1. Vivarana Upanyasa Ramananda Saraswati Ed. Damodra Sastri Sahasra Buddhe Part 2 Chowkambha
Page 1
Ramananda Sarasvati Svami Vivaranopanyasah UNIVERSITY OF TORONTO 3 1761 00665632 6
B 132 V3R33 1900 pt. 2
Page 3
BENARES SANSKRIT SERIES; १७
कर्म- A OLLECTION OF SANSKRIT WORKS: 1 स्य EDITED BY THE 5- ANDITS OF THE BENARES SANSKRIT COLLEGE,
UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., C. I. E. AND G. THIBAUT, PH. D. No. 56.
विवरणोपन्यास: विवरणतात्पर्यव्याख्यानरूपः । अपि च सटीका वाक्यसुधा। VIVARANOPANYÂSA, A COMMENTARY ON VIVARANATÂTPARYA ( A Treatise on Vedarta Philosophy ) BY ŚRÎ RÂMÂNANDA SARASVATÎ : ALSO VÂKYASUDHÂ BY ŚRÎ SANKARÂCHÂRYA, WITH A COMMENTARY BY ŚRÎ BRAHMÂNANDA BHÂRATÎ. EDITED BY NDIT DÁMODARA ŚÁSTRÍ SAHASRABUDDHE, . OF THE GOVT. SANSKRIT COLLEGE, BENARES. FASCICULUS II.
BENARES. IL/SHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & Co. AND SOLD BY H D. GUPTA, SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEPOT.
RINTED BY FREEMAN & Co., LTD., AT THE TARA PRINTING WORKS, BENARES.
Page 4
BRARY APR 1 0 1969 IVERSITY OF TORONTO
13 V3P3S
Page 5
१ सू. ३ वर्णकम् । २७ व्रतानपेक्षाध्ययनविधिना शिरोव्रताङ्गकमुण्डकाध्ययनप्रयोगवत्कर्म- विचारे शमादयनपेक्षेणापि विधिना तदङ्गकश्रवणप्रयोगसम्भवात्।
न्याय्यत्वादेकमोक्षफलकत्वेन समुच्चयमङ्गीकृत्य कर्मविचारानन्तर्यक्र- सनियमार्थो Sथशब्द इत्युक्तिरयुक्तेत्याह। समुच्चये Sपीति- फलजिज्ञास्यमेदाच्च न क्रमो Sपेक्षितो Sनयोः। प्रमाणं नैव पश्यामो ज्ञानकर्मसमुच्चये॥ समुञ्चये पि नैव स्याद्धर्मब्रह्मविचारयोः। पौर्वापर्यस्य नियमो वैपरीत्यस्य सम्भवात्। यदुक्तम एकजिज्ञास्यकत्वेन क्रमापेक्षेति, तत्राह। जिज्ञास्यभेद इति- - जिज्ञास्यभेद: स्पष्टोत्र विभेदाद्वह्मधर्मयोः ।
अत्र विचारद्ये ब्रह्मधर्मयोः सिद्धत्वसाध्यत्ववैलक्षण्यान्भ्ेदः स्पष्टः । प्रमाणवैलक्षण्याच्च जिज्ञास्यभेदः ।धर्मो हि प्रवर्तकवाक्यगम्यः ब्रह्म त्वप्रवर्तकवाक्यगम्यम् अतः क्रमस्यानपेक्षितत्वान्न तदर्थो Sथशब्दः। किन्त्वानन्तर्यार्थक एव।कस्तर्ह्यानन्तर्यावधिरिति चेतू श्रौतसाधनस- म्पत्तिरित्याहानन्तर्येति। ननु सो Sन्वेष्टव्य इत्यत्र तद्यथेह कर्मचितो लोक: क्षीयतइति कर्मफलस्यानित्यत्वं श्रुतं ज्ञानप्रकरणे परीक्ष्य लोकानिति वैराग्यं ्रुतमन्यत्र शान्तो दान्त इति शान्त्यादिकं श्रुतं ब्रह्म वेद ब्रह्मैव भवतीत्यादिफलश्रुतिषु मुमुत्ता लभ्यत एवं विश- कलितविशेषणानां कथमेकश्रवणविध्यधिकारनिमित्ततावगतिरिति तत्राह। तत्र तत्रेति -- तत्र तत्र विवेकादि श्रुतमेकत्र नीयते। सर्वशाखाप्रत्ययेन विधेरेकत्वनिश्चयात्॥ सर्वशाखाप्रत्ययन्यायेन यथा प्ग्निहोत्रादिविधीनां सर्वशाखा- स्वैक्यं तथा सो Sन्वेष्टव्यः तद्विजिक्ञासस्व श्रोतव्य इस्यादौ सर्वत्र श्रवणविधिरेक इति निश्ीयते। वैराग्यवाक्ये विज्ञानार्थमिति फ- लोत्तया श्रवणस्थतया सर्वविशेपणानामेकाधिकारनिमित्ततावगति- रिति। यद्यप्येतेनापि विशेषणन विधेरधिकार्याकाङ्गा शास्यति तथापि शास्त्रेणासंकीर्तितत्वात्सर्वेपां निमित्तत्वमन्यथा संकीर्तनं व्यर्थ १३
Page 6
९८ विवरणोपन्यासे स्यात्। केचित्तु काम्यकर्मणि कामनाया एव निमित्तत्वान्मुमुक्षैवा- धिकारिविशेषणमितरसंकीर्तनं तु मुमुक्षानुमानार्थमित्याहुः। ननु शान्त्यादीनामङ्गानां कथमधिकारिविशेषणत्वमिति चेतू दी- चितो जुहोतीत्यत्र दीक्षायामङ्गत्वविशेषणत्ववदिति भावः।ननु सर्त्या मुमुक्षायां श्रवणव्यतिरेकाभावान्न विवेकादीनां विशेषणत्वमित्याशं- ङ्रय मुमुत्षाहेतुत्वेन तेषां विशेषणत्वमित्यभिप्रेत्य कार्यकारणभा- वमाह विवेकादिति- विवेकान्तु विरक्ति: स्यात्ततः शमदमादिकम्। ततो मुमुत्तेत्यंतेषां कार्यकारणता भवेत् ॥ सर्बे कार्य सोपादानं कार्यत्वात्तच्चोपादानं लाघवादेकमनादि तथा सर्वे कदाचित् का्त्स्न्येन विनाशि एकोपादानकत्वात्सुखादिवत्। उपादानं तु नित्यं तन्नाशे पुनः सृष्ट्यभावप्रसङ्गादिति तर्कोपोद्वलितया तद्यथेहेत्यादिश्रुत्या कार्यमात्रे नाशदोषदर्शनात्। नित्यवस्त्ववलम्वेन बैराग्यं जायते तत इन्द्रियप्रवृत्ती निमित्तरागाभावाच्छमादिकं भवति एवं सर्वतो वैराग्यान्मुमुक्षा प्रवृत्तिपर्यन्ता जायते विषयानुरक्तस्य नि- र्विषयमोक्षेच्छ्वानुपपत्तेः। ततो मोक्षस्य ज्ञानैकलभ्यत्वावगमातू ज्ञा- नार्थी सन् विचारे प्रवर्तते इत्यन्वयव्यतिरेकाश्यां हेतुहेतुमन्भ्ावेनै- तेषां विशेषणानामधिकारनिमित्तत्वमेतद्विशेषणशून्येन कृतं श्रवणं तु शूद्रकृतयागवन्निष्फलम्। यत्तु भास्करोक्तं सूत्रकारस्य शमादीनां वुद्धिस्थत्वे मानाभावान्नाथशब्देनोपादानमिति। तन्न। श्रवणविधि सूत्रयतस्तत्प्रकरणास्थवाक्यैस्तेषां बुद्धिस्थत्वादिति। ननु तर्ह्यथश- व्देनैव साधनानां सिद्धत्वादत:शब्दो व्यर्थ इत्यत आह। अथोक्तेति- अथोक्तसाधनासिद्धिं वेदवादरता जगु:। तदा शङ्कानिरासेन हेतुता Sतो विरोचते॥। अ्रथशब्देनोक्तानां नित्यानित्य विवेकादीनामसिद्धिं कर्मजडा: अच्- ययं ह वै चातुर्मास्ययाजिनःसुकृतमित्यर्थवादरताः अथ यदल्पं तन्म- त्यमित्यादिव्याप्तेः परमाणुभिर्व्यभिचारं वदन्तो जगु: कृतकस्यापि नित्यत्वं पृथ्वीपरमाणुलौहित्यवदिति। अतो नित्यफलप्रेप्सोः कर्मफ- लाद्वैराग्य मसिद्धम्।न च ब्रह्मणो पपि नित्यत्वात्तच्छूवणे Sपि पाकिकी प्रवृत्ति: स्यादिति वाच्यम् । फलाभावात् । न च जीवस्य ब्रह्मैक्यं विरोधात्। नापि ब्रह्मसंयोगः नित्यसुखार्थिनस्तदन पेत्त्वात्। न च जीवस्य स्वभिन्नव्रह्मनिष्ठसुखप्रत्यक्षं युक्तम।
Page 7
१ सू. ३ वर्णकम् । ९९ न हि जीव: स्वनिष्ठस्वरूपं वा मुक्ती नित्यं सुखमनुभवतीति युज्यते योग्यानुपलब्ध्या नित्यसुखाभावनिश्चयात्। न च दुःखाभा- चार्थमात्मश्रवणे प्रवृत्तिरिति वाच्यम। सकलसुखविरोध्यवस्थापेक्ष- या स्वल्पदुःखयोगे Sपि देवादिभोगस्य श्रेयस्त्वात्। तस्मादधिकार्य- भावान्मोक्षशास्त्रं नारम्भणीयं नित्यफलार्थिनां कर्मण्येव प्रवृत्तेरिति प्राप्ते तदाशङ्कानिरासेन विवेकादीनां ब्रह्मजिज्ञासाहेतुत्वमतःशब्देन समर्थ्यते इत्यर्थः। परमाणुतल्लीहित्ययोर्नित्यत्वे मानाभावाद्यदल्पं यञ्च कृतकं तदनित्यमिति न्यायविरुद्धा चातुर्मास्यश्रुतिर्विध्यनपेक्षितं कमे फलनित्यत्वं न प्रमापयति उक्तन्यायोपेता तद्यथहेत्यादि श्रुतिः श्रव- एविध्यपेक्षितं कर्म फलानित्यत्वं प्रमापयतीति ततो वैराग्यं सिध्यति। एतेन स य आत्मानमेव लोकमुपास्ते न हास्यकर्म क्षीयते इति श्रुति- व्र्याख्याता। फलनित्यत्वस्याश्षुतेर्न्यायविरोधे कल्पनानुपपत्तेः । कर्म- पदेनात्रोपासनानुवादेन ज्ञानद्वारा Sत्तयफलकत्वेन स्तुतिकरणात्। अनेवंविन्महत्पुण्यं कर्म करोति। तद्वास्यान्ततः क्षीयते इत्युक्तेश्व। न कर्मफलस्य नित्यत्वं न व्यतिरेकमुखनात्रात्मविदा कृतं कर्माक्षय- फलकमुच्यते इति समुञ्चय इत्यपि वाच्यम्। नान्य: पन्था इत्यादि- ना मुक्तावुपायान्तरनिषेधादत एव महत्पुण्यमिति प्रकृतत्वान्न हा- स्य कर्म च्ीयते इत्यप्निहोत्रादिपरामर्श एव नात्मोपासनाया इति नि- रस्तम्। निषेधश्रुतेर्बलवत्वात्। यत्तु फलाभावान्न ब्रह्मविचारे प्रवृ- त्तिरिति। तदसत्। ब्रह्म वेद व्रह्मैव भवतीत्यादिश्रुत्या सवप्रकाशानन्द- ब्रह्मभावस्य सत्वाद्धर्माणां कल्पितत्वेन बिम्बयोरैक्ये विरोधाभावाद- नाद्यविद्यावृतत्वेनानुपलब्धिसम्भवात्। न चात्मनः सुखत्वे ऽहं सु- खीति न स्यादिति वाच्यम। शुभकर्मोपार्जितवृतत्तिकृतभेदेन तथानु- भवत्वोपपत्तेः। न च मुक्ती भेदाभावादहं सुखीति न स्यात्तथा च पुरुषार्थतेति वाच्यम। सुखापरोक्षानुभवस्यैव पुरुषार्थत्वान्न हि सु- खात्मनोर्भेद: कस्य चिदिष्टः ऋते कुतार्किकवलीवर्दादित्यलम। त- स्मादतःशब्दवलाद्विवेकादीनां ब्रह्मजिज्ञासाहेतुत्वं सिद्धमित्यधि- कारिणा सा Sवशयं कर्तव्येति भाव:। ननु भाष्यकारैर्व्रह्मणो जिज्ञासेति पष्ठीसमासः किमिति दर्शितः धर्माय जिज्षासेतिवत् सम्भवादित्यत्राह। इच्छाप्राधान्यमिति- इच्छाप्राधान्यमाश्रित्य पष्ठी कर्मणि भाषिता। प्राक् चतुर्थीसमासस्तु विचारापेक्षया कृतः ॥
Page 8
१०० विवरणोपन्यासे इच्छाया अपेक्षितकर्मफलयोरैक्यात् पष्ठ्या प्रधानत्वेन कर्मोक्तौ फलं सिध्यतीति पष्ठीसमास: कृतः। विचारप्राधान्ये तु कर्मफलत्वयो- भेदाल केशात्मकविचारस्यादी फलस्यापेक्षत्वाद्धर्मायेति चतुर्थीस- मास: पूर्वतन्त्रे कृतः।अर्थाद्वेदवाक्यानां कर्मत्वलाभादित्यर्थः। ननु जातिजीवकमलासनवेदपरेषु ब्रह्मशब्द: प्रयुज्यते तत्र सूत्रे ब्रह्मशब्दार्थः क इति चेत्।जगज्न्मादिकारणं परमिति ब्रूमः । मुमु- क्षुभि: तस्यैव जिज्ञास्यत्वाद्वक्ष्यमाणलक्षणादिसम्भवाच्चेत्यभिप्रेत्याह। जात्यादिरिति- जात्यादिर्ब्रह्मशब्दार्थो न भवे्रह्मगोचरा। षष्ठी न स्यात्प्रधानस्य ग्रहाच्छेपोर्थसिद्धिक: ॥ ब्रह्मण इति कर्मणि पष्ठीत्युक्तं वृत्त्यन्तरे तु शेपलक्षणा व्याख्याता तां निरस्यति शेषगोचरा पष्ठी न स्यादिति। सम्बन्धसामान्यं शेप: तास्मिन्पण््या Sभिहिते विशेषाकाङ्कायां जिज्ञासायाः कर्मापेक्षित- मिति कर्मत्वलाभ इति वृत्तिकारमतम। ननु कर्मणि द्वितीया कर्तृकरणयोस्तृतीया सम्प्रदाने चतुर्थी अपादाने पञ्चमी अधिक- रणे सप्तमीति विभक्तिपञ्चकाभिहितेभ्यः कर्मत्वादिकारकसंबन्धे- ्यो ऽन्यः स्वस्वामित्वादिः शेष इति शाब्दिकोक्तिविरुद्धं मतमिति चेतू। उच्यते। यथा देवदत्तस्य स्वमिति सम्बन्धसामान्यवाचि- पदे षष्ठ्या: स्वत्वादिविशेषसम्बन्धवाचिना Sन्विताभिधायित्वं न तथा कर्तृत्वकर्मत्वादिकारकसम्बन्धवाचिपदेनान्विताभिधायित्वं देवद- सस्य गच्छति देवदत्तस्य गम्यते इति वा प्रयोगे तिडद्यभिहि- तकर्तृत्वादिना षष्ठ्यर्थसामान्यस्यान्वयाप्रतीतेरिति शाब्दिकाभि- प्रायः । अतो न विरोधः। कारकसंवन्धवाचिपदाभावे पष्ठचा तदाक्षेपसम्भवादिति तन्मतमत्रायुक्तं कर्मत्वस्य षष्ठ्या साक्षाद- भिधानसम्भवेनापेक्षायोगात्। ननु ब्रह्मसम्बन्धिनां लक्षणप्रमाणा- विरोधसाधनफलानां जिज्ञास्यत्वेन प्रतिज्ञासिद्धये शेषे षष्टी युक्ता अतः कर्मत्वाक्षेप इति चेतू न । कर्मणि षष्ठ्या प्रधानस्य व्र- ह्मणो जिज्ञास्यप्रतिज्ञायां सत्यां यैर्विना ब्रह्मज्ञानं न सम्भवति तेपा- मर्थसिद्धत्वात्। न हि शेषस्य मुख्योक्ति: प्रधानस्य त्वाक्षेप इति युक्तं सत्यां गतावित्यर्थः । तद्विजिज्ञासस्वेति सूत्रमूलश्रुती ब्रह्मणः कर्मत्वं व्यक्त निर्दिष्टम। ननु जिज्ञासापदं योगेन ज्ञानेच्छावाचकं वि- चारलक्षकमित्युक्तं तत्रेच्छाया: फलविषयत्वात् ज्ञानस्य फलत्वं व-
Page 9
१ सू. ३ वर्णकम् । १०१ क्तव्यं तक्ष युक्तम्। इच्छाया ज्ञानसाध्यत्वेन कर्मफलत्वायोगादित्यत आह। जातुमिति -- ज्ञातुमिच्छेति चेच्छाया: फलमूलविवेचनम्। प्रमातृ्यापृतिज्ञनं तद्यक्त स्फुरणं फलम् ॥ ज्ञातुमिच्छा जिज्ञासेत्यादिभाव्ये डवयवार्थकथनेनेच्छाया: फल- मूलज्ञानयोर्विवेचनं कृतं तत्रावात्तिपर्यन्तं ज्ञानं सन्वाच्यायाः इच्छाया: कर्मेति फलोक्ती सत्यामर्थादापातज्ञानं मूलमित्युक्तं भवति तत्रावगतिरभिव्यक्तं चैतन्यं तदभिव्यञ्जिका अपरोक्षवृत्तिर्ज्ञानश- वदार्थः। शव्दात्परोक्षज्ञानमेवेति मते शाब्दमापातज्ञानं मूलं साक्षात्कार: फलम् । शब्दादपि अपरोक्षमिति मते पुरुषापरो- क्षज्ञानं मूलम् । अप्रतिबद्धापरांक्षज्ञान फलमिति विवेकः । ननु ज्ञानावगत्योर्न भेद: वादिनां विप्रतिपत्तेरित्यत आरह प्रमात्रिति। घटः स्फुरतीति प्रमाणफलं प्रत्यक्षं तत्कर्तृव्यापारजन्यं कारकचक्रं फल- त्वात्। कुठारादिसाध्यवृक्षभेदनवत् । न च हेत्वसिद्धिः। ज्ञानेना- वरणनिवृत्तिरूपाभिव्यक्तिद्वारा चैतन्यस्य साध्यत्वेन कारकचक्रफ- लत्वात्। न च ज्ञानमेव फलमित्यप्रयोजकता कारकसमुदायफलस्य प्रातिस्विकव्यापाराभावे जन्मानुपपत्तेः। तत्र यः कर्तृव्यापारस्तज्ज्ञानं समुदायफलं तु स्फुस्णं संविदवगतिरिति चोच्यते। असङ्गात्मनि व्यापारः कथमिति चेत्। अध्यासपरिनिष्पन्नान्तःकरणसंपिण्डित- स्यात्मनः प्रमातृव्यापारो ज्ञानमिति ब्रूमः । यद्यपि ज्ञानं कारकचक्र- साध्यं तथापि न फलं न हि गमनमेव कारकफलं किन्तु गन्तव्यप्रा- प्रिः। एवं ज्ञापनाज्ञानद्वारा ज्ञेयस्फूर्तिरिति संक्षेपः । अत्र वृद्धा: अर्थजवृत्तिप्रतिविम्वितं चतन्यं फलमित्याहुः। अन्ये तु साक्ष्यभेदेन वृत्त्यभिव्यक्तं विपयावच्छ्वन्नचैतन्यं फलमिति। एवं भगवान् भाष्य- कार: सूत्रस्यावयवार्थमुक्का तस्माङ्रह्म जिज्ञासितव्यमिति विचार- कर्तव्यतां वाक्यार्थ बभापे। तत्रेयमाशङ्का समुलसति। किमिदं सूत्र विचारात्मकशास्त्रात् वहिर्भूत्वा शास्त्रारम्भकम्। सूत्रस्यारम्भ: के- नेति वक्तव्यम। स्वेनैध चेदात्माश्रयः सवसिद्धी स्वस्यारम्भकत्वात्। अन्येन चेदनवस्थति। तत्राह शास्त्रमध्यगतं सूत्रभिति- शास्त्रमध्यगतं सूत्रं सानुबन्धचतुप्टयम्। विचारं कार्यमाहातः कर्तव्यः सो उधिकारिखा॥ अध्ययनविधिवत् श्रवणविधिरेव स्वापेक्षितानुबन्धं निर्णायक-
Page 10
१०२ विवरणोपन्यासे न्यायवि चारात्मकमाद्यसूत्रमारम्भयति। अत पवास्य श्रुतिसङ्गतिः। अनेन सूत्रेण श्रवणविधे: स्वार्थे वेदान्तविचारकर्तव्यतारूपे सिद्धे सति विचारा त्मकशास्त्रं प्रवर्तते इति शास्त्राध्यायादिसङ्गतयः।इदानीं वर्णितं सूत्रार्थ वदन् फलितमाह। सानुबन्धेति। मुमुक्षुर्हि मोक्षोपायं चिकीर्षति। तत्रज्ञानस्यैव श्रुतावुपायत्वावगमात् तस्य कर्तुमशक्य- त्वात्तदिच्छायाश्च सिद्धत्वात् कर्तव्यत्वायोगात् सूक्ष्मवस्तुविज्ञाने तत्प्रमाणविचारं कर्तव्यं पश्चाद्वेदान्तविचार: कर्तव्यतया Sवगच्छ- तीति तन्नियमार्थः श्रवणाविधिः। ब्रह्मज्ञानाय वेदान्तवाक्यविचार: कर्तव्य इति तत्राज्ञातत्वेन ब्रह्मविषयः ज्ञातत्वेन प्रयोजनं तत्कामो उधिकारी एतेषां यथायोगं शास्त्रेण सम्बन्ध इति। तस्मादनुबन्धस- न्रावादधिकारिणेदं शास्त्रं श्रोतव्यमिति सिद्धम् ।। इति तृतीयं वर्णकं समाप्तम् ।।
नन्वेवं शास्त्रारम्भस्थ सिद्धत्वादग्रिमसूत्रं व्याख्यायतां कि चतुर्थवर्णकेनेत्यत आह। त्रह्मेति- ब्रह्मप्रसिद्ध प्रसिद्ध्योविषयादेरसम्भवातू। अनारश्यमिति प्राप्ते वर्णकान्तरमुच्यते॥ आपाततः प्रसिद्धत्वात्सम्भवेद्विषयादिकम् । आदी तञ्रितयम् वाच्यं प्रवृत्त्यङ्गत्वकारणात् ॥ वेदान्तशास्त्रमारभ्यं न वेति सन्देहे विषयाद्यसम्भवान्नारश्यमिति प्राप्तम्। तथा हि। ब्रह्म यदि प्रसिद्धं त्हि नास्य शास्त्रस्य विषयः अज्ञातत्वाभावात्। नापि प्रयोजनम् अज्ञानाभावेन तन्निवृत्तेरसम्भ- वातू।अथाप्रसिद्धं तर्हि तदुद्देशेन विचारासम्भवात् विचारापेक्षवे- दान्तस्तत्प्रतिपादनमशक्यमिति शास्त्रेण ब्रह्मणस्तज्जन्यज्ञानविषय- त्वरूपसम्बन्धाभाव: फलाभावश्च। ज्ञानासम्भवेनाज्ञानानिवृत्तिरिति एतन्निरासार्थ चतुर्थवर्णकमित्यर्थः । निरासप्रकारमाह। आपातत इति। यद्यपि प्रथमं वेदान्तैर्रह्मज्ञानं भवति तथापि तदनवधारणा- त्मकमेवाग्रे संशयदर्शनात्। तथा च केवलप्रमाणादनिश्चिते ऽर्ये तर्कस्य प्रमाणसहायत्वाद्वैदान्तैः सन्दिग्धतया प्रसिद्धं व्रह्मोद्दिश्य तर्करूपविचारे विधिसम्भवाद्विपयादिसम्भवाच्च स कर्तव्यः । ननु सर्वज्ञबादरायणप्रणीतत्वेन शास्त्रस्य विषयादिमत्त्वसिद्धेः समन्व-
Page 11
१ सू. ३ वर्णकम् । १०३ याद्यग्रिमविचारे विषयादेर्विशिष्य ज्ञानसम्भवातू भाध्यकारा- णामादी विषयाद्यनुवन्धचिन्ता निष्फलेति चेन्न । अधिकारि- प्रवृत्त्यर्थत्वात्। ननु शास्त्रस्यादी प्रवृत्त्यङ्गत्वेन फलमेव वाच्यम्। इष्टसाधनताज्ञानस्य प्रवर्तकत्वान्न विषयसम्बन्धी वक्तव्यी फल- ज्ञाने तयोरन्तर्भावात्। कारकसाध्यविषयस्थातिशयो हि फलं तज्ज्ञाने फलशालिविषयो ज्ञात एव भवति। स कारकसम्बन्ध एव यथा कुठारस्य वृक्ष इति चेन्न। विषयस्य द्विविधत्वात्। तत्र फल- शालिविषयः फलज्ञाने उन्तर्भवति नान्यसाधारणाख्यः।अतःसाऽवश्यं वाच्य: प्रवृत्तिनियमाय यदि फलमात्रमुच्येत तदा तच्छालिविषयस्य ज्ञाने Sपि तस्य शास्त्रान्तराप्रतिपाद्यताया अज्ञानात्तत्रापि प्रवृत्तिः स्यात्। यथा चिकित्साज्ञानार्थिनश्चरकसुश्रुतात्रेयादिग्रन्थेष्वनियता प्रवृत्तिः अतः शास्त्रान्तरप्रवृत्तिनिरासाय तदप्रतिपाद्यतारूपविषय- ता वक्तव्या एतच्छास्त्रे प्रवृत्तिसिद्धये एतत्प्रतिपाद्यतारूपसम्बन्धो Sपि वक्तव्य इति त्रितयमादी वाच्यमित्यर्थः।ननु वेदान्तविषयो ब्रह्म न न्यायविचारात्मकशास्त्रस्य विषयो नापि तेन सम्बन्धः शास्त्रस्थ- न्यायैः प्रमाणादिसम्भावनाविषयकत्वात्। ननु यथा प्रयाजादङ्गा- ड्विनोरेंकस्वर्गफलकत्वं तथा विचारवेदान्तयोरको ब्रह्मावगमः फलं शब्दशक्तितात्पर्यविचारस्य प्रमाणस्वरूपोपकार्यङ्गत्वात्प्रमेयविचा- रस्य फलोपकार्यङ्गत्वादेवमवगमहेतोर्विचारस्यावगम्यब्रह्मविषय इ- त्येकदेशिनः।न च शास्त्रस्य भावनैव विषयः अव्यवधानात्। सम्भा- धनाबुद्धिव्यवहितं ब्रह्म न विषय इति वाच्यम्। व्यवहितस्याप्युद्दे- शयतया विषयत्वदर्शनात्। यथा देवदत्तकर्तृकस्योद्यमननिपतनरूप- व्यापारस्याव्यवधानेन कुठारकर्मस्य कुठारव्यापारव्यवहितो Sपि वृक्ष उद्देश्यद्वैधीभावफलशालितया कर्म भवति तद्वत्। ननु कर्तृकरण- कर्मणां को भेद इति चेदुच्यते। सर्वाणि कारकाणि स्वस्वव्यापारे कर्तृणि अवान्तरभेदेन कर्तादिव्यवहारः। तत्र स्वतन्त्रः कर्ता। फलं प्रति सन्निपत्योपकारकं करणम्। परसमवेतक्रियाफलशालि कर्मोति। नैतदयुक्तं विचारस्य वेदान्ताङ्गत्वे मानाभावात्। न हि श्रुत्यादिकम- त्रास्ति न वा Sन्वयव्यतिरेकी बिना विचारं शाब्दबोधदर्शनात्। न च संशयविपर्ययोत्तरशाब्दबोधे विचारो हेतुरिति वाच्यम्। निर्दो- पशब्दस्य संशयाद्यहेतुतया निर्णयस्य शव्दैकसाध्यत्वात्। शब्दशक्ति- तात्पर्यादिविचारस्तु शत्ताद्यज्ञानभ्रमादिपुरुषापराधनिबन्धनसंश-
Page 12
१०४ विवरणोपन्यासे यादिनिरासहेतुः। निरस्ते प्रतिबन्धे शब्दादंव ज्ञानं जायते जातंवा नि० श्चलमवतिष्ठते। तस्माद्विचारस्यावगमहेतुत्वाभावान्न वेदान्तगस्यत्र- ह्मविषयकत्वमिति शङ्कते। ननु वेदान्तविषय इति- ननु वेदान्तविषयो विचारविषय: कथम्। अङ्गाङ्गिनो: फलैक्याच्चेद्विचारो नाङ्गमिष्यते॥ सत्यं शक्तितात्पर्यावधारणेन विचारस्य प्रतिबन्धनिरासे उप- क्षयः परन्तु निरस्ते प्रतिबन्धे शाब्दज्ञानं निर्णयात्मकं भवतीति उपचाराद्विचारस्य ब्रह्मनिर्णयहेतुतया वेदान्तैः समानविषयत्वमिति सिद्धान्तयति अत्र ब्रूम इति- अत्र ब्रमो विचारो हि प्रतिबन्धनिरासतः। वेदार्थज्ञानहेतुत्वाद्वेदैकविषयो भवेत् ॥ तात्पंर्य शाब्दबोधे हेतुरिति तार्किकमतं दूषयति तात्पर्यमिति- तात्पर्य तन्मतिर्वापि शाब्दबोधे न कारणम। प्रतिबन्धनिरासार्थ तात्पर्यज्ञानमिष्यते।। किमज्ञातं तात्पर्य वा क्यार्थसंसर्गज्ञानहेतु: तात्पर्यज्ञानंवा।नाद्यः।
पयकस्य तात्पर्यस्य ज्ञातुमशक्यत्वात्। न च पदार्थेषु ज्ञातेषु योग्यतया संसर्गमुत्प्रेक्ष्य तत्र तात्पर्य ज्ञातुं शक्यमिति वाच्यम्। उत्प्रेक्षाया अनुमि- तित्वे वाक्यवैयर्थ्यात्।न च वैशेषिकमतेनेष्टापत्तिरिति वाच्यम्।प्रकृ- ततात्पर्यज्ञानवैयर्थ्यापातात्।वाक्येनेममर्थ जानामीत्यनुभवविरोधातू। पक्षादिज्ञानबिलम्बाभावात्। अनुमिनोमीत्यनुभवाभावाच्च। न चसा तर्कः। अनारोपत्वात्। न चानारोपोपस्थायिलिर्ड्थापूर्वोहवत्तर्कत्व- मिति वाच्यम्। तर्कितापूर्वाल्लिङपदसङ्गतिरित्यनङ्गीकारात्। ननु तर्का- त्मकविचारोपस्थिते व्रह्मणि सत्यादिपदलक्षणेति सिद्धान्तः न च तदुप- स्थितेस्तर्कत्वे उप्यारोपत्वमस्ति अबाधादिति चेत् उच्यते। भागत्या- गलक्षणायां पदजन्यविशिष्टवाच्योपस्थितिरेव लक्ष्यभागविषयतया हेतुः।अत विशेषणानां कल्पितत्वात् विशेष्यमात्रस्यैवावाधितानधि- गतत्वे सति फलवत्वादित्याद्यनुमानरूपविचारस्य विशेष्यमात्रे ता- त्पर्यग्रहद्वारा लक्षणायामुपयोग इति विचारोपस्थिते लक्षणेत्युच्यते। किं बहूत्त्या Sत्रानारोपे तर्कत्वव्यवहारः स तर्कों Sनुमानमेवेति नाभ्रमस्यातर्कत्वम् अनिष्टारोपस्तर्क इति लक्षणादित्युपन्यासग्रन्थ उप्यधिकं प्रसङ्गागतमिति क्षन्तव्यम्। नापि सा स्मृतिः। अज्ञातार्थ-
Page 13
१ सू. ४ वर्णकम् । १०१ त्वात्।अतः परिशेषात्सा शाब्दप्रमवैति तात्पर्यज्ञानं जातायां तस्यां न हेतुः।अपिच तात्पर्यज्ञानं भ्रमादिमूलवाक्यार्थभ्रमादिप्रतिवन्धनि- रासार्थमित्यर्थः । एवं वेदान्तानां विषयभूतमापाततः प्रसिद्धं ब्रह्म वेदान्तापेक्षितन्यायविचारस्या पि परस्परया विषय इत्युक्तम । तत्र कथं वेदान्तेष्ठापाततः प्रसिद्धि: न तावत् ब्रह्मशब्दात्। ब्रह्माप्रसि- द्ध्या संङ्गतिग्रहाभावात् नापि वाक्यात्पदार्थाज्ञानादित्यत आह। इत्यादाविति -- इत्यादी ब्रह्मशब्दस्य सार्थकत्वे विनिश्चिते। विशिष्टार्थप्रसिद्धयर्थ लक्षितं निगमादिकम ॥ ब्रह्मशब्दस्य श्रुतिसूत्रयोः प्रयोगान्यथानुपपत्या कश्विदथों उस्तीति निश्चीयते प्रमाणवाक्ये व्यर्थशब्दप्रयोगायोगात् तत्रार्थवि- शेषाकाङ्कायां जात्यादेर्निरस्तत्वान्निगमनिरुक्तव्याकरणानां शेषसि- द्विहेतुत्वात् प्रकृते च बृंहतर्धातोर्वृद्धी स्मरणात् निरवधिकमहत्त्व- संपन्नं वस्तु ब्रह्मशब्दार्थ इति निश्चीयते। निगमो नाम शब्दस्य लक्षणां विना प्रकृत्यर्थानुगमेनार्थान्तरे वृत्तिः यथा देहशब्दस्य प्रसिद्धार्थाद- र्थान्तरे उपचयवति प्रयोगः। निरुक्तं नाम शब्दस्य सर्वावयवार्थानुग- मेन रूढ्वर्थादर्थान्तरे वृत्ति: यथा सोमशब्दस्य चन्द्रादन्यस्मिन् उमासहितेश्वरे वृत्तिः। अस्मिन्नर्थे 5यं प्रत्ययो भवतीति विधानं व्या- करणं यथा वदनशीलो वादीति ताच्छील्ये इनिप्रत्ययविधानम। ननु बृंहणादू ब्रह्मेति प्रवृद्धवस्तु यत्किञ्चित्प्रतीयते न पदार्थविशेषः तत्र वाक्यार्थनियमः कथमिति चेवुच्यते वाक्यार्थनिर्णयार्थ प्रसिद्धार्थकैः सत्यादिपदान्तरैः सह ब्रह्मशब्दस्य प्रयोगानुपपत्तिरेव निगमादिबले- नार्थमाददाना सन्निहितानन्तादिपदार्थान्वययोग्यनिरवधिकमहत्त्व- संपन्नं वस्तु ज्ञापयति सङ्कोचकाभावाच्च ततो वाक्यार्थनियम इति। अत्रायं निष्कर्षः । श्रीतादिप्रयोगानुपपत्या उर्थमात्रस्य निश्चयः निग- मादिना वृद्धिरूपार्थस्य पदान्तरासत्या निरवधिकवृद्धेरिति। ननु ब्रह्मणो मह्त्वमात्रेण कथ मुमुक्षुजिज्ञास्यत्वमित्यत आह। नित्यशु- द्धमिति- नित्यशुद्धं बुद्धमुक्तं सर्वशं सर्वशक्तियुक्। ब्रह्मशब्दबलादेव वस्त्वेताहक् प्रतीयते॥ निरवधिकमहत्त्वं देशकालवस्तुकृताल्पत्वस्याभाव रूपं नित्यशब्दा- र्थः। तथाप्यविद्यादिदोषवत्वे अल्पत्वं स्यादिति न निरवधिकं मह- १४
Page 14
१०६ विवरणोपन्यासे रवं लोके गुणहीनस्य दोषवतश्चाल्पत्वप्रसिद्धेः अतो Sस्य ब्रह्मशब्द- बलादेव सर्वदोषराहित्यं सर्वगुणवत्वं च सिध्यतीति मत्वाह। शुद्ध- मित्यादिना। शुद्धिदोषाभावः तस्यापेक्षिकत्वं वारयति। मुक्तमिति। बन्धकाले Sपीति शेष:। जडत्वेनाल्पत्वं प्रत्याह। बुद्धेति पाठस्तु भा- व्यानुसारी चेतनत्वेपि ज्ञेयस्य कार्यस्य वा Sवशेषे उल्पता स्यात्तां निरस्यति। सर्वज्ञ सर्वशक्तियुगिति। निरस्तसमस्तदोषत्वात्परमपुरु- षार्थत्वाञ्च ब्रह्मणो जिज्ञास्यत्वमिति भावः। जात्यादेर्वह्मशब्दार्थत्वे ऽपि न नित्यशुद्धादिरूपत्वं धर्मिग्राहकमानविरोधात्। ब्रह्मणस्त्वादी शब्दादेव प्रसिद्धिरिति बाधकाभावान्निरङ्कशं सर्वरूपत्वेन महत्त्वमि- ति मन्तव्यम्। ननु स्वरूपतटस्थलक्षणश्रुतिवाक्याभ्यां ब्रह्मनिर्णयात् ब्रह्मपदव्युत्पत्यैवादौ प्रसिद्धिरिति कथमिति चेतू उच्यते। पदार्थज्ञा- नातू प्राक् वाक्येन निर्णयायोगादत्र सूत्रे श्रुती वा ब्रह्मपदव्युत्पत्या प्रसिद्धिः। यदीत्थं नोच्यते जन्मादिसूत्रात्प्राक् लक्षणवाक्यस्यानि- ्णायकत्वाच्चात एव पदात्प्रसिद्धेरमानत्वात् जिज्ञासोपपत्तिरिति सुस्थम्। इदानीं अज्ञानाविरोधेन ब्रह्मण: प्रसिद्धी हेत्वन्तरमाहापि चति- अपि चात्मत्वतो ब्रह्म प्रसिद्धं किन्तु वादिनाम्। विवादात्तत्र जिज्ञासाविवादस्त्वधुनोच्यते॥ अस्ति तावत्सर्वप्राणिनामहमित्यात्मनि प्रसिद्धि: सा वस्तुतो ब्रह्मगोचरा अयमात्मा ब्रह्मेत्यादिश्रुत्या ब्रह्मणः आत्मत्वावगमातू। न चात्यन्ताभेदे सामानाधिकरण्यायोगात भेदाभेद: श्रुत्यर्थ इति वा- च्यम्। कल्पितभेदेनात्र सामानाधिकरण्यसम्भवात्। तत्र प्रसिद्ध- जीवानुवादेनाप्रसिद्धब्रह्माभेदबोधनादहमिति वस्तुतो भवति ब्रह्म- प्रसिद्धिः। यथेदं रजतमिति वस्तुतः शुक्तिप्रसिद्धिरित्यर्थः । ननु ब्रह्मणो निःसामान्यविशेषात्प्रसिद्ध्ङ्गीकारे सर्वात्मना Sपि प्रसिद्धे: शास्त्रविषयत्वं न स्यादिति शङ्कते । किन्त्विति । यदि सर्वात्मना प्रसिद्धि: स्यात्तर्हि वादिविवादो न स्थात्। न हि शरदिन्दुकुन्दध- वलिम्नि निबिडनीरदनीलिम्नि वा विवदन्ति बादिनः । अतो विशेष- विप्रतिपत्ते: सामान्यरूपेण प्रसिद्धं ब्रह्म कि तत्सामान्यं देहेन्द्रिया- द्यनुगतं तद्धिष्ठानचैतन्यरूपं पराग्घटादिव्यावृत्तं प्रत्यत्तकमिति ब्रमः । यद्यपि चैतन्यं सर्वानुगतं तथापि जीवसाक्षिचैतन्यं देहादिषु मानमनपेक्ष्यानुगतत्वात् घटादिषु तदभावात् भवति प्र-
Page 15
१ मू. ४ वर्णकम् । १०७ त्यकूत्वं सामान्यं तत्सम्बन्धाद्वेहादिष्वेवात्मत्वभ्रमो वादिनां तत्र प्रत्यक्त्वेन प्रसिद्धे वस्तुनि देहादिविशेषनिरासेन पूर्णानन्दव्रह्मरूपो विशेषः शास्त्रेणैव प्रतिपाद्यते इति भवति शास्त्रस्य विशेषो विषयः भ्रमाविरोधेन भासमानाऽधिष्ठानांशः सामान्यं भ्रमविरोध्यज्ञातांशो विशेष: अंशभेदस्तु ब्रह्मणि चैतन्यपूर्णादिपदवाच्यभेदेन कल्पित इति सर्वमनवद्यम । अधुना सङ्गेपेण विप्रतिपत्तयः उपन्यस्यन्ते । यथा गोशव्दाव्यभिचारात् गोव्यक्त्याकृतिजातिषु शब्दार्थत्वविप्र-
