3. Vibhuti Pada (3)
3.1 deśabandhaś cittasya dhāraṇā
उक्तानि पञ्च बहिरङ्गानि(णि) साधनानि । धारणा वक्तव्या
uktāni pañca bahiraṅgāni(ṇi) sādhanāni. dhāraṇā vaktavyā
देशबन्धश् चित्तस्य धारणा ॥ ३.१ ॥
deśabandhaś cittasya dhāraṇā (3.1)
Bhāṣya:
नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्र इत्य् एवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ।
nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgra ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā.
3.2 tatra pratyayaikatānatā dhyānam
तत्र प्रत्ययैकतानता ध्यानम् ॥ ३.२ ॥
tatra pratyayaikatānatā dhyānam (3.2)
Bhāṣya:
तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम् ।
tasmin deśe dhyeyālambanasya pratyayasyaikatānatā sadṛśaḥ pravāhaḥ pratyayāntareṇāparāmṛṣṭo dhyānam.
3.3 tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ
तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ॥ ३.३ ॥
tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ (3.3)
Bhāṣya:
ध्यानम् एव ध्येयाकारानिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यम् इव यदा भवति ध्येयस्वभावावेशात् तदा समाधिर् इत्य् उच्यते ।
dhyānam eva dhyeyākārānirbhāsaṃ pratyayātmakena svarūpeṇa śūnyam iva yadā bhavati dhyeyasvabhāvāveśāt tadā samādhir ity ucyate.
3.4 trayam ekatra saṃyamaḥ
त्रयम् एकत्र संयमः ॥ ३.४ ॥
trayam ekatra saṃyamaḥ (3.4)
Bhāṣya:
तद् एतद् धारणाध्यानसमाधित्रयम् एकत्र संयमः । एकविषयाणि त्रीणि साधनानि संयम इत्य् उच्यते । तद् अस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति ।
tad etad dhāraṇādhyānasamādhitrayam ekatra saṃyamaḥ. ekaviṣayāṇi trīṇi sādhanāni saṃyama ity ucyate. tad asya trayasya tāntrikī paribhāṣā saṃyama iti.
3.5 tajjayāt prajñālokaḥ
तज्जयात् प्रज्ञालोकः ॥ ३.५ ॥
tajjayāt prajñālokaḥ (3.5)
Bhāṣya:
तस्य संयमस्य जयात् समाधिप्रज्ञाया भवत्य् आलोको यथा यथा संयमः स्थिरपदो भवति तथा तथा समाधिप्रज्ञा विशारदी भवति ।
tasya saṃyamasya jayāt samādhiprajñāyā bhavaty āloko yathā yathā saṃyamaḥ sthirapado bhavati tathā tathā samādhiprajñā viśāradī bhavati.
3.6 tasya bhūmiṣu viniyogaḥ
तस्य भूमिषु विनियोगः ॥ ३.६ ॥
tasya bhūmiṣu viniyogaḥ (3.6)
Bhāṣya:
तस्य संयमस्य जितभूमेर् यानन्तरा भूमिस् तत्र विनियोगः । न ह्य् अजिताधरभूमिर् अनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते । तदभावाच् च कुतस् तस्य प्रज्ञालोकः । ईश्वरप्रसादाज् जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात्, तदर्थस्यान्यत एवावगतत्वात् । भूमेर् अस्या इयम् अनन्तरा भूमिर् इत्य् अत्र योग एवोपाध्यायः । कथम् एवं ह्य् उक्तम् । "योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते । यो ऽप्रमत्तस् तु योगेन स योगे रमते चिरम्" इति ।
tasya saṃyamasya jitabhūmer yānantarā bhūmis tatra viniyogaḥ. na hy ajitādharabhūmir anantarabhūmiṃ vilaṅghya prāntabhūmiṣu saṃyamaṃ labhate. tadabhāvāc ca kutas tasya prajñālokaḥ. īśvaraprasādāj jitottarabhūmikasya ca nādharabhūmiṣu paracittajñānādiṣu saṃyamo yuktaḥ. kasmāt, tadarthasyānyata evāvagatatvāt. bhūmer asyā iyam anantarā bhūmir ity atra yoga evopādhyāyaḥ. katham evaṃ hy uktam. "yogena yogo jñātavyo yogo yogāt pravartate / yo 'pramattas tu yogena sa yoge ramate ciram" iti.
3.7 trayam antaraṅgaṃ pūrvebhyaḥ
त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥ ३.७ ॥
trayam antaraṅgaṃ pūrvebhyaḥ (3.7)
Bhāṣya:
तद् एतद् धारणाध्यानसमाधित्रयम् अन्तरङ्गं संप्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ।
tad etad dhāraṇādhyānasamādhitrayam antaraṅgaṃ saṃprajñātasya samādheḥ pūrvebhyo yamādibhyaḥ pañcabhyaḥ sādhanebhya iti.
3.8 tad api bahiraṅgaṃ nirbījasya
तद् अपि बहिरङ्गं निर्बीजस्य ॥ ३.८ ॥
tad api bahiraṅgaṃ nirbījasya (3.8)
Bhāṣya:
तद् अप्य् अन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति कस्मात्, तदभावे भावाद् इति ।
tad apy antaraṅgaṃ sādhanatrayaṃ nirbījasya yogasya bahiraṅgaṃ bhavati kasmāt, tadabhāve bhāvād iti.
3.9 vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣa
अथ निरोधचित्तक्षणेषु चलं गुणवृत्तम् इति कीदृशस् तदा चित्तपरिणामः
atha nirodhacittakṣaṇeṣu calaṃ guṇavṛttam iti kīdṛśas tadā cittapariṇāmaḥ
व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३.९ ॥
vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ (3.9)
Bhāṣya:
व्युत्थानसंस्काराश् चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास् तयोर् अभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते । निरोधक्षणं चित्तम् अन्वेति तद् एकस्य चित्तस्य प्रतिक्षणम् इदं संस्कारान्यथात्वं निरोधपरिणामः । तदा संस्कारशेषं चित्तम् इति निरोधसमाधौ व्याख्यातम् ।
vyutthānasaṃskārāś cittadharmā na te pratyayātmakā iti pratyayanirodhe na niruddhā nirodhasaṃskārā api cittadharmās tayor abhibhavaprādurbhāvau vyutthānasaṃskārā hīyante nirodhasaṃskārā ādhīyante. nirodhakṣaṇaṃ cittam anveti tad ekasya cittasya pratikṣaṇam idaṃ saṃskārānyathātvaṃ nirodhapariṇāmaḥ. tadā saṃskāraśeṣaṃ cittam iti nirodhasamādhau vyākhyātam.
3.10 tasya praśāntavāhitā saṃskārāt
तस्य प्रशान्तवाहिता संस्कारात् ॥ ३.१० ॥
tasya praśāntavāhitā saṃskārāt (3.10)
Bhāṣya:
निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति । तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मसंस्कारो ऽभिभूयत इति ।
nirodhasaṃskārābhyāsapāṭavāpekṣā praśāntavāhitā cittasya bhavati. tatsaṃskāramāndye vyutthānadharmiṇā saṃskāreṇa nirodhadharmasaṃskāro 'bhibhūyata iti.
3.11 sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३.११ ॥
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ (3.11)
Bhāṣya:
सर्वार्थता चित्तधर्मः । एकाग्रतापि चित्तधर्मः । सर्वार्थतायाः क्षयस् तिरोभाव इत्य् अर्थः । एकाग्रताया उदय आविर्भाव इत्य् अर्थः । तयोर् धर्मित्वेनानुगतं चित्तं, तद् इदं चित्तम् अपायोपजनयोः स्वात्मभूतयोर् धर्मयोर् अनुगतं समाधीयते स चित्तस्य समाधिपरिणामः ।
sarvārthatā cittadharmaḥ. ekāgratāpi cittadharmaḥ. sarvārthatāyāḥ kṣayas tirobhāva ity arthaḥ. ekāgratāyā udaya āvirbhāva ity arthaḥ. tayor dharmitvenānugataṃ cittaṃ, tad idaṃ cittam apāyopajanayoḥ svātmabhūtayor dharmayor anugataṃ samādhīyate sa cittasya samādhipariṇāmaḥ.
3.12 tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇā
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३.१२ ॥
tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ (3.12)
Bhāṣya:
समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस् तत्सदृश उदितः, समाधिचित्तम् उभयोर् अनुगतं पुनस् तथैवासमाधिभ्रेषाद् इति । स खल्व् अयं धर्मिणश् चित्तस्यैकाग्रतापरिणामः ।
samāhitacittasya pūrvapratyayaḥ śānta uttaras tatsadṛśa uditaḥ, samādhicittam ubhayor anugataṃ punas tathaivāsamādhibhreṣād iti. sa khalv ayaṃ dharmiṇaś cittasyaikāgratāpariṇāmaḥ.
