1. Yajnikyupanishad-Vivarana-Purushottama-AnadTirtha Adyar
Page 1
YĀJÑIKYUPANIṢAD-
VIVARANA
BY
PURUSOTTAMĀNANDATĪRTHA
THE ADYATMA LIBRARY AND RESEARCH CENTRE
Page 2
The Adyar Library Series—No. 71
GENERAL EDITOR :
G. SRINIVASA MURTI, B.A., B.L., M.B & C.M., VAIDYARATNA
Director, Adyar Library
YĀJÑIKYUPANIṢAD-VIVARANA
BY
PURUṢOTTAMĀNANDA TĪRTHA
Page 3
याज्ञिक्युपनिषद्विवरणम्
पुरुषोत्तमानन्दतीर्थकृतम्
YĀJÑIKYUPANIṢAD-VIVARANA
BY
PURUSOTTAMĀNANDATĪRTHA
Edited
BY
Pandit
V.
KRISHNAMACHARYA
AND
Pandit
K.
RAMACHANDRA
SARMĀ
THE
ADYAR
LIBRARY
1949
Page 4
Price Rs. 2-8-0
Printed by C. Subbarayudu, at the Vasanta Press,
The Theosophical Society, Adyar, Madras
Page 5
INTRODUCTION
The Yājñikyupanisad with a commentary in the form of Kārikās by S'rī Purusottamānandatīrtha is now published for the first time.
The edition is based on a single manuscript found in the Adyar Library ; so far no other manuscript of this commentary has come to our notice.
The Yājñikyupaniṣad is also known as Nārāyanopanisad.
There is the Mahā-nārāyanopanisad belonging to the Atharvaveda, edited by Col. Jacob, which has been utilised by Bloomfield in preparing his Vedic Concordance.
The latter is only another version of this Yājñikyupanisad.
The Taittirīyayajurveda is divided into the Samhitā and the Brāhmana portions.
The Brāhmana has the three Prapāṭhakas for the main Brāhmana portion, and then the Āranyaka portion.
Sāyana divides the Āranyaka into ten Prapāṭhakas, 7 to 9 form what is well known as the Taittirīyopanisad.
The next one is accepted as a Khila (supplement) and that is the Yājñik-yupanisad.
Bhattabhāskara takes the whole of the Taittirī-yopanisad as a single Prasna, and there is also a slight difference in him from the arrangement of the Prasnas found in Sāyana.
Otherwise the texts are the same.
S'aṅkarācārya comments only on the three Prasnas of the Upanisad and he calls them the three Vallīs, namely, the Sikṣā, Brahmānanda and Bhṛgu.
Raṅgarāmānujā follows the same order as Bhaṭṭabhāskara, and comments on the
Page 6
Yājñikyupanisad too. Sāyana accepts the Taittirīyopanisad
portion as having two main sections, the Sāmhitȳupanisad and
the Vārunyupanisad. The latter is in two Prapāthakas. There
is no difference in the text ; the difference is only in nomencla-
ture. Sāyana takes the Yājñikyupanisad as a natural squence
of the Taittirīyopanisad. His colophons are as follows :
इति श्रीमत्सायणाचार्यविरचिरे . . . कृष्णयजुर्वेदीयतैत्तिरीयारण्यक-
रमाध्ये (1) सांहिल्यासुपनिषदि (2) वारुणपरनामघेयसांहिल्यासुपनिषदि ब्रह्म-
वल्लभाध्यो द्वितीयोऽनुवाकः ; ब्रह्मवल्लभ्यास्तृतीयोऽनुवाकः ।
Regarding the significance of the term Yājñikyupanisad, there
is a slight difference between Sāyana and Bhaṭṭabhāskara.
Their respective explanations are given below :
Sāyana
चतुर्थप्रपाठके यज्ञोपयुक्ता अपि मन्त्रास्तत्र तत्राम्राता: । अतस्तद्रूपो-
पनिषदाझिकी ।
Bhaṭṭabhāskara
अयं समस्त: प्रश्नो याज्ञिक्य उपनिषद् उच्च्यते, यज्ञातमना भगवता
नारायणेन दृष्ट्वात् नारायणप्रतिपादकत्वात् ।
About the contents and divisions of the Upanisad, Sāyana
makes the position clear :
सेयं तैत्तिरीयोपनिषत् त्रिविधा । सांहिती वारुणी याज्ञिकी चेति । तत्र
प्रथमप्रपाठके संहिता एव यत्नस्योकत्वात् तदूक्तोपनिषत् संहिता । द्वितीयतृतीययो:
प्रपाठकयोर्या ब्रह्मविद्याभिहिता तस्या: सम्प्रदायप्रवर्तको वरुण: । तस्मात्तदुभय-
रूपोपनिषद्वारुणी । चतुर्थप्रपाठके etc.
The colophons call the Upanisad both Yājñikyupanisad and
also Nārāyanopanisad, in Sāyana :
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके नारायणीयापरनामघेय-
युक्तायां याज्ञिक्युपनिषदि ।
Page 7
Both Sāyaṇa and Bhaṭṭabhāskara say that in the Taittirīyo-
paniṣad proper Śikṣā is the subject matter of the first of
three sections, though Bhaṭṭabhāskara does not divide the
text into three sections. In the beginning of the second
section, Bhaṭṭabhāskara says that it is Ānandavallī. The
words of Bhaṭṭabhāskara in the beginning of the two
sections are :
(1) वर्णानुशासनं शिक्षाशास्त्रमवसरे अवधानार्थे स्मारयति ।
(2) इयमन्नद्वल्ली आनन्दब्रह्मणो वैभवप्रतिपादनार्था ।
He does not say anything about the third section. He
simply starts the explanation of the passage : भृगुवै वारुणी:
The commentary now published is a very lucid one, in
simple Kārikās, with an occasional note in prose on the
Kārikās. I do not know if these prose notes formed a part
of the commentary or are only additional notes added later
by another person. We know only the name of the author
and nothing more. He pays homage to Śivarāmatīrtha in the
2nd verse in the beginning. In the first verse he refers to
ancient Teachers in the Advaita tradition. The manuscript on
which the edition is based was written on the 11th day in the
bright half of Āśvina on a Tuesday in the Vikrama year 1718,
Śaka year 1583 (1661 A.D.) by Gaṅgādhara son of Viśvanātha
(a great astronomer).
The third verse in this commentary appears (with very
slight variation) in the commentary of Sāyaṇa, and the follow-
I cite the passage from Sāyaṇa for comparison with the verses
in this commentary.
वारुण्युपनिषयुक्ता ब्रह्मविद्या ससाधना ।
त्रिभिर्यं खिलरूपां सर्वशेषोऽमिधीयते ॥
Page 8
viii
यथा बृहदारण्यके सप्तमाष्ट्रमध्यायौ खिलकाण्डत्वेनाचैैरुदाहृतौ तथेयं नारायणीयाख्या याज्ञिक्युपनिषदपि खिलकाण्डरूपा तल्लक्षणोपेतत्वात् । कर्मोपासनब्रह्मकाण्डेषु त्रिष्वपि यदद्वक्तव्यमविशिष्टं तस्य सर्वस्याभिधानेन प्रकीर्त्यैतद्वं खिलत्वम् ।
At the end of the commentary, in verses 543 ff. the author says that his commentary is practically a metrical abridgment of the elaborate commentary of Sāyaṇa.
विचारणयसुनिप्रोक्तबृहदारण्यानुसारतः । पुरुषोत्तमतีर्थेन ग्रन्धविस्तरभीतितः ॥ याज्ञिक्यां कतिचिन्नत्वा व्याख्यातः पदशः पदः । यथोपयोगमेवात्र संग्रहेण यथामति ॥ विदारणयैः समस्तेयं व्याख्याता याज्ञिकी शुभा ।
There is only one copy of the manuscript in the Adyar Library and no other copy is known elsewhere. It is a paper manuscript bearing the shelf number 40-B. 38. There are 36 folia, the commentary beginning on the second page of the first folio. The commentary ends on the fourth line on the first page of the last folio. There are on an average 11 lines a page and 32 syllables a line. The manuscript contains both the text and the commentary. The writing is quite legible ; the matter is fairly correct, corrections are carried out in the margins. The manuscript begins : श्रीगुरुभ्यो नमः । श्रीगणेशाय नमः before the Kārikā श्रीरामं काशिकाकान्तम् । The name of the author comes at the end of the commentary in Kārikā 543. He says that he has followed the Southern recension : द्राविडः पाठ आहृतः (545).
The Vikrama and the S'aka years given do not agree ; I gave the figures that appear in the manuscript.
This Nārāyaṇopanisad must be differentiated from the Upanisad of the same name included in the Vaiṣṇavopanisads
Page 9
ix
of the Adyar Library Series as No. 9, which too belongs to the
Yajurveda.
Pandit V. Krishnamacharya and Pandit K. Ramachandra -
Sarma have prepared this edition from the manuscript available in the Adyar Library with their usual care, and this is
an addition to many contributions from them in the Adyar
Library Series. When the manuscript was brought to my
notice, I felt that this requires to be published, having regard
to the importance of the text and the special nature and the
lucidity of the commentary. The Vasanta Press has finished
the printing with great promptness, at the same time keeping
up their standard.
Adyar Library
10th December, 1949
C. Kunhan Raja
Page 11
उपोद्घातः
"ईशकेनकठपक्षमण्डमाण्डूक्यतिचिरि:।
ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ॥ "
इति प्रधानतया सर्वसंप्रतिपन्नासु दशसूपनिषत्स्वनितयतमा तैत्तिरीयोपनिषत् ।
सा० चारण्यकस्य पञ्चमषट्कपाठकरूपा । प्रथमः प्रपाठकोडस्यः शिक्षावल्ली,
आनन्दवल्ली, भृगुवल्ली चेति त्रिधा विषयतो विभित्नः । द्वितीयस्तु 'अभ्यास्य पारे' इत्यारभ्य 'तस्माद्ब्राणो महिमानमित्युपनिषत्' इत्यन्त
द्राविडदेशे सम्प्रदायसमागतः क्रमः । एतं क्रममनुसृत्यैव भगव्पादशंकर-
चार्याः प्रथमस्य प्रपाठकस्य, भट्टभास्करादयः प्रपाठकद्वयस्य च भाष्य-
मभाषित । तत्र द्वितीयः प्रपाठको याज्ञिक्युपनिषदिति नारायणोप-
निषदिति च कचित्कचित् चित्त्ववहियते । एवं स्थिते सायणाचार्यैः प्रथम-
प्रपाठकस्थास्तिस्रो वल्लीः पृथक्पृथक्संल्याकान् प्रपाठकान् परिकल्प्य
आरण्यकस्यान्तिमौ द्वौ प्रपाठकौ पञ्चमषट्कात्मना पठित्वा उपनिषद्व्रागं
ससमादिदशमान्तांश्चतुरः प्रपाठकान् मन्यते । गुरु शिष्यसम्प्रदायागते डध्य-
यक्रमे कथमियान् भेदः संजात इति विस्मयावहमिदम् ।
अस्य विवरणस्य कर्ता पुरुषोत्तमोऽमानन्दतीर्थ आलमानं श्रीशिवरामा-
नन्दतीर्थशिष्यं स्वयमेव निर्दिशति । अस्य विशेष्य कालनिर्णयेन न पर्याप्तं
प्रमाणमुपलभ्यते । परंतु विचारण्यमनुसृत्य विवरणमिदं कुवलैसैनैः स्वस्य
Page 12
xii
तदनन्तरकालिकतं विवृतं भवति । इदं च मुद्रणम् अडयार्-पुस्तकालयस्थ-मेकमेव कोशमवलम्बय साधितम्¹ । तस्यान्त्ये कोशालेखनसमयः सं १७९८, शक १६८३ इत्युक्तः । स च समयः अङ्ग्लसंवत्सररीत्या 1661 A.D.
ईति समायाति । आन्तः प्रायशः पञ्चदशे षोडशे वा अङ्ग्लाब्दशतके ग्रन्थकर्तार्यं बभूवेत वक्तुं पार्यते । अडयार-पुस्तकालये वेदान्तसिद्धान्त-चूडामणिरिति काश्चनासुद्रितो ग्रन्थस्थाल्पत्रेष्वान्भलिप्यां लिखितो वर्तते ।
तत्र चान्ते “इति श्रीशिवरामानन्ददतीर्थपादपूज्यपादशिष्य . . . . विरचितो वेदान्तसिद्धान्तचूडामणिः समाप्तः” इति दृश्यते । तत् ‘ शिष्य ’ इत्यस्यान्तरं ग्रन्थकर्तृनाम नृपितम् । प्रायेण सोडपि ग्रन्थोदनेनैव पुरुषोत्तममानन्द-तीर्थेन कृतो भवितुमहैत्यस्यति वितर्कितुमवकाशः ।
वे. कृष्णमाचार्यः
¹See for the details of this MS. K. Madhavakrishna Sarma's notes on MSS. published on page 31, Vol. V. part I of the Adyar Library Bulletin, 1941.
Page 13
तैत्तिरीयोपनिषादि
याज्ञिक्युपनिषद्विवरणम्
श्रीपुष्पोत्तमानन्दतीर्थेविरचितम्
श्रीरामं काशिकाकान्तं शंकराचार्यसुत्तमम् ।
सुरेशं वार्तिकाचार्यं नौमी विद्यागुरूनपि ॥ १ ॥
ब्रह्मामृतप्रचुरशंकरसर्यराज-
द्रामायणामृतरसज्ञरसज्ञविज्ञान् ।
श्रःश्रेयःप्रदकृपानिध्यान् प्रणौमि
श्रःश्रेयसाय महते शिवरामतीर्थान् ॥ २ ॥
वारुण्युपनिषयुक्ता ब्रह्मविद्या ससाधना ।
याज्ञिक्यां खिलरूपायां सर्वशेषो विधीयते ॥ ३ ॥
बृहदारण्यके यद्वत्समाष्ठमयोरमेतम् ।
शिलकाख्यस्त्वमत्रापि याज्ञिक्यास्तद्वदिष्यते ॥ ४ ॥
वक्तव्यमवशिष्टं यत्कर्मकाण्डादिषु त्रिषु ।
तत्सर्वंमुच्यते यत्न तस्य स्यात्तिलकाण्डता ॥ ५ ॥
अम्भस्य पार इल्यादौ ब्रह्मतत्त्वं समीरितम् ।
उपास्तिरुक्तादिलयो वा एष इत्यादिके हरे: ॥ ६ ॥
कर्माण्युक्तानि भूरुणमित्यादौ तत्र कर्मणाम् ।
Page 14
तैत्तिरीयोपनिषदि
वाहुल्याद्वाज्ञिकीतयेषा ननु चोपनिषटकथम् ॥ ७ ॥
आदौ ब्रह्मोक्तितोऽन्ते स्यातद्व्रीहेतूक्ततश्व सा ।
आदावोक्ते:; अन्ते इते:; अन्ते च ब्रह्मज्ञानसाधनोक्ते: सा;
उपनिषद्वरतीर्यर्थ: ॥
अस्भस्न्य पारे भुवनस्य मध्ये
नाकस्य पृष्ठे महतो महीयान् ।
शुक्रेण ज्योतींषि समनुपविष्ट:
प्रजापतिं श्वरति गर्भे अन्त: ॥
आदावाद्यानुवाकस्य ब्रह्मतत्त्वबोधिका: ॥ ८ ॥
कत्वा: कामधेनु तत्परा नवन्या संपवर्त्तते ।
जलस्य परतौरे यो लोकालोकादिको महान् ॥ ९ ॥
य: पृथिव्यादिलोकस्य मध्ये मेर्वादिको महान् ।
स्वर्गेलोकस्य पृष्ठे यो ब्रह्मालोकादिको महान् ॥ १० ॥
ततोऽध्यास्मात्समन्ताच्च महेश: स्याद्महत्तर: ।
अनुपविष्टश्वेतांसि जीवचैतन्यरूपत: ॥ ११ ॥
गर्भे ब्रह्माण्डरूपेSन्तर्विराड्रूपोदवतिष्ठते ।
मायया व्यापकोडपीशो ब्रह्माण्डस्थो विराट्तया ॥ १२ ॥
देहेऽपि जीवरूपेण स्थित इत्यर्थ ईरित: ।
जलस्य ; समुद्रजलत्येत्यर्थ: । विराट्तया; विराड्रूपेणेत्यर्थ: ।
अभिमूर्धा चक्षुषीति विराड्रूपं च मुण्डके ॥ १३ ॥
अभि: प्रकाशसंयुक्तो भुुलोकोऽत्राभिधीयते ।
इति मुण्डके कथितमित्यर्थ: ।
Page 15
याज्ञिक्युपनिषद्विवरणम्
यस्मिन्निदं सं च विचैति सर्वे
यस्मिन् देवा अधि विश्वे निषेदु: ।
तदेव भूतं तदु भव्यमाहुः
तदक्षरे परमे व्योमन् ॥
स मेतिच व व्येतिवेदं यस्मिन्नव्याकृते जगत् ।
समुत्पत्तिं संगतं स्यात्सृष्टिकाले डथ संहृतौ ।
विलीनं विगतं च स्यादस्मिन्नव्याकृतेऽधिके ॥ १५ ॥
अधिशब्दोऽधिकार्थः स्यादधिका इति युज्यते ।
देवा हिरण्यगर्भा निषेदुनन्तरां श्रिता: ॥ १६ ॥
तदेवाकृतं भूतमतीतं जगदुच्यते ।
भविष्यद्वर्तमानं च तदेवासीदिति जगत् ॥ १७ ॥
आसीदर्थे आकारो यद्वाश्रयेस्य वाचक: ।
तदव्याकृतं नित्ये समुत्कृष्टे परात्मनि ॥ १८ ॥
श्रुतौ शं चेति पाठे सुखमपि प्रामोतील्यर्थः । व्यत्ययेन वा समिति