सम्भवति। तत्र देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता लौ- कायतिकाश्च विप्रतिपन्ना: मनुष्यो Sहमित्यनुभवात्।भूतचतुष्टयाति- रिक्ते वस्तुनि मानाभावादिति इन्द्रियाणि प्रत्येकमात्मेत्यपरे। काणो Sहमित्याद्यनुभवात् इन्द्रियाणां रूपादिज्ञानाश्रयत्वस्यैवान्वयव्यति- रेकाश्यां जघन्यकरणत्वापेक्षया कल्पनीचित्याद्वहूनामपि वरगोष्ठी- न्यायेन स्वसाधारणविषयभोगकमोपपत्तेरेकदेहाश्नयत्वेन द्रष्टा Sहं श्रोतेत्यादि प्रत्यभिज्ञोपपत्तेश्रेति मन एवात्मेत्यन्ये। यत इन्द्रियान्त- राणामभावे Sपि रवसे च भोगदर्शनात्। बौद्धास्तु विज्ञानमात्रं क्षणिकमात्मेत्याहुः । तथा हि देहेन्द्रियाणां ज्ञेयत्वेनानात्मत्वात मनसो Sपि समनन्तरप्रत्ययमात्रत्वात् अन्यस्थ विज्ञानाश्रयस्याननु- भवाद्विज्ञानमेव स्वरसभङ्गुरं हेतुफलभावेनाविरतोदयत्वात सो Sहमिति प्रत्यभिज्ञास्पदं कर्मफलास्पद चेति वदन्ति। माध्यमिका- स्तु विज्ञानातिरिक्तात्मनो निरस्तत्वात् विज्ञानस्यापि सुषुप्तावद- शनातू तदानी निराकारज्ञानसन्तती मानाभावात् यज्ज्ञान तत्सा- कारमिीति नियमादुत्थितस्याहमिति निर्विषयासद्विकल्पमात्रमिति शून्यमेवात्मेति सङ्गिरन्ते। कणभक्षाक्षपादपक्षपातिनस्तु अस्ति देहादिव्यतिरिक्तः स्थायी कर्ता भोक्तेत्याहुः। तथा हि अहमुल्लेखवि- पयो ज्ञानसुखाद्याश्रय आत्मा सर्वेरतुभवबलादेष्टव्यः नच सुपुप्ती तदभाव: यो Sहं पूर्वद्युर्विश्वेशमद्राक्षं सो Sहमद्य बिन्दुमाधवं द्रक्ष्या- मीति अवाधितप्रत्यभिक्षया सुपुप्ती सत्तानिश्चयात्। अतो न शून्य- स्यात्मत्वं नापि विज्ञानस्यात्मत्वं मम विज्ञानमित्यात्मभिन्नत्वानुभ- वादहं विज्ञानमित्यप्रतीतेः। सोऽहमिति प्रत्यभिज्ञायाः क्षणिके डनुप- पत्तेः। मुख्यैक्ये प्रत्यभिज्ञायमाने निरन्तरोत्पत्तिसादृश्ययोः कल्पना- नौचित्याच्च। किञ्च कदलीफलदर्शनं तद्रसानुभवः ततः सुखं पुनः
Page 16
१०८ विवरणोपन्यासे फलान्तरदर्शन व्याप्तिस्मरणं फलत्वेन सुखहेतुत्वानुमितिः ततो राग: प्रयत्न इत्यप्टक्षणेष्वेक आत्मा स्थिरो डङ्गाकार्यः। अन्यानुभूते अ- न्यस्य सुखाद्ययोगात्। चैत्रमैत्रादिसन्तानभेदेष्वन्यदृष्ट्े अन्यस्य स्मरणाद्यदर्शनात्। तस्यात्मनो Sग्रे नाशकांशाभावान्नित्यत्वमिति। म- नो Sपि नात्मा तत्राप्यहं मन इत्युलेखाभावात्। युगपज्ज्ञानानुत्पत्या तस्य करणत्वेनैव क्लृप्तत्वाञ्चेति। एवमिन्द्रियाषि नात्मा ममैतानीति प्रतीतेः। द्रष्टाहं श्रोतेत्यैक्यप्रत्यभिज्ञानात्। एकदेहस्थत्वेन प्रत्यभिज्ञा- ने चैकप्रासादस्थानामैक्यप्रत्यभिज्ञाप्रसङ्गाल्लाघवेनैकस्यैव रूपादिज्ञा- माश्रयत्वीित्यात्काणो Sहमित्यादेर्भ्रमत्वादिति।तथा देहो Sपि नात्मा स्वप्नादी देहभेदे ऽप्यहमित्यनुवृत्तेः। जातमात्रस्य स्तन्यपानप्रवृत्ति दर्शनात्। स्तन्यपानं तृप्तिसाधनमिति व्याप्तिस्मृतिमूलानुभवार्थ जन्मान्तरसम्बन्धकल्पना । मम देह इति अवाधितभेदानुभ- वात् मनुष्यो Sहमिति भ्रमः। तस्मादहमुललेखप्रत्यभिज्ञादिना देहेन्द्रियमनोविज्ञानशून्यव्यतिरिक्त आत्मा नित्यः सिद्धः ।तस्य निर्विकारत्वे भोक्तृत्वायोगात् कर्तृत्वमेष्टव्यम्। एनेन श्रोके कर्त्रन्त- भाग: स्फुटीकृतः । एकशब्दः केवलवाची भोक्तैव केवलंन कर्तेति सांख्यपत्तः स चाग्रे वक्ष्यते।देहादेरनात्मत्वमिदानी प्रकारान्तरेणाह व्यस्तानामिति- दे हेन्द्रियमनोबुद्धि शून्य कत्रे कभोक्तृषु । सर्वक्षब्रह्मणोरात्मबुद्धिरस्तीह वादिना।। व्यस्तानां वा समस्तानां भूतानां भोक्तृता कुतः । इन्द्रियादेरपि तथा शून्या तेनात्मता ततः ॥ पृथिव्यादिभूतानां सङ्गातस्तावच्छ्वरीरं देहात्मवादिनां न च भूमौ पार्थिवमेव शरीर वरुणलोके त्वाप्यं स्वर्गे तैजसंब्रह्मलोके वायव्यमेव न पाञचभौतिकं क्व चिच्छरीरमस्ति प्रत्यक्षाप्रत्यक्षभृतवृत्तित्वे देहस्य घटाकाश संयोगवद प्रत्य क्षत्वापातादिति तार्किकोक्तिर्युक्ता। अस्मदा- दिशरीरं जलाद्युपादानकं जलाद्युपचयापचयानुविधाय्युपचयापच- यवत्वाद्यदित्थं तत्तथा यथा नैकतन्त्वारब्ध: पट इत्यनुमानात्। अन्न- मशितमित्यादि छ्वान्दोग्यश्रुती मांसलोहितास्थिमयदेहस्य भूजलते- जःकार्यत्वोक्तेश्च। पञ्चभूतात्मके तात शरीरे पञ्चताङ्गते इत्यादिस्मृ- तेश्च। महत्त्वोन्भूतरूपाभ्यां देहस्यातीन्द्रियद्यणुकवृत्तित्र्यणुकवत् प्र० त्यक्षत्वोपपत्तेश्च। तस्मात्पञ्चभूतारब्धावयवी देहः। तस्यात्मत्वं पूर्व
Page 17
१ सू. ४ वर्णकम् । १०९ निरस्तम्।अधुना भूतचतुष्टयसङ्गात एव देह आत्मेति मतं निरस्यते। तथाहि सङ्गातः किं भूताभिन्नः भूतातिरिक्तो वा आदे पि भूतानां व्यस्तानां भोक्तृत्वं समस्तानां वा तत्र न तावद्यस्तानां युगपत् भो- कृत्वं सर्वेषां भूतानां स्वतन्त्रात्मत्वे सङ्गाताभावप्रसङ्गातू। अथ भि- न्नात्मनामपि वरगांष्ठीवदङ्गाङ्गितया क्रमेण भोक्तृत्वमिति चेन्न । दष्टान्तवैषम्यात्। वराणां कन्यात्मकविषयस्यासाधारणत्वादेकस्य स्वविषयभोगकाले अन्यस्य गुएभावो युक्त: भूतानाङ्गन्धादिवि- पये साधारणाङ्गाङ्गिभावायोगान्भोगकमायोगः। यदि भूम्यादिभूता- त्मनाङ्गन्धादयो Sप्यसाधारणास्तदा घाता ऽहं द्रष्टेति प्रत्यभिज्ञानुप- पत्तिः। नापि समस्तानां भोक्तृत्वं सर्वेपामि भृतानामसंहतानां भो- कृत्वादर्शनात्। सङ्गाते च निमित्ताभावात्। आगामिभोगस्यास- त्वेनानिमित्तत्वाच्छेषस्य शेष्याक्षेपकत्वात्। सर्वेपामपि भोकृणां भोगे समप्रधानतया सङ्गातायोगात्। न च भूतानां भोक्तृतया भोगं प्रति प्राधान्ये पपि कर्तृतया शेषत्वात् संघातो Sस्त्विति वाच्यम्। संघा- तात्प्राक् कर्तृत्वासिद्धे: संहन्त्रभावाच्च।कार्ये हि कारणानां संहन्तरि संघातो भवति यथा तिलानां ज्वालायां न तु भोगः। नाप्येकस्यैव भूतस्य भोक्तृत्वं विनिगमकाभावात्। एतेन भूतातिरिक्तः संघातो भोक्तेति निरस्तम। संघातस्यावस्तुत्वाञ्च। वस्तुत्वे चत्वारि भूता- न्येव तत्वानीति मतहानिरिति। एवं व्याससमासविकल्पदूषणानी- न्द्रियात्मवादे पि समानि। एतेन भूतेन्द्रियसंघात आत्मेति प्रत्युक्तम। इन्द्रियादेरपि तथेति न भोक्तृत्वमित्यर्थः । तस्माद्देहादिशून्यान्तेषु ना- तमत्वमिति उपसहारः। प्रसङ्गादिन्द्रियस्वरूपं निरूपयति। न गोल- कानीति- न गोलकानीन्द्रियाणि नापि तच्छक्तयो Sपि तु। शक्तिमद्टव्यरूपाषि भौतिकान्यविभूनि च। गोलकानीन्द्रियाणीति सुगतमतमसङ्गतं गोलकासत्वे Sपि सर्व- स्य शब्दोपलम्भात्। पश्यन्ति पादपा इत्यादि शास्त्राच्च।गोलकशक्तय इति मीमांसकमतमप्ययुक्तम्। लाघवेन शक्तीनामात्मताप्रसङ्गाच्च। गोलकानामंत्रैव भस्मीभावे तच्छक्तीनां विनाशात्। तमुक्कामन्तं प्राणो ऽनूकरामति प्राणमनूक्रामन्त सर्वे प्राणा अनूक्रामन्तीतीन्द्रियाणां उक्रान्तिश्रुतिविरोधाञ्च। तस्माच्छक्तिमद्रव्याणि तेपूक्तश्रुतिर्मानं तदपरिचयाल्लोकानां गोलकेष्विन्द्रियत्वबुद्धिर्मण्डले आदित्यत्वबुद्धि - घत्। तानि चाहङ्गारप्रकृतिकानीति सांख्या: तदयुक्तं मानाभावात्।
Page 18
११२ विवरणोपन्यासे सनार्थ तज्जिज्ञासेति वाच्यम्। तस्यासत्वे उप्यारोपेणोपासनासम्भ वादुपासनया Sपि मुमुक्ष्वभीष्टासिद्धेश्च।तस्मान्मुत्तर्थ प्रत्यगब्रह्मणो जिज्ञास्यत्वात् । प्रत्यगात्मनि विप्रतिपत्त्युपन्यासो युक्ततम इति स- द्वेपः। सिद्धान्तकोटिमाह । स इति। ईश्वरः प्रत्यगात्मा Sस्माकमि- त्यर्थः। ब्रह्म सच्चिदानन्दरूपम् अहमस्मि भामि प्रियतम इति प्रतीतेः प्रत्यगात्मा Sपि तथा। तथाच जीवो व्रत्मैव तदविलक्षणत्वात् ब्रह्मवत्। भेदस्त्वीपाधिक एवाहङ्काराद्युपाध्यनुविधायित्वात्। ततत्वमस्यादि- श्रुतेश्चाभेद: जीवाद्भिन्नस्य घटादिवत् ब्रह्मत्वायोगाञ्च वस्तुतः परि- च्छ्ेदादिति भावः। ननु यदि ब्रह्मणो ब्रह्मत्वादेव जीवाभेदः तर्हि दुःखात्मकजगदभेदो Sपि तस्यास्ति कुतश्चदपि भिन्नस्य जगतो ब्रह्म- त्वायोगातू। उपादानत्वाञ्च ब्रह्मणो हेयाभेद इत्यपरिमितानर्थरूप- त्वादजिज्ञास्यत्वमापन्नमिति शङ्कते। नन्विति- ननु ब्रह्मत्वतो ब्रह्म जीवाभिन्नं यथा तथा। दुःखभिन्नमजिज्ञास्यं नैवं दुःखादिकल्पनात्।। नेह नानास्तीति अधिष्ठाने निषिद्धस्य द्वैतस्य कल्पितत्वेन रज्जु- सर्पवद्धिष्ठानानतिरेकातू ब्रह्मत्वं कल्पितानर्थासंस्पर्शादधिष्ठानस्य जिज्ञास्यत्वं च युक्तमिति। परिहरति। मैवमिति। ननु देहात्मादि- पन्तेषु जागरूकेषु ब्रह्मण एव मुमुश्षुभिर्जिज्ञास्यत्वं कथमित्यत आह। प्रत्यगति- प्रत्यग ब्रह्मैक्यमेवात्र युक्तिवाक्यसमाश्रया। युत्त्यङ्गा ब्रह्ममीमांसा कर्तव्या Sतो मुमुक्षुणा॥ अत्र उक्तपक्षेषु अन्त्यपक्षे संक्षेपतो युक्तिवाक्ये दर्शिते। ननु स वा एष पुरुषो डन्नरसमयः इन्द्रियसंवादे चक्षुरुवाच मन उवाच यो 5यं विज्ञानमय असदेवेदमग्र आसीतू कर्त्ता बोद्धा अनश्नन्नन्यः आत्मानमन्तरा यमयतीति वाक्यानि देहाद्यात्मत्वे युक्तयश्च सन्तीति चेतू। न। युक्तीनामाभासताया दर्शितत्वात्। आनन्दमयो S9यासा- दित्यादिना वाक्यानां ब्रह्मान्मनि समन्वयस्य सूत्रयता वक्ष्यमाणत्वात्। ननु ब्रह्मण एव जिज्ञास्यत्वे Sपि तद्विचारस्य जिज्ञासापदलक्षितस्ये- व्यमाणज्ञाननार्था्षिप्तस्य वा किमुपकरणं किं वा फलमित्याशङ्कां निराकुर्वन् सूत्रार्थमुपसहरति। युत्तङ्गेति। युक्तिर्व्रह्मणि प्रमाणवि- घारो मुक्तये कर्तव्य इत्यर्थः । मुक्तिस्तु ज्ञानेनाज्ञाननिवृत्ती प्रमा- तृत्वाध्यासनिवृत्तेः सत्यपि मायिकद्वैते अनर्थदर्शनाभाव इत्येक:
Page 19
१ स. ४ वर्णकम् । ११३ पक्षः। इतरस्तु सर्वद्वैतनिवृत्तिपक्षः सकलवृद्धसंमतः समन्वयसूत्रे वक्ष्यते। यस्यायमपरोक्षनया ब्रह्मानुभवः तस्य निरस्तसमस्तानर्थ- स्वप्रकाशानतिशयानन्दात्मना Sवस्थानमित्यत्रन विवादः। तस्माद- नुबन्धचतुष्टयसम्भवात् वेदान्तविचारकर्तव्यता युक्तेति रमणीयम्। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दसरस्वतीपूज्यपाद- शिष्यरामानन्दविरचिते विवरणोपन्यासे अनुक्रमणिकाव्याख्याने चतुर्थवर्णकं प्रथमसूत्रञ्च समाप्तम् ॥
जगज्जन्मस्थितिध्वंसहंतुं सच्चित्सुखात्मकम्। सीताभिरामं श्रीरामं सगुण केवलं भजे॥ प्रथमसूत्रे यथोक्ताधिकारिणा ब्रह्मज्ञानाय विचार: कर्तव्य इति प्रतिज्ञातम्। तत्र ब्रह्मणि लक्षणप्रमाणाविरोधज्ञानसाधनफलानां विचारो र्थात्प्रतिज्ञातः तं विना फलसमर्थब्रह्मज्ञानायोगाद्विचार: क्रियते इत्याह। ब्रह्मेति- ब्रह्म मीमांस्यमित्युक्तौ विचारो लक्षणादिषु। अर्थादेव प्रतिज्ञातो लक्षणं तु विचार्यते॥ जन्माद्यस्य यतः। ब्रह्माण लक्षणाभावात् निःस्वरूपबह्मविचारो न सम्भवतीत्याक्षेपसङ्गत्या Sस्याधिकरणस्य प्रवृत्तिः । यतो वा इ- मानि भूतानि जायन्ते इत्यादिश्रुतिसिद्धलक्षणविचारात्मकत्वाच्छृति- सङ्गतिः।अत्र श्रूयमाणं जन्मादिकं ब्रह्मलक्षणं न वेति सन्देहे सम्बन्धा- भावान्न लक्षणमिति प्राप्त सिद्धान्तः । जन्म आदिर्यस्य जन्मस्थिति- भङ्गस्य तज्जन्मादीति तद्गुणसंविज्ञानो बहुव्रीहिः जन्मस्थितिभङ्ग समासार्थ इति नपुंसकलिङ्गनिर्देशात् प्रतीयते। ननु बहुत्वविवक्ष- या जन्मादय इत्येव किमिति न कृतमिति चेत्। जन्मस्थितिभङ्ग- निरूपितं कारणत्वत्रयं मिलितमेवाद्वितीयब्रह्मणो लक्षणमिति ज्ञाप- नार्थमिति ब्रूमः । प्रत्येकं लक्षसात्वे जन्मकारणादन्यदेव स्थितिका- रणमिति कारणस्य सद्वयत्वज्ञानात् जगत्कारणानुवादेन तङ्गह्मेति म्रह्मत्वप्रतिपादनमशक्यं स्यादतः कारणस्य ब्रह्मत्वस्यानुकूलल- क्षणसिध्दर्थ युक्त एव समाहारलिङ्गनिर्देशः।ननु तथापि जन्मस्थि- तिभङ्गानामनादिसंसारे घटीयन्त्रवदावृत्ते: कथ जन्मन आदित्वमिति चंत् श्रुती जन्मनः आदो निर्देशात् जनित्वा स्थित्वा नश्यतीति व- स्त्वनुसाराश्चेत्याशयेनाह तृतीयेति- १५
Page 20
११४ विवरणोपन्यासे तृतीयलिङ्गनिर्देशात्समाहारो Sत्र गम्यते। तदादि जन्म विज्ञेयं श्रुतिर्वस्त्वनुसारतः ॥ इति। अद्वितीये लक्ष्ये जन्ममात्रकरणत्वस्यासम्भवादादिपदम्। निर- पेक्षं लक्षणत्रयमिति शङ्कानिरासार्थ नपुंसकैकवचननिर्देशः।अस्येति सर्वनाम्ना कार्य सर्वमुपस्थाप्यते सङ्कोचकाभावाद्। षष्ठी तुजगतो जन्मादिभिर्भावविकारैरनिर्वचनीयतादात्म्यसंबन्धार्था सतो Sसतो वा कार्यस्य तैः सत्यसंबन्धायोगादित्याह। इदमर्थ इति- इदमर्थो जगत्सर्व षष्ठी संबन्धबोधिका॥ तेन लक्षणत्वमविरुद्धमिति मन्तव्यम् । यस्य जगतः कारणं ब्रह्म तस्य स्वाभिमतं विभागमाह। जगदिति- जगद्विभागः श्रीतो Sत्र नाम्ना रूपेण कर्मणा। सर्वविज्ञप्तिमात्रं च स्वरूपं लक्षणं भवेत्। त्रयं वा इदं नामरूपं कर्मेति श्रत्या जगतः सर्वस्य त्रेधा वि- भागो दर्शितः अत्र नामरूपकर्माणि शब्दार्थतत्सम्बन्धाः । तत्र सं- बन्धस्य सबन्ध्यन्तर्भावाच्छब्दार्थो द्वावेव पदार्थो इति वृद्धाः। श्रुति- भाष्यवार्तिकपरिशीलने तु प्रकाशकमात्रं नाम प्रकाश्यं रूपं चलं क- मेति व्याख्यानात् सत्वतमोरजांसि सर्व जगदिति विभागो भाति। एतेषु सर्वान्तर्भावस्यातो हि सर्वाणि नामान्युतिष्ठन्तीत्यादिश्रुत्या द- र्शितत्वाच्च नामरूपाभ्यामेव व्याक्रियते इति। द्वित्वोक्तिस्तु कर्मणः प्रकाश्यत्वेन रूपे उन्तर्भावाभिप्रायेगोति द्रष्टव्यम। अश्रीतास्तु पुम्बुद्धि- भवा विभागा अघुनोच्यन्ते। द्रव्यगुणकर्मसामान्यानि चत्वार: प- दार्था इति वार्तिककारीयाः। गुरूणां विशेषशक्तिसमवायनियोगा उक्तैः सहाष्टौ। वैशेषिकाणां षट्। नैयायिकानां षोडश पदार्थाः प्र- सिद्धाः। कार्यकारणयोगविधिदुःखान्ताः पञ्चेति शैवाः। कार्य मह- दादि। कारणमश्विरः । योगः समाधिः । विधिस्त्रिषवणस्नानादिः । दुःखान्तो मोक्षः। जीवाजीवास्त्रवसंवरनिर्जरबन्धमोत्षाः सप्तेति क्ष- पणकाः। जीवश्चेतनः। अजीवः परमाण्वादिः । विषयेषु इन्द्रियाणां प्रवृत्तिरास्त्रवः । तं संवृणोतीति शमदमादिः संवरः । नितरां जरयति कल्मपमिति तप्तशिलारोहणादिर्निजरः। बन्धः कर्म । सततोर्ध्वगमनं मोक्षः । पृथिव्यप्तेजोवायवश्चत्वारि तत्वानीति लोकायताः । चित्तचैत्ये इति सुगताः । पञ्चविशतितत्वानीति
Page 21
२ सू. १ वर्णकम्। १११ सांख्याः। षड्विंश ईश्वर इति पातञ्जला इति। अश्रीतत्वादेते विभागा नादर्तव्या इति। ननु किं ब्रह्मण: स्वरूपलक्षणं न च यतः सर्वश्ञात्सर्वशक्ते: कारणादिदं भवति तद्रह्मेति भाष्यात् सर्वज्ञत्वं सर्वशक्तित्वं वा स्वरूपमिति वाच्यम्।सर्वापेक्षधर्मत्वादित्यत आह। सर्वविक्ञप्तिमात्रमिति। आनन्दस्य विज्ञानादभेदान्मात्रपद्मविरुद्धं अविद्यादशायां स्वाध्यस्तसर्वाचभासनक्षमं स्वतो विषयानपेक्षं वि- ज्ञानमात्रं स्वरूपलक्षणमित्यर्थः । ननु सिद्धान्ते ब्रह्मणः सर्वज्ञत्वं कथं स्वरूपज्ञानस्यातीतानागतवस्तुसम्बन्धाभावात्। इन्द्रियाणा- मपि वर्तमानसन्निकृष्टमात्रग्राहित्वात्। अचक्षुरश्रोत्रमित्यादिश्रुत्या ब्रह्मणि तेषामभावादिति चेतू। उच्यते । विद्यमानसर्ववस्तुगोचरः सत्वप्रधानमायावृत्तिरूप: परिणाम उदेति तत्राभिव्यक्तं चैतन्यं प्र- स्यक्षानुभवः । वृत्तिनाशे सति संस्कारान्नियमेन स्मरणं पूर्वानुभूत- वस्तुगोचरमायावृत्त्यभिव्यक्त चैतन्यरूपं तथा Sनागतज्ञानमपि वृत्त्यु- पाधिकं द्रष्टव्यम्। कालत्रयावगाहिनी एकैव वृत्तिरिति केचितू। स्व- रूपचैतन्येनैव विद्यमानसर्वश्ञत्वमित्यपरे। उपादानत्वमात्रमस्मि- म्सूत्रे तटस्थलक्षणमुक्त न कर्तृत्वमिति कृत्वा चिन्ता SSरभ्यते। ननु जगदुपादानत्वं न ब्रह्मलक्षणं मायां तु प्रकृतिमिति श्रुत्या सर्गाद्य- कालीनं कार्ये जडोपादानकं कार्यत्वात् घटवत्। अन्यथा जगति जाड्यानुगमो न स्यादित्यनुमानेन च मायायामतिव्याप्तेः । न च मायाया उपादानत्वे इन्द्रो मायाभि: पुरुरूप ईयते इति करणत्वं विरुद्धमिति वाच्यम। मायाकार्यबुद्धीनामात्मवहुत्वभ्रमहेतुतायास्तृ- तीयार्थत्वात्। माया प्रज्ञा च संविच्चेति बुद्धि पर्यायष्वपि मायाश- व्दस्मरणात्। एतेन मायां तु ब्रह्मस्वरूपप्रज्ञाप्रकृति विद्यादिति श्रु- त्यर्थ इति ब्रह्मैवोपादानमिति निरस्तम् । मायिनं तु महेश्वरमिति श्रुतेश्च न चैतन्यं माया प्रकृती शक्तिशब्द: पारतन्त्रयद्योती न विरु- ध्यते। अत एव शक्तिशक्तिमतोरभंदात् सत्यमायाशक्तयभिनं व्र- ह्वैवोपादानमिति नातिव्याप्तिरिति निरस्तम। लोके मायाविसृष्ठाने- कमिथ्यागजाद्यनुस्यूतोपादाने मायाशव्दप्रयोगात्। मायाविद्यैक्य- साधनाञ्च। सत्यत्वस्य मायायामसिद्धेः । तस्मादनिर्वचनीयामायो- पादाने ब्रह्मलक्षणस्यातिव्याप्तिरिति । अत्रोच्यते। ग्रह्ममायं सा- म्येन मिलित्वा जगदुपादाने इत्येकं मतम्। अत्रोपादानत्वस्य तुल्य- त्वे Sपि चिदानन्दस्वरूपलक्षणाममायातो व्रह्मणो भेदशानम्। अन्ये सु
Page 22
११६ वितरणोपन्यासे ब्रह्मज्ञानात्सर्वज्ञानश्रुतेः सच्चासञ्चाभवदित्यादिश्रुतेश्च ब्रह्मैवोपा- दानं माया तु ब्रह्मणः प्रकृतित्वनिर्वाहकशक्तित्वेन प्रकृतिरिति व्य- पदिश्यते इत्याहुः । अत्रोपादानत्वमनतिव्याप्तं लक्षणं ब्रह्मण एव प्राधान्येनोपादानत्वात् । केचित्तु मायैव जगद्योनिस्तदधिष्ठानत्व- मात्रेष ब्रह्मण: कारणत्वमिति वदन्ति। अत्र परिणममानाविद्या- धिष्ठानत्वं लक्षणमिति विभागमभिप्रेत्याह। ब्रह्ममाये इति- ब्रह्ममाये जगद्योनी माया शत्त्यथवा महत्। यद्वा योनिस्तु माथैव ब्रह्माधिष्ठानमिष्यते॥ महद्रह्म मायाशक्तिकं योनिरिति मध्यमं मतमित्यर्थः । के चित्तु ब्रह्मपरिणामीत्याहुः। तन्न। तथा हि पूर्वस्वरूपोपमर्देन रूपान्तरा- पत्तिः परिणामः स चोपादानसमसत्ताक: यथा क्षीरस्य दधिभावः। विवर्तस्तु पूर्वस्वरूपानुपमर्देन रूपान्तरापत्तिः उपादानभिन्नसत्ताकः यथा शुक्तेर्व्यावहारिकसत्तावत्या: प्रातिभासिक रजतं तत्र प्रलया- वस्थमायास्वरूपोपमर्दाज्जगत्तस्या: परिणामः सच्चिदानन्दनिष्कल- ब्रह्मस्वरूपानुपमर्दाद्गह्मणो विवर्त एव एतावानस्य प्रपञचो महिमा अतो ज्यायांश्च पुरुपः नामरूपयोनिर्वहिता ते यदन्तरा यत्र विलक्षणे कल्पिते तद्गह्मेत्याद्याः श्रुतयो ब्रह्मस्वरूपानुपमर्द मानं निष्कलं निष्क्रियं शान्तमसङ्गमरसमगन्धमित्यादिना निरवयवत्वादिश्रुतेश्च ब्रह्मण: परिणामो न युज्यते । अत्र कश्चिन्निरवयवमपि परिणमते इति जल्पति। हेयावयवपरमाणूनां परिणामाभावे हेम्न्: कथं रुच- काकार: परिणामः स्यात्। अवयवविकारं विना अवयविविकारायो गातू। स वक्तव्यः को 5यं परिणामो नामेति यद्यवयवानां संयो- गविशेष: परिस्पन्दो वा गुणान्तरोदयो वा परिणामः तर्ह्येकस्मिन् अचले निर्गुणे ब्रह्मणि स नास्ति लोके द्रव्यरूपकार्यासिद्धिश्च। अथोपादानानुरक्तं द्रव्यान्तरं परिणामः तर्हि यथादर्शनं हेमाद्य- वयविन एव परिणाभो Sस्तु अवयवानां नाशादिकं विना Sप्यवय- विनो नाशवत् घटत्वादिजातिविशेषसमवायवच्च तेषां परिणामं विना 5पि तस्य परिणामोपपत्तेः न ह्यवयविनि यावदस्ति तत्सर्व- मवयवेषु कल्पयितुं शक्यम् अनुभवविरोधात्। ननु स्वाभिन्ना- वयवेष्वविकारिषु कथमवयविजो विकार इति चेतू स्वाभिन्नजाति- गुणादिष्वविकारिषु द्रव्यपरिणामवदिति ब्रूमः । ननु अवयविनि संयोगो Sवयवसंयोगपुरःसरो हष्ट इनि चेतू। न। संयोगद्वयादऐ्टेः ।
Page 23
२ मू. १ वर्णकम् । ११७ अवयवानामवच्छेदकत्वमात्रमिति नास्ति निरवयवे परिणामः कि- ञचावयवानां मायिकानां सावयवतया परिणामे ऽपि न निरवयवत्र- ह्मण: परिणामः दष्टान्ताभावात् । अस्तु तर्हि ब्रह्म सावयवमिति चेन्न। अवयवानां स्वप्रकाशत्वे ब्रह्मसम्बन्धासिद्धेः तुल्यानां मिथो ग्राह्यग्राहकत्वायोगात्। तेषां जडत्वे च न स्वयंप्रकाशब्रह्मांशत्वं व- स्तुविरोधान्मानाभावाच्च निष्कलमित्यादिश्रुतेश्च । तस्मान्मायया म्रह्म जगद्रूपण भातीति विवर्त एवेति मत्वाह। ब्रह्मरूपेति- ब्रह्म रूपापरित्यागाद्विवर्तो जगदिष्यते। निष्कले निष्क्रिये Sमङ्के परिणामो न युज्यते॥ अन्ये त्वाकाशवन्महाभूतानि न जायन्ते इत्याहुः तन्न। पृथिव्य- प्ेजोवायवः प्रत्येकं पक्षीकृता: जायन्ते पृथिवीत्वादप्त्वात्तेजस्त्वात्
नुगृहीताददूभ्यः पृथिवीत्यादिसृष्टिवाक्यात् जन्मसिद्धेराकाशहष्टा- न्तासिद्धश्च।अत एव यतो वा इत्यादिवाक्ये जन्मादीनि सिद्धवद- नुवाद इति मन्तव्यम् । अत्र लक्षणसूत्रे ब्रह्मणो जगद्धेतुत्वसिद्ध ये ब्रह्मान्यहेत्वसम्भवयुक्तिरर्थात्सूत्रिता हेत्वन्तरसत्त्वे ब्रह्मासिद्धस्त- लक्षणायोगादिति मत्वाह। प्रधानेति- प्रधानपरमाणूनां शून्यजीवस्वभावतः । हेतुत्वासम्भवाद् ब्रह्म जगद्धेतुः स्वमायया॥ पष्ठीबहुवचने तसिप्रत्ययः । अत्र सांख्याः । सर्वे भावाः सुख- दुःखमोहात्मकसामान्यप्रकृतिका: नियमेन तदन्वितत्वात् यदित्थं तत्तथा यथा मृदन्विता घटादयः तत्प्रकृतिकाः। इति सत्त्वरजस्तमो- रूपं प्रधानमनुमिमते। तार्किकास्तु आद्यं कार्यद्रव्यं र्वन्यूनपरि- माणसंयुक्तानेकद्रव्यारब्धं कार्यद्रव्यत्वात् घटवदिति परमाणून् कल्पयन्ति। वाह्यास्तु सर्वे कार्यमभावजन्य योग्यत्वे सत्यनुपलभ्य- मानपूर्वावस्थत्वात् व्यतिरकंण वैदिकात्मवदिति जल्पन्ति। हैरण्य- गर्भास्तु हिरण्यगर्भमागमबलेन कारणं वदन्ति। स्वभाववादिनस्तु सर्वे कार्य निर्निमित्त जायते निमित्तकल्पने Sनवस्थापातात् । निमित्तस्यान्यानपेक्षत्वे स्वभाववाद इति वदन्ति । तदयुक्तम्। अनुमानार्थयोरसम्भवात्। तथा हि न तावत्सांख्यानुमानं साधु सुखादीनामान्तरत्वानुभवन पक्षे हेत्वसिद्धेः । प्रधानस्याचेत- नतया विचित्रजगद्रचनारूपार्थासम्भवश्च। तार्किकानुमाने हेतोरति-
Page 24
११८ विवरणोपन्यासे विस्तृतदीर्धदुकूलारब्धरजौ व्यभिचारः। ज्ञानत्वेन शरीरत्वेन का- र्यकारणाभावात्। नित्यज्ञानकल्पनायोगादीश्वरे शरीराङ्गीकारे सु- खदुःखयोरावश्यकत्वाह्दुःखिनो जीवत्वेनाल्पज्ञतया परमाणुप्रेरक- त्वानुपपत्तिः। शून्यानुमाने घटस्य पूर्वावस्था मृदुपलभ्यते इति हेत्वसिद्धिः। अभावप्रकृतिकत्वे कार्येषु सद्वड्डसम्भवः। किञच पूर्व- कल्पस्य नाशे सत्याश्रयाभावेन संस्काराणों सजातीयकार्यनियाम- कानामभावाद्विलक्षण एवायं कल्पः स्यात्। तथा च धर्मः सुखाया- 5धर्मो दुःखाय मृदादेरेव घटादिकार्यमस्य शब्दस्यायं वाच्य इत्या- दिव्यवस्था लुप्येत प्रतिक्षणविलक्षणत्वात् स्वलक्षणानामित्यलम् । हिरण्यगर्भस्य जीवत्वात् न सर्वहेतुत्वम् ईश्वरत्वं त्वथ यन्मर्त्ः स- न्नमृतानसृजतेत्याद्यागमबाधितम्। स्वभाववादे तैलार्थी तिलेषु न प्रवर्तेत। न चानवस्था Sनादिकारणे पर्यवसानात् इत्थं प्रधानादीनां हेतुत्वासम्भवादचिन्त्यमायाशक्त्या ब्रह्मैव निखिलजनिमन्निदानाम- ति सिद्धम। येयं युक्तिरभिहिता विना कर्तारमचेतनात्कार्य न भव- तीति तां युक्तिं सतीमनुमानं सर्वज्ञसाधकं मन्यन्ते वैशेषिकादयः। युक्तिर्नाम सम्भावनाहेतुर्व्याप्त्याभासज्ञानम्। यथाग्निमत्वादू धूमो Sत्र स्थास्यतीति। वस्तुनिश्चायकं व्याप्तिज्ञानमनुमान यथा Sत्र धूमाद्व- न्हिरस्त्येवेति। तत्र यत्कार्य तत्सकर्तृकमिति व्याप्त्या सर्वज्ञः कर्ता निश्चेतुं न शक्यते जगदनेककर्तृकं विचित्रकार्यत्वात्प्रासादादिव- दिति प्रत्यनुमानसम्भवात्।न च लाघवात् कत्रैक्ये सति सर्वशसि- द्विरिति वाच्यम्। यज्ज्ञानं तच्छरीरजमिति निश्चयेनाशरीरस्य कर्तु- बाधे सति लाघवानवतारातू। न च यत्सातिशयं तन्निरतिशयजा- तीयमिति व्याप्त्या सर्वगोचरज्ञानसिद्धिरित्युक्तम। लक्षकोटिवस्तु- गोचरज्ञानेनार्थान्तरत्वात्। अशरीरस्य ज्ञानायोगेन शरीरिणो Sल्प- ज्ञत्वेन सङ्कोचस्य न्याय्यत्वात्। तस्माच्क्कत्या सर्वज्षे कारणे सिद्धे सत्युक्तव्याप्त्या सम्भावनामात्रं भवतीत्यंषा युक्तिरेवेति मत्वाह। अनुमानमिति- अनुमानमिमां युक्ति मन्यन्ते तार्किका जनाः । श्रुतिरेव स्वतन्त्रा Sत्र युक्ति: सम्भवबुद्धिकृत् ॥ नन्वनुमानमेव स्वतन्त्रमनेन सूत्रेण विचार्यते न श्रुतिस्तस्या- स्तन्रान्तर्भावादित्यत आ्रह। श्रुतिरेवेति। यदि ्रुतिरनुमानान्तर्भूता स्यान्तदा तस्या: शक्तितात्पर्यवत्वं ब्रह्मणि तततू समन्वयादित्यादिना
Page 25
२ म. १ वर्णकम् । ११९ सूत्रकारो न ध्रूयात्। तस्मादतीन्द्रिये प्रत्यगव्रह्मणि श्रुतेरेव स्वातन्त्रयं लौकिकद्ष्टान्तमात्रेए तस्योहितुमशक्यत्वात् इत्यर्थः । ननु तर्हि श्रु- तिसिद्धार्थे युक्त्या कि क्रियते ननूक्तं सम्भावनेति सत्यमुक्तं परन्तु तस्या: फलं पृच्छाम इत्यत आह। एवञ्चेति । एवञच श्रुतियुक्ति्यां ब्रह्मण्यनुभवो भवेत्। धर्मे त्वनुभवायोग्ये श्रुत्यादेरेव मानता ॥। श्रोतव्यो मन्तव्य इत्यादिश्रुतेरिति भावः।नन्ववधृततात्पर्याच्छ- व्दात् जाने धर्मे मननादिनिदिध्यासनानुभवा नापेक्ष्यन्ते तथा व्र- ह्माणो Sपि वेदार्थत्वात् शब्दमात्रमपेक्ष्यतां नत्वेते इत्याशङ्कयाह। ध- में त्विति। धर्मस्यानुभवितुमशक्यत्वादनपेक्ितानुभवाच्च ते नापे- क्ष्यन्ते। किन्तु अनुमानोपयोगिश्रुत्यादिमात्रमपेक्ष्यते। आदिपदेन लिङ्गादय: श्रुतिगमकाः शब्दप्रभेदा उच्यन्ते । ब्रह्मणः प्रत्यक्त्वेना- उनुभवितुं शक्यत्वादपरोक्षभ्रान्तिध्वंसायापेक्षितानुभवत्वाच्च ते Sपे- क्ष्यन्ते। साक्षादनुभवाय श्रत्यादयो ऽप्यत्र शाब्दबोधायापेक्ष्यन्ते। यदि वेदार्थत्वमात्रेए ब्रह्मणि धर्मवन्मननाद्यपेक्षाच्येत तर्हि धर्मे इव ब्रह्मण्यपि प्रकृतिसाध्यत्वविधेयत्वनिषेध्यत्वोत्सगापवादादयो Sपिप्र- सज्येरन्। तच्चानिष्टम् । सिद्धस्य वस्तुन एकरूपत्वात् वस्त्वनुसार्ये- कमेव ज्ञानं प्रमा भवति साध्यस्य तु ज्ञानाधीनत्वाद्ययाशास्त्रं वि- कल्पादिज्ञानं सर्व प्रमा पतो धर्मविलक्षणत्वाद्गह्मणि मननाद्यपेक्षा यु- क्तेति भावः। ननु ब्रह्मणि श्रुतेर्युक्त्यपेक्षा न युक्ता भिन्नविषयत्वात्। तथाहि। सद्गह्मैकमद्वितीयममित्यादिश्रतिविशेषिषया मृदादिदृष्टा- न्तवाक्यलभ्यं यत्कार्य तत्सोपादानाभिन्नमिति युक्ति: सामान्यवि- पयेत्यत आह। सामान्येति- सामान्यद्वारता युक्तर्वेदार्थे स्यात्सहायता। तस्माद्वेदविचारार्थमिदं सूत्रमिति स्थितम्।। अद्वितीयव्रह्मण उपादानत्वे श्रुते सत्युपादानत्वादिसामान्यद्वारा युक्तेरद्वितीयत्वादि सम्भाव्यते इति युत्तपेक्षा युक्तेति भावः। एव- मतीन्द्रियार्थे युक्ते: स्वातन्त्रयाभावोक्तिफलमाह तस्मादिति। को Sसी वेद इत्यत आह। भृगुरिति- भृगुर्वे प्रभृतिर्वेद: सूत्रे Sस्मिन विषयो भवेत्। जगद्धेत्वनुधादत्वमिति पूर्वकमीरितम।। ब्रह्मताघोधकं तस्थ निर्णयो घाक्यरोपतः ।
Page 26
