1. Vivarana Upanyasa Ramananda Saraswati Ed. Damodra Sastri Sahasra Buddhe Part 1 Chowkambha
Page 1
UNIVEHSITY F TORONTO 3 1761 00665633 4
B 132 V3R33 1901
Page 3
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS: EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE,
UNDER THE SUPERINTENDENCE OF
R. T. H. GRIFFITH, M. A., C. I. E. AND G. THIBAUT, PH. D. No. 55.
विवरगोप्रन्यास: श्रीरामानन्दसरस्वतीविरचितः ।
VIVARAŅOPANYÂSA,
A Treatise on Vedanta Philosophy, BY ŚRÎ RÂMÂNANDA SARASVATÍ. EL_TED BY
ANDIT DÁMODARA SÁSTRÍ SAHASRABUDDHE,
OF THE GOVT. SANSKRIT COLLEGE, BENARES.
FASCICULUS I.
BENARES.
LISHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & Co AND SOLD BY H. D. GUPTA, SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPOT.
R'ND BY FREEMAN & CO., LTD., AT TUR TARA PRINTING WORKS, BENARES.
1900, LIBRARY DEC 21 1965
OF FUMONTU
Page 4
BEX
COLLE
PANDIT
R
PANDIT
PUBLIAE
Page 5
BENARES SANSKRIT SERIES; 16 A COLLECTION OF SANSKRIT WORKS: EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE,
UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., C. I. E. AND G. THIBAUT, PH. D. Nos. 55. & 56.
विवरगोपन्यास: विवरणतात्पर्यव्याख्यानरूपः । अपि च सटीका वाक्यसुधा। VIVARANOPANYÂSA,
A COMMENTARY ON VIVARANATÂTPARYA
( A Treatise on Vedanta Philosophy ) BY ŚRÎ RÂMÂNANDA SARASVATÎ : ALSO VÂKYASUDHÂ BY ŚRÎ ŚANKARÂCHÂRYA, WITH A COMMENTARY BY ŚRÎ BRAHMÂNANDA BHÂRATÍ. EDITED BY PANDIT DÁMODARA ŚÁSTRÍ SAHASRABUDDHE, OF THE GOVT. SANSKRIT COLLEGE, BENARES.
BENARES. PUBLISHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & Co. AND SOLD BY H.D. GUPTA, SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPOI. .
PRINTED BY FREEMAN & Co., LTD., AT THE TARA PRINTING WORKS, BENARES.
- (ALL RIGHTS RESERVED) REGISTERED UNDER ACT XXV. OF 1867,
Page 6
6 /32 V3R33
LIBRARY MAR 8 1966
Page 7
।। श्रीः ।। विवरगोपन्यासभूमिका। +S -*- S+ अयं किल वेदान्तप्रमेयागाधविषयविवरणस्वरूपस्य विवरण- भिधानस्य ग्रन्थरत्नस्याप्रौढवेदान्तव्युत्पत्तीनां दुर्बोधत्वं विचार्य क- रुणासान्द्रान्त:करणैस्तत्रभवद्भिः श्रीमद्रामानन्दसरस्वतीयतीन्द्रपा- देस्तत्तात्पर्यव्याख्यानरूपो विवरणोपन्यासाभिधो ग्रन्थो निरमायि। अयं च यतीन्द्रः कदा कतमं देशमलश्चकारेत्यच न किश्चिद्वि- श्वसनीयं प्रमाणमुपलभ्यत इति व्यर्थ एव तद्विपये निर्मूलानु- मानप्रयास: । सोडयं ग्रन्थो वेदान्तशास्त्ररसिकानां विद्वद्वराणां मनोविनोदाय भवत्विति तत्प्रकाशने सोत्कण्ठी Sहं प्राचीनानां द्वित्राणां पुस्तकानां साहाय्येन यथामति तच्छेधनमकरवम् । न्यवेशयं च तत्र तत्राव- शिष्टानामशुद्धीनां शुद्धिपत्रम। तदेवं सपरिश्रमं कृतशोधने उप्यत्र यदि मद्ुद्धेरपाटवेन, सीसकाक्षयोजकादीनां वा प्रमादेन काश्चनाशुद्धय उपलभ्येनू, तद्गणैकपक्षपातिनो विपश्चिदपश्चिमा मर्षयिष्यन्त्यवेति निश्चितमाशासे अन्ते चास्मिन् यथावकाशं तत्र तत्र स्थलेषु शोधनकार्ये कृतसाहाय्यरस्मत्सुहृद्वरैः काशिक राजकीय प्रधानपाठालयाध्यापकै- स्तैलङ्गरामशास्त्रिभिर्हूपकृतोऽस्मीति तेभ्यः परःशतं धन्यवादान् वितरन् विरमाम्यस्माद्विस्तरादिति शिवम्।
पी० शु० ११ सांमे काश्याम्। दामोदरशास्त्री
Page 8
शुद्धिपत्रम् ।
पृ० पं०अशुद्धम शुद्धम पृ० पं०अशुद्धम शुद्धम १ ७ त भिन्दन् भिन्दन् ९२ ८ आनन्तर्यविधि आनन्तर्यावधि १ ८ वन्द सर्वव० तं वन्दें सब० ९९ २४ तथा च तथाचाड-
२ ८ प्रारिप्सित दु० प्रारिप्सित प्रनि- १०१ १८ स्फुस्णं म्फुरणं बन्कदुरि० १०२ ८ श्रवणाविधिः, श्रणविधि: ४ १८ सत्यवादि० सत्यत्वादि० १०४ ३० बहूत्स्या डत्रा ब हृत्स्या यत्राना ५ १ प्रायच्छविति० प्रायच्छमि० १०६ २८ बाढिन: वादिन: ८१ ज्ञानान्निवत्त ज्ञानान्निवर्तेरन् ममेता ८ ४ प्यवृत्तित्वो० १०८ ६ भमता व्यव्याप्यवृ० १०८ २२ अन्यातना शून्यान्तना १२ २७ प्रत्यक्षवादि० क्षत्व वाहितोऽपि० ११२ १३ दुःखभि दुःखाभि
१८ ३० अथ सिद्धान्त० अपसिद्धान्त० ११२ २६ सत्रयता मत्रकृता
२१ ८ पमृष्ट० प्रमुष्ट ११३ २८ ब्रह्मत्वस्यानु ब्रह्मत्वज्ञानानु
४३ २३ तत्र ११६ १७ नपमरद नुपमर्दे तन्न ४४ १५ घटस्यैव घटस्येव ११६ २० हयान हमावयव
४८ २८ शक्त्तस्येव शक्तस्यैव ११८ ३२ तत्तू स तनुस
५१ २३ प्रत्यक्षनष्पव्ल्या० प्रत्यक्षनल्या० १११ ८ ज्ञाने ध ज्ञाते ध
५२ २५ स्वर्व सर्व १२१ २१ अचेतनया अचेतनतया
५३ ११ नत्वियं नत्वयं १२७ १६ वेदात्ता: वदान्ताः
५५ १३ वात्तान वाज्ञान १२८ १८ कर्णषष्कुल्या कर्णशष्कुल्या
५६ ५ नथहतो: नर्थहेतोः १२८ २० पाघिकन्तु पाधिके तु
५६ १५ बम्हभिन्ना ब्रह्माभिन्ना १२८ २१ नन्त्यशब्दा: नन्तशबा:
५७ २० शेषे नि शेषेण नि १३१ १६ संसर्गोडनु संसर्गानु
५८ १२ एवं प्रमा एवमप्राम १३६ १२ दिष्टासिद्धि:० दिष्टसिद्धि:
६० १४ मूलविद्या मूलाविद्या १३७ ८ श्रुतरशरीर श्रुतेरश०
६५ ४ ऐन्द्रति ऐन्द्रोति १४४ ३० मवे मव
६५ २२ साद्यस्के साद्यस्क १४५ १७ दज्ञयति दर्शयति
६९ ३२ योगदर्शन० योगादर्शन १४५ २४ येदय इ वेद्य इ
७० १९ लाकिकात्मना: लौकिकात्मनो: १४८ ८ भूतसरगस्य भृतससर्ग०
७२ २२ वादादिक वाददिव १४८ २१ अस्ति भवति अस्तिर्भव०
७३ ११ माज्ञातत्वं मज्ञातत्वं १४९ १८ निबन्धे निषेधे
७६-१४ तात्पर्य तत्र तात्पर्य वक्तंतत्र ७८ ४ श्रयः साधनो श्रेय: साधन १४९ २६ तत्रष्टास्वर्ग तत्रष्टस्वर्ग
७९ ४ भावस्य १४९ ३० नियागेन नियोगे भाव्यस्य ८० १० वदस्यध्यय वेदस्याध्याय १५० १ इष्टासाधन इष्टसाधन
८२ ९ संशयेनि संशयनि १९० २९ नह्यन्धेनैव नह्यन्धेनेव
८५ ३ विधनास्व विधिनास्व ८६ ५ साह्यनोहि स्राह्यं नोहि +-S इति S-
Page 9
॥ श्रीः ।।
अथैपा प्रस्तूयते वाक्यसुधानाम्री वेदान्तसुधालहरीव प्र- करणणिका सम्मुद्रय प्रकाशितुम्। एतत्कर्तारो भगत्पूज्यपादा- चार्याः श्रीमच्छङ्कराचार्यपादा इति तद्रिपये परिचयदानं नाम दीपेन भगवत उष्णरश्मेः प्काशनमिसत्र न सन्देहः। करुणामसृणान्तरङ्रैर्भगवदाचायैरेतत्सुधासेचनेन शान्तान्तःकर- णतां सम्पादयितुं कृते Sपि रचनामायासे तस्याः सुदुर्लभतया न प्राभूवन् वेदान्तशास्त्ररसिकास्तमास्वादयितुमिति विचार्या- त्रस्चौखम्भासंस्कृतसीरिजाख्यग्रन्थमालाध्यक्षेण श्रेष्ठिवरेण श्री- मद्धरीदासाभिधेन तन्मुद्रणकार्ये दत्तोत्साह: प्रावर्तेSहमेन्मुद्रणे। इयं किल सुधा सल्पापि सुधेन विबुधानां मोदहेतुर्भव- त्विति भगवन्तं काशीविश्वेश्वरं प्रार्थयन्, मदृषष्टिदोपेण चात्रावशिष्टाः सुलभा अशुद्धी: क्षान्तुं विनयेन गुणैकपक्षान् धीमद्रारानू निवेदयन्, विरमाम्यस्माल्लेखादिति शुभम्। माघकृष्णाष्टम्यां रवौ सहस्रबुद्धयुपाह्वो १९५७ काश्याम। दामोदरशास्त्री
Page 11
श्रीगणेशाय नमः ।
ॐ नमो भगवत्यै सङ्कष्टनाशिन्यै।
रामानन्दसरस्वतीकृतो विवरगोपन्यासः ।
श्रीरामं सदय एव प्रणतजनगतध्वान्तविच्छेदहेतुम। सत्यानन्दानुभूर्ति जनहृदि विशनान्मायया जीवसंजं सर्वज्ञं सर्वसंज्ञं निजमहिमद्दशां नेति नेत्यक्षराख्यम ॥ १॥ वेदान्तार्थ गभीरं ह्यतिसुगमतया बोधयामीति विष्णु-
तंभिन्दन् दुर्बुद्धिभेदं य इह करुणया Sभाष्ययन्भाष्यमेतत् वन्दे सर्ववन्द्ं त्रिजगति भगवत्पाइसंज्ञं महेशम्१॥२॥ (२) कामाक्ीदत्त दुग्धप्रचुर सुरनुतप्राज्यभोज्यातिपूज्य- श्रीगौरीनायका भित्प्रकटनशिवरामार्यलब्धात्मवोधैः। श्रीमद्गोपालगीर्भिः प्रकटितपरमाद्वैतभासास्मिता Sस्य श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतो ऽहं यथालिः ॥३॥ टीकाकारान्नमस्कृत्य तद्याख्यातुंश्च सिद्धये। तद्रन्थयोजनार्थस्य तदुपन्यास ईर्यते॥४ ॥ अर्थसङ्ग्राहकश्ोका अर्थस्मृत्यर्थमीरिताः। तेषामपेक्षितो न्याय इह यतात्प्रकाश्यते॥। ५॥ हरिशङ्करयोगे Sस्मिनू भाष्यतीर्थे मुमुक्षवः। सिष्णासवः सुखोपायः पन्थास्तेषामयं भवेत् ॥ ६ ॥ नन्वभीप्सितकार्यारम्भे शिष्टा मङ्गलमाचरन्ति । तदयुक्तम्। फलाभावात्। न च समाप्तिः फलम्। प्रमत्तानुष्टितसमाप्तेर्मङ्गलं विनापि दर्शनात्। नापि विघ्नध्वंसः फलम्। विकल्पासहत्वात्। तथाहि। किं ज्वरादिर्विघ्नः । दुरितं वा। नाद्यः। विज्वरेण कृत-
(२) कामाक्षीदत्तदुग्धेत्ययं श्लांको उसम्बद्ध इति प्रतिभाति।
Page 12
२ विवरणोपन्यासे मङ्गलस्य वैफल्या १पातात्। मङ्गलानन्तरं ज्वराद्यनिवृत्तेश्च। न द्वितीयः । हरिस्मरणेनापि सर्वदुरितध्वंसे मङ्गलानपेक्षखात्। न च हरिस्मरणमेव मङ्गलमिति वाच्यम।दधिदूर्वादिवैफल्यापातातू। न च तयोर्विकल्पः । असमफलत्वात्। वस्तुतो निष्पापेन कृतस्म- रणादेः फलानिरूपणात् । नापि विभ्नानुत्पाद: फलम्। उत्पन्ने विध्ने मङ्गलाननुष्ठानप्रसङ्ग इति चेत्। उच्यते। विध्नाभावप्रयोज्य- समाप्तिर्मङ्गलफलम्। न समाप्तिमात्रम्।अतो न प्रमत्तानुष्ठितसमाप्ती व्यभिचारः।न च सापि विध्नाभावप्रयोज्या। तदीयप्रारिप्सितवु- रितविशेषस्य विघ्नशब्दार्थस्य तत्रासत्वेन तद्भावाप्रसिद्धेः। मङ्गल- स्योत्तेज कत्वेन प्रतिबन्धकस्थलीये कार्ये एव हेतुत्वमुचितम्। नि- र्विघ्नं समाप्यतामिति कामनया स्वेष्टसाधनतांशे भ्रमरहितानां शिष्टा- नामाचारेणानुमितया श्रुत्या विभ्नाभावप्रयोज्यसमाप्तावेव मङ्गलस्य हेतुत्वबोधनात्। मङ्गलं चापूर्वद्वारा समाप्तिहेतुः । अपूर्व तु सति विघ्ने तं ध्वंसयति। अदष्टस्य स्वकार्यानुकूलकारित्वात् अन्यत एव विभ्नध्वंसे तु समाप्तिमेव करोति। सविभ्नकार्यान्तरसमाप्ति वा। अत एव मङ्गले कृते Sपि असमाप्तिर्युज्यते(२)। विप्नवाहुल्यसंभवातू। फलब- लेन मङ्गलापूर्वस्यैकविभ्नध्वंसमात्रकारित्वकल्पनात्। काम्यकर्मण अङ्गवैकल्येनापूर्वानुत्पत्तिर्वा कल्प्यताम। अतो मङ्गलस्यापूर्वद्वारा वि- शिष्टसमाप्तिफलकत्वमिति संक्षेपः। मङ्गलं ग्रन्थकरणाङ्गमिति वृद्धाः॥ तत्फलान्यफलशून्यत्वात् । प्रचयगमनस्याङ्गाङ्गिनोः फलीभूतसमा- प्त्यधीनत्वात्। शिष्टाचारपरिपालनस्यानुष्ठानमात्राधीनत्वेन मङ्ग- लापूर्वाजन्यत्वात्। वस्तुतस्तु वैदिकं मङ्गलं लौकिकस्य ग्रन्थकरण- स्थ नाङ्गमित्यनवद्यम। ननु युष्मदस्मदित्याद्यध्यासप्रतिपादको ग्रन्थो भाष्यं न भवति । सपदव्याख्याने सति सूत्रानुकारिवाक्यैः सृत्रार्थवर्णनस्य भाष्यलक्षणस्याभावात्। तथा हि अथातो ब्रह्मजि- ज्ञासेति सूत्रे निरर्थकानुवादतत्त्वपरिहाराय शास्त्रे पुरुषप्रवृत्तये च क- र्तव्येति पदमध्याहर्तव्यम। अध्याहृतं च भाष्यकृता ब्रह्मजिज्ञासा कर्त- व्येति। तत्र प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोः कर्तव्यत्वानन्वयात् सन्प्र- त्ययेन जहल्लक्षणया विचारो गृह्यते। जिज्ञासेति यौगिकपदस्य वा-
(१) वैफल्यप्रसङ्गादिति पाठान्तरम्। (२) असमाप्तिर्दश्यते इति वा पाठः।
Page 13
१ सू. १ वर्णकम् । ३
क्यत्वात् अशक्तत्वेन लक्षकत्वायोगात्। प्रकृत्या फलीभूतं ज्ञानम् अ- जहल्लक्षणया लक्ष्यते। विषं भुङ्क्ष्वेत्यादिवत् पदद्वये लक्षणोपपत्तेः। ततश्चाथशब्दोपात्ताधिकारिणा मुमुक्षुणा ब्रह्मज्ञानाय विचार: कर्तव्य इति सूत्रस्य श्रीतो र्यः। अर्थादधिकारिविशेषणं मोक्षो ज्ञानफल- त्वेनान्वेति। औपनिषदत्वश्रुतेर्व्रह्मज्ञानकरणतया वेदान्तानां बुद्धी सं- निधानात् विचारविषयता लभ्यते। तथा चाधिकारिणा मोक्षसाध- नव्रह्मज्ञानाय वेदान्तवाक्यविचार: कर्तव्य इति सुत्रतात्पर्यार्थः । एतदर्थाऽस्परशित्वेनाभाष्यत्वात्। भाष्यत्वेनायं ग्रन्थो न व्याख्येय इति चेतू। उच्यते। ब्रह्मज्ञानं हि विचारफलत्वेन सूत्रितं तस्य स्वतो डपुरुषार्थस्य कथं फलत्वमिति वक्तव्यम् । न च सुखसाक्षा- त्कारत्वात् स्वतःफलतेति वाच्यम्। वृत्तेरनित्यतया मुमुक्षुकाम्यत्वा- दिसम्भवात्। स्वरूपसाक्षात्कारस्य विचारासाध्यत्वात्। नापि सूत्रितज्ञानस्य स्वर्गादिकं फलं सर्वतो विरक्तस्थ ब्रह्मजिज्ञासा- धिकारात्। अतः परिशेषात् जीवगतवन्धनिवर्तकत्वेनैव ज्ञानं फ- लम्। बन्धस्य सत्यत्वे ज्ञानान्निवृत्त्ययोगातू अध्यासो भाष्यकारर्व- पंर्यते। एवश्चाह को Sयमित्यादिना अस्यानर्थहेतोः प्रहाणाय आत्मैक- त्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्त इत्यन्तेन भाष्येण लक्षण- सम्भावनाप्रमाणैः साधितमध्यासं युष्मदस्मदित्याक्षेपसमाधानभा- व्या्यामनूद्य तात्पर्येण विषयप्रयोजने सूत्रेणार्थात्सूत्रिते प्रतिपाद्ये- ते। यथा धूमवानयमिति वाक्यन हेतुमनूद्य वह्निरेव प्रतिपाद्ते । हेतुवचनस्य प्रतिज्ञातार्थे तात्पर्यात्। यत्पर: शब्दः स शब्दार्थ इति न्यायात्। के चित्तु तात्पर्यार्थः सर्वो Sपि शब्दस्य मुख्यार्थ इत्याहुस्त- न्न।लक्षणोच्छेदापत्तेः। तस्मादाक्षेपादिभाष्यद्वय मुख्यवृत्या हेतुम- ध्यासमनूद्य तात्पर्यानुपपत्या लक्षणया विषयप्रयोजने साध्ये प्रति- पादयति। ननु ब्रह्मात्मैक्यलक्षणो विषयः कथ सूत्रित इति चेत् उ- चयते। जीवगतकर्तृताद्यध्यासस्य ब्रह्मज्ञाननिवर्त्यत्वं तावत्सूत्रितमि- त्युक्तम। जीवब्रह्मणोर्भेदे तत्कयं स्यात्। भिन्नविषययोरध्यासतत्त्वज्ञा- नयोर्निवर्त्य निवर्तकभावायोगादित्यर्थाद्विपयो Sपि सूत्रित इति॥ अध्या- सस्य विषयप्रयोजनहेतुत्वं कथमिति चेतू। उच्यते। अथातो ब्रह्मजि- ज्ञासेति सूत्रसङ्गातात्मकं शास्त्रं प्रेक्षावत्कृतिविषयः सफलत्वात् कृष्यादिवत्। न च गन्धादिज्ञाने व्यभिचारः। कृतिसाध्यत्वे सतीति विशेषणातू। न च सफलत्वासिद्धिः। सूत्राणि सफलानि बन्धनिवृत्त्य-
Page 14
४ विवरणोपन्यासे नुकूलत्वात् सर्पभ्रमनिवर्तकरज्जुबोधवत्। न च हेत्वसिद्धिः। सूत्रै- र्विचारितवाक्योत्यज्ञानस्य (१) बन्धनिवर्तकत्वात्। बन्धो ज्ञाननिवर्त्यः अध्यस्तत्वात् रज्जुसर्पवदिति प्रयोजनसाधको उध्यासः । जीवो ब्रह्माभिन्नः तज्ज्ञाननिवर्त्याध्यासवत्वात् यदित्यं तत्तथा। यथा रज्ज्वभिन्न इदमंश इति विषयसाधको Sध्यास इति। तथा चार्थात्सूत्रि- तविषयप्रयोजनपरत्वात् । युष्मदित्यादेः सर्वलोकप्रत्यक्ष इत्यन्तस्य सूत्रार्थस्पर्शिता सिद्धा। तत्राद्यं भाष्यद्वयं शास्त्रस्य साक्षाद्विपयप्र- योजनपरं लक्षणादिभाष्यं तु सर्वलोकप्रत्यक्ष इत्यन्तमध्यासप्रतिपा- दनद्वारा विषयादिपर अस्यानर्थहेतोरित्यादिकमारभ्यते इत्यन्तं वेदा- न्तानां विषयादिमत्त्वकथनद्वारा तद्विचारात्मकशास्त्रस्य विपयादि- मत्वपरम्।अत एव सद्वारत्वसाम्यात् पूर्वेण लक्षणादिभाष्येणास्य भा- व्यस्य सहोपादानं कृतम्। एवं सूत्रार्थस्पर्शित्वात् भाष्यबुद्ध्यायं ग्रन्थो व्याख्येय इति सिद्धम।नन्वस्य सूत्रस्य जिज्ञास्यवह्मज्ञानाज्ञानाश्याम- सङ्गतिः। ज्ञाते 5र्थे जिज्ञासानुपपत्या विचारायोगात्। अज्ञाते धर्मिज्ञा- नाभावात्। तथा सूत्रस्य मूलप्रमाणाभावादसङ्गतिः शास्त्रे प्रथमाध्याया- दौ च कथं सङ्गतिरिति चेुच्यते। नित्येनैवाध्ययनविधिनाधीतसाङ्ग- स्वाध्यायस्य व्युत्पन्नस्य सत्यादिवाक्यादापाततो ब्रह्मज्ञानं जायते। ज्ञानस्यापातत्वं सत्यवादिविशिष्टगोचरत्वं तस्य विशेष्यमात्रजिज्ञासा- हेतुत्वं तु विशेष्यगोचरत्वादुपपत्रम अकस्माच्छुक्तौ रजतविशिष्टज्ञाने सति किमिदमिति विशेष्यजिज्ञासादर्शनातू। यद्वा सत्यादिवाक्यात् अखण्डसाक्षात्कार एवादावुत्पन्नः लक्षणवाक्यस्याखण्डार्थत्वव्युत्प- त्ते: किन्तु तात्पर्याज्ञानादिपुरुषापराधादनवधारसत्वं तस्यापातत्वं
फलस्य ज्ञाने Sनवधारणता। एवमापातती ब्रह्मज्ञाने जाते तदवधा- रणेच्छोर्विचारसूत्रणं युक्तम्। ब्रह्मज्ञानाय विचारकर्तव्यत्वार्थकस्य सूत्रस्यात्मा श्रोतव्य इति श्रवणविधिर्मूलम।अर्थक्यात्।नच ब्रह्मात्म- शब्दाभ्यामर्थभेद इति वाच्यम्। आत्मनि विज्ञाते सर्व विदितमित्य- द्वितीयत्वेनोक्तस्यात्मनो ब्रह्मत्वं निर्द्धार्य सूत्रे ब्रह्मशब्दप्रयोगात्। यत्तु भिन्नात्मविचारविधिरयम् इति नैयायिकतनयानां जल्पन तन्मै- त्रेयीब्राह्मणार्थाज्ञानकृतं जायापतिपुत्रादयो यस्यात्मनः प्रियत्वेन स-
(१) विचारित वाक्योक्तज्ञानस्येति पाठान्नरमू।
Page 15
१ सू. १ वर्णकम् । म्मताः स आत्मैव सर्वे्यः प्रियतम इति परमपुरुषार्थत्वेन त्वंपदा- ्मुपकरम्य तस्यैव दर्शनममृतत्वसाधनतया Sडत्मा द्रष्टव्य इत्यनूद्यत- त्साधनत्वेन श्रवणादिकं विधाय यज्ज्ञानात्सर्वविज्ञानं प्रतिज्ञाय त- त्सिद्धर्थ दुन्दुभ्यादिद्टप्टन्तिरुत्पत्तिस्थितिलयेषु प्रपश्चस्यात्ममात्रत्वं साधयित्वा तदन्ते एतावदरे खल्वमृतत्वमित्युपसंहारातू। तस्मा- दद्वितीयव्रह्मात्मविचार एवामृतत्वसाधनदर्शनमार्थवादिक फलम- नूद तत्कामस्य विधीयते। प्रतिष्ठाकामो रात्रिसत्रं कुर्यादितिवत्। यन्तु प्रतर्दनं प्रति आहेन्द्रः खस्य ज्ञानमाहात्म्यं प्रकटयन् अरुन्मुखान् यतीन् सालावृकेश्यः प्रायच्क्वदिति।तत्र श्रवणशून्यसंन्यासिनामिन्द्र- यातनाश्रवणाच्छ्रवणं नित्यमिति। तन्न।श्रवणशून्यातुरसंन्यासविधि- विरोधेन ज्ञानस्तावकवाक्यस्य श्रवणाकरणप्रत्यवायपरत्वकल्पनायो- गातू। दष्टफलकत्वादवघातादिवत् यावत्फलमावर्तनीयमित्यावृत्त्यधि- करणविरोधाञ्च। किश्च नानेन वाक्येन श्रवणस्य नित्यत्वं लक्ष्यते। मुमुक्षुत्रवर्णिकसवाधिकारिकत्वाच्छ्रवणविधेः । वाक्ये च संन्यासि- .मात्रस्य प्रत्यवायभावातू।न च संन्यासिन एव श्रवसाधिकारो नान्ये- पामिति वाच्यम्। एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति। त- स्माज्ज्ञानं पुरस्कृत्य संन्यसेदित्यादिश्रुतिस्मृतिभिः ज्ञानफलकत्वेन वि- हितसंन्यासस्य श्रवणाङ्गत्वायोगातू। न च संन्यासस्यानङ्गत्वे Sपि अधिकारिविशेषणत्वमस्विति वाच्यम् । मानाभावात्। न च शान्तो दान्त उपरतस्तितिक्षुः श्रद्धान्वितो भूत्वा SSत्मन्येवात्मानं पश्येदिति वाक्यं मानमिति वाच्यम् । अस्य वाक्यस्य एतमेव प्रव्ाजिन इति
मुक्तो: श्रवणादिद्वारा ज्ञानसाधनत्वेन सिद्धशान्त्यादेरनुवादेन शा- न्त्यादिमत्कर्तकश्रवणेन शान्त्यादिना वा पश्येदित्यत्र प्रकृत्यानूदिता- त्मज्ञाने लिडा समुच्चयविधानार्थत्वात् श्रोतव्य इति प्राप्तं श्रदणं पश्ये- दित्यनूद्यानुपादियाधिकारिविशेषखानां विध्ययोगात् । प्राप्तानु- वादेन वहूनामङ्गानामप्येकस्मिन् वाक्ये विधातुमशक्यत्वात्। श्रवणस्य प्राप्तत्वेन शान्त्याद्यनकगुणविशिष्टविध्यसम्भवाच्च। त- स्मात्संन्यासो नाधिकारिविशेषसाम । नाप्यङ्गं श्रवणस्य। किन्तु ज्ञान- प्रतिबन्धककल्मपनिवृत्तिद्वारा श्रवणवत् ज्ञानसाधनम्। श्रवणाधि- कारी तु श्रांतव्य इति विधिसन्निहितार्थवादोक्तफलकाम एव रात्रिसत्र इवेत्युक्तम। स च संन्यास्यसंन्यासी वा त्रैवार्णिकः संन्यस्य थ्रवणं
Page 16
विवरणोपन्यासे कुर्यादिति वाक्यं क्रमपरं जन्मान्तरीयसन्यासेनापि क्रमसम्भवात्। "नित्यं कर्म परित्यज्य वेदान्तश्रवण बिना। वर्तमानस्तु सन्यासी पतत्येव न सेशय" इति॥ एवञ्जातीयकं वाक्यं न्यायप्राप्तमनर्थमनुवदति श्रवणे काम्यत्व- बुद्धोपेक्षानिरासार्थम।यदि सांसारिकः श्रेयःसाधनं कर्म परित्यज्य निःश्रेयससाधन नानुष्ठीयते तदा श्रेयःसाधनाभावान्मूढः पतत्यवेति प्राप्तानुवादः।अरुन्मुखानिति श्रुतेरपि अयमेवार्थः। वस्तुतो Sरुच्छन्देन रौति शब्दयतीति व्युत्पत्या वेदान्तवाक्यमुच्यते न श्रवणम्। तथा च श्रुतिः उपनिषदमावर्तयेदिति। तथा च मुमुक्षो:श्रवणाकरणे प्रत्यवाया- श्रवणात् श्रवणं काम्यमिति सिद्धम्। यद्यपि श्रवणं श्रोतव्यार्थनिर्धा- रणे ऽन्वयव्यतिरेकसिद्धं नापूर्वविध्यह तथाप्यवघातवन्नियम्यते। मु-
अर्थाद्भिन्नात्मविचारो व्यावत्यते।नन्वस्य वस्तुती मुक्तिहेतुज्ञानसाध- नत्वाभावात् कथ व्यावर्त्यत्वम्।नखविदलनादेस्तुपविमांकसाधनस्यैव व्यावर्त्यत्वदर्शनादिति चेन्न। अपूर्वीयव्रीहितुपविमोकसाधनस्यैव भ्रा- न्त्या प्राप्तस्य तत्र व्यावर्त्यत्वातू। किश्चाप्राप्तिमात्रं विधेरुपजीव्यम्।अप्रा- प्तिस्तु वस्तुतः साधनेन भ्रान्तिप्राप्तसाधनेन वा विधेयसाधनस्य भव- त्येव तस्मात्कस्य चिद्भेदरसिकस्य मुमुक्षोर्भिन्नात्मविचारप्राप्ती निय- म्यते। के चित्तु ब्राह्मणादेवेदाधिकारिण: पुराणप्राधान्यं व्यावर्त्य- मित्याहुः। मुमुक्षुणा वैदिकेन वेदान्तवाक्यान्येव विचारयितव्यानीति नियमाद्ष्टस्य ज्ञाने उपयोगः सर्वापेक्षान्यायातू। न च वेदान्तेषु विध्यङ्गीकारे लिडादय: थ्रूयमाणा: कुण्ठीभवन्तीति भाष्यविरोध इति वाच्यम्। तत्र भाष्ये ज्ञानविधिनिराकरणात्। अनियोज्यवि- षयत्वादिति हेतूक्ते: अज्ञस्य श्रवणादी नियोगसम्भवात्। न च वि- ध्यङ्गीकारे ब्रह्मासिद्धि: अन्यपराद्वाक्यादन्यासिद्धरिति वाच्यम। उपकरमादिना ब्रह्मात्मन्येव महातात्पर्यात् । तज्ज्ञानोद्देशनावान्त- रतात्पर्येण श्रवणादिविधानात्। अत एवोद्देश्यत्वाद्गह्मणाः प्राधान्यं विधेरेव तच्छषत्वं ब्रह्मकर्मकज्ञानविधाने तु ब्रह्मणो विधेयज्ञानकारक- त्वेन विधिं प्रति गुणत्वं स्यात् इति युक्तो ज्ञानविधिनिरासः । ननु ब्रह्मपरे वाक्ये अवान्तरतात्पर्येष श्रवणादिविधानं कथमिति चेतू। उच्यते। ब्रह्मपरे वाक्ये यज्ञेनेत्यादिवाक्येन यज्ञादीनां विविदिषाया- मिष्यमाणज्ञाने वा हेतुत्वविधानवत् अधस्तात्समिधं धारयन्ननुद्ध-
Page 17
१ सू. १ वर्णकम् । ७
वेतुपरि हि देवेभ्यो धारयतीत्यत्र विधिस्तु धारणे Sपूर्वत्वादिति न्या- येन अधोधारणवाक्यैकवाक्यतां भङ्क्ता स्त्रुगदण्डापरि समिद्धारण- विधिवत् दर्शपूर्णमासप्रकरणे तिस्रो रात्रीर्व्रित चरेदञ्जलिना वा पयः पिबेदित्यवान्तरवाक्येन मलवद्ाससो व्रतकलापविधानवञ्च्ेति। अथ वा तस्माद्राह्मण: पाण्डित्यं निर्विद्य वाल्येन तिष्ठासेदिति वाक्ये- न श्रवणं कृत्वा मननं कुर्यादित्यर्थकेन श्रवणादिकं विधीयते। तत्रै- वाथ मुनिरिति निदिध्यासनं नियम्यते इति सूत्रकारेण सहकार्यन्त- रविधिरिति वक्ष्यमाणत्वात्। मनननिदिध्यासनयो: श्रवणाङ्गत्वमग्रे वक््यामः।तथा च श्वसाविध्यपेत्ितानाम् अधिकारिविषयप्रयोजना- नां श्रुतानामपि न्यायेन निर्णयार्थमिदं सूत्रमिति। तद्विधिमूल- कत्वमस्य सूत्रस्य सिद्धम्। ये तु श्रवणे विधि नेच्छ्वन्ति तेपामिदं सूत्रं निर्मूलमनार9यं स्यात् विध्यभावे अधिकार्यादिनिरूपणायो- गातू इति संक्षेपः । अनेन सूत्रेण श्रवणविधेः स्वार्थे विचारक- र्तव्ये समन्वये सिद्धे सति जन्मादिसूत्रमारभ्य विचार: प्रवर्तते इत्युपोद्धातत्वाच्छ्ास्त्रे प्रथमाध्यायादावस्य सूत्रस्य सङ्गतिः । एवं सङ्गतसूत्रार्थस्पर्शित्वादिदं भाष्य व्याख्येयम्। अत्र सूत्रे कण्ठोक्तस्य ब्रह्मज्ञानस्य स्वरूपेणाफलत्वादधिकारिणो मुमुक्षो- र्विशेषणीभूतो मोक्षो बन्धनिवृत्तिरूपो डर्थाज्ज्ञानफलत्वेन सूत्रि- तः। वन्धश्च प्रमातृत्वभोक्तृत्वरूपः तस्य सत्यत्वे ज्ञानान्निवृत्ययोगा- त् अध्यासो पर्यात्सूत्रितः । तथा चाध्यासेन विषयप्रयोजने साध्येते ताभ्यां विचारस्य कर्तव्यता साध्यति क्रमः । साध्यसाधनभावश्च पूर्व दर्शितः । एवमर्थात्सूत्रितो भाष्ये वर्णित इत्युक्तम्। अत्र शङ्कते। ज्ञानफलत्वेन बन्धनिवृत्तररथीत्सूत्रितत्वे Sपि बन्धस्याध्यासो न सूत्रितः। सत्यस्यापि निवृत्तिसम्भवादिति। अत्रोच्यते। किं दर्शनवलात्सत्यस्य ज्ञानान्निवृतिरुच्यते, श्रुतिबलाद्वा? आद्येपि ज्ञानं कि स्वविषयगतं नि- वर्तयत्याश्रयगतमुतोभयगतम्? आद्येपि ज्ञानं कि निवर्त्य प्रपश्चविशिष्ट- ब्रह्मगोचरं वा निवर्त्यागोचरं वा? नाद्यः चित्रावयविनि पटे नीलवि- शिष्टद्रव्यज्ञानस्य नीलनिर्वर्तकत्वादर्शनात्। न द्वितीयः । नीलो य- मिति ज्ञानेन स्वागोचरस्य स्वविषयगस्य रसपीतरूपादेरनिवृत्तेः न च सिद्धान्ते Sपि पटज्ञानात्तद्वतनिवृत्तिः स्यात् ब्रह्मज्ञानादिव प्रपश्च- निवृत्तिरिति वाच्यम। ब्रह्मज्ञानस्य प्रपश्चोपादानाज्ञाननिवर्तकत्वेन प्र- पञ्चनिवर्तकत्वात्। न हि पटाज्ञानविलसितास्तद्वता धर्मा ये न पट-
Page 18
विवरणोपन्यासे V
ज्ञानतन्निवृत्तेरन्।न चचित्रस्य रूपान्तरत्वान्नीलादिकं पटे नास्तीति वाच्यम्। कारणे चित्रस्यासत्वेन कार्ये Sनुपपत्तः शुकादिरूपाणां स्वसमानजातीयारम्भकत्वादनुभवाच्च। नानारूपसङ्गस्यैव चित्ररू- पत्वात् अनुभववलात्संयोगादेरिव नानारूपवद्द्रव्यार्धद्वव्यरू- पस्याप्यवृत्तित्वोपपत्तेः । न द्वितीयः । घटज्ञानस्य स्वाश्रयात्मगतध- मादिनिवर्तकत्वादर्शनातू। अतो न ब्रह्मज्ञानाजीवगतसत्यबन्धनि- वृत्तिः । न तृतीयः । मम शरीरमिति ज्ञानाद्देहात्मसन्वन्धानिवृत्तेः । अतो न ब्रह्मज्ञानाजीवव्रह्मोभयगतस्य निवृत्तिः । तनु विद्वान्नाम रूपाद्विमुक्त इति श्रुतिवलात् सत्यस्य ज्ञानान्निवृतिरिति चेन्न। श्षती निवर्त्ये सत्यशब्दाभावात्। उक्तरीत्या लोके सत्यस्य ज्ञानान्निवृतेर- दर्शनेन श्ुताया: बन्धस्य ज्ञानान्निवृतेरुपपत्त्यर्थ मिथ्यात्वस्य कल्प- नात्। क्षणिकयागस्य श्रुतस्वर्गसाधनत्वोपपत्त्यर्थमपूर्वकल्पनवत्। न च तार्क्ष्यस्मरणाद्विषं सेतुदर्शनात्पापं सत्य निवर्तते इति वाच्यम्। श्रद्धानियमादिसापेक्षज्ञानस्य तत्र निवर्तकत्वात्। बन्धस्य तुनान्यः पन्था इति श्रुत्या केवलज्ञाननिवर्त्यत्वात् अध्यासो Sकामेनापि र- ज्जुसर्पादेरिव वक्तव्यः। कालादेरपि निवर्त्यान्तःपातित्वेन ज्ञानासह- कारित्वात् । अतो ब्रह्मज्ञानं वन्धनिवर्तकं सूत्रयता बन्धस्याध्य- स्तत्वं सूत्रितमेव। नन्वेवमपि सूत्रस्य मुख्यार्थ विहायार्थिको ऽध्या- स एव किमिति भाष्यकारैर्वर्णित इति चेतू।उच्यते। प्रतिपाद्यमर्थ बुद्धौ सङ्ह्यादौ तद्धेतुवर्णनमुपोद्घातः, प्रतिपाद्यमादी प्रतिज्ञाय प- ध्वात्तद्वंतुवर्णन प्रतिपादनमिति विभागो स्ति। एवं च सुत्रस्य श्रौ- तोर्थो विचारकर्तव्यतातत्साधकविषयप्रयोजनसिद्धिहेतुत्वादध्यास उपोद्घातत्वेनादी वर्णित इति । ननु भवतु प्रयोजनसिद्धिहेतुर- ध्यासः। बन्धो ज्ञाननिवर्त्यः अध्यस्तत्वाद्रज्जुसर्पवदित्यनुमितिहे- तुत्वात्। विषयस्तु प्रत्यगभिन्नमनादि स्वप्रकाशं ब्रह्म। कथं तत्सि- द्धौ हेतुरध्यास इति चेतू। तत्वमस्यादिवाक्येनापेक्षितयोग्यताज्ञान- हेतुत्वादिति ब्रमः । जीवगतो बन्धो उध्यस्त इति यावन्न वर्ण्यते ता- चद्वेदान्तैः स्वार्थो जीवव्रह्माभेदो वोधयितुमशक्यः विरुद्धैः किश्चि- इज्ञर्वादिधर्मभेदाभावरूपायोग्यतानिश्चयात्। वहिना सिश्चेदिति- वजरद्गवादिवाक्यवच्च। अध्यासज्ञाने तु बिम्वप्रतिबिम्बयोरिव वि- रोधाभावात्सूत्रभाध्यकाराभ्यां ब्रह्मात्मैक्ये तात्पर्य वर्णायतुं शक्यं तदनुसारेश वाक्यस्य स्वार्थबोधकत्वमवाधितं भवति। तर्ह्यत्य-
Page 19
१ सू. १ वर्णकम् । न्तापेक्षितो Sध्यास: सूत्रकारेण मुखतः किमिति नोक्त इति चेदु- च्यतं। सूत्रकारेण प्रतिपादने प्रवृत्तनादौ विचारकर्तव्यतां प्रतिज्ञाय ब्रह्मात्मनि वेदान्तानां समन्वयं विचार्य जीवात्मनो णुत्वकर्तृत्वादि- ना विरोधमाशङक्य तद्गुणसारत्वात्तद्यपदेश इति मुखत एवाध्यास उक्तसमन्वये विरोधनिरासार्थमुक्तः। बुद्धिगतधर्माध्यासाजीवो डणुरित्यादिव्यवहारो न वस्तुत इति सूत्रार्थः। भाष्यकारस्तु उपो- दूधाते प्रवृत्तः प्रवृत्त्यङ्गविषयादिसिद्धयर्थम् आदावध्यासं वर्सायतीति अनवद्यम्। एतावता ग्रन्थसन्दर्भेण सिद्धमर्थ सङ्गह्वाति। "सूत्रार्थस्पार्शता भाष्ये पश्चात्सूत्रस्य सङ्गतिः। श्रवंसे विधिरुद्दिष्टः सत्यस्य ज्ञानतो Sत्तति"रिति॥ ननु तथापीदं भाष्यं न व्याख्येयम् आदौ मङ्गलाकरणात्। मङ्गलं हि अलौकिकानिषिद्धशिष्टाचारत्वात् श्रुतिविहितं निर्विघ्नसमाप्ति- फलकञ्च। न च विभ्नाभावान्मङ्गलाकरणं न दोप इति वाच्यम्। त- स्मादेषां तन्न प्रियमिति श्रुत्या, "श्रेयांसि बहुविम्नानीति" स्मृत्या, लो- कप्रसिद्ध्ा च सार्थकभाष्ये विन्नसत्तानिश्चयात्। यस्मात्तत्वज्ञो दे- वान्न सेवते तस्माद्देवानां तत्त्वज्ञानं न प्रियमित्यर्थः।तस्माद्देवकृतवि- प्रेन कर्तुर्भ्रान्त्यादिसम्भवात्तत्कृतं भाष्यंन व्याख्येयमित्युच्यते। "स- र्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्। येषां हृदिस्यो भगवान्मङ्ग- लायतनं हरि"रिति स्मृतेः । परदेवतातत्वानुस्मरणं मङ्गलम् । तञ्च शिष्टाचारपरिपालने Sग्रण्या भाष्यकृता कृतम्। अर्थज्ञानं बिना वाक्य- रचनानुपपत्तः। भाध्यस्य तत्त्वार्थकत्वात्। तस्मान्निर्दोषमिदं भा- व्यं व्यास्येयमिति सिद्धम्। अत्र प्रथमसूत्रे श्रवणविधिर्विचार्यते इ- त्युक्तम्।श्रवणं नामाद्वैते ब्रह्मण वेदान्तानां तात्पर्यनिर्णयार्थो विचार- स्तद्विचारात्मकं शास्त्रं कर्तव्यं न वेति सन्देहे पूर्वपक्षः। अधिष्ठानसा- मान्यांशस्यारोप्येण तादात्म्यप्रमाजन्यसंस्कारो डध्यासहेतुः।इदं र- जतमिति प्रमानन्तरं शुक्ताविदं रजतमित्यध्यासात् तथा च विज्ञानघने प्रत्यगात्मनि अन्तःकरणाद्यनात्माध्यासो न सम्भवति हेत्वभावात्। त- था हि आत्मानात्मानी तादात्म्यशून्यौ विरुद्धत्वात् तमःप्रकाशवत्। द्विविधो विरोधः। सहावस्थानायोग्यता तादात््यायोग्यता चेति। तत्राद्यो गोत्वाश्वत्वयोरस्ति मिथो उत्यन्ताभावव्याप्तत्वातू। न तमःप्र- का शयोस्तयोर्मन्दप्रदीपे वेश्मनि सह स्थितेः। अतस्तादात्म्यायोग्य त्वमत्र हेतुः।ननु तमःप्रकाशयोभीवाभावत्वं तादात्म्यशून्यत्वप्रयोजकमू। २
Page 20
विवरणोपन्यासे तथा चोक्तानुमाने हेतुरप्रयोजक इति चेन्न। हेतोरहैत्वन्तरादूपकत्वात् घटपटयोस्तादात्म्याभाव तदयोग्यत्वस्यैव हेतुत्वात्। तमसो द्रव्य- स्वेन भावत्वाञ्च। तार्किकास्त्वालोकाभावस्तम इत्याहुस्तन्न।तमःशब्द- वाच्यो नाभावः स्वमात्रदृत्तिधर्मप्रकारकप्रतियोगिज्ञानाजन्यप्रत्यक्ष- विषयत्वाद्वटवत्। सन्निति प्रत्यक्षस्य घटाभाव इति प्रत्यक्षस्यश्व- रप्रत्यक्षस्याभावत्वप्रकारकस्मृतेश्च । विषये घटाभावे व्यभिचारनि- रासार्थानि क्रमेण विशेषणानि। किश्चेषत्तमो गाढन्तम इत्यवस्थाव- स्वाञ्चलत्वादूपवत्त्वाच्च भाव एव तमः अपाकजनीलरूपस्याश्रयान्तरा- भावात्तमो द्रव्यमाश्रय इति युक्तम। बिना वाध नीलं तम इति प्रतीते-
त्यक्षकारणं तदभावान्नीलं तम इति भ्रान्तिरिति चन्न।गाढे तमस्य- स्वित्यणुकप्रत्यक्षदर्शनातू। यद्विषय चाक्षुपज्ञाने तमः प्रतिबन्धकं तत्रैव प्रतिबन्धकनिवृत्त्यर्थमालोकसम्बन्धापेक्षणत्। न च तमसो रूपित्वे स्पर्शवत्त्वापत्तिः। वायोरपि स्पर्शवत्वे रूपित्वापत्तेः। अतो वायी त- मसि च व्यभिचारादूपस्पर्शयोन मिथो व्याप्तिः। किन्तु भूम्यप्ते- जस्सु साहचर्यमात्रमिति मन्तव्यम् । महाविद्युदादिवन्माया झटिति तमो जनयति। एवमुत्पत्तिज्ञप्तिहेतुसत्वात्तमो द्रव्यमिति सिद्धम्। किश्च एकैकालोकाभावस्य तमस्त्वे सर्वत्र तमोवुद््यापत्तिः। यावदा- लोकाभावकूटस्य तमस्त्वे मन्दप्रदीपे गृहे तमोबुद्धिर्न स्यात्। अ- तिस्थूलप्रदीपे तमो नास्तीति ुद्धिर्न स्यात् एकस्य प्रदीपस्य तमः- शब्दिताभावकूटाभावत्वायोगात्। यावदालोकानामेवाभावकूटाभा- वत्वात्। आलोकसामान्याभावस्य तमस्त्वे तम उत्पन्नं, नष्टमिति वु- द्विर्न स्यात्। यत्तु निमीलितनयनस्यापि तमोबर्शनाद्रूपदर्शनाभाव एव तम इति प्रभाकरोक्तं, तन्न।पिहितकर्णापुटस्यान्तरशब्द्रोपलब्धि- वदान्तरतमोद्रव्योपलम्भसम्भवात्। न चैवं सत्यञ्जनद्रव्योपलब्धिः स्यादिति वाच्यम्। फलवलेनायोग्यताकल्पनातू। तमोन्तःस्थस्य वहि- रालोकरूपदर्शनेन सह तमोदर्शनाञ्च न रूपदर्शनाभावस्तम इत्य- लमतिप्रसङ्गेन। एवञ्च तादात्म्यायोग्यत्वादात्मानात्मनोस्तादात्म्यं नास्ति तमःप्रकाशवदित्यनुरूपो द्ष्टान्तः । अत्राह सिद्धान्ती। आ- त्मनि अहङ्कारादेस्तादात्म्याभावे कथमध्यासानुपपत्तिरित्युच्यते? अधिष्ठानसामान्यांशस्यारोप्यविशेषेण तादात्म्यं क्वचित्सत्यं वाच्यम्। अन्यथा तत्प्रमाजन्यसंस्कारालाभादहं कर्तेत्यध्यासे तु चिदात्मैव
Page 21
१ सू. १ वर्णकम् । ११ सामान्यं, भ्रमे भासमानाधिष्ठानांशस्यैव सामान्यत्वात्।न च त- स्याहङ्करेण सत्यं तादात्म्यं सम्भवति द्रष्टदृश्ययोः स्वाभाविकैक्या- योगात्। न च निरवयवस्य चिदात्मनो Sसङ्गस्य स्वतो वा हेतूपरा- गाद्वा सावयवदृश्याहङ्कारात्मना परिणामः सम्भवति येन तादा- त्म्यं सत्यं स्यात्। ननु चिति अचिदध्याले चिदचितोस्तादात्म्यं क्- चित्सत्यम वाच्यम्।न तु चिदधिकरणकाचित्तादात्म्यं गौरवात्। तच्चात्र सुसम्पादम्। अ्रहमुपलभे इत्यहङ्कारे चैतन्यतादात्म्यानुभवा- दिति चेन्न।अहङ्कारस्य स्वत एव चिदभेदे साक्षिवेद्यत्वव्याघातात्। समयोर्दीपयोर्मिथो ग्राह्यत्वादर्शनात्। न चाहङ्कारस्य हेतूपरागात् चित्परिणाम इति वाच्यम्। जडपरिणामस्य चित्त्वायोगात्। ननु दर्पण इव मुखस्य सन्निधानमात्राजडे चितः संसर्गभानमस्विति चेतू?
चिदपि चिदचितोस्तादात्म्यासत्वेन तत्प्रमाजन्यसंस्कारस्य हेतोर- भावादध्यासो न सम्भवति। निरवयवनिर्गुणात्मनि गुणावयवसा- दश्याभावाच्च। यद्यपि कर्तृत्वादिधर्माध्यासो पहङ्काराद्युपाधिको न सादृश्यमपेक्षते तथा उप्यहङ्गारादिधर्म्यध्यासो निरुपाधिक: सादृश्य- मपेक्षते। तस्मादध्यासाभावे विषयप्रयोजनयोरभावाच्छास्त्रं नारम्भ- पीयमिति प्राप्ते सिद्धान्तः । आत्मानात्मनोरहमिति प्रतीतियोग्यत्वं सादृश्यम्।वस्तुतो निरुपाधिकाध्यासेपि न सादृश्यं कारणम्।नीलं नभ इत्यध्यासात्। न हि रूपनभसोः सादृश्यमस्ति। संस्कारो उप्यनुभ- वजन्यः कारयं न प्रमाजन्यो गौरवात्। तथा च रागद्वेषादिदोषकर्तृ- त्वभोक्तृत्वाध्यासानां बीजाङ्करवदनादित्वात्पूर्वपूर्वभ्रमजन्यसंस्कारा- वुत्तरोत्तराध्यासः सम्भवति। एतदभिप्रेत्योक्तं भगवता भाष्यकृता। "अन्योन्यात्मकतामध्यस्य सत्यानृते मिथुनीकृत्य नैसर्गिको 5यं लोक- व्यवहार" इति। सो Sहं ममेदमित्यध्यासः प्रवाहतो Sनादिरित्यर्थः।प्र- वाहानादित्वं हेतुहेतुमन्भावेनेति दर्शयतुम अध्यस्य मिथुनीकृत्येति क्का- प्रयोग: कृतः।सत्यानृते इति शुक्को घट इति प्रमानिरासार्थ मिथुनीक- रणमध्यास एव। ननु स्वप्रकाशात्मनि अज्ञानासम्भवात्कथमध्यास इत्याशङ्क्योक्तं मिथ्याज्ञाननिमित्त इति संस्फुरदात्मतत्त्वमादृत्यानाद्य- निर्वचनीयमज्ञानमध्यासं जनयति। तस्योपादानत्वे Sपि दोषतथा Sह- द्वाराध्यासकत्रीश्वरोपाधितया वा निमित्तत्वं मन्तव्यम। ननु कथमज्ञा- नमध्यासोपादानमिति चेदन्वयव्यतिरेकाभ्यामिति ब्रूमः। ननु शुक्ति-
Page 22
१२ विवरणोपन्यासे तत्वज्ञानं रजताध्यासप्रतिबन्धकं, ततश्च शुक्तिज्ञाने Sसत्यध्यासो न्यथा नेत्यन्वयव्यतिरेकी प्रतिबन्धकाभावविषयाविति चंदुच्यते । सत्यां सामग्यां कार्यानुत्पादप्रयोजकं प्रतिबन्धकम्। तथैव वृद्धव्यव- हारान् हि दोषघटिताध्याससामग्रयां सत्यां तत्त्वज्ञानमस्ति अतो न प्रतिबन्धकमू। न च प्रातीतिकरजतस्योपादानापेक्षा नास्तीति वाच्यम्। प्रातीतिकं सर्वे कार्य सोपादानं भावकार्यत्वात् घटवदित्यनुमा- नातू। न च घटेन सहोत्पन्नक्रियागुणयोव्यभिचार इति वाच्यम।सहो- त्पत्यसिद्धेः। सहोत्पत्त्यङ्गीकार तु तयोर्घटोपादानमृदुपादानकत्वात्। द्रव्यस्य स्वासमवायिकारणसामानाधिकरण्यनियमेऽपि रूपादीनां त- दभाववत्स्व्ोपादानवृत्तित्वनियमस्याप्यभावात्। नन्वध्यासस्याज्ञा- नादन्यदुपादानमस्त्विति चेन्न तावदात्मा रजततज्ज्ञानात्मकाध्या- सस्योपादानम् अपरिणामित्वात्। इदमंशसंयुक्तचक्षुपदमाकारज्ञान- परिणाम्यन्तःकरणमपि न प्रातीतिकरजतोपादानं प्रतीतेः प्रागसति रजते इन्द्रिय संयोगासम्भवेन बहिरस्वतन्त्रस्य मनसः प्रतीत्युपादान- त्वायोगातू।न हि प्रतीति विना प्रातीतिको ऽर्थः स्थातुमर्हति। न च साक्ष्येव प्रतीतिरिति वाच्यम् । तथाप्यन्तःकरणाध्यासे ऽन्यस्यो- पादानत्वासम्भवेनाज्ञानस्यैव सर्वत्रोपादानत्वौचित्यात्। नापि प्र- मातृकरणविषयदोषा रागकाचसादृश्यादयो उध्यासोपादानं कार्या- नाश्रयत्वात्, कार्यतादात्म्यवतः कारणस्योपादानत्वात्, तेषा- मननुगतत्वाच्च। नापि सत्य इदमंश उपादानं कार्यस्यापि स- त्यत्वापातात् परिणामस्य परिणामिसमानसत्ताकत्वादतः प-
झ्ाराध्यासो उज्ञानोपादानक: अध्यासत्वात् रजताध्यासवदित्यनव- द्यम्। साक्ष्य भिन्नविषयचतन्ये उध्यासो Sस्तीति भ्रान्तित्वं साक्ष्यात्म- नो युज्यते। नन्वज्ञानं ज्ञानाभावः तस्य कथमध्यासोपादानत्वं,न चा- ज्ञानं भावरूपमस्ति मानाभावादिति चेतू । उच्यते, अहमज्ञो माम- न्यञ्च न जानामीति प्रत्यक्षमहं दुःखीति प्रत्यक्षवत्सर्वसंमतं तस्य ज्ञानसामान्यविरोधिवस्तुविषयः स च नाभावः पष्ठप्रमाणवादिना- मभावस्याप्रत्यक्षवादिनो Sपि नात्मनि ज्ञानसामान्याभावः सम्भवति। ज्ञानसमवायिन्यात्मनि यावज्ज्ञानविशेपात्यन्ताभावकूटासत्वेन तत्स- मनियतस्य सामान्याभावस्यायोगातू। न चाहमज्ञ इति सामान्यवि- रोध्यनुभवो न भवति किन्तु ज्ञानविशेषाभावानुभव इति वाच्यम।
Page 23
१ सृ. १ वर्णकम् । १२
अरूपो वायुरित्यनुभवतुल्यत्वात्। न चात्मनि ज्ञानसामान्याभावा- नुभवो Sपि सम्भवति धर्मिप्रतियोगिज्ञानसत्वासत्वाभ्यां तदयोगातू। तस्मात्सकलानित्यज्ञानानुगतं यन्नित्यं चतन्यं तदेव ज्ञानसामान्यं तद्विरोध्यज्ञानसामान्यं प्रत्यक्षविषयः ॥ एवं त्वदुक्तमर्थ विशिष्य न जानामीति विशेषाज्ञानमपि भावरूपमेव विशेषज्ञानस्य सत्वेन तदभावायोगात्।न चात्र परोक्षज्ञानसत्वे Sपि अपरोक्षज्ञानप्रागभावो Sस्तीति वाच्यम्।धर्म न जानामीति नित्यपरो- क्षार्ये उप्यज्ञानानुभवात्। यस्मिन्वस्तुनि कदापि ज्ञानं न भविष्यति तत्राज्ञानं कथं प्रागभाव: स्यात् ? न च तत्रात्यन्ताभावो विषय इति वा- च्यम्। अनुगतभावरूपाज्ञाने सम्भवत्यननुगतविषयकल्पनानुपपत्तेः। न चानादिचैतन्येन विरोधात्तवाप्यज्ञानानुभवो न स्यादिति वाच्यम्। आवरणेन प्रतिबन्धात्स्वतो विरुद्धस्यापि चैतन्यस्याज्ञानानुभव- त्वोपपत्तेः । नन्वज्ञांनस्य विशेषणं विषयः कथं साक्षिचैतन्येनाव- भास्यत मानं विना मेयभानायोगात् इति चेत् उच्यते। सर्व वस्तु ज्ञाततया पज्ञाततया वा साक्षिचैतन्यस्य विषय एव।तत्र ज्ञातत्वं म- नोवृत्त्यवच्छ्िन्न चैतन्यतादात्म्यम् तच्च सुखादावस्ति सुखादीनां मनो- वृत्तित्वाच्छुक्ति रूप्यादावप्यस्ति इदमाकारवृत्तिसत्वात्। घटादी मा- नाधीना वृत्तिरिति क्वचिज्ज्ञातत्ववृत्तिप्रकारण विषयभाने प्रमाणापे- क्षा न त्वज्ञानत्वेन तज्ज्ञाने मानापेक्षा Sज्ञातताविरोधातू। परोक्षार्थे ज्ञातत्वानुभवस्तु वृत्तिविषयगोचर इत्यनुसन्धेयम्। तत्र सतो Sप्यज्ञा- तत्वस्य वृत्तिप्रतिबन्धादननुभवः, नतु परोक्षवृ्त्त्या तस्य निवृत्तिरवि- रोधात्। अन्यथा शब्दावगतधर्मादी संशयादिरन स्यात् । दृश्यते हि निश्चितमहत्त्वे Sपि चन्द्रे प्रादेशिकत्वभ्रमस्तस्मात्सविषयमज्ञानं साचिप्रत्यक्षसिद्धम्। ननु चित्निष्ठाज्ञानस्याहमज् इति अहङ्कारस्थत्व- भानं कथमिति चेतू अहङ्काराज्ञानयोरेकत्राध्यासादिति ब्रमः। यथा लीहित्यसुखयोः स्फटिकभित्तिप्रतिविम्वितयोः सतोर्लोहितं मुखमि- ति भ्रमः तद्वदहमज् इति भ्रम इति॥ अधुना भावरूपाजाने ऽनुमानसुच्यते। विवादास्पदं प्रमाणज्ञा- 14. न्तरपूर्वकं अप्रकाशितार्थप्रकाशित्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्र- भावदिति। पक्षीकृतज्ञानस्य यः प्रागभावो यो विषयो यस्तत्रान्ध- कारो यद्ञ वियस्थमज्ञातत्वं यश्च भ्रमस्तेषां निरासार्थ क्रमेण वि-
Page 24
१४ विवरणोपन्यासे शेपणानि। अत्र वदन्ति। यथार्थज्ञानमात्रस्य पच्तत्वे सुखादिशञाने परोक्षवृत्ती च बाधः । तयोरज्षानानिवर्तकत्वेन साध्याभावादपरो- क्षवृत्त: पच्त्वे धाराद्वितीयादिज्ञाने बाधः, प्राथमिकानात्मापरोक्ष- वृत्ते: पक्षत्वे Sपि वाध एव। अनात्मावरकाज्ञानासत्वादात्मज्ञानस्य पत्तत्वे चानात्मज्ञाने व्यभिचारः।साध्ये चाद्यपद व्यर्थ स्वनिवर्त्य- पदनैव प्रागभावनिरासात्। ज्ञानस्य तन्निवृत्तित्वात्। द्वितीयपद- मण्यसङ्गतम्। अनात्मनि आवरणाभावात् वृत्तेश्चितुपरागाद्यर्थकत्वे- नाज्ञानानिवर्त्तकत्वात्। स्वनिवर्त्यपदमप्यसङ्गतम्। अज्ञानस्य चिन्नि- ष्ठत्वाद्टृत्तेर्मनःस्थत्वात्स्वदेशगतपदमप्यसङ्गतम्। हेतुरपि यद्यप्रकाशि- तज्ञानत्वं तदा प्रभायामसिद्धिर्यदि तज्ज्ञानहेतुत्वं तदा पक्षे हेत्व- सिद्धिर्यदि तद्यवहारहेतुत्वं तदा कालादी व्यभिचारः। अर्थस्य घ- टादेरप्रकाशितत्वं यद्यज्ञानावृतत्वं, तदा हेतोः साध्यसमत्वम् असि- द्विश्च। यदि वृत्त्यविषयत्वं तदा वृत्तिसात्तिणि व्यभिचार इति। अ- त्राहुः। जन्यसविकल्पकाजन्यघटचाक्षुषप्रमाणज्ञानं पक्ष: धारायां द्वितीयादिज्ञाननिरासार्थ सविकल्पकाजन्येति पदं पच्तस्य लाभार्थे जन्यत्वं सविकल्पकस्योक्तम। पक्षस्य परमते निर्विकल्पकजन्यत्वात् सविकल्पकपदे ईश्वरज्ञाननिरासार्थ चाक्षुषपदम् । सुगममन्यत्।
स्वदेशगतपूर्वकत्वं साध्यम। कदाचिद्वटज्ञानस्य घटपटसंयोगहेतु- त्वमस्ति घटं दृष्टा पटेनाच्छादनातू। तथा चेच्छाप्रागभावस्वजनकाद- ष्टात्मत्वानां त्रयाणां घटपटसंयोगप्रागभावस्य च व्यावर्तकानि क्र- मेण विशेषणानि।न च लाघवादभावादन्यत्त्वमेवास्तु स्वप्राक्पद व्यर्थमिति वाच्यम। अभावान्यत्वापेक्षया विशिष्टाभावान्यत्वस्य भे- दात् विशिष्टाभावत्वविशेषणं न व्यर्थ तद्विना स्वेष्टस्य विशिष्टा- भावस्यालाभात। पराभिमतप्रागभावान्यत्वमत्रेष्टमिति तत्प्रकारका- नुमित्यर्थ विशेषणं युक्तमेव घटावच्छिन्नचैतन्यस्थं तद्विषयकं तूला- ज्ञानं घटावच्छिन्नचैतन्यविषयया बुद्धिधिया वृत्त्या चक्षुषा निर्गत्य विपयचैतन्यस्थया स्वदेशगतं निवर्त्यत इति न कश्चिद्दोषः । यद्वा अन्धकारनिवृत्त्युत्तरक्षणवृत्तिचाक्षुपप्रमा पक्षः । स्वप्रागभावान्यस्व- विषय संशयादिजननयोग्यस्वसत्ताक्षणनियतध्वंसप्रतियोगिस्वदेश- गतपूर्वकत्वं साध्यम। परमते प्रागभावस्यैवाज्ञानत्वेन संशयादिजन- कत्वातू प्रतियोग्यनिवर्त्यत्वे उप्यभेदे व्याप्त्यङ्गीकारेण प्रतियोगिनो
Page 25
१ सू. १ वर्णकम् । १५ ज्ञानस्य सत्ताक्षणो नियतो यो ध्वंसो ज्ञानात्मकस्तत्प्रतियोगित्वा- त्तस्य निरासायादिपदं स्वप्राकूपदं पूर्ववदिष्टसिद्धर्थ यथा ब्रह्म स्व- समानसत्ताकजीवभेदवत् अभ्रान्तत्वात् घटवदिति त्वदनुमाने स्वेष्टसत्यभेदसिद््र्थ स्वसमानसत्ताकेति पदं तद्वत्। प्रमाहेत्वह- प्टनिरासार्थ द्वितीयपदम्। तस्या: सुखाद्यनुभवफलनाशयत्वान्न तृती- यपदेन निरासः।आत्ममनःसंयोगनिरासार्थ तृतीयम्।अन्धकारनिरा- सार्थ चतुर्थपदम्। एतद्विषयावरणसमयावृत्तित्वे सति एतदावरण- निवर्तकत्वं हंतु: कालादिनिरासार्थ सत्यन्तम्। उत्तरकालीनघटादिनि- रासार्थ द्वितीयपदम्। संशयादिजननयोग्यमावरणशब्दार्थः । तच्च ज्ञा- ने सति नास्तीति सर्वानुभवसिद्धमिति नासिद्धिः । एवं प्रत्यक्षानु- मानाभ्यां भावरूपाज्ञानं सिद्धम। एवं विशुद्धव्रह्मात्मनि शुक्तिकायां चाहङ्काररजतादिमिथ्यार्थावभासान्यथानुपपत्तिरपि तत्र प्रमाएम। पूर्वोक्त रीत्योपादानान्तराभावात्।तस्य च हेत्वदर्शनादनादित्वम।एवं च यच्चानादि सवयं मिथ्यामिथ्योपादानं तदज्ञानमिति स्थितम्। एवं सिद्ध मर्थमाह॥ "अन्धकारस्य भावत्वं तथा ऽध्याससमर्थनम्। नैसर्गिकत्वसिद्ध्र्थ तथा Sविद्यासमर्थन"मिति॥ कृतमिति शेषः। अनाद्यविद्यात्मना ऽध्यासस्य नैसर्गिकत्वसिद्धि- रिति भावः। तस्याज्ञानस्यात्मव विषयः तत्प्रयुक्तावरणरूपातिशयशा- लित्वात्। अनात्मन्यावरणे प्रमाणफलयोरभावात्। ननु अज्ञातो घट इत्यनुभवो मानमिति चेन्न तावदयमनुभवः प्रत्यक्ष घटस्य ज्ञाने स- त्यज्ञानासत्वात्। असति सम्बन्धिनि ज्ञानाभावात्। नाप्यनुमितिः लि- झाभावात्। ननु घटः पूर्वमज्ञातः इदानीं ज्ञातत्वात् संमतर्वादति चेन्न। धाराद्वितीयादिज्ञानगम्ये दुःखादी च व्यभिचारात्। न चेदानीमेव ज्ञातत्वं हेतुः, एवकारार्थस्यैवात्र साध्यतया विशेषणासिद्धेः । न चास्मर्यमाणत्वं हेतुः । ज्ञाते ऽप्यस्मृतिसम्भवात् । तस्मादज्ञानावृ- तचैतन्यतादात्म्येन घटादीनामध्यस्तत्वादज्ञाता घट इत्यनुभवः । साक्षिरूपचैतन्यावरणादेव जडानामपि अव्यवहारोपपत्ती पृथगाव- रणे फलाभावात् अनात्मनि शुक्त्ादावावरणाभावे Sपि विक्षेपदर्शना- दज्ञानविषयत्वव्यपदेशः। ननु न जानामीत्यनुभवस्य सर्ववस्तुष्वे- काज्ानावरणविषयत्वे लाघवादज्ञानमावरणं चैकं तस्यैव जडव्य- वहारप्रतिबन्धकत्वे कथं तन्निवृत्ति बिना घटादिव्यवहार इति चेतू
Page 26
१६ विवरणोपन्यासे उच्यते। अस्मिन्पक्षे तत्तदाकारवृत्तिज्ञानमुत्तेजकं तेन व्यवहारः । यद्वा घटादिरपि प्रातिभासिक इत्यावृतचैतन्येनैव तव्द्वहारः । शु- क्तिरूप्यव्यवहारवदिति रहस्यं पक्षद्वये ऽव्यात्मन्यावरणे सत्यपि ज- उव्यवहारो युज्यते। शुक्तिसाक्षात्कारस्तु न रूप्योपादानाज्ञानवि- नाशक: मुक्तिप्रसङ्गातू। किन्तु दण्ड इव घटस्य रूप्यस्योपादाने प्रवि- लयहेतुः। ननु तर्हि सविलासाज्ञाननिवृत्तलोंके क्वाप्यदर्शनात्तत्वज्ञा- नस्य सा कथं हष्टफलमित्युच्यते इति चेतू। उच्यते। लोके शुक्ति- तत्वज्ञानात्तद्विरोधिनो उध्यासस्य निवृत्तर्दर्शनादज्ञानस्यापि ज्ञान- विरोधित्वाद्विरोधिनिवृत्तिर्दष्टफलमित्युच्यते । अथवा मूलाज्ञानमेव लाघवादेकं तस्य धर्मरूपाणि विषयावच्छ्विन्नचैतन्ये साक्षिणि च व्यासज्यवृत्तीनि अवस्थापदवाच्यान्यनन्तानि कल्प्यन्ते। ज्ञानेनाज्ञा- नं निवृत्तमित्यवाधितानुभवातू। तानि च मूलाज्ञानवत्स्वाश्रयचैत- न्यमेवावृण्वन्ति नानात्मानमिति सिद्धम। तत्सङ्गृह्वाति। "जडावृतिनिरासश्चाप्यज्ञानावरणकता। अथ वा मूलमायैका Sवस्थाज्ञानं तु भिद्यते" इति। नन्व्रात्मावरणं नाम कीदशं, किं तत्र प्रमाएं, किं फलमिति चे- दुच्यते। ब्रह्म तावत्स्वप्रकाशं प्रत्यगभिन्नं सर्वश्रुतिसिद्धं, तथापि लो- को नास्ति ब्रह्म न प्रकाशते इति व्यवहरति। तथा चास्ति प्रकाशते इति व्यवहारे सामग्यां सत्यां नास्तीत्यादिविपरीतव्यवहाररूपफ- लान्यथानुपपत्तिरेव विपरीतव्यवहारयोग्यत्वरूपमावरणं कल्पय- ति। तथा ऽप्यनुभवो Sप्यस्ति मूढो Sहंन किं चिज्जाने इति।अतः स्व- प्रकाशेपि आत्मनि विचित्रशक्तिभावरूपाविद्याप्रयुक्तमावरणं दुर- पह्नवम्। नन्वज्ञानप्रयुक्तमावरणमस्तु अज्ञानं तु अग्रहणमिथ्याज्ञा- नतत्संस्कारकर्मभ्यो ऽन्यन्न पश्याम इति चेन्न। सुषुप्तावात्मानवभा- सानुपपत्तेः। न हि स्वयम्प्रकाशस्यात्मनो जडाया मनोवृत्तेर्ग्रहणश- व्दिताया अभावेनानवभासी युक्त: खद्योताभावेनव सवितुः ।न सु- घुप्ती भ्रान्तिरस्ति नापि संस्कार: आवरकः भ्रान्तिसंस्कारे सत्यपि शुक्तितत्वावभासदर्शनात्। नापि कर्मावरकं मानाभावात् पूर्णान- न्दत्ववच्चैतन्यस्याप्यस्फूर्तिप्रसङ्गाच्च। अज्ञानस्य तु भावरूपस्य प्र- त्यक्षत्वात्स्वसाधकं चैतन्यांशं विहाय स्वाश्रयविशेषांशावरकत्वं युक्ततरं स्वमपीतो भवतीत्यहङ्कारस्य सुषुप्ी नाशश्रवणात्। कर्म- संस्काराश्रयत्वेनाविद्या Sवश्याभयुपेया। नन्वखण्डतमो द्रव्यमावर-
Page 27
१ सू. १ वर्णकम् । १७ कमिति चेन्न। तस्य नित्यत्वे मुत्त्योगात् ज्ञाननिवर्त्यत्वे तस्यैवा- ज्ञानत्वात्। अत्र कश्विन्वेदाभेदाभ्यां सर्वसङ्करवादी जल्पति । अग्र- हणमिथ्याज्ञानतत्संस्कारा एवाज्ञानमिति स प्रष्टव्यः। कि तन्मिथ्या- ज्ञानमिति ननु मनुष्योऽहमिति भ्रम इति चेन्नायं भ्रमः भेदाभेदज्ञान- त्वात्। खण्डो गौरिति ज्ञानवत्। ननु यथेदमिति प्रतिपन्नं रूप्यं तत्रैव निपिद्ध्यते तद्वदहमिति ज्ञातं मनुष्यत्व निषिद्ध्यते । नाहं मनुष्यः किन्तु व्रह्मेति तथा चाय भ्रमः स्वविशेष्ये बाितार्थज्ञानत्वादूप्य- ज्ञानवदिति चेन्नायं गौ: खण्डः किन्तु मुण्ड इति गोत्वावच्छ्िन्नैक्येन झञातस्य खण्डस्य तत्रैव निषेधात्। खण्डो गौरिति ज्ञाने व्यभिचारा- तू। ननु खण्डो गौरिति प्रतिपन्नोपाधी गोत्वावच्छ्विन्नमात्रे विशेष्ये खण्डो न बाध्यते किन्तु गोत्वावच्छिन्ने मुण्डे स वाध्यते, अतस्तत्र हेत्वभावान्न व्यभिचार इति चेन्न। तथा सति पक्ते हेतुस्वरूपासिद्धेः न ह्यहन्त्वावच्छिन्ने मनुष्यैक्यनिषेधः किं त्वहन्त्वावच्छिन्ने ब्रह्मणीति तुल्यत्वात्। ननु जातिव्यक्तिगुण गुणिकार्यकारण विशिष्टस्वरूपांशां शिभावा: पञ्च यत्र, तेष्वेव भेदाभेदाविति न हेत्वसिद्धिरितति चेन्न । तव क्षपणकशिष्यत्वेन सर्ववस्तुषु भेदाभेदवादित्वव्याघातात्। मनुष्यशब्दितदेहस्य ब्रह्माभिन्नात्मकार्यत्वाच्च। तस्मात्सर्वत्र भेदा- भेदयोः सत्वे भ्रान्तिस्तव मते दुर्लभेति सिंद्धम्। किं च भ्रान्तेर्मनो- धर्मत्वे आत्मन्यविद्या न स्यादिति बन्धमुक्तिवैयधिकरण्यम् न चात्मनः परिणामो भ्रमः । ज्ञानरूपस्य नित्यज्ञानगुणकस्य वा ज्ञा- नान्तरपरिणामायोगात्। यावद्द्रव्यभाविस्वसमानजातीयगुणान्त- रावरुद्धे एकमात्रवृत्तिगुणान्तरस्यानुदयात्। अतो न शब्दद्वित्वादी परमते व्यभिचारः। आत्मनो नित्यज्ञानं सुषुप्त्यनुसन्धानान्यथानु- पपत्या सिध्यति। तस्मान्भान्त्यादिमूलत्वेनानिर्वचनीयभावरूपमक्षा- नमनाद्येष्टव्यमिति तस्याध्यासोपादानत्वं युक्तमेव । एवमुपादाना- त्मना प्रवाहरूपेण वा नैसर्गिको उध्यासो हेतुहंतुमत्त्वान्नैमित्तिक इ- त्युच्यते भाष्यकृता मिथ्याज्ञाननिमित्त इति। एवं निष्कलङ्कचैतन्यै- कताने निरंशानन्दैकरसे ज्ञानादिसाक्षिणि अज्ञानाध्यासो Sनादि- स्तत्कार्याध्यात्मिकाध्यासानामहमिति प्रथमो Sध्यासः। नन्वधिष्ठा- नारोप्यांशद्वयानुपलम्भान्नायमध्यास इति चेन्न। अहङ्कारटीकायामं- राद्वयस्य वक्ष्यमाणत्वात्। नन्वहङ्कारेन्द्रियाणां साक्षिभेदानुपल- म्भादस्त्वध्यासः, शरीरस्य तु मम शरीरमिति भेदोपलब्धेरिन्द्रिय- ३
Page 28
१८ विवरणोपन्यासे ग्राह्यत्वाच्च नाध्यास इति चेन्न । कल्पितस्याहङ्काराख्यस्य भोक्तु- भोगोपकरसत्वेनाध्यस्तत्वानुमानात्। मायाविना कल्पितस्य राज्- इछत्रादिवदिति। भेदोपलम्भस्तु परोक्षः। इन्द्रियग्राह्यत्वं च नाध्य- स्तत्वविरोधि। तथा चाधिष्ठानसामान्यज्ञानचैतन्यं पूर्वपूर्वभ्रमजन्य- संस्कारश्च निमित्तं अनाद्यज्ञानमुपादानं दोपश्च। अज्ञातात्मा कर्तेति सामग्रीसत्वादध्यासः सम्भवति। तस्माद्विषयप्रयोजनसम्भवाच्छा- स्त्मारम्भणीयमिति सिद्धम । अधुना लक्षणसम्भावनाप्रमाणैरध्यास: साध्यते। तत्राह-को Sय- मध्यासो नामेत्यादि ? कथ पुनः प्रत्यगात्मनीत्यस्य प्राक्तनं लक्षणभाष्यं तदादिसम्भावनाभाष्यं तमेतमविद्याख्यमात्मानात्मनोरित्यारभ्य सर्व- लोकप्रत्यक्ष इत्यन्तं प्रत्यक्षानुमानार्थापत्यागमाख्यप्रमाणपरमिति वि- भाग :? ननु लक्षणस्येतरभेदज्ञानं फलं, सम्भावनाया असम्भावनानि- रास: फलम्।असम्भावना नाम ग्राह्यवस्त्वभाववुद्धिः।एवञ्चप्रमाणेन सर्वतो व्यावृत्तवस्तुसत्तानिश्चये सति लक्षणसम्भावनेन वक्तव्ये तयो: फलस्यार्थसिद्धत्वादिति चेतू? उच्यते। यदि वस्तुसाधकमानेन लच्- णं ज्ञायेत यथा चक्षुषा घटत्वं, तदा सयं ज्ञानलक्षणसामर्थ्यात्त- त्फलसिद्धे: पृथग्लक्षएं न वाच्यम्। इह तु अध्यासे साक्षिप्रत्यक्ष व्यवहारो Sध्यासमूलः । तदन्वयाद्यनुविधायित्वादित्यनुमानं व्यव- हारानुपपत्तिः। ब्राह्मणो यजेतेत्याद्यागमश्चाहं मनुष्य इति ज्ञानमात्रे मानं; न तु तज्ज्ञानस्याध्यासत्वं तेन ज्ञातुं शक्यं किन्तु बाधेनाध्यास- त्वं शुक्तिरूप्यादिज्ञानस्य ज्ञायते। तल्लक्षणयोगादहं मनुष्य इति ज्ञा- नस्याध्यासत्वं स्पष्ट भवति नान्यथा। तस्मादस्य ज्ञानस्य प्रमातो भे- दज्ञानाय लक्षणं वाच्यम्। भेदज्ञानं विना वाधानुदयादिति सिद्धम। आत्मानात्मनो: परोकषं भेदज्ञानमादायाहं(१) नर इत्यादिज्ञाने लक्षणं योज्यम। यद्यपि क्वचित्प्रमाणेनैवासम्भावना निरस्यते यथा पच्षिणा- माकाशगमने, तथापि क्वचित् प्रत्यक्षसिद्धे Sप्यसम्भावना दृश्यते। यथा दूरदृष्टवता दृष्टे सवितृसुषी एवमात्मनि अविषये Sसङ्गे गुणाव- यवशून्ये स्वतोभासमानविशेषे आरोप्य विशिष्टज्ञानविषयत्वस्य दोषानुषङ्गस्य सादृश्यस्य विशेषादर्शनस्य चाध्यासव्यापकस्याभा- वादध्यासासम्भावना स्यादिति पृथक् सम्भावनाऽपि वाच्या। अतो लक्षणसम्भावनाप्रमाणानि क्रमेणोच्यन्ते।अथ सिद्धान्तन्यू- (१) भवज्ञानायाहमिति पाठान्तरम्।
Page 29
१ सू. १ वर्णकम् । १९ नाधिकोक्तिभिः पश्चहेत्वाभासैश्च वर्जिता प्रमाणयुक्तिश्यां तत्वनिर्णय- फलावादकथा। तदूपमिदं शास्त्रमिति सूचनार्थ लक्षणप्रश्नभाष्ये आहेति परोक्तिः। स्मृतिरूपः परत्र पूर्वदृष्टावभास इत्यध्यासलक्ष- एं भाष्यम्। अस्यार्थः । स्मृतिः स्मर्यमाणं वस्तु तद्रूपस्तत्सदृशः । सादृश्यं स्फोटयति। पूर्वेति। हषट दर्शनं संस्कारद्वारा पूर्वदर्शनाद- वभास्यत इत्यर्थः । तथा च संस्कारजन्यज्ञानविषयत्वं शुक्तिरूप्य- स्य स्मर्यमाणेन सादृश्यम्। एवं च स्मर्यमाणसदृदशत्वे सति परत्राव- भास्यत्वमध्यस्तत्वम। योग्याधिकरणे प्रत्यभिज्ञायमाने देवदत्ते Sति- व्याप्तिनिरासाय परत्रेति पदम्।अयाग्याधिकरणपरमुपात्तम्।अधि- करसास्यायोग्यत्वं कल्पितार्थात्यन्ताभावरूपत्वं तदत्यन्ताभाववत्वं वा। यद्यप्येकावच्छेदेन स्वसंसृज्यमानाधिकरणे स्वात्यन्ताभाववत्य- वभास्यत्वं सादयनाद्यध्यस्तसाधारणं निर्दुशं लक्षणम्। संयोगे Sति- व्याप्तिनिरासायकावच्क्वेदेनेति। कालभेदेन स्वात्यन्ताभाववत्यवभा- स्ये घटे Sतिव्याप्तिनिरासाय ससंसृज्यमानेति पदम तेनाभावकाले तदधिकरणे प्रतियोगिसंसर्गस्य वर्तमानतोच्यते। ननु संयोगादि- कमध्यस्तं लक्ष्यमिति चत्सत्यम्। चैतन्ये सर्वमध्यस्तं न तु जडे वृ- क्षादी संयोगादिकमध्यस्तमित्यलक्ष्यमेतत्। तथापि स्मृतिरूपपदं न व्यर्थम्। तद्बलनैव परत्रावभासपदाभ्यामुक्तलक्षणलाभात्।तत्पदं विना परत्रावभास इत्युक्तावन्यथाख्यातिशङ्का स्यात। तत्पदेन पर- प्रावभास्यो ऽर्थः।स्मर्यमाणसदश इत्युत्त्ा स्मर्यमाणाद्वभिन्नो पर्यस्तत्र वर्तत इत्युक्त भवति। तत उक्तलक्षणलाभः तस्मिन्नर्थे पूर्वोक्तसा- मग्रीस्मरणार्थ पूर्वदृष्टपदेन संस्कारजन्यत्वमुक्तमित्यनवद्यम। अन्ये तु परत्रावभासपदाभ्यामध्याससाधारणलक्षणमुक्तं स्मृतिरूपपूर्व- ृष्टपदाभ्यां प्रातीतिकाध्यासलक्षणमुच्यते। अत्र रूप्यस्य स्मर्यमा- णेन प्रमाणाजन्यज्ञानविषयत्वं सादृश्यं स्मृतिरूपशब्दार्थः। स्मृतिभ्र- मयोः प्रमाणाजन्यज्ञानत्वात्। पूर्वृष्टपद तु पूर्वदृष्टजातीयपरम्। अ- भिनवरूप्यस्य पूर्वदष्टत्वाभावात्।सदो जातघटे स्मर्यमाणे चातिव्या- प्तिवारणाय पदद्यम्। न चाविद्यायां पूर्वमदष्टायामव्याप्ति: तस्या व्यावहारिकत्वात् । यदि तस्याः प्रातीतिकत्वेन लक्ष्यत्वं तदा त- ज्जातीयत्वं नामातीतदर्शनाविषयत्वमिति संक्षेपः । एतदभिप्रेत्याह- अग्रहभ्नान्तिसंस्कार कर्मभिर्नावृनिर्भवेत्। सर्वसङ्करवादी च मूलाज्ञानस्य सिद्धये॥
Page 30
२० विवरणोपन्यासे निरस्तो उध्यासभाप्यस्य विभागस्तस्य लक्षणमिति। अत्राहाख्यातिवादी रजतं स्मर्यमाणमेव न तत्सहशमत्रापरो- क्षमनुभूयते अनुभाव्याभावात् वाधविरोधेनार्थासत्वाच्च। तन्न। अधिष्ठानसामान्यज्ञानदोषादीनामनुभावकत्वात्। इदं रजतमिति पु-
पत्तिः। बाधयोग्यार्थस्वीकारात। तस्मादत्र कालत्रये पि रजतं ना- स्तीत्यवाधितानुभवरूपवाधादत्यन्ताभावः सत्यः । अपरोक्षानुभव- विषयो उर्थः सन्नपि मिथ्येति न विरोधः।अनुभवबलन समानसत्ता- कयोरेव भावाभावयार्विरोधकल्पनात। पुरोवर्तिविषयकरजतज्ञा- नानङ्गीकारे इदं रजतत्वेन साक्षात्करोमीत्यनुभवविरोधः । इदमि प्र- वृत्त्यनुपपत्तिश्च। ज्ञानस्येष्टतावच्छेद कविशिष्टस्वविषये प्रवर्तकत्वात्। तद्विशिष्टस्य देशान्तरस्थत्वात्तव मते तत्रैव प्रवृत्ति: स्यादिति।ज्ञा- नाध्यासलक्षणं तु स्मृतिसद्दशत्वे सति परत्रावभासत्वम। सादृशयं संस्कारजन्यत्वे सति स्मृतिभिन्नत्वम। विशेषणकृत्यं पूर्ववतू। ननु भ्रमो न संस्कारजन्यः अस्मृतित्वादभिज्ञावदिति चेन्न । संग्र- योगमात्रजन्याभिज्ञाप्रत्य्षादन्येषां ज्ञानानां सर्वेषामपि पूर्वानुभव- जन्यसंस्कारजन्यत्वात् । व्याप्त्यनुभवजसंस्कारे सत्यनुमितिरन्य- था नेत्यन्वयव्यतिरेकदर्शनात्।तथा च हेतोरनुमिती व्यभिचारः। अतो रजतज्ञानस्य संस्कारजन्यत्वे Sपि नस्मृतित्वम। स्यादेतत् रज- तभानं स्मृतिरेव। संस्कारमात्रजन्यज्ञानत्वात्। गङ्गास्मृतिवत् । न च हेत्वसिद्धि: संप्रयोगस्याधिष्ठानज्ञाने उपक्षयात्। अनुभवस्मृ- त्यात्मकस्य सर्वस्य ज्ञानस्य यथार्थ त्वेन भ्रान्तेश्चासत्वेन दोषस्य हे- तुत्वे मानाभावात्। न च साध्याविशेषः स्मृतित्वस्य जातित्वात्। अननुभवत्वं वा साध्यम। नचैवं रजतं स्मरामीत्यनुभवापत्ति: स्म- रणाभिमानस्य प्रमोषात्। इदमित्यनुभवाव्यवधानेनोत्पन्नरजतज्ञा- नादिदमि प्रवृत्तिर्युज्यते। ननु बालस्य तिक्तानुभवाभावात्तिक्तो गु- ड इति स्मृतिः कथमिति चेत्? उच्यते। पित्ताख्यो दोष एव जन्मा- न्तरीयसंस्कारमुद्बोध्य स्मृर्ति जनयति माधुर्यज्ञानं प्रतिबभ्नाति स्मृ- तित्वं च मुष्णातीति। तस्मादख्यातिर्भ्रान्तिरिति सिद्धम।अत्रोच्यते। केयमख्यातिः? न तावद्विशिष्टज्ञानाभावमात्रं सुषुप्ती भ्रान्तिप्रसङ्गात्। नाप्यविविक्तानेकपदार्थज्ञानत्वं भ्रान्तित्वं यदि पदार्थयोरविविक्त- त्वं भेदाक्षानं तर्ह्यसम्भव्रः, इदं रजतमित्यपुनरुक्तशब्दद्वयस्मृतिहेतु-
Page 31
१ स. १ वर्णकम् । २१ त्वेन सामान्यविशेषयोरभेदज्ञानस्य सत्वात् । यदयैक्यज्ञानं तदा म- दिप्रसिद्धिः। तादात्म्यसंसर्गज्ञानलाभात्। खण्डो गौरिति प्रमा- या मतिव्याप्तिश्च। यदयविविक्त ज्ञानद्वयं भ्रमस्तर्ह्यज्ञाते भेदयोर्घट- पटज्ञानयोर्भ्रान्तित्वापत्तिः । कदाचिन्द्रेदज्ञानं प्रकृते Sपि तुल्यम्। त- स्मादख्यातिवादिनो लोके भ्रान्तिव्यवहारोच्छेदः। अतो मिथ्यार्थ- ज्ञानं भ्रम इत्यकामेनाप्यङ्गीकार्यम्। किश्च रजतज्ञानस्य स्मृतित्वे स्मरामीत्यनुभवेन ग्रहणादिविवेकापत्तिः । न च स्मरणाभिमानः प्रमृष्ट इति वाच्यम्।न तावत्स्मृतिरेव स्मरणाभिमानः तस्याः सत्वे- न प्रमोषाभावात्। नापि स्मृतिध्वंसः, तस्याप्यसत्वात् । न च स्मृतित्वस्याज्ञानं प्रमोष इति वाच्यम्। तज्ज्ञानस्यैवापाद्यत्वात्। न च दोपासदज्ञानं सो Sयमिति प्रत्यभिज्ञाभ्रमे सत्यपि दोपे तं स्मरामी- ति ज्ञानात्। पतेन पूर्वानुभवदेशकालवैशिष्ट्यं स्मर्यमाणस्य त- त्तारूप: स्मरणाभिमान: तदज्ञानं प्रमोष इति निरस्तम। सो Sयमिति भ्रमे तज्जञानस्य सत्वेनायमित्यनुभवात् स इति ज्ञानं भिन्नम्।सचा- यञ्च भिन्न इति विवेकापत्तेः । अनुभवस्य स्वाविषयत्वेन स्वविषय- मात्रविषयकस्वजन्यस्सृतिविषयत्वायोगाञ्च । अनुभूतो घट इति स्मृतिस्तु न घटव्यवसायजन्या, किन्तु तदनुव्यवसायजन्या अनुव्यवसायश्च सिद्धान्ते साक्षिरूपः । सच विषयविशिष्टत्वेनानित्य इति संस्कारहेतुः।न चानुभवस्य स्वप्रकाशत्वात्स्वजन्यस्मृतिविष- यत्वं कार्यमात्रस्य जडत्वात्पदार्थस्मृतेरमूलानुभवागोचरत्वदर्शनाच्च। न स्मर्यमाणे क्वापि पूर्वानुभवसम्भेदः यस्तव स्मरणाभिमानो भवेत् पदार्थस्मृतेरप्यनुभवगोचरत्वे नुभवस्य शब्दार्थता स्यात्। अ्त्र प्रसङ्गात् कश्चिदाह। शब्दास्यार्थेन संयोगतादात्म्ययारसत्वात्सम्व- न्धान्तरादर्शनाच्चाप्रामाण्यमिति। तन्न। शक्तेः सम्बन्धस्य सत््वात्। नन्वव्युत्पन्नस्य शब्दादर्थस्मृत्यदर्रनाच्छव्दार्थयोः सम्बन्धज्ञानमर्थ- स्मृते: प्राग्वक्तव्यम्। शक्तिस्तु स्मृतिरूपकार्यलिङ्गानुमेयेत्यन्योन्या- श्रयः।सम्बन्धज्ञाने जाते स्सृतिजन्म तेन च तञ्ज्ञानमिति चेन्न। व्यु- त्पत्तिकाले शब्दस्यार्थे शक्तिग्रहानन्तरं शब्दश्रवणात् शक्तिग्रहजसं- स्कारोद्वोधमात्रेण पदार्थस्मृत्यङ्गीकारात्। अर्थस्मृते: प्रागेव शब्द- स्यार्थेन सम्बन्धज्ञाने तु शब्दवयर्थ्य स्यात् सम्बन्धविशेषणत्वेना- र्थस्य ज्ञातत्वादित्यलम्। ननु यदि पूर्वानुभवसम्भेदो न स्मृतिविषय- स्तर्हि स्मृतेरनुभवात् विषयविशेषाभावात्कथं भेद इति चेतू?
