1. Bhaviṣya Purāṇa (part 1 of 3)
चतुर्थ पर्व — Adhyāya 186
श्रीकृष्ण उवाच ।। ।।
पुण्या महानवम्यस्ति तिथीनां प्रवरा तिथिः।।
सानुष्ठेया सुरैः सर्वैः प्रजापालैर्विशेषतः।।१।।
भवानुत्थापयेत्पार्थ संवत्सरसुखाय वै ।।
भूतप्रेतपिशाचानां प्रीत्यर्थं चोत्सवाय वा ।। २ ।।
।। युधिष्ठिर उवाच ।। ।।
कस्मात्कालात्प्रवृत्तेयं नवमी महशब्दयुक् ।।
किमादावुपान्नोऽस्ति भगवन्नवमीविधिः ।। ३ ।।
यशोदागर्भसंभूतेरुत यात्रा प्रवर्तते ।।
उताहो पृर्वमेवासीत्कृतत्रेतायुगादिषु ।।४।।
यदस्यां प्राणिनः केचिन्मन्यंते घातयंति च ।।
हतानां प्राणिनां तेषां का गतिः पारलौकिकी ।। ५ ।।
स्वयं घ्नतां घातयतामनुमोदयतां तथा ।।
एतन्मे संशयं पूर्वं वक्तुमर्हसि केशव ।। ६ ।।
।। श्रीकृष्ण उवाच ।। ।।
पार्थ या परमा शक्तिरनंता लोकविश्रुता ।।
आद्या सर्वगता शुद्धा भाव गम्या मनोहरा ।। ७ ।।
आद्याष्टमी कलाकाली द्वितीया सर्वमंगला ।।
माया कात्यायनी दुर्गा चामुंडा शंकरप्रिया ।। ८ ।।
ध्यायंति यां योगरतां सा देवी परमेश्वरी ।।
रूपभेदैर्नामभेदैर्भवानी पूज्यते शिवा।।९।।
अष्टम्यां तु नवम्यां तु देवदानवराक्षसैः।।
गंधर्वैरुरगैर्यज्ञैः पूज्यते किन्नरैर्नरैः।।१०।।
अन्येष्वपि युगेष्वादौ सृष्टेः पूर्वं प्रदर्शिता।।
पूज्यतेयं पुरा देवी तेभ्यः पूर्वतरैः शुभैः।।११।।
आश्वयुक्शुक्लपक्षे च याष्टमी मूल संयुता ।।
सा महानवमी नाम त्रैलोक्येऽपि सुदुर्लभा ।। १२ ।।
कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या ।।
मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ।। १३ ।।
अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् ।।
पूजयित्वाऽऽश्विने मासि विशोको जयति द्विषः ।। १४ ।।
संतर्जयंती हुंकारैः खड्गादिभिरहर्निशम् ।।
नवम्यां पूजिता देवी ददाति नवमं फलम् ।। १५ ।।
सा पुण्या सा पवित्रा च सा धर्मसुखदायिनी ।।
तस्मात्सदा पूजनीया चामुंडा मुंडमालिनी ।। १६ ।।
तस्यां यद्युपयुज्यंते प्राणिनो महिषादयः ।।
सर्वे ते स्वर्गतिं यांति घ्नतां पापं न विद्यते ।। १७ ।।
न तथा बलिदानेन पुष्पधूपविलेपनैः ।।
यथा संतुष्यते लोके महिषैर्विंध्यवासिनी ।। १८ ।।
उद्दिश्य दुर्गां हन्यंते विधानाद्येऽत्र जंतवः ।।
स्वर्गं ते यांति कौंतेय घातयंतोऽपि भक्तिः ।। १९ ।।
भवानीप्राङ्गणे प्राणा येषां याता युधिष्ठिर ।।
तेषां स्वर्गे ध्रुवं वासो वरास्तेऽप्यरसां प्रियाः ।। २० ।।
मन्वन्तरेषु सर्वेषु कल्पेषु कुरुनदन ।।
तेषु सर्वेषु चैवासन्नवमीयं पुरार्चिता ।। २१ ।।
प्रसिद्धानादिनिधना वर्षेवर्षे युधिष्ठिर ।।
भूयोभूयोऽवतारैश्च भवानीपूज्य तेसुरैः ।। २२ ।।
अवतीर्णा भुवि सदा नित्यं दैत्यनिबर्हिणी ।।
स्वर्गपातालमर्त्येषु करोति स्थितिपालनम् ।। २३ ।।
पुनश्चैषा महादेवी यशोदा गर्भसंभवा ।।
कंसासुरस्योत्तमाङ्गे पादं दत्त्वा गतायुषः ।। २४ ।।
ततः प्रभृति लोकेषु यशोदानंददायिनीम् ।।
विंध्याचले स्थापयित्वा पुनः पूजा प्रवर्तिता ।। २५ ।।
पूर्वप्रवृद्धोऽपि पुनर्भगिन्या महिमा कृतः ।।
भुवि सर्वोपकाराय सर्वोपद्रवशांतये ।। २६ ।।
एवं विंध्योपवासिन्या नवरात्रोपवासिनः ।।
एकरात्रेण नक्तेन स्वशक्त्याऽयाचितेन वा ।। २७ ।।
यजनैर्याजनैर्देवाः स्थानेस्थाने पुरेपुरे ।।
गृहेगृहे भक्तिपरे र्ग्रामेग्रामे वनेवने ।। २८ ।।
स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः ।।
वैश्यैः शूद्रैर्भक्तिचित्रैर्म्लेच्छैरन्यैश्च मानवैः ।। २९ ।।
स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृणु ।।
जयाभिलाषी नृपतिः प्रतिपत्प्रभृतिक्रमात् ।। ३० ।।
लोहाभिहारिकं कर्म कारयेद्यावदष्टमि ।।
प्रागुदक्प्रवणे देशे पताकाभिरलंकृतम् ।। ३१ ।।
मण्डपं कारयेद्दिव्यं नवसप्तकरं वरम् ।।
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् ।। ३२ ।।
मेखलात्रयसं युक्तं योन्यश्वत्थदलाभया ।।
राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च ।। ३३ ।।
आनीय मण्डपे तानि सर्वाण्येवाधिवासयेत् ।।
ततस्तु ब्राह्मणः स्नातः शुक्लांबरधरः शुचिः।। ३४ ।।
ॐकारपूर्वकैर्मन्त्रैस्तल्लिंगैर्जुहुयाद्घृतम्।।
लोहनामाभवत्पूर्वं दानवस्तु महाबलः ।। ३५ ।।
स देवैः समरे क्रुद्धैर्बहुधा शकलीकृतः ।।
तदंगसम्भवं लोहं यत्सर्वंदृश्यते क्षितौ ।। ३६ ।।
शस्त्रास्त्रमन्त्रैर्होतव्यं पायसं घृतसंयुतम् ।।
हुतशेषं तुरंगाणां गजानामुपहारयेत् ।। ३७ ।।
लोहाभिहारिकं कर्म तेनैतदृषिभिः स्मृतम् ।।
बद्धप्रतिशरव्यं च गजाश्वसमलंकृतम् ।। ३८ ।।
भ्रामयेन्नगरे नित्यं नंदि घोषपुरस्सरम्।।
प्रत्यहं नृपतिः स्नात्वा संपूज्य पितृदेवताः ।। ३९ ।।
पूजयेद्राजचिह्नानि फलमाल्यानुलेपनैः ।।
हुतशेषं प्रदातव्यमौपनायनिके द्विजे ।। ४० ।।
तस्याभिहरणाद्राज्ञो विजयः समुदाहृतः ।।
पूजामंत्रान्प्रवक्ष्यामि पुराणोक्तानहं तव ।। ४१ ।।
यैः पूजिताः प्रयच्छन्ति कीर्तिमायु र्यशोबलम।।
यथांबुदश्छादयति शिवायेमां वसुन्धराम् ।। ४२ ।।
तथाच्छादय राजानं विजयारोग्यवृद्धये ।। ( इति छत्रमन्त्रः) ।।
गन्धर्व कुलजातस्त्वं माभूयाः कुलदूषकः ।। ४३ ।।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।।
प्रभावाञ्च हुताशस्य वर्द्धस्व त्वं तुरंगम ।। ४४ ।।
तेजसा चैव सूर्यस्य मुनीनां तपसा यथा ।।
रुद्रस्य ब्रह्मचर्येण पवनस्य वलेन च।। स्मृ ।।
स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ।।
यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ।। ४६ ।।
भूम्यर्थेनृतवादी च क्षत्रियश्च पराङ्मुखः ।।
सूर्याचन्द्रमसौ वायुः पावकश्च न यत्र वै ।। ४७।।
व्रजेच्च तां गतिं क्षिप्रं तच्च पापं भवेत्किल ।।
विकृतिं यदि गच्छेस्त्वं युद्धेध्वनि तुरंगम ।।
रिपून्विजित्य समरे सह भर्त्रा सुखी भव ।। ४८ ।।।। ।। ( इत्यश्वमंत्रः) ।। ।।
शक्रकेतो महावीर्य सुपर्णस्त्वय्युपस्थितः ।।
पतत्रिराड्वैनतेयस्तथा नारायणध्वजः ।। ४९ ।।
काश्यपेयोऽमृतो ज्ञेयो नागारिर्विष्णुवाहनः ।।
अप्रमेयो दुराधर्षो देवशत्रुनिषूदनः ।। ५० ।।
गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः ।।
शस्त्रवर्मायुधान्योधान्रक्षास्मांश्च रिपून्दह ।। ५१ ।। ।। (इति ध्वजमंत्रः) ।। ।।
कुमुदैरावणौ पद्मः पुष्पदंतोऽथ वामनः ।।
सुप्रतीकोञ्जनो नील एतेऽष्टौ देवयोनयः ।।।। ५२ ।।
एतेषां पुत्रपौत्राश्च बलान्यष्टौ समाश्रिताः ।।
भद्रो मन्द्रो मृगश्चैव गजः संकीर्ण एव च ।।
वनेवने प्रसूतास्ते करियोनिं महागजाः।।५३।।
पातु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ।।
भर्तारं रक्ष नागेन्द्र समयं प्रतिपालयन् ।। ५४ ।।
अवापुर्हि जयं युद्धे गमने स्वस्ति नो व्रज ।।
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोनिलात् ।।
स्थैर्यं मेरोर्जयं रुद्राद्यशो देवात्पुरंदरात् ।। ५५ ।।
युद्धे रक्षंतु नागास्त्वां दिशश्च सह दैवतैः ।।
अश्विनौ सह गंधर्वैः पांतु त्वां सर्वतः सदा ।। ५६ ।। ( इति हस्तिमंत्रः ।।)
हुतभुग्वसवो रुद्रा वायुः सोमो महर्षयः ।।
नागकिन्नरगन्धर्वयक्ष भूतगणाग्रहाः ।। ५७ ।।
प्रमथाश्च सहादित्यैर्भूतेशो मातृभिः सह ।।
शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ।। ५८ ।।
प्रदहंतु रिपून्सर्वान्राजा विजयमृच्छतु ।।
यानि प्रयुक्तान्यरिभिर्दूषणानि समंततः ।। ५९ ।।
एतानि परशत्रूणां हतानि तव तेजसा ।।
कालनेमिवधे युद्धे युद्धे त्रिपुरघातने ।। ६० ।।
हिरण्यकशिपोर्युद्धे युद्धे देवासुरे तथा ।।
शोभितासि तथैवाद्य शोभमानास्तु भूपतेः ।। ६१ ।।
नीलां श्वेतामिमां दृष्ट्वा नश्यंत्वद्य नृपारयः ।।
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ।। ६२ ।।
सद्यः स्वस्था भवंति स्म त्वद्वातेनापमार्जिताः ।। ६३ ।।
पूतना रेवती नाम्ना कालरात्रीति या स्मृता ।।
दहंत्वाशु रिपून्सर्वान्पताके त्वामुपागताः ।। ६४ ।। (इति पताकामन्त्रः ।।)
असिश्च रिपुहा खड्गस्तीक्ष्णकर्मा दुरासदः ।।
श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ।। ६९ ।।
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।।
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।। ६६ ।।
हिरण्यं च शरीरंते धाता देवोजनार्दनः ।।
पिता पितामहो देवस्त्वं मां पालय सर्वदा ।। ६७ ।। (इति खड्गमन्त्रः ।।)
शर्मप्रदस्त्वं समरे वर्म सर्वायसो ह्यसि ।।
रक्ष मां रक्षणीयोऽहं तव वर्मन्नमोऽस्तु ते ।। ६८ ।। ( इति वर्ममन्त्रः ।।) ।।
दुन्दुभे त्वं सपत्नानां .घोषाद्धृदयकम्पन् ।।
भव भूमिप सैन्यानां तथा विजयवर्द्धनः ।। ६९ ।।
यथा जीमूतघोषेण हृष्यंति वरवारणाः ।।
तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः ।।७०।।
यथा जीमूतशब्देन स्त्रीणां त्रासोऽभिजायते ।।
तथा च तव शब्देन त्रस्यंत्वस्मद्द्विषो रणे।।७१।।( इति दुंदुभिमंत्रः ।।)
सर्वायुध महामात्र सर्वदेवारिसूदन ।।
चाप मां सर्वदा रक्ष साकं सायकसत्तमैः ।। ७२।। ( इति चापमन्त्रः।।)
पुण्यस्त्वं शङ्ख पुष्पाणां मङ्गलानां च मङ्गलम् ।।
विष्णुना विधृतो नित्यं मनःशांतिप्रदो भव ।। ७३ ।। ( इति शङ्खमन्त्रः ।।)
शशांककरसंकाश हिम डिंडीरपांडुर ।।
प्रोत्सारयाशु दुरितं चामरामरवल्लभ ।। ७४ ।। ( इति चामरमंत्रः ।।)
सर्वायुधानां प्रथमा निर्मिताऽसि पिनाकिना ।।
शूलायुधाद्विनिष्कृष्य कृत्वा मुष्टिपरिग्रहम् ।। ७५ ।।
चंडिकायाः प्रदत्तासि सर्वदुष्टनिबर्हिणि ।।
तथा विस्तारिता चासि देवानां प्रतिपादिता ।। ७६ ।।
सर्व सत्त्वांगभूतासि सर्वाशुभनिवारिणि ।।
छुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोऽस्तु ते ।। ७७ ।। ( इतिच्छूरिकामंत्रः ।।)
प्रोत्सारणाय दुष्टानां साधुसंग्रहणाय च ।।
ब्रह्मणा निर्मितश्चासि व्यवहारप्रसिद्धये ।।७८।।
यशो देहि सुखं देहि जगदो भव भूपतेः ।।
ताडयाशु रिपून्सर्वान्हेमदंड नमोस्तु ते ।। ७९ ।। ( इति कनकदण्डमन्त्रः ।।)
विजयो जयदो जेता रिपुघाती प्रियंकरः ।।
दुःखहा धर्मदः शांतः सर्वारिष्टविनाशनः ।।८०।।
एतेऽष्टौसंनिधौ यस्मात्तव सिंहा महाबलाः।।।
तेन सिंहासनेति त्वं विप्रैर्वेदेषु गीयसे ।।८१।।
त्वयि स्थितः शिवः साक्षात्त्वयि शक्रः सुरेश्वरः।।
त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः ।। ८२ ।।
नमस्ते सर्वतो भद्र भद्रदो भव भूपतेः ।।
त्रैलोक्यजयसर्वस्व सिंहासन नमोऽस्तु ते ।। ८३ ।। ( इति सिंहासनमंत्रः ।।)
लोहाभिहारिकं कर्म कृत्वेदं मंत्रपूर्वकम्।।
फलनैवेद्यकुसुमैर्धूपदीपविलेपनैः ।।८४।।
अष्टम्यां धावनं कृत्वा पूर्वाह्णे स्नानमाचरेत्।।।। ८५ ।।
( अथ गद्यम्)
दुर्गां कांचनमूर्तिं रौप्यां वा पैत्तलीं वार्क्षी चैत्रीं ताम्रीं वाधिभवतः कृत्वा दारुविचित्रतोरणविन्यस्तां शोभने स्थाने पुरतो विन्यस्तदृष्टां विचित्रगृहमध्यगां स्नातां कुंकुमचंदनगंधैश्चतुःसमैश्चीरपट्टैश्चर्चितगात्रां देवीं कुसुमैरभ्यर्च्य तां बहुभिः पुष्यमाणकीर्तिस्तैर्द्विजननैर्जनितपरितोषैर्दिवान्वितो नरेंद्रः स्वयं प्रयच्छेत्पुरोहितैः सार्धं बिल्वपत्रेणार्चनेन मंत्रेणानेन भगवत्यै ।।
( इति गद्यं सम्पूर्णं) ।।
जयंती मंगला काली भद्रकाली कपालिनी ।।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तु ते ।। ८६ ।।
अमृतोद्भवः श्रीवृक्षो महादेवीप्रियः सदा ।।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ।। ८७ ।।
दुर्गा संपूजनीया च तद्दिनाद्द्रोणपुष्पया ।।
सा चाभीष्टा सुरेशान्यास्तथा रूढव्रणायुतः ।।।८८।।।
ततः खड्गं नमस्कृत्य शत्रूणां मानमर्द्दनम् ।।
इच्छेत्स्वविजयं राज्यं सुभिक्षं चात्मनो नृप ।। ८९ ।।
पुनः पुनः प्रणम्याथ ध्यायेच्च हृदये शिवाम्।।
महिषघ्रीं बहुभुजां कुमारीं सिंहवाहिनीम् ।। ९० ।।
दानवांस्तर्जयंतीं च खड्गोद्धतकरां शुभाम् ।।
घंटाक्षस्रग्धरां दुर्गां रणारंभे व्यवस्थिताम् ।। ९१ ।।
ततो जयजयाकारैः स्तवं कुर्यादिमं ततः ।। ९२ ।।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।।
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ।। ९३ ।।
कुंकुमेन समालब्धे चन्दनेन विलेपिते ।।
बिल्वपत्रकृतामाले दुर्गेऽहं शरणं गतः ।।९४।।
कृत्वैवमर्च्चां कौरव्य अष्टम्यां जागरं निशि ।।
नटनर्तनगीतैश्च कारयेत्तु महोत्सवम् ।।९५।।
एवं हृष्टैर्निशां नीत्वा प्रभाते चारुणोदये ।।
पातयेन्महिषान्मेषानग्रतो नतकन्धरान् ।।९६।।
शतं चापि शतार्धं वा तदर्द्धं वा यथेच्छया ।।
सुरासवभृतैः कुंभैस्तर्पयेत्परमेश्वरीम् ।। ९७ ।।
कापालिकेभ्यस्तद्देयं दासीदासजनैस्तथा ।।
विभज्य सर्वं कौंतेय सुहृत्संबंधिबंधुषु ।।९८।।
ततोपराह्णसमये नवम्यां स्यंदने स्थिताम् ।।
भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा ससैन्यवान् ।।९९।।
सहस्रैः पुरुषैर्वापि रथयुक्तैः सुशिक्षितैः ।।
शनैः शनैरधिकया दीप्त्या प्रज्वलदीपकैः ।।१००।।
आकृष्टखड्गैर्वीरैश्च धातुरक्तैर्गजैस्तथा ।।
नदद्भिः शंखपटहैर्नृत्यद्भिर्वारयौवतैः ।।
अलंकृताभिर्नारीभिर्बालकैः सुविभूषितैः ।।१०१।।
भूतेभ्यस्तु बलिं दद्यान्मंत्रेणानेन सामिषम् ।।
सरक्तं सजलं सान्नं गन्धपुष्पाक्षतैर्युतम् ।।१ ०२।।
त्रींस्त्रीन्वारांस्त्रिशूलेन दिग्विदिक्षु क्षिपेद्बलिम् ।।
बलिं गृह्णन्त्विमं देवा आदित्या वसवस्तथा ।। १०३ ।।
मरुतोऽथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ।।
असुरा यातुधानाश्च मातरश्च पिशाचकाः ।। १०४
शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ।।
जृंभकाः सिद्धगन्धर्वा व्याला विद्याधरा धराः।। १०५।।
दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ।।
जगतां शांतिकर्तारो ब्रह्माद्याश्च महर्षयः ।।१०६।।
सविघ्नं मम पापं ते शाम्यंतु परिपन्थिनः।।
सौम्या भवंतु तृप्ताश्च भूताः प्रेताः सुखावहाः ।।१०७।।
इत्येवं भ्रामयेद्राष्ट्रे दुर्गां देवीं रथे स्थिताम्।।
नरयानेन वा पार्थ ततोऽविघ्नं समापयेत् ।।१ ०८।।
अथोत्पन्नेषु विघ्नेषु भूतशांतिं समाचरेत् ।।
येन विघ्ना न जायंते यात्रासंपूर्णतां व्रजेत्।।१ ०९।।
एवं ये कुर्वते यात्रां राजानोऽन्येऽपि मानवाः।।
महानवम्यां नंदायां पुत्रका हृष्टमानसाः ।।११ ०।।
ते सर्वे पापनिर्मुक्ता यांति भागवतीं पुरीम् ।।१ ११।।
न तेषां शावकोनाग्निर्न चौरा न विनायकाः ।।
विघ्नं कुर्वन्ति राजेन्द्र येषां तुष्टा महेश्वरी ।। ११२ ।।
नीरुजः सुखिनो भोगभोक्तारो भयवर्जिताः।।
भवंति भक्ताः पुरुषाः भगवत्याः किमुच्यते ।। ११३ ।।
इत्येष ते समाख्यातो दुर्गादेव्या महोत्सवः ।।
पठतां शृण्वतां चैव सर्वाशुभविनाशनः ।। ११४ ।।
शूलाग्रभिन्नमहिषासुरपृष्ठविष्टामृतखातखड्गरुचिरांगदबाहुदण्डाम् ।।
अभ्यर्च्य पंचवदनानुगतां नवम्यां दुर्गां सुदुर्गगहनानि तरंति मर्त्याः ।। ११५ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महानवमीव्रतवर्णनं नामाष्टत्रिंशदुत्तरशततमोऽध्यायः।।१३८।।
चतुर्थपर्व — Adhyāya 7
।। श्रीकृष्ण उवाच ।। ।।
यदेतत्ते समाख्यातं गंभीरं नरकार्णवम।।
व्रतोपवासनियमप्लवेनोत्तीर्यते सुखम् ।। १ ।।
दुर्ल्लभं प्राप्य मानुष्यं विद्युत्पतनचञ्चलम् ।।
तथात्मानं समादध्याद्भ्रश्यते न पुनर्यथा ।। २ ।।
दान व्रतमयी कीर्तिर्यस्य स्यादिह देहिनः ।।
परलोकेऽपि स तया ज्ञायते ज्ञातिवर्द्धनः ।। ३ ।।
ज्ञायते नेह नामुत्र व्रतस्वाध्यायवर्जितः ।।
पुरुषः पुरुषव्याघ्र तस्माद्व्रतपरो भवेत् ।। ४ ।।
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।।
सिद्धेन सह संवादमवंत्यां ब्राह्मणस्य हि ।। ५ ।।
योगर्द्धिसिद्ध्या संसिद्धः कश्चित्सिद्धो महीतलम् ।।
चचार विकृतं कृत्वा वपुः परमभीषणम् ।। ६ ।।
निगीर्णदंतो लंबोष्ठः पिंगाक्षस्तनुमूर्द्धजः ।।
त्रुटितैक कर्णो दुर्वणः शीर्णवस्त्रो महोदरः ।। ७ ।।
चिपिटाक्षः स्फुटितपाज्जंघाढ्यः कृशकूर्परः ।।
दिशः पश्यति संहृष्टो बभ्रामोद्भ्रांतचित्तवत् ।। ८ ।।
मूलजालिकविप्रेण दृष्टः पृष्टश्च को भवान् ।।
कदा स्वर्गात्समायातः केन कार्येण मे वद ।। ९ ।।
कच्चिद्दृष्टा त्वया रंभा भाभासितदिगंतरा ।।
चित्तसंमोहनकरी देवानामेकसुन्दरी ।। 4.7.१० ।।
गत्वा मद्वचनाद्वाच्या निर्वाच्या दोषदर्शिभिः ।।
आवंत्यस्त्वां कुशलिनीं पृच्छति स्म द्विजो त्तमः ।। ११ ।।
सिद्धः प्रसिद्धं तं विप्रं प्राहेदं विस्मयान्वितः ।।
कथं त्वयाहं विज्ञातः स्वर्गादभ्यागतः स्फुटम् ।। १२ ।।
ब्राह्मणस्तमथोवाच विज्ञातोऽसि मया यथा ।।
तथा तेऽहं प्रवक्ष्यामि क्षीणाघौघावधारय ।। १३ ।।
गात्रत्रयं विरूपं स्याद्द्वितीयं वा स्वरूपतः।।
दृष्ट्वा सर्वांग वैरूप्यं विज्ञातोऽसि ततो मया ।। १४ ।।
दुर्ल्लंघ्या प्रकृतिः साक्षादनुभूतकरी भवेत् ।।
प्रकृतेरन्यथाभावः सर्वथा लक्ष्यते जनैः ।। १५ ।।
विप्रस्यैवं वचः श्रुत्वा जगामादर्शनं शनैः ।।
पुनः कैश्चिदहोरात्रैराजगाम स तां पुरीम् ।। १६ ।।
मूलजालकविप्रेण पृष्टः प्राहामरावतीम् ।।
गतोऽहं पृष्टवां स्तत्र रंभां विभ्रमकारिणीम् ।। १७ ।।
शक्रस्यावसरे वृत्ते व्रजन्त्याः स्वगृहं मया ।।
त्वत्संदेशः समाख्यातः सावदत्को न वेद्मि तम् ।।१८।।
विद्यया कलया चापि पौरुषेण व्रतेन च ।।
तपसा वा पुमामर्त्यो दिवि विज्ञायते चिरम् ।। १९ ।।
ब्राह्मणस्तमथोवाच मुग्धा दग्धाग्निसंभवा ।।
न भक्षयामि शकटं व्रतेनैतेन वेत्ति माम् ।। 4.7.२० ।।
तस्यैतद्वचनं श्रुत्वा स सिद्धः सुविशुद्धधीः ।।
प्रहस्यामंत्र्य तं विप्रं जगामादर्शनं पुनः ।। २१ ।।
कदाचिच्च रता तेन स्वर्गमार्गं यदृच्छया ।।
दृष्ट्वा रंभां द्विजप्रोक्तं सर्वमेव निवेदितम् ।। २२ ।।
।। रंभोवाच ।। ।।
को न जानामि तं विप्रं शकटव्रतचारिणम् ।।
मूलजालैर्वर्तयंतं महाकालवनाश्रयम् ।। २३ ।।
दर्शनादथ संभाषादुपकारात्सहासनात् ।।
चतुर्धा स्नेहनिर्बंधो नृणां संजायतेऽधिकः ।। २४ ।।
न दर्शनं न संभाषा कदाचित्सह तेन मे ।।
नामश्रवणमात्रेण स्नेहः संदर्शितो महान् ।। २५ ।।
इत्येवमुक्त्वा रंभोरू रंभा जंभारिणोंतिकम् ।।
विस्मयोत्फुल्लनयना जगाम गजगामिनी ।।२६।।
गत्वा निवेदयामास स्नेहव्रतविचेष्टितम् ।।
पुरतो रुद्धहृदया ब्राह्मणस्य च धीमतः ।। २७ ।।
शक्रः प्रोवाच चार्वंगीं गीर्वाणहृदयंगमाम् ।।
किमानयामि तं विप्रं समीपं तव सुव्रतम् ।। २८ ।।
दिव्यमाल्यांबरधरं दिव्यस्रगुनुलेपनम् ।।
विमानवरमारोप्य दर्शयामास तं पुनः ।। २९ ।।
तत्रस्थः स द्विजो भोगीविभुनक्ति सह रंभया ।।
शकटव्रतमाहात्म्यमित्येतत्ते मयोदितम् ।। 4.7.३० ।।
राज्यश्रियं जगति सर्वजनोपभोग्यामाप्नोति शक्रशिवकेशवयोर्निवासम्।।
नाप्राप्यभस्ति भुवने सुदृढव्रतानां तस्मात्सदा व्रतपरेण नरेण भाव्यम् ।। ३१ ।।
इति श्रीभ विष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शकटव्रतमाहात्म्यकथनंनाम सप्तमोऽध्यायः ।। ७ ।। छ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 1
। । श्री गणेशाय नमः । ।
ऽ नमो भगवते वासुदेवाय
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् । । १
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति । । २
मूकङ्करोति वाचालं पङ्गु लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् । । ३
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं,
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा,
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे । । ४
यो गोशतं कनकशृङ्गमयं ददाति,
विप्राय वेदविदुषे च बहुश्रुताय ।
पुण्यां भविष्यसुकथां शृणुयात्समग्रां,
पुण्यं समं भवति तस्य च तस्य चैव । । ५
कृत्वा पुराणानि पराशरात्मजः सर्वाण्यनेकानि सुखावहानि ।
तत्रात्मसौख्याय भविष्यधर्मान् कलौ युगे भावि लिलेख सर्वम् । । ६
तत्रापि सर्वर्षिवरप्रमुख्यैः पराशराद्यैर्मुनिभिः प्रणीतान् ।
स्मृत्युक्तधर्मागमसंहितार्थान् व्यासः समासादवदद्भविष्यम् । । ७
अल्पायुषो लोकजनान्समीक्ष्य विद्याविहीनान्पशुवत्सुचेष्टान् ।
तेषां सुखार्थं प्रतिबोधनाय व्यासः पुराणं प्रथितं चकार । । ८
जयति भुवनदीपो भास्करो लोककर्त्ता,
जयति च शितिदेहः शार्ङ्गःधन्वा मुरारिः । ।
जयति च शशिमौली रुद्रनामाभिधेयो,
जयति च स तु देवो भानुमांश्चित्रभानुः । । १
श्रियावृतं तु राजानं शतानीकं महाबलम् ।
अभिजग्मुर्महात्मानः सर्वे द्रष्टुं महर्षयः । । २
भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।
पराशरस्तथा व्यासः सुमन्तुर्जैमिनिस्तथा । । ३
मुनिः पैलो याज्ञवल्क्यो गौतमस्तु महातपाः ।
भारद्वाजो मुनिर्धीमांस्तथा नारदपर्वतौ । । ४
वैशम्पायनो महात्मा शौनकश्च महातपाः ।
दक्षोऽङ्गिरास्तथा गर्गो गालवश्च महातपाः । । ५
तानागतानृषीन्दृष्ट्वा शतानीको महीपतिः ।
विधिवत्पूजयामास अभिगम्य महामतिः । । ६
पुरोहितं पुरस्कृत्य अर्ध्यं गां स्वागतेन च ।
पूजयित्वा ततः सर्वान्प्रणम्य शिरसा भृशम् । । ७
सुखासीनांस्ततो राजा निरातङ्कान् गतक्लमान् ।
उवाच प्रणतो भूत्वा बाहुमुद्धृत्य दक्षिणम् । । ८
इदानीं सफलं जन्म मन्येऽहं भुवि सत्तमाः ।
आत्मनो द्विजशार्दूला! तथा कीर्तिर्यशो बलम् । । ९
धन्योऽहं पुण्यकर्मा च यतो मां द्रष्टुमागताः ।
येषां स्मरणमात्रेण युष्माकं पूयते नरः । । 1.1.१०
श्रोतुमिच्छाम्यहं किञ्चिद्धर्मशास्त्रमनुत्तमम् ।
आनृशंस्यं समाश्रित्य कथयध्वम् महाबलाः! । । ११
येनाहं धर्मशास्त्रं तु श्रुत्वा गच्छे परां गतिम् ।
यथागतो मम पिता श्रुत्वा वै भारतं पुरा । । १२
तथोक्तास्तेन राज्ञा वै ब्राह्मणास्ते समन्ततः ।
समागम्य मिथस्ते तु विमृश्य च १ भृशम् तदा । । १३
पूजयित्वा ततो व्यासमिदं वचनमब्रुवन् ।
व्यासं प्रसादय विभो! एष ते कथयिष्यति । । १४
तिष्ठत्यस्मिन्महाबाहो! वयं वक्तुं न शक्नुमः ।
तिष्ठमाने गुरौ शिष्यः कथं वक्ति महामते! । । १५
२अयं गुरुः सदास्माकं साक्षान्नारायणस्तथा ।
कृपालुश्च तथा चायं तथा दिव्यविधानवित् । । १६
चतुर्णामपि वर्णानां पावनाय महात्मनाम् ।
धर्मशास्त्रमनेनोक्तं धर्माद्यैः सुसमन्वितम् । । १७
बिभेति गहनाच्छास्त्राल्लोको व्याधिरिवौषधात् ।
भारतस्य च विस्तारो मुनिना व्याहृतः स्वयम् । । १८
यथा स्वादु च पथ्यं च दद्यास्त्वं भिषगौषधम् ।
तथा रम्यं च शास्त्रं च भारतं कृतवान्मुनिः । । १९
आस्तिक्यारोहसोपानमेतद्भारतमुच्यते ।
तच्छ्रुत्वा स्वर्गनरकौ लोकः साक्षादवेक्षते । । 1.1.२०
देवतातीर्थतपसां भारतादेव निश्चयः ।
न जन्यते नास्तिकता तस्य मीमांसकैरपि । । २१
विष्णौ १ देवेषु वेदेषु गुरुषु ब्राह्मणेषु च ।
भक्तिर्भवति कल्याणी भारतादेव धीमताम् । । २२
धर्मार्थकाममोक्षाणां भरतात्सिद्धिरेव हि ।
अजिह्मो भारतः पन्था निर्वाणपदगामिनाम् । । २३
मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः ।
अनित्यतापसन्तप्ता भवन्ति तस्य मुक्तये । । २४
विपत्तिं भारताच्छ्रुत्वा वृष्णिपाण्डवसम्पदाम् ।
दुःखावसानाद्राजेन्द्र! पुण्यं च संश्रयेद्बुधः । । २५
एवंविधं भारतं वै प्रोक्तं येन महात्मना ।
सोऽयं नारायणः साक्षात् व्यासरूपी महामुनिः । । २६
