1. Yogakundali Upanishad
Page 1
योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् । निर्विशेषब्रह्मत्त्वं स्वमात्रामिति चिन्तये ॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥हेतुद्वयं हि चित्तस्य वासना च समीरनः । तयोर्विनष्ट एकस्मस्तदद्वावपि विनश्यति: ॥ १॥
१
तयोरादौ समीरस्य जयं कुर्वीत: सदा । मिताहारश्चासनं च शक्तिस्वालास्सृतौ यतक ॥ २॥
२
एतेषां लक्षणं वक्ष्ये श्रृणु गौतम सादरम् । सुस्निग्धधमधुराहाररसतुष्टाश्चविवर्जित: ॥ ३॥
३
भुञ्जते शिवसंप्रीत्या मिताहार: स उच्यते । आसनं द्विविधं प्रोक्तं पद्मं वज्रासनं तथा ॥ ४॥
४
ऊर्वोरुपरि चेद्धृत्वा उभे पादतले यथा । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥ ५॥
५
वामाडिग्रमूलकन्दाधो ह्यन्यां तदुपरि क्षिपेत् । समग्रीवशिर: कायो वज्रासनमितीरितम् ॥ ६॥
६
कुण्डल्येव भवेच्चित्ता तां संचालयेद्दृढम् । स्वस्थानाद्भूरोमध्यं शक्तिचालनमुच्यते ॥ ७॥
७
तत्साधने द्वयं मुख्यं सरस्वत्यास्तु चालनम् । प्राणरोधमथाभ्यासादृज्वीकुण्डलिनी भवेत ॥ ८॥
८
तयोरादौ सरस्वत्याश्चालनं कथयामि ते । अरुन्धत्येव कथिता पुराविद्भिः सरस्वती ॥ ९॥
९
यस्या: संचालनैव सयं चलति कुण्डली । इडया वहति प्राणे बद्ध्वा पदासनं दृढम् ॥ १०॥
१०
द्वादशान्तदैर्घ्यं च अम्बरं चतुरङ्गुलम् । विस्तीर्णं तेन तन्नार्डी वे�्टयित्वा ततः सुधी: ॥ ११॥
११
अडृश्टतजनीभियां तु हस्ताभ्यां धारयेद्दृढम् । स्वशक्त्या चालयेद्व्रामे दक्षिणेन पुनःपुनः ॥ १२॥
१२
मुहूर्तद्वयपर्यन्तं निर्भयाच्चालयेत्सुधीः । ऊर्ध्वंमाकर्षयेत्किंचित्सुषुम्नां कुण्डलीगताम् ॥ १३॥
१३
तेन कुण्डलिनी तस्या: सुषुम्नाया मुखं ब्रजेत् ।
Page 2
१४
जहाँति तस्मात्प्राणोङयं सुषुम्नां व्रजति स्वतः । तुन्दे तु ताणं कुरयाऽच्च कण्ठसङकोचने कृते ॥
१५
सरस्वत्यां चालनेन वक्षःसन्ध्योःवङ्गो मरुत् । सूर्येण रेचयेद्वायुः सरस्वत्यास्तु चालनेः ॥
१६
कण्ठसङकोचनं कृत्वा वक्षःसन्ध्योःवङ्गो मरुत् । तस्मात्सञ्चालयेत्क्रित्र्यं शब्दगर्भां सरस्वतीम् ॥
१७
यस्या संचालनानैनैव योगी रोगैः प्रमुख्यते । गुल्मं जलोदरः प्लीहा येऽचाऽन्ये तुन्दमध्यगाः ॥
१८
सर्वे ते शक्तिचालेन रोगा नश्यन्ति निश्शयम् । प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः ॥
१९