3.13 etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ ३.१३ ॥
etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ (3.13)
Bhāṣya:
एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामो ऽवस्थापरिणामश् चोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयोर् अभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपरिणामश् च निरोधस् त्रिलक्षणस् त्रिभिर् अध्वभिर् युक्तः । स खल्व् अनागतलक्षणम् अध्वानं प्रथमं हित्वा धर्मत्वम् अनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः । यत्रास्य स्वरूपेणाभिव्यक्तिः । एषो ऽस्य द्वितीयो ऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । तथा व्युत्थानं त्रिलक्षणं त्रिभिर् अध्वभिर् युक्तं वर्तमानलक्षणं हित्वा धर्मत्वम् अनतिक्रान्तम् अतीतलक्षणं प्रतिपन्नम् । एषो ऽस्य तृतीयो ऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् । एवं पुनर् व्युत्थानम् उपसंपद्यमानम् अनागतलक्षणं हित्वा धर्मत्वम् अनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः एषो ऽस्य द्वितीयो ऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तम् इति । एवं पुनर् निरोध एवं पुनर् व्युत्थानम् इति । तथावस्थापरिणामः तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति । एष धर्माणाम् अवस्थापरिणामः । तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानाम् अप्य् अवस्थाभिः परिणाम इति । एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणम् अपि गुणवृत्तम् अवतिष्ठते । चलं च गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिकारणम् उक्तं गुणानाम् इति । एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः । परमार्थतस् त्व् एक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्व् अतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वान्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वम् इति । अपर आह --- धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् । पूर्वापरावस्थाभेदम् अनुपतितः कौटस्थ्येनैव परिवर्तेत यद्य् अन्वयी स्याद् इति । अयम् अदोषः । कस्मात् । एकान्ततानभ्युपगमात् । तद् एतत् त्रैलोक्यं व्यक्तेर् अपैति नित्यत्वप्रतिषेधात् । अपेतम् अप्य् अस्ति विनाशप्रतिषेधात् । संसर्गाच् चास्य सौक्ष्म्यं, सौक्ष्म्याच् चानुपलब्धिर् इति । लक्षणपरिणामो धर्मो ऽध्वसु वर्तमानो ऽतीतो ऽतीतलक्षणयुक्तो ऽनागतवर्तमानाभ्यां लक्षणाभ्याम् अवियुक्तः । तथानागतो ऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्याम् अवियुक्तः । तथा वर्तमानो वर्तमानलक्षणयुक्तो ऽतीतानागताभ्यां लक्षणाभ्याम् अवियुक्त इति । यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति । अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगाद् अध्वसंकरः प्राप्नोतीति परैर् दोषश् चोद्यत इति । तस्य परिहारः --- धर्माणां धर्मत्वम् अप्रसाध्यम् । सति च धर्मत्वे लक्षणभेदो ऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम् । एवं हि न चित्तं रागधर्मकं स्यात् क्रोधकाले रागस्यासमुदाचाराद् इति । किंच त्रयाणां लक्षणानां युगपद् एकस्यां व्यक्तौ नास्ति संभवः । क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेद् इति । उक्तं च रूपातिशया वृत्त्यतिशयाश् च विरुध्यन्ते, सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते । तस्माद् असंकरः यथा रागस्यैव क्वचित् समुदाचार इति न तदानीम् अन्यत्राभावः, किंतु केवलं सामान्येन समन्वागत इत्य् अस्ति तदा तत्र तस्य भावः तथा लक्षणस्येति । न धर्मी त्र्यध्वा धर्मास् तु त्र्यध्वानस् ते लक्षिता अलक्षितास् तत्र लक्षितास् तां ताम् अवस्थां प्राप्नुवन्तो ऽन्यत्वेन प्रतिनिर्दिश्यन्ते ऽवस्थान्तरतो न द्रव्यान्तरतः । यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने यथा चैकत्वे ऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति । अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिद् उक्तः । कथम् । अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदानागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस् तदातीत इत्य् एवं धर्मधर्मिणोर् लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर् दोष उच्यते । नासौ दोषः । कस्मात् । गुणिनित्यत्वे ऽपि गुणानां विमर्दवैचित्र्यात् । यथा संस्थानम् आदिमद् धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनाम् एवं लिङ्गम् आदिमद् धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिना तस्मिन् विकारसंज्ञेति । तत्रेदम् उदाहरणं मृद्धर्मी पिण्डाकाराद् धर्माद् धर्मान्तरम् उपसंपद्यमानो धर्मतः परिणमते घटाकार इति । घटाकारो ऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते । घटो नवपुराणतां प्रतिक्षणम् अनुभवन्न् अवस्थापरिणामं प्रतिपद्यत इति । धर्मिणो ऽपि धर्मान्तरम् अवस्था धर्मस्यापि लक्षणान्तरम् अवस्थेत्य् एक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्व् अपि योज्यम् इति । त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपम् अनतिक्रान्ता इत्य् एक एव परिणामः सर्वान् अमून् विशेषान् अभिप्लवते । अथ को ऽयं परिणामः.अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति ।
etena pūrvoktena cittapariṇāmena dharmalakṣaṇāvasthārūpeṇa bhūtendriyeṣu dharmapariṇāmo lakṣaṇapariṇāmo 'vasthāpariṇāmaś cokto veditavyaḥ. tatra vyutthānanirodhayor abhibhavaprādurbhāvau dharmiṇi dharmapariṇāmaḥ. lakṣaṇapariṇāmaś ca nirodhas trilakṣaṇas tribhir adhvabhir yuktaḥ. sa khalv anāgatalakṣaṇam adhvānaṃ prathamaṃ hitvā dharmatvam anatikrānto vartamānalakṣaṇaṃ pratipannaḥ. yatrāsya svarūpeṇābhivyaktiḥ. eṣo 'sya dvitīyo 'dhvā. na cātītānāgatābhyāṃ lakṣaṇābhyāṃ viyuktaḥ. tathā vyutthānaṃ trilakṣaṇaṃ tribhir adhvabhir yuktaṃ vartamānalakṣaṇaṃ hitvā dharmatvam anatikrāntam atītalakṣaṇaṃ pratipannam. eṣo 'sya tṛtīyo 'dhvā. na cānāgatavartamānābhyāṃ lakṣaṇābhyāṃ viyuktam. evaṃ punar vyutthānam upasaṃpadyamānam anāgatalakṣaṇaṃ hitvā dharmatvam anatikrāntaṃ vartamānalakṣaṇaṃ pratipannam. yatrāsya svarūpābhivyaktau satyāṃ vyāpāraḥ eṣo 'sya dvitīyo 'dhvā. na cātītānāgatābhyāṃ lakṣaṇābhyāṃ viyuktam iti. evaṃ punar nirodha evaṃ punar vyutthānam iti. tathāvasthāpariṇāmaḥ tatra nirodhakṣaṇeṣu nirodhasaṃskārā balavanto bhavanti durbalā vyutthānasaṃskārā iti. eṣa dharmāṇām avasthāpariṇāmaḥ. tatra dharmiṇo dharmaiḥ pariṇāmo dharmāṇāṃ tryadhvanāṃ lakṣaṇaiḥ pariṇāmo lakṣaṇānām apy avasthābhiḥ pariṇāma iti. evaṃ dharmalakṣaṇāvasthāpariṇāmaiḥ śūnyaṃ na kṣaṇam api guṇavṛttam avatiṣṭhate. calaṃ ca guṇavṛttam. guṇasvābhāvyaṃ tu pravṛttikāraṇam uktaṃ guṇānām iti. etena bhūtendriyeṣu dharmadharmibhedāt trividhaḥ pariṇāmo veditavyaḥ. paramārthatas tv eka eva pariṇāmaḥ. dharmisvarūpamātro hi dharmo dharmivikriyaivaiṣā dharmadvārā prapañcyata iti. tatra dharmasya dharmiṇi vartamānasyaivādhvasv atītānāgatavartamāneṣu bhāvānyathātvaṃ bhavati na tu dravyānyathātvam. yathā suvarṇabhājanasya bhittvānyathākriyamāṇasya bhāvānyathātvaṃ bhavati na suvarṇānyathātvam iti. apara āha --- dharmānabhyadhiko dharmī pūrvatattvānatikramāt. pūrvāparāvasthābhedam anupatitaḥ kauṭasthyenaiva parivarteta yady anvayī syād iti. ayam adoṣaḥ. kasmāt. ekāntatānabhyupagamāt. tad etat trailokyaṃ vyakter apaiti nityatvapratiṣedhāt. apetam apy asti vināśapratiṣedhāt. saṃsargāc cāsya saukṣmyaṃ, saukṣmyāc cānupalabdhir iti. lakṣaṇapariṇāmo dharmo 'dhvasu vartamāno 'tīto 'tītalakṣaṇayukto 'nāgatavartamānābhyāṃ lakṣaṇābhyām aviyuktaḥ. tathānāgato 'nāgatalakṣaṇayukto vartamānātītābhyāṃ lakṣaṇābhyām aviyuktaḥ. tathā vartamāno vartamānalakṣaṇayukto 'tītānāgatābhyāṃ lakṣaṇābhyām aviyukta iti. yathā puruṣa ekasyāṃ striyāṃ rakto na śeṣāsu virakto bhavatīti. atra lakṣaṇapariṇāme sarvasya sarvalakṣaṇayogād adhvasaṃkaraḥ prāpnotīti parair doṣaś codyata iti. tasya parihāraḥ --- dharmāṇāṃ dharmatvam aprasādhyam. sati ca dharmatve lakṣaṇabhedo 'pi vācyo na vartamānasamaya evāsya dharmatvam. evaṃ hi na cittaṃ rāgadharmakaṃ syāt krodhakāle rāgasyāsamudācārād iti. kiṃca trayāṇāṃ lakṣaṇānāṃ yugapad ekasyāṃ vyaktau nāsti saṃbhavaḥ. krameṇa tu svavyañjakāñjanasya bhāvo bhaved iti. uktaṃ ca rūpātiśayā vṛttyatiśayāś ca virudhyante, sāmānyāni tv atiśayaiḥ saha pravartante. tasmād asaṃkaraḥ yathā rāgasyaiva kvacit samudācāra iti na tadānīm anyatrābhāvaḥ, kiṃtu kevalaṃ sāmānyena samanvāgata ity asti tadā tatra tasya bhāvaḥ tathā lakṣaṇasyeti. na dharmī tryadhvā dharmās tu tryadhvānas te lakṣitā alakṣitās tatra lakṣitās tāṃ tām avasthāṃ prāpnuvanto 'nyatvena pratinirdiśyante 'vasthāntarato na dravyāntarataḥ. yathaikā rekhā śatasthāne śataṃ daśasthāne daśaikā caikasthāne yathā caikatve 'pi strī mātā cocyate duhitā ca svasā ceti. avasthāpariṇāme kauṭasthyaprasaṅgadoṣaḥ kaiścid uktaḥ. katham. adhvano vyāpāreṇa vyavahitatvāt. yadā dharmaḥ svavyāpāraṃ na karoti tadānāgato yadā karoti tadā vartamāno yadā kṛtvā nivṛttas tadātīta ity evaṃ dharmadharmiṇor lakṣaṇānām avasthānāṃ ca kauṭasthyaṃ prāpnotīti parair doṣa ucyate. nāsau doṣaḥ. kasmāt. guṇinityatve 'pi guṇānāṃ vimardavaicitryāt. yathā saṃsthānam ādimad dharmamātraṃ śabdādīnāṃ guṇānāṃ vināśyavināśinām evaṃ liṅgam ādimad dharmamātraṃ sattvādīnāṃ guṇānāṃ vināśyavināśinā tasmin vikārasaṃjñeti. tatredam udāharaṇaṃ mṛddharmī piṇḍākārād dharmād dharmāntaram upasaṃpadyamāno dharmataḥ pariṇamate ghaṭākāra iti. ghaṭākāro 'nāgataṃ lakṣaṇaṃ hitvā vartamānalakṣaṇaṃ pratipadyata iti lakṣaṇataḥ pariṇamate. ghaṭo navapurāṇatāṃ pratikṣaṇam anubhavann avasthāpariṇāmaṃ pratipadyata iti. dharmiṇo 'pi dharmāntaram avasthā dharmasyāpi lakṣaṇāntaram avasthety eka eva dravyapariṇāmo bhedenopadarśita iti. evaṃ padārthāntareṣv api yojyam iti. ta ete dharmalakṣaṇāvasthāpariṇāmā dharmisvarūpam anatikrāntā ity eka eva pariṇāmaḥ sarvān amūn viśeṣān abhiplavate. atha ko 'yaṃ pariṇāmaḥ.avasthitasya dravyasya pūrvadharmanivṛttau dharmāntarotpattiḥ pariṇāma iti.
