तेरित्य- रथः। तर्कितेर्थे मानमाह ॥स्मृतिश्रेति॥ उत्तरसृष्टिः पूर्वसृष्टिसजाती- या कर्मफलत्वात् पूर्वसृष्टवदित्यनुमानाच्चशब्दार्थः। तेषां प्राणिनां म ध्ये तान्येव तज्जातीयान्येव। तानि दर्शयन् तत्प्राप्तौ हेतुमाह॥ हिं- स्रेति॥ कर्माणि विहित निषिद्धत्वाकरेणापूर्व क्रियात्वेन संस्कारं च ज- नयन्ति। तत्रापूर्वात् फलं भुङ्क्ते संस्कार भावितत्वात् पुनस्तज्जातीयानि करोतीत्यर्थः । संस्कारेलिङमाह॥ तस्मादिति ॥ संस्कारवशादेव पुण्यं पापं वा रोचते । अतोड़भिरुचिलिङ्गातू पुण्यापुण्यसंस्कारो- डनुमेय: स एव स्वभावः प्रकतिर्वासनेति च गीयते। एवं कर्मणा सृष्टिसादृश्यमुक्ता स्वोपादाने लीनकार्यसंसकाररूपशक्तिबलादपि सा- दृश्यमाह। प्रलीयमानमिति॥ इतरथा संस्कारप्रलये जगहैचि- तयस्याकस्मिकत्वं स्यादित्यर्थः। ननु जगहैचित्रयकारिण्योऽन्याः श-
Page 386
सू. ३०।अ० ९।] शाङ्करब्रह्मसूत्रभाष्ये (३८९) स्मिकत्वप्रसङ्गात्। न चानेकाकाराः शक्तयः शक्या: कल्पयितुम्। ततश्र विच्छिद्यविच्छिद्या- प्युद्गवतां भूरादिलोकप्रवाहाणां देवतिर्यङ्मनु- ष्यलक्षणानांच प्राणिनिकायप्रवाहाणां वर्णाश्र- मधर्मफलव्यवस्थानाञ्चानादौ संसारे नियतत्व- मिन्द्रियविषयसम्बन्धनियतत्ववत् प्रत्येतव्यम्। नहीन्द्रियविषयसम्बन्धादेर्व्यवहारस्य प्रति स- र्गमन्यथाव्वं षष्टेन्द्रियविषयकल्पं शक्यमुत्प्रे- क्षितुं। अतश्र सर्वकल्पानां तुल्यव्यवहारत्वा- त् कल्पान्तरव्यवहारानुसन्धानक्षमत्वाच्चेश्वरा- क्यः कल्प्यन्तां तत्राह ॥न चेति ॥ अविद्यायां लीनकार्यात्मकसं- स्कारादन्याः शक्तयो न कल्प्याः मानाभावद्रौरवाच्च, स्वोपादाने ली- नकार्यरूपा शक्तिस्तु महान् न्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति श्रु- तिसिद्धा, अतोSविद्यातत्कार्यादन्याः शक्तयो न सन्ति आत्माविधैव त- च्छक्तिरिति सिद्धान्त इत्यर्थः। निमित्तेष्वप्युपादा नस्थकार्यमेवाविद्याघ- ठनया शक्तिरन्या वेत्यनाग्रहः। उपादाने कार्यसंस्कारसिद्धे: फलमाह ॥ ततश्रेति॥ यथा सुप्तोत्थितस्य पूर्वचक्षुजातीयमेवचक्षुर्जायते तच्च रूपजातीयमेव गृह्णाति न रसादिकं, एवं भोग्यलोका भोगाश्रयाः प्रा- णिनिकाया भोगहेतुकर्माणि संस्कारबलात् पूर्वलोकादितुल्यान्येवेति नियम इत्यर्थः । निकाया: समूहाः।दृष्टान्तासिद्धिमाशङयाह॥न ही- ति। यथा पष्ठेन्द्रियस्य मनसोऽसाधारणविषयो नास्ति सुखादेः सा- क्षिवेद्यत्वातू, तथा व्यवहारान्यथात्वमसदित्यर्थः 1 षष्ठमिन्द्रियं त- द्विषयश्रासन्निति वार्थः। उक्तार्थ सङपति ॥ अतश्रेति॥ व्यवहा-
Page 387
(३९० ) रत्नप्रभाभासिते [अ० १। पा० ३। णां समाननामरूपा एव प्रतिसर्ग विशेषा: प्रा- दुर्भवन्ति समाननामरूपत्वाच्चाळत्तावपि महा- सर्गमहाप्रलयलक्षणायां जगतोऽभ्युपगम्यमा- नायां न कश्रिच्छब्द प्रामाण्यादिविरोधः।समा- ननामरूपतां च श्रुतिस्मती दर्शयतः। "सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्।। दिवञ्च पृथिवीञ्चान्तरीक्षमथो स्वः"॥इति। यथा पूर्वस्मिन् कल्पे सूर्याचन्द्रमःप्रभृति जगत् कतं तथास्मिन्नपि कल्पे परमेश्वरोऽक- ल्पयदित्यर्थः।तथा "अग्निर्वा अकामयत अ- न्नादो देवानां स्यामिति" "स एवमग्नये कृत्ति- काभ्य: पुरोडाशमष्टाकपालं निरवपदिति" नक्ष- त्रेष्टिविधौयोऽगनिनिरवपत् यस्मैवाग्नये निरवप- त् तयोः समाननामरूपतां दर्शयतीत्येवं जाती- यिका श्रुतिरिहोदाहर्तव्या। स्मृतिरपि, "ऋषीणां नामधेयानि याश्र वेदेषु दृष्टयः। शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः॥ रसाम्यात्सम्भवाच्च व्यवङ्गियमाणा व्यक्तयःसमाना एवेत्यर्थः।सूत्रं यो- जयति।समानेत्याढिना। भाविदृष्ट्या यजमानोगनि:,अनादोऽगिरहं स्यामिति कामयित्वा कुत्तिकानक्षत्राभिमानिदेवायाग्नये अष्टसु कपा- लेषु पचनीयं हविर्निरुप्तवानित्यर्थः। नक्षत्रव्यक्तिबहुत्वाद्वहुवचनं। १ सूर्यशब्दे "द्वताइन्देचे"व्यानअदेशेन दीर्घाकारघटितं रूप संसाध्यम्।
Page 388
सू ० ३१। अ० १।] शाङ्करव्रह्मसूत्रभाष्ये (३९१) यथर्तुष्टतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु॥ यथाभिमानिनोऽतीतास्तुल्यास्ते साम्प्रतैरिह। देवा देवैरतीतैर्हिरूपैर्नामभिरेव च"॥ इत्येवं जातीयिका द्रष्टव्या। ३ ॥ मध्वादिष्वसम्भवादनधिकारं जैमि निः॥३१। इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्रतिज्ञातं तत्पर्यावर्त्यते। देवादीनामन- धिकारं जैमिनिराचार्यो मन्यते। कस्मात् मध्वा- दिष्वसम्भवात्। ब्रह्मविद्याधिकाराभ्युपगमे हि
भ्युपगम्येत। न चैवं सम्भवति, कथम् "असौ आदित्यो देव मध्वि"त्यत्र मनुष्या आदित्यं म- स्मृतौ, वेदेष्विति विषयसप्तमी, शर्वयन्ते प्रलयान्ते। ऋतूनां वसन्ता- दीनां, लिङ्गानि नवपल्लवादीनि। पर्यये घटीयन्त्रवदावृत्तौ, भावाः प- दार्था:, तुल्या इति शेषः॥ ३०॥ तस्माज्जन्मनाशवह्गहाङ्गीकारेऽपि कर्मणि शब्दे च विरोधाभा- वातू देवानामस्ति विद्याधिकार इति स्थितमाक्षिपति। मध्वादिष्वि- ति। ब्रह्मविद्या देवादीन् नाधिकारोति विद्यात्वात् मध्वादिविद्याव- दित्यर्थः। दृष्टान्तं विवृणोति। कथमित्यादिना। युलोकाखव्यवंशदण्डे अन्तरिक्षरूपे मध्वयूपे स्थित आदित्यो देवानां मोदनान्मध्विवम-
Page 389
(३९२ ) रत्नप्रभाभासिते [अ० १। पा० ३। ध्वध्यासेनोपासीरन्, देवादिषु ह्युपासकेष्वभ्यु- पगम्यमानेषु आदित्य: कमन्यमादित्यमुपासी- त पुनश्रादित्यव्यपाश्रयाणि पञ्च रोहितादी न्यमृतान्यनुपक्रम्य "वसवो रुद्रा आदित्या म- रुतः साध्याश्र पञ्च देवगणा: क्रमेण तत्तदमृत- मुपजीवन्तीत्युपदिश्य "सय एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दष्टा तृप्यती"'व्यादिना वस्वाद्युपजीव्यान्यमृतानि वि- जानतां वस्वादिमहिमप्रात्तिं दर्शयति। वस्वाद- यस्तु कानन्यान् वस्वादीन् अमृतोपजीविनो दि- जानीयुः, कं चान्यं वस्वादिमहिमानं प्रेप्सेयुः। तथा"प्निः पादो वायुः पाद आदित्यः पादो दिशः पादो वायुर्वाव सम्वर्ग: आदित्यो ब्रह्मेत्यादेश" ध्वित्यारोप्य ध्यान कार्यम्। तत्रादित्यस्याधिकारो न युक्तः ध्यातृध्येयभे- दाभावात् इत्याह। देवादिष्विति। अस्तु वस्वादीनां तत्राधिकार इ- ति आशङ्त तेषामपि च ध्येयत्वात् प्राप्यत्वान्च न ध्यातृत्वमित्याह ।पुनश्रेति।चतुर्वेदोक्तकर्माणि प्रणवश्रेति पञ्च कुसुमानि तेभ्यः सो- माज्यादिद्रव्याणि हुतानि लोहितशुकरुष्णपरकष्णगोपाख्यानि पश्चा-
नाडीभिर्मध्ययूपस्थितच्छिद्ररूपाभिरादित्य मण्डलमानीतानि यशस्ते जइन्द्रियवीर्यान्नात्मना परिणतानि पश्चदिक्षु स्थितैर्वस्वादिभिरुपजी- व्यानीति ध्यायतांवस्वादिप्राप्तिरुक्त्यर्थः। सूत्रस्थादिपदार्थमाह॥ त- थागनिरिति॥ आकाशब्रह्मणश्रत्वारः पादाःहो करणो हे नेवरे हे नासिके
Page 390
सू०३२।अ० ९] शाङ्करब्रह्मसूत्रभाष्ये (३९३) इत्यादिषु देवतात्मोपासनेषुन तेषामेव देवता- त्मनामधिकार: सम्भवति। तथे"मावेव गौतम- भरद्वाजावयमेव गौतमोऽयं भरद्वाज" इत्यादि- ष्टषिसम्बन्धेषु उपासनेषु न तेषामेवर्षीणाम- धिकारः सम्भवति कुतश्रन देवादीनामनधि- कारः॥ ३१॥ ज्योतिषिभावाच्च ॥३२॥ यदिदं ज्योतिर्मण्डलं घुस्थानमहोरात्राभ्यां वंभ्रमजगदवभासयति तस्मिन्नादित्यादयो दे- वतावचना: शंब्दाः प्रयुज्यन्ते लोकप्रसिद्धेर्वा- क्यशेषप्रसिद्ेक्रा न च ज्योतिर्मण्डलस्य हृद- यादिना विग्रहेण चेतनतयाऽर्थित्वादिना वा यो एका वागिति सप्तस्विन्द्रियेषु शिरश्षमसतीरस्थेषु सप्तर्षिध्यानं कार्य- मित्याह॥ तथेमावेवेति॥ अयं दक्षिण: कर्णः गौतमो वामो भरद्दाज एवं दक्षिणनेत्रनासिके विश्वामित्रवसिष्ठौ वामे जमदग्निकश्यपौ वाग- तरिरित्यर्थः ॥ अत्र ऋषीणां ध्येयत्वान्नाधिकारः॥३१॥ किश्च विग्रहाभावात् देवादीनां न क्वाप्यधिकार इत्याह॥ ज्योतिषि भावाञ्चेति। आदि- त्यः सूर्यश्र्वन्द्रः शुकोऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेयु प्रयोगस्य भावात् सच्वान विग्रहवान् देवः कश्षिदस्तीत्यर्थः। आदित्यः पुरस्ता- दुदेता पश्ादस्तमेतेति मधुविद्यावाक्यशेवे ज्योतिष्येवादित्यशब्दःप्र- सिद्धः।तर्हि ज्योतिःपिण्डानामेवाधिकारोऽस्तु तत्राह॥न चेति॥अ- ५०
Page 391
(३९४) रत्नप्रभाभासिते [अ० १। पा० ३ गोऽवगन्तुं शक्यते, मृदादिवदचेतनत्वावगमात्। एतेनाग्न्यादयो व्याख्याताः।स्यादेतत्, मन्त्रा- र्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रह- वत्वाद्यवगमादयमदोषः इति नेत्युच्यते, न ता- वह्लोको नाम किश्चित् स्वतन्त्रं प्रमाणमस्ति, प्र- त्यक्षादिभ्य एव त्यविचारित विशेषेभ्यः प्रमाणे- भ्यः प्रसिध्यन्नर्थो लोकातू प्रसिध्यतीत्युच्यते, न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति। इति- हासपुराणमपि पौरुषेयत्वात् प्रमाणान्तरमूलता माकाङूति। अर्थवादा अपि विधिनैकवाक्यत्वात् ग्न्यादीनामधिकारमाशङ्क्याह॥ एतेनेति ॥ अगनिर्वायुर्भूमिःइत्यादि- शब्दानां अचेतनवाचित्वेनेत्यर्थः।सिद्धान्ती शङ्कते॥ स्यादेतदित्या- ढिना। वज्रहस्तः पुरन्दरः इत्यादयो मन्त्राः। सोऽरोदीदित्यादयोऽ- र्थवादाः। "इष्टान भोगान् हि वो देवा दास्यन्ते यज्ञभ्ाविताः। ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः"॥ इत्यादीतिहासपुराणानि। लोकेऽपि यमं दण्डहस्तं लिखन्ति, इ- न्द्रं वज्रहस्तमिति विग्रहादिपश्चकस्याभावात् अनधिकारदोषो नास्ती- त्यर्थः। "विग्रहो हविषां भाग ऐश्वर्यश्च प्रसन्नता। फलप्रदानमित्येतत् पञ्चकं विग्रहादिकम्"॥ मानाभावादेतन्नास्तीति दूषयति॥ नेत्यादिना॥ न चात्रेति, वि- ग्रहादावित्यर्थः । अर्थवादा मन्त्रा वा मूलमित्याशङ्क्ाह॥ अर्थवा-
Page 392
सू०३३।अ० ९।] शाङ्करब्रह्मसूत्रभाष्ये (३१५) स्तुत्यर्थाः सन्तो न पार्थगर्थ्येन देवादीनां विग्र- हादिसद्रावे कारणभावं प्रतिपद्यन्ते। मन्त्रा अ- पि श्रुत्यादिविनियुक्ता: प्रयोगसमवायिनोऽि- धानार्था न कस्यचिदर्थस्य प्रमाणमित्याचक्षते। तस्मादभावो देवादीनामधिकारस्य॥ ३२॥ भावं तु बादरायणोडस्ति हि। ३३ ॥ तुशब्दः पूर्वपक्षं व्यावर्तयति। बादरायण- स्त्वाचार्यो भावमधिकारस्य देवादीनामपि म- न्यते। यद्यपि मध्वादिविद्यासु देवतादिव्यामि श्रास्वसम्भवोऽधिकारस्य तथाप्यस्ति हिशुद्धा- यां ब्रह्मविद्यायां सम्भवोऽर्थित्वसामर्थ्याप्रति- षेधाद्यपेक्षत्वादधिकारस्य। न च कचिदसम्भव इत्येतावता यत्र सम्भवस्तत्राप्यधिकारोडपोदे- त, मनुष्याणामपिन सर्वेषां ब्राह्मणादीनां सर्वे- पुराजसूयादिष्वधिकारः सम्भवति, तत्र यो न्या- दा इत्यादिना॥ ब्रीहादिवत् प्रयोगविधिगृहीता मन्त्राः प्रयोगसम्ब- न्धार्थाभिधानार्थाः नाज्ञातविग्रहादिपरा इति मीमांसका आचक्षत इत्यर्थः । तस्माददिग्रहाभावादित्यर्थः ॥ ३ २ ॥ सूत्राभ्यां प्राप्तं पूर्वपक्षं निरस्यति॥ तुशब्द इत्यादिना॥ ब्रह्मवि- द्या देवादीन्नाधिकरोति विद्यात्वात् मध्वादिविद्यावत् इतिउक्तहेतुर- प्रयोजक इत्याह॥ यद्यपीति॥ दर्शादिकं न ब्राह्मणमधिकरोति कर्म- त्वातू राजसूयादिवदिति आभाससाम्यं विद्यात्वहेतोराह ॥ न चेति॥
Page 393
(३९६) रत्नप्रभाभासिते [अ० १।.पा० ३। यः सोऽञ्रापि क्षविष्यति। ब्रह्मविद्यां च प्रकृत्य अ्वति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्, "तद्योयो देवानां प्रत्यबुध्यत स एव तदभवत्तथ- र्षीणां तथा मनुष्याणामिति""ते होचुर्हन्त त- मात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वी- श्र लोकानाम्नोति सवांश् कामानिति""इन्द्रो ह. वै देवानामक्षि प्रवव्राज विरोचनोऽसुराणा"मि- त्यादि च। स्मार्तमपि गन्धर्वयाजवल्क्यसंवा- दादि।यदप्युक्तं ज्योतिषि भ्ावाच्चेति,अन्नब्रूमः, ज्योतिरादिविषया अपिआदित्यादयो देवताव- चना: शब्दाच्चेतनावन्तमैश्वर्याद्युपेतं तंतं देवा- त्मानं समर्पयन्ति, मन्त्रार्थवादेषु तथा व्यवहा- रात्।अस्ति ्ैश्वर्ययोगादेवतानां ज्योतिरादा- यत्र यस्याधिकारः सम्भवति स तन्राधिकारीति न्यायस्तुल्य इत्यर्थः । यतः सर्वेषां सर्वत्राधिकारो न सम्भवति ततो न चापोदेतेत्यन्वयः। तत् ब्रह्म योयो देवादीनां मध्ये प्रत्यक्केनावुध्यत स तत् व्रह्माभवदि- त्यर्थः । ते ह देवा ऊचुरन्योन्यं, तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापतिं ब्रह्मविद्याप्रदं जग्मतुरिति च लिङ्गमस्तीत्यर्थः । किमत्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवादीनामधिकारलिङ्गमित्याह॥ स्मार्तमिति॥ यथा वालानां गोलकेषु चक्षुरादिपदयोगेऽपि शास्त्रज्ञैगोलकातिरिक्तेन्द्रियाणि स्वी- क्रियन्ते, तथा ज्योतिरादौ सूर्यादिशब्दप्रयोगेऽपि विग्रहवद्देवताः स्वीकार्या इत्याह। ज्योतिरादीति । तथा चेतनत्वेन व्यवहारा-
Page 394
सू० ३३। अ० ९ ] (३१७ ) व्मकिश्रावस्थातुं यथेष्टं च तंतं विग्रहं ग्रहीतुं सामर्थ्यं। तथा हि श्रूयते सुब्रह्मण्यार्थवादे मे- धातिथेर्मेषेति, मेधातिथिं ह काण्वायनं इन्द्रो मेषो भूत्ा जहारेति।स्मर्यते च, "आदित्यःपुरु- घो भूत्वा कुन्तीमुपजगाम हे"ति।मृदादिष्वपि चे- तनाधिष्ठातारोऽभ्युपगम्यन्ते मृदब्रवीदापोऽब्ु- वन्नित्यादिदर्शनात्। ज्योतिरादेस्तु भूतधातोरा- दित्यादिष्वप्यचेतनत्वमभ्युपगम्यते, चेतना- स्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम्। यदप्युक्तं मन्त्रार्थवादयोर- न्यार्थत्वान्नदेवताविग्रहादिप्रकाशनसामर्थ्यमि- ति, अत्र ब्रूमः। प्रत्ययाप्रत्ययौ हि सद्रावास- द्रावयो: कारणं नान्यार्थत्वमनन्यार्थत्ंवा।तथा दित्यर्थः । एकस्य जडचेतनोभयरूपत्वं कथं तत्राह॥ असिति ही- ति। तथा हि विग्रहवत्तया देवव्यवहारः श्रूयते । सुब्रह्मण्य उद्धातृ- गणस्थ: ऋत्विक् तत्सम्बन्धी योरऽर्थवाद इन्द्रागच्छेत्यादि: तत्र मे- धातिथर्मेषतन्द्रिसम्बोधनं श्रुतं तव्याचष्टे॥ मेधेति॥ मुनिं मेषो भू- त्वा जहारेति ज्ञापनार्थ मेषेतीन्द्रसम्बोधनमित्यर्थः । यदुक्तमादित्या- दयो मृदादिवदचेतना एवेति तन्न सर्वत्र जडाजडांशयसच्वादित्या- ह। मृदिति। आदित्यादौ को जडभाग: कश्षेतनांश इति तत्राह। ज्योतिरादस्त्विति। मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ स्वा- र्थे न प्रमाणं अन्यपरत्वात्, विषं भुंक्ष्वेति वाक्यवतू इत्याह। यद- धीति। अन्यपरादपि वाक्यात् बाधाभावे स्वार्थो ग्राह इत्यांह। अत्र
Page 395
(११८) रत्न प्रभाभासिते [अ० १।पा०. ३। ह्यन्यार्थमपि प्रस्थितः पथि पतितं तणपर्णादि अस्तीत्येवं प्रतिपद्यते। अत्राह विषम उपन्या- सः तत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवत्तम- स्ति येन तदस्तित्वं प्रतिपद्यते। अत्र पुनर्विव्यु- द्देशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे न पार्थग- थ्येन वृत्तान्तविषया प्रवत्तिः शक्याव्यवसा- तुं। न हि महावाक्येऽर्थप्रत्यायकेऽवान्तरवाक्य- स्य पृथक् प्रत्यायकत्वमस्ति, यथा "न सुरां पिवेदि"ति नञ्रवति वाक्ये पढत्रयसम्बन्धात् सुरापानप्रतिषेध एवैकोरऽर्थोवगम्यते न पुनःसु- रां पिवेदिति पदद्वयसम्बन्धात् सुरापानविधिर- पीति। अत्रोच्यते। विषम उपन्यासः, युक्तं यत् सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवा- क्यार्थस्याग्रहणं, विध्युद्देशार्थवादयोस्त्वर्थवा-
ब्रूम इति। तात्पर्यशून्येऽप्यर्थे प्रत्ययमात्रेणास्तित्वमुदाहरति। । तथा हीति॥तृणादौ प्रत्ययोऽस्ति विग्रहादौ स नास्तीति वैषम्यं शङते ॥ अत्राहेति ॥ विध्युद्देशो वाक्यं तदेकवाक्यतया प्रश- स्तो विधिरित्येवार्थवादेषु प्रत्ययः । वृत्तान्तो भूतार्थो, विग्रहादि: तद्विषयः प्रत्ययो नास्तीत्यर्थः । नन्ववान्तरवाक्येन विग्रहादिप्रत्य- योऽस्त्वित्यत आह॥। न हीति ॥ सुरापानप्रत्ययोऽपि स्यादि- तिभावः। पदैकवाक्यत्ववाक्यैकवाक्यत्ववैषम्यान्मैवमित्याह ॥ अ- त्रोच्यत इति॥ नञ्पदमेकं यदा सुरां पिबेदिति पदाभ्यामन्वे-
Page 396
सू०३३।अ०९] शाङ्करव्रह्मसूत्रभाष्ये ( ३९९) दस्थानि पदानि पृथगन्वयं वत्तान्तविषयं प्रति- पद्यानन्तरं कैमर्थक्यवशेन विधिस्तावकत्वं प्र- तिपद्यन्ते। यथा हि "वायव्यं श्वेतमालभेत भू- तिकामः" इत्यत्र विध्युद्देशवर्तिनां वायव्यादि- पदानां विधिना सम्बन्धः, नैवं "वायुर्वैक्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स ए- वैनंभूतिं गमयति"इत्येषामर्थवादगतानांपदा- नां न हि भवति वायुर्वा आलभेत क्षेपिष्ठा देवता वा आलभेतेत्यादि वायुस्वभावसङ्गीर्तनेन त्व- वान्तरमन्वयं प्रतिपद्य एवं विशिष्टदैवत्यमिद क- र्मेति विधिं स्तुवन्ति।तद्यत्र योऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति तत्र तदनुवादेनार्थ- वाद: प्रवर्तते। यत्र प्रमाणान्तरविरुद्धस्तत्र गु- णवादेन। यत्र तु तदुभयं नास्ति तत्र किं प्रमा- णान्तराआावाहगुणवाद: स्यादाहोस्वित् प्रमाणा- ति तदा पदैकवाक्यं एकमेवार्थानुभवं करोति न तु पदद्दयं पृ- थक् सुरापानं बोधयति तस्य विधौ निषेधानुपपत्तेः वाक्यार्थानुभवं प्रत्यद्दारत्वात्, अर्थवादस्तु भूतार्थसंसर्गस्तुतिद्वारं बोधयन् विधिना वाक्यकवाक्यतां भजत इत्यरि्ति विग्रहादनुभव इत्यर्थः। नन्वर्थवा- दस्थपदानामवान्तरसंसर्गबोधकत्वं विना साक्षादेव विध्यन्वयोऽस्तु तत्राह ॥। यथा हीति॥ साक्षादन्वयायोगं दर्शयति॥ न हीति॥ अर्थवादात् सर्वत्र स्वार्थग्रहणमाशङ्गचार्थवादान् विभजते ॥ तघत्रे-
Page 397
(४००) रत्नप्रभाभासिते [अ०१।पा०३। न्तराविरोधाद्विद्यमानार्थवाद इति प्रतीतिशरणै- र्विद्यमानार्थवाद आश्रयणीयो न गुणवादः। एतेन मन्त्रो व्याख्यातः। अपि च, विधिश्षिरेवे- न्द्रादिदैवत्यानि हर्वीषि चोदयद्विरपेक्षितमि न्द्रादीनां स्वरूपं, न हि स्वरूपरहिता इन्द्राद- यश्रवेतस्यारोपयितुं शक्यन्ते।न च चेतस्यना- रूढायै तस्यै तस्यै देवतायै हवि: प्रढातुं शक्य- ते। श्रवयति च, "यस्यै देवतायै हविर्महीतं स्यात्तां मनसा व्यायेद्वषट्करिष्यन्नि"ति।न ति। तन्तत्रार्थवादेषु यत्राग्निहिमस्य भेवजमित्यादावित्यर्थः। आदि- त्यो यूप इत्यभेदो वाधित इति तेजस्वित्वगुगवाद:, यत्र वज्रहस्तः पुरन्दर इत्यादौ मानान्तरसंवादविसंवादौ न स्तः तत्र भूतार्थवाद इत्यर्थ:, इति विमृश्येत्यध्याहारः। विग्रहार्थवादः स्वार्थेऽपि तात्पर्य- वान् अन्यपरत्वे सत्यज्ञानावाधितार्थकशव्दत्वात् प्रयाजादिवाक्य- वत् इति न्यायं मन्त्रेष्वतिदिशति॥ एतेनेति॥ वेदान्तानुवाद गुणवा- दानां निरासाय हेतौ पदानि न चोभयपरत्वे वाक्यभेदोऽवान्तरार्थस्य महावाक्यार्थद्दारत्वादिति भावः। विध्यनुपपच्यापिसवर्गवद्देवताविग्रहो- डङ्ीकार्य इत्याह । अपि चेति। ननु क्ेशात्मके कर्मणि विधि: फलं विना अनुपपन्न इति भवतु यन्न दुःखेन संभिन्नमित्यर्थवाद- सिद्ध: स्वर्गो विधिप्रमाणक: विग्रहं विना विधे: कानुपपत्तिस्तामाह॥ न हीति। उद्दिश्य त्यागानुपपच्या चेतस्यारोहो डङ्गीकार्य इत्यत्र श्रुतिमप्याह॥ यस्या इति ॥ अतश्रेतस्यारोहार्थ विग्रह एष्टव्यः। किश्च कर्मप्रकरणपाठात् विग्रहपमिति: प्रयाजवत् कर्माङ्गत्वेना-
Page 398
सू०/ ३३अ०१।] शाङ्करब्रह्मसूत्रभाष्ये (४०१) च शब्दमात्रमर्थस्वरूपं सम्भवति शब्दार्थयो- र्भेदात्, तत्र यादशं मन्त्रार्थवादयोरिन्द्रादीना स्वरूपमवगतं न तच्ादशं शब्दप्रमाणकेन प्र- त्याख्यातुंयुक्तम्।इतिहासपुराणमपि व्याख्या- तेन मार्गेण सम्भवन्सन्त्रार्थवादमूलत्वात् प्र- भवति देवताविग्रहादि साधयितुम्। प्रत्यक्षामू- लमपि सम्भवति। अ्रवति ह्यस्माकमप्रत्यक्षम- पिचिरन्तनानां प्रत्यक्षमू। तथा च व्यासादयो दे- वादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते। यस्तु- ब्रयादिदानीन्तनानामिव पूर्वेषामपि नास्ति दे- वादिभि: व्यवहर्तु सामर्थ्यमिति स जगद्वैचित्र्यं प्रतिषेधेत्। इदानीमिव चनान्यदापि सार्वभौ- मः क्षत्रियोऽस्तीति ब्रयात्, ततश् राजसूया- ङ्ीकार्यतां, विना कर्मापूर्वासिद्धेः । किश्च सुप्रसन्नविग्रहवद्देवतां त्यत्क शब्दमात्रं देवतेति भक्तिरयुक्तेत्याह॥न च शब्देति॥ न चा- कृतिमात्रं शब्दशक्यमस्तु कि विग्रहेणेति वाच्यं, निर्व्यक्याकृत्ययोगा- तू, अतः शब्दस्यार्थाकाङ्कायां मन्त्रादिप्रमितविग्रहोऽङ्गीकार्य इत्या- ह॥तत्रेति॥ एवं मन्त्रार्थवादमूलकमितिहा सादिकमपि विग्रहे मान- मित्याह॥ इतिहासेति ॥ प्रमाणत्वेन संभवदित्यर्थः। व्यासादीनां योगिनां देवतादिप्रत्यक्षमपीतिहासादेर्मूलमित्याह॥ प्रत्यक्षेति॥ व्या- सादयो देवतादिप्रत्यक्षशून्या: प्राणित्वादस्मद्ददित्यनुमानमतिप्रसङ्गेगन दूषयति। यस्त्वित्यादिना। सर्व घटाभिन्नं वस्तुत्वात् घटवदिति ज- गद्दैचित्रयं नास्तीत्यपि स ब्रूयातू। तथा क्षत्रियाभावं वर्णाश्रमाभावं ५१
Page 399
(४०४) रत्नप्रभाभासिते [अ० १।पा० ३। भ्यते। तत्र शूद्रस्याप्यधिकारः स्यादिति ताव- त् प्रात्तं, अथित्वसामर्थयोःसम्भवात्,"तस्मा- च्छूद्रो यज्ञेऽनवक्लप्तः" इतिवत् शूद्रो विद्याया- मनवक्लृप्त इति च निषेधाश्रवणात्। यञ्च कर्म- स्वनधिकारकारणं शूद्रस्यानग्नित्वंन तद्विदास्व- धिकारस्यापवादकं लिंगम्। न त्यावहनीयादि- रहितेन विद्या वेदितुं न शक्यते। अवति च लिङ़ं शूद्राधिकारस्योपोह्दलकं, संवर्गविद्यायां हिजा- नश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशव्देन परामृशति "अह हारेत्वा शूद्र तवैव सह गोिरस्तु" इति। विदुरप्रभृतयश्र शूद्रयोनिप्रभवा अपि विशिष्ठ- न्वयोक्त्या वेदान्तानामपि भूतार्थे ब्रह्मणि समन्वयो दृढीक्ृतः, अत्रा- पि शूद्रशब्दस्य श्रौतस्य क्षत्रिये समन्वयोक्त्या से दृढीक्रियत इत्यधि- करणद्दयस्य प्रासङ्िकस्यास्मिन् समन्वयाध्यायेऽन्तर्भाव इति मन्त- व्यं। पूर्वपक्षे शूद्रस्याऽपि द्विजवद्देदान्तश्रवणे प्रवृत्तिः, सिद्धान्ते तद- भाव इति फलं, अत्र वेदान्तविचारो विषयः, स किं शूद्रमधिकरोति न वेति संभवासंभवाभ्यां सन्देहे पूर्वपक्षमाह॥ तत्र शूद्रस्यापीत्या- दिना॥ तस्मादनग्नित्वादनवक्लप्तोऽसमर्थः । विद्यार्थिनि शूद्रशब्दप- योगाल्लिङ्ादपि शूद्रस्याधिकार इत्याह॥ भवति चेति॥ जानश्रुतिः किल षठ् शतानि गवां रथं च रैक्काय गुरवे निवेध मां शिक्षयेत्युवाच, ततो रैको विधुरः कन्यार्थी सन् इदमुवाच। अहेति निपातः खेदा- र्थः। हारेण निष्केन युक्त इत्वा गन्ता रथो हारेत्वा स च गोभि: सह १ त्रह्मणिसमन्वयः।
