Books / Yuktidīpikā — Sanskrit Text

1. Yuktidīpikā

Section

1

युक्तिदीपिका वीतावीतविषाणस्य पक्षतावनसेविनः प्रवादाः सांख्यकरिणः सल्लकीषंडभङ्गुराः

yuktidīpikā vītāvītaviṣāṇasya pakṣatāvanasevinaḥ pravādāḥ sāṃkhyakariṇaḥ sallakīṣaṃḍabhaṅgurāḥ


2

ऋषये परमायार्कमरीचिसमतेजसे संसारगहनमध्वान्तसूर्याय गुरवे नमः

ṛṣaye paramāyārkamarīcisamatejase saṃsāragahanamadhvāntasūryāya gurave namaḥ


3

तत्त्वं जिज्ञासमानाय विप्रायासुरये मुनिः तदुवाच महत्तन्त्रं दुःखत्रयनिवृत्तये

tattvaṃ jijñāsamānāya viprāyāsuraye muniḥ taduvāca mahattantraṃ duḥkhatrayanivṛttaye


4

न तस्याधिगमः शक्यः कर्तुं वर्षशतैरपि भूयस्त्वादिति संचिन्त्य मुनिभिः सूक्ष्मबुद्धिभिः

na tasyādhigamaḥ śakyaḥ kartuṃ varṣaśatairapi bhūyastvāditi saṃcintya munibhiḥ sūkṣmabuddhibhiḥ


5

ग्रन्थेनाल्पेन संक्षिप्य तदार्षमनुशासनम् निबद्धममलप्रज्ञैः शिष्याणां हितकाम्यया

granthenālpena saṃkṣipya tadārṣamanuśāsanam nibaddhamamalaprajñaiḥ śiṣyāṇāṃ hitakāmyayā


6

प्रतिपक्षाः पुनस्तस्य पुरुषेशाणुवादिनः वैनाशिकाः प्राकृतिका विकारपुरुषास्तथा

pratipakṣāḥ punastasya puruṣeśāṇuvādinaḥ vaināśikāḥ prākṛtikā vikārapuruṣāstathā


7

तेषामिच्छाविघातार्थमाचार्यैः सूक्ष्मबुद्धिभिः रचिताः स्वेषु तन्त्रेषु विषमास्तर्कगह्वराः

teṣāmicchāvighātārthamācāryaiḥ sūkṣmabuddhibhiḥ racitāḥ sveṣu tantreṣu viṣamāstarkagahvarāḥ


8

शिष्यैर्दुरवगाहास्ते तत्त्वार्थभ्रान्तबुद्धिभिः तस्मादीश्वरकृष्णेन संक्षिप्तार्थमिदं कृतम्

śiṣyairduravagāhāste tattvārthabhrāntabuddhibhiḥ tasmādīśvarakṛṣṇena saṃkṣiptārthamidaṃ kṛtam


9

सप्तत्याख्यं प्रकरणं सकलं शास्त्रमेव वा यस्मात् सर्वपदार्थानामिह व्याख्या करिष्यते

saptatyākhyaṃ prakaraṇaṃ sakalaṃ śāstrameva vā yasmāt sarvapadārthānāmiha vyākhyā kariṣyate


10

प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता पारार्थ्यञ्च तथानैक्यं वियोगो योग एव च

pradhānāstitvamekatvamarthavattvamathānyatā pārārthyañca tathānaikyaṃ viyogo yoga eva ca


11

शेषवृत्तिरकर्तृत्वं चूलिकार्थाः स्मृता दश विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः

śeṣavṛttirakartṛtvaṃ cūlikārthāḥ smṛtā daśa viparyayaḥ pañcavidhastathoktā nava tuṣṭayaḥ


12

करणानामसामर्थ्यमष्टाविंशतिधा मतम् इति षष्टिः पदार्थानामष्टाभिः सह सिद्धिभिः

karaṇānāmasāmarthyamaṣṭāviṃśatidhā matam iti ṣaṣṭiḥ padārthānāmaṣṭābhiḥ saha siddhibhiḥ


13

यथाक्रमं लक्षणतः कार्त्स्न्येनेहाभिधास्यते तस्मादतः शास्त्रमिदमलं नानात्वसिद्धये

yathākramaṃ lakṣaṇataḥ kārtsnyenehābhidhāsyate tasmādataḥ śāstramidamalaṃ nānātvasiddhaye


14

अल्पग्रन्थमनल्पार्थं सर्वैस्तन्त्रगुणैर्युतम् पारमर्षस्य तन्त्रस्य बिम्बमादर्शगं यथा

alpagranthamanalpārthaṃ sarvaistantraguṇairyutam pāramarṣasya tantrasya bimbamādarśagaṃ yathā


15

तस्य व्याख्यां करिष्यामि यथान्यायोपपत्तये कारुण्यादप्ययुक्तां तां प्रतिगृह्णन्तु सूरयः

tasya vyākhyāṃ kariṣyāmi yathānyāyopapattaye kāruṇyādapyayuktāṃ tāṃ pratigṛhṇantu sūrayaḥ

Section (cont. 2)

1

आह, करिष्यति भवान् व्याख्याम् इदं त्वादावुपन्यस्तं सर्वैस्तन्त्रगुणैर्युतमिदं तन्त्रमिति के तन्त्रगुणाः, कियन्तो वेति ? उच्यते - सूत्रप्रमाणावयवोपपत्तिरन्यूनता संशयनिर्णयोक्तिः उद्देशनिर्देशमनुक्रमश्च संज्ञोपदेशाविह तन्त्रसम्पत् सूत्राणि च प्रमाणानि च अवयवाश्च, सूत्रप्रमाणावयवाः तेषाम् उपपत्तिः सूत्रप्रमाणावयवोपपत्तिः उपपत्तिः सम्भव इत्यनर्थान्तरम् अनन्यो ऽर्थो ऽनर्थान्तरम् उपपत्तिशब्दः प्रत्येकं परिसमाप्यते सूत्रोपपत्तिरित्यादि आह, लक्षणोपेतसूत्रोपपत्तिरिति वक्तव्यम् इतरथा हि अलक्षणोपेतस्यापि सूत्रस्य तन्त्राङ्गभावः स्यादिति उच्यते न, नान्तरीयकत्वात् न ह्यन्तरेण लक्षणोपेतत्वं सूत्रत्वम् अतो न वक्तव्यमेतदिति आह, अथ सूत्रमिति कस्मात् ? उच्यते- सूचनात् सूत्रम् सूचयति तांस्तानर्थविशेषानिति सूत्रम् तद्यथा- कारणमस्त्यव्यक्तम् (इस्क् 16), भेदानां परिमाणादिति (इस्क् 15) अत्र प्रतिज्ञाहेतू कण्ठोक्तौ तयोरुपयोगि दृष्टान्तं साध्यसिद्धये समर्थमिति कृत्वा मूलशकलादयो ऽत्रान्तरनभिहिता अप्येतस्मादवसीयन्ते अथवा भिक्षोरुपसंहृतबहिष्करणान्तःकरणस्य तेषु तेष्वतीन्द्रियेषु अपि प्रधानादिष्वर्थेषु बुद्धिं सूचयतीति सूत्रम् अथवा, सौक्ष्म्यात्तदनुपलब्धिरिति (इस्क् 8) सूत्रम् तद्यथा- अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः अस्तोभमपुनरुक्तमित्यर्थः तथा लभूनि सूचितार्थानि स्वल्पाक्षरपदानि च सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः प्रमाणानि च प्रत्यक्षादीनि, तान्युत्तरत्र वक्ष्यति ऽदृष्टमनुमानमाप्तवचनं चऽ; (इस्क् 4), ऽप्रतिविषयाध्यवसायो दृष्टमित्यादिऽ; (इस्क् 5) अवयवाः पुनर्जिज्ञासादयः, प्रतिज्ञादयश्च तत्र जिज्ञासादयो व्याख्याङ्गम् प्रतिज्ञादयः परप्रत्यायनाङ्गम् तानुत्तरत्र वक्ष्यामः आह, अवयवानभिधानमुपदेशात् न हि तथा प्रत्यक्षादीनि प्रमाणान्युपदिष्टानि तथा अवयवा उपदिष्टाः तस्मादवयवोपपत्तिरित्येतदसत् भाष्यकारप्रामाण्याददोष इति चेत् स्यान्मतम् यद्यपि सूत्रकारेणावयवोपदेशो न कृतस्तथापि भाष्यकाराः केचिदेषां संग्रहं चक्रुः ते च नः प्रमाणम् तस्माद्युकतमवयवोपपत्तिरिति एतच्चायुक्तम् कस्मात् ? उत्सूत्रत्वात् नह्युत्सूत्रं व्याचक्षाणा भाष्यकाराः प्रमाणं भवन्ति तथा चैतदुत्सूत्रितमिति उच्यते, न लिङ्गात् नैतद्युक्तमनुपदेशान्न सन्ति जिज्ञासादयः किन्तर्ह्यनुपदिष्टमप्येषामस्तित्वं लिङ्गात् प्रतिपद्यामहे यदयमाचार्यो दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेताविति (इस्क् 1) जिज्ञासाप्रयोजनमाचष्टे कारणमस्त्यव्यक्तमिति (इस्क् 16) प्रतिज्ञां करोति भेदानां परिमाणादिति (इस्क् 15) हेतुमुपदिशति नटवद् व्यवतिष्ठते लिङ्गमिति (इस्क् 42) दृष्टान्तं द्योतयति क्षीरस्य यथा तथा प्रवृत्तिः प्रधानस्त्येत्युपसंहरति (इस्क् 57) तस्मात् त्रिविधं करणं द्वारीति (इस्क् 35) निगमयति न चानभिप्रेतैराचार्याणां शास्त्रे व्यवहारो लक्ष्यते तेन वयं लिङ्गात्प्रतिपद्यामहे सन्ति जिज्ञासादयो ऽवयवाः शास्त्र इति आह, सतामनुपदेशे प्रयोजनवचनम् एवं चेन्मन्यसे- सन्ति जिज्ञासादयो ऽवयवाः, शास्त्रे तेषामनुपदेशे प्रयोजनं वक्तव्यम्- अमुष्माद्धेतोराचार्येण नोपदिश्यन्ते, सन्ति च ते इति उच्यते, प्रमाणान्तर्भावात् प्रमाणेष्वन्तर्भाव एषामित्ययमुपदिष्टो हेतुरस्माभिः अनुमानाङ्गं हि जिज्ञासादयः, तस्मात्तदन्तर्भूतास्ते इति न पृथगुपदिश्यन्ते किञ्च, तन्त्रान्तरोक्तेः तन्त्रान्तरेषु हि विन्ध्यवासिप्रभृतिराचार्यैरुपदिष्टाः प्रमाणं च नस्ते आचार्या इत्यतश्चानुपदेशो जिज्ञासादीनामिति आह न, प्रमाणानुपदेशप्रसंगात् यदि च तन्त्रान्तरोपदेशादेवावयवानामनुपदेशः, प्रत्यक्षादीन्यपि च तन्त्रान्तरेषूपदिश्यन्ते श्रोत्रादिवृत्तिः प्रत्यक्षम् सम्बन्धादेकस्माच्छेषसिद्धिरनुमानम् यो यत्राभियुक्तः कर्मणि चादुष्टस्स तत्राप्तस्तस्योपदेश आप्तवचनमिति तेषामप्यनुपदेशप्रसङ्गः अथ सति तन्त्रान्तरोपदेशे प्रमाणान्युपदिश्यन्ते नावयवा इति, नन्वेतदिच्छामात्रमिति उच्यते, पूर्व एव तर्हि परिहारो ऽस्तु अथवा पुनरस्तु तन्त्रान्तरोक्तेरित्ययमपि परिहारः यत्तूक्तं प्रमाणानुपदेशप्रसङ्ग इति अत्र ब्रूमः- अयुक्तमेतत् कस्मात् ? प्रयोजनवतामुपदेशस्यादोषत्वात् अनुपदेशो हि प्रयोजनवतश्चोद्यत इति युक्तमेतत् उपदेशमेव तु सदोष इति कृत्वा कः प्रत्याचक्षीत ? तस्मान्न किञ्चिदेतत् किञ्चान्यत्, प्रधानोपदेशे गुणभूतान्तर्भावसिद्धेः तद्यथा, तक्ष्णुहि चैत्र इत्युक्ते यावद्भिस्साधनविशेषैर्विना तक्षणं नोपपद्यते सर्वास्तांश्चैत्र उपादत्ते तथा प्रत्यक्षादिषु प्रमाणेषूपदिष्टेषु यैरेषामविनाभावः सर्वाणि तान्युपादास्यामहे किञ्चान्यात्, अन्यत्रापि तदनुष्ठानात् न केवलमिह, अन्यत्राप्ययमाचार्यः प्रधानामेवोपदेशं करोति तदङ्गभूतास्तु तदुपदेशादेव प्रतीयन्ते तद्यथा, कारणमस्त्यव्यक्तम् (इस्क् 16) भेदानां परिमाणादिति (इस्क् 15) इतरथा हि दृष्टान्ताभावादसाधनमेतत्स्यात् पश्यति त्वाचार्यो नादृष्टान्तं साधनं साध्यमाप्नोतीति कृत्वा प्रतिपादकाः प्रतिपादनकाले तन्त्रान्तरोपदिष्टानपि मूलशकलादीनाक्षेप्स्यन्ति इति किञ्चान्यत्, अनुमाने भूतवदुपदेशात् अतश्चैतदेवं यदयमाचार्यस्त्रिविधमनुमानमाख्यातमिति (इस्क् 5) ब्रवीति कथं कृत्वा ज्ञापकम्? आख्यातस्य हि प्रत्याम्नाये भूतवाचिना शब्देनोपदेशो भवति न चानेन पूर्वं त्रिविधमनुमानमाख्यातम् आख्यातमिति चेत्, न तदाख्यातं क्वचिदिति शक्यं प्रतिपादयितुम् सो ऽयमनाख्यायापि यद्भूतवाचिनं शब्दमुपादत्ते तज्ज्ञापयत्याचार्यस्तन्त्रान्तरक्लृप्तानामपीह सन्निवेशो ऽङ्गीक्रियते किमेतस्य ज्ञापने प्रयोजनम् ? तन्त्रान्तरोपदिष्टो ऽपि कर्मयोनीनाम् प्राणभेदादीनां च लक्षणोपदेशस्संगृहीतो भवतीति सिद्धं तन्त्रान्तरोपदेशादवयवानुपदेशः तस्मात्सूक्तमेवावयवोपपत्तिरिति अन्यूनता पदार्थकार्त्स्न्यमशेषतान्यूनतेत्यभिधीयते पदार्थाश्च दश चूलिकार्थाः, पंचाशत्प्रत्ययाः तत्रास्तित्वमेकत्वं पंचभिर्वीतैः सिद्धम् अर्थवत्त्वं कार्यकारणभावः पारार्थ्यं संहत्यकारिणां परार्थत्वात् अत एवान्यत्वम् चेतनाशक्तेर्गुणत्रयाज्जन्ममरणकरणानामित्येवमादिभिः पुरुषबहुत्वम् पुरुषस्य दर्शनार्थ इति संयोगः प्राप्ते शरीरभेदे इति वियोगः सम्यग्ज्ञानाधिगमादिति शेषवृत्तिः तस्माच्च विपर्यासादिति पुरुषस्याकर्तृत्वमित्येते दश चूलिकार्थाः पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् अष्टाविंशतिभेदा तुष्टिर्नवधाष्टधा सिद्धिः (इस्क् 47) इति पञ्चाशत्प्रत्ययाः सैषा षष्टिः पदार्थानाम् तदुपपत्तिरन्यूनता संशयनिर्णयोक्तिः संशयश्च निर्णयश्च तौ संशयनिर्णयौ तयोरुक्तिस्संशयनिर्णयोक्तिः सामान्याभिधानं संशयः तद्यथा महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं चेत्युक्ते (इस्क् 8) संशयो भवति केन धर्मेण कार्यं प्रकृतिविरूपं केन वा सरूपमिति विशेषाभिधानं निर्णयः स च द्विविधः, शब्दतो ऽर्थतश्च शब्दस्तावत् यथा हेतुमदादिभिः कार्यं प्रकृतिविरूपम्, त्रैगुण्यादिभिः प्रकृतिसरूपमिति अर्थतस्तत् यथा तेभ्यो भूतानि पञ्च पञ्चभ्यः, एते स्मृता विशेषाः (इस्क् 38) किं कारणम् ? यस्मात् शान्ता घोराश्च मूढाश्च (इस्क् 38) अशान्तघोरमूढत्वात्तन्मात्राण्यविशेषाः उद्देशनिर्देशम् उद्देशश्च निर्देशश्च उद्देशनिर्देशम् सर्वो द्वन्द्वो विभाषयैकवद्भवति इति द्वन्द्वैकवद्भावः सङ्क्षेपवचनमुद्देशः तद्यथा, एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः (इस्क् 46) विस्तरवचनं निर्देशः तद्यथा, पञ्च विपर्ययभेदा भवन्ति (इस्क् 47) भेदस्तमसो ऽष्टविध (इस्क् 48) इत्यादिः अनुक्रमश्च- पदार्थानामानुपूर्व्या सन्निवेशोपदेशो ऽनुक्रमः, तद्यथा - ऽप्रकृतेर्महांस्ततो ऽहंकारस्तस्माद् गणश्च षोडशकःऽ; (इस्क् 22) इत्यन्तेन संज्ञोपदेशौ संज्ञिप्रत्यायनार्थः शब्दः संज्ञा सा च द्विविधा अर्थनिबन्धना, स्वरूपनिबन्धना च तत्रार्थनिबन्धनार्थवशेनार्थक्रियापेक्षा जात्याद्यर्थस्वरूपान्तर्भावी यथार्थस्तथाभूतमेव संज्ञिनं प्रत्यायति तद्यथा पाचको लावक इति स्वरूपनिबन्धना पुनः संज्ञिप्रत्यायनोपायमात्रम् स्वरूपमात्रोपकारिणी विनावयवार्थं समयवशादतथाभूतमपि संज्ञिनं प्रत्यायति तद्यथा, गजकर्णो ऽश्वकर्ण इति प्रयत्नतो भगवतः परमर्षेरार्षेण ज्ञानेन सर्वतत्त्वानां स्वरूपमुपलभ्य संज्ञां विदधतो नास्ति स्वरूपनिबन्धनः शब्दः तद्यथा, प्रधीयन्ते ऽत्र विकारा इति प्रधानम्, पुरि शेत इति पुरुष इत्यादि तन्मतानुसारिणामप्याचार्याणां ताभिरेव संव्यवहारान्नास्त्यपूर्वसंज्ञाविधानं प्रत्यादरः उपदेशः इतिकर्तव्यता, फलसमाख्यानमुपदेशः तद्यथा, एवं तत्त्वाभयसान्नास्मि न मे नाहमित्यपरिशेषम् अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् (इस्क् 64) एते सूत्रोपपत्त्यादयस्तन्त्रगुणाः इति करणं प्रकारार्थम् एवम्प्रकारा अन्ये ऽपि द्रष्टव्याः तद्यथा, उत्सर्गो ऽपवादो ऽतिदेश इत्यादिः तत्रोत्सर्गः प्रकृतिविरूपं (इस्क् 8) व्यक्तम्, सरूपं (इस्क् 8) चेत्यपवादः तथा तद्विपरीत (इस्क् 11) इत्युत्सर्गः, तथा च पुमान् (इस्क् 11 ) इत्यपवादः सामान्यमचेतनं प्रसवधर्मि व्यक्तं, तथा प्रधानम् (इस्क् 11) इत्यतिदेशः इत्येवमन्या अपि तन्त्रयुक्तयः शक्या इह प्रदर्शयितुम् अतिप्रसङ्गस्तु प्रकृतं तिरोदधातीति निवर्त्यते सिद्धं तन्त्रयुक्तीनां सम्बन्धोपपत्तेस्तन्त्रमिदमिति किञ्च तन्त्रान्तराविरोधात् यदि खल्वपीदमपि प्रकरणं स्यात् तन्त्रान्तरे पातञ्जलपञ्चाधिकरणवार्षगणप्रभृतीनामन्यतमस्य शेषभूतं स्यात् तैश्चाप्यविरोधस्तत्र तत्रेति वक्ष्यामः पूर्वतन्त्रशेषभावादिति चेत्, तुल्यम् एतान्यपि पूर्वतन्त्रशेषभूतानि, तेषामपि प्रकरणत्वप्रसङ्गः अथ मतम्- सकलपदार्थसंग्रहात्तन्त्रान्तराण्येतानि, एवमिहापि सकलपदार्थसंग्रहात्तन्त्रान्तरत्वमभ्युपगन्तव्यम् तस्माद्युक्तमेतत्तन्त्रमिदम् इत्युपोद्घातः कारिका 1 आह, किंगुणविशिष्टाय शिष्याय पुनरिदं तन्त्रं व्याख्येयमिति उच्यते- जिज्ञासवे मतिमते मीमांसकायार्थिने ऽभ्युपगताय शिष्याय व्याख्येयं शास्त्रम् कस्मात् ? परमर्षिप्रामाण्यात् यस्माद् भगवान् विश्वाग्रजः परमर्षिर्भगवदासुरेर्जिज्ञासामुपलभ्योत्तरगुणविशेषसम्पदं च व्याख्यातवान् रज एव दुःखं तन्निराकरिष्णोर्विवेको ऽयं, सत्त्वात् सत्त्वं चास्मान्नानेत्येवमादिना वचनप्रतिपाद्यो ऽयमर्थो महद्भिश्चोक्तः तस्माद्रजोदुःखोपघातोपघातकजिज्ञासोः सत्त्वाद्धर्मादिकुशलमूलविपाकोत्पित्सोर्दुःखत्रयनिवृत्तय इदं शास्त्रं प्रवृत्तम् तदर्थात्परिणमते शिष्यस्येति कथं नाम शिष्यस्य निःश्रेयसेन योगः स्यादित्येवमर्थमिदं व्याख्यानं क्रियत इति आह, यदुक्तं जिज्ञासवे व्याख्यानं कर्तव्यमिति तत्र कुतः पुनरियं जिज्ञासा कस्मिन् वार्थे भवतीति ? उच्यते - यत्तावदुक्तं कुतः पुनरियं जिज्ञासा भवतीत्यत्र ब्रूमः दुःखत्रयाभिघाताज्जिज्ञासा दुःखं रज इत्यनर्थान्तरम् दुःखयतीति दुःखं भवतीति त्रयमिति संख्यापदं सर्वद्रव्यविषयं, दुःखशब्देन विशिष्यते प्राधान्याच्च व्यतिरिक्तबुद्ध्या गृह्यमाणं सम्बन्धित्वादाधारस्य भेदनिबन्धनायाः षष्ठ्या निमित्तत्त्वं प्रतिपद्यते- दुःखानां त्रयं दुःखत्रयम् अभिहन्यते ऽनेनेत्यभिघातः कः पुनरयमभिघातो नाम ? उच्यते- यो ऽसावुपर्युक्तदुःखत्रयेणान्तःकरणेन चेतनाशक्तेरभिसम्बन्धः तस्माद्दुःखत्रयाभिघाताज्जिज्ञासा यदुक्तं कस्मिन्नर्थे भवतीति तत्राह- तदपघातके हेतौ अपहन्तीत्यपघातकः, तस्यापघातकस्तदपघातकः आह, तदपघातके इति समासानुपपत्तिः, प्रतिषेधात् कर्तरि यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते तस्मात्तस्यापघातक इति वक्तव्यम् उच्यते- न, शास्त्रे दर्शनात् "तत्प्रयोजको हेतुश्च" इति शास्त्रे दृष्टः प्रयोगः पदकारश्चाह- जातिवाचकत्वात् तथा कदाचिद्गुणो गुणविशेषो भवति, कदाचिद्गुणिना गुणो विशिष्यत इति चूर्णिकारस्य प्रयोगः तस्मदनवद्यमेतत् अयं तु पिण्डार्थः त्रिविधेन दुःखेनाभिहतो ब्राह्मणस्तदपघातकं हेतुं जिज्ञासते को नामासौ हेतुः स्याद्यो दुःखत्रयमभिहन्यादिति आह, दुःखशब्दावचनमादावमङ्गलार्थत्वात् मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति, अध्येतारश्च मंगलेनाभिहतसंस्काराः शास्त्रार्थानासु प्रतिपद्यन्ते दुःखमित्ययं चामङ्गलार्थः शब्दः, तस्मान्नारब्धव्यः शास्त्रादाविति उच्यते न, वाक्यस्यार्थे प्रयोगात् पदस्यानर्थक्यादमङ्गलार्थत्वानुपपत्तिः वाक्यमर्थप्रत्यायनार्थं प्रयुज्यते, विशिष्टार्थाभिधानात् न पदम् तथा हि पदार्थव्यतिरेकेण विशिष्ट एव वाक्यार्थः प्रतीयते, केवलं तु पदं सामान्यार्थादप्रच्युतं विशिष्टार्थाभिधानासमर्थम् अतएव न विवक्षितार्थप्रत्यायनयोग्यतयोपादीयते तद्यथा- देवदत्तेत्ययं शब्दः कर्तृवाचकत्वेनोपात्तः, सर्वक्रियाविषयत्वात्, नान्तरेण कर्मक्रियाशब्दौ विशिष्टार्थः प्रतीयते तथा गामिति कर्म, सर्वक्रियाकर्त्रभिधाननिमित्तत्वात् तथा अभ्याजेति क्रिया, सर्वकर्मकर्तृविषयत्वात् यदा तु देवदत्त गामभ्याज शुक्लामित्युच्यते तदा देवदत्तेन गोशब्देन कर्मान्तरेभ्यो विच्छिद्य स्वात्मन्यवस्थाप्यते क्रिया च गोशब्दश्च सर्वकर्तृभ्यो देवदत्तकर्मतया व्यवस्थाप्यते कर्तृकर्मणी चाभ्याजिक्रियायाः साधनभावेनैव नियम्येते शुक्लशब्दो गोशब्दश्च गोशब्दं सर्वगुणविषयमाधेयान्तरेभ्यो व्यवच्छेद्य स्वात्मन आधारत्वे नियम्य, तद्विषयतां प्रतिपादयतीत्यनेन क्रमेण विशिष्टो वाक्यार्थः केवलानान्तु पदानां सामान्यार्थात् प्रच्युतानाम्विशेषानभिधानादानर्थक्यम् आह च- पृथङ्निविष्टतत्त्वानाम्पृथगर्थाभिपातिनाम् इन्द्रियाणां यथा कार्यमृते देहान्न लभ्यते तथैव सर्वशब्दानाम्पृथगर्थाभिधायिनाम् वाक्येभ्यः प्रविभक्तानामर्थवत्ता न लभ्यते इति एवं सति कुतो ऽयं निश्चयप्रतिलम्भो यद्दुःखशब्दो ऽयममङ्गलार्थो यावता सन्दिह्यत एव अयं किं स्वार्थप्रतिपत्त्यर्थमुपात्तो ऽथ हेयत्वायेति वाक्यस्य तु मङ्गलार्थत्वम्, दुःखप्रहाणार्थमुपादानात् यद्धि दुःखप्रहाणार्थं वाक्यमुपादीयते तन्मङ्गलार्थं दृष्टम् तद्यथा व्याध्यपगमः स्यादलक्ष्मीर्मा भूदिति दुःखप्रहाणार्थं चेदं वाक्यमुपात्तं तस्मान्मङ्गलार्थमिदम् तत्र यदुक्तं दुःखशब्दावचनमादावमङ्गलार्थत्वादित्येतदयुक्तम् आह, त्रयग्रहणानर्थक्यं, गुणैकत्वात् दुःखं रज इति प्रतिपन्नो भवान्, तच्चैकं शास्त्रे पठ्यते तस्मात्त्रयग्रहणमनर्थकमिति निमित्तभेदाद्भेदोपचार इति चेत्, स्यान्मतम् यद्यपि एकं दुःखं तथापि निमित्तानामध्यात्माधिभूताधिदैवलक्षणानां भेदादस्य भेदोपचारः करिष्यत इति तच्च नैवम् कस्मात् ? निमित्तानन्त्येन गुणानन्त्यप्रसङ्गात् आध्यात्मिकं हि द्विविधं, शारीरं मानसं च शारीरं तावद्वातपित्तश्लेष्मणां वैषम्यनिमित्तम् तथा मानसं कामक्रोधलोभमोहविषादभयेर्ष्यासूयारत्यविशेषदर्शननिमित्तम् आधिभौतिकं च मनुष्यपशुमृगपक्षिसरीसृपस्थावरनिमित्तम् आधिदैविकं शीतोष्णवातवर्षाशन्यवश्यायावेशनिमित्तम् तत्र निमित्तभेदात्त्रित्वप्रगिज्ञस्य गुणानन्त्यप्रसङ्गः, स च नेष्टस्तस्मान्न निमित्तभेदात्त्रित्वम् उच्यते- यदुक्तं रजस एकत्वात् त्रित्वानुपपत्तिः, तस्य निमित्तभेदात् त्रित्वोपचार इति सत्यमेतत् यत्तूक्तं निमित्तानन्त्येन गुणानन्त्यप्रसङ्ग इति तदयुक्तम् कस्मात् ? भेदे ऽपि सति वर्णसंख्यावद्द्व्यवस्थानोपपत्तेः तद्यथा चत्वारो वर्णा इत्यस्याः संख्यायाः सति पैप्पलादादिभेदे तेषां ब्राह्मणत्वादिव्यतिरेकाभावान्न संख्यान्तरहेतुत्वं नो खल्वपि वर्णाव्यतिरेकादेकत्वं भवति एवं त्रीणि दुःखानीत्यस्याः संख्यायाः सति शरीरादिभेदे तेषामाध्यात्मिकादिव्यतिरेकासम्भवान्न सङ्ख्यान्तरहेतुत्वं नो खल्वपि दुःखाव्यतिरेकादेकत्वं भवितुमर्हति किञ्चान्यत्, निमित्तभेदाद् भेदोपचार इति भवानेव प्रतिपन्नः न चोपचारः परमार्थ इत्यलमस्थाने यत्नेन आह- अभिघाताज्जिज्ञासायामतिप्रसङ्गः, सर्वेषां सम्भवात् यथासुरेर्दुःखत्रयाभिघाताज्जिज्ञासा भवतीत्येतदिष्टं तेन सर्वेषामभिघातो ऽस्तीति सर्वेषां जिज्ञासाप्रसङ्गः अथ मतं दुःखाभिघाते कस्यचिज्जिज्ञासा भवति कस्यचिन्नेति नन्वेवमिच्छामात्रम् प्राक्प्रसङ्गाच्च प्रागप्यासुरेर्जिज्ञासाया दुःखत्रयाभिघातो न चास्यात्यन्तिके हेतौ जिज्ञासा बभूव तेन किं प्राप्तम् ? पश्चादस्य यतो बभूव तद्वक्तव्यम् यथान्यत्र ब्रह्मणो ऽभ्यासनिमित्तादधर्मक्षयात् पूर्वधर्मानुग्रहाच्च विविदिषा, तथान्येषां कुशलमूलाभ्यासपरिपाकात् न चापदिष्टमतो लघूक्तमेतत् किञ्चान्यत्, तदपघाताच्चानिर्मोक्षो ऽकृत्स्नत्वात् मोक्षो हि कामरूपारूप्यधातुत्रयादिष्यते दैवमानुष्यतिर्यग्योनित्रयाद्वा एकदेशश्च संसारस्य दुःखत्रयम् तस्मात् प्रयोजनमप्ययुक्तम् किञ्च निमित्तान्तरसद्भावाद्दिव्यकामध्यानसुखानपेक्षस्यापि विविदिषा सम्भवति, न केवलं तापोद्विग्नस्यापि तस्मान्निमित्तमप्ययुक्तम् किञ्चान्यत् उभयथा चासम्भवात् परिकल्प्यमाना खल्वपीयं जिज्ञासा पुरुषस्य वा स्याद्गुणानां वा किंचातः ? तन्न तावत्पुरुषस्य सम्भवति कस्मात् ? नैर्गुण्याभ्युपगमात् इच्छाद्वेषप्रयत्नसुखदुःखधर्माधर्मज्ञानसंस्काराणामात्मगुणत्वं न भवद्भिरभ्युपगम्यते न गुणानाम्, आचेतन्यात् न ह्यचेतना घटादयो हिताहितप्राप्तिपरिहारं जिज्ञासमाना दृश्यते न च चेतना भवतां गुणाः, सामान्यमचेतनं प्रसवधर्मि प्रधानमिति (इस्क् 11) वक्ष्यमाणवचनात् किंचान्यत्, तत्त्वान्तरानुपपत्तेः न च गुणपुरुषव्यतिरिक्तं वस्तुतस्तत्त्वान्तरमस्ति यस्य जिज्ञासा परिकल्प्यमाना परिकल्प्येत तस्मादनुपपन्ना जिज्ञासा उच्यते यदुक्तमभिघाताज्जिज्ञासायामतिप्रसङ्गः, सर्वेषां तत्सम्भवादिति अत्र ब्रूमः न, अभिघातत्वेनाप्रतिपत्तेः यद्यप्यविशिष्टो ऽभिघातस्तथापि सर्वे नैनमभिघातत्वेन प्रतिपद्यन्ते तथाहि, सत्स्वाध्यात्मिकादिदुःखेष्वर्जनरक्षणक्षयसंगहिंसासु च प्रीत्यभिष्वङ्गादेषां न विषयेषूद्वेगापद्वेषौ न च विषयपरित्यागो भवति तस्मान्नाविशिष्टो ऽभिघातः विशेषे ऽभिघातबुद्धेर्निमित्ताभिधानमिति चेत् ? अथापि स्याद्येयमसति विशेषे सर्वप्राणभृतामासुरेरेव भगवतो दुःखत्रयाभिघातबुद्धिर्भवति, न पुनरन्येषामित्यत्र निमित्तमभिधानीयम् न ह्यन्तरेण निमित्तमसौ विशेषो ऽवस्थापयितुं शक्यत इति एतच्चायुक्तम् कस्मात् ? प्रश्नासम्बन्धात् कुतो जिज्ञासा भवतीत्येवं चोदकेन पूर्वमकारि प्रश्नस्तस्याश्च साक्षात् कारणमभिघातः कारणान्तराणामनभिधानादित्यस्यैव निर्देशः कृतः यत्तु खल्विदानीं कारणकारणमपि पृच्छ्यते तदनवस्थाप्रसङ्गभयान्नोच्यते अथ निर्बन्धः क्रियते तेन पूरवधर्मानुग्रहस्य कुशलमूलाभ्यासपरिपाकस्य कारणकारणत्वमस्माभिर्न प्रतिषिध्यत इति तदेव किं न गृह्यते ? एतेन प्राक्प्रसङ्गः प्रत्युक्तः यत्तूक्तं तदभिघाते चानिर्मोक्षो ऽकृत्स्नत्वादित्येतदप्ययुक्तम् कस्मात् ? शास्त्रार्थानवबोधात् अष्टविकल्पो दैवस्तैर्यग्योनिश्च पञ्चधा भवति, मानुष्यश्चैकविध (इस्क् 53) इत्येतावानस्माकं संसारः न तु तद्व्यतिरिक्ताः कामरूपारूप्यधातवः क्वचिदपि सिद्धाः चतुर्दशविधे च संसारे या सुखमात्रा सा दुःखभूयस्त्वात्तच्छब्दवाच्या भवतीति तथा चोक्तम्- अत्र जन्मजरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं समासेन (इस्क् 55) दृश्यते च लोके भूयसा ग्रहणम् तद्यथाम्रवनमिति तस्मात् कृत्स्नविकल्पप्रतिषेधो ऽयम् यत्पुनरेतदुक्तं दिव्यकामध्यानसुखानपेक्षस्यापि विविदिषासम्भवान्निमित्तमयुक्तमिति तदप्यनुपपन्नम् कस्मात् ? उत्तरत्र प्रतिषेधात् इष्टमेवैतत्सङ्गृहीतम् तथा चोत्तरसूत्रेण प्रतिषेत्स्यत्याचार्यः "दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः" (इस्क् 2) तस्माद्दिव्यसुखानपेक्षस्यापि युक्ता विविदिषा ध्यानसुखमपि क्षयातिशयौ नातिवर्तते तदप्यत्रैव सङ्गृहीतम् तस्मात्प्रतिषेध्य एवायं पक्ष इति न किञ्चिदभिधीयते यदप्युक्तमुभयथासम्भवाज्जिज्ञासानुपपत्तिरिति अस्तु गुणानां जिज्ञासा यत्तूक्तमाचेतन्यादसम्भव इति सत्याचेतन्ये बुद्धेरिच्छादिसद्भावमुत्तरत्र प्रतिपादयिष्यामः तस्मादुपपन्ना जिज्ञासा आह- तच्छब्दानर्थक्यं प्रतिपदसम्बन्धात् यो ऽयमाचार्येण तच्छब्दः सूत्रे पठितो ऽस्य खलु प्रतिपदमसम्बन्धात् स्वल्पामप्यर्थवत्तां नोपलभामहे तस्मानैनमपुष्कलार्थमध्येष्यामह इति उच्यते- कथं हि नाम प्रयोक्तृपारतन्त्र्याच्छब्दस्य शब्दान्तरेण सम्बन्धो न स्यादिति ? आह, न ब्रूमो ऽविद्यमानसम्बन्धो ऽसम्बन्धः किन्तर्ह्ययुक्तसम्बन्धो यः स खल्वसम्बन्धः तद्यथा अनाचारो माणवक इति द्रव्येण क्रियाशक्तित्वान्न शक्यं किञ्चिदनाचारवता क्षणमप्यवस्थातुम् अयुक्तं त्वाचरन्ननाचार इत्युच्यते तथा चास्य तच्छब्दस्य प्रतिपदं सम्बन्धो न युक्तस्तस्मादनर्थकस्तच्छब्दः आनन्तर्याज्जिज्ञासाशब्दस्येति चेत्, स्यान्मतम् अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेत्यनया युक्त्या जिज्ञासाशब्दस्य तच्छब्देनाभिसम्बन्धः शक्य इति तच्च नैवम् कस्मात् ? तदपघाते प्रयोजनासद्भावात् न हि जिज्ञासापघाते किञ्चित् प्रयोजनमस्तीति सत्यपि सम्बन्धे न तच्छब्देनार्थः अभिघातस्येति चेत् ? अथापि स्याद्यदि जिज्ञासापघातेन किंचित्प्रयोजनमस्तीति अतस्तत्सम्बन्धो नेष्यते तेन तर्ह्यभिघातशब्देनास्याभिसम्बन्धः करिष्यते तथा चापि तच्छब्दोर्थवान् भविष्यतीति एतदनुपपन्नम् कस्मात् ? निमित्तावस्थाने पुनः पुनरुत्पत्तेः नैमित्तिको ऽयमभिघातस्तस्य निमित्तवत्त्वादात्यन्तिको ऽपघातो न स्यात् इतरथा ज्वरनिमित्तको दाह इव शीतद्रव्यसंस्पर्शात्प्रशान्तो ऽपि निमित्तावस्थानात्पुनः पुनः प्रवर्तते इत्यफलत्वमस्य व्यायामस्य त्रयशब्दस्येति चेत् न, पारतन्त्र्यात् आश्रयपरतन्त्रा हि संख्या, तस्या नान्तरेणाश्रयेणोपघातमपघातः शक्यः कर्तुम् आनर्थक्यञ्च समानमिति सुतरां तच्छब्देन नार्थः दुःखशब्दस्येति चेत्सामान्यम् - यद्येतेषाम्पदानामभिसम्बन्धे यथोक्तदोषोपपत्तिः, दुःखशब्दं तर्हि तत्-शब्देनाभिसंभन्त्स्यामः तस्मिन्नेष निषेधो विशतीति तच्च नैवम् कस्मात् ? अनेकपदव्यवधानात् कथमनन्तरवृत्तिना सर्वनाम्नानेकपदव्यवहितस्य दुःखशब्दस्याभिसम्बन्धः शक्येत् प्रतिपादयितुम् ? तस्मान्न किञ्चिदेतत् किञ्चान्यत् उपसर्जनत्वात् अयं खल्वपि दुःखशब्दः समास उपसर्जनीभूतः न चैकस्मिन्काले शब्दस्य प्रधानत्वमुपसर्जनत्वं च युक्तितः सम्भवति प्रधानस्य च पदान्तरेणाभिसम्बन्धः तस्माद्विवादास्पदमेवैतत्सूत्रम् किञ्चान्यत् नित्यानामपघातानुपपत्तेः इह नित्यानामपघातः कर्तुं न शक्यते तद्यथा पुरुषाणाम् अनित्यानाञ्चापघातो दृष्टः तद्यथा, ज्वरादीनाम् नित्यञ्च दुःखम् तस्मात्तदपघाते ऽभ्युत्थानानर्थक्यम् वृत्त्यपघाते तदपघात इति चेत्, स्यात्पुनरेषा बुद्धिः सत्यं नित्यानामपघातो न युक्तितः सम्भवति न तु वयं गुणलक्षणस्य दुःखस्यापघातं ब्रूमः, किन्तर्हि वृत्तिरस्याभिभूयत इति तच्च नैवम् कस्मात् ? उक्तोत्तरत्वात् उक्तमत्रोत्तरं निमित्तावस्थाने पुनः पुनरुत्पत्तेरिति तस्मादयमप्यमार्गः किञ्चान्यत् अविशेषात्कल्पयित्वापि वृत्त्यपघातं वृत्तिवृत्तिमतोरनन्यत्वाद् वृत्त्यपघाते वृत्तिमदपघातः प्राप्त इति नास्ति कश्चिद्विशेषः तस्मात् कृशो ऽयं परिहार इति नार्थस्तच्छब्देन उच्यते- यदुक्तं तच्छब्दानर्थक्यम्, प्रतिपदमसम्बन्धादित्यस्तु दुःखशब्देनाभिसम्बन्धः तत्सम्बन्धे यथोक्तदोषोपपत्तिरिति चेत् स्यान्मतम् यदि तर्हि तच्छब्दस्य दुःखशब्देनैवाभिसम्बन्धो ऽभ्युपगम्यते तेन ये ऽस्माभिः पूर्वमभिहिता दोषास्ते प्रसज्यन्ते तस्मात् प्रतिषिद्धस्य पक्षस्य परिग्रहे साहसमात्रमिति एतच्च नैवं, कस्मात् ? प्रतिविधानात् सत्यमसति प्रतिविधाने साहसमात्रं स्यात् प्रतिविधीयते तु, तस्माददोषो ऽयमिति किन्तदिति चेत् स्यान्मतम् उच्यतान्तर्हि किन्तत् प्रतिविधानं यस्यावष्टम्भेनानेकदोषव्याहतो ऽप्ययं पक्ष आश्रीयते न ह्यनुक्तमस्माभिराकारमात्रेण शक्यं प्रतिपत्तुमिति उच्यते- बाढम् यत्तावदुक्तमनेकपदव्यवधानान्न दुःखशब्दस्य तच्छब्देनाभिसम्बन्ध इत्यत्र ब्रूमः न, अनभ्युपगमात् यो ह्यनन्तरकृतं शब्दस्य शब्दान्तरेण सह सम्बन्धमाचष्टे तम्प्रत्ययमुपालम्भः स्यात् वयन्त्वर्थकृतं सम्बन्धमाचक्ष्महे तथा चोक्तम्- यस्य येनाभिसम्बन्धो दूरस्थस्यापि तस्य सः अर्थतस्त्वसमानामानन्तर्ये ऽप्यसम्भवः किञ्चान्यत्- शास्त्रे दर्शनात् शास्त्रे च व्यवहितानामपि सर्वनाम्नामभिसम्बन्धो दृश्यते "यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतला"वित्यत्रार्थकृतश्च सम्बन्धः शब्दानामभ्युपगतः ङ्याप्प्रातिपदिकात्, बहुषु बहुवचनम्, सुपो धातुप्रातिपदिकयोः, अलुगुत्तरपदे इत्येवमादीनां सम्बन्धाभ्युपगमः तथा "अनड्वाहमुदहारिणि भगिनि वहसि या त्वं शिरसि कुम्भमवाचीनमभिधावन्तमद्राक्षीरिति" वार्तिके दृष्टान्तः न ह्यत्र सत्यानन्तर्ये शिरसानडुहो वहनं कुम्भस्य वा सरणमुपपद्यते यथा चात्र व्यवहितानामभिसम्बन्धस्तथेहापि द्रष्टव्यः यत्पुनरेतदुक्तमुपसर्जनत्वात्पदान्तरेणानभिसम्बन्ध इति एतदनुपपन्नम् कस्मात् ? समासादपोद्धारे बुद्धया व्यवस्थितस्य स्वातन्त्र्योपपत्तेः सत्यमुपसर्जनस्य पदान्तरेणाभिसम्बन्धो नोपपद्यते न तु वयं समासवृत्तेरेव तच्छब्देनाभिसम्बन्ध इति प्रतिपद्यामहे, किन्तर्हि समासादपोद्धृतस्य बुद्धिव्यवस्थितस्योपजनितस्वातन्त्र्यस्य शब्दान्तरेण सम्बन्धमिच्छाम इति अथैतदनिष्टम् "योगप्रमाणे च तदभावे दर्शनं स्यात्" "अथ शब्दानुशासनं, केषां शब्दानाम्" इति चैवमादीनाम्प्रयोगाणां विरोधः प्राप्नोति अनिष्टञ्चैतत् यत्पुनरेतदुक्तम्- नित्यानामपघातानुपपत्तेर्वृत्त्यपघाते च तदपघातप्रसङ्गादिति, एतदप्यनुपपन्नम् कस्मात् ? गुणशक्तेः प्रयोजनोपरमे सत्यात्मकल्पेन व्यवस्थानाभ्युपगमात् नैतदभ्युपगम्यते गुणस्योच्छित्तिर्भवति, वृत्तिर्वास्याभिभूयते किन्तर्हि पुरुषार्थनिबन्धना चरितार्थ शक्तिरस्य पुरुषार्थप्रवृत्तौ प्रयोजनासद्भावादात्मकल्पेन व्यवतिष्ठत इत्येतद्विवक्षितम् तस्माद्युक्तमेतत्तदपघातके हेतौ जिज्ञासा प्रवर्तत इति दृष्टे सापार्था चेत् स्यादेतत् प्रत्यक्षो दुःकप्रतीकारहेतुरस्ति तस्य समतिक्रमे किं प्रयोजनम् ? तद्यथा शारीरस्य तावदयमपगमहेतुरनेकद्रव्यरसायनोपभोगः मानसस्यापि मनोज्ञस्त्रीपानविलेपनभोजनवस्त्रालङ्कारादिविषयसम्प्राप्तिः आधिभौतिकस्य नीतिशास्त्राभ्यासः, शस्त्रास्त्रकुशलता, विषमस्थानानध्यासनं च आधिदैविकस्यापि यथाकालं विविधनिवसनास्तरणगर्भगृहप्रासादजालान्तरचन्दनव्यजनमणिहारादिसेवा विविधौषधमंगलस्तुतिमन्त्रप्रयोगानुष्ठानमिति दृष्टे हेतौ सा जिज्ञासापार्थेति चेत् - नैकान्तात्यततो ऽभावात् इस्क्_1 एतच्च नैवम् कस्मात् ? एकान्तात्यन्ततो ऽभावात् एकान्तो नाम नियमेन भावः अत्यन्तं भूतस्याविनाशः एकान्तश्च अत्यन्तं च ते एकान्तात्यन्ते तयोरभाव एकान्तात्यन्ततो ऽभावः तस्मात् षष्ठीस्थाने पञ्चमी षष्ठ्या एव वा तसिः षष्ठ्या व्याश्रय इति योगविभागात् असमासकरणं वृत्तपूरणार्थम्, मानसस्य च दुःखस्य प्रतीकारे दोषान्तरोपसंग्रहार्थम् तथा हि, स्त्र्यादीनां सत्येतस्मिन् दोषद्वये ऽशक्यमर्ज्जनं कर्तुमस्वाभाविकत्वात् सत्यर्जने रक्षणमशक्यं, साधारणत्वात् सति च रक्षणे क्षयः, कृतकत्वात् सङ्गाच्चानुपशमो भूतोपघातमन्तरेण चासम्भव इत्येते दोषाः आह, कथमेतदवगम्यते यद्दृष्टस्य हेतोरनैकान्तिकत्वमनात्यन्तिकत्वं चेति ? उच्यते- प्रत्यक्ष एवैतदुपलभ्यते यदायुर्वेदविहितस्य क्रियाक्रमस्याभियुक्तमात्मवन्तं भेषजभिषक्परिचारकसम्पन्नं प्रत्यानर्थक्यम् आह च - सर्वेषां व्याधिरूपाणां निदानं त्रिविधं स्मृतम् आहारश्च विहारश्च कर्म पूर्वकृतं तथा तत्राहारविहारोत्थान् रोगान् द्रव्यमपोहति यस्तु कर्मकृतो व्याधिर्मरणात्स निवर्तते पुनरप्याह- सोपद्रवः सर्वरूपो बलमांसेन्द्रियापहः सारिष्ठश्चैव यो व्याधिस्तं भिषक् परिवर्जयेत् इत्येवमनैकान्तिकत्वम् अनात्यन्तिकत्वं तु निवृत्तानामपि व्याधीनाम्पुनरुत्पत्तिदर्शनात् महता खल्वपि प्रयत्नेन निवर्तिता व्याधयः पुनरुत्पद्यन्ते तथा चोक्तम् - पुनर्ज्वरे समुत्पन्ने क्रिया पूर्वज्वरानुगा इति तस्माद्यथैवास्यायुर्वेदादेः प्रतीकारहेतुत्वं प्रत्यक्षसिद्धमेवमेकान्तात्यन्ततो ऽभावो ऽपि तथा मानसस्य च यथा च शारीरदुःखप्रतीकारहेतवो ऽनैकान्तिकाः तथा स्त्र्यादयो ऽपि कस्मात् ? तत्सन्निधाने विषयान्तराभिलाषदर्शनात् यदि हि स्त्र्यादयो विषयाः सर्वदा दुःखप्रतीकारसमर्था भवेयुः, किमति तेषु सन्निहितेषु विषयिणो विषयान्तरजिघृक्षा स्यात् ? एवमनैकान्तिकत्वम् अनात्यन्तिकत्वमपि निवृत्तेच्छानामपि भूयः प्रार्थनासम्भवात् यदि हि विषयोपभोगो ऽत्यन्तमेव मानसं दुःखमपहन्यात् किं प्राप्तं येन भूयस्तं प्रति विषयिणो ऽभिलाषः स्यात् ? किं कारणम् ? यस्मान्न ह्यविद्यमाने तमसि देवदत्तस्य प्रदीपं प्रत्यपेक्षा भवति दृश्यते च निवृत्तेच्छानामपि विषयोपभोगाद्विषयिणां भूयो विषयाभिलाषः तेन मन्यामहे नायं दृष्टो हेतुर्दुःखमहपन्ति किन्तर्हि सुतरां वृद्धिं करोति आह च - न जातु कामः कामानामुपभोगेन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते अपर आह- संवेद्यत्वाद् गुरुत्वाच्च निन्दितत्वाच्च साधुभिः सर्वत्रासन्निधानाच्च न दृष्टो हेतुरिष्यते संवेद्यत्वात् भोगसाधनविकलानामर्थिनां मध्ये विषयिणोपयुज्यमानास्तैस्संवेद्यन्ते तेषामप्रदायोपयुज्यमानं नैर्घृण्यमाविष्कुर्यात् विषयिणा प्रदीयमानो वार्थिभ्यः परिमितत्वादवच्छिद्येतेत्यनुपायो ऽयं दुःखापघाते बुद्धिमताम् किं च गुरुत्वात् भोगानां विविधनिवसनस्त्रीपानभोजनविलेपनालंकारादीनां समग्र्ये सुखमुत्पद्यते नान्यतरवैकल्ये सामग्र्यं चैषां स्वाभाविकत्वादनुपपन्नम् आह च - नाभिजातिं न विज्ञानं न च शौर्यमपेक्षते लक्ष्मी संस्कारयोगाच्च क्वचिदेवावतिष्ठते इत्येवमनेकार्थाश्रयत्वाद् गुरुर्विषयोपभोगः किं च निन्दितत्वाच्च साधुभिः निन्दितः खल्वपि साधुभिर्विषयोपभोगः यस्मादाह- आयासाश्च विघातश्च विप्रलम्भभयानि च यच्चान्यदशिवं लोके तत्कामेभ्यः प्रवर्तते पुनरप्याह- अयं सक्षेत्रियो व्याधिरयमात्यन्तिको ज्वरः इदमास्पदमीतीनामेष योनिः सपाप्मनाम् अगाधमेतत्पातालमेष पङ्को दुरुत्तरः क्लेशव्याधिभयाकीर्णमेतच्छ्वभ्रं भयावहम् विविधायासशोकानामेतदायतनं महत् दैन्यश्रमविषादानामेतत्क्षेत्रमपावृतम् यस्माद्विषयसम्भोगाद्विहगः पञ्जराविव गतो वनेषु रमते स सुखानि समश्नुते तस्मात् साधुभिरपाकृतत्वादसाधुर्विषयोपभोगः किं च सर्वत्रासन्निधानात् न हि सुप्रतिनिविष्टस्यापि कामिनः सर्वत्र विषयसन्निधानेन भवितव्यम् नो खल्वपि एकस्मिन् देशे ऽवस्थानं सम्भवति, विषयाभावप्रसङ्गात् तस्मादवश्यं वियोगेन भवितव्यम् वियोगे च सति ध्रुवो ऽनिष्टानुबन्ध इति को ऽर्थो विषयपरिग्रहेण ? तत्र यदुक्तं दृष्टस्य हेतोः सद्भावादपार्थका जिज्ञासेति एतदयुक्तम्

*āha, kariṣyati bhavān vyākhyām idaṃ tvādāvupanyastaṃ sarvaistantraguṇairyutamidaṃ tantramiti ke tantraguṇāḥ, kiyanto veti ? ucyate - sūtrapramāṇāvayavopapattiranyūnatā saṃśayanirṇayoktiḥ uddeśanirdeśamanukramaśca saṃjñopadeśāviha tantrasampat sūtrāṇi ca pramāṇāni ca avayavāśca, sūtrapramāṇāvayavāḥ teṣām upapattiḥ sūtrapramāṇāvayavopapattiḥ upapattiḥ sambhava ityanarthāntaram ananyo 'rtho 'narthāntaram upapattiśabdaḥ pratyekaṃ parisamāpyate sūtropapattirityādi āha, lakṣaṇopetasūtropapattiriti vaktavyam itarathā hi alakṣaṇopetasyāpi sūtrasya tantrāṅgabhāvaḥ syāditi ucyate na, nāntarīyakatvāt na hyantareṇa lakṣaṇopetatvaṃ sūtratvam ato na vaktavyametaditi āha, atha sūtramiti kasmāt ? ucyate- sūcanāt sūtram sūcayati tāṃstānarthaviśeṣāniti sūtram tadyathā- kāraṇamastyavyaktam (isk 16), bhedānāṃ parimāṇāditi (isk 15) atra pratijñāhetū kaṇṭhoktau tayorupayogi dṛṣṭāntaṃ sādhyasiddhaye samarthamiti kṛtvā mūlaśakalādayo 'trāntaranabhihitā apyetasmādavasīyante athavā bhikṣorupasaṃhṛtabahiṣkaraṇāntaḥkaraṇasya teṣu teṣvatīndriyeṣu api pradhānādiṣvartheṣu buddhiṃ sūcayatīti sūtram athavā, saukṣmyāttadanupalabdhiriti (isk 8) sūtram tadyathā- alpākṣaramasandigdhaṃ sāravadviśvatomukham astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ astobhamapunaruktamityarthaḥ tathā labhūni sūcitārthāni svalpākṣarapadāni ca sarvataḥ sārabhūtāni sūtrāṇyāhurmanīṣiṇaḥ pramāṇāni ca pratyakṣādīni, tānyuttaratra vakṣyati 'dṛṣṭamanumānamāptavacanaṃ ca'; (isk 4), 'prativiṣayādhyavasāyo dṛṣṭamityādi'; (isk 5) avayavāḥ punarjijñāsādayaḥ, pratijñādayaśca tatra jijñāsādayo vyākhyāṅgam pratijñādayaḥ parapratyāyanāṅgam tānuttaratra vakṣyāmaḥ āha, avayavānabhidhānamupadeśāt na hi tathā pratyakṣādīni pramāṇānyupadiṣṭāni tathā avayavā upadiṣṭāḥ tasmādavayavopapattirityetadasat bhāṣyakāraprāmāṇyādadoṣa iti cet syānmatam yadyapi sūtrakāreṇāvayavopadeśo na kṛtastathāpi bhāṣyakārāḥ kecideṣāṃ saṃgrahaṃ cakruḥ te ca naḥ pramāṇam tasmādyukatamavayavopapattiriti etaccāyuktam kasmāt ? utsūtratvāt nahyutsūtraṃ vyācakṣāṇā bhāṣyakārāḥ pramāṇaṃ bhavanti tathā caitadutsūtritamiti ucyate, na liṅgāt naitadyuktamanupadeśānna santi jijñāsādayaḥ kintarhyanupadiṣṭamapyeṣāmastitvaṃ liṅgāt pratipadyāmahe yadayamācāryo duḥkhatrayābhighātājjijñāsā tadapaghātake hetāviti (isk 1) jijñāsāprayojanamācaṣṭe kāraṇamastyavyaktamiti (isk 16) pratijñāṃ karoti bhedānāṃ parimāṇāditi (isk 15) hetumupadiśati naṭavad vyavatiṣṭhate liṅgamiti (isk 42) dṛṣṭāntaṃ dyotayati kṣīrasya yathā tathā pravṛttiḥ pradhānastyetyupasaṃharati (isk 57) tasmāt trividhaṃ karaṇaṃ dvārīti (isk 35) nigamayati na cānabhipretairācāryāṇāṃ śāstre vyavahāro lakṣyate tena vayaṃ liṅgātpratipadyāmahe santi jijñāsādayo 'vayavāḥ śāstra iti āha, satāmanupadeśe prayojanavacanam evaṃ cenmanyase- santi jijñāsādayo 'vayavāḥ, śāstre teṣāmanupadeśe prayojanaṃ vaktavyam- amuṣmāddhetorācāryeṇa nopadiśyante, santi ca te iti ucyate, pramāṇāntarbhāvāt pramāṇeṣvantarbhāva eṣāmityayamupadiṣṭo heturasmābhiḥ anumānāṅgaṃ hi jijñāsādayaḥ, tasmāttadantarbhūtāste iti na pṛthagupadiśyante kiñca, tantrāntarokteḥ tantrāntareṣu hi vindhyavāsiprabhṛtirācāryairupadiṣṭāḥ pramāṇaṃ ca naste ācāryā ityataścānupadeśo jijñāsādīnāmiti āha na, pramāṇānupadeśaprasaṃgāt yadi ca tantrāntaropadeśādevāvayavānāmanupadeśaḥ, pratyakṣādīnyapi ca tantrāntareṣūpadiśyante śrotrādivṛttiḥ pratyakṣam sambandhādekasmāccheṣasiddhiranumānam yo yatrābhiyuktaḥ karmaṇi cāduṣṭassa tatrāptastasyopadeśa āptavacanamiti teṣāmapyanupadeśaprasaṅgaḥ atha sati tantrāntaropadeśe pramāṇānyupadiśyante nāvayavā iti, nanvetadicchāmātramiti ucyate, pūrva eva tarhi parihāro 'stu athavā punarastu tantrāntarokterityayamapi parihāraḥ yattūktaṃ pramāṇānupadeśaprasaṅga iti atra brūmaḥ- ayuktametat kasmāt ? prayojanavatāmupadeśasyādoṣatvāt anupadeśo hi prayojanavataścodyata iti yuktametat upadeśameva tu sadoṣa iti kṛtvā kaḥ pratyācakṣīta ? tasmānna kiñcidetat kiñcānyat, pradhānopadeśe guṇabhūtāntarbhāvasiddheḥ tadyathā, takṣṇuhi caitra ityukte yāvadbhissādhanaviśeṣairvinā takṣaṇaṃ nopapadyate sarvāstāṃścaitra upādatte tathā pratyakṣādiṣu pramāṇeṣūpadiṣṭeṣu yaireṣāmavinābhāvaḥ sarvāṇi tānyupādāsyāmahe kiñcānyāt, anyatrāpi tadanuṣṭhānāt na kevalamiha, anyatrāpyayamācāryaḥ pradhānāmevopadeśaṃ karoti tadaṅgabhūtāstu tadupadeśādeva pratīyante tadyathā, kāraṇamastyavyaktam (isk 16) bhedānāṃ parimāṇāditi (isk 15) itarathā hi dṛṣṭāntābhāvādasādhanametatsyāt paśyati tvācāryo nādṛṣṭāntaṃ sādhanaṃ sādhyamāpnotīti kṛtvā pratipādakāḥ pratipādanakāle tantrāntaropadiṣṭānapi mūlaśakalādīnākṣepsyanti iti kiñcānyat, anumāne bhūtavadupadeśāt ataścaitadevaṃ yadayamācāryastrividhamanumānamākhyātamiti (isk 5) bravīti kathaṃ kṛtvā jñāpakam? ākhyātasya hi pratyāmnāye bhūtavācinā śabdenopadeśo bhavati na cānena pūrvaṃ trividhamanumānamākhyātam ākhyātamiti cet, na tadākhyātaṃ kvaciditi śakyaṃ pratipādayitum so 'yamanākhyāyāpi yadbhūtavācinaṃ śabdamupādatte tajjñāpayatyācāryastantrāntaraklṛptānāmapīha sanniveśo 'ṅgīkriyate kimetasya jñāpane prayojanam ? tantrāntaropadiṣṭo 'pi karmayonīnām prāṇabhedādīnāṃ ca lakṣaṇopadeśassaṃgṛhīto bhavatīti siddhaṃ tantrāntaropadeśādavayavānupadeśaḥ tasmātsūktamevāvayavopapattiriti anyūnatā padārthakārtsnyamaśeṣatānyūnatetyabhidhīyate padārthāśca daśa cūlikārthāḥ, paṃcāśatpratyayāḥ tatrāstitvamekatvaṃ paṃcabhirvītaiḥ siddham arthavattvaṃ kāryakāraṇabhāvaḥ pārārthyaṃ saṃhatyakāriṇāṃ parārthatvāt ata evānyatvam cetanāśakterguṇatrayājjanmamaraṇakaraṇānāmityevamādibhiḥ puruṣabahutvam puruṣasya darśanārtha iti saṃyogaḥ prāpte śarīrabhede iti viyogaḥ samyagjñānādhigamāditi śeṣavṛttiḥ tasmācca viparyāsāditi puruṣasyākartṛtvamityete daśa cūlikārthāḥ pañca viparyayabhedā bhavantyaśaktiśca karaṇavaikalyāt aṣṭāviṃśatibhedā tuṣṭirnavadhāṣṭadhā siddhiḥ (isk 47) iti pañcāśatpratyayāḥ saiṣā ṣaṣṭiḥ padārthānām tadupapattiranyūnatā saṃśayanirṇayoktiḥ saṃśayaśca nirṇayaśca tau saṃśayanirṇayau tayoruktissaṃśayanirṇayoktiḥ sāmānyābhidhānaṃ saṃśayaḥ tadyathā mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ cetyukte (isk 8) saṃśayo bhavati kena dharmeṇa kāryaṃ prakṛtivirūpaṃ kena vā sarūpamiti viśeṣābhidhānaṃ nirṇayaḥ sa ca dvividhaḥ, śabdato 'rthataśca śabdastāvat yathā hetumadādibhiḥ kāryaṃ prakṛtivirūpam, traiguṇyādibhiḥ prakṛtisarūpamiti arthatastat yathā tebhyo bhūtāni pañca pañcabhyaḥ, ete smṛtā viśeṣāḥ (isk 38) kiṃ kāraṇam ? yasmāt śāntā ghorāśca mūḍhāśca (isk 38) aśāntaghoramūḍhatvāttanmātrāṇyaviśeṣāḥ uddeśanirdeśam uddeśaśca nirdeśaśca uddeśanirdeśam sarvo dvandvo vibhāṣayaikavadbhavati iti dvandvaikavadbhāvaḥ saṅkṣepavacanamuddeśaḥ tadyathā, eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ (isk 46) vistaravacanaṃ nirdeśaḥ tadyathā, pañca viparyayabhedā bhavanti (isk 47) bhedastamaso 'ṣṭavidha (isk 48) ityādiḥ anukramaśca- padārthānāmānupūrvyā sanniveśopadeśo 'nukramaḥ, tadyathā - 'prakṛtermahāṃstato 'haṃkārastasmād gaṇaśca ṣoḍaśakaḥ'; (isk 22) ityantena saṃjñopadeśau saṃjñipratyāyanārthaḥ śabdaḥ saṃjñā sā ca dvividhā arthanibandhanā, svarūpanibandhanā ca tatrārthanibandhanārthavaśenārthakriyāpekṣā jātyādyarthasvarūpāntarbhāvī yathārthastathābhūtameva saṃjñinaṃ pratyāyati tadyathā pācako lāvaka iti svarūpanibandhanā punaḥ saṃjñipratyāyanopāyamātram svarūpamātropakāriṇī vināvayavārthaṃ samayavaśādatathābhūtamapi saṃjñinaṃ pratyāyati tadyathā, gajakarṇo 'śvakarṇa iti prayatnato bhagavataḥ paramarṣerārṣeṇa jñānena sarvatattvānāṃ svarūpamupalabhya saṃjñāṃ vidadhato nāsti svarūpanibandhanaḥ śabdaḥ tadyathā, pradhīyante 'tra vikārā iti pradhānam, puri śeta iti puruṣa ityādi tanmatānusāriṇāmapyācāryāṇāṃ tābhireva saṃvyavahārānnāstyapūrvasaṃjñāvidhānaṃ pratyādaraḥ upadeśaḥ itikartavyatā, phalasamākhyānamupadeśaḥ tadyathā, evaṃ tattvābhayasānnāsmi na me nāhamityapariśeṣam aviparyayādviśuddhaṃ kevalamutpadyate jñānam (isk 64) ete sūtropapattyādayastantraguṇāḥ iti karaṇaṃ prakārārtham evamprakārā anye 'pi draṣṭavyāḥ tadyathā, utsargo 'pavādo 'tideśa ityādiḥ tatrotsargaḥ prakṛtivirūpaṃ (isk 8) vyaktam, sarūpaṃ (isk 8) cetyapavādaḥ tathā tadviparīta (isk 11) ityutsargaḥ, tathā ca pumān (isk 11 ) ityapavādaḥ sāmānyamacetanaṃ prasavadharmi vyaktaṃ, tathā pradhānam (isk 11) ityatideśaḥ ityevamanyā api tantrayuktayaḥ śakyā iha pradarśayitum atiprasaṅgastu prakṛtaṃ tirodadhātīti nivartyate siddhaṃ tantrayuktīnāṃ sambandhopapattestantramidamiti kiñca tantrāntarāvirodhāt yadi khalvapīdamapi prakaraṇaṃ syāt tantrāntare pātañjalapañcādhikaraṇavārṣagaṇaprabhṛtīnāmanyatamasya śeṣabhūtaṃ syāt taiścāpyavirodhastatra tatreti vakṣyāmaḥ pūrvatantraśeṣabhāvāditi cet, tulyam etānyapi pūrvatantraśeṣabhūtāni, teṣāmapi prakaraṇatvaprasaṅgaḥ atha matam- sakalapadārthasaṃgrahāttantrāntarāṇyetāni, evamihāpi sakalapadārthasaṃgrahāttantrāntaratvamabhyupagantavyam tasmādyuktametattantramidam ityupodghātaḥ kārikā 1 āha, kiṃguṇaviśiṣṭāya śiṣyāya punaridaṃ tantraṃ vyākhyeyamiti ucyate- jijñāsave matimate mīmāṃsakāyārthine 'bhyupagatāya śiṣyāya vyākhyeyaṃ śāstram kasmāt ? paramarṣiprāmāṇyāt yasmād bhagavān viśvāgrajaḥ paramarṣirbhagavadāsurerjijñāsāmupalabhyottaraguṇaviśeṣasampadaṃ ca vyākhyātavān raja eva duḥkhaṃ tannirākariṣṇorviveko 'yaṃ, sattvāt sattvaṃ cāsmānnānetyevamādinā vacanapratipādyo 'yamartho mahadbhiścoktaḥ tasmādrajoduḥkhopaghātopaghātakajijñāsoḥ sattvāddharmādikuśalamūlavipākotpitsorduḥkhatrayanivṛttaya idaṃ śāstraṃ pravṛttam tadarthātpariṇamate śiṣyasyeti kathaṃ nāma śiṣyasya niḥśreyasena yogaḥ syādityevamarthamidaṃ vyākhyānaṃ kriyata iti āha, yaduktaṃ jijñāsave vyākhyānaṃ kartavyamiti tatra kutaḥ punariyaṃ jijñāsā kasmin vārthe bhavatīti ? ucyate - yattāvaduktaṃ kutaḥ punariyaṃ jijñāsā bhavatītyatra brūmaḥ duḥkhatrayābhighātājjijñāsā duḥkhaṃ raja ityanarthāntaram duḥkhayatīti duḥkhaṃ bhavatīti trayamiti saṃkhyāpadaṃ sarvadravyaviṣayaṃ, duḥkhaśabdena viśiṣyate prādhānyācca vyatiriktabuddhyā gṛhyamāṇaṃ sambandhitvādādhārasya bhedanibandhanāyāḥ ṣaṣṭhyā nimittattvaṃ pratipadyate- duḥkhānāṃ trayaṃ duḥkhatrayam abhihanyate 'nenetyabhighātaḥ kaḥ punarayamabhighāto nāma ? ucyate- yo 'sāvuparyuktaduḥkhatrayeṇāntaḥkaraṇena cetanāśakterabhisambandhaḥ tasmādduḥkhatrayābhighātājjijñāsā yaduktaṃ kasminnarthe bhavatīti tatrāha- tadapaghātake hetau apahantītyapaghātakaḥ, tasyāpaghātakastadapaghātakaḥ āha, tadapaghātake iti samāsānupapattiḥ, pratiṣedhāt kartari yau tṛjakau tābhyāṃ saha ṣaṣṭhī na samasyate tasmāttasyāpaghātaka iti vaktavyam ucyate- na, śāstre darśanāt "tatprayojako hetuśca" iti śāstre dṛṣṭaḥ prayogaḥ padakāraścāha- jātivācakatvāt tathā kadācidguṇo guṇaviśeṣo bhavati, kadācidguṇinā guṇo viśiṣyata iti cūrṇikārasya prayogaḥ tasmadanavadyametat ayaṃ tu piṇḍārthaḥ trividhena duḥkhenābhihato brāhmaṇastadapaghātakaṃ hetuṃ jijñāsate ko nāmāsau hetuḥ syādyo duḥkhatrayamabhihanyāditi āha, duḥkhaśabdāvacanamādāvamaṅgalārthatvāt maṅgalādīni hi śāstrāṇi prathante vīrapuruṣāṇi ca bhavanti, adhyetāraśca maṃgalenābhihatasaṃskārāḥ śāstrārthānāsu pratipadyante duḥkhamityayaṃ cāmaṅgalārthaḥ śabdaḥ, tasmānnārabdhavyaḥ śāstrādāviti ucyate na, vākyasyārthe prayogāt padasyānarthakyādamaṅgalārthatvānupapattiḥ vākyamarthapratyāyanārthaṃ prayujyate, viśiṣṭārthābhidhānāt na padam tathā hi padārthavyatirekeṇa viśiṣṭa eva vākyārthaḥ pratīyate, kevalaṃ tu padaṃ sāmānyārthādapracyutaṃ viśiṣṭārthābhidhānāsamartham ataeva na vivakṣitārthapratyāyanayogyatayopādīyate tadyathā- devadattetyayaṃ śabdaḥ kartṛvācakatvenopāttaḥ, sarvakriyāviṣayatvāt, nāntareṇa karmakriyāśabdau viśiṣṭārthaḥ pratīyate tathā gāmiti karma, sarvakriyākartrabhidhānanimittatvāt tathā abhyājeti kriyā, sarvakarmakartṛviṣayatvāt yadā tu devadatta gāmabhyāja śuklāmityucyate tadā devadattena gośabdena karmāntarebhyo vicchidya svātmanyavasthāpyate kriyā ca gośabdaśca sarvakartṛbhyo devadattakarmatayā vyavasthāpyate kartṛkarmaṇī cābhyājikriyāyāḥ sādhanabhāvenaiva niyamyete śuklaśabdo gośabdaśca gośabdaṃ sarvaguṇaviṣayamādheyāntarebhyo vyavacchedya svātmana ādhāratve niyamya, tadviṣayatāṃ pratipādayatītyanena krameṇa viśiṣṭo vākyārthaḥ kevalānāntu padānāṃ sāmānyārthāt pracyutānāmviśeṣānabhidhānādānarthakyam āha ca- pṛthaṅniviṣṭatattvānāmpṛthagarthābhipātinām indriyāṇāṃ yathā kāryamṛte dehānna labhyate tathaiva sarvaśabdānāmpṛthagarthābhidhāyinām vākyebhyaḥ pravibhaktānāmarthavattā na labhyate iti evaṃ sati kuto 'yaṃ niścayapratilambho yadduḥkhaśabdo 'yamamaṅgalārtho yāvatā sandihyata eva ayaṃ kiṃ svārthapratipattyarthamupātto 'tha heyatvāyeti vākyasya tu maṅgalārthatvam, duḥkhaprahāṇārthamupādānāt yaddhi duḥkhaprahāṇārthaṃ vākyamupādīyate tanmaṅgalārthaṃ dṛṣṭam tadyathā vyādhyapagamaḥ syādalakṣmīrmā bhūditi duḥkhaprahāṇārthaṃ cedaṃ vākyamupāttaṃ tasmānmaṅgalārthamidam tatra yaduktaṃ duḥkhaśabdāvacanamādāvamaṅgalārthatvādityetadayuktam āha, trayagrahaṇānarthakyaṃ, guṇaikatvāt duḥkhaṃ raja iti pratipanno bhavān, taccaikaṃ śāstre paṭhyate tasmāttrayagrahaṇamanarthakamiti nimittabhedādbhedopacāra iti cet, syānmatam yadyapi ekaṃ duḥkhaṃ tathāpi nimittānāmadhyātmādhibhūtādhidaivalakṣaṇānāṃ bhedādasya bhedopacāraḥ kariṣyata iti tacca naivam kasmāt ? nimittānantyena guṇānantyaprasaṅgāt ādhyātmikaṃ hi dvividhaṃ, śārīraṃ mānasaṃ ca śārīraṃ tāvadvātapittaśleṣmaṇāṃ vaiṣamyanimittam tathā mānasaṃ kāmakrodhalobhamohaviṣādabhayerṣyāsūyāratyaviśeṣadarśananimittam ādhibhautikaṃ ca manuṣyapaśumṛgapakṣisarīsṛpasthāvaranimittam ādhidaivikaṃ śītoṣṇavātavarṣāśanyavaśyāyāveśanimittam tatra nimittabhedāttritvapragijñasya guṇānantyaprasaṅgaḥ, sa ca neṣṭastasmānna nimittabhedāttritvam ucyate- yaduktaṃ rajasa ekatvāt tritvānupapattiḥ, tasya nimittabhedāt tritvopacāra iti satyametat yattūktaṃ nimittānantyena guṇānantyaprasaṅga iti tadayuktam kasmāt ? bhede 'pi sati varṇasaṃkhyāvaddvyavasthānopapatteḥ tadyathā catvāro varṇā ityasyāḥ saṃkhyāyāḥ sati paippalādādibhede teṣāṃ brāhmaṇatvādivyatirekābhāvānna saṃkhyāntarahetutvaṃ no khalvapi varṇāvyatirekādekatvaṃ bhavati evaṃ trīṇi duḥkhānītyasyāḥ saṃkhyāyāḥ sati śarīrādibhede teṣāmādhyātmikādivyatirekāsambhavānna saṅkhyāntarahetutvaṃ no khalvapi duḥkhāvyatirekādekatvaṃ bhavitumarhati kiñcānyat, nimittabhedād bhedopacāra iti bhavāneva pratipannaḥ na copacāraḥ paramārtha ityalamasthāne yatnena āha- abhighātājjijñāsāyāmatiprasaṅgaḥ, sarveṣāṃ sambhavāt yathāsurerduḥkhatrayābhighātājjijñāsā bhavatītyetadiṣṭaṃ tena sarveṣāmabhighāto 'stīti sarveṣāṃ jijñāsāprasaṅgaḥ atha mataṃ duḥkhābhighāte kasyacijjijñāsā bhavati kasyacinneti …

Section (cont. 3)

… nanvevamicchāmātram prākprasaṅgācca prāgapyāsurerjijñāsāyā duḥkhatrayābhighāto na cāsyātyantike hetau jijñāsā babhūva tena kiṃ prāptam ? paścādasya yato babhūva tadvaktavyam yathānyatra brahmaṇo 'bhyāsanimittādadharmakṣayāt pūrvadharmānugrahācca vividiṣā, tathānyeṣāṃ kuśalamūlābhyāsaparipākāt na cāpadiṣṭamato laghūktametat kiñcānyat, tadapaghātāccānirmokṣo 'kṛtsnatvāt mokṣo hi kāmarūpārūpyadhātutrayādiṣyate daivamānuṣyatiryagyonitrayādvā ekadeśaśca saṃsārasya duḥkhatrayam tasmāt prayojanamapyayuktam kiñca nimittāntarasadbhāvāddivyakāmadhyānasukhānapekṣasyāpi vividiṣā sambhavati, na kevalaṃ tāpodvignasyāpi tasmānnimittamapyayuktam kiñcānyat ubhayathā cāsambhavāt parikalpyamānā khalvapīyaṃ jijñāsā puruṣasya vā syādguṇānāṃ vā kiṃcātaḥ ? tanna tāvatpuruṣasya sambhavati kasmāt ? nairguṇyābhyupagamāt icchādveṣaprayatnasukhaduḥkhadharmādharmajñānasaṃskārāṇāmātmaguṇatvaṃ na bhavadbhirabhyupagamyate na guṇānām, ācetanyāt na hyacetanā ghaṭādayo hitāhitaprāptiparihāraṃ jijñāsamānā dṛśyate na ca cetanā bhavatāṃ guṇāḥ, sāmānyamacetanaṃ prasavadharmi pradhānamiti (isk 11) vakṣyamāṇavacanāt kiṃcānyat, tattvāntarānupapatteḥ na ca guṇapuruṣavyatiriktaṃ vastutastattvāntaramasti yasya jijñāsā parikalpyamānā parikalpyeta tasmādanupapannā jijñāsā ucyate yaduktamabhighātājjijñāsāyāmatiprasaṅgaḥ, sarveṣāṃ tatsambhavāditi atra brūmaḥ na, abhighātatvenāpratipatteḥ yadyapyaviśiṣṭo 'bhighātastathāpi sarve nainamabhighātatvena pratipadyante tathāhi, satsvādhyātmikādiduḥkheṣvarjanarakṣaṇakṣayasaṃgahiṃsāsu ca prītyabhiṣvaṅgādeṣāṃ na viṣayeṣūdvegāpadveṣau na ca viṣayaparityāgo bhavati tasmānnāviśiṣṭo 'bhighātaḥ viśeṣe 'bhighātabuddhernimittābhidhānamiti cet ? athāpi syādyeyamasati viśeṣe sarvaprāṇabhṛtāmāsurereva bhagavato duḥkhatrayābhighātabuddhirbhavati, na punaranyeṣāmityatra nimittamabhidhānīyam na hyantareṇa nimittamasau viśeṣo 'vasthāpayituṃ śakyata iti etaccāyuktam kasmāt ? praśnāsambandhāt kuto jijñāsā bhavatītyevaṃ codakena pūrvamakāri praśnastasyāśca sākṣāt kāraṇamabhighātaḥ kāraṇāntarāṇāmanabhidhānādityasyaiva nirdeśaḥ kṛtaḥ yattu khalvidānīṃ kāraṇakāraṇamapi pṛcchyate tadanavasthāprasaṅgabhayānnocyate atha nirbandhaḥ kriyate tena pūravadharmānugrahasya kuśalamūlābhyāsaparipākasya kāraṇakāraṇatvamasmābhirna pratiṣidhyata iti tadeva kiṃ na gṛhyate ? etena prākprasaṅgaḥ pratyuktaḥ yattūktaṃ tadabhighāte cānirmokṣo 'kṛtsnatvādityetadapyayuktam kasmāt ? śāstrārthānavabodhāt aṣṭavikalpo daivastairyagyoniśca pañcadhā bhavati, mānuṣyaścaikavidha (isk 53) ityetāvānasmākaṃ saṃsāraḥ na tu tadvyatiriktāḥ kāmarūpārūpyadhātavaḥ kvacidapi siddhāḥ caturdaśavidhe ca saṃsāre yā sukhamātrā sā duḥkhabhūyastvāttacchabdavācyā bhavatīti tathā coktam- atra janmajarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ liṅgasyāvinivṛttestasmādduḥkhaṃ samāsena (isk 55) dṛśyate ca loke bhūyasā grahaṇam tadyathāmravanamiti tasmāt kṛtsnavikalpapratiṣedho 'yam yatpunaretaduktaṃ divyakāmadhyānasukhānapekṣasyāpi vividiṣāsambhavānnimittamayuktamiti tadapyanupapannam kasmāt ? uttaratra pratiṣedhāt iṣṭamevaitatsaṅgṛhītam tathā cottarasūtreṇa pratiṣetsyatyācāryaḥ "dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ" (isk 2) tasmāddivyasukhānapekṣasyāpi yuktā vividiṣā dhyānasukhamapi kṣayātiśayau nātivartate tadapyatraiva saṅgṛhītam tasmātpratiṣedhya evāyaṃ pakṣa iti na kiñcidabhidhīyate yadapyuktamubhayathāsambhavājjijñāsānupapattiriti astu guṇānāṃ jijñāsā yattūktamācetanyādasambhava iti satyācetanye buddhericchādisadbhāvamuttaratra pratipādayiṣyāmaḥ tasmādupapannā jijñāsā āha- tacchabdānarthakyaṃ pratipadasambandhāt yo 'yamācāryeṇa tacchabdaḥ sūtre paṭhito 'sya khalu pratipadamasambandhāt svalpāmapyarthavattāṃ nopalabhāmahe tasmānainamapuṣkalārthamadhyeṣyāmaha iti ucyate- kathaṃ hi nāma prayoktṛpāratantryācchabdasya śabdāntareṇa sambandho na syāditi ? āha, na brūmo 'vidyamānasambandho 'sambandhaḥ kintarhyayuktasambandho yaḥ sa khalvasambandhaḥ tadyathā anācāro māṇavaka iti dravyeṇa kriyāśaktitvānna śakyaṃ kiñcidanācāravatā kṣaṇamapyavasthātum ayuktaṃ tvācarannanācāra ityucyate tathā cāsya tacchabdasya pratipadaṃ sambandho na yuktastasmādanarthakastacchabdaḥ ānantaryājjijñāsāśabdasyeti cet, syānmatam anantarasya vidhirvā bhavati pratiṣedho vetyanayā yuktyā jijñāsāśabdasya tacchabdenābhisambandhaḥ śakya iti tacca naivam kasmāt ? tadapaghāte prayojanāsadbhāvāt na hi jijñāsāpaghāte kiñcit prayojanamastīti satyapi sambandhe na tacchabdenārthaḥ abhighātasyeti cet ? athāpi syādyadi jijñāsāpaghātena kiṃcitprayojanamastīti atastatsambandho neṣyate tena tarhyabhighātaśabdenāsyābhisambandhaḥ kariṣyate tathā cāpi tacchabdorthavān bhaviṣyatīti etadanupapannam kasmāt ? nimittāvasthāne punaḥ punarutpatteḥ naimittiko 'yamabhighātastasya nimittavattvādātyantiko 'paghāto na syāt itarathā jvaranimittako dāha iva śītadravyasaṃsparśātpraśānto 'pi nimittāvasthānātpunaḥ punaḥ pravartate ityaphalatvamasya vyāyāmasya trayaśabdasyeti cet na, pāratantryāt āśrayaparatantrā hi saṃkhyā, tasyā nāntareṇāśrayeṇopaghātamapaghātaḥ śakyaḥ kartum ānarthakyañca samānamiti sutarāṃ tacchabdena nārthaḥ duḥkhaśabdasyeti cetsāmānyam - yadyeteṣāmpadānāmabhisambandhe yathoktadoṣopapattiḥ, duḥkhaśabdaṃ tarhi tat-śabdenābhisaṃbhantsyāmaḥ tasminneṣa niṣedho viśatīti tacca naivam kasmāt ? anekapadavyavadhānāt kathamanantaravṛttinā sarvanāmnānekapadavyavahitasya duḥkhaśabdasyābhisambandhaḥ śakyet pratipādayitum ? tasmānna kiñcidetat kiñcānyat upasarjanatvāt ayaṃ khalvapi duḥkhaśabdaḥ samāsa upasarjanībhūtaḥ na caikasminkāle śabdasya pradhānatvamupasarjanatvaṃ ca yuktitaḥ sambhavati pradhānasya ca padāntareṇābhisambandhaḥ tasmādvivādāspadamevaitatsūtram kiñcānyat nityānāmapaghātānupapatteḥ iha nityānāmapaghātaḥ kartuṃ na śakyate tadyathā puruṣāṇām anityānāñcāpaghāto dṛṣṭaḥ tadyathā, jvarādīnām nityañca duḥkham tasmāttadapaghāte 'bhyutthānānarthakyam vṛttyapaghāte tadapaghāta iti cet, syātpunareṣā buddhiḥ satyaṃ nityānāmapaghāto na yuktitaḥ sambhavati na tu vayaṃ guṇalakṣaṇasya duḥkhasyāpaghātaṃ brūmaḥ, kintarhi vṛttirasyābhibhūyata iti tacca naivam kasmāt ? uktottaratvāt uktamatrottaraṃ nimittāvasthāne punaḥ punarutpatteriti tasmādayamapyamārgaḥ kiñcānyat aviśeṣātkalpayitvāpi vṛttyapaghātaṃ vṛttivṛttimatorananyatvād vṛttyapaghāte vṛttimadapaghātaḥ prāpta iti nāsti kaścidviśeṣaḥ tasmāt kṛśo 'yaṃ parihāra iti nārthastacchabdena ucyate- yaduktaṃ tacchabdānarthakyam, pratipadamasambandhādityastu duḥkhaśabdenābhisambandhaḥ tatsambandhe yathoktadoṣopapattiriti cet syānmatam yadi tarhi tacchabdasya duḥkhaśabdenaivābhisambandho 'bhyupagamyate tena ye 'smābhiḥ pūrvamabhihitā doṣāste prasajyante tasmāt pratiṣiddhasya pakṣasya parigrahe sāhasamātramiti etacca naivaṃ, kasmāt ? pratividhānāt satyamasati pratividhāne sāhasamātraṃ syāt pratividhīyate tu, tasmādadoṣo 'yamiti kintaditi cet syānmatam ucyatāntarhi kintat pratividhānaṃ yasyāvaṣṭambhenānekadoṣavyāhato 'pyayaṃ pakṣa āśrīyate na hyanuktamasmābhirākāramātreṇa śakyaṃ pratipattumiti ucyate- bāḍham yattāvaduktamanekapadavyavadhānānna duḥkhaśabdasya tacchabdenābhisambandha ityatra brūmaḥ na, anabhyupagamāt yo hyanantarakṛtaṃ śabdasya śabdāntareṇa saha sambandhamācaṣṭe tampratyayamupālambhaḥ syāt vayantvarthakṛtaṃ sambandhamācakṣmahe tathā coktam- yasya yenābhisambandho dūrasthasyāpi tasya saḥ arthatastvasamānāmānantarye 'pyasambhavaḥ kiñcānyat- śāstre darśanāt śāstre ca vyavahitānāmapi sarvanāmnāmabhisambandho dṛśyate "yasya guṇasya hi bhāvāddravye śabdaniveśastadabhidhāne tvatalā"vityatrārthakṛtaśca sambandhaḥ śabdānāmabhyupagataḥ ṅyāpprātipadikāt, bahuṣu bahuvacanam, supo dhātuprātipadikayoḥ, aluguttarapade ityevamādīnāṃ sambandhābhyupagamaḥ tathā "anaḍvāhamudahāriṇi bhagini vahasi yā tvaṃ śirasi kumbhamavācīnamabhidhāvantamadrākṣīriti" vārtike dṛṣṭāntaḥ na hyatra satyānantarye śirasānaḍuho vahanaṃ kumbhasya vā saraṇamupapadyate yathā cātra vyavahitānāmabhisambandhastathehāpi draṣṭavyaḥ yatpunaretaduktamupasarjanatvātpadāntareṇānabhisambandha iti etadanupapannam kasmāt ? samāsādapoddhāre buddhayā vyavasthitasya svātantryopapatteḥ satyamupasarjanasya padāntareṇābhisambandho nopapadyate na tu vayaṃ samāsavṛttereva tacchabdenābhisambandha iti pratipadyāmahe, kintarhi samāsādapoddhṛtasya buddhivyavasthitasyopajanitasvātantryasya śabdāntareṇa sambandhamicchāma iti athaitadaniṣṭam "yogapramāṇe ca tadabhāve darśanaṃ syāt" "atha śabdānuśāsanaṃ, keṣāṃ śabdānām" iti caivamādīnāmprayogāṇāṃ virodhaḥ prāpnoti aniṣṭañcaitat yatpunaretaduktam- nityānāmapaghātānupapattervṛttyapaghāte ca tadapaghātaprasaṅgāditi, etadapyanupapannam kasmāt ? guṇaśakteḥ prayojanoparame satyātmakalpena vyavasthānābhyupagamāt naitadabhyupagamyate guṇasyocchittirbhavati, vṛttirvāsyābhibhūyate kintarhi puruṣārthanibandhanā caritārtha śaktirasya puruṣārthapravṛttau prayojanāsadbhāvādātmakalpena vyavatiṣṭhata ityetadvivakṣitam tasmādyuktametattadapaghātake hetau jijñāsā pravartata iti dṛṣṭe sāpārthā cet syādetat pratyakṣo duḥkapratīkāraheturasti tasya samatikrame kiṃ prayojanam ? tadyathā śārīrasya tāvadayamapagamaheturanekadravyarasāyanopabhogaḥ mānasasyāpi manojñastrīpānavilepanabhojanavastrālaṅkārādiviṣayasamprāptiḥ ādhibhautikasya nītiśāstrābhyāsaḥ, śastrāstrakuśalatā, viṣamasthānānadhyāsanaṃ ca ādhidaivikasyāpi yathākālaṃ vividhanivasanāstaraṇagarbhagṛhaprāsādajālāntaracandanavyajanamaṇihārādisevā vividhauṣadhamaṃgalastutimantraprayogānuṣṭhānamiti dṛṣṭe hetau sā jijñāsāpārtheti cet - naikāntātyatato 'bhāvāt isk_1 etacca naivam kasmāt ? ekāntātyantato 'bhāvāt ekānto nāma niyamena bhāvaḥ atyantaṃ bhūtasyāvināśaḥ ekāntaśca atyantaṃ ca te ekāntātyante tayorabhāva ekāntātyantato 'bhāvaḥ tasmāt ṣaṣṭhīsthāne pañcamī ṣaṣṭhyā eva vā tasiḥ ṣaṣṭhyā vyāśraya iti yogavibhāgāt asamāsakaraṇaṃ vṛttapūraṇārtham, mānasasya ca duḥkhasya pratīkāre doṣāntaropasaṃgrahārtham tathā hi, stryādīnāṃ satyetasmin doṣadvaye 'śakyamarjjanaṃ kartumasvābhāvikatvāt satyarjane rakṣaṇamaśakyaṃ, sādhāraṇatvāt sati ca rakṣaṇe kṣayaḥ, kṛtakatvāt saṅgāccānupaśamo bhūtopaghātamantareṇa cāsambhava ityete doṣāḥ āha, kathametadavagamyate yaddṛṣṭasya hetoranaikāntikatvamanātyantikatvaṃ ceti ? ucyate- pratyakṣa evaitadupalabhyate yadāyurvedavihitasya kriyākramasyābhiyuktamātmavantaṃ bheṣajabhiṣakparicārakasampannaṃ pratyānarthakyam āha ca - sarveṣāṃ vyādhirūpāṇāṃ nidānaṃ trividhaṃ smṛtam āhāraśca vihāraśca karma pūrvakṛtaṃ tathā tatrāhāravihārotthān rogān dravyamapohati yastu karmakṛto vyādhirmaraṇātsa nivartate punarapyāha- sopadravaḥ sarvarūpo balamāṃsendriyāpahaḥ sāriṣṭhaścaiva yo vyādhistaṃ bhiṣak parivarjayet ityevamanaikāntikatvam anātyantikatvaṃ tu nivṛttānāmapi vyādhīnāmpunarutpattidarśanāt mahatā khalvapi prayatnena nivartitā vyādhayaḥ punarutpadyante tathā coktam - punarjvare samutpanne kriyā pūrvajvarānugā iti tasmādyathaivāsyāyurvedādeḥ pratīkārahetutvaṃ pratyakṣasiddhamevamekāntātyantato 'bhāvo 'pi tathā mānasasya ca yathā ca śārīraduḥkhapratīkārahetavo 'naikāntikāḥ tathā stryādayo 'pi kasmāt ? tatsannidhāne viṣayāntarābhilāṣadarśanāt yadi hi stryādayo viṣayāḥ sarvadā duḥkhapratīkārasamarthā bhaveyuḥ, kimati teṣu sannihiteṣu viṣayiṇo viṣayāntarajighṛkṣā syāt ? evamanaikāntikatvam anātyantikatvamapi nivṛttecchānāmapi bhūyaḥ prārthanāsambhavāt yadi hi viṣayopabhogo 'tyantameva mānasaṃ duḥkhamapahanyāt kiṃ prāptaṃ yena bhūyastaṃ prati viṣayiṇo 'bhilāṣaḥ syāt ? kiṃ kāraṇam ? yasmānna hyavidyamāne tamasi devadattasya pradīpaṃ pratyapekṣā bhavati dṛśyate ca nivṛttecchānāmapi viṣayopabhogādviṣayiṇāṃ bhūyo viṣayābhilāṣaḥ tena manyāmahe nāyaṃ dṛṣṭo heturduḥkhamahapanti kintarhi sutarāṃ vṛddhiṃ karoti āha ca - na jātu kāmaḥ kāmānāmupabhogena śāmyati haviṣā kṛṣṇavartmeva bhūya evābhivardhate apara āha- saṃvedyatvād gurutvācca ninditatvācca sādhubhiḥ sarvatrāsannidhānācca na dṛṣṭo heturiṣyate saṃvedyatvāt bhogasādhanavikalānāmarthināṃ madhye viṣayiṇopayujyamānāstaissaṃvedyante teṣāmapradāyopayujyamānaṃ nairghṛṇyamāviṣkuryāt viṣayiṇā pradīyamāno vārthibhyaḥ parimitatvādavacchidyetetyanupāyo 'yaṃ duḥkhāpaghāte buddhimatām kiṃ ca gurutvāt bhogānāṃ vividhanivasanastrīpānabhojanavilepanālaṃkārādīnāṃ samagrye sukhamutpadyate nānyataravaikalye sāmagryaṃ caiṣāṃ svābhāvikatvādanupapannam āha ca - nābhijātiṃ na vijñānaṃ na ca śauryamapekṣate lakṣmī saṃskārayogācca kvacidevāvatiṣṭhate ityevamanekārthāśrayatvād gururviṣayopabhogaḥ kiṃ ca ninditatvācca sādhubhiḥ ninditaḥ khalvapi sādhubhirviṣayopabhogaḥ yasmādāha- āyāsāśca vighātaśca vipralambhabhayāni ca yaccānyadaśivaṃ loke tatkāmebhyaḥ pravartate punarapyāha- ayaṃ sakṣetriyo vyādhirayamātyantiko jvaraḥ idamāspadamītīnāmeṣa yoniḥ sapāpmanām agādhametatpātālameṣa paṅko duruttaraḥ kleśavyādhibhayākīrṇametacchvabhraṃ bhayāvaham vividhāyāsaśokānāmetadāyatanaṃ mahat dainyaśramaviṣādānāmetatkṣetramapāvṛtam yasmādviṣayasambhogādvihagaḥ pañjarāviva gato vaneṣu ramate sa sukhāni samaśnute tasmāt sādhubhirapākṛtatvādasādhurviṣayopabhogaḥ kiṃ ca sarvatrāsannidhānāt na hi supratiniviṣṭasyāpi kāminaḥ sarvatra viṣayasannidhānena bhavitavyam no khalvapi ekasmin deśe 'vasthānaṃ sambhavati, viṣayābhāvaprasaṅgāt tasmādavaśyaṃ viyogena bhavitavyam viyoge ca sati dhruvo 'niṣṭānubandha iti ko 'rtho viṣayaparigraheṇa ? tatra yaduktaṃ dṛṣṭasya hetoḥ sadbhāvādapārthakā jijñāseti etadayuktam*

Section (cont. 4)

3

कारिका 2 आह- यद्येकान्तात्यन्ततो ऽभावाद्दृष्टे हेतावपरितोषस्तेन तर्ह्यस्त्ययमन्यो हेतुरुभयदोषवर्जितः स कस्मान्न परिगृह्यते ? को ऽसाविति चेत् उच्यते, शास्त्रोक्तः कर्मविधिः स ह्यैकान्तिकः कथम् ? एवं ह्याह - पशुबन्धेन सर्वांल्लोकान् जयति न तूक्तं कदाचिज्जयति, कदाचिन्नेति फलस्य प्रत्यक्षानुपलब्धेरनैकान्तिकत्वमिति चेत्, स्यान्मतम् प्रत्यक्षत एवेदं विहितस्य कर्मणः फलं नोपलभ्यते तथा हि पुत्रकाम इष्टिं निरूप्य दुहितरमपि न प्राप्नोति अर्थकामश्च कर्म कृत्वा माषकमपि न लभते तस्मान्नायमनैकान्तिक इति एतच्च नैवम् कस्मात् ? साधनवैकल्यात्तदनुपपत्तेः अनेकसाधनसाध्यो हि कर्मविधिः यत्र फलं नोपलभ्यते तत्र साधनवैकल्यमनुमातव्यम् कस्मात् ? न ह्येतदिष्टं, सति कारणे कार्यं न भवति किं चान्यत्, संसाराभावप्रसङ्गात् यदि खल्वपि कर्मणः फलवत्त्वं नेष्यते तेन तन्निमित्तस्य संसासरस्याभावप्रसङ्गः अनिष्टं चैतत् तस्मात्सिद्धमस्यैकान्तिकत्वम् आत्यन्तिकत्वमपि सिद्धमेव यस्मादाह अपाम सोमममृता अभूमेति अत्र सोमपानादमृतत्वावाप्तिः श्रूयते तस्मात्तदेवानुष्ठातव्यम् किमन्येन हेतुना परिकल्पितेनेति जिज्ञासापार्थैवेति उच्यते दृष्टवदानुश्रविकः अनुश्रूयते इत्यनुश्रवः अनुश्रवे भव आनुश्रविकः दृष्टेन तुल्यं वर्तते दृष्टवत् किमसावनभिप्रेत इति वाक्यशेषः आह कः पुनरयमनुश्रवः ? उच्यते- मन्त्रब्राह्मणं यावद्वा पुरातनमनुश्रूयमाणं प्रामाण्येनाभ्युपगम्यते तत्रभवद्भिः यथाश्रुतिनिबन्धनाः स्मृतयः अङ्गानि वेदास्तर्का वा यथाह वेदवेदाङ्गतर्केषु वेदसंज्ञा निरुच्यते इति आह, किं पूर्वस्मादेव हेतोरयमानुश्रविको हेतुरनभिप्रेत इति ? नेत्युच्यते किन्तर्हि स ह्यविशुद्धिक्षयातिशययुक्तः इति स इत्यानुश्रविकस्य हेतोः प्रतिनिर्देशः हिशब्दो यस्मादर्थे अविशुद्धिश्च क्षयश्चातिशयश्च तैर्युक्तः एतदुक्तं भवति यस्मादयमानुश्रविको हेतुरविशुद्धो ऽनित्यस्तारतम्यवांश्चातो दृष्ट इवानभिप्रेतः तत्राविशुद्धियुक्तस्तावत् हिंसाविधानात् यदाह ब्राह्मणे- ब्राह्मणमालभेतेत्यादि तथा- षट्शतानि नियुज्यन्ते पशूनां मध्यमे ऽहनि अश्वमेधस्य वचनादूनानि पशुभिस्त्रिभिः इति हिंसा चाविशुद्धिः प्राणिनामिष्टशरीरव्यापादनात् आह, तदनुपपत्तिः शास्त्रचोदितत्वात् यदि शास्त्रेण चोदितेयं हिंसा न स्यात् मुक्तसंशयमविशुद्धित्वमस्याः प्रतिपद्यामहे, शास्रचोदिता तु तस्मान्नेयमविशुद्धिः तत्प्रामाण्यानभ्युपगमादविशुद्धिरिति चेत् स्यान्मतम्, वेदप्रामाण्यमभ्युपगच्छतामसंशयमेतदेवं स्यात् हेतुवादकुशलास्तु वयम् तस्मादधीयतां यदि कश्चिदस्त्युभयपक्षप्रसिद्धो हेतुः यतो निस्संशयः प्रत्ययः स्यादिति एतच्चायुक्तम् कस्मात् ? अभ्युपगमविरोधात् दृष्टमनुमानमाप्तवचनं चेति प्रामाण्यत्रयमभ्युपगतं भवद्भिः इदानीं वेदस्याप्तवचनत्वे सत्यप्रामाण्यं ब्रुवतः स्वमतव्याघातः तस्मादयुक्तमेतत् वेदस्याप्तवचनत्वानुपपत्तेरदोष इति चेत्स्यान्मतम् आप्तवचनत्वं प्राक्प्रसाध्यास्य वेदस्य पश्चात् अयमुपालम्भो युक्तमभिधातुं स्यात् तत्त्वसिद्धम् तस्मादनुपालम्भो ऽयमिति एतदप्युक्तम् कस्मात् ? पुरुषबुद्धिपूर्वकत्वे सति रागादियोगाच्छब्दो विचारार्हः स्यात् किमाप्तवचनं न वेति अपुरुषबुद्धिपूर्वकस्त्वाम्नायः स्वतन्त्रः पुरुषनिश्श्रेयसार्थं प्रवर्तते तस्मान्नैवंविधमनिष्टं विचारमर्हति किं चान्यत् अविशुद्धित्वानुपपत्तिप्रसङ्गात् यदि चैतस्मिन्नर्थे भवानपि पर्यनुपयुज्येत - कथमिदं निश्चीयते यदुत प्राणिनामिष्टशरीरव्यापादनादविशुद्धिहिंसेति ? अवश्यमभिधानीयं शास्त्रत इति तदेव च शास्त्रं क्रतौ हिंसामाह तस्मात् को ऽत्र हेतुः अन्यत्र प्रमाणमिहैवैतदप्रमाणं भवितुमर्हति हिंसातो धर्म इति ? अनुग्रहोपघातलक्षणत्वादहिंसाहिंसयोः प्रत्यक्षसिद्धिरिति चेत् - अथापि स्यात् अहिंसातश्चानुग्रहो भवतीष्टशरीरव्यापादनलक्षणः, हिंसातश्चोपघातो भवति अभिप्रेतशरीरव्यापादनलक्षणः क्रियानुरूपं च फलमनुमातुं युक्तमिति प्रत्यक्षसिद्धमनयोरिष्टानिष्टफलहेतुत्वम् तस्मात् को ऽत्र शास्त्रव्यापार इति ? एतच्चानुपपन्नम् कस्मात् ? अनिष्टप्रसंगात् एवं हि परिकल्प्यमाने गुरुभार्यागमने ऽपि सत्त्वान्तरानुग्रहसामर्थादिष्टफलसम्बन्धः स्यात् माणवकं चोपनीय व्रतादेशशौचब्रह्मचर्य्यस्वाध्यायाभ्यासभैक्षाग्निपरिचरणगुरुशुश्रूषादिषु प्रवर्तयतो ऽनिष्टफलसम्बन्धः स्यात् तस्माल्लोकशास्त्रविरुद्धो ऽसत्तर्को नेष्ट इति उभयाभिधानाच्छास्त्रविरोधप्रसङ्ग इति चेत् स्यान्मतम् तदेव शास्त्रमहिंसामाह, तदेव हिंसाम् एवं सति परस्परविरुद्धयोरर्थयोश्चोदितत्वादुभयानुग्रहासम्भवे शास्त्रविरोधप्रसङ्ग इति तच्च नैवम् कस्मात् ? उत्सर्गापवादयोर्विषयभेदात् सामान्ये हि शास्त्रमहिंसामुत्सृज्य विशेषे क्रतुलक्षणे ऽपवादं शास्ति सामान्यविहितं च विशेषविहितेन बाध्यते तद्यथा - दधि ब्राह्मणेभो दीयतां तक्रं कौण्डिन्यायेति तस्मादुत्सर्गापवादयोर्विषयभेदान्नास्ति शास्त्रविरोध इति किं चान्यत् कन्यागमनवत् पुनर्विधाने दोषाभावात् यथा खल्वपि शास्रे प्रतिषिद्धं कन्यागमनमिति नेदानीमभिरूपः प्रतिगृह्य, तामभिगम्याधर्मभाग्भवति गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्विकाम् इति शास्त्रान्तरसद्भावात् एवं शास्त्रे प्रतिषिद्धा हिंसा नेदानीं क्रतौ हिंसायां प्रवर्तमानो ऽनिष्टफलभाक् स्यात् पूर्वोक्तादेव शास्त्रान्तरसद्भावात् तर यदुक्तं प्राणिनामिष्टशरीरव्यापादनादविशुद्धिर्हिंसेत्येतदयुक्तम् उच्यते - न, अभिप्रायानवबोधात् चित्रमपि बह्वेतदभिधीयमानो नाभिप्रायं वेद भवान् किं कारणम् ? यस्मान्न वयं वेदस्य प्रामाण्यं प्रत्याचक्ष्महे नो खल्वपि ब्रूमः शास्त्रचोदितायां हिंसायां प्रवर्तमानस्यानिष्टफलसम्बन्धो भवति किन्तर्हि सति स्वर्गप्राप्तिनिमित्तत्वे वेदविहितस्य कर्मणः समनुष्ठानं प्राणिजमुपघातमन्तरेण न सम्भवति इति हितकामैरभ्युपेक्ष्यते यस्मात् न ह्येतदुक्तं यदन्येषामुपघातेनात्मानुग्रहः कार्य इति आह - न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः एष सङ्क्षेपतो धर्मः कामादन्यः प्रवर्तते आह यद्येतन्नाभ्युपगम्यते कथं पूर्वमुक्तं प्राणिनामिष्टशरीरव्यापादनादविशुद्धिर्हिंसेति ? उच्यते कार्ये कारणोपचारात् यो ऽसौ हिंसानिमित्तकः कारुण्यान् मनसि नः परिताप उत्पद्यते सा खल्वविशुद्धिरभिप्रेता तस्यां कारणमुपचर्योक्तमविशुद्धिर्हिंसेति यथा मुद्गैस्तृप्ताः गोभिः सुखिन इति आह कथमेतदवगम्यते हिंसाकार्यं परितापमात्रमविशुद्धिराचार्यस्याभिप्रेता, न पुनर्हिंसैवेति ? उच्यते, प्रकर्षप्रत्ययोपलब्धेः वक्ष्यत्युपदिष्टात् तद्विपरीतः श्रेयानिति (इस्क् 2) समानजातीयं च प्रतियोगिनमपेक्ष्य प्रकर्षप्रत्यय उत्पद्यते यदि चानुश्रविकस्य प्रशस्यता नाभिप्रेता स्यात् प्रकर्षप्रत्ययानुपपत्तिप्रसङ्गः तस्मान्नोत्सूत्रमेतत् आह, सन्न्यासानुपपत्तिः अवियोगश्रवणात् न हि कर्मणो ऽत्यागसन्न्यासयोस्त्वमीशिषे किन्तर्हि शास्त्रं यदाह तदवश्यं कर्तव्यम् तच्चामरणात् कर्मभिरवियोगं शास्ति कस्मात् ? एवं ह्याह- "जरामर्यमेतत् सत्रं यदग्निहोत्रदार्शपौर्णमासौ, जरया ह एतस्मात् सत्राद्विमुच्यते, मृत्युना च " पुनरप्याह "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः " तस्मादामरणात् कर्मणामत्यागः तस्मिन् सति हेत्वन्तरकर्मणामानर्थक्यम् उच्यते, न, साधनानामस्वभाविकत्वात् पत्नीसंयोगादिभिरनेकैः साधनैरयं कर्मविधिः प्रसाध्यते तेषां चास्वाभाविकत्वात् अशक्यमर्जनं प्रयोगतः पूर्वं कर्तुमिति प्रतिपादितम् तस्मादनित्यानि कर्माणि हेतुशास्त्रविप्रतिपत्तौ शास्त्रबलीयस्त्वमिति चेत् स्यान्मतम् यत्र हेतुशास्त्रयोर्विप्रतिपत्तिर्भवति तत्र विप्रलम्भभूयिष्ठत्वादनुमानस्य बलीयः शास्त्रमित्यवशयमभ्युपगन्तव्यमिति तच्चानुपपन्नम् कस्मात् ? शक्तितो विनियोगात् शक्तिमपेक्ष्य शास्त्रमग्निहोत्रादीनि कर्माणि विदधत्तेषामनित्यतां ज्ञापयति कथम् ? एवं ह्याह, "यो ऽलं सन्नग्निहोत्रायाग्निहोत्रं न जुहोति तमेषा देवतापरुणद्ध्यस्माल्लोकादमुष्माच्चोभाभ्याम् " तस्मादनित्यानि कर्माणि किं चान्यत् जराग्रहणसामर्थ्यात् त्वदीय एव ज्ञापके जराग्रहणमस्ति अतो ऽनुमीयते शक्त्यपेक्षमनित्यं च कर्म किं चान्यत् शास्त्रहानेः उभयं हि शास्त्रे निर्दिष्टम् कर्माणि सन्न्यासश्च यदि पुनः कर्माणि नित्यकर्तव्यतयेष्यन्ते तेन सन्न्यासशास्त्रं हीयते तस्माद्विषयरागाविष्करणमेतद्वः आह, न, श्रुतिबलीयस्त्वात् तुल्यबलयोर्हि शास्त्रयोरेकविषयसन्निपाते द्वयोर्युगपदनुग्रहासम्भवे विकल्पपर्यायौ भवतः श्रुतिस्मृतिसन्निपाते च श्रुतिर्बलीयसी, स्मृतिविहितश्च सन्न्यासः तस्मान्नानयोर्विकल्पः न खल्वपि पर्यायो न्याय्यः उच्यते- तदितरत्र तुल्यम् यथैव कर्मणां समनुष्ठानं शास्ति शास्त्रं तथा सन्न्यासमपि कथम् ? एवं ह्याह- न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति तथा- न कर्मणा मृत्युमृषयो निषेद्धुः प्रजावन्तो द्रविणमिच्छमाणाः अथापरे ऋषयो मनीषिणः परं कर्मभ्यो ऽमृतत्वमानशुः ब्राह्मणं चात्र भवति- "तद्य इदं विदुः, ये चेमे ऽरण्याः श्रद्धातप इत्युपासते ते ऽर्चिषमभिसम्भवन्ति अर्चिषो हरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्डेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो ऽमाणवः स एतान् ब्रह्म गमयति " पुनरप्याह- "एतमेव विदित्वा मुनिर्भवति, एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति एतद्ध स्म वै पूर्वे विद्वांसः प्रजां नाकामयन्त, प्रजया किं करिष्यामो येषां नायमात्मा नायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तीति " तस्मादेते त्यागसन्न्यासयोरुभयोर्लिङ्गम् आह - यद्यप्येवं शास्त्रं तथापि समनुष्ठाने विधिरस्ति विहितं चावश्यं कर्तव्यम् सन्न्यासे त्वर्थवादमात्रमित्यनयोरयं विशेषः तस्मिन् सति समनुष्ठानं ज्यायो न त्यागः उच्यते- को ऽयं विधिः, को ऽयमर्थवादः ? आह- विधिस्तदर्थत्वेनापूर्वोपदेशः यो हि विध्यर्थेन लिङा लोटा कृत्यैर्वापूर्वोपदेशः क्रियते स विधिः यथा- अग्निहोत्रं जुहुयात् स्वर्गकामः वायव्यं श्वेतमजमालभेत भूतिकाम इति स्तुतिरर्थवादः तस्य तु विहितस्य प्ररोचनार्थं या स्तुतिः सो ऽर्थवादः तद्यथा- "वायुर्वै क्षेपिष्ठा देवता वायुमेव तेन भागधेयेनोपधावति, स एवैनं भूतिं गमयति" इति एवंविधां हि स्तुतिमुपश्रुत्य फलार्थिने हि यजमानाय विधिः प्ररोचते एतस्मिन् हितकामः प्रवर्तते इति उच्यते- न, अत एव सन्न्याससिद्धिः एवं चेन्मन्यसे यमाम्नायः श्रेयांसमर्थं मन्यते, तं प्ररोचनाय स्तौति तथा सन्न्याससिद्धिः कस्मात् ? स्तुतत्वात् बहुलार्थिनां सन्न्यासमाम्नायः स्तौति स कस्मान्न प्ररोचते ? इतरथा ह्यानर्थक्यम् यदि खल्वप्यर्थवादः स्तुवन्नपि न प्ररोचयेत् यदुक्तं प्ररोचनार्थो ऽर्थवाद इति तद्भवद्भिर्हापितव्यं स्यात् अनर्थको ह्येवं सत्यर्थवादो न प्ररोचनार्थः अर्थान्तरवचनं वा यदि प्ररोचनार्थत्वमस्य नेष्यते तेन तर्ह्यर्थान्तरं वक्तव्यम् मा भूदनर्थकत्वं वेदैकदेशस्येति तस्मान्नानया विभीषिकया वयं शक्याः सन्मार्गादपनेतुम् किंचान्यत् उभयथा विकल्पे ऽनिष्टप्रसङ्गात् इहायमाम्नायो विधेयत्वेन वा सन्न्यासं स्तूयात् अविधेयत्वेन वा किंचातः ? तद्यदि तावद्विधेयत्वेन स्तौति किमन्यद्विचार्यते ? सिद्धः सन्न्यासः अथ विधेयत्वेन, स्तुतावस्य प्रयोजनं कर्तव्यम् यद्धि कर्तव्यतया नेष्टं तदपुरुषबुद्धिपूर्वकः स्वतन्त्रः पुरुषनिश्श्रेयसार्थं प्रवर्तमान आम्नायः किमिति प्ररोचयेत ? तस्मादेतामपि कल्पनां कृत्वा कृशमेवैतत् अथवोभथा विकल्प इत्यस्यायमन्यो ऽर्थः इहायमाम्नायो भूतार्थेन वा सन्न्यासं प्ररोचयेत् अभूतार्थेन वा ? किं चातः ? तद्यदि तावद्भूतार्थेन प्ररोचयति तथा सत्यमृतत्वप्रापकस्य सन्न्यासस्यापरिग्रहे विषयारागादन्यो हेतुर्वक्तव्यः अथाभूतार्थेन, पुरुषो निःश्रेयसाद्धीयते कस्मात् ? न ह्येतद्युक्तं यदश्रेयसि मार्गे प्रमाणभूत आम्नायो मातृमोदकन्यायेनेहितार्थिनः प्राणिनः प्रतारयेत् तस्मादयुक्तमेतत् किञ्चान्यत् अनेकान्तात् नचायमेकान्तो यद्विहितमेव कर्तव्यम् तथा च शाबराः पठन्ति ग्रामगमनं भवतः शोभनमित्यत्रान्तरेण विधिं स्तुतिरेव देवदत्तं ग्रामगमनाय प्ररोचयतीति किञ्चान्यत्, आशङ्काप्रसङ्गात् यदि खल्वपि किञ्चित् सत्यं किञ्चिदनृतं ब्रूयाद्वेदः तथा सति पौरुषेयवाक्यवद्वेदवाक्ये ऽपि आशंका प्रसज्येत तथा च सति यदुक्तमेव प्रसंगः अनिष्टं चैतत् किं च विध्यनुमानं वा तत्, एवमेकदेशभूतत्वात् अथवा विध्येकदेशो ऽर्थवाद इत्यतिसृष्टं भवता तत्र सन्न्यासे ऽर्थवादमुपलभ्य विधिरप्यस्तीति अनुमातव्यम् अनुपलम्भाददोष इति चेत् स्याच्चैवं यद्यसौ विधिरुपलभ्यते तस्मादनुपलम्भादयं दोषान्निवर्तिष्यत इति एतच्चानुपपन्नम् कस्मात् ? अनेकभेदत्वात् उपलब्धौ यत्नः क्रियताम् अनेकभेदो हि प्रतिवेदमाम्नायः तत्र यदुक्तं विधिसद्भावात् क्रियाप्राधान्यमित्येतदप्ययुक्तम् इतिकर्तव्यतानुपदेशात् सन्न्यासानुपपत्तिरिति चेत्- अथापि स्याद्यदि सन्न्यासमप्याम्नायो विधेयं मन्येत तेन यथा गार्हस्थ्यस्येतिकर्तव्यतां भार्योद्वहनादिकां मन्त्रवदुपदिशति तथा सन्न्यासमप्युपदिशेत् न तूपदिष्टवान् तस्मान्नास्ति सन्न्यास इति एतदप्ययुक्तम् कस्मात् ? अभावात् इतिकर्तव्यतानां हि सर्वासामभावः सन्न्यासः तत्र किं शास्त्रमुपदेक्ष्यति ? यावती खल्वितिकर्तव्यता सन्न्यासाङ्गं तामुपदिशति शास्त्रम् कथम् ? एवं ह्याह- "तपःश्रद्धे ये ह्युपवसन्ति अरण्ये शान्ता विद्वांसो भैक्षचर्या चरन्तः सूर्यद्वारेण ते विरजसः प्रयान्ति यत्रामृतः स पुरुषो ऽव्ययात्मा " तत्र तपःश्रद्धे ये ह्यपवसन्तीत्येनं श्रद्धयोपेतं यमनियमलक्षणं धर्ममाह अरण्य इति गृहेभ्यो विनिस्सृतिम् शान्ता इतीन्द्रियाणामन्तःकरणस्य च विषयाभिलाषाद्विनिवर्तनम् विद्वांस इति पूर्वरात्रापररात्रादिषु कालेष्वनिर्विण्णस्य योगिनो ज्ञानाभ्यासम् भैक्षचर्यां चरन्त इति शरीरस्थितिनिमित्तं परिमितमभ्यवहारनियोगम् उत्तरार्धेन च फलमाचष्टे तन्निबन्धनश्च विस्तरः सन्यासेतिकर्तव्यतायां मन्वादिभिरभिहितः श्रुतिनिर्वचनाश्च स्मृतयो भवतां प्रमाणमिति पक्षः तत्र यदुक्तमितिकर्तव्यतानुपदेशान्नास्ति सन्न्यास इत्येदयुक्तम् एवं च नित्यानि कर्माणि यत्त्वनेनैतदुक्तमानुश्रविको हेतुरनैकान्तिक इति सत्यमेतत् अवश्यं हि कर्मणः फलमभ्युपगन्तव्यम् इतरथा हि तन्निमित्तस्य संसारस्याभावादनिष्टप्रसङ्गः तस्मादनिष्टामेवैतदाचार्यस्य आह, कथमेतदनुमातव्यमिति ? उच्यते, क्षयग्रहणसामर्थ्यात् यदि पूर्वसूत्रोक्तमिहानुवर्तते क्षयग्रहणमनर्थकं स्यात् कस्मात् ? अत्यन्ताभावपर्यायो हि क्षय इति कृत्वा एवं सिद्धो ऽविशुद्धियोगः आह, क्षययोग इदानीं कथमनुमातव्य इति ? उच्यते - क्षययोगो ऽङ्गपरिमाणात् क्षययोगः पुनरस्य हेतोरङ्गपरिमाणाद्वेदितव्यः यानि हि यजेरङ्गानि पशुपुरोडाशादीनि तानि परिमितानि परिमितानां साधनानां तन्त्वादीनां परिमितं कार्यं पटादि दृष्टम् परिमितं क्षयधर्मि दृष्टम् तद्वदेव किञ्चान्यत् संसारोपलम्भात् दृश्यते चायं वाग्बुद्धिस्वभावाहारविहारभेदभिन्नकर्मविहारवैचित्र्यनिमित्तः संसारः यदि पुनः साक्षात् कृतं कर्माक्षयफलं स्यात् स पुनरावृत्त्यभावात् प्राणिनां नोपलभ्येत शब्दसामर्थ्यान्नित्यत्वमिति चेत् स्यादेतत् "शब्दप्रमाणका वयं,यच्छब्द आह तदस्माकं प्रमाणम् " स चास्य हेतोरमृतत्वमाह "तरति मृत्युं, तरति पाप्मानमित्यादि" तस्मादनिच्छताप्येतदवश्यमभ्युपगन्तव्यम् अनभ्युपगमे वा प्रतिज्ञाहानिर्वेदः प्रमाणमिति एतच्च नैवम् कस्मात् ? शब्दान्तरेण विरोधात् अनित्यत्वमस्य हेतोः शब्दो ऽनुमन्यते तस्यैवं सति विरोधः प्राप्नोति कथम् ? एवं ह्याह- "अथ ये इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते, अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाशं आकाशाद्वायुम् ते धूममभिसम्भवन्ति धूमो भूत्वाभ्रं भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिला माषा इति जायन्ते ततो वै यो ऽन्नमति यो रेतः सिञ्चति स भूय एव भवतीति " तत्र यदुक्तं शब्दसामर्थ्यान्नित्यत्वमित्येदयुक्तम् उभयथाभिधानाच्छास्त्रविरोधप्रसङ्ग इति चेत् स्यान्मतम् तदेव शास्त्रं नित्यत्वमाह तदेवानित्यत्वम् एवं सति परस्परविरोधिनोरर्थयोश्चोदितत्वात् उभयानुग्रहासम्भवे सति शास्त्रविरोधप्रसङ्ग इति तच्च नैवम् कस्मात् ? असम्भवे सत्यर्थान्तरक्लृप्तेः यत्र हि प्रमाणभूता श्रुतिरसम्भविनमर्थं चोदयति, तत्रार्थान्तरं कल्पयति तद्यथा- "स आत्मनो वपामुदखिदत्" "स्तेनं मनः" "अनृतवादिनो वाग्" इत्येवमादिषु एवमिहापि नास्ति सम्भवः यदेको ऽर्थो नित्यश्च स्यादनित्यश्चेति तस्मान्नित्यत्ववाचकस्य शास्त्रान्तरस्य भक्त्यार्थान्तरं परिकल्पयिष्यामः तद्वदितरत्रापीति चेत् स्यान्मतम्- यथैव भवता नित्यानित्ययोरेकत्रासम्भवान्नित्यत्वस्य भक्त्या कल्पना कृता तथैवानित्यत्वस्यापि करिष्यत इति एतच्चायुक्तम् कस्मात् ? सर्वप्रमाणविरोधप्रसङ्गात् विनाशे हि भक्त्या कल्प्यमाने सर्वप्रमाणविरोधः प्रसज्येत कथम् ? प्रत्यक्षविरोधस्तावत् संसारोपलम्भात् अनुमानविरोधः अङ्गपरिमाणे सत्यङ्गिनो नित्यत्वानुपपत्तेः शब्दविरोधः ते धूममभिसम्भवन्तीति वचनात् न तु नित्यत्वे भक्त्या कल्प्यमाने दोषो ऽयमुपद्यते तस्माद्विषमेतत् आह, कथमिदानीं भक्त्या कल्पयितव्यं शास्त्रमिति ? उच्यते, प्रकृष्टार्थतया यथा खल्वप्यमृतं वा मृतमतिजीवो मा ते हासिषुरसवः शरीरमित्यभिधीयते न च प्राणिनामत्यन्तायासवो जहति, किन्तर्हि प्रकृष्टं कालम् एवमिहाप्युच्यते तरति मृत्युमिति नात्यन्ताय मृत्युं तरति, किन्तर्हि प्रकृष्टं कालम् उपचर्यते हि लोके प्रकृष्टे नित्यशब्दः तद्यथा नित्यप्रहसितो नित्यप्रजल्पित इति एवं सिद्धः क्षययोगः आह, अतिशययोग इदानीमस्य हेतोः कथमनुमातव्य इति उच्यते- अतिशययोगः क्रियाभ्यासात् यत्र हि क्रिया सकृत् प्रवर्तते यत्र चासकृदावर्तते तत्रातिशयो दृष्टः तद्यथा कृष्यादिषु यज्ञे च द्रव्योपादानशक्त्यपेक्षा क्वचित् सकृदेव प्रवृत्तिः, क्वचित् पुनःपुनरावृत्तिः तस्मादतिशयेन भवितव्यम् किं चान्यत् अङ्गातिशयात् इहाङ्गानामतिशयादङ्गिनो ऽपि घटादेरतिशयो दृष्टः अस्ति चायं प्रतियज्ञमङ्गानां दक्षिणादीनामतिशयः तस्मादत्राप्यतिशयेन भवितव्यम् देवताङ्गभावगमनात् क्षयातिशयानुपपत्तिरिति चेत्- अथापि स्यात् यो हि यज्ञे द्रव्यमात्रस्य साधनभावमनुमन्यते तं प्रति क्षयातिशयदोषावपरिहार्यौ स्याताम् वयन्तु द्रव्यसमवायिनीं देवतां क्रतावङ्गभावमुपगच्छन्तीं विद्मः तस्माददोषो ऽयमिति तच्चानुपपन्नम् कस्मात् ? साध्यत्वात् देवतानामपरिमितत्वं साध्यम् तदङ्गभावगमनाच्च दोषाभावः न चात्मक्रियाङ्गत्वमुदासीनत्वात् इति नः सिद्धान्तः तस्मादयुक्तमेतत् उपेत्य वा क्रतुसमनुष्ठानानर्थक्यप्रसङ्गात् यदि द्रव्यसमवायिनीं देवतामुपलभ्य तदङ्गभावगमनादक्षयो निरतिशयश्च हेतुरवाप्यते इतीष्टं वः, तेन तर्हि यद्वा तद्वा वेदोक्तं कर्म कृत्वा शक्यो ऽवाप्तुमर्थः किं प्राणिविनाशहेतुभिः क्रतुभिः ? कथम् ? न हि किंचित्कर्म विद्यते यत्र शरीरस्याङ्गभावो न स्यात् सर्वदेवतामयं च शरीरं यस्मादाह तस्माद्वै विद्वान्पुरुषमिदं ब्रह्मेति मन्यते सर्वा ह्यस्मिन् देवताः शरीरे ऽधि समाहिताः तत्र यदुक्तं देवताङ्गभावगमनात् क्षयातिशयानुपपत्तिरित्येतदयुक्तम् एवमयं हेतुस्त्रिदोषः तेन यः फलविशेषो ऽभिनिर्वर्त्यते सो ऽपि तथाजातीयक इति शक्यमनुमातुम् तस्मान्नास्य जिज्ञासोरत्र समाधिः आह, यदि नायं श्रेयानिति कृत्वास्य जिज्ञासोर्नात्र समाधिः तेन तर्हि यः श्रेयान् फलविशेषः स उपदेष्टवय इति उच्यते- तद्विपरीतः श्रेयान् तदित्यनेन कर्मविधिनिष्पादितस्य स्वर्गप्राप्तिलक्षणस्य फलस्याभिसम्बन्धः तस्माद्विपरीतः शुद्धो ऽक्षयो निरतिशय इत्यर्थः को ऽसावित्युच्यते मोक्षः श्रेयान् एतदुक्तं भवति उभावप्येतौ प्रशस्यौ स्वर्गापवर्गौ, आम्नायविहितत्वात् मोक्षस्तु प्रशस्यतरः कस्मात् ? यथोक्तदोषानुपपत्तेः स ह्यवश्यंभावित्वादैकान्तिकः अतीन्द्रियत्वादसंवेद्यः स्वात्मन्यवस्थित्वाल्लघुः सर्वत्र सन्निहितश्च आम्नायस्तुतत्वात्प्रशस्तः सद्भिरासेवितत्वादनिन्दितः यमनियमवैराग्यज्ञानाभ्युपायशुद्धेर्विशुद्धः अद्रव्यत्वादक्षयो निरतिशयश्च आह, कथं पुनरयमपवर्गः प्राप्यत इति ? उच्यते, संयोगाभावात् दुःखं च प्रधानम् तथा च तन्त्रान्तरेष्वप्युक्तम्- दुःखहेतुः कार्यकरणशक्तिरिति तेन यदा पुरुषस्य संयोगस्तदाविशुद्धित्वमस्य स्वशक्तिविशेषयोगात्तेषु तेषु जात्यन्तरपरिवर्तेषु धर्मादिनिमित्तसामर्थ्यादायासमनुभवति यदा तु प्रधानसंयोगो विनिवर्तते तदा निमित्ताभावे नैमित्तिकस्याप्यभाव इति कृत्वा न पुनर्द्वन्द्वान्यनुभवति आह, किमर्थः पुनरयं प्रधानस्य पुरुषेण सह संयोगः ? उच्यते, नैतदिहाभिधानीयम् वक्ष्यत्ययमुपरिष्टादाचार्यः "पुरुषस्य दर्शनार्थः, कैवल्यार्थस्तथा प्रधानस्य पङ्ग्वन्धवदुभयोरपि संयोग इति" (इस्क् 21) आह, वियोगस्तर्हि कस्मान्निमित्ताद् भवतीति ? उच्यते - व्यक्ताव्यक्तज्ञविज्ञानात् इस्क्_2 व्यक्तं चाव्यक्तं च ज्ञश्च व्यक्ताव्यक्तज्ञाः तेषां विज्ञानं व्यक्ताव्यक्तज्ञविज्ञानं तस्मात् बहुष्वनियमादल्पाचो ऽपि ज्ञशब्दस्य न पूर्वनिपातः अथवा ज्ञानस्य साधकतमं व्यक्तम् तत्पूर्वकत्वादव्यक्तसमधिगमस्येत्यभिहितम् यद्वा व्यक्तं च अव्यक्तं च ते व्यक्ताव्यक्ते, ते विजानाति इति व्यक्ताव्यक्तज्ञः, तद्विज्ञानात् संयोगो निवर्तते वक्ष्यति चैतत्, "दृष्टा मयेत्युपेक्षत एको दृष्टाहमित्युपरमत्यन्या" इति (इस्क् 66) तत्र रूपप्रवृत्तिफललक्षणं व्यक्तम् रूपं पुनः महानहंकारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि सामान्यतः प्रवृत्तिर्द्विविधा हितकामप्रयोजना च, अहितप्रतिषेधप्रयोजना च विशेषतः पंच कर्मयोनयो वृत्त्याद्याः प्राणाद्याश्च पञ्च वायवः फलं द्विविधम् दृष्टमदृष्टं च तत्र दृष्टं सिद्धितुष्ट्यशक्तिविपर्ययलक्षणम् अदृष्टं ब्रह्मादौ स्तम्बपर्यन्ते संसारे शरीरप्रतिलम्भ इत्येतद् व्यक्तम् एषां गुणानां सत्त्वरजस्तमसामङ्गाङ्गिभावगमनाद्विशेषगृहीतिः यदा त्वङ्गभावमगच्छन्तो निर्लिखितविशेषा व्यवतिष्ठन्ते तदाव्यक्तमित्युच्यन्ते चेतनाशक्तिरूपत्वाच्चित्रं गुणवृत्तं जानातीति ज्ञः एषां त्रयाणां भेदमभेदं च विज्ञाय संयोगनिवृत्तिं लभते कस्मात् ? संयोगनिमित्तप्रतिद्वन्द्विभूतत्वाद्योगनिमित्तस्य इह यदादर्शननिमित्तः प्रधानपुरुषयोः संयोगः तस्मादस्य प्रतिद्वन्द्विभूतेन ज्ञानेन वियोगहेतुना भवितव्यम् को दृष्टान्तः ? तमःप्रकाशवत् यथा तमसा तिरोहितानि द्रव्याणि घटादीनि नोपलभ्यन्ते, तत्प्रतिद्वन्द्विभूतेन तु प्रदीपेन प्रकशितानामेषामुपलब्धिर्भवति तद्वदिहापि द्रष्टव्यमिति सिद्धं ज्ञानान्मोक्षः उक्तं च- वृक्षाग्राच्च्युतपादो यद्वदनिच्छन्नरः पतत्येव तद्वद् गुणपुरुषज्ञो ऽनिच्छन्नपि केवली भवति किं चान्यत् आम्नायाभिहितत्वात् आम्नायनिबन्धनो ह्ययमर्थो ज्ञानान्मोक्ष इति, न यादृच्छिकः कथम् ? एवं ह्याह- "सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता " "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन " "तमेव विदित्वामृतत्वमेति नान्यः पन्था अयनाय विद्यते " तथा ब्राह्मणे ऽप्युक्तम् "तरति शोकमात्मवित् " "ब्रह्मविद् ब्रह्मैव भवतीति " तस्मादाम्नायप्रामाण्यादपि मन्यामहे ज्ञानान्मोक्ष इति आह, ज्ञानवाचिनो ऽमृतत्वनिमित्ताभ्युपगमान्महत आम्नायान्तरस्यानर्थक्यम् यदि ज्ञानवाचिन आम्नायखण्डकादमृतत्वमवाप्यत इत्येतदभ्युपगम्यते, तेन क्रियावाचिनो महत आम्नायान्तरस्यानर्थक्यं प्राप्तम् किं कारणम् ? न ह्यनायासेनेष्टावाप्तौ सत्याम् आयासभूयिष्ठे कर्मणि प्रवर्तमानः कृती भवतीति आह च - अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् इष्टस्यार्थस्य संप्राप्तौ को विद्वान् यत्नमाचरेत् उच्यते- यदि पुनः कर्माण्यत्यन्तकर्तव्यतयेष्यन्ते, ज्ञानवाचिन आम्नायस्य कथमर्थवत्ता सिद्धा भवति ? आह, समुच्चये तूभयार्थवत्त्वम् ज्ञानकर्मणोस्तु समुच्चये ऽभ्युपगम्यमाने द्वयोरप्याम्नायार्थवत्ता सिद्धा भवति विद्वान् यजेत विद्वान् याजयेदिति वचनात्, तथा सर्वपुरुषाणां क्रतावधिकारः अश्रोत्रियषण्ढशूद्रवर्जमितिन्यायात् तस्माज्ज्ञानकर्मणोः समुच्चयादिष्टप्रसिद्धिः उच्यते- न, पूर्वदोषापरिहारात् यदि नियमतो विदुषैव कर्माणि कर्तव्यानीत्यभ्युपगम्यते तेन यः पूर्वोक्तो दोषः संसाराभावप्रसङ्गः, तस्यापरिहारः किं च शास्त्रहानेश्च यश्च शास्त्रमिष्टापूर्ते समुपास्यते ते धूममभिसंभवन्तीति तदेतस्यां कल्पनायां हीयते किं चान्यत्- भिन्नफलत्वात् इहाभिन्नफलानि द्रव्याणि समुच्चीयन्ते तद्यथा भुज्यङ्गानि सूपादीनि अभिन्नं तेषां तृप्तिलक्षणं फलमिति न चैतज्ज्ञानकर्मणोरभिन्नं फलम् स्वर्गापवर्गहेतुत्वात् ज्ञानसामर्थात्कैवल्यमभिन्नं फलमिति चेत् पूर्वेणाविशेषः यदुक्तं संसाराभावप्रसंग इति तदनपहृतमेव भवति किंचान्यत्- श्रूयमाणफलविरोधश्च यच्च क्रियायाः फलं श्रूयते अग्निहोत्रं जुहुयात् स्वर्गकामो, राष्ट्रमग्निष्टोमेन जयतीति तद्विरुध्यते कर्मणश्च शेषभावः स्वार्थोपसर्जनत्वे सत्यर्थान्तरनिष्पादकत्वात् यथावहन्तीत्येवमाद्याः क्रियाः स्वं फलमुपसर्जनीकृत्य तद्द्वारेण यजेरुपकुर्वन्त्यस्तच्छेषभूता भवन्ति एवं क्रियापि ज्ञानफलभूतत्वात्तच्छेषभूता स्यात् विधिसद्भावात् क्रियाप्राधान्यमिति चेन्न- उक्तत्वात् कथमेतत् ? नास्ति विधिकृतो विशेषः उपेत्य वा तत्रापि तदुत्पत्तेः अस्ति हि ज्ञानस्यापि विधायकं शास्त्रम् कथम् ? एवं ह्याह- "य आत्मापहतपाप्मा विजिघत्सो विपिपासो विजरो विमृत्युर्विशोकः सन्न्यस्तसंकल्पः सो ऽन्वेष्टव्यः स जिज्ञासितव्यः सर्वांश्च कामानवाप्नोति य आत्मानमनुविद्य विजानातीति" प्रजापतेर्वचनं श्रूयते पुनरप्याह- "द्वे विद्ये वेदितव्ये परा चैवापरा च" या तस्माद्विधिसद्भावात्क्रियाप्राधान्यमिति स्वपक्षानुरागमात्रमेतत् दृष्टार्थत्वादित्येके एके पुनराचार्या मन्यन्ते दृष्टमेव ज्ञानस्याज्ञाननिवृत्तिलक्षणं फलं तस्मान्न शास्त्रेण विधीयते किं कारणम् ? दृष्टार्थस्य हि कर्मणो न शास्त्रं प्रयोजकम् स्वयमेवार्थितत्वात्तत्र प्रवृत्तेर्भुज्यादिवत् तेषां ज्ञानविधायकानि वाक्यानि तान्युपायगुणविधानार्थमनुवादभूतान्याश्रीयन्ते तद्यथा दध्ना जुहोति, पयसा जुहोतीति यत्तु खल्विदमुच्यते विद्वान्यजेत, विद्वान् याजयेत्, श्रोत्रियस्य च कर्मण्यधिकार इति तस्यामयमर्थः- अधीत्य वेदं क्रियानुपूर्वो च ज्ञात्वा कर्मणि प्रवर्तितव्यम् एवं च सति न कश्चिद्दोषः यदि पुनर्नियमत एवात्मविधां कर्मण्यधिकारस्तेन संसाराभावप्रसंगः स्वाभाविकत्वात् विज्ञानस्य शास्रस्य सर्वाधिकारविरोधः तस्मान्नास्ति समुच्चयो ज्ञानकर्मणोः अपर आह- सत्यम् नास्त्यनयोः समुच्चयः किन्तर्हि सर्वार्था क्रिया ज्ञानं प्रतिषिद्धार्थम् ये हि षण्ढान्धवबधिरादयः कर्मणो ऽत्यन्तं निराकृतास्तेषां ज्ञानादाश्रमान्तरे ऽमृतत्वावाप्तिः इतरेषां तू मूलाश्रमे कर्मण एवेति तस्य नायं वादिनः परिहार इति उच्यते- न, स्वसमयविरोधात् एवं ब्रुवाणस्यास्य वादिनः स्वसमय एव विरुध्यते यदुक्तम्- विद्वांसः प्रजां नाकामयन्त, किं प्रजया करिष्यामः ? अथ यदुक्तं पुत्रैषणायाश्च वित्तैषणायाश्च व्युत्थाय भैक्षचर्यां चरन्तीति न च षण्डानां पुत्रैषणाव्युत्थानमथवद् भवति, देवकृतत्वात् किं चान्यत् - रहस्यभूतत्वात् रहस्यभूतं हि वेदानां ज्ञानम् यस्मादाह- तद्ध स्मैतदारुणिरौद्दालकिर्ज्येष्ठाय पुत्राय प्रोवाच इदं ज्येष्ठपुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्यान्तेवासिने नान्यस्मै यस्मै कस्मैचन य इमामद्भिः परिगृहीतां वसुना वसुमतीं पूर्णां दद्यादेतदेव ततो भूय इति भवति चात्र - परं रहस्यं वेदानामवसानेषु पठ्यते षण्डाद्यर्थं तदिष्टं चेद्धिष्ट्या सफलता श्रुते विद्वान् कर्माणि कुर्वीतेत्येतदुक्तं किल श्रुतौ स च पण्डादिरेवस्याद्यो ऽत्यन्तं कर्मणश्च्युतः स एव वर्त्यतां प्राज्ञैः किं न्याय्यो ऽथ मतिभ्रमः ? इन्द्रियार्थानुरागो वा द्वेषो वा मोक्षवर्त्मनि कैवल्यप्राप्तिहेतुत्वाद्या वेदविहिता स्तुतिः प्रशस्ता याज्ञवल्क्याद्यैर्विशिष्टैस्तत्त्वनिश्चयात् सेयं विषयरागान्धैर्विपरीतार्थवादिभिः विद्या कन्येव षण्डाय दीयमाना न शोभते तस्माद्रागानुगैरुक्तां कुहेतुपृतनामिमाम् अपोह्य मतिमान्युवत्या ह्याश्रमादाश्रमं व्रजेत् इति श्रीमदाचार्येश्वरकृष्णविरचितायां सांख्यसप्ततौ युक्तिदीपिकानाम्नि विवरणे प्रथममाह्निकम् कारिका 3 आह- सम्यगुपदिष्टं भवता व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षो ऽवाप्यते इदानीमुपदेष्टव्यम् कथमेतत्त्रयं प्रतिपत्तव्यमिति उच्यते - त्रयस्यास्य प्रतिपत्तिं द्वेधा समामनन्ति समासतो विस्तरतश्च तदेव त्रयं पंचभिरधिकरणैर्भिद्यते कानि पुनरधिकरणानीति ? उच्यते- प्रकृतिविकारवृत्तं, कार्यकारणवृत्तं, अतिशयानतिशयवृत्तं, निमित्तनैमित्तिकवृत्तं, विषयविषयिवृत्तमिति तत्र प्रकृतिविकारवृत्तपूर्वकत्वादितरेषामधिकरणानां तद्भेदान्वक्ष्यामः तत्पुनश्चतुर्धा भिद्यते किंचित्कारणमेव न कार्यम् किंचित्कारणं च कार्यं च किंचित्कार्यमेव न कारणम् किंचिन्नैव कारणं न चापि कार्यमिति आह- अतिसामान्योपदिष्टमेतन्नास्माकं बुद्धाववतिष्ठते तस्माद्विभज्योपदिश्यतां कस्य पदार्थस्य किं वृत्तमिति ? उच्यते- बाढम् उपदिश्यते- मूलप्रकृतिरविकृतिः मूलमाधारः प्रतिष्ठेत्यनर्थान्तरम् प्रकरोतीति प्रकृतिः मूलं चासौ प्रकृतिर्मूलप्रकृतिः मूलप्रकृतिः कस्य मूलम् ? महदादीनाम् संज्ञा खल्वियं प्रधानस्य मूलप्रकृतिरिति सा चाविकृतिरविकारानुत्पाद्येत्यर्थः आह- समासानुपपत्तिः विशेषणान्तरोपादानात् मूलमित्ययं शब्दः प्रकृतिविशेषणार्थमुपात्तो महदादिविशेषणान्तरमुपादत्ते तत्र सविशेषणानां वृत्तिर्नेति समासप्रतिषेधः प्राप्नोति समासान्तरविधानाददोष इति चेत्स्यान्मतम्- यद्येतस्मिन् समासे दोषो ऽयमुपपद्यते समासान्तरमत्र विधास्यते मूलं प्रकृतीनां मूलप्रकृतिरिति एतच्चानुपपन्नम् कस्मात् ? दोषान्तरोपपत्तेः एवमप्युपसर्जनं पूर्वं निपततीति षष्ठ्योक्तस्योपसर्जनत्वात्पूर्वनिपातः तत्रैवं भवितव्यं मूलं प्रकृतीनां प्रकृतिमूलमिति तस्मादिदमप्यसारमिति उच्यते- पूर्व एव समासो ऽस्तु, सम्बन्धिशब्दः सापेक्षो नित्यं वृत्तौ समस्यते यत्तूक्तं विशेषणान्तरोपादानात्समासानुपपत्तिरिति- तत्र ब्रूमः सम्बन्धिशब्दानां सम्बन्ध्यन्तरमनपेक्ष्य स्वरूपप्रतिलम्भ एव नास्तीत्याकांक्षावतामेव वृत्त्या भवितव्यम् तद्यथा देवदत्तस्य गुरुकुलमिति सम्बन्धिशब्दत्वाद्देवदत्तशब्दमपेक्षमाणो ऽपि गुरुशब्दः कुलशब्देन सह वृत्तिं प्रतिपद्यते एवमिहापि मूलमित्ययं शब्दः सम्बन्धिशब्दत्वान्महदाद्यपेक्षो ऽपि प्रकृतिशब्देन सह वृत्तिं प्रतिपद्यत इति किञ्चान्यत् वाक्यप्रतिपाद्यस्यार्थस्य वृत्तावुपलब्धेः यत्र हि वाक्यप्रतिपाद्यो ऽर्थो वृत्त्या न लभ्यते यथा ऋद्धस्य राज्ञस्य पुरुषः इति तत्र सविशेषणानां वृत्तिर्नेति व्यवस्थितं शास्त्रे गम्यते चेह वाक्यप्रतिपाद्यो ऽर्थो वृत्तावपि सत्याम् तस्माददोषो ऽयमिति किं च ज्ञापकात् ज्ञापकं खल्वपि "कर्मवत्कर्मणा तुल्यक्रियः" तथा "अकारस्य विवृत्तोपदेश" इत्यादि तस्मान्नात्रासूया कर्तव्येति आह- अवयवस्य प्रत्यवमर्शानुपपत्तिः संज्ञाशब्दत्वात् संज्ञाशब्देषु हि नावयवस्य परामर्शो भवति तद्यथा गजकर्णो ऽश्वकर्णः कस्य गजस्य कस्याश्वस्येति उच्यते न, अर्थोपपत्तेः यत्र ह्यर्थ उपपद्यते भवत्येव तत्र संज्ञाशब्देष्वयवपरामर्शः तद्यथा सप्तपर्णान्यस्य पर्वणि पर्वणि, अष्टौ पदान्यस्य पङ्क्तौ पङ्क्तौ सप्तपर्णो ऽष्टापदमिति उपपद्यते चेहायमर्थः, तस्माददोषो ऽयम् आह- मूलप्रकृतिरविकृतिः, प्रकृतिरिति वक्तव्यम् यदाह महदाद्याः प्रकृतिविकृतयः सप्तेति उच्यते- प्रकृतित्वावचनम् प्रकृतित्वं च मूलप्रकृतेर्न वक्तव्यम् किं कारणम् ? अर्थादापत्तेः मूलप्रकृतिरविकृतिरित्येव सिद्धम् उच्यमानं हि तदनर्थकं स्यात् आह- प्रकृतित्वानुपपत्तिः सत्कार्यवादाभ्युपगमात् प्रकरोतीति प्रकृतिः, तद्भावः प्रकृतित्वम् तच्च सति कार्ये न घटते कस्मात् ? न हि सतामात्मादीनां कारणमुपपद्यत इति उच्यते- तदितरत्रापि तुल्यम् यथैव हि सतामात्मादीनां कारणं नोपपन्नमेवमसतां शशविषाणादीनामपीति नास्ति कश्चिद्विशेषः तृतीया तु विषादावल्यैव कोटिः एवमुभयपक्षव्युदासात्स्वपक्षसिद्धिरिति चेत् अथापि स्यात्- सदसतोः क्रियासम्बन्धं प्रत्यविशेष उपदर्श्यते भवता तेनोभयोरपि पक्षयोर्व्युदासः कृतो भवति न चोभयपक्षव्युदासात्स्वपक्षसिद्धिरिति एतच्चायुक्तम् कस्मात् ? उत्तरत्र प्रतिषेधात् स खल्वेष वादी सत्कार्यवादं प्रत्याचष्टे तस्मात्स्वक एवैनमधिकारे निवर्तयिष्यामः आह- अविकृत्यभिधानानर्थक्यम् मूलप्रकृतित्वात्तत्सिद्धेः यदि मूलं सर्वासां प्रकृतीनाम् अविकृत्यैव तया भवितव्यम् इतरथा हि मूलप्रकृतित्वानुपपत्तिः यदि खल्वपि प्रधानस्यापि प्रकृत्यन्तरं स्यान्मूलप्रकृतित्वं नोपपन्नं भवेत् तस्मान्मूलप्रकृतित्ववचनादेव तत्सिद्धेरविकृतिग्रहणमनर्थकमिति उच्यते- न अनवस्थाप्रसंगनिवृत्त्यर्थत्वात् यथा हि मूलादीनां बीजं प्रकृतिस्तस्याप्यन्यत्तस्याप्यन्यदित्यनवस्था एवं महदादीनां प्रधानं मूलप्रकृतिः तस्याप्यन्यदित्यनवस्था प्रसज्येत सा मा भूदित्यतस्तन्निवृत्त्यर्थं तदभिधानम् आह, न हेत्वनुपदेशात् असंशयमेतदेवं स्यात्, न तु हेतुरत्रोपदिष्टो भवद्भिः न चानुपदिष्टहेतुकं विपश्चिद्भिः प्रतिपत्तुं न्याय्यम् तस्मादयुक्तमेतत् उच्यते, कारणान्तरप्रतिषेधात् पुरुषाकर्तृत्वात्प्रधानाख्यानां गुणानां चावस्थान्तरानुपपत्तेरविकृतित्वसिद्धिः इहारभ्यमाणा प्रकृतिः कारणान्तरैरीश्वरादिभिरारभ्यते, पुरुषेण वा, गुणैर्वा किञ्चातः ? तन्न तावत्कारणान्तरैरीश्वरादिभिरारभ्यते कस्मात् ? प्रतिषेधात् यथा कारणान्तराणि न सन्ति तथोत्तरत्र प्रतिषेधः करिष्यते इदानीं सत्त्वं रजस्तमः पुरुष इति पदार्थचतुष्टयं प्रतिज्ञायते तत्रापि पुरुषकर्तृत्वं प्रत्याख्यायते तस्मिन्प्रत्याख्याते गुणानामेवावस्थान्तरापेक्षः कार्यकारणभावः सूक्ष्माणां मूर्तिलाभः कार्यम् निवृतविशेषाणामविभागात्मनावस्थानं कारणमित्ययं सिद्धान्तः तत्रास्तङ्गतविशेषाणां निवृत्तपरिणामव्यापाराणामङ्गाङ्गिभावमनुपगच्छतामुपसंहृतशक्तीनां सर्वविकारसाम्यं सर्वशक्तिप्रलयं निस्सत्तासत्तं निस्सदसदव्यक्तलक्षणमवस्थान्तरमुपसंप्राप्तानां नास्त्यन्यत्सूक्ष्मतरमवस्थान्तरम्, यस्येदं प्रधानलक्षणमवस्थान्तरं कार्यं स्यात् तस्मात्सुष्ठूच्यते मूलप्रकृतिरविकृतिरिति महदाद्याः प्रकृतिविकृतयः सप्त महानाद्यो यासां ता महदाद्याः अवयवेन विग्रहः, समुदायः समासार्थः अन्यथा महानेवात्रापरिगृहीतः स्यात् प्रकृतयश्च विकृतयश्च प्रकृतिविकृतयः कारणानि कार्याणि चेत्यर्थः तत्र महानहंकारस्य प्रकृतिः प्रधानस्य विकृतिः अहंकारो ऽपि तन्मात्रेन्द्रियपर्वणोः प्रकृतिर्विकृतिर्महतः तन्मात्राणि च भूतपर्वणः प्रकृतिरहंकारस्य विकृतिः आह- सप्तग्रहणं किमर्थम् ? उच्यते- सप्तग्रहणमवधिपरिच्छेदार्थम् अक्रियमाणे हि सप्तग्रहणे न ज्ञायते क्रियान्प्रकृतिगणः प्रकृतिविकृतिसंज्ञो भवति तत्र महाभूतेन्द्रियपर्वणोरपि प्रकृतित्वं प्रसज्येत आह- नैतदस्ति प्रयोजनम् परिशेषसिद्धेः इह भवतां पञ्चशिखानां पञ्चविंशतिस्तत्त्वानि तत्र मूलप्रकृतिरविकृतिरित्युक्तम्, षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष इति वक्ष्यति परिशेषतः सप्तैवावशिष्यन्ते तस्मान्नार्थस्तदर्थेन सप्तग्रहणेन उच्यते- अहंकारपरिग्रहार्थम् एवं तर्हि नैवाहंकारो विद्यत इति पतञ्जलिः महतो ऽस्मिप्रत्ययरूपत्वाभ्युपगमात् तत्परिहारार्थमेतद् भविष्यति आह, न उत्तरत्र परिग्रहात् एतदस्ति नास्ति प्रयोजनम् वक्ष्यति हि महता कण्ठेनोपरिष्टादाचार्यः "प्रकृतेर्महांस्ततो ऽहङ्कार" (इस्क् 22) इति तेनैवेदं सिद्धम् नार्थस्तदर्थेनापि सप्तग्रहणेन उच्यते- रूपभेदे ऽपि तत्त्वाभेदज्ञापनार्थम् एवं तर्हि धर्मादीन्यष्टौ रूपाणि बुद्धेर्वक्ष्यमाणानि, अहंकारश्च वैकारिकतैजसभूतादिरूपत्वात् त्रिलक्षणो वक्ष्यमाणः तत्र रूपभेदात्तत्त्वभेदो मा भूदित्येवमर्थं सप्तग्रहणं क्रियते आह, हेतुमन्तरेणाप्रतिपत्तेः कण्ठोक्तमपि युक्तिमन्तरेण न तर्कशीलाः प्रतिपद्यन्ते किम्पुनः क्लेशोपपादितम् तस्मादत्र समाधिर्वाच्यः कथमनेकरूपा बुद्धिरेकैवेति ? उच्यते न, उत्तरत्र विचारणात् उत्तरत्रैतद्विचारयिष्यामः किमनेकरूपाविर्भावे ऽपि तदेव तद्वस्तु भवति आहोस्विद्रूपभेदात्तत्त्वभेदः ? तस्मादिह तावद्दृश्यतामिति सिद्धं महदाद्याः प्रकृतिविकृतयः सप्तेति षोडशकस्तु विकारः षोडशपरिमाणस्य सो ऽयं षोडशकः संघः तस्य परिमाणं संख्यायाः संज्ञासंघसूत्राध्ययनेष्विति कन्प्रत्ययः आह- कः पुनरयं षोडशक इति ? उच्यते - पञ्च महाभूतानि, एकादशेन्द्रियाणि तुशब्दो ऽवधारणार्थः आह- शक्यः पुनरयमर्थो ऽन्तरेणापि तुशब्दमवाप्तुम् कथम् ? महदाद्याः प्रकृतिविकृतयः सप्तेति ह्युपदिष्टं पुरस्तात् ततो ऽहङ्कारतमात्रपूर्वकत्वे सिद्धे सति इन्द्रियमहाभूतपर्वणोः पुनः श्रुतेर्नियमो भविष्यति तद्यथा पञ्च पञ्चनखा भक्ष्या इत्यत्र क्षुत्प्रतीकारसमर्थानां द्रव्याणामर्थादेव सर्वेषां भक्षणे सम्प्राप्ते पुनः श्रुतेर्नियमो भवति, तद्वदिदं द्रष्टव्यम् इष्टतो ऽवधारणार्थं इति चेत् स्यान्मतम् इष्टतो ऽवधारणार्थस्तर्हि तुशब्दो भविष्यति कथं नाम षोडशको विकार एवेति यथा विज्ञायते, षोडशकस्तु विकार इत्येवं मा ज्ञायीति यद्येवमस्थाने तर्हि तुशब्दः पठितः षोडशको विकारस्त्विति वक्तव्यम् अथ मतं वृत्तपरिपूरनार्थमयमस्मिन्प्रदेशे पठितस्तुशब्दो यत्र निर्दोषस्तत्रैवायं द्रष्टव्य इति एतदनुपपन्नम् कस्मात् ? असन्देहात् महदाद्याः प्रकृतिविकृतयः सप्तेत्यपदिष्टे किमिति सांशयिका भविष्यामः तस्मात्पेलवमस्य पाठे प्रयोजनं पश्यामः अथायमभिप्रायः स्यात् यद्यप्येतदर्थतः सिद्धं तथाप्ययमाचार्यः स्फुटप्रतिपत्त्यर्थमवधारणं प्रत्याद्रियते किं कारणम् ? यस्मात् विचित्राः सूत्रकाराणामभिप्रायगतयः तद्यथा भगवान् पाणिनिः न क्ये, रात्सस्येत्येवमादिष्वन्तरेण प्रयत्नमिष्टतो ऽवधारणे सिद्धे अन्यत्र अजादी गुणवचनादेव स्तौतिण्योरेव षण्यभासादित्येवमादिषु यत्नं करोति तद्वदिहापि द्रष्टव्यमिति एतदनुपपन्नम् कस्मात् ? अशक्यत्वात् सति वा पुनरवधारणार्थत्वे तुशब्दस्य कथमिवात्र शक्यमवधारणं प्रतिपत्तुम् ? यावता महाभूतानामपि शरीरादिलक्षणं कार्यमुपलभ्यत इति तत्र केचित् समाधिमाहुः शरीरादीनामनर्थान्तरभावात्पृथिव्यादीनामप्रकृतित्वम् यस्मात् किल पृथिव्यादीनां सन्निवेशविशेषमात्रं कार्यं मुष्टिग्रन्थिकुण्डलादिवन्नार्थान्तरभूतम् अत एषामप्रकृतित्वमिति एतच्चानुपपन्नम् कस्मात् ? अविशेषात् सर्वमेव हि सांख्यानां कार्यमनर्थान्तरभूतम् तत्रैतस्यां कल्पनायां सर्वतत्त्वानामप्रकृतित्वं प्रसज्येत अथैतदनिष्टं, सत्कार्यव्याघातः अन्ये पुनराहुः- अपरिणामित्वान्महाभूतानां विअकरित्वानवधारणमिति तदप्यनुपपन्नम् कस्मात् ? प्रत्यक्षोपलब्धेः प्रत्यक्षत एवोपलभ्यते महाभूतानां कलिलाङ्कुरक्षीरादिपरिणामः अनुमानग्राह्यस्तु तत्त्वान्तराणाम् तदेतदधरोत्तरं भवति तस्मादयुक्तमेतत् आह - न तर्हि इदं प्रतिपत्तव्यं षोडशको विकार एवेति ? उच्यते- प्रतिपत्तव्यम् किं कारणम् तत्त्वान्तरानुपपत्तेः इह पुरुषार्थेन हेतुना साम्यात्प्रच्युतानां गुणानां यो ऽयं महदादिर्विशेषान्तो विपरिणामः स तत्त्वान्तरोत्पत्तिनियमेन व्यवतिष्ठते न तु पृथिव्यादिभ्यस्तत्त्वान्तरोत्पत्तिरस्ति तस्मादेतेषां विकारत्वमेवेति किं चान्यत् ग्राहकान्तराभावात् यथा तन्मात्रैरारब्धेषु पृथिव्यादिषु अहंकारात्तद्योग्यं ग्राहकान्तरमिन्द्रियलक्षणमुत्पद्यते, नैवं पृथिव्यादिविकाराणां घटादीनां ग्राहकान्तरमस्ति तस्मान्न तत्त्वान्तरम् अतश्च पृथिव्यादयो विकारा एवेति किं चान्यत् प्रधाने प्रकृतिभावप्रत्यस्तमयवत्तेषु विकारभावप्रत्यस्तमयात् यथा प्रधानात्सूक्ष्मतरमवस्थान्तरं नास्तीति तत्र प्रकृतिभावस्य प्रत्यस्तमयस्तथा तेषु विकारभावप्रत्यस्तमयः तस्माद्युक्तमुच्यते षोडशको ऽयं विकार एवेति आह- पुरुषे तर्हि का प्रतिपत्तिरिति ? उच्यते- न प्रकृतिर्न विकृतिः पुरुषः इस्क्_3 पुरुषो न ह्ययमवस्थान्तरं प्रतिपद्यते नो खल्वप्यवस्थान्तरस्यावस्थान्तरं भवतीति आह- नैतद्युक्तिमन्तरेण श्रद्धीयते, तस्मादुपपाद्यतां कथमस्याप्रकृतित्वमविकृतित्वं चेति उच्यते- प्रकृतित्वानुपपत्तिः उत्तरत्र प्रतिविधानात् तस्माच्च विपर्यासादित्यत्र (इस्क् 19) युक्तिमुपदेक्ष्यामः तस्मात्तावदस्याप्रकृतित्वम् अविकृतित्वं प्रधानवत् यथा प्रधानमेवमयमपि पुरुषः क्रियमाणः कारणान्तरैरीश्वरादिभिर्नारभ्यते कस्मात् ? प्रतिषेधात् यथा कारणान्तराणि न सन्ति तथोत्तरत्र प्रतिषेधः करिष्यते पुरुषान्तरैः समत्वात् समाः सर्वे पुरुषाः न च समानां कार्यकारणभावो दृष्टः किं च निष्क्रियत्वात् शुद्धत्वाच्चैषां विपरिणामलक्षणा परिस्पन्दलक्षणा वा क्रिया विभुत्वादनुपपन्ना कस्मात् ? एषामितरेतरानारम्भकत्वात् न गुणैर्भिन्नजातीयकत्वात् इहाचेतना गुणा इत्येतत्प्रतिपादयिष्यामः यच्च येनारभ्यते तच्च तन्मयं भवति यदि गुणैः पुरुषाणामारम्भः तदा तेषामप्यचेतनत्वं स्यात्, चेतनास्तु ते तस्मान्न गुणैरारभ्यन्त इति सिद्धमेतत् किंचित्कारणमेव न कार्यम् किंचित्कारणं कार्यं च किंचित्कार्यमेव किंचिन्नैव कारणं नैव कार्यमिति चतुर्विधं कारणवृत्तं प्रतिपादितम् एतेत्प्रतिज्ञापिण्डसूत्रम् अत्र यदपदिष्टं भवद्भिरस्मिन् शास्त्रे प्रमेयमित्यवगन्तव्यम्