Page 32
२२ विवरणोपम्यासे कथ तव घटस्मृतेर्धटानुमितितो भेदः ज्ञानसम्भिन्नार्थगोचरत्वावि- शेषात्। ननु करणविशेषादनुमितिस्मृत्योरभेंद इति चेदिहापि तुल्यम्। संस्कारमात्रस्य स्मृतिहतुत्वात् । तदन्यस्यानुभवहतुत्वात् तस्मात्सं- स्कारमात्रजन्यत्वमेव स्मृतेरनुभवाद्विशेषः । नेतो ऽन्यः स्मरणाभभि- मानो नाम कश्चिदस्ति यस्य प्रमोपादविवेक: कल्प्येत। किश्च स्वप्ने आत्मा गरृह्यमाण: अन्यत्सर्व स्मर्यमाणं तत्र गृह्यमाणाविवेके डहं नीलमिति स्यात्स्मर्यमाणानामेवान्योन्यमविवेके परोक्षता स्या- प्तस्मान्नाख्यातिर्भ्रमः। रजतज्ञानस्य शुक्तिगोचरत्वाभावे तत्र प्रव- रतकतवायोगाच्च। एतेनासत्यप्रवृत्तिहेतुज्ञानत्वं भ्रान्तित्वमिति निर- स्तम्। तस्माद्रजतज्ञानं पुरोवर्तिविषयकमू। तत्र प्रवर्तकज्ञानत्वाच्छु- क्तिज्ञानवदिति सिद्धम। विशिष्टज्ञानात्मको भ्रमः। स्मृतित्वानुमाने हेतो: स्वरूपासिद्धिः । रजतं साक्षात्करोमीत्यनुभूयमानज्ञानस्य सं. स्कारमात्रजन्यत्वाभावादिति स्थितम। तार्किकास्तु सादृश्यादिदोष- दुष्टमिन्द्रियं देशान्तरस्थरजतात्मना शुक्तिकां गृह्णातीत्यन्यथाख्याति- रित्याहुः। तदयुक्तम्। इदं रजतमिति भ्रमे किमिदाम रजततादात्म्य- मारोप्यं रजतत्वसंसर्गो वा ? आद्ये किं रजतांशज्ञानस्य शुक्तिर्विष- यः रजतं वा? नाद्यः। अनुभवविरोधात्। द्वितीये देशान्तरस्थरजते प्रवृत्ति: स्यात् ज्ञानस्य स्वविषय एव व्यवहारहेतुत्वात्। एतेन रज- तज्ञानस्य शुक्तिर्विषयः तज्जन्यव्यवहारास्पदत्वादिति निरस्तमुक्त- बाधात्। द्रव्यज्ञानाडूव्येण सहार्थादादीयमानगुणादी व्यभिचाराज्च। किश्च सामान्यविशेषयोरत्यन्तभेदवादिना तादात्म्यस्यासत्वेन प्र- त्यक्षत्वायोगः, जन्यप्रत्यक्षविषयत्वे इन्द्रियसन्निकर्षाश्रयत्वस्य व्या- पकत्वादसति तदभावात्। एतेन संसर्गारोपो निरस्तः । शुक्तिकेदं- रजतत्वाभ्यां निरूपितसंसर्गस्यात्यन्तासत्वात् रजतत्वस्य सवातन्त्रये- णोपस्थित्यभावेनारोपासम्भवाच्च। भेदाभेदवादिनां तु तादात्म्यस्य सत्यत्वान्न क्वापि भ्रमः स्यात् । यत्तु शुक्तिका रजताकारेण परिएम- तीत्यन्यथाख्यातिरिति तन्न। दुग्धपरिणामस्य दन्न इवास्य वाधा- सम्भवात्। तस्मान्नान्यथाख्यातिः । अत्राहात्मख्यातिवादी बौद्ध: । रजतं बुद्धभिन्नं इन्द्रियासन्निकृष्टत्वे सति अपरोक्षत्वादू बुद्धिवत्। बुद्धेरजताकारत्वे तद्बुद्धिसन्ताने पूर्व कदाचिदुत्पन्नरजतबुद्धिरेव संस्कारशव्दिता हेतु: व्यवहितस्यापि शालिबीजस्य सवसमानाकार- बीजहे तुत्वदर्शनातू। तस्माद् बुद्ध्यात्मकं रजतम् बहिर्वत्स्यात् इत्या-
Page 33
१ स्. १ वर्णकम् । २१ त्मख्यातिरिति। स वक्तव्य :- रजतं कुतो जायते? इति न तावदर्थात ज्ञानाद्वाह्यार्थानङ्गीकारात्। नाप्यतीतरजतज्ञानात्। अतीतस्याहे- तुत्वात् अन्यथा चिरध्वस्तवन्हेरिदानी धूमप्रसङ्ग: । न च यस्य ज्ञा- नस्याकारो रजतं तस्मादेव तज्जञायत इति वाच्यम। अभेदे तदयो- गातू। भेंदे तु क्षणिकस्य जनकज्ञानस्य पश्चान्भावि रजतं न विषय: ज्ञानान्तरं तु रजतस्य दुर्लभमित्यज्ञातमेव रजतं स्यादिति। तस्मा- न्नात्मख्यातिः। ननु तर्हि रजतज्ञाने का सामग्री, किं तज्ज्ञानं, कस्त- स्य विषय इति उच्यते। अधिष्ठानसामान्यज्ञानं संस्कारो दोषश्ञ निमित्तम् न च दोषस्य विशेषज्ञानप्रतिबन्धकत्वमेव न विपरीतका- र्यहेतुत्वमिति वाच्यम। वेत्रबीजे दावदाहाख्यदोषस्य कदल्यङ्करहे- तुत्वदर्शनात्। ज्ञानं त्वधिष्ठानारोप्यविशिष्टज्ञानमेकमैन्द्रियक न
तस्य प्रातीतिकस्य प्रतीते: पूर्व सन्निकर्षाभावात्। किन्तूक्तनिमित्त- सहिताविद्यारजततद्वत्त्याकारेशा परिणमते। एवं चाधिष्ठानारोप्य- योरवृत्तिज्ञानभेदे पि सत्यानृतयोस्तादात्म्येनैक्यादेकविषयावछिन्नं चैतन्यरूपमेकं विशिष्टज्ञानं फलरूपं भ्रान्तिज्ञानम्। तस्य च मिथ्यार- जत विषयः । भ्रान्तेर्मिथ्याज्ञानत्वप्रसिद्धन्यथानुपपत्तिर्विषयस्य मिथ्यात्वे मानम्। स्व्रतो ज्ञानस्याबाधेन मिथ्यात्वायोगादिति। त- ्र चाविद्यावृत्तावनाग्रहः वृत्ति विनापि रजतस्य सुखादिवत्साक्षि- भास्यत्वसम्भवात्। इदमाकारवृत्तिनाशादेव रजतस्मृतियोगात्। यद्वृत्त्यवच्छ्िन्नं चैतन्यं यावतां सत्तानिश्चयरूपं तद्वृत्तिनाशात्ताव- द्रोचरसंस्कार इति नियमात् । पूर्वानुभवसंस्कारस्य प्रातीतिकर- जतं प्रत्येव हेतुत्वोपपत्तरिति संक्षेपः । ननु सिद्धान्ते रजतं पश्या- मीति चाक्षुषत्वानुभवः कथमिति चेतू? इदमाकारचाक्षुपवृत्त्यभि- व्यक्तचैतन्यविषयत्वादिति ब्रमः । यत्तु संप्रयोगस्यानुभवे संस्का- रस्य स्मृतौ निरपेक्षत्वादनुभवस्मृत्यात्मकं ज्ञानद्वयमेव युक्तं नैकं विशिष्टज्ञानं निरपेक्षहेत्वोरेककार्यकारित्वादर्शनादिति, तन्न । ज्ञा- नद्ययोगपद्याभावेन प्रवृ्त्त्यनुपपत्तेः । धूमज्ञानस्य स्वकार्ये धूम- व्यवहारादी निरपेक्षस्यैव व्याप्तिसंस्कारसहितस्यानुमिति हेतुत्व- दर्शनात्। न च व्याप्तिस्मृतिरेव सहायः अस्या अपि स्वकार्ये नि- रपेक्षत्वेन निरपेक्षहेतोरेक्वकार्यकारित्वानपायात्। धूमदर्शनोद्वुद्ध- संस्कारादेवानुमितिसम्भवेन मध्ये Sननुभूयमानव्याप्तिस्मृतिकल्प-
Page 34
२४ विवरणोपन्यासे नानीचित्याच्च। एतेन परामर्शो हेतुरित्यपास्तम। पक्षतावच्छेदका- चच्छ्िन्नवृत्ति हतावव्यभिचरितसाध्य सादेश्य रूपव्याप्तिपरामर्शाङ्गी- कारे तदानीमेव पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरनुमित्युच्छेदा- पत्तेः सिद्धसाधनत्वादसन्निकृष्टवन्हिव्याप्तेः प्रत्यक्षत्वासम्भवाच्च । ज्ञानस्याप्रत्यासत्तित्वादिति दिक। संस्कारसंप्रयोगयोरेव प्रत्यभि- ज्ञाकारित्वदर्शनाच्च। भिन्नजातीयज्ञानहेतुभ्यो नीलादिभ्यश्चित्ररू- पाभिज्ञाप्रत्यक्षदर्शनाच्च। तस्माद्दोषेण सह संस्कारसंप्रयोगाश्या- मेकं भ्रान्तिज्ञानं युक्तम। यद्यपि संप्रयोगस्याधिष्ठानसामान्यवृत्तावेव हेतुता दोषसंस्कारयोस्तु मिथ्यारजते तद्वृत्ती च तथापि विशिष्ट- आ्रान्तिज्ञानरूपचैतन्यमपि वृत्त्यादिविशिष्टत्वेन जायमानं सत्परम्पर- या संप्रयोगादिजन्यमित्युच्यते इति मन्तव्यम्। किञ्च सर्वेषामेव पु- रोदेशे रजतानङ्गीकारवादिनामत्र तत्साक्षात्करोमात्यनुभवीवरोधः। जनु तवाप्यस्तीत्यनुभूतस्य सद्भिन्नत्वे ऽनुभवविरोध इति चेन्न । रजते इदन्तासंसर्गवद्धिष्ठानसत्तासंसर्गारोपात् । ननु सर्वस्या- विद्यकस्याधिष्ठानचैतन्यरूपसत्त्वसम्बन्धाविशेषे कथं प्रातीतिक व्यावहारिकविभाग इति चेत्? उच्यते। अविद्यातिरिक्तदोषाजन्यं जडं व्यावहारिकं आगन्तुकदोषजन्यं प्रातीतिकं तथा तत्सम्बन्धा- देकमेव सत्वं त्रिविधमित्युच्यते। कालत्रयावाधिते ब्रह्मणि स्वरूपे पारमार्थिकं सत्वं घटादौ व्यावहारिकं तदव सत्त्वं रजतादी प्राती- तिकमिति। अन्ये तु त्रीणि सत्त्वानि भिन्नान्येव व्यवहाराय कल्पि- तानीत्याहु: तञ्चिन्त्यम्। सर्वत्र सद्वुद्धेरेकाकारत्वाल्लाघवाच्च।तस्मा- दुपाधिभेदादेव सतत्वस्य त्रैविध्यम्।एवं चानुभवाविरोधान्मायामयं रजतं प्रत्यक्षभ्रान्तिविषय इति सिद्धम। एतदभिप्नेत्याह- अख्यातिभङ्ग: शब्दार्थसम्बन्धकथनं तथा। अन्यथात्मख्यातिभङ्गो मिथ्यारजतसाधनमिति॥ अत्र केचित्। अविद्यामयं रजतंन मायामयम। मायाविद्ययोर्भे- दप्रसिद्धेरित्याहुः। अत्रोच्यते। किं लक्षणभेदात्तयोर्भेदः, उत व्यव- हारत :? नादः। अनिर्वचनीयत्वस्वरूपलक्षणस्य तत्त्वावरकत्वविशे- षलक्षणस्य भ्रान्त्युपादानत्वोपलक्षणस्य चाविशेषात् रजतादेरप्य- विद्यात्मकत्वेन लक्ष्यत्वान्नाद्यस्यातिव्याप्तिः। यथा पृथिवीलक्षणस्य गन्धस्य पृथिवीत्वेन लक्ष्ये घटे नातिव्याप्ति: तद्वतू।न च सत्यमन्त्रा- दिकमेव मायेत्यनिर्वचनीयत्वासिद्धिरिति वाच्यम्। अनिर्वचनीयका-
Page 35
१ सू. १ वर्णकम् । २१ र्योपादानस्यैव मायापदार्थत्वात्। मस्ति हि मायाविना सृप्टेषु मि- थ्यागजादिषु मायापदप्रयोगः । स च तदनुस्यूतोपादानविषयः। ग- जादीनां व्यावृत्तानां तदर्थत्वासम्भवात्। तथा च मिथ्योपादानं स्वयं. मिथ्यामायापदार्थः। अघटितकारित्वगुणयोगान्मन्त्रादौ मायाशब्दो गौणः। न च स्वाश्रयाव्यामोहिका माया तद्यामोहिका Sविदेति भेद इति वाच्यम्।एकस्या अपि भ्रमविरोधिज्ञानवत्यव्यामोहकत्वस्य तच्छून्ये मोहकरत्वस्य च सम्भवात्। तस्मान्न लक्षणतो भेदः।नापि व्यवहा- रतः।"तत्वभावाद्विश्वमायानिवृत्ति"रिति श्रुती। "तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते। योगी मायाममेयाय तस्मै विद्यात्मने नम" इति च स्मृती। तत्त्वज्ञाननाश्याविद्यायां मायाशब्दप्रयोगात्तथैव भा- ष्यकारादिभिर्व्यवहारादिति न मायाSविद्ययोर्भेदः। किन्त्वेकैवाविद्या सर्वसाधारणभ्रमशत्तवा विक्षेपशक्त्या वा माया असाधारणभ्रम- शत्त्या आवरणशत्त्या वा अविद्येत्युच्यते। तस्मान्भवत्यविद्यं रजतं मायामयमिति। न च रजतं पारमार्थिकमिति सतूख्यातिर्युक्ता, शुक्ति वत्सर्वदा ग्राह्यतापत्तेः । कालत्रये Sपि नास्तीति वाधानुपपत्तेश्च। तेन हि वाधेन प्रतिपन्नस्य रजतस्याधिष्ठाने Sत्यन्ताभावप्रतियोगित्वरूप- मिथ्यात्वमेव विषयीक्रियते। एतेन वाधप्रत्यक्षमपि मिथ्यात्वे मानमि- त्युक्तं भवति। इदं चाभावः प्रत्यक्ष इति परमतेन द्रष्व्यम् । सिद्धान्ते तस्यानुपलब्धिग्राह्यत्वात्। यद्वा सिद्धान्ते उप्यभावो उनुपलब्धिसहितसाक्षिप्रत्यक्ष इति मन्तव्यम । बाधानन्तरं मिथ्यै- व रजतमभादित्यनुभवो बाधस्य मिथ्यात्वविषयतां द्रढयति। ननु को 5यं वाधःन तावदन्यार्थिनो Sन्यत्र प्रवृत्तिध्वंसी बाधः वीतरागाणां प्रवृत्त्यनुदये उप्यधिष्ठानदर्शने वाधप्रसिद्धेः। न चाभेदेन ज्ञातयोर्भेंद- ज्ञानं बाधः। शुक्को घट इति ज्ञातयोर्घटस्य शौक्कयमिति भेदज्ञानस्य वाधत्वापत्तेरिति उच्यते । किं मिथ्यात्वव्यवहारहेतुर्बाध आत्ति- व्यते, तत्वसाक्षात्कारसाध्यो वा ? नाद्यः । प्रतिपन्नस्याधिष्ठाने ऽत्य- न्ताभावप्रमाया एव तद्धेतुत्वेन वाधत्वात्। तबुक्तं वाधप्रत्यक्षसिद्धं वि- द्यात्वमिति।न द्वितीयः । कार्यात्मना परिणताज्ञाननिवृत्तेस्तत्साव्य- त्वेन वाधत्वादित्यनवद्यम्। एवं ख्यात्यन्तरनिरासेन मिथ्यारजते परत्रा- Sवभास्यत्वमध्याससाधारणलक्षणमुपपादितम। तत्र स्मृतिरूपपदेन ज्ञानाध्यासे संस्कारजन्यत्वं स्मृतिसादृश्यमुक्तम। अत्र के चितू। भ्रमस्य संस्कारमात्रजन्यत्वेन स्मृतिसादृश्यायोगात् सादृश्यवाचि- ४
Page 36
२६ विवरणोपन्यासे ना स्मृतिरूपपदेन दोषसंप्रयोगसंस्कार जन्यत्वं लक््यते। तथ्य कार्या- ध्यासस्य लक्षणमित्याह्कुः। तत्र दोपादेरन्वयव्यतिरेकाभ्यां रजता- दयर्थे Sपि हंतुत्वं मन्तव्यम। नन्विदं लक्षणद्यं स्वप्नाध्यासे नास्तीत्य- व्याप्तम, न हि तत्रेन्द्रियसम्प्रयोगो Sस्ति, इन्द्रिया णामुपरतत्वात्।अतः कार्याध्यासलक्षणमत्र नास्ति अधिष्ठानादर्शनात्। परत्रावभा- स्यत्वमपि नास्तीति चेतू ; उच्यते। निद्रादोषपूर्वानुभवजन्यसंस्का- रसहितं मनः स्वसंप्रयुक्तात्मन्यविद्यां क्षोभयित्वा शुद्धाविद्याविवर्त- गजादिपदार्थसमकालं तद्गोचरं ज्ञानमुत्पादयति। अतो लक्षणद्वयमत्र स्वप्े Sस्त्येव, मनःसम्प्रयोगसत्वान्मनउपहितात्मनो Sधिष्ठानत्वात्। वस्तुतस्तु मनोध्यासं प्रतीन्द्रियसम्प्रयोगालाभादधिष्ठानसामान्यज्ञा- नमेव हेतुरिति तदेवानुगतं सम्प्रयोगपदेन विवक्षितमिति न कश्चि- दोपः। अत्र निष्कृष्टाहङ्कारचैतन्यमात्रमिति विवरणवाक्येन स्वप्ना- घिष्ठानचैतन्यं प्रति मनसो विशेषणत्वं निषिध्यते। अहं नीलमिति भाननिरासाय तूपाधित्वमपि निषिध्यते। तदवच्छिन्नचैतन्यस्थावि- द्याववर्तः स्वप्नप्नपञच इति टीकाया अन्तःकरसोनावच्छिन्नेत्यादि स्व- व्याख्यानेन च विरोधात् । सप्नस्यानुपहितचैतन्यस्थत्वे स्वे शरीरे यथाकाममिति श्रुतिविरोधश्च। मनोवच्छ्विन्नात्मवेद्यत्वासम्भवश्च।सं- बन्धाभावात्। तस्मात्स्वमे घटः स्फुरतीति चैतन्यतादात्म्यानुभवाञ्चै- तन्यमेवाधिष्ठानं तस्योपाधिर्मनोरूपाहङ्कारः न विशेषणम्। अयं घट इत्यहङ्कारात्पृथकृत्वन विच्छेदावभासादिति। इदमभिप्रेत्याह- मायाविद्यैक्यमत्रोक्तं सतूख्यातेश्च विमानता। स्वप्नाध्यासे लक्षणोक्तिर्वाधरूपोत्त्यनन्तरम् ॥ इति। किश्च जागरणे Sपि प्रत्यगात्मसाक्ष्यभिन्नचैतन्यमेव सर्वप्रपञ्चा- धिष्ठानं किमु वक्तव्यं रवपे चैतन्यमधिष्ठानमिति।न हिजागरणे स्व- तश्चैतन्यहीनानां विषयाणां चैतन्यात्मनि कल्पितत्वं विना मया Sवग- तोयं घटादिरिति भानं सम्भवति संबन्धाभावात्। न च घटपटादि- चैतन्यानां भेदात्तदभेदे प्रत्यगात्मनो पि भेद: स्यादिति वाच्यम। नियमेन घटाद्युपाधिज्ञानपूर्वकं भासमानचैतन्यभेदस्योपाधिकतया प्रातिभासिकत्वात्स्वतश्चैतन्यभेदे मानाभावादिति अद्वितीयं चैत- न्यं जागरइव रवप्ने धिष्टानमित्यनवद्यम। परत्रावभास इतिलक्षणम्। अत्रावभासो ज्ञानं अतो नाम्नि ब्रह्मदृष्टी नातिव्याप्तिः । तस्या विधे- यायाः कृतिसाध्यत्वेन क्रियात्वात्। न हि ज्ञानं कृतिसाध्यं कृति
Page 37
१ सू. १ वर्णकम् । २७ प्रति साधनत्वादयत्नतो वुर्गन्धाविज्ञानदर्शनाश्चति । अत्राह शून्य- वादी। परत्रेति पदं व्यर्थ के शोण्ड्रकभ्रमे Sधिष्ठानाभावात्तस्मादर्थज्ञानं भ्रम इत्येव लक्षणमिति। तत्तुच्छम। शून्यक्षानस्यापि भ्रमत्वापातात्। करसंमृदितनयनरश्मिषु केशस्य पिण्डाकारभानात्। तस्मात्परत्र प- रावभास इति लक्षणं सर्वमतेष्वनुस्यूतं तत्र सिद्धान्तगत्या सत्ये वस्तुनि मिथ्यासम्भेदावभास इति पर्यवस्यतीति मत्वाह- जागरे चिदभेदोक्ति: स्वप्नावस्थानसिद्धये। ज्ञानस्यायत्रसाध्यत्वं भ्रमे Sधिष्ठानसाधनमिति॥
ष्ठानको भ्रम इति, तन्न। हष्टान्तवैषम्यात्।न हि यस्माद्वीजाद्यो डङ्क- रस्तस्मादेवाङ्करासद्वीजं जायते। अन्योन्याश्रयापत्तेः। किन्तु पूर्व- स्मादङ्करान्तरात्। ननु भवत्वस्माकमपि संविदो रजते उध्यासस्त- स्यापि पूर्वसंविदि तस्या अपि पूर्वरजते इति परम्परेति चेन्न। इदं रजतमिति झ्ञायमाने रजते पूर्षसंविदादीनामनन्वितत्वेनाधिष्ठान- त्वायोगात्। बीजस्याप्यनन्वितत्वेनाङकरं प्रति निमित्तमात्रत्वात् । अन्वितद्रव्यान्तरस्यैवोपादानत्वेनाधिष्ठानत्वात् संविद्रजतयोः नि- मित्तनैमित्तिकभावस्याप्यदष्टस्य कल्पनानीचित्यातू। तस्मादिदं र- जतिति द्याकारावभासनावन्वितसत्याधिष्ठानको भ्रमः । अपि चै- कस्मिन्नाकारे आकारान्तराभावज्ञानस्य वाधत्वात्साघिष्ठान एव भ्रमः।अन्यथा वाधोऽपि निरधिष्ठान एव स्यातू। अधिष्ठानप्रसत्तय- भावात्। नन्वाप्तवाक्यान्न सर्प इति मिरधिष्ठानो बाधो Sस्तीति चे- न्न। सर्पाभाव विशिष्टाधिय्ठानसामान्यस्य तत्राप्यवगतत्वातू। कि त- दिति विशेषाकाङ्क्षादर्शनात्। कि बहुना सर्वदा सर्वत्राव्यभिचारिसा- क्ष्यवधिक: सर्वस्य बाध इति न शून्याधिष्ठानको भ्रमः।य्तु असदेव ख्यायते इत्यसत्ख्यातिरिति, तन्न। असतो Sपरोक्षत्वायोगात्। स- त्वमपि वाधान्नास्तीत्युक्तम्।न चान्यत्र सत एवान्यत्र वाध इति नि- यमाद्वेशान्तरे सत्त्वमिति वाच्यम्। यदि प्रतिहर्ता विच्छ्विद्यात्सर्ववेदस- न्दद्यादयदुद्गाता तर्हदत्षिणो यज्ञ इति ऋत्विग्विच्छेदनिमित्तप्रायश्चि- त्तयोर्निमित्तयोगपद्य विकल्पः। पूर्वापाये(१तु पूर्वस्योत्तरेण बाध इति सिद्धान्तः। न हि तत्र प्रतिहर्तृविच्छेदनिमित्तसर्वस्वदानकर्तव्यतात्र वाधिता ऽन्यत्रास्ति, इह भग्नथटस्यान्यत्रासत एव बाधदर्शनाच्च। (१) पूर्वापर्ये इति क्वचितपाठः।
Page 38
२८ विवरणोपन्यासे तस्मात्सत्ये वस्तुनि परत्र सदसद्विलक्षणवस्तुसम्भेदावभासो भ्रम इति पर्यवसन्नम्। अत्र भ्रान्तिविषयमिथ्यात्वस्य लोकानुभवसिद्ध- त्वान्न युक्तपेक्षेत्याह भाष्यकारः। शुक्तिका हि रजतवदवभासते एकश्चन्द्रः स द्वितीयवदिति बाधसिद्धमिथ्यात्वस्यात्र वच्छव्देनानु- घादः। तत्रात्मनि अहङ्काराध्यासे रज्जुसर्पोदाहरणं जीवेश्वरभेदा- ध्यासे द्वितीयोदाहरणमिति भावः । नन्वहङ्गारे परत्रावभास्यत्व- मिति लक्षणमव्याप्तम्। दोषादित्रयजन्यत्वमपि तत्र नास्ति। तथा हि। विशिष्याज्ञातं सामान्यतो ज्ञातमधिष्ठानं शुक्त्ादिकं परत्रप- दार्थः, नात्मा, निःसामान्यविशेषस्वप्रकाशत्वादतः पर त्रेत्यंशाभावाद- व्याप्तिः। निरवद्यात्मनि दोपाभावात्स्वप्रकाशे वस्तुनि अविद्यारूप- दोषस्याप्यभावात्। दोषघटितसामग्रचपि नास्ति। रवप्रकाशत्वं नाम स्वव्यवहारे प्रकाशान्तरानपेत्षत्वम् तञ्च यावत्सत्वम् "9भासमानात्म- न्यस्त्येव। परप्रकाश्यत्वे प्रकाशाभावदशायामात्मनि सतत्वसंशया- पत्तेः। अत्रायं पुरुषः स्वयंज्यांतिः आत्मैवास्य ज्योतिरिति श्रुते- श्च। अत्र हि ज्योतिरात्मेति सामानाधिकरण्यादात्मनो ज्ञानरूपत्वं भाति। स्वयमिति विशेषणेनात्मनो घटादिवच्चिद्वेद्यत्वं प्राप्तं वार्यते। ज्योतिरेव स्वयं न ज्यातिर्विषय इत्यर्थः । यत्तु ज्योतिःपदं ज्ञानक- र्तृपरं स्वयमिति च स्वज्ञाने कर्त्रन्तरनिरासार्थमिति, तन्न। तमोवि- रोधिप्रकाशे रूढस्य ज्योतिःपदस्य ज्ञानकर्तरि लक्षणाया अन्या- य्यत्वान्मुख्यार्थग्रहे नुपपत्त्यभावात्।न चानित्यज्ञानस्य गुणस्य नि- त्यद्रव्याभेदानुपपत्तिरिति वाच्यम। ज्ञानस्यानित्यत्वे गुणत्वे च मा- नाभावात्। किञ्चानादित्वात् ज्ञानस्य तत्कर्तृलक्षणा न युक्ता। ज्ञानं स्वाश्रये सति न जन्यते प्रकाशत्वात् प्रदीपरूपवदिति अनादित्वा- नुमानातू। प्रकाशत्वं तमोविरोधित्वं, स्वविषये संशयादिजननवो- ग्यत्वं तमस्त्वं, तञ्ञ ज्ञानसाधारणं तमोनिवृत्ती भास्वररूपमेव हेतु:, न प्रदीपद्रव्यमिति न तत्र व्यभिचारः। निर्गुणोत्पत्तेर्निरस्तत्वात्। अथवा स्वाश्रयसत्वस्यानेकक्षणव्याप्यत्वस्य विवक्षितत्वान्न दष्टान्ते साध्यवैकल्यमिति बोध्यम्। परमतेन प्रत्यक्षगुणत्वं वा विशेषणम- स्तु।अतो नादृष्टे व्यभिचारः । अत एव नाश्रयाप्रसिद्धिः। परमते त- स्य प्रसिद्धत्वात्। परं प्रति बोधकानुमाने परकीयप्रसिद्धेरेवोप- गमातू।अतः सत्याश्रये प्रकाशगुणस्य क्वाऽपि जन्माऽदर्शनादनाद्यात्म- (१) यावत्स्वत्वमिति पाठान्तरम्।
Page 39
१ सू. १ वर्णकम् । २९ नि ज्ञानमनादि। ननु सति मनसि वृत्तिर्जायते इति चेत्सत्यम्। त- स्या अप्रकाशत्वान्न व्यभिचारः । अथ वा ज्ञानं क्रियाजन्यसंस्का- रेषु संस्कारत्ववज्ज्ञानप्रभारूपसाधारणं प्रकाशत्वमखण्ड व्यवहार- वलादस्त्विति न कश्विद्दोपः। ज्ञानं न जायते ज्ञानत्वादीश्वरज्ञान- वत् व्यतिरेकेण घटादिवश्चेति वा प्रयोक्तव्यम्। तस्य ज्ञानस्योपा- धिं विना भेदादर्शनादद्वितीयस्य नाशकाभावाज्न्मादिप्रतीते: वृ-
त्वमित्यात्मनः स्वयंप्रकाशत्वमनवद्यम्। तदेतदभिप्रेत्याह- उदाहरणभाष्यार्थः स्वयं ज्यातिष्टमात्मन इति। तस्मादहङ्कारे लक्षणाव्याप्तिः कारणाभावश्चति प्राप्ते ब्रूमः । निरंशेप्यात्मनि चित्पूर्णानन्दादिपदवाच्यरूपा अंशाः कल्पिताः स- न्ति। तत्र चिदंशरूपाधिष्ठानसामान्यज्ञानं स्यप्रकाशत्वादस्ति पूर्णा- नन्दत्वादिविशेषावरणाज्ञानं चास्ति तदेवाधिष्ठानमावृत्त्याहङ्कारादि- भ्रमं करोतीति दोष इत्युच्यते। अतो Sहङ्कार परत्रात्मन्यवभास्यत्वम अधिष्ठानसामान्यज्ञानदोषसंस्कारजन्यत्वं चास्ति। यत्तु स्वप्र- कारो कथमविद्येति। तन्न। अनादिस्वरूपाज्ञानस्यानुभवबलेनावि- रोधित्वात्। अनुभवस्त्वहमज्ञ इत्यादि: पूर्व दर्शितः। अनुमानमपि द- र्शितम्।श्रुतिरपि जीवस्य सुपुप्ती भ्रान्त्यादिप्रतिबन्धकाभावात्स्वप्रका- शत्वाङ्गह्मस्वरूपावभासप्राप्ती प्रतिबन्धकमविद्यादोषं दर्शयति । "सर्वाः प्रजा अहरहर्गच्छ्वन्त्य एतं ब्रह्मलोकंन विन्दन्त्यनृतेन हि प्रत्यूढा" इति। प्रत्यूढा आवृताः । हिशव्देन साक्ष्यनुभवसिद्धत्वमुच्यते। अनृ- तेनेति मिथ्यात्वोत्तया ज्ञानाभावत्वं पराभिमतं वार्यते । अत एवा- ज्ञानस्य न प्रामाणिकत्वम्। अनुभवसिद्धाज्ञाने प्रमाशैरभावव्यावृत्ति- मात्रबोधनात्। यद्यपि भावत्ववोधकप्रमाणानामज्ञानं विषयस्तथा- व्यज्ञातभावत्वांशएव तेपां प्रामाण्य यद्यप्यज्ञानस्य धर्मवद्यावहा- रिकप्रमाणगम्यत्वे Sि न क्षतिर्मिथ्यात्वेनाधिष्ठानज्ञाननिवर्त्यत्व- सम्भवात्। तथाप्यज्ञाने साक्ष्येव सत्तासंशयविरोधिनिश्चयत्वाद्ध- र्मिग्राहकं प्रमाणमिति वस्तुगतिरुक्ता । नीहारेण प्रावृताः, "अज्ञाने- नावृतं ज्ञान"मिति श्रुतिस्मृती अपि भावरूपाविद्यादोपे प्रमाणम्। ज्ञा- नान्मुक्तिश्रुत्यन्यथानुपपत्तिरपि ज्ञाननिवर्त्याविद्यायां मानमिति। एवं स्वरूपज्ञानस्याविद्यायाः साधकत्वेनाविरोधात्प्रमाणबला- त्स्वप्रकाशात्मनि ब्रह्मस्वरूपविषयमज्ञानमस्तीति सिद्धम् । न
Page 40
३० विवरणोपन्यासे
अज्ञानस्यावरकत्वेन तमोवदावृत्तविषयनिष्ठत्वसम्भवातू। न च का- चादी व्यभिचारः। करणानाश्रयत्वे सतीति विशेषणात्। ननु तर्हि आवृत्ताखण्ड ब्रह्मनिष्ठाज्ञानाजीवस्याज्ञत्वभ्रान्तत्ववदीश्वरस्या Sपित- त्प्रसङ्ग इति चेन्न असर्वज्त्वात्। यद्यपि चित्वाकारेण जीव इवेश्वरे उप्यज्ञानमस्ति, तथा Sपि नित्यसर्वशेश्वरं बिम्बरूपं ब्रह्म खण्डस्वरूपं नावृणेोत्यज्ञानमिति नाक्षत्वादिप्राप्तिः।स्वप्रतिबिम्वरूपं जीवं प्रति त्व- खण्डस्वरूपमावृणोतीति तस्याक्षत्वादिप्राप्ति: उपाधेः प्रतिबिम्बपत्त- पातित्वात्। पतेनाखण्डचिदेकरसे ब्रह्मणि कुतो जीवेश्वरभेदो येना- जत्वसर्वज्ञत्वादिव्यवस्था स्यादिति निरस्तम । मूलाविद्यात एवा- नादेरमेंदस्याङ्गीकारात्। तन्नाशे नाशावनावेरपि भेदस्याविद्यामूलत्वं युक्तम। यत्वभिन्ने वस्तुनि भेवसम्पादको Sतिरेको नाम कश्चिद्धर्म इति, तन्न। भेदातिरिक्ते तस्मिन्मानाभावात्।यदप्यन्तःकरएं भेदकमिति, .. तदपि न। तस्य सत्यत्वे मिथ्याभेदप्रयोजकत्वानुपपत्तेः। जीवब्रह्म-
च सिद्धम्। सुषुप्तावन्तःकरणस्य स्वमपीतो भवतीत्यादिना नाशाव- गमात्प्रत्यहं तज्ज्ेदाज्जीवभेदापत्तिः सूक्ष्मतायाः अविद्योपादानं विना दुर्निरूपत्वादुपादाने लीनकार्यस्यैव शक्तिरूपस्य सूक्ष्मशब्दार्थत्वात्। नन्वस्त्वविद्योपादानकमन्तःकरणं कल्पितमेवा मोक्षातू स्थूलसूक्ष्मभा- वनानुस्यूतं भेदोपाधिरिति चेन्न/तस्य प्रमातृजीवभंदोपाधित्वेऽव्य-
एवावरकत्वेन क्लप्तायास्तदुपाध्चित्वमिति सिद्धम्। ननु किमाश्रये- यमचिद्या भेदभ्रमहेतुरिति चेतू? लोके मुखमात्रसम्बन्धिनो दर्पास्य
घ्रूमः। नन्वसङ्गस्वप्रकाशचिन्मात्र स्या ्S्वि द्या ्ुपत्ते र ह - मज्ञ इत्यनुभवाच्ान्त:करणविशिष्टाश्रयमज्ञानमिति चेदहो पाण्डि- त्यमायुष्मतः !विशिष्टस्य विशेषणमात्रत्वे विशेष्यचिदंशे Sनुपपत्ति- तादवस्थ्यात्। जडस्य कार्यस्य मनसः कारणाविद्याश्रयत्वानुपपत्ते- श्च।अतो अनुपपन्नद्वयाश्रयत्वाद्वरमेकचिदाश्रयत्वं चितिकल्पिताया अविद्याया अनुपपत्तेररङ्कारत्वाद्विशिष्टस्यान्यत्वे तन्निष्ठाऽविद्यया चिदात्मनि बन्धमुक्ती न स्याताम।अतो यस्य मुक्तिस्तस्य बन्धस्तस्या- विद्येति नियमा्चिन्मात्राश्नयाविद्या। अहमज इति धीस्तु अहङ्कारा-
Page 41
१ सू. १ वर्णकम् । २१ ज्ञानयेरेकचित्सम्बन्धाद्रष्टव्या।अयो दहतीत्ययसि दग्घृत्वधीवत्। एतेन केवलान्तःकरणमेवाविद्याश्रय इति कस्य चिज्ल्पनमपास्तम्। अत्र संग्रहश्लोक :- अज्ञानं स्वप्रकाशे Sस्ति स्वावृते तद्विवर्तते। तन्मूलो जीवभेदः स्यान्नातिरेकान्न चेतस इति॥ ननु भवतु स्वप्रकाशचिन्मात्रस्याविद्याश्रयत्वम्। एतस्मिन् ख- ल्वक्षरे गार्ग्याकाश पतश्चप्रोतश्चेति श्रतेराश्रयान्तराभावा्च सुपुप्ती चिन्मात्राश्रयत्वानुभवाच्च। तथा Sपि तस्य नाविद्याविषयत्वं भासमा- नस्यावृतत्वाख्याज्ञानविषयत्वविराधादिति चेन्न । घटं न जानामी- त्यज्ञानविशेषसास्य घटस्य भासमानस्यैवाज्ञानविषयत्वानुभवातू। सविषयकवस्तुज्ञाने विषयस्य भासमानत्वनियमात् अतो Sनुभवबला- त्स्वरूपचतन्येन भासमानत्वमविद्याविषयत्वाविराधीति कल्पनीयम्। नन्वेवमप्यनावृतसाक्ष्यभिन्नं ब्रह्मणि कथमावरणमिति चेन्न । पूर्णा- नन्दादयंशे भेदनावरणस्योक्तत्वात्। किंच भासमाने ऽप्यावृतत्वं युक्तं, स्वतो Sपरोक्षसांशष्यात्मनि देहान्रेदे भासमाने उप्यावृतत्वदर्शनात्। तथा हि अपरोकसंविदूपसाचितादात्म्येना Sत्मनो Sपरोक्षत्वं देहान्ेदः साच्षिणि तदूपस्तद्व्मों वा धर्मिप्रतियोगिनोभीसमानयोः साक्षिता- दात्म्येनात्मनो Sपरेक्षतया भासतएव। तथाप्यावृतो मनुष्यो Sहमित्य- भेदभ्रमातू।अत्र कश्चिदाह। भेदो भासते Sनावृतश्च अभेदश्ञानं तुगौएं मुख्यत्वे प्रमात्वापत्तेः। न चाथायमशरीर इत्यादिश्रुत्या देहः स्वा- तिरिक्तद्वष्टक: दृश्यत्वादित्यनुमानेन च दंहात्मत्वे शास्त्रानर्थक्यकृत- हान्यादितर्केश् वाधान्मुख्यत्वे पि भ्रान्तित्वमिति वाच्यम्। अभेद- प्रत्यक्षविरोधे श्रुत्यादीनामबोधकत्वादिति तन्न। भेदस्यानावृतत्वे दे हातिरिक्तात्मनि वादिनां विवादाभावप्रसङ्गातू।नहि माणवकाग्न्यो- भेदे वा कश्चिद्विवदति। तस्माद्भेदे विवादाद्वेहात्मज्ञानं मुख्यमेव। उक्तवाधेन भ्रान्तित्वनिश्चयात् न प्रमात्वापत्तिः। केवलश्रुत्यादीनां प्रत्यचाहुर्बलत्वे ऽपि तर्कसहकृतानां प्रबलत्वात्। नाडयं सर्प इति
तितर्कज्ञानवतो Sहंप्रत्ययेन भिन्नात्मभानादभेदज्ञानं गौणमिति चेतू, किं तज्ज्ञानेनाऽहंप्रत्ययस्य भेदविषयत्वं क्रियते उत भदारे स- त्तानिश्चयत्वान्नाद्यः । श्ञानस्याप्रत्यासत्तित्वेन ज्ञानान्तरोपनीतभे-
Page 42
३२ विवरणोपन्यासे दस्य प्रत्यक्षारहप्रत्ययाविषयत्वात्। न हि वटज्ञानेन (१ पटविषय- कं ज्ञानं भवति। शब्दयुत्त्यनुसन्धानात्प्रागप्यहंप्रत्ययस्य साक्ष्यात्मनि भेदगोचरत्वाच्च तस्य भेदांशे सत्तानिश्चयत्वाभावान्भासमाने Sपि भेदे आवृतत्वमुक्तम । द्वितीयस्त्विष्ट एव। न चश्रुतियुक्तिभ्यामहंप्र- त्यये भेदे सत्तानिश्चये सति अभेदज्ञानं गौणमिति वाच्यम्। परोक्ष- निश्चय स्यापरोक्षभ्रमाविरोधित्वात्।अत एव भगवत्पादर्विदुषां पश्वा- दिभिरविशेष उक्तः। अपरोक्षनिश्चये तु सर्वस्य वाधात्कस्य गौण- त्वमित्यलम्। तस्मान्भासमानस्याप्यात्मनो Sविद्याविपयत्वं युक्त- मिति मत्वाह- भासमाने Sप्यावृतत्वं दष्टं देहात्मभेदगमिति। एवं स्वयंप्रकाशात्मनि तदाश्रिततद्विपयाविद्यादोषसाधनेना- उहङ्काराध्यासे दोपादिकारणत्रयजन्यत्वं सिद्धम। अहङ्कारभ्रमस्य साच्षिरूपस्य विषयविशिष्टत्वेन जन्यत्वं मन्तव्यम्। परत्रात्मनि अ- चभास्यत्वं च लक्षणं सिद्धम्। नन्वधिष्ठानारोप्ययोरेकज्ञानविषय- त्वमध्यासव्यापकं तदभावादविपयात्मन्यहङ्काराध्यासो न सम्भ- वतीति चेन्न। एकज्ञाने भासमानत्वस्यैव तद्यापकत्वात्। चैत- न्यास्याऽहमिति ज्ञानरूपस्यान्तःकरणस्थत्वेन स्पष्ट भासमानत्वा- ददर्पणस्थत्वेन सौरालोकवतू।तदाह भाष्यकारः।अस्मत्प्रत्ययविषत्वा- दिति। ननु तथा प्यहमिति ज्ञानं नाध्यासः । अधिष्ठानारोप्यांशद्व- यानुपलम्भादिति चेन्न । अहमुपलभे इति अंशद्वयानुभवस्य सर्व- संमतत्वादयो दहतीति दग्घृतादात्म्येनायस इवा Sत्राप्युपलब्धृसा- च्ितादात्म्येनाहङ्कारस्य भानात् । अहङ्कारस्य दृश्यत्वेन घटवद् द्र- रटृत्वायोगात् । कर्मत्वकर्तृत्वयोरेकस्यां क्रियायामेकस्यायोगेन स्व- द्रष्टत्वायोगाञ्च। द्रष्ट्रहङ्कारी भिन्नौ तादात्म्येनाऽहमिति प्रतिभासे- ते। दयूपस्याऽपि विषयविशिष्टचैतन्यवत्वेन द्रष्टृत्वं मन्तव्यम्। एवं दुःखित्वपरमप्रेमास्पदत्वाभ्यां जडात्मांशद्वयमूह्यं तयोरेकत्र सम्भ- वादित्याह :- अंशद्वयमहङ्कारे सर्वानुभवसात्तिकमिति। अत्र प्राभाकरा: प्रत्यवतिप्ठन्ते। घटमहं जानामीति विषय- संविदाश्रयत्वेन केवल आत्मा भासते। नात्रेदमंशो Sस्ति। यः कल्पितः स्यात्। तथा चपलब्धैवाहङ्कारो न तन्भिन्नः।अयोव्यतिरेकेण वन्हि- (१) घटज्ञानपटज्ञाननेति क्वचित्पाठः।
Page 43
१ सू. १ वर्णकम् । ३३ यदहङ्कारातिरेकेणात्मनः कदाप्यदर्शनात्तत्र घटस्य कर्मत्वेन सं- विदः स्वप्नकाशत्वेनात्मनः तदाश्रयत्वेनापरोक्षत्वान्न कर्मकर्तृत्व- विरोधः । अत्र सांख्या :- बुद्धि स्थचित्प्रतिबिम्बस्तादृशविम्बाधीनः प्रतिबिम्वत्वात् मुखप्र- तिबिम्बवदित्यात्मनो ऽनुमेयत्वं वदन्ति।ज्ञाततालिङ्गेन ज्ञानमनुमेयमि- ति भाट्टाः। सौत्रान्तिकास्तु संवेदनेषु प्रत्यक्षा अर्थप्रतिबिम्वास्ताद्ृश- बिम्बाधीना इति बाह्यार्थानामनुमेयत्वमाहुः। तदयुक्तम। घटमहं सा- क्षात्करोमीति प्रमातृप्रमाप्नमेयाणां प्रत्यक्षत्वानुभवविरोधात्। किश्च बाह्यार्थानामनुमिती साक्षाद्विपयत्वे प्रत्यक्षे Sपि तेपामेव विपयता किं न स्यादनुमितेरपि प्रतिविम्बत्राहित्वे बिम्वार्थासिद्धिर्मानाभा- घातू। तस्मात्रयो Sप्यपरोक्षाअत्राह विज्ञानवादी।यदपरोक्ष तद्विक्षा- नाभिन्नं यथा विज्ञानं अपरोक्षश्च घटादिरिति । तथा च विज्ञानाभेद एवार्थस्यापरोक्षत्वं न तु विज्ञानकर्मत्वमिति तन्न। घटं जानामाति भेदानुभवविरोधात्तस्मादिन्द्रिय जापरोक्षज्ञानकर्मत्व मेवार्थस्यापरोत् त्वम्। यदप्याहुर्भाट्टास्तार्किकाश्चात्मा मानसप्रत्यक्षविषय इति, तदपि न। कर्तृकर्मविरोधातू। विषयसंविदाश्रयत्वेनैव तस्य प्रत्यक्षत्वसम्भ- वेन तद्विषय कज्ञानकल्पनागौरवात् ज्ञानविषयत्वे चानात्मत्वप्रसङ्गातू। अतो ज्ञानाश्रयत्वमेवात्मनो Sपरोक्षत्वम। यत्तु ज्ञानमनुव्यवसायगम्य- मिति तार्किकास्तन्न। अनवस्थापत्तेः । निश्चितसत्ताकस्यैव ज्ञान-
सायस्यानन्तरं ज्ञानत्वविशेषसाज्ञानेन नाशान्नानुव्यवसायः जन्य- प्रत्यक्षे विषयस्य हेतुत्वात्। न च विनश्यदवस्थोऽनुव्यवसायो Sस्तीति वाच्यम्।वर्तमानस्यैव प्रत्यक्षविषयत्वात्। अन्यथा प्रत्यत्कापि निष्क- म्पा प्रवृत्तिर्न स्यात्। जानामीति वर्तमानतानुभवाच्च।किश्च येनात्म- मनःसंयोगेन व्यवसायः, तेनैवानुव्यवसायो जायते, संयोगान्तरेण वा?नाद्ः।अनुव्यवसायमालाप्रसङ्गातू। संयोगभेदं विना ज्ञानभेदा- योगाच्च।समूहालम्बने घटपठादिविषयभेदेन सामग्रीभेदे उप्यसमवा- यिकारण संयोगिक्येन ज्ञानैक्यदर्शनात्। न द्वितीयः । क्रियाविभागा- दिन्यायेन संयोगान्तरोत्पत्ती व्यवसायस्य चिरातीतत्वात्प्रत्यक्षत्वा- योगातू।न चशानं बहुक्षणावस्थायि अपसिद्धान्तात्। आत्मनि युगप- ज्ज्ञानद्वयायोगाञ्च। तस्मादुत्पन्नमात्रे ज्ञाने संशयादर्शनात्सप्रकार- त्वमंव ज्ञानस्यापरोक्षत्वम्। ५
Page 44
३४ विवरणोपन्यासे यदाहुर्भाट्टा ज्ञातताख्यो Sनुभवो विषयनिष्ठश्चाक्षुपप्रत्यक्षः संयुक्ततादात्म्यादिति। तन्न । अयोग्यानुभवग्राहित्वे चक्षुपस्तन्निष्ठ- रसादिग्राहकत्वप्रसङ्गात्। घटस्याऽनुभवाश्रयत्वे चेतनत्वापत्तेश्च । तस्मादात्मसमवेतस्वप्रकाशज्ञानमेव प्रमाणफल न ज्ञातता। प्रमाएं त्वात्ममनइन्द्रियार्थानां सम्बन्धः । पतेन ज्ञानमेवार्थाकारवत्वेन प्रमाणम्। अर्थाभेदेन प्रमेयं ज्ञानत्वेन फलमिति वौद्धोक्तं निरस्तम्। स्वस्य स्वहेतुत्वायोगात्। नन्वात्मा संविद्विपयः संविदन्यत्वाद्वटवतू। न च कर्मकर्तृत्वविरोधः। द्रव्यवोधरूपत्वादात्मनो द्रव्यांशेन कर्मत्वं वोधांशेन कर्तृत्वमित्यविरोधादिि चेन्न। ज्ञानकर्मत्वेन द्रव्यांशस्य घटवदनात्मत्वाज्ज्ञानकत्रेशस्यैवात्मत्वात्। तस्य च निरशस्य ज्ञान- क्रियां प्रति गुणभूतस्य कर्तुस्तां प्रति प्राधान्यरूपकर्मत्वविरोधताद- वस्थ्यात्। तस्मात्संविदाश्रयत्वेनाऽहङ्कारस्य भानादात्मत्वमिति प्राप्तमिमं प्राभाकरकृतं पूर्वपक्षं संत्िपति- मातृमेयप्रमाणत्वं परोक्षत्वं निराकृतम। अनुव्यवसितिमानमयाभेदश्च दूपितः॥ प्राभाकरमुखेनैव द्ृव्यवोधात्मदूपणमिति। एवं प्राप्ते ब्रूमः । स्- प्रकाशानुभूतिरेवात्मा न जडाहङ्कार इति। तथा हि। किं प्रकाशस्या- त्मनो जडानुभवाश्रयत्वेन सिद्धिरुत स्वप्रकाशानुभवाश्रयत्वेन, किं वा जडस्यात्मन: स्वप्रकाशानुभवाश्रयत्वेन सिद्धिरिति? नादः। प्रमाणफलस्यानुभवस्य जडत्वे ततः क्वाप्यज्ञानावरणनिवृत्त्ययोगा- जगदान्ध्यप्रसङ्गातू। तस्मादनुभवः स्वनिवर्त्यसजातीयेनाSनावृतःसा- क्षादावरसानिवर्तकत्वात्प्रदीपवत्। अनुभवे चाज्ञानशून्यत्वमनावृतत्वं र्पयवस्यति तच्च नानुव्यवसायादित्युक्तम् । अतः स्वत एवानुभव- स्यानावृतत्वं वाच्यमिति स्वप्रकाशत्वसिद्धिः। न हि स्वप्रकाश आर- त्मा जडानुभवप्रसादात्सिध्यतीति युक्तं वक्तुम। न द्वितीयः।उभयोः स्वप्रकाशत्वे मानाभावाद्ौरवान्मियो वार्तानभिज्ञतया SSश्रयाश्रयि- भावासिद्धेश्च। न तृतीयः। तथा हि। अहङ्कारधर्मरूपो यो जन्यानु- भवः सन स्वप्रकाशः कार्यत्वात् घटं जानामीति दृश्यत्वात् घट- वत् स्वस्य स्वविषयत्वायोगादनुव्यवसायनिरासाच्च। जन्यानुभ-
उहङ्कारो ज्ञानविषयः ज्ञानान्यत्वात् घटवत् । चिपक्षे व्यवहारानुप- पतिः ज्ञानान्यस्य व्यवहारविषयत्वे ज्ञानविषयत्वस्थ प्रयोजकत्वातू।
Page 45
१ सू. १ वर्णकम् । न चानात्मत्वापत्तिर्दोष इष्ठत्वात्। तच्चाऽहङ्कारविषयकं ज्ञानं नाऽहङ्का- रकर्तृकं कर्तृकर्मविरोधात्।सत्याश्रये प्रकाशगुणस्य क्वाप्युत्पत्तेरदर्श- नाच्च। तथा चाहङ्कारतद्धर्मसात्िभूत ज्ञानं लाघवादेकं तदेव स्वप्र- काशम्। स्वप्रकाशत्वस्यैकव्यक्तिवृत्तित्वे लाघवात्।तच्चानादि नित्यम्।
पाधिपरामर्श विना भेदाप्रतीतेः। तदेव चात्मा तद्भिन्नस्यानात्मत्वात्। भेदे मानाभावाच्च। आत्मा स्वप्रकाशानुभूत्यभिन्नः अनुभूतिकर्मत्वा- भावे सत्यपरोक्षत्वादनुभूतिवत्। ततश्च स्वप्रकाश आत्मा तदृश्यो जडो नात्माहङ्कार इत्यहमित्यध्यासेंशद्वय सिद्धम्। ननु सिद्धान्ते स्व्रप्रकाशचिदात्मैवा Sहङ्कार इत्यङ्गीक्रियतामिति चेन्न। दुःखादिपरि- णामिनश्चिदात्मत्वायोगात्। सुपुप्ती चिन्मात्रात्मनि भासमाने ऽप्यह- मित्यभासमानत्वाञ्च। देहादिवदनात्मैवाहङ्कार इत्यभिप्रेत्याSSह- अनुभूते: स्वयं भात्वमक्यमात्मत्वमेव च। अहङ्कारस्य नात्मत्वं सुपुप्त्यादावभासनात् ।। इति। ननु चिदात्मन एवाहमित्युल्लेखे विपयानुभवो हेतुस्तदभावात् सुपुप्तावहमित्युल्लेखाभावो युक्त इति चेन्न। सापेक्षनिरपेक्षयोर्भेदात्। चिदात्मा विपयज्ञानानपेक्ष: सुपुप्ती भाति तन्मात्रगोचरत्वे Sहमुल्ले- खस्य तदपेक्षा न युक्ता। अतः सापेक्षो ऽहमुलेखविषयो Sहङ्कारो विषयनिरूप्यश्चिदात्मनो भिद्यते। नन्वहमुल्लेखो Sपि चिदात्मभानव- द्विपयभानापेक्ष एव अतो Sनपेक्षत्वात्तयोरैक्यमिति चेन्न । सुषुप्ता- वहमित्युलेखापत्तेः। न चेष्टापत्तिः। अननुभवात्।सुपुप्तिभङ्गप्रसङ्गाच्च। ह्यस्तनाहङ्कार इव सुपुप्तावहमित्यभिमन्यमान एवासंमित्युत्थितस्य स्मृत्यापत्तेश्च ।स्वप्रकाशाहङ्काराभिमानस्थाप्यनुभवात्।ननु सुपुप्ता- वहङ्कारे न स्मृतिः अनुभवनाशाभावादिति चेत्तर्हि ह्यस्तने Sपि सा न स्यात्। ननु सिद्धान्ते कथमहङ्कारस्मृतिरिति चेदुच्यते। अह- क्कारानुभवो वृत्त्यवच्छिन्नचैतन्यरूपो वृत्तिनाशान्नश्यति नाशेन संस्का- रात्स्मृतिः। न च वृत्तिकर्तुस्तत्कर्मत्वे विरोध इति वाच्यम्। कर्तरि वृत्तिकृता Sतिशयाभावेन कर्मत्वाभावात्। अहङ्कारे चिंदशो जडांशा- न्तःकरणकर्तृकवृत्तिविषयः, जडांशो वृत्यवच्छिन्नचैतन्यविषय इत्य- विरोधातू। शालग्रामादिज्ञानधाराकालीनाऽहङ्वारस्य स्मृतिर्धारावृत्ति- नाशादेव भवति। तद्वृत्त्यवच्छिन्नचैतन्यस्य वृत्तितद्विपयतदाश्रया- हङ्गाराणां सत्तानिश्चयानुभवत्वादिति मन्तव्यम्। यन्तूत्थितस्य सुख-
Page 46
२६ विवरणोपन्यासे महमस्वाप्समिति परामर्रसन्भ्ावात्सुपुप्ती सुखाश्रयत्वेनाहङ्गारानुभवो स्तीति। तत्राह टीकाकारः।नाऽयं परामर्शः सुखगोचरः स्मृतिरूपः सुपुप्ती विषयानुभवजन्यसुखानुभवाऽसम्भवान्नित्यसुखे मानाभावात्। किन्तूत्थितस्य दुःखाभावगोचरेयमनुमितिरिति। इदञ्चाहङ्कारात्मवा- दिनं प्रति तन्मतमाश्रित्य समाधानम्। सिद्धान्ते तुसाक्षिस्वरूपसुख- सन्भावात्सुपुप्ती विक्षेपाभावादज्ञानसुपुप्तिसुखसाक्षिगोचराविद्यावृत्ति- प्रतिविम्बितचैतन्यात्मकसुखानुभवो जायते। तन्नाशे सति संस्कारो उप्यविद्यावच्छिन्ने साक्षिण्यनुभवितरि जायते। स एव साक्षी स्मरति सुखमहमस्वाप्समिति। स्मर्तृसाक्षितादात्म्यादहड्ारे स्मर्तृत्वावभा- सः।अहङ्कारस्तु स्वमपीतो भवतीति श्रुत्या सुपुप्तावसत्वादननुभवा- द्ोत्थितेन न स्मर्यते। किनत्विदानीमभिव्यक्तो Sनुभूयते। अन्येतु सा- क्षिस्थसंस्कारेणाSहङ्कारः स्मरति तस्यानुभवितृसाक्षितादात््यान्ना-
वृत्तिरेव। पूर्वस्मिन्मते तु अविद्यावृत्तिरिति भेदः। तदेतत्सगृह्गाति- सुखसुप्तिपरामर्शो दुःखाभावैकगोचरः। इति टीकाकुबुक्तिर्या सा न्यायमतसंश्रया॥ स्वरूपसुखसद्भावातत्सिद्धान्ते सुखगोचरः। इति। एवं स्मृतिमूलं सुषुप्ती सुखानुभवो Sस्तीति सिद्धम्। दुःखाभाव- स्तु सुपुप्ती सुखलिद्गेनोत्थितेना Sनुमीयते। विशेषज्ञानाभावो Sपिभाव- रूपाज्ञानेनाऽचुमीयते। तस्मात्सपुप्तावहङ्कारस्य भाने साधकाभावा- तसुपुप्तिभङ्गादिबाधकाञ्चात्मनि भासमाने Sप्यभासमानत्वाद्विनाशि- त्वात्परिणामित्वाद्टश्यत्वाच्चानात्मत्वम् । श्रुतावथातो Sहङ्कारादेश इ- त्यहङ्गारमुपदिश्याथात आत्मादेश इत्यहङ्कारान्निष्कृष्यात्मोपदेशान्म- हाभूतान्यहङ्कार इति स्मृतावहङ्गारं क्षेत्रेन्तर्भाव्य तत्साक्ष्यात्मनः क्षेत्र- ज्ञस्य दर्शितत्वाच्चाहङ्कारस्यानात्मत्वमिति सिद्धम। तच्चाहङ्कारस्या- विद्या माया प्रकृतिरग्रहणमव्यक्तम तमःकारणं लयः शक्तिर्महासुपु- प्तिर्निद्ा Sक्षरमाकाशमिति नामकमज्ञानमुपादानम्। इश्वरः कर्त्ता भ्रान्तिकर्म संस्कारानिमित्तं विज्ञानक्रियाशक्तिद्वयं स्वरूपं कर्तृत्वा- दिकं कार्य साक्षी प्रमाणमिति मन्तव्यम। तस्याहङ्काराख्यान्तःकर- णस्य सांशत्वात्सुषुप्ती प्राणव्यापारानुकूल: क्रियाशक्तयंशस्तिष्ठति। ज्ञानशततंचरो लीयते। सांख्यास्तु विचित्रपरिणामस्वभावस्य चेतना- जनधिष्ठितस्य प्रधानस्य परिणामो बुद्धिरहङ्कारःकर्तृत्वादिमानित्याड्ठ-
Page 47
१ मू. १ वर्णकम् । ३७ स्तन्न। कर्तृत्वादीनामात्मसम्बन्धाभावेन परोक्षत्वापत्तेर्बन्धमोक्ष- वैयधिकरण्याञ्च। न ह्यसङ्गात्मनः परनिष्ठकर्तृत्वादिसंबन्धेन सत्यः संबन्धो युज्यते। अतः ख्यात्यन्तरनिरासादाविद्यक एव संबन्धो वाच्य इत्यविद्यया SSतमन्यध्यस्ता बुद्धिरहङ्कारः।नैयायिकास्तु बुद्धिनिमित्त- कज्ञानाख्यो गुण आत्मधर्मः मनस्तत्र कारणं तदतिरेकेण कर्तृत्वादि- मानू बुद्ध्याख्यो डइङ्कारो Sप्रमाणिक इत्याहुः। अत्रोच्यते। कामादी- नामसङ्गस्वप्रकाशचिदात्मधर्मत्वासम्भवात् कामः संकल्प इत्यादिश्रु- त्या Sहमिच्छामि करोमीति दश्यमानधर्मवत्वेन मनो द्रव्यमेव वुद्धि- रहङ्कार इत्युच्यते। बुद्धेर्गुणेनाऽडतमा स्वतो महानप्याराग्रमात्रो दष्ट इति श्रुत्या परिमाणगुणवत्त्वादू बुद्धिर्द्रव्यमेव।दुद्धिर्यदा नेङ्गते, त- दा परमात्मानमश्चुते इति श्रुत्या चेष्टावर्वाच्च। सा च वुद्धिर्मन एव कामः संकल्प इत्यादिश्रुती धीर्मन इत्यभेदनिर्देशात् स एवाहङ्कार: कामादिधर्मित्वादित्यलम्। तदेतत्संगृह्गाति - अहङ्कारस्य हेतुश्च स्वरूपं कार्यमेव वा। प्रदर्शितं तथा तस्य द्रव्यत्वं वुद्धिरूपतः ॥ इति। तथा च यथा स्फटिके लौहित्यं कुसुमसान्निध्यदोषात्कल्पित- मेवं प्रत्यगात्मनि कर्तृत्वादिर्बन्धो Sहङ्कारसान्निध्यात्कल्पित इत्यसं- सारित्रह्मैक्यशास्त्रार्थे न कश्विद्विरोधः । अत्रायं प्रयोगः आत्मनि कर्तृ- त्वादिकं मिथ्या सोपाधिकत्वात्स्फटिके लौहित्यवत्। इत्याह- अत आत्मनि बन्धः स्यालीहित्यं स्फटिके यथा इति। ननु चक्षुःसंयुक्तसमवायेन कुसुमरूपस्य गृह्यमाणस्फटिके- नाविवेकमात्रं न मिथ्यारूपमिति दष्टान्तासिद्धिरिति चेन्न । कुसुम- स्य लौहित्यं स्फटिके नास्तीति विवेके Sपि लोहित: स्फटिक इति प्र- तीतेः, चक्षुःसंयुक्तस्फटिकसन्निहिते कुसुमे घटादिव्यवहिते रूप- ग्रहणासम्भवाच्च। एतेन ग्रृह्यमाणारोप इत्यन्यथाख्यातिर्निरस्ता। उक्तव्यतिरेकनिश्चयस्य ग्रह्यज्ञानमात्रप्रतिबन्धकत्वात् । यत्तु रू- पप्रतिविम्बभ्रमी ऽयमिति, तन्न। द्रव्यं बिना रूपमात्रप्रतिबिम्बायो- गातू। सद्व्यरूपप्रतिविम्बे स्फटिके लोहितं कुसुममिति धी: स्यात्। यदपि कुसुमप्रभासंयोगात्तया भ्रम इति, तदपि न। पझमरागादेंरिव कुसुमस्य प्रभायां मानाभावात्। तथा Sपि रूपितादात्म्यस्य रक्त: स्फटिक इत्यपरोक्षज्ञानविषयस्य मिथ्यात्वावश्यम्भावादसतो Sप- रोक्षत्वायोगातू। तरमाद्रक्त द्रव्य सन्निधिदोपातू मिथ्यारूपं जायते इतति
Page 48
३८ विवरणोपन्यासे षृष्टान्तसिद्धिः। नन्वेवं सति स्फटिके कुसुमे च रूपद्वयवदात्मनि अ- हङ्कारे च कर्तृत्वद्वय भायादिति चेन्न। धर्मिणोरेकत्वाध्यासेन दी-
द्वा कर्तृत्वादिधर्मको Sहङ्कार आत्मनि स्वरूपेण तादात्म्येन च कल्पित इति एकमेव कर्तृत्वादिकम।नच दष्टान्तासङ्गतिः।उपाधिसान्निध्या- न्मिथ्याधर्मभानमित्यंशे तत्सङ्गतेः । अत एव वृत्ति विनेव साक्षि- तादात्म्यादहङ्कारस्य दृश्यत्वलक्षणात इदमर्थस्या Sपि न व्यवहारत इदमर्थत्वम्।शरीरादेस्तु वृत्तिव्यवधानसिद्धिकत्वाद्यवहारतो Sपीद- मर्थत्वमिति विशेषः। एवं वन्धस्यौपाधिकत्वेन मिथ्यात्वादसंसारि- ब्रह्माभेदाविरोधे सति युज्यते। जीवो ब्रह्मैव। तत्प्रतिबिम्यत्वादर्प- णजलादिषु मुखसूर्यादि प्रतिबिम्ववदित्याह -- जीवव्रह्मविभागस्तु लोके बिम्बानुविम्बवत् इति। न च हेत्वसिद्धिः । यथा ह्ययं ज्योतिरात्मा विवस्वानपोभि- न्ना बहुधैको Sनुगच्छन्। उपाधिना क्रियते भेदरूपो देव: क्षेत्रेष्वेवम- जो Sयमात्मा।स एप इह प्रविष्ट इत्यादिश्रुतेः।यथा 5यं विवस्वानेको पपि भिन्ना अपो Sनुगच्छन्ननुप्रविष्टः सन् बहुधा क्रियते एवमात्मा चि- न्मात्र एको उप्युपाधिना जलवत्स्वच्छया मायया भेदरूपो भिन्नो जी- चः सन् क्षेत्रशव्दितान्त:करणादिषु बहुधा क्रियते इति योजना । प्र- तिबिम्बभावातिरिक्तप्रवेशासम्भवाद्विभुकूटस्थेश्वरस्य प्रवेशवाक्य- मपि जीवस्य प्रतिबिम्बत्वे मानम। "एकधा बहुधा चैव दृश्यते जल- चन्द्रवदिति"स्मृतिरपि।ननु यद्यस्य प्रतिबिम्बं तत्तदेवेति न व्याप्तिः। मुखे इमे भिन्ने इति भेदानुभवविरोधात्प्रत्यङ्मुखत्वादिविरुद्धध- र्मवत्वाञ्च अतो विम्बमुखस्य छायामुखान्तरंवा प्रतिविम्ब इति चेन्न। स्पष्टदन्तनेत्राद्यनुभवेन छ्वायात्वासम्भवात्। ग्रीवास्थमेवेदं मुखमित्य- भेदप्रत्यभिज्ञया मुखान्तरत्वायोगात्।अतो विम्वाधीनचेष्टावत्तया तत्र छायाशब्दो गौए:।किश्च कि मुखान्तरं दर्पऐे सत्यं मिथ्या वा ? ना- द्यः।शशमस्तके विषाणस्येव दर्पणे मुखस्योत्पत्तिकारणाभावाद्दर्पणा- वयवानां दर्पणे स्थिते परिणामान्तरायोगात्। दर्पणनाशस्त्वनुभववा- घितः। दर्पणे पर्वतादयुत्पत्तौ गुरुत्वातिशयात्पतनप्रसङ्गाच्च। विम्वा- पाये Sपि स्थितिप्रसङ्गाच्च। न चापेक्षाबुद्धिनाशाद्दित्वादिनाशवन्निमि- त्तापाये नैमित्तिकप्रतिविम्बद्रव्यापाय इति वाच्यम्। द्वित्वादेर्यावद्द्र- व्यभाविसतो Sपेक्षाबुद्धिव्यङ्गयत्वान्निमित्तनाशे द्रव्यनाशायोगाच्च।
Page 49
१ सू. १ वर्णकम् । ३९ दर्पणस्यान्तर्मुखादेरुत्पत्ती कठिनदर्पणभागव्यवधानेना ऽनुपलम्भप्रस-
श्।अतो न सत्यं मुखान्तरम्। यन्त बिम्वस्य प्रतिमुद्रा प्रतिबिम्ब इति, तन्न। स्न्निग्घसमपङ्क पादस्येव दर्पणे मुखस्य संश्लेपभावात्परिमाणभे- दाच्च। नापि मिथ्या मुखान्तरं नेदं रजतमिति रजतस्वरूपवाधव- न्नेदं मुखमिति स्वरूपवाधप्रसङ्गात्। तस्मान्ना Sत्र दर्पणे मुखमिति सं- सर्गमात्रवाधान्मदीयमेवेदं मुखमित्यबाधितप्रत्यभिज्ञानात्तदेव। तत्- प्रत्यङ्मुखत्वादिविरुद्धधर्मास्तु कल्पितभेदादुपपद्यन्ते । ननु मुख- स्याचाक्षुपत्वात्तत्प्रतिबिम्बं कर्थं चाक्षुपमिति चेन्न। नासिकाद्यव- यवसन्निकर्षेण मुखस्य चाक्षुपत्वाद्दर्पणाभिहता नेत्ररश्मयः परावृ- त्य मुखं व्याप्य व्यत्यस्तं दर्शयन्ति। ननु लोके भवतु विम्बप्रतिबिम्व- योरभेदः, न तु जीवव्रह्मणोः तत्त्वमसीति संसारिस्वरूपवाधादिति चेतू? अहो कष्टा तव मतिः! अन्तःकरणोपाधिकल्पितः संसार इति विरोधं परिहृत्य विम्वप्रतिबिम्बद्ष्टान्तेन सम्भावितमैक्यं वाक्यस्वा- रस्येन प्रमीयमाणं परित्यजति निश्रेःयसार्थिनो नारां चाङ्गीकरोति । तस्मात्सी 5यं देवदत्त इतिवदभेदार्थमिदं वाक्यं न वाधार्थमिति सि- द्धमित्याह- तत्वमस्यादिवाक्यं च न वाधार्थमितीरितमिति। एवं विम्बमेवोपाधिस्त्वेन भासमानं प्रतिविम्वमिति प्रतिवि- म्वं सत्यमेव उपाधिस्थत्वादिधर्मा एव कल्पिता इति तदंशे भ्रमः। न- न्वयं भ्रमो न युक्त: उर्ध्वाग्रो वृक्षो न जलस्थ इत्यपरोक्षविशेपदर्रने उपि अधोग्रत्वादिमत्तया जले वृक्तभानात्तद्वेत्वज्ञानाभावादिति चे- न्न।प्रतिविम्वविभ्रमस्य मूलाविद्याकार्यत्वातू न च व्यावहारिक- त्वापत्ति: आगन्तुकदोषजन्यत्वेन स्वप्नवत्प्रातिभासिकत्वोपपत्तेः।
विम्वयोरक्यापरोक्षज्ञानं नास्तीति ऐक्यावच्छिन्नात्मस्थमवस्थाजञानं तदावरकं भ्रमहेतुरस्तीत्याह्ुः। अन्ये त्वैक्यस्य विम्वस्वरूपत्वात्य- त्यक्षज्ञानमस्त्येघेति न तत्रावरणमस्ति। अज्ञानमात्रं तु भ्रमान्यथा- नुपपत्या Sस्तीति कल्प्यते। कालान्तरे न जानामीत्यनुभवाच्च निरु- पाधिकभ्रम पवावरणं हेतुः।सोपाधिभ्रमे तूपाधिः। भ्रमत्वावच्छिन्नं प्रत्यज्ञानं हेतुरिति व्यवस्थामाह्ठुः । विद्यमानमप्यज्ञानमावरणाभा- वाद्विशेषदर्शनप्रतिवन्धान्च तत्काले न व्यवहियते। विशेषदर्रीनमप्यु-
Page 50
४० विवरणोपन्यासे पाधिप्रतिबन्धान्न भ्रमं निवर्तयति। नन्वेवं सति अहं ब्रह्मेति तत्त्व- ज्ञानमप्यहड्डारोपाधिप्रतिबन्धात्कर्तृत्वादिभ्रमं न निवर्तयेतू। तथा चोपाधिनिरासार्थ किमपेच्ितमिति तत एव मुक्ति: स्यादिति चे- दुच्यते। तत्त्वज्ञाननिवर्त्याज्ञानकार्यत्वादहङ्कारोपाधिर्न प्रतिबन्ध- कः। दर्पणादिस्तु मुखादितत्वज्ञाननिवर्त्याज्ञानकार्यत्वाभावात्तत्वज्ञा- नकार्यप्रतिबन्धक इति। ननु देवदत्तप्रतिबिम्बस्येव जीवस्य प्रति- बिम्बत्वे तत्त्वज्ञानाश्रयत्वं न स्यादिति चेन्न। देवदत्तशरीरप्रतिवि- म्वस्याचेतनत्वाज्ञानानाश्रयत्वे Sपि चेतनप्रतिविम्वस्य जीवस्य चेत- नत्वेन तदाश्रय त्वसम्भवात्। ननु तथा Sपि तत्त्वज्ञानं विम्वस्येव दे- वदत्तस्य दृष्टमित्यत्राऽपि विम्बेश्वरस्यैव तत्वक्ञानाश्रयत्वं स्यादिति चेन्न।भ्रमनिवर्तकतत्वज्ञानाश्रयत्वे भ्रान्तत्वस्यैव प्रयोजकत्वात्।जी- वस्यैव भ्रमहेत्वज्ञानवत्वेन भ्रान्तत्वात्तस्यैव तदाश्रयत्वम्।यद्यपीश्व- रस्याऽपि जीववच्चित्वेनाज्ञानवत्त्वमस्ति तथापीश्वरस्य कुत्राप्यावर- णाभावान्न भ्रमहेत्वज्ञानवतत्वमिति न भ्रान्तत्वमित्युक्तं पुरस्तात् । अतो देवदत्तस्याऽपि भ्रान्तत्वादेव तत्त्वज्ञानवत्वं न विम्वत्वादित्य- नवद्यम्। जीवस्यामूर्तनी रूपेश्वरप्रतिबिम्बत्वमाकाशस्य साभ्रनक्षत्र- स्याल्पजले प्रतिबिम्बदर्शनावुपपन्नम्। केचित्तु घटाकाशवदविद्या- वच्छिन्नो जीवो न तत्प्रतिबिम्ब इत्याहुस्तन्न। घटानवच्छिन्नाका- शस्य घटादू बहिरेव स्थितिवदविद्यानवच्छिन्नेश्वरस्याविद्यकव्रह्मा- ण्डादू बहिरेव स्थितिप्रसङ्गात्। तथा च सर्वसम्बन्धाभावात्सर्वोपा- दानत्वसर्वज्ञत्वादिकं न स्यात्। न ह्यवच्छेद काभावविशिष्टास्याऽन- वच्छिन्नस्याऽवच्छेदकेन सम्बन्धो युज्यते। ननु विम्बत्वविशिष्टस्ये- श्वरस्य कथ प्रतिविम्बोपाध्यविद्यासम्बन्धः विम्वमुखस्य दर्पणस- म्वन्धादर्शनादिति चेतू। उच्यते। बिम्बत्वं हि यावद्विस्वस्वरूपव्या- पित्वेन मुखादावनुभूयते।न त्वनवच्छिन्नत्ववदव्याप्यवृति।तथा च सर्वगतचिन्मात्रस्थं विस्वत्वचिन्मात्रव्यापीत्ति भवति विम्वत्ववि- शिषं व्रह्म सर्वगतं चिन्मात्रसम्बन्ध्यविद्यायां प्रतिविभ्बचैतन्यसम्ब- न्धश्चास्तीति चिन्मात्रस्य बिम्बचैतन्यस्य च सम्बन्धद्वयमादाय विम्वस्य द्विगुणीकृत्य वृत्तिरित्युच्यते अनवच्छिन्नस्य तु चिन्मात्र- सम्बन्धव्यवच्छेदकसम्वन्धाभावान्न द्विशुणीकृत्य वृत्तिरिति विशेषः। तस्मात् प्रतिबिम्बो जीव इति पक्ष एव श्रेयानिति सिद्धम्।यत्तु अन- वच्छ्िन्नस्यापि चिन्मात्त्वरूपेस सर्वसम्बन्धो Sस्तीति। तन्न। जीव-
Page 51
१ सू. १ वर्णकम् । ४ १ व्यावृत्तरूपे णैवेश्वरस्य सर्वगतत्वादेर्वक्तव्यत्वात्। अन्यथा साङ्कर्यात्।
पारमार्थिकाभावावच्छिन्नस्याविद्यावच्छेदकसम्बन्धो उस्तीति स ई- श्वर इति, तन्न।अभावस्य सर्वोपादानत्वाद्यप्रयोजकस्येश्वरोपाधित्वा- योगात्। तस्मान्मायिन तु महेश्वरमिति मायावच्छ्विन्स्येश्वरत्वश्रुतेः तस्योपादानत्वादिप्रयाजकत्वाच्च श्रुतिस्मृतिन्यायसिद्धत्वात्प्रतिवि- स्वभावस्य जीवव्यावृत्तविम्वत्वाकारेण मायावछिन्न एवेश्वर इति पत्तः साधीयानित्यलमतिविस्तरण। एवमविद्याप्रतिविम्बत्वाक्रान्तं श्रुद्धं चिन्मात्रमेव सुपुप्तिसाक्षी प्राज्ञो जीव इत्युच्यते । स चावि- कल्पचिन्मात्रादीषद्विकल्पाहः। उत्थाने परामर्शयोग्यप्रकाशत्वात्। स चाविद्यया चिन्मात्रादीपद्भिन्नः प्रतिबिम्ो जीवः पुनरन्तःक- रणाप्रतिबिम्बः सन् रवन्े तैजसः प्रमाता कर्त्ता Sहमित्यादिस्फुटवि- कल्पाहो भवति।ततःपुनरन्तःकरणसंसृष्टे स्थूलदेहे Sभिव्यक्तः स- न् जागरणे विश्वाख्यो मनुष्यो डहमित्यादि स्फुटतमविकल्पार्हो भ-
भेदे पपि नैकत्र देहे जीवभेदस्तत्र प्राज्ञेश्वरयोर्भेदो Sनादिरज्ञातस-
त्वं युज्यते। तैजसादिभेदस्तु कार्योपाधिकत्वात्कार्य इति अविद्यो- पादानकः प्रातीतिकश्चेति विभागः । एवं चिन्मात्रस्यैवाविद्याचि- त्तदेहैरुपाधिभिः संसार इति न बन्धमुक्तिवैयधिकरण्यम्। जीवे- शवरयोः कल्पितभेदान्न सर्वक्षत्वादिसाङ्गर्यमिति सर्वे सुस्थम।तद- तत्प्रमेयं संग्ृह्नाति- प्रतिविम्बस्य सत्यत्वमवच्छिन्नेन जीवता। अज्ञानचित्तदेहैश्च जीवभेद: स्फुटीकृत इति॥ अवच्छिन्ने जीवता नेति सम्बन्धः । नन्वात्मनि अहङ्काराध्यासो न युक्तः उपाध्यभावादिति शङ्कानिरासार्थ रज्जुसर्पमुदाहरन्ति पू- र्वाचार्याः । यथा पूर्वानुभवसंस्काराद्रजी सर्पो निरुपाधिको ऽध्य- स्यते तथा Sहङ्कार आत्मन्यध्यस्यते। नन्वात्मनि कर्तृत्वादेरध्यासो नास्ति स्व्रतः कर्तृत्वादिसम्भवात्। न चाऽसङ्गो ह्ययं पुरुष इत्यादि- ध्रुत्या निमित्तसङ्गाभावान्न कर्तृत्वादिसम्भव इति वाच्यम । लोके वस्तुमात्रस्य सङ्गित्वेनाऽसङ्गत्वस्यासम्भवादिति चेन्न। आकार- वन्निरवयवत्वेनात्मनो Sस्ङ्गत्वसम्भवादिति वेत्तुं घटाकाशमुदाह- ६
Page 52
४२ विवरणोपन्यासे रन्ति।न ह्याकाशे घटसंयोग: सम्भवति।निरवयवे वस्तुन्यवच्छ्ेदक- जी भेदालाभेनाव्याप्यवृत्ति संयोगविरोधादिति मत्वाह- स निरुपाधिरहङ्कारो रज्जुसर्पवदिष्यत। आत्मासङ्गत्वसिद्धर्थ घटाकाशो ऽप्युदाहत इति॥ नन्वात्मनो Sसङ्गत्वे प्रमातृत्वानुपपत्तिः । तथा च प्रमातृत्व- पूर्वकः सर्वो व्यवहारो लुप्येतातः सङ्गशीलः कत्तृत्वादिरूप एवात्मेति न कर्तृत्वादेरध्यासः। न चान्तःकरणं प्रमातृ जडत्वात्। न च स्वरूपज्ञानवत्त्वमेवात्मनः प्रमातृत्वमिति वाच्यम्। सर्वदा सर्वार्थज्ञानापत्तेः। अत्राह वतण्डिकः। कर्त्रात्मवादे Sपि विषयविशे- पप्रमातृत्वं न युक्तमिति ! तथा हि। घटचक्षुःसंयोगाद्यज्ज्ञानं वि- श्वात्मनि जातं तत्किमालोकरूपवद्यावदाश्रयव्यापि उत देहाव- च्छिन्नात्ममात्रवृत्ति ? आद्ये आलोकसंयुक्त सर्वार्थप्रकाशवदात्मसं - युक्तसर्वार्थभानं स्यात्। न च स्वजनकेन्द्रिय निरूपितसन्निकर्षाश्रय एव विषयो नान्य इति व्यवस्थेति वाच्यम्। अस्मिन् ज्ञाने घटस- त्निकर्षजन्यतावच्छ्ेदकस्य ज्ञानान्तराव्यावृत्तस्या Sभावेन जन्यजनक- भावस्य दुर्ग्रहत्वात्। न द्वितीयः। देहावच्छिन्नात्मनो घटाद्यसस्व- न्धेन ज्ञानस्यार्थेन स्वाश्रयद्वारकसम्बन्धस्याभावात्। असम्बन्धा- थंभाने सर्वभानापत्तेः। एतेनाणुपरिमाणात्मवादे Sप्यव्यवस्था दर्शिता। तस्मान्न कस्याऽपि मते ज्ञानस्य विषयव्यवस्थेति। अत्रोच्यते। अविद्याप्रतिबिम्वचैतन्यं जीवः विम्वचैतन्यमीश्वर इत्युक्तम्। तत्र घटादयो विम्वचैतन्यविवर्तत्वादीश्वरेण नित्यसम्व- द्धाः न तु जीवेन तेषां सम्बन्धो डस्ति। तेषु जीवस्यानुपादानत्वा- दन्तःकरणेन तु जीवस्य स्वभावविशेषात्सम्बन्धो डस्ति । यथा गोस्वादेर्दण्डायमानत्वेन सर्ववसत्वव्यवहितत्वे Sपि सास्नादिमत्पिण्डे- नैव सम्बन्धो नान्येन; तद्वत् जीवस्यान्तःकरणं प्रत्युपादानत्वाच्च तेन सम्बन्धो युज्यते। तथा च यदा घटादयश्चक्षुरादीन्द्रियैः संयु- ज्यन्ते तदा जीवाध्यस्तान्त:करणस्य विपुलावस्थारूपाविषयसंयु- क्ैव वृत्तिर्जायते। तया वृत्त्या विषयावच्छ्वन्नविम्वचैतन्यमवच्छि- दयत! एवं जीवो उन्तःकरणेनावच्छ्वन्नविषयाधिष्ठानचैतन्यं तेनाव- चिछत्रं न भवतीति अन्तःकरणाघच्छेदाऽनवच्छेदकृतो भेदो यः पूर्व स्थितः स वृत्त्यवच्छेदान्निवर्तते । वृत्तिवृत्तिमतोरभेदेन वृत्तिद्वारा उन्तःकरणेन विषयचैतन्यस्यावच्छेदात्। एवमन्तःकरणोपहित-
Page 53
१ सू. १ वर्णकम् । ४३ जीवचतन्यस्य साक्षिणो विषयावच्क्विश्नेश्वरचैतन्यस्याSSविद्यकभेदे सत्येवैकान्तःकरणोपाध्यवच्छेदादभेदे जाते सति विषयस्य साक्ष्य- भिन्नचैतन्यतादात्म्यरूपः सम्बन्धो भवति। एवं स्वतो Sपरोक्षसा- चिसम्बद्धो ऽर्थो Sपरोक्ष इत्युच्यते। तादृशापरोक्षार्थविषयतया वृ- त्तिरपरोक्षेत्युच्यते। तया वृत्या वृत्तिसंसृष्टाविषयेण वा विषयाव- च्छिन्न चैतन्यस्थमावरणमभिभूयते। एकाविद्यावरणवादे ब्रह्मज्ञानं विना SSवरणस्य निवृत्त्ययोगात्।न च कार्येण कारणस्य कथमभिभव? इति वाच्यम्। अग्नेरिन्धनाभिभावकत्वदर्शनात्। अवस्थाज्ञानना- नात्वपक्षे त्वावरणं निवर्तते। तथा च विषयापरोक्षत्वव्यवहारप्रति- वन्धकावरणानिवृत्तौ सत्याम् अनावृतं चैतन्यमज्ञानं नाशयाति। न तु वृत्तिः। ज्ञानस्यैवाज्ञाननाशकत्वात्। एवमावरणाज्ञाननिवृत्तिरूपाभि- व्यक्तियुक्तं विषयावच्क्किन्नचैतन्यं फलं स्फुरणं प्राकठ्यमिति चो- च्यते। ननु अन्तःकरणस्थाया घटविषयाया वृत्तिरूपक्रियायाः सा- क्षिभेदेनाभिव्यक्तं स्फुरणं कल्पितभेदेन सात्तिस्यं कथ फलम्? भि न्नाश्रयत्वात्। लोके गमनादिक्रियाफलस्य श्रामप्राप्स्यादेः कर्तृस्थ- त्वदर्शनात्। स्फुरणस्य घटो न विषयः । वृत्त्यैव तद्यवहारोपपत्तेः। अतो वृत्त्यवच्छिन्नान्तःकरणादिरेव स्फुरणस्य विषय इति भिन्नवि- पयत्वाञ्च तन्न तस्या: फलमिति चेन्न। साक्ष्यन्तःकरणसोरैक्या- ध्यासेन वृत्ते: सात्िस्थत्वेन स्फुरणसमानाश्रयत्वाद्यवहारे व्यव- हर्तव्यप्रकाशस्यैव हेतुतया व्यवहर्तव्या घटः स्फुरणस्य विषय इति समानविषयत्वाच्च। के चित्तु विषयसंसृप्टावृत्तिस्थप्रतिबिम्वचतम्यं फलमित्याहुः । तत्र टीकायां चतन्यविवर्तत्वादृत्तिसंसृष्टो विषयो उन्तःकरणा-
नक्तोत्युक्तिविरोधातू। तत्र हि विषयस्यास्वच्छस्य कथ चैतम्य- व्यञ्चकत्वमित्याशङ्क्यान्तःकरणस्य स्वस्मिन्निव स्वसंसर्गिण्य- भिव्यक्ति योग्य ताहंतुत्वाद्वत्त्ति संसर्गाद्विषयस्यावरणाभिभावकत्वरू- पं व्यञ्जकत्वमित्युपपाद्य विषयेण व्यङ्गयस्य चैतन्यस्याभावमाश- ्क्य चैतन्यविवर्तत्वाद्विषयस्याधिष्ठानत्वेन चैतन्यमस्तीति प्रतिपा- दितम्। तस्माद्विपयावच्छिन्नमेव चैतन्यमझातं सत्प्रमेयम्। अभिव्य- क्तं सत्फलं वृत्त्यवच्छिन्नं चैतन्यं प्रमावृत्तिमदन्तःकरणाव्छिन्नं प्र- मातृ इति व्यवस्था सिद्धा। यद्यप्यज्ञानोपाधिना शुद्धचिन्मात्रमेव
Page 54
४४ विवरणोपन्यासे सर्वसाक्षि तथाउपि देवदसादिप्रमातुरसङ्गीर्णव्यवहारहेतुत्वमन्तः- करणोपहितत्वेनैव वाच्यमित्यन्तःकरणोपहितो Sसङ्कोर्णव्यवहारा- ङसाक्षीत्युच्यते। सर्वसाक्षिणाः सर्वव्यवहारहेतुत्वयोग्यस्य परि- च्छिन्नव्यवहारहंतुत्वायोगात्। एवं साक्षिणो विषयेण तदवच्छि- न्नचैतन्याभेदद्वारा सम्बन्धार्थमावरणभङ्गार्थ वृत्तेनिर्गमनमावश्य- कमित्युक्तार्थ द्वाश्यां संग्ृह्णाति- जीवस्य व्यापिनः सङ्गसिद्धावावृत्तिभञ्जने। वृत्तिर्हेतुरभेदार्था वेति पक्षा उदाहताः ॥ धीनित्यसङ्गी विषयव्यक्तचिट्ठिम्बसङ्गि यत्। अपरोत्षं तदेवेति प्रतिकर्मव्यवस्थितिः ॥ इति। यदन्त:करणवृत्तिसंसृष्टो यो विषयः तस्यैव तदन्तःकरणविशि- प्टप्रमात्रपेक्षया तदुपहितसाक्ष्यपेक्षया वा Sभेदेनाभिव्यक्तविम्वचैत- न्यरूपस्फुरणतादात्म्यादपरोक्षता नान्यस्येति प्रतिविषयव्यवस्था। अपरोक्षविषयव्यवस्था तु वक्ष्यते। ननु साक्ष्यभिन्नविम्बचैतन्यस्थ- त्वेन घटस्यैव पूर्णानन्दत्वसर्वज्ञत्वादीनामपरोक्षता स्यादिति चंन्न।
करणतादात्म्यादात्मनि प्रमातृत्वाद्यध्यास इत्यनवद्यम्।। ननु साक्ष्यभिन्नसंविदभिन्नत्वेन नीलाद्यर्थानामापरोक्ष्ये विज्ञाना- तिरिक्तो 5र्थों नास्तीत्युक्तं स्यात्तथा च बौद्धराद्धान्तापत्तिरिति चेन्न ।
क्रान्तो ऽर्थो नास्तीत्याहुः। वयं तु अनाद्यवन्ताद्वितीयसंविदतिरेकेण तादृशसत्त्वाऋरान्ता अर्थाः स्थायिनः सन्तीति ब्रूम इति न सिद्धा- न्तसङ्करः। ननु संविद्विषययोर्भेदे कि मानमिति चेदुच्यते। संवि- त्तावदेका नीलाद्यर्थभेदे पि संवित्संविदित्येकाकारप्रत्ययात् । न चाऽयं जातिगोचर: संविद्यक्तिभेदे मानाभावात्। नीलसंवित पी- तसंविन्न भवतीति प्रतीतेरौपाधिकभेदगोचरत्वात्। तथा च संवित् व्यावृत्तार्थेश्यो भिन्ना अनुवृत्तत्वात् घटमठादिभ्य आकाशवत्। किश्चाऽहं नीलं पश्यामीति कर्तृकर्मभावेनालयसंविदो नीलान्ेद: प्रत्यक्ष: त्वया ङ्गीकृतश्च।तथा च नीलसंविन्नीलाद्दिन्ना संवित्वात्। आलयसंविदभिन्नत्वाद्वा आलयसंविद्धत्।न च द्वितीयहेत्वसिद्धिः। संविदैक्यस्य साधितत्वात्। न च नीलस्य स्वसंविदा भेदे तद्विप- यत्वं न स्यात्पीतवदिति वाच्यम।अत्यन्ताभंदे Sहं नीलं पश्यामीति
Page 55
१ सू. १ वणकम् । ४५ ग्राह्यग्राहकभावेन भेदानुभवविराधात्। ननु कथं तर्हि नीलसंवि- दो नीलमात्रं विषयः ! भिन्नस्याऽसाधारएासम्बन्धाभावात्। नच संविद: इन्द्रियव्यापारेण यस्मिन् वस्तुनि असाधारणसम्बन्धो भवति स एव तद्विषय इत्युक्ता व्यवस्थति वाच्यम्।क्षणिकविज्ञानानां तादृश- सम्बन्धानुपपत्तः।अतो यद्यन्भानाभिन्नं तदेव तस्य विषय इत्यभेद एव सम्बन्धो ऽ9्युपेय इति। भेदानुभवो विभ्रम इति चेन्न।आत्मरूपविज्ञा- नस्य क्षणिकत्वे मानाभावात्। नन्विदानीं जानामीति वर्तमानक्षणा- वच्छिन्नतया भासमानं विज्ञानं क्षणान्तरावच्छिन्नविज्ञानाद्यावृत्त प्रत्यक्षमिति चेन्न। वर्तमानत्वेनानुभूयमाने विज्ञाने विज्ञानान्तराद्भ्रेद- स्याप्रत्यक्षत्वात्।न चातिसादृश्याद्विज्ञानानां भेदो न स्पष्टमवभासते दीपज्वालानामिवेति वाच्यम्। भेदासिद्धा सादृश्यासिद्धेः।तथा हि। किं विज्ञानं विज्ञानान्तराज्ट्रेदो धर्म्यतिरिक्तो वा धर्मिरूपो वा? आद्येऽपि भेदः किं विज्ञानान्तरग्राह्य उत धर्मिज्ञानग्राह्यः?नाद्ः।धर्मिप्रतियो- गिरूपविज्ञानयोर्भेदग्राहिविज्ञानान्तरग्राह्यत्वापातात्। तथा च स्वप्र- काशत्वभङ्ग: तयोरग्राहकज्ञाने कल्पितत्वमभिन्नत्वं च स्यात्। ज्ञाने ज्ञेयस्य कल्पितत्वाभिन्नत्वयोस्त्वयाङ्गीकारात्तथा च कस्य कुतो भेदग्रहः । न द्वितीयः । स्वातिरिक्तस्य ग्राह्यत्वानङ्गीकारात् । ना ऽपिधर्मिरूपः।सादृश्यात्तस्याभाने विज्ञानस्वरूपमेव न भासते इ- त्युक्तं स्यात्तथा च जगदान्ध्यप्रसङ्ग:।अपि च सो Sहमित्यालयविज्ञा- नैक्यप्रत्यभिज्ञाविरोधान्न सादृश्यं कल्पयितुं न च सादृश्यादियं भ्रा- न्तिरिति वाच्यम् । भ्रान्तित्वे ज्ञाते भ्रान्तिहेतुत्वेन सादृश्यज्ञानं भिन्नयोरैक्यभ्रमे सादृश्यस्य हेतुत्वात्। एवं सादृश्ये ज्ञाते तेन
न हि गोसदृशो गवय इतिवद्विज्ञानानां सादृशयं प्रत्यक्षं येनान्योन्या- थ्रयो न भवेत्। तस्मात् ज्ञानानां स्वतः प्रामाण्याद्दाधकानुपलम्भाच्च प्रत्यभिज्ञा प्रमेति न क्षणिकत्वमित्याह- संविद्विषययोरैक्ये बौद्धवादो भवेदिति। आराङ्क्यक्यं निरस्तं च तथा त्णिकता तयोः॥ इति। ननु कंयं प्रत्यभिज्ञा नाम ? ननु पूर्वानुभवसंस्कारसहितादिदा- नीन्तनकारणाज्ञजातं पूर्वापरकालद्वयोपलक्षितं वस्तुगोचरमेकज्ञानमि- ति चेन्न। तहयत्मिनि सा सम्भवति स्वप्रकाशात्मरूपानुभवस्य नित्य- त्वन तन्नाराजन्यसंस्काराभावात्। स्वप्रकाशस्यानुभवकारणभा-
Page 56
४६ विवरणोपन्यासे घाञ्च। सामग्यूभावात्सो Sहमित्यत्र स इत्यहमित्याकारभेदेन विषय- भेदात् ज्ञनिक्यासम्भवाच्च। स्वप्रकाशस्याविषयत्वेन विषयाभा- वाच्च। अतो युक्तिवाधात्प्रत्यभिज्ञाभ्नान्तिरिति चेत् उच्यते । अन्तः- करणविशिष्टात्माहङ्कारस्तस्या विषयः। न च सुपुप्ती तस्य नाशान्न प्रत्यभिक्ञाविषयत्वमिति वाच्यम्। तदापीतेरिति न्यायेन तदानीमपि
यित्वात्। अहमाकारवृत्तिनाशजन्यसंस्कारसहितान्तःकरणं तस्याः सामग्रीत्याह- आत्मनि प्रत्यभिज्ञा या सामग्रीविषयस्थितेः। सवासनाधीः सामग्री विषयो ऽहं मनोयुतः ॥ या प्रमेत्यर्थः । तत्र हेतुः सामग्रीति। ननु पूर्वानुभवसंस्कारप्र- त्यभिज्ञा एकविषया वाच्या। न ह्यात्मा वृत्त्यवच्छ्किन्नचैतन्यरूपस्य पूर्वानुभवस्य विषय: जडांशस्यैव तद्विषयत्वात् । तस्मान्न चिदंशस्य प्रत्यभिज्ञाविषयत्वमिति चेन्न। पूर्वानुभवे भासमानस्यैव स्मृता- विव प्रत्यभिज्ञायां विषयत्वप्रयोजकत्वात्। भासमानत्वं चानुभ- वप्रयुक्त: संशयाद्यभाव इत्युक्तम। जड़विशिष्टत्वेन चिदंशस्याऽपि विषयत्वोपपत्तेश्च। एतेन प्रत्यभिज्ञाविषयत्वमात्मनो व्याख्यातम्। नन्वहङ्कारस्य प्रत्यक्षप्रत्यभिज्ञायां कर्मत्वं कर्तृत्वं च विरुद्धमिति चेन्न। सतो Sनावृत्ताहडारे वृत्तिरूपप्रत्यभिज्ञाकृतातिशयाभावेन कर्मत्वाभावात् । भावे वा चिदंशविशिष्टान्तःकरणत्वेन कर्तृत्वं पूर्वापरकालोपलत्तितजडविशिष्टचिदंशत्वेन विषयत्वमित्यविरोधा-