Page 400
सू० ३४। अ०१०] शाङ्करब्रह्मसूत्रभाष्ये (8०५) विज्ञानसम्पन्नाः स्मर्यन्ते, तस्मादधिक्रियते शू- द्रो विद्यास्वित्येवं प्राप्ते ब्रूमः। न शूद्रस्याधिका- रो वेदाध्ययनाभावात्। अधीतवेदो हि विदित- वेदार्थो वेदार्थेष्वधिक्रियते, न च शूद्रस्य वेदा- ध्ययनमस्ति, उपनयनपूर्वकत्वाद्वेदाध्ययनस्य, उपनयनस्य च वर्णत्रयविषयत्वात्। यत्त्वर्थित्वं न तदसति सामर्थ्येऽधिकारकारणंभवति।सा- मर्थ्यमपि न लौकिक केवलमधिकारकारणं भ- वति। शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापे- क्षितत्वात्। शास्त्रीयस्य च सामर्थ्यस्याध्ययन- निराकरणेन निराकृतत्वात्। यच्चेदं "शूद्रो यज्ञे- Sनवक्लृप्त" इति तत् न्यायपूर्वकत्वाद्विद्यायाम- हे शूद्र तवैवास्तु किमल्पेनानेन मम गार्हस्थ्यानुपयोगिनेति भाव:। अर्थित्वादिसंभवे श्रेय:साधने प्रवृत्तिरुचिता स्वाभाविकत्वादिति न्या- योपेताछ्िङ्गादित्याह॥तस्मादिति।।सूत्राइहिरेव सिद्धान्तयति ॥ न- शूद्रस्याधिकार इत्यादिना॥ आपाततो विदितो वेदार्थो येन तस्येत्यर्थः । अध्ययनविधिना संस्कृतो वेदस्तदुत्थमापातज्ञानश्च वे- दार्थविचारेषु शास्त्रीयं सामर्थ्य तदभावातू शूद्रस्यार्ित्वादिसंभवन्या- यासिद्वेर्नास्ति वेदान्तविचाराधिकार इत्यर्थः। यद्दाध्ययनसंस्कृतेन वेदेन विदितो निश्चितो वेदार्थो येन तस्य वेदार्थेषु विधिष्वधिकारो नान्यस्य अनधीतवेदस्याऽपि, वेदार्थानुष्ठानाधिकारेSध्ययनविधिवैय- थ्यापातात्। अतः फलपर्यन्तब्रह्मविद्यासाधनेषु श्रवणादिविधिषु शूद्रस्यानधिकार इत्यर्थः। अधीतवेदार्थज्ञानवच्वरूपस्याध्ययनविधि-
Page 401
(४ ८ ६) रत्नप्रभाभासिते [अ० १। पा० ३। प्यनवक्लप्तत्वं द्योतयति, न्यायस्य साधारण- त्वात्। यत् पुनः संसर्गविद्यायां शूद्रशब्दश्रवणं लिङं मन्यसे न तल्िङ़ं, न्यायाभावात्।न्यायो- क्तेर्हि लिङ्गदर्शनं द्योतकं भवति, न चात्र न्यायोड स्ति। कामञ्चायं शूद्रशब्दः संवर्गविद्यायामेवैक- स्यां शूद्रमधिकुर्यात् तद्विषयत्वात् न सर्वासु वि- द्यासु, अर्थवादस्थत्वात् न तु क्वचिदप्ययं शूद्र- मधिकर्तुमुत्सहते। शक्यते चायं शूद्रशब्दोऽधि- कृतविषये योजयितुं। कथमित्युच्यते। "कं वर एनमेतत् सन्तं सयुग्वानमिव रैक्कमात्थे"त्यस्मा- लभ्यस्य सामर्थ्यस्याभावादिति न्यायस्य तुल्यत्वात् यज्ञपदं वेदार्थो- पलक्षणार्थमित्याह॥ न्यायस्य साधारणत्वादिति । तस्माच्छूद्र इत्येतच्छव्दपरामृष्टन्यायस्य यज्ञव्रह्मविद्ययोस्तुल्यत्वादित्यर्थः । पूर्वो- कं लिङगं दूषयति॥ यदिति ॥ असामर्थ्यन्यायेनार्थित्वादिसम्भवन्या- यस्य निरस्तत्वादित्यर्थः। ननु निषादस्थपत याजयेदित्यत्राध्ययनाभा- वेऽपि निषादशव्दातू निषादस्येष्टाविव शूद्रशव्दात् शूद्रस्य विद्याया- मधिकारोऽस्त्वित्याशङ्क्च संवर्गविद्यायामधिकारमङ्गीकरोति॥ का- ममिति॥ तदिषयत्वात् तत्र श्रुतत्वादित्यर्थः । वस्तुतस्तु विधिवा- क्यस्थत्वान्निषादशव्दोऽप्यधिकारिसमर्षकः, शूद्रशव्दस्तु विद्यावि धिपरार्थवादस्थो नाधिकारिणं बोधयति, अंसामर्थ्यन्यायविरोधेना- न्यपरशव्दस्य स्वार्थबोधित्वासम्भवातू इति मत्वाङ्गीकारं त्यजति ॥ अर्थवादेति ॥ तर्हि शूद्रशव्दस्यात्र श्रुतस्य कोडर्थ इत्याशङ्क्च् सू- त्रेणार्थमाह॥ शक्यते चेत्यादिना ॥ जानश्रुतिर्नाम राजा निदाघ-
Page 402
सू० ३४।अ० १०।] शाङ्करव्रह्मसूत्रभाष्ये (४०७) द्वंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुगुत्पेदे तामृषी रैक्क: शूद्रशव्देना- नेन सूचयांबभूवात्मनः परोक्षज्ञानस्य ख्याप- नायेति गम्यते, जातिशूद्रस्यानधिकारात्। क्थं- पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यते इति, उच्य- ते, तदा द्रवणाच्छुचमनिदुद्राव शुचा वाभिदु- द्रुवे शुचा वा रैक्कमभिदुद्रावेति शूद्रावयवार्थस- मभवात् रूढार्थस्य चासम्भवात्। दश्यते चाय-
समये रात्रौ प्रासादतले सुष्वाप, तदा तदीयान्दानादिगुणगणतोषि- ता ऋषयोऽस्य हितार्थ हंसा भूत्वा मालारूपेण तस्योपरि आजग्मुः, तेषु पाश्ात्यो हंसोडग्रेसरं हंसमुवाच, भो भो भद्राक्ष किं न पश्यसि जानश्रुतेरस्य तेजः स्वर्गै व्याप्य स्थितं ततू त्वां धक्ष्यति न गच्छेति तमग्रेसर उवाच, कमप्येनं वराकं विद्याहीनं सन्तं अरे सयुग्वानं युग्वा गन्त्री शकटी तया सह स्थितं रैक्कमिवैतदचनमात्थ। रैक्कस्य हि व्रह्मिष्ठस्य तेजो दुरतिक्रमं नास्यानात्मज्ञस्येत्यर्थः । अस्मद्दचनातू खिन्नो राजा शकटलिङ्गेन रैक्ं ज्ञात्वा विद्यावान भविष्यतीति हंसा- नामभिप्रायः। कम् उ अरे इति पदच्छेद: उशब्दोऽप्यर्थः। तेषां हंसा- नामनादरवाक्यश्रवणात् अस्य राज्ञः शुगुत्पन्ना, सा शूद्रशब्देन रैकेन सूच्यते, हीति सूत्रान्वयः । श्रुतयौगिकार्थलाभे सति अनन्वितरू- ढ्यर्थस्त्याज्य इति न्यायबोतनार्थो हि शब्द:। तदा द्रवणात् तया शु- चा आद्रवणातू। शूद्र: शोंकं प्राप्तवात् ।शुचा वा कर्त्या राजा अ- भिदुद्रुवे प्राप्तः। शुचा वा करणेन रैकं गतवानित्यर्थः ॥ ३४॥
Page 403
(80८) रत्नप्रभाभासिते [अ०१।पा०३। क्षत्रियत्वगतेश्वोत्तरत्र चैवररथेन लिङात्॥३५॥ इतश्र न जातिशूद्रो जानश्रुतिः, यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथे - नाभिप्रतारिणा क्षत्रियेण समभिव्याहारात् लि- झ्ात् गम्यते। उत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरक्षिप्रतारी क्षत्रियः सङ्गीत्यते। "अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसे- निं सूदेन परिविष्यमाणौ ब्रह्मचारी बिभिक्षे" इति। चैत्ररथित्वं चाश्षिप्रतारिणः कापेययो- गादवगन्तव्यं, कापेययोगो हि चैत्ररथस्याव- गतः। "एतेन वै चैत्ररथं कापेया अयाजय- न्निशति। समानान्वयानां च प्रायेण समाना- न्वया याजका क्षवन्ति। "तस्माच्चैत्ररथिर्नामै- शूद्रशव्दस्य यौगिकत्वे लिङ्गन्माह॥ क्षत्रियत्वेति ॥ संवर्गविद्या- विध्यन्तरमथार्थवाद आरभ्यते। शुनकस्यापत्यं कपिगोत्रं पुरोहितम- भिप्रतारिनामकं राजानं च कक्षसेनस्यापत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटुर्भिक्षितवानित्यर्थः। नन्वस्य चैत्ररथित्वं न श्रु- तमित्यत आह।।चैत्ररथित्व ञ्चेति।। एतेन द्विरात्रेणेति छान्दोग्यश्रुत्यैव पूर्व चित्ररथस्य कापेययोग उक्तः । अभिप्रतारिणोऽपि तयोगात् चित्ररथवंश्यत्वं निश्षीयते। राजवंश्यानां हि प्रायेण पुरोहितवंश्या या- जका भवन्तीत्यर्थः। नन्वस्त्वभिप्रतारिणः चैत्ररथित्वं तावता कथं
Page 404
सृ.३६।अ०१०] शाङ्करब्रह्मसूत्रभाष्ये (४०९) क:क्षत्रपतिरजायत? इतिचक्षत्रपतित्वावगमात् क्षत्रियत्वमस्यावगन्तव्यं। तेन क्षत्रियेणाभ्षिप्र- तारिणा सह समानायां विद्यायां सङीर्तनं जा- नश्रुतेरपि क्षत्रियत्वं सूचयति। समानानामेव हि प्रायेण समभिव्याहारा भवन्ति। क्षतृप्रेष- णादैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिः। अतो न जातिशूद्रस्याविकारः॥३५॥ संस्कारपरामशात् तदभावाभिला- पाच॥ ३६॥ इतश्षन शूदस्याधिकारो यद्विदाप्रदेशेषू- पनयनादयः संस्कारा: परामृश्यन्ते, "तं हो- पनिन्ये अधीहि भगव इति होपससाद" "ब्र- क्षत्रियत्वं तत्राह॥ तस्मादिति॥ चित्ररथादित्यर्थः । क्षत्ता सूतः तस्य रैक्कान्वेषणाय प्रेषणं, अन्नगोदानादिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गनम् । ३५॥ अत्र शूद्रशब्दो यौगिक एवेति न शूद्रस्याधिकार इति स्थि- तं तत्र लिङ्गन्तरमाह॥ संस्कारेति। उपनयनं वेदग्रहणाङ्गं शूद्रस्य नासीति पूर्वमुक्तं इह विद्याग्रहणाङ्गस्योपनयनसंस्कारस्य सर्वत्र परा- मर्शात् शूद्रस्य तदभावान्न विद्याधिकार इत्युच्यते। भाष्ये आदिपदे- नाध्ययनगुरुशुश्रुषादयो गृह्यन्ते। तं शिष्यमाचार्य उपनीतवानित्य- र्थः। नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन् सनत्कुमारमुपगत इत्याह। ॥ अधीति॥ उपदिशेति यावतू। ब्रह्मपरा वेदपारगाः, सगुणव्रह्मनि- छ्ठाः, परं निर्गुणं ब्रह्मान्वेषमाणाः, एष पिप्पलाद: तज्जिज्ञासितं सर्व ५२
Page 405
(४१०) रत्नप्रभाभासिते [अ० १।पा०३। हमपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष हवै तत्सर्व वक्ष्यती"ति"ते ह समित्पाणयो भग- वन्तं पिप्पलादमुपसन्ना" इति च तान् हानुप- नीयैवेत्यपि प्रदशितैवोपनयन प्राप्तिर्भवति। शू- द्रस्य च संस्काराभावोऽसिलप्यते, शूद्रश्चतुर्थो वर्ण एकजातिरित्येकजातित्वस्मरणात्, न शूद्रे पातक किश्चिन्न च संस्कारमर्हतीत्यादिभिश्र॥।३६।। तदभावनिर्धारणे चप्रवृत्तेः॥३७॥ इतश्र न शूद्रस्याधिकारो यत् सत्यवचने- वक्ष्यतीति निश्चिवित्य ते भरहाजादयः षट् ऋषयः तमुपगता इत्यर्थः। ननु वैश्वानरविद्यायां ऋषीन् राजा अनुपनीयैव विद्यामुवाचेति श्रुते- रनुपनीतस्याप्यस्ति विद्याधिकार इत्यत आह॥ तानाहेति ॥ते ह समित्पाणयः पूर्वाल्ने प्रतिचक्रमिर इति पूर्ववाक्ये ब्राह्मणा उपनय- नार्थमागता इति उपनयनप्राप्तिं दर्शयित्वा निषिध्यते। हीनवर्णे- नोत्तमवर्णा अनुपनीयैवोपदेष्ठव्या इत्याचारज्ञापनार्थमित्यर्थः । एक- जातिः अनुपनीतः । पातकं अभक्ष्यभक्षणकतं ॥ ३६ ॥ सत्यकामः किल मृतपितृको जावालां मातरमपृच्छत् किंगोत्रोऽहमिति, तं.मातो- वाच भर्तृसेवाव्यग्रतयाहमपि तव पितुर्गोत्रं न जानामि जाबाला तु नामाहमसि्मि सत्यकामो नाम त्वमसीति एतावज्जानामीति ततः स जाबालो गौतममागत्य तेन किंगोत्रोऽसीति पृष्ट उवाच नाहं गोत्रं वेझि न साता वेत्ति परन्तु मे मात्रा कथितं उपनयनार्थमाचा- र्य.गत्वा सत्यकामो जावालोSस्मीति ब्रूहीति अनेन सत्यवचनेन त- स्य शूद्रत्वाभावो निर्धारितः । अव्राह्मण एतत् सत्यं विविच्य वकुं
Page 406
(४११) न शूद्रव्वाभावे निर्द्ारिते जाबालं गौतम उप- नेतुमनुशासितुं च प्रवटते, "नैतदब्राह्मणो विव- क्तमर्हति समिधं सोम्याहरोप त्वानेष्ये नस- त्यादगाः" इति श्रुतिलिङ्गात्॥३७॥ श्रवणाध्ययनार्थपतिषेधात् स्मृते-
इतश्र न शूद्रस्याधिकारो यदस्य स्मृते:श्रव- णाध्ययनार्थप्रतिषेधो क्षवति वेदश्रवणप्रतिषेधो वेदाध्ययनप्रतिषेध: तदर्थज्ञानानुष्ठानयोश् प्र- तिषेधः शूद्रस्य स्मर्यते। श्रवणप्रतिषेधस्तावद- "थास्य वेदमुपश्टण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपू- रण"मिति, "पद्यु हवा एतत् श्मशानं यच्छूद्रस्त- स्मात् शूद्रसमीपे नाध्येतव्य"मिति च। अत ए- वाध्ययनप्रतिषेधो यस्य हि समीपेऽपि नाध्ये- नार्तीति निर्धार्य, हे सोम्य सत्यात् त्वन्नागा: सत्यं न त्यक्तवान- सि, अतस्त्वामुपनेष्ये तदर्थ समिधमाहरेति॥ गौतमस्य प्रवृत्तेश्र लिङ्गात् न शूद्रस्याधिकार इत्याह। तदभा- वेति॥३७॥ स्मृत्या श्रवणादिनिषेधाच्च नाधिकार इत्याह। श्रवणेति । अस्य शुद्रस्य द्िजैः पञ्यमानं वेदं प्रमादाच्छृण्वतः सीसलाक्षाभ्यां तम्ताभ्यां श्रोत्रद्दयपूरणं प्रायश्च्वित्तं कार्यमित्यर्थः। पद्मु पादयुक्तं सञ्चरिष्णुरूप- मिति यावत्। भवति च स्मृतिरिति शेषः। मतिं वेदार्थज्ञानं । दानं
Page 407
(४१२) रत्नप्रभाभासिते [अ० १ पा.३) तव्यं भवति स कर्थं श्रुतमधीयीत।भ्रवति च- वेदोच्ारणे जिह्वाच्छेदो धारणे शरीरक्षेद इति। अत एव च तदर्थज्ञानानुष्ठानयोः प्रतिषेधो भ- वति।"न शूद्राय मतिं दद्यादि"ति "द्विजातीना- मध्ययनमिज्या दानमिति च। येषां पुनः पू- र्वकृतसंस्कारवशात् विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिस्तेषां न शक्यते फलप्राप्तिः प्रतिब- जुं, ज्ञानस्यैकान्तिकफलत्वात्। "श्रावयेच्चतुरो वर्णा"निति चेतिहासपुराणाधिगमे चातुर्वर्ण्या- धिकारस्मरणात्। वेदपूर्वकस्तु नास्त्यधिकार: शूद्राणामिति स्थितम् ॥३८ । कम्पनात् ॥३९॥ अवसित: प्रासङ्गिकोऽधिकारविचारः, प्रकृ- तामेव इदानीं वाक्यार्थविचारणां प्रवर्तयिष्या- मः।"यदिदं किश्च जगत् सर्व प्राण एजति निः- नित्यं निषिध्यते शूद्रस्य नैमित्तिकं तु दानमस्त्येव। यदुक्तं विदुरादीनां ज्ञानित्वं दष्टमिति तत्राह॥ येषामिति॥ सिद्धानां सिद्दर्दुरपहरत्वेऽपि साधकैः शूद्रैः कथं ज्ञानं लब्धव्यमित्यत आह। श्रावयेदिति ॥३८। कम्पनात्॥ अस्यापि प्रासंज्ञिकत्वमाशङ्क्याह॥अवसित इति। समाप्त इत्यर्थः। काठकं पठति ॥ यदिदमिति ॥ सर्वै जगत् प्राणात् निःसृतं उत्पन्नं प्राणे चिदात्मनि प्रेरके सति एजति चेष्टते, तच्च प्रा- णाख्यं कारणं महद्रह्म विभेत्यस्मादिति भय तस्मिन् भयहेतुत्वे दष्टा-
Page 408
सू० ३९।अ०११/] शाङ्करब्रह्मसूत्रभाष्ये (४१३) सृतं महद्रयं वज्चमुद्यतं य एतद्विदुरम्तास्ते भव- नती"'ति। एतद्राक्यं एजृ कम्पन इतिधात्वर्थानु- गमात् लक्षितं। अस्मिन् वाक्ये सर्वमिदं जग- त् प्राणाश्रयं स्पन्दते। महच्च किश्िद्रयकारणं वज्चशब्दितं उद्यतं, तद्विज्ञानाच्चामृतत्वप्राप्तिरि- ति श्रूयते। तत्र कोऽसौ प्राणः किश्च तद्गयानकं वज्चमित्यप्रतिपत्तेविचारे क्रियमाणे प्रात्तं तावत् प्रसिद्धेः पञ्चवत्तिर्वायुः प्राण इति, प्रसिद्धेरेव चाशनिर्वजं स्याह्ायोश्रेदं माहात्म्यं संकीर्त्यते। कथं सर्वमिदं जगत् पञ्चटत्तौ वायौ प्राणशब्दि- ते प्रतिष्ठायैजति वायुनिमित्तमेव च महद्रया- न्तमाह। वज्तमिति। यथोब्यतं वज्रं भयं तथेत्यर्थः ये तत्प्राणाख्यं ब्रह्म निर्विशेषं विदुस्ते मुक्ता भवन्तीत्याह। य इति। नन्वस्मिन् सूत्रे कथमिदं वाक्यमुदाहतमित्यत आह। एतदिति। एजत्यर्थस्य सूत्रितत्वात् एजतिपदयुक्तं वाक्यं उदाहृतमित्यर्थः। प्रासङ्गिकाधि- कारचिन्तयास्य सङ्गतिर्नापेक्षितेति 'शब्दादेवप्रमित' इत्यनेनोच्यते। तत्राङ्गुष्ठवाक्ये जीवानुवादो ब्रल्लैक्यज्ञानार्थ इत्युक्तं, न तथेह प्राणा- नुवाद ऐक्यज्ञानार्थ: सभवति, प्राणस्वरूपेण कल्पितस्यैक्यायोगात्, अतः प्राणोपास्तिपरं वाक्यमिति प्रत्युदाहरणेन पूर्वपक्षयति॥ प्रसि- द्वे:पञ्चवृत्तिरिति ॥ नन्वत एव प्राण इत्यादौ ब्रह्मणि लिङ्गातू प्राणश्रुतिर्नीता, अत्रापि सर्वचेष्टाभयहेतुत्वं ब्रह्मलिङ्नमस्तीति ना- स्ति पूर्वपक्षावसरो गतार्थत्वादित्यत आह। वायोश्चेति। प्रतिष्ठा- य स्थितिं लब्ध्वा प्राणे वायौ निमित्ते जगच्चलतीति प्रसिद्धं, अतः १ अनिश्र्वयात् संशयादितियावत्।
Page 409
(8१४) रत्नप्रभाभासिते [अ०१।पा. ३। नकं वज्मुद्यम्यते। वायौ हि पर्जन्यभावेन वि- वर्तमाने विद्युत्स्तनयित्नुवष्ट्यशनयो विवर्तन्त इत्याचक्षते।वायुविज्ञानादेव चेदमम्तत्वं।तथा हि श्रुत्यन्तरं वायुरेव व्यष्टिर्वायुःसमष्टिरप पुन- र्मृत्युं जयति य एवं वेदे"ति तस्माद्वायुरयमिहप्र- तिपत्तव्य इत्येवं प्राप्ते ब्रूमः। ब्रह्मैवेदमिह प्रति- पत्तव्यं, कुतः पूर्वोत्तरालोचनात्। पूर्वोत्तरयोर्हि ग्रन्थभागयोर्बह्मैव निर्दिश्यमानमुपलभामहे, इ- हैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्र- तिपद्येमहि। पूर्वत्र तावत् "तदेव शुक्रं तद्रह्म तदैवामृतमुच्यते। तस्मिँल्ोकाः श्रिता: मर्वे तदु नात्येति कश्षन? इति। ब्रह्मनिर्द्िष्टं तदेवेहापि सन्निधानात् ज- गत् सर्वे प्राण एजतीति च लोकाश्रयत्वप्रत्य- भिज्ञानान्निर्दिष्ठमिति गम्यते। प्राणशब्दोऽप्य- यं परमात्मन्येव प्रयुक्त:,"प्राणस्य प्राण"मिति दर्शनात्, एजयितृत्वमपीदं परमात्मन एवो- पपद्यते न वायुमात्रस्य, तथाचोक्तम्, स्पष्टं ब्रह्मलिङं: नास्तीतिभावः। वज्रलिदाच्च वायुरित्याह॥वाय्विति॥ व्यष्टिर्विशेषः समष्टिः सामान्यं। सूत्राइहिरेव सिद्धान्तं प्रतिजानीते॥ ब्रह्मैवेति। पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वाश्रयत्वं लिङं वाक्य- भेदकप्राणश्रुतेर्वािकमित्याह ॥ पूर्वत्रेत्यादिना ॥ शुक्र स्वप्रकाशं।
Page 410
सू०३१। अ.११] शाङ्करव्रह्मसूत्रभाष्ये (8१५) "न प्राणेन नापानेन मर्त्यो जीवति कश्षन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ"॥ इति। उत्तरत्रापि, "अयादस्याग्निस्तपति भयात्तपति सूर्यः। अयादिन्द्रश् वायुश्र् मृत्युर्धावति पञ्चमः॥इति। ब्रह्मेव निर्द्ेक्ष्यते न वायु:, सवायुकस्य ज- गतो भयहेतुत्वाश्िधानात् तदेवेहापि सन्निधा- नात् महद्रयं वज्मुद्यतमिति च अयहेतुत्वप्रत्य- भिज्ञानान्निर्दिष्टमिति गम्यते। वजशब्दोऽप्य- यम्भयहेतुव्वसामान्यात् प्रयुक्त:, यथा हि वज्- मुद्तं ममैव शिरसि निपतेत् यद्यहमस्य शास- नं न कुर्यामित्यनेन भयेन जनो नियमेन राजा- दिशासने प्रवर्तते। एवमिदमग्निवायुसूर्यादिकं जगदस्मादेव ब्रह्मणो विभ्यन्नियमेन स्वव्यापा- रे प्रवर्तते इति भ्यानकं वजोपमितं ब्रह्म। तथा च ब्रह्मविषयं श्रुत्यन्तरम, "भीषास्माद्वातः पवते भीषोदेति सूर्यः। शीषास्मादग्निश्रेन्द्रश्र मृत्युर्धावति पञ्चमः॥ तदु नात्येति ब्रह्मानाश्रितः कोऽपि लोको नास्त्येवेत्युकारार्थः । सौ- तलिङं: व्याचष्टे॥ एजयितृत्वमिति॥ सवायुकस्य सर्वस्य कम्पन- श्रवणादपि प्राणःपरात्मैवेत्यर्थः । ब्रह्मण वज्रशब्द: कथमित्याश- डू्य गौणइत्याह । वज्शब्द इति ॥ बृहदारण्यके वायुरव व्य-
Page 411
(89€) रत्नपभाभासिते [अ० १।पा०३। इत्यमृतत्वफलश्रवणादृपि ब्रह्मैवेदमिति गम्यते। ब्रह्मज्ञानाडयमृतत्वप्राप्तिः,"तमेव विदित्वाSति- मृत्युमेतिनान्य:पन्थाविद्यतेऽयनाये"ति मन्त्रव र्णातू। यनु वायुविज्ञानात् क्कचिदमृतत्वमकिहि तं तदापेक्षिकं तत्रैव च प्रकरणान्तरकरणन परमा- त्मानमभिधाय अतोऽन्यदार्तमिति वाय्वादेरा- तत्वाभिधानात्।प्रकरणादप्यत्र परमात्मनिश्चयः। "अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूतादूभव्याच्च यत् तत्पश्यसि तद्वद"॥ इति परमात्मनः पृष्ठत्वात्॥ ३९॥ ज्योतिर्दर्शनात्॥ ४० ॥ "एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्यो तिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते"इति श्रू- यते, तत्र संशय्यते कि ज्योतिःशब्दं चक्षुर्विषयं ष्टिरित्यत्रापपुनर्मृत्युमिति अपमृत्युजयरूपमापेक्षिकममृतत्वमुच्यते न मुख्यामृतत्वं। तन्रैव वायूपास्तिप्रकरणं समाप्याथ है नमुषस्तःपप्र- च्छेति ज्ञेयात्मानमुक्का वाय्वादेर्नाशित्वोक्तेरित्याह ॥ यन्तु वाञ्व- त्यादिना॥ तस्मात् काठकवाक्यं ज्ञेयें समन्विंतमिति सिद्धम्॥३९॥ ॥ ज्योतिर्दर्शनात् ॥ छान्दोग्ये प्रजापतिविद्यावाक्यमाह ॥ एष इति॥ परंज्योतिःश्रुतिभ्यां संशयमाह ॥ तत्रेति॥ घटादिविषयाव- रकतमोनाशकं सौरमित्यर्थः। पूर्वत्र व्रह्मप्रकरणस्यानुग्राहक: सर्वश- १ ब्रह्मणीतिशेषः ।
Page 412
(४१७) तमोऽपहं तेजः किं वा पर ब्रह्मेति, किं तावत् प्राप्तं, प्रसिद्धमेव तेजो ज्योतिःशब्दमिति, कुतः तत्र ज्योतिःशब्दस्य रूढत्वात्। ज्योतिश्ररणा- भिधानादित्यत्र हि प्करणात् ज्योतिःशब्दः स्वार्थ परित्यज्य ब्रह्मणि वर्तते। न चेह तह्त् कि- श्वित् स्वार्थपरित्यागे कारणं दश्यते। तथा च नाडीखण्डे,"अथ यत्रैतदस्मात् शरीरादुक्काम- त्यथैतैरेव रश्मिक्षिरूर्ध्वमाक्रमते" इति सुसुक्षो- रादित्य प्राप्तिरभिहिता, तस्माव्यसिद्धमेव तेजो
व्दसङ्कोचाययोगोऽस्तीति प्राणश्रुतिर्व्रह्लणि नीता, न तथात्र य आ- त्मापहतपाप्मेति प्रकरणस्यानुग्राहकं पश्याम इति प्रत्युदाहरणेन पू- र्वपक्षमाह। प्रसिद्धमेवेत्यादिना॥ पूर्वपक्षे सूर्योपास्तिः सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलं। ननु ज्योतिरधिकरणे ज्योतिःशव्दस्य ब्र- ह्मणि वृत्तेरुक्तत्वात् कथं पूर्वपक्ष इत्यत आह॥ ज्योतिरिति॥ तन्र गायत्रीवाक्ये प्रकतब्रह्मपरामर्शकयच्छब्दसामानाधिकरण्यात् ज्यो- तिःशब्दस्य स्वार्थत्यागः कतस्तथात्र स्वार्थत्यागे हेत्वदर्शनात् पूर्वपक्ष इत्यर्थः। ज्योतिःश्रुतेरनुयाहकत्वेनार्चिरादिमार्गस्थत्वं लिङम्माह ॥त- था चेति॥ ता वा एता हृदयस्य नाड्य इति कण्डिकया नाडीनां र- श्मीनां च मिथः संश्वेषमुत्का अथ संज्ञालोपानन्तरं यत्र काले एत- न्मरणं यथा स्यात्तथोत्कामति अथ तदा एतैर्नाडीसंक्विष्टरश्मिभिरुर्ध्व सन्नुपरि गच्छति, गत्वादित्यं ब्रह्मलोकद्दारभूत गच्छति इत्यभिहितं, तथैवात्रापि शरीरातू समुत्थाय मृत्वा परं ज्योतिरादित्याख्यमुपसम्पय तद्दारा ब्रह्मलोकं मत्वा स्वस्वरूपेणाभिंनिष्पबत इति वक्तव्यं। समु- ५३
Page 413
(४९८) रत्नप्रभाभासिते [अ० १। पा० ३। ज्योतिःशब्दवाच्यमिति, एवं प्राप्ते ब्रूमः। परमे- व ब्रह्म ज्योतिःशब्दं, कस्माद्दर्शनात्।तस्य हीह प्रकरणे वक्तव्यत्वेनानुवत्तिर्दश्यते। "य आत्मा-
नः प्रकरणादावन्वेष्ठव्यत्वेन विजिज्ञासितव्यत्वे- नच प्रतिज्ञानात्"एतं त्वेव ते भूयोऽनुव्याख्या- स्यामी"ति चानुसन्धानात्, "अशरीरं वाव- सन्तं न प्रियाप्रिये स्पृशतः" इति च अशरीर- तायै ज्योतिःसम्पत्तेरस्याभिधानात् ब्रह्मभ्ा- वाच्चान्यत्राशरीरतानुपपत्तेः, परं ज्योतिः स उ- त्तम: पुरुष इति च विशेषणात्। यत्तूक्तं मुमुक्षो- रादित्यप्राप्तिरक्षिहितेति, न चासावात्यन्तिको
दित्यर्थः । अतो मार्गस्थसूर्योपास्त्या क्रममुक्तिपरं वाक्यमिति प्राप्ते सिद्धान्तयति॥ एवमिति॥ व्याख्येयत्वेनोपकान्त आत्मैवात्र ज्यो- तिःशब्देन व्याख्येय इति ज्योतिर्वक्येनैकवाक्यता प्रयोजकप्रकरणा- नुगृहीता, उत्तमपुरुषश्रुत्या वाक्यभेदकज्योतिःश्रुतिर्बाध्येति भावः। अशरीरत्वफललिङ्गातू ब्रह्मैव ज्योतिर्न सूर्य इत्याह ॥अशरीरमिति॥ न च सूर्यप्राप्या क्रमेणाशरीरत्वं स्यादिति वाच्यं, परत्वेन विशेषि- तस्य ज्योतिष एव स उत्तम इति परामर्शेनाशरीरत्वनिश्वयादित्याहः । परमिति ॥ पूर्वोक्तलिङं दूषयंति ॥ यत्विति॥ नाडीखण्डे दहरो- पासकस्य या सूर्यप्राप्तिरुक्ता सन मोक्ष इति युक्ता सूर्योकि:, अत्र तु प्रजापतिवाक्ये निर्गुणविद्यायामचिरादिगतिस्थसूर्यस्यानन्वयादनर्थ-
Page 414