प्राणंष दहनो वायुरायामः कुंभकः स्मृतः । स एव द्विविधः प्रोक्तः सहितः केवलस्तथा ॥
२०
यावत्केवलसिद्धिः स्यात्तावत्तावत्सहितमभ्यसेत् । सूर्यौज्जायै धीतल्या च भस्त्री चैव चतुर्थिका ॥
२१
भेदैरैव समं कुम्भो योः स्यात्सहितकुम्भकः । पवित्रे निर्जने देशे शङ्करादिविवर्ज्जिते ॥
२२
धनुःप्रमाणपर्यन्ते शीताभिनिजलवर्ज्जिते । पवित्रे नात्युच्वनीचे ह्यासनेऽ सुखदेऽ सुखे ॥
२३
बद्धपदासनं कृत्वा सरस्वत्यास्तु चालनम् । दक्षिणाडा समाकृष्य बहिःष्ठं पवसं शनैः ॥
२४
यथेष्टं पूरयेद्वायुः रेचयेदिडया ततः ।
२५
कपालशोधने वापि रेचयेत्पवनं शनैः । चतुष्कं वातदोषं तु कुमीदोषं निहन्ति च ॥
२६
पुनः पुनरिदं कार्यं सूर्यभेदमुदाहृतम् । मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः ॥
२७
यथा लगति कण्ठान्तु हृदयावधि सस्वनम् । पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः ॥
२८
शीर्षोदितानलहरं गलश्लेष्महरं परम् । सर्वरोगहरं पुण्यं देहानलविवर्धनम् ॥
२९
नाडीजालोदरं धातुगतदोषविनाशनम् । गच्छतस्तिष्ठतः शस्तं कार्यमुज्जायाख्यं तु कुम्भकम् ॥
३०
जिह्वया वायुमा कृष्य पूर्ववत्कुम्भकादनु । शनैस्तु प्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः ॥
३१
गुल्मप्ल्लीहादिकान्दोषान्क्षयं पित्तं ज्वरं तुषाम् । विषाणि शीतली नाम कुम्भकोडयं निहन्ति च ॥
३२
ततः पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः ।
Page 3
३२
मुखं संयम्य यत्लेन प्राणं रेचयेत् ॥ ३२ ॥
यथा लगति कण्ठात्तु कपाले सस्वानं ततः ।
३३
वेगेन पूरयेत्किञ्चिद्हृत्पद्यावधि मारुतम् । पुनर्विरिचयेततद्तत्पूरयेच्च पुनः पुनः ॥ ३३ ॥
३४
यथैव लोहमारणां भस्त्रा वेगेन चाल्यते । तथैव स्वशरीरस्थं चालयेत्पवनं धैनैः ॥ ३४ ॥
३५
यथा श्रमो भवेद्हे तथा सूर्येण पूरयेत् ।
३६
यथोदरं भवेत्पूर्णं पवनेन तथा लघु । धारयन्नासिकामध्यं तर्जनीभ्यां विना दृढम् ॥ ३६ ॥
३७
कुम्भकं पूर्ववत्कृत्वा रेचयेदिडयानिलम् । कण्ठोत्यत्कानलहरं शरीराग्निनिविर्धदम् ॥ ३७ ॥
३८
कुण्डलीबोधकं पुण्यं पापघ्नं शुभदं सुखम् । ब्रह्मनाडीमुखान्तस्थं कफाद्यर्गलनाशनम् ॥ ३८ ॥
३९
गुणत्रयसमुज्जितप्राणत्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राछ्यं कुम्भकं त्विदम् ॥ ३९ ॥
४०