3.14 śāntoditāvyapadeśyadharmānupātī dharmī
तत्र
tatra
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ ३.१४ ॥
śāntoditāvyapadeśyadharmānupātī dharmī (3.14)
Bhāṣya:
योग्यतावच्छिन्ना धर्मिणः शक्तिर् एव धर्मः । स च फलप्रसवभेदानुमित एकस्यान्यो ऽन्यश् च परिदृष्टः । तत्र वर्तमानः स्वव्यापारम् अनुभवन् धर्मी धर्मान्तरेभ्यः शान्तेभ्यश् चाव्यपदेश्येभ्यश् च भिद्यते । यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात् को ऽसौ केन भिद्येत । तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश् चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास् ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः किमर्थम् अतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वपश्चिमताया अभावात् । यथानागतवर्तमानयोः पूर्वपश्चिमता नैवम् अतीतस्य । तस्मान् नातीतस्यास्ति समनन्तरः तदनागत एव समनन्तरो भवति वर्तमानस्येति । अथाव्यपदेश्याः के सर्वं सर्वात्मकम् इति । यत्रोक्तम् --- जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् । तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्व् इत्य् एवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति । देशकालाकारनिमित्तापबन्धान् न खलु समानकालम् आत्मनाम् अभिव्यक्तिर् इति । य एतेष्व् अभिव्यक्तानभिव्यक्तेषु धर्मेष्व् अनुपाती सामान्यविशेषात्मा सो ऽन्वयी धर्मी । यस्य तु धर्ममात्रम् एवेदं निरन्वयं तस्य भोगाभावः । कस्मात्, अन्येन विज्ञानेन कृतस्य कर्मणो ऽन्यत् कथं भोक्तृत्वेनाधिक्रियते । तत्स्मृत्यभावश् च नान्यदृष्टस्य स्मरणम् अन्यस्यास्तीति । वस्तुप्रत्यभिज्ञानाच् च स्थितो ऽन्वयी धर्मी यो धर्मान्यथात्वम् अभ्युपगतः प्रत्यभिज्ञायते तस्मान् नेदं धर्ममात्रं निरन्वयम् इति ।
yogyatāvacchinnā dharmiṇaḥ śaktir eva dharmaḥ. sa ca phalaprasavabhedānumita ekasyānyo 'nyaś ca paridṛṣṭaḥ. tatra vartamānaḥ svavyāpāram anubhavan dharmī dharmāntarebhyaḥ śāntebhyaś cāvyapadeśyebhyaś ca bhidyate. yadā tu sāmānyena samanvāgato bhavati tadā dharmisvarūpamātratvāt ko 'sau kena bhidyeta. tatra ye khalu dharmiṇo dharmāḥ śāntā uditā avyapadeśyāś ceti, tatra śāntā ye kṛtvā vyāpārānuparatāḥ savyāpārā uditās te cānāgatasya lakṣaṇasya samanantarā vartamānasyānantarā atītāḥ kimartham atītasyānantarā na bhavanti vartamānāḥ, pūrvapaścimatāyā abhāvāt. yathānāgatavartamānayoḥ pūrvapaścimatā naivam atītasya. tasmān nātītasyāsti samanantaraḥ tadanāgata eva samanantaro bhavati vartamānasyeti. athāvyapadeśyāḥ ke sarvaṃ sarvātmakam iti. yatroktam --- jalabhūmyoḥ pāriṇāmikaṃ rasādivaiśvarūpyaṃ sthāvareṣu dṛṣṭam. tathā sthāvarāṇāṃ jaṅgameṣu jaṅgamānāṃ sthāvareṣv ity evaṃ jātyanucchedena sarvaṃ sarvātmakam iti. deśakālākāranimittāpabandhān na khalu samānakālam ātmanām abhivyaktir iti. ya eteṣv abhivyaktānabhivyakteṣu dharmeṣv anupātī sāmānyaviśeṣātmā so 'nvayī dharmī. yasya tu dharmamātram evedaṃ niranvayaṃ tasya bhogābhāvaḥ. kasmāt, anyena vijñānena kṛtasya karmaṇo 'nyat kathaṃ bhoktṛtvenādhikriyate. tatsmṛtyabhāvaś ca nānyadṛṣṭasya smaraṇam anyasyāstīti. vastupratyabhijñānāc ca sthito 'nvayī dharmī yo dharmānyathātvam abhyupagataḥ pratyabhijñāyate tasmān nedaṃ dharmamātraṃ niranvayam iti.
3.15 kramānyatvaṃ pariṇāmānyatve hetuḥ
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ ३.१५ ॥
kramānyatvaṃ pariṇāmānyatve hetuḥ (3.15)
Bhāṣya:
एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर् भवतीति । तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपालमृत्कणमृद् इति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागतभावाद् वर्तमानभावः क्रमः । तथा पिण्डस्य वर्तमानभावाद् अतीतभावः क्रमः । नातीतस्यास्ति क्रमः । कस्मात् । पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्य् अतीतस्य तस्माद् द्वयोर् एव लक्षणयोः क्रमः । तथावस्थापरिणामक्रमो ऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिम् आपद्यत इति । धर्मलक्षणाभ्यां च विशिष्टो ऽयं तृतीयः परिणाम इति । त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मो ऽपि धर्मी भवत्य् अन्यधर्मस्वरूपापेक्षयेति । यदा तु परमार्थतो धर्मिण्य् अभेदोपचारस् तद्द्वारेण स एवाभिधीयते धर्मस् तदायम् एकत्वेनैव क्रमः प्रत्यवभासते । चित्तस्य द्वये धर्मा परिदृष्टाश् चापरिदृष्टाश् च । तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवन्त्य् अनुमानेन प्रापितवस्तुमात्रसद्भावाः । "निरोधधर्मसंस्काराः परिणामो ऽथ जीवनम् । चेष्टा शक्तिश् च चित्तस्य धर्मा दर्शनवर्जिताः ।।" इति ।
ekasya dharmiṇa eka eva pariṇāma iti prasakte kramānyatvaṃ pariṇāmānyatve hetur bhavatīti. tadyathā cūrṇamṛtpiṇḍamṛdghaṭamṛtkapālamṛtkaṇamṛd iti ca kramaḥ. yo yasya dharmasya samanantaro dharmaḥ sa tasya kramaḥ. piṇḍaḥ pracyavate ghaṭa upajāyata iti dharmapariṇāmakramaḥ. lakṣaṇapariṇāmakramo ghaṭasyānāgatabhāvād vartamānabhāvaḥ kramaḥ. tathā piṇḍasya vartamānabhāvād atītabhāvaḥ kramaḥ. nātītasyāsti kramaḥ. kasmāt. pūrvaparatāyāṃ satyāṃ samanantaratvaṃ, sā tu nāsty atītasya tasmād dvayor eva lakṣaṇayoḥ kramaḥ. tathāvasthāpariṇāmakramo 'pi ghaṭasyābhinavasya prānte purāṇatā dṛśyate. sā ca kṣaṇaparamparānupātinā krameṇābhivyajyamānā parāṃ vyaktim āpadyata iti. dharmalakṣaṇābhyāṃ ca viśiṣṭo 'yaṃ tṛtīyaḥ pariṇāma iti. ta ete kramā dharmadharmibhede sati pratilabdhasvarūpāḥ. dharmo 'pi dharmī bhavaty anyadharmasvarūpāpekṣayeti. yadā tu paramārthato dharmiṇy abhedopacāras taddvāreṇa sa evābhidhīyate dharmas tadāyam ekatvenaiva kramaḥ pratyavabhāsate. cittasya dvaye dharmā paridṛṣṭāś cāparidṛṣṭāś ca. tatra pratyayātmakāḥ paridṛṣṭā vastumātrātmakā aparidṛṣṭāḥ. te ca saptaiva bhavanty anumānena prāpitavastumātrasadbhāvāḥ. "nirodhadharmasaṃskārāḥ pariṇāmo 'tha jīvanam / ceṣṭā śaktiś ca cittasya dharmā darśanavarjitāḥ //" iti.
3.16 pariṇāmatrayasaṃyamād atītānāgatajñānam
अतो योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते
ato yogina upāttasarvasādhanasya bubhutsitārthapratipattaye saṃyamasya viṣaya upakṣipyate
परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ ३.१६ ॥
pariṇāmatrayasaṃyamād atītānāgatajñānam (3.16)
Bhāṣya:
धर्मलक्षणावस्थापरिणामेषु संयमाद् योगिनां भवत्य् अतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयम् एकत्र संयम उक्तः । तेन परिणामत्रयं साक्षात्क्रियमाणम् अतीतानागतज्ञानं तेषु संपादयति ।
dharmalakṣaṇāvasthāpariṇāmeṣu saṃyamād yogināṃ bhavaty atītānāgatajñānam. dhāraṇādhyānasamādhitrayam ekatra saṃyama uktaḥ. tena pariṇāmatrayaṃ sākṣātkriyamāṇam atītānāgatajñānaṃ teṣu saṃpādayati.
3.17 śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāga
शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥ ३.१७ ॥
śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam (3.17)
Bhāṣya:
तत्र वाग्वर्णेष्व् एवार्थवती । श्रोत्रं च ध्वनिपरिणाममात्रविषयम् । पदं पुनर् नादानुसंहारबुद्धिनिर्ग्राह्यम् इति । वर्णा एकसमयासंभवित्वात् परस्परनिरनुग्रहात्मानस् ते पदम् असंस्पृश्यानुपस्थाप्याविर्भूतास् तिरोभूताश् चेति प्रत्येकम् अपदस्वरूपा उच्यन्ते । वर्णः पुनर् एकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वाद् वैश्वरूप्यम् इवापन्नः पूर्वश् चोत्तरेणोत्तरश् च पूर्वेण विशेषे ऽवस्थापित इत्य् एवं बहवो वर्णाः क्रमानुरोधिनो ऽर्थसंकेतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तम् अर्थं द्योतयन्तीति । तद् एतेषाम् अर्थसंकेतेनावच्छिन्नानाम् उपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस् तत्पदं वाचकं वाच्यस्य संकेत्यते । तद् एकं पदम् एकबुद्धिविषय एकप्रयत्नाक्षिप्तम् अभागम् अक्रमम् अवर्णं बौद्धम् अन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैर् एवाभिधीयमानैः श्रूयमाणैश् च श्रोतृभिर् अनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत्संप्रतिपत्त्या प्रतीयते । तस्य संकेतबुद्धितः प्रविभाग एतावताम् एवंजातीयको ऽनुसंहार एकस्यार्थस्य वाचक इति । संकेतस् तु पदपदार्थयोर् इतरेतराध्यासरूपः स्मृत्यात्मको यो ऽयं शब्दः सो ऽयम् अर्थो यो ऽयम् अर्थः सो ऽयं शब्द इति । एवम् इतरेतराध्यासरूपः संकेतो भवतीति । एवम् एते शब्दार्थप्रत्यया इतरेतराध्यासात् संकीर्णा गौर् इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम् । य एषां प्रविभागज्ञः स सर्ववित् । सर्वपदेषु चास्ति वाक्यशक्तिवृक्ष इत्य् उक्ते ऽस्तीति गम्यते । न सत्तां पदार्थो व्यभिचरतीति । तथा न ह्य् असाधना क्रियास्तीति । तथा च पचतीत्य् उक्ते सर्वकारकाणाम् आक्षेपो नियमार्थो ऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानाम् इति । दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश् छन्दो ऽधीते, जीवति प्राणान् धारयति । तत्र वाक्ये पदार्थाभिव्यक्तिस् ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा । अन्यथा भवत्य् अश्वो ऽजापय इत्य् एवमादिषु नामाख्यातसारूप्याद् अनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति । तेषां शब्दार्थप्रत्ययानां प्रविभागः । तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश् च । कस्मात् सो ऽयम् इत्य् अभिसंबन्धाद् एकाकार एव प्रत्ययः संकेत इति । यस् तु श्वेतो ऽर्थः स शब्दप्रत्यययोर् आलम्बनीभूतः । स हि स्वाभिर् अवस्थाभिर् विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः । एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्य् अन्यथा शब्दो ऽन्यथार्थो ऽन्यथा प्रत्यय इति विभागः । एवं तत्प्रविभागसंयमाद् योगिनः सर्वभूतरुतज्ञानं संपद्यत इति ।
tatra vāgvarṇeṣv evārthavatī. śrotraṃ ca dhvanipariṇāmamātraviṣayam. padaṃ punar nādānusaṃhārabuddhinirgrāhyam iti. varṇā ekasamayāsaṃbhavitvāt parasparaniranugrahātmānas te padam asaṃspṛśyānupasthāpyāvirbhūtās tirobhūtāś ceti pratyekam apadasvarūpā ucyante. varṇaḥ punar ekaikaḥ padātmā sarvābhidhānaśaktipracitaḥ sahakārivarṇāntarapratiyogitvād vaiśvarūpyam ivāpannaḥ pūrvaś cottareṇottaraś ca pūrveṇa viśeṣe 'vasthāpita ity evaṃ bahavo varṇāḥ kramānurodhino 'rthasaṃketenāvacchinnā iyanta ete sarvābhidhānaśaktiparivṛtā gakāraukāravisarjanīyāḥ sāsnādimantam arthaṃ dyotayantīti. tad eteṣām arthasaṃketenāvacchinnānām upasaṃhṛtadhvanikramāṇāṃ ya eko buddhinirbhāsas tatpadaṃ vācakaṃ vācyasya saṃketyate. tad ekaṃ padam ekabuddhiviṣaya ekaprayatnākṣiptam abhāgam akramam avarṇaṃ bauddham antyavarṇapratyayavyāpāropasthāpitaṃ paratra pratipipādayiṣayā varṇair evābhidhīyamānaiḥ śrūyamāṇaiś ca śrotṛbhir anādivāgvyavahāravāsanānuviddhayā lokabuddhyā siddhavatsaṃpratipattyā pratīyate. tasya saṃketabuddhitaḥ pravibhāga etāvatām evaṃjātīyako 'nusaṃhāra ekasyārthasya vācaka iti. saṃketas tu padapadārthayor itaretarādhyāsarūpaḥ smṛtyātmako yo 'yaṃ śabdaḥ so 'yam artho yo 'yam arthaḥ so 'yaṃ śabda iti. evam itaretarādhyāsarūpaḥ saṃketo bhavatīti. evam ete śabdārthapratyayā itaretarādhyāsāt saṃkīrṇā gaur iti śabdo gaur ity artho gaur iti jñānam. ya eṣāṃ pravibhāgajñaḥ sa sarvavit. sarvapadeṣu cāsti vākyaśaktivṛkṣa ity ukte 'stīti gamyate. na sattāṃ padārtho vyabhicaratīti. tathā na hy asādhanā kriyāstīti. tathā ca pacatīty ukte sarvakārakāṇām ākṣepo niyamārtho 'nuvādaḥ kartṛkaraṇakarmaṇāṃ caitrāgnitaṇḍulānām iti. dṛṣṭaṃ ca vākyārthe padaracanaṃ śrotriyaś chando 'dhīte, jīvati prāṇān dhārayati. tatra vākye padārthābhivyaktis tataḥ padaṃ pravibhajya vyākaraṇīyaṃ kriyāvācakaṃ vā kārakavācakaṃ vā. anyathā bhavaty aśvo 'jāpaya ity evamādiṣu nāmākhyātasārūpyād anirjñātaṃ kathaṃ kriyāyāṃ kārake vā vyākriyeteti. teṣāṃ śabdārthapratyayānāṃ pravibhāgaḥ. tadyathā śvetate prāsāda iti kriyārthaḥ, śvetaḥ prāsāda iti kārakārthaḥ śabdaḥ, kriyākārakātmā tadarthaḥ pratyayaś ca. kasmāt so 'yam ity abhisaṃbandhād ekākāra eva pratyayaḥ saṃketa iti. yas tu śveto 'rthaḥ sa śabdapratyayayor ālambanībhūtaḥ. sa hi svābhir avasthābhir vikriyamāṇo na śabdasahagato na buddhisahagataḥ. evaṃ śabda evaṃ pratyayo netaretarasahagata ity anyathā śabdo 'nyathārtho 'nyathā pratyaya iti vibhāgaḥ. evaṃ tatpravibhāgasaṃyamād yoginaḥ sarvabhūtarutajñānaṃ saṃpadyata iti.