सू ० ४१। अ०१३।] शाङ्करब्रह्मसूत्रभाष्ये (४१३.) मोक्षो गत्युत्कान्तिसम्बन्धात्। न हि आत्य- न्तिके मोक्षे गव्युक्क्रान्ती स्त इति वक्ष्यामः॥४0॥ आकाशोऽर्थान्तरत्वादिव्यपदे- शात्॥४१ ॥ "आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तत् ब्रह्म तदमृतं स आत्मेति श्रूय- ते। तत् किमाकाशशब्द परं ब्रह्म किं वा प्रसिद्ध- मेव भूताकाशमिति विचारे भूतपरिग्रहो युक्तः, आकाशशब्दस्य तस्मिन् रूढत्वात्, नामरूप- निर्वहणस्य चावकाशदानद्वारेण तस्मिन् योज यितुं शक्यत्वात्। स्रष्टृत्वादेश् स्पष्टस्य ब्रह्म- लिङ्गस्याश्रवणात् इत्येवं प्राप्ते इदमभिधीयते। परमेव बहमेहाकाशशब्दं भवितुमर्हति, कस्मात्, कत्वात् श्रुतिव्यत्यासेन स्वरूपं साक्षात्कृत्य परं ज्योतिस्तदेवोपस- म्पयत इति व्याख्येयमितिभावः॥४०॥ आकाशो-व्यपदेशात्॥ छान्दोग्यमुदाहरति॥ आकाश इति॥ यथोपक्रमबलातू ज्योतिःश्रुतिबाधस्तथाकाशोपकमातू ब्रह्मादिशब्द- वाधइति दृष्टान्तेन पूर्वपक्षयति ॥ भूतेति॥ श्रुतैर्गुणैराकाशोपास्ति- निर्गुणव्रह्मज्ञानं चेत्युभयत्र फलं। 'आकाशस्तल्ल्िङगदि'त्यनेन पौन- रुत्त्यमांशङ्ग्य तद्ददत्र स्पष्टलिङ्गाश्रवणादिति परिहरति॥स्रषृत्वादेश्वे ति॥। वै नामेति प्रसिद्धिलिङ्गस्याकाशश्रुतेश्रव वाक्यशेषगताभ्यां ब्रह्मा- त्मश्रुतिभ्यामनेकलिदगनेपेताभ्यां बाधो युक्तः। यत्र बहुपमाणसंवादरतन्न
Page 415
(४२०) रत्नप्रभाभासिते [अ० १।पा०३ अर्थान्तरत्वादिव्यपदेशात्"ते यदन्तरा तद्रह्े"- ति हि नामरूपाभ्यामर्थान्तरभूतमाकार्श व्यप- दिशति। न च ब्रह्मणोऽन्यन्नामरूपाभ्यामर्था- न्तरं सम्भवति, सर्वस्य विकारजातस्य नामरू- पाभ्यामेवव्याकृतत्वात्। नामरूपयोरपि नि- र्वहणं निरङ्कुशं न ब्रह्मणोऽन्यत्र सम्भवति। "अनेन जीवेनात्मनानुप्रविश्य नामरूपेव्याक- खाणी'ति ब्रह्मकर्तृत्वश्रवणात्।ननु जीवस्या- पिप्रत्यक्ष नास रूपविषयं निर्वोढ़त्वमस्ति। बाढ मस्ति अभेदस्त्वत्र विवक्षितः नामरूपनिर्वह- णाशिधानादेव च स्त्रष्टृत्वादि ब्रह्मलिद्गमशिहि- तं भवति। "तत् ब्रह्म तदमृतं सआत्मे"ति चव्र- हवादस्य लिङ्गानि। आकाशस्तलिङ्गादित्य- स्थायं प्रपञ्चः॥४9॥
वाक्यस्य तात्पर्यमिति निर्णयादिंति सिद्धान्तयति॥ परमेवेत्यादिना । नामरूपे शब्दाथौं, तदन्तःपातिनस्तञ्जिन्नत्वं तत्कर्तृत्वं चायुक्तमि- त्यर्थ:। नामादिकर्तृत्वं न ब्रह्मलिङ्गं जीवस्थत्वादिति शङ्ते॥नन्वि- ति।। अनेन जीवेनेत्यत्र जीवस्य ब्रह्माभेदेन तत् कर्तृत्वमुच्यते साक्षाद- योगादिति परिहरति॥ बाढमिति॥यञ्चोक्तं स्पष्ट लिङं नारतीति तत्रा- ह। नामेति॥ तर्हि पुनरुक्तिस्तत्राह॥ आकाशति ॥ तस्यैव सा- धकोऽयं विचारः अत्राकाशशव्दस्य ब्रह्मणि वृत्तिं सिद्धवत्कत्य तन्न संशयादिपवृत्तेरुक्तत्वादिति न पौनरु््यमिति भावः ॥॥
Page 416
सू० ४२ अ०१४।] शाङ्करब्रह्मसूत्रभाष्ये (४२१) सुषुप्युत्कान्त्योर्भेदेन ॥ ४२।। व्यपदेशादित्यनुवर्तते, बहदारण्यके षष्ठे प्र- पाठके "कतम आत्मेति योडयं विज्ञानमयः प्रा- णेषु हृद्यन्तर्ज्योतिः पुरुषः इत्युपक्रम्य भूया- नात्मविषयः प्रपञ्चः कृतः।तत् कि संसारिस्व- रूपमात्रान्वाख्यानपरं वाक्यमुतासंसारिस्वरू- पप्रतिपादनपरमिति संशयः, किंतावत् प्रात्तं संसारिस्वरूपमात्रविषयमेवेति। कुतः, उपक्र- मोपसंहाराभ्यां। उपक्रमे योऽयं विज्ञानमयः प्राणेष्विति शारीरलिङ्गात्, उपसंहारे चसवा एष महानज आत्मा योऽयं विज्ञानमयः प्राणे- ष्विति तदपरित्यागान्मध्येऽपि बुद्धान्तादव- स्थोपन्यासेन तस्यैव प्रपश्चनादित्येवं प्राप्ते ब्रू- सुपुत्युत्कान्त्योर्भेदेन॥ अहंधीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह। योऽयमिति। विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः, स- शमी व्यतिरेकार्था प्राणबुद्धिभ्यां भिन्नइत्यर्थः। वृत्तेरज्ञानाञ् भेदमा- ह।। अन्तर्ज्योतिरिति॥ पुरुषः पूर्ण इत्यर्थः। उभयलिङ्गनां दर्शनातू संशयमाह। तत् किमिति। पूर्वत्र नामरूपाभ्यां भेदोक्तेराकाशो ब्र- हरेत्युक्तं तदयुक्तं, प्राज्ञेनात्मना सम्परिष्वक्त इति अभिन्नेऽपि जीवा- त्मनि भेदोक्तिवदौपचारिकभेदोकतिसम्भवादित्याक्षेपसङ्गतिः। पूर्व- पक्षे कर्मकर्तृजीवस्तुतिः सिद्धान्ते जीवानुवादेन ततः कल्पितभेदभि- नस्य प्राज्ञस्य परमात्मनः स्वरूपैक्यप्रमितिरिति फलं, बुद्धान्तो जा-
Page 417
(४२२) रत्नप्रभाभासिते: [अ० १।पा० ३। मः।परमेश्वरोपदेशपरमेवेद वाक्यं न शरीरमा- त्रान्वाख्यानपरं, कस्मात्, सुषुप्तावुत्क्रान्तौ च शारीरात् भेदेन परमेश्वरस्य व्यपदेशात्। सुषुप्तौ तावदयं पुरुषः प्राज्ञेनात्मना सम्परिष्व- क्तो न बात्यं किञ्चन वेद नान्तरमिति शारीराद्वे- देन परमेश्वरं व्यपदिशति। तत्र पुरुषः शारीरः स्यात्तस्य वेदितत्वात् वाह्याभ्यन्तरवेदनप्रस- डे सति तत्प्रतिषेधसम्भवात्। प्राज्ञः परमेश्व- रः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् तथोक्क्रान्तावप्य यं शारीर आत्मा प्राज्ञेना- त्मनान्वारूढ उत्सर्जन् याती"ति जीवाद्रेदे- न परमेश्वरं व्यपदिशति, तत्रापि शारीरो जीवः स्यात् शरीरस्वामित्वात्। प्राज्ञस्तु सएव पर- मेश्वरः, तस्मात् सुषुह्युत्कान्त्योर्भेंदेन व्यपदे- शात् परमेश्वर एवात्र विवक्षित इति गम्यते। गदवस्था। आदिमध्यावसानेषु जीवोकेजीवस्तावकमिदं वाक्यमिति प्राप्ते सिद्धान्तयति॥ परमेश्वर इत्यादिना॥ वाक्यस्य जीवस्तावकत्वे जीवाज्ेदेन प्राज्ञस्याज्ञातस्योक्तिर सङ्ता स्यात्, अतो ज्ञाताज्ञातसा न्न - पाते ज्ञातानुवादेनाज्ञातं प्रतिपादनीयं अपूर्वे वाक्यतात्पर्यमिति न्या- यादिति सिद्धान्ततात्पर्य। पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्ति वा- रयति ॥ तत्र पुरुष इत्यादिना ॥ देहस्य वेदनाप्रसक्तेर्निषेधायोगात् पुरुषो जीव एवं, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः । अन्वारूढोऽिष्ठितः,
Page 418
सू०। ४२अ०१४।] शाङ्करब्रह्मसूत्रभाष्ये (४२३). यदुक्तमाद्यन्तमव्येषु शारीरलिङ्गत् तत्परत्वम- स्य वाक्यस्येति, अत्र ब्रूमः।उपक्रमे तावत् योऽ- यंविज्ञानमयः प्राणेष्विति न संसारिस्वरूपं वि- वक्षितं, किं तर्थनूद्य संसारिस्वरूपं परेण ब्रह्म- णाऽस्यैकतां विवक्षति,यतो "ध्यायतीव लोलाय- तीवे"त्येवमाद्युत्तरग्रन्थप्रवत्तिः संसारिधर्मनिरा- करणपरा लक्ष्यते। तथोपसंहारेऽपि यथोपक्रम- मेवोपसंहरति।"स वा एष महानज आत्मा योऽ- यं विज्ञानमयः प्राणेष्विशति। योऽयं विज्ञान- मयः प्राणेषु संसारी लक्ष्यते स वा एष महा- नज आत्मा परमेश्वर एवास्माभि: प्रतिपादित इत्यर्थः। यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासा- त् संसारिस्वरूपविवक्षां मन्यते स प्राचीमति दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत, य- तो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्वं सं- सारित्वं वा विवक्षितं, किं तर्त्यवस्थारहितत्वम- संसारित्वं च विवक्षति।कथमेतदवगम्यते। यद उत्सर्जन् घोरान् शब्दान् मुञ्चन्, बुद्धौ ध्यायन्त्यां ध्यायतीव चल- न्त्यां चलतीव। वस्तुतः सर्वविक्रियाशून्य इत्युक्तेर्न संसारिणि तात्प- र्यमित्याह। यत इति। उपक्रमवत् उपसंहारवाक्येऽप्यैक्यं विवक्षित- मित्याह॥ तथेति॥व्याचष्टे॥योऽयमिति ॥अवस्थोपन्यासस्य त्वम- र्थशुद्धिद्दारैक्यपरत्वात् न जीवलिङ्गत्वमित्याह।यतो न बुद्धान्तेति।
Page 419
(४२४) रत्नप्रभाभासिते [अ० १। पा० ३। "त ऊर्ध्व विमोक्षायैव ब्रूही"ति पदेपदे पृच्छ- ति, यञ्चा"नन्वागतस्तेन भवति असङ्गे ह्य- यं पुरुषः इति पदेपदे प्रतिवक्ति। "अनन्वा- गतं पुण्येनानन्वागतं पापेन तीर्णो हितदास- र्दान् शोकान् हृदयस्य भवती" ति च, तस्माद- संसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यव- गन्तव्यम् ॥४२॥ पत्यादिशव्देभ्यः॥४३॥ इतश्र्ासंसारिस्वरूपप्रतिपादनपरमेवैतद्वा- क्यमित्यवगन्तव्यं। यदस्मिन् वाक्ये पत्यादि- शब्दा असंसारिस्वरूपप्रतिपादना: संसारिस्व- आावप्रतिषेधनाश्ष भ्वन्ति।"सर्वस्य वशी सर्व- स्येशान: सर्वस्याधिपति"रित्येवंजातीयका अ- संसारिस्वक्तावप्रतिपादनाः "सनसाधुना कर्म- प्रश्नोत्तराभ्यामसंसारित्वं गम्यत इत्याह ॥यदत ऊ्ध्वमिति॥ का- मादिविवेकानन्तरमित्यर्थः॥ भवतीति ॥ चेति, यवस्माइक्ति त- स्मादवगम्यत इति योजना। तेनावस्थाधर्मेणानन्वागतोऽस्पष्टो भव- ति असङ़त्वात् सुषुप्तावप्यात्मतच्वं पुण्यपापाभ्यामस्पृष्ट भवति। हि यस्मात् आत्मा सुपुप्तौ सर्वशोकातीतः तस्मात् हृदयस्यैव सर्वशोका इति श्रुत्यर्थ: ॥। ४२ ॥ वाक्यस्य व्रह्मात्मैक्यपरत्वे हेत्वन्तरमाह॥ पत्यादीति॥सूत्रं व्याचष्टे। इतश्रेति॥ वशी स्वतन्त्रोऽपराधीन इति यावत्। ईशानो
Page 420
(४२५) णाभूयान्नो एवासाधुना कनीया"नित्येवंजाती- यकाः संसारिस्वभावप्रतिषेधनास्तस्मादसं- सारी परमेश्वर इहोक्त इति गम्यते ॥४३॥ इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीम- चछटूरभ गवत्पादकृतौ प्रथमाध्यायस्य तृतीयः पाद:॥३। नियमनशक्तिमान्। शक्ते: कार्यमाधिपत्यमिति भेदः। तस्माच्छोधि- तत्वम्थैक्ये षष्ठांध्यायसमन्वय इति सिद्धम् ।। ४३ ॥ इति श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमा- ध्याये तृतीयः पादः समाप्ः ॥३।
५४
Page 421
(8२९) रत्नप्रभाभासिते [अ ० १। पा० ४। तिप्रसिद्वं प्रधानमशिवीयतेऽतस्तस्य शब्दव- च्वादशब्दत्वमनुपपन्नं, तदेव प्रधानंतादशं प्रत्य- भिज्ञायते जगतः कारणं च, श्रुतिस्मृतिन्यायप्र- सिद्दिम्य इति चेत्, नैतदेवं। न ह्येतत्काठकवा-
न त्यत्र यादशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रि- गुणं प्रधानं तादृशं प्रत्यभिज्ञायते, शब्दमात्रं त्यन्नाव्यक्तमिति प्रत्यभिज्ञायते, सच शब्दो न व्यक्तमव्यक्तमिति यौगिकत्वादन्यस्मिन्नपि सू- क्ष्मे दुर्लक्ष्ये च प्रयुज्यते, न चायं कस्मिंश्िदूढः। या तुप्रधानवादिनां रूढिः सा तेषा मेव पारिभा- षिकी सती न वेदार्थनिरूपणे कारणभावं प्रति- नस्य वैदिकशव्दवाच्यत्वे का क्षतिरित्यत आह॥ तदेवेति॥ अजा- मेकामित्याया श्रुतिः, हेतुः प्रकृतिरुच्यते इत्याया स्मृतिः, यदल्पं तज्जडप्ररुतिकमितिन्यायः, ततो ब्रह्मैव कारणमिति मतक्षतिरिति- भाव:। सूत्रे नञर्थ वदन् सिद्धान्तयति ॥ नैतदिति॥ प्रधानं वैदि- कं नेत्यत्र तात्पर्याभावं हेतुमाह॥ नहीति॥ ननु प्रधानस्यात्र प्रत्य- भिज्ञानाद्ैदिकत्वमित्यत आह॥ न हन्नेति ॥ ननु : शब्दप्रत्यभिज्ञा- याम्थोऽपि प्रत्यभिज्ञायते इत्याशङ््च यौगिकाच्छव्दादसति निया- मके नार्थविशेषधीरित्याह॥ सचेति॥ रूढ्या तदीरित्याशङ्क्य रूढि: किं लौकिकी स्मार्ता वा, नाथ इत्याह॥ नचेति ॥ द्दितीयं प्रत्याह॥ या त्विति ॥ पुरुषसङ्केतो नानादिवेदार्थनिर्णयहेतुः, पुंमतेर्विचित्र- तवादित्यर्थः । यत्तु स्मार्तक्रमप्रत्यभिज्ञया क्मिकार्थः रमार्त एवेति त-
Page 422
सू० १ । अ० १ ] (४२९) पद्यते। न च क्रममात्रसामान्यात् समानार्थप्र- तिपत्तिर्भवत्यसति तद्रपप्रत्यभिज्ञाने। न त्यश्-
करणनिरूपणायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते, शरीररूपकविन्यस्तग्रहीतेः। शरीरं त्यत्र रथरूपकविन्यस्तमव्यक्तशव्देन परिग्ृत्य ते। कुतः प्रकरणात् परिशेषाच्च। तथा त्यनन्तरा- तीतो ग्रन्थ आत्मशरीरादीनां रथिरथादिरूपक- कवृत्तिं दर्शयति। "आत्मानं रथिनं विद्धि शरीरं रथमेव तु। त्राह॥ न च क्रमेति॥ स्थानात् तद्रूपप्रत्यभिज्ञानशङ्गायामसतीत्यन- न्वयान्नञो व्यत्यासेनातद्रूपस्य तद्रूपविरुद्स्य प्रत्यभिज्ञाने सती- त्यर्थः। पूर्वज्ञातरूपार्थस्य स्थाने तह्िरुद्धार्थज्ञाने सति तस्य धीर्ना- स्तीत्यत्र दृष्टान्तमाह॥ न हीति॥ प्ररुते नास्ति विरुद्धज्ञानमित्या- शङ््य प्रकरणाच्छरीरज्ञानमस्तीत्याह॥प्रकरणेति॥ शरीरमेव रूपके- ण रथसादृश्येन विन्यस्तं शरीररूपकविन्यस्तं, तस्य पूर्ववाक्ये आत्म- बुद्ध्योर्मध्यस्थानपतितस्यात्रापि मध्यस्थेनाव्यक्तशव्देन ग्रहणान्न प्र- धानस्य वैदिकत्वमिति सूत्रार्थः। स्मार्तक्रमः किमिति त्यक्तव्य इत्या- शङ््च श्रौतक्रमस्य प्रकरणादनुग्रहेण बलवच्वादित्याह ॥ कुत इ- त्यादिना। तदुभयं विवृणोति ॥ तथा हीति॥रूपकक्लप्ति: सादृश्य- कल्पना। प्रग्होऽश्वरशना। यदा बुद्धिसारथिर्विवेकी तदा मनसेन्द्रि- यहयान् विषमविषयमार्गादाकर्पति। यद्यविवेकी तदा मनोरशनाब- द्दांस्तान् प्रवर्तयतीति मनसः प्रग्रहत्वं युक्तं। तेषु हयेषु, गोचरान्
Page 423
(४३0) रत्नप्रभाभासिते. [अ०१।पा० ४। बुद्धिं तु सारथिं विद्ि मनः प्रग्रहमेव च॥ इन्द्रियाणि हयानाहुविषयांस्तेषु गोचरान्। आत्मेन्द्रिय मनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥इति। तैश्रेन्द्रियादिभ्षिरसंयतैः संसारमधिगच्छ- ति। संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमा- प्रोतीति दर्शयित्वा, किं तदध्वनः पारं विष्णोः प- रमं पदमित्यस्यामाकाङयां तेभ्य एव प्रकृतेभ्य इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं तत् विष्णो: परमं पदं दर्शयति॥ "इन्द्रियेभ्यः परा त्यर्था अर्थेम्यश्र परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् पर: ॥ महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किश्चित् सा काष्ठा सा परा गतिः"इति॥ तत्र य एवेन्द्रियादयः पूर्वस्यां रथरूपकक ल्पनायामश्वादिभावेन प्रकृतास्ते एवेह परिग-
न्द्रियमनोबुद्धयस्तावत् पूर्वत्रेह च समानशब्दा मार्गान्। ननु स्वतश्विदात्मनो भोगसम्भवात् किं रथादिनेत्यत आह ॥ आत्मेति॥ आत्मा देहः, देहादिसङ्ग्कल्पनया भोकृत्वं न स्वतोऽ- सङ्गत्वादित्यर्थः। अधुना रथादिभिर्गन्तव्यं वदन् आकाङ्गापूर्वकमु- त्तरवाक्यमाह ॥ तैश्रेत्याढिना ॥ शरीरस्य प्रकतत्वेऽपि अव्यक्तपदे- न प्रधानं गृह्यतामित्यत आह।। तत्र य एवेति ॥ एवं प्रकरणं शो-
Page 424
सू० १।अ०१] शाङ्करब्रह्मसूत्रभाष्ये (४३१) एव, अर्थास्तु ये शब्दादयो विषया इन्द्रियहय- गोचरव्वेन निर्दिष्ठास्तेषां चेन्द्रियेभ्यः परत्वंइ- न्द्रियाणां च ग्रहत्वं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धे: विषयेभ्यश्च मनसः परत्वं,मनो- मूलत्वाद्दिषयेन्द्रियव्यवहारस्य, मनसस्तु परा बुद्धिः, बुद्धिं त्यारुत्य भोग्यजातं भोक्तारमुपस- रपति, बुद्देरात्मा महान् परो यः सआत्मानं र- थिनं विद्ीति रथित्वेनोपक्षिप्ः, कुतः, आत्म- शब्दात् भोक्तुश्र भोगोपकरणात् परत्वोपपत्तेः। महत्त्वं चास्य स्वामित्वादुपपन्नं। अथ वा, "मनो महान् मतिर्ब्रह्मा पूर्बुद्धिःख्यातिरीश्वरः। प्रज्ञा संविच्चितिश्रैव स्मतिश्र् परिपठ्यते"॥ इति स्मृतेः। धयित्वा शरीरस्य परिशेषतामानयति॥ तत्रेन्द्रियेत्यादिना॥ अ- र्थानां पूर्वमनुक्तिशङ्गां वारयन् परत्वमुपपादयति ॥ अर्था इति॥ गृहनन्ति पुरुषपशुं बन्नन्तीति ग्रहा इन्द्रियाणि। तेषां गहत्वं विष- याधीनं। असति विषये तेषामकिश्चित्करत्वात्, ततो ग्रहेभ्यः श्रे- ष्ठा अतिग्रहा विषया इति बृहदारण्यके श्रवणात्। परत्वं श्रैष्ठ्या- भिग्नायं, न त्वान्तरत्वेनेति भावः। सविकल्पकं ज्ञानं मनः, निर्वि- कल्पकं निश्षयात्मिका बुद्धिः, आत्मशव्दात् स एव बुद्धे: परः, प्र- त्यभनिज्ञायत इति शेष:। हिरण्यगभभिदेन ब्रह्मादिपदवेद्या समष्टि बुद्धिः महानित्याह ॥ अथवेति॥ मननशक्तिर्व्यापिनी भाविनिश्वयः ब्रह्मा आत्मा भोग्यवर्गाश्रयः तात्कालिकनिश्यःकीर्तिशक्तिः नियम-
Page 425
(४३२) रत्नप्रभाभासिते [अ० १। पा० ४/ "यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्र प्रहिणोति तस्मै"। इति चश्रुतेः। या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः सा सर्वासां बुद्दीनां परमा प्रतिष्ठा सेह महानात्मे- त्युच्यते। साच पूर्वत्र बुद्धिग्रहणेनैव गृहीता स- ती हिरुकू इहोपदिश्यते, तस्या अपि अस्मदी- याभ्यो बुद्धिभ्यः परत्वोपपत्तेः। एतस्मिंस्तु प- क्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथि- न आत्मनो ग्रहणं द्रष्टव्यं, परमार्थतस्तु परमा- त्मविज्ञानात्मनोर्भेदाभावात्। तदेवं शरीरमेवैकं परिशिष्यते, तेषु इतराणीन्द्रियादीनि प्रकृता- न्येव परमपददिदर्शयिषया समनुक्रामन्परिशि- ष्यमाणेनेहानेनाव्यक्तशव्देन परिशिष्यमाणं नशक्ति: त्रैकालनिश्चयः संविदभिव्यक्जिका चिदध्यस्तातीतसर्वार्थ- ग्राहिणी समष्टिबुद्धिरित्यर्थः । हिरण्यगर्भस्येयं बुद्धिरस्तीत्यत्र श्रुति- माह ॥ य इति॥नन्वप्रकवा सा कथमुच्यते तदुक्तौ च प्रधानेन कि- मपराद्मित्यत आह॥ सा चेति॥ हिरुकू पृथक्। पूर्व व्यष्टिवु- द्वयभेदेनोक्तान्र ततो भेदेन परत्वमुच्यत इत्यर्थः । तर्हि रथरथिनौ हौ परिशिष्टौ स्यातां नेत्याहं॥ एतस्मिस्त्विति ॥ अतो रथ एव परिशि- ष्टइत्याह ॥ तदेवमिति॥तेषु पूर्वोकेषु षट्पदार्थेष्वित्यर्थः । परि- शेषस्य फलमाह ॥ इतराणीति। वेदोऽयमिति शेषः । दर्शयति चे- ति सूत्रभागो व्याख्यातः। किश् व्रह्मात्मैकत्वपरे ग्रन्थे भेदवादिनां प्रवानस्यावकाशो नास्तीत्याह ॥ इरीरेत्यादिना ॥ भोगो वेदना
Page 426
सू०। १अ०१।] (४३३) प्रकृतं शरीरं दर्शयतीति गम्यते। शरीरेन्द्रियम- नोबुद्धिविषयवेदनासंयुक्तस्य व्विद्यावतो भो- कुः शरीरादीनां रथादिरूपककल्पनया संसार- मोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षिता। तथा च, "एष सर्वेष भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वश्यया बुद्या सूक्ष्मया सूक्ष्मदर्शिभिः"इति वैष्णवस्य परमपदस्य दुखगमत्वमुक्ता त- दवगमार्थ योगं दर्शयति। "यच्छेद्राडमनसी प्राज्ञस्तदच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तधच्छेच्छान्त आ- त्मनि" इति। एतदुक्तं भवति वाच मनसि संयच्छेत्। वा- गादिबात्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणा- वतिष्ठेत। मनोऽपि विषयविकल्पाशिमुखं विक- ल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यव- सायस्वभावायां धारयेत्। तामपि बुद्धिं मह- त्यात्मनि भोक्तर्यड्यायां वा बुद्दौ सूक्ष्मतापा- दनेन नियच्छेत् महान्तं व्वात्मानंशान्त आ- त्मनि प्रकरणवति परस्मिन् पुरुषे परस्यां का- काठकग्न्थस्यैक्यतात्पर्ये गूढत्वज्ञेयत्वज्ञानहेनुयोगविधयो लिङ्गा- नि सन्तीत्याह॥ तथाचैष इत्यादिना ॥ अग्या समाधिपरिपाकजा।
Page 427
(४३४) रत्नप्रभाभासिते [अ०१।पा. 2। ष्ठायां प्रतिष्ठापयेदिति। तदेवं पूर्वापरालोचना- यांनास्त्यन्न परपरिकल्पितस्य प्रधानस्यावकाशः१ सूक्ष्मं तु तदर्हत्वात् ॥२ ॥ उक्त्तमेतत् प्रकरणपरिशेषाभ्यां शरीरमव्य- कशव्दं न प्रधानमिति, इदमिदानीमाशङ्कयते कथमव्यक्तशव्दार्हत्वं शरीरस्य, यावता स्थूल- त्वात् स्पष्टतरमिदं शरीरं व्यक्तशव्दार्ह अस्पष्ठ- वचनस्त्वव्यक्तशव्द इति। अत उत्तरमुच्यते। सूक्ष्मं व्विह कारणात्मना शरीरं विवक्ष्यते, सू- क्षमस्याव्यक्तशव्दार्हत्वात्। यद्यपि स्थूलमिर्द शरीरं न स्वयमव्यक्तशब्दमर्हति तथापि तस्थ त्वारम्भकं भूतसूक्ष्ममव्यक्तशव्दमर्हति, प्रकृति- शब्दश् विकार दृष्टः, यथा "गोभिःश्रीणीत म- त्सरम्" इति। श्रुतिश्च "तद्वेदं तर्र्यव्याकृतमा- सी'ढिति। इदमेव व्याकृतं नामरूपविभिन्नं जगत् प्रागवस्थायां परित्यक्तव्याकृतनामरुपं वागित्यत्र द्वितीयालोपश्छान्दसः, मनसीति दैर्व्य च॥१॥ शङ्कोत्तरत्वेन सूत्रं व्याचष्टे।उक्तमेतदित्यादिना। कार्यकारणयो- रभेदान्मूलप्रकृतिवाचकाव्यक्तशव्देन विकारो लक्ष्यत इत्यर्थः। गो- भिर्गोविकारैः पयोभिर्मत्सरं सोमं श्रीणीत मिश्रितं कुर्यादिति या- वत्। श्रीञ्पाक इति घातोलोटि मध्यमपुरुषबह्ुवचनमेतत् ।.अव्य- कात्मना कार्यस्थाव्यक्तशव्दयोग्यत्वे मानमाह ॥ श्रुतिश्रेति॥ तर्हि-
Page 428
सू० ३। अ० १ ।] शाङ्करब्रह्मसूत्रभाष्ये (४३५): बीजशक्त्यवस्थमव्यक्तशब्दं योग्यं दर्शयति॥२॥ तदधीनत्वादर्थवत्।३॥ अत्राह, यदि जगदिदमनभिव्यक्तनामरूप बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपग- म्येत, तदात्मना चशरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत।स एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत।अस्यैव जगतः प्रागवस्थायाः प्र- धानत्वेनाभ्युपगमादिति। अत्रोच्यते, यदि वय स्वतन्त्रां कांचित् प्रागवस्थां जगतः कारणत्वे- नाभ्युपगच्छेम प्रसञ्जयेम तदा प्रधानकारण- वादं परमेश्वराधीना व्यमस्माभि: पागद- स्था जगतोऽभ्युपगम्यते न स्वतन्त्रा।सा चा- वश्यमभ्युपगन्तव्या अर्थवती हिसा। न हि त- या विना परमेश्वरस्य स्त्रष्टृत्वं सिध्यति, शक्ति- रहितस्य तस्य प्रवृत्त्यनुपपत्तः। मुक्तानां च पु- प्रागवस्थायामिदं जगदव्याकतमासीत् ह किलेत्यर्थः । बीजरूपा श- क्तिः संस्कारस्तदवस्थम्॥ २॥ अपसिद्धान्तशङ्कोत्तरत्वेन सूत्रं व्याचष्टे ॥ अत्राहेत्यादिना। त- रह तदा, एवं सति सूक्ष्मशब्दितप्रागवस्थाभ्युपगमे सति। ईश्वरे क- ल्पिता तन्नियम्येत्यङ्गीकारान्नापसिद्धान्त इत्याह ॥ अत्रोच्यत इ- त्यादिना ॥ कूटस्थब्रह्मणः लष्टृत्वसिद्धचर्थ अविद्या स्वीकार्येत्युक्तं ब- न्धमुक्तिव्यवस्थार्थमपि सा स्वीकार्येत्याह॥ मुक्तानामिति ॥य-
Page 429
(४३ ६) रत्नप्रभाभासिते [अ० १। पा० ४। नरनुत्पत्तिः, कुतः विद्यया तस्या बीजशक्तेर्दा- हात्। अविद्यात्मिका हिसा बीजशक्तिरव्यक्त- शब्दनिर्देश्या परमेश्वराश्रया मायामयी महा- सुषुप्निर्यस्यां स्वरूपप्रतिबोधरहिताः शेरते सं- सारिणो जीवाः । तदेतदव्यक्तं क्वचिदाकाशश- व्दनिर्दिष्टं, "एतस्मिन्नु खल्वक्षरे गार्ग्याकाश
"अक्षरात् परतः परः" इतिश्रुतेः। क्चिन्माये- ति सूचितं, "मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरं" इति मन्त्रवर्णात्। अव्यक्ता हि सा माया तत्वान्यत्वनिरूपणस्याशक्यत्वात्। त- दिदं महतः परमव्यक्तमित्युक्तं अव्यक्तप्रभवत्वा- न्महतः, यदा हैरण्यगर्भी बुद्धिर्महान्, यदा तु नाशान्मुक्ति: सा स्वीकार्या तां विनैव सृष्टौ मुक्तानां पुनर्बन्धापत्ति- रित्यर्थः। तस्याः परकल्पितसत्यस्वतन्त्रप्रधानाहैलक्षण्यमाह॥ अवि- द्ेत्यादिना॥ मायामयी प्रसिद्धमायोपमिता लोके मायाविनो माया- वत्परतन्त्रेत्यर्थः। जीवभेदोपाधित्वेनापि सा स्वीकार्येत्याह॥ महासु- पुप्तिरिति॥ बुद्ध्यायुपाधिभेदाजीवा इति बहूकिः। अविद्यायां श्रुति मप्याह॥ तदेतदिति॥ आकाशहेतुत्वादाकाशः । ज्ञानं विना अ- न्ताभावादक्षरं। विचित्रकारित्वान्मायेति भेद: इदानीमविद्याया व्र-
तस्य महत्परत्वं कथमित्यत आह॥ तदिदमिति॥ यदा बुद्धिर्म- हांस्तदा तद्जेतुत्वात् परत्वमित्यन्वयः। प्रतिबिम्बस्योपाधिपरतन्त्र-
Page 430