चतुर्णामपि भेदानां कुम्भके समुपस्थिते । वन्धत्रयमिदं कार्यं योगिभिर्व्रीकतक्रमैः ॥ ४० ॥
४१
प्रथमो मूलबन्धस्तु द्वितीयो उड्डीयाणभिः । जालन्धरस्तृतीयस्तु तेषां लक्षणमुच्यते ॥ ४१ ॥
४२
अधोगतिमपां वै ऊर्ध्वगं कुरुते बलात् । आकुञ्चनं तु प्राहुर्मूलबन्धोऽणिमुच्यते ॥ ४२ ॥
४३
अपाने चोर्ध्वगे याते संप्राप्ते वह्निमण्डले । ततोऽनलशिखा दीर्घा वर्धते वायुना हताहता ॥ ४३ ॥
४४
ततो यातौ वह्निमानौ प्राणमुष्णस्वरूपकम् । तेनात्यन्तप्रदीप्तेन ज्वलनी देहजस्रथा ॥ ४४ ॥
४५
तेन कुण्डलिनी सुप्ता सन्तप्ता संप्रबुध्यते । दण्डाहतभुजङ्गीव नि:श्वस्य ऋजुतां ब्रजेत् ॥ ४५ ॥
४६
बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं ब्रजेत् । तस्माद्रित्यं मूलबन्धः कर्तव्यो योगिभिः सदा ॥ ४६ ॥
४७
कुम्भकान्ते रेचकादौ कर्तव्यस्तुडियाणकः । बन्धो येन सुपुम्नायां प्राणस्तुन्दीयते यतः ॥ ४७ ॥
४८
तस्मादुद्धीयणक्योडयं योगिभिः समुदाहृतः । सति वज्रोपले पादौ कराभ्यां धारयेद् दृढम् ॥ ४८ ॥
४९
गुल्फदेशसमीपे च कनदं तत्र प्रपीडयेत् । पृष्ठिमं ताणमुदरे धारयेद्हृदये गले ॥ ४९ ॥
शने: शनैर्यंदा प्राणस्तुन्दसन्धिं निगच्छति ।
Page 4
50
तुन्ददोषं विनिर्मूल्य कर्तव्यं सततं शनैः । पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कण्ठसङ्कोचरूपोऽसौ वायुमा॒र्गनिरोधकः ॥
51
अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचनेन च । मध्ये पश्चिमताणेन स्यात्प्राणो ब्रह्मनाडिगः ॥
52
पूर्वोक्तेन क्रमेणैव सम्यगासनमास्थितः । चलनं तु सगवस्त्या कृत्वा प्राणं निरोधयेत् ॥
53
प्रथमे दिवसे कार्यं कुम्भकानां चतुष्टयम् । प्रत्येकं दशसंख्याकं द्वितीये पञ्जभिस्तथा ॥
54
विशत्यलं तृतीयेऽहनि पञ्चवृद्धया दिनेदिने । कर्तव्यः कुम्भको नित्यं वशित्वयसमन्वितः ॥
55
दिवा सुप्तिनिशायां तु जागरादितिमैथुनात् । बहुसङ्क्रमणं नित्यं रोधान्मूत्रपुरीषयोः ॥
56
विषमाशनदोषाच्च प्रयासप्राणचिन्तनात् । शीघ्रमृत्युपद्यते रोगः स्तम्भयेद्वादि संयमी ॥
57
योगाभ्यासेन मे रोग उत्पन्न इति कथ्यते । ततोडभ्यासं त्यजेदेवं प्रथमं विघ्नवाञ्चिते ॥
58
द्वितीयं संशयाश्रयं च तृतीयं च प्रमत्तता । आलस्याच्चे चतुर्थं च निद्रारूपं तु पञ्चमम् ॥
59
षष्ठं तु विरतिं ब्रान्तिः सप्तमं परिकीतितं । विषमं चाष्टमं चैव अनाश्रयं नवमं स्मृतम् ॥
60
