Books / Yogachudaamani Upanishad

1. Yogachudaamani Upanishad

Page 1

मूलाधारादिष्टचक्रं सहस्रारोपरि स्थितम् ।

योगजानेक फलकं रामचन्द्रपदं भेजे ॥

ॐ आप्यान्तु ममाझ्ञा निं वाक्प्राणशक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माह ब्रह्म निराकुयां मा मा

ब्रह्म निराकरोदनिराकारमस्त्व निराकारं मेस्तु

तदात्मनि निरते य उपनिषत्सु धर्मांस्थे मयि सन्तु

ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया ।

कैवल्यसिद्धिदं गूढं सेवितं योगवित्तमैः ॥

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।

ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥

एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ।

षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् ॥

स्वदेहे यो न जानाति तस्य सिद्धिः कथं भवेत् ।

चतुर्दलं स्यादाधारं स्वाधिष्ठानं च षड्दलम् ॥

नाभौ दशदलं पद्मं हृदये द्वादशारकम् ।

षोडशारं विशुद्धाख्यं भूमध्ये द्विदलं तथा ॥

सहस्रदलसङ्काश्यात् ब्रह्मरन्ध्रे महापथि ।

आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥

योनिस्थानं द्वयोरमध्ये कमरूपं निगद्यते ।

कामाख्यं तु गुदस्थाने पृड्‌जं तु चतुर्दलम् ॥

तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ।

तस्य मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ॥

नामौ तु मणिवद्विम्बं यो जानाति स योगवित् ।

तप्तचामकराभासं टडिल्लेखेव विस्फुरत् ॥

१०

त्रिकोणं तत्पुरं वह्नेरधोमुखप्रतिष्ठितम् ।

१०

समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् ॥

११

तस्मिन्दृष्टे महायोगे यातायातो न विद्यते ।

११

स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः ॥

१२

स्वाधिष्ठाश्रयादस्मादेक्रूमेवभिधीयते ।

१२

तन्तुना मणिवत्प्रोतो योगत्र कन्दः सुपुम्नया ॥

Page 2

१३

तत्राभिमण्डले चकं प्रोच्यते मणिपुरकम् । द्वादशारे महाचक्रे पुण्यपापविवर्जिते ॥

१४

तावज्जजीवो भ्रमत्येव यावत्तत्त्वं न विन्दति । ऊर्ध्वं मेर्द्रादधो नाभे: कन्दे योनि: खगाण्डवत् ॥

१५

तत्र नाड्य: समुत्पन्ना: सहस्राणि द्विसप्तत: । तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहुता ॥

१६

प्रधाना: प्राणवाहिन्यो भूयस्तासु दश स्मृता: । इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा ॥

१७

गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी । अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता ॥

१८

एतन्नाडीमहाचकं ज्ञातव्यं योगिभि: सदा । इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्थिता ॥

१९

सुषुम्ना मध्यदेशे तु गान्धारी वामवक्रुषि । दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे ॥

२०

यशस्विनी वामकर्णे चानने चापुअलम्बुषा । कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी ॥

२१

एवं द्वारं समाश्रित्य तिष्ठन्ते नाडय: कमाात् । इडापिङ्गलसौषुम्ना: प्राणमार्गे च संस्थिता: ॥

२२

सततं प्राणवाहिन्य: सोमसूर्याग्निदेवता: । प्राणापानसमनानाच्या व्यानोदानौ च वायव: ॥

२३

नाग: कूर्मोश्च कृकरो देवदत्तो धनञ्जय: । हृदि प्राण: स्थितो नित्यं पानो गुडमण्डले ॥

२४

समानो नाभिदेशे तु उदान: कण्ठमध्यग: । व्यान: सर्वशरीरे तु प्रधाना: पञ्चवायव: ॥

२५

उदानो नाग आख्यात: कूर्म उन्मीलने तथा । कृकर: क्षुत्करो जृम्भो देवदत्तो विजृम्भणे ॥