१२० विवरणोपन्यासे ननु भृगुर्वे वारुणिरित्यादि किमर्थमुदाहृतं लक्षणसूत्रे।न च पाठज्ञानार्थमिति वाच्यम्। अर्थज्ञाने पाठक्रमस्यानुपयोगातू । प्रसिद्धानुवादेन ह्यप्रसिद्धं वोध्यं तथा च यत आकाशादिकं सम्भूतमिति प्रसिद्धानुवाढेन तत्सत्यं ज्ञानमनन्तं ब्रह्मति पाठ- भङ्गेनेव वोध्यते इति सत्यं किन्त्वधिकारिणा SSचार्याधीनेन ब्रह्म वि- चार्यमिति प्रथमसूत्रे विचारितार्थकं भृगुर्वा इति वाक्यं किं तङ्गह्मे- त्याकाङ्कायां तत्प्रतिपादकं यतो वा इमानीत्यादिलक्षणवाक्यं द्वि- तीयसूत्रेण विचार्यते इति क्रमज्ञानार्थमुदाहतं भाध्यकाररिति न दोषः। ननु यतो वा इमानीत्यादिवाक्ये जगत्कारणानुवादेन ब्रह्मत्वं विधीयते। तदयुक्तम्। कारणनानात्वस्य पटादाविव प्रतीतेरिति चेन्न। येन जातानीत्यपूर्वस्यैकत्वस्य विधानात्। तत्र यजगत्कारणं तदेकमिति अवान्तरवाक्येनैकत्वप्रमिती सत्यां यदुक्तकारणमेकं तङ्र- ह्मेति महावाक्येन वोध्यते। एवञ्च वाक्यान्तरे कारणस्येत्ितृत्वश्र- वणादेकं सर्वज सर्वशक्ति सर्वतो Sवच्छिनं जगत्कारणं ब्रह्मशव्दाभि- धेयमित्यर्थात्सिध्यति। तस्य स्वरूपाकाङ्कायामेकत्वस्य भेदाभाव- त्वात् सर्वज्ञत्वादीनां जडघटितधर्मत्वादस्वरूपत्वादाकाङ्ितं धर्मि- स्वरूपमानन्दाध्द्येव खल्विमानि भृतानि जायन्ते इति वाक्यशेषेणा- नन्द इति निर्णयते इत्याह। जगद्धेत्विति। न चानन्दस्य स्वरूप- त्वे विज्ञानं गुणः स्यात्। अन्यथा विज्ञानमानन्दं ब्रह्मेति सामानाधि- करण्यायोगादिि वाच्यम । केवलो निर्गुण इति श्रुतिविरोधातू। यन्तु निर्गुएस्योपादानत्वमयुक्तमिति भास्करोक्तं तन्न । भ्रान्त्यधि- ष्ठानत्वरूपांपादानत्वस्याज्ञातत्वमात्रेणोपपत्तेः। तस्मात् द्रव्यं घट इतिवत् कल्पितसामान्यविशेषभावेन विज्ञानमानन्दमिति सामा- नाधिकरण्यं वृत्त्यहीनचित्वं वृत्तिविशेषावच्छिन्नत्वमानन्दत्वमिति मत्वा सूत्रार्थमुपसंहरति। यज्गदिति- यज्गत्कारणं तद्धि स्वप्रकाशमनन्तकमू । आनन्दरूपं ब्रह्मेति पञ्चमे वर्साके स्थितम् ॥ सर्वशाखासु सृष्टिवाक्ये पाठव्यत्ययेन कारणमनूद्य सत्यज्ञाना- दिरूपं बोध्यते इति भावः । पञरचमं वर्णकं द्वितीयसूत्रच समाप्तम् ॥
Page 27
३ सू. ६ वर्णकम् । १२१ यस्य निःश्वसितं वेदा: सर्वार्थज्ञानशक्तयः। श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे॥ पूर्वे ब्रह्मणो जगत्कर्तृत्वोत्त्या ्र्थात्सर्वज्ञत्वमुक्तम्। तत्र हेत्वन्त- रोत्त्यर्थमिदं सूत्रं पूर्वाधिकरणान्तर्भूतत्वेनावतारयति। सर्ववित्वे इति- सर्ववित्वे परो हेतुः शास्त्रयोनित्वमुच्यते। यद्वा वेदस्य नित्यत्वाशङ्कायामिदमुच्यते॥ यद्वा उधिकरणान्तरमेतत्। तथा हि। शास्त्रयोनित्वात्। अस्य महतो भूतस्य निःश्वसितमेतत् यद्दग्वेदो यजुर्वेद: सामवेद इति धाक्यं व्राह्मणो वेदकर्तृत्वपरं न वेति सन्देहे पौरुषेयत्वेन वेदस्य सापेक्षत्वप्रसङ्गान्नंति पूर्वपक्ः । तथा च वेदस्य नित्यत्वाङ्गह्मणः सर्वप्रपञचहेतुत्वं पूर्वोक्तमसिद्धमित्याक्षेपसङ्गतिः । सर्वजत्वासिद्धिः फलम। सिद्धान्ते तूपलभ्यरचनानङ्गीकारेण पौरुषेयत्वाभावा- त्सर्वार्थप्रकाशनशक्तिमद्वेदोपादानत्वेन ब्रह्मणः सर्वज्ञत्वसिद्धिः । दीपस्य प्रकाशनशक्तेस्तदुपादानशक्तिपूर्वकत्वस्य तदभदस्य वा दर्शनात् उपादानोपादेययोः शत्तयक्यादिति मत्वाह यद्वेति। वेद- गता सर्वार्थज्ञानशक्तिः तदुपादानगतशक्तिपूर्विका तद्गता वा कार्य- गतत्वे सति ज्ञानानुकूलशक्तित्वात्कार्यगतशक्तित्वाद्वा दीपगतश- क्तिवदिति प्रयोगः। सगुणस्याकाशस्य ब्रह्मोपादानकतया शब्दगुणं प्रति उपादानत्वाभावान्नाकाशस्य सर्वज्ञत्वापत्तिः। यद्वा ज्ञानानुकू- लशक्तिमत्वे ऽपि यथा वेदो न सर्वज्ञः अचेतनया ज्ञानं प्रति अक- तृत्वात् तथा SSकाशो Sपीति मन्तव्यम्। तथा ऽन्यः प्रयोग: वेदः स्वविषयादधिकज्ञप्रणीतः प्रमाणवाक्यत्वात् पाणिन्यादिशास्त्रव- दिति। ननु किं नाम प्रणीतत्वं यद्यध्येतृवाक्ये इवो्चरितत्वं तर्ह्य- ध्येतृवन्नाधिकता ब्रह्मणः । अथ काव्ये इवार्यज्ञानवता कृतत्वं तदा पौरुषेयतापातो वेदस्येति शङ्कते यदीति- यदि वेदस्य कर्तृत्वाद्रह्म सर्वज्ञमुच्यते। पीरुषेयस्तदा वेदो मान न स्यान्न वाक्यवत्।। अत्र के चितू। वेदस्य पौरुषेयत्वे को दोषः । ननु तथात्वे मा- नान्तरसापेक्षत्वेनाप्रामाण्यं दोष इति चेतू। उच्यते। वेदे लोके च वक्तुरागो वाक्यार्थः तत्र जीवानां ज्ञानस्यानित्यत्वात्तन्मूलरागा- र्थकं वाक्यं सापेक्षं भवति ईश्वरस्य तु ज्ञानरागयोर्नित्यत्वात् त- १६
Page 28
१२२ विवरणोपन्यासे त्कर्तृको वेदो नित्यरागार्थको न मानान्तरमपेक्षते इत्याहुः। तत्स- माधानं दूषयति। नित्य इति- नित्यो रागो न वेदाथों मानाभावादितीरितम्। ज्ञात्वा कृतत्वे वेदस्य सापेक्षत्वं ध्रुवं भवेतू । ज्ञानेच्छयोर्नित्यत्वेनानुमानमस्तीति पूर्वमुक्तं वेदस्य तु मानत्वमद्या- व्यसिद्धं तादग्वेदानुपलम्भाच्च। क्वापि रागो न वाक्यार्थ इति समन्व- यसूत्रे वक्ष्यते इति भावः।अन्ये तु लौकिकवाक्यमेव रागे तात्पर्यवत् वेदस्त्वर्थ ज्ञात्वा कृतो पपि न रागार्थकः अध्ययनविधिना विधी ता- त्पर्यावगमादित्याहकः। तत्राह।ज्ञात्वेति। ज्ञात्वा कृतत्वे लौकिकवाक्य- वत् विधिपरत्वमपि दुर्लभमिति भावः। अपरे तु ब्रह्मस्वरूपज्ञानस्य निर्विकल्पकत्वात् तज्जन्यत्वे Sपि न वेदस्य सापेक्षत्वमित्याहुः तद- तिमन्दम। तस्य वेदार्थगोचरत्वे निर्विकल्पकासिद्धेः तदगोचरत्वे हेतुत्वासिद्धेरिति। तस्मान्नैते परिहाराः। अस्तु तर्हि वेदस्य पौरुषे- यत्वमिति तार्किकाः । तथा हि वेदो बहुज्ञकर्तृकः प्रमाणवाक्य- त्वात् भारतवाक्यवदिति तेषां मते वेदस्य रचनायां भूताभूत- ज्ञानाभावात्प्रामाण्यं दुःसाधम्। न चेश्वरस्य नित्यं ज्ञानं वेदमूल- मित्यत्र किञ्चिन्मानमस्ति ज्ञानत्वावच्छिन्नस्य मनःसंयोगकार्यत्वद- र्शनेन नित्यज्ञानानुमानायोगात्।तेषां प्रामाण्यस्य संदिग्धत्वात्।अ- स्त्वीश्वरस्याप्यनित्यज्ञानं तन्मूलमिति चेतू न वेदार्थस्याप्रत्यक्ष- त्वात्। इन्द्रियजन्यज्ञानायोगात्। ननु योगजधर्मप्रत्यासत्या मनसा तस्य वेदार्थज्ञानमिति चेन्न तादृशप्रत्यासत्तौ मानाभावात्। भावे वा दूरस्थयोग्यवस्तुमात्रग्रहे तस्योपयोगात्।तदुक्तम्। "यत्राप्यतिशयो दष्टस्तत्खार्थानतिलङ्गनातू। दूरसूक्ष्मादिद्ृष्टी स्यान्न रूपे श्रोतृवृत्तित- ति"। तस्मादप्रामाण्यापातात् वेदस्य न पौरुषेयतेत्याह- तार्किका घोषयन्त्यत्र वेद: पुरुषजो Sस्त्विति। तेषां तत्र प्रमात्मत्वं दुःसाधं मूलशून्यतः ॥ सुगतास्तु वेदाप्रामाण्यमिष्टमित्याह्ुः तैरिदं वक्तव्यं किमामु- ष्मिकफलसाधनं धर्मादिकम अस्ति न वेति। आद्ये बेद विना तद- सिद्धे: तत्प्रामाण्यं दुर्वारमित्याह। सुगता इति- सुगताः सङ्गिरन्ते Sत्र वेदो मानं न चास्त्विति। धर्माद्यतीन्द्रियार्थो हि तेषां पक्षे सुदुर्लभः॥ नेति पक्षं शङ्कते। लौकायतेति-
Page 29
३ सू. ६ वर्णकम् । १२३ लौकायतवराकाश्च परोक्षं नेति भाषते। लोकोक्तिवद्वेदमात्रे परोक्षार्थः प्रसिध्यति॥ अप्रत्यक्षप्रमेयाभावात्। न वेदः प्रमाणमिति वदता बक्तव्यं किं लौकिकवाक्यं मान न वति न चेत्तव कथानधिकारः । मिथःश- व्दानामबोधकत्वात्। आद्ये वेदेनानधिगतावाधितफलवदर्थबोध- केन किमपराद्धमित्याह। लोकोक्तिवदिति। एवं तार्किकाणां पौरु- षेयत्वानुमाने वेदस्याप्रामाण्यापातो वाधकतर्क उक्तः इष्टापत्ति: प्रसंगाद्वारिता। किञच किमिदं पौरुपेयत्वं शब्दार्थसम्बन्धस्य पुरु- पकृतत्वं वॉ उत वेदवाक्यस्य तत्कृतत्वमात्रम्। आहोस्वित् अर्थ- ज्ञानवत्पुरुषकृतत्वं नाद्यः।तत्र मानाभावातू। न हि सर्गादावीश्वरेण गोघटादिशब्दाः सर्वे संकेतिता इत्यत्र किञ्चिन्मानमस्ति किञ्च श- व्दार्थसंकेतं कुर्वन्नीश्वरः पूर्वकल्पीयशब्दार्थसम्बन्धमनुसृत्य करोति उत स्वातन्त्रयेणाभिनवसम्बन्धान्तरं अन्त्ये प्रतिकल्पं वेदार्थभेदा- दिदमिष्टसाधनमिंदं दुःखसाधनमिति व्यवस्थालोपः । आद्येनेश्वर- स्य सम्बन्धे स्वातन्त्रयं सिद्धसम्बन्धस्मारयितृत्वात् । तथा च प्र- योगः एतत्कल्पस्यादौ गोशव्दार्थसम्बन्धव्यवहारः पूर्वसिद्धतत्सं- वन्धज्ञानजन्यः जीवेनाकृतशब्दार्थसम्बन्धव्यवहारत्वात्। अधुना तद्यवहारवत् सांकेतिकनिरासार्थ जीवाकृतेत्युक्तम।न द्वितीय: सि- द्धसाधनात् । प्रतिक्षणमानुपूर्वीविशिष्टवर्णात्मकवाक्यस्याध्येतृभिः क्रियमाणत्वात्। अभिनवानुपूर्व्या ईश्वरेणाप्यकरणात्। धाता य- थापूर्वमकल्पयदिति श्रुतेः शब्दार्थसम्बन्धवदानुपूर्व्या अपि प्रवाहा- नादित्वानुमानाच्च। आद्या वेदानुपूर्वी तत्पूर्वानुपूर्वी स्मृतिजन्या वे- दानुपूर्वीत्वात्। संमतवदिति एतेन निःश्वसितादिश्ुत्या वेदस्यापी- रुषेयत्वमिति निरस्तम् । महाप्रलये प्रलीनवेदस्याकाशादिवच्चिद्वि- वर्तस्येष्टत्वात्। अत एव न तृतीय: निःश्वसितश्रुत्या र्थज्ञानप्रया- सातू। तस्मान्न पीरुपेयो वेद इत्याह। शब्दार्थ इति- शब्दार्थयोग: सहजो वेदे पुंसो स्वतन्त्रता। न चार्थज्ञानजो वेद: पौरुपेय: कथ भवेत् ॥ ननु लोके शाव्दबोधप्रमात्वे वक्तयथार्थज्ञानं गुणत्वे न हेतु: त- जत्वज्ञानत्वं तु ज्ञापकं वेदस्याप्तप्रणीतत्वाभावे तदभावात्। कथ वेदार्थबोधे प्रमात्वमित्यत आह। स्वत इति --
Page 30
१२४ विवरणोपन्यासे स्वतो निर्दोषवेदो Sत्र नाप्तज्ञानमपेत्ितम्। नित्योन्तःस्थायिवर्णात्मा वेदस्तुल्यक्रमान्वितः ॥ स्वारसिकं प्रमाणानां प्रामाण्यं नान्यापेक्षं परन्तु लोके शब्दस्य भ्रान्त्यादिजन्यत्वं नाम दोष: स्वारसिकप्रमाप्रतिबन्धको भ्रान्तिहंतु: सम्भवतीति तन्निरासार्थमाप्तज्ञानं गुणो Sपेक्ष्यते वेदे तु अपौरुषेय- तया दोषाभावान्न तदपेक्षेत्यर्थः । अतो वेदे पुरुषस्य सर्प इव र- जोरुपादानत्वे Sपि स्वातन्त्रयाभावे न पूर्वकल्पक्रमविसददशक्रमाभा- वातू प्रवाहात्मना नाद्यनन्तत्वं सिद्धमित्याह। नित्य इति। ननु वे- दस्य सर्ववन्मिथ्यात्वे प्रामाण्यं कथमिति चेतू उच्यते । क्रमवि- शेषवन्तो वर्णा वेद इत्यविवादम्। नभोवद्यापिषु नित्येषु न देशका- लनिमित्तः क्रमो वर्णेष्विति किन्तु श्रोतुः ज्ञानगतः क्रमो ज्ञेयेषु व- णेषु आरोप्यते इति वेदज्ञानं सर्वेषां मते भ्रम एव न च क्षणिक- त्वात् वर्णानां स्वतः क्रम इति युक्तम। सो 5यं गकार इत्यवाधितप्रत्य- भिज्ञाविरोधातू। अनन्तव्यक्तिजातिकल्पनायां गौरवातू । तथा च पदवाक्यप्रत्यक्षायोगाच्च। नष्टानां वर्णानां श्रोत्रेषासम्बन्धात् । ज्ञानादेरप्रत्यासत्तित्वात्। तदात्वे पदवाक्यानुभवः प्रत्यक्ष इति अ- नुव्यवसायविरोधात्। न ह्यलौकिकज्ञाने क्व चिदपि प्रत्यक्षत्वोललेखो उस्तीत्यलम। अख्यातिवाद एव नास्ति विशिष्टार्थतज्ज्ञानयोरभावात्। अन्यथाख्यातावपि तथैव विशिष्टार्थाभावात् । अस्माकं तु विशि- ष्टार्थो भ्रान्तावस्तीति विशेषः । यथा लिखितरेखासर्पवुद्धर्भ्रान्तत्वे Sपि तजन्यं वस्तुज्ञानं प्रमावेदज्ञानाजातं तदर्थज्ञानं प्रमेत्याह। मि- थ्यात्वे Sपीति- मिथ्यात्वे ऽपि च वेदस्य प्रामाण्यं लिखितादिवत्। वेदयोनित्वतो ब्रह्म सर्वज्ञमिति सुस्थितम् ॥ ननूपलभ्यरचनानङ्गीकारे वेदस्य हेतुत्वेन पापिनिदृष्टान्तेन सर्वज्ञत्वं कथमिति चेत्। उच्यते। वेदकर्तरि वेदविषयादधिकं ज्ञा- नमस्तीत्येतावन्मात्रं अनुमाने विवत्ितम्। नार्थज्ञानजन्यत्वं वेदस्य विवच्ितम्। ननु तर्ह्यध्येतृवद्वणवलीज्ञानमात्रेण वेदरचनोपपत्तेः प्रमाणवाक्यत्वादिति हंतुरप्रयोजक इति चेतू न । उपादाने ब्रह्मणि सर्वार्थज्ञानशत्त्यभावे तत्कार्ये वेदे तदनुपपत्तेः । तस्मात् अनावृ- तस्वप्रकाशव्रह्मणः स्वाध्यस्तानेकशाखाभेदभिन्नवेदानां ज्ञानवत्
Page 31
३ सू. ७ वर्णकम् । १२१ तदर्थानामपि ज्ञानं नान्तरीयकतया Sस्तीति वर्णकार्थमुपसंहरति। वेदयोनित्वत इति॥ इति पष्ठं वर्णकं समाप्तम्।
इदानीं सूत्रस्यानेकार्थत्वं भूषणमिति मत्वा ब्रह्मणि प्रमाणप्रति- ज्ञामर्थान्तरमाह। यद्ेति- यद्वा ब्रह्मप्रमित्यर्थ शास्त्रयोनित्वमुच्यते। वेदैकमानकं ब्रह्म नानुमेयमिति स्थितिः । शास्त्रयोनित्वात्। किं ब्रह्म वेदान्तकवेद्यम् उत कार्यलिङ्गकानु- मानमिति, संदेहे जन्मादिसूत्रे कार्यलिङ्गमेवोपन्यस्तमिति भ्रान्ति निराचष्टे सूत्रकारः । शास्त्रयोनित्वादिति। वेदैकप्रमाणकत्वस्य तन्त्वोपनिषदमिति श्रुतत्वात् कार्यलिङ्गस्याद्वितीयब्रह्मसाधक- त्वायोगात्तत्र वेदान्ता एव मानमित्यर्थः । ननु पूर्व मायया जगद्यो- नित्वं ब्रह्मण उक्तम । तस्या: पूर्वमुक्ततत्वज्ञानेन निवृत्तत्वात् इदानीं द्वैतोपलम्भ: कथमिति चेतू। अत्र के चितू । बिम्बस्थानीयं ब्रह्म मायाशक्तिमत्कारणं जीवास्तु प्रत्येकं मायाभिन्नाभिरविद्या- भिरवच्छिन्ना इत्येकस्याविद्यानिवृत्तावप्यन्यस्य मायिकद्वैतोपल- म्भसम्भवादिति वदन्ति। अन्ये त्वविद्यानां समष्टिरेव माया जला- शयराशिवत् तस्य प्रतिबिम्बितं चैतन्यं ब्रह्म कारणं जीवास्तु व्यष्ट्या विद्योपाधिका इति वदन्तः पूर्वचत् बद्धमुक्तव्यवस्था- माहुः। अपरे तु जीवानां स्वरूपे ब्रह्मणि जीवस्थाविद्याभिर्विषयी- कृते प्रतिजीव भिन्ना एव प्रपञचा: कल्प्यन्ते शुक्ताविव प्रतिपुरुषं भि- न्नानि रजतानि सादृश्यादेकवदवभासन्ते इति व्यवस्थां कल्पय- न्ति। सिद्धान्तरहस्यज्ञास्तु मायवाविद्या चिन्निष्टा चिन्मात्रविषया चाचिन्त्यशक्तितया ब्रह्म जगद्ूपं भातीति वदन्ति। बद्धमुक्तव्यवस्था तु रवप्े तादृशव्यवस्थावदुपपद्यते। ननु श्रुतिस्मृतिपुराणेषु मूलप्र- कृतेर्मायाविद्यादिपद्वाच्याया एकत्वं प्रतीयते। सांख्या योगिनश्च प्रकृत्यैक्यं वदन्ति मुक्ता अपि बहवो जाता इति बहुशः श्रूयते बहवो ज्ञानतपसा पूता मन्भावमागता इत्यादी। न चैतेषां वाक्यानां सर्वा- त्मना वाधितार्थकत्वं सर्वतरानाश्वासप्रसङ्गात्। तस्मादीषदैक्यावि- रोधेन बद्धमुक्तव्यवस्था वाच्येति चेतू । यदि व्यवस्थायामाग्रहः
Page 32
१२६ विवरणोपन्यासे तर्हीत्थं व्यवस्था।तथा हि अविद्याया: सांशत्वं तावत्स्वैरेष्टव्यम । अन्यथा अनन्तपरिणामानामेकस्यामयोगात्। तथा च यदन्त:करणे ब्रह्मसाक्षात्कारोदयः तदीयकार्यकारणसंघातात्मना परिणताविद्यां- शस्य नाशेन सङ्गातस्य नाशे सति तदंशोपाधिको जीव: स्वरूपान- न्दव्रह्मात्मना Sवतिष्ठते। अवशिष्टाविद्योपाधिका जीवोंशान्तरः सं- सरतीति व्यवस्था।न च नानाविद्यापकादविशेष: मूलप्रकृतिभेदप्रप- ञचमेदादेरत्रासत्वात्। एवं क्रमेणांशनाशेनाविद्यानिवृत्त सर्वमुक्ति- रिति।न च तस्यैवांशान्तरेणानर्थभाक्त्ते का नाम मुक्तिरिति वाच्यम्। श्रवणादिकर्तुः स्वानर्थनिवृत्तिमात्रस्योद्देश्यस्य लाभातू अंशान्तरानर्थे दुःखबुद्ध्भावेन तन्निवृत्तेरनुद्देश्यत्वात्। कर्तुर्हितशासनात्मकशा- स्तस्य तावतैव चरितार्थत्वादित्यलं विस्तरेण। तदेतदाह। अज्ञा जीवा इति श्रोकद्वयेन- अज्ञा जीवा ब्रह्म मायि प्रतिबिम्बमथापि वा। अज्ञातजीवरूपं वा यद्ा ब्रह्मैव मायया। अविद्यया जगद्रूपमिति पक्षा उदाहताः । वद्धमुक्तव्यवस्था तु यथा दृष्ट्युपपद्यते॥ तस्मान्मायया ब्रह्म जगत्कारणं वेदान्तप्रमाणकमिति सिद्धम्॥। सप्तमवर्णकं तृतीयसूत्रञच समाप्रम् ॥
रामनाम्नि परे धाम्मि कृत्स्ान्नायसमन्वयः । कार्यतात्पर्यवाधेन साध्यते शुद्धबुद्धये॥ ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्कता वेदान्तप्रमाणकत्वं प्रतिज्ञातं तत्र सन्दिह्यते सिद्धं वस्तु वेदमानकं न वेति नेति पूर्व- पक्षमाह। वेदान्तेति- वेदान्तगम्य ब्रह्मेति प्रतिज्ञातन्न युज्यते। वेदस्य कार्यनिष्ठत्वात् सिद्धे प्रामाण्यबाधनात्।। वेदतात्पर्यश्ञेन जैमिनिना आम्नायस्य क्रियार्थत्वादित्यादिना का- र्यपरत्वं वेदस्य दर्शितं वेदमानकत्वव्यापकं कार्यत्वं तन्निवृत्त्या सिद्धस्वभावे ब्रह्मशि व्याप्यनिवृत्तिः । किञ्च यत् सिद्धं तद्वेदाति- रिक्तमानयोग्यमिति व्याप्तेर्वरह्म मानान्तरयोग्यम्। तत्परत्वे वेदान्ता- नां मानान्तरसापेक्षता स्यात्। यथा घटो Sस्तीति वाक्यस्य नापौरुषेय त्वादनपेक्षत्वमिति चेन्न। अपौरुषेयत्वं हि वाक्यस्य मूल-
Page 33
४ सू. ८ वर्णकम् । १२७ मानानपेक्षत्वे हेतुः न तु योग्ये वस्तुनि संवादानपेक्षत्वे। तथा च यदि वेदान्ता: सिद्धं वस्तु मानान्तरयोग्यं बोधयेयुः तदा संवा- दापेक्षा दुर्वारा। तन्न। सति संवादे तेषाभनुवादकत्वम् असंवादे त्वादित्ययूपाभेदवाक्यवदप्रासाण्यम किञ्चाध्ययनविधिगृहीतवेदा- न्तानां फलावसायित्वं वाच्यं फलन्तु प्रवृत्त्यधीन प्रवृत्तिः कार्य- ज्ञानतन्मात्रत उदासीनं ब्रह्म निष्फलत्वान्न वेदार्थ इति निरर्थका वेदान्ता: सफलजयस्वाध्यायार्थाः कर्मकर्तृस्तावका वा। ननु कस्य कर्मणः कर्तृस्तावका न हि कर्मविशेषस्य प्रकरणे वेदान्ता अधीताः । अथाविशेषात्सर्वकर्मकर्तृस्तावका इति चेन्न।वेदान्तेषु सर्वकर्मणाम् उ- पस्थापकप्रकरणाद्यभावेन तच्छ्ेषस्तुत्ययोगात्।जुह्वाः ऋत्वव्यभिचा- रित्वाक्रतूपस्थितौ सत्यां तच्छ्वंपपर्णताकार्यपरत्वं पर्णमयीवाक्यस्य युक्तं कर्तुः कर्ममात्रसाधारणत्वात् न वैदिककर्मोपस्थितिरिति न तत्कर्तुः स्तावकत्वमिति चेत्तर्हि स्वप्रकरणस्थोपासनाविधिशेषा भवन्तु वेदान्ताः । तथा चासदेव व्रह्म सर्वज्ञत्वादिमत्तया Sमृतत्व- काम उपासीतेति कार्यपरा वेदान्ता: इत्याह। सापेक्षत्वेति- सापेक्षत्वाफलत्वाभ्यां वेदान्ता स्युर्निरर्थकाः। कर्मकर्तृस्तावका वा यद्ा ध्यानैकगोचराः ॥ तदुत्तरत्वेन तत्तु समन्वयादिति सूत्रं व्याचष्टे वेदान्तेति- वेदान्तगम्यं तङ्गह्म तुशब्दश्चोद्यवारक: । तात्पर्यकत्वं हेत्वर्थः तल्लिङ्गं प्रकरमादिकम् ॥ ब्रह्म वेदान्तजप्रमागोचर: वेदान्ततात्पर्यविषयत्वात्। यो यद्वा- क्यतात्पर्यविषयः स तत्प्रमेयः। यथा चोदनागम्यो धर्मः तात्पर्य नाम अपूर्वफलवदर्थप्रमित्यनुकूलशक्तिरूप शब्दगतं न विवक्षात्मक वेद- स्यापीरुषेयत्वात्। न च हेत्वसिद्धिः। उपक्रमादिषड्डिघलिङ्गस्तत्सि - ख्वेः।न च प्रमेयस्य कार्यत्वमेवतात्पर्यलिङ्गं नोपक्रमादिकमिति युक्तम। जर्तिलयवाग्वा जुदुयादिति वाक्यस्यारण्यतिलयवागूहोमे तात्पर्यप्र- सङ्गात्। न चैतदस्ति प्रकृताज्यक्षीरहोमविधिशेषार्थवादत्वात्। अत उपक्रमादिकमेव लिङ्गं तञ्च वेदान्तानां ब्रह्मविषयकतात्पर्ये विद्यते। तथा हि सदेव सौम्येदमग्रआ्सीत् ऐतदात्म्यमिदं सर्वमित्यद्वितीये ब्रह्मण्युपक्रमोपसंहारयोरैकरूप्यं तत्सत्यं स आत्मेति नवकृत्वोभ्यासः तत्र मानान्तराप्राप्तत्वा(दपूर्वता। अथ संपत्स्ये इति फलं येनाश्रुतं (१) मानान्तरावाप्तत्वाहिति पाठान्तरम्।
Page 34
१२८ विवरणोपन्यासे श्रुतं भवतीत्यर्थवादः वाचारम्भणं विकारो मृत्तिकेत्येव सत्यमिति कारणाद्वयत्वे युक्तिरिति षड्डिधानि लिङ्गानि छ्वान्दोग्ये दृश्यन्ते। अथ प्रारब्धक्षयानन्तरं विद्वान् ब्रह्म केवलं संपद्यते इति श्रुत्यर्थः । एवं प्रतिवेदान्तं लिङ्गानि द्रष्व्यानीत्यर्थः । अधुना समन्वयादित्यत्र सो- पसर्गार्थमाह। सम्पदेनेति- सम्पदेन च तात्पर्य वेदान्तानामखण्डगम। द्योतितं सर्वशब्दानां तत्रैवावसितिर्यतः ॥ वेदानामन्वयस्य तात्पर्यस्य सम्यकृत्वमखण्डार्थगोचरत्वम अख- णडार्थकत्वं नाम अपर्यायशब्दानां संसर्गागोचरप्रमाजनकत्वम् एकप्रा- तिपदिकार्थमात्रनिष्ठत्वं वा। उद्भिदा यजेतेत्यत्रोन्धिद्यागशब्दयो- रेकार्थनिष्ठत्वे Sपि विधिपदाकाङ्गया संसृष्टवोधकत्वान्नाखण्डार्थता सत्यादिपदानान्तु विध्याकाङ्का नास्तीति वक्ष्यमाणत्वात् अखण्डार्थ- त्वमविकलम्। न चाखण्डार्थत्वे पर्यायतापत्तिः । वाच्यभेदातू। तथा हि आकृतिः शब्दार्थ इति मीमांसकाः। तथा च ज्ञानत्वानन्द- त्ववाचिनौ ज्ञानानन्दशब्दी वृत्त्युपहिते ब्रह्मण मुख्यवृत्त्या वर्तेते ज्ञानसामग्रीजन्यवृत्तिव्यक्तिष्वनुगतं चैतन्यं ज्ञानत्वमुभे कर्मजन्य- वृत्त्यनुगतमानन्दत्वमिति भेद: । तत्राकाशस्य श्रोत्रशब्दवाच्यत्वे सति कर्णाषष्कुल्याः प्रयोगोपाधित्वमात्रं न वाच्यमिति यथा तद्वत् वृत्तीनामुपाधित्वमिति ज्ञानानन्दशब्दौ ब्रह्मणि मुख्यावित्यक्तम् निरु- पाधिकन्तु न कश्चिदपि शब्दो मुख्यः यतो वाचो निवर्तते इति श्रतेः। एवमेकसत्यानन्त्यशब्दा: एकत्वादिवाचिन: एकत्वं भेदाभावः सत्यत्वं बाध्यत्वाभावः आनन्त्यं नाशाभावः अभावमात्रप्रतियोगित्वाभावो वा। अभाववाचिनः शब्दा ब्रह्मणि जहलक्तणया वर्तन्ते सर्वज्ञसर्वश- क्यादिशब्दाः यौगिकाः सोपाधिकब्रह्मवाचिनः तत्त्वमस्यादिशब्दाः विशिष्टवाचिन: जहदजहल्लक्षणया ब्रह्मणि पर्यवस्यन्तीत्यपर्यायत्वम्
महावाक्यं पदार्थवाक्यञ्च तयोः क्रमेणाखण्डार्थत्वे उदाहरणमाह। तत्वमिति- तत्वमस्यादिवाक्यञ्च सो Sयमित्यादियाक्यवत्। सत्यज्ञानादिवाक्यन्तु चन्द्रलक्षणावाक्यवत्। तत्त्वमस्यादिवाक्यम अखण्डार्थे अकार्यकारणद्रव्यसमानाधिक- रणवाक्यत्वात्। सो डयं देवदत्त इति वाक्यवत। तथा हि अस्य
Page 35
४ सू. ८ वर्णकम् । १२९ वाक्यस्य मूल प्रत्यभिज्ञा तस्या पक्यं प्रमेयं न च तत्तेदन्ताविशिष्टयो- रैक्यं सम्भवति। विशेषणविशिष्टयोरैक्यापातांत्। न च तत्तोपल्ति- तस्येन्दताविशिष्टेनैक्यं युक्तं विशिष्टस्य पूर्वमपि सत्वापातात्। तद- भिन्नदेवदत्तस्य पूर्व सत्त्वात् अतस्तत्तदन्तोपल्क्षितपिण्ड स्वरूपमैक्यं तस्या: प्रमंयमिति तन्मूलकवाक्यस्यापि तावन्मात्रं प्रमेयम्। यद्यपि तस्यां तत्तदन्ते अपि भासेते तथापि तयोर भिज्ञाद्वयसिद्धत्वेनाज्ञातत्वा- भावान्न प्रत्यभिज्ञाप्रमेयता। ननु पिण्डस्वरूपमपि अभिज्ञासिद्धमिति चेत्सत्यम । परन्तु ज्ञाते उपि तस्मिन् भेदभ्रमानुकूलमज्ानमस्तीति तन्निराकृतिफलाया: प्रत्यभिज्ञायाः भवति तत्प्रमेयं स्वनिवर्त्याज्ञान- विषयस्यैव तत्प्रमेयत्वात्। एतेन भागत्यागलक्षणया पदेनैव वा- क्यार्थज्ञानाद्वाक्यं व्यर्थमिति निरस्तम्। पदेन ज्ञाते ऽपि सो Sयमिति वाक्यं विना भेदभ्रमविरोधिज्ञानालाभात्। तम्मात्प्रत्यभिज्ञाप्रमे- यैक्यमात्रतात्पर्येण प्रयुक्तः सो Sयमिति वाक्यवत् तत्त्वमसीति- वाक्यं विरुद्धांशत्यागेन लक्षणया पदेनावगतमेवाखण्डं वस्तु भे- दभ्रमनिरासार्थ बोधयतीति सिद्धम। अत्र केचिदाहुः। इदं वाक्यं भेदाभेदपरम्। अत्यन्ताभेदे पदार्थवाक्यार्थयोरभेदालाभादिति। तै- रिदं वक्तव्यं किं मुक्ती भेदो नश्यति न वेति न चेत्संसारादवि- शंषः। आद्ये नाशकं न पश्यामः । वाक्यजन्यभेदाभेदज्ञानस्य स्व- विषयनाशकत्वायोगात्। अन्यथा भेदवदभेदस्यापि नाशप्रसङ्गात् न चाभेदमात्रज्ञानं नाशकम् । तस्य वाक्याजन्यत्वेनाप्रमाणत्वात्। तस्य नाशकत्वे तद्विषयाभेदमात्रस्यैव वाक्यार्थत्वापातात् । भे- दस्य सत्यत्वे ज्ञानान्निवृत्त्ययोगात्। कर्मणा भेदनाशाङ्गीकारे ब्रह्म वेद च्रह्मैव भवतीति ज्ञाननाश्यत्वश्चतिविरोधातू।किश्च.निरवयवे वस्तुन्य- वचछ्दकभेदस्याभावात् कर्थ विरुद्धी भेदाभेदौ स्याताम। किश्च मुक्ती परिशिष्यमाणब्रह्मण पवाधुना संसारो वाच्य:तद्भ्िन्रस्य संसारित्वे वन्धमुक्तिवैयधिकरण्यापत्तेः तथा च क्व भेदाभेदी। एतेनातिरेको नाम कश्चिद्वर्मः स वाक्यार्थ इति निरस्तं तस्य भेदादन्यस्य दु- र्निरूपत्वात् भेदस्य निरस्तत्वात्। तस्मादत्यन्ताभेद एव वाक्यार्थः पदार्थवाक्यार्थयोरभेदे पि भेदभ्रमनिरासेन वाक्यस्यार्थवत्वादित्यलं प्रपश्चेन। तथा च तत्पदार्थलक्षकं सत्यादिवाक्यमखण्डार्थ लक्षण- वाक्यत्वात्। लक्ष्यमात्रप्रश्नोत्तरत्वाद्वा प्रकृष्टप्रकाशश्चन्द्र इति वा- क्यवत् न च दष्टान्तासिद्धि: कश्चन्द्र इति प्रश्नस्य चन्द्रस्वरूपा- १७
Page 36
१३० विवरणोपन्यासे ज्ञानमूलत्वे तदुत्तरवाक्ये तत्स्वरूपमात्रस्य लक्षणप्रतिपाद्यत्वात् ता त्पर्यानुपपत्तेरेव लक्षणाबीजत्वात्। न चाप्रयोजकता। एकधैवानु- द्रष्टव्यम नेह नाना उस्तीत्यादिश्रुतिविरोधात् ब्रह्मभिन्नस्य सर्वस्य मिथ्यात्वेन श्रुतिजन्यतत्त्वज्ञानविषयत्वायोगात्। तस्माद्वदान्तानाम- खण्डे तात्पर्यमित्यर्थः । यदुक्तं भूतवस्तुनो मानान्तरयोग्यत्वात् तत्परत्वे वेदान्तानां सापेक्षत्वं स्यादिति तत्राह रूपादीति -- रूपादिविरहाद्गह्म न मानान्तरगोचरः । अतो भूतार्थको वेदो न सापेक्ष इतीरितम ॥ श्रयमाशयः । किं ब्रह्मणो योग्यत्वे सति अनुपलब्ध्या बाघाद्वे- दान्तानामप्रामाण्यम उत मानान्तरं ज्ञातार्थकत्वात्। अथ वा माना- न्तरयोग्यार्थकत्वात्। नादः। रूपादिहीनस्य स्वतन्त्रस्य वस्तुनः प्रत्यक्षाद्योग्यत्वात्। अती रूपे मानान्तरसंवादाभावे Sपि चक्षुष इवानधिगतार्थबोधित्वाद्वेदान्तानां प्रामाण्यं युक्तम्।नद्वितीयः।हेत्व- सिद्धः। न च वेदान्ता मानान्तरज्ञातार्थकाः भूतार्थकवाक्यत्वात् नदीतीरादिवाक्यवदिति वाच्यम्। अप्रयोजकत्वान्मानान्तरस्यानु- पलब्ध्या बाधाच्च। किश्च विधिवाक्यं तथा कार्यार्थकत्वाद्गामानये- त्यादिवाक्यवदित्याभाससाम्याच्च। तस्मादपीरुषेयत्वाद्वििवाक्य- वद्वेदान्तानां न मानान्तरक्षातार्थकता पौरुषेयत्वस्यैव वाक्ये ज्ञाता- थहे तुत्वात्। ब्रह्मस्वरूपज्ञानस्य तु प्रमेयत्वान्न मानान्तरत्वम्। न तृ- तीय: तथात्वे Sपि त्वगिन्द्रिययोग्ये घटे चक्षुष इव प्रामाण्योपपत्तेः ब्रह्मणो मानान्तरयोग्यत्वासिद्धेश्च। भूतत्वेन घटवत् ब्रह्म योग्यमिति चेतू। कार्यत्वेनानयनवत् विध्यर्थो योग्यः किंन स्यादिति तुल्यम। विधिवद्वेदान्तानामनपेक्षत्वमित्यर्थः । ननु लोके मानान्तरसिद्ध एव शब्दार्थो हृष्टः ब्रह्मणो मानान्तरासिद्धत्वे कथं शब्दार्थतेति चेतु किं सङ्गतिग्रहार्थ मानान्तरेण सिद्धिरपेक्ष्यते उत मानान्तरवििष्टार्थे स- ङतिरिति। आद्यस्त्विष्टः।सत्यज्ञानादिपदानामबाधित्वादी लोकसि- द्वे सङ्गतिग्रहात्। किश्च पदार्थस्योपस्थितिमात्रं सङ्गतिग्रहोपयोगि न प्रमाणन्तरेण सिद्धि: यूपाहवनीयलिडादिपदानां वेदे एव सङगति- ग्रहात्। न द्वितीयः । गौरवादनुपस्थितत्वाच्च। तथा हि व्युत्पित्सु- र्मध्यमनरस्य प्रवृत्तिलिङ्गेन स्वात्मदृष्टान्तेन प्रवृत्तिविषयार्थमात्रज्ञान- मनुमिनोति न प्रमाणविशिष्टार्थज्ञानं दष्टान्ताभावातू।न हि स्वस्य प्रवृत्तो प्रमाणविशिष्टभोजनज्ञांन हेतुत्वेन दृष्ट भोजनमात्रज्ञाना-
Page 37