स तेषां वचनं श्रुत्वा प्रतापी यो महीपतिः ।
प्रसादयामास मुनिं व्यासं शास्त्रविशारदम् । । २७
शतानीक उवाच
अञ्जलिः शिरसा ब्रह्मन्! कृतोऽयं पादयोस्तव ।
ब्रूहि मे धर्मशास्त्रं ५ तु येना पूततां व्रजे । । २८
समुद्धर भवादस्मात्कीर्तयित्वा कथां शुभाम् ।
यथा मम पिता पूर्वं कीर्तयित्वा तु भारतम् । । २९
व्यास उवाच
तस्यैतद्वचनं श्रुत्वा व्यासो वचनमब्रवीत् ।
एष शिष्यः सुमन्तुर्मे कथयिष्यति ते प्रभो! । । 1.1.३०
यदिच्छसि महाबाहो! प्रीतिदं चाद्भुतं शुभम् ।
श्रव्यं भरतशार्दूल! सर्वपापभयापहम् । । ३१
यथा वैशम्पायनेन पुरा प्रोक्तं पितुस्तव ।
महाभारतव्याख्यानं ब्रह्महत्याव्यपोहनम् । । ३२
अथ तमृषयः सर्वे राजानमिदमब्रुवन् ।
साधु प्रोक्तं महाबाहो! व्यासेनामितबुद्धिना । । ३३
सुमन्तुं पृच्छ राजर्षे! सर्वशास्त्रविशारदम् ।
अस्माकमपि राजेन्द्र! श्रवणे जायते मतिः ।
अथ व्यासो महातेजाः सुमन्तुमृषिमब्रवीत् । । ३४
कथयास्मै कथास्तात! याः श्रुत्वा मोदते नृपः ।
भारतादिकथानां तु यत्रास्य रमते मनः । । ३५
असावपि महातेजाः श्रुत्वा भावं महामतेः ।
व्यासस्य द्विजशार्दूल! ऋषीणां चापि सर्वशः । । ३६
चकार वक्तुं स मनस्तस्मै राज्ञे महामतिः ।
व्यासस्य शासनाद्विप्र! ऋषीणां चैव सर्वशः । । ३७
अथ राजा महातेजा आजमीढो द्विजोत्तमम् ।
प्रणम्य शिरसात्यर्थं प्रवक्तुमुपचक्रमे । । ३८
शतानीक उवाच
पुण्याख्यानं मम ब्रह्मन्! पावनाय प्रकीर्तय ।
श्रुत्वा यद्ब्राह्मणश्रेष्ठ! मुच्येऽहं सर्वपातकात् । । ३९
सुमन्तुरुवाच
नानाविधानि शास्त्राणि सन्ति पुष्पानि भारत ।
यानि श्रुत्वा नरो राजन्! मुच्यते सर्वकिल्बिषैः । । 1.1.४०
किमिच्छसि महाबाहो! श्रोतुं यत्त्वां ब्रवीमि वै ।
भारतादिकथानां तु यासु धर्मादयः स्थिताः । । ४१
शतानीक उवाच
मतानि कानि विप्रेन्द्र १! धर्मशास्त्राणि सुव्रत! ।
यानि श्रुत्वा नरो विप्र! मुच्यते सर्वकिल्बिषैः । । ४२
सुमन्तुरुवाच
श्रूयन्तां धर्मशास्त्राणि मनुर्विष्णुर्यमोऽङ्गिराः ।
वसिष्ठदक्षसंवर्तशातातपपराशराः । । ४३
आपस्तम्बोऽथ उशना कात्यायनबृहस्पती ।
गौतमःशङ्खलिखितौ हारीतोऽत्रिरथापि वा । । ४४
एतानि धर्मशास्त्राणि श्रुत्वा ज्ञात्वा च भारत! ।
वृन्दारकपुरं गत्वा मोदते नात्र संशयः । । ४५
शतानीक उवाच
यान्येतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत! ।
नेच्छामि श्रोतुं विप्रेन्द्र! ३ श्रुतान्येतानि हि द्विज! । । ४६
त्रयाणामपि वर्णानां प्रोक्तानामपि पण्डितैः ।
श्रेयसे न तु शूद्राणां तत्र मे वचनं शृणु । । ४७
चतुर्णामिह वर्णानां श्रेयसे यानि सुव्रत! ।
भवन्ति द्विजशार्दूल! श्रुतानि भुवनत्रये । । ४८
विशेषतश्चतुर्थस्य वर्णस्य द्विजसत्तम! । । ४९
ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रकल्पिताः ।
मन्वादीनि च शास्त्राणि तथाङ्गानि समन्ततः । । 1.1.५०
शूद्राश्चैव भृशं दीनाः प्रतिभान्ति द्विजप्रभो ।
धर्मार्थकाममोक्षस्य शस्ताः स्युरवने कथम् । । ५१
आगमेन विहीना हि अहो कष्टं मतं मम् ।
कश्चैषामागमः प्रोक्तः पुरा द्विजमनीषिभिः । ।
त्रिवर्गप्राप्तये ब्रह्मञ्छ्रेयसे च तथोभयोः । । ५२
सुमन्तुरुवाच
साधु साधु महाबाहो! शृणु मे परमं वचः ।
चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे । । ५३
धर्मशास्त्राणि १ राजेन्द्र! शृणु तानि नृपोत्तम ।
विशेषतश्च शूद्राणां पावनानि मनीषिभिः । । ५४
अष्टादशपुराणानि चरितं राघवस्य च ।
रामस्य कुरुशार्दूल! धर्मकामार्थसिद्धये । । ५५
तथोक्तं भारतं वीर! पाराशर्येण धीमता ।
वेदार्थसकलं योज्य३ धर्मशास्त्राणि च प्रभो! । । ५६
कृपालुना कृतं शास्त्रं चतुर्णामिह श्रेयसे ।
वर्णानां भवमग्नानां कृतं पोतो ह्यनुत्तमम् । । ५७
अष्टादशपुराणानि अष्टौ व्याकरणानि च ।
ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् । । ५८
यां श्रुत्वा पुरुषो राजन्! मुच्यते ब्रह्महत्यया ।
प्रथमं प्रोच्यते ब्राह्मं द्वितीयं चैन्द्रमुच्यते । । ५९
याम्यं प्रोक्तं ततो रौद्रं वायव्यं वारुणं तथा ।
सावित्रं च तथा प्रोक्तमष्टमं वैष्णवं तथा । । 1.1.६०
एतानि व्याकरणानि पुराणानि निबोध मे ।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । । ६१
तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् ।
आग्नेयमष्टमं वीर भविष्यं नवमं स्मृतम् । । ६२
दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् ।
वाराहं द्वादशं प्रोक्तं स्कान्दं चैव त्रयोदशम् । । ६३
चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् ।
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । । ६४
एतानि कुरुशार्दूल धर्मशास्त्राणि पण्डितैः ।
साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा । । ६५
चतुर्णामिह राजेन्द्र श्रोतुमर्हाणि सुव्रत ।
किमिच्छसि महाबाहो श्रोतुमेषां नृपोत्तम । । ६६
शतानीक उवाच
भारतं तु श्रुतं विप्र तातस्याङ्कगतेन तु ।
रामस्य चरितं चापि श्रुतं ब्रह्मन्समन्ततः । । ६७
पुराणानि च विप्रेन्द्र भविष्यं न तु सुव्रत ।
पुराणं वद विप्रेन्द्र! भविष्यं कौतुकं हि मे । । ६८
सुमन्तुरुवाच
साधु साधु महाबाहो साधु पृष्टोऽस्मि ४ मानद ।
शृणु मे वदतो राजन् पुराणं नवमं महत् । । ६९
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो नृप ।
अश्वमेधफलं प्राप्य गच्छेद् भानौ न संशयः । । 1.1.७०
इदं तु ब्रह्मणा प्रोक्तं धर्मशास्त्रमनुत्तमम् ।
विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः ५ । । ७१
शिष्येभ्यश्चैव वक्तव्यं चातुर्वर्ण्येभ्य एव हि ।
अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । ।
श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन ६ । । ७२
देवार्चां पुरतः १ कृत्वा ब्राह्मणैश्च नृपोत्तम ।
श्रोतव्यमेव शूद्रैश्च तथान्यैश्च द्विजातिभिः । । ७३
श्रौतं स्मार्तं हि वै धर्मं प्रोक्तमस्मिन्नृपोत्तम ।
तस्माच्छूद्रैर्विना विप्रान्न श्रोतव्यं कथञ्चन । ७४
इदं शास्त्रमधीयानो ब्राह्मणः संशितव्रतः ।
मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिम्पते । । ७५
शृण्वन्ति चापि ये राजन् भक्त्या वै ब्राह्मणादयः ।
मुच्यन्ते पातकैः सर्वैर्गच्छन्ति च दिवं प्रभो । । ७६
श्रावयेच्चापि यो विप्रः सर्वान्वर्णान्नृपोत्तम ।
स गुरुः प्रोच्यते तात वर्णानामिह सर्वशः । । ७७
स पूज्यः सर्वकालेषु सर्वैर्वर्णैर्नराधिप ।
पृथिवीं च तथैवेमां कृत्स्नामेकोऽपि सोऽर्हति । । ७८
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ।
इदं यशस्यं सततमिदं निःश्रेयसं परम् । । ७९
अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।
चतुर्णामपि वर्णानामाचारश्चापि शाश्वतः । । 1.1.८०
आचारः प्रथमो धर्मः श्रुत्युक्तश्च नरोत्तम ।
तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मवान्द्विजः । । ८१
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण च संयुक्तः सम्पूर्णफलभाक्स्मृतः । । ८२
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलमाचारं जगृहुः परम् । । ८३
अन्ये च मानवा राजन्नाचारं संश्रिता सदा ।
एवमस्मिन्पुराणे तु आचारस्य तु कीर्तनम् । । ८४
वृत्तान्तानि च राजेन्द्र तथा चोक्तानि पण्डितैः ।
त्रिलोक्यास्तु समुत्पत्तिः संस्कारविधिरुत्तमः । ।
श्रवणं चेतिहासस्य विधानं कथ्यते नृप । । ८५
तथास्मिन्कथ्यते राजन्माहात्म्यं वाचकस्य तु ।
व्रतचर्याश्रमाचाराः स्नातकस्य परो विधिः । । ८६
दारादिगमनं चैव विवाहानां च लक्षणम् ।
पुंसां च लक्षणं राजन्योषितां चात्र कथ्यते । । ८७
महायज्ञविधानं च शास्त्रकल्पं च शाश्वतम् ।
पृथिव्या लक्षणं तात देवार्चायाः सुलक्षणम् । । ८८
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिरेव च । । ८९
स्त्रीधर्मयोगस्तापस्यं मोक्षः संन्यास एव च ।
राज्ञश्च धर्मो ह्यखिलः कार्याणां च विनिर्णयः । । 1.1.९०
माहात्म्यं सवितुश्चात्र तीर्थानां च विशाम्पते ।
नारायणस्य माहात्म्यं तथा रुद्रस्य कथ्यते । । ९१
महाभाग्यं च विप्राणां माहात्म्यं पुस्तकस्य च ।
दुर्गादेव्यास्तथा चोक्तं सत्यस्य च महामते । । ९२
संक्षिप्तं १ संविधानं च धर्मं स्त्रीपुंसयोरपि ।
विभागं धर्मद्यूतं च कथकानां च शोधनम् । । ९३
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् ।
आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा । । ९४
संध्याविधिं प्रेतशुद्धिं स्नानतर्पणयोर्विधिम् ।
वैश्वदेवविधिं चापि तथा भोज्यविधिं नृप । । ९५
लक्षणं दन्तकाष्ठस्य चरणव्यूहमुत्तमम् ।
संसारगमनं चैव त्रिविधं कर्मसम्भवम् । । ९६
नैःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ।
दाराणां लक्षणं प्रोक्तं तथा पात्रपरीक्षणम् । । ९७
प्रसूतिं चापि गर्भस्य तथा कर्मफलं नृप ।
जातिधर्मान्कुलधर्मान्वेदधर्मांश्च १ पार्थिव । । ९८
वैतानव्रतिकानां च तथासौ प्रोक्तवान्विभुः ।
ब्रह्मा कुरुकुलश्रेष्ठ शंकराय महात्मने । । ९९
शंकरेण तथा विष्णोः कथितं कुरुनन्दन ।
विष्णुनापि पुनः प्रोक्तं नारदाय महीपते । । 1.1.१००
नारदात्प्राप्तवाञ्छक्रः शक्रादपि पराशरः ।
पराशरात्ततो व्यासो व्यासादपि मया विभो । । १०१
एवं परम्पराप्राप्तं पुराणमिदमुत्तमम् ।
शृणु त्वमपि राजेन्द्र मत्सकाशात्परं हितम् । । १०२
सर्वाण्येव पुराणानि संज्ञेयानि नरर्षभ ।
द्वादशैव सहस्राणि प्रोक्तानीह मनीषिभिः । । १०३
पुनर्वृद्धिं गतानीह आख्यानैर्विविधैर्वृष ।
यथा स्कान्दं तथा चेदं भविष्यं कुरुनन्दन । । १०४
स्कान्दं शतसहस्रं तु लोकानां ज्ञातमेव हि ।
भविष्यमेतदृषिणा लक्षार्द्धं संख्यया कृतम् २ । । १०५
तच्छ्रुत्वा पुरुषो भक्त्या इदं फलमवाप्नुयात् ।
ऋद्धिर्वृद्धिस्तथा श्रीश्च भवन्ति तस्य निश्चितम् । । १०६
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राहमे पर्वणि
कथाप्रस्तावने प्रथमोऽध्यायः । १ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 2
अथ द्वितीयोऽध्यायः
सृष्टिवर्णनं पुराणानां ब्रह्मपञ्चमास्यादुत्पत्तिवर्णनञ्च
सुमन्तुरुवाच
शृणुष्वेदं महाबाहो पुराणं पञ्चलक्षणम् ।
यच्छ्रुत्वा मुच्यते राजन्पुरुषो ब्रह्महत्यया । । १
पर्वाणि चात्र वै पञ्च कीर्तितानि स्वयम्भुवा ।
प्रथमं कथ्यते ब्राह्मं द्वितीयं वैष्णवं स्मृतम् । । २
तृतीयं शैवमाख्यातं चतुर्थं त्वाष्ट्रमुच्यते ।
पञ्चमं प्रतिसर्गाख्यं सर्वलोकैः सुपूजितम् । । ३
एतानि तात पर्वाणि लक्षणानि निबोध मे ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । । ४
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।
चतुर्दशभिर्विद्याभिर्भूषितं कुरुनन्दन । । ५
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश । । ६
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः ।
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः । । ७
प्रथमं कथ्यते सर्गो भूतानामिह सर्वशः ।
यच्छ्रुत्वा पापनिर्मुक्तो याति शान्तिमनुत्तमाम् । । ८
जगदासीत्पुरा तात तमोभूतमलक्षणम् ।
अविज्ञेयमतर्क्यं च प्रसुप्तमिव सर्वशः । । ९
ततः स भगवानीशो ह्यव्यक्तो व्यञ्जयन्निदम् ।
महाभूतानि वृत्तौजाः प्रोत्थितस्तमनाशनः १ । । 1.2.१०
योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एष स्वयमुत्थितः । । ११
योऽसौ षड्विंशको लोके तथा यः पुरुषोत्तमः ।
भास्करश्च महाबाहो परं ब्रह्म च कथ्यते । । १२
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।
अत एव ससर्जादौ तासु वीर्यमवासृजत् । । १३
यस्मादुत्पद्यते सर्वं सदेवासुरमानुषम् ।
बीजं शुक्रं तथा रेत उग्रं वीर्यं च कथ्यते । । १४
वीर्यस्यैतानि नामानि कथितानि स्वयम्भुवा ।
तदण्डमभवद्धैमं ज्वालामालाकुलं विभो । । १५
यस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।
सुरज्येष्ठश्चतुर्वक्त्रः परमेष्ठी पितामहः । । १६
क्षेत्रज्ञः पुरुषो वेधाः शम्भुर्नारायणस्तथा ।
पर्यायवाचकैः शब्दैरेव ब्रह्मा प्रकीर्त्यते । । १७
सदा मनीषिभिस्तात विरञ्चिः कञ्जजस्तथा२ ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । । १८
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ।
अरमित्येव शीघ्राय नियताः कविभिः कृताः । । १९
आप ३ एवार्णवीभूत्वा सुशीघ्रास्तेन ता नराः ।
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । । 1.2.२०
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्त्यते ।
एवं स भगवानण्डे तत्त्वमेव निरूप्य वै । ।२ १
ध्यानमास्थाय राजेन्द्र तदण्डमकरोद्द्विधा ।
शकलाभ्यां च राजेन्द्र दिवं भूमिं च निर्ममे । । २२
अन्तर्व्योम दिशश्चाष्टौ वारुणं स्थानमेव हि ।
ऊर्ध्वं महान्गतो राजन् समन्ताल्लोकभूतये । । २३
महतश्चाप्यहंकारस्तस्माच्च त्रिगुणा अपि ।
त्रिगुणा अतिसूक्ष्मास्तु बुद्धिगम्या हि भारत । । २४
उत्पत्तिहेतुभूता वै भूतानां महतां नृप ।
तेषामेव गृहीतानि शनैः पञ्चेन्द्रियाणि तु । । २५
तथैवावयवाः सूक्ष्माः षण्णामप्यमितौजसाम् । । २६
संनिवेश्यात्ममात्रासु स राजन्भगवान्विभुः ।
भूतानि निर्ममे तात सर्वाणि विधिपूर्वकम् । । २७
यन्मूर्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयाणि षट् ।
तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः । । २८
महान्ति तानि भूतानि आविशन्ति ततो विभुम् ।
कर्मणा सह राजेन्द्र सगुणाश्चापि वै गुणाः । । २९
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्वयम् १ । । 1.2.३०
भूतादिमहतस्तात येन व्याप्तमिदं जगत् ।
तस्मादपि महाबाहो पुरुषाः पञ्च एव हि । । ३१
केचिदेवं परां तात सृष्टिमिच्छन्ति पण्डिताः ।
अन्येऽप्येवं महाबाहो प्रवदन्ति मनीषिणः । । ३२
योऽसावात्मा परस्तात कल्पादौ सृजते तनुम् ।
प्रजनश्च महाबाहो सिसृक्षुर्विविधाः प्रजाः । । ३३
तेन सृष्टः पुद्गलस्तु प्रधानं विशते नृप ।
प्रधानं क्षोभितं तेन विकारान्युजते बहून् । । ३४
उत्पद्यते महांस्तस्मात्ततो भूतादिरेव हि ।
उत्पद्यते विशालं च भूतादेः कुरुनन्दन । । ३५
विशालाच्च हरिस्तात हरेश्चापि वृकास्तथा ।
वृकैर्मुष्णन्ति च बुधास्तस्मात्सर्वं भवेन्नृप । । ३६
तथैषामेव राजेन्द्र प्रादुर्भवति वेगतः ।
मात्राणां कुरुशार्दूल विबोधस्तदनन्तरम् १ । । ३७
तस्मादपि हृषीकाणि विविधानि नृपोत्तम ।
तथेयं सृष्टिराख्याताऽऽराध्यतः कुरुनन्दन । । ३८
भूयो निबोध राजेन्द्र भूतानामिह विस्तरम् ।
गुणाधिकानि सर्वाणि भूतानि पृथिवीपते । । ३९
आकाशमादितः कृत्वा उत्तरोत्तरमेव हि ।
एकं द्वौ च तथा त्रीणि चत्वारश्चापि पञ्च च । । 1.2.४०
ततः स भगवान्ब्रह्मा पद्मासनगतः प्रभुः ।
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । । ४१
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ।
कर्मोद्भवानां देवानां सोऽसृजद्देहिनां प्रभुः । । ४२
तुषितानां गणं राजन्यज्ञं चैव सनातनम् ।
दत्त्वा २ वीर समानेभ्यो गुह्यं ब्रह्म सनातनम् । । ४३
दुदोह यज्ञसिद्धयर्थमृग्यजुः सामलक्षणम् ।
कालं कालविभक्तीश्च ३ ग्रहानृतूंस्तथा नृप । । ४४
सरितः सागराञ्छैलान्समानि विषमाणि च ।
कामं क्रोधं तथा वाचं रतिं चापि कुरुद्वह । । ४५
सृष्टिं ससर्ज राजेन्द्र सिसृक्षुर्विविधाः प्रजाः ।
धर्माधर्मौ विवेकाय कर्मणां च तथासृजत् । ।४ ६
सुखदुःखादिभिर्द्वन्द्वैः प्रजाश्चेमा न्ययोजयत् ।
अण्व्यो मात्राविनाशिन्यो दशार्धानां तु याः स्मृताः । । ४७
ताभिः सर्वमिदं वीर सम्भवत्यनुपूर्वशः ।
यत्कृतं तु पुरा कर्म सन्नियुक्तेन वै नृप । । ४८
स तदेव स्वयं भेजे सृज्यमानं पुनः पुनः ।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते । । ४९
यद्यथास्याभवत्सर्गे तत्तस्य स्वयमाविशत् ।
यथा च लिङ्गान्यृतवः स्वयमेवानुपर्यये । । 1.2.५०
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ।
लोकस्येह विवृद्ध्यर्थं मुखबाहूरुपादतः । । ५१
ब्रह्म क्षत्रं तथा चोभौ वैश्यशूद्रौ नृपोत्तम ।
मुखानि यानि चत्वारि तेभ्यो वेदा विनिःसृताः । । ५२
ऋग्वेदसहिता तात वसिष्ठेन महात्मना ।
पूर्वान्मुखान्महाबाहो दक्षिणाच्चापि वै शृणु । । ५३
यजुर्वेदो महाराज याज्ञवल्क्येन वै सह ।
सामानि पश्चिमात्तात गौतमश्च महानृषिः । । ५४
अथर्ववेदो राजेन्द्र मुखाच्चाप्युत्तरान्नृप ।
ऋषिश्चापि तथा राजञ्छौनको लोकपूजितः । । ५५
यत्तन्मुखं महाबाहो पञ्चमं लोकविश्रुतम् ।
अष्टादशपुराणानि सेतिहासानि भारत । । ५६
निर्गतानि ततस्तस्मान्मुखात्कुरुकुलोद्वह ।
तथान्याः स्मृतयश्चापि यमाद्या लोकपूजिताः । । ५७
ततः स भगवान्देवो द्विधा देहमकारयत् ।
द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । । ५८
अर्धेन नारी तस्यां च विराजमसृजत्प्रभुः ।
तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् । । ५९
स चकार तपो राजन्सिसृक्षुर्विविधाः प्रजाः ।
पतीन्प्रजानामसृजन्महर्षीनादितो दश । । 1.2.६०
नारदं च भृगुं तात कं प्रचेतसमेव हि ।
पुलहं क्रतुं पुलस्त्यं च अत्रिमङ्गिरसं तथा । । ६१
मरीचिं चापि राजेन्द्र योऽसावाद्यः प्रजापतिः ।
एतांश्चान्यांश्च राजेन्द्र असृजद् भूरितेजसः । । ६२
अथ देवानृषीन्दैत्यान्सोऽसृजत्कुरुनन्दन ।
यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । । ६३
मनुष्याणां पितॄणां च सर्पाणां चैव भारत ।
नागानां च महाबाहो ससर्ज विविधान्गणान् । । ६४
क्षणरुचोऽशनिगणान्रोहितेन्द्रधनूंषि च ।
धूमकेतूंस्तथा चोल्का निर्याताञ्ज्योतिषां गणान् । । ६५
मनुष्यान्किन्नरान्मत्स्यान्वराहांश्च विहङ्गमान् ।
गजानश्वानथ पशून्मृगान्व्यालांश्च भारत । । ६६
कृमिकीटपतङ्गांश्च यूकालिक्षकमत्कुणान् ।
सर्वं च दंशमशकं स्थावरं१ च पृथग्विधम् । । ६७
एवं स भास्करो देवः ससर्ज भुवनत्रयम् ।
येषां तु यादृशं कर्म भूतानामिह कीर्तितम् । । ६८
कथयिष्यामि तत्सर्वं क्रमयोगं च जन्मनि ।
गजा व्याला मृगास्तात पशवश्च पृथग्विधाः । । ६९
पिशाचा मानुषास्तात रक्षांसि च जरायुजाः ।
द्विजास्तु अण्डजाः सर्पा नक्रा मत्स्याः सकच्छपाः । । 1.2.७०
एवंविधानि यानीह स्थलजान्यौदकानि च ।
स्वेदजं दंशमशकं यूकालिक्षकमत्कुणाः । । ७१
ऊष्मणा चोपजायन्ते यच्चान्यत्किञ्चिदीदृशम् ।
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । । ७२
ओषध्यः फलपाकान्ता नानाविधफलोपगाः ।
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । । ७३
पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ।
गुच्छगुल्मं तु विविधं तथैव तृणजातयः । । ७४
बीजकाण्डरुहाण्येव प्रताना १ वल्ल्य एव च ।
तमसा बहुरूपेण वेष्टिताः कर्महेतुना । । ७५
अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ।
एतावत्यस्तु गतयः प्रोद्भूताः कुरुनन्दन । । ७६
तस्माद्देवाद्दीप्तिमन्तो भास्कराच्य महात्मनः ।
घोरेऽस्मिंस्तात संसारे नित्यं सततयायिनि । । ७७
एवं सर्वं स सृष्ट्वेदं राजँल्लोकगुरुं परम् ।
तिरोभूतः स भूतात्मा कालं कालेन पीडयन् । । ७८
यदा स देवो जागर्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति । । ७९
तस्मिन्स्वपिति राजेन्द्र जन्तवः कर्मबन्धनाः ।
स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति । । 1.2.८०
युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि ।
तदायं सर्वभूतात्मा सुखं स्वपिति भारत । । ८१
तमो यदा समाश्रित्य चिरं तिष्ठति सेन्द्रियः ।
न नवं कुरुते कर्म तदोत्क्रामति मूर्तितः । । ८२
यदाहंमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस्तदा मूतिं विमुञ्चति । । ८३
एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं जगत्प्रभुः ।
संजीवयति चाजस्रं प्रमापयति चाव्ययः । । ८४
कल्पादौ सृजते तात अन्ते कल्पस्य संहरेत् ।
दिनं तस्येह यत्तात कल्पान्तमिति कथ्यते । । ८५
कालसंख्यां ततस्तस्य १ कल्पस्य शृणु भारत ।
निमेषा दश चाष्टौ च अक्ष्णः काष्ठा निगद्यते । । ८६
त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलाः स्मृताः ।
मुहूर्तमथ मौहूर्ता वदन्ति द्वादश क्षणम् । । ८७
त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः ।
मासस्त्रिंशदहोरात्रं द्वौ द्वौ मासावृतुः स्मृतः । । ८८
ऋतुत्रयमप्ययनमयने द्वे तु वत्सरः ।
अहोरात्रे विभजते सूर्यो मानुषदैविके । । ८९
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ।
पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । । 1.2.९०
कर्म चेष्टास्वहः कृष्णः मुक्तः स्वप्नाय शर्वरी ।
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । । ९१
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।
ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं महीपते । । ९२
एकैकशो युगानां तु क्रमशस्तन्तिबोध मे ।
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । । ९३
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ।
त्रेता त्रीणि सहस्राणि वर्षाणि च विदुर्बुधाः । । ९४
शतानि षट् च राजेन्द्र सन्ध्यासन्ध्यांशयोः पृथक् ।
वर्षाणां द्वे सहस्रे तु द्वापरे परिकीर्तिते । । ९५
चत्वारि च शतान्याहुः सन्ध्यासन्ध्यांशयोर्बुधः ।
सहस्रं कथितं तिष्ये शतद्वयसमन्वितम् । । ९६
एषा चतुर्युगस्यापि संख्या प्रोक्ता नृपोत्तम ।
यदेतत्परिसंख्या तमादावेव चतुर्युगम् । । ९७
एतद्द्वादशसाहस्रं देवानां युगमुच्यते ।
दैविकानां युगानां तु सहस्रपरिसंख्यया । । ९८
ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरुच्यते ।
एतद्युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः । । ९९
रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ।
ततोऽसौ युगपर्यन्ते प्रसुप्तः प्रतिबुध्यते । । 1.2.१००
प्रतिबुद्धस्तु सृजति मनः सदसदात्मकम् ।
मनः सृष्टिं विकुरुते चोद्यमानं १ सिसृक्षया । । १०१
विपुलं जायते तस्मात्तस्य शब्दं गुणं विदुः ।
विपुलात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः । । १०२
बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ।
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । । १०३
उत्पद्यते विचित्रांशुस्तस्य रूपं गुणं विदुः ।
तस्मादपि विकुर्वाणादापो जाताः स्मृता बुधैः । । १०४
तासां गुणो रसो ज्ञेयः सर्वलोकस्य भावनः २ ।
अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः । । १०५
यत्प्राग्द्वादशसाहस्रमुक्तं सौमनसं युगम् ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते । । १०६
मन्वन्तराण्यसंख्यानि सर्गः संहार एव च ।
तथाप्यहे सदा ब्राह्मे मनवस्तु चतुर्दश । । १०७
कथ्यन्ते कुरुशार्दूल ३ संख्यया पण्डितैः सदा ।
मनोः स्वायम्भुवस्येह षड्वंश्या ४ मनवोऽपरे । । १०८
सृष्टवन्तः प्रजाः स्वाःस्वाः महात्मानो महौजसः ।
सावर्णेयस्तथा पञ्चभौत्यो रौच्यस्तथापरः । । १०९