२६

न जहाति मृतं वापि सर्वव्यापी धनञ्जय: । एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तव: ॥

२७

आक्षिप्तो भुजदण्डेन यथा चलति कन्दुक: । प्राणापानसमाक्षिप्तस्था जीवो न तिष्ठति ॥

२८

प्राणापानवशो जीवो ह्याद्यश्वोध्रं च धावति । वामदक्षिणमार्गाभ्यां चञ्चलत्वादृश्यते ॥

२९

रज्जुवद्धो यथा श्येनो गतोडप्याकृष्यते पुन: । गुणवद्धस्तथा जीव: प्राणापानेन कर्षति ॥

३०

प्राणापानवशो जीवो ह्याद्यश्वोध्रं च गच्छति । अपान: कर्षति प्राणं प्राणोऽपानं च कर्षति ॥

Page 3

३३

ऊर्ध्वाधःस्थितावेतौ यो जानाति स योगवित् । हकारेण बहिर्याति सकारेण विशेत्पुनः ॥ हंसहसेत्यमुं मन्त्रं जीवो जपति सर्वदा । षट्शतानि दिवारात्रौ सहस्राण्येककिंव्रशाति ॥ एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा । अजपानाम गायत्री योगिनां मोक्षदा सदा ॥ अस्या: सङ्कल्पमात्रेण सर्वपापै: प्रमुच्यते । अनया सदृशी विद्या अनया सदृशो जपः ॥ ३४ ॥ अनया सदृशं ज्ञानं न भूतं न भविष्यति । कुण्डलिन्या समुद्धता गायत्री प्राणधारिणी ॥ प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित् ।

३५

कन्दोर्ध्वे कुण्डलीशक्तिः स्थिता कुण्डलाकृतीः ॥ ब्रह्माद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति । येन द्वारेण गन्तव्यं ब्रह्मद्वारमनामयम् ॥ मुखेनाच्छाद्य तद्द्वारं प्रपुस्ना परमेश्वरी । प्रभुद्धा वधियोगेन मनसा मरुता सह ॥ सुचिवद्नात्रमादाय ब्रजत्योर्ध्वं सुपुम्नया । उद्घाटयेत्कवाटं तु यथा कुन्जिकया गृहम् ।

३६

कुण्डलिन्यां तथा योगी मोक्षद्वारं प्रभेदयेत् ॥ कृत्वा संपूणतौ करो दूतरं बध्वा तु पदासनं । गाढं वक्शसि सन्धाय चुवुंकं ध्यायं च तच्चेष्टितम् ॥ वारंवारमपानमूर्ध्वंन्मनिलिन प्रोच्छारयेत्पूरितं । मूद्नप्राणमुपैति बोधमतुलं शक्तिप्रभावात्नरः ॥ ४० ॥

४१

अज्ञानां मर्दनं कृत्वा श्रमसंजातवारिणा । कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥ ब्रह्मचारी मिताहारी योगी योगपरायणः ।

४२

अब्धावुदधं भवेत्सद्वो नात्र कार्यां विचारणा ॥ सुस्निग्धमधुराहाररशतुभोऽंशविवर्जितः ।

४३

भुज्यते शिवसंप्रित्या मिताहारी स उच्यते ॥ कन्दोर्ध्वे कुण्डलीशक्तिः स्थिता कुण्डलाकृतीः । बन्धनाय च मोक्षानां योगिनां मोक्षदा सदा ॥ ४४ ॥

४५

महामुद्रा नभोमुद्रा ओडां च जलन्थरम् । मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम् ॥ ४५ ॥

४६

पार्ष्णिग्रातेन संपीड्य योनिमाकुज्चयेहृदम् । अपानमूर्ध्वमाकृष्य मूलबन्धो विधीयते ॥ ४६ ॥ अपानप्राणयोरैक्यं क्षयान्मूत्रपुरोषयोः ।