४ सू. ८ वर्णकम् । १३१ त्स्वस्य प्रवृत्तेः अतो Sनुमितार्थमात्रज्ञाने शब्दस्य सामर्थ्यावगमाद- र्थमात्रं पदशक्यं न प्रमाणान्तरसंभिन्नो र्थः शक्य: मध्यमनरेण ज्षा- तार्थे वस्तुतो विद्यमानस्यापि वक्तप्रमाणस्य प्रवृत्तिलिङ्गेनानुपस्थि- तत्वात्। अत्र कश्चिदाह। अर्थासंस्पर्शिनः सर्वेSपि शब्दा अङ्गल्यग्रा- दिशब्दवदिति। स प्रष्टव्यः किं शक्यार्थाभावः साध्य उत पदार्थसं- सर्गरूपवाक्यार्थाभाव इति।आद्येदष्टान्तासङ्गतिः।द्वितीयपच्े प्राभा- करा: समादधते। पुरुषवचसां न पदार्थसंसर्ग: प्रमेयः किन्तु वक्तृ- ज्ञानमेव प्रमेयं तत्र निर्विषयस्य ज्ञानस्य वाक्येन प्रमातुमशक्यत्वा- द्वाक्यप्रमेयस्य वक्तज्ञानस्य विषयतया पदार्थसंसर्गसिद्धिः।अङु- ल्यंग्र करिणां शतमित्यादिवाक्यानामपि मूलंयत्किश्चिज्ज्ञानं प्रमेयम- स्तीति सार्थका: सर्वे शब्दाः।तत्समाधानमयुक्तम्। पूर्वोक्तरीत्या वकृ- ज्ञानस्य पदार्थत्वाभावेन वाक्यार्थत्वायोगात्। अपि च अनन्यलक्ष्यः शब्दार्थ: वक्तृज्ञानं तु अनुमानलभ्यत्वान्न वाक्यप्रमेयम्।तथा हि अय- मेतदर्थज्ञानवान् एतद्वाक्यस्य स्वातन्त्रयेण प्रयोक्तृत्वात् यो यद्वाक्य- प्रयोक्ता स तदर्थज्ञानवान् यथाहमिति । किञ्च वैदिकवाक्यवत् लौकिकवाक्यस्य संसर्ग एव प्रमेय: उभयत्र संसर्गो Sनुभवाविशेषा- त्। किञच संसर्गज्ञानं विना वाक्येन वक्ता संसर्गज्ञानवानिति प्रमा- तुमशक्यम् अतो लाघवादावश्यकत्वाच्च संसर्ग एव सखण्डवाक्यानां प्रमेय: न वक्तसंसर्गज्ञानम्। यत्तु सर्ववाक्यानां अङ्गुल्यादिवाक्यवत् प्रमेयास्पर्शित्वमिति तन्न। शुक्तिरूप्यज्ञानवत् सर्वज्ञानानां भ्रान्ति- त्वापातात्। तस्मादसति बाधे वाक्यानां सप्रमेयतेत्यभिसन्धायाह। वक्तृमानमिति। वकृमानं न शब्दार्थो व्युत्पत्तावनुपस्थितः । अत एव न वाक्यार्थो उप्यन्यलभ्यत्वतो Sपि च॥ एवं वेदानामपीरुषेयतया मूलप्रमाणानपेक्षणात् मानान्तरायो- ग्यरूपादिहीनब्रह्मपरतया संवादानपेक्षणाल्लोके वक्तज्ञानासम्भिन्ने सिद्धं वस्तुनि गृहीतसङ्गतिकानां सत्यादिपदानां विचारेण वाचकपदै- र्वाच्यैकदेशत्वेनोपस्थितम् अखण्डवस्तु लक्षकत्वेन सङ्गतिग्रहाय लभ्योपस्थितये वा मानान्तरानपेक्षणात्। सिद्धवस्तुपरत्वे उपयनपे- क्षत्वमक्षतमित्युक्तम्। अत्र शङ्कते। अनपेक्षश्रुतिजन्यो Sप्यद्वयबोधो व्वैतग्राहिप्रत्यक्षविसंवादादप्रमाणं समताग्राहि त्वगिन्द्रियविसंवादे चाक्षुपचिन्ननिम्नोन्नतज्षानवदिति तत्राह। करणे इति।
Page 38
१३२ विवरणोपन्यासे करणे विषये वा Sपि दोषो नास्ति यतस्ततः । वेदान्तजो ब्रह्मबोधः प्रमाणं विधिवोधवत्।। प्रत्यक्षे क चिद् भ्रान्तिदर्शनन दोषस्य सम्भावितत्वादिन्द्रो मायाभि: पूरुरूप ईयते इति द्वैतज्ञाने मायादोषजन्यत्वनिश्चयाञ्च द्वैतावभासो विभ्रम:अद्वैतज्ञानं प्रमा अपौरुषेयनिर्दोषश्रुतिजन्यत्वात्। न च विषये चित्रत्ववत्सिद्धत्वमपि दोष इति वाच्यम् । लोके सि- सवस्तुज्ञानानां सर्वेषां तव भ्रान्तित्वापत्तेः । शाब्दवोधे विषयस्या- हेतुतया तन्निष्ठदोषस्याहेतुत्वात्।अतोवाधाभावात्तत्वावेद कश्रुतीनां व्यावहारिकमानानां भिन्नविषयत्वाञ्च सिद्धे वेदान्तप्रामाण्यं रमगी- यमित्यर्थः । यदुक्तमाम्नायस्य क्रियार्थत्वादिति सूत्रात्सिद्धेन वेदार्थ- तेति तत्राहाज्ञात इति- अज्ञातः फलवानर्थो येन वाक्येन मीयते। तस्यैव तत्र मेयत्वात् कुतः कार्यैकमेयता॥ वेदस्यति शेष: । आम्नायशव्दितविधिवाक्यस्य मानत्वं किं कार्यार्थकत्वेन उत फलवदज्ञातार्थकत्वेन आद्ये पि कार्यार्थकत्वं कि कार्यबोधकत्वं कार्यपरत्वम्।उभयथापि तत्प्ामाण्यस्य व्याप्यं व्यापक वा।नादः पतनतात्पर्येणानाप्तोक्ते कूपे पतेदिति वाक्ये स्वार्थाप्रमाणे जर्तिलयवागूहोमवाक्ये च व्यभिचारात्। न द्वितीय: रूपादिप्रमाणं चक्षुरादौ व्यभिचारात्। शब्दप्रामाण्यं व्याप्यमिति चेन्न । पुत्रज- न्मवाक्ये व्यभिचारात्। वेदप्रामाण्यं व्याप्यमिति चेन्न। तथा व्या- प्ेरदष्टेः। विधिवाक्ये व्याप्तिर्दप्टेति चेन्न। सन्दिग्धत्वात्। विधिमान- त्वं क्रियार्थत्वप्रयुक्तम अज्ञातार्थप्रयुक्तत्वं वेत्यनिश्चयात्।अक्रियार्था- नामप्रामाण्यातू क्रियार्थकत्वस्य प्रयोजकत्वनिश्चय इति चेन्न इतरे- तराश्रयात्। क्रियार्थत्वस्य विधौ प्रामाण्यव्यापकत्वे निश्चिते तद- भावादक्रियार्थानामप्रामाण्यनिश्चयः तन्निश्चये तन्निश्चय इति आ- सायपदस्य कृत्स्वेदपरत्वे क्रियार्थत्वादिति हेत्वसिद्धिः । एतेन वेदार्थत्वव्यापककार्यमिति निरस्तम। अनुकूलतर्काभावेन व्याप्त्य- सिद्धेः। तस्मादध्ययनविध्युपात्तवेदराशे: फलवदज्ञातार्थत्वेन प्रामा- ण्यमर्थे Sनुपलब्धे तत्प्रमाणमिति वदतो जैमिने: संमतम्। अतदर्थत्वे- नार्थवादानामप्रामाण्यमाशड विध्येकवाक्यत्वोत्तया स्वार्थे निष्फ- लानों फलवदज्ञातकियापरत्वेन प्रामाण्यं दर्शितमित्यनवद्यम। यदुक्तं
Page 39
४ मू. ८ वर्णकम् । १३३ सिद्धवस्तुज्ञानात्फलं नास्ति तस्य कार्यबोधाधीनप्रयत्नसाध्यत्वा- दिति तत्राह। ब्रह्मज्ञानादिति- ब्रह्मक्षानात्परानन्दः सर्वानर्थहुतिस्ततः । अज्ञातं फलवद्रह्म सिद्धं वेदान्तमानकम् ॥ सर्वो हि लोक: सुखं मे स्यादुःखं माभूदिति वाञ्छति । न तु फलस्य प्रयत्नायाससाध्यत्वं यद्यप्राप्तं स्वर्गादि प्रेप्सति परिहर्तव्यं वा रोगादिदुःखं परिजिहीर्षति तदा तत्साधनप्रयत्ना- यासमङ्गीकरोति। यदा तु प्राप्तमेव कण्ठगतमणिवदज्ञानात्प्रेप्सति । रज्जुसर्पवद्धतमेव जिहासति तदा तत्त्वज्ञानमेवान्यानपेक्षं साधनमि- ति तज्जनका वेदान्ता: कर्मवाक्येक्य उत्कृप्टफला: साधनायासफला
णि वेदान्ता: प्रमाणमिति सिद्धम् ॥ इत्यष्टमवर्णकं समाप्तम् ॥
एवं पदानां योग्येतरान्विते शक्तिमिच्छ्वतां लौकिकवाक्यानां भूता- र्थे मानत्वे Sपपि वेदान्तैर्व्रह्मसिद्धिर्नास्तीति वदतां मत निरस्तमिदानी कार्यान्विते शक्तिवादिनां कार्यमेव लोके वेदे च वाक्यं प्रमेयं तच्छे- पत्वेन सिद्धार्थत्वादिति वदतां मतम् उत्थापयति- अपरे प्रत्यवतिष्ठन्ते (१) वेदान्तैर्व्रह्म सिध्यताम। खप्राधान्यं विधेरेव तच्छेषे ब्रह्म गीयते।। वेदान्ता: कार्यशेषत्वेन ब्रह्म बोधयन्ति उतानन्यशेषत्वेनेति सन्देहे शेषत्वनेति प्राप्तम्। तथा हि लोके व्युत्पित्सुर्मध्यमवृद्धस्य प्रवृत्तिलि- ङ्रेन तद्धेतुज्ञानमनुमायानुमितज्ञानस्य विषये प्रवर्तकज्षानहेतूनां पदानां सामान्येन सामर्थ्य गृह्णाति तत्र प्रवर्तकं कार्यमेव कार्य- मिति ज्ञानात्स्वस्य स्नानपानादिप्रवृत्तिदर्शनात्। इष्टसाधनताज्ञानं न प्रवृत्तिहतु: कार्यताज्ञानहेतुत्वेनान्यथासिद्धत्वात्। एवञ्च प्रवर्त- कज्ञानविपया: कार्यसंसृष्टा अर्थाः पदशक्या इति संमुग्धव्युप्तत्त्यन- न्तरमावापोद्वापाभ्यां गोपदं कार्यान्वितगवि शक्तमिति विषयगत- शक्तिग्रहो भवति शक्यतावच्छेदकन्तु सर्वपदानां कार्यान्वयाश्रयत्वं तच्च कार्ये उव्यस्तीति तदवच्छेदेनैवानयनलिङ्गादिकार्यवाचिपदानां सङ्गतिसिद्धि:एवं सङ्गतिग्रहानुसारात्कार्यान्वितार्था एव सर्वत्र वाक्य (१) वैदान्तैव्रह्म वाञ्छतामिति पाठान्तरम्।
Page 40
१३४ विवरणोपन्यासे जन्यज्ञानविषयाः तत्र भूत भव्यायेति न्यायात् कायस्य प्राधान्येन प्रमेयत्वम् अन्येषां तच्छेषत्वेनेति स्थितिर्न कार्यसंस्पर्श विना क्व चि- दपि शब्दार्थो Sस्ति केवलभूतार्थे सङ्गत्यग्रहादिति। अपि च वेदान्तानां सिद्धवस्तुबोधने फलाभावात्कार्यपरत्वं वाच्यम्। कार्यज्ञानाधीन- प्रवृत्त्यादिसाध्यत्वात् फलस्य।यद्यपि लोके कण्ठगतविस्मृतमण्यादि- इनिमात्राल्लभ्यते तथापि ब्रह्माहमिति ज्ञाने Sपि यथापूर्वे संसारोपल- म्भात्कार्याधीनमेव निःश्रेयसमित्यवगम्यते। मननादिविधानाञ्च। यदि महावाक्यजज्ञानादेव मुक्तिस्तदा मननादिविधिर्नस्यादस्ति च वि- धिस्ततो वाक्यजज्ञानानन्तरं कार्यमस्त्येव।अस्तु साक्षातकारार्यमिति चेन्न। अतीन्द्रिये साक्षात्कारासम्भवाच्छ्वदस्य परोक्षवृत्तित्वात्तस्मा- त्सो ऽन्वेष्टव्य इत्यादिना मोक्षायात्मप्रतिपत्ति: कर्तव्येत्युक्ते को Sसा- वात्मत्याकाङ्कायां तच्छ्ेषतया सत्यादिवाक्यैरात्मा ब्रह्मरूप: प्रति- पादते इत्याह -- सिद्धे व्युत्पत्तिविरहात्तज्ज्ञानस्याफलत्वतः । मननादिविधानाच्च वेदान्ता: कार्यतत्पराः ॥ इति। एवं ब्रह्मनियोगौ शेषशेषिभावेन वेदान्ताप्रतिपादौ इति प्राप्ते नियोगासिद्धिं तावदाह- अत्रोच्यते नियोगस्य विषयः सप्रयोजनः । . न दृश्यते Sतो वेदान्तैर्नियोगो नैव सिध्यति। न तावच्छाव्दज्ञाने नियोगः । व्युत्पन्नस्य शब्दादेव तत्सिद्धेः । ननु शब्दात्परोक्षानुभवे जाते स्मृतिसन्तानो विधेय इति चेन्न । फलाभावात्। न तावददए्टं फलं मुक्तेरदष्टसाध्यत्वे स्वर्गवत्तारत- म्यानित्यत्वादिप्रसङ्गात्। न चादष्टान्मुक्तिहेतुः स्मृतब्रह्मसाक्षात्कार इति युक्तं प्रमाणफलस्य केवलादष्टफलत्वायोगात्। न चाहएं सा- क्षात्कारहेतोः प्रमाणस्य सहकारीति वाच्यम । अतीन्द्रिये ब्रह्मणि साक्षात्कारहेतोः प्रमाणस्याभावात् कार्यपराच्छन्दाङ्गह्मण्यपरोचज्षा- नस्यासम्भवात्वया Sनङ्गीकाराश्च। अङ्गीकारे शब्दादेव तत्सिद्धे- रदष्टवैयर्थ्यात् । अस्तु तर्हि स्मृतिसन्तानस्य साक्षात्कारो हषं फलमिति चेन्नासम्भवात्। न हि परोक्षज्ञानावृत्तेरपरोक्षज्ञानं फलं सम्भवति । अनुमित्या वृत्त्या उनुमेयापरोक्षादर्शनादावृत्ते- रप्रमासत्वाच्च। अत एव ध्याने नियोग इति निरस्तम् । उक्तरीत्या फलासम्भवात्। ननु स्मृतिसन्तानध्यानयोः को भेद
Page 41
४ सू. ९ वर्णकम् । १३५ इति चेत् उच्यते। स्वार्थे प्रमाणजन्या वस्तुनिष्ठा स्मृतिर्ध्यानं तु मनो- मात्रायत्तं वस्त्वनपेक्षम इति भेद:। ननु ध्यानात् ध्येयस्य नष्टपुत्रादेः साक्षात्कारो हष्ट इति चेन्न तद्वदेव ब्रह्मसाक्षात्कारस्य ध्यानजस्य भ्रान्तित्वापातात्। अप्रमाणजन्यत्वाञ्च ।न च ब्रह्मण शब्दप्रमाण- सम्भवात्तस्य प्रमाशात्वं ज्ेयं स्वतस्त्वभङ्गापातादतः सफलस्य वि- षयस्याभावान्नास्ति वेदान्तैर्नियोगप्रमितिरित्यर्थः । किञच शब्दसं- वादात्साक्षात्कारस्य प्रमात्वे तत्करणस्य ध्यानस्य प्रमाणान्तरत्वा- पत्तिः क्लृप्तप्रमाणानन्तर्भावात्।किञचात्र संवादोऽप्यसिद्ध: शब्दस्य कार्यपरत्वादित्याह- वाक्यस्य विधिनिष्ठत्वे ब्रह्माद्वैतं न सिध्यति। विरोधे Sन्यपराद्वाक्यादन्यसिद्धेरसम्भवात्॥ इति। ननु देवताविग्रहादिवत्सत्यादिवाक्यैरवान्तरतात्पर्येणाद्वैतं ब्रक्म सिध्यताति चेन्न। द्वैतग्राहिप्रत्यक्षादिविरोधादसति हि विरोधे दैवताविग्रहन्यायः । न चोपासनाविधेरुपास्यब्रह्मसत्त्वमन्तरेणानु- पपत्तिः । योषाग्निदृष्टिवदुपपत्तेः । न च विधी सावकाशैर्वेदान्तैः प्रत्यक्षादिवाधो युक्त: सिद्धान्ते तूपक्रमादिना व्रह्माद्वैतमेव वेदान्तार्थ इत्यनवकाशत्वाद्वेदान्तानां प्रत्यक्षादिभ्यः प्रावल्यं ब्रह्मसाच्षात्कार- प्रतिबन्धनिरासार्थमवान्तरतात्पर्येण श्रवणादिविधानं चेत्यनवद्यम्। यत्तु कैश्चिदुक्तम । शमाद्ङ्गको ध्यानकरणकः साक्षात्कार एव मुक्तये विधेय इति तन्मन्दम्।ध्यानादसतो Sपिनष्टपुत्रवत्साक्षात्कारसम्भवे- न ब्रह्मासिद्धिप्रसङ्गातू।न च वेदान्तानां ब्रह्मविशिष्टसाक्षात्कारविधी तात्पर्याद्विशेषणत्वेन ब्रह्मसिद्धिरिति वाच्यम । लाघवाद्गह्मण्येव तात्पर्यापातातू।न च विधिस्पर्श विना वाक्यस्य प्रामाण्यायोगाद्गौरवं न दोप इति वाच्यम। अज्ञातज्ञापनेन लौकिकवाक्यादिवत्प्रामाण्य- स्योक्तत्वाद्वक्ष्यमाणत्वाच्च। न च लौकिकप्रमाणानामज्ञातज्ञापनेन प्रा- माण्यम् वेदस्य तुविधिपरत्वनवेति वैषम्यं युक्तम्। साम्यसंभवात्। तदुक्तम्। गुणाद्वा उप्यभिधानं स्यात्सम्बन्धाच्छास्त्रहेतुत्वादिति। आदित्यो यूप इत्यादिशब्दानां लोके गृहीतसङ्गत्या बोधकत्वासंभवे सति वेदे किं पृथक् पुरुषैः संबन्धकल्पनाद्वरं लौकिकसंबन्धानुसरण- मित्याह। गुणाद्वा पीति। पौरुषसम्बन्धस्य शास्त्रार्थनिर्णयाहेतुत्वात् लौकिक सम्बन्धानुसारेगा गौण्यादिवृत्त्या बोधकत्वं स्यादित्यर्थः।तथा च लोकवेदयोः सम्बन्धात्प्रामाण्यस्याप्येकरूपत्वं युक्तम। तस्माद्विधे-
Page 42
१२६ विवरणोपन्यासे याभावात् ब्रह्मासिद्धिप्रसङ्गाञ्च न विधिपरा वेदान्ता इति स्थितम। किश्च को Sसौ विधिशब्दितो लिङद्यर्थो नियोगः। न तावद्वक्तुरभि- प्रायः। अपौरुषेये वेदे तदसंभवात्। नापि कार्य कूपपतनादी कार्य- ताज्ञाने ऽप्यप्रवृत्तेः । न चालौकिकं कृतियोग्यं वस्तु नियोग इति वाच्यम्। लोके प्रवर्तकज्ञानविषयत्वेनावगतावलीकिकत्वायोगात्। अनवगती विध्यर्थत्वायोगात्। यज्जञानालोके प्रवृत्तिस्तस्यैव विध्य- र्थत्वात्। ननु कर्तुमिच्छाविषयतायोग्यं कार्यमिति कूपपतनादौ नातिप्रसङ्ग इति चेत्सत्यं तथाऽपि क्रियातत्फलाभ्यां भिन्नं त्वदभिमतं कार्य न सिध्यति तथाहि सुखदुःखाभावरूपात् फलाद्भिन्नस्येचछा- योग्यत्वं फलसाधनत्वमेव तथा च कर्तुमिच्छायोग्यताज्षानात्प्रवृत्ति- रिति वदता कृतिसाध्यत्वे सति श्रेयःसाधनताज्ञानं प्रवर्तकमित्युक्तं भवति। तथा चास्मदिष्टासिद्धिः । यत्तु श्रेयःसाधनत्वज्ञानं कार्य- ताज्ञानहेतुत्वेनान्यथासिद्धमिति तन्न सुधांशूदये व्यभिचारेण तस्य तदहेतुत्वात्। पतेन कार्यत्वविशिष्टश्रेय:साधनत्वज्ञानस्य प्रवर्तकत्वे विश्विष्टस्य विध्यर्थत्वाद्गौरवमतो लाघवात्कार्यमेव विध्यर्थः । तज्ज्ञानस्य प्रवर्तकतावच्छेदकश्रेयःसाधनताज्ञानजन्यकार्यज्ञानत्व- मिति नातिप्रसङ्ग इति निरस्तम्। अवच्छ्वेदकगौरवाच्च। कार्याख्यप- दार्थान्तरकल्पनागौरवादग्निहोत्रादिप्रवर्तके नियोगज्ञाने उक्तावच्छे- दकालाभाञ्च।नियोगाधीनो विनियोग इति हि कार्यवादिनां सिद्धान्तः। नियोगज्ञानात्तद्विपये धात्वर्थे श्रेयःसाधनत्वज्ञानं भवतीत्यर्थः । यत्तु वलवदनिष्टाननुबन्धित्वज्ञानाभावे कार्यज्ञानमेव प्रवर्तकमिति तन्न । प्रयोजनमनुद्दिश्य न मन्दो Sपि प्रवर्त्तते इति प्रसिद्धे: काकदन्तपरी- क्षावदप्रसङ्गाच्च। तस्माद्वालानामशाब्दभोजनादिप्रवृत्ती विशिष्टज्ञा- नमेव प्रवर्त्तकमिति विशिष्टे लिङ: शक्तिः । यद्वा कृतिसम्बन्धस्य क्रियायामाख्यातलभ्यत्वाच्छ्रेय:साधनत्वमात्रे शक्तिः। अस्तु तर्हि श्रे- यःसाधनविधिपरा वेदान्ता इति चेन्न।ज्ञातस्य तत्त्वस्य तत्त्वज्ञानस्य वा तदज्ञाननिवृत्तिसाधनत्वस्य लोकसिद्धत्वादतो वेदान्तानां प्रमे- यान्तराभावाद्गह्मैव प्रमेयमित्याह। धात्वर्थव्यतिरेकेण कार्य नाम न दृश्यते। श्रेयोहेतुर्लिरङ्थो Sतो वेदान्ता ब्रह्मगोचराः॥ अत्राह भेदवादी। विधिपराद्वाक्यादद्वैतं न सिध्यतु भिन्नं ब्रह्म सिध्यत्येव। अथ यदतः परो दिवो ज्योतिर्दीप्यते इत्यादिश्रुत्या
Page 43
४ सू. ९ वर्णकम् । १३७ जीवप्रपञचाश्यो भिन्नस्य ब्रह्मण: ध्रुतत्वात्तत्र द्वैतभानाविरोधात्। तद्रह्माहमिति सम्पन्ुपासनया मोक्षः सेत्स्यति न च कृतकत्वेन मोक्षस्यानित्यत्वानुमानं युक्त न स पुनरावर्तते इत्यादिश्रुतिबाधा- दिति। तत्राह- मोक्षस्य कर्मसाध्यत्वे स्वर्गादिचदनित्यता। तारतम्यञच तस्मान्न ब्रह्मएः कार्यशेपता ॥ अर्यं भावः ब्रह्म वेद व्रह्मैव भवति अथायमशरीरो Sमृतः विमु- क्तश्च विमुच्यते ब्रहौव सन्व्रह्माप्येतीति श्रुतिरशरीर्रह्मभावरूपो मोक्षो नित्यसिद्ध उच्यते स कथमुपासनाख्यकर्मसाध्यः स्यान्न हि सिद्धं कर्मणा कर्तु शक्य यदि कर्मफलं मोक्ष:तर्हि स्वर्गादिवत्सादिः शरीरेन्द्रियादिमता भोग्य: सातिशयः क्षयिष्णुश्च स्यात्। ननु कर्म- णां पशुपुत्रादिविचित्रफलकत्वं दृष्टमित्युपासनाया अशरीरब्रह्मभावो ध्रुवं फलं सम्भवतीति चेन्न। अशरीरं शरीरप्वित्यादिश्रुतावशरीर- त्वस्य स्वाभाविकत्वावगमात् युक्ेश्च। न तावतू शरीरेणात्मनः सं. योग: निरवयवत्वादसङ्ग इति श्रुतेश्च। समवायो नास्ति न सम्भव- ति च नापि तादात्म्यं सत्यं युक्तम् । जडाजडयोस्तदयोगात् । तस्माद्धान्तिसिद्धं तादात्म्यं सम्बन्ध इत्यशरीरत्वं स्वतःसिद्धं न कर्मायत्तं न चानादिसिद्धस्य नित्यस्यापि सांख्यानां सत्वादि- गुणवत्परिणामिनित्यतया मुक्तिपरिणासवत्वेन कर्मसाध्यता स्यादिति वाच्यम्। परिणामिनो नित्यत्वायोगात्। ब्रह्मणः कूटस्थ- त्वश्रुतेश्च। तस्मादुपासनाया: सर्वेधु उपासकेषु जीवनादनियमेनै- करूपत्वायोगात् । स्व्रभिष्ने ब्रह्मणि उपासनाजन्यसाक्षात्कारस्य भ्रान्तित्वेन मुच्त्यहेतुत्वात्। उपासनया केशक्षये सत्येकाग्रे चेतसि उदिततत्वज्ञानमेवैकरूपं मूलाविद्यानिरासादुपचारेए ब्रह्मभावसा- धनमित्यनन्यशेषब्रह्मपरा वेदान्ता इति। यत्तु श्रुतिवलात्कृतकस्यापि नित्यत्वमिति तनन। यत्कृतकं तदनित्यमिति न्यायसहितया तद्यथेहे- त्यादिश्ुत्या विरोधात्। ननु न स पुन रावर्तते इति श्रुतिर्मोक्षरूप- कार्यस्य नित्यत्ववादिना विशेषविषयत्वाद्वलवतीति चेननेत्याह। वर्तमानापदेशत्वादिहेममिति चोक्तितः । अनावृत्तिश्रुतिः क्षीणा न कार्ये नित्यतां वदेतू ॥ इति। उपासकस्य मोक्षो व्रह्मलोकप्राप्ती उपास्यव्रह्मसारूप्याविरूप- स्तस्य नित्यत्वेने्यं श्रुतिर्मानं ब्रह्मलोकमभिसंपद्यते न स पुनरावर्तते
Page 44
१३८ विवरणोपन्यासे इति लोकप्राप्तिकाले पुनरावृत्तेरप्रसक्तत्वेन निषेधायोगात् ननु न स पुनरावर्तिष्यते इति कल्प्यते इति चेन्न।न्यायसहितोक्तश्रुतिवि- रोधकल्पना ह्यविरोधमपेक्षते अतो उर्थवादमात्रमेतत्।किश्च ये उपा- सका ब्रह्मलोकं गतास्तेषामिह न पुनरावृत्ति: इमं मानवमावर्त ना- वर्तन्ते इति श्रुताविहेममितिपदाभ्या यांस्मन्कल्पे ब्रह्मलोकगतिस्त- त्कल्पवाचिभ्यामनावृत्तर्विशेषितत्वादर्थादुत्तरकल्पे तेषामावृत्ति: प्र- तीयते। आत्यन्तिकानावृत्त विशेषणवैयर्थ्यात्। तस्मादनावृत्तिश्रुते-
त्यत्वं दुर्वारमित्यर्थः । अपि च ब्रह्म वेद ब्रह्मैव भवति तद्धैतत्पश्य- नृषिर्वामदेवः प्रतिपेदे इत्याद्यनेकश्रुतिपु ब्रह्मविद्यासमकालं फलं श्रूयते तदस्मत्पक्षे युक्तं साक्षात्काराविद्यानिवृ्त्त्योर्मध्ये व्यवधाना- भावात्वत्पक्षे तूपासनाफलयोर्मध्ये कार्यस्यापूर्वस्य कालान्तरभा- विफलहेतोः सत्वात्पश्यन् प्रतिपेदे इति मध्ये कार्यनिषेधो न युक्तः। अपि च तरति शोकमात्मविदिति ब्रह्मात्मसाक्षात्कारस्याविद्या- तमोनिवृत्ति: फलं श्रूयते तमसः पारं दर्शयतीत्युपसंहारात। अ्रवि- द्याया: परं पारं तारयसीति श्रुत्यन्तराच्च। न चोपासनाया: अविद्या- निवर्तकत्वं युक्तं अप्रमाणत्वात्तस्माद्गह्म वेदेत्यादिश्रुतीनां तमोनि- वृत्तिरूपफलस्य च पर्यालोचनया तत्वज्ञानमेव मुक्तिहेतुरिति ग्रह्मात्मत्वपरा वेदान्ताः। किश्च गौतमादिभिर्न्यायकुशलैस्तत्वज्ञानं मुक्तिहे तुरित्युक्त त्वान्नोपासना मुक्ति हेतुरित्याह- तत्वज्ञानं मुक्तिहेतुर्मध्ये कार्यनिषेधतः । तमोनिवृत्तेर्युक्तित्वान्न्यायविद्धिश्च भाषणात्॥ इति। नन्वैक्यज्ञानं न मुक्तिहेतु: इतरभिन्नजीवात्मज्ञानं मुक्तिहेतुरिति न्यायविद्भिरुक्तत्वात तथा हि। बोडशपदार्थानां तत्त्वज्ञानान्निःश्रेय- सप्राप्ति: कथमित्याकाङ्कायां दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्त- रोत्तरापाये तदनन्तराभावा(१) दपवर्ग इत्युक्तम। अयमर्थः प्रमाण- संशयादिपदार्थविचारः आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रे- त्यभावफलवुःखापवर्गरूपद्वादशविधप्रमेयतत्वज्ञानार्थः। लक्षणप्रमा- णाभ्यां प्रमेयतत्वज्ञाने सति तद्भिन्नत्वेन जीवात्मनो ध्यानपरिपा- कात्साक्षात्कारे जाते गौरो Sहमित्यादिमिथ्याज्ञानं निवर्तते ततो रागद्वेषमोहा: प्रवृत्ति हेतवो दोषा नोत्पदन्ते ततो धर्माधर्मरूपप्रवृत्य- (१) तवनन्तरापायावपवर्ग इत्यपि पाठान्तरम्।
Page 45
४ सू. ९ वर्णकम् । १३९ भावात्पूर्वसंचितानां पापपुण्यकर्मणां श्रवणध्यानादिक्केशानन्दभो- गेन कायव्यूहेन वा विनाशाज्जन्माभावे सति एकविशतिवुःखध्वं- सो मोक्ष इति। तथा वैशेपिकैरपि साधर्म्यवैधम्याभ्यां पट्पदार्थ-
ज्ञाननिवृत्त्या मुक्तिरित्युक्तम। योगास्तु स्वर्गादी प्रविष्टस्य मनुष्य- जन्ममात्रहेतूनां कर्मणामवशेषे सति मानुषं जन्म भवतीति मनुष्या- णां संचितकर्म नास्त्येव तत्र मुमुक्षोः काम्यनिषिद्धवर्ज नित्यनैमि- त्तिकानुष्ठायिनः एकभविकन्यायेन कर्माभावात्साङ्गयोगानुष्ठानेन क्षीणक्केशस्यासंप्रज्ञातसमाधिजनितेन प्रधानविविक्तपुरुषमात्रविषये- णापरोक्षज्ञानेनानाद्यविवेकलक्षणाविद्यानिवृत्ती दषटृदृश्ययोः स्वस्वा- मिभावसंयोगनाशादनागतदुःखाभावः पुरुषस्य कैवल्यमित्याहः। सांख्यास्तु पचविंशतितत्वानामश्यासेनव विवेकज्ञाने जाते पुरु- पस्य स्वास्थ्यमित्याचक्षते । सौगतास्तु सर्व क्षणिकं शुद्धं दुःखं शून्यमिति चतुर्विधभावनाभिः स्थायित्वकार्यत्वप्रवृत्तिविषयभ्रमेषु क्रमेण क्षीणेषु विशुद्धविज्ञानात्मकचरमक्षसोन सोपप्ववसन्तानोच्छेदो मुक्तिरिति संगिरन्ते। एवमन्ये Sपि भिन्नात्मज्ञानान्मुक्तिरिति वदन्ति। भवानेविको वूते ब्रह्मास्नीति ज्ञानान्मुक्तिरिति तत्कथं श्रद्धयमिति। उच्यते। घहुभिरप्यन्धैरुक्तं न श्रद्धेयं एकेनापि श्रुतिचक्षुपोक्तं थ्रद्वेयमेव तथा चेन्द्रो मायाभि: पुरुरूप ईयते इत्यादिश्चत्या भेदज्ञान- स्य भ्रान्तित्वावगमात्तदा SSत्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्स- र्वमभवदित्यभेदक्षानस्य मुक्तिहेतुत्वश्रुतेस्तदेव मुक्तिहेतुरित्याह- ब्रह्मात्मैकत्वविज्ञानं मिथ्याज्ञाननिवर्तकम् ॥। इति। नन्वभेदज्ञानमपि न प्रमा किन्तु विश्वेदेवा एव मन इतिवदारो- व्यप्रधाना सस्पत् । यद्वा मनो ब्रह्मेतिवदालम्बनरूपप्रतीकप्रधानी उध्यासः वेदस्य कार्यनिष्ठत्वेन वस्तुनि तात्पर्याभावादित्यत आह। ऐक्यज्ञानं न सम्पत्स्यान्नाध्यासो वस्तुसत्त्वतः । इति। तत्वम्पदलक्ष्ययारक्ये मानान्तरविरोधाभावात्सर्वेषु वेदान्तेपु पे- क्यम् तत्त्वमसीत्यादिनोपदिश्यानेन जीवेनात्मना Sनुप्रविश्येत्यादिना प्रवेशार्थवादेन हढीकृत्याथ ये उन्यथा Sतो विदुरन्यराजानस्ते Sक्षय्य- लोका भवन्तीत्यादिना भेदस्य निन्दितत्वेन प्रक्रमादिना वस्तुनि तात्प- र्यावगमादैक्यज्षानं प्रमा। किश्च यदि सम्पदादिरूपं स्यात्तर्हि ततो जीवस्य ब्रह्मभावी Sविद्यानिवृत्तिर्वा न स्यादन्यस्यान्यात्मत्वायोगाद-
Page 46
१ ४० विवरणोपन्यासे प्रमात्वाच्च।तस्मान्न सम्पदादिरुपं ब्रह्मास्मीति ज्ञानं कि त्वखण्डात्मप्र- मेत्यर्थः। अन्न कश्चिदखण्डात्मप्रद्वेपी भिन्नाभिन्नो जीव इति जल्पति अत्यन्ताभेदे जीवेश्वरयोर्वद्धत्वनित्यमुक्तत्वव्यवस्था कथमिति मुह्य. मानस्तन्मत दर्शयति- भिन्नाभिन्नो जीव इति विरुद्धं मानवर्जितम। जीवेश्वरव्यवस्थोक्ता मुख्या भेदाजलार्कवत्॥ इति। जातिव्यक्ति शुण गुण्युपादानोपादेयविशिष्टस्वरूपंशांशिभावार्ना जीवब्रह्मणोरभावान्न मेदाभेदी।ननु पादो Sस्य विश्वाभूतानि ममैर्वां- यो जीवलोके इति श्रुतिस्तृतिभ्यामंशांशिभावो Sस्तीति चेन्न।निप्फ- लत्वश्रुत्या तस्य कल्पितत्वावगमात्। ब्रह्मणो वस्तुतः सांशत्वे ज- न्मनाशादिप्रसङ्गातू। घटादिना नभस इव बुद्धाद्युपाधिना Sवच्छे्वा- तू वस्तुतो निरंशस्य ब्रह्मण: सांशत्वं कल्पितमेवेति अंशे जीवे भेव: कल्पित पव न हि सत्यौ भेदाभेदी एकत्र सम्भवतः विरोधान्माना- भावाच्च। नान्यो Sतो स्ति द्रष्टेत्यादिना भेदं निषिध्यैप आत्मान्तर्या- मीत्यभेदोपदेशाच्च। कि चाङ्गदुःखेनाङ्गिनो देवदत्तस्येवांशिनो ब्रह्मणः सर्वजीवानामंशाना दुःखैर्दुःखित्वं दुर्वारमिति तत्प्रात्तिमुमुक्षोरनर्थ एव स्यात अस्मन्मते तु जीवनानात्वे सुर्तजीवाजीवान्तरसंसारस्य कल्पितत्वेनाधिष्ठानव्रह्मासंस्पर्शाङ्गसभावः पुरुषार्थः जीवैक्ये तु तत्वज्ञानान्सूलाविद्यानिवृत्त्या सर्वद्वैतं स्वप्नवन्निवर्तते न च वामदे- घादिमुक्त्या घुना संसारोपलम्भो न स्यादिति वाच्यम् । अनन्ता-
निरुपाधिकाद्वितीयचैतन्ये त्वयि ब्रह्मणि प्रत्यक्षे बन्धावभासे सोपा- धिकचैतन्येधु सुक्तत्वावभासी वि्रम एव ब्रह्मणो ऽन्यस्य मुक्तावस- स्वेन बन्धायोगातू।न हि ब्रह्मद्वयमस्ति। येन त्वत्ती ऽन्यो वद्धो मुक्तो घा स्यात्। ब्रह्मैकमेव ह्यविद्यया संसरति विद्यया मुच्यते तथा च ध्रुतिःव्रक्म वा इद मग्रआसीत्तदा SSत्मानमेवावेदहं ब्रह्मास्मीति तस्मा- प्तत्सर्वभभवदिति जीवानां वन्धमुक्तिव्यवसायामाग्रहिस्त्वविर्द्या- शभेदेन समाधानमुक्तं तस्माजीवेश्वरयोः कल्पितभेदेन धर्मव्यवस्था जलस्रस्थार्कयोरिवेत्यनवद्यम्। एवं सति वाक्यादखण्डात्मज्ञानमा- प्रादेव मुक्तिलाभान्न विधेरवकाशः। ननु व्रह्मणो ज्ञानक्रियाकर्मत्व- वद्विधेयोपास्तिक्रियाकर्मत्वमपि शङ्कास्पदमिति चेन्न।अन्यदव तव्वि-
Page 47
४ सू. ९ वर्णकम् । १४१ न कर्मकारकं ब्रह्म किन्तु शास्त्रात्म्रगीयते। चैतन्याविषयो ब्रह्म वृत्तेस्तु विषयो भवेत् ॥ इति। अविषये ब्रह्मणि शास्त्रस्य प्रामाण्यं कथमिति शङ्कते। किन्त्वति। तत्वमसीति शास्त्रादहं ब्रह्मास्मीत्यखण्डब्रह्माकारं ज्ञान जायते तेन निवृत्तावरणं ब्रह्मचितन्यं स्वाध्यस्तामविद्यां निवर्तयति तत आ- विद्यकं प्रमान्नादिद्वतं निवर्तते इति निवर्तकत्वेन शास्त्रस्य प्रामा- एयं यद्यपि वाक्योत्थवृत्तिस्थप्रतिविम्बाकारनिरुपकस्य ब्रह्मणो वृत्ति- जन्यावरणादिनिवृत्तिफलशालित्वाद्वृत्तिविषयता डस्ति तथापि नोपा- स्तिविपयता नेदं यदिदमुपासते इति ब्रह्मण उपास्यत्वनिषेधा- न्नाष्यन्यदेवेत्याद्यप्रमेयत्वश्रुतिविरोध: स्वयंप्रकाशे ब्रह्मणि प्रमाणेन स्फुरणं न क्रियते इति चतन्याविपयत्वपरत्वादित्यभिप्रेत्याह। शा- स्त्रादिति। असकृदुक्तमपि जीवस्वरूपं वादिविवादाह्ु्ग्रहं भवतीति मत्वा पुनर्वोधयति- घ्रंह्मैवाविद्यया जीवस्तत्वमस्यादिवाक्यतः । लक्ष्यैक्यं वोध्यते तस्मान्भेदाभेदो Sप्रमाणकः ॥ इति। घ्रह्मैवाविद्याप्रतिविम्बितं जीवः तस्य ब्रह्मणैक्य विरुद्धांशत्यागेन लक्षणया वाक्येन बोध्यते। ननु भिन्नाभिन्नता वाक्यार्थ: किंन स्यादिति चेन्न। देहादिविशिष्टः संसार्यहं ब्रह्मणा भिन्नाभिन्न इति ज्ञाने वन्धा- निवृत्तेः। न हि भेदांशस्य शास्त्रार्थस्य ध्यानादिना निवृत्तिः कल्पयितुं शक्यते। शास्त्रविरोधात्। ननु ब्रह्म वेद व्रह्मैष भवतीति फलवा- क्यान्मुक्तावत्यन्ताभेद इति चेत् तर्हि अभेदज्ञानादेव भेदनिवृत्तिरिति अभेद एव वाक्यार्थ: स्यात्। किश्च किं भेदाभेदांशद्वयवान् जीवः उत अंशद्यं आहोस्विद्ेदांश एव जीवः।नाद्यः। अभेदांशस्य ब्रह्मत्वे जीवस्यांशो ब्रह्म स्यादव्रह्मत्वे जीवव्रह्मणोरत्यन्तभेदः स्यात्।द्वितीये किमंशद्वयं भिन्नं उताभिन्नम्अथ भिन्नाभिन्नम्।आद्ये जीवद्वयप्रसङ्ग: द्वितीये ब्रह्मैव जीवः स्यात् तृतीये Sनवस्थानात्। नापि भेदाभेदां- शो जीवः अत्यन्तभेदापातात्। अतो भेदाभेदौ दुर्निरूपी विरुद्धी धर्म्यादिसापेक्षी तत्तद्वव्यत्वादिना लोकसिद्धी निष्फली मुक्तावनव- स्थिती न शास्त्रार्थः। यन्तु भेदेन कर्माविद्यादिदोषव्यवहारः अभेदे- नाहं ग्रह्मास्मीति ज्ञानमोक्षव्यवहार इति तत्प्रलापमाघ्रम्। दोषवन्तं भे- दारां जीव प्रति त्वं घ्रहेति उपदेशायोगात्। अभेदांश ग्रह्म प्रति उप- वेशवैयर्थ्यात्। सर्व वस्तु भेदाभेदाभ्यां साङ्कर्यवादिनस्तव न का
