Books / Yogasikha Upanishad

1. Yogasikha Upanishad

Page 1

योगज्ञाने यत्प्राप्तिसाधनत्वेन विश्रुते । tतत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥ ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । teजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ sर्वे जीवाः सुखेऽसुःसैर्मायाजालेन वेष्टिताः । तेषां मुक्तिः कथं देव कृपया वद शाङ्कर ॥१॥

सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम् । जन्ममृत्युजराव्याधिनाशनं सुखदं वद ॥ २॥

इति हिरण्यगर्भः प्रपच्छु स होवाच महेश्वरः । नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् ॥ ३॥

सिद्धिमार्गेण लभते नान्यथा पचसंभव । पतिता: शास्त्रजालेषु प्रजया तेन मोहिताः ॥ ४॥

स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते । निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ॥ ५॥

तदेव जीवરૂपेण पुण्यपापफलैर्वृतम् । परमात्मपदं नित्यं तत्कथं जीवतां गतम् ॥ ६॥

तत्त्वातीतं महादेव प्रसादात्कथयेेश्वर । sर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् ॥ ७॥

वायुवत्स्फुरितं स्वस्मिन्संस्थात्राहंकृतिरुच्यते । pञ्चात्मकमभूत्पिण्डं धातुत्रयगुणात्मकम् ॥ ८॥

सुखदुःखैः समायुक्तं जीवभावनया कुरु । ten जीवामिधा प्रोकता विशुद्धे परमात्मनि ॥ ९॥

१०

कामक्रोधभयं चापि मोहलोभौ मदथो रजः । जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥ १०॥

११

तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च । एभिदोंरैर्विनिमुक्तः स जीवः शिव उच्यते ॥११॥

१२

तस्मादोषविनाशार्थमुपायं कथयामि ते । ज्ञानं केचिद्दनत्यत्र केवलं तत् सिध्यये ॥१२॥

१३

योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः । योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि ॥१३॥

१४

तस्माज्ज्ञानं च योगं च मुमुक्षुर्ॐड्गमभ्यसेत् । ज्ञानस्वरूपमेवादौ जेयं ज्ञानैकसाधनम् ॥१४॥

Page 2

१५

अजानं कीदृशं चेति प्रविवायं मुहुर्मुहुः । ज्ञातं येन निजं रूपं केवल्यं परमं पदम् ॥

१६

असो दोषैर्विनिर्मुक्तः कामकोधभयादिभिः । सर्वदोषैर्विरून्तो जीवः कथं ज्ञानने मुच्यते ॥

१७

स्वात्मरूपं यथा ज्ञानं तद्व्यापकं तथा । कामकोधादिदोषाणां स्वरूपान्नास्ति भिन्नता ॥

१८

पश्वातस्य विधिः किंनु निषेधोऽपि कथं भवेत् । विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः ॥

१९

परिपूर्णं स्वरूपं तत्सत्यं कमलसंभव । सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि ॥

२०

कलिना स्फुटितरूपेण संसारभ्रमतां गतं । निष्कलं निर्मलं साक्षात्सकलं गगनोपमं ॥

२१

उत्पत्तिस्थितिसंहारस्फूर्तिज्ञाननिवर्जितम् । एतदूपं समायातः स कथं मोहसागरे ॥

२२

निमज्जति महावाहो त्यक्त्वा विद्यां पुनः पुनः । सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः ॥

२३

तथा ज्ञानी यदा तिष्ठेद्वासनावासितस्तदा । तयोर्नास्ति विशेषोऽत्र समा संसारभावना ॥

२४

ज्ञानं चेदृशं ज्ञातमज्ञानं कीदृशं पुनः । ज्ञांननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः ॥

२५

विना देहं योगेन न मोक्षं लभते विधे । अपक्वाः परिपक्वाश्च देहिनो द्विविधा: स्मृताः ॥

२६

अपक्वा योगहीनास्तु पक्वा योगेन देहिनः । सर्वो योगग्निना देहो ह्रृजडः शोकवर्जितः ॥

२७

जडस्तु पार्थिवो जेयो ह्यपक्वो दु:खदो भवेत् । ध्यानस्थोऽसौ तथाप्येवमिन्द्रियैर्विवशो भवेत् ॥

२८

तानी गाढं नियम्यापि तथाप्यन्थैः प्रवाध्यते । शीतोष्णसुखदुःखैःचैवाधिभिरमांसनेस्थथा ॥

२९

अन्यैरन्नैविधैर्जीवैः शस्त्राग्निजलमारुतैः । शरीरं पीड्यते तैस्तैस्तथं संक्षुभ्यते ततः ॥

३०

तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः । ततः दु:खशतैर्यन्तं चित्तं क्षुभ्यं भवेत्स्वणां ॥

३१

देहावसानसमये चित्ते यद्यद्भावयेत् । तततदेव भवेज्जीव इत्येवं जन्मकारणं ॥

३२

देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः । तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः ॥

Page 3

33

पिपीलिका यथा लग्ना देहे ध्यानादिमुच्यते । असौ किं वृक्षैकद्रष्टो देहान्ते वा कर्थं सुखी ॥ ३३॥

34

तस्मान्मूढा न जानन्ति मिथ्यात्कंणं वेष्टिताः । अहंकृतियंदा यस्म्य् नष्टा भवति तस्य वै ॥ ३४॥

35

देहस्थपि भवेष्ट्रो व्याधियस्यास्य किं पुनः । जलाग्निशस्त्रादिबाधा कस्य भविष्यति ॥ ३५ ॥

36

यदा यदा परिक्षीणा पुष्टा चाहंकृतिभंवेत् । तमननेनास्य नश्यन्ति प्रवर्तन्ते रुगादयः ॥ ३६ ॥

37

कारणेन विना कार्यं न कदाचन विदांते । अहंकारं विना तद्धदेहे हुसंखं कर्थं भवेत् ॥ ३७ ॥

38

शरीरेण जितः सर्वे शरीरं योगिभिर्‌जितम्‌ । तत्कर्थं कुरुते तेषां सुखदुःखादिकं फलम्‌ ॥ ३८ ॥

39

इन्द्रियाणि मनो बुद्धिः कामक्रोधादिकं जितम्‌ । तेनैव विजितं सर्वे नासौ केनापि बाध्यते ॥ ३९॥

40

महाभूतानि तत्त्वानि संहृतानि क्रमेण च । सप्तधातुमयो देहो दग्धो योगाग्निना शनेः ॥ ४०॥

41

देवैरपि न लक्ष्येत योगिदेहेो महाबलः । भेदबन्धविनिर्मुक्तो नानाशक्तिधरः परः ॥ ४१॥

42

यथाकाशस्थता देह आकाशादपि निर्मलः । सूक्ष्मात्सूक्ष्मतरो दृश्यः स्थूलात्स्थूलो जडाजडः ॥ ४२ ॥

43

इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्ववज्‌रामरः । कीडते त्रिषु लोकेषु लीलया यथकृच्‌छ्रचित् ॥ ४३ ॥

44

अचिन्त्यशक्तिमान्‌योगी नानारूपाणि धारयेत् । संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः ॥ ४४॥

45

नासौ मरणमाप्नोति पुनर्यंगबलेन तु । हठेन मृत एवासौ मृतस्य मरणं कुतः ॥ ४५ ॥

46

मरणं यत्र सर्वां तत्रासौ परिजीवति । यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै ॥ ४६ ॥

47

कर्तव्यं नैव तस्यास्ति कृतनेनासौ न लिप्यते । जीवन्‌मुक्तः सदा स्वच्छः सर्वदोषविवर्जितः ॥ ४७ ॥

48

विरक्ता ज्ञानिनश्ये देहेन विजिताः सदा । ते कर्थं योगिभिस्‌तुल्याः मांस्पिण्डा: कुड्‌देहिनः ॥ ४८ ॥

49

देहान्ते ज्ञानिनः पुण्यात्पापाच्च फलमाप्नुयात् । ईदृशं तु भवेत्कृत्‌वा ज्ञानी पुनर्भवेत् ॥ ४९ ॥

50

पश्‍चात्पुण्येन तभते सिद्धेन सह सड़‌गतिम्‌ । ततः सिद्धस्य कृपया योगी भवति नान्यथा ॥ ५०॥

