1. Yaajnavalkya Upanishad
Page 1
संन्यासज्ञानसंपन्ना यान्ति यद्रुष्णवं पदम् ।
तद् ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥
अथ जनको ह वैदेहो याजवल्क्यमुपसमेत्योवाच भगवान्संन्यासमनुब्रूहीति कथं संन्यासलक्षणम् । स होवाच याजवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् ।
गृहादवनी भूत्या प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वानप्रस्थो वा । अथ पुनर्नवतीं व्रातरीं वा स्नातको वाड्स्नातको वा उत्सन्नाग्निरनग्नोकोडवा यदहरेव विरजेतदहरेव प्रव्रजेत् । तदैके प्राजापत्यामेवेक्षिं कुर्वन्ति ।
अथ वा न कुयादाग्नेय्यामेव कुयांत् । अग्नीनहिं प्राणः प्राणनमेवतया करोति ।
त्रैधातवीयामेव कुयांत् । एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति अयं ते योनिकृत्स्नजो यतो जातो अरोचथाः । तं ज्ञानग्न्नारोहाथानो वर्धया रजिमित्यनेन मन्त्रेणाग्निमाजिह्रेत् ।
एष वा अग्नेयोऽनिनयं प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्यवमेत-दाग्रिमादग्निमाहुत्य पूवींवदग्निमाजिह्रेत यदग्निं न विन्देदप्सु जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहिति साज्यं हविरनामयम् ।
तदुपासितव्यम् । शिष्यां यजोपवीतं छित्वा संन्यासं मयेऽति त्रीवारमुच्चरेत् ।
एवमेवैतद्गवत्रिति वै याजवल्क्यः ॥ १ ॥
अथ हैनमत्रिः पप्रच्छ याजवल्क्यं यजोपवीती कथं ब्राह्मण इति । स होवाच याज्ञवल्क्य इदं प्रणवमेवास्य तद्यजोपवीतं य आत्मा ।
प्राश्याचम्यायं विधिरथ वा परित्राडिवर्णवासा मुण्डोडपरिग्रहः शुचिरद्रोही बैक्षमाणो ब्रह्म भूयाय भवति ।
एष पन्थाः परित्राजकानां वीराध्वनि वाडनाशके वापां प्रवेशे वागिनप्रवेशे वा महाप्रस्ताने वा ।
एष पन्था ब्रह्मणाहानुवित्तस्तेनैति स संन्यासी ब्रह्मविदिति ।
एवमेवैष भगवन्निति वै याजवल्क्यः ।
तत्र परमहंसा नाम संवर्तकारुणि-श्वेतकेतुदूर्वासासकृभुनिदाघदत्तात्रेयशुकवामदेव-
Page 2
१
हारीतकप्रभृतयोऽव्यक्तलिङ्गाडव्यक्तचाराऽनुन्मत्ता उन्मत्तवदाचरन्तः परस्वीपुरपराङ्गनास्विदण्डं कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं बहिरन्तश्छेतयेतत्सर्वं भूः स्वाहेत्यस्पृ परित्यज्यात्मन्- मविच्छेत् । यथा जातरूपधरा निर्द्वन्द्वानिष्परिग्रह- स्तत्वब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्ष्माचर- झुदरपात्रेण लामालाभौ समौ भूत्या करपात्रेण वा कमण्डलूदकपो भैक्ष्माचरऽचञुदरमात्रसंग्रहः पात्रान्तरशून्यो जलस्थलकमण्डलुरुबाधकरहःस्थल- निकेतनो लामालाभौ समौ भूत्या शून्यागारदेवगृह- तृणकूटवटम्रीकवृक्षमूलकुलालशालाग्निहोत्रशालानदी- पुलुनगिरिकुहरकोटरकन्दरनिझररस्यण्डिलेष्टव निकेत निवास्य- प्रयत्नःशुभाशुभकर्मनिमुंलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नामेति । आश्रमवरान् नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिवर्तकः परित्राट् परमेश्वरो भवति । अत्रैते श्लोका भवन्ति ।