जडप्राधान्येन विषयत्वमित्यनवद्यम् । यदुक्तमाकारभदान्न ज्ञानै- क्यं तन्न। विज्ञानं क्षणिकमिति विज्ञानस्याकारभेदे ऽप्येकत्वात् अन्यथा ज्ञाने क्षणिकत्ववैशिष्ट्यं न सिध्येत्। विशिष्टज्ञानाभावा- तू। त्चैकं प्रत्यभिज्ञानं तत्रांशे संस्कारातिरिक्तहेत्वभावात् स्सृतिरूपं द्रष्टव्यम्।यत्तु प्रत्यभिज्ञाश्रयत्वेनैवात्मनः स्थायित्वमिति प्राभाकरोक्तं तदयुक्तम्। ज्ञानान्यस्य ज्ञानविषयत्वनियमात्।अन्यथा सो Sहमिति ज्ञानस्य निर्विषयत्वापत्तिः। किश्च क्षणिकप्रत्यभिज्ञा ह्याश्रयं तत्कालीनं साधयति।न तु तस्य स्थायित्वमनपेक्षितत्वात्।ननु सो Sहमिति व्य- वहारमात्रं, न व्ञानं न च स्थायित्वासिद्धि:, इदानीन्तनस्मृत्या घटो उनुभूत इत्येवंरूपया तद्विषयानुभवेन च पूर्वकालीनेनात्मनस्तदाश्रयत्वे-
Page 57
१ सू. १ वर्णकम् । ४७
न पूर्वापरकालीनत्वसिद्धेरिति चेन्न। स्मृत्यनुभवाभ्यां तत्तत्काली- नात्मसिद्धावप्यैक्यासिद्धेः । न चानुभवस्मृत्योर्भिन्नाश्रयत्वानुप- पत्याSSश्रय आात्मैक इति ज्ञायते इति वाच्यम्। अर्थापत्तिज्ञानस्याप्या- त्मविषयत्वायोगात्। तद्विपयत्वे च सर्वजनसिद्धप्रत्यभिज्ञाविषयत्वं दुर्वारमित्यलम्।तस्माद्विज्ञानात्मनः प्रत्यभिज्ञाप्रमया स्थायित्वं सिद्ध म। एवं घटादिविषयस्यापि स्थायित्वम्। यत्तु घटोत्पत्त्यव्यवहितानन्तर- क्षणे एतद्वटध्वंसवान् एतदुत्पत्यनन्तरक्षणत्वात् पतद्धंसक्षणवदि- त्यनुमानात्वणिकत्वमिति, तन्न। एतद्धंसक्षणा एतद्वटवन्तः काल- त्वादुत्पत्तिक्षणवदिति प्रत्यनुमानात् । न च ध्वंसानुभवविरोधः । उत्पन्नो घटो Sनन्तरमस्तीत्यनुभवेन तदनुमानस्यापि बाधितत्वात्। घटस्योत्पत्यनन्तरं सर्वसम्मतनाशक्षणात्पूर्वक्षणा एतदूटाधारा ए- तद्धटप्रागभावस्य सम्मतध्वंसस्य चानाधारक्षणत्वात् उत्पत्तिक्ष- णवदित्यनुमाने वाधाभावाच्च। अथ सर्वे भावाः क्षणिकाः अर्थ- क्रियाकारित्वाद्यतिरेकेण नरशङ्गवत्। न चाप्रयोजकत्वं, स्थायिनो डर्थक्रियाकारित्वासम्भवातू।तथा हि। किं तस्य क्रमेणा कार्यकारित्वम, उत सकृदेव यावत्स्वकार्यकारित्वम्? नाद्यः।अनेकानि कार्याण कर्तु शक्तश्चेद्युगपदेव कुर्यान्निरपेक्षहेतौ सति कार्यक्रमायोगात्। न द्वि- तीयः । एकस्मिन् क्षणे यावजीवकृत्यसमाप्ती तणान्तरे सत्त्वायो- गादर्थक्रियाकारित्वरूपत्वात् सत्वस्येति।अत्रोच्यते।न तावत्सकृत्कृ- त्वा तूष्णीम्भूतस्यासत्त्वप्राप्तिः । प्रमाणावाधितत्वरूपसत्वानपा- यातू। न चार्थक्रियाकारित्वमेव सत्वमिति वाच्यम्। तथा हि। किं स्वविषयकज्ञानमर्थक्रिया उत समानजातीयकार्यान्तरम् अथ वा यत्किश्चित्कार्यान्तरम् ? नाद्यः । स्वप्रकारसंविदामसत्वापातात्। नन्वेकधीसन्तानसंविदां परस्पराविषयत्वे Sपि सर्वज्ञेश्वरसन्तान- संविदं प्रति विषयत्वेन जनकत्वमस्ति, प्रत्यक्षज्ञाने विषयस्य हेतु- त्वादिति चेन्न। सर्वज्ञसंविदो Sसत्वापातात्। किश्च सर्वज्ञवि- शुद्धसंविदः सोपप्लवजीवसंविंद्विषयकत्वे सोपप्लवत्वापत्तिः । ज्ञानस्य त्वन्मतेज्ञेयाभेदात्।न च सर्वज्षसंवितू जीवस्य शोकाद्युपप्ठ- वान्विहाय ज्ञानमात्रं विश्यीकरातीति वाच्यम्। ज्ञानाभिन्नोपप्रुव- विषयताया दुर्धारत्वात्। उपप्नवाज्ञाने तन्निवृत्त्युपायोपदेष्टत्वायो- गाच्च। न द्वितीयः । चरमक्षणस्यास्त्वप्रसङ्गात् । तथा हि। सां- सारिकज्ञानानि स्थायित्वादिभिरुपप्टवैरुपेतानि हेतुहेतुमन्भावेन स-
Page 58
४८ विवरणोपन्यासे न्तन्यमानानि भवन्ति। तत्र सर्व क्षणिकमिति सर्व स्वलक्षणं शुद्ध- मिति सर्वे दुःखमिति सर्वे शून्यमिति चतुर्विधभावनाभिः क्रमेण स्थायित्वं नामजात्यादिसम्बन्धः शोकफलकप्रवृत्तिहेतुरागादि: वि- ज्ञानानां सविषयत्वं चेति चतुर्विधा उपप्वाः क्षीयन्ते। ततो नि- रुपप्ठवो विशुद्धविज्ञानरूपस्तत्वबोधापरनामा चरमक्षण उपज्ञायते। तस्य कार्यान्तराभावाश्चरमत्वमिति परस्य मतम्। तथा चार्थक्रिया- शून्यत्वात्तस्यासत्त्वप्रसङ्गः । ततः पूर्वविज्ञानस्यापि कार्यासत्वाद- सत्वमिति क्रमेण सर्वमसदेव मन्दवुद्धेर्वोधस्य प्राप्नोति। एतेन तृ- तीयः कल्पो निरस्तः। न च चरमक्षणो Sपि सर्वज्ञविज्ञानं विशुद्ध- त्वेन सजातीयं जनयतीति वाच्यम्। सर्वज्ञसन्तानस्थपूर्वक्षणादेव निरपेक्षात्तदुत्पत्तेरस्याजनकत्वातू। न च विषयतया सो Sपि जनक इति वाच्यम्। चरमत्वव्याघातात् सन्तानविच्छेदात्मकमुत्त्यभावप्र- सङ्गाच्च। न च संसारसन्तानापेक्षया चरमत्वं सर्वज्ञसन्तानैक्य- रूपमुक्तिश्चेति वाच्यम्। विषयविषयिणोरेकसन्तानत्वायोगात्। तु- ल्ययो: प्रदीपयोरिव विषयविषयिभावासम्भवाच्च । स्वप्रकाश- संविद्देदे मानाभावाच्च। तस्मान्नार्थक्रियाकारित्वं सत्वं; किं तु
यदुक्तं स्थायिनः क्रमकारित्वायोंग इति तन्न । सहकारिसन्निधि- क्मात्कार्यक्रमोपपत्तेः । ननु शक्तस्यान्यापेक्षा न युक्ता। अशक्तत्वे तु सुतरां न युक्तेति चेन्न। शक्तस्यैव मृदादेः प्रधानकारणस्य दण्ड- चक्रादिसहकार्यपेक्षानुभवादित्याह सार्द्धेन- न कार्यकारिता सत्ता किन्त्ववाधस्वरूपता। स्थायिनः क्रमकारित्वं सहकारिक्रमान्भ्रवेत् ॥ शक्तस्याऽपि सहापेक्षा त्वन्वयव्यतिरेकत इति ॥ न चात्रैव मृद्धटं प्रति शक्तसामग्रीक्षणसिद्वये सहकारिणमपेक्षते इति वाच्यम्। सामग्रयां मृदः शक्तत्वे ऽन्यापेक्षा न युक्ता अशक्तत्वे तुन सुतरामिति त्वदुक्तदोपानपायात्। तस्मादन्वयव्यतिरेकाभ्यां कार्यकारणभावमभ्युपगच्छता प्रधानकारणस्य शक्तस्येव सहकार्य पेक्षा ऽन्वयव्यतिरेकानुभववलादभ्युपेया। ननूपकारादर्शनात्सह- कारिष्वपेक्षा न युक्ता। न चाकुरे शक्तस्य वीजस्य जलादिभिरुच्छ- नत्वरूपो विशेष उपकारो हृष्ट इति वाच्यम्। तं विशेषं यदि जला- दयो बीजे विशेषान्तरं कृत्वा कुर्युस्तदा विशेषानवस्थाप्रसङ्गातू।
Page 59
१ सू. १ वर्णकम् । ४९ यदि विशेषान्तरमकृत्वैव निर्विशेषे बीजे विशेषाख्यं कार्य कुर्युस्तर्ह्य- स्मिन्कार्ये बीजस्य स्वस्मिन्ननुपकारकंपु तेषु अपेक्षा न युक्ता किन्तु कार्यमेव स्वजनकत्वेन तानपेक्षते इति चेत्तर्हि स्थायिकारणाज्ा- यमानं कार्यमेव सहकारिसन्निधिमपेक्ष्य क्रमेण जायतामिति तुल्यम्। नन्वस्त्यत्र वैषम्यम्। क्षणिको भावः स्वसमकालैः क्षणिकैः सहकारिभिरुत्तरकार्यक्षणं जनयति। सो Sपि तथा कार्यान्तरमिति का- र्यक्रमः क्षणिकवादे युज्यते। स्थायिवादे तु प्रधानहेतोः सहकारिणां च स्थायित्वेन तत्कृतसन्निधेरवि सदा सत्वात्तत्कार्याणां सदा ज- न्मप्रसङ्गे नक्रमो न युज्यते इति। मैवं विपम मंस्थाः । साम्यस्य सत्वात्। तथा हि। न तावत्वन्मते व्यत्तयोः कार्यकारणताग्रहः सम्भवति। क्षणिकयोरन्वयव्यतिरेकबुद्धिक्षणद्वयस्थित्यभावात्। न चान्वयमात्रात्कारणताग्रहः।पूर्ववर्तिमात्रस्य सर्वस्य हेतुतापत्तेः। तथा च धूमार्थिनः कारणविशेषाज्ञानाद्वन्ही प्रवृत्तिर्न स्यात्। तस्माद्वि- ज्ञानात्मसन्तानो द्रष्ट धूमाग्निसन्तानयोर्धूमत्वादिसामान्येनान्वयव्य- तिरेकाभ्यां हे तुतां गृहीत्वा प्रवर्तते इति वक्तव्यम्। तत्राप्यग्निसन्तानम- त्तदङ्गारावस्थायां धूमानुपपत्तेः। काष्ठस्वलक्षणसम्तानः सहकार्यभ्यु- पेयः। तथा चागनिकाष्टसन्तानयोनित्यत्वेन तत्संयोगस्य नित्यत्वात्तव सदा धूमजन्मप्रसङ्गः। यदि संयोजकसन्तानकृतः संयोगो न नित्य इत्युच्यते तर्ह्यस्मिन्मते स्थायिहेतुसहकारिसन्निधेः कादाचित्क- त्वात् क्रमेण कार्यक्रम इति तुल्यम्। इयान्विशेषः। सन्तानातिरिक्त- सन्तानाभावात्तव कार्यकारणताग्रहो दुर्लभः।प्रत्यभिज्ञावाधश्चा- पतिदारुणो न स्थायिवादिनामित्यलमतिप्रसङ्गेन।एवमनाद्यनन्ताद्वि- तीयसंविदो Sन्ये रर्थक्रियासमर्थाः स्थायिनो ऽर्थाः सन्तीत्यङ्गीकारान्न सर्वक्षणिकत्ववादिना वेदवाह्यन वैदिकशिरोमणीनां वेदान्तिनां सि- द्वान्तसाङर्यम।यदि पुनः संविद भेदेनार्थापरोक्षोक्तिमात्रेण वेदान्तिनां वौद्ध साम्यं तदा सर्ववादिनां वाह्यसिद्धान्तसाङ्गर्य स्यादित्याह- यत्किञ्चिद्वौद्धसाम्यं चेत्सर्वसिद्धान्तसङ्कर इति। मन्त्रार्थवादेतिहासपुराणानां स्वार्थे प्रामाण्यानङ्गीकाराद्विग्रह-
कायतवौद्धसाम्य प्राभाकरस्य भेदाभेदा्युपगमाच्च वार्तिकका- रस्य क्षपणकसाम्यं च परिमाणभेदेन द्रव्यस्य त्तणे क्षणे नाशं वद- न्तस्तार्किका वैनाशिकतनया एव। बन्धमो्षादीनां साङ्कर्ये भेदा- ७
Page 60
विवरणोपन्यासे भेदाश्याँ वदतः सर्वसङ्गरवादिनः त्षपणकांशपरिणतत्वं स्फुटमेव। एतेन विज्ञाने परिकल्पितत्वं पदार्थानां बौद्धवेदान्तिनोस्तुल्यमिति प्रलापो Sपि कस्य चिन्निरस्तः।विज्ञाने प्रतिभास्यत्वं वदतस्तस्याऽपि वौद्धतुल्यत्वापत्तेः। तस्मात्कल्पितमत्यन्तासदिति वदता वौद्धेन वे- दान्तिनां कल्पितस्यासद्वलक्तण्यं यथानुभवं कार्यकारित्वं स्थायित्वं च वदतां साम्य ब्रुवाणो विवेकिभि: संप्रदायशून्यः परमहंसप्रद्वे- पीत्युपेक्षणीयः । एवमुक्ता तावदपरोक्षविषयव्यवस्था। परोक्षे तु वि- पयस्य वर्तमानत्वानियमेन वृत्ति प्रति कारकत्वाभावान्न स्वावच्छि- न्नचैतन्यव्यञ्जकस्वं कर्मकारकस्यैव वृत्तिसंसृष्टस्यावरणनिवृत्तिरू- पाभिव्यक्तिहेतुत्वात्। तस्मादभिव्यक्त चैतन्यतादात्म्यरूपं फलव्या-
परोक्षे वृत्त्यसम्वन्धान्नापरोक्ष्यमिति स्थितिरिति। वृत्तिविषयत्वं तु वृत्त्याकारतया विद्यते।न चासाधारणसम्बन्धाभा- वे कथं कश्चिदेव वन्हादिरनुमितावाकारो नान्य इति व्यवस्थेति वा- च्यम्। अभावासम्वद्धस्यापि घटस्य तन्निरूपकत्ववद्वन्ह्यादेरनुमिति- निरूपकत्वरूपाकारत्वसम्भवात्।या ऽनुमितिर्यद्याप्यत्वज्ञानजन्या सा तदाकारेति व्यवस्थोपपत्तेश्च।एवं शक्तिसादृश्यादिसम्बन्धमहिस्रोप- मित्यार्देविषयव्यवस्था ज्ेया। वस्तुतस्त्वविद्यैवासम्भावितावभासन- चतुरा वृत्त्यवच्छिन्ने साक्षिणि विषयावच्क्विन्नचैतन्ये च दण्डायमा- नतया स्थिता सती तयोविषयविययिभावं घटयतीति मायावादे न क्काऽप्यनुपप्तिः।सा चावस्था ज्ञानाख्या विद्यासाक्ष्यात्मस्थत्वेन व- न्ह्यादिव्यवहारप्रतिबन्धिका सुपुप्तिरित्युच्यते। विषयावच्छिन्नचै- तन्यस्थत्वेन संशयभ्रमादिहेतुरिति स्थितिः। तन्न। परोक्षवृत्त्या उप्या- त्मस्थाज्ञानांशो नश्यति। तदुक्तम। अनुमेयेषु सुपुप्तिव्यावृत्तिरिति। तथा च विपयावच्छिन्नचैतन्यावरकाज्ञानांशसत्वे Sपि तदाकारवृत्त्य- वच्छिन्नसाक्षिणा ज्ञानांशनाशवता वस्तुत पवाभिन्नचैतन्यद्वारा वि- पयस्य सम्बन्धाद्वन्हिं जानामीत्यादिव्यवहारो युज्यते । वृत्तिनिर्ग-
न्तःकरणोपाधिना परोक्षापरोक्षविषयप्रमातृत्वमसङ्गचिदात्मन उप- पन्नम्। तत्पूर्वकं च कर्तृत्वादिकमहमित्यनुभवे भासमानात्मन्यध्य- स्तमिति सविकल्पकाधिष्ठाने सविकल्पकाध्यासस्य सम्भवो द- र्शितः अस्मत्प्रत्ययविषयत्वादिति भाव्येण। वस्तुतस्तु निर्विक-
Page 61
१ मू. १ वर्णकम् । ५१
ध्यास: सम्भवति।अपरोक्षत्वं चात्मनः पुनःसर्वलोकानुभवसिद्धम। न च स्वप्रकाशत्वं विना तत्सम्भवति। न च घटादिकर्मकस्वप्रकारा- संविदाश्रयत्वेनात्मनो Sपरोक्षत्व सम्भवतीति वाच्यम्। संवि- दो ऽन्यस्य संवित्कर्मत्वं विना Sपरोक्षत्वायोगातू।न च संवित्क- र्मत्वेनात्मत्वापत्तिः। संविदन्यत्वे Sपि तदापत्तेरपरिहारात्। अस्तु ज्ञानकर्मत्वेनापरोक्षत्वमिति चेन्न। कर्तृकर्मन्वविरोधातू। किश्च घटानुभवकाले तदाथयात्मानुभषी डस्ति न वा! न चेन्मया ऽनुभूनो घट इत्यात्मानुभवर्य: सम्बन्धज्ञानं न स्यात्।सम्बन्धिज्ञानाभावालू। न च पश्चादात्मानि ज्ञाने अनुभवसम्बन्धज्ञानमिति वाच्यम्। अनु- भवस्य नष्टत्वेन तत्समन्धप्रत्यक्षायोगात्। घटानुभवकाले Sनुभ- वस्य स्वात्मसम्बन्धाऽनिच्चये घटो मया परेण वा Sनुभूत इत्यग्रे सं- शयापत्तंश्च।अथ तत्काले स्वात्मानुभवो Sस्तीति चेन्न। युगपदात्मा-
नासम्भवाच्च। तज्ज्ञाने ध्यानविच्छेदादज्ञाने च मया ध्यातमिति -
इत्याह - आत्मनस्त्वपरोत्तत्वं स्वयं भात्वान्न चान्यथा। इति।
याग्राह्यात्मनि प्रत्यक्षाध्यासा न सम्भवतीति, तन्न।अचाक्षुपे Sव्याकाशे
चेदुच्यते। शब्दलिङ्गात्तस्यानुमितिरिति कणाभक्षान्तपादपक्तपातिनः। मूर्तद्रव्यानुपलब्धिलिङ्गानुमेयो मूर्ताभाव आकाश इति बौद्धा लौ- कायताश्च। भावरूप एवाकाशो मूर्नाभावत्वेनोक्तलिङ्गानुमेय इति प्राभाकराः। चाक्षुप इति क्षपणका भाट्टाश्चाहुस्तन्न। नीरूपद्रव्यस्य चाक्षुपत्वायोगात्। नाप्यभाव आकाशः शब्दगुणत्वेन श्रुतिस्मृत्या- दिषु द्रव्यत्वावगमातू। सिद्धान्ते तु के चिच्छ्व्दलिङ्गानुमेयत्वमि- च्कृन्ति। अन्ये तु लिङ्गज्ञानं विनैव चक्षुव्यापारान्वयव्यतिरेकाभ्यामा-
अक्षाग्राह्यमपि व्योम सात्षिवेद्यमितीरितम्। इति। तस्मादात्मन्यध्यास: सम्भयतीति सिद्धम्। एवं कर्तृत्वाच्नर्थ-
Page 62
५२ विवरणोपन्यासे स्याध्यस्तत्वान्निवृत्ति: फलं सिध्यति। तथा च भाष्यम्।यत्र यदध्या- सस्तत्कृतेन गुणेनदोषेण वा Sणुमात्रेणाऽपि स न सम्बध्यते इति। इत्थमध्यासस्य लक्षणसम्भावने कथिते अधुना प्रमाणमुच्यते। सात्षिप्रत्यक्षं तावद हंममाध्यासे प्रमाएम्। अनुमानमपि।तथा हि। दे- हेन्द्रियादिष्वहंममाभिमाने सति लौकिकशास्त्रीयसर्वव्यवहार: अ्र- भिमानाभावे सुपुप्ती व्यवहाराभाव इत्यविवादम्।तथा च व्यवहारो डभिमानजन्यः तदन्वयाद्यनुविधायित्वात् । यदित्थं तत्तथा यथा दण्डजन्यो घट इति।यद्वा देवदत्तस्य जाग्रत्स्प्नकाली देवदत्तस्य दे- हादिष्वभिमानवन्तौ देवदत्तस्य व्यवहारकालत्वात् व्यतिरेकेण तस्य सुषुप्तिकालवत्। देवदत्तसुपुप्तावन्येषां जाग्रत्काले वाधनिरासाय पक्षे देवदत्तस्येति, यज्ञदत्तस्याध्यासेन थ्रुक्तिरूप्याध्यासेन चार्था- न्तरतानिरासाय देवदत्तस्य देहादिष्विति क्रमेश पदद्वयम्।अन्यव्य- वहारकाले देवदत्तसुपुप्तौ व्यभिचारवारणाय हती देवदत्तस्येति । न च साध्याप्रसिद्धि: प्रत्यक्षत्वात्। न चानुमानस्य व्यर्थता अभ्युच्च- यार्थत्वात्। यो यस्य व्यवहारकालः स तस्याभिमानवान्यथा व्या- घभीतयज्ञदत्तपलायनव्यवहारकाल इति अन्वयव्यतिरेकी वा Sस्तु । एवं प्रमातृप्रमाणादिव्यव हारानुपपत्तिरप्यध्यासे प्रमाणम।केवलास- ्ात्मनो जडान्तःकरणमात्रस्य वा प्रमाश्रयत्वायोगात्।अतो जडता-
ति व्यवहियते। तत्कारणानि प्रमाणानीत्युच्यन्ते । तदाह भगवान् भाष्यकारः। अविद्यावद्विपयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राशि चेति। यन्तु देहादेरात्मना स्वस्वामित्वस्वेच्छानुविधायित्वस्वभो- ग्यत्वादिसम्बन्धेनैव व्यवहारोपपत्तेः किं तादात्म्याध्यासेनेति; तन्न। असङ्गचिदात्मनः स्वामित्वादेरध्यासं विना Sनुपपत्तेः । ननु स्वर्वशरीरव्यापिजीवात्मनः कथ शरीरविशेषे ऽध्यासनियम? इति चेदुच्यते। एकजीववादे तावत् नाडयं नियमो Sस्ति। एकस्यैव सर्वदे- हाभिमानित्वात्। मनोभेदेन प्रमातृभेद्दान्न प्रमातृत्वादिसाङ्कर्यम । नानाजीववादे तु यदविद्योपाधिकोयो जीवस्तदविद्याकार्यलिङ्गशरीरे एव तस्याभिमान: । यल्लिङ्गतादात्म्याभिमानी यस्तस्य तल्लिङ्गस्थक- मारब्धे तल्लिङ्गसंसृष्टे ग्लिष्टो स्थूलशरीरे Sभिमान इति नियम इति। नन्वविद्यावदाश्रयत्वे प्रमाणानां प्रमाण्यं विरुद्धम्,आश्रयगताविद्यादो- षादप्रमाण्यापातादिति चेतू उच्यते। अवाधितार्थकत्वं हि प्रामाण्यम
Page 63
१ सू. १ वर्णकम् । १३ तच्चाविद्यावदाश्रयत्वे उप्यविरुद्धम्। तत्र वेदान्तानां वाधायोग्यव्रह्मा- र्थकत्वात्तत्वावेदकत्वलक्षणं प्रामाण्यम्।प्रत्यक्षादीनां तु व्यवहारस- मर्थवस्तुबोधित्वाद्यावहारिक प्रामाण्यं व्यवहारकाले प्रपञचनाशक-
च्यते। वस्तुतत्वबोधके प्रमाणे सति तत्वावभासप्रतिबद्ध्भ्रान्तिप्र- योजको दोष इत्युच्यते। यथा काचादिः । अन्तःकरणाध्यासस्तु न क्वापि दोष: प्रमातृत्वेन ज्ञानसामान्यकारणत्वात् अविद्याध्यासस्तु साक्षिचैतन्येन स्वाभिन्नाद्वितीयपूर्णानन्दब्रह्मावभासं प्राप्तं प्रतिव-
इत्युक्तं विद्यते एवमाप्यग्रहणाविद्यात्मको दोष इत्यत्र टीकायां नत्वियं चैतन्याद्भिन्नवेदान्तजब्रह्मावभासं प्रति दोषः । प्रमात्रा- दिद्वारा ब्रह्मप्रमाहेतुत्वात्। चक्षुरादिभिः प्रपश्चज्ञाने तु भवत्येवाऽयं दोषः। परं तु नैसर्गिकदोपजन्यत्वाद्यवहारकाले न भ्रान्तित्वव्यव- हारः। तस्मादविद्यावदाश्रयाणि प्रमाणानीत्यनवद्यम। ननु व्यवहारानुपपत्तिरध्यासे न प्रमाणं विवेकिव्यवहारस्याध्यासं विना पि दर्शनेनानुपपत्यभावादिति चेन्म । विवेकिव्यवहारो उध्या- समूल: व्यवहारत्वात् पश्वादिव्यवहारवदित्यनुमानात्पश्वादीनां च स्वप्रकाशात्मानात्मवस्तुद्वयाज्ञानवतामविवेकादध्यासी Sस्तीति नि- श्चीयते सामग््यसस्वात्।न हि तेषामात्मानात्मविवेको Sस्ति उपदे- शं विना विवेकासम्भवात्।नराणां तुविवेके सत्यप्यध्यासविरोध्यप- रोक्षज्ञानाभावादध्यासः सम्भवति। देहनिन्दादिना शोकादिदर्शना- ख्व। एतेन शास्त्रीये व्यवहारे यागादौ देहान्तरोपभोगफलके देहा- तिरिक्तात्मनिश्चयं विना बहुवित्तव्ययायाससाध्ये प्रवृत्त्ययोगान्ना- ध्यासमूलत्वं व्यवहारमात्रस्येति निरस्तम्। देहातिरिक्तात्मनि कर्तरि निश्चिते Sपि अध्यासविरोधिनिश्चयाभावात्। अत्र लब्धावस- रश्चार्वाकः प्रत्यवतिष्ठते। दंहातिरिक्तात्मानं विना Sपि कर्मचोदना- प्रामाण्यमुपपद्यते। तथा हि। स्वर्गकामो यजेतेति चोदनायां क स्वर्गः? न तावल्लोकविशेषजं सुखं कार्यार्थक चोदनामात्रप्रमाणवादिना सिद्धा- थकमन्त्रार्थवादादीनां स्वार्थे प्रामाण्याभावेन मानाभावात्। अथ सुखमत्रं स्वर्गस्तर्हि तत्फलकचोदना न देहाद्भिन्नमात्मानमपेक्षते। अस्मिन्नेव देहात्मनि सुखसम्भवात्। यत्तु विध्यर्थापूर्वरूपस्थायि- कार्यानुपपत्यैव देहान्तरभोग्यालौकिकस्वर्गसिद्धी तन्भ्ोक्तुर्देहाति-
Page 64
५४ विवरणोपन्यासे रेकसिद्धिरिति तत्रालौकिकस्वर्गा स्थितेः प्रागनुपपत्त्यभावेनापूर्वस्या- नुपस्थितस्य सङ्गतिग्रहासम्भवेन विध्यर्थत्वासिद्विः। तथा च प्रथ- ममलीकिकस्वर्गोपस्थितिस्ततः क्षणिकयागस्य तद्धेतुत्वानुपपत्ति- ज्ञानं ततः स्थाय्यपूर्वापस्थिति: ततः सङ्गतिग्रहस्ततो विधिप्रत्ययेन तज्ज्ञानं तद्बलादलौकिकस्वर्गसिद्धिरिति पट्चक्रकापत्तिः । पतेना- न्त्येप्ट्याद्यपूर्वस्य देहस्थत्वानुपपत्या तद्भिन्नात्मसिद्धिरिति प्रत्युक्तम्।
द्देहान्द्रिन्नात्मसिद्धि: निष्फलविधर्भो क्कन पेक्ष त्वात्। पापनाशादिफ लं तु दंहमात्रे युज्यते। अत एवन प्रायश्चित्तविधितो Sपि भिन्नात्मसिद्धिः। पापफलभोगायापि न भिन्नात्मापेक्षा अत्रैव दुःखानुभवसम्भधातू। सिद्धार्थकवाक्याप्रामाण्येन नरकलोकासिद्धेरिति। सत्यं नास्त्येवा- त्रोत्तरं चोदनामात्रम्माणवादिनां मीमांसकंमन्यानामस्माकं तुसि-
सिद्धिः। सिद्धे वाक्यप्रामाण्यं समन्वयसूत्रे विस्तरण वक्ष्यते इत्यलं प्रपञचेन। तथा चार्थवादैकवाक्यतापन्नचोदनाप्रयुक्तकर्मणि व्यवहारे उपंक्षित एवाऽतिरिक्तात्मनिश्चयस्तथापि वेदान्तवैद्याशनायादयतीता- द्वितीयासंसार्यात्मवोधस्य कर्ममूलाध्यासविरोधित्वान्नापेक्षित इ- त्यध्यासमूलत्वं शास्त्रीयव्यवहारस्याऽविकलम्।तथा ब्राह्मणो यजेते- त्याद्यागमो Sपि ब्राह्मणादिशव्देन देहतादात्म्याध्यासवन्तमधिकारि- णं तमनुवदन्नध्यासे प्रमाणम्। अधुना प्रमाणसिद्धो Sध्यासी विभज्यते। तत्र शुद्धचैतन्ये ना- दिरज्ञानाध्यासः । तद्वति चैतन्ये जीवाख्ये मनस्तद्धर्मकामादीनाम-
काणत्वादीनां चाध्यासः। देहावच्छिन्नवैतन्ये पुत्रादीनां वृद्धिहानि- ज्ञाननिमित्तकः साकल्यवैकल्याध्यास इति विभाग इत्यभिग्रेत्याह- प्रत्यक्षमनुमानं चाप्यर्थापत्तिस्तथागमः । मानान्यध्याससत्तायां स विभज्य प्रदर्शित इति॥ यत्तु कामादय आत्मधर्मा एव न तेषामध्यास इति, तन्न । अ- खण्डकूटस्थात्मनः कामादिपरिणामित्वायोगातू। मनसि सत्येव का- मादीनां भावादसति च सुषुपावभावात् । कामः सङ्कल्प इत्यादि- श्रुतेश्च मन एव कामादिधर्मि तत्तादात्म्यादात्मनि कामादीनाम-
Page 65
१ सू. १ वर्णकम् । ध्यासः। यद्यपि साक्ष्यात्मतादात्म्यं विना कामादीनामपरोक्षत्वा- योगात्तादात्म्यमस्ति तथा Sपयहं काम इति तादात्म्येन भानं न भवति। किन्तु सत्यपि तादात्म्ये रूपी घट इतिवदहङ्कारे ऽपि अनादिवास- नया सम्बन्धित्वेनैवाध्यासः। तत्रैक्यकल्पितभेदांशद्वयरूपे तादा- त्म्ये भेदांशमात्रभानमिति यावत् । एवमहमिति चिदचितोरैक्य- मात्रभानं द्रष्टव्यम्। तञ्च कामादिधर्मि मनो मध्यमपरिमाणं साचषिप्र- त्यक्षवेद्य च।"अगमन्मे मनो ऽन्यत्र सांप्रतं च स्थिरीकृतम। दुःखितं हप्रमित्येवं स्वापरोक्षानुभूतितः"। तार्किकास्तु सर्वेन्द्रियेषु स्वस्वा- विषयसम्वद्धेषु युगपत् ज्ञानानुत्पत्त्यन्यथानुपपत्या क्रमेपंन्द्रियसंयो- गशाल्यणु मनः सिध्यतीत्याहुस्तन्न। समनस्कचक्षुःसन्निकृष्टे घटे युग- पदनेकज्ञानप्रसङ्गात्। नच मनसः क्रमज्ञानजननसामर्थ्य कल्प्यते इति वाच्यम्। ज्ञानकर्तृव्यतिरिक्त मनस्तस्य क्रमेणेन्द्रियसंयोगायाणुत्वं कमसामर्थ्यमित्यनेककल्पनागौरवात्।अतो लाघवात्तानक्तर्येव क्रम- सामर्थ्यमात्रं कल्ण्यमित्यनन्यथासिद्धानुपपत्या न कत्रतिरिक्तमनः- सिद्धिः। तस्मात्साक्षिवेद्य मन इति सिद्धमित्याह। मनः कामादिधर्म स्यात्साक्षिप्रत्यक्षमेव चेति॥ एवं प्रत्यगात्मन्यहङ्कारादीनां स्वरूपतः संसर्गतश्चाध्यास उक्तः। आत्मनो ऽप्यहङ्कारादिषु संसर्गतो ऽध्यासो वाच्यः।अनध्यस्तस्य भ्रमे भानायोगात्। रजतभ्रमे तादात्म्यसम्बन्धेन रजते Sव्यस्ताधिष्ठान- सामान्यस्य भानादनध्यस्तशुक्तित्वस्याभानादहमुपलभे इत्यहङ्कारे
कथमध्यास इति चेन्न।विशेषस्यात्मन्यभानात् । जडाहङ्कारादी त- द्भानं त्वध्यास एव। वस्तुतस्तु पूर्णानन्दब्रह्मत्वमेव विशेष: ।चैतन्यं तु शुक्तरिदंत्ववत्सामान्यमिति मन्तव्यम्। चैतन्यस्य स्वरूपाध्यासा- नङ्गीकारात् न शून्यतापातः।तत्र चिदात्मनो ऽन्तःकरणे ऽध्यासस्तदुप- हितस्य तत्ससृष्टे देहे Sध्यास: मनोविशिष्टस्य देहे Sध्यासे चार्वाकस्य देह आत्मेति भ्रमायोगात्। आत्मतादात्म्यं ह्यनात्मनि अहङ्कारे वादि- नामात्मभ्रमहेतुः क्लप्तः । विशिष्टस्त्वनात्मेत्युपहित आत्मैव देहे ऽध्य- स्यते इति देहात्मत्वभ्रमी युक्तः । एवमन्योन्या्यासः कर्तृत्वादिस- र्वानर्थहेतुः सिद्धस्तस्य हेतुरनाद्यवद्येत्युक्त पुरस्तात्तस्यास्तत्वम- स्यादिवाक्योत्थापरोक्षतत्वज्ञानात्तन्निवृत्ती सर्वानर्थनिवृत्तिरात्यन्ति- की प्रयोजनमस्य शास्त्रस्य सिद्ध भवति। नन्वनादभावस्य कथं
Page 66
१६ विवरणोपन्यासे निवृत्तिरिति चेदनादिप्रागभावस्येव। निवर्तकसन्निपाते सति अना- दिभावस्याऽपि निवृत्तिरिति ब्रूमः।अतो ऽन्यदारत यदल्पं तन्मर्त्यमिति सद्विलक्षणस्य सर्वस्य नाशश्रवणात्।नन्वनर्थनिवृत्तिवदानन्दावापति- रपि फलं श्रुतं तरति शोकमात्मवित् ब्रह्म वेद ब्रह्मैव भवतीति थ्रुतेः। पूर्णानन्दात्मकं ब्रह्म भवतीत्यर्थः । तत्कथं भाष्ये तस्यानर्थहतोः प्र- हाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते इत्यत्रान- र्थनिवृत्तिमात्रं फलमुक्तमिति। उच्यते। आत्मन आनन्दरूपव्रहीक्यं विषय इत्युक्तावर्थादभिव्यक्तानन्दः फलमित्युक्तं भवति। अनर्थनि- वृत्तिस्तु तत्त्वज्ञानान्नान्तरीयकतया जायमाना शास्त्रविषयाऽभिन्नेति मत्वा पृथगुक्तेत्याह- एवमध्याससंसिद्धी तन्निवृत्ति: प्रयोजनम्। विषयश्चापि शास्त्रस्य ब्रह्मात्मैक्यं सुखं भवेदिंति॥ नन्वस्थूलादिवाक्यैः प्रपञ्चाभावरूपं ब्रह्म प्रतिपाद्यते तदैक्यं तत्त्वमस्यादिशास्त्रविषय इति कथं निवृत्तिर्विषयाद्भिन्नेति? सत्यम। प्रपञचात्यन्ताभावः शास्त्रविषयः। ब्रह्माभेदान्नतु निवृत्तिर्व्रह्मभिन्ना प्रपञचसमानकालीनस्य ब्रह्मणस्तन्निवृत्तित्वायोगात् । ध्वंसस्य प्रतियोगिभिन्नकालत्वादिति मतेन विनिवृत्तेविषयात्पृथङ्गिर्देशः । भवतु कल्पितस्याभावः सर्वो उप्यधिष्ठानमेवेति मते नेत्यनवद्यम । सा चानन्दावाप्तिप्रतिबन्धकाभावत्वेन पुरुषार्थः । आनन्दावाप्तिस्तु मुख्यं फलमित्यन्ये। ननु प्रपञचाभावत्वेन ब्रह्मनिषेधवाक्यैःप्रमातुम- शक्यम।सप्रपश्चत्वानुभवविरोधादिति चेन्न तावत्प्रत्यक्षेण सप्रपञचं ब्रह्मेत्यनुभवः सम्भवति ब्रह्मणो Sतीन्द्रियत्वात्। नाप्यनुमानेन तस्य कारणमात्रगोचरत्वान्न चागमः सप्रपश्चपर: कश्चिदस्ति। इदं सर्व यदयमात्मेति वाक्यं तु ब्रह्मण उपादानत्वश्रुतिसामर्थ्यप्राप्तसर्वात्म- त्वं नेति नेतीति निषेधायानुवदति। न प्रतिपाद्यति यच्छब्दयोगात्। द्वैतप्रतिपादने फलाभावादनर्थदर्शनाच्च। द्वैताभावे सुषुप्ती सुखदर्श- नातू। "अशब्दमस्पर्शमरूपमव्ययं तथा रसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं धुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते"। इति निषेधज्ञानान्मुक्तिश्रवणाच्च निषेधवाक्यं फलवदज्ञातार्थत्वाद्वलवदि- ति निष्पपञचमेव ब्रह्मेत्याह- P IF thy ब्रह्म तन्निष्प्रपञचं स्यानन्निषेधवलवत्वत इति॥ सृष्टिवाक्यं तुन मुख्यतः सप्रपञ्चतां बोधयति। किं त्वन्यत्न प्र-
Page 67
१ सू. १ वर्णकम् । ५७ पञ्चसत्ताभ्रान्तिनिरासार्थ व्रह्मोपादानकत्वमुक्ता तत्र निषेधेनाद्वि- तीयं ब्रह्म प्रतिपादयति । अर्थात्प्राप्त सप्रपञ्चत्वमुपासनार्थमनुवद- रसर्वकर्मा सर्वकाम: सर्वगन्ध इत्यादिवाक्यमप्यनन्यशेपनिषेधवाक्य- विरोधान्न तत्परम्। एवं जीवो Sपि कर्तृत्वादिसंसारशून्य एव।नचा-
मत्वात्। मनसस्तदुपादानत्वेनाप्रमाणत्वात्। यत्तु दुःखादीनां स्वस- त्तायां प्रकाशाव्यभिचारात्स्वप्रकाशत्वमिति बौद्ध: प्राभाकरैश्रोक्तं तन्न। ज्ञानान्यस्य घटवदस्वप्रकाशत्वात्स्वप्रकाशत्वस्यैकात्मवृत्तित्वे लाघवाच्च। तस्माच्छुक्तिरूपादिवत्साक्षिवेद्य: कर्तृत्वादिसंसार इति। वस्तुतो Sसंसार्येव जीव इति निष्प्रपश्चव्रह्मैक्यमेवाबाधितं शास्त्रस्य विषय इति सिद्धमित्याह- असंसारी तथा जीवो न दुःखादि: स्वयंप्रभ इति। नन्वनर्थनिवृत्तेः शास्त्राविषयत्वे कर्थ सिद्धिरिति चेदुच्यते । अहं ब्रह्मास्मीति ज्ञानाद्वाक्योत्यादनर्थमूलाज्ञाननिवृत्त्या तज्ज्ञानार्थस्य निवृत्तिर्जायते।शुक्तिज्ञानादिव प्रत्यक्षाद्रजतनिवृत्तिः।सा च प्रतियो- ग्यनुपलम्भसह कृतेनाधिष्ठानसाक्ष्यनुभवेन ज्ञायते इति नान्तरीय- कतया सिद्धा Sनर्थनिवृत्तिः। तथा चाऽधिष्ठानज्ञानादर्थसिद्धरजत- निरासं यथा नेदं रजतमिति वाक्यमनुवदति। यथा वा देवतोद्दे- शेन द्रव्यत्यागरूपक्रियावाचिना यजतिना क्रियाज्ञानाSनान्तरीयक- तथा सिद्धयोर्द्रव्यदेवतयोराज्यविष्ण्वादिशब्दविशेषे नियमार्थमनु- वादः। तवुक्तम्।यजतिचोदना द्रव्यदेवताक्रियासमुदाये कृतार्थत्वा- दिति। यजतिशब्दः शत्त्या क्रियांवदस्तदविनाभूतं द्रव्यं देवतां च बोधयति। त्रयाणां समुदाये ज्ञाते सति आकाङ्गाशान्तेरिति सू- तार्थः। तथानर्थनिवृत्ति विद्वदनुभवसिद्धां तरति शोकमात्मविदिति वाक्यमनुवद्तीति शास्त्रविषयाद्वहिर्भूतानर्थनिवृत्तिरिति मन्वानो भगवान् भाष्यकारस्तां पृथगभाषयत्। अस्याऽनर्थहेतोः प्रहाणायेति मत्वाह- ज्ञानादनर्थनाशस्तु न श्रुत्यर्थो उर्थसिद्धित इति। नन्वत्र भाष्ये विद्याप्रतिपत्तये इत्यत्र प्रतिपत्तिशब्दार्थः क इति चेतू, उच्यते। अविचारितवेदान्तवाक्याजाताया विद्याया अपरो-
Page 68
६८ विवरणोपन्यासे प्रत्यक्षविषयत्वं १भवति।यथदं फलमत्र न सम्भवतीति विषयाऽसम्भा- वनाबुद्धिदोषादाप्तवाक्योत्यस्य सन्निकृष्टाईमरीचफलज्ञानस्य। तथा च तर्कादिना दोषप्रतिबन्धनिवृत्ती यत्तत्क्षमत्वं साविद्याया: स्वविषये प्रतिष्ठाप्रतिपत्तिशब्दार्थ इति । एतेन वेदान्तवाक्यस्य तर्कापेक्षत्वे प्रामाण्यस्य स्वतस्त्वभङ्ग इति प्रत्युक्तम। न हि वयं वाक्यप्रमाणस्य तर्कापेक्षया प्रमितिहेतुत्वं ब्रूमः । किन्तु तर्केशा प्रतिवन्धे निरस्ते निरपेक्षं वाक्यमेवार्थनिश्चायकमिति न स्वतस्त्वहानिः । पतच् मानानां स्वतस्त्वं प्रथमतन्त्रे निरूपितम। तथा हि। प्रामाण्यमप्रा- माण्यञ्च स्वत इति साङ्ख्याः।तन्न दोपोत्कर्षे भ्रमोत्कर्षदर्शनादप्रा- माण्यस्य ज्ञानसामान्यस्य सामव्यतिरिक्तदोषप्रयोज्यत्वेनोत्पत्ती स्व- तस्त्वायोगाद्दोपस्य भ्रमाऽहेतुत्वे सर्वज्ञानानाम्भ्रमत्वापातः सामा- न्यसामग््या एव भ्रमहेतुत्वात्। एवं प्रामाण्यस्य ज्ञानग्राहकमात्रग्रा- ह्यत्वे क्वाऽपि निष्कम्पा प्रवृत्तिर्न स्यात्। भ्रान्तप्रवृत्त्युच्छेदश्च। अतो दोषजन्यम्बाधग्राह्यमप्रामाण्यम्परतः ॥ एतेनाप्रामाण्यं स्वतः प्रामाण्यम्परत इति सुगतोक्तमपास्तम् । उभयम्परत इति तार्किकास्तन्न। दोपाऽजन्यज्ञानमात्रस्य प्रमात्वद- शंनन ज्ञानसामान्यहेत्वतिरिक्तहेतुगुणजन्यं ज्ञानम्प्रमेत्यत्र माना- भावात्। जन्यप्रमा न गुणजन्या प्रमात्वात्। ज्ञानत्वाद्वा ईश्वरप्रमाव- त्सादृश्यादिदोषवद् गुणस्य प्रमामात्रहेतोर्दुर्निरूपत्वाच्च।न ताव द्विशेषणसन्निकर्षो गुणः। तस्य जन्यप्रत्यक्षमात्रे साधारणहेतुत्वात्। न च तद्वति तत्सन्निकर्षः प्रमायामेव हेतुरिति वाच्यम्। तस्या- 5पि विशेषणसन्निकर्षत्वेन प्रत्यक्षभ्रमसाधारणत्वात्। जन्यप्रत्य- क्षत्वेन यावद्विषयसन्निकर्षत्वेन कार्यकारणभावे सम्भवति तद्वति तत्सन्निकर्षत्वेन जन्यविशिष्टप्रत्यक्षप्रमात्वेन कार्यकारणभावान्त- रकल्पने गौरवात्। अत एव साध्यवति हेतुज्ञानमनुमितौ गुण इत्यपास्तम्। हेतुज्ञानत्वेनाऽनुमितित्वेन तन्भावे लाघवात्। एवं वक्तृ- यथार्थज्ञानत्वेन शब्दप्रसाणत्वेन तत्तन्भावदोषाऽजन्यत्वनैव शब्दप्रामा- ण्योपपत्तेः। अतो दोषाभावे ज्ञानहेतुमात्रादेव प्रमोत्पत्तिरित्युत्पत्तौ स्वतः प्रमात्वम्। यत्तु दोषाभाव एव प्रमाहेतुर्गुण इति, तन्न। तस्य प्रमायां प्रतिबन्धकाभावत्वेनाSन्यथासिद्धत्वात्। ध्म्येशप्रमायां केव- लान्वयिधर्मप्रकारकप्रमायाञ्च दोपाप्रसिद्ध्या तदभावासम्भवाच्च। (१) प्रत्यक्षत्वमिति पाठन्तरम्।
Page 69
१ सू. १ वर्णकम् । न हि तत्र कस्याऽपि भ्रमो Sस्ति। येन तज्धंतुर्दोप: प्रसिद्धःस्यात्। एवं ज्ञानग्रहे तद्विशेष्ये प्रकारवत्तारूपप्रामाण्यस्य ग्रहात् ज्ञप्ती स्वतस्त्वम्। न हि निर्विषयज्ञानमात्रं ग्रहीतुं शक्यम्। न च तद्वत्तारूपविषयाति- रिक्त प्रामाण्यं नाम किञ्चिदस्ति। तद्वद्विषयकत्वस्य ज्ञानमात्र-
एव भ्रान्तो ऽपि पुरोवर्तिनि तद्वत्तारूपप्रामाण्यनिश्चयान्निष्कम्पम्प्रवर्तते। दूरस्थजलज्ञानादी त्वनभ्यासदोषात्प्रामाण्यग्रहस्यानिश्चयत्वमिति तत्संशयो युज्यते इत्यनवद्यम्। मीमांसकानां स्वतः प्रामाण्यमप्रामा- णयं परतइति संक्षेपः। ननु वाक्यादेवाऽपरोक्षज्ञानमुत्पन्नं प्रतिबन्ध- निरासे सति विषयाऽवरणनिवर्तकमित्युक्तं तदयुक्तम।शब्दस्य परोक्ष- ज्ञानजनकत्वस्वाभाव्यादिति चेत्सत्यम्।साक्ष्यभिन्ने प्रत्यक्षे वस्तुनिश- व्दादपि अपरोक्षज्ञानं भवति।अपरोक्षार्थकत्वस्यैव ज्ञाननिष्ठाऽपरांक्षता- शब्दार्थत्वात्।न चेन्द्रियजन्यत्वेन ज्ञानस्य प्रत्यक्षता मनोजन्या।अनु- मितेस्तत्प्रसङ्गात् नित्यस्य सुखादिज्ञानस्य तदभावप्रसङ्गाच्च। म- नसः प्रमातृत्वेनानिन्द्रियत्वात्। दशमस्त्वमसि, शुक्तिरियमित्यादि- वाक्यान्द्मनिवर्त काऽपरोक्षज्ञानदर्शनाञ्च तन्त्वौपनिषद वेदान्तविज्ञान- सुनिश्चितार्था इति च श्रुत्या वेदान्तवाक्यजसाक्षात्कारस्यैव मुक्ति- हेतुत्वावगमाच्च। तस्मात्कर्मभिर्निरस्तसमस्तकल्मपस्य भगवद्नुग्र- हाच्छमादिसंपत्या Sनात्ममात्रे रागादिदोषनिबन्धनप्रवृत्तिविमुखस्या-
भ्यां प्रमेयाSसम्भावनादिदोषप्रतिबन्धनिरासे सत्येकाग्रचित्तेन्द्रिये व्र- ह्मात्मत्वसाक्षात्कारो जायते। चित्तस्याऽपरोक्षधीहे तुत्वमात्रेणाSSचार्ये- रिन्द्रियत्वोपचारः कृतः।एकत्र विजातीयकरणद्वयाऽयोगादिति मन्त- व्यम्।अन्ये तु ध्रुताच्छ्वव्दाद्गह्मात्मनि परोक्षधीरुदेति। शब्दस्वाभा-
ननु श्रवणमननध्यानानां न तावदाग्नेयादीनामिव समप्राधा- न्यं ज्षानान्यस्य कस्य फलस्याभावात्। ज्ञानस्य च शब्दमात्रफ- लत्वात्। फलैक्याभावादेव नाऽङ्गाङ्गीभावो Sपि। यदि परम्परया
हेतुत्वेन प्राधान्यम्। इतरयोस्तत्स्वरूपोपकारित्वेनाङ्गत्वमिति
प्रति करणत्वात्। करणस्य फलं प्रत्यव्यवहितितया प्राधान्यात्कर-
Page 70
६० विवरणोपन्यासे णकोटिनिविष्टत्वेन श्रवर्ण प्रधानम् । मननध्याने तु करशाफ- लापेक्षितायाश्वित्तकाग्रतायाः प्रतिबन्धकासम्भवनादिनिवृत्तिद्वारा सम्पादकत्वेन फलोपकार्यङ्गतामश्नुवाते। अकरणचित्तसंस्कारक- त्वेन व्यवधानात्। न चाव्यवधानात् ध्यानमव करणमिति वाच्यम। ध्यानस्य क्वापि प्रमाकरणत्वादर्शनात्तजन्यज्ञानस्य नष्टपुत्रसाच्तात्का- रवन्भान्तित्वापत्तेः। न च वेदान्तविषयसत्तानिश्चयात् ध्यानकरणक- ज्ञानस्य प्रमात्वमिति वाच्यम्। ध्यानजज्ञानस्य परतः प्रामाण्यापत्ते- धर्यानाख्यप्माणान्तरकल्पनागरिवाच्च।नाऽपि ध्यानसंस्कृतं चित्त करणं प्रमातृत्वात् । ब्रह्मण औपनिषदत्वविरोधाञ्च।मनसैवाऽनुद्रष्टव्यमिति तृतीया मनस उपादानत्वेन हेतुत्वादविरुद्धा।तस्माद्विचारितवाक्य- मेव करणमिति मननध्यान तदङ्गे इति सिद्धमित्याह- प्रमाणानां स्वतो मात्वं शब्दादर्थाऽपरोक्षधीः। मतिध्याने श्रुतरङ्गे न ध्यानात्स्यात्प्रमीन्भवः ॥ इति। ननु वाक्योत्यस्याऽहं ब्रह्मेत्यपरोक्षज्ञानस्य देहाद्यध्यासाऽनर्थमूलवि- द्यानिवर्तकत्वे ज्ञानिनःसद: शरीरपातः स्यातू। तथा च जीवन्मुक्ति- शास्त्रविरोधः। देहादिभिन्न आत्मृति विवेकज्ञानवदनिवर्तकत्वे फ- लाभावाच्छास्त्राऽनारम्भ इति चेन्न । विवेकज्ञानस्याSविरोधादज्ञाना- Sनिवर्त कत्वे डपि वाक्यात्थाधिष्ठानतत्वगोच रज्ञानस्याऽज्ञानसमानाश्र- यविषयतया विरोधादस्त्येव निवर्तकत्वम्। शरीरधारणन्तु नष्टा- जज्ञानसंस्काराद्युज्यते। रज्जुतत्त्वज्ञानिनो Sपि अहिभयाद्यनुवृत्तिवत्। अस्ति हि विनश्यद्वस्तुमात्रस्य संस्कार: ज्ञानक्रिययोरिव भावना- वेगादिसंस्कारः। अन्यथा पलयानन्तरभाविसर्गस्य पूर्वसर्गसमान- त्वायोगात्।स चाज्ञाननाशजसंस्कारो Sप्यज्ञानवदात्माश्रितो जगदप- रोकभ्रान्तिहेतुः अपरोक्षभानहेतुस्थदोषत्वात्काचादिवत्। स च नि-
यं शाम्यतीति जीवन्मुक्तिशास्त्रबलात् कल्पनीयम् । अ्थ वा ज्ञाना- दावरका़ज्ञानांशस्यैव नाशः। विरोधात। विक्षेपकांशस्तु प्रारब्धा- डवसाने पूर्ववृत्त्यभिव्यक्त चैतन्यान्नश्यतीत्यविद्यालेशाद्ेहधारणम।त- ननाशे विदेहे कैवल्यमिति रमीयमित्याह- संस्कारादनुवृत्ति: स्यात्ससृतेर्ज्ञानिनी Sहिवदिति । ननु सर्वे वेदान्ता आत्मैकत्वविद्यार्थमारभ्यन्ते इति भाष्योक्तम- युक्तं तेपूपासनापरवाक्यानां बहुलमुपलब्धोरीते। उच्यते ।
Page 71
१ सू. १ वर्णकम् । ६१ अध्यारोपापवादाश्यां निष्प्रपञ्च प्रमित्यर्थ ब्रह्मशि सृष्टिवाक्यः प्रप-
श्रित्य चित्तैकाग्यद्वारा ज्ञानहेतुत्वाऽभिप्रायेण वेदान्तेपूपासनानि विधीयन्ते। न चाश्रित्य विधाने ज्ञानाधिकारिण एवोपासनेष्व- धिकारो गोदोहनइव स्यादिति वाच्यम्। दर्शपूर्णमासाङ्ग- त्वेन तदधिकारिण एव प्राप्ताप्प्रणयनोद्देशेन गोदोहनविधेरधिकृता -र Sधिकारत्वे Sपि सर्वसाधारणप्रत्यक्षादिसिद्धस्य प्रपञचस्य श्रुत्या Sनू- द्यमानस्य ज्ञानार्थिनं प्रत्येव प्राप्तत्वाभावात्सर्वान् प्रति प्राप्तप्रपञ्चा- श्रितोपासनेषु अमुमुक्षोरपि तत्तत्फलार्थिनो Sधिकारोपपत्तेः । न हि ज्ञानं विहितं येन प्रपञचस्तदङ्गत्वेनासाधारणः स्यादपि तु र-
धीहेतुत्वमात्रम। तदाश्रितांपासनाविधीनां वेदान्तेषु ज्ञानार्थप्रपञचा- रोपप्रसङ्गादागतानां ब्रह्मण्येव महाताप्तर्य चित्तकाग्यद्वारे पि भाष्ये सर्वशब्दो युक्त इत्याह- ज्ञानार्थत्वादुपास्तीनां वेदान्ता पक्यगोचराः।इति। एवं च सर्वेशां वेदान्तानां ब्रह्मात्मैक्यं विषयो Sनर्थनिवृत्ति: फ- लमिति तद्विचारात्मकशास्त्रस्य सूत्रसन्दर्भस्याऽपि ते एव विषयप्र- योजने सिद्धे। ते च प्रथमसूत्रेणार्थात्सूत्रित इति मत्वा तयोः सि- द्धये भाष्यकारो उध्यासमादी वर्णयित्या ते दर्शितवानस्याऽनर्थहे- तोरित्यादिना। तस्मादार्थिकसूत्रार्थस्पर्शित्वादस्य भाष्यत्वेन व्या- ख्येयता सिद्धा॥ ननु विषयप्रयोजनयों: कथमार्थिकत्वमिति ? उच्यते। मुमुक्षुणा ब्रह्मज्ञानार्थ विचार: कर्तव्य इति सूत्रस्य श्रीतो ऽर्थ इत्युक्तम। तत्र विधिप्रत्ययेन हितसाधनत्वोक्ती हितविशेशकाङ्कायामधिकारिवि- शेषण मोक्ष: सम्वध्यते इति प्रयोजनत्ववुद्धिर्मोक्षस्यार्थिकी। ब्रह्म- ज्ञानस्य जीवगतवन्धनिवृत्तिरूपमोक्षहेतुत्वाऽन्यथाऽनुपपत्या तदैक्य- मर्थात्सूत्रितमिति। अत्र प्राभाकरः । न हि विधिप्रत्ययात् हितसा- धनताबोधः। किन्तु विधिबोधितनियोगात्तद्विपये धात्वर्थे नियोज्य हितसाधनत्वरूपविनियोगं विना Sनुपपद्यमानात्तद्वोध इति ब्ूते। तन्निराकरोति- ज्ञाप्यते हितहेतुत्वं विधिना न नियोगत इति। अयं भावः। नियोगे सिद्धे हितहेतुत्वधीः। तस्यांज्ञातायां क्षणि-
Page 72
६२ विवरणोपन्यासे कभावार्थस्य कालान्तरभाविहितहेतुत्वाऽनुपपत्या स्थायिकार्योप- स्थिता तत्र शक्तिग्रहाल्लिङादिना तद्रोध इति चक्रकापत्तेः । किश्च विनियोगाभावे नियोगस्य नानुपपत्तिरस्ति। निष्फलनित्यादिकर्मणि नियोगाङ्गीकारात्। न च फलकामिनं यागे फलहेतुत्वमनापाद्य नि- योग: प्रवर्तयितुं न शक्कोतीति कामिप्रवर्तकत्वानुपपत्या नियोगा- द्विनियोगधीरिति वाच्यम्। तथा सति ज्ञातो नियोगो हितहेतुत्व- धियं विना न प्रवर्तक इत्यावश्यकत्वेन तस्या एव प्रवर्तकत्वापा- तात्। यत्तु काम्यत्वेन साध्यस्य स्वर्गादे: कामनाद्वारा नियोगा- धिकारिविशषणत्वानुपपत्या नियोगविषयस्य यागादेस्तत्साधन- ताबोधो न विधित इति, तन्न। अध्येतुकामो भैक्षमाचरेदिति नियो- गचिषयस्थ भैक्षस्य काम्याध्ययनहेतुत्ववाधापत्तेः। तस्मादध्ययनव- द्विधेयधात्वर्थासाध्यत्वे Sपि स्वर्गस्य तदधिकारिविशेषसामुपपन्नम्। किश्च स्वर्गकामपदेन साध्यस्वर्गवोधे तस्य नियोगरूपसाध्येनान्व- याभावे स्वतन्त्रसाध्यभेदाद्वाक्यभेदः। अन्वये तु नियोगस्य स्वर्ग प्रति साधनत्वेनैवान्वय इति नियोगप्राधान्यभङ्गः । किञ्चेदं स्व- र्गकामपदं न साध्यस्वर्गविशिष्टाधिकारिपरम्। येनतद्विशेषणत्वेन स्व- र्गस्य नियोगविषयसाध्यतावोधः स्यात्। न तावदिदं स्वर्गकामत्ववि- शेषणं पुरुपस्य दर्शादिनियोगेनासम्बन्धनिरासार्थ, नित्यविधिनैव त- तनिरासात्। नाऽपि नित्यनियोगाधिकार्यपेक्षया। काम्यनियोगांधिका- रिणो भेदज्ञानार्थ नित्यकाम्यनियोगवैजात्यासिद्धेः।न चाधिकारिभेदा- प्तत्सिद्धि: परस्पराश्रयात्।ज्ञाते Sधिकारिभेदे नियोगयोवैजात्यज्ञानम् वैजात्यज्ञाने विशेषणमर्थवाेत्यधिकारिभेदज्ञानमिति । तस्मात्स्व- र्गकामपद हितसाधनत्वबोधिविध्यपेक्षितहितविशेषमात्रपरम्। तथा च स्वर्गकामो यजेतेति पदाश्यां यागः स्वर्गसाधनमिति वोधिते सति तत्कामो उधिकार्यर्थाल्लभ्यते। तस्माद्विधिप्रत्ययाद्ेवेप्टसाधन- तावोध: । अन्ये तु स्वर्गविशिष्टाधिकारिणो नियोगविषयभावार्थेनाऽ्वये सति विशेषणस्याऽपि तेनान्वयः सिध्यति 1 विशिष्टान्वये विशे- षणस्याप्यन्वयनियमात्। स चान्वयः स्वर्गस्येप्सितत्वेन भावार्थ- साध्यत्वरूप इति विशिष्टाधिकार्यन्वयलभ्यः साध्यसाधनभावो न लिडर्थ इत्याहुः। तन्न। विशेषणस्य विशेष्यपुरुषवक्रियां प्रति हेतुत्वे-
Page 73
१ स्. १ वर्णकम् । ६३ काम्य कर्मणि कामनैवाधिकारिविशेषणम्। सा च भावार्थेन हेतुतया Sन्वति नित्यादी जीवनादिवत् । यदि स्वर्ग विशेषणं कृत्वा तस्य भावार्थेन साध्यतयार्थान्वय उच्येत तर्हि जीवनादें- रपीप्सितरूपस्य तद्विशिष्टाधिकारिकभावार्थसाध्यताप्रसङ्ग:।त- स्मात्साक्षात्कृतिसाध्यस्य भावार्थस्यानन्यलभ्यमिप्टसाधनत्वं वि- ध्यथमिति युक्तं कृतिसाध्यत्वमाख्यातलभ्यमिति न तत्र लिङादीनां शक्तिः । ननु ज्यातिष्टोमेन यजेतंत्यत्र लिडSकरणत्वे Sभिंहिते तृतीया न स्यात्। तिङ्कृत्तद्धितसमासरनभिहिते इत्यधिकृत्य कर्तृ करणयोस्तृतीयेति सूत्रेण तृतीयाविधानादिति चेन्न। यागे क- रणत्वाभिधाने पि जोतिष्टोमाख्ययागविशेषे करणत्वानभिधानात्। लिडा साधनत्वाभिधाने Sपि करणत्वानभिधानाच्चेत्यनवद्यम् ।। तस्माद्भगवान् भाष्यकार: प्रवृत्त्यङ्गतया सूत्रस्याऽडर्थिकार्थ विष- यप्रयोजनरूपमादी व्याख्याय पदव्याख्यामारभते तत्राऽथशब्द आ- नन्तर्यार्थ इत्यादिनेत्युपपन्नम्। तस्मान्मुमुक्षुणा ब्रह्मजिज्ञासाख्यवेद- मीमांसा कर्तव्या विषयप्रयोजनयोः सन्भावादित्युपसंहरति- मुमुक्षुणा Sतो जिज्ञासा कर्तव्या विषयार्थयोः। सन्भावादित्यर्घजातं प्रथमे वर्णके स्थितम् ॥इति। श्रीरामप्रपदप्रसादकलितश्रीमद्गुरुश्रीपद- श्रद्धायुकप्रणतिप्रभाकरहतस्वान्ध्यान्धकारत्वतः ।
सिद्धा न्यास उपप्रकाशयति वाक् सङ्घादिमे वर्णाके॥१॥
पादशिध्यरामानन्दसरस्वतीकृती विवरणोपन्यास प्रथमसूत्रे प्रथ- मवणंकं समाप्तम् ॥ रामार्पणमस्तु ॥
भक्तानुग्रहकद्देवं दुण्ढिराजं परात्परम्। कर्णवायुचलद्िम्नहारिशुण्डमहं भजे ॥ १ ॥ अशांकं परमानन्दं गोविदं भक्तवत्सलम्। वेदान्तवेद्यं श्रीरामं भूयों भूयो नमाम्यहम् ॥ २ ॥ श्रोतव्य इति विध्यपेक्षितयोत्रह्मात्मैक्यविषयानर्थनिवृत्तिप्र- योजनयोः सत्त्वाद्वेदान्तविचार: कर्तव्य इत्युक्तम्। पुनरत्र गतार्थत्वा- डगतार्थत्वाभ्यां सन्दिह्यते स विचारः कर्तव्यो न वति। तत्र गतार्थ-
Page 74
६४ विवरणोपन्यासे त्वान्न कर्तव्य इति प्राप्तम्।तथा हि। विचारविधेरव्यवहितो विचार- विषयः विचार्यः।वेदान्तप्रतिपाद्यस्तु व्यवहितो विषय इति स्थितिः। तत्र सर्ववेदस्य कार्यपरत्वाद्वेदान्तानामपि दरष्टव्य इति ज्ञानविधी तात्पर्य न ब्रह्मणि विध्यपेक्षित चोत्पत्तिविनियोगप्रयोगफलादिक सर्व पूर्वतन्त्रे जैमिनिसूत्रन्यायैर्विचारितमंतो वेदान्तानां पूर्वतन्त्रे- एाऽवगर्ताथत्वात्तद्विचार कृत पवेति व्यवहितविषयाभावाच्छास्त्रं नारम्भणीयममित्याह- सर्वो वेदो विधिंपरो विधि: पूर्व विचारितः । अनारभ्यमिदं शास्त्रम्। इति। ननु विधिपरत्वें पि द्वादशाध्यायानांयथा तत्तदभ्यधिकाऽडर- ङ्वोत्तरत्वेनारम्भ: । तद्वच्छङ्कायामस्य शास्त्रस्यारम्भो डस्तु। तथा हि। शब्दप्रामाण्यस्य मानान्तरदष्टार्थकत्वेन नियमाद्धर्मे मानान्त- रांदर्शनान्न वेदस्य प्रामाण्यमित्यप्रामाणिकत्वाद्धर्मो न विचार्य इत्या- SSशॅंङ्गयापोरुषेयत्वेनं वेदस्य स्वार्थे मानान्तरानपेक्षत्वादबाधिता- ज्ञातफलवदर्थकत्वेन चोदनाया: प्रामाण्यम। अर्थवादानां विधि- स्तुत्यर्थकत्वेन मन्त्राणां धर्मोपयोगिस्मृतिहेतुत्वेन नामधेयानामनु- ष्ठेयधात्वर्थपरिच्छेदकत्वेन स्मूतीनां श्रुतिमूलकत्वेन प्रामाण्यं प्रथ- माध्याये निरूपितम् । ननु वेदादिष्टसाधनत्वेन भावनाया नियो- गस्य वा ज्ञानादनुष्ठानसिद्धे: किं द्वितीयेनत्याशङ्कय? उत्पत्तिविधीनां भेदाभेदनिर्णर्य विना Sनुष्ठानायोगातू शब्दान्तराभ्याससंख्यागुण- प्रत्रियानामधेयैर्भेंदः अन्यत्र त्वभेद इति निर्णयाय द्वितीयारम्भः। तत्र यजेत दद्याज्जुह्डुयादिति प्रकृतिशब्देन तदर्थक्रियाभेदातू तत्त- क्रियानुविद्धभावनादिविधिभेदः । समिधो यजतीत्यादी गुणविधि विना यजत्यभासावुत्पतत्तिविधिभेदः । तिस्र आहुतीर्जुहांतीत्यत्र हो- मस्यानुवादेन संख्याविधावावृत्त्यापत्तेः संख्याविशिष्टहोमविधौ कर्म- भेदः। वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनमित्यत्र द्रव्यदेवतारूप- गुणभदान्ेदः। कुण्डपायिकर्मप्रकरणे मासमग्निहोत्रं जुह्ृति, मासं द- शंपूर्णमासाविति श्रुतमग्निहांत्रादि प्रसिद्धाग्निहोत्रादोर्भिन्नं प्रकर- सान्तरस्थत्वात्। अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योति-
त्युक्तम्। ननु शेषत्वस्य दुर्निरूपत्वाच्छंपत्वज्ञानं विना Sप्याधानवदुप- कारकत्वमात्रण प्राक्षणाद्यनुष्ठानसम्भवात्किं तृतीयेनेत्याशङ्कय स-
Page 75
१ सू. २ वर्णकम् । ६९ मीहितविध्यन्तराधीनप्रवृत्तिविषयत्वं शेषत्वमिति लक्षणाज्च।तत्र क्ष- त्यादीनां मानत्वात् उपलभ्यमानोपकाराणां प्रयाजादीनां फलवत्कः मशेषत्वज्ञानं बिना Sतुष्ठानायोगाच्छवेषशेषिभावरूपविनियोगज्ञानाय तदारम्भः । तत्र कदाचन स्तरीरित्यृच्तो गार्हपत्योपस्थाने ऐन्द्यति श्रुत्या रोषत्वं वर्हिर्दवसंदन दामोत मन्त्रस्य लिङ्गाद्गुाहिर्लवनाङ्गत्वे इमामगृभ्यान्निति मन्त्रस्येत्यश्वाभिधानीमादत्ते इति वाक्येनाऽश्व- रशनादावनाङ्गत्वम् प्रकरणात् प्रयाजादीनां दर्शाविशेषत्वं पारिप्ठिवस्य राजसूयाङ्गत्वम शुन्धध्वं दैव्यायेति मन्त्रस्य साम्नाय्यपात्रशुन्धनशे- पत्वं सन्निधानात्। आध्वर्यवादिसमाख्यया पुरोडाशं प्रथयतीत्या- दिमन्त्राणामाध्वर्यवादिकमीङ्गत्वमिति निरूपितम्। नन्त्रेवं विनियोग-
द्धावपि तयारेककाले Sनुष्टानस्याऽङ्गवाकैयरेकवाक्यतामापन्नप्रधान-
इति सिद्धान्तितम्? ननु व्युक्कमेणाऽप्यनुष्ठानसम्भवार्ति्क पञचमनत्या- शाङ्गय साङ्गप्रधानस्य प्रयोगविधिना युगपदनुष्ठाने प्राप्ते नियतः क्रमो वाच्यः । अन्यथा किसादी कार्यमिति चित्तवित्षेपापत्तेः। सन्ति हि क्रमनियमे ख्त्यर्थपाउस्थानमुख्यप्वृत्त्याख्यानि प्रमाणानि। दर्शपूर्णमा- साभ्यामिष्टा सोमेन यजेत वाजपेयेनेष्टा वृहस्पतिसचेनेत्यादी क्काभ्ु- त्या क्रमः । अग्निहोत्रयवागूपाकयोः साध्यसाधनयोरर्थात्सामर्थ्या- क्मः।प्रयाजादीनां पाठाक्रमः।ज्योतिष्टोमे प्रकृती प्रथमो Sग्नीपोमीयः पशुः पश्चादाशर्विनग्रहानन्तरं सवनीयः । तदनन्तरमानुबन्ध्यः पशु- रिति क्भो Sवगतः।तद्विकृती सादस्के कर्मण्याश्विनग्रहानन्तरं "सह पशुना लभते" इति सहत्वश्रुत्या प्राकृतक्रमवाधे सति क्रमाका्गा- यामाश्चिनग्रहानन्तरकालस्य सवनीयपशुलानत्वेन प्रकृती क्लृस- ज्वात् तत्स्थाने सहत्वश्रुत्या तस्य पशोः स्वस्थानाश्मलनायोगात्प्रायर्ये सति द्वितीयो Sग्रीषोमीयस्तृतीय अनुबन्ध्य इति स्थानक्रमः।सार- स्वती मेषौ भवत इति सरस्वती सरस्वानिति स्त्रीपुंदेवताकयो- हीमयो: प्रधानत्वेन मुख्ययोः क्रमो याज्यापुरोनुवाक्यायुगलयोर- ङयो: क्रमपाउदवगतः सन् अन्येषां निर्वापादीनां क्रमं नियमयति। स्न्रया हविर्निरूप्य पुंसो निर्वपदिति मुख्यकमात् फ्रमः।वाजपेये स- पदश प्राजापत्यान् पशूनालभते इति थ्रुनानां पशूनां प्रोक्षणादिसं- स्करेप्वकैकशः कर्तव्येषु प्राथमिकसंस्कारे नियामकाभावादिच्छया
Page 76
विधरणांपन्यासे मवृत्तिः। अन्येर्षा संस्काराणं प्राथमिकसंस्कारप्रवृत्ति क्रमेणैव क्रम शात निरूपणार्थ पञ्चमारम्भ इत्युक्तम्। नन्वधिकारिनर्सायफल: पष्टो उध्यायो नारब्धव्यः । कर्मणि निष्फलत्वेन तद्भोक्तृत्वलक्षणाधिकारासम्भवात्। स्वर्गकामो यजे- तेत्यत्र प्रत्ययाभिहितभावनाया भाव्याकाङ्कायामेकपदोपात्तयागस्य भाव्यत्वेनान्वये सति सुखहेतुद्रव्यस्य स्वर्गशब्दार्थस्य पुत्रादे: साधनत्वेनान्वयादित्याशङ्कय श्रेयःसाधनत्वावच्छिन्नभावनायाः प्र- त्ययार्थत्वात्प्रत्ययस्य श्रेयोविशेषज्ञानं विना स्वार्थाबोधकत्वात्स्व- गपदेनैकपदत्वं बोधकं पदमित्यङ्गीकारात्। एवमेकपदोपात्तस्वर्गो भाव्यो न यागो भिन्नपदोपात्तत्वात् केशात्मकत्वाच्चेति सफल- त्वात्कर्मण्यधिकारिचिन्तारम्भ इत्यभिहितम। एवं पूर्वपट्केन
कृतिविचारार्थमुत्तरपट्कमारव्धम्। समग्राङ्गं श्रूयमाणं कर्म प्र- कृातः । यथा दर्शपूर्णमासाविष्टीनां सौर्य चरुं निर्वपेदित्यादीनां प्रकृतिः सोमः। स यूपानां कतूनां दैक्षः पशुः पशुवन्धानामहर्ग- णानां द्वादशाह इत्यादि। ननु यजतत्यादिसामान्यश्रुत्या यागादिघात्वर्थसामान्योद्देशेन विहिताजामङ्गानां प्रकृताविव विकृतावप्युपदेशेन प्राप्तेः किमतिदे- शार्थकसप्तमेनेत्याशङ्कय तत्तत्प्रकरणविशिष्टभावनाया विधेयायाः कथभावाकाङ्या विहितानामङ्गानां साक्षाद्भावनान्वयानुपपत्या फलशिरसकप्राकरणिकभावनाकरणीभूतधात्वर्थान्वयस्य व्यवस्थित- त्वादश्रुनाङ्गविकृतीनामतिदेशं विना डङ्गालाभात्तदर्थ सप्तमारम्भ इत्यभाणि। ननु तर्हि सर्वप्रकृतीनां यान्यङ्गानि तेपां सर्वेपां विकृतावतिदेशापात्तिः । ननु करणस्योपकारद्वारा डङ्गान्वयः । न हि सर्वाङ्गानामेककरणोपकारकत्वं क्वचित्क्लप्तम् । न चा- कलपस्यातिदशो Sस्ति। अतः कथ सर्वाङ्गातिदेश इति चेत्तर्हि य- स्या: कस्याश्चित्प्रकृतेरुपकारकत्वेन क्लप्तानां धर्माणां यत्र कुत्र चिद्विकृतावतिदेश: स्यात् नियासकाभावादित्याशङ्कय सौर्येष्टावा- प्रंयोष्टिधर्माणा पशुवन्धेषु द्रव्यसाम्याद्दैक्षपशोरित्यवं द्रव्यमकदेव-
मारम्भ इत्युक्तम्। नन्वान्नयादिकरणस्वरूपाकाङ्या Sन्वितानामगये
Page 77
१ सू. २ वर्णकन् । ६७ जुष्ट निर्वपामीत्यादिमन्त्राणामवघातादिसंस्काराणं च सौर्यादिषु प्रसत्त्यभावात्कस्योहांर्थ नवमारम्भ इत्याशङ््य भावनाया भाव्य- मूलसिद्धये करणत्वमाग्नंयादीनामङ्गान्वयप्रयोजकमू नत्वासेयादि- स्वरूपत्वं प्रधमं सफलभावनाकाङ्गया Sन्वितानामङ्गानां फलकर- णत्वप्रयुत्तैव धात्वर्थेनान्वयस्य वक्तव्यत्वात्। फर्ल चापूर्वद्वारा भाव्यमिति अपूर्वमेव साक्षान्वाव्यम्। तथा च यस्य फलापूर्वहेतुत्वं तस्याङ्गान्वय इति स्थिते वि- कृतीनामपि तद्धेतुत्वेनास्ति प्राकृताङ्गमन्त्रादिप्रसक्तिः । ततश् सौयें कर्मण्युक्तमन्त्रप्राप्ती तत्प्रकाशनोपकारायाग्ये इति पदं त्यक्त्का सूर्यायेति पदतक्षंपो मन्त्रोहः कृतः । गिरा गिरा च दक्षसइति सास्नि इरेति पदप्रक्षेपः सामोहः कृतः । न गिरा गिरतति व्रयादिति निषेधात् । व्रीहिसम्बद्धस्यावध्यातारदेर्नीवारद्व्येण व्रा- हिपदस्य सतुषद्रव्यपरत्वं कल्पयित्वा सम्बन्धः संस्कारोहः इत्यादिनिरूपणार्थ तदारम्भ इति स्यापितम् । ननु प्राकृताङ्गानां विकृती लुपोपकाराासननुष्ठानलक्षणवाधो न युक्तः । अति- देशप्राप्तानां तेपामवघातादीनां कृष्णलादी वैतुष्यादिह्ष्टोपकाराभा- वे Sपि अदष्टोपकारकल्पनया ऽनुष्ठानोपपत्तेः । घृते श्रपयतीति श्रु- तपाकवदिति किं दशमेनेत्याशङ्य वैकृतभावनया करणस्योपकार- माकाङ्गमासाया प्रथममुपकारमाल्िप्य तद्वारा SSत्षिप्य माणानामङ्गानां द्वारस्य लोप Sन्यथासिद्धौ वा बाधः१ यथा कृष्णलेपु वैतुष्यरूपद्वा- रलोपादवघातलोपः। घृते श्रपणं तु श्रुतत्वादद्ृष्टार्थमनुष्टीयते। तथा डभिचारे शरमयवर्हिया प्रत्यक्षोपदिष्टेन वेद्यास्तरणाछ्युपकारस्य सि- द्धत्वात्मप्राकतानां कुशानां वाध इति सिद्धान्तितम । नन्वनेकरोषिवि- धिप्रयुक्तस्य शेपस्य सकदनुष्ठानादेवानेकराव्युपकारकृत्वं नाम त- न्त्रम्। सन्न युक्तम्।दर्शा घर्थमनुष्ठिताङ्गानां सोमादयुपकारकत्वोपपत्तेः। न चकप्रयोगावच्छिन्नत्वं शेविषा विशेषणमिति वाच्यम्।आग्नेयादीना- मपि पृथक् वाक्योत्पन्नानां प्रयोगैक्यासिद्धेरिति कि तन्त्रार्थकेनै- कादरोनेत्याशङ्कय पीर्णमास्यां पौर्णमास्या यजेतामावास्यायासमा- वास्ययेति श्रुत्या दर्शयागत्रयस्य पूर्णमासत्रिकस्य च पृथक् प्रयो- गैक्यश्रवणाददर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येकफलत्वश्रवणा- चिकफलकानामेकस्मिन्प्रयोगे श्रवणात् यागे तदुद्देशेन सकृदनुष्ठि- तस्य प्रयाजादेरुाकारकत्वं तन्त्रं युक्तमिति राद्धान्तितम्।
Page 78
६८ विवरणोपन्यासे
कारकत्वाख्य: प्रसङ्गोन युक्त: मानाभावात्तथा च कि द्वादशेनत्या- शङ्कय जामात्रुद्देशन स्थापितस्य प्रदीपस्यानुद्दिष्टतरं प्रति उपकारक- त्वद र्शनाद प्रीपोमीय पशुमा त्रो द्देशना नुष्ठितप्रयाजादीनां तत्प्योगम- ध्यवर्तिनि पशुपुरोडाशास्यं Sनुद्दिष्टे ि कर्मण्युपकारकत्वं युक्तमित्यु- क्तम्। तदेवं प्रत्यध्यायमाशङ्कानिरासन विधिव्यापारभेदनिरूपणार्थ द्वादशाध्यायानामारम्भवद्वेदान्तानां ज्ञानविधिपरत्वं न युक्त्म्।झियस्य प्रत्यगभिन्नस्य ब्रह्मणः प्रत्यक्षादिविरोधादसिद्धेरित्यभ्यधिकाशङ्गा- निरासार्थमध्यायचतुष्टयस्यास्य शास्त्रस्यारम्भो युक्त इति चेन्न । वाचि धेनुत्वज्ञानवदारोपितविषयस्याऽपि श्वानस्य विध्युपपत्तेः श- क्ानुत्थानादिति। एवं शास्त्रस्यानारम्भे प्राप्ते सत्येकदेश्युक्तमारम्भ- प्रकारमनुवदति- इति प्राप्ते Sत्र केचन ।। विधेरभावाद्वेदान्ता न मानमिति शङ्किते। आरब्धनूचु: शास्त्रं तज्ज्ञानविध्यर्थसिद्धये। इति। अयमर्थः। वेदस्य हि विधिपरत्वेन प्रामाण्यं प्राचि तन्त्रे स्था- पितमतो वेदान्ता न प्रमाणं तेषु विध्यभावात्। नन्वात्मा द्रष्टव्य इ- त्यस्ति विधिरिति चेन्न।अस्य व्यर्थकर्मप्रधानत्वेनाविधित्वातू। तथा हि। तयारंव कृत्यक्तखलर्था इति सूत्रेण भावे धात्वर्थे कर्मकारके च कृत्यप्रत्ययान् विधाय कृत्याश्चेति सूत्रण विधावपि तान् विहित- वानू पाणिनिः । यथा ग्रामं प्रति गन्तव्यमिति भावे कृत्यः [स च स्वातन्त्रयेण क्रियाविधायकः । क्रियाविषयं च नियोगाख्यमतिशयं कारकासमवेतं पुरुषगतं बोधयतीति यावत्। स्वाध्यायो उध्येतव्य इति कर्मणि कृत्यः।स च कारकं प्रति गुणत्वेन क्रियां विधत्ते। कर्म- स्थातिशयवाचीति यावत्। तथा चात्मा द्रष्टव्य इत्यस्य कृत्यवि- धित्वे कर्मख्वातिशयो वाच्यः। न ह्यनादिकूटस्थात्मनि निर्गुणे निर्दोषे उत्पत्तिविकाराप्तिसंस्कारा: सम्भवन्ति । नन्वात्मनि कल्पितमला- पकर्षः संस्कार: सम्भवतीति चेतू, न।अनुपयोगातू।यथा Sध्ययनसं- स्कृतस्वाध्यायस्य सफलकर्मसूपयोगः, नैवं ज्ञानसंस्कतात्मनः क्व चिदुपयोगं पश्यामः।अतो व्यर्थात्मकर्मकत्वात् ज्ञानमविधेयम्।नन्व- स्तु तर्हि सककुन्यायेन ज्ञानप्राधान्यकल्पनया विधिः। तथा हि। दर्शपूर्णमासप्रकरणे सक्तून् जुहदोतीति श्रूयते इति सकुहोमस्तदङ्गमि-
Page 79
१ मू. २ वर्णकम् । ६९ त्यवगतम्। अङ्गानि द्विविधानि।अर्थकर्माणि संस्कारकर्माणि च।तत्र कारकमनाश्रित्य विहितानि प्रयाजादीन्यर्थकर्माणि।ब्रह्यादिकमाश्रित्य विहि तानि प्रोक्षणादीनि संस्कारकर्माणि।संस्कारोद्विविधः।वितियुक्त- गतो विनियोक्ष्यमाएगतश्चति। यथा व्रीहिभिर्यजेतति विनियुक्तवीह्यु- द्देशेन प्रोक्षणादिः।आहवनीये जुहोतीति विनियोक्ष्यमाणास्निगत आ- धानसंस्कार: संस्कृताग्रेः पश्चाद्विनियोगावगमात् । अत्र च सक्त- निति द्वितीयया सक्तुगतः संस्कारो होमकृतः प्रतीयते। स चानुपयुक्त: होमेन भस्मीभूतानां सकूनां विनियुक्तत्वविनियोक्ष्यमाणत्वयोरस- म्भवात्। ततः सकूनां प्राधान्यं भङ्गा होसस्य प्राधान्य कल्पयित्वा सक्तुभिर्जुहोतीत्यर्थकर्मता निरूपिता। तन्न्यायेनात्मनः प्राधान्यं भ- द्वा आत्मना द्रष्ट्व्यमिति ज्ञानप्राधान्येन विधिरस्विति नेन्न।हामस्य कर्मापेक्षायां शब्दतः करणीभूतानां सकूनामेवार्थान्विस्मीभावरूपाति- शयशालितया कर्मत्ववत् ज्ञानं प्रति करणीभूतस्यात्मनो निरतिशय- स्यार्थादपि तत्कर्मत्वायोगात । अकर्मकज्ञानस्यात्यन्तासत्वेन वि- ध्ययोगात्ततो विध्यभावाद्वेदान्ता न प्माणमित्यभ्यधिकाशङ्कायां तन्नि- रासार्थमिदं शास्त्रं ज्ञानविध्यर्थस्यात्मगतसंस्काररूपफलस्य सिद्ध- ये आरब्धव्यमित्याहुरिति।स्वाध्यायो ऽध्येतव्य इतिवदाप्तिरूपसंस्कार: तस्य स्वयं फलत्वान्नोपयोगापेक्षेति भावः।एवसनारम्भवादी केषां चि- दारम्भप्रकारमनूद्य अपरेषामेंकदेशिनामारम्भप्रकारमनुवदति- ब्रह्मण्यमानशङ्कायामारम्भमपरेजगुः । ज्ञाने विधिमुपेत्यैवेति। वेदान्तानां विधिपरत्वात् घ्रहाणि प्रमाणाभावशङ्कायां तन्निरासा- रथ ज्ञाने विधिमङ्गीकृत्यैव विधेयज्ञानापे्ितत्वाछ्विपये ब्रह्मण्यपि वेदा- न्तानां प्रामाण्यं निरूपणीयमिति शास्त्रस्यारम्भ जगुरित्यर्थः। एवं पू- र्वपक्षी मतद्वयमनूद्य दूषितवानित्युपन्यस्यति- मंत द्वेते असङ्गते। इत्युक्तं तत्प्रसङ्गेन सक्तुस्वर्णनयावपि। दर्शिती चेति। तत्र तावत्प्रथम आरम्भप्रकारो न युक्तः।लोके वेदे च कटः कर्तव्यः स्वाध्यायो उध्यतव्य इति क्मण कृत्यस्य विधायकत्वदर्शनेनात्मा द्र- ष्टव्य इति कृत्यो न विधिरिति शङ्कानुस्थानात्। नच संस्कृतस्यात्मनो वि- नियोगदर्शनाच्छङ्गेति वाच्यम।अनर्थनिवृत्तिः संस्कार इत्युक्तंविनियो-
Page 80
विवरणोपन्यासे गाका ङ्वानुपपत्तेः। सक्तुन्यायेन व्ञानस्य प्राधान्येन विधिसम्भवाच्च। न चात्मन्यतिशयाभावाज्जञानं प्रत्यार्थिकमपि कर्मत्वं नास्ति।अकर्मकश्च ज्ञानं नास्तीति शङ्कंति वाच्यम्।मुत्ततिशयसत्वात्। तथा च कर्ता स्- स्य मुक्तये स्वात्मना ज्ञानं कुर्यादिति विधिर्युज्यते।नन्वहमित्यात्मज्ञानं प्राप्तं न तत्र विधिरिति शङ्केति वाच्यम्।प्राप्तेऽपि ज्ञानसन्ताने पुरुषा- र्थाय नियमविध्युपपत्तेः । हिरण्यभरणविधिवत्। तथा हि।तस्मातू सुवर्ण हिरण्यं भार्यमित्यनारभ्याधीतं वाक्यम् तन्न हिरण्यभरएं किं क्रत्वङ्गम?उत तदङ्गहिरण्यस्य संस्कारकम्? अहोपुरुषार्थमिति सन्देहे विधिवाक्ये फलाश्रुतेरङ्गसंस्कारो वेति प्राप्ते कस्य चित्ताकरणे Sनाम्ना- नान्नाङ्गत्वं नाऽपि जुहूद्वारा पर्णताया इ धारसास्य स्वसंस्कार्यहि- रण्यद्वारा क्रत्वङ्गता। जुह्वा इव सुवर्णस्य लोके Sपि सत्वेन ऋत्वव्य- भिचाराभावात्। अनङ्गद्वव्यसंस्कारस्य च निष्फलत्वेनायोगातू । सुवर्ण पत भवति दुर्वरणो Sस्य भ्रातृव्य इत्यवाधितार्थवादिकफलाय सुवर्णभरणं रागतः पक्षेप्राप्तं नियम्यते इति राद्धान्तितम्। तद्वदात्मनि ज्ञानाभ्यासो नियम्यते मोक्षाय।यद्वा आत्माSनात्मप्रत्ययेषु साधारण- स्य मनस आत्मप्रत्ययेष्वेव नियमः परिसंख्या वा भविष्यति। मनसा SSत्मैव इष्टव्य इति।एवं विधिसंभवाच्छङ्गानुत्यानात्तेयां पूर्वपक्षा Sसं- ङ्त इत्यर्थः । अधुना सिद्धान्तो ऽप्यसङ्गत इत्याह- विधिज्ञानं लौकिकालौकिकात्मनाः । नेत्यनारम्भवाद्युक्ती इति। यदुक्तं बन्धनूलाविद्यानिवृत्तिसंस्कारायात्मकर्मकज्ञान विधिरिति। तत्र न तावल्लीकिकसंसार्यात्मज्ञाने विधिः। अहमिति ज्ञानस्य नि- त्यत्राप्तत्वातू ततो मुत्त्य गेगाच्च। नाप्यलौकिकात्मज्ञाने विधिरप्र- सिद्धत्वात्। यथा किश्चिदुद्दिश्य द्रव्यत्यागत्वरूपयागसामान्यप्र- सिद्धी तदालिद्गितव्यत्त्यन्तरस्य वुद्धिस्थस्य विध्यर्थनियोगादि- विषयत्ववोधो भवति। नैवमलीकिकात्मज्ञानत्वावच्छिन्नं प्रसिद्धम्।त- स्मादत्यन्ताप्रसिद्धत्वान्न विषयत्ववोधः । एतेन द्वितीयो उप्यारम्भप्रकारो निरस्तः । विधेयज्ञानाप्रसिद्ध्या विध्य ङ्गी कारेणारम्भ सषमर्थनायोगादित्येवमनारम्भवादिना पूर्वपच्े कृते सति पुनरारम्भमेकदेशी शङ्कते इत्याह- इदं सर्व मदात्मकमू। इति शब्दोत्थविज्ञाने विधिरुत्थापितः पुनरिति॥
Page 81
१ सू. २ वर्णकम् । ७१ द्वितीयारम्मवादिनेति शेपः। यथा रूपविषयकाञ्चक्षुपो रूपस्पृष्ट- द्रव्यस्यापि प्रसिद्धिः, एवं विधिवराद्वेदान्तवाक्याद्विधिस्पृष्टत्वेना- लौकिकात्मनः प्रसिद्धत्वसम्भवादिदं सर्व यदयमात्मेति शब्दोत्थं ज्ञानं परोक्षं तद्विवयक प्रसिद्धमिति तत्र विधिर्युज्यते इत्यर्थः । श्रुत्यर्थस्तुवदिदं सर्वमित्यनात्ममात्रं प्रसिद्धमुद्दिश्यायमात्मेति वो- ध्यले। एवं यश्चोरः स स्थाणुरितिवत्सर्वस्य वाधादद्वितीय आत्मेति। नन्वस्मिन् वाक्यार्थे तज्ज्ञाने वा न विधिर्युक्तः । अस्मिन् वाक्ये वि- धिप्रत्ययाश्रवणादित्याशङ्कयाश्रुतो Sपि कल्पित इति सदष्टान्तमाहे दम- सर्वे यदयमात्मेति वाक्ये चेक्र श्रुतो विधिः। ज्ञातव्याख्यः प्रयोगाय कल्प्यः स्यात् पिष्टयागवत् ॥ इति। पूषा प्रप्रिष्टभाग इत्यत्र प्रपिष्टो भागो यस्येति स्वस्वा- मिभावरूपो द्रव्यदेवतयोः सम्बन्धः कालत्रयानवच्छिन्नो भाति । कालवाचिपदाभावात। स च तदुद्देशेन त्यागरूपक्रियां कल्पयति । तां बिना द्रव्यस्य देवस्वत्वायोगात्। सा च स्वप्रवर्तकं विनियोगं क- लपयति। तं विना प्रवृत्त्ययोगात्।तदनन्तरं यष्टव्यमिति पदं कल्प्यते। नन्वर्थज्ञानार्थ पद पदात्पूर्वमेव क्रियानियोगयोर्ज्ञाने कि पदेन कृत्य- मिति चेत्सत्यम्। न तयोज्ञीनायेदं विधिपदम्। किन्तु साङ्गप्रधानक्रिया- प्रयोगज्ञानाय प्रधानविधिर ङ्गविध्येकवाक्यतापन्नः प्रयोगं ज्ञापयती- त्यङ्गीकारात् । प्रकृते चेदं सर्वमिति वैदिकपदार्थसंसर्गो नियोगं कल्पयति। वैदिकार्थसंसर्गमात्रस्य साक्षात्परम्परया वा नियोगाऽवि- नाभावात्। स च नियोग: स्वाऽविनाभूतां क्रियां कल्पयति। तां विना सिद्धार्थसंसर्गमात्रान्नियोगानिष्पत्तेः। नन्वत्र का क्रिया कल्पनीया? न च क्रियासामान्यं कृतिरिति सा कल्प्यते इति वाच्यम्। तथा स- त्यनात्मप्रपञ्च आत्मा कर्तव्य इति स्यात्। न हि तच्छक्यं वक्तुम।न हि सुनिपुणो Sपि घटं पटयितुं शक्राति। किञ्च कृती विधेयायामङ्गानि अ- कुक्पानि कल्पनीयानि क्लृप्तशमादीनां शान्तो दान्तः पश्येदिति ज्ञा- नाङ्गत्वात्। न च तर्हि ज्ञातव्य इति कल्प्यते इति वाच्यम्। अनात्म- प्रपञचस्य सत्यत्वंन तत्प्रमायां सत्यामात्मत्वज्ञानायोगातू। प्रपञच आ- त्मेति ज्ञाने Sपि तस्य योषिदग्निरिति ज्ञानवद्धान्तित्वेनानर्थप्रपश्चनिवर्त- कत्वायोगाच्च। अतो निष्फलत्वाज्ज्ञानमपि न विधेयमिति। उच्यते।
Page 82