Page 4

४१

ततो नश्यति संसारो नान्यथा शिवभाषितम् । योगेन रहितं ज्ञानं न मोक्षाय भवेद् दृढे ॥

४२

ज्ञाननेव विना योगो न सिद्धूयति कदाचन । जन्मान्तरैषु बहुभिर्योगो ज्ञानेन लभ्यते ॥

४३

ज्ञानं तु जन्मनैकेन योगादेव प्रजायते । तस्मायोगात्परतरौ नास्ति मार्गस्तु मोक्षदः ॥

४४

प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते । किमसौ मननादेव मुक्तो भवति तत्क्षणात् ॥

४५

पश्वाज्जन्मशतान्तरेयोगादेव विमुच्यते । न तथा भवतो योगाज्जन्ममृत्युपुनः पुनः ॥

४६

प्राणापानसमायोगाच्चन्द्रसूर्यैकता भवेत् । सप्तधातुमयं देहमग्निना रज्येद दृढव्रुम् ॥

४७

व्याधयस्तस्य नश्यन्ति छेद्येदक्षातादिकास्तथा , तदासौ परमाकारूपो देहेऽवतिष्ठति ॥

४८

किं पुनबहुनोक्तेन मरणं नास्ति तस्य वै । देहीव दृश्यते लोके दग्धकपर्दपरवत्स्यम ॥

४९

चित्तं प्राणेन संयुक्तं सर्वजीवेषु संस्थिथतम । रज्ज्वा यद्वत्सुसंबद्धं पक्षी तद्वदिदं मनः ॥

५०

नानाविधैर्विंचारैस्तु न वाध्यं जायते मनः । तस्मात्तस्य जयोऽपायः प्राण एव हि नान्यथा ॥

५१

तर्केर्ज्जल्पे: श्रास्त्रजालैयुक्तिभिर्मन्त्रवेधसे: । न वश्रो जायते प्राणः: सिद्धोपायं विना विधे ॥

६२

उपायं तमविज्ञाय योगमार्गे प्रवर्तते । खण्डज्ञानेन सहसा जायते क्लेशवत्तरः ॥

६३

यो जित्वा पवनं मोहाद्योगमिच्छति योगिनाम् । सोऽपक्वं कुम्भमारुह्य सागरं ततुिमच्छति ॥

६४

यस्य प्राणो विलीनोऽन्तः: साधके जीविते सति । पिण्डो न पततस्तस्य चित्तं दोषैः: प्रबाधते ॥

६५

शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते । तस्माज्ज्ञानं भवेद्योगाज्जन्मनैकेन पदाज ॥

६६

तस्माद्योगं तमेवादौ साधको नित्यमभ्यसेत । मुमुक्षुभिः: प्राणगजयः कर्तव्यो मोक्षहहेतवे ॥

६७

योगात्परतरं पुण्यं योगात्परतरं शिवम । योगात्परतरं सूक्ष्मं योगात्परतरं न हि ॥

६८

योऽपानप्राणयोरैक्यं स्वरजोरेतसोऽस्थिता । सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः ॥

Page 5

६९

एवं तु द्वन्द्वजालस्प संयोगो योग उच्यते । अथ योगशिखां वक्ष्ये सर्वज्ञानेपु चोत्तमम् ॥ ६९ ॥

७०

यदानुध्यायते मनं नात्रकम्पोदथ जायते । आसनं पचकं बध्द्वा यचान्तर्दपि रोचते ॥ ७० ॥

७१

नासाग्रे दृष्टिमारोप्य हस्तपादौ च संयतौ । मनः सर्वत्र संगृह्य ओंकारं तत्र चिन्त्यते ॥ ७१ ॥

७२

ध्यायते सततं प्राज्ञो हृत्कृत्या परमेश्वरम् । एकस्तम्भे नवद्वारे त्रिस्थूणे पद्मदेवते ॥ ७२ ॥

७३

ईदृशे तु शरीरे वा मतिमात्रोपलक्ष्यते । आदित्यमण्डलाकारं रश्मिज्वालासमाकुलम् ॥ ७३ ॥

७४

तस्य मध्यगतं वहिं प्रज्वलेदीपरवर्तिंवत । दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे ॥ ७४ ॥

७५

भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः । द्वितीयं सुषुम्नाद्वारं परिशुंभं समपिंतम् ॥ ७५ ॥

७६

कपालसंपुटं पीत्वा ततः पश्यति तत्पदम् । अथ न ध्यायते जन्तुरालस्याच्च प्रमादतः ॥ ७६ ॥

७७

यदि त्रिकालमागच्छेत्स गच्छेत्पुणयंसंपदम् । पुण्यमेतत्समासाद्य संक्षिप्य कथितं मया ॥ ७७ ॥

७८

लब्धयोगोडथ बुद्धूयेत प्रसन्नं परमेश्वरम् । जन्मानतरसहस्रेषु यदा क्षीणं तु किल्बिषम् ॥ ७८ ॥

७९

तदा पश्यति योगेन संसारोच्छेदानं महत् । अधुना संप्रवक्ष्यामि योगाभ्यासस्य लक्षणम् ॥ ७९ ॥

८०

मरुज्जयो यस्मिन् सिद्धः सेवयेतं गुरुं सदा । गुरुवस्त्रप्रसादेन कुयात्रप्राणजयं बुधः ॥ ८० ॥

८१

वितस्तिप्रमिते दैर्घ्यं चतुरङ्गुलविस्तृतम् । मृदुलं धवलं प्रोक्तं वेष्टनाख्वरलक्षणम् ॥ ८१ ॥

८२

निरुद्ध मारुतं गाढं शक्तिचालनयुक्तितः । अष्टधा कुण्डलीभूतामूर्जिं कुयात्तु कुण्डलीम् ॥ ८२ ॥

८३

पायोराकुच्ज्वनं कुयात्कुण्डलीं चालयेतदा । मृत्युवक्रगतस्यापि तस्य मृत्युभयं कुतः ॥ ८३ ॥

८४

एतदेव परं गुह्यं कथितं तु मया तव । वज्ञासनगतो नित्यमध्वाङ्कुचनमभयसेत ॥ ८४ ॥

८५

वायुना ज्वलितो वह्निः कुण्डलीमानिः दहेत् । सन्तप्ता सार्धिननगा जीवशक्तिस्तैलोक्यमोहिनी ॥ ८५ ॥

८६

प्रविशेच्चन्द्रनत्रुण्डे तु सुषुम्नावेदनान्तरे । वायुना वहिना सार्धे ब्रह्मग्रन्थिं भिनत्ति सा ॥ ८६ ॥

Page 6

५७

विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति । ततस्तु कुम्भकैर्गाढं पूरयित्वा पुनःपुनः ॥ ५७॥

५८

अथाभ्यसेत्सूक्ष्मभेदमुज्जयायां चापि शीतलीं । भस्त्रां च सहितो नाम स्याच्चतुष्टयकुम्भकः ॥ ५८ ॥

५९

बन्धत्रयेण संयुक्तः केवलप्राप्तिकारकः । अथास्य लक्षणं सम्यक्कथयामि समासतः ॥ ५९ ॥

९०

एकाकिनं समुपागम्य विविक्तदेशं प्राणादिरूपममृतं परमार्थतत्त्वम् । लघ्वाशिनां धृतिमतां परिभावितत्वं संसरोगहरमौषधमद्वितीयम् ॥ ९०॥

९१

सूर्यनाड्या समाकृष्य वायुमभ्यासयोगिना । विधिवत्कुम्भकं कृत्वा रेचयेच्छीतरश्मिना ॥ ९१॥

९२

उदरे बहुरोगाणं क्रिमिदोषं निहन्ति च । मुहुर्मुहुरिदं कार्यं सूर्यंभेदमुदाहृतम् ॥ ९२॥

९३

नाडीभ्यां वायुमाकृष्य कुण्डल्या: पार्श्वयो: क्षिपेत् । धारयेदुदरे पश्चाद्रेचयेदिडया सुधी: ॥ ९३॥

९४

कण्ठे कफादि दोषाणं शरीराग्निविवर्धनम् । नाडीजालापहं धातुगतदोषविनाशनम् ॥ ९८ ॥

९५

गच्छतस्तिष्ठतः कार्यमुज्जयायाख्यं तु कुम्भकम् । मुखेन वायुं सग्रहणं रेचयेत् ॥ ९५ ॥

९६

शीतलीकरणं चेद् हन्ति पित्तं क्षुधां तृष्णम् । स्तनयोर्थ स्त्रैव लोहकारस्य वेगत: ॥ ९६ ॥

९७

रेचयेत्पूरयेद्वायुमाश्रमं देहगं भिया । यथा श्रमो भवेद् वह्नौ तथा सूर्येण पूरयेत् ॥ ९७॥