Page 48
१४२ विवरणोपन्यासे चिद्यवस्था अन्नादावपि विषाभेदन प्रवृत्त्ययोगादित्यादिदोषभूयि- ष्ठो डयं पक्ष इत्युपेक्षणीय: तस्मान्मायया स्वप्नवत्सर्वव्यवस्था यथा- दर्शनमुपपद्यते इति अद्वैतवस्तु शास्त्रार्थ इति शोभनम्। एवमहं ब्रह्मा- स्मीति ज्ञानं न सम्पदादिरूपं नापि भेदाभेदगोचरं किन्त्वखण्डात्म- प्रमारूपं तस्य फलं नित्यसिद्धब्रह्मानन्दाभिव्यक्तिरविद्यावरएनिवृत्ति- मुक्तिशब्दिता तस्या आत्ममात्रत्वादनात्मत्वे Sपि ध्वंसत्वान्नानित्य- तादोष। यस्य तु विधेयक्रियाफलं मातस्तेनेदं वक्तव्यं मोचः सवर्गवत्कर्तृसमवेतापूर्वफलं वा कर्मकारके ब्रह्मषि विधेयज्ञानक्रि- याजन्यउत्पत्याद्यतिशयो वेति। आद्ये तारतम्यनित्यत्वादिदोष उक्तः। न द्वितीय इत्याह- नोत्पाद्यो न विकार्य: स्यान्मोक्षो नित्यत्वदोषतः । न चाप्यो नापि संस्कार्य आत्मशुद्धागुणत्वतः । पिषं संयौततत्युत्पाद्यपिण्डवत्तडुलान्पिनष्टीति िकार्यतण्डुलवच्य ज्ञानेन ब्रह्मण उत्पत्ती विकारे चानित्यत्वं स्यात् । अत्र के चिदाहुः। जीवब्रह्मणोर्भेदसहिताभेदस्तादात्म्यमतिरेकाख्यं स्वाभाविकम अत्य- न्ताभेदस्तु तन्ज्ावो जीवस्य ज्ञानजन्यो मोक्षः सच जन्यत्वे पि क्रिया- जन्यत्वाभावान्नित्यः लोके क्रियाजन्यस्यैवानित्यत्वदर्शनादित्याहुः । अत्रोच्यते। किं तन्भ्ावज्ञानात्तन्भावो जन्यते तादात्म्यज्ञानाद्वा आद्येपि ज्ञारन परोक्षमपरोक्षं वा।नाद्यः परोक्षज्ञानात्सर्वेषां तद्भ्ावादर्शनात्।न द्वितीयः ज्ञानजन्यस्य ब्रह्मत्वस्य ज्ञानात्प्रागसत्वेन प्रत्यक्षत्वायोगात्। नापि तादात्म्यज्ञानात्तव्भ्ावजन्म तादात्म्यनाश विना तन्भावायोगात्। न हि भेदे सत्यत्यन्ताभेदो भवति।न च तस्य नाशकमस्ति तादात्म्य- ज्ञानं च साधकम न नाशकम तस्माल्लोके ज्ञानजन्यसंस्कारवन्मो- क्षस्यानित्यत्वं दुर्वारमिति संक्षेप:।ननु गन्तुर्ग्रामप्राप्तिवजीवस्य ब्रह्म- प्राप्तिरज्ानफलमिति चेन्न ब्रह्मण आत्मत्वेन नित्यप्राप्तत्वादनात्मत्वेपि विभुत्वेन नभोवत्प्राप्तत्वात्। ननु सर्वलोकोपरितनं विकारास्पृष्ट ब्रह्म प्राप्यमिति चेन्न।तस्यात्रासत्वे मध्यमपरिमाणत्वेनानित्यत्वापातात्। ननु सर्वगतमपि ब्रह्म विकारास्पृष्टत्वेन प्राप्यमिति चेतू। केयं प्राप्ति- ने तावजीवस्य भिन्नस्य ब्रह्मत्वोत्पत्तिः। भिन्नयोरैक्यायोगान्नापि संयोगः अनित्यदोषात् । तस्मान्न प्रदेशान्तरवर्तिव्रह्मप्राप्तिर्मुक्तिरिति। यन्तु तयोर्ध्वमायन्नमृतत्वमेति स पनान् घ्रह्म गमयतीति मूर्द्धन्यना- उचार्चिरादिमार्गेण गन्तूणं प्रदेशान्तरे निर्गुणप्राप्तिर्मुक्ति: श्रूयते नपुं-
Page 49
४ सू. ९ वर्णकम् । १४३ सकब्रह्मशब्दस्य परव्रह्मणि मुख्यत्वादिति।तन्न यः सर्वक्ञः सर्ववित्त- स्मादेतद्रह्म जायते इत्यादिश्रुती कार्यव्रह्मण्यपि प्रयोगमुख्यत्वात्तस्य शब्दस्य।किञ्चामानवः पुरुष पतानुपासकान्व्रह्मलोकानू गमयतीति बहुचचनान्तलोकशब्दाल्लोक्केपु ते वसन्तीत्याधारत्वलिङ्गातू। पे.रंमदी- यं सरः इराऽन्नरसस्तत्कृतमैरं मदकरं सर इति सरोलिङ्गात्तु अश्वत्थ: सोमसवनः सुधावर्षी अपराजिता पूस्तत्र हिरण्मयं वेश्मास्ति प्रजा- पतेः सभेत्यादिबहुलिङ्गेभ्यः कार्यलिङ्ग (१)प्रापप्तिरेवोपासकानामिति नि- श्चीयते। किञ्च यद्यर्चिरादिमार्गेण गन्तुणां निर्गुणप्राप्तिस्तदा पश्चा-
दयानां गुणतारतम्यादुपचयापचयी व्यर्थो स्यातां कार्यब्रह्मप्राप्ती तु फलस्य तारतम्यसम्भवात् सफलौ स्याताम्। कि च निर्गुणव्रह्मरू- पस्य मुक्तस्य संकल्पादेव पित्रादय: समुत्तिप्ठन्तीति विरुद्धम। कि घ य उपरि गत्वा ब्रह्म भवति स जीवो णुर्विभुर्मध्यमपरिमाणो वा भ्राद्ये कथमणोर्व्रह्मत्वं द्वितीये गत्ययोग: तृतियेपि नाशिता। ननु ग्रह्मी- वोपाधिपरिच्छिन्नं जीव इत्युपाधिगत्या गतिरिति चेन्न । उपाधधिना Sन- वच्छिन्नम्य निरवयवस्योद्वृत्य नयनायोगादुद्धरणे चायं देशो ब्रह्मशू- न्यः स्यात् उपाधेरपि उपादानस्य ब्रह्मणो निश्चलत्वेन गमनायोगा- तू न हि निश्चलायां मृदि घटस्य गमनं हष्ट तस्मात्स्प्नवद्गमनागमना- दिसंसारो विभ्रम इत्यज्ञानध्वंसे सत्यत्रव मुक्तो ब्रह्मात्मना Sवतिष्ठते न तस्य प्राणा उक्रामन्ति अत्र व्रह्म समश्नुते इति श्रुतेर्न देशान्तर- ग्रह्मप्राप्तिर्मुक्तिरिति। अस्तु तर्हि ज्ञानेन संस्कार्य ब्रह्मेति चेन्न।स्वतः- शुद्धे ब्रह्मणि दोषाभावेन तन्निवृत्तिरूपसंस्कारायोगान्निर्गुणत्वे गुणा- धानायोगाञ्च। शुद्धत्वे निर्गुणत्वे च शुद्धमपापविद्ध केवलो निर्गु- ण इति श्रुतिर्मानम्। ननु तार्क्ष्यध्यानाद्विषनिवृत्तिवद्ह्मध्यानाजीव- गतानाद्यविद्यामलनिवृत्तिः किं न स्यादिति चेन्न। लोके ज्ञानैकनिर- स्यत्वादविद्यायाः । ननु शास्त्रीयैः कर्मभिरात्मनो गुणरूपः संस्कारः थ्रयते इति चेन्न। साभासबुद्धिरूपाहङ्कारस्यैव कर्मकर्तृत्वेन संस्का- रफलभात्त्कात्तस्मान्न ब्रह्मसंस्कारो मोक्ष इति। एवं मोक्षस्य क्रिया- फलत्वायोगाज्ज्ञानैकसाध्यत्वमिति सिद्धम। ननु क्रियाज्ञानयोः को भेद: ज्ञानस्यापि मानसत्वेन ध्यानादिवक्रियात्वादित्यत आ्रह- क्रियाविलक्षणं ज्ञानं संयोगादिविलक्षणा। (१) कार्यम्रह्मपाततिित्यापि पाठन्तरम्।
Page 50
१४४ विवरणोपन्यासे क्रिया प्रत्यक्षतो जञेया नानुमेयेति साधितम्॥ ज्ञानस्य फलं स्फुरणं नित्यं कर्मफलं जडमनित्यमिति फलतो घैलक्षण्यं विध्यधीनपुरुषेच्छाजन्यप्रयत्नसाध्या क्रिया विषयानपेक्षा च यथा योषाग्निध्यानम्। ज्ञानं तुन पुरुषकृतिजन्यं किन्तु प्रमाण- वस्तुपरतन्त्रम् । यथा Sग्नावव्निज्ञानमिति महान्भेदस्तयोरित्यर्थः। अत्र कश्चिदाह। संयोगविभागाभ्यामन्या क्रियैव नास्तीति। न चैवं शयेनसंयोगविभागवति स्थाणी चलतीति बुद्धि: स्यादिति वाच्यम्। तयोराधेये द्रव्ये चलनवुद्धिविषयत्वात्। स्थाणोः श्येनं प्रत्याधार- त्वात्। इयेनस्तु आधेयत्वाच्चलतीति बुद्धिविषयः पत्तिणामप्याका- शाधारनिरूपितौ संयोगविभागी चलनवुद्धिविषय इति तन्न आर्पराक्रा- शस्याचाक्षुषत्वेन तन्निरूपितयोस्तयोश्चलति पक्षीति चाक्षुषवुद्धि- विषयत्वायोगातू।न गाढान्धकारे नभोज्ञानाभावेन खद्योतश्चलतीति वुद्ध्योगातू। गङ्गाप्रवाहादौ सुस्थिरे मकरे जलसंयोगादिमत्याधेये चलतीति बुद्धिप्रसङ्गाच्च। तस्मात्सयोगादिविभागाश्यामन्या क्रिया इस्तीत्याह। संयोगादीति। प्राभाकारास्तु ताभ्यामनुमेया क्रिया न प्रत्यक्षेत्याहुः। तथा हि संयोगाजन्यः संयोगः स्वाश्रयगतकादाचि- त्कातिशयजन्यः स्वसमकालमनुत्पन्नद्रव्यनिष्ठत्वे सति कादाचि- त्कत्वात् पाकजरूपादिवदिति संयोगेनार्थान्तरतानिरासार्थ संयोगा- जन्य इति पक्षविशेषणम् । क्षणनिरासार्थ स्वाश्रयगतेति सत्ता- दिनिरासार्थ कादाचित्कति। वेदान्तिमते द्रव्यसहोत्पन्नगुशोषु व्य- भिचारनिरासार्थ सत्यन्तम्। नभोगतपरिमाणादिनिरासार्थ कादा- चित्कत्वादिति। तदयुक्तं किं यावदाश्रयगतांतिशयः साध्य उता- श्रयगतः नाद्यःअन्यतरकर्मजसंयोगे व्यभिचारात्। न द्वितीयः कर्मा- समवायिकारणादेव संयोगजन्ससंभवेनाप्रयोजकत्वाद्यथाप्रयतनवदा- त्मसंयोगात्पादसमवेतान्द्रपादसंयोगः किं बहूत्त्या। कर्मणो यत्कार्य तत्कर्मकरणादेव सुसम्पादमिति नानुमानात्कर्मसिद्धिः । किन्तु प्रत्यक्षादित्याह। प्रत्यक्षत इति। शब्दविद्युदादिवदाशुतरविनाशि- त्वे Sपि क्रियायाः प्रत्यक्षत्वसम्भव इति भावः। एवश्च वेदान्तवि- ज्ञानसुनिश्चितार्था इति सम्यग्ज्ञानस्य मुक्तिहेतुत्वावगमाक्कियावि- लक्षणमवे ज्ञानं मोचकमिति न तत्र विधेरवकाशः । नन्वात्मन्येवा- तमानं पश्येदात्मा द्रष्टव्य इति ज्ञाने विधयः श्रूयन्ते इति चेत्सत्यम् अशक्ये ज्ञाने नियोगासम्भवात्फलरूप आत्मा तैः स्तूयते बहिर्मुखदु-
Page 51
४ सू. ९ वर्णकम् । १४९ र्लभी बहुपुण्यपुञ्तलभ्यो ज्ञानलभ्यो Sयमात्मेति एवं स्तुती तदर्थी विषयविमुखः सन् श्रवणादी प्रवर्तते यद्वा द्रष्टव्य इत्यहार्थे कृत्य- प्रत्ययः पश्येदिति वाक्यं शान्त्यादिविधिपरम् आत्मानमेव लोकमुपा- सीतेति वाक्यं तूपासीतेतिपदेनाहमहमित्यात्मज्ञानधारानुवादेनैव- कारेणानात्मांश निषिद्ध्य केवलात्मविषयपरं भवति तस्माद्वेदान्तेपु विधेयक्रियातत्फलयोरभावान्न विधिशेषतया ब्रह्मप्रमितिः किन्तु स्वप्राधान्येनेत्युपसंहरति- ज्ञाने श्रुतो लिङदि: स्यात्स्तावको र्हार्थ एव वा। एवं ब्रह्मणि मानत्वं वेदान्तानां प्रसाधितम् । इति। एवं तावत्समन्वयसूत्रस्य प्रथमवर्णके वेदान्तानां मानान्तरान- पक्षत्वं द्वितीयवर्णके विध्यनपेक्षत्वं सफलत्वं चोक्तम् सधुना वर्णक- द्वयार्थ आक्षिप्य समाधत्ते- ये तु सिद्धार्थको वेदो नास्तीत्युच्चैर्वदन्ति ते। तन्त्वीपनिषदंश्चत्या वाध्या: स्मृत्या च संविदा॥ इति। किमहं कर्ता वेदान्तैः प्रतिपाद्यः किं वा तदन्यः आद्ये तस्य करमकर्तृत्वाद्विधिशेषता न द्वितीयस्तदन्यस्यानात्मत्वादात्मत्वे कर्म- शेातायाः दुरपन्हवत्वात्तथापस्तम्वो Sपि वेदानां कार्यार्थतां दर्शयति त्रैविद्यवृद्धानां वेदा: प्रमाणमिति निष्ठा तत्र यानि श्रयन्ते व्रीहिय- वादीनि तैरुच्चैर्नीचिःफलाय कर्म कार्यमिति शङ्कार्थः । त्रैविद्यं वेदाः। सिद्धान्तस्तु अहङ्कारादन्यस्तत्साक्षी ब्रह्मत्वेन प्रतिपाद्यते । न च तस्याङ्गत्वं भवति नाप्यङ्गत्वे मानमस्ति वेदान्तवाक्यस्यापूर्वव्रह्मा- त्मपरत्वात् । तेनैवात्मनः कर्माङ्गत्वबोधने वाक्यभेदापत्तेः आप- स्तम्बवाक्यं तु कर्मकाण्डपरं तन्त्वौपनिषद पुरुषं पृच्छामि सर्वे वेदा यत्पदमामनन्तीति श्रुत्या वेदैश्च सर्वरहमेव येद्य इत्यादिस्मृत्या च सिद्धस्य ब्रह्मण एव सर्ववेदार्थत्वावगमात्कर्मकाण्डस्यापि शुद्धिद्वारा ब्रह्मपतीतेश्च।न च सा भ्रान्तिर्वाधाभावात् न ह्यात्मनो उत्यन्ताभावः प्रमातुं शक्यते प्रमातुरभावात् अतः सर्वसाध्ष्यवाधितो वेदान्तार्थ दत्यर्थः। यन्तु प्रवृत्तिलिङ्गानुमितज्ञानविषये कार्यार्थे सङ्गतिग्रहादास्ना- यस्य क्रियार्थत्वादिति सूत्राच्च वेदान्ता: कार्यपराः सिद्धार्थे शत्तयभावा- दिति तन्न सूत्रहृदयज्ञर्भट्टपादैरभिहितान्वयस्य दर्शितत्वात्। तथा हि गामानयति वाक्यप्रयोगसमनन्तरभाविमध्यमनरप्रवृत्तिलिङ्गानुमित- प्रवर्त्तकज्ञानविषयतया ज्ञाते पि कार्यसंसृप्टार्थपदानां शक्तिः गांवधा- १९.
Page 52
१४६ विधरणोपन्यासे नेति प्रयोगे आनयनकार्यास्पृप्टपिण्डमात्रान्वयादतो गोपदस्याव्याभे- चाराद्वोमात्रं शक्यम् एवं सर्वपदानां सिद्धे कार्ये वा शुद्धार्थ शक्ति: पदैरभिहितैः शुद्धार्थः संसर्गो बोध्यते इत्यभिहितान्वयवादः। पदानां पदार्थस्मृत्यन्यथासिद्धत्वादर्थानां करणत्वमित्यभिमानः । अस्मिन् मते त्वक्रियार्थानां शव्दानामानर्थक्यं नाम फलाभाव एव। नत्वर्थाभावः शुद्धार्थस्य सत्वात्। तथा च यस्मिन्वाक्ये स्वार्थफलाभावस्तस्या- प्रामाण्यपरिहाराय सफलविधिशेपत्वं वाच्यमिति जैमिनेर्हदयम। एवश्च सो Sरोदीदित्यादिवाक्यानां विधिशेषत्वं न्याय्यं न वेदान्तानां स्वार्थे ब्रह्मणि मुक्तिफलसत्वादिति मत्वा ब्रूते- भट्टपादा जगु: स्पषं शुद्धार्थ पदसङ्गतिम। अर्थः संसर्गधीरेषा Sभिहिता ऽन्वयवादिता ॥ इति ॥ प्राभाकरास्तु व्युत्पित्सुना प्रवृत्तिलिङ्गानुमिते कार्यसंसृष्टार्थ- ज्ञाने Sन्वयव्यतिरेकाश्यां वाक्यस्य सामर्थ्यावगमात्कार्यसंसृष्टार्थे पदानां संमुग्धशक्तिरवगता पश्चादावापोद्धाराभ्यां कार्यान्वितगवि गोपदशक्तिरवगम्यते न शुद्धार्थ कार्यविशेषस्य व्यभिचारे ऽपि कार्य- मात्रस्थाव्यभिचारादन्यथा पश्चाच्छुद्धार्थे शक्तिग्रहे संमुग्धव्युत्पत्ति- वाधात्पदार्थानां संसर्गधीकरणत्वकल्पनागौरवाच्च तत्कार्यान्विते श- क्तिरित्याहुः। अत्रोच्यते क्रियातिरिक्तं कार्य तञ्च लोकेवक्तुरिच्छारूपं वेदे त्वपूर्वमिति तव मतम्। तत्र यदि कार्यान्विते सर्वेपां पदानां शक्तिस्तदा शुककां गामानयेत्युक्ते गवि गुणकर्मकारकक्रियाभि: सं- सर्गा: क्रमेण शब्दैर्न प्रतीयिरन् शब्दानां तत्राशक्तत्वात्। अतस्तत्प्र- तीतिनिर्वाहार्थमितरान्विते ऽर्थेशक्तिरिति युक्तम। न चैवं सति संसर्ग- भेदाद्वाक्यभेदः स्यादिति वाच्यम्।अवान्तरसंसर्गनानात्वे Sपि प्रधा- नसंसर्गस्यैकत्वात् न चाव्यभिचारात्कार्यान्विते शक्तिरिति वाच्यम्। वक्तृज्ञानस्यापि अध्यभिचारात्।न च वक्तज्ञानस्य प्रयोगे हेतुत्वेनैवा- न्वयो ऽन्यथासिद्ध इति न शक्यत्वमिति वाच्यम्। कार्यान्वयस्यापि प्रवृत्तवित्यथासिद्धत्वेन शक्यत्वात् राजपुत्रः पीतवासाः सुरूपः स्नात्वा भुक्का क्रीडतीत्यादिभूतार्थवाक्येषु कार्यस्य व्यभिचाराच्च। न च कार्य विना राजपुत्रादिर्भूतार्थस्य द्रव्यगुणादिभिः संसर्गो न भा- तीति युक्तमनुभवविरोधाद्वक्तृश्रोत्नोरनपेक्षितस्य कार्यस्याध्याहारे कल्पनागौरवादतः कार्य बिना भूतसंसर्गानुभवाल्ाघवाच्च योग्येत- तरान्वितत्वं शक्यतावच्छेद कमू।न च ततो Sपि लाघवाच्छुद्धार्थे शक्ति-
Page 53
४ सू. ९ वर्णकम् । १४७
नुपपत्तेः।नच पदार्थत्वेनान्वयानुमानादाकाङ्गति वाच्यम्। भित्या- काङ्वानुभवविरोधात्। शददश्रवणानन्तरं नियमेनानुमानकल्पनायां श=दप्रामाण्यापाताच्। वृत्ति बिना शब्दानामवोधकत्वात्ससर्गवोधस्य शाव्दृत्वप्रसङ्गाच्चत्यलम्। किश्च कार्ये कार्यान्वयाभावादितरान्वितत्वं शक्यतावच्छंदकमू।न च तत्रापि धात्वर्थयागांदिरूपकार्यान्वयोऽसती- तिवाच्यम्। यजेतेति लिड नियोगाख्यकार्यबोधक्षणे यागे कार्यत्वाप्र- तीतेः । धात्वर्थमात्रान्वितकार्यप्रतीत्युत्तरकालत्वाद्धात्वर्थे कार्यता- प्रत्ययस्य। तथा चान्योन्याश्रयः । लिङ्न्थज्ञाने सति धात्वर्थे कार्य- ताज्ञानमस्मिन्सतति लिडर्थज्ञानमिति। न च कार्यान्वयाश्रयत्वं का- यें उप्यस्तीति तदेवावच्क्वेद कमिति वाच्यम्। पदात्तत्प्रकारकवोधादर्श-
त्वाच्च।किश्च लोके निघण्द्वादिना सिद्धे जर्थे संगतिग्रहान्न कार्य सर्व- शब्दार्थः।तस्मादितरान्वितः शब्दार्थ इति सिद्धम्। एतेन गामानयेत्यत्र गोपदस्येतरान्वितशक्तावनेकेतर संसर्गाणं पदार्थत्वादयं संसर्गो वा- क्यार्थ इति नियमो न स्यात्। न चानयनान्वित एव गोपदार्थ इति वाच्यम्। आनयेतिपदवैयर्थ्यापत्तेः । विशेषाणामानन्त्येन तदन्वितार्थ शक्तेर्दुर्शहत्वात्सर्वपदानां पर्यार्यतापत्तश्च।न चाभिहितेतरान्विता गौः पदार्थस्ततश्चेतराभिधानार्थमानयपदमर्थवदिति वाच्यम्। आनयप- दस्याप्यभिहितेतराभिधायित्वेनान्योन्याश्रयात्।गोत्वे Sभिहिते तत्सं- सृष्टानयनाभिधानम् आनयने Sभिहिते तत्संसृएं गोत्वाभिधानमिति। तस्मान्नेतरान्विते शक्तिर्नापि विशेषान्विते नाप्यभिहितान्वितेऽतः परि- शेषात्कार्यान्विते शक्तिरिति निरस्तम्। गोपदादितरान्वितगोरभिधाने
तयोरभिहितयोर्विशेपयोरितरेतरसंसर्गी वाक्यार्थ इति सिद्धम्। त- स्य निर्दोषत्वात्। यत्तु पदातिरिक्तवाक्याभावात्पदानां क्षणिकत्वात् न संसर्गवोधे करणत्वं किन्तु स्थायित्वात्पदार्थानां करणत्वमिति तदति- मन्दम्। अनभिहितार्थानां करणत्वे सदा बोधप्रसङ्गातू।न चाभिहितानां करणत्वम्।अन्त्यपदार्थाभिधानक्षणे पूर्वाभिधानां स्सृतिरूपाणां नए्ट- त्वात् नचान्त्ये समूहालम्वनस्मृत्युपारूढा अर्थाःकरणमिति वाच्यम्। पदानामपि तथा करणत्वापेपत्ते: पदार्थस्मृतर्व्यापारत्वेनाव्यवधाय- कत्वादन्यथा वाक्यार्थस्याशाव्दत्वापत्तेरित्यलं विस्तरेण। एतत्सर्व-
Page 54
१४८ विवरणोपन्यासे
मभिप्रेत्याह- प्राभाकरास्तु कार्येण संसृष्टे शक्तिवादिनः । अस्माकमन्विते शक्तिलाधवाद्युपपत्तिभिः ॥ इति। यन्तु तन्दूतानां क्रियार्थेन समाम्नाय इति सूत्रात्कार्य सर्वशब्दार्थ इति तन्न। तद्भ्ाप्यकारेण शुक्क: पटः खण्डो गौरित्येवं सिद्धार्थे व- र्तमानानां पदानां समास्नायः सामानाधिकरण्याद्यर्थत्वेनोच्चारणमि- ति दर्शितत्वातू। क्रियार्थेनेत्युक्तिस्तु धर्मविचारस्य प्रस्तुतत्वादु- पपद्यते। कर्मकाण्डे निष्फलस्य भूतसर्गस्य क्रियार्थत्वाद्यदि पुनर्जै- मिने: कार्यमेव वेदार्थ इति मतं स्यात्तदार्थे Sनुपलब्धे तत्प्रमाणमि- त्युक्तिर्न स्यात् तङ्गुरुणा भगवता व्यासेन वेदान्तानामखण्डार्थे तत्तु समन्वयादित्यादिना तात्पर्य निरुपयितुं पृथक् शास्त्र नारभ्येतेत्याह- व्यासेन पृथगारम्भात्सिद्धार्थे वेद इष्यताम । व्यासोक्तार्ये जैमिनेम्तु विमतिर्न कदा चन॥ इति। इतरान्वितशब्दार्थ इत्युभयो: संमत तन्त्रभेदस्तु सिद्धसाध्यरूप- प्रतिपाद्यभेदादिति भावः। ननु सामान्यान्वयः पदार्थो विशेषान्वयो वाक्यार्थ इति स्थिते कथमखण्डार्थत्वमिति चेदुच्यते। सैन्धवघन एवेत्येकरसत्वावधारणादतो ऽन्यदार्तमित्यन्यस्य नाशित्वेन कल्पि-
र्थत्वमू। न च प्रथमाविभत्तर्थसंसर्गः तस्या: पाणिन्याचार्येगा प्राति- पदिकार्थमात्रे स्मरणात्। यत्तु क्रियान्तराभावे Sपि अस्त्यर्थन क्रियाससर्गः सर्वत्रास्ति अस्तिभवतिपर: प्रयोक्तव्यः इति कात्या- यनस्मरणात् । भवतिपरः लडन्त इत्यर्थः इति तन्न । वने सिंह इत्यादी प्रथमायोगे यत्र क्रियाकाङ्का तत्रास्तिः प्रयोक्तव्यः यत्र तु अमी द्रुमा: फलिता इति विशेषणे तात्पंर्य तत्र नैवास्तिक्रियासम्ब- न्धः निराकाङ्गत्वातू। एवं सत्यादिवाक्यैरखण्डार्थबोधे निराकाङ्गि- तत्वान्न क्रियासम्बन्ध इति सिद्धान्तः । एवं तावदितरान्वितशक्ति- कथनेन वेदान्तानां सिद्धार्थे प्रामाण्यमुक्तमिदानीं ब्राह्मणो न हन्तव्य इत्यादिनिषेधवाक्यवद्वेदान्तानां सिद्धार्थनिष्ठत्वमित्याह- कार्य निषेधशास्त्रे स्पाहुर्लभं कूर्मदुग्धवत्। तद्वद्वेदान्तशास्त्रस्य सिद्धार्थे मानता स्थिता॥ इति। नञ्स्तावदभावो मुख्योर्थः । नेक्षेतोद्यन्तमादित्यमित्यत्र तु तस्य ब्रह्मचारिगो व्रतमित्यनुष्ठेयवाचिव्रतशब्दादीक्षणविरोधिनी नेक्षे Sह-
Page 55
४ सू. ९ वर्णकम् । १४९ मिति सङ्कल्पक्रिया नञा लक्ष्यते।ननु "नामधात्वर्थयोगी तुनैव नञ्र प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिना"विति वार्तिके तदन्यतद्विरुद्धयोरपि नञर्थत्वमुक्तमिति चेत्सत्यम। नअर्थाभावस- म्न्धादन्यविरुद्धी लक्ष्यावित्येतत्परत्वात्। लक्षणया तल्ाभे शक्य- त्वकल्पना Sयोगात्। निषेधवाक्ये तु लक्षणायां कारसाभावादभाव पवार्थ इति न सर्ववाक्यानां कार्यपरत्वम्। अत्राह प्राभाकरः ।न ब्रा- ह्मणस्याभावो नञर्थः प्रत्यक्षविरोधान्नापि हन्त्यर्थस्याभावः हननस्य प्राप्तत्वात्। नापि तव्यप्रत्ययस्याभावोर्थः । हनने कार्यत्वस्येष्टसा- धनत्वस्य वा सत्वात्। तस्मादभावरूपार्थासम्भवाद्धननविरोधिस- कल्पो नञर्थो विधेयो डहननं कुर्यादिति। तस्मात्कार्यनिष्ठमिदं वा- क्यमिति। उच्यते। हननप्रागभावो नञर्थः। न हन्तव्यम् हनना- भाव इष्टसाधनमित्यर्थः। इष्टश्चागामिदुःखाभावस्तस्य प्रयोजको ह- ननाभावः।कारणाभावस्य कार्याभावपरिपालकत्वात्।न चहननाभावे नियोगः प्रत्ययार्थ इति वाच्यम्। अभावस्यानादित्वेनाननुष्ठेयत्वात्। अथ वा प्रत्ययार्थस्येष्टसाधनत्वस्याभावी नञर्थः । ननु हननादिएं दृश्यते इति चेत्सत्यं न तदिष्ं वलवदनिष्टानुविद्धत्वात्। वलवदनि- प्टननुविद्धमिष्टमित्याचक्षते वृद्धास्तथा च हन्तव्यो न हननं बलव- दनिष्टाननुबन्धीष्टसाधनं नेति प्रत्ययानुदितस्य विशिष्टस्य निबन्धे सति अर्थाद्वलवदनिष्टानुबन्धि हननमिति बुद्धिर्भवति। तया हनने विशिष्टेष्टसाधनत्वभ्रमो निवर्तते । ततस्तङ्ममूलयो रागप्रयत्नयोरा- त्यन्तिकनिवृत्तिरूपमौदासीन्यं भवतीति निषेधवाक्यम् नञर्थे Sभावे सिद्धरूपे पर्यवसितं तद्वद्वेदान्तानां सिद्धार्थनिष्ठत्वमित्यर्थः । किश्च विधिवाक्ये उपि नापूर्वनियोगाख्यं कार्य प्रत्ययार्थः । येन तत्र वेदस्य तात्पर्य स्यात् कुत इति चेदप्रसिद्धत्वेन लोके तत्र लिडादे: सङ्गत्य- म्रहात्। ननु लोके धात्वर्थकार्यतायां सङ्गतिग्रहात्स्वर्गकामिकृति- साध्यता यागादी लिडा प्रतिपन्ना सती तत्रेष्टा स्वर्गसाधनत्वं कल्प- यति ततः क्षणप्रध्वंसिन: स्वर्गसाधनत्वानुपपत्या कल्पिते नियोगे सङ्गतिग्रह इति चेन्न। वकबन्धप्रयासान्नियोग: स्वविषये यागे का- र्यता बुद्धिहेतुरिति ते मतम आदावेव चचेल्लिडा सा लब्धा किं कल्पि- तनियोगेन सङ्गतिप्रयासेन। न हिबके लब्धे तच्छिरसि नवनीतप्रचं- पायासः फलवानू। अथ यागादी प्रतिपन्नकार्यतानिर्वाहार्थमेवापूर्व कल्व्यतामिति चेत्कामं कल्व्यतामन्यलभ्यत्वान्न तस्य शब्दार्थत्व-
Page 56
११० विवरणोपन्यासे मिति वदामः। इष्टासाधनता विध्यर्थ इत्युक्तम् न विस्मर्तव्यमिति सङ्गपः । यत्तु श्रुतब्रह्मणो Sपि यथापूर्व संसारदर्शनान्न ज्ञानमात्रा- न्मुक्तिरिति तत्राह- ब्रह्मात्मावगतौ सत्यां संसार: पूर्ववन्न हि। अज्ञानमूल: संसारो ज्ञाने सति कथं भवेत्॥ इति। अवगतिः साक्षात्कारः। ननु कर्मनिमित्तः शरीरबन्धः आत्मनः कर्मणैव निवर्तनीयों न ज्ञानेनेत्यत आह। अज्ञानेति । असङ्गकूटस्था- त्मवि कर्मासम्भवादनाद्यनिर्वचनीयाज्ञानमूलैः कामकर्मभिः संसारो घाच्यः । अतो ज्ञानेन मूलध्वंसान्न ज्ञानिनः संसारः तत्र को मोहः कः शोक एकत्वमनुपश्यत इत्याद्या: श्रुतयो पि ज्ञानमात्रान्मुक्ति दर्शयन्तीति भावः। ननु तर्हि ज्ञानिन द्वैतदर्शनं कथमित्यत आ्रराह- ज्ञानात्सर्वस्य नाशे Sपि प्रारब्धं न निवर्तते। देहे सत्यपरोक्षा धीर्व्यासादीनां यथा तथा॥ इति। करतलीकृतब्रह्मतत्वस्यापि प्रारब्धकर्मास्ति तस्य तावदेव चिर- मिति ्रुत्यैतत्सङ्गातध्वंसरूपे विदेहकवल्ये विलम्वश्रवणादेतच्छ्वूति- वलात्क्षीयन्ते चास्य कर्माणीति सामान्यश्रुतिः प्रारब्धकर्मातिरिक्त- कर्मविषया। न चाज्ञाननाशे तदुपादानकं प्रारब्धं क्थं तिष्ठेदिति वाच्यम्। अंशभेदादज्ञानस्य द्वावावरणविक्षेपावंशी तत्रावरण- ज्ञानांश एव ज्ञानात्सय्यो निवर्तते ज्ञानेन समानं विषयतया विरो- धाद्विक्षेपकाज्ञानांशस्तु यावत्मारब्धमवतिप्ठते छिन्नमूलवृक्ष इव यावत्वकसारम्। ज्ञानाभिव्यक्तचैतन्यात्मके निवर्तके सत्यपि प्रार- ब्धप्रतिबन्धाद्वा तन्निर्वाहकाज्ञानांशानिवृत्तिः अतः प्रारब्धदोपबलादू व्युत्थानदशायां द्वैतदर्शनमिति भावः । अत्राह जीवन्मुक्तिद्वेषी नास्त्येव सशरीरस्यापरोक्षात्मज्ञानमिति तत्राह । देहे सतीति । अस्तीति शेषः । न ह्यन्धनव चक्षुष्मता रूपदर्शनं नास्तीति वक्तुं शक्यमप्रतिबद्धसामत्रीसत्त्वादतो निबिडपापमण्डलीजडीकृतस्वान्त- स्य ध्वान्तध्वंसिज्ञानभानुजनुरभावे Sपि बहुजन्मनिचयसञ्चितभग- घदपचितिवञ्चितपञच क्केशमलमानसानां महानुभावलब्धमहावा- क्यानां सत्येव शरीरे ज्ञानमुत्पदते। उपपद्यते चोक्तयुत्त्ा जीवन्मु- क्तिशास्त्रं तद्यथा Sहिनिर्ल्वयनी अभयं वै जनकप्राप्ती Sसि क्षीयन्ते चास्य कर्माणीत्यादि स्मर्यते च व्यासवसिष्ठादयो जीवन्मुक्ता इति। ननु ज्ञानिनो देहदर्शनसत्वे कर्माधिकार: स्यादित्यत आ्रह-
Page 57
४ सू. ९ वर्णकम् । १११ ज्ञानिनो न नियोग: स्या१न्न स्वेष्टाचरणं तथा। मननादिनियोगस्य ज्ञानात्पूर्व गतत्वतः । इति। अविद्यावद्विपयं शास्त्रमित्युक्तम। ज्ञानिनः कर्मकरणाध्यासा- भावात्तत्फलानपक्षत्वाच्चेति। न च विधिनिषेधातीतत्वे यथेषटचेष्टा- प्रसङ्गस्तत्रापि रागस्य हेतुत्वात् न हि निरस्तसमस्तानर्थानन्दाब्धि- मग्नचित्तस्यान्यत्र रागः सम्भवति। ननु ज्ञानिनः कर्म नास्तीति कथं श्रवणानन्तरं मननादिविधिरिति चेर्तिक तावता न हि श्रवण- मात्रादपरोक्षज्ञानमस्ति अप्रतस्तदर्थमेव मननादिविधानम् ।अतो वा- क्यार्थानुभवे सति न किश्चित्कार्यमस्ति येन विधिपरा वेदान्ता: स्युः। सर्वज्ञवादरायणेन पृथक् शास्त्रं नारभ्येत। यदि वाह्यान्तरसाधनविधि- भेदाच्छास्त्रभेदस्तर्हि अथातः परिशिष्टमानसधर्मजिज्ञासेत्यारभ्येत अतो ब्रह्मजिज्ञासेत्यारब्धत्वाङ्गह्मपरा वेदान्ता इति सिद्धम्। अत्राह सर्वसंकरवादी सत्यो भेदो नाभेदज्ञाननिवर्त्यो Sविरोधात्किन्त्वभेदा- ध्यासरूपात्कर्मणो भेदनाश इति तन्न। मानाभावात्। ब्रह्म वेद ब्रह्मैव भवतीति ज्ञानैकनिवर्त्यत्वावगमादविरोधे तदभ्यासादपि निवृत्त्ययोगात्। विरोधे तु नोभयोः सत्यत्वं खण्डो गौरित्यादिप्रत्य- यानां कल्पितभेदविषयत्वात् बहुधा निरस्तो 5यं भेदाभेदवाद इत्यु- . पक्ष्यते। तार्किकाभिमतात्यन्तभदवादस्तु मानयुक्तिहीनः। तथा हि सर्वदेहेष्वहमित्येकाकारप्रत्यय आत्मैक्ये प्रमाणम्। विवादग्रस्ता देहास्त्वद्दोक्तृकाः जीवदेहत्वात्वद्ेहवत् इत्याद्यनुमानमेको देव: एक एव हि भूतात्मा भूते भूते व्यवस्थित इत्यादिरागमः सुख- दुःखादिवैचित्रयं त्वन्तःकरणभदादुपपद्यते द्वा सुपर्णेत्यादिश्रुतिस्तु कल्पितभेदमनूद्यानश्नन्नन्य इति वाक्यशेषेणसंसारित्वं बोधयति। नान्यो पतो डस्ति द्रष्टेत्यादिना भेदस्य निषेधाच्च कल्पितत्वं धर्मि- प्रतियोगिसापेत्तत्वाच्च। तथा हि प्रतियोग्यवृत्तित्वेनानुयोगिवृत्ते- धर्मस्य ज्ञानं भेदज्ञाने कारणं घटत्वं पटे नास्तीति जानत एव घटः पटो न भवतीति प्रतीतेरजानतो Sप्रतीतेरनुयोगितावच्छेदकस्य धर्म- स्य प्रतियोग्यवृत्तित्वज्ञानं तु भेदज्ञानाधीनमिति अन्योन्याश्रयातू। प्रातिभासिक एव भेदो डमेदस्तु न भेदाभावः किन्तु भेदभ्रमह्देत्व- ज्ञानाधिष्ठानवस्तुस्वरूपः । तस्मादद्वैतवस्तुसाक्षात्कारमात्रात्सर्व- वस्तुद्वैतनिवृत्तिर्युज्यते इत्याह- (१) स्याद्यथष्टाचरणं तर्थति पाठान्तरम्।
Page 58