७२ वित्रणोपन्यासे त्तिर्युज्यते। अतः सर्वमात्मेति ज्ञातव्यमिति विधिः परिषम्यते इत्य- र्थः । ननु विधिकल्पनात्प्रागेव सत्यादिवाक्याज्ज्ञानस्य जातत्वात् सिद्धे ज्ञाने कथं विधिरित्यत आह- सत्यादिवाक्यजज्षानतुल्ये ज्ञानान्तरे विधिः। अध्रीतिकालसंसिद्धमन्त्रार्थस्मरणे यथा ॥ इति। मंत्राः किमहष्टार्था उत दष्टार्था इति सन्देहे मन्त्राणां सिद्ध- द्रव्यादिबोधकत्वेन प्रवृत्तिफलकत्वायोगादनुष्ठा नोपयोगिद्रव्यादि- ज्ञानस्य ब्राह्मणवाकयैरपि सिद्धेरदष्टार्था इति प्राप्ते श्रुत्यादिभिर्वि- नियोगात्तेयां प्रधानापूर्वनिष्पादकत्वेन फलवत्वावगती किंद्वारा मन्त्रा अपूर्वनिष्पादका इत्याकाङ्कायामनुष्ठापकः प्रयोगविधिरङ्गभू- तानां मन्त्राणां स्वापेक्षितसतुष्ठानोपयोग्यर्थप्रकाशनं दष्टमेव। द्वारं कल्पयित्वा मन्त्रैरेव तदर्थाः रमर्तव्या अनुष्ठानायेति नियमयतीति ब्राह्मगवाक्यव्यावृत्तिरिति हष्टार्था मन्त्रा इति स्थापितम्।तत्राध्ययन- काले मन्त्रार्थज्ञाने सिद्धे उप्यपूर्वोपयोगित्वेन ज्ञानान्तरे यथा विधि- रेवं मन्त्रे Sपीत्यर्थः।ननु तत्र प्रयोगविधिवलात् ज्ञानान्तरे विधिर्युक्तः। अत्र तु तदभावान्न ज्ञानान्तरे विधिरित्याशङ्कयाऽत्रापि प्रयोगविधि- रस्तीत्याह-
ज्ञानं कुर्यादित्युत्पत्तिविधिस्तावत्कल्पितः।ब्रह्मणे औपनिषदत्वश्रुत्या वेदान्ता: करणत्वेन संबध्यन्ते।स चोत्पत्तिविधि: खप्नकरणस्थशमा- दीनङ्गत्वेन गृहन् विनियोगविधिर्भवति। पुनः स एव विधिरभयं ब्रह्म भवति य एवं वदेत्याद्यर्थवादादिकमोक्षकामिनो रात्रिस त्रन्यायेन मद्दि - एसाधनममिदं कर्मेति कर्मस्वामित्वरूपाधिकारं बोधयन् अधिकारवि- धिर्भवति। तथा हि प्रतितिष्ठन्ति हवै य एतारात्रीरुपयन्तीत्यत्रापूर्वत्वा- दुपेयुरिति। विधित्वे सिद्धे सत्यधिकार्याकाङ्गायां विश्वजिन्न्यायेन स्वर्गकामो Sधिकारी कल्प्यते इति प्राप्ते फलमात्रेयो निर्देशादश्रुतौ तवनुमानं स्यादिति सिद्धान्तितम्। प्रतितिप्ठन्तीत्यर्थवादश्रुतफलं गृ- हीत्वा प्रतिष्ठाकामो रात्रिसत्रं कुर्यादिति विधिः परिणम्यते। विश्व- जिता य जेतेत्यत्र तु फलार्थवादाश्रवणात्सर्वसाधारण: स्वर्गकामोSधि- कारी कल्पित इति वैषम्यम्। स चाधिकारविधि: साङ्ग कर्मानुष्ठा- पयन् प्रयोगविधिः सम्पद्यतइत्यस्ति प्रयोगविधिरित्यर्थः । तथा च विधिसम्भवात्तदपेक्षिते व्रह्मणि वेदान्तप्रामाण्यीनरूपणाय शास्त्रार-
Page 83
१ सू. २ वर्णकम् । ७३
म्भसिद्धिरिति भावः। अनारम्भवादी दूषयतीत्याह- इत्येवं विधिमुत्थाप्य वैरूप्यात्त न्यवारयत्। इति। तं विधि तज्ज्ञानं वेत्यर्थः । वैरूप्यं श्रोकदयेन स्फुटयति- गुणप्रधानता सिद्धसाध्यता ज्ञातता तथा। अक्षाततंतति वैरूप्यमपूर्वब्रह्मधीविधौ। विधेयज्ञानशेषत्वाद् गुणत्वादिकमात्मनः । अपूर्वत्वेन मेयत्वात्प्राधान्यादित्रयं भवेदिति॥ ब्रह्मात्मा ज्ञातव्य इत्यपूर्वस्य मानान्तराज्ञातस्य ब्रह्मात्मनी ज्ञा- नविधौ वैरूप्यं स्यात्। तथा हि। कि यदज्ञातब्रह्मसाधकं ज्ञानं तदेव विध्यर्थनियोगविषयतया विधेय उत ज्ञानान्तरम्? आद्ये ग्रह्मणो डपूर्वतया प्रमेयत्वेन ज्ञानजन्यातिशयशालित्वात्प्राधान्यं साध्यातिश- यविशिष्टत्वात्साध्यत्वमाज्ञातत्वं चेति त्रयं प्राप्तम्।एवं यत् ज्ञानापेक्षया प्राधान्यं तज्ज्ञानं विधेयं प्रति विषयतया कारकत्वात् गुणत्वं प्राप्तं यत् ब्रह्मज्ञानं तत्कतव्यमिति विधानायोद्देश्यत्वात्सविषयस्य ज्ञानस्य विधे: प्रागेव श्ञातत्वं वाच्यम्। अज्ञातस्योद्दश्यत्वायोगात्। विषयस्य विशेषणत्वात्। स्वविशिष्टज्ञानज्ञानात्पूर्व ज्ञातत्वं वक्तव्यम्। ज्ञातत्वं नाम सिद्धज्ञानवििष्टत्वम्। तथा च ब्रह्मणो विधेयज्ञानापेक्षया सिद्ध- ज्ञानविशिष्टत्वेन कारत्वेन वा सिद्धत्वं ज्ञातत्वं चेति पूर्वत्रयविरुद्धं ध- मत्रयं प्राप्तम् नदेवमज्ञातव्रह्मसाधकज्ञानस्यैव विधेयत्वे मिथो विरुद्ध- त्रिकद्वयरूपं वैरूप्यं दुर्वारं स्यादित्यर्थः। ननु प्रथमं ज्ञानमात्मा ज्ञातव्य इति वाक्योत्थं ब्रह्मात्मार्थसाधकं ज्ञानान्तरं विधेयमिति न वैरूप्य- मिति च्ेन्न। एकमेव वाक्यं पूर्वमर्थपरं पश्चाद्विधिपरमित्ययोगात्। ननु वैरूप्यं न दोप: अन्यथा व्रीहीन् प्रोक्षतीति संस्कारविध्युच्छेदा- पत्तेः। व्ीहीणां प्रोक्षणं प्रति कारकत्वात् गुणत्वं भाति उद्देश्यत्वात् सिद्धत्वं ज्ञातत्वं च। एवं तज्जन्यातिशयत्वात् प्राधान्यं साध्यत्वश्च भातीति अज्ञातातिशयत्वादज्ञातता चेति वैरूप्यभानादिति चेन्न । व्रीहीनिति द्वितीयाया अतिशयवैशिष्ट्यवाचित्वाभावात्। अतो द्वितीयया तेषामीप्सितत्वेन कारकत्वकथनाच्छाव्दज्ञाने गुणत्वा- दित्रयमेव भाति। ईप्सितत्वान्यथानुपपत्या Sतिशयभाने तद्वत्वेन प्राधान्यादित्रयमाथिकमित्यविरोधः।प्रकृते तुवीहिवत् ब्रह्मणः प्रमा- णान्तरसिद्धत्वाभावात् ज्ञानविधिवाक्येनैव ज्ञानशेषत्वेन प्रतिपाद्यमे- कस्मिन्नव शाब्दवांधे शषत्वन गुणत्वादिभानं प्रतिपाद्यत्वेन प्राधाम्या- १०
Page 84
७४ विवरणोपन्यासे दिभानमिति विरोधः।ननु विधिप्रत्ययशून्यैःसत्यादिवाक्यःब्रह्म प्र- तिपाद्य पश्चाद्विध्येकवाक्प्तया व्रह्मज्ञानविनियोग: प्रतिपाद्यते;इति न वरूप्यमिति चेन्न।त्वया विधिशून्यवाक्यस्य बोधकत्वानङ्गीकारातू।
तिपादनेन कृतकृत्यानां वाक्यानां विध्येकवाक्यत्वायोगात्। ननु वाक्यात्परोक्षज्ञानं जायते,तद्वन्धमूलाविद्यांन निवर्तयतीति निष्फलम। ततः सत्यादिवाक्यानां मोक्षहेतुसाक्षात्कारे विध्येकवाक्यत्वं युक्त- मित्यत आह- साक्षात्कारे तथा ज्ञानसन्तती दूपितो विधिः । साक्षात्कारो विना भान दृष्टो ऽभ्यासान्न हि क्व चितू। इति। वेदान्यमानागोचरे ब्रह्मणि साक्षात्कारे विधिन युक्त: करणा- भावात्। वेदस्य त्वया साक्षात्कारकरणत्वानङ्गीकारात्। ननु वेदवाक्यादवगते ब्रह्मणि साक्षात्काराय ज्ञानसन्ततिर्विधीयते इति चेन्न। ज्ञानसन्ततिविधेरश्रवणात्। तथा हि। न तावदात्मेत्येवोपासी- नेति सन्ततिविधिः। तत्र लोकसिद्धाहम्प्रत्ययसन्ततिमुपासीतेत्यनूद्य आत्मेत्येवेत्यद्वयात्ममात्रस्य प्रतिपादनात्। तदुक्तम्- यदटत्तयोग: प्राथम्यमित्याद्युदेश्यलक्षणम। तट्टत्तमेवकारश्च् स्यादुपादेयलक्षणम् ॥ इति। तद्वत्तं तत्पदं नापि पश्येदिति सन्ततिविधिः । सन्तत्यभाना- तू । नापि निदिध्यासितव्य इति सन्ततिविधिः। तस्याद्वयात्म- प्रकरणस्थत्वेन विधिपरत्वायोगात्। अस्तु वा Sवान्तरतात्पर्येण निदिध्यासनविधि:।नैवम् ।न तावन्मात्रं साक्षात्कारकारणं; ध्यान- स्याप्रमाणत्वात्। न हि प्रमाणं विनैव ध्यानमात्रादात्मसाक्षात्कार: प्रमारूप: क्व चिद्ृष्टः। क्व तर्हि ध्यानविधेरुपयोगः? एकाग्रतायामिति ब्रूम:। सूक्ष्मार्थसाक्षात्कारे हि चित्तस्य तदन्याकारत्वं प्रतिबन्धकं तदभावश्चित्तस्य प्रसाद एकाग्रतेति च गीयते। सा ध्यानसाध्य- साक्षात्कारे निमित्तम। तथा च श्रुतिः । ज्ञानप्रसादेन विशुद्धस- स्वस्ततस्तु तं पश्यति निष्कलं ध्यायमान इति विशुद्धचित्तो ध्याना चित्तप्रसादेन तमौपनिषदं निष्कलमात्मानं गुरूपदिष्टमहावाक्यादेव साक्षावनुभवति। ततो मानान्तराग्राह्यत्वादित्यर्थः। अतो विधेया- भावान् विधिएरा वेदान्ताः।किश्च यत्तवाभिमतं विधिपरैरेव वेदान्तैः ब्रह्मात्मानं साधयिष्यामीति शास्त्रारम्भ इात, तन्मनोरथमात्रमित्याह-
Page 85
१ सू. २ वर्णकम् । ७५
घेदान्ता विधिनिष्ठाश्चेङ्गह्माभावः प्रसज्यते। इति। एकस्योभयार्थत्वायोगादिति भावः । ननु शाल्यर्थ कुल्याः प्रणीयन्ते ताभ्यश्च पानीयं पीयत, उपस्पृश्यते चेति लोके एकस्या- नेकार्थत्वं दष्टमित्यत आरह- तात्पर्यापेक्षशव्दस्य द्यर्थत्वासम्भवात्स्फुटमिति। अस्तु कुल्यादेरेकस्य स्थायिनो Sन्यानपेक्षस्यानेकार्थत्वम्। वा- क्यस्य त्वेकस्याधवस्य तात्पर्यसापेक्षस्य तन्न सम्भवति। उभयत्र तात्पर्ये वाक्यभेदापप्तेरित्यर्थः। ननु समिधो यजतीत्यादीनां पञ्चानां वाक्यानां पञ्च यागास्तेषां क्रमश्चेति द्यर्थत्वं दष्टमित्याशङ्कयाह- प्रयाजा एव चोधन्ते शब्दैरर्थात् क्रमप्रमेति । वाक्यैर्यागा एव विधीयम्ते तेषामङ्गत्वादेकेन कर्त्रा ऽनुष्ठापक: प्रयोगविधिरभङ्गमविहितमपि क्रमं कल्पयन् यागानां बोधकत्वेन स- त्निहितानां वाक्यानां पाठक्रमं बोधक्रमं वा तेष्वारांप्यानुष्ठापयति।तथा चकस्य कर्तुर्युगपदनेकेषां प्रयोगाजुपपत्या क्रमप्रमावाक्यैरित्यर्थः । क्रमो नाम कश्चिन्नास्तीति वदन्तं प्रति प्रसङ्गात्तत्स्वरूपमाह- अर्धान्तरं क्रमो यद्वा ह्यर्थाः कालाद्युपाधिकाः। इति। क्रमिकार्थद्वयवर्तिपदार्थान्तरं क्रमः । सच संयोगवद्यासज्य- वृत्तित्वान्नैकत्र प्रतीयते। ननु द्वितीयस्यासतः आश्रयत्वं कथमिति चेन्न।अत्यन्तासत्वाभावात्।अन्यथा घटत्वादेर्भीविघटे भान न स्यात्। यद्वा पूर्वकालावर्त्युत्तरकालस्थ: पदार्थ एव कालोपाधिक: सन् कालि- कफ्रमः कालस्य पूर्वोसरत्वमनिर्वाच्यम।तत्सवरूपमेव एकदिगवस्थि- तार्था एव दैशिक: क्रम इत्यर्थः । तस्मात्प्रमेयभेदे वाक्यभेदो दुर्वार इति स्थितम्। ननु भूयाद्विधिपराद्वाक्यात् ब्रह्मासिद्धि :; किन्तु क्रमवदर्था- दित्याशङ्कय निषेधति- ननु ज्ञाने नियोगो Sपि ब्रह्माख्यविषयं विना। न युक्तो Sतो ब्रह्मसिद्धिरर्थाश्चेन्नानपेक्षते। इति। अर्थात्सविषयज्ञानविध्यनुपपत्तेरित्यर्थः। विधेयज्ञानस्य विषया- नपेक्षत्वे दष्टान्तमाह- वाचि धेनुत्वसन्दष्टेस्तदभावे पि दर्शनादिति। विषयाभावे Sपीत्यर्थः। कस्तर्यध्ययनविध्युपात्तानां वेदान्तानामर्थ इति चेवुच्यते।सर्ववेदस्य विधिपरत्वेन पूर्वतन्त्रे निरूपितत्वानमुमु- क्षुणा मोत्षायाहं ब्रह्मेत्युपासितव्यमिति वाक्यमेव वेदान्तानामर्थः।
Page 86
७६ विवरणोपन्यासे
तथा कायें विधेश्च सर्वात्मना निरूपितत्वादनारम्भ इत्युपसंहरति। घ्रह्माभावादतः शास्त्रमनारभ्यमिति।शास्त्रस्याSडरम्भं वक्तुं सिद्धान्ती विकल्पयति- वेदराशे: कार्यगत्वं किं व्युत्पत्वोत सद्विरा । व्युत्पत्तिर्भाविनी ते डग्रे सतां गीस्तु विचार्यताम ॥ इति। किं लोके सर्वेपां शब्दानां कार्यान्वितार्थव्युत्पच्या वेदस्य सर्वस्य कार्यपरत्वमुच्यते उत सतां जैमिन्यादीनां वचनबलेन ? तत्रादे तव व्युत्पत्ति: समन्वयसूत्रे सिद्धार्थे भविष्यति।तथा निरूपयिष्यमाणत्वात्। द्वितीये सतां वचनं सर्ववेदस्य कार्यपरत्ववोधकं विचार्यतामित्यर्थः। तादृशं वचनं नास्तीति भावः। नन्वथातो धर्मजिज्ञासेति साङ्गवेदा- ध्ययनानन्तरं धर्मो विचार्य इत्युत्त्या वेदस्य कार्यपरत्वं भातीत्या- शङ्कय सूत्रतात्पर्य तत्रत्यं पूर्वपत्तमाह- अहष्टार्थो Sधीतिविधिवेंदो न स्यान्निरर्थकः । मानाभावादतो धर्मो न विचार्य इतीरिते॥ इति। धर्ममीमांसा कर्तव्या न वेति धर्मे प्रमाणं भावाभावाश्यां सन्देहे नेति तावत्प्राप्तम्। तथा हि। धर्मे मीमांसा नाम प्रमाणविचारः। न हि धमें प्रत्यक्षादिकंमानम्, नापि वेदः।निरर्थकत्वातू। तथाहि। किमध्य- यनविधिर्ईष्टार्थः उताऽदृषटार्थ? इति संशये वाक्यादर्थवोधस्य दष्टस्य सिद्धये विध्ययोगादध्ययनकरणया भावनया विध्यर्थशब्दभावना- भाव्यया भाव्यमहष्टमिति युक्तम्।यद्यपि तदहएं स्वाध्यायोऽध्येतव्य इति कर्मणि कृत्येन स्वाध्यायगतं भाति संस्कारादिरूप, तथा Sपि व्री- हीणामिव स्वाध्यायस्य सफलक्रत्वङ्गत्वे मानाभावात्स्वतो निष्फल- त्वात्सक्तुन्यायेन कर्मकारकप्राधान्यं भङ्गा ऽर्थवादस्थघृतकुल्यादिकाम- स्वाध्यायेनाधीयीतेति कर्तृस्थस्वतन्त्रफलापूर्वमेव भाव्यम्।नन्वहरहः स्वाध्यायमधीयानो यहचो Sधीते पयसः कुल्या अस्य पितुन् स्वधा अभिवहन्ति यद्यजुषा घृतस्येत्यादिना ब्रह्मयज्ञाध्ययनस्य फलार्थवाद: ्तो न ग्रहणाध्ययनस्येति चेत्सत्यम् अध्येयत्वसाम्यात् ग्रहणाध्ययन- स्यापि तत्फलं कल्प्यते। तस्मादध्ययनस्य होमवद्द्ृष्टार्थत्वात्तत्र स्वा- ध्यायस्य सक्तुवद्विनियुक्तस्याध्ययननिर्वर्तकत्वेन कृतकृत्यस्य स्वार्थे विवक्षाशून्यत्वान्निरर्थकत्वेनाप्रमाणात्ततो मानाभावाद्धमों न विचार्य इति प्राप्ते सिद्धान्तमाह-
Page 87
१ सू. २ वर्णकम् । ७७
जैमिनि: सूत्रयामास जिज्ञासां धर्मगोसराम्। सफलऋ्रत्वपक्ष्यस्य स्वार्थबोधस्य कारणम्॥ वेदो उतो नियमाधीत्या संस्कार्यो वा SSप्य एव च ॥ इति। एवं विवक्षितार्थत्वाद्वेदो मानमिति स्थितमिति धर्मो विचार्यः वेदप्रमाणकत्वातू। तथा हि। अध्येतव्य इति स्वाध्यायगतातिशय एव नान्यः। स चाध्ययनस्याक्षरावाप्ती नियमविधेर्ईष्टानुविद्धाऽ्दष्टार्थत्वा- त्। अवाप्तिर्नाम स्वाधीनोच्चारणक्षमत्वमम्। अध्ययनस्य हष्टफलसं- स्कारस्तु विधिसामर्थ्याल्लभ्यते। स चापूर्वरूपो विध्यर्थ इति कार्य- वादिनः। अस्माकं तु कर्मार्थकतव्यप्रत्ययेन विधिना कर्मविशेषसम- रपकस्वाध्यायपदेन सह बोधकेन बोधकं पदमिति व्युत्पत्या तदेक- पदेन समानपदोपात्तस्वाध्यायरूपेषं प्रति साधनत्वमध्ययनगतं बो- ध्यते। अवाप्तिसंस्काराभ्यां विशिष्टत्वेन स्वाध्यायस्य साध्यत्वोपप- त्तिरिति मतम्। भावनावादिनां कर्मार्थकतव्यप्रत्ययेन भावनाविध्य- नुपपत्या भाव्यमपूर्व सिध्यत् कर्मणि सिध्यति। स चाध्ययनसंस्कृतः स्वाध्यायः आधानसंस्कृतान्निवत् ऋतूपकारकः । न चोपकारकत्व मानाभावः।क्रतुविधीनामनुष्ठेयबोधं विना ऽनुपपत्या बोधकस्वाध्या- यस्योपकारकत्वावगमात्। ननु तर्हि स्वाध्यायमात्रस्यैव बोधक- त्वादुपकारकत्वमागतं न संस्कृतस्येति चेन्न । अध्ययनविांधसाम- थर्येन संस्कृतस्वाध्यायजन्यवोधस्यैव क्रत्वपूर्वहेतुत्वकल्पनात् । अ- संस्कृतवेदस्यापूर्वोपयोगित्वे Sध्ययनविधिवैफल्यापत्तेः । न च सक्तु- न्यायेन तत्साफल्यं यथाश्रुतिस्वाध्यायस्य सफलऋरत्वपूर्वहेत्वनु- ष्ठानानुकूलद्ष्टावाधितार्थबोधकारणस्य प्राधान्येन हष्टद्वारा ब्रीह्या- दिवत् संस्कार्यत्वेनावाप्यत्वेन च भाव्यत्वसम्भवे श्रुतिभङ्गायोगा- त्। तस्मात्सफलार्थबोधहेतुत्वाद्वेदो विवक्षितार्थत्वेन प्रमाणमिति तत्प्रमाणकत्वाद्धर्मस्य विचारः सालम्वनः कर्तव्य इति स्थितम् । तथा चाऽस्य सूत्रस्य धर्मे प्रमाणं वेद इत्यत्र तात्पर्यम। नैतावता कृत्स्- स्य वेदस्य धर्मपरत्वं ज्ञातुं शक्यम्। न हि नीलरूपे चक्षु: प्रमाणमि- त्युक्ते चक्षुपस्तदेकप्रमेयता सिध्यति। पीतादेरपि तत्प्रमेयत्वात्। अ- तो धर्मशब्दाद्वेदार्थैकदेश एव विचारितो न सर्ववेदार्थ इति गम्यते। ननु धर्माय वेदवाक्यानि विचारयेदिति भाष्यकारवचनात्सर्वो वे- दार्थो विचारित इति भातीत्यारङ्क्चाह-
सामान्यतः प्रसिद्धिं च विवादं च विशेषतः।
Page 88
७८ विवरणोपन्यासे श्रेय:साधनधर्मस्य भाष्यकारो उव्यभाषत ॥ पूर्वतन्त्रे च वेदार्थः सम्पूर्णो न विचारितः । इति प्रतीयते यस्माद्वमे यत्नो महान् कृतः ॥ इति। अयमर्थः । धर्मो नाम कर्तुः कालान्तरभाविश्रेयःसाधनो लोका- ख्यप्रमाणाभासेन सामान्यतः प्रसिद्धः ।स किमग्निहोत्रादिरुत चै- त्यवन्दनादिरिति विशेषतो विवादे सत्याद्ये मानाभावात् द्वितीयस्य वुद्धादिवाक्यसिद्धत्वादद्टप्टार्थमध्ययनं कृत्वा गुरुकुलान्निवर्तितव्यं विचारयितव्याभावादिति धर्मविषय एव पूर्वपक्षो दर्शितः । अथातो धर्मजिज्ञासेति वेदस्यार्थविवक्षां विचारस्यावसरं च दर्शयन् सूत्र- कारो Sपि धर्मो विचार्य इत्यग्निहोत्रादिरूपधर्मस्यैव विचारं सिद्धा- न्तितवान्। एवं सूत्रभाष्यकृतोर्धमें यताधिक्यदर्शनात्सर्वो वेदार्थों न विचारित इति निश्चीयते। न च धर्मान्यवेदार्थाभावात् धर्मे वि- चारिते सर्वे विचारितमिति वाच्यस्। धर्मवत् ब्रह्मणो Sप्यज्ञाताबाधि- तफलरूपस्य वेदात्प्रतीतेः । अतो धर्माय वेदवाक्यानीति भाष्यं वे- दैकदेशविषयमिति भावः । धर्मस्यैव वेदार्थत्वे सूत्रमन्यथा स्या- दित्याह- विवत्ितार्थों वेदो Sतो वेदार्थस्तु विचार्यताम। इति बूयाद्यदा धर्मः सर्ववेदस्य गोचरः॥ इति। वेदार्थजिज्ञासेति सूत्रं जैमिनि: कुर्यादित्यर्थः। फलितमाह- हेतुं वेदविवक्षां च कुर्बन् धर्म च सूत्रयन्। अस्त्वन्यो ऽपि च वेदार्थ इति वत्त्यत्र जैमिनिरिति॥ अत्र प्रथमसूत्रे द्वादशलक्षण्यां धर्मो विचारितो न ब्रह्मे- त्यविवादम्। तथा चाथाध्ययनानन्तरमतः वेदस्य विवच्ितार्थ- त्वाद्वेदार्थो विचार्य इति वक्तव्ये धर्मो विचार्य इति वदन् अन्योपि वेदार्थो Sस्तीति सूचयति जैमिनिः। तस्यायं भावः। यद्यहं वेदार्थो विचार्य इति प्रतिज्ञां कुर्या तदा डग्रे मया धर्मस्यैव विचार्य- माणत्वाद्धर्मादन्यो वेदार्थो नास्तीति मन्दवुद्धीनां भ्रमः स्यात्स माभूदिति। ननु धर्मो विचार्य इति प्रतिज्ञायां वेदस्य विवक्षिता- र्थत्वादिति हेतुरसङ्गत इति धर्मपदं वेदार्थपरमिति चेन्न । फलव- दर्थबोधकत्वेनाध्ययनविधिभाव्यवेदस्य स्वार्थे तात्पर्यसत्वेन प्रमा- एत्वाद्धर्मस्यापि तदर्थत्वात् विचार: कर्तव्य इत्यन्वयसम्भवातू। यद्यप्यध्ययनानन्तर सर्ववेदार्थविचारस्यावसरस्तथापि धर्मस्यैव
Page 89
१ स्. २ वर्णकम् । ७९ श्रेयःसाधनत्वेन लोके प्रसिद्धत्वात्प्रायणाध्येतणां थ्रेयोऽर्थित्वान्मुमु- चषाया वुर्लभत्वात् तस्मिन्नवसरे धर्मो विचार्य इत्युक्तमित्यविरोधः। एवं प्रथमसूत्रतात्पर्यालोचनया पूर्वतन्त्रे सर्ववेदार्थविचारो न कृत इति सिद्धम्। तथा द्वितीयसूत्रे Sपि चोदनां धर्मलक्षणं वदन्नचोदना- भागै: सिद्धलक्ष्यमसूसुचदिति।अयमर्थः । चोदनालक्षसो ऽर्थो धर्म इति धर्मस्य लक्षणप्रमाणपरं द्वितीयसूत्रं चोदनागम्यत्वं लक्षणं मुखतः। अर्थाद्धमें प्रमाणं चोदनेत्युक्तमिति प्राभाकराः ।मुखतः प्रमा- णमुक्तमर्थाल्लक्षसामिति भट्टाः।वेदोहि चोदनाचोदनात्मकः प्रत्यक्षः। तत्र चोदनां धर्मस्य साध्यरूपस्य लक्षणं वदन्नचोदनाभागस्य सिद्धं प्रतिपाद्यमस्तीति सूचितवानिति। अन्यथा सर्ववदस्य धर्मपरत्वेवेद- लक्षणो धर्म इति सूत्रं स्यादित्याह- अन्यथा लक्षणं वेदं ब्रयाद्धर्मस्य जैमिनिः । इत्युक्तं तत्प्रसङ्गेन भावनापि निरूपिता॥ इति। विवरणे इति शेष:ननु चोदनापदं सर्ववेदस्य धर्मपरत्वं ना- स्तीति सूचनार्थ न भवति; किन्तु धर्मस्य फलवत्त्वसूचनार्थम । तथा हि। धर्मो नामार्थभावना तन्भ्राव्यकशब्दभावनावाचि लिङादिमद्ाक्यं चोदना। तत्र शब्दभावना नाम लिडादिशब्दनिष्ठ: प्रेरणाख्यो व्यापारः शब्दो वा तद्रता शक्तिर्वा। अर्थभावना Sभि- धाख्या यज्ज्ञानात् पुरुष: प्रवर्तते, तस्या: शब्दभावनायाः स्तुतिनि- न्दाज्ञानाङ्गकेन विधिशब्दजेन ज्ञानेन प्रवृत्ति भावयेदित्याकारः।सा च प्रवृत्तिराख्यातत्वाकारेण लिङाद्यभिधया तत्तदङ्गकयागादिकर- णिकार्थभावनेत्युच्यते। तस्यां भाव्याकाङ्कायामेकपदोपात्तो धा- त्वर्थों यागादिर्भाव्य इति शङ्का स्यात्। तथा च निष्फलो धर्मो Sन- नुष्ठेय आपद्येत। तत्र जैमिनिश्चुद प्रेरणे इति धातुजेन चोदनापदेन प्रवर्तकवाक्यग धर्मलक्षणं वदन् प्रयृत्तिरूप धर्म सफलं सूचयति। फलं विना प्रवृत्त्ययोगात्। एवं भगवता जैमिनिना फलसूचनात् कंशात्मकं भावार्थ विहाय भिन्नपदोपात्तमपि स्वर्गादिकं भाव्यं गृ- ह्यते इति चोदनापदमर्थवदिति।नैतत्सारम्।अध्ययनविधिना स्वा- ध्यायस्य भावस्य फलवदर्थे तात्पर्यमिति सूचयता प्रमथसूत्रणैव स्वाध्यायार्थस्य धर्मस्य फलवत्वसिद्धेः। तस्माच्चोदनापदमचोद्ाभागस्य धर्मपरत्वनिरामार्थम् । अत एघार्थवादानां सो Sरदिदित्यादीनां स्वार्थ फलशूल्यानां धर्मार्थत्वाभा-
Page 90
विवरणोपन्यासे वेनाप्रामाण्यमाशङ्कय सफलविध्येकवाक्यत्वमुक्तम्। यदि चोदनासूत्रे- सर्वो वेदो धर्मपर इत्यभिप्रेतं स्यात्तर्हि अतदर्थानामिति हेतुपदमसङ्गतं स्यात्। क्रिकियार्थताया: सिद्धत्वात्। अतश्चोदनात्मकाम्नायस्य क्रियार्थ- त्वेन प्रामाण्ये चोदनासूत्रे स्थित सत्यक्रियार्थानामानर्थक्यप्राप्ती विध्ये- कवाक्यत्वं युक्तम। तत्र चाम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थाना- मिति पूर्व पक्षोपकरमे सो Sरोदीदित्यादीनि स्वार्थफलशून्यानि वाक्या- न्युदाहरता भाष्यकारेण स्वार्थे फलवतां वेदान्तानामनन्यशेषत्वं सू- चितम्। ननु दृष्टो हि तस्यार्थः कर्मोवबोधनं नाम तन्जूतानां क्रिया- थेन समाम्नायः आम्नायस्य क्रियार्थत्वादिति भाष्यसूत्रवचांसि कृ- त्स्नाम्नायस्य धर्मपरत्वं सूचयन्तीत्यत आह- दष्टो हीत्यादिवचसां वेदान्तार्थविरोधिता। कथितैवं भहपादमतेन न गतार्थता। इति॥ तस्याम्नायस्य कर्मावबोधनमर्थः।तत्तत्र सिद्धार्थेषु भृतानां वर्त- मानानां पदानां क्रियापदेनैकवाक्यतेति सामान्यवचनानि धर्मजि- ज्ञासोपक्रमबलात्कर्मकाण्डविषयाणि न कृत्स्नवदविषयाण। तेषु व- चनेषु कृत्स्नशव्दाभावात्। अतो नैतैर्वचनर्वेदान्तार्थापलापः कर्तु शक्यः। एवं भावनावादिभद्पादतन्त्रानुसारेण वेदान्तानां गता- र्थता नास्तीति सिद्धम्। तथा नियोगशरणगुरुतन्त्रालोचने Sपि तेषा- मगतार्थता। तथा हि। अधीतवेदस्य वेदार्थे आपाततो ज्ञाते मंशयो भवति उद्धिदा यजेत पशुकाम इत्यादिवाक्येषु किमुद्दिश्य किं वि- धीयते इति। एवं संशये सति निर्णयार्थ वेदार्थविचार: कर्तव्यो न वेति संशये वेदस्याप्रमाणत्वात्तदर्थो न विचार्य इति पूर्वपक्षमाह- वेदस्यध्यायन यद्वा Sधीत्यपूर्वे समाप्तितः । द्वेधा जप्यमानो वेदार्थो न विचार्य इतीरितम। इति। अयमर्थः । आचार्यत्वकामो Sप्टवर्ष ब्राह्मणमुपनयीत तमध्या- पयीतेति सफलाध्यापनविधिरध्ययनं विना Sनुपपद्यमान: स्ाङ्गतवे- नाध्ययनमाच्िपति। वेदश्चाध्ययनं प्रति कारकत्वेनाध्यापने विनि- युक्तो न स्वार्थे प्रमाणं वटुवदित्येकं मतम्।अन्ये तु स्वाध्यायो ऽध्ये- तव्य इत्यध्ययनात्पूर्व तव्यप्रत्ययार्थ प्रत्यङ्गत्वेन समाप्तो वेदों भूत भव्यायेति न्यायात् अपूर्वाङ्गवेदाध्ययनमध्यापनोपकारकमतो त- त्प्रयुक्तमित्याहुः। मतद्वये ऽपि वेदस्य स्वार्थे तात्पर्यहेत्वभावादप्रा- माण्यमिति सिद्धान्तयति-
Page 91
१ सू. २ वर्णकम् । ८१ आद्यं मतं मानहीनं द्वितीये जर्थाववेोधनम्। आवश्यकं फलेक्षित्वादपूर्वस्यति साधितम् ।। इति। अयं भावः।अध्ययनस्याऽध्यापनप्रयुक्तत्वे Sपि नाऽङ्गत्वं श्रुत्यादी- नामङ्गत्वे मानानामभावात्। न च प्रयुक्तिमात्रेणाडङ्गता। आधानस्य समूलक्रतुविधिप्रयुक्तत्वे ऽप्यनङ्गत्वात् । अनः स्वतन्त्राध्ययनसाध्यः स्वाध्यायो विवत्ितार्थः। द्वितीये मते कर्मशि कृत्ये भोत्का Sपूर्वस्य स्वाध्यायगतस्य फलाकाङ्कायामर्थावबोधः फलत्वेन कल्प्यते। दष्े फले सम्भवत्यदप्टकल्पनानुपपत्तेः।स च संस्कृतस्वाध्यायजन्यो पर्थावबोधः सफलक्रत्वपूर्वोपयोगीत्यध्ययननियोग एव वेदस्य स्वार्थे तात्पर्य गमयति। तस्माद्वेदप्रमाणं 'को वेदार्थो विचार्य' इति। एवं गुरूणां शास्त्रारम्भप्रकारमनूद्य स्वाभिप्रेतं दर्शयति- इदं प्राभाकरमतं तत्राऽपि न गतार्थता। वेदार्थत्वप्रकारो Sपि विचारो धर्मगोचरः ॥ सामान्यविधिना Sपीह विशेषग्रहसम्भवातू। सूत्रे धर्मपदात्कृस्त्नवेदार्थो न विचारितः ॥ इति। यद्यपि कृत्स्वदाध्ययनविधिना सामान्येन वेदार्थविचार: प्र- युज्यते तथा पि प्रायेणाउध्यतुणां भोगार्थित्वं तत्साधने धर्म एवादौ जिज्ञासित इति सामान्यविधिना वेदार्थविशेषस्य धर्मस्याउडदीविचार: प्रयुज्यते। मुमुक्षायां तु वेदार्थविचारप्रयोग इति युक्ततरम्। एतदभि- प्रेत्य सर्वज्ञजमिनिना धर्मपदं प्रयुक्तम।तथा च गुरुणां वेदार्थो विचार्य इति प्रतिज्ञामूत्रे धर्मपदसामर्थ्याद्विदर्थकदेशधर्मगोचरैव। अतः कृत्स्- वदार्थो न विचारित इति वेदान्तानामगतार्थत्वं सिद्धमित्यभिप्रायः । ननु धर्मपदं न वेदर्थैकदेशवाचि। येन ब्रह्मविचार: परिशिष्टः स्यान्। किन्तु कृत्सवेदार्थवाचकम्। न च तर्हि सूत्रे वेदार्थपदं किमिति न प्रयुक्तमिति वाच्यम् । तत्पदेन पुरुपार्थाऽप्रतीतेरजिज्ञास्यत्वा- पातात्। अतो वेदार्थस्य सफलत्वप्रतीत्यर्थ धर्मपदेन ग्रहण- मित्याशङ्कयाह- वेदार्थे धर्मशव्दस्य वृत्तिः का चन नेक्ष्यते। इति। न तावता वेदार्थ धर्मशब्दस्य रूढिः।अवेदार्थेपि चैत्यवन्दनादौ वौर्द्धः प्रयुज्यमानत्वातू।नाऽपि श्रंयःसाधारणद्धर्म इति योगः।तथा सति श्रेय:साधनस्यैव जिज्ञासा।प्रतिज्ञापत्ती श्रेयोरुपस्य नित्याशी- कानन्दूस्य ब्रह्मणो विचारविशेषापत्तेः।तथा च परिशिष्टव्रह्मविचारा- ११
Page 92
८२ विवरणोपन्यासे रम्भसिद्धिः।न च श्रेयःसाधनधर्मातिरेकेण ब्रह्म नास्ति न प्रतीयते इति
द्वादशलक्षण्यां विचारितम। येन करथं चिद्धर्मपदेन ब्रह्माऽपि सङ्ग- ह्येत।अतोन्यायोपेतसौत्रधर्मपदेन श्रेयःसाधनस्य साध्यस्य विचारः प्रतिज्ञातो न श्रेयोरूपस्य सिद्धस्य ब्रह्मण इति सिद्धम। तथा चोदनालक्षणो ऽर्थो धर्म इति धर्मस्य लक्षणसूत्रमेकदेशवि- चार:प्रतिज्ञात इति दर्शयति। कि चोदनालक्षणो धर्मः उत बुद्धाद्या- गमलक्षणः ? इति सशयनिरासार्थ धर्मस्यैव लक्षणकथनात्। यदि किं चोदनालक्षणो वेदार्थ: उत मन्त्रार्थवादलक्षणा इति वेदार्थसंशये निरा- सांर्थ लक्षणं स्यात् तदा चोदनालक्षणो वेदार्थ इति सूत्र स्यात्। अतो वेदैकदेशचोदनाया धर्मलक्षणत्वोक्त: कृत्स्नवदार्थो धर्मो न भवतीति ज्ञायते। यथा चक्षुर्गम्यगुणो रूपमित्युक्ते प्रत्यक्षप्रमाणैकदेशप्रमेयं रूपं न कृत्स्नप्रत्यक्षप्रमेयमिति ज्ञायते तद्वत्। यदि च धर्मशब्दस्य वेदार्थप- रत्वं कल्पयित्वा चोदनालक्षण एव वेदार्थ इत्युच्येत तर्हि सूत्रे डर्थपदं व्यर्थम्। तथा हि। श्येनादिश्चोदनार्थो नवा?आाद्ेतस्य वेदार्थ- त्वादर्थपदेन निरासः। द्वितीये चोदनापदेनैव श्येनादिनिरासादर्थ- पदचैयर्थ्यम्। श्रेयःसाधनधर्मस्य लक्ष्यत्वे तु श्येनादध्चोदनार्थस्य ध- र्मत्वनिरासार्थमर्थपदं वलवर्दनिष्टाननुबन्धिश्रेयःपरमर्थवन्भवति । शयेनादेहिसात्वेन तत्साधनत्वाभावान्न हिंस्यादिति निषिद्धत्वे वल- वदनिष्टाननुबन्धित्वाभावादधर्मत्वसिद्धेः। किश्च चोदनायाः सत्वे निरर्थकत्वेन च चोदनार्थस्य कृत्स्वेदार्थत्वासिद्िः। चोदनामात्रा- र्थस्य निरर्थकचोदनार्थत्वव्याघातात्। चोदनाशव्दस्य वेदपरत्वे वेदलक्षणो वेदार्थ इति स्यातू। तथा च चोदनाशव्दस्य लक्षणादोपः। किश्च प्रथमसूत्रे सर्वात्मना प्रामाण्यं सिद्धं न वा ? न चेच्चोदनासूत्रे त्वत्कृतस्य किं चोदनालक्षणो वेदार्थः, उतार्थवादादिलक्षण, इति विचारस्यानुपपत्तिः।वेदस्य प्रामाण्यनिश्चयं विना वेदार्थाश्रितवि- चारायोगस्य स्फुटत्वात्। आद्ये औत्पत्तिकसूत्रादी प्रामाण्यचिन्ता- नुपपत्तिः। निश्चिते संशयायोगात् । न चाद्यसूत्रे निश्चितस्याऽपि प्रामाण्यस्य वेदार्थत्वाञ्चिन्तेति वाच्यम। सिद्धस्य वेदार्थत्वे सिद्धे वेद प्रामाण्यापातातू। किश्चाऽडद्यसूत्रे प्रामाण्यनिश्चये द्वितीयाध्याया- रम्भे वृत्त प्रमाणलक्षणमिति भाष्येण विरोधः। तेन कृत्सप्रथमाध्या- येन वेदप्रामाण्यस्य साधितत्वप्रतीतेः । किश्च चोदनाप्नमाणक एव
Page 93
१ सू. २ वर्णकम् । ८३ वेदार्थ इति द्वितीयसूत्रे निश्चये मन्त्रार्थवादादीनामानर्थक्यस्य सिद्धत्वादास्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामित्यादिपूर्वपक्षो व्यर्थ:स्यात्। तस्मान्न वेदार्थविचारः प्रतिज्ञातः कृतो वा। किन्तु धर्म एव विचार्यत्वेन प्रतिज्ञातो विचारितश्च साध्यरूपः।ततः परिशिष्ट- स्य सिद्धब्रह्मपरस्य वेदस्य विचारार्थमथातो ब्रह्मजिज्ञासेत्यादिशा- स्त्रमारम्भणोयमित्याह- एवं सत्यगतार्थत्वाजिज्ञासा ब्रह्मगोचरा। कार्या मुमुक्षुशोत्येवं द्वितीय वर्णके स्थितम् ॥ इति। एवं एकदेशविचारे कृते सति वेदान्तानामविचारितार्थत्वान्मु- मुक्षुणा तेयां विचार: कर्तव्य इत्यर्थः। तन्त्वौपनिषद देवं प्रत्यगात्मानमव्ययम्। श्रीरामं परमानन्दं चिन्तये ऽहं मुहुर्मुह्ठुः ॥ १॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पूज्य- पादशिष्यरामानन्दसरस्वतीकृते विवरणोपन्यासे द्वितीयं वर्षकं समाप्तम् ॥ 0 पूर्व त्राऽडगतार्थत्वाद्वेदान्तशास्त्रमारम्भणीयमित्युक्तं तथाऽपि ना- रम्भणीयमधिकार्यभावादित्याशङ्कय तृतीयवर्षकतात्पर्यमाह- अथाऽधिकारिसिद्ध्यर्थ वर्णकान्तरमुच्यते। आनन्तर्ये Sथशब्दः स्यात् नार्थान्तरइतीरितम्॥ अगतार्थतया वेदान्तानां विचार्यत्वोत्तनन्तरमित्यर्थः। इदं शा- स्त्रमारम्भणीयं न वेति सन्देहे मानाभावेनाऽधिकार्यभावान्नारम्भणी- यमिति प्राप्ते सूत्रस्थाऽथशब्दस्यानन्तर्यार्थकत्वसमर्थनेन, 'तद्यथेह क- रमचितो लोकः च्ीयते ब्राह्मसो निर्वेदमायात्। शान्तो दान्तः तरति शोकमात्मवि'दिति साधनचतुष्टयपरवाक्यप्रमाणको Sधिकारी सा- ध्यते इति भावः। नन्वर्थान्तरं किं न स्यात् इत्यत आह। आनन्त- ये इति। कि जिज्ञासापदं यौगिकमाश्रित्याथशब्दस्यार्थान्तरमाश- कयते उत विचारे रूढमथ लाक्षणिकम्? आद्येन तावदारम्भार्थता उथशव्दस्य युक्ता। व्रह्मज्ञानेच्छाया अप्रतिपाद्यत्वात् । नाऽपि मङ्ग- लार्थता। इच्छा मङ्गलमित्युक्ते: फलाभावात्। नाऽपि प्रकृतादर्थादर्था- न्तरत्वार्थकताi अर्थविशेषस्याऽप्रकृतत्वात्।यतः कुतश्चिदर्थान्तरता- याश्चावक्तव्यत्वात्। ननु तर्हि कुतश्चिदानन्तर्यमपि न वक्तव्यं
Page 94
८४ विवरणोपन्यासे सिद्धत्वादिति चेन्न। स्वस्मिन् जिज्ञासां जानन्नतो उप्युक्तसाधनच- तुष्टयानन्तर्यस्याज्ञातत्वात्। अथशब्देन तज्ज्ञापने त्वधिकारिविशे- पणमेतावदेवेति निश्चित्य झटिति श्रवणादी प्रवर्तते। तस्मादानन्त- र्यार्थत्वमेवेति भावः। ननु जिज्ञासाविचारशव्दयोस्तुल्यार्थकतया शास्त्रकारव्यवहाराद्रढं, पदम तथा च विचारस्य कर्तव्यत्वादार- म्भार्थो उथशब्दो Sस्त्विति द्वितीयमाशङ्कयाह- जिज्ञासापदमत्र स्याद्योगिक पङ्कजादिवत्। इत्यर्थ वृत्तिभेदाश्च शब्दस्याऽन्र निरूपिताः ॥ अत्र सूत्रे न रूढमिति शेपः।यस्मिन्पदे योग: क्लृप्तः तत्र रूढिर्न कल्प्या। ननु क्लप्तयोगस्याऽपि पङ्कजादिपदस्य तामरसेयोगरूढिर्नाम वृत्त्यन्तरं तार्किकैराश्रितमिति चेन्न।अलौकिकवृत्त्यन्तरकल्पने माना- भावात्। साधारणनाऽपि योगेन प्रयोगप्राचुर्याद्विशपार्थभानसम्भ- वातू।शास्त्रकारव्यवहारस्तु विचारलक्षणया प्युपपद्यते इति भावः। ननु योगरूढिलक्षणानां को भेद इत्यत आह। इत्यर्थमिति। यौगि- कत्वज्ञानार्थ वृत्तिभेदज्ञानार्थमिति यावत्। अखण्डपदप्रवृत्तिनि- मित्तक: सङ्केतानपेक्षः शब्दस्यार्थेन सम्बन्धो रूदिः । एकस्मिन्पदे डवयवशक्तिसमुदायो योगः। इतीदं वृत्तिद्वयं मुख्यम्। मुख्यार्थसम्व- न्धो लक्षणा। अत्र पूर्वप्राबल्यम्।ननु सिद्धान्ते जिज्ञास्तापदं विचार- लक्षकमिति आरम्भार्थताशङ्कामनूद्य निराचष्टे- अथत्यारम्भवाचित्वे लक््यते नाधिकार्यसौ। मोक्षकामो न कल्प्यो Sत्र प्रसज्यप्रतिषेधतः ॥ असौ श्रौतसाधनसंपन्नः।तत्समर्पकाभावादिति शेषः। ननु वि- चारस्य ज्ञानद्वारा मोक्ष: फलं, तत्काम: कल्प्यतामित्यत आह। मो- क्षकाम इति। आरभ्यते विचार इत्युक्ते तत्र सर्वो Sधिकारीति प्रस- ज्यते प्रतीतिः। सा मोक्षकामकल्पनया वाधनीयेति गौरवम्। आनन्त- र्याभिधानद्वारा मोक्षकामाधिकारिज्ञानपूर्वकविचारविधिप्रतिपत्तौ लाघवम्। ननु रात्रिसत्रन्यायेन श्रोतव्यविधिप्रकरणस्थार्थवादवाक्यै- रेवाधिकारिविशेषधीसम्भव इति चेत्सत्यम्। किन्तु ज्ञाते Sधिकारिगि संशयनिरासार्थमथशव्देनोपादानम्। ननु विश्वजिन्न्यायेन स्वर्गार्थव- न्मोक्षस्याऽपि सर्वान्प्रत्यविशिष्टत्वात्सर्वाधिकारप्रतीतेन वाध इत्य- त आह- सर्वो लोको न मोक्षार्थी नाधीतिविधिगोचरः।
Page 95
१ सु. ३ वर्णकम् । अधिकारी भवेदत्र तत्प्रयुक्तेरभावतः ॥ विषयलुब्धानां निर्विषयमोत्ते भयमेव भवतीत्यर्थः । ननु वेदाध्ययनविधौ त्रवर्णिको उधिकारीति स एव विधना स्व- फलार्थावबोधार्थमाक्षिपे विचारे उप्यधिकारी सिध्यतीत्यत आह। नाऽधीतीति। अत्र विचारे अधीतिविधिगोचरी उधिकारी न भवेतू। विचारस्याऽध्ययनविधिप्रयुक्तत्वाभावादित्यर्थः। इमं हंतुं साधयति- अर्थबोधो यदाधीतिविधिभाव्यो भवेत्तदा। विचारस्तत्प्रयुक्त: स्यार्तिक त्वसी भाव्यवेदजः॥ स्यान्नासी विधिभाव्य इति शेषः । न तावदध्ययनस्या- र्यबोधो जन्वयव्यतिरेकसिद्धं फलम्। अध्येतुणां तददर्शनात् । नन्व- ध्येतव्य इति शब्दभावनाभाव्याया अध्ययनकरणिकाया अर्थ- भावनाया अर्थावबोधो भाव्यः । स्वाध्यायस्याऽफलत्वेन भाव्य- त्वानुपपत्तेः। दष्टफले सति सक्तुन्यायेन गुणप्रधानताव्यत्ययस्य सवाध्यायेनाधीयीत विश्वजिन्न्यायेन स्वर्गकाम इति कल्पनानुपप- त्तेश्चेति शङ्कते किनत्विति। यद्यधीतस्य वेदस्य व्याकरणादङ्गा- ध्ययने सत्यर्थावबोधो हष्ट फलं तर्हि चन्द्र इव १स्वयमफलत्वे उप्यनुष्ठानद्वारा सफलस्यार्थावबोधस्य फलस्य हेतुतया भाव्यो डस्तु । अध्येतव्य इति कर्मशि कृत्यप्रत्ययेन वेदस्य भाव्यत्वनिश्चया- त्। फलहेतुपश्वादेर्भाव्यत्वाङ्गीकाराच्चेति समाधत्ते । असाविति। अध्ययनभावस्य वेदस्यार्थावबोधः फलमित्यर्थः। नन्वध्ययने Sधि- कार्यश्रवणाद्टप्टफलार्थावबोधकाम एवाधिकारीत्यत आह- अर्थावबोधकामस्य नाधीती स्यान्नियोज्यता। अर्थाज्ञाने तदज्ञानादज्ञाते कामना कुतः ?॥ अध्ययनमर्थावबोधकाममुद्दिश्य न विहितम् । येनाधिकारिविशेष- णतया बोधो विधिफलं भवेदित्यर्थः।तत्र हेतुमाह अथाज्ञाने इति। उ- द्देश्यस्य विशेषणस्यार्थाववोधेच्छाया अध्ययनात्प्ागव सिद्धिर्वक्त- व्या।इच्छा त्विष्टसाधनतया ज्ञाते सिध्यति। ततश्चाध्येतव्यानां स- वैषां वाक्यानां विशिष्याग्निहोत्रादिरूपार्थज्ञानं बिना डर्थावबोध इ- प्टसाधनमिति ज्ञातुमशक्यत्वादिच्छा न सिध्यतीत्यर्थः । उपदेशेन विशिष्टार्थज्ञानाङ्गीकारे फलस्य सिद्धत्वादध्यय२नांशे प्रवृत्तिर्न
(१ ) वेढ़ एवेनि पाठान्तरम्। (२) दध्ययनायासे इति पाठान्तरम।
Page 96
८६ विवरणापिन्यासे स्यादिति भावः।नन्वर्थावबोधमुद्दिश्य वेदाध्ययनमिति यदि नोच्य- ते ९? तदा कथं वेदे तात्पर्यग्रहः ग्राहकाभावादिति शङ्कते । उद्दिश्येति- उद्दिश्योत्चारणभावे कर्थं तात्पर्यधीर्भवेतू । लोके वक्तुरिच्छा तात्पर्यमिति उद्दिश्योच्चारणमपेक्ष्यते। वेदे तु फलवदपूर्वार्थप्रमित्यनुरूपत्वं तात्पर्यमुपक्रमादिना ग्राह्येनोद्दिश्यो- च्चारणेन वक्तरभावादिति परिहरति- उपक्रमादिलिङ्गः सा भवद्वेदे न चान्यथा। अधीतावनियोज्यत्वे बोधकामे भवेन्न सा ॥ क्त्रभावादिति प्राप्ते जगु: प्राभाकरा इदम्। तस्मादर्थाववोधस्याध्ययनविधिफलत्वाभावेन तदर्थविचारस्य तद्विधिं प्रत्युक्तत्वाभावान्नाध्ययनविधिना विचारे Sधिकारिलाभ इ- त्यथराव्देनवाधिकारी समर्पणीय इति भावः । इदानीमध्ययने Sधि- कार्यन्तरानिरूपणादगत्यार्थावबोधकामो उधिकार्येष्टव्य इति शङ्कते। अधीताविति। मम नियोग इति साक्षान्नियोगवोधानियोज्यः। ममा- उस्यां क्रियायां नियोग इति क्रियाद्वारा नियोगवोद्धा कर्ता अधिकारी स्वामीति भेदः। सा अधीतिक्रियाप्रवर्तको हि विधिः प्रवृत्तिसमर्थ- मधिकारिणमपेक्षते इति वस्तुगतिः। अध्ययनविधिरध्ययनेन प्रव- र्तक इत्यधिकारिणं चापेक्षते। कि त्वध्ययनक्रियाध्यापनविधिप्रयु- क्ेति गुरुमतेनादी समाधत्ते। जगुरिति। ननु स्वाध्यायो उध्येतव्य इत्यध्ययनक्रियाध्यापनविधिप्रयुक्ता। अष्टवर्षे ब्राह्मणमुपनयीत, त- मध्यापयीते त्यध्यापनविधिः। उभयत्राऽधिकारी न श्रूयते। तत्र कथमे- केनान्यस्य प्रयुक्तिरिति शङ्कते। अध्यापनप्रयुक्तति । ननु तुल्यमिदं द्वयम्।किश्चाधिकारिकल्पनायामध्ययने एव स कल्पनीयः। तेनैवा- ध्यापनस्य प्रयोगो Sस्तु। न च लिखितपाठेनाविहिताध्यापनेनाप्यध्य- यनसिद्धेर्नाध्यापनाक्षेप इति वाच्यम्। आचार्याधीनो वेदमधीष्वेति नियमविधानाद्विहिताध्यापनस्यैवाक्षेपादिति वैपरीत्यमाह । अन्त्ये- नेति- अध्यापनं चाध्ययनसन्त्येनाऽडय्यं प्रयुज्यताम्। इति चेत् साधिकारत्वादाद्यमन्त्ये प्रयोजकम् ॥ अर्थतः पाठतो वान्त्यमध्ययनं आद्यमध्यापनं समाधत्ते। साधि- (१) चोच्यत इाते वा पाठः।
Page 97
१ सू. ३ वर्णकम् । कारत्वादिति। अयमाशयः । 'संमाननोत्सञ्जनाचार्यकरणज्ञानभृति- विगणनव्ययेषु निञ्' इति सूत्रेण संमाननादिपु साध्येषु नयतेर्धीतो- रात्मने पदविधानादुपनयीतेत्युपनयनस्याचार्यकरणं फलं गम्यते।तद- द्वित्वादध्यापनस्याऽपि तेन फलं कल्प्यते। तत्कामनिवाध्यापनविधिना पुरुषस्य सम्बन्धे निमित्तमधिकारस्तेन साधिकारो Sध्यापनविधिर्निर धिकारस्याध्ययनस्य प्रयोजक इति। ननु विधिः स्वविषयतदङ्ग- योरेव प्रयोजकः।तत्र कथमध्ययनस्य विहितस्यानङ्गस्य विध्यन्तरप्र- योज्यता। नन्ववघातविधिना Sवृत्तिरिवेति चेन्न/तस्या: फलानुपप- त्तिलभ्यत्वनाऽविहितत्वादित्याशङ्कयाह। साधिकार इति। साधिकारक्र तुविधिराधानस्य यथा तथा। नैतदेवं नयीतेति ह्युपनीतेः फलं श्रुतम ॥ काम्य इत्यर्थः । ब्राह्मणो Sग्रीनादधीतेत्यग्निसंस्कारार्थो विधिर्न स्वयमाधानस्यानुष्ठापकः । निष्फलत्वात्। किन्तूत्तरकाम्यविधिरग्न्य- पेक्षः तत्सिध्यर्थमाधानमनङ्गमपि प्रयोजयि।तत्सिद्धेष्वग्निपु नित्य- विधयः प्रवर्तन्ते।न स्वयमग्न्यपेक्षा अप्याधानस्य प्रयोजकाः।अग्नीनां संस्कार्यतयोंद्दश्यत्वेनानुपादेयानामनाक्षेप्यत्वात्। कामस्तु विधेर्बली- यानग्नीनाक्षिप्याधानमनुष्ठापयीत तद्वदिति भावः।इदं गुरुमतं दूषयत। नैतदेवमिति।अध्ययनमध्यापनविधिप्रयुक्तं न भवति। अध्यापनविधे: फलाश्रवणेनाप्रयोजकत्वातू। न हि प्रयोजककर्तृत्वरूपमाचार्यत्वं विधिं विना Sपि लोकसिद्धं विधिशद्धितनियोगस्य फलमिति युक्तम। अस्तु वा शास्त्रीयकर्मप्रयोजकत्वं विशिष्टमाच्तार्यत्वं विधिफलम् तथापि ना- ध्यापनस्य फलवत्ता।हि यस्मान्नयीतेति निञो धातोरात्मनेपदसाम- थ्यादाचार्यकरणमुपनीतेः फलं श्रुतमिति योजना। न चाङ्गफले- नाङ्िनो उध्यापनस्य फलवन्तेति युक्तमङ्गे फलस्याविवच्षितत्वा- पातात्। ननु यो वेदमध्यापयेत्स आचार्य इति मनुवाक्यादध्याप- कस्याचार्यत्वं फलमिति चेन्न। तद्वाक्ये उध्यापनानुवादेनाचार्यसं- ज्ञामात्रस्य विधानात्। अतो निरधिकारत्वादध्यापनविधिर्न प्रयो- जकः। ननु तर्हि विधिप्रयुक्तत्वे उध्ययनस्याधिकारी वाच्य इत्याश- ङयाह । तस्मादिति। आत्मनेपदसामर्थ्यादाचार्यकरणं निञः। नाध्यापनस्य तस्मात्स्यादुपनीताधिकारिता। ब्रह्मचर्यमागासिति थ्रुतौ सर्वस्मृतिषु चोपनयनानन्तरमध्यय-
Page 98
विरणोपन्यासे नविधानादुपनीताधिकारिकत्वमध्ययनविधेरित्यर्थः । ननु वालस्या- Sप्रबुद्धत्वात्कथमध्ययने उधिकारज्ञानमित्यत आह।अधीतायिति। अधीती विद्ध्यभावे तु प्रवृत्तिर्न वटोर्भवेतू। वृत्त्यर्थाध्यापनं नैव नित्याधीतिप्रयोजकम् ॥ विद्ध्यभावे प्रवर्तकाभावेन विफलायासे प्रवृतिर्न युक्ता । अधि- कारज्ञानं तूपदेशेन समिदाहरणादाविव भवेदित्यर्थः । किश्च। पण्णांतु कर्मणां मध्ये त्रीणि कर्माणि जीविकेति स्मरणादध्यापनस्य जीवनार्थत्वेन काम्यत्वावगमादनित्यत्वं ग- म्यते। तथाचाऽनित्येन नित्याध्ययनस्याऽनुष्ठानं न युक्तम्। नित्यानित्य- संयोगविरोधादित्याह। वृत्यर्थेति । अध्ययनस्य नित्यत्वे किं मान- मित्यत आह- नित्योपनयनाङ्गित्वादधीतेर्नित्यता भवेतू। अङ्गत्वमुपनीतेः स्यादधीताविति साधितम् ॥ अत ऊर्ध्व त्रयो उप्येते यथा कालमसंस्कृताः । इति। उपनयनसंस्कारस्याऽकरसे प्रत्यवायश्रवणान्नित्यत्वम्। तदङ्गि- त्वादध्ययनं नित्यम, अङ्गिनो नित्यत्वाभावे तदधीनाङ्गस्य नित्यत्वानु- पपत्तेरर्थापत्तिमार्नमित्यर्थः। ननु श्रुत्यादिविनियोजक प्रमाणभावादुपनयनस्याऽध्ययनाङ्गत्वं कथमित्यत आह। अङ्गत्वमिति। श्रुत्याद्यभावे प्युपादानप्रमाणाद- ङत्वं सिध्यति। तथा हि। अनुष्ठानद्वारा स्वर्गादिफलकार्थावबोधहं- तुवेदभाव्यकाध्ययनविधि: स्तन्त्रः सन्नाचार्याधीनो वेदमधीष्वेति नियमविधानादाचार्योपगमनमुपनयनपद गृहीतमन्तरेणानुपपद्यमा- नोपादानाख्येन विध्यन्यथानुपपत्तिप्रमाणेन उपनयनमङ्गतयोपादत्ते। न च निराकाङ्गमुपनयनं कथमुपादयितइति वाच्यम्। तस्य निष्फ- लतया शेषिसापेक्तत्वातू। एवमङ्गत्वे सिद्धे प्रोक्षणादिवत्स्वरूपोपकारितया संस्कारकर्मत्वं सिध्यति। एवमुपनयनेन संस्कृतमाणवकनिर्वर्त्यमध्ययनं तदङ्गीति सिद्धं स्मृतिषु प्रकरणादिना ऽप्युपनयनाङ्गितया नित्यमध्ययनम्।अन- नुवाक्याः शूद्रसधर्माणा इत्यादिना Sनध्ययने प्रत्यवायश्रवणाच्च। नन्वध्यापनमपि जीवनार्थतया फलती नित्यम । तेन नित्याध्ययनं सिध्यतीति शङ्कते। नित्यापेक्ष्यति।
Page 99
१ सू. ३ वर्णकम् । ८९ नित्यापेक्ष्यधनार्थत्वान्नित्यमध्यापनं न हि। प्रतिग्रहादिना Sपीह धनलाभस्य सम्भवात् ॥ नित्यं प्रत्यहमपेक्ष्यं धनं तदर्थत्वादध्यापनं नित्यमिति शङ्कार्थः । काम्ये कर्मणि फलेच्छा प्रवृत्ति हेतु :; न तु नित्यकर्मणीव विधिः।येन वि- धिनित्यत्वेन काम्यानुष्ठानं प्रत्यहं नित्यं स्यात्। तत्र धनफलस्य नि- त्यमिष्टत्वे उप्युपायान्तरेण फलेच्छ्वापूर्ती नाध्यापने नित्यप्रवृत्तिः हेत्व- भावादिति परिहरति न हीत्यादिना। ननु ऋती भार्यामुपेयादिति पुत्रोत्पादनविधिर्नित्यः पितुः खपुन्रानुष्ठितकर्मद्वारा पितृणां त्रांं पर्यवस्यन्ननुष्ठानार्थ पुत्रस्योपनयनपूर्वकाध्यापनार्थ ज्ञानात्मकमनु- शासनमपेक्षते। तदनुशासनं नित्यविध्यङ्गतयेति। तस्मात्पुत्रमनुशिषं लोक्यमाहुस्तस्मादेवमनुशासतीति विधिना पित्रा नित्यमनुष्ठेयमि- ति तत्प्रयुत्त्या नित्याध्ययनमर्थज्ञानउच्त सिध्यतीति शङ्कते- पुत्रोत्पादविधिर्नित्यः सो Sनुशास्त्यङ्गकः स्मृतः। तदङ्गत्वेन नित्यत्वं नन्वध्यापनइष्यताम्॥ अथातः सम्प्रत्तिरित्याद्विश्रुतौ मरिष्यता पित्रा वेदयज्ञलोकानां स्वीयानां सुशिक्षिते पुत्रे समर्प्यमाणानां पुत्रेण स्व्रीकरणं सम्प्रत्ति- नामकं कर्म विहितम्। तद्धेतुत्वादिदमनुशासनं ते पुत्र त्वदीयं कर्मा- चार्योपगमनाध्ययनादि नित्यं त्वया Sनुष्ठेयमित्यवश्यं कर्तव्यार्थापदे- शनमात्रम्। तस्मात्पुत्रमिति वाक्ये श्रुतमर्थवाद एव स्यात्।न तूपनय- नादिरूपमनुशासनं पितुर्नित्यविध्यङ्गतया विधीयते नित्यविध्यधि- कारिए: पितुरायुर्नियमाभावेन बहुकालसाध्याङ्गविधानायोगादिति प- रिहरति। नैवमिति- नैवं सम्प्रत्ति शेषत्वादर्थवादो Sनुशासनम्। उपदेशनमात्रं स्यात्तस्मात्पुत्रमिति श्रुतम्॥। कि चोपनीयाध्यापयेदित्याचार्यस्य विधिप्रयुक्तमध्ययनं यदि तदा शिष्य उपनीय मृते आचार्ये अध्ययनं न स्यात्। शिष्या- ध्ययने विध्यनङ्गीकारादध्यापनाधिकारिणो मृतत्वादधिकारिए: प्रतिनिध्यभावादुपनयनरूपाङ्गस्य जातत्वेनाचार्यान्तरेणाध्यापयितु- मयुक्तत्वात्स्वकर्तृकोपनयनस्यैवाङ्गत्वात्। तस्मादनित्येनाध्यापनेन नित्यस्याध्ययनस्यानुष्ठानमयुक्तमिति स्वविधिनैवानुष्ठानमित्युपसं- हरति। तस्मादिति- १२
Page 100
९० विवरणोपन्यासे तस्मादनित्यसंयोगो नित्यस्येह विरुध्यते। नित्यमध्ययनं स्वेन विधिनैव प्रयुज्यते॥ ननु तर्हि अध्ययनविधिनैवाध्यापनसिद्धेस्तमध्यापयीतेति वि- धिर्व्यर्थ इति चेत्सत्यम्। न ह्यत्राध्यापनं विधीयते। तस्य प्रयोजक- व्यापारत्वाकारेण वृत्यर्थतया रागतो याजनवत् प्राप्तत्वात् । अध्ययन- विधी सत्यर्थादध्यापनत्वाकारेणाऽपि प्राप्तेरवश्यंभावित्वात्। तस्मा- द्रागतो उर्थतो वा प्राप्तमध्यापनं णिचा ऽनूदते।भाविप्राप्त्या प्यनु- वादसंभवात्। अध्ययनं तु विधीयते। विधि विना प्राप्त्यभावातू। यथा ग्रामकामं याजयेदित्यत्र णिचा याजनमनूद्य यजनं विधीयते तद्वत्। ननु तमध्यापर्यतोति शिष्यव्यापारे विधिर्न युक्तः । उपनयीते- त्याचार्यव्यापारविधानात्। न चाऽत्राऽ्यपगमन शिष्यस्य विधेयम। अप्राप्तत्वात्। न तूपनयनं रागतो ऽर्थतो वा प्राप्तत्वादिति वाच्यम । उपगमनस्य वाचकाभावेनाप्रतीतेरिति चेत्तत्राह । लक्षययित्वेति । लक्षयित्वोपगमनमप्राप्तत्वाद्विधीयतं- णिजर्थो Sनूदते वाक्ये तत्राधीतिर्विरुध्यते। उपनयीतेत्युक्ते नीयमानशिष्यव्यापारो उर्थाद्गम्यते। स एव तत्पदेन लक्षणया विधीयते। विधिं बिना प्राप्त्यभावादित्यर्थः । उत्त- रार्धस्थवाक्ये तन्नेति पदद्वयं पूर्वार्द्धे Sपि सम्वध्यते। उपनयीत तम- ध्यापयीतेति वाक्ये इत्यर्थः । एवञ्चोपगच्छेत्सो Sधीयीतेति विधि: परिसातो भवति। कस्तत्राधिकारी तत्राह। वय इति- वयोजातियुगाद्ये उधिकार्यन्त्ये तूपनीतकः । स्वामित्वपूर्वकर्तृत्वं मत तेषां नियोगिनाम्॥ अष्टवर्षत्वं वयः। ब्राह्मणत्वं जातिः। इंद दयं मिथोविशिष्टमधि- कारिविशषणं न प्रत्यंकमतिप्रसङ्गात्। तत्राद्ये डङ्गे उपगमने वयोवि- शिष्टजातियुक्तो धिकारी। अन्त्ये Sङ्गिन्यध्ययने स एव ब्राह्मणो उधिकारी अङ्गाङ्गिनोरकांधिकारात्। वयस्तु नाऽत्र विशेषएमङ्गका-
पनीतको उन्त्ये Sधिकारीत्युक्तमिति विभागः। अत्र प्राभाकराः।वयोजात्योनीधिकारनिमित्तत्वम् उपादेयकर्तृवि- शेषणत्वादिति मन्यन्ते। तथा हि। विधितो Sनुषठेयं क्रियाकारक तद्विशेषणमिति त्रयमुपादेयमित्युच्यते।यथा व्रीहिभिर्यजेतेति यागो व्रीहयो बहुत्वं च यत्पुनरननुष्ठेयतया विधिसम्बन्धि तदनुपादेयमुद्दे-
Page 101
१ सू. ३ वर्णकम् । ९१ श्यमुच्यते, यथा यः स्वर्गकामः स यजतेत्यत्र स्वर्गकामः तत्र लिङथों नियोग: स्वरूपज्ञप्तये विषयमिवाधिकारिणमादावपेक्षते। अधिकारो नामात्र ममायं नियोग इति स्वामित्वेनान्वयस्तद्वोधे निमित्तमनुपा- देयविशेषणं प्रधानमेव भवति यथा स्वर्गकामना तस्या उद्देश्यविरो- षणत्वन विध्यपेक्षया प्राधान्यान्न कर्तृविशेषणं तत्र निमित्तं कर्तृकार- कस्य क्रियाद्वारा विधि नियोंग प्रति गुणत्वेन तद्विशेषणस्य सुतरां गुणतया स्वामित्वान्वयहेतुत्वायोगात्। प्रकृते च तमध्यापयीतेति द्वितीयया Sध्ययनकर्तृत्वं गभ्यते। धात्वर्थकर्तुरेव णिचि कर्मत्वात्। तत्र सिजर्थानुवादेन कर्तृव्यापारविधाने वयोजात्योरुपादेयविशेषण- त्वात् नाधिकारनिमित्तत्वमिति। तदङ्गीकरोति स्वामित्वेति। स्वा- मित्वान्वयादनन्तरं मया क्रियया साध्यो नियोग इति कर्तृत्वान्वय इति येपां मत तेषामधिकारे निमित्तमनुपादेयविशेषसं भवत्वित्य- र्थः। कथं तर्ह्युपादयविशेषणस्य जात्यादेस्तत्र निमित्ततेति चेतू भट्ट- मतेनेत्याह। कर्तृत्वेति- अधिकारे निमित्तं स्यादनादेयविशेषणम्। कर्तृत्वपूर्व स्वामित्वं भावनावादिनां मतम् । भावना हि विध्यर्थः क्रि्यात्वात् कर्तारमादावपेक्षते इति स्वर्ग- कामादि: कर्तृत्वेनैव प्रथमं सम्बध्यते। पश्चात्कर्तुः क्रियाफलमिति न्यायेन ममेदं कर्मेति भोक्तृतया Sन्वेतीति कर्तृत्वान्वयपूर्वकस्वामि- त्वान्वयो Sधिकारस्तत्र निमित्तं कर्तृविशेषणमेव कामनादिकं भवति। तथा च जात्यादेर्निमित्तत्वं युक्तमिति भावः।अस्माकं तु श्रेयःसाध- नत्वं विध्यर्थः।तन्न यजेत याग: श्रेय:साधनमित्युक्त कस्य श्रेयो भोक्तु- राकाङ्गितत्वात्स्वर्गकामादिस्वामित्वेनैव विधिना सम्बध्यते। पश्चा- नमदिष्टसाधनत्वान्मया कर्तव्यं कर्मेति स्वामित्वान्वयपूर्वकः कर्तृ- त्वान्वयः न कामना। वयोजातिजीवनादिकमनुपादेयविशेषणमेवाधि- कारहेतुर्भवतीत्याह। स्त्रामित्वेति- तेषां तत्र निमित्तं स्यादुपादेयविशेषसाम्। स्वामित्वपूर्व कर्तृत्वं श्रेयःसाधनवादिनाम् । अस्माकं तत्र हेतु: स्यादनाियविशेषणम्। वयोजात्योरधिकारनिमित्तत्वसमर्थनस्थ विधिनित्यत्वं फलमाह। एवं नित्य इति-
Page 102
९२ विवरणोपन्यासे एवं नित्यो Sधीतिविधिरवेदावासी समाप्यते। कर्मणां विधयस्तत्र विचारस्य प्रयोजकाः ॥ अवाप्तिपर्यन्तमध्ययनं तस्यावृत्तिरर्थाल्लभ्यते। नन्वेवमध्ययनविधे- र्नित्यत्वे विचारप्रयोजकत्वाभावादधीतो वेदो विचारहेतुरिति भाष्य- विरोध इत्याशङ्कय परम्परया प्रेयोजकत्वान्न विरोध इत्याह। कर्मणा- मिति।अध्ययनविधिना SSसे स्वाध्याये तत्र सन्दिग्धार्था विधय उपल- अ्यमाना अवश्यानुष्ठेयार्थत्वादनुष्ठानहेत्वर्थनिर्णयाय स्वस्य वाक्यवि- चारं पृथक् पृथक् आक्षिपन्तीति परम्परया ध्ययनविधिविचारप्रयो- जकाः। साक्षात्प्रयोजकास्तु नित्यादिविधयःन च् ते ब्रह्मविचारस्याऽपि प्रयोजकाः।ब्रह्मज्ञानस्य नित्यादिविध्यनपेत्ितत्वात्। तस्मादधीतवेद- स्य धर्मविचारो विधिभिः प्राप्त इति शाबरभाध्यमविरुद्धमित्यर्थः। परमप्रकृतमुपसंहरति। श्रोतव्य इति- श्रोतव्यविधिनैवातो वेदान्तार्थविचारण। आनन्तर्यमुखनास्यामधिकारी समर्प्यते॥ अतो उध्ययनविधेर्नित्यत्वात्कर्मविधीनां स्वविचारमात्रहेतुत्वा- दित्यर्थः । मुखं द्वारं अथशब्देनेति शेषः । अस्य मङ्गलाद्यर्थत्वं नेत्यु- क्तत्वादानन्तर्यार्थकत्वं जिज्ञासाया: सामग्रीज्ञानाय वक्तव्यम्। पुष्क- लकारणात्कार्यस्याव्यवधानेन नियतत्वादानन्तर्य मुख्यमिति तदभि- धाने भवत्येव सामग्रीज्ञानम।प्रकृतादर्थाम्तरत्वोक्ती तुतन्नभवति।अ- कारणस्याऽपि प्रकृतत्वसम्भवात्।किश्च कारणादानन्तर्योक्ती प्रकृता- दर्थान्तरत्वमन्तर्भवति; न कारणनन्तर्यमर्थान्तरत्वे ऽन्तर्भवति।तस्मा- दानन्तर्याऽभिधानद्वारा तदवधिसामग्रीसंपन्नाधिकारी समर्प्यते इति भावः। अधुना SSनन्तर्यविधि: साधनचतुष्टयसंपत्तिरेव परिशेषादिति वक्तुमवध्यम्तरं दूषयति। आनन्तर्येति- आनन्तर्यविधिस्तत्र नाधीतिर्नाऽपि कर्मधीः। न तन्न्यायो ऽथ कर्माऽपि शुदधयन्यद्वारकंन च॥ तत्र जिज्ञासायामानन्तर्यविधित्वेन पुष्कलकारणमेव वक्तव्यं तदानन्तर्यस्यैव मुख्यत्वादधिकारिसिद्धिहेतुत्वाच्च। वेदाध्ययनन्तु धर्मजिश्वासासाधारणं म ब्रह्मजिज्ञासाया: पुष्कलकारणमतोनावधिः। अत्र वृत्तिकृत आहुः। आनन्तर्यविधिर्धर्मजिज्ञासा। तस्या ब्रह्म- जिज्ञासोपकारकत्वात्। यस्यैते चत्वारिंशत्संस्कारा: स ब्रह्मणाः सा- युज्य सलोकतां गच्छति।
Page 103
१ स. ३ वर्णकम् । ९३ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः। विविदिषन्ति य्षेनेत्यादिस्मृतिश्रुतिपरेभ्यः उपकारकत्वावगमात्। एवं सति सम्पूर्णस्य वेदस्यैकमोक्षफलकत्वादेकेनाध्ययनविधिनोपा- दानं युक्ततरं भवतीति।तत्र वक्तव्यं कयं धर्मजिज्ञासा? कि द्वादश- लक्षण्यां स्थितं न्यायसहसत्रं, उत तज्ः कर्मावबोधः, अधवा कर्म? तत्र न तावत्कर्माववोधो ब्रह्मविचारप्रवृत्तिहेतुः। अन्यज्ञानादन्यत्र प्रवृत्त्य- योगात्। नाऽपि विचारसाध्यव्रह्मावबोधे हेतुः । कर्मब्रह्मणोर्व्याप्त्य- भावात्। न हि सम्बन्धं विना उन्यज्ञानादन्यज्ञानं भवति। अस्तु तर्हि
साध्य धर्मनिर्णयापेक्षितानामुत्पत्ति विनियोगप्रयोगाधिकारातिदेशादि- न्यायानां स्वतः सिद्धब्रह्मविचारानपेक्षितत्वात्। श्रुतिलिङ्गाद्यस्तु लोकसिद्धा एव धर्मव्रह्मविचारयोरुपादीयन्ते। ननु गुणोपसंहारे विध्यपेक्षितोत्पत्यादिन्याया अपेक्ष्यन्ते इति चेत्स- त्यम। उपासनाया धर्मविशेषितत्वात्तद्विचारे विधिन्यायापेक्षोपपत्तेः। स्यादेतत्।अथाऽतो धर्मजिज्ञासेत्यादिप्रथमपादे वर्णिता वेदप्रामाण्या- पेक्षिता अध्ययनविधेरर्थावबोधावसानत्वेन वेदस्य विवक्षितत्वाच्छ- व्दायसम्बन्धस्यौत्पत्तिकत्वादपौरुषेयत्वादित्यादयो न्याया वेदमूलव्र- ह्मविचारे Sपेक्षिता इति उच्यन्ते। अध्ययनवदेते न्याया अपि धर्मब्र- ह्मविचारयोः साधारणत्वान्नानन्तर्यावधिभूता इति।वस्तुत एतेन्यायाः शास्त्रयोनित्वा,दत एव च नित्यत्वं, समाननामरूपत्वादित्यस्मच्छास्त्रे सन्तीति न पूर्वतन्त्रापेक्षा। नन्वस्तु कर्मानन्तर्य ब्रह्मविचारस्येत्यत आह। अथ कर्माणीति। चो Sवधारणे। प्रतिनकारमवधिपदं सम्वध्यते । कर्माऽपि शुद्ध्य- तिरिक्तद्वारेण नैवावधिरित्यर्थः । तथा हि। प्रासादारोहणे सोपान- क्मवदाचमनादीनां सहस्रसंवत्सरान्तानां कर्मणामनुष्ठानक्रमेण द्वारेण न ब्रह्मजिज्ञासायां हेतुत्वं मानाभावात्। न हुत्तरकर्मोपादा- नात्पूर्वकर्मत्यागे चरमकर्मान्ते ब्रह्मजिज्ञासोत्पत्तौ च मानमस्ति । स्यादेतत्। ब्रह्मविचारे कामध्वंसो हेतुः। सकामस्य तदसम्भवात्। तथा च कर्मणां हि रागभ्रान्तफलोपभोगन वैराग्यद्वारा तत्र हेतुत्व- मिति तन्न स्यात्। हिरण्यगर्भस्यैव शास्त्राधिकारित्वोपपत्तेः, भोगस्य कामाभिवृद्धिहेतुत्वेन वैराग्यहेतुत्वायोगाच्च।क्षयादिदोपदर्शनं हि घैराग्यहेतुर्न भोगः । यन्तु स्वर्गकामो यजेत गोदोहनेन पशुकामस्ये-
Page 104
९४ विवरणोपन्यासे त्यादिरच्दे देहात्मत्वाधिकारिभेदादिर्द्वैतनाशप्रमित्यर्थः। अतः कर्म- काण्डस्य कर्मणि प्रवृत्तिव्याजेन द्वैतनाशप्रमितिद्वारा ब्रह्मज्ञा- नार्थतेति। तन। कर्मवाक्य तु द्वैतनाशस्याप्रतीतेः। अत्र के चित्। भवतु तर्हि पुरुषसंस्कारकर्मत्वं फलं तद्द्वारा कर्मणां जिज्ञासाहेतुत्वात्कर्मानुछठानानन्तर्यमथराब्दार्थ इति।ननु स्वतन्त्रफल- साधनानां संस्कारकर्मत्वं न युक्तम। तथात्वे प्रोक्षणादिवत्स्वतन्त्रफ- लसाधनत्वविरोधादिति चेदुच्यते।चत्वारिंशत्संस्कारा इत्यादिस्मृतेः धर्मेण पापमपनुदति इदमनेनाङ्गं संस्क्रियते इत्यादिश्रुतेश्च सर्वेपां कर्मणां पापक्षयरूपसंस्कारहेतुत्वं वाच्यमू।स च संस्कार: श्रवणादी सत ज्ञाने उपकराति तदभावे सर्वे एते पुण्यलोका भवन्तीत्यादिश्रुत्य- वगतस्वतन्त्रपितृलोक्कादिफले उपकरोतीति व्यवस्था। अत एव य- स्यैते चत्वारिंशत्संस्कारा: स ब्रह्मण: सायुज्यं सलोकतां गच्छतीति
नन्वत्र सायुज्यसालोक्यलिङ्गात्कार्य व्रह्माप्तिरेव न मुक्तिः । तथा च संस्कारस्य ज्ञानद्वारा मुक्तिहेतुत्वं कथं ज्ञेयमिति चें- दुच्यते। अभेद हि सायुज्यशन्दी मुख्यः । न च कार्यव्रह्माभेदो जीवस्य युक्तः। पूर्वरुपे स्थिते नषे वा न्यस्यान्यात्मत्वा- योगात्। अत उक्तव्यवस्थया मुक्तिसालोक्ये उच्येते। स्मृत्या स्वे स्वे केर्मण्यभिरते इत्यादिगीतायां 'कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते' इत्यादिस्मृतौ च संस्कारस्य मुक्तिद्वारत्वं स्फुटं दर्शितम। एवं च विधेयकर्माङ्गसंस्कारकर्मण एव गुणकर्मत्वादविधेयव्रह्मज्ञानका- रकमनःसंस्कारकर्मणां गुणकर्मत्वाभावातू न स्वतन्त्रफलसाधनत्वं विरुध्यते। अङ्ग हि फलश्रुतिरर्थवादः । न च संस्कारकर्मत्वेनाङ्ग- त्वानुमानम् आधाने व्यभिचारात्। तस्मादू द्रव्यार्जनविधेः सत्यां श्रद्धायां ऋतूपकारकत्वं तदभावे भोगार्थत्वं यथा; तद्वत्सर्वकर्मणा- मनियमेन श्रवणादिसहकारिभेदादुभयार्थत्वमित्येकः पक्षः । यथो- त्पत्तिमात्रसिद्धाग्निहोत्रादीनां स्वर्गकामादिवाक्यैः स्वर्गादिसम्व- न्धस्तथा विविदिषावाक्येनेष्यमाणज्ञानसम्बन्धः संयोगपृथक्तन्याया- दित्यपर: पक्षः। अस्मिन्पक्षे कर्मणां नियमेन ज्ञानार्थत्वं तादर्थ्यवि- धानात्। तत्रेच्छाया विषयसौन्दर्यलभ्यतया कर्मसाध्यत्वायोगा- द्रह्मसाक्षात्कारस्य प्रतिबन्धनिवृत्तिद्वारा साध्यत्वसम्भवात्। यज्ञेने- त्यादिसुबन्तप्दैव्यवहितान्यपि कर्माण्यनूद्य विविदिपन्तीत्यत्र लेट-
Page 105
१ स. ३ वर्णकम् । ९५ परिग्रहेण साक्षात्कारकामो यज्ञादीन्यनुतिष्ठेद्विति विधि: परिणम्य- ते। कुण्डपायिनां सत्रे तु मासमग्निहांत्रं जुहोतीति श्रुतम अग्निहांत्रं जुह्वति पदयोः साध्यकर्मवाचित्वेन मासाग्निहोत्रं कर्मान्तरव्यवहि- ताप्रिहोत्रपराम्शकपदाभावात् कर्मणां मुक्ती साक्षाद्धेतुत्वमप्रा- माणिकं नान्य: पन्था विद्यते इत्यादिमानविरुद्धश्च। तस्माश्चित्तशु- द्धिविवेकवैराग्यादिपरम्परया ज्ञानार्थानि कर्माणीति सिद्धम। अतः कर्मानन्तर्यम अथशब्दार्थ इति प्राप्त ब्रूमः । प्रवृत्तिपूर्वक्षण सतो नि- श्चितस्यैवाधिकारिविशेषणत्वम।न च जायमानो वै ब्राह्मणस्त्रिभिर्ऋ्र्र- सातत्यादिश्रुतेः ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेदित्यादि- स्मृतेश्च एकजन्मार्जितेन शुद्धिर्द्वारमिति कर्मावगमः प्रवृत्तिहंतुरि- ति वाच्यम् । ब्रह्मचर्यादेव प्रवजेदिति विधिविरोधेनार्थवादश्रुति- स्मृत्योर्दुर्बलत्वादिति। ननु जायमान इति वाक्यस्य हृदयाद्यवदा- नविधिशेषार्थवादत्वे Sपि ब्रह्मचर्य समाप्य गृही भवेदिति क्रमश्रुते- रुक्तस्मृतेश्च का गतिरित्यत आह। बटोरिति- क्रमो भोगेन वैराग्यं द्वैतनाशश्च कर्मणामू। द्वारं न स्यात्किन्तु शुद्धि: सा Sपि नैकभवार्जिता॥ बटोः संन्यासकथनादविरक्ते क्रमश्रुतिः । ऋणश्रुतिश्च सामर्थ्य नान्धादेर्न्यासयोग्यता।। ननु ब्रह्मचर्यादेवेति वाक्यं कर्मानधिकार्यन्धपड्गादिविषयमस्तु। अतः श्षुतिस्मृतिभ्यां कर्मानन्तरं सन्यासपूर्वकव्रह्मजिज्ञासेत्यत्राह।ना- न्धादेरिति।श्रवणाद्यसमर्थस्य ज्ञानार्थसंन्यासे नाधिकारः। ननु गुरुमे- वाभिगच्छ्ेत कर्णाभ्यां भूरि विश्रवं अन्नं प्राणं चक्षुःश्रोत्रं मनो वाचमि- त्यादिश्रुतः दृष्टिपूत न्यसेत्पाद मित्यादिस्मृतेश्च पटुतरेन्द्रियस्यैव संन्या- सप्रतीतेः गृहाद्वा वनाद्वेत्यधिकारिसमभिव्याहाराच्च। तस्मात्सति वैराग्ये कर्माधिकारिणां संन्यासपूर्वकव्रह्मजिज्ञासाविधानान्न तस्याः कर्मानन्तर्यम्।अत्र प्रसङ्गाद्यज्ञोपवीतत्यागो नास्तीति भद्दभास्करमत- माशाङ्कय इदमेवास्य तद्यज्ञोपवीतं य आत्मा मुण्डोपरिग्रह इत्यादिश्रुतेः अत उध्वे यज्ञोपवीतमासनमित्यादीनि वर्जयित्वेत्यादिस्मृतेश्च त- त्याग इति साधितम्। एतत्स्वमभिप्रेत्योक्तं भगवत्पाद: धर्मजिज्ञा- सायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति। अथाऽपि हृदय- स्याग्रे Sवद्यत्यथ जिह्वायाः अथ वक्षस इत्यत्रानन्तर्यद्वारा क्रमार्थो थ- शध्दो यथा, तद्वदत्रास्त्वित्यत आह। न क्रमार्थ इति-
Page 106
९६ विधरणोपन्यासे न क्रमार्थो Sथशब्दः स्याद्धर्मब्रह्मविचारयोः। सूत्रस्य न्यायवेदित्वात्कमस्थाप्यनपेक्षणात्॥ किं विचारयो: क्रमे सूत्रं मानम् उत एकैकप्रयोगानुपपत्तिः? नादः। सूत्रस्य मानापेत्तितन्यायसूचकत्वेन स्वयं मानत्वायोगात्। न द्वितीयः।तयाः शेषशेित्वे धिकृतािकारे वा मानाभावेनैव प्रयोगा- सिद्धेः।नन्वाग्रेयादीनामेकफलकत्येन यथा क्रमापेक्षा यथा वा द्वाद- शाध्यायानामेकधर्मजिज्ञास्यकत्वेन क्रमापेक्षा तथा धर्मब्रह्मविचारयो- र्मोक्षफलकत्वेन ब्रह्मजिज्ञास्यकत्वेन च क्रमापेक्षा Sस्त्विति चेन्न । तयो: फलभेदात्। ब्रह्मविचारस्य ज्ञानद्वारा मुक्ति: फलं न धर्म- विचारस्य स्वर्गकामादिवाक्यैः कर्मणामभ्युदयफलकत्वावगमात् तेषं मुक्तिहेतुत्वे मानाभावान्न कर्मणेत्यादिना निषेधाच्च।नच के- वलकर्मणां निषेधी न ज्ञानसमुचितानामिति वाच्यम्। समुच्चये मा- नाभावात्। न तावद्विविदिषावाक्यं तत्र मानम । तस्य कर्मणां ज्ञा- नार्थत्वबोधकत्वात्, अविद्यया मृत्युं तीर्त्वेति कर्मणां पापनिवृत्तिफ- लमुक्ता विद्यया Sमृतमश्नुते इति फलभेदश्रुतेश्च, वेदान्तेषु ज्ञानादेव कैवल्यमित्युद्घोषाश्च,।संन्यासस्य ज्ञानाङ्गतया विधानाच्च न कर्म- समुच्चयो मुक्ति हेतुः। न च नित्यकर्मणां विध्यनुपपत्या साक्षान्मुक्तिफ- लकत्वम्। शुद्धादिपरम्परया सफलत्वे Sपि विध्युपपत्तेः। कर्मणां व्र- ह्मात्मैक्ये अविद्याध्वंसे वा सामर्थ्याभावाच्च। बन्धमूलाविद्यानङ्गी- कारे ज्ञानवैयर्थ्यप्रसङ्गात्तदङ्गीकारे ज्ञानादेव तन्निवृत्तेर्न समुच्चयाव- काशः । एतेन समुच्चयसामर्थ्यात्कर्माववोधानन्तर्य भास्करोक्तं परास्तम्। कि च समुच्चयपक्षे उप्यानन्तर्यनियमो दुर्वचः । ज्ञानवतैवानुष्ठि- तस्य कर्मणो मोक्षहेतुत्वेन प्रथमाश्रमएव मुमुक्षोर्व्रह्माववोधानन्त- रकर्मवाक्याध्ययनविचारादिकर्मानुष्ठानस्य युक्ततया वैपरीत्यस्य सुवचत्वात्। न च नित्याध्ययनविधिप्रयुक्तत्वात्कर्मविचारस्य प्र- थममनुष्ठेयत्वमिति वाच्यम् । ब्रह्मविचाराविरोधेनापि तदनुष्ठानस- म्भवात्तत्प्रयुक्तत्वासिद्धेश्च। तत्प्रयुक्तत्वे वा ब्रह्मविचारस्याऽपि तत्प्र- युक्ततया प्राथम्यं कि न स्यात्।न च श्रोतव्यविधिसन्भावान्न ब्रह्म- विचारस्य नित्याध्ययनविधिप्रयुक्ततेतति वाच्यम्। क्लप्तविधिनैव प्र- योगसम्भवे श्रोतव्यविध्यसिद्धेः।न च शमाद्यनपेक्षाध्ययनविधिना शमाद्यङ्गकश्रवणप्रयोगो न सम्भवतीति वाच्यम्। वाक्यान्तरे शिरो-
Page 107
बनारस संस्कृतसीरीज़ भर्थात् वाराणसीसंस्कृतपुस्तकावली । तत्र मुद्रिता ग्रन्थाः । रु० सिद्धान्ततत्त्वविवेक: खण्डानि ५ O अर्थसङग्रहः अंग्रेजीभाषानुवादसहितः १ तन्त्रवार्त्तिकम् खण्डानि १० १० कात्यायनमहर्षिप्रणीतं शुक्कयज्ुःप्रातिशाख्यं भाष्यं खण्डानि ६ सांख्यकारिका चन्द्रिकाटीकागाडपाद्- भाष्यसहिता १ O वाक्यपदीयं खण्डानि ३ ३ C रसगङ्गाधर: खण्डानि ८ ८ O. परिभाषावृत्ति: खण्डे २ २ वैशेषिकदर्शनं किरणावलीटीका संवलितप्रशस्तपा दप्रणीतभाष्यसहितम खण्डे २ २ शिक्षासङग्रह: खण्डानि ५ ५ नैष्कर्म्यसिद्धि: खण्डानि ३ ३ महर्षिकात्यायनप्रणीतं शुक्कयजुस्सवानुक्रमसूत्र- म् सभाध्यं खण्डानि ३ ३ ऋुग्वेदीयशौनकप्रातिशाख्यं सभाष्यम १ (बृहत) वैयाकरणभूषणम पदार्थदीपिका च सहितम् खण्डानि ४. ४ विवरणोपन्यास: १ न्यायलीलावती (यन्त्रस्था) O
इन से अधिक अनेक प्रकारकी संस्कृत हिन्दी और अंग्रेजी आदि पुस्तकै हमारे यहां मिलती हैं जिनको अपेक्षित हो नीचे लिखेहुए पतेपर पत्न भेजैं॥। व्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस।
Page 108
विज्ञापनम्।
बनाररासंस्कृतसीरीज़नाम्नी
वाराणसेयसंस्कृतपुस्तकावली ।
-: 0 :-
इयं पुस्तकावली खण्डशो मुद्रिता भवति। अस्यां संस्कृतभाषा- निबद्धा बहवः प्रचीना दुर्लभा उत्तमोत्तमाः केनितदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति। तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये Sपि विद्वांस: शोधयन्ति। एग्रा- हकमहाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य ॥I।) मूल्यं प्रापणव्ययश्च = देयः । अन्यैर्म- हाशयैयेः कानिचित खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां १) मूल्यं प्रापणव्ययश्च =) देय इति॥
व्रजभूषणदास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस।
Page 109
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS: EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE,
UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., C. I. E. AND G. THIBAUT, PH. D. No. 56.