९८

कण्ठसङ्कोचनं कृत्वा पुनःश्वसन्रेचयेत् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ ९५ ॥

९९

कुण्डलीबोधकं वक्त्रदोषह्नं शुभं सुखम् । ब्रह्मनाडीमुखान्तस्थकफादिर्गलनाशनम् ॥ ९९ ॥

१००

सम्यग्वन्धुसमुद्धृतं प्राणत्रयविभेदकम् । विशेषेऐव कतव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ १०० ॥

१०१

बन्धत्रयमपेदानिं प्रवक्ष्यामि यथाक्रमम् । नित्यं कुर्यात्तेनासौ वायोर्जयंवाप्नुयात् ॥ १०१ ॥

१०२

चतुणामपि भेदानां कुम्भके समुपस्थिते । बन्धत्रयमिदं कार्यं वक्ष्यमाणं मया हि तत् ॥ १०२ ॥

१०३

प्रथमो मूलबन्धस्तु द्वितीयोउड्डियानाभिधः । जालन्धरस्तृतीयस्तु लक्षणं कथयाम्यहम् ॥ १०३ ॥

Page 7

108

गुंडं पाष्ण्यां तु संपीड्य पायुमाकुज्चेलेद्वलात् । वारंवारं यथां चोदयं समायाति समीरणः ॥ १०८ ॥

109

प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्या योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ १०९ ॥

110

कुम्भकान्ते रेचकादौ कर्तव्यस्तुडियानकः । बन्धो येन सुषुम्नायां प्राणस्तुडियानक्रियते यत् ॥ ११० ॥

111

तस्मादुडडीनकस्योडयं योगिभिः समुदाहृतः । उड्डियानं तु सर्हजं गुण्णा कथितं सदा ॥ १११ ॥

112

अभ्यसेऽत्तदतन्नस्तु वृद्धयोडपि तरुणो भवेत् । नामेरूध्वंमध्येऽपि त्राणं कुयादप्त्रयत्नतः ॥ ११२ ॥

113

षण्मासामसभ्यसेनमृत्युत्वं जयत्येव न संशयः । पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ॥ ११३ ॥

114

कण्ठसंकोचरूपोडसौ वायुमार्गनिरोधकः । कण्ठमाकुज्च्य हृदये स्थापयेद्धृद्मिच्छया ॥ ११४ ॥

115

बन्धो जालन्धराख्योडयं यममृत्याव्यायकारकः । अधस्तात्कुज्चनेनाशु कण्ठसंकोचने कृते ॥ ११५ ॥

116

मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः । वज्ञासनस्थितो योगी चालयित्वा तु कुण्डलीम् ॥ ११६ ॥

117

कुर्यादनन्तरं ब्रस्त्री कुण्डलीमाशु बोधयेत् । भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया ॥ ११७ ॥

118

तथैव पृष्ठवंशः स्यादग्रन्थिभेदस्तु वायुना । पिपीलिकायां लग्नायां कण्डूषत्र प्रवर्तते ॥ ११८ ॥

119

सुषुम्नायां तथाभ्यासात्सततं वायुना भवेत् । रुद्रग्रन्थिं ततो भित्वा ततो याति शिवात्मकम् ॥ ११९ ॥

120

चन्द्रसूर्यौं समी कृत्वा तयोर्योगः प्रवर्तते । गुणत्रयमतीतं स्यादग्रन्थित्रयविभेदनात् ॥ १२० ॥

121

शिवशक्तिसमायोगे जायते परमा स्थितिः । यथा करी करेणैव पानीयं प्रपिबेत्स्वदा ॥ १२१ ॥

122

सुषुम्नावजना लेन पवमानं प्रसित्स्था । वज्रदण्डसमुज्झता मणयश्चैकविंशतिः ॥ १२२ ॥

123

सुषुम्नायां स्थितः सर्वे सूत्रे मणिगणा इव । मोक्षमार्गे प्रतिष्ठानात्सुषुम्ना विश्वरूपिणी ॥ १२३ ॥

124

यथैव निश्चिता कालाग्निसदृश्यान्निर्वन्धनात् । आपूर्य कुम्भमितो वायुर्बहिनो याति साधके ॥ १२४ ॥

125

पुनःपुनस्तद्देव पश्चिमद्वारलक्षणम् । पूरितस्तु स तद्द्वारैरेष्टकुम्भकतां गतः ॥ १२५ ॥

Page 8

१२२

प्रविशेत्स्ववर्गावेशु वायु: पश्चिममार्गतः । रेचित: क्षीणतां याति पूरित: पोषयेततत: ॥

१२३

यत्रैव जातं सकलेवरं मन- स्त्रैव लीनं कुरुतेऽ स योगात् । स एव मुक्तो निरहंकृतिः सुखी मूढा न जानन्ति हि पिण्डपातिनः ॥

१२४

चित्तं विनिष्ठं यदि भासितं स्या- तत्त्व प्रतीतो मरुतोडपि नाशः । न चेद्वदि स्यात्तु तस्य शास्त्रं नातमप्रतीतिनं गुरुनं मोक्षः ॥

१२५

जलूका रुधिरेण यद्वद्दलादकार्पित स्वयम् । ब्रह्मानाड़ी तथा धातून्स्तनताभ्यासयोगतः ॥

१२६

अनेनाभ्यासयोगेन नित्यमासनवन्धत: । चित्तं विलीनतामेति बिन्दुनों यात्यध:स्थथा ॥

१२७

रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम् । नाना नादा: प्रवर्तन्ते संप्रवेच्चन्र्मण्डलम् ॥

१२८

नश्यन्ति क्षुतिपासाद्या: सर्वदोषास्ततस्तदा । स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् ॥

१२९

कथितं तु तव प्रीत्या होतदभ्यासलक्षणम् । मन्त्रो लयो हटो राजयोगोडन्तर्भूमिका: क्रमात् ॥

१३०

एक एव चतुर्होंडयं महायोगोऽभिधीयते । हकारेण बहिर्याति सकारेण विशेषतुन् ॥

१३१

हंसहंसेति मन्त्रोऽयं सर्वेर्जीविवश जप्यते । गुरुवाक्यात्सुषुम्नायां विपरीतो भवेज्जप: ॥

१३२

सोऽहंहंसोडहंहसि प्रोक्तो मन्त्रयोग: स उच्यते । प्रतीतमंन्ययोगाच्च जायते पश्चिमे पथि ॥

१३३

हकारेण तु सूर्यं स्यात्सकारेणेन्दुरुच्यते । सूर्याचन्द्रमसोरेतिं हट इत्यभिधीयते ॥

१३४

हटेन ग्रस्पते जाड्यं सर्वदोषसमुज्झवम् । क्षेत्रज्ञ: परमात्मा च तयोरेक्यं यदा भवेत् ॥

१३५

तदैक्ये साधिते ब्रह्माश्रितं याति विलीनताम् । पवन: स्थीयमायाति लययोगोदये सति ॥

१३६

लयात्संप्राप्यते सौख्यं स्वात्मानन्दं परं पदम् । योनिमध्ये महाक्षेत्रे जपाबन्ध्र्कसंनिभम् ॥

१३७

रजो वसति जन्तूनां देवीतत्त्वं समावृतम् । रजसो रेतसो योगाद्राजयोग इति स्मृतः ॥

Page 9

१३५

अणिमादिपदं प्राप्य राजते राजयोगतः । प्राणापानसमायोगो जेयं योगचतुष्टयम् ॥

१३९

संक्षेपात्कथितं ब्रह्मज्ञान्‍यथा शिवभाषितम् । कर्मेण प्राप्ते प्राप्यमभ्यासादेव नान्‍यथा ॥

१४०

एकनैव शरीरेण योगाभ्‍यासाच्छनैःशनैः । चिरात्संप्राप्यते मुक्तिर्‍मृत्कटक्रम एव सः ॥

१४१

योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति । पूर्ववासनया युक्तः शरीरं चान्यदाप्नुयात् ॥

१४२

ततः पुण्‍यवशात्सद्‍गो गुरुणा सह संगतः । पश्चिमद्‍दारमागरण जायतेऽ त्वरितं फलम् ॥

१४३

पूर्वजन्मकृताभ्यासात्सात्स्वर्यं फलमश्नुते । एतदेव हि विजेयं तत्कालकममुच्यते ॥

१४४

नास्ति काकमतदन्‍यदभ्‍यासाल्‍लभ्‍यम्‍ तत्परम् । तेनैव प्राप्ते मुक्तिं नान्‍यथा शिवभाषितम् ॥