द्रष्टव्यम् ।
येनाऽऽवृतं खं च दिवं मही च
येनादिलयस्तपति तेजसा भ्राजसा च ।
यमन्तः समुद्रे कवयो वयन्ति
तदक्षरे परमे प्रजा: ॥
पूर्वमव्याकृतं प्रोच्के परब्रह्मसमाश्रितम् ।
तेनोपहितचैतन्यं जगदेतुरिहोच्यते ॥ १९ ॥
येनान्तरिक्षलोकश्च धुलोकौ न्याप्त उच्च्यते ।
भूलोकश्च चकाराश्यां देहास्तल्लोकवासिन: ॥ २० ॥
Page 16
तैत्तिरीयोपनिषद्
[अनु०
तपस्यानुगृहीत: सन् येनेशोनाखिलं जगत् ।
स्वीयभास्वररूपेण कुरुते संप्रकाशितम् ॥ २१ ॥
रश्मिलक्षणदीस्मा च सन्तं कुरुत रविः ।
तत्त्वज्ञा जगतो मध्ये तन्तूनिव वयन्ति यम् ॥ २२ ॥
यथा पटस्वरूपे च तन्तवोडनुगतास्तथा ।
जगत्प्रनुगतं ब्रह्म सदा पश्यन्ति सूरयः ॥ २३ ॥
तद्ब्रह्म नित्ये परमे स्वस्मिन् स्थित्वा सृजेत्प्रजाः ।
स्वरूपेsवस्थितिश्वास्य स्वे महिम्नि इति संश्रुता ॥ २४ ॥
आधारान्तरराहित्यं भवेत्स्वस्मिन्नवस्थितेः ।
यतः प्रसूता जगतः प्रसूती
तोयेन जीवान् व्यसृजत् भूस्याम् ।
यदोषधीभिः पुरुषान् पशूंश्च
विशेष भूतानि चराचराणि ॥
पूर्वेमव्याकृतोपाधि यच्चैतन्यं समीरितम् ॥ २५ ॥
जगत्कारणता तस्य मन्त्रेऽस्मिन् संपठच्यते ।
यस्माद्विसृष्टिरंगैर्गतोडव्याकृतोपहितात्मनः ॥ २६ ॥
प्रसूता संपवृत्ता स्वादीकारश्चान्दसः श्रुतौ ।
तत्पश्चाद्भूतसृष्ट्वेदं देहान् भूम्या नरादिकान् ॥ २७ ॥
व्यसृजेंति पाठेऽपि व्यसर्जेंतेव विज्ञेयम् ।
विशेषेणासृजदित्यर्थः ।
यद् व्रीह्याद्युपलक्ष्यात्रं भूत्या देहांश्वराचरान् ।
विशेष नरपश्वादीन् वृक्षादौ वृष्टिरूपतः ॥ २८ ॥
प्रवेशोडस्युपगन्तव्यसतेनेऽदं पालितं जगत् ।
Page 17
याज्ञिक्युपनिषद्विवरणम्
श्रुतावपेक्षितं पूरयति—तेनेति । चैतन्येनैष्यर्थः । श्रुतिस्थभूतानీ-
त्यस्य व्याख्या देहानिति ।
अतः परं नामरूपाभ्यां श्रीह
परात्परं यन्महतो महान्तमू ।
यदेकमव्यक्तमनन्तरूपं
विश्वं पुराणं तमसः परस्तात् ॥ २९ ॥
निरूप्यते डटत्र शुद्धं तत्त्वकरणत्वोपलक्षितम् ।
हिरण्यगर्भाद्युक्तकृष्टादृष्टस्तुकृष्टमुच्यते ।
महतो गगनादेर्हैनमहान्तं महदीरितम् ॥ ३० ॥
सजातीयादिरहितमिन्द्रियादेरगोचरम् ।
अपरिच्छिन्नरूपं च समस्तजगदात्मकम् ॥ ३१ ॥
अनादिसिद्धं तमसः पृथग्दृष्टस्तु वर्तते ।
अतोऽन्यत्परमुत्कृष्टमतिदुर्लक्ष्यवस्तु न ॥ ३२ ॥
न, नास्तीत्यर्थः ।
तदेवं तदु सत्यमाहु-
स्तदेव ब्रह्म परमं कवीनाम् ।
इष्टापूर्ते बहुधा जातं जायमानं
विश्वं विभर्ति भुवनस्य नाभिः ॥
समस्तजगदात्मत्वयुक्तं यत्तत्प्रपञ्च्यते ।
यच्चिन्तनं यथावस्तु तद्वत् परिकीर्तितम् ॥ ३३ ॥
वाचा तदुक्तिः सत्यं स्याद्वेदैरबैव तद् द्वयम् ।
विदुधानां परं श्रेष्ठं प्रमाणत्वेन सत्कृतम् ॥ ३४ ॥
Page 18
ब्रह्म वेदात्सकं वस्तु तदेव ब्रह्म कीर्तितम् ।
यागादि वैदिकं स्मार्तं वापीकूपादि कर्म च ॥ ३५ ॥
ब्रह्मैव लोकस्याधारो दघाति सकलं जगत् ।
अतोऽधिक्ष्ठानरूपं स्यादाधेयं सकलं जगत् ॥ ३६ ॥
भुवनस्य नामिरित्यस्यार्थमाह—लोकस्याधार इति । बहुधेत्यादि
बिभर्तीत्यानस्यार्थमाह—दघातीति । धत्त इत्यर्थः ।
तदेवाग्निस्तदायुस्तदुतत्सूर्यस्तदु चन्द्रमाः ।
तदेव शुक्रमृतं तद्ह्रदयम् तदापः स प्रजापतिः ॥
तदेवाग्न्यादिकं शुक्रं नक्षत्रादिसृतं सुधा ।
हिरण्यगर्भादिष्वापि तदेव परिकीर्तितम् ॥ ३७ ॥
आपः पश्यापि भूतानि विराडाख्यस्य प्रजापतिः ।
तदेव तदधिष्ठानं ब्रह्मैव परिकीर्त्यते ॥ ३८ ॥
अविद्यादृष्ट्यो यदद्राति नानाविधं जगत् ।
विद्यादृष्ट्या समस्तं तद्ब्रह्मैवाखण्डमुच्यते ॥ ३९ ॥
तदेवामिरित्यादि चन्द्रमाइत्यन्तस्यार्थमाह——तदेवेति । ब्रह्मैवेत्यर्थः ।
शुक्रामृतपदयोरर्थमाह——शुक्रमित्यादिसुचेत्यन्तेन । शुक्रं दीप्यमानमिति
वाच्यार्थः ॥
सर्वे निमेषा जझिरे विद्युतः पुरुषादधि ।
कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वेशः ॥
अर्धेमासा मासा ऋतवः संवत्सरक्ष कल्पताम् ।
स आपः पदुगे उभे इमे अन्तरिक्षं चापि सुवः1 ॥
1 अथो सुवः इत्येव प्राचिकः पाठः ।
Page 19
"प्रकृति: पुरुषश्रैव नित्यौ कालश्व सप्तम ।"
इति कलस्य नित्यत्वाद् ब्रह्मतास्य न हीति चेत् ।
अविद्यादृष्टविषयं पूरणवचनं हि तत् ।
विद्यादृष्ट्या तु कालस्य ब्रह्मरूपत्वमिष्यते ॥ ४१ ॥
इत्यमिप्रेक्ष्य तस्यापि तस्मादुत्पत्तिरुच्यते ।
निर्मिवंसति येष्वक्षण: पक्ष्मपातेषु ते स्मृता: ॥ ४२ ॥
निमिषा निमिषा एव निमेषा: परिकीर्तिता: ।
निमिनोऽम जनकस्य पूर्वीञ आद्यो मिथिलेश्वर आसीदित्युपनिपदि
वर्त्तते । स देववरप्रसादात् पक्ष्मपातेषु तिष्ठतीति श्रुतम् ।
पक्ष्मपातप्रभाण्डीयं कालो निमिषशब्दत: ॥ ४३ ॥
ते स्वप्रकाशात्संपूर्णात्परेषादभिज्ञजिञ्ञरे ।
निमेषेभ्योडधिका: काष्ठा: कलास्ताभ्योडधिका मता: ॥ ४४ ॥
अष्टादश निमेषास्तु काष्ठा इत्यादिकस्मृते: ।
चकाराभ्यामनुक्तस्य लवादेरपि संग्रह: ॥ ४५ ॥
तच्च सर्वेश इत्युक्त्या विशिष्टं परिकीर्तितम् ।
लवत्रुट्यादिका: सर्वे समुत्पन्ना: परात्मन: ॥ ४६ ॥
नलिनीपतत्रसंहत्यां सूक्ष्मसूच्या विभेदने ।
दले दुले तु य: काल: स काले लववाचक: ॥ ४७ ॥
लवैषुटी: स्यात् त्रिंशद्विरित्यायुक्तं मनीषिभि: ।
पक्ष्मासादय: सर्वे महेशाधिज्ञजिञ्ञरे ॥ ४८ ॥
संवत्सरो महेशानात्कल्पतां प्रभवादिक: ।
समुत्पन्नोऽत एवायं समर्थ: स्वप्रयोजनै ॥ ४९ ॥
Page 20
कल्पन्तामिति पाठेडपि सर्वे कालविशेषा: स्वस्वप्रयोजनसमर्था इति योज्यम् ।
सा कालोपहितस्तत्कालौनिक्योन लभ्यते ।
जलोपलक्षितां पृथ्वीं प्राणिनाममिकाडीक्शितम् ॥ ५० ॥
भोग्यं संपद्यामास पृथिव्यां परमेश्वर: ।
सा आप: प्रदुष इत्यस्य तात्पर्यमाह——प्राणिनामित्यादिना ।
अन्तरिक्षं सुव: स्वर्गेऽपि चेमे उभे अपि ॥ ५१ ॥
प्रदुषे स्थानयोर्मोग्यं तयोरजनयत्स्वभु: ।
अपि चेतिं अथोशाब्दार्थ: ।
नैन्नसूर्ध्वं न तिर्यग्भ्रं न मध्ये परिजग्रभत् ।
न तस्येशे कश्चन तस्य नाम महद्यश: ॥
न संधशो तिष्ठति रूपमस्य
न चक्षुषा परयति कश्चनेम् ।
हृदा मनीषा मनसाभिक्लृप्तो
य एनं विदुरमृतास्ते भवन्ति ॥
कालादिसर्वहेतुत्वात्सर्वत्रात्रानुगतत्वतः ।
कुत्रो न गृह्यते संवरोति चेतनं युज्यते ।
उद्बवोध्याकारराहिल्यादूपादेरष्यभावात: ॥ ५३ ॥
पुरुष: कश्चिदप्येनं न गृह्याद्यर्थवात्कृतिम् ।
तिर्यगाकारयुक्तं वा कचिन्मध्ये स्थितं च वा ॥ ५४ ॥
तस्यात्मनो न कोडपि शो नेष्ट इत्यर्थ ईरित: ।
मम ग्रहणसिद्ध्यर्थं स्वमीहृग्रूपवान् भव ॥ ५५ ॥
Page 21
इति तं परमात्मानं नियंतं न हि शक्नुयात् ।
अत एवात्मनो नाम महद्यशा इति स्थितम् ॥ ५६ ॥
अतिस्वातन््यतस्तस्य यशसोडभ्यधिकृतत्वात् ।
न दृष्टिविषये रूपं तिष्ठत्यस्य परात्मनः ॥ ५७ ॥
कुशालोडपि पुमान् कश्चिच्चक्षुषा तं न पश्यति ।
कथं ब्रह्मावबोधः स्यादिति चेदम्भिधीयते ॥ ५८ ॥
लौकिकार्थमनोवृत्तीर्यदृष्टे तेन चेतसा ।
निश्चितो हृदयस्थेन परमात्मा भवेदयम् ॥ ५९ ॥
मनो हि योगयुक्तं सदृृतीरन्या नियच्छति ।
तेनैकाग्रेण मनसा परमात्मानुभूयते ॥ ६० ॥
एकाग्रिमनसैवं ये सौक्ष्म्यैकुर्वान्ति ते नराः ।
देहात्माणविनिष्क्रान्तिर्मरणं तद्विजिताः ॥ ६१ ॥
अद्र्रय: संभूतिो हिरण्यगर्भे इत्यष्टौ ॥
उक्तार्थस्य हृढत्वाय प्रदेशान्तरर्वर्तिनः ।
मन्वानुदाहरतयद्रचः संभूत इति वाक्यतः ॥ ६२ ॥
अद्र्रचः संभूत इत्येतत्प्रतीकमहणं कृतम् ।
प्रदर्शनार्थं कृत्त्स्नस्यानुवाकस्येति मन्यताम् ॥ ६३ ॥
तत्रानुवाके प्रोक्तं हि य एवंमिति वाक्यतः ।
. मरणेन विहीनत्वं ब्रह्माविज्ञानशालिनः ॥ ६४ ॥
" य एवं विद्धानमृत इह भवति" इति वाक्येनैतेर्थः ।
हिरण्यगर्भे इत्याचा ऋचोडष्टौ या: समीरिता: ।
संहितायां चतुर्थे हि काण्डे त्वाध्यप्रपाठके ॥ ६५ ॥
Page 22
आत्मोपलक्ष्यकत्वेन सूत्रादेरमिधानत: ।
तत् अप्यत्रोपयुक्ता: सूर्यादित्येवमवगम्यताम् ॥ ६६ ॥
प्राथके या उत्कास्ता अप्यत्रोपयुक्ता: । तत् हेतु:, आत्मेत्यादि: ॥
एष हि देव: प्रदिशोऽनुसर्वा:
पूर्वो हि जात: स उ गर्भे अन्त: ।
स विजायमान: स जनिष्यमाण:
प्रत्यड्ऋषुकुलासितिष्ठति विश्वतोमुख:
विश्वतश्श्रुकुलो विश्वतोमुखो
विश्वतोहस्त उत विश्वतस्पात् ।
सं बाहुभ्यां नमति सं पतत्रै-
र्द्यावापृथिवी जनयन् देव एक: ॥
यथा हिरण्यगर्भोक्ता: परमात्मोपलक्षकाः ।
तथा जगद्विराट् चैन्मातमानुपलक्ष्यते ॥ ६७ ॥
एष सवयंप्रकाशात्मा प्राच्याद्या: सकला दिश: ।
अनुप्रविश्य स्थितवान् प्रसिद्धं हि प्रवेशमप् ॥ ६८ ॥
हिरण्यगर्भेऽहंपूर्ववदोत्पत्त: स एव हि ।
ब्रह्माण्डदरुपगर्भेऽस्य मध्येsसावेव वर्तते ॥ ६९ ॥
प्रत्यड्ऋग्दृचनमयादिम्योडप्यान्तर: स महेश्वर: ।
मुखं मूलस्य देहादेरध्यक्षत्वेन सोडच्युत: ॥ ७० ॥
रूपादिबुद्धिद्वैध्राणि चक्षुरादीनि सर्वतः ।
यस्यासौ तादृशस्थित्यधिष्ठानतयास्य च ॥ ७१ ॥
अस्य ; जगत् इत्यर्थ: ।
Page 23
ब्रह्माण्डदेहवत््वेन सर्वदेहात्मकत्वतः ।
तदक्ष्यादियुतस्वास्स विश्वतक्ष्षुरादिमान् ॥ ७२ ॥
धर्माधर्माख्यवाइवाह्यां सर्वे संनमतीश्वरः ।
वशी करोति सर्वे च जगदित्यर्थ ईरितः ॥ ७३ ॥
पत्त्रैः पतयिष्णुत्वान्महाभूतैश्व पञ्चभिः ।
सर्वे संनमतीशानो जगदुत्पादयत्ययम् ॥ ७४ ॥
एवं देवः स्वप्रकाशो यावाभूम्यादिकं प्रभुः ।
उत्पादयज्ञगत्कृत्स्नभेद एवावतिष्ठते ॥ ७५ ॥
वेनस्तत्परथनं विश्वा भुवनानि
विद्धान यत्र विश्वं भवत्येकनीडम् ।
यस्मिन्निदं सं च वि चैकर्य से
ओतः प्रोतश्व विश्वः प्रजासु ॥
प्र तद्वोचे अमृतं नु विद्धान्
गन्धर्वों नाम निहितं गुहासु ।
त्रीणि पदा़ निहिता गुहासु
यस्तद्वेद सवितुः पिता सत् ॥
श्रद्धाप्रकर्षयुक्तेऽर्थे कर्तुं मन्त्रद्रयेण च ।
संदर्शयति दृश्यान्तं गन्तव्यस्थति रुतिः स्वयम् ॥ ७६ ॥
जगत्समस्तं यत्रास्तमन्येकनीडं भवस्यदः ।
एकत्वेन स्थितिं याच्छत्तादात्म्यं प्रतिपद्यते ॥ ७७ ॥
तद्रास्त्वनुभवन् साक्षास्सर्वाणि भुवनानि च ।
विद्धान्यो वदते जानन्नास्मल्वेनाखिलं जगत् ॥ ७८ ॥
आत्मसाक्षात्कृतौ सर्वे तद्रूपमिति भाति हि ।
Page 24
स वेनसंज्ञो गन्धर्वः सर्वेषां बुद्धिषु स्थितम् ।
अश्वतं नाशरहितं तद्रस्तु स्वानुभूतितः ॥ ७९ ॥
विद्वान् प्रवोचे शिष्येभ्यः प्रोक्ताच खलु सादरम् ॥ ८० ॥
स्वानुभवेन विद्वानर्थः । नुशब्दार्थः खल्विति ।
वेनेन दृष्टे यसीमेक्ष परमात्मनि वस्तुनि ॥ ८१ ॥
ईदृशं सर्वमुत्पन्नं विलीनं च भवेज्जगत् ॥
एकमद्वैततत्त्वात्मा स व्यापी सन्महेश्वरः ।
दीर्घीतनुतुदोतः स्यात्प्रजासु सकलास्वपि ॥ ८२ ॥
प्रोतस्थितेर्यक्तनुतुवच सर्वत्रैवावतिष्ठते ।
उनाग्रस्त्वमादिरूपाणि त्रीणि स्थानानि बुद्धिषु ॥ ८३ ॥
स्थितानि यस्तु गन्धर्वस्तदधिष्ठानमीश्वरम् ।
विजानाति स गन्धर्वो भवति स्वपितुः पिता ॥ ८४ ॥
अत्रैवो ब्रह्मरूपेण जगदुत्पादकक्वतत् ।
अवतस्योत्पादकस्यापि स्वयमुत्पादकः पिता ॥ ८५ ॥
यस्ता विजानात्सवितुः पिता सदिति हि श्रुति ।
तदिति; जागराद्यधिष्ठानमित्यर्थः ॥
स नो बन्धुर्जनिता स विधाता
धामानि वेद भुवनानि विश्वा ।
यत्र देवा अमृतमानशाना-
स्तृतिये धामान्यश्मैरयन्त ॥
परि द्यावापृथिवी यन्ति सद्यः
परि लोकान् परि दिशः परि सुवः ॥
Page 25
ऋततन्य तन्तुं विततं विचृत्स्य
तद्ऋषियत्तद्भवत्प्रजासु ॥
व्यवहारदक्ष्यायं न सर्वज्ञाणुपकारिता ॥ ८६ ॥
तद्ऋषिमुक्तिदस्वं च मन्त्राभ्यां तस्य कध्यते ।
स नो बन्धुः स्वपुण्येन हितकृत्स्वान्महेश्वरः ॥ ८७ ॥
जनिता सर्वहेतुत्वात् स निर्माताखिलस्य सन् ।
सर्वानुच्चावचाल्लोकान्तेषु स्थानानि यानि च ॥ ८८ ॥
योग्यानि देवतादीनां तानि जातानि सर्वहकू ।
यत्र तृतीयेऽ स्वर्गीये देवा इन्द्रादयोऽसृजत्तम् ॥ ८९ ॥
पिबन्तः प्राप्तवन्तस्तध्व स्वीयस्थानानि सर्वतः ।
तत्समस्तं विदित्वायं तत्कर्मानुसारतः ॥ ९० ॥
फलं प्रयच्छतीर्थ्योऽयं मन्त्रस्यास्य प्रकीरितः ।
ये सुरैरमुक्तवस्ते तु ब्रह्मतत्त्वार्थवेविदन् ॥ ९१ ॥
द्यावाभूमीद्र्रयं स चः परितो व्याप्तुवन्ति च ।
अन्तरिक्षादिकाल्लोकान्प्राच्याद्या: सकला दिशः ॥ ९२ ॥
स्वर्गालोकं च परितो यन्ति सर्वात्मकत्वतः ।
सत्यस्य ब्रह्मणस्तन्तुमविच्छेदेन संस्थितम् ॥ ९३ ॥
विस्तीर्णं स्याद्यथा शास्त्रान्निःश्रित्य गुरुतेस्तत् ।
यः साक्षात्कृतवान् ब्रह्म स प्रजास्वभवच्च तत् ॥ ९४ ॥
श्रुत्यन्तरं ब्रह्म वेद ब्रह्मैव भवतीति हि ।
परीतिय लोकान् परीतिय भूतानि
परीतिय सर्वाः प्रदिशो दिशश्च ।
Page 26
९५
तैत्तिरीयोपनिषदि
[अनु०
प्रजापतिः प्रथमजा ऋतस्यात-
मनात्मानमभिसंबभूव ॥
धर्म्मस्येत्यादिना प्रोक्ता व्रतविधिर्निगद्यते ॥ ९५ ॥
सत्यस्य ब्रह्मणोऽव्याकार्यरूपः प्रजापतिः ।
हिरण्यगर्भो भूरादीन् लोकान् देवनरादिकान् ।
देहान् परीतत्य विदिशः प्राच्यादिकदिशोपि च ।
सर्वतो व्याप्त्य समये सृष्टे: सृष्ट्वाखिलं जगत् ॥ ९७ ॥
स्थितिकाले च रक्षित्वा सत्याद्यात्मानमात्मवान् ।
आत्मना स्वस्वरूपेण तद्रोचरविबोधतः ॥ ९८ ॥
तद्दर्शयितुमहुतं प्रियमितदृश्य काश्यम् ।
सन्नि मेधामयासिषम् ॥
पाथ्येये ब्रह्मलाभार्थमन्तर्यामी महेश्वरः ।
सीदत्यसिमझगत्सर्वैर्वेभिरित्याकृतमुच्यते ॥ ९९ ॥
सदःशब्देन तस्यायं पतिः पालयिता सृष्टः ।
अन्तर्यामी तमीशानं प्राप्नुवन्स्म्ययासिषम् ॥ १०० ॥
शीघ्रं संप्राप्नवानोति मत्वा भूतार्थकीर्तनम् ।
हृदि मत्वा , इत्थं विवक्ष्येऽस्यर्थः ।
अचिन्त्यचित्रजगतोऽनायासेन कृतत्वतः ॥ १०१ ॥
आश्रर्यरूपमपिन्द्रस्य देवराजस्य च प्रियम् ।
कदा लप्स्येऽहमित्येवमिन्द्रोऽप्याशास्ति हिेश्वरम् ॥ १०२ ॥
सत्वैर्न्यैरपेक्ष्यं च सन्नि कर्मफलात्मकम् ।
क्रियाफलप्रदातारं श्रुताधीतस्य धारण ॥ १०३ ॥
Page 27
शक्ति मेधां प्रयच्छंतमिस्यंध्याहतिरिष्यते ।
उदीप्यस्व जातवेदोऽग्निप्राप्तिरिहेहिंतं मम ।
पृथिव्यां मह्यमावह जीवनं च दिशो दिशि ॥ १०४ ॥
वहच्युपाधिमहेशान: प्रार्थ्येतेऽमीष्ठललभये ।
जाते प्राणिशरीरे यो जाठरामिस्वरूपत: ।
विद्यते तिष्ठतीहैव जातवेदा: स उच्यते ॥ १०५ ॥
उत्पन्नान्यजमानान्वा फलदानाय चेतसि ।
विनिश्चिनोति वेत्ति चिति जातवेदा: प्रकीर्तित: ।
जातवेद: प्रकर्षेण दीप्यसवानुगृहाय मे ।
ममानिष्टं प्रकुर्वाणां निर्ऋतेर्ंतं पापदेवताम् ॥ १०७ ॥
विनाशायन्विनाशयेतां पशून्मद्रां गवादिकान् ।
जीवनं च चकरार्भ्यां भोग्यजातमशेषत: ।
संपादय निवासार्थी दिश: प्राच्यादिदिग्मतान् ।
निवासान् दिशि देहीति मन्वार्थ: परिकीर्तित: ॥ १०९ ॥
मा नो हिंसीज्जातवेदो गामपंष्ठ पुरुषं जगत् ।
अबिभ्रदग्र आहि श्रिया मा परिपातय ॥
संपादितगवादीनां प्रार्थ्येतेऽत्राविनाशनम् ।