विवरणोपन्यास: विवरणतात्पर्यव्याख्यानरुपः । अपि च सटीका वाक्यसुधा। VIVARANOPANYÂSA, A COMMENTARY ON VIVARANATÂTPARYA ( A Treatise on Vedanta Philosophy) BY ŚRÎ RÂMÂNANDA SARASVATÎ : ALSO VÂKYASUDHÂ BY ŚRÎ ŚANKARÂCHÂRYA, WITH A COMMENTARY BY ŚRÎ BRAHMANANDA BHÅRATİ. EDITED BY PANDIT DÁMODARA ŚÁSTRÍ SAHASRABUDDHE, OF THE GOVT. SANSKRIT COLLEGE, BENARES. FASCICULUS II.
BENARES. UBLISHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & Co. AND SOLD BY H. D. GUPTA, SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPOT. -: 0: PRINTED BY FREEMAN & Co., LTD., AT THE TARA PRINTING WORKS, BENARES. LBRAR 1901.
Page 111
१ सू. ३ वर्णकम् । ९७
व्रतानपेक्षाध्ययनविधिना शिराव्रताङ्गकमुण्ड काध्ययनप्रयोगवत्कर्म- विचारे शमाद्यनपेक्षेणापि विधिना तदङ्गकश्रवणप्रयोगसम्भवात्।
न्याय्यत्वादेक्कमोक्षफलकत्वेन समुच्चयमङ्गीकृत्य कर्मविचारानन्तर्यक्र- मनियमार्थो ज्थशब्द इत्युक्तिरयुक्तेत्याह। समुच्चये Sपीति- फलजिज्ञास्यभेदाब् न क्रमो Sपेकितो Sनयोः। प्रमाणं नैव पश्यामो ज्ञानकर्मसमुच्चये॥ समुच्चये Sपि नैव स्याद्धर्मग्रह्मविचारयोः। पौर्वापर्यस्य नियमो वैपरीत्यस्य सम्भवात्। यवुक्तम एकजिज्ञास्यकत्वेन क्मापेक्षेति, तत्राह। जिज्ञास्थभेद इति- जिज्ञास्यभेद: स्पष्टोत्र विभेदाद्गह्मधर्मयोः। आ्ानन्तर्यावधिस्तस्माद्विवेकादिचतुष्टयम॥ अत्र विचारद्वये घ्रह्मधर्मयोः सिद्धत्वसाध्यत्ववैलतण्यान्नेदः स्पष्टः । प्रमाणवैलक्षण्याच्च जिज्ञास्यभेदः ।धर्मो हि प्रवर्तकवाक्यगम्यः ब्रह्म त्वप्रवर्तकवाक्यगम्यम् अतः क्रमस्यानपेक्षितत्वान्न तदर्थो Sथशब्दः। किन्त्वानन्तर्यार्थक एव।कस्तर्यानन्तर्यावधिरिति चेतू श्रातसाधनस- म्पत्तिरित्याहानन्तर्येति। ननु सो Sन्वेष्टव्य इत्यत्र तद्यथेह कर्मचितो लोकः क्षीयतइति कर्मफलस्यानित्यत्वं ध्रुतं ज्ञानप्रकरणे परीक्ष्य लोकानिति वैराग्यं श्रुतमन्यत्र शान्तो दान्त इति शान्त्यादिकं ध्रुतं म्रह्म वेद ब्रह्मैव भवतीत्यादिफलश्ुतिषु मुमुक्षा लभ््यते एवं विश- कलितविशेषणानां कथमेकश्रवणविध्यधिकारनिमित्ततावगतिरिति तत्राह। तत्र तत्रेति- तत्र तत्र विवेकादि श्रुतमेक्त्र नीयते। सर्वशाख्राप्रत्ययेन विधेरेकत्वनिश्चयात्॥ सर्वशासत्राप्रत्ययन्यायेन यथा उग्निहोत्रादिविधीनां सर्वशाखा- स्वैक्यं तथा सो ऽन्वेष्टव्यः तद्विजिश्ञासस्व श्रोतव्य इत्यादौ सर्वत्र श्रवणविधिरेक इति निश्चीयते। वैराग्यवाक्ये विज्ञानार्थमिति फ- लोक्त्या श्रवणस्थतया सर्वविशेषणानामेकाधिकारनिमित्ततावगति- रिति। यद्यप्येतेनापि विशेषसोन विधेरधिकार्याकाङ्गा शाम्यति तथापि शास्त्रेणासंकीर्तितत्वात्सर्वेषां निमित्तत्वमन्यथा संकीर्तनं व्यर्थ १३
Page 112
९८ विवरणोपन्यासे स्यात्। केचित्तु काम्यकर्मणि कामनाया एव निमित्तत्वान्मुमुच्षैवा- धिकारिविशेषणमितरसंकीर्तनं तु मुमुक्षानुमानार्थमित्याहुः। ननु शान्त्यादीनामङ्गानां कथमधिकारिविशेषणत्वमिति चेतू दी- च्ितो जुहोतीत्यत्र दीक्षायामङ्गत्वविशेषणत्ववदिति भावः।ननु सत्यां मुमुक्तायां श्रवणव्यतिरेकाभावान्न विवेकादीनां विशेषणत्वमित्याश- क्वय मुमुक्षाहेतुत्वेन तेषां विशेषणत्वमित्यभिप्रेत्य कार्यकारणभा- वमाह विवेकादिति- विवेकान्तु विरक्ति: स्यात्ततः शमदमादिकम्। ततो मुमुक्षेत्यंतेषां कार्यकारणता भवेत्। सर्व कार्य सोपादानं कार्यत्वात्तच्ोपादानंलाघवादेकमनादि तथा सर्वे कदाचित् कार्त्स्न्येन विनाशि एकोपादानकत्वात्सुखादिवत्। उपादानं तुनित्यं तभ्नाशे पुनः सृषट्यभावप्रसङ्गादिति तर्कोपोद्वलितया तद्यथेहेत्यादिश्रुत्या कार्यमात्रे नाशदोपदर्शनात्। नित्यवस्त्ववलम्वेन वैराग्यं जायते तत इन्द्रियप्रवृत्त निमित्तरागाभावाच्छमादिकं भवति एवं सर्वतो वैराग्यान्मुमुक्षा प्रवृत्तिपर्यन्ता जायते विषयानुरक्तस्य नि- र्विषयमोक्षेच्छ्ानुपपत्तेः। ततो मोक्षस्य ज्ञानैकलभ्यत्वावगमातू ज्ञा- नार्थी सन् विचारे प्रवर्तते इत्यन्वयव्यतिरेकाभ्यां हेतुहेतुमन्भावेनै- तेपां विशेषणानामधिकारनिमित्तत्वमेतद्विशेषणशून्येन कृतं श्रवणं तु शूद्रकृतयागवन्निष्फलम्। यत्तु भास्करोक्तं सूत्रकारस्य शमादीनां बुद्धिस्थत्वे मानाभावान्नाथशव्देनोपादानमिति। तन्न। श्रवणविधि सूत्रयतस्तत्प्रकरशास्थवाक्यैस्तेपां बुद्धिस्थत्वादिति। ननु तर्ह्यथश- ब्देनैव साधनानां सिद्धत्वादतःशब्दो व्यर्थ इत्यत आह। अथोक्तेति- अयोक्तसाधनासिद्धिं वेदवादरता जगुः। तदा शङ्कानिरासेन हेतुता Sतो विरोचते॥ अथशब्देनोक्ानां नित्या नित्यविवेकादीनामससिद्धिं कर्मजडा: अद्त- य्यं ह वै चातुर्मास्ययाजिन: सुकृतमित्यर्थवादरताः अथ यदल्पं तन्म- त्यमित्यादिव्याप्तेः परमाणुभिर्व्यभिचारं वदन्तो जगु: कृतकस्यापि नित्यत्वं पृथ्वीपरमाणुलौहित्यवदिति। अतो नित्यफलप्रेप्सो: कर्मफ- लाद्वैराग्यमसिद्वम्।नच ब्रह्मणो Sपि नित्यत्वात्तच्छूवणे Sपि पाचिकी प्रवृत्ति: स्यादिति वाच्यम् । फलाभावात् । न च जीवस्य ब्रह्मैक्यं विरोधात्। नापि ब्रह्मसंयोगः नित्यसुखार्थिनस्तदन पेहत्वातू। न च जीवस्य स्वभिन्नव्रह्मनिष्ठसुखप्रत्यक्षं युक्तम ।
Page 113
१ सू. ३ वर्णकम् । ९९ न हि जीवः स्वनिष्टस्वरूपं वा मुक्ती नित्यं सुखमनुभवतीत्ति युज्यते योग्यानुपलब्ध्या नित्यसुखाभावनिश्चयात्। न च दुःखाभा- वार्थमात्मश्रवणे प्रवृत्तिरिति वाच्यम। सकलसुखविरोध्यवस्थापेक्ष- या स्वल्पदुःखयोगे Sपि देवादिभोगस्य श्रेयस्त्वालू। तस्मादधिकार्य- भावान्मोक्षशास्त्रं नारम्भणीयं नित्यफलार्थिनां कर्मण्येव प्रवृत्तेरिति प्राप्ते तदाशङ्कानिरासेन विवेकादीनां ब्रह्मजिज्ञासाहेतुत्वमतःशब्देन समर्थ्यते इत्यर्थः। परमाणुतल्लीहित्ययोर्नित्यत्वे मानाभावाद्यदल्पं यश्च कृतकं तदनित्यमिति न्यायविरुद्धा चातुर्मास्यश्रुतिर्विध्यनपेक्षितं कर्म फलनित्यत्वं न प्रमापयति उक्तन्यायोपेता तद्यथेहेत्यादि श्रुतिः श्रव- एविध्यपेक्षितं कर्म फलानित्यत्वं प्रमापयतीति ततो वैराग्यं सिध्यति। एतेन स य आत्मानमेव ळोकमुपास्ते न हास्यकर्म क्षीयते इति श्रुति- व्र्याख्याता। फलनित्यत्वस्याश्रुतेर्न्यायविरोधे कल्पनानुपपत्तेः। कर्म- पदेनात्रोपासनानुवादेन ज्ञानद्वारा Sत्षयफलकत्वेन स्तुतिकरणातू। अनेवंविन्महत्पुण्यं कर्म करोति। तद्वास्यान्ततः क्षीयते इत्युक्तेश्व। न कर्मफलस्य नित्यत्वं न व्यतिरेकमुखेनात्रात्मविदा कृतं कर्माक्षय- फलकमुच्यते इति समुच्चय इत्यपि वाच्यम् । नान्यः पन्था इत्यादि- ना मुक्तावुपायान्तरनिषेधादत एव महत्पुण्यमिति प्रकृतत्वान्न हा- स्य कर्म च्ीयते इत्यभ्रिहोत्रादिपरामर्श एव नात्मोपासनाया इति नि- रस्तम। निषेधश्रतेर्बलवत्वाद्। यत्तु फलाभावान्न ब्रह्मविचारे प्रवृ- त्तिरिति। तदसत्। ब्रह्म वेद ब्रह्मैव भवतीत्यादिश्रुत्या खप्रकाशानन्द- ब्रह्मभावस्य सत्वाद्धर्माणां कल्पितत्वेन बिम्बयोरैक्ये विरोधाभावाद- नाद्यविद्यावृतत्वेनानुपलब्धिसम्भवात्। न चात्मनः सुखत्वे ऽहं सु- खीति न स्यादिति वाच्यम। शुभकर्मोपार्जितवृत्तिकृतभेदेन तथानु- भवत्वोपपत्तेः। न च मुक्तीभेदाभावादहं सुखीति न स्यात्तथा च पुरुषार्थतेति वाध्यम। सुखापरोक्षानुभवस्यैव पुरुषार्थत्वान्न हि सु- खात्मनोर्भेद: कस्य चिदिष्टः ऋते कुतार्किकबलीवर्दादित्यलम्। त- स्मादतःशब्दवलाद्विवेकादीनां ब्रह्मजिज्ञासाहेतुत्वं सिद्धमित्यधि- कारिणा सा Sवशयं कर्तव्येति भावः। ननु भाष्यकारव्रह्मणो जिज्ञासेति पष्ठीसमासः किमिति दर्शितः धर्माय जिज्ञासेतिवत् सम्भवादित्यत्राह। इच्छाप्राधान्यमिति- इच्छाप्राधान्यमाश्रित्य पष्ठी कर्मणि भाषिता। प्राक् चतुर्थीसमासस्तु विचारापेक्षया कृतः ॥
Page 114
१०० विवरणोपन्यासे इच्छाया अपेक्षितकर्मफलयोरक्यात् पष्ठ्या प्रधानत्वेन कर्मोक्ती फलं सिध्यसीति षष्ठीसमास: कृतः। विचारप्राधान्ये तु कर्मफलत्वयो- भेदात् केशात्मकविचारस्यादी फलस्यापेक्षत्वाद्धर्मायेति चतुर्थीस- मास: पूर्वतन्त्रे कृतः।अर्थाद्वेदवाक्यानां कर्मत्वलाभादित्यर्थः । ननु जातिजीवकमलासनवेदपरेपु ब्रह्मशब्दः प्रयुज्यते तत्र सूत्रे ब्रह्मशब्दार्थ: क इति चेत्।जगज्जन्मादिकारणं परमिति ब्रूमः । मुमु- क्षुभि: तस्यैव जिज्ञास्यत्वाद्वक्ष्यमाणलक्षणादिसम्भवाच्चेत्यभिप्रेत्याह। जात्यादिरिति-
षष्ठी न स्यात्प्रधानस्य ग्रहाच्छेषोर्थसिद्धिकः ॥ ब्रह्मण इति कर्मणि षष्ठीत्युक्तं वृत्त्यन्तरे तु शेपलक्षणा व्याख्याता तां निरस्यति शेषगोचरा पष्ठी न स्यादिति। सम्बन्धसामान्यं शेष: तस्मिन्षष्ठ्या Sभिहिते विशेषाकाङ्कायां जिज्ञासायाः कर्मापेक्षित- मिति कर्मत्वलाभ इति वृत्तिकारमतम्। ननु कर्मणि द्वितीया कर्तृकरणयोस्तृतीया सम्प्रदाने चतुर्थी अ्प्रपादाने पञ्चमी अधिक- रणे सप्तमति विभक्तिपञ्चकाभिहितेभ्यः कर्मत्वादिकारकसंबन्धे- भ्यो ऽन्यः स्वस्वामित्वादिः शेष इति शाब्दिकोक्तिविरुद्धं मतमिति चेतू। उच्यते। यथा देवदत्तस्य स्वमिति सम्बन्धसामान्यवाचि- पदे षष्ठ्या: स्वत्वादिविशेषसम्बन्धवाचिना Sन्विताभिधायित्वं न तथा कर्तृत्वकर्मत्वादिकारकसम्बन्धवाचिपदेनान्विताभिधायित्वं देवद- त्तस्य गच्छति देवदत्तस्य गम्यते इति वा प्रयोगे तिडाद्यभिहि- तकर्तृत्वादिना षष्ठ्यर्थसामान्यस्यान्वयाप्रतीतेरिति शाब्दिकाभि- प्रायः । अतो न विरोधः । कारकसंबन्धवाचिपदाभावे पष्ठचा तदाच्ेपसम्भवादिति तन्मतमत्रायुक्तं कर्मत्वस्य षष्ठ्या साक्षाद- भिधानसम्भवेनापेक्षायोगात्। ननु ब्रह्मसम्बन्धिनां लक्षणप्रमाणा- विरोधसाधनफलानां जिज्ञास्यत्वेन प्रतिज्ञासिद्धये शेपे पष्ठी युक्ता अतः कर्मत्वाक्षेप इति चेतू न । कर्मणि षष्ठ्या प्रधानस्य व्र- ह्मणो जिज्ञास्यप्रतिज्ञायां सत्यां यैर्विना ब्रह्मज्ञानं न सम्भवति तेषा- मर्थसिद्धत्वात्। न हि शेषस्य मुख्योक्तिः प्रधानस्य त्वाच्षेप इति युक्तं सत्यां गतावित्यर्थः । तद्विजिज्ञासस्वेति सूत्रमूलश्रुती ब्रह्मणः कर्मत्वं व्यक्तं निर्दिष्टम। ननु जिज्ञासापदं योगेन ज्ञानेच्छावाचकं वि- चारलक्षकमित्युक्तं तत्रेच्छाया: फलविषयत्वात् ज्ञानस्य फलत्वं व-
Page 115
१ सू. ३ वर्णकम् । १०१ क्व्यं तन्न युक्तम। इच्छाया ज्ञानसाध्यत्वेन कर्मफलत्वायोगादित्यत आाह। झातुमिति- जातुमिच्छेति चेच्छाया: फलमूलविवेचनम्। प्रमातृव्यापृतिज्ञांनं तद्यक्तं स्फुरणं फलम् ॥ शातुमिच्छा जिज्ञासेत्याविभाष्ये Sवयवार्थकथनेनेच्छाया: फल- मूलज्ञानयोर्विवेचनं कृतं तत्रावाप्तिपर्यन्तं ज्ञानं सन्वाच्यायाः इच्छाया: कर्मेति फलोक्ती सत्यामर्थादापातज्ञानं मूलमित्युक्तं भवति तत्रावगतिरभिव्यक्तं चतन्यं तदभिव्यञ्जिका अपरोक्षवृत्तिज्ञनश- ब्दार्थः । शव्दात्परोक्षज्ञानमेवेति मते शाब्दमापातज्ञानं मूलं साक्षात्कार: फलम् । शब्दादपि अपरोक्षमिति मते पुरुषापरो- क्षज्ञानं मूलम । अप्रतिवद्धापरोक्षज्ञानं फलमिति विवेकः । ननु ज्ञानावगत्योर्न भेद: वादिनां विप्रतिपत्तेरित्यत आ्र्पाह प्रमात्रिति। घटः स्फुरतीति प्रमाणफलं प्रत्यक्षं तत्कर्तृव्यापारजन्यं कारकचक्रं फल- त्वात्। कुठारादिसाध्यवृक्षभेदनवत्। न च हेत्वसिद्धिः। ज्ञानेना- वरणनिवृत्तिरूपाभिव्यक्तिद्वारा चैतन्यस्य साध्यत्वेन कारकचक्र्कफ- लत्वात्। न च ज्ञानमेव फलमित्यप्रयोजकता कारकसमुदायफलस्य प्रातिस्विकव्यापाराभावे जन्मानुपपत्तेः।तत्रयः कर्तृव्यापारस्तज्ज्ञानं समुदायफलं तु स्फुस्णं संविदवगतिरिति चोच्यते। असङ्गात्मनि व्यापार: कथमिति चेत्। अध्यासपरिनिष्पन्नान्तःकरणसंपिण्डित- स्यात्मनः प्रमातृव्यापारो ज्ञानमिति ब्रूमः । यद्यपि ज्ञानं कारकचक्र्- साध्यं तथापि न फलं न हि गमनमेव कारकफलं किन्तु गन्तव्यप्रा- पिः। एवं ज्ञापनाज्ञानद्वारा ज्ञेयस्फूर्तिरिति संक्षेपः । अत्र वृद्धा: अर्थजवृत्तिप्रतिविम्बितं चैतन्यं फलमित्याङ्कः। अन्ये तु साक्ष्यभेदेन वृत्त्यभिव्यक्तं विषयावच्छ्विन्नचैतन्यं फलमिति। एवं भगवान् भाष्य- कार: सूत्रस्यावयवार्थमुक्तता तस्माद्गह्म जिज्ञासितव्यमिति विचार- कर्तव्यतां वाक्यार्थ बभापे। तत्रेयमाशक्का समुल्लसति। किमिदं सूत्र विचारात्मकशास्त्रात् वहिर्भृत्वा शास्त्रारम्भकम। सूत्रस्यारम्भ: के- नेति वक्तव्यम। स्वेनैव चेदात्माश्रयः ससिद्धी स्वस्यारम्भकत्वावू। अन्येन चेदनवस्थेति। तत्राह शास्त्रमध्यगतं सूत्रमिति- शास्त्रमध्यगतं सूत्रं सानुबन्धचतुष्टयम। विचारं कार्यमाहातः कर्तव्यः सो Sधिकारिगा॥ अध्ययनविधिवत् श्रवणविधिरेव स्वापेक्षितानुबन्धं निर्णायक-
Page 116
१०२ विवरणोपन्यासे न्यायवि चारात्मकमाद्यसूत्रमारम्भयति। अत पवास्य श्रुतिसङ्गतिः। अ्रनेन सूत्रेण श्रवणविधे: स्वार्थे वेदान्तविचारकर्तव्यतारूपे सिद्धे सति विचारा त्मकशास्त्रं प्रवर्तते इति शास्त्राध्यायादिसङ्गतयः।इदानी वर्णितं सूत्रार्थ वदन् फलितमाह। सानुबन्धेति। मुमुक्षुर्हि मोक्षोपायं चिकीर्षति। तत्रज्ञानस्यैव श्रुतातुपायत्वावगमात् तस्य कर्तुमशक्य- त्वात्तदिच्छायाश्च सिद्धत्वात् कर्तव्यत्वायोगात् सूक्ष्मवस्तुविज्ञाने तत्प्रमाणविचारं कर्तव्यं पश्चाद्वेदान्तविचार: कर्तव्यतया Sवगच्छ- तीति तन्नियमार्थः श्रवणविधिः। ब्रहाज्ञानाय वेदान्तवाक्यविचार: कर्तव्य इति तत्राज्ञातत्वेन ब्रह्मविषयः ज्ञातत्वेन प्रयोजनं तत्कामो अधिकारी एतेषां यथायोगं शास्त्रेण सम्बन्ध इति। तस्मादनुबन्धस- द्भावादधिकारिणेदं शास्त्रं श्रोतव्यमिति सिद्धम्।। इति तृतीयं वर्णकं समाप्तम् i
नन्वेवं शास्त्रारम्भस्य सिद्धत्वादग्रिमसूतं व्याख्यायतां किं चतुर्थवर्णकेनेत्यत आह। व्रह्मेति-
अनारभ्यमिति प्राप्ते वर्णकान्तरमुच्यते। आपाततः प्रसिद्धत्वात्सम्भवेद्विपयादिकमू । आदी तञ्रितयम वाच्यं प्रवृत्त्यङ्गत्वकारणात् ॥ वेदान्तशास्त्रमारभ्यं न वेति सन्देहे विषयाद्यसम्भवान्नारभ्यमिति प्राप्तम्। तथा हि। ब्रह्म यदि प्रसिद्धं तर्हि नास्य शास्त्रस्य विषयः अज्ञातत्वाभावात्। नापि प्रयोजनम् अज्ञानाभावेन तन्निवृत्तेरसम्भ- वात्।अथाप्रसि्विद्धं ताहि तदुद्देशेन विचारासम्भवात् विचारापेक्षेवे- दान्तैस्तत्प्रतिपादनमशक्यमिति शास्त्रेण ब्रह्मणस्तज्जन्यज्ञानविषय- त्वरूपसम्बन्धाभाव: फलाभावश्च। ज्ञानासम्भवेनाज्ञानानिवृत्तिरिति एतन्निरासार्थ चतुर्थवर्णकमित्यर्थः । निरासप्रकारमाह। आपातत इंति। यद्यपि प्रथमं वेदान्तैर्व्रह्मज्ञानं भवति तथापि तदनवधारणा- त्मकमेवाग्रे संशयदर्शनात्। तथा च केवलप्रमाणादनिश्चिते डर्थें तर्कस्य प्रमाणसहायत्वाद्वैदान्तैः सन्दिग्घतया प्रसिद्धं ब्रह्मोद्दिश्य तर्करूपघिचारे विधिसम्भवाद्विपयादिसम्भवाच्च स कर्तव्यः। ननु सर्वज्ञवादरायणप्रणीतत्वेन शास्त्रस्य विषयादिमत्वसिद्धेः समन्व-
Page 117
१ सू. ३ वर्णकम् । १०२ याद्यग्रिमविचारे विषयादेर्विशिष्य ज्ञानसम्भवात् भाष्यकारा- णामादी विषयाद्यनुबन्धचिन्ता निष्फलेति चेन्न । अधिकारि- प्रवृत्त्यर्थत्वात्। ननु शास्त्रस्यादी प्रवृत्त्यङ्गत्वेन फलमेव वाच्यम्। इष्टसाधनताज्ञानस्य प्रवर्तकत्वान्न विषयसम्बन्धी वक्तव्यौ फल- ज्ञाने तयोरन्तर्भावात्। कारकसाध्यविषयस्थातिशयो हि फलं तज्ज्ञाने फलशालिविषयो जात एव भवति। स कारकसम्बन्ध एव यथा कुठारस्य वृक्ष इति चेन्न। विषयस्य द्विविधत्वात्। तत्र फल- शालिविषयः फलज्ञानें ऽन्तर्भवति नान्यसाधारणाख्यः।अतःसोSवश्यं वाच्य: प्रवृत्तिनियमाय यदि फलमात्रमुच्येत तदा तच्छालिविषयस्य ज्ञाने उपि तस्य शास्त्रान्तराप्रतिपाद्यताया अज्ञानात्तत्रापि प्रवृतिः स्यातू। यथा चिकित्साज्ञानार्थिनश्चरकसुश्ुतात्रेयादिग्रन्थेष्वनियता प्रवृत्तिः अतः शास्त्रान्तरप्रवृत्तिनिरासाय तदप्रतिपाद्यतारूपविषय- ता वक्तव्या एतच्छास्त्रे प्रवृत्तिसिद्धये एतत्प्रतिपाद्यतारूपसम्बन्धो ऽपि वक्तव्य इति त्रितयमादी वाच्यमित्यर्थः।ननु वेदान्तविषयो ब्रह्म न न्यायविचारात्मकशास्त्रस्य विषयो नापि तेन सम्बन्धः शास्त्रस्थ- न्यायेः प्रमाणादिसम्भावनाविषयकत्वात्। ननु यथा प्रयाजाद्ङ्गा- ड्विनोरेकस्वर्गफलकत्वं तथा विचारवेदान्तयोरेको ब्रह्मावगमः फलं शब्दशक्तितात्पर्यविचारस्य प्रमाणस्वरूपोपकार्यङ्गत्वात्प्रमेयविचा- रस्य फलोपकार्यङ्गत्वादेवमवगमहेतोर्विचारस्यावगम्यब्रह्मविषय इ- त्येकदेशिनःन च शास्त्रस्य भावनैव विषय: अव्यवधानात्। सम्भा- वनावुद्धिव्यवहितं ब्रह्म न विषय इति वाच्यम। व्यवाितस्याप्युद्दे- शयतया विषयत्वदर्शनात्। यथा देवदत्तकर्तृकस्योद्यमननिपतनरूप- व्यापारस्याव्यवधानेन कुठारकर्मस्य कुठारव्यापारव्यवहितो Sपि वृक्ष उद्देश्यद्वैधीभावफलशालितया कर्म भवति तद्वत्। ननु कर्तृकरण- कर्मणां को भेद इति चेदुच्यते। सर्वाणि कारकाणि स्वस्वव्यापारे कर्तृणि अवान्तरभेदेन कर्त्रादिव्यवहारः। तत्र स्वतन्त्रः कर्ता। फलं प्रति सन्निपत्योपकारकं करणम्। परसमवेतक्रियाफलशालि कर्मोति। नैतद्युक्तं विचारस्य वेदान्ताङ्गत्वे मानाभावातू। न हि श्रुत्यादिकम- आ्रास्ति न वा उन्वयव्यतिरेकी विना विचार शाब्दबोधदर्शनातू। न च संशयविपर्ययोत्तरशाब्दवोधे विचारो हेतुरिति वाच्यम। निर्दो- पशव्दस्य संशयाद्यह्ेतुतया निर्णयस्य शव्दैकसाध्यत्वात्। शव्दशक्ति- तात्पर्यादिविचारस्तु रात्ताद्यज्ञानभ्रमादिपुरुषापराधनिबन्धनसंश-
Page 118
१०४ विवरणोपन्यासे यादिनिरासहेतुः। निरस्ते प्रतिबन्धे शब्दादेव ज्ञानं जायते जात वा नि- शचलमवतिष्ठते। तस्माद्विचारस्यावगमहेतुत्वाभावान्न वेदान्तगम्यद्र- हविषयकत्वमिति शङ्कते। ननु वेदान्तविषय इति- ननु वेदान्तविषयो विचारविषय: कथम्। अङ्गाङ्गिनोः फलैक्याव्ेद्विचारो नाङ्गमिष्यते॥ सत्यं शक्तितात्पर्यावधारणेन विचारस्य प्रतिबन्धनिरासे उप- चय: परन्तु निरस्ते प्रतिबन्धे शाव्दज्ञानं निर्णयात्मकं भवतीति उपचाराद्विचारस्य ब्रह्मनिर्णयहेतुतया वेदान्तैः समानविषयत्वमिति सिद्धान्तयति अ्र व्रूम इति- अत्र व्रमो विचारो हि प्रतिबन्धार्नरासतः। वेदार्थज्ञानहेतुत्वाद्वेदैकविषयो भवेत्॥ तात्पर्य शाब्दवोधे हेतुरिति तार्किकमतं दूषयति तात्पर्यमिति- तात्पर्ये तन्मतिर्वापि शाब्दवोधे न कारएम। प्रतिबन्धनिरासार्थ तात्पर्यज्ञानमि ्यते। किमज्ञातं तात्पर्य वा क्यार्थसंसर्गज्ञानहेतुः तात्पर्यज्ञानं वा।नाद्यः। सात्पर्यविचारवैयर्थ्यप्रसङ्गातू।न द्वितीयः । वाक्यार्थज्ञानात्प्राक् तद्वि- षयकस्य तात्पर्यस्य ज्ञातुमशक्यत्वात्। न च पदार्थेषु ज्ञातेषु योग्यतया संसर्गमुत्प्रेक्ष्य तत्र तात्पर्ये ज्ञातुं शक्यमिति वाच्यम्। उत्प्रेक्षाया अनुमि- तित्वे वाक्यवैयर्थ्यात्।न च वैशेषिकमतेनेष्टापत्तिरिति वाच्यम्।प्रकृ- ततात्पर्यज्ञानवैयर्थ्यापातात्। वाक्येनेममर्थ जानामीत्यनुभवविरोधात्। पक्षादिज्ञानबिलम्बाभावातू। अनुमिनोमीत्यनुभवाभावाच्च। न च सा तर्कः। अनारोपत्वात्। न चानारोपोपस्थायलिरङर्थापूर्वोहवत्तर्कत्व- मिति वाच्यम्। तर्कितापूर्वाल्लिङ़ पदसङ्गतिरित्यन ङ्गीकारात्। ननु तर्का- त्मकविचारोपस्थिते ब्रह्मणि सत्यादिपद लक्षणेति सिद्धान्तः न च तदुप- स्थितेस्तर्कत्वे Sप्यारोपत्वमस्ति अवाधादिति चेतू उच्यते। भागत्या- गलक्षणायां पदजन्यविशिष्टवाच्योपस्थितिरेव लक्ष्यभागविषयतया हेतुः।अत्र विशेषणानां कल्पितत्वात् विशेष्यमात्रस्यैवावाधितानधि- गतत्वे सति फलवत्वादित्याद्यनुमानरूपविचारस्य विशेष्यमात्रे ता- त्पर्यग्रहद्वारा लक्षणायामुपयोग इति विचारोपस्थिते लक्षणेत्युच्यते। किं बहूत्त्या Sत्रानारोपे तर्कत्वव्यवहारः स तर्कों Sनुमानमेनेति नाभ्रमस्यातर्कत्वम् अनिष्टारोपस्तर्क इति लक्षणांदित्युपन्यासग्रन्थे उप्यधिकं प्रसङ्गागतमिति क्षन्तव्यम्। नापि सा स्मृतिः। अज्ञातार्थ-
Page 119
१ सू. ४ वर्णकम् । १०५ त्वात्।अतः परिशेषात्सा शाब्दप्रमवेति तात्पर्यज्ञानं जातायां तस्यां न हेतुः। अपि च तात्पर्यज्ञानं भ्रमादिमूलवाक्यार्थभ्रमादिप्रतिबन्धनि- रासार्थमित्यर्थः । एवं वेदान्तानां विषयभूतमापाततः प्रसिद्धं ब्रह्म वेदान्तापेक्षितन्यायविचारस्या पि परस्परया विषय इत्युक्तम । तत्र कथं वेदान्तेघ्वापाततः प्रसिद्धि: न तावत् ब्रह्मरव्दात् । ब्रह्माप्रसि- द्धया सङ्गतिग्रहाभावात् नापि वाक्यात्पदार्थाज्ञानादित्यत आह। इत्यादाविति -- इत्यादी ब्रह्मशव्दस्य सार्थकत्वे विनिश्चिते। विशिष्टार्थप्रसिद्ध्यर्थ लक्षितं निगमादिकम्॥ ब्रह्मशब्दस्य श्रुतिसूत्रयोः प्रयोगान्यथानुपपत्या कश्विदर्थो उस्तीति निश्चीयते प्रमाणवाक्ये व्यर्थशब्दप्रयोगायोगात् तत्रार्थवि- शेषाकाङ्कायां जात्यादेर्निरस्तत्वान्निगमनिरुक्तव्याकरणानां शेषसि- द्धिहेतुत्वात् प्रकृते च बृंहतेर्धातोर्वृद्धी स्मरणात् निरवधिकमहत्त्व- संपन्नं वस्तु ब्रह्मशब्दार्थ इति निश्चीयते। निगमो नाम शब्दस्य लक्षणां विना प्रकृत्यर्थानुगमेनार्थान्तरे वृत्ति: यथा देहशब्दस्य प्रसिद्धार्थाद- र्थान्तरे उपचयवति प्रयोगः। निरुक्तं नाम शब्दस्य सर्वावयवार्थानुग- मेन रूढ्यर्थादर्थान्तरे वृत्ति: यथा सोमशब्दस्य चन्द्रादन्यस्मिन् उमासहितेश्वरे वृत्तिः। अस्मिन्नर्थे 5यं प्रत्ययो भवतीति विधानं व्यों- करणं यथा वदनशीलो वादीति ताच्छील्ये इनिप्रत्ययविधानम्। ननु बृंहणादू व्रह्मेति प्रवृद्धवस्तु यत्किञ्चित्प्रतीयते न पदार्थविशेषः तत्र वाक्यार्थनियमः कथमिति चेदुच्यते वाक्यार्थनिर्णयार्थ प्रसिद्धार्थकैः सत्यादिपदान्तरैः सह ब्रह्मशब्दस्य प्रयोगानुपपत्तिरेव निगमादिबले- नार्थमाददाना सन्निहितानन्तादिपदार्थान्वययोग्यनिरवधिकमहत्त्व- संपन्नं वस्तु ज्ञापयति सङ्कोचकाभावाच्च ततो वाक्यार्थनियम इति। अत्रायं निष्कर्षः। श्रौतादिप्रयोगानुपपत्या उर्थमात्रस्य निश्चयः निग- मादिना वृद्धिरूपार्थस्य पदान्तरासत्या निरवधिकवृद्धेरिति। ननु ब्रह्मणो मह्त्वमात्रेण कथ मुमुक्षुजिज्ञास्यत्वमित्यत आह। नित्यशु- द्धमिति- नित्यशुद्धं बुद्धमुक्तं सर्वज्ञं सर्वशक्तियुक्। ब्रह्मशब्दबलादेव वस्त्वेताद्टक् प्रतीयते। निरवधिकमहत्त्वं देशकालवस्तुकृताल्पत्वस्याभावरूपं नित्यशब्दा- र्थः। तथाप्यविद्यादिदोषवत्वे अल्पत्वं स्यादिति न निरवधिकं मह- १४
Page 120
१०६ विवरणोपन्यासे रवं लोके गुणहीनस्य दोषवतश्चाल्पत्वप्रसिद्धेः अतो Sस्य ब्रह्मशद्द- बलादेव सर्वदोषराहित्यं सर्वगुणवत्वं च सिध्यतीति मत्वाह। शुद्ध- मित्यादिना। शुद्धिर्दोषाभावः तस्यापेक्षिकत्वं वारयति। मुक्तमिति। वन्धकाले ऽपीति शेषः। जडत्वेनाल्पत्वं प्रत्याह। बुद्धेति पाठस्तु भा- व्यानुसारी चेतनत्वेपि ज्ञेयस्य कार्यस्य वा डवशेषे Sल्पता स्यात्तां निरस्यति। सर्वज्ञ सर्वशक्तियुगिति। निरस्तसमस्तद्वोपत्वात्परमपुरु- पार्थत्वाञ्च व्रह्मणो जिज्ञास्यत्वमिति भावः।जात्यादेर्व्रह्मशब्दार्थत्वे Sपि न नित्यशुद्धादिरूपत्वं धर्मिग्राहकमानविरोधात्। ब्रह्मणस्त्वादी शब्दादेव प्रसिद्धिरिति वाधकाभावान्निरङ्कशं सर्वरूपत्वेन महत्वमि- ति मन्तव्यम्। ननु स्वरूपतटस्थलक्षणश्रुतिवाक्याभ्यां ब्रह्मनिर्णयात् ग्रह्मपदव्युत्पत्यैवादौ प्रसिद्धिरिति कथमिति चेतू उच्यते। पदार्थज्ञा- नातू प्राक् वाक्येन निर्णयायोगादत्र सूत्रे श्रुती वा ब्रह्मपदव्युत्पत्या प्रसिद्धिः। यदीत्थं नोच्यते जन्मादिसूत्रात्प्राक् लक्षणवाक्यस्यानि- रजायकत्वाच्चात एव पदात्प्रसिद्धेरमानत्वात् जिज्ञासोपपत्तिरिति सुस्थम। इदानीं अज्ञानाविरोधेन ब्रह्मण: प्रसिद्धी हेत्वन्तरमाहापि चति- अपि चात्मत्वतो ब्रह्म प्रसिद्धं किन्तु वादिनाम्। विवादात्तत्र जिज्ञासाविवादस्त्वधुनोच्यते ॥। अस्ति तावत्सर्वप्राणिनामहमित्यात्मनि प्रसिद्धिः सा वस्तुतो ब्रह्मगोचरा अयमात्मा ब्रह्मेत्यादिश्रुत्या ब्रह्मणः आत्मत्वावगमातू। न चात्यन्ताभेदे सामानाधिकरण्यायोगात् भेदाभेद: श्रुत्यर्थ इति वा- च्यम्। कल्पितभेदेनात्र सामानाधिकरण्यसम्भवात्। तत्र प्रसिद्ध- जीवानुवादेनाप्रसिद्धब्रह्माभेदबोधनादहमिति वस्तुतो भवति ब्रह्म- प्रसिद्धिः। यथेदं रजतमिति वस्तुतः शुक्तिप्रसिद्धिरित्यर्थः । ननु ब्रह्मणो निःसामान्यविशेषात्प्रसिद्धङ्गीकारे सर्वात्मना Sपि प्रसिद्धे: शास्त्रविषयत्वं न स्यादिति शङ्कते। किन्त्विति । यदि सर्वात्मना प्रसिद्धि: स्यात्तर्हि वादिविवादो न स्यात्। न हि शरदिन्दुकुन्दध- वलिम्नि निविडनीरदनीलिमनि वा विवदन्ति वादिनः । अतो विशेष- विप्रतिपत्तेः सामान्यरूपेण प्रसिद्धं ब्रह्म कि तत्सामान्यं देहेन्द्रिया- द्यनुगतं तद्धिष्ठानचैतन्यरूपं पराग्घटादिव्यावृत्तं प्रत्यत्कमिति ब्रमः ! यद्यपि चैतन्यं सर्वानुगतं तथापि जीवसाक्षिचैतन्यं देहादिषु मानमनपेक्ष्यानुगतत्वात् घटादिपु तदभावात् भवति प्र-
Page 121
१ सू. ४ वर्णकम् । १०७ त्यकूत्वं सामान्यं तत्सम्बन्धाद्देहादिष्वेवात्मत्वभ्रमो वादिनां तत्र प्रत्यकुत्वेन प्रसिद्धे वस्तुनि देहादिविशेषनिरासेन पूर्णानन्दव्रह्मरूपो विशेष: शास्त्रेणैव प्रतिपाद्यते इति भवति शास्त्रस्य विशेषो विषय: भ्रमाविरोधेन भासमानाऽधिप्ठानांशः सामान्यं भ्रमविरोध्यज्ञातांशो विशेष: अंशभेदस्तु व्रह्मणि चैतन्यपूर्णादिपदवाच्यभेदेन कल्पित इति सर्वमनवद्यम। अधुना सङ्गेपेण विप्रतिपत्तयः उपन्यस्यन्ते । यथा गोशव्दाव्यभिचारात् गोव्यक्तयाकृतिजातिपु शब्दार्थत्वंविप्र- तिपत्तिः । तथा देहादिष्वहंप्रत्ययाव्यभिचारादात्मत्वविप्रतिपत्तिः सम्भवति । तत्र देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता लौ- कायतिकाश्च विप्रतिपन्नाः मनुष्यो Sहमित्यनुभवात्।भूतचतुष्टयाति- रिक्ते वस्तुनि मानाभावादिति इन्द्रियाणि प्रत्येकमात्मेत्यपरे। काणो डहमित्याद्यनुभवात् इन्द्रियाणां रूपादिज्ञानाश्रयत्वस्यैवान्वयव्यति- रेकाश्यां जघन्यकरणत्वापेक्षया कल्पनीचित्याबहूनामपि वरगोष्ठी- न्यायेन स्वसाधारणविषयभोगकमोपपत्तेरेकदेहाश्रयत्वेन द्रष्टा Sहं श्रोतंत्यादिप्रत्यभिज्ञोपपत्तेश्चेति मन एवात्मेत्यन्ये। यत इन्द्रियान्त- राणामभावे Sपि रवने च भोगदर्रानात्। बौद्धास्तु विज्ञानमात्रं क्षणिकमात्मेत्याहुः । तथा हि देहेन्द्रियाणां ज्ञेयत्वेनानात्मत्वात् मनसो Sपि समनन्तरप्रत्ययमात्रत्वात् अन्यस्य विज्ञानाश्रयस्याननु- भवाद्विज्ञानमेव स्वरसभङ्गुरं हेतुफलभावेनाविरतोदयत्वातू सो Sहमिति प्रत्यभिज्ञास्पदं कर्मफलास्पद चेति वदन्ति । माध्यमिका- स्तु विज्ञानातिरिक्तात्मनो निरस्तत्वात् विज्ञानस्यापि सुषुप्तावद- र्शनातू तदानी निराकारज्ञानसन्तती मानाभावात् यज्जञान तत्सा- कारमिीति नियमादुत्थितस्याहमिति निर्विषयासद्विकल्पमात्रमिति शून्यमेवात्मेति सङ्गिरन्ते। कणभक्षाक्षपादपक्षपातिनस्तु अस्ति देहादिव्यतिरिक्तः स्थायी कर्ता भोक्तेत्याहुः। तथा हि अहमुल्लेखवि- पयो ज्ञानसुखाद्याश्रय आत्मा सर्वेरनुभवबलादेष्टव्यः न च सुषुप्तौ तदभाव: यो डहं पूर्वद्युर्विश्वेशमद्राक्षं सो Sहमद्य विन्दुमाधवं द्रक्ष्या- मीति अवाधितप्रत्यभिज्ञया सुषुप्ती सत्तानिश्चयात्। अतो न शून्य- स्यात्मत्वं नापि विज्ञानस्यात्मत्वं मम विज्ञानमित्यात्मभिन्नत्वानुभ- वादहं विज्ञानमित्यप्रतीतेः । सोऽहमिति प्रत्यभिज्ञायाः क्षणिके Sनुप- पत्तेः। मुख्यैक्ये प्रत्यभिज्ञायमाने निरन्तरोत्पत्तिसादृश्ययोः कल्पना- नौचित्याच्च। किञ्च कदलीफलदर्शनं तद्रसानुभवः ततः सुखं पुनः
Page 122
१०८ विवरणोपन्यासे फलान्तरदर्शन व्याप्तिस्मरणं फलत्वेन सुखहेतुत्वानुमितिः ततो राग: प्रयत्न इत्यष्टक्षणेष्वेक आत्मा स्थिरो ऽङ्गिकार्यः । अन्यानुभूते अ- न्यस्य सुखाद्ययोगात्। चैत्रमत्रादिसन्तान भे दे ध्व न्य दृ ऐ्ट् अन्यस्य स्मरणाद्यदर्शनात्। तस्यात्मनो Sग्रे नाशकांशाभावान्नित्यत्वमिति। म- नो Sपि नात्मा तत्राप्यहं मन इत्युललेखाभावात्। युगपज्ज्ञानानुत्पत्या तस्य करणत्वेनैव क्लप्तत्वाञ्चेति। एवमिन्द्रियाणि नात्मा ममैतानीति प्रतीतेः। द्रष्टाहं श्रोतेत्यैक्यप्रत्यभिज्ञानात्। एकदेहस्थत्वेन प्रत्यभिज्ञा- ने चैकप्रासादस्थानामैक्यप्रत्यभिज्ञाप्रसङ्गाल्लाघवेनैकस्यैव रूपादिज्ञा- नाश्रयत्वौचित्यात्काणो Sहमित्यादेर्भ्रमत्वादिति।तथा देहो Sपि नात्मा स्वप्नादी देहभेदे ऽप्यहमित्यनुवृत्तेः । जातमात्रस्य स्तन्यपानप्रवृत्ति- दर्शनात्। स्तन्यपानं तृप्तिसाधनमिति व्याप्तिस्मृतिमूलानुभवार्थ जन्मान्तरसम्बन्धकल्पना। मम देह इति अवाधितभेदानुभ- वात् मनुष्यो Sहमिति भ्रमः । तस्मादहमुललेखप्रत्यभिज्ञादिना देहेन्द्रियमनोविज्ञानशून्यव्यतिरिक्त आत्मा नित्यः सिद्धः । तस्य निर्विकारत्वे भोक्तृत्वायोगात् कर्तृत्वमेष्टव्यम्। एनेन श्ोके कर्त्रन्त- भाग: स्फुटीकृतः । एकशब्द: केवलवाची भोक्तैव केवलं न कर्तेति सांख्यपत्त: स चाग्रे वक्ष्यते। देहादेरनात्मत्वमिदानी प्रकारान्तरेणाह व्यस्तानामिति -- दे हेन्द्रियम नोवुद्धि शून्य कर्त्रे कभोक्तृषु । सर्वज्ञब्रह्मणोरात्मबुद्धिरस्तीह वादिना॥। व्यस्तानां वा समस्तानां भूतानां भोक्तृता कुतः । इन्द्रियादेरपि तथा शून्या तेनात्मता ततः ॥ पृथिव्यादिभूतानां सङ्गातस्तावच्छरीरं देहात्मवादिनां न च भूमौ पार्थिवमेव शरीरं वरुणलोके त्वाप्यं स्वर्गे तैजसंब्रह्मलोके वायव्यमेव न पाञ्चभौतिकं क चिच्छरीरमस्ति प्रत्यक्षाप्रत्यक्षभूतवृत्तित्वे देहस्य घटाकाशसंयोगवद प्रत्यक्षत्वापातादिति तार्किकोक्तिर्युक्ता। अस्मदा- दिशरीरं जलाद्युपादानकं जलाद्युपचयापचयानुविधाय्युपचयापच- यवत्वाद्यदित्थं तत्तथा यथा नैकतन्त्वारब्ध: पटइत्यनुमानातू। अन्न- मशितमित्यादि क्वान्दोग्यश्रुती मांसलोहितास्थिमयदेहस्य भूजलते- जःकार्यत्वोक्तेश्च। पञचभूतात्मके तात शरीरे पञ्चताङ्गते इत्यादिस्मृ- तेश्च। महत्त्वोद्भतरूपाभ्यां देहस्यातीन्द्रियद्यणुकवृत्तित्र्यणुकवत् प्र- त्यक्षत्वोपपत्तेश्च। तस्मात्पश्चभूतारब्धावयवी देहः। तस्यात्मत्वं पूर्व
Page 123
१ सू. ४ वर्णकम् । १०९ निरस्तम।अधुना भूतचतुष्टयसङ्गात एव देह आत्मेति मत निरस्यते। तथाहि सङ्गातः किं भूताभिन्नः भूतातिरिक्तो वा आदे Sपि भूतानां व्यस्तानां भोक्तृत्वं समस्तानां वा तत्र न तावद्यस्तानां युगपत् भो- कृत्वं सर्वेपां भूतानां स्वतन्त्रात्मत्वे सङ्गाताभावप्रसङ्गातू। अथ भि- सात्मनामपि वरगोष्ठीवदङ्गाङ्गितया क्रमेण भोक्तृत्वमिति चेन्न । दष्टान्तवैषम्यात्। वराणां कन्यात्मकविषयस्यासाधारणत्वादेकस्य स्वविषयभोगकाले अन्यस्य गुसभावो युक्त: भूतानाङ्गन्धादिवि- पये साधारणाङ्गाङ्गिभावायोगान्भोगक्मायोगः। यदि भूम्यादिभूता- त्मनाङ्गन्धादयो उप्यसाधारणास्तदा घ्ाता Sहं द्रष्टेति प्रत्यभिज्ञानुप- पत्तिः। नापि समस्तानां भोक्तृत्वं सर्वेषामपि भृतानामसंहतानां भो- कृत्वादर्शनात्। सङ्गाते च निमित्ताभावात्। आगामिभोगस्यास- स्वेनानिमित्तत्वाच्छेपस्य शेष्याक्षेपकत्वात् । सर्वेषामपि भोकृणां भोगे समप्रधानतया सङ्गातायोगात्। न च भूतानां भोक्तृतया भोगं प्रति प्राधान्ये Sपि कर्तृतया शेषत्वात् संघातो Sस्त्विति वाच्यम। संघा- तात्प्राक् कर्तृत्वासिद्ध: संहन्त्रभावाच्च।कार्ये हि कारणानां संहन्तरि संघातो भवति यथा तिलानां ज्वालायां न तु भोगः । नाप्येकस्यैव भूतस्य भोक्तृत्वं विनिगमकाभावात्। एतेन भूतातिरिक्तः संघातो भोक्तेति निरस्तम। संघातस्यावस्तुत्वाच्च। वस्तुत्वे चत्वारि भूता- न्येव तत्वानीति मतहानिरिति। एवं व्याससमासविकल्पदूषणानी- न्द्रियात्मवादे Sपि समानि। एतेन भूतेन्द्रियसंघात आत्मेति प्रत्युक्तम। इन्द्रियादेरपि तथेति न भोक्तृत्वमित्यर्थः। तस्माद्देहादिशून्यान्तेषु ना- त्मत्वमिति उपसहारः। प्रसङ्गादिन्द्रियस्वरूपं निरूपयति। न गोल- कानीति- न गोलकानीन्द्रियाणि नापि तच्छक्तयो Sपि तु। शक्तिमद्ठव्यरूपाषि भौतिकान्यविभूनि च।। गोलकानीन्द्रियाणीति सुगतमतमसङ्गतं गोलकासत्वे Sपि सर्व- स्य शब्दोपलम्भातू। पश्यन्ति पादपा इत्यादि शास्त्राच्च।गोलकशक्तय इति मीमांसकमतमप्ययुक्तम्। लाघवेन शक्तीनामात्मताप्रसङ्गाञ्च। गोलकानामत्रैव भस्मीभावे तच्छक्तीनां विनाशात । तमुक्तामन्तं प्राणो डनूकामति प्राणमनूक्ामन्त सर्वे प्राणा अनूक्रामन्तीतीन्द्रियाणां उक्रान्तिश्चतिविरोधाञ्च। तस्माच्छक्तिमद्रव्याणि तेपूक्तश्रुतिर्मानं तदपरिचयाल्लोकानां गोलकेष्विन्द्रियत्ववुद्धिर्मण्डले आदित्यत्ववुद्धि - वत्। तानि चाहङ्कारप्रकृतिकानीति सांख्याः तदयुक्तं मानाभावातू।
Page 124
११० विवरणोपेन्यासे "त्रिविधो ऽयमहद्कारो महत्तत्वादजायत। इन्द्रियाणां ततः सृष्टिर्गुण- द्वारा महामुने" इत्यादिपुराणवचनमहङ्काराधीनत्वपरम्।अहमित्यभि- मानपूर्वकत्वादिन्द्रिय प्रवृत्तेः नतु तत्प्रकृतिकत्वपरम् अन्नमयं हि सोम्य मन इति। य एप एतस्मिन्मण्डले करणात्मकः पुरुषस्तस्य ह्यंप रस इति परोक्षापञचीकृतभूतप्रकृतिकत्वश्चतिविरोधात्। अतः श्रत्या भी- तिकानान्द्रियाणि। तानि विभून्यपि सांख्या: तदयुक्तं सर्वत्र रूपाछयुप- लब्धिप्रसङ्गात्। नाडीद्वारोक्रान्त्यादिश्रुतिविरोधाज्यातः पररिच्छ्विनानि सवे। न ता इति श्रुतिस्तूपासनेन्द्रियाणां सौरालोकादिवत् व्यापि- त्वाभिप्राया। अत एवोपासनासिद्धा ब्रह्मादयः सर्वमपरेक्षितया डनुभवन्ति। तान्यप्राप्यकारीणीति सुगताः ।तदपि फल्गु। दूरस्था- सम्बद्धरूपाद्युपलब्धिप्रसङ्गात् । चक्षुपः सौरालोकवत् शीघ्रगा-
वीचीतरङ्गन्यायेन शब्दागमनात्।तस्मात्प्राप्यकारीणीति चकारार्थः। मनो नित्यं निरवयवमणु चति तार्किकास्तदसाधु। अन्नमयं मनः एतस्माज्जायते प्राणो मन इति श्रुत्या कार्यद्रव्यत्वेन सावय- वत्वात्। अतो देहव्याप्यनित्यं सावयवत्वाद्दीपवत्सङ्कोचविकास- वश्वेन गजपुत्तिकादिदहप्रवेशयोग्यत। यत्तु ज्ञानसन्ताने Sनुत्तर- ज्ञानकारणं पूर्वज्ञानसमनन्तरप्रत्ययाख्यं मन इति शाक्यमतं तन्मान- हीनमित्युपेक्ष्यम्।आत्मा जडः कर्ता प्रतिदेहं भिन्न इति तार्किकास्तन्न। अत्रायं पुरुपः स्वयंज्योतिरसङ्गो ह्ययं पुरुष उपाधिना क्रियते भेदरूप इत्याद्यनेकश्रुतिभिः सयुक्तिकाभिर्विरोधात्। युक्तयश्चाचा- यैंदर्शिता: सुषुप्त्यनुसन्धानादय इति। मनआात्मनोः स्वरूपमाह। मन इति- मनो Sनित्यं सावयवं सङ्कोचि च विकासि च। आत्मा विभुः स्वप्रकाशः सर्वप्राणिषु चैकलः॥ अनित्यमिति छेदः । आत्मनो विसुत्वमपि आर्रकाशवत्सर्वगत इत्याद्यागमादव। न चाहष्टं स्वाश्रयसंयुक्ताश्रयान्तरे Sग्न्यादावूर्ध्व- ज्वलनादिक्रियां करोति अव्यासज्यवृत्तित्वे सति क्रियाहेतुगुणत्वातू गुरुत्ववत् । स्वाश्रयमात्रे क्रियाजनके नोदनाख्यसंयोगे व्यभिचा- रनिरासाय सत्यन्तम् । गुरुत्वं स्वाश्रयपतत्फलसयुक्तपर्णादी क्रियां जनयतीति दृष्टान्ते साध्यसिद्धिरित्यनुमानसिद्धविभुत्वानुवादत्व- मात्रं श्रुतेरिति वाच्यम। स्वाश्रयासंयुक्ते उप्याकाशे शब्दजन-
Page 125
१ सू. ४ वर्णकम् । १११ कत्ववदद्ृष्टस्य क्रियाजनकत्वसम्भवेनाप्रयोजकत्वान्निरवयवात्मनः संयोगायोगादद्ष्टवदात्मप्रदेशस्य देहादन्यत्रासत्वेनासंयोगातू । केवलात्मसंयोगस्य कार्याहेतुत्वाश्च। तस्मादतीन्द्रियार्थेपागम एव शरणम अनुमानं तदनुग्राहकंन स्वतन्त्रमति द्रष्टव्यम। इन्द्रियादि- स्वरूपकथनं प्रासङ्गिकं समाप्य आत्मनि विप्रतिपत्त्यन्तरमाह। भोक्तारमिति- भोक्तारं केवलं सांख्या आत्मानं प्रतिपेदिरे। ततो Sन्यमीश्वरं के चित्स आत्मा वेदवादिनाम्॥ निरवयवस्यात्मनः स्वतः परतो वा SSगन्तुककर्तृत्वायोगात् कर्तृ- त्वस्य स्वाभाविकत्वे चैतन्यवत्सदा भानप्रसङ्गादनिर्मोक्षापत्तेश्चाक- र्ता आत्मा। नाऽपि बुद्धिस्थकर्तृत्वस्यात्मन्यध्यासः अख्यातिवादित्वात्। अतो दृश्यसाक्षित्वमात्रमात्मनो भोकतृत्वमित्यर्थः । पक्षान्तरमाह। ततो ऽन्यमिति। केचिद्वैशेषिकादयो योगिनश्च जीवाद्भिन्नमीश्वरमिच्छ्- न्ति।तनुभुवनादिकार्ये स्वरूपोपादानादि विज्ञानवत्कर्तृकं विचित्रकार्य वत्वात् प्रासादादिवदित्यनुमानेन लाघवादेकः सर्वज्ञः सिध्यतीति तार्किकाः । योगिनस्तु ज्ञानैश्वर्यतारतम्यं क्व चिद्विश्रान्तं सातिश- यत्वात् परिमाणतारतम्यवदिति निरतिशयज्ञानैश्वर्यशालीश्वर- सिद्धिः।तथा च योगसूत्रम निरतिशयं सर्वज्ञवीजमिति। यत्साति- शयं तन्निरतिशयेनावविनाभूतमिति व्याप्त्या निरतिशयं ज्ञानं सि- ध्यत् सर्वज्ञसिद्धिहेतुरित्यर्थ इति मन्यन्ते। नन्वात्मविप्रतिपत्तिषु अनात्मेश्वरोपन्यासो न युक्त इति चेतू उच्यते। अत्र हि प्रत्यगभिन्ने घ्रह्मण्यखण्डैकर से आत्मत्वसामान्याकारेण प्रसिद्धि: जिज्ञासा तु वि- प्रतिपत्तिद्वारा कथ्यत। तत्रात्मा देहादभिन्नस्तद्भिन्नो वेति विप्रति- पत्तिकोटित्वेन देहादयुपन्यासवदात्मा किमीश्वरादभिन्नो भिन्नो वेति विप्रतिपत्तिकोटित्वेन भिन्नेश्वरोपन्यासो युज्यते । एवं विप्रति- पत्या विरुद्धकोटिद्वयसाधारणात्मत्वाकारेण प्रत्यगात्मनि प्रसिद्धे तबुद्देशेन विचारविधौ सत्यनभिमतकोटिनिरासेन स्वाभिमताद्व- यानन्दव्रह्मत्वनिर्णयो मुक्तिफलो वेदान्तैर्जायते।अत्र कश्चिदाह।आ- त्मनि विप्रतिपत्त्युपन्यास एवायुक्त: तस्याजिज्ञास्यत्वात्। किन्तु ज- गत्कारणे किं प्रधानम परमाणवो वा ऽन्यद्वेति विप्रतिपत्तिर्वक्तव्या। जन्मादिसूत्रालोचनायां जगत्कारणस्यैव जिज्ञास्यत्वावगमादिति। तन्न। फलाभावेन तटस्थजगत्कारणस्याजिज्ञास्यत्वातू। न चोपा-
Page 126
११२ विवरणोपन्यासे सनार्थ तज्जिज्ञासेति वाच्यम्। तस्यासत्वे Sप्यारोपेणोपासनासम्भ- चादुपासनया Sपि मुमुक्ष्वभीष्टासिद्धेश्च।तस्मान्मुत्तर्थ प्रत्यगब्रह्मणो जिज्ञास्यत्वात् । प्रत्यगात्मनि विप्रतिपत्त्युपन्यासो युक्ततम इति स- द्वेपः। सिद्धान्तकोटिमाह । स इति। ईश्वरः प्रत्यगात्मा Sस्माकमि- त्यर्थः । ब्रह्म सच्चिदानन्दरूपम् अहमस्मि भामि प्रियतम इति प्रतीतेः प्रत्यगात्मा Sपि तथा। तथाच जीवो वत्मैव तद्विलक्षणत्वात् ब्रह्मवत्। भेदस्त्वीपाधिक एवाहङ्काराद्युपाध्यनुविधायित्वात्। तत्त्वमस्यादि- श्रुतेश्चाभेदः जीवाद्भिन्नस्य घटादिवत् ब्रह्मत्वायोगाच्च वस्तुतः परि- च्छ्ेदादिति भावः। ननु यदि ब्रह्मणो ब्रह्मत्वादेव जीवाभेदः तर्हि दुःखात्मकजगदभेदो Sपि तस्यास्ति कुतश्चिदपि भिन्नस्य जगतो ब्रह्म- त्वायोगात। उपादानत्वाच्च ब्रह्मणो हेयाभेद इत्यपरिमितानर्थरूप- त्वादजिज्ञास्यत्वमापन्नमिति शङ्कते। नन्विति- ननु ब्रह्मत्वतो ब्रह्म जीवाभिन्नं यथा तथा। दुःखभिन्नमजिज्ञास्यं नैवं दुःखादिकल्पनात्॥ नेह नानास्तीति अधिष्ठाने निषिद्धस्य द्वैतस्य कल्पितत्वेन रज्जु- सर्पवद्धिष्ठानानतिरेकातू ब्रह्मत्वं कल्पितानर्थासंस्पर्शादधिष्ठानस्य जिक्षास्यत्वं च युक्तमिति। परिहरति। मैवमिति । ननु देहात्मादि- पत्तेषु जागरूकेषु ब्रह्मण एव मुमुक्षुभिर्जिज्ञास्यत्वं कथमित्यत आह। प्रत्यगति- प्रत्यग ब्रह्मैक्यमेवात्र युक्तिवाक्यसमाश्रया। युक्त्यङ्गा ब्रह्ममीमांसा कर्तव्या Sतो मुमुक्षुणा॥ अत्र उक्तपन्तेषु अन्त्यपक्षे संक्षेपतो युक्तिवाक्ये दर्शिते। ननु स वा एष पुरुषो Sन्नरसमयः इन्द्रियसंवादे चक्षुरुवाच मन उवाच यो 5यं विज्ञानमय असदेवेदमग्र आसीतू कर्त्ता बोद्धा अनश्नन्नन्यः आत्मानमन्तरा यमयतीति वाक्यानि देहाद्यात्मत्वे युक्तयञ्च सन्तीति चेतू। न। युक्तीनामाभासताया दर्शितत्वात्। आनन्दमयो Sभयासा- दित्यादिना वाक्यानां ब्रह्मान्मनि समन्वयस्य सूत्रयता वक्ष्यमाणत्वातू। ननु ब्रह्मण एव जिज्ञास्यत्वे Sपि तद्विचारस्य जिज्ञासापदलत्तितस्ये- व्यमाणज्ञाननार्था्षिप्तस्य वा किमुपकरणं किं वा फलमित्याशङ्कां निराकुर्घन् सूत्रार्थमुपसहरति। युत्तङ्गेति। युक्तिर्ब्रह्मणि प्रमाणवि- घारो मुक्तये कर्तव्य इत्यर्थः । मुक्तिस्तु ज्ञानेनाज्ञाननिवृत्ती प्रमा- तृत्वाध्यासनिवृत्तेः सत्यपि मायिकद्वैते अनर्थदर्शनाभाव इत्येकः
Page 127
१ स. ४ वर्णकम् । ११३ पक्षः। इतरस्तु सर्वद्वैतनिवृत्तिपक्षः सकलवृद्धसंमतः समन्वयसूत्रे वक्ष्यते। यस्यायमपरोक्षतया ब्रह्मानुभघः तस्य निरस्तसमस्तानर्थ- स्वप्रकाशानतिशयानन्दात्मना वस्थानमित्यत्र न विवादः। तस्माद- नुबन्धचतुप्टयसम्भवात् वेदान्तविचारकर्तव्यता युक्तेति रमणीयम्। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दसरस्वतीपूज्यपाद- शिष्यरामानन्दविरचिते विवरणोपन्यासे अनुक्रमणिकाव्याख्याने चतुर्थवर्णकं प्रथमसूत्रञ्च समाप्तम ॥
जगज्जन्मस्थितिध्वंसहेतुं सच्चित्सुखात्मकम्। सीताभिरामं श्रीरामं सगुण केवलं भजे ॥ प्रथमसूत्रे यथोक्ताधिकारिणा ब्रह्मज्ञानाय विचार: कर्तव्य इति प्रतिज्ञातम्। तत्र ब्रह्मणि लक्षणप्रमाणाविरोधज्ञानसाधनफलानां विचारो उर्थात्प्रतिज्ञातः तं विना फलसमर्थव्रह्मज्ञानायोगाद्विचारः क्रियते इत्याह। ब्रह्मेति- ब्रह्म मीमांस्यमित्युक्तौ विचारो लक्षणादिषु। अर्थादेव प्रतिज्ञातो लक्षणं तु विचार्यते॥ जन्माद्यस्य यतः। ब्रह्माण लक्षणाभावात् निःसवरूपब्रह्मविचारो न सम्भवतीत्याक्षेपसङ्गत्या Sस्याधिकरणस्य प्रवृत्तिः । यतो वा इ- मानि भूतानि जायन्ते इत्यादिश्रुतिसिद्धलक्षण विचारात्मकत्वाच्छ्ुति- सङ्गतिः।अत्र श्रूयमाणं जन्मादिकं ब्रह्मलक्षणं न वेति सन्देहे सम्बन्धा- भावान्न लक्षणमिति प्राप्त सिद्धान्तः । जन्म आदिर्यस्य जन्मस्थिति- भङ्गस्य तज्जन्मादीति तद्गुणसंविज्ञानो बहुव्रीहिः जन्मस्थितिभङ्गं समासार्थ इति नपुंसकलिङ्गनिर्देशात् प्रतीयते। ननु बहुत्वविवक्ष- या जन्मादय इत्येव किमिति न कृतमिति चेत् । जन्मस्थितिभङ्ग- निरूपपितं कारणत्वत्रयं मिलितमेवाद्वितीयव्रह्मणो लक्षणमिति ज्ञाप- नार्थमिति ब्रूमः । प्रत्येकं लक्षणात्वे जन्मकारणादन्यदेव स्थितिका- रणमिति कारणस्य सद्वयत्वज्ञानात् जगत्कारणानुवादेन तद्गह्मेति म्रह्मत्वप्रतिपादनमशक्यं स्यादतः कारणस्य ब्रह्मत्वस्यानुकूलल- क्षणसिध्दर्थ युक्त एव समाहारलिङ्गनिर्देशः।ननु तथापि जन्मस्थि- तिभङ्गानामनादिसंसारे घटीयन्त्रवदावृत्तेः कर्थ जन्मन आदित्वमिति चंत् श्रुती जन्मनः आदो निर्देशात् जनित्वा स्थित्वा नश्यतीति व- स्त्वनुसाराच्चेत्याशयेनाह तृतीयेति -- १५
Page 128
११४ विवरणोपन्यासे तृतीयलिङ्गनिर्देशात्समाहारी Sत्र गम्यते। तदादि जन्म विज्ञेयं श्रुतिर्वस्त्वनुसारतः ॥ इति। अद्वितीये लक्ष्ये जन्ममात्रकरणत्वस्यासम्भवादादिपदम। निर- पेक्षं लक्षणत्रयमिति शङ्कानिरासार्थ नपुंसकैकवचननिर्देशः।अस्येति सर्वनाम्ना कार्ये सर्वमुपस्थाप्यते सङ्कोचकाभावात्। पष्ठी तुजगतो जन्मादिभिर्भावविकारैरनिर्वचनीयतादात्म्यसंबन्धार्था सतो Sसतो वा कार्यस्य तैः सत्यसंबन्धायोगादित्याह। इदमर्थ इति- इदमर्थो जगत्सर्वे पष्ठी संबन्धवोधिका॥ तेन लक्षणत्वमविरुद्धमिति मन्तव्यम्। यस्य जगतः कारणं घ्रह्म तस्य स्वाभिमतं विभागमाह। जगादिति- जगद्विभाग: श्रीतो Sत्र नाम्ना रूपेण कर्मणा। सर्वविज्ञप्तिमात्रं च स्वरूपं लक्षणं भवेत्॥ त्रयं वा इदं नामरूपं कर्मेति श्रत्या जगतः सर्वस्य त्रेधा वि- भागो दर्शितः अत्र नामरूपकर्माणि शब्दार्थतत्सम्बन्धाः । तत्र सं- बन्धस्य सबन्ध्यन्तर्भावाच्छब्दार्थी द्वावेव पदार्थी इति वृद्धाः। श्रुति- भाष्यवार्तिकपरिशीलने तु प्रकाशकमात्रं नाम प्रकाश्यं रूप चलं क- मेति व्याख्यानात् सत्वतमोरजांसि संर्व जगदिति विभागो भाति। एनेषु सर्वान्तर्भावस्यातो हि सर्वाणि नामान्युतिष्ठन्तीत्याददिश्रुत्या द- र्शितत्वाच्च नामरूपाभ्यामेव व्याक्रियते इति। द्वित्वो्तिस्तु कर्मणः प्रकाश्यत्वन रूपे Sन्तर्भावाभिप्रायेगोति द्रष्टव्यम। अश्रीतास्तु पुम्वुद्धि- भवा विभागा अधुनोच्यन्ते। द्रव्यगुणकर्मसामान्यानि चत्वारः प- दार्था इति वार्तिककारीयाः। गुरूणां विशेषशक्तिसमवायनियोगा उक्तैः सहाष्टौ। वैशेषिकाणां षट्। नैयायिकानां पोडश पदार्थाः प्र- सिद्धाः। कार्यकारणयोगविधिदुःखान्ताः पञ्चेति रैवाः। कार्य मह- दादि। कारणमश्विरः । योगः समाधिः । विधिस्त्रिपवणस्नानादिः । दुःखान्तो मोक्षः। जीवाजीवास्रव संवरनिर्जरवन्धमोक्षाः सप्तेति क्ष- पणकाः। जीवश्चेतनः । अजीवः परमाण्वादिः। विषयेषु इन्द्रियाणां प्रवृत्तिरास्त्रवः । तं संवृणोतीति शमद्मादि: संवरः । नितरां जरयति कल्मपमिति तप्तशिलारोहणादिर्निर्जरः। बन्धः कर्म । मतनोर्ध्वगमनं मोत्ः । पृथिव्यप्तेजोवायवश्चत्वारि तत्त्वानीति लौकायताः । चित्तचैत्ये इति सुगताः । पञ्चविशतित्त्वानीति
Page 129
१ सू. ५ वर्णकम् । १११ सांख्याः । पड्विंश ईश्वर इति पातञ्जला इति। अश्रीतत्वादेते विभागा नादर्तव्या इति। ननु किं ब्रह्मण: स्वरूपलक्षणं न च यतः सर्वज्ञात्सर्वशक्तेः कारणादिदं भवति तद्गह्मेति भाष्यात् सर्वजत्वं सर्वशक्तित्वं वा स्वरूपमिति वाच्यम्।सर्वापेक्षधर्मत्वादित्यत आह।
अविद्यादशायां स्वाध्यस्तसर्वावभासनक्षमं स्वतो विषयानपेक्षं वि- ज्ञानमात्रं स्वरूपलक्षणमित्यर्थः । ननु सिद्धान्ते ब्रह्मणः सर्वज्ञत्वं कथं स्वरूपज्ञानस्यातीतानागतवस्तुसम्बन्धाभावात्। इन्द्रियाणा- मपि वर्तमानसन्निकृष्टमात्रग्राहित्वात्। अचक्षुरश्रोत्रमित्यादिश्रुत्या ब्रह्मणि तेषामभावादिति चेतू । उच्यते। विद्यमानसर्ववस्तुगोचरः सत्वप्रधानमायावृत्तिरूप: परिणाम उदेति तत्राभिव्यक्तं चैतन्यं प्र- त्यक्षानुभवः । वृत्तिनाशे सति संस्कारान्नियमेन स्मरण पूर्वानुभूत- वस्तुगोचरमायावृ्त्त्यभिव्यक्त चैतन्यरूपं तथा Sनागतज्ञानमपि वृत्त्यु- पाधिकं द्रष्टव्यम। कालत्रयावगाहिनी एकैव वृत्तिरिति केचित्। स्व- रूपचैतन्येनैव विद्यमानसर्वज्ञत्वमित्यपरे। उपादानत्वमात्रमस्मि- म्सूत्रे तटस्थलक्षणमुक्तं न कर्तृत्वसििति कृत्वा चिन्ता SSरभ्यते। ननु जगदुपादानत्वं न ब्रह्मलक्षणं मायां तु प्रकृतिमिति श्रुत्या सर्गाद्य- कालीनं कार्ये जडोपादानकं कार्यत्वात् घटवत् । अन्यथा जगति जाड्यानुगमो न स्यादित्यनुमानेन च मायायामतिव्याप्तेः । न च मायाया उपादानत्वे इन्द्रो मायाभिः पुरुरूप ईयते इति करणत्वं विरुद्धमिति वाच्यम्। मायाकार्यबुद्धीनामात्मवहुत्वभ्रमहेतुतायास्तृ- तीयार्थत्वात्। माया प्रज्ञा च संविश्चेति बुद्धिपर्यायष्वपि मायाश- व्दस्मरणात्। एतेन मायां तु ब्रह्मस्वरूपप्रज्ञाप्रकृति विद्यादिति श्रु- त्यर्थ इति ब्रह्मैवोपादानमिति निरस्तम्। मायिनं तु महेश्वरमिति श्रुतेश्च न चैतन्यं माया प्रकृती शक्तिशब्द: पारतन्त्र्यद्योती न विरु- ध्यते। अत एव शक्तिशक्तिमतोरभेदातू सत्यमायाशत्तभिन्नं व्र- ह्वैवोपादानमिति नातिव्याप्तिरिति निरस्तम्। लोके मायाविसृष्टाने- कमिथ्यागजाद्यनुस्यूतोपादाने मायाशब्दप्रयोगात् । मायाविद्यैक्य- साधनाच्च। सत्यत्वस्य मायायामसिद्धेः । तस्मादनिर्वचनीरभायो- पादाने ब्रह्मलक्षणस्यातिव्याप्तिरिति । अत्रोच्यते । ब्रह्ममाये सा- म्येन मिलित्वा जगदुपादाने इत्येकं मतम्। अत्रोपादानत्वस्य तुल्य- त्वे ऽपि चिदानन्दस्वरूपलक्षणान्मायातो ग्रह्मणो मेदझानम्। अन्ये तु
Page 130
११६ विवरणोपन्यासे
दानं माया तु ब्रह्मए: प्रकृतित्वनिर्वाहकशक्तित्वेन प्रकृतिरिति व्य- पदिश्यते इत्याहुः। अत्रोपादानत्वमनतिव्याप्तं लक्षणं ब्रह्मण एव प्राधान्येनोपादानत्वात् । केचित्तु मायैव जगद्योनिस्तदधिष्ठानत्व- मात्रेष ब्रह्मण: कारणत्वमिति वदन्ति । अत्र परिणममानाविद्या- धिष्ठानत्वं लक्षणमिति विभागमभिप्रेत्याह। ब्रह्ममाये इति- ब्रह्ममाये जगदयोनी माया शत्त्यथवा महत्। यद्वा योनिस्तु मायैव ब्रह्माधिष्ठानमिष्यते॥ महद्रह्म मायाशक्तिकं योनिरिति मध्यमं मतमित्यर्थः । के चित्तु ब्रह्मपरिणामीत्याहुः । तन्न तथा हि पूर्वस्वरूपोपमर्देन रूपान्तरा- पत्ति: परिणामः स चोपादानसमसत्ताक: यथा क्षीरस्य दधिभावः। विवर्तस्तु पूर्वस्वरूपानुपमर्देन रूपान्तरापत्तिः उपादानभिन्नसत्ताक: यथा शुक्तेर्तर्यावहारिकसत्तावत्या: प्रातिभासिक रजतं तत्र प्रलया- वस्थमायास्वरूपोपमर्दाज्गत्तस्या: परिणामः सच्चिदानन्दनिष्कल- ब्रह्मस्वरूपानुपमर्दाद्गह्मणो विवर्त एव एतावानस्य प्रपञचो महिमा अतो ज्यायांश्च पुरुषः नामरूपयोनिर्वहिता ते यदन्तरा यत्र विलक्षणे कल्पिते तद्गह्मेत्याद्याः श्रुतयो ब्रह्मस्वरूपानुपमर्द मानं निष्कलं निष्क्रियं शान्तमसङ्गमरसमगन्धमित्यादिना निरवयवत्वादिश्रुतेश्च ब्रह्मण: परिणामो न युज्यते । अत्र कश्चिन्निरवयवमपि परिणमते इति जल्पति। हेयावयवपरमाणूनां परिणामाभावे हेम्न: कथ रूच- काकार: परिणामः स्यात्। अवयवविकारं विना अवयविविकारायां गातू। स वक्तव्यः को 5यं परिणामो नामेति यद्यवयवानां संयो- गविशेष: परिस्पन्दो वा गुणान्तरोदयो वा परिणामः तर्ह्येकस्मिन् अचले निर्गुणे ब्रह्मणि स नास्ति लोके द्रव्यरूपकार्यासिद्धिश्च। अथोपादानानुरक्तं द्रव्यान्तरं परिणामः तर्हि यथादर्शनं हेमाद्य- वयविन एव परिणाभो Sस्तु अवयवानां नाशादिकं विना S्यवय- विनो नाशवत् घटत्वादिजातिविशेषसमवायवच्च तेषां परिणामं विना उपि तस्य परिणामोपपत्तेः न ह्यवयविनि यावदस्ति तत्सर्व- मवयवेषु कल्पयितुं शक्यम अनुभवविरोधात्। ननु स्वाभिन्ना- वयवेष्वविकारिषु कथमवयविनो विकार इति चेतू स्वाभिन्नजाति- गुणादिष्वविकारिषु द्रव्यपरिणामवद्िति ब्रूमः । ननु अवयविनि संयोगो Sवयवसंयोगपुरःसरो दृष्ट इननि चेत्। न। संयोगद्वयादऐ्टेः ।
Page 131
२ सू. ६ वर्णकम् । ११७ अवयवानामवच्छेदकत्वमात्रमिति नास्ति निरवयवे परिणामः कि- ञचावयवानां मायिकानां सावयवतया परिणामे पपि न निरवयवत्र- ह्मण: परिणाम: दृष्टान्ताभावात् । अस्तु तर्हि ब्रह्म सावयवमिति चेन्न। अवयवानां स्वप्रकाशत्वे ब्रह्मसम्बन्धासिद्धेः तुल्यानां मिथो ग्राह्यग्राहकत्वायोगात्। तेषां जडत्वे च न स्वयंप्रकाशब्रह्मांशत्वं व- स्तुविरोधान्मानाभावाच्च निष्कलमित्यादिश्रुतेश्च। तस्मान्मायया ब्रह्म जगद्रूपण भातीति विवर्त एवेति मत्वाह। ब्रह्मरूपेति- ब्रह्मरूपापरित्यागाद्विवर्तो जगदिष्यते। निष्कले निष्क्रिये Sसङ्ग परिणामो न युज्यते॥ अन्ये त्वाकाशवन्महाभूतानि न जायन्ते इत्याहु: तन्न। पृथिव्य- प्रेजोवायवः प्रत्येकं पक्षीकृताः जायन्ते पृथिवीत्वादप्त्वात्तेजस्त्वात्
नुगृहीताददूभ्यः पृथिवीत्यादिसृष्टिवाक्यात् जन्मसिद्धेराकाशदष्टा- न्तासिद्धेश्च। अत एव यतो वा इत्यादिवाक्ये जन्मादीनि सिद्धवद- नुवाद इति मन्तव्यम्। अत्र लक्षणसूत्रे ब्रह्मणो जगद्धेतुत्वसिद्धये ब्रह्मान्यहेत्वसम्भवयुक्तिरर्थात्सूत्रिता हेत्वन्तरसत्त्वे ब्रह्मासिद्धेस्त- लक्षणायोगादिति मत्वाइ। प्रधानेति- प्रधानपरमाणूनां शून्यजीवस्वभावतः। हेतुत्वासम्भवादू ब्रह्म जगद्धेतुः स्वमायया॥ पष्ठीबहुवचने तसिप्रत्ययः । अत्र सांख्याः । सर्वे भावा: सुख- दुःखमोहात्मकसामान्यप्रकृतिका: नियमेन तदन्वितत्वात् यदित्थं तत्तथा यथा मृदन्विता घटादय: तत्प्रकृतिकाः। इति सत्त्वरजस्तमो- रूपं प्रधानमनुमिमते। तार्किकास्तु आद्यं कार्यद्रव्यं स्वन्यूनपरि- माणसंयुक्तानेकद्रव्यारब्धं कार्यद्रव्यत्वात् घटवदिति परमाणून् कल्पयन्ति। वाह्यास्तु सर्वे कार्यमभावजन्य योग्यत्वे सत्यनुपलभ्य- मानपूर्वावस्थत्वात् व्यतिरकेण वैदिकात्मवदिति जल्पन्ति। हैरण्य- गर्भास्तु हिरण्यगर्भमागमबलेन कारणं वदन्ति। स्वभाववादिनस्तु सर्वे कार्य निर्निमित्तं जायते निमित्तकल्पने Sनवस्थापातात् । निमित्तस्यान्यानपेक्षत्वे स्वभाववाद इति वदन्ति। तदयुक्तम्। अनुमानार्थयोरसम्भवात्। तथा हि न तावत्सांख्यानुमानं साधु सुसादीनामान्तरत्वानुभवन पक्षे हेत्वसिद्धेः । प्रधानस्याचेत- नतया विचित्र जगढचनारूपार्थासम्भवश्च। तार्किकानुमाने हेनोरति-
Page 132