एते भविष्या मनवः सप्त प्रोक्ता नृपोत्तम ।
स्वस्वेऽन्तरे सर्वमिदं पालयन्ति चराचरम् । । 1.2.११०
एवंविधं दिनं तस्य विरिञ्चेस्तु महात्मनः ।
तस्यान्ते कुरुते सर्गं यथेदं कथितं तव । । १११
क्रीडन्निवैतत्कुरुते परमेष्ठी नराधिप ।
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे । । ११२
नाधर्मेणागमः कश्चिन्मनुष्याणां प्रवर्तते ।
इतरेष्वागमास्तात धर्मश्च कुरुनन्दन । । ११३
यादृशाः परिहीयन्ते यथाह भगवान्मनुः १ ।
चौर्याच्चाप्यनृताद्राजन्मायाभिरमितद्युते । । ११४
पादेन हीयते धर्मस्त्रेतादिषु युगेषु वै ।
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । । ११५
कृतत्रेतादिषु त्वेषां वयो ह्रसति पादशः ।
वेदोक्तमायुराशीश्च मर्त्यानां कुरुनन्दन । । ११६
कर्मणां तु फलं तात फलत्यनुयुगं सदा ।
प्रभावश्च तथा लोके फलत्येव शरीरिणाम् । । ११७
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे ।
अन्ये कलियुगे नृणां युगधर्मानुरूपतः । । ११८
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे । । ११९
सर्वस्य राजन्सर्गस्य गुप्त्यर्थं च महाद्युते ।
मुखबाहूरुपादानां पृथक्कर्माण्यकल्पयत् । । 1.2.१२०
अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् । । १२१
प्रजानां पालनं राजन्दानमध्ययनं तथा ।
विषयेषु प्रसक्तिं च तथेज्यां क्षत्रियस्य तु । । १२२
पशूनां रक्षणं दानमिज्याध्ययनमेव च ।
वणिक्पथं १ कुसीदं च वैश्यस्य कृषिरेव च । । १२३
एकमेव तु शूद्रस्य कर्म लोके प्रकीर्तितम् ।
एतेषामेव वर्णानां शुश्रूषामनुपूर्वशः । । १२४
पुरुषस्य सदा श्रेष्ठं नाभेरूर्ध्वं नृपोत्तम ।
तस्मादपि शुचितरं मुखं तात स्वयम्भुवः । । १२५
तस्मान्मुखाद्द्विजो जात इतीयं वैदिकी श्रुतिः ।
सर्वस्यैवास्य धर्मस्य धर्मतो ब्राह्मणः प्रभुः । । १२६
स सृष्टो ब्रह्मणा पूर्वं तपस्तप्त्वा कुरूद्वह ।
हव्यानामिव कव्यानां सर्वस्यापि च गुप्तये । । १२७
अश्नन्ति च मुखेनास्य हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किम्भूतमधिकं ततः । । १२८
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । । १२९
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । । 1.2.१३०
जन्म विप्रस्य राजेन्द्र धमार्थमिह कथ्यते ।
उत्पन्नः सर्वसिद्धयर्थं४ याति ब्रह्मसदो नृप । । १३१
स चापि जायमानस्तु पृथिव्यामिह जायते ।
भूतानां प्रभवायैव धर्मकोशस्य गुप्तये । । १३२
सर्वं हि ब्राह्मणस्येदं यत्किञ्चित्पृथिवीगतम् ।
जन्मना चोत्तमेनेदं सर्वं वै ब्राह्मणोऽर्हति । । १३३
स्वकीयं ब्राह्मणो भुङ्क्ते विदधाति च सुव्रत ।
करुणां कुर्वतस्तस्य भुञ्जन्ती हेतरे जनाः । । १३४
त्रयाणामिह वर्णानां भावाभावाय वै द्विजः ।
भवेद्राजन्न सन्देहस्तुष्टो भावाय वै द्विजः । । १३५
अभावाय भवेत्क्रुद्धस्तस्मात्पूज्यतमो हि सः ।
ब्राह्मणे सति नान्यस्य प्रभुत्वं विद्यते नृप । .। १३६
कामात्करोत्यसौ कर्म कामगश्च नृपोत्तम ।
तस्माद्वृन्दारकपुरी तस्मादपि महः पुनः । । १३७
महर्लोकाज्जनोलोकं ब्रह्मलोकं च गच्छति ।
ब्रह्मत्वं च महाबाहो याति विप्रो न संशयः । । १३८
शतानीक उवाच
ब्रह्मत्वं नाम दुष्प्रापं ब्रह्मलोकेषु सुव्रत । । १३९
ब्रह्मत्वं कीदृशं विप्रो ब्रह्मलोकं च गच्छति ।
नाममात्रोऽथ किं विप्रो ब्रह्मत्वं ब्रह्मणः सदा । ।
याति ब्रह्मन्गुणाः के स्युर्ब्रह्मप्राप्तौ ममोच्यताम् । । 1.2.१४०
सुमन्तुरुवाच
साधुसाधु महाबाहो शृणु मे परमं वचः । । १४१
ये प्रोक्ता वेदशास्त्रेषु संस्कारा ब्राह्मणस्य तु ।
गर्भाधानादयो ये च १ संस्कारा यस्य पार्थिव । । १४२
चत्वारिंशतथाष्टौ च निर्वृत्ताः शास्त्रतो नृप ।
स याति ब्रह्मणः स्थानं ब्राह्मणत्वं च मानद १ ।।
संस्काराः सर्वथा हेतुर्ब्रह्मत्वे नात्र संशयः ।। १४३
शतानीक उवाच
संस्काराः के मता ब्रह्मन्ब्रह्मत्वे ब्राह्मणस्य तु ।
शंस मे द्विजशार्दूलं कौतुकं हि महन्मम ।। १४४
सुमन्तुरुवाच
साधुसाधु महाबाहो शृणु मे परमं वचः ।
ये प्रोक्ता वेदशास्त्रेषु संस्कारा ब्राह्मणस्य तु ।।
मनीषिभिर्महाबाहो शृणु सर्वानशेषतः ।। १४५
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
जातकर्मान्नाशनं च चूडोपनयनं २ नृप ।। १४६
ब्रह्मव्रतानि चत्वारि स्नानं च तदनन्तरम् ।
सधर्मचारिणीयोगो यज्ञानां ३ कर्म मानद ।। १४७
पञ्चानां कार्यमित्याहुरात्मनः श्रेयसे नृप ।
देवपितृमनुष्याणां भूतानां ब्राह्मणस्तथा ।। १४८
एतेषां चाष्टकाकर्म पार्वणश्राद्धमेव हि ।
श्रावणी चाग्रहायणी चैत्री चाश्वयुजी तथा ।। १४९
पाकयज्ञास्तथा सप्त अग्न्याधानं च सत्क्रिया ।
अग्निहोत्रं तथा राजन्दर्शं च विधुसञ्क्षये ।। 1.2.१५०
पौर्णमासं च राजेन्द्र चातुर्मास्यानि चापि हि ।
निरूपणं ५ पशुवधं तथा सौत्रामणीति च ।। १५१
हविर्यज्ञास्तथा सप्त तेषां चापि हि सत्क्रिया ।
अग्निष्टोमोऽत्यग्निष्टोमस्तथोक्थ्यः षोडशीं विदुः ।।१५२
वाजपेयोऽतिरात्रश्च आप्तोर्यामेति वै स्मृतः १ ।
संस्कारेषु स्थिताः सप्त सोमाः कुरुकुलोद्वह ।। १५३
इत्येते द्विजसंस्काराश्चत्वारिंशन्नृपोत्तम ।
अष्टौ चात्मगुणास्तात शृणु तानपि भारत ।। १५४
अनसूया दया क्षान्तिरनायासं च मङ्गलम् ।
अकार्पण्यं तथा शौचमस्पृहा च कुरूद्वह ।। १५५
य एतेऽष्टगुणास्तात कीर्त्यन्ते वै मनीषिभिः ।
एतेषां लक्षणं वीर शृणु सर्वमशेषतः ।। १५६
न गुणान्गुणिनो हन्ति न स्तौत्यात्मगुणानपि ।
प्रहष्यन्ते नान्यदोषैरनसूया प्रकीर्तिता ।। १५७
अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।
आत्मवद्वर्तनं यत्स्यात्सा दया परिकीर्तिता ।। १५८
वाचा मनसि काये च दुःखेनोत्पादितेन च ।
न कुप्यति न चाप्रीतिः सा क्षमा परिकीर्तिता ।। १५९
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः ।
आचारे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ।। 1.2.१६०
शरीरं पीड्यते येन शुभेनापि च कर्मणा ।
अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते ।। १६१
प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् ।
एतद्धि मङ्गलं प्रोक्तं मुनिभिर्ब्रह्मवादिभिः ।। १६२
स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना ।
अहन्यहनि यत्किंचिदकार्पण्यं तदुच्यते ।। १६३
यथोत्पन्नेन सन्तुष्टः स्वल्पेनाप्यथ वस्तुना ।
अहिंसया परस्वेषु ३ साऽस्पृहा परिकीर्तिता ।। १६४
वपुर्यस्य तु इत्येतैः संस्कारैः संस्कृतं द्विजः ।
ब्रह्मत्वमिह सम्प्राप्य ब्रह्मलोकं च गच्छति ।। १६५
वैदिकैः कर्मभिः पुण्यैर्निषेकाद्यैर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च । । १६६
गर्भशुद्धिं ततः प्राप्य धर्मं चाश्रमलक्षणम् ।
याति मुक्तिं न सन्देहः पुराणेऽस्मिन्नृपोत्तम । । १६७
उशन्ति कुरुशार्दूल ब्राह्मणा नात्र संशयः ।
१आश्रितानां विशेषेण ये नित्यं स्वस्तिवादिनः । । १६८
निकटस्थान्द्विजान्हित्वा योऽन्यान्पूजयति द्विजान् ।
सिद्धं पापं तदपमानात्तद्वक्तुं नैव शक्यते । । १६९
तस्मात्सदा समीपस्थः सम्पूज्यो विधिवन्नृप ।
पूजयेदतिथींस्तद्वदन्नपानादिदानतः । । 1.2.१७०
ब्राह्मणः सर्ववर्णानां ज्येष्ठः श्रेष्ठस्तथोत्तमः ।
एवमस्मिन्पुराणे तु संस्कारान्ब्राह्मणस्य तु । । १७१
शृणोति यश्च जानाति यश्चापि पठते सदा ।
ऋद्धिं वृद्धिं तथा कीर्तिं प्राप्येह श्रियमुत्तमाम् । । १७२
धनं धान्यं यशश्चापि पुत्रान्बन्धून्सुरूपताम् ।
सावित्रं लोकमासाद्य ब्रह्मलोकमवाप्नुयात् । । १७३
इति श्रीभविष्य महापुराणे शतार्द्धसाहस्र्यां संहितायां
ब्राह्मे पर्वणि द्वितीयोऽध्यायः । २ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 3
अथ तृतीयोऽध्यायः
गर्भाधानादारभ्य समासात्सर्वसंस्कारवर्णनमाचमनादिविधिवर्णनञ्च
शतानीक उवाच
जातकर्मादिसंस्कारान्वर्णानामनुपूर्वशः ।
आश्रमाणां च मे धर्मं कथयस्व द्विजोत्तम । । १
सुमन्तुरुवाच
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
जातकर्मान्नप्राशश्च चूडामौञ्जीनिबन्धनम् । । २
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ।
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया श्रुतैः । । ३
महायज्ञैश्च ब्राह्मीयं यज्ञैश्च क्रियते तनुः ।
शृणुष्वैकमना राजन्यथा सा क्रियते तनुः । । ४
प्राङ्नाभिकर्तनात्पुंसो जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् । । ५
नामधेयं दशम्यां तु केचिदिच्छन्ति पार्थिव ।
द्वादश्यामपरे राजन्मासि पूर्णे तथा परे । । ६
अष्टादशेऽहनि तथाऽन्ये वदन्ति मनीषिणः ।
पुण्ये तिथौ मुहूर्ते च नक्षत्रे च गुणान्विते । । ७
मङ्गल्यं तात विप्रस्य शिवशर्मेति पार्थिव ।
राजन्यस्य विशिष्टं १ तु इन्दुवर्मेति कथ्यते २ । ।। ८ ।।
वैश्यस्य धनसंयुक्तं शूद्रस्य च जुगुप्सितम् ।
धनवर्धनेति वैश्यस्य सर्वदासेति हीनजे । । ९
मनुना च तथा प्रोक्तं नाम्नो लक्षणमुत्तमम् ।
शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । । 1.3.१०
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ।
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थमनोरमम् । । ११
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ।
द्वादशेऽहनि राजेन्द्र शिशोर्निष्कमणं गृहात् । । १२
चतुर्थे मासि कर्त्तव्यं तथान्येषां मतं विभो ।
षष्ठेऽन्नप्राशनं मासि यथेष्टं मङ्गलं कुले । । १३
चूडाकर्म द्विजातीनां सर्वेषामनुपूर्वशः ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं कुरुनन्दन । । १४
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राजन्क्षत्रियस्य विनिर्दिशेत् । । १५
द्वादशेऽब्देऽपि गर्भात्तु वैश्यस्य व्रतमादिशेत् ।
ब्रह्मवर्चसकामेन कार्यं विप्रस्य पञ्चमे । । १६
बलार्थिना तथा राज्ञः षष्ठे ऽब्दे कार्यमेव हि ।
अर्थकामेन वैश्यस्य अष्टमे कुरुनन्दन । । १७
आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
द्वाविंशतेः क्षत्रबन्धोराचतुर्विंशतेर्विशः । । १८
अत ऊर्ध्वं तु ये राजन्यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते ३ क्रतोः । । १९
न चाप्येभिरपूतैस्तु आपद्यपि हि कर्हिचित् ।
ब्राह्मं यौनं च सम्बन्धमाचरेद्ब्राह्मणैः सह । । 1.3.२०
भवन्ति राजंश्चर्माणि व्रतिनां त्रिविधानि च ।
कार्ष्णरौरववास्तानि ब्रह्मक्षत्रविशां नृप । । २१
वशीरंश्चानुपूर्व्येण वस्त्राणि विविधानि तु ।
ब्रह्मक्षत्रविशो राजञ्छाणक्षौमादिकानि च । । २२
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य च मौर्वीज्या वैश्यस्य शणतान्तवी । । २३
मुञ्जालाभे तु कर्तव्या कुशाश्मन्तकबल्वजैः ।
त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव च । । २४
कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् । । २५
पुष्कराणि तथा चैषां भवन्ति त्रिविधानि तु ।
ब्रह्मणो बैल्वपालाशौ तृतीयं प्लक्षजं नृप । । २६
वाटखादिरौ क्षत्रियस्तु तथान्यं वेतसोद्भवम् ।
पैलवोदुम्बरौ वैश्यस्तथाश्वत्थजमेव हि । । २७
दण्डानेतान्महाबाहो धर्मतोऽर्हन्ति धारितुम् ।
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । । २८
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ।
ऋजवस्ते तू सर्वे स्युर्ब्राह्मणाः सौम्यदर्शनाः । । २९
अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः ।
प्रगृह्य चेप्सितं दण्डमुपस्थाय च भास्करम् । । 1.3.३०
सम्यग्गुरुं तथा पूज्य चरेद्भैक्ष्यं यथाविधि ।
भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजोत्तमः । । ३१
भवन्मध्यं तु राजन्यो वैश्यस्य भवदुत्तरम् ।
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । । ३२
भिक्षेत भैक्ष्यं प्रथमं या चैनं नावमानयेत् ।
सुवर्णं रजतं चान्नं सा पात्रेऽस्य विनिर्दिशेत् । । ३३
समाहृत्य ततो भैक्ष्यं यावदर्थममायया ।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः । । ३४
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं १ भुङ्क्ते उदङ्मुखः । । ३५
उपस्पृश्य द्विजो राजन्नन्नमद्यात्समाहितः ।
भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् । । ३६
तथान्नं पूजयेन्नित्यमद्याच्चैतदकुत्सयन् ।
दर्शनात्तस्य हष्येद्वै प्रसीदेच्चापि भारत। । ३७
अभिनन्द्य ततोऽश्नीयादित्येवं मनुरब्रवीत् ।
पूजितं त्वशनं नित्यं बलमोजश्च यच्छति। । ३८
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ६।
नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैतत्तथान्तरा । । ३९
यस्त्वन्नमन्तरा कृत्वा लोभादत्ति नृपोत्तम ।
विनाशं याति स नर इह लोके परत्र च । ।
यथाभवत्पुरा वैश्यो धनवर्द्धनसंज्ञितः । । 1.3.४०
शतानीक उवाच
स कथमन्तरं पूर्वमन्नस्य द्विजसत्तम ।
किमन्तरं तथान्नस्य कथं वा तत्कृतं भवेत् । । ४१
सुमन्तुरुवाच
पुरा कृतयुगे राजन्वैश्यो वसति पुष्करे ।
धनवर्धननामा वै समृद्धौ धनधान्यतः । । ४२
निदाघकाले राजेन्द्र स कृत्वा वैश्वदेविकम् ।
सपुत्रभ्रातृभिः सार्धं तथा वै मित्रबन्धुभिः । ।
आहारं कुरुते राजन्भक्ष्यभोज्यसमन्वितम् १ । । ४३
अथ तद्भुञ्जतस्तस्य २ अन्नं शब्दो महानभूत् ।
करुणः कुरुशार्दूल अथ तं स प्रधावितः । । ४४
त्यक्त्वा स भोजनं यावन्निष्क्रान्तो गृहबाह्यतः ।
अथ शब्दस्तिरोभूतः स भूयो गृहमागतः । । ४५
तमेव भाजनं गृह्य ३ आहारं कृतवान्नृप ।
भुक्तशेषं महाबाहो आहारं स तु भुक्तवान् । । ४६
भुक्त्वा स शतधा जातस्तस्मिन्नेव क्षणे नृप ।
तस्मादन्नं न राजेन्द्र अश्नीयादन्तरा क्वचित् । । ४७
न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्वचिद्व्रजेत् ।
रसो भवत्यत्यशनाद्रसाद्रोगः प्रवर्तते । । ४८
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।
न भवन्ति रसे जाते नराणां भरतर्षभ । । ४९
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् । । 1.3.५०
यक्षभूतपिशाचानां रक्षसां च नृपोत्तम ।
४गम्यो भवति वै विप्र उच्छिष्टो नात्र संशयः । । ५१
शुचित्वमाश्रयेत्तस्माच्छुचित्वान्मोदते दिति? ।
सुखेन चेह रमते इतीयं वैदिकी श्रुतिः । । ५२
शतानीक उवाच
शुचितामियात्कथं विप्रः कथं चाशुचितामियात् ।
एतन्मे इहि विप्रेन्द्र कौतुकं परमं मम । । ५३
सुमन्तुरुवाच
उपस्पृश्य शुचिर्विप्रो भवते भरतर्षभ ।
विधिवत्कुरुशार्दूल भवेद्विधिपरो ह्यतः । । ५४
शतानीक उवाच
उपस्पर्शविधिं विप्र कथय त्वं ममाखिलम् ।
शुचित्वमाप्नुयाद्येन आचान्तो ब्राह्मणो द्विजः । । ५५
सुमन्तुरुवाच
साधु पृष्टोऽस्मि राजेन्द्र शृणु विप्रो यथा भवेत् ।
शुचिर्भरतशार्दूल विधिना येन वा विभो । । ५६
प्रक्षाल्य हस्तौ पादौ च प्राङ्मुखोदङ्मुखोऽपि वा ।
उपविश्य शुचौ देशे बाहुं कृत्वा च दक्षिणम् । । ५७
जान्वन्तरे महाबाहो ब्रह्मसूत्रसमन्वितः १ ।
सुसमौ चरणौ कृत्वा तथा बद्धशिखो नृप । । ५८
न तिष्ठन्न च संजल्पंस्तथा चानवलोकयन् ।
न त्वरन्कुपितो वापि त्यक्त्वा राजन्सुदूरतः । । ५९
प्रसन्नाभिस्तथाद्भिस्तु आचान्तः शुचितामियात् ।
नोष्णाभिर्न सफेनाभिर्युक्ताभिः कलुषेण च । । 1.3.६०
वर्णेन रसगन्धाभ्यां हीनाभिर्न च भारत ।
सबुद्बुदाभिश्च तथा नाचामेत्पण्डितो नृप । । ६१
पञ्चतीर्थानि विप्रस्य श्रूयन्ते दक्षिणे करे ।
देवतीर्थं पितृतीर्थं ब्रह्मतीर्थं च मानद । । ६२
प्राजापत्यं तथा चान्यत्तथान्यत्सौम्यमुच्यते ।
अङ्गुष्ठमूलोत्तरतो येयं रेखा महीपते । । ६३
ब्राह्मं तीर्थं वदन्त्येतद्वसिष्ठाद्या द्विजोत्तमाः ।
कायं कनिष्ठिकामूले अङ्गुल्यग्रे तु दैवतम् । । ६४
तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् ।
करमध्ये स्थितं सौम्यं प्रशस्तं देवकर्मणि । । ६५
देवार्चाबलिहरणं प्रविक्षपणमेव च ।
एतानि देवतीर्थेन कुर्यात्कुरुकुलोद्वह । । ६६
अन्ननिर्वपणं राजंस्तथा सपवनं १ नृप ।
लाजाहोमं तथा सौम्यं प्राजापत्येन कारयेत् । । ६७
कमण्डलूपस्पर्शनं दधिप्राशनमेव च ।
सौम्यतीर्थेन राजेन्द्र सदा कुर्याद्विचक्षणः । । ६८
पितॄणां तर्पणं कार्यं पितृतीर्थेन धीमता ।
ब्राह्मेण चापि तीर्थेन सदोषस्पर्शनं परम् । । ६९
२घनाङ्गुलिकरं कृत्वा एकाग्रः सुमना द्विजः ।
त्रिः कृत्वा यः पिबेदापो मुखशब्दविवर्जितः । । 1.3.७०
शृणु यत्फलमाप्नोति प्रीणाति च यथा सुरान् ।
प्रथमं यत्पिबेदाप ऋग्वेदस्तेन तृप्यति । । ७१
यद्द्वितीयं यजुर्वेदस्तेन प्रीणाति भारत ।
यत्तृतीयं सामवेदस्तेन प्रीणाति भारत । । ७२
प्रथमं यन्मृजेदास्यं दक्षिणाङ्गुष्ठमूलतः ।
अथर्ववेदः प्रीणाति तेन राजन्नसंशयः । । ७३
इतिहासपुराणानि यद्द्वितीयं प्रमार्जति ।
यन्मूर्धानं हि राजेन्द्र अभिषिञ्चति वै द्विजः । । ७४
तेन प्रीणाति वै रुद्रं शिखामालभ्य वै ऋषीन् ।
यदक्षिणी चालभते रविः प्रीणाति तेन वै । । ७५
नासिकालम्भनाद्वायुं प्रीणात्येव न संशयः ।
यच्छ्रोत्रमालभेद्विप्रो दिशः प्रीणाति तेन वै । । ७६
यमं कुबेरं वरुणं वासवं चाग्निमेव च ।
यद्बाहुमन्वालभते एतान्प्रीणाति तेन १ वै । । ७७
यन्नाभिमन्वालभते प्राणानां ग्रन्थिमेव च ।
तेन प्रीणाति राजेन्द्र इतीयं वैदिकी श्रुतिः । । ७८
अभिषिञ्चति यत्पादौ विष्णुं प्रीणाति तेन वै ।
यद्भूम्याच्छादकं वारि विसर्जयति मानद । । ७९
वासुकिप्रमुखान्नागांस्तेन प्रीणाति भारत ।
यद्बिन्दवोऽन्तरे भूमौ पतन्तीह नराधिप । । 1.3.८०
भूतग्रामं ततस्तस्तु प्रीणन्तीह चतुर्विधम् ।
अङ्गुष्ठेन प्रदेशिन्या लभेत चाक्षिणी नृप । । ८१
अनामिकाङ्गुष्ठिकाभ्यां नासिकामालभेन्नृप ।
मध्यमाङ्गुष्ठाभ्यां मुखं संस्पृशेद्भरतर्षभ । । ८२
कनिष्ठिकाङ्गुष्ठकाभ्यां कर्णमालभते नृप ।
अङ्गुलीभिस्तथा बाहुमङ्गुष्ठेन तु मङ्गलम् । । ८३
thumb|300px|अङ्गुलयः
thumb|300px|पुराणेषु अङ्गुलिविन्यासः
thumb|300px|सामवेदे अङ्गुलिविन्यासः
नाभिं कुरुकुलश्रेष्ठ शिरः सर्वाभिरेव च ।
अङ्गुष्ठोग्निर्महाबाहो प्रोक्तो वायुः प्रदेशिनी । । ८४
अनामिका तथा सूर्यः कनिष्ठा माघवा विभो ।
प्रजापतिर्मध्यमा ज्ञेया तस्माद्भरतसत्तम । । ८५
एवमाचम्य विप्रस्तु प्रीणाति सततं जगत् ।
सर्वाश्च देवतास्तात लोकांश्चापि न संशयः । । ८६
तस्मात्पूज्यः सदा विप्रः सर्वदेवमयो हि सः ।
ब्राह्मेण विप्रतीर्थेन नित्यकालमुपस्पृशेत् । । ८७
कायत्रैदेशिकाभ्यां वा न पित्र्येण कदाचन ।
हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । । ८८
वैश्योद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ।
उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधः । । ८९
सव्येन प्राचीनावीती निवीती कण्ठसंज्ञिते ।
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । । 1.3.९०
अस्तु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवित् ।
उपवीत्याचमेन्नित्यमन्तर्जानु महीपते । । ९१
एवं तु विप्रो ह्याचान्तः शुचितां याति भारत ।
यास्त्वेताः करमध्ये तु रेखा विप्रस्य भारत । । ९२
गङ्गाद्याः सरितः सर्वा ज्ञेया भारतसत्तम ।
यान्यङ्गुलिषु पर्वाणि गिरयस्तानि विद्धि वै । । ९३
सर्वदेवमयो राजन्करो विप्रस्य दक्षिणः ।
हस्तोपस्पर्शनविधिस्तवाख्यातो महीपते । । ९४
एषु सर्वेषु लोकेषु येनाचान्तो दिवं व्रजेत् । । ९५
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां
ब्राह्मे पर्वण्युपस्पर्शनविधिवर्णनं नाम तृतीयोऽध्यायः । ३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 4
प्रणवार्थसावित्रीमाहात्म्योपनयनविधिवर्णनञ्च
सुमन्तुरुवाच
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य त्र्यधिके ततः । । १
अमन्त्रिका सदा कार्या स्त्रीणां चूडा महीपते ।
संस्कारहेतोः कायस्य यथाकालं विभागशः । । २
वैवाहिको विधिः स्त्रीणां संस्कारो नैगमः स्मृतः ।
निवसेद्वा गुरोर्वापि गृहे वाग्निपरिक्रिया । । ३
एष ते कथितो राजन्नौपनायनिको विधिः ।
द्विजातीनां महाबाहो उत्पत्तिव्यञ्जकः परः । । ४
कर्मयोगमिदानीं ते कथयामि महाबल ।
उपनीय गुरुः शिष्यं प्रथमं शौचमादिशेत् । । ५
आचारमग्निकार्यं च सन्ध्योपासनमेव च ।
अध्यापयेत्तु सच्छिष्यान्सदाचान्त उदङ्मुखः । । ६
ब्रह्माञ्जलिकरो नित्यमध्याप्यो विजितेन्द्रियः ।
लघुवासास्तथैकाग्रः सुमना सुप्रतिष्ठितः । । ७
ब्रह्मारम्भेऽवसाने च पादौ पूज्यौ गुरोः सदा ।
संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः । । ८
व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः । । ९
अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति वारयेत् । । 1.4.१०
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते । । ११
श्रूयतां चापि राजेन्द्र यथोङ्कारं द्विजोऽर्हति ।
प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः । । १२
प्राणायामैस्त्रिभिः पूतस्ततस्त्वोङ्कारमर्हति ।
ॐकारलक्षणं चापि शृणुष्व कुरुनन्दन । । १३
अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयात्तु निर्गृह्य भूर्भुवः स्वरितीति च । । १४
त्रिभ्य एव तु वेदेभ्यः पादंपादमदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः । । १५
एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् ।
सन्ध्ययोरुभयोर्विप्रो वेद पुण्येन युज्यते । । १६
सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः ।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते । । १७
एतयर्चा विसंयुक्तः काले च क्रियया स्वया ।
विप्रक्षत्रियविड्योनिर्गर्हणां याति साधुषु । । १८
शृणुष्वैकमना राजन्परमं ब्रह्मणो मुखम् ।
ॐकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । । १९
त्रिपदा चैव सावित्री विज्ञेया ब्रह्मणो मुखम् ।
योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । । 1.4.२०
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ।
एकाक्षरं परं ब्रह्म प्राणायामः परन्तप । । २१
सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ।
तपः किया होमक्रिया तथा दानक्रिया नृप । । २२
अक्षयान्ताः सदा राजन्यथाह भगवान्मनुः ।
अवरं स्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः । । २३
विधियज्ञात्सदा राजञ्जपयज्ञो विशिष्यते ।
नानाविधैर्गुणोद्देशैः सूक्ष्माख्यातैर्नृपोत्तम । । २४
पांशुः स्याल्लक्षगुणः सहस्रो मानसः स्मृतः ।
ये पाकयज्ञाश्चत्वारो विधियज्ञेन चान्विताः । । २५
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ।
जपादेव तु संसिध्येद्द्ब्राह्मणो नात्र संशयः । । २६
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ।
पूर्वां सन्ध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् । । २७
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ।
दिनस्यादौ भवेत्पूर्वा शर्वर्यादौ तथा परा । । २८
सनक्षत्रा परा ज्ञेया अपरा सदिवाकरा ।
जपंस्तिष्ठन्परां सन्ध्यां नैशमेनो व्यपोहति । । २९
अपरां तु समासीनो मलं हन्ति दिवाकृतम् ।