हे जातवेदो गामिमां त्वत्प्रसादाद्वादिकं ॥ ११० ॥
मामकीनं च मा हिंसीन्नमा नाशयतु निर्ऋते: ।
जगच्छब्दाद्वाच्यनिगृहक्षेत्रादिकीतनेम् ॥ १११ ॥
अभेऽस्मदपराधं त्वं मनस्यस्थापयन्प्रभो ।
आगच्छानुमहर्द्धि मे श्रिया मा परिपातय ॥ ११२ ॥
धनधान्यसमृद्ध्या मां सर्वैत: प्रापयेश्वर ।
Page 28
पुरुषस्य विद्म सहस्राक्षस्य महादेवस्य धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
इत: परं तेषु तेषु देशेष्वतिविलक्षण: ॥ १९३ ॥
श्रुतिपाठतस्तत्वं पूर्वोक्तंवि्ड: पाठ आदत्त: ।
तस्मात्तदानुसारेण श्रुतिवद्यास्ल्याधुनोच्यते ॥ १९८ ॥
गायत्रीषट्कतो देवा: प्रार्थ्यन्ते ज्ञानहेतव: ।
विश्वरूपधरो रुद्र: प्रार्थ्यते तत् चादित: ॥ १९५ ॥
विश्वतश्र्चक्षुरियुक्त: सहस्राक्षो विराट् पुमान् ।
तस्य स्वरूपं देवस्य जानीमहि लभेमहि ॥ १९६ ॥
तं श्रीं तस्य देवस्य रूपं ध्यायेम श्रीमहि ।
तस्मिन् ध्याने विराड् रुद्रो नोडस्मान् प्रेरयतु प्रभु: ॥ १९७ ॥
"बिन्द्रद्रोमि: कुठारं मृगमभयवरौ सुपसन्नौ महेश: " इत्याद्यागम-
प्रसिद्दमूर्तिंधरं महेशं प्रार्थयते —
तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्र: प्रचोदयात् ॥
तमागमेषु प्रथितं पुरुषाकृतिमीश्वरम् ।
जानीमहे महादेवं ध्यायेम सततं वयम् ॥ १९८ ॥
प्रचोदयतु नो रुद्रस्तस्मिन् ध्याने निरन्तरम् ।
"बीजापूरदेक्शुककार्षुक—— " इत्याद्यागमप्रसिद्दमूर्तिंधरं विनायकं
प्रार्थयते —
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्ति: प्रचोदयात् ॥
Page 29
गजतुल्यमुखत्वेन दीर्घतुण्डस्य वक्रता ॥ १९९ ॥
यो रत्नकलशास्तस्य धारणायैति मन्त्रयताम् ।
दैन्तमहोदन्तयुक्त इत्यर्थ: परिकीर्तित: ॥ १२० ॥
पुराणादिषुसिद्धं पक्षिराजमूर्तिधरं देवं प्रारथयते—
तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि ।
तन्नो गरुड: प्रचोदयात् ॥
स्पष्टार्थत्वेन मन्त्रस्य न व्याख्या वाचिकात्तिका ।
“हेमप्रभयामिन्दुरवण्डाचतामौलिम्” (प्रपञ्चसार: १४-३) इत्यादि-
व्यागमप्रसिद्धमूर्तिधरां दुर्गां प्रार्थयते—
काल्यायनाय विद्महे कन्यकुमारी धीमहि ।
तन्नो दुर्गि: प्रचोदयात् ॥
काल्य: कृतिर्वस्त इति श्रीद्रुः परिकीर्तित: ॥ १२१ ॥
स एव यस्या अयनमधिष्ठानं तथोच्यते ।
कुमारी कुल्सितारिष्टमारिका परिकीर्तिता ॥ १२२ ॥
कन्या च कमनीयासौ कुमारी च तथोदिता ।
दुर्गिंदुर्गैव लिख्यादेव्र्यतयथच्छान्दसो भवेत् ॥ १२३ ॥
“अर्कोदीप्यत्किरीटानिवतमकरलसत्कुङ्डलम्” इत्याद्यागमप्रसिद्धमूर्तिधरं देवं प्रार्थयते—
नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णु: प्रचोदयात् ॥
नारशब्दितमसुल्यापो यस्य विष्णो: समाश्रय: ।
समुद्रजलसंवासी स नारायण उच्यते ॥ १२४ ॥
Page 30
वखुदेवादभिव्यक्तः सोडवतारविशेषतः ।
परमब्रह्मरूपेण न्यापित्वाद्वैष्णुरुच्यते ॥ १२५ ॥
जप्य एताश्र्च गायत्र्यो देवताध्यानपूर्वकम् ।
अन्तःकरणशुद्ध्यर्थे सदा सूरिभिरादरात्1 ॥ १२६ ॥
इति प्रथमोऽनुवाकः
यस्मिन्नदसामृषभो विश्वरूपकच्छन्दोभ्यरच्छन्दोभ्यः स्याविवेश । सतां*
शिख्यः पुरोवाचोपनिषदिन्द्रो ज्येष्ठ इन्द्रियाय ऋषिभ्यो नमो देवेभ्यः
स्वधा पितृभ्यो सूक्तेभ्यः स्वरोम् ॥
सर्वैवेदान्तलाभाय जप्यो मन्त्र उदीर्यते ।
वेदानां प्रणवः श्रेष्ठो यः सर्वज्ञगदात्मकः ॥ १२७ ॥
प्रादुर्भूतः स वेदेभ्यः प्रतिबिम्बात् प्रजापते ।
वेदसारतयैवर्थः प्रविवेश पुनश्र्च सः ॥ १२८ ॥
गायत्र्यादिनी मन्त्रेषु प्रयोज्यस्तथ्युतेषु हि ।
मन्त्रेष्विति; छन्दोभिरुपलक्षितेषु प्रयोक्तव्यः॥ तदुक्तं प्रपञ्चसारे—
"अस्य तु वेदादिल्वात् सर्वैमनूनां प्रयुज्यते वादौ" (९-३५) इति ॥
सतां शिख्यः कर्मभिश्रोपासकैरज्ञानशालिभिः ॥ १२९ ॥
प्रासं शव्द्यः कारणत्वाज्ज्येष्ठः प्रथम उच्यते ।
इन्द्रः प्रणववाच्यात्मा परमैश्वर्यैसंयुतः ॥ १३० ॥
ऋषियोडनन्तमुखवास्तेभ्यां ज्ञानसामर्थ्यैसिद्धये ।
ब्रह्मविद्यां जगौ तस्मात्प्रतिवन्धनिवृत्तये ॥ १३१ ॥
नमस्करोमि देवेभ्यः पितृभ्यश्र्चाहमादरात् ।
1 इतः परं "सहस्रपरमा देवी" इत्यारभ्य पक्ष्मादिज्ञावकपयैरन्नं ग्रन्थकृता न विवृत्तम् ।
Page 31
भूःसुवः सुवरो वेदांशिलोकस्थानवाप्नुयाम् ॥ १३२ ॥
अत एव पठन्त्यन्ये छन्द ओमिति मानवाः ।
भूःसुवः सुवरे छन्द ओमित्यर्थः ॥
इति षट्चोदनुवाकः
नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं
करण्योः श्रुतं मा च्योधुं मामुध्य ओम् ॥
अवाप्तवेदाविस्मृत्यै जप्यमन्त उदीर्यते ॥ १३३ ॥
नमोऽस्तु सर्वैजगतां हेतवे परमात्मने ।
ग्रन्थस्य च तदर्थस्य धारणं मेऽस्तु चेतसि ॥ १३४ ॥
अनिराकरणं नामाविस्मृतिः सा यथा भवत् ।
तथा धारयिताहं स्यां परमेष्ठिप्रसादतः ॥ १३५ ॥
एवं प्रार्थ्यमानस्य करणयोरेच्छुतं मम ।
अविनाशाय तत्त्वैः प्राप्तुयां स्थिरधारणम् ॥ १३६ ॥
इति सप्तमोडनुवाकः
ऋतं तपः सत्यं तपः श्रुतं तपः शान्तं तपो दानं तपो
भूःश्रुत् सुब्रह्मेतेदुपास्स्वैतच्तपः ॥
एकाग्रचेतनां यत्स्थिराये विच्चासावधानम् ।
तत्पःप्रास्ये जप्यो मन्त्रोऽयमधुनोच्यते ॥ १३७ ॥
ऋतं वेदार्थबोधाय मीमांसाश्रवणं मतम् ।
मीमांसयोः श्रवणमित्यर्थः ।
इन्द्रियेभरतिः शान्तिः शान्तिशब्देन कीर्त्यते ॥ १३८ ॥
Page 32
२०
तैत्तिरीयोपनिषदि
[अनु॰
स्वत्वत्यागः परस्वत्वापत्त्यन्तो दानमुच्यते ।
आपादनपर्यन्त इत्यर्थः ।
अग्निहोत्रादिको यज्ञस्तत्सर्वं तप उच्यते ॥ १३९ ॥
विराट्स्वरूपं यदृच्छा भूरादित्रीतियात्मकम् ।
मुक्षो त्वमुपास्स्वैतत्सत्यययावर्तं कुरु ॥ १४० ॥
एतच्चोपासनं प्रोक्तमुत्तमं तप उच्यते ।
इत्यष्टमोऽनुवाकः
यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वाति वेगेन पुण्यस्य कर्मणो
दूराद्गन्धो वाति यथासिथारां कर्तेऽवहितामवकामेऽघुवे हु वे विह-
दृश्यामि कृतं पापस्यामार्त्येवमन्ततादात्मानं जुगुप्सते ॥
ज्ञानहेतुतया पुण्यं विहिताचरणात्मकम् ॥ १४१ ॥
प्रशस्यते निषिद्धस्याचरणं च विनिन्द्यते ।
ज्ञानप्रतिबन्धकत्वेनैति शेषः ।
यथैव सुरभिगन्धः सहागच्छति वायुना ॥ १४२ ॥
एवं पुण्यस्य यागादेः सुगन्धः कीर्तिलक्षणः ।
दूराद्ध्राति नृलोकाद्धि स्वर्गे गच्छल्यतो नृभिः ॥ १४३ ॥
पुण्यं कार्यमशेषेण तु पापाद्विघ्नते सदा ।
यथा प्रसारितां गर्तें कूपादौ कुतश्चिन्नरः ॥ १४४ ॥
खड्गधारारामवकारमेतदयं चिन्तयेत्सदा ।
युवे हु वे यौमि यौमि यथघद्रिं मिथ्यायाम्यहम् ॥ १४५ ॥
तद्द्वारायां तदाहं तु ¹विहलिप्स्याम्यसंस्शायम् ।
¹मूले वलस्य छान्दसो दकार इति सायणः ।
Page 33
गर्ते वा संपतिष्यामि धारायां चरणस्य हि ॥ १४६ ॥
हृदस्पर्शोन विच्छेदाद्विष्याम्येव विहुल; । हृदस्पर्शों न वेदर्त्ते संपतिष्याम्यघस्मृति ॥ १४७ ॥
एवं प्रवर्तमानोडपि पापे मत्यों विचारयेत् ।
यदि तत्त्वकटं कुयां तदा स्वामिह निन्दितः: ॥ १४८ ॥
यदि चापकटं कुयां तदापि नरके वृथ ॥
पतिष्यामीति चात्मानं जुगुप्सेदत्नु तावत् ॥ १४९ ॥
घिढं मां लोकद्वयेऽष्टमित्यात्मानं विनिन्द्य च ।
पापान्निवारयेन्मर्त्ये इति मन्तार्थ ईरितः ॥ १५० ॥
अत्र कामे; तदुपरि पादाभ्यां गन्तुं प्रवर्तते इत्यर्थः ।
यच्छब्दो यदिशब्दार्थे यस्माने वयत्ययेन ह: ।
अत एव पठन्त्यनेन युने युवन इति श्रुतौ ॥ १५१ ॥
अहमर्थे हशब्द: स्याल्स्थाने वयत्ययेन द: ।
यद्युव इत्यादावाह—यच्छब्द इत्यादिना । अध इति ; अधोवर्तिनि गर्ते त्वित्यन्वय: । इत्थीते; ‘इति चिन्तयेत्स्वर:’ इति पूर्वेणान्वय: । इति चात्मानमिति ; ईडृशविचारयुक्त इत्यर्थ: ।
इति नवमोऽनुवाक:
अणोरणीयान्महतो महीया-
नात्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुं पश्यति वीतशोको
धातुः प्रसादान्महिमानमीशम् ॥
Page 34
पुण्यानुष्ठानतश्रास्य निषिद्धाचारवर्जनात् ॥ १५२ ॥
शुद्धान्तःकरणस्यैवं ब्रह्मतत्त्वं समीरितुम् ।
अणोरणीयानित्यादिरनुवाकः प्रवर्तते ॥ १५३ ॥
आत्मशब्दः स्वरूपार्थे परमेश्वरवाचकः ।
अधिष्ठानतया तस्य जगदूपत्वकारणात् ॥ १५४ ॥
परमाण्वादयोडस्माकमयोग्या: स्युःस्थापिताः च ।
योगप्रत्यक्षगम्यत्वं तेषां तत्त्वात्मनो न हि ॥ १५५ ॥
इत्यमिप्रेत्य भगवानणीयान्परिकीर्तितः ।
एकब्रह्माण्डमध्येsयं दिगाकाशादिकं महत् ॥ १५६ ॥
ईदृग्ब्रह्माण्डकोटीनामध्यस्थात्वमात्मनः ।
अतो महाभ्योनमहतोऽप्ययमात्मा प्रकृतितः ॥ १५७ ॥
हृदयङ्गमत्वात् बुद्धिस्थत्वमध्यस्थता गुहोच्यते ।
स्याद्वैधिय्योपलभ्यत्वं बुद्धौ निहितमात्मनः ॥ १५८ ॥
तमीशं निरुपाधित्वात्सङ्करपेन विरर्जितम् ।
जीवस्यैव समीचीनेमित्येतत्कल्पनं यतः ॥ १५९ ॥
अत एव महान्तं च शामादिगुणसंयुतः ।
धातुः प्रसादादेशस्यानुग्रहादधिकारवान् ॥ १६० ॥
साक्षात्करोति दृष्टा तं वीतशोको भवेक्कृते ।
पठरिति । तदुक्तम्—
" ईश्वरानुग्रहादेशां पुंसामद्वैतवासना ।
महाभयपरित्राणा द्वित्राणामिह जायते ॥ "
इति ।
Page 35
याज्ञिक्युपनिषद्विवरणम्
सप्त प्राणाः प्रभवन्ति तस्मात्
सप्तार्चिषः समिधः सप्त जिह्वाः ।
सप्त इमे लोका येषु चरन्ति
प्राणा गुहाशयाऽऽनिहिता: सप्त सप्त ॥
विशुद्धचिद्वैवविज्ञेयः परमात्मा या ईरितः ।
तस्योपलक्षणार्थं च जगत्कारणतोच्यते ।
तस्येति; शाखेन्तुन्यायेनैतर्थः ।
शिरःस्थसप्तच्छिद्रस्था: सप्तसंख्या समन्विता: ॥ १६२ ॥
प्राणा मायायुतादेशाज्जायन्ते चक्षुरादयः ।
चक्षु:षी नासिके श्रोत्रे वाकू चेतिं प्राणसमुक्कमः ॥ १६३ ॥
सप्तार्चिषः सप्तसंख्या वृत्तयः परिकीर्तिताः ।
तैर्गृहीतमानविषया: समिधः सप्त कीर्तिताः ॥ १६४ ॥
यथा गोलकमेदेन चक्षुरादि द्विधा भवेत् ।
तथा ग्राहकमेदेन रूपादिद्वित्वमुच्यते ॥ १६५ ॥
तैः ; अर्चिरादिरित्यर्थः ।
अथवा सप्तसंख्यया: समिच्छब्देन नान्वयः ।
किंतु जिह्वादिनैव वहेर्जिह्वास्त्वमा: श्रुता: ॥ १६६ ॥
"काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी
लोलायमाना इति सप्त जिह्वाः ॥ "
(मु. १-८)
मुण्डकश्रुतिमेव पटति——कालीति ।
Page 36
प्राणाश्रयन्ति देवादेवेऽहस्था येषु सप्तसप्तु ।
एते भूरादयः सप्त लोकास्तस्मात्समुत्थिताः ॥ १६७ ॥
महाश्रयः स विज्ञेयो यो बुद्धावुपलभ्यते ।
तस्मादेव समुत्पन्नाः सस्संख्यासमन्विताः ॥ १६८ ॥
सर्षपयस्तथा सप्त समुद्रा एवं मादिकाः ।
पदार्था निहितास्तत्र तत् त च संस्थिता: स्थले ॥ १६९ ॥
अतः समुद्रा गिरयश्च सर्वे-
ऽस्मात्स्पन्दन्ते सिन्धवः सर्वेऽल्पाः ।
अतश्च विश्वा ओषधयो रसाश्र
येनैष भूतसृष्टिरऽऽत्मऽऽन्तरातमा ॥
समुद्रा गिरयश्चास्मात्सम्भवन्ति महेश्वरात् ।
अस्मादृक्षादयो नद्यः संजाता: प्रवहन्ति च ॥ १७० ॥
वीरुध्योषधयोड्मलाच रसाश्रेशास्तसमुत्थिताः ।
अन्तरातमपदेनात्र लिङ्गदेहो विवक्षितः ॥ १७१ ॥
स्थूलदेहचिदात्मान्तर्मध्ये येषोडवतिष्ठते ।
येनौषधिरसैनायं बृंहते देहेऽन्त तिष्ठति ॥ १७२ ॥
तादशो रस उत्पन्न इत्यर्थः परिकीर्यतेः ॥
ब्रह्मा देवानां पदवीः कवीनां-
मृपिर्विप्राणां महिषो मृगाणाम् ।
श्येनो ग्रृधाणां* स्वधितिर्वनानां*
सोमः पवित्रमत्प्रति रेभन् ॥
ह्रास्योत्कृष्टतरूपेणावस्थानमिह कथ्यते ॥ १७३ ॥
Page 37
इन्द्रादिकानां देवानां मध्ये ब्रह्मा चतुर्मुखः ।
भूत्वा नियामकत्वेन परमेशोडवतिष्ठते ॥ १७४ ॥
कवीनाां काव्यशास्त्रादे: कर्तृणाां पदवीरयम् ।
पदं सुशब्दं वेतीति शब्दसामर्थ्यबोधवान् ॥ १७५ ॥
व्यासवाल्मीकिमुख्ययो यस्तद्रूपप्रश्रावतिष्ठते ।
ऋषीन्स्तिष्ठप्रमुखस्तत्वद्वोत्रप्रवर्तकः ॥ १७६ ॥
चतुष्पदां तु महिष: शक्त्याधिक्येन संयुक्तः ।
बभूव प्रबल: रैवतः सर्वेषां पक्षिणामपि ॥ १७७ ॥
वृक्षौधानां छेदनार्थं परशुश्र्च बभूव सः ।
सोमवल्ल्यात्मको रेभनपवित्रं शुद्धिकारणम् ॥ १७८ ॥
मन्त्रशब्देन युक्त: सवितृत्यैक्षिलमेव सः ।
अजामेकां लोहितशुक्लकृष्णां
वहीं प्रजां जनयन्तीं सरूपाम् ।
अजो ह्रेको जुषमाणोडनुशेते
जहात्येनां भुक्तभोगामजोडन्य: ॥
चतुर्मुखादिदेहेभ्यु विशेषेण स्थितिं विभो: ॥ १७९ ॥
व्यवहारस्य समये संकीर्त्यार्थं प्रदर्श्यते ।
आविद्यामुपजन्तीति वेदमुक्तकत्न्यवस्थितिः ॥ १८० ॥
तेजोडवन्नानि संपाद्य तद्रूपाजा यदा तदा ।
लोहितादिकवर्णा स्यादगमेरिति हि श्रुतिः ॥ १८१ ॥
तेज इति; अजा तेजआदीनि संपाद्य तद्रूपा यदा स्याच्चेदैन्वय: ।
"यदग्रे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य"
(छान्दोग्ये ६-४-१.) इति श्रुतेरिस्यर्थ: ।
Page 38
लोहितादिरक्तशुक्लैर्वा रजःसत्त्वतमोगुणा: ।
उपलक्ष्यास्तथाचेयं स्याद्गुणत्रितयात्मिका ॥ १८२ ॥
गुणत्रयात्मकत्वेन सह्ह्रपा या पुजा भवेत् ।
तां समुत्पादयत्येका तामजो जनिज्जित: ॥ १८३ ॥
जीव: सक्तो विरक्तश्च तत्रैक: शक्तिमानज: ।
प्रीत्या संसेवमान: सन्ननुशेते विमूढधी: ॥ १८८ ॥
यथोक्कामनुसंयैव वर्तते याति संस्स्कतिम् ।
अन्यो विरक्तजीवस्तु मुक्तभोगां जहाति ताम् ॥ १८५ ॥
प्रागेव मुक्ता भोगा ये नोपरिष्टादथाविधे: ।
मोक्षयुक्तां मुक्तभोगां तत्त्वज्ञानेब बाधते ॥ १८६ ॥
संवातमानी बध्द: स्यातद्विहीनो विमुच्यते ।
व्यवस्थां व्यक्तीकरोति—संघात इति ।
हंस: शुचिषद्वसुरान्तरिक्षस-
द्वोता वेदिषदति-
तृषदृर्सहृत्सद्व्योमसदजा
गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥
ईशानवाधितमायस्य माति ब्रह्मात्मना जगत् । १८७ ।
इति प्रदर्श्यतेऽड्योङ्यमतो जगदनूद्यते ।
सर्वदा गच्छतीयंकों हंसोङ्यं शुद्धमण्डले ॥ १८८ ॥
ज्योतिरिमंये सीदतीति शुचिष्परि कीर्तित: ।
उगत्रिवासहेतुत्वादसु: सूत्रास्मरूपत: ॥ १८९ ॥
वायु: सच्चान्तरिक्षड्यं सीदतीऽयन्तरिक्षसत् ।
द्वेतामिहोंमजनकस्तद्रूपो वेदिसंस्थित: ॥ १९० ॥
Page 39
सीदत्यतिथिरूपेण दुरोणेषु गृहेष्वयम् ।
कर्माधिकारिजीव: सन् नृषु मत्स्येषु संस्थित: ॥ १९१ ॥
वरसच्छेष्करास्यादौ पुज्यदेवात्मना स्थित: ।
ऋतसत्कलरूपेण वैदिके कर्मणि स्थित: ॥ १९२ ॥
नक्षत्रादिरूपेण व्योमस्थयो व्योमसद्व्रवेत् ।
अद्र्यो जलेभ्य: संजात: शाक्छूनकरूपत ॥ १९३ ॥
गोजा: क्षीरादिरूपेण गोभ्य: संजात उच्च्यते ।
ऋतजा: सत्यवचनाज्जात: कीर्तिस्वरूपत: ॥ १९४ ॥
वृक्षादिरूपतोडद्रिभ्यो जात इत्यद्रिजा: स्मृत: ।
ऋतं सत्यं परं ब्रह्म हंस इत्यादिनोदितम् ॥ १९५ ॥
यज्जगत्समस्तं च ब्रक्षैव ज्ञानदृष्टित: ।
यमाज्जाता न परा नैव किंच-
नास य आदिवेश भुवनानि विश्वा ।
प्रजापति: प्रजया संविदान-
धृणि ड्योतिष्कषि सचते स वोडशी ॥
जगदात्मवमुक्तं यत्तदत्र प्रतिपाद्यते ॥ १९६ ॥
सृष्टेरूर्ध्वं समुत्पत्त्रा: प्रजा यस्मान्महेश्वरात् ।