*kārikā 2 āha- yadyekāntātyantato 'bhāvāddṛṣṭe hetāvaparitoṣastena tarhyastyayamanyo heturubhayadoṣavarjitaḥ sa kasmānna parigṛhyate ? ko 'sāviti cet ucyate, śāstroktaḥ karmavidhiḥ sa hyaikāntikaḥ katham ? evaṃ hyāha - paśubandhena sarvāṃllokān jayati na tūktaṃ kadācijjayati, kadācinneti phalasya pratyakṣānupalabdheranaikāntikatvamiti cet, syānmatam pratyakṣata evedaṃ vihitasya karmaṇaḥ phalaṃ nopalabhyate tathā hi putrakāma iṣṭiṃ nirūpya duhitaramapi na prāpnoti arthakāmaśca karma kṛtvā māṣakamapi na labhate tasmānnāyamanaikāntika iti etacca naivam kasmāt ? sādhanavaikalyāttadanupapatteḥ anekasādhanasādhyo hi karmavidhiḥ yatra phalaṃ nopalabhyate tatra sādhanavaikalyamanumātavyam kasmāt ? na hyetadiṣṭaṃ, sati kāraṇe kāryaṃ na bhavati kiṃ cānyat, saṃsārābhāvaprasaṅgāt yadi khalvapi karmaṇaḥ phalavattvaṃ neṣyate tena tannimittasya saṃsāsarasyābhāvaprasaṅgaḥ aniṣṭaṃ caitat tasmātsiddhamasyaikāntikatvam ātyantikatvamapi siddhameva yasmādāha apāma somamamṛtā abhūmeti atra somapānādamṛtatvāvāptiḥ śrūyate tasmāttadevānuṣṭhātavyam kimanyena hetunā parikalpiteneti jijñāsāpārthaiveti ucyate dṛṣṭavadānuśravikaḥ anuśrūyate ityanuśravaḥ anuśrave bhava ānuśravikaḥ dṛṣṭena tulyaṃ vartate dṛṣṭavat kimasāvanabhipreta iti vākyaśeṣaḥ āha kaḥ punarayamanuśravaḥ ? ucyate- mantrabrāhmaṇaṃ yāvadvā purātanamanuśrūyamāṇaṃ prāmāṇyenābhyupagamyate tatrabhavadbhiḥ yathāśrutinibandhanāḥ smṛtayaḥ aṅgāni vedāstarkā vā yathāha vedavedāṅgatarkeṣu vedasaṃjñā nirucyate iti āha, kiṃ pūrvasmādeva hetorayamānuśraviko heturanabhipreta iti ? netyucyate kintarhi sa hyaviśuddhikṣayātiśayayuktaḥ iti sa ityānuśravikasya hetoḥ pratinirdeśaḥ hiśabdo yasmādarthe aviśuddhiśca kṣayaścātiśayaśca tairyuktaḥ etaduktaṃ bhavati yasmādayamānuśraviko heturaviśuddho 'nityastāratamyavāṃścāto dṛṣṭa ivānabhipretaḥ tatrāviśuddhiyuktastāvat hiṃsāvidhānāt yadāha brāhmaṇe- brāhmaṇamālabhetetyādi tathā- ṣaṭśatāni niyujyante paśūnāṃ madhyame 'hani aśvamedhasya vacanādūnāni paśubhistribhiḥ iti hiṃsā cāviśuddhiḥ prāṇināmiṣṭaśarīravyāpādanāt āha, tadanupapattiḥ śāstracoditatvāt yadi śāstreṇa coditeyaṃ hiṃsā na syāt muktasaṃśayamaviśuddhitvamasyāḥ pratipadyāmahe, śāsracoditā tu tasmānneyamaviśuddhiḥ tatprāmāṇyānabhyupagamādaviśuddhiriti cet syānmatam, vedaprāmāṇyamabhyupagacchatāmasaṃśayametadevaṃ syāt hetuvādakuśalāstu vayam tasmādadhīyatāṃ yadi kaścidastyubhayapakṣaprasiddho hetuḥ yato nissaṃśayaḥ pratyayaḥ syāditi etaccāyuktam kasmāt ? abhyupagamavirodhāt dṛṣṭamanumānamāptavacanaṃ ceti prāmāṇyatrayamabhyupagataṃ bhavadbhiḥ idānīṃ vedasyāptavacanatve satyaprāmāṇyaṃ bruvataḥ svamatavyāghātaḥ tasmādayuktametat vedasyāptavacanatvānupapatteradoṣa iti cetsyānmatam āptavacanatvaṃ prākprasādhyāsya vedasya paścāt ayamupālambho yuktamabhidhātuṃ syāt tattvasiddham tasmādanupālambho 'yamiti etadapyuktam kasmāt ? puruṣabuddhipūrvakatve sati rāgādiyogācchabdo vicārārhaḥ syāt kimāptavacanaṃ na veti apuruṣabuddhipūrvakastvāmnāyaḥ svatantraḥ puruṣaniśśreyasārthaṃ pravartate tasmānnaivaṃvidhamaniṣṭaṃ vicāramarhati kiṃ cānyat aviśuddhitvānupapattiprasaṅgāt yadi caitasminnarthe bhavānapi paryanupayujyeta - kathamidaṃ niścīyate yaduta prāṇināmiṣṭaśarīravyāpādanādaviśuddhihiṃseti ? avaśyamabhidhānīyaṃ śāstrata iti tadeva ca śāstraṃ kratau hiṃsāmāha tasmāt ko 'tra hetuḥ anyatra pramāṇamihaivaitadapramāṇaṃ bhavitumarhati hiṃsāto dharma iti ? anugrahopaghātalakṣaṇatvādahiṃsāhiṃsayoḥ pratyakṣasiddhiriti cet - athāpi syāt ahiṃsātaścānugraho bhavatīṣṭaśarīravyāpādanalakṣaṇaḥ, hiṃsātaścopaghāto bhavati abhipretaśarīravyāpādanalakṣaṇaḥ kriyānurūpaṃ ca phalamanumātuṃ yuktamiti pratyakṣasiddhamanayoriṣṭāniṣṭaphalahetutvam tasmāt ko 'tra śāstravyāpāra iti ? etaccānupapannam kasmāt ? aniṣṭaprasaṃgāt evaṃ hi parikalpyamāne gurubhāryāgamane 'pi sattvāntarānugrahasāmarthādiṣṭaphalasambandhaḥ syāt māṇavakaṃ copanīya vratādeśaśaucabrahmacaryyasvādhyāyābhyāsabhaikṣāgniparicaraṇaguruśuśrūṣādiṣu pravartayato 'niṣṭaphalasambandhaḥ syāt tasmāllokaśāstraviruddho 'sattarko neṣṭa iti ubhayābhidhānācchāstravirodhaprasaṅga iti cet syānmatam tadeva śāstramahiṃsāmāha, tadeva hiṃsām evaṃ sati parasparaviruddhayorarthayoścoditatvādubhayānugrahāsambhave śāstravirodhaprasaṅga iti tacca naivam kasmāt ? utsargāpavādayorviṣayabhedāt sāmānye hi śāstramahiṃsāmutsṛjya viśeṣe kratulakṣaṇe 'pavādaṃ śāsti sāmānyavihitaṃ ca viśeṣavihitena bādhyate tadyathā - dadhi brāhmaṇebho dīyatāṃ takraṃ kauṇḍinyāyeti tasmādutsargāpavādayorviṣayabhedānnāsti śāstravirodha iti kiṃ cānyat kanyāgamanavat punarvidhāne doṣābhāvāt yathā khalvapi śāsre pratiṣiddhaṃ kanyāgamanamiti nedānīmabhirūpaḥ pratigṛhya, tāmabhigamyādharmabhāgbhavati gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrvikām iti śāstrāntarasadbhāvāt evaṃ śāstre pratiṣiddhā hiṃsā nedānīṃ kratau hiṃsāyāṃ pravartamāno 'niṣṭaphalabhāk syāt pūrvoktādeva śāstrāntarasadbhāvāt tara yaduktaṃ prāṇināmiṣṭaśarīravyāpādanādaviśuddhirhiṃsetyetadayuktam ucyate - na, abhiprāyānavabodhāt citramapi bahvetadabhidhīyamāno nābhiprāyaṃ veda bhavān kiṃ kāraṇam ? yasmānna vayaṃ vedasya prāmāṇyaṃ pratyācakṣmahe no khalvapi brūmaḥ śāstracoditāyāṃ hiṃsāyāṃ pravartamānasyāniṣṭaphalasambandho bhavati kintarhi sati svargaprāptinimittatve vedavihitasya karmaṇaḥ samanuṣṭhānaṃ …

Section (cont. 5)

… prāṇijamupaghātamantareṇa na sambhavati iti hitakāmairabhyupekṣyate yasmāt na hyetaduktaṃ yadanyeṣāmupaghātenātmānugrahaḥ kārya iti āha - na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ eṣa saṅkṣepato dharmaḥ kāmādanyaḥ pravartate āha yadyetannābhyupagamyate kathaṃ pūrvamuktaṃ prāṇināmiṣṭaśarīravyāpādanādaviśuddhirhiṃseti ? ucyate kārye kāraṇopacārāt yo 'sau hiṃsānimittakaḥ kāruṇyān manasi naḥ paritāpa utpadyate sā khalvaviśuddhirabhipretā tasyāṃ kāraṇamupacaryoktamaviśuddhirhiṃseti yathā mudgaistṛptāḥ gobhiḥ sukhina iti āha kathametadavagamyate hiṃsākāryaṃ paritāpamātramaviśuddhirācāryasyābhipretā, na punarhiṃsaiveti ? ucyate, prakarṣapratyayopalabdheḥ vakṣyatyupadiṣṭāt tadviparītaḥ śreyāniti (isk 2) samānajātīyaṃ ca pratiyoginamapekṣya prakarṣapratyaya utpadyate yadi cānuśravikasya praśasyatā nābhipretā syāt prakarṣapratyayānupapattiprasaṅgaḥ tasmānnotsūtrametat āha, sannyāsānupapattiḥ aviyogaśravaṇāt na hi karmaṇo 'tyāgasannyāsayostvamīśiṣe kintarhi śāstraṃ yadāha tadavaśyaṃ kartavyam taccāmaraṇāt karmabhiraviyogaṃ śāsti kasmāt ? evaṃ hyāha- "jarāmaryametat satraṃ yadagnihotradārśapaurṇamāsau, jarayā ha etasmāt satrādvimucyate, mṛtyunā ca " punarapyāha "kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ " tasmādāmaraṇāt karmaṇāmatyāgaḥ tasmin sati hetvantarakarmaṇāmānarthakyam ucyate, na, sādhanānāmasvabhāvikatvāt patnīsaṃyogādibhiranekaiḥ sādhanairayaṃ karmavidhiḥ prasādhyate teṣāṃ cāsvābhāvikatvāt aśakyamarjanaṃ prayogataḥ pūrvaṃ kartumiti pratipāditam tasmādanityāni karmāṇi hetuśāstravipratipattau śāstrabalīyastvamiti cet syānmatam yatra hetuśāstrayorvipratipattirbhavati tatra vipralambhabhūyiṣṭhatvādanumānasya balīyaḥ śāstramityavaśayamabhyupagantavyamiti taccānupapannam kasmāt ? śaktito viniyogāt śaktimapekṣya śāstramagnihotrādīni karmāṇi vidadhatteṣāmanityatāṃ jñāpayati katham ? evaṃ hyāha, "yo 'laṃ sannagnihotrāyāgnihotraṃ na juhoti tameṣā devatāparuṇaddhyasmāllokādamuṣmāccobhābhyām " tasmādanityāni karmāṇi kiṃ cānyat jarāgrahaṇasāmarthyāt tvadīya eva jñāpake jarāgrahaṇamasti ato 'numīyate śaktyapekṣamanityaṃ ca karma kiṃ cānyat śāstrahāneḥ ubhayaṃ hi śāstre nirdiṣṭam karmāṇi sannyāsaśca yadi punaḥ karmāṇi nityakartavyatayeṣyante tena sannyāsaśāstraṃ hīyate tasmādviṣayarāgāviṣkaraṇametadvaḥ āha, na, śrutibalīyastvāt tulyabalayorhi śāstrayorekaviṣayasannipāte dvayoryugapadanugrahāsambhave vikalpaparyāyau bhavataḥ śrutismṛtisannipāte ca śrutirbalīyasī, smṛtivihitaśca sannyāsaḥ tasmānnānayorvikalpaḥ na khalvapi paryāyo nyāyyaḥ ucyate- taditaratra tulyam yathaiva karmaṇāṃ samanuṣṭhānaṃ śāsti śāstraṃ tathā sannyāsamapi katham ? evaṃ hyāha- na karmaṇā na prajayā dhanena tyāgenaikenāmṛtatvamānaśuḥ pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti tathā- na karmaṇā mṛtyumṛṣayo niṣeddhuḥ prajāvanto draviṇamicchamāṇāḥ athāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvamānaśuḥ brāhmaṇaṃ cātra bhavati- "tadya idaṃ viduḥ, ye ceme 'raṇyāḥ śraddhātapa ityupāsate te 'rciṣamabhisambhavanti arciṣo harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅḍeti māsāṃstānmāsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo 'māṇavaḥ sa etān brahma gamayati " punarapyāha- "etameva viditvā munirbhavati, etameva pravrājino lokamicchantaḥ pravrajanti etaddha sma vai pūrve vidvāṃsaḥ prajāṃ nākāmayanta, prajayā kiṃ kariṣyāmo yeṣāṃ nāyamātmā nāyaṃ loka iti te ha sma putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ carantīti " tasmādete tyāgasannyāsayorubhayorliṅgam āha - yadyapyevaṃ śāstraṃ tathāpi samanuṣṭhāne vidhirasti vihitaṃ cāvaśyaṃ kartavyam sannyāse tvarthavādamātramityanayorayaṃ viśeṣaḥ tasmin sati samanuṣṭhānaṃ jyāyo na tyāgaḥ ucyate- ko 'yaṃ vidhiḥ, ko 'yamarthavādaḥ ? āha- vidhistadarthatvenāpūrvopadeśaḥ yo hi vidhyarthena liṅā loṭā kṛtyairvāpūrvopadeśaḥ kriyate sa vidhiḥ yathā- agnihotraṃ juhuyāt svargakāmaḥ vāyavyaṃ śvetamajamālabheta bhūtikāma iti stutirarthavādaḥ tasya tu vihitasya prarocanārthaṃ yā stutiḥ so 'rthavādaḥ tadyathā- "vāyurvai kṣepiṣṭhā devatā vāyumeva tena bhāgadheyenopadhāvati, sa evainaṃ bhūtiṃ gamayati" iti evaṃvidhāṃ hi stutimupaśrutya phalārthine hi yajamānāya vidhiḥ prarocate etasmin hitakāmaḥ pravartate iti ucyate- na, ata eva sannyāsasiddhiḥ evaṃ cenmanyase yamāmnāyaḥ śreyāṃsamarthaṃ manyate, taṃ prarocanāya stauti tathā sannyāsasiddhiḥ kasmāt ? stutatvāt bahulārthināṃ sannyāsamāmnāyaḥ stauti sa kasmānna prarocate ? itarathā hyānarthakyam yadi khalvapyarthavādaḥ stuvannapi na prarocayet yaduktaṃ prarocanārtho 'rthavāda iti tadbhavadbhirhāpitavyaṃ syāt anarthako hyevaṃ satyarthavādo na prarocanārthaḥ arthāntaravacanaṃ vā yadi prarocanārthatvamasya neṣyate tena tarhyarthāntaraṃ vaktavyam mā bhūdanarthakatvaṃ vedaikadeśasyeti tasmānnānayā vibhīṣikayā vayaṃ śakyāḥ sanmārgādapanetum kiṃcānyat ubhayathā vikalpe 'niṣṭaprasaṅgāt ihāyamāmnāyo vidheyatvena vā sannyāsaṃ stūyāt avidheyatvena vā kiṃcātaḥ ? tadyadi tāvadvidheyatvena stauti kimanyadvicāryate ? siddhaḥ sannyāsaḥ atha vidheyatvena, stutāvasya prayojanaṃ kartavyam yaddhi kartavyatayā neṣṭaṃ tadapuruṣabuddhipūrvakaḥ svatantraḥ puruṣaniśśreyasārthaṃ pravartamāna āmnāyaḥ kimiti prarocayeta ? tasmādetāmapi kalpanāṃ kṛtvā kṛśamevaitat athavobhathā vikalpa ityasyāyamanyo 'rthaḥ ihāyamāmnāyo bhūtārthena vā sannyāsaṃ prarocayet abhūtārthena vā ? kiṃ cātaḥ ? tadyadi tāvadbhūtārthena prarocayati tathā satyamṛtatvaprāpakasya sannyāsasyāparigrahe viṣayārāgādanyo heturvaktavyaḥ athābhūtārthena, puruṣo niḥśreyasāddhīyate kasmāt ? na hyetadyuktaṃ yadaśreyasi mārge pramāṇabhūta āmnāyo mātṛmodakanyāyenehitārthinaḥ prāṇinaḥ pratārayet tasmādayuktametat kiñcānyat anekāntāt nacāyamekānto yadvihitameva kartavyam tathā ca śābarāḥ paṭhanti grāmagamanaṃ bhavataḥ śobhanamityatrāntareṇa vidhiṃ stutireva devadattaṃ grāmagamanāya prarocayatīti kiñcānyat, āśaṅkāprasaṅgāt yadi khalvapi kiñcit satyaṃ kiñcidanṛtaṃ brūyādvedaḥ tathā sati pauruṣeyavākyavadvedavākye 'pi āśaṃkā prasajyeta tathā ca sati yaduktameva prasaṃgaḥ aniṣṭaṃ caitat kiṃ ca vidhyanumānaṃ vā tat, evamekadeśabhūtatvāt athavā vidhyekadeśo 'rthavāda ityatisṛṣṭaṃ bhavatā tatra sannyāse 'rthavādamupalabhya vidhirapyastīti anumātavyam anupalambhādadoṣa iti cet syāccaivaṃ yadyasau vidhirupalabhyate tasmādanupalambhādayaṃ doṣānnivartiṣyata iti etaccānupapannam kasmāt ? anekabhedatvāt upalabdhau yatnaḥ kriyatām anekabhedo hi prativedamāmnāyaḥ tatra yaduktaṃ vidhisadbhāvāt kriyāprādhānyamityetadapyayuktam itikartavyatānupadeśāt sannyāsānupapattiriti cet- athāpi syādyadi sannyāsamapyāmnāyo vidheyaṃ manyeta tena yathā gārhasthyasyetikartavyatāṃ bhāryodvahanādikāṃ mantravadupadiśati tathā sannyāsamapyupadiśet na tūpadiṣṭavān tasmānnāsti sannyāsa iti etadapyayuktam kasmāt ? abhāvāt itikartavyatānāṃ hi sarvāsāmabhāvaḥ sannyāsaḥ tatra kiṃ śāstramupadekṣyati ? yāvatī khalvitikartavyatā sannyāsāṅgaṃ tāmupadiśati śāstram katham ? evaṃ hyāha- "tapaḥśraddhe ye hyupavasanti araṇye śāntā vidvāṃso bhaikṣacaryā carantaḥ sūryadvāreṇa te virajasaḥ prayānti yatrāmṛtaḥ sa puruṣo 'vyayātmā " tatra tapaḥśraddhe ye hyapavasantītyenaṃ śraddhayopetaṃ yamaniyamalakṣaṇaṃ dharmamāha araṇya iti gṛhebhyo vinissṛtim śāntā itīndriyāṇāmantaḥkaraṇasya ca viṣayābhilāṣādvinivartanam vidvāṃsa iti pūrvarātrāpararātrādiṣu kāleṣvanirviṇṇasya yogino jñānābhyāsam bhaikṣacaryāṃ caranta iti śarīrasthitinimittaṃ parimitamabhyavahāraniyogam uttarārdhena ca phalamācaṣṭe tannibandhanaśca vistaraḥ sanyāsetikartavyatāyāṃ manvādibhirabhihitaḥ śrutinirvacanāśca smṛtayo bhavatāṃ pramāṇamiti pakṣaḥ tatra yaduktamitikartavyatānupadeśānnāsti sannyāsa ityedayuktam evaṃ ca nityāni karmāṇi yattvanenaitaduktamānuśraviko heturanaikāntika iti satyametat avaśyaṃ hi karmaṇaḥ phalamabhyupagantavyam itarathā hi tannimittasya saṃsārasyābhāvādaniṣṭaprasaṅgaḥ tasmādaniṣṭāmevaitadācāryasya āha, kathametadanumātavyamiti ? ucyate, kṣayagrahaṇasāmarthyāt yadi pūrvasūtroktamihānuvartate kṣayagrahaṇamanarthakaṃ syāt kasmāt ? atyantābhāvaparyāyo hi kṣaya iti kṛtvā evaṃ siddho 'viśuddhiyogaḥ āha, kṣayayoga idānīṃ kathamanumātavya iti ? ucyate - kṣayayogo 'ṅgaparimāṇāt kṣayayogaḥ punarasya hetoraṅgaparimāṇādveditavyaḥ yāni hi yajeraṅgāni paśupuroḍāśādīni tāni parimitāni parimitānāṃ sādhanānāṃ tantvādīnāṃ parimitaṃ kāryaṃ paṭādi dṛṣṭam parimitaṃ kṣayadharmi dṛṣṭam tadvadeva kiñcānyat saṃsāropalambhāt dṛśyate cāyaṃ vāgbuddhisvabhāvāhāravihārabhedabhinnakarmavihāravaicitryanimittaḥ saṃsāraḥ yadi punaḥ sākṣāt kṛtaṃ karmākṣayaphalaṃ syāt sa punarāvṛttyabhāvāt prāṇināṃ nopalabhyeta śabdasāmarthyānnityatvamiti cet syādetat "śabdapramāṇakā vayaṃ,yacchabda āha tadasmākaṃ pramāṇam " sa cāsya hetoramṛtatvamāha "tarati mṛtyuṃ, tarati pāpmānamityādi" tasmādanicchatāpyetadavaśyamabhyupagantavyam anabhyupagame vā pratijñāhānirvedaḥ pramāṇamiti etacca naivam kasmāt ? śabdāntareṇa virodhāt anityatvamasya hetoḥ śabdo 'numanyate tasyaivaṃ sati virodhaḥ prāpnoti katham ? evaṃ hyāha- "atha ye ime grāme iṣṭāpūrte dattamityupāsate, athaitamevādhvānaṃ punarnivartante yathaitamākāśaṃ ākāśādvāyum te dhūmamabhisambhavanti dhūmo bhūtvābhraṃ bhavati megho bhūtvā pravarṣati ta iha vrīhiyavā oṣadhivanaspatayastilā māṣā iti jāyante tato vai yo 'nnamati yo retaḥ siñcati sa bhūya eva bhavatīti " tatra yaduktaṃ śabdasāmarthyānnityatvamityedayuktam ubhayathābhidhānācchāstravirodhaprasaṅga iti cet syānmatam tadeva śāstraṃ nityatvamāha tadevānityatvam evaṃ sati parasparavirodhinorarthayoścoditatvāt ubhayānugrahāsambhave sati śāstravirodhaprasaṅga iti tacca naivam kasmāt ? asambhave satyarthāntaraklṛpteḥ yatra hi pramāṇabhūtā śrutirasambhavinamarthaṃ codayati, tatrārthāntaraṃ kalpayati tadyathā- "sa ātmano vapāmudakhidat" "stenaṃ manaḥ" "anṛtavādino vāg" ityevamādiṣu evamihāpi nāsti sambhavaḥ yadeko 'rtho nityaśca syādanityaśceti tasmānnityatvavācakasya śāstrāntarasya bhaktyārthāntaraṃ parikalpayiṣyāmaḥ tadvaditaratrāpīti cet syānmatam- yathaiva bhavatā nityānityayorekatrāsambhavānnityatvasya bhaktyā kalpanā kṛtā tathaivānityatvasyāpi kariṣyata iti etaccāyuktam kasmāt ? sarvapramāṇavirodhaprasaṅgāt vināśe hi bhaktyā kalpyamāne sarvapramāṇavirodhaḥ prasajyeta katham ? pratyakṣavirodhastāvat saṃsāropalambhāt anumānavirodhaḥ aṅgaparimāṇe satyaṅgino nityatvānupapatteḥ śabdavirodhaḥ te dhūmamabhisambhavantīti vacanāt na tu nityatve bhaktyā kalpyamāne doṣo 'yamupadyate tasmādviṣametat āha, kathamidānīṃ bhaktyā kalpayitavyaṃ śāstramiti ? ucyate, prakṛṣṭārthatayā yathā khalvapyamṛtaṃ vā mṛtamatijīvo mā te hāsiṣurasavaḥ śarīramityabhidhīyate na ca prāṇināmatyantāyāsavo jahati, kintarhi prakṛṣṭaṃ kālam evamihāpyucyate tarati mṛtyumiti nātyantāya mṛtyuṃ tarati, kintarhi prakṛṣṭaṃ kālam upacaryate hi loke prakṛṣṭe nityaśabdaḥ tadyathā nityaprahasito nityaprajalpita iti evaṃ siddhaḥ kṣayayogaḥ āha, atiśayayoga idānīmasya hetoḥ kathamanumātavya iti ucyate- atiśayayogaḥ kriyābhyāsāt yatra hi kriyā sakṛt pravartate yatra cāsakṛdāvartate tatrātiśayo dṛṣṭaḥ tadyathā kṛṣyādiṣu yajñe ca dravyopādānaśaktyapekṣā kvacit sakṛdeva pravṛttiḥ, kvacit punaḥpunarāvṛttiḥ tasmādatiśayena bhavitavyam kiṃ cānyat aṅgātiśayāt ihāṅgānāmatiśayādaṅgino 'pi ghaṭāderatiśayo dṛṣṭaḥ asti cāyaṃ pratiyajñamaṅgānāṃ dakṣiṇādīnāmatiśayaḥ tasmādatrāpyatiśayena bhavitavyam devatāṅgabhāvagamanāt kṣayātiśayānupapattiriti cet- athāpi syāt yo hi yajñe dravyamātrasya sādhanabhāvamanumanyate taṃ prati kṣayātiśayadoṣāvaparihāryau syātām vayantu dravyasamavāyinīṃ devatāṃ kratāvaṅgabhāvamupagacchantīṃ vidmaḥ tasmādadoṣo 'yamiti taccānupapannam kasmāt ? sādhyatvāt devatānāmaparimitatvaṃ sādhyam tadaṅgabhāvagamanācca doṣābhāvaḥ na cātmakriyāṅgatvamudāsīnatvāt iti naḥ siddhāntaḥ tasmādayuktametat upetya vā kratusamanuṣṭhānānarthakyaprasaṅgāt yadi dravyasamavāyinīṃ devatāmupalabhya tadaṅgabhāvagamanādakṣayo niratiśayaśca heturavāpyate itīṣṭaṃ vaḥ, tena tarhi yadvā tadvā vedoktaṃ karma kṛtvā śakyo 'vāptumarthaḥ kiṃ prāṇivināśahetubhiḥ kratubhiḥ ? katham ? na hi kiṃcitkarma vidyate yatra śarīrasyāṅgabhāvo na syāt sarvadevatāmayaṃ ca śarīraṃ yasmādāha tasmādvai vidvānpuruṣamidaṃ brahmeti manyate sarvā hyasmin devatāḥ śarīre 'dhi samāhitāḥ tatra yaduktaṃ devatāṅgabhāvagamanāt kṣayātiśayānupapattirityetadayuktam evamayaṃ hetustridoṣaḥ tena yaḥ phalaviśeṣo 'bhinirvartyate so 'pi tathājātīyaka iti śakyamanumātum tasmānnāsya jijñāsoratra samādhiḥ āha, yadi nāyaṃ śreyāniti kṛtvāsya jijñāsornātra samādhiḥ tena tarhi yaḥ śreyān phalaviśeṣaḥ sa upadeṣṭavaya iti ucyate- tadviparītaḥ śreyān tadityanena karmavidhiniṣpāditasya svargaprāptilakṣaṇasya phalasyābhisambandhaḥ tasmādviparītaḥ śuddho 'kṣayo niratiśaya ityarthaḥ ko 'sāvityucyate mokṣaḥ śreyān etaduktaṃ bhavati ubhāvapyetau praśasyau svargāpavargau, āmnāyavihitatvāt mokṣastu praśasyataraḥ kasmāt ? yathoktadoṣānupapatteḥ sa hyavaśyaṃbhāvitvādaikāntikaḥ atīndriyatvādasaṃvedyaḥ svātmanyavasthitvāllaghuḥ sarvatra sannihitaśca āmnāyastutatvātpraśastaḥ sadbhirāsevitatvādaninditaḥ yamaniyamavairāgyajñānābhyupāyaśuddherviśuddhaḥ adravyatvādakṣayo niratiśayaśca āha, kathaṃ punarayamapavargaḥ prāpyata iti ? ucyate, saṃyogābhāvāt duḥkhaṃ ca pradhānam tathā ca tantrāntareṣvapyuktam- duḥkhahetuḥ kāryakaraṇaśaktiriti tena yadā puruṣasya saṃyogastadāviśuddhitvamasya svaśaktiviśeṣayogātteṣu teṣu jātyantaraparivarteṣu dharmādinimittasāmarthyādāyāsamanubhavati yadā tu pradhānasaṃyogo vinivartate tadā nimittābhāve naimittikasyāpyabhāva iti kṛtvā na punardvandvānyanubhavati āha, kimarthaḥ punarayaṃ pradhānasya puruṣeṇa saha saṃyogaḥ ? ucyate, naitadihābhidhānīyam vakṣyatyayamupariṣṭādācāryaḥ "puruṣasya darśanārthaḥ, kaivalyārthastathā pradhānasya paṅgvandhavadubhayorapi saṃyoga iti" (isk 21) āha, viyogastarhi kasmānnimittād bhavatīti ? ucyate - vyaktāvyaktajñavijñānāt isk_2 vyaktaṃ cāvyaktaṃ ca jñaśca vyaktāvyaktajñāḥ teṣāṃ vijñānaṃ vyaktāvyaktajñavijñānaṃ tasmāt bahuṣvaniyamādalpāco 'pi jñaśabdasya na pūrvanipātaḥ athavā jñānasya sādhakatamaṃ vyaktam tatpūrvakatvādavyaktasamadhigamasyetyabhihitam yadvā vyaktaṃ ca avyaktaṃ ca te vyaktāvyakte, te vijānāti iti vyaktāvyaktajñaḥ, tadvijñānāt saṃyogo nivartate vakṣyati caitat, "dṛṣṭā mayetyupekṣata eko dṛṣṭāhamityuparamatyanyā" iti (isk 66) tatra rūpapravṛttiphalalakṣaṇaṃ vyaktam rūpaṃ punaḥ mahānahaṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni sāmānyataḥ pravṛttirdvividhā hitakāmaprayojanā ca, ahitapratiṣedhaprayojanā ca viśeṣataḥ paṃca karmayonayo vṛttyādyāḥ prāṇādyāśca pañca vāyavaḥ phalaṃ dvividham dṛṣṭamadṛṣṭaṃ ca tatra dṛṣṭaṃ siddhituṣṭyaśaktiviparyayalakṣaṇam adṛṣṭaṃ brahmādau stambaparyante saṃsāre śarīrapratilambha ityetad vyaktam eṣāṃ guṇānāṃ sattvarajastamasāmaṅgāṅgibhāvagamanādviśeṣagṛhītiḥ yadā tvaṅgabhāvamagacchanto nirlikhitaviśeṣā vyavatiṣṭhante tadāvyaktamityucyante cetanāśaktirūpatvāccitraṃ guṇavṛttaṃ jānātīti jñaḥ eṣāṃ trayāṇāṃ bhedamabhedaṃ ca vijñāya saṃyoganivṛttiṃ labhate kasmāt ? saṃyoganimittapratidvandvibhūtatvādyoganimittasya iha yadādarśananimittaḥ pradhānapuruṣayoḥ saṃyogaḥ tasmādasya pratidvandvibhūtena jñānena viyogahetunā bhavitavyam ko dṛṣṭāntaḥ ? tamaḥprakāśavat yathā tamasā tirohitāni dravyāṇi ghaṭādīni nopalabhyante, tatpratidvandvibhūtena tu pradīpena prakaśitānāmeṣāmupalabdhirbhavati tadvadihāpi draṣṭavyamiti siddhaṃ jñānānmokṣaḥ uktaṃ ca- vṛkṣāgrāccyutapādo yadvadanicchannaraḥ patatyeva tadvad guṇapuruṣajño 'nicchannapi kevalī bhavati kiṃ cānyat āmnāyābhihitatvāt āmnāyanibandhano hyayamartho jñānānmokṣa iti, na yādṛcchikaḥ katham ? evaṃ hyāha- "satyaṃ jñānamanantaṃ brahma yo veda nihitaṃ guhāyāṃ parame vyoman so 'śnute sarvān kāmān saha brahmaṇā vipaścitā " "yato vāco nivartante aprāpya manasā saha ānandaṃ brahmaṇo vidvān na bibheti kutaścana " "tameva viditvāmṛtatvameti nānyaḥ panthā ayanāya vidyate " tathā brāhmaṇe 'pyuktam "tarati śokamātmavit " "brahmavid brahmaiva bhavatīti " tasmādāmnāyaprāmāṇyādapi manyāmahe jñānānmokṣa iti āha, jñānavācino 'mṛtatvanimittābhyupagamānmahata āmnāyāntarasyānarthakyam yadi jñānavācina āmnāyakhaṇḍakādamṛtatvamavāpyata ityetadabhyupagamyate, tena kriyāvācino mahata āmnāyāntarasyānarthakyaṃ prāptam kiṃ kāraṇam ? na hyanāyāseneṣṭāvāptau satyām āyāsabhūyiṣṭhe karmaṇi pravartamānaḥ kṛtī bhavatīti āha ca - akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet iṣṭasyārthasya saṃprāptau ko vidvān yatnamācaret ucyate- yadi punaḥ karmāṇyatyantakartavyatayeṣyante, jñānavācina āmnāyasya kathamarthavattā siddhā bhavati ? āha, samuccaye tūbhayārthavattvam jñānakarmaṇostu samuccaye 'bhyupagamyamāne dvayorapyāmnāyārthavattā siddhā bhavati vidvān yajeta vidvān yājayediti vacanāt, tathā sarvapuruṣāṇāṃ kratāvadhikāraḥ aśrotriyaṣaṇḍhaśūdravarjamitinyāyāt tasmājjñānakarmaṇoḥ samuccayādiṣṭaprasiddhiḥ ucyate- na, pūrvadoṣāparihārāt yadi niyamato viduṣaiva karmāṇi kartavyānītyabhyupagamyate tena yaḥ pūrvokto doṣaḥ saṃsārābhāvaprasaṅgaḥ, tasyāparihāraḥ kiṃ ca śāstrahāneśca yaśca śāstramiṣṭāpūrte samupāsyate te dhūmamabhisaṃbhavantīti tadetasyāṃ kalpanāyāṃ hīyate kiṃ cānyat- bhinnaphalatvāt ihābhinnaphalāni dravyāṇi samuccīyante tadyathā bhujyaṅgāni sūpādīni abhinnaṃ teṣāṃ tṛptilakṣaṇaṃ phalamiti na caitajjñānakarmaṇorabhinnaṃ phalam svargāpavargahetutvāt jñānasāmarthātkaivalyamabhinnaṃ phalamiti cet pūrveṇāviśeṣaḥ yaduktaṃ saṃsārābhāvaprasaṃga iti tadanapahṛtameva bhavati kiṃcānyat- śrūyamāṇaphalavirodhaśca yacca kriyāyāḥ phalaṃ śrūyate agnihotraṃ juhuyāt svargakāmo, rāṣṭramagniṣṭomena jayatīti tadvirudhyate karmaṇaśca śeṣabhāvaḥ svārthopasarjanatve satyarthāntaraniṣpādakatvāt yathāvahantītyevamādyāḥ kriyāḥ svaṃ phalamupasarjanīkṛtya taddvāreṇa yajerupakurvantyastaccheṣabhūtā bhavanti evaṃ kriyāpi jñānaphalabhūtatvāttaccheṣabhūtā syāt vidhisadbhāvāt kriyāprādhānyamiti cenna- uktatvāt kathametat ? nāsti vidhikṛto viśeṣaḥ upetya vā tatrāpi tadutpatteḥ asti hi jñānasyāpi vidhāyakaṃ śāstram katham ? evaṃ hyāha- "ya ātmāpahatapāpmā vijighatso vipipāso vijaro vimṛtyurviśokaḥ sannyastasaṃkalpaḥ so 'nveṣṭavyaḥ sa jijñāsitavyaḥ sarvāṃśca kāmānavāpnoti ya ātmānamanuvidya vijānātīti" prajāpatervacanaṃ śrūyate punarapyāha- "dve vidye veditavye parā caivāparā ca" yā tasmādvidhisadbhāvātkriyāprādhānyamiti svapakṣānurāgamātrametat dṛṣṭārthatvādityeke eke punarācāryā manyante dṛṣṭameva jñānasyājñānanivṛttilakṣaṇaṃ phalaṃ tasmānna śāstreṇa vidhīyate kiṃ kāraṇam ? dṛṣṭārthasya hi karmaṇo na śāstraṃ prayojakam svayamevārthitatvāttatra pravṛtterbhujyādivat teṣāṃ jñānavidhāyakāni vākyāni tānyupāyaguṇavidhānārthamanuvādabhūtānyāśrīyante tadyathā dadhnā juhoti, payasā juhotīti yattu khalvidamucyate vidvānyajeta, vidvān yājayet, śrotriyasya ca karmaṇyadhikāra iti tasyāmayamarthaḥ- adhītya vedaṃ kriyānupūrvo ca jñātvā karmaṇi pravartitavyam evaṃ ca sati na kaściddoṣaḥ yadi punarniyamata evātmavidhāṃ karmaṇyadhikārastena saṃsārābhāvaprasaṃgaḥ svābhāvikatvāt vijñānasya śāsrasya sarvādhikāravirodhaḥ tasmānnāsti samuccayo jñānakarmaṇoḥ apara āha- satyam nāstyanayoḥ samuccayaḥ kintarhi sarvārthā kriyā jñānaṃ pratiṣiddhārtham ye hi ṣaṇḍhāndhavabadhirādayaḥ karmaṇo 'tyantaṃ nirākṛtāsteṣāṃ jñānādāśramāntare 'mṛtatvāvāptiḥ itareṣāṃ tū mūlāśrame karmaṇa eveti tasya nāyaṃ vādinaḥ parihāra iti ucyate- na, svasamayavirodhāt evaṃ bruvāṇasyāsya vādinaḥ svasamaya eva virudhyate yaduktam- vidvāṃsaḥ prajāṃ nākāmayanta, kiṃ prajayā kariṣyāmaḥ ? atha yaduktaṃ putraiṣaṇāyāśca vittaiṣaṇāyāśca vyutthāya bhaikṣacaryāṃ carantīti na ca ṣaṇḍānāṃ putraiṣaṇāvyutthānamathavad bhavati, devakṛtatvāt kiṃ cānyat - rahasyabhūtatvāt rahasyabhūtaṃ hi vedānāṃ jñānam yasmādāha- taddha smaitadāruṇirauddālakirjyeṣṭhāya putrāya provāca idaṃ jyeṣṭhaputrāya pitā brahma prabrūyāt praṇāyyāntevāsine nānyasmai yasmai kasmaicana ya imāmadbhiḥ parigṛhītāṃ vasunā vasumatīṃ pūrṇāṃ dadyādetadeva tato bhūya iti bhavati cātra - paraṃ rahasyaṃ vedānāmavasāneṣu paṭhyate ṣaṇḍādyarthaṃ tadiṣṭaṃ ceddhiṣṭyā saphalatā śrute vidvān karmāṇi kurvītetyetaduktaṃ kila śrutau sa ca paṇḍādirevasyādyo 'tyantaṃ karmaṇaścyutaḥ sa eva vartyatāṃ prājñaiḥ kiṃ nyāyyo 'tha matibhramaḥ ? indriyārthānurāgo vā dveṣo vā mokṣavartmani kaivalyaprāptihetutvādyā vedavihitā stutiḥ praśastā yājñavalkyādyairviśiṣṭaistattvaniścayāt seyaṃ viṣayarāgāndhairviparītārthavādibhiḥ vidyā kanyeva ṣaṇḍāya dīyamānā na śobhate tasmādrāgānugairuktāṃ kuhetupṛtanāmimām apohya matimānyuvatyā hyāśramādāśramaṃ vrajet iti śrīmadācāryeśvarakṛṣṇaviracitāyāṃ sāṃkhyasaptatau yuktidīpikānāmni vivaraṇe prathamamāhnikam kārikā 3 āha- samyagupadiṣṭaṃ bhavatā vyaktāvyaktajñavijñānānmokṣo 'vāpyate idānīmupadeṣṭavyam kathametattrayaṃ pratipattavyamiti ucyate - trayasyāsya pratipattiṃ dvedhā samāmananti samāsato vistarataśca tadeva trayaṃ paṃcabhiradhikaraṇairbhidyate kāni punaradhikaraṇānīti ? ucyate- prakṛtivikāravṛttaṃ, kāryakāraṇavṛttaṃ, atiśayānatiśayavṛttaṃ, nimittanaimittikavṛttaṃ, viṣayaviṣayivṛttamiti tatra prakṛtivikāravṛttapūrvakatvāditareṣāmadhikaraṇānāṃ tadbhedānvakṣyāmaḥ tatpunaścaturdhā bhidyate kiṃcitkāraṇameva na kāryam kiṃcitkāraṇaṃ ca kāryaṃ ca kiṃcitkāryameva na kāraṇam kiṃcinnaiva kāraṇaṃ na cāpi kāryamiti āha- atisāmānyopadiṣṭametannāsmākaṃ buddhāvavatiṣṭhate tasmādvibhajyopadiśyatāṃ kasya padārthasya kiṃ vṛttamiti ? ucyate- bāḍham upadiśyate- mūlaprakṛtiravikṛtiḥ mūlamādhāraḥ pratiṣṭhetyanarthāntaram prakarotīti prakṛtiḥ mūlaṃ cāsau prakṛtirmūlaprakṛtiḥ mūlaprakṛtiḥ kasya mūlam ? mahadādīnām saṃjñā khalviyaṃ pradhānasya mūlaprakṛtiriti sā cāvikṛtiravikārānutpādyetyarthaḥ āha- samāsānupapattiḥ viśeṣaṇāntaropādānāt mūlamityayaṃ śabdaḥ prakṛtiviśeṣaṇārthamupātto mahadādiviśeṣaṇāntaramupādatte tatra saviśeṣaṇānāṃ vṛttirneti samāsapratiṣedhaḥ prāpnoti samāsāntaravidhānādadoṣa iti cetsyānmatam- yadyetasmin samāse doṣo 'yamupapadyate samāsāntaramatra vidhāsyate mūlaṃ prakṛtīnāṃ mūlaprakṛtiriti etaccānupapannam kasmāt ? doṣāntaropapatteḥ evamapyupasarjanaṃ pūrvaṃ nipatatīti ṣaṣṭhyoktasyopasarjanatvātpūrvanipātaḥ tatraivaṃ bhavitavyaṃ mūlaṃ prakṛtīnāṃ prakṛtimūlamiti tasmādidamapyasāramiti ucyate- pūrva eva samāso 'stu, sambandhiśabdaḥ sāpekṣo nityaṃ vṛttau samasyate yattūktaṃ viśeṣaṇāntaropādānātsamāsānupapattiriti- tatra brūmaḥ sambandhiśabdānāṃ sambandhyantaramanapekṣya svarūpapratilambha eva nāstītyākāṃkṣāvatāmeva vṛttyā bhavitavyam tadyathā devadattasya gurukulamiti sambandhiśabdatvāddevadattaśabdamapekṣamāṇo 'pi guruśabdaḥ kulaśabdena saha vṛttiṃ pratipadyate evamihāpi mūlamityayaṃ śabdaḥ sambandhiśabdatvānmahadādyapekṣo 'pi prakṛtiśabdena saha vṛttiṃ pratipadyata iti kiñcānyat vākyapratipādyasyārthasya vṛttāvupalabdheḥ yatra hi vākyapratipādyo 'rtho vṛttyā na labhyate yathā ṛddhasya rājñasya puruṣaḥ iti tatra saviśeṣaṇānāṃ vṛttirneti vyavasthitaṃ śāstre gamyate ceha vākyapratipādyo 'rtho vṛttāvapi satyām tasmādadoṣo 'yamiti kiṃ ca jñāpakāt jñāpakaṃ khalvapi "karmavatkarmaṇā tulyakriyaḥ" tathā "akārasya vivṛttopadeśa" ityādi tasmānnātrāsūyā kartavyeti āha- avayavasya pratyavamarśānupapattiḥ saṃjñāśabdatvāt saṃjñāśabdeṣu hi nāvayavasya parāmarśo bhavati tadyathā gajakarṇo 'śvakarṇaḥ kasya gajasya kasyāśvasyeti ucyate na, arthopapatteḥ yatra hyartha upapadyate bhavatyeva tatra saṃjñāśabdeṣvayavaparāmarśaḥ tadyathā saptaparṇānyasya parvaṇi parvaṇi, aṣṭau padānyasya paṅktau paṅktau saptaparṇo 'ṣṭāpadamiti upapadyate cehāyamarthaḥ, tasmādadoṣo 'yam āha- mūlaprakṛtiravikṛtiḥ, prakṛtiriti vaktavyam yadāha mahadādyāḥ prakṛtivikṛtayaḥ sapteti ucyate- prakṛtitvāvacanam prakṛtitvaṃ ca mūlaprakṛterna vaktavyam kiṃ kāraṇam ? arthādāpatteḥ mūlaprakṛtiravikṛtirityeva siddham ucyamānaṃ hi tadanarthakaṃ syāt āha- prakṛtitvānupapattiḥ satkāryavādābhyupagamāt prakarotīti prakṛtiḥ, tadbhāvaḥ prakṛtitvam tacca sati kārye na ghaṭate kasmāt ? na hi satāmātmādīnāṃ kāraṇamupapadyata iti ucyate- taditaratrāpi tulyam yathaiva hi satāmātmādīnāṃ kāraṇaṃ nopapannamevamasatāṃ śaśaviṣāṇādīnāmapīti nāsti kaścidviśeṣaḥ tṛtīyā tu viṣādāvalyaiva koṭiḥ evamubhayapakṣavyudāsātsvapakṣasiddhiriti cet athāpi syāt- sadasatoḥ kriyāsambandhaṃ pratyaviśeṣa upadarśyate bhavatā tenobhayorapi pakṣayorvyudāsaḥ kṛto bhavati na cobhayapakṣavyudāsātsvapakṣasiddhiriti etaccāyuktam kasmāt ? uttaratra pratiṣedhāt sa khalveṣa vādī satkāryavādaṃ pratyācaṣṭe tasmātsvaka evainamadhikāre nivartayiṣyāmaḥ āha- avikṛtyabhidhānānarthakyam mūlaprakṛtitvāttatsiddheḥ yadi mūlaṃ sarvāsāṃ prakṛtīnām avikṛtyaiva tayā bhavitavyam itarathā hi mūlaprakṛtitvānupapattiḥ yadi khalvapi pradhānasyāpi prakṛtyantaraṃ syānmūlaprakṛtitvaṃ nopapannaṃ bhavet tasmānmūlaprakṛtitvavacanādeva tatsiddheravikṛtigrahaṇamanarthakamiti ucyate- na anavasthāprasaṃganivṛttyarthatvāt yathā hi mūlādīnāṃ bījaṃ prakṛtistasyāpyanyattasyāpyanyadityanavasthā evaṃ mahadādīnāṃ pradhānaṃ mūlaprakṛtiḥ tasyāpyanyadityanavasthā prasajyeta sā mā bhūdityatastannivṛttyarthaṃ tadabhidhānam āha, na hetvanupadeśāt asaṃśayametadevaṃ syāt, na tu heturatropadiṣṭo bhavadbhiḥ na cānupadiṣṭahetukaṃ vipaścidbhiḥ pratipattuṃ nyāyyam tasmādayuktametat ucyate, kāraṇāntarapratiṣedhāt puruṣākartṛtvātpradhānākhyānāṃ guṇānāṃ cāvasthāntarānupapatteravikṛtitvasiddhiḥ ihārabhyamāṇā prakṛtiḥ kāraṇāntarairīśvarādibhirārabhyate, puruṣeṇa vā, guṇairvā kiñcātaḥ ? tanna tāvatkāraṇāntarairīśvarādibhirārabhyate kasmāt ? pratiṣedhāt yathā kāraṇāntarāṇi na santi tathottaratra pratiṣedhaḥ kariṣyate idānīṃ sattvaṃ rajastamaḥ puruṣa iti padārthacatuṣṭayaṃ pratijñāyate tatrāpi puruṣakartṛtvaṃ pratyākhyāyate tasminpratyākhyāte guṇānāmevāvasthāntarāpekṣaḥ kāryakāraṇabhāvaḥ sūkṣmāṇāṃ mūrtilābhaḥ kāryam nivṛtaviśeṣāṇāmavibhāgātmanāvasthānaṃ kāraṇamityayaṃ siddhāntaḥ tatrāstaṅgataviśeṣāṇāṃ nivṛttapariṇāmavyāpārāṇāmaṅgāṅgibhāvamanupagacchatāmupasaṃhṛtaśaktīnāṃ sarvavikārasāmyaṃ sarvaśaktipralayaṃ nissattāsattaṃ nissadasadavyaktalakṣaṇamavasthāntaramupasaṃprāptānāṃ nāstyanyatsūkṣmataramavasthāntaram, yasyedaṃ pradhānalakṣaṇamavasthāntaraṃ kāryaṃ syāt tasmātsuṣṭhūcyate mūlaprakṛtiravikṛtiriti mahadādyāḥ prakṛtivikṛtayaḥ sapta mahānādyo yāsāṃ tā mahadādyāḥ avayavena vigrahaḥ, samudāyaḥ samāsārthaḥ anyathā mahānevātrāparigṛhītaḥ syāt prakṛtayaśca vikṛtayaśca prakṛtivikṛtayaḥ kāraṇāni kāryāṇi cetyarthaḥ tatra mahānahaṃkārasya prakṛtiḥ pradhānasya vikṛtiḥ ahaṃkāro 'pi tanmātrendriyaparvaṇoḥ prakṛtirvikṛtirmahataḥ tanmātrāṇi ca bhūtaparvaṇaḥ prakṛtirahaṃkārasya vikṛtiḥ āha- saptagrahaṇaṃ kimartham ? ucyate- saptagrahaṇamavadhiparicchedārtham akriyamāṇe hi saptagrahaṇe na jñāyate kriyānprakṛtigaṇaḥ prakṛtivikṛtisaṃjño bhavati tatra mahābhūtendriyaparvaṇorapi prakṛtitvaṃ prasajyeta āha- naitadasti prayojanam pariśeṣasiddheḥ iha bhavatāṃ pañcaśikhānāṃ pañcaviṃśatistattvāni tatra mūlaprakṛtiravikṛtirityuktam, ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣa iti vakṣyati pariśeṣataḥ saptaivāvaśiṣyante tasmānnārthastadarthena saptagrahaṇena ucyate- ahaṃkāraparigrahārtham evaṃ tarhi naivāhaṃkāro vidyata iti patañjaliḥ mahato 'smipratyayarūpatvābhyupagamāt tatparihārārthametad bhaviṣyati āha, na uttaratra parigrahāt etadasti nāsti prayojanam vakṣyati hi mahatā kaṇṭhenopariṣṭādācāryaḥ "prakṛtermahāṃstato 'haṅkāra" (isk 22) iti tenaivedaṃ siddham nārthastadarthenāpi saptagrahaṇena ucyate- rūpabhede 'pi tattvābhedajñāpanārtham evaṃ tarhi dharmādīnyaṣṭau rūpāṇi buddhervakṣyamāṇāni, ahaṃkāraśca vaikārikataijasabhūtādirūpatvāt trilakṣaṇo vakṣyamāṇaḥ tatra rūpabhedāttattvabhedo mā bhūdityevamarthaṃ saptagrahaṇaṃ kriyate āha, hetumantareṇāpratipatteḥ kaṇṭhoktamapi yuktimantareṇa na tarkaśīlāḥ pratipadyante kimpunaḥ kleśopapāditam tasmādatra samādhirvācyaḥ kathamanekarūpā buddhirekaiveti ? ucyate na, uttaratra vicāraṇāt uttaratraitadvicārayiṣyāmaḥ kimanekarūpāvirbhāve 'pi tadeva tadvastu bhavati āhosvidrūpabhedāttattvabhedaḥ ? tasmādiha tāvaddṛśyatāmiti siddhaṃ mahadādyāḥ prakṛtivikṛtayaḥ sapteti ṣoḍaśakastu vikāraḥ ṣoḍaśaparimāṇasya so 'yaṃ ṣoḍaśakaḥ saṃghaḥ tasya parimāṇaṃ saṃkhyāyāḥ saṃjñāsaṃghasūtrādhyayaneṣviti kanpratyayaḥ āha- kaḥ punarayaṃ ṣoḍaśaka iti ? ucyate - pañca mahābhūtāni, ekādaśendriyāṇi tuśabdo 'vadhāraṇārthaḥ āha- śakyaḥ punarayamartho 'ntareṇāpi tuśabdamavāptum katham ? mahadādyāḥ prakṛtivikṛtayaḥ sapteti hyupadiṣṭaṃ purastāt tato 'haṅkāratamātrapūrvakatve siddhe sati indriyamahābhūtaparvaṇoḥ punaḥ śruterniyamo bhaviṣyati tadyathā pañca pañcanakhā bhakṣyā ityatra kṣutpratīkārasamarthānāṃ dravyāṇāmarthādeva sarveṣāṃ bhakṣaṇe samprāpte punaḥ śruterniyamo bhavati, tadvadidaṃ draṣṭavyam iṣṭato 'vadhāraṇārthaṃ iti cet syānmatam iṣṭato 'vadhāraṇārthastarhi tuśabdo bhaviṣyati kathaṃ nāma ṣoḍaśako vikāra eveti yathā vijñāyate, ṣoḍaśakastu vikāra ityevaṃ mā jñāyīti yadyevamasthāne tarhi tuśabdaḥ paṭhitaḥ ṣoḍaśako vikārastviti vaktavyam atha mataṃ vṛttaparipūranārthamayamasminpradeśe paṭhitastuśabdo yatra nirdoṣastatraivāyaṃ draṣṭavya iti etadanupapannam kasmāt ? asandehāt mahadādyāḥ prakṛtivikṛtayaḥ saptetyapadiṣṭe kimiti sāṃśayikā bhaviṣyāmaḥ tasmātpelavamasya pāṭhe prayojanaṃ paśyāmaḥ athāyamabhiprāyaḥ syāt yadyapyetadarthataḥ siddhaṃ tathāpyayamācāryaḥ sphuṭapratipattyarthamavadhāraṇaṃ pratyādriyate kiṃ kāraṇam ? yasmāt vicitrāḥ sūtrakārāṇāmabhiprāyagatayaḥ tadyathā bhagavān pāṇiniḥ na kye, rātsasyetyevamādiṣvantareṇa prayatnamiṣṭato 'vadhāraṇe siddhe anyatra ajādī guṇavacanādeva stautiṇyoreva ṣaṇyabhāsādityevamādiṣu yatnaṃ karoti tadvadihāpi draṣṭavyamiti etadanupapannam kasmāt ? aśakyatvāt sati vā punaravadhāraṇārthatve tuśabdasya kathamivātra śakyamavadhāraṇaṃ pratipattum ? yāvatā mahābhūtānāmapi śarīrādilakṣaṇaṃ kāryamupalabhyata iti tatra kecit samādhimāhuḥ śarīrādīnāmanarthāntarabhāvātpṛthivyādīnāmaprakṛtitvam yasmāt kila pṛthivyādīnāṃ sanniveśaviśeṣamātraṃ kāryaṃ muṣṭigranthikuṇḍalādivannārthāntarabhūtam ata eṣāmaprakṛtitvamiti etaccānupapannam kasmāt ? aviśeṣāt sarvameva hi sāṃkhyānāṃ kāryamanarthāntarabhūtam tatraitasyāṃ kalpanāyāṃ sarvatattvānāmaprakṛtitvaṃ prasajyeta athaitadaniṣṭaṃ, satkāryavyāghātaḥ anye punarāhuḥ- apariṇāmitvānmahābhūtānāṃ viakaritvānavadhāraṇamiti tadapyanupapannam kasmāt ? pratyakṣopalabdheḥ pratyakṣata evopalabhyate mahābhūtānāṃ kalilāṅkurakṣīrādipariṇāmaḥ anumānagrāhyastu tattvāntarāṇām tadetadadharottaraṃ bhavati tasmādayuktametat āha - na tarhi idaṃ pratipattavyaṃ ṣoḍaśako vikāra eveti ? ucyate- pratipattavyam kiṃ kāraṇam tattvāntarānupapatteḥ iha puruṣārthena hetunā sāmyātpracyutānāṃ guṇānāṃ yo 'yaṃ mahadādirviśeṣānto vipariṇāmaḥ sa tattvāntarotpattiniyamena vyavatiṣṭhate na tu pṛthivyādibhyastattvāntarotpattirasti tasmādeteṣāṃ vikāratvameveti kiṃ cānyat grāhakāntarābhāvāt yathā tanmātrairārabdheṣu pṛthivyādiṣu ahaṃkārāttadyogyaṃ grāhakāntaramindriyalakṣaṇamutpadyate, naivaṃ pṛthivyādivikārāṇāṃ ghaṭādīnāṃ grāhakāntaramasti tasmānna tattvāntaram ataśca pṛthivyādayo vikārā eveti kiṃ cānyat pradhāne prakṛtibhāvapratyastamayavatteṣu vikārabhāvapratyastamayāt yathā pradhānātsūkṣmataramavasthāntaraṃ nāstīti tatra prakṛtibhāvasya pratyastamayastathā teṣu vikārabhāvapratyastamayaḥ tasmādyuktamucyate ṣoḍaśako 'yaṃ vikāra eveti āha- puruṣe tarhi kā pratipattiriti ? ucyate- na prakṛtirna vikṛtiḥ puruṣaḥ isk_3 puruṣo na hyayamavasthāntaraṃ pratipadyate no khalvapyavasthāntarasyāvasthāntaraṃ bhavatīti āha- naitadyuktimantareṇa śraddhīyate, tasmādupapādyatāṃ kathamasyāprakṛtitvamavikṛtitvaṃ ceti ucyate- prakṛtitvānupapattiḥ uttaratra pratividhānāt tasmācca viparyāsādityatra (isk 19) yuktimupadekṣyāmaḥ tasmāttāvadasyāprakṛtitvam avikṛtitvaṃ pradhānavat yathā pradhānamevamayamapi puruṣaḥ kriyamāṇaḥ kāraṇāntarairīśvarādibhirnārabhyate kasmāt ? pratiṣedhāt yathā kāraṇāntarāṇi na santi tathottaratra pratiṣedhaḥ kariṣyate puruṣāntaraiḥ samatvāt samāḥ sarve puruṣāḥ na ca samānāṃ kāryakāraṇabhāvo dṛṣṭaḥ kiṃ ca niṣkriyatvāt śuddhatvāccaiṣāṃ vipariṇāmalakṣaṇā parispandalakṣaṇā vā kriyā vibhutvādanupapannā kasmāt ? eṣāmitaretarānārambhakatvāt na guṇairbhinnajātīyakatvāt ihācetanā guṇā ityetatpratipādayiṣyāmaḥ yacca yenārabhyate tacca tanmayaṃ bhavati yadi guṇaiḥ puruṣāṇāmārambhaḥ tadā teṣāmapyacetanatvaṃ syāt, cetanāstu te tasmānna guṇairārabhyanta iti siddhametat kiṃcitkāraṇameva na kāryam kiṃcitkāraṇaṃ kāryaṃ ca kiṃcitkāryameva kiṃcinnaiva kāraṇaṃ naiva kāryamiti caturvidhaṃ kāraṇavṛttaṃ pratipāditam etetpratijñāpiṇḍasūtram atra yadapadiṣṭaṃ bhavadbhirasmin śāstre prameyamityavagantavyam*

Section (cont. 6)

4

कारिका 4 आह- अथास्य प्रमेयस्य कुतः सिद्धिरिति ? उच्यते- प्रमेयसिद्धिः प्रमाणाद्धि इस्क्_4द् प्रमीयते तदिति प्रमेयम् प्रमेयस्य सिद्धिः प्रमेयसिद्धिः सिद्धिरधिगमो ऽवबोध इत्यर्थः प्रमीयते ऽनेनेति प्रमाणम् करणसाधनो ल्युट् तदेकमेव, बुद्धेरेकत्वाभ्युपगमात्; उपाधिवशात्तु भिन्नमाश्रीयते प्रत्यक्षमनुमानमित्यादि तस्य यो ऽसावुपाधिकृतो भेदस्तमनाश्रित्य प्रमेयपरिच्छेदकत्वसामान्यमङ्गीकृत्यैकवचननिर्देशः क्रियते प्रमाणादिति एतस्मात्प्रमेयसिद्धिरित्यवगन्तव्यम् कथम् ? व्रीह्यादिवत् यथा व्रीह्याति प्रमेयं प्रस्थादिना प्रमाणेन परिच्छिद्यते एवमिहापि व्यक्तादिप्रमेयं प्रत्यक्षादिप्रमाणेन परिच्छिद्यते इति इह हिशब्द इदानीं किमर्थः स्यात् ? अवधारणार्थ इति आह- यद्येवं हिशब्दावचनम् अवधारणानुपपत्तेः न ह्येतस्मिन् सूत्रे कथंचिदवधारणमुपपद्यते तस्मादवचनमेव हिशब्दस्य न्याय्यम् प्रमेयस्यैवेति चेत्- न अन्यस्यासम्भवात् सति हि व्यभिचारसम्भवे वस्त्ववधार्यते - तद्यथा गौरेवायं नाश्वः, देवदत्त एवायं न यज्ञदत्त इति न च प्रमेयाप्रमेययोः प्रमाणपरिच्छेद्यत्वे ऽस्ति प्रसंगः यन्निवृत्त्यर्थं प्रमेयस्यैवेत्यवधार्यते प्रमाणेभ्य एवेति चेन्न- आर्षज्ञानविरोधप्रसंगात् परमर्षेर्हि भगवतः ज्ञानं सांसिद्धिकमप्रमाणपूर्वकमिति वः पक्षः सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्या (इस्क् 43) इति वचनात् उभयावधारणे सति उभयोरपि पक्षयोर्ये दोषास्ते प्रसज्यन्ते तस्मादयुक्तमेतत् सिद्धिरेवेति चेन्न अनेकान्तात् कदाचिद्द्ययं प्रमाता सन्निहिते ऽप्यादित्यादौ लिङ्गे दिङ्निश्चयादिष्वर्थेषु प्रतिहन्यते तस्मादनेकान्तात् सिद्धिरेवेत्येतदयुक्तमवधारणम् उच्यते- यदुक्तं हिशब्दावचनमवधारणानुपपत्तेरिति अस्तु प्रमाणेभ्य एवेत्यवधारणम् यत्तूक्तमार्षज्ञानविरोधप्रसंग इति अयमदोषः कस्मात् ? सिद्धरूपत्वात् साध्यमानरूपाणि हि वस्तूनि नान्तरीयकत्वात् स्वरूपनिष्पत्तये साधनसम्बन्धं प्रत्याकांक्षावन्ति भवन्ति, सिद्धरूपं तु भगवतः परमर्षेर्ज्ञानम् तस्मादस्य साधनसम्बन्धं प्रत्याकाङ्क्षा नोपपद्यत इति अथवा पुनरस्तु सिद्धिरेवेत्यवधारणम् यत्तूक्तमनेकान्तादिति तदनुपपन्नम् कस्मात् ? सत्त्वादीनामङ्गाङ्गिभावानियमात् तमःप्रकर्षसामग्र्यात्प्रमाणवैकल्योपपत्तेः इह सत्त्वादीनामनियतो ऽङ्गाङ्गिभावः देशकालनिमित्तसामर्थ्याद्धि कदाचित्सत्त्वं प्रकृष्यते, कदाचिद्रजः, कदाचित्तमः सत्त्वप्रकर्षश्च प्रकाशरूपत्वात्प्रमाणम् तत्र यदा तमः प्रकृष्यते तदा तेनाभिभूतत्वात् सत्त्वस्य तत्कार्यमनुमानं त्रिकालाङ्गमुत्तिष्ठते इत्यतः सत्यामप्यादित्यादिलिङ्गप्रवृत्तौ दिङ्निश्चयादिष्वर्थेषु प्रतिहन्यते इतरथा तु न स्वरूपहानम् यस्य तु निष्पत्तिवैकल्यात्प्रमाणप्रतिबन्धो नेष्टः तस्य स्वरूपहानं प्रमाणानां प्राप्तम् कथम् ? एतावद्धि तेषां स्वरूपं यदुत प्रमेयपरिच्छेदः तस्माद्युक्तमेतदवधारणार्थो हिशब्दः आह- बहूनि प्रमाणान्याचार्यैरभ्युपगम्यन्ते तानि सर्वाणि किं भवाननुमन्यते ? उच्यते- त्रिविधं प्रमाणमिष्टम् इस्क्_4च् किन्तर्हि विधानं विधा, तिस्रो विधा अस्य तत्त्रिविधं त्रिप्रकारमित्यर्थः अनेनैतदाचष्टे- एकमेव बुद्धिलक्षणं सत्त्वं निमित्तान्तरानुग्रहोपजनिताभिः कार्यविशेषपरिच्छिन्नरूपभेदाभिः शक्तिभिरुपकाराद्भिन्नमिव प्रत्यवभासमानं दृष्टादिशब्दवाच्यं भवति न तु यथा तन्त्रान्तरीयाणां विषयोपनिपातिभिरिन्द्रियैरुपजनितावध्यो बुद्धयस्तथेह विद्यन्ते याः परिकल्प्यमानाः स्वतन्त्राणि त्रीणि प्रमाणानि स्युः स्यान्मतम्, कथं पुनः प्रमाणलक्षणानां शक्तीनामकवस्तुसन्निवेशरूपभेदा भवन्तीति ? उच्यते- सत्त्वादिवत् यथा सत्त्वादीनां गुणानामेकशब्दादिवस्तुसन्निवेशे ऽपि प्रकाशादिकार्यभेदाद्रूपसंकरो न भवति, यथा वा शब्दस्पर्शरूपरसगन्धानामेकद्रव्यसन्निवेशे ऽपि ग्राहकान्तरगम्यकत्वात्, यथा वा कर्तृकरणाधिकरणसम्प्रदानापादानकर्मलक्षणानां शक्तीनामेकद्रव्यसन्निवेशे ऽपि कार्यविशेषपरिच्छिन्नानि स्वरूपाणि न संकीर्यन्ते, तद्वदिदं द्रष्टव्यम् शक्त्यन्तरोपजनने वस्त्वन्तरोपपत्तिरिति चेन्न, अनभ्युपगमात् न हि क्षणभङ्गसाहसं युक्तिमन्तरेण दण्डभयादपि प्रतिपद्यामहे, न तु तस्यामवसर इति स्थीयतां तावत् आह, कथं पुनरेतद् गम्यते यथा त्रिविधमेव प्रमाणं न पुनरनेकविधमपीति ? उच्यते- सर्वप्रमाणसिद्धत्वात् इस्क्_4ब् सर्वाणि च तानि प्रमाणानि सर्वप्रमाणानि सिद्धस्य भावः सिद्धत्वम् सर्वप्रमाणानां सिद्धत्वं सर्वप्रमाणसिद्धत्वम् सिद्धत्वमन्तर्भाव इत्यर्थः तस्मात् सर्वप्रमाणसिद्धत्वात् तस्मिन्नेव त्रिविधे प्रमाण इति वाक्यशेषः सर्वेषां परपरिकल्पितानां प्रमाणानामस्मिन्नेव त्रिविधे प्रमाणे ऽन्तर्भावादिति यावदुक्तं स्यात्तावदिदमुच्यते सर्वप्रमाणसिद्धत्वादिति अथवा सर्वप्रमाणेषु सिद्धं सर्वप्रमाणसिद्धं- सप्तमी सिद्धशुष्कपक्वबन्धैरिति समासः, यथा सांकाश्यसिद्धः पाटलिपुत्रसिद्ध इति तद्भावः प्रमाणसिद्धत्वं तस्मात् सर्वप्रमाणसिद्धत्वात् कस्य त्रिविधस्य प्रमाणस्येति वाक्यशेषः केन पुनराकारेण त्रिविधं प्रमाणं सिद्धमिति ? उच्यते- परस्परविशेषात् अन्यानि पुनरस्मात् त्रयात् यथाभिन्नानि तथा प्रतिपादयिष्यामः आह, किम्पुनस्तत् त्रिविधं प्रमाणमिति ? उच्यते- दृष्टमनुमानमाप्तवचनं च इस्क्_4अ इति तत्र दृष्टं नाम उपात्तविषयेन्द्रियवृत्त्युपनिपाती यो ऽध्यवसायः अनुमानं द्वयोरविनाभाविनोरेकं प्रत्यक्षेण प्रमाय तत्पूर्वकं सम्बन्द्यन्तरे यत् पश्चान्मानं भवति आप्तवचनं तु प्रमाणभूतद्वारको ऽत्यन्तपरोक्षे ऽर्थे निश्चयः इत्युद्देशमात्रमिदम् मूललक्षणं तु आचार्यो वक्ष्यति स्वयमेव प्रतिविषयाध्यवसायो दृष्टमित्यादि आह, त्रैविद्यानुपपत्तिः, न्यूनाधिकश्रवणात् तन्त्रान्तरीयाः केचित् चत्वारि प्रमाणानीच्छन्ति प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति वचनात् तथा षडित्यन्ये प्रत्यक्षमनुमानं च शब्दं चोपमया सह अर्थापत्तिरभावश्च हेतवः सध्यसाधकाः इत्यभिधानात् एतानि सम्भवैतिह्यचेष्टासहितानि नवेत्यपरे प्रत्यक्षानुमाने एवेति वैशेषिकबौद्धाः तत्र कथमिदं निश्चीयते त्रिविधमेव प्रमाणं, न पुनर्न्यूनमधिकं वेति ? उच्यते- किम्पुनरिदमुपमानं नाम ? आह, प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् प्रसिद्धः प्रज्ञातः, तेन साधर्म्यात्, साध्यस्याप्रसिद्धस्य साधनमधिगमो यस्तदुपमानम् अवबोधविधिस्तु येनानुपलब्धो गवयः स तस्योपलब्ध्यर्थमधिगतगवयं पर्यनुयुङ्क्ते किंरूपो गवय इति स तस्मा आचष्टे- यथा गौरेवं गवय इति तत्र प्रतिपत्त्यात्यन्तानुपलक्षितगवयस्वरूपो व्याख्यातृप्रतिपादितप्रसिद्धवस्तुसाधर्म्यज्ञानाहितसंस्कारः प्रतिपद्यते- नूनमेवंरूपो गवय इति अपर आह- प्रतिराप्तवचनोपजनितप्रसिद्धवस्तुसाधर्म्यज्ञानाहितसंस्कारस्योत्तरकालं प्रत्यक्षेण तमुपलभ्य या समाख्यासम्बन्धप्रतिपत्तिः- अयमसावर्थो ऽस्य शब्दस्य समाख्या इति- तदुपमानमुच्यते यद्येवमुपमैतिह्यावचनम्, आप्तोपदेशसिद्धेः यथा गौरेवं गवय इति चाप्तोपदेशबलात् प्रतिपत्ता अप्रसिद्धं गवयमुपलभते न साधर्म्यमात्रात् तस्मान्न शब्दात् पृथगुपमा यत्तु खल्विति ह उवाच याज्ञवल्क्यस्य इत्येतदैतिह्यं नाम प्रमाणान्तरमुपकल्प्यते तदपि वक्तृविशेषापेक्षत्वान्न शब्दादर्थान्तरम् आह, न साधर्म्यापेक्षत्वात् यदि ह्याप्तोपदेश उपमा स्यात्तेन यथा स्वर्गे ऽप्सरसः, उत्तराः कुरव इत्येवमादिष्वन्तरेण साधर्म्योपादानं प्रतिपत्तिर्भवति एवमिहापि स्यात् गवयन्तु अयमाख्याता प्रतिपादयिष्यन् प्रसिद्धसाधर्म्यगर्भं शब्दमुपादत्ते न केवलम् प्रतिपत्तापि तस्मादेव प्रतिपद्यते न शब्दमात्रात्, तस्मात्पृथगेवास्योपदेशः कर्तव्यः शब्दव्यापारात्तदन्तर्भाव इति चेत् स्यान्मतम् शब्दव्यापारसहितो ऽयं प्रसिद्धसाधर्म्यलक्षणार्थो गवयप्रतिपत्तौ न केवलः, तस्मादस्य तत्रान्तर्भाव इति तदप्यनुपपन्नम् कस्मात् ? वीतावीतयोरपि तत्प्रसङ्गात् वीतावीतावपि हेतू परप्रतिपादनार्थमुपादीयमानौ शब्दव्यापारमपेक्षेते तयोरप्याप्तवचनत्वप्रसंगः अनिष्टं चैतत् तस्मान्नोपमानमाप्तोपदेशः उच्यते, साधर्म्याव्यतिरेक, उपायभूतत्वात् आख्यातृप्रामाण्यादेव प्रतिपत्तुर्गवयविज्ञानमुपपद्यते स तु कौशलाद्दुरुपपादो ऽयमर्थ इति कृत्वा प्रसिद्धसाधर्म्यमुपादत्ते तस्मादाख्यातुर्गवयप्रतिपादनार्थमुपायभूतं साधर्म्यमुपाददानस्य शब्दादर्थान्तरमुद्भवति अथैवंजातीयकानामपि प्रमाणान्तरत्वमिष्यते तेनात्यल्पमिदमुच्यते चत्वारि प्रमाणानीति किं तर्हि पाणिविहाराक्षिनिकोचप्रभृतीनामप्युपसंख्यानं कर्तव्यम् किंच वक्तृविशेषापेक्षत्वात् यत्र ह्यर्थवशात्प्रतिपत्तिरुत्पद्यते न तत्र प्रतिपत्ता वक्तृविशेषमपेक्षते दृष्टार्थो ऽयमदृष्टार्थो ऽयमिति तद्यथानुमाने अस्ति चोपमाने वक्तृविशेषापेक्षा तस्मान्न शब्दादर्थान्तरं तत् अवश्यं चैतदेवं विज्ञेयम् यो हि मन्यते प्रसिद्धसाधर्म्यादेव गवयप्रतिपत्तिरिति यथाश्वस्तथा गवय इत्येतस्मादपि तस्य सम्प्रतिपत्तिः स्यात् न चार्हति भवितुं, मिथ्याज्ञानत्वात् यत्तु खल्विदमुच्यते यतः समाख्यासम्बन्धप्रतिपत्तिरिति तदुपमानमिति एतदनुपपन्नम् कस्मात् ? अनवस्थाप्रसंगात् तद्यथा बहुषु निषण्णेषु को ऽत्र देवदत्त इत्युक्ते यो मुकुटी कुंडली व्यूढोरस्कस्ताम्रायताक्ष इति प्रत्याह ततश्च समाख्यासम्बन्धप्रतिपत्तिरिति प्रमाणान्तरत्वप्रसङ्ग इत्येवमनवस्था प्रमाणानां स्यात् अनिष्टं चैतत् एवं हि न तावत् परत उपमानं प्रमाणान्तरम् यदा स्वयमेव गां गवयं चोपलभ्य विकल्पयति यथायं तथायमिति तदा तस्यार्थस्य प्रमाणान्तरेणाधिगतत्वात् प्रमाणमेव तन्न भवतीति तस्मात् सुष्ठूक्तमयमैतिह्याप्तवचनमाप्तोपदेशात् सिद्धेरिति किञ्चान्यत्- अर्थापत्तिसंभवाभावचेष्टानामनुमानसिद्धेः अवचनमित्यनुवर्तते तत्रार्थापत्तिर्नाम यत्रार्थयोः पूर्वमव्यभिचारमुपलभ्य पश्चादन्यतरस्य दर्शनाच्छ्रवणाद्वान्यतरस्मिप्रतिपत्तिर्भवति दर्शनाद्या गुडमुपलभ्य माधुर्यमिन्द्रियान्तरविषयं प्रतिपद्यते श्रवणाद्यथा गुडशब्दं श्रुत्वा माधुर्यमशब्दकं प्रतिपद्यत इति अपरा खल्वार्थापत्तिः यत्र धर्मयोरव्यभिचारमुपलभ्य तत्प्रतिद्वन्द्विनोरपि साहचर्यकल्पना सा तु द्विविधा, व्यभिचारिणी चाव्यभिचारिणी च तत्र व्यभिचारिणी यथा सावयवमनित्यमित्युक्ते ऽर्थादापन्नं निरवयवं नित्यमिति तच्च कर्मादिष्वदृष्टमित्येषानैकान्तिकत्वात्प्रमाणमेव न भवतीति या त्वविनाभाविनी अव्यभिचारिणी यथा केसरिवराहयोरुपगह्वरे सन्निपातमुपलभ्योत्तरकालं केवलं केसरिणं वराहव्रणांकितशरीरं प्रयान्तमुपलभ्य प्रतिपद्यते जितो वराह इति तदनुमानम् कथम् ? यस्मात्केसरिवराहयोर्यौ जयपराजयौ तयोरव्यभिचारी सम्बन्धः तत्र यदा केसरिणो जयमुपलभ्याव्यभिचारिणमितरस्य पराजयं प्रतिपद्यते किमन्यत्स्यादृते ऽनुमानात् ? अधिगतोभयसम्बन्धिसमुदायस्य हि प्रतिपत्तुः प्रत्यक्षीभूतान्यतरसम्बन्धिनो या सम्बन्ध्यन्तरप्रतिपत्तिस्तदनुमानम् इत्थं चार्थापत्तिरतो न तस्मात्पृथग्भवितुमर्हति सम्भवो नाम द्रोणः प्रस्थ इत्युक्ते ऽर्धद्रोणादीनां सन्निधानमवसीयते इत्ययमपि साहचर्यकल्पनयार्थापत्तिरेव कथम् ? यस्मादुक्तपरिमाणे द्रव्ये द्रोणशब्दो वर्तते, न न्यूने नाधिके तत्र द्रोण इत्युक्ते यदत्यन्तसहभुवां तदवयवानामन्यशब्दवाच्यानामपि सन्निधानम् तदर्थापत्तिरेव स चानुमानमित्युक्तम् अभावो नाम तद्यथा धूमस्य भावादग्नेर्भावः प्रतीयते एवं धूमाभावादग्न्यभाव इत्ययं प्रतिद्वन्द्विसाहचर्यकल्पनयार्थापत्तिरभिहितः तत्र यदा व्यभिचारसाहचर्यकल्पना तदा प्रमाणाभाव एव तद्यथायोगुणाङ्गारादिषु धूमाभावो नाग्न्यभावः यत्र तु क्वचिदेकान्तः स्यात् यथाकृतकत्वान्नित्य इति तत्रानुमानम् कथम् ? साहचर्योपपत्तेः कृतकत्वानित्यत्ववत् अन्ये तु अभावमन्यथा वर्णयन्ति तद्यथा गेहे नास्ति चैत्र इत्युक्ते बहिरस्तीति सम्प्रत्ययो भवति, तत्र गेहाभावो बहिर्भावसम्प्रतिपत्तिहेतुरर्थान्तरापत्तिरेव प्रतिद्वन्द्विसाहचर्यकल्पनया कथम् ? यथैव हि दिवा न भुङ्क्ते देवदत्तः पीन इत्यत्राभोजनप्रतियोगिनो मेदुरत्वस्योपलम्भाद्दिवाप्रतियोगिनि काले रात्रौ भुजिरवसीयते एवमिहापि गेहाभावाभिधानसामर्थ्यात्तत्प्रतियोगिनि विपर्ययः कल्प्यते अन्यथा तु यद्यभाव एवाभिप्रेतः स्यान्नास्ति चैत्र एवेति ब्रूयात् अर्थापत्तिश्चानुमानम् चेष्टा नाम अभिप्रायसूचकः कश्चिदेवोदरताडनाञ्जलिकरणादिः शरीरव्यापारः स हि बुभुक्षादीन्यप्रतीयमानानि प्रतिपादयतीति प्रमाणमित्युच्यते स चानुमानमेव कस्मात् ? यस्माद् भोजनेच्छादिसहचरो हि व्यापारो ऽनुष्ठीयमानो यदि सहचारिणं गमयति तदा नानुमानात्पृथगिति शक्यं प्रतिज्ञातुम् आह- प्रतिभा तर्हि प्रमाणान्तरं भविष्यति उच्यते- केयं प्रतिभा नाम ? आह, यो ऽयमनादौ संसारे देवमनुष्यतिरश्चामभिन्ने ऽर्थे बाह्ये स्त्र्यादौ प्रत्यये पूर्वाभ्यासवासनापेक्षः कुणपकामिनीभक्ष्याद्याकारभेदभिन्नप्रत्यय इतिकर्तव्यताङ्गमुत्पद्यते सा हि प्रतिभा तथा चोक्तम्- यथाभ्यासं हि वाक्येभ्यो विनाप्यर्थेन जायते स्वप्रत्ययानुकारेण प्रतिपत्तिरनेकधा येन हि यो ऽर्थो ऽभ्यस्तस्सुखादित्वेन तस्य विनापि तेनार्थेन शब्दमात्रात् प्रतिपत्तिरुत्पद्यते तद्यथा व्याघ्रो ऽत्र प्रतिवसतीत्युक्ते विनापि बाह्येनार्थेनाभ्यासवशादेव स्वेदवेपथुप्रभृतयो भवन्ति तस्मात् प्रतिभैव देवमनुष्यतिरश्चामितिकर्तव्यताङ्गत्वात्प्रमाणमिति आह च- प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् उच्यते प्रतिभाया दृष्टादिव्यतिरेकेन रूपान्तरानुपपत्तेः अवचनमित्यनुवर्तते यदि पूर्वाभ्यासवासनापेक्षः प्रत्ययः प्रतिभेत्युपगम्यते तेन तर्हि असौ प्रत्यक्षमनुमानमाप्तवचनं चेत्येतदापन्नम् कस्मात् ? यतो न दृष्टादिव्यतिरेकेण प्रत्यक्षरूपं कदाचिदप्युपलभामहे तस्मान्न तेभ्यो ऽर्थान्तरं प्रतिभा आर्षप्रत्ययसम्भवादयुक्तमिति चेत्- स्यादेतत्, अस्त्यार्षो हि दृष्टादिव्यतिरेकेण सर्वपदार्थेषु सांसिद्धिकः प्रत्ययः स प्रातिभो भविष्यतीति एतच्चाप्ययुक्तम् कस्मात् ? उक्तत्वात् उक्तमेतत् सिद्धरूपं भगवतः परमर्षेर्ज्ञानम् अतो न प्रमाणापेक्षमिति योगिनामिति चेन्न, अनभ्युपगमात् न हि योगिनामप्रमाणपूर्वकं ज्ञानमिति यथा तथा वक्ष्यामः स लौकिक इति चेत् न अनिश्चितत्वात् स्यादेतत्- अस्ति लौकिकः प्रत्ययो दृष्टादिव्यतिरेकेण तद्यथा सन्तमसे व्रजतो द्रागिति विज्ञानमुत्पद्यते - अस्ति मे प्रतीघाति द्रव्यं पुरस्तादूर्ध्वमवस्थितमिति तच्च नैवम् कस्मात् ? अनिश्चितत्वात् न हि तत्र निश्चय उत्पद्यते इदं तद्द्रव्यमस्ति पुरतो वा व्यक्तमस्तीति न चानिश्चितं प्रमाणज्ञानमिष्यते किंचान्यत्- अनवस्थाप्रसंगात् यदि चैवंजातीयतो ऽपि प्रत्ययः प्रमाणमभ्युपगम्यते तेनानवस्था प्राप्नोति किं कारणम् ? अनवस्थानाद्विकरणस्य कामक्रोधलोभयविषादद्वारको विकल्पः सम्यङ्मिथ्या वा यस्मादनेक उत्पद्यते तस्मान्न लौकिकः प्रत्ययः प्रतिभा यत्तु खल्विदमुच्यते- अभ्यासवासनापेक्षासत्स्वपि व्याघ्रादिषु प्रतिपत्तिरुत्पद्यते इति सत्यमेतत् सा तु मिथ्याज्ञानत्वात्प्रमाणत्वेन न परिगृह्यते इत्ययमदोषः तस्मात् सिद्धं दृष्टादिव्यतिरेकेण रूपान्तरनुपपत्तेः प्रतिभायाः पृथगनभिधानम् ततश्च सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्टमिति स्थितमेतत्

kārikā 4 āha- athāsya prameyasya kutaḥ siddhiriti ? ucyate- prameyasiddhiḥ pramāṇāddhi isk_4d pramīyate taditi prameyam prameyasya siddhiḥ prameyasiddhiḥ siddhiradhigamo 'vabodha ityarthaḥ pramīyate 'neneti pramāṇam karaṇasādhano lyuṭ tadekameva, buddherekatvābhyupagamāt; upādhivaśāttu bhinnamāśrīyate pratyakṣamanumānamityādi tasya yo 'sāvupādhikṛto bhedastamanāśritya prameyaparicchedakatvasāmānyamaṅgīkṛtyaikavacananirdeśaḥ kriyate pramāṇāditi etasmātprameyasiddhirityavagantavyam katham ? vrīhyādivat yathā vrīhyāti prameyaṃ prasthādinā pramāṇena paricchidyate evamihāpi vyaktādiprameyaṃ pratyakṣādipramāṇena paricchidyate iti iha hiśabda idānīṃ kimarthaḥ syāt ? avadhāraṇārtha iti āha- yadyevaṃ hiśabdāvacanam avadhāraṇānupapatteḥ na hyetasmin sūtre kathaṃcidavadhāraṇamupapadyate tasmādavacanameva hiśabdasya nyāyyam prameyasyaiveti cet- na anyasyāsambhavāt sati hi vyabhicārasambhave vastvavadhāryate - tadyathā gaurevāyaṃ nāśvaḥ, devadatta evāyaṃ na yajñadatta iti na ca prameyāprameyayoḥ pramāṇaparicchedyatve 'sti prasaṃgaḥ yannivṛttyarthaṃ prameyasyaivetyavadhāryate pramāṇebhya eveti cenna- ārṣajñānavirodhaprasaṃgāt paramarṣerhi bhagavataḥ jñānaṃ sāṃsiddhikamapramāṇapūrvakamiti vaḥ pakṣaḥ sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyā (isk 43) iti vacanāt ubhayāvadhāraṇe sati ubhayorapi pakṣayorye doṣāste prasajyante tasmādayuktametat siddhireveti cenna anekāntāt kadāciddyayaṃ pramātā sannihite 'pyādityādau liṅge diṅniścayādiṣvartheṣu pratihanyate tasmādanekāntāt siddhirevetyetadayuktamavadhāraṇam ucyate- yaduktaṃ hiśabdāvacanamavadhāraṇānupapatteriti astu pramāṇebhya evetyavadhāraṇam yattūktamārṣajñānavirodhaprasaṃga iti ayamadoṣaḥ kasmāt ? siddharūpatvāt sādhyamānarūpāṇi hi vastūni nāntarīyakatvāt svarūpaniṣpattaye sādhanasambandhaṃ pratyākāṃkṣāvanti bhavanti, siddharūpaṃ tu bhagavataḥ paramarṣerjñānam tasmādasya sādhanasambandhaṃ pratyākāṅkṣā nopapadyata iti athavā punarastu siddhirevetyavadhāraṇam yattūktamanekāntāditi tadanupapannam kasmāt ? sattvādīnāmaṅgāṅgibhāvāniyamāt tamaḥprakarṣasāmagryātpramāṇavaikalyopapatteḥ iha sattvādīnāmaniyato 'ṅgāṅgibhāvaḥ deśakālanimittasāmarthyāddhi kadācitsattvaṃ prakṛṣyate, kadācidrajaḥ, kadācittamaḥ sattvaprakarṣaśca prakāśarūpatvātpramāṇam tatra yadā tamaḥ prakṛṣyate tadā tenābhibhūtatvāt sattvasya tatkāryamanumānaṃ trikālāṅgamuttiṣṭhate ityataḥ satyāmapyādityādiliṅgapravṛttau diṅniścayādiṣvartheṣu pratihanyate itarathā tu na svarūpahānam yasya tu niṣpattivaikalyātpramāṇapratibandho neṣṭaḥ tasya svarūpahānaṃ pramāṇānāṃ prāptam katham ? etāvaddhi teṣāṃ svarūpaṃ yaduta prameyaparicchedaḥ tasmādyuktametadavadhāraṇārtho hiśabdaḥ āha- bahūni pramāṇānyācāryairabhyupagamyante tāni sarvāṇi kiṃ bhavānanumanyate ? ucyate- trividhaṃ pramāṇamiṣṭam isk_4c kintarhi vidhānaṃ vidhā, tisro vidhā asya tattrividhaṃ triprakāramityarthaḥ anenaitadācaṣṭe- ekameva buddhilakṣaṇaṃ sattvaṃ nimittāntarānugrahopajanitābhiḥ kāryaviśeṣaparicchinnarūpabhedābhiḥ śaktibhirupakārādbhinnamiva pratyavabhāsamānaṃ dṛṣṭādiśabdavācyaṃ bhavati na tu yathā tantrāntarīyāṇāṃ viṣayopanipātibhirindriyairupajanitāvadhyo buddhayastatheha vidyante yāḥ parikalpyamānāḥ svatantrāṇi trīṇi pramāṇāni syuḥ syānmatam, kathaṃ punaḥ pramāṇalakṣaṇānāṃ śaktīnāmakavastusanniveśarūpabhedā bhavantīti ? ucyate- sattvādivat yathā sattvādīnāṃ guṇānāmekaśabdādivastusanniveśe 'pi prakāśādikāryabhedādrūpasaṃkaro na bhavati, yathā vā śabdasparśarūparasagandhānāmekadravyasanniveśe 'pi grāhakāntaragamyakatvāt, yathā vā kartṛkaraṇādhikaraṇasampradānāpādānakarmalakṣaṇānāṃ śaktīnāmekadravyasanniveśe 'pi kāryaviśeṣaparicchinnāni svarūpāṇi na saṃkīryante, tadvadidaṃ draṣṭavyam śaktyantaropajanane vastvantaropapattiriti cenna, anabhyupagamāt na hi kṣaṇabhaṅgasāhasaṃ yuktimantareṇa daṇḍabhayādapi pratipadyāmahe, na tu tasyāmavasara iti sthīyatāṃ tāvat āha, kathaṃ punaretad gamyate yathā trividhameva pramāṇaṃ na punaranekavidhamapīti ? ucyate- sarvapramāṇasiddhatvāt isk_4b sarvāṇi ca tāni pramāṇāni sarvapramāṇāni siddhasya bhāvaḥ siddhatvam sarvapramāṇānāṃ siddhatvaṃ sarvapramāṇasiddhatvam siddhatvamantarbhāva ityarthaḥ tasmāt sarvapramāṇasiddhatvāt tasminneva trividhe pramāṇa iti vākyaśeṣaḥ sarveṣāṃ paraparikalpitānāṃ pramāṇānāmasminneva trividhe pramāṇe 'ntarbhāvāditi yāvaduktaṃ syāttāvadidamucyate sarvapramāṇasiddhatvāditi athavā sarvapramāṇeṣu siddhaṃ sarvapramāṇasiddhaṃ- saptamī siddhaśuṣkapakvabandhairiti samāsaḥ, yathā sāṃkāśyasiddhaḥ pāṭaliputrasiddha iti tadbhāvaḥ pramāṇasiddhatvaṃ tasmāt sarvapramāṇasiddhatvāt kasya trividhasya pramāṇasyeti vākyaśeṣaḥ kena punarākāreṇa trividhaṃ pramāṇaṃ siddhamiti ? ucyate- parasparaviśeṣāt anyāni punarasmāt trayāt yathābhinnāni tathā pratipādayiṣyāmaḥ āha, kimpunastat trividhaṃ pramāṇamiti ? ucyate- dṛṣṭamanumānamāptavacanaṃ ca isk_4a iti tatra dṛṣṭaṃ nāma upāttaviṣayendriyavṛttyupanipātī yo 'dhyavasāyaḥ anumānaṃ dvayoravinābhāvinorekaṃ pratyakṣeṇa pramāya tatpūrvakaṃ sambandyantare yat paścānmānaṃ bhavati āptavacanaṃ tu pramāṇabhūtadvārako 'tyantaparokṣe 'rthe niścayaḥ ityuddeśamātramidam mūlalakṣaṇaṃ tu ācāryo vakṣyati svayameva prativiṣayādhyavasāyo dṛṣṭamityādi āha, traividyānupapattiḥ, nyūnādhikaśravaṇāt tantrāntarīyāḥ kecit catvāri pramāṇānīcchanti pratyakṣānumānopamānaśabdāḥ pramāṇānīti vacanāt tathā ṣaḍityanye pratyakṣamanumānaṃ ca śabdaṃ copamayā saha arthāpattirabhāvaśca hetavaḥ sadhyasādhakāḥ ityabhidhānāt etāni sambhavaitihyaceṣṭāsahitāni navetyapare pratyakṣānumāne eveti vaiśeṣikabauddhāḥ tatra kathamidaṃ niścīyate trividhameva pramāṇaṃ, na punarnyūnamadhikaṃ veti ? ucyate- kimpunaridamupamānaṃ nāma ? āha, prasiddhasādharmyāt sādhyasādhanamupamānam prasiddhaḥ prajñātaḥ, tena sādharmyāt, sādhyasyāprasiddhasya sādhanamadhigamo yastadupamānam avabodhavidhistu yenānupalabdho gavayaḥ sa tasyopalabdhyarthamadhigatagavayaṃ paryanuyuṅkte kiṃrūpo gavaya iti sa tasmā ācaṣṭe- yathā gaurevaṃ gavaya iti tatra pratipattyātyantānupalakṣitagavayasvarūpo vyākhyātṛpratipāditaprasiddhavastusādharmyajñānāhitasaṃskāraḥ pratipadyate- nūnamevaṃrūpo gavaya iti apara āha- pratirāptavacanopajanitaprasiddhavastusādharmyajñānāhitasaṃskārasyottarakālaṃ pratyakṣeṇa tamupalabhya yā samākhyāsambandhapratipattiḥ- ayamasāvartho 'sya śabdasya samākhyā iti- tadupamānamucyate yadyevamupamaitihyāvacanam, āptopadeśasiddheḥ yathā gaurevaṃ gavaya iti cāptopadeśabalāt pratipattā aprasiddhaṃ gavayamupalabhate na sādharmyamātrāt tasmānna śabdāt pṛthagupamā yattu khalviti ha uvāca yājñavalkyasya ityetadaitihyaṃ nāma pramāṇāntaramupakalpyate tadapi vaktṛviśeṣāpekṣatvānna śabdādarthāntaram āha, na sādharmyāpekṣatvāt yadi hyāptopadeśa upamā syāttena yathā svarge 'psarasaḥ, uttarāḥ kurava ityevamādiṣvantareṇa sādharmyopādānaṃ pratipattirbhavati evamihāpi syāt gavayantu ayamākhyātā pratipādayiṣyan prasiddhasādharmyagarbhaṃ śabdamupādatte na kevalam pratipattāpi tasmādeva pratipadyate na śabdamātrāt, tasmātpṛthagevāsyopadeśaḥ kartavyaḥ śabdavyāpārāttadantarbhāva iti cet syānmatam śabdavyāpārasahito 'yaṃ prasiddhasādharmyalakṣaṇārtho gavayapratipattau na kevalaḥ, tasmādasya tatrāntarbhāva iti tadapyanupapannam kasmāt ? vītāvītayorapi tatprasaṅgāt vītāvītāvapi hetū parapratipādanārthamupādīyamānau śabdavyāpāramapekṣete tayorapyāptavacanatvaprasaṃgaḥ aniṣṭaṃ caitat tasmānnopamānamāptopadeśaḥ ucyate, sādharmyāvyatireka, upāyabhūtatvāt ākhyātṛprāmāṇyādeva pratipatturgavayavijñānamupapadyate sa tu kauśalāddurupapādo 'yamartha iti kṛtvā prasiddhasādharmyamupādatte tasmādākhyāturgavayapratipādanārthamupāyabhūtaṃ sādharmyamupādadānasya śabdādarthāntaramudbhavati athaivaṃjātīyakānāmapi pramāṇāntaratvamiṣyate tenātyalpamidamucyate catvāri pramāṇānīti kiṃ tarhi pāṇivihārākṣinikocaprabhṛtīnāmapyupasaṃkhyānaṃ kartavyam kiṃca vaktṛviśeṣāpekṣatvāt yatra hyarthavaśātpratipattirutpadyate na tatra pratipattā vaktṛviśeṣamapekṣate dṛṣṭārtho 'yamadṛṣṭārtho 'yamiti tadyathānumāne asti copamāne vaktṛviśeṣāpekṣā tasmānna śabdādarthāntaraṃ tat avaśyaṃ caitadevaṃ vijñeyam yo hi manyate prasiddhasādharmyādeva gavayapratipattiriti yathāśvastathā gavaya ityetasmādapi tasya sampratipattiḥ syāt na cārhati bhavituṃ, mithyājñānatvāt yattu khalvidamucyate yataḥ samākhyāsambandhapratipattiriti tadupamānamiti etadanupapannam kasmāt ? anavasthāprasaṃgāt tadyathā bahuṣu niṣaṇṇeṣu ko 'tra devadatta ityukte yo mukuṭī kuṃḍalī vyūḍhoraskastāmrāyatākṣa iti pratyāha tataśca samākhyāsambandhapratipattiriti pramāṇāntaratvaprasaṅga ityevamanavasthā pramāṇānāṃ syāt aniṣṭaṃ caitat evaṃ hi na tāvat parata upamānaṃ pramāṇāntaram yadā svayameva gāṃ gavayaṃ copalabhya vikalpayati yathāyaṃ tathāyamiti tadā tasyārthasya pramāṇāntareṇādhigatatvāt pramāṇameva tanna bhavatīti tasmāt suṣṭhūktamayamaitihyāptavacanamāptopadeśāt siddheriti kiñcānyat- arthāpattisaṃbhavābhāvaceṣṭānāmanumānasiddheḥ avacanamityanuvartate tatrārthāpattirnāma yatrārthayoḥ pūrvamavyabhicāramupalabhya paścādanyatarasya darśanācchravaṇādvānyatarasmipratipattirbhavati darśanādyā guḍamupalabhya mādhuryamindriyāntaraviṣayaṃ pratipadyate śravaṇādyathā guḍaśabdaṃ śrutvā mādhuryamaśabdakaṃ pratipadyata iti aparā khalvārthāpattiḥ yatra dharmayoravyabhicāramupalabhya tatpratidvandvinorapi sāhacaryakalpanā sā tu dvividhā, vyabhicāriṇī cāvyabhicāriṇī ca tatra vyabhicāriṇī yathā sāvayavamanityamityukte 'rthādāpannaṃ niravayavaṃ nityamiti tacca karmādiṣvadṛṣṭamityeṣānaikāntikatvātpramāṇameva na bhavatīti yā tvavinābhāvinī avyabhicāriṇī yathā kesarivarāhayorupagahvare sannipātamupalabhyottarakālaṃ kevalaṃ kesariṇaṃ varāhavraṇāṃkitaśarīraṃ prayāntamupalabhya pratipadyate jito varāha iti tadanumānam katham ? yasmātkesarivarāhayoryau jayaparājayau tayoravyabhicārī sambandhaḥ tatra yadā kesariṇo jayamupalabhyāvyabhicāriṇamitarasya parājayaṃ pratipadyate kimanyatsyādṛte 'numānāt ? adhigatobhayasambandhisamudāyasya hi pratipattuḥ pratyakṣībhūtānyatarasambandhino yā sambandhyantarapratipattistadanumānam itthaṃ cārthāpattirato na tasmātpṛthagbhavitumarhati sambhavo nāma droṇaḥ prastha ityukte 'rdhadroṇādīnāṃ sannidhānamavasīyate ityayamapi sāhacaryakalpanayārthāpattireva katham ? yasmāduktaparimāṇe dravye droṇaśabdo vartate, na nyūne nādhike tatra droṇa ityukte yadatyantasahabhuvāṃ tadavayavānāmanyaśabdavācyānāmapi sannidhānam tadarthāpattireva sa cānumānamityuktam abhāvo nāma tadyathā dhūmasya bhāvādagnerbhāvaḥ pratīyate evaṃ dhūmābhāvādagnyabhāva ityayaṃ pratidvandvisāhacaryakalpanayārthāpattirabhihitaḥ tatra yadā vyabhicārasāhacaryakalpanā tadā pramāṇābhāva eva tadyathāyoguṇāṅgārādiṣu dhūmābhāvo nāgnyabhāvaḥ yatra tu kvacidekāntaḥ syāt yathākṛtakatvānnitya iti tatrānumānam katham ? sāhacaryopapatteḥ kṛtakatvānityatvavat anye tu abhāvamanyathā varṇayanti tadyathā gehe nāsti caitra ityukte bahirastīti sampratyayo bhavati, tatra gehābhāvo bahirbhāvasampratipattiheturarthāntarāpattireva pratidvandvisāhacaryakalpanayā katham ? yathaiva hi divā na bhuṅkte devadattaḥ pīna ityatrābhojanapratiyogino meduratvasyopalambhāddivāpratiyogini kāle rātrau bhujiravasīyate evamihāpi gehābhāvābhidhānasāmarthyāttatpratiyogini viparyayaḥ kalpyate anyathā tu yadyabhāva evābhipretaḥ syānnāsti caitra eveti brūyāt arthāpattiścānumānam ceṣṭā nāma abhiprāyasūcakaḥ kaścidevodaratāḍanāñjalikaraṇādiḥ śarīravyāpāraḥ sa hi bubhukṣādīnyapratīyamānāni pratipādayatīti pramāṇamityucyate sa cānumānameva kasmāt ? yasmād bhojanecchādisahacaro hi vyāpāro 'nuṣṭhīyamāno yadi sahacāriṇaṃ gamayati tadā nānumānātpṛthagiti śakyaṃ pratijñātum āha- pratibhā tarhi pramāṇāntaraṃ bhaviṣyati ucyate- keyaṃ pratibhā nāma ? āha, yo 'yamanādau saṃsāre devamanuṣyatiraścāmabhinne 'rthe bāhye stryādau pratyaye pūrvābhyāsavāsanāpekṣaḥ kuṇapakāminībhakṣyādyākārabhedabhinnapratyaya itikartavyatāṅgamutpadyate sā hi pratibhā tathā coktam- yathābhyāsaṃ hi vākyebhyo vināpyarthena jāyate svapratyayānukāreṇa pratipattiranekadhā yena hi yo 'rtho 'bhyastassukhāditvena tasya vināpi tenārthena śabdamātrāt pratipattirutpadyate tadyathā vyāghro 'tra prativasatītyukte vināpi bāhyenārthenābhyāsavaśādeva svedavepathuprabhṛtayo bhavanti tasmāt pratibhaiva devamanuṣyatiraścāmitikartavyatāṅgatvātpramāṇamiti āha ca- pramāṇatvena tāṃ lokaḥ sarvaḥ samanugacchati vyavahārāḥ pravartante tiraścāmapi tadvaśāt ucyate pratibhāyā dṛṣṭādivyatirekena rūpāntarānupapatteḥ avacanamityanuvartate yadi pūrvābhyāsavāsanāpekṣaḥ pratyayaḥ pratibhetyupagamyate tena tarhi asau pratyakṣamanumānamāptavacanaṃ cetyetadāpannam kasmāt ? yato na dṛṣṭādivyatirekeṇa pratyakṣarūpaṃ kadācidapyupalabhāmahe tasmānna tebhyo 'rthāntaraṃ pratibhā ārṣapratyayasambhavādayuktamiti cet- syādetat, astyārṣo hi dṛṣṭādivyatirekeṇa sarvapadārtheṣu sāṃsiddhikaḥ pratyayaḥ sa prātibho bhaviṣyatīti etaccāpyayuktam kasmāt ? uktatvāt uktametat siddharūpaṃ bhagavataḥ paramarṣerjñānam ato na pramāṇāpekṣamiti yogināmiti cenna, anabhyupagamāt na hi yogināmapramāṇapūrvakaṃ jñānamiti yathā tathā vakṣyāmaḥ sa laukika iti cet na aniścitatvāt syādetat- asti laukikaḥ pratyayo dṛṣṭādivyatirekeṇa tadyathā santamase vrajato drāgiti vijñānamutpadyate - asti me pratīghāti dravyaṃ purastādūrdhvamavasthitamiti tacca naivam kasmāt ? aniścitatvāt na hi tatra niścaya utpadyate idaṃ taddravyamasti purato vā vyaktamastīti na cāniścitaṃ pramāṇajñānamiṣyate kiṃcānyat- anavasthāprasaṃgāt yadi caivaṃjātīyato 'pi pratyayaḥ pramāṇamabhyupagamyate tenānavasthā prāpnoti kiṃ kāraṇam ? anavasthānādvikaraṇasya kāmakrodhalobhayaviṣādadvārako vikalpaḥ samyaṅmithyā vā yasmādaneka utpadyate tasmānna laukikaḥ pratyayaḥ pratibhā yattu khalvidamucyate- abhyāsavāsanāpekṣāsatsvapi vyāghrādiṣu pratipattirutpadyate iti satyametat sā tu mithyājñānatvātpramāṇatvena na parigṛhyate ityayamadoṣaḥ tasmāt siddhaṃ dṛṣṭādivyatirekeṇa rūpāntaranupapatteḥ pratibhāyāḥ pṛthaganabhidhānam tataśca sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭamiti sthitametat

Section (cont. 7)

5

कारिका 5 आह- अस्त्वेवमेतत् लक्षणानभिधानात्तदप्रतिपत्तिः तस्मात्तदभिधानम् अनवस्थितं हि दृष्टादीनां लक्षणम्, दृष्टिवैचित्र्यात् इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति केचित् तथात्मेन्द्रियमनो ऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यदित्येके सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमित्यपरे श्रोत्रादिवृत्तिरिति वार्षगणाः कल्पनापोढमित्यन्ये इत्थमनवस्थितं लक्षणम् इति दृष्टादीनामप्रतिपत्तिः तस्माल्लक्षणमभिधानीयम् उच्यते- प्रतिविषयाध्यवसायो दृष्टम् विषिण्वन्तीति विषयाः शब्दादयः अथवा विषीयन्ते उपलभ्यन्ते इत्यर्थः ते च द्विविधाः विशिष्टा अविशिष्टाश्च विशिष्टाः पृथिव्यादिलक्षणा अस्मदादिगम्याः अविशिष्टाश्च तन्मात्रलक्षणा योगिनामूर्ध्वस्रोतसां च गम्याः वक्ष्यति चैतदुपरिष्टात् "बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि" (इस्क् 34) अध्यवसायो बुद्धिरिति (इस्क् 23) च वक्ष्यति विषयं प्रति वर्तत इति प्रतिविषयम् किन्तत् ? इन्द्रियम् तस्मिन् यो ऽध्यवसायः स प्रतिविषयाध्यवसायः उपात्तविषयाणामिन्द्रियाणां वृत्त्युपनिपाति सत्त्वोद्रेकादरजस्तमस्कं यत्प्रकाशरूपं तद् दृष्टमिति यावत् तद् दृष्टं प्रत्यक्षमित्यर्थः एतत्प्रमाणम् अनेन यश्चेतनाशक्तेरनुग्रहस्तत्फलम् प्रमेयाः शब्दादयः एवमुत्तरत्रापि प्रमाणफलभावो द्रष्टव्यः आह- किं पुनरिदं प्रमाणात्फलमर्थान्तरमाहोस्विदनर्थान्तरम् ? कथं तावत् भवितुमर्हति अनर्थान्तरमिति ? आह- कस्मात् ? अधिगमरूपत्वात् अधिगमरूपं हि ज्ञानं, तस्योत्पत्त्यैवाधिगतो ऽर्थ इति कुतः फलभेद इति ? उच्यते- करणभाव इदानीं कथं स्यात् ? आह- करणभावस्तु प्रसिद्धिवशात् विषयनिर्भासा हि ज्ञानस्योत्पत्तिः अधिगमरूपापि लोके सव्यापारेव प्रतीतेति कल्पनया करणभावो ऽभ्युपगम्यते न परमार्थतः उच्यते- फलस्यार्थान्तरभावः अधिकरणभेदात् बुद्ध्याश्रयं हि प्रमाणमध्यवसायाख्यम्, पुरुषाश्रयं फलमनुग्रहलक्षणम् न च भिन्नाधिकरणयोरेकत्वमर्हति भवितुम् यत्तूक्तमधिगमरूपत्वात् ज्ञानमेव फलमिति तदनुपपन्नम् कस्मात् ? असिद्धत्वात् यथैव हि घटादयो ऽर्था ज्ञानमन्तरेण न तद्रूपा नातद्रूपा इति न शक्यं प्रतिपत्तुम्, एवं ज्ञानमपि पुरुषप्रत्ययमन्तरेण न विषयरूपं नाविषयरूपम् तथा च शास्त्रम्- "तत्संयोगादचेतनं चेतनावदिव लिङ्गमिति" (इस्क् 20) वचनात् अतः पुरुषप्रत्ययमन्तरेण ज्ञानमधिगमरूपमिति सांख्यं प्रत्यसिद्धमेतत् उभयपक्षप्रसिद्धेन च व्यवहारः पुरुषाभावादयुक्तमिति चेन्न उत्तरत्र प्रतिपादनात् संघातपरार्थत्वादित्यत्र पुरुषास्तित्वं प्रतिपादयिष्यामः तस्मात् सिद्धमध्यवसायप्रमाणवादिनः प्रमाणात्फलमर्थान्तरमिति आह- यदि ह्यध्यवसायः प्रमाणं कथं लौकिकः प्रयोगो ऽर्थवान् भवति प्रत्यक्षं वस्तु इति ? उच्यते- विषये प्रत्यक्षशब्दः तत्प्रमितत्वात् तत्कारणात्वाच्च यथा प्रस्थप्रमितो व्रीहिराशिः प्रस्थशब्दवाच्यो भवति एवं प्रत्यक्षप्रमितो ऽर्थः प्रत्यक्षशब्दवाच्यः स्यात् आह, न अन्यत्रापि तत्प्रसङ्गात् यदि प्रत्यक्षप्रमितत्वाद्विषये प्रत्यक्षशब्दस्तेन तर्हि अनुमामप्रमितो ऽर्थो ऽनुमानमिति स्यात् शब्दप्रमितो ऽर्थः शब्द इति न चाग्निस्वर्गादयः प्रमाणशब्दवाच्या भवन्ति तस्माद्विषमलिङ्गलिङ्गिपूर्वकम्, योगिनां च ध्यानभूमिकासु विहरतामनुमानागमातीतं प्रातिभं यद्विज्ञानमुत्पद्यते तदुपसंख्येयं स्यात् कुतः ? न हि सुखादयः श्रोत्रादिवृत्तिग्राह्याः, योगिनां चातिन्द्रियं ज्ञानमिति यथान्यासं तु क्रियमाणे ते ऽपि विषयाः, तेषां यो ऽध्यवसायस्तस्य प्रत्यक्षत्वं केन वार्यते ? उच्यते- तदभावादितरत्राप्रवृत्तिः प्रमाणान्तरे तु नास्ति सामान्यं निमित्तम् कथम् ? अनुमीयते ऽनेनेत्यनुमानम् न चाग्न्यादिभिः कश्चिदनुमीयत इत्यतस्तुल्यशब्दवाच्यता न भवति आह- अध्यवसायग्रहणं किमर्थम् ? उच्यते- अतिप्रसंगनिवृत्त्यर्थम् प्रतिविषयं दृष्टमितीयत्युच्यमाने यावत्किंचित् प्रतिविषयं वर्तते ऽनुग्राहकत्वेनोपघातत्वेन वा तत् सर्वं दृष्टमित्येतदापद्यते अध्यवसायग्रहणे पुनः क्रियमाणे न दोषो भवति आह- न, प्रमाणाधिकारात् नाध्यवसायशब्दस्य प्रयोजनम् कुतः ? प्रमाणाधिकारो ऽयम् न चाध्यवसायादृते यत्किंचिद्विषयं प्रतिपद्यते तेन किंचित् प्रमीयते तेन वयं सामर्थ्यादध्यवसायमेवाभिसंभन्त्यस्यामः तद्यथा- अध्ययनाधिकारे ब्राह्मणा आनीयन्तामित्युक्ते य एवाधीयन्ते त एवानीयन्ते उच्यते- करणान्तराणां तु सन्देहनिवृत्त्यर्थम् एवं तर्हि श्रोत्रादीनामन्यतममन्तःकरणं चेत्येतद् द्वारद्वारिभावेन चतुष्टयं विषयं प्रति वर्तते तस्मादध्यवसायग्रहणं क्रियते सन्देहो मा भूदिति आह- अस्त्वत्र सन्देहः, नैकेन केनचित् कश्चिद्विषय उपादीयते तेन वयं सर्वेषां प्रत्यक्षत्वं प्रतिपत्स्यामहे उच्यते- सर्वाभ्युपगमे हि शास्त्रहानिः यदि पुनः सर्वेषामेव प्रमाणत्वमभ्युपगम्यते तेन यच्छास्त्रमेकमेव दर्शनं ख्यातिरेव दर्शनमिति तद्धीयते वक्ष्यति चाचार्यः "एते प्रदीपकल्पाः" (इस्क् 36), "सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिरिति" (इस्क् 37) तद्विरुद्यते तस्मादध्यवसायग्रहणं कर्तव्यम् सन्देहो मा भूदिति आह- न, सन्देहमात्रमेतद् भवति सर्वसन्देहेषु चैतदुपतिष्ठते- व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम् तत्राध्यवसायो दृष्टमिति व्याख्यास्यामः उच्यते- मुक्तसंशयं चेन्द्रियवृत्तिप्रतिपत्तेः स्यादेतत्, यद्यत्र सन्देहः स्यात् नैवात्र सन्देहः प्राप्तः, किन्तर्हि श्रोत्रातिवृत्तेरेव ग्रहणम् आह- किं पुनः कारणं येन निमित्ताविशेषे ऽपि श्रोत्रादिवृत्तेरेवात्र ग्रहणं प्राप्नोति, नान्तःकरणस्यैव प्रत्यक्षत्वम् ? उच्यते- तत्र च मुख्या श्रोत्रादिवृत्तिः कस्मात् ? साक्षाद्विषयग्रहणसामर्थ्यात् नान्तःकरणम्, तद्द्वारेण प्रतिपत्तेः गौणमुख्ययोश्च मुख्ये सम्प्रतिपत्तिः तद्यथा- गौरनुबन्ध्यः अजो ऽग्नीषोमीय इति वाहीको नानुबध्यते आह- यदीयं श्रोत्रादिवृत्तिरेव प्रत्यक्षमित्यभुपेयते क एवं सति दोषः स्यात् ? उच्यते- रागादिविषयं यद्विज्ञानं लिङ्गलिङ्गिपूर्वकम्, योगिनां च ध्यानभूमिकासु विहरतामनुमानागमतीतं प्रातिभं यद्विज्ञानमुत्पद्यते तदुपसंख्येयं स्यात् कुतः ? न हि सुखादयः श्रोत्रादिवृत्तिबाह्याः, योगिनां चातीन्द्रियं ज्ञानमिति यथान्यासं तु क्रियमाने ते ऽपि विषयाः, तेषां यो ऽध्यवसायस्तस्य प्रत्यक्षत्वं केन वार्यते ? आह- प्रतिविषयग्रहणं तर्हि किमर्थम् ? उच्यते - प्रतिविषयग्रहणमसद्व्युदासार्थम् अध्यवसायो दृष्टमितीयत्युच्यमाने मृगतृष्णिकालातचक्रगन्धर्वनगरादिषु अपि यो ऽध्यवसायस्तद् दृष्टमिति प्रतिविषयग्रहणात्तु तेषां व्युदासः कृतो भवति आह- यद्येवं विषयाध्यवसाय इत्येव चोच्यताम् किम्प्रतिग्रहणेन ? उच्यते- प्रतिग्रहणं सन्निकर्षार्थम् विषयाध्यवसायो दृष्टमितीयत्युच्यमाने विषयमात्रे सम्प्रत्ययः स्यात् प्रतिग्रहणे पुनः क्रियमाणे प्रतिराभिमुख्ये वर्तते तेन सन्निकृष्टेन्द्रियवृत्त्युपनिपाती यो ऽध्यवसायस्तद् दृष्टमित्युपलभ्यते आह- कस्य पुनरतीन्द्रियसन्निकर्षे प्रत्यक्षत्वं प्राप्नोति ? उच्यते- अनुमानस्य कस्मात् ? तद्धि लिङ्गदर्शनादसन्निकृष्टे विषये भवति आह- अनुमानस्याप्रसङ्गः सामान्यविहितस्य विशेषविहितेन बाधनात् सामान्ये हि विषयमात्रे ऽध्यवसायस्य प्रत्यक्षत्वं विधाय विशेषे लिङ्गलिङ्गिपूर्वके ऽनुमानं शास्ति सामान्यविहितं च विशेषविहितेन बाध्यते, यथा तद्धि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति उच्यते- स्मृतेस्तर्हि प्रत्यक्षत्वं प्राप्नोति तत्रायमपवादो नाभिनिविशत इति आह न, स्मृतेः, प्रमाणाधिकारात् प्रमाणाधिकारो ऽयम् न च स्मृत्या किंचित् प्रमीयते स्मृतेः प्रमिते ऽर्थे प्रादुर्भावात् उच्यते- संशयस्य तर्हि प्राप्नोति न संशयस्य, अध्यवसायग्रहणात् अध्यवसायो हि दृष्टमित्युच्यते न च संशयो ऽध्यवसायो ऽनिश्चितत्वात् उच्यते- इन्द्रियान्तराकूतविषये तु प्रसङ्गः एवं तर्हीन्द्रियार्थसन्निकृष्टेन्द्रियवृत्त्युपनिपातीति दोषो न भवति आह- रागाद्युपसंख्यानम् यदि सन्निकृष्टेन्द्रियवृत्त्युपनिपाती यो ऽध्यवसायस्तद् दृष्टमित्यभ्युपेयते, तेन रागादिविषयं विज्ञानमतीन्द्रियत्वात्प्रत्यक्षं न प्राप्नोति तस्योपसंख्यानम् कर्तव्यम् उच्यते- न तर्हीदं प्रतिग्रहणमिन्द्रियविशेषणं विषयं विषयं प्रति यो वर्तते तस्मिन् यो ऽध्यवसायस्तद् दृष्टमिति किन्तर्हि- अध्यवसायविशेषणं विषयं विषयं प्रति यो ऽध्यवसाय इति आह- अध्यवसायविशेषणमिति चेत्, शब्दाद्युपसंख्यानम् शब्दादीनामेव तेन प्रत्यक्षत्वं प्राप्नोति तेषामुपसंख्यानं कर्तव्यं प्राप्नोति किं कारणम् ? अन्तःकरणस्य तैः सन्निकर्षानुपपत्तेः प्रतिग्रहणं सन्निकर्षार्थमिति पूर्वमतिसृष्टं भवता तच्चेदानीमन्तःकरणविशेषणम् न चान्तःकरणस्य शब्दादिभिः सन्निकर्ष उपपद्यते, श्रोत्रादिवैयर्थ्यप्रसङ्गात् द्वारिद्वारभावस्यापघातप्रसङ्गाच्च तस्मात्सुदूरमपि गत्वा प्रतिग्रहणं प्रत्याख्यानान्न मुच्यते रागाद्युपसंख्यानाद्वेति उच्यते- अस्तु तर्हीन्द्रियाणां प्रति विषयग्रहणं विशेषणम् यत्तूक्तं रागादीनामुपसंख्यानं कर्तव्यमिति तत्र ब्रूमः एकशेषनिर्देशात् सिद्धम् एवं तर्हि प्रतिविषयाध्यवसायश्च प्रतिविषयाध्यवसायश्च प्रतिविषयाध्यवसाय इति सरूपाणामेकशेषः करिष्यते तत्रैकेन बहिरङ्गस्यैन्द्रियस्य प्रत्यक्षस्य परिग्रहः द्वितीयेनान्तरङ्गस्य प्रातिभस्येति रागादिविषयं योगिनां च यद्विज्ञानं तत् संगृहीतं भवतीति व्याख्यातं प्रत्यक्षम् आह- अनुमानमिदानीं वक्तव्यम् उच्यते- त्रिविधमनुमाममाख्यातम् अनुमानं त्रिप्रकारमाचार्यैराख्यातम् पूर्ववत्, शेषवत्, सामान्यतोदृष्टं च तत्र पूर्वमिति कारणमुच्यते यस्य हि यत् कारणं स लोके तत्पूर्वक इत्युच्यते यथा तन्तुपूर्वकः पटो, देवदत्तपूर्वको यज्ञदत्त इति पूर्वमस्यास्तीति पूर्ववत् शेष इति विकारनाम, शिष्यत इति कृत्वा तथा चोक्तम्- न शेषो ऽग्नेरन्यस्य जातमित्यस्ति नापत्यमन्येन जातं सम्भवतीत्यर्थः शेषो ऽस्यास्तीति शेषवत् तत्र पूर्ववत् यदा कारणमभ्युदितं भविषयत्त्वं कार्यस्य प्रतिपद्यते तद्यथा मेघोदये भविष्यत्त्वं वृष्टेः आह- नैतदस्त्युदाहरणमनेकान्तात् न हि मेघोदयो ऽवश्यं वृष्टेः कारणं भवति, वाय्वादिनिमित्तप्रतिबन्धसम्भवात् उच्यते- यदि तर्हि कारणशक्तिं सहकारिशक्त्यन्तरानुगृहीतामप्रतियोगिनीं दृष्ट्वा कार्यस्य व्यक्तिं प्रतिपद्यते तद्यथा यदा लौहदण्डादिसाधनसम्पन्ने व्यापारवता कुम्भकारेणाधिष्ठितां मृदमुपलभ्य घटस्य, तदा पूर्ववत् शेषवत्- यदा कार्यनिर्वृतिं दृष्ट्वा कारणसद्भावं प्रतिपद्यते तद्यथा कुमारकं दृष्ट्वा द्वयसमापत्तिम् आह- नैतदस्त्युदाहरणम् अनेकान्तात् न हि द्वयसमापत्तिपूर्वक एव प्राणभृतां प्रादुर्भावो, द्रोणादीनामन्यथोत्पत्तिविशेषश्रवणात् उच्यते- यदा तर्हि प्रभानुरंजितमन्तरिक्षं दृष्ट्वा चन्द्रार्कयोरुदयं प्रतिपद्यते तदा शेषवत् आह- एतदपि नास्त्युदाहरणम् अनेकान्तात् न हि प्रभानुरागो ऽन्तरिक्षे चन्द्रार्कनिमित्त एव भवति किन्तर्हि दिग्दाहादिनिमित्तो ऽपि उच्यते - यदा तु नदीपूरं दृष्ट्वा वृष्टिं प्रतिपद्यते तदा शेषवत् एतदपि नास्त्युदाहरणम् अनेकान्तात् नदीपूरस्य हि निमित्तमनेकविधं भवतीति हिमिलयनसेतुभंगगजक्रीडादि तस्मादयुक्तमेतत् उच्यते यदा तर्हि पर्णं दृष्ट्वा शालूकं प्रतिपद्यते, अंकुरं वा दृष्ट्वा बीजमिति तदा शेषवत् अथवा पुनरस्तु पूर्वकमेवोदाहरणम् यत्तूक्तं- अनेकान्तादिति अत्र ब्रूमः- वीतावीतसामर्थ्यात् वीतावीताभ्यां हेतुभूताभ्यामभिप्रेतार्थसिद्धिरिति वक्ष्यामः प्रसंगिधर्मान्तरनिवृत्तिमुखेन चावीतप्रयोगः तत्र यदा प्रसंगिनां हिमविलयनादीनां देशकाललिङ्गैः प्रतिषेधः क्रियते तदा मुक्तसंशयं प्रतिपत्तिर्भवति देशस्तावत्तद् यथा- दक्षिणापथे नास्ति हिमविलयनसम्भवः कालतो यथा प्रावृट्काले लिङ्गतो ऽपि यस्मान्मुद्गगवेधुकश्यामाककाष्ठसूत्रशकृत्प्रभृतीनामनुपलम्भस्तथोष्मकलुषत्वादीनामुपलम्भः तस्मात् परिशेषतो मेध्या एवाप इति तस्मान्नानेकान्तः एवं कृत्वा पूर्वाण्यप्युदाहरणानि उपपन्नानि भवन्ति देशादिविचारसामर्थ्यात् सामान्यतोदृष्टं नाम यत्रैकदार्थयोरव्यभिचारमुपलभ्य देशान्तरे कालान्तरे च तज्जातीययोरव्यभिचारं प्रतिपद्यते तद्यथा क्वचिद्धूमाग्निसम्बन्धं दृष्ट्वा क्वचिद्धूमान्तरेणाग्न्यन्तरस्यास्तित्वं प्रतिपद्यते आह- नैतदस्त्युदाहरणम् अविशेषप्रसङ्गात् सर्वत्रैव ह्यनुमाने क्वचिदर्थयोरव्यभिचारमुपलभ्यान्यत्र तज्जातीययोरर्थयोरव्यभिचारं प्रतिपद्यते तद्यथा क्वचित् साधनवतो मृत्पिण्डाद् घटनिष्पत्तिमुपलभ्यान्यत्र साधनवतः पिण्डान्तराद्घटान्तरनिष्पत्तिं प्रतिपद्यते, तथैकत्र नदीपूराद् वृष्टिमुपलभ्यान्यत्र नदीपूरान्तराद्वृष्ट्यन्तरमवसीयते तथा च सति त्रयाणामविशेषप्रसंगः उच्यते- यदा तर्हि सहभुवामेकस्य विशिष्टगुणमुपलभ्य शेषाणामपि तद्वत्त्वमनुमीयते तदा सामान्यतोदृष्टम् तद्यथा वृक्षादेकस्य फलस्य पाकमुपलभ्य शेषाणां वृक्षान्तराणां च पाको ऽनुमीयते आह- एतदपि नास्त्युदाहरणम् अनेकातन्तात् न हि सर्वेषां फलानां तुल्यकालं पाको भवति पूर्वापरकालनिष्पन्नत्वात्, निमित्तभेदाच्च उच्यते- यदा तर्हि समुद्रादेकमुदबबिन्दुं प्राश्य शेषस्य लवणतानुमीअते स्थाल्यां वैकं पुलाकमुपलभ्य शेषाणां पाको ऽनुमीयते तदा सामान्यतोदृष्टम् आह- नैतदस्त्युदाहरणम् अकृत्स्नसङ्ग्रहात् वक्ष्यत्ययमुपरिष्टादाचार्यः "सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानादिति" (इस्क् 6) तत्रैवं प्रमाणे परिकल्प्यमाने कार्यकारणयोस्तत्संघातानां च सुखदुःखमोहस्वभावोपलम्भात्तन्मात्राहङकारप्रधानानां समधिगमः स्यात् न पुरुषस्य, तज्जातीयार्थानुपलम्भात् उच्यते- यदा तर्हि क्वचिद्धर्मेण धर्मान्तरस्याव्यभिचारमुपलभ्यैकधर्मोपलम्भाद्भिन्नजातीये ऽत्यन्तानुपलब्धस्य धर्मान्तरस्य प्रतिपत्तिस्तदा सामान्यतोदृष्टम् तद्यथा - देवदत्ते गमनाद्देशान्तरप्राप्तिमुपलभ्यात्यन्तादृष्टज्योतिषां देशान्तरप्राप्तेर्गमनमनुमीयते तथा प्रासादादीनां वृद्धिपूर्वकं दीर्घत्वमुपलभ्यौषधिवनस्पतीनां दीर्घत्वदर्शनाद्वृद्धिरनुमीयते आह- नैतदप्यस्त्युदाहरणम् पूर्वेणाविशेषात् कार्यात् कारणस्याधिगमः शेषवदिति पूर्वमतिसृष्टं भवता अत्रापि च देशान्तरप्राप्तिलक्षणात् कार्याद् गतिलक्षणस्य कारणस्याधिगमः तस्मात् शेषवत्सामान्यतोदृष्टयोरभेदप्रसंगः उच्यते- न, अनियमात् यत्र हि नियमतः कार्येण कारणमधिगम्यते तच्छेषवदिति अयमस्मदभिसन्धिः न तु तदस्ति सामान्यतोदृष्टे कस्मात् ? संघातत्वसामान्यात् पारार्थ्यसामान्यसाधनमपि दृश्यते यथाह- अव्यभिचाराद्विशेषास्तु प्रतीताः प्रतिपादकाः इति साध्यसाधनसामान्ययोरपि दृश्यते, यथानित्यः शब्दः कृतकत्वादिति तत्रैवं सति नियमवादिनः प्रतिज्ञाहानिः एतेनासिद्धविरुद्धानैकान्तिकसाधनाभासाः प्रत्युक्ताः ते हि संशयविपर्ययाज्ञानहेतुकत्वादगमका इति व्याख्यातमनुमानम् आह- आप्तवचनस्य किं लक्षणमिति ? उच्यते- आप्तश्रुतिराप्तवचनन्तु इस्क्_5 आप्ता नाम रागादिवियुक्तस्यागृह्यमाणकारणपरार्थाः व्याहृतिः श्रवणं श्रुतिः आप्ता चासौ श्रुतिराप्तश्रुतिः अथवा आप्तास्यास्तीत्याप्तः अकारो मत्वर्थीयः तद्यथा तुन्दो घट इति आप्तेभ्यः श्रुतिराप्तश्रुतिः आप्तश्रुतिश्चाप्तश्रुतिः सरूपाणिमित्येकशेषः तत्र पूर्वेणाप्तश्रुतिग्रहनेन प्रतिपादयति अपुरुषबुद्धिपूर्वक आम्नायः, स्वतन्त्रः पुरुषनिःश्रेयसार्थं प्रवर्तमानो निःसंशयं प्रमाणमिति द्वितीयेन मन्वादिनिबन्धनानां च स्मृतीनां वेदाङ्गतर्केतिहासपुराणानां शिष्टानां नानाशिल्पाभियुक्तानां चादुष्टमनसां यद्वचस्तत्प्रमाणमित्येतसिद्धं भवति तुशब्दो ऽवधारणार्थः आप्तश्रुतिरेवाप्तवचनं न शब्दमात्रम् एवं सति यदुक्तं तन्त्रान्तरीयैः शिंशपादिशब्दानां निर्विकल्पमनुमाने ऽन्तर्भावस्त्रिलक्षणत्वादिति तदयत्नतः प्रतिक्षिप्तं भवतीति व्याख्यातानि प्रमाणानि एतैः पूर्वोक्तं प्रमेयं यथास्वं प्रतिपत्तव्यमिति

kārikā 5 āha- astvevametat lakṣaṇānabhidhānāttadapratipattiḥ tasmāttadabhidhānam anavasthitaṃ hi dṛṣṭādīnāṃ lakṣaṇam, dṛṣṭivaicitryāt indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri vyavasāyātmakaṃ pratyakṣamiti kecit tathātmendriyamano 'rthasannikarṣādyanniṣpadyate tadanyadityeke satsamprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamityapare śrotrādivṛttiriti vārṣagaṇāḥ kalpanāpoḍhamityanye itthamanavasthitaṃ lakṣaṇam iti dṛṣṭādīnāmapratipattiḥ tasmāllakṣaṇamabhidhānīyam ucyate- prativiṣayādhyavasāyo dṛṣṭam viṣiṇvantīti viṣayāḥ śabdādayaḥ athavā viṣīyante upalabhyante ityarthaḥ te ca dvividhāḥ viśiṣṭā aviśiṣṭāśca viśiṣṭāḥ pṛthivyādilakṣaṇā asmadādigamyāḥ aviśiṣṭāśca tanmātralakṣaṇā yogināmūrdhvasrotasāṃ ca gamyāḥ vakṣyati caitadupariṣṭāt "buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi" (isk 34) adhyavasāyo buddhiriti (isk 23) ca vakṣyati viṣayaṃ prati vartata iti prativiṣayam kintat ? indriyam tasmin yo 'dhyavasāyaḥ sa prativiṣayādhyavasāyaḥ upāttaviṣayāṇāmindriyāṇāṃ vṛttyupanipāti sattvodrekādarajastamaskaṃ yatprakāśarūpaṃ tad dṛṣṭamiti yāvat tad dṛṣṭaṃ pratyakṣamityarthaḥ etatpramāṇam anena yaścetanāśakteranugrahastatphalam prameyāḥ śabdādayaḥ evamuttaratrāpi pramāṇaphalabhāvo draṣṭavyaḥ āha- kiṃ punaridaṃ pramāṇātphalamarthāntaramāhosvidanarthāntaram ? kathaṃ tāvat bhavitumarhati anarthāntaramiti ? āha- kasmāt ? adhigamarūpatvāt adhigamarūpaṃ hi jñānaṃ, tasyotpattyaivādhigato 'rtha iti kutaḥ phalabheda iti ? ucyate- karaṇabhāva idānīṃ kathaṃ syāt ? āha- karaṇabhāvastu prasiddhivaśāt viṣayanirbhāsā hi jñānasyotpattiḥ adhigamarūpāpi loke savyāpāreva pratīteti kalpanayā karaṇabhāvo 'bhyupagamyate na paramārthataḥ ucyate- phalasyārthāntarabhāvaḥ adhikaraṇabhedāt buddhyāśrayaṃ hi pramāṇamadhyavasāyākhyam, puruṣāśrayaṃ phalamanugrahalakṣaṇam na ca bhinnādhikaraṇayorekatvamarhati bhavitum yattūktamadhigamarūpatvāt jñānameva phalamiti tadanupapannam kasmāt ? asiddhatvāt yathaiva hi ghaṭādayo 'rthā jñānamantareṇa na tadrūpā nātadrūpā iti na śakyaṃ pratipattum, evaṃ jñānamapi puruṣapratyayamantareṇa na viṣayarūpaṃ nāviṣayarūpam tathā ca śāstram- "tatsaṃyogādacetanaṃ cetanāvadiva liṅgamiti" (isk 20) vacanāt ataḥ puruṣapratyayamantareṇa jñānamadhigamarūpamiti sāṃkhyaṃ pratyasiddhametat ubhayapakṣaprasiddhena ca vyavahāraḥ puruṣābhāvādayuktamiti cenna uttaratra pratipādanāt saṃghātaparārthatvādityatra puruṣāstitvaṃ pratipādayiṣyāmaḥ tasmāt siddhamadhyavasāyapramāṇavādinaḥ pramāṇātphalamarthāntaramiti āha- yadi hyadhyavasāyaḥ pramāṇaṃ kathaṃ laukikaḥ prayogo 'rthavān bhavati pratyakṣaṃ vastu iti ? ucyate- viṣaye pratyakṣaśabdaḥ tatpramitatvāt tatkāraṇātvācca yathā prasthapramito vrīhirāśiḥ prasthaśabdavācyo bhavati evaṃ pratyakṣapramito 'rthaḥ pratyakṣaśabdavācyaḥ syāt āha, na anyatrāpi tatprasaṅgāt yadi pratyakṣapramitatvādviṣaye pratyakṣaśabdastena tarhi anumāmapramito 'rtho 'numānamiti syāt śabdapramito 'rthaḥ śabda iti na cāgnisvargādayaḥ pramāṇaśabdavācyā bhavanti tasmādviṣamaliṅgaliṅgipūrvakam, yogināṃ ca dhyānabhūmikāsu viharatāmanumānāgamātītaṃ prātibhaṃ yadvijñānamutpadyate tadupasaṃkhyeyaṃ syāt kutaḥ ? na hi sukhādayaḥ śrotrādivṛttigrāhyāḥ, yogināṃ cātindriyaṃ jñānamiti yathānyāsaṃ tu kriyamāṇe te 'pi viṣayāḥ, teṣāṃ yo 'dhyavasāyastasya pratyakṣatvaṃ kena vāryate ? ucyate- tadabhāvāditaratrāpravṛttiḥ pramāṇāntare tu nāsti sāmānyaṃ nimittam katham ? anumīyate 'nenetyanumānam na cāgnyādibhiḥ kaścidanumīyata ityatastulyaśabdavācyatā na bhavati āha- adhyavasāyagrahaṇaṃ kimartham ? ucyate- atiprasaṃganivṛttyartham prativiṣayaṃ dṛṣṭamitīyatyucyamāne yāvatkiṃcit prativiṣayaṃ vartate 'nugrāhakatvenopaghātatvena vā tat sarvaṃ dṛṣṭamityetadāpadyate adhyavasāyagrahaṇe punaḥ kriyamāṇe na doṣo bhavati āha- na, pramāṇādhikārāt nādhyavasāyaśabdasya prayojanam kutaḥ ? pramāṇādhikāro 'yam na cādhyavasāyādṛte yatkiṃcidviṣayaṃ pratipadyate tena kiṃcit pramīyate tena vayaṃ sāmarthyādadhyavasāyamevābhisaṃbhantyasyāmaḥ tadyathā- adhyayanādhikāre brāhmaṇā ānīyantāmityukte ya evādhīyante ta evānīyante ucyate- karaṇāntarāṇāṃ tu sandehanivṛttyartham evaṃ tarhi śrotrādīnāmanyatamamantaḥkaraṇaṃ cetyetad dvāradvāribhāvena catuṣṭayaṃ viṣayaṃ prati vartate tasmādadhyavasāyagrahaṇaṃ kriyate sandeho mā bhūditi āha- astvatra sandehaḥ, naikena kenacit kaścidviṣaya upādīyate tena vayaṃ sarveṣāṃ pratyakṣatvaṃ pratipatsyāmahe ucyate- sarvābhyupagame hi śāstrahāniḥ yadi punaḥ sarveṣāmeva pramāṇatvamabhyupagamyate tena yacchāstramekameva darśanaṃ khyātireva darśanamiti taddhīyate vakṣyati cācāryaḥ "ete pradīpakalpāḥ" (isk 36), "sarvaṃ pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiriti" (isk 37) tadvirudyate tasmādadhyavasāyagrahaṇaṃ kartavyam sandeho mā bhūditi āha- na, sandehamātrametad bhavati sarvasandeheṣu caitadupatiṣṭhate- vyākhyānato viśeṣapratipattirna hi saṃdehādalakṣaṇam tatrādhyavasāyo dṛṣṭamiti vyākhyāsyāmaḥ ucyate- muktasaṃśayaṃ cendriyavṛttipratipatteḥ syādetat, yadyatra sandehaḥ syāt naivātra sandehaḥ prāptaḥ, kintarhi śrotrātivṛttereva grahaṇam āha- kiṃ punaḥ kāraṇaṃ yena nimittāviśeṣe 'pi śrotrādivṛtterevātra grahaṇaṃ prāpnoti, nāntaḥkaraṇasyaiva pratyakṣatvam ? ucyate- tatra ca mukhyā śrotrādivṛttiḥ kasmāt ? sākṣādviṣayagrahaṇasāmarthyāt nāntaḥkaraṇam, taddvāreṇa pratipatteḥ gauṇamukhyayośca mukhye sampratipattiḥ tadyathā- gauranubandhyaḥ ajo 'gnīṣomīya iti vāhīko nānubadhyate āha- yadīyaṃ śrotrādivṛttireva pratyakṣamityabhupeyate ka evaṃ sati doṣaḥ syāt ? ucyate- rāgādiviṣayaṃ yadvijñānaṃ liṅgaliṅgipūrvakam, yogināṃ ca dhyānabhūmikāsu viharatāmanumānāgamatītaṃ prātibhaṃ yadvijñānamutpadyate tadupasaṃkhyeyaṃ syāt kutaḥ ? na hi sukhādayaḥ śrotrādivṛttibāhyāḥ, yogināṃ cātīndriyaṃ jñānamiti yathānyāsaṃ tu kriyamāne te 'pi viṣayāḥ, teṣāṃ yo 'dhyavasāyastasya pratyakṣatvaṃ kena vāryate ? āha- prativiṣayagrahaṇaṃ tarhi kimartham ? ucyate - prativiṣayagrahaṇamasadvyudāsārtham adhyavasāyo dṛṣṭamitīyatyucyamāne mṛgatṛṣṇikālātacakragandharvanagarādiṣu api yo 'dhyavasāyastad dṛṣṭamiti prativiṣayagrahaṇāttu teṣāṃ vyudāsaḥ kṛto bhavati āha- yadyevaṃ viṣayādhyavasāya ityeva cocyatām kimpratigrahaṇena ? ucyate- pratigrahaṇaṃ sannikarṣārtham viṣayādhyavasāyo dṛṣṭamitīyatyucyamāne viṣayamātre sampratyayaḥ syāt pratigrahaṇe punaḥ kriyamāṇe pratirābhimukhye vartate tena sannikṛṣṭendriyavṛttyupanipātī yo 'dhyavasāyastad dṛṣṭamityupalabhyate āha- kasya punaratīndriyasannikarṣe pratyakṣatvaṃ prāpnoti ? ucyate- anumānasya kasmāt ? taddhi liṅgadarśanādasannikṛṣṭe viṣaye bhavati āha- anumānasyāprasaṅgaḥ sāmānyavihitasya viśeṣavihitena bādhanāt sāmānye hi viṣayamātre 'dhyavasāyasya pratyakṣatvaṃ vidhāya viśeṣe liṅgaliṅgipūrvake 'numānaṃ śāsti sāmānyavihitaṃ ca viśeṣavihitena bādhyate, yathā taddhi brāhmaṇebhyo dīyatāṃ takraṃ kauṇḍinyāyeti ucyate- smṛtestarhi pratyakṣatvaṃ prāpnoti tatrāyamapavādo nābhiniviśata iti āha na, smṛteḥ, pramāṇādhikārāt pramāṇādhikāro 'yam na ca smṛtyā kiṃcit pramīyate smṛteḥ pramite 'rthe prādurbhāvāt ucyate- saṃśayasya tarhi prāpnoti na saṃśayasya, adhyavasāyagrahaṇāt adhyavasāyo hi dṛṣṭamityucyate na ca saṃśayo 'dhyavasāyo 'niścitatvāt ucyate- indriyāntarākūtaviṣaye tu prasaṅgaḥ evaṃ tarhīndriyārthasannikṛṣṭendriyavṛttyupanipātīti doṣo na bhavati āha- rāgādyupasaṃkhyānam yadi sannikṛṣṭendriyavṛttyupanipātī yo 'dhyavasāyastad dṛṣṭamityabhyupeyate, tena rāgādiviṣayaṃ vijñānamatīndriyatvātpratyakṣaṃ na prāpnoti tasyopasaṃkhyānam kartavyam ucyate- na tarhīdaṃ pratigrahaṇamindriyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo vartate tasmin yo 'dhyavasāyastad dṛṣṭamiti kintarhi- adhyavasāyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo 'dhyavasāya iti āha- adhyavasāyaviśeṣaṇamiti cet, śabdādyupasaṃkhyānam śabdādīnāmeva tena pratyakṣatvaṃ prāpnoti teṣāmupasaṃkhyānaṃ kartavyaṃ prāpnoti kiṃ kāraṇam ? antaḥkaraṇasya taiḥ sannikarṣānupapatteḥ pratigrahaṇaṃ sannikarṣārthamiti pūrvamatisṛṣṭaṃ bhavatā taccedānīmantaḥkaraṇaviśeṣaṇam na cāntaḥkaraṇasya śabdādibhiḥ sannikarṣa upapadyate, śrotrādivaiyarthyaprasaṅgāt dvāridvārabhāvasyāpaghātaprasaṅgācca tasmātsudūramapi gatvā pratigrahaṇaṃ pratyākhyānānna mucyate rāgādyupasaṃkhyānādveti ucyate- astu tarhīndriyāṇāṃ prati viṣayagrahaṇaṃ viśeṣaṇam yattūktaṃ rāgādīnāmupasaṃkhyānaṃ kartavyamiti tatra brūmaḥ ekaśeṣanirdeśāt siddham evaṃ tarhi prativiṣayādhyavasāyaśca prativiṣayādhyavasāyaśca prativiṣayādhyavasāya iti sarūpāṇāmekaśeṣaḥ kariṣyate tatraikena bahiraṅgasyaindriyasya pratyakṣasya parigrahaḥ dvitīyenāntaraṅgasya prātibhasyeti rāgādiviṣayaṃ yogināṃ ca yadvijñānaṃ tat saṃgṛhītaṃ bhavatīti vyākhyātaṃ pratyakṣam āha- anumānamidānīṃ vaktavyam ucyate- trividhamanumāmamākhyātam anumānaṃ triprakāramācāryairākhyātam pūrvavat, śeṣavat, sāmānyatodṛṣṭaṃ ca tatra pūrvamiti kāraṇamucyate yasya hi yat kāraṇaṃ sa loke tatpūrvaka ityucyate yathā tantupūrvakaḥ paṭo, devadattapūrvako yajñadatta iti pūrvamasyāstīti pūrvavat śeṣa iti vikāranāma, śiṣyata iti kṛtvā tathā coktam- na śeṣo 'gneranyasya jātamityasti nāpatyamanyena jātaṃ sambhavatītyarthaḥ śeṣo 'syāstīti śeṣavat tatra pūrvavat yadā kāraṇamabhyuditaṃ bhaviṣayattvaṃ kāryasya pratipadyate tadyathā meghodaye bhaviṣyattvaṃ vṛṣṭeḥ āha- naitadastyudāharaṇamanekāntāt na hi meghodayo 'vaśyaṃ vṛṣṭeḥ kāraṇaṃ bhavati, vāyvādinimittapratibandhasambhavāt ucyate- yadi tarhi kāraṇaśaktiṃ sahakāriśaktyantarānugṛhītāmapratiyoginīṃ dṛṣṭvā kāryasya vyaktiṃ pratipadyate tadyathā yadā lauhadaṇḍādisādhanasampanne vyāpāravatā kumbhakāreṇādhiṣṭhitāṃ mṛdamupalabhya ghaṭasya, tadā pūrvavat śeṣavat- yadā kāryanirvṛtiṃ dṛṣṭvā kāraṇasadbhāvaṃ pratipadyate tadyathā kumārakaṃ dṛṣṭvā dvayasamāpattim āha- naitadastyudāharaṇam anekāntāt na hi dvayasamāpattipūrvaka eva prāṇabhṛtāṃ prādurbhāvo, droṇādīnāmanyathotpattiviśeṣaśravaṇāt ucyate- yadā tarhi prabhānuraṃjitamantarikṣaṃ dṛṣṭvā candrārkayorudayaṃ pratipadyate tadā śeṣavat āha- etadapi nāstyudāharaṇam anekāntāt na hi prabhānurāgo 'ntarikṣe candrārkanimitta eva bhavati kintarhi digdāhādinimitto 'pi ucyate - yadā tu nadīpūraṃ dṛṣṭvā vṛṣṭiṃ pratipadyate tadā śeṣavat etadapi nāstyudāharaṇam anekāntāt nadīpūrasya hi nimittamanekavidhaṃ bhavatīti himilayanasetubhaṃgagajakrīḍādi tasmādayuktametat ucyate yadā tarhi parṇaṃ dṛṣṭvā śālūkaṃ pratipadyate, aṃkuraṃ vā dṛṣṭvā bījamiti tadā śeṣavat athavā punarastu pūrvakamevodāharaṇam yattūktaṃ- anekāntāditi atra brūmaḥ- vītāvītasāmarthyāt vītāvītābhyāṃ hetubhūtābhyāmabhipretārthasiddhiriti vakṣyāmaḥ prasaṃgidharmāntaranivṛttimukhena cāvītaprayogaḥ tatra yadā prasaṃgināṃ himavilayanādīnāṃ deśakālaliṅgaiḥ pratiṣedhaḥ kriyate tadā muktasaṃśayaṃ pratipattirbhavati deśastāvattad yathā- dakṣiṇāpathe nāsti himavilayanasambhavaḥ kālato yathā prāvṛṭkāle liṅgato 'pi yasmānmudgagavedhukaśyāmākakāṣṭhasūtraśakṛtprabhṛtīnāmanupalambhastathoṣmakaluṣatvādīnāmupalambhaḥ tasmāt pariśeṣato medhyā evāpa iti tasmānnānekāntaḥ evaṃ kṛtvā pūrvāṇyapyudāharaṇāni upapannāni bhavanti deśādivicārasāmarthyāt sāmānyatodṛṣṭaṃ nāma yatraikadārthayoravyabhicāramupalabhya deśāntare kālāntare ca tajjātīyayoravyabhicāraṃ pratipadyate tadyathā kvaciddhūmāgnisambandhaṃ dṛṣṭvā kvaciddhūmāntareṇāgnyantarasyāstitvaṃ pratipadyate āha- naitadastyudāharaṇam aviśeṣaprasaṅgāt sarvatraiva hyanumāne kvacidarthayoravyabhicāramupalabhyānyatra tajjātīyayorarthayoravyabhicāraṃ pratipadyate tadyathā kvacit sādhanavato mṛtpiṇḍād ghaṭaniṣpattimupalabhyānyatra sādhanavataḥ piṇḍāntarādghaṭāntaraniṣpattiṃ pratipadyate, tathaikatra nadīpūrād vṛṣṭimupalabhyānyatra nadīpūrāntarādvṛṣṭyantaramavasīyate tathā ca sati trayāṇāmaviśeṣaprasaṃgaḥ ucyate- yadā tarhi sahabhuvāmekasya viśiṣṭaguṇamupalabhya śeṣāṇāmapi tadvattvamanumīyate tadā sāmānyatodṛṣṭam tadyathā vṛkṣādekasya phalasya pākamupalabhya śeṣāṇāṃ vṛkṣāntarāṇāṃ ca pāko 'numīyate āha- etadapi nāstyudāharaṇam anekātantāt na hi sarveṣāṃ phalānāṃ tulyakālaṃ pāko bhavati pūrvāparakālaniṣpannatvāt, nimittabhedācca ucyate- yadā tarhi samudrādekamudababinduṃ prāśya śeṣasya lavaṇatānumīate sthālyāṃ vaikaṃ pulākamupalabhya śeṣāṇāṃ pāko 'numīyate tadā sāmānyatodṛṣṭam āha- naitadastyudāharaṇam akṛtsnasaṅgrahāt vakṣyatyayamupariṣṭādācāryaḥ "sāmānyatastu dṛṣṭādatīndriyāṇāṃ pratītiranumānāditi" (isk 6) tatraivaṃ pramāṇe parikalpyamāne kāryakāraṇayostatsaṃghātānāṃ ca sukhaduḥkhamohasvabhāvopalambhāttanmātrāhaṅakārapradhānānāṃ samadhigamaḥ syāt na puruṣasya, tajjātīyārthānupalambhāt ucyate- yadā tarhi kvaciddharmeṇa dharmāntarasyāvyabhicāramupalabhyaikadharmopalambhādbhinnajātīye 'tyantānupalabdhasya dharmāntarasya pratipattistadā sāmānyatodṛṣṭam tadyathā - devadatte gamanāddeśāntaraprāptimupalabhyātyantādṛṣṭajyotiṣāṃ deśāntaraprāptergamanamanumīyate tathā prāsādādīnāṃ vṛddhipūrvakaṃ dīrghatvamupalabhyauṣadhivanaspatīnāṃ dīrghatvadarśanādvṛddhiranumīyate āha- naitadapyastyudāharaṇam pūrveṇāviśeṣāt kāryāt kāraṇasyādhigamaḥ śeṣavaditi pūrvamatisṛṣṭaṃ bhavatā atrāpi ca deśāntaraprāptilakṣaṇāt kāryād gatilakṣaṇasya kāraṇasyādhigamaḥ tasmāt śeṣavatsāmānyatodṛṣṭayorabhedaprasaṃgaḥ ucyate- na, aniyamāt yatra hi niyamataḥ kāryeṇa kāraṇamadhigamyate taccheṣavaditi ayamasmadabhisandhiḥ na tu tadasti sāmānyatodṛṣṭe kasmāt ? saṃghātatvasāmānyāt pārārthyasāmānyasādhanamapi dṛśyate yathāha- avyabhicārādviśeṣāstu pratītāḥ pratipādakāḥ iti sādhyasādhanasāmānyayorapi dṛśyate, yathānityaḥ śabdaḥ kṛtakatvāditi tatraivaṃ sati niyamavādinaḥ pratijñāhāniḥ etenāsiddhaviruddhānaikāntikasādhanābhāsāḥ pratyuktāḥ te hi saṃśayaviparyayājñānahetukatvādagamakā iti vyākhyātamanumānam āha- āptavacanasya kiṃ lakṣaṇamiti ? ucyate- āptaśrutirāptavacanantu isk_5 āptā nāma rāgādiviyuktasyāgṛhyamāṇakāraṇaparārthāḥ vyāhṛtiḥ śravaṇaṃ śrutiḥ āptā cāsau śrutirāptaśrutiḥ athavā āptāsyāstītyāptaḥ akāro matvarthīyaḥ tadyathā tundo ghaṭa iti āptebhyaḥ śrutirāptaśrutiḥ āptaśrutiścāptaśrutiḥ sarūpāṇimityekaśeṣaḥ tatra pūrveṇāptaśrutigrahanena pratipādayati apuruṣabuddhipūrvaka āmnāyaḥ, svatantraḥ puruṣaniḥśreyasārthaṃ pravartamāno niḥsaṃśayaṃ pramāṇamiti dvitīyena manvādinibandhanānāṃ ca smṛtīnāṃ vedāṅgatarketihāsapurāṇānāṃ śiṣṭānāṃ nānāśilpābhiyuktānāṃ cāduṣṭamanasāṃ yadvacastatpramāṇamityetasiddhaṃ bhavati tuśabdo 'vadhāraṇārthaḥ āptaśrutirevāptavacanaṃ na śabdamātram evaṃ sati yaduktaṃ tantrāntarīyaiḥ śiṃśapādiśabdānāṃ nirvikalpamanumāne 'ntarbhāvastrilakṣaṇatvāditi tadayatnataḥ pratikṣiptaṃ bhavatīti vyākhyātāni pramāṇāni etaiḥ pūrvoktaṃ prameyaṃ yathāsvaṃ pratipattavyamiti