११२ विवरणोपन्यासे भेदाभेदी न सत्यौ स्तो डभेदः सत्यो मृपा भिदा। अभेदाज्ञानजं सर्व तज्ज्ञानाद्विनिवर्तते॥ अ्रनाद्यविद्याविलसितान्तःकरणाद्युपाधिनिबन्धनः प्रमातृत्वाभि- मान आत्मनो यावन्न निवर्तते तावदेव शास्त्रीयो लौकिकश्च सर्वो ठयवहार: अद्वितीयनिरतिशयानन्द चैतन्यैकताननिरवयवस्व्रच्छास- ङप्रत्यग्भूतब्रह्मसाक्षात्कारात्तन्निवृत्ती सवो व्यवहारो निवर्त्तते इति घेदान्तजन्यज्ञानात्कृतकृत्यतामाह- प्राप्तव्यमखिलं प्राप्तं हातव्यमखिलं हतम्। कृत्यं ज्ञेयं समाप्तं च ब्रह्मास्मीत्यवबोधने॥ इति। अश्वमेधादिभिरप्यात्मानन्दस्यैव लेशाः प्राप्तव्या एतस्यैवान- न्दस्यान्यानि भूतानि मात्रासुपजीवन्तीत्यादिश्रुतेरत आत्मज्ञानिना ते लब्धा भवन्ति तदाहापस्तम्बः । आत्मलाभान्न परं विद्यते इति निर्गलितसकलशोकस्यात्मनो ये शोका भ्रान्तिमूला हातव्या आ- संस्ते सर्वे ऽपि हता भवन्त्यतः कामयितव्यान्तराभावात्कामानुपपत्तेः कृतकृत्यता भवति। इत्थं निरतिशयफलावसानाद्वेदान्तानां घ्रह्मा- त्मनि तात्पर्यमिति सिद्धम् ॥ गोविन्दानन्दभगवत्पूज्यपादपदीकसा। रामानन्दसरस्वत्या रचितो ऽनुक्रमो मुदे॥ वोधगन्धा विवरणवाक्पुष्पा नवरूपिणी। उपन्यासाभिधा माला प्राप्ता श्रीरामपादुकाम् ॥
पादशिष्यरामानन्दसरस्व्रतीकृता विवरणोपन्यासे नवमं वर्णकं समाप्तम् ॥ समाप्तो 5यं विवरणोनन्यासः॥
Page 59
श्रीगणेशाय नमः । श्रीसच्चिदानन्दजगद्गुरवे नमो नमः। श्रीमच्छङ्कराचार्यप्रणीता वाक्यसुधा श्रीमद्ूह्मानन्दभारतीप्रक्कृपया टीकया सहिता।
यस्मात्सर्व समुत्पन्नं चराचरमिदं जगत् । इद नमो नटेशाय तस्मै कारुण्यरूपिणे ॥ १ ॥ कारणं खादिजगतां तारणार्थमनागसाम्। वारणाननमात्मानमद्यं समुपास्महे॥२॥ परापश्यन्त्यादिदेहां प्रणताभीप्रदायिनीम। सत्यज्ञानानन्दरूपां ध्याये ह्याद्यां सरस्वतीम् ॥३॥ नत्वा श्रीभारतीतीर्थविद्यारण्यसुनीश्वरी। मया वाक्यसुधाटीका यथामति विरच्यते ॥४ ॥ न ख्यातिलाभपूजे च टीकाकरणकारणम्। न विद्वत्तावलं वा Sत्र मुक्तिरेवात्र कारणम् ॥ ५ ॥ प्रारीष्सितस्य ग्रन्थस्याविप्नेन परिसमाप्तिप्रचयगमनाय शिष्टा- चारपरिपालनाय च केवलकूटस्थप्रत्यग्वोधरूपपरमात्मस्वरूपानु- स्मरणलक्षएं मङ्गलमाचरन् सच्चिदानन्दाखण्डैकरसस्वरूपावस्था- नलक्षणस्य मोक्षस्य तत्त्वमस्यादिमहावाक्यार्थापरोक्षज्ञानफलत्वा- द्वाक्यार्थज्ञानस्य चान्वयव्यतिरेकाश्यां पदार्थपरिशोधनपूर्वकत्वात्प- दार्थपरिशोधनस्य प्रसिद्धानुवादेनाप्रसिद्ध निरूपणीयमिति न्यायेन प्रतिशरीरमहमहमिति प्रसिद्धजीववाचकत्वंपदार्थपरिशोधनपूर्वक- त्वात् श्रीमच्छारीरकमहाशास्त्रे श्रीमन्भाप्यकारै:प्रतिपादितमर्थ हृदि निधाय प्राण्यनुजिघृक्षया दृग्दृश्यविवेकद्वारा प्राधान्येन त्वंपदार्थ- परिशोधनपरमिद प्रकरणमारभमाए: परमकृपानिधि: श्रीभारतीती- र्थगुरुः प्रकरणप्रतिपाध्यमानमर्थ संक्षिप्य प्रथमन्लोकेन तावदर्श- यति।
Page 60
२ सव्याख्यायां वाक्यसुधायाम्।
श्रीरामचन्द्राय नमः । रूपं दृश्यं लोचनं दकू तद्दृश्यं दक्क मानसम् । दृश्या धीटत्तयः साक्षी दृगेव न तु दृश्यते ॥१ ॥ रूपमिति॥ लोके चक्षुरिन्द्रियग्राह्यं यदूपमस्ति तत्सर्व दृश्यं भवति तदूग्राहकं चक्षुरिन्द्रियं स्वग्राह्यापेक्षया दग्भवति तथा तत्पुनश्चक्षुरि न्द्रियं स्वस्मादप्यान्तरस्य मनसो दृश्य भवति स्वमास्यचक्षुरिन्द्रिया- पेक्षया मानसमपि दग्भवति द्रष्ट भवति मनसः सर्वेन्द्रियावभासक- त्वसामर्थ्य द्योतयति।तुशब्दःधोवृत्तयःअन्तःकरणस्य वत्षमाणवृत्तय- स्तदविद्याकार्यत्वेन जडरूपत्वात् दृश्या भवन्ति साक्षी शरीरत्रयवि- लक्षणः प्रत्यगात्मा द्ृगेव भवति द्रष्टैव भवति एवकारेणाथाददृश्यत्वे निषिद्धे Sपि कण्ठतो Sपि दृश्यत्वं निषेधयन्प्रत्यगात्मनो द्रष्टत्वमेव दढयति न तु दृश्यते इति।साक्षिणि वतमानस्य द्ृक्त्वस्य सर्वान्तरत्वे सापेक्षितत्वाभावात्ततस्तस्य लोचनमानसयविर्त्तमानत्त्तरवलक्षण्यं द्योतयति द्वितीयस्तुशब्द: साक्षिण: दृश्यत्वमप्रमाणिकमिति यस्मा- सस्मात्कालत्रये ऽपि दृत्क्मेवास्य स्वरूपमिति भावः ॥ १॥ एवं प्रकरणे प्रतिपाद्यमानमर्थ संक्षिप्य प्रथमन्ोकेन दशयित्वा इदानों प्रथमश्लोकस्य प्रथमपादेन दर्शितमर्थ द्वितोयश्लोकेन स्पष्ट- यति नीलपीतस्थूलसूक्ष्महस्वदीरघादिभेदतः । नानाविधानि रूपाणि पश्येल्लोचनमेकधा ॥२ ॥
भदभिन्नत्वेन दृश्यत्वं प्राप्तानि रूपाणि चक्षुरिन्द्रियं स्वयं स्वग्राह्यरू- पभेदानुकूलस्वरूपभेदमगृहीत्वैव एकरूपेणैव पश्येत् गृह्नीयात् अत एवास्य दत्कं स्यादिति भाव: ॥२॥ एवं प्रथमश्लोकस्य द्वितीयपादोक्तमर्थ स्पष्टीकुर्वन् चक्षुरिन्द्रिये प्रदर्शितन्यायं श्रोत्रादीन्द्रियेष्वप्यतिदिशति। आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चकधा। सङ्कल्पयेन्मनः श्रात्रत्वगादौ योज्यतामिदम् ॥३॥ आन्ध्यमिति॥ आन्ध्यं नाम सामान्याकारेणापि स्वविषयग्रहणा- सामर्थ्य विषयसामान्याकारग्राहकत्वं मान्यं स्वविषयसूक्ष्मविशे-
Page 61
सव्याख्यायां वाक्यसुधायाम्। २
पाकारग्रहसासामर्थ्य पदुत्वम्।एवमत्र नेत्रधर्मेषुआन्ध्यमान्द्यादिभे- दभिन्नेध्वपि नानात्वेनैव हेतुना भास्यमानान् तान्नेत्रधर्मान् भास्यभे- दानुरूपस्वरूपभेदमगृहीत्वैकरूपणैव मनः सङ्कल्पयेत मम चक्षुरन्धं मम चक्षुर्मन्दमम चक्षुः पद्विति अत एवास्य मनसो हकृत्वं भवती- त्यर्थः।श्रोत्रत्वगादीत्यत्र चशब्दः सम्बध्यते श्रोत्त्वग्जिव्हाप्राणेष्व- पीदं सविषयापेक्षया हक्त्तं सरभासकमानसापेक्षया दृश्यत्वं यथोचितं चाधिर्यादिकञ्च योज्यतामुह्यतामित्यर्थः।एकस्मिन्निन्द्रिये हरादृश्यवि- वेक दर्शयित्वा श्रोत्रादीन्द्रियान्तरेष्वप्येवं योज्यतामित्यतिदिशति। आचार्यस्य स्वशिष्यैः स्वबुद्धा क्रियमाणो दरदृश्यविवेक एव पुरुषा- रथोपायो भवतीत्यभिग्रायः ॥३॥ प्रथमश्षोकस्योत्तरार्द्धे साक्षी दगेवेत्यन्तेन ग्रन्थेन प्रदर्शितमर्थ विशदयति। कामः सङ्कल्पसन्देहौ श्रद्धाश्रद्धे धृतीतरे।
काम इति॥ रज्ज्वज्ञानाद्रज्ज्वारोपितान् सर्पादीन् रज्जुरिव स्वा- ज्ञानात्स्वस्मिन्नारोपितान कामः सङ्कल्पो विचिकित्सा श्रद्धा S्श्र- द्धा धृतिरधृतिह्वीर्धीभीरित्येतत्सर्व मन पवेति बृहदारण्यकश्रु- त्युक्तानादिशब्देन संगृहीतनितरेयोपनिषद्युक्तान्संज्ञादींश्च स्वरूपज्ञाना- पनोद्यानेतान् सर्वानव्यन्तःकरणवृत्तिविशेषान्खगतादिभेदरहितस- व्ििदानन्दलक्षणव्रह्माभिन्नकूटस्थप्रत्ययनपा सर्वसाक्िणी चितिरेकधा भासयति विकारकारणाभावात्सभास्याऽवस्तुभूतविकारानुरूपं स्व- गतविकारमन्तरेणाव्येकरूपेणैव प्रकाशयतीति यावत् ॥४॥ इन्द्रियमनसोरुक्तन्यायेन उक्तलक्षणायाश्चितेरपि दृश्यत्वं स्या- दित्याशङ्गायां दृश्यत्वस्य द्रष्टपूर्वकत्वाच्चितेर्द्रपृत्वेन चित्यन्तराङ्गी- कारेणानवस्थाख्यां दोप: स्यात् चितेश्चितिरेव द्रष्टीत्यस्मिन् पक्षे Sपि कर्मकर्तृविरोधः स्यात्तस्मात्प्रकाशान्तरनिरपेक्षतया स्वयंप्रकाशमा- नायाश्चितेदश्यत्वं न स्यादित्यर्थतो दर्शयन्मुखतः स्वव्यतिरिक्तान्तः- करणादियुष्मदर्थेभ्यश्चितेर्वलक्षण्यं न तु दृश्यते इत्यंशविवरणेमानेन श्रोफेन दर्शयति।
- भासमानानिति वा पाठः।
Page 62
सव्याख्यायां वाक्यसुधायाम् ।
नोदेति नास्तमेसेपा न दृद्धि याति न क्षयम्। स्वयं विभातथान्यानि भासयेत्साधनं विना ॥ ५ ।। नोदेतीति॥ यत्साक्षादपरोक्षाद्रह्वेति श्रुत्युक्तप्रकारेण विद्वदपरो- क्षतां चितेरर्थात्सूचयन् उक्तलक्षणां चिति परामृश्यत्यपति। सर्व- साक्षिण्येषा चितिरहमादियुष्मदर्थवत्प्रागभावाभावान्नदेति नोत्प- द्यते प्रध्वंसाभावाभावान्नास्तमेत्यन्तं विनाश न प्राप्नोति वृद्धिक्षयौ ताश्याम् उपलक्षितौ अस्तित्वपरिणामौ च न प्राप्नोति सर्वथा उप्येकरूपत्वादुत्पत्यनन्तरं भाविव्यावहारिकास्तित्वमेव विकारान्तः- पातित्वेन निषिध्यते न तु स्वरूपास्तित्वं तस्याविकारत्वेन निषे- दमशक्यत्वाच्चिते: पड्भावविकाररहितत्वे हेतुं दर्शयति स्वयं विभा- तीति। एषा चितिः स्वस्य प्रकाशान्तरनिरपेक्षतया स्वयंप्रकाशमाना
लान्यारोपितवस्तूनि भासयेत् प्रकाशयेत् तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमिदं विभातीति श्रुतेः सविकल्पस्य ज्ञानस्य निर्विकल्पकज्ञानपूर्वकत्वाच्चात्रानुमानद्वयं सूचितम अस्मत्प्रत्ययवि- पया एपा चिति: पड्भावविकाररहता प्रकाशान्तरनैरपक्ष्येण स्वयं- प्रकाशमानत्वाद्यत्पड्भावविकाररहितं न भवति तत्प्रकाशान्तरनैर- पेक्ष्येण स्वयंग्रकाशमानमपि न भवति यथा युष्मत्प्रत्ययविषयो Sहमादिः उक्तलक्षणा एपा चितिः पडभावविकाररहिता प्रकाशा- न्तरनरपक्ष्येण स्वव्यतिरिक्तवस्त्वयभासकत्वाद्यन्नैवं तन्नैवं यथा Sहमादिरित्येवमुक्तप्रकारण स्वयंप्रकाशमानत्वात्पड्भावविकाररहि- तत्वाञ्च युष्मदर्थवैलक्षण्ये समर्थिते सति चितेः कालत्रये Sपि दक््त्वमेव स्वरूपं न तु दृश्यत्वमित्यर्थात्समर्थितं भवति अदष्टं द्रष्ट्र- श्रुतं श्रोत्रमतं मतमविज्ञातं विज्ञातृ न दष्टेद्रष्ठारं पश्येन्न श्रुतेः श्रीतारं श्रुणुयान्न मतेर्मन्तारं मन्वीथा: न विज्ञातेर्विज्ञातारं विजानीया इत्या- दिश्रुतिसहस्त्रेणाप्ययमेवार्थस्तात्पर्येण प्रतिपाद्यते इति अतो युष्मत्प्र- त्ययविषयान्तःकरणादिरूपं दृश्यमेवास्मत्प्रत्ययावलम्बनभूताया: प्र- त्यक्चिते: स्वरूपं द्क्त्वमेवातःप्रत्यक्चितिरंव परं व्रह्मेत्ययमेवाभि- प्रेतार्थः ॥ ५॥ ननु युष्मदर्थावभासकत्वं प्रथमश्लोके साक्षिण इत्युक्तम । अत्र तु चितेरित्युक्तम अतः पूर्वापरविरोध इति चेन्नैप दोष: प्रथम-
Page 63
सव्याख्यायां वाक्यसुधायाम् ।
श्लोकोक्तसाक्षिण पवात्र चितिशव्देन परामृष्टत्वात्तस्यैव पुनः प्रथम-
तत्र तत्र सात्िशब्देन परामृष्ट त्वात्साक्षी चितिश्चिच्चतन्यं ज्ञानं बोध: प्रत्यगात्मा कूटस्थ इत्यादिशव्दानामेकार्थपर्यवसायित्वाच्च। ननु तर्हि युष्मदर्थस्यान्तःकरणस्य सापक्षक दृत्ततमपि न सम्भवति भौतिक- त्वेन जडात्मकत्वाद्धटादिवत् दप्टरि नास्ति दृश्यत्वं दृश्यस्य द्रष्टता न हि दृश्यरूपस्य कुड्यादर्द्रष्टृता न हि दृश्यते इति पुराणवचनाच्च तथा सति तस्य संसारो नोपपद्यते।अथ वा पूर्वोक्तप्रकारेणाहमादि- विलक्षणस्य कूटस्थस्य स्वयंप्रकाशप्रत्यग्बोधरूपस्य सात्िणश्च जा- प्रदादिविमोक्षान्तः संसारो नोपपद्यते तस्यासङ्गोदासीनत्वात् यो Sसंसारी न भवति सो Sसङ्ग उदासीनो पपि न भवति यथाहमादि: असङ्गो ह्ययं पुरुष इत्यादिश्रुतिसद्भावाद्धतुरसिद्धो न भवत्येवमुक्त- प्रकारेणान्तःकरणतत्साक्षिणोरुभयोरप्यसंसारित्वे समर्थिते सति निवर्त्यसंसाराभावात्तव्निवर्तकज्ञानस्यापि नैरर्थक्यं स्यात्ततस्त- ज्ज्ञानप्रतिपादकवेदान्तवाक्यानामप्यप्रामाणिकत्वप्रसङ्ग: स्यात् पुन- रुक्त लक्षणस्याशेषविशेषशून्यस्य साक्षिणः शव्दप्रवृत्तिनिमित्तषष्ठया- दिरहितत्वेन वेदान्तवाक्यविधिमुखेन प्रतिपाद्यमानत्वासम्भवादत- स्तन्निरसनमात्रेण तदूपाप्रसिद्धश्च शास्त्रस्याप्रामाण्यं प्रसज्येत एवं परम्परया Sनेकदोपसम्भवात्साक्षिशाः कूटस्थत्वस्वयंप्रकाशमान- त्वादिकमप्यप्रामाणिक स्थादित्यनेकदोपमाशड्ान्तःकरणप्रतिफ- लितानिर्वचनीयचिच्छायाङ्गीकार सति सर्वो ऽपि दोपः परिहतः स्यादित्यभिप्रेत्य चिच्छायां तावदङ्गीकरोति। चिच्छायावेशतो बुद्धौ भान धीस्तु द्विधा स्थिता। एकाहङ्कतिरन्या स्यादन्तःकरणरूपिणी ॥ ६ ॥ चिच्छायेति॥ चिच्छायावेशतो बुद्धी भान रजतसुवर्णादिवद्गहुवि- धपरिणामार्हमन्तःकरणाख्यं द्रव्यमत्र दुद्धिशद्देन धीशव्देन चोच्यते तस्यान्तःकरणस्य कर्तृस्वरूपवृत्तिमदंशो Sहंकृतिशब्देनोच्यते करणा- स्वरूपमनःशब्दयाच्याहमिद मात्मिकवृत्त्यंशो उन्तःकरणशब्देनोच्यते तत्र श्रोतादिकरणापेक्षया अन्तःकरणत्वादन्तःकरणं बुध्यते अनया चिच्छायावेशतः।चिच्छाया चित्प्रतिबिम्बं तस्या आवेशो ऽनुप्रवेश- * परामृश्यत्याविति ना पाठः ।
Page 64
६ सव्याख्यायां वाक्यसुधायाम्।
स्ततो स्वरूपमिति बुद्धिस्तस्यां भान स्यात्स्वभावतो जडरूपा डप्यनु- प्रविष्टचैतन्यवलाद्वुद्धि: स्वयंप्रकाशमानेव भवतीति यावत्। धीस्तु द्विधा। तुशब्दो Sवधारणे ।भ्रामकसन्निधौ लोहवत्सात्तिसन्निधौ वहु- विधचेष्टांस्थिता कुर्वती सा धीर्द्विधैव स्थिता तयोर्मध्यं एका धीरहङ्क- तिशब्दवाच्यकर्तृरूपा स्यादन्या धीर्मनःशब्दयाच्याऽन्तःकरणरूपिणी स्यात् कामादीनां संज्ञादीनां च सर्वेपामप्यन्त:करणपरिणामविशे-
क्षणाकारद्वयव्यतिरिक्तान्तःकरणाकारान्तरस्य निरूपयितुमशक्य- त्वात् चित्कर्मभूताबुद्धि: स्वविकारानुकारिणा Sनुप्रविष्टचैतन्येन स-
द्वयेंनकावस्थितेति भावः ॥६॥ उक्तलक्षणयोरहङ्कारमनसोर्मध्ये डहङ्कारस्य चिच्छायया सह तप्तायःपिण्डवत्तादात्म्यात्तेन सचचिदाभासाहङ्कारेण तादात्म्याजड- रूपो Sपि देहश्चेतनत्वं प्राप्तुयादित्याह। छायाहङ्कारयोरैक्यं तप्तायःपिण्डवन्मतम्।
छ्वायेति॥ छ्ायाहङ्कारयोश्चिदाभासकर्त्रेरिक्य तप्तायःपिण्डवद्व- न्हिसम्बन्धेन तद्ूपंतप्ायःपिण्डवन्मतमभिप्रेतं तथा दष्टान्ते अयम- ग्निरिदमय इति पृथकरणमशक्यं तथा दार्श्टान्तिके Sप्ययमहङ्कार इयं चिच्छायेत्य हङ्कारस्वरूपस्य तत्रानुप्रविष्टचिच्छायास्वरूपस्य च पृथ- क्वरणमशक्यमिति भावः।तदहङ्कारतादात्म्यात्तेन चिच्छायासहितेनाह- द्वारेण तादात्म्यात् सो उहङ्कार आत्मा नाम स्वरूपं यस्य देहस्य स तदात्मा तस्य भावस्तादात्म्यं सम्बन्ध इत्यर्थः। तस्माद्देहः स्थूलश- रीर स्वयं जउरूपमवि चेतनतां चेतनं ज्ञानं तस्य भावश्चेतनता तां ज्ञान- स्वरूपतामगात्प्रापुयादित्यर्थः।यथा पयसि परीक्षणार्थ प्रक्षिप्तो मरक- तमणि: पयोशेषमात्मच्छायं कुर्यात्तथा स्वभावत एव सर्वान्तरः कूट- स्थो Sसङ्गवोधरूप: साक्ष्यप्यहङ्कारादिस्थूलदेहपर्यन्तमरोषं युष्मदर्थ- मात्मच्छायं कुरुते इति भावः ॥७॥ नन्वेवमहङ्कारस्य चिच्छायादेहाभ्यां तादात्म्ये सत्यहं पश्याम्यहं
Page 65
सव्याख्यायां वाक्यसुधायाम्। ७
तादात्म्यमस्तीत्याशडूय इन्द्रियाणां स्वस्वगोलकस्थानमन्तरेण स्वस्वविषयग्रहणसामर्थ्याभा- वाढोलकानां च स्थूलशरीरावयवत्वादवयवावयाविनोर्भेदाभावान्म- नुप्यो डहं ब्राह्मणो Sहं गृहस्थो Sहं कृष्णकेशो Sहमित्यादिवदहं चक्षुरहं श्रोत्रमित्याद्यनुभवाभावात्कस्त्वमिति पृष् अहमिति वदतो देहस्यैव रपृश्यमानत्वच्चन्द्रियतादात्म्यस्यापि देहतादात्म्ये Sनतर्भूतत्वात्पृथक न निरूपणीयमित्यहङ्कारस्य सम्वन्ध्युद्देशद्वारेण तादात्म्यस्येयत्तां दर्शयति। अहङ्कारस्य तादात्म्यं चिच्छायादेहसाक्षिभिः । सहजं कर्मजं भ्रातिजन्यश्च त्रिविधं कमात् ॥८॥ अहङ्कारस्येति॥ अहङ्कारस्येत्युक्तलक्षणस्य कर्तुश्चिच्छायादेहसा- चिभि: चिच्छायया देहेन सात्िएा च सह क्रमात्सम्वन्ध्युदेशक्रमेण त्रिविधं त्रिप्रकारं तादात्म्यं सम्बन्धस्तेपां तादात्म्यानां सद*र्थानि नामानि कल्पयति सहजं चिच्छायाहङ्कारयोर्यत्तादात्म्यं तत्सम्बन्धि- नोरुभयोरप्युत्पत्तिकाले सहैव जायते इति सहजमित्युच्यते कर्मजम उक्तलक्षणाहङ्कारस्य देहस्य च यत्तादात्म्य तदन्वयव्यतिरेकाभ्यां जाग्रन्भोगप्रदकर्मणैव जायते इति कर्मजमित्युच्यते भ्रान्तिजन्यमधि-
तदनाद्यनिर्वचनीयभ्रान्त्यैव जायते इति भ्रान्तिजन्यमित्युच्यते। तादात्म्यत्रयसमुच्चयार्थश्चरब्दः।अत्रायं प्रयोगः । अहड्डरसाक्षिणो-
जन्य यथा रज्जुसर्पादीनां तादात्म्यं तथा चेदमधिष्ठानयाथात््यज्ञा- नापनोदं तस्मादधिष्ठानयाथात्म्याज्ञानजन्यमेवेति। एवमहङ्कारस्य चिच्छायादेहसाक्षिभिः सम्बन्ध्युद्दशक्रमेणैवोक्तलक्षणं त्रिविधं तादात्म्यमस्तीति शेपः ॥८॥ ननु तर्हि "ऊर्ध्वमूलमधःशाख्रमश्वत्थं प्राहुरव्ययम्" एवमनादि- रनन्तो नैसर्गिको Sयमिति च श्रीभगवन्भा्यकाराभ्यामुक्तत्वादहङ्का- रसाक्षिणोस्तादात्म्यस्य निवृत्तिर्नास्त्यत एव निःशेषदुःखोच्छित्तिनि- रनिशयानन्दावाप्तिलक्षणमोक्षो उप्याशामात्रमित्याशड्क ब्रह्मात्मज्ञान- * रामर्थानीति वा पाठः।
Page 66
सव्याख्यायां वाक्यसुधायाम् ।
पर्यन्तमेव भ्रान्तिजन्यतादात्म्यस्याऽविनाशित्वेन ताभ्यां विचक्षित- त्वादन्यथा स्ववाक्याविराधात्सर्वेषामपि मोक्षशास्त्राणामप्रामाण्यप्र- सङ्गाच्च मुमुक्षूामपि सर्वेपां मोक्षविषयश्रवणादिप्रवृत्त्यभावाध् कर्मजन्यतादात्म्यनिवृत्तेश्च प्रतिदिनं सुषुप्तावनुभूतत्वाञ्च सहजता- दात्म्यातिरिक्तयोरपि तादात्म्ययोः स्वस्वकारणनाशद्वारा निवृत्तिर- स्त्येव सहजतादात्म्यस्य तु सहजत्वादेव निवृत्तिर्नास्तीत्याह। सम्यन्धिनोस्सतोर्नास्ति निषृत्तिः सहजस्य तु। कर्मक्षयात्प्रवोधाच्च निवर्तेते क्रमादुभे ॥९॥ सन्वन्धीति ॥ सम्बन्धिनोः सतो: परस्परसम्बन्धित्वेनैवोत्पधर्मा- नयोरुतूपत्तिकाले एव सम्बन्धिनोरित्यर्थः। तुशब्दो Sवधारए। सह- जतादात्म्यस्येतरतादात्म्यवैलक्षण्यद्योतनार्थो वा। उक्तलक्षणयोश्चि- च्छायाहङ्कारयोः सहजाख्यस्य तादात्म्यस्य निवृत्तिर्नास्त्येव परस्पर पृथग्भावो न सम्भवत्येव सुषुत्तिर्मूर्छा मरणादो जाग्रद्भोगप्रदकर्म- क्षयात् जाग्रत्काले श्रुत्याचार्यानुग्रहवलनाहं ब्रह्मास्मीति ब्रह्मात्मैक्य- साक्षात्काराञ्च कर्मजन्यभान्तिजन्याख्ये उभे अपि तादात्मये निमित्ता- भावान्नैमित्तिकस्याव्यभाव इति न्यायेन क्रमान्निवर्तेते कर्मक्षयात् कर्मजं तादात्म्यं निवर्तते अहङ्कारदेहाख्यावुभावपि सम्बन्धिनौ पर- स्परसम्बन्धं त्यजते इत्यर्थः।प्रवोधादप्रवोधक्षये सतिभ्रान्तिजन्यमपि तादात्म्यं निवर्तते बोधानन्तरं साक्षिसम्वन्धराहित्येनाप्यहङ्कारप्रती- तिरन्यदृष्टयैव स्वदष्टया निवर्तते यथा शुक्तिकाज्ञानात्तत्स्वरूपाज्ञाने नष्टे सति तत्रैव रजतं लीयते तथा स्वरूपपरिज्ञानात्स्वरूपाऽपरिज्ञाने नष्टे सति स्वस्मिन्नेवाहङ्कारी लीयते एव॥ ६ ॥
दर्शयति। अहङ्कारलये सुप्तौ भवेद्ेहो Sप्यचेतनः । अहङ्कारविकासार्द्धः स्वप्रः सवस्तु जागरः ॥ १० ॥ अहङ्करति॥ स्थूल सूक्ष्मभोगद्वयप्रदकर्मक्षयात्सकारण।*ज्ञाने अह- द्वारे लीने सति तदहङ्कारलयावस्था सुपुततिरित्युच्यते तस्याम- वस्थायां पूर्वमहङ्कारसम्वन्धाश्च्ेतनत्वेन भातो देहो उ्यचेतनो भवेतु * क्षयात्सकारणाज्ञाने इति वा पाठ:।
Page 67
सव्याख्यायां वाक्यसुधायाम्। ९
"अन्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवति उपतापी सन्न- नुपतापी भवती"त्यादिश्रुतेः अहङ्कतिविकासार्द्धः स्वप्नः सूक्ष्मभो- गकर्मण्युद्ुद्धे सति तद्वशात्स्वकारण*ज्ञानादुत्पन्नस्याहङ्गारस्य स्व- व्यतिरिक्तवस्त्वन्तराभावे पि जाग्रजनितसंस्कारमात्ररूपभोगार्थ स्थूलशरीराभिमानमन्तरेणापि शरीरस्यान्तःसूक्ष्मनाडीप्रचारो यः स एव तस्याहङ्कारस्यार्द्धविकास:सएव स्वप्न इत्युच्यते तत्राहङ्गार- व्यतिरिक्तवस्त्वन्तराभावेश्रुतिः न तत्र रथानरथयोगा न पन्थानो भव- न्ती"त्यादि: सर्वस्तु जागरः स्थूलभोगप्रदकर्मण्युद्बुद्धे सति तदया- दापादमस्तकं स्थूलदेहे Sभिव्याप्तस्याहङ्कारस्य सर्वेन्द्रियैः सर्वचिष- यज्ञानं यत्स एव तस्याहङ्कारस्य पूर्णविकासस्तदेव जागरणमित्यु- चयसे अस्यामवस्थायां पुनरहङ्कारसम्बन्धाहेहः पूर्ववश्चेतनत्वेन भा- सते उभयत्राहङ्कारे समाने स्वप्नाजागरितस्येन्द्रियविषयसन्भ्ावात्म- कवैलक्षण्य दयोतनार्थस्तुशब्द: अ्त्र दर्शिते Sवस्थात्रयलक्षणे माण्डूक्य- तापिनीयाद्युपनिषद: प्रमाणानि "दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः आकाशे च हृदि प्राश्ञस्त्रिया देहे प्रतिष्ठितः" इन्द्रियैरर्थांपल- ब्धिर्जागरितं करणेपूपसंदतेपु जागरितसंस्कारप्रत्ययसविषयः स्वप्नः सर्वप्रकारकज्ञानोपसंहारो बुद्धे: कारणात्मना ऽवस्थान सुषुप्तिरित्यादी- नि श्रीमद्गौडपादाचार्यभगवत्पादाचार्यादिपूर्वाचा र्यव चनानि च ।। १०।। एवं कर्तृव्यापारं निरूप्य करणस्यापि क्रियाव्याप्यत्वं तत्क्रियां दर्शयति। अन्तःकरणवत्तिश्च चितिच्छायैक्यमागता। वासनाः कल्पयेत स्वम्े वोधेक्षैविपयान्यहिः ॥११ ॥ अन्तःकरऐेति॥ अन्तःकरणं चासी वृत्तिश्चेत्यन्तःकरणवृत्ति: स- चिदाभासकर्तृरूपवृत्तिमदपेक्षया करणभूतं मनःशब्दवाच्याहमिद- मात्मिका वृत्तिरिति यावत् वृत्तिश्चेति चकारेण छायाहङ्गारैक्यवि- पये प्रदर्शितो दष्टान्तादिरवस्थात्रये उप्यहङ्गारवत्सङ्गोचविकासादि- स्वात्ापि समान इति द्योत्यते उक्तलक्षणा सा वृत्तिश्च सुपुप्तौ लीयते सा पुनः सूक्ष्मभोगप्रदकर्मवशावुत्पत्तिसमये चिच्छायया तप्तायः- पिण्डवदैक्यं प्राप्ता सती स्वप्नावस्थायां नाडीमध्ये कर्तृकरणकर्मक्रि- * तछशात्सकारणाज्ञानादिति या पाठः। २
Page 68
१० सव्याख्यायां वाक्यसुधायाम्।
यात्मकव्यवहारवासना: कल्पयेत्सैव पुनः स्थूलभोगप्रदकर्मवशा- रस्थूलशरीरेणैक्यं प्राप्ता सती जाग्रदवस्थार्या श्रोत्रादीन्द्रियैः शब्ा- दिविषयान्बहिः कल्पयेत। ननु वाह्यविषयाणामीश्वरस्त्नष्तृत्वेनान्तःकर- णकपितत्वमयुक्तमिति चंन्नैप दोष: स्वरूपमात्रस्येश्वरस्रष्टृत्वे Sपि भोग्यत्वाकारस्यान्तःकरणकल्पितत्वात् "करणं कर्म कर्त्ता च क्रिया रवमे फलं च धी: जाग्रत्येवं यतो हष्टे"त्याचार्यवचनाच्च॥११॥ एकमेवान्तःकरयां व्यवहारसौकर्यार्थमहङ्कारमनोभेदेनावयवशो विभज्य प्रदर्शयित्वा इदानीमहङ्कारस्यापि मनोपेक्षया कर्तृरूपत्वे Sपि चिच्छायावेशतो वुद्धौ भानमित्यत्र बुद्धिशव्देन निर्दिष्टान्त:करणा- खयद्रव्यापेक्षया करयात्वात्तस्यैव सर्वसंसारनिर्वर्तकत्वेन मुख्यकर्तृ-
न्तःकरणाख्यद्रव्यस्य स्वरूपं दर्शयति।
मनोहङ्कत्युपादानं लिङ्गमेकं जडात्मकम् । अवस्थात्रयमन्वोते जायते म्रियते तथा ॥ १२ ॥
मन इति॥ मनोहङ्गत्योरुपादानं कारणं यत्तन्मनोहङ्कत्युपादानं कि तल्लिङ़गं लिङ्यते गस्यते Sनेनेति लिङ्गमन्तःकरणाख्यं द्रव्य- मित्यर्थः तस्यैवाहं व्रह्मास्मीत्यखण्डाकारवृत्तिद्वारेण सच्चिदानन्दा- द्वितीयव्रक्मात्मगमक्तत्वात्। ननु तत्त्वविवेकाख्ये ग्रन्थे "वुद्धिकमें- न्द्रियप्राणपश्चकैर्मनसा घिया शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमु- चयते" इति सप्तदशावयवात्मकस्य सूक्ष्मशरीरस्यैव लिङ्गत्वमुक्तं नान्त:करणस्य लिङ्गत्वमुपपद्यते इत्याशड् बुद्धि कर्मेन्द्रियप्राणप- ख्वकानां वेदान्तेषु भौतिकत्वेन श्रुतत्वे Sपि "अन्यत्रमना अभूवं नाद- शमन्यत्रमना अभूवं नाश्रीष"मित्यादिश्रुतिध्वन्तःकरणाधीनत्वश्रव- णादत पवाहङ्गारमनःसहितानां तेपां ज्ञानक्रियाशक्तिद्वयात्मकान्तः-
यो: पारमार्थिकभेदविवक्षयैवात्रोक्तत्वात्तद्विवक्षाभेदेन पचद्वयस्या- प्युपपन्नत्वादुक्तलक्षणस्यान्तःकरणस्य सूक्ष्मशरीरत्वं लिङ्गत्वं चोप- पद्यते एवेत्यभिप्रायेणाह एकमिति। एवमुक्तलक्षणमन्तःकरणं स्वभा- वतो जडमप्यनुप्रविष्टचिच्छ्ायाबलेनैव स्थूलशरीरमप्यात्मत्वेनैव गृहीत्वा पूर्वोक्तस डुेचविका सप्रकारेणनुद्ि न म व स्था त्रयं्ा प्र प्रोति
Page 69
सव्यास्यायां वाक्यसुधायाम्। ११
यथा कर्मवशावचस्थात्रयं प्राप्नोति तथा जनममरणादिकश्च कर्मष- शात्प्राप्नोतीत्यर्थः।जायते ्रियते इत्युत्त्ता Sनन्तरं तथाशब्दप्रयोक्तर्धर्मा- धर्मवशादू घटीयन्त्रवत्पौनःपुन्येन जन्ममरणे प्राप्नोतीत्यभिप्रायः"शोक- हर्पभयक्रोधलोभमोहस्पृहादयः अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः एवं दुःखाद्यनुभवन्संसारे Sस्मिन्पुमान् मुने घटीयन्त्रवदु- द्विंग्रो जायते म्रियते च सः" इत्यादिपुराणवचनात् ॥१२॥ एवं निखिलसंसारनिर्वाहकलिङ्गशरीरस्वरूपं निरूप्येदानीमस्य लिङ्गस्य विराडन्तसमस्तप्रपञ्चस्य मूलकारणभूतायाः सश्चिदानन्द- घ्रह्माश्रयाया अविद्याऽज्ञानतमोमोहादिशब्दवाच्यायाः सर्वानर्थबीज- भूतायाः अनिर्वचनीयायाः मायायाः स्वरूप तच्छ्वक्तिद्वारेण विभज्य दर्शयितुं तच्छ्वक्तेरियत्तां तावद्दर्रयति। शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् । विक्षेपशक्तिर्लिंङ्गादिव्रह्माण्डान्तं जगत्सजेव् ।। १३ ।। शक्तिद्वयमिति॥ उक्तलक्षणमायाया आ्वरणशक्तिर्विक्षेपशक्ति- रिति द्वयमस्तीति शेषः। "जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवती"त्यादिवेदान्तवाक्येषु मायायाः शक्तिद्यात्मकं प्रसिद्धमिति शास्त्रप्रसिद्धिं द्योतयति हिशब्दः । अधिष्ठानमनाच्छाद विक्षेपयितुमशक्यत्वेन विच्ेपशक्ते: आवरणशक्तिपूर्वकत्वादत एवावरणशक्तेरग्यत्वे Sपि छन्दोभङ्गभयाद्विक्षेपशब्दपूर्वनिपातः कृतः। एवं शक्तेरियत्तामुक्का इदानीं सश्िदानन्दलक्षणव्रह्मात्मस्वरूप- मात्राच्छ्वादिकायाः विक्षेपशत्तभिव्यक्ते: पूर्वावसालक्षणायाः आव- रणशक्तेः सर्वानर्थबीजत्वनाग्यत्व Sपि विक्षेपश क्तेनैरपेक्ष्येण घ्र- ह्मानन्दानुभवं तिरस्कृत्य सांसारिकसुखदुःखादिभोगप्रदत्वसा- मर्थ्याभावात्म्नतिदिनं सुपुप्तावनुभूतत्वेनास्मिन्नर्थे कस्यापि विप्र- तिपत्त्यसम्भवात् विक्षेपशत्त्यभिव्यत्तनन्तरं तया सृष्टस्याहङ्गा- रादिदेहान्तस्य युष्मदर्थस्य शरीरत्रयविलक्षणस्य कूटस्थासङ्ग- योधरूपस्य सात्तिणश्च स्वभावसिव्धं भेदं सवावरणशक्तिर्येनांशेना- वृणोति तस्यैवांशस्य सुखित्वदुःखित्वाद्यनेकविधसंसारकारणत्वा-
Page 70
१२ सव्याख्यायां वाक्यसुधायाम्।
रूपयिष्यन्विच्ेपशक्ति स्वरूपं तावन्निरूपयति विविधं करणं विक्षेप: विविधं भानं भवनं वा सा चासी शक्तिश्चति विच्षेपशक्ति: अध्यात्मं
देन च स्वगतादिभेदरहितं चिन्मात्रं विक्षेणयतीति विक्षेपराक्ति: उ- क्तलच्षणं चिन्मात्रमनया विक्षिप्यते इति वा गिरिनदिसमुद्राद्यनेक- नामरूपाकारेण स्वयमेव वि्षिपति नामरूपाद्याकारेण परिणमते विवर्तते इत्यर्थः।पवमिति विक्षेपशक्तिरजायते पुनर्लयं गच्छतीति जग- दुक्तलक्षणा सा शक्तिरुक्तलक्षणं समष्टिव्यष्ट्यात्मकं लिङ्गशरीरादि- ब्रह्माण्डान्तं जगत्सृजेदुत्पादयेदित्यर्थः ॥१३॥ एवं विक्षेपरक्तिस्वरूपं निरूप्य तद्विक्रियात्मकसृष्टिस्वरूपनिरु- पखद्वारेणापि तदेव विशदयति॥ सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि। अब्धौ फेनादिवत्सर्वनामरूपप्रसारणा ॥ १४ ।। सृष्टिरिति।। ब्रह्मस्वरूपे सव्धिदानन्दवस्तुन्यारोपितनामरूपयो- रवस्तुत्वादधिष्ठानस्य तद्वैलक्षण्यं द्ोतयति वस्तुशब्दः।सञ्चिदानन्द- श्च तद्वम्तु चोति सच्चिदानन्दवस्तु तस्मिन्परमार्थसच्चिदानन्दलक्षणे ब्रह्मणीत्यर्थः । नाम च रूपञ्च नामरूपे सर्वे च ते नामरूपे च तयोः प्रसारणा विस्तार: विततिः सृष्टिरित्युच्यते। एतदुक्तं भवति।ब्रह्मण्य- वस्थिताया विक्षेपात्मिकायाः मायायास्तस्मिन्नेव घ्रह्मणि समस्त- नामरूपाकारेण विवर्तनं यत्सैव सृष्टिरित्युच्यते इत्यत्र दष्टान्तमाह अब्धी फेनादिवदब्धाववस्थिताया: विन्षेपात्मिकायाः मायायास्तत्रैव फेनतरङ्गबुद्बुदाद्याकारेण विवर्तनं यथा सृष्टिशब्देनोच्यते तथा Sत्रापीति भाव: ॥ १४ ॥। एवं विक्ेपशक्तिद्वारा मायास्वरूपं दर्शयत्वा आवरणराक्तिद्वारे- णापि तदेव दर्रयति॥ अन्तर्दृग्दृश्ययोर्भेंदं वहिश्च ब्रह्मसर्गयोः। आृणोसपरा शक्तिः सा संसारस्य कारणम् ॥१५॥ अन्तरिति॥अन्तः स्थूलशरीरस्यान्तर्देरे दृग्दश्ययोर्भेदम "अहमन्नादो Sहमन्नाद" इत्यादिश्रुत्यनुसारेण शरीरत्रयतादात्म्यवशान्भोकृत्वमापन्न-