परा न व्यतिरिक्ता: स्युर्नापि तत्पूर्वभाविन: ॥ १९७ ॥
सृष्टे: पूर्ववतिंप्रजा नैश्वरादन्या इत्यर्थ: ।
सृष्टे: पूर्वं ब्रह्मभिदं वस्तु नैवास किंचन ।
श्रुत्यन्तरे लोकमेवाद्वितीयं ब्रह्म संश्रुतम् ॥.९९८ ॥
नापि चेतनजीवस्य ब्रह्मान्यत्वमुपेयते ।
Page 40
य ईशः सर्वलोकस्थान् देहाझ्जीवास्मनाविशत् ।
अनेन जीवेनेश्यादिश्रुतिसंकरीतितत्वतः ।
प्रजापालक ईशोऽयं प्रजायोत्पत्त्यासनः ॥ २०० ॥
तादात्म्यं लभमानः सन् वर्तते किंच सोऽच्युतः ।
त्रीणि ज्योतींषि सचते समवैति तदात्मकः ॥ २०१ ॥
अम्यर्चेच्चन्द्ररूपाणि ज्योतींषीर्यर्थ ईरितः ।
प्रशोपनिषदुक्ता या: कलाः घोडश तध्युतः ॥ २०२ ॥
तत्कलारूपजगता तादात्म्याल्घोडशी शिवः ।
विथर्तारं हवामहे वसोः कुविद्धनानिधि नः ।
सवितारं नृचक्षसम् ॥
मन्त्राः केचिदिहोच्यन्ते सर्वेशप्रार्थनास्मकTः ॥ २०३ ॥
ब्रह्माविज्ञानलाभाय वेदेन हितकारिणा ।
वरोज्ञानस्य दातारं विथर्तारं विशेषतः ॥ २०८ ॥
विशेषतो दातारमित्यन्वयः ।
अस्महुद्रे: प्रेरकत्वासवितारं नृचक्षसम् ।
तत्स्वविद्याप्रवक्तारं ऋणामाचार्यरूपतः ॥ २०४ ॥
अस्मद्व्यासादिसिद्धचर्यर्थंमाध्वीयामो महेश्वरम् ।
कुवित्प्रभूतं ज्ञानाख्यं धनमीशो ददाति नः ॥ २०६ ॥
अध्या नो देव सवितः प्रजावत्सावीः सौभगम् ।
परा दुश्वप्निय* सुव ॥
ह देव प्रेरकाधास्मिन् दिवे विद्याभिलाषिणाम् ।
नः शिष्यादिश्जोपेतं भाग्यमाचार्यतात्मकम् ॥ २०७ ॥
Page 41
सावी: प्रयच्छ द्रैतं च स्वमतुल्यं. पराकुरु ।
विश्वानि देव सवितर्दुरितानि परासुव ।
यद्ध्रु तन्न आासुव ॥
सर्वाणघानि ज्ञानस्य प्रतिबन्धान् विनाशय ॥ २०८ ॥
असंभावनया हीनं विपर्ययविवर्जितम् ।
यदस्ति तत्त्वविज्ञानं तत्त्साकल्येन देहि मे ॥ २०९ ॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धव: ।
माध्वीने: सन्त्वोषधी: ॥
ऋतं ब्रह्मेच्छते मबं वाता वान्तु सुखावहा: ।
स्याद्वायौ प्रबले रोगो विप्रस्तत्वधियो यतः ॥ २१० ॥
अतो वायोरनुकूल्यं प्रार्थ्यते ज्ञानकामिना ।
नध्य: सम्पादयन्त्स्वमधुरं रोगनाशकम् ॥ २११ ॥
तीव्रवाद्या मधुरा: सन्तु पथ्यरूपा भवन्तु नः ।
मधु नक्तमुतोषसि मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु न: पिता ॥
रात्रौ दिवा च नोऽस्माकं सुखमस्वन्तुकूलत: ॥ २१२ ॥
मा भूत्कालकृतो विध्रो ज्ञानस्पेत्यर्थ ईरित: ।
अनुकूलत इति ; सार्ववैभक्तिकसस्तसि । अनुकूलमित्यर्थ: ।
पार्थिवं शयनादिस्थं रजो मधुमदस्तु न: ॥ २१३ ॥
अनुकूलं तदप्यस्तु कण्टकादिविवर्जितम् ।
धौ: पिता पृथिवी मातेत्येवं श्रुुत्या पिता हि सा ॥ २१४ ॥
Page 42
मध्यमात्रो वनस्पतिर्मधुमाऽस्तु सूत्रे।
माध्वीर्गावो भवन्तु नः ॥
चूतिद्रमधुनामस्ति मधुररैन्वतः फलैः ।
अस्त्वेष जीवनोपायो नोऽस्मान् प्रति महीरुहः ॥ २१५ ॥
अकृल्वाधिक्षततापमनुकूलप्रकाशयुक् ।
सूर्योऽस्तु गावो माध्वीनाo मधुरक्षीरसंयुताः ॥ २१६ ॥
घृतं मिमिक्षे घृतमस्य योनि-
घृते श्रितो घृतमस्य धाम ।
अनुष्वधमावह मादयस्व
स्वाहाकृतं हविर्हविर्हवयम् ॥
देहानुकूल्यं सम्प्रार्थ्य भोगस्य सकलस्य च ।
ज्ञानहेतुक्रियाहेतोरमेस्तत्पार्थ्यतेऽत्र तु ॥ २१७ ॥
तव् ; आनुकूल्यम् ।
घृतमग्रौ सिक्तवतो यजमानः पुरातनाः ।
हृवर्हृदयं तेन ज्वालानामभिवृद्धितः ॥ २१८ ॥
अतो घृते श्रितो वहिर्हतमेवास्य धाम च ।
अनुष्ठुय स्वधामन्नमस्मदीयं हविर्हविः ॥ २१९ ॥
देवान्त्रानयनानीय मादयस्व मुदान्वितान् ।
कुरु हे घृतश्रेष्ठ हव्यं स्वाहाकृतं वह ॥ २२० ॥
स्वाहाकारण चास्माभिर्दंतं प्रापय देवताः ।
हविर्हेति ; आवहेति यावत् । तस्यैवार्थो देवात्रानयति ।
Page 43
सषुध्रादूर्मिमेघुमाः उदार-दुपाशुनासममृततत्वमानद् ।
ष्टतस्य नाम शुभं यत्स्मृतं जिह्वा देवानामृतस्य नाभिः ॥
समुद्रवत्समधिकातरिपूर्णेपरात्मनः ॥ २२१ ॥
ऊर्मितुल्यमपञ्चोड्यं मध्युमानू भोग्य उत्थितः ।
अळधेसतरॠवत्सर्वी भोग्यमीशादजायत ॥.२२२ ॥
धृतं दीसं स्वप्रकाशं तस्य प्रणवरलक्षणम् ।
नाम सर्वेषु वेदेषु यद्रोप्यं विद्यते महत् ॥ २२३ ॥
वृतिविषित ; “न धृता धारणीस्थेयोः” इति भाष्यः ।
तेन प्रणवरूपेणोपांशुना ध्यानकालेत्तः ।
शनैरुच्चार्यमाणेनामृतवं नाशवजितमू ॥ २२४ ॥
ब्रह्मानटू संयगामोति तच्च जिह्वा दिवौकसामू ।
तैर्द्र्यानतत्परैरिनित्यं कीर्त्यत्वादास्यमध्येत्तः ॥ २२५ ॥
वर्तते किंच मोक्षस्य नाभिराश्रय उच्यते ।
एतद्र्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ २२६ ॥
इति श्रुत्यनतरोकत्वादेनाप्यं हि तत्फलम् ।
एतस्यामृत्चि तारस्य मोक्षसाधनतोदिता ॥ २२७ ॥
वयं नाम प्रदक्षामा घृतेना-स्मिन्यज्ञो धारयामा नमोभिः ।
उप ब्रह्मा शृणवचछस्यमानं
नतुंःशृणोोडमीदौर एतत् ॥
Page 44
आस्मिन् यज्ञे ज्ञानयज्ञे वयं ज्ञानाभिलाषिणः । ब्रह्मात्मना निमित्तेन नाम प्रणवसङ्कम् ॥ २३८ ॥
मन्र्वामोच्चारयामो ध्यान्तः सर्वदा ततः ॥ नमस्कारैयुताश्विच्चे धारयामो महेश्वरम् ॥ २३९ ॥
शस्यमानं स्तूयमानमस्माभिः प्रणवेन च । ब्रह्मैतच्छ्लोयमानं च पार्थिवस्थैस्त्रिभवे दिमिः ॥ २३० ॥
आकारादिकनादान्तचतुःश्रृङ्गसमन्वितः । प्रणवल्यो वृक्षः श्रोतॊ वान्तवान् प्रत्यपादयत् ॥ २३९ ॥
चत्वारि श्रृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश ॥
प्रणवप्रतिपाद्यत्वादस्य प्रणवरूपिणः । आकारादीनि चत्वारि श्रृङ्गाणि परमात्मनः ॥ २३२ ॥
ब्रह्मैविर्गेम्यते तत्त्वमिति पादा: समीरिता: । विश्वश्र्च तेजसः प्राज्ञ इत्यध्यात्मं त्रयोड्डध्वत्रयः ॥ २३३ ॥
विराड्धिरण्यगर्भश्र्चव्याकृतश्राधिदैवतम् । दू हे शक्ती चित्तचित्पे चिरःस्थाने समीरिते ॥ २३४ ॥
भूः आदि: सप्त लोकाः ह्स्ताः स्युः परमात्मनः । विश्वादिमिर्विराडाद्यैः शिवघाकारादि षु त्रिषु ॥ २३५ ॥
संबद्धः प्रणवो ब्रह्म प्रतिपादयति स्फुटतम् । स्पष्टं प्रणववेद्यं तदेव इत्यादिनोच्यते ॥ २३६ ॥
प्रविष्टः: सर्वतो मर्त्योऽवरदेहान्महेश्वरः ।
Page 45
नखाग्रावधिदेहेहेडयं सम्प्रविष्ट इति श्रुति: ॥ २३७ ॥
त्रिधा हितं पणिभिरग्रुग्रामानं
गवि देवासो हृदयन्नव्यविदन्त ।
इन्द्र एकर्ं सूर्य एकं जजान
वेनादेकर्ं स्वधया निष्ठतक्षु: ॥
देहे विश्वादिसंज्ञेन त्रिपकारेण संस्थितम् ।
विराडादिकसंज्ञेन ब्रह्माण्डे च त्रिधा स्थितम् ॥ २३८ ॥
गोष्यमานं रहस्यत्वादाचार्यैर्ब्रैह्म भास्वरम् ।
लङ्घवन्तो महावाक्ये देववत्साक्षिकाः नराः ॥ २३९ ॥
यत् त्रिधा हितमित्युक्तमेतदेव विविच्यते ।
समुत्पादितवानेकं विराड् जागरणात्मकम् ॥ २४० ॥
हिरण्यगर्भोंडजनयत्स्वप्ररुपं प्रभाववान् ।
सुषुप्तरूपं संजातं वेनादव्याकृतात्मनः ॥ २४१ ॥
वेनेऽति कान्तिकर्मा स्याद्सर्वदुःखविवर्जनात् ।
कमनীয়ोडव्याकृतः स्यादित्येवमवगम्यताम् ॥ २४२ ॥
वेनेऽति ; धातुरिति शेषः ।
धीयते स्थाप्यते स्वात्मनि ब्रह्मात्मिका चितिः ।
आश्रयान्तरहानीनां स्वधोशब्देन कीर्त्यते ॥ २४३ ॥
तयोत्पादितवन्तस्ते त्रयो जागरणादिकम् ।
यो देवानां प्रथमं पुरस्ता-
दृश्वाधिको रुद्रो महर्षिः ।
हिरण्यगर्भं परयत जायमानं
स नो देवः शुभया स्मृत्या संयुनक्तु ॥
Page 46
द्रव्स्येति रुद्रं राब्दं वैदिकं रुद्र उच्च्यते ॥ २४८ ॥
वेदगम्यो महावाक्योऽटतीन्द्रियो द्रष्टुमःर्यतः ।
हिन्दुगिर्यो यो देवः प्रकट्यति स्वप्रकाशचित् ॥ २४९ ॥
आदिभूतं समस्तानामिन्द्रादीनां दिवौकसाम् ।
पुरस्ताज्जन्मनां कीर्त्यो देवानां जन्मतः पुरा ॥ २५० ॥
पुरस्ताज्जन्मसंकீर्त्यो तपःपाथ्म्ये स्फुटीकृतम् ।
स देवः शुभया स्मृत्या सर्वसंसारघातिना ॥ २५१ ॥
ब्रह्मस्मृत्या संयुक्तकु संयुक्तानं प्रकरोड नः ।
मन्त्रोडयं ब्रह्मविद्याया: प्रात्सये जप्यतां बुधैः ॥ २५२ ॥
इति प्रतीयते डस्माकं मन्त्रालिङ्गस्य तत्वतः ।
यस्मात्परं नापरमस्ति किञ्चि-
द्यस्मात्राणीयो न डयायोद्गस्ति कश्चित् ।
दृक्ष इव स्थूलो दिवि तिष्ठ-
त्येकस्तेनदं पूर्णं पुरुषेण सर्वम् ॥ २५३ ॥
यदुक्तं शुभयेत्यादि स्मर्तव्यं तदिहोच्यते ॥ २५४ ॥
उत्कृष्टमपकृष्टं वा वस्तु यस्मात्न विच्यते ।
नारं यस्माद्भवाणोद्गस्ति नाधिं वस्तु किंचन ॥ २५५ ॥
गुणोत्कर्षापकर्षौ तु परापरपरोदितौ ।
मानोत्कर्षादिकं प्रोक्तं ज्यायइत्यादिशब्दतः ॥ २५६ ॥
सर्वेथा तन्निषेधेनाद्वितीयात्वं हि सिद्ध्यति ।
उत्कर्षापकर्षनिषेधेनैतदर्थः ।
दृक्षः स्थूलो यथैक्त्र गतयादिरहितस्तथा ॥ २५७ ॥
Page 47
१०]
याज्ञिक्युपनिषद्विवरणम्
३४
स्वप्रकाशस्वरूपोडसौ निर्विकारोडवतिष्ठते ।
तेनेदं पूर्णमखिलं पुरुषेण परात्मना ॥ २५३ ॥
नास्त्येव जगताकारो परमात्मैव संस्थितः ।
न कर्मेणा न पजय धनैन
त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां
विभ्राजते यद्यतो विशन्ति ॥
ब्रह्मस्मृतावनन्तरं त्यागो हेतुरिहोच्यते ॥ २५४ ॥
तच्चामृतत्वं न प्राप्त्यमभियोत्रादिकर्मणा ।
पुत्रादिना धनेनापि किंतु कर्मादिविहानतः ॥ २५५ ॥
व्यापाराणां लौकिकानां वैदिकानां च वर्जनात् ।
केचिदन्तर्मुखा एवामृतत्वं प्राप्तुवन्ति तत् ॥ २५६ ॥
जितेन्द्रिया यदृशेन तत्त्वग्नादुत्कमं च सत् ।
एकाग्रबुद्धिनिष्ठं सद्दृशेषेण प्रकाशते ॥ २५७ ॥
अन्तर्मुखैः सद्दृशेव ब्रह्म तच्चानुभूयते ।
वेदान्तविज्ञानसुनिश्चितार्थाः:
संन्यासयोगाच्चतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोक तु परान्तकाले
परामृताः परिमुच्यन्ति सर्वे ॥
दहं विपम्पं परमेशभूतं
यत्पुण्डरीकं पुरमध्यसस्थस्थम् ।
तत्रापि दहं मगनं विशोक-
स्तस्मिन्यदन्तस्तदुपासितव्यम् ॥
Page 48
यो वेदादौ स्वरः प्रोक्तो
वेदान्ते च प्रकृतिष्ठितः ।
तस्मै प्रकृतिलीनस्य
यः परः स महेश्वरः ॥
त्यागस्य मोक्षहेतुत्वं पूर्वस्यानुच्च कीर्तितम् ॥ २५८ ॥
ज्ञानस्य तरतीत्यादौ श्रुती तदहुशः श्रुतम् ।
अतस्तयोः पृथङ्मुक्तावुपयोगोऽत्र वर्ण्यते ॥ २५९ ॥
विरोधपरिहाराय तयोः श्रुत्योर्थयोक्तयोः ।
वेदान्तवाक्यजज्ञाननिश्चितातमैक्यशालिनः ॥ २६० ॥
सत्यास्पदत्वं योगः सर्वव्याधिविनिम्रहः ।
तस्माद्विशुद्धसरवाक्षश् मोक्षव्यावृत्तचेतसः ॥ २६१ ॥
यतो नियमनासक्ता यतः परिकीरितिताः ।
ज्ञानं तत्त्वस्य संस्कृत्याविद्याया विनिवर्तकम् ॥ २६२ ॥
त्यागो निवर्तयेद्दोषं चित्तशुद्धेष्टु कारणम् ।
हृदि मुक्तौ तयोरुक्ता पृथगेवोपयोगिता ॥ २६३ ॥
ब्रह्मसंदर्शनं जाते ते संसारविलक्षणा ।
वैलक्षण्याद्योतनार्थेऽस्तुशब्दः परिकीरितितः ॥ २६४ ॥
अज्ञाननाशो देहस्य पतनावसरः स्मृतः ।
परान्तकाले भूयश् देहम्रहणवर्त्मनात् ॥ २६५ ॥
तस्मिन् सर्वे विमुच्यन्ते देवा वा मानुषास्तथा ।
उत्तमाधमभावस्तु भवेदत्राप्रयोजकः ॥ २६६ ॥
जगद्वेधुतयोकृष्टममृतं नारावजितम् ।
तत्त्वज्ञानं विना लब्ध्वाक्याकृतं परिकीतितम् ॥ २६७ ॥
Page 49
याज्ञिक्युपनिषद्विवरणम्
अन्याकृताद्द्विमुच्यन्ते ज्ञानिनो देहपाततः ।
तत्काल एवेत्यर्थः ।
सद्योनिस्तु प्रभये देहबन्धे गतेऽपि च ॥ २६८ ॥
अज्ञानान्न हि मुच्यन्ते मुच्यन्ते ज्ञानिनस्तदा ।
दहं विपाप्ममित्याद्या व्याख्याताः पदशरुपतः ॥ २६९ ॥
न्यायरत्नावलीग्रन्थ इति चात्रोपरम्यते ।
इति दशमोडनुवाकः1
आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचस्तह्वा मण्डलञ्च स ऋचां लोकोध य एष एतस्मिन्नमण्डलेऽर्चीष्यते तानि सामनि स साम्नां लोकोध य एष एतस्मिन् मण्डलेऽर्चिषि पुरस्तानि यजूंषि स यजुषां लोकः सैषा त्रयीएव विद्या तपति य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ।
रविविम्बे परेशस्योपासनं कध्यतेsडखुना ॥ २७० ॥
पूर्वानुवाकाभिहितो यो नारायणशब्दितः ।
स एष रविरूपेण वर्तते परमेश्वरः ॥ २७१ ॥
हृद्यमानं रवेस्तद्वद्वुलोकारमण्डलम् ।
तेजःपुञ्जं तपत्पुष्णं तत् तस्मिन्नैश मण्डले ॥ २७२ ॥
तत् प्रसिद्धं मडपे मतिं तत्स्मृत्याकारगाहच ।
निष्पादितं मण्डलं स्याहचस्तन्मानिन्देवता: ॥ २७३ ॥
तासां स बिम्बभागोडयं निवासः परिकीर्यतेः ।
ऋगादिकतवं बिम्बस्य ध्यात्वाथ तदनन्तरम् ॥ २७४ ॥
यदेतन्मण्डले तेजो भास्वरं संप्रकाशते ।
१ इतः परमेकादशादशानुवाकौ न विद्यतौ ।
Page 50
तैत्तिरीयोपनिषदि
[अनु०
तानि तेजःस्वरूपाणि सामानीन्ति विचिन्तयेत् ॥ २७५ ॥
सोऽर्चिर्भागो निवासः स्यादसृक् तद्भिमानिनाम् ।
सामध्यानानन्तरं च चिन्तयेत्तेदजरात्मकम् ॥ २७६ ॥
शाखाप्रसिद्धो देवात्मा मण्डलेदृशि वर्त्तते ।
तानि देवस्वरूपाणि यजूंषीति विचिन्तयेत् ॥ २७७ ॥
यजुरात्मा स च पुमानन्यजुषा कृतमण्डलम् ।
इति ध्यायेच्चजुर्भागः स यजुर्देवतालयः ॥ २७८ ॥
यनमण्डलं यदर्चिश्र तत्त्वपुरुषक्ष यः ।
ऐकत्वितयरूपैषा विद्या ऋग्यजुर्भासते ॥ २७९ ॥
ऋग्यजुःसामात्मकैवेत्यर्थः ।
अत्रोक्तो यः पुमानेष रविण्डलमध्यगः ।
हिरण्यमयोऽस्ति तत्कं च प्रसिद्धमितरत्र हि ॥ २८० ॥
हिरण्ययत्वं च शाखान्तरे प्रसिद्धमित्यर्थः ।
"अथ य एषोडन्तरादित्यो हिरण्मयः पुरुषो दृश्यते" इति श्रुते: (छान्दोग्ये १-६-६) ।
इति त्रयोधोडनुवाकः
आदित्यो वै तेज ओजो बलं यशः वर्च्चुः श्रोत्रमात्मा मनो मन्यु-
नेत्रसौदृशं वागुरुकाशः प्राणो लोकपालः कः किं कु तत्त्वसत्य-
मन्त्रपारमुतो जीवो विश्वं कतमः स्वयंश्वुः प्रजापतिः संवत्सर इति
संवत्सरोऽसावादित्यो य एष पुरुष एष भूतानामधिपतिरब्रह्मणः
सायुज्यं सलोकतामाम्रोत्येतासामेव देवतानां सायुज्यं साृष्टितां समा-
नलोकतामाम्रोति य एवं वेदेऽस्युपनिषत् ।
सर्वात्मकत्वरूपं च प्राहोपास्यगुणं रवे: ।
Page 51
उपास्यतैन य: प्रोक्त: पूर्वेमर्के स एव च ॥ २८१ ॥
तेजआद्यधिपत्यन्तसमस्तजगदात्मक: ।
बलहेतुर्भीवेेदोजो देहशक्तिबलं स्मृतम् ॥ २८२ ॥
आत्मा देहो मनश्चित्तं मन्यु: क्रोध: समीरित: ।
मनु: स्वायंभुवादि: स्यान्मृत्युर्युम उदीरित: ॥ २८३ ॥
स्युदेवताविशेषस्तु सत्याधासते च संस्कृता: ।
क: प्रजापतिरित्युक्त: किशब्देन तदुच्यते ॥ २८४ ॥
वाचा विशेषतो वक्तुमयोग्ये वस्तु यद्व्रवेत ।
कं सुखं तपसां स्यात्स्थलं स्वानृतवर्जनम् ॥ २८५ ॥
अन्नं त्रीद्यादिरायुस्तु शतसंवत्सरादिकम् ।
अमृतो मृतिहीन: स्याच्चिदात्मा जीव उच्यते ॥ २८६ ॥
स च देहविभेदेन विश्वो नानाविध: स्मृत: ।
अतीव सुखसुखोऽयं कतम: परिकीरितंत: ॥ २८७ ॥
अनुस्पन्न: स्वायंभु: स्याच्छान्दसं तु स्वयं त्विति ।
प्रजापालकराजादि: प्रजापतिरितीरित: ॥ २८८ ॥
इति: प्रदर्शनार्थे स्यादित्यादिसकलस्य च ।
आदित्यजत्वादित्य: संवत्सर उदीरित: ॥ २८९ ॥
य एष पुरुष: सर्वे: स एव प्राणिनामपि ।
भवस्याधिपति: स्वामीत्येवं मन्त्रार्थ ईरित: ॥ २९० ॥