Section (cont. 8)

8

कारिका 6-7 आह- अस्तु तावदक्षरान्निकर्षभाजामर्थानां प्रत्यक्षेणोपलब्धिः असन्निकर्षभाजामपि चोपलब्धसम्बन्धानामनुमानेन ये त्वतीन्द्रिया भावास्तेषामुभयवैलक्षण्यान्नास्ति प्रत्यक्षानुमानाभ्यामुपलब्धिः आगमिकत्वे सर्ववादसिद्धिप्रसंगः इत्यतो ऽत्यन्तमेवाग्रहणं प्राप्तम् तत्र यदुक्तमेतावद्भिः प्रमाणैः सकलपदार्थावबोध इति एतदयुक्तम् उच्यते- स्यादेतदेवं यद्येकरूपमेवानुमानमधीतं स्यात्, किं तर्हि त्रिविधम् तत्र सत्यमेव पूर्ववच्छेषवती प्रागनुभूतसम्बन्धविषयफले इति कृत्वा न ताभ्यामशेषपदार्थाधिगमो ऽभ्युपगम्यते सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात् इस्क्_6अ यत्त्वेतत्सामान्यतोदृष्टमनुमानमेतस्मादतीन्द्रियाणामर्थानां समधिगमः प्रत्यवगन्तव्यः कथम् ? यथा हि कृतकत्वानित्यत्वयोर्घटे सहभावमुपलभ्यान्यत्र शब्दादौ कृतकत्वदर्शनादनित्यत्वमनुमीयते एवं शकलादीनां तज्जातीयता चन्दनादिपूर्वकत्वसिद्धेः, कार्यकारणस्य सुखादिजातीयतया तत्पूर्वकत्वसिद्धेः, शयनादीनां च संघातत्वात्पारार्थ्यसिद्धेः, कार्यकारणस्यापि संघातत्वात्पारार्थ्यसिद्धिरिति सर्वमिष्टं सङ्गृहीतं भवतीति येषां तु शेषवदेव सामान्यतोदृष्टं तेषां तस्य कार्यद्वारेण समधिगमहेतुत्वात् पुरुषस्याग्रहणप्रसंगः वृत्तौ कार्योपचाराददोष इति चेत् स्यान्मतम्, यद्यपि पुरुषस्य कार्याभावस्तथापि पुरुषाव्यक्तमहदहङ्कारविशेषाणां साम्प्रते काले स्ववृत्तिभ्यस्तेषां ग्रहणमित्युक्तम् कस्मात् ? वृत्तिशक्तिरेषां कार्यत्वेनोपचरिता स्वमात्मानं युनक्तीति तच्चायुक्तम् कस्मात् ? हेत्वन्तराभिधानात् यदि वृत्त्या ग्रहणं पुरुषस्य सूपपादमभविष्यत् संहतपारार्थ्यमाचार्यो हेतुत्वेन नावक्ष्यत् तच्चावृत्तिभूतमित्यवश्यं शेषवत्सामान्यतोदृष्टयोरर्थान्तरभावो ऽभ्युपगन्तव्यः तस्मात् सिद्धं सामान्यतोदृष्टादतीन्द्रियाणामर्थानां समधिगमः तस्य प्रयोगमात्रभेदाद्द्वैविध्यम् वीतः अवीत इति तयोर्लक्षणमामनन्ति- यदा हेतुः स्वरूपेण साध्यसिद्धौ प्रयुज्यते स वीतो ऽर्थानराक्षेपादितरः परिशेषितः स्वरूपं हि साधनस्य द्विविधम्- साधारणमसाधारणं च तत्र साधारणं साध्यसहभावी तत्प्रतिपत्तिहेतुत्वेन यथावदाश्रीयमाणो ऽर्थात्मा असाधारणं पुनः परिमाणमन्वयः संघातपरार्थत्वमित्यादि तत्र यदा हेतुः परपक्षमपेक्ष्य यथार्थेन स्वरूपेण साध्यसिद्धावुपदिश्यते तदा वीताख्यो भवति यदा तु स्वसाध्यादर्थान्तरभूतानां प्रसंगिनां क्षेपमपोहं कृत्वा परिशेषतः साध्यसिद्धावपदिश्यते तदावीताख्यो भवति तद्यथा न चेत् परमाणुपुरुषेश्वरकर्मदैवकालस्वभावयदृच्छाभ्यो जगदुत्पत्तिः सम्भवति परिशेषतः प्रधानादिति तदा पुनरवीताख्यो भवति तत्र यदा वीतो हेतुः स्वबुद्धाववहितविज्ञानसरूपं विज्ञानान्तरमादधानेन वक्त्रा प्रतिपाद्यादौ वाक्यभावमुपनीयते वाक्यमन्तरेणार्थस्य बुद्ध्यन्तरे संक्रामयितुमशक्यत्वात्, तदावयविवाक्यं परिकल्प्यते तस्य पुनरवयवाः जिज्ञासासंशयप्रयोजनशक्यप्राप्तिसंशयव्युदासलक्षणाश्च व्याख्याङ्गम् प्रतिज्ञाहेतुदृष्टान्तोपसंहारनिगमनानि परप्रतिपादनाङ्गमिति तत्र ज्ञातुमिच्छा जिज्ञासा कश्चित् कंचिदुपसद्याह- पुरुषं ज्ञातुमिच्छामि किमस्ति नास्तीति ? कुतः संशय इति पर्यनुयुक्तः प्रत्याह- अनुपलभ्यमानस्योभयथा दृष्टत्वात् इहानुपलभ्यमानमुभयथा दृष्टम्- सद्भूतमसद्भूतं चेति सद्भूतं चार्केन्दुमण्डलापरभागादि, असद्भूतं च शशविषाणादि अयमपि चात्मा नोपलभ्यते अतः संशयः किमस्ति नास्तीति ? किमस्याश्चिन्तायाः प्रयोजनमिति पृष्टो व्याचष्टे - शास्त्रतत्त्वाधिगमः, ततश्च मोक्षावाप्तिः कथमिति ? यदि तावदयमात्मास्ति ततो ऽस्य अप्रकृतित्वौदासीन्यविभुत्वादिसत्त्वविज्ञानान्नैरात्म्यभ्रान्तिविपक्षभूतादपवर्गप्राप्तिरवश्यंभाविनीति यदुक्तम् व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षो ऽवाप्यत इति तच्छास्त्रमर्थवद् भवतीति अथ नास्तीति निश्चीयते तेन सामान्यतोदृष्टादनुमानात्तद्वदन्ये ऽपि पदार्था न सन्तीति विप्रलम्भभूयिष्ठमार्षं दर्शनमपहायात्मग्रहदृष्टिविगमाल्लोकोत्तर्मवलम्बनं शून्यं ध्यानविषयमुपसम्प्राप्तस्त्रैधातुकक्लेशनिरोधलक्षणमात्यन्तिकं निर्वाणमवाप्स्यतीति शक्यश्चायमर्थो निश्चेतुम्, प्रमाणत्रयपरिग्रहादिति व्यवस्थिते, व्युदास्य संशयं साध्यावधारणं प्रतिज्ञा साध्यस्य यदवधारणमस्ति पुरुष इति सा प्रतिज्ञा साधनसमासवचनं हेतुः साध्यते ऽनेनेति साधनं लिङ्गम् समासः संक्षेपः साधनस्य समासवचनं साधनसमासवचनम् साधनग्रहणं तदाभासप्रतिषेधार्थम् न हि तानि साधनं, संशयविपर्ययहेतुत्वात् समासग्रहणमवयवान्तरावकाशप्रदानार्थम् लिङ्गनिर्देशमात्रं हेतुः यस्तु तस्य साध्यसहभावित्वलक्षणः प्रपञ्चः सो ऽवयवान्तराणीत्युक्तं भवति उदाहरणन्त्वत्र निदर्शनं दृष्टान्तः तस्य साधनस्य साध्येन सहभावित्वनिदर्शनं यदसौ दृष्टान्तः तद्यथा संहत्यकारिणां परार्थत्वं दृष्टं, यथा शयनासनरथशरणानाम् व्यतिरेकस्त्ववीतस्य प्रसङ्गिधर्मान्तरनिवृत्तिरूपत्वात्तदन्तर्भूत इति तदर्थं वैधर्म्यदृष्टान्त उच्यते साध्यददृष्टान्तयोरेकक्रियोपसंहारः उपनयः साध्यस्य चक्षुरादिपारार्थ्यलक्षणस्य, दृष्टान्तस्य च शयनादेरेकक्रियोपसंहारः तत्रार्थान्तरभूतत्वात् साध्यदृष्टान्तयोरञ्जसा नैकक्रियोपपद्यते तेनैव तस्यानिदर्शनादित्यतो धर्मसामान्याद्यथेदं तथेदमित्येकक्रियोपचर्यते यथा शयनादयः संहतत्वात्परार्था एवं चक्षुरादिभिरपि परार्थैर्भवितव्यम् यो ऽसौ परः स पुरुषः तद्वशात्प्रतिज्ञाभ्यासो निगमनम् हेतुदृष्टान्तोपसंहारापेक्षया यः पुनरभ्यासः तन्निगमनम् तद्यथा- तस्मादस्ति पुरुष इत्येषामवयवानां परस्परसम्बन्धाद्विशिष्टार्थः समुदायो वाक्यमित्युपदिश्यते वाक्यमप्यनेकं यदा गुणीभूतस्वार्थमर्थान्तरोपकारित्वादितरेण संसृज्यते तदा शास्त्रमप्येकं वाक्यमित्यवसीयते आह- जिज्ञासाद्यनभिधानम् तद्व्यतिरेकेणापि स्वयमर्थगतेः स्वनिश्चयवच्च परप्रतिपादनात् यथा हि स्वयमुत्पद्यते निश्चेतुः प्रत्ययस्तथैवान्यः प्रत्याय्य इत्येतन्न्याय्यम् न च स्वयमेवार्थं प्रतिपद्यमानस्य जिज्ञासादीनां तत्र व्यापारः तस्मात् परार्थमप्येषामुपादानं न कल्प्यते संशयवचनानर्थक्यम् च, प्रतीतार्थत्वात् निश्चितौ हि वादिप्रतिवादिनौ स्वपक्षयोः, तयोरितरेतरसंशयपर्यनुयोगे नास्ति प्रयोजनम् किंचान्यत्- प्रयोजनशक्यप्राप्त्यवचनं च साधनाभ्युपगमादेव तत्प्रतीतेः न हि महतां निष्प्रयोजना प्रवृत्तिरुपपद्यते न चाशक्ये ऽर्थे हिमवत्समीकरणादिषु प्रवृत्तेः तस्मादनर्थकं तदभिधानम् तद्भावे भावादिति चेत् स्यादेतत् सत्सु जिज्ञासादिषु तत्त्वाधिगमं प्रति प्रवृत्तिर्भवति, असत्सु न भवति तस्मादेतान्यपि साधनं भविष्यन्तीति एतच्चानुपपन्नम् कस्मात् ? अतिप्रसंगात् सत्स्वात्मान्तःकरणेन्द्रियालोकविषयेषु प्रवृत्तिदर्शनात्तेषामपि साधनत्वं स्यात् अनिष्टं चैतत् तस्माज्जिज्ञासादयो ऽनर्थकाः प्रतिज्ञादयो दुर्विहिताः कथम् ? साध्यावधारणस्यावयवान्तरेष्वप्युपपत्तेः यदि साध्यावधारणं प्रतिज्ञेत्युच्यते तेन साध्यस्य हेतोर्दृष्टान्तस्य वा यदवधारणं तदपि प्रतिज्ञा प्राप्नोति, निमित्ताविशेषात् साध्यशब्दो ह्ययं सामान्यवृत्तिः न यत्नमन्तरेण विशेषे ऽवस्थापयितुं शक्यत इति किं च हेतुलक्षणानुपपत्तिश्च, साधनानुपदेशात् यो हि साधनसमासवचनं हेतुरित्येतल्लक्षणमाचष्टे तेन प्राक्साधनमभिधेयं स्यात् ततो वक्तव्यममुष्य समासवचनं हेतुरिति न चैवमुक्तम् तस्मादलक्षणमेतत् किंचान्यत्, समासवचनं च विस्तरनिषेधप्रसङ्गात् यदि हि समासग्रहणं क्रियते किं प्राप्तं यो ऽयमाध्यात्मिकानां भेदानां कार्यकारणात्मकानां चैकजातिसमन्वयो दृष्ट इत्येवमादिः साधनप्रपञ्चः सो ऽहेतुरित्युक्तं भवति तस्मात् समासग्रहणमनिष्टम् लिङ्गाभिधानाददोष इति चेत् स्यान्मतम्, लिङ्गं हि नः साधनम् तस्यात्र निर्देशः कृतः तस्मात्स्वमतिजाड्यादिदमनिष्टमध्यारोप्यते, न त्वस्मत्प्रमादादिति एतदप्ययुक्तम् कस्मात् ? तस्य द्विधा भिन्नस्य पञ्चधा साधनभावात् तद्धि लिङ्गं वीतावीतत्वेनेष्टम् तेन द्विधा भिन्नम् तत्रापि वीतः पञ्चप्रभेदः इत्यतः समुदायान्निष्कृष्टस्यैकस्य लिङ्गत्वमशक्यं वक्तुमिति किञ्चान्यत्, दृष्टान्तलक्षणायोगश्च, शब्दार्थलक्षणे ऽनिष्टप्रसङ्गात् तन्निदर्शनं दृष्टान्त इति अत्र शब्दो वा येन साध्यसाधने निदर्श्येते स दृष्टान्तः स्यात् ? अर्थो वा यत्र निदर्श्यते ? किञ्चातः ? न तद्यदि तावच्छब्दः परिगृह्यते तत उपनयलक्षणं बाध्यते कस्मात् ? न हि यथाभिधानं तथा साध्यमित्येकक्रिया युज्यते इति अथार्थः परिगृह्यते तेनाभिधेयस्य वाक्यानवयवत्वात्पञ्चावयवत्वविरोधः किञ्चान्यत्- दृष्टान्तोपनयनिगमनाभेदश्च हेतुप्रतिज्ञार्थाभिधानात् साधनत्वमेव साध्याविनाभावित्वलक्षणं दृष्टान्तोपनययोः प्रत्यायय(य्य)ते प्रतिज्ञार्थं च निगमनस्य नावयवान्तरत्वं युज्यते उच्यते- यदुच्यते स्वनिश्चयेनाङ्गभावगमनात्परप्रत्यायनार्थं जिज्ञासाद्यनभिधानमिति अत्र ब्रूमः- न, उक्तत्वात् उक्तमेतत् पुरस्ताद्व्याख्याङ्गं जिज्ञासादयः सर्वस्य चानुग्रहः कर्तव्य इत्येवमर्थं शास्त्रव्याख्यानं विपश्चिद्भिः प्रतायते, न स्वार्थं स्वसदृषबुद्ध्यर्थं वा तत्रैवं कल्प्यमाने ये व्युत्पाद्यास्तान्प्रति नैवैषामानर्थक्यम् अथैतदनिष्टम्- यदुक्तं सन्दिग्धविपर्यस्ताव्युत्पन्नबुद्ध्यनुग्रहार्थो हि सतां विनिश्चयः शास्त्रकथेत्यस्य व्याघातः किं च नियमानभ्युपगमात् न हि वयमेषामावश्यकमभिधानमाचक्ष्महे, किन्तर्हि यदा प्रतिवादी पर्यनुयुङ्क्ते- किं जिज्ञासस इति अवश्यमभिधानीयं शब्दमिति केन धर्मेण, किं नित्यो ऽनित्य इति ? कुतः संशयः ? मूर्तत्वात् यस्तु न पर्यनुयुङ्क्ते न तं प्रत्येते वाच्याः क्वचिदानर्थक्यात् सर्वत्र प्रसङ्ग इति चेन्न इतरेषामपि तत्प्रसङ्गात् प्रतिज्ञादीनामपि तर्हि क्वचिदनभिधानमतस्तेषामपि सर्वत्रावचनं प्रसज्यते तथा च भवतोक्तं कस्यचित्तु किञ्चित् प्रसिद्धमेव भवतीत्यन्यतरोक्तिरपि साधनं भवति, शब्द इवार्थद्वयप्रतीतत्वादुभयानभिधानमिति यदप्युक्तं निश्चितत्वात् संशयावचनमिति असदेतत् कस्मात् ? उक्तत्वात् उक्तमेतत् सति पर्यनुयोगे तद्वचनमिति एतेन प्रयोजनशक्यप्राप्ती प्रत्युक्ते यो हि पर्यनुयुञ्जीत किं प्रयोजनो ऽयं शक्यो वायमर्थ इति तं प्रति वाच्यमेतत् यदप्युक्तं तद्भावे भावादिति- न, अनभ्युपगमात् न ब्रूमो यस्मात् सत्सु जिज्ञासादिषु तत्त्वाधिगमसद्भावस्तस्मादेतेषामवयवत्वमिति किन्तर्हि यं प्रत्येषां प्रतिपत्तावङ्गभावगमनं तं प्रत्येतानि साधनमिति यदप्युक्तं साध्याभिधायिनः प्रतिज्ञाभ्युपगमाद्धेतुदृष्टान्तयोरपि तत्प्रसङ्ग इति अयुक्तमेतत् कस्मात् ? जिज्ञासादेः सद्भावे सति तत्प्रतीतेः यद्यपि साध्यशब्दो ऽयमविशेषेण सिद्धत्वादर्थान्तरमाचष्टे तथापि यं प्रति जिज्ञासासंशयप्रयोजनशक्यप्राप्तयस्तस्य व्युदस्य संशयं साध्यस्यावधारणं प्रतिज्ञा, न हेतुदृष्टान्तयोस्तदस्तीत्यसदेतत् किंचान्यत् तद्भावे ऽविरोधात् यदा तु जिज्ञासादयो हेतौ दृष्टान्ते वा भवन्ति तदा किं कृतकः शब्दो ऽथ न कृतको ऽथ बुद्धिर्नित्या क्षणिका वेति भवत्येव तदवधारणं प्रतिज्ञा यदप्युक्तम् साधनानुपदेशाद्धेतुलक्षणायोग इति असदेतत् कस्मात् ? लोकप्रसिद्धत्वात् यथा साध्यवत्वेनेप्सितः पक्ष इति प्रतिज्ञालक्षणमाचक्षाणो भवान्न साध्यलक्षणमाचष्टे, कस्मात् ? साधनीयं साध्यमिति लोके सिद्धत्वात्, एवं साधनसमासवचनं हेतुलक्षणमाचक्षाणा वयं न साधनमाचक्ष्महे कस्मात् ? साध्यते ऽनेनेति कृत्वा साधनमिति लोके सिद्धत्वात् उपेत्य वानुमाननिर्देशात् लिङ्गं हि नः साधनं, तच्च निर्दिष्टैमिति यत्तूक्तं वीतावीतभेदे सति पञ्चधा साधनभावादिति, अत्र ब्रूमः, अयुक्तमेतत् कस्मात् ? समासग्रहणसामर्थ्यात् अतएव समासग्रहणं क्रियते, साधनस्वरूपाभिधानमात्रं हेतुरिति यथा विज्ञायते प्रपञ्चस्त्ववयवान्तराणीति एतेन विस्तरप्रतिषेधप्रसङ्गः प्रयुक्तः कथम् ? न हि समासशब्दस्यायमर्थ इति कृत्वा यत्पुनरेतदुक्तं शब्दार्थकल्पने ऽनिष्टप्रसङ्गाद् दृष्टान्तलक्षणायोग इति, अस्तु तावच्छब्दो दृष्टान्तः यत्तूक्तं उपनयलक्षणं बाध्यत इति अनुपपन्नमेतत् कस्मात् ? असम्भवे सति सम्बन्ध्यन्तरे कार्यविज्ञानात् शब्दे ऽसम्भवादर्थे कार्यं विज्ञास्यामः अथवा पुनरस्त्वर्थो दृष्टान्तः यत्तूक्तमभिधेयस्य वाक्यानवयवत्वात्पञ्चावयवत्वविरोध इति अर्थे ऽसम्भवाच्छब्दे कार्यं विज्ञास्यामः यदप्युक्तम् प्रतिज्ञाहेत्वर्थाभिधानाद् दृष्टान्तोपनयनिगमनानां नावयवान्तरत्वमिति अयमदोषः कस्मात् ? अप्रतिज्ञानात् न ह्येतदस्माभिः प्रतिज्ञायते किं तर्हि प्रमेयवचनं प्रतिज्ञा प्रमाणरूपमात्रवचनं हेतुः तस्य प्रमेयसहभावित्वनिदर्शनं दृष्टान्तः साध्यदृष्टान्तयोर्धर्मसामान्यादेकक्रियोपसंहार उपनयः समुदायस्य साध्यसिद्धये व्यापारनिर्देशो निगमनम् तस्मादयुक्तमेतत् किंचान्यत् एकस्य साधनभावपरिकल्पनावत्तत्परिकल्पने दोषाभावात् यथा वाक्यम् एवं च तदर्थश्च मुख्यौ शब्दार्थौ, तयोरभिन्नार्थत्वादित्यभ्युपगमादेकमेवार्थमभागमक्रमं च बुद्धाववस्थाप्य श्रोत्रग्राह्यत्वानित्यत्वकृतकत्वप्रमेयत्वादिलक्षणानां शक्तीनामपोद्धारात्साध्यसाधनसंशयरूपापन्नं वक्तारो भिन्नमाचक्षते, न चैकार्थधर्मत्वात्साध्यसाधनसंशयाभिधानानामेकत्वमनुषज्यते तथैकस्य साधनस्य साध्यधर्मतत्सहभावित्वलक्षणानां शक्तीनामभिधानं हेतुदृष्टान्तादिनावयवान्तरं नः स्यात् तत्र यदुक्तं प्रतिज्ञाहेत्वर्थाभिधानाद् दृष्टान्तोपनयनिगमनानां नावयवान्तरत्वमिति एतदयुक्तम् तस्मात्सूक्तं दशावयवो वीतः तस्य पुरस्तात्प्रयोगं न्याय्यमाचार्या मन्यन्ते किं कारणम् ? अवीतलक्षणाविरोधात् अवीतस्य हि लक्षणं परिशेषतः साध्यानुग्रहः तत्रान्वयदिना स्वरूपेणाधिगते प्रधानलक्षणे धर्मिणि परपक्षप्रतिषेधमात्रेणोपसंहारे क्रियमाणे परिशेषलक्षणं बाध्यते कस्मात् ? इह प्रतिषेधमात्रमादावुच्यते तेन यथा हेतुविरोधात्परमाण्वदिभ्यो न व्यक्तमुत्पद्यते तथा हेत्वभावात् प्रधानादपि नोत्पद्यते इति शक्यं कल्पयितुम् अतस्तद्व्यवच्छेदो ऽपि चावीताद्गम्यते तथा सति कः परिशेषः स्यात् ? स्वरूपेण तु परिच्छिन्ने धर्मिणि उपसंहारो यथावदवकल्प्यते न चेत्परमाण्वादिभ्यो व्यक्तमुत्पद्यते परिशेषतः प्रधानादेव व्यक्तमुत्पद्यते इति यथोक्तेभ्यो ऽन्वयादिभ्य इत्युक्तं भवति तस्मात्प्राग्वीतप्रयोग इति सिद्धं सामान्यतोदृष्टादनुमानादतीन्द्रियाणामर्थानां समधिगम इति आह- न, कारणान्तरतो ऽनुपलभ्यमानानामग्रहणात् यदि सामान्यतोदृष्टादनुमानात्सर्वं परोक्षमधिगम्यते इत्यभ्युपगम्यते प्राप्तमिदं येषामप्यर्थानां कारणान्तरतो ऽनुपलब्धिस्तेषामपि तस्मादेव ग्रहणम् तद्यथा- अतिदूरात्सामीप्यादिन्द्रियघातान्मनो ऽनवस्थानात् सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च इस्क्_7 तत्रातिदूरात्तावत् तद्यथा प्रोड्डीनस्य शकुनेः अतिसामीप्यादञ्जनप्रभृतीनाम् इन्द्रियघाताच्छब्दादीनाम् मनो ऽनवस्थानाच्छकटादीनाम् सौक्ष्म्यात्त्रुट्यादीनाम् व्यवधानाद्धिरण्यादीनाम् अभिभवात्सूर्यप्रकाशाद्ग्रहादीनाम् समानाभिहारादनेकप्रदीपप्रभाणाम् चशब्दादैश्वर्ययोगाद्देवादीनाम् न चार्हति भवितुं धर्मसामान्यानुपपत्तेः तस्मादयुक्तं सर्वमतीन्द्रियमनुमानग्राह्यमिति उच्यते- शक्यं तावत्कारणान्तरतो ऽनुपलभ्यमानं किंचित्सामान्यतोदृष्टादनुमानादधिगन्तुम् तद्यथा समीपावस्थितस्य शकुनेरयत्नेन चक्षुषा ग्रहणं, यथा यथा तु विप्रकर्षं प्रतिपद्यते प्रणिधाय चक्षुर्गृह्यते तावद्यावत्क्रमेणादर्शनमुपसंप्राप्तः तत्र देशविप्रकर्षे प्रचीयमाने ऽदर्शनमुपचीयमानमवगम्यात्यन्तादर्शनमपि पश्चात्तद्धेतुकमनुमीयते तथा नातिसमीपावस्थितस्य द्रव्यस्यास्फुटमाकारमवधार्य पश्चाद्यथा यथारादुपसंपद्यते तथा तथा प्रतिपद्यमानदर्शनशक्तयो ऽनुमातारः कृष्णसाराञ्जनप्रभृतीनामग्रहणमतिसामीप्यादनुमीयते तथा गिरिसरित्समुद्रसमीपवर्तिनं श्रवणप्रतिघातिनं प्राक् शब्दमुपलभ्य पश्चात्तस्मिन्नेव देशे शब्दमगृह्णानाः श्रवणोपघातमनुमिमते तस्मादपि चासिद्धं परोक्षमाप्तागमात्साध्यम् इस्क्_6ब् तस्मादपि चासिद्धमित्यनेनागमविषये सामान्यतोदृष्टस्यानवतारमाचष्टे परोक्षमिति विषयं प्रति निर्दिशति आप्तागमात्साध्यमिति विषयिणमाह एतदुक्तं भवति- तस्मादपि सामान्यतोदृष्टादनुमानाद्यन्न सिद्ध्यति प्रत्यक्षग्राह्यमपि स्वयमदृष्टं कारणान्तरप्रतिबद्धविषयभावमत्यन्तपरोक्षं वा स्वर्गापवर्गदेवतादि धर्मसामान्यरहितं तदाप्तागमात्साध्यम् सर्ववादसिद्धिप्रसङ्गादप्रामाण्यमिति चेत् स्यादेतत्, यदि तर्ह्यागमः प्रमाणीक्रियते तेन प्रतिशास्त्रं ये ऽभियुक्तास्तेषां प्रामाण्यमित्यवश्यमभ्युपगन्तव्यम् एवं सति सर्वाचार्यप्रामाण्यादनेकविकल्पविचित्रा तर्कवृत्तिरित्यपरिनिश्चितत्वाद्भ्रान्तिः प्रसज्येत तथा च सति जिज्ञासूनामपवर्गप्राप्तिविघातः स्यात् तस्माद्भिषजेव भवता परोपदेशः प्रयुक्तो नास्मानयं प्रीणाति एतच्चायुक्तम् कस्मात् ? आप्तलक्षणस्यानवधारितत्वात् व्यपगतरागादिदोषाणामसन्दिग्धमतीनामतीन्द्रियार्थदृश्वनामीश्वरमहर्षीणामाप्तत्वमाचक्ष्महे, न सर्वेषाम् यदि चान्यो ऽप्येवंधर्मो ऽस्ति भवतु प्रमाणम् किंचान्यत् स्वविषये च तत्प्रामाण्यस्यादोषवत्त्वात् यस्य खल्वपि यो विषयस्तस्य तस्मिन्विषये वचो ऽन्तरेणापि साधनं प्रमाणमित्यवश्यमभ्युपगन्तव्यम् इतरथा प्रतिशास्त्रमाचारस्थितिनियमानामदृष्टार्थानामप्रतिपत्तिः स्यात् एतेनाखिललिङ्गादागमो ऽर्थान्तरम् यस्मान्महताभिधानेन युक्तिरन्विष्यते तस्माद्युक्त्यपेक्षाल्लिङ्गादागमो ऽर्थान्तरमिति आह न, अन्वयव्यतिरेकाभ्यामधिगमहेतुत्वात् यथा कृतकत्वादिधर्मो ऽनित्यत्वादौ विषये दृष्टस्तदभावे चादृष्ट इत्यनित्ये ऽर्थे निश्चयमादधाति एवं शब्दो ऽपि स्वार्थे तज्जातीये न दृष्टः प्रतिपत्तिहेतुर्भवति तस्मादनुमानादभिन्न एवायमिति उच्यते- चन्द्रादिष्विदानीमसाधारणविषयेषु का प्रतिपत्तिः स्यादिति ? आह- अवयवापेक्षत्वाच्चन्द्रशब्दो ह्यनेकेषु वचनेषु वर्तते, जातिद्रव्यगुणक्रियासु च, तथा डित्थादिशब्दः, तस्मादेवंजातीयकानामपि चानुमानादभेदः उच्यते- स्वर्गादीनां तर्हि कथमनुमानत्वमिति ? आह- आप्तवचो ऽविसंवादसामर्थ्यात् यथा हैरण्यकप्रभृतीनामाप्तानां वाक्यमव्यभिचारि एवमीश्वरमहर्षयो ऽपि चाप्ताः तस्मादेषामपि वाक्यमव्यभिचारीति शक्यमत्रापि सामान्यविषयत्वं कल्पयितुम् एवमनुमानमेवागम इति उच्यते- यदुक्तमन्वयव्यतिरेकाभ्यामधिगमहेतुत्वाच्छब्दो ऽनुमानमिति अत्र ब्रूमः न, अप्रतिज्ञानात् न हि वयं व्यवहारानुपातिनां वृक्षादीनामागमत्वमाचक्ष्महे, किं तर्हि स्वर्गादीनामत्यन्तपरोक्षविषयाणाम् तस्मादप्रतिज्ञानादनुपालम्भो ऽयमिति उपेत्य वा वक्त्रपेक्षत्वात् अथवोपेत्यापि सर्वशब्दानामागमत्वमनुमानादर्थान्तरभावं ब्रूमः तथा हि कृतकत्वादिति लिङ्गं चण्डालकापालिकैरपि प्रयुज्यमानं साहचर्यापेक्षं निश्चयमादधाति न वक्तृविशेषमपेक्षते वक्तृविशेषापेक्षस्तु शब्दः तस्मान्न लिङ्गम् किं चान्यत् विपर्ययात् न हि लिङ्गं देशान्तरे विपर्येति शब्दस्य तु दृष्टो विपर्ययः स एव हि शब्दो देशान्तरे, कालान्तरे तु स्वार्थं न प्रत्याययति अर्थान्तरं च प्रशंसति सम्बन्धानुपलब्धेरिति चेत् स्यादेतत्, सम्बन्धान्तरं देशान्तरे ऽनुपलक्षितम् तस्माच्छब्दार्थविपर्यय इति एतदनुपपन्नम् लिङ्गवैधर्म्यात् न हि प्रत्यक्षाभिमतस्य लिङ्गिन उपलब्धौ गवादेर्लिङ्गं नोपलभ्यते शब्दस्तूपलभ्यमानो गवादौ नोपलभ्यते तस्मान्न लिङ्गम् किंचान्यत् देशनियमात् न हि लिङ्गस्य देशनियमो दृष्टः अस्ति तु शब्दस्य देशनियमः तद्यथा शवतिर्गतिकर्मा काम्बोजेष्वेव भाष्यते रंहतिः प्राच्येषु, तथा दातिर्लवनार्थः, दात्रमुदीच्येषु नान्यत्र तस्मान्न शब्दो लिङ्गम् किंचान्यत्, इष्टतो विनियोगात् स्वाभाविकं लिङ्गम् न हि धूमोग्नेरपकृष्य शक्यते ऽप्सु वायावाकाशे ऽन्यत्र वा निवेशयितुम् शब्दस्तु यत्र वक्तुरभिप्रायस्तत्र तत्र विनिवेश्यते यथ वृद्ध्यादयः शब्दाः स्वार्थाभ्युच्चयादिषु प्रसिद्धा आदैक्षु विनिवेश्यन्ते तस्मान्न ते लिङ्गम् सर्वाभिधानशक्तित्वाच्छब्दस्यादोष इति चेत् स्यान्मतं सर्वाभिधानशक्तिः शब्दः सर्वाभिधेयशक्तिश्चार्थस्तयोः पुरुषव्यापारेण शक्त्यववच्छेदः क्रियते कथम् ? अयमेव शब्दो ऽस्यार्थस्य प्रत्यायको भवतु अयमेव चार्थो ऽनेन शब्देनाभिधीयताम् एतावति पुरुषव्यापारः तस्माच्छब्दस्य स्वाभाविकः सम्बन्धो वक्त्रपेक्षया व्यज्यत इति एतदप्यन्युपपन्नम् कस्मात् ? सुतरामनुमानादर्थान्तरत्वप्रसंगात् एवमपि कल्पयित्वानुमानात्सुतरां शब्दस्यार्थान्तरत्वमापद्यते कस्मात् ? न हि यथा वक्रपेक्षया सर्वार्थस्य सतः शब्दस्य शक्त्यवच्छेदस्तथा सर्वार्थं लिङ्गं वक्त्रपेक्षयार्थान्तरादवच्छिद्यते यथा चैकः शब्दो जगत्येवमुदितः पुरुषविनियोगापेक्षः सर्वमर्थमभिधातुं समर्थस्तथैकं लिङ्गं कयाचिद्युक्त्या सर्वार्थप्रत्यायनसमर्थम् तस्मान्न शब्दो लिङ्गम् यत्पुनरेतदुक्तम् चन्द्रादीनामवयवापेक्षं सामान्यमभ्युपगम्यते तदयुक्तम् असाधारणत्वात् अनुमानाभावे शब्दप्रसिद्धो ऽर्थ इति व्याघातः किं चान्यत् जात्यादिसाध्यत्वात् जातिगुणद्रव्यक्रियाणां च परस्परतो ऽर्थान्तरत्वं, समुदायश्च साध्यः तस्मादयुक्तमेषां तदपेक्षया सामान्यविषयत्वम् यदप्युक्तमाप्तवादाविसंवादसामान्यात्स्वर्गादिशब्दानामनुमानत्वमिति, अत्र ब्रूमः- एतदप्यनुपपन्नम् कस्मात् ? प्रमाणविषयत्वात् सत्यमस्त्येषां सामान्यपरिकल्पना, सा तु प्रमाणविषया न तु प्रमेयविषया प्रमेयं तु सामान्यमनुमानमस्येत्ययमभ्युपगमो वः तच्चासाधारणत्वात्स्वर्गादीनां प्रतिषिद्धम् तस्मात्त्यज्यतामियमाशङ्कानुमानमेवागम इति अन्यः पुनरनुमानागमयोरभेदप्रतिज्ञ इदमाह स्वर्गादयः शब्दा न प्रमाणम् कस्मात् ? प्रमाणान्तरेण तदर्थानुपलब्धेः यस्य हि शब्दस्यार्थः प्रत्यक्षतो ऽनुमानतो वा नोपलभ्यते स न प्रमाणम् इतरस्तु प्रमाणम् तद्यथा नद्यास्तीरे पक्वमाम्रवनं, पथि गुडशकटं विपर्यस्तमिति न च स्वर्गादिशब्दानामर्थः प्रमाणान्तरेणोपलभ्यते तस्माद्यथा विभुरात्मा सर्वत्र सुखादिसम्भवादित्येवमादयो बौद्धं प्रति धर्म्यसिद्धत्वादयो यथार्थास्तथा वेदशब्दा अपि प्रायेणेति एतत्तु न युक्तरूपम् कस्मात् ? अन्यायेन सर्वशब्दापवादात् का ह्यत्र युक्तिर्यदस्मदादिभिरनुपलभ्यमानार्थं प्रमाणभूतानामपि वाक्यमयथार्थं स्यात् ? सवेण चावश्यं कश्चिदाप्तस्तस्य च वाक्यमदृष्टार्थमित्यभ्युपगन्तव्यम् अतो ऽयं तवात्रापि समानः प्रसंगः न च प्रमाणं स्वार्थसिद्धये प्रमाणान्तरमपेक्षते तत्र यदि शब्दस्य प्रमाणान्तरापेक्षं यथार्थत्वमाश्रीयते तेन न केवलं स्वर्गादयः किं तर्हि शब्दा एवाप्रमाणमिति प्राप्तम् अनुमानस्य च प्रमाणान्तरनिरपेक्षस्य गमकत्वाभ्युपगमादागमस्य ततो ऽर्थान्तरत्वं सुतरां प्रसज्यते तस्माद्युक्तागमविरोधिन एवंविधा नास्तिकवादाः श्रेयो ऽर्थिभिर्दूरादपोह्या इति स्थितमेतत्- अनुमानादसिद्धं वस्तु यत्तदाप्तागमात्साध्यमिति एवमस्य त्रिविधस्य प्रमाणस्यैन्द्रियिकं कारणान्तरतो ऽनुपलभ्यमानं च प्रमेयं व्याख्यातम् एतस्मात्तु यदन्यत्तदसदिति प्रत्यवगन्तव्यम् 6-7 कारिका 8 आह, यद्येवं प्रधानस्यासत्त्वप्रसङ्गः अनुपलब्दौ कारणान्तरत्वानुपलब्धेः तद्धि प्रत्यक्षाविषयत्वे सत्यतिदूरादिभिरनुपलब्धिकारणैर्नोपलभ्यते तन्न तावत् अतिदूरात्सामीप्याद्व्यवधानाच्चास्याग्रहणम् कस्मात् ? विभुत्वात् नेन्द्रियघातात्, अविकलेन्द्रियैरग्रहणात् न मनो ऽनवस्थानात्, अवस्थितमनोभिरग्रहणात् न सौक्ष्म्यात्, शशविषाणादीनां सत्त्वप्रसङ्गात् नाभिभवात्, असम्भवात् न समानाभिहारादेकत्वात् तस्मात् कारणान्तराभावतो ऽनुपलभ्यमानस्यासत्त्वमिच्छतः प्रधानस्यापि शशविषाणादीनामपि सत्त्वप्रसङ्गः अथैतन्नेष्यते कारणान्तरं तर्ह्यनुपलब्धौ वक्तव्यमिति उच्यते- यत्तावदुक्तं अनुपलब्धौ कारणान्तरानुपपत्तेः प्रधानस्यासत्त्वप्रसङ्ग इति, अत्रास्तु सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् यत्तूक्तं शशविषाणादीनामपि सत्त्वप्रसङ्ग इति तदयुक्तम् कस्मात् ? साधनोपपत्तेः अस्ति हि प्रधानस्य सौक्ष्म्यात्तदनुपलब्धौ साधनं, न शशविषाणादीनाम् किं तत् ? उच्यते कार्यतस्तदुपलब्धिः प्रधानस्य हि कार्यत उपलब्धिरित्येतदुपरिष्टात्प्रतिपादयिष्यामः न तु शशविषाणादीनां कार्यमस्ति तस्माद्विषमो ऽयमुपन्यासः आह- एवमपि प्रतिज्ञान्तरानर्थक्यम्, एकेन कृतत्वात् सौक्ष्म्यात्तदनुपलब्धिरित्युक्ते गम्यत एतन्नाभावादिति तस्मात्तद्वचनमनर्थकमिति उच्यते- न, वीतावीतपरिग्रहार्थत्वात् एवं सिद्धे यत्प्रतिज्ञाद्वयं करोति तत् ज्ञापयत्याचार्यः वीतावीताभ्यामभिप्रेतार्थसिद्धिः प्राक्च सौक्ष्म्यातिशयात्तदनुपलब्धिरित्याचक्षाणः प्रतिपादयति पुरस्ताद्वीतः प्रयोक्तव्यव इति एकस्मिंश्च विषये द्वौ प्रयुंजानः समुच्चयेन सिद्धिं द्योतयति किं सिद्धं भवति ? यदुक्तं तन्त्रान्तरीयैः न पृथक्प्रतिपत्तिहेतू वीतावीताविति तदिष्टमेवं संगृहीतं भवति तत्र वीतस्य प्रतिज्ञा सौक्ष्म्यात्तदनुपलब्धिः तस्य चावीतस्य प्रसङ्गिधर्मान्तरनिवृत्तिरूपेण, नाभावात् हेतुरुभययोगी कथम् ? यस्य प्रत्यक्षतो ऽनुपलभ्यमानस्य कार्यस्तदुपलब्धिस्तस्य सौक्ष्म्यात्तदनुपलब्धिर्दृष्टा तद्यथेन्द्रियाणि यदि पुनरस्याभावादनुपलब्धिस्स्यात्, कार्यतो ऽनुपलब्धिप्रसङ्गः अस्ति चेयं कार्यत उपलब्धिः तस्मान्नाभावात् न चेदभावात्, परिशेषतः सौक्ष्म्यात् तदनुपलब्धिरिति आह, किं पुनस्तत्कार्यं यद्भवान्प्रधानस्यास्तित्वे लिङ्गमाचष्ट इति ? उच्यते- महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं च इस्क्_8 तद्धि महदहंकारेन्द्रियविशेषाविशेषलक्षणं कार्यं प्रधानेन विसदृशं सदृशं चेत्युपरिष्टात्प्रवेदयिष्यामः आह- प्रस्तावाभावादयुक्तमेतत् किं पुनरधिकृत्येदमुच्यते प्रकृतिविरूपं सरूपं च महदादि कार्यमिति ? उच्यते- व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षो ऽवाप्यत इत्येतत्प्रकृतम् एतानि च परस्परवैधर्म्यसाधर्म्यप्रतिपत्तिमन्तरेण न शक्यानि विज्ञातुमित्येवमर्थमिदं प्रस्तूयते तस्मान्नाकस्मिको वैरूप्यसारूप्योपन्यास इति

*kārikā 6-7 āha- astu tāvadakṣarānnikarṣabhājāmarthānāṃ pratyakṣeṇopalabdhiḥ asannikarṣabhājāmapi copalabdhasambandhānāmanumānena ye tvatīndriyā bhāvāsteṣāmubhayavailakṣaṇyānnāsti pratyakṣānumānābhyāmupalabdhiḥ āgamikatve sarvavādasiddhiprasaṃgaḥ ityato 'tyantamevāgrahaṇaṃ prāptam tatra yaduktametāvadbhiḥ pramāṇaiḥ sakalapadārthāvabodha iti etadayuktam ucyate- syādetadevaṃ yadyekarūpamevānumānamadhītaṃ syāt, kiṃ tarhi trividham tatra satyameva pūrvavaccheṣavatī prāganubhūtasambandhaviṣayaphale iti kṛtvā na tābhyāmaśeṣapadārthādhigamo 'bhyupagamyate sāmānyatastu dṛṣṭādatīndriyāṇāṃ prasiddhiranumānāt isk_6a yattvetatsāmānyatodṛṣṭamanumānametasmādatīndriyāṇāmarthānāṃ samadhigamaḥ pratyavagantavyaḥ katham ? yathā hi kṛtakatvānityatvayorghaṭe sahabhāvamupalabhyānyatra śabdādau kṛtakatvadarśanādanityatvamanumīyate evaṃ śakalādīnāṃ tajjātīyatā candanādipūrvakatvasiddheḥ, kāryakāraṇasya sukhādijātīyatayā tatpūrvakatvasiddheḥ, śayanādīnāṃ ca saṃghātatvātpārārthyasiddheḥ, kāryakāraṇasyāpi saṃghātatvātpārārthyasiddhiriti sarvamiṣṭaṃ saṅgṛhītaṃ bhavatīti yeṣāṃ tu śeṣavadeva sāmānyatodṛṣṭaṃ teṣāṃ tasya kāryadvāreṇa samadhigamahetutvāt puruṣasyāgrahaṇaprasaṃgaḥ vṛttau kāryopacārādadoṣa iti cet syānmatam, yadyapi puruṣasya kāryābhāvastathāpi puruṣāvyaktamahadahaṅkāraviśeṣāṇāṃ sāmprate kāle svavṛttibhyasteṣāṃ grahaṇamityuktam kasmāt ? vṛttiśaktireṣāṃ kāryatvenopacaritā svamātmānaṃ yunaktīti taccāyuktam kasmāt ? hetvantarābhidhānāt yadi vṛttyā grahaṇaṃ puruṣasya sūpapādamabhaviṣyat saṃhatapārārthyamācāryo hetutvena nāvakṣyat taccāvṛttibhūtamityavaśyaṃ śeṣavatsāmānyatodṛṣṭayorarthāntarabhāvo 'bhyupagantavyaḥ tasmāt siddhaṃ sāmānyatodṛṣṭādatīndriyāṇāmarthānāṃ samadhigamaḥ tasya prayogamātrabhedāddvaividhyam vītaḥ avīta iti tayorlakṣaṇamāmananti- yadā hetuḥ svarūpeṇa sādhyasiddhau prayujyate sa vīto 'rthānarākṣepāditaraḥ pariśeṣitaḥ svarūpaṃ hi sādhanasya dvividham- sādhāraṇamasādhāraṇaṃ ca tatra sādhāraṇaṃ sādhyasahabhāvī tatpratipattihetutvena yathāvadāśrīyamāṇo 'rthātmā asādhāraṇaṃ punaḥ parimāṇamanvayaḥ saṃghātaparārthatvamityādi tatra yadā hetuḥ parapakṣamapekṣya yathārthena svarūpeṇa sādhyasiddhāvupadiśyate tadā vītākhyo bhavati yadā tu svasādhyādarthāntarabhūtānāṃ prasaṃgināṃ kṣepamapohaṃ kṛtvā pariśeṣataḥ sādhyasiddhāvapadiśyate tadāvītākhyo bhavati tadyathā na cet paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhyo jagadutpattiḥ sambhavati pariśeṣataḥ pradhānāditi tadā punaravītākhyo bhavati tatra yadā vīto hetuḥ svabuddhāvavahitavijñānasarūpaṃ vijñānāntaramādadhānena vaktrā pratipādyādau vākyabhāvamupanīyate vākyamantareṇārthasya buddhyantare saṃkrāmayitumaśakyatvāt, tadāvayavivākyaṃ parikalpyate tasya punaravayavāḥ jijñāsāsaṃśayaprayojanaśakyaprāptisaṃśayavyudāsalakṣaṇāśca vyākhyāṅgam pratijñāhetudṛṣṭāntopasaṃhāranigamanāni parapratipādanāṅgamiti tatra jñātumicchā jijñāsā kaścit kaṃcidupasadyāha- puruṣaṃ jñātumicchāmi kimasti nāstīti ? kutaḥ saṃśaya iti paryanuyuktaḥ pratyāha- anupalabhyamānasyobhayathā dṛṣṭatvāt ihānupalabhyamānamubhayathā dṛṣṭam- sadbhūtamasadbhūtaṃ ceti sadbhūtaṃ cārkendumaṇḍalāparabhāgādi, asadbhūtaṃ ca śaśaviṣāṇādi ayamapi cātmā nopalabhyate ataḥ saṃśayaḥ kimasti nāstīti ? kimasyāścintāyāḥ prayojanamiti pṛṣṭo vyācaṣṭe - śāstratattvādhigamaḥ, tataśca mokṣāvāptiḥ kathamiti ? yadi tāvadayamātmāsti tato 'sya aprakṛtitvaudāsīnyavibhutvādisattvavijñānānnairātmyabhrāntivipakṣabhūtādapavargaprāptiravaśyaṃbhāvinīti yaduktam vyaktāvyaktajñavijñānānmokṣo 'vāpyata iti tacchāstramarthavad bhavatīti atha nāstīti niścīyate tena sāmānyatodṛṣṭādanumānāttadvadanye 'pi padārthā na santīti vipralambhabhūyiṣṭhamārṣaṃ darśanamapahāyātmagrahadṛṣṭivigamāllokottarmavalambanaṃ śūnyaṃ dhyānaviṣayamupasamprāptastraidhātukakleśanirodhalakṣaṇamātyantikaṃ nirvāṇamavāpsyatīti śakyaścāyamartho niścetum, pramāṇatrayaparigrahāditi vyavasthite, vyudāsya saṃśayaṃ sādhyāvadhāraṇaṃ pratijñā sādhyasya yadavadhāraṇamasti puruṣa iti sā pratijñā sādhanasamāsavacanaṃ hetuḥ sādhyate 'neneti sādhanaṃ liṅgam samāsaḥ saṃkṣepaḥ sādhanasya samāsavacanaṃ sādhanasamāsavacanam sādhanagrahaṇaṃ tadābhāsapratiṣedhārtham na hi tāni sādhanaṃ, saṃśayaviparyayahetutvāt samāsagrahaṇamavayavāntarāvakāśapradānārtham liṅganirdeśamātraṃ hetuḥ yastu tasya sādhyasahabhāvitvalakṣaṇaḥ prapañcaḥ so 'vayavāntarāṇītyuktaṃ bhavati udāharaṇantvatra nidarśanaṃ dṛṣṭāntaḥ tasya sādhanasya sādhyena sahabhāvitvanidarśanaṃ yadasau dṛṣṭāntaḥ tadyathā saṃhatyakāriṇāṃ parārthatvaṃ dṛṣṭaṃ, yathā śayanāsanarathaśaraṇānām vyatirekastvavītasya prasaṅgidharmāntaranivṛttirūpatvāttadantarbhūta iti tadarthaṃ vaidharmyadṛṣṭānta ucyate sādhyadadṛṣṭāntayorekakriyopasaṃhāraḥ upanayaḥ sādhyasya cakṣurādipārārthyalakṣaṇasya, dṛṣṭāntasya ca śayanāderekakriyopasaṃhāraḥ tatrārthāntarabhūtatvāt sādhyadṛṣṭāntayorañjasā naikakriyopapadyate tenaiva tasyānidarśanādityato dharmasāmānyādyathedaṃ tathedamityekakriyopacaryate yathā śayanādayaḥ saṃhatatvātparārthā evaṃ cakṣurādibhirapi parārthairbhavitavyam yo 'sau paraḥ sa puruṣaḥ tadvaśātpratijñābhyāso nigamanam hetudṛṣṭāntopasaṃhārāpekṣayā yaḥ punarabhyāsaḥ tannigamanam tadyathā- tasmādasti puruṣa ityeṣāmavayavānāṃ parasparasambandhādviśiṣṭārthaḥ samudāyo vākyamityupadiśyate vākyamapyanekaṃ yadā guṇībhūtasvārthamarthāntaropakāritvāditareṇa saṃsṛjyate tadā śāstramapyekaṃ vākyamityavasīyate āha- jijñāsādyanabhidhānam tadvyatirekeṇāpi svayamarthagateḥ svaniścayavacca parapratipādanāt yathā hi svayamutpadyate niścetuḥ pratyayastathaivānyaḥ pratyāyya ityetannyāyyam na ca svayamevārthaṃ pratipadyamānasya jijñāsādīnāṃ tatra vyāpāraḥ tasmāt parārthamapyeṣāmupādānaṃ na kalpyate saṃśayavacanānarthakyam ca, pratītārthatvāt niścitau hi vādiprativādinau svapakṣayoḥ, tayoritaretarasaṃśayaparyanuyoge nāsti prayojanam kiṃcānyat- prayojanaśakyaprāptyavacanaṃ ca sādhanābhyupagamādeva tatpratīteḥ na hi mahatāṃ niṣprayojanā pravṛttirupapadyate na cāśakye 'rthe himavatsamīkaraṇādiṣu pravṛtteḥ tasmādanarthakaṃ tadabhidhānam tadbhāve bhāvāditi cet syādetat satsu jijñāsādiṣu tattvādhigamaṃ prati pravṛttirbhavati, asatsu na bhavati tasmādetānyapi sādhanaṃ bhaviṣyantīti etaccānupapannam kasmāt ? atiprasaṃgāt satsvātmāntaḥkaraṇendriyālokaviṣayeṣu pravṛttidarśanātteṣāmapi sādhanatvaṃ syāt aniṣṭaṃ caitat tasmājjijñāsādayo 'narthakāḥ pratijñādayo durvihitāḥ katham ? sādhyāvadhāraṇasyāvayavāntareṣvapyupapatteḥ yadi sādhyāvadhāraṇaṃ pratijñetyucyate tena sādhyasya hetordṛṣṭāntasya vā yadavadhāraṇaṃ tadapi pratijñā prāpnoti, nimittāviśeṣāt sādhyaśabdo hyayaṃ sāmānyavṛttiḥ na yatnamantareṇa viśeṣe 'vasthāpayituṃ śakyata iti kiṃ ca hetulakṣaṇānupapattiśca, sādhanānupadeśāt yo hi sādhanasamāsavacanaṃ heturityetallakṣaṇamācaṣṭe tena prāksādhanamabhidheyaṃ syāt tato vaktavyamamuṣya samāsavacanaṃ heturiti na caivamuktam tasmādalakṣaṇametat kiṃcānyat, samāsavacanaṃ ca vistaraniṣedhaprasaṅgāt yadi hi samāsagrahaṇaṃ kriyate kiṃ prāptaṃ yo 'yamādhyātmikānāṃ bhedānāṃ kāryakāraṇātmakānāṃ caikajātisamanvayo dṛṣṭa ityevamādiḥ sādhanaprapañcaḥ so 'heturityuktaṃ bhavati tasmāt samāsagrahaṇamaniṣṭam liṅgābhidhānādadoṣa iti cet syānmatam, liṅgaṃ hi naḥ sādhanam tasyātra nirdeśaḥ kṛtaḥ tasmātsvamatijāḍyādidamaniṣṭamadhyāropyate, na tvasmatpramādāditi etadapyayuktam kasmāt ? tasya dvidhā bhinnasya pañcadhā sādhanabhāvāt taddhi liṅgaṃ vītāvītatveneṣṭam tena dvidhā bhinnam tatrāpi vītaḥ pañcaprabhedaḥ ityataḥ samudāyānniṣkṛṣṭasyaikasya liṅgatvamaśakyaṃ vaktumiti kiñcānyat, dṛṣṭāntalakṣaṇāyogaśca, śabdārthalakṣaṇe 'niṣṭaprasaṅgāt tannidarśanaṃ dṛṣṭānta iti atra śabdo vā yena sādhyasādhane nidarśyete sa dṛṣṭāntaḥ syāt ? artho vā yatra nidarśyate ? kiñcātaḥ ? na tadyadi tāvacchabdaḥ parigṛhyate tata upanayalakṣaṇaṃ bādhyate kasmāt ? na hi yathābhidhānaṃ tathā sādhyamityekakriyā yujyate iti athārthaḥ parigṛhyate tenābhidheyasya vākyānavayavatvātpañcāvayavatvavirodhaḥ kiñcānyat- dṛṣṭāntopanayanigamanābhedaśca hetupratijñārthābhidhānāt sādhanatvameva sādhyāvinābhāvitvalakṣaṇaṃ dṛṣṭāntopanayayoḥ pratyāyaya(yya)te pratijñārthaṃ ca nigamanasya nāvayavāntaratvaṃ yujyate ucyate- yaducyate svaniścayenāṅgabhāvagamanātparapratyāyanārthaṃ jijñāsādyanabhidhānamiti atra brūmaḥ- na, uktatvāt uktametat purastādvyākhyāṅgaṃ jijñāsādayaḥ sarvasya cānugrahaḥ kartavya ityevamarthaṃ śāstravyākhyānaṃ vipaścidbhiḥ pratāyate, na svārthaṃ svasadṛṣabuddhyarthaṃ vā tatraivaṃ kalpyamāne ye vyutpādyāstānprati naivaiṣāmānarthakyam athaitadaniṣṭam- yaduktaṃ sandigdhaviparyastāvyutpannabuddhyanugrahārtho hi satāṃ viniścayaḥ śāstrakathetyasya vyāghātaḥ kiṃ ca niyamānabhyupagamāt na hi vayameṣāmāvaśyakamabhidhānamācakṣmahe, kintarhi yadā prativādī paryanuyuṅkte- kiṃ jijñāsasa iti avaśyamabhidhānīyaṃ śabdamiti kena dharmeṇa, kiṃ nityo 'nitya iti ? kutaḥ saṃśayaḥ ? mūrtatvāt yastu na paryanuyuṅkte na taṃ pratyete vācyāḥ kvacidānarthakyāt sarvatra prasaṅga iti cenna itareṣāmapi tatprasaṅgāt pratijñādīnāmapi tarhi kvacidanabhidhānamatasteṣāmapi sarvatrāvacanaṃ prasajyate tathā ca bhavatoktaṃ kasyacittu kiñcit prasiddhameva bhavatītyanyataroktirapi sādhanaṃ bhavati, śabda ivārthadvayapratītatvādubhayānabhidhānamiti yadapyuktaṃ niścitatvāt saṃśayāvacanamiti asadetat kasmāt ? uktatvāt uktametat sati paryanuyoge tadvacanamiti etena prayojanaśakyaprāptī pratyukte yo hi paryanuyuñjīta kiṃ prayojano 'yaṃ śakyo vāyamartha iti taṃ prati vācyametat yadapyuktaṃ tadbhāve bhāvāditi- na, anabhyupagamāt na brūmo yasmāt satsu jijñāsādiṣu tattvādhigamasadbhāvastasmādeteṣāmavayavatvamiti kintarhi yaṃ pratyeṣāṃ pratipattāvaṅgabhāvagamanaṃ taṃ pratyetāni sādhanamiti yadapyuktaṃ sādhyābhidhāyinaḥ pratijñābhyupagamāddhetudṛṣṭāntayorapi tatprasaṅga iti ayuktametat kasmāt ? jijñāsādeḥ sadbhāve sati tatpratīteḥ yadyapi sādhyaśabdo 'yamaviśeṣeṇa siddhatvādarthāntaramācaṣṭe tathāpi yaṃ prati jijñāsāsaṃśayaprayojanaśakyaprāptayastasya vyudasya saṃśayaṃ sādhyasyāvadhāraṇaṃ pratijñā, na hetudṛṣṭāntayostadastītyasadetat kiṃcānyat tadbhāve 'virodhāt yadā tu jijñāsādayo hetau dṛṣṭānte vā bhavanti tadā kiṃ kṛtakaḥ śabdo 'tha na kṛtako 'tha buddhirnityā kṣaṇikā veti bhavatyeva tadavadhāraṇaṃ pratijñā yadapyuktam sādhanānupadeśāddhetulakṣaṇāyoga iti asadetat kasmāt ? lokaprasiddhatvāt yathā sādhyavatvenepsitaḥ pakṣa iti pratijñālakṣaṇamācakṣāṇo bhavānna sādhyalakṣaṇamācaṣṭe, kasmāt ? sādhanīyaṃ sādhyamiti loke siddhatvāt, evaṃ sādhanasamāsavacanaṃ hetulakṣaṇamācakṣāṇā vayaṃ na sādhanamācakṣmahe kasmāt ? sādhyate 'neneti kṛtvā sādhanamiti loke siddhatvāt upetya vānumānanirdeśāt liṅgaṃ hi naḥ sādhanaṃ, tacca nirdiṣṭaimiti yattūktaṃ vītāvītabhede sati pañcadhā sādhanabhāvāditi, atra brūmaḥ, ayuktametat kasmāt ? samāsagrahaṇasāmarthyāt ataeva samāsagrahaṇaṃ kriyate, sādhanasvarūpābhidhānamātraṃ heturiti yathā vijñāyate prapañcastvavayavāntarāṇīti etena vistarapratiṣedhaprasaṅgaḥ prayuktaḥ katham ? na hi samāsaśabdasyāyamartha iti kṛtvā yatpunaretaduktaṃ śabdārthakalpane 'niṣṭaprasaṅgād dṛṣṭāntalakṣaṇāyoga iti, astu tāvacchabdo dṛṣṭāntaḥ yattūktaṃ upanayalakṣaṇaṃ bādhyata iti anupapannametat kasmāt ? asambhave sati sambandhyantare kāryavijñānāt śabde 'sambhavādarthe kāryaṃ vijñāsyāmaḥ athavā punarastvartho dṛṣṭāntaḥ yattūktamabhidheyasya vākyānavayavatvātpañcāvayavatvavirodha iti arthe 'sambhavācchabde kāryaṃ vijñāsyāmaḥ yadapyuktam pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti ayamadoṣaḥ kasmāt ? apratijñānāt na hyetadasmābhiḥ pratijñāyate kiṃ tarhi prameyavacanaṃ pratijñā pramāṇarūpamātravacanaṃ hetuḥ tasya prameyasahabhāvitvanidarśanaṃ dṛṣṭāntaḥ sādhyadṛṣṭāntayordharmasāmānyādekakriyopasaṃhāra upanayaḥ samudāyasya sādhyasiddhaye vyāpāranirdeśo nigamanam tasmādayuktametat kiṃcānyat ekasya sādhanabhāvaparikalpanāvattatparikalpane doṣābhāvāt yathā vākyam evaṃ ca tadarthaśca mukhyau śabdārthau, tayorabhinnārthatvādityabhyupagamādekamevārthamabhāgamakramaṃ ca buddhāvavasthāpya śrotragrāhyatvānityatvakṛtakatvaprameyatvādilakṣaṇānāṃ śaktīnāmapoddhārātsādhyasādhanasaṃśayarūpāpannaṃ vaktāro bhinnamācakṣate, na caikārthadharmatvātsādhyasādhanasaṃśayābhidhānānāmekatvamanuṣajyate tathaikasya sādhanasya sādhyadharmatatsahabhāvitvalakṣaṇānāṃ śaktīnāmabhidhānaṃ hetudṛṣṭāntādināvayavāntaraṃ naḥ syāt tatra yaduktaṃ pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti etadayuktam tasmātsūktaṃ daśāvayavo vītaḥ tasya purastātprayogaṃ nyāyyamācāryā manyante kiṃ kāraṇam ? avītalakṣaṇāvirodhāt avītasya hi lakṣaṇaṃ pariśeṣataḥ sādhyānugrahaḥ tatrānvayadinā svarūpeṇādhigate pradhānalakṣaṇe dharmiṇi parapakṣapratiṣedhamātreṇopasaṃhāre kriyamāṇe pariśeṣalakṣaṇaṃ bādhyate kasmāt ? iha pratiṣedhamātramādāvucyate tena yathā hetuvirodhātparamāṇvadibhyo na vyaktamutpadyate tathā hetvabhāvāt pradhānādapi notpadyate iti śakyaṃ kalpayitum atastadvyavacchedo 'pi cāvītādgamyate tathā sati kaḥ pariśeṣaḥ syāt ? svarūpeṇa tu paricchinne dharmiṇi upasaṃhāro yathāvadavakalpyate na cetparamāṇvādibhyo vyaktamutpadyate pariśeṣataḥ pradhānādeva vyaktamutpadyate iti yathoktebhyo 'nvayādibhya ityuktaṃ bhavati tasmātprāgvītaprayoga iti siddhaṃ sāmānyatodṛṣṭādanumānādatīndriyāṇāmarthānāṃ samadhigama iti āha- na, kāraṇāntarato 'nupalabhyamānānāmagrahaṇāt yadi sāmānyatodṛṣṭādanumānātsarvaṃ parokṣamadhigamyate ityabhyupagamyate prāptamidaṃ yeṣāmapyarthānāṃ kāraṇāntarato 'nupalabdhisteṣāmapi tasmādeva grahaṇam tadyathā- atidūrātsāmīpyādindriyaghātānmano 'navasthānāt saukṣmyādvyavadhānādabhibhavātsamānābhihārācca isk_7 tatrātidūrāttāvat tadyathā proḍḍīnasya śakuneḥ atisāmīpyādañjanaprabhṛtīnām indriyaghātācchabdādīnām mano 'navasthānācchakaṭādīnām saukṣmyāttruṭyādīnām vyavadhānāddhiraṇyādīnām abhibhavātsūryaprakāśādgrahādīnām samānābhihārādanekapradīpaprabhāṇām caśabdādaiśvaryayogāddevādīnām na cārhati bhavituṃ dharmasāmānyānupapatteḥ tasmādayuktaṃ sarvamatīndriyamanumānagrāhyamiti ucyate- śakyaṃ tāvatkāraṇāntarato 'nupalabhyamānaṃ kiṃcitsāmānyatodṛṣṭādanumānādadhigantum tadyathā samīpāvasthitasya śakunerayatnena cakṣuṣā grahaṇaṃ, yathā yathā tu viprakarṣaṃ pratipadyate praṇidhāya cakṣurgṛhyate tāvadyāvatkrameṇādarśanamupasaṃprāptaḥ tatra deśaviprakarṣe pracīyamāne 'darśanamupacīyamānamavagamyātyantādarśanamapi paścāttaddhetukamanumīyate tathā nātisamīpāvasthitasya dravyasyāsphuṭamākāramavadhārya paścādyathā yathārādupasaṃpadyate tathā tathā pratipadyamānadarśanaśaktayo 'numātāraḥ kṛṣṇasārāñjanaprabhṛtīnāmagrahaṇamatisāmīpyādanumīyate tathā girisaritsamudrasamīpavartinaṃ śravaṇapratighātinaṃ prāk śabdamupalabhya paścāttasminneva deśe śabdamagṛhṇānāḥ śravaṇopaghātamanumimate tasmādapi cāsiddhaṃ parokṣamāptāgamātsādhyam isk_6b tasmādapi cāsiddhamityanenāgamaviṣaye sāmānyatodṛṣṭasyānavatāramācaṣṭe parokṣamiti viṣayaṃ prati nirdiśati āptāgamātsādhyamiti viṣayiṇamāha etaduktaṃ bhavati- tasmādapi sāmānyatodṛṣṭādanumānādyanna siddhyati pratyakṣagrāhyamapi svayamadṛṣṭaṃ kāraṇāntarapratibaddhaviṣayabhāvamatyantaparokṣaṃ vā svargāpavargadevatādi dharmasāmānyarahitaṃ tadāptāgamātsādhyam sarvavādasiddhiprasaṅgādaprāmāṇyamiti cet syādetat, yadi tarhyāgamaḥ pramāṇīkriyate tena pratiśāstraṃ ye 'bhiyuktāsteṣāṃ prāmāṇyamityavaśyamabhyupagantavyam evaṃ sati sarvācāryaprāmāṇyādanekavikalpavicitrā tarkavṛttirityapariniścitatvādbhrāntiḥ prasajyeta tathā ca sati jijñāsūnāmapavargaprāptivighātaḥ syāt tasmādbhiṣajeva bhavatā paropadeśaḥ prayukto nāsmānayaṃ prīṇāti etaccāyuktam kasmāt ? āptalakṣaṇasyānavadhāritatvāt vyapagatarāgādidoṣāṇāmasandigdhamatīnāmatīndriyārthadṛśvanāmīśvaramaharṣīṇāmāptatvamācakṣmahe, na sarveṣām yadi cānyo 'pyevaṃdharmo 'sti bhavatu pramāṇam kiṃcānyat svaviṣaye ca tatprāmāṇyasyādoṣavattvāt yasya khalvapi yo viṣayastasya tasminviṣaye vaco 'ntareṇāpi sādhanaṃ pramāṇamityavaśyamabhyupagantavyam itarathā pratiśāstramācārasthitiniyamānāmadṛṣṭārthānāmapratipattiḥ syāt etenākhilaliṅgādāgamo 'rthāntaram yasmānmahatābhidhānena yuktiranviṣyate tasmādyuktyapekṣālliṅgādāgamo 'rthāntaramiti āha na, anvayavyatirekābhyāmadhigamahetutvāt yathā kṛtakatvādidharmo 'nityatvādau viṣaye dṛṣṭastadabhāve cādṛṣṭa ityanitye 'rthe niścayamādadhāti evaṃ śabdo 'pi svārthe tajjātīye na dṛṣṭaḥ pratipattiheturbhavati tasmādanumānādabhinna evāyamiti ucyate- candrādiṣvidānīmasādhāraṇaviṣayeṣu kā pratipattiḥ syāditi ? āha- avayavāpekṣatvāccandraśabdo hyanekeṣu vacaneṣu vartate, jātidravyaguṇakriyāsu ca, tathā ḍitthādiśabdaḥ, tasmādevaṃjātīyakānāmapi cānumānādabhedaḥ ucyate- svargādīnāṃ tarhi kathamanumānatvamiti ? āha- āptavaco 'visaṃvādasāmarthyāt yathā hairaṇyakaprabhṛtīnāmāptānāṃ vākyamavyabhicāri evamīśvaramaharṣayo 'pi cāptāḥ tasmādeṣāmapi vākyamavyabhicārīti śakyamatrāpi sāmānyaviṣayatvaṃ kalpayitum evamanumānamevāgama iti ucyate- yaduktamanvayavyatirekābhyāmadhigamahetutvācchabdo 'numānamiti atra brūmaḥ na, apratijñānāt na hi vayaṃ vyavahārānupātināṃ vṛkṣādīnāmāgamatvamācakṣmahe, kiṃ tarhi svargādīnāmatyantaparokṣaviṣayāṇām tasmādapratijñānādanupālambho 'yamiti upetya vā vaktrapekṣatvāt athavopetyāpi sarvaśabdānāmāgamatvamanumānādarthāntarabhāvaṃ brūmaḥ tathā hi kṛtakatvāditi liṅgaṃ caṇḍālakāpālikairapi prayujyamānaṃ sāhacaryāpekṣaṃ niścayamādadhāti na vaktṛviśeṣamapekṣate vaktṛviśeṣāpekṣastu śabdaḥ tasmānna liṅgam kiṃ cānyat viparyayāt na hi liṅgaṃ deśāntare viparyeti śabdasya tu dṛṣṭo viparyayaḥ sa eva hi śabdo deśāntare, kālāntare tu svārthaṃ na pratyāyayati arthāntaraṃ ca praśaṃsati sambandhānupalabdheriti cet syādetat, sambandhāntaraṃ deśāntare 'nupalakṣitam tasmācchabdārthaviparyaya iti etadanupapannam liṅgavaidharmyāt na hi pratyakṣābhimatasya liṅgina upalabdhau gavāderliṅgaṃ nopalabhyate śabdastūpalabhyamāno gavādau nopalabhyate tasmānna liṅgam kiṃcānyat deśaniyamāt na hi liṅgasya deśaniyamo dṛṣṭaḥ asti tu śabdasya deśaniyamaḥ tadyathā śavatirgatikarmā kāmbojeṣveva bhāṣyate raṃhatiḥ prācyeṣu, tathā dātirlavanārthaḥ, dātramudīcyeṣu nānyatra tasmānna śabdo liṅgam kiṃcānyat, iṣṭato viniyogāt svābhāvikaṃ liṅgam na hi dhūmognerapakṛṣya śakyate 'psu vāyāvākāśe 'nyatra vā niveśayitum śabdastu yatra vakturabhiprāyastatra tatra viniveśyate yatha vṛddhyādayaḥ śabdāḥ svārthābhyuccayādiṣu prasiddhā ādaikṣu viniveśyante tasmānna te liṅgam sarvābhidhānaśaktitvācchabdasyādoṣa iti cet syānmataṃ sarvābhidhānaśaktiḥ śabdaḥ sarvābhidheyaśaktiścārthastayoḥ puruṣavyāpāreṇa śaktyavavacchedaḥ kriyate katham ? ayameva śabdo …

Section (cont. 9)

… 'syārthasya pratyāyako bhavatu ayameva cārtho 'nena śabdenābhidhīyatām etāvati puruṣavyāpāraḥ tasmācchabdasya svābhāvikaḥ sambandho vaktrapekṣayā vyajyata iti etadapyanyupapannam kasmāt ? sutarāmanumānādarthāntaratvaprasaṃgāt evamapi kalpayitvānumānātsutarāṃ śabdasyārthāntaratvamāpadyate kasmāt ? na hi yathā vakrapekṣayā sarvārthasya sataḥ śabdasya śaktyavacchedastathā sarvārthaṃ liṅgaṃ vaktrapekṣayārthāntarādavacchidyate yathā caikaḥ śabdo jagatyevamuditaḥ puruṣaviniyogāpekṣaḥ sarvamarthamabhidhātuṃ samarthastathaikaṃ liṅgaṃ kayācidyuktyā sarvārthapratyāyanasamartham tasmānna śabdo liṅgam yatpunaretaduktam candrādīnāmavayavāpekṣaṃ sāmānyamabhyupagamyate tadayuktam asādhāraṇatvāt anumānābhāve śabdaprasiddho 'rtha iti vyāghātaḥ kiṃ cānyat jātyādisādhyatvāt jātiguṇadravyakriyāṇāṃ ca parasparato 'rthāntaratvaṃ, samudāyaśca sādhyaḥ tasmādayuktameṣāṃ tadapekṣayā sāmānyaviṣayatvam yadapyuktamāptavādāvisaṃvādasāmānyātsvargādiśabdānāmanumānatvamiti, atra brūmaḥ- etadapyanupapannam kasmāt ? pramāṇaviṣayatvāt satyamastyeṣāṃ sāmānyaparikalpanā, sā tu pramāṇaviṣayā na tu prameyaviṣayā prameyaṃ tu sāmānyamanumānamasyetyayamabhyupagamo vaḥ taccāsādhāraṇatvātsvargādīnāṃ pratiṣiddham tasmāttyajyatāmiyamāśaṅkānumānamevāgama iti anyaḥ punaranumānāgamayorabhedapratijña idamāha svargādayaḥ śabdā na pramāṇam kasmāt ? pramāṇāntareṇa tadarthānupalabdheḥ yasya hi śabdasyārthaḥ pratyakṣato 'numānato vā nopalabhyate sa na pramāṇam itarastu pramāṇam tadyathā nadyāstīre pakvamāmravanaṃ, pathi guḍaśakaṭaṃ viparyastamiti na ca svargādiśabdānāmarthaḥ pramāṇāntareṇopalabhyate tasmādyathā vibhurātmā sarvatra sukhādisambhavādityevamādayo bauddhaṃ prati dharmyasiddhatvādayo yathārthāstathā vedaśabdā api prāyeṇeti etattu na yuktarūpam kasmāt ? anyāyena sarvaśabdāpavādāt kā hyatra yuktiryadasmadādibhiranupalabhyamānārthaṃ pramāṇabhūtānāmapi vākyamayathārthaṃ syāt ? saveṇa cāvaśyaṃ kaścidāptastasya ca vākyamadṛṣṭārthamityabhyupagantavyam ato 'yaṃ tavātrāpi samānaḥ prasaṃgaḥ na ca pramāṇaṃ svārthasiddhaye pramāṇāntaramapekṣate tatra yadi śabdasya pramāṇāntarāpekṣaṃ yathārthatvamāśrīyate tena na kevalaṃ svargādayaḥ kiṃ tarhi śabdā evāpramāṇamiti prāptam anumānasya ca pramāṇāntaranirapekṣasya gamakatvābhyupagamādāgamasya tato 'rthāntaratvaṃ sutarāṃ prasajyate tasmādyuktāgamavirodhina evaṃvidhā nāstikavādāḥ śreyo 'rthibhirdūrādapohyā iti sthitametat- anumānādasiddhaṃ vastu yattadāptāgamātsādhyamiti evamasya trividhasya pramāṇasyaindriyikaṃ kāraṇāntarato 'nupalabhyamānaṃ ca prameyaṃ vyākhyātam etasmāttu yadanyattadasaditi pratyavagantavyam 6-7 kārikā 8 āha, yadyevaṃ pradhānasyāsattvaprasaṅgaḥ anupalabdau kāraṇāntaratvānupalabdheḥ taddhi pratyakṣāviṣayatve satyatidūrādibhiranupalabdhikāraṇairnopalabhyate tanna tāvat atidūrātsāmīpyādvyavadhānāccāsyāgrahaṇam kasmāt ? vibhutvāt nendriyaghātāt, avikalendriyairagrahaṇāt na mano 'navasthānāt, avasthitamanobhiragrahaṇāt na saukṣmyāt, śaśaviṣāṇādīnāṃ sattvaprasaṅgāt nābhibhavāt, asambhavāt na samānābhihārādekatvāt tasmāt kāraṇāntarābhāvato 'nupalabhyamānasyāsattvamicchataḥ pradhānasyāpi śaśaviṣāṇādīnāmapi sattvaprasaṅgaḥ athaitanneṣyate kāraṇāntaraṃ tarhyanupalabdhau vaktavyamiti ucyate- yattāvaduktaṃ anupalabdhau kāraṇāntarānupapatteḥ pradhānasyāsattvaprasaṅga iti, atrāstu saukṣmyāt tadanupalabdhirnābhāvāt yattūktaṃ śaśaviṣāṇādīnāmapi sattvaprasaṅga iti tadayuktam kasmāt ? sādhanopapatteḥ asti hi pradhānasya saukṣmyāttadanupalabdhau sādhanaṃ, na śaśaviṣāṇādīnām kiṃ tat ? ucyate kāryatastadupalabdhiḥ pradhānasya hi kāryata upalabdhirityetadupariṣṭātpratipādayiṣyāmaḥ na tu śaśaviṣāṇādīnāṃ kāryamasti tasmādviṣamo 'yamupanyāsaḥ āha- evamapi pratijñāntarānarthakyam, ekena kṛtatvāt saukṣmyāttadanupalabdhirityukte gamyata etannābhāvāditi tasmāttadvacanamanarthakamiti ucyate- na, vītāvītaparigrahārthatvāt evaṃ siddhe yatpratijñādvayaṃ karoti tat jñāpayatyācāryaḥ vītāvītābhyāmabhipretārthasiddhiḥ prākca saukṣmyātiśayāttadanupalabdhirityācakṣāṇaḥ pratipādayati purastādvītaḥ prayoktavyava iti ekasmiṃśca viṣaye dvau prayuṃjānaḥ samuccayena siddhiṃ dyotayati kiṃ siddhaṃ bhavati ? yaduktaṃ tantrāntarīyaiḥ na pṛthakpratipattihetū vītāvītāviti tadiṣṭamevaṃ saṃgṛhītaṃ bhavati tatra vītasya pratijñā saukṣmyāttadanupalabdhiḥ tasya cāvītasya prasaṅgidharmāntaranivṛttirūpeṇa, nābhāvāt heturubhayayogī katham ? yasya pratyakṣato 'nupalabhyamānasya kāryastadupalabdhistasya saukṣmyāttadanupalabdhirdṛṣṭā tadyathendriyāṇi yadi punarasyābhāvādanupalabdhissyāt, kāryato 'nupalabdhiprasaṅgaḥ asti ceyaṃ kāryata upalabdhiḥ tasmānnābhāvāt na cedabhāvāt, pariśeṣataḥ saukṣmyāt tadanupalabdhiriti āha, kiṃ punastatkāryaṃ yadbhavānpradhānasyāstitve liṅgamācaṣṭa iti ? ucyate- mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca isk_8 taddhi mahadahaṃkārendriyaviśeṣāviśeṣalakṣaṇaṃ kāryaṃ pradhānena visadṛśaṃ sadṛśaṃ cetyupariṣṭātpravedayiṣyāmaḥ āha- prastāvābhāvādayuktametat kiṃ punaradhikṛtyedamucyate prakṛtivirūpaṃ sarūpaṃ ca mahadādi kāryamiti ? ucyate- vyaktāvyaktajñavijñānānmokṣo 'vāpyata ityetatprakṛtam etāni ca parasparavaidharmyasādharmyapratipattimantareṇa na śakyāni vijñātumityevamarthamidaṃ prastūyate tasmānnākasmiko vairūpyasārūpyopanyāsa iti*

Section (cont. 10)

9

इति श्रीयुक्तिदीपिकायां सप्ततिपद्धतौ द्वितीयमाह्निकम् कारिका 9 आह- आस्तां तावद्वैरूप्यसारूप्यचिन्ता कार्यमिदमेव तावन्महदादि परीक्षिष्यामहे किं प्रागुत्पत्तेरस्ति नास्तीति ? कुतः संशय इति चेत् स्यान्मतम्- असङ्गतार्थं प्रकरणान्तरमुपक्षिप्यते भवता न चाविद्यमानसम्बन्धस्य संशयस्य प्रकरणान्तरे ऽभिधीयमानस्य निर्णीतिं साध्वीमाचार्या मन्यन्ते अवकाशासम्भवादिति उच्यते- अस्ति संशयावकाशः कस्मात् ? आचार्यविप्रतिपत्तेः प्रागुत्पत्तेः कार्यमसदित्याचार्याः कणादाक्षपादप्रभृतयो मन्यन्ते सदसदिति बौद्धाः नैव सन्नासदित्यन्ये तस्मादुपपन्नः संशयः तत्रेदानीं भवतः का प्रतिपत्तिरिति ? उच्यते नाविद्यमानस्य महदादेर्विकारस्य प्रधानादाविर्भाव इति प्रतिजानीमहे कस्मात् ? सन्निवेशविशेषमात्राभ्युपगमात् न हि नः कारणादर्थान्तरभूतं कार्यमुत्पद्यत इत्यभ्युपगमः किं तर्हि विश्वात्मकानां सत्त्वरजस्तमसामपगतविशेषाविशेषाः सन्मात्रलक्षणोपचयाः प्रतिनिवृत्तपरिणामव्यापाराः परमविभागमुपसंप्राप्ताः सूक्ष्माः शक्तयः तासामधिकारसामर्थ्यादुपजातपरिणामव्यापाराणां सन्मात्रानुक्रमेण प्रचयमुपसंपद्यमानानां सन्निवेशविशेषमात्रं व्यक्तम् एतस्यां कल्पनायामसत उत्पत्तौ कः प्रसङ्ग इति ? एतेनैव बाह्यानां तन्त्वादिकार्याणां पटादीनां सन्निवेशविशेषमात्रत्वादसत उत्पत्तिः प्रतिषिद्धा बोद्धव्या आह- अविद्यमानमेतत् कस्मात् ? असिद्धे, नार्थान्तरसिद्धेः यदि हि सन्निवेशविशेषमात्रत्वं कार्यस्य सिद्धं स्यादत एतद्युज्यते वक्तुम्- तदभ्युपगमादसदुत्पत्तेरप्रसङ्ग इति तत्त्वसिद्धम् द्रव्यान्तरभूतस्यावयविनो निष्पत्तिप्रतिज्ञानात् तस्मात् काकविषाणात् शशविषाणसिद्धिवदयुक्तं सन्निवेशविशेषमात्राभ्युपगमात्सत्कार्यसिद्धिरिति इतश्चासत् कार्यम्, अग्रहणात् इह श्रोत्रादीनां विषयभूतस्य तत्सन्निधानादवश्यं ग्रहणेन भवितव्यम् यदि च प्रागुत्पत्तेः सत्कार्यं स्यात् तदपि श्रोत्रादिसन्निधानात् गृह्येत न तु गृह्यते तस्मादसत्कार्यम् अनुपलब्धिकारणसद्भावादिति चेत्, तत्रैतत्स्यात्, अस्ति प्रागुत्पत्तेः कार्यस्यानुपलब्धिकारणं तस्मादस्य सतो ऽप्यग्रहणं भवति उत्तरकालं तद्विगमात् ग्रहणमिति एतच्चानुपपन्नम् कस्मात् ? अनुपलब्ध्यसम्भवात् तद्धि प्रत्यक्षाविषयत्वे सत्यतिदूरादिभिरनुपलब्धिकारणैर्नोपलभ्यते न चैषां तत्र सम्भवः तस्मादसदेतत् कारणान्तरानभिधानात् न चातिदूरादिव्यतिरिक्तमनुपलब्धौ कारणान्तरमधीध्वे यतो ऽस्याग्रहणं स्यात् अतश्चासदेव किं चान्यत् कारणानुपलब्धिप्रसङ्गात् अनुपलब्धिकारणसद्भावात्कार्यस्याग्रहणमिच्छतः कारणाग्रहणप्रसङ्गः कस्मात् ? अभिन्नदेशत्वात् एकेन्द्रियग्राह्यत्वात् स्थूलत्वाच्च तत्त्वनिष्टम् तस्मादयुक्तमनुपलब्धिकारणसद्भावात्सतः कार्यस्याग्रहणमिति प्रमाणान्तरनिवृत्तिप्रसङ्गादयुक्तमिति चेत्, स्यादेतत् यदि तर्हि प्रत्यक्षविषयमेवास्ति ततो ऽन्यत्रास्तीत्येतदुपगम्यते तेनातीन्द्रियविषयस्यानुमानस्य निवृत्तिप्रसङ्गः अनिष्टं चैतत् तस्मान्नानुपलब्धेरसत्कार्यमिति एतदप्ययुक्तम् कस्मात् ? क्रियागुणव्यपदेशासम्भवात् यद्धि प्रत्यक्षतो नोपलभ्यते तत्क्रिययास्तीति संसूच्यते यथा हर्म्यावस्थितानां तृणानामुद्वहनाद्वायुः गुणेन, यथा मालतीलतागन्धेन व्यपदेशेन वा, कार्यादिना यथेन्द्रियाणि न तु प्रागुत्पत्तेः कार्यस्य क्रियागुणव्यपदेशसम्भवः तस्मादसत्कार्यम् इतश्चासत्कार्यम् कर्तृप्रयाससाफल्यात् इह प्राग्व्यापारोपक्रमात् कर्तारस्तस्मात्फलमुपलिप्समानाः कार्यविशेषनियतसामार्थ्यं साधनमुपादाय व्याप्रियन्ते तच्चेत्प्रागपि व्यापारात् स्यात्तदर्थस्य परिस्पन्दस्यानर्थक्यं प्राप्तम् अनिष्टं चैतत् तस्मात् कर्तृप्रयाससाफल्यात् असत्कार्यम् परिणामाद्युपपत्तेर्न दोष इति चेत् स्यान्मतं कारणस्य परिणामव्यूहसंश्लेषव्यक्तिप्रचयक्षणान्धर्मान् यस्मात् कर्त्रादीनि कुर्वन्ति नानर्थकानि स्युः सत्त्वं च कार्यस्य न निरुप्यते क एवं सति दोषः स्यादिति ? उच्यते- न शक्यमेवं कल्पयितुम् कस्मात् ? मार्गान्तरानुपपत्तेः परिणामो हि नामावस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तिः धर्मान्तरप्रवृत्तिश्च तत्र सतो धर्मान्तरस्य निरोधाभ्युपगमादसतश्चोत्पत्तिप्रतिज्ञानान्नेदमर्थान्तरमारभ्यते एवं व्यूहादयो ऽप्युपसंहर्तव्याः तस्मात् परिणामादिभिरभिभवात् कर्त्रादीनामर्थवत्त्वादसत्कार्यम् तथा चोक्तम्- जहद्धर्मान्तरं पूर्वमुपादत्ते यदा परम् तत्त्वादप्रच्युतो धर्मो परिणामः स उच्यते कुतश्च न सत्कार्यम् ? आरम्भोपरमयोराद्यन्ताविशेषप्रसंगात् यदि सत्कार्यं स्यात् तेन यः क्रियार्थः साधनानामादौ परिस्पन्दः सो ऽन्ते ऽपि स्यात् वा यो ऽन्ते विरामः स आदावपि स्यात् कस्मात् ? सदविशेषात् न तु तदस्ति तस्मादसत्कार्यम् इतश्चासत्कार्यम् उत्पत्तिधर्मस्याद्यन्तयोरविशेषप्रसङ्गात् यदि सत्कार्यं स्यात् तेन यथा निष्पन्नस्योत्पत्तिधर्मेणाभिसम्बन्धः तथा आदावपि स्यात् यथैवादावभिसम्बन्धः तथान्ते ऽपि स्यात् दृष्टस्त्वभिसम्बन्धो नाभिसम्बन्धश्चाद्यन्तयोः तस्मादसत्कार्यम् इतश्चासत्कार्यम् जन्मसच्छब्दयोर्विरोधात् इह जन्मशब्दः प्रागभूतस्यार्थस्य भावक्रममाह सच्छब्दस्तु क्रियान्तरहेतुत्वमाह यदि सतो जन्म स्यादैकार्थ्यमनयोः स्यात् न त्वेतदस्ति तस्मादयुक्तं सज्जायत इति उच्यते- यदुक्तं द्रव्यान्तरभूतस्यावयविनो निष्पत्तिप्रतिज्ञानान्न सन्निवेशविशेषमात्रत्वात् सत्कार्यमित्यत्र ब्रूमह- तदसिद्धिः, भेदेनाग्रहणात् यदि तन्त्वादिभ्यो द्रव्यान्तरभूतस्यावयविनो निष्पत्तिः स्यात् तेन यथा तन्तुकलापे पटस्तत्रैव वा पटान्तरमाहितं भेदेनोपलभ्यते तथैवोपलभ्येत न तूपलभ्यते तस्मात् न द्रव्यान्तरम् समवायादग्रहणमिति चेत् स्यादेतत्, संयोगिनोर्द्रव्ययोः सत्याधाराधेयभावे भेदेन ग्रहणं भवति समवायलक्षणा तु प्राप्तिस्तन्तुपटयोः तस्मान्नास्ति भेदेन ग्रहणमिति तच्चानुपपन्नम् कस्मात् ? असिद्धत्वात् सिद्धे सत्यर्थान्तरभावे ऽवयविनस्तत्प्राप्तौ च समवाये सर्वमेतत्स्यात् तत्त्वसिद्धमुभयम् तस्मादयुक्तमेतत् किंचान्यत् दृष्टान्ताभावात् महापरिमाणं द्रव्यमन्यत्राहितं समवायात् भेदेन नोपलभ्यते इत्येतस्मिन्नर्थे पर्यनुयुक्तस्य कस्ते दृष्टान्तः ? न चास्त्यनुदाहृतो वादः व्याप्ते न ग्रहणमिति चेत् स्यान्मतमकार्यकारणभूतं द्रव्यं सत्यपि सम्बन्धे न द्रव्यान्तरं व्यश्नुत इत्यतो भेदेन गृह्यते तन्तुपटयोस्तु कार्यकारणभूतत्वात् व्याप्तिः तस्मान्नास्ति भेदेन ग्रहणमिति एतदप्ययुक्तम् कस्मात् ? साध्यत्वात् सत्यर्थान्तरभावे ऽवयविद्रव्यान्तरवत् कार्यकारणभावः साध्यः समवायश्च अत इयं व्याप्तिः स्यात् सा चाप्रसिद्धा इत्यतो न सम्यगेतत् वेमादिवत् इति चेत् स्यादेतत्- यथा सत्यर्थान्तरभावे वेमादयो ऽवयविनः कारणम् एवं तन्तवो ऽपि एतदनुपपन्नम् कस्मात् ? अनभ्युपगमात् करणं वेमादयः पटस्य, न कारणमित्ययमभ्युपगमो नः तस्मात् विषमो ऽयं दृष्टान्तः किं चान्यत् तद्वदव्याप्तिप्रसङ्गात् वेमादिवदर्थान्तरं पटात्तन्तव इत्येवं ब्रुवतस्तद्वदव्याप्तिप्रसङ्गः किं चान्यत् स्पर्शक्रियामूर्तिगुरुत्वान्तरवतस्तद्वति प्रतिघातादिति इह स्पर्शान्तरवति स्पर्शान्तरवत्प्रतीघातो दृष्टः तद्यथा घटस्याश्मनि स्पर्शान्तरवांश्च ते पटस्तन्तुभ्य इत्यतो ऽस्य तद्व्यापित्वमयुक्तम् एवं च क्रियादयो वक्तव्याः तस्माद्युक्तमेतत् भेदानां ग्रहणान्नावयवी द्रव्यान्तरमिति इतश्च नावयवी द्रव्यान्तरम् कृत्स्नैकदेशवृत्त्यनुपपत्तेः स ह्यवयवेषु वर्तमानः कृत्स्नेषु वा वर्तते प्रत्यवयवं वा ? किं चातः ? तन्न तावत् कृत्स्नेषु वर्तते कस्मात् ? एकदेशग्रहणे ग्रहणाभावप्रसङ्गात् यदनेकेषु वर्तते तस्य कृत्स्नाधारग्रहणे सति ग्रहणं दृष्टम् तद्यथा द्वित्वादीनाम् एवं च सति विषाणादिग्रहणे गोग्रहणप्रसङ्गः किं चावयवानवसथाप्रसङ्गात् स ह्यवयवान् व्याप्नुवंस्तद्द्व्यतिरेकेणावयवान्तराभावात् केन व्याप्नुयात् ? अवयवान्तराभ्युपगमे चानवस्थाप्रसंगः कृत्स्नैकदेशवृत्तिप्रसङ्गश्च समानः तस्मान्न सर्वेषु परिसमाप्यते, न प्रत्येकमनेकत्वप्रसङ्गात् अनेकाधारपरिसमाप्तं ह्यनेकं रूपादि दृष्टमिति किंचान्यत् शास्त्रहानेः प्रत्यवयवं परिसमाप्तो ऽवयवीत्येतदिच्छतो मूर्तिमतावयवेन समानदेशः स्यात् ततश्च यच्छास्त्रं मूर्तिमतामसमानदेशत्वमिति तस्य व्याघातो ऽवयवपरिमाणं च प्राप्नोति न महत्त्वादिपरिसमाप्तत्वादेकद्रव्यं च प्राप्नोति ततश्च यच्छास्त्रं द्रव्यमनेकद्रव्यमद्रव्यं वा तस्य हानिरेतावता चास्य वृत्तिर्भवन्ती भवेत् सर्वथा च दोषः तस्मान्नावयवी द्रव्यान्तरम् अर्थान्तरावस्थाने ऽर्थान्तरोत्पत्तिविनाशदर्शनादन्यत्वमिति चेत् स्यादेतत् - विद्यमानेषु तन्तुषु पटो न भवति संयोगलक्षणस्य कारणान्तरस्यानुत्पत्तेः संयोगोत्तरकालं तु भवति कारणसामग्र्या विधमानेष्वेव च तन्तुषु विनाशमुपयाति विभागादर्थान्तरावस्थाने चार्थान्तरोत्पत्तिविनाशौ दृष्टौ तद्यथा हिमवदवस्थाने दवाग्नेः तस्मादर्थान्तरं पटस्तन्तुभ्य इति एतदप्ययुक्तम् कस्मात् ? साध्यत्वात् साध्यं तावदेतत्- किमत्रार्थान्तरमुत्पद्यते विनश्यति वा ? आहोस्वित्तन्तुष्वेव समवस्थानविशेषापेक्षस्य पटाभिधानस्य प्रवृतिनिवृत्ती सेनावनवद्भवतः ? तस्मादेतदपि नावयविनो द्रव्यान्तरभावे लिङ्गम् तत्पुरुषबहुव्रीहिद्वन्द्वसमासोपपत्तेरन्य इति चेत् स्यान्मतम्, इहार्थान्तरत्वे सति तत्पुरुषो दृष्टः तद्यथा राज्ञः पुरुषो राजपुरुष इति बहुव्रीहिश्च चित्रगुः शबलगुः द्वन्द्वश्च प्लक्षन्यग्रोधाविति अस्ति चेहापि तत्पुरुषस्तन्तूनां पटः बहुव्रीहिश्च दृढतन्तुः शुक्लतन्तुः द्वन्द्वश्च तन्तुपटाविति तस्माच्चावयव्यर्थान्तरम् एतच्चायुक्तम् कस्मात् ? अनेकान्तात् अनन्यत्वे ऽपि हि तत्पुरुषो दृष्टः तद्यथा सेनागजः काननवृक्ष इति बहुव्रीहिश्च वीरपुरुषा मत्तगजा सेना इति द्वन्द्वस्तु यदि स्यात्सत्यमेवार्थान्तरमवयवी स्यात् न तु कश्चित्पटावस्थायामेवं प्रयुङ्क्ते- तन्तुपटावानयेति तस्मान्मनोरथमात्रमेतत् एतेन समाख्यासामर्थ्यभेदाः प्रयुक्ताः ते चापि चानर्थानत्वे सति सेनादिषु दृष्टाः तस्मान्नावयवी द्रव्यान्तरम् द्रव्यान्तरभूतस्यावयविनो निष्पत्तिप्रतिज्ञानात्, न सन्निवेशविशेषमात्रत्वात् सत्कार्यमित्येतदयुक्तम् यत्पुनरेतदुक्तमनुपलब्धेरसत्कार्यमिति, अत्र ब्रूमः एतदप्ययुक्तम् कस्मात् ? संशयकारणत्वात् स च सद्विषयानुपलब्धिः इत्येतस्मादेव हेतोस्सांशयिका वयम् तामेव तु निश्चयार्थमवलम्बमानो न युक्तिमार्गमनुयाति यत् पुनरेतदुक्तं कारणान्तरानभिधानादिति- एतदप्यनुपपन्नम् कस्मात् ? अभिप्रायानवबोधात् यो हि यथा कुण्डे बदराण्यर्थान्तरभूतान्याहितानि तथा कारणे कार्यमस्तीत्येतदाचष्टे तं प्रत्ययमुपालम्भः स्यात् वयन्तु अनेकशक्तधर्मिणः सहकारिशक्त्यन्तरानुगृहीतस्य पूर्वस्याश्शक्तेस्तिरोभावमुत्तरस्याश्चाविर्भावमुपादधानाः कारणमेव कार्यमित्यनुमन्यामहे तयोस्तु शक्त्योर्युगपदग्रहणम् इतरेतरप्रतिबन्धहेतुत्वात् वस्त्रस्यायामविस्तारवत्, कूर्माङ्गमिव द्रष्टव्यम् यथा वस्त्रस्योपसंहारप्रतिबन्धादायामविस्तारौ न ग्रहणविषयतां प्रतिपद्येते, सत्तां वा न जिहीतः कूर्मस्येवाङ्गानि, तथ तन्त्वादीनामपि भावानां कारणाभिमता कार्याभिमता चावस्था क्रमेण वा स्थिरश्च भवत् तन्निमित्तस्तद्ग्रहणाग्रहणविकल्पः एतेन कारणग्रहणं प्रत्युक्तम् यदप्युक्तं प्रमाणान्तरनिवृत्तिप्रसङ्गादिति सत्यमेतत् यत्तूक्तं क्रियागुणव्यपदेशासम्भवादनुमानाभाव इति तदनुपपन्नम् कस्मात् ? पृथक्त्वानभ्युपगमात् कार्यकारणपृथक्त्ववादिनस्तत्क्रियागुणानां पृथक्त्वमनुमातुं युक्तमित्यतस्तन्त्ववस्थाने पटक्रियागुणग्रहणादनुमानाभाव इत्ययमुपालम्भः सावकाशः स्यात् अस्माकन्तु कारणमात्रस्यैव संघातादाकारान्तरपरिग्रहाद्वा क्रियागुणानां प्रचितिर्व्यक्तिविशेषो भवतीति ब्रुवतामदोषः व्यपदेशस्तु कार्यकारणपर्यायः सो ऽयुक्तः कस्मात् ? अनेकान्तात् द्रव्यगुणत्वकर्मत्वादीनां क्रियागुणकार्यकारणभावो ऽथ च सत्यमिष्यते ऽथ लिङ्गपर्यायः न तर्हि वयं पर्यनुयोज्या व्यपदेशाभावादसत्कार्यमिति किं कारणम् ? प्रकरणात् विप्रतिपत्तौ हि सत्यां लिङ्गतः प्रागुत्पत्तेः कार्यस्य समधिगमं करिष्याम इति प्रकृतमेवैतत् अनैकान्तिकत्वं च समानम् निष्पत्त्यनन्तरं द्रव्यस्यास्तित्वाभ्युपगमादगुणवतो द्रव्यस्य गुणारम्भः कर्मगुणा अगुणा इति वचनादुत्पन्नमात्रं द्रव्यं निष्क्रियं निर्गुणमवतिष्ठते इति वः पक्षः न चास्य तथाभूतस्य लिङ्गमस्ति अथ चास्तित्वं भवद्भिरभ्युपगम्यते सिद्धेर्ग्रहणात्सद्भाव इति चेन्न सर्वविवादसिद्धिप्रसङ्गात् दृष्टान्तविरुद्धमर्थं प्रतिज्ञाय प्रतिषिध्यमानेन सिद्धबुद्धिविषयता स्मर्तव्येत्येतस्यां कल्पनायां सर्वविवादसिद्धिप्रसंगः स्यात् किं चान्यत् प्रतिपक्षे समानत्वात् अस्मत्पक्षे ऽपि तर्हि भगवत्पञ्चशिखादीनां प्रत्यक्षत्वात्सत्कार्यमभ्युपगन्तव्यम् तस्मान्न क्रियागुणव्यपदेशासम्भवादसत्कार्यम् यत्पुनरेतदुक्तं- कर्तृप्रयाससाफल्यादसत्कार्यमिति, अत्र ब्रूमः- एतदप्ययुक्तम् कस्मात् ? असदकरणात् यद्युभयपक्षप्रसिद्धस्यासतः क्रियायोगः स्यात् अत एतद्युज्यते वक्तुम् कार्ये सति कर्तुः प्रयासो ऽनर्थक इति तत्त्वसतः करणमनुपपन्नम् तस्मादयुक्तमेतत् हेत्वभिधानादसिद्धिरिति चेत् स्यादेतत्- यथा निष्पन्नत्वान्मध्वादीनां धारणसमर्थो घटो न क्रियत इत्ययमपदिष्टो हेतुरस्माभिः एवमित्थं कार्यस्यासतः कारणं नोपपन्नमिति नोक्तं भवता तस्मादसिद्धिरिति एतच्चानुपपन्नम् कस्मात् ? सत्यसति वा सम्बन्धे दोषप्रसङ्गात् तद्धि क्रियमाणं सति वा सम्बन्धे कारकैः क्रियते ऽसति वा ? सम्बन्धश्चास्य भवन्प्रवृत्तिकाले वा कारणानां स्यात्, निष्पत्तिकाले वा ? किं चातः ? तन्न तावत्प्रवृत्तिकाले सम्बन्धो युक्तः कस्मात् ? अद्रव्यत्वात् प्रवृत्तिकाले कर्त्रादीनां क्रियागुणव्यपदेशाभावादवस्तुभूतं शशविषाणस्थानीयं वः कार्यम् न चास्ति तथाभूतस्य वस्तुभूतेन सम्बन्धः अथ निष्पत्तिकाले ऽभिसम्बध्यते यदुक्तं सतो निष्पन्नत्वात्क्रियानुत्पत्तिरिति तस्य व्याघातः अथ मतमसत्यपि सम्बन्धे निष्पत्तिर्भवतीति तेन कारकव्यापारवैयर्थ्यप्रसंगः प्रागपि च कारकोपादानात्कार्यनिष्पत्तिप्रसङ्ग इति उक्तं च असत्त्वान्नास्ति सम्बन्धः कारकैः सत्त्वसंगिभिः असम्बन्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः इति आह, ननु च मध्यमे काले कर्त्रादिभिः कार्यं क्रियते कः पुनरसौ मध्यमः काल इति ? आह- आरम्भाय प्रसृता यस्मिन्काले भवन्ति कर्त्तारः कार्यस्यानिष्पादात्तं मध्यमं कालमिच्छन्ति इति यदा हेतवः प्रवृत्तारम्भा भवन्त्युद्दिश्य कार्यं न च तावन्नैमित्तिकस्यात्मलाभः संवर्तते स मध्यमः कालः तस्मिन्क्रियते कारकैः कार्यमिति उच्यते, न, अवस्थान्तरानुपत्तेः प्राङ्निष्पत्तेरसत्ता निष्पन्नस्य सत्तेत्यवस्थाद्वयम् सदसद्रूपा चावस्था नास्ति यो मध्यमः स्यात् अतो न युक्तमेतदिति किंचान्यत् पूर्वदोषापरिहारादुद्दिश्य कार्यं तस्यात्मनो लाभात्मकेन सह सम्बन्ध इति ? अत्राप्ययं पर्यनुयोगो नैव निवर्तत इति तस्माच्चित्रमपि वाक्यं प्रसार्य न किंचित्परिहृतं भवता तस्माद्युक्तमेतत् सत्यसति वा सम्बन्धे दोषप्रसंगादसन्न क्रियत इति यस्य पुनः सत्कार्यं तस्य दोषो नास्ति कस्मात् ? उपादानग्रहणात् उपादानमिति कारणं तन्त्वाद्याचक्ष्महे तद्धि तस्य कारकैर्गृह्यते अभिसम्बध्यत इत्यर्थः तस्माच्च नार्थान्तरं कार्यम् इत्यतः कारणेनाभिसम्बद्धानां कारकाणां कार्येणैव सम्बन्धो भवतीत्यदोषः आह- ननु च यस्यापि सत्कार्यं तस्योपादानादर्थान्तरं तत्कार्यं स्यात् कस्मात् ? कार्यार्थिरुपादानात् यद्यदर्थमुपादीयते तत्तस्मादर्थान्तर यथा वेमादिभ्यः पटः तन्तवश्च पटादिभिरुपादीयन्ते तस्मात्तेभ्यो ऽप्यर्थान्तरं पट इति एतेन सत्त्वं प्रयुक्तम् यद्यदर्थमुपादीयते तत्तस्मिन्नसत् यथा वेमादिषु पट इति उच्यते, न अवयविप्रतिषेधात् प्रतिषिद्धस्तावदवयवी द्रव्यान्तरभूतस्तस्मादनुपपन्नार्थमेतत् किं चान्यत् सर्वसम्भवाभावात् उपादानसामान्याद्वेमादिवदर्थान्तरं पटस्तन्तुभ्य इति ब्रूवतो ऽर्थान्तरत्वसामान्यात्तन्तुवत्सर्वस्मात्कारणात्कार्यस्य सम्भवः स्यात् न त्वेवमस्ति तस्मात्सर्वसम्भवाभावादसम्यगेतत् किंचान्यत्, जातिभेदप्रसंगादर्थान्तरारम्भप्रसङ्गाच्च उपादानसामान्याद्वेमादिवदर्थान्तरं पटस्तन्तुभ्य इति ब्रूवतो यथा वेमादिभ्यो भिन्नजातीयो भिन्नदेशश्च, तथा तन्तुभ्यः पटः स्यात् यथा चावस्थिते पटे वेमादयः पटान्तरं कुर्वन्ति तथा ह्यवस्थिते पटे तन्तवो ऽपि पटान्तरमारभेरन् न चैतदिष्टम् न तर्ह्युपादानसामान्याद्वेमादिवत्तन्तुभ्यः पटस्यार्थान्तरत्वम् यत्पुनरेतदुक्तं यद्यदर्थमुपादीयते न तत् तत्रास्तीति, अत्र ब्रूमः- अयुक्तमेतत् कस्मात् ? आधाराधेयभावानभ्युपगमात् असकृदुक्तमस्माभिर्न तन्तुषु पटो नाम कश्चिदस्ति किं तर्हि तन्तव एव पटः तत्तु सन्मार्गविद्वेषाद्भवता न गृह्यते किं चान्यत् अनेकान्तात् उपेत्य वा ब्रूमः कथं तावत्तिलास्तैलार्थमुपादीयन्ते, भवति चात्र तैलम् मृद्वीका रसार्थमुपादीयते, भवति चास्यां रसः गोधुक्च पयो ऽर्थं गामादत्ते, भवति च तस्यां क्षीरम् शालिकलापश्च तण्डुलार्थमुपादीयते, सन्ति चात्र तण्डुला इत्यनैकान्तिको हेतुः आह- आवरणोपलब्धेरयुक्तम् तिलादिष्वावरणं प्रत्यक्षत उपलभ्यते तत्प्रतिबन्धात्तैलादीनामग्रहणम् व्यापारश्च कर्तुस्तद्विगमार्थो न तु कार्यस्यावरणमस्ति तस्माद्विषमो दृष्टान्तः उच्यते न, मार्गान्तरत्वात् यद्यत्रास्ति तत्र तदर्थमुपादीयते इति पूर्वं भवतातिसृष्टम् इदानीं त्ववगमविगमार्थं सतो ऽप्युपादानमिति ब्रूवतो मार्गान्तरगमनं पूर्ववादत्यागो ऽनैकान्तिकस्य चापरिहार इति यत्पुनरेतदुक्तं परिणामाद्युपपत्तेरदोष इति तथा तदस्तु यत्तूक्तं मार्गान्तरानुपपत्तेरिति अत्र ब्रूमः- एतदप्ययुक्तम् कस्मात् ? परिणामधर्मानवबोधात् सतो धर्मान्तरस्य निरोधमसतश्चोत्पत्तिं परिणाममभिदधतो व्यक्तमयमुपालम्भः स्यात् न त्वनयानुसृत्या प्रतिष्ठामहे किं तर्हि साधनानुगृहीतस्य धर्मिणो धर्मान्तरस्याविर्भावः पूर्वस्य च तिरोभावः परिणामः न चाविर्भावतिरोभावावुत्पत्तिनिरोधौ व्यूहसंश्लेषव्यक्तिप्रचयास्तु किमसतो धर्मा उत स्वतो ऽसन्त इति विचार्यम् किं चातः यदि तावदसतो धर्माः यथा कस्येति वाच्यम् अथ स्वयमसन्तः पश्चाद्भवन्ति तदप्ययुक्तम् कस्मात् ? अनर्थान्तरत्वात् सत्यर्थान्तरभावे प्रागसन्तः पश्चादुपलभ्यमानाः सत्कार्यवादं निराकुर्युः स चैषामर्थान्तरभावो न प्रसिद्धः तस्मात्किमत्रोपपन्नम् ? ग्रहणाग्रहणविकल्पे चोक्तः परिहारः किं चान्यत् द्रव्यान्तरोत्पत्तिव्याघातात् उपेत्य वैषामुत्पत्तिं ब्रूमः- यदि हि परिणामव्यूहसंश्लेषव्यक्तिप्रचयमात्रं कार्यमिष्यते यदुक्तं द्रव्याणि द्रव्यान्तरमारभन्त इति तस्य व्याघातः कस्मात् ? न ह्येते भावा द्रव्यान्तरम् तस्माद्दिनकरकिरणप्रतापमूर्छितस्येव दावाग्न्युपसर्पणदोषोनुतापायैव भवतः प्रतिपत्तिः एतेनारम्भोपरमोत्पत्त्यविशेषप्रसङ्गो जन्मसच्छब्दः प्रत्युक्तः कथम् ? आत्मभूतं हि तन्तूनां पटाख्यं व्यूहस्थानीयं सन्निवेशविशेषं यदा कारकाणि स्वेन स्वेन व्यापारेणाविष्कुर्वन्ति तदा क्रियते उत्पद्यते जायत इत्येवमादिर्लोकस्य व्यवहारः प्रवर्तते यदा तु कारकाणि शक्त्यन्तराविर्भावात्संस्थानान्तरेणौत्सुक्यवर्तितामवस्थामुपसंहरन्ति तदा प्रागुपलब्धं संस्थानं विनाशशब्दवाच्यतां प्रतिपद्यते परमार्थतस्तु न कस्यचिदुत्पादो ऽस्ति न विनाशः यत्पुनरेतदुक्तं जन्मशब्दः प्रागभूतस्यार्थस्य भावोपक्रममाहेति तदपीच्छामात्रम् कस्मात् ? विवादात् सदसद्विषयं जन्मेति विवादे ऽनुषक्ते जन्मशब्दः प्रागभूतस्य सद्भावमाचष्ट इति ब्रूवतो ऽनुक्तसमम् पुरुषादावदृष्टत्वादसिद्धिरिति चेत् स्यादेतत् यदि तर्हि क्रियते उत्पद्यते जायत इत्येषोर्थः सद्विषयः कल्प्यते, प्रधानपुरुषयोरपि तत्प्रसंगः, सदसदविशेषादिति अतश्च विवादावस्थमेवैतत्प्रकरणमिति एतच्चायुक्तम् कस्मात् ? संस्थानविषयत्वात् यदा भावः स्वतो ऽनर्थान्तरभूतं संस्थानं भजते तदैते शब्दाः प्रवर्तन्त इत्युक्तम् दृष्टं च लोके तद्यथा मुष्टिग्रन्थिकुण्डलानि करोति जनयत्युत्पादयति, अभिव्यक्तात्मसु च मूलोदकादिषु भवत्युत्पन्नं जातमिति उभयपक्षप्रसिद्धे तु शशविषाणादौ नैते शब्दाः प्रवर्तन्ते तस्माद्भवत एवानिष्टप्रसङ्ग इति उक्तं च यद्यसत्त्वं घटादीनामुत्पत्तौ हेतुरिष्यते शशशृङ्गे ऽपि तुल्यत्वादुत्पत्तिस्ते प्रसज्यते इति सिद्धं सत्कार्यम् इतश्च सत्कार्यम् शक्त्यस्य शक्यकरणात् शक्यमिदमस्य, शक्तश्चायमस्येत्ययं नियमः सतां दृष्टः तद्यथा चक्षुषो रूपस्य आस्ति चायं पटस्य वेमादीनां च नियमः तस्माच्च सत्कार्यम् सहकारिवत्तन्नियम इति चेत् स्यान्मतम् यथापो बीजाङ्कुरस्योत्पत्तौ समर्था भवन्ति न काष्ठादग्नेर्वा उभयं च तत्तासु च विद्यते बीजादपां विच्छिन्नत्वात् यथा च सूर्यः सूर्यकान्तादग्निमुत्पादयितुं समर्थो न चन्द्रकान्ताच्च पानीयम् उभयं तत्तत्र न विद्यते तथा च तत्त्वादीनां पटस्यैव शक्तिनियमः स्यात् न च पटस्य तन्तुषु सत्त्वं स्यादिति एतच्चायुक्तम् कस्मात् ? साध्यत्वात् अंकुरादयो ऽपि कार्यमबादीनाम् अतः साध्यम् किमङ्कुरो ऽस्त्यथ नास्त्येव तथा सूर्यकान्ते ऽग्निः तदर्थमेव चायं विवादो ऽनुषक्तः यत्तूक्तमपां विच्छिन्नवान्न तास्वङ्कुरो ऽस्तीति तत्रापि यासामपां बीजानुप्रवेशदङ्कुरभावेन विपरिणामस्ताभ्यस्तस्यानन्यत्वं साध्यम् अतो न किंचिदेतत् किं चान्यत् रूपव्यवस्थानाच्च तद्यथा विज्ञानोत्पत्तिहेतुत्वे सति न रूपं दृष्टमिति नेदानीं तत्सामान्यात् रूपमप्यरूपं भवति एवं पटकारणत्वाद्वेमादयो न पट इति नेदानीं तन्तवोप्यपटः तस्माद्युक्तमेतच्छक्तस्य शक्यकरणात्सत्कार्यम् कारणभावाच्च सत्कार्यम् इस्क्_9 इहासति कार्ये कारणभावो नास्ति तद्यथा वन्ध्यायाः अस्ति चेह कारणभावस्तन्तुपटयोस्तस्मात्सत्कार्यम् कारणान्तरात्कार्योत्पत्तिदर्शनादन्यत्र तद्बुद्धिरिति चेत् स्यान्मतं प्राक्कारणान्तरात्कार्यान्तरस्यासत उत्पत्तिमुपलभ्य पश्चात्कारणान्तरे कारणबुद्धिर्भवतीति एतच्चायुक्तम् कस्मात् ? अनभ्युपगमात् असतः कार्यस्योत्पत्तिरेव न सिद्धा शशविषाणादिष्वसिद्धत्वात् कुतः पुनस्तन्निमित्ताकारबुद्धिः ? कारणभावादिति चेत् - स्यादेतत्, असत्त्वाविशेषे ऽपि पटस्य कारणं समवाय्यसमवायिनिमित्तलक्षणमस्ति तस्मात्पट उच्यते, न शशविषाणस्येति एतच्चायुक्तम् कुतः हेत्वभावात् असत्त्वाविशेषे ऽपि पटस्य कारणमस्ति न शशविषाणस्येत्यत्र हेतुरनुक्तः पुरुषवदिति चेत् स्यादेतत्, यथा तुल्यत्वे सत्त्वे पटस्य कारणमस्ति न पुरुषस्य, एवमसत्त्वे पटस्य संस्थानं न शशविषाणस्येत्येतदप्ययुक्तम् कस्मात् ? उक्तत्वात् संस्थानं कार्यं पटस्य संस्थानं न पुरुषस्येत्युक्तं प्राक् संस्थानवत्तद्विशेष इति चेत् स्यान्मतं यथा सत्त्वाविशेषे पटः संस्थानं न पुरुष एवमसत्त्वाविशेषे पटः कार्यं न शशविषाणमिति एतदप्ययुक्तम् कस्मात् ? सामान्यविशेषभावात् सामान्यस्य हि विशेषपरिग्रहः संस्थानम् न त्वयमस्ति चेतनाशक्तौ विकल्पः तस्मान्न पुरुषः संस्थानम् असतस्तु निरात्मकत्वाद्विशेषो दुरुपपादः तदुपपत्तौ वा सत्त्वप्रसंग इति आह च- निरात्मकत्वादसतां सर्वेषामविशिष्टता विशेषणं चेद्भिन्नं ते सत्त्वमभ्युपगम्यताम् तस्माद्युक्तमेतत्कारणभावाच्च सत्कार्यम् एवं तावद्वैशेषिकमतेनासत्कार्यवादो न विमर्दसहः बौद्धपक्षे तु भूयान्दोषः कथं तर्हि द्रव्यान्तरं पटो नेष्यते ? "तन्तुष्वेव तथास्थेषु पट इत्यादिबुद्धयः" इत्येवमादिना न्यायेनावयविप्रतिषेधात्संयोगो ऽपि न संयोगिभ्यस्तेषामर्थान्तरमिष्टः तत्रैतावती परिकल्पना स्यात्- यदुत तन्तुसंयोगो वा पटः, संयोगकारणं वा द्रव्यान्तरम् ? उभयं च तेषां नार्थान्तरम् अथोत्पत्तिविनाशौ कस्यापीति मायाकारचेष्टितम् तदपि चित्रतरो ऽयमुपन्यासः काणादानां तु द्रव्यान्तरोत्त्पतिविनाशाभ्युपगमान्न तार्किकसदृशो विचारः तस्मात्पारमर्ष एव पक्षो ज्यायान् यथा चासत्कार्यं न संभवति तथा चशब्दात्सदसत्कार्यमपि परस्परविरोधात् नैव सन्नासदिति एके एतदप्यनुपपन्नम् कस्मात् ? सत्त्वे हेत्वभिधानान्निश्चितः प्रागुत्पत्तेः कार्यस्य सद्भावः

*iti śrīyuktidīpikāyāṃ saptatipaddhatau dvitīyamāhnikam kārikā 9 āha- āstāṃ tāvadvairūpyasārūpyacintā kāryamidameva tāvanmahadādi parīkṣiṣyāmahe kiṃ prāgutpatterasti nāstīti ? kutaḥ saṃśaya iti cet syānmatam- asaṅgatārthaṃ prakaraṇāntaramupakṣipyate bhavatā na cāvidyamānasambandhasya saṃśayasya prakaraṇāntare 'bhidhīyamānasya nirṇītiṃ sādhvīmācāryā manyante avakāśāsambhavāditi ucyate- asti saṃśayāvakāśaḥ kasmāt ? ācāryavipratipatteḥ prāgutpatteḥ kāryamasadityācāryāḥ kaṇādākṣapādaprabhṛtayo manyante sadasaditi bauddhāḥ naiva sannāsadityanye tasmādupapannaḥ saṃśayaḥ tatredānīṃ bhavataḥ kā pratipattiriti ? ucyate nāvidyamānasya mahadādervikārasya pradhānādāvirbhāva iti pratijānīmahe kasmāt ? sanniveśaviśeṣamātrābhyupagamāt na hi naḥ kāraṇādarthāntarabhūtaṃ kāryamutpadyata ityabhyupagamaḥ kiṃ tarhi viśvātmakānāṃ sattvarajastamasāmapagataviśeṣāviśeṣāḥ sanmātralakṣaṇopacayāḥ pratinivṛttapariṇāmavyāpārāḥ paramavibhāgamupasaṃprāptāḥ sūkṣmāḥ śaktayaḥ tāsāmadhikārasāmarthyādupajātapariṇāmavyāpārāṇāṃ sanmātrānukrameṇa pracayamupasaṃpadyamānānāṃ sanniveśaviśeṣamātraṃ vyaktam etasyāṃ kalpanāyāmasata utpattau kaḥ prasaṅga iti ? etenaiva bāhyānāṃ tantvādikāryāṇāṃ paṭādīnāṃ sanniveśaviśeṣamātratvādasata utpattiḥ pratiṣiddhā boddhavyā āha- avidyamānametat kasmāt ? asiddhe, nārthāntarasiddheḥ yadi hi sanniveśaviśeṣamātratvaṃ kāryasya siddhaṃ syādata etadyujyate vaktum- tadabhyupagamādasadutpatteraprasaṅga iti tattvasiddham dravyāntarabhūtasyāvayavino niṣpattipratijñānāt tasmāt kākaviṣāṇāt śaśaviṣāṇasiddhivadayuktaṃ sanniveśaviśeṣamātrābhyupagamātsatkāryasiddhiriti itaścāsat kāryam, agrahaṇāt iha śrotrādīnāṃ viṣayabhūtasya tatsannidhānādavaśyaṃ grahaṇena bhavitavyam yadi ca prāgutpatteḥ satkāryaṃ syāt tadapi śrotrādisannidhānāt gṛhyeta na tu gṛhyate tasmādasatkāryam anupalabdhikāraṇasadbhāvāditi cet, tatraitatsyāt, asti prāgutpatteḥ kāryasyānupalabdhikāraṇaṃ tasmādasya sato 'pyagrahaṇaṃ bhavati uttarakālaṃ tadvigamāt grahaṇamiti etaccānupapannam kasmāt ? anupalabdhyasambhavāt taddhi pratyakṣāviṣayatve satyatidūrādibhiranupalabdhikāraṇairnopalabhyate na caiṣāṃ tatra sambhavaḥ tasmādasadetat kāraṇāntarānabhidhānāt na cātidūrādivyatiriktamanupalabdhau kāraṇāntaramadhīdhve yato 'syāgrahaṇaṃ syāt ataścāsadeva kiṃ cānyat kāraṇānupalabdhiprasaṅgāt anupalabdhikāraṇasadbhāvātkāryasyāgrahaṇamicchataḥ kāraṇāgrahaṇaprasaṅgaḥ kasmāt ? abhinnadeśatvāt ekendriyagrāhyatvāt sthūlatvācca tattvaniṣṭam tasmādayuktamanupalabdhikāraṇasadbhāvātsataḥ kāryasyāgrahaṇamiti pramāṇāntaranivṛttiprasaṅgādayuktamiti cet, syādetat yadi tarhi pratyakṣaviṣayamevāsti tato 'nyatrāstītyetadupagamyate tenātīndriyaviṣayasyānumānasya nivṛttiprasaṅgaḥ aniṣṭaṃ caitat tasmānnānupalabdherasatkāryamiti etadapyayuktam kasmāt ? kriyāguṇavyapadeśāsambhavāt yaddhi pratyakṣato nopalabhyate tatkriyayāstīti saṃsūcyate yathā harmyāvasthitānāṃ tṛṇānāmudvahanādvāyuḥ guṇena, yathā mālatīlatāgandhena vyapadeśena vā, kāryādinā yathendriyāṇi na tu prāgutpatteḥ kāryasya kriyāguṇavyapadeśasambhavaḥ tasmādasatkāryam itaścāsatkāryam kartṛprayāsasāphalyāt iha prāgvyāpāropakramāt kartārastasmātphalamupalipsamānāḥ kāryaviśeṣaniyatasāmārthyaṃ sādhanamupādāya vyāpriyante taccetprāgapi vyāpārāt syāttadarthasya parispandasyānarthakyaṃ prāptam aniṣṭaṃ caitat tasmāt kartṛprayāsasāphalyāt asatkāryam pariṇāmādyupapatterna doṣa iti cet syānmataṃ kāraṇasya pariṇāmavyūhasaṃśleṣavyaktipracayakṣaṇāndharmān yasmāt kartrādīni kurvanti nānarthakāni syuḥ sattvaṃ ca kāryasya na nirupyate ka evaṃ sati doṣaḥ syāditi ? ucyate- na śakyamevaṃ kalpayitum kasmāt ? mārgāntarānupapatteḥ pariṇāmo hi nāmāvasthitasya dravyasya dharmāntaranivṛttiḥ dharmāntarapravṛttiśca tatra sato dharmāntarasya nirodhābhyupagamādasataścotpattipratijñānānnedamarthāntaramārabhyate evaṃ vyūhādayo 'pyupasaṃhartavyāḥ tasmāt pariṇāmādibhirabhibhavāt kartrādīnāmarthavattvādasatkāryam tathā coktam- jahaddharmāntaraṃ pūrvamupādatte yadā param tattvādapracyuto dharmo pariṇāmaḥ sa ucyate kutaśca na satkāryam ? ārambhoparamayorādyantāviśeṣaprasaṃgāt yadi satkāryaṃ syāt tena yaḥ kriyārthaḥ sādhanānāmādau parispandaḥ so 'nte 'pi syāt vā yo 'nte virāmaḥ sa ādāvapi syāt kasmāt ? sadaviśeṣāt na tu tadasti tasmādasatkāryam itaścāsatkāryam utpattidharmasyādyantayoraviśeṣaprasaṅgāt yadi satkāryaṃ syāt tena yathā niṣpannasyotpattidharmeṇābhisambandhaḥ tathā ādāvapi syāt yathaivādāvabhisambandhaḥ tathānte 'pi syāt dṛṣṭastvabhisambandho nābhisambandhaścādyantayoḥ tasmādasatkāryam itaścāsatkāryam janmasacchabdayorvirodhāt iha janmaśabdaḥ prāgabhūtasyārthasya bhāvakramamāha sacchabdastu kriyāntarahetutvamāha yadi sato janma syādaikārthyamanayoḥ syāt na tvetadasti tasmādayuktaṃ sajjāyata iti ucyate- yaduktaṃ dravyāntarabhūtasyāvayavino niṣpattipratijñānānna sanniveśaviśeṣamātratvāt satkāryamityatra brūmaha- tadasiddhiḥ, bhedenāgrahaṇāt yadi tantvādibhyo dravyāntarabhūtasyāvayavino niṣpattiḥ syāt tena yathā tantukalāpe paṭastatraiva vā paṭāntaramāhitaṃ bhedenopalabhyate tathaivopalabhyeta na tūpalabhyate tasmāt na dravyāntaram samavāyādagrahaṇamiti cet syādetat, saṃyoginordravyayoḥ satyādhārādheyabhāve bhedena grahaṇaṃ bhavati samavāyalakṣaṇā tu prāptistantupaṭayoḥ tasmānnāsti bhedena grahaṇamiti taccānupapannam kasmāt ? asiddhatvāt siddhe satyarthāntarabhāve 'vayavinastatprāptau ca samavāye sarvametatsyāt tattvasiddhamubhayam tasmādayuktametat kiṃcānyat dṛṣṭāntābhāvāt mahāparimāṇaṃ dravyamanyatrāhitaṃ samavāyāt bhedena nopalabhyate ityetasminnarthe paryanuyuktasya kaste dṛṣṭāntaḥ ? na cāstyanudāhṛto vādaḥ vyāpte na grahaṇamiti cet syānmatamakāryakāraṇabhūtaṃ dravyaṃ satyapi sambandhe na dravyāntaraṃ vyaśnuta ityato bhedena gṛhyate tantupaṭayostu kāryakāraṇabhūtatvāt vyāptiḥ tasmānnāsti bhedena grahaṇamiti etadapyayuktam kasmāt ? sādhyatvāt satyarthāntarabhāve 'vayavidravyāntaravat kāryakāraṇabhāvaḥ sādhyaḥ samavāyaśca ata iyaṃ vyāptiḥ syāt sā cāprasiddhā ityato na samyagetat vemādivat iti cet syādetat- yathā satyarthāntarabhāve vemādayo 'vayavinaḥ kāraṇam evaṃ tantavo 'pi etadanupapannam kasmāt ? anabhyupagamāt karaṇaṃ vemādayaḥ paṭasya, na kāraṇamityayamabhyupagamo naḥ tasmāt viṣamo 'yaṃ dṛṣṭāntaḥ kiṃ cānyat tadvadavyāptiprasaṅgāt vemādivadarthāntaraṃ paṭāttantava ityevaṃ bruvatastadvadavyāptiprasaṅgaḥ kiṃ cānyat sparśakriyāmūrtigurutvāntaravatastadvati pratighātāditi iha sparśāntaravati sparśāntaravatpratīghāto dṛṣṭaḥ tadyathā ghaṭasyāśmani sparśāntaravāṃśca te paṭastantubhya ityato 'sya tadvyāpitvamayuktam evaṃ ca kriyādayo vaktavyāḥ tasmādyuktametat bhedānāṃ grahaṇānnāvayavī dravyāntaramiti itaśca nāvayavī dravyāntaram kṛtsnaikadeśavṛttyanupapatteḥ sa hyavayaveṣu vartamānaḥ kṛtsneṣu vā vartate pratyavayavaṃ vā ? kiṃ cātaḥ ? tanna tāvat kṛtsneṣu vartate kasmāt ? ekadeśagrahaṇe grahaṇābhāvaprasaṅgāt yadanekeṣu vartate tasya kṛtsnādhāragrahaṇe sati grahaṇaṃ dṛṣṭam tadyathā dvitvādīnām evaṃ ca sati viṣāṇādigrahaṇe gograhaṇaprasaṅgaḥ kiṃ cāvayavānavasathāprasaṅgāt sa hyavayavān vyāpnuvaṃstaddvyatirekeṇāvayavāntarābhāvāt kena vyāpnuyāt ? avayavāntarābhyupagame cānavasthāprasaṃgaḥ kṛtsnaikadeśavṛttiprasaṅgaśca samānaḥ tasmānna sarveṣu parisamāpyate, na pratyekamanekatvaprasaṅgāt anekādhāraparisamāptaṃ hyanekaṃ rūpādi dṛṣṭamiti kiṃcānyat śāstrahāneḥ pratyavayavaṃ parisamāpto 'vayavītyetadicchato mūrtimatāvayavena samānadeśaḥ syāt tataśca yacchāstraṃ mūrtimatāmasamānadeśatvamiti tasya vyāghāto 'vayavaparimāṇaṃ ca prāpnoti na mahattvādiparisamāptatvādekadravyaṃ ca prāpnoti tataśca yacchāstraṃ dravyamanekadravyamadravyaṃ vā tasya hāniretāvatā cāsya vṛttirbhavantī bhavet sarvathā ca doṣaḥ tasmānnāvayavī dravyāntaram arthāntarāvasthāne 'rthāntarotpattivināśadarśanādanyatvamiti cet syādetat - vidyamāneṣu tantuṣu paṭo na bhavati saṃyogalakṣaṇasya kāraṇāntarasyānutpatteḥ saṃyogottarakālaṃ tu bhavati kāraṇasāmagryā vidhamāneṣveva ca tantuṣu vināśamupayāti vibhāgādarthāntarāvasthāne cārthāntarotpattivināśau dṛṣṭau tadyathā himavadavasthāne davāgneḥ tasmādarthāntaraṃ paṭastantubhya iti etadapyayuktam kasmāt ? sādhyatvāt sādhyaṃ tāvadetat- kimatrārthāntaramutpadyate vinaśyati vā ? āhosvittantuṣveva samavasthānaviśeṣāpekṣasya paṭābhidhānasya pravṛtinivṛttī senāvanavadbhavataḥ ? tasmādetadapi nāvayavino dravyāntarabhāve liṅgam tatpuruṣabahuvrīhidvandvasamāsopapatteranya iti cet syānmatam, ihārthāntaratve sati tatpuruṣo dṛṣṭaḥ tadyathā rājñaḥ puruṣo rājapuruṣa iti bahuvrīhiśca citraguḥ śabalaguḥ dvandvaśca plakṣanyagrodhāviti asti cehāpi tatpuruṣastantūnāṃ paṭaḥ bahuvrīhiśca dṛḍhatantuḥ śuklatantuḥ dvandvaśca tantupaṭāviti tasmāccāvayavyarthāntaram etaccāyuktam kasmāt ? anekāntāt ananyatve 'pi hi tatpuruṣo dṛṣṭaḥ tadyathā senāgajaḥ kānanavṛkṣa iti bahuvrīhiśca vīrapuruṣā mattagajā senā iti dvandvastu yadi syātsatyamevārthāntaramavayavī syāt na tu kaścitpaṭāvasthāyāmevaṃ prayuṅkte- tantupaṭāvānayeti tasmānmanorathamātrametat etena samākhyāsāmarthyabhedāḥ prayuktāḥ te cāpi cānarthānatve sati senādiṣu dṛṣṭāḥ tasmānnāvayavī dravyāntaram dravyāntarabhūtasyāvayavino niṣpattipratijñānāt, na sanniveśaviśeṣamātratvāt satkāryamityetadayuktam yatpunaretaduktamanupalabdherasatkāryamiti, atra brūmaḥ etadapyayuktam kasmāt ? saṃśayakāraṇatvāt sa ca sadviṣayānupalabdhiḥ ityetasmādeva hetossāṃśayikā vayam tāmeva tu niścayārthamavalambamāno na yuktimārgamanuyāti yat punaretaduktaṃ kāraṇāntarānabhidhānāditi- etadapyanupapannam kasmāt ? abhiprāyānavabodhāt yo hi yathā kuṇḍe badarāṇyarthāntarabhūtānyāhitāni tathā kāraṇe kāryamastītyetadācaṣṭe taṃ pratyayamupālambhaḥ syāt vayantu anekaśaktadharmiṇaḥ sahakāriśaktyantarānugṛhītasya pūrvasyāśśaktestirobhāvamuttarasyāścāvirbhāvamupādadhānāḥ kāraṇameva kāryamityanumanyāmahe tayostu śaktyoryugapadagrahaṇam itaretarapratibandhahetutvāt vastrasyāyāmavistāravat, kūrmāṅgamiva draṣṭavyam yathā vastrasyopasaṃhārapratibandhādāyāmavistārau na grahaṇaviṣayatāṃ pratipadyete, sattāṃ vā na jihītaḥ kūrmasyevāṅgāni, tatha tantvādīnāmapi bhāvānāṃ kāraṇābhimatā kāryābhimatā cāvasthā krameṇa vā sthiraśca bhavat tannimittastadgrahaṇāgrahaṇavikalpaḥ etena kāraṇagrahaṇaṃ pratyuktam yadapyuktaṃ pramāṇāntaranivṛttiprasaṅgāditi satyametat yattūktaṃ kriyāguṇavyapadeśāsambhavādanumānābhāva iti tadanupapannam kasmāt ? pṛthaktvānabhyupagamāt kāryakāraṇapṛthaktvavādinastatkriyāguṇānāṃ pṛthaktvamanumātuṃ yuktamityatastantvavasthāne paṭakriyāguṇagrahaṇādanumānābhāva ityayamupālambhaḥ sāvakāśaḥ syāt asmākantu kāraṇamātrasyaiva saṃghātādākārāntaraparigrahādvā kriyāguṇānāṃ pracitirvyaktiviśeṣo bhavatīti bruvatāmadoṣaḥ vyapadeśastu kāryakāraṇaparyāyaḥ so 'yuktaḥ kasmāt ? anekāntāt dravyaguṇatvakarmatvādīnāṃ kriyāguṇakāryakāraṇabhāvo 'tha ca satyamiṣyate 'tha liṅgaparyāyaḥ na tarhi vayaṃ paryanuyojyā vyapadeśābhāvādasatkāryamiti kiṃ kāraṇam ? prakaraṇāt vipratipattau hi satyāṃ liṅgataḥ prāgutpatteḥ kāryasya samadhigamaṃ kariṣyāma iti prakṛtamevaitat anaikāntikatvaṃ ca samānam niṣpattyanantaraṃ dravyasyāstitvābhyupagamādaguṇavato dravyasya guṇārambhaḥ karmaguṇā aguṇā iti vacanādutpannamātraṃ dravyaṃ niṣkriyaṃ nirguṇamavatiṣṭhate iti vaḥ pakṣaḥ na cāsya tathābhūtasya liṅgamasti atha cāstitvaṃ bhavadbhirabhyupagamyate siddhergrahaṇātsadbhāva iti cenna sarvavivādasiddhiprasaṅgāt dṛṣṭāntaviruddhamarthaṃ pratijñāya pratiṣidhyamānena siddhabuddhiviṣayatā smartavyetyetasyāṃ kalpanāyāṃ sarvavivādasiddhiprasaṃgaḥ syāt kiṃ cānyat pratipakṣe samānatvāt asmatpakṣe 'pi tarhi bhagavatpañcaśikhādīnāṃ pratyakṣatvātsatkāryamabhyupagantavyam tasmānna kriyāguṇavyapadeśāsambhavādasatkāryam yatpunaretaduktaṃ- kartṛprayāsasāphalyādasatkāryamiti, atra brūmaḥ- etadapyayuktam kasmāt ? asadakaraṇāt yadyubhayapakṣaprasiddhasyāsataḥ kriyāyogaḥ syāt ata etadyujyate vaktum kārye sati kartuḥ prayāso 'narthaka iti tattvasataḥ karaṇamanupapannam tasmādayuktametat hetvabhidhānādasiddhiriti cet syādetat- yathā niṣpannatvānmadhvādīnāṃ dhāraṇasamartho ghaṭo na kriyata ityayamapadiṣṭo heturasmābhiḥ evamitthaṃ kāryasyāsataḥ kāraṇaṃ nopapannamiti noktaṃ bhavatā tasmādasiddhiriti etaccānupapannam kasmāt ? satyasati vā sambandhe doṣaprasaṅgāt taddhi kriyamāṇaṃ sati vā sambandhe kārakaiḥ kriyate 'sati vā ? sambandhaścāsya bhavanpravṛttikāle vā kāraṇānāṃ syāt, niṣpattikāle vā ? kiṃ cātaḥ ? tanna tāvatpravṛttikāle sambandho yuktaḥ kasmāt ? adravyatvāt pravṛttikāle kartrādīnāṃ kriyāguṇavyapadeśābhāvādavastubhūtaṃ śaśaviṣāṇasthānīyaṃ vaḥ kāryam na cāsti tathābhūtasya vastubhūtena sambandhaḥ atha niṣpattikāle 'bhisambadhyate yaduktaṃ sato niṣpannatvātkriyānutpattiriti tasya vyāghātaḥ atha matamasatyapi sambandhe niṣpattirbhavatīti tena kārakavyāpāravaiyarthyaprasaṃgaḥ prāgapi ca kārakopādānātkāryaniṣpattiprasaṅga iti uktaṃ ca asattvānnāsti sambandhaḥ kārakaiḥ sattvasaṃgibhiḥ asambandhasya cotpattimicchato na vyavasthitiḥ iti āha, nanu ca madhyame kāle kartrādibhiḥ kāryaṃ kriyate kaḥ punarasau madhyamaḥ kāla iti ? āha- ārambhāya prasṛtā yasminkāle bhavanti karttāraḥ kāryasyāniṣpādāttaṃ madhyamaṃ kālamicchanti iti yadā hetavaḥ pravṛttārambhā bhavantyuddiśya kāryaṃ na ca tāvannaimittikasyātmalābhaḥ saṃvartate sa madhyamaḥ kālaḥ tasminkriyate kārakaiḥ kāryamiti ucyate, na, avasthāntarānupatteḥ prāṅniṣpatterasattā niṣpannasya sattetyavasthādvayam sadasadrūpā cāvasthā nāsti yo madhyamaḥ syāt ato na yuktametaditi kiṃcānyat pūrvadoṣāparihārāduddiśya kāryaṃ tasyātmano lābhātmakena saha sambandha iti ? atrāpyayaṃ paryanuyogo naiva nivartata iti tasmāccitramapi vākyaṃ prasārya na kiṃcitparihṛtaṃ bhavatā tasmādyuktametat satyasati vā sambandhe doṣaprasaṃgādasanna kriyata iti yasya punaḥ satkāryaṃ tasya doṣo nāsti kasmāt ? upādānagrahaṇāt upādānamiti kāraṇaṃ tantvādyācakṣmahe taddhi tasya kārakairgṛhyate abhisambadhyata ityarthaḥ tasmācca nārthāntaraṃ kāryam ityataḥ kāraṇenābhisambaddhānāṃ kārakāṇāṃ kāryeṇaiva sambandho bhavatītyadoṣaḥ āha- nanu ca yasyāpi satkāryaṃ tasyopādānādarthāntaraṃ tatkāryaṃ syāt kasmāt ? kāryārthirupādānāt yadyadarthamupādīyate tattasmādarthāntara yathā vemādibhyaḥ paṭaḥ tantavaśca paṭādibhirupādīyante tasmāttebhyo 'pyarthāntaraṃ paṭa iti etena sattvaṃ prayuktam yadyadarthamupādīyate tattasminnasat yathā vemādiṣu paṭa iti ucyate, na avayavipratiṣedhāt pratiṣiddhastāvadavayavī dravyāntarabhūtastasmādanupapannārthametat kiṃ cānyat sarvasambhavābhāvāt upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato 'rthāntaratvasāmānyāttantuvatsarvasmātkāraṇātkāryasya sambhavaḥ syāt na tvevamasti tasmātsarvasambhavābhāvādasamyagetat kiṃcānyat, jātibhedaprasaṃgādarthāntarārambhaprasaṅgācca upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato yathā vemādibhyo bhinnajātīyo bhinnadeśaśca, tathā tantubhyaḥ paṭaḥ syāt yathā cāvasthite paṭe vemādayaḥ paṭāntaraṃ kurvanti tathā hyavasthite paṭe tantavo 'pi paṭāntaramārabheran na caitadiṣṭam na tarhyupādānasāmānyādvemādivattantubhyaḥ paṭasyārthāntaratvam yatpunaretaduktaṃ yadyadarthamupādīyate na tat tatrāstīti, atra brūmaḥ- ayuktametat kasmāt ? ādhārādheyabhāvānabhyupagamāt asakṛduktamasmābhirna tantuṣu paṭo nāma kaścidasti kiṃ tarhi tantava eva paṭaḥ tattu sanmārgavidveṣādbhavatā na gṛhyate kiṃ cānyat anekāntāt upetya vā brūmaḥ kathaṃ tāvattilāstailārthamupādīyante, bhavati cātra tailam mṛdvīkā rasārthamupādīyate, bhavati cāsyāṃ rasaḥ godhukca payo 'rthaṃ gāmādatte, bhavati ca tasyāṃ kṣīram śālikalāpaśca taṇḍulārthamupādīyate, santi cātra taṇḍulā ityanaikāntiko hetuḥ āha- āvaraṇopalabdherayuktam tilādiṣvāvaraṇaṃ pratyakṣata upalabhyate tatpratibandhāttailādīnāmagrahaṇam vyāpāraśca kartustadvigamārtho na tu kāryasyāvaraṇamasti tasmādviṣamo dṛṣṭāntaḥ ucyate na, mārgāntaratvāt yadyatrāsti tatra tadarthamupādīyate iti pūrvaṃ bhavatātisṛṣṭam idānīṃ tvavagamavigamārthaṃ sato 'pyupādānamiti brūvato mārgāntaragamanaṃ pūrvavādatyāgo 'naikāntikasya cāparihāra iti yatpunaretaduktaṃ pariṇāmādyupapatteradoṣa iti tathā tadastu yattūktaṃ mārgāntarānupapatteriti atra brūmaḥ- etadapyayuktam kasmāt ? pariṇāmadharmānavabodhāt sato dharmāntarasya nirodhamasataścotpattiṃ pariṇāmamabhidadhato vyaktamayamupālambhaḥ syāt na tvanayānusṛtyā pratiṣṭhāmahe kiṃ tarhi sādhanānugṛhītasya dharmiṇo dharmāntarasyāvirbhāvaḥ pūrvasya ca tirobhāvaḥ pariṇāmaḥ na cāvirbhāvatirobhāvāvutpattinirodhau vyūhasaṃśleṣavyaktipracayāstu kimasato dharmā uta svato 'santa iti vicāryam kiṃ cātaḥ yadi tāvadasato dharmāḥ yathā kasyeti vācyam atha svayamasantaḥ paścādbhavanti tadapyayuktam kasmāt ? anarthāntaratvāt satyarthāntarabhāve prāgasantaḥ paścādupalabhyamānāḥ satkāryavādaṃ nirākuryuḥ sa caiṣāmarthāntarabhāvo na prasiddhaḥ tasmātkimatropapannam ? grahaṇāgrahaṇavikalpe coktaḥ parihāraḥ kiṃ cānyat dravyāntarotpattivyāghātāt upetya vaiṣāmutpattiṃ brūmaḥ- yadi hi pariṇāmavyūhasaṃśleṣavyaktipracayamātraṃ kāryamiṣyate yaduktaṃ dravyāṇi dravyāntaramārabhanta iti tasya vyāghātaḥ kasmāt ? na hyete bhāvā dravyāntaram tasmāddinakarakiraṇapratāpamūrchitasyeva dāvāgnyupasarpaṇadoṣonutāpāyaiva bhavataḥ pratipattiḥ etenārambhoparamotpattyaviśeṣaprasaṅgo janmasacchabdaḥ pratyuktaḥ katham ? ātmabhūtaṃ hi tantūnāṃ paṭākhyaṃ vyūhasthānīyaṃ sanniveśaviśeṣaṃ yadā kārakāṇi svena svena vyāpāreṇāviṣkurvanti tadā kriyate utpadyate jāyata ityevamādirlokasya vyavahāraḥ pravartate yadā tu kārakāṇi śaktyantarāvirbhāvātsaṃsthānāntareṇautsukyavartitāmavasthāmupasaṃharanti tadā prāgupalabdhaṃ saṃsthānaṃ vināśaśabdavācyatāṃ pratipadyate paramārthatastu na kasyacidutpādo 'sti na vināśaḥ yatpunaretaduktaṃ janmaśabdaḥ prāgabhūtasyārthasya bhāvopakramamāheti tadapīcchāmātram kasmāt ? vivādāt sadasadviṣayaṃ janmeti vivāde 'nuṣakte janmaśabdaḥ prāgabhūtasya sadbhāvamācaṣṭa iti brūvato 'nuktasamam puruṣādāvadṛṣṭatvādasiddhiriti cet syādetat yadi tarhi kriyate utpadyate jāyata ityeṣorthaḥ sadviṣayaḥ kalpyate, pradhānapuruṣayorapi tatprasaṃgaḥ, sadasadaviśeṣāditi ataśca vivādāvasthamevaitatprakaraṇamiti etaccāyuktam kasmāt ? saṃsthānaviṣayatvāt yadā bhāvaḥ svato 'narthāntarabhūtaṃ saṃsthānaṃ bhajate tadaite śabdāḥ pravartanta ityuktam dṛṣṭaṃ ca loke tadyathā muṣṭigranthikuṇḍalāni karoti janayatyutpādayati, abhivyaktātmasu ca mūlodakādiṣu bhavatyutpannaṃ jātamiti ubhayapakṣaprasiddhe tu śaśaviṣāṇādau naite śabdāḥ pravartante tasmādbhavata evāniṣṭaprasaṅga iti uktaṃ ca yadyasattvaṃ ghaṭādīnāmutpattau heturiṣyate śaśaśṛṅge 'pi tulyatvādutpattiste prasajyate iti siddhaṃ satkāryam itaśca satkāryam śaktyasya śakyakaraṇāt śakyamidamasya, śaktaścāyamasyetyayaṃ niyamaḥ satāṃ dṛṣṭaḥ tadyathā cakṣuṣo rūpasya āsti cāyaṃ paṭasya vemādīnāṃ ca niyamaḥ tasmācca satkāryam sahakārivattanniyama iti cet syānmatam yathāpo bījāṅkurasyotpattau samarthā bhavanti na kāṣṭhādagnervā ubhayaṃ ca tattāsu ca vidyate bījādapāṃ vicchinnatvāt yathā ca sūryaḥ sūryakāntādagnimutpādayituṃ samartho na candrakāntācca pānīyam ubhayaṃ tattatra na vidyate tathā ca tattvādīnāṃ paṭasyaiva śaktiniyamaḥ syāt na ca paṭasya tantuṣu sattvaṃ syāditi etaccāyuktam kasmāt ? sādhyatvāt aṃkurādayo 'pi kāryamabādīnām ataḥ sādhyam kimaṅkuro 'styatha nāstyeva tathā sūryakānte 'gniḥ tadarthameva cāyaṃ vivādo 'nuṣaktaḥ yattūktamapāṃ vicchinnavānna tāsvaṅkuro 'stīti tatrāpi yāsāmapāṃ bījānupraveśadaṅkurabhāvena vipariṇāmastābhyastasyānanyatvaṃ sādhyam ato na kiṃcidetat kiṃ cānyat rūpavyavasthānācca tadyathā vijñānotpattihetutve sati na rūpaṃ dṛṣṭamiti nedānīṃ tatsāmānyāt rūpamapyarūpaṃ bhavati evaṃ paṭakāraṇatvādvemādayo na paṭa iti nedānīṃ tantavopyapaṭaḥ tasmādyuktametacchaktasya śakyakaraṇātsatkāryam kāraṇabhāvācca satkāryam isk_9 ihāsati kārye kāraṇabhāvo nāsti tadyathā vandhyāyāḥ asti ceha kāraṇabhāvastantupaṭayostasmātsatkāryam kāraṇāntarātkāryotpattidarśanādanyatra tadbuddhiriti cet syānmataṃ prākkāraṇāntarātkāryāntarasyāsata utpattimupalabhya paścātkāraṇāntare kāraṇabuddhirbhavatīti etaccāyuktam kasmāt ? …