सू० ३। अ० १ ] शाङ्करब्रह्मसूत्रभाष्ये (४३७) जीवो महांस्तदाप्यव्य क्ताधीनत्वाजीवभावस्य महतः परमव्यक्तमित्युक्तं। अविद्या त्यव्यक्तं, अविद्यावत्वे नैव जीवस्य सर्व: संव्यवहारः सन्ततो वर्तते। तच्चाव्यक्तगतं महतः परत्वमभे- दोपचारात् तद्विकारे शरीरे परिकल्प्यते। सत्य- पि शरीखवदिन्द्रियादीनां तद्विकारत्वाविशेषे श- रीरस्यैवाभेदोपचारादव्य क्तशब्दतवेन ग्रहणं इ- न्द्रियादीनां स्वशब्दैरव गहीतत्वात्, परिशिष्ट- व्वाच्च शरीरस्य। अन्ये तु वर्णयन्ति, द्विविधं हि शरीरं स्थूलं सूक्ष्मं च। स्थूलं यदिदमुपलभ्यते। सूक्ष्मं यदुत्तरत्र वक्ष्यते, तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्यामिति।तब्चोभय- मपि शरीरमविशेषात् पूर्व रथत्वेन संकीर्तितं, इ- हतु सूक्ष्ममव्यक्तशब्देन परिग्त्व्यते सूक्ष्मस्या-
त्वादुपाधे: प्रतिबिम्बात् परत्वमाह॥ यदा त्विति॥ हेतुं स्फुटय- ति ॥ अविद्येति॥ अव्यक्तस्य परत्वेऽपि शरीरस्य किं जातं तदाह ।। तच्चेति॥ नन्विन्द्रियादीनामप्यव्यक्ताभेदादव्यक्तत्वं परत्वं च कि- मिति नोच्यते तत्राह॥ सत्यपीति॥ सूत्रद्दयस्य वृत्तिकव्याख्यानमुत्या- पयति॥ अन्ये त्विति ॥ पश्चीकतभूतानां सूक्ष्मा अवयवा: स्थूल- देहारम्भकाः। सूक्षमशरीरं प्रति जीवः लिङ्गस्याश्रयत्वेन नियतम- स्तीति वक्ष्यते। देहान्तरप्रात्तौ तेन युक्तो गच्छति परलोकमित्यर्थः। कथं तस्य महतो जीवात् परत्वं इत्याशङ्क्य द्वितीयसूत्रं व्याचष्टे॥
Page 431
(४३८) रत्नप्रभाभासिते [अ० १।पा० ४। व्यक्तशब्दार्हत्वात् तदधीनत्वाच्च बन्धमोक्षव्य- वहारस्य जीवात्तस्य परत्वं, यथा अर्थाधीनत्वा- दिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामिति तैस्त्वेतद्वक्तव्य मविशेषेण शरीरद्यस्थ पूर्वत्र रथ- त्वेन सङ्कीर्तितत्वात्, समानयो: प्रकृतत्वपरि- शिष्टत्वयो: कथं सूक्ष्ममेव शरीरमिह ग्ृत्यते न पुनः स्थूलमपीति। आम्नातस्यार्थ प्रतिपत्तुं प्र- अवामो नाम्नातं पर्यनुयोक्तुं, आम्नातं चाव्यक्त- पदं सूक्ष्ममेव प्रतिपादयितुं शक्रोति नेतरव्यक्त- त्वात् तस्येति चेत् न एकवाक्यताधीनत्वादर्थप्र- तिपत्तेःन हीमे पूर्वोत्तरे आम्नातेएकवाक्यताम- नापद्य कश्चिदर्थ प्रतिपादयतः, प्रकृतहानाप्र- कृतप्रक्रियाप्रसङ्गात्। न चाकाङ्गमन्तरेणैकवा- क्यताप्रतिपत्तिरस्ति,तत्राविशिष्ठायां शरीरद्दय- ।।तदधीनत्वाच्चेति॥ अर्थवदिति सूत्रस्थदष्टान्तमाह ॥ यथेति। त- व्याख्यानं दूषयति। तैरिति॥अव्यक्तपदबलातू प्रकृतमपि स्थूलं त्यज्य- त इति शङकते ॥ आम्रातस्येति॥ एकार्थबोधकानां शब्दानां मिथ आकाङ्कायै एकस्यां बुद्धावारूढत्वमेकवाक्यता, तव मते तस्या अभा- वातू कुतोऽर्थबोध इति समाधत्ते॥ नेति॥ तां विनापि अर्थधीः कि न स्यादित्यत आह॥ न हीति॥ शरीरशब्देन रूढ्या स्थूलं प्रकतं तस्य हानिरप्रकृतस्य भूतसूक्ष्मस्याव्यक्तपदेन ग्रहणमन्याय्यं स्यादि- त्यर्थः अस्त्वेकवाक्यतेत्यत आह॥ न चेति॥ ततः किं तत्राह ॥ तत्रेति॥ आकाडन्या वाक्यैकवाक्यत्वे सति प्रकतं शरीरद्यमव्य-
Page 432
सू० ३|अ०१।] शाङ्करब्रह्मसूत्रभाष्ये (४३१) स्य ग्राह्यत्वाकाङ्गायां यथाकाडं सम्बन्धेऽन- भ्युपगम्यमाने एकवाक्यतैव बाधिता भवति कुंत आम्नातस्यार्थस्य प्रतिपत्तिः। न चैवं मन्त- व्यं दुःशोधव्वात् सूक्ष्मस्यैव शरीरस्येह ग्रहणं, स्थूलस्य तुदृष्टवीअत्सतया सुशोधत्वाद्ग्रहणमि ति। यत्रो नैवेह शोधनं कस्यचिद्विवक्ष्यते, न त्य- त्र शोधनविधायि किश्चिदास्यातमस्ति अन- न्तरनिर्दिष्ठत्वात्तु किं तद्विष्णोः परमं पदमिति इदमिह विवक्ष्यते। तथा हि इदमस्मात् परमि- दमस्मात्परमित्युक्कता पुरुषान्न परं किञ्चिदित्या- ह। सर्वथापि त्वानुमानिकनिराकरणोपपत्तेस्त- थानामास्तु न नः किञ्चिच्छिदते॥ ३॥ कपदेन ग्राहं आकाङ्गायास्तुल्यत्वादितिभावः । अनात्मनिश्रयः शु- द्विः तदर्थ सूक्ष्ममेवाकाद्गितं ग्राहं। तस्य सूक्ष्मत्वेनात्माभेदेन गृही- तस्य दुःशोधत्वात्। स्थूलस्य दृष्टदौर्गन्ध्यादिना लशुनादिवत् अ- नात्मत्वधीवैराग्ययो: सुलभ्त्वादिति शङ्गते ॥न चेति॥ दृष्टा बीभ- त्सा घृणा यस्मिन् तस्य भावस्तयेत्यर्थः। दूषयति॥ यत इति॥वै- राग्याय शुद्धिरत्र न विवक्षिता विध्यभावात् किन्तु वैष्णवं परमं पदं विवक्षितमिति तद्दर्शनार्थ प्रकतं स्थूलमेवाव्यक्तपदेन ग्राहमिति भावः। किश्च सूक्ष्मस्य लिङ्गान्तःपातिन इन्द्रियादिग्रहणेनैव ग्रहणान्न पृथक् अव्यक्तशरीरपदाभ्यां ग्रहः। अभ्युपेत्याह ॥ सर्वथेति ॥ स्थूलस्य सू- क्षमस्य वा गहेऽपीत्यर्थः ॥ तथा नामेति ॥ सूक्ष्ममेवाव्यक्तम- स्त्वित्यर्थः ॥ ३ ॥
Page 433
(४४%) रतप्रभाभासित [अ० १। पा० ज्ञेयत्वावचनाच॥४॥
ज्ञेयत्वेन च साडुचेः प्रधानं स्मर्यत गुणपुरु पान्तरज्ञानात् कैवल्यमिति वढ्द्गिः, न हि गुण- स्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति। क्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति। न चेदमिहाव्यक्तं ज्ञेयत्वे- नोच्यते, पदमात्रं त्व्यक्तशब्दो नेहाव्यक्तं ज्ञा- तव्यमुपासितव्यं चेति वाक्यमस्ति। न चानुप- दिष्ं पदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपततुं, तस्मादपि नाव्यक्तशव्देन प्रधानमभिधीयते। अस्माकं तु रथरूपककलप्तशरीराद्यनुसरणेन अंन्राव्यक्त प्रधानं नेत्यत्र हेत्वन्तरार्थ सूत्रं।I ज्ञेयत्वेति॥ सच्वा- दिगुणरूपात् प्रधानात् पुरुषस्यान्तरं भेदस्तज्ज्ञानादित्यर्थः। न हिश- क्यमिति च वदद्विः प्रधानं ज्ञेयत्वेन स्मर्यते इति सम्बन्धः। न केवलं भेदप्रतियोगित्वेन प्रधानस्य ज्ञेयत्वं तैरिष्टं किन्तु तस्योपासनयाडणि मादिप्राप्तयेपीत्याह।I क्वचिच्चेति॥ ज्ञानविध्यभावेऽप्यव्यक्तपदजन्य- ज्ञानगम्यत्वमार्थिकं ज्ञेयत्वमस्तीत्यत आह॥ न चानुपदिष्टमिति॥ उपदिष्टं हि ज्ञानं फलवदिति ज्ञातुं शक्यं निष्फलस्योपदेशायोगाद- व्यक्तस्य चज्ञानानुपदेशात् सफलज्ञानगम्यत्वासिद्विरित्यर्थः। फलित- माह ॥ तस्मादिति ॥ साङ्गन्ेष्टसफलज्ञानगम्यत्वावचनाच्चेत्यर्थः। ननु शरीरस्यापि ज्ञेयत्वानुक्ते: कथमिह ग्रहणं तत्राह॥ अस्माकं त्विति॥ १ महतः परमव्यक्तमित्यत्र।
Page 434
- सू० ५। अ० १ ] शाङ्करव्रह्मसूत्रभाष्ये (४४१) विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्य- नवधम्॥४॥ वदतीति चेन्न पाजो हिप्करणात्।।५॥ अत्राह साड्यो ज्ञेयत्वावचनादित्यसिद्ध क- थं श्रूयते त्युत्तरत्राव्यक्तशब्दोदितस्य प्रधान- स्य ज्ञेयत्ववचनम्। "अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्घवञ्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रसुच्यते"॥ इति अत्र हि यादशं शब्दादिहीनं दधानं महतः परं स्मतौ निरूपितं तादशमेव निचाय्यत्वेन नि- र्दिएं, तस्मात् प्रधानमेवेदं तदेवाव्यक्तशब्दनि- र्दिष्टमिति, अत्र बरमः। नेह प्रधानं निचाय्यत्ेन निर्दिष्टं, प्राज्ञो हीह परमात्मा निचाय्यतेन नि- र्दिष्ठ इति गम्यते। कुतः प्रकरणात्। प्राज्ञस्य हि प्रकरणं विततं वर्तते, अस्मन्मते विष्ण्वाख्यपदस्यैकस्यैव ज्ञेयत्वात् तद्दर्शनार्थमव्यक्तपदेन शरीरोपन्यासो युक्त इत्यर्थ: ॥ ४ ॥ साधारणशब्दमात्राल्त प्रधानस्य प्रत्यभिज्ञा स्मार्तलिङ्गस्यानुक्त्या- नियामकाआावादिति तात्पर्यलिङ्गनेक्तिमाशङ्क्च निषेधति॥वदती- ५६
Page 435
(४४४) रत्नप्रभाभासिते [अ० १। पा० ४। यथा च मरणं प्राप्यात्मा क्षवति गौतम"॥ "योनिमन्ये प्रपधन्ते शरीरत्वाय देहिनः। स्थाणमन्येऽनुसंयन्ति यथा कर्मयथाश्रुतं"॥इति व्यवहितं जीवविषयं।"न जायते म्रियते वा विपश्चि'ढित्यादि बहुप्रपश्चं परमात्मविषयं। नैवं प्रधानविपयः प्रश्नोऽस्ति अपृष्ठत्वादनुप- न्यसनीयत्वं तस्पेति। अत्राह, योऽयमात्मविष- यः प्रश्नो येयं प्रेते विचिकित्सा मनुष्य इति किं स एवायमन्यत्र धर्मादन्यत्राधर्मादिति पुन- रनुकृष्यते, किं वा ततोऽन्योऽयमपूर्वः प्रश्नः उ- त्थाप्यते इति। किश्व्ातः स एवायं प्रश्नः पुनर- नुकृष्यते इति यद्युच्येत तदा द्वयोरात्मविषय- योः प्रश्नयोरेकतापत्तेरसनिविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां प्रश्नोप- योग्यत्वादित्यर्थः । वाक्यार्थस्तु आत्ममरणं प्राप्य यथा भव- ति तथा वक्ष्यामीति। प्रतिज्ञातमाह ॥ योनिमिति ॥ चराचरदेह- प्राप्तौ निमित्तमाह ।। यथेति। श्रुतमुपासनं। सूत्रे आधश्वका- रो यत इत्यर्थे। एवं च त्रयाणामेवोपन्यासः प्रश्नश्ष यतः अ- तो न प्रधानं अव्यक्मिति योजना। उक्तार्थे सूत्रमाक्षिपति ॥ अ- त्राहेति॥ एक: प्रश्नः द्वौ प्रश्नौ वेति पक्षद्दये फलितं पृच्छति। किश्चात इति। सप्तम्यर्थे तसिः । अत्र च पक्षह्येऽपि किमित्यर्थः । प्रश्नैक्ये सूत्रासङ्गतिः, भेदे प्रधानस्य श्रौतत्वसिद्धिरिति पूर्व वाद्या- ह।स एवेत्यादिना॥ प्रश्नैक्यपक्षमादाय सिद्धान्त्याह॥ अत्रोष्य-
Page 436
सू ० ६ । अ० १ ] शाङ्करव्रह्मसूत्रभाष्ये (४४५) न्यासाविति।अथान्योऽयमपूर्वःप्रश्नःउत्थाप्य- त इति यदुच्येत ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोष:, एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोष स्यादिति, अ- त्रोच्यते। नैवं वयमिह वरदानव्यतिरेकेण प्रश्नं कश्चित् कल्पयामः, वाक्योपक्रमसामर्थ्यात्। वरप्रदानोपकरमा हि सृत्युनचिकेतःसंवादरूपा वाक्यप्रवत्तिरासमात्े: कठवल्लीनां लक्ष्यते।मृ- त्युः किल नचिकेतसे पित्रा प्रहिताय त्रीनू वरान् प्रददौ, नचिकेता: किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वब्रे, द्वितीयेनागनिविद्यां, तृतीयेनात्म विद्यां, येयं प्रेते, "इति वराणामेष वरस्तृतीयः"
मपूर्वः प्रश्न उत्थाप्येत ततो वरप्रदानव्यतिरेके-
त इति। येन प्रधानसिद्धि: स्यादिति शेषः । चतुर्थप्रश्नकल्पने व- रत्रित्वोपकरमविरोधः स्यादिति विवृणोति॥ वरेत्यादिना ॥ वरप्रदा- नमुपक्रमो यस्याः सा प्रहिताय यमलोकं प्रति प्रेषिताय इतः पुनः मर्त्यलोकं प्राप्तस्य मम पिता यथा पूर्व सुमना: स्यादिति प्रथमं वब्रे। ननु द्वितीयवरो जीवविद्या तृतीयो ब्रह्मविदेति प्रश्नभेदः किं न स्या- दित्यत आह॥ येयमिति॥ प्रेते इत्युपक्रम्य तृतीयत्वोक्तिलिङ्गाजी- वत्मविधैव तृतीयो वर इत्यर्थ: एवं वाक्योपक्रमे सति प्रश्नान्तरं न युक्तमित्याह॥ तत्रेति ॥ मरणधर्माद्यस्पर्शलिङ्गाभ्यां प्रष्टव्ययोर्जीवे-
Page 437
(४४६) रत्नप्रभाभासिते [अ० १। पा० ४। णापि प्रश्नकल्पनाद्वाक्यं बाध्येत। ननुप्रष्ठव्य भेदादपूर्वोडयं प्रश्नो भवितुमर्हति, पूर्वो हि प्र- श्रो जीवविषयः,"येयं प्रेते विचिकित्सा मनुष्ये स्ति नास्ती"ति विचिकित्साभिधानात्, जीव- श्र धर्मादिगोचरव्वान्नान्यत्र धर्मादिति प्रश्न- मर्हति प्राज्ञस्तु धर्माद्यतीतत्वादन्यत्र धर्मादिति प्रश्नमर्हतीति, प्रश्नच्छाया च न समाना लक्ष्य- ते पूर्वस्यास्तित्व नास्तित्वविषयत्वादुत्तरस्य ध- र्माद्यतीतवस्तुविषयत्वाच्च, तस्मात् प्रत्यभिज्ञा- नाभावात् प्रश्नभेदः; न पूर्वस्यैवोत्तरत्रानु- कर्षणमिति चेत् न, जीवप्राज्ञयोरेकत्वाभ्यु- पगमात्। भवेत् प्रष्ठव्यभेदात् प्रश्नभेदो यद्य- न्यो जीवः प्राज्ञात् स्यात्, न त्वन्यत्वमस्ति "त- खवमसी"त्यादिश्रुत्यन्तरेभ्यः।इह चान्यत्र ध- र्मादित्यस्य प्रश्नस्य प्रतिवचनं "न जायते मि- यते वा विपश्चि"दिति जन्ममरणप्रतिषेधेन प्र० तिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयति। ववरयोर्भेदातू प्रश्नभेदसिद्धेर्वाक्यवाधो युक्त इति शङ्कते॥ नन्वित्या- दिना। गोचरत्वादाश्रयत्वात्। न केवलं प्रष्टव्यभेदात् प्रश्नभेद: कि- न्तु प्रश्नवाक्ययोः सादश्याभावादपीत्याह॥ प्रश्नच्छायेति॥ प्रष्टव्य- भेदोऽसिद्ध इति परिहरति ॥ नेत्यादिना ॥ किश्च ब्रह्मप्रश्ने जन्मा- दिनिषेधेन जीवस्वरूपं वदन् यमस्तयोरैक्यं सूचयतीत्याह।। इह
Page 438
सू० ६। अ० १] शाङ्करब्रह्मसूत्रभाष्ये (४8७) सति हि प्रसङ्गे प्रतिषेधो भागी भवति। प्रसङ्ग- श्र जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भ्- वति न परमेश्वरस्य। तथा "स्वन्नान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति"॥ इति स्वन्नजागरितदशो जीवस्यैव महत्त्व- विभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शय- नू न प्राज्ञादन्यो जीव इति दर्शयति।प्राज्ञवि- ज्ञानादि शोकविच्छेद इति वेदान्तसिद्धान्तः । तथाग्े, "यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" इति जीवप्राज्ञभेददृष्टिमपवदति। तथा जीववि- चान्यत्रेति ॥ तन्निषेधवाक्ये जीवोक्तिरसिद्धेत्यत आह॥ सतीति॥ भागी युक्त:, तस्मादविद्यया जीवस्य प्राप्तजन्मादिनिषेधेन स्वरू= पमुक्तमित्यर्थः । किश्च जीवो ब्रह्माभिन्नः मोक्षहेतुज्ञानविषयत्वा- तू ब्रह्मवदित्याह॥ तथास्वप्नति ॥ अन्तोऽवस्था येन साक्षिणा प्र- माता पश्यति तमात्मानमिति सम्बन्धः । हेतोरप्रयोजकत्वमाशङच तमेव विदित्वेत्यादि श्रुतिविरोधमाह ॥ प्राज्ञेति ॥किश्चाभेदमुक्क्ा भेदस्य निन्दितत्वादभेद एव सत्य इत्याह॥ तथेति ॥ इह देहे य- च्चैतन्यं तदेवासुत्र सूर्यादौ, एवमिहाखण्डैकरसे ब्रह्मणि यो नानेव मि- थ्या भेदं पश्यति स भेददर्शी मरणान्मरणं प्राप्नोति संसारभयान्न मुच्यत इत्यर्थः । किश्च जीवप्रश्नानन्तरं तं दुर्दर्शमिति यदुत्तरमुवाच
Page 439
{88८) रत्नप्रभाभासिते. [अ० १।पा०४। षयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरं "अन्यं वरं नचिकेतो वृणीष्वे"त्यारभ्य मृत्युना तैस्तैः कामैःप्रलोभ्यमानोऽपि नचिकेता यदा न चचा- ल तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्श- नेन विद्याविद्याविभागप्रदर्शनेन च "विद्याभी- प्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोडलो- लुपन्ते"ति प्रशस्य प्रश्नमपितदीयं प्रशंसन् य- दुवाच "तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्नरेष्टं पुराणं। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशो कौ जहाति"॥ इति। तेनापि जीवप्राज्ञयोरभेद एवेह विव- तेनाप्युत्तरेणाभेदो गम्यत इति सम्बधः । प्रषृप्रश्नयोः प्रशंसयापि लि- ङ्रेन पृष्टस्य जीवस्य दौर्लभ्यत्वयोतनात् ब्रह्मत्वसिद्धिरित्याह॥ अन्यं वरमित्यादिना॥ पुत्रादिकं वृणीष्वेत्युक्तऽपि विषयांस्तुच्छीकत्या- त्मज्ञानात् न चचाल 'नान्यं तस्मान्नचिकेता वृणीते' इति श्रवणात्। तदा सन्तुष्टोयमोऽन्यच्छेयोऽन्यदुतैव प्रेय इति भोगापवर्गयोवैलक्ष- ण्यं प्रतिज्ञाय दूरमेते विपरीते विषूची अविया या च विदेति दर्शित- वानित्यर्थः। प्रेयः प्रियतमं स्वर्गादिकं विषूची विरुद्धफले, अविय्या कर्म, विद्या तत्वधीः, विद्याभीप्सितं विद्यार्थिनं त्वामहं मन्ये यतः त्वा त्वां वहवोऽपि कामाः पुत्रादयो मया दीयमाना दुर्लभा अपि ना- लोलुपन्त लोभवन्तं न कतवन्त इति प्रष्टारं स्तुत्वा प्रश्नमपि त्वाढ- ड़ नो भूयान्नचिकेत: प्रष्टेति स्तुवन्नित्यक्षरार्थः । इयं प्रशंसा प्रश्नभे-
Page 440
सू० ६। अ० १।] शाङ्करब्रह्मसूत्रभाष्ये: (४४९) क्षित इति गम्यते। यत्प्रश्ननिमित्ताञ्च प्रशंसां- महतीं मृत्योः प्रत्यपद्यत नचिकेता यदितं वि- हाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् अ- स्थान एव सासर्वा प्रशंसा प्रसारिता स्यात्, तस्माद्येयं प्रेते इत्यस्यैव प्रश्नस्यैतदनुकर्षणम- न्यत्र धर्मादिति। यतु प्रश्नच्छायावैलक्षण्यमुक्तं तददूषणं, तदीयस्यैव विशेषस्य पुनः पृच्छ्य- मानत्वात्। पूर्वत्र हि देहादिव्यतिरिक्तस्थात्म- नोऽस्तित्वं पृष्ठ उत्तरत्र तु तस्यैवासंसारिखं पृ- च्छयत इति। यावद्यविद्या न निवर्तते तावदर्मा- दिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते।त- न्निवर्तनेन तु प्राज्ञ एव "तत्वमसी"तिश्रुत्या प्रत्याय्यते।न चाविदावच्वे तदपगमे च वस्तुनः कश्विद्विशेषोऽस्ति। यथा कश्वित् सन्तमसे प तितां काञ्चिद्रज्नुमहिं मन्यमानस्ततो भीतो वे-
दपक्षे न घटत इत्याह। यत्प्रश्नेति॥ यत्प्रश्नेन स्तुति लब्धवान् तं प्रश्नं विहाय यद्न्यदेवोत्थापयेत् तर्ह्नवसरे स्तुतिः कता स्यादित्यर्थः ॥ तस्मादिति॥ प्रष्टव्यभेदाभावादित्यर्थः । प्रश्नवाक्यव्यत्त्योः सा- दृश्याभावात् प्रश्नभेद इत्युक्तं निरस्यति॥ यतत्वित्यादिना॥ धर्मा- वयाश्रयस्य जीवस्य ब्रह्मत्वं कथमित्यत आह॥ यावदिति॥ अवि- द्यानाशानन्तरं ब्रह्मत्वं चेदागन्तुकमनित्यं च स्यादित्यत आह॥ न चाविद्यावत्त्व इति॥ जीवस्य ब्रह्मत्वे स्वाभाविके सति ब्रह्मपश्नस्य ५७
Page 441
(8५0) रत्नप्रभाभासिते [अ० १।पा० ४। पमानः पलायते, तं चापरो ब्रयात् माभैषीः ना- यमही रज्ुरेवेति, स च तदुपश्रुत्याहिकृतं भयमु- तसृजेद्वेपथुं पलायनं च, न त्वहिबुद्धिकाले तदप- गमकाले च वस्तुनः कश्विद्विशेष: स्यात्, तथै- वैतदपि द्रष्टव्यं। ततश् न जायते मियते वेत्ये- वमाद्यपि भवति अस्तित्वप्रश्नस्य प्रतिवचनं। सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया यो- जयितव्यं। एकत्वेऽपि त्यात्मविषयस्य प्रश्न- स्य प्रयाणावस्थायां देहव्यतिरिक्तास्तित्वमा- त्विचिकित्सनात् कर्तत्वादिसंसारस्वभावान- पोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रे- क्ष्यते, उत्तरस्य तुधर्माद्यत्ययसङ्गीर्तनात् प्राज्ञ- विषयत्वमिति, ततश्र युक्ताग्निजीवपरमात्मक- ल्पना। प्रधानकल्पनायां तुन वरप्रदानंनप्र- श्रो न प्नतिवचनमिति वैषम्यं स्यात्॥६॥ महहुच ॥। ७॥ यथा महच्छब्द: साङ्यैःसत्तामात्रेऽपि प्रथ- यदुत्तरं तज्जीवप्रश्नस्यापि भवतीति लाभं दर्शयति, ततश्र न जायत इति जीवव्रह्लैक्ये त्रयाणामिति सूत्रं कथमित्यत आह ॥ सूत्रं त्वि- ति॥ कल्पितभेदात् प्रश्नभेदकल्पनेत्याह॥ ततश्रेति॥ परमात्मनः सकाशात् प्रधानस्य वैषम्यंमनात्मत्वेन तृतीयवरान्तर्भावायोगादिति भावः ॥६॥
Page 442
सू०८ अ०२] शाङ्करबह्मसूत्रभाष्ये (8५9) सजे प्रयुक्तो न तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते, "बुद्धेरात्मा महान् परः" "महान्तं विभुभात्मा- नं" "वेदाहमेतं पुरुषं महान्तं " इत्येवमादौ आत्मशब्दप्रयोगादिभ्यो हेतुभ्यः,तथाव्यक्तश- ब्दोऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति। अतश्र नास्त्यानुमानिकस्य शब्दव्त्वं।।७॥ चमसवदविशेषात्॥ ८ ! पुनरपि प्रधानवादी अशब्दव्वं प्रधानस्या- सिद्धमित्याह, कस्मात् मन्त्रवर्णात्, "अजामेकां रोहितशुक्तकृप्णां श्रौतोऽव्यक्तशब्दो न साङ्ग्यासाधारणतच्वगोचरः वैदिकशव्द- त्वान्महच्छव्दवदित्याह । महद्दक्चेति । सूत्रं व्याचष्टे। यथेत्या- दिना॥ न चाकाशादिशब्दे व्यभिचारः । आकाशादेर्मतान्तरसाधार- णत्वेन साङन्यासाधारणत्वासिद्धे: साध्यस्यापि सच्वादिति मन्तव्यं। सत्तामात्रे सच्वप्रधानप्रकतेरायपरिणामे निर्विकल्पकबुद्दावित्यर्थः । आत्मा महानित्यात्मशब्दप्रयोगात्, तं मत्वा न शोचति तमसः परस्तादित्यादिना शोकात्ययतमःपरत्वादिभ्य्ष महच्छब्दः साङ्य- तत्वं नाभिधत्ते इति सम्बन्धः । अधिकरणार्थमुपसंहरति ॥ अ- तक्रेति।७।। ॥ चमसवदविशेषात् ॥ अत्राजापदं विषयः, ततू किं प्रधानपरं मायापरं वेति रूढ्यर्थासम्भवात् संशये पूर्वत्राव्यक्तशब्दमात्रेण प्रधा- नस्याप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजापदात् प्रत्यभि- ज्ञास्तीति प्रत्युदाहरणेन पूर्वपक्षयति ॥ पुनरपीति॥ फलं पूर्वपक्षे
Page 443
(४५२) रत्नप्रभाभासिते [अ० १। पा० ४। बह्नी: प्रजा: सृजमानां सरूपा: अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः"॥इति। अत्र हि मन्त्रे रोहितशुक्ककृष्णशब्दै रजःस- च्वतमांस्यभ्षिधीयन्ते। रोहित रनः रख्जनात्म- कव्वात्, शुछ्ध सत्वं प्रकाशात्मकत्वात्, कृष्णं त- मः आवरणात्मकत्वात्। तेषां साम्यावस्थावय- वधर्मैर्व्यपदिश्यते रोहितशुळकृष्णेति।न जाय त इति चाजा स्यात्, मूलप्रकृतिरविकृतिरित्य- भ्युपगमात्। नन्वजाशव्दः छागायां रूढः।वा- ढं, सा तु रूढिरिह नाश्रयितुं शक्या विद्याप्रकर- णातू, सा च बही: प्रजाखैगुण्यान्विता जनयति, तांप्रकृतं अजो ह्येक:पुरुषः जुपमाणः प्रीयमा-
ब्रह्मणि समन्वयासि्धिः, सिद्धान्ते तत् सिद्धिरिति पूर्ववद्रष्टव्यं। रागहेतुत्वादिगुणयोगात् रोहितादिशव्दैरजआदिगुणलाभेऽपि कथं प्रधानलाभस्तत्राह॥ तेषां साम्येति ॥ अवयवाः प्रधानस्य रजआ- दयस्तेषां धर्मा रक्षकत्वादयः तैनिमिततै रोहितादिशव्दैः प्रधानमु- च्यत इत्यर्थः । गुणाभेदातू प्रधानलाभ इति भावः। तत्राजाशव्दं यो- जयति॥ नेति ॥ रूढिर्योगमपहरतीति न्यायेन शङ्कते ॥ नन्विति॥ रूठ्यसम्भवादयोग आश्रयणीय इत्याह ॥ बाढमिति ॥ अजाशब्दि- तप्रकृतित्वपुरुषभेदलिङ्ाभ्यामपि प्रधानप्रत्यभिज्ञेत्याह ॥ सा चे- यादिना। प्रजायन्त इति प्रजाः महदादयः। त्रैगुण्यं सुखदुःखमो-
Page 444
सू० ८।अ०२] शाङ्करब्रह्मसूत्रभाष्ये ( ४५३) णःसेवमानो वाऽनुशेते, तामेवाविद्ययात्मत्वेनो- पगम्य सुखी दुःखी मुढोऽहमित्यविवेकितया सं- सरति, अन्यः पुनः अजः पुरुषः उत्पन्नविवेक- ज्ञानो विरक्तो जहाति एनां प्रकति भुक्तभोगां कृतभोगापवर्गा परित्यजति मुच्यत इत्यर्थः, तस्मात् श्रुतिमूलैव प्रधानादिकल्पना कापि- लानामित्येवं प्राप्ते ब्रूमः।नानेन मन्त्रेण श्रुति- व्वं साङ्यवादस्य शक्यमाश्रयितुं। न त्ययं म- न्त्र: स्वातन्त्र्येण कञ्चिदपि वादं समर्थयितुमु- तसहते। सर्वत्रापि यया कयाचित् कल्पनयाS- जात्वादिसम्पादनोपपत्तेः साड््यवाद एवेहाप्रे- त इति विशेषावधारणकारणाभ्ावात् चमसव- त्। यथा हि, "अर्वाग्बिलश्रमस उर्ध्वबुध्नः'- इ- त्यस्मिन्मन्त्रे स्वातन्त्रेणायं नामासौ चमसोऽ- भिप्रेत इति न शक्यते निरूपयितुं सर्वत्रापिय-
मिहाप्यविशेषोऽजामेकामित्यस्य मन्त्रस्य ना- हाः। अनुशयनं विवृणोति॥ तामेवाविद्ययेति॥ अविवेकेनेत्यर्थः । विषयधीरभोगः गुणभिन्नात्मख्यातिरपवर्गः । सिद्धान्तयति ॥एवं प्राप्त इति ॥ मायादावपि साधारणान्मन्त्राद्दिशेषार्थग्रहो न युक्त: वि- शेषग्रहहेतोः प्रकरणादेरभावादिति हेतुं व्याख्याय दृष्टान्तं व्याचष्टे ॥ चमसवदिति ॥सर्वत्रेति॥ गिरिगुहादावपि ॥८॥ उत्तरसूत्रं
Page 445