१४५

हठयोगक्रमात्काष्ठासहजीलवलयादिकम् । नाकृतं मोक्षमगं स्‍यात्प्रसिद्धां पश्चिमं विन ॥

१४६

आदौ रोगाः प्रणश्‍यन्ति पश्‍चाज्जाड्यं शरीरजम् । ततः समरसौ भूत्‍व चन्द्रौ वर्षत्‍यनरातम् ॥

१४७

धातूंश्‍च संग्रहेद्वहिः पवनेन समनततिः । नाना नादाः प्रवर्तन्ते मादेव स्‍यात्कलेवरे ॥

१४८

जित्‍वा वृश्‍यादिकं जाड्यं खेचरः स भवेन्नरः । सर्वजोऽसौ भवेत्कामरूपः पवनवेगवान् ॥

१४९

क्रीडते त्रिषु लिपेखु जयन्ते सिद्धयोगखिलाः । कपूर लीयमाने किं काठिन्यं तत् विद्‍यते ॥

१५०

अहंकारक्षये तद्‍देहे काठिना कुतः । सर्वकर्तां च योगीन्द्रः स्वात्मनोऽनन्तरुपवान् ॥

१५१

जीवन्‍मुक्तो महायोगी जायते नात्र संशयः । द्विविधाः सिद्धयो लोके कल्‍पिताडकल्‍पितास्तथा ॥

१५२

रसोपरिक्रियाजालम्‍नाभ्‍यासाधिसाधनात् । सिद्धीरन्‍त सिद्धयौ यास्तु कल्‍पितास्ताः प्रकीर्तिताः ॥

१५३

अनित्‍या अल्पवीर्‍यास्ताः सिद्धयः साधनोद्‍भवा । साधनेन विनाप्‍येवं जयन्ते स्वात एव हि ॥

१५४

स्वात्‍मयोगैकनिष्ठेषु स्वात्मन्‍याधीश्वरप्रिया । प्रभुताः सिद्धयो यास्ताः कल्‍पनारहिताः स्मृताः ॥

१५५

सिद्धानित्‍या महावीर्‍या इच्छारूपाः स्वयोगजाः । चिरकालात्प्रजायन्ते वासनारहितेषु च ॥

Page 10

१४६

तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये । विनाकायं सदा गुप्तं योगसिद्धस्य लक्षणम् ॥ १४६॥

१४७

यथाकाशं समुधिश्य गच्छेच्छुद्धिः पथिके: पथि । नानातीर्थानि दृष्यन्ते नानामागांस्तु सिद्धयः ॥ १४७॥

१४८

स्वयमेव प्रजायन्ते लाभालाभविवर्जिते । योगमार्गे तथैवेदं सिद्धिजालं प्रवर्तते ॥ १४८॥

१४९

परीक्षका: स्वप्नकारैरहेम संप्रोच्यते यथा । सिद्धिभिरलंक्रियेतसदृशं जीवन्मुक्तंत तथैव च ॥ १४९॥

१५०

अलौकिकगुणस्तस्य कदाचिद्दृश्यते ध्रुवम् । सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्ष्यते ॥ १५०॥

१५१

अजरामरपिंडो यो जीवन्मुक्तः स एव हि । पशुकुक्कुटकीटाद्या मृृतिं संप्राप्नुवन्ति वै ॥ १५१॥

१५२

तेषां किं पिण्डपातेन मुक्तिभर्वति पच्यज । न बहिः प्राण आयाति पिण्डस्य पतनं कुतः ॥ १५२॥

१५३

पिण्डपातेन या मुक्तिः सा मुक्तिस्तं न हन्यते । देहे ब्रह्मत्वमायाते जलानां सैन्धवं यथा ॥ १५३॥

१५४

अनन्यता यदा याति तदा मुक्तः स उच्यते । विमतानी शरीरेन्द्रियाणि तथैव च ॥ १५४॥

१५५

ब्रह्म देहत्वमापन्नं वारि बुद्बुदतामिव । दशद्वार पुरं देहं दशनाडीमहापथम् ॥ १५५॥

१५६

दशाभिवाद्युभियांप्तं दशेन्द्रियपरिच्छदम् । षडधारारोपवृकं षड्न्वयमहाहवनम् ॥ १५६॥

१५७

चतुःपीठसमाकीर्णं चतुरन्नायदीपकम् । बिन्दुनादमहालिङ्गं शिवशक्तितनिकेतनम् ॥ १५७॥

१५८

देहं शिवालयं प्रोक्कं सिद्धिदं सर्वदेहिनाम् । गुदमेद्रान्तरालस्थं मूलाधारं त्रिकोणकम् ॥ १५८॥

१५९

शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते । यत्र कुण्डलिनी नाम पराशक्तिः प्रतिष्ठिता ॥ १५९॥

१७०

यस्मादुत्पद्यते वायुर्यस्मादुत्पद्यते । यस्मादुत्पद्यते बिन्दुर्यस्मात्राद्रह्मात्रादः प्रवर्तते ॥ १७०॥

१७१

यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः । तदेतत्कामरूपस्य पीठं कामफलप्रदम् ॥ १७१॥

१७२

स्वाधिष्ठानाह्नयं चक्रं लिङ्गमूले षडंश्रके । नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् ॥ १७२॥

१७३

द्वादशारं महाचकं हृदये चाप्यनाहतम् । तदेतत्पूर्णगियाश्यं पीठं कमलसंभवम् ॥ १७३॥

Page 11

१७४

कण्ठकूपे विशुद्धूयाख्यं यच्चक्रं भोक्तेशासकम् । पीठं जालन्धर नाम तिष्ठत्यत्र सुरेश्वर ॥

१७५

आज्ञा नाम भ्रूमध्ये द्विदलं चक्रमुत्तमम् । उद्यानाख्यं महापीठमपरिस्थातृप्रतिष्ठितम् ॥

१७६

चतुरस्रं धरणयादौ ब्रह्मा तत्राधिदेवता । अर्थचन्द्राकृति चलं विष्णोस्तस्याधिदेवता ॥

१७७

त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता । वायोर्बिम्बं तु षट्कोणमीश्वरोज्ज्वलस्प्याधिदेवता ॥

१७८

आकाशमण्डलं वृत्तं देवतास्य सदाशिवः । नादरूपं भुवोमध्ये मनसो मण्डलं विदुः ॥

इति प्रथमोऽध्यायः ॥१॥

पुनर्योगस्य माहात्म्यं श्रोतुमिच्छामि शङ्कर । यस्मिन् विज्ञानमात्रेण शेवरीस्मरतां व्रजेत् ॥

श्रृणु ब्रह्मप्रवक्ष्यामि गोपनीयं प्रयत्नतः । द्वादशाब्दं तु शुश्रूषां यः कुयादप्रमादतः ॥

तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्मचारिणे । पाण्डित्यादर्थलोभाद्वा प्रमादाद्वा प्रयच्छति ॥

तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । मूलमन्त्रं विजानाति यो विद्वान्गुरुदर्शितम् ॥

शिवशक्तिमयं मन्त्रं मूलाधारात्समुत्तितम् । तस्य मन्त्रस्य वै ब्रह्माद्वक्ता च दुरलंभः ॥

एतत्पीठमिति प्रोक्तं नादलिङ्गं चिदात्मकम् । तस्य विज्ञानमात्रेण जीवन्मुक्तो भवेज्जनः ॥

अणिमादिकमैश्वर्यमचिरादेव जायते । मननात्राणनाच्चैव महोपस्यान्नबोधनात् ॥

मन्त्रमित्युच्यते ब्रह्मन्मदधिष्ठानतोऽपि वा । मूलत्वात्सर्वमन्त्राणां मूलाधारात्समुद्धवात् ॥

मूलस्वरूपलिङ्गतन्मूलमन्त्र इति स्मृतः । सूक्ष्मत्वात्कारणात्वाच्च लयनाद्र्मनादपि ॥

१०

लक्षणात्परमेशस्य लिङ्गमित्यभिधीयते । सन्निधानात्समस्तेषु जन्तुष्वपि च सन्ततम् ॥

११

सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते । महामाया महालक्ष्मीमङ्गहावेदरी सरस्वती ॥

१२

आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते । सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते ॥

बिन्दुपीठं विनिर्मित्य नादलिङ्गमुपस्थितम् ।

Page 12

१३

प्राणेनोच्चार्यंते ब्रह्माणि णमुस्कीकरणेन च ॥१३॥

१४

गुरुपदेशमार्गेण सहसैव प्रकाशते । स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्माणो वपु: ॥१४॥