Page 71
सव्याख्यायां वाक्यसधायाघ्। १३ स्य परमार्थतस्तद्रहितस्य केवलदडात्स्वरूपस्यास्मदर्थस्य सा- क्षिणः अविद्याकार्यत्वेन जडरूपस्याहङ्कारादिदेहान्तस्य युष्मदर्थस्य च भेदमन्योन्यवैलत्तण्यमन्योन्यपृथग्भावं वहिः शरीरस्य बाह्यदंशे ग्रह्मसर्गयोर्भेंदं "सच्चासभ्ाभवत् अहमनमहमन्न"मित्यादिश्रुत्यनुसारे- ण नामरूपतादात्म्यवशान्द्ोग्यत्वमापन्नस्य परमार्थतस्तद्रहितस्य परव्रह्मणस्तस्मिन् शुक्तिकायां रजतवदध्यस्तनामरूपात्मकस्य सर्गस्य
घापरा शक्ति: पूर्वोक्तरीत्या विक्षेपशक्त्यनन्तरभावित्वे Sपि स्वरूपतो विक्षेपशक्तिप्रवर्तकत्वेन तत्कारणभूता आावरणवाच्या मायाश- क्तिरावृणोत्याच्छादयति सा संसारस्य कारणं अतर्दफस्वरूपस्य साक्षिण: कर्तृत्वभोक्तृत्वादिलक्षणस्य संसारस्य सैव कारणं तस्या एवान्योन्याध्यासहेतुत्वेन सर्वानर्थकारित्वादिति भावः।वाहिःसथि- दानन्दलक्षणस्य ब्रह्मण: भोग्यत्वादिविकारस्यापि सव कारणमित्य- र्थाल्लभ्यते भोक्तृत्वस्य भोग्यापेक्षत्वात् ॥ १५॥ एवं शक्तिद्वयात्मकं मायास्वरूपं प्रदृश्येदानी प्रकृतानुसारेण म- नोहंकृत्युपादानमित्यस्मिन्श्ोके सामान्यतो दर्शितं लिङ्गस्वरूपं विशे- पतः प्रदर्शयति॥ साक्षिण: पुरतो भातं लिङ्गं देहेन संयुतम् । चितिच्छायासमावेशाज्जीवः स्याव्यावहारिकः ॥१६ ॥ साक्षिण इति॥ चितिच्छ्वायासमावेशादनुप्रविष्टचैतन्यस्य बला- त्साच्तिणः प्रत्यगात्मनः पुरतो Sग्रतः कर्मत्वेनेति यावतू भातं भासमानं देहेन संयुतं स्थूलशरीरेशौक्यं प्राप्तं लिङ्गं पूर्वोक्तलक्षणं लिङ्गशरीरं जीव: स्यात् व्यावहारिक: लोकछये Sपि प्रमान्नादिसमस्त- व्यवहारनिर्वाहकत्वाद्यावहारिकाख्यो जीवः स्यादस्यानिर्वचनीय- मायाकार्यत्वेन प्रकृतिलक्षणविकारित्वात्सकलसंसार निर्वाहकत्वात्स-
घहारिकजीव इत्युक्तम् ॥ १६ ॥ ननु व्यावहारिकजीवस्य सकलसंसारनिर्वाहकत्वे ऽपि मिथ्या- भूतत्वाप्नित्यमुक्तस्य सात्िणः संसाराभावाश्चोभयोरपि मोक्षानधि- कारादन्यस्य कस्य चिद्धिकारिणो Sभावाश्च मोक्षशास्त्रवैयर्थ् स्यादित्यत आह॥
Page 72
१४ सव्याख्याया वाक्यसुधायाम्।
अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते। आवृत्तौ तु विनष्टायां भेदे भाते Sपयाति तव् ।। १७ ।। अस्येति ॥ अस्य व्यावहारिकजीवस्य जीवत्वं जीवभावः आरोपादावरणशक्तिकृतादन्योन्याध्यासात्सात्तिण्यपि रग्रूपे प्रत्य- गात्मन्यपि जीवत्वं साक्षिणि प्रत्यगात्मनि परमार्थतो जीवत्वा- सम्भवं द्योतयत्यपिशब्दः अवभासते प्रकाशते स्वरूपचैतन्यावगति- त्वेन भासते इति भावः। तुशब्दो Sवधारो।आवृत्तावसत्वावृत्तिरुपेणा- भानावृत्तिरूपेण च द्विप्रकारमायावरणशक्ती अहं म्रह्मास्मीत्यखण्डै- करसव्रह्मात्मसाक्षात्कारेण विनष्टयां विशेषेण नष्टायां सत्यां पुनर्भ्रा- न्त्यनुदयो नाशस्य विशेष: आत्यन्तिकनाश प्राप्तायामित्यर्थः। भेदे भाते व्यावहारिकजीवस्वरूपस्य लिङ्गशरीरस्य घटादिवत् हृश्यत्वं प्रत्य- ग्वोधस्वरूपस्य साक्याख्यस्य स्वस्य दष्टत्वञ्च भेदस्तस्मिन् सम्यक् प्रकाशिते सति साच्िण्यारोपितं तजीवत्वमपयात्यपगच्क्वत्येवेत्यन्न तुशब्द: सम्बध्यते यस्मादेवं तस्माच्छास्त्रवैयर्थ्य न स्यादित्यभि- प्रायः।१७॥। यथा व्यावहारिकजीवगतं जीवत्वमारोपात्सात्िण्यव्यवभासते तथा नामरूपात्मकः सर्गगतो विकार: आरोपाद्रह्मण्यप्यवभासते इत्याह॥ तथा सर्गब्रह्मणोश्च भेदमावृत्त्य तिष्ठति। या शक्तिस्तद्वशाङ्र्ह्म विकृतत्वेन भासते ॥१८ ॥ तथेति॥ यथा अन्तः दृग्दृश्ययोर्भेदमाच्छादयति तथा सर्गग्रह्मणो- र्भेदं चावृत्य या आवरणशक्तिस्तिष्ठति तद्वशान्तदावरणशक्तिक- तादन्योन्याध्यासचशाङ्गह्म सच्चिदानन्दलक्षणः परमात्मा विकृतत्वेन भासते स्वयं कूटस्थमपि पड्भावविकारशून्यमपि तद्वत्वेन भासते इत्यर्थः ॥१८॥ वाह्ये उप्यावृत्तिनाशेन सर्गग्रह्मभेदस्फुरणात् ब्रह्मण्यारोपितो विकारो निवर्तते इत्याह॥ अत्राप्यावृत्तिनाशेन विभाति ब्रह्मसर्गयोः । भेदस्तयोर्विकारं स्यात्सर्गे न ब्रह्मणि क चित् ॥ १९ ॥। अन्रेति॥अत्रापि थथान्तस्तथा बाह्ये Sप्यावृत्तिनाशे नान्वयव्यतिरे-
Page 73
सव्यार्यायां वाक्यसुधायाम्। १९
काश्यामन्तर्वहिश्च पदार्थद्वयपरिशोधनपूर्वकेणाहं व्रझ्मास्मीत्यभिव्य-
घासनया सह विनष्टायां सत्यां तेनावृत्तिनाशेन ब्रह्मसर्गयोभेंदो विभा- ति घटपटयोरिव भेदः सम्यक प्रकाशते एवं भेदे भाते सति तयोारव्रह्मस- गंयोर्मध्ये नामरूपात्मके सगे एव जन्मादिविकार: स्यान्न ब्रह्मणि क चिदानन्दलक्षणे ब्रह्मण्यैकदशे ऽपि विकारो न स्यादित्यर्थः ॥१९॥
ग्यत्वादिरूपविकारं तदावृत्तिनाशन तत्कृतविकारनिवृत्तिश्च दर्शयि- त्वा इदानीं ग्रह्मण: सर्वात्मकत्वप्रदर्शनद्वारेण त्वंपदार्थमप्यर्थाद्विवेच- यन्मुखतस्तत्पदार्थ विविनक्ति॥ अस्ति भाति परिय रूपं नाम चेसंशपश्चकम् । आद्यत्रयं ब्रह्मरूपं जगद्रपं ततो द्रयम् ॥ २० ॥ अस्तीति॥ अस्ति विद्यते भाति प्रकाशते प्रियं प्रेमास्पदं रूपं जगद्रूपं पृथुवुध्नोदरोतप्रोतादिकं नाम घटः पट इत्यादिकमेतत्सर्वे मिलित्वांशपश्चकमिदमेकं वस्तु अस्तीदं भातीदं प्रियमिदमस्य स्व- रूपमिदमस्य नामेत्येतदंशपश्चकव्यतिरेकेण व्यवहारासम्भवाललोक- व्यवहारगोचरभूतं भौतिकात्मकं समस्तं वस्त्वपि स्चिदान्दरूपं नाम लक्षणांशपञ्चात्मकमेव भवतीति यावदंशपञ्चकसमुच्चयार्थश्चशब्दः। एतेष्वंशेषु मध्ये आद्यत्रयं सच्चिदानन्दात्मकमंशत्रयं ब्रह्मरूपं ब्रह्मस्व- रूप ततो द्यं तस्मात्सच्चिदानन्दात्मकांशत्रयादुपरितनं नाम रूपा- त्मकमंशद्यं जगदूपमित्यर्थः ॥२०॥ उक्तमेवार्थमन्वयव्यतिरेकाभ्यां स्पष्टयति॥ खवाय्वग्निजलोर्वीपु देवतिर्यङ्गरादिपु। अभिन्नाः सच्चिदानन्दा भिदेते रूपनामनी ॥२१॥ खमिति॥ आरकाशवायुतेजोम््वन्ना ्यषु पञचभूतेषु देवतिर्यङ्गरा- दिभेदभिन्नेषु शरीरलत्तणेषु भौतिकेषु वर्तमाना: सव्विदानन्दास्त्रयो उप्यंशा अभिन्ना निर्विशेषा:स्यु: घटो स्ति पटो Sस्ति घटो भाति पटो भाति घटः प्रियः पटः प्रिय इति सर्वत्रानुवृत्तस्वभावत्वाद्रपनाम- नी भूतेपु भीतिकेषु च वर्तमानी रूपनामात्मकी उभावप्यंशी भिद्येते ईरग्रूपस्ताद्दय्ूपो घटः पट इत्यादिभेदभिन्नत्वेन वर्तेते अनिर्वचनीय- माथाकार्यत्वेन व्यावृत्तस्वभावत्वात् ॥ २१॥
Page 74
१६ सव्याख्यायां वाक्यसुधायाम्।
एवं प्राक्तनग्रन्थसन्दर्भेणान्वयव्यतिरेकाभ्यां पदार्थद्वयं परिशोध्ये- दानी नामरूपोपेत्तापुरःसरं सच्िदानन्दतत्परो भूत्वा वाक्यश्रवणा- ङ्त्वेन वाक्यार्थज्ञानसाधनभूतं वक्ष्यमाणभेदभिन्नं समाधि हृदये वा बाह्ये वा निरन्तरं कुर्यादित्याह॥ उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः । समाधि सर्वदा कुर्याद्धृदये वा Sथ वा बहिः ॥ २२ ॥ उपेक्ष्येति॥ जगदरूपे नामरूपे द्वे उपेक्ष्यावश्ञाय उदासीनीकृत्य सश्विदानन्दतत्परः सच्चिदानन्दरूप्रह्मात्मन्येव तात्पर्यवान् तदेक- चित्त इत्यर्थः ताहशो भूत्वा समाधि वक्ष्यमाणं चित्तसमाधानं सरवे- न्द्रियाण्यपि हृदयकमले निरुध्य तत्रतत्र वागादीन्द्रियाणां स्वस्वगो- लकावस्थाने Sपि तेषां वृत्तिमात्रं निरुध्य शरीरादन्तर्वाह्यदेशे वा वक्ष्य- माणप्रकारेण निरन्तरं कुर्यादित्यर्थः विधिमुखतः समाधि विधायानेन श्लोकेन प्रतिपादितं पदं प्रति परमहंसस्यैव ब्रह्मज्ञानाधिकारो नान्य-
सस्यैव सम्भवाच्च॥२२॥ एवं ब्रह्मजिज्ञासुं मुमुक्षुं प्रति निदिध्यासितव्य इत्येतद्वाक्यानु- सारेणावश््यकर्तव्यत्वेन समाधि विधायेदानीं तस्य समाधेरवा- न्तरभेदं दर्शयन्नेतान्समाधीन् हृदये कुर्यादित्याह॥ सविकल्पो निर्विकल्पः समाधिर्द्विविधो हदि। दृश्यशब्दानुविद्वेन सविकल्पः पुनर्द्रिया ॥२३। सविकल्प इति॥ सविकल्पसमाधिर्निर्विकल्पसमाधिरिति समा- धिर्द्विविधो द्विप्रकारो भवेत् दृश्यानुविद्धः सविकल्पकः शब्दानु- विद्धः सविकल्पक इति सविकल्पसमाधिरपि द्विप्रकारो भवेतू एवमुक्तप्रकारेण दश्यानुविद्धः सविकल्पकसमाधि: शब्दानुविञ्वः सविकल्पकसमाधिर्निर्विकल्पकश्चेति त्रिप्रकारं समाधि क्रमेण हृदये कुर्यादिति शेषः। दृश्यमिश्रो दृश्यानुविद्धः शब्दमिश्रः शब्दानु- विद्धः ॥ २३॥ सविकल्पो निर्विकल्पश्चेति सविकल्पस्य प्रथमोद्दिष्टत्वात्तत्रापि
विवेकं दृगेकनिष्ठं दृश्यानुविद्धं सविकल्पसमाधि तावद्दर्शयति। * दृश्यशब्दानुवधनेति वा पाठः।
Page 75
सव्याख्या वाक्यसुधा। १७
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम्। ध्यायेद् दृश्यानुविद्धो 5यं समाधिः सविकल्पकः ॥२४॥ कामाद्या इति ॥ कामाद्याः कामसङ्कल्पादयः पूर्वोक्ताश्चित्तगाः अन्त:करणवृत्तित्वेनान्तःकरणनिष्ठाः दृश्या: कर्मभूताः युष्मत्प्रत्यय- विषया: भवन्तीति शपः तत्साक्षित्वेन तेपां कामादिचित्तगतदृश्यानां प्रकाशकत्वेन चेतनमात्मानं प्रत्यक्चैतन्यं ध्यायेत्।एतदुक्तं भवति। तेषां कामादीनां मध्ये एकमेकं प्रतियोगिनं कृत्वा अस्य कामस्य यत्साक्षिभूतं चैतन्यं तदेव मम.यथार्थ स्वरूपमित्येवं निरन्तरं प्रत्यग्षं चिन्मात्रं भावयेदिति। एवमुक्तप्रकारेण चिन्मात्रे भाविते सत्ययं दृश्यानुविद्धः सविकल्पकसमाधिरित्युच्यत इति शेपः "नरते स्याद्वि- क्रियां दुःखी साच्षिता का विकारिण: धीविक्रियासहस्राणं साक्ष्य- तो Sहमविक्रिय" इति नैष्कर्म्यसिद्धिकारैरुक्तत्वात् ॥२४॥ एवं दृशयप्रतियोगिकं सविकल्पकसमाधि दर्शयित्वा इदानीं क्रमप्राप्तं कामाद्यशेपदृश्यविलापकं साक्षिनिष्ठं शब्दानुविद्धसविक- ल्पकसमाधि दर्शयति॥ असङ्ग: सचिचिदानन्दः स्वपभो द्वैतवर्जितः । अस्मीतिशब्दविद्धो 5यं समाधिः सविकल्पकः ॥२५॥
असङ्ग इति ॥ असङ्गः सङ्गरहितः "असङ्गो ह्यय पुरुष" इति श्रुतेः सच्चिदानन्दः सत्यज्ञानानन्दस्वरूपः "सत्यं ज्ञानमनन्तं ब्रह्म विज्ञान- मानन्दं ब्रह्मे'त्यादिश्रुतेः स्वप्रभः स्वयंप्रकाशः अदष्टं द्रष्टश्रुतं श्रोतृ "न दृष्टेर्द्रषटारं पश्ये"दित्यादिश्रुतेः द्वैतवर्जितः प्रकाश्यस्य प्रकाशाभिन्न- रवेन कामाद्यशेषरहित: स्वगतादिभेदरहित इत्यर्थः "एकमेवाद्विती- य"मिति श्रुतेः एवमुक्तलक्षणः प्रत्यग्रूपो यः साक्षी अयमहमस्मीति मिरन्तरं भावयेत् एवमुक्तप्रकारंण कामाद्यशेषवृत्तिविलापको Sसङ्गा- दिशब्दमात्रमिश्रितो विजातीयप्रत्ययशून्यसजातीयप्रत्ययप्रवाहलक्ष- णः प्रत्यक्चिन्मात्रविषयकश्चिदाभासनिष्ठो यो Sनुभवः अयंशब्दानु- विद्धः सविकल्पकसमाधिरित्युच्यते इति शेषः "निरीहो Sस्मि निरशो डस्मि स्वस्थो Sस्म्यस्मि च निस्पृहः शान्तो Sहमर्थरूपो Sस्मि चिरा- याहमलं स्थित" इति वसिष्ठवचनात् ॥ २५। ३
Page 76
१८ सव्याख्या वाक्यसुधा।
एवं द्विप्रकारं सविकल्पकसमाधि दर्शयित्वा इदानी कामादि-
ल्यात्मकं निर्विकल्पसमाधि दर्शयति॥
स्त्रानुभूतिरसावेशाद् दृश्यशव्दानुपेक्षितुः । निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ॥२६।। स्वानुभूतिरिति ॥ अनुभूतिर्ज्ञानं प्रत्यक्चैतन्यं "या Sनुभूतिरजा डमेया त्वनन्तानन्दविग्रहा महदादिजगन्मायाचित्रभित्ति नमामि ता"- मिति इष्टसिद्धिकारैरुक्तत्वात् रस आ्र्प्रनन्दस्वरूप: परमात्मा "रसो वै सः रखं ह्वेवायं लब्ध्ा SSनन्दी भवती"ति श्रुतेः प्रत्यगात्मापि रसाभिन्नत्वेन परमप्रेमास्पदत्वाद्रसस्व्ररूपभूता स्वानुभूतिरेव रसस्तस्यावेराः अनुभूतिः स्वानुभूतिरसावेशः पूर्वोक्तसमा- धिद्वयाभ्यासपाटवादन्तःकरणे स्वरूपभूतज्ञानानन्दाविर्भावः स्वा- नुभूतिरसावेश इत्युच्यते यद्वा आवेशो Sभिनिवेशः मगनत्वं स्वानु- भूतिरसावेशः यद्वा आसमन्तात्प्रवेशः आवेशः स्वरूपज्ञानानन्दपूर्ण- त्वं यद्वा देवताद्यावेशवत् स्वरानुभूतिरसस्यावेशस्तस्मात्स्वानुभूति- र सावेशात् स्वानुभूतिरसास्वादादिति पाठे चिदानन्दस्वरूपो Sहमिति स्वानुभूतिरसस्यात्मत्वेन स्वीकरएं स्वानुभूतिरसास्तादस्तस्मात
रुदासीनकर्तुरूभयत्र तात्पर्यराहित्येन तृष्णीं स्थितस्य देवताद्यावि- ष्टवत्स्त्रानुभूतिरसाख्यमहाग्रहग्रस्तत्वेन स्व्रातन्त्रयाभावात्परतन्त्रत- या स्थितस्येति तात्पर्यार्थः निर्विकल्पकसमाधि: स्यात् "प्रशान्तवृत्तिकं चित्त परमानन्ददीपकम् असंप्रज्ञातनामायं समाधिर्योगिनां प्रिय" इति उक्तलक्षणो निर्विकल्पकसमाधिरुक्तलक्षणस्याधिकारिणः स्वयमेव स्यात् लयविक्षेपकषायादिप्रतिबन्धाभावादसंप्रज्ञातास्यो निर्विकल्प- कसमाधि: स्वयमेव भवतीत्यर्थः।तस्मिन्समाधीचित्तनैश्चल्ये दष्टान्त- माह निवातस्थितदीपवदिति। निवातस्थले स्थापितो दीपो यथा निश्चलो भवति तथा समप्राप्तचित्तमपि निश्चलं भवतीत्यर्थः। "तत्परं पुरुषख्यातर्गुणवैतृष्ण्यं तीव्रसंवेगानामासन्नः समाधिलाभः व्युत्था- ननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निराधलक्षणचित्तान्वयो निरो- धपरिणाम" इति पनञ्जलिना सूत्रितत्वात् "यथा दीपो निवातस्थो
Page 77
सव्याख्या वाक्यसुधा। १९
नेङ्गते सोपमा स्मृता योगिनो यतचित्तस्य युक्जतो योगमात्मन" इत्या- दिभगयद्वचनात् "अन्तःशून्यो वहिः शून्यः शून्यकुम्भ इवाम्वरेअन्तः पूर्णो वहिः पूर्ण: पूर्णकुम्भ इवार्णये मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव भावनामखिलां त्यक्क्का यदिएं तन्मयो भव द्रष्टदर्शनटश्यानि त्यक्क्ता वासनया सह दर्शनप्रथमाभ्यासमात्मानं केवलं भज प्रशान्त- सर्वसंकल्पा या शिलावदवस्थितिः जाग्रन्निद्राविनिर्सुक्ता सा स्रू- पस्थितिः परे"ति वसिष्ठवचनाच्च।अस्य समाधेवाक्यश्रवणाङ्गकत्वं च तत्वविवेकाख्ये ग्रन्थे थ्रीमद्विद्यारण्यगुरुभिर्निरूपितं "अमुना वासनाजाले निःशेषं प्रविलापिते समूलोन्मूलिते पुण्यपापाख्ये कर्म- सञ्चये वाक्यमप्रतिवद्धं सत्प्राक्परोक्षावभासिते करामलकवद्वोधम- परोक्षं प्रसूयते" इति ॥२६॥
एवं हृदयसम्बन्धित्वेन दर्शितं त्रिप्रकारमिमं समाधि वाह्यसम्व-
दृश्यानुविद्धसमाधि तावद्दरीयति॥
हदीव बाह्यदेशे डपि यस्मिन् कस्मिश्च वस्तुनि। समाधिराद्ः सन्मात्रान्नामरूपपृथकूकृतिः ॥२७॥ हदीति। यथा हृदये साक्षिण: सकाशात्कामादीनां पृथक्करण- माद्यः समाधिः।एतदुक्कतं भवति यथा हृदि कामादीनां मध्ये एकमेकं प्रतियोगिनं कृत्वा स्वात्मनः सकाशात् नामरूपयाः पृथक्वरणमस्य साक्षिभूत यच्चैतन्यं तदेवाहमस्मि अस्य संकल्पस्य सात्तिभूत यच्च्ैतन्यं तदेवाहमस्मीत्यनुचिन्तनं दृश्यानुविद्धसमाधिरित्युच्यते तथा वाह्ये Sपि स्वाभीष्टमेकं वस्त्ववलस्व्यांशपञरचके तस्मिन्वस्तुनि वर्तमानात्सश्चिदानन्दलक्षणब्रह्मणः सकाशान्ासरूपे पृथककृत्याऽनयोः पृथक्कृतयोरनामरूपयोरधिष्ठानभूतं सच्चिदानन्दलक्षणं यद्वस्तु तदेव तत्पदलक्ष्यं व्रह्मेत्यनुचिन्तनं दृश्यानुविद्धसमाधिरित्युच्यते इति "यत्र स्थितेयं विश्वथीः प्रतिभामात्ररूपिणी रज्ज्वां भुजङ्गवन्ाति सो Sहमात्मा सदोदित" इत्यादिवसिष्ठवचनाच्च ॥२७॥
एवं दृश्यानुविद्धसमाधि निरूप्येदानीं समष्टिव्यष्ट्यात्मकसम- स्तदृश्यप्रपञचविलापकं शब्दानुविद्धससाधि निरूपयति॥
Page 78
२० सव्यादया वाक्यसुधा।
अखण्डैकरसं वस्तु सच्चिदानन्दलक्षणम्। इसविच्छिन्नचिन्तेयं समाधिर्मध्यमो भवेत् ॥२८॥ अखण्डैकरसमिति॥ अखण्डं देशकालाद्यपरिच्छिन्नं स्वगतादिभे- दरहितमिति यावत् "एकमेवाद्वितीयमि"ति श्रुतेः "न व्यापित्वाद्देशतो ए्तो नित्यत्वान्नापि कालतः न वस्तुतो Sपि सार्वात्म्यादानन्त्यं ब्रह्मणि त्रिधे"त्येतत्तैरेव पञ्चकोशविवेकाख्ये ग्रन्थे उपपत्तिभिरखण्डत्वस्य समर्थितत्वाच्च। एकरसं कालत्रये ऽप्येकरूपं कूटस्थमित्यर्थः "अव्यक्तो Sयमचिन्त्यो Sयमविकार्यो Sयमुच्यते" इति भगवद्वचनात् अखण्डञ्च तदेकरसं चेत्यखण्डैकरसं सच्चिदानन्दलक्षणं स्पष्टो डर्थः एवमुक्त- लक्षणं यद्वस्तु तदेव ब्रह्मेत्यविच्छ्विन्नचिन्ता विजातीयप्रत्ययानन्तरि- तसजातीयप्रत्ययप्रवाहरूपा या चिन्तेयं मध्यमः समाधिर्भवेतू शब्दा- नुविद्ध सविकल्पकसमाधिर्भवेदित्यर्थः "एवं ब्रह्म चिदाकाशं सर्वात्मक- मखण्डितम नीरन्धरभूिवाशषमिति भावय राघव नाहं न चान्यद्वा Sस्तीति ब्रह्मैवास्मि निरन्तरम् आ्र्रनन्दपूर्णः सर्वत्राप्यनुद्वेगादुपास्य- ता"मिति वसिष्ठवचनात्॥२८॥ एवं ब्रह्मविषयं द्विप्रकारं सविकल्पकसमाधि निरूप्येदानीं पूर्वोक्त-
तैः षड्भिः समाधिभिर्निरन्तरं कालं नयेदित्याह॥ स्तब्धीभावो रसास्वादान्तृतीयः पूर्ववन्मतः । एतैः समाधिभिः पड्भिर्नयेत्कालं निरन्तरम् ॥२९ ॥ स्तब्धीभाव इति ॥ रसशब्दो व्याख्यातः आन्तरस्य त्रिप्रकारस्य समाधेर्विषयभृतस्य साक्षिण: साक्षित्वसिद्ध्यर्थ ब्रह्माभिन्नत्वं बलाद- ड्रीकर्तव्यमन्यथा समाध्यवलम्बाभावाद्वाह्यस्य त्रिप्रकारस्य समाधे- ्विषयभूतस्य ब्रह्मणो Sपि सर्वात्मकत्वसिद्धर्थमात्माभिन्नत्वं वलादङ्गी- कर्तव्यमेवं ब्रह्मणः सर्वात्मकत्वे सिद्धे सति स्वस्यापि रसरूपे Sस्मिन्परे ब्रह्मण्यन्तःपातित्वेन स्वस्यापि रसरूपस्वीकारो रसास्वाद इत्युच्यते तस्माद्रसास्वादादपूर्वोक्तान्तरनिर्विकल्पकसमाधिवदत्रापि द्विप्रका- रसविकल्पकसमाध्यभ्यासपाटवेन भूमानन्दास्वादाद्यप्टिसमष्ट्या- त्मकसमस्तदृश्य प्रपञ्चम खण्डकर सादिशब्दजातं चोपेक्ष्यास्वादितभू- मानन्दपर तन्त्रत्वेनावस्थितस्य चित्तस्य निवातस्थले स्थापितदीपस्ये-
Page 79
सव्याख्या वाक्यसुधा। २१
व यः स्तब्धीभावो निश्चलत्वं स एव तृतीयो मतो निर्विकल्पकसमाधि- रित्यभिप्रेतो विद्वद्भिरिति शेषः। निर्विकल्पकसमाधेरान्तरवाह्यमात्रवि-
पड्भिःसमाधिभिरेव मुमुक्षुर्निरन्तरं कालं नयेत्कालमित्यनेन समाधी- नां दीर्घकालकर्तव्यत्वं द्योत्यते तत्रापि नैरन्तर्येण कर्तव्यत्वं निरन्तर- शव्देनोच्यते कालनिरन्तरशब्दौ सत्कारस्याप्युपलक्षकाँ "दीर्घकाल- नरन्तर्यसत्कारसेवितो दृढभूमि"रिति पतञ्जलिना सूत्रितत्वात् ॥२६।। एवमन्तर्वहिश्च मिलित्वा पाड्डिधान्समाधीन् दीर्घकालनैरन्तर्य- सत्कारपूर्वकं मुमुक्षोरवश्यङ्गर्तव्यत्वन विधाय इदानीं पूर्वोक्तप्रकारे- णान्वयव्यतिरेकाभ्यामन्तर्वहिश्च पदार्थद्यपरिशोधनेन देहाभिमाने गलिते परमात्मनि च विज्ञाते सत्युक्तलक्षणा: पड्डिधाः समाधयश्च अन्तर्वहिर्वा यत्र यत्र मनो गच्छति तत्र तत्र स्वयमेव प्रवर्तन्ते इत्याह॥ देहाभिमाने गलिते विज्ञाते परमात्मनि। यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ ३०॥ देहाभिमानेति॥ रूपं दृश्यमित्यारभ्यास्य जीवत्वमारोपादित्य- न्तेन श्रोकपर्यन्तेन अ्न्थन प्रदर्शितन्यायमनुसृत्य सम्यक् कृतेना-
युष्मदर्थेप्वहं कर्ता डहं मनुष्य इत्याद्यात्मत्वाभिमाने गलिते शिथि- लीभूने "अस्ति भाति प्रियं रूपं नाम च" इत्यत्र दर्शितप्रकारण सम्यक् कृतेन वहिर्व्रह्मसर्गविवेकेन नामरूपात्मकं समस्तमिदं जगन्मिथ्या तदधिष्ठानभूतं सच्चिदानन्दलक्षणं ब्रह्मैव सत्यमिति एवं परमात्मनि च विज्ञात सत्येवमुक्तप्रकारेण गलितदेहाभिमानस्य विज्ञातपरमा- त्मतत्वस्य मुमुक्षोरन्तर्वहिवा यत्र यत्र मनो गच्छति तत्र तत्रोक्तलक्षणा: पडपि समाधयः स्वयमेव भवन्तीति शेपः । तीव्रवैराग्यबलात्परम- हंसाथ्रमस्वीकारपूर्वकं ब्रह्मसाक्षात्कारपर्यन्तं सद्गुरुसन्निधी श्रीम- च्छ्ारीरकशास्त्रमवलम्ब्य निरन्तरं पौनःपुन्येन क्रियमाणेन तत्वंप- दार्थविवेकेन गलितदेहाभिमानस्य विज्ञातपरमात्मतत्वस्य मुमुक्षो. रुक्तलक्षणा: पड्डिधाः समाधयः स्वयमेवानायासन प्रवर्तन्ते इत्ययमेव तात्पर्यार्थः। "आवृत्तिरसकृतुपदेशा"दिति वैयासिकसूत्रानुसारण "अहं ब्रह्मेति वाक्यार्थ बोधो यावदू दृढीभवेत् शमादिसहितस्तावद-
Page 80
२२ सव्याख्या वाक्यसुधा।
वैराग्यसंन्यासादिश्रवणसाधने दीर्घकालनैरन्तर्यसत्कारसहकृत- श्रवणादिज्ञानसाधने च प्रयासं दृष्टा व्रह्मात्मैक्यलक्षणस्य ज्ञान- फलस्याग्रिहोन्नकार्यवत्सद्यः प्राप्त्यभावं च स्ववुद्धा कल्पयित्वा साधनानुष्ठानादुपरनं शिष्य प्रति फलप्रदर्शनद्वारेण साधनानुष्ठाने तं प्रवर्तयितुं तस्य विश्वासार्थ परावरदर्शनफलप्रदर्शिनी श्रुतिमेव पठति॥ भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दष्टे परावरे ॥ ३१॥ भिद्यते इति॥ देहाद्वहिः सकलनामरूपात्मकेषु वस्तुषु सर्पा- धाररज्जुरिव व्याप्तः सच्चिदानन्दलक्षणो यः परमात्मा स एव परशव्देनाच्यते अन्तरहमादिदृश्यवलक्षणो Sस्मत्प्रत्ययालम्बनभूतः प्रत्यक्चिन्मान्रूपः साक्ष्याख्यो यो जीवात्मा स एवावरशब्देनो- च्यते परश्चासाववरश्चेति परावरः प्रत्यगभिन्नः परमात्मा तस्मिन्प- रावरस्यैव स्वयंग्रकाशत्वेनावाखमनसगोचरत्वसुच्यते तच्छव्दरेनावा- ऊप्रनसगोचरे ब्रह्मात्मनीत्यर्थः।यद्वा परावरविभागाधिष्ठानभूतं शुद्ध- चैतन्यं तच्छ्वदेनाच्यते तस्मिन्पक्षे पररुपेण वा डवररूपेण वा Sव- स्थिते परमार्थतः परावरविभागरहिते स्वगतादिभेदरहिते कूटस्थे शुद्धचैतन्ये इत्यर्थः । तस्मिन्परावरे तस्मिन्निति पक्षद्वये उप्येक एव फलितो ऽर्थः। परावरस्यैव शुद्ध चैतन्यत्वाच्छुद्धचैतन्यस्यैवावाखानस- गीचरत्वाच्च।तस्मादुक्तलक्षणं तस्मिन्परावरे दृष्टे सति "त्वंवा अह- मस्मि भगवो देवते अहं वा त्वमसी"ति "तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं शिवात्मने नमो देवाधिदेवाय पराय परमात्मने" इत्यादिश्रुतिस्मृत्य- नुसारेणाहं व्रह्मास्मि ब्रह्मैवाहमस्मीति व्यतिहारेणाखण्डैकरसत्वेन करतलामलकवत्साक्षात् कृते सति अस्यैव साक्षात्कृतवतो Sधि- कारिणः हृदयग्रन्थिर्भिद्यते हृदित्यहङ्कारः अयमित्यपरोक्षरूपः साक्षी अन्योन्यतादात्म्येन तयोरुभयोरपि स्वरूपं मिलित्वा हृदयग्रन्थिरि- त्युच्यते "अहङ्कारस्य कर्तृत्वं चित्यध्यस्य तथा चितः स्फूर्ति चाहङ्कतौ ग्रन्थिं कुर्यान्माया तयोरधुं"मिति वचनात् हृदयशब्दवाच्यं तादात्म्य- मेव ग्रन्थिरिव ग्रन्थिः। यद्वा हृदित्यहङ्कारःअगमिति साक्षी तयोस्ता-
Page 81
सव्याख्या वाक्यमुधा। २३
दात्म्यं हृदयग्रन्थिरुच्यते एवमुक्तलक्षण आवृत्तिरूपमायाकार्यो डयं हृदयग्रन्थिरभिद्यते मुच्यते चराव्देदंशब्दी सर्वत्रानुवर्तते एवं हृदयग्रन्थी भिन्न सत्यस्य सर्वसंशयाश्छिद्यन्ते च परमार्थतो ममेव ब्रह्म त्वमस्ति वा न वा ब्रह्मत्वे Sपि ताद्ृयूपत्वं मम साक्षात्कृतं वा न वा साक्षात्कृते ज्पीतः परं ममापि कर्तव्यमस्ति वा न वा कर्तव्याभावे Sपीदानीं मम जीवन्मुक्तत्वमस्ति वा न वा जीवन्मुक्तत्वे Sपि वर्तमानदेहपाता- नन्तरभाविनी विदेहमुक्तिर्भविष्यति वा न वा विदेहमुक्तिप्राप्तावपि कालान्तरे पुनर्जन्म भविष्यति वान वेत्यादिसंशयाश्छ्किद्यन्ते च संश- यरूपा: पाशाश्च परावरदर्शनशस्त्रेण खण्ड्यन्ते इत्यर्थः।एवं सर्वसंशयेषु भिन्नपु सत्सु अस्य कर्माणि च क्षीयन्ते परावरदर्शनस्य देहारम्भनि- रोधकत्वे ऽपि वर्तमानदेहारम्भसमये तस्याविद्यमानत्वेन तन्निरोध- कत्वासम्भवात् "तस्य तावदेव चिरं यावन्न विमोक्ष्ये" "भूयश्चान्ते विश्वमायानिवृत्ति"रित्यादिश्रुतेश्च प्रारब्धकर्मणां भोगादेव क्षया- दागामिकर्मणां च परावरसाक्षात्कारसमये अविद्यमानत्वात्पश्चात् सर्वेषामपि तेषामसंश्लेषाच्च जन्मकोटिसहस्त्रोपादानभूतानि सश्चिता- न्यनारब्धशब्दवाच्यानि पुण्यापुण्यमिश्ररूपाणि कर्माण्येवात्र कर्म- शव्देन विवक्ष्यन्ते तानि सर्वाणि च क्षीयन्ते परावरदर्शनाग्निना दग्धानि भवन्तीत्यर्थः । अ्रन्यदृष्टिमाथित्येव कर्मशब्दो व्याख्यातः । "अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत" इत्यादिश्रुतिसहस्त्रेप्वस्या- शरीरत्वश्रवसादशरीरस्य परावरदर्शनानन्तरमप्यागामिकर्मण एव
दारब्धानार्धरूपाणि सर्वकर्माणि क्षीयन्ते इति स्वदृष्ट्यनुसारो डयमर्थः भिद्यते इत्यादिवर्तमानप्रयोगेण ज्ञानसमकालमुक्तत्वं द्यो- त्यते अत्र प्रमाणं "तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे Sहं मनुरभवं सूर्यश्चंति ब्रह्मविद्गह्मैव भवति ब्रह्मविदान्नोति परं तरति शोकमात्म- वितू अभयं वै जनक प्राप्ती सि एतावदरे खल्वमृतत्वमिति तमेव विदित्वा उतिमृत्युमेति तमेवं विद्धानमृत इह भवति यत्र नान्यत्प- श्यति यत्र नान्यच्कृणोति यत्र त्वस्य सर्वमात्मैवाभूदि"त्यादिश्रुतयः "तीर्थे श्पचगृंह वा नष्टस्मृतिरपि परित्यजन्देहम ज्ञानसमकालमुक्तः केवल्यं याति हृतशोकः" इति शेपवचनम् "दर्शनादर्शने हित्वा स्वयं केवलरूपतः यस्तिष्ठति सतुब्रह्ा ब्रह्म न ब्रह्मवित्स्वर्य"मिति वसिष्ठ-
Page 82
२४ सव्याख्या वाक्यसुधा।
वचनम् "यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् तस्मात्का- लात्समारभ्य जीवन्मुक्तो भवेत्सदेति" पुराणवचनम् ॥ ३१॥ एवमवरशब्दवाच्यस्य जीवस्य ब्रह्मत्वे दर्शिते सति रूप दृश्य- मित्यारभ्याऽस्य जीवत्वमारोपादित्येतच्छोकपर्यन्तेन ग्रन्थेन दर्शि- तमर्थ विस्मृत्यास्य सात्षिण: ब्रह्मत्वमेव स्वरूपं चेत्तर्हि जीवत्वं नोप- पद्यते जीवत्वमेव स्वरूपं चेत्तदा ब्रह्मत्वं नैवोपपद्यते उभयथापि शास्त्रनैरर्थक्यं स्यादित्याशङ्कमानं शिष्यं प्रति अस्य साच्षिण एव उपाधिवशाज्ीवत्वं स्वभावतो ब्रह्मत्वं चोपपद्यते तस्माच्छास्त्रनैरर्थ- क्यमपिन स्यादिति प्रकरणपरिसमाप्तिपर्यन्तेन ग्रन्थसन्दर्भेण कृपया पुनर्विविच्य प्रदर्शयिष्यन्नवरशब्दवाच्यजीवस्यावान्तरभेदं तावतू दर्शयति॥ अवच्छिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः । विज्ञेयस्त्विधो जीवस्तत्राद्यः पारमार्थिकः ॥ ३२॥ अवच्छिन्न इति ॥ अवच्छिन्नः परिच्छिन्नः परिपूर्णे परव्रह्मण्यवि- द्याहङ्काराभ्यामचच्छेद्यं यत्साक्षिचैतन्यं स एवावच्छिन्नाख्यः प्रथमो जीव: स्यात् चिदाभासः चिल्लक्षणरहितस्तद्वदवभासमानश्चिदा- भास: अन्तःकरणाख्ये Sहङ्गारादिशब्दवाच्ये लिङ्गशरीरे प्रतिबिम्बितं यच्चैतन्यं स एव चिदाभासाख्यो द्वितीयो जीवः स्यात्स्वप्रावस्थायां नरपशुपक्ष्याद्यनेकशरीरलक्षणं परिगृह्य सर्वा दिशो यः परिभ्रमति स एव स्वप्नकल्पितस्तृतीयो जीवः स्यादेवं जीवस्त्रप्रकारो ज्ञातव्यः तेषु जीवेषु मध्ये आद्यो Sवच्छिन्नाख्यः साक्षी पारमार्थिक: परमार्थ- भूतो ब्रह्मभूत इत्यर्थ: ॥ ३२॥ नन्ववच्छिन्नजीवस्यानवच्छिन्नव्रह्मभूतत्वं कर्थं संभवतीत्याशड तस्य स्वरूपनिरूपणद्वारेणारोपवशाज्जीवत्वं स्वभावतो व्रह्मत्वं च तस्मिन्संभवतीत्याह॥ अवच्छेद: कल्पितः स्यादवच्छेद्यं तु वास्तवम्। तस्मिन् जीवत्व्रमारोपाङ्वह्मत्वं तु स्वरभावतः ॥ ३३ ॥ अवच्छेद इति॥ अवच्छेदावच्छेद्ययोर्जीवत्वब्रह्मत्वयोश्च परस्पर- वैलचण्यद्योतकावुभावपि तुशब्दी अवधारणवाचकी वा ब्रह्मभूते