(४५४) रत्नप्रभाभासिते [अ० १.।पा० ४। स्मिन्मन्त्रे प्रधानमेवाजाभिप्नेतेति शक्यते नि- यन्तुम्॥८। तत्र व्विदं तच्छिर एष त्यर्वाग्वि- लश्षमस उर्ध्वबुध्न इति वाक्यशेपाच्चमसविशेष- प्रतिपत्तिर्भवति, इह पुनः केयमजा प्रतिपत्त- व्येति अत्र ब्रूम: ज्योतिरुपक्र्मा तुतथा ह्यधीयत एके ॥ ९ ॥ परमेश्वरादुत्पन्ना ज्योतिःप्रमुखा तेजोऽब- न्नलक्षणा चतुर्विधस्य भूतगामस्य प्रकृतिभूते- यमजा प्रतिपत्तव्या। तुशब्दोऽवधारणार्थः।भू- तत्रयलक्षणैवेयमजा विज्ञेया न गुणत्रयलक्ष- णा। कस्मात्। तथा ह्ेके शाखिनस्तेजोऽबन्ना- नां परमेश्वरादुत्पत्तिमाम्न्नाय तेषामेव रोहिता- दिरूपतामामनन्ति "यदस्ने रोहितं रूपं तेजस- स्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं तद्न्नस्य" इति। तान्येवेह तेजोऽबन्नानि प्रत्यभिज्ञायन्ते, व्यावर्त्याशङ्कमाह॥ तत्र त्विदमिति॥ चतुर्विधस्थेति ॥ जरायुजाण्डजस्वेदजोन्विज्जस्वरूपस्येत्यर्थः । स्मृत्युक्ता कुतो न ग्राह्मेति शङचते॥ कस्मादिति। श्रुतेः श्रुत्यन्त- रादर्थग्रहो युक्तः। साजात्यान्मूलानपेक्षत्वाच्ेत्याह ॥ तथा हीति॥ शाखिनश्छान्दोगाः। किश्च रोहितादिशव्दैरपि द्रव्यलक्षणा न्याय्या अ-
Page 446
स्० ९। अ०२।] शाङ्करत्रह्मसूत्रभाष्ये (8५५) रोहितादिशब्दसामान्यात्, रोहितादीनाञ्च श- व्दानां रूपविशेषेषु मुख्यत्वात्,भाक्तत्वाच्च गु- णविषयत्वस्य, असन्दिग्धेन च सन्दिग्धस्य निगमनं न्याय्यं मन्यन्ते, तथेहापि ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्मेत्युपक्रम्य "ते ध्यानयो- गानुगता अपश्यन् देवात्मशक्तिं स्वगुणैनिगू- ढा'मिति, पारमेश्वर्याश्र् शक्ते: समस्तजगद्विधा थिन्या वाक्योपक्रमेऽवगमात्, वाक्यशेषेऽपि "मायांतु प्रकृति विद्यान्मायिनं तु महेश्वरं"।इति। "यो योनिं योनिमधितिष्ठत्येकः" इति च त- स्या एवावगमात्, न स्वतन्त्रा काचित्प्रकृतिः प्र- धानं नामाजामन्त्रेणाम्नायत इति शक्यते वक्तुं। व्यवधानात् न तु र्जनीयत्वादिगुणव्यवहिता सच्वादिगुणलक्षणेत्या- ह। रोहितादीनाश्चेति॥ ननु शाखान्तरेण शाखान्तरस्थमन्त्रस्य निर्णयः कथमित्यत आह॥ असन्दिग्धेनेति ॥ सर्वशाखाप्रत्ययन्या- यादिति भावः । यथां शाखान्तरवाक्यान्न प्रधानग्रहस्तथेहापि श्वेता- ख्वतरोपनिषदि मायाप्रकरणान्न तद्रह इत्याह ॥ तथेति॥सृष्यादौ किं सहायं व्रह्मेति विमृश्यते, ब्रह्मवादिनो ध्यानाख्ययोगेन परमात्मा- नमनुप्रविष्टाः सन्तः तत्रैव देवस्यात्मभूतामैक्येनाध्यसतां शक्तिं परत- न्त्रां मायां सच्वादिगुणवतीं ब्रह्मणः सहायमपश्यन्नित्यन्वयः। मा- याया एकत्वेऽपि तदंशानां जीवोपाधीनां तत्तत्सङ्घातयोनीनां अवि- व्याख्यानां भेदाद्वीप्सा, अव्याकते अनभिव्यक्ते नामरूपे यस्यां सा। अनेन तद्जेदं तर्हव्याकतमासीदिति श्रुत्यन्तरप्रसिद्धिरुक्ता। तस्यां श-
Page 447
(४५६) रन्नग्रभाभासिते [अ० १। पा. ४। प्रकरणात् तु सैव दैवी शक्तिरव्याकृतनामरूपा नामरूपयो: प्रागवस्थानेनापि मन्त्रेणाम्नायत इत्युच्यते। तस्याश्ष स्वविकारविपयेण त्रैरू व्येण त्रैरुप्यमुक्तं। कर्थ पुनस्तेजोऽवन्नानां त्रैरूप्येण विरूपाऽजा प्रतिपत्तुं शक्यते। यावता न तावत्तेजोऽवन्नेष्वजाकृतिरस्ति, न च तेजो Sवन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजा शब्दः सम्भवतीति अत उत्तरं पठति॥ ९॥ कल्पनोपदेशाच्च मध्वादिवद्विरो- धः॥१०॥ नायमजाकृतिनिमित्तोऽजाशव्दो नापि चौ- गिकः किं तर्हि कल्पनोपदेशोऽयं अजारूपकक्क- कौ व्यक्ताव्यक्तकार्यलिङ्गकानुमानं सूचयति ॥नामेति॥ मायाया रोहितादिरूपवच्वं कथमित्यत आह॥ तस्या इति॥ विषयः आश्र- यः, एवं प्रकरणवलान्मायैव अजेति भाष्यकन्मतं। छान्दोग्यश्रुत्या तेजोऽवन्नलक्षणाSवान्तरप्रकृतिरजेति सूत्रकन्मतेनोत्तरसूत्रव्यावर्त्य शङ्कते ॥ कथमिति ॥ किं तेजोऽबन्नेष्वजाशब्दो रूढः न जायत इति यौगिको वा नास्तेष्वजात्वजातेरसच्वादित्याह। यावतेति॥यत इत्यर्थ। अतो न रूढ इति शेषः न द्वितीय इत्याह॥ नचेति॥ जा- तिर्जन्म अजातिरजन्म ॥ ९ ॥ लौकिकयाSजाशव्दसादृश्यकल्पनया तेजोऽबन्नानामजात्वोपदे- शाद्ौणोऽयं शब्द इति परिहरति॥ कल्पनेति ॥ अनियमो यदच्छा।
Page 448
सू० १०। अ० २ ] (४५७)
ते।यथा हि लोके यहच्छया काचिदजा रोहित- शुककृष्णवर्णा स्यात् बहुवर्करा स्वरूपवर्करा च तां च कश्चिदजो जुषमाणोऽनुशयीत कश्चिच्चैनां भुक्तभोगां जव्यादेवमियमपि तेजोऽबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहुसरूपं चराचरलक्षणं वि. कारजातं जनयति, अविदुषा च क्षेत्रज्ञेनोपभु- ज्यते, विदुषा च परित्यज्यते इति। न च इदमा- शङ्ितव्यमेक: क्षेत्रज्ञोऽनुशेतेऽन्यो जहातीति, अतः क्षेत्रज्ञभेद: पारमार्थिक: परेषामिष्टः प्रा- प्रोतीति। न हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा किन्तु बन्धमोक्षव्यवस्थाप्रतिपिपादयिषैवैषा। प्रसिद्वं तु भेदं अनूद बन्धमोक्षव्यवस्था प्रति- पादते, भेदस्तु उपाधिनिमित्तो मिथ्याज्ञानक- ल्पितो न पारमार्थिक:, "एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व- भूतान्तरात्मा" इत्यादिश्रुतिभ्यः। मध्वादिवत् यथादित्यस्यामधुनो मधुत्वं वाचश्र्ाघेनोर्घेनुत्वं वर्करो वालपशुः। यदुक्तं जीवभेदेन प्रधानवाढप्रत्यभिज्ञेति तन्नेत्या- ह। नचेदमिति ॥ व्यवस्थार्थो भेदोऽप्यर्थात् प्रतिपायत इत्याह ।प्रसिद्धनत्विति ॥ सत्य एव प्रसिद्ध इत्यत आह॥ भेदस्त्विति ॥ कल्पनोपदेशे दृष्टान्तं व्याचष्टे। मध्विति ॥ न च योगस्य मुख्यवृ-
Page 449
(४५८) रत्नप्रभाभासिते [ न०१।पा० ४। धुलोकादीनां चानग्ीनामग्नित्वं इत्येवंजाती- यर्क कल्प्यते, एवमिदमनजाया अजात्वं कल्प्य- त इत्यर्थः, तस्मादविरोवस्तेजोऽवन्नेष्वजाश- व्दपयोगस्य॥१०॥ न संख्योप संग्रहादपि नानाभावाद- तिरेकाच्च ॥ ११ ॥ एवं परिहतेऽप्यजामन्त्रे पुनर्यन्यस्मान्म- न्त्रात् साङ््यः प्रत्यवतिप्ठते, "यस्मिन् पञ्च प- त्तित्वात् तेन प्रधानग्रहो न्याय्य इति वाच्यं रूढार्थानपेक्षायोगात् त- दाश्रित गुणलक्षणाया वलीयस्त्वाद्गुणवृतौ हि रूढिराश्रिता भवति। तथा च रोहितादिशव्दसमभिव्याहारानुगृहीतया रूढ्याश्रितया गुण- वृच्या प्रधाने योगं बाधित्वाऽन्तरप्ररुतिरजाशव्देन ग्राहा यथा मध्वा- दिशव्दैः प्रसिद्धमध्वाद्याश्रितगुणलक्षणया आदित्यादयो गृह्यन्ते तद- द्, तस्मादशव्दं प्रधानमिति सिद्धम् ॥। १० ॥। न संख्योपसंग्रहात् । पञ्चजनशव्दः सांख्यतच्वपरोऽन्य- परो वेति योगरूढ्योरनिश्वयात् संशये यथा तच्वविद्याधिकारे छा- गायां तात्पर्याभावादजापदे रूढित्यागस्तथा पश्चमनुष्येषु तात्पर्याभा- वात्पंचजनशव्देन रूढिं त्यक्क्ा तच्वानि ग्राह्माणीति दष्टान्तसङ्ग तिं सूचयन् मन्त्रसुदाहृत्य पूर्वपक्षयति ॥ एवमित्यादिना। फलं पू- र्ववत्, प्राणचक्षुःश्रोत्रान्नमनांसि वाक्यशेषस्थाः पश्चजनाः पञ्च, तत्र चत्वारः सुत्रं अन्नं विराट् तयोः कारणमव्याकतमाकाशश्ष य- स्मिन्नध्यसास्तमेवात्मानममृतं व्रह्म मन्ये तर्मान्मननातू विद्दानहम- मृतोऽस्मीति मन्त्रदृशो वचनं। नन्वस्तु पश्चत्वविशिष्ठेषु पश्चजनेषु-
Page 450
सू०११।अ०३।] शाङ्करब्रह्मसूत्रभाष्ये (४५3) ञ्वजना आकाशश्र प्रतिष्ठितः तमेवमन्य आ- त्मानं विद्वान् ब्रह्मामृतोऽमृतमिति" अस्मिन्म- न्त्रे पञ्च पञ्चजना इति पञ्चसङ्याविषयाऽपरा पञ्चसङ््या श्रूयते पञ्चशब्दद्दयदर्शनात् त एते पञ्च पञ्चकाः पश्चविंशतिः सम्पद्यन्ते। तया च पञ्चविंशतिसङ्यया यावन्तः सङ्ग्ेया आका- ड्यन्ते तावन्त्येव च तत्वानि साङ्ग्यैः सङ्या- यन्ते। "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकश्र विकारो न प्रकृतिर्न विकृतिः पुरुषः" इति। तया श्रुतिप्रसिद्दया पञ्चविंशतिसङ्यया ते-
पुनः पञ्चत्वान्वयात् पञ्चविंशतिसंख्याप्रतीतिस्तावता कथं सांख्यत- चग्रह इत्याशङ्ग् संख्याया धर्म्याकाङ्गायां तच्वानि ग्राह्माणीत्याह । तयेति॥ जगतो मूलभूता प्रकतिस्त्रिगुणात्मकं प्रधानमनादित्वा- दविकतिः कस्यचित् कार्य न भवतीत्यर्थः । महदहङ्कारपश्चतन्मात्रा- णि इति सप्त प्रक्ृतयो विक्वृतयश्, तत्र महान् प्रधानस्य विक्वतिरह- ङ्ारस्य प्रकृति: अहाङ्करः तामसः पश्चतन्मात्राणां शव्दादीनां प्रक- तिः साच्विक एकादशेन्द्रियाणां, पञ्च तन्मान्राश्र पञ्चानां स्थूलभू- तानामाकाशादीनां प्रकतयः, पश्च स्थूलभूतान्येतान्येकादशेन्द्रियाणि चेति पोडशसंख्याको गणो विकार एव न प्रकृतिः, तत्त्वान्तरो पादा- नत्वाभावात्, पुरुषस्तूदासीन इति साङ्यकारिकार्थः। सङ्ग्यया
Page 451
(४६०) रत्नप्रभाभासिते [अ० १। पा०४। हातू प्रातं पुनः श्रुतिमत्त्वमेव प्रधानादीनां, अत्र झूमः। न सङ्योपसंग्रहादपि प्रधानादीनां श्रु- तिमत्वं प्रत्याशा कर्तव्या, कस्मात्, नानाक्षा- वात्। नाना त्येतानि पञ्चविंशतिस्तत्वानि, नै- पां पश्चशः पञ्चशः साधारणो धर्मोडस्ति, येन प- ञ्नविंशतेरन्तरालेऽपरा: पञ्च पञ्च सङ्ा निवि- शेरनू, न त्येकनिबन्धनमन्तरेण नानाभूतेपु द्वि- व्वादिका: सङ्ग्या निविशन्ते। अथोच्येत पञ्च- विंशतिसङ्ग्यैवेयमवयवद्वारेण लक्ष्यते। यथा, "पञ्च सप्त च वर्षाणि न ववर्ष शतक्तुः" इति।
तच्वानामुपसंग्रहात् श्दवच्वमिति प्राप्ते सिद्धान्तयति ॥नेति॥ ना- नात्वमिष्टमित्यत आह॥ नैपामिति॥पश्रसुपश्चसु साधारणस्वेतर- पश्चकाव्यावृत्तस्य धर्मस्याभावेत्र नानात्वं विवक्षितमित्यर्थः । यवपि ज्ञानकर्मेन्द्रियेषु दशसु ज्ञानकरणत्वं कर्मकरणत्वं च पश्चकद्दयेऽस्ति पश्चतन्मान्रासु पश्चसु स्थूलप्रकृतित्वं च तथापि यस्मिन्नित्यात्मन आकाशस्य च पृथगुक्ते: सच्वरजस्तमोमहदहङ्काराः पश्च कर्तव्याः मनश्वत्वारि भूतानि च पश्चास्मिन् पश्चकद्ये मिथोऽनुवृत्तेतरपञ्चक- व्यावृत्तधर्मो नास्तीत्यभिप्रायः। मास्त्वित्यत आह ॥ येनेति, धर्मे- णेत्यर्थः । तदेव स्फुटयति ॥ न हीति॥ महासङ्गचायामवान्तरस- ङ्याः प्रविशन्ति, यथा हावश्विनौ सप सप्तर्षयोऽष्टौ वसवश्रेति प्रजा- पतिः सप्दशेत्यत्राश्वित्वादिकमादाय द्वित्वादयः प्रविशन्ति, नान्यथे- त्यर्थः । पश्चश्दद्दयेनस्ववाच्यन्यूनसंख्याद्दारेण तव्याप्या महासं- ख्यैव लक्ष्यत इति सदृष्टान्तं शङकते ॥ अथेति॥ मुख्यार्थस्य वक्ष्य-
Page 452
सू०-११।अ० ३] शाङ्करब्रह्मसूत्रभाष्ये (४६१) द्वादशवार्षिकीमनावृष्टिं कथयन्ति तद्दिति, तदपि नोपपद्यते। अयमेवास्मिन् पक्षे दोषो यल्लक्षणाश्रयणीया स्यात्। परश्षात्र पश्चश- ब्दो जनशब्देन समस्तः पञ्चजना इति, पारि- भाषिकेण स्वरेणैकपदत्वनिश्र्वयात्। प्रयोगा- माणत्वाल्लक्षणा न युक्तेति परिहरति ॥ तदपि नेति॥ पञ्चजनशब्द- योरसमासमङ्गीकृत्य पश्चविंशतिसंख्याप्रतीतिनिरस्ता सम्प्रति समा- सनिश्वयान्न तत्प्रतीतिरित्याह॥ परश्रेति ॥समासहेतुमाह॥पारि- भाषिकेणेति॥ अयमर्थः । अस्मिन्मन्त्रे प्रथम: पश्चशब्दः आयुदा- न्तः। द्वितीयः सर्वानुदान्तः। जनशब्दश्व्वान्तोदात्तः। तथा च न द्िती- यपश्चशब्दजनशब्दयोः समासं विनान्त्यस्याकारस्योदात्तत्वं पूर्वेषा- मनुदात्तत्वं च घटते। "समासस्य" [६।१२२३ ] इति सूत्रे- ण समासस्यान्तोदात्तविधानात् "अनुदात्तं पदमेकवर्ज" [६।१। १५८] इति च सूत्रेण यस्मिन् पदे उदात्तः स्वरितो वा यस्य वर्णस्य विधीयते तमेकं वर्जयित्वावशिष्टं तत्पदं अनुदात्तं भवतीति विधा- नादेव मान्त्रिकान्तोदान्तस्वरेणैकपदत्वनिश्र्वयः । भाषिकाख्ये तु श- तपथब्राह्मणस्वरविधायकगन्थे "स्वरितोऽनुदात्तो वा" इति सूत्रेण यो मन्त्रदशायां अनुदान्तः स्वरितो वा स ब्राह्मणदशायामुदात्तो भ- वतीति अपवाद आश्रितः, तथा चान्त्यादाकारातू पूर्वेषामनुदात्ता- नामुदात्तत्वं ब्राह्मणावस्थायां प्राप्तं, "उदात्तमनुदात्तमनन्त्यं" इति सूत्रेण मन्त्रदशायां उदात्तस्यान्त्यस्य परलग्नतयोच्च्यार्यमाणस्यानुदात्त- त्वं विहितं, तथा चात्र नकारादुपरितन आकार आकाशश्रवेत्यनेन श्विष्टतया पठचमानोऽनुदात्तो भवति, अयं मन्त्रानुदात्तस्वरः पारि- भाषिकस्तेन ब्राह्मणस्वरेणैकपदत्वं निश्चीयत इति। प्रकटार्थकारैस्तु
Page 453
(४६२) रत्नप्रभाभासिते [अ०१।पा० ४। न्तरे च पञ्चानां त्वापञ्चजनानामित्यैकपद्यैकस्व- यैकविभक्तिकत्वावगमात्, समस्तत्वाच्च न वी- प्सा पञ्चपञ्चेति। न च पञ्चकद्वयग्रहणं पञ्चप- ञ्चेति, नच पञ्चसङ्याया एकस्याः पञ्चसङ्य· याऽपरया विशेषणं पञ्चपञ्चकाइति, उपसर्ज- पाठकप्रसिद्धान्तोदात्तस्वरः पारिभाषिक इति व्याख्यातं, तव्याख्यानं कल्पतरुकारैदूषितं । अन्तानुदात्तं हि समाम्नातारः पश्चजनशव्दम- धीयत इति पाठकप्रसिद्धिरसिद्धेति । तथा च पञ्चपश्चजना इति मान्त्रिकान्तोदान्त: स्वरः यस्मिन् पञ्चपश्चजना इत्यन्तानुदात्तो त्रा- ह्मणस्वर इति विभाग:, उभयथापि एकपवात् समाससिद्धिरिति। तैत्तिरीयकप्रयोगादप्येकपदत्वमित्याह। प्रयोगान्तरे चेति॥ आ- ज्य त्वात्वांपश्चानां पञ्चजनानां देवविशेषाणां यन्त्राय धर्त्राय गृह्कामि इत्याज्यग्रहणमन्त्रशेपः। देवतानां कर्मणि यन्त्रवद्वस्थितं शरीरं त- देव धर्त्र इहामुत्र भोगाधारस्तस्मै, तस्यावैकल्यार्थमिति यजमानोक्तिः अस्तु समासस्ततः किमित्यत आह॥ समस्तत्वाञ्चेति॥ आवृत्ति- वौप्सा तदभावे पश्चकद्दयाग्रहणात् पञ्चविंशतिसंख्याप्रतीतिरसिद्धेति भावः। जनपश्चकमेकं पञ्चकानां पञ्चकं द्वितीयमिति पञ्चकद्दयं त- स्य पञ्चपश्चेति ग्रहणं नेत्यक्षरार्थः । किश्चासमस्तपक्षेऽपि किं पञ्च- शब्दद्योक्तयोः पश्चत्वयोः परस्परान्वयः किं वा तयोः शुद्धजनैरन्वयः अथवा पश्चत्वविशिष्टैर्जनैरपरस्य पञ्चत्वस्यान्वयः। नाय इत्याह॥ न- च पश्चसंख्याया इति॥ विशेषणमन्वयः।अनन्वये हेतुमाह ॥ उपस- र्जनस्येति॥ अंप्रधानानां सर्वेपां प्रधानेन विशेष्येणैवान्वयो वाच्यः, गुणानां परस्परान्वये वाक्यभेदापातादित्यर्थः । द्वितीये दशसंख्याप्रती- तिः स्यातू न पश्चविंशतिसंख्याप्रतीतिः। तृतीयमुत्थापयति।।नन्विति।
Page 454
सू०११। अ० ३] शाङ्करब्रह्मसूत्रभाष्ये (४६ ३). नस्य विशेषणेनासंयोगात्। नन्वापन्नपञ्चस- ड्याका जना एवं पुनः पञ्चसङ््यया विशे- ष्यमाणा: पञ्चविंशतिः प्रत्येष्यन्ते। यथा प- ञ्च पञ्च पूल्य इति पञ्चविंशतिः पूलाःप्रतीयन्ते तद्वत्, नेति ब्रूम:, युक्तं यत्पञ्चपूलीशब्दस्य स- माहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्ा- यां पञ्च पञ्च पूल्य इति विशेषणं, इह तु पञ्चजना इत्यादित एव भेदोपादानात् कतीति असत्यां भेदाकाडयां न पञ्चपञ्चजना इति विशेषणं भ- वेत्, भवदपीदं विशेषणं पञ्चसङ््याया एव भ- वेत्, तत्र चोक्तो दोष:, तस्मात् पञ्च पञ्चजना पश्चत्वविशिष्टेषु पश्चत्वान्तरान्वये विशेषणीभूतपश्चत्वेऽपि पश्चत्वान्व- यातू पञ्चविंशतित्वप्रतीतिरित्यर्थः। दृष्टान्तवैष म्येण परिहरति॥नति ब्रू- म इति।।पश्चानां पूलानां.समाहार इत्यत्र "संख्यापूर्वो दिगुः"(२।१/५ २I) इति समासो विहितः। ततो"द्विगोः"[४।१।२१]इति सूत्रेण डनीपो विधानात् समाहारप्रतीतौ समाहाराः कतीत्याकाङ्कायां सत्यां पञ्चेतिपदान्तरान्वयो युक्त:, पञ्चजना इत्यत्र तु डीबन्तत्वाभावेन स- माहारस्याप्रतीतेः जनानां चादित एव पञ्चत्वोपादानात् संख्याकाङ्क या असच्वात्पश्चेति पदान्तरं नान्वेति आकाङ्काधीनत्वादन्वयस्येत्यर्थः। भेदो विशेषणं। ननु जनानां निराकाङ्कृत्वेऽपि तद्विशेषणीभूतपश्चत्वा- नि कतीत्याकाङ्कायां पञ्चत्वान्तरं विशेषणं भवत्वित्याशङ्गते ॥ भवद- पीति॥ नोपसर्ज्जस्योपसर्जनान्तरेणान्वयः किन्तु प्रधानेनैवेति न्या- यविरोध उक्त इति परिहरति॥ तत्र चेति॥ एवं नानाभावादिति व्या-
Page 455
(४६४) रत्नप्रभाभासिते [अ० १। पा० ४। इति न पञ्चविशतितत्वाभिप्रायं, अतिरेकाच्च न पञ्चविंशतितत्वाभिप्रायं, अतिरेको हिभ्व- त्यात्माकाशाभ्यां पञ्चविंशतिसङ्यायाः।आ- त्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्ठः, यस्मिन्निति सप्तमीसूचितस्य "तमेवमन्य आ- त्मानम्" इत्यात्मत्वेनानुकर्षणात्। आत्मा च चेतनः पुरुषः सच पंचविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमाधेयत्वं च युज्यते, अर्थान्त- रपरिग्रहे च तत्वसङ्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येत। तथा "आकाशस्य प्रतिष्ठितः" इ- त्याकाशस्यापि पंचविंशतावन्तर्गतस्यन पृथगु- पादानं न्याय्यं, अर्थान्तरपरिग्रहे चोक्तं दूषणं। कथं च सङ्ग्यामात्रश्रवणे सत्यश्रुतानां पंचविं- ख्यायातिरेकाञ्ेति व्याचष्टे॥ अतिरेकाच्चेत्यादिना।अतिरेकः आ- धिक्यं जनशव्दितपश्चविंशतितच्वेषु आत्मान्तर्भूतो न वा नाथ इ- त्युन्का दितीये दोषमाह ॥ अर्थान्तरेति॥ तथाकाश विकल्प्य दूष- यति॥ तथेति॥ उक्तो दोषः सङ्याधिक्यं। पश्चविंशतिजना आ- त्माकाशौ चेति सप्तविंशतिसङ्या स्यादित्यर्थः। न च सत्त्वरजरत- मसां पृथग्गणनया सेष्टेति वाच्यं, आकाशस्य पृथगुक्तिवैय्यर्थ्यात् य- स्मिन्निति आत्मनि तच्वानां प्रतिष्ठोक्तिविरोधात्तव मते स्वतन्त्रप्रधा- नस्यैवानाधारत्वान्नेह नानास्तीति वाक्यशेषविरोधात्च तव सत्यद्ैत- वादित्वातू।किश्च पश्चविंशतिसङ्ड्या प्रतीतावपिन सांख्यतच्वानांगह- णमित्याह। कथश्चेति॥ किं जनशब्दात्तत्वग्रहः उक्तसंख्ययेति कथं-
Page 456
(४६५) शतितत्वानामुपसंग्रहः प्रतीयेत, जनशब्दस्य तत्वेष्वरूढत्वात्, अर्थान्तरोपसंग्रहेऽपिसङयो- पपत्ते:कर्थ तर्हि पञ्च पञ्चजना इति,उच्यते, "दि- कसङुय्े संज्ञायाम" (२१५०) इतिविशेषस्स- रणात् संज्ञायामेव पत्नशब्दस्य जनशब्देन स- मास: ततश्ष रूढत्वाभिप्रायेणैव केचित् पंचज- ना नाम विवक्ष्यन्ते, न साडयतत्वाभिप्रायेण,ते कतीत्यस्यामाकाङ्गायां पुनः पश्चेति प्रयुज्यते, पचजना नाम केचित्, ते च पञ्चेत्यर्थः, सप्तर्षयः सप्तेति यथा॥११ ॥ के पुनस्ते पञ्चजना नासे- ति तदुच्यते॥। पराणादयो वाक्यशेषात्॥२२॥ यस्मिन् पञ्च पञ्चजना इत्यत उत्तरस्मिन्म-
शब्दार्थः। नाय इत्याह॥ जनेति॥ न द्दितीय इत्याह॥ अर्थान्तरे- ति॥ किंतदर्थान्तरं यदर्थकमिदं वाक्यमिति पृच्छति॥ कथमिति॥ पश्च च ते जनाश्वेति कर्मधारयादिसमासान्तरांतू संज्ञासमासस्य प्रो- क्या वलवच्वं तावदाह॥ उच्चत इति॥ दिग्वाचिन: संख्यावाचिन- श्र शब्दा: संज्ञायां गम्यमानायां सुवन्तेनोत्तरपदेन समस्यन्ते यथा दक्षिणात्निः सप्तर्षय इत्यादि। अयं च समासस्तत्पुरुषभेदः ॥ ११॥ पञ्चजनशव्दस्य संज्ञात्वमुक्का संज्ञिकथनार्थ सूत्रं गृ्नाति ॥ के पु- नस्त इति॥ श्रुतौ उतशब्दोऽप्यर्थः। ये प्राणादिप्रेरकं तत्साक्षिग- सात्मानं विदुस्ते ब्रह्मविद इत्यर्थः। पश्चजनशव्दस्य प्राणादिषु कॅया
Page 457
(४.६ ६) रत्नप्रभाभासिते [अ० १। पा०, ४। न्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च नि- रदिष्ठाः"प्राणस्य प्राणमुत चक्षुपश्रक्षुरुत श्रो- त्स्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः" इ ति, तेSत्रवाक्यशेषगताः सन्निधानात् पञ्चजना इति विवक्ष्यन्ते। कथं पुनः प्राणादिपु जनशब्द- प्रयोग: तत्त्वेपुवा कर्थं जनशव्दप्रयोग:, समाने तु प्रसिद्धतिक्रमे वाक्यशेपवशात्प्राणाढय ए- व ग्रहीतव्या भवन्ति, जनसम्बन्धाच्च प्राणादयो जनशव्दभाजो अवन्ति। जनवचनश् पुरुपश- व्दःप्राणेषु प्रयुक्त: "ते वा एते पञ्च ब्रह्मपुरुपाः" इत्यत्र "प्राणो ह पिता प्राणो ह माता" इत्यादि च व्राह्मणं। समासबलाच् समुदायस्य रूढत्व- वृच्या प्रयोग इति शङ्कते॥ कथं पुनरिति॥ यथा तव तत्वेपु जन- शब्दस्य लक्षणया प्रयोगस्तथा मम प्राणादिषु पश्चजनशब्दस्य लक्षण- येत्याह ।। तत्त्वेष्विति॥ तर्हि रूढ्यतिक्रमसाम्यात्तच्वान्येव ग्राह्या- णीत्यत आह । समाने त्विति॥ सन्निहितसजातीयानपेक्षश्रुति- स्था एव ग्राह्याः न तु व्यवहितविजातीयसापेक्षरमृतिस्था इत्यर्थः । ल- क्षणावीज सम्बन्धमाह। जनेति॥ जनः पश्चजन इति पर्यायः,पुरु- पपित्रादिशव्दवच्च पञ्चजनशव्दस्य प्राणादिलक्षकत्वं युक्तमित्याह। । जनवचनश्रेति॥ ननु जायन्त इति जना: महदादयः जनकत्वा- ज्जनः प्रधानमिति योगसम्भवे किमिति रूढिमाश्रित्य लक्षणावृच्या- प्रयास इत्यत आह॥ समासेति॥ यथा अश्वकर्णशव्दस्य वर्णसमु- दायस्य वृक्षे रूढिरेवं पञ्चजनशव्दस्य रूढिरेव नावयवशकत्यात्मको योग
Page 458
सू० १२/अ०३] शाङ्गरब्रह्मसूत्रभाष्ये (४ ६७ ) भविरुद्धं। कथं पुनरसति प्रथमप्रयोगे रूढिः श- क्याश्रयितुं। शक्योद्गिदादिवदित्याह।प्रसिद्धा- र्थसन्निधानेन तयप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात् तद्विषयो नियम्यते यथोद्दि- दा यजेत, यूप छिनति, वेदिं करोतीति, तथाऽय- मपि पञ्चजनशब्दः समासान्वाख्यानादवगत- संज्ञाभाव: संइ्याकाङ्गी वाक्यशेषसमभिव्या-
इत्यर्थः। पूर्वकालिकप्योगाभावान रूढिरित्याक्षिपति॥कथमिति॥ स्यु: पुमांस: पञ्चजना इत्यमरकोशादौ प्रयोगोऽस्त्येव, तन्ावमङ्गीक- त्याप्याह ॥ शक्येति ॥ जनसम्बन्धाच्चेति पूर्वभाष्ये नरेषु पश्चजनश- ब्दस्य रूढिमाश्रित्य प्राणादिषु लक्षणोक्ता इह तु प्रौढवादेन प्राणादिषु रूढिच्यत इति मन्तव्यं। संगृहीतं विवृणोति ॥प्रसिद्धेत्यादिना।। उ- द्विदा यजेत पशुकाम इत्यत्रोद्गित्पदं विधेयगुणार्थकं कर्मनामधेयं वेति संशये खनित्रादावुद्ितुपदस्य प्रसिद्वेर्यागनामत्वे प्रसिद्धिविरो- धात् ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्ान्तः। यजेत यागेनेष्टं भा- वयेदित्यर्थः। ततश्वोद्भिदेत्यप्रसिद्धस्य तृतीयान्तस्य यागेनत्यनेन प्र- सिद्धार्थकेन सामानाधिकरण्येन तन्नामत्वं निश्षीयते, उद्धिनत्ति प- शून् साधयतीति प्रसिद्धेरविरोधादप्रकृतज्योतिष्टोमे गुणविध्ययोगात् तदिधो चोद्धिदाख्यगुणवता यागेनेति मत्वर्थसम्बन्धलक्षणाप्रसङ्गा- च्चेति कर्मनामैवोह्गित्पदं। तथा छिनत्तीति प्रसिद्धार्थछेदनयोग्यार्थ- कशव्दसमभिव्याहाराद्दारुविशेषो यूपशब्दार्थः। करोतीति समभति- व्याहाराद्ेदिशव्दार्थ: संस्कारयोग्यस्थण्डिलविशेष इति गम्यते, तथा प्रसिद्धार्थकप्राणादिशब्दसमभिव्याहारातू पञ्चजनशब्द: प्राणादर्थक
Page 459