१५

पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते । हिरण्यगर्भं सूक्ष्मं तु नादं बीजात्मकम् ॥१५॥

१६

परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् । अप्रमेयमनिर्देश्यमवाड्मनसगोचरम् ॥१६॥

१७

शुद्धं सूक्ष्मं निराकारं निर्विकारं निरञ्जनम् । अनन्तमपरिच्छेद्यमनुपममनामयम् ॥१७॥

१८

आत्ममन्त्रसदाभ्यासात्परतत्त्वं प्रकाशते । तदभिव्यक्तचिह्नानि सिद्धिद्वाराणि मे श्रृणु ॥१८॥

१९

दीपज्वालेनदुष्टव्योतिवियुक्तक्षत्रभास्वरा: । दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिन: ॥१९॥

२०

अणिमादिकमैश्वर्यमचिरात्तस्य जायते । नास्ति नादात्परो मन्त्रो न देव: स्वात्मन: पर: ॥२०॥

२१

नानुसन्धे: परा पूजा न हि तुष्टे: परं मुखम् । गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्छता ॥२१॥

२२

मृदुक्त एतद्विज्ञाय कृत कृत्य: सुखी भवेत् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥२२॥

२२

तस्यैते कथिता ह्यार्था: प्रकाशन्ते महात्मन: । इति द्वितीयोऽध्याय: ॥२॥

यन्त्रमस्य चिदाकारं यत्सिद्धिद्दीनां च कारणम् । येन विजातमात्रेण जन्मवन्धात्प्रमुच्यते ॥१॥

अक्षरं परमो नाद: शब्दब्रह्मैति कथ्यते । मूलाधारगता शक्तिः स्वाधारा बिन्दुरूपिणी ॥२॥

तस्यामुत्पद्यते नाद: सूक्ष्मबीजादिवादुर: । तां पश्यन्ती विदुर्विद्वांसं यया पश्यन्ति योगिन: ॥३॥

हृदये व्यज्यते घोषो गरजत्पर्जन्यसंनिभ: । तत्र स्थिता सुरेशानि मध्यमेत्यभिधीयते ॥४॥

प्राणेन च स्वाराज्येन प्रतिहता वैखरी पुन: । शाखापल्लवसङ्क्षेपे ताल्वादिस्थानघट्टनात् ॥५॥

आकारादिकशकारान्तान्यक्षराणि समीरयेत् । अक्षरेभ्य: पदानी स्यु: पदेभ्यो वाक्यसंभव: ॥६॥

सर्वे वाक्यात्मकान् मन्त्रा वेदशास्त्राणि कृत्स्नश: । पुराणानि च काव्यानि भाषाश्च विविधा अपि ॥७॥

सप्तस्वराश्च माथाश्च सर्वे नादसमुद्धवा: ।

Page 13

एषा सरस्वती देवी सर्वभूतगुहाश्रया ॥ ८॥

वायुना वहियुक्तेन प्रेर्यमाणा शनैः शनैः । तद्वद्वर्त्मपदेवांच्येरित्येवं वर्तते सदा ॥ ९॥

१०

य इमां वैखरीं शक्तिं योगी स्वात्मनि पश्यति । स वाक्सिद्धिमवाप्नोति सरस्वत्या: प्रसादतः ॥ १०॥

११

वेदशास्त्रपुराणानां स्वयं कर्ता भविष्यति । यत्न बिन्दुषु नादक्षं सोऽसौ सूर्याग्निवायुभिः ॥ ११॥

१२

इन्द्रियाणि च सर्वाणि लयं गच्छन्ति सुव्रत । वायवो यत्र लीयन्ते मनो यत्र विलीयते ॥१२॥

१३

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरणापि विचाल्यते ॥ १३॥

१४

यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्न चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ १४॥

१५

सुखमात्र्यान्तिकं यत्कदुङ्ग्राह्यमतीन्द्रियं । etत्क्षरराक्षरातीतं मनःक्षरमितीयते ॥ १५॥

१६

क्षरः सर्वाणि भूतानि सूत्रात्माऽक्षर उच्यते । अक्षरं परमं ब्रह्म निर्विशेषं निरञ्जनं ॥ १६॥

१७

अलक्षणमलक्षणं तद्प्रतर्क्यमनूपमं । apारपारमच्छेद्यमचिन्त्यमतिनिर्मलं ॥ १७॥

१८

आधारं सर्वभूतानाममनाधारमनामयं । ap्रमाणमनिदेश्यमप्रेमेयमतिन्द्रियं ॥ १८॥

१९

अस्थूलमनणुब्रह्मस्वस्तद्वीदृङ्मसजमव्ययम । अशब्दमस्पर्शरूपमचक्षुःश्रोत्रनाकम ॥ १९॥

२०

सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितं । सुसंवेद्यं गुरुमतात्सुदुर्बोधमतिसाम ॥ २०॥

२१

निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम । निरालपकं निराकारं कूटस्थमचलं ध्रुवं ॥ २१॥

२२

ज्योतिषामपि तज्ज्योतिस्तमःपारे प्रतिष्ठितं । भावाभावविनिर्मुक्तं भावनामात्रगोचरं ॥ २२॥

२३

भक्तिगम्यं परं तत्त्वमन्तर्लीनन चेतसा । भावनामात्रमेवात्र कारणं पचसंभवं ॥ २३॥

२४

यथा देहान्तरप्राप्तेः कारणं भावना नृणां । विषयं ध्यायतः पुंसो विषयेऽपि रमते मनः ॥ २४॥

२५

मामनुस्मरतस्तस्य मन्येवात्र विलीयते । सर्वज्ञत्वं परेशत्वं सर्वसंपूर्णशक्तिता । अनन्तशक्तिमत्त्वं च मदनुस्मरणाद्वेतत ॥ २५ ॥ इति ॥

Page 14

जीवत्वं च तथा जेयं रजज्वां संपग्रहो यथा ।

रज्जुज्ञानातक्षणैव यदृदृरज्जुहि सर्पिणी ।

भाति तद्वच्चितिः साक्षाद्विश्वाकारण केवला ।

उपादानं प्रपञ्चस्य ब्रह्मणोडन्यन्न विद्यते ।

तस्मात्सर्वप्रपञ्चोयं ब्रह्मैवास्ति न चेतरत् ।

व्याप्यव्याप्यकता मिथ्या सर्वमात्मैव शासनात् ।

इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ।

ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।

तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय ।

ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।

कर्माण्यपि समग्राणि विभर्त्तीति विभावय ।

सुवर्णांज्जायमानस्य सुवर्णंत्वं च शाश्वतम् ।

ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ।

स्वल्पमध्यन्तरं कृत्वा जीवात्मपरमात्मनोः ।

यस्तिष्ठति विमूढात्मा भयं तस्यापि भाषितम् ।

यदज्ञानडवेदैवृतमितरत्तत्प्रश्नयति ।

आत्मत्वेन तदा सर्वे नेतरत्तत्र चाण्वपि ।

१०

अनुभूतोडप्ययं लोको व्यवहाररक्ष मोडपि सन् ।

१०

असदृशो यथा स्वप्न उत्तरक्षणवाधितः ।

११

स्वप्ने जागरितं नास्ति जागरे स्वप्नता नहि ।

११

द्वयमेव लये नास्ति लयोडपि ह्यानयोरन च ।

१२

त्रयमेव भवेन्त्रध्य गुणत्रयविनिर्मितम् ।

१२

अस्य दृष्टा गुणातीतो नित्यो होष चिदात्मकः ।

१३

यदज्ञानड घटान्ति शुक्तौ हि रजतस्थितिः ।

१३

तद्द्ब्रह्मणि जीवत्वं वीक्ष्माणे विनश्यति ।

१४

यथा मृदि घटो नाम कनके कुण्डलाभिधा ।

१४

शुक्तौ हि रजतव्याजादर्ज्जविषादस्तथा परे ।

१५

यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले ।

१५

पुरुषत्वं यथा स्थाणौ तद्दृशिं चिदात्मनि ।

१६

यथैव शून्योो वेतालो गन्धर्व्वां पुरं यथा ।

१६

यथाकाशे द्विवनत्वं तद्द्वत्सत्येऽ जगत्स्थितिः ।

१७

यथा तरङ्कलोलैर्ज्जलमेव स्पुरत्यलम् ।

१७

घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः ।

१७

जगत्राम्ना चिदाभाति सर्वं ब्रह्मैव केवलम् ।

Page 15

१८

यथा वन्ध्यासुतो नास्ति यथा नस्ति मरौ जलम् ।

१९

यथा नास्ति नभोवृक्षस्थिता नास्ति जगत्स्थितिः: । गृह्यमाने घटे यद्वन्नृतिका भाति वै बलात् ॥