3.18 saṃskārasākṣātkaraṇāt pūrvajātijñānam
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥ ३.१८ ॥
saṃskārasākṣātkaraṇāt pūrvajātijñānam (3.18)
Bhāṣya:
द्वये खल्व् अमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः । ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवद् अपरिदृष्टाश् चित्तधर्माः । तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः । न च देशकालनिमित्तानुभवैर् विना तेषाम् अस्ति साक्षात्करणम् । तद् इत्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् उत्पद्यते योगिनः । परत्राप्य् एवम् एव संस्कारसाक्षात्करणात् परजातिसंवेदनम् । अत्रेदम् आख्यानं श्रूयते --- भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद् दशसु महासर्गेषु जन्मपरिणामक्रमम् अनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत् । अथ भगवान् आवट्यस् तनुधरस् तम् उवाच --- दशसु महासर्गेषु भव्यत्वाद् अनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनर् उत्पद्यमानेन सुखदुःखयोः किम् अधिकम् उपलब्धम् इति । भगवन्तम् आवट्यं जैगीषव्य उवाच । दशसु महासर्गेषु भव्यत्वाद् अनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवंदुःखं संपश्यता देवमनुष्येषु पुनः पुनर् उत्पद्यमानेन यत् किंचिद् अनुभूतं तत् सर्वं दुःखम् एव प्रत्यवैमि । भगवान् आवट्य उवाच । यद् इदम् आयुष्मतः प्रधानवशित्वम् अनुत्तमं च संतोषसुखं किम् इदम् अपि दुःखपक्षे निक्षिप्तम् इति । भवगाञ् जैगीषव्य उवाच --- विषयसुखापेक्षयैवेदम् अनुत्तमं संतोषसुखम् उक्तम् । कैवल्यसुखापेक्षया दुःखम् एव । बुद्धिसत्त्वस्यायं धर्मस् त्रिगुणस् त्रिगुणश् च प्रत्ययो हेयपक्षे न्यस्त इति । दुःखरूपस् तृष्णातन्तुः । तृष्णादुःखसंतापापगमात् तु प्रसन्नम् अबाधं सर्वानुकूलं सुखम् इदम् उक्तम् इति ।
dvaye khalv amī saṃskārāḥ smṛtikleśahetavo vāsanārūpā vipākahetavo dharmādharmarūpāḥ. te pūrvabhavābhisaṃskṛtāḥ pariṇāmaceṣṭānirodhaśaktijīvanadharmavad aparidṛṣṭāś cittadharmāḥ. teṣu saṃyamaḥ saṃskārasākṣātkriyāyai samarthaḥ. na ca deśakālanimittānubhavair vinā teṣām asti sākṣātkaraṇam. tad itthaṃ saṃskārasākṣātkaraṇāt pūrvajātijñānam utpadyate yoginaḥ. paratrāpy evam eva saṃskārasākṣātkaraṇāt parajātisaṃvedanam. atredam ākhyānaṃ śrūyate --- bhagavato jaigīṣavyasya saṃskārasākṣātkaraṇād daśasu mahāsargeṣu janmapariṇāmakramam anupaśyato vivekajaṃ jñānaṃ prādurabhūt. atha bhagavān āvaṭyas tanudharas tam uvāca --- daśasu mahāsargeṣu bhavyatvād anabhibhūtabuddhisattvena tvayā narakatiryaggarbhasaṃbhavaṃ duḥkhaṃ saṃpaśyatā devamanuṣyeṣu punaḥ punar utpadyamānena sukhaduḥkhayoḥ kim adhikam upalabdham iti. bhagavantam āvaṭyaṃ jaigīṣavya uvāca. daśasu mahāsargeṣu bhavyatvād anabhibhūtabuddhisattvena mayā narakatiryagbhavaṃduḥkhaṃ saṃpaśyatā devamanuṣyeṣu punaḥ punar utpadyamānena yat kiṃcid anubhūtaṃ tat sarvaṃ duḥkham eva pratyavaimi. bhagavān āvaṭya uvāca. yad idam āyuṣmataḥ pradhānavaśitvam anuttamaṃ ca saṃtoṣasukhaṃ kim idam api duḥkhapakṣe nikṣiptam iti. bhavagāñ jaigīṣavya uvāca --- viṣayasukhāpekṣayaivedam anuttamaṃ saṃtoṣasukham uktam. kaivalyasukhāpekṣayā duḥkham eva. buddhisattvasyāyaṃ dharmas triguṇas triguṇaś ca pratyayo heyapakṣe nyasta iti. duḥkharūpas tṛṣṇātantuḥ. tṛṣṇāduḥkhasaṃtāpāpagamāt tu prasannam abādhaṃ sarvānukūlaṃ sukham idam uktam iti.
3.19 pratyayasya paracittajñānam
प्रत्ययस्य परचित्तज्ञानम् ॥ ३.१९ ॥
pratyayasya paracittajñānam (3.19)
Bhāṣya:
प्रत्यये संयमात् प्रत्ययस्य साक्षात्करणात् ततः परचित्तज्ञानम् ।
pratyaye saṃyamāt pratyayasya sākṣātkaraṇāt tataḥ paracittajñānam.
3.20 na ca tat sālambanaṃ tasyāviṣayībhūtatvāt
न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥ ३.२० ॥
na ca tat sālambanaṃ tasyāviṣayībhūtatvāt (3.20)
Bhāṣya:
रक्तं प्रत्ययं जानात्य् अमुष्मिन्न् आलम्बने रक्तम् इति न जानाति । परप्रत्ययस्य यद् आलम्बनं तद् योगिचित्तेन नालम्बनीकृतं परप्रत्ययमात्रं तु योगिचित्तस्यालम्बनीभूतम् इति ।
raktaṃ pratyayaṃ jānāty amuṣminn ālambane raktam iti na jānāti. parapratyayasya yad ālambanaṃ tad yogicittena nālambanīkṛtaṃ parapratyayamātraṃ tu yogicittasyālambanībhūtam iti.
3.21 kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayo
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् ॥ ३.२१ ॥
kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayoge 'ntardhānam (3.21)
Bhāṣya:
कायस्य रूपे संयमाद् रूपस्य या ग्राह्या शक्तिस् तां प्रतिष्टभ्नाति । ग्राह्यशक्तिस्तम्भे सति चक्षुष्प्रकाशासंप्रयोगे ऽन्तर्धानम् उत्पद्यते योगिनः । एतेन शब्दाद्यन्तर्धानम् उक्तं वेदितव्यम् ।
kāyasya rūpe saṃyamād rūpasya yā grāhyā śaktis tāṃ pratiṣṭabhnāti. grāhyaśaktistambhe sati cakṣuṣprakāśāsaṃprayoge 'ntardhānam utpadyate yoginaḥ. etena śabdādyantardhānam uktaṃ veditavyam.
3.22 sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam
सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा ॥ ३.२२ ॥
sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā (3.22)
Bhāṣya:
आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्र यथार्द्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत् तथा सोपक्रमम् । यथा च तद् एव संपिण्डितं चिरेण संशुष्येद् एवं निरुपक्रमम् । यथा वाग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत् तथा सोपक्रमम् । यथा वा स एवाग्निस् तृणराशौ क्रमशो ऽवयवेषु न्यस्तश् चिरेण दहेत् तथा निरुपक्रमम् । तदैकभविकम् आयुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्संयमाद् अपरान्तस्य प्रायणस्य ज्ञानम् । अरिष्टेभ्यो वेति त्रिविधम् अरिष्टम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं चेति । तत्राध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर् वा नेत्रे ऽवष्टब्धे न पश्यति । तथाधिभौतिकं यमपुरुषान् पश्यति, पितॄन् अतीतान् अकस्मात् पश्यति । तथाधिदैविकं स्वर्गम् अकस्मात् सिद्धान् वा पश्यति । विपरीतं वा सर्वम् इति अनेन वा जानात्य् अपरान्तम् उपस्थितम् इति ।
āyurvipākaṃ karma dvividhaṃ sopakramaṃ nirupakramaṃ ca. tatra yathārdraṃ vastraṃ vitānitaṃ laghīyasā kālena śuṣyet tathā sopakramam. yathā ca tad eva saṃpiṇḍitaṃ cireṇa saṃśuṣyed evaṃ nirupakramam. yathā vāgniḥ śuṣke kakṣe mukto vātena samantato yuktaḥ kṣepīyasā kālena dahet tathā sopakramam. yathā vā sa evāgnis tṛṇarāśau kramaśo 'vayaveṣu nyastaś cireṇa dahet tathā nirupakramam. tadaikabhavikam āyuṣkaraṃ karma dvividhaṃ sopakramaṃ nirupakramaṃ ca. tatsaṃyamād aparāntasya prāyaṇasya jñānam. ariṣṭebhyo veti trividham ariṣṭam ādhyātmikam ādhibhautikam ādhidaivikaṃ ceti. tatrādhyātmikaṃ ghoṣaṃ svadehe pihitakarṇo na śṛṇoti, jyotir vā netre 'vaṣṭabdhe na paśyati. tathādhibhautikaṃ yamapuruṣān paśyati, pitṝn atītān akasmāt paśyati. tathādhidaivikaṃ svargam akasmāt siddhān vā paśyati. viparītaṃ vā sarvam iti anena vā jānāty aparāntam upasthitam iti.