Page 83
सव्यास्या वाक्यसुधा। २९
साक्षिण्यविद्याहङ्गारकृतो यो वच्छेद: परिच्छेद: स आकाशे तल- मलिनतादध्यासवदहङ्कारेणाध्यस्त एव स्वात्सुपुप्तावहङ्कारलये सत्यविद्यावच्छिन्नो Sहमहद्कारावच्छिन्नां Sहमित्युभयविधस्यावच्छि- न्नत्वस्याप्यभिमानाभावादविद्याहङ्गाराभ्यां परिच्छद्ं यत्साक्षिचैतन्यं तत्कालत्रये उप्येकरूपत्वाद्वास्नवमे सत्यमेव स्यादेवं यसमाप्त- स्मादुक्तलक्षणे तस्मिन्साक्षिणि चिदाभासद्वरेणाहङ्गारसाक्षिणोर- न्योन्याध्यासादेव जीवत्वं स्यात् "कर्तृत्वादीन्वुद्धिधर्मान्स्फूर्त्याख्या- मात्मरूपताम दधद्विभाति पुरत आभासो उतो भ्रमो भवे"दिति वच- नातू प्रकृते सात्िणि ब्रह्मत्वं स्वभावत एव स्वतःसिद्धमेव स्यान्न तु चतुर्विध*क्रियासाध्यमित्यर्थः॥३३॥ एघमस्य स्वभावतो ब्रह्मत्वं चोपपत्तितो दर्शयित्वा इदानीमस्य साक्षिण एव ब्रह्मणा सह पक्यं वाक्यानि बोधयन्ति नेतरयोशचिदाभासस्वप्रक- स्पितयोरित्याह॥ अवच्छिन्नस्य जीवस्य पूर्णेन ब्रह्मणैकताम्। तत्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ ३४ ॥
द्वितीयवत्प्रतीयमानस्य पारमार्थिकजीवस्यैवाविद्याश्रयभूतत्वेन देश- कालवस्तुभिरनभिप्ळुतेन परमात्मना "तत्वमसि म्रहं ब्रह्मास्मि अय- मात्मा ब्रह्म प्रज्ञानं व्रह्म"त्येवमादिवाक्यान्यैक्यं जगुः आरोपित- पष्ठचादिकमचलम्व्य लक्षणावृत्त्या तात्पर्येणैक्यं बोधयन्तीत्यर्थः।चि- दाभासस्वप्नकल्पितयोर्त्रह्मरणा सहैक्यं वाक्यानि न बोधयन्ति तयोर्मो- याकार्यत्वेनावस्तुभूनत्वादित्यभिप्नायः।ननु प्रमाणफलस्य प्रमातृगा- मित्वादहं ग्रह्मास्मीति चिदाभसनैव प्रतिपन्नत्वेन तस्यैव प्रमातृ- त्वात्कूटस्थस्य साक्षिण: प्रमातृत्वासम्भवेन प्रमाणफलाश्रयत्वानुप- पत्तः काकस्य कार्ष्ण्य धवलप्रालाद इतियदन्यस्य फलमन्यस्य स्यादित्याचार्यरसम्बद्धमंवोच्यते इति चेशनप दोपः चिदाभासस्य
च्ास्य प्रमाणफलाश्रयत्वानुपपत्तेः साक्षिणश्चिदाभासाधिष्ठानत्वेन
- धतुर्थिधं फलं नाम।उत्पत्तिराप्तिः संस्कारी गुणान्तरमिति।। ४
Page 84
२६ सव्याख्या वाद्यसुधा ।
तदात्मत्वात्परमार्थरूपत्वाञ्च प्रमाणफलाश्रयोपपत्तेः "प्रत्ययी प्रत्यय खैत्र यदाभासी तदर्थता तयोरचितिमत्वाच्च चैतन्ये कल्व्यते फलम कूटस्थ डपि फलं योग्यं राजनीव जयादिकम तदनात्मत्वहेतुर्भ्या क्रियाया: प्रत्ययस्य चे"त्याचार्येः कूटस्थस्य साक्षिणो पि प्रमाण- फलाश्रयत्वमस्तीति समर्थितत्वाञ्च "जानिताज्ञानिते त्वात्माभासस्यैव न चात्मन: तथा च कथमाभासः कूटस्थो Sस्मीति बुध्यताम नाय दोषश्चिदाभास: कूटस्थैकसवभाववान आभासस्य च मिथ्यात्वात् कूटस्थत्वावशेषणादिति" तृप्तिदीपास्ये ग्रन्थे तैरेवाचार्येराशड परि- हतत्वाच॥ ३४॥ एवं पारमार्थिकजीवस्य साक्षिण एव परिपूर्णानन्दपरमात्मनैक्ये
तत्वतो Sनवच्छ्ित्नब्रह्मरूपस्यास्य साक्षिण एव भौक्तभोज्यात्मकस-
कार्यत्वेन मिथ्यात्वं साक्ष्यनन्यत्वं तन्मात्रेणावशेषत्वं चोत्तरग्रन्थ- सःदर्भेण दर्शयितुं साक्षिणो जीवजगदधिष्ठानत्वं जीवजगतोमाया- कार्यत्वं च दर्शयति॥ ब्रह्मण्यवस्थिता माया विक्षेपाSSवृतिरुपिणी। आउत्या Sखण्डतां तस्मिन् जगज्जीवौ प्रकल्पयेत् ॥ ३५ ॥ ब्रह्मगीति॥ अत्रापि छन्दोभङ्गभयादेव पूर्वापरनिपातव्यत्यासः कृत: शब्दतश्चार्थतश्च न पौनरुत्त्याख्यो दोपो Sत्र शङ्कनीयः ब्रह्मा- त्मस्व रूपस्यालौकिकस्यातिसूक्ष्मत्वेन भटिति ज्ञातुमशक्यत्वादभ्या- सनैत प्रतिपत्तव्यत्वाच्छू यैव नवकृत्व उपदिष्टत्वाच्च सत्यादिलक्षणे ्रझ्ण्यवस्थिता SSवृतिविक्षपलक्षणशक्तिद्वयात्मिका Sनिर्वचनीया मा- या स्वाश्रयभूतस्य ब्रह्मणो Sखण्डतामाच्छाद तस्मिश्नवच्छेद्यसाच्ि- स्वरूपे व्रह्मणि जगज्जीवी प्रकल्पयेत्पूर्वोक्त प्रकारेण सृजेदित्यर्थः ।३५।। भोकृभोग्ययोर्मध्ये भोक्तरूपस्य जीवस्यैव प्राधान्ये पि पद्या- नुसारेण जगज्ीवावित्युक्तमर्थक्रमानुसारण। इदानीं तयोर्जीवजगतोः स्वरूपं विविच्य दर्शयति॥ जीवो धीस्थश्चिदाभासो भवेद्ोक्ता हि कर्मकृत्। भोग्यरूपमिदं सर्व जगत्स्याद्ूतभौतिकम्॥ ३६ ॥
Page 85
सव्यारुगा वाक्यमुधा। २७
जीव इति ॥ कृष्यादिकं यज्ञादिकं श्रवणादिकं च कर्म करोतीति कर्मकृत् स्वार्जििनमैहिकामुष्मिकफललक्षखं भोगं सुनक्तीति भोक्ता एव मुक्तलक्षणो यो धीस्थश्चिदाभास: स एव ब्रह्माशितमायाक• दिपतो जीव इत्युच्यते हिशब्दो यस्मादर्थ धीस्यश्चिदामासः कर्म- रुद्भोक्ता च यस्मात्तस्माज्ीवो भवेदित्यक्षरयोजना। भूतं पृथिव्यादि- भौतिक देवतिर्यगादिशरीरजातं भूतं च भौतिकं च भूतभौतिकं भोकृणां भोगाधिष्ठानभूसं तत्तच्छरीरानुरूपेण भोज्यरूपमिद परि- वश्यमानं सर्व भूतभौतिकं जगत्स्याज्गदित्युच्यते॥ ३६॥ एवं जीवजगतोः स्वरूपं दर्शयित्वा इद़ानीमनयोरनिर्षचनीय- मायाकार्यत्वेन मोक्षदशायामभावाद्यवहारमात्र स्थितत्वाच्चितवुभयं व्यावहारिकमित्याह। अनादिकालमारभ्य मोक्षात्पूर्वमिदं द्वयम्। व्यवहारे स्थितं तस्मादुभयं व्यावहारिकम् ॥३७॥ अनादिकालमिति॥ सस्मिन्काले आरब्धे एते जीवजगती इति विचार्य केनापि निर्णेतुमशक्यत्वात् "प्रकृति पुरुषं चैव विध्यनादी उभावपी"ति भगवद्वचनाञ्च अनयोर्जीवजगतोरादिर्नास्त्येव "गताः कलाः पश्चदश प्रतिष्ठां यथा नद्यः स्यन्दमानास्समुद्रेडस्तं गच्छन्ति तस्य तावदेव चिरं भूयश्चान्ते विश्वमायानिवृत्ति"रित्यादिश्रुतेः "ततस्तिमितगम्भीरंन तेजोन तमस्ततम्। अनाख्यमनभिव्यक्तं यत्कि- ख्चिद्वशिष्यते"इति वसिष्ठवचनाच्च अनयोर्जीवजगतोर्घर्तमानदेहरा- हित्यलक्षणविदेह कैवत्यदशायामभावादन्तो Sस्त्येष यस्मादेवं तस्मा- वनादिकालपारभ्य वर्तमानदेहराहित्यलक्षणविदेहकैवल्यप्राप्तेः पूर्व
जगदाख्यमिदं वस्तुद्वयं स्थितम् उक्तलक्षणं व्ययहारमाश्रित्य वर्तते तस्मादेतयुभयं व्यावहारिकं न तु पारमार्थिकं प्रातिभासिकं च एवं जीघजगतोर्मायिकत्वं साक्िणो जीवजगदधिष्ठानत्वं मुखत एव ब्रह्म- ण्यवस्थिता मायेत्यस्मिन् श्ोके दर्शितम अस्मिन् श्रोके तयोर्मुखतो व्यावहारिकत्वकथनद्वारा मिथ्यात्वं दर्शितमधिष्ठानानन्यत्वमधि- ष्ठानावशेषत्वं चार्थात्सूचितम् ।।३७। एघं ब्रह्मण्यवस्थितेत्यादिभिस्त्रिभिः श्रोकैः प्रदर्शितमर्थ स्वम्न-
Page 86
२८ सव्याख्या वाक्यसुधा।
जीवजगदवलम्बनेन इढीक्तरिष्यामीत्यभिप्रायेण स्वप्नजीवजगतोर्नि- द्राकार्यत्वं दर्शयति॥ चिदाभासस्थिता निद्रा विक्षेपाSSटतिरपिणी। आवृत्य जीवजगती पूर्वे नूत्ने तु कल्पयेत् । ३८ ।। चिदाभासस्थितेति॥ व्यावहारिकजीवास्यचिदाभासाश्रया SSवृ- तिविक्षेपात्मिका तमोरूपा प्रसिद्धा निद्रा SSवरणशक्त्याकारेण पूर्वे व्यावहारिकजीवजगती आवृत्य ततो निद्धाश्रयत्वेन निद्धावच्छिन्नचि- दाभासखरूपं जाग्रत्समस्तप्रपश्चसंस्कारसहिते देहस्थान्तर्नाडीमध्ये स्थिते Sस्मिन् निद्रावच्छ्वत्नचिदाभासाकारे विक्षेपशत्ताकारेण नूते नूतने जीवजगती कल्पयेत् पूर्वनूतनजीवजगतोव्यावहारिकप्राति- भासिकत्ववैलक्षण्यद्योतनार्थस्तुशब्द: यथा निद्रा चिदाभासाश्रया तथा माया Sपि ब्रह्माश्रया यथा निद्रा SSवृतिविक्षेपाख्यशक्तिद्वयात्मिका तथा माया Sपि शक्तिद्वयात्मिका यथा स्वप्नजीवजगतोर्निद्रा- कार्यत्वं तथा व्यावहारिकजीवजगतोरपि मायाकार्यत्वं यथा निद्रा- वच्छिवन्नचिदाभासाकारस्य स्वप्नजीवजगदधिष्ठानत्वं तथा मायाव- च्छिन्नसाक्ष्याख्यव्रह्माकारस्यापि व्यावहारिकजीवजगदधिष्ठानत्वं स्यास्तस्मान्वह्मण्यवस्थिता मायेत्यनेन श्रोकेन प्रदर्शिते उर्थे विप्र- तिपसतिहेतुः को Sपि नास्तीत्यभिप्रायः ॥३८॥ तुशव्देन द्योतितं घैलक्षण्यं स्पष्टयति॥ पतीतिकालएवैते स्थितत्वात्पातिभासिके। न हि स्त्प्रपबुद्धस्य पुनः स्व्प्े स्थितिस्तयोः ॥३२ ॥ प्रतीतिकालइति ॥ प्रतीत्यनन्तरक्कालस्थिति निपेधयत्येवकारः प्रतीतिकाले एव वर्तमानत्वादेते सप्नजीवजगती प्रातिभासिके इत्यु- चयेते इममेवार्थ व्यतिरेकमुखेनापि द्रढयति न हीति। एकस्मिन् दिने स्वम दृष्टा तस्मात्प्रबुद्धस्य दिनान्तरे दश्यमाने रवन्े पूर्वदिनस्वन्न- सम्बन्धिनोर्जीवजगतोरवस्थितिर्नास्ति यस्मात्तस्मात्ते प्रातिभासिके एव न तु व्यावहारिके पारमार्थिकत्वशङ्गीव नास्त्यनयोरनेन प्राति- भासिकत्वकथनेन स्वप्नजीवजगतोः प्रतीतिकाले एव स्थितत्वात्पुनः खप्े स्थित्यभावाच्च मिथ्यात्वं तथा व्यावहारिकजीवजगतोरप्यनादि- कालमारभ्य मोक्षात्पूर्व स्थितत्वाप्ततः परमभावाच्च मिथ्यात्वं यम्भात्तस्मावनादिकालमारभ्येति अनेन श्ोकेन प्रदर्शिते उर्थे विप्र-
Page 87
सव्याख्या वाक्यसुधा। २९
तिपत्थव काशो नास्तीत्यभिप्रायः ॥३६॥ एवं स्वाप्नजीवजगहप्टान्तेन संक्षेपण प्रदर्शितं व्यावहारकजीव जगनोर्मिथ्यात्व पुनः सवप्नद्प्टान्तमवलम्व्य श्रोकत्रयण दढायतुं रष्टान्तभूतयोः स्वप्नजीवजगतोर्मिथ्यात्वं तावदर्शर्यति। पातिभामिकजीवो यस्तज्जगत्पातिभामिकम्। वास्तवं मन्यते ऽन्यस्तु मिथ्येति व्यावहारिकः ॥ ४० ॥ प्रातिभासिकेति । स्वप्नकल्पितप्रातिभासिकाख्यो यो जीवः सः स्वप्नकल्पितं प्रातिभाग्निकाख्यं तज्जगद्वास्तवं मन्यते सत्यममित्य- वगच्छति न तु मिथ्येति स्वस्य यावदवस्थानं तावत्तस्याप्यवस्थि- सत्वादन्योन्यपक्षव्यावृत्त्यर्थस्तुशब्द: प्रातिभामिकादन्यो व्यावहारि- काख्यो जीवस्तत्प्रातिभासिकं जगध तद्टप्टारं प्रातिभासिकं जीवं च मिथ्येति मन्यते न तु वास्तवमिति स्वप्नात्पूर्व स्वप्ञानन्तरं प्रबोधे घ तयोरुभयोरप्यवस्थानाभावादिति भावः ॥४० ॥। दृष्टान्तेन प्रदर्शितं न्यायं वार्श्टान्तिके योजयति ॥ व्यावहारिकजीवो यस्तज्जगव्वावहारिकम्। ससं प्रसेति मिथ्येति मन्यते पारमार्थिक: ॥ ४१॥ व्यावहारिकेति॥ उक्तलक्षणो यो व्यावहारिकजीवः स माया- कल्पितं तद्यावहारिकं जगत्मत्यं प्रत्येति वास्तवमित्यवगच्छति न नु मिथ्येति स्वस्य यावदवस्थानं तावत्तस्याप्यवस्थितत्वात्तस्मा- दन्यः पारमार्थिकजीवस्तद्यावहारिक जगच्च तट्टप्टारं चिदाभासञ्च मिथ्येति मन्यते एतदुभयमसत्यमित्यवगच्छति न तु सत्यमिति नित्यप्रलया ख्यसुुप्ती तयोरनवस्थानस्यानुभवमिद्धत्वात् "नासदा- सीन्नो सदासी"दित्यादिश्रुत्यनुसारेणानादित्वे Sपि "गताः कला" इत्यादिश्रुत्यनुसारेण वर्तमानदेहराहित्य लक्षणविदेहकेवल्यदशायां तयो: प्रतीतिरप्यात्यन्तिकनाशस्य निश्चितत्वात् श्रुत्याचार्यानुभवव- शात्स्वभावसिद्ध ब्रह्मात्मत्वे साक्षात्कृते सति भाविदेहराहित्यलक्षण- जीवन्मुक्तिदशायां तयोव्यावहारिकजीवजगतीः कादाचित्कप्रतीति- सन्भ्ावे पि तया: सत्ता SSत्यन्तिकनाशस्य श्रुतियुत्तनुभवसिद्धत्वाच्च तस्मात्प्रतिभासिकजीवजगती यथा मिथ्याभूते तथा व्यावहारिकजी- वजगती च मिथ्यास्वरूपेति भावः ।। ४१।।
Page 88
सव्याख्या वाक्यसुधा।
मिध्येति मन्यते पारमार्थिक इत्यतावता ग्रन्थेन प्रतिपादितमर्थ पुनर्दढयति॥ पारमार्थिकजीवस्तु ब्रह्मैक्यं पारमार्थिकम्। प्रसेति वीक्ष्यते नान्यद्वीक्षते त्वनृतात्मना ॥ ४२ ॥ पारमार्थिकेति॥ अवधारणवाचकौ तुशव्दी पारभार्थिको जीवः साक्षात्परमात्मस्वरूप: वर्तमानदेहराहित्यलक्षणविदेहकैवल्य- प्राप्तिपर्यन्तं ब्रह्म चिच्छब्द लक्ष्यं साक्षिस्वगतादिभेदरहितं बन्धमोक्ता- दिव्यवहारातीतं सव्विदानन्दलक्षणं स्वस्वरूपं ब्रह्मैक्यमेव पारमा- र्थिकमित्ययगच्कति नान्यद्वीक्षते "यत्र नान्यत्पश्यति यत्र त्वस्य सर्वमात्मैवाभू"दित्यादिश्रुतेः वीक्षते त्वनृतात्मना प्रबलप्रारब्धवशा- त्स्वरूपावस्थानाच्चिदाभासाकारेण व्युत्यितः सन्कदाचिजीवजगदा- दिकं यद्यपि वीक्षते तथा Sपि मिथ्यात्वेनैव पश्यति न तु सत्यत्वे- नेत्ययमेव तात्पर्यार्थ: ॥ ४२॥। एवं प्रातिभासिकजीवजगहष्टान्तेन व्यावहारिकजीवजगतोर्मा- याकार्यत्वमत एव मिथ्यात्वं च हढीकृत्येदानीं द्ष्टान्तभूतयोर्जीवज- गतोरधिष्ठानचिदाभासानन्यत्वं तन्मात्रेणावशेषत्वं च प्रसिद्धमपि पुनरपि बाह्यद्प्टान्तेन हढीकृत्य तेन वाह्याभ्यन्तरद्दष्टन्तद्वयंनापि व्या-
द्रढयितुमारोपिताकारस्याधिष्ठानानन्यत्वे बाह्यहष्टान्तं तावदर्शयति॥ माधुर्यद्रवशैसानि नीरधर्मास्तरङ्गके। अनुगम्याथ तन्निष्ठे फेने ऽप्यनुगता यथा ॥४३॥ माधुर्यमिति ॥ यथा दष्टान्ते माधुर्य च द्रवत्वं च शैत्यं च माधुर्यद्रवशैत्यानि नीरधर्मा जलगुणा: जलस्योपरि वातवशात्तरङ्गे उत्पन्ने सति जलविवर्तत्वेन जलनिष्ठे तस्मिन् तरङ्गे अनुगम्याथ तरङ्गोत्पत्यनन्तरं तत्तरङ्गविवर्तत्वेन तरङ्गनिष्ठे फेने ऽप्यनुगताः जलतरङ्ग: फेन इति भेदव्यवहारे विद्यमाने Sपि जलादीनां माधुर्य- द्रवशैत्यव्यतिरेकेण स्वरूपाभावतया तेषां माघुर्यद्रवशैत्यात्मकत्वा- त्पूर्वपूर्वाधिष्ठानस्यैवोत्तरोत्तरव्यावृत्ताकारेण विवर्तमानत्वादुत्तरोत्त- रकार्यस्य पूर्वपूर्वाधिष्ठानानन्यत्वं प्रदर्शितमनेन श्रोकेन ॥४३॥
Page 89
सव्याख्या वाक्यसुधा। ३१
एवमारोपिताकारस्याधिष्ठानामन्यत्वं घाह्यदष्टान्तेन दर्शयत्वा तमेव न्यायं दार्शान्तिके योजयति॥ साक्षिस्थाः सच्चिदानन्दाः सम्बन्धाव्यावहारिके। तद्वारेणानुगच्छन्ति तथैव प्रातिभासिके ॥४४॥ साक्षिस्था इति॥ यथा दष्टान्ते तथा दार्श्टान्तिके Sपि ब्रह्मस्वरूपे साक्षिणि स्थिता: स्वरूपलक्षणरब्दवाच्या: सत्यज्ञानानन्दाः साक्षि- गुणास्तरङ्गे जलगुणाना सम्बन्धवद्यावहारिकजीवजगतीः सम्बन्धा- धावहारिकजीवजगद्यवधानेन प्रातिभासिकजीवजगतोरप्यनुवृत्ता भवन्ति। व्यावहारिकः प्रातिभासिक इत्यतौ व्यावहारिकप्रातिभा- सिकजगतोरप्युपलक्षणे जीवयोस्तसजगदन्तःपातित्वेन जगद्यति- रेकेणाभावात्साक्षिस्था इत्याधाराधेयभावो गुणगुणिभावश्च राहो: शिर इति वदौपचारिक: प्रातिभासिकजीवजगतोश्चिदाभासविवर्त- कत्वे स्वभावतः प्रसिद्धे पि तरङ्गस्थानीयचिदाभासस्थाः सच्चिदा- नन्दा एव फेनस्थानीयप्रातिभासिकजीवजगतोरप्यनुगता इति पुनर- व्येवं निश्चिते सति यथा तयो: प्रातिभासिकयोर्जीवजगतोशचिदाभा- सानन्यत्वं यथा वा जलस्थमाधुर्यादीनामेव तरङ्ग ऽप्यनुगतत्वेन तरङ्गस्थजलानन्यत्वं यथा जलस्थानीये साक्षिणि स्थितानां माधुर्या- दिस्थानीयानां सच्चिदानन्दानामय तरङ्गस्थानययोशचिदाभासजग- तोरण्यनुगतत्वेन तया: ब्रह्मभूतसाक्ष्यनन्यत्वं सिद्धमिति भावः "एक पवात्मा मन्तव्यो जागरत्स्तप्रसुषुत्तिषु स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते" इत्यादिश्रुतेः ॥४४ ॥ एवं व्यावहारिकजीवजगतोरधिष्ठानभूतसाक्ष्यनन्यत्वं द्ष्टान्त- मुखेन दर्शयित्वा तदेव पुनरधिष्ठानावशेषत्वेन द्ढयितुं पूर्वोक्तमेव दृष्टान्तं दर्शयति॥ लये फेनस्य तद्धर्मा द्रवाद्या: स्युस्तरङ्गके। तस्यापि विलये नीरे तिष्ठन्सेते यथापुरा ॥ ४५॥ लये इति॥ तरङ्गविवर्तस्य फेनस्य नाशे सति तत्फेनधर्माः द्रव- माधुर्यशैत्याख्याः फेनाधिष्ठाने तरक्के भवन्ति जलविवर्तस्य तरङ्ग- स्यापि नाशे सत्येते द्रवाद्यास्तरङ्गफेनाघुत्पत्ते: पूर्व यथा सर्वाधिष्ठाने नीर तिष्ठन्ति तथा तिष्ठन्त्येव कालत्रय उपि नीरस्य विद्यमानत्वात्
Page 90
३२ सव्याख्या वाक्यसुधा।
तिरेकेण तरङ्गकेनी न स्त इत्यथ: । ४५।। दष्टान्तसिद्धमर्थ दार्ष्टान्तिके योजयति॥ पातिभासिकजीवस्य लये स्युर्व्यावहारिके। तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणि ॥४६॥ प्रातिभासिकेति ॥ अन्नापि प्रातिभासिकजीवजगतोर्लये सति तत्र स्थिता: सच्िचिदानन्दा: जाग्रत्प्रपश्चसंस्कारसहिते चिदाभासे भवन्त्यत्रापि तल्लये तज्जगतो Sपयुपलक्षएं नित्यनैमित्तिकप्राकृतात्यन्ति- काख्येषु प्रलयेषु व्यावहारिकजीवजगतलिये सति तत्र स्थिताः सश्विदानन्दा: सर्वाधिष्ठानभूते साक्षिण्यव पर्यवस्यन्ति निष्ठां प्राप्नु- वन्ति तस्याप्यधिष्ठानभूतस्य कस्य चिद्धस्तुनो Sभावादेवं साक्षिण: कालत्रये Sपि सद्ूपत्वात् व्यावहारिकजीवजगदादेः सृष्टेः पूर्व प्रलयानन्तरं चाविद्यमानत्वात्तज्त्वात्तत्रस्थत्वात्तल्लयत्वाञ्च तलक्ष्य- ब्रह्माभिन्नसाक्षिव्यतिरेकेष व्यावहारिकजीवजगदादिर्नास्त्येवेत्यर्थः। चोरव्याघ्रादीनामाभिमुख्यागमनेन प्रातिभासिकजीवकर्तृकेण तद्दर्श- नेन निद्रावच्छ्वन्नचिदाभाससैव निद्राश्रयभूतेन चिदाभासेनैक्यवि- पये जागरणाख्य प्रबोधे जाते सति दिनान्तरे विद्यमानप्रातिभासिक- जीवदृष्ट्या स्वरूपभूतचिदाभासाज्ञानपूर्वकसमस्तसंसारे विद्यमाने Sपि वर्तमानदिन चारव्याघ्रादिदर्शनेन प्रबुद्ध: प्रातिभासिकजीवः
भागरहिते एकरूपे चिदाभासे भृगुपतनादिकर्तेव स्वनाशेन चिदा- भासपदं प्राप्तुमिच्छया प्रातिभासिकभोग्यरूपसमस्तप्रपश्चन सहा- त्यन्तिकनाशं यथा प्राप्नोति तथा व्यावहारिकजीवो Sपि व्यावहा-
मूल समस्तसंसारे विद्यमाने Sपि चारव्याघ्राद्याभिमुख्यागमनस्थानी- येन श्रुत्याचार्यानुग्रहेष प्रातिभासिकजीवकर्तृकतद्दर्शनस्थानीयेन
वच्छिन्नस्य स्वभावती Sनर्वच्छननस्य ब्रह्मरूपस्य साक्षिण एव निद्रा- अ्रयभूतचिदाभासस्थानीयेन पृर्णेन ब्रह्मणेक्यविषये ब्रह्मविद्याख्ये प्रवोधे जाते सति स्वदृष्ठ्या शक्तिद्वयात्मकमायात्यन्तिकनाशान्मा- याश्रयावच्छ्वन्नादिभागरहिते अत एव स्वगतादिभेदवर्जिते सच्चिदा-
Page 91
सव्याख्या वाक्यसुधा। ३३
नन्दलक्षण ब्रह्मात्मनि देवत्वकामनया उग्निप्रतिष्ठेव साक्षित्वमात्रा- वशपवाञ्छ्या ब्रह्मसाक्षात्कारकालमारभ्य वर्तमानदेहराहित्यलक्षण- विदेहकैवल्यप्राप्तिपर्यन्तं व्यावहारिकभोग्यरूपसमस्तप्रपञ्चेन सह शनः शनैनाशं यात्यात्यन्तिकलयं प्राप्नोति "देवत्वकामा अग्न्यादी प्रविशन्ति यथा तथा साक्षित्वेनावशेषाय स्वविनाशं स वाञ्छति यावत्स्वदेहदाहः स्यान्नरत्वं नैव मुश्चति यावदार्धदेहः स्यान्नाभा- सत्वविमोचन"मित्येतत्तैरंव तृप्तिदीपाख्ये ग्रन्थे उपपत्या सह प्रदर्शित- त्वात्तस्मादस्य चिदाभासस्य भ्रान्तिविवकी नित्यमुक्ते सात्षिण्यध्य- स्ती न वास्तवावित्येतत्तैरंव भारतीतीर्थ गुरुभिरुपनिपत्संक्षेपवार्तिके सम्यक् निरूपितम्। "वोधात्पुरा तुचिन्धान्त्या मग्ना भोक्तरि शोचति सा भ्रान्तिर्भोक्तृनिष्ठैव तद्विवेको Sप भोकतृगः भोगावान्तरभेदो हि भ्रान्तितद्वोधकावुभी इतरारापितत्वाच्च चित्यध्यस्ती न वास्तवाविति। अस्य साक्षिण: सात्तित्वं साक्ष्यापेक्षं न तु वास्तवमित्येतदप्यद्वैतम- करन्दकारैर्निरूपितम्। "चैत्यांपरागरूपा मे साक्षिता ऽपि न तात्विकी उपलक्षणमेवेयं निस्तरङ्गचिदम्वुधेरिति चत्यं जडपदार्थः यस्मादेवं तस्माद्यावहारिकदृष्ट्यनुसारेण मायाश्रयत्वं मायाहङ्काराभ्यामव- च्छ्िन्नत्वं नामरूपतादात्म्यन भोग्यत्वं अन्तःकरणे प्रतिविम्बितचिदा- भासाकरेण कर्तृत्वभोक्तृत्वादिरूपसंसारित्वं "ब्रह्म वा इदमग्र- आसीत् तदात्मानमेवावदहं ब्रह्मास्मी"ति श्रुत्यनुसारंण ब्रह्मसाक्षा- त्कर्त्तृत्वं जीवन्मुक्तत्वं च विदंहमुक्तत्वं च "न निरोधोन चोत्पत्ति- नं वद्धो न च साधकः न मुमुक्षुर्न वै मुक्त इत्येषा परमार्घते"त्यादि- श्रुतिप्रामाण्यात्परमार्थदृष्ट्यनुसारंण मायाश्रयत्वादिविदेहमुक्तित्वप- र्यन्तसमस्तव्यवहारातीतत्वं च प्रत्यगभिन्नस्य सच्चिदानन्दलक्षण- स्याद्वितीयस्यावाऊनसगाचरस्य ब्रह्मण एवोपपद्यते अत एव मोक्ष- शास्त्रस्यापि साफल्यं स्यादित्ययमवास्य प्रकरणस्य समस्तवे- दान्तशास्त्रस्य महातात्पर्यत्वन पिण्डीकृतो र्थः। तस्मात्सर्वमनवद्य- मिति॥ ४६ ॥
त्रह्मानन्दभारतीप्रक्ळप्ता वाक्यसुघाटीका सम्पूर्णा ।। शुभं भवतु ।
Page 93
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS: EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE,
UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., C. I. E. AND G. THIBAUT, PH. D. Nos. 55. & 56.
विवरगोपन्यास: विवरणतात्पर्यव्याख्यानरूपः । अपि च सटीका वाक्यसुधा। VIVARANOPANYÂSA, A COMMENTARY ON VIVARANATÂTPARYA
( A Treatise on Vedanta Philosophy ) BY ŚRÎ RÂMÂNANDA SARASVATÎ : ALSO VÂKYASUDHÂ BY ŚRÎ ŚANKARÂCHÂRYA, WITH A COMMENTARY BY ŚRÎ BRAHMÂNANDA BHÂRATÎ. EDITED BY PANDIT DÁMODARA ŚÁSTRÍ SAHASRABUDDHE,
OF THE GOVT. SANSKRIT COLLEGE, BENARES.
BENARES. PUBLISHED BY THE PROPRIETORS Messrs. BRAJ B. DAS & Co. AND SOLD BY H. D. GUPTA, SECRETARY, CHOWKHAMBA SANSKRIT BOOK DEIOT
PRINTED BY FREEMAN & CO. LTD. AT TUN TIPI
- (ALL RIGHTS RESERVED) REGISTERED UNDER ACT XXV. OF 1867.
Page 95
।। श्रीः ॥। विवरशोपन्यासभूमिका। +5 -*- S+ अयं किल वेदान्तप्रमेयागाधविषयविवरणस्वरूपस्य विवरण- भिधानस्य ग्रन्थरत्नस्याप्रौढ्ववेदान्तव्युत्पत्तीनां दुर्वोधत्वं विचार्य क- रणासान्द्रान्त:करणैस्तत्रभवद्धि: श्रीमद्रामानन्दसरस्वतीयतीन्द्रपा-
7 दस्तत्तात्पर्यव्याख्यानरूपो विवरणोपन्यासाभिधो ग्रन्थो निरमायि। अयं च यतीन्द्र: कदाकतमं देशमलश्चकारेत्यच न किश्चिद्वि- श्वसनीयं प्रमाणमुपलभ््यत इति व्यर्थ एव तद्विपरये निर्मूलानु- मानप्रयास: । सोडयं ग्रन्थो वेदान्तशास्त्ररसिकानां विद्वद्वराणां मनोविनोदाय भवत्विति तत्प्रकाशने सोत्कण्ठा हं प्राचीनानां द्वित्राणां पुस्तकानां साहाय्येन यथामति तच्छोधनमकरवम्।न्यवेशयं च तत्र तत्राव- शिष्टानामशुद्धीनां शुद्धिपत्रम । तदेवं सपरिश्रमं कृतशोधने Sप्यत्र यदि मद्रुद्धेरपाटवेन, सीसकाक्षयोजकादीनां वा प्रमादेन काश्चनाशुद्धय उपलभ्येनू, तद्गणैकपक्षपातिनो विपश्चिदपश्चिमा म्पीिष्यन्त्यवेति निश्चितमाशासे अन्ते चास्मिन् यथावकाशं तत्र तत्र स्थलेषु शोधनकार्ये कृतसाहाय्यरस्मत्सुहृद्वरै: काशिक राजकीयप्रधानपाठालयाध्यापकै- स्तैलङ्गरामशास्त्रिभिर्वहपकृतोऽस्मीति तेभ्यः परःशतं धन्यवादान् वितरन् विरमाम्यस्माद्विस्तरादिति शिवम्।
पी० शु० ११ सोमे काश्याम्। दामोदरशास्त्री
Page 96
शुद्धिपत्रम् ।
पृ० पं०अशुद्धम शुद्धम पृ० पं०अशुद्धम शुद्ध म् ७ त भिन्तन् भिन्दन् १२ ८ आनन्तर्यविधि आनन्तर्यावधि १ ८ वन्ह सर्वव०. तं वन्हे सर्व० १९ २४ तथा च तथाचाS- २ ८ प्रारिप्सित दु० प्रारिप्सित प्रनि- १०१ १८ स्फुस्ण स्फुरण
४ १८ सत्यवाहि० बन्धकदुरि० १०२ ८ श्रवणाविधिः, श्रवणविधि: सत्यत्वादि० ५ १ प्रागच्छदिति० १०४ ३० बहूत्स्या डत्रा व हुत्स्या यत्राना पायच्छमि० ८ १ ज्ञानानन्निवृत्ते ज्ञानान्निवर्तेरन् १०६ २८ बातिन: वादिन:
८ ४ व्यवृत्तित्वो० व्यव्याप्यवृ० १०८ ६ भमता ममेता
१२ २७ प्रत्यक्षवाहि० १०८ २२ शून्यातना ून्यान्तना पत्यक्षत्वात्तत्मत्य ११२ १३ दुःखभि क्षत्व वाहिताडप०११२ २६ सत्रयता दुःखाभि
१८ ३० अथ सिद्धान्त० अपसिद्धान्त० मत्रकृना
२१ ८ प्रमृष्ट० प्रमुष्ट ११३ २८ ब्रह्मत्वस्यानु ब्रह्मत्वज्ञानानु ४३ २३ तत्र तन्न ११६ १७ नुपमंई नुपमर्ई
४४ १५ घटस्यैव घटस्येव ११६ २० हयाव हमावयव
४८ २८ शक्तस्येव शक्तस्यैव ११८ ३२ तत्तू स तत्तु स
९१ २३ प्रत्यक्षनैष्पव्ल्या० मत्यक्षनल्या० १११ ८ ज्ञाने ध ज्ञाते ध
५२ २९ स्वर्व सर्व १२१ २१ अचेतनया अचेतनतया
५३ ११ नत्विय नत्वयं १२७ १६ वेदात्ता: वदान्ता:
५५ १३ वात्तान वाज्ञान १२८ १८ कर्णषष्कुल्या कर्णशष्कुल्या ५६ ५ नथहतो: नर्थ हेतोः १२८ २० पाघिकन्तु पाधिके तु ५६ १५ बम्हभिन्ना ब्रह्माभिन्ना १२८ २१ नन्त्यशबदा: नन्तशबद्ा: ५७ २० शेषे नि शषण नि १३१ १६ संसर्गोडनु संसर्गानु ५८ १२ एवं प्रमा एवमप्राम १३६ १२ विष्टासिद्धि:० विष्वसिद्धि: ६० १४ मूलविद्या मलाविद्या १३७ ८ श्रुतरशरीर श्रुतरश० ६९ ४ ऐन्द्रति ऐन्द्ोति १४४ ३० मवे मव ६५ २२ साध्यस्के सादयस्करे १४९ १७ दज्ञयति दर्श यति ६९ ३२ योगदर्शन० योगादर्शन १४५ २४ येद्य इ वद्य इ ७० १९ लाकिकात्मना: लौकिकात्मनोः १४८ ८ भृतसगस्य भूतसंसर्ग० ७२ २२ वादादिक वाद़ादेव १४८ २१ अस्ति भवति अस्तिर्भव० ७३ ११ माज्ञातत्वं मज्ञातत्वं १४९ १८ निबन्ध निषेधे ७६-१४ तात्पर्य तत्र तात्पर्य व्तुंतत्र २४९ १८ प्रत्ययानुदित०प्रत्ययानू० ७८ ४ श्रयः साधनो श्रयः साधन १४१ २६ तत्रष्टास्वर्ग तत्रष्टस्वर्ग
७१ ४ भावस्य भाव्यस्य २४९ ३० नियागेन नियोगे
८० १० वदस्यध्यय वदस्याध्याय १५० १ इष्टासाधन इष्टसाधन ८२ ९ संशयेनि संशयनि १९० २९ नह्यन्धनैव नह्यन्धनेव ८५ ३ विधनास्व ८६ ५ साह्यनोहि विधिनास्त्र ग्राह्य नोहि +- Sइति S-
Page 97
॥ श्री: ।।
अथैपा प्रस्तूयते वाक्यसुधानात्री वेदान्तसुधालहरीव प्र- करणिका सम्मुद्रय प्रकाशितुम्। एतत्कर्तारो भगत्पूज्यपादा- चार्याः श्रीमच्छङ्कराचार्यपादा इति तद्रिपये परिचयदानं नाम दीपेन भगवत उष्णरश्मेः प्रकाशनमिसत्र न सन्देहः। करुणामसृणान्तरङ्रैर्भगवदाचार्यैरेतत्सुधासेचनेन शान्तान्तःकर- णतां सम्पादयितुं कृते Sपि रचनापायासे तस्याः सुदुर्लभतया न प्राभूवन् वेदान्तशास्त्ररसिकास्तमास्वादयितुमिति विचार्या- त्रसचौखम्भासंस्कृतसीरिजाख्यग्रन्थमालाध्यक्षेण श्रेष्ठिवरेण श्री- मद्धरीदासाभिधेन तन्मुद्रणकार्ये दत्तोत्साह: पावर्तेSहमेन्मुद्रणे। इयं किल सुधा सल्पापि सुधेन विबुधानां मोदहेतुर्भव- त्विति भगवन्तं काशीविश्वेश्वरं पार्थयन्, मदृष्टिदोपेण चात्रावशिष्टाः सुलभा अशुद्धी क्षान्तुं विनयेन गुणैकपक्षान् धीमद्वारानू निवेदयन्, विरमाम्यस्माल्लेखादिति शुभम्। माघकृष्णाष्टम्यां रवौ सहस्रबुद्धयुपाह्वो १९५७ काश्याम। दामोदरशास्त्री
Page 101
B Ramananda Sarasvati Svami 132 Vivaranopanyasah V3R33 1900 pt.2
PLEASE DO NOT REMOVE
CARDS OR SLIPS FROM THIS POCKET
UNIVERSITY OF TORONTO LIBRARY