Page 4

४७

युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ४७ ॥ ओङ्कारं कुरुतेऽस्माद्विश्रान्तं महाश्वगः । ओङ्क्रियां तदेव स्यान्मृत्युमातङ्कश्रिकरी ॥ ४८ ॥

४९

उदरात्पश्विमं ताणमधो नाभेरिङ्गयते । ओङ्कारमुदरे बन्धस्तत्र बन्धो विधीयते ॥ ४९ ॥

५०

बन्धनाति हि शिरोजातमधोगामि नमोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखोघनाशनः ॥ ५० ॥

५१

जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे । न पीयूषं पतत्यग्नौ न व वायुः प्रधावति ॥ ५१ ॥

५२

कपालकुहरे जिह्वा प्रविश्टा विपरीतगा । भ्रूवोरन्तर्गता दृष्टिर्मुत्रा भवति खेचरी ॥ ५२ ॥

५३

न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्सस्य यो मुत्रां वेत्ति खेचरीम् ॥ ५३ ॥

५४

पीड्यते न च रोगेण लीयते न स कर्मभिः । वाध्यते न च केनापि यो मुद्रां वेत्ति खेचरीम् ॥ ५४ ॥

५५

चित्तं चरति से यन्माज्जिह्वा चरति से यतः । तेनेयं खेचरी मुत्रा सर्वसिद्धानमस्कृता ॥ ५५ ॥

५६

बिन्दुमूलशरीरराणि शिरास्तत्र प्रतिष्ठिता: । भावयन्ती शरीरराणि आपादतलमस्तकं ॥ ५६ ॥

५७

खेचर्या मुद्रिते येन विवरं लम्बिकोध्वगत्: । न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गनस्य च ॥ ५७ ॥

५८

यावद्बिन्दुः स्थितो देहे तावन्मृत्युं त्युभयं कृतः । यावद्रदा नमोमुद्रा तावद्दिन्दुर्न गच्छति ॥ ५८ ॥

५९

ज्वलितोऽपि यथा बिन्दुः संप्राप्तप्रश्न हुताशनं । ब्रजत्यूर्ध्वं गतः शक्त्या निरुद्धो योनिमुद्रया ॥ ५९ ॥

६०

स पुनर्द्विविधो बिन्दुः पाण्डरो लोहितस्तथा । पाण्डरं शुक्लमित्याहुःलोहिताख्यं महारजः ॥ ६० ॥

६१

सिन्दूरद्रातसङ्काशं रविस्थानस्थितं रजः । शशिस्थानस्थितं शुक्लं तयोरेव रजः ॥ ६१ ॥

६२

बिन्दुब्रह्मा रजः शक्तिरिन्दुरिन्दू रजो रवि: । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ ६२ ॥

६३

वायुना शक्तिचालेन प्रेरितं च यथा रजः । याति बिन्दुं सदैकत्वं भवेद्धव्यवपुष्टदा ॥ ६३ ॥

६४

शुक्लं चन्द्रेण संयुक्तं रजः सूर्येण सङ्कतम् । तयोः समरसैकत्वं यो जानाति स योगवित् ॥ ६४ ॥

शोधनं नाडीजालस्य चालनं चन्द्रसूर्ययोः ।

Page 5

६५

रसानां शोधनं चैव महामुद्राभिधीयते ॥ ६५ ॥ वक्षोऽन्यस्तह्नुः प्रपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्यामनुभारयन्त्रसरितं पादं तथा दक्षिणम् । आपूर्यं श्वसनेन कुक्ष्युगलं वध्वा ग्राने रेचयेत्- तसेयं व्याधिविनाशिनी सुमहती मुद्रा नृणां कथ्यते ॥ ६६ ॥

६७

चन्द्रांशेन समभ्यस्य सूर्यांशेनाभ्यसेत्पुनः । या तुल्या तु भवेत्संख्या ततो मूद्रां विसर्जयेत् ॥ ६७ ॥

६८

नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अतिभुक्तं विषं घोरं पीयूषमिव जीर्यते ॥ ६८ ॥