Section (cont. 11)

… anabhyupagamāt asataḥ kāryasyotpattireva na siddhā śaśaviṣāṇādiṣvasiddhatvāt kutaḥ punastannimittākārabuddhiḥ ? kāraṇabhāvāditi cet - syādetat, asattvāviśeṣe 'pi paṭasya kāraṇaṃ samavāyyasamavāyinimittalakṣaṇamasti tasmātpaṭa ucyate, na śaśaviṣāṇasyeti etaccāyuktam kutaḥ hetvabhāvāt asattvāviśeṣe 'pi paṭasya kāraṇamasti na śaśaviṣāṇasyetyatra heturanuktaḥ puruṣavaditi cet syādetat, yathā tulyatve sattve paṭasya kāraṇamasti na puruṣasya, evamasattve paṭasya saṃsthānaṃ na śaśaviṣāṇasyetyetadapyayuktam kasmāt ? uktatvāt saṃsthānaṃ kāryaṃ paṭasya saṃsthānaṃ na puruṣasyetyuktaṃ prāk saṃsthānavattadviśeṣa iti cet syānmataṃ yathā sattvāviśeṣe paṭaḥ saṃsthānaṃ na puruṣa evamasattvāviśeṣe paṭaḥ kāryaṃ na śaśaviṣāṇamiti etadapyayuktam kasmāt ? sāmānyaviśeṣabhāvāt sāmānyasya hi viśeṣaparigrahaḥ saṃsthānam na tvayamasti cetanāśaktau vikalpaḥ tasmānna puruṣaḥ saṃsthānam asatastu nirātmakatvādviśeṣo durupapādaḥ tadupapattau vā sattvaprasaṃga iti āha ca- nirātmakatvādasatāṃ sarveṣāmaviśiṣṭatā viśeṣaṇaṃ cedbhinnaṃ te sattvamabhyupagamyatām tasmādyuktametatkāraṇabhāvācca satkāryam evaṃ tāvadvaiśeṣikamatenāsatkāryavādo na vimardasahaḥ bauddhapakṣe tu bhūyāndoṣaḥ kathaṃ tarhi dravyāntaraṃ paṭo neṣyate ? "tantuṣveva tathāstheṣu paṭa ityādibuddhayaḥ" ityevamādinā nyāyenāvayavipratiṣedhātsaṃyogo 'pi na saṃyogibhyasteṣāmarthāntaramiṣṭaḥ tatraitāvatī parikalpanā syāt- yaduta tantusaṃyogo vā paṭaḥ, saṃyogakāraṇaṃ vā dravyāntaram ? ubhayaṃ ca teṣāṃ nārthāntaram athotpattivināśau kasyāpīti māyākāraceṣṭitam tadapi citrataro 'yamupanyāsaḥ kāṇādānāṃ tu dravyāntarottpativināśābhyupagamānna tārkikasadṛśo vicāraḥ tasmātpāramarṣa eva pakṣo jyāyān yathā cāsatkāryaṃ na saṃbhavati tathā caśabdātsadasatkāryamapi parasparavirodhāt naiva sannāsaditi eke etadapyanupapannam kasmāt ? sattve hetvabhidhānānniścitaḥ prāgutpatteḥ kāryasya sadbhāvaḥ*


13

कारिका 10 प्रकृतमिदानीं वक्ष्यामः किं च प्रकृतम् ? महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं चेति वचनाद्वैरूप्यम् आह- प्राक्सारूप्यग्रहणं, सुखप्रतिपत्तिहेतुत्वात् अधिगतसारूप्यस्य हि सुखं वैरूप्यस्य प्रतिपत्तिर्भवतीति प्राक्सारूप्यग्रहणं कर्तव्यम् यथा तन्त्रान्तरीयाणां सदनित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषसामान्यमुक्त्वा द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरमित्येवमादिः विशेषो ऽभिधीयते उच्यते- तदनुपपत्तिः अविशेषात् यथैवाधिगतसारूप्यस्य लघीयसी वैरूप्यप्रतिपत्तिरेवमधिगतवैरूप्यस्य लघीयसी सारूप्यप्रतिपत्तिः कस्मात् ? परस्परापेक्षत्वात् वैरूप्यापेक्षं हि सारूप्यं, सारूप्यापेक्षं च वैरूप्यमिति आह- एवमपि वैरूप्यस्य प्रागभिधाने प्रयोजनवचनम् द्वयोरविशेषे ऽन्यतरस्य प्रागभिधाने नियमहेतुर्वक्तव्य इति उच्यते न, वैरूप्यस्य प्रकरणानङ्गभावात् विच्छिन्नं हि वैरूप्यमतस्तत्पूर्वमभिधाय प्रकरणाङ्गं सारूप्यं सुखमभिधातुमित्येवमर्थमाचार्येणैवं क्रियते कथं सारूप्यस्य प्रकरणाङ्गत्वमिति चेत् त्रैगुण्याभिधानद्वारेण गुणलक्षणोपदेशात् तत्सिद्धौ चाविवेक्यादीनां व्यक्तसिद्धेः, कारणगुणात्मकत्वाच्च कार्यस्य प्रधाने त्रैगुण्यादिप्रतिपत्तेः, कार्यकारणभावासन्देहाच्च प्रधानास्तित्वप्रसिद्ध्यपदेशात्तत्सिद्धौ च भोग्यस्य भोक्त्रपेक्षत्वात् पुरुषसिद्धेरधिगतभोक्तृभोग्यस्य तत्संयोगस्य च सुखप्रतिपाद्यत्वात्तादर्थ्याच्च तत्त्वभूतभावसर्गाणाम् तस्माद्युक्तमेतत्प्रकरणाङ्गत्वात्सारूप्यं पश्चान्निर्दिश्यते तदसम्बन्धादितरत्प्रागिति आह- यदि तर्हि भवान्प्राग्वैरूप्याभिधानं न्याय्यं मन्यते तद्वक्तव्यं किं पुनरिदं वैरूप्यमिति उच्यते- हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् इस्क्_10 तत्र हेतुः कारणमित्यनर्थान्तरम् तदस्यास्तीति हेतुमत् नित्यं ध्रुवम् न नित्यमनित्यम् व्याप्नोतीति व्यापि न व्याप्यव्यापि असर्वगतमित्यर्थः सह क्रियया सक्रियम् अनेकं भिन्नम् आश्रितमाधेयम् लिङ्गं तल्लक्षणोपपन्नम् अवयूयन्त इत्यवयवाः पृथगुपलभ्यन्त इत्यर्थः सहावयवैः सावयवम् परतन्त्रमन्याधीनम् एते हेतुमदादयः परतन्त्रान्ता निरपवादाः व्यक्तस्यासाधारणा प्रधानपुरुषाभ्यां धर्माः आह- हेतुमदित्यविशेषः सर्वत्र सद्भावात् व्यक्ताव्यक्तपुरुषाणां हि सर्वेषां हेतुरस्तीति अविशेष एवायं पठितव्यः उच्यते न, कारकपरिग्रहात् यद्यपि व्यक्ताव्यक्तपुरुषाणामविशिष्टं हेतुमत्त्वं तथापि विशिष्टस्य कारकस्य हेतोः परिग्रहं करिष्यामः स च व्यक्तस्यैव नान्यस्येति नायमविशेषो भविष्यति आह- तदनुपपत्तिः, विशेषानुपादानात् हेतुरिति सामान्यशब्दो ऽयम् सामान्यशब्दाश्च नार्थप्रकरणशब्दान्तराभिसम्बन्धमन्तरेण विशेषे ऽवतिष्ठन्त इति विशेष उपादेयः स्यात् स तु नोपादीयते तस्मात्ते अविशेषा एवेति उच्यते न, सर्वसम्भविनो ऽभिधानस्य प्रकर्षार्थत्वात् इह यः सर्वसंभवी धर्म एकविषय उपादीयते तस्मात्प्रकर्षो विज्ञायते तद्यथा भोक्ता माणवक इत्युक्ते सर्वेषां भोक्तृत्वस्य संभवादेवं विज्ञायते प्रकर्षेणायं भोक्तेति, एवमिहापि सर्वसम्भवीत्याहाचार्यो व्यक्तं हेतुमदिति तेन वयमस्मात्प्रकर्षं विज्ञास्यामः कश्च प्रकर्षः ? कारकज्ञापकयोरुभयोरपि सम्भवे कारकस्यैव ग्रहणम् अनित्यशब्दसम्बन्धाद्वा अथवायमाचार्यो हेतुमदित्युक्त्वानित्यमिति पठति शब्दान्तराभिसम्बन्धात् यो ऽनित्यसहचरो हेतुस्तस्येह ग्रहणं गम्यते कश्चानित्यसहचरो हेतुः ? कारकः आह एवमप्यनुपपन्नमेतत् कस्मात् ? उभयत्र तत्संभवात् उत्पाद्यव्यङ्ग्ययोर्हि विनाशं पटादिषु दृष्टत्वात् अव्यभिचारात्तन्त्रान्तरीया मन्यन्ते तस्य वा परिहारो वक्तव्यः न वा वक्तव्यो विशेषे स्थितिरस्तीति उच्यते न, एकान्तवादप्रसङ्गात् सर्वेण हि वादिनावश्यं किंचिन्नित्यमभ्युपगन्तव्यम् अन्ततो विनाशे ऽपि न कश्चिदर्थः शब्दबुद्धिभ्यां न व्यज्यते तथा सत्येकान्तवादो ऽयं स्यात् स च युक्तिमद्भिर्नेष्यते तथा च संस्कृतमप्येवं कल्प्यमाने विनाशि स्यात् तस्मादुत्पाद्यव्यङ्ग्ययोर्विनाशं ब्रुवतो ऽतिसाहसम् आह- अनित्यत्वानुपपत्तिः सत्कार्यवादाभ्युपगमात् यथैव हि नासत उत्पत्तिरस्त्येवं सतो ऽपि विनाशेन न भवितव्यम् अथ सतो ऽपि विनाशो ऽभ्युपगम्यते तेन प्रलयकाले विनष्टानां तत्त्वादीनां प्रश्चादसतामुत्पत्तिः सत्कार्यवादं निराकुर्यात् तस्मादनित्यं व्यक्तमित्ययुक्तम् उच्यते- न, व्यक्त्यपगमप्रतिज्ञानात् सदा वयं सतो ऽविनाशमाचक्षाणाः (न ?) सत्कार्यवादं प्रत्याचक्षीमहि कारणानां तु यः परस्परं संसर्गात् संस्थानविशेषपरिग्रहस्तस्य विरोधिशक्त्यन्तराविर्भवाद्व्यक्तिस्तिरोधीयत इत्येतद् विनाशशब्देन विवक्षितम् तथा च वार्षगणाः पठन्ति- "तदेतत् त्रैलोक्यं व्यक्तेरपैति, न सत्त्वादपेतमप्यस्ति विनाशप्रतिषेधात् असंसर्गाच्चास्य सौक्ष्म्यं सौक्ष्म्याच्चानुपलब्धिस्तस्माद्व्यक्त्यपगमो विनाशः स तु द्विविधः- आ सर्गप्रलयात् तत्त्वानां किञ्चित्कालान्तरावस्थानादितरेषाम्" इति आह- अयुक्तमेतत् कस्मात् ? विप्रतिपत्तेः सर्वमेव क्षणिकं बुद्धिबोध्यमाकाशनिरोधवर्जितमिति शाक्यपुत्रीयाः प्रतिपन्नाः तेषां प्रतिषेधो वक्तव्यो वा न वक्तव्यं द्विविधमनित्यमिति उच्यते- न, हेत्वनुपगमात् प्रतिक्षणमुच्छिद्यते त्रैलोक्यमित्यत्र लिङ्गमभियुक्ता अपि नोपलभामहे तस्मात् नैतदस्माकं बुद्धाववतिष्ठत इति आह- अन्ते क्षयदर्शनात्, इह यस्यान्ते क्षयस्तस्य क्षणिकत्वं दृष्टम् तद्यथा, प्रदीपज्वालाबुद्धिशब्दानाम् अस्ति चान्ते क्षयः संस्काराणां तस्मात् क्षणिकाः उच्यन्ते तदनुपपत्तिः, साध्यत्वात् इह तु सिद्धेनातिदेशो भवति तद् यथा गवा गवयस्य न तु प्रदीपज्वालाबुद्धिशब्दानां क्षणिकत्वं प्रसिद्धम् अतो न किञ्चिदेतत् आह- नैतदप्रसिद्धम् कस्मात् ? वृद्ध्यदर्शनात् यदि हि अविनष्टायां ज्वालायामिन्धनान्तराले ज्वालान्तरमुत्पद्येत वृद्धिरपि स्यात्, न तु दृश्यते तस्मादनवस्थिता प्रदीपज्वाला किञ्चाश्रयाभावात् यदाश्रया ज्वालोत्पत्तिस्तदुत्पद्यमानैवासौ निरुणद्धीति न युक्तमस्या विनाश्रयेणावस्थातुम् उपयुक्तेन्धनाया अप्यवस्थानप्रसङ्गात् किञ्चावरणोपरिपातेन प्रभाभेदप्रसङ्गात् ज्वालानामवस्थानमिच्छत उपरिष्टादावरणोपनिपातात् प्रभायास्तन्तोरिव द्वैधीकरणं स्यात् अनिष्टञ्चैतत् तस्मान्न दीपे ज्वालानामवस्थितिरस्तीति एतेन शब्दो ऽपि प्रत्युक्तः कथम् ? तस्यापि यदि विनाशो न स्यात्, द्रुतपवनाम्बुधाराभिघातात् प्रतिक्षणमपूर्वशब्दाविर्भावात् पूर्वशब्दविनाशाच्च वृद्धिः स्यात् अदृष्टा चासौ किञ्च, प्रत्यक्षत उपलब्धेः पाण्युपघातजो हि शब्द उत्पत्तेरूर्ध्वं न भवतीति प्रत्यक्षसिद्धम् अभिव्यक्तिरिति चेन्न, नियमादर्शनात् शब्दानां वाच्यवक्तृभेदभिन्नानां कारणनियमो दृष्टः न चैतदस्ति समानेन्द्रियग्राह्याणाम् किञ्च- पृथक् श्रुतेः अभिव्यक्तिकारणदेशाच्च पृथक् श्रूयते शब्दः न चैतदभिव्यङ्ग्यानां घटादीनां दृष्टमिति क्षणिकबुद्धेस्तु प्रागेवोक्ता नाशहेतवः तत्र यदुक्तं साध्यत्वात् प्रदीपज्वालाबुद्धिशब्दादीनां क्षणिकत्वस्य न संस्काराः क्षणिका इत्येतदयुक्तम् उच्यते- यदुक्तं वृद्ध्यदर्शनादिति, अत्र ब्रूमः- अयुक्तमेतत् कस्मात् ? विशेषप्रतिपत्तेः क्षणिकमित्युक्तपरिमाणो ऽयं कालनिर्देश आश्रीयते, वृद्ध्यभावादिभ्यश्च कदाचिद्विनाशमात्रं प्रतीयते स तु विनाश एकक्षणमवस्थितानां ज्वालानां भवति न पुनः क्षणद्वयमित्येतदप्रमाणकमाज्ञामात्रञ्च गृहीतशिक्षाकः कः प्रतिपत्तुमुत्सहेत ? यत्तूक्तमावरणोपनिपातात् प्रभाभेदप्रसङ्ग इति, एतदप्ययुक्तम् कस्मात् ? उभयथानुपपत्तेः किं तावद्यस्य द्वैधीभावो दृष्टस्तदक्षणिकमाहोस्विद् यस्य न दृष्टस्तत् क्षणिकमिति किञ्चातः ? तद्यदि तावदेवमभ्युपगम्यते यस्य द्वैधीभावस्तदक्षणिकमिति तन्तोरक्षणिकत्वप्रसङ्गः अथ मतं यस्य द्वैधीकरणं न दृष्टं तत् क्षणिकमिति यथा किमत्रोदाहरणम् कुतः ? यस्मात् न ह्यनुदाहृतो वादः एतेन शब्दवृद्धिः प्रत्युक्ता यत्पुनरेतदुक्तं पाण्युपघातजशब्दानवस्थानादिति, तत्र भवतैवोक्तं व्यङ्ग्यत्वादिति यत्तूक्तं नियमदर्शनान्न व्यङ्ग्यः शब्द इति तदयुक्तम्, अनेकान्तात् यथा शुक्लकृष्णौ नियमतः शुक्लकृष्णशब्दाभ्यां प्रत्याय्येते, न च तौ तयोर्न व्यङ्ग्यौ एवं शब्दस्यापि वक्त्यवादिनियमः स्यात्, न चाव्यङ्ग्यः स्यात् यदप्युक्तं व्यङ्ग्यव्यञ्जकयोर्देशभेदानुपपत्तेर्न व्यङ्ग्यः शब्द इति, तदप्ययुक्तम् कस्मात् ? चक्षुर्वत् तत्सिद्धेः तद्यथा- चक्षुषो रूपस्य च देशभेदे ऽपि व्यङ्ग्यव्यञ्जकभावः, एवं शब्दस्यापि स्यात् तस्मान्न शब्दो ऽपि क्षणिकः बुद्धेस्तु स्वाधिकार एव क्षणिकत्वे हेतुरिति करणो (कारणम् ?) वक्ष्यामः तत्र यदुक्तमन्ते क्षयदर्शनात् प्रदीपज्वालाबुद्धिशब्दवत् क्षणिकाः संस्कारा इत्येतदयुक्तमिति आह- इतस्तर्हि प्रदीपादीनामन्येषां च भावानां क्षणिकत्वम् कुतः ? अनवस्थानहेत्वभावात् नष्टश्चेदर्थो ऽभ्युपगम्यते ननु प्राप्तमिदमुत्पन्नमात्रस्यास्य विनाशविघ्नो नास्तीति कौटस्थ्यं सर्वभावानां प्राप्तमिति उच्यते- न, कारणोपपत्तेः अधिकारो हि सर्वभूतानां संस्कारवशादुत्पत्तिस्तदवस्थानमेव तेषामलं स्थितये सति विनश्वरत्वे संस्कारोपयोगे तु स्थित्यपभ्रंश इत्यतो ऽस्ति किञ्चित्कालमवस्थानं भावानाम् न च कौटस्थ्यप्रसङ्गः किञ्चान्यत्- सन्ततिविनाशप्रसङ्गात् नंष्टुश्चेदुत्पत्तिसमनन्तरं विनाश इष्यते, सन्ततिरप्यन्ते क्षयदर्शनात् नंष्ट्री तस्या अपि तथैव विनाशः प्राप्तः ततश्च तडिद्विलसितवत्क्षणदृष्टनष्टस्य त्रैलोक्यस्याभावे संसारोच्छेदप्रसङ्गः तस्मादयुक्तं नंष्टुरुत्पत्तिसमकालमेव विनाश इति कारणावस्थानात् न दोष इति चेत्- स्यान्मतम्, अस्ति कारणं पूर्वोत्पन्नो भाव उत्तरस्योत्पत्तौ स चाप्युत्तरस्य, इत्येवं सन्ततेरनुच्छेदो विरोधिभावान्तरसंसर्गात् तूभयतस्तथोत्पत्तेर्भ्रंश इति एतदप्ययुक्तम् कस्मात् ? पूर्वहेतुत्यागात् प्रागुक्तं येन नंष्टव्यमसौ मन्त्रौषधप्रयोगैरपि क्षणादूर्द्ध्वं नावतिष्ठते साम्प्रतं तु नंष्ट्री सन्ततिः कारणवशादेव तिष्ठतीति सो ऽयं पूर्वहेतुत्यागः विनाशहेत्वभावात् क्षणिकत्वमिति चेत्, स्यादेतत् नास्ति भावानां विनाशहेतोरुपलम्भ इति अतः स्वाभाविकः प्रध्वंसः तस्मादुत्पत्तिसमकालमसौ केन वार्यते इदमप्ययुक्तम् कस्मात् ? अनभ्युपगमात् को ह्येतदवमंस्यति अहेतुको विनाशः किं तर्हि प्रागेवोक्तमर्थवशाद्भावानां स्थितिस्तदव....विरोधिद्रव्यान्तरसम्बन्धेनाध्यात्मिकादिना भवतीति विनाशस्य विनाशप्रसङ्गादयुक्तमिति चेत्, यदि तर्ह्यभावो ऽपि हेतुमान् परिकल्प्यते; प्राप्तमस्यापि घटवद् विनाशित्वम् अनिष्टं चैतत् तस्मादहेतुको विनाश इत्येतदयुक्तम् कस्मात् ? व्यक्त्यपगमप्रतिज्ञानात् भावविनाशिनं प्रति सत्यमेवायमुपालम्भः स्यात् व्यक्त्यपगमस्तु नो विनाशः स तु हेतुमत्त्वेन कथं विरोत्स्यत इति तस्मान्न विनाशहेत्वभावात् क्षणिकं संस्कृतमिति इतश्च न क्षणिकम् कस्मात् ? अग्रहणप्रसङ्गात् इहासतो ऽग्रहणं दृष्टम् तद्यथा द्वितीयस्य शिरसः क्षणादूर्ध्वं च ते घटादयो न भवन्ति तस्मात्तेषामप्यग्रहणप्रसङ्गः तत्सदृशोत्पत्तेरदोष इति चेत् स्यादेतत् - उत्पत्तिसमकालं निरोधे ऽपि घटस्यान्यस्य तादृशस्योत्पत्तिर्भवति, तन्निरोधे ऽन्यस्येत्येवमविच्छेदेन ग्रहणं भवति, ज्वालानदीस्रोतो ऽनुसन्धानवदिति एतदप्ययुक्तम् कुतः ? कारणाभावात् स्यादेतदेवं यदि तदानीं सदृशोत्पत्तौ कारणं स्यात् न तु तदस्ति, प्रागेव निरोधात् तस्मादसदेतत् पूर्वोत्पन्नस्य कारणभावात्तत्सिद्धिरिति चेन्न, उपादानात् तन्निष्पत्तिप्रसिद्धेः इहोपादानान्मृत्पिण्डकसंज्ञकाल्लोके घटनिष्पत्तिः प्रसिद्धा न च तदानिमस्ति मृत्पिण्डः किञ्च क्रमनुपलब्धेः इह शिबिकादीनामनुक्रमेण घटोत्पत्तिरुपलभ्यते न चानुक्रमो ऽस्ति किञ्च कारकसामग्र्याभवात् इह कुम्भकारदण्डचक्रसूत्रोपलसामग्र्याद् घटनिष्पत्तिः प्रसिद्धा न चास्त्येषां तत्र सम्भवः किञ्च तदुत्पाद्यान्तरोत्पाद्यस्यानिष्पत्तेः इह घटाद् घटे निर्वृत्तिर्न प्रसिद्धा लोके न चाप्रसिद्धो ऽस्ति दृष्टान्तः बुद्धिशब्दवदिति चेत् स्यादेतत् यथा बुद्धिर्बुद्ध्यन्तरं सदृशं सूते, शब्दश्च शब्दान्तरमेवं घटाद्घटनिष्पत्तिर्भवति इति एतदप्यसत् कस्मात् ? सिद्धं हि बुद्धेर्बुद्ध्यन्तरं शब्दाच्च शब्दान्तरं जायत इत्येतदप्यस्माकं प्रसिद्धम् तस्मात्प्रलापमात्रमेतत् तत्र यदुक्तं सदृशोत्पत्तेः सो ऽयमिति ग्रहणमविच्छिन्नं क्षणिकत्वे ऽपि भावानामित्येतदयुक्तम् किञ्चान्यत् कार्योत्पत्तिकाले कारणनिवृत्तेः यदा न कारणमस्ति न तदा कार्यमुत्पद्यते द्वयोर्घटयोर्युगपदुपलब्धिप्रसङ्गात् यदा तु कार्यमुत्पद्यते तदा कारणं निरुद्धमिति निर्बीजः प्रदुर्भावः प्राप्नोति अनिष्टं चैतत्, सततोत्पत्तिप्रसंगात् अनुत्पन्ने हेतुसामर्थ्याददोष इति चेत् स्यात्तदनुत्पन्ने कार्ये कारणेन प्रयोजनम् उत्पन्ने तद्व्यापारानर्थक्यात् अस्ति चानुत्पन्ने कार्ये कारणम् अतो न निर्बीजः प्रादुर्भाव इति एतदप्ययुक्तम् कस्मात् ? अभावे ऽपि तदुत्पत्तिप्रसङ्गात् अंग तावत् अणुशो विभज्यतामग्नौ वा क्षिप्यन्ताम्, तन्तवस्तदापि प्रसिद्धविनाशानामभूवन्निति शक्यमुपदेष्टुं, यदि तेभ्यः पट उत्पद्यते तस्माद्भ्रान्तिरियम् युगपत्कार्यकारणयोरुत्पत्तिनिरोधौ तुलानतोन्नतवदिति चेत् स्यादेतद्यथा नामोन्नामौ तुलान्तर्या (?) यौगपद्येन भवत एवमुत्पत्तिविनाशौ कार्यकारणयोरिति तदप्ययुक्तम् कस्मात् ? कार्यकारणभावादर्शनात् किमिदमुदके निमज्जद्भिः फेनमवलम्ब्यते ? तुल्या तस्य ह्येकस्यावनतिरवस्था तद् द्वितीयस्योन्नतये हेतुर्भवति, भवतः कारणविनाशः कार्योत्पत्तिश्च यौगपद्येन भवतः न च तयोर्हेतुमद्भावः शक्यः कल्पयितुम् तस्मादयुक्तमेतत् विशेषग्रहणात् क्षणिकत्वसिद्धिरिति चेत् स्यान्मतम्- यद्युत्पन्नमात्रोपरतिर्नास्ति भावानां, किंकयुतः शरीरादीनां प्राणापानश्रमरूपादिकृतो ऽब्जाश्मप्रभृतीनां च शीतोष्णस्पर्शकृतो भेदः ? घण्टादीनां चाशब्दकानां पश्चाच्छब्दवतां ग्रहणम्, तस्मादनिषिद्धः क्षणभङ्ग इत्येतच्चायुक्तम् कस्मात् ? उक्तत्वात् उक्तमत्रोत्तरं कारणाभावे ऽनुत्पत्तिप्रसङ्गाएदिति किञ्च संस्थानान्तरानुपलधेः न ह्यत्र पूर्वसंशानविपरीतं संस्थानान्तरं गृह्णीमहे तस्मादविशिष्टास्त इत्येवमवगम्यताम् विशेषग्रहणन्त्ववस्त्वन्तरानुग्रहे शक्त्यन्तराविर्भावात् उउक्तं च- "व्यक्तेरपगमो ऽभीष्टः पूर्वसंस्थानहानितः तदभावादसिधो ऽस्य विशे.... हेरे इन् थे म्स्, अ चोन्सिदेरब्ले पोर्तिओन् इस् लेfत् ब्लन्क् अन्द् इत् इस् अप्परेन्त् थत् दिस्चुस्सिओन् ओन् थे करिकस् 11 अन्द् 12 हस् बेएन् लेfत् ओउत् कारिका 13 सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः गुरु वरणकमेव तमः एवशब्दः प्रत्येकं परिशमाप्यते सत्त्वं लघु प्रकाषकमेवेष्टम् यत् किंचित्कार्यकरणे लघु प्रकाशं च तत्सत्त्वरूपमिति प्रत्यवगन्तव्यम् तत्र कार्यस्य तावदुद्गमहेतुर्धर्मो लघुत्वम्, करणस्य वृत्तिपटुत्वहेतुः प्रकाशस्तु पृथिवीधर्मस्य च्छायालक्षणस्य तमसस्तिरस्कारेण द्रव्यान्तरप्रकाशनम् करणस्यापि ग्रहणं सङ्कल्पाभिमानाध्यवसायविषयेषु यथास्वं प्रवर्तमानम् उपष्टम्भकं चलमेव रजः यः कश्चिदुपस्तम्भश्चलता चोपलभ्यते तद्रजोरूपमित्यवगन्तव्यम् तत्रोपस्तम्भः प्रयत्नः, चलता क्रिया सा च द्विविधा, परिंणामलक्षणा प्रस्पन्दलक्षणा च तत्र परिणामलक्षणया सहकारिभावान्तरानुगृहीतस्य धर्मिणः पूर्वधर्मात्प्रच्युतिः प्रस्पन्दलक्षणा प्राणादयः कर्मेन्द्रियवृत्तयश्च वचनाद्याः बाह्यानां द्रव्याणामुत्पतननिपतनभ्रमणादीनि गुरु वरणकमेव तमः यत्किंचिद् गौरवं वरणं चोपलभ्यते तत्तमोरूपमिति प्रत्यवगन्तव्यम् तत्र गुरुत्वं कार्यस्याधोगमनहेतुर्धर्मः करणस्य वृत्तिमन्दता वरणमपि कार्यगतं च द्रव्यान्तरतिरोधानम् करणगता चाशुद्धिः प्रकाशप्रतिद्वन्द्विभूता इत्येष सत्त्वादीनामव्यतिकरेण स्वभावोपलम्भो यत एषां नानात्वमवसीयते यत्पुनरेतदुक्तं स्त्रीक्षत्रमेघेषु स्वभावव्यतिकरोपलम्भादेको गुणस्त्रिरूपः, सर्वे वा सर्वरूपा, रूपान्तरस्य वा सत उत्पत्तिरिति अत्र ब्रूमः न, गुणभूतस्य भक्तित उपकारात्प्रधानरूपोपपत्तेः इह गुणभूतस्य भक्तितः प्रधानोपकारित्वे सति भक्तितस्तद्रूपोपपत्तिर्दृष्टा तद्यथा क्षीरादेः तद्धि मुखादिषु दृष्टप्रतिलब्धप्रवृत्तिः पित्तस्य स्वेन रूपेणाङ्गभावं गच्छंस्तस्योपकारात्तिक्तं संपद्यते न च तथा सदेव सत्त्वमपि स्त्रैणगुणभूतं सपत्नीरजसः स्वेन रूपेणाङ्गभावं गच्छंस्तस्योपकाराद्दुःखं संपद्यते तमसो मोहः एवं क्षात्रं रजः आर्यदारलक्षणस्य सत्त्वस्य दस्युलक्षणस्य च तमसः एवं मेध्यं तमः कार्षिके सत्त्वस्य प्रोषितदयितायाश्च रजसः तस्मान्नास्ति गुणानां स्वाभावव्यतिकरः किं चान्यत् अगुणभूतानां स्वभावग्रहणात् यदा चैते ऽङ्गभावमपगच्छन्तो मध्यस्थास्तुल्यसंस्काराश्च प्रतिपद्यन्ते तदा स्वरूपेणैव तस्मादसंकीर्णं गुणरूपम् आह- न, सन्देहात् उभयथा हि रूपान्तरग्रहणं क्षीरादिषु दृष्टम् ताद्रूप्यात्तैश्च विपरिणतानां गुणभावाच्च यथोक्तं तत्र कथमिदमेकान्तेन निश्चीयन्ते गुणभावात्सत्त्वादीनां रूपान्तरग्रहणं न पुनस्ताद्रूप्यादेवेति ? उच्यते- ग्रहणविकल्पोपलम्भात् यदि स्त्रैणं सत्त्वं ताद्रूप्यादेव सपत्न्या तेन गृह्यते तेन भर्तुरपि तथा ग्रहणप्रसंगो मध्यस्थानां तुल्यसंस्काराणां च अनिष्टं चैतत् तस्माद् भाक्तो ऽयं गुणविकल्पोपलम्भः किं चान्यत् उत्तरकालं स्वरूपग्रहणान्निवृत्तानुशयाभिश्चैकार्थतामुपगताभिः सपत्नीभिः स्वेनैव रूपेण स्त्रैणस्य सत्त्वस्य ग्रहणमुपलभ्यते स्वगृहसमवस्थितैश्चार्यदारैः क्षत्रियाणाम् निष्पन्नशस्यैश्च कृषीवलैर्मेघानाम् तस्माद्भाक्तो ऽयं ग्रहणविकल्पोपलम्भः तस्माद्युक्तमेतत् अन्यो ऽन्यजननवृत्तयो गुणाः, न च संकीर्णस्वभावा इति यत्पुनरेतदुक्तम् अन्योन्यमिथुनत्वानुपपत्तिः, सत्त्वस्येतरविरोधात्, इत्यत्र ब्रूमः - अस्ति चायं विरोधो गुणानां प्रदीपवच्चार्थतो वृत्तिः इस्क्_13 किमुत्पद्यत इति वाक्यशेषः तद्यथा वर्तिज्योतिस्तैलानां परस्परविरोधे ऽपि प्रदीपकरणैककार्यसाधनभावोपगतानां वृत्तय एकत्र संमूर्छिताः सहभावः प्रकृष्टमपि कालमनुभवन्ति एवं सत्त्वरजस्तमसां सति विरोधे महदाद्येककार्यसाधनभावोपगतानां वृत्तय एकत्र मूर्छिताः सह भवन्तीति युक्त्यभावादसिद्धिरिति चेत् स्यान्मतम् - का पुनरत्र युक्तिर्येन विरोधिनामेककार्यता भवतीति ? उच्यते- गुणप्रधानभावात् गुणभूतो हि प्रतियोगी प्रधानभूतेन तदुपकरकत्वान्न विरुध्यत इति संसर्गेण वर्त्तितुमुत्सहते तुल्यबलयोस्तु द्वयोः सत्यमेव सहावस्थानस्य नास्ति सम्बन्धः तथा च भगवान् वार्षगण्यः पठति रूपातिशया वृत्त्यतिशयाश्च विरुध्यन्ते सामान्यानि त्वतिशयैः सह वर्तन्ते तद्यथा जलाग्नी पचनीयस्वेदनीयेषु कार्येषु, छायातपौ च सूक्ष्मरूप्रकाशने, शीतोष्णे च प्रजावस्थितौ एवं तत्सिद्धः प्रदीपवत्सत्त्वरजस्तमसां विरोधे ऽपि सहभावः आह, यदुक्तं लघ्वादिभावस्वभावभेदाद् गुणनानात्वमित्यत्र ब्रूमः भिन्ना लक्षणभेदाश्चेन्मिथः सत्त्वादयो गुणाः तर्हि लक्षणयुक्तत्वात्षड्गुणाः प्राप्नुवन्ति ते यदि लघ्वादिलक्षणभेदात्सत्त्वादीनां नानात्वं मिथो ऽभ्युपगम्यते तेन लघुत्वप्रकाशत्वयोरपि भेदो ऽस्ति गुणद्वयप्रसंगः एवमुपस्तम्भचलताभ्यां गौरववरणाभ्यां च द्वयं द्वयमिति षड्गुणाः प्राप्नुवन्ति अथ मतं लघुत्वप्रकाशयोरभेद इति पृथगनभिधानं प्राप्तम् तद्भेदे वा ग्रहणभेदमनिच्छतः प्राप्तो लघुत्वादिभेदे ऽपि गुणाभेदस्तथा चैको गुण इति प्राप्तम् यत्पुनरेतदुक्तं गुणभूतस्य भक्तित उपकारात्प्रधानरूपापत्तिरिति, अङ्गभावं व्रजत्सत्त्वं दुःखं सम्पद्यते यदि वैरूप्यस्योपसंहारात्पूर्वदोषानिवर्तनम् यदि हि रजसो ऽङ्गभावमुपगच्छत्सत्त्वमुपकारात्तद्रूपं भवति तेन प्रतिज्ञातस्य रूपान्तरस्योपसंहारात्त्रैरूप्यं गुणानामेकैकस्य प्राप्तम् रूपान्तरस्य वा सत उत्पत्तिः तस्मात्पूर्वदोषापरिहारात्प्रतिज्ञामात्रमेवायं समाधिः यदप्युक्तं अगुणभूतानां स्वभावग्रहणादिति अङ्गभावानपेक्षं तु ग्रहणं नास्त्यृषेरपि परमर्षेरपि गुणानां कार्यमेव प्रत्यक्षं न शक्तिमात्रेणावस्थानमसंवेद्यत्वात् तत्र चाङाङ्गिभावगमनमनिवार्यम् तस्माद्दोषमनिच्छता गुणा परित्याज्याः नास्ति वा सुदूरमपि गत्वा तत्संकरदोषपरिहारः उच्यते- यत्तावदुक्तं लक्षणभेदाद् गुणनानात्ववादिनो लक्षणद्वययोगादेकैकस्य गुणषट्त्वप्रसंग इति तन्न कस्मात् ? द्वयोर्गुणप्रधानभावानुपपत्तेः इहार्थान्तरस्यार्थान्तरेण गुणप्रधानभावो भवति यथा स्त्रीक्षत्रमेघेषु व्याख्यातम् न च लघुत्वप्रकाशयोरुपस्तम्भचलनयोर्गौरववरणयोश्च मिथौ गुणप्रधानभावो ऽस्ति, तदनर्थान्तरं धर्मास्त इति नास्ति षट्त्वप्रसंग इति किं च अप्रसिद्धत्वात् न ह्येतत्क्वचित्प्रसिद्धम् यथा यावन्तो धर्मास्तावन्तो धर्मिण इति न चाप्रसिद्धेन व्यवहारः किंच पृथक्त्वैकान्तप्रसङ्गात् लक्षणभेदान्नानात्वप्रतिज्ञस्य सर्वार्थानां स्वसामान्यलक्षणयोगात्स्वतो ऽर्थान्तरमिति पृथक्त्वैकान्तप्रसंगः अथैतदनिष्टं न तर्हि वक्तव्यं लक्षणभेदाद् गुणानां षट्त्वमिति यत्पुनरेतदुक्तं अङ्गभूतस्य प्रधानरूपापत्तेः पूर्वदोषानिवृत्तिरिति तदप्ययुक्तम् कस्मात् ? भक्त्यभिधानात् असकृदधीतमस्माभिर्भाक्तो ऽयं गुणानां ग्रहणविकल्प इति न च भक्तिः परमार्थ इत्यस्थाने यत्नः यत्पुनरेतदुक्तं अगुणभूतानां सत्त्वादीनामृषेरप्यविषयत्वमिति सत्यमेतत् यत्तूक्तं कार्यस्य विषयभूतत्वादङ्गाङ्गिभावगमनं गुणानां सकलसत्कार्यमपेक्षते तथा स्त्रीक्षत्रमेघाः प्रकृतास्तेष्वङ्गभावमगच्छत इति विज्ञायत इति सामान्यशब्दानां हि प्रकरणाद्विशेषे ऽवस्थानं भवति तद्यथा भोजनकाले सैन्धवमानयेत्युक्ते लवणे संप्रतिपत्तिर्नाश्वादिषु तस्मात्प्रकरणमनपेक्ष्य महति तन्त्रे दोषाभिधानं बालवाक्यस्थानीयम् एवं गुणलक्षणोपदेशात्सिद्धं त्रैगुण्यम्

kārikā 10 prakṛtamidānīṃ vakṣyāmaḥ kiṃ ca prakṛtam ? mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ceti vacanādvairūpyam āha- prāksārūpyagrahaṇaṃ, sukhapratipattihetutvāt adhigatasārūpyasya hi sukhaṃ vairūpyasya pratipattirbhavatīti prāksārūpyagrahaṇaṃ kartavyam yathā tantrāntarīyāṇāṃ sadanityaṃ dravyavatkāryaṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣasāmānyamuktvā dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaramityevamādiḥ viśeṣo 'bhidhīyate ucyate- tadanupapattiḥ aviśeṣāt yathaivādhigatasārūpyasya laghīyasī vairūpyapratipattirevamadhigatavairūpyasya laghīyasī sārūpyapratipattiḥ kasmāt ? parasparāpekṣatvāt vairūpyāpekṣaṃ hi sārūpyaṃ, sārūpyāpekṣaṃ ca vairūpyamiti āha- evamapi vairūpyasya prāgabhidhāne prayojanavacanam dvayoraviśeṣe 'nyatarasya prāgabhidhāne niyamaheturvaktavya iti ucyate na, vairūpyasya prakaraṇānaṅgabhāvāt vicchinnaṃ hi vairūpyamatastatpūrvamabhidhāya prakaraṇāṅgaṃ sārūpyaṃ sukhamabhidhātumityevamarthamācāryeṇaivaṃ kriyate kathaṃ sārūpyasya prakaraṇāṅgatvamiti cet traiguṇyābhidhānadvāreṇa guṇalakṣaṇopadeśāt tatsiddhau cāvivekyādīnāṃ vyaktasiddheḥ, kāraṇaguṇātmakatvācca kāryasya pradhāne traiguṇyādipratipatteḥ, kāryakāraṇabhāvāsandehācca pradhānāstitvaprasiddhyapadeśāttatsiddhau ca bhogyasya bhoktrapekṣatvāt puruṣasiddheradhigatabhoktṛbhogyasya tatsaṃyogasya ca sukhapratipādyatvāttādarthyācca tattvabhūtabhāvasargāṇām tasmādyuktametatprakaraṇāṅgatvātsārūpyaṃ paścānnirdiśyate tadasambandhāditaratprāgiti āha- yadi tarhi bhavānprāgvairūpyābhidhānaṃ nyāyyaṃ manyate tadvaktavyaṃ kiṃ punaridaṃ vairūpyamiti ucyate- hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam isk_10 tatra hetuḥ kāraṇamityanarthāntaram tadasyāstīti hetumat nityaṃ dhruvam na nityamanityam vyāpnotīti vyāpi na vyāpyavyāpi asarvagatamityarthaḥ saha kriyayā sakriyam anekaṃ bhinnam āśritamādheyam liṅgaṃ tallakṣaṇopapannam avayūyanta ityavayavāḥ pṛthagupalabhyanta ityarthaḥ sahāvayavaiḥ sāvayavam paratantramanyādhīnam ete hetumadādayaḥ paratantrāntā nirapavādāḥ vyaktasyāsādhāraṇā pradhānapuruṣābhyāṃ dharmāḥ āha- hetumadityaviśeṣaḥ sarvatra sadbhāvāt vyaktāvyaktapuruṣāṇāṃ hi sarveṣāṃ heturastīti aviśeṣa evāyaṃ paṭhitavyaḥ ucyate na, kārakaparigrahāt yadyapi vyaktāvyaktapuruṣāṇāmaviśiṣṭaṃ hetumattvaṃ tathāpi viśiṣṭasya kārakasya hetoḥ parigrahaṃ kariṣyāmaḥ sa ca vyaktasyaiva nānyasyeti nāyamaviśeṣo bhaviṣyati āha- tadanupapattiḥ, viśeṣānupādānāt heturiti sāmānyaśabdo 'yam sāmānyaśabdāśca nārthaprakaraṇaśabdāntarābhisambandhamantareṇa viśeṣe 'vatiṣṭhanta iti viśeṣa upādeyaḥ syāt sa tu nopādīyate tasmātte aviśeṣā eveti ucyate na, sarvasambhavino 'bhidhānasya prakarṣārthatvāt iha yaḥ sarvasaṃbhavī dharma ekaviṣaya upādīyate tasmātprakarṣo vijñāyate tadyathā bhoktā māṇavaka ityukte sarveṣāṃ bhoktṛtvasya saṃbhavādevaṃ vijñāyate prakarṣeṇāyaṃ bhokteti, evamihāpi sarvasambhavītyāhācāryo vyaktaṃ hetumaditi tena vayamasmātprakarṣaṃ vijñāsyāmaḥ kaśca prakarṣaḥ ? kārakajñāpakayorubhayorapi sambhave kārakasyaiva grahaṇam anityaśabdasambandhādvā athavāyamācāryo hetumadityuktvānityamiti paṭhati śabdāntarābhisambandhāt yo 'nityasahacaro hetustasyeha grahaṇaṃ gamyate kaścānityasahacaro hetuḥ ? kārakaḥ āha evamapyanupapannametat kasmāt ? ubhayatra tatsaṃbhavāt utpādyavyaṅgyayorhi vināśaṃ paṭādiṣu dṛṣṭatvāt avyabhicārāttantrāntarīyā manyante tasya vā parihāro vaktavyaḥ na vā vaktavyo viśeṣe sthitirastīti ucyate na, ekāntavādaprasaṅgāt sarveṇa hi vādināvaśyaṃ kiṃcinnityamabhyupagantavyam antato vināśe 'pi na kaścidarthaḥ śabdabuddhibhyāṃ na vyajyate tathā satyekāntavādo 'yaṃ syāt sa ca yuktimadbhirneṣyate tathā ca saṃskṛtamapyevaṃ kalpyamāne vināśi syāt tasmādutpādyavyaṅgyayorvināśaṃ bruvato 'tisāhasam āha- anityatvānupapattiḥ satkāryavādābhyupagamāt yathaiva hi nāsata utpattirastyevaṃ sato 'pi vināśena na bhavitavyam atha sato 'pi vināśo 'bhyupagamyate tena pralayakāle vinaṣṭānāṃ tattvādīnāṃ praścādasatāmutpattiḥ satkāryavādaṃ nirākuryāt tasmādanityaṃ vyaktamityayuktam ucyate- na, vyaktyapagamapratijñānāt sadā vayaṃ sato 'vināśamācakṣāṇāḥ (na ?) satkāryavādaṃ pratyācakṣīmahi kāraṇānāṃ tu yaḥ parasparaṃ saṃsargāt saṃsthānaviśeṣaparigrahastasya virodhiśaktyantarāvirbhavādvyaktistirodhīyata ityetad vināśaśabdena vivakṣitam tathā ca vārṣagaṇāḥ paṭhanti- "tadetat trailokyaṃ vyakterapaiti, na sattvādapetamapyasti vināśapratiṣedhāt asaṃsargāccāsya saukṣmyaṃ saukṣmyāccānupalabdhistasmādvyaktyapagamo vināśaḥ sa tu dvividhaḥ- ā sargapralayāt tattvānāṃ kiñcitkālāntarāvasthānāditareṣām" iti āha- ayuktametat kasmāt ? vipratipatteḥ sarvameva kṣaṇikaṃ buddhibodhyamākāśanirodhavarjitamiti śākyaputrīyāḥ pratipannāḥ teṣāṃ pratiṣedho vaktavyo vā na vaktavyaṃ dvividhamanityamiti ucyate- na, hetvanupagamāt pratikṣaṇamucchidyate trailokyamityatra liṅgamabhiyuktā api nopalabhāmahe tasmāt naitadasmākaṃ buddhāvavatiṣṭhata iti āha- ante kṣayadarśanāt, iha yasyānte kṣayastasya kṣaṇikatvaṃ dṛṣṭam tadyathā, pradīpajvālābuddhiśabdānām asti cānte kṣayaḥ saṃskārāṇāṃ tasmāt kṣaṇikāḥ ucyante tadanupapattiḥ, sādhyatvāt iha tu siddhenātideśo bhavati tad yathā gavā gavayasya na tu pradīpajvālābuddhiśabdānāṃ kṣaṇikatvaṃ prasiddham ato na kiñcidetat āha- naitadaprasiddham kasmāt ? vṛddhyadarśanāt yadi hi avinaṣṭāyāṃ jvālāyāmindhanāntarāle jvālāntaramutpadyeta vṛddhirapi syāt, na tu dṛśyate tasmādanavasthitā pradīpajvālā kiñcāśrayābhāvāt yadāśrayā jvālotpattistadutpadyamānaivāsau niruṇaddhīti na yuktamasyā vināśrayeṇāvasthātum upayuktendhanāyā apyavasthānaprasaṅgāt kiñcāvaraṇoparipātena prabhābhedaprasaṅgāt jvālānāmavasthānamicchata upariṣṭādāvaraṇopanipātāt prabhāyāstantoriva dvaidhīkaraṇaṃ syāt aniṣṭañcaitat tasmānna dīpe jvālānāmavasthitirastīti etena śabdo 'pi pratyuktaḥ katham ? tasyāpi yadi vināśo na syāt, drutapavanāmbudhārābhighātāt pratikṣaṇamapūrvaśabdāvirbhāvāt pūrvaśabdavināśācca vṛddhiḥ syāt adṛṣṭā cāsau kiñca, pratyakṣata upalabdheḥ pāṇyupaghātajo hi śabda utpatterūrdhvaṃ na bhavatīti pratyakṣasiddham abhivyaktiriti cenna, niyamādarśanāt śabdānāṃ vācyavaktṛbhedabhinnānāṃ kāraṇaniyamo dṛṣṭaḥ na caitadasti samānendriyagrāhyāṇām kiñca- pṛthak śruteḥ abhivyaktikāraṇadeśācca pṛthak śrūyate śabdaḥ na caitadabhivyaṅgyānāṃ ghaṭādīnāṃ dṛṣṭamiti kṣaṇikabuddhestu prāgevoktā nāśahetavaḥ tatra yaduktaṃ sādhyatvāt pradīpajvālābuddhiśabdādīnāṃ kṣaṇikatvasya na saṃskārāḥ kṣaṇikā ityetadayuktam ucyate- yaduktaṃ vṛddhyadarśanāditi, atra brūmaḥ- ayuktametat kasmāt ? viśeṣapratipatteḥ kṣaṇikamityuktaparimāṇo 'yaṃ kālanirdeśa āśrīyate, vṛddhyabhāvādibhyaśca kadācidvināśamātraṃ pratīyate sa tu vināśa ekakṣaṇamavasthitānāṃ jvālānāṃ bhavati na punaḥ kṣaṇadvayamityetadapramāṇakamājñāmātrañca gṛhītaśikṣākaḥ kaḥ pratipattumutsaheta ? yattūktamāvaraṇopanipātāt prabhābhedaprasaṅga iti, etadapyayuktam kasmāt ? ubhayathānupapatteḥ kiṃ tāvadyasya dvaidhībhāvo dṛṣṭastadakṣaṇikamāhosvid yasya na dṛṣṭastat kṣaṇikamiti kiñcātaḥ ? tadyadi tāvadevamabhyupagamyate yasya dvaidhībhāvastadakṣaṇikamiti tantorakṣaṇikatvaprasaṅgaḥ atha mataṃ yasya dvaidhīkaraṇaṃ na dṛṣṭaṃ tat kṣaṇikamiti yathā kimatrodāharaṇam kutaḥ ? yasmāt na hyanudāhṛto vādaḥ etena śabdavṛddhiḥ pratyuktā yatpunaretaduktaṃ pāṇyupaghātajaśabdānavasthānāditi, tatra bhavataivoktaṃ vyaṅgyatvāditi yattūktaṃ niyamadarśanānna vyaṅgyaḥ śabda iti tadayuktam, anekāntāt yathā śuklakṛṣṇau niyamataḥ śuklakṛṣṇaśabdābhyāṃ pratyāyyete, na ca tau tayorna vyaṅgyau evaṃ śabdasyāpi vaktyavādiniyamaḥ syāt, na cāvyaṅgyaḥ syāt yadapyuktaṃ vyaṅgyavyañjakayordeśabhedānupapatterna vyaṅgyaḥ śabda iti, tadapyayuktam kasmāt ? cakṣurvat tatsiddheḥ tadyathā- cakṣuṣo rūpasya ca deśabhede 'pi vyaṅgyavyañjakabhāvaḥ, evaṃ śabdasyāpi syāt tasmānna śabdo 'pi kṣaṇikaḥ buddhestu svādhikāra eva kṣaṇikatve heturiti karaṇo (kāraṇam ?) vakṣyāmaḥ tatra yaduktamante kṣayadarśanāt pradīpajvālābuddhiśabdavat kṣaṇikāḥ saṃskārā ityetadayuktamiti āha- itastarhi pradīpādīnāmanyeṣāṃ ca bhāvānāṃ kṣaṇikatvam kutaḥ ? anavasthānahetvabhāvāt naṣṭaścedartho 'bhyupagamyate nanu prāptamidamutpannamātrasyāsya vināśavighno nāstīti kauṭasthyaṃ sarvabhāvānāṃ prāptamiti ucyate- na, kāraṇopapatteḥ adhikāro hi sarvabhūtānāṃ saṃskāravaśādutpattistadavasthānameva teṣāmalaṃ sthitaye sati vinaśvaratve saṃskāropayoge tu sthityapabhraṃśa ityato 'sti kiñcitkālamavasthānaṃ bhāvānām na ca kauṭasthyaprasaṅgaḥ kiñcānyat- santativināśaprasaṅgāt naṃṣṭuścedutpattisamanantaraṃ vināśa iṣyate, santatirapyante kṣayadarśanāt naṃṣṭrī tasyā api tathaiva vināśaḥ prāptaḥ tataśca taḍidvilasitavatkṣaṇadṛṣṭanaṣṭasya trailokyasyābhāve saṃsārocchedaprasaṅgaḥ tasmādayuktaṃ naṃṣṭurutpattisamakālameva vināśa iti kāraṇāvasthānāt na doṣa iti cet- syānmatam, asti kāraṇaṃ pūrvotpanno bhāva uttarasyotpattau sa cāpyuttarasya, ityevaṃ santateranucchedo virodhibhāvāntarasaṃsargāt tūbhayatastathotpatterbhraṃśa iti etadapyayuktam kasmāt ? pūrvahetutyāgāt prāguktaṃ yena naṃṣṭavyamasau mantrauṣadhaprayogairapi kṣaṇādūrddhvaṃ nāvatiṣṭhate sāmprataṃ tu naṃṣṭrī santatiḥ kāraṇavaśādeva tiṣṭhatīti so 'yaṃ pūrvahetutyāgaḥ vināśahetvabhāvāt kṣaṇikatvamiti cet, syādetat nāsti bhāvānāṃ vināśahetorupalambha iti ataḥ svābhāvikaḥ pradhvaṃsaḥ tasmādutpattisamakālamasau kena vāryate idamapyayuktam kasmāt ? anabhyupagamāt ko hyetadavamaṃsyati ahetuko vināśaḥ kiṃ tarhi prāgevoktamarthavaśādbhāvānāṃ sthitistadava....virodhidravyāntarasambandhenādhyātmikādinā bhavatīti vināśasya vināśaprasaṅgādayuktamiti cet, yadi tarhyabhāvo 'pi hetumān parikalpyate; prāptamasyāpi ghaṭavad vināśitvam aniṣṭaṃ caitat tasmādahetuko vināśa ityetadayuktam kasmāt ? vyaktyapagamapratijñānāt bhāvavināśinaṃ prati satyamevāyamupālambhaḥ syāt vyaktyapagamastu no vināśaḥ sa tu hetumattvena kathaṃ virotsyata iti tasmānna vināśahetvabhāvāt kṣaṇikaṃ saṃskṛtamiti itaśca na kṣaṇikam kasmāt ? agrahaṇaprasaṅgāt ihāsato 'grahaṇaṃ dṛṣṭam tadyathā dvitīyasya śirasaḥ kṣaṇādūrdhvaṃ ca te ghaṭādayo na bhavanti tasmātteṣāmapyagrahaṇaprasaṅgaḥ tatsadṛśotpatteradoṣa iti cet syādetat - utpattisamakālaṃ nirodhe 'pi ghaṭasyānyasya tādṛśasyotpattirbhavati, tannirodhe 'nyasyetyevamavicchedena grahaṇaṃ bhavati, jvālānadīsroto 'nusandhānavaditi etadapyayuktam kutaḥ ? kāraṇābhāvāt syādetadevaṃ yadi tadānīṃ sadṛśotpattau kāraṇaṃ syāt na tu tadasti, prāgeva nirodhāt tasmādasadetat pūrvotpannasya kāraṇabhāvāttatsiddhiriti cenna, upādānāt tanniṣpattiprasiddheḥ ihopādānānmṛtpiṇḍakasaṃjñakālloke ghaṭaniṣpattiḥ prasiddhā na ca tadānimasti mṛtpiṇḍaḥ kiñca kramanupalabdheḥ iha śibikādīnāmanukrameṇa ghaṭotpattirupalabhyate na cānukramo 'sti kiñca kārakasāmagryābhavāt iha kumbhakāradaṇḍacakrasūtropalasāmagryād ghaṭaniṣpattiḥ prasiddhā na cāstyeṣāṃ tatra sambhavaḥ kiñca tadutpādyāntarotpādyasyāniṣpatteḥ iha ghaṭād ghaṭe nirvṛttirna prasiddhā loke na cāprasiddho 'sti dṛṣṭāntaḥ buddhiśabdavaditi cet syādetat yathā buddhirbuddhyantaraṃ sadṛśaṃ sūte, śabdaśca śabdāntaramevaṃ ghaṭādghaṭaniṣpattirbhavati iti etadapyasat kasmāt ? siddhaṃ hi buddherbuddhyantaraṃ śabdācca śabdāntaraṃ jāyata ityetadapyasmākaṃ prasiddham tasmātpralāpamātrametat tatra yaduktaṃ sadṛśotpatteḥ so 'yamiti grahaṇamavicchinnaṃ kṣaṇikatve 'pi bhāvānāmityetadayuktam kiñcānyat kāryotpattikāle kāraṇanivṛtteḥ yadā na kāraṇamasti na tadā kāryamutpadyate dvayorghaṭayoryugapadupalabdhiprasaṅgāt yadā tu kāryamutpadyate tadā kāraṇaṃ niruddhamiti nirbījaḥ pradurbhāvaḥ prāpnoti aniṣṭaṃ caitat, satatotpattiprasaṃgāt anutpanne hetusāmarthyādadoṣa iti cet syāttadanutpanne kārye kāraṇena prayojanam utpanne tadvyāpārānarthakyāt asti cānutpanne kārye kāraṇam ato na nirbījaḥ prādurbhāva iti etadapyayuktam kasmāt ? abhāve 'pi tadutpattiprasaṅgāt aṃga tāvat aṇuśo vibhajyatāmagnau vā kṣipyantām, tantavastadāpi prasiddhavināśānāmabhūvanniti śakyamupadeṣṭuṃ, yadi tebhyaḥ paṭa utpadyate tasmādbhrāntiriyam yugapatkāryakāraṇayorutpattinirodhau tulānatonnatavaditi cet syādetadyathā nāmonnāmau tulāntaryā (?) yaugapadyena bhavata evamutpattivināśau kāryakāraṇayoriti tadapyayuktam kasmāt ? kāryakāraṇabhāvādarśanāt kimidamudake nimajjadbhiḥ phenamavalambyate ? tulyā tasya hyekasyāvanatiravasthā tad dvitīyasyonnataye heturbhavati, bhavataḥ kāraṇavināśaḥ kāryotpattiśca yaugapadyena bhavataḥ na ca tayorhetumadbhāvaḥ śakyaḥ kalpayitum tasmādayuktametat viśeṣagrahaṇāt kṣaṇikatvasiddhiriti cet syānmatam- yadyutpannamātroparatirnāsti bhāvānāṃ, kiṃkayutaḥ śarīrādīnāṃ prāṇāpānaśramarūpādikṛto 'bjāśmaprabhṛtīnāṃ ca śītoṣṇasparśakṛto bhedaḥ ? ghaṇṭādīnāṃ cāśabdakānāṃ paścācchabdavatāṃ grahaṇam, tasmādaniṣiddhaḥ kṣaṇabhaṅga ityetaccāyuktam kasmāt ? uktatvāt uktamatrottaraṃ kāraṇābhāve 'nutpattiprasaṅgāediti kiñca saṃsthānāntarānupaladheḥ na hyatra pūrvasaṃśānaviparītaṃ saṃsthānāntaraṃ gṛhṇīmahe tasmādaviśiṣṭāsta ityevamavagamyatām viśeṣagrahaṇantvavastvantarānugrahe śaktyantarāvirbhāvāt uuktaṃ ca- "vyakterapagamo 'bhīṣṭaḥ pūrvasaṃsthānahānitaḥ tadabhāvādasidho 'sya viśe.... here in the ms, a considerable portion is left blank and it is apparent that discussion on the karikas 11 and 12 has been left out kārikā 13 sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ guru varaṇakameva tamaḥ evaśabdaḥ pratyekaṃ pariśamāpyate sattvaṃ laghu prakāṣakameveṣṭam yat kiṃcitkāryakaraṇe laghu prakāśaṃ ca tatsattvarūpamiti pratyavagantavyam tatra kāryasya tāvadudgamaheturdharmo laghutvam, karaṇasya vṛttipaṭutvahetuḥ prakāśastu pṛthivīdharmasya cchāyālakṣaṇasya tamasastiraskāreṇa dravyāntaraprakāśanam karaṇasyāpi grahaṇaṃ saṅkalpābhimānādhyavasāyaviṣayeṣu yathāsvaṃ pravartamānam upaṣṭambhakaṃ calameva rajaḥ yaḥ kaścidupastambhaścalatā copalabhyate tadrajorūpamityavagantavyam tatropastambhaḥ prayatnaḥ, calatā kriyā sā ca dvividhā, pariṃṇāmalakṣaṇā praspandalakṣaṇā ca tatra pariṇāmalakṣaṇayā sahakāribhāvāntarānugṛhītasya dharmiṇaḥ pūrvadharmātpracyutiḥ praspandalakṣaṇā prāṇādayaḥ karmendriyavṛttayaśca vacanādyāḥ bāhyānāṃ dravyāṇāmutpatananipatanabhramaṇādīni guru varaṇakameva tamaḥ yatkiṃcid gauravaṃ varaṇaṃ copalabhyate tattamorūpamiti pratyavagantavyam tatra gurutvaṃ kāryasyādhogamanaheturdharmaḥ karaṇasya vṛttimandatā varaṇamapi kāryagataṃ ca dravyāntaratirodhānam karaṇagatā cāśuddhiḥ prakāśapratidvandvibhūtā ityeṣa sattvādīnāmavyatikareṇa svabhāvopalambho yata eṣāṃ nānātvamavasīyate yatpunaretaduktaṃ strīkṣatramegheṣu svabhāvavyatikaropalambhādeko guṇastrirūpaḥ, sarve vā sarvarūpā, rūpāntarasya vā sata utpattiriti atra brūmaḥ na, guṇabhūtasya bhaktita upakārātpradhānarūpopapatteḥ iha guṇabhūtasya bhaktitaḥ pradhānopakāritve sati bhaktitastadrūpopapattirdṛṣṭā tadyathā kṣīrādeḥ taddhi mukhādiṣu dṛṣṭapratilabdhapravṛttiḥ pittasya svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārāttiktaṃ saṃpadyate na ca tathā sadeva sattvamapi straiṇaguṇabhūtaṃ sapatnīrajasaḥ svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārādduḥkhaṃ saṃpadyate tamaso mohaḥ evaṃ kṣātraṃ rajaḥ āryadāralakṣaṇasya sattvasya dasyulakṣaṇasya ca tamasaḥ evaṃ medhyaṃ tamaḥ kārṣike sattvasya proṣitadayitāyāśca rajasaḥ tasmānnāsti guṇānāṃ svābhāvavyatikaraḥ kiṃ cānyat aguṇabhūtānāṃ svabhāvagrahaṇāt yadā caite 'ṅgabhāvamapagacchanto madhyasthāstulyasaṃskārāśca pratipadyante tadā svarūpeṇaiva tasmādasaṃkīrṇaṃ guṇarūpam āha- na, sandehāt ubhayathā hi rūpāntaragrahaṇaṃ kṣīrādiṣu dṛṣṭam tādrūpyāttaiśca vipariṇatānāṃ guṇabhāvācca yathoktaṃ tatra kathamidamekāntena niścīyante guṇabhāvātsattvādīnāṃ rūpāntaragrahaṇaṃ na punastādrūpyādeveti ? ucyate- grahaṇavikalpopalambhāt yadi straiṇaṃ sattvaṃ tādrūpyādeva sapatnyā tena gṛhyate tena bharturapi tathā grahaṇaprasaṃgo madhyasthānāṃ tulyasaṃskārāṇāṃ ca aniṣṭaṃ caitat tasmād bhākto 'yaṃ guṇavikalpopalambhaḥ kiṃ cānyat uttarakālaṃ svarūpagrahaṇānnivṛttānuśayābhiścaikārthatāmupagatābhiḥ sapatnībhiḥ svenaiva rūpeṇa straiṇasya sattvasya grahaṇamupalabhyate svagṛhasamavasthitaiścāryadāraiḥ kṣatriyāṇām niṣpannaśasyaiśca kṛṣīvalairmeghānām tasmādbhākto 'yaṃ grahaṇavikalpopalambhaḥ tasmādyuktametat anyo 'nyajananavṛttayo guṇāḥ, na ca saṃkīrṇasvabhāvā iti yatpunaretaduktam anyonyamithunatvānupapattiḥ, sattvasyetaravirodhāt, ityatra brūmaḥ - asti cāyaṃ virodho guṇānāṃ pradīpavaccārthato vṛttiḥ isk_13 kimutpadyata iti vākyaśeṣaḥ tadyathā vartijyotistailānāṃ parasparavirodhe 'pi pradīpakaraṇaikakāryasādhanabhāvopagatānāṃ vṛttaya ekatra saṃmūrchitāḥ sahabhāvaḥ prakṛṣṭamapi kālamanubhavanti evaṃ sattvarajastamasāṃ sati virodhe mahadādyekakāryasādhanabhāvopagatānāṃ vṛttaya ekatra mūrchitāḥ saha bhavantīti yuktyabhāvādasiddhiriti cet syānmatam - kā punaratra yuktiryena virodhināmekakāryatā bhavatīti ? ucyate- guṇapradhānabhāvāt guṇabhūto hi pratiyogī pradhānabhūtena tadupakarakatvānna virudhyata iti saṃsargeṇa varttitumutsahate tulyabalayostu dvayoḥ satyameva sahāvasthānasya nāsti sambandhaḥ tathā ca bhagavān vārṣagaṇyaḥ paṭhati rūpātiśayā vṛttyatiśayāśca virudhyante sāmānyāni tvatiśayaiḥ saha vartante tadyathā jalāgnī pacanīyasvedanīyeṣu kāryeṣu, chāyātapau ca sūkṣmarūprakāśane, śītoṣṇe ca prajāvasthitau evaṃ tatsiddhaḥ pradīpavatsattvarajastamasāṃ virodhe 'pi sahabhāvaḥ āha, yaduktaṃ laghvādibhāvasvabhāvabhedād guṇanānātvamityatra brūmaḥ bhinnā lakṣaṇabhedāścenmithaḥ sattvādayo guṇāḥ tarhi lakṣaṇayuktatvātṣaḍguṇāḥ prāpnuvanti te yadi laghvādilakṣaṇabhedātsattvādīnāṃ nānātvaṃ mitho 'bhyupagamyate tena laghutvaprakāśatvayorapi bhedo 'sti guṇadvayaprasaṃgaḥ evamupastambhacalatābhyāṃ gauravavaraṇābhyāṃ ca dvayaṃ dvayamiti ṣaḍguṇāḥ prāpnuvanti atha mataṃ laghutvaprakāśayorabheda iti pṛthaganabhidhānaṃ prāptam tadbhede vā grahaṇabhedamanicchataḥ prāpto laghutvādibhede 'pi guṇābhedastathā caiko guṇa iti prāptam yatpunaretaduktaṃ guṇabhūtasya bhaktita upakārātpradhānarūpāpattiriti, aṅgabhāvaṃ vrajatsattvaṃ duḥkhaṃ sampadyate yadi vairūpyasyopasaṃhārātpūrvadoṣānivartanam yadi hi rajaso 'ṅgabhāvamupagacchatsattvamupakārāttadrūpaṃ bhavati tena pratijñātasya rūpāntarasyopasaṃhārāttrairūpyaṃ guṇānāmekaikasya prāptam rūpāntarasya vā sata utpattiḥ tasmātpūrvadoṣāparihārātpratijñāmātramevāyaṃ samādhiḥ yadapyuktaṃ aguṇabhūtānāṃ svabhāvagrahaṇāditi aṅgabhāvānapekṣaṃ tu grahaṇaṃ nāstyṛṣerapi paramarṣerapi guṇānāṃ kāryameva pratyakṣaṃ na śaktimātreṇāvasthānamasaṃvedyatvāt tatra cāṅāṅgibhāvagamanamanivāryam tasmāddoṣamanicchatā guṇā parityājyāḥ nāsti vā sudūramapi gatvā tatsaṃkaradoṣaparihāraḥ ucyate- yattāvaduktaṃ lakṣaṇabhedād guṇanānātvavādino lakṣaṇadvayayogādekaikasya guṇaṣaṭtvaprasaṃga iti tanna kasmāt ? dvayorguṇapradhānabhāvānupapatteḥ ihārthāntarasyārthāntareṇa guṇapradhānabhāvo bhavati yathā strīkṣatramegheṣu vyākhyātam na ca laghutvaprakāśayorupastambhacalanayorgauravavaraṇayośca mithau guṇapradhānabhāvo 'sti, tadanarthāntaraṃ dharmāsta iti nāsti ṣaṭtvaprasaṃga iti kiṃ ca aprasiddhatvāt na hyetatkvacitprasiddham yathā yāvanto dharmāstāvanto dharmiṇa iti na cāprasiddhena vyavahāraḥ kiṃca pṛthaktvaikāntaprasaṅgāt lakṣaṇabhedānnānātvapratijñasya sarvārthānāṃ svasāmānyalakṣaṇayogātsvato 'rthāntaramiti pṛthaktvaikāntaprasaṃgaḥ athaitadaniṣṭaṃ na tarhi vaktavyaṃ lakṣaṇabhedād guṇānāṃ ṣaṭtvamiti yatpunaretaduktaṃ aṅgabhūtasya pradhānarūpāpatteḥ pūrvadoṣānivṛttiriti tadapyayuktam kasmāt ? bhaktyabhidhānāt asakṛdadhītamasmābhirbhākto 'yaṃ guṇānāṃ grahaṇavikalpa iti na ca bhaktiḥ paramārtha ityasthāne yatnaḥ yatpunaretaduktaṃ aguṇabhūtānāṃ sattvādīnāmṛṣerapyaviṣayatvamiti satyametat yattūktaṃ kāryasya viṣayabhūtatvādaṅgāṅgibhāvagamanaṃ guṇānāṃ sakalasatkāryamapekṣate tathā strīkṣatrameghāḥ prakṛtāsteṣvaṅgabhāvamagacchata iti vijñāyata iti sāmānyaśabdānāṃ hi prakaraṇādviśeṣe 'vasthānaṃ bhavati tadyathā bhojanakāle saindhavamānayetyukte lavaṇe saṃpratipattirnāśvādiṣu tasmātprakaraṇamanapekṣya mahati tantre doṣābhidhānaṃ bālavākyasthānīyam evaṃ guṇalakṣaṇopadeśātsiddhaṃ traiguṇyam

Section (cont. 12)

14

कारिका 14 आह- अविवेक्यादिरिदानीं गणः कथं प्रतिपत्तव्य इति ? उच्यते- अविवेक्यादिः सिद्धस्त्रैगुण्यात् यत्त्रिगुणं तदविवेकि विषयः सामान्यमचेतनं प्रसवधर्मीति (इस्क् 11) कथमवगम्यत इति चेत् तद्विपर्ययाभावात् यस्माद्गुणविपर्ययः क्षेत्रज्ञः तत्र विषयत्वमचेतनत्वं प्रसवधर्मित्वं च न भवतीति पुरस्तात्प्रतिपादयिष्यामः तस्मात्परिशेषतो व्यक्ते एतेषां धर्माणामविरोधः आह, तथा प्रधानमिति प्रागुक्तं (क- 11) भवता तदिदानीं कथं प्रतिपत्तव्यम् प्रधानमपि त्रिगुणादियुक्तमिति ? उच्यते कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् इस्क्_14 इह कारणगुणात्मकं कार्यं दृष्टं पटादि व्यक्ते च त्रैगुण्याद्युपलभ्यते तस्मात्कारणमप्यस्य तथाजातीयकमिति शक्यमनुमातुम् सिद्धान्तमात्रोपदर्शनमेतदाचार्यः करोति न्यायं तु यथोक्तेषु प्रदेशेषूपपादयिष्यामः

kārikā 14 āha- avivekyādiridānīṃ gaṇaḥ kathaṃ pratipattavya iti ? ucyate- avivekyādiḥ siddhastraiguṇyāt yattriguṇaṃ tadaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmīti (isk 11) kathamavagamyata iti cet tadviparyayābhāvāt yasmādguṇaviparyayaḥ kṣetrajñaḥ tatra viṣayatvamacetanatvaṃ prasavadharmitvaṃ ca na bhavatīti purastātpratipādayiṣyāmaḥ tasmātpariśeṣato vyakte eteṣāṃ dharmāṇāmavirodhaḥ āha, tathā pradhānamiti prāguktaṃ (ka- 11) bhavatā tadidānīṃ kathaṃ pratipattavyam pradhānamapi triguṇādiyuktamiti ? ucyate kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham isk_14 iha kāraṇaguṇātmakaṃ kāryaṃ dṛṣṭaṃ paṭādi vyakte ca traiguṇyādyupalabhyate tasmātkāraṇamapyasya tathājātīyakamiti śakyamanumātum siddhāntamātropadarśanametadācāryaḥ karoti nyāyaṃ tu yathokteṣu pradeśeṣūpapādayiṣyāmaḥ

Section (cont. 13)

15

कारिका 15 आह, कार्यधर्मस्य कारणोपलब्धौ हेतुमदादिप्रसंगः, अविशेषात् यदि कार्ये दृष्टस्य धर्मस्य कारणे सद्भावो ऽभ्युपगम्यते प्राप्तौ हेतुमदादीनामपि धर्माणां कार्यदृष्टत्वात्प्रधाने प्रसंगः अथ कार्योपलब्धौ तुल्यायां हेतुमदादयो नेष्यन्ते न तर्हीतरेषामपि कारणावस्थितिरस्तीति उच्यते न, स्वरूपविरोधित्वे तदपवादविज्ञानात् कारणगुणात्मकत्वात्कार्यस्येत्यनेन लिङ्गेन हेतुमदादयो ऽपि कारणे प्रसज्यन्ते तेषां तु कार्यकारणरूपविरोधित्वादपवादो विज्ञायते कथम् ? यदि तावद्धेतुमदादयो व्यक्ते दृष्टत्वात्प्रधाने व्यञ्जन्ते, कृतकत्वात्कार्यमेव तन्न कारणमिति प्राप्तम् अनित्यत्वाच्च स्वयमुच्छिद्यमानमननुग्राहकमव्यापित्वादिभिश्चानन्तविकारोत्पादनशक्तिहीनम् अहेतुमदादयः प्रधाने ऽभ्युपगमाद्व्यक्तेरपि प्राप्यन्ते तादृशाः कारणासम्भवात्कार्यमेव तन्न भवतीति प्राप्तम् अविवेक्यादयस्तूभयत्रापि भवन्तो नेतरेतरस्वरूपविरोधिनः तस्मात्कार्यकारणभावाभ्युपगमाद्धेतुमदाद्यपवादः, इतरेषां च कारणसद्भावः सिद्धः यदुक्तं कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धमिति तदयुक्तम् कस्मात् ? व्यक्ताव्यक्तयोः कार्यकारणभावाप्रसिद्धेः सिद्धे हि व्यक्ताव्यक्तयोः कारणत्वे एतदेवं स्यात् तत्त्वसिद्धम् तस्मादयुक्तमेतत् विशेषानभिधानादुभयसाम्यमिति चेत् स्यान्मतम्, यथा भवानाह व्यक्ताव्यक्तयोः कार्यकारणभावो ऽप्रसिद्धः, एवं वयं वक्ष्यामः- तयोः कार्यकारणभावाप्रसिद्धिरप्यसिद्धा न च क्वचिद्विशेषो ऽस्त्युभयसाम्यं भविष्यतीति तच्चायुक्तम् कस्मात् ? सद्भावासिद्धेः सत्यम्, अनभिधीयमाने विशेषे स्यादुभयसाम्यम् अव्यक्तस्य तु सद्भाव एवासिद्ध इत्ययं विशेषः तस्मादयुक्तमेतदपीति कार्यस्य कारणपूर्वकत्वाद्व्यक्तस्य च कार्यत्वादव्यक्तसद्भावे प्रतिपत्तिरिति चेत् स्यादेतत् कार्यं कारणपूर्वकं दृष्टम् घटादिकार्यं चेदव्यक्तं प्रमितत्वात्तस्मादिदमपि कारणपूर्वकं भवितुमर्हति यच्च तस्य कारणं तदव्यक्तमिति तच्चानुपपन्नम् कस्मात् ? अनेकान्तात् इहाकस्मिकी च कार्यस्योत्पत्तिर्दृष्टा तद्यथेन्द्रधनुषः असतश्च भ्रान्तिमात्रात् तद्यथा मायास्वप्नेन्द्रजालमृगतृष्णिकालातचक्रगन्धर्वनगराणाम् सतश्च कारणात् तद्यथा मृदादिभ्यो घटादीनाम् कार्यं चेदव्यक्तमतः संशयः किमिन्द्रधनुर्वदकस्मादस्य प्रादुर्भावो ऽथ मायादिवदसतो ऽथ कारणात्सतो घटवदिति ? उच्यते- नाकस्मिकमसत्पूर्वं व्यक्तम् कस्मात् ? भेदानां परिमाणात् यत्परिमितं तस्य सत उत्पत्तिर्दृष्टा तद्यथा मूलाङ्कुरपर्णनालदण्डवुसतुषशूकपुष्पक्षीरतण्डुलकणानाम् परिमिता महदहंकारेन्द्रियतन्मात्रमहाभूतलक्षणभेदाः तस्मात्सत्कारणपूर्वकाः यदेषां कारणं तदव्यक्तम् इति युक्तिदीपिकायां सांख्यसप्ततिपद्धतौ तृतीयमाह्निकं प्रथमं च प्रकरणं समाप्तम् आह- कस्मादस्त्यव्यक्तम् ? असद्भेदानामपि परिमाणदर्शनात् अनेकान्त इति चेत् स्यान्मतम्, अस्ति हि मायास्वप्नेन्द्रजालानुविधायिनामपि भेदानां परिमाणमिति तस्मादनैकान्तिको हेतुरिति तच्च नैवम् कस्मात् ? न हि तेषां नियमो ऽस्ति, एतावद्भिरेवोत्पत्तव्यं नान्यैरिति महदादयस्तु प्रलयकाले तिरोभूतास्तावन्त एवोत्पद्यन्ते आह, परिमाणानवस्थानं कालद्वयानुपलब्धेः सत्यं, साम्प्रते काले महदादयो युक्तपरिमाणाः प्रत्यक्षानुमानोपलब्धेः अतीतानागतयोस्तु कालयोर्नास्ति प्रसिद्धिः तस्मादयुक्तमेतत् उच्यते न, विपर्यये प्रमाणानुपलब्धेः इदानीमेतावन्तो भेदा इत्येतच्छक्यमनुमातुम् अतीतानागतयोस्तु कालयोर्नास्ति प्रसिद्धिः तस्मान्न भेदानवस्थाप्रसंगः आह, भेदाभेदानवस्थानात् महदादीनां ये भेदा देवमनुष्यतिर्यञ्चो घटादयश्च तेषामशक्यं परिमाणं परिच्छेत्तुम् सामान्ये ऽन्तर्भावादयुक्तमिति चेत् स्यान्मतम्, अस्ति शरीराणां महाभूतसामान्यं घटादीनां च पृथिवीसामान्यं, तत्परिमाणादेते ऽपि परिमिता इति तदयुक्तम् कस्मात् ? अभावात् नहि वः सामान्यं द्रव्यादर्थान्तरभूतमस्ति सारूप्यमात्रे सामान्यपरिकल्पनात् उच्यते न, तत्त्वान्तरानुपपत्तेः तत्त्वभेदेन परिमिता भेदा इत्येतद्विवक्षितं यथोक्तमस्माभिरुक्तं च यद्यस्ति तत्त्वान्तरमुच्यताम् यत्पुनरेतदुक्तं सामान्यस्यार्थान्तरभूतस्य भवत्पक्षे ऽनुपपत्तिरिति सत्यमेतत् तथाविधेनापि तु तेन संव्यवहारो न प्रतिषिध्यते इति वक्ष्यामः तस्मात्सिद्धं भेदानां परिमाणादस्त्यव्यक्तम् किं चान्यत् समन्वयात् इह येन भेदानां समनुपगतिस्तस्य सत्त्वं दृष्टम् तद्यथा मृदा घटादीनाम् अस्ति चेयं सुखदुःखमोहैः शब्दादीनां समनुगतिः तस्मात्ते ऽपि सन्ति ये च सुखादयो ऽस्तमितविशेषास्तदव्यक्तम् तस्मादस्त्यव्यक्तम् आह, नासिद्धत्वात् सुखादिभिः शब्दादयो ऽनुगम्यन्त इत्येतदप्रसिद्धम् केन कारणेन प्रतिपत्तव्यमिति ? उच्यते- तद्बुद्धिनिमित्तत्वात् इह शब्दस्पर्शरूपरसगन्धानां सन्निधाने स्वसंस्कारविशेषयोगात्सुखदुःखमोहाकाराः प्राणिनां बुद्धय उत्पद्यन्ते यच्च यादृशीं बुद्धिमुत्पादयति तत्तेनान्वितम् तद्यथा चन्दनादिभिः शकलादयः तस्मान्नासिद्धिः समन्वयस्येति आह, असिद्ध एवायं समन्वयः कस्मात् ? विलक्षणकार्योत्पत्तिदर्शनात् न ह्ययं नियमः कारणसदृशमेव कार्यमुत्पद्यते किं तर्हि विलक्षणं अग्निधूमशब्दादि कथम् ? न ह्यग्निस्तृणादिस्वभावको ऽग्निस्वभावको वा धूमः न च भेरीदण्डादिस्वभावः शब्दः तस्मात्सुखाद्यनुगताः शब्दादय इतीच्छामात्रम् उच्यते न, विशेषितत्वात् सुखादिस्वरूपाः शब्दादयः, तत्सन्निधाने सुखाद्याकारप्रत्ययोत्पत्तिरित्येतदादित एवास्माभिर्विशेषितम् तस्मान्न भिन्नजातीयास्त इति यत्तु खल्विदमुच्यते ऽग्न्यादीनां विलक्षणानामुत्पत्तिदर्शनात्प्रधानभेदानामतज्जातीयप्रसंग इति तदयुक्तम् कस्मात् ? अभिप्रायानवबोधात् नैव ब्रूमो यो यस्य विकारः स तज्जातीयक इति किं तर्हि यो यज्जातीयकः स तस्य विकार इति तस्मादयुक्तमेतत् किंचान्यत् उदाहरणाप्रसिद्धेः न चैतदुदाहरणं प्रसिद्धं अग्न्यादयः स्वकारणजातिं नानुविदधतीत कस्मात् ? बलवीर्यानुविधानात् तद्यथा अग्नेर्धूमस्य च त्वक्चन्दननलिकादिस्निग्धतानुवृत्तेस्तैक्ष्ण्याद्यनुवृत्तेश्च भेरीविकारः शब्दो न तु यथा भेरीरूपमवस्थितम् प्रदीपेनेव तु दण्डाभिघातेन व्यज्यत इति साध्यमेतत् न चैकैको रूपादीनां द्रव्याकारः समुदायधर्मत्वात् तस्मान्न भेरीविकारः शब्दः तत्र यदुक्तं विलक्षणकार्योत्पत्तिदर्शनादसिद्धो ऽन्वय इत्येतदयुक्तम् तस्माद्युक्तमेतत् समन्वयादस्त्यव्यक्तमिति किं चान्यत् शक्तितः प्रवृत्तेश्च इह यावती काचिल्लोके प्रवृत्तिरुपलभ्यते सा सर्वा शक्तितः तद्यथा कुम्भकारस्य दण्डादिसाधनविन्यासलक्षणायाश्च शक्तेः सन्निधानाद् घटकरणे प्रवृत्तिरस्ति व्यक्तस्य चेयं कार्यत्वात्तद्भावे प्रवृत्तिरिति अतस्तस्यापि शक्त्या भवितव्यम् यासौ शक्तिस्तदव्यक्तम् तस्मादस्त्यव्यक्तमिति आह, प्राक्प्रवृत्तेः शक्त्यभावः, प्रवृत्त्यनुपलब्धेः यदि शक्तिपूर्विका प्रवृत्तिरिति मन्यध्वं तेन यावत्प्रवृत्तिर्नोपलभ्यते तावच्छक्तिर्नास्तीत्येतदापन्नम् कस्मात् ? सत्यां शक्त्यां कार्याभावे स्वरूपाभावप्रसंगात् यदि खल्वपि विद्यमाना शक्तिः केनचित्प्रबन्धेन कार्यं नोत्पादयेच्छक्तितरशक्तेत्येतदापन्नम् तस्मात्सहकारिभावान्तरसन्निधानात्प्रव्रुत्तिसमकलामेवार्थानां शक्तय उत्पद्यन्ते ताश्च तावदेव प्रध्वंसन्ते तत्र यदुक्तं प्राक्प्रवृत्तेः शक्तिदर्शनाद्व्यक्तस्यापि निष्पादिका शक्तिरस्तीत्येतदयुक्तम् किं चान्यत् भेदाभेदकल्पनानुपपत्तेः इह प्रधानमेव वा शक्तिः स्यात् प्रधानाद्वा भिन्ना ? किं चातः ? तद्यदि तावत्प्रधानमेव शक्तिस्तेन कार्ये भेदाच्छक्तिभेदो ऽवसीयत इति शक्तिभेदात्प्रधाननानात्वप्रसंगः प्रधानैकत्वाद्वा तदव्यतिरिक्तानां शक्तीनामेकत्वप्रसंगः ततश्च कार्यनानात्वाभावः अथ मा भूदयं दोष इति प्रधानादर्थान्तरभावः शक्तीनामभ्युपगम्यते तेन भिन्नानां शक्तीनां प्रवृत्तितः सिद्धौ प्रधानसिद्धिर्नास्तीत्येतदापन्नम् किं चान्यत् स्वरूपाभिधानं च प्रधानस्य शक्तिमात्रादप्यर्थान्तरत्वमभ्युपगम्य रूपमीदृक्प्रधानं स्वावस्थायामिति, तच्चाशक्यमभिधातुम् तस्माद् भेदाभेदकल्पनानुपपत्तेरकल्पनीया शक्तिरिति उच्यते- यदुक्तं प्राक्प्रवृत्तेः शक्त्यभावः प्रवृत्त्यनुपलब्धेरिति, अत्र ब्रूमः नाप्रसिद्धत्वात् कारणं शक्तिः कार्यं प्रवृत्तिः न च कार्यानुपलब्धौ कार्याभाव इत्येतल्लोके प्रसिद्धम् यत्पुनरुक्तं कार्यनिष्पत्तौ शक्तेः स्वरूपहानमिति अत्र ब्रूमः न, प्रदीपदृष्टान्तात् यद्यथा प्रदीपस्य घटादिप्रकाशनशक्तिरस्ति अथ च कुड्याद्यावरणसामर्थ्यान्न घटादीन्प्रकाशयितुं शक्नोति न च शक्यते वक्तुं प्रदीपस्य प्रकाशनशक्तिरशक्तेति एवमन्येषामपि भावानां प्राक्प्ररुत्तेरपि शक्तिः स्यात् न चाप्रवृत्तिदर्शनादस्याः स्वरूपहानं स्यात् यत्तूक्तं सहकारिभावान्तरसन्निधानात्प्रवृत्तिसमकालमेवार्थानां शक्तिप्रादुर्भाव इति अत्र ब्रूमः- तदप्रसिद्धिः शक्त्यपेक्षत्वात् इह सर्वः कर्ता स्वगतां शक्तिमपेक्ष्य तद्योग्यतया सहकारिभावान्तरमुपादत्ते, सा चेत्प्राक्प्रवृत्तेर्न स्यात्साधनानां विषयस्वभावानवधारणादनुपादानप्रसंगः अनिष्टं चैतत् तस्मात्प्राक्प्रवृत्तेः शक्तिः यत्पुनरेतदुक्तं तावदेव प्रध्वंसं इति अत्र ब्रूमः न, कार्यनिष्ठादर्शनात् यदि प्रवृत्तिसमकालमेव प्रध्वंसः इति अत्र ब्रूमः न, कार्यनिष्ठादर्शनत् यदि प्रवृत्तिसमकालमेव प्रध्वंसः स्यात्कार्यनिष्ठैव न स्यात् तन्निमित्तत्वात्कार्यस्य अस्ति त्वसौ तस्मान्न प्रवृत्तिसमकालमेव शतिप्रध्वंसः सदृशसन्धानोत्पत्या कार्यनिष्ठेति चेन्न विनाशसमकालोत्पत्त्यसम्भवात् अथापि स्यादेकस्यां शक्तौ क्षणसाध्यमंशमवसाय विनष्टायामन्यत्तत्सदृशं शक्त्यन्तरमुत्पद्यते, तस्मिन्विनष्टे ऽन्यदिति एवं शक्तिसन्तानात्कार्यनिष्ठा भवतीति एतदप्ययुक्तम् कस्मात् ? विनाशकालोत्पत्त्यसम्भवात् को ह्यत्र हेतुर्येन विनाशसमकालमन्यच्छक्तिरूपं कार्यमवसीययति न पुनः प्राक्तनमेवावस्थितमिति ? किं चान्यत् कौटस्थ्यदोषपरिहारात् क्षणोत्तरकालावस्थाने च भावानां यो दोष उपात्तः कौटस्थ्यप्रसंग इति तस्य परिहार उक्तः तस्मान्नास्ति शक्तीनां प्रवृत्तिकाले विनाशः प्रवृत्त्युत्तरकालमपि नास्ति कस्मात् ? पुनः प्रवृत्तिदर्शनात् शक्त्यन्तरोत्पत्तौ प्रवृत्युत्तरकालमपि इति चेत् न, हेत्वभावात् को ह्यत्र निर्बन्धः तस्यां विनष्टायामन्या प्रवृत्त्यन्तरहेतुर्भवति नैव पुनः सैवेति ? कृतार्थत्वादि चेत् न अनभ्युपगमात् न ह्येकघटार्था शक्तिरभ्युपगम्यते तत्र येनैव हेतुना एकं घटमवसाय न विनश्यति तेनैव यावन्ति कर्तव्यानीति तस्मात्त्रिषु कालेषु शक्तयो ऽवतिष्ठन्ते यत्पुनरेतदुक्तं भेदाभेदकल्पनानुपपत्तिरिति, अत्र ब्रूमः- अस्तु प्रधानादभिन्ना शक्तिः न तस्य नानात्वं शक्त्येकत्वं वा प्रसज्यते कस्मात् ? संख्याव्यवहारस्य बुद्ध्यपेक्षत्वाद्बुद्धिनिमित्तस्य चासत्कारेण प्रधानशक्तिस्वभावात्, इहायं संख्याव्यवहारो बुद्ध्यपेक्षः कथम् ? यदभिन्नां बुद्धिमुत्पादयति तदेकं, प्रधानावस्थायां च शक्तयो ऽस्तमितविशेषत्वादभिन्नां बुद्धिमुत्पादयन्ति तस्मादेकं तत्प्रवृत्तिकाले विशेषावग्रहणे भेदं प्रतिपद्यते, देवशक्तिर्मनुष्यशक्तिरित्यादि तस्मान्नासामेकत्वमतो न भेदाभेदकल्पनानुपपत्तिरिति व्यक्ते दर्शनाच्छक्तीनामव्यक्ते प्रतिपत्तिरिति चेत् स्यादेतत् व्यक्ते शक्तिप्रवृत्ती दृष्टे न चाव्यक्ते क्वचिदन्यतो व्यक्तमेवैतस्माद्धेतोः सिद्ध्यति नाव्यक्तमित्येतच्चायुक्तम् कस्मात् ? सामान्यतोदृष्टान्तात्सिद्धेः यथैव हि देवदत्ताधारया क्रियया तस्य देशान्तरप्राप्तिमुपलभ्यात्यन्तादृष्टं ज्योतिषां देशान्तरप्राप्तेर्गमनमनुमीयते एवं प्रवृत्तेः शक्तिनियमितत्वाद्व्यक्तस्य च प्रवृत्तिभूतत्वादवश्यमत्यन्तादृष्टा शक्तिरभ्युपगन्तव्येति सिद्धं शक्तितः प्रवृत्तेरस्त्यव्यक्तम् किं चान्यत् कारणकार्यविभागात् कारणं च कार्यं च कारणकार्ये तयोर्विभागः कार्यकारणविभागः इदं कारणमिदं कार्यमिति बुद्ध्या द्विधावस्थापनं विभागो यः स कारणकार्यविभागः तदवस्थितभावपूर्वकं दृष्टम् तद्यथा शयनासनरथचरणादिः अस्ति चायं व्यक्तस्य कारणकार्यविभागस्तस्मादिदमप्यवस्थितभापूर्वकं, यो ऽसाववस्थितो भावस्तदव्यक्तम् आह, तदनुपलब्धेरयुक्तम् न हि शयनादीनां कारणकार्यविभागः कश्चिदुपलभ्यते तस्मादयुक्तमेतत् उच्यते न कार्यकारणयोरुपकारकोपकार्यपर्यायत्वात्कारणं कार्यमिति निर्वत्यनिर्वर्तकभावो ऽभिप्रेतः किं तर्ह्युपकारकोपकार्यभावः स चास्ति शयनादीनां व्यक्तस्य च अतो न प्रमादाभिधाननेतत् आह, कः पुनर्व्यक्तस्य परस्यपरस्य कार्यकारणभाव इति ? उच्यते गुणानां तावत्सत्त्वरजस्तमसां प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैरितरेतरोपकारेण यथा प्रवृत्तिर्भवति, तथ प्रीत्यप्रीतिविषादात्मका इत्येतस्मिन्सूत्रे (इस्क् 12) व्याख्यातम् तथा शब्दादीनां पृथिव्यादिषु परस्परार्थमेकाधारत्वम् श्रोत्रादीनामितरेतरार्जनरक्षणसंस्काराः करणस्य कार्यात्स्थानसाधनप्रख्यापनादिकार्यस्य करणाद्वृत्तिक्षतभंगसंरोहणसंशोषणपरिपालनानि पृथिव्यादीनां वृत्तिसंग्रहणपन्थिव्यूहावकाशदानैर्गवादिभावो दैवमानुषतिरश्चां यथर्तुविधानेज्यापोषणाभ्यवहारसंव्यवहारैरितरेतराध्ययनं वर्णानां स्वधर्मप्रवृत्तिविषयभावः अन्यश्च लोकाद्यथासंभवं द्रष्टव्यः आह, तदनुपपत्तिः क्रमयौगपद्यासम्भवात् यो ऽयं गुणानां प्रकाशप्रवृत्तिनियमैरितरेतरोपकारो ऽभ्युपगम्यते स खलु क्रमेण वा स्यात् युगपद्वा ? किं चातः ? तन्न तावत्क्रमेण संभवति कस्मात् ? एकस्य निरपेक्षस्य प्रवृत्तावितरयोरपि तत्प्रसंगात् यदि तावत्सत्त्वं पूर्वं गुणान्तरनिरपेक्षं स्वशक्तित एव प्रकाशते तयोरुपकारकमित्याश्रीयते तेन यथा सत्त्वमेवमितरावप्युपकारनिरपेक्षौ स्वकार्यं करिष्यत इत्युपकारानर्थक्यम् अथ मा भूदयं दोष इत्यतो यौगपद्यमाश्रीयते तदप्यनुपपन्नम् कस्मात् ? सहभूतानामनुपकारकत्वाद्, गोविषाणवत् किं चान्यत् सदसद्विकल्पानुपपत्तेः इह सत्त्वं प्रकाशमानं रजस्तमसोर्विद्यमानं वा प्रकाशमाविष्कुर्यात् अविद्यमानं वा ? किं चातः ? तद्यदि तावद्विद्यमानमभिव्यनक्ति तेन सर्वेषामेकस्वाभाव्याद्गुणत्वप्रसंगः किंच सत्त्ववच्चेतरयोः स्वातंत्र्यप्रसंगः यथा सत्त्वस्य प्रकाशक्तिरस्तीत्यतस्तद् गुणान्तरनिरपेक्षं प्रकाशते तद्वदितरावपीत्यदोषः अथ वाविद्यमाना प्रकाशशक्तिः सत्त्वस्म्बन्धाद्रजस्तमसोरुपजायते तेन यदुक्तं प्राक्प्रवृत्तेरेव तिष्ठन्ते शक्तय इति तद् हीनम् ततश्च सत्कार्यवादव्याघातः किं चायमनेकान्तात् न ह्ययमेकान्तः परस्परोपकारिणामवस्थितभावपूर्वकत्वमिति तथा हि सत्त्वादयः परस्परोपकारिणो न चावस्थितभावपूर्वकाः तेन यदुक्तं कारणकार्यविभागाद्भेदानामव्यक्तमस्ति एतदयुक्तम् उच्यते- यदुक्तमुपकाराभावः, क्रमयौगपद्यासम्भवादिति, अस्तु युगपदुपकारः यत्तूक्तम् सहभूतानामनुपकारकत्वं गोविषाणादिवदिति, अत्र ब्रूमः न, अन्यथानुपपत्तेः न हि गोविषाणयोः सहभूतत्वादौकारानुपपत्तिः किं तर्हि एककार्याभावात् येषां तु कार्यमेकं सहभावे तु तेषामुपकारो न प्रतिषिध्यते तद्यथा पृथिव्यादीनां धृतिसंग्रहशक्तिव्यूहावकाशदानैः शरीरस्थितयोरक्रमभाविनोरपि खुरविषाणयोर्नास्ति परस्परोपकारः तस्मान्न सहभावासहभावावुपकारानुपकारहेतू किं च दृष्टत्वात् दृष्टः खलु वेगेनोर्ध्वगमने वायोररघट्टादीनां युगपदुपकारः न कश्चिद्दोषः तथा गुणानामपि स्यात् संयोगनिमित्त इति चेत् साध्यं किमर्थान्तरभूतमुत प्राप्तिमात्रं संयोग इति यत्पुनरेतदुक्तं सदसद्विकल्पानुपपत्तेरिति अत्र ब्रूमः अयुक्तमेतत् कस्मात् ? पङ्ग्वन्धवत्तदुपकारे दोषानुपपत्तेः तद्यथा पङ्ग्वन्धयोरितरेतरसम्बन्धान्न विद्यमानयोर्दृग्गतिशक्त्योरन्योन्यात्मनि व्यक्तिः न चाविद्यमानयोरथ चैककार्यसिद्धिर्यथा च पृथिव्यादीनां परस्परोपकारित्वं शक्तयोरभिव्यज्यते न परशक्त्या एवं गुणानामपीति यत्पुनरेतदुक्तमनेकान्तादिति तदयुक्तम् कस्मात् ? शास्त्रानवबोधात् इहास्माकं कार्यकारणयोरर्थानभ्युपगमाद्गुणानामवस्थान्तरमेवावस्थान्तरानपेक्षं कार्यकारणशब्दवाच्यतां लभते तत्र ये तावत्प्रधानावस्थानुभाविनो गुणास्तेषां शक्तिमात्ररूपत्वादनिर्देश्यप्रकाशादिस्वभावानां नास्ति तन्निबन्धन उपकारः यदा वैषम्यमापद्यन्ते तदानिवारितप्रकाशादिरूपास्तन्निमित्तमुपकारं प्रतिपद्यन्ते तस्माद्व्यक्तानामुपकाराभ्युपगमादवस्थितभावपूर्वकत्वं न विरुध्यत इति शास्त्रमनवगम्यैवमुच्यते ऽनैकान्तिको ऽयं हेतुः प्रधानावस्थायामुपकारानभ्युपगमादुत्तरकालमपि तत्प्रसंग इति चेत् स्यान्मतम्, यदि गुणानामाद्ये प्रकोपे स्वसामर्थ्यादेव पूर्वस्मात्प्रच्युतिस्तेनोत्तरकालमपि तद्वदेव भविष्यति अथ प्रधानावस्थायामपि चोपकारो न तर्हि नानैकान्तिको हेतुरिति तच्च नैवम् कस्मात् ? अग्निवत्स्वशक्तिनिमित्तत्वात् तद्यथा सूक्ष्मो ऽग्निः सूक्ष्मं प्रकाशं स्वयमेव करोति, घटादिप्रकाशने तु तैलवर्त्त्याद्यपेक्षते तद्वद्गुणानामाद्यः प्रकोपः स्वशक्तितः महदाद्यपेक्षस्तूपकारतः तस्माद्युक्तमेतत् कारणकार्यविभागादस्त्यव्यक्तमिति किं चान्यत् अविभागाद्वैश्वरूप्यस्य इस्क्_15 इह यद्विश्वरूपं तस्याविभागो दृष्टः तद्यथा सलिलादीनाम् जलभूमी विश्वरूपाश्च महदादयः तस्मादेषामप्यविभागेन भवितव्यम् यो ऽसावविभागस्तदव्यक्तम् तस्मादस्त्यव्यक्तम् आह, किं पुनस्तद्वैश्वरूप्यं, को वा विश्वरूप इति ? उच्यते- वैश्वरूप्यमिति विशिष्टमवस्थानमाचक्ष्महे, अस्तमितविशेषत्वमविभाग इति विशेषस्य सामान्यपूर्वकत्वादिति यो ऽर्थस्तदुक्तं भवति अविभागाद्वैश्वरूप्यस्येति एवमेतैः पञ्चभिर्वीतैर्व्यक्तस्य कारणमस्त्यव्यक्तमिति सिद्धम् आह- विप्रतिषेधप्रसंगः कारणान्तरप्रतिषेधावचनात् यथा भवानाह- प्रधानं जगदुत्पत्तिसमर्थं कारणमस्ति एवं तन्त्रान्तरीयाः परमाणुपुरुषेश्वरकर्मदैवस्वभावकालयदृच्छाभावान्कारणत्वेनाभिदधति, तेषां च प्रतिषेधो नोच्यत इति अतो विप्रतिषेधः प्राप्नोति किं प्रधानमेव कारणं आहोस्विदेतान्येव वोभयमिति ? अन्वयदर्शनात्तदनुपपत्तिरिति चेत् स्यान्मतम् प्रधानान्वय एव पृथिव्यादिषु सुखादिलक्षण उपलभ्यते यच्च येनान्वितं तस्यासौ विकार इति युक्तमेतत्प्रागपदिष्टम् तस्मात्प्रधानविकार एव व्यक्तमिति तच्चानुपपन्नम् कस्मात् ? अनेकान्वयसंभवात् परमाण्वन्वयो ऽपि हि व्यक्त उपलभ्यते रूपादिसत्त्वात् पुरुषान्वयः करणस्य संवेदकत्वात् ईश्वरान्वयः शक्तिविशेषयुक्तानामुपलब्धेः कर्मदैवान्वयः जगद्वैचित्र्योपलम्भात् स्वभावान्वयो द्रव्यान्तरसंसर्गे ऽपि भावानां तस्मादप्रच्युतेः कालान्वयः युगाद्यनुविधानात् यदृच्छान्वयो नियमाभावात् अभावान्वयो गवादीनां परस्परात्मस्वदर्शनादितरेतराणि प्रयुक्तानि कारणान्तरपूर्वकत्वे ऽपि खलु व्यक्तस्य शक्त्याः परिमाणादयः पूर्वमेव कल्पयितुम् तस्मादयुक्तमन्वयादिभ्यः कारणमस्त्यव्यक्तमिति उच्यते- यत्तावदुक्तं परमाणूनामप्रतिषेधात् विप्रतिषेधप्रसंग इति, अत्र ब्रूमः- तदनुपपत्तिरस्तित्वानभ्युपगमात् अस्तित्वे हि परमाणूनामभ्युपगम्यमाने सति सत्यमेवं स्यादियमाशंका, किं परमाणुपूर्वकमिदं विश्वमथ प्रधानपूर्वकमिति ? न तु तेषां सद्भावो निश्चितः तस्मादयुक्तमेतत् यत्तु खल्विदमुच्यते पृथिव्यादिषु रूपाद्युपलम्भादन्वयदर्शनादणूनां सद्भावः प्रधानवदेव कल्पयितव्य इत्येतदपि चानुपपन्नम् कस्मात् ? अन्यथापि तदुपपत्तेः तन्मात्रपूर्वकत्वे ऽपि हि पृथिव्यादीनां कल्प्यमाने रूपादिसत्त्वादतो न युक्तमेतत् सुखादीनामात्मगुणत्वेनाभ्युपगमात्प्रधाने ऽपि तत्प्रसंग इति चेत्, अथापि स्याद्यथा तन्मात्राणां रूपादिमत्त्वं कल्प्यते तत्पूर्वकत्वं च पृथिव्यादीनां दृश्यमपि तेषु रूपादिसत्त्वलिङ्गेन परमाणुभ्यो निष्कृष्यते, एवमस्माभिः सुखादीनामात्मगुणत्वाभ्युपगमात्तद्बुद्धिनिमित्तत्वे पृथिव्यादीनां प्रधानपूर्वत्वाक्षेपः करिष्यत इति एतच्चानुपपन्नम् कस्मात् ? आत्मगुणत्वतिषेधात् तस्माच्च विपर्यासादित्यत्र (इस्क् 19) सुखादीनामात्मगुणत्वप्रतिषेधं करिष्यामः तस्मादसम्यगेतत् आह, यदि पुनस्तन्मात्राणामेव परमाणुत्वमभ्युपगम्यते क एवं सति दोषः स्यात् ? उच्यते- न शक्यमेवं भवितुम् किं कारणम् ? वृद्धिमत्यस्तन्मात्रलक्षणाः प्रकृतयो ऽस्माभिरभ्युपगम्यन्ते कस्मात् ? स्वकार्याद्धि प्रथीयसी प्रकृतिर्भवतीति च नः समयः महान्ति च पृथिव्यादीनि महाभूतानि तस्मात्तेषां तदतिरिक्ततया पृथिव्या भवितव्यम् परिच्छिन्नदेशाश्च परमाणवः तस्मान्न तन्मात्राभ्युपगमात्तेषामभ्युपगमः उपेत्य वा तदसम्भवः कृतकत्वात् अस्तु वा परमाणूनां सद्भावस्तथापि तेभ्यो जगदुत्पत्तेरसम्भवं ब्रूमः किं कारणम् ? कृतकत्वात् अकृतकेन हि जगत्कारणेन युक्तं भवितुं, कृतकाश्च परमाणवः तस्मात्सत्यपि सद्भावे न तेषां जगत्कारणमिष्यते इति ? उच्यते- तस्यैव कारणत्वप्रसंगात् यद्धि तत्परमाणूनां कारणं तदेव जगत्कारणत्वेन युक्तं कल्पयितुं स्यात् न तन्निषादिमताः परमाणवः कृतकत्वासिद्धेरयुक्तमिति चेत् स्यान्मतं यदि परमाणूनां कृतकत्वं प्रसिद्धमत एतद्युज्यते वक्तुममुष्माद्धेतोरकारणं परमाणव इति तत्त्वसिद्धम् तस्मान्न किंचिदेतत् उच्यते- परिच्छिन्नदेशत्वात् इह यत्परिच्छिन्नदेशः तत्कृतकं दृष्टम् तद्यथा घटः, परिच्छिन्नदेशश्च तस्मात्परमाणवः कृतकाः किं चान्यत् रूपादिमत्त्वात् इह यद्रूपादिमत्तत्कृतकं दृष्टम् तद्यथा घटाः, रूपादिमन्तश्च परमाणवः तस्मात्कृतकाः किं चान्यत् औष्ण्ययोगात् यदौष्ण्ययुक्तं तत्कृतकम् तद्यथा प्रदीपः, तद्वन्तश्चाग्नेयाः परमाणवः तस्मात्कृतकाः किंच वेगवत्त्वात् इह यद्वेगवत्तत्कृतकम् तद्यथा इषुर्वेगवान्, तद्वन्तो वायवीयाः परमाणवः तस्मात्कृतकाः किंच स्नेहद्रवत्वयोगात् इह यत्स्नेहद्रवत्वयुक्तं तत्कृतकम् यथा केदारादिष्वापः इत्थं चाप्याः परमाणवः तस्मात्कृतकाः किंचाधेयत्वात् इह यदन्यस्मिन्नाधीयते तत्कृतकम् तद्यथा ठघवम् आधीयन्ते च परमाणवः पृथिव्याम्, तस्मात्कृतकाः किंच अर्थान्तराधारत्वात् इह यदर्थान्तरस्याधारत्वं प्रतिपद्यते तत्कृतकम् तद्यथा घटः अर्थान्तरस्य च द्व्यणुकादेराधारत्वमणवः प्रतिपद्यन्ते तस्मात्कृतकाः किंच प्राप्तिव्यवधानात् इह ययोर्मध्ये अन्तरा द्रव्यमवस्थितम् प्राप्तेर्व्यवधायकं भवति, तौ कृतकौ तद्यथा, द्व्यङ्गुली तथा चाणू द्वावन्तराण्वन्तरमवस्थितं, यो यः प्राप्तेर्व्यवधायकं तौ कृतकौ तस्मात्तावपि कृतकौ किंच द्रव्यान्तरारम्भकत्वात् इह यद् द्रव्यान्तरारम्भकं तत्कृतकं वः तद्यथा तन्तुः, द्रव्यारम्भकाश्च परमाणवः तस्मात्कृतकाः किंच प्रत्यक्षत्वात् इह यत्प्रत्यक्षं तत्कृतकं दृष्टम् तद्यथा घटः, प्रत्यक्षाश्च योगिनां परमाणवः तत्कृतकाः अतएव कृतकत्वमिति चेत् स्यान्मतं यत एव योगिनां प्रत्यक्षाः परमाणवस्तत एव कृतकाः किं कारणम् अस्मदादिप्रत्यक्षं घटादि हि कृतकं दृष्टमिति कृत्वा एतदप्यनुपपन्नम् कस्मात् ? शरीरकृतकत्वप्रसङ्गात् शरीरमपि हि योगिनां प्रत्यक्षं, कामं तदप्यकृतकमस्तु अथ नैतदेव तर्हि नाकृतकाः परमाणवः प्रधानादिषु प्रसंग इति चेन्न अनभ्युपगमात् श्रीकपिलब्राह्मणैरपि प्रधानपुरुषावप्रत्यक्षाविति नः शास्त्रम् तस्माद्यत्किंचिदेतत् सत्तादिवदिति चेत् स्यान्मतम्, यथा सत्तागुणत्वरूपत्वादीनां सति प्रत्यक्षत्वे ऽकृतकत्वम् एवं परमाणूनां भविष्यतीति तदप्ययुक्तम् कस्मात् ? साध्यत्वात् परमाण्वकृतकत्ववत्सत्तादीनां सद्भावो ऽसिद्धः तस्माच्छशविषाणात्पुरुषविषाणसिद्धिवदग्राह्यमेतत् सौक्ष्म्यादणूनां कृतकत्वाप्रसंग इति चेत् स्यान्मतम्, न हि परमाणुभ्यः सूक्ष्मतरमन्यद् भावान्तरमस्ति यदेषामारम्भकं स्यात् परा खल्वेषा काष्ठा सौक्ष्म्यस्य यत्परमाणवः तस्मादेषां कृतकत्वमनुपपन्नमिति एतच्चायुक्तम् कस्मात् ? पाकजेष्वतिप्रसंगात् सौक्ष्म्यादकृतकत्वप्रसंगः ते ऽपि परमाणवः सूक्ष्माः यत्तु खल्वतिसौक्ष्म्यात्प्रधानपुरुषयोरकृतकत्वं दृष्टं तत्सति विभुत्वे न च यथा प्रधानपुरुषावेवमणवो ऽपि विश्वं व्यश्नुवते तस्मात्सति सौक्ष्म्ये पाकजवदेषां कृतकत्वमनिवार्यम् येषां तु कार्यद्रव्यं पच्यत इति पक्षस्तेषामयमनुपालम्भ इत्यतः परमाणुसमवेतं कर्मोदाहार्यम् तद्धि सूक्ष्ममतीन्द्रियं कृतकं चेति सिद्धं कृतकाःपरमाणवः कृतकत्वाच्चैषामनित्यताप्यनपातिनीति कृत्वान्तरालप्रलयमहाप्रलयेषु प्रध्वंसात्परमाणूनां कारणाभावात्कार्याभाव इति स्वशास्त्रसिद्धादनुमानाज्जगदुच्छित्तिदोषप्रसंगः तथा भोगिनामुपचितस्य स्वकर्मणो ऽनुपभोगात्कृतस्य विप्रणाशः अनिष्टं चैतत् तस्मान्न जगत्कारणं परमाणवः यापि खल्वियमाशंका पुरुषाज्जगदुत्पत्तिर्भविष्यतीति साप्ययुक्ता कस्मात् ? प्रतिषेधात् तस्माच्च विपर्यासादित्यत्र (इस्क् 19) पुरुषस्याकर्तृत्वमुपपादयिष्यामः चैतन्याविशेषादीश्वरस्यापि स एव विधिः कारणत्वप्रतिषेधे बोद्धव्यः आह अस्त्येवमीश्वर इति पाशुपतवैशेषिकाः कस्मात् ? कार्यविशेषस्यातिशयबुद्धिपूर्वकत्वात् इह कार्यविशेषः प्रासादविमानादिरतिशयबुद्धिपूर्वको दृष्टः अस्ति चायं महाभूतेन्द्रियभुवनविन्यासादिलक्षणः कार्यविशेषः तस्मादनेनाप्यतिशयबुद्धिपूर्वकेण भवितव्यम् यत्पूर्वको ऽयं स ईश्वरः तस्मादस्तीश्वर इति किं चान्यत् चेतनाचेतनयोरभिसम्बन्धस्य चेतनकृतत्वात् इह चेतनाचेतनयोरभिसम्बन्धश्चेतनकृतो दृष्टः, तद्यथा गोशकटयोः अस्ति चायं चेतनाचेतनयोः शरीरशरीरिणोरभिसम्बन्धः तस्मादनेनापि चेतनकृतेन भवितव्यम् यत्कृतो ऽयं स ईश्वरः तस्मादस्तीश्वरः कारणम् उच्यते- यत्तावदुक्तं कार्यविशेषस्यातिशयबुद्धिपूर्वकत्वादीश्वरसद्भावसिद्धिरिति अत्र ब्रूमः न, साध्यत्वात् अस्मदादिबुद्धिपूर्विकाः प्रासादादयः, अतिशयबुद्धिपूर्विका वा इति साध्यमेतत् तस्मादनुत्तरम् किंच प्राक्प्रधानप्रवृत्तेर्बुद्ध्यसम्भवात्कारणान्तरप्रतिषेधात् प्रधानादयं बुद्धिपूर्वकं कार्यविशेषं कुर्वीत प्राक्च प्रधानविपरिणामाद् बुद्धिरेव नास्तीत्युपपन्नमेतत् शक्तिमत्त्वात्स्वत इति चेत् स्यात्पुनरेतत् सर्वशक्तिप्रचित ईश्वरः तस्य प्रागपि प्रधानविपरिणामात्स्वत एवेच्छायोगाद् बुद्धिसद्भावो न प्रतिषिध्यत इति एतदप्यनुपपन्नम् कस्मात् ? दृष्टान्ताभावात् बुद्धिः स्वत एवेत्यत्र पर्यनुयुक्त(स्य) कस्ते दृष्टान्तः ? तस्मादसदेतत् शक्तिविशेषाददोष इति चेत्, अथापि स्यात् नान्येषां बुद्धिमतामीश्वरतुल्या शक्तिः अत एषां प्रधानाच्छरीरव्यूहसमकालमात्मादिसन्निकर्षाद्वा बुद्धय उत्पद्यन्त इति, ईश्वरस्य तु स्वत इति एतदप्यनुपपन्नम् कस्मात् ? सर्ववादसिद्धिप्रसंगात् दृष्टान्तविरुद्धमर्थमादाय प्रतिबध्यमानेन शक्तिविशेषः स्मर्तव्य इत्येतस्यां कल्पनायां सर्ववादसिद्धिप्रसंगः स्यात् तस्माद् ग्रहमात्रमेतत् एवं स्वत ईश्वरस्य बुद्धिसम्भवो न चेद्भवेत् युक्तमुच्यते प्राक्प्रधानप्रवृत्तेर्बुद्ध्यसम्भवान्न बुद्धिमत्पूर्वको ऽयं कार्यविशेषः किंच फलानुपपत्तेः दृष्टमदृष्टं वा फलमुद्दिश्य बुद्धिमन्तः कार्यविशेषान्प्रासादविमानादीनारभमाणा दृश्यन्ते अनुपहतश्चायमैश्वर्यात् किं च प्रयोजकानुपपत्तेः किं च अनेकान्तात् न च सर्वः कार्यविशेषो बुद्धिपूर्वकः वृक्षादीनां तद्व्यतिरेकेणोत्पत्तेः सर्वस्येश्वरबुद्धिपूर्वकत्वाभ्युपगमे दृष्टान्ताभावः न चास्त्यनुदाहृतो वादः तस्मादनेकान्न बुद्धिमत्पूर्वकं व्यक्तम् किं च दुःखोत्तरत्वात् बुद्धिपूर्वकश्चेदस्य कार्यविशेषः स्यात्कर्तुर्दुःखोत्तरविधाने प्रयोजनं नास्ति शक्तिमांश्चायमिति सुखोत्तरमेव विदध्यात् दुःखोत्तरश्चायं, तस्मान्न बुद्धिपूर्वकः कार्यविशेषः किंच दुःखोपायत्वात् बुद्धिपूर्वकश्चेदयं कार्यविशेषः स्याद्धर्मार्थकाममोक्षप्राप्तयः सुखोपायाः स्युः, दुःखोपायाश्च, तस्मादबुद्धिपूर्वकः धर्माधर्मनिमित्तत्वाददोष इति चेत् स्यान्मतम्, यद्यपीश्वरपूर्वको ऽयं कार्यविशेषः तथाप्यादिसर्गे सुखोत्तराणामस्मदुत्पन्नानां प्राणिनां धर्माधर्मपरिग्रहाद् हीनमध्यमोत्कृष्टवयोजातिस्वभावादियोगो भवति ततश्च नापराधो ऽयमीश्वरस्येति एतदप्ययुक्तम् कस्मात् ? अधर्मोत्पत्तिहेत्वभावात् ईश्वरश्चेद्धर्माधर्मयोरुत्पत्तावीष्टे धर्ममेव प्राणिनां सुखहेतुत्वादुत्पादयेत् नाधर्मं, प्रयोजनाभावात् अथ मतम् स्वाभाविकी धर्माधर्मयोः स्वकारणादुत्पत्तिः, यदुक्तं सर्वमीश्वरबुद्धिपूर्वकं व्यक्तमिति तु तस्य व्याघातः तस्मादीश्वरो न कारणम् यत्पुनरेतदुक्तं चेतनाचेतनयोरभिसम्बन्धस्य चेतनकृतत्वादीश्वरस्य सद्भाव इति, अत्र ब्रूमः- अयुक्तमेतत् कस्मात् ? साध्यत्वात् यो ऽयं चेतनाचेतनयोर्गोशकटयोरभिसम्बन्धः स केन चेतनेन कृतः ? यदि चैत्रेण, तस्य कार्यकारणसंघातत्वादाचेतन्यम् अथ चैत्रशब्दवाच्यस्य पिण्डस्योपद्रष्टा क्षेत्रज्ञः तत्कृत इष्यते तदयुक्तम्, साध्यत्वात् न हि पुरुषकर्तृत्वमस्मत्पक्षे प्रसिद्धम् उभयपक्षप्रसिद्धेन व्यवहारः किं चान्यत् अनवस्थाप्रसंगात् चेतनाचेतनयोरभिसम्बन्धस्य चेतनकृतत्वं ब्रुवतः प्राप्तमीश्वरकार्यकारणयोरभिसम्बन्धस्य चेतनकृतत्वम् तथा चानवस्थाप्रसंगः अथ मा भूदयं दोष इति स्वाभाविक ईश्वरस्य कार्यकारणयोरभिसम्बन्ध इष्यते, न तर्ह्यैकान्तिको हेतुः तयोराचेतन्याददोष इति चेत्, स्यात्पुनरेतत् ईश्वरस्य यत्कार्यकारणं तदपि चेतनमीश्वरो ऽपि, तस्मात्सम्बन्धेन प्रत्युदाहरणमुपपद्यत इति एतदयुक्तम् कस्मात् ? असम्बन्धप्रसंगात् चैतन्याविशेषादात्मन आत्मान्तरेणाभिसम्बन्धो नास्ति एवमीश्वरकार्यकारणयोरपि न स्यात् अनिष्टं चैतत् किं च अविपर्ययप्रसंगात् उभयचैतन्यप्रतिज्ञस्य यथेश्वरस्य करणं बुद्ध्यादयः, एवमीश्वरो ऽपि बुद्ध्यादीनां करणं स्यात् कस्मात् ? अविशेषात् अथैतदनिष्टं, न तर्ह्युभयोश्चैतन्यम् कार्यकारणवत्तानभ्युपगमाददोष इति चेत् व्यापी निरवयवो ऽनन्तशक्तिः सूक्ष्मेभ्यः सूक्ष्मतमो महद्भ्यो महत्तमो ऽधिकरणधर्मानादिरित्येवमनन्तलक्षणमीश्वरपदार्थ तद्विदो व्याचक्षते तस्य कुतः कार्यकारणमवलम्ब्येदमाध्यारोपितमिति ? एतदप्यनुपपन्नम् कस्मात् ? अनुमानविरोधात् इत्थं चेदीश्वरो यदिदमनुमानं कार्यविशेषस्यातिशयबुद्धिपूर्वकत्वाच्च चेतनाचेतनयोरभिसम्बन्धस्य चेतनकृतत्वादिति तद्व्याहन्यते कस्मात् ? न ह्येतावदीदृशार्थेन सहैतद्दृष्टमिति उपेत्य वा, मूर्तिपरिग्रहव्याघातात् यद्येकान्तेनैवंरूप ईश्वरः, क्षित्यादिमूर्तिपरिग्रहो व्याहन्येत किं चान्यत्- श्रुतेः श्रुतिरपि चास्य मूर्तिमाचष्टे कृत्तिवासाः पिनाकहस्तो विततधन्वा नीलशिखण्डीत्यादि तदभ्युपगमात्स्वपक्षहानिरिति चेत्, स्यान्मतं यदि तर्हि श्रुतिवचनान्मूर्तिमानीश्वरः परिगृह्यते तेन सिद्धमस्यास्तित्वम् कस्मात् ? न ह्यसतो मूर्तिमत्त्वमुपपद्यत इति कृत्वा एतदप्ययुक्तम् अभिप्रायानवबोधात् न ह्येकान्तेन वयं भगवतः शक्तिविशेषं प्रत्याचक्ष्महे, माहात्म्यशरीरादिपरिग्रहात् यथा तु भवतोच्यते प्रधानपुरुषव्यतिरिक्तः तयोः प्रयोक्ता नास्तीत्ययमस्मदभिप्रायः, तस्मादेतस्य बाधकम् अतो न प्रधानपुरुषयोरभिसम्बन्धो ऽन्यकृतः किं चान्यत् अशक्यत्वात् कुर्वाणः खल्वप्ययमभिसम्बन्धं शरीरमात्रेण वा शरीरिणः कुर्यात्, शरीरकारणेन वा ? किं चातः ? तन्न तावच्छरीरमात्रेण करोति कस्मात् ? अनपेक्षस्य शरीरोत्पत्तौ निमित्ताभावात् न शरीरकारणेन, विभुत्वात् परिच्छिन्नयोर्गोशकटयोरभिसम्बन्धो ऽन्यकृतः, विभू च प्रधानपुरुषौ किं च पारार्थ्यात् गोशकटयोरभिसम्बन्धः परार्थो दृष्टः न तु प्रधानपुरुषयोरभिसम्बन्धः परार्थ इति ईश्वरार्थ इति चेन्न, उक्तत्वात् दृष्टादृष्टार्थ ईश्वरस्यानुपपन्न इत्यादावेवोक्तमेतत् एवं तावत्पाशुपतानामीश्वरपरिग्रहे दोषः वैशेषिकाणां चायं दोषः किं च द्रव्यादिपदार्थान्तरभावाभावपरिकल्पनानुपपत्तिश्च तैरीश्वरो द्रव्यगुणकर्मसामान्यविशेषसमवायभूतो वा परिकल्प्यमानः परिकल्प्यते, पदार्थान्तरभूतो वा ? किं चातः ? तन्न तावद् द्रव्यादिभूतः कस्मात् ? द्विविधं हि द्रव्यं अनेकद्रव्यमद्रव्यं च तत्र नानेकद्रव्यमीश्वरः, कृतकत्वादिदोषप्रसंगात् नाद्रव्यं, परिसंख्यानात् पृथिव्यादीनि मनःपर्यन्तानि नवैव द्रव्याणि वः सिद्धान्तः इतिकरणस्य परिसमाप्त्यर्थत्वात् किं च गुणकर्मनिर्देशात् सति चास्य द्रव्यत्वे वैशेषिकगुणनिर्देश आचार्येण कृतः स्यात् कारणान्तरप्रयोगसमर्थस्य च कर्म निर्दिष्टं स्यात् न तु तथा तस्मान्न द्रव्यगुणादयः आश्रयपरतन्त्रा हि गुणादयः परार्थाः एवं न द्रव्यादिभूतो नापि पदार्थान्तरभूतः पदार्थत्वे हि सति द्रव्यादिवल्लक्षणमुक्तमभविष्यत् आचार्येण तु नोक्तम् तस्मासूत्रकारमते नास्तीश्वरः लिङ्गादिति चेत्, स्यान्मतम्- संज्ञाकर्मत्वमस्मद्विशिष्टानां लिङ्गम् प्रत्यक्षपूर्वकत्वाद्वा संज्ञाकर्मण इत्येतस्माल्लिङ्गादीश्वरपरिग्रह आचार्यस्य सिद्ध इति तदप्ययुक्तम् कस्मात् ? अभिप्रेतासिद्धेः सत्यमनेन लिङ्गेनास्मदादिभ्यो विशिष्टशक्तेः कस्यचिदेव माहात्म्यशरीरस्यान्यस्य वा प्रतिपत्तिः स्यात् संज्ञामात्रं तु यथा भवद्भिः सर्वकारणानां सृष्ट्युपसंहारप्रवृत्तिहेतुरेकः स्वतन्त्र इष्यते तथा चास्माल्लिङ्गात्प्रतिपत्तिः किं चान्यत् प्रागनुपदेशे ऽकौशलप्रसंगात् ईश्वरपरतन्त्रे चेदणूनां प्रवृत्तिनिवृत्ती स्यातां तमेव प्रागुपदिशेत् धर्मवत्प्रधानपदार्थस्य वा प्रागनुपदेशादकुशलः सूत्रकार इत्येतदापद्यते न चैतदिष्टमुभयम् किं चान्यत् असंकीर्तनात् शास्त्रप्रदेशे चायमीश्वरो न कस्मिंश्चिदप्याचार्येण संकीर्तितः न चास्य वध्वा इव श्वशुरनामसंकीर्तने दोषोपपत्तिः स्यात् दोषसंविभागार्थमिदमाचार्यस्यानिष्टमध्यारोप्यते, न तु मतमस्यैतत् एवं काणादानामीश्वरो ऽस्तीति पाशुपतोपज्ञमेतत् तस्मादीश्वरो ऽप्यकारणम् कर्माणुभिर्व्याख्यातम् कथम् ? यथा कृतकत्वान्न जगत्कारणमणवः, एवं कर्मापि न शरीरनिमित्तं, तस्मात्तदप्यकारणम् इतरेतरनिमित्तत्वाददोष इति चेत् स्यान्मतम्, यथान्तरेण शरीरं कर्म नोत्पद्यमानं दृष्टमेवमन्तरेण कर्म शरीरस्यापि कारणान्तरमशक्यं कल्पयितुमिति परस्परनिमित्तत्वान्नास्य परिवर्तस्य पूर्वकोटिः प्रज्ञायते तस्मान्नास्त्यनयोः कारणान्तरमिति एतच्चायुक्तम् कस्मात् ? अनवस्थानामवस्थानपूर्वकत्वदर्शनात् तद्यथा शुक्रशोणिताच्छरीरं शरीराच्छुक्रशोणितमित्यस्य परिवर्तस्य पूर्वकोटिरदृष्टा, प्रतिज्ञायते चायोनिजत्वमीश्वरशरीराणामादिसर्गे च तथा च बीजाङ्कुरादयो ऽङ्कुरादिभ्यो बीजमित्यनवस्था भाति चात्रादिसर्गे परमाणुमात्रादपि बीजप्रादुर्भावस्तथा शरीरकर्मणोरनवस्था इदानीमपि चादिसर्गे चाधिकारमात्रवशाच्छरीरोत्पत्तिः स्यात् साधारणविग्रहत्वप्रसंग इति चेत् स्यादेतत्, यद्यधिकारनिमित्ता शरीरोत्पत्तिरादिसर्गे ऽभ्युपगम्यते प्राप्तमेकेन शरीरेण सर्वपुरुषाणामभिसम्बन्धो नियमहेत्वभावात् ततश्च शरीरान्तरानर्थक्यम् तेनैव सर्वेषामुपभोगसामर्थ्यादिति एतदनुपपन्नम् कस्मात् ? प्रत्यक्षविरोधात् सत्यमेतदनुमानतः प्रत्यक्षतस्तु शरीराणि प्रतिपुरुषम्, तस्मान्नायं प्रसंगः अपवर्गनियमप्रसंग इति चेत् स्यान्मतं यद्यधिकारमात्रवशाच्छरीरोत्पत्तिः परमर्षेरेवापवर्गसाधनं शरीरादुत्पद्येतेति उच्यते- न तस्यैव, किं तर्हि सर्वेषां गुणानां प्राधान्यात्तन्निमित्तानि शरीराण्यादिसर्गे सांसिद्धिकान्युत्पद्यन्ते तत्र यस्य सत्त्वप्रधानं कार्यकरणं स परमर्षिः यस्य सत्त्वं रजोबहुलं स माहात्म्यशरीरः एवं गुणसम्पर्काद् गुणप्रधानाप्रधानभावेन यावत्स्थावरशरीरप्रादुर्भाव इत्यतो नास्ति गुणानां शरीरविनियोगपक्षपातः तस्माद्युक्तमेतत्कृतकत्वान्न कर्म जगत्कारणमिति एतेन चैवं व्याख्याम् तदपि हि कर्मणामेव प्राप्तपरिपाकाणामभिधानमर्थान्तरमेवेति चेत्साध्यम् तस्मादप्यकल्पनीयमिति यदप्युक्तं कालाज्जगदुत्पत्तिर्भविष्यतीति तदनुपपन्नम् कस्मात् ? कारणपरिस्पन्दस्यैव तदभिधानसन्निवेशात् न हि नः कालो नाम कश्चिदस्ति, किं तर्हि क्रियमाणक्रियाणामेवादित्यगतिगोदोहघटास्तनितादीनां विशिष्टावधिसरूपप्रत्ययनिमित्तत्वत् परापरादिलिङ्गसद्भावात्प्रतिपत्तिरिति चेन्न, अकृतकेषु तदनुपपत्तेः यदेव कृतकं तत्रैव परमपरमित्यादिः प्रत्ययो दृष्टः स यदि क्रियाव्यतिरिक्तनिमित्तः स्यादविशेषान्नित्यानित्येषु स्यात् क्वचित्सामर्थादपाकजवददोष इति चेत् स्यान्मतम्- यथाग्निसंयोगः पाकजहेतुः तथा चाविशेषे ऽपि पृथिव्यामेव पाकजोत्पत्तिनिमित्तं भवति नाकाशादिषु एवं कालो ऽपि परापरादिहेतुरथ चानित्येष्वेव स्यान्न नित्येष्विति तच्चायुक्तम् कस्मात् ? विशेषोपपत्तेः रूपादिविक्रियाहेतुरग्निस्तद्युक्तं यदसौ तद्वति द्रव्ये पाकजानादद्यात्, (ना) तद्वत्याकाशादौ कालस्तु सम्बन्धमात्रोपकारी न विक्रियाहेतुः तस्मादसदेतत् एवं यदि क्रियाभ्यो ऽन्यः काल इष्यते कारणपरिस्पन्दस्य जगत्कारणत्वमथान्यत्साध्यम् यदृच्छापि न कारणं कर्मवत् कार्यकारणभावात् कार्यकारणभूतं हीदं व्यक्तमिति प्राग्व्याख्यातम् स च कार्यकारणभावः प्रेक्षापूर्वकृतानां शयनादीनामुपलब्धौ यादृच्छिकेषु चानुपलब्धौ न तस्या लिङ्गमिति शक्यं वक्तुम् अभावो ऽप्यकारणम्, परिमाणादिदर्शनात् न हि तत उत्पन्नानां परिमाणमुपपद्यत इत्यतो नाप्यन्वयः सात्मकनिरात्मकयोरत्यन्तजातिभेदात् नापि शक्तिस्तदभावात् नोपकारो ऽनवस्थानात् न विभागो निरात्मकत्वात् तस्मान्न परमाणुपुरुषेश्वरकर्मदैवकालस्वभावयदृच्छाभावेभ्यो व्यक्तमुत्पद्यते न चेदेभ्यः, परिशेषतः प्रधानस्यैवास्तित्वलिङ्गमिदम् तस्माद्युक्तमेतत् भेदानां परिमाणादिभ्यः कारणमस्त्यव्यक्तमिति

*kārikā 15 āha, kāryadharmasya kāraṇopalabdhau hetumadādiprasaṃgaḥ, aviśeṣāt yadi kārye dṛṣṭasya dharmasya kāraṇe sadbhāvo 'bhyupagamyate prāptau hetumadādīnāmapi dharmāṇāṃ kāryadṛṣṭatvātpradhāne prasaṃgaḥ atha kāryopalabdhau tulyāyāṃ hetumadādayo neṣyante na tarhītareṣāmapi kāraṇāvasthitirastīti ucyate na, svarūpavirodhitve tadapavādavijñānāt kāraṇaguṇātmakatvātkāryasyetyanena liṅgena hetumadādayo 'pi kāraṇe prasajyante teṣāṃ tu kāryakāraṇarūpavirodhitvādapavādo vijñāyate katham ? yadi tāvaddhetumadādayo vyakte dṛṣṭatvātpradhāne vyañjante, kṛtakatvātkāryameva tanna kāraṇamiti prāptam anityatvācca svayamucchidyamānamananugrāhakamavyāpitvādibhiścānantavikārotpādanaśaktihīnam ahetumadādayaḥ pradhāne 'bhyupagamādvyakterapi prāpyante tādṛśāḥ kāraṇāsambhavātkāryameva tanna bhavatīti prāptam avivekyādayastūbhayatrāpi bhavanto netaretarasvarūpavirodhinaḥ tasmātkāryakāraṇabhāvābhyupagamāddhetumadādyapavādaḥ, itareṣāṃ ca kāraṇasadbhāvaḥ siddhaḥ yaduktaṃ kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddhamiti tadayuktam kasmāt ? vyaktāvyaktayoḥ kāryakāraṇabhāvāprasiddheḥ siddhe hi vyaktāvyaktayoḥ kāraṇatve etadevaṃ syāt tattvasiddham tasmādayuktametat viśeṣānabhidhānādubhayasāmyamiti cet syānmatam, yathā bhavānāha vyaktāvyaktayoḥ kāryakāraṇabhāvo 'prasiddhaḥ, evaṃ vayaṃ vakṣyāmaḥ- tayoḥ kāryakāraṇabhāvāprasiddhirapyasiddhā na ca kvacidviśeṣo 'styubhayasāmyaṃ bhaviṣyatīti taccāyuktam kasmāt ? sadbhāvāsiddheḥ satyam, anabhidhīyamāne viśeṣe syādubhayasāmyam avyaktasya tu sadbhāva evāsiddha ityayaṃ viśeṣaḥ tasmādayuktametadapīti kāryasya kāraṇapūrvakatvādvyaktasya ca kāryatvādavyaktasadbhāve pratipattiriti cet syādetat kāryaṃ kāraṇapūrvakaṃ dṛṣṭam ghaṭādikāryaṃ cedavyaktaṃ pramitatvāttasmādidamapi kāraṇapūrvakaṃ bhavitumarhati yacca tasya kāraṇaṃ tadavyaktamiti taccānupapannam kasmāt ? anekāntāt ihākasmikī ca kāryasyotpattirdṛṣṭā tadyathendradhanuṣaḥ asataśca bhrāntimātrāt tadyathā māyāsvapnendrajālamṛgatṛṣṇikālātacakragandharvanagarāṇām sataśca kāraṇāt tadyathā mṛdādibhyo ghaṭādīnām kāryaṃ cedavyaktamataḥ saṃśayaḥ kimindradhanurvadakasmādasya prādurbhāvo 'tha māyādivadasato 'tha kāraṇātsato ghaṭavaditi ? ucyate- nākasmikamasatpūrvaṃ vyaktam kasmāt ? bhedānāṃ parimāṇāt yatparimitaṃ tasya sata utpattirdṛṣṭā tadyathā mūlāṅkuraparṇanāladaṇḍavusatuṣaśūkapuṣpakṣīrataṇḍulakaṇānām parimitā mahadahaṃkārendriyatanmātramahābhūtalakṣaṇabhedāḥ tasmātsatkāraṇapūrvakāḥ yadeṣāṃ kāraṇaṃ tadavyaktam iti yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau tṛtīyamāhnikaṃ prathamaṃ ca prakaraṇaṃ samāptam āha- kasmādastyavyaktam ? asadbhedānāmapi parimāṇadarśanāt anekānta iti cet syānmatam, asti hi māyāsvapnendrajālānuvidhāyināmapi bhedānāṃ parimāṇamiti tasmādanaikāntiko heturiti tacca naivam kasmāt ? na hi teṣāṃ niyamo 'sti, etāvadbhirevotpattavyaṃ nānyairiti mahadādayastu pralayakāle tirobhūtāstāvanta evotpadyante āha, parimāṇānavasthānaṃ kāladvayānupalabdheḥ satyaṃ, sāmprate kāle mahadādayo yuktaparimāṇāḥ pratyakṣānumānopalabdheḥ atītānāgatayostu kālayornāsti prasiddhiḥ tasmādayuktametat ucyate na, viparyaye pramāṇānupalabdheḥ idānīmetāvanto bhedā ityetacchakyamanumātum atītānāgatayostu kālayornāsti prasiddhiḥ tasmānna bhedānavasthāprasaṃgaḥ āha, bhedābhedānavasthānāt mahadādīnāṃ ye bhedā devamanuṣyatiryañco ghaṭādayaśca teṣāmaśakyaṃ parimāṇaṃ paricchettum sāmānye 'ntarbhāvādayuktamiti cet syānmatam, asti śarīrāṇāṃ mahābhūtasāmānyaṃ ghaṭādīnāṃ ca pṛthivīsāmānyaṃ, tatparimāṇādete 'pi parimitā iti tadayuktam kasmāt ? abhāvāt nahi vaḥ sāmānyaṃ dravyādarthāntarabhūtamasti sārūpyamātre sāmānyaparikalpanāt ucyate na, tattvāntarānupapatteḥ tattvabhedena parimitā bhedā ityetadvivakṣitaṃ yathoktamasmābhiruktaṃ ca yadyasti tattvāntaramucyatām yatpunaretaduktaṃ sāmānyasyārthāntarabhūtasya bhavatpakṣe 'nupapattiriti satyametat tathāvidhenāpi tu tena saṃvyavahāro na pratiṣidhyate iti vakṣyāmaḥ tasmātsiddhaṃ bhedānāṃ parimāṇādastyavyaktam kiṃ cānyat samanvayāt iha yena bhedānāṃ samanupagatistasya sattvaṃ dṛṣṭam tadyathā mṛdā ghaṭādīnām asti ceyaṃ sukhaduḥkhamohaiḥ śabdādīnāṃ samanugatiḥ tasmātte 'pi santi ye ca sukhādayo 'stamitaviśeṣāstadavyaktam tasmādastyavyaktam āha, nāsiddhatvāt sukhādibhiḥ śabdādayo 'nugamyanta ityetadaprasiddham kena kāraṇena pratipattavyamiti ? ucyate- tadbuddhinimittatvāt iha śabdasparśarūparasagandhānāṃ sannidhāne svasaṃskāraviśeṣayogātsukhaduḥkhamohākārāḥ prāṇināṃ buddhaya utpadyante yacca yādṛśīṃ buddhimutpādayati tattenānvitam tadyathā candanādibhiḥ śakalādayaḥ tasmānnāsiddhiḥ samanvayasyeti āha, asiddha evāyaṃ samanvayaḥ kasmāt ? vilakṣaṇakāryotpattidarśanāt na hyayaṃ niyamaḥ kāraṇasadṛśameva kāryamutpadyate kiṃ tarhi vilakṣaṇaṃ agnidhūmaśabdādi katham ? na hyagnistṛṇādisvabhāvako 'gnisvabhāvako vā dhūmaḥ na ca bherīdaṇḍādisvabhāvaḥ śabdaḥ tasmātsukhādyanugatāḥ śabdādaya itīcchāmātram ucyate na, viśeṣitatvāt sukhādisvarūpāḥ śabdādayaḥ, tatsannidhāne sukhādyākārapratyayotpattirityetadādita evāsmābhirviśeṣitam tasmānna bhinnajātīyāsta iti yattu khalvidamucyate 'gnyādīnāṃ vilakṣaṇānāmutpattidarśanātpradhānabhedānāmatajjātīyaprasaṃga iti tadayuktam kasmāt ? abhiprāyānavabodhāt naiva brūmo yo yasya vikāraḥ sa tajjātīyaka iti kiṃ tarhi yo yajjātīyakaḥ sa tasya vikāra iti tasmādayuktametat kiṃcānyat udāharaṇāprasiddheḥ na caitadudāharaṇaṃ prasiddhaṃ agnyādayaḥ svakāraṇajātiṃ nānuvidadhatīta kasmāt ? balavīryānuvidhānāt tadyathā agnerdhūmasya ca tvakcandananalikādisnigdhatānuvṛttestaikṣṇyādyanuvṛtteśca bherīvikāraḥ śabdo na tu yathā bherīrūpamavasthitam pradīpeneva tu daṇḍābhighātena vyajyata iti sādhyametat na caikaiko rūpādīnāṃ dravyākāraḥ samudāyadharmatvāt tasmānna bherīvikāraḥ śabdaḥ tatra yaduktaṃ vilakṣaṇakāryotpattidarśanādasiddho 'nvaya ityetadayuktam tasmādyuktametat samanvayādastyavyaktamiti kiṃ cānyat śaktitaḥ pravṛtteśca iha yāvatī kācilloke pravṛttirupalabhyate sā sarvā śaktitaḥ tadyathā kumbhakārasya daṇḍādisādhanavinyāsalakṣaṇāyāśca śakteḥ sannidhānād ghaṭakaraṇe pravṛttirasti vyaktasya ceyaṃ kāryatvāttadbhāve pravṛttiriti atastasyāpi śaktyā bhavitavyam yāsau śaktistadavyaktam tasmādastyavyaktamiti āha, prākpravṛtteḥ śaktyabhāvaḥ, pravṛttyanupalabdheḥ yadi śaktipūrvikā pravṛttiriti manyadhvaṃ tena yāvatpravṛttirnopalabhyate tāvacchaktirnāstītyetadāpannam kasmāt ? satyāṃ śaktyāṃ kāryābhāve svarūpābhāvaprasaṃgāt yadi khalvapi vidyamānā śaktiḥ kenacitprabandhena kāryaṃ notpādayecchaktitaraśaktetyetadāpannam tasmātsahakāribhāvāntarasannidhānātpravruttisamakalāmevārthānāṃ śaktaya utpadyante tāśca tāvadeva pradhvaṃsante tatra yaduktaṃ prākpravṛtteḥ śaktidarśanādvyaktasyāpi niṣpādikā śaktirastītyetadayuktam kiṃ cānyat bhedābhedakalpanānupapatteḥ iha pradhānameva vā śaktiḥ syāt pradhānādvā bhinnā ? kiṃ cātaḥ ? tadyadi tāvatpradhānameva śaktistena kārye bhedācchaktibhedo 'vasīyata iti śaktibhedātpradhānanānātvaprasaṃgaḥ pradhānaikatvādvā tadavyatiriktānāṃ śaktīnāmekatvaprasaṃgaḥ tataśca kāryanānātvābhāvaḥ atha mā bhūdayaṃ doṣa iti pradhānādarthāntarabhāvaḥ śaktīnāmabhyupagamyate tena bhinnānāṃ śaktīnāṃ pravṛttitaḥ siddhau pradhānasiddhirnāstītyetadāpannam kiṃ cānyat svarūpābhidhānaṃ ca pradhānasya śaktimātrādapyarthāntaratvamabhyupagamya rūpamīdṛkpradhānaṃ svāvasthāyāmiti, taccāśakyamabhidhātum tasmād bhedābhedakalpanānupapatterakalpanīyā śaktiriti ucyate- yaduktaṃ prākpravṛtteḥ śaktyabhāvaḥ pravṛttyanupalabdheriti, atra brūmaḥ nāprasiddhatvāt kāraṇaṃ śaktiḥ kāryaṃ pravṛttiḥ na ca kāryānupalabdhau kāryābhāva ityetalloke prasiddham yatpunaruktaṃ kāryaniṣpattau śakteḥ svarūpahānamiti atra brūmaḥ na, pradīpadṛṣṭāntāt yadyathā pradīpasya ghaṭādiprakāśanaśaktirasti atha ca kuḍyādyāvaraṇasāmarthyānna ghaṭādīnprakāśayituṃ śaknoti na ca śakyate vaktuṃ pradīpasya prakāśanaśaktiraśakteti evamanyeṣāmapi bhāvānāṃ prākprarutterapi śaktiḥ syāt na cāpravṛttidarśanādasyāḥ svarūpahānaṃ syāt yattūktaṃ sahakāribhāvāntarasannidhānātpravṛttisamakālamevārthānāṃ śaktiprādurbhāva iti atra brūmaḥ- tadaprasiddhiḥ śaktyapekṣatvāt iha sarvaḥ kartā svagatāṃ śaktimapekṣya tadyogyatayā sahakāribhāvāntaramupādatte, sā cetprākpravṛtterna syātsādhanānāṃ viṣayasvabhāvānavadhāraṇādanupādānaprasaṃgaḥ aniṣṭaṃ caitat tasmātprākpravṛtteḥ śaktiḥ yatpunaretaduktaṃ tāvadeva pradhvaṃsaṃ iti atra brūmaḥ na, kāryaniṣṭhādarśanāt yadi pravṛttisamakālameva pradhvaṃsaḥ iti atra brūmaḥ na, kāryaniṣṭhādarśanat yadi pravṛttisamakālameva pradhvaṃsaḥ syātkāryaniṣṭhaiva na syāt tannimittatvātkāryasya asti tvasau tasmānna pravṛttisamakālameva śatipradhvaṃsaḥ sadṛśasandhānotpatyā kāryaniṣṭheti cenna vināśasamakālotpattyasambhavāt athāpi syādekasyāṃ śaktau kṣaṇasādhyamaṃśamavasāya vinaṣṭāyāmanyattatsadṛśaṃ śaktyantaramutpadyate, tasminvinaṣṭe 'nyaditi evaṃ śaktisantānātkāryaniṣṭhā bhavatīti etadapyayuktam kasmāt ? vināśakālotpattyasambhavāt ko hyatra heturyena vināśasamakālamanyacchaktirūpaṃ kāryamavasīyayati na punaḥ prāktanamevāvasthitamiti ? kiṃ cānyat kauṭasthyadoṣaparihārāt kṣaṇottarakālāvasthāne ca bhāvānāṃ yo doṣa upāttaḥ kauṭasthyaprasaṃga iti tasya parihāra uktaḥ …

Section (cont. 14)