(४६८) रत्नप्रभाभासिते [अ० १।पा० ४। हतेषु प्राणादिपु वर्तिष्यते। कैश्रितु ढेवाः पित- रो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याखयाताः।अन्यैश्चत्वारो वर्णा निपादपञ्च- मा: परिग्ृहीताः। कचिञ्"यत् पाञ्चजन्ययावि- शेति प्रजापरः प्रयोग: पञ्चजनशब्दस्य दश्यते तत्परिग्रहेऽपीह न कथ्विद्विरोधः। अचार्यस्तु न पश्चविंशतेस्तत्वानामिह प्रतीतिरस्तीत्येवंपरत- या प्राणाढयो वाक्यशेपादिति जगाद ॥१२। अवेशुस्तावत् प्राणादय:पञ्चजनासाध्यन्दिना नां येडनं प्राणादिष्वामनन्ति काण्वानां तु क्थ पाणादयः पञ्चजना भवेयुः येऽन्ं प्राणादिपु नामनन्तीति अत उत्तरं पठति॥
असत्यपि काण्वानामन्ने ज्योतिपा तेपां प- इति निश्रीयतःइत्यर्थः। एकदेशिनां मतदयमाह ॥ कैश्िदित्यादि- ना। शूद्रयां ब्राह्मणाजातो निपादः । श्रुत्या पञ्चजनशब्दस्यार्थान्त- रमाह ॥ क्वचिव्वेति ॥ पाश्चजन्यया प्रजया विशतीति वि् तया विशा पुरुपरूपयेन्द्रस्याह्वानार्थ वोषाः सृष्टा इति यत्तधुक्तं घोषाति- रेकेणेन्द्राह्वानायोगादिति श्रुत्यनुसारेण प्रजामात्रग्रहेऽपिन विरोध इत्यर्थः। सन्नविरोधमाशङ्गयाह॥ आचार्यस्त्विति ॥ अतः सांख्य- तच्वातिरिक्तयत्किश्चित्परतया पञ्चजनशब्दव्याख्यायामविरोध इति भावः॥ १२॥ शङ्कोत्तरत्वेन सूत्रं गृढ्नाणि॥ भवेयुरिति॥
Page 460
स०१३। अ०३।] शाङ्करब्रह्म सूत्रभाष्ये (४६९). ञ्सङ्या पूर्यते। तेऽपि हि यस्मिन् पञ्च पश्रज- ना इत्यत: पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणा- यैव ज्योतिरधीयते "तदेवा ज्योतिषां ज्योतिः" इति। कथं पुनरुअयेषामपि तुल्यवदिदं ज्यो- तिः पठ्यमानं समानमन्त्रगतया पञ्चसख््यया केषांचिद्गस्यते केषांचिन्नेति, अपेक्षाभेदादित्या- ह। माध्यन्दिनानां हि समानमन्त्रपठितप्राणा- दिपञ्चजनलाभात् नास्मिन्मन्त्रान्तरपठिते ज्यो- तिषि अपेक्षा भ्वति तदलाभातु काण्वानां भ- वत्यपेक्षा, अपेक्षाभेदाच्च समानेऽपि मन्त्रे ज्यो- तिषो ग्रहणाग्रहणे, यथा समानेऽप्यतिरात्रे व- चनभेदात् षोडशिनो ग्रहणाग्रहणे तद्दत्। तदेवं न तावत् श्रुतिप्रसिद्धि: काचित् प्रधानविषया- ज्योतिषां सूर्यादीनां ज्योतिस्तद्दल देवा उपासत इत्यर्थः । नन्वि- दं षष्ठचन्तज्योतिःपदोक्तं सूर्यादिकं ज्योति: शाखाद्येऽप्यस्ति तत्का- ण्वानां पञ्चत्वपूरणाय गृह्यते नान्येषामिति विकल्पो न युक्त इति शङ्कते ॥ क्थ पुनरिति॥ आकाङ्गाविशेषाद्दिकल्पो युक्त इत्याह सिद्धान्ती॥ अपेक्षेति ॥ यथातिरात्रे पोडशिनं गढ्णाति न गृढ्णाती-
षो विकल्प इत्यर्थः। ननु क्रियायां विकल्पो युक्तः न वस्तुनीति चेत्, सत्यं, अत्रापि शाखाभेदेन साना ज्योतिःसहिता वा प्राणादियो यत्र प्रतिष्ठितास्तन्मनसाऽनुद्रष्टव्यमिति ध्यानक्रियायां विकल्पोपपत्तिरि- यनवयम्। उक्त प्रधानस्याशव्दत्वमुपसंहरति ।तदेवमिति।। तथापि
Page 461
(४७० ) रत्नप्रभाभासिते [अ० १। पा० ४। स्ति, स्मृतिन्यायप्रसिद्वी तु परिहरिष्येते॥१३॥ कारणत्वेन चाकाशादिषु यथाव्य- पदिष्टोक्केः ॥१४॥ प्रतिपादितं ब्रह्मणो लक्षणं, प्रतिपादितं च ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानां, प्र- तिपादितं च प्रधानस्याशब्दव्वं। तत्रेदसपरमा- शङ्यते। न जन्मादिकारणत्वं ब्रह्मणो ब्रह्मवि- स्मृतियुक्तिभ्यां प्रधानमेव जगत्कारणमित्यत आह॥ स्मृतीति ॥१३ ॥ कारणत्वेन चाकाशादियु यथा व्यपदिष्ठोक्तः । पूर्व्- न्येनास्य सङ्गतिं वक्तुं वृत्तमनुवदति ॥ प्रतिपादितमिति॥ अधि- करणत्रयेण प्रधानस्याश्रौतत्वोक्त्या जगत्कारणत्वलक्षणेन ब्रह्मण एव बुद्धिस्थता, तस्मिन्नेव बुद्धिस्थे निर्विशेषे ब्रह्मणि, वेदान्तानां सम- न्वय इति साधितं पूर्वसूत्रसन्दर्भेण। तत्र लक्षणसमन्वययोरसिद्धिरेव श्रुतीनां विरोधदर्शनादित्याक्षेपरूपान्तेनास्य सङ्गतिमाह ॥तत्रेति॥ न चाविरोधचिन्तायाः द्वितीयाध्याये सङ्गतिर्नास्मिन्नध्याये इति वाच्यं, सिद्धे समन्वये स्मृत्यादिमानान्तरविरोधनिरासस्य द्वितीयाध्यायार्थ- त्वात् तत्पदवाच्यजगत्कारणवादिश्रुतीनां मिथो विरोधाद्दाच्यार्थानि- श्रयेन लक्ष्ये समन्वयासिद्धौ प्राप्तायां तत्साधकाविरोधचिन्ताया अ- त्रैव सङ्गतत्वातू। न चैवं सृष्टिश्रुतीनामप्यविरोधोऽत्रैव चिन्तनीय इति वाच्यं, स्वप्नवत् कल्पितसृष्टौ विरोधस्यैवाभावातू। किमर्थ तर्हि द्वितीये तच्चिन्तनं, स्थूलवुद्धिसमाधानार्थ इति ब्रूमः। इह तु सूक्ष्म- दशां वाक्यार्थे समन्वयज्ञानाय तत्पदार्थश्रुतिविरोधः परिक्वियते। यद्यपि त्वंपदार्थश्रुतिविरोधोऽत्र परिहर्तव्यः तथापि प्रथमसूत्रेण बन्ध-
Page 462
सू० १४। अ०४।] शाङ्करब्रह्मसूत्रभाष्ये (8७६) पयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपा- दयितुं शक्यं, कस्मात्, विगानदर्शनात्, प्रति- वेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते क्रमादिवै- चित्र्यात्, तथा हिक्कचि"दात्मन आकाशः स- म्भूतः" इत्याकाशादिका सृष्टिराम्नायते, क्वचि- त्तेजआदिका "तत्तेजोऽसृजते"ति, कचित्पाणा- दिका "स प्राणमसृजत प्राणाच्छूद्ामि"ति,क्व- चिदकमेणैव लोकानामुत्पत्तिराम्न्ायते "स इ- माहोकानसृजताम्भो मरीचिर्मरमापः" इति, तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते, "असद्दा
मिथ्यात्वसूचनादविरोध:सिद्धः, प्रपश्चस्तु स्थूलबुद्धिसमाधानप्रसङ्गेन भविष्यतीति सन्यते सूत्रकारः । अत्र जगत्कारणश्रुतयो विषयस्ताः किं ब्रह्मणि मानं न वेति संशयेऽन्नज्योतिषोः संख्यादृष्टिक्रियायां विकल्पेऽपि कारणे वस्तुन्यसद्दा सद्दा कारणमित्यादिविकल्पसम्भ- वादप्रामाण्यमिति प्रत्युदाहरणेन पूर्वपक्षयन्नुक्ताक्षेपं विवृणोति॥ प्र- तिवेदान्तसित्यादिना ॥ वेदान्तानां समन्वयसाधनाच्छरृत्यध्याय- सङ्गतिः। असदादिपदानां सत्कारणे समन्वयोक्े: पादसङ्गतिः, पू- र्वपक्षे समन्वयासिद्धि: फलं, सिद्धान्ते तत्सिद्धिरिति विवेकः । क्र- माकमाभ्यां सृष्टिविरोधं तावद्दर्शयति॥ तथा हि क्वचिदित्यादिना॥ स परमात्मा लोकानसृजत अम्मयशरीरप्रचुरस्वर्गलोकोऽमभःशब्दा- र्थः। सर्यरश्सिव्याप्तोऽन्तरिक्षलोको मरीचयः। मरो मर्त्यलोकः। अ- ब्बहुला: पाताललोका: आप इति श्रुत्यर्थः। सृष्टिविरोधमुत्ता का- रणविरोधमाह ॥ तथेति ॥असदनभिव्यक्तनामरूपात्मकं कारणं,
Page 463
(४७२) रत्नप्रभाभासिते [अ० १।पा० ४। इदमग्र आसीत् ततो वै सदजायते"'ति,"असद़े- वेदमग्रआसीत् तत्सदासीत्तत्सत्यमभ्वदि”'ति च, क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रि- या प्रतिज्ञायते "तद्वैक आहुरसदेवेदमग्र आ- सी"दित्युपक्रम्य, "कुतस्तुखलु सोम्यैवं स्यादि- ति होवाच कथमसतः सजायेते"ति,"सदेव सो- म्येदमग्रआसीदि'ति,कचित् स्वयंकर्तकेवव्या- क्रिया जगतो निगद्यते, "तद्वेदं तर्यव्याकृतमा- सीतू तन्नामरूपाभ्यामेव व्याक्रियत" इति। एवमनेकधा विप्रतिपत्ते:वस्तुनि च विकल्पस्या- नुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधार- णपरता न्याय्या, स्मतिन्यायप्रसिदधिभ्यां तु का- रणान्तरपरियहो न्याय्य इति। एवं प्राप्ते ब्रूमः। ततः कारणात् सदभिव्यकं। एतत्तुल्यार्थ छान्दोग्यवाक्यमाह॥ अ- सदेवेति॥ किं शून्यमेव नेत्याह॥ तत्सदिति॥ अवाधितं व्रह्मैवा- सीदित्यर्थः । तद्रह्मात्मना स्थितं जगत् सृष्टिकाले सम्यगभिव्यक्तभ- वत्। प्रक्रिया सृष्टिः। तत्तत्र कारणे एके बाह्यास्तेषां मतं। श्रुतिरेव दूषयति ।।कुत इति॥ कुतएवंपदयोरर्थ माह।कथमिति।।स्वमतमाह॥।सदिति।। तदिदं जगद् किल तर्हि प्राक्कालेडव्याकतं कारणात्मकमासीत्।श्रु- तीनां विरोधसुपसंहरति ॥ एवमिति॥ किमत्र न्याय्यमित्याशङग्च मानान्तरसिद्धप्रधानलक्षकत्वं वेदान्तानां न्याय्यमित्याह॥स्मृतीति॥त त्र सृष्टौ, विरोधमङ्गीरुत्य लष्टरि विरोधं परिहरति॥सत्यपीति॥आ- काशादिपु ब्रह्मणः कारणत्वे विरोधो नैवास्तीति प्रतिज्ञायां हेतुमाह
Page 464
सू०१४। अ० ४] (४७३) सत्यपि प्रतिवेदान्तं सृज्यनानेष्वाकाशादिषुक्र- सादिद्वारके विगानेन स्त्रष्टरि किश्विद्विगानम- स्ति, कुतः, यथाव्यपदिष्ठो क्तेः। यथाभूतो त्येक स्मिन्वेदान्ते सर्वज: सर्देश्वरः सर्वात्मकोSद्विती- यः कारणत्वेन व्यपदिष्टः, तथाभूत एव वेदांता- न्तरेष्वपि व्यपदिश्यते,तद्यथा,"सत्यं ज्ञानमन- न्तंब्रह्मे? ति, अत्र तावज्ज्ञानशब्देन परेण च त- द्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्मान्यरू- पयदपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत्। तद्ि- षयेणैव परेणात्मशब्देन शरीरादिकोशपरम्पर- या चान्तरानुप्रवेशनेन सर्वेषामंतः प्रत्यगात्मानं निरधारयत्, "बहु स्यां प्रजायेये"ति चात्मवि- षयेण बहुभवनानुशंसनेन सृज्यमानानां विका- राणां स्त्रप्टुरभेदमभाषत तथे"दं सर्वमसृजत य- दिदं किञ्चे"ति समस्तजगत् सृष्टिनिर्देशेन प्राक् सृष्टेरद्वितीयं स्रष्टारमाचष्टे,तदत्र यल्लक्षणं ब्रह्म- ।। कुत इति॥ यथाभूतत्वमेवाह ॥ सर्वज्ञ इति॥ कारणस्य सर्वज्ञ- त्वादिकं प्रतिवेदान्तं दृश्यत इत्याह ॥ तद्यथेत्यादिना तदिषयेण ब्रह्मविषयेण, चेतनं सर्वज्ञं, तदात्मानं स्वयमकुरुतेति। श्रुतेरपरप्रयो- ज्यत्वं। तस्माद्दा एतस्मादात्मन इति प्रत्यगात्मत्वं स्वस्य बहुरूप- त्वकामनया स्थितिकालेऽप्यद्वितीयत्वं। यथा तैत्तिरियके सर्वज्ञ- त्वादिकं कारणस्य तथा छान्दोग्यादावपि दृश्यते इत्याह ॥ त- ६०
Page 465
(४७8) रत्नप्रभाभासिते [अ० १।पा० ४। कारणत्वेन विज्ञातं तल्लक्षणमेवान्यत्रापि दिज्ञा- यते। "सदेव सोम्येदमग्र आसीत, एकमेवा- द्वितीयं, तदैक्षत बहुस्यां.प्रजायेयेति, तत्तेजोS- सृजतेति" तथा "आत्मा वा इदमेक एवाग्र आ- सीन्नान्यत् किञ्चन मिषत्स ऐक्षत लोकानुसृ- जा इति च" एवंजातीयकस्य कारणस्वरूपनि- रूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमवि- गीतार्थत्वात्। कार्यविषयं तु विगानं हश्यते क- चिदाकाशादिका सृष्टिः कचित्तेजआदिकेत्येवं- जातीयकमू। न च कार्यविषयेण विगानेन कार- णमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमा- नमविवक्षितं भवितुमर्हतीति शक्यते वकुं, अ- तिप्रसङ्गात्। समाधास्यति चाचार्यः कार्यविष- यं विगानं न वियदश्रुतेरित्यारभ्य भ्रवेदपि का-
दत्र यल्लक्षणमिति, मिषत्सव्यापारं अविगीतार्थत्वादविरुद्धार्थ- कत्वात् कारणे नास्ति विप्रतिपत्तिरिति शेषः, तथापि कार्ये वि- रोधातू कारणेऽपि विरोधः स्यादित्याशङ्च निषेधति॥ कार्यवि- पयन्त्वित्यादिना॥ स्वप्नसृष्टीनां प्रत्यहमन्यथात्वेन सोऽहमिति प्रत्य- भिज्ञायमाने द्रष्टर्यपि नानात्वं प्रसज्येतेत्याह॥ अतिप्रसङ्गादिति॥ सृष्टिविरोधमङ्गीकत्य लष्टरि न विरोध इत्युक्तं अधुनाङ्गीकारं त्य- जति॥ समाधास्यति चेति ॥ किमर्थ तर्हि श्रुतयः सृष्टिमन्यथा- न्यथा वदन्तीत्याशङ्न्य सृष्टावतात्पर्यज्ञापनायेत्याह ॥ भवेदित्या-
Page 466
सू० १४। अ०४] शाङ्करव्रह्मसूत्रभाष्ये (४७५) र्यस्य विगीतत्वं अप्रतिपाद्यत्वात्, न व्ययं सृ- ष्टयादिप्रपञ्चः प्रतिपिपादयिषितः। न हि तत्प्र- तिबद्धः कश्र्वित् पुरुषार्थो दृश्यते श्रूयते वा, न च कल्पयितुं शक्यते उपक्रमोपसंहाराभ्यां तत्र- तत्र ब्रह्मविषयैर्वा्यैः साकमेकवाक्यताया ग- म्यमानत्वात्। दर्शयति च सृध्यादिप्पञ्चस्य- ब्रह्मप्रतिपत्त्यर्थतां, "अन्नेन सोम्य शुङ्गेनापो- मूलमन्विच्छाद्गि: सोम्य शुङ्रेन तेजोमूलम- न्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छे" ति। मृदादिद्टष्टान्तैश् कार्यस्य कारणेनाभेदं व- दितुं सृष्टयादिप्रपञ्चः श्राव्यत इति गम्यते। त- था च सम्प्रदायविदो वदन्ति, "महोहविस्फुलिङ्गाधैः सृष्टिर्या चोदितान्यथा। उपायः सोऽवताराय नास्ति भेद: कथञ्चन"॥ इति।
दिना। अतात्पर्यार्थविरोधो न दोषायेत्यत्र तात्पर्य साधयति॥ न
स्वार्थे पृथक फलं कल्प्यं वाक्यभेदापत्तेरित्याह॥ न च कल्पयितुमि- ति। न्यायादेकवाक्यत्वं सिद्धं श्रुतिरपि दर्शयन्तीत्याह ॥ दर्शय- ति चेति। शुङ्गेन कार्येण लिङ्गेन कारणव्रह्मज्ञानार्थत्वं सृष्टिश्रुती- नामुक्का कारणस्याद्यत्वज्ञानं फलान्तरमाह ॥ मृदादीति॥ एवं निष्फलायामन्यार्थायां सृष्टौ तात्पर्याभावाहिरोधो न दोष इत्यत्र वृद्दसम्मतिमाह । तथा चेति॥ अन्यथान्यथेति वीप्सा द्रष्टव्या।
Page 467
(४७६) रत्नप्रभाभासिते [अ० १। पा० ४। ब्रह्मप्तिपत्तिसम्बद्दं तु फलं श्रूयते "ब्रह्म- विदान्नोति परं""तरति शोकमात्मवित्" 'त- मेव विदित्वा अतिमृत्युमेति " इति च। प्रत्य- क्षावगमं चेदं फलं "तत्वमसि" इत्यसंसार्या- त्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावत्तेः ।१४॥यत् पुनः कारणविषयं विगानं दर्शितं "असद्ा इदमत्र आसीत्" इत्यादि तत् परि- हर्तव्यं। अत्रोच्यते। सभाकर्षात् ॥२५॥ "असद्वा इदमग्र आसी"'दिति नात्रा सन्निरात्म- कं कारणत्वेन श्राव्यते।यतो"Sसन्नेव सभवत्य- सत् व्रह्मेति वेद चेदस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदु"रित्यसद्वादापवादेनास्तित्व लक्षणं व्र- ह्ान्नमयादिकोशपरम्परया प्रत्यगात्मानं नि- अवताराय ब्रह्मधीजन्मने, अतस्तदन्यथात्वेऽपि व्रह्मणि न भेदः ज्ञे- ये न विगानमित्यर्थः । व्रह्मज्ञानस्य सृष्टिशेषित्वमुक्तं तन्निर्वाहाय त- स्य फलमाह॥ त्रह्मेति ॥ मृत्युमत्येतीत्यन्वयः ॥ १४ ॥ एवं सृष्टिद्दा- रकं विरोधमुत्सूत्रं समाधाय कारणस्य सदसत्त्वादिना साक्षाच्छरुति- विरोधनिरासार्थ सूत्रमादत्ते।।यत पुनरिति॥ यतोSस्तित्वलक्षणं ब्रल्म निर्धार्य तस्मिन्नेव श्रोकमुदाहरति अतोऽत्र श्रोके निरात्मकमसन्न श्राव्यत इति योजना। तत् तन्र सदात्मनि क्लोको मन्त्रो भ्रवति। सदात्मसमाकर्षादतीन्द्रियार्थकासत्पदेन व्रह्म लक्ष्यत इत्याह
Page 468
सू०१५/ अ० ४।] शाङ्करव्रह्मसूत्रभाष्ये (४७७) र्धर्य सोडकामयतेति तमेव प्रकृतं समाकृष्य स- पपञ्चां सृष्टिं तस्मात् श्रावथित्वा तत् सत्यमि- त्याचक्षत इति चोपसंहृत्य तदप्येष श्रोको भव- ति इति तस्मिन्नेव प्रकृतेऽर्थे श्रोकमिममुदाहर- त्य"सद्वा इदमग्र आसी"दिति।यदि त्वसन्निरा- त्मकमस्मिन् श्रोकेऽभ्षिप्रेयेत ततोऽन्यसमाकर्ष- णेऽन्यस्योदाहरणादसम्बद्धं वाक्यमापद्येत। तस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण स- चछब्दः प्रसिद्ध इति तद्दयाकरणाभावापेक्षया प्रागुत्पत्ते: सदेव ब्रह्मासदिवासीदित्युपचर्यते। एषैवासदेवेदमग्र आसीदित्यत्रापि योजना, तत् सदासीदिति समाकर्षणात्। अत्यन्ताभ्ा- वाभ्युपगमे हि तत् सदासीदिति किं समाकृष्ये त।"तद्ैक आहुरसदेवेदमग्रआसीदित्यत्रापि न श्रुत्यन्तराभ्िप्रायेणायमेकीयमतोपन्यासः
।तस्मादिति॥न च प्रधानमेव लक्ष्यतामिति वाच्यं। चेतनार्थकब्रह्मा- दिशव्दानामनेकेषां लक्षणागौरवादिति भावः। तित्तिरिश्रुतौ सूत्रं यो- जयित्वा छान्दोग्यादौ योजयति॥ एषैवेति॥ सदेकार्थकतत्पदेन पूर्वोक्तासतः समाकर्षान्न शून्यत्वमित्यर्थःनन्वसत्पदलक्षणा न युक्ता श्रुतिभिरेव स्वमतभेदेनोदितानुदितहोमवादद्विकल्पस्य दर्शितत्वादित्यत आह॥ तद्वैक इति॥ एके शाखिन इत्यर्थो न भवति, किन्तु अना- दिसंसारचक्रस्था वेदवाह्या इत्यर्थः। शून्यनिरासेन श्रुतिभिः सद्दा-
Page 469
(४'७८) रत्नप्रभाभासिते [अ०१।पा०४। क्रियायाभिव वस्तुनि विकल्पस्यासम्भवात्।
मतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरा- सइति द्रष्टव्यं।"तद्ेदं तर्र्वव्याकृतमासी"दित्य- त्रापि न निरव्यक्षस्य जगतो व्याकरणं कथ्य- ते। "सएष इह प्रविष्ठ आनखाग्रेभ्यःइत्यध्य- क्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात् निरध्यक्षे व्याकरणाभ्युपगमे त्यनन्तरेण प्रकृ- तावलम्बिना स इत्यनेन सर्वनाम्ना क: कार्या- नुप्रवेशित्वेन समाकृष्येत। चेतनस्य चायमा- त्मनः शरीरेऽनुप्रवेशः श्रूयते, अनुप्रविष्टस्य चेतनत्वश्रवणात्, "पश्यंश्र्क्षुः शृण्वन् श्रोत्रं मन्वानो मनः"इति। अपिच याहशमिदमद्य- व्वे नामरूपाभ्यां व्याक्रियमाणं जगत् साध्य- क्षं व्याक्ियते एवमादिसर्गेऽपीति गम्यते, दष्ट- विपरीतकल्पनानुपपत्तेः । श्रुत्यन्तरम "प्यनेन दस्यैवेष्टत्वात्तासां विरोधस्फूर्त्तिनिरासाय लक्षणा युक्तेति भाव:। यदुकं क्चिदकर्तृका सृष्टिः कथितेति तन्नेत्याह ॥ तद्वेदमिति॥ अध्यक्ष: कर्त्ता। ननु कर्त्रभाव एव परामृश्यते इत्यत आह॥ चेतन- स्य चायमिति॥ चक्षुर्द्रष्टा श्रोत्रं श्रोता मनो मन्तेत्युच्यते इत्यर्थः। आवकार्य सकर्तृकं कार्यत्वात् घटवदित्याह ।। अपि चेति॥ अद- त्वे इदानीं। ननु कर्मकारकादन्यस्य कर्त्तुः सच्वे कर्मण एव कर्तृवा-
Page 470
सू०१६/अ०५] शाङ्करब्रह्मसूत्रभाष्ये (४७९) जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी ति साध्यक्षामेव जगतो व्याक्रियां दर्शयति। व्याक्रियत इत्यपि कर्मकर्तरि लकार: सत्येव प- रमेश्वरे कर्तरि सौकर्यमपेक्ष्य द्रष्टव्यः। यथा लूयते केदार: स्वयमेवेति सत्येव पूर्णके लवित- रि।यद्वा कर्मण्येवैष लकारः अर्थाक्षित्ं कर्त्रन्तर- मपेक्ष्य द्रष्टव्यः, यथा गम्यते ग्राम इति॥१५॥ जगद्याचित्वात्॥ १६ ॥ कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते, "यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वै तत् कर्म सवै वेदितव्यः" इति (कौ० ब्रा.अ०४।क० १९।)। तत्र किं जीवो वेदित-
चिलकारो विरुद्ध इत्यत आह॥ व्याक्रियते इति॥अनायासेन सि- द्विमपेक्ष्य कर्मणः कर्तृत्वमुपचर्यत इत्यर्थः। व्याक्रियते जगत् स्वय- मेव निष्पन्नमिति व्याख्याय केनचिव्याकृतमिति व्याचष्टे॥ यद्देति॥ अतः श्रुतीनामविरोधात् कारणद्वारा समन्वय इति सिद्धम् ॥ १५ ॥ जगद्वाचित्वात्॥ विषयमाह॥ कौषी तकीति॥ बलाकाया अ- पत्यं बालाकिर्व्राह्मणस्तं प्रति राजोवाच ॥ यो वा इति॥ न केव- लमादित्यादीनां कर्त्ता किन्तु सर्वस्य जगत इत्याह॥ यस्येति॥ए- तज्जगद् यस्य कर्म क्रियते इति व्युत्पच्या कार्यमित्यर्थः।कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह॥तत्रेति।पूर्वत्रैकवाक्यस्थ सदादिशब्दबला- दसच्छव्दो नीतः, इह तु वाक्यभेदातू ब्रह्म ते ब्रवाणीतिबालाकिवाक्य-
Page 471
(8८0) रत्नप्रभाभासिते [अ० १। पा० 8। व्यत्वेनोपदिश्यते उत मुख्यः प्राण उत परमात्मे- ति विशयः, किं तावत् प्राप्तं प्राण इति कुतः यस्य वैतत् कर्मेति श्रवणात्, परिस्पन्द्लक्षणस्य च कर्मणः प्राणाश्रयत्वात्, वाक्यशेषे चा था- स्मिन् प्राण एवैकधा भवती''ति प्राणशब्ददर्श- नात् प्राणशव्दस्य च मुख्ये प्राणे प्रसिद्धत्वात्,
सि पुरुषः"इत्येवमादयः पुरुपा निर्दिष्ठाः तेपा मपि भ्वति प्राण: कर्ता प्राणावस्थाविशेषत्वा- दादित्यादिदेवतात्मनां "कतम एको देव इति प्राण इति स ब्रह्मेत्याचक्षते" इति श्रुत्यन्तरत्र- सिद्धेः, जीवो वाऽयमिह वेदितव्यतयोपदिश्यते तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुं स्थब्रह्मशव्देन प्राणादिशब्दो व्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणे- न पूर्वपक्षमाह ॥किं तावदिति। पूर्वपक्षे वाक्यस्य प्राणाधुपास्तिपर- त्वाद्रह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये समन्वयसिद्धिरिति फलं। अथ सुपुप्तौ द्रष्टेनि शेषः। श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यतआह ।। ये चैत इति ॥ सूत्रात्मकप्राणस्य विकाराः सूर्यादय इत्यत्र मानमाह ।। कतम इति ॥ यस्य महिमान: सर्वे देवा इति पूर्ववाक्ये दर्शितम् अतः सर्वदेवात्मकत्वात् स प्राणो ब्रह्म यत्परोक्षं शास्त्रैकवेद्यत्वादि- त्यर्थ:। पूर्वपक्षान्तरमाह॥ जीवो वेति॥ यत्कारणं यस्माज्जीवं बो- धयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना। तौ हपु- रुषं सुप्तमाजग्मतुः तंराजाहे बृहत्पाण्डुरवासः सोम राजनित्याम-
Page 472
सू०१६।अ०५] शाङ्गर्रह्मसूत्रभाष्ये (४८१) "यस्य वै तत् कर्मे" ति,सोऽपि भोक्तत्वाडोगो- पकरणभूतानामेतेषां पुरुषाणां कर्तोपपदते, वाक्यशेषे च जीवलिङ्गमवगम्यते। यत्कारणं वे- दितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायो- पेतं बालाकिं प्रतिबुबोघयिषुरजातशत्रुः सुत्तंपु- रुषमामन्त्र्यामन्त्रणशब्दाश्रवणात् प्राणादी- नासभोक्तत्वं प्रतिबोध्य यष्टिघातोत्थापनात्प्रा- णादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयति, तथा परस्तादपि जीवलिङ्गमवगम्यते।"तदथा श्रेष्ठी स्वैभङ्डे यथा वा स्वाःश्रेष्ठिनं भुअन्त्येव- मेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्डे एवमेवैते आत्मा- न एतमात्मानं भुअन्ति" इति(कौ०ब्रा०अ० ४। क० २०॥) प्राणभृत्वाञ्च जीवस्योपपन्नं पाणशब्दल्वं। तस्माजीवसुख्यप्राणयोरन्यतर इह ग्रहणीयो न परमेश्वरः, तलि्गानबगमादि- ति, एवं प्ाप्ते ब्रूम:। परमेश्वर एवायसेतेषां पुरु न्त्रय सम्बोध्य सम्बोधनानभिज्ञत्वात् प्राणादेरनात्मत्वसुक्का यष्टया- वातेनोत्थाप्य जीवं बोधितवान् इत्यर्थः। श्रेष्ठी प्रधान: स्वैर्भृत्यैर्ज्ञा- तिभिरुपहतं भुङ्के स्वा: ज्ञातयक्च तमुपजीवन्ति। एवं जीवोऽपि आदित्यादिभि: प्रकाशादिना भोगोपकरणैर्भुङ्के ते च हविर्ग्रहणादि- ना जीवमुपजीवन्तीत्युक्तं भोकृत्वं जीवलिङगं। ननु प्राण एवैकधा- भवतीति श्रुतः प्राणशब्दो जीवे कथमित्यत आह ॥ प्राणभृत्त्वाच्े- ६१
Page 473
(8८२) रलप्रभाभासिते [अ० १।पा० ४ षाणां कर्ता स्यात्, कस्मात्, उपक्रमसाम- थ्यात्, इह हि बालाकिरजातशत्रुणा सह "त्र- ह्म ते ब्रवाणि" इति संवदितुमुपचक्रमे, स च क- तिचिदादित्याद्यधिकरणान् पुरुषान् मुख्यब्रह्म- दृष्टिभाज उक्क्ा तृष्णीं वभ्ूव,तमजातशत्रु "मृ- षा वै खलु मा संवदिष्ठा ब्रह्म ते प्रत्रवाणी" त्य- मुख्यब्रह्मवादितयापोद्य तत्कर्तारमन्यं वेदित- व्यतयोपचिक्षेप।यदि सोऽप्यमुख्यब्रह्मदष्टिभा- क् स्यादुपक्रमो बाध्येत, तस्मात् परमेश्वर ए- वायं अवितुमर्हति। कर्तृत्वश्चैतेषां पुरुषाणां न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते। य- स्य वै तत् कर्मेत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः तयोर- न्यतरस्याप्यप्रकृतत्वात् असंशव्दितत्वाच्चाना- पि पुरुषाणां अयं निर्देशः, एतेषां पुरुषाणां कर्ते- ति। सूत्राद्दहिरेव सिद्धान्तयति ॥ एवमिति॥ स च बालाकिर्व्रल्म- त्वभ्रान्त्या व्यष्टिलिङ्गरूपान् पुरुषानुक्का राज्ञा निरस्तस्तूष्णीं स्थितः, तटुक्तं व्रह्म मृषेत्युक्का राज्ञोच्यमानं व्रह्मैवेति वक्तव्यमन्यथा राजोऽपि मृषावादित्वप्रसङ्गादित्याह॥ यदि सोऽपीति॥ वेदितव्योऽपीत्यर्थः। मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङगं प्राणजीवयोस्तन्नियम्यत्वेनास्वात- न्तयादित्याह॥ कतृत्वं चेति ॥ यदुक्तं चलनादृष्टयोर्वाचकः कर्मश- व्दः प्राणजीवयोरुपस्थापक इति तन्नेत्याह॥ यस्येति ॥ अनेका-