११८ विवरणोपन्यासे विस्तृतदीर्धदुकूलारब्धरज्ी व्यभिचारः। ज्ञानत्वेन शरीरत्वेन का- र्यकारणाभावात्। नित्यश्ञानकल्पनायोगादीश्वरे शरीराङ्गीकार सु- खदुःखयोरावश्यकत्वाहुःखिनो जीवत्वेनाल्पक्षतया परमाणुप्रेरक- त्वानुपपत्तिः। शून्यानुमाने घटस्य पूर्वावस्था मृदुपलभ्यते इति हेत्वसिद्धिः। अभावप्रकृतिकत्वे कार्येषु सद्वङ््यसम्भवः।किञच पूर्व- कल्पस्य नाशे सत्याश्रयाभावेन संस्काराणों सजातीयकार्यनियाम- कानामभावाद्विलक्षण एवायं कल्पः स्यात्। तथा च धर्मः सुखाया- 5धर्मो दुःखाय मृदादेरेव घटादिकार्यमस्य शब्दस्यायं वाच्य इत्या- दिव्यवस्था लुप्येत प्रतिक्षणविलक्षणत्वात् स्वलक्षणानामित्यलम । हिरण्यगर्भस्य जीवत्वात् न सर्वहेतुत्वम् ईश्वरत्वं त्वथ यन्मर्त्यः स- न्नमृतानसृजतेत्याद्यागमवाधितम्। स्वभाववादे तैलार्थी तिलेषु न प्रवर्तेत। न चानवस्था Sनादिकारणे पर्यवसानात् इत्थं प्रधानादीनां हेतुत्वासम्भवादचिन्त्यमायाशक्त्या ब्रह्मैव निखिलजनिमन्निदानमि- ति सिद्धम। येयं युक्तिरभिहिता विना कर्तारमच्चेतनात्कार्य न भव- तीति तां युक्ति सतीमनुमानं सर्वज्ञसाधकं मन्यन्ते वैशेषिकादयः । युक्तिर्नाम सम्भावनाहेतुर्व्याप्त्याभासज्ञानम्। यथाग्निमत्वाद् धूमो त्र स्थास्यतीति। वस्तुनिश्चायकं व्याप्तिज्ञानमनुमानं यथा Sत्र धूमाद्व- न्हिरस्त्येवेति। तत्र यत्कार्य तत्सकर्तृकमिति व्याप्त्या सर्वज्ञः कर्ता निश्चंतुं न शक्यते जगदनेककर्तृकं विचित्रकार्यत्वात्प्रासादादिव- दिति प्रत्यनुमानसम्भवातू।न च लाघवात् कत्रेक्ये सति सर्वझसि- द्धिरिति वाच्यम्। यज्ज्ञानं तच्छरीरजमिति निश्चयेनाशरीरस्य कर्तु- बाधे सति लाघवानवतारातू। न च यत्सातिशयं तन्निरतिशयजा- तीयमिति व्याप्त्या सर्वगोचरज्ञानसिद्धिरित्युक्तम। लक्षकोटिवस्तु- गोचरज्ञानेनार्थान्तरत्वात्। अशरीरस्य ज्ञानायोगेन शरीरिणो डल्प. जत्वेन सङ्कोचस्य न्याय्यत्वात्। तस्माच्छ्रत्या सर्वज्ञे कारणे सिद्धे सत्युक्तव्याप्त्या सम्भावनामात्रं भवतीत्यंषा युक्तिरेवेति मत्वाह। अनुमानमिति- अनुमानमिमां युक्ति मन्यन्ते तार्किका जनाः । ध्रुतिरेव स्वतन्त्रा Sत्र युक्ति: सम्भवबुद्धिकृत्॥ नन्वनुमानमेव स्वतन्त्रमनेन सूत्रेण विचार्यते न श्रुतिस्तस्या- स्तत्रान्तर्भावादित्यत आ्राह। श्रुतिरेवेति। यदि श्रुतिरनुमानान्तर्भूता स्यासदा तस्या: शक्तितात्पर्यवत्वं ब्रह्मणि तततू समन्वयादित्यादिना
Page 133
२ स. ५ वर्णकम् । ११९ सूत्रकारो न ब्रयात्। तस्मादतीन्द्रिये प्रत्यगव्रह्मणि श्रतेरेव स्वातन्त्रयं लोकिकदष्टान्तमात्रेण तस्योहितुमशक्यत्वात् इत्यर्थः । ननु तर्हि ्ष- तिसिद्धार्थे युत्त्या किं क्रियते ननूक्तं सम्भावनेति सत्यमुक्तं परन्तु तस्या: फलं पृच्छाम इत्यत आह । एवञ्चेति । एवञ्च श्रुतियुक्तिभयां ब्रह्मण्यनुभवो भवेत्। धर्मे त्वनुभवायोग्ये श्रुत्यादेरेव मानता ॥ श्रोतव्यो मन्तव्य इत्यादिश्रुतरिति भावः।नन्ववधृततात्पर्याच्छ- उधात् ज्ञाने धर्मे मननादिनिदिध्यासनानुभवा नापेक्ष्यन्ते तथा ब्र- हणो Sपि वेदार्थत्वात् शब्दमात्रमपेक्ष्यतां नत्वेते इत्याशङ्गचाह। ध- में त्विति। धर्मस्यानुभवितुमशक्यत्वादनपेक्ितानुभवाञ्च ते नापे- क्ष्यन्ते । किन्तु अनुमानोपयोगिश्रत्यादिमात्रमपेक्ष्यते। आदिपदेन लिङ्गादयः श्रुतिगमकाः शब्दप्रभेदा उच्यन्ते । ब्रह्मणः प्रत्यक्त्वेना- नुभवितुं शक्यत्वादपरोक्षभ्रान्तिध्वंसायापेक्षितानुभवत्वाच्च ते Sपे- क्ष्यन्ते। साक्षादनुभवाय श्रुत्यादयो ऽप्यत्र शाब्दबोधायापेक्ष्यन्ते। यदि वेदार्थत्वमात्रेए ब्रह्मणि धर्मवन्मननाद्यपेक्षाच्येत तर्हि धर्मे इव ब्रह्मण्यपि प्रकृतिसाध्यत्वविधेयत्वनिषेध्यत्वोत्सर्गापवादादयो Sपि प्र- सज्येरन्। तच्चानिष्टम। सिद्धस्य वस्तुन एकरूपत्वात् वस्त्वनुसार्ये- कमेव ज्ञानं प्रमा भवति साध्यस्य तु ज्ञानाधीनत्वाद्यथाशास्त्रं वि- कल्पादिज्ञानं सर्वे प्रमा Sतो धर्मविलक्षणत्वाद्गह्मणणि मननाद्यपेक्षा यु- क्ेति भावः। ननु ब्रह्मणि श्रुतेर्युत्तयपेक्षा न युक्ता भिन्नविषयत्वात्।
न्तवाक्यलक्ष्यं यत्कार्य तत्सोपादानाभिन्नमितति युक्ति: सामान्यवि- पयेत्यत आह। सामान्येति- सामान्यद्वारतो युक्तेर्वेदार्थे स्यात्सहायता। तस्माद्वेदविचारार्थमिदं सूत्रमिति स्थितम्। अद्वितीयब्रह्मण उपादानत्वे थुते सत्युपादानत्वादिसामान्यद्वारा युक्तेरद्वितीयत्वादि सम्भाव्यते इति युत्त्पंक्षा युक्तति भावः। एव- मतीन्द्रियार्थे युक्ते: स्वातन्त्रयाभावोक्तिफलमाह तस्मादिति। को उसी वेद इत्यत आह। भृगुरिति- भृगुर्व प्रभृतिर्वेदः सूत्रे Sस्मिन विषयो भवेत्। जगद्धेत्वनुवादत्वमिति पूर्वकमीरितम ॥ त्रह्यताबोधकं तस्य निर्णयो वाक्यरोपतः।
Page 134
१२० विवरणोपन्यासे ननु भृगुर्वे वारुणिरित्यादि किमर्थमुदाहतं लक्षणसूत्रे।न च पाठज्ञानार्थमिति वाच्यम्। अर्थश्ञाने पाठक्रमस्यानुपयोगात् । प्रसिद्धानुवादेन ह्यप्रसिद्ध बोध्यं तथा च यत आकाशादिकं सम्भूतमिति प्रसिद्धानुवादेन तत्सत्यं ज्ञानमनन्तं ब्रह्मेति पाठ- भङ्गनेव बोध्यते इति सत्यं किन्त्वधिकारिणा SSचार्याधीनेन ब्रह्म ववि- चार्यमिति प्रथमसूत्रे विचारितार्थकं भृगुर्वा इति वाक्यं कि तङ्गह्ले- त्याकाङ्गायां तत्प्रतिपादकं यतो वा इमानीत्यादिलक्षणवाक्यं द्वि- तीयसूत्रेण विचार्यते इति क्रमज्ञानार्थमुदाहतं भाष्यकाररिति न दोषः। ननु यतो वा इमानीत्यादिवाक्ये जगत्कारणानुवादेन ब्रह्मत्वं विधीयते। तदयुक्तम्। कारणनानात्वस्य पटादाविव प्रतीतेरिति चेन्न। येन जातानीत्यपूर्वस्यैकत्वस्य विधानात्। तत्र यज्जगत्कारणं तदेकमिति अवान्तरवाक्येनकत्वप्रमिती सत्यां यदुक्तकारणमेकं तद्ग- ह्रेति महावाक्येन बोध्यते। एवञ्च वाक्यान्तरे कारणस्येत्तितृत्वश्र- वणादेकं सर्वज्ञ सर्वशक्ति सर्वतो S्वच्छिन्नं जगत्कारणं ब्रह्मशब्दाभि- धेयमित्यर्थात्सिध्यति। तस्य स्वरूपाकाङ्कायामेकत्वस्य भेदाभाव- त्वात् सर्वज्ञत्वादीनां जडघटितधर्मत्वादस्वरूपत्वादाकाङ्गितं धर्मि- स्वरूपमानन्दाध्द्येव खल्विमानि भृतानि जायन्ते इति वाक्यशेषेणा- नन्द इति निर्गीीयते इत्याह। जगद्धेत्विति। न चानन्दस्य स्वरूप- त्वे विज्ञानं गुण: स्यात्। अन्यथा विज्ञानमानन्दं ब्रह्मेति सामानाधि- करण्यायोगादिति वाच्यम्। केवलो निर्गुण इति श्रुतिविरोधातू। यन्तु निर्गुपस्योपादानत्वमयुक्तमिति भास्करोक्तं तन्न। भ्रान्त्यधि- ष्ानत्वरूपोंपादानत्वस्याज्ञातत्वमात्रेणोपपत्तेः। तस्मात् द्रव्यं घट इतिवत् कल्पितसामान्यविशेषभावेन विज्ञानमानन्दमिति सामा- नाधिकरण्यं वृत्त्यहीनचित्वं वृत्तिविशेषावच्छिन्नत्वमानन्दत्वमिति मत्वा सूत्रार्थमुपसंहरतति। यज्गदिति- यज्जगत्कारणं तद्धि स्वप्नकाशमनन्तकम्। आनन्दरूपं ब्रह्मेति पञ्चमे वर्साके स्थितम्॥। सर्वशाखासु सृष्टिवाक्ये पाठव्यत्ययेन कारणमनूद्य सत्यज्ञाना- दिरूपं वोध्यते इति भाव: । पञचमं वर्णकं द्वितीयसूत्रच समाप्तम ॥
Page 135
३ मू. ६ वर्णकम् । १२१ यस्य निःशवसितं वेदाः सर्वार्थज्ञानशक्तयः । श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे॥ पूर्व ब्रह्मणो जगत्कर्तृत्वोक्त्या ऽर्थात्सर्वक्षत्वमुक्तम। तत्र हेत्वन्त- रोत्त्यर्थमिदं सूत्रं पूर्वाधिकरणान्तर्भूतत्वेनावतारयति। सर्ववित्वे इति- सर्ववित्वे परो हेतुः शास्त्रयोनित्वमुच्यते। यद्वा वेदस्य नित्यत्वाशङ्कायामिदमुच्यते ॥ यद्वा उधिकरणान्तरमेतत्। तथा हि। शास्त्रयोनित्वात्। सस्य महतो भूतस्य निःश्वसितमेतत् यद्दग्वेदो यजुर्वेद: सामवेद इति वाक्यं ब्राह्मणो वेदकर्तृत्वपरं न वेति सन्देहे पौरुपेयत्वेन वेदस्य सापेक्षत्वप्रसङ्गान्नति पूर्वपक्षः । तथा च वेदस्य नित्यत्वाद्ह्मणः सर्वप्रपञचहेतुत्वं पूर्वोक्तमसिद्धमित्याक्षेपसङ्गतिः । सर्वशञत्वासिद्धि: फलम्। सिद्धान्ते तूपलभ्यरचनानङ्गीकारेण पौरुषेयत्वाभावा- तसर्वार्थप्रकाशनशक्तिमद्वेदोपादानत्वेन ब्रह्मणः सर्वज्ञत्वसिद्धिः । दीपस्य प्रकाशनशक्तेस्तदुपादानशक्तिपूर्वकत्वस्य तदभदस्य वा दर्शनातू उपादानोपादेययोः शत्तचैक्यादिति मत्वाह यद्वेति। वेद- गता सर्वार्थज्ञानशक्तिः तदुपादानगतशक्तिपूर्विका तद्गता वा कार्य- गतत्वे सति ज्ञानानुकूलशक्तित्वात्कार्यगतशक्तित्वाद्वा दीपगतश- क्तिवदिति प्रयोगः। सगुणस्याकाशस्य ब्रह्मोपादानकतया शब्दगुणं प्रति उपादानत्वाभावान्नाकाशस्य सर्वक्षत्वापत्तिः। यद्वा ज्ञानानुकू- लशक्तिमच्वे पि यथा वेदो न सर्वज्ञः अचेतनया ज्ञानं प्रति अ्रक- र्तृत्वात् तथा SSकाशो Sपीति मन्तव्यम्। तथा ऽन्यः प्रयोगः वेदः स्वविषयादधिकज्ञप्रणीतः प्रमाणवाक्यत्वात् पाणिन्यादिशास्त्रव- दिति। ननु किं नाम प्रणीतत्वं यद्यध्येतृवाक्ये इवोच्चरितत्वं तर्ह्य- ध्येतृवन्नाधिकता ब्रह्मणः । अथ काव्ये इवार्थज्ञानवता कृतत्वं तदा पौरुषेयतापातो वेदस्येति शङ्कते यदीति- यदि वेदस्य कर्तृत्वाङ्गह्म सर्वज्ञमुच्यते। पौरुषेयस्तदा वेदो मान न स्यान्न वाक्यवत्।। अत्र के चित्। वेदस्य पौरुपेयत्वे को दोषः । ननु तथात्वे मा- नान्तरसापेक्षत्वेनाप्रामाण्यं दोप इति चेतू। उच्यते। वेदे लोके च वक्तरागो वाक्यार्थः तत्र जीवानां ज्ञानस्यानित्यत्वात्तन्मूलरागा- र्थंकं वाक्यं सापेक्षं भवति ईश्वरस्य तु ज्ञानरागयोर्नित्यत्वात् त- १६
Page 136
१.२२ विवरणोपन्यासे त्कर्तृको वेदो नित्यरागार्थको न मानान्तरमपेक्षते इत्याहुः। तत्स- माधानं दूषयति। नित्य इति- नित्यो रागो न वेदार्थों मानाभावादितीरितम्। जात्वा कृतत्वे वेदस्य सापेक्षत्वं ध्रुवं भवेत् ॥ ज्ञानेच्छयोर्नित्यत्वेनानुमानमस्तीति पूर्वमुक्तं वेदस्य तु मानत्वमद्या- व्यससिद्धं तादग्वेदानुपलम्भाच्च।क्वापि रागो न वाक्यार्थ इति समन्व- यसूत्रे वक्ष्यते इति भावः।अन्ये तु लौकिकवाक्यमेव रागे तात्पर्यवतू वेदस्त्वर्थ झात्वा कृतो Sपि न रागार्थकः अध्ययनविधिना विधौ ता- त्पर्यावगमादित्याह्कः। तत्राह।झ्ञात्वेति। ज्ञात्वा कृतत्वे लौकिकवाक्य- वत् विधिपरत्वमपि दुर्लभमिति भावः। अपरे तु ब्रह्मस्वरूपज्ञानस्य निर्विकल्पकत्वात् तज्जन्यत्वे Sपि न वेदस्य सापेक्षत्वमित्याहुः तद- तिमन्दम। तस्य वेदार्थगोचरत्वे निर्विकल्पकासिद्धे: तदगोचरत्वे हेतुत्वासिद्धेरिति। तस्मान्नैते परिहाराः। अस्तु तर्हि वेदस्य पौरुषे- यत्घमिति तार्किकाः । तथा हि वेदो बहुज्ञकर्तृक: प्रमाणवाक्य- त्वात् भारतवाक्यवदिति तेपां मते वेदस्य रचनायां भूताभूत- ज्ञानाभावात्प्रामाण्यं दुःसाधम।न चेश्वरस्य नित्यं ज्ञानं वेदमूल- मित्यत्र किञि्चिन्मानमस्ति ज्ञानत्वावच्छ्वन्नस्य मनःसंयोगकार्यत्वद- र्शनेन नित्यज्ञानानुमानायोगातू।तेषां प्रामाण्यस्य संदिग्धत्वात्। अ- स्त्वीश्वरस्याप्यनित्यज्ञानं तन्मूलमिति चेतू न वेदार्थस्याप्रत्यक्ष- त्वात्। इन्द्रियजन्यज्ञानायोगात्। ननु योगजधर्मप्रत्यासत्या मनसा तस्य वेदार्थज्ञानमिति चेन्न तादृशप्रत्यासत्तौ मानाभावात्। भावे वा दूरस्थयोग्यवस्तुमात्रग्रहे तस्योपयोगात्।तदुक्तम्। "यत्राप्यतिशयो हष्टस्तत्खार्थानतिलङ्गनातू। दूरसूक्ष्मादिद्ृष्टी स्यान्न रूपे श्रोतृवृत्तिते- ति"। तस्मादप्रामाण्यापातात् वेदस्य न पौरुषेयतेत्याह- तार्किका घोषयन्त्यत्र वेद: पुरुषजो Sस्त्विति। तेषां तत्र प्रमात्मत्वं दुःसाधं मूलशून्यतः॥ सुगतास्तु वेदाप्रामाण्यमिष्टमित्याहुः तैरिदं वक्तव्यं किमामु- ष्मिकफलसाधनं धर्मादिकम अस्ति न वेति। आद्ये वेद विना तद- सिद्धे: तत्पामाण्यं दुर्वारमित्याह। सुगता इति- सुगताः सङ्गिरन्ते Sत्र वेदो मानं न चास्त्विति। धर्माद्यतीन्द्रियार्थो हि तेपां पक्षे सुदुर्लभः॥ नेति पक्षं शङ्गते। लौकायतेति-
Page 137
३ स. ६ वर्णकम् । १२३ लौकायतवराकाश्च परोक्षं नेति भाषते। लोकोक्तिवद्वेदमात्रे परोक्षार्थः प्रसिध्यति॥ अप्रत्यक्षप्रमेयाभावात्। न वेदः प्रमाणमिति वदता वक्तव्यं कि लौकिकवाक्यं मान न वेति न चेत्तव कथानधिकार: । मिथःश- व्दानामवोधकत्वात्। आद्ये वेदेनानधिगतावाधितफलवदर्थबोध- केन किमपराद्मित्याह। लोकोक्तिवदिति। एवं तार्किकाणां पौरु- वेयत्वानुमाने वेदस्याप्रामाण्यापातो वाधकतर्क उक्तः इष्टापत्तिः प्रसंगाद्वारिता। किञच किमिदं पौरुषेयत्वं शब्दार्थसम्बन्धस्य पुरु- पकृतत्वं वा उत वेदवाक्यस्य तत्कृतत्वमात्रम्। आहोस्वित् अर्थ- ज्ञानवत्पुरुषकृतत्वं नाद्यः। तत्र मानाभावात्। न हि सर्गादावीश्वरेण गोघटादिशब्दा: सर्वे संकेतिता इत्यत्र किञ्चिन्मानमस्ति किञ्च श- व्दार्थसंकेतं कुर्वन्नीश्वरः पूर्वकल्पीयशब्दार्थसम्बन्धमनुसृत्य करोति उत स्वातन्त्रयेणाभिनवसम्बन्धान्तरं अन्त्ये प्रतिकल्पं वेदार्थभेदा- दिदमिष्टसाधनमिंदं दुःखसाधनमिति व्यवस्थालोपः । आद्येनेश्वर- स्य सम्बन्धे स्वातन्त्रयं सिद्धसम्बन्धस्मारयितृत्वात् । तथा च प्र- योग: एतत्कल्पस्यादौ गोशब्दार्थसम्बन्धव्यवहारः पूर्वसिद्धतत्सं- बन्धज्ञानजन्यः जीवेनाकृतशब्दार्थसम्बन्धव्यवहारत्वात्। अधुना तद्यवहारवत् सांकेतिकनिरासार्थ जीवाकृतेत्युक्तम्।न द्वितीय: सि- द्धसाधनात् । प्रतिक्षणमानुपूर्वीविशिष्टवर्णात्मकवाक्यस्याध्येतृभिः क्रियमाणत्वात्। अभिनवानुपूर्व्या ईश्वरेणाप्यकरणात्। धाता य- थापूर्वमकल्पयदिति श्रुतेः शब्दार्थसम्बन्धवदानुपूर्व्या अपि प्रवाहा- नादित्वानुमानाच्च। आद्या वेदानुपूर्वी तत्पूर्वानुपूर्वी स्मृतिजन्या वे- दानुपूर्वीत्वात्। संमतवदिति एतेन निःवसितादिश्ुत्या वेदस्यापी- रुषेयत्वमिति निरस्तम्। महाप्रलये प्रलीनवेदस्याकाशादिवच्चिद्वि- वर्तस्येष्टत्वात्। अत एव न तृतीय: निःश्वसितश्रुत्या उर्थज्ञानप्रया- सातू। तस्मान्न पीरुपेयो वेद इत्याह। शब्दार्थ इति- शब्दार्थयोग: सहजो वेदे पुंसो स्वतन्त्रता। न चार्थज्ञानजो वेद: पौरुषेयः कथं भवेतू ॥ ननु लोके शाव्दबोधप्रमात्वे वक्तयथार्थज्ञानं गुणत्वे न हेतु: त- ज्त्वज्ञानत्यं तु झ्ापकं वेदस्याप्तप्रणीतत्वाभावे तदभावात्। कथ वे दार्थयोधे प्रमात्वमित्यत आ्रह। स्वत इति-
Page 138
१२४ विवरणोपन्यासे स्वतो निर्दोषवेदो Sत्र नाप्तज्ञानमपेत्ितम्। नित्योन्तःस्थायिवर्णात्मा वेदस्तुल्यक्र्मान्वितः ॥ स्वारसिकं प्रमाणानां प्रामाण्यं नान्यापेक्षं परन्तु लोके शब्दस्य भ्रान्त्यादिजन्यत्वं नाम दोष: सवारसिकप्रमाप्रतिबन्धको भ्रान्तिहेतु: सम्भवतीति तन्निरासार्थमाप्तज्ञानं गुणो Sपेक्ष्यते वेदे तु अपीरुषेय- तया दोषाभावान्न तदपेच्षेत्यर्थः । अतो वदे पुरुषस्य सर्प इव र- जोरुपादानत्वे Sपि स्वातन्त्रयाभावे न पूर्वकल्पक्रमविसदशक्रमाभा- वातू प्रवाहात्मना नाद्यनन्तत्वं सिद्धमित्याह। नित्य इति। ननु वे- दस्य सर्वधन्मिथ्यात्वे प्रामाण्यं कथमिति चेतू उच्यते । क्रमवि- शेपवन्तो वर्णा वेद इत्यविवादम्। नभोवद्यापिपु नित्येपु न देशका- लनिमित्तः क्रमो वर्णेष्विति किन्तु श्रोतु: ज्ञानगतः क्रमो ज्ञेयेषु व- णेषु आरोष्यते इति वेदज्ञानं सर्वेषां मते भ्रम एव न च क्षणिक- त्वात् वर्णानां स्वतः क्रम इति युक्तम।सो 5यं गकार इत्यवाधितप्रत्य- भिज्ञाविरोधात्। अनन्तव्यक्तिजातिकल्पनायां गौरवात् । तथा च पदवाक्यप्रत्यक्षायोगाच्च। नष्टानां वर्णानां श्रोत्रेष्ासम्बन्धात् । ज्ञानादेरप्रत्यासत्तित्वात् । तदात्वे पदवाक्यानुभवः प्रत्यक्ष इति अ- नुव्यवसायविरोधात्। न ह्यलौकिकज्ञाने क्व चिदपि प्रत्यक्षत्वोल्लेखो Sस्तीत्यलम्। अख्यातिवाद एव नास्ति विशिष्टार्थतज्ज्ञानयोरभावात्। अन्यथाख्यातावपि तथैव विशिष्टार्थाभावात्। अस्माकं तु विशि- ष्टार्थो भ्रान्तावस्तीति विशेषः । यथा लिखितरेखासर्पवुद्धेर्भ्रान्तत्वे Sपि तज्न्यं वस्तुज्ञानं प्रमावेदज्ञानाजातं तदर्थज्ञानं प्रमेत्याह। मि- थ्यात्वे Sपीति- मिथ्यात्वे Sपि च वेदस्य प्रामाण्यं लिखितादिवत्। वेदयोनित्वतो ब्रह्म सर्वज्ञमिति सुस्थितम्॥। ननूपलभ्यरचनानङ्गीकारे वेदस्य हेतुत्वेन पाणिनिदृष्टान्तेन सर्वज्ञत्वं कथमिति चेत्। उच्यते। वेदकर्तरि वेदविषयादधिकं ज्ञा- नमस्तीत्येतावन्मात्रं अररनुमाने विव्ितम्। नार्थज्ञानजन्यत्वं वेदस्य विवत्तितम् । ननु तर्हध्येतृवद्वणावलीज्ञानमात्रेण वेदरचनोपपत्तेः प्रमाणवाक्यत्वादिति हंतुरप्रयोजक इति चेतू न । उपादाने ब्रह्मणि सर्वार्थज्ञानशत्त्यभावे तत्कार्ये वेदे तदनुपपत्तेः । तस्मात् अनावृ- तस्वप्रकाशब्रह्मणः स्वाध्यस्तानेकशाखाभेदभिन्नवेदानां ज्ञानवत्
Page 139
३ मू. ७ वर्णकम् । १२१ तदर्थानामपि ज्ञानं नान्तरीयकतया उस्तीति वर्णकार्थमुपसंहरति। वेदयोनित्वत इति॥ इति पछठं वर्णकं समाप्तम्।
इदानीं सूत्रस्यानेकार्थत्वं भूषणमिति मत्वा ब्रह्मणि प्रमाणप्रति- ज्ञामर्थान्तरमाह। यद्वेति- यद्वा ब्रह्मप्रमित्यर्थ शास्त्रयोनित्वमुच्यते। वेदैकमानकं ब्रह्म नानुमेयमिति स्थितिः । शास्त्रयोनित्वात्। किं ब्रह्म वेदान्तकवेद्यम् उत कार्यलिङ्गकानु- मानमिति संदेहे जन्मादिसूत्रे कार्यलिङ्गमेवोपन्यस्तमिति भ्रान्ति निराचष्टे सूत्रकारः। शास्त्रयोनित्वादिति। वेदैकप्रमाणकत्वस्य तन्त्वोपनिषदमिति श्रुतत्वात् कार्यलिङ्गस्याद्वितीयव्रह्मसाधक- त्वायोगात्तत्र वेदान्ता ए मानमित्यर्थः । ननु पूर्व मायया जगद्यो- नित्वं ब्रह्मण उक्तम । तस्या: पूर्वमुक्ततत्वज्ञानेन निवृत्तत्वात् इदानीं द्वैतोपलम्भ: कथमिति चेतू। अत्र के चितू । बिम्बस्थानीयं ब्रह्म मायाशक्तिमत्कारणं जीवास्तु प्रत्येकं मायाभिन्नाभिरविद्या- भिरवच्छ्िन्ना इत्येकस्याविद्यानिवृत्तावप्यन्यस्य मायिकद्वैतोपल- म्भसम्भवादिति वदन्ति। अन्ये त्वविद्यानां समप्टिरेव माया जला- शयराशिवत् तस्यां प्रतिविम्बितं चैतन्यं ब्रह्म कारएं जीवास्तु व्यष्टया विद्योपाधिका इति वदन्तः पूर्ववत् बद्धमुक्तव्यवस्था- माहुः। अपरे तु जीवानां स्वरूपे ब्रह्मणि जीवस्थाविद्याभिर्विषयी- कृते प्रतिजीव भिन्ना एव प्रपञचाः कल्प्यन्ते शुक्ताविच प्रतिपुरुषं भि- न्नानि रजतानि सादृश्यादेकवदवभासन्ते इति व्यवस्थां कल्पय- न्ति। सिद्धान्तरहस्यज्ञास्तु मायवाविद्या चिन्निष्टा चिन्मात्रविषया चाचिन्त्यशक्तितया ब्रह्म जगद्ूपं भातीति वदन्ति। बद्धमुक्तव्यवस्था तु रवन्े तादृशव्यवस्थावदुपपद्यते। ननु श्रुतिस्मृतिपुराणेषु मूलप्र- कृतेमायाविद्यादिपद्वाच्याया एकत्वं प्रतीयते। सांख्या योगिनश्च प्रकृत्यैक्यं वदन्ति मुक्ता अपि बहवो जाता इति बहुशः श्रूयते वहवां ज्ञानतपसा पूता मन्दावमागता इत्यादी। न चैतेषां वाक्यानां सर्वा- त्मना वाधितार्थकत्वं सर्वत्रानाश्वासप्रसङ्गात्। तस्मादीपदैक्यावि- रोधेन बद्धमुक्तव्यवस्था वाच्येति चेतू । यदि व्यवस्थायामाग्रहः
Page 140
१२६ विवरणोपन्यासे तर्हीत्थं व्यवस्था।तथा हि अविद्याया: सांशत्व तावत्सवैरेष्टव्यम । अन्यथा अनन्तपरिणामानामेकस्यामयोगात्। तथा च यदन्त:करणे ब्रह्मसाक्षात्कारोदयः तदीयकार्यकारणसंघातात्मना परिणताविद्यां- शस्य नाशेन सङ्गातस्य नाशे सति तदंशोपाधिको जीव: स्वरूपान- न्दव्रह्मात्मना Sवतिष्ठते। अवशिष्टाविद्योपाधिको जीवोशान्तरैः सं- सरतीति व्यवस्था।न च नानाविद्यापचादविशेष: मूलप्रकृतिभेदप्रप- 5चमेदादेरत्रासत्वात्। एवं क्रमेणांशनाशेनाविद्यानिवृत्ती सर्वमुक्ति- रिति।न च तस्यैवांशान्तरेणानर्थभाक्ते का नाम मुक्तिरिति वाच्यम्। श्रवणादिकर्तुः स्वानर्थनिवृत्तिमात्रस्योद्देश्यस्य लाभातू अंशान्तरानर्थे दुःखबुद्ध्यभावेन तन्निवृत्तेरनुद्देश्यत्वात्। कर्तुर्हितशासनात्मकशा- स्त्रस्य तावतैव चरितार्थत्वादित्यलं विस्तरेण। तदेतदाह। अज्ञा जीवा इति श्रोकद्वयेन -- अज्ञा जीवा ब्रह्म मायि प्रतिबिम्बमथापि वा। अज्ञातजीवरूपं वा यद्ा ब्रह्मैव मायया॥ अविद्यया जगद्रूपमिति पक्षा उदाहताः । बद्धमुक्तव्यवस्था तु यथा दृष्ट्युपपद्यते॥। तस्मान्मायया ब्रह्म जगत्कारणं वेदान्तप्रमाणकमिति सिद्धम । सप्तमवर्णकं तृतीयसूत्रञच समाप्तम् ॥
रामनाम्नि परे धाम्नि कृत्स्ास्नायसमन्वयः । कार्यतात्पर्यवाधेन साध्यते शुद्धबुद्धये। ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्ता वेदान्तप्रमाणकत्वं प्रतिज्ञातं तत्र सन्दिह्यते सिद्धं वस्तु वेदमानकं न वेति नेति पूर्व- पक्षमाह। वेदान्तेति -- वेदान्तगम्य ब्रह्मेति प्रतिज्ञातन्न युज्यते। वेदस्य कार्यनिष्ठत्वात् सिद्धे प्रामाण्यबाधनात्।। वेदतात्पर्यज्ञेन जैमिनिना आस्नायस्य क्रियार्थत्वादित्यादिना का- र्यपरत्वं वेदस्य दर्शितं वेदमानकत्वव्यापकं कार्यत्वं तन्निवृत्त्या सिद्धस्वभावे ब्रह्मणि व्याप्यनिवृत्तिः । किञच यत् सिद्धं तद्वेदाति- रिक्तमानयोग्यमिति व्याप्तेर्बरह्म मानान्तरयोग्यम्। तत्परत्वे वेदान्ता- नां मानान्तरसापेक्षता स्यात्। यथा घटो Sस्तीति वाक्यस्य नापौ रुषेयत्वादनपेक्षश्वमिति चेन्न। अपरुषेत्वं ि ा््य मू ल -
Page 141
४ सृ. ८ वर्णकम् । १२७ मानानपेच्तत्वे हेतु: न तु योग्ये वस्तुनि संवादानपेक्षत्वे। तथा च यदि वेदान्ता: सिद्धं वस्तु मानान्तरयोग्यं बोधयेयुः तदा संवा- दापेक्षा दुर्वारा। तन्न। सति संवादे तेषामनुवादकत्वम् असंवादे रवादित्ययूपाभेदवाक्यवदप्रामाण्यम किञ्चाध्ययनविधिगृहीतवेदा- न्तानां फलावसायित्वं वाच्यं फलन्तु प्रवृत्त्यधीनं प्रवृत्तिः कार्य- ज्ञानतन्मात्रत उदासीनं ब्रह्म निष्फलत्वान्न वेदार्थ इति निरर्थका वेदान्ता: सफलजयस्वाध्यायार्थाः कर्मकर्तृस्तावका वा। ननु कस्य कर्मण: कर्तृस्तावका न हि कर्मविशेषस्य प्रकरणे वेदान्ता अधीताः। अथाविशेषात्सर्वकर्मकर्तृस्तावका इति चेन्न।वेदान्तेपु सर्वकर्मणाम् उ- पस्थापकप्रकरणाद्यभावेन तच्छ्ेषस्तुत्ययोगात्।जुह्ाः ऋत्वव्यभिचा- रित्वाक्रतूपस्थितौ सत्यां तच्क्वंषपर्णताकार्यपरत्वं पर्णमयीवाक्यस्य युक्तं कर्तुः कर्ममात्रसाधारणत्वात् न वैदिककर्मोपस्थितिरिति न तत्कर्तुः स्तावकत्वमिति चेत्तर्हि स्वप्नकरणस्थोपासनाविधिशेषा भवन्तु वेदान्ताः । तथा चासदेव ब्रह्म सर्वज्ञत्वादिमत्तया Sमृतत्व- काम उपासीतेति कार्यपरा वेदान्ता: इत्याह। सापेक्षत्वेति- सापेक्षत्वाफलत्वाभ्यां वेदान्ता स्युर्निरर्थकाः। कर्मकर्तृस्तावका वा यद्वा ध्यानैकगोचराः ॥ तदुत्तरत्वेन तत्तु समन्वयादिति सूत्रं व्याचष्टे वेदान्तेति -- वेदान्तगम्यं तद्गह्म तुशब्दश्चोद्यवारकः । तात्पर्यकत्वं हेत्वर्थः तल्लिङ्ं प्रक्रमादिकम् ॥ ब्रह्म वेदान्तजप्रमागोचर: वेदान्ततात्पर्यविषयत्वात्। यो यद्वा- क्यतात्पर्यविषयः स तत्प्रमेयः। यथा चोदनागम्यो धर्मः तात्पर्य नाम अपूर्वफलवदर्थप्रमित्यनुकूलशक्तिरूप शब्दगतं न विवक्षात्मकं वेद- स्यापोरुषेयत्वात्। न च हेत्वसिद्धिः। उपक्रमादिषड्डिघलिङ्रैस्तत्सि- द्धे:। न च प्रमेयस्य कार्यत्वमेवतात्पर्यलिङ्गं नोपक्रमादिकमिति युक्तम। जर्तिलयवाग्वा जुहुयादिति वाक्यस्यारण्यतिलयवागूहोमे तात्पर्यप्र- सङ्गात्। न चैतदस्ति प्रकृताज्यक्षीरहोमविधिशेषार्थवादत्वात्। अत उपक्रमादिकमेव लिङ्गं तञ्ञ वेदान्तानां ब्रह्मविषयकतात्पर्ये विद्यते। तथा हि सदेव सौम्येदमग्रआसीत् ऐतदात्म्यमिदं सर्वमित्यद्वितीये ब्रह्मण्युपक्रमोपसंहारयोरैकरूप्यं तत्सत्यं स आत्मेति नवकृत्वोभ्यासः तत्र मानान्तराप्राप्तत्वा(दपूर्वता। अथ संपत्स्ये इति फलें येनाश्रुतं (१) मानान्तरावाप्तत्वािति पाठान्तरम्।
Page 142
१२८ विवरणोपन्यासे श्रुतं भवतीत्यर्थवाद: वाचारम्भणं विकारो मृत्तिकेत्येव सत्यमिति कारणाद्वयत्वे युक्तिरिति पड्डिधानि लिङ्गानि छ्वान्दोग्ये दृश्यन्ते। अथ प्रारब्धक्षयानन्तरं विद्वान् ब्रह्म केवलं संपद्यते इति श्रुत्यर्थः । एवं प्रतिवेदान्तं लिङ्गानि द्ष्टव्यानीत्यर्थः । अधुना समन्वयादित्यत्र सो- पसर्गार्थमाह। सम्पदेनति- सम्पदेन च तात्पर्य वेदान्तानामखण्डगम्। द्योतितं सर्वशब्दानां तत्रैवावसितिर्यतः ॥ वेदानामन्वयस्य तात्पर्यस्य सम्यकृत्वमखण्डार्थगोचरत्वम् अख- ण्डार्थकत्वं नाम अपर्यायशब्दानां संसर्गागोचरप्रमाजनकत्वम् एकप्रा- तिपदिकार्थमात्रनिष्ठत्वं वा। उद्धिदा यजेतेत्यत्राद्धिद्यागशब्दयो- रेकार्थनिष्ठत्वे Sपि विधिपदाकाङ्गया संसृष्टबोधकत्वान्नाखण्डार्थता सत्यादिपदानान्तु विध्याकाङ्णा नास्तीति वक्ष्यमाणत्वात् अखण्डार्थ- त्वमविकलम्। न चाखप्डार्थत्वे पर्यायतापत्तिः । वाच्यभेदातू। तथा हि आकृतिः शब्दार्थ इति मीमांसकाः। तथा च ज्ञानत्वानन्द- त्ववाचिनौ ज्ञानानन्दशब्दी वृत्त्युपहिते ब्रह्मण मुख्यवृत्त्या वर्तेते ज्ञानसामग्रीजन्यवृत्तिव्यक्तिष्वनुगतं चैतन्यं ज्ञानत्वमुभे कर्मजन्य- वृत्त्यनुगतमानन्दत्वमिति भेदः । तत्राकाशस्य श्रोत्रशब्दवाच्यत्वे सति कर्णाषष्कुल्याः प्रयोगोपाधित्वमात्रं न वाच्यमिति यथा तद्वत् वृत्तीनामुपाधित्वमिति ज्ञानानन्दशब्दी ब्रह्मणि मुख्यावित्यक्तम निरु- पाधिकन्तु न कश्चिदपि शब्दो मुख्यः यतो वाचो निवर्तते इति श्रतेः। एवमेकसत्यानन्त्यशब्दा: एकत्वादिवाचिन: एकत्वं भेदाभावः सत्यत्वं वाध्यत्वाभावः आनन्त्यं नाशाभावः अभावमात्रप्रतियोगित्वाभावो वा। अभाववाचिनः शब्दा ब्रह्मणि जहलक्षणया वर्तन्ते सर्वज्सर्वश- क्यादिशब्दाः यौगिकाः सोपाधिकब्रह्मवाचिनः तत्त्वमस्यादिशब्दाः विशिष्टवाचिनः जहदजहल्लक्षणया ब्रह्मणि पर्यवस्यन्तीत्यपर्यायत्वम् अतो Sखण्डवस्तुलक्षकत्वमविरुद्धमित्यर्थः।वेदान्तवाक्यं द्विविधम्। महावाक्यं पदार्थवाक्यञच तयो: क्रमेणाखण्डार्थत्वे उदाहरणमाह। तत्वमिति- तत्वमस्यादिवाक्यञ्च सो Sयमित्यादिवाक्यवत्। सत्यज्ञानादिवाक्यन्तु चन्द्रलक्षावाक्यवत्॥। तत्वमस्यादिवाक्यम अखण्डार्थे अकार्यकारणद्रव्यसमानाधिक- रणवाक्यत्वात्। सो डयं देवदत्त इति वाक्यवत्। तथा हि अस्य
Page 143
४ सू. वर्णकम् । १२९ वाक्यस्य मूलं प्रत्यभिश्ा तस्या पक्यं प्रमेयं न च तत्तेदन्ताविशिष्टयो- रैक्यं सम्भवति। विशेषणविशिष्टयोरैक्यापातात्। न च तत्तोपलत्ति- तस्येन्दताविशिष्टेनैक्यं युक्तं विशिष्टस्य पूर्वमपि सत्वापातात्। तद- भिन्नदेवदत्तस्य पूर्व सत्वात् अतस्तत्तेदन्तोपलच्षितपिण्डस्वरूपमैष्यं तस्या: प्रमेयमिति तन्मूलकवाक्यस्यापि तावन्मात्रं प्रमेयम्। यद्यपि तस्यां तत्तेदन्ते अपि भासेते तथापि तयोर भिव्ञाद्वयसिद्ध त्वेनाज्ञातत्वा- भावान्न प्रत्यभिज्ञाप्रमेयता। ननु पिण्डस्वरूपमपि अभिज्ञासिद्धमिति चेत्सत्यम । परन्तु ज्षाते पि तस्मिन् भेदभ्रमानुकूलमज्ञानमस्तीति तन्निराकृतिफलाया: प्रत्यभिज्ञायाः भवाति तत्प्रमेयं स्वनिवर्त्याज्ञान- विषयस्यैव तत्प्रमेयत्वात् । एतेन भागत्यागलक्षणया पदेनैव वा- क्यार्थज्ञानाद्वाक्यं व्यर्थमिति निरस्तम्। पदेन ज्ञाते Sपि सो Sयमिति वाक्यं विना भेदभ्रमविरोधिज्ञानालाभात। तस्मात्प्रत्यभिक्षाप्रमे- यैक्यमात्रतात्पर्येण प्रयुक्त: सो Sयमिति वाक्यवत् तत्वमसीति- वाक्यं विरुद्धांशत्यागेन लक्षणया पदेनावगतमेवाखण्डं वस्तु भे- दभ्रमनिरासार्थ बोधयतीति सिद्धम । अत्र केचिदाहुः। इदं वाक्यं भेदाभेदपरम। अत्यन्ताभेदे पदार्थवाक्यार्थयोर्भेदालाभादिति। तै- रिदं वक्तव्यं किं मुक्ती भेदो नश्यति न वेति न चेत्संसारादवि- शेषः। आद्यें नाशकं न पश्यामः । वाक्यजन्यभेदाभेदज्ञानस्य स्व- विषयनाशकत्वायोगात्। अन्यथा भेदवदभेदस्यापि नाशप्रसङ्गात् न चाभेदमात्रज्ञानं नाशकम् । तस्य घाक्याजन्यत्वेनाप्रमाणत्वातू। तस्य नाशकत्वे तद्विषयाभेदमात्रस्यैव वाक्यार्थत्वापातातू। भे- दस्य सत्यत्वे ज्ञानान्निवृत्त्ययोगात्। कर्मणा भेदनाशाङ्गीकारे ब्रह्म वेद
वच्छेदकभेदस्याभावात् कर्थ विरुद्धी मेदाभेदी स्याताम। किश्चमुक्ती परिशिष्यमाणव्रह्मण पवाधुना संसारो वाच्य:तद्भ्िन्नस्य संसारित्वे बन्धमुक्तिवैयधिकरण्यापत्तेः तथा च क भेदाभेदी । एतेनातिरेको नाम कश्चिद्धर्मः स वाक्यार्थ इति निरस्तं तस्य भेदादन्यस्य दु- रनिरूपत्वात् भेदस्य निरस्तत्वात्। तस्मादत्यन्ताभेद एव वाक्यार्थः पदार्थवाक्यार्थयोरभेदे पि भदभ्रमनिरासेन वाक्यस्यार्थवत्वादित्यलं प्रपश्चेन। तथा च तत्पदार्थलक्षकं सत्यादिवाक्यमखण्डार्थ लक्षण- वाक्यत्वात्। लक्ष्यमात्रप्श्नोत्तरत्वाद्वा प्रकृष्टप्रकाशश्चन्द्र इति घा- क्यवत् न च हष्टान्तासिद्धि: कश्चन्द्र इति प्रश्नस्य चन्द्रस्वरूपा- १७
Page 144
१३० विवरणोपन्यासे
ज्ञानमूलत्वे तवुत्तरवाक्ये तत्स्वरूपमात्रस्य लक्षणप्रतिपाद्यत्वात् ता- स्पर्यानुपपत्तेरेव लक्षणाबीजत्वात्। न चाप्रयोजकता। एकधैवानु- द्रष्टव्यम नेह नाना Sस्तीत्यादिश्रुतिविरोधात् ब्रह्मभिन्नस्य सर्वस्य मिथ्यात्वेन श्रुतिजन्यतत्वज्ञानविषयत्वायोगात्। तस्मा्द्वंदान्तानाम- खण्डे तात्पर्यमित्यर्थः । यदुक्तं भूतवस्तुनो मानान्तरयोग्यत्वात् तत्परत्वे वेदान्तानां सापेक्षत्वं स्यादिति तत्राह रूपादीति -- रूपादिविरहाङ्गह्म न मानान्तरगोचरः । अतो भूतार्थको वेदो न सापेक्ष इतीरितम्।। अयमाशयः । किं ब्रह्मणो योग्यत्वे सति अनुपलब्ध्या बाधाद्वे- दान्तानामप्रामाण्यम् उत मानान्तरं ज्ञातार्थकत्वात्। अथ वा माना- न्तरयोग्यार्थकत्वात्। नादः। रूपादिहीनस्य स्वतन्त्रस्य वस्तुनः प्रत्यक्षाद्योग्यत्वात्। अती रूपे मानान्तरसंवादाभावे ऽपि चक्षुष इवानधिगतार्थबोधित्वाद्वेदान्तानां प्रामाण्यं युक्तम।नद्वितीयः।हेत्व- सिद्धेः।न च वेदान्ता मानान्तरज्ञातार्थकाः भूतार्थकवाक्यत्वात् नदीतीरादिवाक्यवदिति वाच्यम । अप्रयोजकत्वान्मानान्तरस्यानु- पलब्ध्या बाधाच्च। किश्च विधिवाक्यं तथा कार्यार्थकत्वाद्गामानये- त्यादिवाक्यवदित्याभाससाम्याच्च। तस्मादपीरुषेयत्वाद्विधिवाक्य- वद्वेदान्तानां न मानान्तरज्ञातार्थकता पौरुषेयत्वस्यैव वाक्ये ज्ञाता- र्थहेतुत्वात्। ब्रह्मस्वरूपज्ञानस्य तु प्रमेयत्वान्न मानान्तरत्वम्। न तृ- तीय: तथात्वे Sपि त्वगिन्द्रिययोग्ये घटे चक्षुष इव प्रामाण्योपपत्तेः ब्रह्मणो मानान्तरयोग्यत्वासिद्धेश्च। भूतत्वेन घटवत् ब्रह्म योग्यमिति चेतू। कार्यत्वेनानयनवत् विध्यर्थो योग्यः किन स्यादिति तुल्यम। विधिव द्वे दान्तानामनपेक्षत्वमित्यर्थः । ननु लोके मानान्तरसिद्ध एव शब्दार्थो हष्टः ब्रह्मणो मानान्तरासिद्धत्वे कथं शब्दार्थतेति चेत् किं सङ्गतिग्रहार्थ मानान्तरेण सिद्धिरपेक्ष्यते उत मानान्तरविशिष्टार्थे स-
द्धे सङ्गतिग्रहात्। किञ्च पदार्थस्योपस्थितिमात्रं सङ्गतिग्रहोपयोगि न प्रमाणन्तरेण सिद्धि: यूपाहवनीय लिडादिपदानां वेदे एव सङ्गति- ग्रहात्। न द्वितीयः । गौरवादनुपस्थितत्वाच्च। तथा हि व्युत्पित्सु- र्मध्यमनरस्य प्रवृत्तिलिङ्गेन स्वात्मदृष्टान्तेन प्रवृत्तिविषयार्थमात्रज्ञान- मनुमिनोति न प्रमाणविशिष्टार्थज्ञानं दष्टान्ताभावात्।न हि स्वस्य प्रवृत्तौ प्रमाणविशिष्टभोजनज्ञांन हेतुत्वेन दृष्ट भोजनमात्रज्ञाना-
Page 145
४ सू. < वर्णकम् । १३१ त्स्वस्य प्रवृत्तेः अतो ऽनुमितार्थमात्रज्ञाने शब्दस्य सामर्थ्यावगमाद- र्थमात्रं पदशक्यं न प्रमाणान्तरसंभिन्नो ऽर्थः शक्यः मध्यमनरेण ज्ञा- तार्थे वस्तुतो विद्यमानस्यापि वक्तप्रमाणस्य प्रवृत्तिलिङ्गेनानुपस्थि- तत्वात्। अत्र कश्विदाह। अर्थासंस्पर्शिनः सर्वे Sपि शब्दा अङ्गुल्यग्रा- दिशब्दवदिति। स प्रष्टव्यः किं शक्यार्थाभावः साध्य उत पदार्थसं- सर्गरूपवाक्यार्थाभाव इति।आद्ये दृष्टान्तासङ्गतिः।द्वितीयपच्षे प्राभा- करा: समादधते। पुरुषवचसां न पदार्थसंसर्ग: प्रमेयः किन्तु वक्त- ज्ञानमेव प्रमेयं तत्र निर्विषयस्य ज्ञानस्य वाक्येन प्रमातुमशक्यत्वा- द्वाक्यप्रमेयस्य वक्तज्ञानस्य विषयतया पदार्थसंसर्गसिद्धिः। अङ्गु- ल्यग्रे करिणां शतमित्यादिवाक्यानामपि मूलंयत्किश्चिज्ज्ञानं प्रमेयम- स्तीति सार्थकाः सर्वे शब्दा :! तत्समाधानमयुक्तम्। पूर्वोक्तरीत्या वकृ- ज्ञानस्य पदार्थत्वाभावेन वाक्यार्थत्वायोगात्। अपि च अनन्यलभ्यः शब्दार्थ: वकृज्ञानं तु अनुमानलभ्यत्वान्न वाक्यप्रमेयम्।तथा हि अय- मेतदर्यज्ञानवान् एतद्वाक्यस्य स्वातन्त्रयेण प्रयोक्तृत्वात् यो यद्वाक्य- प्रयोक्ता स तदर्थज्ञानवान् यथाहमिति। किञ्च वैदिकवाक्यवत् लौकिकवाक्यस्य संसर्ग एव प्रमेय: उभयत्र संसर्गो Sनुभवाविशेषा- त्। किञ्च संसर्गज्ञानं विना वाक्येन वक्ता संसर्गज्ञानवानिति प्रमा- तुमशक्यम अतो लाघवादावश्यकत्वाच्च संसर्ग एव सखण्डवाक्यानां प्रमेयः न धक्तसंसर्गज्ञानम्। यत्तु सर्ववाक्यानां अङ्गुल्यादिवाक्यवत् प्रमेयास्पर्शित्वमिति तन्न। शुक्तिरूप्यज्ञानवत् सर्वज्ञानानां भ्रान्ति- त्वापातात्। तस्मादसति बाधे वाक्यानां सप्रमेयतेत्यभिसन्धायाह। वकृमानमिति। वकृमान न शब्दार्थो व्युत्पत्तावनुपस्थितः । अत एव न वाक्यार्थो उप्यन्यलभ्यत्वतो Sपि च। एवं वेदानामपौरुषेयतया मूलप्रमाणानपेक्षणात् मानान्तरायो- ग्यरूपादिहीनब्रह्मपरतया संवादानपेक्षपाल्लोके वक्तृज्षानासम्भिनने सिद्धं वस्तुनि गृहीतसङ्गतिकानां सत्यादिपदानां विचारेण वाचकपदै- र्वाच्यैकदेशत्वेनोपस्थितम अखण्डवस्तु लक्षकत्वेन संङ्गतिग्रहाय लभ्योपस्थितये वा मानान्तरानपेक्षणात्। सिद्धवस्तुपरत्वे उप्यनपे- क्षत्वमक्षतमित्युक्तम। अत्र शङ्कते। अनपेक्षश्रुतिजन्यो Sप्यद्वयबोधो व्वैतग्राहिप्रत्यक्षविसंवादादप्रमाणं समताग्राहि त्वगिन्दिियविसंवादे चाक्षुपचित्रनिस्नोन्नतज्ञानवदिति तत्राह। करणे इति।
Page 146
१३२ विवरणोपन्यासे करणे विषये वा उपि दोषो नास्ति यतस्ततः । वेदान्तजो ग्रह्मबोधः प्रमाण विधिबोधवत् ।। प्रत्यक्षे क चिद् भ्रान्तिद्शनन दोषस्य सम्भावितत्वादिन्द्रो मायाभि: पूरुरूप ईयते इति द्वैतज्ञाने मायादोषजन्यत्वनिश्चयाद्य द्वैतावभासो विभ्रमः अद्वैतज्ञानं प्रमा अपीरुपेयनिर्दोषश्रुतिजन्यत्वात्। न च विषये चित्रत्ववत्सिद्धत्वमपि दोष इति वाच्यम्। लोके सि- स्ववस्तुजानानां सर्वेषां तव भ्रान्तित्वापस्तेः। शाब्दवोधे विषयस्या- हेतुतया तन्निष्ठद्दोषस्याहेतुत्वात्।अतो वाधाभावात्तत्वावेदकश्रुतीनां ठयावहारिकमानानां भिन्नविषयत्वा्च सिद्धे वेदान्तप्रामाण्यं रमणी- यमित्यर्थः। यदुक्तमास्न्नायस्य क्रियार्थत्वादिति सूत्रात्सिद्धेन वेदार्थ- तेति तत्राहाज्ञात इति- मज्ञातः फलवानर्थो येन वाक्येन मीयते। तस्यैव तत्र मेयत्वात् कुतः कार्यैकमेयता॥ घेदस्यति शेषः । आस्नायशव्दितविधिवाक्यस्य मानत्वं किं कार्यार्थकत्वेन उत फलवदश्ञातार्थकत्वेन आद्े Sपि कार्यार्थकत्वं कि कार्यबोधकत्वं कार्यपरत्वम्।उभयथापि तत्प्रामाण्यस्य व्याप्यं व्यापकं घा।नादः पतनतात्पर्येणानाप्तोक्ते कूपे पतेदिति वाक्ये स्वार्थाप्रमाणे जर्तिलयवागूहोमवाक्ये च व्यभिचारात्। न द्वितीय: रूपादिप्रमाणं चक्षुरादी व्यभिचारात्। शब्दप्रामाण्यं व्याप्यमिति चेन्न । पुत्रज- न्मवाक्ये व्यभिचारात्। वेदप्रामाण्यं व्याप्यमिति चेन्न। तथा व्या- प्ेरदष्टेः। विधिवाक्ये व्याप्तिर्दष्टेति चेन्न। सन्दिग्धत्वात्। विधिमान- त्वं क्रियार्थत्वप्रयुक्तम अज्ञातार्थप्रयुक्तत्वं वेत्यनिश्चयात्।अक्रियार्था- नामप्रामाण्यातू क्रियार्थकत्वस्य प्रयोजकत्वनिश्चय इति चेन्न इतरे- तराश्रयात्। क्रियार्थत्वस्य विधौ प्रामाण्यव्यापकत्वे निश्चिते तद- भावादक्रियार्थानामप्रामाण्यनिश्चयः तन्निश्चये तन्निश्चय इति आ- स्नायपदस्य कृत्स्नवेदपरत्वे क्रियार्थत्वादिति हेत्वसिद्धिः । एतेन वेदार्थत्वव्यापककार्यमिति निरस्तम। अनुकूलतर्काभावेन व्याप्त्य- सिद्धेः। तस्मादध्ययनविध्युपात्तवेदराशे: फलवदशातार्थत्वेन प्रामा- ण्यमर्थे Sनुपलब्धे तत्प्रमाणमिति वदतो जैमिने: संमतम। अतदर्थत्वे- नार्थवादानामप्रामाण्यमाशड् विध्येकवाक्यत्वोत्तया स्वार्थे निष्फ- लानां फलवदज्ञातक्रियापरत्वेन प्रामाण्यं दर्शितमित्यनवद्यम। यदुक्तं
Page 147
४ सू. ८ वर्णकम् । १३३ सिद्धवस्तुज्ञानात्फलं नास्ति तस्य कार्यबोधाधीनप्रयत्षसाध्यत्वा- दिति तत्राह। ब्रह्मज्ञानादिति-
अज्ञातं फलवद्गक्म सिद्धं वेदान्तमानकम् ।। सर्वो हि लोक: सुखं मे स्याहु:खं माभूदिति वाञ्छति । न तु फलस्य प्रयत्नायाससाध्यत्वं यद्यप्राप्तं स्वर्गादि प्रेप्सति परिहर्तव्यं वा रोगाविवुःखं परिजिहीर्षति तदा तत्साधनप्रयत्ना- यासमङ्गीकरोति। यदा तु प्राप्तमेव कण्ठगतमणिवद्ज्ञानात्प्रेप्सति। रज्जुसर्पवद्धतमेव जिहासति तदा तत्वज्ञानमेवान्यानपेक्षे साधनमि- ति तज्जनका वेदान्ता: कर्मवाक्येक्य उत्कष्टफला: साधनायासफला
णि वेदान्ता: प्रमाणमिति सिद्धम॥ इत्यष्टमवर्णकं समाप्तम् ।।
एवं पदानां योग्येतरान्विते शक्तिमिच्छ्तां लौकिकवाक्यानां भूता- ये मानत्वे Sपि वेदान्तैर्य्रप्मसिद्धिर्नास्तीति वदतां मत निरस्तमिदानी कार्यान्विते शक्तिवादिनां कार्यमेव लोके वेदे वाक्यं प्रमेयं तच्छे- षतवेन सिद्धार्थत्वादिति वदतां मतम् उत्थापयति- अपरे प्रत्यवतिष्ठन्ते (१) वेदान्तैर्व्रह्म सिध्यताम्। स्वप्राधान्यं विधेरेव तच्छेषे ब्रह्म गीयते।। वेदान्ता: कार्यशेपत्वेन ब्रह्म बोधयन्ति उतानन्यशेषत्वेनेति सन्देहे शेषत्वेनेति प्राप्तम। तथा हि लोके व्युत्पित्सुर्मध्यमवृद्धस्य प्रवृत्तिलि- ड्रेन तद्धेतुज्ञानमनुमायानुमितज्ञानस्य विषये प्रवर्तकज्ञानहेतूनां पदानां सामान्येन सामर्थ्ये गृह्णाति तत्र प्रवर्तकं कार्यमेव कार्य- मिति ज्ञानात्स्वस्य स्न्नानपानादिप्रवृत्तिदर्शनात्। इष्टसाधनताज्षानं न प्रवृत्तिहतुः कार्यताज्ञानहेतुत्वेनान्यथासिद्धत्वात्। एवञच प्रवर्त- कज्ानविषयाः कार्यसंसृष्टा अर्थाः पदशक्या इति संमुग्धव्युप्त्त्यन- नतरमावापोद्वापाश्यां गोपदं कार्यान्वितगवि शक्तमिति विषयगत- शक्तिग्रहो भवति शक्यतावच्छेदकन्तु सर्वपदानां कार्यान्वयाश्रयत्वं तञ्च कार्ये उप्यस्तीति तदवच्छेदेनैवानयनलिङ्गादिकार्यवाचिपदानां सङ्गतिसिद्धि:एवं सङ्गतिग्रहानुसारात्कार्यान्वितार्था एव सर्वत्र वाक्य (१) वेदान्तैव्रह्म वाञछतामिति पाठान्तरम।
Page 148
१३४ विवरणोपन्यासे जन्यज्ञानविषयाः तत्र भूतं भव्यायेति न्यायात् कायस्य प्राधान्येन प्रमेयत्वम अन्येषां तच्छेपत्वेनेति स्थितिर्न कार्यसंस्पर्श विना क चि- दपि शब्दार्थो Sस्ति केवलभूतार्ये सङ्गत्यग्रहादिति। अपि च वेदान्तानां सिद्धवस्तुबोधने फलाभाचात्कार्यपरत्वं वाच्यम्। कार्यश्ञानाधीन- प्रवृत्त्यादिसाध्यत्वात् फलस्य।यद्यपि लोके कण्ठगतविस्मृतमण्यादि- इनिमात्राल्लभ्यते तथापि ब्रह्माहमिति ज्ञाने Sपि यथापूर्व संसारोपल- म्भात्कार्याधीनमेव निःश्रेयसमित्यवगम्यते। मननादिविधानाच्च। यदि महावाक्यजज्ञानादेव मुक्तिस्तदा मननादिविधिर्नस्यादस्ति च वि- धिस्ततो वाक्यजज्ञानानन्तरं कार्यमस्त्येव।अस्तु साक्षात्कारार्यमिति चेनन।अतीन्द्रिये साक्षात्कारासम्भवाच्छ्वदस्य परोक्षवृत्तित्वात्तस्मा- त्सो Sन्वेष्टव्य इत्यादिना मोक्षायात्मप्रतिपत्ति: कर्तव्येत्युक्ते को Sसा- वात्मेत्याकाङ्गायां तच्छ्ेषतया सत्यादिवाक्यैरात्मा ब्रह्मरूपः प्रति- पाद्यते इत्याह -- सिद्धे व्युत्पत्तिविरहात्तज्ज्ञानस्याफलत्वतः । मननादिविधानाच्च वेदान्ता: कार्यतत्पराः ॥ इति। एवं ब्रह्मनियोगी शेषशेषिभावेन वेदान्ताप्रतिपादौ इति प्राप्ते नियोगासिद्धिं तावदाह- अ्त्रोच्यते नियोगस्य विषयः सप्रयोजनः । न दृश्यते Sतो वेदान्तैर्नियोगो नैव सिध्यति। न तावच्छाब्दज्ञाने नियोगः । व्युत्पन्नस्य शब्दादेव तत्सिद्धेः । ननु शब्दात्परोक्षानुभवे जाते स्मृतिसन्तानो विधेय इति चेन्न । फलाभावात्। न तावददष्टं फलं मुक्तेरदष्टसाध्यत्वे सवर्गवत्तारत-
इति युक्तं प्रमाणफलस्य केवलादष्टफलत्वायोगात्। न चाहएं सा- च्षात्कारहेतो: प्रमाणस्य सहकारीति वाच्यम ।अतीन्द्रिये ब्रह्मषि साक्षात्कारहेतोः प्रमाणस्याभावात् कार्यपराच्छब्दाङ्गह्मण्यपरोच्षज्षा- नस्यासम्भवात्वया Sनङ्गीकाराच्च। अङ्गीकारे शब्दादेव तत्सिद्धे- रहष्टवैयर्थ्यात्। अस्तु तर्हि स्मृतिसन्तानस्य साक्षात्कारो हएं फलमिति चेन्नासम्भवात् । न हि परोक्षज्ञानावृत्तेरपरोचज्ञानं फलं सम्भवति। अनुमित्या वृत्त्या ,ऽनुमेयापरोक्षादर्शनादावृत्ते रप्माणत्वाच्च । अत एव ध्याने नियोग इति निरस्तम् । उक्तरीत्या फलासम्भवात्। ननु स्मृतिसन्तानध्यानयो: को भेद
Page 149
४ सू. ९ वर्णकम् । १३६ इति चेतु उच्यते। स्वार्थे प्रमाणजन्या वस्तुनिष्ठा स्मृतिर्ध्यानं तु मनो- मात्रायत्तं वस्त्वनपेक्षम इति भेद:। ननु ध्यानात् ध्येयस्य नष्टपुत्रादेः साक्षात्कारो हष्ट इति चेन तद्वदेव ब्रह्मसाक्षात्कारस्य ध्यानजस्य भ्रान्तित्वापाताद। अप्रमाएजन्यत्वाच्च। न च ब्रह्माण शब्दप्रमाण- सम्भवात्तस्य प्रमाणात्वं क्षेयं स्वतस्त्वभङ्गापातादतः सफलस्य वि- षयस्याभावान्नास्ति वेदान्तैर्नियोगप्रमितिरित्यर्थः । किञच शब्दसं- वादात्साक्षात्कारस्य प्रमात्वे तत्करणस्य ध्यानस्य प्रमाणान्तरत्वा- पत्तिःक्लृप्तप्रमाणानन्तर्भावात्।किर्चात्र संवादोऽप्यसिद्ध: शब्दस्य कार्यपरत्वादित्याह- वाक्यस्य विधिनिष्ठत्वे ब्रह्माद्वैतं न सिध्यति। विरोधे Sन्यपराद्वाक्यादन्यसिद्धेरसम्भवात् ॥ इति। ननु देवताविग्रहादिवत्सत्यादिवाक्यैरवान्तरतात्पर्येणाद्वैतं ग्रह्म सिध्यताति चेन्न। द्वैतग्राहिप्रत्यक्षादिविरोधादसति हि विरोधे दैवताविग्रहन्यायः। न चोपासनाविधेरुपास्यब्रह्मसत्वमन्तरेणानु- पपत्तिः । योषाग्निदृष्टिवदुपपसेः । न च विधौ सावकाशैर्वेदान्तैः प्रत्यक्षादिबाधी युक्त: सिद्धान्ते तूपक्रमादिना ब्रह्माद्वैतमेव वेदान्तार्थ इत्यनवकाशत्वाद्वेदान्तानां प्रत्यक्षादिभ्यः प्राबल्यं ब्रह्मसाक्षात्कार- प्रतिबन्धनिरासार्थमवान्तरतात्पर्येष श्रवणादिविधानं चेत्यनवद्यम्। यन्तु कशश्चिदुक्तम । शमाद्यङ्गको ध्यानकरणकः साक्षात्कार एव मुक्तये विधेय इति तन्मन्दम्।ध्यानादसतो पि नष्टपुत्रवत्साक्षात्कार सम्भवे- न ब्रह्मासिद्धिप्रसङ्गातू।न च वेदान्तानां व्रह्मविशिष्टसाक्षात्कारविधी तात्पर्याद्विशेषणत्वेन ब्रह्मसिद्धिरिति वाच्यम । लाघवाद्गह्मण्येव तात्पर्यापातात्।न च विधिस्पर्श विना वाक्यस्य प्रामाण्यायोगाद्गौरवं न दोष इति वाच्यम्। अज्ञातज्ञापनेन लौकिकवाक्यादिवत्प्रामाण्य- स्योक्तत्वाद्वक्ष्यमाणत्वाच्च। न च लौकिकप्रमाणानामक्षातक्षापनेन प्रा- माण्यम वेदस्य तुविधिपरत्वनवेति वैषम्यं युक्तम। साम्यसंभवात्। तदुक्तम। गुणाद्वा Sप्यभिधानं स्यात्सम्बन्धाच्छास्त्रहेतुत्वादिति। आादित्यो यूप इत्यादिशब्दानां लोके गृहीतसङ्गत्या बोधकत्वासंभवे सति वेदे कि पृथक् पुरुषैः संबन्धकल्पनाद्वरं लौकिकसंबन्धानुसरण- मित्याह। गुणाद्वा Sपीति। पौरुषसम्बन्धस्य शास्त्रार्थनिर्णयाहेतुत्वात् लौकिकसम्बन्धानुसारेग गौण्यादिवृत्त्या बोधकत्वं स्यादित्यर्थः। तथा च लोकवेदयोः सम्बन्धात्प्रामाण्यस्याप्येकरूपत्वं युक्तम । तस्माद्विधे-
Page 150
१३६ वित्रणोपन्यासे याभावात् म्रह्मासिद्धिप्रसङ्गाब्च न विधिपरा वेदान्ता इति स्थितम। किश्च कां Sसी विधिशब्दिती लिडादर्थो नियोगः। न तावद्वक्तुरभि- प्रायः। अपीरुषेये वेदे तदसंभवात्। नापि कार्ये कूपपतनादी कार्य- ताक्षाने उप्यप्रवृत्तेः। न चालौकिकं कृतियोग्यं वस्तु नियोग इति वाच्यम्। लोके प्रवर्तकज्ञानविषयत्वेनावगतावलीक्किकत्वायोगातू। अनवगती विध्यर्थत्वायोगात्। यज्जानालोके प्रवृत्तिस्तस्यैव विध्य- र्थत्वात्। ननु कर्तुमिच्छाविषयतायोग्यं कार्यमिति कूपपतनादी नातिप्रसङ्ग इति चेत्सत्यं तथा ऽपि क्रियातत्फलाभ्यां भिन्नं त्वदभिमतं कार्ये न सिध्यति तथाहि सुखदुःखाभावरूपात फलाद्भित्नस्येच्छा- योग्यत्वं फलसाधनत्वमेव तथा च कर्तुमिच्छायोग्यताक्षानात्प्रवृत्ति- रिति बदता कृतिसाध्यत्वे सति श्रेय:साधनताक्षान प्रवर्तकमित्युक्तं भवति। तथा चास्मदिष्टासिद्धिः । यत्तु श्रेय:साधनत्वज्ञानं कार्य- ताज्ञानहेतुत्वेनान्यथासिद्धमिति तन्न सुधांशूदये व्यभिचारेण तस्य तदहेतुत्वात्। पतेन कार्यत्वविशिष्टश्रेय:साधनत्वज्ञानस्य प्रवर्तकत्वे विश्िष्टस्य विध्यर्थत्वाद्गौरवमतो लाघवात्कार्यमेव विध्यर्थः । तज्ज्ञानस्य प्रवर्तकतावच्क्ेदकश्रेयःसाधनताज्ञानजन्यकार्यज्ञानत्व- मिति नातिप्रसङ्ग इति निरस्तम।अवच्छेदकगौरवाच्च। कार्याख्यप- दार्थान्तरकल्पनागौरवादग्निहोत्रादिप्रवर्तके नियोगज्ञाने उक्तावच्छे- दकालाभाञ्च।नियोगाधीनो विनियोग इति हि कार्यवादिनां सिद्धान्तः। नियोगज्ञानात्तद्विषये धात्वर्थे श्रेयःसाधनत्वज्ञानं भवतीत्यर्थः । यत्तु बलवदनिष्टाननुवन्धित्वज्ञानाभावे कार्यज्ञानमेव प्रवर्तकमिति तन्न। प्रयोजनमनुद्दिश्य न मन्दो Sपि प्रवर्त्तते इति प्रसिद्धेः काकदन्तपरी- क्षावदप्रसङ्गाञ्च। तस्माद्वालानामशाब्दभोजनादिप्रवृत्ती विशिष्टक्षा- नमेव प्रवर्त्तकमिति विशिष्टे लिङः शक्तिः । यद्वा कृतिसम्बन्धस्य क्रियायामाख्यातलक्यत्वाच्छ्रेय:साधनत्वमात्रे शक्तिः। अस्तु तर्हि श्रे- यःसाधनविधिपरा वेदान्ता इति चेन्न। ज्ञातस्य तत्वस्य तत्त्वज्ञानस्य वा तदज्ाननिवृत्तिसाधनत्वस्य लोकसिद्धत्वादतो वेदान्तानां प्रमे- यान्तराभावाद्गह्मैव प्रमेयमित्याह। धात्वर्थव्यतिरेकेण कार्य नाम न इश्यते। श्रेयोहेतुर्लिङ्थों Sतो वेदान्ता ब्रह्मगोचराः॥ अत्राह भेदवादी। विधिपराद्वाक्यादद्वैतं न सिध्यतु भिन्नं ब्रह्म सिध्यत्येव। अथ यदतः परो दिवो ज्योतिर्दीप्यते इत्याविश्रुत्या
Page 151
४ सू. ९ वर्णकम् । १३७ जीवप्रपञचाश्यां भिन्नस्य ब्रह्मण: ध्रुतत्वात्तत्र द्वैतभानाविरोधातू। तद्गह्माहमिति सम्पदुपासनया मोक्षः सेत्स्यति न च कृतकत्वेन मोक्षस्यानित्यत्वानुमानं युक्त न स पुनरावर्तते इत्यादिश्रुत्तिबाधा- दिति। तत्राह- मोक्षस्य कर्मसाध्यत्त्रे स्वर्गादिवदनित्यता। तारतम्यञच तस्मान्न ब्रह्मणः कार्यशेषता ॥ अयं भावः ब्रह्म वेद ब्रह्मैव भवति अथायमशरीरो Sमृतः विमु- क्तश्च विमुच्यते व्रह्मौव सन्व्रह्माप्येतीति श्रुतिरशरीर्रह्मभावरूपो मोक्षो नित्यसिद्ध उच्यते स कथमुपासनाख्यकर्मसाध्यः स्यान्न हि सिद्धं कर्मणा कर्तु शक्य यदि कर्मफलं मोक्ष: तर्हि स्वर्गादिवत्सादिः शरीरेन्द्रियादिमता भोग्य: सातिशयः क्षयिष्णुश्च स्यात्। ननु कर्म- णां पशुपुत्रादिविचित्रफलकत्वं दष्टमित्युपासनाया अशरीरब्रह्मभावो ध्रुवं फले सम्भवतीति चेन्न । अपरशरीरं शरीरष्वित्यादिश्रुतावशरीर- त्वस्य स्वाभाविकत्वावगमात् युक्तेश्व। न तावतू शरीरेणात्मनः सं- योगः निरवयवत्वादसङ्ग इति श्रुतेश्च। समवायो नास्ति न सम्भव- ति च नापि तादात्म्यं सत्यं युक्तम। जडाजडयोस्तदयोगातू। तस्माद्धान्तिसिद्वं तादात्म्यं सम्वन्ध इत्यशरीरत्वं स्वतःसिद्धं न कमायत्तं न चानादिसिद्धस्य नित्यस्यापि सांख्यानां सत्वादि- गुणवत्परिणामिनित्यतया मुक्तिपरिणासवत्वेन कर्मसाध्यता स्यादिति वाच्यम। परिणामिनो नित्यत्वायोगात्। ब्रह्मणः कूटस्थ- त्वश्रुतेश्च। तस्मादुपासनाया: सर्वेपु उपासकेपु जीवनादनियमेनै- करूपत्वायोगातू । स्व्रभिन्ने ब्रह्मणि उपासनाजन्यसाक्षात्कारस्य भ्रान्तित्वेन मुत्त्यहेतुत्वात्। उपासनया केशक्षये सत्येकाग्रे चेतसि उदिततत्व्रज्ञानमेवैकरूपं मूलाविद्यानिरासादुपचारेख ब्रह्मभावसा- धनमित्यनन्यशेष्रह्मपरा वेदान्ता इति। यत्तु श्रुतिबलात्कृतकस्यापि नित्यत्वमिति तन्न। यत्कृतकं तदनित्यमिति न्यायसहितया तद्यथेहे- त्यादिश्त्या विरोधात्। ननु न स पुन रावर्तते इति श्रुतिर्मोक्षरूप- कार्यस्य नित्यत्ववादिना विशेषविषयत्वाद्वलवतीति चेन्नेत्याह। वर्तमानापदेशत्वादिहेममिति चोक्तितः । अनावृत्तिश्रुतिः क्षीणा न कार्ये नित्यतां वदेत् । इति। उपासकस्य मोत्तो व्रह्मलोकप्राप्ती उपास्यव्रह्मसारूप्यादिरूप- स्तस्य नित्यत्वेनेयं श्रुतिर्मानं ब्रह्मलोकमभिमंपद्यते न स पुनरावर्तते
Page 152
१३८ विवरणोपन्यासे इति लोकप्राप्तिकाले पुनरावृत्तेरप्रसक्तत्वेन निषेधायोगात् ननु न स पुनरावर्तिष्यते इति कल्प्यते इति चेन्न।न्यायसहितोक्तश्रुतिवि- रोधकल्पना ह्यविरोधमपेक्षते अतो उर्थवादमात्रमेतत्।किश्च ये उपा- सका ब्रह्मलोकं गतास्तेपामिह न पुनरावृत्ति: इमे मानवमावर्ते ना- घर्तन्ते इति श्रुताविह्ेममितिपदाभ्यां यस्मिन्कल्पे ब्रह्मलोकगतिस्त- त्कत्पवाचिभ्यामनावृत्तेर्विशेषितत्वादर्थादुत्तरकल्पे तेपामावृत्तिः प्र- तीयते। आत्यन्तिकानावृत्ती विशेषणवैयर्थ्यात्। तस्मादनावृत्तिथुते- वुर्ब लत्वान्न्यायसहितश्रुतिविशेषणाभ्यामुपासनाफलस्य मोक्षस्यानि- त्यत्वं दुर्वारमित्यर्थः। अपि च ब्रह्म वेद ब्रह्मैव भवति तद्धैतत्पश््य- नृषिर्वामदेवः प्रतिपेदे इत्याद्यनेकश्रुतिपु ब्रह्मविद्यासमकालं फलं धूयते तदस्मतपक्षे युक्तं साक्षात्काराविद्यानिवृ्त्त्योर्मध्ये व्यवधाना- भावात्वत्पक्षे तूपासनाफलयोर्मध्ये कार्यस्यापूर्वस्य कालान्तरभा- विफलहेतोः सत्वात्पश्यन् प्रतिपेदे इति मध्ये कार्यनिषेधो न युक्तः। अपि च तरति शोकमात्मविदिति ब्रह्मात्मसाक्षात्कारस्याविद्या- तमोनिवृत्ति: फलं श्रूयते तमसः पारं दर्शयतीत्युपसंहारातू। अि- द्याया: परं पारं तारयसीति श्रुत्यन्तराच्च। न चोपासनाया: अविद्या- निवर्तकत्वं युक्तं अप्रमाणत्वात्तस्माङ्गह्म वेदेत्यादिश्रुतीनां तमोनि- वृत्तिरूपफलस्य च पर्यालोचनया तत्त्वज्ञानमेव मुक्तिहेतुरिति घ्रह्मात्मत्वपरा वेदान्ताः। किश्च गौतमादिभिर्न्यायकुशलैस्तत्वज्ञानं मुक्तिहे तुरित्युक्त त्वान्नोपासना मुक्ति हेतुरित्याह- तत्वज्ञानं मुक्तिहेतुर्मध्ये कार्यनिषेधतः।
नन्वैक्यज्ञानं न मुक्तिहेतुः इतरभिन्नजीवात्मज्ञानं मुक्तिहेतुरिति न्यायविद्धिरुक्तत्वात् तथा हि। पोडशपदार्थानां तत्त्वज्ञानान्निःश्रेय- सप्राप्ति: कथमित्याकाङ्कायां दुःखजन्मप्रवृत्तिदोपमिथ्याज्ञानानामुत्त- रोत्तरापाये तदनन्तराभावा(१) दपवर्ग इत्युक्तम। अयमर्थः प्रमाण- संशयादिपदार्थविचारः आत्मशरीरेन्द्रियार्थवुद्धिमनःप्रवृत्तिदोषप्रे- त्यभावफलदुःखापवर्गरूपद्वादशविधप्रमेयतत्वज्ञानार्थः। लक्षणप्रमा- णाभ्यां प्रमेयतत्त्वज्ञाने सति तद्भिन्नत्वेन जीवात्मनो ध्यानपरिपा- कात्साक्षातकारे जाते गौरो Sहमित्यादिमिथ्याज्ञानं निवर्तते ततो रागद्वेषमोहा: प्रवृत्ति हेतवो दोषा नोत्पदन्ते ततो धर्माधर्मरूपप्रवृत्त्य- (१) तवनन्तरापायातृपवर्ग इत्यपि पाठान्तरम्।
Page 153
४ सू. ९ वर्णकम् । १३९ भावात्पूर्वसंचितानां पापपुण्यकर्मणां ्रवणध्यानादिक्केशानन्दभो- गेन कायव्यूहेन वा विनाशाजन्माभावे सति एकविंशतितुःखध्वं- सो मोक्ष इति। तथा वैशेपिकैरपि साधर्म्यवैधम्याभ्यां पटपदार्थ-
ज्ञाननिवृत्त्या मुक्तिरित्युक्तम। योगास्तु स्वर्गादी प्रविष्टस्य मनुष्य- जन्ममात्रहेतूनां कर्मणामवशेषे सति मानुषं जन्म भवतीति मनुष्या- णां संचितकर्म नास्त्येव तत्र सुमुक्षोः काम्यनिपिद्धवर्ज नित्यनैमि- त्तिकानुष्ठायिनः एकभविकन्यायेन कर्माभावात्साङ्गयोगानुष्ठानेन क्षीणक्केशस्यासंप्रज्ञातसमाधिजनितेन प्रधानविविक्तपुरुषमात्रविषये- णापरोक्षज्ञानेनानाद्यविवेकलक्षणाविद्यानिवृत्ती दष्टृदृश्ययोः स्वस्वा- मिभावसंयोगनाशादनागतदुःखाभावः पुरुषस्य कैवल्यमत्याहुः। सांख्यास्तु पचविशतितत्वानामभ्यासेनैव विवेकक्षाने जाते पुरु- पस्य स्वास्थ्यमित्याचक्षते । सौगतास्तु सर्वे क्षणिकं शुद्धं दुःखं शून्यमिति चतुर्विधभावनाभिः स्थायित्वकार्यत्वप्रवृत्तिविषयभ्रमेषु क्रमेण क्षीणेपु विशुद्धविज्ञानात्मकचरमक्षोन सोपपवसन्तानोच्छेदो मुक्तिरिति संगिरन्ते। एवमन्ये Sपि भिन्नात्मज्ञानान्मुक्तिरिति वदन्ति। भवानेवको घ्ूते ब्रह्मास्मीति ज्ञानान्मुक्तिरिति तत्कर्थं श्रद्धयमिति। उच्यते। वहुभिरव्यन्धैरुक्तं न श्रद्धेयं एकेनापि श्रुतिचक्षुपोक्तं श्रद्वेयमेव तथा चेन्द्रो मायाभि: पुरुरूप ईयते इत्यादिथ्चत्या भेदज्ञान- स्य भ्रान्तित्वावगमात्तदा SSत्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्स- र्घमभवदित्यभेदज्ञानस्य मुक्तिहेतुत्वश्रुतेस्तदेव मुक्तिहेतुरित्याह- घ्रह्मात्मकत्वविज्ञानं मिथ्याज्ञाननिवर्तकम् ॥ इति। नन्वभेदज्ञानमपि न प्रमा किन्तु विश्वेदेवा एव मन इतिवदारो- व्यप्रधाना सम्पत् । यद्वा मनो ब्रह्मेतिवदालम्बनरूपप्रतीक्प्रधानी उध्यासः वेदस्य कार्यनिष्ठत्वेन वस्तुनि तात्पर्याभावादित्यत आह। ऐक्यज्ञानं न सम्पत्स्यान्नाध्यासो वस्तुसत्त्वतः ॥ इति। तत्वम्पदलक्ष्ययोरक्ये मानान्तरविरोधाभावात्सर्वेषु वेदान्तेषु ऐ- क्यम् तत्त्वमसीत्यादिनोपदिश्यानेन जीवेनात्मना Sचुप्रविश्येत्यादिना प्रवेशार्थवादेन दृढीकृत्याथ ये ऽन्यथा Sतो विदुरन्यराजानस्ते Sक्षय्य- लोका भवन्तीत्यादिना भेदस्य निन्दितत्वन प्रक्रमादिना वस्तुनि तात्प- र्यावगमादैक्यश्षानं प्रमा। किश्च यदि सम्पदादिरूपं स्यात्तर्हि ततो जीवस्य ब्रह्मभावो विद्यानिवृत्तिर्वा न स्यादन्यस्यान्यात्मत्वायोगाद-