६९

क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमा । तस्य रोगाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ६९ ॥

७०

कथितेयं महामुद्रा महासिद्धिकरी नृणाम् । गोपनीया प्रयत्नेन न देया यस्मै कस्यचित् ॥ ७० ॥

७१

पद्मासनं समारुह्य समकायशिरोऽधरः । नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमवययम् ॥ ७१ ॥

ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निर्व्य्यातमनादिनिधनमेकं तुरीयं यदितं भवड्विषयत्परिवर्तमानं सर्वदा नवच्छिद्रं परंब्रह्म तस्माज्जाता परा शक्ति: स्वयं ज्योतिरात्त्मिका ।

आत्मन आकाशः संभूतः । आकाशादायु: । वायोरग्निः । अग्नेरापः । अद्भयः पृथिवी । एतेभां पञ्चभूतानां पञ्च सदाशिवेश्वररुद्रविष्णुब्रह्माणख्येति ।

तेषां ब्रह्मविष्णुरुद्राश्चोत्पत्तिस्थितिलयकर्तारः । राजसो ब्रह्मा सात्त्विको विष्णुस्तामसो रुद्र इति एते त्रयो गुणयुक्ताः । ब्रह्मा देवानां प्रथमः संभवः । धाता व सृष्टौ विष्णुः स्थितितो रुद्रश्च नाशे भोगाय चन्द्र इति प्रथमजा बहवः । एतेभां ब्रह्मणो लोकाः देवतियङ्क- रस्थावराद्या जायन्ते । तेषां मनुष्यादीनां

पञ्चभूतसमवायः शरीरम् । ज्ञांनकर्मेन्द्रियै- ज्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिचित्ताहङ्कारैः: स्थूलकल्पनतैः: सोडपि स्थूलप्रकृतिरित्युच्यते । ज्ञांनकर्मेन्द्रियै- ज्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिभिष सूक्ष्मस्स्योडपि लिङ्गमेवेत्यच्यते । गुणत्रययुक्तं कारणम् ।

सर्वेषामेव त्रीणि शरीराणि वर्तन्ते । जाग्रत्स्वप्नसुषुप्ति- तुरीयाश्रेत्यवस्थाश्चतस्रः तासामवस्थानामधिपतय- स्तत्वारः पुरुषा विश्वतैजसप्राज्ञात्मानख्येति ।

Page 6

७२

विश्वो हि स्थूलभुद्धित्यं तेजस प्रविभक्तभुक् । आनन्दभुक्तया प्राज्ञः सर्वसाक्षीत्यत: पर: ॥

७३

प्रणत: सर्वदा तिष्ठत्सर्वजीवेषु भोगत । अभिरामस्तु सर्वसु द्वावस्थासु ह्याधोमुख: ॥

७४

अकार उकारो मकारर्धीत वेदास्वयो लोकास्वयो गुणास्वीन्यक्षराणि त्रय: स्वरा एवं प्रणव: प्रकाशते । आकारो जाग्रति नेत्रे वर्तते सर्वजन्तुषु । उकार: कण्ठत: स्वप्ने मकारो हृदि सुप्तित: ॥

७५

विराडिवश्व: स्थूलशाकार: । हिरण्यगर्भस्तेजस: सूक्ष्मश्र्च उकार: । कारणाव्याकृतप्राज्ञश्र्च मकार: । आकारो राजसो रक्तो ब्रह्मा चेतन उच्यते । उकार: सात्विक: शुक्लो विष्णुरित्यभिधीयते ॥

७६

मकारस्तामस: कृष्णो रुद्रश्र्च तथोच्यते । प्रणवात्मप्रभवो ब्रह्मा प्रणवात्प्रभवो हरि: । प्रणवात्मप्रभवो रुद्र: प्रणवो हि परो भवेत् ॥