Page 474
सू०१६। अ० ५] शाङ्करब्रह्मसूत्रभाष्ये (४८३) त्येवं तेषां निर्दिष्ठत्वात्, लिद्गवचनविगानाच्च। नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तशब्देनैव तयोरुपात्तत्वात्, परिशेषात् प्रत्यक्षसन्निहितं जगत् सर्वनान्नै- तच्छब्देन निर्दिश्यते, क्रियत इति च तदेव जगत्कर्म। ननु जगदप्यकृतमसंशब्दितं च,स- त्यमेतत्, तथाप्यसति विशेषोपादाने साधार- णेनार्थेन सन्निधानेन सन्निहितवस्तुमात्रस्यायं निर्देश इति गम्यते न विशिष्ठस्य कस्यचित्, विशेषसन्निधानाभावात्। पूर्वत्र च जगदेकदे-
र्थकाच्छब्दादन्यतरार्थस्य प्रकरणादुपपदाद्दा ग्रहणं न्याय्यं। अत्र प्र- करणोपपदयोरसच्वात् कस्य ग्रहणमिति संशये पुरुषकर्तृपदसान्नि- ध्यात् क्रियत इति योगाज्गद्गहणमित्यर्थः । एतत्कर्मेतिप्रकतपरा- मर्शात् पुरुषा: पूर्वोक्ता: कर्मशब्देन निर्दिश्यन्तामित्यत आह॥ ना- पीति॥ पौनरुक्त्यापातात् पुरुषाणां नपुंसकैकवचनेन परामर्शायोगा- च्चेत्यर्थः। ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करोत्यर्थ उत्पादनं त- स्य फलं पुरुषजन्म तदन्यतरवाची कर्मशब्दोऽस्त्वित्यत आह॥ना- पीति। कर्तृशब्देनेति॥ क्रियाफलाभ्यां विना कर्तृत्वायोगात् कर्तृ- शब्देनैव तयोर्ग्रहणमित्यर्थः।जगतोऽपि प्रकरणोपपदे न स्त इत्युक्तम- ङ्ीकरोति॥ सत्यमिति॥ प्रकरणादिकं हि सर्वनाम्नः सङ्गोचकं त- स्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते, अत्र च सङ्गोच्- कासच्वात् सर्वार्थकेन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह ॥ तंथापीति ॥ किच जगदेकदेशोक्त्या जगत् प्रक-
Page 475
(8८8) रत्नप्रभाभासिते [अ० १। पा० ४। शभूतानां पुरुषाणां विशेषोपादानादविशेपितं जगदेवेहोपादीयत इति गम्यते। एतदुक्तं क्व- ति, य एतेपां पुरुषाणां जगदेकदेशभूतानां कर्ता किमनेन विशेषेण यस्य वा कृस्त्मेव जगदविशे- पितं कर्मेति। वाशब्द एकदेशावच्छिन्नकर्तत्व- व्यावत्यर्थः। ये बालाकिना ब्रह्मत्वाशिमताः पुरुषा: कीर्तितास्तेषामब्रह्मत्वख्यापनाय विशे- षोपादानं, एवंब्राह्मणपरिवाजकन्यायेन सामा- न्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपढि- श्यते, परमेश्वरश् सर्वजगतः कर्ता सर्ववेदान्ते- ष्ववधारितः ॥१६।। जीवमुख्य प्राणलिङ्ान्नेति चेत्तदया- ख्यातम्॥१७॥ अथ यदुक्तं वाक्यशेषगतात् जीवलिङ्गात् मु- तमित्याह॥ पूर्वत्रेति॥ जगद्रहे पुरुषाणामपि ग्रहात् पृथगुक्तिर्व्य- थेत्यत आह॥ एतदुक्तमिति ॥ स वेदितव्य इति सम्बन्धः। पुरुष- मात्रनिरूपितं कर्तृत्वमिति भ्रान्तिनिरासार्थो वाशव्दः। ब्राह्मणा भो- जयितव्या: परिव्राजकाश्ेत्यत्र यथा ब्राह्मणशब्दः परिव्राजकान्य- विषयः तथात्र कर्मशव्दः पुरुषान्यजगददाचीत्याह॥ एवमिति॥ अ- स्तु जगत्कर्त्ता वेदितव्यः परमेश्वरस्य किमायातमित्यत आह॥ पर- मेश्वरेति ॥ १६॥ सिद्धान्तमुक्क्ता पूर्वपक्षवीजमनूद्य दूपयति ॥ जीवमुख्यप्राणलि-
Page 476
सू० १७१ अ०५] (४८५) र्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणंन्या- य्यं न परमेश्वरस्येति तत्परिहर्तव्यं। अत्रोच्य- ते, परिहतं चैतन्नौपासात्रैविध्यादाश्रितत्वादिह तद्ोगादित्यत्रात्रिविरधं त्यत्रोपासनमेवं सति प्र- सज्येत, जीवोपासनं मुख्यप्राणोपासनं ब्रह्मो- पासनं चेति। न चैतत् न्याय्यं, उपक्रमोपसंहा- शभ्यां हिब्रह्मविषयत्वमस्य वाक्यस्थावगम्य- ते। तत्रोपकमस्य तावत् ब्रह्मविषयत्वं दर्शितं। उपसंहारस्यापि निरतिशयफलश्रवणात् ब्रह्म- विषयत्वं दृश्यते "सर्वान् पाप्मनोऽपहत्य सर्वे- षां च भूतानां श्रैष्ठयं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद" इति। नन्वेवं सति प्रतर्दनवाक्य- निर्णयेनैवेदमपि वाक्यं निर्णीयेत, न निर्णीयते यस्य वैतत् कर्मेत्यस्य ब्रह्मविषयत्वेन तत्रानि- धारितत्वात्, तस्मादत्र जीवमुख्यप्राणशङ्गा पु- नरुत्पद्यमाना निव्त्यते। प्राणशब्दोऽपि ब्रह्म- विषयो दृष्ठः "प्राणबन्धनं हि सोम्य मनः"इ- ङ्ान्नेति चेत्तव्वाख्यातमिति॥ उक्तमेव स्मारयति ॥ त्रिविधमि- ति।श्रैष्टयं गुणाधिक्यं, आधिपत्यं नियन्तृत्वं, स्वाराज्यमनियम्यत्वमि- ति भेदः सम्भवति। एकवाक्यत्वे वाक्यभेदो हि नेष्यत इत्युक्तं चेतू पुनरुक्ति: स्यादिति शङ्कते ॥! नन्वेवमिति॥कर्मशब्दस्य रूढ्या पूर्व- पक्षपामौ तन्निरासार्थमस्यारम्भो युक्त इत्याह ॥नेत्यादिना॥ प्रा-
Page 477
(8८६) रत्नप्रभाभासिते [अ० १।पा० ४। त्यत्र, जीवलिङ्गमप्युपक्रमोपसंहारयोर्बह्मवि- षयत्वादभेदाभिप्रायेण योजयितव्यम्॥१७॥ अन्यार्थ तु जैमिनि: प्रश्नव्याख्याना- न्यामपि चैवमेके॥ १८॥ अपि च नैवात्र विवदितव्यं, जीवप्रधानं वा इदं वाक्यं स्यात् ब्रह्मप्रधानं वेति, यतोऽन्यार्थ जीवपरामर्श ब्रह्मप्रतिपत्यर्थ अस्मिन् वाक्ये जैमिनिराचार्यो मन्यते, कस्मात्, प्रश्नव्या- ख्यानाभ्यां, प्रश्नस्तावत् सुषुप्तपुरुषप्रतिबो- धनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पु- नर्जीवव्यतिरिक्तविषयो दृश्यते, "कैष एतद्ा- लाके पुरुषोऽशयिष्ट क्व वा एतदभूत् कुत एतदा- गादिति।(कौ० ब्रा. अ०४।क० १९) प्रति- णशब्दजीवलिङ्गयोर्गतिमाह॥ प्राणशव्दोऽपीति ॥१७॥ मनो जीवः जीवलिङ्गेन व्रह्मैव लक्ष्यते इत्युक्त्तं, इदानीं तल्लिङ्ेन जीवोक्तिद्वारा म्रंह्म ग्राह्ममित्याह ॥अन्यार्थमिति॥ जीवपरामर्शस्य जीवाधिकरणब्रह्मज्ञानार्थत्वे प्रश्नमाह ॥ क्कैष इति ॥ हे बालाके ए- सच्छयनं विशेषज्ञानाभावरूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट क- स्मिन्नधिकरणे शयनं कृतवानित्यर्थः । एकीभावाश्रयज्ञानार्थ पृच्छति I क वा इति। एतङ्भवनमेकीभावरूपं यथा स्यात्तथा एष पुरुषः क्काभूत्सुपः, केनैक्यं प्राप्तोतीति यावत्। उत्थानापादानं पृच्छति ॥ कुत इति ॥ एतदागमनमैक्यभ्रंशरूपं यथा स्यान्तथा पुरुषः कुत
Page 478
सू० १८।अ०५] शाङ्करब्रह्मसूत्रभाष्ये (8८७) वचनमपि "यदा सुप्ः स्वतं न कञ्चन पश्यत्य- थास्मिन् प्राण एवैकधा भवती"त्यादि, "एत- स्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठु- न्ते प्राणेभ्यो देवा देवेभ्यो लोकाः"इतिच(कौ० ब्रा. अ. ४ क. १९।२०) सुषुप्तिकाले चप- रेण ब्रह्मणा जीव एकतां गच्छति, परस्माच्च ब्र- ह्मण: प्राणादिकं जगजायत इति वेदान्तमर्या- दा। तस्माद्यत्रास्य जीवस्य निःसम्बोधता स्व- च्छतारूप: स्वापः उपाधिजनितविशेषविज्ञान- रहितं स्वरूपं यतस्तद्रंशरूपमागमनं सोऽन्र- परमात्मा वेदितव्यतया श्रावित इति गम्यते। अपि चैवमेके शाखिनो वाजसनेथिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्दे- न जीवमान्नाय तद्यतिरिक्तं परमात्मानमामन-
आगत इत्यर्थः । प्रश्नमुक्का व्याख्यानमाह ॥I प्रतिवचनमिति॥ शयनभवनयोराधारः उत्थानापादानश्च प्राणशब्दितं ब्रह्मैवेत्यर्थः।उ- त्तरे प्राणोक्ते: प्रश्नोऽपि प्राणविषय इत्यत आह। सुषुप्तिकाले चे- ति।। जगद्वेतुत्वजीवैक्याभ्यां प्राणोऽत्र ब्रह्मेत्यर्थः । जीवोक्तेरन्यार्थ - त्वमुपसंहरति ॥ तस्मादिति॥ निःसम्बोधता विशेषधीशून्यता, स्वच्छता विक्षेपमलशून्यता। भेदभ्रान्तिशून्यतास्वरूपमैक्यमाह ॥उपाधीति॥ प्रश्नव्याख्यानयोर्ब्रह्मविषयत्वे शाखान्तरसंवादमाह ॥ अपि चैवमेके शाखिन इति॥ ननु तत्राकाश: सुषुप्तिस्थानमु-
Page 479
(8८८) रत्नप्रभाभासिते [अ० १। पा० ४। न्ति, "य एष विज्ञानमयः पुरुषः क्व व तदभृत कुत एतदागा दिति प्रश्ने प्रतिवचनेऽपि "य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते" इति, आकाशशब्दश्र परमात्मनि प्रयुक्तो "दहरोऽ- स्मिन्नन्तराकाशः"इति,अन्न"सर्व एत आत्मा- नो व्युच्चरन्ती"ति चोपाधिमतामात्मनामन्य- तो व्युच्चरणमामनन्तः परमात्मानमेव कारण- त्वेनामनन्तीति गम्यते। प्राणनिराकरणस्यापि सुपुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपढे- शोऽभयुच्चयः॥१८॥ वाक्यान्वयात् ॥१९ बहदारण्यके मैत्रेयीव्राह्मणेऽभिधीयते "न कं न ब्रह्मेत्यत आह॥ आकाशेति॥ उपाधिद्दारा प्रमान्नात्मजन्म- हेतुत्वाच्चाकाशो व्रह्मेत्याह॥ सर्व इति॥ एवं जीवनिरासार्थकत्वेन सूत्रं व्याख्याय पणनिरासपरत्वेनापि व्याचष्टे। प्राणेति॥ अस्मिन वाक्ये पाणोपदेशं ब्रह्मज्ञानार्थ मन्यते जैमिनिः, उक्तप्रश्नव्याख्याना- भ्यां वाक्यस्य ब्रह्मपरत्वात्। अपि चैके शाखिन: एवमेव प्राणातिरिक जीवात्मानमामनन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोज- ना। अतिरिक्तजीवोपदेशः प्राणनिराकरणस्याप्यभ्युच्चयो हेत्वन्तरमि- ति भाष्यार्थः, तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धं॥१८॥ ॥ वाक्यान्वयात् ॥ विषयवाक्यमाह ॥ बृहदिति ॥ पत्यादेरा- त्मशेषत्वेन प्रियत्वादात्मैव सर्वशेषी पियतमः, अतोऽन्यत्परित्यज्या-
Page 480
(४८९) वा अरे पत्यु: कामाय" इत्युषक्रम्य नवा अ- रेसर्वस्य कामाय सर्वे प्रियं अवत्यात्मनस्तु कामाय सर्व प्रियं भवति आत्मा वा अरे द्रष्ठव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्या- त्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्व विदितम्" इति। तत्रैतद्विचिकित्स्यते किं वि- ज्ञानात्मैवायं द्रष्ठव्यश्रोतव्यव्वादिरुपेणोपदि- श्यते आहोस्वित् परमात्मेति। कुतः पुनरेषा वि- चिकित्सा, प्रियसंसूचितेनात्मना ओोक्त्रोपक्रमा- द्विज्ञानात्मोपदेश इति प्रतिभाति,तथात्मविज्ञा- नेन सर्वविज्ञानोपदेशातू परमात्मोपदेश इति, किं तावत् प्रात्तं विज्ञानात्मोपदेश इति। कसमा- त्, उपकरमसामर्थ्यात्। पतिजायापुत्रवित्तादि- क हि भोग्यभूतं सर्व जगदात्मार्थतया प्रियं भ- वतीति प्रियसंसूचितं भोकारमात्मानमुपक- म्यानन्तरमिदमात्मनो दर्शनायुपदिश्यमार्न क- त्मैव द्रष्टव्यः, दर्शनार्थ श्रवणादिकं कार्यमित्यर्थः॥ प्रियसंसूचितेने- ति। पतिजायादिभिः प्रियैर्भोग्यैजीवतयानुमितेनेत्यर्थः। यथा ब्रह्म ते व्रवाणीत्युपक्रमबलाद्दाक्यस्य बह्मपरत्वं तथान्र जीवोपकमाद- स्य वाक्यस्य जीवपरत्वमिति दृष्टान्तेन पूर्वपक्षयति ॥ किं तावि- ति। पूर्वपक्षे वाक्यस्य जीवोपास्तिपरत्वं सिद्धान्ते ज्ञेये प्रत्यग्ब्रह्मणि समन्वय इति फलं। इंदं प्रत्यक् महदपरिच्छिन्न भूतं सत्यमनन्तं ६२
Page 481
(8९0) रत्नप्रभाभासिते [अ० १। पा०४। स्यान्यस्यात्मनः स्थात्। मध्येऽपीदं "मह- द्रूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूते- भ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ती"ति प्रकृतस्यैव महतो भूतस्य द्र- ष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावे- न ब्रुवन् विज्ञानात्मन एवेद द्रष्टव्यत्वं दर्श यति। तथा "विज्ञातारमरे केन विजानीया- त्"इति कर्तवचनेन शव्देनोपसंहरन् विज्ञाना- त्मानमेवेहोपदिष्टं दर्शवति, तस्मादात्मविज्ञानेन सर्वविज्ञानवचनं भोक्कर्थत्वात् भोग्यजातस्यौप- चारिकं द्रष्टव्यमिति, एवं प्राप्ते ब्रूमः। परमात्मो- पदेश एवायं, कस्मात् वाक्यान्वयात्। वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानं प्रत्य- न्वितावयवं लक्ष्यते कथमिति तदुपपाद्यते, "अ- मृतव्वस्य तु नाशास्ति वित्तेन" इति याज्ञव- ल्क्यादुपश्रुत्य "येनाहं नामृता स्यां किमहं ते- नित्यमपारं सर्वगतश्चिदेकरसं एतेभ्यः कार्यकारणात्मना जायमाने- भ्यो भूतेभ्यः सामान्येनोत्थाय भूतोपाधिकं जन्मानुभूय तान्येव भू- तानि लीयमानान्यनुसृत्य विनश्यति। औपाधिकमरणानन्तरं विशे- षधीर्नास्तीति श्रुत्यर्थः। विज्ञातारं विज्ञानकर्तारं, भोक्तरि ज्ञाते भोग्यं ज्ञातमित्युपचारः। मोक्षसाधनज्ञानगम्यत्वादिलिड्रैर्वाक्यस्यान्वयाद्र- ह्मण्येव तात्पर्यावगमातू ब्रह्मप्रमापकत्वमिति सिद्धान्तयति॥एवमि-
Page 482
सू०१९। अ० ६] शाङ्करब्रह्मसूत्रभाष्ये (४९१) न कुर्या यदेव भगवानू वेद तदेव मे ब्रूहि" इति अमृतत्वमाशासानायै मैत्रेय्यै याज्ञवल्क्य आ- व्मविज्ञानमुपदिशति, न चान्यत्र परमात्मवि- ज्ञानादमृतत्वमस्तीति श्रुतिस्मृतिवादा वदन्ति। तथा चात्मविज्ञानेन सर्वविज्ञानमुच्यमानं ना- न्यत्र परमकारणविज्ञानान्मुख्यमवकल्पते, न चैतदौपचारिकमाश्रयितुं शक्यं, यत्कारणमा- त्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्र- न्थेन तदेवोपपादयति "ब्रह्म तं परादादोऽन्य- त्रात्मनो ब्रह्म वेद" इत्यादिना, यो हि ब्रह्म- क्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्रयेण ल- ब्धसद्गावं पश्यति तं मिथ्यादर्शिनं तदेव मि- थ्यादष्टं ब्रह्मक्षत्रादिकं जगत् पराकरोति इति भेददृष्टिमपोद्े"दं सर्वे यदयमात्मेशति स- र्वस्य वस्तुजातस्यात्माव्यतिरेकमवतारयति। दुन्दुभ्यादिद्ृष्ठान्तैश्र्व तमेवाव्यतिरेकं द्रढयति। ति । वित्तेन तत्साध्येन कर्मणेत्यर्थः । भेदनिन्दापूर्वकमभेद- साधनेनैकविज्ञानात् सर्वविज्ञानस्य समर्थनादौपचारिकत्वं न यु- कमित्याह ॥ नचैतदौपचारिकमित्यादिना ॥ पराकरोति श्रेयो- मार्गाद् भ्रंशयति। यथा दुन्दुभिशङ्गवीणाशब्दसामान्यग्रहणेनैव गृ- हमाणास्तदवान्तरविशेषाः शुक्तिग्रहणग्राह्यरजतवत् सामान्ये क- ल्पितास्ततों न भिदन्ते, एवमात्मभानभास्यं सर्वमात्ममात्रमिति नि- श्रितमित्याह॥ दुन्दुभ्यादीति॥एवमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञा-
Page 483
(४९२) रत्नप्रभाभासिते [अ० १। पा० ४। "अस्य सहतो भूतस्य निःश्वसितमेतद्यद्दग्वे- दः" इत्यादिना च प्रकृतस्यात्मनो नामरू- पकर्भप्रपञ्चकारणतां व्याचक्षाणः परमात्मा- नमेनं गमयति। तथैवैकायनप्रक्रियायामपि सविपयस्य सेन्द्रियस्य सान्तःकरणस्य प्रप- अस्यैकायनमनन्तरमबात्यं कृत्स्ं प्रज्ञानघनं व्याचक्षाण: परमात्मानमेनं गमयति, तस्मात् परमात्मन एवायं दर्शनादुपदेश इति गम्यते ।१९॥।यत्पुनरुक्तं त्रिय संसूचितोपक्रमादिज्ञा- नात्मन एवायं दर्शनाधुपदेश इत्यत्र ब्रूम:।
अस्त्यत्र प्रतिज्ञा "आत्मनि विज्ञाते सर्वमि- दं विज्ञातं भवतीदं सर्व यदयमात्मा" इति च तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्िङ्ं य- त्प्रियसंसूचितस्थात्मनो द्रष्टव्यत्वादिसङ्गीर्तनं। यदिहि विज्ञानात्मा परमात्मनोऽन्यः स्यात्,तः या मुख्यत्वाद्रह्मनिश्रयः। सर्वस्रष्टृत्वलिङ्गदपीत्याह ॥ अस्य महत इति। ऋग्वेदादिक नाम, इष्टं हुतमिति कर्म, अयश्च लोक: परश्षलो- क इति रूपं। किश्व स यथा सर्वासामपां समुद्र एकायनमिति ख- ण्डिकया सर्वप्रपश्चस्य मुख्यलयाधारत्वमात्मनो ब्रह्मत्वे लिङ्गमित्याह ।। तथेवैकायनेति ॥१९॥ जीवव्रह्मणोमेंदाभेदसच्वादभेदांशेनेदं जीवोपक्रमण प्रतिज्ञासाध-
Page 484
सू० २१/अ० ६।] शाङ्करव्रह्मसूत्रभाष्ये (8९३) तः परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञा- त इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं त- द्वीयेत, तस्मात् प्रतिज्ञासिद्चर्थ विज्ञानाव्मपर- मात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आ- चार्यो मन्यते॥२०॥ उत्कमिष्यत एवम्भावादित्यौडु- लोमि:॥२१॥ विज्ञानात्मन एव देहेन्द्रियमनोबुद्दिसङ्घा- तोपाधिसम्पर्कात् कलुषीभूतस्य ज्ञानध्यानादि- साधनानुष्ठानात् सम्प्रसन्नस्य देहादिसङ्घा- तादुक्कमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदे- नोपक्रमणमित्यौडुलोमिराचार्यो मन्यते।श्रु- तिश्रैंवं अवति "एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रुपेणा- भिनिष्पद्यते"इति। क्वचिच्च जीवाश्रयमपि ना- मरूपं नदीनिदर्शनेन ज्ञापयति,
कमित्याश्मरथ्यमतम् ॥२०॥ सत्यसंसारदशायां भेद एव मुक्तावेवाभेद इत्यौडुलोमिमतं। तत्र मानमाह॥ श्रुतिश्रेति॥ समुत्थानमुत्कान्तिः। ननु संसारस्यौपाधि- कत्वात् सर्वदैवाभेद इत्याशङ्न्य दृष्टान्तवलेन संसारस्य स्वाभाविक- त्वमित्याह॥ क्रचिच्चेति॥यथा नयः स्यन्दमाना: समुद्रेऽस्तं गच्छ-
Page 485
(888) रत्नप्रभाभासिते [अ० १पा० ४। "यथा नद्यः स्यन्दमानाः समुद्रे- स्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्दिमुक्त: परात्परं पुरुषमुपैति दिव्यम्"॥ इति॥ यथा लोके नद्यः स्वाश्रयमेव नामरूपं वि- हाय समुद्रमुपयन्ति एवं जीवोऽपि स्वाश्रयमेव नामरूप विहाय परं पुरुषमुपैति इति हि मंत्रा- र्थः प्रतीयते दृष्टान्तदार्ष्ठान्तिकयोस्तुल्यता- यै।। २१॥ अवस्थितेरिति काशकृत्सः ॥२२॥ अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभा- वेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्त आचार्यो मन्यते। तथा च ब्राह्मणं "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याक न्ति नामरूपे विहायेति नदीनिदर्शनं व्याचष्टे॥यथालोक इति॥।२१। सिद्धान्तमाह॥ अवस्थितेरिति॥ अत्यन्ताभेदज्ञापनार्थ जीवमु- पक्रम्य द्रष्टव्यत्वादयो ब्रह्मधर्मा उक्ता इत्यर्थः। एतेन जीवलिङ्गानां ब्रह्मपरत्वकथनार्थमिदमविकरणं न भवति, प्रतर्दनाधिकरणे कथ- तत्वान्नापि जीवानुवादेन ब्रह्मप्रतिपादनार्थ सुषुन्युत्कान्त्योरित्यत्र ग- तत्वातू, अतो व्यर्थमिदमधिकरणमिति निरस्तं जीवोद्देशेन ब्रह्मत्वप्र- तिपादने भदोऽप्यावश्यक इति भेदाभेदशङ्काप्राप्तौ कल्पितभेदेनोद्दे- श्यत्वादिकं स्वतोऽत्यन्ताभेद इति ज्ञापनार्थ अस्यारम्भात्, झ्ञायते. चात्र
Page 486
सू०२२/अ० ६] (४९५) राणी'त्येवंजातीयकं परस्यैवात्मनो जीवभावे- नावस्थानं दर्शयति। मन्त्रवर्णश्र "सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाश्िवदन् यदास्ते" इत्येवंजातीयकः । न च तेजःप्रभृती नां सृष्ठौ जीवस्य पृथक् सृष्टिःश्रुता येन परस्मा- दात्मनोऽन्यस्तद्विकारो जीव: स्यात्। काशकृ- वस्नस्याचार्यस्याविकृत: परमेश्वरो जीवो नान्य इति मतं। आश्मरथ्यस्य तुयद्यपि जीवस्य प- रस्मादनन्यत्वमभिप्रेतं तथापि प्रतिज्ञासिद्देरि- ति स्वापेक्षत्वाभिधानात् कार्यकारणभावः कि- यानप्यभिप्रेत इति गम्यते। औडुलोमिपक्षे पु- नः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते। तन्न काशकृतस्नीयं मतं श्रुत्यनुसारीति गम्यते प्र- तिपिपादयिषितार्थानुसारात् "तत्त्वमसी"त्या-
लिङं आत्मशव्देनोपकान्तस्य जीवस्य धर्मिणो ब्रह्मणो धर्म्यन्तरस्य ग्र- हणं विनैव ब्रह्मधर्मकथनं भेदाभेदे,धर्मिद्दयग्रहः स्यादिति मन्तव्यं। धी- रःसर्वज्ञः। सर्वाणि रूपाणि कार्याणि विचित्य सृष्टा तेषां नामानि च कृत्वा तेषु बुद्ध्यादिषु प्रविश्याभिवदनादिकं कुर्वन् यो वर्तते तं विद्दानि- हैवामृतो भवतीति मन्त्रोऽपि जीवपरयोरैक्यं दर्शयतीत्याह॥मन्त्रेति। जीवस्य ब्रह्मविकारत्वान्नैक्यमित्यत आह॥ न च तेज इति॥ मत- न्रयं विभ्रज्य दर्शयति।काशेत्यादिना ॥ कियानपीति॥अभेदवन्दे- दोऽपीत्यर्थः । तत्रान्त्यस्य मतस्योपादेयत्वमाह॥तत्र काशोति॥सोडयं
Page 487
(४९६) रल्नप्रभाभासिते [अ. १।पा०४। दिश्रुतिभ्यः, एवं च सति तज्ज्ञानादमृतत्वमवक- ल्पते, विकारात्मकत्वे हिजीवस्याम्युपगम्यमा- ने विकारस्य प्रकृतिसम्बन्धे प्रलयप्रसङ्गान्नत- जज्ञानादमृतत्वमवकल्पेत, अतश्र स्वाश्रयस्य नामरपस्यासम्भवात् उपाध्याश्रयनामरूपं जीव उपचर्यते, अत एवोत्पत्तिरपि जीवस्य क्व- चिदग्निविस्फुलिझेदाहरणेन श्राव्यमाणोपा- ध्याश्रयैव वेदितव्या। यदप्युक्तं प्रकृतस्यैव म- हतो भूतस्य द्रष्ठव्यस्य भूतेभ्यः समुत्थानं वि- ज्ञानात्मभावेन दर्शयन् विज्ञानात्मन एवेदं द्र- ष्टव्यत्वं दर्शयतीति, तत्रापीयमेव त्रिसूत्री यो-
देवदत्त इतिवत्तत्वमस्यादिवाक्यभ्यः परापरयोरत्यन्ताभेद: प्रतिपाद- यितुमिष्टोऽर्थः, तदनुसारित्वादित्यर्थः। ज्ञानान्मुक्तिश्रुत्यन्यथानु- पपत्त्याप्ययमेव पक्ष आदेय इत्याह ॥ एवश्चति ॥ अत्यन्ताभेदे संतीत्यर्थः । कल्पितस्य भेदस्य ज्ञानानिनिवृत्तिः सम्भवति न सत्यस्ये- त्यपि द्रष्टव्यं। यदुक्त नदीदृष्ठान्तातू संसारः स्वाभाविक इति तन्नेत्याह॥ अतंश्रेति ॥ अनामरूपव्रह्मत्वाज्जीवस्येत्यर्थः। उत्पत्ति- श्रुत्या जीवस्य ब्रह्मणा भेदाभेदावित्यत आह ॥अतएवेति॥उत्पत्तेः स्वाभाविकत्वे मुक्त्ययोगादेवेत्यर्थः।अत्र पूर्वपक्षे बीजत्रयमुक्तं जीवेनो - पक्रम: परस्यैव समुत्यानश्रुत्या जीवाभेदाभिधानं विज्ञातृशव्दश्रेति। तत्रायं बीजं त्रिसूत्र्या निरस्तं, सम्प्रति द्वितीयमनूदय तथैव निराचष्टे। ॥ यदप्युक्तमित्यादिना।। आत्मज्ञानात् सर्वज्ञानं यत्प्रतिज्ञातं तत्र हे-
Page 488
सू० २२/अ० ६।] शाङ्गरब्रह्मसूत्रभाष्ये (४९७) दमत्र प्रतिज्ञातं "आत्मनि वेदिते सर्वमिद वि- दितं भवतीदं सर्व यदयमात्मा"इति च, उप- पादितं च सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रस- वत्वादेकप्रलयत्वाच्च दुन्दभ्यादिदष्टान्तैश्र् का- र्यकारणयोरव्यतिरेकप्रतिपादनात् तस्याएव प्र- तिज्ञाया: सिद्धिं सूचयत्येतल्ङं यन्महतो भू- तस्य भूतेभ्यः समुत्थानं विज्ञानात्मभ्ावेन क- थितमित्याश्मरथ्य आचार्यो मन्यते। अभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्प- त इति। 'उत्क्रमिष्यत एवम्भावादित्यौडुलो- मिः'। उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्याना- दिसामर्थ्यात् सम्प्रसन्नस्य परेणात्मनैक्यस-
मन्यते। 'अवस्थितेरिति काशकृत्स्ः'। अस्यैव पुरमात्मनोऽनेनापि विज्ञानात्मभावेनावस्था- नादुपपन्नमिदमभेदाभिधानमिति काशकृत्स् आचार्यो मन्यते। ननूच्छेदाभिधानमेतत् 'एते- तुरिदं सर्व यदयमात्मेत्यव्यतिरेक उक्तस्तस्य प्रतिपादनात्तदेव प्रति- ज्ञातसुपपाढितमिति योजना। एकस्मात् प्रसवो यस्य एकस्मिन् प्र- लयो यस्य तन्भावादित्यर्थः। समुत्थानमभदाभिधानमिति यावत्। जन्मनाशावुक्तौ नाभेद इत्याक्षिप्य परिहरति ॥ नन्वित्यादिना॥ मृतस्य संज्ञा नास्तीति वाक्येऽत्रैव मां मोहितवानसि ज्ञानरूपस्यात्म- ६३
Page 489