अलभ्ययोगतत्त्वस्य दशमं प्रोच्यते बुधैः । इत्येतद्दशविधं दृश्यं विचारेण त्यजेद्बुधः ॥
61
प्राणाभ्यासस्ततः कार्यो नित्यं सत्त्वस्थया धिया । सुषुम्ना लीयते चित्तं तथा वायुः प्रधावति ॥
62
शुष्के मले तु योगी च स्यात्तद्वितीयलक्षितः । अधोगतिमपानं वै ऊर्ध्वगं कुरुतेऽबलात् ॥
63
आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते । अपानशोधनगोभूत्वा वह्निना सह गच्छति ॥
64
प्राणस्थानं ततो वहिः प्राणापानौ च सत्त्ववरम् । मिलित्वा कुण्डली याति प्रसुप्ता कुण्डलाकृतिः ॥
65
तेनाग्निना च संतप्ता पवननेनैव चालिता । प्रसार्य स्वशरीरं तु सुषुम्ना वदनान्तरे ॥
66
ब्रह्मग्रन्थिं ततो भित्वा रजोगुणसमुद्धवम् । सुषुम्ना वदने शीघ्रं विद्युल्लेशेव संस्कुरेत् ॥
67
विष्णुग्रन्थिं प्रयात्युच्चैः सततं हृदि संस्थितः ।
Page 5
६८
ऊर्ध्वं गच्छति यच्च्वास्ते रुद्रग्रन्थिं तदुद्रवम् ।
भुवोर्मध्ये तु संविद्या याति श्रीतांशुमण्डलम् ।
अनाहताख्यं यच्चक्रं दलैः षोडशाभियुं तम् ।
तत्र श्रीतांशुसंजातं द्वादशं शोषयति स्वयम् ।
चलिते प्राण वहेन रक्तं पीतं रवेः ग्रह्नात् ।
७०
यातेन्त्रुचक्रं यत्रास्ते शुद्धश्लेष्मद्रवात्मकम् ।
तत्र सिक्तं ग्रस्तयुष्टं कथं श्रीतस्वभावकम् ।
७१
तथैव रभसा शुक्लं चन्द्ररूपं हि तप्यते ।
ऊर्ध्वं प्रवहतिं क्षुधा तदैवं भ्रमतेरराम् ।
७२
तस्यास्वादवशाच्चित्तं बहिष्ठं विषयेषु यत् ।
तदेव परमं भुक्त्वा स्वस्थः स्वात्मरतो युवा ।
७३
प्रकृत्यष्टकरूपं च स्थानं गच्छति कुण्डली ।
कोडीकृत्य शिवं याति कोडीकृत्य विलीयते ।
७८
इत्यधोर्ध्वंरजः शुक्लं शिवे तद्नु मारुतः ।
प्राणापानौ समौ याति सदा जातौ तथैव च ।
७४
भूतेन्द्रिये चाप्यनलमे वा वाचके त्वतिवर्धते ।
ध्वयत्यखिलां वाता अग्निमूषाहिरण्यवत् ।
७६
आधिभौतिकदेहं तु आधिदैविकविग्रहे ।
देहोऽतिविमलं याति चातिवाहिकतामियात् ।
७७
जाड्यभावविनिर्मुक्तं तममलं चिन्मयात्मकम् ।
तस्यातिवाहिकं मुख्यं सर्वेषां तू मदात्मकम् ।
७८
जायाभावविनिर्मुक्तिः कालरूपस्य विभ्रमः ।
इति तं स्वस्वरूपा हि मती रजगुणोज्झृवत् ।
७९
मृषैवोदेति सकलं मृषैव प्रविलीयते ।
रौप्यबुद्धिः शुकिकायां स्त्रीपुसोऽभ्रमतो यथा ।
८०
पिण्डब्रह्माण्डयोः एक्यं लिङ्गसूत्रात्मनोरपि ।
स्वापाव्याकृतयोरैक्यं स्वप्रकाशचिदात्मनोः ।
८?