७७

अकारे लीयते ब्रह्मा हुकारे लीयते हरि: । मकारे लीयते रुद्र: प्रणवो हि प्रकाशते ॥

७८

ज्ञानिनामूर्ध्वगो भूयादज्ञानने स्याद्धोमुख: । एवं वै प्रणवस्थितो द्वास्तु वेद स वेदवित् ॥

७९

अनाहतस्वरूपेण ज्ञानिनामूर्ध्वगो भवेत् । तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । प्रणवस्य ध्वनिस्थैवददग्रं ब्रह्म चोच्यते ॥

८०

अज्योतिरमयं तदग्रं स्यादवाच्यं बुद्धिसूक्ष्मत: । तदृश्रुयै: महात्मानो यस्तं वेद स वेदवित् ॥

८१

जाग्रन्नेत्रद्वयोर्मध्ये हंस एव प्रकाशते । सकार: खेचरी प्रोकस्त्वपदं चेति निश्चिता । हकार: परमेश: स्यात्तत्पदं चेति निश्चिता ॥

८२

सकारो ध्यायते जन्तुर्हकारो हि भवेद्ध्रुवम् । इन्द्रैयैर्बध्यते जीव आत्मा चैव न बध्यते ॥

८३

ममत्वेन भवेज्जीवो निर्ममत्वेन केवल: । भ्रूभुव: स्वरिमे लोका: सोमसूर्याग्निदेवता: ॥

८४

यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति । क्रिया इच्छा तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी ॥

८५

त्रिभा मात्रास्थितियंत्र तत्परं ज्योतिरोमिति । वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् । मनसा तज्जपेन्नित्यं तत्परं ज्योतिरोमिति ॥

Page 7

५५

शुचिर्वाप्यशुचिर्वापि यो जपेत्प्रणवं सदा । न स लिप्यति पापेन पद्मपत्रमिवाम्भसा ॥

५९

चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् । योगी स्थानुत्वमाप्नोति तत्स्थो वायुं निरुन्धयेत् ॥

९०

यावद्दायुः स्थितो देहे तावज्जीवो न मुच्यति । मरणं तस्य निष्क्रान्तस्ततो वायुं निरुन्धयेत् ॥

९१

यावद्वृश्टिर्भवोर्मध्ये तावत्कालं भयं कुतः । अल्पकालभयाद्ब्रह्मग्राणायमपरः भवेत् ॥

९२

योगिनो मुनिशैव ततः प्राणात्रिरोधयेत् । षड्वंशदङ्कुलिहंसः प्रयाणं कुरते बहिः ॥

९३

वामदक्षिणमार्गेण प्राणायामो विधीयते । शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् ॥

९८

तदेव जायते योगी प्राणसंग्रहणक्षमः । बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ॥

९५

धारयेद्वा यथाशक्त्या भूमिः सूर्येण रेचयेत् । अमृतोधिसंकारं गोक्शीरधवलोपमम् ॥

९६

ध्यात्वा चन्द्रमसं बिम्बं प्राणायामे सुखी भवेत् । स्कुरत्प्रज्वलसंज्वालापूज्यमादित्यमण्डलम् ॥

९७

ध्यात्वा हृदि स्थितं योगी प्राणायामे सुखी भवेत् । प्राणं चेदिडया पिबेच्छ्रियमितं भुओडन्यथा रेचयेत्-

९८

्त्पीत्या पिङ्गलया समीरनमथो बद्ध्वा त्यजेद्वामया । सूर्याचन्द्रमसोरनेन विधिना बिन्दुं ध्यातः शुद्धा नाडीगणा भवन्ति यमिनो मासद्वयादूर्ध्वतः ॥

९९

यथेष्टधारणं वायोरनलस्य प्रदीपनम् । नाडाभिव्यक्तितारारोग्यं जायते नाडिशोधनात् ॥

१००

प्राणो देहस्थितो यावदपानं तु निरुन्धयेत् । एकश्वासमयी मात्रा उभयोः गगने गतिः ॥

१०१

रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः । प्राणायामो भवेदेवं मात्राद्वादशसंयुतः ॥