Page 154
१४० वितरणोपन्यासे प्रमात्वाच्च।तस्मान्न सम्पदादिरूप ग्रह्मास्मीति ज्ञानं कि त्वखण्डात्मप्र- मेत्यर्थः।अन्न कश्विदखण्डात्मप्रद्वेपी भिन्नाभिन्नो जीव इति जल्पति अत्यन्ताभेदे जीवेश्वरयोरबद्धत्वनित्यमुक्तत्वव्यवस्था कथमिति मुह्य- मानस्तन्मत दर्शयति- भिन्नाभिन्नो जीव इति विरुद्धं मानवर्जितम्। जीवेश्वरव्यवस्थोक्ता मुख्या भेदाजलार्कवत् ॥ इति।
जीवब्रह्मणोरभावान्न भेदाभेदी।ननु पादो Sस्य विश्वाभूतानि ममैवां- शो जीवलोके इति थ्रुतिस्मृतिभ्यामंशांशिभावो Sस्तीति चेन्न।निष्फ- लत्वश्रुत्या तस्य कल्पितत्वावगमात। ब्रह्मणो वस्तुतः सांशत्वे ज- न्मनाशादिप्रसङ्गातू। घटादिना नभस इव बुद्धाद्युपािना Sवच्छ्दा- तू वस्तुतो निरंशस्य ब्रह्मण: सांशत्वं कल्पितमेत्रेति अंशे जीवे भेद: कल्पित एव न हि सत्यौ भदाभेदौ एकत्र सम्भवतः विरोधान्माना- भावाच्च। नान्यो Sतो Sस्ति द्रष्टेत्यादिना भेदं निषिध्यैय आत्मान्तर्या- मीत्यभेदोपदेशाञ्च। कि चाङ्गतुःखनाङ्गिनो देवदत्तस्येवांशिनो ब्रह्मणः सर्वजीवानामंशानां वुःखैर्दुःखित्वं दुर्वारमिति तत्पराप्तिमुमुक्षोरनर्थ एव स्यात् अस्मन्मते तु जीवनानात्वे मुर्तजीवाजीवान्तरसंसारस्य कल्पित त्वेनाधिष्ठानब्रह्मासंस्पर्शाद्गस्मभावः पुरुषार्थः जीवैक्ये तु तत्वज्ञानान्मूलाविद्यानिवृत्त्या सर्वद्वैतं सवप्नवन्निवर्तते न च वामदे- वादिमुत्त्या डघुना संसारोपलम्भो न स्यादिति वाच्यम् । अनन्ता-
निरुपाधिकाद्वितीयचैतन्ये त्वयि ब्रह्मणि प्रत्यक्षे बन्धावभासे सोपा- धिकचैतन्येधु मुक्तत्वावभासी विश्रम एव ब्रह्मणो ऽव्यस्य मुक्तावस- स्वेन बन्धायोगातू।न हि द्रह्मद्वयमस्ति! येन त्वत्तो ऽन्यो वद्दो मुक्तो वा स्यात्। ग्रह्मैकमेव ह्यविद्यया संसरति विद्यया मुच्यते तथा च ्रुतिः ब्रह्म वा इद मग्रआसीत्तदा SSत्मानमेवावेदहं ब्रह्मास्मीति तस्मा- त्तत्सर्वमभवदिति जीवानां बन्धमुक्तिव्यवस्थायामाग्रहिणस्त्वविद्यां- शभेदेन समाधानमुक्तं तस्माज्ीवेश्वरयोः कल्पितभेदेन धर्मव्यवस्था जल ख्वस्थार्कयोरिवेत्यनवद्यम्। एवं सति वाक्यादखण्डात्मज्ञानमा- प्रादेव मुक्तिलाभान्न विधेरवकाशः। ननु ब्रह्मणो ज्ञानक्रियाकर्मत्व- वद्विधेयोपास्तिक्रियाकर्मत्वमपि शङ्कास्पदमिति चेन्न।अन्यदव तद्वि- वितादित्यादिध्रुत्या कर्मत्वमात्रनिषेधादित्याह-
Page 155
४ सू. ९ वर्णकम् । १४१ न कर्मकारकं ब्रह्म किन्तु शास्त्रात्मगीयते। चैतन्याविषयो ब्रह्म वृत्तेस्तु विषयो भवेत् ॥ इति। सविषये ब्रह्मणि शास्त्रस्य प्रामाण्यं कथमिति शङ्कते। किन्त्विति। तत्वमसीति शास्त्रादहं ब्रह्मास्मीत्यखण्डब्रह्माकारं ज्ञान जायते तेन निवृत्तावरणं ब्रह्मचैतन्यं स्वाध्यस्तामविद्यां निवर्तयति तत आ- विद्यक प्रमान्नाददिद्वतं निवर्तते इति निवर्तकत्वेन शास्त्रस्य प्रामा- ण्यं यद्यपि वाक्योत्थवृत्तिस्थप्रतिबिम्बाकारनिरूपकस्य ब्रह्मणो वृत्ति- जन्यावरणादिनिवृत्तिफलशालित्वाद्वृत्तिविषयता Sस्ति तथापि नोपा- स्तिविषयता नेदं यदिदमुपासते इति ब्रह्मण उपास्यत्वनिषेधा- आप्यन्यदेवेत्याद्यप्रमेयत्वश्रुतिविरोधः स्वयंप्रकाशे ब्रह्मणि प्रमाणेन स्फुरणं न क्रियते इति चैतन्याविषयत्वपरत्वादित्यभिप्रेत्याह। शा- स्त्रादिति। असकृदुक्तमपि जीवस्वरूपं वादिविवादाहुर्ग्रहं भवतीति मत्वा पुनर्वोधयति- घ्रह्मवाविद्यया जीवस्तत्वमस्यादिवाक्यतः। लक्ष्यक्यं बोध्यते तस्मान्भेदाभेदो Sप्रमाणकः ॥ इति। घ्रह्मैवाविद्याप्रतिविम्बितं जीवः तस्य ब्रह्मणैक्यं विरुद्धांशत्यागेन लक्षणया वाक्येन बोध्यते। ननु भिन्नाभिन्नता वाक्यार्थः किंन स्यादिति चेन्न। देहादिविशिष्टः संसार्यहं ब्रह्मणा सिन्नाभिन्न इति ज्ञाने बन्धा- निवृत्तेः। न हि भेदांशस्य शास्त्रार्थस्य ध्यानादिना निवृत्तिः कल्पयितुं शाक्यते। शास्त्रविरोधातू। ननु ब्रह्म वेद व्रह्मैध भवतीति फलवा- क्यान्मुक्तावत्यन्ताभेद इत चेतू तहि अभेदज्ञानादेव भेदनिवृत्तिरिति अभेद पव वाक्यार्थः स्यात्। किश्च किं भेदाभेदांशद्वयवान् जीवः उत अंशद्वयं आहोस्विद्देदांश एव जीवः।नाद्यः। अभेदांशस्य ब्रह्मत्वे जीवस्यांशो ब्रह्म स्यादब्रह्मत्वे जीवव्रह्मणोरत्यन्तभेदः स्यात्। द्वितीये किमंशद्वयं भिन्नं उताभिन्नम् अथ भिन्नाभिन्नम्।आद्ये जीवद्वयप्रसङ्ग: द्वितीये ब्रह्मैव जीवः स्यात् तृतीये ऽनवस्थानात्। नापि भदाभेदां -- शो जीवः अत्यन्तभेदापातात्। अतो मेदाभेदौ दुर्निरूपी विरुद्धी धर्म्यादिसापेक्षी तत्तद्वव्यत्वादिना लोकसिद्धी निष्फलौ मुक्तावनव- स्थिती न शास्त्रार्थः । यत्तु मेदेन कर्माविद्यादिदोषव्यवहारः अभेदे- नाहं ग्रह्मास्मीति ज्ञानमोक्षव्यवहार इति तत्प्रलापमात्रम्। दोषवन्तं भे- दांरां जीवं प्रति त्वं ब्रह्मेति उपदेशायोगात्। अभेदांरां ग्रह्म प्रतिउप- देशवैयर्थ्यात्। सर्वे वस्तु भेदाभेदाश्यां साङ्कर्यवादिनस्तव न का
Page 156
१४२ विवरणोपन्यासे चिद्यवस्था अल्नादावपि विषाभेदेन प्रवृत्त्ययोगादित्यादिदोषभृयि- ष्ठो डयं पक्ष इत्युपेक्षणीयः तस्मान्मायया स्वप्नवत्सर्वव्यवस्था यथा- दर्शनमुपपद्यते इति अद्वैतवस्तु शास्त्रार्थ इति शोभनम्। एवमहं ब्रह्मा- स्मीति ज्ञानं न सम्पदादिरूपं नापि भेदाभेदगोचरं किन्त्वखण्डात्म- प्रमारूपं तस्य फल नित्यसिद्धब्रह्मानन्दाभिव्यक्तिरविद्यावरणनिवृत्ति- मुक्तिशव्दिता तस्या आत्ममात्रत्वादनात्मत्वे Sपि ध्वंसत्वान्नानित्य- तादोपः। यस्य तु विधेयक्रियाफलं मोत्षस्तेनेदं वक्तव्यं मोत्षः स्वर्गवत्कर्तृसमवेतापूर्वफलं वा कर्मकारके ्रह्मषि विधेयज्ञानत्रि- याजन्यउत्पत्त्याद्यतिशयो वेति। आद्ये तारतम्यनित्यत्वादिदोप उक्तः। न द्वितीय इत्याह- नोत्पाद्यो न विकार्य: स्यान्मोक्षो नित्यत्वदोपतः। न चाप्यो नापि संस्कार्य आत्मशुद्धागुणत्वतः ॥
ज्ञानेन म्रह्मण उत्पत्ती विकारे चानित्यत्वं स्यात्। अत्र के चिदाहुः। जीवब्रह्मणोर्भेदसहिताभेदस्तादात्म्यमतिरेकाख्यं स्वाभाविकम् अत्य- न्ताभेदस्तु तन्भ्ावो जीवस्य ज्ञानजन्यो मोक्षः सच जन्यत्वे Sपि क्रिया- जन्यत्वाभावान्नित्यः लोके क्रियाजन्यस्यैवानित्यत्वदर्शनादित्याहुः । अत्रोच्यते। किं तन्भावज्ञानात्तन्ावो जन्यते तादात्म्यज्ञानाद्वा आद्येपि ज्ञानं परोक्षमपरोक्षं वा।नाद्यः परोक्षज्ञानात्सर्वेपां तन्भ्ावादर्शनातू।न द्वितीयः ज्ञानजन्यस्य ब्रह्मत्वस्य ज्ञानात्य्रागसत्वेन प्रत्यक्षत्वायोगात्। नापि तादात्म्यज्ञानात्तव्व्वावजन्म तादात्म्यनाश विना तन्भ्ावायोगात्। न हि भेदे सत्यत्यन्ताभेदो भवति।नच तस्य नाशकमस्ति तादात्म्य- ज्ञानं च साधकम न नाशकम तस्माल्लोके ज्ञानजन्यसंस्कारवन्मो- क्षस्यानित्यत्वं दुर्वारमिति संक्षेपः।ननु गन्तुर्ग्रामप्राप्तिवज्जीवस्य ब्रह्म- प्राप्तिर्ज्ञानफलमिति चेन्न ब्रह्मण आत्मत्वेन नित्यप्राप्तत्वादनात्मत्वेपि विभुत्वेन नभीवत्प्राप्तत्वात्।ननु सर्वलोंकोपरितनं विकारास्पृप्टं ब्रह्म प्राप्यमिति चेन्न।तस्यात्रासत्वे मध्यमपरिमाणत्वेनानित्यत्वापातातू। ननु सर्वगतमपि ब्रह्म विकारास्पृष्टत्वेन प्राप्यमिति चेतू। केयं प्राप्ति- ने तावजीवस्य भिन्नस्य ब्रह्मत्वोत्पत्तिः । भिन्नयोरैक्यायोगान्नापि संयोग: अनित्यदोपात्। तस्मान्न प्रदेशान्तरवर्तिव्रह्मप्राप्तिर्मुक्तिरिति। यत्तु तयोर्ध्वमायन्ननृतत्वमेति स एनानू ब्रह्म गमयतीति मूर्द्धन्यना- उयार्चिरादिमार्गेण गन्तृणां प्रदेशान्तरे निर्गुणप्राप्तिर्मुक्ति: श्रूयते नपुं-
Page 157
४ सू. ९ वर्णकम् । १४३ सकग्रह्मशब्दस्य परव्रह्मणि मुख्यत्वादिति।तन्न यः सर्वज्ञः सर्घवित्त- स्मादेतद्रह्म जायते इत्यादिश्रुती कार्यव्रह्मण्यपि प्रयोगमुख्यत्वाप्तस्य शब्दस्य।किञ्चामानवः पुरुप एतानुपासकान्व्रह्मलोकानू गमयतीति बहुवचनान्तलोकशब्दाल्लोकेपु ते वसन्तीत्याधारत्वलिङ्गातू। ऐरंमदी- यं सरः इराऽन्नरसस्तत्कृतमैरं मनकर सर इति सरोलिङ्गात्तु अश्वस्थः सोमसवनः सुधावर्षी अपराजिता पूस्तत्र हिरण्मयं वेश्मास्ति प्रजा- पतेः सभेत्यादिवहुलिङ्गे्यः कार्यलिङ्ग (१)प्रापप्तिरेवोपासकानामिति नि- श्चीयते। किञ्च यद्यर्चिरादिमार्गेण गन्तृणां निर्गुणप्राप्तिस्तदा पश्चा-
द्यानां गुणतारतम्यादुपचयापचयी व्यर्थी स्यातां कार्यब्रह्मपाप्ती तु फलस्य तारतम्यसम्भवात् सफलौ स्याताम्। कि च निर्गुणग्रह्मरू- पस्य मुक्तस्य संकल्पादेव पित्रायः समुत्तिप्ठन्तीति विरुद्धम्। किं च य उपरि गत्वा ब्रह्म भवति स जीवो ऽणुर्विभुर्मध्यमपरिमाणो घा आद्ये कथमणोर्व्रह्मत्वं द्वितीये गत्ययोगःतृतीयेपि नाशिता।ननु घक्षै- घोपाधिपरिच्छिन्नं जीव इत्युपाधिगत्या गतिरिति चेन्न । उपाधधिना Sन- घच्छिन्नस्य निरवयवस्योद्वृत्य नयनायोगादुद्वरणे चाय देशो घ्रहमाशू- न्यः स्यात् उपाधेरपि उपादानस्य ब्रह्मणो निश्चलत्वेन गमनायोगा- तू न हि निश्चलायां मृदि घटस्य गमनं हष्टं तस्मात्खप्रवङ्गमनागमना- दिसंसारो विभ्रम इत्यक्षानध्वंसे सत्यत्रैव मुक्तो ब्रह्मात्मना Sवतिष्ठते न तस्य प्राणा उक्रामन्ति अत्र घ्रह्म समश्नुते इति ध्रुतेर्न देशान्तर- घ्रह्मप्राप्तिर्मुक्तिरिति। अस्तु तर्हि ज्ञानेन संस्कार्य ब्रह्मति चेन्न।स्वतः- शुद्धे घ्रह्मणि दोषाभावेन तन्निवृत्तिरूपसंस्कारायोगान्निर्गुणत्वे गुणा- धानायोगाच्च। शुद्धत्वे निर्गुणत्वे च शुद्धमपापविद्ध केवलो निर्गु- ण इति श्रुतिर्मानम्। ननु तार्क्ष्यध्यानाद्विपनिवृत्तिवद्रह्मध्यानाजीव- गतानाद्यविद्यामलनिवृत्तिः किं न स्यादिति चेन्न। लोके ज्ञानैकनिर- स्यत्वादविद्यायाः । ननु शास्त्रीयैः कर्मभिरात्मनो गुणरूपः संस्कारः थूयते इति चेन्न। साभासवुद्धिरुपाहक्कारस्यैव कर्मकर्तृत्वेन संस्का- रफलभात्त्तात्तस्मान्न ब्रह्मसंस्कारो मोक्ष इति। एवं मोक्षस्य क्रिया- फलत्वायोगाज्ज्ञनकसाध्यत्वमिति सिद्धम्। ननु क्रियाज्ञानयोः को भेदः ज्ञानस्यापि मानसत्वेन ध्यानादिवक्रियात्वादित्यत आ्रह- क्रियाविलक्षणं ज्ञानं संयोगादिविलक्षणा। (१) कार्यब्रह्मपाप्तिग्तियपि पाठान्तरम्।
Page 158
१४४ विवरणोपन्यामे क्रिया प्रत्यक्षतो झेया नानुमेयेति साधितम्।। ज्ञानस्य फलं स्फुरणं नित्यं कर्मफलं जडमनित्यमिति फलतो वैलक्षण्यं विध्यधीनपुरुपेच्छाजन्यप्रयत्नसाध्या क्रिया विषयानपेक्षा घ यथा योषाग्निध्यानम्। ज्ञानं तुन पुरुषकृतिजन्यं किन्तु प्रमाण- घस्तुपरतन्त्रम । यथा Sग्नावग्निज्ञानमति महान्भेदस्तयोरित्यर्थः । अत्र कश्चिदाह। संयोगविभागाश्यामन्या क्रियेव नास्नीति। न चैवं श्येनसंयोगविभागवति स्थाणी चलतीति बुद्धि: स्यादिति वाच्यम्। तयोराधेये द्रव्ये चलनवुद्धिविषयत्वात्। स्थाणोः श्येने प्रत्याधार- त्वात्। श्येनस्तु आ्धेयत्वाच्चलतीति बुद्धिविषयः पत्तिणामप्याका- शाधारनिरूपिती संयोगविभागी चलनवुद्धिविषय इति तन्न आ्र्पराका- शस्याचाक्षुपत्वेन तन्निरूपितयोस्तयोश्चलति पक्षीति चाक्षुषवुद्धि- विषयत्वायोगातू। न गाढान्धकारे नभोज्ञानाभावेन खद्योतश्चलतीति बुद्ध्योगात्। गङ्गाप्रवाहादी सुस्थिरे मकरे जलसंयोगादिमत्याधेये चलतीति वुद्धिप्रसङ्गाञ्च। तस्मात्संयोगादिविभागाभ्यामन्या क्रिया डस्तीत्याह। संयोगादीति। प्राभाकारास्तु ताभ्यामनुमेया क्रिया न प्रत्यक्षेत्याहुः। तथा हि संयोगाजन्यः संयोगः स्वाश्रयगतकादाचि- त्कातिशयजन्यः स्वसमकालमनुत्पन्नद्रव्यनिष्ठत्वे सति कादाचि- त्कत्वात् पाकजरूपादिवदिति संयोगेनार्थान्तरतानिरासार्थ संयोगा- जन्य इति पक्षविशेषणम। तणनिरासार्थ स्वाश्रयगतेति सत्ता- दिनिरासार्थ कादाचित्कति। वेदान्तिमते द्रव्यसहोत्पन्नगुशोषु व्य- भिचारनिरासार्थ सत्यन्तम्। नभोगतपरिमाणादिनिरासार्थ कादा- चित्कत्वादिति। तदयुक्तं किं यावदाश्रयगतातिशयः साध्य उता- श्रयगतः नाद्यःअन्यतरकर्मजसंयोगे व्यभिचारात्। न द्वितीयः कर्मा- समवायिकारणादेव संयोगजन्ससंभवेनाप्रयोजकत्वाद्यथाप्रयत्नवदा- त्मसंयोगात्पादसमवेतान्द्पादसंयोगः किं बहत्तया। कर्मणी यत्कार्य तत्कर्मकरणादेव सुसम्पादमिति नानुमानात्कर्मसिद्धिः । किन्तु प्रत्यक्षादित्याह। प्रत्यक्षत इति। शब्दविद्युदादिवदाशुतरविनाशि- त्वे Sपि क्रियायाः प्रत्यक्षत्वसम्भव इति भावः। एवश्च वेदान्तवि- ज्ानसुनिश्चितार्था इति सम्यग्ज्ञानस्य मुक्तिहेतुत्वावगमाक्रियावि- लक्षणमवे ज्ञानं मोचकमिति न तत्र विधेरवकाशः । नन्वात्मन्येवा- त्मानं पश्येदात्मा द्रष्टव्य इति ज्ञाने विधयः श्रूयन्ते इति चेत्सत्यम् अशक्ये ज्ञाने नियोगासम्भवात्फलरूप आत्मा तैः स्तूयते बहिर्मुखदु-
Page 159
४ सू. ९ वर्णकम् । १४५ लेभी बहुपुण्यपु्जलभ्यो ज्ञानलभ्यो Sयमात्मेति एवं स्तुतौ तदर्थी विषयविमुखः सन् श्रवणादी प्रवर्तते यद्वा द्रष्टव्य इत्यहार्थे कृत्य- प्रत्ययः पश्येदिति वाक्यं शान्त्यादिविधिपरम् आत्मानमेव लोकमुपा- सीतेति वाक्यं तूपासीतेतिपदेनाहमहमित्यात्मज्ञानधारानुवादेनैव- कारेणानात्मांश निषिद्ध्य केवलात्मविषयपरं भवति तस्माद्वेदान्तेषु विधेयक्रियातत्फलयोरभावान्न विधिशेषतया ब्रह्मप्रमितिः किन्तु स्वप्राधान्येनेत्युपसंहरति- ज्ञाने श्रुतो लिडादि: स्यात्स्तावको ऽर्हार्थ एव वा। एवं ब्रह्मषि मानत्वं वेदान्तानां प्रसाधितम् ।। इति। एवं तावत्समन्वयसूत्रस्य प्रथमवर्णके वेदान्तानां मानान्तरान- पक्षत्वं द्वितीयवर्णके विध्यनपेक्षत्वं सफलत्वं चोक्तम् अधुना वर्णक- द्वयार्थ आक्षिप्य समाधत्ते- ये तु सिद्धार्थको वेदो नास्तीत्युच्चैर्वदन्ति ते। तन्त्वीपनिषदंश्चत्या वाध्या: स्मृत्या च संविदा ॥ इति। किमहं कर्ता वेदान्तैः प्रतिपाद्यः किं वा तदन्यः आदे तस्य कर्मकर्तृत्वाद्विधिशेषता न द्वितीयस्तदन्यस्यानात्मत्वादात्मत्वे कर्म- सेरतायाः दुरपन्हवत्वात्तथापस्तम्वो ऽपि वेदानां कार्यार्थतां दर्शयति त्रैविद्यवृद्धानां वेदा: प्रमाणसिति निष्ठा तत्र यानि श्रयन्ते व्रीहिय- वादीनि तैरुच्चैनीचैःफलाय कर्म कार्यमिति शङ्कार्थः । त्रैविद्यं वेदाः। सिद्धान्तस्तु अहङ्कारादन्यस्तत्साक्षी ब्रह्मत्वेन प्रतिपाद्यते । न च तस्याङ्गत्वं भवति नाप्यङ्गत्वे मानमस्ति वेदान्तवाक्यस्यापूर्वव्रह्मा- त्मपरत्वात् । तेनैवात्मनः कर्माङ्गत्वबोधने वाक्यभेदापत्तेः आ्प- स्तम्बवाक्यं तु कर्मकाण्डपरं तन्त्वौपनिषद पुरुषं पृच्छामि सर्वे वेदा यत्पदमामनन्तीति ्रुत्या वेदैश्च सर्वरहमेव येद्य इत्यादिस्सृत्या च सिद्धस्य ब्रह्मण एव सर्ववेदार्थत्वावगमात्कर्मकाण्डस्यापि शुद्धिद्वारा ब्रह्मप्तीतेश्च।न च सा भ्रान्तिवधाभावात् न ह्यात्मनो उत्यन्ताभावः प्रमातुं शक्यते प्रमातुरभावात् अतः सर्वसाध्यवाधितो वेदान्तार्थ इत्यर्थः। यन्तु प्रवृत्तिलिङ्गानुमितज्ञानविपये कार्यार्थे सङ्गतिग्रहादास्ना- यस्य क्रियार्थत्वादिति सूत्राच्च वेदान्ता: कार्यपराः सिद्धार्थे शत्तभावा- दिति तन्न सूत्रहृदयश्र्भट्टपादैरभिहितान्वयस्य दर्शितत्वात्। तथा हि गामानयति वाक्यप्रयोगसमनन्तरभाविमध्यमनरप्रवृत्तिलिङ्गानुमित- प्रवर्त्तकज्ञानविषयतया ज्ञाते पि कार्यसंसृष्टार्थेपदानां शक्ति: गांवधा- १९
Page 160
१४६ वितरणोपन्यासे नति प्रयोगे आनयनकार्यास्पृप्टपिण्डमात्रान्वयादतो गोपदस्याव्याभि- चाराद्वोमातरं शक्यम् एवं सर्वपदानां सिद्धे कार्ये वा शुद्धार्थ शक्ति: पदैरभिहितैः शुद्धार्थः संसर्गो वोध्यते इत्यभिहितान्वयवादः। पदानां पदार्थस्मृत्यन्यथासिद्धत्वादर्थानां करणत्वमित्यभिमानः । अस्मिन् मते त्वक्रियार्थानां शब्दानामानर्थक्यं नाम फलाभाव एव। न त्वर्थाभावः शुद्धार्थस्य सत्वात्। तथा च यस्मिन्वाक्ये स्वार्थफलाभावस्तस्या- प्रामाण्यपरिहाराय सफलविधिशेषत्वं वाच्यमिति जैमिनेर्हदयम। एवश्च सो Sरोदीदित्यादिवाक्यानां विधिशेषत्वं न्याय्यं न वेदान्तानां स्वार्थे ब्रह्मणि मुक्तिफलसत्वादिति मत्वा ब्रूते- भट्टपादा जगु: स्पषं शुद्धार्थे पदसङ्गतिम्। अर्थः संसर्गधीरेषा Sभिहिता ऽन्वयवादिता ॥ इति ॥ प्राभाकरास्तु व्युत्पित्सुना प्रवृत्तिलिङ्गानुमिते कार्यसंसृष्टार्थ- ज्ञाने उन्वयव्यतिरेकाश्यां वाक्यस्य सामर्थ्यावगमात्कार्यसंसृष्टार्थे पदानां संमुग्धशक्तिरवगता पश्चादावापोद्धाराभ्यां कार्यान्वितगवि गोपदशक्तिरवगम्यते न शुद्धार्थे कार्यविशेषस्य व्यभिचारे Sपि कार्य- मात्रस्थाव्यभिचारादन्यथा पश्चाच्छुद्धार्थे शक्तिग्रहे संमुग्धव्युत्प्त्ति- वाधात्पदार्थानां संसर्गधीकरणत्वकल्पनागौरवाच्च तत्कार्यान्विते श- क्तिरित्याहुः। अत्रोच्यते क्रियातिरिक्तं कार्य तञ्च लोकेवक्तुरिच्क्ारूपं वेदे त्वपूर्वमिति तव मतम्। तत्र यदि कार्यान्विते सर्वेषां पदानां शक्तिस्तदा शुक्कां गामानयेत्युक्ते गवि गुणकर्मकारकक्रियाभिः सं- सर्गा: क्रमेण शब्दैर्न प्रतीयेरन् शब्दानां तत्राशक्तत्वातू। अतस्तत्प्र- तीतिनिर्वाहार्थमितरान्विते उर्थेशक्तिरिति युक्तम्। न चैवं सति संसर्ग- भेदाद्वाक्यभेद: स्यादिति वाच्यम।अवान्तरसंसर्गनानात्वे Sपि प्रधा- नसंसर्गस्यैकत्वात न चाव्यभिचारात्कार्यान्विते शक्तिरिति वाच्यम्। वक्तृज्ञानस्यापि अध्यभिचारात्।न च वक्तज्ञानस्य प्रयोगे हेतुत्वेनैवा- न्वयो ऽन्यथासिद्ध इति न शक्यत्वमिति वाच्यम्। कार्यान्वयस्यापि प्रवृत्तावन्यथासिद्धत्वेन शक्यत्वात् राजपुत्रः पीतवासा: सुरूपः स्नात्वा भुक्क्ता क्रीडतीत्यादिभूतार्थवाक्येषु कार्यस्य व्यभिचाराच्च।न च कार्य विना राजपुत्रादेर्भूतार्थस्य द्रव्यगुणादिभिः संसर्गो न भा- तीति युक्तमनुभवविरोधाद्वक्तृश्रोत्रोरनपेक्षितस्य कार्यस्याध्याहारे कल्पनागौरवादतः कार्य बिना भूतसंसर्गानुभवाल्ाघवाच्च योग्येत- तरान्वितत्वं शक्यतावच्छेद कम। न च ततो Sपि लाघवाच्छुद्धार्थे शक्ति-
Page 161
४ सू. ९ वर्णकम् । १४७
नुपपत्तेः।नच पदार्थत्वेनान्वयानुमानादाकाङति वाच्यम्। भटित्या- काङ्ानुभवविरोधातू। शब्दश्रवणानन्तरं नियमेनानुमानकल्पनायां शब्दप्रामाण्यापाताच्च।वृत्ति बिना शब्दानामबोधकत्वात्संसर्गबोधस्य शाब्दत्वप्रसङ्ग्चत्यलम्। किश्च कार्ये कार्यान्वयाभावादितरान्वितत्वं शक्यतावच्छेदकमू।न च तत्रापि घात्वर्थयागादिरूपकार्यान्वयोऽस्ती- तिवाच्यम्। यजेतेति लिड नियोगाख्यकार्यबोधक्षणे यागे कार्यत्याप्र- तीतेः । धात्वर्थमात्रान्वितकार्यप्रतीत्युत्तरकालत्वाद्धात्वर्थे कार्यता- प्रत्ययभ्य। तथा चान्योन्याश्रयः । लिडर्थज्ञाने सति धात्वर्थे कार्य- ताज्ञानमस्मिन्सति लिङर्थज्ञानमिति। न च कार्यान्वयाश्रयत्वं का- यें उप्यस्तीति तदेवावच्क्वेद कमिति वाच्यम्। पदात्तत्प्रकारकबोधादर्श- नात्पद जन्यज्ञानाविषयस्यानवच्छेदकत्वात्तस्येतरान्वयापेक्षया गुरु- त्वाच्च।किश्च लोके निधण्ट्वादिना सिद्धे जर्थे संगतिग्रहान्न कार्य सर्व- शब्दार्थः।तस्मादितरान्वितः शब्दार्थ इति सिद्धम्। एतेन गामानयेत्यत्र गोपद स्येतरान्वितशक्तावनेकेतर संसर्गाणं पदार्थत्वादयं संसर्गो वा- क्यार्थ इति नियमो न स्यात्। न चानयनान्वित एव गोपदार्थ इति वाच्यम्। आनयेतिपद्वैयर्थ्यापत्तेः । विशेषाणामानन्त्येन तदन्वितार्थे शक्तेर्दुर्गहत्वात्सर्वपदानां पर्यार्यतापत्तेश्च।न चाभिहितेतरान्विता गौः पदार्थस्ततश्चेतराभिधानार्थमानयपदमर्थवदिति वाच्यम्। आनयप- दस्याप्यभिहितेतराभिधायित्वेनान्योन्याश्रयात्।गोत्वे Sभिहिते तत्सं- सृष्टानयनाभिधानम् आनयने भिहिते तत्संसृएं गोत्वाभिधानमिति। तस्मान्नेतरान्विते शक्तिर्नापि विशेषान्विते नाप्यभिहितान्विते Sतः परि- शेषात्कार्यान्विते शक्तिरिति निरस्तम्। गोपदादितरान्वितगोरभिधाने
तयोरभिहितयोर्विशेषयोरितरेतरसंसर्गो वाक्यार्थ इति सिद्धम्। त- स्य निर्दोषत्वात्। यत्तु पदातिरिक्तवाक्याभावात्पदानां क्षणिकत्वात् न संसर्गवोधे करणत्वं किन्तु स्थायित्वात्पदार्थानां करणत्वमिति तदति- मन्दम्।अनभिहितार्थानां करणत्वे सदा बोधप्रसङ्गात्।न चाभिहितानां करणत्वम्।अन्त्यपदार्थाभिधानक्षणे पूर्वाभिधानां स्मृतिरूपाणां नष्ट- त्वात् नचान्त्ये समूहालम्वनस्मृत्युपारूढा अर्था:करणमिति वाच्यम। पदानामपि तथा करणत्वापेपत्तेः पदार्थस्मृतरव्यापारत्वेनाव्यवधाय- कत्वादन्यथा वाक्यार्थस्याशाव्दत्वापत्तेरित्यलं विस्तरेण। एतत्सर्व-
Page 162
१४८ विवरणोपन्यासे
मभिप्रेत्याह- प्राभाकरास्तु कार्येण संसृष्ठे शक्तिवादिनः । अस्माकमन्विते शक्तिलघिवाद्युपपत्तिभिः ॥ इति। यन्तु तन्दूतानां क्रियार्थेन समाम्नाय इति सूत्रात्कार्य सर्वशब्दार्थ इति तन्न। तन्भ्ाप्यकारेण शुक्क: पटः खण्डो गौरित्येवं सिद्धार्थे व र्तमानानां पदानां समाम्नायः सामानाधिकरण्याद्यर्थत्वेनोच्चारणमि- ति दर्शितत्वात्। क्रियार्थेनेत्युक्तिस्तु धर्मविचारस्य प्रस्तुतत्वावु- पपद्यते। कर्मकाण्डे निष्फलस्य भूतसर्गस्य क्रियार्थत्वाद्यदि पुनर्जे- मिने: कार्यमेव वेदार्थ इति मतं स्यात्तदार्थे Sनुपलब्धे तत्प्रमाणमि- त्युक्तिर्न स्यात् तद्गुरुणा भगवता व्यासेन वेदान्तानामखण्डार्थे तत्तु समन्वयादित्यादिना तात्पर्य निरूपयितुं पृथक् शास्त्र नारभ्येतेत्याह- व्यासेन पृथगारम्भात्सिद्धार्थे वेद इष्यताम । व्यासोक्तारये जैमिनेम्तु विमतिर्न कदा चन। इति। इतरान्वितशब्दार्थ इत्युभयो: संमत तन्त्रभेदस्तु सिद्धसाध्यरूप- प्रतिपाद्यभेदादिति भावः। ननु सामान्यान्वयः पदार्थो विशेषान्वयो घाक्यार्थ इति स्थिते कथमखण्डार्थत्वमिति चेदुच्यते। सैन्धवघन एवेत्येकरसत्वावधारणादतो ऽन्यदार्तमित्यन्यस्य नाशित्वेन कलपि-
र्थत्वम्। न च प्रथमाविभत्तर्थसंसर्गः तस्या: पाणिन्याचार्येए प्राति- पदिकार्थमात्रे स्मरणात्। यत्तु क्रियान्तराभावे Sपि अस्त्यर्थन क्रियासंसर्गः सर्वत्रास्ति अ्स्तिभवतिपरः प्रयोक्तव्यः इति कात्या- यनस्मरणात् । भवतिपरः लडन्त इत्यर्थः इति तन्न। वने सिंह इत्यादी प्रथमायोगे यत्र क्रियाकाङ्का तत्रास्तिः प्रयोक्तव्यः यत्र तु अमी दरुमाः फलिता इति विशेषणे तात्पर्य तत्र नैवास्तिक्रियासम्ब- न्धः निराकाङ्गत्वात्। एवं सत्यादिवाक्यरखण्डार्थबोधे निराकाङ्कि तत्वान्न क्रियासम्बन्ध इति सिद्धान्तः । एवं तावदितरान्वितशक्ति- कथनेन वेदान्तानां सिद्धार्थे प्रामाण्यमुक्तमिदानीं ब्राह्मणो न हन्तव्य इत्यादिनिषेधवाक्यवद्वेदान्तानां सिद्धार्थनिष्ठत्वमित्याह- कार्य निषेधशास्त्रे स्पाहुर्लभं कूर्मदुग्धवत्। तद्वद्वेदान्तशास्त्रस्य सिद्धार्थे मानता स्थिता ॥ इति। नञ्रस्तावदभावो मुख्योर्थः। नेक्षेतोद्यन्तमादित्यमित्यत्र तु तस्य ब्रह्मचारिो व्रतमित्यनुष्ठेयवाचिव्रतशब्दादीक्षणविरोधिनी नेक्षेSह-
Page 163
४ सू. ९ वर्णकम् । १४९ मिति सङ्कल्पक्रिया नषा लक्यते।ननु "नामधात्वर्थयोगी तुनैव नञ्र प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिना"विति वार्तिके तदन्यतद्विरुद्धयोरपि नञर्थत्वमुक्तमिति चेत्सत्यम। नञर्थाभावस- म्बन्धादन्यविरुद्धी लक्ष्यावित्येतत्परत्वात्। लक्षणया तल्लाभे शक्य- त्वकल्पना Sयोगात्। निषेधवाक्ये तु लक्षणायां कारणाभावादभाव एवार्थ इति न सर्ववाक्यानां कार्यपरत्वम्। अत्राह प्राभाकरः ।न ग्रा- ह्णस्याभावो नञर्थः प्रत्यक्षविरोधान्नापि हन्त्यर्थस्याभावः हनमस्य प्राप्तत्वात्। नापि तव्यप्रत्ययस्याभावोर्थः । हनने कार्यत्वस्येप्टसा- धनत्वस्य वा सत्वात्। तस्मादभावरूपार्थासम्भवाद्धननविरोधिस- झल्पो नअर्थो विधेयो डहननं कुर्यादिति। तस्मात्कार्यनिष्ठमिद वा- क्यमिति। उच्यते। हननप्रागभावो नञर्थः। न हन्तव्यम् हनना- भाव इष्टसाधनमित्यर्थः। इष्श्चागामिदुःखाभावस्तस्य प्रयोजको ह- ननाभावः।कारणाभावस्य कार्याभावपरिपालकत्वात्।न च हननाभावे नियोग: प्रत्ययार्थ इति वाच्यम्। अभावस्यानादित्वेनाननुष्ठेयत्वातू। अथ वा प्रत्ययार्थस्येष्टसाधनत्वस्याभावो नञर्थः । ननु हननादिएं दृश्यते इति चेत्सत्यं न तदिष्टं वलवदनिष्टानुविद्धत्वात्। बलवदनि- प्टाननुविद्धमिष्टमित्याचक्षते वृद्धास्तथा च हन्तव्यो न हननं बलव- दनिष्टाननुबन्धीष्टसाधनं नेति प्रत्ययानुदितस्य विशिष्टस्य निबन्धे सति अर्थाद्वलवदनिष्टानुबन्धि हननमिति बुद्धिर्भवति। तया हनने विशिष्टेष्टसाधनत्वभ्रमो निवर्तते । ततस्तङ्ममूलयो रागप्रयत्नयोरा- त्यन्तिकनिवृत्तिरूपमौदासीन्यं भवतीति निषेधवाक्यम् नअर्थे Sभावे सिद्धरूपे पर्यवसितं तद्द्वेदान्तानां सिद्धार्थनिष्ठत्वमित्यर्थः । किश्च विधिवाक्ये Sपि नापूर्वनियोगाख्यं कार्य प्रत्ययार्थः । येन तत्र वेदस्य तात्पर्य स्यात कुत इति चेदप्रसिद्धत्वेन लोके तत्र लिडादे सङ्गत्य- प्रहात्। ननु लोके धात्वर्थकार्यतायां सङ्गतिग्रहात्स्वर्गकामिकृति- साध्यता यागादी लिडा प्रतिपत्ना सती तत्रेष्टा स्वर्गसाधनत्व कल्प- यति ततः क्षणप्रध्वंसिनः स्वर्गसाधनत्वानुपपत्या कल्पिते नियांगे सङ्गतिग्रह इति चेन्न। वकबन्धप्रयासान्नियोगः स्वविपये यागे का- र्यता बुद्धिहेतुरिति ते मतम आदावेव च्चेलिडा सा लब्धा किं कल्पि- तनियोगेन सङ्गतिप्रयासेन। न हि बके लब्धे तच्छिरसि नवनीतप्रचं- पायासः फलवानू। अथ यागादी प्रतिपन्नकार्यतानिर्वाहार्थमेवापूर्वे कल्व्यतामिति चेत्कामं क्प्यतामन्यलभ्यत्वान्न तस्य शव्दार्थत्व-
Page 164
१९० विवरणोपन्यासे मिति वदामः। इष्टासाधनता विध्यर्थ इत्युक्तम् न विस्मर्तव्यमिति स्गेपः । यत्तु श्रुतब्रह्मणो Sपि यथापूर्व संसारदर्शनान्न ज्ञानमात्रा- नमुक्तिरिति तत्राह- घ्रह्मात्मावगती सत्यां संसार: पूर्ववन्न हि। अज्षानमूलः संसारो ज्ञाने सति कथं भवेत्॥ इति। अगतिः साक्षात्कारः। ननु कर्मनिमित्तः शरीरबन्धः आत्मनः कर्मणैव निवर्तनीयों न ज्ञानेनेत्यत आह। अज्ञानेति। असङ्गकूटस्था- त्मनि कर्मासम्भवादनाद्यनिर्वचनीयाज्ञानमूलै: कामकर्मभिः संसारो घाच्यः । सतो ज्षानेन मूलध्वंसान्न ज्ञानिनः संसार: तत्र को मोहः कः शोक एकत्वमनुपश्यत इत्याद्या: श्रुतयो पि ज्ञानमात्रान्मुक्तिं दर्शयन्तीति भावः। ननु तर्हि ज्ञानिनो द्वैतदर्शनं कथमित्यत श्र्ाह्- ज्ञानात्सर्वस्य नाशे Sपि प्रारब्धं न निवर्तते। देहे सत्यपरोक्षा धीर्व्यासादीनां यथा तथा॥ इति। कर तलीकृतब्रह्मतत्वस्यापि प्रारब्धकर्मास्ति तस्य तावदेव चिर-
घलात्क्षीयन्ते चास्य कर्माणीति सामान्यश्रुतिः प्रारब्धकर्मातिरिक्त- कर्मविषया। न चाजाननाशे तदुपादानकं प्रारब्धं कर्थं तिष्ठेदिति वाच्यम्। अंशभेदादज्ञानस्य द्वावावरणविक्षेपावंशी तत्रावरण- ज्ञानांश एव ज्ञानात्सय्यो निवर्तते ज्ञानेन समानं विषयतया विरो- धाद्विक्षेपकाज्ञानांशस्तु यावत्प्रारब्मवतिष्ठते छिन्नमूलवृक्ष इव यावत्वकुसारम्। ज्ञानाभिव्यक्तचैतन्यात्मके निवर्तके सत्यपि प्रार- दधप्रतिबन्धाद्वा तन्निर्वाहकाज्ञानांशानिवृत्ति: अतः प्रारब्घदोपबलादू व्युत्थानदशायां द्वैतदर्शनमिति भावः । अत्राह जीवन्मुक्तिद्वेषी नाम्त्येव सशरीरस्यापरोक्षात्मज्ञानमिति तत्राह । देहे सतीति । अस्तीति शेषः । न हन्धनव चक्षुष्मता रूपदर्शनं नास्तीति वक्तुं शक्यमप्रतिबद्धसामग्रीसत्वादतो निविडपापमण्डलीजडीकृतस्वान्त- स्य ध्वान्तध्वंसिज्ञानभानुजनुरभावे Sपि बहुजन्मनिचयसञ्चितभग- घदपचितिवञ्चितपञ्च क्ेशमलमानसाना महानुभा व लब्धमहावा- क्यानां सत्येव शरीरे ज्ञानमुत्पदते। उपपद्यते चोक्तयुक्त्ा जीवन्मु- क्तिशास्त्रं तद्यथा Sहिनिर्ल्वयनी अभयं वै जनकप्नाप्तो Sसि क्षीयन्ते चास्य कर्माणीत्यादि स्मर्यते च व्यासवसिष्ठादयो जीवन्मुक्ता इति। ननु ज्ञानिनो देहदर्शनसत्वे कर्माधिकार: स्यादित्यत शह-
Page 165
४ सू. ९ वर्णकम् । १५१ ज्ञानिनो न नियोग: स्या(9न्न स्वेष्टाचरणं तथा। मननादिनियोगस्य ज्ञानात्पूर्व गतत्वतः । इति। अविद्यावद्विपयं शास्त्रमित्युक्तम। ज्ञानिनः कर्मकरणाध्यासा- भावात्तत्फलानपक्षत्वाञ्चेति। न च विधिनिषेधातीतत्वे यथेष्टचेष्टा- प्रसङ्गस्तत्रापि रागस्य हेतुत्वात् न हि निरस्तसमस्तानर्थानन्दाब्धि- मग्नचित्तस्यान्यत्र रागः सम्भवति। ननु ज्ञानिनः कर्म नास्तीति कथं श्रवणानन्तरं मननादिविधिरिति चेर्तिक तावता न हि श्रवण- मात्रादपरोक्षज्ञानमस्ति अ्प्रतस्तदर्थमेव मननादिविधानम् ।अतो वा- क्यार्थानुभवे सति न किश्चित्कार्यमस्ति येन विधिपरा वेदान्ता: स्युः। सर्वश्ञवादरायणेन पृथक् शास्त्रं नारभ्येत। यदि वाह्यान्तरसाधनविधि- भेदाच्छास्त्रभेदस्तर्हि अथातः परिशिष्टमानसधर्मजिज्ञासेत्यारभ्येत अतो ब्रह्मजिज्ञासेत्यारब्धत्वा्गह्मपरा वेदान्ता इति सिद्धम। अत्राह सर्वसंकरवादी सत्यो भेदो नाभेदज्ञाननिवर्त्यो Sविरोधात्किन्त्वभेदा- ध्यासरूपात्कर्मणो भेदनाश इति तन्न। मानाभावात्। ब्रह्म वेद व्रह्मैव भवतीति ज्ञानैकनिवर्त्यत्वावगमादविरोधे तदभ्यासादपि निवृत्त्ययोगात्। विरोधे तु नोभयोः सत्यत्वं खण्डो गौरित्यादिप्रत्य- यानां कल्पितभेदविषयत्वात् बहुधा निरस्तो 5यं भेदाभेदवाद इत्यु- पेक्ष्यते। तार्किकाभिमतात्यन्तभदवादस्तु मानयुक्तिहीनः। तथा हि सर्वदेहेष्वहमित्येकाकारप्रत्यय आत्मैक्ये प्रमाणम्। विवादग्रस्ता देहास्त्वन्ध्ोक्तृका: जीवदेहत्वात्वद्वेहवत् इत्याद्यनुमानमेको देव: एक एव हि भूतात्मा भूने भूते व्यवस्थित इत्यादिरागमः सुख- दुःखादिवैचित्रयं त्वन्त:करणभदादुपपद्यते द्वा सुपर्णत्यादिश्रुतिस्तु कल्पितभेदमनूद्यानश्नन्नन्य इति वाक्यशेषेणसंसारित्वं बोधयति। नान्यो Sतो डस्ति द्रष्टेत्यादिना भेदस्य निषेधाच्च कल्पितत्वं धर्मि- प्रतियोगिसापेत्तत्वाञ्च। तथा हि प्रतियोग्यवृत्तित्वेनानुयोगिवृत्ते- र्धर्मस्य ज्ञानं भेदज्ञाने कारणं घढत्वं पटे नास्तीति जानत एव घटः पटो न भवतीति प्रतीतेरजानतो Sप्रतीतेरनुयोगितावच्छेदकस्य धर्म- स्य प्रतियोग्यवृत्तित्वज्ञानं तु भेदज्ञानाधीनमिति अन्योन्याश्रयात्। प्रातिभासिक एव भेदो Sमेदस्तु न भेदाभावः किन्तु भेदभ्रमहेत्व- ज्ञानाधिष्ठानवस्तुस्वरूपः । तस्मादद्वैतवस्तुसाक्षात्कारमात्रात्सर्व- वस्तुद्वतनिवृत्तिर्युज्यते इत्याह- (१) स्याद्यथेष्टाचरणं तथेति पाठान्तरम।
Page 166
११२ विवरणोपन्यासे भेदाभेदी न सत्यी सतो Sभेदः सत्यो मृषा भिदा। अभेदाजानजं सर्व तज्ज्ञानाद्विनिवर्तते॥ मनाद्यविद्याविलसितान्तःकरणाद्युपाधिनिबन्धनः प्रमातृत्वाभि- मान आत्मनो यावन्न निवर्तते तावदेव शास्त्रीयो लौकिकश् सर्वो उयवहार: अद्वितीयनिरतिशयानन्द चैतन्यैकताननिरवयवस्वच्छास- ङ्प्रत्यग्भूतब्रह्मसाक्षातकारात्तत्निवृत्ती सर्वो व्यवहारो निवर्त्तते इति घेदान्तजन्यज्ञानात्कृतकृत्यतामाह- प्राप्तव्यमखिलं प्राप्तं हातव्यमखिलं हतम्। कृत्यं ज्षेयं समाप्तं च ब्रह्मास्मीत्यवबोधने ॥ इति। अश्वमेधादिभिरव्यात्मानन्दस्यैव लेशा: प्राप्तव्या एतस्यैवान- न्दस्यान्यानि भूनानि मात्रामुपजीवन्तीत्यादिश्रुतेरत आत्मज्ञानिना ते लब्धा भवन्ति तदाहापस्तम्बः । आत्मलाभान्न परं विद्यते इति निर्गलितसकलशोकस्यात्मनो ये शोका भ्रान्तिमूला हातव्या आ- संस्ते सर्वे Sपि हता भवन्त्यतः कामयितव्यान्तराभावात्कामानुपपत्तेः कृतकृत्यता भवति। इत्थं निरतिशयफलावसानाद्वेदान्तानां घ्रह्मा- त्मनि तात्पर्यमिति सिद्धम् ॥ गोविन्दानन्दभगवत्पूज्यपादपदौकसा। रामानन्दसरस्वत्या रचितो ऽनुक्रमो मुदे॥ घोधगन्धा विवरणवाक्पुष्पा नवरूपिणी। उपन्यासाभिधा माला प्राप्ता श्रीरामपादुकाम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पूज्य- पादशिष्यरामानन्दसरस्व्रतीकृती विवरणोपन्यासे नवमं वर्णकं समाप्तम् ॥ समाप्तो 5यं विवरणोनन्यासः॥
Page 167
श्रीगणेशाय नमः । श्रीसच्चिदानन्दजगद्गुरवे नमो नमः । श्रीमच्छङ्गराचार्यप्रणीता वाक्यसुधा श्रीमद्दूह्मानन्दभारतीप्रक्कृप्या टीकया सहिता।
यस्मात्सर्व समुत्पन्नं चराचरमिदं जगत्। इदं नमो नटेशाय तस्मै कारुण्यरूपिणे॥ १॥ कारणं खादिजगतां तारणार्थमनागसाम्। वारणाननमात्मानमद्यं समुपास्महे॥२ ॥ परापश्यन्त्यादिदेहां प्रणताभीप्टदायिनीम्। सत्यज्ञानानन्दरूपां ध्याये ह्याद्यां सरस्वतीम् ॥३॥ नत्वा श्रीभारतीतीर्थविद्यारण्यमुनीश्वरी। मया वाक्यसुधाटीका यथामति विरच्यते ॥४ ॥ न ख्यातिलाभपूजे च टीकाकरणकारणम्। न विद्वत्तावलं वा Sत्र मुक्तिरेयात्र कारएम् ॥ ५ ॥ प्रारीप्सितस्य ग्रन्थस्याविप्मेन परिसमाप्तिप्रचयगमनाय शिष्टा- चारपरिपालनाय च केवलकूटस्थप्रत्यग्बोधरूपपरमात्मस्वरूपानु- स्मरणलक्षएं मङ्गलमाचरन् सचचिदानन्दाखण्डकरसस्वरूपावस्था- नलक्षणस्य मोक्षस्य तत्वमस्यादिमहावाक्यार्थापरोक्षज्ञानफलत्वा- द्वाक्यार्थज्ञानस्य चान्वयव्यतिरेकाश्यां पदार्थपरिशोधनपूर्वकत्वात्प- दार्थपरिशोधनस्य प्रसिद्धानुवादेनाप्रसिद्ध निरूपणीयमिति न्यायेन प्रतिशरीरमहमहमिति प्रसिद्धजीववाचकत्वंपदार्थपरिशोधनपूर्वक- त्वात् श्रीमच्छारीरकमहाशास्त्रे श्रीमन्भाप्यकारै:प्रतिपादितमर्थ हृदि निधाय प्राण्यनुजिघृक्षया दृग्दृश्यविवेकद्वारा प्राधान्येन त्वंपदार्थ- परिशोधनपरमिदं प्रकरणमारभमाणः परमकृपानिधिः श्रीभारतीती- ्थगुरुः प्रकरणप्रतिपाद्यमानमर्थ संक्षिप्य प्रथमश्ोकेन तावद्दर्श- यति।
Page 168
२ सव्याख्यायां वाक्यमुधायाम्।
श्रीरामचन्द्राय नमः । रूपं दृश्यं लोचनं हक् तद्दृश्यं दक्क् मानसम्। दृश्या धीटत्तयः साक्षी दृगेव न तु दृश्यते ॥ १ ॥ रूपमिति॥ लोक चक्षुरिन्द्वियग्राह्य यदूपमस्ति तत्सर्व दृइयं भवति तद्ग्राहकं चक्षुरिन्द्रियं स्वग्राह्यापेक्षया हग्भवाि तथा तत्पुनश्चक्षुरि न्द्रियं स्वस्मादप्यान्तरस्य मनसो दृश्यं भवति स्वभास्यचक्षुरिन्द्रिया- पक्षया मानसमपि हग्भवति द्रष्ट भवति मनसः सर्वेन्द्रियावभासक- त्वसामर्थ्य द्योतयति।तुशब्द:धोवृत्तयःअन्तःकरणस्य वक्षमाणवृत्तय- स्तदविद्याकार्यत्वन जडरूपत्वात् दृश्या भवन्ति साक्षी शरीरत्रयवि- लक्षणः प्रत्यगात्मा दृंगव भवति द्रष्टेव भवति एवकारणाथादृशयत्वे निषिद्धे Sपि कण्ठतो पि दृशयत्वं निषेधयन्प्रत्यगात्मनो द्ष्टत्वमेव दडयत न तु दृश्यते इति।साक्षिणि वतेमानस्य हकत्वस्य सर्वान्तरत्वे सापेक्षितत्वाभावात्ततस्तस्य लोचनमानसयविर्त्तमानत्त्तर्वलक्षण्यं द्योतयति द्वितीयस्तुशव्द: साक्षिए: दृश्यत्वमप्रमाणिकमिति यस्मा- त्तस्मात्कालत्रये डपि दृत्क्कमेवास्य स्वरूपमिति भावः ॥ १॥ एवं प्रकरणे प्रतिपाद्यमानमर्थ संक्षिप्य प्रथमश्ोकेन दशयित्वा इदानों प्रथमश्लोकस्य प्रथमपादेन दर्शितमर्थ द्वितीयश्ोकेन स्पष्ट- यति। नीलपीतस्थूलसूक्ष्महस्वदीर्घादिभेदतः। नानाविधानि रूपाणि पशयेल्लोचनमेकघा ॥२ ॥
भदभिन्नत्वेन दृश्यत्वं प्राप्तानि रूपाणि चक्षुरिन्द्रिय स्वयं स्वग्राह्यरू- पभेदानुकूलस्वरूपभेदमगृहीत्वैव एकरूपेणैव पश्येत् गृह्ीयात् अत एवास्य हत्कं स्यादिति भाव: ॥२॥ एवं प्रथमश्लोकस्य द्वितीयपादोक्तमर्थ स्पष्टीकुर्वन् चक्षुरिन्द्रिय प्रदर्शितन्यायं श्रोत्रादीन्द्रियष्वप्यतिदिशति। आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चकधा। सङ्गल्पयेन्मनः श्रेत्रत्वगादी योज्यतामिदम् ॥३॥ आन्ध्यमिति॥ आन्ध्यं नाम सामान्याकारेणापि स्वविषयग्रहणा- सामर्थ्य विषयसामान्याकारग्राहकत्वं मान्यं स्वविषयसूक्ष्मविशे-
Page 169
सव्याख्यायां वाक्यसुधायाम् । ३
पाकारग्रहससामर्थ्य पटुत्वम्।एवमत्र नेत्रधर्मेषुआन्ध्यमान्द्यादिभे- द भिन्नेष्वपि नानात्वेनैव हेतुना भास्यमानान् तान्नेत्रधमीनू भास्यभे- दानुरूपस्वरूपभेदमगृहीत्वैकरूपणैव मनः सङ्कल्पयेत् मम चक्षुरन्धं मम चक्षुर्मन्दमम चक्षुः पद्विति अत एवास्य मनसो हकत्वं भवती- त्यर्थः।श्रीत्रत्वगादीत्यत्र चशब्दः सम्वध्यते श्रोतरत्वगजिव्हाप्राणेष्व- पीदं सवविषयापेक्षया हक्क्क सवभासकमानसापेक्षया दृश्यत्वं यथोचितं वाधिर्यादिकश्च योज्यतामुह्यतामित्यर्थः।एकस्मिन्निन्द्रिये हरादृश्यवि- वेकं दर्शयित्वा श्रोत्रादीन्द्रियान्तरष्वप्येवं योज्यतामित्यतिदिशतति। आचार्यस्य स्वशिप्यैः स्वबुद्ध्ा क्रियमाणो द्ृरादृश्यविवेक एव पुरुषा- र्थोपायो भवतीत्यभिग्रायः ॥३॥ प्रथमश्लोकस्योत्तरार्द्धे साक्षी दृगेवेत्यन्तेन ग्रन्थेन प्रदर्शितमर्थ विशठयति। कामः सङ्कल्पसन्देहौ श्रद्धाश्रद्धे धृतीतरे। हीर्धींभींरियेवमादीन्भासयसेकधा चितिः ॥४ ॥ काम इति॥ रज्ज्वज्ञानाद्ज्ज्वारोपितान् सर्पादीन् रज्जुरिव स्त्रा- ज्ञानात्स्वस्मिन्नारोपितान् कामः सङ्कल्पो विचिकित्सा श्रद्धा Sश्र- द्धा धृतिरधृतिह्वीरधीभीरित्येतत्सर्व मन एवेति 'बृहदारण्यकश्रु-
च्िदानन्दलक्षणव्रह्माभिन्नकूटस्थप्रत्ययपा सर्वसात्तिणी चितिरेकधा भासयति विकारकारणाभावात्स्वभास्याऽवस्तुभूतविकारानुरूपं स्व- गतविकारमन्तरेणाध्येकरूपेणैव प्रकारयतीति यावत्॥४॥ इन्द्रियमनसोरुक्तन्यायेन उक्तलक्षणायाश्चितेरपि दृश्यत्वं स्या- दित्याशङ्डायां दृश्यत्वस्य द्रष्टपूर्वकत्वाञ्चिचितेर्द्र पटृत्वेन चित्यन्तराङ्गी- कारेणानवस्थाख्यो दोपः स्यात् चितेश्चितिरेव द्रष्टीत्यस्मिन् पक्षे Sपि कर्मकर्तृविरोधः स्यात्तस्मात्प्रकाशान्तरनिरपेक्षतया स्वयंप्रकाशमा- नायाश्चितेरहश्यत्वं न स्यादित्यर्थतो दर्शयन्मुखतः स्व्व्यतिरिक्तान्तः- करणादियुष्मदर्थभ्यश्चितेर्वैलक्षण्यं न तु दृश्यते इत्यंशविवरणेनानेन श्ोकेन दर्शयति।
- भासमानानिि वा पाठः ।
Page 170
४ सव्याख्यायां वाक्यसुधायाम् ।
नोदेति नास्तमेसेपा न दृद्धि याति न क्षयम् । स्वयं विभातथान्यानि भासयेत्साधनं विना ॥५ ।। नोदेतीति। यत्साक्षादपरोक्षाद्गह्मेति शुत्युक्तप्रकारेण विद्वद परो- क्षतां चितेरर्थात्सूचयन् उक्तलक्षणां चिति परामृश्यत्यपति। सर्व- साक्षिण्येपा चितिरहमादियुष्मदर्थवत्प्रागभावाभावान्नादेति नोत्प- द्यते प्रध्वंलाभावाभावान्नास्तमेत्यन्तं विनाशं न प्राम्नोति वृद्धिक्षयी ताश्याम् उपलच्षिती अस्तित्वपरिणामी च न प्राप्नोति सर्वथा उप्येकरूपत्वादुत्पत्यनन्तरं भाविव्यावहारिकास्तित्वमेव विकारान्त :- पातित्वेन निषिध्यते न तु स्वरूपास्तित्वं तस्याविकारत्वेन निषे- दूमशक्यत्वाच्चितेः पड्भावविकाररहितत्वे हेतुं दर्शयति स्वयं विभा- तीति। एपा चितिः स्वस्य प्रकाशान्तरनिरपेक्षतया स्वयंप्रकाशमाना सती सश्चिदानन्दात्मकस्वरूपप्रकाशानन्तरमेव स्वव्यतिरिक्तान्यखि- लान्यारोपितवस्तूनि भासयेत् प्रकाशयेत् तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति श्रुतेः सविकल्पस्य ज्ञानस्य निर्विकल्पकज्ञानपूर्वकत्वाच्चान्रानुमानद्वयं सूचितम अस्मत्प्रत्ययवि- पया एपा चितिः पड्भावविकाररहता प्रकाशान्तरनैरपक्ष्येण स्वयं- प्रकाशमानत्वाद्यत्पड्भावविकाररहितं न भवति तत्पकाशान्तरनैर- पेक्ष्येण स्वयंप्रकाशमानमपि न भवति यथा युष्मत्प्रत्ययविषयो Sहमादिः उक्तलक्षणा एपा चिति: पड्भावविकाररहिता प्रकाशा-
Sहमादिरित्येवसुक्तप्रकारंण स्वयंप्रकाशमानत्वात्पड्भावविकाररहि- तत्वाच्च युष्मदर्थवैलक्षण्ये समर्थिते सनि चितेः कालत्रये Sपि दक्त्वमेव स्वरूपं न तु द्ृश्यत्वमित्यर्थात्समर्थितं भवति अ्रदष्टं द्रष्ट्- श्रुतं श्रोत्रमतं मतमविज्ञातं विज्ञात न दष्ठेईपारं पश्येन्न श्ुतेः श्रोतारं श्रुणुयान्न मतर्मन्तारं मन्वीथा: न विज्ञातेर्विज्ञातारं विजानीया इत्या- दिश्रुतिसहस्त्रणाप्ययमेवार्थस्तात्पर्येण प्रतिपाद्यते इति अतो युष्मत्प्- त्ययविषयान्तःकरणादिरूपं दृश्यमेवास्मत्प्रत्ययावलम्वनभूतायाः प्र- त्यक्चितेः स्वरूपं दवक्त्वमेवातःप्रत्यक्चितिरंव परं ब्रह्मेत्ययमेवाभि- प्रेतार्थः ॥ ५॥ ननु युष्मदर्थावभासकत्वं प्रथमश्ोके साक्षिण इत्युक्तम । अत्र तु चितेरित्युक्तम अतः पूर्वापर विरोध इति चेन्नैप दोष: प्रथम-
Page 171
सव्याख्यायां वाक्यसुधायाम् ।
श्लोकोक्तसाक्षिण पवात्र चितिशव्देन परामृष्टत्वात्तस्यैव पुनः प्रथम-
तत्र तत्र साच्षिशब्देन परासृष्टत्वात्साक्षी चितिश्चिच्चैतन्यंज्ञानं बोध: प्रत्यगात्मा कूटस्थ इत्यादिशव्दानमंकार्थपर्यवसायित्वाच्च। ननु तर्हि युष्मदर्थस्यान्तःकरणस्य सापक्षकं दृत्तकमपि न सम्भवति भौतिक- त्वेन जडात्मकत्वाद्धटादिवत् द्रप्टरि नास्ति दृश्यत्वं दृश्यस्य द्वष्टता न हि दृश्यरूपस्य कुड्यादेर्द्रष्टृता न हि दृश्यते इति पुराणवचनाच्च तथा सनि तस्य संसारो नोपपद्यते।अथ वा पूर्वोक्तप्रकारेणहमादि- विलक्षणस्य कूटस्थस्य स्वयंप्रकाशप्रत्यग्योधरूपस्य सात्िणश्च जा- ग्रदादिविमोक्षान्तः संसारो नोपपद्यते तस्यासङ्गोदासीनत्वात् यो 5संसारी न भवति सो Sसङ्ग उदासीनो Sपि न भवति यथाहमादि: असङ्गो ह्यय पुरुष इत्यादिश्रुतिसन्भावाद्धेतुरसिद्धो न भवत्येवमुक्त- प्रकारणान्तःकरणतत्साक्षिणोरुभयोरप्यसंसारित्वे समर्थिते सति निवर्त्यसंसाराभावात्तत्निवर्तकज्ञानस्यापि नैरर्थक्यं स्यात्ततस्त-
दिरहितत्वेन वेदान्तवार्क्यरविधिसुखेन प्रतिपाद्यमानत्वासम्भवादत- स्तन्निरसनमात्रेण तदूपाप्रसिद्धंश्च शास्त्रस्याप्रामाण्यं प्रसज्येत एवं परम्परया Sनेकदोपसम्भवात्साक्षियाः कूटस्थत्वस्वयंप्रकाशमान- त्वादिकमप्यप्रामाणिक स्थादित्यनेकदोषमाशङ्कान्तःकरणप्रतिफ- लितानिर्वचनीयचच्छायाङ्गीकार सति सर्वो ि दोषः परिहृतः स्यादित्यभिप्रेत्य चिच्छायां तावदङ्गीकरोति। चिच्छायावेशतो बुद्धौ भान धीस्तु द्विया स्थिता। एकाहङ्कतिरन्या स्यादन्त:करणरूपिणी ॥ ६॥ चिच्छायेति॥ चिच्छायावेशतो बुद्धी भान रजतसुवर्णादिवद्र हुवि- धपरिणामार्हमन्तःकरणास्यं दव्यसत्र बुद्धिरददेन धीशव्देन चोच्यते तस्यान्तःकरणस्य कर्तृस्वरूपवृन्तिमदंशो डहंकृतिराव्देनाच्यते करणा-
तत्र श्रोतादिकरणापेक्षया अन्तःकरणत्वादन्तःकरणं बुध्यते अनया चिच्छायावेशतः।चिच्छाया चित्प्तिविम्ब तस्या आवेशो ऽनुप्रवेश- * परामृशयत्वाहिति वा पाठः ।
Page 172
६ सव्याख्यायां वाक्यमुधायाम्।
स्तनो स्वरूपमिति बुद्धिस्तम्यां भान स्यात्स्वभावतो जडरूपा उप्यनु- प्रविष्टचैतन्यवलाह्वुद्धि: स्वयंप्रकाशमानेव भवतीति यावत्। धीस्तु द्विधा। तुशब्दो Sवधारणे ।भ्रामकसन्निधौ लोहवत्सात्ति सव्निधौ वहु- विधचष्टंस्थिता कुर्वती सा धीर्द्विधैव स्थिता तयोमेध्य एका धीरहङ्ग- तिशब्दवाच्यकर्तृरूपा स्यादन्या धीर्मनःशब्दयाच्याऽन्त:करणरूपिणी स्यात् कामादोनां संज्ञादीनां च सर्वेपामप्यन्त:करणापरिणामविशे- पाणां मनोवुद्ध्य हङ्कारचित्ताख्येष्वन्तःकरणचतुष्टयेध्वन्तभूतत्वातू बु-
क्षणाकारद्वयव्यतिरिक्तान्तःकरणाकारान्तरस्य निरूपयितुमशक्य- त्वात् चित्कर्मभूताबुद्धि: स्वविकारानुकारिणा Sनुप्रविष्टचैतन्येन स-
द्वयेनकावस्थितेति भावः ॥६॥ उक्तलक्षणयोरहङ्कारमनसोर्मध्ये Sहङ्कारस्य चिच्छायया सह तप्तायःपिण्डवत्तादात्म्यात्तेन सचिदाभासाहङ्गारेण तादात्म्याजड- रूपों Sपि देहश्चेतनत्वं प्राप्नुयादित्याह। छायाहङ्कारयोरैक्यं तप्तायःपिण्डवन्मतम् । तदहङ्कारतादात्म्याद्देहश्चेतनतामगाद् ॥ ७ ॥ क्वायेति॥ छ्वायाहङ्कारयोश्चिदाभासकत्रीरिक्य तप्तायःपिण्डवद्- न्हिसम्बन्धेन तद्रूषंतप्तायःपिण्डवन्मतमभिप्रेतं तथा दष्टान्ते अयम- गनिरिदमय इति पृथक्वरणमशक्यं तथा दार्ष्टान्तिके उप्ययमहङ्कार इयं चिच्छायेत्य हङ्कारस्वरूपस्य तत्रानुप्रविष्टचिच्छायास्वरूपस्य च पृथ- क्वरणमशक्यमिति भावः।तदहङ्कारतादात्म्यात्तेन चिच्छायासहितेनाह- द्वारेण तादात्म्यात् सो उहङ्कार आत्मा नाम स्वरूपं यस्य देहस्य स तदात्मा तस्य भावस्तादात्म्यं सम्बन्ध इत्यर्थः। तस्माद्देहः स्थूलश- रीर स्वयं जडरूपमपि चेतनतां चेतनं ज्ञानं तस्य भावश्चेतनता तां ज्ञान- स्वरूपतामगात्प्रापुयादित्यर्थः।यथा पयसि परीक्षणार्थ प्रत्तिप्ो मरक- तमणिः पयोशेषमात्मच्छ्वायं कुर्यात्तथा स्व्रभावत एव सर्वान्तरः कूट- स्थो Sसङ्गवोधरूप: साक्ष्यप्यहक्कारादिस्थूलदेहपर्यन्तमशेषं युष्मदर्थ- मात्मच्छायं कुरुते इति भाव: ॥७॥ नन्वेवमहङ्कारस्य चिच्छायादेहाभ्यां तादात््ये सत्यहं पश्याम्यहं
Page 173
सव्याख्यायां वाक्यमुधायाम्। 9
इन्द्रियाणां स्वस्वगोलकस्थानमन्तरण स्वस्वविषयग्रहणसामर्थ्याभा- वादोलकानां च स्थूलशरीरावयवत्वादवयवावयचिनोर्भेदाभावान्म- नुष्यो Sहं ब्राह्मणो Sहं गृहस्थो Sहं कृष्णकशी Sहमित्यादिवदहं चक्षुरहं श्रोत्रमित्याद्यनुभवाभावात्कस्त्वमिति पृष्ट अहमिति वदतो देहस्यैव
दर्शयति। न निरूपणीयमित्यहङ्कारस्य सम्बन्ध्युद्दशद्वारेण तादात्म्यस्ययत्तां
अहङ्गारस्य तादात्म्यं चिच्छायादेहमाक्षिभिः । सहज कर्मजं भ्रातिजन्यश्च त्रिविधं क्मात् ॥८॥ अहङ्कारस्यति॥ अहङ्कारस्येत्युक्तलक्षणस्य कर्तुश्चिच्छायादेहसा- च्िभिः चिच्छायया देहेन साक्िणा च सह क्रमात्सम्वन्ध्युद्देशक्मेण त्रिविधं त्रिप्रकारं तादात्म्यं सम्बन्धस्तेषां तादात्म्यानां सद#र्थानि नामानि कल्पयति सहजं चिच्छायाहङ्कारयोर्यत्तादात्म्य तत्सम्बन्धि- नारुभयोरप्युत्पत्तिकाले सहैव जायते इति सहजमित्युच्यते कर्मजम् उक्तलक्षणाहङ्कारस्य देहस्य च यत्तादात्म्य तदन्वयव्यतिरेकाश्या जाग्रद्भोगप्रदकर्मणैव जायते इति कर्मजसित्युच्यते भ्रान्तिजन्यमधि-
तदनाद्यनिर्वचनीयभ्रान्त्यैव जायते इति भ्रान्तिजन्यमित्युच्यते ।
जन्यं यथा रज्जुसर्पाहीनां तादात्म्यं तथा चेदसधिष्ठानयाथात्म्यज्ञा- नापनोदं तस्मादधिष्ठानयाथात्म्याज्ञानजन्यमेवेति । एवमहङ्कारस्य चिच्छायादेहसाक्षिमिः सम्बन्ध्युद्दशक्रमेणैवोक्तलक्षण त्रिविधं तादात्म्यमस्तीति शेषः ॥८॥ ननु तर्हि "ऊर्ध्वमूलमधःशाख्रमश्वत्थं प्राहुरव्ययम्" एवमनादि- रनन्ता नैसर्गिको Sयमिति च श्रीभगवन्भाप्यकाराभ्यामुक्तत्वादहङ्का-
- समर्थानीति वा पाठः।
Page 174
सव्याख्यायां वाक्यमुधायाम् । V
पर्यन्तमेव भ्रान्तिजन्यतादात्म्यस्याऽविनाशित्वेन ताभ्यां विवक्षित- त्वादन्यथा स्ववाक्याविरांधात्मर्वेषामपि मोचशास्त्राणामप्रामाण्यप्र- सङ़गाञ्च मुमुक्षूसामपि सर्वेपां मोक्षविषयश्रवणादिप्रवृत्त्यभावाथ् कर्मजन्यतादात्म्यनिवृत्तेश्च प्रतिदिनं सुपुप्तावनुभूतत्वाञ्च सहजता- दात्म्यातिरिक्तयोरपि तादात्म्ययोः स्वस्वकारणनाशद्ारा निवृत्तिर- स्त्येव सहजतादात्म्यस्य तु सहजत्वादेव निदृत्तिर्नास्तीत्याह। सम्वन्धिनोस्सतोर्नास्ति निषृत्तिः सहजस्य तु। कर्मक्षयात्मवोधाच्च निवर्तेते क्रमादुमे॥९॥ सन्बन्धीति ॥ सम्बन्धिनोः सतो: परस्परसम्बन्धित्वेनैवोत्पधमा- नयोरुतूपतिकाले एव सम्बन्धिनोरित्यर्थः। तुशब्दो Sवधारणे। सह- जतादात्म्यस्येतरतादात्म्यवैलक्षण्यद्योतनार्थो वा। उक्तलक्षणयोश्चि- च्छायाहङ्कारयोः सहजाख्यस्य तादात्म्यस्य निवृत्तिर्नास्त्येव परस्परं पृथग्भावो न सम्भवत्येव सुघुप्तिर्मूर्छा मरणादी जाग्रन्भोगप्रदकर्म- क्षयात् जाग्रत्काले श्रुत्याचार्यानुग्रहबलेनाहं ब्रह्मास्मीति ब्रह्मात्मैक्य- साक्षात्काराख् कर्मजन्यभान्तिजन्याख्ये उभे अपि तादात्मये निमित्ता- भावान्नैमित्तिकस्याप्यभाव इति न्यायेन क्रमान्निवर्तेते कर्मक्षयात् कर्मजं तादात्म्यं निवर्तते अहङ्कारदेहाख्यावुभावपि सस्वन्धिनी पर- स्परसम्बन्धं त्यजते इत्यर्थः।प्रबोधादप्रयोधक्षये सतिभ्रान्तिजन्यमपि तादात्म्यं निवर्तते बोधानन्तरं साक्षिसम्बन्धराहित्येनाव्यहङ्कारप्रती- तिरन्यदृष्ट्यैव स्वद्ृष्टया निवर्तते यथा शुक्तिकाज्ञानात्तत्स्वरूपाज्ञाने नष्े सति तत्रैव रजत लीयते तथा स्वरूपपरिज्ञानात्स्वरूपाऽपरिज्ञाने नष्टे सति स्वस्मिन्नेवाहङ्कारी लीयते एव ॥६॥
दर्शयति। अहङ्कारलये सुप्ती भवेदेहो Sप्यचेतनः । अहङ्कारविकासार्द्धः स्वप्नः सवस्तु जागरः ॥ १० ॥ अहङ्कारेति॥ स्थूल सूक्ष्मभोगद्वय प्रदकर्मक्षयात्स्वकारण*ज्ञाने अह- द्वारे लीने सति तदहङ्गारलयावस्था सुषुत्तिरित्युच्यते तस्याम- वस्थायां पूर्वमहङ्कारसम्बन्धाश्च्ेतनत्वेन भातो देहो उप्यचेतनो भवेतू * क्षयात्सकारणाज्ञाने इति वा पाठ:।
Page 175
सव्याद्यायां वाक्यसुधायाम्।
"अन्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवति उपतापी सप्न- नुपतापी भवती'त्यादिश्रुतेःअहङ्कतिविकासार्द्धः स्वप्नः सूक्ष्मभो- गकर्मण्युदुद्धे सति तद्वशात्स्वकारणा*ज्ञानादुत्पन्नस्याहङ्वारस्य र्व- व्यतिरिक्तवस्त्वन्तराभावे Sपि जाग्रजनितसंस्कारमाश्ररूपभोगार्थ स्थूलशरीराभिमानमन्तरेणापि शरीरस्यान्तःसूक्ष्मनाडीप्रचारो यः स एव तस्याहङ्कारस्यार्द्धविकासः सएव स्वप्र इत्युच्यते तत्राहक्कार- व्यतिरिक्तवस्त्वन्तराभावेश्रुतिः"नतत्र रथानरथयोगा न पन्थानो भव- ती"त्यादि: सर्वस्तु जागरः स्थूलभोगप्रदकर्मण्युद्वुद्धे सति तद्वया- दापादमस्तकं स्थूलदेहे Sभिव्याप्तस्यादङ्कारस्य सर्वेन्द्रियैः सर्वविष- यज्ञानं यत्स एव तस्याहङ्कारस्य पूर्णविकासस्तदेव जागरणमित्यु- च्यत्ते अस्यामवस्थायां पुनरहङ्गारसम्बन्धादेहः पूर्ववञ्चेतनत्वेन भा- सते उभयत्राहङ्गारे समान स्वप्नाजागरितस्येन्द्रियविषयसन्भ्ावात्म- कवैलक्षण्य द्योतनार्थस्तुशब्द: अत्र दर्शिते Sवस्थात्रयलक्षणे माण्डूक्य- तापिनीयाद्युपनिषद: प्रमाणानि "दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः आकाशे च हृदि प्राज्ञस्त्रिधा देहे प्रतिष्ठितः" इन्द्रियैरथाँपल- व्धिर्जागरितं करणेपूपसंहृतेपु जागरितसंस्कारप्रत्ययसविषयः स्वप्नः सर्वप्रकारकज्ञानोपसंहारो बुद्धे: कारणात्मना Sवस्थान सुपुप्तिरित्यादी-
एवं कर्तृव्यापारं निरूष्य करणस्यापि क्रियाव्याप्यत्वं तत्क्रियां दर्शयति। अन्तःकरणटत्तिश्च चितिच्छायैक्यमागता। वासना: कल्पयेत् स्व्प्ने बोधेक्षैविपयान्वहिः ॥ ११॥ अन्तःकरऐेति॥ अन्तःकरणं चासी वृत्तिश्चेत्यन्तःकरणवृत्तिः स- चिदाभासकर्तृरूपवृत्तिमदपेक्षया करणभूतं मनःशब्दवाच्याहमिद- मात्मिका वृत्तिरिति यावत् वृत्तिश्चति चकारण छायाहड्कारैक्यवि- पये प्रदर्शितो दष्टान्तादिरवस्यात्रये ऽप्यह्ङ्गारवत्सङ्ेचविकासादि- आात्रापि समान इति द्योत्यते उक्तलक्षणा सा वृत्तिश्च सुपुप्ती लीयते सा पुनः सूक्ष्मभोगप्रदकर्मवशातुत्पत्तिसमये चिच्छायया तप्तायः- पिण्डवदैक्यं प्राप्ता सती सवप्नावस्थायां नाडीमध्य कर्तृकरणकमक्रि- * तद्टशारसकारणाज्ञानाहिति वा पाठ: । २
Page 176
१० सव्यास्यायां वाक्यसुधायम्।
यात्पकव्यवहारवासना: कल्पयेत्सैव पुनः स्थूलभोगप्रदकर्मवशा- त्स्थूलशरीरेणैक्यं प्राप्ता सती जाग्रदवस्थायां श्रोत्रादीन्द्रियेः शब्दा- दिविषयान्वहिः कल्पयेत्। ननु बाह्यविषयाणामीश्वरस्त्रष्टृत्वेनान्तःकर- णकल्पितत्वमयुक्तमिति चेन्नैप दोप: स्वरूपमात्रस्येश्वरस्नष्टृत्वे Sपि भोग्यत्वाकारस्यान्त:करणकल्पितत्वात् "करएं कर्म कर्त्ता च क्रिया रवमे फलं च धी: जाग्रत्येवं यतो हष्ट"त्याचार्यवचनाञ्च ॥ ११॥ एकमेवान्तःकरणं व्यवहारसीकर्यार्थमहङ्कारमनोभेदेनावयवशो विभज्य प्रदर्शयित्वा इदानीमहङ्कारस्यापि मनोपेक्षया कर्तृरूपत्वे Sपि चिच्छायावेशतो बुद्धौ भानमित्यत्र बुद्धिशब्देन निर्दिष्टान्त:करणा- ख्यद्रव्यापेक्षया करणत्वात्तस्यैव सर्वसंसारनिर्वर्तकत्वेन मुख्यकर्तृ-
न्तःकरणाख्यद्रव्यस्य स्वरूपं दर्शयति।।
मनोहङ्कत्युपादानं लिङ्गमेकं जडात्मकम् । अवस्थात्रयमन्वोते जायते म्रियते तथा ॥१२ ॥ मन इति॥ मनोहङ्कत्योरुपादानं कारणं यत्तन्मनोहङ्कत्युपादानं कि तल्लिङ़गं लिङ्ते गम्यते Sनेनेति लिङ्गमन्तःकरणाख्यं द्रव्य- मित्यर्थः तस्यैवाहं ब्रह्मास्मीत्यखण्डाकारवृत्तिद्वारेण सच्चिदानन्दा- द्वितीयव्रह्मात्मगमकत्वात्। ननु तत्वविवेकाख्ये ग्रन्थे "बुद्धिकर्मे- न्द्वियप्राणपश्चकैर्मनसा धिया शरीरं सप्तदशभि: सूक्ष्मं तल्लिङ्गमु- च्यते" इति सप्तदशावयवात्मकस्य सूक्ष्मशरीरस्यैव लिङ्गत्वमुक्तं नान्त:करणस्य लिङ्गत्वमुपपद्यते इत्याशङ्क बुद्धिकर्मेन्द्रियप्राणप- श्चकानां वेदान्तेषु भौतिकत्वेन श्रुतत्वे Sपि "अन्यत्रमना अभूवं नाद- शमन्यत्रमना अभूवं नाश्रौप"मित्यादिश्रुतिष्वन्तःकरणाधीनत्वश्रव- णादत एवाहङ्कारमनःसहितानां तेषां ज्ञानक्रियाशक्तिद्वयात्मकान्त :-