… tasmānnāsti śaktīnāṃ pravṛttikāle vināśaḥ pravṛttyuttarakālamapi nāsti kasmāt ? punaḥ pravṛttidarśanāt śaktyantarotpattau pravṛtyuttarakālamapi iti cet na, hetvabhāvāt ko hyatra nirbandhaḥ tasyāṃ vinaṣṭāyāmanyā pravṛttyantaraheturbhavati naiva punaḥ saiveti ? kṛtārthatvādi cet na anabhyupagamāt na hyekaghaṭārthā śaktirabhyupagamyate tatra yenaiva hetunā ekaṃ ghaṭamavasāya na vinaśyati tenaiva yāvanti kartavyānīti tasmāttriṣu kāleṣu śaktayo 'vatiṣṭhante yatpunaretaduktaṃ bhedābhedakalpanānupapattiriti, atra brūmaḥ- astu pradhānādabhinnā śaktiḥ na tasya nānātvaṃ śaktyekatvaṃ vā prasajyate kasmāt ? saṃkhyāvyavahārasya buddhyapekṣatvādbuddhinimittasya cāsatkāreṇa pradhānaśaktisvabhāvāt, ihāyaṃ saṃkhyāvyavahāro buddhyapekṣaḥ katham ? yadabhinnāṃ buddhimutpādayati tadekaṃ, pradhānāvasthāyāṃ ca śaktayo 'stamitaviśeṣatvādabhinnāṃ buddhimutpādayanti tasmādekaṃ tatpravṛttikāle viśeṣāvagrahaṇe bhedaṃ pratipadyate, devaśaktirmanuṣyaśaktirityādi tasmānnāsāmekatvamato na bhedābhedakalpanānupapattiriti vyakte darśanācchaktīnāmavyakte pratipattiriti cet syādetat vyakte śaktipravṛttī dṛṣṭe na cāvyakte kvacidanyato vyaktamevaitasmāddhetoḥ siddhyati nāvyaktamityetaccāyuktam kasmāt ? sāmānyatodṛṣṭāntātsiddheḥ yathaiva hi devadattādhārayā kriyayā tasya deśāntaraprāptimupalabhyātyantādṛṣṭaṃ jyotiṣāṃ deśāntaraprāptergamanamanumīyate evaṃ pravṛtteḥ śaktiniyamitatvādvyaktasya ca pravṛttibhūtatvādavaśyamatyantādṛṣṭā śaktirabhyupagantavyeti siddhaṃ śaktitaḥ pravṛtterastyavyaktam kiṃ cānyat kāraṇakāryavibhāgāt kāraṇaṃ ca kāryaṃ ca kāraṇakārye tayorvibhāgaḥ kāryakāraṇavibhāgaḥ idaṃ kāraṇamidaṃ kāryamiti buddhyā dvidhāvasthāpanaṃ vibhāgo yaḥ sa kāraṇakāryavibhāgaḥ tadavasthitabhāvapūrvakaṃ dṛṣṭam tadyathā śayanāsanarathacaraṇādiḥ asti cāyaṃ vyaktasya kāraṇakāryavibhāgastasmādidamapyavasthitabhāpūrvakaṃ, yo 'sāvavasthito bhāvastadavyaktam āha, tadanupalabdherayuktam na hi śayanādīnāṃ kāraṇakāryavibhāgaḥ kaścidupalabhyate tasmādayuktametat ucyate na kāryakāraṇayorupakārakopakāryaparyāyatvātkāraṇaṃ kāryamiti nirvatyanirvartakabhāvo 'bhipretaḥ kiṃ tarhyupakārakopakāryabhāvaḥ sa cāsti śayanādīnāṃ vyaktasya ca ato na pramādābhidhānanetat āha, kaḥ punarvyaktasya parasyaparasya kāryakāraṇabhāva iti ? ucyate guṇānāṃ tāvatsattvarajastamasāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa yathā pravṛttirbhavati, tatha prītyaprītiviṣādātmakā ityetasminsūtre (isk 12) vyākhyātam tathā śabdādīnāṃ pṛthivyādiṣu parasparārthamekādhāratvam śrotrādīnāmitaretarārjanarakṣaṇasaṃskārāḥ karaṇasya kāryātsthānasādhanaprakhyāpanādikāryasya karaṇādvṛttikṣatabhaṃgasaṃrohaṇasaṃśoṣaṇaparipālanāni pṛthivyādīnāṃ vṛttisaṃgrahaṇapanthivyūhāvakāśadānairgavādibhāvo daivamānuṣatiraścāṃ yathartuvidhānejyāpoṣaṇābhyavahārasaṃvyavahārairitaretarādhyayanaṃ varṇānāṃ svadharmapravṛttiviṣayabhāvaḥ anyaśca lokādyathāsaṃbhavaṃ draṣṭavyaḥ āha, tadanupapattiḥ kramayaugapadyāsambhavāt yo 'yaṃ guṇānāṃ prakāśapravṛttiniyamairitaretaropakāro 'bhyupagamyate sa khalu krameṇa vā syāt yugapadvā ? kiṃ cātaḥ ? tanna tāvatkrameṇa saṃbhavati kasmāt ? ekasya nirapekṣasya pravṛttāvitarayorapi tatprasaṃgāt yadi tāvatsattvaṃ pūrvaṃ guṇāntaranirapekṣaṃ svaśaktita eva prakāśate tayorupakārakamityāśrīyate tena yathā sattvamevamitarāvapyupakāranirapekṣau svakāryaṃ kariṣyata ityupakārānarthakyam atha mā bhūdayaṃ doṣa ityato yaugapadyamāśrīyate tadapyanupapannam kasmāt ? sahabhūtānāmanupakārakatvād, goviṣāṇavat kiṃ cānyat sadasadvikalpānupapatteḥ iha sattvaṃ prakāśamānaṃ rajastamasorvidyamānaṃ vā prakāśamāviṣkuryāt avidyamānaṃ vā ? kiṃ cātaḥ ? tadyadi tāvadvidyamānamabhivyanakti tena sarveṣāmekasvābhāvyādguṇatvaprasaṃgaḥ kiṃca sattvavaccetarayoḥ svātaṃtryaprasaṃgaḥ yathā sattvasya prakāśaktirastītyatastad guṇāntaranirapekṣaṃ prakāśate tadvaditarāvapītyadoṣaḥ atha vāvidyamānā prakāśaśaktiḥ sattvasmbandhādrajastamasorupajāyate tena yaduktaṃ prākpravṛttereva tiṣṭhante śaktaya iti tad hīnam tataśca satkāryavādavyāghātaḥ kiṃ cāyamanekāntāt na hyayamekāntaḥ parasparopakāriṇāmavasthitabhāvapūrvakatvamiti tathā hi sattvādayaḥ parasparopakāriṇo na cāvasthitabhāvapūrvakāḥ tena yaduktaṃ kāraṇakāryavibhāgādbhedānāmavyaktamasti etadayuktam ucyate- yaduktamupakārābhāvaḥ, kramayaugapadyāsambhavāditi, astu yugapadupakāraḥ yattūktam sahabhūtānāmanupakārakatvaṃ goviṣāṇādivaditi, atra brūmaḥ na, anyathānupapatteḥ na hi goviṣāṇayoḥ sahabhūtatvādaukārānupapattiḥ kiṃ tarhi ekakāryābhāvāt yeṣāṃ tu kāryamekaṃ sahabhāve tu teṣāmupakāro na pratiṣidhyate tadyathā pṛthivyādīnāṃ dhṛtisaṃgrahaśaktivyūhāvakāśadānaiḥ śarīrasthitayorakramabhāvinorapi khuraviṣāṇayornāsti parasparopakāraḥ tasmānna sahabhāvāsahabhāvāvupakārānupakārahetū kiṃ ca dṛṣṭatvāt dṛṣṭaḥ khalu vegenordhvagamane vāyoraraghaṭṭādīnāṃ yugapadupakāraḥ na kaściddoṣaḥ tathā guṇānāmapi syāt saṃyoganimitta iti cet sādhyaṃ kimarthāntarabhūtamuta prāptimātraṃ saṃyoga iti yatpunaretaduktaṃ sadasadvikalpānupapatteriti atra brūmaḥ ayuktametat kasmāt ? paṅgvandhavattadupakāre doṣānupapatteḥ tadyathā paṅgvandhayoritaretarasambandhānna vidyamānayordṛggatiśaktyoranyonyātmani vyaktiḥ na cāvidyamānayoratha caikakāryasiddhiryathā ca pṛthivyādīnāṃ parasparopakāritvaṃ śaktayorabhivyajyate na paraśaktyā evaṃ guṇānāmapīti yatpunaretaduktamanekāntāditi tadayuktam kasmāt ? śāstrānavabodhāt ihāsmākaṃ kāryakāraṇayorarthānabhyupagamādguṇānāmavasthāntaramevāvasthāntarānapekṣaṃ kāryakāraṇaśabdavācyatāṃ labhate tatra ye tāvatpradhānāvasthānubhāvino guṇāsteṣāṃ śaktimātrarūpatvādanirdeśyaprakāśādisvabhāvānāṃ nāsti tannibandhana upakāraḥ yadā vaiṣamyamāpadyante tadānivāritaprakāśādirūpāstannimittamupakāraṃ pratipadyante tasmādvyaktānāmupakārābhyupagamādavasthitabhāvapūrvakatvaṃ na virudhyata iti śāstramanavagamyaivamucyate 'naikāntiko 'yaṃ hetuḥ pradhānāvasthāyāmupakārānabhyupagamāduttarakālamapi tatprasaṃga iti cet syānmatam, yadi guṇānāmādye prakope svasāmarthyādeva pūrvasmātpracyutistenottarakālamapi tadvadeva bhaviṣyati atha pradhānāvasthāyāmapi copakāro na tarhi nānaikāntiko heturiti tacca naivam kasmāt ? agnivatsvaśaktinimittatvāt tadyathā sūkṣmo 'gniḥ sūkṣmaṃ prakāśaṃ svayameva karoti, ghaṭādiprakāśane tu tailavarttyādyapekṣate tadvadguṇānāmādyaḥ prakopaḥ svaśaktitaḥ mahadādyapekṣastūpakārataḥ tasmādyuktametat kāraṇakāryavibhāgādastyavyaktamiti kiṃ cānyat avibhāgādvaiśvarūpyasya isk_15 iha yadviśvarūpaṃ tasyāvibhāgo dṛṣṭaḥ tadyathā salilādīnām jalabhūmī viśvarūpāśca mahadādayaḥ tasmādeṣāmapyavibhāgena bhavitavyam yo 'sāvavibhāgastadavyaktam tasmādastyavyaktam āha, kiṃ punastadvaiśvarūpyaṃ, ko vā viśvarūpa iti ? ucyate- vaiśvarūpyamiti viśiṣṭamavasthānamācakṣmahe, astamitaviśeṣatvamavibhāga iti viśeṣasya sāmānyapūrvakatvāditi yo 'rthastaduktaṃ bhavati avibhāgādvaiśvarūpyasyeti evametaiḥ pañcabhirvītairvyaktasya kāraṇamastyavyaktamiti siddham āha- vipratiṣedhaprasaṃgaḥ kāraṇāntarapratiṣedhāvacanāt yathā bhavānāha- pradhānaṃ jagadutpattisamarthaṃ kāraṇamasti evaṃ tantrāntarīyāḥ paramāṇupuruṣeśvarakarmadaivasvabhāvakālayadṛcchābhāvānkāraṇatvenābhidadhati, teṣāṃ ca pratiṣedho nocyata iti ato vipratiṣedhaḥ prāpnoti kiṃ pradhānameva kāraṇaṃ āhosvidetānyeva vobhayamiti ? anvayadarśanāttadanupapattiriti cet syānmatam pradhānānvaya eva pṛthivyādiṣu sukhādilakṣaṇa upalabhyate yacca yenānvitaṃ tasyāsau vikāra iti yuktametatprāgapadiṣṭam tasmātpradhānavikāra eva vyaktamiti taccānupapannam kasmāt ? anekānvayasaṃbhavāt paramāṇvanvayo 'pi hi vyakta upalabhyate rūpādisattvāt puruṣānvayaḥ karaṇasya saṃvedakatvāt īśvarānvayaḥ śaktiviśeṣayuktānāmupalabdheḥ karmadaivānvayaḥ jagadvaicitryopalambhāt svabhāvānvayo dravyāntarasaṃsarge 'pi bhāvānāṃ tasmādapracyuteḥ kālānvayaḥ yugādyanuvidhānāt yadṛcchānvayo niyamābhāvāt abhāvānvayo gavādīnāṃ parasparātmasvadarśanāditaretarāṇi prayuktāni kāraṇāntarapūrvakatve 'pi khalu vyaktasya śaktyāḥ parimāṇādayaḥ pūrvameva kalpayitum tasmādayuktamanvayādibhyaḥ kāraṇamastyavyaktamiti ucyate- yattāvaduktaṃ paramāṇūnāmapratiṣedhāt vipratiṣedhaprasaṃga iti, atra brūmaḥ- tadanupapattirastitvānabhyupagamāt astitve hi paramāṇūnāmabhyupagamyamāne sati satyamevaṃ syādiyamāśaṃkā, kiṃ paramāṇupūrvakamidaṃ viśvamatha pradhānapūrvakamiti ? na tu teṣāṃ sadbhāvo niścitaḥ tasmādayuktametat yattu khalvidamucyate pṛthivyādiṣu rūpādyupalambhādanvayadarśanādaṇūnāṃ sadbhāvaḥ pradhānavadeva kalpayitavya ityetadapi cānupapannam kasmāt ? anyathāpi tadupapatteḥ tanmātrapūrvakatve 'pi hi pṛthivyādīnāṃ kalpyamāne rūpādisattvādato na yuktametat sukhādīnāmātmaguṇatvenābhyupagamātpradhāne 'pi tatprasaṃga iti cet, athāpi syādyathā tanmātrāṇāṃ rūpādimattvaṃ kalpyate tatpūrvakatvaṃ ca pṛthivyādīnāṃ dṛśyamapi teṣu rūpādisattvaliṅgena paramāṇubhyo niṣkṛṣyate, evamasmābhiḥ sukhādīnāmātmaguṇatvābhyupagamāttadbuddhinimittatve pṛthivyādīnāṃ pradhānapūrvatvākṣepaḥ kariṣyata iti etaccānupapannam kasmāt ? ātmaguṇatvatiṣedhāt tasmācca viparyāsādityatra (isk 19) sukhādīnāmātmaguṇatvapratiṣedhaṃ kariṣyāmaḥ tasmādasamyagetat āha, yadi punastanmātrāṇāmeva paramāṇutvamabhyupagamyate ka evaṃ sati doṣaḥ syāt ? ucyate- na śakyamevaṃ bhavitum kiṃ kāraṇam ? vṛddhimatyastanmātralakṣaṇāḥ prakṛtayo 'smābhirabhyupagamyante kasmāt ? svakāryāddhi prathīyasī prakṛtirbhavatīti ca naḥ samayaḥ mahānti ca pṛthivyādīni mahābhūtāni tasmātteṣāṃ tadatiriktatayā pṛthivyā bhavitavyam paricchinnadeśāśca paramāṇavaḥ tasmānna tanmātrābhyupagamātteṣāmabhyupagamaḥ upetya vā tadasambhavaḥ kṛtakatvāt astu vā paramāṇūnāṃ sadbhāvastathāpi tebhyo jagadutpatterasambhavaṃ brūmaḥ kiṃ kāraṇam ? kṛtakatvāt akṛtakena hi jagatkāraṇena yuktaṃ bhavituṃ, kṛtakāśca paramāṇavaḥ tasmātsatyapi sadbhāve na teṣāṃ jagatkāraṇamiṣyate iti ? ucyate- tasyaiva kāraṇatvaprasaṃgāt yaddhi tatparamāṇūnāṃ kāraṇaṃ tadeva jagatkāraṇatvena yuktaṃ kalpayituṃ syāt na tanniṣādimatāḥ paramāṇavaḥ kṛtakatvāsiddherayuktamiti cet syānmataṃ yadi paramāṇūnāṃ kṛtakatvaṃ prasiddhamata etadyujyate vaktumamuṣmāddhetorakāraṇaṃ paramāṇava iti tattvasiddham tasmānna kiṃcidetat ucyate- paricchinnadeśatvāt iha yatparicchinnadeśaḥ tatkṛtakaṃ dṛṣṭam tadyathā ghaṭaḥ, paricchinnadeśaśca tasmātparamāṇavaḥ kṛtakāḥ kiṃ cānyat rūpādimattvāt iha yadrūpādimattatkṛtakaṃ dṛṣṭam tadyathā ghaṭāḥ, rūpādimantaśca paramāṇavaḥ tasmātkṛtakāḥ kiṃ cānyat auṣṇyayogāt yadauṣṇyayuktaṃ tatkṛtakam tadyathā pradīpaḥ, tadvantaścāgneyāḥ paramāṇavaḥ tasmātkṛtakāḥ kiṃca vegavattvāt iha yadvegavattatkṛtakam tadyathā iṣurvegavān, tadvanto vāyavīyāḥ paramāṇavaḥ tasmātkṛtakāḥ kiṃca snehadravatvayogāt iha yatsnehadravatvayuktaṃ tatkṛtakam yathā kedārādiṣvāpaḥ itthaṃ cāpyāḥ paramāṇavaḥ tasmātkṛtakāḥ kiṃcādheyatvāt iha yadanyasminnādhīyate tatkṛtakam tadyathā ṭhaghavam ādhīyante ca paramāṇavaḥ pṛthivyām, tasmātkṛtakāḥ kiṃca arthāntarādhāratvāt iha yadarthāntarasyādhāratvaṃ pratipadyate tatkṛtakam tadyathā ghaṭaḥ arthāntarasya ca dvyaṇukāderādhāratvamaṇavaḥ pratipadyante tasmātkṛtakāḥ kiṃca prāptivyavadhānāt iha yayormadhye antarā dravyamavasthitam prāptervyavadhāyakaṃ bhavati, tau kṛtakau tadyathā, dvyaṅgulī tathā cāṇū dvāvantarāṇvantaramavasthitaṃ, yo yaḥ prāptervyavadhāyakaṃ tau kṛtakau tasmāttāvapi kṛtakau kiṃca dravyāntarārambhakatvāt iha yad dravyāntarārambhakaṃ tatkṛtakaṃ vaḥ tadyathā tantuḥ, dravyārambhakāśca paramāṇavaḥ tasmātkṛtakāḥ kiṃca pratyakṣatvāt iha yatpratyakṣaṃ tatkṛtakaṃ dṛṣṭam tadyathā ghaṭaḥ, pratyakṣāśca yogināṃ paramāṇavaḥ tatkṛtakāḥ ataeva kṛtakatvamiti cet syānmataṃ yata eva yogināṃ pratyakṣāḥ paramāṇavastata eva kṛtakāḥ kiṃ kāraṇam asmadādipratyakṣaṃ ghaṭādi hi kṛtakaṃ dṛṣṭamiti kṛtvā etadapyanupapannam kasmāt ? śarīrakṛtakatvaprasaṅgāt śarīramapi hi yogināṃ pratyakṣaṃ, kāmaṃ tadapyakṛtakamastu atha naitadeva tarhi nākṛtakāḥ paramāṇavaḥ pradhānādiṣu prasaṃga iti cenna anabhyupagamāt śrīkapilabrāhmaṇairapi pradhānapuruṣāvapratyakṣāviti naḥ śāstram tasmādyatkiṃcidetat sattādivaditi cet syānmatam, yathā sattāguṇatvarūpatvādīnāṃ sati pratyakṣatve 'kṛtakatvam evaṃ paramāṇūnāṃ bhaviṣyatīti tadapyayuktam kasmāt ? sādhyatvāt paramāṇvakṛtakatvavatsattādīnāṃ sadbhāvo 'siddhaḥ tasmācchaśaviṣāṇātpuruṣaviṣāṇasiddhivadagrāhyametat saukṣmyādaṇūnāṃ kṛtakatvāprasaṃga iti cet syānmatam, na hi paramāṇubhyaḥ sūkṣmataramanyad bhāvāntaramasti yadeṣāmārambhakaṃ syāt parā khalveṣā kāṣṭhā saukṣmyasya yatparamāṇavaḥ tasmādeṣāṃ kṛtakatvamanupapannamiti etaccāyuktam kasmāt ? pākajeṣvatiprasaṃgāt saukṣmyādakṛtakatvaprasaṃgaḥ te 'pi paramāṇavaḥ sūkṣmāḥ yattu khalvatisaukṣmyātpradhānapuruṣayorakṛtakatvaṃ dṛṣṭaṃ tatsati vibhutve na ca yathā pradhānapuruṣāvevamaṇavo 'pi viśvaṃ vyaśnuvate tasmātsati saukṣmye pākajavadeṣāṃ kṛtakatvamanivāryam yeṣāṃ tu kāryadravyaṃ pacyata iti pakṣasteṣāmayamanupālambha ityataḥ paramāṇusamavetaṃ karmodāhāryam taddhi sūkṣmamatīndriyaṃ kṛtakaṃ ceti siddhaṃ kṛtakāḥparamāṇavaḥ kṛtakatvāccaiṣāmanityatāpyanapātinīti kṛtvāntarālapralayamahāpralayeṣu pradhvaṃsātparamāṇūnāṃ kāraṇābhāvātkāryābhāva iti svaśāstrasiddhādanumānājjagaducchittidoṣaprasaṃgaḥ tathā bhogināmupacitasya svakarmaṇo 'nupabhogātkṛtasya vipraṇāśaḥ aniṣṭaṃ caitat tasmānna jagatkāraṇaṃ paramāṇavaḥ yāpi khalviyamāśaṃkā puruṣājjagadutpattirbhaviṣyatīti sāpyayuktā kasmāt ? pratiṣedhāt tasmācca viparyāsādityatra (isk 19) puruṣasyākartṛtvamupapādayiṣyāmaḥ caitanyāviśeṣādīśvarasyāpi sa eva vidhiḥ kāraṇatvapratiṣedhe boddhavyaḥ āha astyevamīśvara iti pāśupatavaiśeṣikāḥ kasmāt ? kāryaviśeṣasyātiśayabuddhipūrvakatvāt iha kāryaviśeṣaḥ prāsādavimānādiratiśayabuddhipūrvako dṛṣṭaḥ asti cāyaṃ mahābhūtendriyabhuvanavinyāsādilakṣaṇaḥ kāryaviśeṣaḥ tasmādanenāpyatiśayabuddhipūrvakeṇa bhavitavyam yatpūrvako 'yaṃ sa īśvaraḥ tasmādastīśvara iti kiṃ cānyat cetanācetanayorabhisambandhasya cetanakṛtatvāt iha cetanācetanayorabhisambandhaścetanakṛto dṛṣṭaḥ, tadyathā gośakaṭayoḥ asti cāyaṃ cetanācetanayoḥ śarīraśarīriṇorabhisambandhaḥ tasmādanenāpi cetanakṛtena bhavitavyam yatkṛto 'yaṃ sa īśvaraḥ tasmādastīśvaraḥ kāraṇam ucyate- yattāvaduktaṃ kāryaviśeṣasyātiśayabuddhipūrvakatvādīśvarasadbhāvasiddhiriti atra brūmaḥ na, sādhyatvāt asmadādibuddhipūrvikāḥ prāsādādayaḥ, atiśayabuddhipūrvikā vā iti sādhyametat tasmādanuttaram kiṃca prākpradhānapravṛtterbuddhyasambhavātkāraṇāntarapratiṣedhāt pradhānādayaṃ buddhipūrvakaṃ kāryaviśeṣaṃ kurvīta prākca pradhānavipariṇāmād buddhireva nāstītyupapannametat śaktimattvātsvata iti cet syātpunaretat sarvaśaktipracita īśvaraḥ tasya prāgapi pradhānavipariṇāmātsvata evecchāyogād buddhisadbhāvo na pratiṣidhyata iti etadapyanupapannam kasmāt ? dṛṣṭāntābhāvāt buddhiḥ svata evetyatra paryanuyukta(sya) kaste dṛṣṭāntaḥ ? tasmādasadetat śaktiviśeṣādadoṣa iti cet, athāpi syāt nānyeṣāṃ buddhimatāmīśvaratulyā śaktiḥ ata eṣāṃ pradhānāccharīravyūhasamakālamātmādisannikarṣādvā buddhaya utpadyanta iti, īśvarasya tu svata iti etadapyanupapannam kasmāt ? sarvavādasiddhiprasaṃgāt dṛṣṭāntaviruddhamarthamādāya pratibadhyamānena śaktiviśeṣaḥ smartavya ityetasyāṃ kalpanāyāṃ sarvavādasiddhiprasaṃgaḥ syāt tasmād grahamātrametat evaṃ svata īśvarasya buddhisambhavo na cedbhavet yuktamucyate prākpradhānapravṛtterbuddhyasambhavānna buddhimatpūrvako 'yaṃ kāryaviśeṣaḥ kiṃca phalānupapatteḥ dṛṣṭamadṛṣṭaṃ vā phalamuddiśya buddhimantaḥ kāryaviśeṣānprāsādavimānādīnārabhamāṇā dṛśyante anupahataścāyamaiśvaryāt kiṃ ca prayojakānupapatteḥ kiṃ ca anekāntāt na ca sarvaḥ kāryaviśeṣo buddhipūrvakaḥ vṛkṣādīnāṃ tadvyatirekeṇotpatteḥ sarvasyeśvarabuddhipūrvakatvābhyupagame dṛṣṭāntābhāvaḥ na cāstyanudāhṛto vādaḥ tasmādanekānna buddhimatpūrvakaṃ vyaktam kiṃ ca duḥkhottaratvāt buddhipūrvakaścedasya kāryaviśeṣaḥ syātkarturduḥkhottaravidhāne prayojanaṃ nāsti śaktimāṃścāyamiti sukhottarameva vidadhyāt duḥkhottaraścāyaṃ, tasmānna buddhipūrvakaḥ kāryaviśeṣaḥ kiṃca duḥkhopāyatvāt buddhipūrvakaścedayaṃ kāryaviśeṣaḥ syāddharmārthakāmamokṣaprāptayaḥ sukhopāyāḥ syuḥ, duḥkhopāyāśca, tasmādabuddhipūrvakaḥ dharmādharmanimittatvādadoṣa iti cet syānmatam, yadyapīśvarapūrvako 'yaṃ kāryaviśeṣaḥ tathāpyādisarge sukhottarāṇāmasmadutpannānāṃ prāṇināṃ dharmādharmaparigrahād hīnamadhyamotkṛṣṭavayojātisvabhāvādiyogo bhavati tataśca nāparādho 'yamīśvarasyeti etadapyayuktam kasmāt ? adharmotpattihetvabhāvāt īśvaraśceddharmādharmayorutpattāvīṣṭe dharmameva prāṇināṃ sukhahetutvādutpādayet nādharmaṃ, prayojanābhāvāt atha matam svābhāvikī dharmādharmayoḥ svakāraṇādutpattiḥ, yaduktaṃ sarvamīśvarabuddhipūrvakaṃ vyaktamiti tu tasya vyāghātaḥ tasmādīśvaro na kāraṇam yatpunaretaduktaṃ cetanācetanayorabhisambandhasya cetanakṛtatvādīśvarasya sadbhāva iti, atra brūmaḥ- ayuktametat kasmāt ? sādhyatvāt yo 'yaṃ cetanācetanayorgośakaṭayorabhisambandhaḥ sa kena cetanena kṛtaḥ ? yadi caitreṇa, tasya kāryakāraṇasaṃghātatvādācetanyam atha caitraśabdavācyasya piṇḍasyopadraṣṭā kṣetrajñaḥ tatkṛta iṣyate tadayuktam, sādhyatvāt na hi puruṣakartṛtvamasmatpakṣe prasiddham ubhayapakṣaprasiddhena vyavahāraḥ kiṃ cānyat anavasthāprasaṃgāt cetanācetanayorabhisambandhasya cetanakṛtatvaṃ bruvataḥ prāptamīśvarakāryakāraṇayorabhisambandhasya cetanakṛtatvam tathā cānavasthāprasaṃgaḥ atha mā bhūdayaṃ doṣa iti svābhāvika īśvarasya kāryakāraṇayorabhisambandha iṣyate, na tarhyaikāntiko hetuḥ tayorācetanyādadoṣa iti cet, syātpunaretat īśvarasya yatkāryakāraṇaṃ tadapi cetanamīśvaro 'pi, tasmātsambandhena pratyudāharaṇamupapadyata iti etadayuktam kasmāt ? asambandhaprasaṃgāt caitanyāviśeṣādātmana ātmāntareṇābhisambandho nāsti evamīśvarakāryakāraṇayorapi na syāt aniṣṭaṃ caitat kiṃ ca aviparyayaprasaṃgāt ubhayacaitanyapratijñasya yatheśvarasya karaṇaṃ buddhyādayaḥ, evamīśvaro 'pi buddhyādīnāṃ karaṇaṃ syāt kasmāt ? aviśeṣāt athaitadaniṣṭaṃ, na tarhyubhayoścaitanyam kāryakāraṇavattānabhyupagamādadoṣa iti cet vyāpī niravayavo 'nantaśaktiḥ sūkṣmebhyaḥ sūkṣmatamo mahadbhyo mahattamo 'dhikaraṇadharmānādirityevamanantalakṣaṇamīśvarapadārtha tadvido vyācakṣate tasya kutaḥ kāryakāraṇamavalambyedamādhyāropitamiti ? etadapyanupapannam kasmāt ? anumānavirodhāt itthaṃ cedīśvaro yadidamanumānaṃ kāryaviśeṣasyātiśayabuddhipūrvakatvācca cetanācetanayorabhisambandhasya cetanakṛtatvāditi tadvyāhanyate kasmāt ? na hyetāvadīdṛśārthena sahaitaddṛṣṭamiti upetya vā, mūrtiparigrahavyāghātāt yadyekāntenaivaṃrūpa īśvaraḥ, kṣityādimūrtiparigraho vyāhanyeta kiṃ cānyat- śruteḥ śrutirapi cāsya mūrtimācaṣṭe kṛttivāsāḥ pinākahasto vitatadhanvā nīlaśikhaṇḍītyādi tadabhyupagamātsvapakṣahāniriti cet, syānmataṃ yadi tarhi śrutivacanānmūrtimānīśvaraḥ parigṛhyate tena siddhamasyāstitvam kasmāt ? na hyasato mūrtimattvamupapadyata iti kṛtvā etadapyayuktam abhiprāyānavabodhāt na hyekāntena vayaṃ bhagavataḥ śaktiviśeṣaṃ pratyācakṣmahe, māhātmyaśarīrādiparigrahāt yathā tu bhavatocyate pradhānapuruṣavyatiriktaḥ tayoḥ prayoktā nāstītyayamasmadabhiprāyaḥ, tasmādetasya bādhakam ato na pradhānapuruṣayorabhisambandho 'nyakṛtaḥ kiṃ cānyat aśakyatvāt kurvāṇaḥ khalvapyayamabhisambandhaṃ śarīramātreṇa vā śarīriṇaḥ kuryāt, śarīrakāraṇena vā ? kiṃ cātaḥ ? tanna tāvaccharīramātreṇa karoti kasmāt ? anapekṣasya śarīrotpattau nimittābhāvāt na śarīrakāraṇena, vibhutvāt paricchinnayorgośakaṭayorabhisambandho 'nyakṛtaḥ, vibhū ca pradhānapuruṣau kiṃ ca pārārthyāt gośakaṭayorabhisambandhaḥ parārtho dṛṣṭaḥ na tu pradhānapuruṣayorabhisambandhaḥ parārtha iti īśvarārtha iti cenna, uktatvāt dṛṣṭādṛṣṭārtha īśvarasyānupapanna ityādāvevoktametat evaṃ tāvatpāśupatānāmīśvaraparigrahe doṣaḥ vaiśeṣikāṇāṃ cāyaṃ doṣaḥ kiṃ ca dravyādipadārthāntarabhāvābhāvaparikalpanānupapattiśca tairīśvaro dravyaguṇakarmasāmānyaviśeṣasamavāyabhūto vā parikalpyamānaḥ parikalpyate, padārthāntarabhūto vā ? kiṃ cātaḥ ? tanna tāvad dravyādibhūtaḥ kasmāt ? dvividhaṃ hi dravyaṃ anekadravyamadravyaṃ ca tatra nānekadravyamīśvaraḥ, kṛtakatvādidoṣaprasaṃgāt nādravyaṃ, parisaṃkhyānāt pṛthivyādīni manaḥparyantāni navaiva dravyāṇi vaḥ siddhāntaḥ itikaraṇasya parisamāptyarthatvāt kiṃ ca guṇakarmanirdeśāt sati cāsya dravyatve vaiśeṣikaguṇanirdeśa ācāryeṇa kṛtaḥ syāt kāraṇāntaraprayogasamarthasya ca karma nirdiṣṭaṃ syāt na tu tathā tasmānna dravyaguṇādayaḥ āśrayaparatantrā hi guṇādayaḥ parārthāḥ evaṃ na dravyādibhūto nāpi padārthāntarabhūtaḥ padārthatve hi sati dravyādivallakṣaṇamuktamabhaviṣyat ācāryeṇa tu noktam tasmāsūtrakāramate nāstīśvaraḥ liṅgāditi cet, syānmatam- saṃjñākarmatvamasmadviśiṣṭānāṃ liṅgam pratyakṣapūrvakatvādvā saṃjñākarmaṇa ityetasmālliṅgādīśvaraparigraha ācāryasya siddha iti tadapyayuktam kasmāt ? abhipretāsiddheḥ satyamanena liṅgenāsmadādibhyo viśiṣṭaśakteḥ kasyacideva māhātmyaśarīrasyānyasya vā pratipattiḥ syāt saṃjñāmātraṃ tu yathā bhavadbhiḥ sarvakāraṇānāṃ sṛṣṭyupasaṃhārapravṛttiheturekaḥ svatantra iṣyate tathā cāsmālliṅgātpratipattiḥ kiṃ cānyat prāganupadeśe 'kauśalaprasaṃgāt īśvaraparatantre cedaṇūnāṃ pravṛttinivṛttī syātāṃ tameva prāgupadiśet dharmavatpradhānapadārthasya vā prāganupadeśādakuśalaḥ sūtrakāra ityetadāpadyate na caitadiṣṭamubhayam kiṃ cānyat asaṃkīrtanāt śāstrapradeśe cāyamīśvaro na kasmiṃścidapyācāryeṇa saṃkīrtitaḥ na cāsya vadhvā iva śvaśuranāmasaṃkīrtane doṣopapattiḥ syāt doṣasaṃvibhāgārthamidamācāryasyāniṣṭamadhyāropyate, na tu matamasyaitat evaṃ kāṇādānāmīśvaro 'stīti pāśupatopajñametat tasmādīśvaro 'pyakāraṇam karmāṇubhirvyākhyātam katham ? yathā kṛtakatvānna jagatkāraṇamaṇavaḥ, evaṃ karmāpi na śarīranimittaṃ, tasmāttadapyakāraṇam itaretaranimittatvādadoṣa iti cet syānmatam, yathāntareṇa śarīraṃ karma notpadyamānaṃ dṛṣṭamevamantareṇa karma śarīrasyāpi kāraṇāntaramaśakyaṃ kalpayitumiti parasparanimittatvānnāsya parivartasya pūrvakoṭiḥ prajñāyate tasmānnāstyanayoḥ kāraṇāntaramiti etaccāyuktam kasmāt ? anavasthānāmavasthānapūrvakatvadarśanāt tadyathā śukraśoṇitāccharīraṃ śarīrācchukraśoṇitamityasya parivartasya pūrvakoṭiradṛṣṭā, pratijñāyate cāyonijatvamīśvaraśarīrāṇāmādisarge ca tathā ca bījāṅkurādayo 'ṅkurādibhyo bījamityanavasthā bhāti cātrādisarge paramāṇumātrādapi bījaprādurbhāvastathā śarīrakarmaṇoranavasthā idānīmapi cādisarge cādhikāramātravaśāccharīrotpattiḥ syāt sādhāraṇavigrahatvaprasaṃga iti cet syādetat, yadyadhikāranimittā śarīrotpattirādisarge 'bhyupagamyate prāptamekena śarīreṇa sarvapuruṣāṇāmabhisambandho niyamahetvabhāvāt tataśca śarīrāntarānarthakyam tenaiva sarveṣāmupabhogasāmarthyāditi etadanupapannam kasmāt ? pratyakṣavirodhāt satyametadanumānataḥ pratyakṣatastu śarīrāṇi pratipuruṣam, tasmānnāyaṃ prasaṃgaḥ apavarganiyamaprasaṃga iti cet syānmataṃ yadyadhikāramātravaśāccharīrotpattiḥ paramarṣerevāpavargasādhanaṃ śarīrādutpadyeteti ucyate- na tasyaiva, kiṃ tarhi sarveṣāṃ guṇānāṃ prādhānyāttannimittāni śarīrāṇyādisarge sāṃsiddhikānyutpadyante tatra yasya sattvapradhānaṃ kāryakaraṇaṃ sa paramarṣiḥ yasya sattvaṃ rajobahulaṃ sa māhātmyaśarīraḥ evaṃ guṇasamparkād guṇapradhānāpradhānabhāvena yāvatsthāvaraśarīraprādurbhāva ityato nāsti guṇānāṃ śarīraviniyogapakṣapātaḥ tasmādyuktametatkṛtakatvānna karma jagatkāraṇamiti etena caivaṃ vyākhyām tadapi hi karmaṇāmeva prāptaparipākāṇāmabhidhānamarthāntarameveti cetsādhyam tasmādapyakalpanīyamiti yadapyuktaṃ kālājjagadutpattirbhaviṣyatīti tadanupapannam kasmāt ? kāraṇaparispandasyaiva tadabhidhānasanniveśāt na hi naḥ kālo nāma kaścidasti, kiṃ tarhi kriyamāṇakriyāṇāmevādityagatigodohaghaṭāstanitādīnāṃ viśiṣṭāvadhisarūpapratyayanimittatvat parāparādiliṅgasadbhāvātpratipattiriti cenna, akṛtakeṣu tadanupapatteḥ yadeva kṛtakaṃ tatraiva paramaparamityādiḥ pratyayo dṛṣṭaḥ sa yadi kriyāvyatiriktanimittaḥ syādaviśeṣānnityānityeṣu syāt kvacitsāmarthādapākajavadadoṣa iti cet syānmatam- yathāgnisaṃyogaḥ pākajahetuḥ tathā cāviśeṣe 'pi pṛthivyāmeva pākajotpattinimittaṃ bhavati nākāśādiṣu evaṃ kālo 'pi parāparādiheturatha cānityeṣveva syānna nityeṣviti taccāyuktam kasmāt ? viśeṣopapatteḥ rūpādivikriyāheturagnistadyuktaṃ yadasau tadvati dravye pākajānādadyāt, (nā) tadvatyākāśādau kālastu sambandhamātropakārī na vikriyāhetuḥ tasmādasadetat evaṃ yadi kriyābhyo 'nyaḥ kāla iṣyate kāraṇaparispandasya jagatkāraṇatvamathānyatsādhyam yadṛcchāpi na kāraṇaṃ karmavat kāryakāraṇabhāvāt kāryakāraṇabhūtaṃ hīdaṃ vyaktamiti prāgvyākhyātam sa ca kāryakāraṇabhāvaḥ prekṣāpūrvakṛtānāṃ śayanādīnāmupalabdhau yādṛcchikeṣu cānupalabdhau na tasyā liṅgamiti śakyaṃ vaktum abhāvo 'pyakāraṇam, parimāṇādidarśanāt na hi tata utpannānāṃ parimāṇamupapadyata ityato nāpyanvayaḥ sātmakanirātmakayoratyantajātibhedāt nāpi śaktistadabhāvāt nopakāro 'navasthānāt na vibhāgo nirātmakatvāt tasmānna paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhāvebhyo vyaktamutpadyate na cedebhyaḥ, pariśeṣataḥ pradhānasyaivāstitvaliṅgamidam tasmādyuktametat bhedānāṃ parimāṇādibhyaḥ kāraṇamastyavyaktamiti*


16

कारिका 16 आह एवमप्यस्य व्यक्तहेतुत्वमनुपपन्नम्, एकत्वात् बहूनां कार्यारम्भो दृष्टस्तन्त्वादीनाम् एकं प्रधानं, तस्मान्न तदारम्भशक्तियुक्तमिति उच्यते- यद्यपि गुणानां प्रधानलक्षणमवस्थान्तरमभिन्नबुद्धिनिमित्तत्वादेकमपि कार्यकाले किंचिद्वैषम्योपजनितव्यपदेश्यरूपाभिरितरेतरोपकारिणीभिः शक्तिभिः स्मुदायत्वमापद्यते तस्मादिदानीं प्रवर्तते त्रिगुणतः समुदयाच्च प्रवर्तते इत्यनेनोत्पत्तिमाचष्टे त्रिगुणत इत्यव्यपदेश्यरूपाणां प्रधानाप्रधानभावेन गुणशक्तीनां वैषम्याद्व्यपदेश्यरूपान्तरमाह यत्रैतच्छक्यते वक्तुं त्रयः सत्त्वादय इति तदवस्थानं कार्यारम्भकमिति समुदयादित्यनेन परस्परापेक्षाणामारम्भशक्तिमवद्योतयति एतदुक्तं भवति- कार्यकाले गुणाः परित्यक्तपूर्वावस्था भेदं प्रतिलभ्य परस्परोपकारेण संहन्यते संहताश्च व्यक्तमुत्पादयन्ति तस्मान्नावस्थान्तरस्याभिन्नबुद्धिनिमित्तत्वात्प्रधानैकत्वदोषः गुणभेदान्नैकस्य कार्यारम्भ इति आह, निष्क्रियत्वात्तर्हि प्रकृतेः कार्यारम्भो ऽनुपपन्नः क्रियात्वानभ्युपगमे वा व्यक्तवैधर्म्यविरोध इति उच्यते- न, क्रियावैधर्म्यभेदात् द्विविधा हि क्रिया प्रस्पन्दलक्षणा परिणामलक्षणा च तत्र प्रस्पन्दः प्रधानस्य सौक्ष्म्यात्प्रतिषिध्यते परिणामतः तु तत्कार्यमारभते इति आह- ननु च परिणामो ऽपि सौक्ष्म्यात्प्रधानस्य नोपपद्यते कस्मात् ? न हि सौक्ष्म्यात्सूक्ष्मस्याकाशादेर्विपरिणामो दृष्ट इति उच्यते- संस्कारस्य सौक्ष्म्ये ऽपि परिणामो ऽभ्युपगन्तव्यः तस्माद् युक्तः सूक्ष्मपरिणामीति आह, कः पुनरयं परिणामो नाम ? उच्यते- जहद्धर्मान्तरं पूर्वमादत्ते यदा परम् तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यते इति यदा शक्त्यन्तरानुग्रहात्पूर्वधर्मान् तिरोभाव्य स्वरूपादप्रच्युतो धर्मी धर्मान्तरेणाविर्भवति तदवस्थानमस्माकं परिणाम इत्युच्यते आह, नैतदभिधानमात्रं दृष्टान्तमन्तरेण प्रतिपद्यामहे तस्माद्यथा किमिति वक्तव्यम् उच्यते- यथा पालाशं पलाशादप्रच्युतनिमित्तान्तरस्यातपादेरनुग्रहाच्छ्यामतां तिरोभाव्य पीततां व्रजति तथेदं द्रष्टव्यम् आह न, अन्यथोत्पत्तेरप्रतिषेधात् कथं पुनरेतवगम्यते पालाशं स्वरूपादप्रच्युतं धर्मान्तरस्य परित्यागमुपादानं च करोति, न पुनरन्यथा चान्यथा चोपपद्यत इति ? उच्यते- क्षणभङ्गप्रतिषेधात् प्रागेव क्षणभङ्गनिर्दिष्टं विनष्टानां भावानां पुनरुत्पत्तौ नास्ति कारणम् तदभावे चोत्पत्तिरयुक्तेति आह, धर्मधर्मिणोरनन्यत्वाभ्युपगमाद्धर्मोत्पत्तिविनाशे धर्म्युत्पत्तिविनाशप्रसंगः न हि वो धर्मेभ्यो ऽन्यो धर्मी तत्र यदि धर्मस्य निवृत्तिरभ्युपगम्यते धर्मिणो ऽपि निवृत्तिरनन्यत्वात्प्राप्ता धर्मोत्पत्तौ तदुत्पत्तिः तत्र यदुक्तं धर्मोत्पत्तिविरोधे धर्मीस्वरूपावस्थानमिति एतदयुक्तम् उच्यते न, सेनादिवद्व्यवस्थानोपपत्तेः तद्यथा सेनाङ्गेभ्यो ऽनन्यत्वं सेनायाः न च सेनाङ्गानां विनाशे सेनाविनाशः तद्यथा नान्यः पटः बौद्धानां संयोगावयविप्रतिषेधात् न च पटविनाशे तन्तुविनाशः तत्र यदुक्तं धर्मिविनाशे धर्मविनाश इति एतदयुक्तम् आह, एवमप्ययुक्तम् तत्कस्मात् ? सामान्यविशेषयोर्धर्मिस्वरूपपरिकल्पनानुपपत्तेः इह रूपादिसामान्यं वा धर्मिरूपत्वेन परिकल्प्यमानं परिकल्प्येत रूपादिविशेषो वा ? किं चातः तत्र तावद्रूपादिसामान्यं धर्मिस्वरूपमिति शक्यं कल्पयितुम् कस्मात् ? असम्भवात् यदि तावत्पृथिवी सामान्यं घटादिर्विशेषस्तेन पृथिव्यपि तन्मात्रापेक्षया विशेषः यावत्प्रधानमिति नास्ति सामान्यम् तदभावाद् धर्मिस्वरूपाभावः अथ विशेषा घटादयस्तेषां विशेषान्तरेण सहावस्थानाद्धर्मिस्वरूपानवस्थानात् ततश्च यदुक्तं स्वरूपादप्रच्युतो धर्मी धर्मान्तरं विजहाति, धर्मान्तरमुपादत्ते इति तद्व्याहन्यत इति उच्यते- यदुक्तं रूपादिसामान्यविशेषयोर्धर्मिस्वरूपपरिकल्पनानुपपत्तिरिति, अस्तु सामान्यम् यत्तूक्तं सामान्यं सामान्यान्तरापेक्षं विशेषत्वमिति न प्रत्ययनिवृत्तौ सामान्याभावावस्थितेस्ततश्च धर्मिस्वरूपसिद्धेः, यावत्पृथिवीत्ययं प्रत्ययो न निवर्तते सामान्यं घटादिर्विशेषः, द्रव्यत्वं चासौ, धर्मान्तरपरिवर्तेषु तदाकारप्रत्ययोत्पत्तितः स्वरूपावस्थानसिद्धेर्धर्मा घटादयः यदा तु पृथिवीप्रत्ययनिवृत्तिस्तदा तन्मात्राणां सामान्यभावो द्रव्यत्वं च विशेषो धर्म इति यावत्प्रधानं तस्य तु सामान्यान्तरानुपपत्तेः कौटस्थ्यमेव यत्र सर्वविशेषाभावस्तत्प्रधानम् यदि तु पृथिव्यादीनां नित्यमव्यावृतं सति कौटस्थ्यमेषां प्राप्तम् तस्मान्न धर्मिस्वरूपाभावः शक्तेर्वा सामान्यभावाभ्युपगमात् अथवा सुखदुःखमोहशक्तय एवेह महदादिना विशेषान्तेन लिङ्गेन परिणामं प्रतिपद्यन्ते तासां च सततं सामान्यप्रत्ययनिमित्तत्वात्स्वरूपादप्रच्युते तद्द्रव्यत्वं लिङ्गस्य धर्मत्वम् अप्रसिद्धेरयुक्तमिति चेन्नोक्तत्वात् प्रागुक्तमेतत्सुखादिपूर्वकं विश्वमिति आह- एवमपि वैश्वरूप्यानुपपत्तिः कारणविशेषात् यदि सुखादिशक्तय एव परिणामिन्यो यदिदं ब्रह्मादि स्थावरान्तं वैश्वरूप्यं तन्नोपपद्यते कस्मात् ? न ह्यभिन्नं कार्यमुत्पद्यत इति उच्यते- शक्तितश्च परिणामिनि, भवति तेन वैश्वरूप्यम् कथम् ? सलिलवत्प्रति प्रतिगुणाश्रयविशेषात् इस्क्_16 यथान्तरिक्षाविशिष्टस्याम्भसः प्रच्युतिराश्रयेण गोभुजङ्गमोष्ट्रादीनां, विशेषात्क्षीरमूत्रविषादिवैश्वरूप्यं चोपपद्यते तथा गुणशक्तयो विशिष्टाः परस्पराश्रयविशेषाद् ब्रह्मादि स्तम्बान्तं जात्याकृतिवाग्बुद्धिस्वभावाहारविहाररूपं वैश्वरूप्यं प्रतिपद्यन्ते तस्मात्सिद्धमेतत् प्रकृतिरेव सर्वभावनां प्रसवित्री न च कश्चिद्दोष इति

kārikā 16 āha evamapyasya vyaktahetutvamanupapannam, ekatvāt bahūnāṃ kāryārambho dṛṣṭastantvādīnām ekaṃ pradhānaṃ, tasmānna tadārambhaśaktiyuktamiti ucyate- yadyapi guṇānāṃ pradhānalakṣaṇamavasthāntaramabhinnabuddhinimittatvādekamapi kāryakāle kiṃcidvaiṣamyopajanitavyapadeśyarūpābhiritaretaropakāriṇībhiḥ śaktibhiḥ smudāyatvamāpadyate tasmādidānīṃ pravartate triguṇataḥ samudayācca pravartate ityanenotpattimācaṣṭe triguṇata ityavyapadeśyarūpāṇāṃ pradhānāpradhānabhāvena guṇaśaktīnāṃ vaiṣamyādvyapadeśyarūpāntaramāha yatraitacchakyate vaktuṃ trayaḥ sattvādaya iti tadavasthānaṃ kāryārambhakamiti samudayādityanena parasparāpekṣāṇāmārambhaśaktimavadyotayati etaduktaṃ bhavati- kāryakāle guṇāḥ parityaktapūrvāvasthā bhedaṃ pratilabhya parasparopakāreṇa saṃhanyate saṃhatāśca vyaktamutpādayanti tasmānnāvasthāntarasyābhinnabuddhinimittatvātpradhānaikatvadoṣaḥ guṇabhedānnaikasya kāryārambha iti āha, niṣkriyatvāttarhi prakṛteḥ kāryārambho 'nupapannaḥ kriyātvānabhyupagame vā vyaktavaidharmyavirodha iti ucyate- na, kriyāvaidharmyabhedāt dvividhā hi kriyā praspandalakṣaṇā pariṇāmalakṣaṇā ca tatra praspandaḥ pradhānasya saukṣmyātpratiṣidhyate pariṇāmataḥ tu tatkāryamārabhate iti āha- nanu ca pariṇāmo 'pi saukṣmyātpradhānasya nopapadyate kasmāt ? na hi saukṣmyātsūkṣmasyākāśādervipariṇāmo dṛṣṭa iti ucyate- saṃskārasya saukṣmye 'pi pariṇāmo 'bhyupagantavyaḥ tasmād yuktaḥ sūkṣmapariṇāmīti āha, kaḥ punarayaṃ pariṇāmo nāma ? ucyate- jahaddharmāntaraṃ pūrvamādatte yadā param tattvādapracyuto dharmī pariṇāmaḥ sa ucyate iti yadā śaktyantarānugrahātpūrvadharmān tirobhāvya svarūpādapracyuto dharmī dharmāntareṇāvirbhavati tadavasthānamasmākaṃ pariṇāma ityucyate āha, naitadabhidhānamātraṃ dṛṣṭāntamantareṇa pratipadyāmahe tasmādyathā kimiti vaktavyam ucyate- yathā pālāśaṃ palāśādapracyutanimittāntarasyātapāderanugrahācchyāmatāṃ tirobhāvya pītatāṃ vrajati tathedaṃ draṣṭavyam āha na, anyathotpatterapratiṣedhāt kathaṃ punaretavagamyate pālāśaṃ svarūpādapracyutaṃ dharmāntarasya parityāgamupādānaṃ ca karoti, na punaranyathā cānyathā copapadyata iti ? ucyate- kṣaṇabhaṅgapratiṣedhāt prāgeva kṣaṇabhaṅganirdiṣṭaṃ vinaṣṭānāṃ bhāvānāṃ punarutpattau nāsti kāraṇam tadabhāve cotpattirayukteti āha, dharmadharmiṇorananyatvābhyupagamāddharmotpattivināśe dharmyutpattivināśaprasaṃgaḥ na hi vo dharmebhyo 'nyo dharmī tatra yadi dharmasya nivṛttirabhyupagamyate dharmiṇo 'pi nivṛttirananyatvātprāptā dharmotpattau tadutpattiḥ tatra yaduktaṃ dharmotpattivirodhe dharmīsvarūpāvasthānamiti etadayuktam ucyate na, senādivadvyavasthānopapatteḥ tadyathā senāṅgebhyo 'nanyatvaṃ senāyāḥ na ca senāṅgānāṃ vināśe senāvināśaḥ tadyathā nānyaḥ paṭaḥ bauddhānāṃ saṃyogāvayavipratiṣedhāt na ca paṭavināśe tantuvināśaḥ tatra yaduktaṃ dharmivināśe dharmavināśa iti etadayuktam āha, evamapyayuktam tatkasmāt ? sāmānyaviśeṣayordharmisvarūpaparikalpanānupapatteḥ iha rūpādisāmānyaṃ vā dharmirūpatvena parikalpyamānaṃ parikalpyeta rūpādiviśeṣo vā ? kiṃ cātaḥ tatra tāvadrūpādisāmānyaṃ dharmisvarūpamiti śakyaṃ kalpayitum kasmāt ? asambhavāt yadi tāvatpṛthivī sāmānyaṃ ghaṭādirviśeṣastena pṛthivyapi tanmātrāpekṣayā viśeṣaḥ yāvatpradhānamiti nāsti sāmānyam tadabhāvād dharmisvarūpābhāvaḥ atha viśeṣā ghaṭādayasteṣāṃ viśeṣāntareṇa sahāvasthānāddharmisvarūpānavasthānāt tataśca yaduktaṃ svarūpādapracyuto dharmī dharmāntaraṃ vijahāti, dharmāntaramupādatte iti tadvyāhanyata iti ucyate- yaduktaṃ rūpādisāmānyaviśeṣayordharmisvarūpaparikalpanānupapattiriti, astu sāmānyam yattūktaṃ sāmānyaṃ sāmānyāntarāpekṣaṃ viśeṣatvamiti na pratyayanivṛttau sāmānyābhāvāvasthitestataśca dharmisvarūpasiddheḥ, yāvatpṛthivītyayaṃ pratyayo na nivartate sāmānyaṃ ghaṭādirviśeṣaḥ, dravyatvaṃ cāsau, dharmāntaraparivarteṣu tadākārapratyayotpattitaḥ svarūpāvasthānasiddherdharmā ghaṭādayaḥ yadā tu pṛthivīpratyayanivṛttistadā tanmātrāṇāṃ sāmānyabhāvo dravyatvaṃ ca viśeṣo dharma iti yāvatpradhānaṃ tasya tu sāmānyāntarānupapatteḥ kauṭasthyameva yatra sarvaviśeṣābhāvastatpradhānam yadi tu pṛthivyādīnāṃ nityamavyāvṛtaṃ sati kauṭasthyameṣāṃ prāptam tasmānna dharmisvarūpābhāvaḥ śaktervā sāmānyabhāvābhyupagamāt athavā sukhaduḥkhamohaśaktaya eveha mahadādinā viśeṣāntena liṅgena pariṇāmaṃ pratipadyante tāsāṃ ca satataṃ sāmānyapratyayanimittatvātsvarūpādapracyute taddravyatvaṃ liṅgasya dharmatvam aprasiddherayuktamiti cennoktatvāt prāguktametatsukhādipūrvakaṃ viśvamiti āha- evamapi vaiśvarūpyānupapattiḥ kāraṇaviśeṣāt yadi sukhādiśaktaya eva pariṇāminyo yadidaṃ brahmādi sthāvarāntaṃ vaiśvarūpyaṃ tannopapadyate kasmāt ? na hyabhinnaṃ kāryamutpadyata iti ucyate- śaktitaśca pariṇāmini, bhavati tena vaiśvarūpyam katham ? salilavatprati pratiguṇāśrayaviśeṣāt isk_16 yathāntarikṣāviśiṣṭasyāmbhasaḥ pracyutirāśrayeṇa gobhujaṅgamoṣṭrādīnāṃ, viśeṣātkṣīramūtraviṣādivaiśvarūpyaṃ copapadyate tathā guṇaśaktayo viśiṣṭāḥ parasparāśrayaviśeṣād brahmādi stambāntaṃ jātyākṛtivāgbuddhisvabhāvāhāravihārarūpaṃ vaiśvarūpyaṃ pratipadyante tasmātsiddhametat prakṛtireva sarvabhāvanāṃ prasavitrī na ca kaściddoṣa iti

Section (cont. 15)

17

युक्तिदीपिकायां सांख्यसप्ततिपद्धतौ चतुर्थमाह्निकम् कारिका 17 आह, समधिगतं प्रधानम् पुरुष इदानीं कार्यकारणव्यतिरिक्तो ऽस्तीत्येतत्प्रतिपाद्यम् कुतः संशय इति चेत् अनुपलभ्यमानस्योभयथा दृष्टत्वादित्युक्तम् किं चान्यत् आचार्यविप्रतिपत्तेः विज्ञानस्कन्धव्यतिरिक्तो नास्ति कश्चिदर्थ इति शाक्यपुत्रीयाः प्रतिपन्नाः कस्मात् ? सर्वप्रमाणानुपलब्धेः इह यदस्ति तत्प्रत्यक्षादिना प्रमाणेनोपलभ्यते, तद्यथा रूपादि ततश्च तावदयमात्मा न प्रत्यक्षत उपलभ्यते कस्मात् ? अशब्दादिलक्षणात् नान्तःप्रत्यक्षतः कस्मात् ? त्रिगुणादिविपरीतस्य तदविषयत्वात् न पूर्ववच्छेषवद्भ्याम् कार्यकारणानुपपत्तेः न च सामान्यतोदृष्टात् धर्मसामान्याभावात् नाप्तवचनात् अनभ्युपगमात् न हि बौद्धानां श्रुतिस्मृतिपुराणेतिहासाः प्रमाणम् यश्चैषामागमः, स एवमाह "आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते नैवेह सत्त्वमात्मास्ति धर्मास्त्वेते सहेतुकाः द्वादशैव तवाङ्गानि स्कन्धायतनधातवः विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते शून्यमाध्यात्मिकं विद्धि शून्यं पश्य बहिर्गतम् न दृश्यते सो ऽपि कश्चिद्यो भावयति शून्यताम् पुनरप्याह "अस्ति कर्मास्ति विपाकः, कारकस्तु नोपलभ्यते य इमान्स्वान्धर्मानाक्षिपति अन्यांश्च प्रति सन्दधाति, अन्यत्र धर्मसंकेतात् तस्मात्सर्वप्रमाणानुपलब्धेर्नास्त्यात्मेति उच्यते- यत्तावदुक्तं प्रत्यक्षतः पूर्ववच्छेषवद्भ्यां चात्मनो नोपलब्धिरिति, सत्यमेतत् यत्तूक्तं सामान्यतोदृष्टादनुपलब्धिरात्मसामान्यानुपपत्तेरिति, तदयुक्तम् कस्मात् ? संघातपरार्थत्वात् इह संघाताः परार्था दृष्टाः तद्यथा शयनासनरथचरणादयः अस्ति चायं शरीरलक्षणः संघातः तस्मादनेनापि परार्थेन भवितव्यम् यो ऽसौ परः स पुरुषः तस्मादस्ति पुरुषः आह, संघातपरार्थत्वोपलब्धेः शयनादयो हि सत्यपि परार्थत्वे संघातार्थाः यदि च तैरतिदेशः कार्यकारणसंघातस्य क्रियते प्राप्तमस्य तद्वत्संघातार्थत्वम् एवं पुरुषविपरीतार्थसिद्धिप्रसंगः अथैतदनिष्टं, न तर्हि चक्षुरादयः परार्थाः उच्यते- न शक्यमेतदापादयितुम् कस्मात् ? असंहतत्वसिद्धौ वादप्रवृत्तेः सिद्धे सत्यसंहतत्वे पुरुषस्यायं वादः प्रवृत्तः तस्मान्न पारार्थ्यमनेन बाध्यते कथमवगम्यत इति चेत्, प्रत्यक्षतो ऽनुपलब्धेः सति हि संघातत्वे देवदत्तादिवदयं पुरुषः प्रत्यक्षत एवोपलभ्येत तथा च सति संशयाभावात्प्रवृत्तिरेवास्य वादस्य न स्यात् तस्मादयुक्तं संहतार्थाः शयनादिवच्चक्षुरादयः आह, परस्परोपकारित्वात्पारार्थ्यसिद्धिः इह क्षेत्रोदकसूर्यादयः शस्यादीनामुपकारकाः तथा कार्यकारणत्वात्संघातश्च यथोक्तं तस्मादयुक्तमेतेषां पारतन्त्र्यमिति उच्यते- न शयनादिवत्ततो ऽन्येनार्थवत्त्वात् तद्यथा शयनाद्यङ्गानां सति परस्परोपकारित्वे ततो ऽन्येनार्थवत्त्वात्तदभावे चार्थानर्थक्यम् एवं चक्षुरादीनां सति परस्परोपकारित्वे ततो ऽन्येनार्थवत्त्वं भवितुमर्हति तदभावे चार्थानर्थक्यमिति आह, शयनादीनां देवदत्तार्थत्वात्तस्य च भेदा बहिर्भावात्परस्परार्थत्वप्रसंगः एवं शयनादयो देवदत्तार्थाः, कार्यकारणसंघातश्च देवदत्तशब्दवाच्यस्तत्र भेदानामेव भेदार्थत्वात्पुरुषार्थसिद्धिः दृष्टान्ताभावो वा अथ मतं शयनादयो न देवदत्तार्थाः, किं तर्हि क्षेत्रज्ञार्थाः तथा सति साध्यसमो दृष्टान्त इति उच्यते- न, प्रसिद्ध्यनुरोधात् सत्यं कार्यकारणसंघातस्य पारार्थ्यम् भोक्तृत्वं नोपपद्यते लोके तु देवदत्तार्थत्वं शयनादीनां प्रसिद्धम् अतस्तदनुगच्छन्तो वयमप्येवं ब्रूमः कस्मात् ? प्रसिद्धेः प्रसिद्धेन ह्यप्रसिद्धं तद्धर्मतामापद्यते भवद्भिरप्युक्तं "यस्य हि प्रतिक्षणमन्यथात्वं नास्ति तस्य बाह्यप्रत्यययोः भेदः, पश्चाद्विशेषग्रहणे नास्ति तद्यथा भूमेरपच्यमानायाः पाकजानाम् " न च भूमेः प्रतिक्षणमन्यथात्वं नास्ति, अक्षणिकत्वप्रसंगात् सौक्ष्म्याद्दुरधिगमो भेद इति दृष्टान्तः प्रयुक्तः तस्मात्सिद्धं संघातपरार्थत्वादस्ति पुरुषः इतश्च- त्रिगुणादिविपर्ययात् त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि च बाह्याध्यात्मिकं तथा प्रधानम् तत्र यद्येतावदेतत्स्यात् किमपेक्ष्य व्यक्ताव्यक्तयोस्त्रैगुण्यादिति ? किं चान्यत् अधिष्ठानात् इहाकस्मिक्यां प्रधानप्रवृत्तावर्थवशः सन्निवेशनियमो न स्यात् श्रोत्रादि पृथिव्यादीनां देवमानुषतिर्यक्षु हितयोगार्थश्चाप्रतिषेधार्थश्च सः तस्मादस्ति तद्व्यतिरिक्तो यदधिष्ठितानां गुणानामयं चित्ररूपो विपरिणामः कर्तृत्वप्रसंगादधिष्ठानानुपपत्तिरिति चेत्, स्यान्मतं यदि गुणानां पुरुषाधिष्ठितानां प्रवृत्तिरभ्युपगम्यते, कर्तृत्वमस्य प्राप्तम् अथाकर्ता न तर्ह्यस्त्यधिष्ठातृत्वमिति एतच्चायुक्तम् कस्मात् ? अर्थे तदुपचारात् यथापुरुषार्थः सिद्ध्यति तथा गुणा कार्यकारणभावेन व्यूह्यन्त इत्यतस्तत्पारतन्त्र्यादेषामधिष्ठितत्वमुपपद्यते, पुरुषस्य चाधिष्ठितृत्वम् अतो नास्य कर्तृत्वप्रसंगः तस्माद्युक्तमेतत् अधिष्ठानात्पुरुषः किञ्चान्यत् पुरुषो ऽस्ति भोक्तृभावात् इह सुखदुःखमोहात्मकत्वादचेतनं व्यक्तमव्यक्तं च, तस्मादस्य परस्परेण भोगो नोपपद्यते, इत्यवश्यं भोक्त्रा भवितव्यम् यो ऽसौ भोक्ता स पुरुषः आह, कः पुनरयं भोगो नाम ? उच्यते- भोग उपलब्धिसद्भावात् विज्ञानमेव हि विषयोपलब्धिसमर्थमित्यतस्तावन्मात्रमेवास्तु किं पुरुषेण परिकल्पितेनेति ? उच्यते- किं पुनरिदं विज्ञानं नामेति ? आह, चित्तं मनो विज्ञानमिति तच्च षड्विधं ज्ञानं- चक्षुर्विज्ञानं, श्रोत्रविज्ञानं, घ्राणविज्ञानं, जिह्वाविज्ञानं, कायविज्ञानं, मनोविज्ञानमिति तत्र रूपं प्रतीत्य चक्षुश्चोत्पद्यते चक्षुर्विज्ञानम् एवं श्रोत्रशब्दघ्राणगन्धजिह्वारसमनोधर्माश्चित्तमुत्पादयन्ति तस्य धर्माः - वेदना, संज्ञा, स्पर्शो, मनः, संस्कार एवमादयः तस्माद्विज्ञानस्कन्धस्यैवोपभोगसामर्थान्नास्त्यात्मेति उच्यते- न, अचेतनविकारस्य चेतनानुपत्तेः तत्तु खल्विदमिष्यते रूपं प्रतीत्य चक्षुश्चोत्पद्यते चक्षुर्विज्ञानमित्यादि, तेनाचेतनविकारत्वात्तदचेतनं घटादिवदित्यापन्नम् तस्मान्मनोधर्मश्चेतनेति मनोरथमात्रमेतत् विलक्षणकार्योत्पत्तिदर्शनात्तत्सिद्धिरिति चेत्, स्यान्मतं नायं नियमः यदुत यज्जातीयं कारणं तज्जातीयकेन कार्येण भवितव्यम् किं तर्हि विलक्षणकार्योत्पत्तिरिति भावानामुपलभ्यते तद्यथा- शृङ्गाच्छरो जायते, गोलोमाविलोमभ्यो दूर्वा वत्सतरान्मुक_यश्चन्द्रकान्तेन्दुसंयोगात्सलिलम् सूर्यकान्तगोमयार्कसम्पर्कात् सुधोदकसम्पर्कादरणीनिर्मथनाच्चाग्निः एवमचेतनेभ्यो रूपादिभ्यश्चेतनमुत्पद्यत इति एतच्चायुक्तम्, चेतनाचेतनोत्पत्तिनियमवत्तन्नियमात् यथा सत्येतस्मिन्विलक्षणकार्यप्रादुर्भावे भवतश्चेतनाच्चित्तान्नाचेतनं घटाद्युत्पद्यत इति नियमः, तथा सत्येतस्मिन्विलक्षणकार्यप्रादुर्भावे नाचेतनेभ्यो रूपादिभ्यश्चेतनं चित्तमुत्पद्यत इत्ययं नियमो नः तस्मादेषां दृष्टानां सति बहुत्वे मायाकारनगरविन्यासवदयथार्थज्ञानविषयत्वादसाधीयस्त्वम् प्रदीपवत्तद्व्यवस्थेति चेत्, स्यादेतत् यथाचेतनेभ्यः सत्त्वादिभ्यो ऽव्यवसायकं घटाद्युत्पद्यत इति नेदानीं व्यवसायको महान्नोत्पद्यते एवं रूपादिभ्यो ऽचेतनं घटाद्युत्पद्यत इति नेदानीं चेतनं चित्तं नोत्पद्यत इति एतदप्यनुपपन्नम् कस्मात् ? शक्तिभेदात् प्रकाशस्वाभाव्याद्व्यवसायात्मकं सत्त्वम् तद्युक्तं यदि तत्प्रान्याद्व्यवसायात्मको महानुत्पद्यते तमः प्राधान्याद्व्यवसायका घटादयः भवतस्त्वेकाकाराः रूपादयः तस्मादायमसमः समाधिरिति आह, किं व्यवसायचैतन्ययोः कश्चिद्रूपभेदो ऽस्ति न वेति ? उच्यते- किं तर्हि त्रैगुण्यात्सति प्रत्ययरूपत्वे संवेद्या बुद्धिर्यथा तु व्यवसायरूपं तथा चैतन्यरूपमिति तथा च वार्षगणाः पठन्ति- बुद्धिवृत्त्याविष्टो हि प्रत्ययत्वेनानुवर्तमानामनुयाति पुरुष इति आह च अर्थाकार इवाभाति यथा बुद्धिस्तथा पुमान् आभासमानो बुद्ध्यातो बोद्धा मणिवदुच्यते यथा यथा मनोवृत्तिः पुरुषो ऽस्ति तथा तथा बुद्धिरूपमवाप्नोति चेतनत्वात्पराश्रयम् आह, रूपाभेदात्पुरुषान्तःकरणयोरन्यतरपरिकल्पनानर्थक्यम् यदि तर्हि यथा व्यवसायरूपं तथा चैतन्यरूपम्, एवं सति व्यवसायमात्रं परिकल्पनीयं चैतन्यमात्रं वा ? कस्मात् ? न ह्येकान्तकारिणोर्युगपत् कल्पने सामर्थ्यमस्ति रूपान्तराभिधानं वा अथ व्यवसायचैतन्ययोः पदार्थानामन्तरमेवेति नित्यतो विशेष्यते, तर्हि वक्तव्यमिदममुष्यैव रूपं नामुष्येति उच्यते- य एवमाह रूपाभेदादर्थाभेद इति स तावदिदं प्रष्टव्यः- अथ किम् ? भवतः किं विज्ञानविषययोराकारहेदो ऽस्ति उत नास्तीति ? नेत्याह कस्मात् ? आकारान्तरे सति विषयपरिच्छेदानुपपत्तेः न हि विषयस्य विज्ञानप्रत्यवभासमन्तरेण शक्यं स्वरूपं परिच्छेत्तुम् तत्र यदन्याकारो गौरन्याकारं गोविज्ञानं स्यात्तेन यथान्याकारेणाश्वविज्ञानेनान्याकारस्य गोरपरिच्छेदः, एवमन्याकारेण गोविज्ञानेनान्याकारस्य गोपरिच्छेदः स्यात् तस्मान्नास्ति विषयविज्ञानयोराकारभेद इति उच्यते- तयोरिदानीं विषयविषयविज्ञानयोः किमुभयत्वमुताभेद इति ? आह, कस्मात् ? ज्ञाप्यज्ञापकभावादिति उच्यते- ज्ञानविज्ञेययोर्यद्वद्रूपाभेदे ऽपि भिन्नता ग्राह्यग्राहकभावेन तथैवात्मप्रकाशयोः यथैव तर्हि भवतः सत्यप्याकारभेदे ज्ञानविज्ञेययोर्ग्राह्यग्राहकभावपरिकल्पनाद्भेद एवं पुरुषान्तःकरणयोरपीति ग्राह्यग्राहकभावासिद्धेरयुक्तमिति चेत् स्यादेतत्, यथा गोतद्विज्ञानयोर्ग्राह्यग्राहकभावो निश्चितो नैवं पुरुषान्तःकरणयोः तस्माद्वैषम्यमिति एतदनुपपन्नम् कस्मात् ? मार्गान्तरगमनात् प्रागुक्तं येषामाकारभेदो नास्ति तेषामेकत्वम् इदानीं तु रूपाभेदे ऽपि ग्राह्यग्राहकभावादेवं ब्रुवतो मार्गान्तरम् ज्ञानमात्राभ्युपगमादशाक्यीयमिति चेत् स्यान्मतम्, ज्ञानमेवान्तरासद्विषयभूतानुरञ्जितं विषयविषयिरूपेण प्रत्यवभासते न तु किंचिद्बाह्यं किंचिद् ग्राह्यरूपापन्नमस्ति तस्माज्ज्ञानविज्ञेययोर्ग्राह्यग्राहकभेदाद्भेद इत्यशाक्यीयमेतत् इति तदप्ययुक्तम् कस्मात् ? सिद्धान्तभेदात् येषां बाह्यो विषयो ऽस्ति तत्पक्षे ऽयं दोषः इतरेषां तु ज्ञानमात्रस्य विषयविषयिभावं प्रतिषेत्स्याम इति आह, एवमपि विषयानवस्थाप्रसंगः विषयिणो विषयत्वप्रतिज्ञानात् यदि विषयिणो ऽप्यध्यवसायस्य विषयभावः प्रतिज्ञायते, तेन पुरुषस्यापि विषयिणो ऽन्यो विषयीति प्राप्तम्, तस्याप्यन्य इत्यनवस्थाः अथ मा भूदयं दोष इति पुरुषो निश्चयरूपत्वान्न विषयो न तर्ह्यध्यवसायादपि निश्चेतुरर्थान्तरं कल्पयितव्यमिति उच्यते- चेतनात्वात्पुरुषे तदनुपपत्तिः इन्द्रियाणि तावद्ग्रहणमात्ररूपत्वादप्रत्ययानीति प्रत्ययवदन्तस्तावत्करणं परिकल्प्यते अनःकरणमप्युपात्तविषयेन्द्रियवृत्त्युपनिपातात्तद्रूपापत्तावपि सत्यामचेतनत्वात्स्वयमुपलब्धुमसमर्थमेव विषयमित्यतो भोक्तारं चेतनं पुरुषमपेक्षते पुरुषस्य तु चेतनत्वाद् द्रष्ट्रन्तरमशक्यं कल्पयितुम् तस्मान्नानवस्थाप्रसंगः आह, पुरुषस्याध्यवसायकर्तृत्वप्रसंगः, चैतन्यात् यद्यचेतना बुद्धिस्तेन तस्या अध्यवसायो वृत्तिर्घटादिवन्न प्राप्नोति अतः पुरुषस्याध्यवसायः प्राप्तः ततश्च बुद्ध्यभाव इति उच्यते- न, कैवल्यादप्रतिबन्धप्रसंगात् अनामिश्ररूपं पुरुषतत्त्वमिति एतदुपरिष्टाद्वक्ष्यामः स यदि व्यवसायात्मकः स्यात्, अप्रतिबन्धेन दिङ्निश्चयादिषु सुप्तमत्तमूर्च्छितानां च व्यवसायः स्यात् दृष्टस्त्वेवमवस्थस्य व्यवसायप्रतिबन्धः तस्मान्न पुरुषस्य व्यवसायह यस्य पुनरन्तःकरणं व्यवसायकं तस्यैवं दोषो नास्ति कस्मात् ? त्रैगुण्यात् सत्त्वादिसंस्थानविशेषो हि बुद्धिः, करणान्तरप्रतिषेधात् तत्र यदाध्यवसायलक्षणं सत्त्वं गुणाभावात्प्रधानभूतेन तमसा तिरस्कृतशक्ति भवति तदाध्यवसायप्रतिबन्धः आह, कथं पुनरेतद् गम्यते सर्वमिदमचेतनमिति ? उच्यते- प्रकृतिविकारभूतत्वात् इह यत्प्रकृतिविकारभूतं तदचेतनम् तद्यथा तन्तुपटादयः प्रकृतिविकारभूतं तस्मादचेतनम् आकाशे दर्शनान्नैकान्त इति चेन्न, असिद्धत्वात् न ह्याकाशस्यात्मपक्षे प्रकृतिविकारत्वाभावः सिद्धः तस्माद्युक्तमेतत्प्रकृतिविकारभूतत्वादचेतनं सर्वम् अत एव च चेतनस्याप्रकृतिविकारभूतत्वं परस्परवैधर्म्यात् तस्मान्नान्यस्य परमार्थस्य भोक्तृत्वमाचेतन्यादुपपद्यते, न चेत् सूक्तं भोक्तृभावादस्ति पुरुषः कैवल्यार्थं प्रवृत्तेश्च इस्क्_17 इह प्रवृत्तिमतां निमित्तमन्तरेण निवृत्तिर्नोपपद्यते प्रधानमपि च प्रवृत्तिमद्, व्यक्तदर्शनात् तस्माद्यस्य कैवल्यं प्रधानप्रवृत्तिहेतुः स पुरुषः प्रधानानभ्युपगमादुभयाप्रसिद्धिरिति चेत् स्यादेतत्, प्रधानं चेतनवदस्माकमप्रसिद्धम् यावत्तस्य कैवल्यार्थं प्रवृत्तिर्भवता पुरुषास्तित्वे लिङ्गमपदिश्यते तदिदमसिद्धं प्रदिपाद्यत इति एतच्चायुक्तम् कस्मात् ? पूर्वं तत्प्रतिपादनात् प्राक्प्रधानमप्रतिपाद्यैवमाचक्षाणः सत्यमेवं पर्यनुयोगार्हः स्यात्, साधितं तु प्रधानं परिमाणादिभिरित्यतो न किंचिदेतत् सर्वाचार्यविप्रतिपत्तेः पुरुषार्थसिद्धिरिति चेत् स्यान्मतम्, यदि पुरुषस्य सत्त्वमेव स्यात्तेन तं प्रत्याचार्याणां न धर्मविवादः स्यात् अस्ति चासौ तथा हि केषांचिन्निर्गुणः, केषांचित्परवान् अतः सर्वेषां विभुः, परिमितो ऽन्येषां, तथैको नैक इति तस्माद्भ्रान्तिमात्रं पुरुषकल्पनेति एतदनुपपन्नम् कस्मात् ? सर्वपदार्थाभावप्रसंगात् रूपादिष्वपि विप्रतिपत्तेः केषांचित्क्षणिकाः, केषांचित्कालान्तरावस्थायिनः, तथाश्रिताः, स्वतन्त्रा इत्यादि तथा श्रोतादीनि भौतिकानि, आहंकारिकाणि, पौरुषाणीति विप्रतिपत्तिः एवं सर्वपदार्थाभावः स्यात् तस्मादस्ति पुरुषः तत्र युक्तं सर्वप्रमाणानुपलब्धेर्नास्ति पुरुष इति एतदयुक्तम् यदप्युक्तम् "शून्यकमाध्यात्मिकं पश्येति" तस्य पश्चात्प्रतिषेधं वक्ष्यामः यत्पुनरेतदुक्तं "अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यत" इति सत्यमेतत् न हि पुरुषस्कन्धानां निक्षेपे प्रतिसंधाने ऽन्यत्र वा कारक इति नः पक्षः तस्माच्छ्रेयो ऽर्थिभिः सर्वागमतर्कविरुद्धां नैरात्म्यवादपरिकल्पनाभ्रान्तिमसमञ्जसामपोह्य पुरुषसत्त्वपरिज्ञानादेव जननमरणादिसर्वोपद्रवप्रतिपक्षभूतं परममृतं ध्रुवं स्थानमवाप्तव्यमिति

yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau caturthamāhnikam kārikā 17 āha, samadhigataṃ pradhānam puruṣa idānīṃ kāryakāraṇavyatirikto 'stītyetatpratipādyam kutaḥ saṃśaya iti cet anupalabhyamānasyobhayathā dṛṣṭatvādityuktam kiṃ cānyat ācāryavipratipatteḥ vijñānaskandhavyatirikto nāsti kaścidartha iti śākyaputrīyāḥ pratipannāḥ kasmāt ? sarvapramāṇānupalabdheḥ iha yadasti tatpratyakṣādinā pramāṇenopalabhyate, tadyathā rūpādi tataśca tāvadayamātmā na pratyakṣata upalabhyate kasmāt ? aśabdādilakṣaṇāt nāntaḥpratyakṣataḥ kasmāt ? triguṇādiviparītasya tadaviṣayatvāt na pūrvavaccheṣavadbhyām kāryakāraṇānupapatteḥ na ca sāmānyatodṛṣṭāt dharmasāmānyābhāvāt nāptavacanāt anabhyupagamāt na hi bauddhānāṃ śrutismṛtipurāṇetihāsāḥ pramāṇam yaścaiṣāmāgamaḥ, sa evamāha "ātmaiva hyātmano nāsti viparītena kalpyate naiveha sattvamātmāsti dharmāstvete sahetukāḥ dvādaśaiva tavāṅgāni skandhāyatanadhātavaḥ vicintya sarvāṇyetāni pudgalo nopalabhyate śūnyamādhyātmikaṃ viddhi śūnyaṃ paśya bahirgatam na dṛśyate so 'pi kaścidyo bhāvayati śūnyatām punarapyāha "asti karmāsti vipākaḥ, kārakastu nopalabhyate ya imānsvāndharmānākṣipati anyāṃśca prati sandadhāti, anyatra dharmasaṃketāt tasmātsarvapramāṇānupalabdhernāstyātmeti ucyate- yattāvaduktaṃ pratyakṣataḥ pūrvavaccheṣavadbhyāṃ cātmano nopalabdhiriti, satyametat yattūktaṃ sāmānyatodṛṣṭādanupalabdhirātmasāmānyānupapatteriti, tadayuktam kasmāt ? saṃghātaparārthatvāt iha saṃghātāḥ parārthā dṛṣṭāḥ tadyathā śayanāsanarathacaraṇādayaḥ asti cāyaṃ śarīralakṣaṇaḥ saṃghātaḥ tasmādanenāpi parārthena bhavitavyam yo 'sau paraḥ sa puruṣaḥ tasmādasti puruṣaḥ āha, saṃghātaparārthatvopalabdheḥ śayanādayo hi satyapi parārthatve saṃghātārthāḥ yadi ca tairatideśaḥ kāryakāraṇasaṃghātasya kriyate prāptamasya tadvatsaṃghātārthatvam evaṃ puruṣaviparītārthasiddhiprasaṃgaḥ athaitadaniṣṭaṃ, na tarhi cakṣurādayaḥ parārthāḥ ucyate- na śakyametadāpādayitum kasmāt ? asaṃhatatvasiddhau vādapravṛtteḥ siddhe satyasaṃhatatve puruṣasyāyaṃ vādaḥ pravṛttaḥ tasmānna pārārthyamanena bādhyate kathamavagamyata iti cet, pratyakṣato 'nupalabdheḥ sati hi saṃghātatve devadattādivadayaṃ puruṣaḥ pratyakṣata evopalabhyeta tathā ca sati saṃśayābhāvātpravṛttirevāsya vādasya na syāt tasmādayuktaṃ saṃhatārthāḥ śayanādivaccakṣurādayaḥ āha, parasparopakāritvātpārārthyasiddhiḥ iha kṣetrodakasūryādayaḥ śasyādīnāmupakārakāḥ tathā kāryakāraṇatvātsaṃghātaśca yathoktaṃ tasmādayuktameteṣāṃ pāratantryamiti ucyate- na śayanādivattato 'nyenārthavattvāt tadyathā śayanādyaṅgānāṃ sati parasparopakāritve tato 'nyenārthavattvāttadabhāve cārthānarthakyam evaṃ cakṣurādīnāṃ sati parasparopakāritve tato 'nyenārthavattvaṃ bhavitumarhati tadabhāve cārthānarthakyamiti āha, śayanādīnāṃ devadattārthatvāttasya ca bhedā bahirbhāvātparasparārthatvaprasaṃgaḥ evaṃ śayanādayo devadattārthāḥ, kāryakāraṇasaṃghātaśca devadattaśabdavācyastatra bhedānāmeva bhedārthatvātpuruṣārthasiddhiḥ dṛṣṭāntābhāvo vā atha mataṃ śayanādayo na devadattārthāḥ, kiṃ tarhi kṣetrajñārthāḥ tathā sati sādhyasamo dṛṣṭānta iti ucyate- na, prasiddhyanurodhāt satyaṃ kāryakāraṇasaṃghātasya pārārthyam bhoktṛtvaṃ nopapadyate loke tu devadattārthatvaṃ śayanādīnāṃ prasiddham atastadanugacchanto vayamapyevaṃ brūmaḥ kasmāt ? prasiddheḥ prasiddhena hyaprasiddhaṃ taddharmatāmāpadyate bhavadbhirapyuktaṃ "yasya hi pratikṣaṇamanyathātvaṃ nāsti tasya bāhyapratyayayoḥ bhedaḥ, paścādviśeṣagrahaṇe nāsti tadyathā bhūmerapacyamānāyāḥ pākajānām " na ca bhūmeḥ pratikṣaṇamanyathātvaṃ nāsti, akṣaṇikatvaprasaṃgāt saukṣmyādduradhigamo bheda iti dṛṣṭāntaḥ prayuktaḥ tasmātsiddhaṃ saṃghātaparārthatvādasti puruṣaḥ itaśca- triguṇādiviparyayāt triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ca bāhyādhyātmikaṃ tathā pradhānam tatra yadyetāvadetatsyāt kimapekṣya vyaktāvyaktayostraiguṇyāditi ? kiṃ cānyat adhiṣṭhānāt ihākasmikyāṃ pradhānapravṛttāvarthavaśaḥ sanniveśaniyamo na syāt śrotrādi pṛthivyādīnāṃ devamānuṣatiryakṣu hitayogārthaścāpratiṣedhārthaśca saḥ tasmādasti tadvyatirikto yadadhiṣṭhitānāṃ guṇānāmayaṃ citrarūpo vipariṇāmaḥ kartṛtvaprasaṃgādadhiṣṭhānānupapattiriti cet, syānmataṃ yadi guṇānāṃ puruṣādhiṣṭhitānāṃ pravṛttirabhyupagamyate, kartṛtvamasya prāptam athākartā na tarhyastyadhiṣṭhātṛtvamiti etaccāyuktam kasmāt ? arthe tadupacārāt yathāpuruṣārthaḥ siddhyati tathā guṇā kāryakāraṇabhāvena vyūhyanta ityatastatpāratantryādeṣāmadhiṣṭhitatvamupapadyate, puruṣasya cādhiṣṭhitṛtvam ato nāsya kartṛtvaprasaṃgaḥ tasmādyuktametat adhiṣṭhānātpuruṣaḥ kiñcānyat puruṣo 'sti bhoktṛbhāvāt iha sukhaduḥkhamohātmakatvādacetanaṃ vyaktamavyaktaṃ ca, tasmādasya paraspareṇa bhogo nopapadyate, ityavaśyaṃ bhoktrā bhavitavyam yo 'sau bhoktā sa puruṣaḥ āha, kaḥ punarayaṃ bhogo nāma ? ucyate- bhoga upalabdhisadbhāvāt vijñānameva hi viṣayopalabdhisamarthamityatastāvanmātramevāstu kiṃ puruṣeṇa parikalpiteneti ? ucyate- kiṃ punaridaṃ vijñānaṃ nāmeti ? āha, cittaṃ mano vijñānamiti tacca ṣaḍvidhaṃ jñānaṃ- cakṣurvijñānaṃ, śrotravijñānaṃ, ghrāṇavijñānaṃ, jihvāvijñānaṃ, kāyavijñānaṃ, manovijñānamiti tatra rūpaṃ pratītya cakṣuścotpadyate cakṣurvijñānam evaṃ śrotraśabdaghrāṇagandhajihvārasamanodharmāścittamutpādayanti tasya dharmāḥ - vedanā, saṃjñā, sparśo, manaḥ, saṃskāra evamādayaḥ tasmādvijñānaskandhasyaivopabhogasāmarthānnāstyātmeti ucyate- na, acetanavikārasya cetanānupatteḥ tattu khalvidamiṣyate rūpaṃ pratītya cakṣuścotpadyate cakṣurvijñānamityādi, tenācetanavikāratvāttadacetanaṃ ghaṭādivadityāpannam tasmānmanodharmaścetaneti manorathamātrametat vilakṣaṇakāryotpattidarśanāttatsiddhiriti cet, syānmataṃ nāyaṃ niyamaḥ yaduta yajjātīyaṃ kāraṇaṃ tajjātīyakena kāryeṇa bhavitavyam kiṃ tarhi vilakṣaṇakāryotpattiriti bhāvānāmupalabhyate tadyathā- śṛṅgāccharo jāyate, golomāvilomabhyo dūrvā vatsatarānmuka_yaścandrakāntendusaṃyogātsalilam sūryakāntagomayārkasamparkāt sudhodakasamparkādaraṇīnirmathanāccāgniḥ evamacetanebhyo rūpādibhyaścetanamutpadyata iti etaccāyuktam, cetanācetanotpattiniyamavattanniyamāt yathā satyetasminvilakṣaṇakāryaprādurbhāve bhavataścetanāccittānnācetanaṃ ghaṭādyutpadyata iti niyamaḥ, tathā satyetasminvilakṣaṇakāryaprādurbhāve nācetanebhyo rūpādibhyaścetanaṃ cittamutpadyata ityayaṃ niyamo naḥ tasmādeṣāṃ dṛṣṭānāṃ sati bahutve māyākāranagaravinyāsavadayathārthajñānaviṣayatvādasādhīyastvam pradīpavattadvyavastheti cet, syādetat yathācetanebhyaḥ sattvādibhyo 'vyavasāyakaṃ ghaṭādyutpadyata iti nedānīṃ vyavasāyako mahānnotpadyate evaṃ rūpādibhyo 'cetanaṃ ghaṭādyutpadyata iti nedānīṃ cetanaṃ cittaṃ notpadyata iti etadapyanupapannam kasmāt ? śaktibhedāt prakāśasvābhāvyādvyavasāyātmakaṃ sattvam tadyuktaṃ yadi tatprānyādvyavasāyātmako mahānutpadyate tamaḥ prādhānyādvyavasāyakā ghaṭādayaḥ bhavatastvekākārāḥ rūpādayaḥ tasmādāyamasamaḥ samādhiriti āha, kiṃ vyavasāyacaitanyayoḥ kaścidrūpabhedo 'sti na veti ? ucyate- kiṃ tarhi traiguṇyātsati pratyayarūpatve saṃvedyā buddhiryathā tu vyavasāyarūpaṃ tathā caitanyarūpamiti tathā ca vārṣagaṇāḥ paṭhanti- buddhivṛttyāviṣṭo hi pratyayatvenānuvartamānāmanuyāti puruṣa iti āha ca arthākāra ivābhāti yathā buddhistathā pumān ābhāsamāno buddhyāto boddhā maṇivaducyate yathā yathā manovṛttiḥ puruṣo 'sti tathā tathā buddhirūpamavāpnoti cetanatvātparāśrayam āha, rūpābhedātpuruṣāntaḥkaraṇayoranyataraparikalpanānarthakyam yadi tarhi yathā vyavasāyarūpaṃ tathā caitanyarūpam, evaṃ sati vyavasāyamātraṃ parikalpanīyaṃ caitanyamātraṃ vā ? kasmāt ? na hyekāntakāriṇoryugapat kalpane sāmarthyamasti rūpāntarābhidhānaṃ vā atha vyavasāyacaitanyayoḥ padārthānāmantarameveti nityato viśeṣyate, tarhi vaktavyamidamamuṣyaiva rūpaṃ nāmuṣyeti ucyate- ya evamāha rūpābhedādarthābheda iti sa tāvadidaṃ praṣṭavyaḥ- atha kim ? bhavataḥ kiṃ vijñānaviṣayayorākārahedo 'sti uta nāstīti ? netyāha kasmāt ? ākārāntare sati viṣayaparicchedānupapatteḥ na hi viṣayasya vijñānapratyavabhāsamantareṇa śakyaṃ svarūpaṃ paricchettum tatra yadanyākāro gauranyākāraṃ govijñānaṃ syāttena yathānyākāreṇāśvavijñānenānyākārasya goraparicchedaḥ, evamanyākāreṇa govijñānenānyākārasya goparicchedaḥ syāt tasmānnāsti viṣayavijñānayorākārabheda iti ucyate- tayoridānīṃ viṣayaviṣayavijñānayoḥ kimubhayatvamutābheda iti ? āha, kasmāt ? jñāpyajñāpakabhāvāditi ucyate- jñānavijñeyayoryadvadrūpābhede 'pi bhinnatā grāhyagrāhakabhāvena tathaivātmaprakāśayoḥ yathaiva tarhi bhavataḥ satyapyākārabhede jñānavijñeyayorgrāhyagrāhakabhāvaparikalpanādbheda evaṃ puruṣāntaḥkaraṇayorapīti grāhyagrāhakabhāvāsiddherayuktamiti cet syādetat, yathā gotadvijñānayorgrāhyagrāhakabhāvo niścito naivaṃ puruṣāntaḥkaraṇayoḥ tasmādvaiṣamyamiti etadanupapannam kasmāt ? mārgāntaragamanāt prāguktaṃ yeṣāmākārabhedo nāsti teṣāmekatvam idānīṃ tu rūpābhede 'pi grāhyagrāhakabhāvādevaṃ bruvato mārgāntaram jñānamātrābhyupagamādaśākyīyamiti cet syānmatam, jñānamevāntarāsadviṣayabhūtānurañjitaṃ viṣayaviṣayirūpeṇa pratyavabhāsate na tu kiṃcidbāhyaṃ kiṃcid grāhyarūpāpannamasti tasmājjñānavijñeyayorgrāhyagrāhakabhedādbheda ityaśākyīyametat iti tadapyayuktam kasmāt ? siddhāntabhedāt yeṣāṃ bāhyo viṣayo 'sti tatpakṣe 'yaṃ doṣaḥ itareṣāṃ tu jñānamātrasya viṣayaviṣayibhāvaṃ pratiṣetsyāma iti āha, evamapi viṣayānavasthāprasaṃgaḥ viṣayiṇo viṣayatvapratijñānāt yadi viṣayiṇo 'pyadhyavasāyasya viṣayabhāvaḥ pratijñāyate, tena puruṣasyāpi viṣayiṇo 'nyo viṣayīti prāptam, tasyāpyanya ityanavasthāḥ atha mā bhūdayaṃ doṣa iti puruṣo niścayarūpatvānna viṣayo na tarhyadhyavasāyādapi niśceturarthāntaraṃ kalpayitavyamiti ucyate- cetanātvātpuruṣe tadanupapattiḥ indriyāṇi tāvadgrahaṇamātrarūpatvādapratyayānīti pratyayavadantastāvatkaraṇaṃ parikalpyate anaḥkaraṇamapyupāttaviṣayendriyavṛttyupanipātāttadrūpāpattāvapi satyāmacetanatvātsvayamupalabdhumasamarthameva viṣayamityato bhoktāraṃ cetanaṃ puruṣamapekṣate puruṣasya tu cetanatvād draṣṭrantaramaśakyaṃ kalpayitum tasmānnānavasthāprasaṃgaḥ āha, puruṣasyādhyavasāyakartṛtvaprasaṃgaḥ, caitanyāt yadyacetanā buddhistena tasyā adhyavasāyo vṛttirghaṭādivanna prāpnoti ataḥ puruṣasyādhyavasāyaḥ prāptaḥ tataśca buddhyabhāva iti ucyate- na, kaivalyādapratibandhaprasaṃgāt anāmiśrarūpaṃ puruṣatattvamiti etadupariṣṭādvakṣyāmaḥ sa yadi vyavasāyātmakaḥ syāt, apratibandhena diṅniścayādiṣu suptamattamūrcchitānāṃ ca vyavasāyaḥ syāt dṛṣṭastvevamavasthasya vyavasāyapratibandhaḥ tasmānna puruṣasya vyavasāyaha yasya punarantaḥkaraṇaṃ vyavasāyakaṃ tasyaivaṃ doṣo nāsti kasmāt ? traiguṇyāt sattvādisaṃsthānaviśeṣo hi buddhiḥ, karaṇāntarapratiṣedhāt tatra yadādhyavasāyalakṣaṇaṃ sattvaṃ guṇābhāvātpradhānabhūtena tamasā tiraskṛtaśakti bhavati tadādhyavasāyapratibandhaḥ āha, kathaṃ punaretad gamyate sarvamidamacetanamiti ? ucyate- prakṛtivikārabhūtatvāt iha yatprakṛtivikārabhūtaṃ tadacetanam tadyathā tantupaṭādayaḥ prakṛtivikārabhūtaṃ tasmādacetanam ākāśe darśanānnaikānta iti cenna, asiddhatvāt na hyākāśasyātmapakṣe prakṛtivikāratvābhāvaḥ siddhaḥ tasmādyuktametatprakṛtivikārabhūtatvādacetanaṃ sarvam ata eva ca cetanasyāprakṛtivikārabhūtatvaṃ parasparavaidharmyāt tasmānnānyasya paramārthasya bhoktṛtvamācetanyādupapadyate, na cet sūktaṃ bhoktṛbhāvādasti puruṣaḥ kaivalyārthaṃ pravṛtteśca isk_17 iha pravṛttimatāṃ nimittamantareṇa nivṛttirnopapadyate pradhānamapi ca pravṛttimad, vyaktadarśanāt tasmādyasya kaivalyaṃ pradhānapravṛttihetuḥ sa puruṣaḥ pradhānānabhyupagamādubhayāprasiddhiriti cet syādetat, pradhānaṃ cetanavadasmākamaprasiddham yāvattasya kaivalyārthaṃ pravṛttirbhavatā puruṣāstitve liṅgamapadiśyate tadidamasiddhaṃ pradipādyata iti etaccāyuktam kasmāt ? pūrvaṃ tatpratipādanāt prākpradhānamapratipādyaivamācakṣāṇaḥ satyamevaṃ paryanuyogārhaḥ syāt, sādhitaṃ tu pradhānaṃ parimāṇādibhirityato na kiṃcidetat sarvācāryavipratipatteḥ puruṣārthasiddhiriti cet syānmatam, yadi puruṣasya sattvameva syāttena taṃ pratyācāryāṇāṃ na dharmavivādaḥ syāt asti cāsau tathā hi keṣāṃcinnirguṇaḥ, keṣāṃcitparavān ataḥ sarveṣāṃ vibhuḥ, parimito 'nyeṣāṃ, tathaiko naika iti tasmādbhrāntimātraṃ puruṣakalpaneti etadanupapannam kasmāt ? sarvapadārthābhāvaprasaṃgāt rūpādiṣvapi vipratipatteḥ keṣāṃcitkṣaṇikāḥ, keṣāṃcitkālāntarāvasthāyinaḥ, tathāśritāḥ, svatantrā ityādi tathā śrotādīni bhautikāni, āhaṃkārikāṇi, pauruṣāṇīti vipratipattiḥ evaṃ sarvapadārthābhāvaḥ syāt tasmādasti puruṣaḥ tatra yuktaṃ sarvapramāṇānupalabdhernāsti puruṣa iti etadayuktam yadapyuktam "śūnyakamādhyātmikaṃ paśyeti" tasya paścātpratiṣedhaṃ vakṣyāmaḥ yatpunaretaduktaṃ "asti karmāsti vipākaḥ kārakastu nopalabhyata" iti satyametat na hi puruṣaskandhānāṃ nikṣepe pratisaṃdhāne 'nyatra vā kāraka iti naḥ pakṣaḥ tasmācchreyo 'rthibhiḥ sarvāgamatarkaviruddhāṃ nairātmyavādaparikalpanābhrāntimasamañjasāmapohya puruṣasattvaparijñānādeva jananamaraṇādisarvopadravapratipakṣabhūtaṃ paramamṛtaṃ dhruvaṃ sthānamavāptavyamiti


18

कारिका 18 आह, गृह्णीमहे तावदस्त्ययमात्मेति इदानीमनेको ऽथैक इति विचार्यम् कुतः संशय इति चेत्, सम्बन्धिनामुभयथा दृष्टत्वात् इह कस्यचिदनेकस्यानेकेन सम्बन्ध उपलभ्यते तद्यथा श्रोत्रादिना शरीरस्य कस्यचिदेकस्यानेकेन तद्यथाकाशस्य घटादिना अयमपि चात्मा कार्यकारणसम्बन्धीत्यतः संशयः किं श्रोत्रादिवदनेकः, आकाशवदेको वेति ? किं चान्यत् आचार्यविप्रतिपत्तेः औपनिषदाः खलु एक आत्मेति प्रतिपन्नाः काणादाक्षपादार्हतप्रभृतयः पुनरेक इति यथा चैकानेकत्वं प्रत्यात्मनो विप्रतिपत्तिरेवं साक्षित्वौदासीन्यद्रष्टृत्वाकर्तृत्वेषु तस्माद्वक्तव्यं कथमेते धर्माः पुरुषे ऽवतिष्ठन्त इति ? उच्यते- यत्तावदुक्तं सम्बन्धित्वादात्मपदार्थे सन्देहः किमनेको ऽथैक इति, अत्र ब्रूमः- बहवः पुरुषा इति प्रतिज्ञा कस्मात् ? जन्ममरणकरणानां प्रतिनियमात् जन्मेति महदादेः सूक्ष्मशरीराश्रितस्य लिङ्गस्य यथासंस्कारं बाह्येन शरीरेण सम्बन्धः मरणमिति पूर्वकृतस्य कर्मणः फलभोगपरिसमाप्तेः साम्प्रतस्य च फलभोगस्य प्रत्युपस्थाने लिङ्गस्य पूर्वशरीरत्यागः करणं त्रयोदशविधमिति (इस्क् 32) वक्ष्यति जन्म च मरणं च करणानि च जन्ममरणकरणानि तेषां प्रतिपुरुषं नियमः एतस्माल्लिङ्गादात्मनो बहुत्वमवसीयते एतदुक्तं भवति- जन्मलक्षणं च मरणलक्षणं च कार्यकारणस्यावस्थान्तरम् परस्परविरोधिनी तमःप्रकाशवत् तत्र यद्येक आत्मा स्यात् तेन यथैकं द्रव्यं तमःप्रकाशावेकप्रदेशोपनिपातिनौ न शक्नोत्यनुभवितुमसम्भवात्, एवमयं जन्ममरणे अपि न शक्नुयादुपभोक्तुम् अस्ति चायं केनचित्कार्यकरणेन जन्मोपभोगः केनचिन्मरणोपभोगः तेन मन्यामहे नाना आत्मानः, येषां विरोधिधर्मोपभोगसामर्थ्यमिति तथा करणानां प्रकाशातिशयो विषयग्रहणलक्षणाशुद्ध्यतिशयश्चाष्टाविंशतिधाशक्तिः, तयोः परस्परविरोधादेकेनात्मना युगपदुपभोगो नोपपद्यते न हि शक्यमेकेनात्मना प्रकाशातिशयो विषयग्रहणलक्षणो ऽशुद्ध्यतिशयश्चाशक्तिलक्षणो विरोधित्वाद्युगपदुपभोक्तुम् अस्ति चायं करणनिमित्तः प्रतिपुरुषं नियमः तेन मन्यामहे नाना आत्मान इति किं चान्यत् अयुगपत्प्रवृत्तेश्च पुरुषबहुत्वं सिद्धम् कस्मात् ? अयुगपत्प्रवृत्तेः प्रधानस्येतिशेषः, यस्य प्रवृत्तिरुपपद्यते कस्य प्रवृत्तिरुपपद्यते ? प्रधानस्य कथमिति ? उच्यते- यद्येक आत्मा स्यात्तेनैकपुरुषाधिकारनिबद्धं प्रधानम् शक्तश्चासौ युगपदनेकानि शरीराणि उपभोक्तुमित्यतो यावद्भिः शरीरैरपचितासु कालमात्रास्वस्मिन्भवपरिवर्ते भवितव्यं सर्वेषामुत्पत्तिं प्रति युगपत्प्रवर्तेत दृष्टा तु प्रधानस्यायुगपच्छरीरभावेन प्रवृत्तिः तस्मादयुगपत्प्रवृत्तेश्च नाना आत्मान इति अन्ये पुनराहुः- बहिष्करणामेवायुगपत्प्रवृत्तेः कथम् ? यद्येक आत्मा स्यात्तेन तत्संस्कारोपनिबद्धान्येव सर्वाणि करणानीत्यतः प्रतिपण्डितमवस्थितैः करणैर्युगपद्विषयान्गृह्णीयात् बाधिर्याद्युपघाते वा सति पिण्डान्तरसम्बन्धिना करणेनास्य शब्दादिकरणमप्रतिषिद्धं स्यात् न तु तथा भवति तस्मात्करणानामयुगपत्प्रवृत्तेर्नाना आत्मान इति तदयुक्तम् कस्मात् ? पूर्वेणाविशेषात् करणानां प्रतिनियमादित्यनेनायमुपसंगृहीतो ऽर्थः तस्माद्यथोक्तमेवास्तु किं चान्यत् त्रिगुणादिविपर्ययाच्चैव इस्क्_18 इह त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मीत्येते धर्माः प्रतिपिण्डमुपलभ्यन्ते यथा चैते तथा तत्प्रतियोगिनो नैर्गुण्यादयः पुरुषधर्माः तत्र यथैव गुणस्वभावविपरीतस्वभावस्योपलम्भादेकस्मात्पिण्डादेकपुरुषसिद्धिः एवं प्रतिपिण्डं गुणस्वभावविपरीतस्वभावस्योपलम्भात्पुरुषनानात्वमवसेयम् तस्मादवस्थितमेतन्नानात्मान इति

kārikā 18 āha, gṛhṇīmahe tāvadastyayamātmeti idānīmaneko 'thaika iti vicāryam kutaḥ saṃśaya iti cet, sambandhināmubhayathā dṛṣṭatvāt iha kasyacidanekasyānekena sambandha upalabhyate tadyathā śrotrādinā śarīrasya kasyacidekasyānekena tadyathākāśasya ghaṭādinā ayamapi cātmā kāryakāraṇasambandhītyataḥ saṃśayaḥ kiṃ śrotrādivadanekaḥ, ākāśavadeko veti ? kiṃ cānyat ācāryavipratipatteḥ aupaniṣadāḥ khalu eka ātmeti pratipannāḥ kāṇādākṣapādārhataprabhṛtayaḥ punareka iti yathā caikānekatvaṃ pratyātmano vipratipattirevaṃ sākṣitvaudāsīnyadraṣṭṛtvākartṛtveṣu tasmādvaktavyaṃ kathamete dharmāḥ puruṣe 'vatiṣṭhanta iti ? ucyate- yattāvaduktaṃ sambandhitvādātmapadārthe sandehaḥ kimaneko 'thaika iti, atra brūmaḥ- bahavaḥ puruṣā iti pratijñā kasmāt ? janmamaraṇakaraṇānāṃ pratiniyamāt janmeti mahadādeḥ sūkṣmaśarīrāśritasya liṅgasya yathāsaṃskāraṃ bāhyena śarīreṇa sambandhaḥ maraṇamiti pūrvakṛtasya karmaṇaḥ phalabhogaparisamāpteḥ sāmpratasya ca phalabhogasya pratyupasthāne liṅgasya pūrvaśarīratyāgaḥ karaṇaṃ trayodaśavidhamiti (isk 32) vakṣyati janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni teṣāṃ pratipuruṣaṃ niyamaḥ etasmālliṅgādātmano bahutvamavasīyate etaduktaṃ bhavati- janmalakṣaṇaṃ ca maraṇalakṣaṇaṃ ca kāryakāraṇasyāvasthāntaram parasparavirodhinī tamaḥprakāśavat tatra yadyeka ātmā syāt tena yathaikaṃ dravyaṃ tamaḥprakāśāvekapradeśopanipātinau na śaknotyanubhavitumasambhavāt, evamayaṃ janmamaraṇe api na śaknuyādupabhoktum asti cāyaṃ kenacitkāryakaraṇena janmopabhogaḥ kenacinmaraṇopabhogaḥ tena manyāmahe nānā ātmānaḥ, yeṣāṃ virodhidharmopabhogasāmarthyamiti tathā karaṇānāṃ prakāśātiśayo viṣayagrahaṇalakṣaṇāśuddhyatiśayaścāṣṭāviṃśatidhāśaktiḥ, tayoḥ parasparavirodhādekenātmanā yugapadupabhogo nopapadyate na hi śakyamekenātmanā prakāśātiśayo viṣayagrahaṇalakṣaṇo 'śuddhyatiśayaścāśaktilakṣaṇo virodhitvādyugapadupabhoktum asti cāyaṃ karaṇanimittaḥ pratipuruṣaṃ niyamaḥ tena manyāmahe nānā ātmāna iti kiṃ cānyat ayugapatpravṛtteśca puruṣabahutvaṃ siddham kasmāt ? ayugapatpravṛtteḥ pradhānasyetiśeṣaḥ, yasya pravṛttirupapadyate kasya pravṛttirupapadyate ? pradhānasya kathamiti ? ucyate- yadyeka ātmā syāttenaikapuruṣādhikāranibaddhaṃ pradhānam śaktaścāsau yugapadanekāni śarīrāṇi upabhoktumityato yāvadbhiḥ śarīrairapacitāsu kālamātrāsvasminbhavaparivarte bhavitavyaṃ sarveṣāmutpattiṃ prati yugapatpravarteta dṛṣṭā tu pradhānasyāyugapaccharīrabhāvena pravṛttiḥ tasmādayugapatpravṛtteśca nānā ātmāna iti anye punarāhuḥ- bahiṣkaraṇāmevāyugapatpravṛtteḥ katham ? yadyeka ātmā syāttena tatsaṃskāropanibaddhānyeva sarvāṇi karaṇānītyataḥ pratipaṇḍitamavasthitaiḥ karaṇairyugapadviṣayāngṛhṇīyāt bādhiryādyupaghāte vā sati piṇḍāntarasambandhinā karaṇenāsya śabdādikaraṇamapratiṣiddhaṃ syāt na tu tathā bhavati tasmātkaraṇānāmayugapatpravṛtternānā ātmāna iti tadayuktam kasmāt ? pūrveṇāviśeṣāt karaṇānāṃ pratiniyamādityanenāyamupasaṃgṛhīto 'rthaḥ tasmādyathoktamevāstu kiṃ cānyat triguṇādiviparyayāccaiva isk_18 iha triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmītyete dharmāḥ pratipiṇḍamupalabhyante yathā caite tathā tatpratiyogino nairguṇyādayaḥ puruṣadharmāḥ tatra yathaiva guṇasvabhāvaviparītasvabhāvasyopalambhādekasmātpiṇḍādekapuruṣasiddhiḥ evaṃ pratipiṇḍaṃ guṇasvabhāvaviparītasvabhāvasyopalambhātpuruṣanānātvamavaseyam tasmādavasthitametannānātmāna iti

Section (cont. 16)

19

कारिका 19 आह, सिद्धमात्मनो नानात्वम् साक्षित्वकैवल्यमाध्यस्थ्यद्रष्टृत्वाकर्तृत्वानामिदानीं कस्माद्धेतोः प्रतिपत्तिरिति ? उच्यते- तस्माच्च विपर्यायात्सिद्धं साक्षित्वमस्य पुरुषस्य कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च इस्क्_19 तस्मादित्यनेन हेतुसामान्यमाचष्टे चशब्दो ऽवधारणे विपर्यासादिति सामान्येन हेतुमुपात्तं विशेषे ऽवस्थापयति सिद्धं साक्षित्वमस्य पुरुषस्येत्येवमादिना साध्यधर्मनिर्देशं करोति तत्र साक्षित्वमित्यनेन गुणानां प्रवृत्तावस्त्वातन्त्र्यं ख्यापयति, प्रधानस्य तदर्थनिबन्धनत्वात्प्रवृत्तेः अधिष्ठातृत्वं कथमिति ? उच्यते- यथा हि क्रियासाक्षिणि कस्मिंश्चिदवस्थिते कर्ता तदिच्छानुविधायी कार्यं निर्वर्तयति, न स्वतन्त्रः, एवं प्रधानमपि प्रवृत्तिनिवृत्त्योर्यथा पुरुषस्यार्थः सिध्यति तथा महदहङ्कारतन्मात्रेन्द्रियभूतदेवमनुष्यतिर्यक्स्थावरभावेन व्यूहते, न यदृच्छातः तस्मात्पुरुषस्तदर्थपरतन्त्रत्वात्प्रधानप्रवृत्तिनिवृत्त्योः साक्षी कैवल्यमित्यनेन संसर्गधर्मत्वमात्मनो निवर्तयति, न यथा सत्त्वादीनां परस्परेण प्रकाशादिधर्मापेक्षाणां संसर्गः, एवं पुरुषस्य तैर्भवति माध्यस्थ्यमित्यनेनातिशयनिह्रासानुपपत्तेः पुरुषस्य गुणैः सह बाधानुग्रहानुपपत्तिं स्वकार्यप्रवृत्तौ चापक्षपातं दर्शयति द्रष्टृत्वमित्यनेनोदासीनस्य कार्यकारणपिण्डव्यूहसमकालं चैतन्यशक्तिसद्भावात्सुखदुःखमोहस्वभावानां गुणचेष्टानामनिवृत्तार्थानां सन्निधानमात्रादुपलब्धिमात्रं प्रतिजानाति अकर्तृभावश्चेत्यनेन सप्तविधमकर्तृत्वमाश्रयति न ह्ययं विषयेषु बाह्यान्तःकरणसान्निध्ये ऽध्यवसायं कुरुते न च सत्त्वादीनां प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैरितरेतरोपकारेण प्रवर्तमानानां स्वेन चैतन्यलक्षणेन धर्मेणाङ्गभावं प्रतिपद्यते, नाप्यङ्गिभावम् एवं सह गुणैः कार्यं न कुरुते स्त्रीकुमारवत् स्थितप्रयोगं न कुरुते रथशकटयन्त्रप्रेरकवत् न स्वात्मनो मृत्पिण्डवत् न परतः कुम्भकारवत् नाप्यदेशान्मायाकारवत् नोभयतो मातृपितृवत् तदेवमनेन सूत्रेणाचार्यः पुरुषस्याधिष्ठातृत्वं नैर्गुण्यमौदासीन्यं भोक्तृत्वमकर्तृत्वं च साध्यतामापाद्य त्रिगुणयादिविपर्ययं साधनत्वेनोपन्यति तैः पञ्चभिस्त्रिगुणादिविपरीतैः कर्मभिः पञ्चानामेषां यथासंभवं प्रवृत्तिरवगन्तव्या यस्मादयं सुखादिभ्यो ऽर्थान्तरभूतः तस्मादयं तत्क्रियासाक्षी तत्र नैर्गुण्यात्साक्षित्वम् आह, तदसिद्धेः नैर्गुण्यासिद्धेः यद्यस्य सुखादिधर्मत्वमात्मनः प्रसिद्धं स्यादत एतद्युज्जते वक्तुम् तत्त्वसिद्धम् तस्मादयुक्तमेतत् विशेषानभिधानादितरात्सिद्धिरपीति चेत् स्यान्मतम्, आत्मगुणाः सुखादयो न शब्दगुणा इत्यत्रापि भवता विशेषो नाभिधीयते तस्मादेतदप्यसिद्धम् एतदप्ययुक्तम् कस्मात् ? अहंकारेणैकवाक्यत्वे भिन्नाधिकरणत्वं स्यात् दृष्टं तु सुखितो ऽहं दुःखितो ऽहमिति तस्मात्सुखदुःखयोः शब्दाद्यात्मभावो न युक्तः उच्यते- न, गौरादिष्वनेकान्तात् तद्यथा गौरः कृष्णो ऽहमिति शरीरधर्मेरात्मनो भिन्नाधिकरणत्वमहङ्कारेण एवं सुखदुःखयोरपि स्यात् न चात्मगुणत्वं स्यादिति आह, पृथगुपलब्धेरयुक्तम् यद्यपि गौरादीनामविभक्तमहंकारेण ग्रहणं तथापि पृथगयं प्रागेतानात्मनो गृहीत्वा पश्चादविभक्तान्गृह्णन्शक्त्नोति व्यवस्थापयितुमुष्यैते न पुनरमुष्येति न त्वेवं सुखदुःखयोः पृथगुपलब्धिः तस्मादसदेतदिति उच्यते- नैवमुत्पद्यते कस्मात् ? मार्गान्तरगमनात् अहंकारेणाविभक्तग्रहणादात्मगुणत्वमिति प्रागपदिष्टम् इदानीं तु सत्यपि तस्मिन्पृथग्ग्रहणादभावं ब्रुवतो मार्गान्तरगमनमनैकान्तिकस्य चापरिहारः किं चान्यत्, संशयाव्यतिरेकात् यत एव गौरादयः पृथगुपलभ्यन्ते न सुखादयो एव संशयः न च यत एव संशयस्तत एव निर्णयो युक्तः तस्माद्युक्तमेतद् गौरादिवदहङ्कारेणाप्यभिन्नग्रहणाच्छब्दाद्यात्मभूताः सुखादयः किं चान्यत् स्वभावानवधारणादनुपादानप्रसंगात् सुखाद्यात्मकाः शब्दादय इति चेत् स्यान्मतं, यथाग्निः पाकजनिमित्तमुपादीयते ऽथ चैषां पार्थिवत्वमेवं शब्दादयो ऽपि सुखादिनिमित्तत्वेनोपादीयेरन् अथ चैषामात्मगुणत्वमेव स्यादिति तदप्यनुपपन्नम् कस्मात् ? सामानाधिकरण्यदर्शनात् यथा निमित्तस्याग्नेर्न पाकजैः सामानाधिकरण्यं पक्वो ऽग्निः पच्यते ऽग्निरिति एवं शब्दादीनां निमित्तत्वान्न सामानाधिकरण्यं स्यात् सुखशब्दो दुःख इति दृष्टं तु तस्मान्न तेषां निमित्तार्थेनोपादानमिति आह, एवमपि सुखादीनां शब्दाद्यात्मभावो न युक्तः कस्मात् ? विप्रतिपत्तेः यथा हि शब्दाः शब्दात्मका एति सर्वैः शब्दरूपेण गृह्यन्ते, एवं सुखात्मको ऽयमिति सर्वैस्तद्रूपेण गृह्यते दृष्टा तु विप्रतिपत्तिः तस्मादात्मगुणा इति उच्यते- न, संस्कारविशेषनिमित्तत्वात् तद्यथा पित्तादिसामर्थान्माधुर्यादिषु विप्रतिपत्तिः न चैषामशब्दादिगुणत्वसंस्कारविशेषयोगात्सुखादिषु विप्रतिपत्तिः न चैषामशब्दादिगुणत्वमिति किं चान्यत् निमित्तत्वे ऽपि तत्प्रसंगात् निमित्तवादिनो ऽप्येतत्समानम् न हि निमित्तनैमित्तिकयोर्विप्रतिपत्तिरस्ति तद्यथा प्रदीपप्रकाशयोः ततश्च विप्रतिपत्तेर्निमित्तत्वमपि शब्दादीनामकल्पनीयं स्यात् यश्च द्वयोर्दोषो न तमेकश्चोद्यत इति आत्मगुणाकांक्षित्वाददोष इति चेत् स्यान्मतम् निमित्तप्रधानत्वादन्यपरिपाकवशेन सुखदुःखेनोत्पादयत्यात्मनः तन्मयत्वे तु निराकांक्षत्वात्प्रधानस्य व्यवस्थाभेदो न युक्त इति तच्च नैवम् कस्मात् ? उक्तत्वात् तन्मयत्वे ऽपि गुणभावान्माधुर्यादिषु विप्रतिपत्तिरित्यादावेवोक्तमेतत् तस्मात्तन्मयत्वे प्राधान्यमिति चानिश्चिताभिधानमेतत् आह, एवमप्ययुक्तमेतत् कस्मात् ? अतीतानागतेष्वपि तु दृष्टेः तस्मात्सुखादीनां शब्दाद्यात्मभावो न युक्त इति उच्यते- न, स्मृतिनिमित्तत्वाद् बुद्धेः अयमतीतानागतेष्वपि शब्दादिषु स्मार्तसुखदुःखयोगो भवति तत्संपर्कात्तु पुरुषेण तथानुभूयते पुरुषगुणत्वे तु पाकजवन्निमित्तादुत्पन्नानां सुखादीनां विशेषभावात्तीव्रमन्दतानुपपत्तिः स्यात् तस्मात्सुखदुःखयोः शब्दाद्यात्मभावो न युक्तः किंचान्यत् अनिर्मोक्षप्रसंगात् द्रव्यस्य गुणैरविप्रयोगात्सुखदुःखयोरात्मगुणत्वे सत्यात्मनस्ताभ्यामनिर्मोक्षप्रसंगः तस्मात्तयोरात्मगुणत्वमयुक्तमिति श्यामादिवत्तद्विनिवृत्तिरिति चेत् स्यान्मतम्, यथा श्यामगुणत्वे सत्यणोरग्निसम्बन्धात्तद्विनिवृत्तिः, शब्दादिगुणत्वे चाकाशस्याशब्दकस्यावस्थानमेवमात्मनो ऽपि एतदयुक्तम् कस्मात् ? विशेषोपादानप्रसंगात् साध्यत्वाच्च, यथा ह्यणुः श्यामतां परित्यज्य रूपविशेषमेव रक्तलक्षणमुपादत्ते, न रूपवत्तां त्यजति, एवमात्मापि बाह्यनिमित्तसामर्थ्यात्सुखान्तरं दुःखाद् दुःखान्तरमुपाददीत न ते अत्यन्तं जह्यात् तथा आकाशं शब्दलक्षणं कस्यांचिदवस्थायामशब्दकं भवतीत्यस्मान्प्रति साध्यो ऽयमर्थः भेर्यादिशब्दास्तु तद्गुण एवेति प्रतिपादयिष्यामः तस्मात्सुखदुःखयोः शब्दाद्यात्मभावो ऽयुक्तः एवमनामिश्ररूप आत्मा ततश्चेच्छाद्वेषप्रयत्नधर्मज्ञानसंस्काराणामनेकस्वभावानां परस्परविरोधिनां च तद्गुणत्वमनुपपन्नम् तस्माद्युक्तमेतन्निर्गुण आत्मा नैर्गुण्याच्च साक्षिमात्र इति केवलो विविक्तत्वात् तस्मादयं गुणेभ्यः पृथग्भूतः तस्मात्केवलः न तैः सह संसर्गेण वर्तते आह, कः पुनरस्यात्मनो गुणेभ्यः पृथग्भावो ऽभिप्रेत इति ? उच्यते- तदुपकारनिरपेक्षाणां सत्त्वादीनां स्वकार्यसामर्थ्यपृथग्भावः न हि सत्त्वादयः प्रकाशादिभिर्धर्मैरितरेतरोपकारेण वर्तमानाः पुरुषकृतमुपकारमपेक्षन्ते प्रकाशादिधर्मसन्निधानमात्रादेव तु प्रवर्तन्ते तथा च वार्षगणाः पठन्ति "प्रधानप्रवृत्तिरप्रत्यया पुरुषेणापरिगृह्यमाणादिसर्गे वर्तन्ते" इति यस्माद्गुणास्तदुपकारनिरपेक्षाः प्रवर्तन्ते तस्मादसावपि तत्संसर्ग नानुभवति दृष्टा तु लोके ऽप्येककार्यत्वापृथक्पृथग्भावपरिकल्पना तद्यथा इमे भ्रातरः पृथक्, एषां नैकं कार्यम् न पृथगिमे येषामेकमिति मध्यस्थो विषयित्वात् यस्मादयं पुरुषो विषयी तस्मान्मध्यस्थः किं कारणम् ? विषयाणां ह्यतुल्यबलत्वात्, न्यूनातिशयोपपत्तेश्च परस्परेण बाधानुग्रहावुत्पन्नौ विषयी चायम् तस्मान्नास्ति न्यूनताद्युपपत्तिः ततश्चेतनाभावः न चामिश्ररूपत्वात्सङ्गद्वेषौ गुणविषयौ, अतो मध्यस्थः ? द्रष्टृत्वं चैतन्यात् प्रकृतिविकारभूतत्वात् सत्त्वादिभ्यश्चैतन्यमपोद्धृत्य पुरुषे व्यवस्थापनीयम् न चाचेतनानां द्रष्टृत्वमुपपद्यते इत्यतः पुरुष एव चैतन्याद् दृष्टा नान्यत्तत्त्वान्तरम् अकर्तृभावः, अप्रसवधर्मित्वात् प्रसवार्थो धर्मः प्रसवधर्मः सो ऽस्यास्तीति प्रसवधर्मी कः पुनरसौ प्रसवार्थो धर्म इति ? उच्यते- प्रस्पन्दनपरिणामौ निष्क्रियत्वादकर्तेति यावत् तदिदमप्रसवधर्मित्वादकर्तेति कथमस्य निष्क्रियत्वमिति चेत् ? चैतन्यात् अचेतनानां हि क्षीरादीनां क्रियावत्त्वमुपलब्धं, चेतनस्य न कस्यचिदित्यतो निष्क्रियः पुरुषः किंच अनामिश्ररूपत्वात् अनामिश्ररूपं हि क्रियादिमत्क्षीरादि अनामिश्ररूपश्चायम् तस्मान्निष्क्रियः विभुत्वादिति चेत् स्यादेतत्, यथा विभुत्वे सति प्रधानस्य सक्रियत्वमेवं पुरुषस्य इति विभुत्वे सक्रियत्वेन भवितव्यमिति तच्च नैवम् कस्मात् ? धर्मद्वयसहितस्य साहचर्योपलब्धेः तद्विभुत्वमाचेतन्यानेकरूपत्वसहितं क्रियावति दृष्टं, न केवलम् न तु तथा पुरुषे तस्माद्विषममेतत् एवं निष्क्रियः पुरुषः निष्क्रियत्वाच्च प्रधानात्कार्यकारणं न कुरुते कस्मात् ? क्रियावतः कुम्भकारस्य मृत्पिण्डात्कार्यनिष्पत्तिसामर्थ्यदर्शनात् स्यादेतत् उत्पादितस्यान्येन स्थितिं कुरुते, धात्रीकुमारवत् स्थितस्य वा प्रयोगं रथशकटयन्त्रप्रेरकवदिति एतदप्यनुपपन्नं, पूर्वस्मादेव हेतोः अथापि स्यात्स्वतः पुरुषः कार्यकरणं कुरुत इति तदप्ययुक्तम् चेतनाचेतनयोरत्यन्तभेदात्प्रकृतिविकारभावानुपपत्तेः अथ मतमुभयत इति, तदपि नैव संभवति, उभयदोषप्रसंगात् स्यात्पुनरेतत् अव्यपदिश्य योनिं पुरुषो ऽभिध्यानमात्रेण कार्यकरणं कुरुते इत्यसदेतत् कस्मात् ? अनुत्पत्तावभिध्यानानुपपत्तेः ईश्वरकारणप्रतिषेधे ऽभिहितं प्राक् प्रधानविपरिणामाद्बुद्धिमतो बुद्धिर्नास्ति न च बुद्धिमन्तरेणाभिध्यानमुपपद्यते, तद्वृत्तिभूतत्वात् तथा बुद्धिमत्पूर्वकसृष्टिप्रतिषेधः कृतः स इहापि योज्यः, अध्यवसायकर्तृत्वं च प्राक्प्रतिषिद्धम् एवं सप्तविधेनाकर्तृत्वेनाकर्ता पुरुषः उक्तं च नाध्यवसायं कुरुते पुरुषो नैवं स्थितिं प्रयोगं वा न स्वात्मनो न परतो न व्यपदेशान्न चोभयतः तद्युक्तमेतत् तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च इति

kārikā 19 āha, siddhamātmano nānātvam sākṣitvakaivalyamādhyasthyadraṣṭṛtvākartṛtvānāmidānīṃ kasmāddhetoḥ pratipattiriti ? ucyate- tasmācca viparyāyātsiddhaṃ sākṣitvamasya puruṣasya kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca isk_19 tasmādityanena hetusāmānyamācaṣṭe caśabdo 'vadhāraṇe viparyāsāditi sāmānyena hetumupāttaṃ viśeṣe 'vasthāpayati siddhaṃ sākṣitvamasya puruṣasyetyevamādinā sādhyadharmanirdeśaṃ karoti tatra sākṣitvamityanena guṇānāṃ pravṛttāvastvātantryaṃ khyāpayati, pradhānasya tadarthanibandhanatvātpravṛtteḥ adhiṣṭhātṛtvaṃ kathamiti ? ucyate- yathā hi kriyāsākṣiṇi kasmiṃścidavasthite kartā tadicchānuvidhāyī kāryaṃ nirvartayati, na svatantraḥ, evaṃ pradhānamapi pravṛttinivṛttyoryathā puruṣasyārthaḥ sidhyati tathā mahadahaṅkāratanmātrendriyabhūtadevamanuṣyatiryaksthāvarabhāvena vyūhate, na yadṛcchātaḥ tasmātpuruṣastadarthaparatantratvātpradhānapravṛttinivṛttyoḥ sākṣī kaivalyamityanena saṃsargadharmatvamātmano nivartayati, na yathā sattvādīnāṃ paraspareṇa prakāśādidharmāpekṣāṇāṃ saṃsargaḥ, evaṃ puruṣasya tairbhavati mādhyasthyamityanenātiśayanihrāsānupapatteḥ puruṣasya guṇaiḥ saha bādhānugrahānupapattiṃ svakāryapravṛttau cāpakṣapātaṃ darśayati draṣṭṛtvamityanenodāsīnasya kāryakāraṇapiṇḍavyūhasamakālaṃ caitanyaśaktisadbhāvātsukhaduḥkhamohasvabhāvānāṃ guṇaceṣṭānāmanivṛttārthānāṃ sannidhānamātrādupalabdhimātraṃ pratijānāti akartṛbhāvaścetyanena saptavidhamakartṛtvamāśrayati na hyayaṃ viṣayeṣu bāhyāntaḥkaraṇasānnidhye 'dhyavasāyaṃ kurute na ca sattvādīnāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa pravartamānānāṃ svena caitanyalakṣaṇena dharmeṇāṅgabhāvaṃ pratipadyate, nāpyaṅgibhāvam evaṃ saha guṇaiḥ kāryaṃ na kurute strīkumāravat sthitaprayogaṃ na kurute rathaśakaṭayantraprerakavat na svātmano mṛtpiṇḍavat na parataḥ kumbhakāravat nāpyadeśānmāyākāravat nobhayato mātṛpitṛvat tadevamanena sūtreṇācāryaḥ puruṣasyādhiṣṭhātṛtvaṃ nairguṇyamaudāsīnyaṃ bhoktṛtvamakartṛtvaṃ ca sādhyatāmāpādya triguṇayādiviparyayaṃ sādhanatvenopanyati taiḥ pañcabhistriguṇādiviparītaiḥ karmabhiḥ pañcānāmeṣāṃ yathāsaṃbhavaṃ pravṛttiravagantavyā yasmādayaṃ sukhādibhyo 'rthāntarabhūtaḥ tasmādayaṃ tatkriyāsākṣī tatra nairguṇyātsākṣitvam āha, tadasiddheḥ nairguṇyāsiddheḥ yadyasya sukhādidharmatvamātmanaḥ prasiddhaṃ syādata etadyujjate vaktum tattvasiddham tasmādayuktametat viśeṣānabhidhānāditarātsiddhirapīti cet syānmatam, ātmaguṇāḥ sukhādayo na śabdaguṇā ityatrāpi bhavatā viśeṣo nābhidhīyate tasmādetadapyasiddham etadapyayuktam kasmāt ? ahaṃkāreṇaikavākyatve bhinnādhikaraṇatvaṃ syāt dṛṣṭaṃ tu sukhito 'haṃ duḥkhito 'hamiti tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ ucyate- na, gaurādiṣvanekāntāt tadyathā gauraḥ kṛṣṇo 'hamiti śarīradharmerātmano bhinnādhikaraṇatvamahaṅkāreṇa evaṃ sukhaduḥkhayorapi syāt na cātmaguṇatvaṃ syāditi āha, pṛthagupalabdherayuktam yadyapi gaurādīnāmavibhaktamahaṃkāreṇa grahaṇaṃ tathāpi pṛthagayaṃ prāgetānātmano gṛhītvā paścādavibhaktāngṛhṇanśaktnoti vyavasthāpayitumuṣyaite na punaramuṣyeti na tvevaṃ sukhaduḥkhayoḥ pṛthagupalabdhiḥ tasmādasadetaditi ucyate- naivamutpadyate kasmāt ? mārgāntaragamanāt ahaṃkāreṇāvibhaktagrahaṇādātmaguṇatvamiti prāgapadiṣṭam idānīṃ tu satyapi tasminpṛthaggrahaṇādabhāvaṃ bruvato mārgāntaragamanamanaikāntikasya cāparihāraḥ kiṃ cānyat, saṃśayāvyatirekāt yata eva gaurādayaḥ pṛthagupalabhyante na sukhādayo eva saṃśayaḥ na ca yata eva saṃśayastata eva nirṇayo yuktaḥ tasmādyuktametad gaurādivadahaṅkāreṇāpyabhinnagrahaṇācchabdādyātmabhūtāḥ sukhādayaḥ kiṃ cānyat svabhāvānavadhāraṇādanupādānaprasaṃgāt sukhādyātmakāḥ śabdādaya iti cet syānmataṃ, yathāgniḥ pākajanimittamupādīyate 'tha caiṣāṃ pārthivatvamevaṃ śabdādayo 'pi sukhādinimittatvenopādīyeran atha caiṣāmātmaguṇatvameva syāditi tadapyanupapannam kasmāt ? sāmānādhikaraṇyadarśanāt yathā nimittasyāgnerna pākajaiḥ sāmānādhikaraṇyaṃ pakvo 'gniḥ pacyate 'gniriti evaṃ śabdādīnāṃ nimittatvānna sāmānādhikaraṇyaṃ syāt sukhaśabdo duḥkha iti dṛṣṭaṃ tu tasmānna teṣāṃ nimittārthenopādānamiti āha, evamapi sukhādīnāṃ śabdādyātmabhāvo na yuktaḥ kasmāt ? vipratipatteḥ yathā hi śabdāḥ śabdātmakā eti sarvaiḥ śabdarūpeṇa gṛhyante, evaṃ sukhātmako 'yamiti sarvaistadrūpeṇa gṛhyate dṛṣṭā tu vipratipattiḥ tasmādātmaguṇā iti ucyate- na, saṃskāraviśeṣanimittatvāt tadyathā pittādisāmarthānmādhuryādiṣu vipratipattiḥ na caiṣāmaśabdādiguṇatvasaṃskāraviśeṣayogātsukhādiṣu vipratipattiḥ na caiṣāmaśabdādiguṇatvamiti kiṃ cānyat nimittatve 'pi tatprasaṃgāt nimittavādino 'pyetatsamānam na hi nimittanaimittikayorvipratipattirasti tadyathā pradīpaprakāśayoḥ tataśca vipratipatternimittatvamapi śabdādīnāmakalpanīyaṃ syāt yaśca dvayordoṣo na tamekaścodyata iti ātmaguṇākāṃkṣitvādadoṣa iti cet syānmatam nimittapradhānatvādanyaparipākavaśena sukhaduḥkhenotpādayatyātmanaḥ tanmayatve tu nirākāṃkṣatvātpradhānasya vyavasthābhedo na yukta iti tacca naivam kasmāt ? uktatvāt tanmayatve 'pi guṇabhāvānmādhuryādiṣu vipratipattirityādāvevoktametat tasmāttanmayatve prādhānyamiti cāniścitābhidhānametat āha, evamapyayuktametat kasmāt ? atītānāgateṣvapi tu dṛṣṭeḥ tasmātsukhādīnāṃ śabdādyātmabhāvo na yukta iti ucyate- na, smṛtinimittatvād buddheḥ ayamatītānāgateṣvapi śabdādiṣu smārtasukhaduḥkhayogo bhavati tatsaṃparkāttu puruṣeṇa tathānubhūyate puruṣaguṇatve tu pākajavannimittādutpannānāṃ sukhādīnāṃ viśeṣabhāvāttīvramandatānupapattiḥ syāt tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ kiṃcānyat anirmokṣaprasaṃgāt dravyasya guṇairaviprayogātsukhaduḥkhayorātmaguṇatve satyātmanastābhyāmanirmokṣaprasaṃgaḥ tasmāttayorātmaguṇatvamayuktamiti śyāmādivattadvinivṛttiriti cet syānmatam, yathā śyāmaguṇatve satyaṇoragnisambandhāttadvinivṛttiḥ, śabdādiguṇatve cākāśasyāśabdakasyāvasthānamevamātmano 'pi etadayuktam kasmāt ? viśeṣopādānaprasaṃgāt sādhyatvācca, yathā hyaṇuḥ śyāmatāṃ parityajya rūpaviśeṣameva raktalakṣaṇamupādatte, na rūpavattāṃ tyajati, evamātmāpi bāhyanimittasāmarthyātsukhāntaraṃ duḥkhād duḥkhāntaramupādadīta na te atyantaṃ jahyāt tathā ākāśaṃ śabdalakṣaṇaṃ kasyāṃcidavasthāyāmaśabdakaṃ bhavatītyasmānprati sādhyo 'yamarthaḥ bheryādiśabdāstu tadguṇa eveti pratipādayiṣyāmaḥ tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo 'yuktaḥ evamanāmiśrarūpa ātmā tataścecchādveṣaprayatnadharmajñānasaṃskārāṇāmanekasvabhāvānāṃ parasparavirodhināṃ ca tadguṇatvamanupapannam tasmādyuktametannirguṇa ātmā nairguṇyācca sākṣimātra iti kevalo viviktatvāt tasmādayaṃ guṇebhyaḥ pṛthagbhūtaḥ tasmātkevalaḥ na taiḥ saha saṃsargeṇa vartate āha, kaḥ punarasyātmano guṇebhyaḥ pṛthagbhāvo 'bhipreta iti ? ucyate- tadupakāranirapekṣāṇāṃ sattvādīnāṃ svakāryasāmarthyapṛthagbhāvaḥ na hi sattvādayaḥ prakāśādibhirdharmairitaretaropakāreṇa vartamānāḥ puruṣakṛtamupakāramapekṣante prakāśādidharmasannidhānamātrādeva tu pravartante tathā ca vārṣagaṇāḥ paṭhanti "pradhānapravṛttirapratyayā puruṣeṇāparigṛhyamāṇādisarge vartante" iti yasmādguṇāstadupakāranirapekṣāḥ pravartante tasmādasāvapi tatsaṃsarga nānubhavati dṛṣṭā tu loke 'pyekakāryatvāpṛthakpṛthagbhāvaparikalpanā tadyathā ime bhrātaraḥ pṛthak, eṣāṃ naikaṃ kāryam na pṛthagime yeṣāmekamiti madhyastho viṣayitvāt yasmādayaṃ puruṣo viṣayī tasmānmadhyasthaḥ kiṃ kāraṇam ? viṣayāṇāṃ hyatulyabalatvāt, nyūnātiśayopapatteśca paraspareṇa bādhānugrahāvutpannau viṣayī cāyam tasmānnāsti nyūnatādyupapattiḥ tataścetanābhāvaḥ na cāmiśrarūpatvātsaṅgadveṣau guṇaviṣayau, ato madhyasthaḥ ? draṣṭṛtvaṃ caitanyāt prakṛtivikārabhūtatvāt sattvādibhyaścaitanyamapoddhṛtya puruṣe vyavasthāpanīyam na cācetanānāṃ draṣṭṛtvamupapadyate ityataḥ puruṣa eva caitanyād dṛṣṭā nānyattattvāntaram akartṛbhāvaḥ, aprasavadharmitvāt prasavārtho dharmaḥ prasavadharmaḥ so 'syāstīti prasavadharmī kaḥ punarasau prasavārtho dharma iti ? ucyate- praspandanapariṇāmau niṣkriyatvādakarteti yāvat tadidamaprasavadharmitvādakarteti kathamasya niṣkriyatvamiti cet ? caitanyāt acetanānāṃ hi kṣīrādīnāṃ kriyāvattvamupalabdhaṃ, cetanasya na kasyacidityato niṣkriyaḥ puruṣaḥ kiṃca anāmiśrarūpatvāt anāmiśrarūpaṃ hi kriyādimatkṣīrādi anāmiśrarūpaścāyam tasmānniṣkriyaḥ vibhutvāditi cet syādetat, yathā vibhutve sati pradhānasya sakriyatvamevaṃ puruṣasya iti vibhutve sakriyatvena bhavitavyamiti tacca naivam kasmāt ? dharmadvayasahitasya sāhacaryopalabdheḥ tadvibhutvamācetanyānekarūpatvasahitaṃ kriyāvati dṛṣṭaṃ, na kevalam na tu tathā puruṣe tasmādviṣamametat evaṃ niṣkriyaḥ puruṣaḥ niṣkriyatvācca pradhānātkāryakāraṇaṃ na kurute kasmāt ? kriyāvataḥ kumbhakārasya mṛtpiṇḍātkāryaniṣpattisāmarthyadarśanāt syādetat utpāditasyānyena sthitiṃ kurute, dhātrīkumāravat sthitasya vā prayogaṃ rathaśakaṭayantraprerakavaditi etadapyanupapannaṃ, pūrvasmādeva hetoḥ athāpi syātsvataḥ puruṣaḥ kāryakaraṇaṃ kuruta iti tadapyayuktam cetanācetanayoratyantabhedātprakṛtivikārabhāvānupapatteḥ atha matamubhayata iti, tadapi naiva saṃbhavati, ubhayadoṣaprasaṃgāt syātpunaretat avyapadiśya yoniṃ puruṣo 'bhidhyānamātreṇa kāryakaraṇaṃ kurute ityasadetat kasmāt ? anutpattāvabhidhyānānupapatteḥ īśvarakāraṇapratiṣedhe 'bhihitaṃ prāk pradhānavipariṇāmādbuddhimato buddhirnāsti na ca buddhimantareṇābhidhyānamupapadyate, tadvṛttibhūtatvāt tathā buddhimatpūrvakasṛṣṭipratiṣedhaḥ kṛtaḥ sa ihāpi yojyaḥ, adhyavasāyakartṛtvaṃ ca prākpratiṣiddham evaṃ saptavidhenākartṛtvenākartā puruṣaḥ uktaṃ ca nādhyavasāyaṃ kurute puruṣo naivaṃ sthitiṃ prayogaṃ vā na svātmano na parato na vyapadeśānna cobhayataḥ tadyuktametat tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca iti


20

कारिका 20 यतश्चेतनाशक्तिसम्बन्धात्पुरुष एव द्रष्टा नान्यत्तत्त्वान्तरं, गुणाश्च कर्तारो, न पुरुषः तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः इस्क्_20 पुरुषसम्पर्काद् हि ग्रहणधारणविज्ञानवचनोहापोहक्रिया यथान्यायाभिनिवेशानां करणधर्माणां प्रत्ययरूपाणामिवोपलब्धेश्चेतनाशक्तेश्चाध्यवसायवृत्तिमनुरुध्यमानायास्तद्भावसन्निवेशिनां सत्त्वादीनां व्यापारवतामभिसम्बन्धाद् व्यापाराविष्टाया इवोपलब्धिः यतस्तत्रायमनेककालप्रवृत्तमिथ्याप्रत्ययाभ्यासवासनापेक्षो भवबीजहेतुर्ज्ञानविशेषः प्राणभृतामवभासते श्रोत्रमुपलभ्यते त्वक्चक्षुर्जिह्वा घ्राणमित्यादि तथा पुरुषः कर्मणां कर्ता, पुरुषः सुखदुःखयोरिति तस्मात्करणस्य ग्रहणरूपता पुरुषस्य च कर्तृरूपता, सम्बन्ध्यन्तरसम्पर्कादन्यगतान्यत्रोपलभ्यमाना भक्त्याध्यवसातव्या, न परमार्थतः उक्तं च चेतनाधिष्ठाता बुद्धिश्चेतनेव विभाव्यते कर्तृष्ववस्थितश्चात्मा भोक्ता कर्तेव लक्ष्यते आह, संयोगात्पररूपतापत्तावतिप्रसंगः, अविशेषात् यदि चेतनसंयोगाद् बुद्ध्यादीनां प्रत्ययवदुपचारः व्यापित्वादस्य घटादिभिरपि संयोगो न प्रतिषिध्यत इत्यतः प्राप्तस्तेषामपि प्रत्ययवदुपचारः अथ संयोगाविशेषात्करणानामेव प्रत्ययवदुपचारो न घटादीनां, विशेषस्तर्हि वक्तव्य इति उच्यते- तदप्रसंगः शक्त्यपेक्षत्वात् स्फटिकादिवत् यथोपधानसंयोगविशेषे सत्याकाशस्फटिकयोः स्फाटिकमेवोपधनसरूपं प्रत्यवभासते शक्तितो नाकाशम्, एवं पुरुषसंयोगाविशेषे बुद्धिघटयोः शक्तितो बुद्धिरेव चेतनारूपापन्नेवोपलभ्यते, न घटः आह, पुरुषस्य विकार्यत्वप्रसंगः, रूपान्तरोपादनात् यदि तर्हि करणसम्बन्धात्पुरुषः कर्तृत्वोपचारं विषयसरूपतां च प्रतिपद्यते, प्राप्तमस्यापि स्फटिकवद्रूपान्तरोपादानाद्विकार्यत्वम् अथ नास्य विषयरूपापत्तिः, न तर्हि करणस्वरूपः पुरुष इति उच्यते- न, भक्तितो ऽभ्युपगमात् बुद्धिरुपात्तविषयेन्द्रियवृत्त्युपनिपातात्ताद्रूप्यं प्रतिपद्यते बुद्धिरूपं तु सन्निधानमात्राच्छक्तिविशेषयोगात्फलभोक्तृत्वाच्च राजनि भृत्यजयपराजयोपचारवत्पुरुष उपचर्यते न त्वसौ बुद्धिसंपर्कात्तद्रूपो भवति अत एवास्य सत्यां चेतनाशक्तौ व्यवसायकर्तृत्वं प्रतिषिध्यते, मा भूत् विषयरूपापत्तौ सत्यामनेकस्वभावत्वादिकार्यत्वप्रसंगः तस्माद्विषयसम्पर्कादप्यविकार्यः पुरुषः, न ह्यस्य नित्यत्वात्किंचिदनुग्रहाय नापघाताय आह च मुष्टिर्यथा विकीर्णः सूच्यग्रे सर्षपादीनाम् तिष्ठन्ति न सूक्ष्मभावात्तद्वद् द्वन्द्वानि सर्वज्ञे इति चेतनाशक्तियोगात्तु द्रष्टृत्वमस्य स्वाभाविकम् एवं चेद्ययुक्तं वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् चर्मोपमश्चेत्सो ऽनित्यः खतुल्यश्चेदसत्समः इति तदयुक्तम् किं कारणम् ? यस्मादविकार्यरूपस्याकाशस्य सन्निधानमात्रान्मेघपयोरजोधूमप्रभृतिभिरभिन्नदेशत्वादत्यन्तशुद्धस्यापि मलिनमिव रूपमुपलक्ष्यते, न च विकार्यत्वम्, एवमनात्मनो ऽपि स्यात् तद्युक्तमेतत्पुरुषसंयोगात्करणस्य प्रत्ययोपचारः, पुरुषस्य च गुणसंयोगात्कर्तृत्वोपचार इति आह, अयुक्तमेतत् कस्मात् ? संयोगानुपपत्तेः पुरुषस्य हि गुणानां च संयोगः परिकल्प्यमानो ऽन्यतरकर्मजो वा परिकल्प्यते यथा स्थाणुश्येनयोः, उभयकर्मजो यथा मेषयोः, संयोगजो वा द्व्यङ्गुलाकाशयोः, स्वाभाविको वा यथाग्न्युष्णयोः, शक्तिनिमित्तो वा यथा चक्षुरूपयोः, योग्यतालक्षणो वा यथा मत्स्योदकयोरिति ? तन्न तावदन्यतरकर्मज उभ्यकर्मजश्च संयोग एषामुपपद्यते कस्मात् ? विभुत्वात् न स्वाभाविकः अनिर्मोक्षप्रसंगात् यथाग्नेः स्वाभाविकादौष्ण्यान्मोक्षो न भवति एवमात्मनः स्वाभाविकत्वाद्गुणसंयोगादनिर्मोक्षप्रसंगः स्यात् शक्तिनिमित्तश्च किम् ? अनिर्मोक्षप्रसंगादेव, स न भवतीत्यनुवर्तते स्वस्वामिशक्तिनिमित्ते हि संयोगे परिकल्प्यमाने शक्त्योः सततावस्थानादनिर्मोक्ष एव प्रसज्येत योग्यतालक्षणः शक्तिमात्ररूपत्वादसंवेद्यो ऽतस्तदसिद्धिः किंच प्रयोजनान्तरानुपपत्तेः प्रवृत्त्यनुगुणं हि योग्यमित्युच्यते तस्या एव तु प्रवृत्ते पुरुषार्थमपोह्य निमित्तान्तरं शक्यं कल्पयितुम् आकस्मिकत्वे च नियमद्वैतानुपपत्तिः तस्मादयुक्तं पुरुषस्य गुणानां च योग्यतालक्षणः सम्बन्धः न यादृच्छिकः मोक्षकारणनियमानुपपत्तेः संयोगकारणप्रतिद्वन्द्वं कैवल्यकारणम् यदि च यादृच्छिको गुणपुरुषसंयोगः स्यात्तस्याज्ञानान्निवृत्तिर्नास्तीति तदर्थस्याभ्युत्थानस्यानर्थक्यं प्राप्तं विशेषानुपपत्तेश्च कारणान्तरं कल्पयितुम् अत एतदप्ययुक्तमिति न वैषयिकः, अनिर्मोक्षप्रसंगात् सततमेव हि पुरुषस्य विषयित्वमव्यावृत्तं गुणानां च विषयत्वमित्यनिर्मोक्षप्रसंग एव स्यात् एतावांश्च संयोगः परिकल्प्यमानः परिकल्प्येत सर्वथा च नोपपद्यते तस्मात्तत्संयोगादित्ययुक्तमभिधातुमिति उच्यते- संयोगानित्यत्वादिह चौपकारिकपरिकल्पनाददोषः इहानेकविधः संयोगः तद्यथा प्राप्तिपूर्विका प्राप्तिः यथोदाहृतं अन्यतरज उभयकर्मजः संयोग इत्यादि यत्रासौ न संभवति तत्र सन्निधिमात्रसामान्याद् भक्त्या कल्प्यते तद्यथाकाशस्य गवादिभिः प्रदेशैरिति चेन्न अभावात् ते ऽपि हि निरवयवत्वादाकाशस्य भक्त्या कल्प्यन्ते, मा भूत्कृतकत्वानित्यत्वदोषप्रसंगः तस्मात्प्रदेशोपचारात्कार्यमप्युपचरितम् अन्यस्तु शास्त्रीयः संयोगो ऽर्थनिमित्तः तत्रानेकसंयोगोपपत्तेरिह पुरुषान्तःकरणयोरभिन्नदेशत्वात्सन्निधिमात्रसामान्याद्भाक्तं संयोगं परिकल्प्यैवमुच्यत इत्यदोषः

kārikā 20 yataścetanāśaktisambandhātpuruṣa eva draṣṭā nānyattattvāntaraṃ, guṇāśca kartāro, na puruṣaḥ tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ isk_20 puruṣasamparkād hi grahaṇadhāraṇavijñānavacanohāpohakriyā yathānyāyābhiniveśānāṃ karaṇadharmāṇāṃ pratyayarūpāṇāmivopalabdheścetanāśakteścādhyavasāyavṛttimanurudhyamānāyāstadbhāvasanniveśināṃ sattvādīnāṃ vyāpāravatāmabhisambandhād vyāpārāviṣṭāyā ivopalabdhiḥ yatastatrāyamanekakālapravṛttamithyāpratyayābhyāsavāsanāpekṣo bhavabījaheturjñānaviśeṣaḥ prāṇabhṛtāmavabhāsate śrotramupalabhyate tvakcakṣurjihvā ghrāṇamityādi tathā puruṣaḥ karmaṇāṃ kartā, puruṣaḥ sukhaduḥkhayoriti tasmātkaraṇasya grahaṇarūpatā puruṣasya ca kartṛrūpatā, sambandhyantarasamparkādanyagatānyatropalabhyamānā bhaktyādhyavasātavyā, na paramārthataḥ uktaṃ ca cetanādhiṣṭhātā buddhiścetaneva vibhāvyate kartṛṣvavasthitaścātmā bhoktā karteva lakṣyate āha, saṃyogātpararūpatāpattāvatiprasaṃgaḥ, aviśeṣāt yadi cetanasaṃyogād buddhyādīnāṃ pratyayavadupacāraḥ vyāpitvādasya ghaṭādibhirapi saṃyogo na pratiṣidhyata ityataḥ prāptasteṣāmapi pratyayavadupacāraḥ atha saṃyogāviśeṣātkaraṇānāmeva pratyayavadupacāro na ghaṭādīnāṃ, viśeṣastarhi vaktavya iti ucyate- tadaprasaṃgaḥ śaktyapekṣatvāt sphaṭikādivat yathopadhānasaṃyogaviśeṣe satyākāśasphaṭikayoḥ sphāṭikamevopadhanasarūpaṃ pratyavabhāsate śaktito nākāśam, evaṃ puruṣasaṃyogāviśeṣe buddhighaṭayoḥ śaktito buddhireva cetanārūpāpannevopalabhyate, na ghaṭaḥ āha, puruṣasya vikāryatvaprasaṃgaḥ, rūpāntaropādanāt yadi tarhi karaṇasambandhātpuruṣaḥ kartṛtvopacāraṃ viṣayasarūpatāṃ ca pratipadyate, prāptamasyāpi sphaṭikavadrūpāntaropādānādvikāryatvam atha nāsya viṣayarūpāpattiḥ, na tarhi karaṇasvarūpaḥ puruṣa iti ucyate- na, bhaktito 'bhyupagamāt buddhirupāttaviṣayendriyavṛttyupanipātāttādrūpyaṃ pratipadyate buddhirūpaṃ tu sannidhānamātrācchaktiviśeṣayogātphalabhoktṛtvācca rājani bhṛtyajayaparājayopacāravatpuruṣa upacaryate na tvasau buddhisaṃparkāttadrūpo bhavati ata evāsya satyāṃ cetanāśaktau vyavasāyakartṛtvaṃ pratiṣidhyate, mā bhūt viṣayarūpāpattau satyāmanekasvabhāvatvādikāryatvaprasaṃgaḥ tasmādviṣayasamparkādapyavikāryaḥ puruṣaḥ, na hyasya nityatvātkiṃcidanugrahāya nāpaghātāya āha ca muṣṭiryathā vikīrṇaḥ sūcyagre sarṣapādīnām tiṣṭhanti na sūkṣmabhāvāttadvad dvandvāni sarvajñe iti cetanāśaktiyogāttu draṣṭṛtvamasya svābhāvikam evaṃ cedyayuktaṃ varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam carmopamaścetso 'nityaḥ khatulyaścedasatsamaḥ iti tadayuktam kiṃ kāraṇam ? yasmādavikāryarūpasyākāśasya sannidhānamātrānmeghapayorajodhūmaprabhṛtibhirabhinnadeśatvādatyantaśuddhasyāpi malinamiva rūpamupalakṣyate, na ca vikāryatvam, evamanātmano 'pi syāt tadyuktametatpuruṣasaṃyogātkaraṇasya pratyayopacāraḥ, puruṣasya ca guṇasaṃyogātkartṛtvopacāra iti āha, ayuktametat kasmāt ? saṃyogānupapatteḥ puruṣasya hi guṇānāṃ ca saṃyogaḥ parikalpyamāno 'nyatarakarmajo vā parikalpyate yathā sthāṇuśyenayoḥ, ubhayakarmajo yathā meṣayoḥ, saṃyogajo vā dvyaṅgulākāśayoḥ, svābhāviko vā yathāgnyuṣṇayoḥ, śaktinimitto vā yathā cakṣurūpayoḥ, yogyatālakṣaṇo vā yathā matsyodakayoriti ? tanna tāvadanyatarakarmaja ubhyakarmajaśca saṃyoga eṣāmupapadyate kasmāt ? vibhutvāt na svābhāvikaḥ anirmokṣaprasaṃgāt yathāgneḥ svābhāvikādauṣṇyānmokṣo na bhavati evamātmanaḥ svābhāvikatvādguṇasaṃyogādanirmokṣaprasaṃgaḥ syāt śaktinimittaśca kim ? anirmokṣaprasaṃgādeva, sa na bhavatītyanuvartate svasvāmiśaktinimitte hi saṃyoge parikalpyamāne śaktyoḥ satatāvasthānādanirmokṣa eva prasajyeta yogyatālakṣaṇaḥ śaktimātrarūpatvādasaṃvedyo 'tastadasiddhiḥ kiṃca prayojanāntarānupapatteḥ pravṛttyanuguṇaṃ hi yogyamityucyate tasyā eva tu pravṛtte puruṣārthamapohya nimittāntaraṃ śakyaṃ kalpayitum ākasmikatve ca niyamadvaitānupapattiḥ tasmādayuktaṃ puruṣasya guṇānāṃ ca yogyatālakṣaṇaḥ sambandhaḥ na yādṛcchikaḥ mokṣakāraṇaniyamānupapatteḥ saṃyogakāraṇapratidvandvaṃ kaivalyakāraṇam yadi ca yādṛcchiko guṇapuruṣasaṃyogaḥ syāttasyājñānānnivṛttirnāstīti tadarthasyābhyutthānasyānarthakyaṃ prāptaṃ viśeṣānupapatteśca kāraṇāntaraṃ kalpayitum ata etadapyayuktamiti na vaiṣayikaḥ, anirmokṣaprasaṃgāt satatameva hi puruṣasya viṣayitvamavyāvṛttaṃ guṇānāṃ ca viṣayatvamityanirmokṣaprasaṃga eva syāt etāvāṃśca saṃyogaḥ parikalpyamānaḥ parikalpyeta sarvathā ca nopapadyate tasmāttatsaṃyogādityayuktamabhidhātumiti ucyate- saṃyogānityatvādiha caupakārikaparikalpanādadoṣaḥ ihānekavidhaḥ saṃyogaḥ tadyathā prāptipūrvikā prāptiḥ yathodāhṛtaṃ anyataraja ubhayakarmajaḥ saṃyoga ityādi yatrāsau na saṃbhavati tatra sannidhimātrasāmānyād bhaktyā kalpyate tadyathākāśasya gavādibhiḥ pradeśairiti cenna abhāvāt te 'pi hi niravayavatvādākāśasya bhaktyā kalpyante, mā bhūtkṛtakatvānityatvadoṣaprasaṃgaḥ tasmātpradeśopacārātkāryamapyupacaritam anyastu śāstrīyaḥ saṃyogo 'rthanimittaḥ tatrānekasaṃyogopapatteriha puruṣāntaḥkaraṇayorabhinnadeśatvātsannidhimātrasāmānyādbhāktaṃ saṃyogaṃ parikalpyaivamucyata ityadoṣaḥ