3.23 maitryādiṣu balāni
मैत्र्यादिषु बलानि ॥ ३.२३ ॥
maitryādiṣu balāni (3.23)
Bhāṣya:
मैत्री करुणा मुदितेति तिस्रो भावनास् तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते । दुःखितेषु करुणां भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर् यः स संयमस् ततो बलान्य् अवन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश् च तस्यां नास्ति समाधिर् इत्य् अतो न बलम् उपेक्षातस् तत्र संयमाभावाद् इति ।
maitrī karuṇā muditeti tisro bhāvanās tatra bhūteṣu sukhiteṣu maitrīṃ bhāvayitvā maitrībalaṃ labhate. duḥkhiteṣu karuṇāṃ bhāvayitvā karuṇābalaṃ labhate. puṇyaśīleṣu muditāṃ bhāvayitvā muditābalaṃ labhate. bhāvanātaḥ samādhir yaḥ sa saṃyamas tato balāny avandhyavīryāṇi jāyante. pāpaśīleṣūpekṣā na tu bhāvanā. tataś ca tasyāṃ nāsti samādhir ity ato na balam upekṣātas tatra saṃyamābhāvād iti.
3.24 baleṣu hastibalādīni
बलेषु हस्तिबलादीनि ॥ ३.२४ ॥
baleṣu hastibalādīni (3.24)
Bhāṣya:
हस्तिबले संयमाद् धस्तिबलो भवति.वैनतेयबले संयमाद् वैनतेयबलो भवति । वायुबले संयमाद् वायुबलो भवतीत्य् एवमादि ।
hastibale saṃyamād dhastibalo bhavati.vainateyabale saṃyamād vainateyabalo bhavati. vāyubale saṃyamād vāyubalo bhavatīty evamādi.
3.25 pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ ३.२५ ॥
pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam (3.25)
Bhāṣya:
ज्योतिष्मती प्रवृत्तिर् उक्ता मनसस् तस्या य आलोकस् तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वार्थे विन्यस्य तम् अर्थम् अधिगच्छति ।
jyotiṣmatī pravṛttir uktā manasas tasyā ya ālokas taṃ yogī sūkṣme vā vyavahite vā viprakṛṣṭe vārthe vinyasya tam artham adhigacchati.
3.26 bhuvanajñānaṃ sūrye saṃyamāt
भुवनज्ञानं सूर्ये संयमात् ॥ ३.२६ ॥
bhuvanajñānaṃ sūrye saṃyamāt (3.26)
Bhāṣya:
तत्प्रस्तारः सप्त लोकाः । तत्रावीचेः प्रभृति मेरुपृष्ठं यावद् इत्य् एवं भूर्लोकः । मेरुपृष्ठाद् आरभ्य --- आध्रुवाद् ग्रहनक्षत्रताराविचित्रो ऽन्तरिक्षलोकः । ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस् तृतीयो लोकः । चतुर्थः प्राजापत्यो महर्लोकः । त्रिविधो ब्राह्मः तद्यथा --- जनलोकस् तपोलोकः सत्यलोक इति । "ब्राह्मस् त्रिभूमिको लोक प्राजापत्यस् ततो महान् । माहेन्द्रश् च स्वर् इत्य् उक्तो दिवि तारा भुवि प्रजाः ।।" इति संग्रहश्लोकः । तत्रावीचेर् उपर्य् उपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्राः । यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टम् आयुर् दीर्घम् आक्षिप्य जायन्ते । ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि । भूमिर् इयम् अष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर् मध्ये पर्वतराजः काञ्चनः । तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि । तत्र वैदूर्यप्रभानुरागान् नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः । दक्षिणपार्श्वे चास्य जम्बूर् यतो ऽयं जम्बूद्वीपः । तस्य सूर्यप्रचाराद् रात्रिंदिवं लग्नम् इव वर्तते । तस्य नीलश्वेतशृङ्गवन्त उदीचीनास् त्रयः पर्वता द्विसाहस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयम् उत्तराः कुरव इति । निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्षं किंपुरुषं भारतम् इति । सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः । मध्ये वर्षमिलावृतम् । तद् एतद् योजनशतसाहस्रं सुमेरोर् दिशिदिशि तदर्धेन व्यूढम् । स खल्व् अयं शतसाहस्रायामो जम्बूद्वीपस् ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः । ततश् च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलगोमेध(प्लक्ष) पुष्करद्वीपाः, समुद्राश् च सर्षपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः । सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः पञ्चाशद् योजनकोटिपरिसंख्याताः । तद् एतत् सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम् । अण्डं च प्रधानस्याणुर् अवयवो यथाकाशे खद्योत इति । तत्र पाताले जलधौ पर्वतेष्व् एतेषु देवनिकाया असुरगन्धर्वकिंनरकिंपुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति । सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः । सुमेरुस् त्रिदशानाम् उद्यानभूमिः तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसम् इत्य् उद्यानानि । सुधर्मा देवसभा सुदर्शनं पुरम् । वैजयन्तः प्रासादः । ग्रहनक्षत्रतारकास् तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोर् उपर्य् उपरि संनिविष्टा दिवि विपरिवर्तन्ते । माहेन्द्रनिवासिनः षड्देवनिकायाः --- त्रिदशा अग्निष्वात्ता याम्यास् तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश् चेति । सर्वे संकल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिर् अप्सरोभिः कृतपरिचाराः । महति लोके प्राजापत्ये पञ्चविधो देवनिकायः --- कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति । एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः । प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति । ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुञः । द्वितीये तपसि लोके त्रिविधो देवनिकायः --- आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति । ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वम् अप्रतिहतज्ञाना अधरभूमिष्व् अनावृतज्ञानविषयाः । तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत् सर्गायुषः । तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, संज्ञासंज्ञिनश् चास्मितामात्रध्यानसुखाः । ते ऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति । त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः । विदेहप्रकृतिलयास् तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति । एतद् योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा, ततो ऽन्यत्रापि एवं तावद् अभ्यसेद् यावद् इदं सर्वं दृष्टम् इति ।
tatprastāraḥ sapta lokāḥ. tatrāvīceḥ prabhṛti merupṛṣṭhaṃ yāvad ity evaṃ bhūrlokaḥ. merupṛṣṭhād ārabhya --- ādhruvād grahanakṣatratārāvicitro 'ntarikṣalokaḥ. tataḥ paraḥ svarlokaḥ pañcavidho māhendras tṛtīyo lokaḥ. caturthaḥ prājāpatyo maharlokaḥ. trividho brāhmaḥ tadyathā --- janalokas tapolokaḥ satyaloka iti. "brāhmas tribhūmiko loka prājāpatyas tato mahān / māhendraś ca svar ity ukto divi tārā bhuvi prajāḥ //" iti saṃgrahaślokaḥ. tatrāvīcer upary upari niviṣṭāḥ ṣaṇmahānarakabhūmayo ghanasalilānalānilākāśatamaḥpratiṣṭhā mahākālāmbarīṣarauravamahārauravakālasūtrāndhatāmisrāḥ. yatra svakarmopārjitaduḥkhavedanāḥ prāṇinaḥ kaṣṭam āyur dīrgham ākṣipya jāyante. tato mahātalarasātalātalasutalavitalatalātalapātālākhyāni sapta pātālāni. bhūmir iyam aṣṭamī saptadvīpā vasumatī, yasyāḥ sumerur madhye parvatarājaḥ kāñcanaḥ. tasya rājatavaidūryasphaṭikahemamaṇimayāni śṛṅgāṇi. tatra vaidūryaprabhānurāgān nīlotpalapatraśyāmo nabhaso dakṣiṇo bhāgaḥ, śvetaḥ pūrvaḥ, svacchaḥ paścimaḥ, kuraṇṭakābha uttaraḥ. dakṣiṇapārśve cāsya jambūr yato 'yaṃ jambūdvīpaḥ. tasya sūryapracārād rātriṃdivaṃ lagnam iva vartate. tasya nīlaśvetaśṛṅgavanta udīcīnās trayaḥ parvatā dvisāhasrāyāmāḥ. tadantareṣu trīṇi varṣāṇi nava nava yojanasāhasrāṇi ramaṇakaṃ hiraṇmayam uttarāḥ kurava iti. niṣadhahemakūṭahimaśailā dakṣiṇato dvisāhasrāyāmāḥ. tadantareṣu trīṇi varṣāṇi nava nava yojanasāhasrāṇi harivarṣaṃ kiṃpuruṣaṃ bhāratam iti. sumeroḥ prācīnā bhadrāśvamālyavatsīmānaḥ pratīcīnāḥ ketumālā gandhamādanasīmānaḥ. madhye varṣamilāvṛtam. tad etad yojanaśatasāhasraṃ sumeror diśidiśi tadardhena vyūḍham. sa khalv ayaṃ śatasāhasrāyāmo jambūdvīpas tato dviguṇena lavaṇodadhinā valayākṛtinā veṣṭitaḥ. tataś ca dviguṇā dviguṇāḥ śākakuśakrauñcaśālmalagomedha(plakṣa) puṣkaradvīpāḥ, samudrāś ca sarṣaparāśikalpāḥ savicitraśailāvataṃsā ikṣurasasurāsarpirdadhimaṇḍakṣīrasvādūdakāḥ. sapta samudrapariveṣṭitā valayākṛtayo lokālokaparvataparivārāḥ pañcāśad yojanakoṭiparisaṃkhyātāḥ. tad etat sarvaṃ supratiṣṭhitasaṃsthānamaṇḍamadhye vyūḍham. aṇḍaṃ ca pradhānasyāṇur avayavo yathākāśe khadyota iti. tatra pātāle jaladhau parvateṣv eteṣu devanikāyā asuragandharvakiṃnarakiṃpuruṣayakṣarākṣasabhūtapretapiśācāpasmārakāpsarobrahmarākṣasakūṣmāṇḍavināyakāḥ prativasanti. sarveṣu dvīpeṣu puṇyātmāno devamanuṣyāḥ. sumerus tridaśānām udyānabhūmiḥ tatra miśravanaṃ nandanaṃ caitrarathaṃ sumānasam ity udyānāni. sudharmā devasabhā sudarśanaṃ puram. vaijayantaḥ prāsādaḥ. grahanakṣatratārakās tu dhruve nibaddhā vāyuvikṣepaniyamenopalakṣitapracārāḥ sumeror upary upari saṃniviṣṭā divi viparivartante. māhendranivāsinaḥ ṣaḍdevanikāyāḥ --- tridaśā agniṣvāttā yāmyās tuṣitā aparinirmitavaśavartinaḥ parinirmitavaśavartinaś ceti. sarve saṃkalpasiddhā aṇimādyaiśvaryopapannāḥ kalpāyuṣo vṛndārakāḥ kāmabhogina aupapādikadehā uttamānukūlābhir apsarobhiḥ kṛtaparicārāḥ. mahati loke prājāpatye pañcavidho devanikāyaḥ --- kumudā ṛbhavaḥ pratardanā añjanābhāḥ pracitābhā iti. ete mahābhūtavaśino dhyānāhārāḥ kalpasahasrāyuṣaḥ. prathame brahmaṇo janaloke caturvidho devanikāyo brahmapurohitā brahmakāyikā brahmamahākāyikā amarā iti. te bhūtendriyavaśino dviguṇadviguṇottarāyuñaḥ. dvitīye tapasi loke trividho devanikāyaḥ --- ābhāsvarā mahābhāsvarāḥ satyamahābhāsvarā iti. te bhūtendriyaprakṛtivaśino dviguṇadviguṇottarāyuṣaḥ sarve dhyānāhārā ūrdhvaretasa ūrdhvam apratihatajñānā adharabhūmiṣv anāvṛtajñānaviṣayāḥ. tṛtīye brahmaṇaḥ satyaloke catvāro devanikāyā akṛtabhavananyāsāḥ svapratiṣṭhā uparyuparisthitāḥ pradhānavaśino yāvat sargāyuṣaḥ. tatrācyutāḥ savitarkadhyānasukhāḥ, śuddhanivāsāḥ savicāradhyānasukhāḥ, satyābhā ānandamātradhyānasukhāḥ, saṃjñāsaṃjñinaś cāsmitāmātradhyānasukhāḥ. te 'pi trailokyamadhye pratitiṣṭhanti. ta ete sapta lokāḥ sarva eva brahmalokāḥ. videhaprakṛtilayās tu mokṣapade vartanta iti na lokamadhye nyastā iti. etad yoginā sākṣātkaraṇīyaṃ sūryadvāre saṃyamaṃ kṛtvā, tato 'nyatrāpi evaṃ tāvad abhyased yāvad idaṃ sarvaṃ dṛṣṭam iti.