(४९८) रत्नप्रभाभासिते [अ० १। पा० ४। भ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति' इति कथमेतदभेदाभ्िधानं। नै- ष दोष:, विशेषविज्ञानविनाशाभिप्रायमेतद्वि- नाशाश्तिधानं नात्मोच्छेदाभ्षिप्रायं, अत्रैव "मां भगवानमूमुहन्न प्रेत्य संज्ञास्तीति, पर्यनु- युज्य स्वयमेव श्रुत्याऽर्थान्तरस्य दर्शितत्वात् "न वा अरेऽहं मोहं व्रवीम्यविनाशी वा अरेऽय- मात्मानुच्छित्तिधर्मा मात्रासंसर्गस्वस्य भव- ति" इति। एतदुक्तं भवति कूटस्थनित्य एवा- यं विज्ञानघन आत्मा नास्योच्छेदप्रसङ्गेऽ- स्ति, मात्राभिस्त्वस्य भूतेन्द्रियलक्षणािरवि द्याकृताश्षिरसंसर्गो विद्यया भवति, संसर्गाभा- वे च तत्कृतस्य विशेषविज्ञानस्याभावान्न प्रेत्य- संज्ञास्तीत्युक्तमिति यदप्युक्तं "विज्ञातारमरे
नो ज्ञानाभावे नाशप्रसङ्गदिति मैत्रेय्योक्तो मुनिराह ॥ न वा अरे इति॥ मोहं मोहकरवाक्यं, अविनाशी नाशहेतुशून्यः, अत उच्छि- च्तिधर्मा नाशवान भवतीति अनुच्छित्तिधर्मेत्यर्थः। तृतीयं बीजं तृती येन मतेनैव निरसनीयमित्याह॥ यढपीत्यादिना॥ आयमतदये स- त्यभेदाङ्गनकारात् केनेत्याक्षेपो न युक्त: काशकुत्लस्य मते त्वत्यन्ता- भेदाद्विज्ञानस्य कारकाभावात् स युक्त इति श्रुत्यनुसारित्वात्तन्मते मनः- कल्पितं विज्ञातृत्वं मुक्ते व्रह्मात्मनि भूतपूर्वगत्योक्तमिति परिहरणीय- मित्यर्थः । किश्च पूर्वापरपर्यालोचनया वाक्यस्य मुक्तात्मपरत्वावगमा-
Page 490
सू० २२ अ०६।] शाङ्गरंब्रह्मसूत्रभाष्ये (४९९) केन विजानीयात्" इति कर्तवचनेन शब्देनो- पसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यत्वमिति, त- दपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयं। अपि च “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति" इत्यारभ्याविद्याविषये तस्यैव दर्श- नादिलक्षणं विशेषविज्ञानं प्रपश््य "यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्" इत्यादिना- विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेष विज्ञानस्याभावमशिदधाति। पुनश्र विषया- भावेऽप्यात्मानं विजानीयादित्याशङ्च "वि- ज्ञातारमरे केन विजानीयात्" इत्याह। त- तश्र विशेषविज्ञानाभावोपपादनपरत्वाद्ाक्य- स्य विज्ञानधातुरेव केवलः सन् भूतपूर्व- गत्या कर्तवचनेन तचा निर्दिष्ट इति गम्य- ते। दर्शितं तुपुरस्तात् काशकृत्स्ीयस्य पक्षस्य श्रुतिमत्वं, अतश्र विज्ञानात्मपरमात्मनोरवि-
निमित्तो भेदो न पारमार्थिक इत्येषोऽर्थः स- वैर्वेदान्तवादिभिरम्युपगन्तव्यः, "सदेव सो- तू विज्ञातृत्वं कल्पिक्रमेवानूदते इति न तल्विङ्गेन जीवपरत्वमित्याह। ॥अपि चेति। आर्षेषु पक्षेषु काशकत्लपक्षस्यैवादेयत्वे किं बीजं त- दाह॥ दर्शितमिति॥ अतश्र, श्रुतिमत्वाच्च। पुनरपि श्रुतिस्मृतिम-
Page 491
(५००) रत्नप्रभाभासिते [अ० १। पा० ४। म्येदमग्र आसीदेकमेवाद्वितीयं, आत्मैवेदं स- वै ब्रह्मैवेदं सर्व, इदं सर्व यद्यमात्मा, ना- न्योऽतोस्ति द्रष्टा नान्यतोऽस्ति द्रष्ट इत्येवं- रूपाभ्यः श्रुतिभ्यः, स्मतिभ्यश्र "वासुदेवः सर्वमिति" "क्षेत्रज्ञञ्चापि मां विद्धि सर्वक्षेत्रेषु भारत"।"समं सर्वेषु भूतेपु तिष्ठन्तं परमेश्वरम्"। इत्येवंरूपाभ्यः। भेददर्शनापवादाच्च "अन्योS- सावन्योऽहमस्मीति न सवेद यथापशुः""म- त्यो: स मृत्युमाप्नोति इह नानेव पश्यति" इ- त्येवंजातीयकात्।"स वा एष महानज आत्मा- Sजरोऽमरोऽमृतोऽअयो ब्रह्मे"ति चात्मनि सर्व- विक्रियाप्रतिषेधात्, अन्यथा च मुमुक्षूणां नि- रपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थानुपपत्ते- श्र।निरपवादं हि विज्ञानं सर्वाकाङ्ानिवर्तक- मात्मविषयमिष्यते,"वेदान्तविज्ञानसुनिश्चिता-
चवमाह॥ सदेवेत्यादिना ॥ हेतूनां भेदो न पारमार्थिक इति प्रतिज्ञ- या सम्बन्धः । भेदाभेदपक्षे जीवस्य जन्मादिविकारवच्वात्तन्निषेधो न स्यादित्याह॥ स वा एष इति॥ भेदस्य सत्यत्वे तत्प्मया बाधा- दहं व्र्मेति निर्वावं ज्ञानं न स्यादित्याह॥ अन्यथा चेति॥ अभेद- स्यापि सच्वात् प्रमेत्याशङ््त भेदाभदयोविरोधात् संशयः स्यादित्या- ह। सुनिश्चितेति॥ मास्तु निर्वाधज्ञानमित्यत आह॥ निरपवाद- मिति॥ अहं व्रह्मेत्यवाधितनिश्षयस्थैव शोकादिनिवर्तकत्वमित्वत्र
Page 492
सू०२२/ अ०६1] शाङ्करव्रह्मसूत्रभाष्ये (५८१) र्था" इति च श्रुतेः, "तत्र को मोहः कः शोक एकत्वमनुपश्यतः"इति च स्थितप्रज्ञलक्षणस्मृ- तेश्ष।स्थिते च क्षेत्रज्ञपरमात्मैकत्वविषये सम्य- ग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात् क्षे- त्रज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञा- द्विन्न इत्येवंजातीयक आत्मभेदविषयोऽयं निर्ब- न्धो निरर्थकः। एको व्ययमात्मा नाममान्रभेदे- न बहुधाभिधीयत इति, न हि सत्यं ज्ञानमन- न्तंब्रह्म यो वेदनिहितं गुहायामिति काश्चिदे- वैकां गुहामधिकृत्यैतदुक्त, न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति "तत्सृष्टा तदेवानुप्रावि- शत्" इति स्रष्टुरेव प्रवेशश्रवणात्, ये तुनिर्व- स्मृतिमप्याह॥स्थितेति॥आत्यन्तिकैकत्वे हि प्रज्ञा प्रतिष्ठिता भव- ति न भेदाभेदयोरिति भावः। ननु जीवपरमात्मानौ स्वतो भिन्नौ अ- पर्यायनामवच्वात् स्तम्भकुम्भवदित्यत आह॥ स्थिते चेति॥ कथ तर्हपर्यायनामभेद इत्याशङ्ग्य जीवत्वेश्वरत्वादिनिमित्तभेदादित्याह। एकोहीति। किश्च विद्यातज्जबुद्धिरूपायां गुहायां स्थितो जीवो भव- ति तस्यामेव ब्रह्म निहितमितिश्रुतेः। स्थानैक्याज्जीव एव बह्मेत्याह। न हीति॥काश्चिदेवैकामिति॥। जीवस्थानादन्यामित्यर्थः। नन्वेकस्यां मुहायां हौ किं न स्यातामित्यत आह। न चेति॥ लष्टुरेव प्रवेशेन जीवत्वान्न भेदः। नन्वत्यन्ताभेदे जीवस्य स्पष्टभानात् ब्रह्माप्रि स्पष्टं स्यादतः स्पष्टत्वास्पष्टत्वाभ्यां तयोर्भेंद इति चेन्न दर्पणे प्रतिबिम्बस्य स्फुटत्वेऽपि विम्बस्यास्फुटत्ववत् कल्पितभेदेन विरुद्धधर्मव्यवस्थोपप-
Page 493
(५०२) रत्नप्रभाभासिते [अ० १।पा० ४। न्धं कुर्वन्ति ते वेदान्तार्थ बाधमाना: श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्ते कृतकमनित्ये च मोक्षं कल्पयन्ति न्यायेन च न सङ्गच्छन्त इति ॥ २२॥ प्रकृतिश्र प्रतिज्ञादृष्टान्तानुपरोधा- त्॥ २३ ॥ यथाभ्युदयहेतुत्वात् धर्मो जिज्ञास्य एवं निः श्रेयसहेतुत्वाद्ह्मापि जिज्ञास्यमित्युक्तं, ब्रह्म च जन्माद्यस्य यत इति लक्षितं। तञ् लक्षणं घ- टरुचकादीनां मृत्सुवर्णादिवत् प्रकृतितवे कुला-
त्तेः। सत्यभेदे येपामाग्रहस्तेषां दोषमाह॥ये त्विति॥ सोऽयितिव- त्तत्वमसीत्यकार्यकारणद्रव्यसामानाधिकरण्यादत्यन्ताभेदो वेदान्ता- र्थस्तद्वोध एव निश्रेयससाधनं तस्य वाधो न युक्त इत्यर्थः। किश्च भेदाभे- दवादिनो ज्ञानकर्मभ्यां कृतकं मोक्षं कल्पयन्ति, तत्रानित्यत्वं दोषः। यत्तु कृतकमपि नित्यमिति तच्व यत् क्रियासाध्यं तदनित्यमिति न्याय- बाधितं।अस्माकन्त्वनर्थध्वंसस्य ज्ञानसाध्यत्वान्नित्यमुक्तात्ममात्रत्वा- ञ्च नानित्यत्वदोष इति भाव:, तस्मान्मैत्रैयीव्राह्मणं प्रत्यग्व्रह्मण स- मन्वितमिति सिद्दम्।।२२।। प्रकृतिश्र प्रतिज्ञा-II लक्षणसूत्रेणास्य सङ्गातं वक्तुं वृत्तं स्मारयति। यथेति॥ तत्र हि ब्रह्मणो बुद्धिस्थत्वार्थ सामान्यतो जगत्कारणत्वं लक्षणमुक्तं तेने बुद्दिस्थे व्रह्मणि कत्लवेदान्तसमन्वयं प्रतिपाद्य तत्का- रणत्वं किं कर्तृत्वमात्रमुत प्रकतित्वकर्तृत्वोभयरूपमिति विशेषजि- ज्ञासायामिदमारभ्यते, तथा च सामान्यज्ञानस्य विशेषचिन्ताहेतु-
Page 494
सू०२३/ अ०६।] शाङ्करब्रह्मसूत्रभाष्ये (५०३) लसुवर्णकारादिवन्निमित्तव्वे च समानं इत्यतो कवति विमर्श: किमात्मकं पुनर्ब्रह्मण: कारणत्वं स्यादिति। तत्र निमित्तकारणमेव तावत् केव- लं स्यादिति प्रतिभाति, कस्मात्, ईक्षापूर्वकक- र्तृत्वश्रवणात्। ईक्षापूर्वकं हिब्रह्मणः कर्तत्वम- वगम्यते "स ईक्षाञ्चक्रे" "स प्राणमसृजत" इत्यादिश्रुतिभ्यः । ईक्षापूर्वकं च कर्तृत्वं निमि- त्तकारणेष्वेव कुलालादिषु दष्ट, अनेककारकपू- र्विका च क्रियाफलसिद्धिलोंके टष्ठा। स च न्या- य आदिकर्तर्यपि युक्त: संक्रमयितुं। ईश्वरत्वप्र- सिद्देश्र ईश्वराणां हि राजवैवस्वतादीनां निमि- त्तकारणत्वमेव केवलं प्रतीयते तद्वत् परमेश्वर- त्वात्तेनास्य सङ्गतिः। यवपि तदानन्तर्यमस्य युक्तं तथापि निश्चित- तात्परयैर्वेदान्तैः कर्तृमात्रेश्वरमतनिरासः सुकर इति समन्वयान्ते इदं
र्व्र सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्दाक्यस्य जीवपरत्वं निरस्तं तदयुक्तं कर्त्रुपादानयोर्भेदेन प्रतिज्ञाया गौणत्वादित्याक्षिपति॥ तत्र निमि- नेत्याढिना ॥I पूर्वोत्तरपक्षयोद्वैताह्वैतसिद्धि: फलं॥ ईक्षापूर्वकेति।। ईक्षणाश्रुत्या कर्तृत्वं निश्चितं, तथा च ब्रह्म न प्रकतिः कर्तृ- त्वातू, यो यत्कर्ता स तत्प्ररतिर्न यथा घठकर्ता कुलाल इत्यर्थः। जगत् भिन्नकर्ुपादानकं कार्यत्वात् घटवदित्याह ॥ अनेकेति॥ब्रह्म नोपादानमीश्वरत्वात् राजादिवदित्याह ॥ ईश्वरत्वेति॥ जगन ब्रह्म- प्रकृतिकं तहिलक्षणत्वात्, यदित्थं तत्तथा कुलालविलक्षणघटवदि-
Page 495
(५०४) रत्नप्रभाभासिते [अ० १। पा० ४। स्थापि निमित्तकारणत्वमेव युक्तंप्रतिपतुं। का- र्यञ्चेद जगत्सावयवमचेतनमशुद्धं च दश्यते, कारणेनापि तस्य तादृशेनैव भवितव्यं। कार्य- कारणयोः सारूप्यदर्शनात् ब्रह्म चनैवंलक्ष- णमवगम्यते। "निष्कलं निष्क्रियं शान्तं नि- रवद्यं निरअ्नम्" इत्यादिश्रुतिभ्यः । पारि-
णकं स्मृतिप्रसिद्धमभ्युपगन्तव्यं ब्रह्मकारण- त्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादिति, एवं प्रा- से ब्रूमः । प्रकृतिश्र उपादानकारणं च ब्रह्मा- भ्युपगन्तव्ये निमित्तकारणं च न केवलं निमित्त- कारणमेव, कस्मात्,प्रतिज्ञादृष्ठान्तानुपरोधात्, एवं हि प्रतिज्ञादष्ठान्तौ श्रौतौ नोपरुध्येते।प्र- तिज्ञा तावत्"उत तमादेशमप्राक्षो येनाश्रुतं श्रु तं अवत्यमतं मतमविज्ञातं विज्ञातम्" इति, तत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि वि- त्याह॥ कार्यश्चेति॥ निष्कलं निरवयवं, निष्क्रियमचलं, शान्तमप- रिणामि, निरवयं निरस्तसमस्तदोषं, तत्र हेतुः॥ निरनस्रमिति॥ अज्जनतुल्यतमःशून्यमित्यर्थः, तर्हि जगतः सदशोपादानं किमित्यत आह।। पारिशेष्यादिति॥ ब्रह्मनिषेधे प्रधानं परिशिष्यत इत्यभि- मन्यमान: सिद्धान्तयति॥प्रकृतिश्चेति॥ चकारान्निमित्तत्वग्रहः।एव- सुभयरूपे कारणत्वे तयोरवाधो भवतीत्याह ॥ एवमिति॥ कर्तृ
Page 496
सू०२३/अ०७]. शाङ्करब्रह्मसूत्रभाष्ये (५०५) ज्ञातंभवतीति प्रतीयते,तच्चोपादानकारणविज्ञा- ने सर्वविज्ञानं सम्भवति उपादानकारणाव्यतिरे- कात् कार्यस्य,निमित्तकारणाव्यतिरेकस्तु कार्य- स्यनास्ति, लोके तक्ष्ण: प्रासादव्यतिरेकदर्शनात्। दृष्टान्तोऽपि "यथासोन्यैकेन मृत्पिण्डेन सर्व मृ- न्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधे- यं मृत्तिकेत्येव सत्यम्" इत्युपादानकारणगो- चर एवाम्नायते, तथै "केन लोहमणिना सर्व लो- हमयं विज्ञातं स्यादेकेन नखनिकृन्तनेन सर्व कार्ष्णायसं विज्ञातं स्था'दिति च। तथान्यत्रा- पि "कस्मित्नु भगवो विज्ञाते सर्वमिदं विज्ञातं अवति" इति प्रतिज्ञा, यथा पृथिव्यामोषधयः सम्भवन्तीति द्ष्टान्तः, तथा "आत्मनि खल्व- ज्ञानादपि सर्वकार्यज्ञानं कि न स्यादित्यत आह। निमित्तकारणा- व्यतिरेकस्त्विति ॥ मृदादीनासुपादानानां दष्टान्तत्वाद्दार्ष्टान्तिकस्य ब्रह्मण उपादानत्वं वाच्यमित्याह।दष्टान्तोपीति॥वागारभ्यं नाम- मात्रं विकारो न वस्तुतोऽस्तीति सत्यकारणज्ञानाद्दिकारज्ञानं युक्तमि- त्यर्थः। गतिसामान्यार्थ मुण्डकेऽपि प्रतिज्ञादष्टान्तावाह । तथान्य-
गतस्फुरणं प्रकृतिस्तदतिरेकेण विकारा न सन्तीति सोडयमर्थो यथा सफुट: स्यातू यथा दष्टान्तः स उच्यते। हन्यमानदुन्दुभिजन्याच्छब्द- सामान्याद्वाहयान् विशेषशव्दान् सामान्यग्रहणातिरेकेण पृथक् ग्रहीतुं श्रोता न शक्कुयात्, सामान्यस्य सुग्रहणेन दुन्दुभ्याघातः शब्दविशेषो ६४
Page 497
(५०६) रत्नप्रभाभासिते [अ० १। पा०8। रे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्" इ. ति प्रतिज्ञा, "स यथा दुन्दुभेर्हन्यमानस्यन बा- व्ययान् शब्दान् शक्रुयात् ग्रहणाय दुन्दुभेस्तुग्र- हणेन दुन्दुभ्याघातस्य वा शब्दो गहीतः इति दष्टान्तःएवंयथासम्भवं प्रतिवेदान्तं प्रतिज्ञाृष्टा- न्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ।यतइतीयमपि पञ्चमी"यतो वा इमानि भूतानिजायन्ते"इत्यत्र "जनिकर्तुः प्रकृतिः"(१।४।३)इति विशेषस्म- रणात् प्रकृतिलक्षण एवापादाने द्रष्टव्या, निमि-
हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलाल- सुवर्णकारादीनधिष्टातृनपेक्ष्य प्रवर्तते, नैवंब्रह्म- ण उपादानकारणस्य स्वतोऽन्योऽधिष्ठातापे- क्ष्योऽस्ति, पागुत्यत्तेरेकमेवाद्दितीयमित्यवधार- गृहीतो भवति, तस्य वा ग्रहणेन तदवान्तरविशेषशब्दो गृहींतो भवति, अतः शब्दसामान्यग्रहणग्राहा विशेषाः सामान्ये कल्पिताः तद्ददात्मभानभास्यघटादय आत्मनि कल्पिता इत्यर्थः । प्रतिज्ञा- दृष्टान्तानुपरोधाल्लिङ्ाद्रह्मणः प्रकुतित्वमुक्का पश्चमीश्रुत्याप्याह। यत इति। यतो वा इत्यत्र श्रुतौ यत इति पश्चमी प्रकतौ द्रष्टव्येत्य- न्वयः।जनिकर्तुः। जायमानस्य कार्यस्य प्रकतिरपादानसंज्ञिका भवती- ति सूत्रार्थ:। संज्ञायाः फलं"अपादाने पश्चमी"[पा० २।३।२८]इतिसू त्रातू प्रकतौ पश्चमीलाभः। एवं ब्रह्मणः प्रकतित्वं प्रसाध्य कर्तृत्वं सा-
Page 498
सू० २५। अ० ७] शाङ्करब्रह्मसूत्रभाष्ये (५०७) णात्, अधिष्टात्रन्तराभावोऽपि प्रतिज्ञाटष्टा- न्तानुपरोधादेवोदितो वेदितव्यः । अधिष्ठातरि हुपादानादन्यस्मिन्नभ्युपगम्यमाने पुनर- व्येकविज्ञानेन सर्वविज्ञानस्यासम्भवात् प्रति- ज्ञादृष्टान्तोपरोध एव स्यात्, तस्मादघिष्ठात्र- न्तराकावादात्मनः कर्तृत्वमुपादानान्तराभावा-
तित्वे।। च्च प्रकृतित्वम्॥। २३॥। कुतश्र्ात्मनःकर्तृत्वप्रकृ-
अभिध्योपदेशाच्॥ २४॥
मयति "सोडकामयत बहु स्यां प्रजायेय"इति "तदैक्षत बहु स्यां प्रजायेय" इति च। तत्रा भिध्यानपूर्विकाया: स्वातन्त्र्यप्त्तेः कर्तेति गम्यते बहुस्यामिति प्रत्यगात्मविषयत्वात् ब- हुभवनाभिध्यानस्य प्रकृतिरित्यपि गम्यते॥२४॥ साक्षाच्ोभयान्नानात्॥ २५॥ प्रकृतित्वस्थायमभ्युच्चयः इतश्र प्रकृतिर्व्र- दिवदित्याद्यनुमानानामागमवाधमाह॥ प्रागुत्पत्तेरिति ॥ जगत्कर्तृ- ब्रह्मैवेत्यत्रापि सूत्रं योजयति॥ अधिष्ठात्रन्तरेति ॥२३॥ एकस्योभयरूपप्रकरणत्वमविरुद्धमिति सूत्रचतुष्टयेन साधयति। ॥ कुतश्रेत्यादिना ॥अभभिध्या सृष्टिसङ्कल्पः ॥ २४॥
Page 499
. (५०८) रत्नप्रभाभासिते [अ०१।पा०४। ह्रा यत्कारणं साक्षाह्ह्वैव कारणमुपाढायोक्षौ प्र- भवप्रलयायान्नायेते"सर्वाणि ह वा इमानि भू- तान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्त यन्ति" इति। यद्वि यस्मात् प्रभवति यस्मिंश्र- प्रलीयते तत् तस्योपादानं प्रसिद्धं, यथा व्रीहि- यवादीनां पृथिवी। साक्षादिति चोपादानान्त- रानुपादानं दर्शयत्याकाशादेवेति। प्रत्यस्तमय- श्र नोपादानादन्यत्र कार्यस्य दष्टः ॥२५॥ आत्मकवृतेः परिणामात्॥२६॥ इतश्र प्रकृतिर्ब्रह्म यत्कारणं ब्रह्मप्रक्रियायां "तदात्मानं स्वयमकुरुत" इति आत्मनः कर्म- त्वं कर्तृत्वं च दर्शयति, आत्मानमिति कर्मत्वं स्व- यमकुरुतेति कर्तत्वं। कथं पुनः पूर्वसिद्धस्य सतः कर्तृव्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं स- म्पादयितुं, परिणामादिति ब्रूम:, पूर्वसिद्धोऽपिहि सन्नात्मा विशेषेण विकारात्मना परिणमयामा- अभ्युच्चयो हेत्वन्तरं।आकाशादेवेत्येवकारसूचित मुपादानान्तरा- नुपादानग्रहणं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना॥ २५॥ आत्मसम्बन्धिनी कृतिः आत्मकतिः, सम्घन्धश्रात्मनः कति प्रति विषयत्वमाश्रयत्वञ्च। ननु कृतेराश्रयः सिद्धो भवति विषयस्तु साध्यः एकस्योभयं विरुद्धमित्याशङकते॥ कथं पुनरिति॥ यथा मृदः साध्य- परिणामाभेदेन रुतिविप्रयत्वं तद्ददात्मन इत्याह॥ परिणामादिति॥
Page 500
सू०२७|अ०७] (५०९) सात्मानमिति। विकारात्मना च परिणामो मृ- दाद्यासु प्रकृतिषूपलब्धः, स्वयमिति च विशेष- णात् निमित्तान्तरानपेक्षत्वमपि प्रतीयते। परि- णामादिति वा पृथक्सूत्रं, तस्यैषोऽर्थः। इतश् प्रकृतिर्व्रह्म यत्कारणं ब्रह्मण एव विकासत्मना- यं परिणामः सामानाधिकरण्येनास्नायते "सच्च
योनिश् हि गीयते॥ २७॥ इतश्र प्रकृतिर्व्रह्म यत्कारणं ब्रह्मयोनिरित्यपि पठ्यते, वेदान्तेषु "कर्तारमीशं पुरुषं ब्रह्मयोनि- मू" इति "यद्रूतयोनिं परिपश्यन्ति धीराः इति
आत्मानमित्यविरोध इति शेषः। सिद्धस्यापि साध्यत्वे दृष्टान्तमाह। ॥ विकारात्मनेति॥ ननु ब्रह्मणा आत्मानमिति द्वितीयया कार्यात्म- ना साध्यत्वश्रुत्याऽस्तु प्रकतित्वं कर्ता त्वन्योऽस्त्वित्यत त्याह॥स्वय- मिति।।चेति॥ ब्रह्मणः रुतिकर्मत्वोपपादनार्थ परिणामादिति पदं व्या- ख्यायान्यथापि व्याचष्टे। पृथक् सूत्रमिति ॥ मृद्ट इतिवद्रह्म स- च्च त्यच्चेति परिणामसामानाधिकरण्यश्रुतेः ब्रह्मणः प्ररुतित्वमित्यर्थः सत्प्रत्यक्षं भूतत्रयं, त्यत्परोक्षं भूतद्दयं, निरुक्तं वक्तुं शक्यं घटादि,अनि रुक्तं वक्कुमशक्यं कपोतरूपादिकं च ब्रह्मैवाभवदित्यर्थः॥ २६॥ अत्र सूत्रे परिणामशब्दः कार्यमात्रपरः न तु सत्यकार्यात्मकपरि- णामपरः तदनन्यत्वमिति विवर्तवादस्य वक्ष्यमाणत्वात् योनिशब्दाच्च प्रकुतित्वमित्याह ॥ योनिश्वेति॥ कतारं क्रियाशक्तिमन्तं, ईशं निय-
Page 501
(५१०) रत्नप्रभाभासिते [अ०१।पा० ४। च। योनिशब्दश् प्रकृतिवचनः सभधिगतो लोके पृथिवीयोनिरोपधिवनस्पतीनामिति।खीयोनेर- व्यस्त्येवावयवद्वारेण गर्भ प्रत्युपादानकारण- त्वं। क्वचित् स्थानवचनोऽपि योनिशब्दो दष्टः, "योनिष्ठ इन्द्र निषदे अकारी"ति वाक्यशेषात्, तत्र प्रकृतिवचनता परिग्ृत्यते"यथोर्णनाशिःसृ- जते गृण्हते च" इत्येवंजातीयकात्। तदेवं प्रक- तित्वं ब्रह्मण: प्रसिद्वं। यत्पुनरिदमुक्तं ईक्षापू- र्वककर्तृत्वं निमित्तकारणेप्वेव कुलालादिपु लोके ष्टं नोपादानेष्वित्यादि तत्प्रत्युच्यते,न लोकवदिह भवितव्यं, न व्ययमनुमानगम्योऽ- र्थः 'शव्दगम्यत्वात्वस्यार्थस्य यथाशव्दमिह भवितव्यं' शव्दश्रेक्षितुरीश्वरस्य प्रकृतित्वं प्र- न्तारं, पुरुपं प्रत्यक्षं,बह्म पूर्ण, योनिं प्रकति, धीरा ध्यानेन पश्यन्तीत्य- र्थः। नन्वनुपादनऽपि स्त्रीयोनौ योनिशब्दो दृष्ट इत्यत आह॥ स्त्री- योनेरिति।। शोणितमवयवशब्दार्थः। योनिशव्दस्य स्थानमप्यर्थों भ्रवति सोडत्र भूतयोन्यादिशव्दैर्न ग्राह्यः, ऊर्णनाभ्यादिप्ररुतदृष्टान्तवाक्यशेप विरोधादित्याह॥ क्वचिदिति॥ हे इन्द्र ते तव निषदे उपवेशनाय योनि: स्थानं मया अकारि कतमित्यर्थः। पूर्वपक्षोक्तानुमानानि अनू- वयागमबाधमाह॥ यत्पुनरित्यादिना॥ नन्वनुमानस्य श्रुत्यनपेक्ष- .. त्वान्न तया वाध इत्यत आह॥ न हीति॥ जगत्कर्ता पक्षः श्रुत्यैव सिद्धयति, या कृतिःसा शरीर जन्येति व्याप्तिविरोधेन नित्यकतिमतोS- नुमानासम्भवादतः श्रौतमीश्वरं पक्षीकत्यानुपादानत्वसाधने भवत्ये-
Page 502
सू०२८।अ०ट] शाङ्करव्रह्म सूत्रभाष्ये (५११) तिपादयतीत्यवोचाम, पुनश्र्वैतत्सर्वं विस्तरेण प्रतिपादयिष्यामः॥२७॥ एतेन सर्वे व्याख्याताव्याख्या- ताः ॥२८ । ईक्षतेर्नाशब्दमित्यारम्य प्रधानकारणवादः सूत्रैरेव पुनःपुनराशङ््य निराकृतः, तस्य हि पक्षस्योपोद्वलकानि कानिचि्िद्भासानि वे- दान्तेष्वापातेन मन्दमतीन प्रतिभान्तीति। स च कार्यकरणानन्यत्वाभ्युपगमात् प्रत्यासन्नो वे- दान्तवादस्य देवलप्रभृतििश्र कैश्चिदर्मसूत्र- कारैः स्वग्रन्थेष्वाश्रितः तेन तत्प्रतिषेधे एव य- तोऽतीव कृतो नाण्वादिकारणवादप्रतिषेधे। ते- डपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात् प्र- प्रतिषेद्दव्याः, तेषामप्युपोद्दलकं वैदिकं किथ्चि- वोपजीव्यया प्रकृतित्वबोधकश्रुत्या बाध इत्यर्थः। यदुक्तं विलक्षणत्वा- द्रह्मणो न जगदुपादानत्वमिति तत्राह॥ पुनश्रेति॥ नविलक्षणत्वा- दित्यारभ्येत्यर्थः । अत उभयरूपं कारणत्वं ब्रह्मणो लक्षणमिति सिद्धम् ॥ २७॥ एतेन सर्वे व्याख्याताः॥ अस्यातिदेशाधिकरणस्य तात्पर्य व- कुं वृत्तमनुवदति ॥ ईक्षतेरिति॥ प्रधानवादस्य प्राधान्येन निराकरणे हेतुमाह॥ तस्य हीत्यादिना॥ तर्हण्वादिवादा उपेक्षणीया दुर्बल- त्वादित्यतआह।तेऽपि त्विंति। निर्मूलास्ते कथं प्रतिज्ञा इत्यत आह
Page 503
(५१२) रत्नप्रभाभासिते [अ. १।पा.४।] ल्िङ्गमापातेन मन्दमतीन् प्रतिभायादिति, अ- तः प्रधानमल्लनिवर्हणन्यायेनातिदिशति, एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेs- ण्वाढिकारणवाढ़ा अपि प्रतिपिद्धतया व्याख्या- ता वेदितव्याः। तेषामपि प्रधानवदशब्दत्वा- चव्दविरोधित्वाच्चेति। व्याख्याताव्याख्याता इति पदाभ्यासोऽव्यायपरिसमाप्तिं द्योतयति २९। इति श्रीमच्छारीरकमीमांसाभाव्ये श्रीमद्गो
प्रथमाध्यायस्य चतुर्थः पादः समाप्तः॥ तेषामिति।तथा हि छान्दोग्ये जगत्कारणत्वज्ञापनार्थ पिता पुत्रमुवाच आसां वटधानानां मध्ये एकां भिन्धीति भिन्ना भगव इत्युवाच पुत्रः पुनः पित्रा किमत्र पश्यसीत्युक्ते न किञ्चन भगव इत्याह तत्र पित्राऽणि- मानं न पश्यसीत्युक्तं,तथा चन किश्चन शव्दाच्छून्यस्वभाववादौ प्रती- येते, अणुशव्दात् परमाणुवाद इति, एवमसदेवेदमग्र आसीदणो- रणीयानित्यादि लिङं द्रष्टव्यं। अत्राण्वाढ़िवादाः श्रौता न वेति सं- शये सत्यसदण्वादिशब्दबलाच्छौता इति प्राप्तेSतिदिशति॥एतेनेति॥ अस्यातिदेशत्वान्न पृथक् सङ्गत्यायपेक्षा न किश्चनासच्छव्दयोः प्रत्य- क्षायोग्यवस्तुपरत्वादणुशव्दस्य सूक्ष्माभिप्रायत्वादशव्दत्वं, तेषां वा- दानां प्रधानवादवदश्रौतत्वं, ब्रह्मकारणश्रुतिवाधितत्वश्च, तरमाद्रलैव परमकारणं, तस्मिन्नेव सर्वेषां वेदान्तानां समन्वय इति सिद्दं ॥२८॥ इति श्रीमत्परमहंसपरित्राजकाचार्य श्रीगोविन्दानन्द-भगवत्पादकृतौ सारीरकमीमां- साव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य चतुर्थः पादः ॥ अव्यायय समाप्ः॥