21

कारिका 21 आह, विज्ञातं संयोगद्वयम् अयं त्वन्यो ऽर्थनिमित्तः शास्त्रीयः संयोगो भवता परिभाष्यते तत्र वक्तव्यं किमर्थो ऽसाविति ? उच्यते पुरुषस्य दर्शनार्थः दृष्टिर्दर्शनम् अर्थशब्दो निमित्तवचनः दर्शनमर्थो ऽस्यासौ दर्शनार्थः दर्शननिमित्तो दर्शनहेतुः दर्शनकारण इत्यर्थः एतदुक्तं भवति- सन्निधानाविशेषे सति आत्मन आकाशादेश्च यस्माद्दृक्छक्तियुक्तः पुरुषः तस्मात्कार्यकारणतामापन्नेन प्रधानेन सह भोक्तृत्वेन संबध्यते, नाचैतन्यादाकाशादय इति अथवा अर्थशब्दः फलवचनः यथा तृप्त्यर्था भुजिक्रिया तृप्त्यौ सत्यां निवर्तते प्राप्त्यर्था गमिक्रिया प्राप्तौ सत्याम्, एवं पुरुषस्य प्रधानेन दर्शनार्थः संयोगः दर्शने सति निवर्तते तथा च वक्ष्यति दृष्टा मयेतियुपेक्षक एको दृष्टाहमित्युपरतैकेति (इस्क् 66) आह, एवमपि शब्दाद्युपलब्धिसमकालमेव निवृत्तिप्रसंगः किं कारणम् ? तस्यामप्यवस्थायां शक्यं वक्तुं दृष्टा प्रकृतिरिति उच्यते यद्यप्येतदेवं तथापि यथा पुरुषस्य दर्शनार्थः संयोगः कैवल्यार्थस्तथा प्रधानस्य कैवल्यमिति विवेकपरिच्छिन्नं सत्त्वादिभिरसंसर्गधर्मित्वमात्मनः, सो ऽर्थो ऽस्य सो ऽयं कैवल्यार्थः सत्यपि हि दर्शनाविशेषे प्रधानं पुरुषस्य कैवल्यार्थं प्रवर्तते यदास्य बुद्धिस्तमसो ऽङ्गित्वाद्ये गुणाः कार्यरूपापन्नाः शिरःपाण्यादय आध्यात्मिका, बाह्याश्च गवादयः, कारणरूपापन्नाश्चालोचनक्रियासंकल्पाभिमानाध्यवसायलक्षणाः, सो ऽहमित्यविशिष्टप्रत्ययोपसंहारं करोति तदा प्रवर्तत एव यदा त्वन्ये गुणाः प्रकृतिभूता विकारभूताः कार्यभूताः कारणभूता अचेतनाः परार्था अन्यो ऽहं न प्रकृतिर्न विकृतिर्न कार्यं न कारणं नाचेतनः स्वार्थ इति भिन्नप्रत्ययोपसंहारं करोति तदा निवर्तते सो ऽयं पुरुषस्य दृक्छक्तिनिमित्तः प्रधानस्य च कैवल्यावधिपरिच्छिन्नः पुरुषार्थः सत्यपि पारिभाषिकत्वे पङ्ग्वन्धवदुभयोरपि संयोगः एतदुक्तं भवति प्रागपि कार्यकारणसम्बन्धात्पुरुषे चैत्वन्यमवस्थितम् तद्यथा अग्नेर्दहनं परशोश्छेदनमसति दाह्ये छेद्ये न व्यज्यते तत्सन्निधानसमकालमेव तु व्यज्यते इत्यतः प्रधानमपेक्षते तथा प्रधानमप्यन्तरेण पुरुषोपकारं स्वकादसर्मर्थमनिष्पन्नकार्यसमं चेतितमनर्थकम स्यादित्यतः पुरुषमपेक्षते तत्र उभयोरितरेतरापेक्षा तं संयोगमधिकारबन्धमाहुराचार्याः पङ्ग्वन्धदृष्टान्तस्तु नान्तरीयकमात्रप्रदर्शनार्थम् यथा पङ्गुर्नान्तरेणान्धं दृक्छक्त्या विशिष्टेनार्थेनार्थवान्भवति अन्धश्च नान्तरेण पङ्गुं विशिष्टेनार्थेन, एवं प्रधानं नान्तरेण पुरुषं कृतमपि कार्यं द्रष्टुं शक्तमनवधिकं च प्रवर्तमानं विशेषाभावान्नैव निवर्तते तथा पुरुषः सत्यपि चेतनत्वे नान्तरेण प्रधानमुपलभ्याभावादुपलब्धा भवेदिति प्रधानमपेक्षते तस्मादितरेतरापेक्षया संयोगत्वे कल्प्यमाने यदुक्तं विना सर्गेण बन्धो हि पुरुषस्य न युज्यते सर्गस्तस्यैव मोक्षार्थमहो सांख्यस्य सूक्तता इति तदयुक्तम् कस्मात् ? न ह्यसौ विना सर्गेण न युज्यत इति आह च दृश्यदर्शनभावेन प्रकृतेः पुरुषस्य च अपेक्षा शास्त्रतत्त्वज्ञैर्बन्ध इत्यभिधीयते एवं विनापि सर्गेण यस्माद्बद्धः पुमान्गुणैः तस्माद्विफलतां यातु मनोरथमनोरथः इति सिद्धः संयोगः तत्कृतः सर्गः इस्क्_21 प्रधानपुरुषयोर्हि भोक्तृभोग्यभावापेक्षनिमित्तो ऽयं तत्त्वसर्गो महदादिः, भावसर्गश्च धर्मादिः, भूतसर्गश्च ब्राह्मादिः प्रवर्तते सा चापेक्षा पुरुषानन्त्यान्न निवर्तत इत्यतो ऽर्थवतीनां हि प्रकृतीनां तदपरिसमाप्तेर्न निवृतिरस्ति

kārikā 21 āha, vijñātaṃ saṃyogadvayam ayaṃ tvanyo 'rthanimittaḥ śāstrīyaḥ saṃyogo bhavatā paribhāṣyate tatra vaktavyaṃ kimartho 'sāviti ? ucyate puruṣasya darśanārthaḥ dṛṣṭirdarśanam arthaśabdo nimittavacanaḥ darśanamartho 'syāsau darśanārthaḥ darśananimitto darśanahetuḥ darśanakāraṇa ityarthaḥ etaduktaṃ bhavati- sannidhānāviśeṣe sati ātmana ākāśādeśca yasmāddṛkchaktiyuktaḥ puruṣaḥ tasmātkāryakāraṇatāmāpannena pradhānena saha bhoktṛtvena saṃbadhyate, nācaitanyādākāśādaya iti athavā arthaśabdaḥ phalavacanaḥ yathā tṛptyarthā bhujikriyā tṛptyau satyāṃ nivartate prāptyarthā gamikriyā prāptau satyām, evaṃ puruṣasya pradhānena darśanārthaḥ saṃyogaḥ darśane sati nivartate tathā ca vakṣyati dṛṣṭā mayetiyupekṣaka eko dṛṣṭāhamityuparataiketi (isk 66) āha, evamapi śabdādyupalabdhisamakālameva nivṛttiprasaṃgaḥ kiṃ kāraṇam ? tasyāmapyavasthāyāṃ śakyaṃ vaktuṃ dṛṣṭā prakṛtiriti ucyate yadyapyetadevaṃ tathāpi yathā puruṣasya darśanārthaḥ saṃyogaḥ kaivalyārthastathā pradhānasya kaivalyamiti vivekaparicchinnaṃ sattvādibhirasaṃsargadharmitvamātmanaḥ, so 'rtho 'sya so 'yaṃ kaivalyārthaḥ satyapi hi darśanāviśeṣe pradhānaṃ puruṣasya kaivalyārthaṃ pravartate yadāsya buddhistamaso 'ṅgitvādye guṇāḥ kāryarūpāpannāḥ śiraḥpāṇyādaya ādhyātmikā, bāhyāśca gavādayaḥ, kāraṇarūpāpannāścālocanakriyāsaṃkalpābhimānādhyavasāyalakṣaṇāḥ, so 'hamityaviśiṣṭapratyayopasaṃhāraṃ karoti tadā pravartata eva yadā tvanye guṇāḥ prakṛtibhūtā vikārabhūtāḥ kāryabhūtāḥ kāraṇabhūtā acetanāḥ parārthā anyo 'haṃ na prakṛtirna vikṛtirna kāryaṃ na kāraṇaṃ nācetanaḥ svārtha iti bhinnapratyayopasaṃhāraṃ karoti tadā nivartate so 'yaṃ puruṣasya dṛkchaktinimittaḥ pradhānasya ca kaivalyāvadhiparicchinnaḥ puruṣārthaḥ satyapi pāribhāṣikatve paṅgvandhavadubhayorapi saṃyogaḥ etaduktaṃ bhavati prāgapi kāryakāraṇasambandhātpuruṣe caitvanyamavasthitam tadyathā agnerdahanaṃ paraśośchedanamasati dāhye chedye na vyajyate tatsannidhānasamakālameva tu vyajyate ityataḥ pradhānamapekṣate tathā pradhānamapyantareṇa puruṣopakāraṃ svakādasarmarthamaniṣpannakāryasamaṃ cetitamanarthakama syādityataḥ puruṣamapekṣate tatra ubhayoritaretarāpekṣā taṃ saṃyogamadhikārabandhamāhurācāryāḥ paṅgvandhadṛṣṭāntastu nāntarīyakamātrapradarśanārtham yathā paṅgurnāntareṇāndhaṃ dṛkchaktyā viśiṣṭenārthenārthavānbhavati andhaśca nāntareṇa paṅguṃ viśiṣṭenārthena, evaṃ pradhānaṃ nāntareṇa puruṣaṃ kṛtamapi kāryaṃ draṣṭuṃ śaktamanavadhikaṃ ca pravartamānaṃ viśeṣābhāvānnaiva nivartate tathā puruṣaḥ satyapi cetanatve nāntareṇa pradhānamupalabhyābhāvādupalabdhā bhavediti pradhānamapekṣate tasmāditaretarāpekṣayā saṃyogatve kalpyamāne yaduktaṃ vinā sargeṇa bandho hi puruṣasya na yujyate sargastasyaiva mokṣārthamaho sāṃkhyasya sūktatā iti tadayuktam kasmāt ? na hyasau vinā sargeṇa na yujyata iti āha ca dṛśyadarśanabhāvena prakṛteḥ puruṣasya ca apekṣā śāstratattvajñairbandha ityabhidhīyate evaṃ vināpi sargeṇa yasmādbaddhaḥ pumānguṇaiḥ tasmādviphalatāṃ yātu manorathamanorathaḥ iti siddhaḥ saṃyogaḥ tatkṛtaḥ sargaḥ isk_21 pradhānapuruṣayorhi bhoktṛbhogyabhāvāpekṣanimitto 'yaṃ tattvasargo mahadādiḥ, bhāvasargaśca dharmādiḥ, bhūtasargaśca brāhmādiḥ pravartate sā cāpekṣā puruṣānantyānna nivartata ityato 'rthavatīnāṃ hi prakṛtīnāṃ tadaparisamāpterna nivṛtirasti


22

इति श्रीयुक्तिदीपिकायां सप्ततिपद्धतौ पञ्चममाह्निकं द्वितीयं च प्रकरणम् कारिका 22 एवं कारणान्तरप्रतिषेधात्प्रकृतेः पुरुषार्थो ऽयं व्यक्तभावेन विपरिणाम इति स्थितम् तत्रेदानीं विप्रतिपत्तिराचार्याणाम् केचिदाहुः प्रधानादनिर्देश्यस्वरूपं तत्त्वान्तरमुत्पद्यते ततो महानिति पतञ्जलिपञ्चाधिकरणवार्षगणानां तु प्रधानान्महानुत्पद्यत इति तदन्येषां पुराणेतिहासप्रणेतःणां महतो ऽहंकारो विद्यत इति पक्षः- महतो ऽस्मिप्रत्ययकर्तृत्वाभ्युपगमात् अहंकारात्पञ्च तन्मात्राणीति सर्वे महतः षडविशेषाः सृज्यन्ते पञ्च तन्मात्राण्यहंकारश्चेति विन्ध्यवासिमतम् तथा अहंकारादिन्द्रियाणीति सर्वे भौतिकानीन्द्रियाणीति पञ्चाधिकरणमतम् एकरूपाणि तन्मात्राणीत्यन्ये एकोत्तराणीति वार्षगण्यः इन्द्रियाणि संस्कारविशेषयोगात्परिगृहीतरूपाणीति केचित् परिच्छिन्नपरिमाणानीत्यपरे विभूनीति विन्ध्यवासिमतम् अधिकरणमपि केचित्त्रयोदशविधमाहुः एकादशकमिति विन्ध्यवासी तथान्येषां महति सर्वार्थोपल्ब्धिः, मनसि विन्ध्यवासिनः संकल्पाभिमानाध्यवसायनानात्वमन्येषाम्, एकत्वं विन्ध्यवासिनः तथा करणं निर्लिखितस्वरूपं शून्यग्रामनदीकल्पम्, प्राकृतवैकृतिकानि तु ज्ञानानि प्रेरकाङ्गसंगृहीतानि प्रधानादागच्छन्ति चेति पञ्चाधिकरणः, न तु तथेत्यन्ये कारणानां महती स्वभावातिवृत्तिः प्रधानात्, स्वल्पा च स्वत इति वार्षगण्यः सर्वा स्वत इति पतञ्जलिः सर्वा परत इति पञ्चाधिकरणः बुद्धिः क्षणिकेति च कालान्तरावस्थायिनीत्यपरे एवमनेकनिश्चयेष्वाचार्येषु ये तावत्प्रधानमहतोरन्तराले तत्त्वान्तरमिच्छन्ति तत्प्रतिक्षेपायाचार्यः स्वमतमुपन्यस्यति प्रकृतेर्महान् प्रकृतेर्महानुत्पद्यते महान्बुद्धिर्मतिर्ब्रह्मापूर्तिः ख्यातिरीश्वरो विखर इति पर्यायाः स तु देशमहत्त्वात्कालमहत्त्वाच्च महान् सर्वोत्पाद्येभ्यो महापरिमाणयुक्तत्वान्महान् अन्यस्य तु पक्षे नैवाहंकारो विद्यत इति प्रतिषेधविवक्षयेदमाह ततो ऽहङ्कारः तस्मान्महतो ऽहंकार उत्पद्यते यः पुनराह, महतः षडविशेषाः सृज्यन्ते पञ्च तन्मात्राण्यहंकारश्चेति तन्निरासार्थमाह तस्माद्गणश्च षोडशकः तस्मादहंकारात्षोडशको गण उत्पद्यते, पञ्च तन्मात्राणि एकादशेन्द्रियाणि च अनेनैव च भौतिकेन्द्रियवादी प्रतिक्षिप्तो बोद्धव्यः तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि इस्क्_22 तस्मादपि षोडशकाद्गणाद्यः पञ्चको गणस्ततः पञ्च महाभूतान्युत्पद्यन्ते पूर्वपदलोपेनात्र महाभूतानीति वक्तव्ये भूतानीत्युच्यते भूतसंज्ञा हि तन्मात्राणां न पृथिव्यादीनामत्र तु सांख्याचार्याणामविप्रतिपत्तिः भूतकौटस्थ्यवादिनस्तु मीमांसका आर्हताश्च तत्प्रतिक्षेपेणेदमुच्यत इति

iti śrīyuktidīpikāyāṃ saptatipaddhatau pañcamamāhnikaṃ dvitīyaṃ ca prakaraṇam kārikā 22 evaṃ kāraṇāntarapratiṣedhātprakṛteḥ puruṣārtho 'yaṃ vyaktabhāvena vipariṇāma iti sthitam tatredānīṃ vipratipattirācāryāṇām kecidāhuḥ pradhānādanirdeśyasvarūpaṃ tattvāntaramutpadyate tato mahāniti patañjalipañcādhikaraṇavārṣagaṇānāṃ tu pradhānānmahānutpadyata iti tadanyeṣāṃ purāṇetihāsapraṇetḥṇāṃ mahato 'haṃkāro vidyata iti pakṣaḥ- mahato 'smipratyayakartṛtvābhyupagamāt ahaṃkārātpañca tanmātrāṇīti sarve mahataḥ ṣaḍaviśeṣāḥ sṛjyante pañca tanmātrāṇyahaṃkāraśceti vindhyavāsimatam tathā ahaṃkārādindriyāṇīti sarve bhautikānīndriyāṇīti pañcādhikaraṇamatam ekarūpāṇi tanmātrāṇītyanye ekottarāṇīti vārṣagaṇyaḥ indriyāṇi saṃskāraviśeṣayogātparigṛhītarūpāṇīti kecit paricchinnaparimāṇānītyapare vibhūnīti vindhyavāsimatam adhikaraṇamapi kecittrayodaśavidhamāhuḥ ekādaśakamiti vindhyavāsī tathānyeṣāṃ mahati sarvārthopalbdhiḥ, manasi vindhyavāsinaḥ saṃkalpābhimānādhyavasāyanānātvamanyeṣām, ekatvaṃ vindhyavāsinaḥ tathā karaṇaṃ nirlikhitasvarūpaṃ śūnyagrāmanadīkalpam, prākṛtavaikṛtikāni tu jñānāni prerakāṅgasaṃgṛhītāni pradhānādāgacchanti ceti pañcādhikaraṇaḥ, na tu tathetyanye kāraṇānāṃ mahatī svabhāvātivṛttiḥ pradhānāt, svalpā ca svata iti vārṣagaṇyaḥ sarvā svata iti patañjaliḥ sarvā parata iti pañcādhikaraṇaḥ buddhiḥ kṣaṇiketi ca kālāntarāvasthāyinītyapare evamanekaniścayeṣvācāryeṣu ye tāvatpradhānamahatorantarāle tattvāntaramicchanti tatpratikṣepāyācāryaḥ svamatamupanyasyati prakṛtermahān prakṛtermahānutpadyate mahānbuddhirmatirbrahmāpūrtiḥ khyātirīśvaro vikhara iti paryāyāḥ sa tu deśamahattvātkālamahattvācca mahān sarvotpādyebhyo mahāparimāṇayuktatvānmahān anyasya tu pakṣe naivāhaṃkāro vidyata iti pratiṣedhavivakṣayedamāha tato 'haṅkāraḥ tasmānmahato 'haṃkāra utpadyate yaḥ punarāha, mahataḥ ṣaḍaviśeṣāḥ sṛjyante pañca tanmātrāṇyahaṃkāraśceti tannirāsārthamāha tasmādgaṇaśca ṣoḍaśakaḥ tasmādahaṃkārātṣoḍaśako gaṇa utpadyate, pañca tanmātrāṇi ekādaśendriyāṇi ca anenaiva ca bhautikendriyavādī pratikṣipto boddhavyaḥ tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni isk_22 tasmādapi ṣoḍaśakādgaṇādyaḥ pañcako gaṇastataḥ pañca mahābhūtānyutpadyante pūrvapadalopenātra mahābhūtānīti vaktavye bhūtānītyucyate bhūtasaṃjñā hi tanmātrāṇāṃ na pṛthivyādīnāmatra tu sāṃkhyācāryāṇāmavipratipattiḥ bhūtakauṭasthyavādinastu mīmāṃsakā ārhatāśca tatpratikṣepeṇedamucyata iti

Section (cont. 17)

23

कारिका 23 आह, उक्तं प्रधानाद्बुद्धिरुत्पद्यत इति तत्र वक्तव्यं किंलक्षणा पुनर्बुद्धिरित्युच्यते अध्यवसायो बुद्धिः को ऽयमध्यवसायः ? गौरेवायं, पुरुष एवायमिति यः प्रत्ययो निश्चयो ऽर्थग्रहणं सो ऽध्यवसायः अत्र क्षणिकवाद्याह यद्यर्थग्रहणं बुद्धिः, अनित्या कस्मात् ? हेत्वपेक्षणात् अर्थग्रहणं हीन्द्रियादिविषयसन्निधानमावरणाद्यभावं चापेक्षते न च नित्यस्य कारणापेक्षोपपद्यते तस्मादनित्या बुद्धिः अभिव्यक्तेरदोष इति चेत्स्यादेतन्नेन्द्रियसन्निधानादिभिरर्थग्रहणं जन्यते किं तर्ह्यभिव्यज्यत इति तच्च नैवम् द्विधा दोषात् सा ह्यभिव्यक्तिः स्वरूपलाभो वा स्यात् ग्रहणप्रतिबन्धव्युदासो वा किं चातः ? तद्यदि तावत्स्वरूपलाभः क्रियते ऽर्थग्रहणमिति प्राप्तम् अर्थग्रहणप्रतिबन्धस्यान्धकारस्य व्युदासस्तदप्ययुक्तम् विप्रतिषेधात् ग्रहणं च स्यात्तत्प्रतिबन्धश्चेति विप्रतिषिद्धम् किंच भेदात् व्यङ्ग्यं हि घटादि चन्द्रार्कौषधिमणिरत्नप्रदीपभेदान्न भिद्यते अस्ति बुद्धीनामर्थभेदाद् भेदः वृत्तिभेदाददोषो मृद्वदिति चेत् स्यान्मतम् , यथा मृद्द्रव्यस्य घटादिसंस्थानवृत्तिभेदे ऽप्यभेद एवं बुद्धेरिति तदप्ययुक्तम् अनन्यत्वात् यदा बुद्धिरन्या वृत्तिभ्यः, प्राप्तस्तद्भेदे बुद्धिभेदः किंच दृष्टान्तासिद्धेः साध्यं चैतत् किं तदेव मृद्द्रव्यं घटादिवृत्तिभेदमनुभवति आहोस्वित्प्रत्ययान्तरवशादन्यच्चान्यच्चोत्पद्यते इति ? अवयवभेदाच्च उपेत्य वानुवृत्तिं ब्रूमः- न हि तदेकं मृद्द्रव्यम्, किं तर्हि बहवो मृत्परमाणवो ऽनेकदेशावच्छिन्नवृत्तय इति किं चान्यत् निवृत्तिविभक्तिग्रहणात् तद्धि मृद्द्रव्यं संस्थानमपेक्ष्यापि गृह्यते, न त्वर्थग्रहणमनपेक्ष्य बुद्धेर्ग्रहणमस्ति तस्माद्विषमो दृष्टान्तः परिमाणाददोष इति चेत् स्यान्मतम् सत्त्वादीनामङ्गाङ्गिभावनियमात्तेन तेनार्थग्रहणात्मना विपरिणामो वृत्तिरिति एतच्चायुक्तम् उभयकल्पने दोषप्रसंगात् यदि धर्मान्तरोपादानपरित्यागौ व्यक्तव्यक्ती, दत्तोत्तर एष पक्षः अथ नाशोत्पादौ तेन धर्मधर्मिणोरनन्यत्वाद्धर्माणां नाशोत्पादाद्बुद्धेरपि नाशोत्पादप्रसंगः तदनभ्युपगमे वान्यत्वमिति दोषः आह च नष्टोत्पन्नमनन्यत्वादनित्यं नित्यमेव वा नष्टोत्पन्नाविनष्टानां नित्यं तो नास्ति चैकदा यदप्युक्तम्- सत्त्वादीनामङ्गाङ्गिभावनियमादिति, तदयुक्तम् अत एवानित्यत्वसिद्धेः तुल्यानां गुणप्रधानभावानुपपत्तेः सत्त्वादीनानङ्गाङ्गिभावाभ्युपगमात् वृद्धिक्षयावभ्युपगन्तव्यौ ततश्च बुद्धिरनित्येति प्राप्तम् तेभ्यो ऽनन्यत्वात् अथ मतं तदवस्थाप्यसौ नित्येति, न तर्हि सत्वाद्यात्मभूता बुद्धिरिति प्राप्तम् ततश्च कार्यकारणयोरविवेक इत्यस्य विरोधः तस्मादनित्या बुद्धिरिति उच्यते- यत्तावदुक्तं हेत्वपेक्षणादनित्या बुद्धिरिति तदयुक्तम् कस्मात् ? सिद्धसाधनात् कस्यात्र विप्रतिपत्तिरनित्या वा बुद्धिः स्यान्नित्या वेति ? किं तर्हि हेतुमदनित्यं व्यक्तमिति वचनादनित्यैव तस्मादिष्टमेवैतत्सङ्गृहीतम् अतएव क्षणिकत्वमिति चेत्, अथापि स्याद्धेत्वपेक्षा हि संस्कृतत्वम् संस्कृतं तु क्षणिकम् तद्यथा प्रदीप इति तस्मादनित्ये सत्यपि विशेषानभिधाने क्षणिकत्वमेवानेन हेतुना बुद्धेः प्रतिपाद्यत इति कस्मात् ? उत्तरवचनविरोधप्रसंगात् एवमपि यदुत्तरं क्षणिकत्वप्रसिद्ध्यर्थमुच्यते प्रत्यर्थग्रहणान्यत्वादनित्येत्यादि तस्यानर्थक्यम् तस्मात् पूर्वोत्तरविरुद्धत्वात्सकलमेवेदं प्रकरणं नाध्ययनं, न प्रत्याख्यानमर्हति परेषां त्वभिनिष्टा बुद्धिरत्रेत्यसंगतार्थोत्तरापवाददोषमनपेक्ष्यापि प्रत्येकमप्येतदसाधनम्, वृत्तिविषयत्वात् स्वकारणपरिनिष्पन्नाया हि बुद्धेर्व्यापारो ऽर्थग्रहणसंज्ञक इन्द्रियादिसन्निधानापेक्षो न बुद्धिः तदनन्यत्वात्प्रसंगनिवृत्तिरिति चेदथ मतम्, वृत्तिवृत्तिमतोरनन्यत्वादित्थमपि कल्पयित्वायं प्रसंगो न निवर्तते तथा चोक्तम्- स्वालक्षण्यं वृत्तिस्त्रयस्येति (इस्क् 29) तदप्यबाधकम् कस्मात् ? उपचारात् सत्यमनन्या, वृत्तिवृत्तिमतोर्भेदेनाग्रहणात्, तथाप्युपरतव्यापारस्यापि परश्वादेर्वृत्तिमतः स्वरूप नोपरमतीति भेदमुपचर्य व्यवहारो नानाकार्यविषयः प्रवर्तते अतएवान्यत्वमपि स्यादिति तदयुक्तम्, एकान्तात् तद्यथा सेनापङ्क्तिसेनाकुण्डलाद्युपरमे न तत्सन्निवेशिनामुपरमः कार्यभेदश्च, न चान्यत्वम् एवं वृत्तितद्वतोरपि च स्यात् तस्माद्युक्तमेतद्धेत्वपेक्षणस्य वृत्तिविषयत्वान्न बुद्धेरनित्यत्वमिति एतेन व्यक्तिविकल्पः प्रयुक्तः, सो ऽपि वृत्तिविषय इति कृत्वा तदप्युक्तमिन्द्रियादिभेदे भेदादिति तदप्यनेनैवोक्तम् वृत्तिभेदो ऽत्र न भेद इति किं चानेकान्तात् यथोदकादिभेदात्प्रतिबिम्बभेदो न चाव्यङ्ग्यत्वमेवमन्यत्रापि स्यात् द्रव्यान्तरोत्पत्तेरदोष इति चेत्स्यान्मतम्, उदकस्याननसंयोगाद्द्रव्यान्तरमेव प्रतिबिम्बलक्षणमुत्पद्यते न तु मुखं भिद्यते इति असदेतत् कस्मात् ? उभयोः कारणत्वेन कल्पनानुपपत्तेः न हि मुखः निमित्तं शक्यं वक्तुम् , विप्रकृष्टत्वान्नासादयो मुखापगमे ऽप्युपलब्धिप्रसंगात्पाकजवत् यत्पुनरेतदुक्तं वृत्तिभेदाददोषो मृद्वदिति तथा तदस्तु यत्तूक्तमनन्यत्वाद्दृष्टान्तासिद्धेश्चेति वृत्त्यनन्यत्वमिदानीमेव प्रत्युक्तम् क्षणभङ्गप्रतिषेधे चोक्तं न पृथिव्यादीनामन्यथा चान्यथा चोत्पत्तिः यत्पुनरेतदुक्तं नैकं मृद्द्रव्यमिति तत्र बुद्धिः प्रमाणम् यदेकबुद्धिनिमित्तं तदेकं, तत्र यदि मृदो ऽनेकत्वेन प्रयोजनं बुद्धिरुपलभ्यते- वयमिति यत्पुनरेतदुक्तम्, मृद्द्रव्यस्य संस्थानव्यतिरेकेण स्वभावो ऽवधार्यते न तु बुद्धेरर्थग्रहणमन्तरेण स्वरूपग्रहणमिति, तदयुक्तम् अभावस्यारूपत्वात् उपेत्य वा यथा बाह्याद्यवस्थासु व्याकारा चित्तसन्ततिः विद्यते बीजमात्रा वस्तथा धीरिति गृह्यताम् यथा बाह्यार्थाकारवच्चित्तसन्ततिरथ च सुप्तमूर्छितविरोधसमापन्नानामर्थरूपादृते बीजमात्रास्तीत्युपगम्यते सा चिति कापि वावस्थेति वचनात्, न च गृह्यते तथा बुद्धिरपीति कस्मान्न परिकल्प्यते ? यत्पुनरेतदुक्तम् यदि धर्मान्तरोपादानपरित्यागौ व्यक्तव्यक्ती दत्तोत्तर एष पक्ष इति तदितरत्र तुल्यम् अस्माभिरपि तर्ह्यसत्कार्यप्रत्याख्याने दत्तोत्तर एष पक्षो व्यक्तितर्न क्रियते इति नाशोत्पादौ तु अनिष्टावेवेति न परिहारं प्रत्यादरः क्रियते यदप्युक्तं नष्टादुत्पन्नाच्चानष्टमनुत्पन्नं चान्यन्नास्तीति तदयुक्तम्, अनभ्युपगमात् नाशोत्पादौ कः प्रतिजानीते यं प्रत्येतदर्थवत्स्यात् ? किं च त्वत्पक्षप्राप्तेः भवत एव नष्टोत्पन्नेभ्यः स्कन्धेभ्यो नान्या सन्ततिरथ च नास्ति दोषः कयापि युक्तया स्यादेतदन्यैवासाविति ततश्चैका सन्ततिरिति हीनम् यदप्युक्तं गुणवृद्धिक्षये ऽनित्यत्वमिति तदनुपपन्नम् कस्मात् ? रूपान्तराप्यायनात् सत्त्वं हि प्रकर्षमनुभवद्रजस्तमसी च न्यूनतां धर्मादिरूपां बुद्धेराप्यायन्ति, नार्थान्तरं कुर्वन्ति नो खल्वप्यभावम्, एवं रहस्तमो वा प्रकर्षमनुभवत्सत्त्वं च न्यूनताधर्मादिरूपं बुद्धेराप्यायन्ति, नार्थान्तरं कुर्वन्ति नाभावम् एवं गुणवृद्धिक्षये ऽपि रूपान्तराप्यायनान्नास्ति क्षयो बुद्धेः तत्र यदुक्तं हेत्वपेक्षणादनित्या बुद्धिरिति एतदयुक्तम् यत्पुनरेतदुक्तं प्रत्यक्षग्रहणान्यत्वात्प्रतिक्षणं दीपादितैलधारासु शब्दभेदाच्च क्षणिकेति, अत्र ब्रूमः- ग्रहणान्यत्वे चोक्तं वृत्तिभेदो न वृत्तिमद्भेदः किं चान्यत् भिन्नार्थग्रहणैकत्वात् उपेत्य वा ब्रूमः- यदि प्रत्यर्थमन्यदन्यद्ग्रहणं कल्प्यते, विकल्पबाधसमुच्चयसंशयद्वित्वातिशयनिवारणेषु, तथा कल्माषं शबलं चित्रमित्यनेकार्थरूपमेकं ग्रहणं न स्यात् दृष्टं तत् तस्मान्नायं क्षणिकत्वे हेतुः एवमवस्थितमिदं- अध्यवसायो बुद्धिर्न क्षणिकेति बुद्धेस्तु त्रिगुणात्मकत्वात्तस्य गुणस्य प्रकर्षे तत्तद्रूपान्तरमुत्पद्यत इति आह, कस्य गुणस्य प्रकर्षे बुद्धेः किं लक्षणं रूपान्तरमुपजायते ? इत्युच्यते धर्मो ज्ञानं विराग ऐश्वर्यम् सात्त्विकमेतद् रूपम् अत्र त्वेतद्रूपमिति सत्यपि धर्मादिभेदे बुद्धिरित्यभेदविवक्षाविषय एकवचननिर्देशः क्रियते एतदुक्तं भवति यदा रजस्तमसी वशमापाद्य बुद्धिगतं सत्त्वमुत्कृष्टं भवति तदा धर्मो ज्ञानं विराग ऐश्वर्यमित्येतद्रूपं भवति तत्र श्रुतिस्मृतिविहितानां कर्मणामनुष्ठानाद्बुद्ध्यवस्थः सत्त्वावयव आशयभूतो धर्म इत्युच्यते स तु द्विविधः ब्रह्मादिस्थानेष्वभिप्रेतशरीरेन्द्रियविषयोपभोगनिर्वर्तको ज्ञानाद्यङ्गभूतश्च प्रथमः अग्निहोत्रहवनादिक्रियानुष्ठानसाधनो यमनियमसाधन इतरः तत्राहिंसा सत्यमस्तेयमकल्कता ब्रह्मचर्यमिति पञ्च यमाः अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवमप्रमाद इति पञ्च नियमाः एतेषामविलोपेनानुष्ठानाद्यतेरेवंविधोत्तरणे सत्त्वधर्म आशयतां प्रतिपद्यते, यो ज्ञानादीनां रूपाणामाप्यायनं करोति एतदभ्युदयनिःश्रेयसयोः सोपानभूतं प्रथमं पर्व यत्रायमवस्थितो यतिरितरेषां पर्वणामनुष्ठाने योग्यो भवति ज्ञानं द्विविधं शब्दाद्युपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं च तत्र शब्दाद्युपलब्धिलक्षणं प्रत्यक्षानुमानागमरूपम् गुणपुरुषान्तरोपलब्धिलक्षणं च द्विविधं अपूर्वमभ्यासजं च तयोरपूर्वम्- ऊहः शब्दो ऽध्ययनमिति (इस्क् 51) सिद्धिकाण्डानुपतितानि प्रमाणानि अभ्यासजं पुनः वैराग्यपूर्वावजयपृष्ठलब्धं शान्तममलं ध्रुवं सकलभवाभवप्रतिपक्षभूतम् यदाचार्यो वक्ष्यति- एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानमिति (इस्क् 64) विरागस्तु रागप्रतिपक्षभूतो ज्ञानाभ्यासोपजनितो बुद्धेः प्रसादः तस्य तु यतमानव्यतिरेकैकेन्द्रियवशीकारलक्षणाश्चतस्रो ऽवस्था भवन्ति तत्रेन्द्रियाणां विषयाभिलाषलक्षणकषायपाचनं प्रति यः प्रयत्न उत्साहः सा यतमानसंज्ञा यतमानको ह्ययमस्मिन्पर्वण्यवस्थितो यतिर्भवति यदा तु केषांचिदिन्द्रियाणां परिपक्वं सा व्यतिरेकसंज्ञा व्यतिरिच्यन्ते हि तदा यतेरिन्द्रियाणि परिपक्वाण्यपरिपक्वेभ्यो विशिष्टतराणि भवन्तीत्यर्थः विपरिपक्वसर्वेन्द्रियस्तु संकल्पमात्रावस्थितकषायो यदा भवति तदैकेन्द्रियसंज्ञा निवृत्तसर्वेन्द्रियविषयेच्छस्य यतेरेकमेव मनोलक्षणमिन्द्रियं तदा परिपक्वं भवति संकल्पमात्रावस्थितस्यापि परिपाको वशीकारसंज्ञा संकल्पमूलोच्छिन्नविषयमृगतृष्णो हि अयं यतिरिन्द्रियाणामन्तःकरणस्य च प्रवृत्तिनिवृत्त्योरीष्टे एकाग्र एकरामो ऽविद्यापर्वणो ऽतिक्रान्तः, परस्य ब्रह्मणः प्रत्यनन्तरो भवति तदेवं चतुरवस्थं वैराग्यपर्व विज्ञाय तदनुष्ठानाय यतिः प्रयतेत तस्योपायो दृष्टानुश्रविकविषयप्रत्याख्याने य उपदिष्टो यश्च तुष्टिषु वक्ष्यमाणस्तमेकीकृत्योत्तरोत्तरां तत्त्वभूमिं विज्ञानस्य विषयीकुर्वन्पूर्वस्यां तत्त्वभूमौ मध्यस्थः स्यात् ऐश्वर्यमप्रतिघातलक्षणम्, यत्पुनरष्टविधं अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायित्वमिति अत्राणिमा, महिमा, लघिमा, गरिमेति भूतवैशेषिकम् बुद्धेस्तु प्राप्त्यादि एवमेतच्चतुर्विधं महतः सात्त्विकं रूपमिति आह, अथ गुणान्तररूपं किम् ? उच्यते तामसमस्माद्विपर्यस्तम् इस्क्_23 एतत् अस्माद्धर्मादेः सत्त्वरूपादिविपर्यस्तं तामसं तमःप्रकर्षोपजनितमित्यर्थः अत्र शास्त्रचोदितानुष्ठानादाशयनिष्पन्नसत्त्वावयवो धर्म इत्युक्तम् शास्त्रचोदितस्य नित्यस्य च कर्मणो ऽनुष्ठानाद् बुद्ध्यवस्थस्तमो ऽवयव आशयतां प्रतिपन्नो ऽधर्मः स चापि द्विविधः- अनिष्टशरीरेन्द्रियविषयोपभोगनिर्वर्तकः, ख्यातिवारकश्च यथा च ज्ञानं द्विविधं शब्दाद्युपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं चैवमज्ञानमपि विपर्ययेण वाच्यम् यथा च चतुरवस्थं वैराग्यं तथा यतमानादिकश्चतुरवस्थो रागः यथा चाष्टगुणमैश्वर्यमणिमादि तथाष्टगुणमनैश्वर्यमेवमेतत्तामसं महतो रूपम् यच्चैतदधर्मादिनिमित्तभूतमुत्कृष्टं तमोरूपं तद्रजसा सहाविरोधादेकतामिवापन्नमशुद्धिरित्याचार्यैः पठ्यते सत्त्वरूपं तु प्रकाश इति अनयोश्चाभिधानाद्यः पञ्चाधिकरणपक्षः प्राकृतवैकृतानां ज्ञानानां प्रधानवच्छुष्कनदीस्थानीयान्तःकरणे बाह्ये च प्रेरकज्ञानांशककृत उपनिपातः तथा सात्त्विकस्थित्यात्मककृतमप्रत्ययस्यावस्थानमिति तत्प्रतिक्षिप्तं भवति किं कारणं ? यस्मादशुद्धिरेव प्रकाशमलमतिप्रवृत्तं निवर्तयितुं प्रकर्षापन्नान्याभूता च प्रवर्तयितुम् इत्येवमष्टरूपा बुद्धिर्व्याख्याता

kārikā 23 āha, uktaṃ pradhānādbuddhirutpadyata iti tatra vaktavyaṃ kiṃlakṣaṇā punarbuddhirityucyate adhyavasāyo buddhiḥ ko 'yamadhyavasāyaḥ ? gaurevāyaṃ, puruṣa evāyamiti yaḥ pratyayo niścayo 'rthagrahaṇaṃ so 'dhyavasāyaḥ atra kṣaṇikavādyāha yadyarthagrahaṇaṃ buddhiḥ, anityā kasmāt ? hetvapekṣaṇāt arthagrahaṇaṃ hīndriyādiviṣayasannidhānamāvaraṇādyabhāvaṃ cāpekṣate na ca nityasya kāraṇāpekṣopapadyate tasmādanityā buddhiḥ abhivyakteradoṣa iti cetsyādetannendriyasannidhānādibhirarthagrahaṇaṃ janyate kiṃ tarhyabhivyajyata iti tacca naivam dvidhā doṣāt sā hyabhivyaktiḥ svarūpalābho vā syāt grahaṇapratibandhavyudāso vā kiṃ cātaḥ ? tadyadi tāvatsvarūpalābhaḥ kriyate 'rthagrahaṇamiti prāptam arthagrahaṇapratibandhasyāndhakārasya vyudāsastadapyayuktam vipratiṣedhāt grahaṇaṃ ca syāttatpratibandhaśceti vipratiṣiddham kiṃca bhedāt vyaṅgyaṃ hi ghaṭādi candrārkauṣadhimaṇiratnapradīpabhedānna bhidyate asti buddhīnāmarthabhedād bhedaḥ vṛttibhedādadoṣo mṛdvaditi cet syānmatam , yathā mṛddravyasya ghaṭādisaṃsthānavṛttibhede 'pyabheda evaṃ buddheriti tadapyayuktam ananyatvāt yadā buddhiranyā vṛttibhyaḥ, prāptastadbhede buddhibhedaḥ kiṃca dṛṣṭāntāsiddheḥ sādhyaṃ caitat kiṃ tadeva mṛddravyaṃ ghaṭādivṛttibhedamanubhavati āhosvitpratyayāntaravaśādanyaccānyaccotpadyate iti ? avayavabhedācca upetya vānuvṛttiṃ brūmaḥ- na hi tadekaṃ mṛddravyam, kiṃ tarhi bahavo mṛtparamāṇavo 'nekadeśāvacchinnavṛttaya iti kiṃ cānyat nivṛttivibhaktigrahaṇāt taddhi mṛddravyaṃ saṃsthānamapekṣyāpi gṛhyate, na tvarthagrahaṇamanapekṣya buddhergrahaṇamasti tasmādviṣamo dṛṣṭāntaḥ parimāṇādadoṣa iti cet syānmatam sattvādīnāmaṅgāṅgibhāvaniyamāttena tenārthagrahaṇātmanā vipariṇāmo vṛttiriti etaccāyuktam ubhayakalpane doṣaprasaṃgāt yadi dharmāntaropādānaparityāgau vyaktavyaktī, dattottara eṣa pakṣaḥ atha nāśotpādau tena dharmadharmiṇorananyatvāddharmāṇāṃ nāśotpādādbuddherapi nāśotpādaprasaṃgaḥ tadanabhyupagame vānyatvamiti doṣaḥ āha ca naṣṭotpannamananyatvādanityaṃ nityameva vā naṣṭotpannāvinaṣṭānāṃ nityaṃ to nāsti caikadā yadapyuktam- sattvādīnāmaṅgāṅgibhāvaniyamāditi, tadayuktam ata evānityatvasiddheḥ tulyānāṃ guṇapradhānabhāvānupapatteḥ sattvādīnānaṅgāṅgibhāvābhyupagamāt vṛddhikṣayāvabhyupagantavyau tataśca buddhiranityeti prāptam tebhyo 'nanyatvāt atha mataṃ tadavasthāpyasau nityeti, na tarhi satvādyātmabhūtā buddhiriti prāptam tataśca kāryakāraṇayoraviveka ityasya virodhaḥ tasmādanityā buddhiriti ucyate- yattāvaduktaṃ hetvapekṣaṇādanityā buddhiriti tadayuktam kasmāt ? siddhasādhanāt kasyātra vipratipattiranityā vā buddhiḥ syānnityā veti ? kiṃ tarhi hetumadanityaṃ vyaktamiti vacanādanityaiva tasmādiṣṭamevaitatsaṅgṛhītam ataeva kṣaṇikatvamiti cet, athāpi syāddhetvapekṣā hi saṃskṛtatvam saṃskṛtaṃ tu kṣaṇikam tadyathā pradīpa iti tasmādanitye satyapi viśeṣānabhidhāne kṣaṇikatvamevānena hetunā buddheḥ pratipādyata iti kasmāt ? uttaravacanavirodhaprasaṃgāt evamapi yaduttaraṃ kṣaṇikatvaprasiddhyarthamucyate pratyarthagrahaṇānyatvādanityetyādi tasyānarthakyam tasmāt pūrvottaraviruddhatvātsakalamevedaṃ prakaraṇaṃ nādhyayanaṃ, na pratyākhyānamarhati pareṣāṃ tvabhiniṣṭā buddhiratretyasaṃgatārthottarāpavādadoṣamanapekṣyāpi pratyekamapyetadasādhanam, vṛttiviṣayatvāt svakāraṇapariniṣpannāyā hi buddhervyāpāro 'rthagrahaṇasaṃjñaka indriyādisannidhānāpekṣo na buddhiḥ tadananyatvātprasaṃganivṛttiriti cedatha matam, vṛttivṛttimatorananyatvāditthamapi kalpayitvāyaṃ prasaṃgo na nivartate tathā coktam- svālakṣaṇyaṃ vṛttistrayasyeti (isk 29) tadapyabādhakam kasmāt ? upacārāt satyamananyā, vṛttivṛttimatorbhedenāgrahaṇāt, tathāpyuparatavyāpārasyāpi paraśvādervṛttimataḥ svarūpa noparamatīti bhedamupacarya vyavahāro nānākāryaviṣayaḥ pravartate ataevānyatvamapi syāditi tadayuktam, ekāntāt tadyathā senāpaṅktisenākuṇḍalādyuparame na tatsanniveśināmuparamaḥ kāryabhedaśca, na cānyatvam evaṃ vṛttitadvatorapi ca syāt tasmādyuktametaddhetvapekṣaṇasya vṛttiviṣayatvānna buddheranityatvamiti etena vyaktivikalpaḥ prayuktaḥ, so 'pi vṛttiviṣaya iti kṛtvā tadapyuktamindriyādibhede bhedāditi tadapyanenaivoktam vṛttibhedo 'tra na bheda iti kiṃ cānekāntāt yathodakādibhedātpratibimbabhedo na cāvyaṅgyatvamevamanyatrāpi syāt dravyāntarotpatteradoṣa iti cetsyānmatam, udakasyānanasaṃyogāddravyāntarameva pratibimbalakṣaṇamutpadyate na tu mukhaṃ bhidyate iti asadetat kasmāt ? ubhayoḥ kāraṇatvena kalpanānupapatteḥ na hi mukhaḥ nimittaṃ śakyaṃ vaktum , viprakṛṣṭatvānnāsādayo mukhāpagame 'pyupalabdhiprasaṃgātpākajavat yatpunaretaduktaṃ vṛttibhedādadoṣo mṛdvaditi tathā tadastu yattūktamananyatvāddṛṣṭāntāsiddheśceti vṛttyananyatvamidānīmeva pratyuktam kṣaṇabhaṅgapratiṣedhe coktaṃ na pṛthivyādīnāmanyathā cānyathā cotpattiḥ yatpunaretaduktaṃ naikaṃ mṛddravyamiti tatra buddhiḥ pramāṇam yadekabuddhinimittaṃ tadekaṃ, tatra yadi mṛdo 'nekatvena prayojanaṃ buddhirupalabhyate- vayamiti yatpunaretaduktam, mṛddravyasya saṃsthānavyatirekeṇa svabhāvo 'vadhāryate na tu buddherarthagrahaṇamantareṇa svarūpagrahaṇamiti, tadayuktam abhāvasyārūpatvāt upetya vā yathā bāhyādyavasthāsu vyākārā cittasantatiḥ vidyate bījamātrā vastathā dhīriti gṛhyatām yathā bāhyārthākāravaccittasantatiratha ca suptamūrchitavirodhasamāpannānāmartharūpādṛte bījamātrāstītyupagamyate sā citi kāpi vāvastheti vacanāt, na ca gṛhyate tathā buddhirapīti kasmānna parikalpyate ? yatpunaretaduktam yadi dharmāntaropādānaparityāgau vyaktavyaktī dattottara eṣa pakṣa iti taditaratra tulyam asmābhirapi tarhyasatkāryapratyākhyāne dattottara eṣa pakṣo vyaktitarna kriyate iti nāśotpādau tu aniṣṭāveveti na parihāraṃ pratyādaraḥ kriyate yadapyuktaṃ naṣṭādutpannāccānaṣṭamanutpannaṃ cānyannāstīti tadayuktam, anabhyupagamāt nāśotpādau kaḥ pratijānīte yaṃ pratyetadarthavatsyāt ? kiṃ ca tvatpakṣaprāpteḥ bhavata eva naṣṭotpannebhyaḥ skandhebhyo nānyā santatiratha ca nāsti doṣaḥ kayāpi yuktayā syādetadanyaivāsāviti tataścaikā santatiriti hīnam yadapyuktaṃ guṇavṛddhikṣaye 'nityatvamiti tadanupapannam kasmāt ? rūpāntarāpyāyanāt sattvaṃ hi prakarṣamanubhavadrajastamasī ca nyūnatāṃ dharmādirūpāṃ buddherāpyāyanti, nārthāntaraṃ kurvanti no khalvapyabhāvam, evaṃ rahastamo vā prakarṣamanubhavatsattvaṃ ca nyūnatādharmādirūpaṃ buddherāpyāyanti, nārthāntaraṃ kurvanti nābhāvam evaṃ guṇavṛddhikṣaye 'pi rūpāntarāpyāyanānnāsti kṣayo buddheḥ tatra yaduktaṃ hetvapekṣaṇādanityā buddhiriti etadayuktam yatpunaretaduktaṃ pratyakṣagrahaṇānyatvātpratikṣaṇaṃ dīpāditailadhārāsu śabdabhedācca kṣaṇiketi, atra brūmaḥ- grahaṇānyatve coktaṃ vṛttibhedo na vṛttimadbhedaḥ kiṃ cānyat bhinnārthagrahaṇaikatvāt upetya vā brūmaḥ- yadi pratyarthamanyadanyadgrahaṇaṃ kalpyate, vikalpabādhasamuccayasaṃśayadvitvātiśayanivāraṇeṣu, tathā kalmāṣaṃ śabalaṃ citramityanekārtharūpamekaṃ grahaṇaṃ na syāt dṛṣṭaṃ tat tasmānnāyaṃ kṣaṇikatve hetuḥ evamavasthitamidaṃ- adhyavasāyo buddhirna kṣaṇiketi buddhestu triguṇātmakatvāttasya guṇasya prakarṣe tattadrūpāntaramutpadyata iti āha, kasya guṇasya prakarṣe buddheḥ kiṃ lakṣaṇaṃ rūpāntaramupajāyate ? ityucyate dharmo jñānaṃ virāga aiśvaryam sāttvikametad rūpam atra tvetadrūpamiti satyapi dharmādibhede buddhirityabhedavivakṣāviṣaya ekavacananirdeśaḥ kriyate etaduktaṃ bhavati yadā rajastamasī vaśamāpādya buddhigataṃ sattvamutkṛṣṭaṃ bhavati tadā dharmo jñānaṃ virāga aiśvaryamityetadrūpaṃ bhavati tatra śrutismṛtivihitānāṃ karmaṇāmanuṣṭhānādbuddhyavasthaḥ sattvāvayava āśayabhūto dharma ityucyate sa tu dvividhaḥ brahmādisthāneṣvabhipretaśarīrendriyaviṣayopabhoganirvartako jñānādyaṅgabhūtaśca prathamaḥ agnihotrahavanādikriyānuṣṭhānasādhano yamaniyamasādhana itaraḥ tatrāhiṃsā satyamasteyamakalkatā brahmacaryamiti pañca yamāḥ akrodho guruśuśrūṣā śaucamāhāralāghavamapramāda iti pañca niyamāḥ eteṣāmavilopenānuṣṭhānādyaterevaṃvidhottaraṇe sattvadharma āśayatāṃ pratipadyate, yo jñānādīnāṃ rūpāṇāmāpyāyanaṃ karoti etadabhyudayaniḥśreyasayoḥ sopānabhūtaṃ prathamaṃ parva yatrāyamavasthito yatiritareṣāṃ parvaṇāmanuṣṭhāne yogyo bhavati jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca tatra śabdādyupalabdhilakṣaṇaṃ pratyakṣānumānāgamarūpam guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividhaṃ apūrvamabhyāsajaṃ ca tayorapūrvam- ūhaḥ śabdo 'dhyayanamiti (isk 51) siddhikāṇḍānupatitāni pramāṇāni abhyāsajaṃ punaḥ vairāgyapūrvāvajayapṛṣṭhalabdhaṃ śāntamamalaṃ dhruvaṃ sakalabhavābhavapratipakṣabhūtam yadācāryo vakṣyati- evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam aviparyayādviśuddhaṃ kevalamutpadyate jñānamiti (isk 64) virāgastu rāgapratipakṣabhūto jñānābhyāsopajanito buddheḥ prasādaḥ tasya tu yatamānavyatirekaikendriyavaśīkāralakṣaṇāścatasro 'vasthā bhavanti tatrendriyāṇāṃ viṣayābhilāṣalakṣaṇakaṣāyapācanaṃ prati yaḥ prayatna utsāhaḥ sā yatamānasaṃjñā yatamānako hyayamasminparvaṇyavasthito yatirbhavati yadā tu keṣāṃcidindriyāṇāṃ paripakvaṃ sā vyatirekasaṃjñā vyatiricyante hi tadā yaterindriyāṇi paripakvāṇyaparipakvebhyo viśiṣṭatarāṇi bhavantītyarthaḥ viparipakvasarvendriyastu saṃkalpamātrāvasthitakaṣāyo yadā bhavati tadaikendriyasaṃjñā nivṛttasarvendriyaviṣayecchasya yaterekameva manolakṣaṇamindriyaṃ tadā paripakvaṃ bhavati saṃkalpamātrāvasthitasyāpi paripāko vaśīkārasaṃjñā saṃkalpamūlocchinnaviṣayamṛgatṛṣṇo hi ayaṃ yatirindriyāṇāmantaḥkaraṇasya ca pravṛttinivṛttyorīṣṭe ekāgra ekarāmo 'vidyāparvaṇo 'tikrāntaḥ, parasya brahmaṇaḥ pratyanantaro bhavati tadevaṃ caturavasthaṃ vairāgyaparva vijñāya tadanuṣṭhānāya yatiḥ prayateta tasyopāyo dṛṣṭānuśravikaviṣayapratyākhyāne ya upadiṣṭo yaśca tuṣṭiṣu vakṣyamāṇastamekīkṛtyottarottarāṃ tattvabhūmiṃ vijñānasya viṣayīkurvanpūrvasyāṃ tattvabhūmau madhyasthaḥ syāt aiśvaryamapratighātalakṣaṇam, yatpunaraṣṭavidhaṃ aṇimā mahimā laghimā garimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitvamiti atrāṇimā, mahimā, laghimā, garimeti bhūtavaiśeṣikam buddhestu prāptyādi evametaccaturvidhaṃ mahataḥ sāttvikaṃ rūpamiti āha, atha guṇāntararūpaṃ kim ? ucyate tāmasamasmādviparyastam isk_23 etat asmāddharmādeḥ sattvarūpādiviparyastaṃ tāmasaṃ tamaḥprakarṣopajanitamityarthaḥ atra śāstracoditānuṣṭhānādāśayaniṣpannasattvāvayavo dharma ityuktam śāstracoditasya nityasya ca karmaṇo 'nuṣṭhānād buddhyavasthastamo 'vayava āśayatāṃ pratipanno 'dharmaḥ sa cāpi dvividhaḥ- aniṣṭaśarīrendriyaviṣayopabhoganirvartakaḥ, khyātivārakaśca yathā ca jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ caivamajñānamapi viparyayeṇa vācyam yathā ca caturavasthaṃ vairāgyaṃ tathā yatamānādikaścaturavastho rāgaḥ yathā cāṣṭaguṇamaiśvaryamaṇimādi tathāṣṭaguṇamanaiśvaryamevametattāmasaṃ mahato rūpam yaccaitadadharmādinimittabhūtamutkṛṣṭaṃ tamorūpaṃ tadrajasā sahāvirodhādekatāmivāpannamaśuddhirityācāryaiḥ paṭhyate sattvarūpaṃ tu prakāśa iti anayoścābhidhānādyaḥ pañcādhikaraṇapakṣaḥ prākṛtavaikṛtānāṃ jñānānāṃ pradhānavacchuṣkanadīsthānīyāntaḥkaraṇe bāhye ca prerakajñānāṃśakakṛta upanipātaḥ tathā sāttvikasthityātmakakṛtamapratyayasyāvasthānamiti tatpratikṣiptaṃ bhavati kiṃ kāraṇaṃ ? yasmādaśuddhireva prakāśamalamatipravṛttaṃ nivartayituṃ prakarṣāpannānyābhūtā ca pravartayitum ityevamaṣṭarūpā buddhirvyākhyātā


24

कारिका 24 यस्त्वसावनन्तरमुक्तो ऽहङ्कारस्तं व्याख्यास्यामः आह, यद्येवं तस्मादिदमेव तावदुच्यतां किमस्याहङ्कारस्य लक्षणमिति ? उच्यते- अभिमानो ऽहङ्कारः कर्तुः स्वात्मप्रत्यवमर्शात्मको यो ऽयमहमिति प्रत्यय उत्पद्यते स खल्वहंकारः, महतस्तत्त्वान्तरम् कस्मात् ? तस्य सर्वविषयाध्यवसायरूपत्वात्, अस्य तु स्वात्मप्रत्यवमर्शात् न त्वर्थान्तरम् कस्मात् ? प्रकृतिविकारयोरनन्यत्वाभ्युपगमात् न हि नः प्रकृतेरर्थान्तरभूतो विकार इति प्राग्विस्तरेण प्रतिपादितम् स च मूर्तिप्रत्ययाभ्यां महतः स्थूलतरः कस्मात् ? अविभागात्, विभागनिष्पत्तेः कालादिवत् त्रिगुणस्य च महतो विकारत्वादसावपि त्रिगुणः कस्मात् ? प्रकृतिरूपस्य विकारे दृष्टत्वात् तन्तुपटवत् तद्भावसन्निविष्टास्तु ये सत्त्वादयस्य आचार्यैर्वैकारिकतैजसभूतादिशब्देनाख्यायन्ते तथा च शास्त्रमाह "एतस्माद्धि महत आत्मन इमे त्रय आत्मानः सृज्यन्ते वैकारिकतैजसभूतादयो ऽहंकारलक्षणाः अहमित्येवैषां सामान्यलक्षणं भवति गुणप्रवृत्तौ च पुनर्विशेषलक्षणमिति" आह, का पुनर्गुणप्रवृत्तिर्यस्यामस्मिप्रत्ययैकरूपस्याहङ्कारस्य विशेषप्रतिपत्तिर्भवतीति ? उच्यते- यो ऽयं तस्माद्द्विविधः प्रवर्तते सर्गः द्विविध इन्द्रियलक्षनस्तन्मात्रलक्षणश्च सा गुणवृत्तिरित्युच्यते कस्मात् ? तत्कार्यत्वात् गुणप्रवृत्तिकार्यो हि सर्गः दृश्यते च खलु लोके कार्यकारणमुपचर्यमाणम् तद्यथा शालीन्भुङ्क्त इति आह, प्रागुक्तमहंकारात्षोडशको गण उत्पद्यते इदानीं पुनरुच्यते तस्माद्द्विविधः प्रवर्तते सर्गः तदिदं पूर्वोत्तरव्याघातादयुक्तमिति उच्यते- न, सामान्येन विवक्षितत्वात् अभेदविवक्षायां हि कृत्वा कार्यकारणलक्षणमेवमस्माभिरुपदिष्टं द्विविधः सर्ग इति भेदविवक्षायां पुनः ऐन्द्रिय एकादशकस्तान्मात्रः पञ्चकश्चैव इस्क्_24 इन्द्रियाणामयमैन्द्रियः एकादश परिमाणमस्य एकादशकः एवं तन्मात्रेषु वक्तव्यम् तन्मात्राणां शब्दस्पर्शादीनामयं तान्मात्रः सर्गः पञ्चकश्च पञ्च परिमाणमस्येति पञ्चकः अस्य तु षोडशकस्य विकारस्य संज्ञालक्षणप्रयोजनान्युत्तरत्र वक्ष्यति एषा गुणप्रवृत्तिर्व्याख्याता यस्यामस्मिप्रत्ययस्य विशेषग्रहणं भवति- शब्दे ऽहं स्पर्शे ऽहं रूपे ऽहं रसे ऽहं गन्धे ऽहमिति आह, अहङ्कारे सत्त्वादीनां संज्ञान्तरावचनम्, आनर्थक्यात् यदिदमहंकारे सत्त्वादीनां संज्ञान्तरमारभ्यते वैकारिकस्तैजसो भूतादिरिति, तन्न वक्तव्यम् कस्मात् ? आनर्थक्यात् न हि तत्त्वान्तरसन्निवेशिनां सत्त्वादीनां संज्ञान्तराभिधाने किंचित्प्रयोजनमस्तीति, संज्ञाभूयस्त्वात् अथायं निर्बन्धस्तत्त्वान्तरम्, संज्ञाभूयस्त्वं प्राप्नोति प्रयोजनाभिधानं वा विशिष्टयत्नानामनाकस्मिकत्वात् अथवा प्रयोजनं वक्तव्यम्- एवमर्थमहङ्कारे संज्ञान्तराभिधानमिति कस्मात् ? न हि विशिष्टयत्नानामाकस्मिकत्वमुपपद्यत इति उच्यते- न, कार्यविशेषहेतुत्वात् महदादिलक्षणानां हि गुणानामनेकरूपस्तत्त्वारम्भ इति हि न संज्ञान्तरमारभ्यते अहंकारस्तु सत्त्वतमोबहुलयोरिन्द्रियतन्मात्रपर्वणोः प्रकृतिः तदर्थमाचार्याणां यत्नविशेषः धर्मादिविशेषाभ्युपामान्महति प्रसंग इति चेत् न विशेषितत्वात् तत्त्वान्तरारम्भ इति विशेषितम्, न तु धर्मादयस्तत्त्वान्तरमतो न महति प्रसंगः विशेषानभिधानादयुक्तमिति चेत् स्यादेतत्, कः पुनरत्र विशेषो येन धर्मादि न तत्त्वान्तरम्, तत्त्वान्तरं तु श्रोत्रादीति ? एतच्च नैवम् कुतः ? वृत्तिमात्रे तदुपचारात् वृत्तिमात्रे हि महतो धर्माद्युपचारः तथा च तन्त्रान्तरे ऽप्युक्तम् "प्रकाशवृत्तिर्धर्म" इति वृत्तिनिष्पादितस्तु संस्थानविशेषो वृत्तिमतस्तत्त्वान्तरमित्यनयोर्विशेषः तस्माद्युक्तमेतत् कार्यविशेषहेतुत्वमिति

kārikā 24 yastvasāvanantaramukto 'haṅkārastaṃ vyākhyāsyāmaḥ āha, yadyevaṃ tasmādidameva tāvaducyatāṃ kimasyāhaṅkārasya lakṣaṇamiti ? ucyate- abhimāno 'haṅkāraḥ kartuḥ svātmapratyavamarśātmako yo 'yamahamiti pratyaya utpadyate sa khalvahaṃkāraḥ, mahatastattvāntaram kasmāt ? tasya sarvaviṣayādhyavasāyarūpatvāt, asya tu svātmapratyavamarśāt na tvarthāntaram kasmāt ? prakṛtivikārayorananyatvābhyupagamāt na hi naḥ prakṛterarthāntarabhūto vikāra iti prāgvistareṇa pratipāditam sa ca mūrtipratyayābhyāṃ mahataḥ sthūlataraḥ kasmāt ? avibhāgāt, vibhāganiṣpatteḥ kālādivat triguṇasya ca mahato vikāratvādasāvapi triguṇaḥ kasmāt ? prakṛtirūpasya vikāre dṛṣṭatvāt tantupaṭavat tadbhāvasanniviṣṭāstu ye sattvādayasya ācāryairvaikārikataijasabhūtādiśabdenākhyāyante tathā ca śāstramāha "etasmāddhi mahata ātmana ime traya ātmānaḥ sṛjyante vaikārikataijasabhūtādayo 'haṃkāralakṣaṇāḥ ahamityevaiṣāṃ sāmānyalakṣaṇaṃ bhavati guṇapravṛttau ca punarviśeṣalakṣaṇamiti" āha, kā punarguṇapravṛttiryasyāmasmipratyayaikarūpasyāhaṅkārasya viśeṣapratipattirbhavatīti ? ucyate- yo 'yaṃ tasmāddvividhaḥ pravartate sargaḥ dvividha indriyalakṣanastanmātralakṣaṇaśca sā guṇavṛttirityucyate kasmāt ? tatkāryatvāt guṇapravṛttikāryo hi sargaḥ dṛśyate ca khalu loke kāryakāraṇamupacaryamāṇam tadyathā śālīnbhuṅkta iti āha, prāguktamahaṃkārātṣoḍaśako gaṇa utpadyate idānīṃ punarucyate tasmāddvividhaḥ pravartate sargaḥ tadidaṃ pūrvottaravyāghātādayuktamiti ucyate- na, sāmānyena vivakṣitatvāt abhedavivakṣāyāṃ hi kṛtvā kāryakāraṇalakṣaṇamevamasmābhirupadiṣṭaṃ dvividhaḥ sarga iti bhedavivakṣāyāṃ punaḥ aindriya ekādaśakastānmātraḥ pañcakaścaiva isk_24 indriyāṇāmayamaindriyaḥ ekādaśa parimāṇamasya ekādaśakaḥ evaṃ tanmātreṣu vaktavyam tanmātrāṇāṃ śabdasparśādīnāmayaṃ tānmātraḥ sargaḥ pañcakaśca pañca parimāṇamasyeti pañcakaḥ asya tu ṣoḍaśakasya vikārasya saṃjñālakṣaṇaprayojanānyuttaratra vakṣyati eṣā guṇapravṛttirvyākhyātā yasyāmasmipratyayasya viśeṣagrahaṇaṃ bhavati- śabde 'haṃ sparśe 'haṃ rūpe 'haṃ rase 'haṃ gandhe 'hamiti āha, ahaṅkāre sattvādīnāṃ saṃjñāntarāvacanam, ānarthakyāt yadidamahaṃkāre sattvādīnāṃ saṃjñāntaramārabhyate vaikārikastaijaso bhūtādiriti, tanna vaktavyam kasmāt ? ānarthakyāt na hi tattvāntarasanniveśināṃ sattvādīnāṃ saṃjñāntarābhidhāne kiṃcitprayojanamastīti, saṃjñābhūyastvāt athāyaṃ nirbandhastattvāntaram, saṃjñābhūyastvaṃ prāpnoti prayojanābhidhānaṃ vā viśiṣṭayatnānāmanākasmikatvāt athavā prayojanaṃ vaktavyam- evamarthamahaṅkāre saṃjñāntarābhidhānamiti kasmāt ? na hi viśiṣṭayatnānāmākasmikatvamupapadyata iti ucyate- na, kāryaviśeṣahetutvāt mahadādilakṣaṇānāṃ hi guṇānāmanekarūpastattvārambha iti hi na saṃjñāntaramārabhyate ahaṃkārastu sattvatamobahulayorindriyatanmātraparvaṇoḥ prakṛtiḥ tadarthamācāryāṇāṃ yatnaviśeṣaḥ dharmādiviśeṣābhyupāmānmahati prasaṃga iti cet na viśeṣitatvāt tattvāntarārambha iti viśeṣitam, na tu dharmādayastattvāntaramato na mahati prasaṃgaḥ viśeṣānabhidhānādayuktamiti cet syādetat, kaḥ punaratra viśeṣo yena dharmādi na tattvāntaram, tattvāntaraṃ tu śrotrādīti ? etacca naivam kutaḥ ? vṛttimātre tadupacārāt vṛttimātre hi mahato dharmādyupacāraḥ tathā ca tantrāntare 'pyuktam "prakāśavṛttirdharma" iti vṛttiniṣpāditastu saṃsthānaviśeṣo vṛttimatastattvāntaramityanayorviśeṣaḥ tasmādyuktametat kāryaviśeṣahetutvamiti


25

कारिका 25 आह, यद्येवमिदं तर्हि वक्तव्यमुष्य कार्यविशेषस्यैवं संज्ञकादहंकारात्प्रवृत्तिरिति उच्यते- सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् सर्ग इत्यनुवर्तते एकादशेन्द्रियाणि सत्त्वबहुलानि वैकृतादहंकारात्प्रवर्तन्ते निष्पद्यन्त इत्यर्थः एकादशाभिधानादेव चेन्द्रियप्रतीतिः, पूर्वसूत्रे तत्सामानाधिकरण्यात् अतो न पुनरिन्द्रियग्रहणम् आह, तन्मात्रसर्गः पुनः किंगुणः, कस्माच्चाहङ्कारात्प्रवर्तते इति ? उच्यते- भूतादेस्तान्मात्रः स तामसः भूतादेर्भूतादिसंज्ञकात्तमःप्रधानात्तान्मात्रः सर्गः तान्मात्रस्तु तमोबहुलो भूतादिसंज्ञकादहङ्कारात्प्रवर्तते तत्र पुनस्तन्मात्रग्रहणात्संख्या शस्यत इति नोच्यते आह, प्रकृतिविशेषनिर्देशानर्थक्यम् प्रागुक्तं सत्त्वादीनामहङ्कारावस्थितानां वैकारिकाद्याः संज्ञा उच्यन्ते तद्यदि सत्त्वं वैकारिकशब्देनोच्यते वैकारिकाणि चैन्द्रिय एकादशकः सर्गः प्रवर्तत इत्युक्ते गम्यत एतत् सात्त्विको ऽसौ, भूतादेस्तान्मात्र इत्युक्ते गम्यत एतत् तामस इति कस्मात् ? न ह्यस्ति सम्भवो यत्सत्त्वात्तमोबहुलः सर्गः स्यात्तमसश्च सत्त्वबहुल इति उच्यते- न, अप्रसिद्धत्वज्ञापनात् यस्यैवार्थस्य ज्ञापनार्थमेवमिह क्रियते, कथं गम्यते सत्त्वं वैकारिकशब्देनोच्यते, तमो भूतादिशब्देन, रजस्तैजसशब्देन ? अप्रसिद्धार्था हि तान्त्रिकी परिभाषेयमनिर्णीता न गम्यत इति आह, तैजससंज्ञानर्थक्यमिति उच्यते न, तैजसादुभयम् इस्क्_25 उभयत्र तत्सामर्थ्यात् स्यादेतदेवं यद्यस्य कार्यसामर्थ्यमेव न स्यात् अस्मात्तु तैजसादुभयमप्येतत्तन्मात्रेन्द्रियसंज्ञकं प्रवर्तत इत्यनुवर्तते कथम् ? यदा हि वैकारिको ऽहङ्कार इन्द्रियभावेन प्रवर्तते तदा निष्क्रियत्वात्तैजसं प्रवर्तकत्वेनाकांक्षति, भूतादि भेदकत्वेन कस्मात् ? तेनैव तद्भेदात् तद्यथाग्निनाग्नौ प्रक्षिप्तो ऽग्निरेव भवति, आपो वाप्सु प्रक्षिप्ता आप एव भवन्ति, एवं सत्त्वमेव सत्त्वे तु भेदं जनयति गुणान्तरसंसर्गमपेक्षते भूतादिलक्षणस्य तु तमसः संसर्गाद् भिद्यमानं तैजसेन च रजसा क्रियात्मकेनानुगृहीतमेकादशेन्द्रियभावमपेक्षते तथा भूतादिलक्षणं तमो ऽहङ्कारात्तन्मात्रभावेन प्रवर्तमानं प्रवृत्त्यर्थं तैजसमाकांक्षति, वैकारिकं भेदत्वेन कस्मात् ? तेनैव तस्य भेदादिति योज्यम् शास्रं चैवमाह- "तदेतस्मिन्वैकारिके स्त्रक्ष्यमाण एष भूतादिस्तैजसेनोपष्टब्ध एवं वैकारिकमभिधावति तथैव तस्मिन्भूतादौ स्रक्ष्यमाणे एष भूतादिस्तैजसेनोष्टब्ध एतं भूतादिमभिभवति " इत्यनेन न्यायेन तैजसादुभयनिष्पत्तिरिति व्याख्यातो ऽहङ्कारः

kārikā 25 āha, yadyevamidaṃ tarhi vaktavyamuṣya kāryaviśeṣasyaivaṃ saṃjñakādahaṃkārātpravṛttiriti ucyate- sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt sarga ityanuvartate ekādaśendriyāṇi sattvabahulāni vaikṛtādahaṃkārātpravartante niṣpadyanta ityarthaḥ ekādaśābhidhānādeva cendriyapratītiḥ, pūrvasūtre tatsāmānādhikaraṇyāt ato na punarindriyagrahaṇam āha, tanmātrasargaḥ punaḥ kiṃguṇaḥ, kasmāccāhaṅkārātpravartate iti ? ucyate- bhūtādestānmātraḥ sa tāmasaḥ bhūtāderbhūtādisaṃjñakāttamaḥpradhānāttānmātraḥ sargaḥ tānmātrastu tamobahulo bhūtādisaṃjñakādahaṅkārātpravartate tatra punastanmātragrahaṇātsaṃkhyā śasyata iti nocyate āha, prakṛtiviśeṣanirdeśānarthakyam prāguktaṃ sattvādīnāmahaṅkārāvasthitānāṃ vaikārikādyāḥ saṃjñā ucyante tadyadi sattvaṃ vaikārikaśabdenocyate vaikārikāṇi caindriya ekādaśakaḥ sargaḥ pravartata ityukte gamyata etat sāttviko 'sau, bhūtādestānmātra ityukte gamyata etat tāmasa iti kasmāt ? na hyasti sambhavo yatsattvāttamobahulaḥ sargaḥ syāttamasaśca sattvabahula iti ucyate- na, aprasiddhatvajñāpanāt yasyaivārthasya jñāpanārthamevamiha kriyate, kathaṃ gamyate sattvaṃ vaikārikaśabdenocyate, tamo bhūtādiśabdena, rajastaijasaśabdena ? aprasiddhārthā hi tāntrikī paribhāṣeyamanirṇītā na gamyata iti āha, taijasasaṃjñānarthakyamiti ucyate na, taijasādubhayam isk_25 ubhayatra tatsāmarthyāt syādetadevaṃ yadyasya kāryasāmarthyameva na syāt asmāttu taijasādubhayamapyetattanmātrendriyasaṃjñakaṃ pravartata ityanuvartate katham ? yadā hi vaikāriko 'haṅkāra indriyabhāvena pravartate tadā niṣkriyatvāttaijasaṃ pravartakatvenākāṃkṣati, bhūtādi bhedakatvena kasmāt ? tenaiva tadbhedāt tadyathāgnināgnau prakṣipto 'gnireva bhavati, āpo vāpsu prakṣiptā āpa eva bhavanti, evaṃ sattvameva sattve tu bhedaṃ janayati guṇāntarasaṃsargamapekṣate bhūtādilakṣaṇasya tu tamasaḥ saṃsargād bhidyamānaṃ taijasena ca rajasā kriyātmakenānugṛhītamekādaśendriyabhāvamapekṣate tathā bhūtādilakṣaṇaṃ tamo 'haṅkārāttanmātrabhāvena pravartamānaṃ pravṛttyarthaṃ taijasamākāṃkṣati, vaikārikaṃ bhedatvena kasmāt ? tenaiva tasya bhedāditi yojyam śāsraṃ caivamāha- "tadetasminvaikārike strakṣyamāṇa eṣa bhūtādistaijasenopaṣṭabdha evaṃ vaikārikamabhidhāvati tathaiva tasminbhūtādau srakṣyamāṇe eṣa bhūtādistaijasenoṣṭabdha etaṃ bhūtādimabhibhavati " ityanena nyāyena taijasādubhayaniṣpattiriti vyākhyāto 'haṅkāraḥ


26

कारिका 26 आह, प्रागपदिष्ट ऐन्द्रिय एकादशकः प्रवर्तते वैकृतादहंकारादिति, तत्सामान्याभिधानान्न प्रतिपद्यामहे तस्माद्वक्तव्यं कानीन्द्रियाणि भवतो ऽभिप्रेतानि ? उच्यते- द्विविधानीन्द्रियाणि, बुद्धीन्द्रियाणि, कर्मेन्द्रियाणि च तत्र बुद्धीन्द्रियाणि कर्णत्वक्चक्षूरसननासिकाख्यानि कर्णौ त्वक्चक्षुषी च रसनं च नासिका च कर्णत्वक्चक्षूरसननासिकाः आख्यानमाख्या प्रत्यायनमित्यर्थः एतैः शब्दैराख्या येषां तानीमानि कर्णत्वक्चक्षूरसननासिकाख्यानि अधिष्ठानभेदाद्द्विवचनेन विग्रहः क्रियते एतानि बुद्धीन्द्रियाणि प्रत्यवगन्तव्यानि बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि किं पुनरेतानि बुद्धेरिति ? उच्यते- शब्दादिविषयप्रतिपत्तौ द्वारम् कस्मात् ? अबहिर्वृत्तित्वात् अन्तःकरणस्य नास्ति बहिर्वृत्तिरित्यतो नालमेतत्साक्षाच्छब्दादीनर्थान्प्रतिपत्तुम् तस्माच्छ्रोत्रादिलक्षणं साक्षाद् बाह्यविषयप्रकाशनसमर्थं कारणान्तरमपेक्षते तत्प्रणालिकया तस्य विषयग्रहणम् तस्माद्युक्तमुक्तं बुद्धेर्बाह्यविषयप्रतिपत्तौ द्वारभूतत्वाद्बुद्धीन्द्रियाणीति आह, कर्मेन्द्रियाणि पुनः कानीति ? वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः इस्क्_26 वाक्च पाणी च पादौ पायुश्चोपस्थश्च वाक्पाणिपादपायूपस्थाः एतानि कर्मेन्द्रियाण्याहुराचक्षते कर्मार्थानीन्द्रियाणि कर्मेन्द्रियाणि किं पुनः कर्म ? वचनादि वक्ष्यमाणम् एतद्विकुर्वत् इति कर्मेन्द्रियाणि आह, कथमेतदुपलभ्यते अधिष्ठानादर्थान्तरभूतानीन्द्रियाणि, न पुनरधिष्ठानमात्रमिति ? उच्यते- अधिष्ठानादिन्द्रियपृथक्त्वम्, शक्तिविशेषोपलम्भात् यथा शरीरासम्भविनो विषयव्यवसायलक्षणस्य शक्तिविशेषस्योपलम्भादर्थान्तरं बुद्धिरनुमीयते, एवमधिष्ठानासम्भविनो विषयग्रहणलक्षणस्य शक्तिविशेषस्योपलम्भादर्थान्तरमिन्द्रियमिति आह, न, असम्भवासिद्धेः अधिष्ठानमात्रस्य विषयग्रहणं न सम्भवति, अर्थान्तरस्य च सम्भवति इत्येतदुभयमपि चाप्रसिद्धमिति उच्यते- नैतदप्रसिद्धम् तुल्यजातीयेषु तदनुपपत्तेः यस्माद् भौतिकेष्वन्येषु घटादिषु विषयग्रहणसामर्थ्यासम्भवः आहंकारविकारवत्तत्सामर्थ्याप्रतिषेधान्नेन्द्रियाणां नस्तत्प्रतिषेधो ऽनुमातव्य इति एतच्चायुक्तम् कस्मात् ? शक्तिभेदापत्तेः वैकारिकं सत्त्वमाहङ्कारिकं प्रकाशरूपं, तच्छक्तिविशेषादिन्द्रियाणि उत्पद्यन्ते भूतादिलक्षणस्य तमसः सामर्थ्यात् तन्मात्राणि परस्य, पृथिव्यादीनामेकरूपत्वात् तस्मादयमसमः समाधिरिति एतेन भौतिकत्वं प्रत्युक्तम् आह, कथमवगम्यते बहूनीन्द्रियाणि, न पुनरेकमेवेन्द्रियं मनोवत्सर्वार्थमनेकाधिष्ठानं स्यादिति ? उच्यते- न, युगपत्प्रवृत्त्यप्रवृत्तिप्रसंगात् यद्येकमेवेन्द्रियं मनोवत्सर्वार्थमनेकाधिष्ठानं स्यादेकविषयप्रतिपत्तौ वा सर्वविषयप्रतिपत्तिः दृष्टस्तु ग्रहणभेदस्तस्मान्नैकमिन्द्रियमिति भौतिकैरनुग्रहोपघातदर्शनादिन्द्रियाणां भौतिकत्वमिति चेत् स्यान्मतम्, इह भौतिकानां घटादीनां भौतिकैर्मृद्दण्डचक्रसूत्रोदकमुद्गरादिभिरनुग्रहोपघातो दृष्टः यदि च भौतिकानीन्द्रियाणि न स्युः नैषां भौतिकैरञ्जनादिभिरनुग्रहः क्रियते, उपघातश्च रजःप्रभृतिभिरिति एतच्चायुक्तम् कस्मात् ? अनेकान्तात् तद्यथा भौतिकैर्वदनादिभिरन्तःकरणस्य ग्रहणधारणस्मृतिलक्षणो ऽनुग्रहः क्रियते, उपघातश्चोपलादिभिः न चास्य भौतिकत्वम् एवमिन्द्रियस्यापि स्यात् वैशेषिकगुणव्यञ्जकत्वाद्विकारप्रतीतिरिति चेत् अथ मतम्- पृथिव्यादिवैशेषिको गन्धो घ्राणेनाभिव्यज्यते औदको रसे रसनेन च आग्नेयं रूपं वीक्षणेन वायवीयः स्पर्शस्त्वचा आकाशीयः शब्दः श्रोत्रेण येन च यस्य वैशेषिकगुणाभिव्यक्तिस्तस्य तद्विकारत्वं दृष्टम् तद्यथा प्रदीपस्य रूपाभिव्यञ्जकत्वे सति तैजसत्वमिति एतच्चानुपपन्नम् कस्मात् ? अनिष्टप्रसंगात् वैशेषिकगुणव्यञ्जकानां तद्विकारमिच्छतः प्राप्तमपां गन्धाभिव्यक्तिहेतुत्वात् पार्थिवत्त्वम् अथैतदनिष्टं, न तर्ह्यैकान्तिको हेतुरिति तत्र यदुक्तं वैशेषिकगुणाभिव्यञ्जकत्वाद् भौतिकानीन्द्रियाणीति एतदयुक्तम्

kārikā 26 āha, prāgapadiṣṭa aindriya ekādaśakaḥ pravartate vaikṛtādahaṃkārāditi, tatsāmānyābhidhānānna pratipadyāmahe tasmādvaktavyaṃ kānīndriyāṇi bhavato 'bhipretāni ? ucyate- dvividhānīndriyāṇi, buddhīndriyāṇi, karmendriyāṇi ca tatra buddhīndriyāṇi karṇatvakcakṣūrasananāsikākhyāni karṇau tvakcakṣuṣī ca rasanaṃ ca nāsikā ca karṇatvakcakṣūrasananāsikāḥ ākhyānamākhyā pratyāyanamityarthaḥ etaiḥ śabdairākhyā yeṣāṃ tānīmāni karṇatvakcakṣūrasananāsikākhyāni adhiṣṭhānabhedāddvivacanena vigrahaḥ kriyate etāni buddhīndriyāṇi pratyavagantavyāni buddherindriyāṇi buddhīndriyāṇi kiṃ punaretāni buddheriti ? ucyate- śabdādiviṣayapratipattau dvāram kasmāt ? abahirvṛttitvāt antaḥkaraṇasya nāsti bahirvṛttirityato nālametatsākṣācchabdādīnarthānpratipattum tasmācchrotrādilakṣaṇaṃ sākṣād bāhyaviṣayaprakāśanasamarthaṃ kāraṇāntaramapekṣate tatpraṇālikayā tasya viṣayagrahaṇam tasmādyuktamuktaṃ buddherbāhyaviṣayapratipattau dvārabhūtatvādbuddhīndriyāṇīti āha, karmendriyāṇi punaḥ kānīti ? vākpāṇipādapāyūpasthāḥ karmendriyāṇyāhuḥ isk_26 vākca pāṇī ca pādau pāyuścopasthaśca vākpāṇipādapāyūpasthāḥ etāni karmendriyāṇyāhurācakṣate karmārthānīndriyāṇi karmendriyāṇi kiṃ punaḥ karma ? vacanādi vakṣyamāṇam etadvikurvat iti karmendriyāṇi āha, kathametadupalabhyate adhiṣṭhānādarthāntarabhūtānīndriyāṇi, na punaradhiṣṭhānamātramiti ? ucyate- adhiṣṭhānādindriyapṛthaktvam, śaktiviśeṣopalambhāt yathā śarīrāsambhavino viṣayavyavasāyalakṣaṇasya śaktiviśeṣasyopalambhādarthāntaraṃ buddhiranumīyate, evamadhiṣṭhānāsambhavino viṣayagrahaṇalakṣaṇasya śaktiviśeṣasyopalambhādarthāntaramindriyamiti āha, na, asambhavāsiddheḥ adhiṣṭhānamātrasya viṣayagrahaṇaṃ na sambhavati, arthāntarasya ca sambhavati ityetadubhayamapi cāprasiddhamiti ucyate- naitadaprasiddham tulyajātīyeṣu tadanupapatteḥ yasmād bhautikeṣvanyeṣu ghaṭādiṣu viṣayagrahaṇasāmarthyāsambhavaḥ āhaṃkāravikāravattatsāmarthyāpratiṣedhānnendriyāṇāṃ nastatpratiṣedho 'numātavya iti etaccāyuktam kasmāt ? śaktibhedāpatteḥ vaikārikaṃ sattvamāhaṅkārikaṃ prakāśarūpaṃ, tacchaktiviśeṣādindriyāṇi utpadyante bhūtādilakṣaṇasya tamasaḥ sāmarthyāt tanmātrāṇi parasya, pṛthivyādīnāmekarūpatvāt tasmādayamasamaḥ samādhiriti etena bhautikatvaṃ pratyuktam āha, kathamavagamyate bahūnīndriyāṇi, na punarekamevendriyaṃ manovatsarvārthamanekādhiṣṭhānaṃ syāditi ? ucyate- na, yugapatpravṛttyapravṛttiprasaṃgāt yadyekamevendriyaṃ manovatsarvārthamanekādhiṣṭhānaṃ syādekaviṣayapratipattau vā sarvaviṣayapratipattiḥ dṛṣṭastu grahaṇabhedastasmānnaikamindriyamiti bhautikairanugrahopaghātadarśanādindriyāṇāṃ bhautikatvamiti cet syānmatam, iha bhautikānāṃ ghaṭādīnāṃ bhautikairmṛddaṇḍacakrasūtrodakamudgarādibhiranugrahopaghāto dṛṣṭaḥ yadi ca bhautikānīndriyāṇi na syuḥ naiṣāṃ bhautikairañjanādibhiranugrahaḥ kriyate, upaghātaśca rajaḥprabhṛtibhiriti etaccāyuktam kasmāt ? anekāntāt tadyathā bhautikairvadanādibhirantaḥkaraṇasya grahaṇadhāraṇasmṛtilakṣaṇo 'nugrahaḥ kriyate, upaghātaścopalādibhiḥ na cāsya bhautikatvam evamindriyasyāpi syāt vaiśeṣikaguṇavyañjakatvādvikārapratītiriti cet atha matam- pṛthivyādivaiśeṣiko gandho ghrāṇenābhivyajyate audako rase rasanena ca āgneyaṃ rūpaṃ vīkṣaṇena vāyavīyaḥ sparśastvacā ākāśīyaḥ śabdaḥ śrotreṇa yena ca yasya vaiśeṣikaguṇābhivyaktistasya tadvikāratvaṃ dṛṣṭam tadyathā pradīpasya rūpābhivyañjakatve sati taijasatvamiti etaccānupapannam kasmāt ? aniṣṭaprasaṃgāt vaiśeṣikaguṇavyañjakānāṃ tadvikāramicchataḥ prāptamapāṃ gandhābhivyaktihetutvāt pārthivattvam athaitadaniṣṭaṃ, na tarhyaikāntiko heturiti tatra yaduktaṃ vaiśeṣikaguṇābhivyañjakatvād bhautikānīndriyāṇīti etadayuktam

Section (cont. 18)

27

कारिका 27 आह, एकादशेन्द्रियाणि अहङ्कारादुत्पद्यन्त इति प्रागपदिष्टम् इदानीं बुद्धीन्द्रियकर्मेन्द्रियाणि दशापदिश्यन्ते तदिदं पदार्थन्यूनमिति उच्यते- स्यादेतदेवम्, यद्येतावदिन्द्रियपर्व स्यात् किं तर्हीति- सङ्कल्पकमत्र मनः अत्रेन्द्रियपर्वणि मनो भवद्भिः प्रत्यवगन्तव्यम् तत्र संकल्पकमिति लक्षणमाचक्ष्महे संकल्पो ऽभिलाष इच्छातृष्णेत्याद्यनर्थान्तरम् संकल्पयतीति संकल्पकम् एतन्मनसो लक्षणम् तस्मादस्य प्रत्यक्षतो ऽनुपलभ्यमानस्यास्तित्वमवसीयते कस्मात् ? व्यस्तसमस्तानामिन्द्रियान्तराणां तदसम्भवात् अपोह्य हि मनः संकल्पं व्यस्तानामिन्द्रियान्तराणां भवान्परिकल्पयेत् समस्तानां वा ? किं चातः ? तन्न तावद्व्यस्थानामिन्द्रियाणां संकल्पो भवति किं कारणम् ? अनियतविषयत्वात् नियतो हि श्रोत्रादीनां शब्दादिर्विषयः अनियतविषयश्च संकल्पः किंच त्रिकालविषयत्वात् वर्तमानविषया श्रोत्रादिवृत्तिः त्रिकालविषयश्च संकल्पः तस्मान्न व्यस्तानां नापि समस्तानाम् बधिरादिषु तदभावप्रसंगात् यदि समस्तेन्द्रियवृत्तिः संकल्पः स्यात्प्राणादिवदिति चेत् स्यान्मतम्, यथा समस्तेन्द्रियवृत्तिः प्राणादिः, न चान्यतरवैकल्ये तदभावः, एवं समस्तेन्द्रियवृत्तिः संकल्पः स्यान्न चान्यतरवैकल्ये तदभावः स्यादिति एतच्चानुपपन्नम् विशेषितत्वात् निर्विषया प्राणादिवृत्तिः शब्दादिविषयस्तु संकल्प इति विशेषितम् तस्माद्व्यस्तसमस्तानामिन्द्रियाणां संकल्पानुपपत्तेर्मनसो लिङ्गमेतदस्तित्वे इति सिद्धम् आह, तदवधारणीयम्, इन्द्रियद्वैविध्यात् द्विप्रकाराणि हीन्द्रियाणि पुरस्तादुपदिष्टानि तत्र मनो ऽप्यवधारणीयं किं बुद्धीन्द्रियमथ कर्मेन्द्रियमिति ? उच्यते- तच्चेन्द्रियमुभयथा समाख्यातम् ह्यर्थे चः पठितः तद्धीन्द्रियमुभयथेत्यर्थः मनो न केवलं बुद्धीन्द्रियमपि तु कर्मेन्द्रियमपि नियमहेत्वभावादयुक्तमिति चेत् स्यात्पुनरेतत्, को ऽत्र नियमहेतुः यदिन्द्रियत्वाविशेषे मनस एवोभयप्रचारत्वमभ्युपगम्यते, नान्येषामिति ? उच्यते- अन्तस्त्रिकालविषयं तस्मादुभयप्रचारं तत् इस्क्_27 त्रिकालविषयत्वात् इह यस्यान्तस्त्रिषु च कालेषु करणस्य वृत्तिस्तदुभयप्रचारम्, तद्यथा बुद्धिः साक्षात् विषयानभिसन्धानादतीतानागतवर्तमानविषयत्वाच्च मनो ऽन्तस्त्रिकालविषयम् तस्मादुभयप्रचारं तदिति सिद्धम्

kārikā 27 āha, ekādaśendriyāṇi ahaṅkārādutpadyanta iti prāgapadiṣṭam idānīṃ buddhīndriyakarmendriyāṇi daśāpadiśyante tadidaṃ padārthanyūnamiti ucyate- syādetadevam, yadyetāvadindriyaparva syāt kiṃ tarhīti- saṅkalpakamatra manaḥ atrendriyaparvaṇi mano bhavadbhiḥ pratyavagantavyam tatra saṃkalpakamiti lakṣaṇamācakṣmahe saṃkalpo 'bhilāṣa icchātṛṣṇetyādyanarthāntaram saṃkalpayatīti saṃkalpakam etanmanaso lakṣaṇam tasmādasya pratyakṣato 'nupalabhyamānasyāstitvamavasīyate kasmāt ? vyastasamastānāmindriyāntarāṇāṃ tadasambhavāt apohya hi manaḥ saṃkalpaṃ vyastānāmindriyāntarāṇāṃ bhavānparikalpayet samastānāṃ vā ? kiṃ cātaḥ ? tanna tāvadvyasthānāmindriyāṇāṃ saṃkalpo bhavati kiṃ kāraṇam ? aniyataviṣayatvāt niyato hi śrotrādīnāṃ śabdādirviṣayaḥ aniyataviṣayaśca saṃkalpaḥ kiṃca trikālaviṣayatvāt vartamānaviṣayā śrotrādivṛttiḥ trikālaviṣayaśca saṃkalpaḥ tasmānna vyastānāṃ nāpi samastānām badhirādiṣu tadabhāvaprasaṃgāt yadi samastendriyavṛttiḥ saṃkalpaḥ syātprāṇādivaditi cet syānmatam, yathā samastendriyavṛttiḥ prāṇādiḥ, na cānyataravaikalye tadabhāvaḥ, evaṃ samastendriyavṛttiḥ saṃkalpaḥ syānna cānyataravaikalye tadabhāvaḥ syāditi etaccānupapannam viśeṣitatvāt nirviṣayā prāṇādivṛttiḥ śabdādiviṣayastu saṃkalpa iti viśeṣitam tasmādvyastasamastānāmindriyāṇāṃ saṃkalpānupapattermanaso liṅgametadastitve iti siddham āha, tadavadhāraṇīyam, indriyadvaividhyāt dviprakārāṇi hīndriyāṇi purastādupadiṣṭāni tatra mano 'pyavadhāraṇīyaṃ kiṃ buddhīndriyamatha karmendriyamiti ? ucyate- taccendriyamubhayathā samākhyātam hyarthe caḥ paṭhitaḥ taddhīndriyamubhayathetyarthaḥ mano na kevalaṃ buddhīndriyamapi tu karmendriyamapi niyamahetvabhāvādayuktamiti cet syātpunaretat, ko 'tra niyamahetuḥ yadindriyatvāviśeṣe manasa evobhayapracāratvamabhyupagamyate, nānyeṣāmiti ? ucyate- antastrikālaviṣayaṃ tasmādubhayapracāraṃ tat isk_27 trikālaviṣayatvāt iha yasyāntastriṣu ca kāleṣu karaṇasya vṛttistadubhayapracāram, tadyathā buddhiḥ sākṣāt viṣayānabhisandhānādatītānāgatavartamānaviṣayatvācca mano 'ntastrikālaviṣayam tasmādubhayapracāraṃ taditi siddham


28

युक्तिदीपिकायां सांख्यसप्ततिपद्धतौ षष्ठमाह्निकम् कारिका 28 समधिगतं करणपर्व तस्येदानीं व्यस्तसमस्तवृत्तयो वक्तव्याः सति चोभयाभिधाने व्यस्तवृत्तिरेव तावदुच्यते, न समस्तवृत्तिः किं कारणम् ? प्रकरणशेषभूतत्वात् श्रोत्रादीनां हि सद्भावप्रकरणमिदमनुक्रान्तम् स चैषां सद्भावः शक्तिविशेषोपालम्भादित्युक्तम् इदानीमसौ शक्तिविशेषो ऽस्माकं व्यस्तवृत्तिरित्युच्यते तस्मात्तदनुक्रमणं करिष्यामः आह, यद्येवं तस्मादुच्यतां तस्य करणस्य कस्मिन्नर्थे वृत्तिः, किं लक्षणं वेति ? उच्यते- यदुक्तं तस्य कस्मिन्नर्थे वृत्तिरित्यत्र ब्रूमः रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः रूपादिषु शब्दस्पर्शरूपरसगन्धेषु स्वभेदभिन्नेषु पञ्चानां श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां श्रवणस्पर्शनदर्शनरसनघ्राणलक्षणो व्यापारो वृत्तिरित्युच्यते तत्र करणनिर्देशे श्रोत्रेन्द्रियस्य प्राक्पाठात्तद्विषयनिर्देशातिलंघने प्रयोजनं नास्तीति कृत्वा शब्दादिषु पञ्चानामित्येव पठितव्यम् प्राक्तनस्तु प्रमादपाठः यत्पुनरेतदुक्तं किंलक्षणेति अत्र ब्रूमः- आलोचनमात्रमिष्यते आलोचनं ग्रहणमित्यनर्थान्तरम् मात्रशब्दो विशेषनिवृत्त्यर्थः तद्यथा भैक्षमात्रमस्मिन्ग्रामे लभ्यत इत्युक्ते नान्यो विशेष इति ज्ञायते छन्द्रोमात्रमधीते माणवक इत्युक्ते नान्यदधीत इति एवमालोचनमात्रमिन्द्रियाणामिष्यते वृत्तिरित्युक्ते नान्यो विशेष इति गम्यते तेन किं सिद्धं भवति ? यदुक्तमन्यैराचार्यैः सामान्यज्ञानमिन्द्रियाणां विशेषज्ञानं बुद्धेरिति तत्प्रतिषिद्धं भवति आह, कः पुनरस्मिन्दर्शने दोषो यत एतत्प्रतिषिद्यत इति ? उच्यते- सामान्यविशेषयोरितरेतरापेक्षत्वे सत्येकस्मिन्नविरोधादन्यतरपरिकल्पनानर्थक्यम् यदि खल्विन्द्रियस्य सामान्यज्ञानं न स्यात्तेन विशेषापेक्षं सामान्यं सामान्यापेक्षश्च विशेष इति यत्र सामान्यज्ञानं तत्र विशेषज्ञानमपि न प्रतिषिध्यत इत्युभयमपीन्द्रियस्य स्यात् ततश्चान्तःकरणपरिकल्पनानर्थक्यम् विशेषवतो वान्तःकरणस्य कः सामान्येन विरोध इत्युभयस्यापि तत्र सम्भवादिन्द्रियानर्थक्यम् तस्मादप्रत्ययमिन्द्रियमिति इन्द्रियस्य चेत्प्रत्ययः स्याद्यथा प्रत्ययवतो ऽन्तःकरणस्यानियतविषयत्वम्, एवमस्यापि स्यात् न तु तदस्ति तस्मादप्रत्ययमिन्द्रियमिति किंच कालातिवृत्तिप्रसंगात् इन्द्रियस्य चेत्प्रत्ययः स्याद्यथा प्रत्ययवतो ऽन्तःकरणस्य त्रिकालविषयत्वमेवमस्यापि स्यात् न तु तदस्ति तस्मादप्रत्ययमिन्द्रियमिति किं चान्यत् स्मृत्यदर्शनात् इन्द्रियस्य चेत्प्रत्ययः स्याद्यथा प्रत्ययवतो ऽन्तःकरणस्यादिरूपोपपत्तिरेवमत्रापि स्यात् न तु तदस्ति तस्मादप्रत्ययमिन्द्रियं सिद्धमिति उच्यते- न कारणान्तरप्रसंगात् यदि प्रदीपवदिन्द्रियं प्रकाशकं स्यात्तेन यथा तत्प्रकाशितेषु घटादिष्वर्थेषु करणान्तरमार्गणमेवमत्रापि स्यात् न चैतदिष्टम् अतो न प्रदीपवदिन्द्रियं प्रकाशकमिति अन्तःकरणसद्भावादयुक्तमिति चेत् स्यान्मतम्- अस्ति कारणान्तरं बुद्धिलक्षणं यदिन्द्रियेण प्रदीपवत्प्रकाशितमर्थं गृह्णाति तस्मात्परवादानुवादो ऽयं क्रियते, न प्रतिषेध इति तच्च नैवम् कस्मात् ? प्रदीपेन्द्रिययोरन्यतरानुपादानप्रसंगात् इन्द्रियमपि प्रकाशकम्, प्रदीपो ऽपि तत्रान्यतरस्यानुपादानं प्रसक्तम् कस्मात् ? न ह्येकार्थकारिणो युगपत्करणे सामर्थ्यमस्तीति किं चान्यत् अन्तःकरणहानेः इन्द्रियेण प्रदीपवत्प्रकाशितान्बाह्यानर्थान्साक्षादन्तःकरणं गृह्णातीति वदतो ऽन्तःकरणमेव हीयते तस्मादयुक्तमन्तःकरणस्य सामर्थ्यम् पुरुषस्येति चेन्न करणानर्थक्यप्रसंगात् साक्षाद्विषयग्रहणसमर्थं पुरुषमिच्छतः करणानर्थक्यं प्रसज्यते तस्माद्युक्तमेतत् ग्राहकमिन्द्रियं न तु प्रदीपवत्प्रकाशकमिति आह, भवतु तावद् ग्रहणमात्रमिन्द्रियवृत्तिरप्रत्यया ग्रहणप्रत्ययप्रकाशाभेदः ? उच्यते- विषयसम्पर्कात्ताद्रूप्यापत्तिरिन्द्रियवृत्तिग्रहणं, तथा विषयेन्द्रियवृत्त्यनुकारेण निश्चयो गौरयं शुक्लो धावतीत्येवमादिः प्रत्ययः तथा विषयसम्पर्कागमे श्रोत्रादिवृत्तेः ताद्रूप्यागमो वर्तमानकालता, ग्रहणस्यानुभवात्तु संस्काराधानं तत्पूर्विका च स्मृतिरिति त्रिकालविषया प्रत्ययस्येत्ययमनयोर्विशेषः बाह्यस्तु प्रकाशो न विषयरूपापन्नः संस्कारात्तु घटादीनां व्यवधानरूपं पार्थिवं छायालक्षणं व्यञ्जकत्वाय कल्पते, चक्षुषो ऽनुग्रहाय उभयोर्वा चक्षुर्विषययोरित्यपरे तस्मादुपपन्नमेतत् प्रकाशकं प्रदीपादि, ग्राहकं श्रोत्रादि, व्यवसायकमन्तःकरणमिति अथ कर्मेन्द्रियाणां का वृत्तिरित्युच्यते- नैयायिकास्त्वेवमाहुः- घ्राणरसनचक्षुस्त्वक्च्छ्रोत्राणीन्द्रियाणि भूतेभ्यः भूतेभ्य इत्यनेन स्वविषयोपलब्धिलक्षणं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति (?) नान्यथा तानि पुनरिन्द्रियकारणानि पृथिव्यप्तेजोवायुराकाशमिति भूतानि एभ्यः पञ्चभ्यो यथासंख्यं घ्राणरसनचक्षुस्त्वक्च्छ्रोत्राणि पञ्चेन्द्रियाणि भवन्ति भूतप्रकृतित्वमिति भूतस्वभावं व्याख्यायमानं पञ्चस्वपि सम्भवति भूतकारणत्वं त्वन्येषु चतुर्षु तथैव श्रोत्रे तु कथंचित्कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेण व्यवहारतः समर्थनीयम् एवं भौतिकानीन्द्रियाणि स्वस्वविषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां सिध्यतीति, अतो भूतेभ्य इत्युक्तम् एतत्तु सांख्याचार्याणां नेष्टम् एवं हि सांख्यवृद्धा आहुः- आहङ्कारिकाणीन्द्रियाणि अर्थं साधयितुमर्हन्ति नान्यथा तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दुरवर्तिनि विषये भवेयुः ? आहंकारिकाणां तु तेषां व्यापकत्वात् विषयाकारपरिणामात्मिका वृत्तिर्वृत्तिमतो ऽनन्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम् अपि च महदणुगुणग्रहणमाहङ्कारित्वे तेषां कल्पते, न भौतिकत्वे भौतिकत्वे हि यत्परिमाणं करणं तत्परिमाणं ग्राह्यं गृह्णीयात् आह, अथ कर्मेन्द्रियाणां का वृत्तिरिति ? उच्यते- वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् इस्क्_28 वाक्पाणिपादपायूपस्थानां तु वचनादानविहरणोत्सर्गानन्दलक्षणा यथाक्रमं वृत्तयः प्रत्यवगन्तव्याः तत्रोच्यते ऽनेनेति वचनम् तस्माद्य एवार्थप्रत्यायनसमर्थो वर्णसमुदायः पदवाक्यश्लोकग्रन्थलक्षणः स वागिन्द्रियस्यार्थो नान्यः आदीयते ऽनेनेत्यादानम् आङभिविध्यर्थे प्रयुज्यते ततश्च यदेव प्रक्षालनपरिमार्जनोपस्पर्शनाध्ययनप्रहरणशिल्पव्यायामादि कृत्स्नं ग्रहणं स इन्द्रियार्था नान्यः विशिष्टं हरणं विहरणम् अतश्च यदेव समविषमनिम्नोन्नतचङ्क्रमणपरिवर्तननाट्यव्यायामादिः स इन्द्रियार्थो नान्यः एवमुत्कृष्टः सर्ग उत्सर्गः नान्यः अतश्च य एवाशितपीतविपरिणामस्य सम्यक्स्त्रोतोमार्गानुसारिणो विसर्गः स इन्द्रियार्थो नान्यः एवमभिव्याप्यानन्दमानन्दः ततश्च य एवासाधारणप्रीतिनयनाभिनिष्पत्तिलक्षणः स इन्द्रियार्थो नान्यः

yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau ṣaṣṭhamāhnikam kārikā 28 samadhigataṃ karaṇaparva tasyedānīṃ vyastasamastavṛttayo vaktavyāḥ sati cobhayābhidhāne vyastavṛttireva tāvaducyate, na samastavṛttiḥ kiṃ kāraṇam ? prakaraṇaśeṣabhūtatvāt śrotrādīnāṃ hi sadbhāvaprakaraṇamidamanukrāntam sa caiṣāṃ sadbhāvaḥ śaktiviśeṣopālambhādityuktam idānīmasau śaktiviśeṣo 'smākaṃ vyastavṛttirityucyate tasmāttadanukramaṇaṃ kariṣyāmaḥ āha, yadyevaṃ tasmāducyatāṃ tasya karaṇasya kasminnarthe vṛttiḥ, kiṃ lakṣaṇaṃ veti ? ucyate- yaduktaṃ tasya kasminnarthe vṛttirityatra brūmaḥ rūpādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ rūpādiṣu śabdasparśarūparasagandheṣu svabhedabhinneṣu pañcānāṃ śrotratvakcakṣurjihvāghrāṇānāṃ śravaṇasparśanadarśanarasanaghrāṇalakṣaṇo vyāpāro vṛttirityucyate tatra karaṇanirdeśe śrotrendriyasya prākpāṭhāttadviṣayanirdeśātilaṃghane prayojanaṃ nāstīti kṛtvā śabdādiṣu pañcānāmityeva paṭhitavyam prāktanastu pramādapāṭhaḥ yatpunaretaduktaṃ kiṃlakṣaṇeti atra brūmaḥ- ālocanamātramiṣyate ālocanaṃ grahaṇamityanarthāntaram mātraśabdo viśeṣanivṛttyarthaḥ tadyathā bhaikṣamātramasmingrāme labhyata ityukte nānyo viśeṣa iti jñāyate chandromātramadhīte māṇavaka ityukte nānyadadhīta iti evamālocanamātramindriyāṇāmiṣyate vṛttirityukte nānyo viśeṣa iti gamyate tena kiṃ siddhaṃ bhavati ? yaduktamanyairācāryaiḥ sāmānyajñānamindriyāṇāṃ viśeṣajñānaṃ buddheriti tatpratiṣiddhaṃ bhavati āha, kaḥ punarasmindarśane doṣo yata etatpratiṣidyata iti ? ucyate- sāmānyaviśeṣayoritaretarāpekṣatve satyekasminnavirodhādanyataraparikalpanānarthakyam yadi khalvindriyasya sāmānyajñānaṃ na syāttena viśeṣāpekṣaṃ sāmānyaṃ sāmānyāpekṣaśca viśeṣa iti yatra sāmānyajñānaṃ tatra viśeṣajñānamapi na pratiṣidhyata ityubhayamapīndriyasya syāt tataścāntaḥkaraṇaparikalpanānarthakyam viśeṣavato vāntaḥkaraṇasya kaḥ sāmānyena virodha ityubhayasyāpi tatra sambhavādindriyānarthakyam tasmādapratyayamindriyamiti indriyasya cetpratyayaḥ syādyathā pratyayavato 'ntaḥkaraṇasyāniyataviṣayatvam, evamasyāpi syāt na tu tadasti tasmādapratyayamindriyamiti kiṃca kālātivṛttiprasaṃgāt indriyasya cetpratyayaḥ syādyathā pratyayavato 'ntaḥkaraṇasya trikālaviṣayatvamevamasyāpi syāt na tu tadasti tasmādapratyayamindriyamiti kiṃ cānyat smṛtyadarśanāt indriyasya cetpratyayaḥ syādyathā pratyayavato 'ntaḥkaraṇasyādirūpopapattirevamatrāpi syāt na tu tadasti tasmādapratyayamindriyaṃ siddhamiti ucyate- na kāraṇāntaraprasaṃgāt yadi pradīpavadindriyaṃ prakāśakaṃ syāttena yathā tatprakāśiteṣu ghaṭādiṣvartheṣu karaṇāntaramārgaṇamevamatrāpi syāt na caitadiṣṭam ato na pradīpavadindriyaṃ prakāśakamiti antaḥkaraṇasadbhāvādayuktamiti cet syānmatam- asti kāraṇāntaraṃ buddhilakṣaṇaṃ yadindriyeṇa pradīpavatprakāśitamarthaṃ gṛhṇāti tasmātparavādānuvādo 'yaṃ kriyate, na pratiṣedha iti tacca naivam kasmāt ? pradīpendriyayoranyatarānupādānaprasaṃgāt indriyamapi prakāśakam, pradīpo 'pi tatrānyatarasyānupādānaṃ prasaktam kasmāt ? na hyekārthakāriṇo yugapatkaraṇe sāmarthyamastīti kiṃ cānyat antaḥkaraṇahāneḥ indriyeṇa pradīpavatprakāśitānbāhyānarthānsākṣādantaḥkaraṇaṃ gṛhṇātīti vadato 'ntaḥkaraṇameva hīyate tasmādayuktamantaḥkaraṇasya sāmarthyam puruṣasyeti cenna karaṇānarthakyaprasaṃgāt sākṣādviṣayagrahaṇasamarthaṃ puruṣamicchataḥ karaṇānarthakyaṃ prasajyate tasmādyuktametat grāhakamindriyaṃ na tu pradīpavatprakāśakamiti āha, bhavatu tāvad grahaṇamātramindriyavṛttirapratyayā grahaṇapratyayaprakāśābhedaḥ ? ucyate- viṣayasamparkāttādrūpyāpattirindriyavṛttigrahaṇaṃ, tathā viṣayendriyavṛttyanukāreṇa niścayo gaurayaṃ śuklo dhāvatītyevamādiḥ pratyayaḥ tathā viṣayasamparkāgame śrotrādivṛtteḥ tādrūpyāgamo vartamānakālatā, grahaṇasyānubhavāttu saṃskārādhānaṃ tatpūrvikā ca smṛtiriti trikālaviṣayā pratyayasyetyayamanayorviśeṣaḥ bāhyastu prakāśo na viṣayarūpāpannaḥ saṃskārāttu ghaṭādīnāṃ vyavadhānarūpaṃ pārthivaṃ chāyālakṣaṇaṃ vyañjakatvāya kalpate, cakṣuṣo 'nugrahāya ubhayorvā cakṣurviṣayayorityapare tasmādupapannametat prakāśakaṃ pradīpādi, grāhakaṃ śrotrādi, vyavasāyakamantaḥkaraṇamiti atha karmendriyāṇāṃ kā vṛttirityucyate- naiyāyikāstvevamāhuḥ- ghrāṇarasanacakṣustvakcchrotrāṇīndriyāṇi bhūtebhyaḥ bhūtebhya ityanena svaviṣayopalabdhilakṣaṇaṃ hīndriyāṇāṃ bhūtaprakṛtitve sati nirvahati (?) nānyathā tāni punarindriyakāraṇāni pṛthivyaptejovāyurākāśamiti bhūtāni ebhyaḥ pañcabhyo yathāsaṃkhyaṃ ghrāṇarasanacakṣustvakcchrotrāṇi pañcendriyāṇi bhavanti bhūtaprakṛtitvamiti bhūtasvabhāvaṃ vyākhyāyamānaṃ pañcasvapi sambhavati bhūtakāraṇatvaṃ tvanyeṣu caturṣu tathaiva śrotre tu kathaṃcitkarṇaśaṣkulyavacchinnanabhobhāgābhiprāyeṇa vyavahārataḥ samarthanīyam evaṃ bhautikānīndriyāṇi svasvaviṣayamadhigantumutsahanta iti tallakṣaṇatvameṣāṃ sidhyatīti, ato bhūtebhya ityuktam etattu sāṃkhyācāryāṇāṃ neṣṭam evaṃ hi sāṃkhyavṛddhā āhuḥ- āhaṅkārikāṇīndriyāṇi arthaṃ sādhayitumarhanti nānyathā tathā hi kārakaṃ kārakatvādeva prāpyakāri bhavati bhautikāni cendriyāṇi kathaṃ prāpyakārīṇi duravartini viṣaye bhaveyuḥ ? āhaṃkārikāṇāṃ tu teṣāṃ vyāpakatvāt viṣayākārapariṇāmātmikā vṛttirvṛttimato 'nanyā satī sambhavatyeveti suvacaṃ prāpyakāritvam api ca mahadaṇuguṇagrahaṇamāhaṅkāritve teṣāṃ kalpate, na bhautikatve bhautikatve hi yatparimāṇaṃ karaṇaṃ tatparimāṇaṃ grāhyaṃ gṛhṇīyāt āha, atha karmendriyāṇāṃ kā vṛttiriti ? ucyate- vacanādānaviharaṇotsargānandāśca pañcānām isk_28 vākpāṇipādapāyūpasthānāṃ tu vacanādānaviharaṇotsargānandalakṣaṇā yathākramaṃ vṛttayaḥ pratyavagantavyāḥ tatrocyate 'neneti vacanam tasmādya evārthapratyāyanasamartho varṇasamudāyaḥ padavākyaślokagranthalakṣaṇaḥ sa vāgindriyasyārtho nānyaḥ ādīyate 'nenetyādānam āṅabhividhyarthe prayujyate tataśca yadeva prakṣālanaparimārjanopasparśanādhyayanapraharaṇaśilpavyāyāmādi kṛtsnaṃ grahaṇaṃ sa indriyārthā nānyaḥ viśiṣṭaṃ haraṇaṃ viharaṇam ataśca yadeva samaviṣamanimnonnatacaṅkramaṇaparivartananāṭyavyāyāmādiḥ sa indriyārtho nānyaḥ evamutkṛṣṭaḥ sarga utsargaḥ nānyaḥ ataśca ya evāśitapītavipariṇāmasya samyakstrotomārgānusāriṇo visargaḥ sa indriyārtho nānyaḥ evamabhivyāpyānandamānandaḥ tataśca ya evāsādhāraṇaprītinayanābhiniṣpattilakṣaṇaḥ sa indriyārtho nānyaḥ


29

कारिका 29 आह, प्रागन्तःकरणवृत्तिनिर्देशः, सर्गक्रमानुगमात्पूर्वं बुद्ध्यहंकारमनसां वृत्तिनिर्देशः कर्तव्यः किं कारणम् ? एवं हि सर्गक्रमो ऽनुगतो भवति क्रमभेदे वा प्रयोजनं वक्तव्यमिति उच्यते- न, इन्द्रियवृत्तिपूर्वकत्वात् अन्तःकरणस्य हि इन्द्रियवृत्तिप्रवर्तकः प्रत्ययः तथा च वक्ष्यति- दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिरिति (इस्क् 30) तस्मात्सर्गक्रमेण विना तन्निर्देशः प्रागाचार्येण क्रियते इति आह, तदसम्भवः, शास्त्रे प्रागभिमानाभिधानात् शास्त्रं ह्येवमाह- का नु भोः संज्ञा मातुरुदरे ऽवस्थितं कुमारं प्रत्यभिनिर्विशत इति ? अस्मीत्येषा माहात्मी संविदिति तथा कार्यकारणव्यूहसमकालं माहात्म्यशरीरो ऽस्मीति प्रतिबुद्ध्यते प्रवृत्ताश्चैव ह्यव्यक्ता भवन्त्यस्मीत्यस्मितामात्राः प्रमाणं च शास्त्रम् तस्मात्प्रागन्तःकरणनिर्देशः कर्तव्यः उच्यते- तन्निमित्तार्थेन विवक्षितत्वात् सत्यमेतत् कार्यकारणव्यूहनिष्पत्तिसमकालमस्मीत्येषा माहात्मी संवित् प्रत्युपधीयते शब्दादिविषयस्त्वन्तःकरणप्रत्ययः श्रोत्रादिनिमित्त इति एतत्पूर्वशब्देन विवक्षितम् न च निमित्तमतिक्रम्य नैमित्तिकाभिधानं न्याय्यम् अथवा नैव वयमिदं प्रष्टव्या यथा प्रागन्तःकरणवृत्तिनिर्देशः कर्तव्य इति किं कारणम् ? यस्मात् स्वालक्षण्यं वृत्तिस्त्रयस्य स्वलक्षणमेव स्वालक्षण्यम् स्वार्थे तद्धितवृत्तिः, अन्यभावस्तु कालशब्दव्यवायादिति यथा बुद्ध्यहंकारमनसां हि सौक्ष्म्यान्न शक्यं स्वरूपमभिधातुमित्यतो वृत्तिरेव लक्षणभावेनोपदिश्यते श्रोत्रादीनामपि च सौक्ष्म्याल्लक्षणमपदेष्टुमशक्यमिति वृत्तिरेवोच्यते, न लक्षणम् तदेव चैषा लक्षणं भवति यच्छब्दालोचनसमर्थं तच्छ्रोत्रम् एवमितरेष्वपि वक्तव्यम् बुद्ध्यहंकारमनसां च लक्षणमध्यवसायाद्युक्तम् तदेव वृत्तित्वेनाचक्षाणः श्रोत्रादीनामेव चाभिदधानं लक्षणं चाप्याचक्षाणो वृत्तिवृत्तिमतोरनन्यत्वं ज्ञापयति अन्यथा तु यथाध्यवसायादि लक्षणमेवं रूपादिषु पञ्चानामलोचनमात्रं लक्षणमित्युच्यते, न तु वृत्तिरिति श्रोत्रादिवद् बुद्ध्यादीनामपि व्यवसायादयो वृत्तिरित्युच्यते, न तु लक्षणम् तस्मादन्यथा निर्देशो ज्ञापकं वृत्तिवृत्तिमतोरन्यत्वस्येति व्याख्याता करणवृत्तिः सैषा भवत्यसामान्या सेति पूर्वकृतां वृत्तिमभिसम्बध्नाति एषेति सर्वनाम्ना प्रत्याकृष्टां तामेव प्रत्यक्षं प्रति निर्दिशति भवतीति वक्ष्यमाणेन धर्मान्तरेणास्यास्तद्वत्तानुभावितं ख्यापयति असामान्येति धर्ममाचष्टे सामान्या साधारणेत्यर्थः न सामान्यासामान्या प्रतिकरणं नियतेत्युक्तं भवति या हीयमनुक्रान्ता करणपर्वणो ऽध्यवसयादिका वृत्तिरियं व्यस्तानां करणानां प्रतिस्वं नियता ततश्चैषां बुद्ध्यादीनां कार्यविशेषनिमित्तभावसंसूचितस्य स्वरूपस्यासंकरः सिद्धः आह, सामान्यविशेषयोरितरेतरापेक्षत्वादसामान्याभिधानेन सामान्यस्याप्यभिधानादध्यवसायादिका करणानामसामान्या वृत्तिरित्युक्ते ऽर्थादापन्नमेषां सामान्यापि वृत्तिरस्तीति तस्मादसावपि वक्तव्येति उच्यते- सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च इस्क्_29 सामान्या चासौ करणवृत्तिः सामान्यकरणवृत्तिः प्राणश्चाद्यो येषां ते प्राणाद्याः, प्राणापानसमानोदानव्यानाः पञ्च समस्तकरणवृत्तिः प्रत्यवगन्तव्येति तैः सर्वैः सहितः प्राण इति वेदान्तेष्वपि आह, अयुक्तमेतत् कस्मात् ? धर्मिणो धर्म्यन्तरवृत्तिभावानुपपत्तेः वृत्तिरित्ययं शब्दो व्यापारमाचष्टे न च धर्मान्तरं धर्मान्तरस्य व्यापारो भवितुमर्हतीति उच्यते- न कार्ये कारणोपचारात् सत्यमेतत् धर्मी धर्म्यन्तरस्य वृत्तित्वेनाशक्यः परिकल्पयितुम् किं तु सामान्यकरणवृत्त्या प्रेर्यमाणो वायुस्तत्प्रवणत्वात्तत्कार्यतां प्रतिपद्यते तत्र प्राणादिकार्ये वायौ प्राणोपचारं कृत्वा एवमुच्यते- प्राणाद्या वायवः पञ्च तत्प्रेरणासिद्धेरयुक्तमिति चेत् स्यादेतत्, कथमेतदवगम्यते ऽर्थान्तरप्रेरितस्य वायोरियं क्रिया भवति न पुनः स्वतन्त्रस्येति ? उच्यते- न स्वतः, तद्व्यतिरिक्तत्वानुपपत्तेः इहेयमकस्माद्भिन्ना क्रियावायोः स्वतो वा स्यात्, करणवृत्तिव्यतिरिक्तत्वाद्वा किं चातः ? तत्र तावत्स्वत उपपद्यते कस्मात् ? सर्वत्र प्रसंगात् स्वाभाविके हि वायोर्दिक्संचारे ऽभ्युपगम्यमाने सर्वत्र तत्संभवः स्यात् ततश्च तिर्यक्पातादिवृत्तिर्हन्येत, न चान्यतः कस्मात् ? अदर्शनात् न हि पृथिव्यादीनां वायुप्रेरणसामर्थ्यं क्वचिदुपलब्धम् भस्त्रादिषु दृष्टमिति चेन्न, अन्यनिमित्तत्वात् अत्रापि चैत्रव्यापार उपलभ्यते इत्यवश्यमन्यन्निमित्तमुपलभ्यते इत्यभ्युपगन्तव्यम् आत्मेति चेन्न, क्रियाप्रतिषेधात् उपपादितमेतत्पूर्वमात्मा निष्क्रिय इति न च निष्क्रियस्य प्रेरणमुपपद्यते न च निर्निमित्ता स्वभावभेदानामनाकस्मिकत्वात् तस्माद्यत्तन्निमित्तं सा समस्तकरणवृत्तिः स चायं वायुरेक एव स्थानसंचारविशेषान्नानाख्यो भवति यथैको देवदत्तः पाचको लावक इति क्वचित् तदयुक्तम् कस्मात् ? युगपत्परस्परातिशयविरोधात् पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो वायुर्बलीयानिति ह्यभ्युपगमः तदेतदेकस्यैकस्मिन्काले नोपपद्यते तस्मादुपपन्नं प्राणाद्या वायवः पञ्च किं पुनरेषां प्राणादीनां लक्षणमिति ? उच्यते- द्विविधाः प्राणादयः अन्तर्वृत्तयो बहिर्वृत्तयश्च तत्र मुखनासिकाभ्यां प्रगमनात्प्रणतेश्च प्राणः यो ऽयं मुखनासिकाभ्यां सञ्चरति सो ऽन्तर्वृत्तिर्वायुः प्राण इत्यभिधीयते या काचित्प्रणतिर्नाम भूतेषु तद्यथा प्रणतेयं सेना, प्रणतो ऽयं वृक्षः, प्रणतो ऽयं धर्मे, प्रणतो ऽयमर्थे, प्रणतो ऽयं कामे, प्रणतो ऽयं विद्यायाम् तद्विपरीतेषु वा बाह्यप्राणवृत्तिरेषा प्राणिविषय एवैषा भवति स खल्वयमत्राभिव्यक्तो भवति तद्यथा महता वा दुःखेनाभिप्लुतस्य महता वा बन्धुना वियुक्तस्य, सहितस्य वा सौरभेयस्य, निपानावतीर्णस्य वा महिषस्यावगतेः अपक्रमणाच्चापानः यो ऽयं रसं धातून् शुक्रं मूत्रं पुरीषं वातार्तवगर्भांश्चाकर्षन्नधोगच्छन्नयमन्तर्वृत्तिर्वायुरपान इत्यभिधीयते यच्चापि किंचिदपक्रमणं नाम भूतेषु तद्यथा अपक्रान्तो ऽयं धर्मादिभ्यस्तद्विपरीतेभ्यो वा इति बाह्या खल्वपानवृत्तिरेषा अपानविषय एवैष भवति बलवत्तरश्चायं प्राणोद्वायोः कस्मात् ? एषा ह्येतं प्राणमूर्ध्वं वर्तमानमर्वागेव सन्नियच्छति अर्वागेव सन्निरुणद्धि एषो ऽत्राभिव्यक्तो भवति तद्यथा उपकूपमुपश्वभ्रं वा परिवर्तमानस्या__शतपदीं लङ्घयतः हृद्यवस्थानात्सह भावाच्च समानः यस्त्वयं प्राणापानयोर्मध्ये हृद्यवतिष्ठते स समानो वायुरन्तर्वृत्तिः यश्चापि कश्चित्सह भावो नाम भूतेषु द्वन्द्वारामता तद्यथा सह दास्ये, सह यक्ष्ये, सह तपश्चरिष्यामि सह भार्यापुत्रैर्बन्धुभिः सुहृद्भिश्च वर्तिष्य बाह्या समानवृत्तिरेषा समानविषय एवैष भवति इति बलवत्तरः खल्वयं प्राणापानाभ्याम् एष ह्येतौ प्राणापानौ ऊर्ध्वमर्वाक्च वर्तमानौ मध्य एव सन्नियच्छति, मध्य एव सन्निरुणद्धि, स चैषौ ऽत्राभिव्यक्तो भवति तद्यथा स्रुतसारस्य वा सारमेयस्य, अनडुहो वोढभारस्य, धर्माभितप्ताया वा एडकाया अर्धार्धकायं शकशकेति प्राणान्ते सर्वप्राणिनां प्राणापानावुत्सृज्योर्ध्वमधश्च मुक्तयोक्त्रौ हयाविव विषमं संचारयन् शरीरं स परास्यति मूर्धारोहणदात्मोत्कर्षणाच्चोदानः यस्त्वयं प्राणापानसमानानां स्थानान्यतिक्रम्य रसं धातूंश्चादाय मूर्धानमारोहति ततश्च प्रतिहतो निवृत्तः स्थानकरणानुप्रदानविशेषाद्वर्णपदवाक्यश्लोकग्रन्थलक्षणस्य शब्दस्याभिव्यक्तिनिमित्तं भवति अयमन्तर्वृत्तिर्वायुरुदान इत्युच्यते यश्चापि कश्चिदात्मोत्कर्षो नाम भूतेषु तद्यथा हीनादस्मि श्रेयान्, सदृशेन वा सदृशः, सदृशादस्मि श्रेयान्, श्रेयसा वा सदृशः, श्रेयसो वा श्रेयान् एतस्मिंस्तथा रूपाभिमानो वा प्राप्तविद्यस्तु तद्यथा बह्वन्तरविशेषादल्पान्तरविशेषो ऽस्म्यगुणवतो वा गुणवानस्मीति बाह्योदानवृत्तिरेषा उदानविषय एवैष भवति बलवत्तरः खल्वयं पूर्वभ्यः कथम् ? एष ह्येतान्प्राणादीनूर्ध्वमवाङ्मध्ये च वर्तमानानूर्ध्वमेवोन्नयति, ऊर्ध्वमेवोत्कर्षति स चैषो ऽत्राभिव्यक्तो भवति शीतोदकेन वा पर्युक्षितस्य प्रासमसिं विकोशं चोद्यतमभिपश्यतः शरीरव्याप्तेरत्यन्ताविनाभावाच्च व्यानः यस्त्वयमालोमनखाच्छरीरं व्याप्य रसादीनां धातूनां पृथिव्यादिनां व्यूहं मर्मणां च प्रस्पन्दनं प्राणादीनां च स्थितिं करोति सो ऽन्तर्वृत्तिर्व्यानः यश्चापि कश्चिदत्यन्ताविनाभावो नाम भूतेषु तद्यथा पतिव्रता भर्तारं मृतमप्यनुगच्छति भवान्तरे ऽप्ययमेव भर्ता स्यात् तथा धर्मादिभिस्तद्विपरीतैश्चेति बाह्यो व्यानविषय एवैष प्रभवति बलवत्तमश्चायं सर्वेभ्यः कथम् ? अनेन हि व्याप्ते शरीरदण्डके तद्वशीकृतानां प्राणादीनां समा स्थितिर्भवति स एषो ऽन्तकाले प्राणभृतामविनाभावेन वर्तमानो ऽभिव्यज्यते तद्यथा हा तर्हि पादौ हैमौ शीतीभूतौ गुल्फे जङ्घे उरू कटिरुदरमुरःकण्ठे ऽस्य खुरघुरो वर्तते हू(?) इत्यवैषो बाह्यो व्यान इति एवमेते प्राणाद्याः स्थानकार्यविशेषसूचिताः पञ्च वायवो व्याख्याताः तेषां प्रेरिका सामान्यकरणवृत्तिः एषा च तन्त्रान्तरेषु प्रयत्न इत्युच्यते स च धर्मादिसंस्कारभावनावशादनुपरतो जीवनम् आह च वृत्तिरन्तः समस्तानां करणानां प्रदीपवत् अप्रकाशा क्रियारूपा जीवनं कायधारिका सा यावदनिरुद्धा तु हन्ति वायुं रजो ऽधिका धर्माद्यनावृत्तिवशात्तावज्जीवति मानवः अत्र च सामान्यकरणवृत्तिग्रहणसामर्थ्यात्प्राणाद्याः पञ्च वायवः बुद्धीन्द्रियाणि षष्ठम् कर्मेन्द्रियाणि सप्तमम् पूरष्टमम् पूरित्यहंकारावस्थासंविधमधिकुरुते यस्मादाह- तत्र संविदहंकारगतं कार्यं कारणं पूरयति यस्मात् तस्मात्पूरित्युक्ता प्रत्यवभासाष्टमं भोक्तुः सा चाहङ्कारगता संविद् बुद्धिगतैव पुरुषेणोपलभ्यते यस्माद्वक्ष्यति- एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति (इस्क् 36) सर्वप्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः (इस्क् 37) तस्मात्सैव पूरिति शास्त्रं चैवमाह- प्राणापानसमानोदानव्यानाः पञ्च वायवः षष्ठं मनः सप्तमी पूरष्टमी वाक् वाग्ग्रहणेन कर्मेन्द्रियपर्वणो ग्रहणम् मनोग्रहणेन बुद्धीन्द्रियपर्वणः तदेतत्प्राणाष्टमं वैकारिकं गुणशरीरस्य परिद्रष्टुः क्षेत्रज्ञस्य शरीरमाददानस्य नित्यं स्तम्भस्थानीयं प्रत्यङ्गं भवति, अच्छेद्यमभेद्यमदाह्यमविनाश्यमविकम्प्यम् अनित्यानि पुनर्भौतिकानि बाह्यानि कुशमृत्तिकास्थानीयानि उपचीयन्ते चेति आह, कुतः पुनरियं प्राणादिवृत्तिः प्रवर्तत इति ? उच्यते- सा कर्मयोनिभ्यः महतः प्रच्युतं हि रजो विकृतम् अण्डस्थानीयाः पञ्च कर्मयोनयो भवन्ति- धृतिः श्रद्धा सुखा विविदिषा अविविदिषेति आह च प्रच्युतो महतो यस्तु न प्राप्तो ज्ञानलक्षणम् व्यापारो ज्ञानयोनित्वात्सा योनिः कुक्कुटाण्डवत् तासां लक्षणविषयसतत्त्वगुणसमन्वया भवन्ति तत्र लक्षणं तावत् व्यवसायादप्रच्यवनं धृतिः फलमनभिसन्धाय शास्त्रोक्तेषु कार्येष्ववश्यकर्तव्यताबीजभावः श्रद्धा दृष्टानुश्रविकफलाभिलाषद्वारको हि बुद्धेराभोगः सुखा वेत्तुमिच्छा विविदिषा तन्निवृत्तिरविविदिषा तत्र यदायं जन्तुः शुभाशुभेषु कार्येषु वृत्त्यनुसारी जिज्ञासुरजिज्ञासुर्वा शरीरं परित्यजति तामेव कर्मयोनिमुपपद्यते तस्यामुपपन्नस्तामेव भावयति एतत्तावल्लक्षनसतत्त्वम् आह च वाचि कर्मणि संकल्पे प्रतिज्ञां यो न रक्षति तन्निष्ठस्तत्प्रतिज्ञश्च धृतेरेतद्धि लक्षणम् अनसूया ब्रह्मचर्यं यजनं याजनं तपः दानं परिग्रहः शौचं श्रद्धायां लक्षणं स्मृतम् सुखार्थी यस्तु सेवेत विद्यां कर्म तपांसि वा प्रायश्चित्तपरो नित्यं सुखायां स तु वर्तते द्वित्वैकत्वपृथक्त्वं नित्यं चेतनमचेतनं सूक्ष्मम् सत्कार्यमसत्कार्यविविदिषितव्यं विविदिषायाः विषपीतसुप्तमत्तवदविविदिषा ध्यायिनां सदा योनिः कार्यकरणक्षयकरी प्राकृतिका गतिः समाख्याता विषयसतत्त्वं पुनः सर्वविषयिणी धृतिः आश्रमविषयिणी श्रद्धा दृष्टानुश्रविकविषयिणी सुखा व्यक्तविषयिणी विविदिषा अव्यक्तविषयिण्यविविदिषा गुणसमन्वयस्तु रजस्तमोबहुला धृतिः सत्त्वरजोबहुला श्रद्धा सत्त्वतमोबहुला सुखा रजोबहुला विविदिषा तमोबहुलाविविदिषा इति उक्तं च लक्षणविषयसतत्त्वं त्रैगुण्यसमन्वयं च पञ्चानाम् योनीनां यो विद्याद्यतिवृषभं तं त्वहं मन्ये इत्युक्ताः प्राणादयो योनयश्च एतद् द्वयमधिगम्य सम्यङ्मार्गानुगमनं कुर्यात् रजस्तमोधर्मादिसाधनभावविनिवृत्तितस्त्वत्र प्राणानामन्तर्वृत्तिरनुपाधिकत्वादनिवर्त्या बहिर्वृत्तिस्तु मार्गामार्गविषयतया प्रयोक्तव्या कथमित्युच्यते- प्राणविषया तावत्प्रणतिर्धर्मादिविषय एवापरोद्धव्या ततो ह्यस्य सत्त्ववृद्धिः, सत्त्ववृद्धेश्चोत्तरोत्तरबुद्धिरूपाधिगमः अपानविषयस्त्वपक्रमणं धर्मादिविषय एवापरोद्धव्यमेवं ह्यस्य ख्यातिविषयाकारस्य तमसो निर्ह्रासः ततश्चोत्तरोत्तरबुद्धिरूपाधिगमः तथा समानविषयं साहचर्यसत्त्वधर्मानुगुणं कुर्यात् यस्माच्छास्त्रमाह- सत्त्वारामः सत्त्वमिथुनश्च सदा स्यादिति आत्मोत्कर्ष तूदानविषयम् अविद्यापर्वणो ऽन्त्यं रूपं विवर्ज्य तत्प्रतिपक्षैर्निवर्तयेत् अत्यन्ताविनाभावं च व्यानविषयं ज्ञानविषय एव भावयेत् योनीनां चतसृणां धर्मताबीजतामेवादद्यात् अविविदिषामपि अनिष्टफलहेतुषु भावयेत् सो ऽयं धर्मादिषु प्रवणस्तत्प्रतिपक्षापक्रान्तः सत्त्वारामो विनिवृत्ताभिमानो ज्ञाननिष्ठः सविशुद्धयोनिरचिरेण परम ब्रह्मोपपद्यत इति आह च बाह्यां प्राणविवृत्तिं सम्यङ्मार्गे बुधः प्रतिष्ठाप्य विनिवृत्तविखरकलुषो ध्रुवममृतं स्थानमभ्येति पञ्चानां योनीनां धर्मादिनिमित्ततां च संस्थाप्य परिपक्वमित्यधस्तान्न पुनस्तद्भावितो गच्छेत् इति व्याख्याता व्यस्तसमस्ता करणानां वृत्तिः

kārikā 29 āha, prāgantaḥkaraṇavṛttinirdeśaḥ, sargakramānugamātpūrvaṃ buddhyahaṃkāramanasāṃ vṛttinirdeśaḥ kartavyaḥ kiṃ kāraṇam ? evaṃ hi sargakramo 'nugato bhavati kramabhede vā prayojanaṃ vaktavyamiti ucyate- na, indriyavṛttipūrvakatvāt antaḥkaraṇasya hi indriyavṛttipravartakaḥ pratyayaḥ tathā ca vakṣyati- dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiriti (isk 30) tasmātsargakrameṇa vinā tannirdeśaḥ prāgācāryeṇa kriyate iti āha, tadasambhavaḥ, śāstre prāgabhimānābhidhānāt śāstraṃ hyevamāha- kā nu bhoḥ saṃjñā māturudare 'vasthitaṃ kumāraṃ pratyabhinirviśata iti ? asmītyeṣā māhātmī saṃviditi tathā kāryakāraṇavyūhasamakālaṃ māhātmyaśarīro 'smīti pratibuddhyate pravṛttāścaiva hyavyaktā bhavantyasmītyasmitāmātrāḥ pramāṇaṃ ca śāstram tasmātprāgantaḥkaraṇanirdeśaḥ kartavyaḥ ucyate- tannimittārthena vivakṣitatvāt satyametat kāryakāraṇavyūhaniṣpattisamakālamasmītyeṣā māhātmī saṃvit pratyupadhīyate śabdādiviṣayastvantaḥkaraṇapratyayaḥ śrotrādinimitta iti etatpūrvaśabdena vivakṣitam na ca nimittamatikramya naimittikābhidhānaṃ nyāyyam athavā naiva vayamidaṃ praṣṭavyā yathā prāgantaḥkaraṇavṛttinirdeśaḥ kartavya iti kiṃ kāraṇam ? yasmāt svālakṣaṇyaṃ vṛttistrayasya svalakṣaṇameva svālakṣaṇyam svārthe taddhitavṛttiḥ, anyabhāvastu kālaśabdavyavāyāditi yathā buddhyahaṃkāramanasāṃ hi saukṣmyānna śakyaṃ svarūpamabhidhātumityato vṛttireva lakṣaṇabhāvenopadiśyate śrotrādīnāmapi ca saukṣmyāllakṣaṇamapadeṣṭumaśakyamiti vṛttirevocyate, na lakṣaṇam tadeva caiṣā lakṣaṇaṃ bhavati yacchabdālocanasamarthaṃ tacchrotram evamitareṣvapi vaktavyam buddhyahaṃkāramanasāṃ ca lakṣaṇamadhyavasāyādyuktam tadeva vṛttitvenācakṣāṇaḥ śrotrādīnāmeva cābhidadhānaṃ lakṣaṇaṃ cāpyācakṣāṇo vṛttivṛttimatorananyatvaṃ jñāpayati anyathā tu yathādhyavasāyādi lakṣaṇamevaṃ rūpādiṣu pañcānāmalocanamātraṃ lakṣaṇamityucyate, na tu vṛttiriti śrotrādivad buddhyādīnāmapi vyavasāyādayo vṛttirityucyate, na tu lakṣaṇam tasmādanyathā nirdeśo jñāpakaṃ vṛttivṛttimatoranyatvasyeti vyākhyātā karaṇavṛttiḥ saiṣā bhavatyasāmānyā seti pūrvakṛtāṃ vṛttimabhisambadhnāti eṣeti sarvanāmnā pratyākṛṣṭāṃ tāmeva pratyakṣaṃ prati nirdiśati bhavatīti vakṣyamāṇena dharmāntareṇāsyāstadvattānubhāvitaṃ khyāpayati asāmānyeti dharmamācaṣṭe sāmānyā sādhāraṇetyarthaḥ na sāmānyāsāmānyā pratikaraṇaṃ niyatetyuktaṃ bhavati yā hīyamanukrāntā karaṇaparvaṇo 'dhyavasayādikā vṛttiriyaṃ vyastānāṃ karaṇānāṃ pratisvaṃ niyatā tataścaiṣāṃ buddhyādīnāṃ kāryaviśeṣanimittabhāvasaṃsūcitasya svarūpasyāsaṃkaraḥ siddhaḥ āha, sāmānyaviśeṣayoritaretarāpekṣatvādasāmānyābhidhānena sāmānyasyāpyabhidhānādadhyavasāyādikā karaṇānāmasāmānyā vṛttirityukte 'rthādāpannameṣāṃ sāmānyāpi vṛttirastīti tasmādasāvapi vaktavyeti ucyate- sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca isk_29 sāmānyā cāsau karaṇavṛttiḥ sāmānyakaraṇavṛttiḥ prāṇaścādyo yeṣāṃ te prāṇādyāḥ, prāṇāpānasamānodānavyānāḥ pañca samastakaraṇavṛttiḥ pratyavagantavyeti taiḥ sarvaiḥ sahitaḥ prāṇa iti vedānteṣvapi āha, ayuktametat kasmāt ? dharmiṇo dharmyantaravṛttibhāvānupapatteḥ vṛttirityayaṃ śabdo vyāpāramācaṣṭe na ca dharmāntaraṃ dharmāntarasya vyāpāro bhavitumarhatīti ucyate- na kārye kāraṇopacārāt satyametat dharmī dharmyantarasya vṛttitvenāśakyaḥ parikalpayitum kiṃ tu sāmānyakaraṇavṛttyā preryamāṇo vāyustatpravaṇatvāttatkāryatāṃ pratipadyate tatra prāṇādikārye vāyau prāṇopacāraṃ kṛtvā evamucyate- prāṇādyā vāyavaḥ pañca tatpreraṇāsiddherayuktamiti cet syādetat, kathametadavagamyate 'rthāntarapreritasya vāyoriyaṃ kriyā bhavati na punaḥ svatantrasyeti ? ucyate- na svataḥ, tadvyatiriktatvānupapatteḥ iheyamakasmādbhinnā kriyāvāyoḥ svato vā syāt, karaṇavṛttivyatiriktatvādvā kiṃ cātaḥ ? tatra tāvatsvata upapadyate kasmāt ? sarvatra prasaṃgāt svābhāvike hi vāyordiksaṃcāre 'bhyupagamyamāne sarvatra tatsaṃbhavaḥ syāt tataśca tiryakpātādivṛttirhanyeta, na cānyataḥ kasmāt ? adarśanāt na hi pṛthivyādīnāṃ vāyupreraṇasāmarthyaṃ kvacidupalabdham bhastrādiṣu dṛṣṭamiti cenna, anyanimittatvāt atrāpi caitravyāpāra upalabhyate ityavaśyamanyannimittamupalabhyate ityabhyupagantavyam ātmeti cenna, kriyāpratiṣedhāt upapāditametatpūrvamātmā niṣkriya iti na ca niṣkriyasya preraṇamupapadyate na ca nirnimittā svabhāvabhedānāmanākasmikatvāt tasmādyattannimittaṃ sā samastakaraṇavṛttiḥ sa cāyaṃ vāyureka eva sthānasaṃcāraviśeṣānnānākhyo bhavati yathaiko devadattaḥ pācako lāvaka iti kvacit tadayuktam kasmāt ? yugapatparasparātiśayavirodhāt pūrvasmātpūrvasmāduttara uttaro vāyurbalīyāniti hyabhyupagamaḥ tadetadekasyaikasminkāle nopapadyate tasmādupapannaṃ prāṇādyā vāyavaḥ pañca kiṃ punareṣāṃ prāṇādīnāṃ lakṣaṇamiti ? ucyate- dvividhāḥ prāṇādayaḥ antarvṛttayo bahirvṛttayaśca tatra mukhanāsikābhyāṃ pragamanātpraṇateśca prāṇaḥ yo 'yaṃ mukhanāsikābhyāṃ sañcarati so 'ntarvṛttirvāyuḥ prāṇa ityabhidhīyate yā kācitpraṇatirnāma bhūteṣu tadyathā praṇateyaṃ senā, praṇato 'yaṃ vṛkṣaḥ, praṇato 'yaṃ dharme, praṇato 'yamarthe, praṇato 'yaṃ kāme, praṇato 'yaṃ vidyāyām tadviparīteṣu vā bāhyaprāṇavṛttireṣā prāṇiviṣaya evaiṣā bhavati sa khalvayamatrābhivyakto bhavati tadyathā mahatā vā duḥkhenābhiplutasya mahatā vā bandhunā viyuktasya, sahitasya vā saurabheyasya, nipānāvatīrṇasya vā mahiṣasyāvagateḥ apakramaṇāccāpānaḥ yo 'yaṃ rasaṃ dhātūn śukraṃ mūtraṃ purīṣaṃ vātārtavagarbhāṃścākarṣannadhogacchannayamantarvṛttirvāyurapāna ityabhidhīyate yaccāpi kiṃcidapakramaṇaṃ nāma bhūteṣu tadyathā apakrānto 'yaṃ dharmādibhyastadviparītebhyo vā iti bāhyā khalvapānavṛttireṣā apānaviṣaya evaiṣa bhavati balavattaraścāyaṃ prāṇodvāyoḥ kasmāt ? eṣā hyetaṃ prāṇamūrdhvaṃ vartamānamarvāgeva sanniyacchati arvāgeva sanniruṇaddhi eṣo 'trābhivyakto bhavati tadyathā upakūpamupaśvabhraṃ vā parivartamānasyā__śatapadīṃ laṅghayataḥ hṛdyavasthānātsaha bhāvācca samānaḥ yastvayaṃ prāṇāpānayormadhye hṛdyavatiṣṭhate sa samāno vāyurantarvṛttiḥ yaścāpi kaścitsaha bhāvo nāma bhūteṣu dvandvārāmatā tadyathā saha dāsye, saha yakṣye, saha tapaścariṣyāmi saha bhāryāputrairbandhubhiḥ suhṛdbhiśca vartiṣya bāhyā samānavṛttireṣā samānaviṣaya evaiṣa bhavati iti balavattaraḥ khalvayaṃ prāṇāpānābhyām eṣa hyetau prāṇāpānau ūrdhvamarvākca vartamānau madhya eva sanniyacchati, madhya eva sanniruṇaddhi, sa caiṣau 'trābhivyakto bhavati tadyathā srutasārasya vā sārameyasya, anaḍuho voḍhabhārasya, dharmābhitaptāyā vā eḍakāyā ardhārdhakāyaṃ śakaśaketi prāṇānte sarvaprāṇināṃ prāṇāpānāvutsṛjyordhvamadhaśca muktayoktrau hayāviva viṣamaṃ saṃcārayan śarīraṃ sa parāsyati mūrdhārohaṇadātmotkarṣaṇāccodānaḥ yastvayaṃ prāṇāpānasamānānāṃ sthānānyatikramya rasaṃ dhātūṃścādāya mūrdhānamārohati tataśca pratihato nivṛttaḥ sthānakaraṇānupradānaviśeṣādvarṇapadavākyaślokagranthalakṣaṇasya śabdasyābhivyaktinimittaṃ bhavati ayamantarvṛttirvāyurudāna ityucyate yaścāpi kaścidātmotkarṣo nāma bhūteṣu tadyathā hīnādasmi śreyān, sadṛśena vā sadṛśaḥ, sadṛśādasmi śreyān, śreyasā vā sadṛśaḥ, śreyaso vā śreyān etasmiṃstathā rūpābhimāno vā prāptavidyastu tadyathā bahvantaraviśeṣādalpāntaraviśeṣo 'smyaguṇavato vā guṇavānasmīti bāhyodānavṛttireṣā udānaviṣaya evaiṣa bhavati balavattaraḥ khalvayaṃ pūrvabhyaḥ katham ? eṣa hyetānprāṇādīnūrdhvamavāṅmadhye ca vartamānānūrdhvamevonnayati, ūrdhvamevotkarṣati sa caiṣo 'trābhivyakto bhavati śītodakena vā paryukṣitasya prāsamasiṃ vikośaṃ codyatamabhipaśyataḥ śarīravyāpteratyantāvinābhāvācca vyānaḥ yastvayamālomanakhāccharīraṃ vyāpya rasādīnāṃ dhātūnāṃ pṛthivyādināṃ vyūhaṃ marmaṇāṃ ca praspandanaṃ prāṇādīnāṃ ca sthitiṃ karoti so 'ntarvṛttirvyānaḥ yaścāpi kaścidatyantāvinābhāvo nāma bhūteṣu tadyathā pativratā bhartāraṃ mṛtamapyanugacchati bhavāntare 'pyayameva bhartā syāt tathā dharmādibhistadviparītaiśceti bāhyo vyānaviṣaya evaiṣa prabhavati balavattamaścāyaṃ sarvebhyaḥ katham ? anena hi vyāpte śarīradaṇḍake tadvaśīkṛtānāṃ prāṇādīnāṃ samā sthitirbhavati sa eṣo 'ntakāle prāṇabhṛtāmavinābhāvena vartamāno 'bhivyajyate tadyathā hā tarhi pādau haimau śītībhūtau gulphe jaṅghe urū kaṭirudaramuraḥkaṇṭhe 'sya khuraghuro vartate hū(?) ityavaiṣo bāhyo vyāna iti evamete prāṇādyāḥ sthānakāryaviśeṣasūcitāḥ pañca vāyavo vyākhyātāḥ teṣāṃ prerikā sāmānyakaraṇavṛttiḥ eṣā ca tantrāntareṣu prayatna ityucyate sa ca dharmādisaṃskārabhāvanāvaśādanuparato jīvanam āha ca vṛttirantaḥ samastānāṃ karaṇānāṃ pradīpavat aprakāśā kriyārūpā jīvanaṃ kāyadhārikā sā yāvadaniruddhā tu hanti vāyuṃ rajo 'dhikā dharmādyanāvṛttivaśāttāvajjīvati mānavaḥ atra ca sāmānyakaraṇavṛttigrahaṇasāmarthyātprāṇādyāḥ pañca vāyavaḥ buddhīndriyāṇi ṣaṣṭham karmendriyāṇi saptamam pūraṣṭamam pūrityahaṃkārāvasthāsaṃvidhamadhikurute yasmādāha- tatra saṃvidahaṃkāragataṃ kāryaṃ kāraṇaṃ pūrayati yasmāt tasmātpūrityuktā pratyavabhāsāṣṭamaṃ bhoktuḥ sā cāhaṅkāragatā saṃvid buddhigataiva puruṣeṇopalabhyate yasmādvakṣyati- ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti (isk 36) sarvapratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiḥ (isk 37) tasmātsaiva pūriti śāstraṃ caivamāha- prāṇāpānasamānodānavyānāḥ pañca vāyavaḥ ṣaṣṭhaṃ manaḥ saptamī pūraṣṭamī vāk vāggrahaṇena karmendriyaparvaṇo grahaṇam manograhaṇena buddhīndriyaparvaṇaḥ tadetatprāṇāṣṭamaṃ vaikārikaṃ guṇaśarīrasya paridraṣṭuḥ kṣetrajñasya śarīramādadānasya nityaṃ stambhasthānīyaṃ pratyaṅgaṃ bhavati, acchedyamabhedyamadāhyamavināśyamavikampyam anityāni punarbhautikāni bāhyāni kuśamṛttikāsthānīyāni upacīyante ceti āha, kutaḥ punariyaṃ prāṇādivṛttiḥ pravartata iti ? ucyate- sā karmayonibhyaḥ mahataḥ pracyutaṃ hi rajo vikṛtam aṇḍasthānīyāḥ pañca karmayonayo bhavanti- dhṛtiḥ śraddhā sukhā vividiṣā avividiṣeti āha ca pracyuto mahato yastu na prāpto jñānalakṣaṇam vyāpāro jñānayonitvātsā yoniḥ kukkuṭāṇḍavat tāsāṃ lakṣaṇaviṣayasatattvaguṇasamanvayā bhavanti tatra lakṣaṇaṃ tāvat vyavasāyādapracyavanaṃ dhṛtiḥ phalamanabhisandhāya śāstrokteṣu kāryeṣvavaśyakartavyatābījabhāvaḥ śraddhā dṛṣṭānuśravikaphalābhilāṣadvārako hi buddherābhogaḥ sukhā vettumicchā vividiṣā tannivṛttiravividiṣā tatra yadāyaṃ jantuḥ śubhāśubheṣu kāryeṣu vṛttyanusārī jijñāsurajijñāsurvā śarīraṃ parityajati tāmeva karmayonimupapadyate tasyāmupapannastāmeva bhāvayati etattāvallakṣanasatattvam āha ca vāci karmaṇi saṃkalpe pratijñāṃ yo na rakṣati tanniṣṭhastatpratijñaśca dhṛteretaddhi lakṣaṇam anasūyā brahmacaryaṃ yajanaṃ yājanaṃ tapaḥ dānaṃ parigrahaḥ śaucaṃ śraddhāyāṃ lakṣaṇaṃ smṛtam sukhārthī yastu seveta vidyāṃ karma tapāṃsi vā prāyaścittaparo nityaṃ sukhāyāṃ sa tu vartate dvitvaikatvapṛthaktvaṃ nityaṃ cetanamacetanaṃ sūkṣmam satkāryamasatkāryavividiṣitavyaṃ vividiṣāyāḥ viṣapītasuptamattavadavividiṣā dhyāyināṃ sadā yoniḥ kāryakaraṇakṣayakarī prākṛtikā gatiḥ samākhyātā viṣayasatattvaṃ punaḥ sarvaviṣayiṇī dhṛtiḥ āśramaviṣayiṇī śraddhā dṛṣṭānuśravikaviṣayiṇī sukhā vyaktaviṣayiṇī vividiṣā avyaktaviṣayiṇyavividiṣā guṇasamanvayastu rajastamobahulā dhṛtiḥ sattvarajobahulā śraddhā sattvatamobahulā sukhā rajobahulā vividiṣā tamobahulāvividiṣā iti uktaṃ ca lakṣaṇaviṣayasatattvaṃ traiguṇyasamanvayaṃ ca pañcānām yonīnāṃ yo vidyādyativṛṣabhaṃ taṃ tvahaṃ manye ityuktāḥ prāṇādayo yonayaśca etad dvayamadhigamya samyaṅmārgānugamanaṃ kuryāt rajastamodharmādisādhanabhāvavinivṛttitastvatra prāṇānāmantarvṛttiranupādhikatvādanivartyā bahirvṛttistu mārgāmārgaviṣayatayā prayoktavyā kathamityucyate- prāṇaviṣayā tāvatpraṇatirdharmādiviṣaya evāparoddhavyā tato hyasya sattvavṛddhiḥ, sattvavṛddheścottarottarabuddhirūpādhigamaḥ apānaviṣayastvapakramaṇaṃ dharmādiviṣaya evāparoddhavyamevaṃ hyasya khyātiviṣayākārasya tamaso nirhrāsaḥ tataścottarottarabuddhirūpādhigamaḥ tathā samānaviṣayaṃ sāhacaryasattvadharmānuguṇaṃ kuryāt yasmācchāstramāha- sattvārāmaḥ sattvamithunaśca sadā syāditi ātmotkarṣa tūdānaviṣayam avidyāparvaṇo 'ntyaṃ rūpaṃ vivarjya tatpratipakṣairnivartayet atyantāvinābhāvaṃ ca vyānaviṣayaṃ jñānaviṣaya eva bhāvayet yonīnāṃ catasṛṇāṃ dharmatābījatāmevādadyāt avividiṣāmapi aniṣṭaphalahetuṣu bhāvayet so 'yaṃ dharmādiṣu pravaṇastatpratipakṣāpakrāntaḥ sattvārāmo vinivṛttābhimāno jñānaniṣṭhaḥ saviśuddhayoniracireṇa parama brahmopapadyata iti āha ca bāhyāṃ prāṇavivṛttiṃ samyaṅmārge budhaḥ pratiṣṭhāpya vinivṛttavikharakaluṣo dhruvamamṛtaṃ sthānamabhyeti pañcānāṃ yonīnāṃ dharmādinimittatāṃ ca saṃsthāpya paripakvamityadhastānna punastadbhāvito gacchet iti vyākhyātā vyastasamastā karaṇānāṃ vṛttiḥ