सर्वे: सर्वात्मक इत्यर्थे: ।
उक्त्वोपास्यगुणानेवं फलमत्र प्रदर्श्यते ।
उपास्ये य: पुमानेवं स सायुज्याद्वाप्यनुयात ॥ २९१ ॥
Page 52
हिरण्यगर्भोऽपास्तिरिध्वे तदज्ञानमुपासनम् ।
इत्युपास्तिरिधियाधे च भावनातिशये सति ॥ २९२ ॥
हिरण्यगर्भसायुज्यं तादृश्यं प्रतिपद्यते ।
भावनामनूदतायां च तत्त्सालोक्यं समश्नुते ॥ २९३ ॥
द्वितीये भावनाधिक्ये देवसायुज्यमश्नुते ।
भावनामध्यतायां च समानैश्वर्यमश्नुते ॥ २९४ ॥
तन्मान्धे च सलोकत्वमिन्द्रादीनां प्रपद्यते ।
एवं रहस्यविदोक्ता समासिमगमच्छुभा ॥ २९५ ॥
इति चतुर्दशोडनुवाकः
धृणिः सूर्य आदित्योमर्चयन्ति तपः सत्यं मधु क्षरन्ति तद्रूपं
तदाप ओजोती रसोऽन्तर्ब्रह्म भूर्भुवः सुवरौम् ।
धृणिर्दीसियुतः सूर्यः सूर्य इत्यमिधानवत् ।
आदित्य अदितेः पुत्रः सोडहमस्मि तथाविधम् ॥ २९६ ॥
ओमित्यस्यार्थमाह——सोडहमिति । तथाविधमादित्यमित्यन्वयः ।
आदित्यं पुरुषः सर्वेऽप्यर्चयन्ति फलार्थिनः ।
तमादित्यं समुद्धिश्य तपः कुर्वन्ति साधकाः ॥ २९७ ॥
स्मरन्त्यन्ति नैवेद्यं मधुक्षीरादिकं बुधाः ।
तदादित्यात्मकं वस्तु वेदो वा ब्रह्म वा परम् ॥ २९८ ॥
परं ब्रह्मेत्यन्वयः ।
आदित्यरूपं तच्चापो वृष्टिनिप्पादकस्वत ।
या समुद्रादिगा आपो यज्ञ्योतिद्देहनादिकम् ॥ २९९ ॥
मधुरादिरसो यक्ष्य यत्सुधासंज्ञकामृतम् ।
Page 53
९५, ९६] याज्ञिक्युपनिषद्विवरणम् ८९
यदृश्यमन्नजातं च ये च भूरादयश्रय: ॥ ३०० ॥
लोका इति शेष: ।
आदित्यरूपं तत्त्वं सोमित्यर्थ: प्रकीर्तित: ।
इति पश्चाद्देशोडनुवाक:
सर्वों वै रुद्रस्तस्मै रुद्राय नमोडस्तु ।
पुरुषो वै रुद्रस्तन्महो नमो नम: ॥
विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।
सर्वों रोष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥
रुद्र: प्रसिद्धो गौरीश: सर्व: सर्वात्मक: स्मृत: ॥ ३०१ ॥
जीवरूपेण देहेषु समस्तेषु प्रवेशात: ।
सर्वात्मकत्वे हेतुमा ह—जीवेति ।
नमोडस्तु तस्मै रुद्राय सर्वरूपाय शंभवे ॥ ३०२ ॥
यज्ञिदातमास्ति पुरुषो विनाशाय प्रकृंति जडाम् ।
स भक्तानुग्रहायैव रुद्रमूर्त्योवभासते ॥ ३०३ ॥
सन्महोदाधितं तेज: सदैवे त्यादिकश्रुते ।
अबाध्यस्वप्रकाशाय नतिरस्तु पुन: पुन: ॥ ३०४ ॥
यज्जडं विश्वमस्तीदं यदृदूतं चेतनात्मकम् ।
इत्यं नित्यविदार्णवपारग्जिं यद्भवं जगत् ॥ ३०५ ॥
तत्रापि यज्जगजातं जायमानं च यज्जगत् ।
स सर्वोंडपि प्रपञ्चोड्यमेष रुद्रो हि वस्तुत: ॥ ३०६ ॥
न निरूपयितुं शक्यं तद्वित तद्वच्यतिरेकत: ।
तस्मै रुद्राय महते नमोडस्तु सकलात्मने ॥ ३०७ ॥
इति षोडशोडनुवाक:
Page 54
कदुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम शांतम॑ हृदे । सर्वों
षेष रुद्रस्तमै रुद्राय नमो अस्तु ॥
धन्वाधीरकुशशयन्तं पत्संसामाह कल्पदम ।
ततः प्रशस्तरुद्राय कद्रुद्राय प्रचेतसे ॥ ३०८ ॥
प्रकटज्ञानयुक्त्ताय कामसेकृतमाय च ।
कामप्रदाय स्तव्थ्याय स्तोत॑ं योग्याय तव्यसे ॥ ३०९ ॥
हृदे हृदयवर्तित्वाच्चातद्रूपाय च शांतमम् ।
वचः शुक्तमं स्तोत्रं कथ्याम महेश्वर ॥ ३१० ॥
सर्वों हीत्यादिकं वाक्यं व्यास्ल्यातं । पूर्वमेव हि ।
इति सम्पदशोडनुवाकः
नमो हिरण्यबाहवे हिरण्यपतयेऽड्मिकावतय उमापतये नमो नमः ॥ ३११ ॥
क्षत्रं बाहुपदं क्षेयं समस्ताज्ञोपलक्षणम् ।
सुवर्णमयदेहाय स्वभक्तानुजिघृक्षया ।
जगन्माताम्बिका तस्याः पतिभर्त्ता समीरितः ॥ ३१२ ॥
ब्रह्मविद्यास्मको देहस्तस्याश्रोमापदोदितः ।
तादृश्या: स्वामिने तस्मै नतिरस्तु पुनः पुनः ॥ ३१३ ॥
अनुवाकत्रयेऽपि ये मन्ना: परिकीर्तिताः ।
तेभ्यः स्वरितरुद्रस्य प्रसिद्धा मन्त्रकल्पत॑ ॥ ३१४ ॥
मन्त्रकल्पेप्वित्यर्थः ।
रुद्राध्यायजपे जप्या: कल्पेपु परिकीर्तिता: ।
रुद्राध्यायजपशेषत्वेन विनियोगमाह——हृदेति ।
इत्यष्टादशोडनुवाकः1
1 इत; परं षट्त्रिंशशानुवाकपर्यन्तं न विद्दितम् ।
Page 55
प्राणानां ग्रथनिरसि रुद्रो मा विशान्तक-स्तेनात्रेनाप्यायस्व ॥
हृदयस्पर्शंमन्वोडयमृधना परिकील्यंते ॥ ३१५ ॥
वायूनामिन्द्रियाणां च हृदग्रंथनसाधनम् ।
भवसि त्वमहंकार हृदयस्थानसंस्थितः ॥ ३१६ ॥
तवाभिमानी रुद्रे यस्तदूपस्त्वं विनाशकः ।
दुःखस्य भुवो विश मां प्रविश्टो मद्दुपुर्ंव ॥ ३१७ ॥
अन्नेन तेन भुक्तेन मामाप्यायस्व वर्धय ।
त्वं दुःखस्य विनाशको भुवेत्यन्वयः ।
इति सततविशोद्यन्वाकः
अदृगुष्टमात्रः पुरुषोऽड्रुगुष्टं च समाश्रितः ।
ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ॥
श्रुादादिजन्यविक्षेपे प्रशान्ते सति चेतसः ॥ ३१८ ॥
स्वस्वरूपानुसंधाने हेतुर्मेने उदीर्यते ।
चेतसो विक्षेप इत्यन्वयः ।
हृदपुण्डरीकं मध्यस्थं नभः स्वाङ्गुष्टमानकम् ॥ ३१९ ॥
तत्रावस्थितबुद्धिदृश्व तावती परिकीतिंता ।
तदर्वाच्छन्नाजीवश्व पुरुषोऽड्रुगुष्टमानकः ॥ ३२० ॥
स्वीयज्ञानक्रियाशक्त्या स चाङ्गुष्टं समाश्रितः ।
चकारानमस्तकं तद्रदेव चापादमस्तकम् ॥ ३२१ ॥
व्यापीत्यर्थः स चोपाधि विन वास्तवरूपतः ।
Page 56
नियन्ता सर्वजगतो विश्वभुक् प्रसुरेश्वारः ॥ ३२२ ॥
अनेन भोजनेनायं श्रीतो भवति शाश्वतः ।
इत्यष्टत्रिंशोऽनुवाकः
मेधा देवी जुुषमाणा न आगात्-
द्विषश्ची भद्रा सुमनस्यमाना ।
त्वया जुष्टा जुुषमाणा दुरुक्ता-
न्बृहद्ददेम विदथे सुवीरा: ॥
जीवेश्वैरैकचज्ञानास्यै मेधा देवी प्रशस्यते ॥ ३२३ ॥
ग्रन्थार्थधारणे शक्तिर्मेधा तद्भिमानिनी ।
देवी नः प्रीयमाणागादायत्वस्मान्प्रतीश्वरी ॥ ३२८ ॥
विश्वम्भर्ति: विश्वाची सर्वसंग्रहणक्षममा ।
अनुग्राहकमस्माकमिच्छन्ती शोभनं मनः ॥ ३२५ ॥
भद्रात् एव कल्याणी देव्यागच्छतु नः प्रति ।
त्वया जुष्टा गृहीतात्व वयं वेदबहिःस्थितान् ॥ ३२६ ॥
श्रेयोविरोधिनः शब्दानभजन्तः सुपुत्रका: ।
अर्हीता:, अनुग्रहीता इत्यर्थे: ।
सुवीरा: साधुशिष्याख्य विद्थेऽनुष्टुते सति ॥ ३२७ ॥
यागे विशुद्धमनसो ब्रह्म यत्कथयाम तत् ।
स्वया जुष्ट ऋषिर्भवति देवी
त्वया ब्रह्म गतश्रीरुत त्वया ।
स्वया जुष्टश्चित्रं विन्दते वसु
सा नो जुषस्व द्रविणेन मेधे ॥
Page 57
३९, ४०, ४१] याज्ञिक्युपनिषद्विवरणम् 84
- त्वया देवी गुहीतोडनु स्यादतीन्द्रयदर्शनः ।
त्वया जुष्टः प्रजानब्रक्षा भवतीह प्रजापतिः ।
अनग्रहीत इत्यन्वयः । ब्रह्मा : हिरण्यगर्भ इत्यर्थः ।
उतापि च त्वया जुष्टः प्राससंपद्वरत्वयम् ॥ ३२९ ॥
अत एवं त्वया जुष्टो गोभूहेमादिकं धनम् ।
लभते विविधं मेधे सा त्वं स्वेन गृहाण नः ॥ ३३० ॥
स्वेन ; धनेनानुग्रहाणेत्यर्थः ।
इत्येकोनचत्वारिंशोडनुवाकः
मेधां म इन्द्रो ददातु मेधां देवी सरस्वती ।
मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजा ॥
मेधां ददाजु मे शको दत्तां देवी सरस्वती ।
उभावप्यश्विनौ देवौ मह्यं मेधां प्रयच्छताम् ॥ ३३१ ॥
पद्ममालासमायुत्तौ शिर्यष्टं स्पष्टार्थमीरितम् ।
इति चत्वारिंशोडनुवाकः
अप्सरासु या मेधा गन्धर्वेषु च यन्मनः ।
देवी मेधा मनुष्यजा सा मां मेधा सुरभिजुष्ताम् ॥
या मेधासति सुरक्षीषु गन्धर्वेषु च यन्मनः ।
मेधासंकं देवनिष्ठा या च मेधा मनुष्यजा ।
मनुष्येषु बहुज्ञेषु स्थिता सा सकला च माम् ॥ ३३२ ॥
जुष्टां सेवतां मेधा सर्वेकामदुघा सती ।
इत्येकचत्वारिंशोडनुवाकः
Page 58
आ मां मेधा सुरभिरविश्वरूपा धरणयवर्णा जगती जगत्या ।
ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुपतिका जुजाताम्॥
मामगच्छतु मेधेति क्रियाध्याहतिरिष्यते ॥ ३३४ ॥
सुरभिः शुभगन्धाढ्या यद्वा कामदुधा भवेत् ।
क्षमतावाह्हवविद्याया धारणे बहुरूपिणी ॥ ३३५ ॥
सर्वगतत्वाज्जगद्रूा जगत्या पुरुपार्थिभिः ।
मृकं गम्या बलवती क्षीरादिकरसेँ 'माम् ॥ ३३६ ॥
.पिन्वमाना प्रीणयन्ती सा तादृग्गुणसंयुता ।
मेधा मां सुमुखी भूत्वा जुजतां सेवतां सदा ॥ ३३७ ॥
ऊर्जेस्वतीयस्यार्थो बलवतीति ।
इति द्विचत्वारिंशोऽध्यायः
सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ।
भवे भवे नातिभवे भजस्व मां भवोद्भवाय नमः ॥
मेधाविनो ज्ञानसिद्ध्यै कथ्यन्ते मन्त्रसत्तमाः ।
सद्योजाताभिधं वक्त्रं पश्चिमं परमेशितुः ॥ ३३८ ॥
तद्रूपं परमेशानं प्रपद्यामि भजाम्यहम् ।
नमोऽस्तु सद्योजाताय पश्चिमास्यस्वरूपिणे ॥ ३३९ ॥
वक्त्राजन्मादिमित्यं मां न भजस्व न चोदय ।
कि तर्हीतिभवे देव जन्मातिक्रमसिद्धये ॥ ३४० ॥
भजस्व तत्त्वज्ञानाय मां प्रेरय महेश्वर ।
इति त्रिचत्वारिंशोऽध्यायः
Page 59
४४, ४५] याज्ञिक्युपनिषद्विवरणम् ४७
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥
उद्भववक्त्रात्मको झेयो वामदेवः प्रकृतिंतिः ॥ ३४१ ॥
तद्विग्रहविशेषा: सूर्येते ज्येष्ठादिनामकाः ।
वामदेव्यादिशक्तीनां नवानां शिवपीठके ॥ ३४२ ॥
पतयो नव तेभ्योडपि नमस्कारोडस्तु नित्यशः ।
इति चतुश्चत्वारिंशोऽध्यायः
अघोरेभ्योऽघोरेभ्यो घोरेभ्यो घोरघोरतरेभ्यः सर्वतः शर्वे सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥
अघोरनामको देवो दक्षिणास्यात्मकः शिवः ॥ ३४३ ॥
तद्विग्रहा अघोराः स्युः प्रशान्ताः सात्त्विकत्वात् ।
अन्ये तु राजसत्वेन घोराः स्युरपरे पुनः ॥ ३४८ ॥
घोरादपि घोरतरास्तामसत्वेन हेतुना ।
हे शर्वे रुद्ररूपेभ्यः सर्वेभ्यस्तेभ्य एव च ॥ ३४५ ॥
सर्वतः सर्वेशो सर्वदा नतिरस्तु नः ।
इति पञ्चचत्वारिंशोऽध्यायः
तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
अत्र तत्पुरुषो नाम प्राग्वक्त्रात्मक ईरितः ॥ ३४६ ॥
द्वितीयार्थे चतुर्थी स्यात्तादृशं विद्महे शिवम् ।
Page 60
गुरुशास्त्रमुखाज्ज्ञात्वा महादेवं च धीमहि ॥ ३४७ ॥
ध्यायेम तं सदुद्रो नः प्रेरयत्वात्मसंविदे ।
ज्ञानध्यानार्थमित्यर्थः ।
इति षड्चत्वारिंशोऽध्यायवाक्:
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिरब्रह्मणोऽधि-
पतिब्रह्मा शिवो मे अस्तु सदा शिवोम् ॥ ३४८ ॥
ऊर्ध्ववक्त्रो महादेवो वेदशास्त्रादिकाश्रयः ।
चतुःषष्टिकलास्तासामेशानः स्याद्विभुमैकः ।
ईश्वरः सर्वभूतानां नियन्ता सर्वदेहिनाम् ॥ ३४९ ॥
वेदस्याप्यधिकवेलं पालको ब्रह्मणः स्थया ।
प्रजापतेरधिपतिरब्रह्मणोऽध्यात्मचक्षुः ।
परमेश्वरः ॥ ३५० ॥
शिवो मामानुम्रहाय शान्तो भवतु सर्वदा ।
सदाशिवोऽ स एवाहं भवामि परमेश्वरः ॥ ३५१ ॥
ओम्; अहं भवामित्यर्थः ।
इति सप्तचत्वारिंशोऽध्याय:
इत्यं पद्यं ब्रह्ममन्त्राः पद्यवक्त्रनिरूपकाः ।
तत्त्वधीहेतवः प्रोक्तास्तज्ज्ञानप्रतिबन्धकम् ॥ ३५२ ॥
ब्रह्महत्यादि यत्पापं तद्विनाशनहेतवः ।
त्रिषुपर्णीभिधा मन्त्रा वक्ष्यन्ते बोधसिद्धये ॥ ३५३ ॥
ब्रह्ममेतु माम् । मधुमेतु माम् । ब्रह्ममेव मधुमेतु माम् । यास्ते सोम प्रजा वध्सोजभि सो अहम् । दुस्स्वप्नन्हनदुरुष्वह । यास्ते सोम प्राणाशस्तां जुहोमि ।
Page 61
त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात्। ब्रह्महत्यां वा एते ग्नान्ति।
ये ब्राह्मणास्त्रिसुपर्णे पठन्ति । ते सोमं प्राप्तुवन्ति । आ सहस्रात्परंक्ति
पुनन्ति । ॐ ॥
मामेतु परमं ब्रह्म मध्य माधुर्यसंयुतम् ।
परमानन्दरूपं यन्मामावाम्रोतु वस्तु तत् ॥ ३५४ ॥
अत्यन्तमर्थमेथोडस्ति न ब्रह्ममधुरशब्दयोः ।
अकण्ठैकरसं वस्तु मामेतु प्रतिपद्यताम् ॥ ३५५ ॥
ब्रह्ममेवेश्यादिवाक्यस्यार्थमाह ---अत्यन्तमित्यादिना ।
यास्त्युमां ब्रह्मविद्यास्था तद्युक्त परमेश्वर ।
तव देवमनुयाथा: प्रजाः योऽसन्ति त्वा आप ॥ ३५६ ॥
सोडहं वत्सो बालकः स्यां तासां मध्ये हि बालवत् ।
अहं त्वत्करुणयोग्यस्तस्मात्संसारघातक ॥ ३५७ ॥
दुःखं विनाशयात्यन्तं हे सोम परमेश्वर ।
श्रुतो अभीति; अभिलक्ष्येर्थे । दुरुष्वह; दुःखमुक्त्वेर्णाभिभव ।
वर्णविकारश्छान्दस・ । तदिदमाह—दुःखं विनाशयात्यन्तमिति ।
ते प्राणवृत्तयो या: स्युस्स्तददीयास्वकृतत्वत् ॥ ३५८ ॥
जुहोमी त्वां तान् प्राणान्मनो वागादयो हि मे ।
त्वया विनिर्मितत्वेन त्वदीया एव तानत: ॥ ३५९ ॥
त्वध्येव संहरामेश विषयेभ्यो निरुद्ध्य तान् ।
त्वदेकचित्तो भूयासं तथैवानुग्रहाण माम् ॥ ३६० ॥
त्रिसुपर्णस्य मन्त्रस्य माहात्म्यं ब्राह्मणोदितम् ।
नापृष्टः कस्यचिद् ब्रूयादिति शास्त्रानुसारतः ॥ ३६१ ॥
Page 62
कृतायां शिष्ययाच्छ्रायां पश्चाद्विद्योपदिश्यते ।
इमं तु त्रिसुपर्णाख्यं मन्त्रं याच्छ्रां विनैव च ॥ ३६२ ॥
विप्रायोपदिशेतैनं ह्युपदेशेन ये द्विजाः ।
त्रिसुपर्णि जपन्न्येते ह्यन्ति ब्रह्मवर्चसं द्विजाः ॥ ३६३ ॥
ततः पापेन रहिताः सोमयोगं व्रजन्ति ते ।
उमासहितभीशानं प्राप्तुनवन्तीति किंचन ॥ ३६४ ॥
यस्यां पठ्क्कौ ब्राह्मणानामुपविष्टा भवन्ति ताम् ।
सहस्रदृक्ष्पर्यन्तां पठ्क्त्वैक शुद्धां प्रकुर्वते ॥ ३६५ ॥
तस्मादों प्रणवार्थोंडस्य परमात्मैव देवता ।
त्रिसुपर्णोऽस्यमन्त्रस्यैवं मन्त्रार्थ ऐरितः ॥ ३६६ ॥
ब्रह्म मेधया । मधु मेधया । ब्रह्ममेव मधु मेधया । अद्या नो देव
सवितः प्रजावत्सावीः सौभगम् । परा दुःषवप्रियं सुव ।
विश्वानि देव सवितदुरितानि परासुव । यद्धद्रं तन्म आसुव ।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः । मधु नक्तमुतोषसि
मधुमत्पार्थिविर्व रजः । मधु घौरस्तु नः पिता ।
मधुमान्नो वनस्पतिरपधुमाऽ
अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥
य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् ।
भूणहत्यां वा एते ह्यन्ति । ये ब्राह्मणाक्षिसुपर्ण पठन्ति ।
ते सोमं प्राप्तुनवन्ति । आ सहस्रादृक्ष्पर्यन्ति पुनरन्ति । ओम् ॥
गुरूपदिष्टवाक्यस्य तदर्थस्य च धारणेः ।
शक्तिमेंधां लया ब्रह्म लभ्यतां परमेश्वरः ॥ ३६७ ॥
मधिवस्यादिकवाक्यस्य व्यास्यान्तं पूर्ववद्दवेत् ।
अदितस्याद्या ऋचः पञ्च व्यास्याता पूर्वमेव च ॥ ३६८ ॥
पूर्वमेव ; अणोरणीयानित्यानुवाक इत्यर्थः ।
Page 63
वघो ब्राह्मणगर्मस्य राजगर्मस्य वा भवेत् ।
भ्रूणहत्यावशिष्ठं तु यथापूर्वी विचुध्यताम् ॥ ३६९ ॥
इत्येकोक्तप्रायश्चित्तानुसारः:
ब्रह्म मेधवा । मधु मेधवा । ब्रह्ममेव मधु मेधवा ।
- ब्रह्मा देवानां पदवीः कवीना-
मृषीणां प्राणां महिषो मृगाणाम् ।
श्येनो गृध्राण॑ स्वधितिर्वनान॑
सोपः पवित्रमत्येति रेभन् ॥
ह॒ꣳ सः कुविच्छ॒दसुरन्तरिक्ष-
द्विती॒ा वैन॑द॒षदो॒ताथ॒दुरो॑णसत् ।
नॄष॒द॒रस॒हत॒द्र॒यो॒मस॒द॒ज्जा
गोजा ऋ॒तजा अ॒द्रि॒जा ऋ॒तं बृ॒हत् ॥
य इ॒मं त्रि॒सु॒पर्ण॒म॒याचि॒तं ब्रा॒ह्म॒णाय द॒द्या॒त् । वे॒रह॒त्या॒ वा ए॒ते
ग्र॒न्थि॒ । ये ब्रा॒ह्म॒णाक्षि॒सु॒पर्ण॒ पठ॒न्ति॒ । ते सो॒मं प्राप्नु॒वन्ति॒ । आ
सह॒स्रा॒तप॒ꣳ॒कि पुन॒न्ति॒ । ओ॒म् ॥.