नोपतिष्ठति यः पूर्वां नोपास्ते पश्चिमां नृप । । 1.4.३०
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ।
अपां समीपे नियतो नैत्यकं विधिमास्थितः । । ३१
सावित्रीमप्यधीयीत गत्याऽरण्यं समाहितः ।
वेदोपकरणे राजन्स्वाध्याये चैव नैत्यके । । ३२
नात्र दोषोस्त्यनध्याये होममन्त्रेषु वा विभो ।
नैत्यके नास्त्वनध्यायो ब्रह्मसत्रं हि तत्कृतम् । । ३३
ब्रह्माहुतिहुतं पुष्यमनध्यायवषट्कृतम् ।
ऋगेकां यस्त्वधीयीत विधिना नियतो द्विजः । । ३४
तस्य नित्यं क्षरत्येषा पयो मेध्यं घृतं मधु ।
अग्निशुश्रूषणं भैक्षमधः शय्यां गुरोर्हितम् । । ३५
आसमावर्तनात्कुर्यात्कृतोपनयनो द्विजः ।
आचार्यपुत्रशुश्रूषां ज्ञानदो धार्मिकः शुचिः । । ३६
आप्तः शक्तोन्नदः साधुः स्वाध्याप्या दश धर्मतः ।
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः । । ३७
जानन्नपि हि मेधावी जडवल्लोक आचरेत् ।
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । । ३८
तयोरन्यतरः प्रैति विद्वेषं वा निगच्छति ।
धर्मार्थौ यत्र न स्यातां शुश्रूषा चापि तद्विधा । ।
न तत्र विद्या वप्तव्या शुभं बीजमिवोषरे । । ३९
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।
आपद्यपि हि घोरायां न त्वेनामीरिणे वपेत् । ।1.4.४ ०
विद्या ब्राह्मणमित्याह शेवधिस्तेऽस्मि रक्ष माम् ।
असूयकाय मा प्रादास्तथा स्यां वीर्यवत्तमा । ।४ १
शेवं सुखमुशन्तीह केचिज्ज्ञानं प्रचक्षते ।
तौ धारयति वै यस्माच्छेवधिस्तेन सोच्यते । ।४२
यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम् ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने । ।४ ३
ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् । । ४४
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च ।
स याति नरकं घोरं रौरवं भीमदर्शनम् । । ४५
अणुमात्रात्मकं देहं षोडशार्धमिति स्मृतम् ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् । । ४६
सावित्रीसारमात्रोऽपि वरो विप्रः सुयन्त्रितः ।
नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी । । ४७
शय्यासनेध्याचरिते श्रेयसा न समाविशेत् ।
शय्यासनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् । । ४८
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आगते ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते । । ४९
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि सम्यग्वर्धन्ते आयुः प्रज्ञा यशो बलम् । । 1.4.५०
अभिवादपरो विप्रो ज्यायांसमभिवादयेत् ।
असौ नामाहमस्मीति स्वनाम परिकीर्तयेत् । । ५१
नामधेयस्य ये केचिदभिवादं न जानते ।
तान्प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च । । ५२
भोः शब्दं कीर्तयेदन्ते स्वस्य नाम्नोभिवादने ।
नाम्नः स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः । । ५३
आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः । । ५४
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः । । ५५
अभिवादे कृते यस्तु न करोत्यभिवादनम् ।
आशीर्वा कुरुशार्दूल स याति नरकं ध्रुवम् । । ५६
अभीति भगवान्विष्णुार्वादयामीति शङ्करः ।
द्वावेव पूजितौ तेन यः करोत्यभिवादनम् । । ५७
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु । । ५८
न वाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भो भवत्पूर्वकत्वेन इति स्वायम्भुवोऽब्रवीत् । ५९
परपत्नी तु या राजन्नसम्बद्धा तु योनितः ।
वक्तव्या भवतीत्येवं सुभगे भगनीति च । । 1.4.६०
पितृव्यान्मातुलान्राजञ्छ्वशुरानृत्विजो गुरून् ।
असावहमिति ब्रूयात्प्रत्युत्थाय जघन्यजः । । ६१
मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा ।
सम्पूज्या गुरुपत्नी च समास्ता गुरुभार्यया । । ६२
ज्येष्ठस्य भ्रातुर्या भार्या सवर्णाहन्यहन्यपि ।
२पूजयन्प्रयतो विप्रो याति विष्णुसदो नृप । । ६३
प्रवासादेत्य सम्पूज्या ज्ञातिसम्बन्धियोषितः ।
पितुर्या भगिनी राजन्मातुश्चापि विशाम्पते । । ६४
आत्मनो भगिनी या च ज्येष्ठा कुरुकुलोद्वह ।
सदा स्वमातृवद्धृत्तिमातिष्ठेद्भारतोत्तम । । ६५
गरीयसी ततस्ताभ्यो माता ज्ञेया नराधिप ।
पुत्रमित्रभागिनेया द्रष्टव्या ह्यात्मना समाः । । ६६
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
अब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु । । ६७
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता । । ६८
इत्येवं क्षत्रियपिता वैश्यस्यापि पितामहः ।
प्रपितामहश्च शूद्रस्य प्रोक्तो विप्रो मनीषिभिः । । ६९
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् । । 1.4.७०
पञ्चानां त्रिषु वर्गेषु भूयांसि गुणवन्ति च ।
यस्य स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः । । ७१
चक्रिणो दशमीस्थस्य रोगिणो भारिणः १ स्त्रियाः ।
स्नातकस्य तु राज्ञश्च पन्था देयो वरस्य च । । ७२
एषां समागमे तात पूज्यौ स्नातकपार्थिवौ ।
आभ्यां समागमे राजन्स्नातको नृपमानभाक् । । ७३
अध्यापयेद्यस्तु शिष्यं कृत्वोपनयनं द्विजः ।
सरहस्यं सकल्पं च वेदं भरतसत्तम । ।
तमाचार्यं महाबाहो प्रवदन्ति मनीषिणः । । ७४
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते । । ७५
निषेकादीनि कार्याणि यः करोति नृपोत्तम ।
अध्यापयति चान्येन स विप्रो गुरुरुच्यते । । ७६
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते । । ७७
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कथञ्चन १ । । ७८
उपाध्यायान्दशाचार्यं आचार्याणां शतं पिता ।
सहस्रेण पितुर्माता गौरवेणातिरिच्यते । । ७९
उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् । । 1.4.८०
कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
सम्भूतिं तस्य तां विद्याद्यद्योनावभिजायते । । ८१
आचार्यस्तस्य तां जातिं विधिद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साऽजरामरा । । ८२
उपाध्यायमादितः कृत्वा ये पूज्याः कथितास्तव ।
महागुरुर्महाबाहो सर्वेषामधिकः स्मृतः । । ८३
सहस्रशतसंख्योऽसावाचार्याणामिदं मतम् ।
चतुर्णामपि वर्णानां स महागुरुरुच्यते । । ८४
शतानीक उवाच
य एते भवता प्रोक्ता उपाध्यायमुखा द्विजाः ।
विदिता एव मे सर्वे न महागुरुरेव हि । । ८५
सुमन्तुरुवाच
जयोपजीवी यो विप्रः स महागुरुरुच्यते ।
अष्टादशपुराणानि रामस्य चरितं तथा । । ८६
विष्णुधर्मादयो धर्माः शिवधर्माश्च भारत ।
कार्ष्णं वेदं पञ्चमं तु यन्महाभारतं स्मृतम् । । ८७
श्रौता १ धर्माश्च राजेन्द्र नारदोक्ता महीपते ।
जयेति नाम एतेषां प्रवदन्ति मनीषिणः । । ८८
एवं विप्रकदम्बस्य धारकः२ प्रवरः स्मृतः ।
यस्त्वेतानि समस्तानि पुराणानीह विन्दति । । ८९
भारतं च महाबाहो स सर्वज्ञो मतो नृणाम् ।
तस्मात्स पूज्यो राजेन्द्र वर्णैर्विप्रादिभिः सदा । । 1.4.९०
किं त्वया न श्रुतं वाक्यं यदाह भगवान्विभुः ।
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । ।
तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया३ । । ९१
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ४ । । ९२
अध्यापयामास पितॄञ्छिशुराङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य ताम् । । ९३
ते तमर्थमपृच्छन्त देवानागतमन्यवः ।
देवाश्चैतान्समेत्योचुर्न्याय्यं वै शिशुरुक्तवान् । । ९४
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् । । ९५
पितामहेति जयदमित्यूचुस्ते दिवौकसः ।
जयो मन्त्रास्तथा वेदा देहमेकं त्रिधा कृतम् । । ९६
नहायनैर्न पलितैर्न मित्रेण न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् । । ९७
ब्राह्मणक्षत्रियविशां शूद्राणां च विशांपते ।
ज्येष्ठं वन्दन्ति राजेन्द्र सन्देहं शृणु वै यथा । । ९८
ज्ञानतो वीर्यतो राजन्धनतो जन्मतस्तथा ।
शीलतस्तु प्रधाना ये ते प्रधाना मता मम । । ९९
न तेन स्थविरो भवति येनास्य पलितं शिरः ।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः । । 1.4.१००
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
यश्च विप्रोऽनधीयानस्त्रयस्ते नाम १ बिभ्रति । । १०१
यथा योषाऽफला स्त्रीषु यथा गौर्गवि चाफला ।
यथा चाज्ञेऽफलं दानं यथा विप्रोऽनृचोऽफलः । । १०२
वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः ।
सर्वे तु वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः । । १०३
नानृग्ब्राह्मणो भवति न वणिङ्न कुशीलवः ।
न शूद्रः प्रेषणं कुर्वन्नस्तेनो न चिकित्सकः । । १०४
अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः । । १०५
सन्तुष्टो यत्र वै विप्रः साग्निकः कुरुनन्दन ।
याति साफल्यतां वेदैर्देवैरेवं हि भाषितम् । । १०६
वेदैरुक्तं यथा वीर सुरज्येष्ठमुपेत्य वै ।
वेपन्ते ब्राह्मणा भूमावभ्यस्यन्ति ह्यनग्निकाः । ।
क्लिश्यन्ते ते किमर्थं हि मूढा वै फलकाम्यया । । १०७
अनुष्ठानविहीनानामस्मानभ्यसतां भुवि ।
क्लेशो हि केवलं देव नास्मदभ्यसने फलम् । । १०८
अनुष्ठानं परं देवमस्मत्स्वभ्यसनात्सदा ।
इत्येवं राजशार्दूल वेदा ऊचुर्हि वेधसम् । ।
तस्माच्च वेदाभ्यसनादनुष्ठानं परं मतम् । । १०९
चत्वारो वा त्रयो वापि यद्ब्रूयुर्वेदपारगाः ।
स धर्म इति विज्ञेयो नेतरेषां सहस्रशः । । 1.4.११०
यद्वदन्ति तमोमूढा मूर्खा धर्ममजानतः १ ।
तत्पापं शतधा भूत्वा वक्तॄनेवानुगच्छति । । १११
शौचहीने व्रतभ्रष्टे विप्रे वेदविवर्जिते ।
दीयमानं रुदत्यन्नं कि मया दुष्कृतं कृतम् । । ११२
जपोपजीविने दत्तं यदात्मानं प्रपश्यति ।
नृत्यति स्म तदा राजन्करावुद्धृत्य भारत । । ११३
विद्यातपोभ्यां सम्पन्ने ब्राह्मणे गृहमागते ।
क्रीडन्त्यौषधयः सर्वा यास्यामः परमां गतिम् । । ११४
१अव्रतानाममन्त्राणामजपानां च भारत ।
प्रतिग्रहो न दातव्यो न शिला तारयेच्छिलाम् । । ११५
श्रोत्रियायैव देयानि हव्यकव्यानि नित्यशः ।
अश्रोत्रियाय दत्तानि न पितॄन्नापि २ देवताः । । ११६
यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः ।
बहुश्रुताय दातव्यं नास्ति मूर्खव्यतिक्रमः । । ११७
ब्राह्मणातिक्रमो नास्ति मूर्खे जपविवर्जिते ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते । । ११८
न चैतदेव मन्यन्ते .पितरो देवतास्तथा ।
सगुणं निर्गुणं वापि ब्राह्मणं दैवतं परम् । । ११९
नातिक्रमेद्गृहासीनं ब्राह्मणं विप्रकर्मणि ३ ।
अतिक्रमन्महाबाहो रौरवं याति भारत । । 1.4.१२०
गायत्रीमात्रसारोऽपि ब्राह्मणः पूज्यतां गतः ।
गृहासन्नो विशेषेण न भवेत्पतितस्तु सः । । १२१
धान्यशून्यो यथा ग्रामो यथा कूपश्च निर्जलः ।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः । । १२२
यस्त्वेकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः ।
वेदेषु दृष्टमृषिभिश्च गीतं तां ब्रह्महत्यां मुनयो वदन्ति । । १२३
अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् ।
वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममीप्सता । । १२४
यस्य वाङ्मनसी शुद्धे सत्यगुप्ते च भारत ।
स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् । । १२५
नारुन्तुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।
ययास्यो द्विजते लोको न तां वाचमुदीरयेत् । । १२६
यत्करोति शुभं वाचा १ प्रोच्यमाना मनीषिभिः ।
श्रूयतां कुरुशार्दूल सदा चापि तथोच्यताम् । । १२७
न तथा शशी न सलिलं न चन्दनरसो न शीतलच्छाया ।
प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी । । १२८
अर्हणाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकांक्षेदपमानस्य सर्वदा । । १२९
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोकेस्मिन्नवमन्ता विनश्यति । । 1.4.१३०
अनेन विधिना राजन्संस्कृतात्मा द्विजः शनैः ।
गुरौ वसन्सेचिनुयाद्ब्रह्माधिगमिदं तपः । । १३१
तपोविशेषैर्विविधैर्व्रतैश्च विविधोदितैः ।
वेदः कृत्स्नोधिगन्तव्यः सरहस्यो द्विजन्मना । । १३२
वेदमेवाभ्यसेन्नित्यं तपस्तप्यं द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते । । १३३
आहैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः सुप्तोऽपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् । । १३४
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः । । १३५
न यस्य वेदो न जपो न विद्याश्च विशाम्पते ।
स शूद्र एव मन्तव्य इत्याह भगवान्विभुः । । १३६
मातुरग्रे च जननं द्वितीयो मौञ्जिबन्धनम् ।
तृतीयो यज्ञदीक्षायां द्विजस्य विधिरीरितः । । १३७
तत्र यद्ब्रह्म जन्मास्य मौञ्जीबन्धनचिह्नितम् । । १३८
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ।
वेदप्रदानात्त्वाचार्यं पितरं मनुरब्रवीत् । । १३९
न ह्यस्य विद्यते कर्म किञ्चिदामौञ्जिबन्धनात् ।
नाभिव्याहारयेद्ब्रहम स्वधानिनयनादृते १ । । 1.4.१४०
शूद्रेण तु समं तावद्यावद्वेदे न जायते ।
कृतोपनयनस्यास्य व्रतादेशनमिष्यते । ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् । । १४१
यत्सूत्रं चापि यच्चर्म या या चास्य च मेखला ।
वसनं चापि यो दण्डस्तद्वै तस्य व्रतेष्वपि । । १४२
सेवेतेमांस्तु नियमान्ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः । । १४३
वृन्दारकर्षिपितॄणां कुर्यात्तर्पणमेव हि ।
नराणां च महाबाहो नित्यं स्नात्वा प्रयत्नतः । । १४४
पुष्पं तोयं फलं चापि समिदाधानमेव ३ च ।
नानाविधानि काष्ठानि मृत्तिकां च तथा कुशान् । । १४५
वर्जयेन्मधु मांसं च गन्धमाल्यरथान्स्त्रियः ।
शुक्लानि चैव सर्वाणि प्राणिनां १ चैव हिंसनम् । । १४६
अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् ।
संकल्पं कामजं क्रोधं लोभं गीतं च वादनम् । । १४७
नर्तनं च तथा द्यूतं जनवादं तथानृतम् ।
परिवादं चापि विभो दूरतः परिवर्जयेत् । । १४८
स्त्रीणां च प्रेक्षणालम्बो रपवीतं२ परस्य च ।
पुंश्चलीभिस्तथा सङ्गं न कुर्यात्कुरुनन्दन । । १४९
एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्वचित् ।
कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमेव तु । । 1.4.१५०
सुप्तः क्षरन्ब्रह्मचारी द्विजः शुक्रमकामतः ।
स्नात्वार्कमर्चयित्वा तु पुनर्मामित्यृचं जपेत् । । १५१
मनोरपि तथा चात्र श्रूयते परमं वचः ।
उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् । ।
आहरेद्यावदर्थान्हि भैक्षं चापि हि नित्यशः । । १५२
गृहेषु येषां कर्तव्यं ताञ्छृणुष्व नृपोत्तम ।
स्वकर्मसु रता ये वै तथा वेदेषु ये रताः । ।
यज्ञेषु चापि राजेन्द्र ये च श्रद्धासमाश्रिताः । । १५३
ब्रह्मचार्या हरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ।
गुरोः कुले न भिक्षेत् स्वज्ञातिकुलबन्धुषु । । १५४
अलाभे त्वन्यगोत्राणां पूर्वं पूर्वं विवर्जयेत् ।
सर्वं चापि चरेद्ग्रामं पूर्वोक्तानामसम्भवे । ।
अन्त्यवर्जं महाबाहो इत्याह भगवान्विभुः । । १५५
वाचं नियम्य प्रयतस्त्वग्निं शस्त्रं च वर्जयेत् ।
चातुर्वर्ण्यं चरेद्भैक्षमलाभे कुरुनन्दन । । १५६
आरादाहृत्य समिधः. सन्निदध्याद् गृहोपरि ।
सायंप्रातस्तु जुहुयात्ताभिरग्निमतन्द्रितः । । १५७
भैक्षाचरणमकृत्वा न तमग्निं समिध्य वै ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् । । १५८
वर्तनं चास्य भैक्षेण प्रवदन्ति मनीषिणः ।
तस्माद्भैक्षेण वै नित्यं नैकान्नादी भवेद्यती । । १५९
भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ।
दैवत्ये व्रतवद्राजन्पित्र्ये कर्मण्यथर्षिवत् । ।
काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते । । 1.4.१६०
ब्राह्मणस्य महाबाहो कर्म यत्समुदाहृतम् ।
राजन्यवैश्ययोर्नैतत्पण्डितैः कुरुनन्दन । । १६१
चोदितोऽचोदितो १ वापि गुरुणा नित्यमेव हि ।
कुर्यादध्ययने योगमाचार्यस्य हितेषु च । । १६२
बुद्धीन्द्रियाणि मनसा शरीरं वाचमेव हि ।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् । । १६३
नित्यमुद्धृतपाणिः स्यात्साध्वाचारस्तु संयतः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः । । १६४
वस्त्रवेषैस्तथान्नैस्तु हीनः स्याद्गुरुसन्निधौ ।
उत्तिष्ठेत्प्रथमं चास्य जघन्यं चापि संविशेत् । । १६५
प्रतिश्रवणसम्भाषे तल्पस्थो न समाचरेत् ।
न चासीनो न भुञ्जानो न तिष्ठन्न पराङ्मुखः । । १६६
आसीनस्य स्थितः कुर्यादभिगच्छंश्च तिष्ठतः ।
प्रत्युद्गन्ता तु व्रजतः पश्चाद्धावंश्च धावतः । । १६७
पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ।
नमस्कृत्य शयानस्य निदेशे तिष्ठेत्सर्वदा । । १६८
नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।
गुरोश्च चक्षुर्विषये न यथेष्टासनो भवेत् । । १६९
नामोच्चारणमेवास्य परोक्षमपि सुव्रत ।
न चैनमनुकुर्वीत गतिभाषणचेष्टितैः । । 1.4.१७०
परीवादस्तथा निन्दा गुरोर्यत्र प्रवर्तते ।
कर्णौ तत्र पिधातव्यो गन्तव्यं वा ततोऽन्यतः । । १७१
परीवादाद्रासभः स्यात्सारमेयस्तु निन्दकः ।
परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी । । १७२
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
यानासनगतो राजन्नवरुह्याभिवादयेत् । । १७३
प्रतिकूले समाने तु नासीत गुरुणा सह ।
अशृण्वंति गुरौ राजन्न किञ्चिदपि कीर्तयेत् । । १७४
गोश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलक नौषु च ।। १७५
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।
गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ।। १७६
बालः समानजन्मा वा विशिष्टो यज्ञकर्मणि ।
अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ।। १७७
उत्सादनमथाङ्गानां स्नापनोच्छिष्टभोजने ।
पादयोर्नेजन राजन्गुरुपुत्रेषु वर्जयेत् ।। १७८
गुरुवत्प्रतिपूज्यास्तु सवर्णा गुरुयोषितः ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ।। १७९
अभ्यञ्जनं स स्नपनं गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ।। 1.4.१८०
गुरुपत्नीं तु युवतीं नाभिवादेत पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ।। १८१
स्वभाव एव नारीणां नराणामिह दूषणम् ।
अतोर्थान्न प्रमाद्यन्ति प्रतिपाद्य विपश्चितः ।। १८२
अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ।। १८३
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ।। १८४
राजेन्द्र गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ।। १८५
विप्रोऽस्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ।। १८६
यथा खनन्खनित्रेण जलमाप्नोति मानवः ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।। १८७
मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखी जटी ।
नैनं ग्रामेऽभिनिम्लोचेदर्को नाभ्युदियात्क्वचित् ।। १८८
तं चेदभ्युदियात्सूर्यः शयानं कामकारतः ।
निम्लोचेद्वाप्यभिज्ञानाज्जपन्नुपवसेद्दिनम् ।। १८९
सूर्येण ह्यभिनिर्मुक्तः शयानोभ्युदितश्च यः ।
प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा ।। 1.4.१९०
उपस्पृश्य महाराज उभे सन्ध्ये समाहितः ।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ।। १९१
यदि स्त्री यद्यवरजः श्रेयः किञ्चित्समाचरेत् ।
तत्सर्वमाचरेद्युक्तो यत्र वा रमते मनः ।। १९२
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्ममेव च ।
अर्थ एवेह वा श्रेयस्त्रिवर्ग इति संस्थितिः ।। १९३
पिता माता तथा भ्राता आचार्याः कुरुनन्दन ।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ।। १९४
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माताप्यथादितेर्मूर्तिर्भ्राता स्यान्मूर्तिरात्मनः ।। १९५
यन्माता पितरौ क्लेशं सहेते सम्भवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि । । १९६
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च भारत ।
तेषु हि त्रिषु तुष्टेषु तपः सर्वं समाप्यते । । १९७
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् । । १९८
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः १ ।
त एव च त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः । । १९९
माता वै गार्हपत्याग्निः पिता वै दक्षिणः स्मृतः ।
गुरुराहवनीयश्च साग्नित्रेता गरीयसी । । 1.4.२००
त्रिषु तुष्टेषु चैतेषु त्रींल्लोकाञ्जयते गृही ।
दीप्यमानः स्ववपुषा देववद्दिवि मोदते । । २०१
इमं लोकं पितृभक्त्या मातृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया चैव गच्छेच्छक्रसलोकताम् । । २०२
सर्वे तेनादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास्तु येनैते सर्वास्तस्याफलाः ।।२०३
यावत्त्रयस्ते जीवेयुस्तावन्नान्यत्समाचरेत्।
तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः । । २०४
तेषामनुपरोधेन पार्थक्यं २ यद्यदाचरेत् ।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः । । २०५
त्रिष्वेतेष्विति कृत्यं हि पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते । । २०६
श्रद्धधानः शुभां विद्यामाददीतावरादपि ।
अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि । । २०७
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् । । २०८
स्त्रियो रत्नं नयो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वशः । । २०९
अब्राह्मणादध्ययनमापत्काले विधीयते ।
अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः । । 1.4.२१०
नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ।
ब्राह्मणे चाननूचाने काञ्क्षन्गतिमनुत्तमाम् । । २११
यदि त्वात्यन्तिको वासो रोचते च गुरोः कुले ।
युक्तः परिचरेदेनमाशरीरविमोक्षणात् । । २१२
आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।
स गच्छत्यञ्जसा विप्रो ब्राह्मणः सद्य शाश्वतम् । । २१३
न पूर्वं गुरवे किञ्चिदुपकुर्वीत धर्मवित् ।
स्नानाय गुरुणाज्ञस्तः शक्त्या गुर्वर्थमाहरेत् । । २१४
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमेव च ।
धान्यं वासांसि शाकं वा गुरवे प्रीतमाहरेत् । । २१५
स्वर्गते गां परित्यज्य गुरौ भरतसत्तम ।
गुणान्विते गुरुसुते गुरुदारेऽथ वा नृप । ।
सपिण्डे वा गुरोश्चापि गुरुवद्वृत्तिमाचरेत् । । २१६
एतेष्वविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्सनः । ।
वीरस्य कुर्वञ्छुश्रूषां याति वीरसलोकताम् । । २१७
चरत्येवं हि यो विप्रो ब्रह्मचर्यमविप्लुतः ।
स गत्वा ब्रह्मसदनं ब्रह्मणा सह मोदते । । २१८
इत्येष कथितो धर्मः प्रथमं ब्रह्मचारिणः ।
गृहस्थस्यापि राजेन्द्र शृणु धर्ममशेषतः । । २१९
काले प्राप्य व्रतं विप्र ऋतुयोगेन भारत ।
प्रपालयन्व्रतं याति ब्रह्मसालोक्यतां विभो । । 1.4.२२०
सदोपनयनं शस्तं वसन्ते ब्राह्मणस्य तु ।