यो: पारमार्थिक भेदविवक्षयैवात्रोक्तत्वात्तद्विवक्षाभेदेन पदयस्या- प्युपपन्नत्वादुक्तलक्षणस्यान्तःकरणस्य सूक्ष्मशरीरत्वं लिङ्गत्वं चोप- पद्यते एवेत्यभिप्रायेणाह एकमिति। एवमुर्तुलक्षणमन्तःकरणं स्वभा- घतो जडमप्यनुप्रविष्टचिच्छ्ायावलनैव स्थूलशरीरमप्यात्मत्वेनैव गृहीत्वा पूर्वोक्तसङेचविका सप्रकारेणानुदिनमवस्थान्नयं प्राप्नोति
Page 177
सव्याख्यायां वाक्यसुधायाम्। ११
यथा कर्मवशादवस्थात्रयं प्राप्नोति तथा जननमरणादिकञ्च कर्मव- शात्प्राप्नोतीत्यर्थः।जायते म्रियते इत्युक्त्ता Sनन्तरं तथाशब्दप्रयोक्तुर्धर्मा- धर्मवशादू घटीयन्त्रवत्पीनःपुन्येन जन्ममरणे प्राप्नोतीत्यभिप्रायः"शोक- हर्षभयक्रोधलोभमोहस्पृहादयः अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः एवं दुःखाद्यनुभवन्ससारे Sस्मिन्पुमान् मुने घटीयन्त्रवदु- द्विग्नो जायते म्रियते च सः" इत्यादिपुराणवचनात् ॥१२॥ एवं निखिलसंसारनिर्वाहकलिङ्गशरीरस्वरूपं निरूप्येदानीमस्य लिङ्गस्य विराडन्तसमस्तप्रपश्चस्य मूलकारणभूताया: सच्चिदानन्द- घ्रह्माश्रयाया अविद्याऽज्ञानतमोमोहादिशब्दवाच्यायाः सर्वानर्थबीज- भूताया: अनिर्वचनीयायाः मायायाः स्वरूपं तच्छवक्तिद्वारेण विभज्य दर्ययितुं तच्छ्वक्तेरियत्तां तावद्दर्शयति॥ शक्तिदवयं हि मायाया विक्षेपावृत्तिरूपकम्। विक्षेपशक्तिरलिंङ्गादिब्रह्माण्डान्तं जगत्सजेव् ।। १३ ।। शक्तिद्वयमिति॥ उक्तलक्षणमायाया आ्वरणशक्तिर्विक्षेपशक्ति- रिति द्वयमस्तीति शेषः। "जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवती"त्यादिवेदान्तवाक्येपु मायायाः शक्तिद्वयात्मकं प्रसिद्धमिति शास्त्रप्रसिद्धिं द्योतयति हिशब्दः। अधिष्ठानमनाच्छाद्य विक्षेपयितुमशक्यत्वेन विन्षेपशक्तेः आवरणशक्तिपूर्वकत्वादत पवावरणशक्तेरग्यत्वे Sपि छन्दोभङ्गभयाद्विक्षेपशब्दपूर्वनिपातः कृतः। एवं शक्तेरियत्तामुक्का इदानी. सच्वचिदानन्दलक्षणब्रह्मात्मस्वरूप- मात्राच्छ्वादिकायाः विक्षेपशत्तभिव्यक्ते: पूर्वावस्थालक्षणाया: आव- रणशक्ते: सर्वानर्थवीजत्वनाग्यत्व Sपि विक्षेपश क्तेर्नरपेक्ष्येण व्र- ह्मानन्दानुभवं तिरस्कृत्य सांसारिकसुखदुःखादिभोगप्रदत्वसा- म्थ्याभावात्प्रतिदिनं सुपुप्तावनुभूतत्वेनास्मिन्नर्थे कस्यापि विप्र- तिपत्यसम्भवात् विक्षेपशत्त्यभिव्यत्तनन्तरं तया सृष्टस्याहङ्का- रादिदेहान्तस्य युष्मदर्थस्य शरीरत्रयविलक्षणस्य कूटस्थासङ्ग- घोधरूपस्य सात्िणश्च स्वभावसिद्धं भेदं सवावरणशक्तिर्येनांशेना- वृणोति तस्यैवांशस्य सुखित्वदुःखित्वाद्यनेकविधसंसारकारणत्वा-
Page 178
१२ सव्याख्यायां वाक्यसुधायाम्।
रूपयिष्यन्विक्षेपशक्तिस्वरूपं तावन्निरूपयति विविधं करणं विक्षेप: विविधं भानं भवनं वा सा चासी शक्तिश्च्ंति विचेपशक्ति: अध्यात्मं विश्वतैजसप्राज्ञादिभेदेनाधिदवतं विराठ् हिरण्यगर्भान्तर्याम्यादिभे- दोन च स्वगतादिभेदरहितं चिन्मात्रं विक्षेणयतीति विक्षेपशक्ति: उ- क्तलक्षणं चिन्मात्रमनया विक्षिप्यते इतति वा गिरिनदिसमुद्राद्यनेक- नामरूपाकारेण स्वयमेव विक्षिपति नामरूपाद्याकारेण परिणमते विवर्तते इत्यर्थः।एवमिति विच्ेपरक्तिरजायते पुनर्लयं गच्छतीति जग- दुक्तलक्षणा सा शक्तिरुक्तलक्षणं समष्टिव्यष्टयात्मकं लिङ्गयारीरादि- ब्रह्माण्डान्तं जगत्सृजेदुत्पादयेदित्यर्थः ॥ १३॥ एवं विक्षेपशक्तिस्वरूपं निरूष्य तद्विफ्रियात्मकसृष्टिस्वरूपनिरु- पसाद्वारेणापि तदेव विशदयति॥ सटष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि। अब्धौ फेनादिवत्सर्वनामरूपप्सारणा ॥ १४ ॥ सृष्टिरिति।। ब्रह्मस्वरूपे सव्विदानन्दवस्तुन्यारोपितनामरूपयो- रवस्तुत्वादधिष्ठानस्य तद्वैलक्षण्यं द्योतयति वस्तुशब्दः।सञ्चिदानन्द- ञ्च तद्वम्तु चति सश्वचिदानन्दवस्तु तस्मिन्परमार्थसचिदानन्दलक्षणे ब्रह्मणीत्यर्थः । नाम च रूपञ्च नामरूपे सर्वे च ते नामरूपे च तयो: प्रसारणा विस्तार: विततिः सृष्टिरित्युच्यते।एतदुक्तं भवति।ब्रह्मण्य- वस्थिताया विक्षेपात्मिकायाः मायायास्तस्मिन्नेव ब्रह्मणि समस्त- नामरूपाकारेण विवर्तनं यत्सैव सृष्टिरित्युच्यते इत्यत्र टष्टान्तमाह अब्धी फेनादिवदब्धाववस्थिताया: विच्षेपात्मिकायाः मायायास्तत्रैव फेनतरङ्गदुदूबुदाद्याकारेण विवर्तनं यथा सृष्टिशब्देनोच्यते तथा Sत्रापीति भावः॥१४। एवं विक्ेपशक्तिद्वारा मायास्वरूपं दर्शयत्वा आवरणशक्तिद्वारे- णापि तदेव दर्शयति॥ अन्तर्दृग्दृश्ययोर्भेदं वहिश्च ब्रह्मसर्गयोः । आटणोसपरा शक्ति: सा संसारस्य कारणम् ॥१५॥ अन्तरिति॥अन्तः स्थूलशरीरस्यान्तर्देशे दृग्दृश्ययोर्भेंदम "अहमन्नादो डहमन्नाद" इत्यादिश्रुत्यनुसारेण शरीरत्रयतादात्म्यवशान्भोकृत्वमापन्न-
Page 179
सव्याद्यायां वाक्यसवायाम्। १२
स्य परमार्थतस्तद्रहितस्य केवलहआात्रस्वरूपस्यास्मदर्थस्य सा- क्षिण: अविद्याकार्यत्वन जडरूपस्याहक्कारादिदेहान्तस्य युष्मदर्थस्य च भेदमन्योन्यवैलक्षण्यमन्योन्यपृथग्भावं बहिः शरीरस्य बाह्यदंरे ब्रह्मसर्गयोर्भेंदं "सव्चासव्ाभवत् अहमन्नमहमन्न"मित्यादिश्रुत्यनुसारे- 6 परव्रह्मणस्तस्मिन् शुक्तिकायां रजतवदध्यस्तनामरूपात्मकस्य सर्गस्य
चापरा शक्ति: पूर्वोक्तरीत्या विक्षेपशक्त्यनन्तरभावित्वे Sपि स्वरूपतो विक्षेपशक्तिप्रवर्तकत्वेन तत्कारणभूता आ्रवरणवाच्या मायाश- क्तिरावृणोत्याच्छादयति सा संसारस्य कारणं अतर्टकुस्वरूपस्य साक्षिण: कर्तृत्वभोकतृत्वादिलक्षणस्य संसारस्य सैव कारणं तस्या एवान्योन्याध्यासहेतुत्वेन सर्वानर्थकारित्वादिति भावः।वहिःसव्चि- दानन्दलक्षणस्य ब्रह्मण: भोग्यत्वादिविकारस्यापि सैव कारणमित्य- र्थाल्लभ्यते भोकतृत्वस्य भोग्यापेक्षत्वात् ॥ १५॥ एवं शक्तिद्वयात्मकं मायास्वरूपं प्रदश्येदानीं प्रकृतानुसारेण म- नोह कृत्युपादानमित्यस्मिन्श्लोके सामान्यतो दर्शितं लिङ्गस्वरूपं विशे- पतः प्रदर्शयति॥ साक्षिण: पुरतो भातं लिङ्गं देहेन संयुतम्। चितिच्छायासमावेशाज्जीवः स्याद्यावहारिकः ॥ १६ ॥ साक्षिण इति॥ चितिच्छ्वायासमावेशादनुप्नविष्टचैतन्यस्य बला- त्साच्तिणः प्रत्यगात्मनः पुरतो Sग्रतः कर्मत्वेनेति यावत् भातं भासमानं देहेन संयुत स्थूलशरीरेशौक्यं प्राप्तं लिङ्गं पूर्वोक्तलक्षणं लिङ्गशरीरं जीव: स्यात् व्यावहारिक: लोकदये Sपि प्रमात्रादिसमस्त- व्यवहारनिर्वाहकत्वाद्यावहारिकाख्यो जीवः स्यादस्यानिर्वचनीय- मायाकार्यत्वेन प्रकृतिलक्षणविकारित्वात्सकलसंसार निर्वाहकत्वात्स- शिदानन्द व्रह्मत्मक्य स्वरूपावस्थानलक्षणमोक्षद शायामभावाच्च व्या- घहारिकजीव इत्युक्तम् ॥१६ ॥ ननु व्यावहारिकजीवस्य सकलसंसारनिर्वाहकत्वे पि मिथ्या- भूतत्वान्नित्यमुक्तस्य साच्षिणः संसाराभावाच्चोभयोरपि मोक्षानधि- कारादन्यस्य कस्य चिद्धिकारिणो Sभावाच् मोक्षशास्त्रधैयथ्व स्यादित्यत आह॥
Page 180
१४ सव्याख्याया वाक्यसुधायाम्।
अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते। आदत्तौ तु विनष्टायां भेदे भाते Sपयाति तद् ॥। १७ ।। अस्येति ॥ अस्य व्यावहारिकजीवस्य जीवत्वं जीवभावः आरोपादावरणशक्तिकृतादन्योन्याध्यासात्सात्तिण्यपि दग्रूपे प्रत्य- गात्मन्यपि जीवत्वं साक्षिणि प्रत्यगात्मनि परमार्थतो जीवत्वा- सम्भवं द्योतयत्यपिशब्दः अवभासते प्रकाशते स्वरूपचैतन्यावगति- त्वेन भासते इति भावः।तुराब्दो Sवधारग। आवृत्तावसत्वावृत्तिरुपेणा- भानावृत्तिरूपण च द्विप्रकारमायावरपशक्ती अह ब्रह्मास्मीत्यखण्डै- करसव्रह्मात्मसाक्षात्कारेण विनष्टायां विशेषेण नष्टायां सत्यां पुनर्भ्रा- न्त्यनुदयो नाशस्य विशेष: आत्यन्तिकनाशं प्राप्तायामित्यर्थः। भेदे भाते व्यावहारिकजीवस्वरूपस्य लिङ्गशरीरस्य घटादिवत् दृश्यत्वं प्रत्य- ग्योधस्वरूपस्य साक्ष्याख्यस्य स्वस्य हष्टत्वञ्च भेदस्तस्मिन् सम्यक् प्रकाशिते सति सात्तिण्यारोपितं तज्जीवत्वमपयात्यपगच्छत्येवेत्यत्न तुशब्दः सम्बध्यते यस्मादेवं तस्माच्छ्ास्त्रवैयर्थ्य न स्यादित्यभि- प्रायः॥१७॥ यथा व्यावहारिकजीवगतं जीवत्वमारोपात्सात्तिण्यप्यवभासते तथा नामरूपात्मकः सर्गगतो विकार: आरोपाद्गह्मण्यप्यवभासते इत्याह॥ तथा सर्गब्रह्मणोश्च भेदमावृत्त्य तिप्ठति। या शक्तिस्तद्वशाङ्रह्म विकृतत्वेन भासते ॥ १८ ॥ तथेति॥ यथा अन्तः दृग्दश्ययोर्भेदमाच्छादयति तथा सर्गव्रह्मणो- रभेंदं चावृत्य या आवरणशक्तिस्तिष्ठति तद्वशात्तदावरणशक्तिक- तादन्योन्याध्यासवशाङ्गह्म सच्चिदानन्दलक्षणंः परमात्मा विकृतत्वेन भासते स्वयं कूटस्थमपि षड्भावविकारशून्यमपि तद्वत्वेन भासते इत्यर्थः ॥१८॥ बाह्ये उप्यावृत्तिनाशेन सर्गब्रह्मभेदस्फुरणात् ब्रह्मण्यारोपितो विकारो निवर्तते इत्याह॥ अत्राप्यावृत्तिनाशेन विभाति ब्रह्मसर्गयोः । भेदस्तयोर्विकारं स्यात्सर्गे न ब्रह्मणि क चित् ॥ १९ ।। अश्रेति॥ अन्नापि यथान्तस्तथा बाह्ये Sव्यावृत्तिनाशे नान्वयव्यतिरे-
Page 181
सव्यार्यायां वाक्यसुधायाम्। ११
काभ्यामन्तर्वहिश्च पदार्थद्वयपरिशाधनपूर्वकेणाहं म्रह्मास्मीत्यभिव्य- क्ेन सशिदानन्दलक्षणव्रह्मात्मवोधेन उक्तलक्षणायामावरणशक्ती वासनया सह विनष्टायां सत्यां तेनावृत्तिनाशेन ब्रह्मसर्गयोरमेदो विभा- ति घटपटयोरिव भेदः सम्यक प्रकाशते एवं भेदे भाते सति तयेव्रिह्मास- र्गयोर्मध्ये नामरूपात्मके सर्गे एव जन्मादिविकार: स्यान्न ब्रह्मणि कव चिदानन्दलक्षणे ब्रह्मण्यैकदशे ऽपि विकारो न स्यादित्यर्थः ॥१९ ॥
ग्यत्वादिरूपविकारं तदावृत्तिनाशन तत्कृतविकारनिवृत्तिश्च दर्शयि- त्वा इदानीं ब्रह्मणः सर्वात्मकत्वप्रदर्शनद्वारेण त्वंपदार्थमप्यर्थाद्विवेच- यन्मुखतस्तत्पदार्थ विविनक्ति॥ अस्ति भाति परिय रूपं नाम चेसंशपश्चकम्। आद्यत्रयं ब्रह्मरूपं जगद्रपं ततो द्यम् ॥ २० ॥ अस्तीति॥ अस्ति विद्यते भाति प्रकाशते प्रियं प्रेमास्पदं रूपं जगद्रूपं पृथुवुभ्नोदरोतप्रोतादिकं नाम घटः पट इत्यादिकमेतत्सर्वें मिलित्वांशपश्चकमिदमेकं वस्तु अस्तीदं भातीदं प्रियमिदमस्य स्व- रूपमिद्मस्य नामेत्येतदंशपश्चकव्यतिरेकेण व्यवहारासम्भवालोक- व्यवहारगोचरभूतं भीतिकात्मकं समस्तं वस्त्वपि सच्चिदान्दरूपं नाम लक्षणांशपञ्रचात्मकमेव भवतीति यावदंरपञवकसमुच्चयार्थश्चश्दः। पतेष्वशेषु मध्ये आद्यत्रयं सच्चिदानन्दात्मकमंशत्रयं ब्रह्मरूपं ब्रह्मस्व- रूपं ततो द्वयं तस्मात्सच्चिदाननदात्मकांशत्रयादुपरितनं नाम रूपा- त्मक्कमंशद्वयं जगदूपमित्यर्थः ॥ २० ॥ उक्तमेवार्थमन्वयव्यतिरेकाश्यां स्पष्टयति॥ खवाय्वग्निजलोर्वीपु देवतिर्यङ्गरादिपु। अभिन्नाः सचिदानन्दा भिदेते रूपनामनी ॥२१॥ स्रमिति॥ आरकारवायुतेजोम््वन्नास्यपु पञचभूतेषु देवतिर्यङ्गरा- दिभेदभिन्नेषु शरीरलक्षणेपु भौतिकेषु वर्तमाना: सच्चिदानन्दास्त्रयो उप्यंशा अभिन्ना निर्विशेषा:स्युः घटो Sस्ति पटो Sस्ति घटो भाति पटो भाति घटः प्रियः पटः प्रिय इति सर्वत्रानुवृत्तस्वभावत्वाद्रपनाम- नी भूतेषु भौतिकेपु च वर्तमानी रूपनामात्मकी उभावप्यंशी भिद्येते इंदग्रूपस्ताद्दयूपो घटः पट इत्यादिभेदभिन्नत्वेन वर्तेते अनिर्वचनीय- मायाकार्यत्वेन व्यावृत्तस्वभावत्वात् ॥ २१॥
Page 182
१६ सव्याख्यायां वाक्यसुधायाम्।
एवं प्राक्तुनग्रन्थसन्द र्भेणान्वयव्यतिरेकाभ्यां पदार्थनयं परिशोध्ये- दानीं नामरूपोपेत्तापुरःसरं सच्चिदानन्दतत्परो भूत्वा वाक्यश्रवणा- ङत्वन वाक्यार्थज्ञानसाधनभूतं वक््यमापभेदभिन्नं समाधि हृदये वा वाह्ये वा निरन्तरं कुर्यादित्याह॥ उपेक्ष्य नामरूपे द्वे सचचिदानन्दतत्परः । समाधि सर्वदा कुर्याद्धृदये वा Sथ वा वहिः ॥ २२ ॥ उपेक्ष्येति॥ जगदूपे नामरूपे द्वे उपेक्ष्यावशाय उदासीनीकृत्य सच्चिदानन्दतत्परः सच्चिदानन्दरूपव्रह्मात्मन्येव तात्पर्यवान् तंदेक- चित्त इत्यर्थ: ताहशो भूत्वा समाधि वक्ष्यमाणं चित्तसमाधानं सरवे- न्द्रियाण्यपि हृदयकमले निरुध्य तत्रतत्र वागादीन्द्रियाणां स्वस्वगो- लकावस्थाने पि तेषां वृत्तिमात्रं निरुध्य शरीरादन्तर्वाह्यदेशे वावक्ष्य- माणप्रकारेण निरन्तरं कुर्यादित्यर्थः विधिमुखतः समाधि विधायानेन श्लोकेन प्रतिपादितं पदं प्रति परमहंसस्यैव ब्रह्मज्ञानाधिकारो नान्य-
सस्यैव सम्भवाञ्च॥२२॥ एवं ब्रह्मजिज्ञासुं मुमुक्षुं प्रति निदिध्यासितव्य इत्यतद्वाक्यानु- सारेणावश्यकर्तव्यत्वेन समाधि विधायेदानीं तस्य समाधेरवा- न्तरभेदं दर्शयन्नेतान्समाधीन् हृदये कुर्यादित्याह॥ सविकल्पो निर्विकल्पः समाधिर्द्विविधो हदि। दृश्यशब्दानुविद्धेन सविकल्प: पुनर्द्विषा ॥२३॥ सविकल्प इति॥ सविकल्पसमाधिरनिर्विकल्पसमाधिरिति समा- धिर्द्विविधो द्विप्रकारो भवेत् दृश्यानुविद्धः सविकल्पकः शब्दानु- विद्धः सविकल्पक इति सविकल्पसमाधिरपि द्विप्रकारो भवेत् एवमुक्तप्रकारेण दृश्यानुविद्धः सविकल्पकसमाधि: शव्दानुविद्धः सविकल्पकसमाधिरनिर्विकल्पकश््ेति त्रिप्रकारं समारधि क्रमेण हृदये कुर्याद्विति रोषः। दृश्यमिश्रो दृश्यानुविद्धः शब्दमिश्रः शब्दानु- विद्धः ॥२३ ॥। सविकल्पो निर्विकल्पश्चेति सविकल्पस्य प्रथमोद्दिष्टत्वात्तत्रापि दृश्यशब्दानुविद्धेनेति दृश्यानुविद्धस्यैव प्रथमोददिष्टत्वादन्तईग्दृश्य- विवेकं दृगेकनिष्ठं दृश्यानुविद्धं सविकल्पसमाधि तावद्दर्रयति। * दृशय शब्दनुंबधनेति वा पाठः।
Page 183
सत्याख्या वाक्यसुधा। १७
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम्। ध्यायेद् दृश्यानुविद्धो 5यं समाधिः सविकल्पकः ॥२४॥ कामाद्या इति॥ कामाद्याः कामसङ्कल्पादयः पूर्वोक्ताश्चित्तगा: अन्तःकरणवृत्तित्वेनान्तःकरणनिष्ठाः दृशयाः कर्मभूताः युष्मत्प्रत्यय- विषया: भवन्तीति शपः तत्साक्षित्वेन तेपां कामादिचित्तगतदृशयानां प्रकाशकत्वेन चेतनमात्मानं प्रत्यक्चैतन्यं ध्यायेत्।एतदुक्तं भवति। तेषां कामादीनां मध्ये एकमेकं प्रतियोगिनं कृत्वा अस्य कामस्य यत्साक्षिभूतं चैतन्यं तदेव मम यथार्थ स्वरूपमित्येवं निरन्तरं प्रत्यग्रूपं चिन्मात्रं भावयेदिति। एवभुक्तप्रकारेण चिन्मात्रे भाविते सत्ययं दृश्यानुविद्धः सविकल्पकसमाधिरित्युच्यते इति शपः "नर्ते स्याद्वि- क्रियां दुःखी साकिता का विकारिण: धीविक्रियासहस्त्राणां साक्ष्य- तो Sहमविक्रिय" इति नैष्कर्म्यसिद्धिकारैरुक्तत्वात् ॥ २४ ॥ एवं दृश्यप्रतियोगिकं सचिकल्पकसमाधि दर्शयित्वा इदानीं क्रमप्राप्तं कामाद्यशेपदृश्यविलापकं साक्षिनिष्ठं शब्दानुविद्धसविक- ल्पकसमाधि दर्शयति॥ असङ्ग: सचिचिदानन्द: स्वपभो द्वैतवर्जितः । अस्मीतिशब्दविद्धो 5यं समाधिः सविकल्पकः ॥२५॥ असङ्ग इति॥ असङ्गः सङ्गरहितः "असङ्गो ह्यय पुरुष" इति श्रुतेः सच्चिदानन्दः सत्यज्ञानानन्दस्वरूपः "सत्य ज्ञानमनन्तं ब्रह्म विज्ञान- मानन्दं ब्रह्म"त्यादिश्रुतेः स्वप्नभः स्वयंप्रकाशः अद्ृएं द्रष्टश्रुतं श्रोतृ "न दृष्टेद्रपारं पश्ये"दित्यादिश्रुतेः द्वैतवर्जितः प्रकाश्यस्य प्रकाशाभिन्न- त्वेन कामाद्यशेपरहितः स्वगतादिभेदरहित इत्यर्थः "एकमेवाद्विती- य्"मिति श्रुतेः एवमुक्तलक्षणः प्रत्यग्नूपो यः साक्षी अयमहमस्मीति निरन्तरं भावयेत् एवमुक्तप्रकारण कामाद्यरेपवृत्तिविलापको Sसङ्गा- दिशव्द्मात्रमिश्रितो विजातीयप्रत्ययशून्यसजातीयप्रत्ययप्रवाहलक्ष- णः प्रत्यक्चिन्मात्रविषयकश्विदाभासनिष्ठो यो Sनुभवः अयंशब्दानु- विद्धः सविकल्पकसमाधिरित्युच्यते इति शेपः "निरीहो Sस्मि निरशो डस्मि स्वस्थो Sस्म्यस्मि च निस्पृहः शान्ता Sहमर्थरूपी Sस्मि चिरा- याहमलं स्थित" इति वसिष्ठवचनात् ॥२५॥ ३
Page 184
१८ सव्याख्या वाक्यसुधा।
एवं द्विप्रकारं सविकल्पकसमाधि दर्शयित्वा इदानीं कामादि- दृश्यानामसङ्गादिशव्दानां विलापकं निवातस्थितदीपवशचित्तनेश्च- ल्यात्मकं निर्विकल्पसमाधि दर्शयति॥
स्व्रानुभूतिरसावेशाद् दृश्यशब्दानुपेक्षितुः । निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ॥२६।। स्वानुभूतिरिति॥ अनुभूतिर्ज्ञानं प्रत्यक्चैतन्यं "या ऽनुभूतिरजा Sमेया त्वनन्तानन्दविग्रहा महदादिजगन्मायाचित्रभित्ति नमामि ता"- मिति इष्टसिद्धिकारैरुक्तत्वात् रस आरनन्दस्वरूप: परमात्मा "रसो वै सः रसं ह्येवायं लब्ध्वा SSनन्दी भवती"ति श्रुतेः प्रत्यगात्मापि रसाभिन्नत्वेन परमप्रेमास्पदत्वाद्रसस्वरूपभूता अनुभूति: स्वानुभूतिरेव रसस्तस्यवंशः स्वानुभूतिरसावेशः पूर्वोक्तसमा- धिद्वयाभ्यासपाटवादन्तःकरणे स्वरूपभूतज्ञानानन्दाविर्भावः स्वा- नुभूतिरसावेश इत्युच्यते यद्वा आवेशो Sभिनिवेश: मप्नत्वं स्वानु- भूतिरसावेशः यद्वा आसमन्तात्प्रवेश: आवेशः स्वरूपक्षानानन्दपूर्ण- त्वं यद्वा देवताद्यावेशवत् र्वानुभूतिरसस्यावेशस्तस्मात्स्वानुभूति- रसावेशात् स्वानुभूतिरसास्त्रादादिति पाठे चिदानन्दस्वरूपो Sहमिति स्वानुभूतिरसस्यात्मत्वेन स्वीकरणं स्वानुभूतिरसास्वादस्तस्मात दृशयशब्दानुपेक्षितु: पूर्वोक्तान्कामादिद्ृश्यानसङ्गादिशब्दांश्चोपेक्षितु- रुदासीनकर्तुरुभयत्र तात्पर्यराहित्येन तूष्णीं स्थितस्य देवताद्यावि- ष्ट्वत्स्वानुभूतिरसाख्यमहाग्रहग्रस्तत्वेन स्वातन्त्र्याभावात्परतन्त्रत- या स्थितस्येति तात्पर्यार्थः निर्विकल्पकसमाधि: स्यात् "प्रशान्तवृत्तिकं चित्तं परमानन्ददीपकम् असंप्रज्ञातनामायं समाधिर्योगिनां प्रिय" इति उक्तलक्षणो निर्विकल्पकसमाधिरुक्तलक्षणस्याधिकारिण: स्वयमेव स्यात् लयविक्षेपकषायादिप्रतिबन्धाभावादसंप्रज्ञाताख्यो निर्विकल्प- कसमाधि: स्वयमेव भवतीत्यर्थः।तस्मिन्समाधीचित्तनैश्चल्ये दष्टान्त- माह निवातस्थितदीपवदिति। निवातस्थले स्थापितो दीपो यथा निश्चलो भवति तथा समप्राप्तचित्तमपि निश्चलं भवतीत्यर्थः।"तत्परं पुरुषख्यातर्गुणवैतृष्ण्यं तीव्रसंवेगानामासंन्नः समाधिलाभ: व्युत्था- ननिरोधसंस्कारयोरभिभवप्रातुर्भावी निरोधलक्षणचित्तान्वयो निरो- धपरिणाम" इति पतस्जलिना सूत्रितत्वात् "यथा दीपो निवातस्थो
Page 185
सव्याख्या वाक्यसुधा। १९
नेङ्गते सोपमा स्मृता योगिनो यतचित्तस्य युञ्जतो योगमात्मन" इत्या- दिभगवद्वचनात् "अन्तःशून्यो वहिः शून्यः शून्यकुम्भ इवाम्बरे अन्तः पूर्णो बहि: पूर्ण: पूर्णकुम्भ इवारणवे मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव भावनामखिलां त्यक्का यदिएं तन्मयो भव द्ष्टदर्शनदश्यानि त्यक्का वासनया सह दर्शनप्रथमाभ्यासमात्मानं केवलं भज प्रशान्त- सर्वसंकल्पा या शिलावदवस्थितिः जाग्रन्निद्राविनिर्मुक्ता सा स्वरू- पस्थितिः परे"ति वसिष्ठवचनाच्च।अस्य समाधेवाक्यश्रवणाङ्गकत्वं च तत्वविवेकाख्ये ग्रन्थे श्रीमद्विद्यारण्यगुरुभिर्निरूपितं "अमुना वासनाजाल निःशेषं प्रविलापिते समूलोन्मूलिते पुण्यपापाख्ये कर्म- सञ्चये वाक्यमप्रतिबद्धं सत्प्राकृपरोक्षावभासिते करामलकवद्वोधम- परोक्षं प्रसूयते" इति ॥ २६॥
एवं हृदयसम्बन्धित्वेन दर्शितं त्रिप्रकारमिमं समाधि वाह्यसम्य-
हश्यानुविद्धसमाधि तावद्दर्रयति॥
हदीव वाह्यदेशे Sपि यस्मिन् कस्मिंश्च वस्तुनि। समाधिराद्यः सन्मात्रान्नामरूपपृथकूकृतिः ॥२७॥ दृदीति॥ यथा हृदये साक्षिण: सकाशात्कामादीनां पृथक्करण- माद्यः समाधिः।एतदुक्त भवति यथा हृदि कामादीनां मध्ये एकमेकं प्रतियोगिनं कृत्वा स्वात्मनः सकाशात् नामरूपया: पृथक्करणमस्य साक्षिभूत यच्चैतन्यं तदेवाहमस्मि अस्य संकल्पस्य सात्तिभूतं यच्चैतन्यं तदेवाहमस्मीत्यनुचिन्तनं दृश्यानुविद्धसमाधिरित्युच्यते तथा बाह्ये Sपि स्वाभीष्टमेकं वस्त्ववलम्व्यांशपञचके तस्मिन्वस्तुनि वर्तमानात्सश्चिदानन्दलक्षणग्रह्मण: सकाशान्नामरूपे पृथककृत्याऽनयोः पृथक्कृतयोरनामरूपयोरधिष्ठानभूतं सच्चिदानन्दलक्षणं यद्वस्तु तदेव तत्पदलक्ष्यं व्रह्मेत्यनुचिन्तनं दृश्यानुविद्धसमाधिरित्युच्यते इति "यत्र स्थितेयं विश्वश्रीः प्रतिभामात्ररूपिणी रज्ज्वां भुजङ्गवन्भाति सो Sहमात्मा सदोदित" इत्यादिवसिष्ठवचनाच्च ।२७॥
एवं दृश्यानुविद्धसमाधि निरूप्यदानीं समष्टिव्यष्ठ्यात्मकसम- स्तवश्यप्रपञचविलापकं शब्दानुविद्धसमाधि निरुपयत॥
Page 186
२० सव्याख्या वाक्यमुधा।
अखण्डैकरसं वस्तु मचिदानन्दलक्षणम् । इसविच्छिन्नचिन्तेयं समाधिर्मध्यमो भवेत् ॥ २८। अखण्डेकर समिति॥ अखण्डं देशकालाद्यपरिच्छिन्नं स्वगताद्दि भे - दरहितमिति यावत् "एकमेवाद्वितीयमि"ति श्रुतेः "नव्यापित्वाद्देशतो ं तो नित्यत्वान्नापि कालतः न वस्तुतो Sपि सावीत्म्यादानन्त्यं ब्रह्मि त्रिधे"त्येततैरव पञचकोशविचेकास्ये ग्रन्थे उपपत्तिभिरखण्डत्वस्य समर्थितत्वाञ्च। एकरसंकालत्रये उप्येकरूपं कूटस्थमित्यर्थः "अ्यक्तो Sयमचिन्त्यो Sयमविकार्यो ऽयमुच्यते"इति भगवद्वचनात् अखण्डञच तदकरसं चेत्यखण्डैकरसं मच्चिदानन्दलक्षणं स्पप्टो डर्थः एवमुक्त- लक्षणं यद्वस्तु तदेव ब्रह्मेत्यविच्छ्विन्नचिन्ता विजातीयप्रत्ययानन्तरि- तसजातीयप्रत्ययप्रवाहरूपा या चिन्तेयं मध्यमः समाधिर्भवेत् शब्दा- नुविद्ध सविकल्पकसमाधिर्भवंदित्यर्थः "एवं ब्रह्म चिदाकारं सर्वात्मक- मखण्डितम नीरन्धरभूरिवाशषमिति भावय राघव नाहं न चान्यद्वा उस्तीति ब्रह्मैास्मि निरन्तरम् आ्रनन्दपूर्णः सर्वत्राष्यनुद्वेगादुपास्य- ता"मिति वसिष्ठवचनात् ॥ २८॥ एवं ब्रह्मविषयं द्विप्रकारं सविकल्पकसमार्धि निरूप्येदानीं पूर्वोक्त-
तैः पड्भिः समाधिभिर्निरन्तरं कालं नयेदित्याह॥ स्तब्धीभावो रसास्वादाचृतीय: पूर्ववन्मतः । एतैः समाधिभिः पड्भिर्नयेत्कालं निरन्तरम् ॥ २९ ॥ स्तब्धीभाव इति ॥ रसशब्दो व्याख्यातः आन्तरस्य त्रिप्रकारस्य समाधेविषयभूतस्य साक्षिण: साक्षित्वसिद्धर्थ ब्रह्माभिन्नत्वं वलाद- ड्रीकर्तव्यमन्यथा समाध्यवलम्वाभावाद्वाह्यरय त्रिप्रकारस्य समाधे- विषयभूतस्य ब्रह्मणो Sपि सर्वात्मकत्वसिद्धवर्थमात्माभिन्नत्वं वलादङ्गी- कर्तव्यमेवं ब्रह्मण: सर्वात्मकत्वे सिद्धे सति स्वस्यापि रसरूपे Sस्मिन्परे ब्रह्मण्यन्तःपातित्वेन स्वस्यापि रसरूपस्वीकारो रसास्वाद इत्युच्यते तस्माद्रसास्वादादपूर्वोक्तान्तरनिर्विकल्पकसमाधिवद्त्रापि द्विप्रका-
त्मकसमस्तदृश्यप्रपञ्चमखण्डकर सादिशब्दजातं चोपेक्ष्यास्वादितभू- मानन्दपर तंन्त्रत्वेनावस्थितस्य चित्तस्य निवातस्थले स्थापितदीपस्ये-
Page 187
सव्याख्या वाक्यमुधा। २१
व यः स्तब्धीभावो निश्चलत्वं म एव तृनीयो मतो निर्विकल्पकसमाधि-
पड्भिःसमाधिभिरव सुमुश्ुर्निरन्तरं कालं नयेत्कालमित्यनेन समाधी- नां दीर्धकालकर्तव्यत्वं द्योत्यते तत्रापि नरन्तर्येण कर्तव्यत्वं निरन्तर- शब्दनोच्यते कालनिरन्तरशब्दौ सत्कारस्याप्युपलक्षकाँ "दीर्घकाल- नैरन्तर्यसत्कारसेवितो दृढभूमि"रिति पतञ्जलिना सूत्रितत्वात् ॥२६।। एवमन्तर्वहिश्च मिलित्वा पाड्डिधान्समाधीन् दीर्घकालनैरन्तर्य- सत्कारपूर्वकं मुमुक्षोरवश्यङ्गर्तव्यत्वेन विधाय इदानीं पूर्वोक्तप्रकारे- णान्वयव्यतिरेकाभ्यामन्तर्वहिश्च पदार्थद्वयपरिशोधनेन देहाभिमाने गलिते परमात्मनि च विज्ञात सत्युक्तलक्षणा: पड्डिधाः समाधयश्च अन्तर्वहिवा यत्र यत्र मनो गच्छति तत्र तत्र स्वयमेव प्रवर्तन्ते इत्याह॥ देहाभिमान गलिते विज्ञाते परमात्मनि। यत्र यत्र मनो याति तत्र तत्र समाकयः ॥ ३०॥ देहाभिमानेति॥ रूपं दृश्यमित्यारभ्यास्य जीवत्वमारोपादित्य- न्तेन श्ोकपर्यन्तेन ग्रन्थेन प्रदर्शितन्यायमनुसृत्य सम्यक् कृतेना-
युष्मदर्थप्वहं कर्ता डहं मनुष्य इत्याद्यात्मत्वाभिमाने गलिते शिथि- लीभूते "अस्ति भाति प्रियं रूपं नाम च" इत्यत्र दर्शितप्रकारण सम्यक कृतन वहि्व्रह्मसर्गविवेकेन नामरूपात्मकं समस्तमिदं जगन्मिथ्या तदधिष्ठानभूतं सच्चिदानन्दलक्षणं ब्रह्मव सत्यमिति एवं परमात्मनि च विज्ञात सत्येवमुक्तप्रकारण गलितद्ेहाभिमानस्य विज्ञातपरमा- त्मतत्वस्य मुमुक्तोरन्नर्वहिवा यत्र यत्र मनो गच्छति तत्र तत्रोक्तलक्षणा: पडपि समाधयः स्वयमेव भवन्तीति शपः। तीव्रवैराग्यबलात्परम- हंसाश्रमस्वीकार पूर्वकं ब्रह्मसाक्षात्कारपर्यन्तं सद्गुरुसन्निधी श्रीम- च्छ्रारीरकशास्त्रमवलस्व्य निरन्तरं पीनःपुन्येन क्रियमाणेन तत्त्वंप- दार्थविवंकन गलितदेहाभिमानस्य विज्ञातपरमात्मतत्वस्य मुमुक्षो. रुक्त लक्षणा: पड्डिधाः समाधयः स्वयमेवानायासन प्रवर्तन्ते इत्ययमेव तात्पर्यार्थः । "आवृत्तिरसकृदुपदेशा"दितति वैयासिकसूत्रानुसारण "अहं व्रह्मति वाक्यार्थ बोधो यावद् दृढीभवेत् शमादिसहितस्तावद-
Page 188
२२ सव्याख्या वाक्यमुधा।
भ्यसेच्छवणादिक"मित्याचार्यरुक्त त्वात्॥ ३०॥ वैराग्यसंन्यासादिश्रवणसाधन दीर्घकालनैरन्तर्यसत्कारसहकृत- श्रवणादिज्ञानसाधने च प्रयासं दृष्टा ब्रह्मात्मैक्यलक्षणस्य ज्ञान- फलस्याग्निहोत्रकार्यवत्सद्यः प्राप्त्यभावं च स्वबुद्धा कल्पयित्वा साधनानुष्ठानावुपरतं शिष्यं प्रति फलप्रदर्शनद्वारेण साधनानुष्ठाने तं प्रवर्तयितुं तस्य विश्वासार्थ परावरदर्शनफलप्रदर्शिनी श्रुतिमेव पठति॥
भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३१ ॥ भिद्यते इति॥ देहाद्वहिः सकलनामरूपात्मकेपु वस्तुपु सर्पा- धाररज्जुरिव व्याप्तः सच्चिदानन्दलक्षणो यः परमात्मा स एव परशब्देनांच्यते अन्तरहमादिदृश्यविलक्षणो Sस्मत्प्रत्ययालम्बनभूतः प्रत्यक्चिन्मात्ररूपः साक्ष्याख्यो यो जीवात्मा स एवावरशब्देनो- च्यते परश्चासाववरश्चति परावरः प्रत्यगभिन्नः परमात्मा तस्मिन्प- रावरस्यैव स्वयंप्रकाशत्वेनावाखनसगोचरत्वमुच्यते तच्छव्देनावा- ऊ नसगोचरे ब्रह्मात्मनीत्यर्थः।यद्वा परावरविभागाधिष्ठानभूतं शुद्ध- चैतन्यं तच्छव्देनांच्यते तस्मिन्पन्ते पररूपेण वा Sवररूपेण वा 5व- स्थिते परमार्थतः परावरविभागरहिते स्वगतादिभेदरहिते कूटस्थे शुद्धचैतन्ये इत्यर्थः । तस्मिन्परावरे तस्मिन्निति पच्तद्वये ऽप्येक एव फलितो र्थः। परावरस्यैव शुद्ध चैतन्यत्वाच्छ्ुद्धचैतन्यस्यैवावाऊनस- गोचरत्वाच्च।तस्मादुक्तलक्षणं तस्मिन्परावरे दृषे सति "त्वंवा अह- मस्मि भगवो देवते अहं वा त्वमसी"ति "तुभ्यं मह्यमनन्ताय मह्ं तुभ्यं शिवात्मने नमो देवाधिदेवाय पराय परमात्मने" इत्यादिश्रुतिस्मृत्य- नुसारेणाहं ब्रह्मास्मि ब्रह्मैवाहमस्मीति व्यतिहारेणाखण्डेकरसत्वेन करतलामलकवत्साक्षात् कृते सति अस्यैव साक्षात्कृतवतो Sधि- कारिण: हृदयग्रन्थिर्भिद्यते हृदित्यहङ्कारः अयमित्यपरोत्षरूप: साक्षी अन्योन्यतादात्म्येन तयोरुभयोरपि स्वरूपं मिलित्वा हृदयग्रन्थिरि- त्युच्यते "अहङ्कारस्य कर्तृत्वंचित्यध्यस्य तथा चितः स्फूर्ति चाहङ्कतौ ग्रन्थिं कुर्यान्माया तयोरधुंत"मिति वचनात् हृदयशब्दवाच्यं तादात्म्य- मेव ग्रन्थिरिव ग्रन्थिः। यद्वा हृदित्यहङ्गारःअयमिति साक्षी तयोस्ता-
Page 189
सव्याख्या. वाक्यसुधा। २३
दात्म्यं हृदयग्रन्थिरुच्यते एवमुक्तलक्षण आवृत्तिरूपमायाकार्यो डयं हृदयग्रन्थिरभिद्यते मुच्यते चशव्देदंशब्दी सर्वत्रानुवर्तेते एवं हृदयग्रन्थी भिन्ने सत्यस्य सर्वसंशयाश्छिद्यन्ते च परमार्थतो ममैव ब्रह्म त्वमस्ति वानवा ब्रह्मत्वे पि तादृयूपत्वं मम साक्षात्कृतं वा न वा साक्षात्कृते ज्पीतः परं ममापि कर्तव्यमस्ति वा न वा कर्तव्याभावे Sपीदानीं मम जीवन्मुक्तत्वमस्ति वा न वा जीवन्मुक्तत्वे Sपि वर्तमानदेहपाता- नन्तरभाविनी विदेहमुक्तिर्भविष्यति वा न वा विदेहमुक्तिप्राप्तावपि कालान्तरे पुनर्जन्म भविष्यति वान वेत्यादिसंशयाश्क्किद्यन्ते च संश- यरूपा: पाशाश्च परावरदर्शनशस्त्रेए खण्ड्यन्ते इत्यर्थः।एवं सर्वसंशयेषु भिन्नेषु सत्सु अस्य कर्माणि च च्षीयन्ते परावरदर्शनस्य देहारम्भनि- रोधकत्वे Sपि वर्तमानदेहारम्भसमये तस्याविद्यमानत्वेन तन्निरोध- कत्वासम्भवात् "तस्य तावदेव चिरं यावन्न विमोक्ष्ये" "भूयश्चान्ते विश्वमायानिवृत्ति"रित्यादिश्रुतेश्च प्रारब्धकर्मणां भोगादेव क्षया- दागामिकर्मणां च परावरसाक्षात्कारसमये अविद्यमानत्वात्पश्चात् सर्वेषामपि तेषामसंश्षेषाञ्च जन्मकोटिसहस्त्रोपादानभूतानि सश्चिता- न्यनारब्धशब्दवाच्यानि पुण्यापुण्यमिश्ररूपाणि कर्माण्येवात्र कर्म- शब्देन विवक्ष्यन्ते तानि सर्वाणि च क्षीयन्ते परावरदर्शनाग्निना दग्धानि भवन्तीत्यर्थः । अन्यदृष्टिमाथित्यैव कर्मशब्दो व्याख्यातः । "अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत" इत्यादिश्रुतिसहस्त्रेष्वस्या- शरीरत्वश्रवणादशरीरस्य परावरदर्शनानन्तरमप्यागामिकर्मण एव असम्भवात्प्रारब्धकर्मणा फलभोगो उप्यस्याशरीरस्याभिमानाभावा- दारब्धानारब्धरूपाणि सर्वकर्माणि क्षीयन्ते इति स्वदृष्ट्यनुसारो डयमर्थः भिद्यते इत्यादिवर्तमानप्रयोगेण ज्ञानसमकालमुक्तत्वं दो- त्यते अत्र प्रमाणं "तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे Sहं मनुरभवं सूर्यश्चंति ब्रह्मविद्गह्मैव भवति ब्रह्मविदानोति परं तरति शोकमात्म- वितू अभयं वे जनक प्राप्तो Sसि एतावदरे खल्वमृतत्वमिति तमेव विदित्वा Sतिमृत्युमेति तमेवं विद्वानमृत इह भवति यत्र नान्यत्प- श्यति यत्र नान्यच्छृणोतति यत्र त्वस्य सर्वमात्मैवाभूदि"त्यादिश्रुतयः "तीर्थे श्वपचगृंह वा नष्टस्मृतिरपि परित्यजन्देहम ज्ञानसमकालमुक्त: कैवल्यं याति हतशोक:" इति शेषवचनम् "दर्शनाद्शने हित्वा स्वयं केवलरूपतः यस्तिष्ठति सतु ब्रह्म ब्रह्म न ब्रह्मवित्स्वय"मिति वसिष्ठ-
Page 190
२४ सव्याख्या वाक्यमुधा।
वचनम "यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् तस्मात्का- लात्समारभ्य जीवन्मुक्तो भवेत्सदंति" पुराणवचनम्॥ ३१॥ एवमवरशद्दवाच्यस्य जीवस्य ब्रह्मत्वे दर्शिते सतति रूपं दृश्य. मित्यारभ्याऽस्य जीवत्वमारोपादित्यंतच्छोकपर्यन्तन ग्रन्थेन दर्शि- तमर्थ विस्मृत्यास्य सात्षिण:ब्रह्मत्वमेव स्वरूपं चत्तर्हि जीवत्वं नोप- पद्यते जीवत्वमेव स्वरूपं चेत्तदा ब्रह्मत्वं नैवोपपद्यते उभयथापि शास्त्रनेरर्थक्यं स्यादित्याशङ्कमानं शिष्य प्रति अस्य सा्षिण एव उपाधिवशाजीवत्वं स्वभावती ब्रह्मत्वं चोपपद्यते तस्माच्छास्त्रनैरर्थ- क्यमपिन स्यादिति प्रकरणपरिसमाप्तिपर्यन्तेन ग्रन्थसन्दर्भेण कृपया पुनर्विविच्य प्रदर्शयिष्यन्नवरशब्दवाच्यजीवस्यावान्तरभेदं तावत, दर्शयति॥ अवच्छिन्नश्विदाभामस्तृतीयः स्वप्नकल्पितः । विज्ञेयस्त्रिविधो जीवस्तत्राद्यः पारमार्थिक: ॥ ३२॥ अवच्छिन्न इति ॥ अवच्छिन्नः परिच्छिन्नः परिपूर्णे परव्रह्मण्यवि- द्याहङ्गाराभ्यासवच्छेद्यं यत्साक्षिचैतन्यं स एववच्छिनाख्यः प्रथमो जीवः स्यात् चिदाभासः चिल्लक्षणरहितस्तद्वदवभासमानश्चिदा- भासः अन्तःकरणाख्ये Sहङ्गारादिशब्दवाच्ये लिङ्गशरीरे प्रतिविम्बितें यच्चैतन्यं स एव चिदाभासाख्यो द्वितीयो जीवः स्यात्स्वभावस्थायां नरपशुपक्ष्याद्यनेकशरीरलक्षणं परिषृह्य सर्वा दिशो यः परिभ्रमति स एव स्वप्नकल्पितस्तृतीयो जीव स्यांदवं जीवस्त्रप्रकारो ज्ञातव्यः तेपु जीवेपु मध्ये आद्यो Sवच्छिन्नाख्यः सात्षी पारमार्थिक: परमार्थ- भूनो ब्रह्मभूत इत्यर्थ: ॥ ३२।।
तस्य स्त्ररूपनिरूपणद्वारेणारोपवशाजजीवत्वं स्वभावतो ब्रह्मत्वं च तस्मिन्संभवतीत्याह।। अवच्छेद: कल्पितः स्यादवच्छेद्यं तु वास्तवम्। तस्पिन् जीवत्वमारोपाद्रह्मत्वं तु स्वभावतः ॥ ३३। अवचछेद इति॥ अवच्छेदावच्छेद्ययोर्जीवत्वब्रह्मत्वयोश्च परस्पर- वैलतृण्यद्योतकायुभावपि तुशब्दी अवधारणवाचकी वा ब्रह्मभूते
Page 191
सव्याख्या वाक्यसुधा। २१
सात्तिण्यविद्याहङ्गारकृतो यो Sवच्छेद: परिच्छेद: स आकाशे तल-
सत्यविद्यावच्छिन्नो Sहमहङ्कारावच्छिनां Sहमित्युभयविधस्यावच्छि- स्नत्वस्याप्यभिमानाभावादविद्याहङ्गाराभ्यां परिच्छेद्यं यत्साक्षिचैतन्यं तत्कालत्रये उप्येकरूपत्वाद्वास्नवमेव सत्यमेव स्यादेवं यस्मास- स्मादुक्तलक्षणे तस्मिन्साक्षिणि चिदाभासद्वरेणाहङ्कारसाक्षिणोर- न्योन्याध्यासादेव जीवत्वं स्यात् "कर्तृत्वादीन्वुद्धिधर्मान्स्फूर्त्याख्या- मात्मरूपताम दधद्विभाति पुरत आभासो Sती भ्रमो भवे"दिति वच- नात् प्रकृते साक्षिणि ब्रह्मत्वं स्वभावत एव स्वतःसिद्धमेव स्यान्न तु चतुर्विध*क्रियासाध्यमित्यर्थः॥३३॥ एघमस्य स्वभावतो ब्रह्मत्वं चोपपत्तितो दर्शयित्वा इदानीमस्य साक्षिण एव ब्रह्मणा सह ऐक्यं वाक्यानि बोधयन्ति नेतरयोधिदाभासस्वप्नक-
अचच्छिन्नस्य जीवस्य पूर्णेन ब्रह्मणैकताम्। तच्तमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ ३४ ॥
द्वितीयवत्प्रतीयमानस्य पारमार्थिकजीवस्यैवाविद्याश्रयभूतत्वेन देश- कालवस्तुभिरनभिद्ठुतेन परमात्मना "तत्त्रमसि अ्रहं ब्रह्मास्मि अ्रय- मात्मा ब्रह्म प्रज्ञानं ब्रह्मे"त्येवमादिवाक्यान्यैक्यं जगुः आरोपित- पछ्ठचादिकमवलम्व्य लक्षणावृत्त्या तात्पर्यणैक्यं बोधयन्तीत्यथः।चि- दाभासस्वप्नकल्पितयोर्रह्मणा संहैक्यं वाक्यानि न बोधयन्ति तयोर्मा- याकार्यत्वेनावस्तुभूतत्वादित्यभिप्रायः।ननु प्रमाणफलस्य प्रमातृगा- मित्वादहं ब्रह्मास्मीति चिदाभासनैव प्रतिपन्नत्वेन तस्यैव प्रमातृ- त्वात्कूटस्थस्प साकिण: प्रमातृत्वासम्भवेन प्रमाणफलाश्रयत्वानुप- पत्तेः काकस्य कार्ष्ण्य धवलप्रासाद इतिवदन्यस्य फलमन्यस्य स्यादित्याचार्यरसम्बद्धमेवोच्यते इति चेन्नैष दोपः चिदाभासस्य
सास्य प्रमाणफलाश्रयत्वानुपपत्तेः साक्षिणश्चिदाभासाधिष्ठानत्वेन
- चतुर्विधं फलं नाम।उत्पत्तिराप्तिः संस्कारी गुणान्तरमिति । ४
Page 192
२६ सव्याख्या वाक्यसुधा।
नदात्मत्वात्परमार्थरूपत्वाच्च प्रमाणफलाथयोपपत्तेः 'प्रत्ययी प्रत्यय- य्चैव्र यदाभासी तदर्थता नर्योरचितिप्त्वाद्च चैतन्ये कल्प्यते फलम् फुटस्थ उवि फलं योग्यं राजनीव जयादिकम तदनात्मत्वहेतुभ्या क्रिराया: प्रत्ययस्य चे त्याचार्येः कूटस्थस्य साकिणी Sपि प्रमाण- फलाश्रयत्वमस्तीति समथितत्वाच्य "शानिताश्ञानिते त्वात्माभीसस्यैव न चात्मनः तथा च कथमाभामः कूटस्थी उस्मीति बुध्यतामू नायं दोषशविदाभास: कुटस्यैकस्वभाववान् आभासस्य च मिथ्यात्वात् कुटस्थत्वावशेषणािति" तृप्तिदीपास्ये ग्रन्थे तैरेवाचार्यराशख्का परि- हतत्वाच॥ ३४॥ एवं पारमार्थिकजीवस्य सात्तिण एव परिपृर्णानन्दपरमात्मनैक्ये
तत्वता Sनवच्छित्रव्रह्मरूपस्यास्य साक्षिण एव भोक्तभोज्यात्मकस-
कार्यत्वेन मिध्यात्वं साक्ष्यनन्यत्वं तन्मात्रणावरीपत्वं चोत्तरग्रन्थ- सदर्भेग दर्शयितुं साक्षिणो जीवजगदधिष्ठानत्वं जीवजगतोमाया- कार्यत्वं च दर्शयति॥
आटत्या 5खण्डतां तस्ति जगजोती प्रहल्पयेत् ॥ ३५ ।।
कृत: शद्दतश्चार्थतश्च न पौनरुत्तयास्यो दोपो ऽत्र शङ्कनीयः ब्रह्मा- त्मस्य रूपस्यालो किक स्वातिसूदसत्वेन भिति आ्ञातुमशक्यत्वादभ्या- सवैत्र प्रतिरसव्पत्वाच्छू पैव नवकृत्व उपादयत्वाच्य सत्ादिलक्षस व्र अण्पवस्थिता Sपट्वनिवितालक्षणश्तिद्वयात्मिका Sनिर्वरंचनीया मा- या स्वाश्रयभूनस्य वझ्मगी Sण्डतामारक्राय तस्मितवच्छद्यलाि स्वरूपे व्रह्मणि जनजीव्री प्रकलयेत्पूर्वोत्तप्रकरिण सृजेदित्यर्थ: ॥३५।१ भोक्त मोग्ययोर्सध्ये सोंकरूपस्य जोधस्येव प्राधान्य ज पद्ा- नुसारेग जगज्ीवावित्युक्तमर्थक्रमानुनरेंण।इदानी तयोर्जी वजगतो: स्वरूपं विविच्य दर्शयाति॥ जीवो धीस्थश्चिदाभासी भवेदोक्ता हि कर्मकृत्। भोग्यरूपमिद सर्व जगत्स्यादूतभौतिकम्॥ ३६ ॥
Page 193
सत्यारुपा वास्पमुा। २७
जीव इति। कप्यादिक यज्ञादिक श्रवणादिकं च कर्म करोतीति कमऊतू स्वार्जिजितमैहिकामुष्मिकफललक्षसं भोगं सुनक्तीति भोक्ता एव मुकलक्षणो यो श्रीस्थधिदाभामः स एव ब्रह्माथ्रितमायाक लिपतो जीव इत्युच्यते हिशब्दा यस्सादयें धीस्यश्िदाभासः कर्म- कृद्भोंका व यम्मात्तस्माज्जीवो भवेदित्यक्षरयोजना। भूत पृथिव्यादि- भीतिक देवनिर्यगादिशरीरजातं भूतं च भौतिकं च भूतभीतिकं भोक्तणां भोगाधिष्ठानभूतं तत्तच्छरीरानुरूषेण भोज्यरूपमिद परि- दृश्यमानं सर्वे भूतभौतिकं जगत्स्याज्गदित्युच्यते ॥ ३६ ॥ एवं जीवजगतोः स्वरूपं दर्शयित्वा इदानीमनयोरनिर्वचचनीय- मायाकार्यत्वेन मोक्षदशायामभावाद्यवहारमात्रे स्थितत्वाच्चैतदुभयं व्यावहारिकमित्याह॥ अनादिकालमारभ्य मोक्षात्पूर्वमिदं द्रयम्। व्यवहारे स्थितं तस्नादुभयं व्यावहारिकम् ॥३७ ॥ अनादिकालमिति ॥ अरस्मिन्काले आरध्धे एते जीवजगती इति विचार्य केनापि निर्णेतुमशक्यत्वात् "प्रकृति पुरुषं चैव विध्यनादी उभावपी"ति भगवद्वचनाश्च अनत्ोर्जीवजगतोरादिर्नास्त्येव "गताः कला: पख्चदश प्रतिष्ठां यथा नद्यः स्यन्दमानास्समुद्ेऽस्तं गच्छन्ति तस्य तावदव चिरं भूयश्चान्ते विश्वमायानिवृत्ति"रित्यादिश्रुतेः "ततस्निमितगम्भीरंन तेजोन तमस्ततम्। अनाख्यमनभिव्यक्तं यत्कि- श्विद्वशिष्यते"इति वसिष्ठवचना्च अनयोर्जीवजगत्वर्तमानदेहरा- हित्य लक्षणविदेह कैवत्यदशायामभावादन्तो Sस्त्येथ यस्मादेवं तस्मा-
जगदाख्यमिदं वस्तुद्वयं स्थितम् उक्तलक्षणं व्ययहारमाश्रित्य वर्तते तस्मादेतदुमयं व्यावहारिकं न तु पारमार्थिकं प्रातिभासिकं च एवं जीव जगतोर्मायिकत्वं साक्षिणो जीवजगदधिष्ठानत्वं मुखत एव ब्रह्म- ण्यवस्थिता मायेत्यस्मिन् कोके दर्शितम् अस्मिन् श्षोके तयोर्मुख्तो व्यावहारिकत्वकथनद्वारा मिथ्यात्वं दर्शितमधिष्ठानानन्यत्वमधि- ष्ठानावशंपत्वं चार्थात्सूचितम् ॥३७। एवं ब्रह्मण्यवस्थितेव्य्ादिभिस्त्रिमिः श्ोकैः प्रदर्शितमर्थ स्वप्न-
Page 194
२८ सव्याख्या वाक्यमुधा।
जीवजगदवलम्बनेन डढीकरिध्यामीत्यभिप्रायेण स्वप्नजीवजगतोर्नि- द्रांकार्यत्वं दर्शयति॥ चिदाभासस्थिता निद्रा विस्षेपाS5ट्ृतिरूपिणी। आवत्य जीवजगती पूर्वे नूते तु कल्पयेत् ॥ ३८ ।। चिदाभासस्थितेनि॥ व्यावहारिकजीवास्यचिदाभासाश्रया SSवृ- तिवित्षेपात्मिका तमोरूपा प्रसिद्धा निद्रा SSवरणशक्त्याकारेण पूर्वे व्यावहारिकजीवजगती आवृत्य ततो निद्धाश्रयत्वेन निद्धावच्छिन्नचि- दाभाससवरूपं जाग्रत्समस्तप्रपश्चसंस्कारसहिते दे हस्थान्तनाडीमध्ये स्थिते Sस्मिन् निद्रावच्छ्विन्नचिदाभासाकारे विक्षेपशक्ताकारेण नूले नूतने जीवजगती कल्पयेत् पूर्वनूतनजीवजगतोव्यवहारिकप्राति- भासिकत्ववैलक्षण्यद्योतनार्थस्तुशब्द: यथा निद्रा चिदाभासाश्रया तथा माया Sपि ब्रह्माश्रया यथा निद्रा SSवृतिविक्षेपाख्यशक्तिद्वयात्मिका तथा माया Sपि शक्तिद्वयात्मिका यथा स्वप्नजीवजगतोर्निद्रा- कार्यत्वं तथा व्यावहारिकजीवजगतोरपि मायाकार्यत्वं यथा निद्रा- वच्छ्विन्नचिदाभासाकारस्य खवप्नजीवजगदधिष्ठानत्वं तथा मायाव-
स्यात्तस्माद्गह्मण्यवस्थिता मायेत्यनेन श्लोकेन प्रदर्शिते उर्थे विश्र- तिपत्तिहेतु: को ऽपि नास्तीत्यभिप्रायः ॥३८॥ तुशव्देन द्योतितं वैलक्षण्यं स्पष्टयति॥ प्रतीतिकालएवैते स्थितत्वात्पातिभासिके। न हि स्तप्नमबुद्धस्य पुनः स्वमे स्थितिस्तयोः ॥ ३९ ॥ प्रतीतिकालइति ॥ प्रतीत्यनन्तरकालस्थिति निषेधयत्येवकारः प्रतीतिकाले एव वर्तमानत्वादेते सवन्नजीवजगती प्रातिभासिके इत्यु- चयेते इममेवार्थ व्यतिरेकमुख्ेनापि द्रढयति न हीति। एकस्मिन दिने स्वमं दृष्टा तस्मात्प्रबुद्धस्य दिनान्तरे दृश्यमाने रवन्े पूर्वदिनस्वप्न- सम्बन्धिनोर्जीवजगतारवस्थितिर्नास्ति यस्मात्तस्मात्ते प्रातिभासिके एव न तु व्यावहारिके पारमार्थिकत्वशङ्गैव नास्त्यनयोरनेन प्राति- भासिकत्वकथनेन स्वप्नजीवजगतोः प्रतीतिकाले एव स्थितत्वात्पुनः रवप्े स्थित्यभावाच्च मिथ्यात्वं तथा व्यावहारिकजीवजगतोरप्यनादि- कालमारभ्य मोक्षात्पूर्व स्थितत्वात्ततः परमभावाच्च मिथ्यात्वं यस्मात्तस्मादनादिकालमारभ्येति अनेन श्ोकेन प्रदर्शिते उर्थे विप्र-
Page 195
सव्याख्या वाक्यसुधा। २९
तिपत्त्यव काशो नास्तीत्यभिप्रायः ॥ ३६ । एवं स्वाप्नजीवजगहश्टन्तेन संक्षेपण प्रदर्शितं व्यावहारिकजीव- जगनोर्मिथ्यात्व पुनः स्वपद्ष्टान्तमवलस्व्य श्रोकत्र्यण दृढयितुं उष्टान्तभूतयोः स्वप्नजीवजगतोर्मिथ्यात्वं तायदर्शयति॥ पातिभासिकजीवो यस्तज्जगत्मातिभातिकम्। वास्तवं मन्यते Sन्यस्तु मिथ्येति व्यावहारिकः ॥ ४०॥ प्रातिभासिकेति ॥ स्वन्नकल्पितप्रातिभासिकाख्यो यो जीवः सः स्वप्नकल्पितं प्रातिभासिकासयं तजगद्वास्तवं मन्यते सत्यमित्य- गच्छति न तु मिथ्येति स्वस्य यावदवस्थानं तावत्तस्याप्यवस्थि- तत्वादन्यान्यपक्षव्यावृत्त्यर्थस्तुशद्दः प्रातिभासिकादन्यो व्यावहारि- काख्यो जीवस्तत्प्रातिभासिकं जगश्य तद्टपारं प्रातिभासििकं जीवं च मिथ्येति मन्यत न तु वास्तवमिति स्वप्नात्पूर्व स्वप्नानन्तरं प्रबाधे च तयोरुभयोरप्यवस्थानाभावादिति भावः ॥४० ।। दष्टान्तेन प्रदर्शित न्यायं दार्ष्टान्तिके योजयति ॥ व्यावहारिकजीवो यस्तज्जगव्यावहारिकम् । ससं पसेति मिथ्येति मन्यते पारमार्थिक: ॥४१ ॥ व्यावहारिकेति। उक्तलक्षणो यो व्यावहारिकजीवः स माया- कल्पितं तद्यावहारिकं जगत्सत्यं प्रत्येति वास्तवमित्यवगच्छति न तु मिथ्यंति स्वस्य यावदवस्थानं तावत्तस्याप्यवस्थितत्वात्तस्मा- दन्यः पारमार्थिकजीवस्तद्यावहारिकं जगब्ब तट्टपारं चिदाभासञ्च मिथ्येति मन्यते एतदुभयमसत्यमित्यवगच्छ्ति न तु सत्यमिति नित्य प्रलया ख्यसुषुप्ती तर्योरनवस्थानस्यानुभवसिद्धत्वातू "नासदा- सीन्नो सदासी"दित्यादिश्रुत्यनुसारेणानादित्वे ऽपि "गताः कला" इत्यादिश्रुत्यनुसरेण वर्तमानदेहराहित्य लक्षणविदेहकैवल्यदशायां तयो: प्रतीतिरप्यात्यन्तिकनाशस्य निश्चितत्वात् श्रृत्याचार्यानुभवव- शात्स्वभावसिद्धे ब्रह्मात्मत्वे साक्षात्कृते सति भाविदेहराहित्यलक्षण- जीवन्मुक्तिदशायां तयोर्व्यावहारिकजीवजगतीः कादाित्कप्रतीति- सन्भ्ावे Sपि तयो: सत्ता Sऽत्यन्तिकनाशस्य श्रुतियुत्त नुभवसिद्धत्वाच्च तस्मात्प्तिभासिकजीवजगती यथा मिथ्याभूते तथा व्यावहारिकजी- वजगती च मिथ्यास्वरूपेति भावः ।।४१॥।
Page 196
सव्याख्या वाक्यसुधा।
मिश्येति मन्यते पारमार्थिक इत्यतावता ग्रत्थेन प्रतिपादितमर्थ पुन ददर्यत॥ परमार्थिकजीवस्तु ब्रह्मैक्यं पारमार्थिकम्। प्रसेति वीक्ष्यते नान्यद्रीक्षत त्वनृनात्मना ॥ ४२ ॥ पारमार्थिकेनि॥ अवधारणवाचकौ तुशब्दो पारमार्थिको
प्रप्तिपर्यन्तं ब्रह्म चिच्छद्दलक्ष्यं साक्षिस्वणतादिभंदरहितं बन्धमोक्ता- दिव्यवहारातीतं सचिवानन्तुलक्षणं स्वस्वरूपं ब्रह्मैक्यमेव पारमा- र्थिकमित्यवगच्छति नान्यद्वीक्षते "यत्र नान्यत्पश्यति यत्र त्वस्य सर्वमात्मैवाभू"दित्यादिश्रुतेः वीक्षते त्वनृतात्मना प्रवलप्नारब्धवश- रस्वरूपावस्थानाचिदाभासाकरिण व्युत्यितः सन्कदाचिजीवजगदा- डिकं यद्यपि वीक्षते तथा ऽपि मिथ्यात्वेनैव पश्यति न तु सत्यत्वे- नेत्ययमेव तात्पर्यार्थः ॥४२॥
याकार्यत्वमत एव मिथ्यात्वं च हढीकृत्येदानीं दष्टान्तभूतयोर्जीवज- गतोरधिष्ठानचिदाभासानन्यत्वं तम्मात्रेणावशेषत्वं च प्रसिद्धमपि पुनरपि बाह्यट्ष्टान्तेन हढीकृत्य तेन वाह्याभ्यन्तरद्ष्टान्तद्वर्यनापि व्या-
द्रढयितुमारोपिताकारस्याधिष्ठानानन्यत्वे वाह्यवष्टान्तं तावदर्शयति। माधुर्यद्रवशैयानि नीरधर्मास्तरङ्गके। अनुगम्याथ तन्निष्ठे फेने ऽप्यनुगता यथा ॥४३॥ माधुर्यमिति ॥ यथा दष्टान्ते माधुर्य च द्रवत्वं च शैत्यं च माधुर्यद्रवशैत्यामि नीरधर्मा जलगुणा: जलस्योपरि वातवशात्तरङ्गे उत्पन्ने सति जलविवर्तत्वेन जलनिष्ठ तस्मिन् तरङ्गे अनुगम्याथ तरङ्गोत्पत्यनन्तरं तत्तरङ्गविवर्तत्वेन तरङ्गनिष्ठे फेने उप्यनुगता: जलतरङ्ग: फेन इति भेदव्यवहारे विद्यमाने Sपि जलादीनां माघुर्य- द्रवशैत्यव्यतिरेकेण स्वरूपाभावतया तेष्रां माधुर्यद्रवशैत्यात्मकत्वा- त्पूर्वपूर्वाधिष्ठानस्यैवोत्तरोत्तरव्यावृत्ताकरेण विवर्तमानत्वावुत्तरोत्त- रकार्यस्य पूर्वपूर्वाधिष्ठानानन्यत्वं प्रदर्शितमनेन श्ोकेन ॥४३॥
Page 197
सव्याख्या वाक्यसुधा। ३१
एवमारोपिताकारस्याधिष्ठानानन्यत्वं वाह्यटष्टान्तेन दर्शयत्वा तमेव न्यायं दार्श्टान्तिके शोजर्यात॥ साक्षिस्याः सच्चिदानन्दाः सम्बन्धाव्ावहारिके। तद्वारेणानुगच्छन्ति तथैव पातिभासिके ॥ ४४॥ साक्षिस्था इति ॥ यथा दृष्टान्ते तथा दार्श्टान्तिके पि ब्रह्मस्वरूपे साक्षिणि स्थिता: स्वरूपलक्षणराळ्वाच्या: सत्यक्षानानन्दाः साक्षि- गुणास्तरङ्ं जलगुणानां सम्बन्धवद्यारिकजीवजगत स््ध द्यावहारिकजीवजगद्यवधानेन प्रातिभासिकजीवजगतोरप्यनुवृत्ता भयन्ति। व्यावहारिकः प्रातिभासिक इत्यती व्यावहारिकप्रातिभा- सिकजगतोरप्युपलक्षणे जीवयोस्तत्तजगइन्तःपातित्वेन जगद्यति- रेकेणाभावात्सालषिस्था इत्याधाराधेयभावो गुणगुणिभावश्च राहो: शिर इति वदौपचारिक: प्रातिभासिकजीवजगताश्चिदाभासविवर्त- कत्वे स्वभावतः प्रसिद्धे Sपि तरङ्गस्थानीयचिदाभासस्था: सचिदा- नन्दा एव फेनस्थानीयप्रातिभासिकजीवजगतोरप्यनुगता इति पुनर- प्यवं निश्चिते सनि यथा नयीः प्रातिभामििकयोर्जवजगतोशचिदाभा- सानन्यत्वं यथा वा जलस्थमाधुयशिनामव तरह उप्यनुगतत्वेन तगसजनानव्गन्स गशा जवस्थानीये साक्िषि स्थितानां माचुर्या- दिस्थानीयानां सध्चदानन्दानामव तरङ्गरान योशिदाभासजग- तारप्जनुगवत्नेन तथा: भलसूनसाश्यनन्यत्वं सिद्धमिति मावः "एक एवात्मा मन्तव्यो जायर्वसुपुतिपु स्थानवयव्यतीतस्य पुनर्जन्म न विद्यते" इत्यादिश्रुतेः ॥४४॥
मुखन दर्शवित्वा तदेब पुनरधिष्ठानावशपत्वेन दृढयितुं पूर्योक्तमेव दृष्टान्तं दर्शगति॥ लये फेनस्य तदर्ग द्रवाधा: स्युस्तरङ्के। तस्यापि विलये नीरे तिष्ठन्सेते यथपुरा ॥४५॥ लये इतति॥ तरङ्वविर्वास्य केनस्य नाशे सतति तत्फेनधर्मा: द्रव- माघुर्यशैत्याख्याः फेनाधिदाने तरक्े भवन्ति जलविवतेस्य तरङ्ग- स्यापपि नाशे सत्यते इ्रवाद्यास्तरङ्गफनाघुत्वे: पूर्व यथा सर्वाधिष्ठाने नीरे तिदनति तथा तिष्ठन्तयेव कालत्रये उपि नीरस्व विद्यमानत्वातू
Page 198
३२ सव्याख्या वाक्यसुधा।
तिरेकेण तरङ्गफेनी न स्त इत्यर्थः । ४५॥। दृष्टान्तसिद्धमर्थ दाप्टान्तिके योजयति ॥ प्रातिभाभिकजीवस्य लये स्युव्यावहारिके। तल्लये सचिदानन्दाः पर्यवस्यन्ति साक्षिणि ॥४६॥ प्रातिभासिकेति ॥ अत्रापि प्रातिभासिकजीवजगतोर्लये सति तत्र स्थिता: सच्चिदानन्दाः जाग्रत्प्रपश्चसंस्कारसहिते चिदाभासे भवन्त्यत्रापि तल्लये तजजगतो ऽप्युपलक्षएं नित्यनैमित्तिकप्राकृतात्यन्ति- काख्येषु प्रलयेपु व्यावहारिकजीवजगतलये सति तत्र स्थिताः सच्चिदानन्दा: सर्वाधिष्ठानभूते साक्षिण्येव पर्यवस्यन्ति निष्ठां प्राप्नु- चन्ति तस्याप्यधिष्ठानभूतस्य कस्य चिद्धस्तुनो Sभावादेवं साच्षिण: कालत्रये Sपि सद्ूपत्वात् व्यावहारिकजीवजगदादः सृष्टेः पूर्व प्रलयानन्तरं चाविद्यमानत्वात्तजत्वात्तत्रस्थत्वात्तल्लयत्वाच्च तलृक्ष्य- ब्रह्माभिन्नसाक्षिव्यतिरेकेण व्यावहारिकजीवजगदादिर्नास्त्येवेत्यर्थः। चोरव्याघ्रादीनामाभिमुख्यागमनेन प्रातिभासिकजीवकर्तृकेण तद्दर्श- नेन निद्रावच्छिल्नचिदाभासस्यैव निद्राथ्यभूतेन चिदाभासेनैक्यवि- पये जागरणाख्ये प्रबोधे जाते सति दिनान्तरे विद्यमानप्रातिभासिक- जीवदृष्ट्या स्वरूपभूतचिदाभासाज्ञानपूर्वकसमस्तसंसारे विद्यमाने ऽपि वर्तमानदिन चारव्यात्रादिदर्शनेन प्रबुद्धः प्रातिभासिकजीवः
भागरहिते एकरूपे चिदाभासे भृगुपतनादिकर्तेव स्वनाशेन चिदा- भासपदं प्राप्तुमिच्छया प्रातिभासिकभोग्यरूपसमस्तप्रपश्चेन सहा- त्यन्तिकनाशं यथा प्राप्तोति तथा व्यावहारिकजीवो Sपि व्यावहा-
मूल समस्नसंसारे विद्यमाने Sपि चोरव्याध्राद्याभिमुख्यागमनस्थानी- येन श्रत्याचार्यानुग्रहेश प्रातिभासिकजीवकर्तकतदर्शनस्थानीयेन स्त्रकर्तृकश्रवणाद्यनुष्ठानेन निद्धावच्छिन्नचिदाभासस्यानीयस्य साया- वच्छिननस्य स्वभावतो Sनवच्छिन्नस्य व्रह्मरुपस्य साक्षिण एव निद्धा- श्रयभूतचिदाभासस्थानीयेन पूर्णेन ब्रह्मणैक्यविपये ब्रह्मविद्याख्ये प्रबोधे जाते सति स्वदृष्ट्या शक्तिद्वयात्मकमायात्यन्तिकनाशान्मा - याश्रयावच्छिन्नादिभागरहिते अत एव स्वगतादिभेदवर्जिते स्चिदा-
Page 199
सव्याख्या वाक्यसुधा। ३३
नन्दलक्षण ब्रह्मात्मनि देवत्वकामनया Sग्रिप्रतिष्ठेंव साक्षित्वमात्रा- वशंषवाञ्छ्या ब्रह्मसाक्षात्कारकालमारभ्य वर्तमानदेहराहित्यलक्षण- विदेहकैवल्यप्राप्तिपर्यन्तं व्यावहारिकभोग्यरूपसमस्तप्रपञ्चेन सह शनैः शनैनाशं यात्यात्यन्तिकलयं प्राप्नोति "देवत्वकामा अग्न्यादौ प्रविशन्ति यथा तथा साक्षित्वेनावशेषाय स्वविनाशं स वाञ्छति यावत्स्वदेहदाहः स्यान्नरत्वं नैव मुश्चति यावदारब्धदंहः स्यान्नाभा- सत्वविमोचन"मित्येतत्तैरेव तृप्तिदीपाख्ये ग्रन्थे उपपत्या सह प्रदर्शित- त्वात्तस्मादस्य चिदाभासस्य भ्रान्तिविवेकी नित्यमुक्ते सात्तिण्यध्य- स्तौ न वास्तवावित्येतत्तैरंव भारतीतीर्थगुरुभिरुपनिषत्संक्षेपवार्तिके सम्यक् निरूपितम्। "बोधात्पुरा तु चिन्धान्त्या मग्ना भोक्तरि शोचति सा भ्रान्तिर्भोकृनिष्ठैव तद्विवेको Sपि भोकृग: भोगावान्तरभेदो हि भ्रान्तितद्वोधकावुभी इतरारांपितत्वाच्च चित्यध्यस्तौ न वास्तवाविति। अस्य साक्षिण: साततित्वं साक्ष्यापेक्षं न तु वास्तवमित्येतदप्यद्वैतम- करन्दकारैर्निरूपितम्। "चैत्योपरागरूपा मे साक्षिता Sपि न तात्विकी उपलक्षणमेवेयं निस्तरङ्गचिदम्वुधेरिति चैत्यं जडपदार्थः यस्मादेवं तस्माद्यावहारिकदृष्ठ्यनुसारेण मायाश्रयत्वं मायाहङ्काराभ्यामव- च्छ्तिन्नत्वं नामरूपतादात्म्येन भोग्यत्वं अन्तःकरणे प्रतिबिम्बितचिदा- भासाकारेण कर्तृत्वभोक्तृत्वादिरूपसंसारित्वं "ब्रह्म वा इदमग्र- आसीत् तदात्मानमेवावेदहं ब्रह्मास्मी"ति श्रुत्यनुसारेण ब्रह्मसात्ता- त्कर्त्तृत्वं जीवन्मुक्तत्वं च विदेहमुक्तत्वं च "न निरोधो न चोत्पत्ति- न वद्धो न च साधकः न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थते"त्यादि- श्रुतिप्रामाण्यात्परमार्थदृष्ट्यनुसारेण मायाश्रयत्वादिविदेहमुक्तित्वप- र्यन्तसमस्तव्यवहारातीतत्वं च प्रत्यगभिन्नस्य सच्चिदानन्दलक्षण- स्याद्वितीयस्यावाऊनसगोचरस्य ब्रह्मण एवोपपद्यते अत एव मोक्ष- शास्त्रस्यापि साफल्यं स्यादित्ययमेवास्य प्रकरणस्य समस्तवे- दान्तशास्त्रस्य महातात्पर्यत्वेन पिण्डीकृतो र्थः । तस्मात्सर्वमनवद्य- मिति ॥४६ ॥
त्रह्मानन्दभारतीप्रक्लप्ता वाक्यसुघाटीका सम्पूर्णा ।। शुभं भवतु ।
Page 201
बनारम सस्कृत सीरीज़ अथान् वारापासी संस्कृतपुस्तकावली। तत्र मुद्रिता ग्रन्थाः । रु० आ० न्तिनत्वविवेक: भण्डानि ५ ५ ङ्ग्रह: अंग्रेजीभाषानुवादसहितः १ वार्त्तिकम खण्डानि १० १० यनम हर्षिप्रणीतं ायजुःप्रातिशाख्यं सभाष्यं खण्डानि ६ यकारिका चन्द्रिव गाडपादभाष्यसहिता. १ गं मुण्डामि ३ . खण्डादि ाषावृत्ति: खण्डे २ यकदशनं किरणा प्रणीतभाष्यसहि संवलितप्रशस्तपाद- डे २ २ सङग्रह: खण्डानि ५ म्यसिद्धि: खण्डानि ३ षिकात्यायनप्रणीतं : जुस्सवानुक्रमसूत्रम सभाष्य खण्डानि ३ दीयरौनकप्रातिशार सभाध्यम् त) वैयाकरणभूषणम पदार्थदीपिकया सहितम खण्डानि ४ रणोपन्यास: वाव्यसुधासहितः खण्डे २ दीपतम ( पश्चपादिकाविवरणस्य व्याख्यानम) लीलावती (यन्त्रस्था) न से अधिक अनेक प्रकार की संस्कृत हिन्दी और अंग्रेजी आदि हमारे यहां मिलती हैं जिन को अपेक्षित हो नीचे लिखे हुए पत्र भेजै।। ब्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस।
Page 202
विज्ञापनम्
बनारस संस्कृत सीरीज नाम्नी
वाराणसेयसंस्कृतपु रवली।
-: 0:
इय पुस्तकावली खण्डशो मुद्रि 1 अस्यां ईनबद्धा बहप: प्राचीना दुर्लभा उत्त केचिदङ्क द्सहिता ध ग्रन्था मुद्रिता भवन्ति। न्थान का यसंस्कृतपाठशालीयपण्डिता अन्ये S ड्रांस: शोधर हकमहाशयैरियं पुस्तकावली निय न्केदेन संग्र कैकस्य खण्डस्य !!! ) मूल्यं प्रापण श्र :) देय हाशयैये कानि चितू खण्डानि संग्र तैश् प्रत्ये ३) मूल्यं आापणव्ययश्च =) देय इति
ब्रजभूषणदास और कर चांदनीचौक के बनार
Page 203
R Ramananda Saraswat Sva 132 Vivaraņopanyāsah V3R33 1901
PLEASE DO NOT REMOVE
CARDS OR SLIPS FROM THIS POCKE
UNIVERSITY OF TORONTO LIBRARY
Page 204
UTL AT DOWNSVIEW D RANGE BAY SHLF POS ITEM C 39 13 08 07 05 010 9