Section (cont. 19)

30

कारिका 30 आह, येयमेकैकस्मिन् रूपादावर्थे करणचतुष्टयस्य वृत्तिः सा किं युगपत् आहोस्वित् क्रमेणेति ? कुतः संशय इति चेत् उभयथा दृष्टत्वात् इहैकार्थविषयाणां युगपदपि वृत्तिर्दृष्टा तद्यथा चन्द्रमण्डले चक्षुषां मनसो वा क्रमशश्च तद्यथा घटे मधूदकपयसाम् एकार्थविषयं च करणचतुष्टयम् अतो नः संशयः किं चक्षुर्मनोवद्युगपदस्य वृत्तिः, आहोस्विन्मध्वादिवत्क्रमेणेति ? उच्यते- यथादर्शनमपि तावदुच्यताम् किमत्र युक्तं भवान् मन्यते ? स चेत्सप्यगुपदेक्ष्यसि को निर्बन्धस्तदेव प्रतिपद्यामहे इति यद्यवं तस्मादिदमस्मद्दर्शनम् युगपच्चतुष्टयस्य तु वृत्तिः तुशब्दो ऽवधारणार्थः युगपदेवेत्यर्थः बुद्ध्यहंकारमनसां हि बुद्धीन्द्रियाणां च समानदेशत्वम् तत्र न शक्यत एतद्वक्तुं सति शक्तिसद्भावे विषयसम्बन्धे च कस्यचित्तत्र वृत्तिः कस्यचिन्नेति किं चान्यत् मेघस्तनितादिषु क्रमानुपलब्धेः यदि हि क्रमेण श्रोत्रादीनामन्तःकरणस्य च बाह्ये ऽर्थे वृत्तिः स्यादपि तर्हि मेघस्तनितकृष्णसर्पालोचनादिष्वप्युपलभ्यते क्रमः न तूपलभ्यते तस्माद्युगपदेव बाह्ये ऽर्थे चतुष्टयवृत्तिरिति उच्यते- यदुक्तं श्रोत्रादीनामन्तःकरणस्य चाभिन्नकालं वृत्तिरित्यत्र ब्रूमः, अयुक्तमेतत् किं कारणम् ? यस्मादस्माकं क्रमशश्च तस्य निर्दिष्टा तस्येति चतुष्टयमपि सम्बध्यते चशब्दो ऽवधारणार्थः क्रमश एवेत्यर्थः क्रमश एव हि बाह्यान्तःकरणवृत्त्योरेकार्थनिपातः यत्तूक्तं समानदेशानां शक्तिसम्बन्धसद्भावे वृत्त्यभावानुपपत्तिरिति, अत्र ब्रूमः- चक्षुरादिवदेतत्स्यात् तद्यथा चक्षुस्त्वचोः समानदेशत्वे शक्तिविषयसम्बन्धोपपत्तौ रजोधूमातपादिगतः स्पर्श एवोपलभ्यते, न रूपम् एवमिहापि स्यात् तस्मात् दृष्टे तथाप्यदृष्टे क्रमश एव चतुष्टयस्य वृत्तिः अदृष्टग्रहणेन पुनरत्रातीनागतव्यवहितविषयग्रहणम् तत्रातीतं द्विविधम्, दृष्टविषयदृष्टविषयं च अत्रापि दृष्टविषयं प्रत्यभिज्ञानमित्यभिप्रेतम्, अदृष्टविषयं स्मृतिः सा तु लिङ्गागमाभ्यामकस्माद्वा भवति तथा च वृषगणवीरेणाप्युक्तं भवति ___ अनागतव्यवहितविषयज्ञानं तु लिङ्गगागमाभ्याम् आह च विषयेन्द्रियसंयोगात्प्रत्यक्षज्ञानमुच्यते तदेवातीन्द्रियं जातं पुनर्भावनया स्मृतिः तदेव भावनापेक्षज्ञानं कालान्तरे पुनः तत्रैव सेन्द्रियं जातं प्रत्यभिज्ञानमुच्यते तत्र दुष्टे क्रमः प्रति नास्ति सन्देहः यत्पुनरेतदुक्तं दृष्टे मेघस्तनितकृष्टसर्पालोचनादौ क्रमानुपलब्धेर्युगपच्चतुष्टयस्य वृत्तिरित्यत्र ब्रूमः- एतदप्ययुक्तम् किं कारणम् ? यस्मात् त्रयस्य तत्पूर्विका वृत्तिः इस्क्_30 न तावद् बुद्ध्यहंकारमनसां साक्षाद् बाह्यार्थग्रहणसामर्थ्यमस्ति, अन्तःकरणानुपपत्तिप्रसंगात्, श्रोत्रादिवैयर्थ्यप्रसंगात्, द्वारिद्वारभावव्याघातप्रसङ्गाच्च तस्मात्पूर्वं श्रोत्रादीनामर्थसम्बन्धो ऽस्ति मेघस्तनितादावप्यवश्यमेतदभ्युपगन्तव्यम् पश्चात्तु तद्वृत्त्युपनिपातादन्तःकरणस्येत्यस्ति क्रमो ऽत्रापि तत्र यदुक्तं मेघस्तनितादिषु क्रमाननुगते युगपच्चतुष्टयस्य वृत्तिरित्येतदयुक्तम् अन्यैस्त्वन्यथान्वयो दर्शितः तद्यथा चतुष्टयस्य मनो ऽहंकारबुद्धीनामन्तःकरणानां बाह्येनैकेन करणेन श्रोत्रेण वा चक्षुषा वा सह चतुष्टयस्येत्यर्थः अस्य दृष्टे वर्तमाने युगपद्वृत्तिः पूर्वाचार्यैर्निर्दिष्टा आचार्येण तु क्रमेणेत्यर्थः अदृष्टे ऽतीतादावपि क्रमशश्च क्रमेणैव, यतस्त्रयस्यान्तःकरणस्य तत्पूर्विका बाह्येन्द्रियपूर्विका वृत्तिः यदा यथानुभवस्तथा संस्कारः, यथा च संस्कारस्तथा स्मृतिरित्येवं वृत्तिर्बाह्येन्द्रियपूर्विकेति

kārikā 30 āha, yeyamekaikasmin rūpādāvarthe karaṇacatuṣṭayasya vṛttiḥ sā kiṃ yugapat āhosvit krameṇeti ? kutaḥ saṃśaya iti cet ubhayathā dṛṣṭatvāt ihaikārthaviṣayāṇāṃ yugapadapi vṛttirdṛṣṭā tadyathā candramaṇḍale cakṣuṣāṃ manaso vā kramaśaśca tadyathā ghaṭe madhūdakapayasām ekārthaviṣayaṃ ca karaṇacatuṣṭayam ato naḥ saṃśayaḥ kiṃ cakṣurmanovadyugapadasya vṛttiḥ, āhosvinmadhvādivatkrameṇeti ? ucyate- yathādarśanamapi tāvaducyatām kimatra yuktaṃ bhavān manyate ? sa cetsapyagupadekṣyasi ko nirbandhastadeva pratipadyāmahe iti yadyavaṃ tasmādidamasmaddarśanam yugapaccatuṣṭayasya tu vṛttiḥ tuśabdo 'vadhāraṇārthaḥ yugapadevetyarthaḥ buddhyahaṃkāramanasāṃ hi buddhīndriyāṇāṃ ca samānadeśatvam tatra na śakyata etadvaktuṃ sati śaktisadbhāve viṣayasambandhe ca kasyacittatra vṛttiḥ kasyacinneti kiṃ cānyat meghastanitādiṣu kramānupalabdheḥ yadi hi krameṇa śrotrādīnāmantaḥkaraṇasya ca bāhye 'rthe vṛttiḥ syādapi tarhi meghastanitakṛṣṇasarpālocanādiṣvapyupalabhyate kramaḥ na tūpalabhyate tasmādyugapadeva bāhye 'rthe catuṣṭayavṛttiriti ucyate- yaduktaṃ śrotrādīnāmantaḥkaraṇasya cābhinnakālaṃ vṛttirityatra brūmaḥ, ayuktametat kiṃ kāraṇam ? yasmādasmākaṃ kramaśaśca tasya nirdiṣṭā tasyeti catuṣṭayamapi sambadhyate caśabdo 'vadhāraṇārthaḥ kramaśa evetyarthaḥ kramaśa eva hi bāhyāntaḥkaraṇavṛttyorekārthanipātaḥ yattūktaṃ samānadeśānāṃ śaktisambandhasadbhāve vṛttyabhāvānupapattiriti, atra brūmaḥ- cakṣurādivadetatsyāt tadyathā cakṣustvacoḥ samānadeśatve śaktiviṣayasambandhopapattau rajodhūmātapādigataḥ sparśa evopalabhyate, na rūpam evamihāpi syāt tasmāt dṛṣṭe tathāpyadṛṣṭe kramaśa eva catuṣṭayasya vṛttiḥ adṛṣṭagrahaṇena punaratrātīnāgatavyavahitaviṣayagrahaṇam tatrātītaṃ dvividham, dṛṣṭaviṣayadṛṣṭaviṣayaṃ ca atrāpi dṛṣṭaviṣayaṃ pratyabhijñānamityabhipretam, adṛṣṭaviṣayaṃ smṛtiḥ sā tu liṅgāgamābhyāmakasmādvā bhavati tathā ca vṛṣagaṇavīreṇāpyuktaṃ bhavati ___ anāgatavyavahitaviṣayajñānaṃ tu liṅgagāgamābhyām āha ca viṣayendriyasaṃyogātpratyakṣajñānamucyate tadevātīndriyaṃ jātaṃ punarbhāvanayā smṛtiḥ tadeva bhāvanāpekṣajñānaṃ kālāntare punaḥ tatraiva sendriyaṃ jātaṃ pratyabhijñānamucyate tatra duṣṭe kramaḥ prati nāsti sandehaḥ yatpunaretaduktaṃ dṛṣṭe meghastanitakṛṣṭasarpālocanādau kramānupalabdheryugapaccatuṣṭayasya vṛttirityatra brūmaḥ- etadapyayuktam kiṃ kāraṇam ? yasmāt trayasya tatpūrvikā vṛttiḥ isk_30 na tāvad buddhyahaṃkāramanasāṃ sākṣād bāhyārthagrahaṇasāmarthyamasti, antaḥkaraṇānupapattiprasaṃgāt, śrotrādivaiyarthyaprasaṃgāt, dvāridvārabhāvavyāghātaprasaṅgācca tasmātpūrvaṃ śrotrādīnāmarthasambandho 'sti meghastanitādāvapyavaśyametadabhyupagantavyam paścāttu tadvṛttyupanipātādantaḥkaraṇasyetyasti kramo 'trāpi tatra yaduktaṃ meghastanitādiṣu kramānanugate yugapaccatuṣṭayasya vṛttirityetadayuktam anyaistvanyathānvayo darśitaḥ tadyathā catuṣṭayasya mano 'haṃkārabuddhīnāmantaḥkaraṇānāṃ bāhyenaikena karaṇena śrotreṇa vā cakṣuṣā vā saha catuṣṭayasyetyarthaḥ asya dṛṣṭe vartamāne yugapadvṛttiḥ pūrvācāryairnirdiṣṭā ācāryeṇa tu krameṇetyarthaḥ adṛṣṭe 'tītādāvapi kramaśaśca krameṇaiva, yatastrayasyāntaḥkaraṇasya tatpūrvikā bāhyendriyapūrvikā vṛttiḥ yadā yathānubhavastathā saṃskāraḥ, yathā ca saṃskārastathā smṛtirityevaṃ vṛttirbāhyendriyapūrviketi


31

कारिका 31 आह, किं पुनरेषां करणानां स्वविषयनियमेन वृत्तिर्भवति आहोस्विद्व्यतिकरेणेति ? उच्यते- ननु च प्रागेव रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिरिति (इस्क् 28) चोक्त्वाचार्येणान्ते ऽपदिष्टं सैषा भवत्यसामान्येति (इस्क् 29) तत्रैवं गते भवतः संशयः कुतः इत्युच्यते- सत्यमेवैतत् तथापि जायते संशयः कुतः ? करणान्तरेण स्वविषयोपलब्धौ करणान्तरौत्सुक्यदर्शनात् इह करणान्तरेण चक्षुषाम्रदाडिमादिरूपोपलब्धौ सत्यां करणान्तरस्य जिह्वालक्षणस्यौत्सुक्यं प्रवृत्तिश्चोपलब्धा तद्यदि स्वविषयनियतानीन्द्रियानि, नैषां करणान्तरविषयोपलम्भात्तत्साहचर्यापेक्षः स्वविषयग्रहणभावः स्यात् अस्ति च तस्मादुपपन्नः संशयः तत्रेदानीं भवतः प्रतिपत्तिरिति उच्यते- अत्रापि नास्तीन्द्रियाणां स्वविषयग्रहणव्यतिकरः किं तर्हि स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकीं वृत्तिम् पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् इस्क्_31 यस्य करणस्य या वृत्तिरपदिष्टा तद्यथा श्रोत्रस्य शब्दग्रहणम्, चक्षुषो रूपग्रहणम् इत्यादि तामेव प्रतिपद्यन्ते- स्वविषयजिधृक्षयावलम्बन्त इत्यर्थः परस्परस्याकूतं परस्पराकूतम् आकूतमभिप्रायो ऽभिसन्धिरित्यर्थः परस्पराकूतं हेतुः प्रतिपत्तेरस्याः, सेयं परस्पराकूतहेतुकी परस्पराकूतं प्रतिपत्तेः कारणमिति कृत्वा ताच्छब्द्यं लभते तद्यथा दधित्रपुसं ज्वरः एतदुक्तं भवति यदा चक्षुषाम्रदाडिमादि रूपमुपलब्धं भवति तदा रसनेन्द्रियमुपात्तविषयस्य चक्षुषो वृत्तिं संवेद्य स्वविषयजिघृक्षयौत्सुक्तवद्विकारमापद्यते, रसनस्य वृतिं संवेद्य पादौ विहरणमारभेते हस्तावादानं, तावद्यावदसौ विषयो रसनेन्द्रिययोग्यतां नीतः ततो रसनं स्वविषये प्रवर्तते एवमितरेष्वपि वक्तव्यम् आह, यद्येवं तेन तर्हीन्द्रियान्तरवृत्तिसंवेदने ऽक्षप्रत्ययवत्वप्रसंगः यदि तर्हीन्द्रियान्तरेणेन्द्रियान्तरस्य वृत्तिः संवेद्यते, प्राप्तमस्य प्रत्ययवत्त्वम् अथाप्रत्ययमिन्द्रियं परस्पराकूतसंवेदनं, तर्हि न वाच्यमिति किं च परस्परद्वारिद्वारभावप्रसंगश्च इन्द्रियान्तरं चेदिन्द्रियान्तरस्य वृत्तिं संवेद्य स्वार्थमाकांक्षेत्, प्राप्तमस्य द्वारित्वमितरस्य च द्वारत्वम् तदयुक्तमिन्द्रियाणां परस्पराकूतसंवेदनमिति उच्यते- न, उपचारात् प्रागेवोपदिष्टमस्माभिरप्रत्ययमिन्द्रियमिति किं तर्हि स्वविषयस्य पटोः सहचारिणमर्थमिन्द्रियान्तरविषयतामापन्नं संस्पृश्य स्वभावत इन्द्रियान्तरं स्वविषयं प्रति साकांक्षं भवति, तत्सन्निधौ विक्रियादर्शनात् तत्र संवेदनमुपचर्यैवमुच्यते इत्यदोषः किं चान्यत् भौतिकावयवप्रत्ययविवृत्तिवत्तद्विवृत्तेः यथा बुद्धेः प्रसादमनन्तरं भौतिकानामवयवानां मुखनयनादीनां प्रसादो भवति, न चैषां प्रत्ययवत्त्वम्, एवमिहापि स्यात् न च प्रत्ययवत्त्वम् एतेन द्वारिद्वारभावः प्रत्युक्तः मनो ऽधिष्ठानसामर्थ्याद्वा अथवा परस्परविषयमाकूतं परस्पराकूतम्, यथा जलविषयः पुरुषः जलपुरुषः आकूतमिच्छा संकल्पः मन इत्यर्थः स हेतुरस्याः सेयं परस्पराकूतहेतुकी ताम् एतदुक्तं भवति, यथा किंचिदिन्द्रियं विषये प्रवृत्तं भवति तदा तद्द्वारेण समस्तमर्थमुपलभ्य तत्सहचारिणमर्थान्तरमाकांक्षदिन्द्रियान्तरं वृत्त्या प्रतितिष्ठते तेनाकांक्षावता मनसाधिष्ठितामिन्द्रियं विक्रियामापद्यते तथा च तन्त्रान्तरे ऽप्युक्तं- "यस्य यस्येन्द्रियस्य विषयं मनोध्यायत्यभिसम्पत्त्यर्थेन तस्य तस्यौत्सुक्यं प्रवृत्तिश्च भवतीति " एतदुक्तं स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकीं वृत्तिरिति किमिन्द्रियं मनोवृत्त्याधिष्ठाय स्वविषये प्रवर्तयति यथा परश्वादींश्चैत्र इति ? नेत्युच्यते किं तर्हि स्वविषयसंकल्पानुगृहीतस्य मनसः संस्पर्शात्स्वयमेवेन्द्रियं स्वविषयं प्रतिपद्यते कस्मात् ? प्रयोगशक्त्यसिद्धेः न हि यथा चैत्रस्य परश्वादिप्रयोगशक्तिः सिद्धा एवं मनस इन्द्रियप्रयोगशक्तिः तस्मादयुक्तमिन्द्रियस्य मनः प्रेरकमिति रज इति चेत्स्यान्मतम्, रजसो हीन्द्रियान्तरप्रयोगसामर्थ्यं विद्यते तस्मादयुक्तमुक्तं प्रयोगशक्त्यसिद्धेर्नेन्द्रियाणां मनःप्रयोजकमिति एतच्चायुक्तम् ? कस्मात् ? अविशेषात् इन्द्रियान्तरे ऽपि हि तर्हि रजो ऽस्तीत्यत आत्मभूतेनैवास्य निमित्तेन प्रवृत्तिरप्रतिषिद्धा, किं मनसा परिकल्पितेनेति ? किं चान्यत्, करणान्तरानुपपत्तेः चैत्रो हि परश्वादीनां प्रयोगं करणान्तरेण करोति न तु मनसः करणान्तरमस्तीत्यसमानम् पाणिवदिति चेन्न चैत्रव्यापारापेक्षत्वात् तदपि हि चैत्रव्यापारापेक्षं प्रवर्तते न स्वतः किंच तद्व्यतिरेकेण प्रवृत्त्युपलब्धेः यस्य हि प्रयोजकान्तरापेक्षा प्रवृत्तिः न तस्य कदाचिदपि स्वतन्त्रस्य भवति अस्ति तु संकल्पव्यतिरेकेण मेघस्तनितादिष्विन्द्रियस्य प्रवृत्तिः तस्मान्नेन्द्रियान्तरस्य मनः कारकम् न चेत्कारकं यथा मौलानां गुणानामेवमिहापि पुरुषार्थ एवं हेतुर्न केन चित्कार्यते करणमिति सिद्धम्

kārikā 31 āha, kiṃ punareṣāṃ karaṇānāṃ svaviṣayaniyamena vṛttirbhavati āhosvidvyatikareṇeti ? ucyate- nanu ca prāgeva rūpādiṣu pañcānāmālocanamātramiṣyate vṛttiriti (isk 28) coktvācāryeṇānte 'padiṣṭaṃ saiṣā bhavatyasāmānyeti (isk 29) tatraivaṃ gate bhavataḥ saṃśayaḥ kutaḥ ityucyate- satyamevaitat tathāpi jāyate saṃśayaḥ kutaḥ ? karaṇāntareṇa svaviṣayopalabdhau karaṇāntarautsukyadarśanāt iha karaṇāntareṇa cakṣuṣāmradāḍimādirūpopalabdhau satyāṃ karaṇāntarasya jihvālakṣaṇasyautsukyaṃ pravṛttiścopalabdhā tadyadi svaviṣayaniyatānīndriyāni, naiṣāṃ karaṇāntaraviṣayopalambhāttatsāhacaryāpekṣaḥ svaviṣayagrahaṇabhāvaḥ syāt asti ca tasmādupapannaḥ saṃśayaḥ tatredānīṃ bhavataḥ pratipattiriti ucyate- atrāpi nāstīndriyāṇāṃ svaviṣayagrahaṇavyatikaraḥ kiṃ tarhi svāṃ svāṃ pratipadyante parasparākūtahetukīṃ vṛttim puruṣārtha eva heturna kenacit kāryate karaṇam isk_31 yasya karaṇasya yā vṛttirapadiṣṭā tadyathā śrotrasya śabdagrahaṇam, cakṣuṣo rūpagrahaṇam ityādi tāmeva pratipadyante- svaviṣayajidhṛkṣayāvalambanta ityarthaḥ parasparasyākūtaṃ parasparākūtam ākūtamabhiprāyo 'bhisandhirityarthaḥ parasparākūtaṃ hetuḥ pratipatterasyāḥ, seyaṃ parasparākūtahetukī parasparākūtaṃ pratipatteḥ kāraṇamiti kṛtvā tācchabdyaṃ labhate tadyathā dadhitrapusaṃ jvaraḥ etaduktaṃ bhavati yadā cakṣuṣāmradāḍimādi rūpamupalabdhaṃ bhavati tadā rasanendriyamupāttaviṣayasya cakṣuṣo vṛttiṃ saṃvedya svaviṣayajighṛkṣayautsuktavadvikāramāpadyate, rasanasya vṛtiṃ saṃvedya pādau viharaṇamārabhete hastāvādānaṃ, tāvadyāvadasau viṣayo rasanendriyayogyatāṃ nītaḥ tato rasanaṃ svaviṣaye pravartate evamitareṣvapi vaktavyam āha, yadyevaṃ tena tarhīndriyāntaravṛttisaṃvedane 'kṣapratyayavatvaprasaṃgaḥ yadi tarhīndriyāntareṇendriyāntarasya vṛttiḥ saṃvedyate, prāptamasya pratyayavattvam athāpratyayamindriyaṃ parasparākūtasaṃvedanaṃ, tarhi na vācyamiti kiṃ ca parasparadvāridvārabhāvaprasaṃgaśca indriyāntaraṃ cedindriyāntarasya vṛttiṃ saṃvedya svārthamākāṃkṣet, prāptamasya dvāritvamitarasya ca dvāratvam tadayuktamindriyāṇāṃ parasparākūtasaṃvedanamiti ucyate- na, upacārāt prāgevopadiṣṭamasmābhirapratyayamindriyamiti kiṃ tarhi svaviṣayasya paṭoḥ sahacāriṇamarthamindriyāntaraviṣayatāmāpannaṃ saṃspṛśya svabhāvata indriyāntaraṃ svaviṣayaṃ prati sākāṃkṣaṃ bhavati, tatsannidhau vikriyādarśanāt tatra saṃvedanamupacaryaivamucyate ityadoṣaḥ kiṃ cānyat bhautikāvayavapratyayavivṛttivattadvivṛtteḥ yathā buddheḥ prasādamanantaraṃ bhautikānāmavayavānāṃ mukhanayanādīnāṃ prasādo bhavati, na caiṣāṃ pratyayavattvam, evamihāpi syāt na ca pratyayavattvam etena dvāridvārabhāvaḥ pratyuktaḥ mano 'dhiṣṭhānasāmarthyādvā athavā parasparaviṣayamākūtaṃ parasparākūtam, yathā jalaviṣayaḥ puruṣaḥ jalapuruṣaḥ ākūtamicchā saṃkalpaḥ mana ityarthaḥ sa heturasyāḥ seyaṃ parasparākūtahetukī tām etaduktaṃ bhavati, yathā kiṃcidindriyaṃ viṣaye pravṛttaṃ bhavati tadā taddvāreṇa samastamarthamupalabhya tatsahacāriṇamarthāntaramākāṃkṣadindriyāntaraṃ vṛttyā pratitiṣṭhate tenākāṃkṣāvatā manasādhiṣṭhitāmindriyaṃ vikriyāmāpadyate tathā ca tantrāntare 'pyuktaṃ- "yasya yasyendriyasya viṣayaṃ manodhyāyatyabhisampattyarthena tasya tasyautsukyaṃ pravṛttiśca bhavatīti " etaduktaṃ svāṃ svāṃ pratipadyante parasparākūtahetukīṃ vṛttiriti kimindriyaṃ manovṛttyādhiṣṭhāya svaviṣaye pravartayati yathā paraśvādīṃścaitra iti ? netyucyate kiṃ tarhi svaviṣayasaṃkalpānugṛhītasya manasaḥ saṃsparśātsvayamevendriyaṃ svaviṣayaṃ pratipadyate kasmāt ? prayogaśaktyasiddheḥ na hi yathā caitrasya paraśvādiprayogaśaktiḥ siddhā evaṃ manasa indriyaprayogaśaktiḥ tasmādayuktamindriyasya manaḥ prerakamiti raja iti cetsyānmatam, rajaso hīndriyāntaraprayogasāmarthyaṃ vidyate tasmādayuktamuktaṃ prayogaśaktyasiddhernendriyāṇāṃ manaḥprayojakamiti etaccāyuktam ? kasmāt ? aviśeṣāt indriyāntare 'pi hi tarhi rajo 'stītyata ātmabhūtenaivāsya nimittena pravṛttirapratiṣiddhā, kiṃ manasā parikalpiteneti ? kiṃ cānyat, karaṇāntarānupapatteḥ caitro hi paraśvādīnāṃ prayogaṃ karaṇāntareṇa karoti na tu manasaḥ karaṇāntaramastītyasamānam pāṇivaditi cenna caitravyāpārāpekṣatvāt tadapi hi caitravyāpārāpekṣaṃ pravartate na svataḥ kiṃca tadvyatirekeṇa pravṛttyupalabdheḥ yasya hi prayojakāntarāpekṣā pravṛttiḥ na tasya kadācidapi svatantrasya bhavati asti tu saṃkalpavyatirekeṇa meghastanitādiṣvindriyasya pravṛttiḥ tasmānnendriyāntarasya manaḥ kārakam na cetkārakaṃ yathā maulānāṃ guṇānāmevamihāpi puruṣārtha evaṃ heturna kena citkāryate karaṇamiti siddham


32

कारिका 32 आह, करणं प्रत्याचार्यविप्रतिपत्तेः तदवधारणं कर्त्तव्यम् आचार्याणां करणं प्रति विप्रतिपत्तिः एकादशविधमिति वार्षगणाः दशविधमिति तान्त्रिकाः पञ्चादिकरणप्रभृतयः द्वादशविधमिति पतञ्जलिः तस्माद्भवतः कतिविधं करणमभिप्रेतमिति वक्तव्यमेतत् उच्यते- करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि मनो ऽहङ्कारो बुद्धिश्चेत्येतत्सर्वं पुरुषार्थोपयोगिकरणम् कस्मात् ? अपुरुषार्थोपयोगित्वे तत्त्वान्तरानुपपत्तिप्रसंगात् यदि यथा वार्षगणा आहुः- लिङ्गमात्रे महानसंवेद्यः कार्यकारणरूपेण विशिष्टाविशिष्टलक्षणेन, तथा स्यात्तत्त्वान्तरम् तन्न स्यात्, अनर्थकत्वात् आह, सत्यम्, प्रधानलक्षणानां गुणानां वैषम्यमात्ररूपत्वे ऽपि तत्त्वान्तरमसौ भविष्यतीति कस्मात् ? साम्याद्वैषम्यमुपाख्यान्तरमिति एतच्चायुक्तम् कस्मात् ? तत्त्वानवस्थाप्रसंगात् एवं हि परिकल्प्यमाने प्रधानमहतोर्यदन्तरालं तदपि च क्रियारूपत्वादक्रियावत उपाख्यान्तरमिति तत्त्वान्तरानवस्थाप्रसंगः अभ्युपगमे वा महतस्तत्त्वान्तराणां च क्रियाकालविरोधः तस्मात्तत्त्वान्तरानुपपत्तिरनवस्था वा, त्रयोदशविधं करणमित्यन्यतरवदवश्यमभ्युपगन्तव्यम् तत्र चास्मत्प्रतिज्ञातमेव निर्दोषं लक्ष्यते तस्मादुपपन्नमेतत् त्रयोदशविधं करणमिति आह, करणमिति क्रियाकारकसम्बन्धगर्भो ऽयं निर्देशः कथम् ? येन तत्करणमिति तत्र वक्तव्यम् का क्रिया, किं च तत्क्रियते यदपेक्ष्य बुद्ध्यादीनां करणत्वमिति ? उच्यते- यदुक्तं का क्रियेत्यत्र ब्रूमः- तन्निर्वर्तकमिहाभिप्रेतात् न दण्डादिवत्, किं तर्हि तदाहरणधारणप्रकाशकरम् तत्राहरणं कर्मेन्द्रियाणि कुर्वन्ति, विषयार्जनसमर्थत्वात् धारणं बुद्धीन्द्रियाणि कुर्वन्ति, विषयसन्निधाने सति श्रोत्रादिवृत्तेस्तद्रूपापत्तेः प्रकाशमन्तःकरणं करोति, निश्चयसामर्थ्यात् अपर आह- आहरणं कर्मेन्द्रियाणि कुर्वन्ति धारणं मनो ऽहंकारश्च प्रकाशनं बुद्धीन्द्रियाणि बुद्धिश्चेति एतदभिसन्धाय बुद्ध्यादीनां करणत्वमुच्यत इति यत्तूक्तं किं कार्यमिति, उच्यते- कार्यं च तस्य दशधा दशधेति पञ्च विशेषाः पञ्चाविशेषाः तदप्यत एव कार्यशब्दं लभते आहार्यं धार्यं प्रकाश्यं च इस्क्_32 तद्ध्याहर्तव्यं धारणीयं प्रकाशयितव्यं च अतः कार्यमित्युच्यते, न निर्वर्त्यत्वात्

kārikā 32 āha, karaṇaṃ pratyācāryavipratipatteḥ tadavadhāraṇaṃ karttavyam ācāryāṇāṃ karaṇaṃ prati vipratipattiḥ ekādaśavidhamiti vārṣagaṇāḥ daśavidhamiti tāntrikāḥ pañcādikaraṇaprabhṛtayaḥ dvādaśavidhamiti patañjaliḥ tasmādbhavataḥ katividhaṃ karaṇamabhipretamiti vaktavyametat ucyate- karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram pañca karmendriyāṇi pañca buddhīndriyāṇi mano 'haṅkāro buddhiścetyetatsarvaṃ puruṣārthopayogikaraṇam kasmāt ? apuruṣārthopayogitve tattvāntarānupapattiprasaṃgāt yadi yathā vārṣagaṇā āhuḥ- liṅgamātre mahānasaṃvedyaḥ kāryakāraṇarūpeṇa viśiṣṭāviśiṣṭalakṣaṇena, tathā syāttattvāntaram tanna syāt, anarthakatvāt āha, satyam, pradhānalakṣaṇānāṃ guṇānāṃ vaiṣamyamātrarūpatve 'pi tattvāntaramasau bhaviṣyatīti kasmāt ? sāmyādvaiṣamyamupākhyāntaramiti etaccāyuktam kasmāt ? tattvānavasthāprasaṃgāt evaṃ hi parikalpyamāne pradhānamahatoryadantarālaṃ tadapi ca kriyārūpatvādakriyāvata upākhyāntaramiti tattvāntarānavasthāprasaṃgaḥ abhyupagame vā mahatastattvāntarāṇāṃ ca kriyākālavirodhaḥ tasmāttattvāntarānupapattiranavasthā vā, trayodaśavidhaṃ karaṇamityanyataravadavaśyamabhyupagantavyam tatra cāsmatpratijñātameva nirdoṣaṃ lakṣyate tasmādupapannametat trayodaśavidhaṃ karaṇamiti āha, karaṇamiti kriyākārakasambandhagarbho 'yaṃ nirdeśaḥ katham ? yena tatkaraṇamiti tatra vaktavyam kā kriyā, kiṃ ca tatkriyate yadapekṣya buddhyādīnāṃ karaṇatvamiti ? ucyate- yaduktaṃ kā kriyetyatra brūmaḥ- tannirvartakamihābhipretāt na daṇḍādivat, kiṃ tarhi tadāharaṇadhāraṇaprakāśakaram tatrāharaṇaṃ karmendriyāṇi kurvanti, viṣayārjanasamarthatvāt dhāraṇaṃ buddhīndriyāṇi kurvanti, viṣayasannidhāne sati śrotrādivṛttestadrūpāpatteḥ prakāśamantaḥkaraṇaṃ karoti, niścayasāmarthyāt apara āha- āharaṇaṃ karmendriyāṇi kurvanti dhāraṇaṃ mano 'haṃkāraśca prakāśanaṃ buddhīndriyāṇi buddhiśceti etadabhisandhāya buddhyādīnāṃ karaṇatvamucyata iti yattūktaṃ kiṃ kāryamiti, ucyate- kāryaṃ ca tasya daśadhā daśadheti pañca viśeṣāḥ pañcāviśeṣāḥ tadapyata eva kāryaśabdaṃ labhate āhāryaṃ dhāryaṃ prakāśyaṃ ca isk_32 taddhyāhartavyaṃ dhāraṇīyaṃ prakāśayitavyaṃ ca ataḥ kāryamityucyate, na nirvartyatvāt


34

कारिका 13 एतस्मिंस्त्रयोदशविधे तु करणे त्रयोदशं कतरदिति ? उच्यते- बुद्धिरहंकारो मनश्च तस्मात् अन्तःकरणं त्रिविधम् कस्मात् ? विषयानभिसन्धानात् श्रोत्रादिप्रणालिकया च विषयसंप्रतिपत्तेः अविशेषाभिधानाद् बुद्ध्यादिप्रतिपत्तिरयुक्तेति चेत्स्यान्मतम्, अविशेषेणेदमुक्तमाचार्येण अन्तःकरणं त्रिविधमिति तत्र कथमिदमवगम्यते बुद्ध्यहंकारमनसां ग्रहणाभिप्रेतं, न पुनरन्येषामिति ? उच्यते- न, प्रथमसंख्याव्यतिक्रमहेत्वनुपपत्तेः बुद्ध्यादिसंख्यां हि व्यतिक्रममाणस्य प्रतिपत्तौ नास्ति हेतुः तस्मात्तेषामेव ग्रहणम् यथा वसन्ताय कपिञ्जलानालभत इति श्रोत्रस्यान्तःकरणत्वप्रसंगादयुक्तमिति चेत् स्यादेतत्- बुद्धिमहंकारं चोक्त्वा तत आह बुद्धीन्द्रियाणि कर्णत्वक्चक्षूरसननासिकाख्यानीति (इस्क् 26) तस्माच्छ्रोत्रमन्तःकरणं प्रसज्यत इति एतदनुपपन्नम् कस्मात् ? मनसः पृथगभिधानात् अत एवेदमाचार्येणापेक्ष्य मनसो ऽन्तःकरणत्वं पृथगुक्तम्- तच्चेन्द्रियमुभयथा समाख्यातम्, अन्तस्त्रिकालविषयमिति (इस्क् 27) तस्मादुपपन्नमन्तःकरणं त्रिविधं बुद्ध्यादीनि दशधा बाह्यम् पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणीत्येतद्बाह्यं दशप्रकारमाचार्यैराख्यायते आह, दशधा बाह्यमित्यस्यानर्थक्यम्, परिशेषबुद्धेः अन्तःकरणं त्रिविधमित्युक्ते गम्यत एतत्परिशेषादेव दशधा बाह्यमिति तस्मात्तद्ग्रहणमनर्थकमिति उच्यते- न, विषयार्थत्वात् त्रयस्य विषयाख्यमित्येवं वक्ष्यामीत्याचार्य आरभते अक्रियमाणे त्वस्मिन् किन्तत् त्रयस्य विषयाख्यमिति न ज्ञायते आह, एवमपि विषयग्रहणात्सिद्धेर्बाह्यग्रहणपार्थकमिति उच्यते- वक्तव्यं तावदिदमवश्यं विषयभावप्रतिपत्त्यर्थम् तत्र शेषे वा यथान्यासं वोच्यमाने न कश्चिद्विशेषः अथवा नेदं बाह्यसंज्ञाप्रतिपत्त्यर्थमारभ्यते, किं तर्हि नियमार्थम् कथम् ? दशधा बाह्यं शब्दादिविषयग्रहणभूतमेव त्रयस्यापि विषयाख्यं यथा स्यात्, मा भूदन्तःप्राणादिभूतम् अथवा दशधैव बाह्यम् भेदविषयं बाह्यमित्यर्थः प्राणादिभूतस्य तु भेदो नास्तीत्यदोषः तदेतत् त्रयस्य विषयाख्यम् बुद्ध्यहंकारमनोलक्षणस्य हि त्रयस्योपात्तविषया बुद्धीन्द्रियकर्मेन्द्रियवृत्तयः सम्पर्काद्विषयरूपप्रत्यवभासनिमित्ततामुपगच्छन्त्यो विषयाख्यतां लभन्ते तथा मनो ऽहंकारावपि बुद्धेः बुद्धिस्तु निश्चयरूपत्वात्करणान्तरनिरपेक्षा सर्वमर्थं प्रवृत्तौ प्रति निश्चयरूपेणाध्यस्तं पुरुषायोपसंहरति तत्र शब्दादिसन्निधाने वृत्तीनां ताद्रूप्यापत्तेस्तदपगमे च ताद्रूप्यापगमात् प्राप्यकारि साम्प्रतकालं बाह्यम् उपात्तविषयेन्द्रियवृत्तिसन्निधानात्तु तदाकारसंस्काराधाननिमित्तस्मृतिप्रत्ययवशात् त्रिकालमाभ्यन्तरं करणम् इस्क्_33 कारिका 34 आह, प्राक्छब्दादिषु श्रोत्रादीनामालोचनमात्रं वृत्तिरित्यविशेषेणोक्तम् तत्र किं तथैव प्रतिपत्तव्यमथेन्द्रियाणां विषयविशेषो ऽस्तीति ? अथ चोक्तं कार्यं च तस्य दशधा विशेषलक्षणमविशेषलक्षणं च तत्र केन करणेन कस्य विषयस्य ग्रहणमिति ? उच्यते- बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि तेषां पूर्वोक्तानामिन्द्रियाणां यानि बुद्धीन्द्रियाणि पञ्च श्रोत्रादीनि तानि विशेषाविशेषविषयाणि प्रतिपत्तृभेदेन तत्र देवानां यानि इन्द्रियाणि तानि धर्मोत्कर्षाद्विशुद्धान्यविशेषानपि गृह्णन्ति प्रागेव विशेषात्, योगिनां च संप्राप्तविशेषाणाम् अस्मदादीनां तु विशेषानेव तमसा परिवृतत्वात् आह, किं कर्मेन्द्रियाणामपि प्रतिपत्तृभेदाद्ग्रहणभेदो भवति ? नेत्युच्यते किं तर्हि सर्वेषामेव वाग्भवति शब्दविषया वागिन्द्रियस्य वाय्वभिहतेषु वदनप्रदेशेषु ताल्वादिषु ध्वनेर्वर्णपदवाक्यश्लोकग्रन्थभावेन विकारापादनं सर्वप्राणिनामविशिष्टम् आह, अथेतरानि कर्मेन्द्रियाणि कथमिति ? उच्यते- शेषाण्यपि पञ्चविषयाणि इस्क्_34 पाणिपादपायूपस्थास्तु आदानविहरणोत्सर्गानन्दलक्षणैः कर्मभिः शब्दस्पर्शरसरूपगन्धसमुदायरूपा मूर्तीर्विकुर्वन्तीति आह, यदि पञ्चविषयाण्येवाविशेषाणीति नियमो ऽभ्युपगम्यते तेनैककरणेष्वादानादिक्रियानुपपत्तिप्रसंग इति उच्यते न, नियमप्रतिषेधार्थत्वात् स्वविषयनियमो बुद्धीन्द्रियवत्कर्मेन्द्रियाणामपि मा विज्ञायीत्यतो नियमप्रतिषेधार्थमिदमारभ्यते तदर्थमेव चापिशब्दमाचार्यो ऽधिजगे सम्भावनार्थमपि च पञ्चविषयाण्येतानि प्रागेव तु चतुस्त्रिविषयाणीति आह, कथमेतदवगम्यते विशेषाविशेषविषयाणीन्द्रियाणि, न पुनरसद्विषयाणि इति ? उच्यते- विशेषाणामसत्त्वासिद्धेः प्रत्यक्षतस्तावद्विशेषा उपलभ्यन्ते तस्मादेषामसत्त्वमशक्यं प्रतिज्ञातुम् अथापि स्यात्साध्यमेतत्प्रत्यक्षमेवैतदनवद्यम्, बाह्यवस्तुविषयमयमृगतृष्णिकादिविज्ञानवत्प्रत्यक्षाभासम् एतच्चायुक्तम् कस्मात् ? विकल्पानुपपत्तेः सर्वमभूतमभ्युपगन्तव्यम् यत्र नास्ति किंचिद् भूतार्थेन प्रत्यक्षं यदप्येक्ष्येतरत् प्रत्यक्षाभासं स्यात् उक्तस्त्वयं विकल्पः तस्मादयुक्तं ज्ञानमात्रमिदमिति किं चान्यत् विपरीतदर्शनप्रसंगात् मृगतृष्णिकास्वप्नविषयैरसद्भिः सतामसत्त्वमिच्छतस्तद्वदेव विपरीतदर्शनप्रसंगः तथा हि गन्धर्वनगरादिषु कदाचित्तमेवार्थं गां पश्यति, कश्चिद्गजं पश्यति, कदाचित्पताकाम् स्वप्ने चैकमूर्तिपतितानां गोपुरुषाश्वरासभनदीवृक्षप्रभृतीनां दर्शनं स्मरणे विपर्ययेण दृष्टम् तथा वातायनेन हस्तियूथप्रवेशने___ विच्छिन्नानां चावयवानां पुनः सन्धानं आकाशगमनमनीश्वरस्यानिमित्तं राज्यलाभ इति तदितरत्रापि स्यात् न त्वस्ति तस्मादयुक्तं मृगतृष्णिकास्वप्नादिवदसत्त्वं भावानाम् अर्थक्रिया च न स्यात् यथा स्वप्ने स्नातानुलिप्ताशितपीतवस्त्राच्छादितानामफलत्वं दृष्टम्, एवमिहापि स्यात् शुक्रविसर्गवदिति चेत्, स्यादेतत्- यथा द्वयसमाप्तिपूर्वकः शुक्रविसर्गः स च तदभावे ऽपि स्वप्ने भवति, एवमितरत्स्यादिति तदयुक्तम्, रागादिनिमित्तत्वात् तथाहि जाग्रतो ऽपि तत् द्वयसमापत्तिमन्तरेण भवति तस्मान्मनोरञ्जनानिमित्तं तत् प्रेतवदिति चेत् स्यादियं मम सद्बुद्धिः, यथा प्रेतानामसद्भिःपूयनद्यादिभिरर्थक्रिया, नरकपालैश्च बाधनम् एवमत्रापि स्यादिति तदयुक्तम् असिद्धत्वात् न ह्येतदसदिति सिद्धम् किंच प्रत्यक्षेण चाप्रत्यक्षबाधनात् इह प्रत्यक्षं बलीय इत्यप्रत्यक्षस्य तेन प्रत्याख्यानमुपपद्यते भवन्तस्त्वप्रत्यक्षेन प्रत्यक्षं प्रत्याचक्षते तस्मादयुक्तं नरकलापादिवदसतामर्थक्रियेति स्वभावभेदात्तदसत्त्वमिति चेत्, स्यादेतत्- यदि परमार्थतो नरकपालाः स्युस्तेषामपि दुःखसम्बन्धः स्यात्, मूर्तिमत्त्वाविशेषात् न तु तेषां बाधास्ति तस्माद् भ्रान्तिरसाविति एतदयुक्तम् कस्मात् ? कर्मशक्तिवैचित्र्यात् प्रत्यक्षमेव तावत्कर्मनिमित्तो वाग्बुद्धिस्वभावाहारविहारशक्तिभेदभिन्नो विचित्रः संसार उपलभ्यते स निपुणमवेक्षितुमशक्यः, गम्भीरत्वात् किं पुनरप्रत्यक्षकर्मणां विपाकवैश्वरूप्यमतर्कगोचरमस्मदादिबुद्धयः परिच्छेत्स्यन्ति ? तस्मान्मनोरथमात्रमेतत् धर्माधर्मानुपपत्तिश्च स्यात् यथा स्वप्ने ब्रह्महत्यासुरापानागम्यगमनादीनामफलत्वम्, एवमितरत्रापि स्यात्, असदविशेषात् मिद्धोपघातात्तद्विशेष इति चेत् न, अविशेषात् असत्त्वे तुल्ये क्वचिदुपघातः क्वचिन्नेतीच्छामात्रमेतत् एवं चेत् नासन्तः पृथिव्यादयः न चेदसन्तो युक्तमुपदिष्टं बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणीति

kārikā 13 etasmiṃstrayodaśavidhe tu karaṇe trayodaśaṃ kataraditi ? ucyate- buddhirahaṃkāro manaśca tasmāt antaḥkaraṇaṃ trividham kasmāt ? viṣayānabhisandhānāt śrotrādipraṇālikayā ca viṣayasaṃpratipatteḥ aviśeṣābhidhānād buddhyādipratipattirayukteti cetsyānmatam, aviśeṣeṇedamuktamācāryeṇa antaḥkaraṇaṃ trividhamiti tatra kathamidamavagamyate buddhyahaṃkāramanasāṃ grahaṇābhipretaṃ, na punaranyeṣāmiti ? ucyate- na, prathamasaṃkhyāvyatikramahetvanupapatteḥ buddhyādisaṃkhyāṃ hi vyatikramamāṇasya pratipattau nāsti hetuḥ tasmātteṣāmeva grahaṇam yathā vasantāya kapiñjalānālabhata iti śrotrasyāntaḥkaraṇatvaprasaṃgādayuktamiti cet syādetat- buddhimahaṃkāraṃ coktvā tata āha buddhīndriyāṇi karṇatvakcakṣūrasananāsikākhyānīti (isk 26) tasmācchrotramantaḥkaraṇaṃ prasajyata iti etadanupapannam kasmāt ? manasaḥ pṛthagabhidhānāt ata evedamācāryeṇāpekṣya manaso 'ntaḥkaraṇatvaṃ pṛthaguktam- taccendriyamubhayathā samākhyātam, antastrikālaviṣayamiti (isk 27) tasmādupapannamantaḥkaraṇaṃ trividhaṃ buddhyādīni daśadhā bāhyam pañca buddhīndriyāṇi pañca karmendriyāṇītyetadbāhyaṃ daśaprakāramācāryairākhyāyate āha, daśadhā bāhyamityasyānarthakyam, pariśeṣabuddheḥ antaḥkaraṇaṃ trividhamityukte gamyata etatpariśeṣādeva daśadhā bāhyamiti tasmāttadgrahaṇamanarthakamiti ucyate- na, viṣayārthatvāt trayasya viṣayākhyamityevaṃ vakṣyāmītyācārya ārabhate akriyamāṇe tvasmin kintat trayasya viṣayākhyamiti na jñāyate āha, evamapi viṣayagrahaṇātsiddherbāhyagrahaṇapārthakamiti ucyate- vaktavyaṃ tāvadidamavaśyaṃ viṣayabhāvapratipattyartham tatra śeṣe vā yathānyāsaṃ vocyamāne na kaścidviśeṣaḥ athavā nedaṃ bāhyasaṃjñāpratipattyarthamārabhyate, kiṃ tarhi niyamārtham katham ? daśadhā bāhyaṃ śabdādiviṣayagrahaṇabhūtameva trayasyāpi viṣayākhyaṃ yathā syāt, mā bhūdantaḥprāṇādibhūtam athavā daśadhaiva bāhyam bhedaviṣayaṃ bāhyamityarthaḥ prāṇādibhūtasya tu bhedo nāstītyadoṣaḥ tadetat trayasya viṣayākhyam buddhyahaṃkāramanolakṣaṇasya hi trayasyopāttaviṣayā buddhīndriyakarmendriyavṛttayaḥ samparkādviṣayarūpapratyavabhāsanimittatāmupagacchantyo viṣayākhyatāṃ labhante tathā mano 'haṃkārāvapi buddheḥ buddhistu niścayarūpatvātkaraṇāntaranirapekṣā sarvamarthaṃ pravṛttau prati niścayarūpeṇādhyastaṃ puruṣāyopasaṃharati tatra śabdādisannidhāne vṛttīnāṃ tādrūpyāpattestadapagame ca tādrūpyāpagamāt prāpyakāri sāmpratakālaṃ bāhyam upāttaviṣayendriyavṛttisannidhānāttu tadākārasaṃskārādhānanimittasmṛtipratyayavaśāt trikālamābhyantaraṃ karaṇam isk_33 kārikā 34 āha, prākchabdādiṣu śrotrādīnāmālocanamātraṃ vṛttirityaviśeṣeṇoktam tatra kiṃ tathaiva pratipattavyamathendriyāṇāṃ viṣayaviśeṣo 'stīti ? atha coktaṃ kāryaṃ ca tasya daśadhā viśeṣalakṣaṇamaviśeṣalakṣaṇaṃ ca tatra kena karaṇena kasya viṣayasya grahaṇamiti ? ucyate- buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi teṣāṃ pūrvoktānāmindriyāṇāṃ yāni buddhīndriyāṇi pañca śrotrādīni tāni viśeṣāviśeṣaviṣayāṇi pratipattṛbhedena tatra devānāṃ yāni indriyāṇi tāni dharmotkarṣādviśuddhānyaviśeṣānapi gṛhṇanti prāgeva viśeṣāt, yogināṃ ca saṃprāptaviśeṣāṇām asmadādīnāṃ tu viśeṣāneva tamasā parivṛtatvāt āha, kiṃ karmendriyāṇāmapi pratipattṛbhedādgrahaṇabhedo bhavati ? netyucyate kiṃ tarhi sarveṣāmeva vāgbhavati śabdaviṣayā vāgindriyasya vāyvabhihateṣu vadanapradeśeṣu tālvādiṣu dhvanervarṇapadavākyaślokagranthabhāvena vikārāpādanaṃ sarvaprāṇināmaviśiṣṭam āha, athetarāni karmendriyāṇi kathamiti ? ucyate- śeṣāṇyapi pañcaviṣayāṇi isk_34 pāṇipādapāyūpasthāstu ādānaviharaṇotsargānandalakṣaṇaiḥ karmabhiḥ śabdasparśarasarūpagandhasamudāyarūpā mūrtīrvikurvantīti āha, yadi pañcaviṣayāṇyevāviśeṣāṇīti niyamo 'bhyupagamyate tenaikakaraṇeṣvādānādikriyānupapattiprasaṃga iti ucyate na, niyamapratiṣedhārthatvāt svaviṣayaniyamo buddhīndriyavatkarmendriyāṇāmapi mā vijñāyītyato niyamapratiṣedhārthamidamārabhyate tadarthameva cāpiśabdamācāryo 'dhijage sambhāvanārthamapi ca pañcaviṣayāṇyetāni prāgeva tu catustriviṣayāṇīti āha, kathametadavagamyate viśeṣāviśeṣaviṣayāṇīndriyāṇi, na punarasadviṣayāṇi iti ? ucyate- viśeṣāṇāmasattvāsiddheḥ pratyakṣatastāvadviśeṣā upalabhyante tasmādeṣāmasattvamaśakyaṃ pratijñātum athāpi syātsādhyametatpratyakṣamevaitadanavadyam, bāhyavastuviṣayamayamṛgatṛṣṇikādivijñānavatpratyakṣābhāsam etaccāyuktam kasmāt ? vikalpānupapatteḥ sarvamabhūtamabhyupagantavyam yatra nāsti kiṃcid bhūtārthena pratyakṣaṃ yadapyekṣyetarat pratyakṣābhāsaṃ syāt uktastvayaṃ vikalpaḥ tasmādayuktaṃ jñānamātramidamiti kiṃ cānyat viparītadarśanaprasaṃgāt mṛgatṛṣṇikāsvapnaviṣayairasadbhiḥ satāmasattvamicchatastadvadeva viparītadarśanaprasaṃgaḥ tathā hi gandharvanagarādiṣu kadācittamevārthaṃ gāṃ paśyati, kaścidgajaṃ paśyati, kadācitpatākām svapne caikamūrtipatitānāṃ gopuruṣāśvarāsabhanadīvṛkṣaprabhṛtīnāṃ darśanaṃ smaraṇe viparyayeṇa dṛṣṭam tathā vātāyanena hastiyūthapraveśane___ vicchinnānāṃ cāvayavānāṃ punaḥ sandhānaṃ ākāśagamanamanīśvarasyānimittaṃ rājyalābha iti taditaratrāpi syāt na tvasti tasmādayuktaṃ mṛgatṛṣṇikāsvapnādivadasattvaṃ bhāvānām arthakriyā ca na syāt yathā svapne snātānuliptāśitapītavastrācchāditānāmaphalatvaṃ dṛṣṭam, evamihāpi syāt śukravisargavaditi cet, syādetat- yathā dvayasamāptipūrvakaḥ śukravisargaḥ sa ca tadabhāve 'pi svapne bhavati, evamitaratsyāditi tadayuktam, rāgādinimittatvāt tathāhi jāgrato 'pi tat dvayasamāpattimantareṇa bhavati tasmānmanorañjanānimittaṃ tat pretavaditi cet syādiyaṃ mama sadbuddhiḥ, yathā pretānāmasadbhiḥpūyanadyādibhirarthakriyā, narakapālaiśca bādhanam evamatrāpi syāditi tadayuktam asiddhatvāt na hyetadasaditi siddham kiṃca pratyakṣeṇa cāpratyakṣabādhanāt iha pratyakṣaṃ balīya ityapratyakṣasya tena pratyākhyānamupapadyate bhavantastvapratyakṣena pratyakṣaṃ pratyācakṣate tasmādayuktaṃ narakalāpādivadasatāmarthakriyeti svabhāvabhedāttadasattvamiti cet, syādetat- yadi paramārthato narakapālāḥ syusteṣāmapi duḥkhasambandhaḥ syāt, mūrtimattvāviśeṣāt na tu teṣāṃ bādhāsti tasmād bhrāntirasāviti etadayuktam kasmāt ? karmaśaktivaicitryāt pratyakṣameva tāvatkarmanimitto vāgbuddhisvabhāvāhāravihāraśaktibhedabhinno vicitraḥ saṃsāra upalabhyate sa nipuṇamavekṣitumaśakyaḥ, gambhīratvāt kiṃ punarapratyakṣakarmaṇāṃ vipākavaiśvarūpyamatarkagocaramasmadādibuddhayaḥ paricchetsyanti ? tasmānmanorathamātrametat dharmādharmānupapattiśca syāt yathā svapne brahmahatyāsurāpānāgamyagamanādīnāmaphalatvam, evamitaratrāpi syāt, asadaviśeṣāt middhopaghātāttadviśeṣa iti cet na, aviśeṣāt asattve tulye kvacidupaghātaḥ kvacinnetīcchāmātrametat evaṃ cet nāsantaḥ pṛthivyādayaḥ na cedasanto yuktamupadiṣṭaṃ buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇīti


35

इति श्रीयुक्तिदीपिकायां सप्तममाह्निकम् कारिका 35 द्वारिद्वारभावमेषामिदानीं वक्ष्यामः तत्र बाह्यं करणं द्वारम्, अन्तःकरणं द्वारीति आह, करणाविशेषादयुक्तम् अन्तःकरणस्य हीन्द्रियानां च करणत्वमविशिष्टम् तत्र को हेतुरन्तःकरणं द्वारि, द्वाराणीन्द्रियाणीति ? उच्यते- सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि इस्क्_35 सहान्तःकरणेन वर्तते या सान्तःकरणा बुद्धिः अहंकारमनोभ्यां सहिता बुद्धिरित्यर्थः अत्र चान्तःकरणग्रहणेनैव बुद्धेर्ग्रहणे सिद्धे भूयो बुद्धिग्रहणं प्राधान्यख्यापनार्थम् भवति हि प्रधानस्य सामान्ये ऽन्तर्भूतस्यापि पृथगुपदेशः तद्यथा जगाम तं वनोद्देशं व्यासः सह महर्षिभिः इति महर्षिग्रहणे व्यासो ऽप्यन्तर्भूतः प्राधान्यात्पृथगुच्यते, एवं सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते, विशिष्टानविशिष्टांश्च शब्दादीन्सन्निकृष्टविप्रकृष्टव्यवहितान्प्रमाणबलेन स्ववृत्ते विषयीकरोतीत्यर्थः एतदुक्तं भवति अनियतविषयो द्वारी, नियतविषयाणि द्वाराणि तद्यथा प्रासादस्य पूर्वोत्तरदक्षिणपश्चिमानां स्वदिङ्नियमो न पूर्वमुत्तरं दक्षिणं पश्चिमं वा कदाचिद्भवति, तथेतराण्यपि द्वारीणि तत्रानियताः सर्वदिगवस्थितैर्द्वारैः प्रवर्तन्त एवमिहापि श्रोत्रादीनि स्वविषयनियतानि सान्तःकरणा तु बुद्धिः सर्वं विषयमवगाहते यस्मात् तस्मादनियतविषयत्वादुपपन्नमेत्त्रिविधं करणं द्वारि, द्वाराणि शेषाणीति

iti śrīyuktidīpikāyāṃ saptamamāhnikam kārikā 35 dvāridvārabhāvameṣāmidānīṃ vakṣyāmaḥ tatra bāhyaṃ karaṇaṃ dvāram, antaḥkaraṇaṃ dvārīti āha, karaṇāviśeṣādayuktam antaḥkaraṇasya hīndriyānāṃ ca karaṇatvamaviśiṣṭam tatra ko heturantaḥkaraṇaṃ dvāri, dvārāṇīndriyāṇīti ? ucyate- sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi isk_35 sahāntaḥkaraṇena vartate yā sāntaḥkaraṇā buddhiḥ ahaṃkāramanobhyāṃ sahitā buddhirityarthaḥ atra cāntaḥkaraṇagrahaṇenaiva buddhergrahaṇe siddhe bhūyo buddhigrahaṇaṃ prādhānyakhyāpanārtham bhavati hi pradhānasya sāmānye 'ntarbhūtasyāpi pṛthagupadeśaḥ tadyathā jagāma taṃ vanoddeśaṃ vyāsaḥ saha maharṣibhiḥ iti maharṣigrahaṇe vyāso 'pyantarbhūtaḥ prādhānyātpṛthagucyate, evaṃ sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate, viśiṣṭānaviśiṣṭāṃśca śabdādīnsannikṛṣṭaviprakṛṣṭavyavahitānpramāṇabalena svavṛtte viṣayīkarotītyarthaḥ etaduktaṃ bhavati aniyataviṣayo dvārī, niyataviṣayāṇi dvārāṇi tadyathā prāsādasya pūrvottaradakṣiṇapaścimānāṃ svadiṅniyamo na pūrvamuttaraṃ dakṣiṇaṃ paścimaṃ vā kadācidbhavati, tathetarāṇyapi dvārīṇi tatrāniyatāḥ sarvadigavasthitairdvāraiḥ pravartanta evamihāpi śrotrādīni svaviṣayaniyatāni sāntaḥkaraṇā tu buddhiḥ sarvaṃ viṣayamavagāhate yasmāt tasmādaniyataviṣayatvādupapannamettrividhaṃ karaṇaṃ dvāri, dvārāṇi śeṣāṇīti


36

कारिका 36 एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति इस्क्_36 एते इत्यनेन त्रयमभिसम्बध्नाति श्रोत्रादीनामन्यतमं मनो ऽहंकारश्च प्रदीपकल्पा इत्यनेन प्रकाशसाम्यं करणपर्वण आचष्टे, यथा प्रदीपः प्रकाशक एवं करणमपि, तद्व्यापारे सति विषयाविर्भावानुपपत्तेः परस्परविलक्षण इत्यनेन व्यस्तवृत्तिं पूर्वोक्तामाकर्षति तया ह्येषां वैलक्षण्यमनुमीयते, आलोचनसंकल्पाभिमानभेदात् गुणविशेषा इत्यनेन सत्त्वादीनां पुरुषविज्ञानमुद्दिश्य तद्भावेन परिणामं ख्यापयति कृत्स्नं पुरुषस्यार्थमिति विशेषाविशेषलक्षणं कार्यं आहार्यधार्यप्रकाश्यतया यथासम्भवं प्रकाश्य स्ववृत्त्यनुगुणं कृत्वा विषयव्यापारेणानुभूय बुद्धावाधत्ते, अतद्विषयतामापादयतीत्यर्थः कदाचित्तु बुद्धिरेव बाह्यकरणसंकल्पाभिमानगृहीतम् सर्वथा त्वयं शास्त्रार्थो येन वा तेन करणेन विषयमुपात्तं बुद्धिरध्यवस्यति तया चाध्यवसायरूपापन्नया चेतनाशक्तिरनुगृह्यते न करणान्तरस्य पुरुषेण समबन्धो ऽस्ति ततश्च द्वारिणां बहुत्वात्तद्दर्शनविशेषस्वातन्त्र्यसमुच्चयान्तःकरणपुरुषकर्तृत्वदोषाणामप्रसंगः

kārikā 36 ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti isk_36 ete ityanena trayamabhisambadhnāti śrotrādīnāmanyatamaṃ mano 'haṃkāraśca pradīpakalpā ityanena prakāśasāmyaṃ karaṇaparvaṇa ācaṣṭe, yathā pradīpaḥ prakāśaka evaṃ karaṇamapi, tadvyāpāre sati viṣayāvirbhāvānupapatteḥ parasparavilakṣaṇa ityanena vyastavṛttiṃ pūrvoktāmākarṣati tayā hyeṣāṃ vailakṣaṇyamanumīyate, ālocanasaṃkalpābhimānabhedāt guṇaviśeṣā ityanena sattvādīnāṃ puruṣavijñānamuddiśya tadbhāvena pariṇāmaṃ khyāpayati kṛtsnaṃ puruṣasyārthamiti viśeṣāviśeṣalakṣaṇaṃ kāryaṃ āhāryadhāryaprakāśyatayā yathāsambhavaṃ prakāśya svavṛttyanuguṇaṃ kṛtvā viṣayavyāpāreṇānubhūya buddhāvādhatte, atadviṣayatāmāpādayatītyarthaḥ kadācittu buddhireva bāhyakaraṇasaṃkalpābhimānagṛhītam sarvathā tvayaṃ śāstrārtho yena vā tena karaṇena viṣayamupāttaṃ buddhiradhyavasyati tayā cādhyavasāyarūpāpannayā cetanāśaktiranugṛhyate na karaṇāntarasya puruṣeṇa samabandho 'sti tataśca dvāriṇāṃ bahutvāttaddarśanaviśeṣasvātantryasamuccayāntaḥkaraṇapuruṣakartṛtvadoṣāṇāmaprasaṃgaḥ

Section (cont. 20)

37

कारिका 37 आह, कः पुनरत्र हेतुर्येन द्वारित्वाविशेषे सत्यहंकारमनसी बुद्धौ विषयाधानं कुरुतो न पुनरनयोः साक्षात्पुरुषेण सम्बन्ध इति ? उच्यते- सर्व प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः अहंकारमनसोर्हि, नास्ति निश्चयरूपता, संकल्पाभिमानमात्ररूपत्वात् अनिश्चितविषयया च करणवृत्त्या पुरुषस्य समन्धो ऽनर्थकः स्यात् स्वयं वा निश्चेतुरस्य कर्तृत्वं स्यात् ततश्चामिश्रनिश्चयकारणत्वादयमप्यामिश्ररूपः स्यात् सर्वं चैतदुक्तोत्तरं निश्चयरूपा हि बुद्धिः अतस्तद्वृत्त्युपनिपाती विषयः सन्निधानमात्रात्पुरुषेण संचेतितो नास्यौदासीन्यं बाधितुमुत्सहते, नो खल्वप्यानर्थक्यमनुषज्यते एतदुक्तं सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिरिति आह, एवमपि शब्दादिलक्षणो विषयः प्रकृतः, स च बुद्ध्या सर्वः प्रतिपाद्यते तत्र विषयान्तरमप्यस्ति प्रधानपुरुषान्तरलक्षणम् तथा चाहुः "उपभोगस्य शब्दाद्युपलब्धिरादिः गुणपुरुषोपलब्धिरन्तः" तस्मात्तत्प्रतिपत्त्यर्थं करणान्तरं वक्तव्यमिति उच्यते- न वक्तव्यम् किं कारणम् यस्मात् सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् इस्क्_37 यतो यस्मात्कारणात् सा बुद्धिरेव हि काष्ठापन्नेन तमसाभिभूतत्वाद्धर्मादीनां सत्त्वधर्माणां प्रकृतिभूतान्विकारभूतान्परतन्त्रानुपकार्यानुपकारकानचेतनान्संसर्गधर्मिणश्च गुणानात्मत्वेनाध्यवस्य पुरुषायोपहरति स च मिथ्याज्ञानाभ्यासवासनानुरञ्जितं बुद्धिप्रत्ययमनुरुध्यमानो दर्शितविषयत्वात्तथैव प्रतिपद्यते यदा तु धर्माद्यभ्यासात्तमोरूपागमे सत्युत्तरोत्तराणां सत्त्वधर्माणमुत्कर्षस्तदा विनिवृत्तमिथ्याप्रत्यया वृत्तिः न प्रकृतिविकारभूतः स्वतन्त्रो ऽनुपकार्यो ऽनुपकारकश्चेतनो ऽसंसर्गधर्मा च ततो विपरीताश्च गुणा इति शुद्धाध्यवसायं करोति पुरुषश्च परोपहृतप्रवृत्तित्वात्तथैव प्रतिपद्यते तदेतद् गुणानां पुरुषस्य चान्तरं द्वयोरपि निश्चयस्वभावत्वादस्मात्पूर्वोक्तधर्मभेदे ऽपि सति सूक्ष्मं गम्भीरं दुर्ज्ञेयम् अतश्च सूक्ष्मं यद् बुद्धिमात्रमवलम्ब्य तदविशिष्टायाश्चेतनाशकक्तेर्ग्राह्यग्राहक_____

kārikā 37 āha, kaḥ punaratra heturyena dvāritvāviśeṣe satyahaṃkāramanasī buddhau viṣayādhānaṃ kuruto na punaranayoḥ sākṣātpuruṣeṇa sambandha iti ? ucyate- sarva pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ ahaṃkāramanasorhi, nāsti niścayarūpatā, saṃkalpābhimānamātrarūpatvāt aniścitaviṣayayā ca karaṇavṛttyā puruṣasya samandho 'narthakaḥ syāt svayaṃ vā niśceturasya kartṛtvaṃ syāt tataścāmiśraniścayakāraṇatvādayamapyāmiśrarūpaḥ syāt sarvaṃ caitaduktottaraṃ niścayarūpā hi buddhiḥ atastadvṛttyupanipātī viṣayaḥ sannidhānamātrātpuruṣeṇa saṃcetito nāsyaudāsīnyaṃ bādhitumutsahate, no khalvapyānarthakyamanuṣajyate etaduktaṃ sarvaṃ pratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiriti āha, evamapi śabdādilakṣaṇo viṣayaḥ prakṛtaḥ, sa ca buddhyā sarvaḥ pratipādyate tatra viṣayāntaramapyasti pradhānapuruṣāntaralakṣaṇam tathā cāhuḥ "upabhogasya śabdādyupalabdhirādiḥ guṇapuruṣopalabdhirantaḥ" tasmāttatpratipattyarthaṃ karaṇāntaraṃ vaktavyamiti ucyate- na vaktavyam kiṃ kāraṇam yasmāt saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam isk_37 yato yasmātkāraṇāt sā buddhireva hi kāṣṭhāpannena tamasābhibhūtatvāddharmādīnāṃ sattvadharmāṇāṃ prakṛtibhūtānvikārabhūtānparatantrānupakāryānupakārakānacetanānsaṃsargadharmiṇaśca guṇānātmatvenādhyavasya puruṣāyopaharati sa ca mithyājñānābhyāsavāsanānurañjitaṃ buddhipratyayamanurudhyamāno darśitaviṣayatvāttathaiva pratipadyate yadā tu dharmādyabhyāsāttamorūpāgame satyuttarottarāṇāṃ sattvadharmāṇamutkarṣastadā vinivṛttamithyāpratyayā vṛttiḥ na prakṛtivikārabhūtaḥ svatantro 'nupakāryo 'nupakārakaścetano 'saṃsargadharmā ca tato viparītāśca guṇā iti śuddhādhyavasāyaṃ karoti puruṣaśca paropahṛtapravṛttitvāttathaiva pratipadyate tadetad guṇānāṃ puruṣasya cāntaraṃ dvayorapi niścayasvabhāvatvādasmātpūrvoktadharmabhede 'pi sati sūkṣmaṃ gambhīraṃ durjñeyam ataśca sūkṣmaṃ yad buddhimātramavalambya tadaviśiṣṭāyāścetanāśakaktergrāhyagrāhaka_____


38

कारिका 38 व्याख्यातं करणपर्व कार्यपर्वेदानीं वक्तव्यम् तस्य च पुरस्तादुद्देशः कृतः- कार्यं च तस्य दशधा पञ्च विशेषा इति साम्प्रतं तु निर्देशं करिष्यामः आह, यद्येवं तस्मादिदमेव तावदुच्यतां के विशेषाः, के ऽविशेषा इति उच्यते- तन्मात्राण्यविशेषाः यानि तन्मात्राणि पञ्चाहंकारादुत्पद्यन्ते इति प्रागपदिष्टम् ते खल्वविशेषाः कानि पुनस्तन्मात्राणीत्युच्यते शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रमिति कथं पुनस्तन्मात्राणीति ? उच्यते- तुल्यजातीयविशेषानुपपत्तेः अन्ये शब्दजात्यभेदे ऽपि सति विशेषा उदातानुदात्तस्वरितानुनासिकादयस्तत्र न सन्ति तस्माच्छब्दतन्मात्रम् एवं स्पर्शतन्मात्रे मृदुकठिनादयः एवं रूपतन्मात्रे शुक्लकृष्णादयः एवं रसतन्मात्रे मधुराम्लादयः एवं गन्धतन्मात्रे सुरभ्यादयः तस्मात्तस्य तस्य गुणस्य सामान्यमेवात्र, न विशेष इति तन्मात्रास्वेते ऽविशेषाः आह, अथ के पुनर्विशेषा इति ? उच्यते- यानि खलु तेभ्यो भूतानि पञ्च पञ्चभ्यः उत्पद्यन्ते एते स्मृता विशेषाः तत्र शब्दतन्मात्रादाकाशम्, स्पर्शतन्मात्राद्वायुः, रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्रात्पृथिवी तेभ्यो भूतानीत्येतावति वक्तव्ये पञ्च पञ्चभ्य इति ग्रहणं समसंख्याकतस्तदुत्पत्तिज्ञापनार्थम् तेनैकैकस्मात्तन्मात्रादेकैकस्य विशेषस्योत्पत्तिः सिद्धा ततश्च यदन्येषामाचार्याणामभिप्रेतम् एकलक्षणेभ्यस्तन्मात्रेभ्यः परस्परानुप्रवेशादेकोत्तरा विशेषाः सृज्यन्त इति तत्प्रतिषिद्धं भवति किन्तर्हि अन्तरेणापि तन्मात्रानुप्रवेशमेकोत्तरेभ्यो भूतेभ्य एकोत्तराणां भूतविशेषाणामुत्पत्तिः तत्र शब्दगुणाच्छब्दतन्मात्रादाकाशमेकगुणम्, शब्दस्पर्शगुणात्स्पर्शतन्मात्राद्द्विगुणो वायुः, शब्दस्पर्शरूपगुणाद्रूपतन्मात्रात्त्रिगुणं तेजः, शब्दस्पर्शरूपरसगुणाद्रसतन्मात्राच्चतुर्गुणा आपः, शब्दस्पर्शरूपरसगन्धाद् गन्धतन्मात्रात्पञ्चगुणा पृथिवी अत्र च वायोः शीतः स्पर्श अपां च, तेजस उष्णः, अनुष्णाशीतः पृथिव्याः रूपं च शुक्लं भास्वरं च तेजसो ऽपां च, कृष्णं पृथिव्याः रसो मधुरो ऽपाम्, साधारणः पृथिव्याः गन्धस्तु पार्थिव एव तदवयवानुप्रवेशाद्भूतान्तरेषूपलभ्यते इत्येते पृथिव्यादीनां धर्माः अन्ये च परस्परानुग्राहकाः के पुनस्त इत्याह- आकारो गौरां रौक्ष्यं वरणं स्थैर्यमेव च स्थितिभेदः क्षमा कृष्णच्छाया सर्वोपभोग्यते इति ते पार्थिवा धर्मास्तद्विशिष्टास्तथा परे जलाग्निपवनाकाशव्यापकास्तान्निबोधत स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् शैत्यं रक्षा पवित्रत्वं सन्तानश्चौदका गुणाः ऊर्ध्वगं पावकं दग्धृ पाचकं लघु भास्वरम् प्रध्वंस्योजस्विता ज्योतिः पूर्वाभ्यां सविलक्षणम् तिर्यग्गतिः पवित्रत्वमाक्षेपो नोदनं बलम् रौक्ष्यमच्छायता शैत्यं वायोर्धर्माः पृथग्विधाः सर्वतोगतिरव्यूहो विष्कम्भश्चेति ते त्रयः आकाशधर्मा विज्ञेयाः पूर्वधर्मविरोधिनः संहतानां तु यत्कार्यं सामान्यं ते गवादयः इतरेतरधर्मेभ्यो विशेषान्नात्र संशयः तत्राकारादिधर्मैः पृथिव्या लोकस्य चोपक्रियते भूतान्तराणां च तत्राकारात्तावत् गवादीनां घटादीनां चाकारनिर्वृत्तिः गौरवादेषामवस्थानम् रौक्ष्यादपां संग्रहो वैशद्यं च भूतानाम् वरणादनभिप्रेतानां छादनम् स्थैर्याद्वृत्तिः प्रजानां भूतान्तराणां च स्थितेर्मात्रादिसन्निधानाद्यनुग्रहः भेदाद्घटादिनिष्पत्तिः व्यूहश्चावयवानाम् क्षान्तेरुपभोगभोग्यता कृष्णच्छायत्वाद्रात्रिसम्पच्छायाकार्यप्रसिद्धिश्च सर्वोपभोग्यत्वात्सर्वभूतानुग्रहः एवं स्नेहादिभिर्लोकस्योपकारः क्रियते भूतान्तराणां च स्नेहाद्रूपसंपद्वायुप्रतीकारो ऽग्निशमनं संग्रहश्च पृथिव्याः सौक्ष्म्यादनुप्रवेशः शौक्ल्याच्चन्द्राद्विनिर्वृत्तिः मार्दवात्स्नानावगाहनमेकक्रिया कठिनानाम् चावनामनम् गौरवात्सन्तानाच्च भूतानुग्रहार्थं स्रोतस्त्वम् शैत्यादुष्णप्रतीकारः रक्षातः प्रजासु घोरशमनम् पवित्रत्वाद्धर्मोपचयः शौचविधिरलक्ष्योपघातश्च सन्तानाद्द्रव्यसंघातः तथोर्ध्वगत्यादिभिर्धर्ममात्रैस्तेजसां लोकस्य चोपक्रियते भूतान्तराणां च ऊर्ध्वगतेः पाकप्रकाशसिद्धिः पावकत्वाद् द्रव्यशौचं च दाहकत्वात्क्षारोत्पत्तिः शीतप्रतीकारो नभसश्चोष्णत्वं शब्दनिष्पत्त्यर्थम् पाचकत्वात्स्वेद्य स्वेदनमन्नपक्तिः पृथिव्यवयवानां क्रियायोग्यता, तथा बाह्यान्तरपरिणामः, रसलोहितमांसस्नाय्वस्थिमज्जाशुक्राणां लाघवाद्दाह्यातिक्रमः भास्वरत्वाद्द्रव्यान्तरप्रकाशनम् प्रध्वंसित्वाद्दग्धपक्वानामुपभोगः तैजसः प्रजापालनम् तथा तिर्यक्पातादिभिर्धर्मैर्वायुना लोकस्य चोपकारः क्रियते भूतान्तराणां च तिर्यक्पाताद्दृष्टिविक्षेपो गन्धसंवहनं च पवित्रत्वात्पूतिद्रव्यपवनम् आक्षेपनोदनाभ्यामुत्कर्षः प्रथमं धर्माम्भसः व्यूहश्च शरीरे रसादीनां धातूनां च अग्नेश्चोपध्मानमभिधातश्चाकाशस्य बलात्समीकरणं सर्वेषाम् रौक्ष्याद्विशोषणम् अच्छायत्वादहोरात्रप्रसिद्धिः शैत्यादुष्णप्रतीकारः तथा सर्वतोगत्यादिभिर्धर्मैर्नभसा लोकस्योपकारः क्रियते भूतान्तराणां च सर्वतोगतेः समन्तात्तुल्यदेशश्रवणनामेकश्रुतित्वम् अव्यूहविष्कम्भाभ्यां सर्वेषामवकाशतादानमित्युक्ताः पृथिव्यादयः एते विशेषा इत्युच्यन्त इति आह, कथं पुनरेते विशेषा इत्युच्यन्ते ? यस्मात् शान्ता घोराश्च मूढाश्च इस्क्_38 तत्र शान्तास्तावत् स्वसंस्कारविशेषयोगात्तत्सन्निधौ प्रसादादिधर्मोत्पत्तेः घोरास्तु शेषादिधर्मनिमित्तत्वात् मूढाश्च वरणादिधर्महेतुत्वात् तन्मात्राणि पुनरशान्तघोरमूढानि अतो ऽविशेषा इत्युच्यन्ते तदेते यथा व्याख्याता अविशेषा विशेषाः पुरुषार्थसिद्ध्यर्थं बहुधा व्यवतिष्ठन्ते कस्मात् ? न ह्येतेषामेकधावस्थाने पुरुषार्थः सिद्ध्यतीति

kārikā 38 vyākhyātaṃ karaṇaparva kāryaparvedānīṃ vaktavyam tasya ca purastāduddeśaḥ kṛtaḥ- kāryaṃ ca tasya daśadhā pañca viśeṣā iti sāmprataṃ tu nirdeśaṃ kariṣyāmaḥ āha, yadyevaṃ tasmādidameva tāvaducyatāṃ ke viśeṣāḥ, ke 'viśeṣā iti ucyate- tanmātrāṇyaviśeṣāḥ yāni tanmātrāṇi pañcāhaṃkārādutpadyante iti prāgapadiṣṭam te khalvaviśeṣāḥ kāni punastanmātrāṇītyucyate śabdatanmātraṃ, sparśatanmātraṃ, rūpatanmātraṃ, rasatanmātraṃ, gandhatanmātramiti kathaṃ punastanmātrāṇīti ? ucyate- tulyajātīyaviśeṣānupapatteḥ anye śabdajātyabhede 'pi sati viśeṣā udātānudāttasvaritānunāsikādayastatra na santi tasmācchabdatanmātram evaṃ sparśatanmātre mṛdukaṭhinādayaḥ evaṃ rūpatanmātre śuklakṛṣṇādayaḥ evaṃ rasatanmātre madhurāmlādayaḥ evaṃ gandhatanmātre surabhyādayaḥ tasmāttasya tasya guṇasya sāmānyamevātra, na viśeṣa iti tanmātrāsvete 'viśeṣāḥ āha, atha ke punarviśeṣā iti ? ucyate- yāni khalu tebhyo bhūtāni pañca pañcabhyaḥ utpadyante ete smṛtā viśeṣāḥ tatra śabdatanmātrādākāśam, sparśatanmātrādvāyuḥ, rūpatanmātrāttejaḥ, rasatanmātrādāpaḥ, gandhatanmātrātpṛthivī tebhyo bhūtānītyetāvati vaktavye pañca pañcabhya iti grahaṇaṃ samasaṃkhyākatastadutpattijñāpanārtham tenaikaikasmāttanmātrādekaikasya viśeṣasyotpattiḥ siddhā tataśca yadanyeṣāmācāryāṇāmabhipretam ekalakṣaṇebhyastanmātrebhyaḥ parasparānupraveśādekottarā viśeṣāḥ sṛjyanta iti tatpratiṣiddhaṃ bhavati kintarhi antareṇāpi tanmātrānupraveśamekottarebhyo bhūtebhya ekottarāṇāṃ bhūtaviśeṣāṇāmutpattiḥ tatra śabdaguṇācchabdatanmātrādākāśamekaguṇam, śabdasparśaguṇātsparśatanmātrāddviguṇo vāyuḥ, śabdasparśarūpaguṇādrūpatanmātrāttriguṇaṃ tejaḥ, śabdasparśarūparasaguṇādrasatanmātrāccaturguṇā āpaḥ, śabdasparśarūparasagandhād gandhatanmātrātpañcaguṇā pṛthivī atra ca vāyoḥ śītaḥ sparśa apāṃ ca, tejasa uṣṇaḥ, anuṣṇāśītaḥ pṛthivyāḥ rūpaṃ ca śuklaṃ bhāsvaraṃ ca tejaso 'pāṃ ca, kṛṣṇaṃ pṛthivyāḥ raso madhuro 'pām, sādhāraṇaḥ pṛthivyāḥ gandhastu pārthiva eva tadavayavānupraveśādbhūtāntareṣūpalabhyate ityete pṛthivyādīnāṃ dharmāḥ anye ca parasparānugrāhakāḥ ke punasta ityāha- ākāro gaurāṃ raukṣyaṃ varaṇaṃ sthairyameva ca sthitibhedaḥ kṣamā kṛṣṇacchāyā sarvopabhogyate iti te pārthivā dharmāstadviśiṣṭāstathā pare jalāgnipavanākāśavyāpakāstānnibodhata snehaḥ saukṣmyaṃ prabhā śauklyaṃ mārdavaṃ gauravaṃ ca yat śaityaṃ rakṣā pavitratvaṃ santānaścaudakā guṇāḥ ūrdhvagaṃ pāvakaṃ dagdhṛ pācakaṃ laghu bhāsvaram pradhvaṃsyojasvitā jyotiḥ pūrvābhyāṃ savilakṣaṇam tiryaggatiḥ pavitratvamākṣepo nodanaṃ balam raukṣyamacchāyatā śaityaṃ vāyordharmāḥ pṛthagvidhāḥ sarvatogatiravyūho viṣkambhaśceti te trayaḥ ākāśadharmā vijñeyāḥ pūrvadharmavirodhinaḥ saṃhatānāṃ tu yatkāryaṃ sāmānyaṃ te gavādayaḥ itaretaradharmebhyo viśeṣānnātra saṃśayaḥ tatrākārādidharmaiḥ pṛthivyā lokasya copakriyate bhūtāntarāṇāṃ ca tatrākārāttāvat gavādīnāṃ ghaṭādīnāṃ cākāranirvṛttiḥ gauravādeṣāmavasthānam raukṣyādapāṃ saṃgraho vaiśadyaṃ ca bhūtānām varaṇādanabhipretānāṃ chādanam sthairyādvṛttiḥ prajānāṃ bhūtāntarāṇāṃ ca sthitermātrādisannidhānādyanugrahaḥ bhedādghaṭādiniṣpattiḥ vyūhaścāvayavānām kṣānterupabhogabhogyatā kṛṣṇacchāyatvādrātrisampacchāyākāryaprasiddhiśca sarvopabhogyatvātsarvabhūtānugrahaḥ evaṃ snehādibhirlokasyopakāraḥ kriyate bhūtāntarāṇāṃ ca snehādrūpasaṃpadvāyupratīkāro 'gniśamanaṃ saṃgrahaśca pṛthivyāḥ saukṣmyādanupraveśaḥ śauklyāccandrādvinirvṛttiḥ mārdavātsnānāvagāhanamekakriyā kaṭhinānām cāvanāmanam gauravātsantānācca bhūtānugrahārthaṃ srotastvam śaityāduṣṇapratīkāraḥ rakṣātaḥ prajāsu ghoraśamanam pavitratvāddharmopacayaḥ śaucavidhiralakṣyopaghātaśca santānāddravyasaṃghātaḥ tathordhvagatyādibhirdharmamātraistejasāṃ lokasya copakriyate bhūtāntarāṇāṃ ca ūrdhvagateḥ pākaprakāśasiddhiḥ pāvakatvād dravyaśaucaṃ ca dāhakatvātkṣārotpattiḥ śītapratīkāro nabhasaścoṣṇatvaṃ śabdaniṣpattyartham pācakatvātsvedya svedanamannapaktiḥ pṛthivyavayavānāṃ kriyāyogyatā, tathā bāhyāntarapariṇāmaḥ, rasalohitamāṃsasnāyvasthimajjāśukrāṇāṃ lāghavāddāhyātikramaḥ bhāsvaratvāddravyāntaraprakāśanam pradhvaṃsitvāddagdhapakvānāmupabhogaḥ taijasaḥ prajāpālanam tathā tiryakpātādibhirdharmairvāyunā lokasya copakāraḥ kriyate bhūtāntarāṇāṃ ca tiryakpātāddṛṣṭivikṣepo gandhasaṃvahanaṃ ca pavitratvātpūtidravyapavanam ākṣepanodanābhyāmutkarṣaḥ prathamaṃ dharmāmbhasaḥ vyūhaśca śarīre rasādīnāṃ dhātūnāṃ ca agneścopadhmānamabhidhātaścākāśasya balātsamīkaraṇaṃ sarveṣām raukṣyādviśoṣaṇam acchāyatvādahorātraprasiddhiḥ śaityāduṣṇapratīkāraḥ tathā sarvatogatyādibhirdharmairnabhasā lokasyopakāraḥ kriyate bhūtāntarāṇāṃ ca sarvatogateḥ samantāttulyadeśaśravaṇanāmekaśrutitvam avyūhaviṣkambhābhyāṃ sarveṣāmavakāśatādānamityuktāḥ pṛthivyādayaḥ ete viśeṣā ityucyanta iti āha, kathaṃ punarete viśeṣā ityucyante ? yasmāt śāntā ghorāśca mūḍhāśca isk_38 tatra śāntāstāvat svasaṃskāraviśeṣayogāttatsannidhau prasādādidharmotpatteḥ ghorāstu śeṣādidharmanimittatvāt mūḍhāśca varaṇādidharmahetutvāt tanmātrāṇi punaraśāntaghoramūḍhāni ato 'viśeṣā ityucyante tadete yathā vyākhyātā aviśeṣā viśeṣāḥ puruṣārthasiddhyarthaṃ bahudhā vyavatiṣṭhante kasmāt ? na hyeteṣāmekadhāvasthāne puruṣārthaḥ siddhyatīti


39

कारिका 39 आह, अतिसामान्योक्तमिदमित्यतो न प्रतिपद्यामहे तस्माद्वक्तव्यं कथं विशेषणामवस्थानमिति ? उच्यते- सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः तत्र सूक्ष्मा नाम चेष्टाश्रितं प्राणाष्टकं संसरति मातृपितृजास्तु द्विविधाः जरायुजा अण्डजाश्च तेषां कोशोपहृताः कोशाः लोमरुधिरमांसास्थिस्नायुशुक्रलक्षणः तत्र लोमरुधिरमांसानां मातृतः सम्भवः अस्थिस्नायुशुक्राणां पितृतः तत्रैवाशितपीताध्यासा दष्टौ कोशानपरे व्याचक्षते कथं पुनरेषां कोशत्वम् ? आवेष्टनसामर्थ्यात् यथा कोशकारः कोशेनावेष्टितो ऽस्वतन्त्रः, एवं सूक्ष्मशरीरं सप्राणमेतैरावेष्टितमस्वतन्त्रं तत्तत्कर्मोपचिनोति प्रभूतास्तूद्भिज्जाः स्वेदजाश्च तदेतैस्त्रिविधैर्दैवमानवतैर्यग्योनलक्षणस्त्रिविधो भूतसर्ग आरभ्यते तत्र देवानां चतुर्विधं शरीरं प्रधानानुग्रहात्, यथा परमर्षेर्विरिञ्चस्य च तत्सिद्धिभ्यो यथा ब्रह्मणः पुत्राणां तत्पुत्रपुत्राणां च मातापितृतो यथादितेः कश्यपस्य च पुत्राणाम् केवलाद्वा यथा पितृतो मित्रावरुणाभ्यां वशिष्ठस्य मनुष्याणां तु जरायुजम् धर्मशक्तिविशेषात्तु कस्यचिदन्यथापि भवति यथा द्रोणकृपकृपीधृष्टद्युम्नादीनाम् तिर्यग्योनीनामपि चतुर्विधम् जरायुजं गवादीनामण्डजं चैव पक्षिणाम् तृणादेश्चोद्भिज्जं क्षुद्रजन्तूनां स्वेदजं स्मृतम् एवं त्रिविधा विशेषा व्याख्याताः तत्र केचिन्नियताः केचिदनियता इत्याह- के पुनरत्र नियताः, के वानियताः ? सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते इस्क्_39 सूक्ष्मा आसर्गप्रलयान्नित्याः मातृपितृजा निवर्तन्ते सह प्रभूतैरिति वर्तते केचित्तु प्रभूतग्रहणेन बाह्यानामेव विशेषाणां ग्रहणमिच्छन्ति तेषामुद्भिज्जस्वेदजयोरग्रहणम् तस्मादुभयथा प्रभूता इत्येतदनवद्यम् आह, सूक्ष्माभिधानमप्रसिद्धत्वात् मातापितृजाश्च प्रभूताश्च इत्यतो युक्त एषां परिग्रहः सूक्ष्मास्त्वप्रसिद्धा तस्माद्वक्तव्यं कथमेषामुत्पत्तिरस्तित्वं वेति ? उच्यते- पूर्वसर्गे प्रकृतेरुपपन्नानां प्राणिनां सत्त्वधर्मोत्कर्षादन्तरेण द्वयसमापत्तिं मनसैवापत्यमन्यद्वा यथेप्सितं प्रादुर्बभूव प्रियं खल्वपि चक्षुषा निरीक्ष्य कृतार्थमात्मानं मन्यते तस्यामपि क्षीणायां वाक्सिद्धिर्बभूव अभिभाष्य प्राणिनो यदिच्छन्ति तदापादयन्ति तदद्याप्यनुवर्तते- यच्छङ्खी विरुतेनापत्यं बिभर्ति प्रियं खल्वपि सम्भाष्य महतीं प्रीतिमनुभवति तस्यामुपक्षीणायां हस्तसिद्धिर्बभूव संस्पृश्य पाणिमीप्सितमर्थमुपपादयन्ति तदेतदद्याप्यनुवर्तते- यत्प्रियं चिरादालोक्य पाणौ संस्पृश्य प्रीतिर्भवति अस्यामुपक्षीणायामाश्लेषसिद्धिर्बभूव आलिङ्गनेन प्राणिन ईप्सितं लभन्ते तदेतदद्याप्यनुवर्तते- यत्प्रियमालिङ्ग्य निर्वृत्तिर्भवति तस्यामुपक्षीणायां द्वन्द्वसिद्धिरारब्धा स्त्रीपुंसौ संधृष्यापत्यमुत्पादयेतां ममेदं ममेदमिति च परिग्रहाः प्रवृत्ताः एतस्मिन्नेवावसरे संसारो वर्ण्यते तत्र चाचार्याणां विप्रतिपत्तिः पञ्चाधिकरणस्य तावद्वैवर्तं शरीरं मातापितृसंसर्गकाले करणाविष्टं शुक्रशोणितमनुप्रविशति तदनुप्रवेशाच्च कललादिभावेन विवर्धते व्यूढावयवं तूपलब्धप्रत्ययं मातुरुदरान्निस्सृत्य यौ धर्माधर्मौ षट्सिद्ध्युपभोगकाले कृतौ तद्वशादवतिष्ठते यावत्तत्क्षयाच्छरीरपातस्तावत् यदि धर्मसंस्कृतं करणं ततो द्युदेशं सूक्ष्मशरीरेण प्राप्यते, तद्विपर्ययात्तु यातनास्थानं तिर्यग्योनिं वा, मिश्रीभावेन मानुष्यम् एवमातिवाहिकं सूक्ष्मशरीरमिन्द्रियाणां धारणप्रापणसमर्थं नित्यं बाह्येनापायिना परिवेष्ट्यते परित्यज्यते च पतञ्जलेस्तु सूक्ष्मशरीरं यत्सिद्धिकाले पूर्वमिन्द्रियाणि बीजदेशं नयति तत्र तत्कृताशयवशात् द्युदेशं यातनास्थानं वा करणानि वा प्रापय्य निवर्तते तत्र चैवं युक्ताशयस्य कर्मवशादन्यदुत्पद्यते यदिन्द्रियाणि बीजदेशं नयति तदपि निवर्तते, शरीरपाते चान्यदुत्पद्यते एवमनेकानि शरीराणि विन्ध्यवासिनस्तु विभुत्वादिन्द्रियाणां बीजदेशे वृत्त्या जन्म तत्त्यागो मरणम् तस्मान्नास्ति सूक्ष्मशरीरम् तस्मान्निर्विशेषः संसार इति पक्षः एषा सूक्ष्मशरीरस्योत्पत्तिः

kārikā 39 āha, atisāmānyoktamidamityato na pratipadyāmahe tasmādvaktavyaṃ kathaṃ viśeṣaṇāmavasthānamiti ? ucyate- sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ tatra sūkṣmā nāma ceṣṭāśritaṃ prāṇāṣṭakaṃ saṃsarati mātṛpitṛjāstu dvividhāḥ jarāyujā aṇḍajāśca teṣāṃ kośopahṛtāḥ kośāḥ lomarudhiramāṃsāsthisnāyuśukralakṣaṇaḥ tatra lomarudhiramāṃsānāṃ mātṛtaḥ sambhavaḥ asthisnāyuśukrāṇāṃ pitṛtaḥ tatraivāśitapītādhyāsā daṣṭau kośānapare vyācakṣate kathaṃ punareṣāṃ kośatvam ? āveṣṭanasāmarthyāt yathā kośakāraḥ kośenāveṣṭito 'svatantraḥ, evaṃ sūkṣmaśarīraṃ saprāṇametairāveṣṭitamasvatantraṃ tattatkarmopacinoti prabhūtāstūdbhijjāḥ svedajāśca tadetaistrividhairdaivamānavatairyagyonalakṣaṇastrividho bhūtasarga ārabhyate tatra devānāṃ caturvidhaṃ śarīraṃ pradhānānugrahāt, yathā paramarṣerviriñcasya ca tatsiddhibhyo yathā brahmaṇaḥ putrāṇāṃ tatputraputrāṇāṃ ca mātāpitṛto yathāditeḥ kaśyapasya ca putrāṇām kevalādvā yathā pitṛto mitrāvaruṇābhyāṃ vaśiṣṭhasya manuṣyāṇāṃ tu jarāyujam dharmaśaktiviśeṣāttu kasyacidanyathāpi bhavati yathā droṇakṛpakṛpīdhṛṣṭadyumnādīnām tiryagyonīnāmapi caturvidham jarāyujaṃ gavādīnāmaṇḍajaṃ caiva pakṣiṇām tṛṇādeścodbhijjaṃ kṣudrajantūnāṃ svedajaṃ smṛtam evaṃ trividhā viśeṣā vyākhyātāḥ tatra kecinniyatāḥ kecidaniyatā ityāha- ke punaratra niyatāḥ, ke vāniyatāḥ ? sūkṣmāsteṣāṃ niyatā mātāpitṛjā nivartante isk_39 sūkṣmā āsargapralayānnityāḥ mātṛpitṛjā nivartante saha prabhūtairiti vartate kecittu prabhūtagrahaṇena bāhyānāmeva viśeṣāṇāṃ grahaṇamicchanti teṣāmudbhijjasvedajayoragrahaṇam tasmādubhayathā prabhūtā ityetadanavadyam āha, sūkṣmābhidhānamaprasiddhatvāt mātāpitṛjāśca prabhūtāśca ityato yukta eṣāṃ parigrahaḥ sūkṣmāstvaprasiddhā tasmādvaktavyaṃ kathameṣāmutpattirastitvaṃ veti ? ucyate- pūrvasarge prakṛterupapannānāṃ prāṇināṃ sattvadharmotkarṣādantareṇa dvayasamāpattiṃ manasaivāpatyamanyadvā yathepsitaṃ prādurbabhūva priyaṃ khalvapi cakṣuṣā nirīkṣya kṛtārthamātmānaṃ manyate tasyāmapi kṣīṇāyāṃ vāksiddhirbabhūva abhibhāṣya prāṇino yadicchanti tadāpādayanti tadadyāpyanuvartate- yacchaṅkhī virutenāpatyaṃ bibharti priyaṃ khalvapi sambhāṣya mahatīṃ prītimanubhavati tasyāmupakṣīṇāyāṃ hastasiddhirbabhūva saṃspṛśya pāṇimīpsitamarthamupapādayanti tadetadadyāpyanuvartate- yatpriyaṃ cirādālokya pāṇau saṃspṛśya prītirbhavati asyāmupakṣīṇāyāmāśleṣasiddhirbabhūva āliṅganena prāṇina īpsitaṃ labhante tadetadadyāpyanuvartate- yatpriyamāliṅgya nirvṛttirbhavati tasyāmupakṣīṇāyāṃ dvandvasiddhirārabdhā strīpuṃsau saṃdhṛṣyāpatyamutpādayetāṃ mamedaṃ mamedamiti ca parigrahāḥ pravṛttāḥ etasminnevāvasare saṃsāro varṇyate tatra cācāryāṇāṃ vipratipattiḥ pañcādhikaraṇasya tāvadvaivartaṃ śarīraṃ mātāpitṛsaṃsargakāle karaṇāviṣṭaṃ śukraśoṇitamanupraviśati tadanupraveśācca kalalādibhāvena vivardhate vyūḍhāvayavaṃ tūpalabdhapratyayaṃ māturudarānnissṛtya yau dharmādharmau ṣaṭsiddhyupabhogakāle kṛtau tadvaśādavatiṣṭhate yāvattatkṣayāccharīrapātastāvat yadi dharmasaṃskṛtaṃ karaṇaṃ tato dyudeśaṃ sūkṣmaśarīreṇa prāpyate, tadviparyayāttu yātanāsthānaṃ tiryagyoniṃ vā, miśrībhāvena mānuṣyam evamātivāhikaṃ sūkṣmaśarīramindriyāṇāṃ dhāraṇaprāpaṇasamarthaṃ nityaṃ bāhyenāpāyinā pariveṣṭyate parityajyate ca patañjalestu sūkṣmaśarīraṃ yatsiddhikāle pūrvamindriyāṇi bījadeśaṃ nayati tatra tatkṛtāśayavaśāt dyudeśaṃ yātanāsthānaṃ vā karaṇāni vā prāpayya nivartate tatra caivaṃ yuktāśayasya karmavaśādanyadutpadyate yadindriyāṇi bījadeśaṃ nayati tadapi nivartate, śarīrapāte cānyadutpadyate evamanekāni śarīrāṇi vindhyavāsinastu vibhutvādindriyāṇāṃ bījadeśe vṛttyā janma tattyāgo maraṇam tasmānnāsti sūkṣmaśarīram tasmānnirviśeṣaḥ saṃsāra iti pakṣaḥ eṣā sūkṣmaśarīrasyotpattiḥ


40

कारिका 40 आह, एवमनेकनिश्चयेष्वाचार्येषु भवतः का प्रतिपत्तिरिति ? उच्यते- यत्तावत्पतञ्जलिराह सूक्ष्मशरीरं विनिवर्तते पुनश्चान्यदुत्पद्यते, तत् सूक्ष्मास्तेषां नियता इति वचनादस्माभिर्नाभ्युपगम्यते तस्मात् पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् इस्क्_40 तत्र पूर्वोत्पन्नमित्यनेन महदादेः सूक्ष्मपर्यन्तस्य लिङ्गस्यासर्गप्रलयान्नित्यत्वमाह असक्तमित्यनेन गूढस्थिरबीजानुप्रवेशमाचष्टे न हि लिङ्गं क्वचिद्व्याहन्यते, किं तर्हि लिक्षादि बीजमप्याविशति बदरगोलमपि भित्वा प्रविशति नियतमित्यनेन प्रतिपुरुषव्यवस्थां प्रतिजानाति साधारणो हि महान्प्रकृतित्वादिति वार्षगणानां पक्षः महदादीत्यनेन प्राणाष्टकं परिगृह्णाति पूर्वात्मानः प्राणाद्याश्च पञ्च वायव इति सूक्ष्मपर्यन्तमिति तत्त्वान्तरप्रतिषेधमाह, एतावदेव नातो ऽन्यदिति संसरतीति गतिमाचष्टे, ततश्चाविभुत्वाद् बीजावेशत्यागौ प्रख्यातो भवतः निरुपभोगमिति शरीरान्तरस्यावकाशं करोति सूक्ष्मशरीरस्य ह्युपभोगसामर्थ्ये ऽभ्युपगम्यमाने शरीरान्तरस्य निरवकाशत्वादनुत्पत्तिप्रसंगः स्यात् भावैरधिवासितमित्यनेन भावाष्टकपरिग्रहं द्योतयति बुद्धिरूपैरिह धर्मादिभिरधिवासितम् तत्सामर्थ्यात्सर्वत्राप्रतिहतं प्राणाष्टकं सूक्ष्मशरीरे ऽवस्थानगमनमात्रफले व्यवस्थितम् द्युतिर्यक्प्रेतेषु संसरतीति तेनैव चार्थसिद्धौ शरीरान्तरपरिकल्पनानर्थक्यमतो न बहूनि शरीराणि

kārikā 40 āha, evamanekaniścayeṣvācāryeṣu bhavataḥ kā pratipattiriti ? ucyate- yattāvatpatañjalirāha sūkṣmaśarīraṃ vinivartate punaścānyadutpadyate, tat sūkṣmāsteṣāṃ niyatā iti vacanādasmābhirnābhyupagamyate tasmāt pūrvotpannamasaktaṃ niyataṃ mahadādisūkṣmaparyantam saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam isk_40 tatra pūrvotpannamityanena mahadādeḥ sūkṣmaparyantasya liṅgasyāsargapralayānnityatvamāha asaktamityanena gūḍhasthirabījānupraveśamācaṣṭe na hi liṅgaṃ kvacidvyāhanyate, kiṃ tarhi likṣādi bījamapyāviśati badaragolamapi bhitvā praviśati niyatamityanena pratipuruṣavyavasthāṃ pratijānāti sādhāraṇo hi mahānprakṛtitvāditi vārṣagaṇānāṃ pakṣaḥ mahadādītyanena prāṇāṣṭakaṃ parigṛhṇāti pūrvātmānaḥ prāṇādyāśca pañca vāyava iti sūkṣmaparyantamiti tattvāntarapratiṣedhamāha, etāvadeva nāto 'nyaditi saṃsaratīti gatimācaṣṭe, tataścāvibhutvād bījāveśatyāgau prakhyāto bhavataḥ nirupabhogamiti śarīrāntarasyāvakāśaṃ karoti sūkṣmaśarīrasya hyupabhogasāmarthye 'bhyupagamyamāne śarīrāntarasya niravakāśatvādanutpattiprasaṃgaḥ syāt bhāvairadhivāsitamityanena bhāvāṣṭakaparigrahaṃ dyotayati buddhirūpairiha dharmādibhiradhivāsitam tatsāmarthyātsarvatrāpratihataṃ prāṇāṣṭakaṃ sūkṣmaśarīre 'vasthānagamanamātraphale vyavasthitam dyutiryakpreteṣu saṃsaratīti tenaiva cārthasiddhau śarīrāntaraparikalpanānarthakyamato na bahūni śarīrāṇi


41

कारिका 41 यत्पुनरेतदुक्तम्- विभुत्वादिन्द्रियाणां स्वात्मन्यवस्थानं वृत्तिलाभो वृत्तिनिरोधश्च संसार इति, अयुक्तमेतत् कस्मात् ? विभुत्वासिद्धेः न हि विभुत्वमिन्द्रियाणां कश्चिदभ्युपगच्छति किं कारणम् ? सततोपलब्धिप्रसंगात् युगपदुपलब्धिप्रसंगाच्च कार्यकरणपुरुषाणां हि विभुत्वे सततोपलब्धिप्रसंगः विषयाणां प्रतिबन्धाभावात्प्रसज्यते प्रात्प्यविशेषाच्च सर्वविशेषाणां युगपदुपलब्धिप्रसंगः व्यवहितविषयग्रहणं च सर्वत्र सन्निधानात्सन्निकृष्टविप्रकृष्टयोः प्रत्यक्षानुमानागमानां चाविशेषः प्रसज्यते वृत्तिविशेषात्तद्विशेष इति चेत् न, हेत्वभावात् विभूनामिहास्ति वृत्तिविशेष इत्यत्र हेतुरनुक्तः तस्मान्न करणानां विभुत्वमुपपद्यते तस्मात् चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् इस्क्_41 यथा हि चित्रस्य कुड्यमृते ऽवस्थानं नास्ति, स्थाणुपुरुषादिभ्यो वा विना च्छायायाः तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् तस्मादुपपन्नमेतत् सविशेषः संसारः आह, यदि सविशेषः संसारबीजदेशगमने शरीरमुपलभ्येत न त्वेवम् तस्मादयुक्तमेतत् उच्यते- न, विशेषितत्वात् सूक्ष्मं तच्छरीरमिति विशेषितम् ततो नास्याहेतुकमग्रहणमिति आह, सूक्ष्मशरीरयोगात्पूर्वेश्वरत्वप्रसंगः तस्मादयुक्तं तन्निमित्तमस्याग्रहणमिति उच्यते- न अनेकान्तात् तद्यथा क्षुद्रजन्तूनां सूक्ष्मशरीरं लघिमा च, न चैषामीश्वरत्वमेवं सर्वप्राणिनां स्यात् अथ मतमगृह्यमाणेन सम्बन्धात् स्थूलस्यापि शरीरस्याग्रहणं प्रेताञ्जनसिद्धमाल्यादिवत् तदप्यनुपपन्नम् अनेकान्तात् तद्यथा करणैरगृह्यमाणैः शरीरस्य सम्बन्धः न चाग्रहणम्, पिशाचादिभिर्वा तथैतदपि स्यात् किंच अन्तःकरणानुविधाने चैश्वर्याभिमानात् यस्य चाध्यवसायमनुविदधत्यणिमादीनि तस्यैश्वर्यमभिप्रेतम् न तु यस्य स्वभावसिद्धानि अन्यथा तु पिपीलिकादीनामप्याकाशगमनादैश्वर्यं स्यात् आह, न, शरीरानुपपत्तिप्रसंगात् सूक्ष्मशरीरोत्पत्तौ तर्हि चरितार्थयोः शरीरान्तरसामर्थ्यं विरुध्यते तस्मादयुक्तम् सविशेषः संसारः उच्यते- न अनभ्युपगमात् न धर्माधर्मनिमित्तं वैवर्तं शरीरम्, किं तर्हि आधिकारिकमित्यदोषः न चानेकशरीरत्वमभ्युपगम्यते तस्मात्पक्षान्तरोपालम्भो ऽयम् किं च कृत्स्नाशयपरिणामाप्रतिज्ञानात् कृत्स्नस्याशयस्य परिणामं जानन्नेवमुपालभ्यः स्यादेकदेशस्तु नो विपरिणामी तस्मान्न किंचिदेतत् निमित्तावशेषादाशयैकदेशाभिव्यक्तिरयुक्तेति चेत्, स्यान्मतम्- इह निमित्तानामल्पबहुत्वविशेषादाशयाभिव्यक्तिविशेषो दृष्टः तद्यथा वाय्वादिक्रोधादिषु प्रायणकालश्चायं फलाभिव्यक्तौ निमित्तम् अविशिष्टश्चासौ तस्मादाशयैकदेशपरिणामो ऽनुपपन्न इति एतच्चायुक्तम् कस्मात् ? नैमित्तिकत्वात् पूर्वकृतस्य कर्मणः फलभोगपरिसमाप्तिः, साम्प्रतस्य च फलोपभोगार्थविपरिणामः प्रायणस्य निमित्तम् न तु प्रायणो विपरिणमस्येति किंच शरीरान्तराभावश्च कृत्स्नस्याशयस्याभिव्यक्तिमिच्छतः शरीरान्तराभावो निमित्तान्तराभावात्प्राप्नोति तत्र कृतेनेति चेत् न, कललाद्यवस्थानाशे तदसम्भवात् तत्र कृताभ्यां हि बीजावेशः करणस्य निष्पादितो यावत्कललाद्यस्थायामेव तच्छरीरं विनष्टमिति तत्र कृताशयस्यासम्भवाच्छरीरान्तरानुपपत्तिप्रसंगः किं च स्थावराणां च शरीरान्तरासम्भवः आशयस्य स्थावरशरीरारम्भे चरितार्थत्वात्स्थावरशरीरेण चाशयोपादानसम्भवात्तस्य संसाराभावः प्राप्तः तस्मादुपपन्नमेतत्पुरुषार्थमादिसर्गोत्पन्नं सूक्ष्मशरीरं संसरति यावच्च स पुरुषार्थो न परिसमाप्यते तावत्तिष्ठत इति

kārikā 41 yatpunaretaduktam- vibhutvādindriyāṇāṃ svātmanyavasthānaṃ vṛttilābho vṛttinirodhaśca saṃsāra iti, ayuktametat kasmāt ? vibhutvāsiddheḥ na hi vibhutvamindriyāṇāṃ kaścidabhyupagacchati kiṃ kāraṇam ? satatopalabdhiprasaṃgāt yugapadupalabdhiprasaṃgācca kāryakaraṇapuruṣāṇāṃ hi vibhutve satatopalabdhiprasaṃgaḥ viṣayāṇāṃ pratibandhābhāvātprasajyate prātpyaviśeṣācca sarvaviśeṣāṇāṃ yugapadupalabdhiprasaṃgaḥ vyavahitaviṣayagrahaṇaṃ ca sarvatra sannidhānātsannikṛṣṭaviprakṛṣṭayoḥ pratyakṣānumānāgamānāṃ cāviśeṣaḥ prasajyate vṛttiviśeṣāttadviśeṣa iti cet na, hetvabhāvāt vibhūnāmihāsti vṛttiviśeṣa ityatra heturanuktaḥ tasmānna karaṇānāṃ vibhutvamupapadyate tasmāt citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā cchāyā tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam isk_41 yathā hi citrasya kuḍyamṛte 'vasthānaṃ nāsti, sthāṇupuruṣādibhyo vā vinā cchāyāyāḥ tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam tasmādupapannametat saviśeṣaḥ saṃsāraḥ āha, yadi saviśeṣaḥ saṃsārabījadeśagamane śarīramupalabhyeta na tvevam tasmādayuktametat ucyate- na, viśeṣitatvāt sūkṣmaṃ taccharīramiti viśeṣitam tato nāsyāhetukamagrahaṇamiti āha, sūkṣmaśarīrayogātpūrveśvaratvaprasaṃgaḥ tasmādayuktaṃ tannimittamasyāgrahaṇamiti ucyate- na anekāntāt tadyathā kṣudrajantūnāṃ sūkṣmaśarīraṃ laghimā ca, na caiṣāmīśvaratvamevaṃ sarvaprāṇināṃ syāt atha matamagṛhyamāṇena sambandhāt sthūlasyāpi śarīrasyāgrahaṇaṃ pretāñjanasiddhamālyādivat tadapyanupapannam anekāntāt tadyathā karaṇairagṛhyamāṇaiḥ śarīrasya sambandhaḥ na cāgrahaṇam, piśācādibhirvā tathaitadapi syāt kiṃca antaḥkaraṇānuvidhāne caiśvaryābhimānāt yasya cādhyavasāyamanuvidadhatyaṇimādīni tasyaiśvaryamabhipretam na tu yasya svabhāvasiddhāni anyathā tu pipīlikādīnāmapyākāśagamanādaiśvaryaṃ syāt āha, na, śarīrānupapattiprasaṃgāt sūkṣmaśarīrotpattau tarhi caritārthayoḥ śarīrāntarasāmarthyaṃ virudhyate tasmādayuktam saviśeṣaḥ saṃsāraḥ ucyate- na anabhyupagamāt na dharmādharmanimittaṃ vaivartaṃ śarīram, kiṃ tarhi ādhikārikamityadoṣaḥ na cānekaśarīratvamabhyupagamyate tasmātpakṣāntaropālambho 'yam kiṃ ca kṛtsnāśayapariṇāmāpratijñānāt kṛtsnasyāśayasya pariṇāmaṃ jānannevamupālabhyaḥ syādekadeśastu no vipariṇāmī tasmānna kiṃcidetat nimittāvaśeṣādāśayaikadeśābhivyaktirayukteti cet, syānmatam- iha nimittānāmalpabahutvaviśeṣādāśayābhivyaktiviśeṣo dṛṣṭaḥ tadyathā vāyvādikrodhādiṣu prāyaṇakālaścāyaṃ phalābhivyaktau nimittam aviśiṣṭaścāsau tasmādāśayaikadeśapariṇāmo 'nupapanna iti etaccāyuktam kasmāt ? naimittikatvāt pūrvakṛtasya karmaṇaḥ phalabhogaparisamāptiḥ, sāmpratasya ca phalopabhogārthavipariṇāmaḥ prāyaṇasya nimittam na tu prāyaṇo vipariṇamasyeti kiṃca śarīrāntarābhāvaśca kṛtsnasyāśayasyābhivyaktimicchataḥ śarīrāntarābhāvo nimittāntarābhāvātprāpnoti tatra kṛteneti cet na, kalalādyavasthānāśe tadasambhavāt tatra kṛtābhyāṃ hi bījāveśaḥ karaṇasya niṣpādito yāvatkalalādyasthāyāmeva taccharīraṃ vinaṣṭamiti tatra kṛtāśayasyāsambhavāccharīrāntarānupapattiprasaṃgaḥ kiṃ ca sthāvarāṇāṃ ca śarīrāntarāsambhavaḥ āśayasya sthāvaraśarīrārambhe caritārthatvātsthāvaraśarīreṇa cāśayopādānasambhavāttasya saṃsārābhāvaḥ prāptaḥ tasmādupapannametatpuruṣārthamādisargotpannaṃ sūkṣmaśarīraṃ saṃsarati yāvacca sa puruṣārtho na parisamāpyate tāvattiṣṭhata iti


42

कारिका 42 आह, यदि पुरुषार्था लिङ्गस्योत्पत्तिरभ्युपगम्यते तत्समनन्तरमेवानेन पुरुषार्थो ऽवसाययितव्यो न पुनर्देवमानुषतिर्यग्भावेन पुनः पुनराजञ्जवीभावो ऽनुष्ठातव्य इति उच्यते- पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् इस्क्_42 यद्यपि पुरुषार्थसिद्ध्यर्थं लिङ्गमुत्पद्यते, तथापि सत्त्वरजस्तमसां त्रयाणामपि प्राधान्याद्रजस्तमोभ्यामभिभूते सत्त्वे तत्प्रेरितं निमित्तनैमित्तिकशरीरेन्द्रियविषयोपभोगनिर्वर्तकं शृणोति तद्यथा अग्निहोत्रं जुहुयात्स्वर्गकामो, यमराज्यमग्निष्टोमेनाभिजयतीति तत्र फलेच्छया योनीः प्राणादींश्च सम्मुखीकृत्य क्रियामारभते गुणवृत्तवैचित्र्याच्च प्रयत्नवानपि मनोवाग्देहैर्मलिनमपि कर्म करोति ततश्च प्रकृतेर्विभुत्वयोगात्तेन तेन निमित्तेनोपस्थापितं देवमनुष्यतिर्यक्प्रेतादिशरीरमेकस्वभावमपि सन्नटवद्व्यवतिष्ठते लिङ्गमाकृतिविशेषोपादानत्यागसाम्यतः विभुत्वं गुणानां त्रयाणामपि साम्यादितरेतराभिभवो दृष्टः तस्माद्भावनिमित्तः संसारः तन्निमित्तानुपादानान्मोक्षः

kārikā 42 āha, yadi puruṣārthā liṅgasyotpattirabhyupagamyate tatsamanantaramevānena puruṣārtho 'vasāyayitavyo na punardevamānuṣatiryagbhāvena punaḥ punarājañjavībhāvo 'nuṣṭhātavya iti ucyate- puruṣārthahetukamidaṃ nimittanaimittikaprasaṅgena prakṛtervibhutvayogānnaṭavad vyavatiṣṭhate liṅgam isk_42 yadyapi puruṣārthasiddhyarthaṃ liṅgamutpadyate, tathāpi sattvarajastamasāṃ trayāṇāmapi prādhānyādrajastamobhyāmabhibhūte sattve tatpreritaṃ nimittanaimittikaśarīrendriyaviṣayopabhoganirvartakaṃ śṛṇoti tadyathā agnihotraṃ juhuyātsvargakāmo, yamarājyamagniṣṭomenābhijayatīti tatra phalecchayā yonīḥ prāṇādīṃśca sammukhīkṛtya kriyāmārabhate guṇavṛttavaicitryācca prayatnavānapi manovāgdehairmalinamapi karma karoti tataśca prakṛtervibhutvayogāttena tena nimittenopasthāpitaṃ devamanuṣyatiryakpretādiśarīramekasvabhāvamapi sannaṭavadvyavatiṣṭhate liṅgamākṛtiviśeṣopādānatyāgasāmyataḥ vibhutvaṃ guṇānāṃ trayāṇāmapi sāmyāditaretarābhibhavo dṛṣṭaḥ tasmādbhāvanimittaḥ saṃsāraḥ tannimittānupādānānmokṣaḥ


43

कारिका 43 आह, भावा इति तत्र भवताभिधीयते, न चास्य शब्दस्यार्थं प्रतिपद्यामहे तस्माद्वक्तव्यमिदं के पुनरमी भावा इति ? उच्यते- धर्माद्या भावाः धर्मो ज्ञानं वैराग्यमैश्वर्यमधर्मो ऽज्ञानमवैराग्यमनैश्वर्यमित्येते भावाः तत्राचार्याणां विप्रतिपत्तिः पञ्चाधिकरणस्य तावद्द्विविधं ज्ञानं प्राकृतिकं वैकृतिकं च प्राकृतिकं त्रिविधं- तत्त्वसमकालं सांसिद्धिकमाभिष्यन्दिकं च तत्र तत्त्वसमकालं संहतश्च महांस्तत्त्वात्मना महति प्रत्ययो भवति उत्पन्नकार्यकारणस्य तु सांसिद्धिकमाभिष्यन्दिकं च भवति सांसिद्धिकं यत्संहतव्यूहसमकालं निष्पद्यते, यथा परमर्षेर्ज्ञानम् आभिष्यन्दिकं च संसिद्धकार्यकरणस्य कारणान्तरेणोत्पद्यते वैकृतं तु द्विविधं स्ववैकृतं परवैकृतं च स्ववैकृतं तारकम् परवैकृतं सिद्ध्यन्तराणि आह च तत्त्वसमं वैवर्तम् तत्राभिष्यन्दिकं द्वितीयं स्यात् वैकृतमतस्तृतीयं षाट्कौशिकमेतदाखातम् अत्र तु सत्त्वैः सहोत्पत्त्यविशेषात्सांसिद्धिकमभेदेनाह- वैकृतमपि च द्विविधं स्ववैकृतं तत्र तारकं भवति स्यात्सप्तविधं परवैकृतं स्वतारादि निर्दिष्टम् इति यथा ज्ञानमेवं धर्मादयो ऽपीति विन्ध्यवासिनस्तु नास्ति तत्त्वसमं सांसिद्धिकं च किं तर्हि सिद्धिरूपमेव तत्र परमर्षेरपि सर्गसंघातव्यूहोत्तरकालमेव ज्ञानं निष्पद्यते यस्माद् गुरुमुखाभिप्रतिपत्तेः प्रतिपत्स्यत इत्यपीत्याह- सिद्धं निमित्तं नैमित्तिकस्यानुग्रहं कुरुते, नापूर्वमुत्पादयतीति निमित्तनैमित्तिकभावाच्चैवमुपपद्यते तत्र परमर्षेः पटुरूहः अन्येषां क्लिष्ट इत्ययं विशेषः सर्वेषामेव तु तारकाद्यविशिष्टमाचार्य आह- त्रिविधा भावाः सांसिद्धिकाः प्राकृतिका वैकृतिकाश्चेति तत्र सांसिद्धिकग्रहणात्तत्त्वसमकालं प्रत्याचष्टे, नैव तदस्तीति कथम् ? यदि हि तथा स्यात्तत्त्वान्तरानुत्पत्तिसंघातो व्यूहश्चानर्थकः स्यात् महत्युत्पन्नं ज्ञानं तत्रैवोपलब्धमिति कः संघातार्थः ? तथा चर्षेरूहो नोपपद्यते, प्रतिबन्धाभावात् न ह्यस्य कार्यकारणव्यूहसमकालज्ञानोत्पत्तौ कश्चित्प्रतिबन्धो ऽस्ति अपरिवृतखलत्वाद्यतः कालान्तरं प्रतीक्षते तस्मादस्य सहैव कार्यकारणाभ्यां ज्ञानमभिनिष्पद्यते प्रदीपप्रकाशादित्यतः सांसिद्धिकम् अन्येषां तु सत्त्वस्यापटुत्वात्कालान्तरेण प्रकृत्यभिष्यन्दाद् द्रागिति भवति कृष्णसर्पदर्शनवत् तत्प्राकृतम् वैकृतं तु द्विविधं पूर्ववत् यथा च परमर्षेर्ज्ञानं सांसिद्धिकमेवं माहात्म्यशरीरस्यैश्वर्यं, भृग्वादीनां धर्मः, सनकादीनां वैराग्यम् अधर्मो यक्षरक्षःप्रभृतीनाम् अनैश्वर्यं षट्सिद्धिक्षयकालोत्पन्नानां मनुष्याणां तिरश्चाञ्च रागो ऽज्ञानं परमर्षिवर्ज्यानाम् प्राकृतास्तु तद्यथा वैराग्यं भगवदासुरेः तस्य हि परमर्षिसम्भावनादुत्पन्नो धर्मः, अशुद्धिं प्रतिद्वन्द्विभावादपजगाम तस्यामपहतायां प्रकृतेः शुद्धिस्रोतः प्रवृत्तं येनानुगृहीतो दुःखत्रयाभिघातादुत्पन्नजिज्ञासः प्रव्रजितः तथा महेश्वरसम्पर्कान्नन्दिन ऐश्वर्यम् नहुषस्यागस्त्यसम्पर्काद्धर्म इत्यादि वैकृतास्तु भावा अस्मदादीनाम् एवं त्रिविधभावपरिग्रहात्त्वाचार्यस्य न सर्वं स्वतः पतञ्जलिवत्, न सर्वं परतः पञ्चाधिकरणवत् किन्तर्हि महती स्वभावातिवृत्तिः प्रकृतितो ऽल्पा स्वतो विकृतितः एवम् सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः दृष्टाः करणाश्रयिणः यथा चैते तथा कार्याश्रयिणश्च कललाद्याः इस्क्_43 त्रिविधा एवेति कललादिग्रहणेन शरीराण्याह तेषामाकृतिवैश्वरूप्यं चतुर्दशविधे संसारे त्रिविधम् तत्र सांसिद्धिकस्तावत् वैवर्त्तानां ग्रहनक्षत्रतारादीनाम् जातिकृतश्च विशेषः हंसानां शौक्ल्यम्, तित्तिरमयूरादीनां चित्रच्छदत्वमिति प्राकृतं यथामाहात्म्यं शरीराभिमानात् तस्य ह्यभिमानो भवति- हन्ताहं पुत्रान्स्रक्ष्ये ये मे कर्म करिष्यन्ति ये मां परं च ज्ञास्यन्ति स यादृक्सर्गमभिध्यायति तादृक्प्रधानादुत्पद्यते तद्यथा महेश्वरस्य रुद्रकोटिसृष्टाविति वैकृतास्तु कललाद्याः यथा भिषग्वेदे ऽभिहितम्- क्षीरं पीत्वा गर्भिणी गौरं पुत्रं जनयतीति एते भावा व्याख्याताः एषां वैश्वरूप्याल्लिङ्गस्य गतिविशेषः संसारो भवतीति

kārikā 43 āha, bhāvā iti tatra bhavatābhidhīyate, na cāsya śabdasyārthaṃ pratipadyāmahe tasmādvaktavyamidaṃ ke punaramī bhāvā iti ? ucyate- dharmādyā bhāvāḥ dharmo jñānaṃ vairāgyamaiśvaryamadharmo 'jñānamavairāgyamanaiśvaryamityete bhāvāḥ tatrācāryāṇāṃ vipratipattiḥ pañcādhikaraṇasya tāvaddvividhaṃ jñānaṃ prākṛtikaṃ vaikṛtikaṃ ca prākṛtikaṃ trividhaṃ- tattvasamakālaṃ sāṃsiddhikamābhiṣyandikaṃ ca tatra tattvasamakālaṃ saṃhataśca mahāṃstattvātmanā mahati pratyayo bhavati utpannakāryakāraṇasya tu sāṃsiddhikamābhiṣyandikaṃ ca bhavati sāṃsiddhikaṃ yatsaṃhatavyūhasamakālaṃ niṣpadyate, yathā paramarṣerjñānam ābhiṣyandikaṃ ca saṃsiddhakāryakaraṇasya kāraṇāntareṇotpadyate vaikṛtaṃ tu dvividhaṃ svavaikṛtaṃ paravaikṛtaṃ ca svavaikṛtaṃ tārakam paravaikṛtaṃ siddhyantarāṇi āha ca tattvasamaṃ vaivartam tatrābhiṣyandikaṃ dvitīyaṃ syāt vaikṛtamatastṛtīyaṃ ṣāṭkauśikametadākhātam atra tu sattvaiḥ sahotpattyaviśeṣātsāṃsiddhikamabhedenāha- vaikṛtamapi ca dvividhaṃ svavaikṛtaṃ tatra tārakaṃ bhavati syātsaptavidhaṃ paravaikṛtaṃ svatārādi nirdiṣṭam iti yathā jñānamevaṃ dharmādayo 'pīti vindhyavāsinastu nāsti tattvasamaṃ sāṃsiddhikaṃ ca kiṃ tarhi siddhirūpameva tatra paramarṣerapi sargasaṃghātavyūhottarakālameva jñānaṃ niṣpadyate yasmād gurumukhābhipratipatteḥ pratipatsyata ityapītyāha- siddhaṃ nimittaṃ naimittikasyānugrahaṃ kurute, nāpūrvamutpādayatīti nimittanaimittikabhāvāccaivamupapadyate tatra paramarṣeḥ paṭurūhaḥ anyeṣāṃ kliṣṭa ityayaṃ viśeṣaḥ sarveṣāmeva tu tārakādyaviśiṣṭamācārya āha- trividhā bhāvāḥ sāṃsiddhikāḥ prākṛtikā vaikṛtikāśceti tatra sāṃsiddhikagrahaṇāttattvasamakālaṃ pratyācaṣṭe, naiva tadastīti katham ? yadi hi tathā syāttattvāntarānutpattisaṃghāto vyūhaścānarthakaḥ syāt mahatyutpannaṃ jñānaṃ tatraivopalabdhamiti kaḥ saṃghātārthaḥ ? tathā carṣerūho nopapadyate, pratibandhābhāvāt na hyasya kāryakāraṇavyūhasamakālajñānotpattau kaścitpratibandho 'sti aparivṛtakhalatvādyataḥ kālāntaraṃ pratīkṣate tasmādasya sahaiva kāryakāraṇābhyāṃ jñānamabhiniṣpadyate pradīpaprakāśādityataḥ sāṃsiddhikam anyeṣāṃ tu sattvasyāpaṭutvātkālāntareṇa prakṛtyabhiṣyandād drāgiti bhavati kṛṣṇasarpadarśanavat tatprākṛtam vaikṛtaṃ tu dvividhaṃ pūrvavat yathā ca paramarṣerjñānaṃ sāṃsiddhikamevaṃ māhātmyaśarīrasyaiśvaryaṃ, bhṛgvādīnāṃ dharmaḥ, sanakādīnāṃ vairāgyam adharmo yakṣarakṣaḥprabhṛtīnām anaiśvaryaṃ ṣaṭsiddhikṣayakālotpannānāṃ manuṣyāṇāṃ tiraścāñca rāgo 'jñānaṃ paramarṣivarjyānām prākṛtāstu tadyathā vairāgyaṃ bhagavadāsureḥ tasya hi paramarṣisambhāvanādutpanno dharmaḥ, aśuddhiṃ pratidvandvibhāvādapajagāma tasyāmapahatāyāṃ prakṛteḥ śuddhisrotaḥ pravṛttaṃ yenānugṛhīto duḥkhatrayābhighātādutpannajijñāsaḥ pravrajitaḥ tathā maheśvarasamparkānnandina aiśvaryam nahuṣasyāgastyasamparkāddharma ityādi vaikṛtāstu bhāvā asmadādīnām evaṃ trividhabhāvaparigrahāttvācāryasya na sarvaṃ svataḥ patañjalivat, na sarvaṃ parataḥ pañcādhikaraṇavat kintarhi mahatī svabhāvātivṛttiḥ prakṛtito 'lpā svato vikṛtitaḥ evam sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ dṛṣṭāḥ karaṇāśrayiṇaḥ yathā caite tathā kāryāśrayiṇaśca kalalādyāḥ isk_43 trividhā eveti kalalādigrahaṇena śarīrāṇyāha teṣāmākṛtivaiśvarūpyaṃ caturdaśavidhe saṃsāre trividham tatra sāṃsiddhikastāvat vaivarttānāṃ grahanakṣatratārādīnām jātikṛtaśca viśeṣaḥ haṃsānāṃ śauklyam, tittiramayūrādīnāṃ citracchadatvamiti prākṛtaṃ yathāmāhātmyaṃ śarīrābhimānāt tasya hyabhimāno bhavati- hantāhaṃ putrānsrakṣye ye me karma kariṣyanti ye māṃ paraṃ ca jñāsyanti sa yādṛksargamabhidhyāyati tādṛkpradhānādutpadyate tadyathā maheśvarasya rudrakoṭisṛṣṭāviti vaikṛtāstu kalalādyāḥ yathā bhiṣagvede 'bhihitam- kṣīraṃ pītvā garbhiṇī gauraṃ putraṃ janayatīti ete bhāvā vyākhyātāḥ eṣāṃ vaiśvarūpyālliṅgasya gativiśeṣaḥ saṃsāro bhavatīti

Section (cont. 21)

44

कारिका 44 आह, कस्य पुनर्भावस्यानुष्ठानात्को गमनविशेषो लिङ्गस्य निष्पद्यत इति ? उच्यते- धर्मेण गमनमूर्ध्वम् उक्तो धर्मः तदनुष्ठानादष्टविकल्पायां देवभूमावुत्पत्तिर्भवति गमनमधस्ताद् भवत्यधर्मेण अधर्मो ऽप्युक्तः तदनुष्ठानापञ्चविकल्पायां तिर्यग्भूमावुत्पत्तिर्भवति आह, एकभूमिविशेषानुपपत्तिः, गतिविशेषात् यदि भावानां भूमिविशेषनिमित्तत्वं नियम्यते तेनैकस्यां भूमौ हीनमध्यमोत्कृष्टत्वं जात्याकृतिस्वभावानुग्रहोपघातानां न प्राप्नोति उच्यते- न तर्ह्यनेन भूमिविशेषो नियम्यते, किं तर्हि ऊर्ध्वशब्द उत्कृष्टवचनः धर्मेण देवेषु मानवेषु तिर्यक्षु चोर्ध्वगमनमुत्कृष्टं जन्म भवति तथाधर्मादधोगमनमपकृष्टं जन्म भवति ज्ञानेन चापवर्गः चशब्दो ऽवधारणार्थः ज्ञानेनैवापवर्गः, न भावान्तरेणेति यदुक्तमन्यैराचार्यैः- वैराग्यात्पुरुषकैवल्यं ज्ञानवैराग्याभ्यां चेति तत्प्रतिषिद्धं भवति आह, यदि पुनर्वैराग्यात्पुरुषकैवल्यमभ्युपगम्यते क एवं सति दोषः स्यात् ? उच्यते- न शक्यमेवं प्रतिपत्तुम् कस्मात् ? संसारनिमित्ताप्रतिपक्षत्वात् यदि रागनिमित्तः प्रधानपुरुषसंयोगः स्यात् प्राप्तमिदं तत्प्रतिपक्षेण वैराग्येण वियोगो भविष्यतीति न त्वेवम् कुतः ? संयोगकृते कार्यकरणसर्गे निष्पत्तेः कार्यकरणव्यूहोत्तरकालं हि रागो भवति तस्मान्नासौ कार्यकरणनिष्पत्तेर्निमित्तमिति शक्यमाश्रयितुम् यस्य तु ज्ञानान्मोक्ष इति पक्षः, तस्य प्रतिपक्षादज्ञानाद्बन्ध इति प्राप्तमस्ति, न चासौ प्रागपि कार्यकरणनिष्पत्तेः तस्मान्न वैराग्यान्मोक्षः अतएव न ज्ञानवैराग्याभ्यां मोक्षो ऽस्ति उभयनिमित्तासम्भवात् तस्मात्सूक्तं ज्ञानेनैवापवर्गः विपर्ययादिष्यते बन्धः इस्क्_44 ज्ञानविपर्ययो ऽज्ञानम् तस्माद् बन्धस्त्रिविधो भवति प्रकृतिबन्धो दक्षिणाबन्धो वैकारिकबन्धश्चेति

kārikā 44 āha, kasya punarbhāvasyānuṣṭhānātko gamanaviśeṣo liṅgasya niṣpadyata iti ? ucyate- dharmeṇa gamanamūrdhvam ukto dharmaḥ tadanuṣṭhānādaṣṭavikalpāyāṃ devabhūmāvutpattirbhavati gamanamadhastād bhavatyadharmeṇa adharmo 'pyuktaḥ tadanuṣṭhānāpañcavikalpāyāṃ tiryagbhūmāvutpattirbhavati āha, ekabhūmiviśeṣānupapattiḥ, gativiśeṣāt yadi bhāvānāṃ bhūmiviśeṣanimittatvaṃ niyamyate tenaikasyāṃ bhūmau hīnamadhyamotkṛṣṭatvaṃ jātyākṛtisvabhāvānugrahopaghātānāṃ na prāpnoti ucyate- na tarhyanena bhūmiviśeṣo niyamyate, kiṃ tarhi ūrdhvaśabda utkṛṣṭavacanaḥ dharmeṇa deveṣu mānaveṣu tiryakṣu cordhvagamanamutkṛṣṭaṃ janma bhavati tathādharmādadhogamanamapakṛṣṭaṃ janma bhavati jñānena cāpavargaḥ caśabdo 'vadhāraṇārthaḥ jñānenaivāpavargaḥ, na bhāvāntareṇeti yaduktamanyairācāryaiḥ- vairāgyātpuruṣakaivalyaṃ jñānavairāgyābhyāṃ ceti tatpratiṣiddhaṃ bhavati āha, yadi punarvairāgyātpuruṣakaivalyamabhyupagamyate ka evaṃ sati doṣaḥ syāt ? ucyate- na śakyamevaṃ pratipattum kasmāt ? saṃsāranimittāpratipakṣatvāt yadi rāganimittaḥ pradhānapuruṣasaṃyogaḥ syāt prāptamidaṃ tatpratipakṣeṇa vairāgyeṇa viyogo bhaviṣyatīti na tvevam kutaḥ ? saṃyogakṛte kāryakaraṇasarge niṣpatteḥ kāryakaraṇavyūhottarakālaṃ hi rāgo bhavati tasmānnāsau kāryakaraṇaniṣpatternimittamiti śakyamāśrayitum yasya tu jñānānmokṣa iti pakṣaḥ, tasya pratipakṣādajñānādbandha iti prāptamasti, na cāsau prāgapi kāryakaraṇaniṣpatteḥ tasmānna vairāgyānmokṣaḥ ataeva na jñānavairāgyābhyāṃ mokṣo 'sti ubhayanimittāsambhavāt tasmātsūktaṃ jñānenaivāpavargaḥ viparyayādiṣyate bandhaḥ isk_44 jñānaviparyayo 'jñānam tasmād bandhastrividho bhavati prakṛtibandho dakṣiṇābandho vaikārikabandhaśceti


45

कारिका 45 आह, कस्माद् भावात्प्रकृतिबन्धो भवति ? उच्यते- वैराग्यात् प्रकृतिलयः वैराग्यादष्टसु प्रकृतिषु लयं गच्छति, असावुच्यते प्रकृतिबन्ध इति आह, यदि वैराग्यात्प्रकृतिलयः प्राप्तो यदेतत्प्रकृतौ वैराग्यमाञ्जसम् अन्या प्रकृतिस्त्रिगुणा, कारणभूता, कार्यभूता, कार्यकारणभूता, अकार्यकारणभूता अचेतना परतन्त्रा चेति अन्यः पुरुषो निर्गुणो, न कार्यं, न कारणं, न कार्यकारणं, तद्विपरीतः चेतनः स्वतन्त्रश्चेति ततो ऽपि प्रकृतौ लयः ततश्चानिर्मोक्षप्रसंग इति उच्यते- विपर्ययादिति वर्तते तदिहाभिसम्भन्त्स्यामः ततश्च विपरीतं यदेव वैराग्यं तुष्टिकाण्डानुपतितं प्रकृत्यादिषु परत्वाभिमानः तत एव प्रकृतिलयो भवति नान्यस्मात् अथवात्रापि यत्तत्प्रकृतावन्यत्वज्ञानं तत एव मोक्षो न वैराग्यात् कुतः ? भवबीजाप्रतिपक्षत्वादिति ह्युक्तम् आम्भसिकस्य च मोक्षप्रसंगात् तुल्या ह्यस्य नानात्वसंविद्, आसंगदोषनिवृत्तेः न चैतदिष्टम् तस्माद्युक्तमेतत् वैराग्यात्प्रकृतिलय इति आह, अथ दक्षिणाबन्धः कुतः ? उच्यते- संसारो भवति राजसाद् रागात् यो ऽयं दृष्टानुश्रविकविषयाभिलाषः स रागः तत्र दृष्टविषयरागात्तत्प्राप्तिनिर्वर्तकं कर्म करोति ततश्च तत्रोपपद्यते आनुश्रविकविषयाभिलाषादग्निहोत्रादिषु प्रवर्तते ततश्च स्वर्गादिषूपपत्तिर्भवति असौ दक्षिणाबन्धः दृष्टानुश्रविकविषयाभिलाषद्वारेण तन्निर्वर्तके कर्मणि प्रवर्तमानो गुणवृत्तिवैचित्र्यादनिष्टफलनिर्वर्तकमपि कर्म करोति एवं मानुष्ये गत्यन्तरे योपपत्तिः सर्वासौ रागात् आह, राजसंग्रहणानर्थक्यम् तत्पूर्वकत्वाद्रागस्य रजोनिमित्त एव हि रागः तत्र संसारो रागादित्येव वक्तव्यम्, राजसग्रहणमनर्थकमिति उच्यते- न, विषयविशेषणत्वात् विषये यो रागः स संसारहेतुरित्यस्यार्थस्य ज्ञापनार्थमिदमुच्यते अन्यथा यो यतेः सात्त्विको यमनियमध्यानाद्यनुष्ठानानुरागः प्रवचनरागो वा सो ऽपि संसाराय स्यात् ऐश्वर्यादविघातः यदष्टगुणमैश्वर्यमणिमादि प्रागुपदिष्टं तस्मात्स्वे स्वे विषये ऽविघात उत्पद्यते तदभिरतिर्वैकारिको बन्धः आह, यदि त्रिभिस्त्रिभिर्निमित्तैर्वैराग्यादिभिस्त्रिविधो बन्धो निर्वर्त्यते यदुक्तमज्ञानाद् बन्ध इति तदयुक्तम् भावान्तरं ह्यज्ञानमतः फलान्तरेण भवितव्यमिति उच्यते- न, मूलकारणत्वात् ज्ञानवर्जितानां हि भावानां यत्फलं तत्राज्ञानं मूलम् तन्निमित्तत्वात्सर्वेषाम् न हि ज्ञानिवैराग्यमलं प्रकृतिलयाय तथेतराणि परमर्ष्यादावदृष्टत्वाद् विचित्रं कार्यमेकस्मात्कारणादयुक्तमिति वैराग्यादीन्यसाधारणानि पृथक् कल्प्यन्ते, साधारणं त्वज्ञानमतो न कश्चिद्दोषः विपर्ययात्तद्विपर्यासः इस्क्_45 अनैश्वर्यात्तु अणिमादेरष्टविधादविघातविपर्ययो विघातो भवति तदेवमेतदष्टविधं धर्मादिविधानमुपादायाष्टविधं नैमित्तिकमुपपद्यते एवमेष तत्त्वसर्गो भावसर्गश्च व्याख्यातः एतच्च व्यक्तस्य रूपं प्रवृत्तिश्च परिकल्प्यते फलमिदानीं वक्ष्यामः

kārikā 45 āha, kasmād bhāvātprakṛtibandho bhavati ? ucyate- vairāgyāt prakṛtilayaḥ vairāgyādaṣṭasu prakṛtiṣu layaṃ gacchati, asāvucyate prakṛtibandha iti āha, yadi vairāgyātprakṛtilayaḥ prāpto yadetatprakṛtau vairāgyamāñjasam anyā prakṛtistriguṇā, kāraṇabhūtā, kāryabhūtā, kāryakāraṇabhūtā, akāryakāraṇabhūtā acetanā paratantrā ceti anyaḥ puruṣo nirguṇo, na kāryaṃ, na kāraṇaṃ, na kāryakāraṇaṃ, tadviparītaḥ cetanaḥ svatantraśceti tato 'pi prakṛtau layaḥ tataścānirmokṣaprasaṃga iti ucyate- viparyayāditi vartate tadihābhisambhantsyāmaḥ tataśca viparītaṃ yadeva vairāgyaṃ tuṣṭikāṇḍānupatitaṃ prakṛtyādiṣu paratvābhimānaḥ tata eva prakṛtilayo bhavati nānyasmāt athavātrāpi yattatprakṛtāvanyatvajñānaṃ tata eva mokṣo na vairāgyāt kutaḥ ? bhavabījāpratipakṣatvāditi hyuktam āmbhasikasya ca mokṣaprasaṃgāt tulyā hyasya nānātvasaṃvid, āsaṃgadoṣanivṛtteḥ na caitadiṣṭam tasmādyuktametat vairāgyātprakṛtilaya iti āha, atha dakṣiṇābandhaḥ kutaḥ ? ucyate- saṃsāro bhavati rājasād rāgāt yo 'yaṃ dṛṣṭānuśravikaviṣayābhilāṣaḥ sa rāgaḥ tatra dṛṣṭaviṣayarāgāttatprāptinirvartakaṃ karma karoti tataśca tatropapadyate ānuśravikaviṣayābhilāṣādagnihotrādiṣu pravartate tataśca svargādiṣūpapattirbhavati asau dakṣiṇābandhaḥ dṛṣṭānuśravikaviṣayābhilāṣadvāreṇa tannirvartake karmaṇi pravartamāno guṇavṛttivaicitryādaniṣṭaphalanirvartakamapi karma karoti evaṃ mānuṣye gatyantare yopapattiḥ sarvāsau rāgāt āha, rājasaṃgrahaṇānarthakyam tatpūrvakatvādrāgasya rajonimitta eva hi rāgaḥ tatra saṃsāro rāgādityeva vaktavyam, rājasagrahaṇamanarthakamiti ucyate- na, viṣayaviśeṣaṇatvāt viṣaye yo rāgaḥ sa saṃsāraheturityasyārthasya jñāpanārthamidamucyate anyathā yo yateḥ sāttviko yamaniyamadhyānādyanuṣṭhānānurāgaḥ pravacanarāgo vā so 'pi saṃsārāya syāt aiśvaryādavighātaḥ yadaṣṭaguṇamaiśvaryamaṇimādi prāgupadiṣṭaṃ tasmātsve sve viṣaye 'vighāta utpadyate tadabhiratirvaikāriko bandhaḥ āha, yadi tribhistribhirnimittairvairāgyādibhistrividho bandho nirvartyate yaduktamajñānād bandha iti tadayuktam bhāvāntaraṃ hyajñānamataḥ phalāntareṇa bhavitavyamiti ucyate- na, mūlakāraṇatvāt jñānavarjitānāṃ hi bhāvānāṃ yatphalaṃ tatrājñānaṃ mūlam tannimittatvātsarveṣām na hi jñānivairāgyamalaṃ prakṛtilayāya tathetarāṇi paramarṣyādāvadṛṣṭatvād vicitraṃ kāryamekasmātkāraṇādayuktamiti vairāgyādīnyasādhāraṇāni pṛthak kalpyante, sādhāraṇaṃ tvajñānamato na kaściddoṣaḥ viparyayāttadviparyāsaḥ isk_45 anaiśvaryāttu aṇimāderaṣṭavidhādavighātaviparyayo vighāto bhavati tadevametadaṣṭavidhaṃ dharmādividhānamupādāyāṣṭavidhaṃ naimittikamupapadyate evameṣa tattvasargo bhāvasargaśca vyākhyātaḥ etacca vyaktasya rūpaṃ pravṛttiśca parikalpyate phalamidānīṃ vakṣyāmaḥ


46

इति युक्तिदीपिकायामष्टममाह्निकं तृतीयं च प्रकरणम् कारिका 46 आह, किं पुनस्तत्फलमिति ? उच्यते- यः खलु एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः तत्फलमिति वाक्यशेषः एष इति वक्ष्यमाणस्य सम्मुखीकरणार्थमुच्यते प्रत्ययसर्ग इति प्रत्ययः पदार्थो लक्षणमिति पर्यायाः, प्रत्ययानां सर्गः प्रत्ययसर्गः पदार्थसर्गो लक्षणसर्ग इत्यर्थः अथवा प्रत्ययो बुद्धिर्निश्चयो ऽध्यवसाय इति पर्यायाः तस्य सर्गो ऽयमतः प्रत्ययसर्गः प्रत्ययकार्यं प्रत्ययव्यापार इत्यर्थः अथवा प्रत्ययपूर्वकः सर्गः प्रत्ययसर्गः बुद्धिपूर्वक इत्युक्तः कथम् ? एवं हि शास्त्रम्- "महदादिविशेषान्तः सर्गो बुद्धिपूर्वकत्वात् उत्पन्नकार्यकरणस्तु माहात्म्यशरीर एकाकिनमात्मानमवेक्ष्याभिदध्यौ हन्ताहं पुत्रान्स्रक्ष्ये ये मे कर्म करिष्यन्ति ये मां परं चापरं च ज्ञास्यन्ति तस्याभिध्यायतः पञ्च मुख्यस्रोतसो देवाः प्रादुर्बभूवुः तेषूत्पन्नेषु न तुष्टिं लेभे ततो ऽन्ये तिर्यक्स्रोतसो ऽष्टाविंशतिः प्रजज्ञे तेष्वप्यस्य मतिर्नैव तस्थे अथापरे नवोर्ध्वस्रोतसो देवाः प्रादुर्बभूवुः तेष्वप्युत्पन्नेषु नैव कृतार्थमात्मानं मेने ततो ऽन्ये ऽष्टावर्वाक्स्रोतस उत्पेदुः एवं तस्माद् ब्रह्मणो ऽभिध्यानादुत्पन्नस्तस्मात्प्रत्ययसर्गः स विपर्ययाख्यः अशक्त्याख्यः तुष्ट्याख्यः सिद्ध्याख्यश्चेति " तत्राश्रेयसः श्रेयस्त्वेनाभिधानं विपर्ययः वैकल्यादसामर्थ्यमशक्तिः चिकीर्षितादूनेन निर्वृतिस्तुष्टिः यथेष्टस्य साधनं सिद्धिः तद्यथा धर्मार्थप्रवृत्तो ऽग्निष्टोमादीन्परित्यज्य संकरं कुर्वीत सो ऽस्य विपर्ययः साधनवैकल्यादसामर्थ्यमशक्तिः आधानमात्रसन्तोषस्तुष्टिः कृत्स्नस्य क्रियातिशेषस्यानुष्ठानं सिद्धिः एवमर्थादिषु योज्यम् यश्चायं चतुर्विधः फलविशेषो विपर्ययादिराख्यातः गुणवैषम्यविमर्दात् तस्य भेदास्तु पञ्चाशत् इस्क्_46 गुणानां वैषम्यं गुणवैषम्यम् गुणवैषम्यं प्राधान्यगुणभावयोग इत्यर्थः गुणवैषम्याद्विमर्दो गुणवैषम्यविमर्दः, प्रत्ययपर्यायेण सत्त्वरजस्तमसामितरेतरभावः तन्निमित्ता एषां प्रत्ययाणां पञ्चाशद्भेदा भवन्ति

iti yuktidīpikāyāmaṣṭamamāhnikaṃ tṛtīyaṃ ca prakaraṇam kārikā 46 āha, kiṃ punastatphalamiti ? ucyate- yaḥ khalu eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ tatphalamiti vākyaśeṣaḥ eṣa iti vakṣyamāṇasya sammukhīkaraṇārthamucyate pratyayasarga iti pratyayaḥ padārtho lakṣaṇamiti paryāyāḥ, pratyayānāṃ sargaḥ pratyayasargaḥ padārthasargo lakṣaṇasarga ityarthaḥ athavā pratyayo buddhirniścayo 'dhyavasāya iti paryāyāḥ tasya sargo 'yamataḥ pratyayasargaḥ pratyayakāryaṃ pratyayavyāpāra ityarthaḥ athavā pratyayapūrvakaḥ sargaḥ pratyayasargaḥ buddhipūrvaka ityuktaḥ katham ? evaṃ hi śāstram- "mahadādiviśeṣāntaḥ sargo buddhipūrvakatvāt utpannakāryakaraṇastu māhātmyaśarīra ekākinamātmānamavekṣyābhidadhyau hantāhaṃ putrānsrakṣye ye me karma kariṣyanti ye māṃ paraṃ cāparaṃ ca jñāsyanti tasyābhidhyāyataḥ pañca mukhyasrotaso devāḥ prādurbabhūvuḥ teṣūtpanneṣu na tuṣṭiṃ lebhe tato 'nye tiryaksrotaso 'ṣṭāviṃśatiḥ prajajñe teṣvapyasya matirnaiva tasthe athāpare navordhvasrotaso devāḥ prādurbabhūvuḥ teṣvapyutpanneṣu naiva kṛtārthamātmānaṃ mene tato 'nye 'ṣṭāvarvāksrotasa utpeduḥ evaṃ tasmād brahmaṇo 'bhidhyānādutpannastasmātpratyayasargaḥ sa viparyayākhyaḥ aśaktyākhyaḥ tuṣṭyākhyaḥ siddhyākhyaśceti " tatrāśreyasaḥ śreyastvenābhidhānaṃ viparyayaḥ vaikalyādasāmarthyamaśaktiḥ cikīrṣitādūnena nirvṛtistuṣṭiḥ yatheṣṭasya sādhanaṃ siddhiḥ tadyathā dharmārthapravṛtto 'gniṣṭomādīnparityajya saṃkaraṃ kurvīta so 'sya viparyayaḥ sādhanavaikalyādasāmarthyamaśaktiḥ ādhānamātrasantoṣastuṣṭiḥ kṛtsnasya kriyātiśeṣasyānuṣṭhānaṃ siddhiḥ evamarthādiṣu yojyam yaścāyaṃ caturvidhaḥ phalaviśeṣo viparyayādirākhyātaḥ guṇavaiṣamyavimardāt tasya bhedāstu pañcāśat isk_46 guṇānāṃ vaiṣamyaṃ guṇavaiṣamyam guṇavaiṣamyaṃ prādhānyaguṇabhāvayoga ityarthaḥ guṇavaiṣamyādvimardo guṇavaiṣamyavimardaḥ, pratyayaparyāyeṇa sattvarajastamasāmitaretarabhāvaḥ tannimittā eṣāṃ pratyayāṇāṃ pañcāśadbhedā bhavanti