१०२

मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ । दोषजालमबध्नान्तो ज्ञातव्यौ योगिभिः सदा ॥

१०३

पूरकं द्वादशं कुम्भकं पोङ्क्षं भवेत् । रेचकं दश चोङ्क्षारः प्राणायामः स उच्यते ॥

१०४

अधमे द्वादशमात्रा मध्ये द्विगुणा मता । उत्तमे त्रिगुणा प्रोक्ता प्राणायामस्य निर्णयः ॥

Page 8

१०५

अधमे स्वेदजननं कम्पो भवति मध्यमे । उत्तमे स्थानमाप्नोति ततो वायूं निरुन्धयेत् ॥

१०६

बद्ध्वापदासनो योगी नमस्कृत्य गुरुं शिवम् । नासाग्रदृष्टिरेकाग्री प्राणायामं समभ्यसेत् ॥

१०७

द्वाराणि नव सन्निरुध्य मृदुं बध्वा दृढां धारणां नीत्वा कालमपानवहिसहितं शक्त्या समं चालितम् । आत्मध्यानयुतस्वनेन विधिना श्रृण्यास्य मूर्धि स्वरं यावत्तिष्ठति तावदेव महान्तः सज्जो न संस्नूयते ॥

१०८

प्राणायामो भवेद्वेधः पातकन्धनपावकः । भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा ॥

१०९

आसनेन रुजं हन्ति प्राणायामेन पातकम् । विकारं मानसि योगी प्रत्याहारेण मुञ्चति ॥

११०

धारणाभिर्मनोधैर्यं याति चैतन्यमडुतम् । समाधौ मोक्षमाप्नोति तत्त्वज्ञा कर्म शुभाशुभम् ॥

१११

प्राणायामाद्दृढाद्धृद प्राणायामः प्रकोर्तितः । प्रत्याहारदृढाद्धृद जायते धारणा शुभा ॥

११२

धारणाद्वादशे प्रोक्तं ध्यानं योगविशारदैः । ध्यानाद्वादशकेनैव समाधिरभिधीयते ॥

११३

यत्समाधौ परंज्योतिरन्तं विश्वतोमुखम् । तस्मिन्दृष्टे क्रियाकर्म यातायातो न विद्यते ॥

११४

संवद्धासनमेद्रादिमड्रयुगलं कर्णाक्षिनासापुटद्वारावृङ्किलिभर्नियाम्य पवनं वक्षेण वा पूरितम् । बध्वा वक्षसि बहुयामनासहितं मूर्धि स्वरं धारये- देवं यान्ति विशेषतत्त्वसमतां योगेश्वरास्तन्मनः ॥

११५

गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् । घण्टादीनां प्रवाद्यानां नादसिद्धिरुदीरिता ॥

११६

प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः ॥

११७

हिक्का कासस्थास श्वासः शिरःकर्णाक्षिवेदना । भवन्ति विविधा रोगाः पवनव्यत्ययक्रमात् ॥

११८

यथा सिंहो गजो व्याध्रो भवेद्दुष्टः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥

११९

युक्तंयुक्तं त्यजेद्वायुः युक्तंयुक्तं प्रपूरयेत् । युक्तंयुक्तं प्रबन्धीयादेवं सिद्धिमवाप्नुयात् ॥

१२०

चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत्प्रत्याहरणं तेषां प्रत्यहरः स उच्यते ॥

Page 9

यथा तृतीयकाले तु रवि: प्रत्याहरेत्प्रभाम् ।

तृतीयझ्झस्थितो योगी विकारं मनसं हरेदीत्युपनिषत् ।

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुयां मा मा ब्रह्म निराकरोदनिराकरण-मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु

धर्मास्ते मयि सन्तु ते मयि ते मयि सन्तु ॥

ॐ शान्ति: शान्ति: शान्ति: ॥

इति योगचूडामण्युपनिषत्समाप्ता ॥