२०

वीक्ष्यमाणे प्रपञ्चे तु ब्रह्मैवाभाति भासुरम् । सदैवात्मा विशुद्धोऽस्मि ह्यशुद्धो भाति वै सदा ॥

२१

यथैव द्विविधा रजजुर्जानिनोडज्ञानिनोडनिशम् । यथैव मृत्यो: कुंभस्थदृदहोदपि चिन्मयः: ॥

२२

आत्मानात्मविवेकोडयं मुद्धैव क्रियते बुधैः । सर्पंत्वेन यथा रज्जू रजतत्वेन शुक्लिका ॥

२३

विनिर्णीता किमुढेन देहत्वेन तथा आत्मता । घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका ॥

२४

गृहीत्वेन हि काष्ठानि स्वद्वेन हि लोहता । तद्वदात्मनि देहत्वं पश्यत्यत्यज्ञानयोगतः ॥

इति चतुर्थोऽध्यायः: । पुनर्योऽं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् । समाहितमनाज भूत्या शृणु ब्रह्मन्यथाक्रमम् ॥ १॥

दशद्वारपुरं देहं दशनाडीमहापथम् । दशाभिवायुभिर्याप्तं दशेनद्रैयपरिच्छदम् ॥ २ ॥

षणाधारारापवर्गं षडन्वयमहाभानम् । चतुःपीठसमाकीर्णे चतुरन्नायद्दीपकम् ॥ ३ ॥

विन्दुनादमहालिङ्गं विश्वलिङ्गलक्ष्मीनीकेतनम् । देहं विश्ववालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् ॥ ४ ॥

गुदमेद्रान्तरालस्थं मूलाधारं त्रिकोणकम् । शिवस्य जीवरूपस्य स्थानं तद्वि प्रचक्षते ॥ ५ ॥

यत्र कुण्डलिनी नाम परा शक्ति: प्रतिष्ठिता । यस्मादुत्पद्यते वायुर्यंस्माद्वह्नि: प्रवर्तते ॥ ६ ॥

यस्मादुत्पद्यते बिन्दुर्यंस्मादात्मा प्रवर्तते । यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥ ७ ॥

तदेतत्कामरूपाब्यं पीठं कामफलप्रदम् । स्वाधिष्ठानहयं चक्रं लिङ्गमूले षडंश्रकम् ॥ ५ ॥

नाभिदेशे स्थितं चक्रं दशाश्रं मणिपूरकम् । द्वादशारं महाचक्रम् हृदये चाप्यनाहतम् ॥ ९ ॥

तदेतत्पूर्णगियांश्यं पीठं कमलसंभव । कण्ठकूपे विशुद्धाख्यं यच्चकं षोडशाश्रकम् ॥ १० ॥

पीठं जालन्धरं नाम तिष्ठत्यत्र चतुर्मुखः । आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् ॥ ११ ॥

Page 16

१२

उद्यानास्व्यं महापीठमुपरिष्टात्प्रतिष्ठितम् । स्थानान्येतानि देहेऽस्मिज्ज्योतिकरूपं प्रकाशते ॥ १२ ॥

१३

चतुरस्रधरण्यादि ब्रह्मा तत्राधिदेवता । अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता ॥ १३ ॥

१४

त्रिकोणमण्डलं वह्नि रुद्रस्तस्याधिदेवता । वायोबीं तु बिन्द्रोणं सकर्षोऽत्राधिदेवता ॥ १४ ॥

१५

आकाशमण्डलं वृत्तं श्रीमच्चन्द्रारायणोऽत्राधिदेवता । नादरूपं भुवोमध्ये मनसो मण्डलं विदुः ॥ १५ ॥

१६

शांभवास्थानमेतत्तु वर्णितं पदसंचर । अतः परं प्रवक्ष्यामि नाड़ीचक्रस्य निर्णयम् ॥ १६ ॥

१७

मूलाधारत्रिकोणस्था सुपुंना द्वादशाङ्कुला । मूलार्धेच्छ्रवंशाभा ब्रह्मनाड़ीति सा स्मृता ॥ १७ ॥

१८

इडा च पिङ्गला चैव तस्या: पार्श्वद्वये गते । विलम्बिन्यमनुसृत्ये नासिकान्तमुपागते ॥ १८ ॥

१९

इडायां हेमरुणे वायौवामेन गच्छति । पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः ॥ १९ ॥

२०

विलम्बिनी या नाड़ी व्यकता नाभौ प्रतिष्ठिता । तत्र नाड्यः समुत्पन्नास्त्रियगूढ्यंमधोमुखी: ॥ २० ॥

२१

तत्राभिचक्रमित्युक्तं कुकुटाण्डमदिव स्थितम् । गान्धारी हस्तिजिह्वा च तस्मात्त्रिवृत्द्वयदू गते ॥ २१ ॥

२२

पूषा चालम्बुषा चैव श्रोत्रद्वयमुपागते । शूखा नाम महानाडी तस्माद्भूमध्यमाश्रिता ॥ २२ ॥

२३

विश्वोदरी तु या नाड़ी सा भ्रूवृत्तेष्टदृं चतुर्विधम् । सरस्वती तु या नाड़ी सा जिह्वान्तं प्रसरपित ॥ २३ ॥

२४

राकाह्या तु या नाड़ी पीत्वा च सलिलं क्षणात् । क्षुतमुत्पादयेद् ब्राणे श्लेष्माणं संचिनोति च ॥ २४ ॥

२५

कण्ठकूपोऽत्र वा नाड़ी शड्खिनाख्या त्वधोमुखी । अन्नसारं समादाय मूत्रिं संचिनुते सदा ॥ २५ ॥

२६

नामेरधोगतास्तिम्रो जाड्य: स्थूर्दोमुख: । मलं तयेजेत्कुहराड्या मूत्रं मुञ्चति वारुणी ॥ २६ ॥

२७

चित्राख्या सीविच नाड़ी शुक्लमोचनकारणी । नाड़ीचक्रमिति प्रोक्तं विन्दुरूपमतः शृणु ॥ २७ ॥

२८

स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः । स्थूलं शुक्लात्मकं विन्दुः सूक्ष्मं पञ्चाग्निरूपकम् ॥ २८ ॥

२९

सोमात्मक: परः प्रोक्तः सदा साक्षी सदाच्युतः । पातालानामध्ये भागे कालाग्निर्नयः प्रतिष्ठितः ॥ २९ ॥

Page 17

30

समूलाग्नि: श्रगिरेडग्निर्यस्माद्: प्रजायते । वडवाग्नि: शरीरस्थो हृदस्थमध्ये प्रवर्तते ॥

31

काष्ठपाषाणयोर्वह्निर्दह्योर्मध्ये प्रवर्तते । काष्ठपाषणजो वह्नि: पार्थिवो प्रहणीरागत: ॥

32

अन्तरिक्षगतो वह्निर्वैद्युत: स्वान्तरात्मक: । नभस्थ: सूर्यरूपोडग्निर्नाभिमण्डलमाश्रित: ॥

33

विष्णुं वर्षति सूर्योऽसौ शवत्म्यमृतमुन्मुख: । तालुमूले स्थितस्त्वन्न्र: सुषुम्नां वर्षत्यधोमुख: ॥

34

भूमध्यनिलयो विन्दु: शुद्धस्फटिकसन्निभ: । महाविष्ण्वोऽखिलं देवस्य तत्पुरुषं रूपमुख्यते ॥

35

एतत्पञ्चाग्निरूपं यो भावयेद्धृदि शान्तधीया । तेन भुक्तं च पीतं च हुतमेव न संशय: ॥

36

सुखसंसेवितं स्वप्नं सुजोर्णमितभोजनम् । शरीरशुद्धिं कृत्वादौ सुखमासनमाश्रित: ॥

37

प्राणस्य शोधनेऽम्भांसि रेचकपुरककुम्भके । गुदमाकुंच्य यत्नेन मूलशक्तिं प्रपूरयेत् ॥

38

नामौ लिङ्गस्य मध्ये तु उदानाल्यं च बन्धयेत् । उदुतीय याति तेनैव शक्तितोद्यानपीठकम् ॥