मेधाशब्दितत॒ज्ञो॒डस्य॑स्ती॒ति मेध॑वदुच्यते ।
य॒ज्ञा॒दिज॒न्य॒ज्ञा॒नस्य ब्राह्मणो॑ विष॒य॒त्व॒त॒ः॥ ३७० ॥
ब्र॒ह्म मेध॑वदि॒य॒त॒ज॒ज्ञे॒यं शेषं॑ तु पू॒र्व॒वत् ।
ब्र॒ब्मे॒त्य॒ादि यथो॒द्र॒न॒द्रं त॒द॒पि व्याकृ॒तं पु॒रा ॥ ३७१ ॥
वे॒दशा॒ख॒प॒रि॒ज्ञा॒ता त॒द॒नु॒ष्टा॒न॒त॒स्परः ।
वि॒प्रो॒डभि॒षि॒त्तो॒ रा॒जा वा वी॒रो॒डन्य॒स्मा॒त्व॒द्र॒वे॒त् ॥ ३७२ ॥
ब्राह्महत्यादिदोषा ये ब्र॒ज्ञधी॒प॒तिब॒न्ध॒का॑ः ।
Page 64
तैत्तिरीयोपनिषदि
[अनु०
त्रिसुपर्णाख्यमन्त्राः स्युस्स्तनमहापातकान्तकाः॥३७३॥
विप्रमात्रवधस्तत्र ब्रह्महल्या ततोऽधिकाः।
ऋणहल्या वीरहल्या तस्या अप्यधिका स्मृता॥३७४॥
त्रिसुपर्णाख्यमन्त्राणां यावज्जीवजपातृणाम्।
अभ्येतादृशपापानां विनिवृत्तिरिमे वेद ऋषभम्॥३७५॥
सुरापानादिपापानां निवृत्तिरिरिति का कथा।
पापानाम्; पातकानामित्यर्थः।
इति पश्चाशोडनुवाकः¹
²सत्यं परं परं सत्यं सत्येन न सुवर्गालोकाच्च्यवन्ते कदाचन
हि सत्यं तस्मात्सत्ये रमन्ते
नरस्य ज्ञानयोग्यस्य महान्तपादिनाशतः॥३७६॥
परमोक्षषष्ठतां वचुं न्यासस्य ज्ञानहेतुषु।
सत्याच्चेकादशोऽकृष्ठा वक्तव्या ज्ञानहेतवः॥३७७॥
नरस्य वक्तव्या इत्यन्वयः। प्रतियोगित्वेदिति शेषः।
प्रथमं साधनं तत् सत्यमन्त्र निरूप्यते।
यथादृष्टं प्रमाणेन तथोक्तिः सत्यसूच्यते॥३७८॥
पुर्मर्थेहुष्ठूलकृशं परं तच्च प्रकीर्तितमम्।
तत्रादार्षे भूतश्रद परं सत्यमितीरितम्॥३७९॥
यद्वा यथा परं ब्रह्माबाध्यं सत्यमिवं तथा।
व्यावहारिकबाधस्य राहित्येन प्रकृष्टताम्॥३८०॥
¹ इतः परमेकष्ठितमानुवाकारपर्यन्तं न विदितमू।
² यथपीत आर्षम् 'न्यास एवात्यरेचयचय एवं वैदैस्युपनिषत्' इत्यन्तमेकं वाक्यं,
तथापि विद्वातिसौकर्याय खण्डशो विभज्य निर्दिष्टम्।
Page 65
६२९] याज्ञिक्युपनिषद्विवरणम् ४३
विवक्षित्वा परं सत्यमिति दृष्टान्तः स्मृतम् ।
यावज्जीवं यथोक्त्या स्वर्गेलोकैकदाचवन ॥ ३८१ ॥
न प्रच्युतः सुरसख्ये तु स्वर्गे प्राप्यापि पुण्यतः ।
अनृतप्रोक्तिवदोषेणाननुभूयैव कर्मणः ॥ ३८२ ॥
फलं पूर्णतया स्वर्गाच्च्यवन्तेऽनृतवादिनः ।
यथार्थवचनं यस्मात्तस्मात्सन्मार्गवर्तिनाम् ॥ ३८३ ॥
संवन्धि तस्मात्केचित्तु सतामिदमिति श्रुते: ।
श्रुते: ; न्याय्यत्वाच्चेत्यर्थः ।
उत्कृष्टहेतुमत्वस्य सत्योक्तिरिति वादिनः ॥ ३८४ ॥
सत्ये रमन्ते क्रिडन्ते तस्मिन्नेव मनीषिणः ।
इति वादिनः केचित्तमन्विष्णुः तस्मिन्नेव सत्ये रमन्ते इत्यन्वयः ।
मोक्षस्येति ; मोक्षहेतुज्ञानस्य हेतुरित्यर्थः । एवमग्रेडपि ।
तप इति तपो नानशनात्परं यद्वि परं तपस्तद् दुर्धर्षं तद् दुराधर्षं
तस्माच्चपसि रमन्ते
एकं मतं कीर्तयित्वा द्वितीयं मतमुच्यते ॥ ३८५ ॥
तप: परं मोक्षहेतुरिति केचिद्रचक्षते ।
तीर्थयात्राप्रदीनि तपांस्यान्यानी भूरिशः ॥ ३८६ ॥
तथाऽध्ययनशान्तं चेद् यत्समस्तत्परं भवेत् ।
उपवासादनशनान्न परं विद्यते तप: ॥ ३८७ ॥
कृच्छ्रादिकं यत्तपोडस्ति तत्सोदुःं शक्यमेव न ।
अत एव दुराधर्षमासमन्ताच्छरीरिणाम् ॥ ३८८ ॥
तस्य सोडुमशक्यत्वं सर्वेषामनुभूयते ।
Page 66
४७
तैत्तिरीयोपनिषदि
[अनु०
तस्मात्केचिद्व्रतमन्तेऽडस्मिन् कुचचन्द्रायणादिके ॥ ३८९ ॥
तस्य ; तपस इत्यर्थ: ।
दम इति नियतं ब्रह्मचारिणस्तस्मिन् रमन्ते
दमो बाह्येन्द्रियाणां स्याद्विषयेभ्यो निवर्तनम् ।
स एव मुक्तिहेतुः स्यादिति नैष्ठिकवर्णिनः ॥ ३९० ॥
मन्यन्ते सर्वेदा तस्मादमन्ते दम एव ते ।
शम इत्यरण्ये मुनयस्तस्माच्छमे रमन्ते
क्रोधादिदोषराहित्यं मनसः शम उच्यते ॥ ३९१ ॥
स एव मुक्तिहेतुः स्यादित्यरण्यनिवासिनः ।
मन्यन्ते मुनयस्तस्मादमन्ते शम एव ते ॥ ३९२ ॥
दानमिति सर्वाणि भूतानि प्राशसन्ति दानाज्जातिदुष्करं
तस्मादाने रमन्ते
स्वीयानां भृगुवादीनां शाखाप्रोक्तेन वर्मणा ।
स्वत्वस्य त्यागपूर्वी यत्परसत्वप्रसङ्जनम् ॥ ३९३ ॥
तद्वानमेव परमं मत्वा मोक्षस्य साधनम् ।
स्तुवन्नि सकला दानाद्द्यान्तं नास्ति दुष्करम् ॥ ३९४ ॥
हृयन्ते धनरक्षार्थी त्यजन्तोडसूनपि प्रियान् ।
तस्माद्रोभूhirण्यादेदानां सङ्क्तिं प्रकुर्वते ॥ ३९५ ॥
धर्म इति धर्मेण सर्वमिदं परिगृहীতं धर्माज्जातिदुश्वरं तस्माद्धर्मे
रमन्ते
स्मृत्याद्युक्तं तटाकादेर्निर्माणं धर्म उच्यते ।
Page 67
स एव मुक्तिहेतुः स्यादिति राजादयो नराः । मन्यन्ते तेन धर्मेण गृहीतं सकलं जगत् । तुष्यन्ति खानपानैर्नैरपक्षिमृगादयः ॥ ३९६ ॥
नववासो दुर्वासां तस्माद्रिमवाडिस्मन् रतास्ततः । प्रजन इति भूयाद्रसस्तस्मादूयिष्ठा: प्रजायन्ते तस्मादूयिष्ठाः प्रजनने रमन्ते
प्रजनं तनयादीनामुत्पादनमितीर्यते ॥ ३९८ ॥ तस्यैवोतमहेतुत्वं मन्यन्ते बहवो जना: । दरिद्रेऽर्निकै: शिष्टैरशिष्टैश्र प्रवृत्तितः ॥ ३९९ ॥
प्रवृत्तितः ; पुत्राद्युत्पादन इति शेषः । तस्मादेकैकेन जयन्ते बहवः प्रजा: । तस्मादमनते बहवः पुत्राद्युत्पादने नराः ॥ ४०० ॥
अग्नय इत्याद तस्मादग्रय आघातत्व्या:
अग्नयो गार्हपत्याद्या: परमा मुक्तिहेतवः । इत्याह वैदिक: कश्चित्तस्मादेतोगृहस्थितैः ॥ ४०१ ॥
वैदिक: , वेदार्थपर: । गृहस्थितै: ; गृहस्थैरित्यर्थ: । अग्नयो गार्हपत्याद्या आघातत्व्या भवन्ति ते ।
अग्रिहोत्रमित्याह तस्मादग्रिहोत्रे रमन्ते आहिताग्नेडनुष्ठेयो होमः स्यादग्रिहोत्रकम् ॥ ४०२ ॥ तदुक्तं मुक्तिहेतुरिति कश्चन वैदिक: ! आह तस्मादग्रिहोत्रे रमन्ते गृहिण: सदां ॥ ४०३ ॥
Page 68
यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गतास्तस्माद्यज्ञे रमन्ते
ज्योतिष्ठोमादिको यज्ञ: परमो मोक्षसाधनम् ।
इति केचिद् मन्यन्ते वेदार्थासक्तमानसा: ॥ ४०८ ॥
यस्मादधुनिक देवा: पूर्वमुत्पादितयज्ञंत ।
स्वर्गलोकं गतास्तस्माद्यज्ञे केचिद् बुधा रताः ॥ ४०५ ॥
मानसस्मिति विद्वांसस्सत्सु स्माद्विद्वांस एष मानसे रमन्ते
विद्वांस: सगुणज्ञा: सूर्यमेन: साध्यं तु मानसस् ।
उपासानं परं हेतुरियते मेनिरे बुधा: ॥ ४०६ ॥
बुधा: सगुणब्रह्मविद इत्यर्थ: ।
तस्मान्मानस एवैके समासक्ता मनीषिण: ।
वैदिकोपास्तिभागस्य ताल्पर्यज्ञानशालिन: ॥ ४०७ ॥
न्यास इति बह्मा ब्रह्मा हि पर: परो हि ब्रह्मा तानि वा पतान्य-
वराणि तपांसि न्यास एवात्यरे चयत्
वैष्णवां कर्मेणां त्यागो विधिना न्यास उच्यते ।
न्यास एवोत्तमो मुक्तिहेतु: स्यादिति मन्यते ॥ ४०८ ॥
ब्रह्मा हिरण्यगर्भोsयं सु ब्रह्मा परं पदं हि ।
न तु जीवो यथा तत्तन्मतहह: प्राक् समीरित: ॥ ४०९ ॥
यद्यात्यसौ देहधारी तथापि पर एव हि ।
तत्समज्ञानवस्त्वात्तच्छिष्यत्लवेन हेतुना ॥ ४१० ॥
सत्यादिनी तपांस्येव निष्कृष्टानि तथाप्यत: ।
तथापि न्यासाविकृष्टा इत्यर्थ: ।
Page 69
६३] योगिक्युपनिषद्विवरणम्
संन्यास एवं सर्वाणि तान्यतिकान्तवानयम् ॥ ४११ ॥
आधिक्यतारतम्यं च तत् विश्रान्तमिष्यते ।
य एवं वेदेत्युपनिषत् ॥
उपसंहरतीदानীমुच्कमुत्तमसाधनम् ॥ ४१२ ॥
सर्वेभ्यः साधने भ्यश्र संन्याससंस्य प्रकृष्टताम् ।
यो वेद तस्य विदुष इत्येवं परिकीरितंता ॥ ४१३ ॥
विद्या रहस्यरूपा स्यादित्यर्थः । सद्धीरिरितः ।
इति द्विषष्टितमोऽनुवाकः
प्रजापत्यो हारिणे सुपर्णाय प्रजापतिं पितरमुपससार कि
भगवन्तः परमं बदन्तीति तस्मै प्रोवाच
प्राज्ञुकमोक्षदेवेष्टर्थमुपादीयतां श्रुतिः ॥ ४१४ ॥
आश्व्यायिकां प्रवचक्येषा गुरुशिष्योक्तिगर्भिणीम् ।
आरण्याख्यः सुपर्णायास्तनयश्र प्रजापतेः ॥ ४१५ ॥
गुरुपसदनं चक्रे प्रपच्छ तदनन्तरम् ।
पूज्यां महर्षयो मुच्युः साधने षखिलेऽपि च ॥ ४१६ ॥
किमु कृष्टं वदन्तीति तस्मै गुरुवाच सः ।
सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः
प्रतिष्ठा सत्ये सर्वे प्रतिष्ठितं तस्मादसत्यं परमं बदन्ति
साधनेष्ट तदुक्तं यथां वक्ति साधनम् ॥ ४१७ ॥
योऽन्तरिक्षेऽधुना वाति स वायुः पूर्वीजनमनि ।
नरः सन्नस्यवादित्यं परिपालयैव सत्यतः ॥ ४१८ ॥
संप्राप्य वायुदेवत्वं लोकानुग्रहवाच्छया ।
सदा चरति सूर्योऽपि पूर्वानुष्ठितसत्यतः ॥ ४१९ ॥
Page 70
दिवि प्रकाशते सत्यं प्रतिष्ठा वाच उच्चते ।
वाचौक्तमनृतं स्वन्यैनिराक्रियत इत्यतः ॥ ४२० ॥
प्रतिष्ठा न हि वाचः स्यात्सत्ये सर्वे प्रतिष्ठितम् ।
समस्तग्यवहारोडपि सत्यवाचि प्रतिष्ठितः ॥ ४२१ ॥
तस्माल्लेकिचित्सत्यमेव प्रकृष्टं साधनं जगुः ।
अतोऽनृतं न हि वाचः प्रतिष्ठेयन्वयः ।
तपसा देवा देवतामग्र आयन् तपसर्षयः सुवर्न्वविन्दन्ततपास
सपलान्पणुदामारातीर्स्तपसि सर्वे प्रतिष्ठितं तस्मात्तपः परमं वदन्ति
तत्रासंतुष्टतां दृष्ट्वा द्वितीयं प्राह साधनम् ॥ ४२२ ॥
मुखविकाराहित्यालक्षणमपरितोषमारुणेहृष्टेर्यथे: ।
देवा देवत्वमधुना संप्राप्ताः पूर्वैर्जनमनु ।
अनुष्टितेन तपसा ऋच्छूचान्द्रायणादिना ॥ ४२३ ॥
पूर्वोंजितेन तपसा स्वर्गीं प्राप्ता महर्षयः ।
वयं च तपसा शत्रूनू द्रव्यलाभविरोधिनः ॥ ४२४ ॥
नरांधकार निराकुर्मः समस्तं तपसि स्थितम् ।
तस्माद्धन्यान्यनुष्ठानं परमं मोक्षसाधनम् ॥ ४२५ ॥
तपोऽनिते ; अभिचारारम्भपतनसत्यर्थः ।
दमेन दान्ता: क्लैब्यमवधून्वन्ति दमेन ब्रह्मचारिणः सुव्र-
गच्छन्दमो भूतानां दुराधर्ष दमे सर्वे प्रतिष्ठितं तस्मादमः परमं वदन्ति
पूर्वत्रापरितोषेण साधनान्तरमुच्यते ।
दुःशकं सर्वतः सोढुं दुराधर्ष दमो भवेत् ॥ ४२६ ॥
Page 71
अपेक्षितं फलं सर्वे दम एव प्रतिष्ठितम् ।
शमेन शान्ता: शिवमाचरन्ति शमेन नाकं मुनयोऽन्वविन्दजुछ्मो
भूतानां द्वाराधर्षं शमे सर्वे प्रतिष्ठितं तस्माच्छम: परमं वदन्ति
क्रोधादिरहिताश्चित्ते पुمرथे प्राप्तियुरे नराः: ॥ ४२७ ॥
शमेन स्वर्गमगमदचारदाचा मुनेश्वराः ।
दानं यज्ञानां वषटयं दक्ष्षिणा लोके दातारं सर्वभूतान्युपजीवन्ति
दानेनारातीरपानुदन्ति दानेन द्विषन्तो मित्रा भवन्ति दाने सर्वे प्रतिष्ठितं
तस्माददानं परमं वदन्ति
गोहिरण्यादिदानं स्यादज्ञानां दक्षिणा ततः ॥ ४२८ ॥
श्रेष्ठं लोकेsडपि दातारं वेदशास्त्रविदो जनाः ।
मूढाश्चैवोपजीवन्ति भटानां धनदानतः ॥ ४२९ ॥
नृपा: शत्रूनिराचकुः प्रबला ये द्विषन्ति ते ।
धनदानेन संतुष्टा भवन्ति सुहदो जनाः ॥ ४३० ॥
धर्मों विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति धर्मेण
पापमपनुदति धर्मे सर्वे प्रतिष्ठितं तस्मादधर्मे परमं वदन्ति
तटाकादिकनिर्माणं धर्मे इत्येवमीरितम् ।
स सर्वप्राणिजातस्य प्रतिष्ठा श्रेय उच्चयते ॥ ४३१ ॥
उपजीवन्ति धर्मिष्ठं लोके सर्वाः प्रजा नृगाः ।
धर्माधर्मविवेकार्थमुपगच्छन्ति सर्वेशाः: ॥ ४३२ ॥
प्रायश्चित्तेन धर्मेण नाशयन्ति च किल्बिषम् ।
प्रजननं वै प्रतिष्ठा साधु प्रजायास्ततुं तन्वानः पितॄणामनुत्रणो
भवति तदेव तस्याऽऽनृण्यं तस्मात्प्रजननं परमं वदन्ति
Page 72
पुत्रोत्पादनमेवेदं प्रतिष्ठा गृहिणां भवेत् ।
४३३
गृहकृत्यस्य निर्वोंडा पुत्र एव न हौतर: ।
जययो मनुष्यलोकेऽयं पुत्रेणैवेतो हि श्रुति: ॥
४३४
पुत्रपौत्रादिरूपा स्यात्त्मजा तस्या: परंपराम् ।
यथाशास्त्रं वितन्वान: पितृणामनृणो भवेत् ॥
४३५
ऋणं तदीयं पुत्रेण सम्यक्प्रतिपतिं भवेत् ।
पुत्रोत्पादनमेव स्याद्ऋणापाकरणं पितुः ॥
४३६
अप्रयो वै त्रयी विद्या देवयान: पन्था गाह्हपत्य ऋक्सामपृथिवी
रथन्तरमन्वाहार्यपचनो यजुस्तार्तिरिकं वामदेव्यमाहवनीय: साम सुवर्गो
लोको बृहत्तस्माद्गीनं परमं वदन्ति
त्रयोऽग्नयस्त्रयी विद्या वेदैकविहितत्वात् ।
वेदत्रयोक्तकर्माणि यानि तत्साधनत्वात् ॥
४३७
देवत्वप्रापको मार्गो यागद्वारेण कीर्तित: ।
किंचायं गाह्हपत्योऽग्निरग्रिरेव वेदात्मक ईरित: ।
पृथ्वीलोकोऽग्रिरूपपक्ष यद्ऋग्धनंतरसाम तत् ।
४३८
सामेति; सामात्मक इत्यर्थ: ।
दक्षिणामिर्यजुर्वेदशान्तरिक्षात्मक: स्मृत: ॥
४३९
वामदेवाख्यसामात्मा भवतीति प्रशस्यते ।
सामवेद: स्वर्गलोको बृहत्तसामेति यत् त्रयम् ॥
४८०
तदात्माहवनीय: स्यादित्यसौ च प्रशस्यते ।
अमिहोत्रंसायं प्रात: श्रौद्राणां निष्कृति: स्विष्टं सुहुतं यज्ञकतूनां
भायण* सुवर्गस्य लोकस्य ज्योतिस्तस्मादम्रिहोत्रं परमं वदन्ति
Page 73
अभिहोत्रं कृतं साङ्गं प्रातःश्र गृहनिर्ऋति: ॥ ४४१ ॥
अभिहोत्रस्य विरहे क्षुधितोऽमिगृहान् दहेत् ।
ऋयसाधनमूल्यं तु निष्कृति: परिकीयते ॥ ४४२ ॥
योगे द्रव्योपलिञ्जानां देवहविष्यं कीर्तितः ।
तत्तद्द्रव्यस्य दहनं प्रक्षेपो होम उच्यते ॥ ४४३ ॥
यज्ञानां च कतूनां च प्रारम्भकमिदं स्मृतम् ।
अत एवामिहोत्रं स्यात्स्वर्गलोकप्रकाशकम् ॥ ४४४ ॥
अग्न्याधेयमभिहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निऋटपरुबन्ध: सौत्रामणी चेति सप्त हविर्यज्ञा: । ऋतुशब्दो यूपवस्तु सोमयागेषु रुद्र: ।
अभिष्टोमोऽङ्ग्यमिष्टोम उक्थ्य: षोडशी वाजपेयोऽतिरात्रोडतिरात्रोडष्टौमिश्रेति सप्त सोमसंस्था: कतव: ।
यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गताः यज्ञेनासुरानपानुदन्त यज्ञेन द्विषन्तो मित्रा भवन्ति यज्ञे सर्वे प्रतिष्ठितं तस्माद्यज्ञं परमं वदन्ति
उत्तमं साधनं यज्ञ इति केचित्पचचक्षते ।
यज्ञ: प्रियो हि देवानां ते हि देवा दिवं गताः: ॥ ४४५ ॥
पूर्वानुष्ठितयज्ञेन स्वर्गलोकं प्रपेदिरे ।
ज्योतिष्टोमेन यज्ञेन सर्वकामासिहेतुना ॥ ४४६ ॥
द्विष्टस्य शान्तिकामस्य मित्रा: सुदृढेशकारिण: ।
मानसं वै प्रजापतिं पवित्रं मानसैन मनसा साधु परीयति मानस ऋषय: प्रजा असृजन्त मानसै: सर्वे प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति
Page 74
प्राजापत्यपदप्राप्ते: साधनं स्यादुपासनम् ॥ ४४७ ॥
अत एव पवित्रं स्याच्छुद्धिहेतुत्वकारणात् ।
उपासनेन युक्तं यत्तेनैकाग्रेण चेतसा ॥ ४४८ ॥
साक्षात्करोति योगीश: सम्यग्वश्यवहितादिकम् ।
अतीतानागतं तच्च योगशास्त्रे प्रपञ्चितम् ॥ ४४९ ॥
एकाग्रमनसा युक्ता विश्वामित्रादय: प्रजा: ।
बह्वी: संकल्पमात्रेण सृष्टवन्तो महर्षय: ॥ ४५० ॥
न्यास इत्याहुर्मनीषिणो ब्रह्माणम्
यो मोक्षहेतु: संन्यास इत्युक्तस्तं महर्षय: ।
हिरण्यगर्भमेवाहु: सुधिय: स्मृतिकारिण: ॥ ४५१ ॥
संन्यासाद्ब्रह्मण: स्थानमिति हि स्मर्यते बुधै: ।
तपमासेन्नतरकृत्वादस्य तद्रूपतोदिता ॥ ४५२ ॥
अन्तरङ्ग्वादिति ; अन्तरङ्गसाधनत्वादित्यर्थ: ।
ब्रह्मा विश्व: कतम: स्वयम्भू: प्रजापति: संवत्सर इति
स्तोभं तमेव संन्यासं तत्संप्राप्त्यं प्रपद्न्च्यते ।
तत्; हिरण्यगर्भस्त्वरूपमित्यर्थ: ।
हिरण्यगर्भो विश्व: स्वात्मसमस्तजगदात्मक: ॥ ४५३ ॥
अतीव सुखरूपैक्ष्ष मात्रादिरहितत्वत: ।
स्वयमेव समुत्पन्न: प्रजानां परिपालक ॥ ४५८ ॥
कालात्मा चेतिशब्दस्तु प्रदर्शनपर: स्मृत: ।
इत्यादिसर्वरूपत्वमुन्नेयमिति मन्यताम् ॥ ४५९ ॥
Page 75
६३]
याज्ञिक्युपनिषद्विवरणम्
६३
संवत्सरोऽसावादित्यो य एष आदित्ये पुरुषः स परमेष्ठी
ब्रह्मात्मा
संवत्सरस्य माहात्म्यं सूत्रात्मस्य प्रदर्शयते ।
भूयस्तस्य प्रकारस्य न्यासस्य स्तुतयेऽधुना ॥ ४५६ ॥
स्तुतेः; हिरण्यगर्भाव्यवस्थेयर्थः ।
योऽयं संवत्सरः कालः सोऽसावादित्य एव हि ।
आदित्यगमनावृत्या तस्य संपादितत्वतः ॥ ४५७ ॥
आदित्यमण्डले योऽयं पुरुषो वर्त्तते स च ।
हिरण्यगर्भरूपः स्यादमण्डलद्वारतो द्वायम् ॥ ४५८ ॥
हिरण्यगर्भे: प्राप्यः: स्यात्तु ब्रह्म परमं भवेत् ।
तथैव प्रत्यगात्मा स्यादित्यर्थः परिकीर्तितः ॥ ४५९ ॥
याभिरादित्यस्तपति रधिमभिस्ताभिः पर्जन्यो वर्षति पर्जन्ये-
नौषधिवनस्पतयः प्रजायन्त ओषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणा:
प्राणैर्बलं बलेन तपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया
मनो मनसा शान्तिः शान्त्या चित्तं चित्तेन स्मृतिः* स्मृत्या स्मार*
स्मारणं विज्ञानं विज्ञानेनात्मानं वेदयति तस्मादनं ददनुग्र्वाण्येतानि
ददात्यन्नादात्माणा भवन्ति भूतानां प्राणैमेनो मनसकृं विज्ञानं विज्ञाना-
दानन्दो ब्रह्मयोनी:
संवत्सरं प्रशस्यैव सूत्राद्वारतस्ततः ।
समस्तग्यवहाराय मण्डलद्वारतो रवे: ॥ ४६० ॥