क्षत्रियस्य ततो ग्रीष्मे प्रशस्तं मनुरब्रवीत् । । २२१
प्राप्ते शरदि वैश्यस्य सदोपनयनं परम् ।
इत्येष त्रिविधः कालः कथितो व्रतयोजने । । २२२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
उपनयनविधिवर्णनं नाम चतुर्थोऽध्यायः । ४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 5
स्त्रीणां शुभाशुभलक्षणवर्णनम्
सुमन्तुरुवाच
षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकमेव च । । १
वेदानधीत्य वेदौ वा वेदं वापि नृपोत्तम ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् । । २
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प १ आसीनमर्हयेत्प्रथमं गवा । । ३
गुरुणा समनुज्ञातः समावृत्तौ यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् । । ४
शतानीक उवाच
लक्षणं द्विजशार्दूल स्त्रीणां वद महामुने ।
कीदृग्लक्षणसंयुक्ता १ कन्या स्यात्सुखदा नृप । । ५
सुमन्तुरुवाच
यदुक्तं ब्राह्मणा पूर्वं स्त्रीलक्षणमनुत्तमम् ।
श्रेयसे सर्वलोकानां शुभाशुभफलप्रदम् । । ६
तत्ते वच्मि महाबाहो शृणुष्वैकमना नृप ।
श्रुतेन येन जानीषे कन्यां शोभनलक्षणाम् । । ७
सुखासीनं सुरश्रेष्ठमभिगम्य महर्षयः ।
पप्रच्छुर्लक्षणं स्त्रीणां यत्पृष्टोऽहं त्वयाधुना । । ८
प्रणम्य शिरसा देवमिदं वचनमब्रुवन् ।
भगवन्ब्रूहि नः सर्वं स्त्रीणां लक्षणमुत्तमम् । । ९
श्रेयसे सर्वलोकानां शुभाशुभफलप्रदम् ।
प्रशस्तामप्रशास्तां च जानीमो येन कन्यकाम् । । 1.5.१०
तेषां तद्वचनं श्रुत्वा विरिञ्चो वाक्यमब्रवीत् ।
शृणुध्वं द्विजशार्दूला वच्मि युष्मास्वशेषतः । । ११
प्रतिष्ठिततलौ सम्यग्रताम्भोजसमप्रभौ ।
ईदृशौ चरणौ धन्यौ योषितां भोगवर्धनौ । । १२
करालैरतिनिर्मासै रूक्षैरर्धशिरान्वितैः ।
दारिद्र्यं दुर्भगत्वं च प्राप्नुवन्ति न संशयः । । १३
अङ्गुल्यः संहता वृत्ताः स्निग्(?)धाः सूक्ष्मनखास्तथा ।
कुर्वन्त्यत्यन्तमैश्वर्यं राजभावं च योषितः । । १४
ह्रस्वाः सुजीवितं ह्रस्वा विरला वित्तहानये ।
दारिद्र्यं मूलमग्नासु प्रेष्यं च पृथुलासु च । । १५
परस्परसमारूढैस्तनुभिर्वृत्तपर्वभिः ।
बहूनपि पतीन्हत्वा दासी भवति वै द्विजाः । । १६
अङ्गुष्ठोन्नतपर्वाणस्तुङ्गाग्राः कोमलान्विताः ।
रत्नकाञ्चनलाभाय विपरीता विपत्तये । । १७
सुभगत्वं नखैः स्निग्धैराताम्रैश्च धनाद् यता ।
पुत्राः स्युरुन्नतैरेभिः सुसूक्ष्मैश्चापि राजता । । १८
पाण्डुरैः स्फुटितै रूक्षैर्नीलैर्धूम्रैस्तथा खरैः १ ।
निःस्वता भवति स्त्रीणां पीतैश्चाभक्ष्यभक्षणम् । । १९
गुल्फाः स्निग्धाश्च वृत्ताश्च समारूढशिरास्तथा ।
यदि स्युर्नूपुरान्दध्युर्बान्धवाद्यैः समाप्नुयुः । । 1.5.२०
अशिरा शरकाण्डाभाः सुवृत्ताल्पतनूरुहाः ।
जङ्घा कुर्वन्ति सौभाग्यं यानं च गजवाजिभिः । । २१
क्लिश्यते रोमजङ्घा स्त्री भ्रमत्युद्धतपिण्डिका ।
काकजङ्घा पतिं हन्ति वाचाटा कपिला च याः । । २२
जानुभिश्चैव मार्जारसिंहजान्वनुकारिभिः ।
श्रियमाप्य सुभाग्यत्वं प्राप्नुवन्ति सुतांस्तथा । । २३
घटाभैरध्वगा नार्यो निर्मांसैः कुलटा स्त्रियः ।
शिरालैरपि हिंस्राः स्युर्विश्लिष्टैर्धनवर्जिताः । । २४
अत्यन्तकुटिलै रूक्षैः स्फुटिताग्रैर्गुडप्रभैः ।
अनेकजैस्तथा रोमैः केशैश्चापि तथाविधैः । । २५
अत्यन्तपिङ्गला नारी विषतुल्येति निश्चितम् ।
सप्ताहाभ्यन्तरे पापा पतिं हन्यान्न संशयः । । २६
हस्तिहस्तनिभैर्वृतै रम्भाभैः करभोपमैः ।
प्राप्नुवन्त्यूरुभिः शश्वत्स्त्रियः सुखमनङ्गजम् । । २७
दौर्भाग्यं बद्धमांसैश्च बन्धनं रोमशोरुभिः ।
तनुभिर्वधमित्याहुर्मध्यच्छिद्रेष्वनीशता । । २८
सन्ध्यावर्णं समं चारु सूक्ष्मरोमान्वितं पृथु ।
जघनं शस्यते स्त्रीणां रतिसौख्यकरं द्विज । । २९
अरोमको भगो यस्याः समः सुश्लिष्टसंस्थितः ।
अपि नीचकुलोत्पन्न राजपत्नी भवत्यसौ । । 1.5.३०
अश्वत्थपत्रसदृशः कूर्मपृष्ठोन्नतस्तथा ।
शशिबिम्बनिभश्चापि तथैव कलशाकृतिः । ।
भगः शस्ततमः स्त्रीणां रतिसौभाग्यवर्धनः । । ३१
तिलपुष्पनिभो यश्च यद्यग्रे खुरसन्निभः ।
द्वावप्येतौ परप्रेष्यं कुर्वाते च दरिद्रताम् । । ३२
उलूखलनिभैः शोकं मरणं विवृताननैः ।
विरूपैः पूतिनिर्मांसैर्गजसन्निभरोमभिः । ।
दौःशील्यं दुर्भगत्वं च दारिद्र्यमधिगच्छति । । ३३
कपित्थफलसंकाशः पीनो वलिविवर्जितः ।
स्फीताः प्रशस्यते स्त्रीणां निन्दितभ्रान्यथा द्विजाः । । ३४
पयोधरभरानम्रप्रचलत्त्रिवलीगुरुः ।
मध्यः शुभावहः स्त्रीणां रोमराजीविभूषितः । । ३५
पणवाभैर्मृदङ्गाभैस्तथा मध्ये यवोपमैः ।
प्राप्नुवन्ति भयावासक्लेशदौःशील्यमीदृशैः । । ३६
अवक्रानुल्बणं पृष्ठमरोमशमगर्हितम् ।
नानास्तरणपर्यङ्करतिसौख्यकरं परम् । । ३७
कुब्जमद्रोणिकं पृष्ठं रोमशं यदि योषितः ।
स्वप्नान्तरे सुखं तस्या नास्ति हन्यात्पतिं च सा । । ३८
विपुलैः १सुकुमारैश्च कुक्षिभिः सुबहुप्रजाः ।
मण्डूककुक्षिर्या नारी राजानं सा प्रसूयते । । ३९
उन्नतैर्बलिभिर्वध्याः सुवृत्तैः कुलटा स्त्रियः ।
२जारकर्मरतास्ताः स्युः प्रव्रज्यां च समाप्नुयुः । । 1.5.४०
उन्नता च नतैः क्षुद्रा विषमैर्विषमाशया ।
आयुरैश्वर्यसम्पन्ना वनिता हृदयैः समैः । । ४१
सुवृत्तमुन्नतं पीनमदूरोन्नतमायतम् ।
स्तनयुग्ममिदं शस्तमतोऽन्यदसुखावहम् । । ४२
उन्नतिः प्रथमे गर्भे द्वयोरेकस्य भूयसी ।
वामे तु जायते कन्या दक्षिणे तु भवेत्सुतः । । ४३
दीर्घे तु ३चूचुके यस्याः सा स्त्री धूर्ता रतिप्रिया ।
सुवृत्ते तु पुनर्यस्या द्वेष्टि सा पुरुषं सदा । । ४४
स्तनैः सर्पफणाकारैः श्वजिह्वाकृतिभिस्तथा ।
दारिद्र्यमधिगच्छन्ति स्त्रियः पुरुषचेष्टिताः । ।
अवष्टब्धघटीतुल्या भवन्ति हि तथा द्विजाः । । ४५
सुसमं मांसलं चारु शिरो रोमविवर्जितम् ।
वक्षो यस्या भवेन्नार्या भोगान्भुक्ते यथेप्सितान् । । ४६
हिंस्रा भवति वक्रेण दौःशील्यं रोमशेन तु ।
निर्मांसेन तु वैधव्यं विस्तीर्णे कलहप्रिया । । ४७
चतस्रो रक्तगम्भीरा रेखाः स्निग्धाः करे स्त्रियाः ।
यदि स्युः सुखमाप्नोति विच्छिन्नाभिरनीशता । । ४८
रेखाः कनिष्ठिकामूलाद्यस्याः प्राप्ताः प्रदेशिनीम् ।
शतमायुर्भवेत्तस्यास्त्रयाणामुन्नतौ क्रमात् । । ४९
संवृत्ताः समपर्वाणस्तीक्ष्णाग्राः कोमलत्वचः ।
समा ह्यंगुलयो यस्याः सा नारी भोगवर्धिनी । । 1.5.५०
बन्धुजीवारुणैस्तुंगैर्नखैरैश्वर्यमाप्नुयात् ।
खरैर्वक्रैर्विवर्णाभैः श्वेतप्रीतैरनीशता । । ५१
रक्तैर्मृदुभिरैश्वर्यं निश्छिद्राङ्गुलिभिर्द्विजाः ।
स्फुटितैर्विषमै रूक्षैः क्लेशं पाणिभिराप्नुयुः । । ५२
समरेखा यवा यासाङ्गुष्ठाङ्गुलिपर्वसु ।
तासां हि विपुलं सौख्यं धनं धान्यं तथाऽक्षयम् । । ५३
मणिबन्धोऽव्यवच्छिन्नो रेखात्रयविभूषितः ।
ददाति न चिरादेव भोगमायुस्तथाक्षयम् । । ५४
श्रीवत्सध्वजपद्माक्षगजवाजिनिवेशनैः ।
चक्रस्वस्तिकवज्रासिपूर्णकुम्भनिभाङ्कुशैः । । ५५
प्रासादच्छत्रमुकुटैर्हारकेयूरकुण्डलैः ।
शङ्खतोरणनिर्व्यूहैर्हस्तन्यस्तैर्नृपस्त्रियः । । ५६
यस्याः पाणितले रक्ता यूपकुम्भाश्च कुण्डिकाः ।
दृश्यन्ते चरणे यस्या यज्ञपली भवत्यसौ । । ५७
वीथ्यापणतुलामानैस्तथा मुद्रादिभिः स्त्रियः ।
भवन्ति वणिजां पत्न्यो रत्नकाञ्चनशालिनाम् । । ५८
दात्रयोक्त्रयुगाबन्धफलोलूखललाङ्गलैः ।
भवन्ति धनधान्याढ्या कृषीवलजनाङ्गनाः । ५९
अनुन्नतशिरासन्धि पीनं रोमविवर्जितम् ।
गोपुच्छाकृति नारीणां भुजयोर्युगुलं शुभम् । । 1.5.६०
निगूढग्रन्थयो यस्याः कूर्परौ रोमवर्जितौ ।
बाहू वै ललितौ यस्याः प्रशस्तौ वृत्तकोमलौ । । ६१
उन्नतावनतौ चैव नातिस्थूलौ न रोमशौ ।
सुखदौ तु सदा स्त्रीणां सौभाग्यारोग्यवर्धनौ । । ६२
स्थूले स्कन्धे वहेद्भारं रोमशे व्याधिता भवेत् ।
वक्रस्कन्धे भवेद्वन्ध्या कुलटा चोन्नतानने । । ६३
स्पष्टं रेखात्रयं यस्या ग्रीवायां चतुरङ्गुलम् ।
मणिकाञ्चनमुक्ताढ्यं सा दधाति विभूषणम् । । ६४
अधना स्त्री कृशग्रीवा दीर्घग्रीवा च .बन्धकी ।
हस्वग्रीवा मृतापत्या स्थूलग्रीवा च दुःखिता । । ६५
अनुन्नता समांसा च समा यस्याः कृकाटिका ।
सुदीर्घमायुस्त्वस्यास्तु चिरं भर्ता च जीवति । । ६६
निर्मांसा बहुमांसा च शिराला रोमशा तथा ।
कुटिला विकटा चैव विस्तीर्णा न च शस्यते । । ६७
न स्थूलो न कृशोऽत्यर्थं न वक्रो न च रोमशः ।
हनुरेवंविधः श्रेयांस्ततोऽन्यो न प्रशस्यते । । ६८
चतुरस्रमुखी धूर्ता मण्डलास्या शिवा १ भवेत् ।
अप्रजा वाजिवक्रा स्त्री महावक्रा च दुर्भगा । । ६९
श्ववराहवृकोलूकमर्कटास्याश्च याः स्त्रियः ।
कूरास्ताः पापकर्मिण्यः प्रजाबान्धववर्जिताः । । 1.5.७०
मालतीबकुलाम्भोजनीलोत्पलसुगन्धि यत् ।
वदनं मुच्यते नैतत्पानताम्बूलभोजनैः । । ७१
ताम्राभः किञ्चिदालम्भः स्थौल्यकार्श्यविवर्जितः ।
अधरो यदि तुङ्गश्च नारीणां भोजदः सदा । । ७२
स्थूले कलहशीला स्याद्विवर्णे चातिदुःखिता ।
उत्तरोष्ठेन तीक्ष्णेन वनिता चातिकोपना । । ७३
जिह्वा तनुतरा वक्रा ताम्रा दीर्घा च शस्यते ।
स्थूला ह्रस्वा विवर्णा या वक्रा भिन्ना च निन्दिता । । ७४
शङ्खकुन्देन्दुधवलं स्निग्धैस्तुङ्गैरसन्धिभिः ।
मिष्टान्नपानमाप्नोति दन्तैरेभिरनुन्नतैः । । ७५
सूक्ष्मैरतिकृशैर्ह्रस्वैः स्फुटितैर्विरलैस्तथा ।
रूक्षश्च दुःखिता नित्यं विकटैर्भामिनी भवेत् । । ७६
सुमृष्टदर्पणाम्भोजपूर्णबिम्बेन्दुसन्निभम् ।
वदनं वरनारीणामभीष्टफलदं स्मृतम् । । ७७
न स्थूला न कृशा वक्रा नातिदीर्घा समुन्नता ।
ईदृशी नासिका यस्याः सा धन्या तु शुभङ्करी । । ७८
उन्नता मृदुला या च रेखा शुद्धा न सङ्गन्ता ।
भ्रूर्वक्रतुल्या सूक्ष्मा च योषितां सा सुखावहा । । ७९
१धनुस्तुल्याभिः सौभाग्यं वन्ध्या स्याद्दीर्घरोमभिः ।
पिङ्गलासङ्गता ह्रस्वा दारिद्र्याय न संशयः । । 1.5.८०
नीलोत्पलदलप्रख्यैराताम्रैश्चारुपक्ष्मभिः ।
वनिता नयनैरेभिर्भोगसौभाग्यभागिनी । । ८१
खञ्जनाक्षी मृगाक्षी च वराहाक्षी वराङ्गना ।
यत्रयत्र समुत्पन्ना महान्तं भोगमश्नुते । । ८२
अगम्भीरैरसंश्लिष्टैर्बहुरेखाविभूषितैः ।
राजपन्त्यो भवन्तीह नयनैर्मधुपिङ्गलैः । । ८३
वायसाकृतिनेत्राणि दीर्घापाङ्गानि योषिताम् ।
अनाविलानि चारूणि भवन्ति हि विभूतये । । ८४
गम्भीरैः पिङ्गलैश्चैव दुःखिताः स्युश्चिरायुषः ।
वयोमध्ये त्यजेत्प्राणानुन्नताक्षी तु२ याङ्गना । । ८५
रक्ताक्षी विषमाक्षी च ३धूम्राक्षी प्रेतलोचना ।
वर्जनीया सदा नारी श्वनेत्रा चैव दूरतः । । ८६
उद्भ्रान्तकैः करैश्चित्रैर्नयनस्त्वंगनास्त्विह ।
मद्यमांसप्रिया नित्यं चपलाश्चैव सर्वतः । । ८७
करालाकृतयः कर्णा नभःशब्दास्तु संस्थिताः ।
वहन्ति विकसत्कान्तिं हेमरत्नविभूषणम् । । ८८
खरोष्ट्रनकुलोलूककपिलश्रवणाः स्त्रियः ।
प्राप्नुवन्ति महद्दुःखं प्रायशः प्रव्रजन्ति च । । ८९
ईषदापाण्डुगण्डा या सुवृत्ता पर्वणि त्विह ।
प्रशस्ता निन्दिता त्वन्या रोमकूपकदूषिता । । 1.5.९०
अर्धेन्दुप्रतिमाभोगमरोम तु समाहितम ।
भोगारोग्यकरं श्रेष्ठं ललाटं वरयोषिताम् । । ९१
द्विगुणं परिणाहेन ललाटं विहितं च यत् ।
शिरः प्रशस्तं नारीणामधन्या हस्तिमस्तका । । ९२
सूक्ष्माः कृष्णा मृदुस्निग्धाः कुञ्जिताग्राः शिरोरुहाः ।
भवन्ति श्रेयसे स्त्रीणामन्ये स्युः क्लेशशोकदाः । । ९३
हंसकोकिलवीणालिशिखिवेणुस्वराः स्त्रियः ।
प्राप्नुवन्ति बहून्भोगान्भृत्यानाज्ञापयन्ति च । । ९४
भिन्नकांस्यस्वरा नारी खरकाकस्वरा च या ।
रोगं व्याधिं भयं शोकं दारिद्र्यं चाधिगच्छति । । ९५
हंसगोवृषचक्राह्वमत्तमातङ्गगामिनी ।
स्वकुलं द्योतयेन्नारी महिषी पार्थिवस्य च । । ९६
श्वशृगालगतिर्निन्द्या या च वायसवद्व्रजेत् ।
दासी मृगगतिर्नारी द्रुतगामी च बन्धकी । । ९७
फलिनी रोचना हेमकुङ्कुमप्रभ एव च ।
वर्णः शुभकरः स्त्रीणां यश्च दूर्वाङ्कुरोपमः । । ९८
मृदूनि मृदुरोमाणि नात्यन्तस्वेदकानि च ।
सुरभीणि च गात्राणि यासां ताः पूजिताः स्त्रियः । । ९९
नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिह्रस्वां न वाचाटां न पिङ्गलाम् । । 1.5.१००
नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् । । १०१
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृदङ्गीमुद्वहेत्स्त्रियम् । । १०२
महान्त्यपि समृद्धानि गोजाविधनधान्यतः ।
स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् । । १०३
हीनक्रियं निष्पुरुषं निश्छन्दोरोमशार्शसम् ।
क्षयामयाव्यपस्मारिश्वित्रकुष्ठिकुलानि च । । १०४
पादौ सुगुल्फौ प्रथमं प्रतिष्ठौ जङ्घे द्वितीयं च सुजानुचक्रे ।
मेढ्रोरुगुह्यं च ततस्तृतीयं नाभिः कटिश्चेति चतुर्थमाहुः । । १०५
उदरं कथयन्ति पञ्चमं हृदयं षष्ठमथ स्तनान्वितम् ।
अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे । । १०६
नवमं नयने च सभ्रुणी सललाटं दशमं शिरस्तथा ।
अशुभेष्वशुभं दशाफलं चरणं चरणाद्यशुभेषु शोभनम् । । १०७
इदं महात्मा स महानुभावः शचीनिमित्तं गुरुरब्रवीद्द्विजाः ।
शक्रेण पृष्टः सविशेषमुत्तमं संलक्ष्यमुक्तं वरयोषलक्षणम् १ । । १०८
मत्सकाशात्पुनः श्रुत्वा लक्षणं पुरुषस्य च ।
यथाधुना भवद्भिस्तु श्रुतं मत्तो द्विजोत्तमाः । । १०९
लक्षणेभ्यः प्रशस्तं तु स्त्रीणां सद्वृत्तमुच्यते ।
सद्वृत्तमुक्त्वा या स्त्री सा प्रशस्ता न च लक्षणैः । । 1.5.११०
ईदृग्लक्षणसम्पन्नां सुकन्यामुद्वहेत्तु यः ।
ऋद्धिर्वृद्धिस्तथा कीर्तिस्तत्र तिष्ठति नित्यशः । । १११
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीलक्षणवर्णनं
नाम पञ्चमोऽध्यायः । ५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 6
स्त्रीलक्षणसद्वृत्तवर्णनम्
शतानीकउवाच
सद्वृत्तं श्रोतुमिच्छामि देवस्त्रीणां सुविस्तरात् ।
उत्तमाधममध्यं च सम्बन्धे स्त्रीकृते यथा । । १
सुमन्तुरुवाच
शतानीक महाबाहो ब्रह्मलोके पितामहः ।
उक्त्वा स लक्षणं स्त्रीणां सद्वृत्तं चोक्तवान्पुनः १ । । २
यथोक्तं ब्रह्मणां तेषामृषीणां कुरुनन्दन ।
स प्रेयो वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । । ३
शृणुध्वं द्विजशार्दूलाः स्त्रीणां सद्वृत्तमादितः ।
वक्ष्ये युष्मानशेषं वै लोकानुग्रहकाम्यया । । ४
त्रिवर्गप्राप्तये वक्ष्ये स्त्रीवृत्तं गृहमेधिनाम् ।
प्राग्विद्यादीनुपादाय तैरर्थांश्च यथाक्रमम् । ।
विन्देत सदृशीं भार्यां शास्त्रदृष्टेन कर्मणा । । ५
गृहाश्रमो हि निःस्वानां महत्येषा विडम्बना ।
तस्मात्पूर्वमुपादेयं वित्तमेव गृहैषिणा । । ६
वरं सोढा मनुष्येण तीव्रा नरकवेदना ।
न त्वेव च गृहे दृष्टं पुत्रदारक्षुधार्दितम् । । ७
असम्भवे शिशुं दृष्ट्वा रुदन्तं प्रार्थनापरम् ।
वज्रसारमयं मन्ये हदयं यन्न दीर्यते । । ८
साध्वीं भार्यां प्रियां दृष्ट्वा कुचैलां क्षुत्कृशीकृताम् ।
अस्य दुःखस्य तन्नास्ति सुखं यत्समतां व्रजेत् । । ९
रूक्षान्विवर्णान्क्षुधितान्भूमिप्रस्तरशायिनः ।
पुत्रदारान्निजान्दृष्ट्वा किमकार्यं भवेन्नृणाम् । । 1.6.१०
बाहूत्तरीयं क्षुत्क्षामं दृष्ट्वा दीनमुखं सुतम् ।
मृत्युरेवोत्सवः पुंसां व्यसनं जीवितं द्विजाः । । ११
परिसीदत्स्वपत्येषु दृष्ट्वा दीनमुखो प्रियाम् ।
वज्रकार्यशरीरास्ते ये न यान्ति सहस्रधा । । १२
तस्मादर्थविहीनस्य पुंसो दारपरिग्रहात् ।
कुतस्त्रिवर्ग संसिद्धिर्यातनैव हि तस्य सा । । १३
अभार्यस्याधिकारोऽस्ति न द्वितीयाश्रमे यथा ।
तद्वदर्थविहीनानां सर्वत्र नाधिकरिता । । १४
केचित्त्वपत्यमेवाहुस्त्रिवर्गावाप्तिसाधनम् ।
पुंसामर्थः कलत्रं च येऽन्ये नीतिविदो विदुः । । १५
धर्मोऽपि द्विविधो यस्मादिष्टापूर्तक्रियात्मकः ।
स च दारात्मकः सर्वं ज्ञेयमर्थैकसाधनम् । । १६
निजेनापि १ दरिद्रेण लोको लज्जति बन्धुना ।
परोऽपि हि मनुष्याणामैश्वर्यात्स्वजनायते । । १७
न दरिद्रं समीपेऽपि स्थितवन्तं प्रपश्यति ।
दूरस्थमपि वित्ताढ्यमादराद्भजते जनः । । १८
तस्मात्प्रयत्नतः पूर्वमर्थमेव प्रसाधयेत ।
स हि मूलं त्रिवर्गस्य गुणानां गौरवस्य च । । १९
सर्वेऽपि हि गुणा विद्याकुलशीलादयो नृणाम् ।
सन्ति तस्मिन्नसन्तोऽपि सन्ति सन्तोऽपि नासति । । 1.6.२०
शास्त्रं शिल्पं कलाः कर्म यच्चान्यदपि चेष्टितम् ।
साधनं सर्वमर्थानामर्था धर्मादिसाधनाः । । २१
साधनानां त्रिवर्गोऽस्ति तं विना केवलं नृणाम् ।
अजागलस्तनस्येव निधनायैव संभवः । । २२
प्राक्पुण्यैर्विपुला सम्पद्धर्मकामादिहेतुजा ।
भूयो धर्मेण सामुत्र तया३ ताविति ४ च क्रमः. । । २३
एकचक्रकमेतद्धि प्रोक्तमन्योन्यहेतुकम् ।
पूर्वपश्चिमबाहुभ्यामुत्तराधरमध्यमाः । । २४
विज्ञाय मतिमानेवं यस्त्रिवर्गं निषेवते ।
संख्याशतसमायुक्तैरवाप्नोत्युत्तरोत्तरम् । । २५
नाभार्यस्याधिकारोऽस्ति त्रिवर्गे निर्धनस्य वा ।
ना भार्यायामतः पूर्वमर्थमैव प्रसाधयेत् । । २६
तस्मात्क्रमागतैरर्थेः स्वयं वाधिगतैर्युतः ।
क्रियायोग्यैः समर्थश्च कुर्याद्दारपरिग्रहम् । । २७
अनुरूपे कुले जातां श्रुतवित्तक्रियादिभिः ।
लभेतानिन्दितां कन्यां मनोज्ञां धर्मसाधनाम् । । २८
पुमानर्धपुमांस्तावद्यावद्भार्यां न विदन्ति ।
तस्माद्यथाक्रमं काले कुर्याद्दारपरिग्रहम् । । २९
एकचक्रो रथो यद्वदेकपक्षो यथा खगः ।
अभार्योऽपि १नरस्तद्वदयोग्यः सर्वकर्मसु । । 1.6.३०
पत्नीपरिग्रहाद्धर्मस्तथार्थो बहुलाभतः ।
सत्प्रीतियोगात्कामोऽपि त्रयमस्यां विदुर्बुधाः । । ३१
त्रिधा विवाहसम्बन्धो हीनतुल्याधिकैः सह ।
तुल्यैः सह समस्तेषामितरौ नीचमध्यमौ । । ३२
असमैर्निन्द्यते सद्भिरुत्तमैः परिभूयते ।
तुल्यैः प्रशस्यते यस्मात्तस्मात्साधुतमो मतः । । ३३
कृत्वैवाधिकसम्बन्धमपमानं समश्नुते ।
न चैषामानतिं गच्छेन्नैव नीचैः सहेष्यते२ । । ३४
उत्तमोऽपि च सम्बन्धो नीचैस्तत्समतां व्रजेत् ।
अतस्तं वर्जयेद्धीमान्निन्दितं सदृशोत्तमैः । । ३५
विजातीयैश्च सम्बन्धं सहेच्छन्ति न सूरयः ।
उभयोर्भ्रश्यते तेन यथा कोकिलया शुकः । । ३६
तद्भाति कुलबाह्यत्वादवश्यं चावमानतः ।
प्रतिपत्तेरशक्यत्वाच्चोत्तमोऽपि न शस्यते । । ३७
एकेऽपि परिहर्तव्या अन्ये परिहरन्त्युत ।
तस्माद्द्वावपि नैवेष्टौ सम्बन्धावधमोत्तमौ । । ३८
एकपात्रादिभिर्येषामुपचारैः परस्परम् ।
प्रत्यहं वर्धते स्नेहः सम्बन्धः सोऽभिधीयते । । ३९
यत्रावाहविवाहादावन्योऽन्याः प्रतिपत्तयः ।
स्पर्धयैव प्रवर्धन्ते तं सम्बन्धं विदुर्बुधाः । । 1.6.४०
य्यसनेऽभ्युदये वापि येषां प्राणैर्धनैरपि ।
सहैकप्रतिपत्तित्वं सम्बन्धानां स उत्तमः । । ४१
स्नेहव्यक्तौ मनुष्याणां द्वावेव निकषोपलौ ।
तथा कृतज्ञतायां च व्यसनाभ्युदयागमौ । ।४२
स च स्नेहो नृणां प्रायः समेष्वेव१ हि दृश्यते ।
साम्यं चाप्युपगन्तव्यं वित्तशीलकुलादिभिः । ।४ ३
तस्माद्विवाहसम्बन्धं संख्यमेकान्तकारिणाम् ।
सदृशैरेव कुर्वीत नोत्तमेनाप्यनुत्तमैः२ । । ४४
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
स्त्रीलक्षणसद्वृत्तवर्णनं नाम षष्ठोऽध्यायः । ६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 7
विवाह-धर्मवर्णनम्
ब्रह्मोवाच३
असपिण्डा च या मातुरसगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने । । १
सहजो न भवेद्यस्या न च विज्ञायते पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया । । २
ब्राह्मणानां प्रशस्ता स्यात्सवर्णा दारकर्मणि ।
कामशस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः । । ३
क्षत्रस्यापि सवर्णा स्यात्प्रथमा द्विजसत्तमाः ।
द्वे चावरे तथा प्रोक्ते कामतस्तु न धर्मतः । ।४
वैश्यस्यैका वरा प्रोक्ता सवर्णा चैव धर्मतः ।
तथावरा कामतस्तु द्वितीया न तु धर्मतः । । ५
शूद्रैव भार्या शूद्रस्य धर्मतो मनुरब्रवीत् ।
चतुर्णामपि वर्णानां परिणेता द्विजोत्तमः । । ६
न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः ।
कस्मिंश्चिदपि वृतान्ते शूद्रा भार्योपदिश्यते । । ७
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् । । ८
शूद्रमारोप्य वेद्यां तु पतितोत्रिर्बभूव ह ।
उतथ्यः पुत्रजननात्पतितत्वमवाप्तवान् । । ९
शूद्रस्य पुत्रमासाद्य शौनकः शूद्रतां गतः ।
भृग्वादयोप्येवमेव पतितत्वमवाप्नुयुः । । 1.7.१०
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते । । ११
देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नादन्ति पितरो देवाः स च स्वर्गं न गच्छति । । १२
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते । । १३
चतुर्णामपि विप्रेन्द्राः प्रेत्येह च हिताहितम् ।
समासतो ब्रवीम्येष विवाहाष्टकमुत्तमम् । । १४
कालो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः । । १५
ये यस्य धर्मा वर्णस्य गुणदोषौ च यस्य यौ ।
शृणुध्वं तद्द्विजश्रेष्ठाः प्रसवे च गुणागुणम् । । १६
विप्रस्य १ चतुरः पूर्वान्क्षत्रस्य चतुरोऽवरान् ।
विट्शूद्रयोस्तु त्रीनेव विद्याद्धर्मानराक्षसान् । । १७
चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः ।
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः । । १८
क्षत्रियाणां त्रयो धर्म्या द्वावधर्म्यौ२ स्मृताविह ।
पैशाचश्चासुरश्चैव न कर्त्तव्यौ कथञ्चन । । १९
पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।
गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ । । 1.7.२०
आच्छाद्य चार्चयित्वा तु श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया बाह्यो धर्मः प्रकीर्तितः । । २१
वितते चापि यज्ञे तु कर्म कुर्वति चार्त्विजि ।
अलङ्कृत्य सुतादानं दैवो धर्म उदाहृतः । । २२
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
कन्याप्रदानं विधिवदार्षीयो धर्म उच्यते । । २३
सहोभौ चरतं धर्ममिति वाचानुभाष्य तु ।
कन्याप्रदानमभ्यर्च प्राजापत्यविधिः स्मृतः । । २४
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायाश्चैव शक्तितः ।
कन्याप्रदानं स्वच्छन्दादासुरो धर्म उच्यते । । २५
इच्छयान्योऽन्यसंयोगः कन्यायाश्च वरस्य च ।
गान्धर्वः स विधिर्ज्ञेयो मैथुन्यः कामसम्भवः । । २६
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते । । २७
सुप्तां मत्तां प्रमत्तां च रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितोऽष्टमः । । २८
जलपूर्वं द्विजाग्र्याणां कन्यादानं प्रशस्यते ।
इतरेषां तु वर्णानामितरेतरकाम्यया । । २९
यो यस्यैषां विवाहानां विभूनां कीर्तितो गुणः ।
तं निबोधत वै विप्राः सम्यक्तकीर्तयतो मम । । 1.7.३०
कुलानि दश पूर्वाणि तथान्यानि दशैव तु ।
स हि तान्यात्मना चैवं मोचयत्येनसो ध्रुवम् । । ३१
ब्राह्मीपुत्रः सुकृतकृद्दैवोढाजं सुतं शृणु ।
दैवोढाजः सुतो विप्राः सप्त सप्त परावरान् । ।
आर्षोढाजः सुतः स्त्रीणां पुरुषांस्तारयेद्द्विजाः । । ३२
ब्रह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः । । ३३
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
पुत्रवन्तोऽथ धर्मिष्ठा जीवन्ति च शतं समाः । । ३४
इतरेषु निबोधध्वं नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः १ सुताः । । ३५