39

कण्ठं सडोचयेत्किञ्चिद्‌दृशो जालन्धरि ह्ययम् । बन्धयेत्स्वेच्छया मुक्त्वा दृढचित्त: समाहित: ॥

40

कपालविवरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥

41

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वत: । न पीयूषं पतत्यग्नौ न च वायु: प्रधावति ॥

42

न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते । न च मृत्युम्भवेत्सत्यं यो मुद्रां वेत्ति खेचरिम् ॥

43

तत: पूर्वांपरे व्योम्नि द्वादशान्तेऽच्युतात्मके । उड्डयानपीठे नित्यं द्वन्द्वे निरालम्बे निरञ्जने ॥

44

तत: पड्‌ड्जमध्यस्थं चन्द्रमण्डलमध्यगम् । नारायणमनुध्यायेत्स्ववतममृतं सदा ॥

45

भियते हृदयं निश्शेषच्युत्वन्ते सर्वसंशया: । क्षीयन्ते चास्य कर्माणि तन्मद्‌दृष्टे परावरे ॥

46

अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर । जितेन्द्रियाणां शान्तानां जितक्षासविचेतसाम् ॥

47

नादे मनोलयं ब्रह्मन्‌दूरश्रवणकारणम् । बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् ॥

Page 18

४८

कालात्न्नि मनो लीनं त्रिकालज्ञानकारणम् । परकायमनोयोगः परकायप्रवेशकृत् ॥ ४८॥

४९

अमृतं चिन्तयेन्मूर्धि क्षुतृषाशान्तये । पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत् ॥ ४९॥

५०

सलिले धारयेच्चित्तं नाम्भसा परिभूयते । अग्नौ सन्धारयेच्चित्तमग्निना न दह्यते न सः ॥ ५०॥

५१

वायौ मनोलयं कुर्वीताकाशगमनं भवेत् । आकाशे धारयेच्चित्तं तमणिमादिकमाप्नुयात् ॥ ५१॥

५२

विराडूपे मनो युञ्ज्जन्महिमानमवाप्नुयात् । चतुर्मुखे मनो युञ्जज्जगत्सृष्टिकरो भवेत् ॥ ५२॥

५३

इन्द्ररूपिणि मातमन् भावनात्सत्यम्भोगवान् । विष्णुरूपे महायोगी पालयेद्विलं जगत् ॥ ५३॥

५४

रुद्ररूपे महायोगी संहरत्येव तेजसा । नारायणे मनो युञ्जन्मर्वसिद्धिमवाप्नुयात् ॥ ५४॥

५५

यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः । तथा तत्तद्वप्नोति भाव एवात्र कारणम् ॥ ५५॥

५६

गुरुर्ब्रह्मा गुरुर् विष्णुर्गुरुदेवो महेश्वरः । न गुरोरधिकः कश्चित्त्रिषु लोकेषु विद्यते ॥ ५६॥

५७

दिव्यज्ञानोपदेशारं देशिकं परमेश्वरम् । पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत् ॥ ५७॥

५८

यथा गुरौस्तथैवेशो यथैवेशोस्तथा गुरुः । पूजनायो महाभक्त्या न भेदो विद्यतेsनयोः ॥ ५८॥

५९

नाद्वैतवादं कुर्वीत गुरुगुणा सह कुर्वचित् । अद्वैतं भावयेद्भक्त्या गुरोरदेवस्य चात्मनः ॥ ५९॥

६०

योगशिष्यां महागुह्यं यो जानाति महामति । न तस्य किंचिदज्ञानं त्रिषु लोकेषु विद्यते ॥ ६०॥

६१

न पुण्यपापे नास्वस्यो न दु:खं न पराजयः । न चास्ति पुनरावृत्तिरस्ति न संसारमण्डले ॥ ६१॥

६२

सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः । तथा विज्ञाततत्त्वोsसौ मुक्त एव न संशयः ॥ ६२॥

इत्युपनिषत् ॥ इति पद्मोऽध्यायः ॥ ५ ॥ उपासनाप्रकारं मे बृंहि त्वं परमेश्वर । येन विज्ञातमात्रेण मुक्तो भवति संसृतेः ॥ १॥

उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् । हिरण्यगर्भ वक्ष्यामि श्रुत्वा सम्पगुपासय ॥ २॥

सुषुम्नायै कुण्डलीनैः सुधायै चन्द्रमण्डलात् ।

Page 19

मनोन्मन्यै नमस्तुभ्यं महाशक्लयै विदात्मने ।

शतं चैका च हृदयस्य नाडी-स्तासां मूर्धानमभिनिःसृतेका । तयोर्ध्वमायन्नमृतत्वमेति विश्वभुन्या उत्क्रमणं भवन्ति ॥

एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता । सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ॥

इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु । तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् ॥

प्राणान्सन्धारयेत्स्मिन्द्वासाभ्यान्तरचारिणः । भूत्वा तन्रायतप्राणः शानैरेव समभ्यसेत् ॥

गुदस्य पृष्ठभागेऽस्मिन्न्वीनादण्डः स देहभृत् । दीर्घास्स्तदेहपर्यन्तं ब्रह्मनाडीति कथ्यते ॥

तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरभिः । इडापिङ्गलयोर्मध्ये सुषुम्ना सूर्यरूपिणी ॥

१०

सर्वं प्रतिष्ठितं तस्मिन्सर्वं विश्वतोमुखम् । तस्य मध्यगता: सूर्यसोमाग्निपरमेश्वरा: ॥

११

भूतलोका दिशः क्षेत्राः समुद्राः पर्वताः शिला: । दीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः ॥

१२

स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वेशः । बीजं बीजात्मकाश्चेषां क्षेत्रज्ञः प्राणवायवः ॥

१३

सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् । नानानाडीप्रसवगं सर्वभूतान्तरात्मनि ॥

१४

ऊर्ध्वमूलमधःआश्वं वायुर्मार्गेण सर्वगम् । द्विसप्ततिसहस्राणि नाडीः स्युर्वायुगोचरा: ॥

१५

सर्वमार्गेण सुषिरास्तिष्ठच् सुषिरात्मता: । अध्यासोध्यौ च कुण्डल्या: सर्वद्वारनिरोधनात् ॥

१६

वायुना सह जीवोर्ध्वज्ञानाम्नोक्षमवाप्नुयात् । जात्वा सुपुम्नां तदैवं कृत्वा पायूं च मधयगम् ॥

१७

कृतवा तु चैनद्वस्ताने ब्राणरन्थे निरोधयेत् । द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे ॥

१८

सुषुम्ना शाम्भवी शक्तिः शेषशास्त्रस्वनये निरर्थका । हल्लेखे परमानन्दे तालुमूले च व्यवस्थिते ॥

१९

अत ऊर्ध्वं निरोधे तु मध्यमं मध्यमध्यमम् । उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् ॥ यदि भ्रमरसृष्टिः स्यात्स्यात्संसारभ्रमं त्यजेत् ॥

Page 20

२०

गमागमस्यं गमनादिशून्यं चिदूपदीपं तिमिरान्धनाशम् । पश्यामि तं सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम्

२१

अनाहतस्य शब्दस्य यो ध्वनि: ध्वनेरन्तर्गं ज्योतिर्ज्योतिषोऽन्तर्गंतं मन: । तन्मनो विलयं याति तद्विष्णो: परमं पदम्

२२

केचिद्वदान्ति आधारं सुषुम्ना व सरस्वती । आधाराज्जायते विश्वं विश्वं तत्रैव लीयते

२३

तस्मात्सर्वप्रयत्नेन गुरुपादं समाश्रयेत् । आधारशक्तिनिद्राभ्यां विश्वं भवति निद्रा

२४

तस्यां शक्तिप्रबोधेन त्रैलोक्यं प्रतिबुध्यते । आधारं यो विजानाति तमस: परमश्रुनते

२५

तस्य विज्ञानमात्रेण नर: पापै: प्रमुच्यते । आधारचक्रमहसा विद्युत्पुञ्जसमप्रभा

२६

तदा मुक्तित्रयं सन्देहो यदि तुष्ट: स्वयं गुरु: । आधारचक्रमहसा पुण्यपापे निकृन्तयेत्

२७

आधारवातोधेन लीयते गगनान्तरे । आधारवातोधेन शरीरं कंपते यदा

२८

आधारवातोधेन योगी नृत्यति सर्वदा । आधारवातोघेन विश्वं तत्रैव दृश्यते

२९

सृष्टिमाधारमाधारमाधारे सर्वदेवता: । आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत्