हेतुत्वेन स एवायं हायनोदत्र प्रशस्यते ।
स एवायं संवत्सरः आदित्यमण्डलद्वारा सर्वैण्यवहारहेतुतया स्तूयत
इत्यर्थः ।
Page 76
याभिरुन्नास्वरूपाभिरंकस्तपति रश्मिभिः ॥ ४६१ ॥
ताभिर्भूर्जलमादाय मेघो भूत्या प्रवर्षति ।
वीभत्सादिरोषधीनां पनसादिवृक्षाणामति: ॥ ४६२ ॥
तीव्रादिभिर्मेधवेदोजं प्राणास्तृप्यन्ति मेध्यत: ।
प्राणैर्देहबलं तेन तपः कुछ्छ्रादिलक्षणम् ॥ ४६३ ॥
तपसा शुद्धचित्तस्य श्रद्धा ब्रह्मास्ववेदने ।
श्रद्धयैकाग्रचित्तस्य शक्तिः श्रन्थ्यार्थधारणे ॥ ४६४ ॥
मेधया तत्वबुद्धचाख्या मनीषा स्थानमनीषया ।
मनो निरन्तरत्वेन मननं जायते ततः ॥ ४६५ ॥
क्रोधाद्यवसराभावाच्छान्ति: शान्त्या प्रमाणजम् ।
तत्वज्ञानामृतं चित्तं तेन चित्तेन सर्वदा ॥ ४६६ ॥
निद्रादिदिव्यवधानेऽपि लभते तत्वसंस्कृतिम् ।
निद्राऽभावनंतरस्थेन स्मरणेन निरन्तरम् ॥ ४६७ ॥
स्माराख्यं लभते तेन सततज्ञानमश्नुते ।
तेन; स्मारपदाभिधेयेन निरन्तर स्मरणेन विज्ञानमेत्यर्थ: ।
विज्ञानेन परात्मानं सर्वदाऽनुभवस्ययम् ॥ ४६८ ॥
यस्मात्प्राणादिकं द्वार ब्रह्मानुभवहेतुता ।
अन्नस्थ्यादतो दृढदृश्र्यं दृढतयेत्यति सर्वदा ॥ ४६९ ॥
सर्वप्रदानरूपतत्वमन्नदानस्य संपत्ति ।
विप्रेभ्ययितुमुक्तकोर्ध्र: पुनः संक्षिप्य कीलिते ॥ ४७० ॥
अन्नात्मपाणा भवन्तीति वाक्येनैतयवगम्यताम् ।
प्राणादिजनितज्ञानादानन्द: पर एव सन् ॥ ४७१ ॥
ब्रह्म वेदान्तवेद्यं स्याद्वोनिः सर्वेस्य कारणम् ।
Page 77
याज्ञिक्युपनिषद्विवरणम्
६३]
यद्वा वेदस्य योनि: स्यात्ताहमूप: स्वयं भवेत् ॥ ४७२ ॥
स वा एष पुरुष: पश्चधा पञ्चात्मा येन सर्वमिदं भूतं पृथिवी चान्तरिक्षं च द्यौश्व दिशश्चान्तरदिशाश्च स वै सर्वमिदं जगत्स च भूतं
स भव्यं जिज्ञासकल्स ऋतजा रयिष्ठा: श्रद्धा सत्यो महस्वान्तमसो-
परिष्ठात
स्तोत्रं संन्यासमेवोचं तत्प्राप्तज्ञानसंस्तुति: ।
संन्यासपूर्वकं ज्ञानं सम्पादयति यो नर: ॥ ४७३ ॥
तदिति ; तेन संन्यासेन प्राप्तं तत्त्वज्ञानं यस्स तस्य नरस्य स्तुति: क्रियत इत्यर्थे ।
स एव सर्वरूपं मन् पञ्चात्मा पञ्चधा भवेत् ।
पञ्चविशातिरूप: स्यादित्यर्थ: परिकीर्तित: ॥ ४७४ ॥
शब्दादिपञ्चकं चैव पृथिव्यादिकपञ्चकम् ।
ज्ञानकर्मेन्द्रियाणां द्वे तथा प्राणादिपञ्चकम् ॥ ४७५ ॥
एतावद्रूप: स्याच्छद्धा पञ्चात्मभिर्युत: ।
पञ्चधा वर्तते तच्च पुराणे परिकीर्तितम् ॥ ४७६ ॥
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेक: पञ्चधा स्थित: ॥ ४७७ ॥
इत्युक्तमित्यर्थ: ।
येन ब्रह्मस्वरूपेण नरेṇ सकलं जगत् ।
प्रोतं प्रकाशते स्यूतं सूत्रे मणिगणा इव ॥ ४७८ ॥
पृथिवीत्यादिना सर्वे तदेव स्फुटमुच्यते ।
व्यापी स एव सकले वर्तमानमिदं जगत् ॥ ४७९ ॥
Page 78
तत्त्वविद्यातिरेकेण तत्त्वदृष्ट्या जगत्न हि ।
अतीतं च स एवेदं भव्यं भावि जगच्च सः ॥ ८<० ॥
हस्त्यते नेहशुपोऽयं जगदूपो न हीति चेत् ।
जिज्ञासया विचारेण सर्वात्मकत्वेन निश्चित् ।
ऋतं प्रामाणिकं ज्ञानं जातः सर्वात्मकस्ततः ।
तत् ; ज्ञाननेतेर्थः ।
पूर्वपक्षविपास्तेषु जिज्ञासासमये पुनः ॥ ८<२ ॥
सिद्धान्तज्ञानतो जातः सर्वात्मा तत्त्ववित्त्वरः ।
रविग्रूपदे शाश्वत्यं धनं तत् तैव तिष्ठति ॥ ८<३ ॥
न तु पदेशशून्यानां तत् कचित्पतिभासते ।
ईदृश्वरूपज्ञानस्य श्रद्धालभ्यस्वतः पुमान् ॥ ८<८ ॥
श्रद्धैव सत्यनिष्ठास्मा स्वप्रकाशोडत एव सः ।
अज्ञानिन् वियुक्तस्वाच्छतदुपर्यपि वर्तते ॥ ८<५ ॥
ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युपुपयाहि विद्वान्
न्यासपूर्वज्ञनवन्तं श्रुत्वाह ज्ञानसत्फलम् ।
आरूणे त्वं तमात्मानं मनसा हृदयात्मना ॥ ८<६ ॥
हृदा नियमितत्वेन हृदेति परिकीर्त्यते ।
हृदा ; हृपदनेतेर्थः ।
एवमुक्तप्रकारेण संन्यासोस्तमहेतुतः ॥ ८<९ ॥
ज्ञात्वा विद्वाज्ज्ञानयुक्तः पुनर्मृत्युङ् न चाप्नुही ।
वर्त्मानशरीरे च ज्ञानिनः पतिते सति ॥ ८<< ॥
जनमाभावास्पुनर्मृत्युरनास्तीतर्थः प्रकीर्तितः ।
Page 79
तस्मान्न्यासंसमेषां तपसामतिरिक्तमाहु:
बहु प्रशस्तं संन्यासमुपसंहरते॰डघुना ॥ ८९ ॥
न्यामो यतो॰डनतरङ्गं स्यात्म साधनं तत्त्ववेदने ।
तस्मात्सत्यादितपंसां न्यासं सन्तोडधिकं जगु: ॥ ९० ॥
वसुरणयो विभूरसि प्राणे त्वमसि संधाता ब्रह्मन् त्वमसि विश्व-
सक्तेजोदास्त्वमस्यग्रेव्चोंदास्त्वमसि सूर्येस्य चन्द्रोदास्त्वमसि चन्द्रमस
उपयामगृहीतो॰डसि ब्रह्मणि त्वा महसे
न्यासोध्वैः प्रणवेनात्मसमाधियोन विधीयते ।
तस्मिन् विद्नानिवृत्त्यर्थं प्राहान्तर्यामिमिसंस्कृतिम् ॥ ९१ ॥
आत्मेति ; आत्मनि समाधिरिय्यर्थ: ।
अनुमहाय. मे ब्रह्मान्तर्यामिमिझ्झगस्पते ।
वस्तुतत्त्वोपदेश्टासि वसुरणयो विभूरसि ॥ ९२ ॥
विविधं जायमानो॰डसि विराडादिकरुपत: ।
प्राणे वाङ्वात्मके जिवे त्वं संयोजयितासि च ॥ ९३ ॥
विश्वसृक्कलव्यातिपी त्वमस्यग्रे: प्रकाशद: ।
घुलोकवर्तिसूर्येस्य वर्चोदास्त्वं प्रकाशद: ॥ ९४ ॥
तथा चन्द्रमसो॰डसि त्वं प्रकाशद्विणप्रद: ।
प्रकाशोति ; प्रकाशरूपवचनप्रद इत्यर्थ: ।
उपयामगृहीतो॰डसि सोम: सन्या गभूूमिषु ॥ ९५ ॥
पृथ्वी वा उपयामो॰डथ्यं श्रुतिसंकीर्तिततत्वत: ।
गृहीतः सोमरूप: सम्यद्धारुमयपात्रत: ॥ ९६ ॥
Page 80
६८
तैत्तिरीयोपनिषदि
[अनु.
श्रुति; "उपयामगृहीतोऽसीत्याहेयं वा उपयामः" (तैत्तिरीयसंहिता
६-५-८) इत्युक्त इत्यर्थः। तमेव स्पष्टयति—
तस्मै सर्वकर्त्रे महसे ब्रह्मणे भवे ।
ब्रह्माभिव्यक्तये देवं संससेवे परमेश्वरम् ॥ ४९७ ॥
ओमित्यात्मानं युज्जीत
ईशस्तुत्या गताग्रस्य समाधिस्थु विधीयते ।
त्रिमात्रं कीर्तयस्तारं सर्ववेदान्तनिश्श्वितम् ।
समाध्यात्परमात्मानं स्वरूपप्लेन चेतसि ॥ ४९८ ॥
अनन्यामित्यादिस्तुत्या परिहृतविमत्स्य सन्न्यासिन इत्यर्थः। निश्श्वितं;
परमात्मानमित्यन्वयः ।
एतद्दे महोपनिषदं देवानां गुह्यं
समाधिसाधनं तारं सन्तोति सकलोतमम् ॥ ४९९ ॥
तारस्वरूपमेवेदं महोपनिषदुच्यते ।
यस्योपनिषदो वन्द्यो भवन्ति प्रतिपादिका: ॥ ५०० ॥
महोपनिषदेतत्स्यात्सर्वे वेदा इति श्रुते: ।
देवानां वासवादीनां गुह्यं गोप्यमिदं भवेत् ॥ ५०१ ॥
ईशादिवर्जितो य: स्यादस्मै नोपदिशानित तें ।
य एवं वेद ब्रह्मणो महिमानमामोति तस्माद् ब्रह्मणो महिमानम्
एतत्समाधिजन्यास्य ज्ञानस्य फलमुच्यते ॥ ५०२ ॥
सन्न्यासानन्तरं यस्तु प्रणवेन परात्मन: ।
समाधिमाचरन्नेवं महावाक्योक्तरीतित: ॥ ५०३ ॥
Page 81
ब्रह्मतत्त्वं विजानाति सोऽपरिच्छिन्नवस्तुनः ।
महिमानमवाप्नोति तत्त्वविज्ञानतो ह्ययम् ॥ ५०४ ॥
जीवतत्त्वब्रह्मनाशेन ब्रह्मताविभवे सति ।
जीवनमुक्तो भवेद्विद्वान्नित्यस्स्थार्थः प्रकीर्तितः ॥ ५०५ ॥
प्रारब्धस्य क्षये भोगाच्छरीरेऽपि पतिते सति ।
तस्माज्ज्ञानादविद्याया लेशेनापि विवर्जितम् ।
मूलं यदृश्यं तस्यैव महिमानं समश्नुते ।
विदेहमुक्तो भवत्यस्यार्थे: परिकीर्तितः ॥ ५०७ ॥
इत्युपनिषत् ॥
संन्यासपूर्विकां विद्यामुपसंहरते᳚डयुना ।
इत्येवं कथिता विद्या भवत्युपनिषन्मता ॥ ५०८ ॥
रहस्यविद्या भवतीयेवमर्थः प्रकीर्तितः ।
इति त्रिषष्टितमोऽध्यायः
ज्ञानान्तरङ्गहेतुत्वान्न्यास्यैवोक्तरीतितः ॥ ५०९ ॥
स एव युक्तो जिज्ञासोर्न तु कर्मेति कीर्तितम् ।
तर्हि साक्षात्कृतौ कर्म क्रियतामिति शङ्कते ॥ ५१० ॥
तच्छङ्कापरिहाराय यागारूपत्वमुच्यते ।
लौकिकत्ववहाराणां सर्वेषां तत्त्ववेदिनः ॥ ५११ ॥
यागाधिकारशास्त्रास्ति न हि यागस्य विद्यते ।
अतोऽन्यत्रिमानुवाकस्य पूर्वभागेण योगिनः ॥ ५१२ ॥
यागद्रव्यतया᳚ज्ञानी पठ्यन्ते सकलान्यपि ।
तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिदममुरो
वेदिलौमानी बहिवेदः शिखा हृदयं यूपः काम आज्यं मन्यु: पञ्चुस्तपोडग्नि:
Page 82
शमयिता . दक्षिणा वाग्घोता प्राण उद्दाता चक्षुरच्वर्युम्नो ब्रह्मा श्रोत्रमथीत्
तस्य संन्यासिनो ब्रह्म साक्षात्कृतवत: सत: ॥ ५१३ ॥
जीवन्मुक्तस्य यो यज्ञस्तस्यात्मा साक्षिल्लक्षण: ।
स एव यजमान: स्यात्तस्स्वामित्वेन हेतुना ॥ ५१४ ॥
श्रद्धास्वं चित्तवृत्तिर्या सा पत्नीत्यादि योज्यताम् ।
यो दमार्थ: शमयिता सर्वाशोपशमावह: ॥ ५१५ ॥
चित्तवृत्तिविशेषोडस्ति स भवेदत्र दक्षिणा ।
सर्वेन्द्रियोपशमकाररीयर्थ: ।
होतार्दिक्ष्वरूपत्वं वागादीनां विचिन्त्यताम् ॥ ५१६ ॥
यावद्दीप्ते सा दीक्षा यदश्राति यत्पिबति तदस्य सोमपानं
यद्रस्मते तदुपसदो यत्संचरत्युपविशत्युचितिष्ठते च स प्रवर्ग्यो यन्मुखं
सवनानि
उ्योतिष्टोमाझ्भूता या क्रिया तदूपतोच्यते ।
योगिनो व्यवहारस्य स्वनुष्ठानैक्यभागतः ॥ ५१७ ॥
द्वितीयभागमवातारयति—ज्योतिष्टोमेति । अन्येति ; द्वितीयभागेन
द्वित्यर्थ: ।
भोजनादकरणणैव यावक्शुद्धार्यतेsमुना ।
सा दीक्षासंस्कारसंस्कारो धृतिरितियवगम्यताम् ॥ ५१८ ॥
हविरादिकरुपत्वं भोजनादेर्बुध्यताम् ।
Page 83
ये अहोरात्रे ते दर्शपुर्णमासौ येडर्धमासाश्र मासाश्र ते चातुर्मास्यानी य ऋतवस्ते पशुबन्धा ये संवत्सराश्र परिवत्सराश्र तेडङ्गेणा: सर्ववेदसं वा पतत्स्त्रं यन्निर्णयं तद्वभूथ:
अथो तृतीयभागेन जीवनुक्तस्य योगिन: ॥ ५१९ ॥
तत्तत्कालविशेषेण तत्तथागमतोच्यते ।
तृतीयभागमवतारयति — अथो इति ।
अत्र संवत्सराश्रेति श्रूयमाणं चयोगतः: ॥ ५२० ॥
'संवत्सराश्रेयेताभ्यां चकाराभ्यां श्रुताविह । स्यादिदावत्सरादीनां त्रयाणां च समुद्रय: ॥ ५२१ ॥
प्रभवादिषु चैकैकं पश्चकं युगाख्यदितम् । संवत्सरादिसंज्ञेयं कमात्तस्माद्युगे भवेत् ॥ ५२२ ॥
तदुक्तं कालनिर्णये —
" चान्द्राणां प्रभवादीनां पश्चके पश्चके युगे । संप्रीदानीविदित्येतच्छबलपूर्वोस्तु वत्सरा: ॥ "
इति ।
ये द्विरात्रातिरात्राद्यास्त एवाहर्गणा मता: । सर्ववेददशिपांकं स्यान्मार्वेदसमभ्दितम् ॥ ५२३ ॥
अहोरात्रादिकालेन समस्तेनोपलक्षितम् । यदायुयोगिनस्तस्मादत्रैतच्छब्दकीर्तितम् ॥ ५२४ ॥
आयुस्तदक्षिणोपेतं सत्रमित्यर्थ ईरित: ।
एतद्दै जरामर्यमाभिहोत्रं सत्रं य एवं विद्धानुदगयने प्रमीयते देव-नामेव महिमानं गत्वादित्यस्मि् सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते
Page 84
७२
तैत्तिरीयोपनिषदि
पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रम-
सोमाहिमानौ ब्राह्मणो विद्यानभिजयति तस्माद्ब्रह्मणो महिमानमामोति
तस्माद्ब्रह्मणो महिमानमित्युपनिषत् ॥
चतुर्थभागेनैतस्य सर्वयज्ञात्मकं मुनिमृ॥ ५२५ ॥
उपासीनस्य मर्त्यस्य क्रममुक्तिरुदीर्यते ।
अनुवाकान्त्यभागमवतारयति—चतुर्थेति ।
योगीश्वरस्य चरितं यज्झरामरणावधि ॥ ५२६ ॥
तह्देकोऽकोडमिहोत्रादिसत्रान्ताखिलकर्म हि ।
इत्युपासनशीलः सन् ऋतः स्यात् स्यादुत्तरायणे ॥ ५२७ ॥
स देवतानामैश्वर्यं संप्राप्य तदनंतरम् ।
भोक्तीतारतम्येन रवेस्तादात्म्यमश्नुते ॥ ५२८ ॥
अथोपासनशीलो यो म्रियते दक्षिणायने ।
सोडमिष्वाच्चादिकैश्वर्यं प्राप्यैतीन्द्रुसरूपताम् ॥ ५२९ ॥
एतीति; इन्द्रुसायुज्यमेतीत्यर्थः ।
महिमानावनुभवन्तेतावादित्यसोमयोः ।
विद्यानिहरणयगर्भे च तल्लोकस्थोपदेशातः ॥ ५३०
तल्लोकस्थेति; तल्लोकवासिनामुपदेशंत इत्यर्थः ।
तत्साक्षात्कृतिरूपं च जयं प्रामोत्ययं द्विजः ।
तदिति; हिरण्यगर्भसाक्षात्काररूपमित्यर्थः ।
तत्साक्षात्कारतो विप्रस्तल्लोकस्थवपुःक्षयात ॥ ५३१ ॥
तल्लोकं प्राप्य तत्रास्य महिमानं समश्नुते ।
Page 85
६४] याज्ञिक्युपनिषद्विवरणम् ७३
शरीरपातादूर्ध्वमिति शेषः। तल्लोकम्; हिरण्यगर्भलोकमित्यर्थः। अस्य ; हिरण्यगर्भस्यैश्वर्यम् ।
तत्रोपनन्नास्परेशास्या साक्षात्कारात्तस् च द्विजः: ॥ ५३२ ॥
तल्लोकनाशादूर्ध्वै यत्सत्यज्ञानादिलक्षणम् ।
ब्रह्म तस्य महत्त्वार्यं महिमानं समश्नुते ॥ ५३३ ॥
इत्थीयनेन विद्यायास्तद्ग्रन्थस्यैवोपसंहृति: ।
तद्ग्रन्थस्यैति ; तस्योपनिषदकग्रन्थस्यैवेत्यर्थः ।
तैत्तिरीयेडस्ति पुंविद्या तस्यैवमिति वाक्यत: ॥ ५३४ ॥
पुरुषो वेति वाक्येन शाखायां ताण्डिनामपि ।
मेधकस्योपलम्भेन स्वविभिन्नैव युज्यते ॥ ५३५ ॥
पुण्यज्ञयोस्ताण्डिनां हि सामानाधिकरण्यगी: ।
न तथा तैत्तिरीये स्यातत्र षट्चो: श्रुतत्वत: ॥ ५३६ ॥
सामानाधिकरण्ये च षट्चयोर्द्व्याहतिरेव हि ।
विदुषो यजमानत्वं यज्ञत्वं हि विरुध्यते ॥ ५३७ ॥
विदुषो यो यज्ञस्तस्य यज्ञस्यात्मेति व्यधिकरणे षट्चौ। अन्यथा विद्वानेव यज्ञ:; स एव यजमान इति व्याहति: स्यात्। ताण्डिनशाखायां तु 'पुरुषो वा व यज्ञ:' इति सामान्याधिकरण्यम् । अतो मेधकाप-
लम्बाद्वेद इत्यर्थ: ।
यदात्मयजमानादि श्रुतं तत्ताण्डिनां न हि ।
आयुष्रिविधस्यापि सवनत्रयरूपता ॥ ५३८ ॥
इत्यादि ताण्डिनां यतु न हि तच्चैत्तिरीयके ।
मरणावमृथत्वादि कृच्छ्रिचित्साम्यप्रबाधनात् ॥ ५३९ ॥
Page 86
तैत्तिरीयोपनिषदि
विद्योभेदं एवातो न्याय्यो नैव स्वभिन्नता ।
किंच नोपासनमिदं तैत्तिरीये प्रक्रीतितम् ॥ ५४० ॥
किं तर्हि ब्रह्मविद्याया: प्रशंसा परिकीर्यते ।
तस्माद्विद्यैवैकशब्दाया नावकाशोऽस्ति कश्चन ॥ ५४१ ॥
क्रममुक्तिफलं त्वस्मिन्ननुवाके प्रक्रीतितम् ।
तत्वज्ञसेवासंभूतीमित्यशब्दं च मण्डलम् ॥ ५४२ ॥
इति चतुःपष्टितमोऽनुवाक:
विद्यारण्यमुनिप्रोक्तब्रह्मविद्यास्यानुसारतः ।
पुरुषोत्तमतरीर्थेन ग्रन्थविस्तरभीतित: ॥ ५४३ ॥
याज्ञिक्यां कतिचिन्मन्त्रा व्याख्याताः पद्यरूपत: ।
यथोपयोगमेवात्र संग्रहे ण यथामति ॥ ५४४ ॥
विद्यारण्यै: समस्तेयं व्याख्याताऽऽयाज्ञिकी शुभा ।
आरष्य हृद्गायत्री द्वाविड: पाठ आदृत: ।
तत: पूर्वं तु तै: सर्वे तत्वत्पाठा: समादृता: ॥ ५४५ ॥
इति श्रीमत्परमहंसपरित्राजकाचार्यश्रीशिवरामानन्दतीर्थशिष्यश्रीपुरुषो-
तमानन्दतीर्थविरचितं याज्ञिक्युपनिषद्विवरणं समाप्तम् ।
Page 87
उपनिषद्वाक्यानामनुक्रमणी
अघोरेभ्योऽथ, ४७
अङ्गुष्ठमात्रः पुरुषः, ४३
अजामेकां लोहित०, २९
अणोरणीयान्, २१
अतः परं नान्यत्, ५
अतः समुद्रा गिरयश्र, १४
अद्रयः संभृतः, ९
अद्या नो देव सवितः, २८
अप्सरासु या मेधा, ४५
अम्बस्य पारे, २
अर्धमासा मासाः, ६
आदित्यो वा एषः, ३७
आदित्यो वै तेजः, ३८
आ मां मेधा, ४६
ईशानः सर्वविद्यानां, ४८
उदीप्यस्व जातवेदः, १९
ऋतं तपः सत्यं तपः, १९
एष हि देवः प्रदिशः, १०
कद्रवे प्रचेतसे, ४२
कात्यायनाय विद्महे, १९
घृणिः सूर्य आदित्यः, ४०
घृतं मिमिक्षे घृतं, ३०
चत्वारि शृङ्गा त्रयः, ३२
तत्पुरुषाय विद्महे, १६, १९, ४७
तदेवर्ते तदु सत्यं, ९
तदेवाभ्रिसितद्रयः, ६
तस्यैवं विदुषः, ६९
त्रिधा हितं पणिमिः, ३३
त्रिसुपर्णमयाचितं, ४९
त्वया जुष्ट ऋषिः, ४८
दहं विपाप्मं, ३९
न कर्मणा न प्रजया, ३५
नमो ब्रह्मणे धारणं, १९
नमो हिरण्यवाहवे, ४९
न संदृशे तिष्ठति, ८
नारायणाय विद्महे, १९
नैनमूर्ध्वं न तिर्यञ्चं, ८
परि द्यावापृथिवी, १२
परीळ्य लोकान्, १३
पुरुषस्य विप्र, १६
प्र तद्वोचे अस्तृतं, ११
प्रजापत्यो हारुणिः, ८१९
Page 88
७६
तैत्तिरीयोपनिषदि
प्राणानां प्राण्यरसि, ४३
ब्रह्मेतु माम्, ८८
ब्रह्म मेघया, ९०
ब्रह्म मेघव, ९१
ब्रह्म देवानां, २४, ९१
मधु नक्तुतोषसि, २९
मधुमात्नो वनस्पति:, ३०
मधु वात ऋतायते, २९
मा नो हिꣳसीत्, १९
मेधा देवी जुषमाणा;, ४८
मेधां म इन्द्र:, ४९
य इꣳ त्रिपर्णमस्, ९०, ९१
यतः प्रसूता जगत:, ८
यथा वृक्षस्य, २०
यरछन्दसामृषभ:, ९८
यस्माज्जाता, २७
यस्मात्परें नापरमस्ति, ३८
यस्मिन्निदꣳ स च, ३
येनाद्वितं खं च, ३
यो देवानां प्रथमं, ३३
यो वेदादौ स्वर:, ३६
कयं नाम प्रबवाम, ३३
वामदेवाय नम:, ४७
विधर्तारꣳहवामहे, २८
विश्वं भूतं भुवनं, ४९
विश्वतक्षरुत, १०
विश्वानि देव सवित:, २९
वेदान्तविज्ञानं०, ३५
वेनस्तत्पश्यनू, ९१
सत्यं परं परꣳसत्यं, ९२
सदसस्पतिमद्भुतं, १४
सयोजातं प्रपद्यामि, ४६
स नो बन्धुरर्जनिता, १२
सप्त प्राणा: प्रभवन्ति, २३
समुद्रादूर्मिमन्धुमानू, ३१
सर्वे निमेषा जज्ञिरे, ६
सर्वों वै रुद्रस्तस्मै, ४९
हꣳस: शुचिषत्, २६, ९१
Note—
Read यस्मात् in line 12, page 27.