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।
निन्दितैर्निंदिता नृणां तस्मान्निद्यान्विवर्जयेत् । । ३६
करग्रहणसंस्काराः सवर्णासु भवन्ति वै ।
असवर्णास्वयं ज्ञेया विधिरुद्वाहकर्मणि । । ३७
बाणः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने । । ३८
न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि ।
गृह्णन्हि शुल्कं लोभेन स्यान्नरोऽपत्यविक्रयी । । ३९
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।
नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् । । 1.7.४०
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव १ तत् ।
अल्पो वापि महान्वापि विक्रयस्तावदेव सः । । ४१
यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत्कुमारीणामानृशंस्यं च केवलम् । । ४२
इत्थं दारान्समासाद्य देशमग्र्यं समावसेत् ।
ब्राह्मणो द्विजशार्दूल य इच्छेद्विपुलं यशः । । ४३
ऋषय ऊचुः
को देशः परमो ब्रह्मन्कश्च पुण्यो मतस्तव ।
प्रवसन्यत्र विप्रेन्द्र यशः प्राप्नोति कञ्जज । । ४४
ब्रह्मोवाच
न हीयते यत्र धर्मश्चतुष्पात्स कलो द्विजाः ।
स देशः परमो विप्राः स च पुण्यो मतो मम । । ४५
विद्वद्भिः सेवितो धर्मो यस्मिन्देशे प्रवर्तते ।
शास्त्रोक्तश्चापि विप्रेन्द्राः स देशः परमो मतः । । ४६
ऋषय ऊचू
विद्वद्भिः सेवितं धर्मं शास्त्रोक्तं च सुरोत्तम ।
वदास्मासु सुरश्रेष्ठ कौतुकं परमं हि नः । । ४७
ब्रह्मोवाच
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत । । ४८
कामात्मता न प्रशस्ता न वेहास्याप्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः । । ४९
सङ्कल्पाज्जायते कामो यज्ञाद्यानि च सर्वशः ।
व्रताः नियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः । । 1.7.५०
कामादृते क्रियाकारी दृश्यते नेह कर्हिचित् ।
यद्यद्धि कुरुते कश्चित्तत्तत्कामस्य चेष्टितम् । । ५१
निगमो १ धर्ममूलं स्यात्स्मृतिशीले तथैव च ।
तथाचारश्च साधूनामात्मनस्तुष्टिरेव च । । ५२
सर्वं तु समवेक्षेत निश्चयं ज्ञानचक्षुषा ।
श्रुतिप्राधान्यतो विद्वान्स्वधर्मे निवसेत वै । । ५३
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्सदा नरः ।
प्राप्य चेह परां कीर्तिं याति शक्रसलोकताम् । । ५४
श्रुतिस्तु वेदो ४ विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेषु मीमांस्ये ताभ्यां धर्मो हि निर्बभौ । । ५५
योऽवमन्येत ते चोभे हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः । । ५६
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं विप्राः साक्षाद्धर्मस्य लक्षणम् । । ५७
धर्मज्ञानं भवेद्विप्रा अर्थकामेष्वसज्जताम् ।
धर्मं जिज्ञासमानानां प्रमाणान्नैगमं परम् । । ५८
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
अधिकारो भवेत्तस्य वेदेषु च जपेषु च । । ५९
सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् १ ।
तदेव निर्मितं देशं ब्रह्मावर्तं प्रचक्षते । । 1.7.६०
यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते । । ६१
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनयः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरम् । । ६२
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षन्ति पृथिव्यां सर्वमानवाः । । ६३
हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः । । ६४
आ समुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्त्तं विदुर्बुधाः । । ६५
अटते यत्र कृष्णा गौर्मृगो नित्यं स्वभावतः ।
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्त्वतः परः । । ६६
एतान्नित्यं शुभान्देशान्संश्रयेत द्विजोत्तमः ।
यस्मिन्कस्मिंश्च निवसेत्पादजो२ वृत्तिकर्शितः । । ६७
प्रकीर्तितेयं धर्मस्य बुधैर्योनिर्द्विजोत्तमाः ।
सम्भवश्चास्य सर्वस्य समासान्न तु विस्तरात् । । ६८
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि विवाहधर्मवर्णनं
नाम सप्तमोऽध्यायः । ७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 8
विवाहधर्मेषु स्त्रीविषये नरवृत्तवर्णनम्
ब्रह्मोवाच
कर्तव्यं यद्गृहस्थेन तदिदानीं निबोधत ।
गदतो द्विजशार्दूल विस्तराच्छास्त्रतस्तथा । । १
वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
शुभदेशाश्रयश्चैव पत्नी वैवाहिकी गृहे । । २
स्वाश्रयेण विना शक्यं न यस्माद्रक्षणादिकम् ।
वित्तानामिव दाराणामतस्तद्विधिरुच्यते । । ३
हेतवो हि त्रिवर्गस्य विपरीतास्तु१ मानद ।
अरक्षणाद्भवन्त्यस्मादमीषां रक्षणं मतम् । । ४
निसर्गात्पुंस्यसन्तोषाद्गुणदोषविमर्षतः ।
दुष्टानां चापि संसर्गाद्रक्ष्या एव च योषितः । । ५
पुरुषस्थानवेश्मानि त्रिविधं प्राहुराश्रयम् ।
वित्तानां रक्षणाद्यर्थमपूर्वाधिगमाय च । । ६
कुलीनो नीतिमान्प्राज्ञः सत्यसन्धो दृढव्रतः ।
विनीतो धार्मिकस्त्यागी२ विज्ञेयः पुरुषाश्रयः । । ७
नगरे खर्वटे खेटे ग्रामे चापि क्रमागते ।
यात्रावशाद्वा निवसेद्धार्मिकाद्यजनान्विते । । ८
गुरुणानुमतस्तत्र ग्रामण्यादिजनेन वा ।
प्रतिवेश्माद्यबाधेन शुद्धं कुर्यान्निवेशनम् । । ९
द्वारचत्वरशालानां १ सर्वकारुकवेश्मनाम् ।
द्यूतसूनासुरावेशनटराजानुजीविनाम् । । 1.8.१०
पाखण्डदेववीथीनां राजमार्गकुलस्य च ।
दूरात्सुगुप्तं कर्तव्या जीविका विभवोचिता । । ११
सापिधानैकनिष्काशं शुद्धपृष्टं समन्ततः ।
सद्वृत्ताप्तजनाकीर्णमदुष्टप्रातिवेशिकम् । । १२
प्रागुदक्प्रवणे देशे वास्तुविद्याविधानतः ।
प्रविभक्तक्रियाकाञ्क्षं सर्वर्तुकमनोहरम् । । १३
अर्चास्नानोदकागारगोष्ठागारमहानसैः ।
युक्तं गोवाजिशालाभिः सदासीभृत्यकाश्रयैः । । १४
बहिरन्तः पुरस्त्रीकं सर्वोपकरणैर्युतम् ।
विभक्तशयनोद्देशमाप्तवृद्धैरधिष्ठितम् । । १५
अरक्षणाद्धि दाराणां वर्णसङ्करजादयः ।
दृष्टा हि बहवो दोषास्तस्माद्रक्ष्याः सदा स्त्रियः । । १६
न ह्यासां प्रमदं दद्यान्न स्वातन्त्र्यं न विश्वसेत् ।
विश्वस्तवच्च चेष्टेत न्याय्यं भर्त्सनमाचरेत् । । १७
नाधिकारं क्वचिद्दद्यादृते पाकादिकर्मणः ।
स्त्रीणां ग्रामीणवत्ता हि भोगायालं सुशासिता । । १८
नित्यं तत्कर्मयोगेन ताः कर्तव्या निरन्तराः ।
इत्येवं सर्वदा व्याप्तेः स्यादविद्यनिराश्रया । । १९
दौर्गत्यमतिरूपं१ चाप्यसत्सङ्गः स्वतन्त्रता ।
पानाशनकथागोष्ठीप्रियत्वाकर्मशीलता२ । । 1.8.२०
कुहकेक्षणिकामुण्डाभिक्षुकीसूतिकादिभिः ।
गोप्रसङ्गैस्तथा३ सद्भिर्लिङ्गियाचकशिल्पिभिः । । २१
संवाहोद्यानयात्रासूद्यानेष्वामन्त्रणादिषु ।
प्रसङ्गस्तीर्थयात्रार्थं धर्मेषु प्रकटेषु च । । २२
विप्रयोगः सदा भर्त्रा तज्ज्ञातिकुलनिःस्वता ।
अमाधुर्यकदर्यत्वे भृशं पुंसां च वाच्यता । । २३
अतिक्रौर्यमतिक्षान्तिरत्यन्ताभीतिपातनम् ।
स्त्रीभिर्जितत्वमत्यर्थं सत्यं तास्ताः सदोषताः । । २४
स्त्रीणां४ पत्युरधीनत्वात्पुमानेव हि निन्द्यते ।
भर्तुरेव हि तज्जाड्यं यद्भृत्यानामयोग्यता । । २५
तस्माद्यथोदितास्वेता रक्ष्याः शासनताडनैः ।
ताडनैश्च यथाकालं यथावत्समुपाचरेत् । । २६
परिगृह्य बहून्दारानुपचारैः समो भवेत् ।
यथाक्रमोचितैः कर्म दानसत्कारवासनैः । । २७
प्रथमोऽभिजनो धर्मो योग्यत्वं च सुपुत्रता ।
पक्षे वित्तं विशेत्स्त्रीणां मानस्तत्कारणं तथा । । २८
तस्मान्मानो न कर्तव्यो हेयश्चापि न तत्कृतः ।
गुरुत्वे लाघवे वापि सतां कार्यं निबन्धनम् । । २९
आकस्मिके प्रयुञ्जानः प्रेक्षावान्मानलाघवे ।
स यत्किञ्चनकारित्वाच्चायमेवैति लाघवम् । । 1.8.३०
यथा मानापमानौ हि प्रयुज्येतानिमित्ततः ।
तन्निमित्ता जनत्यागे प्रयतन्ते तदाश्रिताः । । ३१
एतदेव ह्यपत्यानां१ ज्ञेयं माननकारणम् ।
यत्स्वापत्यनिमित्तेषु२ प्रधाने कुलयोग्यते । । ३२
तत्संयोगात्सुखं पुंसां महद्दुःखं वियोगतः ।
तत्प्राप्तिः प्रति हातव्या स्वार्थायैव प्रियाण्यपि । । ३३
अतः स्वार्थैकनिष्ठोऽयं लोकः सर्वोऽवसीयते ।
तत्प्रसिद्धिर्भवेदस्तमानाद् भ्रान्तिविधायकः । । ३४
ततो दारादिका भृत्या नियन्तव्यास्तथा द्विजाः ।
यथेहामुत्र वा श्रेयः प्राप्नुयादुत्तरोत्तरम् । । ३५
स्त्रीणां धर्मार्थकामेषु नातिसन्धानमाचरेत् ।
तासां तेष्वभिसन्धानाद्भवेदात्माभिसंहितः । । ३६
जाया त्वर्धं शरीरस्य नृणां धर्मादिसाधने ।
नातस्तासु व्यथां काञ्चित्प्रतिकूलं समाचरेत् । । ३७
यज्ञोत्सवादौ नाकस्मात्काञ्चिदासां विशेषयेत् ।
वस्त्रताम्बूलदानादौ प्रतिपत्तौ समो भवेत् । । ३८
प्रियाप्रियत्वं भेदो हि कामतस्तु रहोगतः ।
उपचारैः पुनर्वाक्यैस्तुल्यवृत्तिः प्रशस्यते । । ३९
आर्तवे तु पुनः सर्वा उपगम्याः प्रिया इव ।
पूर्वाभिजातधर्मार्था पुत्रिणी चोत्तरोत्तरम् । । 1.8.४०
उदग्गच्छेदनेनैव विधिना नित्यमार्तवे ।
तुल्यवृत्तिर्यथाकालं स्वं स्वं वासमखण्डयन् । । ४१
नित्यपर्यायवासानामपादानमसून्विदुः ।
ऋतुदुःखं प्रमोदश्च तथा पूर्वं समागतः । । ४२
अन्यया सह यद्दुःखं सदसद्वा रहोगतम् ।
उत्कण्ठितं वा यत्किञ्चित्सपत्नीषु न तद्वसेत् । । ४३
यत्किञ्चिदन्यसम्बद्धमन्यथा कथितं मिथः ।
तस्य कुर्यादनिर्वेदमात्मनैव विचिन्तयेत् । । ४४
अन्योऽन्यमत्सराख्यानैर्न ता वाचापि भर्त्सयेत् ।
गुणदोषौ च विज्ञाय स्वयं कुर्यान्न निष्कलौ । । ४५
वस्त्रालङ्कारभोज्यादौ तदपत्येष्वनुक्रमात् ।
मातृदोषाननादृत्य तुल्यदृष्टिः पिता भवेत् । । ४६
अन्यस्यान्यगतैर्दोषैर्दूषणं न हि नीतिमत् ।
यत्तु तेषामपत्यं तु तत्तुल्यमुभयोरपि । । ४७
प्रीतिं द्वेषमभिप्रायं शौचाशौचगतागमान् ।
बहिरन्तश्च जानीयाद्दास गूढचरैः सदा । । ४८
आत्मानमपि विज्ञाय चित्तवृत्तेरनीश्वरम् ।
विश्वसेत कथं स्त्रीषु सर्वाविनयधामसु । । ४९
वृद्धदास्यः क्रमायाता धात्र्यश्च परिचारिकाः ।
तन्मातृपितृकाद्याश्च षण्डवृद्धाश्चरा मताः । । 1.8.५०
विविधैस्तत्कथाख्यानैस्तुल्यशीलदयान्वितैः ।
प्रविश्यान्तरभिप्रायं विद्यात्काले प्रयोजितैः । । ५१
तेषु तेषु कथार्थेषु कथ्यमानेषु लक्षयेत् ।
मुखाकारादिभिर्लिङ्गैरभिप्रायं मनोगतम् । । ५२
सीतारुन्धतिसम्बन्धैस्तथा शाकुन्तलादिभिः ।
सदसच्चरिताख्यानैर्भावं विद्यात्प्रवृत्तितः । । ५३
तद्दुष्टानामदुष्टेषु साधूनामितरेषु च ।
प्रीतिः कथाप्रबन्धेषु स्यात्सख्यं पुरुषेष्वितः । । ५४
एवमागमदुष्टाभ्यामनुमित्या च तत्त्वतः ।
स्त्रीणां विदित्वाभिप्रायं वर्तेताशु यथोचितम् । । ५५
स्त्रीभ्यो विप्रतिपन्नाभ्यः प्राणैरपि वियोजनम् ।
दृष्टं हि च यथा १ राज्ञामतो रक्षेत्प्रयत्नतः । । ५६
वेण्या गूढेन शस्त्रेण हतो राजा शुभध्वजः ।
मेखलामणिना देव्या सौवीरश्च नराधिपः । । ५७
भ्रात्रा देवीप्रयुक्तेन भद्रसेनो निपातितः ।
तथा पुत्रेण कारूषो घातितो दर्पणासिना । । ५८
द्वौ काशिराजौ वै वन्द्यौ चानन्दापुरयोषिता ।
विषं प्रयुज्य पञ्चत्वमानीतौ पूजितात्मकौ । । ५९
एवमादि महाभागा राजानो ब्राह्मणाश्च ह ।
स्त्रीभिर्यत्र निपात्यन्ते तत्रान्येष्विह का कथा । । 1.8.६०
तस्मान्नित्याप्रमत्तेन जाया रक्ष्याश्च नित्यशः ।
यथावदुपचर्याश्च गुणदोषानुरूपतः । । ६१
वैषम्यादुपचाराणां विकारैश्चानिमित्तजैः ।
विशेषेण सपत्नीकैरकस्माच्चापि वेदनैः । । ६२
असम्भागे च वाग्दण्डपारुष्यादप्रसङ्गतः ।
प्रद्वेषो भर्तरि स्त्रीणां प्रकोपश्चापि जायते । । ६३
ततश्चायाति वार्धक्यमुद्वोढुश्चापि शत्रुताम् ।
तस्मान्न तान्प्रयुञ्जीत दोषान्दारविनाशकान् । । ६४
न चैताः स्वकुलाचारमधर्मं वापि चाञ्जसा ।
न गुणांश्चाप्युपेक्षन्ते प्रकृत्या किमु पीडिताः । । ६५
सतीत्वे प्रायशः स्त्रीणां प्रदृष्टं कारणत्रयम् ।
परपुंसामसम्प्रीतिः प्रिये प्रीतिः स्वरक्षणे । । ६६
तस्मात्सुरक्षिता नित्यमुपचारैर्यथोचितैः ।
सुभृता१ नित्यकर्माणः कर्तव्या योषितः सदा । । ६७
उत्तमां सामदानाभ्यां मध्यमाभ्यां तु मध्यमाम् ।
पश्चिमाभ्यामुभाम्यां च अधमां सम्प्रसाधयेत् । । ६८
भेददण्डौ प्रयुज्यापि प्रागपत्याद्यपेक्षया ।
तच्छिष्टानां तदा पश्चात्सामदानप्रसाधने । । ६९
यास्तु विध्वस्तचारित्रा भर्तुश्चाहितकारिकाः ।
त्याज्या एवं स्त्रियः सद्भिः२ कालकूटविषोपमाः । । ७०
इष्टाः ३ कुलोद्गताः साध्व्यो विनीता भर्तृवत्सलाः ।
सर्वदा साधनीयास्ताः सम्प्रदायोत्तरोत्तरैः ४। । ७१
एवमेव यथोद्दिष्टं स्त्रीवृत्तं योऽनुतिष्ठति ।
प्राप्नोत्येव स सम्पूर्णं त्रिवर्गं ५ लोकसम्भवम् । । ७२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि विवाहधर्मेषु
स्त्रीविषये नरवृत्तवर्णनं नामाष्टमोऽध्यायः । ८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 9
आगमप्रशंसावर्णनम्
ब्रह्मोवाच
एवं स्त्रीषु मनुष्याणां वृत्तिरुक्ता समासतः ।
साम्प्रतं च मनुष्येषु स्त्रीणां समुपदिश्यते । । १
सम्यगाराधनात्पुंसां रतिर्वृत्तिश्च योषितः ।
पुत्राः स्वर्गाद्यदृष्टं च तस्मादिष्टो हि तद्विधिः । । २
कर्तव्यं नाम यत्किञ्चित्सर्वं १ विधिमपेक्षते ।
व्यक्तिमायाति वैफल्यं तदेवारब्धमन्यथा । । ३
विध्यपेक्षीणि सर्वाणि कार्याण्यविफलान्यपि ।
हेतुभूतास्त्रिवर्गस्य महारम्भा विशेषतः । ।४
सर्वसाध्याविधिज्ञानमागमैकनिबन्धनम् ।
साध्यं दृष्टमदृष्टं च द्वयं विधिनिषेधयोः । । ५
शास्त्राधिकारो न स्त्रीणां न ग्रन्थानां च धारणे ।
तस्मादिहान्ये मन्यन्ते तच्छासनमनर्थकम् । । ६
आगमैकक्रियायोगे स्त्रीणामध्यधिकारिता ।
मृते भर्तरि साध्वी स्यादित्यादौ स्मृतिभाषितम् । । ७
तस्मात्कार्यमकार्यं वा विज्ञाय प्रभुरागमात् ।
गुणदोषेषु ताः सम्यक्छास्ति राजा प्रजा इव । । ८
सत्येव प्रमदाः काश्चिद्विशेषाधिगतागमाः ।
यत्तु शास्त्राधिकारित्वं वचनं स्यान्निरर्थकम् । । ९
केचिद्वेदविदो विप्राः कृत्यैर्वेषक्रियापराः ।
तथापि ४ जातिमात्रेण त एवात्राधिकारिणः । । 1.9.१०
क्रियन्ते वेदशास्त्रज्ञैः प्रयोगाः शास्त्रलौकिकाः ।
स्थितमेषामदूरेऽपि शास्त्रमेव निबन्धनम् । । ११
व्याधधीवरगोपालप्रभृतीनां च दृश्यते ।
विष्ट्यं गारकसौर्यादिदिनानां परिवर्जनम् । । १२
गम्यागम्यादिकार्येयं नियताचारसंस्थितिः ।
लोकानां शास्त्रवाक्यानां प्राणाः स्वेष्टनिबन्धनाः ।। १३
तस्माच्चतुर्णां वर्णानामाश्रमाणां च सर्वशः ।
मुख्यगौणादिभेदानां ज्ञेया शास्त्राधिकारिता । । १४
पौर्वापर्यं तु विज्ञातुमशक्यं लोकशास्त्रयोः ।
तच्छास्त्रमेव मन्तव्यं यथा कर्मशरीरवत् । । १५
आगमे च पुराणे च द्विधैव नास्तिकग्रहम् ।
मार्गं महद्भिराचीर्णं प्रपद्येताविकल्पधीः । । १६
मूलं गृहस्थधर्माणां यस्मान्नार्यः पतिव्रताः ।
तस्मादासां प्रवक्ष्यामि भर्तुराराधने विधिम् । । १७
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
आगमनप्रशंसानाम नवमोऽध्यायः । ९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 10
स्त्रीदुराचारवर्णनम्
ब्रह्मोवाच
आराध्यानां हि सर्वेषामयमाराधने विधिः ।
चित्त१ ज्ञानानुवृत्तिश्च हितैषित्वं च सर्वदा । । १
कन्या पुनर्भूर्वेश्या च त्रिविधा एव योषितः ।
प्रिया मध्याप्रिया चैव योग्या मध्येतरा तथा । । २
समा श्रेष्ठा च नीचा च भूयोपि त्रिविधाः पुनः ।
पूर्ववत्परयोर्वृत्तिरिष्टानुक्त्या १ प्रियाप्रिये । । ३
अधमाप्रिययोरत्र पतिपत्न्यादिका मता ।
निषिद्धानां तु भक्ष्यादि तद्धि यत्नाद्विधीयते । । ४
एकद्वित्वबहुत्वाद्या२ ये भेदाः समुदाहृताः ।
ज्येष्ठादिवृत्ते वक्ष्यामस्तानशेषान्द्विजोत्तमाः । । ५
वृत्तं च द्विविधं स्त्रीणां बाह्यमाभ्यन्तरं तथा ।
भर्तुरन्यजने बाह्यं तस्याः शारीरमान्तरम् । । ६
ज्ञातीतरविभागेन तद्बाह्यं द्विविधं पुनः ।
पूज्यं तुल्यं कनिष्ठं च तत्प्रत्येकं पुनस्त्रिधा । । ७
रहोरतं प्रकाशं च शारीरमपि तत्त्रिधा ।
भर्तुश्चित्तानुकूल्येन प्रयोक्तव्यं यथोचितम् । । ८
माता पिता स्वसा भ्राता पितृव्याचार्यमातुलाः ।
सभार्या ३ भगिनी भर्ता भर्तृमातृपितृष्वसा । । ९
धात्री वृद्धाङ्गनादिश्च यस्तत्रास्ता समो जनः ।
प्रथमोढा सपत्नी च स्त्रीणां मान्यतमो गणः ४ । । 1.10.१०
एषामेव त्वपत्यादिभगिनीभ्रातरस्तथा ।
कनिष्ठा भर्तुरित्यादिभार्याश्चाप्तसमो मतः । । ११
हीनोऽन्यः शासनीयस्तु तत्र तावन्न विद्यते ।
योग्यता सुतसौभाग्यैर्न यावत्स्यात्प्रतिष्ठिता । । १२
यत्रापि गुरु भर्तॄणामानुकूल्येन सर्वदा ।
वृत्तिः प्रशस्यते स्त्रीणां पूजाचाराविरोधिनी५ । । १३
देवरैः पतिमित्रैश्च परिहासक्रियोचितैः ।
विविक्तदेशावस्थानं वर्जयेदिति नर्म च । । १४
प्रायशो हि कुलस्त्रीणां शीलविध्वंसहेतवः ।
दुष्टयोगो रहो नित्यं स्वातन्त्र्यमतिनर्मता । । १५
दुष्टसङ्गे त्वरा स्त्रीणां युवभिर्नर्म नोचितम् ।
निर्भेषता स्वतन्त्राणां साफल्यं रहसि यजेत् । । १६
पुंसो दुष्टेङ्गिताकारान्दुष्टभावप्रयोजितान् ।
भ्रातृवत्पितृवच्चैतान्पश्यती परिवर्जयेत् । । १७
पुंसोऽ न्याग्रहमालापस्मितविप्रेक्षितानि च ।
करान्तरेण १ द्रव्याणां निबन्धं ग्रहणार्पणम् । । १८
द्वारप्रदेशावस्थानं राजमार्गावलोकनम् ।
प्रेक्षोद्यानादिशीलत्वं निरुष्याद्देशमालयम् । । १९
बहूनां दर्शने स्थानं दृष्टिवाक्कायचापलम् ।
ष्ठीवनत्वं ससीत्कारमुच्चैर्हसितजल्पितम् । । 1.10.२०
साङ्गत्यं लिङ्गिदुष्टस्त्रीभिघृणीक्षणिकादिभिः ।
मन्त्रमण्डलदीक्षायां सक्तिः संवसनेषु च । । २१
इत्येवमादिदुर्वृत्तं प्रायोदुष्टजनोचितम् ।
वर्जयेत्परिरक्षन्ती कुलत्रितयवाच्यताम् । । २२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
स्त्रीदुर्वृत्तवर्णनंनाम दशमोऽध्यायः । १० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 11
स्त्रीणां गृहस्थधर्मवर्णनम्
ब्रह्मोवाच
या पतिं दैवतं पश्येन्मनोवाक्कायकर्मभिः ।
तच्छरीरार्धजातेव सर्वदा हितमाचरेत् । । १
तत्प्रियां प्रियवत्पश्येत्तद्द्वेष्या द्वेष्यवत्सदा ।
अधर्मानर्थयुक्तेभ्योऽयुक्ता चास्य निवर्तते । । २
प्रियं किमस्य किं पथ्यं साम्यं चास्य कथं भवेत् ।
ज्ञात्वैवं सर्वभृत्येषु न प्रमाद्येत वै द्विजाः । । ३
देवतापितृकार्येषु भर्तुः स्नानाशनादिषु ।
सत्कारेऽभ्यागतानां च यथौचित्यं न हापयेत् । । ४
वेश्मात्मा च शरीरं हि गृहिणीनां द्विधा कृतम् ।
संस्कर्तव्यं प्रयत्नेन प्रथमं पश्चिमादपि । । ५
कृत्वा वेश्म सुसंमृष्टं त्रिकालविहितार्चनम् ।
वृत्तकर्मोपभोगानां संस्कर्तव्यं यथोचितम् । । ६
प्रातर्मध्यापराह्णेषु बहिर्मध्यान्तरेषु च ।
गृहसम्मार्जनं कृत्वा निष्कारान्न निशि क्षिपेत् । । ७
गोमहिष्यादिशालानां तत्पुरीषादिमात्रकम् ।
व्यपनेयं तु यत्नेन सम्मार्जन्या प्रसाधनम् । । ८
दासकर्मकरादीनां बाह्याभ्यन्तरचारिणाम् ।
पोषणादिविधिं विद्यादनुष्ठानं च कर्मसु । । ९
शाकमूलफलादीनां वल्लीनामौषधस्य च ।
सङ्ग्रहः सर्वबीजानां यथाकालं यथाबलम् । । 1.11.१०
ताम्रकांस्यायसादीनां काष्ठवेणुमयस्य १ च ।
मृन्मयानां च भाण्डानां विविधानां च सङ्ग्रहम् । । ११
कुण्डकादिजलद्रोण्या कलशोदञ्चतालुकाः ।
शाकपात्राण्यनेकानि स्नेहानां गोरसस्य च । । १२
मुसलं कुण्डनीयं तु यन्त्रकं२ चूर्णचालनी ।
दोहन्यो नेत्रकं मन्था मण्डन्यः शृङ्खलानि च । । १३
संदंशः कुण्डिका शूलाः पट्टपिप्पलको दृषत् ।
डाविका हस्तको दर्वी भ्राष्टस्फुटलकानि च । । १४
तुलाप्रस्थादिमानानि मार्जन्यः पिटकानि च ।
सर्वमेतत्प्रकुर्वीत प्रयत्नेन च सर्वदा । । १५
हिंग्वादिकमथो जाजी पिपल्यो मारिचानि च ।
राजिका धान्यकं शुण्ठी त्रिचतुर्जातकानि च । । १६
लवणं क्षारवर्गाश्च सौवीरकपरूषकौ ।
द्विदलामलकं चिंचा सर्वाश्च स्नेहजातयः । । १७
शुष्ककाष्ठानि वल्लूरमरिष्टा पिष्टमाषयोः ।
विकाराः पयसश्चापि विविधाः कन्दजातयः । । १८
नित्यनैमित्तिकानां हि कार्याणामुपयोगतः ।
सर्वमित्यादि संग्राह्यं यथावद्विभवोचितम् । । १९
यत्कार्याणां समुत्पत्तावुपाहर्तुं न दृश्यते ।
तत्प्रागेव यथायोगं सङ्गृह्णीयात्प्रयत्नतः । । 1.11.२०
धान्यानां घृष्टपिष्टानां क्षुण्णोपहतयोरपि ।
भृशं शुष्कार्द्रसिद्धानां क्षयवृद्धी निरूपयेत् । । २१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
गृहधर्मवर्णनं नामैकादशोऽध्यायः । ११ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 12
स्त्रीधर्मवर्णनम्
ब्रह्मोवाच
व्रीहीणां कोद्रवाणां च सारधर्ममुदारकः १ ।
कङ्गुकोद्रवयोर्ज्ञेयो वरटः पञ्चभागकः । । १
पञ्चभागान्प्रियङ्गूनां शालीनां च त्रयोऽष्ट च ।
चणकानां तृतीयांशः समक्षुण्णं त्रयं विदुः । । २
पानीययवगोधूमं२ पिष्टधान्यचतुष्टयम् ।
तुल्यमेवावगन्तव्यं मुद्गा माषास्तिला यवाः । । ३
पञ्चभागादिका घृष्टा गोधूमाः सक्तवस्तथा ।
कुल्माषाः पिष्टमांसं च सम्यगर्धादिकं भवेत् । । ४
सिद्धं तदेव द्विगुणं पुन्नाको यावकस्तथा ।
कङ्गुकोद्रवयोरन्नं चणकोदारकस्य च । । ५
द्विगुणं ४ चीनकानां च व्रीहीणां च चतुर्गुणम् ।
शालेः पञ्चगुणं विद्यात्पुराणे त्वतिरिच्यते । । ६
क्रियापाकविशेषास्तु वृद्धिरेवोपदिश्यते ।
निमित्तस्य वरान्नस्य तद्वृद्धिर्द्विगुणा भवेत् । । ७
तस्माद्भूयो विरूढस्य चतुर्भागो विवर्धते ।
लाजा धानाः कलायाश्च भृष्टाद्द्विगुणवृद्धयः । । ८
भ्रष्टव्यानामतोऽन्येषां पञ्चभागोऽधिको मतः ।
चापकानां च पिष्टानां पादहीनाः कलायजाः । । ९
मुद्गमाषमसूराणामर्धपादावरोभवेत् ।
क्लिन्नशुष्कवरान्नानां हानिर्वृद्धिर्विशिष्यते । । 1.12.१०
तयार्धेन तु शोध्यानामाढक्या मुद्गमाषयोः ।
मसूराणां च जानीयात्क्षयं पञ्चमभागकम् । । ११
षड्भागेनातसीतैलं सिद्धार्थककपित्थयोः ।
तथा निम्बकदम्बादौ १ विद्यात्पञ्चमभागकम् । । १२
तिलेङ्गुदीमधूकानां २ नक्तमालकुसुम्भयोः ।
जानीयात्पादकं तैलं खलमन्यत्प्रचक्षते । । १३
क्षेत्रकालक्रियादिभ्यः क्षयादेर्व्यभिचारतः ।
प्रत्यक्षीकृत्य तान्सम्यगनुमित्यावधारयेत् । । १४
क्षीरदोषे गवां ३ प्रस्थं महिषीणां च सर्पिषः ।
पादाधिकमजावीनामुत्पादं तद्विदो विदुः । । १५
सुभूमितृणकालेभ्यो वृद्धिर्वा क्षीरसर्पिषाम् ।
अतस्तेषां विधातव्यो ह्यर्थादेव ४ विनिश्चयः । । १६
प्रत्यक्षीकृत्य यत्नेन पक्षमासान्तरे तथा ।
पयोर्वृत्तैर्गवादीनां कुर्यात्सम्भवनिर्णयम् । । १७
कार्पास कृमिकोशौमौर्णक क्षौमादिकर्तनम् ।
कुणिपङ्ग्वन्धयोषाभिर्विधवाभिश्च कारयेत् । । १८
बालवृद्धान्धकार्पण्ये यत्कर्तव्यमवश्यतः ।
विनियोगं नयेत्सर्वं प्रियोपग्रहपूर्वकम् । । १९
कर्मणामन्तरालेषु प्रोषिते चापि भर्तरि ।
स्वयं वै तदनुष्ठेयं नित्यानां चाविरोधतः । । 1.12.२०
शूद्राणां स्थूलसूक्ष्मत्वं बहुत्वं च व्ययाव्ययौ ।
मत्वा विशेषं कुर्वीत चेतनप्रतिपत्तिषु । । २१
कारयेद्वस्त्रधान्यादि स्वाप्तवृद्धैरधिष्ठितम् १ ।
शूद्राणां क्षयवृद्ध्यादि मन्तव्यं वेतनानि च । । २२
क्षौमकार्पासयोर्विद्यात्सूत्रं पञ्चमभागकम् ।
देशकालादिभागात्तु प्रत्यक्षादेव निर्णयः । । २३
अवघातेन तूलस्य क्षयो विंशतिभागकः ।
छन्नां व्याप्तां तु वातेन तद्वदूर्णां प्रचक्षते । । २४