3.27 candre tārāvyūhajñānam
चन्द्रे ताराव्यूहज्ञानम् ॥ ३.२७ ॥
candre tārāvyūhajñānam (3.27)
Bhāṣya:
चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात् ।
candre saṃyamaṃ kṛtvā tārāṇāṃ vyūhaṃ vijānīyāt.
3.28 dhruve tadgatijñānam
ध्रुवे तद्गतिज्ञानम् ॥ ३.२८ ॥
dhruve tadgatijñānam (3.28)
Bhāṣya:
ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् ऊर्ध्वविमानेषु कृतसंयमस् तानि विजानीयात् ।
tato dhruve saṃyamaṃ kṛtvā tārāṇāṃ gatiṃ vijānīyāt ūrdhvavimāneṣu kṛtasaṃyamas tāni vijānīyāt.
3.29 nābhicakre kāyavyūhajñānam
नाभिचक्रे कायव्यूहज्ञानम् ॥ ३.२९ ॥
nābhicakre kāyavyūhajñānam (3.29)
Bhāṣya:
नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् वातपित्तश्लेष्माणस् त्रयो दोषाः । धातवः सप्त त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि पूर्वं पूर्वम् एषां बाह्यम् इत्य् एष विन्यासः ।
nābhicakre saṃyamaṃ kṛtvā kāyavyūhaṃ vijānīyāt vātapittaśleṣmāṇas trayo doṣāḥ. dhātavaḥ sapta tvaglohitamāṃsasnāyvasthimajjāśukrāṇi pūrvaṃ pūrvam eṣāṃ bāhyam ity eṣa vinyāsaḥ.
3.30 kaṇṭhakūpe kṣutpipāsānivṛttiḥ
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३.३० ॥
kaṇṭhakūpe kṣutpipāsānivṛttiḥ (3.30)
Bhāṣya:
जिह्वाया अधस्तात् तन्तुस् तन्तोर् अधस्तात् कण्ठस् ततो ऽधस्तात् कूपस् तत्र संयमात् क्षुत्पिपासे न बाधेते ।
jihvāyā adhastāt tantus tantor adhastāt kaṇṭhas tato 'dhastāt kūpas tatra saṃyamāt kṣutpipāse na bādhete.
3.31 kūrmanāḍyāṃ sthairyam
कूर्मनाड्यां स्थैर्यम् ॥ ३.३१ ॥
kūrmanāḍyāṃ sthairyam (3.31)
Bhāṣya:
कूपाद् अध उरसि कूर्माकारा नाडी, तस्यां कृतसंयमः स्थिरपदं लभते यथा सर्पो गोधा वेति ।
kūpād adha urasi kūrmākārā nāḍī, tasyāṃ kṛtasaṃyamaḥ sthirapadaṃ labhate yathā sarpo godhā veti.
3.32 mūrdhajyotiṣi siddhadarśanam
मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३.३२ ॥
mūrdhajyotiṣi siddhadarśanam (3.32)
Bhāṣya:
शिरःकपाले ऽन्तश् छिद्रं प्रभास्वरं ज्योतिस् तत्र संयमं कृत्वा सिद्धानां द्यावापृथिव्योर् अन्तरालचारिणां दर्शनम् ।
śiraḥkapāle 'ntaś chidraṃ prabhāsvaraṃ jyotis tatra saṃyamaṃ kṛtvā siddhānāṃ dyāvāpṛthivyor antarālacāriṇāṃ darśanam.
3.33 prātibhād vā sarvam
प्रातिभाद् वा सर्वम् ॥ ३.३३ ॥
prātibhād vā sarvam (3.33)
Bhāṣya:
प्रातिभं नाम तारकं तद्विवेकजस्य ज्ञानस्य पूर्वरूपम् । यथोदये प्रभा भास्करस्य । तेन वा सर्वम् एव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्ताव् इति ।
prātibhaṃ nāma tārakaṃ tadvivekajasya jñānasya pūrvarūpam. yathodaye prabhā bhāskarasya. tena vā sarvam eva jānāti yogī prātibhasya jñānasyotpattāv iti.
3.34 hṛdaye cittasaṃvit
हृदये चित्तसंवित् ॥ ३.३४ ॥
hṛdaye cittasaṃvit (3.34)
Bhāṣya:
यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिन् संयमाच् चित्तसंवित् ।
yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma tatra vijñānaṃ tasmin saṃyamāc cittasaṃvit.
3.35 sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ par
सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् ॥ ३.३५ ॥
sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṃyamāt puruṣajñānam (3.35)
Bhāṣya:
बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम् । तस्माच् च सत्त्वात् परिणामिनो ऽत्यन्तविधर्मा विशुद्धो ऽन्यश् चितिमात्ररूपः पुरुषः । तयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात् स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद् दृश्यः । यस् तु तस्माद् विशिष्टश् चितिमात्ररूपो ऽन्यः पौरुषेयः प्रत्ययस् तत्र संयमात् पुरुषविषया प्रज्ञा जायते । न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति तथा ह्य् उक्तम् --- "विज्ञातारम् अरे केन विजानीयात्" इति ।
buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam. tasmāc ca sattvāt pariṇāmino 'tyantavidharmā viśuddho 'nyaś citimātrarūpaḥ puruṣaḥ. tayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt sa bhogapratyayaḥ sattvasya parārthatvād dṛśyaḥ. yas tu tasmād viśiṣṭaś citimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate. na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati tathā hy uktam --- "vijñātāram are kena vijānīyāt" iti.
3.36 tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३.३६ ॥
tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante (3.36)
Bhāṣya:
प्रातिभात् सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् । श्रावणाद् दिव्यशब्दश्रवणम् । वेदनाद् दिव्यस्पर्शाधिगमः । आदर्शाद् दिव्यरूपसंवित् आस्वादाद् दिव्यरससंवित् वार्तातो दिव्यगन्धविज्ञानम् इत्य् एतानि नित्यं जायन्ते ।
prātibhāt sūkṣmavyavahitaviprakṛṣṭātītānāgatajñānam. śrāvaṇād divyaśabdaśravaṇam. vedanād divyasparśādhigamaḥ. ādarśād divyarūpasaṃvit āsvādād divyarasasaṃvit vārtāto divyagandhavijñānam ity etāni nityaṃ jāyante.
3.37 te samādhāv upasargā vyutthāne siddhayaḥ
ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः ॥ ३.३७ ॥
te samādhāv upasargā vyutthāne siddhayaḥ (3.37)
Bhāṣya:
ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गास् तद्दर्शनप्रत्यनीकत्वात् व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ।
te prātibhādayaḥ samāhitacittasyotpadyamānā upasargās taddarśanapratyanīkatvāt vyutthitacittasyotpadyamānāḥ siddhayaḥ.
3.38 bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśar
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः ॥ ३.३८ ॥
bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ (3.38)
Bhāṣya:
लोलीभूतस्य मनसो ऽप्रतिष्ठस्य शरीरे कर्माशयवशाद् बन्धः प्रतिष्ठेत्य् अर्थः तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद् भवति । प्रचारसंवेदनं च चित्तस्य समाधिजम् एव कर्मबन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच् च योगी चित्तं स्वशरीरान् निष्कृष्य शरीरान्तरेषु निक्षिपति । निक्षिप्तं चित्तं चेन्द्रियाण्य् अनु पतन्ति । यथा मधुकरराजानं मक्षिका उत्पतन्तम् अनूत्पतन्ति निविशमानम् अनु निविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तम् अनु विधीयन्त इति ।
lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ tasya karmaṇo bandhakāraṇasya śaithilyaṃ samādhibalād bhavati. pracārasaṃvedanaṃ ca cittasya samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati. nikṣiptaṃ cittaṃ cendriyāṇy anu patanti. yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anu niviśante tathendriyāṇi paraśarīrāveśe cittam anu vidhīyanta iti.
3.39 udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca
उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च ॥ ३.३९ ॥
udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca (3.39)
Bhāṣya:
समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनं, तस्य क्रिया पञ्चतयी प्राणो मुखनासिकागतिर् आहृदयवृत्तिः । समं नयनात् समानश् चानाभिवृत्तिः । अपनयनाद् अपान आपादतलवृत्तिः उन्नयनाद् उदान आशिरोवृत्तिः व्यापी व्यान इति । एषां प्रधानं प्राणः उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च प्रायणकाले भवति तां वशित्वेन प्रतिपद्यते ।
samastendriyavṛttiḥ prāṇādilakṣaṇā jīvanaṃ, tasya kriyā pañcatayī prāṇo mukhanāsikāgatir āhṛdayavṛttiḥ. samaṃ nayanāt samānaś cānābhivṛttiḥ. apanayanād apāna āpādatalavṛttiḥ unnayanād udāna āśirovṛttiḥ vyāpī vyāna iti. eṣāṃ pradhānaṃ prāṇaḥ udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca prāyaṇakāle bhavati tāṃ vaśitvena pratipadyate.
3.40 samānajayāj jvalanam
समानजयाज् ज्वलनम् ॥ ३.४० ॥
samānajayāj jvalanam (3.40)
Bhāṣya:
जितसमानस् तेजस उपध्मानं कृत्वा ज्वलयति ।
jitasamānas tejasa upadhmānaṃ kṛtvā jvalayati.
3.41 śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram
श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् ॥ ३.४१ ॥
śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram (3.41)
Bhāṣya:
सर्वश्रोत्राणाम् आकाशं प्रतिष्ठा सर्वशब्दानां च यथोक्तम् --- तुल्यदेशश्रवणानाम् एकदेशश्रुतित्वं सर्वेषां भवतीति तच् चैतद् आकाशस्य लिङ्गम् । अनावरणं चोक्तम् । तथामूर्तस्यानावरणदर्शनाद् विभुत्वम् अपि प्रख्यातम् आकाशस्य । शब्दग्रहणानुमितं श्रोत्रम् । बधिराबधिरयोर् एकः शब्दं गृह्णात्य् अपरो न गृह्णातीति तस्माच् छ्रोत्रम् एव शब्दविषयम् श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते ।
sarvaśrotrāṇām ākāśaṃ pratiṣṭhā sarvaśabdānāṃ ca yathoktam --- tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti tac caitad ākāśasya liṅgam. anāvaraṇaṃ coktam. tathāmūrtasyānāvaraṇadarśanād vibhutvam api prakhyātam ākāśasya. śabdagrahaṇānumitaṃ śrotram. badhirābadhirayor ekaḥ śabdaṃ gṛhṇāty aparo na gṛhṇātīti tasmāc chrotram eva śabdaviṣayam śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate.