शक्तिः कुण्डलिनी नाम विसतन्तुनिभा शुभा ।
मूलकन्दं फणाग्रेण दृष्टवा कमलकन्दवत् ।
८२
मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रेसमन्न्विता ।
पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः ।
८३
वायुमूर्ध्वं गतं कुर्वन् कूर्मभकाविष्टमानसः ।
वाच्याश्रातवशादग्निः स्वाधिष्ठानगतो ज्वलनः ।
८४
ज्वलनाश्रातपवनाश्रातो रुद्रत्रितयोदहिराट् ।
ब्रह्मग्रन्थिं ततो भित्वा विष्णुग्रन्थिं भिनत्नयत् ।
८५
रुद्रग्रन्थिं च भित्वैव कमलानि भिनत्ति षट् ।
Page 6
सहस्रकमले शक्तिः शिवेन सह मोदते ॥ ५६ ॥
१
सैवावस्था परा जेया सैव निर्वृतिकारिणी इति । इति प्रथमोऽध्यायः ॥ १॥
१
अथाहं संप्रवक्ष्यामि विद्यां खेचरिसंज्ञिकाम् । यथा विज्ञानवांस्तस्य लोकेऽस्मिन्नत्रजरोडमरः ॥ १॥
२
मृत्युव्याधिजराग्रस्तो दृश्यवा विद्यामिमां मुने । बुंद्धिं दृढतरां कृत्वा खेचरीं तु समभ्यसेत् ॥ २॥
३
जरामृत्युग्रदग्नो यः खेचरीं वेत्ति भूतले । प्रन्यतस्त्वार्थतश्चैव तदभ्यासाप्रयोगतः ॥ ३॥
४
तं मुने सर्वभावेन गुरुं मत्वा समाश्रयेत् । दुर्लभा खेचरी विद्या तदभ्यासोऽपि दुर्लभः ॥ ४॥
५
अभ्यासं मेलनं चैव युगपदेव सिद्ध्यति । अभ्यासमात्रनिरता न विन्दन्ते हि मेलनम् ॥ ५॥
६
अभ्यासं लभते ब्रह्मजन्मजनमान्तरे क्वचित् । मेलनं तु जन्मनां शतान्तेऽपि न लभ्यते ॥ ६॥
७
अभ्यासं बहुजन्मान्ते कृत्वा तद्लावसाधितम् । मेलनं लभते काऽपि योगी जन्मान्तरे क्वचित् ॥ ७॥
८
यदा तु मेलनं योगी लभते गुरुवक्त्रतः । तदा तत्त्वसिद्धिम्नोति युक्तता शास्त्रसन्ततौ ॥ ८॥
९
प्रन्यतस्त्वार्थतश्चैव मेलनं लभते यदा । तदा शिवत्वमाप्नोति निर्मुक्तः सर्वसंशयैः ॥ ९॥
१०
शास्त्रं विनापि संबोधुं गुरुवाक्येऽपि न शक्नुयः । तस्मात्सुदुर्लभतरं लभ्यं शास्त्रविदां मुने ॥ १०॥
११
यावन्न लभ्यते शास्त्रं तावद्वान् पर्यन्ते भ्रति । यदा संलभ्यते शास्त्रं तदा सिद्धः करे स्थिता ॥ ११॥
१२
न शास्त्रेण विना सिद्धिः क्वचिद् जगद्वये । तस्मान्मेलनदातारं शास्त्रदातारमच्युतम् ॥ १२॥
१३
तदभ्यासप्रदातारं शिवं मत्वा समाश्रयेत् । लब्ध्वा शास्त्रमिदं मह्यं मन्ये षां न प्रकाशयेत् ॥ १३॥
१४
तस्मात्सर्वप्रयत्नेन गोपनीयं विजानता । यत्नासते च गुरोर्ब्रह्मानन्दचिद्व्ययोगप्रदायकः ॥ १८॥
१५
तत्र गत्वा च तेनोक्तविद्यां सङ्गृह्य खेचरीम् । तेनोक्तः सम्प्रगभ्यासं कुर्यादादावतन्द्रितः ॥ १५ ॥
१६
अनया विद्यया योगी खेचरीसिद्धिभाग्भवेत् । खेचर्या खेचरीं युञ्जन् खेचरीबीजपूरया ॥१६॥
खेचराधिपतिभूत्वा खेचरेरु सदा वसेत् ।
Page 7
१७
शेचरावसर्थं वह्निमम्वुमण्डलबृंहितम् ।