पञ्चाशद्भागिकीं हानिं सूत्रे कुर्वीत लक्षणात्२ ।
वृद्धिस्तु मण्डसम्पर्काद्दशकादशिका भवेत् । । २५
श्लक्ष्णमध्यमसूत्राणामर्धाधिकसमं भवेत् ।
स्थूलानां तु पुनर्मूल्यात्पादोनं बालचेतनम् । । २६
कर्मणो भूरिभेदत्वाद्देशकालप्रभेदतः ।
तद्विद्भ्य एव बोद्धव्यो बालचेतननिश्चयः । । २७
स्थूलं दिनत्रयं देयं मध्यमं च त्रिरात्रिकम् ।
सूक्ष्ममापक्षतो मृष्टं ४ मासात्तत्परिकर्मकम् । ।
यदत्र क्षत्रवृद्ध्यादि तदुत्सर्गात्प्रदर्शितम् । । २८
कालकर्त्रादिभेदेन व्यभिचारोऽपि दृश्यते ।
शय्यासनान्यनेकानि कम्बलाश्चतुराश्रिकाः । । २९
कम्बुकाश्चावकोषाश्च मध्या रक्ताश्च भूरिशः ।
गुरुबालादिवृद्धानामभ्यागतजनस्य च । । 1.12.३०
भोगायानुगतो भर्त्ता कुर्याद्विविधमात्रकम् ।
यदस्य श्वशुरादीनां कल्पितं शयनादिकम् । । ३१
भर्तुश्चैव विशेषण तदन्येन न कारयेत् ।
वस्त्रं माल्यमलङ्कारं विधृतं देवरादिभिः । । ३२
न धारयेन्न चैतेषामाक्रमेच्छयनानि वा ।
पिण्याकनककुट्टाश्च ३ कालरूक्षाणि यानि च । । ३३
हेयं पर्युषिताद्यन्नं गोभक्तेनोपयोजयेत् ।
कुलानां बहुधेनूनां गोध्यक्षव्रजजीविनाम् । । ३४
किलाटगविकादीनां भक्तार्थमुपयोजनम् ।
दध्नः समाहरेत्सर्पिर्दुहेद्वत्सान्न पीडयेत् । । ३५
वर्षाशरद्वसन्तेषु द्वौ कालावन्यदा सकृत् ।
तक्रं वाप्युपयुञ्जीत श्ववराहादिपोषणे । । ३६
पिण्याकक्लेदनार्थं वा विक्रेयं वा तदर्हयेत् ।
वृत्तिं धान्यहिरण्येन गोपादीनां प्रकल्पयेत् । । ३ ७
ते हि क्षीरव्रता लोभादुपहन्युस्तदन्वयान् ।
दोहकालं गवां दोग्धानीतिवर्तेत वै द्विजाः । । ३८
प्रसरोदकयोर्गोपा मन्थकस्य च मन्थकाः ।
मासमेकं यथा स्तन्यं मासमेकं स्तनद्वयम् । । ३९
सततं पाययेदूर्ध्वं स्तनमेकं स्तनद्वयम् ।
तिलपिष्टाभिः पिण्डाभिस्तृणेन लवणेन च । ।
वारिणा च यथाकालं पुष्णीयादिति वत्सकान् । ।1.12.४ ०
जरद्गुर्गर्भिणी धेनुर्वत्सा वत्सतरी तथा ।
पञ्चानां समभागेन घासं यूथे प्रकल्पयेत् । । ४१
एको गोपालकस्तस्य त्रयाणामथ वा द्वयम् ।
पञ्चानां वत्सकश्चैकः प्रवरास्तु पृथक्पृथक् । । ४२
गोचरस्यानयनार्थं व्यालानां त्रासनाय १ च ।
घण्टा कर्णेषु बध्नीयुः शोभारक्षार्थमेव च । । ४३
पशव्ये व्यालनिर्मुक्ते देशे भूरितृणोदके ।
अभूतदुष्टे वारण्ये सदा कुर्वीत गोकुलम् । । ४४
सगुप्तमटवीवासं नित्यं कुर्यादजाविकम् ।
ऊर्णां वर्षे द्विरादद्याच्चैत्राश्वयुजमासयोः । । ४५
यूथे मृषा दशैतासां चत्वारः पञ्च वा गवाम् ।
अश्वोष्ट्रमहिषाणां च यथा स्युः सुखसेविताः । । ५६
विद्यात्कृषीवलादीना योगं कृषिककर्मसु ।
भक्तवेतनलाभं च कर्मकालानुरूपतः । । ४७
क्षेत्रकेदारवाटेषु भृत्यानां कर्म कुर्वताम् ।
खलेषु च विजानीयात्क्रियायोगं प्रतिक्षणम् । । ४८
योग्यतातिशयं मत्वा कर्मयोगेषु कस्यचित् ।
ग्रासाच्छदशिरोभ्यङ्गैर्विशेषं तस्य कारयेत् । । ४९
पद्मशाकादिवापानां कन्दबीजादिजन्मनाम् ।
सङ्ग्रहः सर्वबीजानां काले वापः सुभूमिषु । । 1.12.५०
जातानां रक्षणं सम्यग्रक्षितानां च संग्रहः ।
तेषां च संगृहीतानां यथावन्निवपक्रिया । । ५१
गृहमूलं स्त्रियश्चैव धान्यमूलो गृहाश्रमः ।
तस्माद्धान्येषु भक्तेषु न कुर्यान्मुक्तहस्तताम् । । ५२
धान्यं तु सञ्चितं नित्यं मितो भक्तपरिव्ययः ।
न चान्ते मुक्तहस्तत्वं गृहिणीनां प्रशस्यते । । ५३
अल्पमित्येव नावज्ञां चरेदन्नेषु वै द्विजाः ।
मधुवल्मीकयोर्वृद्धिं क्षयं दृष्ट्वांजनस्य च । । ५४
ये केचिदिह निर्दिष्टा व्यापाराः पुरुषोचिताः ।
दाम्पत्योरैक्यमास्थाय तद्धिदानप्रसङ्गतः । । ५५
सन्त्येव पुरुषा लोके स्त्रीप्रधानाः सहस्रशः ।
तेषु तासां प्रयोक्तृत्वाददोष इति गृह्यताम् । । ५६
एवं योग्यतया युक्ता सौभाग्येनोद्यमेन च ।
सम्यगाराध्य भर्तारं तत्रैनं वशमानयेत् । । ५७
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मणे पर्वणि स्त्रीधर्मवर्णनं
नाम द्वादशोऽध्याय । १२
पर्व १ (ब्राह्मपर्व) — Adhyāya 13
स्त्रीधर्मवर्णनम्
ब्रह्मोवाच
प्रथमं प्रतिबुध्येत प्रवर्तेत स्वकर्मसु ।
पश्चाद्भृत्यजनस्यापि भुञ्जीत च शयीत च । । १
भर्त्रा विरहिता स्त्री च श्वशुराभ्यां विशेषतः ।
देहलीं नातिवर्तेत प्रतीकारे १ महत्यपि । । २
उत्थाय प्रथमं भर्तुरविज्ञाता न निष्क्रमेत् ।
क्षपायां सावशेषायां रात्रौ वा वासरादिषु । । ३
तद्वासभवनस्यैव शनैराहूय कार्मिकान् ।
स्वव्यापारेषु तान्सर्वांस्तत्रतत्र नियोजयेत् । । ४
विबुद्धस्य ततो भर्तुर्निर्वर्त्यावश्यकं विधिम् ।
गृहकार्याणि सर्वाणि विदधीताप्रमादतः । । ५
मुक्त्वावासकनेपथ्यं कर्मयोग्यं विधाय च ।
तत्कालोचितकर्तव्यमनुतिष्ठेद्यथाक्रमम् । । ६
महानसं सुसम्मृष्टं चुल्ल्यादिविहितार्चनम् ।
सर्वोपकरणोपेतमसम्बाधमनाविलम् । । ७
न चातिगुह्यं प्रकटं प्रविभक्तक्रियाश्रयम् ।
भर्तुराप्तजनाकीर्णं गूढं कक्षादिवर्जितम् । । ८
तत्र पाकादिभाण्डानि बहिरन्तश्च कारयेत् ।
निणिक्तमलपङ्कानि शुक्तिवल्कादिचूर्णकैः । । ९
निशि कुर्वीत धूमार्चिः शोधितानि दिवातपः ।
दधिपात्राणि कुर्वीत सदैवान्तरितानि च । । 1.13.१०
साधुकारितदुग्धेषु शोधितेषु दिवातपे ।
ईषद्गृह्योक्तपात्रेषु स्वच्छं येन भवेद्दधि । । ११
स्नेहगोरसपाकादि कृत्वा सुप्रत्ययेक्षितम् ।
कुर्यात्स्वयमधिष्ठाय भर्तुः पाकविधिक्रियाम् । । १२
किं प्रियं च किमाग्नेयं षड्रसाभ्यन्तरेषु च ।
किं पथ्यं किमपथ्यं च स्वास्थ्यं२ वास्य कथं भवेत् । ।
इति यत्नाद्विजानीयादनुष्ठेयं च तत्तथा । । । १३
नित्यानुरागं सत्कारमाहारं सुपरीक्षितम् ।
महानसादौ कुर्वीत जनमाप्तं क्रमागतम् । । १४
शत्रु दायादसम्बन्धं क्रुद्धभीतावमानितम् ।
अवाच्योपगृहीतं वा नैवमादीनि योजयेत् । । १५
पुनः पुनः प्रतिष्ठाप्य गुप्तं स्वयमधिष्ठितम् ।
भर्तुराहारपानादि विदध्यादप्रमादतः । । १६
पाकं निर्वर्त्य मात्राणां कृत्वा स्वेदप्रमार्जनम् ।
गन्धताम्बूलमाल्यादि किञ्चिदादाय मात्रया । । १७
यथौचित्यादितत्काले भर्तुर्विनयसम्भ्रमैः ।
तत्कालानुगतात्यर्थमाहारमुपपादयेत् । । १८
स्वभावामयकालानां वैपरीत्येन सर्वदा ।
सर्वमाहारपानादि प्रयोज्यं तद्विदो जगुः । । १९
हीनतुल्याधिकत्वेन भर्ता पश्यति यं यथा ।
तं तथैवाधिकं पश्येन्न्यायतः प्रतिपत्तिषु । । 1.13.२०
सापत्नकान्यपत्यानि पश्येत्स्वेभ्यो विशेषतः ।
भगिनीवत्सपत्नीश्च तद्वधून्निजबन्धुवत् । । २१
ग्रासाच्छादशिरोभ्यङ्गस्नानमण्डनकादिकम् ।
सपत्नीनामकृत्वा तु आत्मनोऽपि न कारयेत् । । २२
व्याधितानां चिकित्सार्थमौषधादिकमादरात् ।
विदध्यादात्मनस्तासां सर्वाश्रितजनस्य च । । २३
तच्छोके शुचमादद्यात्तत्तुष्टौ मुदमावहेत् ।
भृत्यबन्धुसपत्नीनां तुल्यदुःखसुखा भवेत् । । २४
लग्धावकाशा स्वप्याच्य निशि सुप्तोत्थिता क्रमात् ।
अन्यत्र व्ययकर्तारं पतिं रहसि बोधयेत् । । २५
यदवद्यं सपत्नीनां स्वयमस्मै न तद्वदेत् ।
दौःशील्यादि तु सापायं गूढमस्मै निवेदयेत् । । २६
दुर्भगामनपत्यां वा भर्त्रा चातितिरस्कृताम् । १
अदुष्टां सम्यमाश्वास्य तेनैतामनुकूलयेत् । । २७
तथा वाग्दण्डपारुष्यैर्जनं भर्त्रा विपीडितम् ।
कुर्याद्विधेयमाश्वास्य न चेद्दोषाय तद्भवेत् । । २८
मत्वात्मनोनपत्यत्वं कालं चापि गतं बहुम् ।
सन्तानादिकमुद्दिश्य कार्यमात्मनिवेदनम् । । २९
यच्चान्यदपि जानीयात्किञ्चिदस्य चिकीर्षितम् ।
तत्किलाजानतीवास्य सिद्धमेव प्रदर्शयेत् । । 1.13.३०
वैवाहिकं विधिं भर्तुः सर्वं कृत्वा ससम्भ्रमम् ।
परिणीता च तां पश्येन्नित्यं भगिनिकामिव । । ३१
पूजां सम्बन्धिवर्गस्य मङ्गलं मङ्गलानि च ।
कुर्यादभिनवोढायाः सुप्रहष्टेन चेतसा । । ३२
मातृवच्छिक्षयेदेनां गृहकृत्येष्वमत्सरा ।
प्रदेशिकविधिं वास्या विदध्याद्यत्नतः स्वयम् । । ३३
एवं भर्तुरभिप्राय सर्वमित्यादिकारयेत् ।
सुखार्थं वापि सन्त्यज्य स्त्रीणां भर्ताधिदेवता । । ३४
भर्ताधिदेवता नार्या वर्णा ब्राह्मदेवताः ।
ब्राह्मणा ह्यग्निदेवास्तु प्रजा राजन्यदेवताः । । ३५
तासां त्रिवर्गसंसिद्धौ प्रदिष्टं कारणद्वयम् ।
भर्तुर्यदनुकूलत्वं यच्च शीलमविप्लुतम् । । ३६
न तथा यौवनं लोके नापि रूपं न भूषणम् ।
यथा प्रियानुकूलत्वं सिद्धं शश्वदनौषधम् । । ३७
वयोरूपादिहारिण्यो दृश्यन्ते दुर्भगाः स्त्रियः ।
वल्लभा मन्दरूपाश्च बह्व्यो गलितयौवनाः । । ३८
तस्मात्प्रियत्वं लोकानां निदानं १योग्यतापरम् ।
तां विनान्ये गुणा वन्ध्याः सर्वेऽनर्थकृतोऽपि वा । । ३९
तस्मात्सर्वप्रयत्नेन विदध्यादात्मयोग्यताम् ।
परचित्तज्ञता चास्या मूलं सर्वक्रियास्विह । ।1.13.४ ०
बहिरागच्छतो ज्ञात्वा कालं संमृज्य भूमिकाम् ।
सज्जीकृतासना तिष्ठेत्तस्याज्ञां प्रतितत्परा । । ४१
स्वयं प्रक्षालयेत्पादावुत्थाप्य परिचारिकाम् ।
तालवृन्तादिकैः कुर्याच्छमस्वेदापनोदनम् । । ४२
आहारस्नानपानादौ सस्पृहं यत्र लक्षयेत् ।
तदिंगितज्ञा तत्त्वेन सिद्धमस्मै निवेदयेत् । । ४३
सपन्तीपतिबन्धूनां भर्तृचित्तानुकूल्यतः ।
प्रतिपत्तिं प्रयुञ्जीत स्वबन्धूनां न वै तथा । । ४४
तेषु चात्मनि च ज्ञात्वा भर्तृचित्तं प्रसादयेत् ।
प्रतिपत्तिं तथाप्येषां नाद्रियेत स्वबन्धुषु । । ४५
अपि भर्तुरभिप्रेतं नारी तत्कुलवासिनी ।
सत्कारैर्निजबन्धूनां तेन नोपैति वाच्यताम् । ।४६
पूज्य एव हि सम्बन्धः सर्वावस्थासु योषिताम् ।
कस्ततोऽप्युपकारांशं लिप्सेत कुलजः पुमान् । ।४७
सम्पूज्य स्वसुतां तस्मै विधिवत्प्रतिपाद्यते ।
ततोऽस्या लिप्सते नाम किमकार्यमतः परम् । । ४८
कन्यां प्रदाय यैर्वृत्तिरात्मनः परिकल्प्यते ।
दासभण्डनटादीनां मार्गोऽयं न महात्मनाम् । ।४९
तस्मात्स्त्रीबांधवा नित्यं प्रीतिमात्रैकसाधिनीम् ।
प्रतिपत्तिं समादद्युः सम्बन्धिभ्यः प्रसंगिनीम् । 1.13.५०
तस्या भर्तरि रक्षेत प्रीतिं लोके च वाच्यताम् ।
आत्मनोऽसत्प्रवादं च चेष्टेरन्साधुवृत्तयः । । ५१
एवं विज्ञाय सद्वृत्तं स्त्री वर्तेत तथा सदा ।
येन तत्परिवर्गस्य भवेद्भर्तुश्च सम्मता । । ५२
प्रियापि साधुवृत्तापि विख्याताभिजनापि च ।
जनापवादात्सम्प्राप सीतानर्थं सुदारुणम् । । ५३
सर्वस्यामिषभूतत्वाद्गुणदोषानभिज्ञतः ।
प्रायेणाविनयौचित्यात्स्त्रीणां वृत्तं हि दुष्करम् । । ५४
अगृह्यत्वान्मनोवृत्तेः प्रायः कपटदर्शनात् ।
निरङ्कुशत्वाल्लोकस्य निर्वाच्या विरलाः स्त्रियः । । ५५
दैवयोगादयोगत्वाद्व्यवहारानभिज्ञतः ।
वाच्यतापत्तयो दृष्टाः स्त्रीणां शुद्धेऽपि चेतसि । । ५६
तासां दैवप्रतीकारो नोपभोगादृते भवेत् ।
चारित्रं लोकवृत्तं च एतयोर्विदुरौषधम् । । ५७
हिंदोलकादिक्रीडायां प्रसक्तां तरुणीं निशि ।
रममाणां विटैः सार्धं विधवां स्वैरचारिणीम् । । ५८
वृद्धादिभार्यां १सज्जायां यानगेयादिसंगिनीम् ।
कः श्रद्दध्यात्सतीत्येवं साध्वीमपि हि योषितम् । । ५९
यौ चासामिङ्गिताकारौ सन्दिग्धार्थप्रसाधकौ ।
तयोस्तत्त्वपरिज्ञानं विषयो योगिनां२ यदि । । 1.13.६०
तस्माद्यथोक्तमाचारमनुतिष्ठेत्सुसंयता ।
मिथ्यालग्नोप्यसद्वादः कम्पयत्येव तत्कुलम् । । ६१
त्रिकुल्या वाच्यता रक्ष्या प्रतिष्ठाप्यथ सन्ततिः ।
भर्तुस्त्रिवर्गसिद्धिश्च साध्यं तत्कुलयोषिताम् । । ६२
पातयन्त्येव दौःशील्यादात्मानं सकुलत्रयम् ।
उद्धरन्ति तदैवैताः स्त्रियश्चारित्रभूषणाः । । ६३
भर्तृचित्तानुकूलत्वं यासां शीलमविच्युतम्३ ।
तासां रत्नसुवर्णादि भार एव न मण्डनम् । । ६४
लोकज्ञाने परा कोटिः पत्यौ भक्तिश्च शाश्वती ।
शुद्धान्वयानां नारीणां विद्यादेतत्कुलव्रतम् । । ६५
तस्माल्लोकश्च भर्ता च सम्यगाराधितो यया ।
धर्ममर्थं च कामं च सैवाप्नोति निरत्यया । । ६६
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीधर्मकथनं
नाम त्रयोदशोऽध्यायः । १३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 14
पतिपरदेशवासे स्त्रीणां शृङ्गारनिषेधः
ब्रह्मोवाच
प्रेषिते मण्डनं स्त्रीणां पत्यौ मङ्गलमात्रकम् ।
निष्पादनं च यत्नेन तदारब्धस्य कर्मणः । । १
शय्यामुपार्जनमर्थानां व्ययानां परिहापणम् । । २
व्रतोपवासतात्पर्यं तद्वार्तापरिमार्गणम् ।
दैवज्ञेक्षणिकप्रश्नो देवानामुपयाचनम् । । ३
नित्यं तस्यागमाशंसा क्षेमार्थं देवपूजनम् ।
न चात्युज्ज्वलवेषत्वं न सदा तैलधारणम् । ।४
ज्ञातिवेश्म न गन्तव्यं सकामगमनेन १ च ।
गुरूणामाज्ञया यावद्भर्तुराप्तजनैः सह । । ५
तत्रापि न चिरं तिष्ठेत्स्नानादीन्वापि नाचरेत् ।
यावदर्थं क्षणं स्थित्वा ततः शीघ्रं समाचरेत् । । ६
आगते प्रकृतिस्थैव कृत्वा तात्कालिकं विधिम् ।
मुक्तप्रवासने पथ्ये स्नाते भुक्तवति प्रिये । । ७
आत्मानं समलङ्कृत्य सविशेषं मुदान्विता ।
देवपूजोपहारादीन्दद्यात्प्रागुपपादितान् । । ८
कनिष्ठामातृवज्ज्येष्ठां तदपत्यानि चात्मवत् ।
पश्येत्तत्परिवर्गं तु नित्यं स्वपरिवर्गवत् । । ९
तत्पुरोनासने तिष्ठेत्पतिं नामंत्रयेत च ।
तदभिप्रायतः कुर्यात्प्रवृत्तिं सर्वकर्मसु । । 1.14.१०
न संसृजेत तद्द्विष्टैः सख्यं कुर्वीत तत्प्रियैः ।
जनमाप्ततमं तस्य सदाभर्तुश्च मानयेत् । । ११
पैतृकात्समुपानीतं वसुसौगंधिकादिकम् ।
तस्मै निवेद्यात्मतया तदा तदुपयोजयेत् । । १२
सोपि तत्प्रीतये किंचिदादद्यादल्पमूल्यकम् ।
संगोप्य मातृवत्स्थेयं तत्तथैवोपयोजयेत् । । १३
तत्प्रीत्यर्थं गृहीतं यद्वैलक्ष्यादिनिवृत्तये ।
सविशेषं प्रसंगेन तस्यैतत्प्रतिपादयेत् १ । । १४
स्त्रीणां यदेतत्सापत्न्यं परं मात्सर्यकारणम् ।
तस्मात्तत्परिहर्तव्यं परमोदारचर्यया२ । । १५
तथा कल्पितनेपथ्या भर्तुः पर्यायवासरे ।
ह्रियमादयमानेव३ पतिं गच्छेद्विसर्जिता । । १६
गत्वा रहसि भर्तारं तत्कालोचितसंभ्रमैः ।
तद्भावानुगतैस्तैस्तैः सविशेषमुपाचरेत् । । १७
प्रतिबुध्य ततः काले सविशेषं त्रपान्विता ।
ज्येष्ठाय वसतिं गच्छेद्विशेषेण तथा पुनः । । १८
अप्रातिकूल्यं ज्येष्ठाया हितमन्यत्र योषितः ।
ततः शनैस्त्ववच्छिद्य पतिं स्ववशमानयेत् । । १९
बहिष्पाकादियोगेन चतुःषष्ट्या रहोगतम् ।
ज्येष्ठामतिशयानेव भर्तारमुपरञ्जयेत् । । 1.14.२०
प्रागल्भ्यं रहसि स्त्रीणां लज्जाधिक्यं ततोऽन्यदा ।
चित्तज्ञानानुवृत्तिश्च पत्यौ संसेवनं परम् । । २१
एवमाराध्य भर्तारं गृहमाक्रम्य च क्रमात् ।
गौरवं प्रतिपत्तिं वा ज्येष्ठादिषु न हापयेत् । । २२
गृहव्यापारदानेषु पतिं गुढं तधा वदेत् ।
अधिकुर्यादनिच्छन्ती ज्येष्ठैवेनां यथा बलात् । । २३
सापि विज्ञाय भर्तारं कनिष्ठाकृष्टमानसम् ।
विश्रामं प्रार्थयेदेनामधिकुर्यात्सुतामिव । । २४
मत्वा भर्तुरभिप्रेतं रक्षन्ती निजगौरवम् ।
कृतं भर्त्रनुकूलं स्यात्तदिष्टायानुमोदयेत् । । २५
स्थानिनो यदभिप्रेतं भृत्यैः किं क्रियतेऽन्यथा ।
क्लिश्यते तत्र मूढात्मा परतन्त्रो वृथा जनः । । २६
तस्मात्सर्वास्ववस्थासु मनोवाक्कायकर्मभिः ।
हितं स्वाम्यनुकूलत्वं नारीणां तु विशेषतः । । २७
सापि ज्येष्ठापतिं चैव गृहतन्त्रं च सर्वदा ।
समावर्ज्य १ गुणैर्धीरा प्रागवस्थां न विस्मरेत् । । २८
न सौभाग्यमदं कुर्यान्न चौद्धत्यादिविक्रियाम् ।
नितरामानतिं गच्छेत्सदानार्यभयादिव । । २९
यथा योग्यतया पत्यौ सौभाग्यमभिवर्धते ।
स्पर्धयेच्य कुलस्त्रीणां प्रश्रयोपाधिकं तथा । । 1.14.३०
एवमाराध्य भर्तारं तत्कार्येष्वप्रमादिनी ।
पूज्यानां पूजने नित्यं भृत्यानां भरणेषु च । । ३१
गुणानामर्जने नित्यं शीलवत्परिरक्षणे ।
प्रेत्य चेह च निर्द्वन्द्वं सुखमाप्नोत्यनुत्तमम् । । ३२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीधर्मेषु
सपत्नीकर्तव्यवर्णनं नाम चतुर्दशोऽध्यायः । १४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 15
स्त्रीधर्मवर्णनम्
ब्रह्मोवाच
दुर्भगा च पुनर्नित्यमुपवासादितत्परा ।
बाह्येषु पतिकृत्येषु स्याद्विशेषाभियोगिनी । । १
न प्रशंसां सपत्नीषु निंदां चापि तथात्मनि ।
असूयां भर्तुरीर्ष्यां वा प्रणयं वापि दर्शयेत् । । २
मद्विधा या हि बह्वेतत्तच्चात्त्यंतिकमश्नुते ।
यदस्या युष्मतो यायाद्भार्याशब्दाभिधेयताम् । । ३
न च निर्भूषणा तिष्ठेन्न चाप्युद्धतभूषणा ।
नान्यदा गंधमाल्यादि ग्राह्यं पत्युपचारतः । । ४
तन्न्यूनं सर्वशो ग्राह्यं वल्लभाया विशेषतः ।
भूषणं गन्धमाल्यं तु तावत्कालमलक्षितम् । । ५
सम्बाधानां प्रदेशानां नित्यं स्वेदादिमार्जनम् ।
दन्तनासादिपङ्कानां विगन्धस्य च शोधनम् । । ६
निमित्तं भर्तुरेतासां यत्किंचिदभिलक्षयेत् ।
नानेन वा तयोर्यत्नं विदध्यादङ्गमार्जने । । ७
सर्वासां च सपत्नीनां सर्वत्रानुगता भवेत् ।
वैतसीं वृत्तिमास्थाय वल्लभाया विशेषतः । । ८
अन्यस्या यदनुष्ठेयं यन्न सीदेत्समर्पितम् ।
भर्तुश्चाविदितं यत्नात्तत्कुर्यादविरोधि चेत् । । ९
कोशवस्त्रान्नताम्बूलगन्धापानौषधादिकम् ।
तत्सर्वमनियुक्तानां दोषवत्वाद्विरुध्यते । । 1.15.१०
यत्तु मुक्तमनुष्ठेयं गहसम्मार्जनादिकम् ।
स्त्रीणामनधिकारेऽपि प्रायस्तद्विधिरुच्यते । । ११
अभ्यङ्गोद्वर्तनं स्नानं भोजनं मण्डनानि च ।
कुर्याद्भर्तुरपत्यानां धात्रीकर्माणि सादरम् । । १२
आत्मवत्तान्यपत्यानि साधयत्यनुयोगतः ।
स्वेनाप्यमीषां वित्तेन विदध्यान्मण्डनादिकम् । । १३
भोगः स्वयमपत्यैर्वा स्त्रीवित्तस्य पतिर्विधा ।
पूर्वे वयस्यभिनन्द्य पश्चिमे चोपयोजनम् । । १४
उभयोगस्तु वा मा वा कर्मजः पृथगेव सः ।
सद्वृत्ते त्वधिकां ख्यातिं कुर्वीत क्रियया पुनः । । १५
न कापि दुर्भगा नाम सुभगा नाम जातितः ।
व्यवहाराद्भवत्येष निर्देशो रिपुमित्रवत् । । १६
भर्तृचित्तापरिज्ञानादननुष्ठानतोऽपि वा।
वृत्तैर्लोकविरुद्धैश्च यान्ति दुर्भगतां स्त्रियः । । १७
प्रानुकूल्यान्मनोवृत्तैः परोऽपि प्रियतां व्रजेत् ।
प्रातिकूल्यान्निजोप्याशु प्रियः प्रद्वेषतामियात् । । १८
तस्मात्सर्वास्ववस्थासु मनोवाक्कायकर्मभिः ।
प्रियं समाचरेन्नित्यं तच्चितानुविधायिनी । । १९
यामन्यां कामयेत्तासां तं तया संप्रयोजयेत् ।
कुपितां च प्रियां काञ्चिद्यत्नादस्मै प्रसादयेत् । । 1.15.२०
तत्पादपरिचर्यायां गोत्रसंवाहने १ तथा ।
पीडने शिरसश्चैव परं कौशलमभ्यसेत् । । २१
पीडनं मृदु मध्यं च गात्रावस्थाविशेषतः ।
मुखगात्रादिभिर्लिङ्गैः प्रयोज्यं तत्सुखावहम् । । २२
बाहूरुकटिपृष्ठेषु स्कंधे शिरसि पादयोः ।
गाढमर्दनमिच्छन्ति प्रायोन्यत्रापि मध्यमम् । । २३
निर्मांसेषु प्रदेशेषु नाभिमूलेषु मर्मसु ।
हृद्गण्डककपोलादाविच्छन्ति मृदुमर्दनम् । । २४
गाढं जाग्रदवस्थायामर्धसुप्तस्य मध्यमम् ।
किञ्चित्सपरिघातं च मृदुसुप्तस्य नेति वा । । २५
विरुद्धं सर्वगात्रेषु२ लोमवस्तु विशेषतः ।
उत्कण्डूयत्यु सोद्धर्षं स्नेहाक्तेषु च मर्द नम् । । २६
स्पर्शाद्रोमाञ्चजननं सनखच्छुरितं शनैः ।
पुलकोल्लेखनोपेतं शिरःकंडूश्च पार्श्वयोः । । २७
तेषु तेषु च गात्रेषु तत्प्रयोज्यं तथातथा ।
निद्रागमाय तत्काले रागसंधुक्षणाय च । । २८
तिष्ठतश्चोपविष्टस्य १ जाग्रतः स्वपतोऽपि वा ।
संवाहनं प्रशंसंति यदत्यर्थं सुखावहम् । । २९
नैष्पन्द्यं पुलकोद्भेदो गात्राणामक्षिमीलनम् ।
तत्प्रदेशार्पणं किञ्चिद्बोधेद्विकृतिदर्शनम् । । 1.15.३०
ऊरू मूलादिदेशे च तत्पाणिप्रतिपीडनम् ।
लक्षयेन्निपुणा२ यत्र तत्रैवाधिकमाचरेत् । । ३१
एवमेव यथोद्दिष्टं स्त्रीवृत्तं यानुतिष्ठति ।
पतिमाराध्य सम्पूर्ण त्रिवर्गं साधिगच्छति३ । । ३२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीधर्मवर्णनं
नाम पंचदशोऽध्यायः । १५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 16
प्रतिपत्कल्पवर्णनम्
सुमन्तुरुवाच
इत्युक्त्वा भगवान्ब्रह्मा स्त्रीलक्षणमशेषतः ।
सद्वृत्तं च तथा स्त्रीणां जगाम स निजालयम् । । १
ऋषयश्च तथा जग्मुः स्वानि धिष्ण्यान्यशेषतः ।
स्त्रीलक्षणं तथा वृत्तं श्रुत्वा कृत्स्नं महीपते । । २
इत्थं लक्षणसम्पन्नां भार्यां प्राप्य महीपते ।
कर्तव्यं यद्गृहस्थेन तदिदानीं निबोध मे । । ३
बैवाहिकाग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
पञ्चयज्ञविधानं तु पक्तिं कुर्यात्सदा गृही । ।४
पञ्च सूना गृहस्थस्य तेन स्वर्गं न गच्छति ।
कण्डनी पेषणी चुल्ली उदकुम्भीः प्रमार्जनी । । ५
आसां क्रमेण सर्वासां विशुद्ध्यर्थं मनीषिभिः ।
पञ्चोद्दिष्टा महायज्ञाः प्रत्यहं गृहमेधिनाम् । । ६
अध्यापनं ब्रह्मयज्ञः पितृयज्ञश्च तर्पणम् ।
होमो दैवो बलिर्भौमस्तथान्योऽतिथिपूजनम् । ।७
पञ्चैतान्यो महायज्ञान्न हापयति शक्तितः ।
स गृहेऽपि वसन्नित्यं सूनोदोर्षैर्न लिप्यते । । ८
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न च जीवति । । ९
शतानीक उवाच
यस्य नास्ति गृहे त्वग्निः स मृतो नात्र संशयः ।
न स पूजयितुं शक्तो देवादीन्ब्राह्मणोत्तमः । । 1.16.१०
निरग्निकस्य विप्रस्य कथं देवादयो द्विज. ।
प्रीताः स्युः शान्तये तस्य परं कौतूहलं मम । । ११
सुमन्तुरुवाच
साधु पृष्टोऽस्मि राजेन्द्र श्रूयतां परमं वचः।
अनग्नयस्तु ये विप्रास्तेषां श्रेयोऽभिधीयते । । १२
व्रतोपवासनियमैर्नानादानैस्तथा १ नृप ।
देवादयो भवन्त्येव प्रीतास्तेषां न संशयः । । १३
विशेषादुपवासेन तिथौ किल महीपते ।
प्रीता देवादयस्तेषां भवन्ति कुरुनन्दन । । १४
शतानीक उवाच
भगवंस्त्वं तिथीन्ब्रूहि तिथीनां च विधिं हि मे ।
प्राशनं गृह्यधर्मांश्च उपवासविधीनपि । । १५
मुच्येम येन पापौघात्त्वत्प्रसाद्द्विजोत्तम ।
संसाराच्चापि विप्रेन्द्र श्रेयसे जगतस्तथा । । १६
सुमन्तुरुवाच
शृणु कौरव कर्माणि तिथिगुह्याश्रितानि तु ।
श्रुतानि घ्नन्ति पापानि उपोषितफलानि च । । १७
प्रतिपदि क्षीरप्राशनं द्वितीयायां लवणवर्जनम् ।
तृतीयायां तिलान्नं प्राश्नीयाच्चतुर्थ्यां क्षीराशनश्च पञ्चम्याम् । ।
फलाशनः सदा षष्ठ्यां शाकाशनः सप्तम्यां बिल्वाहारोष्टम्यां तु । । १८
पिष्टाशनो नवम्यामनग्निपाकाहारो दशम्यामेकादश्यां घृताहारो द्वादश्यां पायसाहारः ।
त्रयोदश्यां गोमूत्राहारश्चतुर्दश्यां यवान्नाहारः । । १९
कुशोदकप्राशनः पौर्णमास्यां हविष्याहारोऽमावास्यायाम् ।
एष प्राशनविधिस्तिथीनामेव चानेन विधिना पक्षमेकं यो वर्तयति । । 1.16.२०
सोऽश्वमेधफलं दशगुणफलमवाप्नोति ।
स्वर्गे मन्वन्तराणि यावत्प्रतिवसति । । २१
उपगीयमानोप्सरोगन्धर्वैर्मासत्रयचतुष्टयम् ।
सोश्वमेधराजसूयानां शतगुणमवाप्नोति । । २२
स्वर्गे उपगीयमानोप्सरोगन्धर्वैश्चतुर्युगानां दशशतीर्यावत्प्रतिवसति ।
तथाष्टमासपारणे राजसूयाश्वमेधाभ्यां सहस्रगुणफलमवाप्नोति । । २३
स्वर्गे चतुर्दश मन्वतराणि यावत्प्रतिवसति ।
उपगीयमानोप्सरोगन्धर्वैर्य एवं नियममास्थाय वर्षमेकं वर्तयति । । २४
स सवितुर्लोके कालं मन्वन्तरं प्रतिवसति । । २५
य एवं नियमान्राजन्नाश्वयुजनवम्यां माघमासस्य सप्तम्यां वैशाखतृतीयायां कार्तिकपौर्णमास्यां तिथिव्रतानि गृदृणाति ब्रह्मचारी गृहस्थो वनस्थो नारी नरो वा शूद्रः प्रयतमानसः दीर्घायुष्यं सवितुः सालोक्यं व्रजति।।२६
यैश्चापि पुरा राजन्ननेन विधिना एतासु तिथिष्वन्यजन्मान्तरे उपवासविधिः कृतः दानानि दत्तानि विविधप्रकाराणि ब्राह्मणानां तपस्विजनेषु वा । । २७