२
यो भवेत्पूर्वसंन्यासी तुत्लयो वै धर्मतो यदि । तस्मै प्रणामः कर्तव्यो नेतराय कदाचन ॥१॥ प्रामादिनो बहिःक्षिता: पिशुना: कलहोत्सुका: । संन्यासिनोडपि दृश्यन्ते देवसंदूषिताशया: ॥ २ ॥
३
नामादिभ्यः परे भूम्नि स्वाराज्ये चेतिस्थिरोऽद्रुहे । प्रणमेत्कं तदात्मजो न कार्यं करंणां तदा ॥ ३ ॥ ईश्वरो जीवकलया प्रविश्टो भगवानिति । प्रणमेहडवडूमभावाश्चण्डालगोश्वरम् ॥ ४ ॥
४
मांसपाञ्चालिकायास्तु यन्त्रलोके डुऋपज्जरे । स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियः किमिव शोमनम् ॥ ५ ॥ त्वङ्मांसरक्तबाष्पाम्बु पूथकृत्या विलोचने । समालोकय रम्यं चेत्कं मृधा परिमुह्यसि ॥ ६ ॥
५
मेरुशृङ्गटटोल्लासि गड्नाजलस्योपमा । दृष्टा यस्मिन्न्मुने मुक्ताहारस्योल्लसशालिनिता ॥ ७ ॥ श्मशानाने षु दिगन्तेषु स एवं ललनास्तनः । स्वभिरास्वाद्यते काले लभुपिण्ड इवान्नधसः ॥ ५ ॥
६
केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रिया: । दुष्कृताग्निशिखा नार्यो दहन्ति तुणवन्नरम् ॥ ९ ॥ ज्वलना अतिदूरे डपि सरसा अपि नीरसाः ।
Page 3
१०
स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणं । कामनान्ना किरातेन विकीर्णा मुग्धचेतस: ।
११
नायो नरविहङ्गानामऋणबन्धनवागुरा: ।
१२
जन्मपल्वलमत्स्यानां चित्तकन्देमचारिणाम् । पुंसां दुवांसनारज्जुनांरीडिशपिण्डिका ।
१३
सर्वेषां दोषरत्नानां सुसमृद्धिकरयानया । दु:खशृङ्खलया नित्यमलमस्तु मम स्त्रिया ।
१४
यस्य स्त्री तस्य भोगेच्छा निस्वीकस्य कव भोगभू: । स्त्रियं त्यक्त्वा जगत्यक्तं जगत्यक्त्वा सुखी भवेत् ।
१५
अलभ्यमानस्नय: पितरौ क्लेशयेच्चिरं । लब्धो हि गर्भमातेन प्रसवेन च बाधते ।
१६
जातस्य ग्रहरोगादि कुमारस्य च धूर्तता । उपनीतेऽप्यविद्यत्वमनुद्राहश्र पण्डिते ।
१७
यूनश्र परदारादि दारिद्र्यं च कुटुम्बिन: । पुत्रदु:खस्य नास्त्यन्तो धनी चेन्म्रियते तदा ।
१८
न पाणिपादचपलो न नेत्रचपलो यति: । न च वाक्चपलशैव ब्रह्मभूतो जितेन्द्रिय: ।
१९
रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यत: । विवेकिन: कुत: कोप: स्वदेहावयवेष्विव ।
२०
अपाकारिणि कोपश्चेत्कोपश्चेत्कोपे कथं न ते । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ।
२१
नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भुश्रु । कोपस्य मम वैराग्यदयिनो दोषबोधिने ।
२२
यत्र सुप्ता जना नित्यं प्रभुद्रस्तत्र संयमी । प्रभुद्धा यत्र ते विद्वान्सुप्तिं याति योगिराट् ।
२३
चिदिहास्निति चिन्मात्रिमदं चिन्मयमेव च । चित्तं चिदहमेतेऽपि लोकाश्चिदिति भावय ।
२४
यतीनां तदुपादेयं पारं परं पदम् । नात: परतरं किञ्चिद्विदते मुनिपुङ्गव: ।
इत्युपनिषत् ।
ॐ पूर्णमद: पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।
ॐ शान्ति: शान्ति: शान्ति: ॐ तत्सत् ।
इति याज्ञवल्क्योपनिषत्समाप्ता ।