3.42 kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagama
कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् ॥ ३.४२ ॥
kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam (3.42)
Bhāṣya:
यत्र कायस् तत्राकाशं तस्यावकाशदानात् कायस्य तेन संबन्धः प्राप्तिस् तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा तूलादिष्व् आ परमाणुभ्यः समापत्तिं लब्ध्वा जितसंबन्धो लघुर् भवति । लघुत्वाच् च जले पादाभ्यां विहरति ततस् तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति ततो यथेष्टम् आकाशगतिर् अस्य भवतीति ।
yatra kāyas tatrākāśaṃ tasyāvakāśadānāt kāyasya tena saṃbandhaḥ prāptis tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati. laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati tato yatheṣṭam ākāśagatir asya bhavatīti.
3.43 bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ
बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः ॥ ३.४३ ॥
bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ (3.43)
Bhāṣya:
शरीराद् बहिर् मनसो वृत्तिलाभो विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्य् उच्यते । या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्व् अकल्पिता तत्र कल्पितया साधयन्त्य् अकल्पितां महाविदेहाम् इति । यया परशरीराण्य् आविशन्ति योगिनः, ततश् च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ।
śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā. sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate. yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalv akalpitā tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti. yayā paraśarīrāṇy āviśanti yoginaḥ, tataś ca dhāraṇātaḥ prakāśātmano buddhisattvasya yadāvaraṇaṃ kleśakarmavipākatrayaṃ rajastamomūlaṃ tasya ca kṣayo bhavati.
3.44 sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः ॥ ३.४४ ॥
sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ (3.44)
Bhāṣya:
तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाकारादिभिर् धर्मैः स्थूलशब्देन परिभाषिताः एतद् भूतानां प्रथमं रूपम् । द्वितीयं रूपं स्वसामान्यं मूर्तिर् भूमिः स्नेहो जलं वह्निर् उष्णता वायुः प्रणामी सर्वतोगतिर् आकाश इत्य् एतत् स्वरूपशब्देनोच्यते । अस्य सामान्यस्य शब्दादयो विशेषाः तथा चोक्तम् --- एकजातिसमन्वितानाम् एषां धर्ममात्रव्यावृत्तिर् इति । सामान्यविशेषसमुदायो ऽत्र द्रव्यम् । द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनम् इति । शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस् ताभ्याम् एवाभिधीयते समूहः । स च भेदाभेदविवक्षितः । आम्राणां वनं ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति । स पुनर् द्विविधो युतसिद्धावयवो ऽयुतसिद्धावयवश् च । युतसिद्धावयवः समूहो वनं संघ इति अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुर् इति । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इति पतञ्जलिः एतत् स्वरूपम् इत्य् उक्तम् । अथ किम् एषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैको ऽवयवः परमाणुः सामान्यविशेषात्मायुतसिद्धावयवभेदानुगतः समुदाय इत्य् एवं सर्वतन्मात्राण्य् एतत् तृतीयम् । अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनो ऽन्वयशब्देनोक्ताः । अथैषां पञ्चमं रूपम् अर्थवत्त्वं, भोगापवर्गार्थता गुणेष्व् एवान्वयिनी, गुणास् तन्मात्रभूतभौतिकेष्व् इति सर्वम् अर्थवत् । तेष्व् इदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात् तस्य तस्य रूपस्य स्वरूपदर्शनं जयश् च प्रादुर्भवति । तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति तज्जयाद् वत्सानुसारिण्य इव गावो ऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ।
tatra pārthivādyāḥ śabdādayo viśeṣāḥ sahākārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ etad bhūtānāṃ prathamaṃ rūpam. dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate. asya sāmānyasya śabdādayo viśeṣāḥ tathā coktam --- ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti. sāmānyaviśeṣasamudāyo 'tra dravyam. dviṣṭho hi samūhaḥ pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti. śabdenopāttabhedāvayavānugataḥ samūha ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgas tābhyām evābhidhīyate samūhaḥ. sa ca bhedābhedavivakṣitaḥ. āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti. sa punar dvividho yutasiddhāvayavo 'yutasiddhāvayavaś ca. yutasiddhāvayavaḥ samūho vanaṃ saṃgha iti ayutasiddhāvayavaḥ saṃghātaḥ śarīraṃ vṛkṣaḥ paramāṇur iti. ayutasiddhāvayavabhedānugataḥ samūho dravyam iti patañjaliḥ etat svarūpam ity uktam. atha kim eṣāṃ sūkṣmarūpaṃ, tanmātraṃ bhūtakāraṇaṃ, tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam. atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ. athaiṣāṃ pañcamaṃ rūpam arthavattvaṃ, bhogāpavargārthatā guṇeṣv evānvayinī, guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat. teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaś ca prādurbhavati. tatra pañca bhūtasvarūpāṇi jitvā bhūtajayī bhavati tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti.
3.45 tato 'ṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca
ततो ऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च ॥ ३.४५ ॥
tato 'ṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca (3.45)
Bhāṣya:
तत्राणिमा भवत्य् अणुः लघिमा लघुर् भवति महिमा महान् भवति । प्राप्तिर् अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यम् इच्छानभिघातः भूमाव् उन्मज्जति निमज्जति यथोदके । वशित्वं भूतभौतिकेषु वशी भवत्य् अवश्यश् चान्येषाम् ईशितृत्वं तेषां प्रभवाप्ययव्यूहानाम् ईष्टे । यत्र कामावसायित्वं सत्यसंकल्पता यथा संकल्पस् तथा भूतप्रकृतीनाम् अवस्थानम् । न च शक्तो ऽपि पदार्थविपर्यासं करोति कस्मात् अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु संकल्पाद् इति । एतान्य् अष्टाव् ऐश्वर्याणि । कायसंपद् वक्ष्यमाणा तद्धर्मानभिघातश् च पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलाम् अप्य् अनुविशतीति । नापः स्निग्धाः क्लेदयन्ति नाग्निर् उष्णो दहति न वायुः प्रणामी वहति अनावरणात्मके ऽप्य् आकाशे भवत्य् आवृतकायः सिद्धानाम् अप्य् अदृश्यो भवति ।
tatrāṇimā bhavaty aṇuḥ laghimā laghur bhavati mahimā mahān bhavati. prāptir aṅgulyagreṇāpi spṛśati candramasam. prākāmyam icchānabhighātaḥ bhūmāv unmajjati nimajjati yathodake. vaśitvaṃ bhūtabhautikeṣu vaśī bhavaty avaśyaś cānyeṣām īśitṛtvaṃ teṣāṃ prabhavāpyayavyūhānām īṣṭe. yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam. na ca śakto 'pi padārthaviparyāsaṃ karoti kasmāt anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti. etāny aṣṭāv aiśvaryāṇi. kāyasaṃpad vakṣyamāṇā taddharmānabhighātaś ca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ, śilām apy anuviśatīti. nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati anāvaraṇātmake 'py ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati.
3.46 rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥ ३.४६ ॥
rūpalāvaṇyabalavajrasaṃhananatvāni kāyasaṃpat (3.46)
Bhāṣya:
दर्शनीयः कान्तिमान् अतिशयबलो वज्रसंहननश् चेति ।
darśanīyaḥ kāntimān atiśayabalo vajrasaṃhananaś ceti.
3.47 grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥ ३.४७ ॥
grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ (3.47)
Bhāṣya:
सामान्यविशेषात्मा शब्दादिर् ग्राह्यः तेष्व् इन्द्रियाणां वृत्तिर् ग्रहणम् । न च तत्सामान्यमात्रग्रहणाकारं कथम् अनालोचितः स विषयविशेष इन्द्रियेण मनसानुव्यवसीयेतेति । स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोर् अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इन्द्रियम् । तेषां तृतीयं रूपम् अस्मितालक्षणो ऽहंकारः । तस्य सामान्यस्येन्द्रियाणि विशेषाः चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषाम् इन्द्रियाणि साहंकाराणि परिणामः । पञ्चमं रूपं गुणेषु यद् अनुगतं पुरुषार्थवत्त्वम् इति । पञ्चस्व् एतेष्व् इन्द्रियरूपेषु यथाक्रमं संयमस् तत्र तत्र जयं कृत्वा पञ्चरूपजयाद् इन्द्रियजयः प्रादुर्भवति योगिनः ।
sāmānyaviśeṣātmā śabdādir grāhyaḥ teṣv indriyāṇāṃ vṛttir grahaṇam. na ca tatsāmānyamātragrahaṇākāraṃ katham anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasānuvyavasīyeteti. svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam. teṣāṃ tṛtīyaṃ rūpam asmitālakṣaṇo 'haṃkāraḥ. tasya sāmānyasyendriyāṇi viśeṣāḥ caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṃkārāṇi pariṇāmaḥ. pañcamaṃ rūpaṃ guṇeṣu yad anugataṃ puruṣārthavattvam iti. pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamas tatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ.
3.48 tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca
ततो मनोजवित्वं विकरणभावः प्रधानजयश् च ॥ ३.४८ ॥
tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca (3.48)
Bhāṣya:
कायस्यानुत्तमो गतिलाभो मनोजवित्वम् । विदेहानाम् इन्द्रियाणाम् अभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं प्रधानजय इत्य् एतास् तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते एताश् च करणपञ्चरूपजयाद् अधिगम्यन्ते ।
kāyasyānuttamo gatilābho manojavitvam. videhānām indriyāṇām abhipretadeśakālaviṣayāpekṣo vṛttilābho vikaraṇabhāvaḥ. sarvaprakṛtivikāravaśitvaṃ pradhānajaya ity etās tisraḥ siddhayo madhupratīkā ucyante etāś ca karaṇapañcarūpajayād adhigamyante.
3.49 sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarv
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ३.४९ ॥
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca (3.49)
Bhāṣya:
निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्य् अर्थः । सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानाम् अक्रमोपारूढं विवेकजं ज्ञानम् इत्य् अर्थः । इत्य् एषा विशोका नाम सिद्धिर् यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ।
nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam. sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ pratyaśeṣadṛśyātmatvenopasthitā ity arthaḥ. sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity arthaḥ. ity eṣā viśokā nāma siddhir yāṃ prāpya yogī sarvajñaḥ kṣīṇakleśabandhano vaśī viharati.
3.50 tadvairāgyād api doṣabījakṣaye kaivalyam
तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् ॥ ३.५० ॥
tadvairāgyād api doṣabījakṣaye kaivalyam (3.50)
Bhāṣya:
यदास्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश् चापरिणामी शुद्धो ऽन्यः सत्त्वाद् इति । एवम् अस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्य् अप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनर् इदं तापत्रयं न भुङ्क्ते । तद् एतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यं तदा स्वरूपप्रतिष्ठा चितिशक्तिर् एव पुरुष इति ।
yadāsyaivaṃ bhavati kleśakarmakṣaye sattvasyāyaṃ vivekapratyayo dharmaḥ sattvaṃ ca heyapakṣe nyastaṃ puruṣaś cāpariṇāmī śuddho 'nyaḥ sattvād iti. evam asya tato virajyamānasya yāni kleśabījāni dagdhaśālibījakalpāny aprasavasamarthāni tāni saha manasā pratyastaṃ gacchanti. teṣu pralīneṣu puruṣaḥ punar idaṃ tāpatrayaṃ na bhuṅkte. tad eteṣāṃ guṇānāṃ manasi karmakleśavipākasvarūpeṇābhivyaktānāṃ caritārthānāṃ pratiprasave puruṣasyātyantiko guṇaviyogaḥ kaivalyaṃ tadā svarūpapratiṣṭhā citiśaktir eva puruṣa iti.