१५
आध्यातं शेचरीबीजं तेन योगः प्रसिध्यति । सोमांशनवकं वर्णं प्रतिलोमेंन चोद्वरेत् ॥
१९
तस्मात्त्यंशकमाल्यातमक्षरं चन्द्ररूपकम् । तस्मादप्यष्टमं वर्णं विलोमेन परं मुने ॥
२०
तथा तत्परमं विद्धि तदादिरपि पञ्चमी । इन्दौष बहुभित्ने च कूटोङयां परिकीर्तितः ॥
२१
गुरूपदेशालभ्यं च सर्वयोगप्रसिद्धिदम् । यत्तस्य देहजा माया निरुद्धकरणाश्रया ॥
२२
स्वनेपि न लभेत्स्य नित्यं द्वादशाजपयतः । य इमां पञ्च लक्षणि जपेदपि सुर्यन्वितः ॥
२३
तस्य श्रीशेचरीसिद्धिः स्वयमेव प्रवर्तते । नश्यन्ति सर्वविन्दानि प्रसीदन्ति च देवताः ॥
२४
वलीपलितनाश्र्च भविष्यति न संशयः । एवं लब्ध्वा महाविद्यामभ्यासं कारयेतततः ॥
२५
अन्यथा क्लिश्यते ब्रह्मन् सिद्धिः शेचरीपथे । यदभ्यासविधौ चेदं विद्यां न लभेः सुधामयीम् ॥
२६
ततः संमेलकादौ च लब्ध्वा विद्यां सदा जपेत् । नान्यथा रहितो ब्रह्मन् किचित्सिद्धिभाग्भवेत् ॥
२७
यदि च लभ्यते श्रासं तदा विद्यां समाश्रयेत् । ततस्तदौदितां सिद्धिमाशु तां लभते मुनिः ॥
२५
तालुमूलं समुत्कृष्य सप्तध्वासरमात्मवित् । स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् ॥
२९
स्नुहिपत्रनिभं शस्त्रं सूतीक्ष्णं स्निग्धनिमेललम् । समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥
३०
हित्वा सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥
३१
एवं क्रमेण षण्मासं नित्योयुक्तः समाचरेत् । षण्मासाद्रसनामूलं सिराबद्धं प्रणश्यति ॥
३२
अथ वागीश्वरीधाम शिरो वस्त्रेण वेष्टयेत् । ग्राने रुत्कर्षयेद्वेगी कालवेलाविधानवित् ॥
३३
पुनः षण्मासमात्रेण नित्यं संघर्षणान्मुने । भूमध्यावधि चाप्येत तिर्यङ्कर्णबिलावधि ॥
३४
अधश्च चुवुकं मूलं प्रयाति क्रमचारिता । पुनः संवत्सराणां तु तृतीयेव लीलया ॥
३५
केशान्तमूर्ध्वं कमति तिर्यङ्क शाखावधिमुने ।
Page 8
35
अधस्तात्कण्ठकूपान्तं पुनर्वर्षत्रयेण तु ॥ ३५ ॥ ब्रह्मरन्ध्रं समावृत्य तिष्ठेदेव न संशयः ।
36
तियङ् चुलितलं याति अधः कण्ठविलावधि ॥ ३६ ॥ शनेर्मस्तकाच्च महावज्रकपाटभित् ।
37
पूर्वं बीजयुता विद्या ह्याख्याता यतिदुर्लभा ॥ ३७ ॥ तस्या: षडङ्कं कुर्वीत तथा षट्स्वारभित्त्रिया ।
38
कुयोनिदेवं करन्यासं सर्वसिद्ध्युदयादिहेतवे ॥ ३८ ॥ शनेरेवं प्रकटव्यमभ्यासं युगपत्न्राहि ।
39
युगपद्वद्रते यस्य शरीरं विलयं ब्रजेत् ॥ ३९ ॥ तस्माच्छने: शनै: कार्यमभ्यासं मुनिपुङ्गव ।
40
यदा च बाह्ममार्गेण जिह्वा ब्रह्मविलं ब्रजेत् । तदा ब्रह्मार्गले ब्रह्मद्वारेऽयं त्रिदशैरपि ।
41