47

कारिका 47 कथमित्युच्यते- पञ्च विपर्ययभेदा भवन्ति तमो मोहो महामोहस्तामिस्रो ऽन्धतामिस्र इति तत्राश्रेयसि प्रवृत्तस्य प्रत्ययावरे श्रेयो ऽभिमाने आद्यो विपर्ययस्तम इत्यभिधीयते भौतिकेष्वाकारेषु शिरःपाण्यादिष्वात्मग्रहो यो ऽयं व्यूढोरस्कः सितदशनस्ताम्राक्षः प्रलम्बबाहुः सो ऽहमिति तथा श्रवणस्पर्शनरसनघ्राणवचनादानविहरणोत्सर्गानन्दसंकल्पाभिमानाध्यवसायलक्षणासु करणवृत्तिष्वहं श्रोता द्रष्टा चेत्येवमादिराद्यकालप्रवृत्तो ग्रहः सर्वस्मादवरो मोह इत्युच्यते कथं पुनरयमवरः इत्युच्यते पूर्वं शरीरेन्द्रियव्यतिरिक्तमुपलब्धुमिच्छन्सौक्ष्म्यात्तत्तदनधिगमे भूताकारमभूतं प्रमाणं परपरिकल्पितं वानुमन्येत, स्वयं वा परिकल्पयेदिति न मार्गाद् दूरापगतमेतत् अयं तु प्रत्यक्षादिगतोत्पत्तिस्थितिविनाशेष्वनेकरूपकेषु कार्यकरणेष्वहमिति अभिमन्यते, तस्मात्पूर्वस्यादवरः बाह्ये तु विषये ममेदमित्यभिनिवेशः पूर्वस्मादवर इत्युच्यते पूर्वः शरीरिणो ऽप्रत्यक्षत्वात्करणवृत्त्यविशेषाद् वात्मवृत्तेः कार्यकरणे कुर्यादात्मबुद्धिमिति शक्यमेतद् भिन्ननिमित्ताकारदेशस्वभावप्रयोजनानुग्रहोपघातोत्पत्तिस्थितिविनाशांश्च मातृपितृपुत्रभ्रातृपुत्रदारगोहिरायवसनाच्छादनादीनयमकस्मादात्मत्वेन पश्यति, तस्मात्पूर्वस्मादवरः क्रोधश्चतुर्थो विपर्ययः पूर्वस्मादवरः तामिस्र इत्यभिधीयते कथं पुनरयं पूर्वस्मादवर इति ? उच्यते- पूर्वो ऽभिनिवेशप्रतिषेधमभ्यनुजानाति यदास्य बाह्यद्रव्यवियोगे कश्चित्कुशलसंसृष्ट एवं ब्रवीति संसारस्य ___ बुद्धाववस्थाप्य विमृश्यतां यावदयं कालो यदि कश्चित्प्रियेणावियुक्तपूर्वः तस्मादागमापायिषु बाह्येषु द्रव्येषु विदुषा नाभिनिवेशः कार्य इति, तदा प्रत्याह सत्यमेवमेतदिति सन्निकृष्टस्तु वियोगकाल इति न बुद्धिरवस्थापयितुं शक्यते क्रोधाविष्टस्तु स्वविकल्पितग्राहविपरीतबुद्धिरशक्यो दण्डेनापिनिवर्तयितुम् तस्मात्पूर्वस्मादवरः मरणविषादः पञ्चमो विपर्ययः पूर्वस्मादवरो ऽन्धतामिस्त्र इत्यभिधीयते कथं पुनरयं पूर्वस्मादवर इत्युच्यते- पूर्वो ऽभिनिवेशात्प्रतिषिध्यमानः प्रतीकारमन्ततो जिह्वाक्षिनिरीक्षतो (?) नापि तावदारभते न तु ब्रह्मादौ स्तम्बपर्यन्ते संसारे स्वनिमित्तनियततमपातस्य विनाशस्य केनचित्प्रतीकारः कृतः तस्मादपरिहार्यं मरणमनुशोचत्पूर्वस्मादवर इति एते पञ्च विपर्ययभेदा भवन्ति अशक्तिश्च करणवैकल्यात् अष्टाविंशतिभेदा भवतीत्यनुवर्तते तत्र बाह्यकरणवैकल्यं सह मनसैकादशप्रकारम् सप्तदशविधं बुद्धिवैकल्यम् एते ऽशक्तिभेदाः तुष्टिर्नवधाष्टधा सिद्धिः इस्क्_47 एवं चतुर्विधस्य प्रत्ययसर्गस्य गुणवैषम्यविमर्देन पञ्चाशद्भेदा भवन्ति

kārikā 47 kathamityucyate- pañca viparyayabhedā bhavanti tamo moho mahāmohastāmisro 'ndhatāmisra iti tatrāśreyasi pravṛttasya pratyayāvare śreyo 'bhimāne ādyo viparyayastama ityabhidhīyate bhautikeṣvākāreṣu śiraḥpāṇyādiṣvātmagraho yo 'yaṃ vyūḍhoraskaḥ sitadaśanastāmrākṣaḥ pralambabāhuḥ so 'hamiti tathā śravaṇasparśanarasanaghrāṇavacanādānaviharaṇotsargānandasaṃkalpābhimānādhyavasāyalakṣaṇāsu karaṇavṛttiṣvahaṃ śrotā draṣṭā cetyevamādirādyakālapravṛtto grahaḥ sarvasmādavaro moha ityucyate kathaṃ punarayamavaraḥ ityucyate pūrvaṃ śarīrendriyavyatiriktamupalabdhumicchansaukṣmyāttattadanadhigame bhūtākāramabhūtaṃ pramāṇaṃ paraparikalpitaṃ vānumanyeta, svayaṃ vā parikalpayediti na mārgād dūrāpagatametat ayaṃ tu pratyakṣādigatotpattisthitivināśeṣvanekarūpakeṣu kāryakaraṇeṣvahamiti abhimanyate, tasmātpūrvasyādavaraḥ bāhye tu viṣaye mamedamityabhiniveśaḥ pūrvasmādavara ityucyate pūrvaḥ śarīriṇo 'pratyakṣatvātkaraṇavṛttyaviśeṣād vātmavṛtteḥ kāryakaraṇe kuryādātmabuddhimiti śakyametad bhinnanimittākāradeśasvabhāvaprayojanānugrahopaghātotpattisthitivināśāṃśca mātṛpitṛputrabhrātṛputradāragohirāyavasanācchādanādīnayamakasmādātmatvena paśyati, tasmātpūrvasmādavaraḥ krodhaścaturtho viparyayaḥ pūrvasmādavaraḥ tāmisra ityabhidhīyate kathaṃ punarayaṃ pūrvasmādavara iti ? ucyate- pūrvo 'bhiniveśapratiṣedhamabhyanujānāti yadāsya bāhyadravyaviyoge kaścitkuśalasaṃsṛṣṭa evaṃ bravīti saṃsārasya ___ buddhāvavasthāpya vimṛśyatāṃ yāvadayaṃ kālo yadi kaścitpriyeṇāviyuktapūrvaḥ tasmādāgamāpāyiṣu bāhyeṣu dravyeṣu viduṣā nābhiniveśaḥ kārya iti, tadā pratyāha satyamevametaditi sannikṛṣṭastu viyogakāla iti na buddhiravasthāpayituṃ śakyate krodhāviṣṭastu svavikalpitagrāhaviparītabuddhiraśakyo daṇḍenāpinivartayitum tasmātpūrvasmādavaraḥ maraṇaviṣādaḥ pañcamo viparyayaḥ pūrvasmādavaro 'ndhatāmistra ityabhidhīyate kathaṃ punarayaṃ pūrvasmādavara ityucyate- pūrvo 'bhiniveśātpratiṣidhyamānaḥ pratīkāramantato jihvākṣinirīkṣato (?) nāpi tāvadārabhate na tu brahmādau stambaparyante saṃsāre svanimittaniyatatamapātasya vināśasya kenacitpratīkāraḥ kṛtaḥ tasmādaparihāryaṃ maraṇamanuśocatpūrvasmādavara iti ete pañca viparyayabhedā bhavanti aśaktiśca karaṇavaikalyāt aṣṭāviṃśatibhedā bhavatītyanuvartate tatra bāhyakaraṇavaikalyaṃ saha manasaikādaśaprakāram saptadaśavidhaṃ buddhivaikalyam ete 'śaktibhedāḥ tuṣṭirnavadhāṣṭadhā siddhiḥ isk_47 evaṃ caturvidhasya pratyayasargasya guṇavaiṣamyavimardena pañcāśadbhedā bhavanti


48

कारिका 48 विस्तरेण तु पदार्थशतसहस्रमानन्त्यं वा लक्षणानाम् कथमित्युच्यते यस्मात्- भेदस्तमसो ऽष्टविधः य एते पञ्च विपर्ययभेदा व्याख्याताः तेषु तमसो ऽष्टविधो भेदः कथम् ? परविज्ञानमाश्रित्य प्रवृत्तस्याष्टासु प्रकृतिष्वपरासु पराभिमानग्रहात् मोहस्य च किम् ? अष्टविधो भेद इति चशब्दात्कार्यकरणसामर्थ्ये ऽष्टविधे ऽणिमादावहमिति प्रत्ययः दशविधो महामोहः मातृपितृभ्रातृस्वसृपत्नीपुत्रदुहितृगुरुमित्रोपकारिलक्षणे दशविधे कुटुम्बे यो ऽयं ममेत्यभिनिवेशः दृष्टानुश्रविकेषु वा शब्दादिष्वित्यपरे स दशविधो महामोहः परिसंख्यायते तामिस्रो ऽष्टादशधा अष्टविधे कार्यकरणसामर्थ्ये दशविधे च कुटुम्बे विषयेषु वा यः प्रतिहन्यमानस्यावेशः तथा भवत्यन्धतामिस्रः इस्क्_48 तथेति सामान्यातिदेशार्थः अन्धतामिस्रो ऽष्टादशधैवेति कथम् ? असावप्यष्टविधात्कार्यकरणसामर्थ्याद्दशविधाच्च कुटुम्बात्प्रत्यवसानस्य विषादः एवमेते पञ्च विपर्ययभेदाः स्वलक्षणतो विषयविशेषा लक्षिताः तत्रापि चाष्टासु प्रकृतिषु सत्त्वरजस्तमसां संहतविविक्तपरिणतव्यस्तसमस्तानां परत्वाभिमानभेदादेकैका प्रकृतिः पञ्चदशभेदा अत एव ते ऽष्टौ पञ्चदश विंशं शतं च भवन्ति यथा मोक्षे प्रवृत्तस्य एवं धर्मकामेष्वपि एकः पदार्थो विस्तरेण परिसंख्यायमानो ऽनन्तभेदः सम्पद्यते निदर्शनमात्रमेतदाचार्येण कृतम् एवमशक्त्यादिष्वपि लक्षणान्तरेषु योज्यम् सेयमविद्या पञ्चपर्वा सप्रपञ्चा व्याख्याता तदनन्तरोद्दिष्टानशक्तिभेदान्वक्ष्यामः

kārikā 48 vistareṇa tu padārthaśatasahasramānantyaṃ vā lakṣaṇānām kathamityucyate yasmāt- bhedastamaso 'ṣṭavidhaḥ ya ete pañca viparyayabhedā vyākhyātāḥ teṣu tamaso 'ṣṭavidho bhedaḥ katham ? paravijñānamāśritya pravṛttasyāṣṭāsu prakṛtiṣvaparāsu parābhimānagrahāt mohasya ca kim ? aṣṭavidho bheda iti caśabdātkāryakaraṇasāmarthye 'ṣṭavidhe 'ṇimādāvahamiti pratyayaḥ daśavidho mahāmohaḥ mātṛpitṛbhrātṛsvasṛpatnīputraduhitṛgurumitropakārilakṣaṇe daśavidhe kuṭumbe yo 'yaṃ mametyabhiniveśaḥ dṛṣṭānuśravikeṣu vā śabdādiṣvityapare sa daśavidho mahāmohaḥ parisaṃkhyāyate tāmisro 'ṣṭādaśadhā aṣṭavidhe kāryakaraṇasāmarthye daśavidhe ca kuṭumbe viṣayeṣu vā yaḥ pratihanyamānasyāveśaḥ tathā bhavatyandhatāmisraḥ isk_48 tatheti sāmānyātideśārthaḥ andhatāmisro 'ṣṭādaśadhaiveti katham ? asāvapyaṣṭavidhātkāryakaraṇasāmarthyāddaśavidhācca kuṭumbātpratyavasānasya viṣādaḥ evamete pañca viparyayabhedāḥ svalakṣaṇato viṣayaviśeṣā lakṣitāḥ tatrāpi cāṣṭāsu prakṛtiṣu sattvarajastamasāṃ saṃhataviviktapariṇatavyastasamastānāṃ paratvābhimānabhedādekaikā prakṛtiḥ pañcadaśabhedā ata eva te 'ṣṭau pañcadaśa viṃśaṃ śataṃ ca bhavanti yathā mokṣe pravṛttasya evaṃ dharmakāmeṣvapi ekaḥ padārtho vistareṇa parisaṃkhyāyamāno 'nantabhedaḥ sampadyate nidarśanamātrametadācāryeṇa kṛtam evamaśaktyādiṣvapi lakṣaṇāntareṣu yojyam seyamavidyā pañcaparvā saprapañcā vyākhyātā tadanantaroddiṣṭānaśaktibhedānvakṣyāmaḥ


49

कारिका 49 आह, अतिव्यासाभिहितमिदमिति नास्माकं बुद्धाववतिष्ठते तस्माद्विपर्ययोक्तं भेदाभिधानं परित्यज्य वक्तव्यम् कथमशक्तिरष्टाविंशतिभेदेति ? उच्यते- एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा इन्द्रियाणां वधा इन्द्रियवधाः स्वसंस्कारविषययोगात्प्रकर्षापन्नेन तमसा ग्रहणरूपस्य सत्त्वस्याभिभवात्स्वविषयेष्वप्रवृत्तयः तद्यथा बाधिर्यमान्ध्यमघ्रत्वं मूकता जडता च या उन्मादकौष्ठ्यकौण्यानि क्लैब्योदावर्तपङ्गुताः तत्र बाधिर्यं श्रोत्रस्य, आन्ध्यं चक्षुषः, अघ्रत्वं नासिकायाः, मूकता वाचः, जडता रसनस्य, उन्मादो मनसः, कौष्ठ्यं त्वचः, कौण्यं पाणेः, क्लैब्यमुपस्थस्य, उदावर्तः पायोः, पङ्गुता पादयोरित्येवमिन्द्रियवधा एकादश अन्ये तु सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् इस्क्_49 तत्र तुष्टयः प्रकृत्याद्या वक्ष्यमाणाः, तासां द्विविधो विपर्ययः अव्युत्पन्नस्य योगधर्मेण तस्यां भूमावप्रवृत्तिः, व्युत्पन्नस्य चोत्तरभूम्यपरिज्ञानात्पूर्वस्यां भूमावक्षेमरूपेण ग्रहणम् आत्मविदो वा सर्वासु भूमिषु तेषु यत्पूर्वं तदशक्तिभावाभिप्रेतम् यन्मध्यमं तदापेक्षिकम् कथम् ? तन्मात्रभूम्यवस्थो हि योग्यस्मितादिभूम्यनवजयात्तुष्टो महाभूतातिक्रमात्सिद्धः तथा विजितास्मितारूपो महदाद्यवस्थापेक्षया तुष्टः, पूर्वभूम्यपेक्षया सिद्धः एवं महदवस्थः प्रधानापेक्षया पूर्वापेक्षया च प्रधानावस्थः पुरुषापेक्षया पूर्वापेक्षया च गुणपुरुषान्तरज्ञस्तु सिद्ध एव तस्मादव्युत्पन्नस्याम्भःप्रभृतिषु नवानम्भःप्रभृतयो बुद्धिवधाः तारकादिविपर्ययेणाष्टावतारकादयः एषा खल्वशक्तिरष्टाविंशतिभेदा तुष्टिस्तु सन्निहितविषयसन्तोषाच्चिकीर्षितादर्थादूनेन निवृत्तिः सामान्यत एकैव, प्रत्यर्थमनन्ता, शतेन तुष्टः सहस्रेणेति शास्त्रे तु बाह्याध्यात्मिकानां सुखदुःखमोहानां प्राप्तिष्वपगमेषु वाचाव्यवस्थ्यलक्षणा उपायनवत्वान्नव तुष्टयो भवन्ति

kārikā 49 āha, ativyāsābhihitamidamiti nāsmākaṃ buddhāvavatiṣṭhate tasmādviparyayoktaṃ bhedābhidhānaṃ parityajya vaktavyam kathamaśaktiraṣṭāviṃśatibhedeti ? ucyate- ekādaśendriyavadhāḥ saha buddhivadhairaśaktiruddiṣṭā indriyāṇāṃ vadhā indriyavadhāḥ svasaṃskāraviṣayayogātprakarṣāpannena tamasā grahaṇarūpasya sattvasyābhibhavātsvaviṣayeṣvapravṛttayaḥ tadyathā bādhiryamāndhyamaghratvaṃ mūkatā jaḍatā ca yā unmādakauṣṭhyakauṇyāni klaibyodāvartapaṅgutāḥ tatra bādhiryaṃ śrotrasya, āndhyaṃ cakṣuṣaḥ, aghratvaṃ nāsikāyāḥ, mūkatā vācaḥ, jaḍatā rasanasya, unmādo manasaḥ, kauṣṭhyaṃ tvacaḥ, kauṇyaṃ pāṇeḥ, klaibyamupasthasya, udāvartaḥ pāyoḥ, paṅgutā pādayorityevamindriyavadhā ekādaśa anye tu saptadaśa vadhā buddherviparyayāttuṣṭisiddhīnām isk_49 tatra tuṣṭayaḥ prakṛtyādyā vakṣyamāṇāḥ, tāsāṃ dvividho viparyayaḥ avyutpannasya yogadharmeṇa tasyāṃ bhūmāvapravṛttiḥ, vyutpannasya cottarabhūmyaparijñānātpūrvasyāṃ bhūmāvakṣemarūpeṇa grahaṇam ātmavido vā sarvāsu bhūmiṣu teṣu yatpūrvaṃ tadaśaktibhāvābhipretam yanmadhyamaṃ tadāpekṣikam katham ? tanmātrabhūmyavastho hi yogyasmitādibhūmyanavajayāttuṣṭo mahābhūtātikramātsiddhaḥ tathā vijitāsmitārūpo mahadādyavasthāpekṣayā tuṣṭaḥ, pūrvabhūmyapekṣayā siddhaḥ evaṃ mahadavasthaḥ pradhānāpekṣayā pūrvāpekṣayā ca pradhānāvasthaḥ puruṣāpekṣayā pūrvāpekṣayā ca guṇapuruṣāntarajñastu siddha eva tasmādavyutpannasyāmbhaḥprabhṛtiṣu navānambhaḥprabhṛtayo buddhivadhāḥ tārakādiviparyayeṇāṣṭāvatārakādayaḥ eṣā khalvaśaktiraṣṭāviṃśatibhedā tuṣṭistu sannihitaviṣayasantoṣāccikīrṣitādarthādūnena nivṛttiḥ sāmānyata ekaiva, pratyarthamanantā, śatena tuṣṭaḥ sahasreṇeti śāstre tu bāhyādhyātmikānāṃ sukhaduḥkhamohānāṃ prāptiṣvapagameṣu vācāvyavasthyalakṣaṇā upāyanavatvānnava tuṣṭayo bhavanti

Section (cont. 22)

50

कारिका 50 तासाम् आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः आध्यात्मिकी इति शरीरशरीरिणोर्विशेषमुपलिप्समानेन योगिना यदनात्मन्यात्मबुद्धिरवस्थाप्यते सा खल्वाध्यात्मिकी सिद्धिः तुष्टिः सन्तोषः क्षेम इत्यर्थः तासां प्रकृत्याख्या यदा वीतावीतैः प्रधानमधिगम्य तत्पूर्वकत्वं च महदादीनां विकाराणामानन्त्याच्च प्रधानात्मनः कृत्स्नस्य महदादिभावेन विपरिणामासम्भवादेकदेशस्याप्रकृतिविकारभूतस्य भोक्तृत्वमकर्तृत्वं चाध्यवस्य सङ्गद्वेषनिवृत्तिं लभते, साद्या तुष्टिरम्भ इत्यभिधीयते कस्मात् ? अमितं हि प्रधानतत्त्वं भाति जगद्बीजभूतत्वान्महदादिभावपरिणामेन न्यूनस्यैकदेशस्यात्मन एवापूरात् तद्व्यतिरेकेण चान्यस्यैकदेशस्योभयधर्मिणो भोक्तृभूतस्य सद्भावात्संप्रक्षालने ऽपि चापसंहृतम्, वैश्वरूप्यस्यानुच्छेदात् तथा च शास्त्रमाह- अम्भ इति गुणलिङ्गसन्निचयमेवाधिकुरुते गुणाश्च सत्त्वरजस्तमांसि लिङ्गं च महदादि अत्र सन्निहितं भवति तदिदं प्रधानममितं भात्यमितमुपलभ्यत इत्यम्भः स खल्वयं योगी प्रधानलक्षणां भूमिमवजित्य तन्महिम्ना च तदशून्यं दृष्ट्वा व्यतिरिक्तस्य पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति भिन्ने च देहे प्रकृतौ लयं गच्छति, ततश्च पुनरावर्तते तस्यां च तुष्टावन्ये सप्त महदादिकारणिनो ऽवरुद्धा द्रष्टव्याः तत्र यथा प्राधानिकस्य पुरुषे नास्ति विज्ञानं एवमितरेषामुत्तरेषु तत्त्वेषु महत्कारणिनः प्रधाने ऽस्मिताकारणिनो महति, तन्मात्रकारणिनो ऽहंकारे तदेकदेशाश्चैषां भोक्तारः पूर्ववत् अत्रापि च सत्त्वादीनां संहतविविक्तपरिणतव्यस्तसमस्तानां भेदादविद्यावच्छेदानन्त्यमवसेयम् आह, तुष्ट्यविद्ययोरभेदः लक्षणैकत्वात् अष्टासु प्रकृतिष्वात्मबुद्धिस्तुष्टिः तदेव च तम इत्यविद्याकाण्डे निर्दिष्टम् तस्मात्पदार्थसंकर इति उच्यते- न, प्रत्ययविशेषात् तमःप्रधानपुरुषोपदेशे सति प्रत्ययनिर्दिधारयिषया तयोः प्रधानमेव ज्यायो न पुरुष इत्यभिनिविशेत तुष्टिस्तु किं परमित्याश्रित्य प्रवृत्तः प्रधानज्ञानमात्रे सन्तोषात्पदार्थान्तरं विज्ञातुमेव नाद्रियते किं च प्रहाणविशेषात् निरूढमूलो ह्यनात्मनि आत्मग्रहो ज्ञानोत्तरकालभावनया प्रहातव्यः तमोबहुलत्वात्तम इत्यभिधीयते पेलवस्तु सत्त्वबहुलो दर्शनप्रणयस्तुष्टिः किंच तत्त्वाभिजयात् विजितभूमिकस्य हि योगिनस्तन्माहात्म्यवशीकृतत्वाद् भूम्यन्तरे प्रवृत्तिस्तुष्टिः इतरस्य त्वभिनिवेशमात्रमेवेत्यनयोर्विशेषः तस्मान्न पदार्थसंकर इति व्याख्याता प्रकृत्याख्या तुष्टिः यदा तु सत्यपि प्रकृतिसामर्थ्ये नानपेक्ष्य यथास्वमुपादानं भावानामुत्पत्तिः सम्भवति प्रकृत्यविशेषे सर्वकालमुत्पत्तिप्रसंगात्, प्रकृतिकृत्यमेवेदं विश्वमित्यभ्युपगच्छतस्तदविशेषाद् गोः पुरुषादुत्पत्तिप्रसंगः, पुरुषस्य वा महिषात् किं च जात्यभेदप्रसंगात् प्रकृतिकृत्यमिदं विश्वमित्यभ्युपगच्छतो जातिभेदो न स्यात्, तदविशेषात् दृष्टं तूपादानाज्जात्यनुविधानं भावानाम् तस्मात्तदेव कारणत्वेन परिकल्पयितुं न्याय्यम् उपादानैकदेश एव च कार्यकारणविधात्मा भोक्तेत्येतस्माद् दर्शनात्सङ्गद्वेषनिवृत्तिं लभते, सा द्वितीया तुष्टिः सलिलमित्यभिधीयते कथं पुनरेतत्सलिलम् ? सत्युपादाने विकारो लीयत इति तथा च कृत्वा शास्रमाह "सलिलं सलिलमिति वैकारिकोपनिपातमेवाधिकुरुते, सति तस्मिंल्लीयते जगदिति" स खल्वयं योगी पार्थिवानवजित्य तन्महिम्ना जगदशून्यं दृष्ट्वा पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति भिन्ने च देहे पृथिव्यादिषु लीयते ततश्च पुनरावर्तते यदा च सत्युपादानसामर्थ्ये न तावतैव भावानां प्रादुर्भावः किं तर्हि सन्निहितसाधनानामपि कालं प्रत्यपेक्षा भवति- कालविशेषाद्बीजादङ्कुरो जायते, अङ्कुरान्नालं, नालात्काण्डम्, काण्डात्प्रसव इत्यादि अन्यथा तूपादानानां सन्निधानमात्रात्क्षणेनैवामीषामवस्थाविशेषाणामभिव्यक्तिः स्यात् किंच कालविपर्ययेणोत्पत्तिप्रसंगात् न चैतदिष्टम् किं च तदनभिधानात् दृश्यन्ते च प्राणिनां कालानुरूपाः स्वाभावाहारविहारव्यवस्थाः तस्मादसावेव कारणम् तदेकदेशश्चाप्रकृतिविकारभूतो भोक्तेत्येतस्माद्दर्शनात्संगद्वेषनिवृत्तिं लभते, सा तृतीया तुष्टिरोघ इत्यभिधीयते कथं पुनरयं काल ओघ इत्युच्यते ? सलिलौघवत्सर्वाभ्यावहनात् तद्यथा सलिलौघस्तृणं काष्ठमश्मानं प्राणिनं वा स्वमूर्तिसंसृष्टं सर्वमेवाभ्यावहति, एवमयं कालो गर्भाद्बाल्यं, बाल्यात्कौमारं, कौमाराद्यौवनं, यौवनात्स्थाविर्यम्, स्थाविर्यान्मरणं, तथा बीजान्मूलं मूलादङ्कुरमिति वहति तथा चाह यामेव प्रथमां रात्रिं गर्भे भवति पूरुषः संप्रस्थितस्तां भवति स गच्छन्न निवर्तते तस्मादोघसामान्यादोघः कालः स खल्वयं योगी कालमवजित्य पदार्थान्तराभावं मन्यमानस्तामेव भूमिं कैवल्यमिति मन्यते देहभेदे च कालमनुप्रविशति ततश्च पुनरावर्तते यदा तु सत्यपि कालसामर्थ्ये भावानामुत्पत्तिः भाग्यानपेक्षते कस्मात् ? तत्सन्निधाने ऽप्यप्रादुर्भावात् सत्यपि साधनसामर्थ्ये कालविशेषे च कस्यचिदुत्पत्तिर्भवति कस्यचिन्नेति तस्मादस्ति कारणान्तरं यदपेक्ष्य भावानामुत्पत्तिरनुत्पत्तिश्च किं चाभ्युत्थानानुपपत्तिप्रसंगात् कालमात्रात्फलं भवतीत्येतदिच्छतः शास्त्रोक्तेषु क्रियाविशेषेष्वभिषेचनव्रतोपवासाग्निहोत्रादिष्वभ्युत्थानं न स्यात् कस्मात् ? आनर्थक्यात् अस्ति च, तस्मान्न कालनिमित्ता भावानामुत्पत्तिः किं च तदनुविधानात् दृश्यन्ते खल्वपि प्रकृत्युपादानकालाविशेषे ऽपि भाग्यविशेषात्फलविशेषाः तस्मात्तत्संकार एव कारणम् तदेकदेशश्चाप्रकृतिविकारभूतो भोक्तेत्येतस्माद्दर्शनात्संगद्वेषनिवृत्तिं लभते सा चतुर्थी तुष्टिर्वृष्टिरित्यभिधीयते कथं पुनर्वृष्टिरित्युच्यते सर्वसत्त्वाप्यायनात् यथा हि शीर्णानामपि तृणलतादीनां वृष्टिं प्राप्य पुनराप्यायनं भवति, एवमेव सर्वेषां प्राणिनां भाग्यविपरिणामात्पुनराप्यायनं भवति तस्माद्वृष्टिसाम्याद् भाग्याख्या तुष्टिर्वृष्टिरित्यभिधीयते शास्त्रमप्याह- "वृष्टिर्वृष्टिरिति श्रिय एवोपनिपातमधिकुरुते सा हि वृष्टिवत्सर्वमाप्यायतीति " स खल्वयं योगी भाग्यान्यवजित्य तन्महिम्ना जगदशून्यं दृष्ट्वा पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति स तस्यामेव देहभेदे लीयते ततश्च पुनरावर्तत इति आह, कालभाग्ययोरप्रतिपत्तिः, समाख्यापरिज्ञानात् प्रकृत्यात्मकस्य तावद्योगिनो ऽष्टौ प्रकृतयो विषय इत्युक्तं पुरस्तात् उपादानात्मकस्य च पृथिव्यादीनि महाभूतानि कालभाग्ययोस्तु न तथोक्तम् तस्माद्वक्तव्यं कस्य तत्त्वस्यैषा समाख्येति ? उच्यते- न, उक्तत्वात् प्रागेवैतदपदिष्टं न कालो नाम कश्चित्पदार्थो ऽस्ति किं तर्हि क्रियासु कालसंज्ञा ताश्च करणवृत्तिरिति प्रतिपादितम् न चान्या वृत्तिर्वृत्तिमतः तस्मात्कारणचैतन्यप्रतिज्ञः कालात्मक इति भाग्यसंज्ञा तु धर्माधर्मयोः तौ च बुद्धिधर्माविति प्रागपदिष्टम् तस्माद्भाग्यवादी बुद्धिचैतनिक इति आह, न तुष्ट्यन्तरत्वात् प्रकृतित्वान्महान्पूर्वं प्रकृत्याख्यायां तुष्टाववरुद्धः तस्येदानीं तुष्ट्यन्तरत्वेन परिकल्पनं नातिसमञ्जसमिति उच्यते- महांस्तर्हि पूर्वतुष्टिविषयभावादपकृष्यत इति कार्यकरणवृत्तिक्रियारूपां वृत्तिमद्द्योत्यां परिकल्प्य तस्यां कालत्वमयमाह महतश्च रूपं धर्मादिकं महतो ऽर्थान्तरं भाग्यमिति भाग्यवान् अथवा बाह्य एवायं कालः कर्मकारणं निर्दिश्यते तत्र चान्ये ऽपि स्वमतिपरिकल्पितपदार्थान्तरात्मभावग्रहा एवेति साङ्ख्याः प्रवादिनः प्रतिक्षिप्ता बोद्धव्या इति अपर आह, प्रकृतिचैतनिकः प्रधानभावाशाद्युपादानकालभाग्यवादिनो महदहङ्कारतन्मात्रवादिन इति तदेतदपसिद्धत्वादयुक्तम् न हि महदहङ्कारतन्मात्रलक्षणाः प्रकृतय उपादानकालभाग्यभावेन प्रसिद्धाः तस्मादिदमप्ययुक्तम् एवमेता आध्यात्मिक्यश्चतस्रस्तुष्टयः बाह्या विषयोपरमात् पञ्च च नव तुष्टयो ऽभिहिताः इस्क्_50 चशब्दो ऽवधारणार्थः अव्युत्पन्नात्मविचारस्य योगिनो विषयदोषदर्शनमात्रात्संगदोषनिवृत्तिर्बाह्या तुष्टिः तत्र यदार्जनदोषमवगच्छति न तावत्सर्वस्याभिजातिरस्तीति अर्थिनावश्यं विषयार्जने वर्तितव्यम् तेषामस्वाभाविकत्वात्क्वचिदेवावस्थितिरित्युक्तं प्राक् किं च सप्रत्यनीकत्वात् स्वाभाविकमवस्थानं विषयाणामपरिकल्प्यापि यदा प्रतिग्रहादिभिरर्जनं प्रत्याद्रियते तदप्ययुक्तम् कुतः ? सप्रत्यनीकत्वात् एवमपि नास्ति कश्चिदप्रत्यनीक विषयोपार्जनाय इति तद्विघाते ऽवश्यं प्रयतितव्यम् स च यदि प्रतियतमानः प्रत्यनीकिविघातं कुर्यात्परोपघातेनात्मानुग्रहानुष्ठानाच्छास्त्रविरोधः यस्मादाह- न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते पुनरप्याह- प्राणिनामुपघातेन यो ऽर्थः समुपजायते सो ऽनपेक्षैः प्रहातव्यो लोकान्तरविघातकृत् तस्मात्संघातमात्रत्वात्सत्त्वादीनां घटादिवत् आब्रह्मणः परिज्ञाय देहानामनवस्थितिम् सत्यं सद्भिरादीप्तं तृणोल्काचपलं सुखम् सुदृढैर्न निपातव्यं दुःखैर्देहान्तरोद्भवैः अथ पुनरयं प्रत्यनीकैर्विहन्यते, ततो ऽस्य विषयाभावः सुखार्थं च प्रवृत्तस्य भूयिष्ठं दुःखमेवेत्येतस्माद्दर्शनान्माध्यस्थ्यं लभते, सा पञ्चमी तुष्टिः सुतारमित्यभिधीयते कथं पुनः सुतारमित्युच्यते ? सुखमनेनोपायेन तरन्ति विषयसंकटमिति सुतारम् यदा तु योगी पूर्वदोषाधिगमे ऽभिजात्या वा यत्नार्जितविषयत्वे सति रक्षादोषमुपन्यस्यति कथम् ? भोक्तृभोग्यभावाव्यतिरेकात् सर्वप्राणिसाधारणा विषयाः, तस्मात्तेषां रक्षा विधेया तस्यां च प्रवर्तमानो यदि परमुपरुन्ध्यात् तदा पूर्वोक्तदोषः, अथात्मानं, विषयाभावः रात्रिन्दिवं च तदेकाग्रमनसः सुखार्थं प्रवृतस्य भूयिष्ठं दुःखमेवेत्येतस्माद्दर्शनान्माध्यस्थ्यं लभते सा षष्ठी तुष्टिः सुपारमित्यभिधीयते कथं पुनः सुपारमित्युच्यते ? सुखमनेन पारं विषयार्णवस्य प्रयान्तीति यदा तु सति पूर्वदोषे, सति वा ग्रामनगरनिगमसन्निवेशाद्युपायानुष्ठानाद्वा कृतविषयरक्षो योगी क्षयदोषमुपन्यस्यति कथम् ? येन द्रव्येण मोहाद्वरन्तुमिच्छन्ति देहिनः तदेवैषां विनाशित्वाद् भवत्यरतिकारणम् यत्नोपात्ताः सुगुप्ताश्च विषया विषयैषिणाम् पश्यतामेव नश्यन्ति बुद्बुदाः सलिले यथा न तदस्ति जगत्यस्मिन्भूतं स्थावरजङ्गमम् प्रत्यक्षतो ऽनुमानाद्वा विनाशो यस्य नेक्ष्यते तस्माद्विनाशिष्वासक्तानां पुत्रदारगृहादिषु ममेति बुद्धिं यत्नेन बुद्धिमान्विनिवर्तयेत् इति एतस्माद्दर्शनान्माध्यस्थ्यं लभते, सा सप्तमी तुष्टिः सुनेत्रमित्युच्यते कथं पुनः सुनेत्रमित्युच्यते ? सुखमनेनात्मानं कैवल्यावस्थां नयन्तीति सुनेत्रम् यदा तु सत्सु पूर्वदोषेषु प्रसङ्गदोषमुपन्यस्यति कथम् ? प्राप्तविषयाणामिन्द्रियाणां तदभिलाषान्निवृतिस्तत्सुखम् विषयजिघृक्षया च दुःखम् प्राप्तिरप्येषामनुपशान्तये तदुपभोगकौशलाय च यस्मादाह- यदा प्रबन्धाद्विषयी विषयानुपसेवते तदास्येतस्त्वभिप्रायः सुतरां संप्रवर्तते अतो ऽपि येन पुरुषः शमयेद् वडवानलम् नेन्द्रियाण्युपभोगेन विषयेभ्यो निवर्तयेत् तस्माद्विषयसम्पर्कमसमर्थं निवर्तने इन्द्रियाणां परिज्ञाय निरासङ्गमतिश्चरेत् इत्येतस्माद् दर्शनान्माध्यस्थ्यं लभते साष्टमी तुष्टिः सुमारीचमित्युच्यते कथं सुमारीचमित्युच्यते ? अर्चतेः पूजार्थस्य शोभनमर्चितं विषयसंगनिवृत्तस्य योगिनो ऽवस्थानं भवति यदा तु पूर्वदोषेषु हिंसादोषमुपन्यस्यति कथम् ? अनुपहत्यान्यभूतानि विषयभोगानुपपत्तेः उपभोगो हि नाम मनोज्ञाभ्यवहारः, स्त्रीसेवा, हयगजनरादिभिर्यानमित्येवमादि तत्र मनोज्ञाभ्यवहारचिकीर्षुषा तदङ्गानां गो ऽजाविबलीवर्दस्त्रीपुरुषादीनामवश्यमुपघातः कार्यः अनुपघाते वा विषयानुपपत्तिप्रसंगः स्त्रियमासेवमानेनान्यासां स्त्रीणां मातृपितृभ्रातृप्रभृतीनां च, अन्यथा तदभावो हयादीनाम् तस्मादुपभोगार्थिनावश्यमन्योपघातः कार्यो निहितदण्डेन वा विषयोपभोगस्त्याज्य इति आह च यथा यथा हि विषयो वृद्धिं गृह्णाति देहिनाम् अपघातस्तदङ्गानां तथैवास्य विवर्धते तस्मादनिच्छन्नन्येषां प्राणिनां देहपीडनम् सन्तोषेणैव वर्तेत त्यक्तसर्वपरिच्छदः सत्यवाचः प्रशान्तस्य सर्वभूतान्यनिच्छतः भावान्धकारान्तज्ञानमचिरेण प्रवर्तते इत्येतस्माद्दर्शनान्माध्यस्थ्यं लभते, सा नवमी तुष्टिरुत्तमाभयमित्यपदिश्यते कथम् ? उत्तमं हि प्राणिनां सर्वेभ्यो हिंसाभयमिति तदपगमादुत्तमाभयमिति आह, अर्जनरक्षणलक्षणयोरपि तुष्ट्योः परोपघातदोषाः, अपदिष्टो ऽस्यामपि च तत्र कथमनयोर्विशेषः प्रतिपत्तव्य इति ? उच्यते न, विषयभेदात् तत्र येषामर्जनरक्षणे प्रत्याद्रियते विषयी तदर्थिना प्रत्यनीकानामवश्यमभिघातो ऽनुष्ठातव्य इत्यादावुक्तम् इह तु येषामेवार्जनरक्षणे तदनुपघातेनाशक्यो विषयोपभोग इत्येतद्विवक्षितम् तस्मादसंकीर्णमेतदित्येवमम्भःप्रभृतयो नव विषयेभ्यः संगद्वेषनिवृत्तिहेतवो व्याख्याताः ते ज्ञानविरहितानां योगिनां तुष्टिशब्दवाच्यतां लभन्ते ज्ञानिनां तु वैराग्यपर्वसंज्ञिता स्वासु स्वासु तत्त्वभूमिषु सिद्धा एवेति

kārikā 50 tāsām ādhyātmikyaścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ ādhyātmikī iti śarīraśarīriṇorviśeṣamupalipsamānena yoginā yadanātmanyātmabuddhiravasthāpyate sā khalvādhyātmikī siddhiḥ tuṣṭiḥ santoṣaḥ kṣema ityarthaḥ tāsāṃ prakṛtyākhyā yadā vītāvītaiḥ pradhānamadhigamya tatpūrvakatvaṃ ca mahadādīnāṃ vikārāṇāmānantyācca pradhānātmanaḥ kṛtsnasya mahadādibhāvena vipariṇāmāsambhavādekadeśasyāprakṛtivikārabhūtasya bhoktṛtvamakartṛtvaṃ cādhyavasya saṅgadveṣanivṛttiṃ labhate, sādyā tuṣṭirambha ityabhidhīyate kasmāt ? amitaṃ hi pradhānatattvaṃ bhāti jagadbījabhūtatvānmahadādibhāvapariṇāmena nyūnasyaikadeśasyātmana evāpūrāt tadvyatirekeṇa cānyasyaikadeśasyobhayadharmiṇo bhoktṛbhūtasya sadbhāvātsaṃprakṣālane 'pi cāpasaṃhṛtam, vaiśvarūpyasyānucchedāt tathā ca śāstramāha- ambha iti guṇaliṅgasannicayamevādhikurute guṇāśca sattvarajastamāṃsi liṅgaṃ ca mahadādi atra sannihitaṃ bhavati tadidaṃ pradhānamamitaṃ bhātyamitamupalabhyata ityambhaḥ sa khalvayaṃ yogī pradhānalakṣaṇāṃ bhūmimavajitya tanmahimnā ca tadaśūnyaṃ dṛṣṭvā vyatiriktasya padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti bhinne ca dehe prakṛtau layaṃ gacchati, tataśca punarāvartate tasyāṃ ca tuṣṭāvanye sapta mahadādikāraṇino 'varuddhā draṣṭavyāḥ tatra yathā prādhānikasya puruṣe nāsti vijñānaṃ evamitareṣāmuttareṣu tattveṣu mahatkāraṇinaḥ pradhāne 'smitākāraṇino mahati, tanmātrakāraṇino 'haṃkāre tadekadeśāścaiṣāṃ bhoktāraḥ pūrvavat atrāpi ca sattvādīnāṃ saṃhataviviktapariṇatavyastasamastānāṃ bhedādavidyāvacchedānantyamavaseyam āha, tuṣṭyavidyayorabhedaḥ lakṣaṇaikatvāt aṣṭāsu prakṛtiṣvātmabuddhistuṣṭiḥ tadeva ca tama ityavidyākāṇḍe nirdiṣṭam tasmātpadārthasaṃkara iti ucyate- na, pratyayaviśeṣāt tamaḥpradhānapuruṣopadeśe sati pratyayanirdidhārayiṣayā tayoḥ pradhānameva jyāyo na puruṣa ityabhiniviśeta tuṣṭistu kiṃ paramityāśritya pravṛttaḥ pradhānajñānamātre santoṣātpadārthāntaraṃ vijñātumeva nādriyate kiṃ ca prahāṇaviśeṣāt nirūḍhamūlo hyanātmani ātmagraho jñānottarakālabhāvanayā prahātavyaḥ tamobahulatvāttama ityabhidhīyate pelavastu sattvabahulo darśanapraṇayastuṣṭiḥ kiṃca tattvābhijayāt vijitabhūmikasya hi yoginastanmāhātmyavaśīkṛtatvād bhūmyantare pravṛttistuṣṭiḥ itarasya tvabhiniveśamātramevetyanayorviśeṣaḥ tasmānna padārthasaṃkara iti vyākhyātā prakṛtyākhyā tuṣṭiḥ yadā tu satyapi prakṛtisāmarthye nānapekṣya yathāsvamupādānaṃ bhāvānāmutpattiḥ sambhavati prakṛtyaviśeṣe sarvakālamutpattiprasaṃgāt, prakṛtikṛtyamevedaṃ viśvamityabhyupagacchatastadaviśeṣād goḥ puruṣādutpattiprasaṃgaḥ, puruṣasya vā mahiṣāt kiṃ ca jātyabhedaprasaṃgāt prakṛtikṛtyamidaṃ viśvamityabhyupagacchato jātibhedo na syāt, tadaviśeṣāt dṛṣṭaṃ tūpādānājjātyanuvidhānaṃ bhāvānām tasmāttadeva kāraṇatvena parikalpayituṃ nyāyyam upādānaikadeśa eva ca kāryakāraṇavidhātmā bhoktetyetasmād darśanātsaṅgadveṣanivṛttiṃ labhate, sā dvitīyā tuṣṭiḥ salilamityabhidhīyate kathaṃ punaretatsalilam ? satyupādāne vikāro līyata iti tathā ca kṛtvā śāsramāha "salilaṃ salilamiti vaikārikopanipātamevādhikurute, sati tasmiṃllīyate jagaditi" sa khalvayaṃ yogī pārthivānavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti bhinne ca dehe pṛthivyādiṣu līyate tataśca punarāvartate yadā ca satyupādānasāmarthye na tāvataiva bhāvānāṃ prādurbhāvaḥ kiṃ tarhi sannihitasādhanānāmapi kālaṃ pratyapekṣā bhavati- kālaviśeṣādbījādaṅkuro jāyate, aṅkurānnālaṃ, nālātkāṇḍam, kāṇḍātprasava ityādi anyathā tūpādānānāṃ sannidhānamātrātkṣaṇenaivāmīṣāmavasthāviśeṣāṇāmabhivyaktiḥ syāt kiṃca kālaviparyayeṇotpattiprasaṃgāt na caitadiṣṭam kiṃ ca tadanabhidhānāt dṛśyante ca prāṇināṃ kālānurūpāḥ svābhāvāhāravihāravyavasthāḥ tasmādasāveva kāraṇam tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate, sā tṛtīyā tuṣṭirogha ityabhidhīyate kathaṃ punarayaṃ kāla ogha ityucyate ? salilaughavatsarvābhyāvahanāt tadyathā salilaughastṛṇaṃ kāṣṭhamaśmānaṃ prāṇinaṃ vā svamūrtisaṃsṛṣṭaṃ sarvamevābhyāvahati, evamayaṃ kālo garbhādbālyaṃ, bālyātkaumāraṃ, kaumārādyauvanaṃ, yauvanātsthāviryam, sthāviryānmaraṇaṃ, tathā bījānmūlaṃ mūlādaṅkuramiti vahati tathā cāha yāmeva prathamāṃ rātriṃ garbhe bhavati pūruṣaḥ saṃprasthitastāṃ bhavati sa gacchanna nivartate tasmādoghasāmānyādoghaḥ kālaḥ sa khalvayaṃ yogī kālamavajitya padārthāntarābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti manyate dehabhede ca kālamanupraviśati tataśca punarāvartate yadā tu satyapi kālasāmarthye bhāvānāmutpattiḥ bhāgyānapekṣate kasmāt ? tatsannidhāne 'pyaprādurbhāvāt satyapi sādhanasāmarthye kālaviśeṣe ca kasyacidutpattirbhavati kasyacinneti tasmādasti kāraṇāntaraṃ yadapekṣya bhāvānāmutpattiranutpattiśca kiṃ cābhyutthānānupapattiprasaṃgāt kālamātrātphalaṃ bhavatītyetadicchataḥ śāstrokteṣu kriyāviśeṣeṣvabhiṣecanavratopavāsāgnihotrādiṣvabhyutthānaṃ na syāt kasmāt ? ānarthakyāt asti ca, tasmānna kālanimittā bhāvānāmutpattiḥ kiṃ ca tadanuvidhānāt dṛśyante khalvapi prakṛtyupādānakālāviśeṣe 'pi bhāgyaviśeṣātphalaviśeṣāḥ tasmāttatsaṃkāra eva kāraṇam tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate sā caturthī tuṣṭirvṛṣṭirityabhidhīyate kathaṃ punarvṛṣṭirityucyate sarvasattvāpyāyanāt yathā hi śīrṇānāmapi tṛṇalatādīnāṃ vṛṣṭiṃ prāpya punarāpyāyanaṃ bhavati, evameva sarveṣāṃ prāṇināṃ bhāgyavipariṇāmātpunarāpyāyanaṃ bhavati tasmādvṛṣṭisāmyād bhāgyākhyā tuṣṭirvṛṣṭirityabhidhīyate śāstramapyāha- "vṛṣṭirvṛṣṭiriti śriya evopanipātamadhikurute sā hi vṛṣṭivatsarvamāpyāyatīti " sa khalvayaṃ yogī bhāgyānyavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti sa tasyāmeva dehabhede līyate tataśca punarāvartata iti āha, kālabhāgyayorapratipattiḥ, samākhyāparijñānāt prakṛtyātmakasya tāvadyogino 'ṣṭau prakṛtayo viṣaya ityuktaṃ purastāt upādānātmakasya ca pṛthivyādīni mahābhūtāni kālabhāgyayostu na tathoktam tasmādvaktavyaṃ kasya tattvasyaiṣā samākhyeti ? ucyate- na, uktatvāt prāgevaitadapadiṣṭaṃ na kālo nāma kaścitpadārtho 'sti kiṃ tarhi kriyāsu kālasaṃjñā tāśca karaṇavṛttiriti pratipāditam na cānyā vṛttirvṛttimataḥ tasmātkāraṇacaitanyapratijñaḥ kālātmaka iti bhāgyasaṃjñā tu dharmādharmayoḥ tau ca buddhidharmāviti prāgapadiṣṭam tasmādbhāgyavādī buddhicaitanika iti āha, na tuṣṭyantaratvāt prakṛtitvānmahānpūrvaṃ prakṛtyākhyāyāṃ tuṣṭāvavaruddhaḥ tasyedānīṃ tuṣṭyantaratvena parikalpanaṃ nātisamañjasamiti ucyate- mahāṃstarhi pūrvatuṣṭiviṣayabhāvādapakṛṣyata iti kāryakaraṇavṛttikriyārūpāṃ vṛttimaddyotyāṃ parikalpya tasyāṃ kālatvamayamāha mahataśca rūpaṃ dharmādikaṃ mahato 'rthāntaraṃ bhāgyamiti bhāgyavān athavā bāhya evāyaṃ kālaḥ karmakāraṇaṃ nirdiśyate tatra cānye 'pi svamatiparikalpitapadārthāntarātmabhāvagrahā eveti sāṅkhyāḥ pravādinaḥ pratikṣiptā boddhavyā iti apara āha, prakṛticaitanikaḥ pradhānabhāvāśādyupādānakālabhāgyavādino mahadahaṅkāratanmātravādina iti tadetadapasiddhatvādayuktam na hi mahadahaṅkāratanmātralakṣaṇāḥ prakṛtaya upādānakālabhāgyabhāvena prasiddhāḥ tasmādidamapyayuktam evametā ādhyātmikyaścatasrastuṣṭayaḥ bāhyā viṣayoparamāt pañca ca nava tuṣṭayo 'bhihitāḥ isk_50 caśabdo 'vadhāraṇārthaḥ avyutpannātmavicārasya yogino viṣayadoṣadarśanamātrātsaṃgadoṣanivṛttirbāhyā tuṣṭiḥ tatra yadārjanadoṣamavagacchati na tāvatsarvasyābhijātirastīti arthināvaśyaṃ viṣayārjane vartitavyam teṣāmasvābhāvikatvātkvacidevāvasthitirityuktaṃ prāk kiṃ ca sapratyanīkatvāt svābhāvikamavasthānaṃ viṣayāṇāmaparikalpyāpi yadā pratigrahādibhirarjanaṃ pratyādriyate tadapyayuktam kutaḥ ? sapratyanīkatvāt evamapi nāsti kaścidapratyanīka viṣayopārjanāya iti tadvighāte 'vaśyaṃ prayatitavyam sa ca yadi pratiyatamānaḥ pratyanīkivighātaṃ kuryātparopaghātenātmānugrahānuṣṭhānācchāstravirodhaḥ yasmādāha- na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ eṣa saṃkṣepato dharmaḥ kāmādanyaḥ pravartate punarapyāha- prāṇināmupaghātena yo 'rthaḥ samupajāyate so 'napekṣaiḥ prahātavyo lokāntaravighātakṛt tasmātsaṃghātamātratvātsattvādīnāṃ ghaṭādivat ābrahmaṇaḥ parijñāya dehānāmanavasthitim satyaṃ sadbhirādīptaṃ tṛṇolkācapalaṃ sukham sudṛḍhairna nipātavyaṃ duḥkhairdehāntarodbhavaiḥ atha punarayaṃ pratyanīkairvihanyate, tato 'sya viṣayābhāvaḥ sukhārthaṃ ca pravṛttasya bhūyiṣṭhaṃ duḥkhamevetyetasmāddarśanānmādhyasthyaṃ labhate, sā pañcamī tuṣṭiḥ sutāramityabhidhīyate kathaṃ punaḥ sutāramityucyate ? sukhamanenopāyena taranti viṣayasaṃkaṭamiti sutāram yadā tu yogī pūrvadoṣādhigame 'bhijātyā vā yatnārjitaviṣayatve sati rakṣādoṣamupanyasyati katham ? bhoktṛbhogyabhāvāvyatirekāt sarvaprāṇisādhāraṇā viṣayāḥ, tasmātteṣāṃ rakṣā vidheyā tasyāṃ ca pravartamāno yadi paramuparundhyāt tadā pūrvoktadoṣaḥ, athātmānaṃ, viṣayābhāvaḥ rātrindivaṃ ca tadekāgramanasaḥ sukhārthaṃ pravṛtasya bhūyiṣṭhaṃ duḥkhamevetyetasmāddarśanānmādhyasthyaṃ labhate sā ṣaṣṭhī tuṣṭiḥ supāramityabhidhīyate kathaṃ punaḥ supāramityucyate ? sukhamanena pāraṃ viṣayārṇavasya prayāntīti yadā tu sati pūrvadoṣe, sati vā grāmanagaranigamasanniveśādyupāyānuṣṭhānādvā kṛtaviṣayarakṣo yogī kṣayadoṣamupanyasyati katham ? yena dravyeṇa mohādvarantumicchanti dehinaḥ tadevaiṣāṃ vināśitvād bhavatyaratikāraṇam yatnopāttāḥ suguptāśca viṣayā viṣayaiṣiṇām paśyatāmeva naśyanti budbudāḥ salile yathā na tadasti jagatyasminbhūtaṃ sthāvarajaṅgamam pratyakṣato 'numānādvā vināśo yasya nekṣyate tasmādvināśiṣvāsaktānāṃ putradāragṛhādiṣu mameti buddhiṃ yatnena buddhimānvinivartayet iti etasmāddarśanānmādhyasthyaṃ labhate, sā saptamī tuṣṭiḥ sunetramityucyate kathaṃ punaḥ sunetramityucyate ? sukhamanenātmānaṃ kaivalyāvasthāṃ nayantīti sunetram yadā tu satsu pūrvadoṣeṣu prasaṅgadoṣamupanyasyati katham ? prāptaviṣayāṇāmindriyāṇāṃ tadabhilāṣānnivṛtistatsukham viṣayajighṛkṣayā ca duḥkham prāptirapyeṣāmanupaśāntaye tadupabhogakauśalāya ca yasmādāha- yadā prabandhādviṣayī viṣayānupasevate tadāsyetastvabhiprāyaḥ sutarāṃ saṃpravartate ato 'pi yena puruṣaḥ śamayed vaḍavānalam nendriyāṇyupabhogena viṣayebhyo nivartayet tasmādviṣayasamparkamasamarthaṃ nivartane indriyāṇāṃ parijñāya nirāsaṅgamatiścaret ityetasmād darśanānmādhyasthyaṃ labhate sāṣṭamī tuṣṭiḥ sumārīcamityucyate kathaṃ sumārīcamityucyate ? arcateḥ pūjārthasya śobhanamarcitaṃ viṣayasaṃganivṛttasya yogino 'vasthānaṃ bhavati yadā tu pūrvadoṣeṣu hiṃsādoṣamupanyasyati katham ? anupahatyānyabhūtāni viṣayabhogānupapatteḥ upabhogo hi nāma manojñābhyavahāraḥ, strīsevā, hayagajanarādibhiryānamityevamādi tatra manojñābhyavahāracikīrṣuṣā tadaṅgānāṃ go 'jāvibalīvardastrīpuruṣādīnāmavaśyamupaghātaḥ kāryaḥ anupaghāte vā viṣayānupapattiprasaṃgaḥ striyamāsevamānenānyāsāṃ strīṇāṃ mātṛpitṛbhrātṛprabhṛtīnāṃ ca, anyathā tadabhāvo hayādīnām tasmādupabhogārthināvaśyamanyopaghātaḥ kāryo nihitadaṇḍena vā viṣayopabhogastyājya iti āha ca yathā yathā hi viṣayo vṛddhiṃ gṛhṇāti dehinām apaghātastadaṅgānāṃ tathaivāsya vivardhate tasmādanicchannanyeṣāṃ prāṇināṃ dehapīḍanam santoṣeṇaiva varteta tyaktasarvaparicchadaḥ satyavācaḥ praśāntasya sarvabhūtānyanicchataḥ bhāvāndhakārāntajñānamacireṇa pravartate ityetasmāddarśanānmādhyasthyaṃ labhate, sā navamī tuṣṭiruttamābhayamityapadiśyate katham ? uttamaṃ hi prāṇināṃ sarvebhyo hiṃsābhayamiti tadapagamāduttamābhayamiti āha, arjanarakṣaṇalakṣaṇayorapi tuṣṭyoḥ paropaghātadoṣāḥ, apadiṣṭo 'syāmapi ca tatra kathamanayorviśeṣaḥ pratipattavya iti ? ucyate na, viṣayabhedāt tatra yeṣāmarjanarakṣaṇe pratyādriyate viṣayī tadarthinā pratyanīkānāmavaśyamabhighāto 'nuṣṭhātavya ityādāvuktam iha tu yeṣāmevārjanarakṣaṇe tadanupaghātenāśakyo viṣayopabhoga ityetadvivakṣitam tasmādasaṃkīrṇametadityevamambhaḥprabhṛtayo nava viṣayebhyaḥ saṃgadveṣanivṛttihetavo vyākhyātāḥ te jñānavirahitānāṃ yogināṃ tuṣṭiśabdavācyatāṃ labhante jñānināṃ tu vairāgyaparvasaṃjñitā svāsu svāsu tattvabhūmiṣu siddhā eveti


51

कारिका 51 आह- प्रागपदिष्टमष्टधा सिद्धिरिति तदिदानीमभिधीयतामिति उच्यते- ऊहः शब्दो ऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः दानञ्च सिद्धयो ऽष्टौ तत्रोहो नाम यदा प्रत्यक्षानुमानागमव्यतिरेकेणाभिप्रेतमर्थं विचारणाबलेनैव प्रतिपद्यते, साद्या सिद्धिः तारकमित्यपदिश्यते- तारयति संसारार्णवादिति तारकम् यदा तु स्वयं प्रतिपत्तौ प्रतिहन्यमानो गुरूपदेशात् प्रतिपद्यते सा द्वितीया सिद्धिः सुतारमित्यपदिश्यते कथम् ? सुखमनेनद्यत्वे ऽपि भवसङ्कटात् तरन्तीति यदा त्वन्योपदेशादप्यसमर्थः प्रतिपत्तुमध्ययनेन साधयति सा तृतीया सिद्धिः तारयन्तमित्यपदिश्यते तदेतत् तारणक्रियाया अद्यत्वे ऽपि अव्यावृतत्वात् महाविषयत्वात् तारयन्तमित्यपदिश्यते त एते त्रयः साधनोपायैराब्राह्मणः प्राणिनो ऽभिप्रेतमर्थं प्राप्नुवन्ति आह च- "साक्षात्कृतधर्माण ऋषयो बभूवुः, ते ऽपरेभ्यो ऽसाक्षात्कृतधर्मेभ्य उपदेशेन मन्त्रान् सम्प्राहुरुपदेशाय ग्लायन्तो ऽपरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदञ्च वेदाङ्गानि चेति" बिल्मं भासनम्- सम्यक् प्रतिभासाय विशिष्टः संकेत उक्तः एषां तु साधनोपायानां प्रत्यनीकप्रतिषेधाय दुःखविघातत्रयम् दुःखानि त्रीणि- आध्यात्मिकादीनि तत्र चाध्यात्मिकानां वातादीनां सिद्धिप्रत्यनीकानामायुर्वेदक्रियानुष्ठानेन विघातं कृत्वा पूर्वेषां त्रयाणामन्यतमेन साधयति सा चतुर्थी सिद्धिः प्रमोदमित्यभिधीयते कथम् ? निवृत्तरोगा हि प्राणिनः प्रमोदन्त इति कृत्वा यदा त्वाधिभौतिकानां मानुषादिनिमित्तानां सिद्धिप्रत्यनीकानां सामादिना यतिधर्मानुगुणेन वोपायेन पूर्वेषां त्रयाणामन्यतमेन साधयति, सा पञ्चमी सिद्धिः प्रमुदितमित्यभिधीयते कथम् ? अनुद्विग्नो हि प्रमुदित इति कृत्वा यदा तु शीतादीन्याधिदैविकानि द्वन्द्वानि सिद्धिप्रत्यनीकानि स्वधर्मानुरोधेन प्रतिहत्य पूर्वेषां त्रयाणामन्यतमेन साधयति, सा षष्ठी सिद्धिर्मोदनाममित्यभिधीयते कथम् ? द्वन्द्वानुपहता हि प्राणिनो मोदन्त इति कृत्वा सुहृत्प्राप्तिः- यदा तु कृशलं संस्पृष्टं सन्मित्रमाश्रित्य सन्देहनिवृत्तिं लभते, सा रम्यकमिति सप्तमी सिद्धिरपदिश्यते रम्यो हि लोके सन्मित्रसम्पर्कः, तस्य संज्ञायां रम्यमेव रम्यकम् दानम्- यदा तु दौर्भाग्यं दानेनातीत्य पूर्वेषां त्रयाणामन्यतमेन साधयति साष्टामी सिद्धिः सदाप्रमुदितमित्यभिधीयते सुभगो हि सदाप्रमुदितो भवति, तस्माद्दौर्भाग्यनिवृत्तिः सदाप्रमुदितम् इत्येवमेताः सिद्धयो ऽष्टौ व्याख्याताः एतासां संश्रयेणाभिप्रेतमर्थं यतः संसाधयन्तीत्यतः पूर्वाचार्यागतं मार्गमारुरुक्षुस्तत्प्रवणः स्यादिति आह, कः पुनरत्र हेतुर्येन पुरुषार्थत्वाविशेषे सति गुणानां सर्वसिद्धिनिमित्तं त्वनुभवतीति ? उच्यते- यस्मात् सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः इस्क्_51 साध्यप्रतिपत्तिसामर्थ्यसामान्यमङ्गीकृत्याह सिद्धेरिति पूर्वो विपर्ययाशक्तितुष्टिलक्षणः अंकुश इवांकुशः, निवर्तनसामान्यात् नित्यप्रवृत्तस्यापि प्रधानात्सिद्धिस्रोतसो विपर्ययाशक्तितुष्टिप्रतिबन्धात्सर्वप्राणिष्वप्रवृत्तिर्भवति विपर्ययात्तावत्स्थावरेषु ते हि मुख्याः स्रोतसो विपर्ययात्मानः अशक्तेस्तिर्यक्षु ते हि तिर्यक्स्रोतसो ऽशक्त्यात्मानः तुष्टिर्देवेषु ते ह्यूर्ध्वस्रोतसस्तुष्ट्यात्मानः मानुषास्त्वर्वाक्स्रोतसः संसिद्ध्यात्मानः तस्मात्त एव तारकादिषु प्रवर्तन्ते सत्त्वरजस्तमसां चाङ्गाङ्गिभावनियमाद्विपर्ययाशक्तितुष्टिभिः प्रतिहन्यत इति न सर्वेषां सर्वदा सिद्धिर्भवति अत एतदुक्तं सिद्धेः पूर्वो ऽङ्कुशास्त्रिविध इति यथा च सिद्द्धेः विपर्ययाशक्तितुष्टयः प्रतिपक्षाः, एवं सिद्धिरपि विपर्ययादीनाम् सा ह्युत्पन्ना सर्वानेतान्निवर्तयति कथम् ? अविपरीतज्ञानं विपर्ययमतीतानागतवर्तमानेषु सन्निकृष्टेषु विप्रकृष्टेषु इन्द्रियग्राह्येष्वतीन्द्रियेषु चाप्रतिघातादशक्तिं पुरुषस्य प्रकृतिविकारव्यतिरिक्तस्य दर्शनात्सर्वासु भूमिषु तुष्टिम् एवमेतानि स्रोतांसि प्राणादयः कर्मयोनयश्च व्याख्याताः एतेषां मार्गे ऽवस्थापनात्परां सिद्धिकैवल्यलक्षणामचिरेण प्राप्नोति आह च योनीनां सप्रमाणानां सम्यङ्मार्गे नियोजनात् स्रोतसां च विशुद्धत्वान्निरासङ्गमतिश्चरेत् इति

kārikā 51 āha- prāgapadiṣṭamaṣṭadhā siddhiriti tadidānīmabhidhīyatāmiti ucyate- ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ dānañca siddhayo 'ṣṭau tatroho nāma yadā pratyakṣānumānāgamavyatirekeṇābhipretamarthaṃ vicāraṇābalenaiva pratipadyate, sādyā siddhiḥ tārakamityapadiśyate- tārayati saṃsārārṇavāditi tārakam yadā tu svayaṃ pratipattau pratihanyamāno gurūpadeśāt pratipadyate sā dvitīyā siddhiḥ sutāramityapadiśyate katham ? sukhamanenadyatve 'pi bhavasaṅkaṭāt tarantīti yadā tvanyopadeśādapyasamarthaḥ pratipattumadhyayanena sādhayati sā tṛtīyā siddhiḥ tārayantamityapadiśyate tadetat tāraṇakriyāyā adyatve 'pi avyāvṛtatvāt mahāviṣayatvāt tārayantamityapadiśyate ta ete trayaḥ sādhanopāyairābrāhmaṇaḥ prāṇino 'bhipretamarthaṃ prāpnuvanti āha ca- "sākṣātkṛtadharmāṇa ṛṣayo babhūvuḥ, te 'parebhyo 'sākṣātkṛtadharmebhya upadeśena mantrān samprāhurupadeśāya glāyanto 'pare bilmagrahaṇāyemaṃ granthaṃ samāmnāsiṣurvedañca vedāṅgāni ceti" bilmaṃ bhāsanam- samyak pratibhāsāya viśiṣṭaḥ saṃketa uktaḥ eṣāṃ tu sādhanopāyānāṃ pratyanīkapratiṣedhāya duḥkhavighātatrayam duḥkhāni trīṇi- ādhyātmikādīni tatra cādhyātmikānāṃ vātādīnāṃ siddhipratyanīkānāmāyurvedakriyānuṣṭhānena vighātaṃ kṛtvā pūrveṣāṃ trayāṇāmanyatamena sādhayati sā caturthī siddhiḥ pramodamityabhidhīyate katham ? nivṛttarogā hi prāṇinaḥ pramodanta iti kṛtvā yadā tvādhibhautikānāṃ mānuṣādinimittānāṃ siddhipratyanīkānāṃ sāmādinā yatidharmānuguṇena vopāyena pūrveṣāṃ trayāṇāmanyatamena sādhayati, sā pañcamī siddhiḥ pramuditamityabhidhīyate katham ? anudvigno hi pramudita iti kṛtvā yadā tu śītādīnyādhidaivikāni dvandvāni siddhipratyanīkāni svadharmānurodhena pratihatya pūrveṣāṃ trayāṇāmanyatamena sādhayati, sā ṣaṣṭhī siddhirmodanāmamityabhidhīyate katham ? dvandvānupahatā hi prāṇino modanta iti kṛtvā suhṛtprāptiḥ- yadā tu kṛśalaṃ saṃspṛṣṭaṃ sanmitramāśritya sandehanivṛttiṃ labhate, sā ramyakamiti saptamī siddhirapadiśyate ramyo hi loke sanmitrasamparkaḥ, tasya saṃjñāyāṃ ramyameva ramyakam dānam- yadā tu daurbhāgyaṃ dānenātītya pūrveṣāṃ trayāṇāmanyatamena sādhayati sāṣṭāmī siddhiḥ sadāpramuditamityabhidhīyate subhago hi sadāpramudito bhavati, tasmāddaurbhāgyanivṛttiḥ sadāpramuditam ityevametāḥ siddhayo 'ṣṭau vyākhyātāḥ etāsāṃ saṃśrayeṇābhipretamarthaṃ yataḥ saṃsādhayantītyataḥ pūrvācāryāgataṃ mārgamārurukṣustatpravaṇaḥ syāditi āha, kaḥ punaratra heturyena puruṣārthatvāviśeṣe sati guṇānāṃ sarvasiddhinimittaṃ tvanubhavatīti ? ucyate- yasmāt siddheḥ pūrvo 'ṅkuśastrividhaḥ isk_51 sādhyapratipattisāmarthyasāmānyamaṅgīkṛtyāha siddheriti pūrvo viparyayāśaktituṣṭilakṣaṇaḥ aṃkuśa ivāṃkuśaḥ, nivartanasāmānyāt nityapravṛttasyāpi pradhānātsiddhisrotaso viparyayāśaktituṣṭipratibandhātsarvaprāṇiṣvapravṛttirbhavati viparyayāttāvatsthāvareṣu te hi mukhyāḥ srotaso viparyayātmānaḥ aśaktestiryakṣu te hi tiryaksrotaso 'śaktyātmānaḥ tuṣṭirdeveṣu te hyūrdhvasrotasastuṣṭyātmānaḥ mānuṣāstvarvāksrotasaḥ saṃsiddhyātmānaḥ tasmātta eva tārakādiṣu pravartante sattvarajastamasāṃ cāṅgāṅgibhāvaniyamādviparyayāśaktituṣṭibhiḥ pratihanyata iti na sarveṣāṃ sarvadā siddhirbhavati ata etaduktaṃ siddheḥ pūrvo 'ṅkuśāstrividha iti yathā ca sidddheḥ viparyayāśaktituṣṭayaḥ pratipakṣāḥ, evaṃ siddhirapi viparyayādīnām sā hyutpannā sarvānetānnivartayati katham ? aviparītajñānaṃ viparyayamatītānāgatavartamāneṣu sannikṛṣṭeṣu viprakṛṣṭeṣu indriyagrāhyeṣvatīndriyeṣu cāpratighātādaśaktiṃ puruṣasya prakṛtivikāravyatiriktasya darśanātsarvāsu bhūmiṣu tuṣṭim evametāni srotāṃsi prāṇādayaḥ karmayonayaśca vyākhyātāḥ eteṣāṃ mārge 'vasthāpanātparāṃ siddhikaivalyalakṣaṇāmacireṇa prāpnoti āha ca yonīnāṃ sapramāṇānāṃ samyaṅmārge niyojanāt srotasāṃ ca viśuddhatvānnirāsaṅgamatiścaret iti


52

इति युक्तिदीपिकायां नवममाह्निकम् कारिका 52 एवं यत्पूर्वमपदिष्टं संयोगकृतः सर्ग (इस्क् 21) इति तद्व्याख्यातम् अत्रेदानीमाचार्याणां विप्रतिपत्तिः धर्मादीनां शरीरमन्तरेणानुत्पत्तेः शरीरस्य च धर्माद्यभावे निमित्तन्तरासम्भवादुभयमिदमनादि तस्मादेकरूप एवायं यथैवाद्यत्वे तथैवातिक्रान्तास्वनागतासु कालकोटिषु सर्ग इति आचार्य आह- नैतदेवम्, किं तर्हि प्राक्प्रधानप्रवृत्तेर्धर्माधर्मयोरसम्भवो बुद्धिधर्मत्वात्तस्याश्च प्रधानविकारत्वात् ततस्तद्व्यतिरिक्तं शब्दाद्युपलब्धिगुणलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं चार्थमुद्दिश्य सत्त्वादयो महदहङ्कारतन्मात्रेन्द्रियभूतत्वेनावस्थाय परमर्षिहिरण्यगर्भादीनां शरीरमुत्पादयन्ति षट्सिद्धिक्षयकालोत्तरं तु गुणविमर्दवैचित्र्याद्रजस्तमोवृत्त्यनुपाति संसारचक्रं प्रवृत्तम् न विना भावैर्लिङ्गम् देवमनुष्यतिर्यग्भावेन व्यवतिष्ठत इति वाक्यशेषः न विना लिङ्गेन भावसंसिद्धिः संसिद्धिरत्र निष्पत्तिरभिप्रेता लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः प्रवर्तते सर्गः इस्क्_52 सो ऽयं लिङ्गाख्यो भावाख्यश्च षट्सिद्धिक्षयकालादूर्ध्वं भवति गुणसमनन्तरं तु अधिकारलक्षणः तस्माद् द्विधा सर्गः अधिकारलक्षणो भावाख्यश्च येषां तु धर्माधर्मशरीरयोः पर्यायेण हेतुहेतुमद्भावस्तेषां कारणमस्त्यव्यक्तमित्यत्र (इस्क् 16) प्रतिविहितम् ये ऽपि च सांख्या एवमाहुः- "धर्माधर्माधिकारवशात्प्रधानस्य प्रवृत्तिरिति" तेषामन्यतरपरिकल्पनानर्थक्यमिति कथम् ? यदि तावदधिकार एवायं प्रधानप्रवृत्तये ऽलम्, किं धर्माधर्माभ्याम् ? अथ तावदन्तरेणाधिकारस्य प्रधानप्रवृत्तावसामर्थ्यम्, एवमपि किमधिकारेण ? तयोरेव प्रवृत्तिसामर्थ्यात् तस्मादधिकारभावनिमित्तो द्विधा सर्गः तत्र यथेदं शरीरमविभक्तं धर्मार्थकाममोक्षलक्षणासु क्रियासु विभक्तं भवेदित्यतः पाण्यादिविकल्पो ऽस्य भवति, एवं सत्त्वसर्गो ऽप्यविभक्तो धर्मार्थकाममोक्षलक्षणासु क्रियासु समर्थो भवेदिति

iti yuktidīpikāyāṃ navamamāhnikam kārikā 52 evaṃ yatpūrvamapadiṣṭaṃ saṃyogakṛtaḥ sarga (isk 21) iti tadvyākhyātam atredānīmācāryāṇāṃ vipratipattiḥ dharmādīnāṃ śarīramantareṇānutpatteḥ śarīrasya ca dharmādyabhāve nimittantarāsambhavādubhayamidamanādi tasmādekarūpa evāyaṃ yathaivādyatve tathaivātikrāntāsvanāgatāsu kālakoṭiṣu sarga iti ācārya āha- naitadevam, kiṃ tarhi prākpradhānapravṛtterdharmādharmayorasambhavo buddhidharmatvāttasyāśca pradhānavikāratvāt tatastadvyatiriktaṃ śabdādyupalabdhiguṇalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ cārthamuddiśya sattvādayo mahadahaṅkāratanmātrendriyabhūtatvenāvasthāya paramarṣihiraṇyagarbhādīnāṃ śarīramutpādayanti ṣaṭsiddhikṣayakālottaraṃ tu guṇavimardavaicitryādrajastamovṛttyanupāti saṃsāracakraṃ pravṛttam na vinā bhāvairliṅgam devamanuṣyatiryagbhāvena vyavatiṣṭhata iti vākyaśeṣaḥ na vinā liṅgena bhāvasaṃsiddhiḥ saṃsiddhiratra niṣpattirabhipretā liṅgākhyo bhāvākhyastasmād dvividhaḥ pravartate sargaḥ isk_52 so 'yaṃ liṅgākhyo bhāvākhyaśca ṣaṭsiddhikṣayakālādūrdhvaṃ bhavati guṇasamanantaraṃ tu adhikāralakṣaṇaḥ tasmād dvidhā sargaḥ adhikāralakṣaṇo bhāvākhyaśca yeṣāṃ tu dharmādharmaśarīrayoḥ paryāyeṇa hetuhetumadbhāvasteṣāṃ kāraṇamastyavyaktamityatra (isk 16) prativihitam ye 'pi ca sāṃkhyā evamāhuḥ- "dharmādharmādhikāravaśātpradhānasya pravṛttiriti" teṣāmanyataraparikalpanānarthakyamiti katham ? yadi tāvadadhikāra evāyaṃ pradhānapravṛttaye 'lam, kiṃ dharmādharmābhyām ? atha tāvadantareṇādhikārasya pradhānapravṛttāvasāmarthyam, evamapi kimadhikāreṇa ? tayoreva pravṛttisāmarthyāt tasmādadhikārabhāvanimitto dvidhā sargaḥ tatra yathedaṃ śarīramavibhaktaṃ dharmārthakāmamokṣalakṣaṇāsu kriyāsu vibhaktaṃ bhavedityataḥ pāṇyādivikalpo 'sya bhavati, evaṃ sattvasargo 'pyavibhakto dharmārthakāmamokṣalakṣaṇāsu kriyāsu samartho bhavediti


53

कारिका 53 अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति मानुष्यश्चैकविधः अष्टौ विकल्पा अस्य सो ऽयमष्टविकल्पः अष्टप्रकारो ऽष्टभेद इत्यर्थः तद्यथा ब्रह्मप्रजापतीन्द्रपितृगन्धर्वनागरक्षःपिशाचाः तैर्यग्योनश्च पञ्चधा भवति- पशुमृगपक्षिसरीसृपस्थावराः मानुष्यश्चैकविधः च जात्यन्तरानुपपत्तेः आह किमेतावानेव भूतसर्गविकल्पः, आहोस्विदन्यो ऽस्तीति ? उच्यते- विकल्पान्तरमस्त्येतेषामेव स्थानानामन्तर्गणभेदात् अयं तु आहोस्विदन्यो ऽस्तीति ? उच्यते- विकल्पान्तरमस्त्येतेषामेव स्थानामन्तरगणभेदात् अयं तु समासतो भौतिकः सर्गः इस्क्_53 किम् ? उपदिष्ट इत वाक्यशेषः तत्र देवानां साध्यमरुद्रुद्रादिभेदात् तिरश्चां ग्राम्यारण्यादिभेदात् मानुषाणां च ब्राह्मणक्षत्रियविट्शूद्रभेदात् उद्भिद्भेदश्च विस्तरेणापदिश्यमान आनन्त्यमापादयेत् तस्मात्समासतो भूतसर्गो ऽपदिश्यते

kārikā 53 aṣṭavikalpo daivastairyagyonaśca pañcadhā bhavati mānuṣyaścaikavidhaḥ aṣṭau vikalpā asya so 'yamaṣṭavikalpaḥ aṣṭaprakāro 'ṣṭabheda ityarthaḥ tadyathā brahmaprajāpatīndrapitṛgandharvanāgarakṣaḥpiśācāḥ tairyagyonaśca pañcadhā bhavati- paśumṛgapakṣisarīsṛpasthāvarāḥ mānuṣyaścaikavidhaḥ ca jātyantarānupapatteḥ āha kimetāvāneva bhūtasargavikalpaḥ, āhosvidanyo 'stīti ? ucyate- vikalpāntaramastyeteṣāmeva sthānānāmantargaṇabhedāt ayaṃ tu āhosvidanyo 'stīti ? ucyate- vikalpāntaramastyeteṣāmeva sthānāmantaragaṇabhedāt ayaṃ tu samāsato bhautikaḥ sargaḥ isk_53 kim ? upadiṣṭa ita vākyaśeṣaḥ tatra devānāṃ sādhyamarudrudrādibhedāt tiraścāṃ grāmyāraṇyādibhedāt mānuṣāṇāṃ ca brāhmaṇakṣatriyaviṭśūdrabhedāt udbhidbhedaśca vistareṇāpadiśyamāna ānantyamāpādayet tasmātsamāsato bhūtasargo 'padiśyate

Section (cont. 23)

55

कारिका 54 आह, विकल्पान्तरवचनम्, स्रोतोभेदात् दैवमानुषतैर्यग्योना इति त्रिविधो भूतानां विकल्प उपदिश्यते स्रोतांसि तु चत्वार्युक्तानि तस्माद्विकल्पान्तरं वक्तव्यमिति उच्यते- न, गुणधर्मसंग्रहसामर्थात् सत्त्वबहुला ऊर्ध्वस्रोतसः रजोबहुला अर्वाक्स्रोतसः तमोबहुलास्तिर्यक्स्रोतसो मुख्यस्रोतसश्च तस्मादनयोरभेदेनोपदेशः आह, असुराद्युपसंख्यानं कर्तव्यम् इतरेष्वनन्तर्भावादभेदेन वोपदेशः कार्या न तु दैवमानुषतिरश्च इति उच्यते- न, उक्तेष्वेव तत्संग्रहात् असुराणां तावदैन्द्र एव स्थाने ऽन्तर्भावः, पूर्वदेवत्वात् पूर्वदेवा ह्यसुराः किंच पर्यायेणेन्द्रत्वात् धन्विप्रभृतीनां पर्यायेणेन्द्रत्वं श्रूयते तथा यक्षाणां रक्षस्स्वेकरूपत्वात् किन्नरविद्याधराणां गन्धर्वेषु, समानशीलत्वात् प्रेतानां पितृष्वधिपतिसामान्यात् तस्मात्त्रिविकल्प एव भूतसर्गः स चायम् ऊर्ध्वं सत्त्वविशालः ऊर्ध्वमित्यनेनाष्टौ देवस्थानान्याह तत्रायं सर्गं सत्त्वविशालः पिशाचेभ्यो रक्षसाम्, रक्षोभ्यो नागानाम्, नागेभ्यो गन्धर्वाणाम्, गन्धर्वेभ्यः पितःणाम्, पितृभ्यस्त्रिदशानाम्, तेभ्यः प्रजापतीनाम्, तेभ्यो ऽपि ब्रह्मणः एवं विशालग्रहणं समर्थितं भवति तमोविशालस्तु मूलतः सर्गः मूलतस्तु सर्गस्तमोविशालः पशुभ्यो हि मृगाणां प्रकृष्टतरं तमः, मृगेभ्यः पक्षिणाम्, पक्षिभ्यः सरीसृपाणाम्, सरीसृपेभ्यः स्थावराणाम् मध्ये रजोविशालः देवेभ्यस्तिर्यग्भ्यश्चावकृष्टासु भूमिषु यथा यथा सत्त्वतमसो निर्ह्रासः, तथा तथा रजसो वृद्धिः मनुष्यास्तूभयोर्मध्यमिति तत्र परमः प्रकर्षो रजसः अर्वाक् स्रोतसः सिद्धिरूपत्वादत्यन्तं क्रियाप्रवृत्तत्वात् यथा च मानुषेषु रजःप्रकर्ष एवं ब्रह्मणः स्थाने सत्त्वस्य, स्थावरेषु तमसः स खल्वयम्- ब्रह्मादिस्तम्बपर्यन्तः इस्क्_54 चतुर्दशभेदस्त्रिविकल्पः सत्त्वाद्यतिशयनिर्ह्रासविषयभावेन यः सर्गो व्याख्यातः कारिका 55 अत्र जरामरणकृतं दुःखं प्रानोति चेतनः पुरुषः जराकृतं मरणकृतं जरामरणकृतम् तत्र जराकृतं तावद्यथा बलीतरंगितगात्रत्वम्, दण्डमन्तरेण चङ्क्रमणादिष्वप्रवृत्तिः, सर्वेन्द्रियाणां विषयोपभोगेष्वसामर्थ्यम्, प्रबलकासश्वासता, सास्राविलेक्षणता, दशनानामस्थिरत्वम्, वर्णविकृतिः, शैथिल्यमभिव्याहारसंगो मन्दा स्मृतिरित्येवमादि मरणकृतमपि पृथिव्यादीनां शरीरभावेनावस्थितौ सहभावप्रतिपक्षता स्वभावभेदवृत्तिसंग्रहपन्थिव्यूहावकाशदानादेरुपकारस्य प्रच्युतिः इन्द्रियाधिष्ठानविकाराच्छब्दस्पर्शरूपरसगन्धानां सतामग्रहणमसतां च ग्रहणमभूताकारं सम्भवविपरीतं वा सर्वार्थानां ग्रहणम् तद्यथा पौर्णमास्यां दक्षिणतः खण्डस्येन्दुमण्डलस्य पिशाचादीनां पाण्डरस्य च नभस इत्यादि तथा वातादिवैषम्यात्समुपजनितानेकप्रकारव्याधिः प्रभ्रश्यमानसकलेन्द्रियवृत्तिः स्रस्ताङ्गः ताम्रपीतास्राविलेक्षणो भ्रमदाहश्वासादिपरिगमान्तर्मर्मसन्धिर्जलार्थं दिशो ऽवलोकयन् सब्रह्मलोकेष्वपि लोकेषु त्रातारमविन्दन् रागाद्यनेककालात्पक्वेनात्मग्रहेणात्मकार्यकरणोपह्यिमाणबुद्धिर्मन्दमन्देष्वपि स्मृतिप्रलम्भेषु दयितजनस्यात्मनश्चानुस्मरन्दशविधात्कुटुम्बाद्यः प्रभ्रश्यते सो ऽयमवश्यम्भावी सर्वसत्त्वानां प्रकृष्टोद्वेगकारी चाव्युत्पन्नश्चापरिहार्यश्चानियतकालश्च महात्मभिः परमर्ष्यादिभिरन्धतामिस्रशब्देनापदिष्टो मरणकृतं दुःखम् तच्चेदं दुःखं प्रधानमहदहंकारतन्मात्रेन्द्रियभूतविशेषलक्षणस्य तत्त्वपर्वणश्चैतन्यासम्भवात्पुरुष एव चैतन्यशक्तियोगादुपलभ्यते तदपि समीक्ष्योक्तमाचार्येण अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुष इति आह, जन्मकृतस्योपसंख्यानम् यथैव हि जरामरणं चात्मनः प्रकृष्टोद्वेगकारकमेवं जन्मापि तथा ह्ययं मातुरुदरे जरायुपरिवेष्टितशरीरो ऽमेध्यपरिस्नुतो व्रणमात्रायां गर्भधान्यां यथासुखसम्भवात्परिपीतितगात्रो मातुरशनादिभिः पीड्यमानो गर्भावासे दुःखमनुभूय पश्चात्संवृतेनास्थिद्वयविवरेण निस्सृतो मूत्ररुधिरकलिलैः परिषिक्तगात्रो बाह्येन वायुना करैश्च संस्पर्शदसिभिरिव तुद्यमानः स्वसंवेद्यं दुःखमात्मनि वर्तमानमाख्यातुमसमर्थः स्वसुखदुःखसामन्यात्परत्र परिकल्पितसुखदुःखबुद्धिभिर्दृढगात्रैरुपचितक्लेशैश्च यात्यमानो जन्मदुःखमनुभवति तस्मात्तदपि वक्तव्यमिति उच्यते- न, अव्यापितवात् मानुषतिरश्चामेव जन्मकृतं दुःखं भवति न देवानाम् कथम् ? तडिद्विलसितवत्क्षणमात्रेण शरीरप्रादुर्भावात् जरामरणकृतं तु तेष्वपि न निवर्तते तस्मात्प्राधान्यादेतदेवोपदिष्टं नेतरदिति आह, इतरग्रहणाप्रसंगः, तुल्यत्वात् न हि देवस्थानेषु जरामरणं वा श्रूयते, तस्मादव्यापित्वात्तयोरप्यग्रहणप्रसंगः उच्यते- न, स्मृतिवचनात् जीर्यते ऽनयेति जरा क्षय इत्युक्तं भवति स च देवभूमावपि भवति कस्मात् ? एवं ह्याह- रजोविषक्तिरङ्गेषु वैवर्ण्यं म्लानपुष्पता पतिष्यतां देवलोकात्प्राणिनामुपजायते शक्रादीनां व्याधिश्रवणाच्छरीरक्षयः एवं ह्याह- "त्वाष्ट्रीयं साम भवति इन्द्रं क्षाममपि न सर्वभूतानि प्रस्वापयितुं नाशक्नुवं स्तमेतेन साम्ना त्वाष्ट्रीयेणास्वापयदिति " तथा प्रजापतेर्वायुरक्षयीत् दक्षाभिशापाच्च सोमस्य क्षयः तथा "प्रजापतिर्वै सोमाय राज्ञे दुहितःरदान्नक्षत्राणि, स रोहिण्यामेवावसत् तान्यपेक्ष्यमाणानि पुनरगच्छन् तस्मात् स्वाननुपेयमाना पुनर्गच्छति तान्यन्वागच्छत्तानि पुनरयाचत तान्यस्मै न पुनरददात् साब्रवीत्सर्वेष्वेव समासत वसाथ ते पुनर्दास्यामीति स रोहिण्यामेवावसत्तस्मिन्ननृते यक्ष्मो ऽगृह्णात् चन्द्रमा वै सोमो राज यद्राजानं यक्ष्मोगृह्णात्तद्राजयक्ष्मस्य जन्म स तृणमिवाशुष्यत् स प्रजापता अनाथत सो ऽब्रवीत्सर्वेष्वेव समावद्वसाथ त्वातो मोक्ष्यामीति तस्माच्चन्द्रमाः सर्वेषु नक्षत्रेषु समावद्वसति तं वैश्वदेवेन चरुणामावस्यां रात्रीमया यजन्ते नैनं यक्ष्मोदमुञ्चदित्यादि " तस्माद्देवभूमावपि जराकृतं दुःखमस्ति तथा मरणकृतं भूम्यन्तरगमनात्तत्रोत्पन्नानां ययातिरुदाहरणम् यथा गोपथब्राह्मणम्- "देवानां ह वा पञ्चदशशतानि आसंस्तानि ब्रह्मकिल्बिषादक्षीयन्त ततस्त्रयस्त्रिंशदेवासत तदेतदृचाप्युक्तम् सोदर्याणां पञ्चदशानां शतानां त्रयस्त्रिंशदुदशिष्यन्त देवाः शेषाः प्रासीयन्तेति " श्वेतारण्ये चान्तकस्य रुद्रेण कृतं दुःखमस्तीति उदाहरणमात्राद्वा अथवोदाहरणमात्रमेव दुःखानाम् आदिशब्दलोपो वा वक्तव्यः जरामरणकृतमेवोदाहरणत्वेनाभिप्रेतम् न पुनर्दुःखान्तरम् कस्मात् ? तत्रापि ह्यादिशब्दलोप उदाहरणमात्रत्वात् शक्त्या परिकल्पयितुमिदमित्युच्यते न सर्वदुःखास्पदत्वात् सर्वेषां हि दुःखानामास्पदं जरामरणकृतं साधारणम् कथम् ? तद्बन्धुमित्राणामप्युद्वेगहेतुत्वात् न तु जन्मकृतम्, सम्बन्धिनां प्रहर्षनिमित्तत्वात् यतश्च ब्रह्मादौ स्तम्बपर्यन्ते जगति जरामरणकृतं दुःखं न कश्चिदतिवर्तते लिङ्गस्यविनिवृत्तेस्तस्माद्दुःखं समासेन इस्क्_55 सुखलेशस्य तद्व्याप्तत्वात् यावदिदं लिङ्गं न निवर्तते तावदवश्यं दुःखेन भवितव्यम् पर्यायेण संस्कारस्य सामर्थ्याल्लोकान्तरोपपत्तेः तथा चाह- सुखं च दुःखं च हि संशयं वारेणायं सेवते तत्र तत्र कथम्पुनर्दुःखेन व्याप्तं सुखमिति चेत्, आब्रह्मणो ऽशुद्ध्यातिशयोपपत्तेः तस्याश्च दुःखमूलत्वात् प्रजापतेरक्षिरोगश्रवणात्, इन्द्रस्य कामोपतापात् गौतमपरिभावाद् रम्भायाश्चाभिशापात्पाषाणभावोपपत्तेः, नागानां सर्पसत्रायासात्, वैश्रवणस्य यस्काभिशापाद्धस्तिभावोपपत्तिः जरत्कारो पितःणां च गर्ते ऽवलम्बनात्, पिशाचानां मन्त्रौषधिमङ्गलप्रयोगैरुद्वासनान्मानुषतिरश्चां प्रत्यक्षत एव प्रायेण दुःखास्पदत्वात् तस्मान्नास्ति संसारे कश्चित्प्रदेशो यत्र सह लिङ्गेनात्मानं दुःखं नावाप्नुयादित्यत एवं प्रयतितव्यं येन लिङ्गस्यैवात्यन्तोच्छेदः ततो हि सर्वदुःखानामत्यन्तोपशमः समासग्रहणं तु सुखमोहयोरवकाशदानार्थम् अन्यथा संसारे तयोरभाव एवाभ्युपगतः स्यात्

kārikā 54 āha, vikalpāntaravacanam, srotobhedāt daivamānuṣatairyagyonā iti trividho bhūtānāṃ vikalpa upadiśyate srotāṃsi tu catvāryuktāni tasmādvikalpāntaraṃ vaktavyamiti ucyate- na, guṇadharmasaṃgrahasāmarthāt sattvabahulā ūrdhvasrotasaḥ rajobahulā arvāksrotasaḥ tamobahulāstiryaksrotaso mukhyasrotasaśca tasmādanayorabhedenopadeśaḥ āha, asurādyupasaṃkhyānaṃ kartavyam itareṣvanantarbhāvādabhedena vopadeśaḥ kāryā na tu daivamānuṣatiraśca iti ucyate- na, ukteṣveva tatsaṃgrahāt asurāṇāṃ tāvadaindra eva sthāne 'ntarbhāvaḥ, pūrvadevatvāt pūrvadevā hyasurāḥ kiṃca paryāyeṇendratvāt dhanviprabhṛtīnāṃ paryāyeṇendratvaṃ śrūyate tathā yakṣāṇāṃ rakṣassvekarūpatvāt kinnaravidyādharāṇāṃ gandharveṣu, samānaśīlatvāt pretānāṃ pitṛṣvadhipatisāmānyāt tasmāttrivikalpa eva bhūtasargaḥ sa cāyam ūrdhvaṃ sattvaviśālaḥ ūrdhvamityanenāṣṭau devasthānānyāha tatrāyaṃ sargaṃ sattvaviśālaḥ piśācebhyo rakṣasām, rakṣobhyo nāgānām, nāgebhyo gandharvāṇām, gandharvebhyaḥ pitḥṇām, pitṛbhyastridaśānām, tebhyaḥ prajāpatīnām, tebhyo 'pi brahmaṇaḥ evaṃ viśālagrahaṇaṃ samarthitaṃ bhavati tamoviśālastu mūlataḥ sargaḥ mūlatastu sargastamoviśālaḥ paśubhyo hi mṛgāṇāṃ prakṛṣṭataraṃ tamaḥ, mṛgebhyaḥ pakṣiṇām, pakṣibhyaḥ sarīsṛpāṇām, sarīsṛpebhyaḥ sthāvarāṇām madhye rajoviśālaḥ devebhyastiryagbhyaścāvakṛṣṭāsu bhūmiṣu yathā yathā sattvatamaso nirhrāsaḥ, tathā tathā rajaso vṛddhiḥ manuṣyāstūbhayormadhyamiti tatra paramaḥ prakarṣo rajasaḥ arvāk srotasaḥ siddhirūpatvādatyantaṃ kriyāpravṛttatvāt yathā ca mānuṣeṣu rajaḥprakarṣa evaṃ brahmaṇaḥ sthāne sattvasya, sthāvareṣu tamasaḥ sa khalvayam- brahmādistambaparyantaḥ isk_54 caturdaśabhedastrivikalpaḥ sattvādyatiśayanirhrāsaviṣayabhāvena yaḥ sargo vyākhyātaḥ kārikā 55 atra jarāmaraṇakṛtaṃ duḥkhaṃ prānoti cetanaḥ puruṣaḥ jarākṛtaṃ maraṇakṛtaṃ jarāmaraṇakṛtam tatra jarākṛtaṃ tāvadyathā balītaraṃgitagātratvam, daṇḍamantareṇa caṅkramaṇādiṣvapravṛttiḥ, sarvendriyāṇāṃ viṣayopabhogeṣvasāmarthyam, prabalakāsaśvāsatā, sāsrāvilekṣaṇatā, daśanānāmasthiratvam, varṇavikṛtiḥ, śaithilyamabhivyāhārasaṃgo mandā smṛtirityevamādi maraṇakṛtamapi pṛthivyādīnāṃ śarīrabhāvenāvasthitau sahabhāvapratipakṣatā svabhāvabhedavṛttisaṃgrahapanthivyūhāvakāśadānāderupakārasya pracyutiḥ indriyādhiṣṭhānavikārācchabdasparśarūparasagandhānāṃ satāmagrahaṇamasatāṃ ca grahaṇamabhūtākāraṃ sambhavaviparītaṃ vā sarvārthānāṃ grahaṇam tadyathā paurṇamāsyāṃ dakṣiṇataḥ khaṇḍasyendumaṇḍalasya piśācādīnāṃ pāṇḍarasya ca nabhasa ityādi tathā vātādivaiṣamyātsamupajanitānekaprakāravyādhiḥ prabhraśyamānasakalendriyavṛttiḥ srastāṅgaḥ tāmrapītāsrāvilekṣaṇo bhramadāhaśvāsādiparigamāntarmarmasandhirjalārthaṃ diśo 'valokayan sabrahmalokeṣvapi lokeṣu trātāramavindan rāgādyanekakālātpakvenātmagraheṇātmakāryakaraṇopahyimāṇabuddhirmandamandeṣvapi smṛtipralambheṣu dayitajanasyātmanaścānusmarandaśavidhātkuṭumbādyaḥ prabhraśyate so 'yamavaśyambhāvī sarvasattvānāṃ prakṛṣṭodvegakārī cāvyutpannaścāparihāryaścāniyatakālaśca mahātmabhiḥ paramarṣyādibhirandhatāmisraśabdenāpadiṣṭo maraṇakṛtaṃ duḥkham taccedaṃ duḥkhaṃ pradhānamahadahaṃkāratanmātrendriyabhūtaviśeṣalakṣaṇasya tattvaparvaṇaścaitanyāsambhavātpuruṣa eva caitanyaśaktiyogādupalabhyate tadapi samīkṣyoktamācāryeṇa atra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣa iti āha, janmakṛtasyopasaṃkhyānam yathaiva hi jarāmaraṇaṃ cātmanaḥ prakṛṣṭodvegakārakamevaṃ janmāpi tathā hyayaṃ māturudare jarāyupariveṣṭitaśarīro 'medhyaparisnuto vraṇamātrāyāṃ garbhadhānyāṃ yathāsukhasambhavātparipītitagātro māturaśanādibhiḥ pīḍyamāno garbhāvāse duḥkhamanubhūya paścātsaṃvṛtenāsthidvayavivareṇa nissṛto mūtrarudhirakalilaiḥ pariṣiktagātro bāhyena vāyunā karaiśca saṃsparśadasibhiriva tudyamānaḥ svasaṃvedyaṃ duḥkhamātmani vartamānamākhyātumasamarthaḥ svasukhaduḥkhasāmanyātparatra parikalpitasukhaduḥkhabuddhibhirdṛḍhagātrairupacitakleśaiśca yātyamāno janmaduḥkhamanubhavati tasmāttadapi vaktavyamiti ucyate- na, avyāpitavāt mānuṣatiraścāmeva janmakṛtaṃ duḥkhaṃ bhavati na devānām katham ? taḍidvilasitavatkṣaṇamātreṇa śarīraprādurbhāvāt jarāmaraṇakṛtaṃ tu teṣvapi na nivartate tasmātprādhānyādetadevopadiṣṭaṃ netaraditi āha, itaragrahaṇāprasaṃgaḥ, tulyatvāt na hi devasthāneṣu jarāmaraṇaṃ vā śrūyate, tasmādavyāpitvāttayorapyagrahaṇaprasaṃgaḥ ucyate- na, smṛtivacanāt jīryate 'nayeti jarā kṣaya ityuktaṃ bhavati sa ca devabhūmāvapi bhavati kasmāt ? evaṃ hyāha- rajoviṣaktiraṅgeṣu vaivarṇyaṃ mlānapuṣpatā patiṣyatāṃ devalokātprāṇināmupajāyate śakrādīnāṃ vyādhiśravaṇāccharīrakṣayaḥ evaṃ hyāha- "tvāṣṭrīyaṃ sāma bhavati indraṃ kṣāmamapi na sarvabhūtāni prasvāpayituṃ nāśaknuvaṃ stametena sāmnā tvāṣṭrīyeṇāsvāpayaditi " tathā prajāpatervāyurakṣayīt dakṣābhiśāpācca somasya kṣayaḥ tathā "prajāpatirvai somāya rājñe duhitḥradānnakṣatrāṇi, sa rohiṇyāmevāvasat tānyapekṣyamāṇāni punaragacchan tasmāt svānanupeyamānā punargacchati tānyanvāgacchattāni punarayācata tānyasmai na punaradadāt sābravītsarveṣveva samāsata vasātha te punardāsyāmīti sa rohiṇyāmevāvasattasminnanṛte yakṣmo 'gṛhṇāt candramā vai somo rāja yadrājānaṃ yakṣmogṛhṇāttadrājayakṣmasya janma sa tṛṇamivāśuṣyat sa prajāpatā anāthata so 'bravītsarveṣveva samāvadvasātha tvāto mokṣyāmīti tasmāccandramāḥ sarveṣu nakṣatreṣu samāvadvasati taṃ vaiśvadevena caruṇāmāvasyāṃ rātrīmayā yajante nainaṃ yakṣmodamuñcadityādi " tasmāddevabhūmāvapi jarākṛtaṃ duḥkhamasti tathā maraṇakṛtaṃ bhūmyantaragamanāttatrotpannānāṃ yayātirudāharaṇam yathā gopathabrāhmaṇam- "devānāṃ ha vā pañcadaśaśatāni āsaṃstāni brahmakilbiṣādakṣīyanta tatastrayastriṃśadevāsata tadetadṛcāpyuktam sodaryāṇāṃ pañcadaśānāṃ śatānāṃ trayastriṃśadudaśiṣyanta devāḥ śeṣāḥ prāsīyanteti " śvetāraṇye cāntakasya rudreṇa kṛtaṃ duḥkhamastīti udāharaṇamātrādvā athavodāharaṇamātrameva duḥkhānām ādiśabdalopo vā vaktavyaḥ jarāmaraṇakṛtamevodāharaṇatvenābhipretam na punarduḥkhāntaram kasmāt ? tatrāpi hyādiśabdalopa udāharaṇamātratvāt śaktyā parikalpayitumidamityucyate na sarvaduḥkhāspadatvāt sarveṣāṃ hi duḥkhānāmāspadaṃ jarāmaraṇakṛtaṃ sādhāraṇam katham ? tadbandhumitrāṇāmapyudvegahetutvāt na tu janmakṛtam, sambandhināṃ praharṣanimittatvāt yataśca brahmādau stambaparyante jagati jarāmaraṇakṛtaṃ duḥkhaṃ na kaścidativartate liṅgasyavinivṛttestasmādduḥkhaṃ samāsena isk_55 sukhaleśasya tadvyāptatvāt yāvadidaṃ liṅgaṃ na nivartate tāvadavaśyaṃ duḥkhena bhavitavyam paryāyeṇa saṃskārasya sāmarthyāllokāntaropapatteḥ tathā cāha- sukhaṃ ca duḥkhaṃ ca hi saṃśayaṃ vāreṇāyaṃ sevate tatra tatra kathampunarduḥkhena vyāptaṃ sukhamiti cet, ābrahmaṇo 'śuddhyātiśayopapatteḥ tasyāśca duḥkhamūlatvāt prajāpaterakṣirogaśravaṇāt, indrasya kāmopatāpāt gautamaparibhāvād rambhāyāścābhiśāpātpāṣāṇabhāvopapatteḥ, nāgānāṃ sarpasatrāyāsāt, vaiśravaṇasya yaskābhiśāpāddhastibhāvopapattiḥ jaratkāro pitḥṇāṃ ca garte 'valambanāt, piśācānāṃ mantrauṣadhimaṅgalaprayogairudvāsanānmānuṣatiraścāṃ pratyakṣata eva prāyeṇa duḥkhāspadatvāt tasmānnāsti saṃsāre kaścitpradeśo yatra saha liṅgenātmānaṃ duḥkhaṃ nāvāpnuyādityata evaṃ prayatitavyaṃ yena liṅgasyaivātyantocchedaḥ tato hi sarvaduḥkhānāmatyantopaśamaḥ samāsagrahaṇaṃ tu sukhamohayoravakāśadānārtham anyathā saṃsāre tayorabhāva evābhyupagataḥ syāt


56

कारिका 56 एवं यथावत्सर्गमुपाख्यायोपसंहरन्नाह- इत्येष प्रकृतिविकृतः प्रवर्तते तत्त्वभूतभावाख्यः प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः इस्क्_56 इतिकरणेन सर्गसमाप्तिं द्योतयति एष इत्युक्तमपि प्रत्याम्नायार्थं पुनरपेक्षते प्रकृत्या कृतः प्रकृतिकृतः अनेन वाक्यपरिसमाप्त्यर्थं वीतावीताभ्यां सिद्धं प्रधानास्तित्वम् अण्वादिप्रतिषेधं चापेक्षते प्रकृतिकृत एव नाण्वादिकृतः प्रवर्तत इति क्रियाप्रबन्धमाह प्रवृत्तो न प्रवर्त्स्यति किं तर्हि प्रवर्तत एवानन्तानां शरीरादिभावेन परस्परानुग्रहेण च नेयं क्रिया कदाचिदपि भूतभविष्यद्रूपा भवति किन्तर्हि वर्तमानरूपा यथा वहन्ति नद्यः, तिष्ठन्ति पर्वता इति तत्त्वभूतभावाख्य इत्युक्तानां निगमार्थं प्रत्याम्नायं करोति तत्त्वाख्यो महदादिभिर्भावाख्यो व्योमादिः पुरुषं पुरुषं प्रति विमोक्षः प्रतिपुरुषविमोक्षः तदर्थं प्रतिपुरुषविमोक्षार्थम् सर्वपुरुषाधिकारनिबद्धायाः सर्वशक्तेर्निराकांक्षीकरणार्थमित्यर्थः स्वार्थ इव परार्थ आरम्भः कार्यकारणभावेन तत्र कार्यस्य तावच्छब्दादेः स्वार्थ इवेन्द्रियाणां विषयभावः इन्द्रियाणामप्राप्तविषयाणां लौल्यमधिष्ठानविकारानुमेयं स्वार्थमिव करणानां च संकल्पाभिमानाध्यवसायानां विषयद्वारिभावोपगमनं मनःप्रभृतीनां च स्वप्रवृत्तिविषयत्वम् मनो ऽहंकारयोश्च बुद्धौ स्वप्रवृत्त्युपसंहारो बुद्धेश्च शान्तघोरमूढत्वं व्यवसायकर्तृत्वं च सत्तरजस्तमसां च प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैः परस्परोपकारित्वम् न चैष स्वार्थः, सर्वस्यास्याचैतन्यात् किं तर्हि परार्थ एवायमारम्भः संघातत्वादिति आह, यदुक्तं प्रतिपुरुषविमोक्षार्थमयमारम्भ इति तदयुक्तम् आचार्यविप्रतिपत्तेः प्रतिपुरुषमन्यत्प्रधानं शरीराद्यर्थं करोति तेषां च माहात्म्यशरीरप्रधानं यदा प्रवर्तते तदेतराण्यपि तन्निवृत्तौ च तेषामपि निवृत्तिरिति पौरिकः सांख्याचार्यो मन्यते तत्कथमप्रतिषिध्यैका प्रकृतिरभ्युपगम्यते इति ? उच्यते- न, प्रमाणाभावात् न तावत्प्रत्यक्षत एव तच्छक्यं निश्चेतुम् प्रधानानामतीन्द्रियत्वात् लिङ्गं चासन्दिग्धं नास्ति आप्ताश्च नो नाभिदधुरतो मन्यामहे नैतदेवमिति किंच एकेनार्थपरिसमाप्तेः अपरिमितत्वादेतदेकं प्रधानमलं सर्वपुरुषशरीरोत्पादनाय तस्मादन्यपरिकल्पनानर्थक्यम् परिमितमिति चेदथ मतम्, परिमितं प्रधानमिति न, उच्छेदप्रसंगात् एवमपि तस्योच्छेदः प्राप्तः क्षीरवत् तथा च संसारोच्छेदप्रसंगः किं च अनवस्थाप्रसंगात् एकस्येश्वरस्य योगिनो वेच्छायोगादनेकशरीरत्वम् तत्परिमितादयुक्तम् प्रतिशरीरं वा प्रधानपरिकल्पने प्रधानानवस्था भवति परिमितशरीरकारणत्वाभ्युपगमादन्यपरिकल्पनानर्थक्यम् ततश्च प्रधानैकत्वमेव तस्मादयुक्तं प्रतिपुरुषं प्रधानानीति यत्तूक्तं माहात्म्यशरीरप्रधानप्रवृत्तावितरेषां प्रवृतिस्तन्निवृत्तौ निवृत्तिरित्यत्र ब्रूमः- न, अतिशयाभावात् यथा क्षेत्रज्ञानां निरतिशयत्वादितरेतराप्रवर्तकत्वमेवमेषामपि सातिशयत्वे वा प्रधानानुपपत्तिप्रसंगः, वैषम्यात् तस्माद्युक्तं प्रतिपुरुषविमोक्षार्थमेका प्रकृतिः प्रवर्तत इति

kārikā 56 evaṃ yathāvatsargamupākhyāyopasaṃharannāha- ityeṣa prakṛtivikṛtaḥ pravartate tattvabhūtabhāvākhyaḥ pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ isk_56 itikaraṇena sargasamāptiṃ dyotayati eṣa ityuktamapi pratyāmnāyārthaṃ punarapekṣate prakṛtyā kṛtaḥ prakṛtikṛtaḥ anena vākyaparisamāptyarthaṃ vītāvītābhyāṃ siddhaṃ pradhānāstitvam aṇvādipratiṣedhaṃ cāpekṣate prakṛtikṛta eva nāṇvādikṛtaḥ pravartata iti kriyāprabandhamāha pravṛtto na pravartsyati kiṃ tarhi pravartata evānantānāṃ śarīrādibhāvena parasparānugraheṇa ca neyaṃ kriyā kadācidapi bhūtabhaviṣyadrūpā bhavati kintarhi vartamānarūpā yathā vahanti nadyaḥ, tiṣṭhanti parvatā iti tattvabhūtabhāvākhya ityuktānāṃ nigamārthaṃ pratyāmnāyaṃ karoti tattvākhyo mahadādibhirbhāvākhyo vyomādiḥ puruṣaṃ puruṣaṃ prati vimokṣaḥ pratipuruṣavimokṣaḥ tadarthaṃ pratipuruṣavimokṣārtham sarvapuruṣādhikāranibaddhāyāḥ sarvaśakternirākāṃkṣīkaraṇārthamityarthaḥ svārtha iva parārtha ārambhaḥ kāryakāraṇabhāvena tatra kāryasya tāvacchabdādeḥ svārtha ivendriyāṇāṃ viṣayabhāvaḥ indriyāṇāmaprāptaviṣayāṇāṃ laulyamadhiṣṭhānavikārānumeyaṃ svārthamiva karaṇānāṃ ca saṃkalpābhimānādhyavasāyānāṃ viṣayadvāribhāvopagamanaṃ manaḥprabhṛtīnāṃ ca svapravṛttiviṣayatvam mano 'haṃkārayośca buddhau svapravṛttyupasaṃhāro buddheśca śāntaghoramūḍhatvaṃ vyavasāyakartṛtvaṃ ca sattarajastamasāṃ ca prakāśapravṛttiniyamalakṣaṇairdharmaiḥ parasparopakāritvam na caiṣa svārthaḥ, sarvasyāsyācaitanyāt kiṃ tarhi parārtha evāyamārambhaḥ saṃghātatvāditi āha, yaduktaṃ pratipuruṣavimokṣārthamayamārambha iti tadayuktam ācāryavipratipatteḥ pratipuruṣamanyatpradhānaṃ śarīrādyarthaṃ karoti teṣāṃ ca māhātmyaśarīrapradhānaṃ yadā pravartate tadetarāṇyapi tannivṛttau ca teṣāmapi nivṛttiriti paurikaḥ sāṃkhyācāryo manyate tatkathamapratiṣidhyaikā prakṛtirabhyupagamyate iti ? ucyate- na, pramāṇābhāvāt na tāvatpratyakṣata eva tacchakyaṃ niścetum pradhānānāmatīndriyatvāt liṅgaṃ cāsandigdhaṃ nāsti āptāśca no nābhidadhurato manyāmahe naitadevamiti kiṃca ekenārthaparisamāpteḥ aparimitatvādetadekaṃ pradhānamalaṃ sarvapuruṣaśarīrotpādanāya tasmādanyaparikalpanānarthakyam parimitamiti cedatha matam, parimitaṃ pradhānamiti na, ucchedaprasaṃgāt evamapi tasyocchedaḥ prāptaḥ kṣīravat tathā ca saṃsārocchedaprasaṃgaḥ kiṃ ca anavasthāprasaṃgāt ekasyeśvarasya yogino vecchāyogādanekaśarīratvam tatparimitādayuktam pratiśarīraṃ vā pradhānaparikalpane pradhānānavasthā bhavati parimitaśarīrakāraṇatvābhyupagamādanyaparikalpanānarthakyam tataśca pradhānaikatvameva tasmādayuktaṃ pratipuruṣaṃ pradhānānīti yattūktaṃ māhātmyaśarīrapradhānapravṛttāvitareṣāṃ pravṛtistannivṛttau nivṛttirityatra brūmaḥ- na, atiśayābhāvāt yathā kṣetrajñānāṃ niratiśayatvāditaretarāpravartakatvamevameṣāmapi sātiśayatve vā pradhānānupapattiprasaṃgaḥ, vaiṣamyāt tasmādyuktaṃ pratipuruṣavimokṣārthamekā prakṛtiḥ pravartata iti


57

कारिका 57 आह, तदनुपपत्तिराचेतन्यात् इहाचेतनानां घटादीनामुद्दिश्य प्रवृत्तिरदृष्टा सा चेदियमचेतना प्रकृतिरस्या अप्युद्दिश्य पुरुषार्थं प्रवृत्तिर्नोपपद्यते भवति चेच्चैतन्यं तर्हि प्राप्तमस्या तत्र यदुक्तं प्रतिपुरुषविमोक्षार्थ प्रकृतेः प्रवृत्तिरिति एतदयुक्तमिति उच्यते- न, दृष्टान्तोपपत्तेः वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य इस्क्_57 यथा क्षीरमचेतनं वत्सविवृद्धिमुद्दिश्य प्रवर्तते, एवं प्रधानमपि पुरुषविमोक्षमुद्दिश्य प्रवर्तते न चास्य चैतन्यं स्यात् साध्यत्वादयुक्तमिति चेत् स्यान्मतम्, साध्यमेतत् किं क्षीरस्योद्दिश्य वत्सविवृद्धिं प्रवृत्तिः, अथ नेति ? तस्मादुदाहरणं साध्यत्वादयुक्तमिति एतच्चायुक्तम् कस्मात् ? तदभावे ऽभावात् तद्भावे च भावात् यत्र नास्ति वत्सविवृद्धिस्तत्र न क्षीरस्य प्रवृत्तिरुपलब्धा यत्रास्ति तत्रोपलब्धा यद्यस्मिन् सति भवति तस्य तदर्था प्रवृत्तिर्दृष्टा तद्यथा घटे कुम्भकारस्य स चायमीदृशो ऽस्माकमुद्देशो ऽभिप्रेतः यदुत तादर्थ्यम् तस्मान्नास्त्युदाहरणसाध्यत्वमिति असद्भावाभिधानात्सत्कार्यविरोध इति चेन्न, व्यक्तिपर्यायत्वात् व्यक्तिपर्यायो हि तदिति शास्त्रलोकप्रामाण्यात् शास्त्रं तावत् सत्तामात्रो महान् व्यक्तिमात्र इत्यर्थः लोके ऽपि नास्त्यस्मिन्कूपे सलिलमित्युच्यते न क्वचिदपि कूपे सलिलं नास्त्यभिव्यक्तं न तद् भवति तस्मान्न सत्कार्यविरोधः अदृष्टप्रेरणत्वादसिद्धिरिति चेदथ मतम् धर्माधर्मप्रेरितं क्षीरं प्रवर्तते न वत्सविवृद्ध्यर्थमिति, तदप्ययुक्तम् कस्मात् ? दोषसाम्यात् धर्माधर्मावचेतनौ विवृद्धिकाले क्षीरं प्रवर्तयतस्तदवसाने च निवर्तयतः तसमादित्थमपि परिकल्प्यमाने समानो दोषः ईश्वरप्रेरणादिति चेत् स्यान्मतम् ईश्वरस्तत्र क्षीरं प्रवर्तयते वत्सार्थं, न स्वयमिति तदयुक्तम् कस्मात् ? प्रतिषेधात् प्राक्प्रतिषिद्धमीश्वरकर्म तस्मादिदमप्ययुक्तम् एवं चेदवस्थितो दृष्टान्तः वार्षगणानां तु यथा स्त्रीपुंशरीराणामचेतनानामुद्दिश्येतरेतरं प्रवृत्तिस्तथा प्रधानस्येत्ययं दृष्टान्तः आह, कथमवगम्यते तादर्थ्यादुत्पन्नेन व्यक्तेन पुरुषस्य सम्बन्धो न पुनः सान्निध्यमात्रात्, भिक्षुवदिति ? उच्यते- न, अनपवर्गप्रसंगात् सान्निध्यमात्रात्पुरुषोपभोगमभ्युपगच्छतो नापवर्गप्रसंगः स्यान्नित्यसान्निध्यात् तस्मादयुक्तमेतत् अप्रवर्तयितारं प्रति कार्यकारणानां प्रवृत्तिरयुक्तेति चेत् स्यान्मतम्- अप्रवर्तयिता कृष्णादीनां भिक्षुरतो न तेषामपि तं प्रति प्रवृत्तिः एवमप्रवर्तयिता कार्यकरणानां पुरुषः तस्मात्तेषामपि तं प्रति प्रवृत्तिरयुक्तेत्येतदप्यत एवानैकान्तिकम् वत्सो हि क्षीरस्याप्रवर्तयिताथ च तं प्रति तस्य प्रवृत्तिः तस्माद्युक्तमेतपुरुषविमोक्षार्था प्रकृत्तेः प्रवृत्तिर्न चैतन्यप्रसंग इति

kārikā 57 āha, tadanupapattirācetanyāt ihācetanānāṃ ghaṭādīnāmuddiśya pravṛttiradṛṣṭā sā cediyamacetanā prakṛtirasyā apyuddiśya puruṣārthaṃ pravṛttirnopapadyate bhavati ceccaitanyaṃ tarhi prāptamasyā tatra yaduktaṃ pratipuruṣavimokṣārtha prakṛteḥ pravṛttiriti etadayuktamiti ucyate- na, dṛṣṭāntopapatteḥ vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya isk_57 yathā kṣīramacetanaṃ vatsavivṛddhimuddiśya pravartate, evaṃ pradhānamapi puruṣavimokṣamuddiśya pravartate na cāsya caitanyaṃ syāt sādhyatvādayuktamiti cet syānmatam, sādhyametat kiṃ kṣīrasyoddiśya vatsavivṛddhiṃ pravṛttiḥ, atha neti ? tasmādudāharaṇaṃ sādhyatvādayuktamiti etaccāyuktam kasmāt ? tadabhāve 'bhāvāt tadbhāve ca bhāvāt yatra nāsti vatsavivṛddhistatra na kṣīrasya pravṛttirupalabdhā yatrāsti tatropalabdhā yadyasmin sati bhavati tasya tadarthā pravṛttirdṛṣṭā tadyathā ghaṭe kumbhakārasya sa cāyamīdṛśo 'smākamuddeśo 'bhipretaḥ yaduta tādarthyam tasmānnāstyudāharaṇasādhyatvamiti asadbhāvābhidhānātsatkāryavirodha iti cenna, vyaktiparyāyatvāt vyaktiparyāyo hi taditi śāstralokaprāmāṇyāt śāstraṃ tāvat sattāmātro mahān vyaktimātra ityarthaḥ loke 'pi nāstyasminkūpe salilamityucyate na kvacidapi kūpe salilaṃ nāstyabhivyaktaṃ na tad bhavati tasmānna satkāryavirodhaḥ adṛṣṭapreraṇatvādasiddhiriti cedatha matam dharmādharmapreritaṃ kṣīraṃ pravartate na vatsavivṛddhyarthamiti, tadapyayuktam kasmāt ? doṣasāmyāt dharmādharmāvacetanau vivṛddhikāle kṣīraṃ pravartayatastadavasāne ca nivartayataḥ tasamāditthamapi parikalpyamāne samāno doṣaḥ īśvarapreraṇāditi cet syānmatam īśvarastatra kṣīraṃ pravartayate vatsārthaṃ, na svayamiti tadayuktam kasmāt ? pratiṣedhāt prākpratiṣiddhamīśvarakarma tasmādidamapyayuktam evaṃ cedavasthito dṛṣṭāntaḥ vārṣagaṇānāṃ tu yathā strīpuṃśarīrāṇāmacetanānāmuddiśyetaretaraṃ pravṛttistathā pradhānasyetyayaṃ dṛṣṭāntaḥ āha, kathamavagamyate tādarthyādutpannena vyaktena puruṣasya sambandho na punaḥ sānnidhyamātrāt, bhikṣuvaditi ? ucyate- na, anapavargaprasaṃgāt sānnidhyamātrātpuruṣopabhogamabhyupagacchato nāpavargaprasaṃgaḥ syānnityasānnidhyāt tasmādayuktametat apravartayitāraṃ prati kāryakāraṇānāṃ pravṛttirayukteti cet syānmatam- apravartayitā kṛṣṇādīnāṃ bhikṣurato na teṣāmapi taṃ prati pravṛttiḥ evamapravartayitā kāryakaraṇānāṃ puruṣaḥ tasmātteṣāmapi taṃ prati pravṛttirayuktetyetadapyata evānaikāntikam vatso hi kṣīrasyāpravartayitātha ca taṃ prati tasya pravṛttiḥ tasmādyuktametapuruṣavimokṣārthā prakṛtteḥ pravṛttirna caitanyaprasaṃga iti


58

कारिका 58 आह, न, अप्रवृत्तिप्रसंगात् यदि प्रधानस्य पुरुषकैवल्यार्था प्रवृत्तिस्तेन तदभावे कैवल्यं सिद्धमेवेत्यप्रवृत्तिप्रसंगः अथ केवले पुरुषे प्रधानं प्रवर्तते न तर्ह्यस्य तदर्था प्रवृत्तिरिति औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् इस्क्_58 प्रागेवैतदपदिष्टम्- यथा दृश्यदर्शनशक्तियुक्तत्वादन्यतराभावे च तयोरानर्थक्यात्प्रधानपुरुषयोरितरेतरसम्बन्धं प्रत्यौत्सुक्यम् दृष्टा चोपरमार्थापि लोकस्यौत्सुक्यनिवृत्त्यर्था प्रवृत्तिस्तथा प्रधानस्याप्युपरमार्था प्रवृत्तिः अथ दृश्यदर्शनशक्त्योरौत्सुक्यनिवृत्त्यर्थं प्रवर्तत इत्येकत्र कृतार्थत्वादितरेष्वप्रवृत्तिप्रसंग इति चेत् स्यादेतत् प्रधानमेकस्य पुरुषस्यात्मानं प्रकाश्योपरमेदे दृश्यदर्शनशक्तयोरौत्सुक्यनिवृत्तिर्भविष्यति

kārikā 58 āha, na, apravṛttiprasaṃgāt yadi pradhānasya puruṣakaivalyārthā pravṛttistena tadabhāve kaivalyaṃ siddhamevetyapravṛttiprasaṃgaḥ atha kevale puruṣe pradhānaṃ pravartate na tarhyasya tadarthā pravṛttiriti autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ puruṣasya vimokṣārthaṃ pravartate tadvadavyaktam isk_58 prāgevaitadapadiṣṭam- yathā dṛśyadarśanaśaktiyuktatvādanyatarābhāve ca tayorānarthakyātpradhānapuruṣayoritaretarasambandhaṃ pratyautsukyam dṛṣṭā coparamārthāpi lokasyautsukyanivṛttyarthā pravṛttistathā pradhānasyāpyuparamārthā pravṛttiḥ atha dṛśyadarśanaśaktyorautsukyanivṛttyarthaṃ pravartata ityekatra kṛtārthatvāditareṣvapravṛttiprasaṃga iti cet syādetat pradhānamekasya puruṣasyātmānaṃ prakāśyoparamede dṛśyadarśanaśaktayorautsukyanivṛttirbhaviṣyati


64

कारिका 59 अप्रवृत्तिश्चेत्येतदपि नोपपन्नम् कस्मात् ? दृष्टान्तान्तरसामर्थ्यात् तद्यथा किम् ? उच्यते- रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः इस्क्_59 तत्र नानावर्णस्वभावविज्ञानानां प्रेक्षार्थिनां पुरुषाणां संघातो रङ्ग इत्युच्यते नर्तक्याश्च तदाराधना नृत्तिक्रियानेकपुरुषार्था यदि वात्र कश्चिद् ब्रूयात् नृत्ताचार्येण कुशीलवैर्वा दृष्टैवेयं कस्मान्न निवर्तते ? कथम् ? अकृतार्थत्वात् एवं सर्वपुरुषाणां कार्यकारणसम्बन्धेनौत्सुक्यवतां निराकांक्षीकरणार्थं प्रवृत्ता प्रकृतिः कथमेकस्य पुरुषस्यौत्सुक्यनिवृत्तौ कृतार्था स्यात् ? तस्मान्नैकस्य पुरुषस्यात्मानं प्रकाश्य प्रकृतेर्निवृत्तिर्युक्तेति अत्र च-________ चोम्मेन्तर्य् ओन् कारिकास् 60 - 63 लोस्त् कारिका 64 ______ कार्यकारणक्रियासाक्षी पुरुषः तस्माद्ये भौतिकाः शिरःपाण्यादयो ये चाहंकारिकाः श्रवणादयो वचनादयः संकल्पाभिमानाध्यवसायाश्च ते लक्षणविपर्ययात्- नाहं नाष्टौ प्रकृतयः तदेतदेवं तत्त्वानामभ्यासैकाग्रमनसो यतेः पुनः पुनरभ्यासात् एकस्याप्यस्मितारूपस्य परिकल्पितविषयभेदप्रतिषेधमुखेन नास्मि न मे नाहमित्यपरिशेषम् आप्रकृतेः प्रतिपक्षग्रहणात् अविपर्ययात् पञ्चस्रोतसो ऽस्याविद्यापर्वणो निवृत्तेः शान्तं ध्रुवं सकलभावानुबन्धप्रतिपक्षभूतं धर्माद्याप्यायितस्य बुद्धितत्त्वस्यासन्दिग्धमविपरीतं विशुद्धं केवलमुत्पद्यते ज्ञानम् इस्क्_64 आह, विशुद्धं केवलम् अन्यतरानभिधानमर्थाभेदात् यदेव विशुद्धं तदेव केवलमित्यर्थाभेदादन्यतरच्छक्यमवक्तुमिति उच्यते- गुणान्तररूपनिवृत्तिहेतुत्वात् रजस्तमोधर्माणां तावद् ग्रहणाच्छुद्धं संशयविपर्ययव्यतिरिक्तं च केवलं क्षेत्रज्ञपरिज्ञाने ऽपूर्वमेव इति

kārikā 59 apravṛttiścetyetadapi nopapannam kasmāt ? dṛṣṭāntāntarasāmarthyāt tadyathā kim ? ucyate- raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt puruṣasya tathātmānaṃ prakāśya vinivartate prakṛtiḥ isk_59 tatra nānāvarṇasvabhāvavijñānānāṃ prekṣārthināṃ puruṣāṇāṃ saṃghāto raṅga ityucyate nartakyāśca tadārādhanā nṛttikriyānekapuruṣārthā yadi vātra kaścid brūyāt nṛttācāryeṇa kuśīlavairvā dṛṣṭaiveyaṃ kasmānna nivartate ? katham ? akṛtārthatvāt evaṃ sarvapuruṣāṇāṃ kāryakāraṇasambandhenautsukyavatāṃ nirākāṃkṣīkaraṇārthaṃ pravṛttā prakṛtiḥ kathamekasya puruṣasyautsukyanivṛttau kṛtārthā syāt ? tasmānnaikasya puruṣasyātmānaṃ prakāśya prakṛternivṛttiryukteti atra ca-________ commentary on kārikās 60 - 63 lost kārikā 64 ______ kāryakāraṇakriyāsākṣī puruṣaḥ tasmādye bhautikāḥ śiraḥpāṇyādayo ye cāhaṃkārikāḥ śravaṇādayo vacanādayaḥ saṃkalpābhimānādhyavasāyāśca te lakṣaṇaviparyayāt- nāhaṃ nāṣṭau prakṛtayaḥ tadetadevaṃ tattvānāmabhyāsaikāgramanaso yateḥ punaḥ punarabhyāsāt ekasyāpyasmitārūpasya parikalpitaviṣayabhedapratiṣedhamukhena nāsmi na me nāhamityapariśeṣam āprakṛteḥ pratipakṣagrahaṇāt aviparyayāt pañcasrotaso 'syāvidyāparvaṇo nivṛtteḥ śāntaṃ dhruvaṃ sakalabhāvānubandhapratipakṣabhūtaṃ dharmādyāpyāyitasya buddhitattvasyāsandigdhamaviparītaṃ viśuddhaṃ kevalamutpadyate jñānam isk_64 āha, viśuddhaṃ kevalam anyatarānabhidhānamarthābhedāt yadeva viśuddhaṃ tadeva kevalamityarthābhedādanyataracchakyamavaktumiti ucyate- guṇāntararūpanivṛttihetutvāt rajastamodharmāṇāṃ tāvad grahaṇācchuddhaṃ saṃśayaviparyayavyatiriktaṃ ca kevalaṃ kṣetrajñaparijñāne 'pūrvameva iti


67

चोम्मेन्तर्य् ओन् कारिकास् 65 अन्द् 66 लोस्त् कारिका 67 आह, तत्समकालमेव शरीरस्य पातः प्राप्नोति सति ध____वस्थानेनाज्ञानहेतुकं शरीरमिति उच्यते- अज्ञानहेतुकं शरीरम् अथ चायं नानात्वदर्शी धर्मादीनामकारणप्राप्तौ तिष्ठति संस्कारवशाच्चक्रभ्रमवद् धृतशरीरः इस्क्_67 य___ शरीरान्तरोपार्जिता धर्मादयो न तावत्कारणम् बुद्धि___मुपसंप्राप्ता अकृतार्थत्वाद् बुद्धिश्च प्रधानं तदा तिष्ठत्ययं नानात्वदर्शी तस्य संस्कारस्य सामर्थ्यात् को दृष्टान्तः ? चक्रभ्रमवद्धृतशरीरः तद्यथा कुम्भकारप्रयत्नविशिष्टेन दण्डेन घटादिनिष्पत्तियोग्यक्रिया चक्रस्य भ्रमः तेन तुल्यं चक्रभ्रमवत् यथा चक्रभ्रमणं घटार्थम् निष्पन्ने घटादिनिष्पत्तियोग्यक्रिया चक्रस्य भ्रमः तेन तुल्यं चक्रभ्रमवत् यथा चक्रभ्रमणं घटार्थम् निष्पन्ने घटे पूर्वसंस्कारानुरोधान्न निवर्तते न च तदा निवृत्तमिति कृत्वा संस्कारक्षये ऽप्यवतिष्ठते, एवं सम्यग्दर्शनार्थं शरीरं सम्यग्ज्ञानाधिगमे ऽपि न निवर्तते पूर्वसंस्कारवशात् न च तदा निवृत्तमिति कृत्वा संस्कारक्षये ऽप्यवस्थाप्यत इति

commentary on kārikās 65 and 66 lost kārikā 67 āha, tatsamakālameva śarīrasya pātaḥ prāpnoti sati dha____vasthānenājñānahetukaṃ śarīramiti ucyate- ajñānahetukaṃ śarīram atha cāyaṃ nānātvadarśī dharmādīnāmakāraṇaprāptau tiṣṭhati saṃskāravaśāccakrabhramavad dhṛtaśarīraḥ isk_67 ya___ śarīrāntaropārjitā dharmādayo na tāvatkāraṇam buddhi___mupasaṃprāptā akṛtārthatvād buddhiśca pradhānaṃ tadā tiṣṭhatyayaṃ nānātvadarśī tasya saṃskārasya sāmarthyāt ko dṛṣṭāntaḥ ? cakrabhramavaddhṛtaśarīraḥ tadyathā kumbhakāraprayatnaviśiṣṭena daṇḍena ghaṭādiniṣpattiyogyakriyā cakrasya bhramaḥ tena tulyaṃ cakrabhramavat yathā cakrabhramaṇaṃ ghaṭārtham niṣpanne ghaṭādiniṣpattiyogyakriyā cakrasya bhramaḥ tena tulyaṃ cakrabhramavat yathā cakrabhramaṇaṃ ghaṭārtham niṣpanne ghaṭe pūrvasaṃskārānurodhānna nivartate na ca tadā nivṛttamiti kṛtvā saṃskārakṣaye 'pyavatiṣṭhate, evaṃ samyagdarśanārthaṃ śarīraṃ samyagjñānādhigame 'pi na nivartate pūrvasaṃskāravaśāt na ca tadā nivṛttamiti kṛtvā saṃskārakṣaye 'pyavasthāpyata iti


68

कारिका 68 यदा तु संस्कारक्षये तन्निमित्तस्य शरीरस्य भेदः, अतः प्राप्ते शरीरभेदे धर्माधर्मौ कृतार्थौ कारणे बुद्धिलक्षणे लयं गच्छतः यश्चास्य भूतावयवः शरीरारम्भकः स सर्वभूतेषु भूतानि तन्मात्रेषु, इन्द्रियाणि तन्मात्राणि चाहंकारे, अहंकारो बुद्धौ बुद्धिरव्यक्ते सेयं तत्त्वानुपूर्वी तदर्थप्रधानादुत्पन्ना परिसमाप्ते पुनः प्रधाने प्रलयं गच्छतीति प्रधानमप्यर्थवशादेवास्य शरीराणि तेषु तेषु जात्यन्तरपरिवर्तेषु करोति स चार्यश्चरितार्थः अतः चरितार्थत्वात् प्रधानविनिवृत्तौ अतीन्द्रियमसंवेद्य लघु सर्वत्र सन्निहितं प्रशस्तमनिर्मितं विशुद्धमक्षयं निरतिशयम् एकान्तमात्यन्तिकमभयं कैवल्यमाप्नोति इस्क्_68 एतच्चावस्थानं बौद्धैर्निरुपधिशेषनिर्वाणलक्षणमपवर्गो व्याख्यातः एतत्परं ब्रह्मं ध्रुवममलमभयमत्र सर्वेषां गुणधर्माणां प्रतिप्रलयः एतत्प्राप्य सर्वायासैः सर्वबन्धनैरनादिकालप्रवृत्तरागद्वेषवियुक्तो मुक्तो भवति एतदर्थं ब्राह्मणा दयितपुत्रदारधनसम्बन्धमपहाय गुरुशुश्रूषापराः शरीरमरण्येषु यातयन्ति कथं नामैकान्तिकमात्यन्तिकं च कैवल्यं स्यादिति यत्रैवोत्थानं शास्त्रस्य तत्रैवोपसंहार आचार्येण कृतः

kārikā 68 yadā tu saṃskārakṣaye tannimittasya śarīrasya bhedaḥ, ataḥ prāpte śarīrabhede dharmādharmau kṛtārthau kāraṇe buddhilakṣaṇe layaṃ gacchataḥ yaścāsya bhūtāvayavaḥ śarīrārambhakaḥ sa sarvabhūteṣu bhūtāni tanmātreṣu, indriyāṇi tanmātrāṇi cāhaṃkāre, ahaṃkāro buddhau buddhiravyakte seyaṃ tattvānupūrvī tadarthapradhānādutpannā parisamāpte punaḥ pradhāne pralayaṃ gacchatīti pradhānamapyarthavaśādevāsya śarīrāṇi teṣu teṣu jātyantaraparivarteṣu karoti sa cāryaścaritārthaḥ ataḥ caritārthatvāt pradhānavinivṛttau atīndriyamasaṃvedya laghu sarvatra sannihitaṃ praśastamanirmitaṃ viśuddhamakṣayaṃ niratiśayam ekāntamātyantikamabhayaṃ kaivalyamāpnoti isk_68 etaccāvasthānaṃ bauddhairnirupadhiśeṣanirvāṇalakṣaṇamapavargo vyākhyātaḥ etatparaṃ brahmaṃ dhruvamamalamabhayamatra sarveṣāṃ guṇadharmāṇāṃ pratipralayaḥ etatprāpya sarvāyāsaiḥ sarvabandhanairanādikālapravṛttarāgadveṣaviyukto mukto bhavati etadarthaṃ brāhmaṇā dayitaputradāradhanasambandhamapahāya guruśuśrūṣāparāḥ śarīramaraṇyeṣu yātayanti kathaṃ nāmaikāntikamātyantikaṃ ca kaivalyaṃ syāditi yatraivotthānaṃ śāstrasya tatraivopasaṃhāra ācāryeṇa kṛtaḥ


69

कारिका 69 आह, किमर्थं पुनरिदं शास्त्रं केन वा पूर्वं प्रकाशितमिति ? उच्यते- यदुक्तं किमर्थमिति- पुरुषार्थार्थमिदम् कथं नामाज्ञानवशात्तत्संस्कारोपनिपतितानां प्राणिनामपवर्गः स्यादित्येवमर्थमिदं शास्त्रं व्याख्यातम् यत्तूक्तं केनेति, उच्यते- गुह्यं परमर्षिणा समाख्यातम् गुह्यमिति गूहनीयम् रहस्यमकृतात्मनां यमनियमेष्वनवस्थितानामादरादप्यनध्येयम् परमर्षिर्भगवान्सांसिद्धिकैर्धर्मज्ञानवैराग्यैश्वर्यैराविष्टपिण्डो विश्वाग्रजः कपिलमुनिः तेन कपिलमुनिना समाख्यातम् सम्यगाख्यातम्, चिराभ्यस्तस्य विद्यास्रोतसो निर्वचनसामर्थ्यात् स्यादेतत्, कथमिदं गुह्यमिति ? उच्यते- कथं वेदं गुह्यं न स्यात् ? भवाग्रोत्पन्नैरपि सनकसनातनसनन्दनसनत्कुमारप्रभृतिभिरनित्यानां स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते च यत्र भूतानाम् इस्क्_69 तत्र स्थितिस्तावद्रूपप्रवृत्तिफलनिर्देशेनोत्पत्तिरपि प्रकृतेर्महानित्यादिः प्रलयो ऽप्यविभागाद्वैश्वरूप्यस्येति वचनात् औत्सुक्यानुपरमात्प्रकृतिपुरुषयोः स्थितिरुत्पत्तिर्दृश्यदर्शनशक्तयोः सापेक्षत्वात् तथा चोक्तं- पुरुषस्य दर्शनार्थः कैवल्यार्थस्तथा प्रधानस्य पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः इति (इस्क् 21) प्रलयः प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्ताविति (इस्क् 68) अथवा स्थितिक्षणभङ्गप्रतिषेधात्कालान्तरेष्वस्यानाशादुत्पत्तिर्विपरिणामान्नाभूतप्रादुर्भावादकस्मादसम्भवात्, प्रलयो ऽपि निमित्तान्तरात्स्वाभाव्यादेव भूतानामपि व्यक्तानां निष्पत्तिमतामिति यावत् एवं च महदादयो ऽपि परिगृहीता इति आह, पुरुषादयस्तर्हि परित्यक्ताः कथं वा भूतशब्द इति ? उच्यते- वितथप्रतिषेधार्थत्वात् यावत् किंचिदवितथं भूतं तस्य सर्वस्येह स्थित्यादय उच्यन्त इति उत्पत्तिविनाशप्रतिषेधाविशेषात् एवमपि पुरुषादीनामुत्पत्तिप्रलयावपि प्राप्नुतः किं कारणम् ? अविशेषादिति उच्यते- सम्भवतो विशेषणं भवति तत्र स्थितिरेव पुरुषादीनाम् इतरेषां तु स्थित्युत्पत्तिप्रलया इति विज्ञास्यामः

kārikā 69 āha, kimarthaṃ punaridaṃ śāstraṃ kena vā pūrvaṃ prakāśitamiti ? ucyate- yaduktaṃ kimarthamiti- puruṣārthārthamidam kathaṃ nāmājñānavaśāttatsaṃskāropanipatitānāṃ prāṇināmapavargaḥ syādityevamarthamidaṃ śāstraṃ vyākhyātam yattūktaṃ keneti, ucyate- guhyaṃ paramarṣiṇā samākhyātam guhyamiti gūhanīyam rahasyamakṛtātmanāṃ yamaniyameṣvanavasthitānāmādarādapyanadhyeyam paramarṣirbhagavānsāṃsiddhikairdharmajñānavairāgyaiśvaryairāviṣṭapiṇḍo viśvāgrajaḥ kapilamuniḥ tena kapilamuninā samākhyātam samyagākhyātam, cirābhyastasya vidyāsrotaso nirvacanasāmarthyāt syādetat, kathamidaṃ guhyamiti ? ucyate- kathaṃ vedaṃ guhyaṃ na syāt ? bhavāgrotpannairapi sanakasanātanasanandanasanatkumāraprabhṛtibhiranityānāṃ sthityutpattipralayāścintyante ca yatra bhūtānām isk_69 tatra sthitistāvadrūpapravṛttiphalanirdeśenotpattirapi prakṛtermahānityādiḥ pralayo 'pyavibhāgādvaiśvarūpyasyeti vacanāt autsukyānuparamātprakṛtipuruṣayoḥ sthitirutpattirdṛśyadarśanaśaktayoḥ sāpekṣatvāt tathā coktaṃ- puruṣasya darśanārthaḥ kaivalyārthastathā pradhānasya paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ iti (isk 21) pralayaḥ prāpte śarīrabhede caritārthatvātpradhānavinivṛttāviti (isk 68) athavā sthitikṣaṇabhaṅgapratiṣedhātkālāntareṣvasyānāśādutpattirvipariṇāmānnābhūtaprādurbhāvādakasmādasambhavāt, pralayo 'pi nimittāntarātsvābhāvyādeva bhūtānāmapi vyaktānāṃ niṣpattimatāmiti yāvat evaṃ ca mahadādayo 'pi parigṛhītā iti āha, puruṣādayastarhi parityaktāḥ kathaṃ vā bhūtaśabda iti ? ucyate- vitathapratiṣedhārthatvāt yāvat kiṃcidavitathaṃ bhūtaṃ tasya sarvasyeha sthityādaya ucyanta iti utpattivināśapratiṣedhāviśeṣāt evamapi puruṣādīnāmutpattipralayāvapi prāpnutaḥ kiṃ kāraṇam ? aviśeṣāditi ucyate- sambhavato viśeṣaṇaṃ bhavati tatra sthitireva puruṣādīnām itareṣāṃ tu sthityutpattipralayā iti vijñāsyāmaḥ


70

कारिका 70 आह, कस्मै पुनरिदं शास्त्रं परमर्षिणा प्रकाशितमिति ? उच्यते- एतत्प्रवित्रमग्र्यं मुनिरासुरये ऽनुकम्पया प्रददौ तत्र पवित्रं पावनात् अग्र्यं सर्वदुःखक्षपणसमर्थत्वात् पवित्रान्तराणि पुनरेकदेशं क्षालयन्त्यधमर्षणगङ्गादीनि तस्मादिदमेवाग्र्यं मुनिरासुरये ऽनुकम्पया प्रददौ आह, सम्प्रदानस्याकस्मिकत्वम्, धर्मादिनिमित्तानुपपत्तेः न तावत्परमर्षेर्धर्मार्थं शास्त्रप्रदानमुपपद्यते, फलेनानभिष्वङ्गात् नार्थकामार्थम्, शिष्याणामनायासप्रसंगात् न मोक्षार्थम्, सांसिद्धिकेनैव ज्ञानेन तत्प्राप्तेः तस्माद्विपरीतार्थासम्भवात् परिशेषादकस्मादाचार्यः शास्त्रनिधानं प्रददाविति उच्यते- नाकस्मात्, किं तर्हि अनुकम्पया प्रददौ आध्यात्मिकाधिदैविकाधिभौतिकैर्दुःखैः पीड्यमानमासुरिमुपलभ्य स्वात्मनि च ज्ञानसामर्थ्यात्सति कार्यकारणसम्प्रयोगे दुःखानामप्रवृत्तिं परिज्ञाय शिष्यगुणांश्च कथं नाम यथा मम सुखदुःखेषु ज्ञानोपनिपातात्साम्यमेवमासुरेरपि स्यात्तद्द्वारेणान्येषामपि पुरुषाणामेवमनुकम्पया भगवान्परमर्षिः शास्त्रमाख्यातवान् यथा च परमर्षिरासुरये तथा आसुरिरपि दशमाय कुमाराय भगवत्- पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् इस्क्_70 बहुभ्यो जनकवशिष्ठादिभ्यः समाख्यातम् अस्य तु शास्त्रस्य भगवतो ऽग्रे प्रवृत्तत्वान्न शास्त्रान्तरवद् वंशः शक्यो वर्षशतसहस्रैरप्याख्यातुम्

kārikā 70 āha, kasmai punaridaṃ śāstraṃ paramarṣiṇā prakāśitamiti ? ucyate- etatpravitramagryaṃ munirāsuraye 'nukampayā pradadau tatra pavitraṃ pāvanāt agryaṃ sarvaduḥkhakṣapaṇasamarthatvāt pavitrāntarāṇi punarekadeśaṃ kṣālayantyadhamarṣaṇagaṅgādīni tasmādidamevāgryaṃ munirāsuraye 'nukampayā pradadau āha, sampradānasyākasmikatvam, dharmādinimittānupapatteḥ na tāvatparamarṣerdharmārthaṃ śāstrapradānamupapadyate, phalenānabhiṣvaṅgāt nārthakāmārtham, śiṣyāṇāmanāyāsaprasaṃgāt na mokṣārtham, sāṃsiddhikenaiva jñānena tatprāpteḥ tasmādviparītārthāsambhavāt pariśeṣādakasmādācāryaḥ śāstranidhānaṃ pradadāviti ucyate- nākasmāt, kiṃ tarhi anukampayā pradadau ādhyātmikādhidaivikādhibhautikairduḥkhaiḥ pīḍyamānamāsurimupalabhya svātmani ca jñānasāmarthyātsati kāryakāraṇasamprayoge duḥkhānāmapravṛttiṃ parijñāya śiṣyaguṇāṃśca kathaṃ nāma yathā mama sukhaduḥkheṣu jñānopanipātātsāmyamevamāsurerapi syāttaddvāreṇānyeṣāmapi puruṣāṇāmevamanukampayā bhagavānparamarṣiḥ śāstramākhyātavān yathā ca paramarṣirāsuraye tathā āsurirapi daśamāya kumārāya bhagavat- pañcaśikhāya tena ca bahudhā kṛtaṃ tantram isk_70 bahubhyo janakavaśiṣṭhādibhyaḥ samākhyātam asya tu śāstrasya bhagavato 'gre pravṛttatvānna śāstrāntaravad vaṃśaḥ śakyo varṣaśatasahasrairapyākhyātum

Section (cont. 24)

71

कारिका 71 संक्षेपेण तु द्वाव__ हारीतवाद्धलिकैरातपौरिकार्षभेश्वरपञ्चाधिकरणपतञ्जलिवार्षगण्यकौण्डिन्यमूकादिक- शिष्यपरम्परयागतम् भगवानीश्वरकृष्णश्च साहायकं शास्त्रम् पूर्वाचार्यसूत्रप्रबन्धे गुरुलाघवमनाद्रियमाणः पौरस्त्यान्याख्यानव्या___न गर्भमतिप्रमादं ददातीति ग्रन्थभूयस्त्वमुपजायते तच्चेदानीन्तनैः प्राणिभिरल्पत्वादायुषो ग्रन्थत एव न सूपपादं किं पुनः श्रवणप्रयोगाभ्याम् आह च- चतुर्भिः प्रकारैर्विद्या सूपयुक्ता भवति- आगमकालेन स्वाध्यायकालेन प्रयोगकालेन च तत्र चास्यागमनकालेनैवायुः पर्युपयुक्तं स्यात्ततश्च शास्त्रानर्थक्यम् इत्यस्य मन्दधियामप्याशु ग्रहणधारणप्रयोगसम्पत्स्यादिति षष्टितन्त्रादुपाख्यानगाथाव्यवहितानि वाक्यान्येकत उपमृद्य शिष्यानुकम्पार्थं यावत् ईश्वरकृष्णेन चैतदार्याभिः सप्तत्या संक्षिप्तमार्यमतिना सर्वसत्त्वहितप्रवृत्तेन सम्यग् विज्ञाय सिद्धान्तम् इस्क्_71 कथं चास्य सम्यक्सिद्धान्तविज्ञानस्याप्यनेकग्रन्थशतसहस्राख्येयं सांख्यपदार्थं सतत्त्वमखण्डमाचार्याणां सप्तत्या संक्षिप्तवान्

kārikā 71 saṃkṣepeṇa tu dvāva__ hārītavāddhalikairātapaurikārṣabheśvarapañcādhikaraṇapatañjalivārṣagaṇyakauṇḍinyamūkādika- śiṣyaparamparayāgatam bhagavānīśvarakṛṣṇaśca sāhāyakaṃ śāstram pūrvācāryasūtraprabandhe gurulāghavamanādriyamāṇaḥ paurastyānyākhyānavyā___na garbhamatipramādaṃ dadātīti granthabhūyastvamupajāyate taccedānīntanaiḥ prāṇibhiralpatvādāyuṣo granthata eva na sūpapādaṃ kiṃ punaḥ śravaṇaprayogābhyām āha ca- caturbhiḥ prakārairvidyā sūpayuktā bhavati- āgamakālena svādhyāyakālena prayogakālena ca tatra cāsyāgamanakālenaivāyuḥ paryupayuktaṃ syāttataśca śāstrānarthakyam ityasya mandadhiyāmapyāśu grahaṇadhāraṇaprayogasampatsyāditi ṣaṣṭitantrādupākhyānagāthāvyavahitāni vākyānyekata upamṛdya śiṣyānukampārthaṃ yāvat īśvarakṛṣṇena caitadāryābhiḥ saptatyā saṃkṣiptamāryamatinā sarvasattvahitapravṛttena samyag vijñāya siddhāntam isk_71 kathaṃ cāsya samyaksiddhāntavijñānasyāpyanekagranthaśatasahasrākhyeyaṃ sāṃkhyapadārthaṃ satattvamakhaṇḍamācāryāṇāṃ saptatyā saṃkṣiptavān


72

कारिका 72 आह च- सप्तत्यां किल ये ऽर्थास्ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य आख्यायिकाविरहिताः परवादविवर्जिताश्चापि इस्क्_72 यतश्च नारायणमनुजनकवशिष्ठद्वैपायनप्रवृत्तिभिराचार्यैः प्रधानपुरुषादयः पदार्थाः परिगृहीताश्चोपदिष्टाश्च प्रशस्ताश्चातः स्वभावतः प्रसिद्धमैश्वर्यस्य फलत ऋद्ध्या आर्यमार्गमलंकर्तुमिति भगवदीश्वरकृष्णेन पदार्थस्वरूपनिरूपणनिपुणसारमतिना परमर्ष्यादियथोक्तागमेन प्रमाणत्रयं पुरस्कृत्य तर्कदृशा विचारः कृतः न चास्य मूलकनकपिण्डस्येव स्वल्पमपि दोषजातमस्तीति

kārikā 72 āha ca- saptatyāṃ kila ye 'rthāste 'rthāḥ kṛtsnasya ṣaṣṭitantrasya ākhyāyikāvirahitāḥ paravādavivarjitāścāpi isk_72 yataśca nārāyaṇamanujanakavaśiṣṭhadvaipāyanapravṛttibhirācāryaiḥ pradhānapuruṣādayaḥ padārthāḥ parigṛhītāścopadiṣṭāśca praśastāścātaḥ svabhāvataḥ prasiddhamaiśvaryasya phalata ṛddhyā āryamārgamalaṃkartumiti bhagavadīśvarakṛṣṇena padārthasvarūpanirūpaṇanipuṇasāramatinā paramarṣyādiyathoktāgamena pramāṇatrayaṃ puraskṛtya tarkadṛśā vicāraḥ kṛtaḥ na cāsya mūlakanakapiṇḍasyeva svalpamapi doṣajātamastīti