3.51 sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् ॥ ३.५१ ॥
sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt (3.51)
Bhāṣya:
चत्वारः खल्व् अमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिर् अतिक्रान्तभावनीयश् चेति । तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः ऋतंभरप्रज्ञो द्वितीयः भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनाद् इमान् । चतुर्थो यस् त्व् अतिक्रान्तभावनीयस् तस्य चित्तप्रतिसर्ग एको ऽर्थः सप्तविधास्य प्रान्तभूमिप्रज्ञा । तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वविशुद्धिम् अनुपश्यन्तः स्थानैर् उपनिमन्त्रयन्ते भो इहास्यताम् इह रम्यतां कमनीयो ऽयं भोगः कमनीयेयं कन्या रसायनम् इदं जरामृत्युं बाधते वैहायसम् इदं यानम् अमी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वम् इदम् उपार्जितम् आयुष्मता प्रतिपद्यताम् इदम् अक्षयम् अजरम् अमरस्थानं देवानां प्रियम् इति । एवम् अभिधीयमानः सङ्गदोषान् भावयेद् घोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिद् आसादितः क्लेशतिमिरविनाशी योगप्रदीपस् तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्व् अहं लब्धालोकः कथम् अनया विषयमृगतृष्णया वञ्चितस् तस्यैव पुनः प्रदीप्तस्य संसाराग्नेर् आत्मानम् इन्धनीकुर्याम् इति । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्य् एवं निश्चितमतिः समाधिं भावयेत् । सङ्गम् अकृत्वा स्मयम् अपि न कुर्याद् एवम् अहं देवानाम् अपि प्रार्थनीय इति स्मयाद् अयं सुस्थितंमन्यतया मृत्युना केशेषु गृहीतम् इवात्मानं न भावयिष्यति । तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशान् उत्तम्भयिष्यति ततः पुनर् अनिष्टप्रसङ्गः । एवम् अस्य सङ्गस्मयाव् अकुर्वतो भावितो ऽर्थो दृढीभविष्यति भावनीयश् चार्थो ऽभिमुखीभविष्यतीति ।
catvāraḥ khalv amī yoginaḥ prāthamakalpiko madhubhūmikaḥ prajñājyotir atikrāntabhāvanīyaś ceti. tatrābhyāsī pravṛttamātrajyotiḥ prathamaḥ ṛtaṃbharaprajño dvitīyaḥ bhūtendriyajayī tṛtīyaḥ sarveṣu bhāviteṣu bhāvanīyeṣu kṛtarakṣābandhaḥ kartavyasādhanād imān. caturtho yas tv atikrāntabhāvanīyas tasya cittapratisarga eko 'rthaḥ saptavidhāsya prāntabhūmiprajñā. tatra madhumatīṃ bhūmiṃ sākṣātkurvato brāhmaṇasya sthānino devāḥ sattvaviśuddhim anupaśyantaḥ sthānair upanimantrayante bho ihāsyatām iha ramyatāṃ kamanīyo 'yaṃ bhogaḥ kamanīyeyaṃ kanyā rasāyanam idaṃ jarāmṛtyuṃ bādhate vaihāyasam idaṃ yānam amī kalpadrumāḥ puṇyā mandākinī siddhā maharṣaya uttamā anukūlā apsaraso divye śrotracakṣuṣī vajropamaḥ kāyaḥ svaguṇaiḥ sarvam idam upārjitam āyuṣmatā pratipadyatām idam akṣayam ajaram amarasthānaṃ devānāṃ priyam iti. evam abhidhīyamānaḥ saṅgadoṣān bhāvayed ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā jananamaraṇāndhakāre viparivartamānena kathaṃcid āsāditaḥ kleśatimiravināśī yogapradīpas tasya caite tṛṣṇāyonayo viṣayavāyavaḥ pratipakṣāḥ. sa khalv ahaṃ labdhālokaḥ katham anayā viṣayamṛgatṛṣṇayā vañcitas tasyaiva punaḥ pradīptasya saṃsārāgner ātmānam indhanīkuryām iti. svasti vaḥ svapnopamebhyaḥ kṛpaṇajanaprārthanīyebhyo viṣayebhya ity evaṃ niścitamatiḥ samādhiṃ bhāvayet. saṅgam akṛtvā smayam api na kuryād evam ahaṃ devānām api prārthanīya iti smayād ayaṃ susthitaṃmanyatayā mṛtyunā keśeṣu gṛhītam ivātmānaṃ na bhāvayiṣyati. tathā cāsya cchidrāntaraprekṣī nityaṃ yatnopacaryaḥ pramādo labdhavivaraḥ kleśān uttambhayiṣyati tataḥ punar aniṣṭaprasaṅgaḥ. evam asya saṅgasmayāv akurvato bhāvito 'rtho dṛḍhībhaviṣyati bhāvanīyaś cārtho 'bhimukhībhaviṣyatīti.
3.52 kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam
क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् ॥ ३.५२ ॥
kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam (3.52)
Bhāṣya:
यथापकर्षपर्यन्तं द्रव्यं परमाणुर् एवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्याद् उत्तरदेशम् उपसंपद्येत स कालः क्षणः । तत्प्रवाहाविच्छेदस् तु क्रमः क्षणतत्क्रमयोर् नास्ति वस्तुसमाहार इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः । स खल्व् अयं कालो वस्तुशून्यो ऽपि बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते । क्षणस् तु वस्तुपतितः क्रमावलम्बी क्रमश् च क्षणानन्तर्यात्मा तं कालविदः काल इत्य् आचक्षते योगिनः । न च द्वौ क्षणौ सह भवतः क्रमश् च न द्वयोः सहभुवोर् असंभवात् । पूर्वस्माद् उत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः तस्माद् वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति । तस्मान् नास्ति तत्समाहारः ये तु भूतभाविनः क्षणास् ते परिणामान्विता व्याख्येयाः तेनैकेन क्षणेन कृत्स्नो लोकः परिणामम् अनुभवति । तत्क्षणोपारूढाः खल्व् अमी सर्वे धर्माः तयोः क्षणतत्क्रमयोः संयमात् तयोः साक्षात्करणम् । ततश् च विवेकजं ज्ञानं प्रादुर्भवति ।
yathāpakarṣaparyantaṃ dravyaṃ paramāṇur evaṃ paramāpakarṣaparyantaḥ kālaḥ kṣaṇo yāvatā vā samayena calitaḥ paramāṇuḥ pūrvadeśaṃ jahyād uttaradeśam upasaṃpadyeta sa kālaḥ kṣaṇaḥ. tatpravāhāvicchedas tu kramaḥ kṣaṇatatkramayor nāsti vastusamāhāra iti buddhisamāhāro muhūrtāhorātrādayaḥ. sa khalv ayaṃ kālo vastuśūnyo 'pi buddhinirmāṇaḥ śabdajñānānupātī laukikānāṃ vyutthitadarśanānāṃ vastusvarūpa ivāvabhāsate. kṣaṇas tu vastupatitaḥ kramāvalambī kramaś ca kṣaṇānantaryātmā taṃ kālavidaḥ kāla ity ācakṣate yoginaḥ. na ca dvau kṣaṇau saha bhavataḥ kramaś ca na dvayoḥ sahabhuvor asaṃbhavāt. pūrvasmād uttarabhāvino yadānantaryaṃ kṣaṇasya sa kramaḥ tasmād vartamāna evaikaḥ kṣaṇo na pūrvottarakṣaṇāḥ santīti. tasmān nāsti tatsamāhāraḥ ye tu bhūtabhāvinaḥ kṣaṇās te pariṇāmānvitā vyākhyeyāḥ tenaikena kṣaṇena kṛtsno lokaḥ pariṇāmam anubhavati. tatkṣaṇopārūḍhāḥ khalv amī sarve dharmāḥ tayoḥ kṣaṇatatkramayoḥ saṃyamāt tayoḥ sākṣātkaraṇam. tataś ca vivekajaṃ jñānaṃ prādurbhavati.
3.54 tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥ ३.५४ ॥
tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam (3.54)
Bhāṣya:
तारकम् इति स्वप्रतिभोत्थम् अनौपदेशिकम् इत्य् अर्थः सर्वविषयं नास्य किंचिद् अविषयीभूतम् इत्य् अर्थः । सर्वथाविषयम् अतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्य् अर्थः । अक्रमम् इत्य् एकक्षणोपारूढं सर्वं सर्वथा गृह्णातीत्य् अर्थः । एतद् विवेकजं ज्ञानं परिपूर्णम् अस्यैवांशो योगप्रदीपो मधुमतीं भूमिम् उपादाय यावद् अस्य परिसमाप्तिर् इति ।
tārakam iti svapratibhottham anaupadeśikam ity arthaḥ sarvaviṣayaṃ nāsya kiṃcid aviṣayībhūtam ity arthaḥ. sarvathāviṣayam atītānāgatapratyutpannaṃ sarvaṃ paryāyaiḥ sarvathā jānātīty arthaḥ. akramam ity ekakṣaṇopārūḍhaṃ sarvaṃ sarvathā gṛhṇātīty arthaḥ. etad vivekajaṃ jñānaṃ paripūrṇam asyaivāṃśo yogapradīpo madhumatīṃ bhūmim upādāya yāvad asya parisamāptir iti.
3.55 sattvapuruṣayoḥ śuddhisāmye kaivalyam iti
प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा
prāptavivekajajñānasyāprāptavivekajajñānasya vā
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति ॥ ३.५५ ॥
sattvapuruṣayoḥ śuddhisāmye kaivalyam iti (3.55)
Bhāṣya:
यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यम् इवापन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः । एतस्याम् अवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा । न हि दग्धक्लेशबीजस्य ज्ञाने पुनर् अपेक्षा काचिद् अस्ति सत्त्वशुद्धिद्वारेणैतत् समाधिजम् ऐश्वर्यं ज्ञानं चोपक्रान्तम् । परमार्थतस् तु ज्ञानाद् अदर्शनं निवर्तते तस्मिन् निवृत्ते न सन्त्य् उत्तरे क्लेशाः । क्लेशाभावात् कर्मविपाकाभावः चरिताधिकाराश् चैतस्याम् अवस्थायां गुणा न पुरुषस्य पुनर् दृश्यत्वेनोपतिष्ठन्ते । तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिर् अमलः केवली भवति ।
yadā nirdhūtarajastamomalaṃ buddhisattvaṃ puruṣasyānyatāpratītimātrādhikāraṃ dagdhakleśabījaṃ bhavati tadā puruṣasya śuddhisārūpyam ivāpannaṃ bhavati, tadā puruṣasyopacaritabhogābhāvaḥ śuddhiḥ. etasyām avasthāyāṃ kaivalyaṃ bhavatīśvarasyānīśvarasya vā vivekajajñānabhāgina itarasya vā. na hi dagdhakleśabījasya jñāne punar apekṣā kācid asti sattvaśuddhidvāreṇaitat samādhijam aiśvaryaṃ jñānaṃ copakrāntam. paramārthatas tu jñānād adarśanaṃ nivartate tasmin nivṛtte na santy uttare kleśāḥ. kleśābhāvāt karmavipākābhāvaḥ caritādhikārāś caitasyām avasthāyāṃ guṇā na puruṣasya punar dṛśyatvenopatiṣṭhante. tatpuruṣasya kaivalyaṃ, tadā puruṣaḥ svarūpamātrajyotir amalaḥ kevalī bhavati.
Colophon — Vibhuti Pada
इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे व्यासभाष्ये विभूतिपादस् तृतीयः ३ ।
iti śrīpātañjale sāṃkhyapravacane yogaśāstre vyāsabhāṣye vibhūtipādas tṛtīyaḥ 3.