अङ्कुल्यग्रेण सङ्गृह्य जिह्वामात्रे निवेशयेत् ॥ ४१ ॥ एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं प्रविश्यति ।
42
ब्रह्मद्वारे प्रविश्टे तु सम्यग्ज्ञानमाचरेत् ॥ ४२ ॥ मथनेन विनाऽकेचित्साधयन्नि विपश्चितः ।
43
खेचरीमन्त्रसिद्धस्य सिद्ध्यते मथनं विना ॥ ४३ ॥ जपं च मथनं चैव कृत्वा श्रीफलं लभेत् ।
44
स्वर्णांजं रौप्यजां वापि लोर्हजां वा शलाकिकाम् ॥ ४४ ॥ नियोज्य नासिकार्न्तं दुग्धसिक्तेन तन्तुना ।
45
प्राणान्तिरुद्ध्य हृदये सुखमासनमात्मनः ॥ ४५ ॥ शने: शनैर्मथनं कुयाद्ब्रह्ममध्ये न्यस्य चक्षुषी ।
46
षण्मासं मथनास्था भावेनैव प्रजायते ॥ ४६ ॥ यथा सुसुप्तिबालानां यथा भावस्तथा भवेत् ।
47
न सदा मथनं शस्तं मासे मासे समाचरेत् ॥ ४७ ॥ सदा रसनया योगी मार्गं न परिसंक्रमेत् ।
48
एवं द्वादशवर्षान्ते संसिद्धिमभवति ध्रुवा ॥ ४८ ॥ शरीरे सकलं विषं पश्यत्यात्माविभेदतः ।
49
ब्रह्माण्डोडयं महामार्गो राजदन्तोर्ध्वकुण्डली ॥ ४९ ॥ इति ॥ इति द्वितीयोऽध्यायः ॥ २ ॥
1
मेलनमनः । हीं भ्रं सं फं सं क्षं । पदाज उवाच । अभावास्या च प्रतिपदपौर्णमासी च शङ्कर ।
1
अस्याः का वण्यते संज्ञा एतदाख्याहि तत्वतः: ॥ १ ॥ प्रतिपदिनतोऽकाले अभावास्या तथैव च ।
2
पौर्णमास्यां स्त्ररीकुर्यात्स च पन्था हि नान्यथा ॥ २ ॥ कामेन विषयैकक्षी विषयात्काममोहितः ।
Page 9
३
द्वावेव सत्यजेनेत्रियं निरञ्जनमनुपाश्रयेत् ।
४
अपरं सत्यजेत्सवं यदिच्छेदात्मनो हितम् । शक्तिमध्ये मनः कृत्वा मनः शक्तौ निवेश्य मध्यगम् ॥
५
मनसा मन आलोक्य तत्त्वजेत्परमं पदम् । मन एव हि बिन्दुच्युत्तपत्तिस्थितिकारणम् ॥
६
मनसोत्पद्यते बिन्दुथा क्षीरं घृतात्मकम् । न च बन्धनमध्येस्थं तद्वत् कारणमानसम् ॥
७
चन्द्राकेमध्ये शक्तित्रयत्रस्या तत्र बन्धनम् । ज्ञात्वा सुषुम्नां तद्र्द्वेन्दं कृत्वा वायुं च मध्यगम् ॥
८
स्थित्वासौ बिन्दुवस्थाने प्राणरन्थ्रे निरोधयेत् । वायुं बिन्दुं समाश्रित्य सत्च्वं प्रकृतिमेव च ॥
९
षट् चक्राणि परिज्ञात्वा प्रविशेद्रसुसुमण्डलम् । मूलाधारं स्वाधिष्ठानं मणिपूरं तुतीर्थकम् ॥
१०
आनाहतं विशुद्धं च आज्ञाचक्रं च षट्कम् । आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लैङ्ककम् ॥
११
मणिपूरं नाभिदेशं हृदयस्थमनाहतम् । विशुद्धिः कण्ठमूले च आज्ञाचक्रं च मस्तकम् ॥
१२
षट् चक्राणि परिज्ञात्वा प्रविशेद्रसुसुमण्डले । एवं समभ्यसेद्रायुं तयैवोध्वं नियोजयेत् ॥
१३
एवं समभ्यसेद्रायुं स ब्रह्माण्डमयो भवेत् । वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् ॥
१४
समाधिमेकन समम्मृतं यान्ति योगिनः । यथाग्निदग्धारुमध्यस्थो नोत्तिष्ठेद्धन्थनं विना ॥