३०

आधारे पञ्चिमे भागे त्रिवेणीसङ्गमो भवेत् । तत्र स्नात्वा व पीत्वा व नर: पापात्प्रमुच्यते

३१

तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् । आधारपश्चिमे भागे चन्द्रसूर्यौ स्यिरौ यदि

३२

तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् । आधारपश्चिमे भागे मुक्तिस्थितस्थिति संजया

३३

षट् चक्राणि व निर्भिद्य ब्रह्मरन्ध्राद्वहिरंगतम् । वामदक्षे निरुद्धन्ति प्रविशान्ति सुषुम्नया

३४

ब्रह्मरन्ध्रं प्रविश्यान्तस्ते यान्ति परमां गतिम् । सुषुम्नायां यदा हंसस्वधा ऊर्ध्वं प्रभवति

३५

सुषुम्नायां यदा प्राणं भ्रामयेदो निरन्तरम् । सुषुम्नायां यदा प्राण: स्थिरो भवति धीमताम्

Page 21

३६

सुषुम्न्नायां प्रवेशन चन्द्रसूर्यौर्यं लयं गत्वा । तदा समरसं भावं यो जानाति स योगवित् ।

३७

सुषुम्न्नायां यदा यस्मि श्रियन्ते मनसो रयः ।

३८

सुषुम्न्नायां यदा योगी क्षणे क्मपि तिष्ठति ।

३९

सुषुम्न्नायां यदा योगी क्षणार्धमपि तिष्ठति ।

३९

सुषुम्न्नायां यदा योगी सुलग्नो लवणाम्बुवत् ।

३९

सुषुम्न्नायां यदा योगी लीयते क्षीरनीरवत् ।

४०

भिय्यते च तदा ग्रन्थिश्विद्यन्ते सर्वसंस्रया: । क्षीयन्ते परमाकाशे ते यान्ति परमं गतिम् ।

४१

गडायां सागरे स्नात्वा नत्वा च मणिकर्णिकाम् । मध्यनाडीविचारस्य कलानां नाहंन्ति शोभश्रीं ।

४२

श्रीशैलदर्शनान्मुक्तिर्तवाराणस्यां मृतस्य च । केदारोदकपानन मध्यनाडीप्रदर्शनात् ।

४३

अश्वमेधसहस्राणि वाजपेयशतानि च । सुषुम्न्नाध्यानयोगस्य कलानां नाहंन्ति शोभश्रीं ।

४४

सुषुम्न्नां सदा गोष्ठी यः कश्वित्कुरुते नरः । स मुक्तः सर्वपापेभ्यो निश्रेयसमवाप्नुयात् ।

४५

सुषुम्न्नैव परं तीर्थं सुषुम्न्नैव परं जपः । सुषुम्न्नैव परं ध्यानं सुषुम्न्नैव परा गतिः ।

४६

अनेकयज्ञदाननि व्रतानि नियमास्तथा । सुषुम्न्नाध्यानलेशस्य कलानां नाहंन्ति शोभश्रीं ।

४७

ब्रह्मरन्ध्रे महानस्थाने वर्तन्ते सततं शिवा । चिच्छक्तिः परमादेवी मध्ये सुप्रतिष्ठिता ।

४८

मायाशक्तितरलाटाग्रभगे व्योमाम्बुजे तथा । नादरूपा पराशक्तितरललाटस्य तु मध्ये ।

४९

भागे विन्दुमयी शक्तितरललाटस्यपरांशके । विन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तन्ते ।

५०

हृदये स्थूलरूपेण मध्यमेन तु मध्यमयो । प्राणापानवशो जीवो हृदयशोधं च धावति ।

५१

वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ।

५२

आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः । प्राणापानसमाक्षिप्तस्थिता जीवो न विश्रमेत् ।

५३

अपानः कर्षति प्राणान् प्राणोडपानं च कर्षति । हकारेण बहिर्यांति सकारेण विशेत्पुनः ।

५४

हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा । तद्दिद्धानक्षरं नित्यं यो जानाति स योगवित् ।

Page 22

45

कन्दोर्व्य कुण्डलीआक्तिमुक्तिरूपा हि योगिनाम् । बन्धनाय व मूढानां यस्तां वेत्ति स योगवित् ॥ ४५ ॥

46

भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याग्निनदेवता: । यासु मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥ ४६ ॥

47

त्रय: कालास्त्रयो देवास्त्रयो लोकास्त्रय: स्वराः । त्रयो वेदा: सिथता यत्र तत्परं ज्योतिरोमिति ॥ ४७ ॥

48

चित्ते चलति संसारो निश्वलं मोक्ष उच्यते । तस्माच्चित्तं स्थिरीकुर्यांत्प्रजया परया विधे ॥ ४८ ॥

49

चित्तं कारणमथानां तस्मिन्नसति जगत्स्वयम् । तस्मिन्क्षीणे जगत्क्षीणं तच्चचकितस्यं प्रयत्नतः ॥ ४९ ॥

60

मनोहं गगनाकारं मनोहं सर्वतोमुखम् । मनोहं सर्वमात्मा च न मनः केवलः परः ॥ ६० ॥

61

मनः कर्माणि जायन्ते मनो लिप्यति पातकैः । मनश्शेदुन्मनीभूयात्र पुण्यं न च पातकम् ॥ ६१ ॥

62

मनसा मन आलोक्य वृत्तिशून्यं यदा भवेत् । ततः परं परब्रह्म दृश्यते च सुडुल्भमभ् ॥ ६२ ॥

63

मनसा मन आलोक्य मुक्तो भवति योगवित् । मनसा मन आलोक्य उन्मन्यान्तं सदा स्मरेत् ॥ ६३ ॥

64

मनसा मन आलोक्य योगनिष्ठ: सदा भवेत् । मनसा मन आलोक्य दृश्यान्ते प्रत्यया दश ॥ ६४ ॥

65

यदा प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् । बिन्दुनादकलाज्योतीरविन्दुब्रह्माततारकम् ॥ ६५ ॥

66

शान्तं च तदतीतं च परब्रह्म तदुच्यते । ह्सत्युल्लसतित प्रीत्या कीडते मोदते तदा ॥ ६६ ॥

67

तनोति जीवनं बुद्धूया विभ्रेतिं सर्वतोभयात् । रोध्यते बुध्यते शोकैर्मुह्यते न च संपदा ॥ ६७ ॥

68

कम्पते श्रधुकायेषु कामेन रमते हसनू । स्मृत्वा कामरतां चित्तं विजानीयात्कलेवरे ॥ ६८ ॥

69

यत्र देशे वसेद्युषितं तद्व्रतिस्थं ध्रुवम् । मनशनद्रो रविवार्यादृष्टिरग्निरुदाहृतः ॥ ६९ ॥

70

बिन्दुनादकला ब्रह्मन् विष्णुब्रह्मेशदेवता: ।

71

सदा नादानुसंधानात्संक्षीणा वासना भवेत् । निरंजनने विलीयेत मरन्मनसि पद्मज ॥ ७१ ॥

72

यो वै नाद: स वै बिन्दुस्तदैव चित्तं प्रकीर्तितम् । नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत् ॥ ७२ ॥

मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् ।

Page 23

73

मनसोत्सृज्यते बिन्दुर्यथा क्षीरं घृतात्मकम् ॥ ७३ ॥

74

षट् चक्राणि परिज्ञात्वा प्रविशेत्सुषुम्णामण्डलम् । प्रविशेद्वायुमात्रं तु तथेवोध्र्वं नियोजयेत् ॥ ७४ ॥

75

वायूं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् । समाधिमेकन समममृतं यान्ति योगिनः ॥ ७५ ॥

76

यथाग्निन्दाहमध्यस्थो नोत्तिष्ठतेन्धनं विना । विना चाभ्यासयोगेन ज्ञानदीपस्थल नहि ॥ ७६ ॥

77

घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते । भित्त्रे तस्मिन् घटे चैव दीपज्वाला च भासते ॥ ७७ ॥

78

स्वकायं घटमत्युक्तं यथा जीवो हि तत्पदम् । गुरुवाक्यसमाभित्त्रे ब्रह्मज्ञानं प्रकाशते ॥ ७८ ॥

79

कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववदृढम् । अभ्यासवासनाशक्त्या तरन्ति भवसागरम् ॥ ७९ ॥

इत्युपनिषत् । इति योगशिखोपनिषदि षष्ठोऽध्यायः ॥ ६ ॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ तत्सत् ॥

इति योगशिखोपनिषत्समाप्ता ॥