Read अनुवाक: for अध्याय: on pages 46 to 48.
Add अश्वचत्वारिꣳशोडुवाक: between the lines 10 and 11 on page 50.
Page 89
PUBLICATIONS OF THE ADYAR LIBRARY
(The Theosophical Society, Adyar, Madras, 20, India)
Rs. A.
1910—1. A PRELIMINARY LIST OF THE SAṂSKRT AND PRĀKRT MSS. in the Adyar Library. (Saṃskṛt-Devanāgarī).
Boards ... Rs. 1.8. Cloth ... 2 0
1912—2. A DESCRIPTIVE CATALOGUE OF THE SAṂSKRT MSS. in the Adyar Library. By F. O. Schrader, Vol. I, Upaniṣads.
Cloth ... 5 0
- THE MINOR UPANIṢADS (Saṃskṛt) critically edited for the Adyar Library. By F. O. Schrader, Vol. I.—Saṃnyāsa.
Cloth ... 10 0
1916—4. AHIRBUDHNYA-SAṂHITĀ of the PĀÑCARĀTRA ĀGAMA (Saṃskṛt). 2 Vols.
Cloth ... 10 0
- INTRODUCTION (English) TO THE PĀÑCARĀTRA AND THE AHIRBUDHNYA SAṂHITĀ. By F. O. Schrader.
Cloth ... 3 0
1920—6. YOGA UPANIṢADS 20—with the Commentary of Śrī Upaniṣad-Brahma-Yogin. Edited by Paṇḍit A. Mahadeva Sastri
... 5 0
1921—7. SĀMĀNYA VEDĀNTA UPANIṢADS 24—with the Commentary of Śrī Upaniṣad Brahma Yogin. Edited by Paṇḍit A. Mahadeva Sastri
... 5 0
1923—8. VAIṢṆAVA UPANIṢADS 14—with the Commentary of Śrī Upaniṣad-Brahma-Yogin. Edited by Paṇḍit A. Mahadeva Sastri
... 4 0
1925—9. ŚAIVA UPANIṢADS 15—with the Commentary of Śrī Upaniṣad Brahma Yogin. Edited by Paṇḍit A. Mahadeva Sastri
... 3 0
- ŚĀKTA UPANIṢADS 8—with the Commentary of Śrī Upaniṣad Brahma Yogin. Edited by Paṇḍit A. Mahadeva Sastri
... 2 8
1926—11. CATĀLOGUE OF SAṂSKRT MSS. in the Adyar Library (Revised). 2 Vols.
Each ... 3 12
1929—12. SAṂNYĀSA UPANIṢADS 17—with the Commentary of Śrī Upaniṣad-Brahma-Yogin. Edited by T. R. Chintamani, and the Paṇḍits of the Adyar Library
... 4 0
- RUKMIṆIKALYĀṆA-MAHĀKĀVYA by Rājacūḍāmaṇi-Dīkṣita. Edited by the Paṇḍits of the Adyar Library and T. R. Chintamani
... 2 0
Page 90
2
1933—14. Unpublished Minor Upaniṣads with the Commentary
of Śrī Upaniṣad-Brahma-Yogin. Edited by the Paṇḍits
of the Adyar Library.
Rs. 4.
... 5 0
1936—15. Ten Major Upaniṣads with the Commentary of Śrī
Upaniṣad-Brahma-Yogin. Edited by the Paṇḍits of the
Adyar Library
Īśa to Aitareya, Vol. I ... 4 8
Chāndogya and Bṛhadāraṇyaka, Vol. II ... 6 0
Vols. 1 and 2, Boards ... 9 8
1937—16. Melarāgamālikā of Mahāvaidyanātha Śivan. Edited by
Paṇḍit S. Subrahmanya Sastri
... 2 0
1938—17. Saṅgrahacūḍāmaṇi—Edited by Paṇḍit S. Subrahmanya
Sastri
... 5 0
- Pratyabhijñāḥṛdaya (The Secret of Recognition) with
English Translation and Notes by K. F. Leidecker ... 3 0
- Bhavasāṅkrānti-Sūtra and Nāgārjuna's Bhavasam-
krānti Śāstra—with the Commentary of Maitreyinātha
—with English Translation by Paṇḍit N. Aiyaswami
Sastri
... 2 4
- Yoga Upaniṣads. Translated into English by T. R. Srini-
vasa Aiyangar and Paṇḍit S. Subrahmanya Sastri ... 5 0
-
- Where Theosophy and Science Meet (in four Parts)
by a body of experts—Edited by Professor D. D. Kanga :
Parts 1 and 2. Nature and Man ... 9 0
Part 3. God—From Humanity to Divinity ... 2 8
Part 4. Some Practical Applications ... 2 8
1939—22. Ṛgvedavyākhyā, Mādhavakṛtā—Edited by Prof.
C. Kunhan Raja.
Vol. I ... 6 0
1940—23. The Number of Rāsas by V. Raghavan, Department
of Saṁskṛt, University of Madras
... 3 0
1941—24. Sāmānya Vedānta Upaniṣads—Translated into English
by T. R. Srinivasa Aiyangar and Paṇḍit S. Subrahmanya
Sastri
... 5 0
- Bhagavadgītāṛthaprakāśikā of Śrī Upaniṣad-Brahma-
yogin (Saṁskṛt). Edited by the Paṇḍits of the Adyar
Library
... 4 0
- Sāmaveda-Saṁhitā—With the Commentaries of Mādhava
and Bharatasvāmin. Edited by Prof. C. Kunhan Raja ... 6 0
- Published under the auspices of the Adyar Library Association.
Page 91
- Rāja Dharma (Dewan Bahadur K. Krishnaswami Rao Lectures, 1938, University of Madras) by Rao Bahadur K. V. Rangaswami Aiyangar
... 3 8
- Varivasyārahasyā of Bhāsurānandanātha (Second Edition—Reprinted, 1948). Edited by Paṇḍit S. Subrahmanya Sastri (with English Translation Etc.)
... 5 0
- Vyavahāranirṇaya of Varadarāja—Edited by Rao Bahadur K. V. Rangaswami Aiyangar and A. N. Krishna Aiyangar
... 15 0
- Saṅgītaratnākara—With the Commentaries of Catura Kallinātha and Siṁhabhūpāla. Edited by Paṇḍit S. Subrahmanya Sastri. Vol. I. (Adhyāya 1)
... 9 0
1942—31. Catalogue of the Adyar Library, Western Section. Part 1
... 5 0
- Ālambanaparīkṣā and Vṛtti by Diṅnāga. Edited with English translation, Tibetan text etc. by Paṇḍit N. Aiyaswami Sastri
... 3 0
- Some Conceipts of Alamkāra-śāstra by V. Raghavan, University of Madras
... 4 0
- Vedāntaparibhāṣā—with English translation and Notes by Prof. S. S. Suryanarayana Sastri
... 2 12
- Descriptive Catalogue of the Sanskrit Manuscripts in the Adyar Library by K. Madhava Krishna Sarma. Vol. I—Vedic
... 15 0
- Śrī Pañcarātra-Rakṣā of Śrī Vedānta-Des'ika—Edited by Vaidyaratna Paṇḍit M. Duraiswami Aiyangar and Vedānta Siromaṇi T. Venugopalacharya
... 4 8
- Catalogue of the Adyar Library, Western Section, part 2
... 6 0
- Caturdaśalakṣaṇī of Gadādhara with three commentaries—Edited by Paṇḍit N. Santanam Aiyar. Vol. I
... 4 8
1943—39. Philosophy of Viśiṣṭādvaita by Prof. P. N. Srinivasachari
... 10 0
- Vādāvalī of Jayatīrtha. Edited with English translation and Notes by P. Nagaraja Rao
... 4 0
- Spinozian Wisdom or Natural Religion by James Arther
... 2 12
- Uṣāniruddha of Rāmapāṇivāda. Edited by Paṇḍit S. Subrahmanya Sastri and Prof. C. Kunhan Raja
... 3 8
Page 92
1944.—43.
Saṁgītaratnākara—With the Commentaries of Catura Kallinātha and Siṁhabhūpāla. Edited by Paṇḍit S. Subrahmanya Sastri. Vol. II. (Adhyāyas 2—4) ...
9 0
Āśvalāyanagrhyasūtra—With the Commentaries of Devasvāmin and Nārāyaṇa. Edited by Svami Ravi Tirtha. Vol. I (Adhyāya 1)
... '6 4
Alphabetical Index of Sanskrit Manuscripts in the Adyar Library
... 10 0
Catalogue of the Adyar Library, Western Section, Part 3
... 7 0
Ātman in Pre-Upaniṣadic Vedic Literature by H. G. Narahari
... 8 0
1945—48.
Rāgavibodha of Somanātha with his own commentary Viveka. Edited by Paṇḍit S. Subrahmanya Sastri
... 6 0
Acyutarāyābhyudaya of Rājanātha Diṇḍima—Sargas 7 to 12. Edited by A. N. Krishna Aiyangar
... 3 8
Ancient Wisdom of Wales by D. Jeffrey Williams
... 1 4
Saṁgītaratnākara of Śārṅadeva—Vol. I. Chapter 1. English Translation by Prof. C. Kunhan Raja. Cloth Rs. 4-8. Boards
... 4 0
Vaiṣṇava Upaniṣads. Translated into English by T. R. Srinivasa Aiyangar and G. Srinivasa Murti
... 10 0
1946—53.
Nyākusumāñjali of Udayanācārya—Translated into English by Svami Ravi Tirtha. (Vol. I— Books i and ii)...
4 0
Prākṛtaprakāśa of Vararuci with the Commentary of Rāmapāṇivāda. Edited by Prof. C. Kunhan Raja and Paṇḍit K. Ramachandra Sarma
... 4 4
Sphoṭavāda of Nāgeśa—Edited by Paṇḍit V. Krishnamacharya with his own Commentary
... 3 12
1947—56.
The Cradle of Indian History by C. R. Krishnamacharlu
... 3 8
Unmattarāghava of Virūpākṣa—Edited by Paṇḍit V. Krishnamacharya
... 1 12
Origin and Spread of the Tamils (Sankara-Parvati Lectures, 1940, University of Madras) by V. R. Ramachandra Dikshitar
... 3 8
Jīvānandanam of Anandarakṣitāmakhin. Edited by Vaidyaratna Paṇḍit M. Duraiswami Aiyangar with his own Commentary
... 20 0
Page 93
- Descriptive Catalogue of Sanskrit MSS. in the
Adyar Library, by Pandit V. Krishnamacharya, Vol.
VI—Grammar, Prosody and Lexicography
... 25 0
- Ṛgvedavyākhyā of Mādhava, Vol. II, edited by Prof. C.
Kunhan Raja
... 15 0
- Descriptive Catalogue of Pali MSS. in the Adyar
Library, by Dr. E. W. Adikaram
... 6 0
1948—63. Haricarita of Parames'vara—Edited by Pandit V.
Krishnamacharya with his own Commentary
... 5 0
- Gautama-dharmasūtra-pariśiṣṭa (Second Pras'na)—
Edited by A. N. Krishna Aiyangar
... 9 0
- Saṁkalpasūryodaya of S'rī Veṅkaṭanātha with the
Commentaries Prabhāvilāsa and Prabhāvalī. Edited by
Pandit V. Krishnamacharya
Part I ... 15 0
Part II ... 15 0
Reprint of No. 28—Varivasyārahasya of Bhāsurānanda-
nātha—Edited by Pandit S. Subrahmanya Sastri (with
English translation, Etc.)
... 5 0
1949—66. Indian Cameralism (A Survey of some aspects of Artha-
s'āstra) by K. V. Rangaswami Aiyangar
Second Edition—Revised and Enlarged—of No. 21—
Where Theology and Science Meet (Parts 1 and
2, Nature and Man) by a body of Experts, Edited by
Prof. D. D. Kanga
... 9 0
- Tirukkuraḷ of Tiruvaḷḷuvar—(In Roman Translitera-
tion) with English Translation by Prof. V. R. Rama-
chandra Dikshitar
... 3 0
- Tirukkuraḷ of Tiruvaḷḷuvar, with English Transla-
tion by Prof. V. R. Ramachandra Dikshitar
... 3 0
- Catalogue of the Adyar Library, Western Section,
part 4 (French)
... 1 12
- Alaṁkārasaṅgraha by Amṛtānandayogin. Edited by
Pandit V. Krishnamacharya and Pandit K. Rama-
chandra Sarma
... 9 0
- Yājñikyupanisad Vivaraṇam by Puruṣothamānanda
Tirtha—Edited by Pandit V. Krishnamacharya and
Pandit K. Ramachandra Sarma
... 2 8
Page 94
6
Rs. 4
PAMPHLETS
1939
VARIANT VERSION OF THE EKĀGNIKĀNDA. (Reprinted from the Adyar Library Bulletin, October, 1939). Edited by
K. Madhava Krishna Sarma
... 0 3
1940
RĀJAMR̥GĀNKA OF BHOJA. (Reprinted from the Adyar Library Bulletin, October, 1940). Edited by K. Madhava Krishna Sarma
0
1942
S̥ATPAÑCĀS̥IKĀ, a S̥ilpas̥āstra manual. (Reprinted from the Adyar Library Bulletin, February, 1942). Edited by K. Madhava
Krishna Sarma
... 0
PRAMĀNAMANJARĪ OF SARVADEVA. (Reprinted from the Adyar Library Bulletin, May, 1942). Edited by K. Madhava Krishna
Sarma
... 0
A LIST OF MANUSCRIPTS. (Reprinted from the Adyar Library Bulletin, October, 1942)
... 1
THE PATH OF GREATNESS. (Reprinted from the Adyar Library Bulletin, December, 1942), by Dr. G. S. Arundale
... 0
1943
VIS̥EṢĀMR̥TA OF TRYAMBAKA MIS̥RA. (An orthographical lexicon), Edited by H. G. Narahari. (Reprinted from the Adyar Library Bulletin, May, 1943)
... 0 1
A SANSKRIT LETTER OF MOHAMAD DARA SHUKOH with English Translation and Notes by Prof. C. Kunhan Raja. (Reprinted from the Adyar Library Bulletin, October, 1940, May and October, 1943)
... 0
1946
DHARMACĀURYAṚASĀYANA OF GOPĀLAYOGINDRA—Edited by H. G. Narahari. (Reprinted from the Adyar Library Bulletin, October and December, 1946)
... 1
1948
SĀMSK̥TAGRANTHIVIGHAṬANA—by Prof. C. Kunhan Raja ... 0
CANDRAVĀKYAS OF VARARUCI—Edited by Prof. C. Kunhan Raja with Appendices
... 2
BHĀRATA-RĀJTR̥A-SAṂGHATANĀ (Indian Constitution in Sanskrit verses)—a sample—by Prof. C. Kunhan Raja
... 1
Page 95
Rs. A.
Language Problem in India—(Reprint from the Adyar Library Bulletin, Vol. XII, Part 4, December, 1948.)
... 1 0
Sanskrit in India—by G. Srinivasa Murti. (Reprint from the Adyar Library Bulletin, Vol. XII, Part 3, October, 1948)
... 1 0
Influence of Indian Thought on French Literature—by Prof. Louis Renou. (Reprint from the Adyar Library Bulletin, Vols. XII and XIII)
... 0 12
1949
The Future Role of Sanskrit (Sanskrit Language)—by C. Kunhan Raja. (Reprint from the Adyar Library Bulletin, Vol. XIII, Part 1, February, 1949)
... 0 12
The Future Role of Sanskrit (Sanskrit Literature, Sanskrit Scholarship and Sanskrit Scholars) by Louis Renou and C. Kunhan Raja
... 1 8
Das'akumārakathāsāra of Appayāmātya—Edited by H. G. Narahari
... 1 0
Brahmāsūtrabhāṣya-siddhāntasaṁgraha, by Sri Upaniṣad-brahma-yogin—Edited by Pandit V. Krishnamacharya. (Reprint from the Adyar Library Bulletin, Vol. XIII, Parts 2 and 3)
... 1 8
India's Cultural Role in the World by C. Kunhan Raja (Reprint from the Adyar Library Bulletin, Vol. XIII, Part 4...
IN THE PRESS
Caturdas'alakṣaṇī of Gadādhara with three commentaries. Vol. II by Pandit N. Santanam Aiyar.
Āpastambasmṛti—Edited by A. N. Krishna Aiyangar.
Saṁgītaratnākara—With the Commentaries of Catura Kallinātha and Siṁhabhūpāla. Edited by Pandit S. Subrahmanya Sastri, Vol III.
Horās'āstra—with the commentary Apūrvārthapradars'ikā by A. N. Srini-vasaraghava Aiyangar.
Sālistambasūtra—Restored from Tibetan and Chinese Sources—by Pandit N. Aiyaswami Sastri.
Saṁgītaratnākara, English Translation—Vol. II, by Prof. C. Kunhan Raja.
Descriptive Catalogue of Sanskrit MSS. in the Adyar Library, by H. G. Narahari, Vol. V—Poetry, Drama and Poetics.
Aristotle's Katharsis and Bharata's 'Sthāyibhāvas—by Prof. C. Kunhan Raja.
Language—Barrier or Bridge—by A. Sita Devi.
Pādavidhāna of S'aunaka with Bhāṣya—Edited by H. G. Narabari.
Inscriptions of Priyadarśin—with English Translation by G. Srinivasa Murti and A. N. Krishna Aiyangar.
Page 96
8
READY FOR THE PRESS
Āśvalāyanagrhyasūtra with the Commentaries of Devasvāmin and Nārāyaṇa. Vol. II. Edited by Svami Ravi Tīrtha.
Nyāyakusumāñjali of Udayana with the Commentary of Varadarāja. Edited by Prof. C. Kunhan Raja.
Caturdaśalakaṇī of Gadādhara—with Commentaries—Edited by Pandit N. Santanam Aiyar, Vol. III.
Paksatā of Gadādhara—with four commentaries Edited by Pandit N. Santanam Aiyar.
Siddhāntalakṣaṇam of Gadādhara with commentaries. Edited by Pandit N. Santanam Aiyar.
Avayava of Gadādhara—with commentaries. Edited by Pandit N. Santanam Aiyar.
Sāmānyanirukti of Gadādhara with commentaries, Edited by Pandit N. Santanam Aiyar.
Vyutpattivāda of Gadādhara with commentaries. Edited by Pandit N. Santanam Aiyar.
Śaiva and Śākta Upaniṣads—Translated into English by T. R. Srinivasa Aiyangar and G. Srinivasa Murti.
Ten Major Upaniṣads—English Translation by T. R. Srinivasa Aiyangar and G. Srinivasa Murti.
Descriptive Catalogue of Sanskrit MSS. in the Adyar Library, by Pandit V. Krishnamacharya, Vol, IX—Mīmāṃsā and Advaita-Vedānta.
Agents for our publications :
THE THEOSOPHICAL PUBLISHING HOUSE
Adyar, Madras 20