१५
विना चाभ्यासयोगेन ज्ञानदीपस्थया न हि । घटमध्येगतो दीपो बाह्यो नैव प्रकाशते ॥
१६
भित्ते तस्मिन्न्चैव दीपज्वाला च भासते । स्वकायं घटमित्युक्तं यथा दीपो हि तत्पदम् ॥
१७
गुरुवाक्यसमाभ्रित्य ब्रह्मज्ञानं स्फुटिभवेत् । करणधारं गुरुं प्राप्य कृत्वा सूक्ष्मं तरन्ति च ॥
१८
अभ्यासवासनाशक्त्या तरन्ति भवसागरम् । परायामदूतीभीय पश्यनन्तां द्विदलैकृता ॥
१९
मध्यमायां मुकुलिता वैष्णवो विकसीकृता । पूर्वं यथोदिता या वाग्विलोमेनास्तगा भवेत् ॥
२०
तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः । सोहंमस्मीति निश्चित्य यः सदा वर्तते पुमान् ॥
शब्देरुच्चावचैर्नैचैर्भाषितोऽपि न लिप्यते ।
Page 10
21
विश्वस्थ तेजसैश्व प्राज्ञखेति च ते त्रयः ॥ २१ ॥ विराडिदंरणयाभंष ईश्वरखेति ते त्रयः ।
22
ब्रह्माण्डं चैव पिण्डाण्डं लोकां भूरादयः कमात् ॥ २२ ॥ स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि ।
23
अण्डं ज्ञानाग्निना तप्तं लीयते कारणैः सह ॥ २३ ॥ परमात्मनि लीनं तत्परं ब्रह्मैव जायते ।
24
ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ॥ २४ ॥ अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ।
25
ध्यात्वा मध्यस्थमात्मानं कलाशान्तरदीपवत् ॥ २५ ॥ अणुच्छमात्रमात्रान्मध्यमज्योतिरूपकम् ।
26
प्रकाशयन्तमन्तस्थं ध्यायेल्कूटस्थमच्ययम् ॥ २६ ॥ विज्ञानात्मा तथा देहे जाग्रत्स्वप्नसुषुप्तितः ।
27
मायया मोहितः पश्चाद्रहुजन्मान्तरे पुनः ॥ २७ ॥ सत्कर्मपरिपाकातु स्वविकारं चिकीर्षति ।
28
कोढहं कथमयं दोषः संसाराश्य उपागतः ॥ २८ ॥ जाग्रत्स्वप्ने विवहरन्त्सुपुतौ क्व गतिर्मम ।
29
इति चिन्तापरो भूत्या स्वभासा व विशेषतः ॥ २९ ॥ अज्ञानातु विदाभासो बहिस्तापेन तापितः ।
30
दग्धं भवत्येव तदा तूलपिण्डमिवाग्निना ॥ ३० ॥ दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् ।
31
विततो व्यापि विज्ञानं दहत्येव क्षणेन तु ॥ ३१ ॥ मनोमयज्ञानमयान्सम्यगदग्ध्वा क्रमें तु ।
32
घटस्थदीपवच्च्छादनद्वारेव प्रकाशते ॥ ३२ ॥ ध्यायन्नासते मुनिश्रेष्ठमासुप्तेरामृतेऽस्तु यः ।
33
जीवन्मुक्तः स विजेयः स धन्यः कृतकृत्यवान् ॥ ३३ ॥ जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
34
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३४ ॥ अशब्दमस्पर्शमरूपमचच्ययं
35
तथारस नित्यमग्नभवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं तदेव शिष्यतयमलं निरामयम् ॥ ३५ ॥ इत्युपनिषत् ।
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति योगकुण्डल्युपनिषत्समाप्ता ॥