त्रिरात्रोपवासिनां तीर्थयात्रातपोगुरुमातापितृशुश्रूशानिरतानां तेषां स्वर्गादिभोगवासनादिहागतानां फलनिष्पत्तिचिह्नानि मनुष्यलोके प्रत्यक्षत एव दृश्यन्ते । । २८
हस्त्यश्वयानयुग्यधनरत्नकनकहिरण्यकटककेयूरग्रैवेयककटिसूत्रकर्णालङ्कारमुकुटवरवस्त्रवरनारी-वरविलेपनसुरूपगुणदीर्घायुषो विगताधिव्याधयो दानोपवासरतानां फलान्येतानि नृत्यगीत-वादित्रमङ्गलपाठकशब्दैरिहाद्यापि पुण्यकृतो बोध्यमाना दृश्यन्त इति । । २९
तथाकृतोपवासा अपि हि दृश्यन्ते । । 1.16.३०
तथा अदत्तदाना अकृतपुण्याश्च प्रत्यक्षत एव दृश्यन्ते । । ३१
तद्यथा काणकुष्ठिबधिरजडमूकव्यङ्गा रोगदारिद्र्योपसर्गव्याधिहतायुषश्च दृश्यंतेऽद्यापि मानवाः । । ३२
शतानीक उवाच
द्विजेन्द्र तिथयः प्रोक्ताः समासेन त्वया बुध ।
विस्तरेणैव मे भूयः प्रब्रूहि द्विजसत्तम । । ३३
रहस्यं यत्तिथीनां तु देवानां च विचेष्टितम् ।
यानीष्टानि च देवानां भोज्यानि नियमास्तथा । । ३४
तानि मे वद धर्मज्ञ येन पूतो भवेन्वहम् ।
निर्द्वन्द्वो हि यथा विप्र लभे यागफलानि तु । । ३५
सुमन्तुरुवाच
रहस्यं यत्तिथीनां च भोजनं फलमेव तु ।
यावच्च येन नियमो विशेषात्स्त्रीजनस्य च । । ३६
एतत्ते सर्वमाख्यामो रहस्यं तन्निबोध मे ।
यन्मया नोक्तपूर्वं हि कस्यचित्सुप्रियस्य हि । । ३७
तत्तेऽहं सम्प्रवक्ष्यामि यस्य देवस्य या तिथिः ।
देवतानां रहस्यानि व्रतानि नियमास्तथा । । ३८
ताञ्छृणुष्व महाबाहो गदतो मम नारद ।
सृष्टिं पूर्वं वदिष्यामि संक्षेपेण तिथिं प्रति । । ३९
तमोभूतमिदं त्वासीदलभ्यमवितर्कितम् ।
जगद्ब्रह्मा समागत्यासृजदात्मानमात्मना । । 1.16.४०
संभूतात्मैव आत्मासावण्डमध्याद्विनिःसृतः ।
आत्मनैवात्मनो ह्यण्डं सृष्ट्वा स विभुरादितः । । ४१
ब्रह्मा नारायणाख्योऽसौ सृष्टिं कर्तुं समुद्यतः ।
ताभ्यां सोण्डकपालाभ्यां दिवं भूमिं च निर्ममे । । ४२
दिशश्चैवोपदिशश्चैव देवादीन्दानवांस्तथा ।
तिथिं पूर्वामिमां राजंश्चकाराथ विभुः स्वयम् । । ४३
तिथीनां प्रवरा यस्माद्ब्रह्मणा समुदाहृता ।
प्रतिपादिता परे पूर्वे प्रतिपत्तेन तूच्यते । । ४४
अस्मात्पदात्तु तिथयो यस्मात्त्वन्याः प्रकीर्तिताः ।
अस्यान्ते कथयिष्यामि उपवासविधिं परम् । । ४५
कार्त्तिक्यां माघसप्तम्यां वैशाखस्य युगादिषु ।
नियमोपवासं प्रथमं ग्राहयेत विधानवित् १ । । ४६
यां तिथिं नियमं कर्तुं भक्त्या समनुगच्छति ।
तस्यां तिथौ विधानं यत्तन्निबोध जनाधिप । । ४७
यदा तु प्रतिपद्यां वै गृह्णीयान्नियमं नृप ।
चतुर्दश्यां कृताहारः संकल्पं परिकल्पयेत् । । ४८
अमावास्यां न भुञ्जीत त्रिकालं स्नानमाचरेत् ।
पवित्रो हि जपेन्नित्यं गायत्रीं शिरसा सह । । ४९
अर्चयित्वा प्रभाते तु गन्धमाल्यैर्द्विजोत्तमान् ।
शक्त्या क्षीरं प्रदद्यात्तु ब्रह्मा मे प्रीयतां प्रभुः । । 1.16.५०
ततो भुञ्जीत गोक्षीरमनेन विधिना नृप ।
एष एव विधिर्दृष्टः सर्वासु तिथिषु नृप । । ५१
संवत्सरगते काले व्रतमेतत्समाप्यते ।
व्रतांते यत्फलं तस्य तन्निबोध नराधिप । । ५२
विमुक्तपापः शुद्धात्मा दिव्यदेहस्य देहिनः ।
ब्रह्मा ददाति संतुष्टो विमानमतितेजसम् । ।
अव्याहतगतिं दिव्यं किन्नराप्सरसैर्युतम् । । ५३
रमित्वा सुचिरं तत्र दैवतैः सह देववत् ।
इह चागत्य विप्रत्वं दश जन्मान्यसौ लभेत् । । ५४
वेदवेदांगविद्यश्च दीर्घायुश्चैव सुप्रभः ।
भोगी धनपतिर्दाता जायतेऽसौ कृते युगे । । ५५
विश्वामित्रस्तु राजेन्द्र ब्राह्मणत्वजिगीषया ।
तपश्चचार विपुलं सन्तापाय दिवौकसाम् । ।
ब्राह्मणत्वं न लेभेऽसौ लेभे विघ्नाननेकशः । । ५६
ततस्तु नियमात्तेषां तिथीनां प्रवरा तिथिः ।
उपोषिता बहुविधा ज्ञात्वा ब्रह्मप्रियां तिथिम् । । ५७
ततो ददौ ब्रह्मा विश्वामित्राय धीमते ।
इहैव तेन देहेन ब्राह्मणत्वं सुदुर्लभम् । । ५८
तिथीनां प्रवरा ह्येषा तिथीनामुत्तमा तिथिः ।
क्षत्रियो वैश्यशूद्रौ वा ब्राह्मणत्वमवाप्नुयुः । । ५९
एवं तिथिरियं राजन्कामदा कञ्जजप्रिया ।
सरहस्या मया प्रोक्ता या नोक्ता यस्य कस्यचित् । । 1.16.६०
हैहयैस्तालजङ्घैश्च तुरुष्कैर्यवनैः शकैः ।
उपोषिता इहात्रैव ब्राह्मणत्वमभीप्सुभिः १ । । ६१
इत्येषा परमा पुण्या शिवा पापहरा तथा ।
पठितोपासिता राजञ्छ्रद्धया च श्रुता १ तथा । । ६२
माहात्म्यं चापि योप्यस्याः शृणुयान्मानवो नृप ।
ऋद्धिं वृद्धिं तथा कीर्तिं शिवं चाप्य दिवं व्रजेत् । । ६३
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि प्रतिपत्कल्पवर्णनं
नाम षोडशोऽध्यायः । १६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 17
।। शतानीक उवाच ।। ।।
ब्रूहि मे विस्त राद्ब्रह्मन्प्रतिपत्कृत्यमादरात् ।।
ब्रह्मपूजाविधानं च पूजने यच्च वै फलम्।।१।।
।। सुमंतुरुवाच ।। ।।
शृणुष्वैकमना राजन्कथयाम्येष शांतिदम् ।।
पूर्वमेकार्णवे घोरे नष्टे स्थावरजंगमे ।। २ ।।
स्वयंभूरभवद्देवः सुरज्येष्ठश्चतुर्मुखः ।।
ससर्ज लोकान्देवांश्च भूतानि विविधानि च ।।३।।
कायेन मनसा वाचा जंगमस्थावराणि च ।।
पिता यः सर्वदेवानां भूतानां च पितामहः ।। ४ ।।
तस्मादेष सदा पूज्यो यतो लोकगुरुः परः ।।
सृजत्येष जगत्कृत्स्नं पाति संहरते तथा ।।५।।
रुद्रोऽस्य मनसो जातो विष्णुर्जातोऽस्य वक्षसः ।।
मुखेभ्यश्चतुरो वेदा वेदांगानि च कृत्स्नशः ।। ६ ।।
देवाप्सरसगंधर्वाः सयक्षोरगराक्षसाः ।।
पूजयंति सदा वीर विरिंचिं सुरनायकम् ।।७।।
सर्वो ब्रह्ममयो लोकः सर्वं ब्रह्मणि संस्थितम्।।
तस्मात्समर्चयेद्ब्रह्मन्य इच्छेच्छ्रेय आत्मनः ।। ८ ।।
यो न पूजयते भक्त्या सुरज्येष्ठं सुरेश्वरम् ।।
न स नाकस्य राज्यस्य न च मोक्षस्य भाजनम् ।। ९ ।।
यस्तु पूजयते भक्त्या विरिंचिं भुवनेश्वरम् ।।
स नाकराज्यमोक्षेषु क्षिप्रं भवति भाजनम् ।। 1.17.१० ।।
तस्मात्सौम्यमना भूत्वा यावज्जीवं प्रतिज्ञया ।।
अर्चयित्वा सदा देवमापन्नोपि नरो नृप ।। ११ ।।
वरं देहपरित्यागो वरं नरकसम्भवः ।।
न त्वेवापूज्य भुंजंति देवं वै पद्मसंभवम् ।। १२ ।।
सदा पूजयते यस्तु वीर भक्त्या पितामहम् ।।
मनुष्यचर्मणा नद्धः स वेधा नात्र संशयः।।१३।।
न हि वेधोऽर्चनात्किंचित्पुण्यमभ्यधिकं भवेत् ।।
इति विज्ञाय यत्नेन पूजनी यः सदा विधिः ।। १४ ।।
यो ब्रह्माणं द्वेष्टि मोहात्सर्वदेवनमस्कृतम् ।।
नरो नरकगामी स्यात्तस्य संभाषणादपि ।। १५ ।।
ब्रह्मणोर्चां प्रतिष्ठाप्य सर्वयत्नैर्विधानतः ।।
यत्पुण्यं फलमाप्नोति तदेकाग्रमनाः शृणु ।। १६ ।।
सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम् ।।
तत्फलं कोटिगुणितं लभेद्वेधः प्रतिष्ठया ।। १७ ।।
कञ्जजं स्थापयेद्यस्तु कृत्वा शालां मनोरमाम् ।।
सर्वांगमोदित पुण्यं कोटिकोटिगुणं लभेत् ।। १८ ।।
मातृजान्पितृजांश्चैव यां चैवोद्वहते स्त्रियम् ।।
कुलैकविंशमुत्तार्य ब्रह्मलोके महीयते ।। १९ ।।
भुक्त्वा तु विपुलान्भोगान्प्रलये समुपस्थिते ।।
ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ।। 1.17.२० ।।
अथ वा राज्यमाकांक्षेज्जायते संभवांतरे ।।
सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ।। २१ ।।
त्रिसंध्यं यो जपेद्ब्रह्म कृत्वाष्टदल पंकजम् ।।
पौर्णमास्यां प्रतिपदि तस्य पुण्यफलं शृणु ।। २२ ।।
अनेनैव स देहेन ब्रह्मा संतिष्ठते क्षितौ ।।
पापहा सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ।। ।। २३ ।।
उद्धृत्य दिवि संस्थाप्य कुलानामेकविंशतिम् ।।
तैः कुलैः सहितो नित्यं मोदते गोगतो नृप ।। २४ ।।
अप्येकवारं यो भक्त्या पूजयेत्पद्म संभवम् ।।
पद्मस्थं मूर्तिमंतं वा ब्रह्मलोकं स गच्छति ।।२५।।
पुण्यक्षयात्क्षितिं प्राप्य भवेत्क्षितिपतिर्महान् ।।
वेदवेदांगतत्त्वज्ञो ब्राह्मणश्चापि जायते।। ।। २६ ।।
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ।।
गच्छेद्ब्रह्मपुरं दिव्यं मुक्त्त्वा भक्तिपरात्मकान् ।।२७।।
मृद्दार्वेष्टकशैलैर्वा यः कुर्याद्ब्रह्मणो गृहम् ।।
त्रिःसप्तकुलसंयुक्तो ब्रह्मलोके महीयते ।। २८ ।।
मृन्मयात्कोटिगुणितं फलं दार्विष्टकामये ।।
इष्टकाद्विगुण पुण्यं कृते शैलमये गृहे ।। २९ ।।
क्रीडमानोपि यः कुर्याच्छालां वै ब्रह्मणो नृप ।।
ब्रह्मलोके स लभते विमानं सर्वकामिकम् ।। 1.17.३० ।।
पुष्पमालापरिक्षिप्तं किंकिणीजालभूषितम् ।।
दोलाविक्षेपसंपन्नं घंटाचामरभूषितम् ।। ३१ ।।
मुक्तादामवितानेन शोभितं सूर्यसुप्रभम् ।।
अप्सरोगणसंकीर्णं सर्वकामसुखप्रदम् ।। ३२ ।।
तत्रोषित्वा महाभोगी क्रीडमानः सदा सुरैः ।।
पुनरागत्य लोकेस्मिन्राजा भवति धार्मिकः ।। ३३ ।।
पश्यन्परिहरञ्जन्तून्मृदुपूर्वं महीपते ।।
शनैः संमार्जनं कुर्वंश्चान्द्रायणफलं व्रजेत् ।। ३४ ।।
वस्त्रपूतेन तोयेन यः कुर्यादुपलेपनम् ।।
पश्यन्परिहरञ्जतूंश्चांद्रायणफलं लभेत् ।। ३५ ।।
नैरंतर्येण यः कुर्यात्पक्षं संमार्जनार्चनम् ।।
युगकोटिशतं साग्रं ब्रह्मलोके महीयते ।। ३६ ।।
तस्यांते स चतुर्वेदः सुरूपः प्रियदर्शनः ।।
आढ्यः सर्वगुणोपेतो राजा भवति धार्मिकः ।। ३७ ।।
कपटेनापि यः कुर्याद्ब्रह्मशालां सुमानद ।।
संमार्जनादि वै कर्म सोऽपि प्राप्नोति तत्फलम् ।। ३८ ।।
तावद्धमंति संसारे दुःखशोकभयप्लुताः ।।
न भवंति सुरश्रेष्ठे यावद्रक्ता महीपते ।। ३९ ।।
समासक्तं यथा चित्तं जन्तोर्विषयगोचरे ।।
यद्येवं ब्रह्मणि न्यस्तं को न मुच्येत बन्धनात् ।। 1.17.४० ।।
खण्डस्फुटितसंस्कारं शालायां यः करोति वै ।।
अरामावसथाद्येषु लभते मौक्तिकं फलम् ।। ४१ ।।
नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः ।।
नास्ति ब्रह्मसमं ज्ञानं नास्ति वेधःसमं तपः ।। ४२ ।।
प्रतिपद्यादिसर्वेषु दिवसेषूत्सवेषु च ।।
पर्वकालेषु पुण्ये पौर्णमास्यां विशेषतः ।। ४३ ।।
शंखभेर्यादिनिर्घोषैर्महद्भिगेंयसंयुतैः ।।
कुर्यान्नीराजनं देवे सुरज्येष्ठे चतुर्मुखे ।। ४४ ।।
यावत्पर्वाणि विधिना कुर्या न्नीराजनं नृप ।।
तावद्युगसहस्राणि ब्रह्मलोके महीयते ।। ४५ ।।
स्नानकाले त्रिसंध्यं तु यः कुर्यान्नृत्यवादनम् ।।
गीतं वा मुखवाद्यं वा तस्य पुण्य फलं शृणु ।। ४६ ।।
यावन्त्यहानि कुरुते गेयनृत्यादिवादनम् ।।
तावद्युगसहस्राणि ब्रह्मलोके महीयते ।। ४७ ।।
कपिलापञ्चगव्येन कुशवारियुतेन च ।।
स्नापयेन्मंत्रपूतेन ब्राह्मं स्नानं हि तत्स्मृतम् ।। ४८ ।।
कपिलापंचगव्येन दधिक्षीरघृतेन च ।।
स्नानं शतगुणं ज्ञेयमितरेषां नराधिप ।। ४९ ।।
देवाग्निकार्यमुद्दिश्य कपिलामाहरेत्सदा ।।
ब्रह्मक्षत्रविशश्चैव न शूद्रस्तु कदाचन ।। 1.17.५० ।।
कापिलं यः पिबेच्छूद्रो देवकार्यार्थनिर्मितम् ।।
स पच्येत महाघोरे सुचिरं नरकार्णवे ।। ५१ ।।
वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।।
सुरज्येष्ठघृताभ्यंगाद्दहेत्सर्वं न संशयः ।। ५२ ।।
कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।।
पितामहघृतस्नानं दहत्यग्निरिवेंधनम्।५३।।
घृतस्नानं प्रतिपदि सकृत्कृत्वा तु कांजजम् ।।
कुलैकविंशमुत्तार्य विष्णुलोके मही यते ।।५४।।
अयुतं यो गवां दद्याद्भक्त्या वै वेदपारगे ।।
वस्त्रहेमादियुक्तानां क्षीरस्नानेन यत्फलम् ।।५५।।
सकृदाज्येन पयसा स्नपयेत्तु यः ।।
गांगेयेन स यानेन याति ब्रह्मसलोकताम् ।। ५६ ।।
स्नाप्य दध्ना सकृद्वीर कञ्जजं विष्णुमाप्नुयात् ।।
मधुना स्नपयित्वा तु वीरलोके महीयते ।। ५७ ।।
स्नानमिक्षुरसेनेह यो विरिंचेः समाचरेत् ।।
स याति लोकं सवितस्तु तेजसा भासयन्नभः ।। ५८ ।।
शुद्धोदकेन यो भक्त्या स्नापयेत्पद्मसंभवम् ।।
उत्सृज्य पापकलिलं स यात्येव सलोकताम् ।। ५९ ।।
वस्त्रपूतेन तोयेन स्नपयेद्यः सकृद्विभुम् ।।
स सर्वकालं तृप्तात्मा लोकवश्यत्वमा प्नुयात् ।। 1.17.६० ।।
सर्वौषधीभिर्यो भक्त्या स्नपयेत्पद्मसंभवम् ।।
कांचनेन विमानेन ब्रह्मलोके महीयते ।। ६१ ।।
गन्धचन्दनतोयेन स्नापयेद्योंबुजोद्भवम् ।।
रुद्रलोकमवाप्नोति तेजसा हेमसन्निभः ।। ६२ ।।
पाटलोत्पलपद्मानि करवीराणि सर्वदा ।।
स्नानकाले प्रयोज्यानि स्थिराणि सुरभीणि च ।। ६३ ।।
एषामेकतमं स्नानं भक्त्या कृत्वा तु वेधसि ।।
विधूय पापकलिलं विधिलोके महीयते ।। ६४ ।।
कर्पूरागरुतोयेन स्नपयेद्यस्तु कञ्जजम् ।।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ।। ६५ ।।
गायत्रीशतजप्तेन विमलेनांभसा विभुम् ।।
स्नपयित्वा सकृद्भक्त्या ब्रह्मलोकमवा प्नुयात् ।। ६६ ।।
विभुं शीतांबुना स्नाप्य धारोष्णपयसा ततः ।।
ततः पश्चाद् घृतस्नानं कृत्वा पापैर्विमुच्यते ।। ६७ ।।
एतत्स्नानत्रयं कृत्वा पूजयित्वा तु भक्तितः ।।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।। ६८ ।।
मृत्कुंभैस्ताम्रजैः कुंभैः स्नानं शतगुणं भवेत् ।।
रौप्ये लक्षोत्तरं प्रोक्तं हैमैः कोटिगुणं भवेत् ।। ६९ ।।
ब्रह्मणो दर्शनं पुण्यं दर्शनात्स्पर्शनं परम् ।।
स्पर्शनादर्चनं श्रेष्ठं घृतस्नातमतः परम् ।। 1.17.७० ।।
वाचिकं मानसं पापं घृतस्नानेन देहिनाम् ।।
क्षिणुते पद्मजो यस्मात्तस्मात्स्नानं समाचरेत् ।। ७१ ।।
स्नपयित्वार्चयेद्भक्त्या यथा तच्छृणु भारत ।।
शुचिवस्त्रधरः स्नातः कृतन्यासश्च भारत ।। ७२ ।।
चतुर्हस्तं लिखेत्पद्मं चतुर्भागविभागितम् ।।
मध्ये तस्य लिखेच्चक्रं दलैर्द्वादशभिश्चितम् ।। ७३ ।।
सरोजानि ततो न्यस्य अक्षराणि समन्ततः ।।
अक्षरं विहितं चान्यत्पत्रभागे प्रकीर्तितम् ।। ७४ ।।
नानावर्णकसंयोगाल्लिखेच्चैवानुपूर्वशः ।।
कृष्णोत्कटं तु मध्यं स्यात्पीतरक्तं तथा परम् ।। ७५ ।।
सितं शुद्धं तु कर्त्तव्यं मध्यभागे तु वर्तुलम् ।।
प्रभाकुण्डलकैर्बाह्यैर्वेष्टयेच्चक्रनायकम् ।।७६।।
एवमालिख्य यत्नेन मूलमन्त्रं ततो न्यसेत् ।।
मूर्ध्नः पादतलं यावत्प्रणवं विन्यसेद्बुधः ।। ७७ ।।
नादरूपं न्यसेत्तावद्यावच्छब्दस्य शून्यता ।।
तत्कारं विन्यसेन्मूर्ध्नि सकारं मुखमण्डले ।। ७८ ।।
विकारं कण्ठदेशे तु तुकारं सर्वसंधिषु ।।
वकारं हृदि मध्ये तु रेकारं पार्श्वयोर्द्वयोः ।। ७९ ।।
णकारं दक्षिणे कुक्षौ यकारं वामसंज्ञके ।।
भकारं कटिनाभिस्थं र्गोकारं जानुपर्वसु ।। 1.17.८० ।।
देकारं जंघयोर्न्यस्य वकारं पादपद्मयोः ।।
स्यकारमंगुष्ठयोर्न्यस्य धीकारं चोरसि न्यसेत् ।। ८१ ।।
मकारं जानुदेशे तु हिकारं गुह्यमाश्रितम् ।।
धिकारं हृदये न्यस्य योकारं चौष्ठयो र्न्यसेत् ।। ८२ ।।
नकारं नासिकाग्रे तु प्रकारं नेत्रमाश्रितम् ।।
चोकारं तु भुवोर्मध्ये दकारं प्राणमाश्रितम् ।। ८३ ।।
याकारं विन्यसेन्मूर्ध्नि तकारं केशमाश्रितम् ।।
न्यासं कृत्वात्मनो देहे देवे कुर्यात्तथा नृप ।।
सर्वोपचारसंपन्नं कृत्वा सम्यङ् निरीक्षयेत् ।। ८४ ।।
कुंकुमागुरुकर्पूर चन्दनेन विमिश्रितम् ।।
गन्धतोयमुपस्कृत्य गायत्र्या प्रणवेन च ।।
प्रोक्षयेत्सर्वद्रव्याणि पश्चादर्चनमाचरेत् ।। ८५ ।।
चक्रग्रन्थिषु सर्वासु प्रणवं विनिवेशयेत् ।।
भूयः प्लुतं समुच्चार्य प्रणवं सर्वतोमुखम् ।। ८६ ।।
विन्यसेत्पद्ममध्ये तु पीठनिष्पत्तिहेतवे ।।
आसने पृथिवी ज्ञेया सर्वसत्त्वधरा मता ।। ८७ ।।
ह्रस्वोंकारे मता सा तु दीर्घोंकारे तु देवराट् ।।
प्लुतस्तु व्यापयेद्भावं मोक्षदं चामृतात्मकम् ।। ८८ ।।
यत्नस्थो न निवर्तेत योगी प्राणपरायणः ।।
आवाहनं ततः कुर्यादक्षरेण परेण तु ।। ८९ ।।
आवाह्य तेजोरूपं तु न्यसेन्मन्त्रवरांस्ततः ।।
ततो विभावयेद्देवं पद्मस्थं चतुराननम्।।1.17.९०।।
स्रष्टारं सर्वजगतां विष्णुरुद्रविधानगम्।।
संभाव्य गन्धपुष्पादि संभारान्क्रमात्सर्वान्प्रकल्पयेत्।।
गायत्रीमुच्चरन्मन्त्रं सर्वकर्माणि कारयेत्।।९२।।
पुष्पं धूपं तथा दीपं नैवेद्यं सुमनोहरम्।।
खंडलड्डुकश्रीवेष्टकासाराशोकवर्तिकाः।।९३।।
स्वस्तिकोल्लोपिकादुग्धतिलावेष्टतिलाढिकाः।।
फलानि चैव पक्वानि लग्नखण्डगुडानि च।।९४।।
अन्यांश्च विविधान्दद्यात्पूपानि विविधानि च।।
एवमादीनि सर्वाणि दापयेचछक्तितो नृप।।९५।।
मूलमन्त्रेण देवस्य ततो देहं विभावयेत् ।।
पूजयेच्चापि विधिना येन तं ते ब्रवीम्यहम् ।। ९६ ।।
प्राणायामत्रयं कृत्वा देहसंशोधनाय वै ।।
आवाहयेत्ततोनन्तं धारयन्तं वचः सदा ।। ९७ ।।
ध्यात्वानन्तं ततो रुद्रं पद्मकिंजल्कमध्यगम् ।।
ध्यायेद्विष्णुं ततो देवं न्यसेत्पद्मोदरोद्भवम् ।। ९८ ।।
एवं त्रिदेवतारूढं पद्ममध्येंबुजोद्भवम् ।।
पूजयेन्मूलमन्त्रेण पद्मोदरभवं नृप ।। ९९ ।।
ऋग्वेदं तु यजुर्वेदं सामवेदं च पूजयेत् ।।
ज्ञानवैराग्यमैश्वर्यं धर्मं संपूजयेद्बुधः ।। 1.17.१०० ।।
ईशानादिक्रमाद्राजन्विदिशासु समंततः ।।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च ।। १०१ ।।
ज्योतिषं च महाबाहो उपवेदाश्च कृत्स्नशः ।।
इतिहासपुराणानि यथायोग्यं यथाक्रमम् ।। १०२ ।।
शिक्षा कल्पो व्याकरणं देवस्य पुरतः सदा ।।
कल्पादयस्ततश्चान्ये दिशासु विदिशासु च।।१०३।।
महाव्याहृतयः सर्वाः प्रणवेन समन्विताः।।
पूर्वादिक्रमयोगेन पूजयेद्विधिना नृप।। १०४।।
शक्तयो ब्रह्मणस्त्वेता लोकरूपा व्यवस्थिताः।।
पूजनीयाः प्रयत्नेन मंत्ररूपाः स्थिताः स्वयम्।।१०५।।
अरकांतरसंस्थांश्च षट् समुद्रान्समर्चयेत् ।।
नक्षत्राणि ग्रहाश्चैव राशयश्च विशेषतः । ।
पूज्याः सर्वे यथान्यायं सुराग्रेषु व्यवस्थिताः । । १०६ ।।
नागाश्च गरुडश्चैव पूजनीयस्तथाग्रतः ।।
देवता ऋषयश्चैव सहिताः कुलपर्वताः ।।
तत्तेजोनिलयाः सर्वे पूजनीयाः प्रयत्नतः ।। १०७ ।।
आचम्य विधिवत्पूर्वं मंत्रपूतेन वारिणा ।।
हृदयादीन्न्यसेदंगान्हृदयादिषु कृत्स्नशः । । १०८ । ।
शिखा नेत्रं तथा चर्म अस्त्रं च भरतर्षभ । ।
महेंद्रादिदिशश्चैताः पूजयेद्विधिवन्नृप । । १०९ । ।
हृदयं पुरतः पूज्यं शिरो देवस्य पृष्ठतः ।।
पूर्वं संपूजयेद्देवं मूलमंत्रेण कृत्स्नशः । । 1.17.११० ।।
विसर्जयेद्दर्शयित्वा मुद्रां तु भरतर्षभ । ।
अंकुशं नरशार्दूल ह्याह्वाने कंजमादिशेत् ।। १११ । ।
यस्त्वेवं पूजयेद्देवं प्रतिपन्नित्यमेव च । ।
उपोष्य पंचदश्यां तु स याति परमं पदम् ।। ११२ ।।
।। सुमंतु रुवाच । । । ।
आपो हिष्ठेति मंत्रोऽयं हृदयं परिकीर्तितम् । ।
ऋतं सत्यं शिखा प्रोक्ता उदुत्यं नेत्रमादिशेत् । । ११३ ।।
चित्रं देवानां मस्तमिति सर्वलोकेषु विश्रुतम् । ।
वर्मणा ते च्छादयामि कवचं समुदाहृतम् । । ११४ । ।
भूर्भुवः स्वरिति तथा शिरसे परिकीर्तितम् ।।
गायत्रीमूलतंत्रस्तु साधकः सर्वकर्मणाम् । । ११ ५। ।
गायत्र्या पूजयेद्देवमोंकारेणाभिमंत्रितम्। ।
प्रणवेनापरान्सर्वानृग्वेदादीन्प्रपूजयेत् । । ११६ । ।
आह्वाने पूजने वीर विसर्गे ब्रह्मणस्तथा । ।
गायत्री परमो मंत्रो वेदमाता विभाविनी । ११७ ।।
गायत्र्यक्षरतत्त्वैस्तु पूजयेद्यस्तु देवताम् । ।
स गच्छेद्ब्रह्मणः स्थानं दुर्लभं यद्दुरा सदम् । । ११८ । । ।।
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि प्रतिपत्कल्पे ब्रह्मणोऽर्चनविधिवर्णनं नाम सप्तदशोऽध्यायः । । १७ । ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 18
प्रतिपत्कल्पसमाप्तिवर्णनम्
सुमन्तुरुवाच
पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिप ।
अनेन विधिना यस्तु विरिञ्चिं पूजयेन्नरः । । १
प्रतिपद्यां महाबाहो स गच्छेद्ब्रह्मणः पदम् ।
ऋग्भिर्विशेषतो १ देवी विरिञ्चेर्वास्तुदेवताः । । २
कार्त्तिके मासि देवस्य रथयात्रा प्रकीर्तिता ।
यां कृत्वा मानवो भक्त्या याति ब्रह्मसलोकताम् । । ३
कार्तिके मासि राजेन्द्र पौर्णमास्यां चतुर्मुखम् ।
मार्गेण चर्मणा सार्धं सावित्र्या च परन्तप । । ४
भ्रामयेन्नगरं सर्वं नानावाद्यैः समन्वितम् ।
स्थापयेद् भ्रामयित्वा तु सलोकं नगरं नृप । । ५
ब्राह्मणं भोजयित्याग्रे शांडिलेयं प्रपूज्य च ।
आरोपयेद्रथे देवं पुण्यवादित्रनिस्वनैः । । ६
रथाग्रे शांडिलीपुत्रं पूजयित्वा विधानतः ।
ब्राह्मणान्वाचयित्वा च कृत्वा पुण्याहमंगलम् । । ७
देवमारोपयित्वा तु रथे कुर्यात्प्रजागरम् ।
नानाविधैः प्रेक्षणकैर्ब्रह्मघोषैश्च पुष्कलैः । । ८ रथोपरि टिप्पणी
कृत्वा प्रजागरं ह्येवं प्रभाते ब्राह्मणं नृप ।
भोजयित्वा यथाशक्त्या भक्ष्यभोज्यैरनेकशः । । ९
पूजयित्वा जनं२ वीर वज्रेण विधिवन्नृप ।
बीजेन च महाबाहो पयसा पायसेन च । । 1.18.१०
ब्राह्मणान्वाचयित्वा च च्छांदेन विधिना नृप ।
कृत्वा पुण्याहशब्दं च रथं च भ्रामयेत्पुरे । । ११
चतुर्वेदविदैर्विप्रैर्भ्रामयेद्ब्रह्मणो रथम् ।
बह्वृचाथर्वणोच्चारैश्छन्दोगाध्वर्युभिस्तथा । । १२
भ्रामयेद्देवदेवस्य सुरज्येष्ठस्य तं रथम् ।
प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु । । १३
न वोढव्यो रथो वीर शूद्रेण शुभमिच्छता ।
नारुहेत रथं प्राज्ञो मुक्त्वैकं भोजकं नृप । । १४
ब्रह्मणो दक्षिणे पार्श्वे सावित्रीं स्थापयेन्नृप ।
भोजको वामपार्श्वे तु पुरतः कञ्जजं न्यसेत् । । १५
एवं तूर्यनिनादैस्तु शंखशब्दैश्च पुष्कलैः ।
भ्रामयित्वा रथं राजन्पुरं सर्वं प्रदक्षिणम् । ।
स्वस्थाने स्थापयेद्भूयः कृत्वा नीराजनं बुधः । । १६
य एवं कुरुते यात्रां भक्त्या यश्चापि पश्यति ।
रथं चाकर्षते यस्तु स गच्छेद्ब्रह्मणः पदम् । । १७
कार्तिके मास्यमावास्यां यस्तु दीपप्रदीपनम् ।
शालायां ब्रह्मणः कुर्यात्स गच्छेद्ब्रह्मणः पदम् । । १८
प्रतिपदि ब्राह्मणांश्चापि गुडमिश्रैः प्रदीपकैः ।
वासोभिरहतैश्चापि स गच्छेद्ब्रह्मणः पदम् । । १९
गंधैपुष्पैर्नवैर्वस्त्रैरात्मानं १ पूजयेच्च यः ।
तस्यां प्रतिपदायां तु स गच्छेद्ब्रह्मणः पदम् । । 1.18.२०
महापुण्या तिथिरियं बलिराज्यप्रवर्तिनी ।
ब्रह्मणः सुप्रिया नित्यं बालेया परिकीर्तिता । । २१
ब्राह्मणान्पूजयित्वास्यामात्मानं च विशेषतः ।
स याति परमं स्थानं विष्णोरमिततेजसः । । २२
चैत्रे मासि महाबाहो पुण्या प्रतिपदा परा ।
तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यान्नरोत्तम । २३
न तस्य दुरितं किञ्चिन्नाधयो व्याधयो नृप ।
भवन्ति कुरुशार्दूल तस्मात्स्नानं प्रवर्तयेत् । । २४
दिव्यं नीराजनं तद्धि सर्वरोगविनाशनम् ।
गोमहिष्यादि यत्किंचित्तत्सर्वं भूषयेन्नृप । । २५
तैलशस्त्रादिभिर्वस्त्रस्तोरणाधस्ततो नयेत् ।
ब्राह्मणानां तथा भोज्यं कुर्यात्कुरुकुलोद्वह । । २६
तिस्रो ह्येताः पराः प्रोक्तास्तिथयः कुरुनन्दन ।
कार्त्तिकेश्वयुजे मासि चैत्रे मासे च भारत । । २७
स्नानं दानं शतगुणं कार्त्तिके या तिथिर्नृप ।
बलिराज्याप्तिसुखदा पांशुलाशुभनाशिनी । । २८
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि प्रतिपत्कल्पसमाप्तिवर्णनं नामाष्टादशोऽध्यायः । १८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 19
शर्यात्याख्याने पुष्पद्वितीया वर्णनम्
सुमन्तुरुवाच
द्वितीयायां तु राजेन्द्र अश्विनौ सोमपीतिनौ ।
च्यवनेन कृतौ यज्ञे मिषतो मघवस्य१ च । । १
शतानीक उवाच
कथमिन्द्रस्य मिषतः कृतौ तौ सोमपीतिनौ ।
च्यवनेन हि देवानां पश्यतां तद्वदस्व मे । । २
अहो महत्तपस्तस्य च्यवनस्य महात्मनः ।
यदिन्द्रस्य बलादेव देवत्वं प्रापितावुभौ । । ३
सुमन्तुरुवाच
पुरातनयुगे सन्धौ पश्चिमेऽथ नराधिप ।
च्यवनो योगमास्थाय गंगाकूलेऽवसच्चिरम् । । ४
तत्र शर्यातिरायातः स्नातुमन्तः१ पुरैः सह ।
स्नात्वाभ्यर्च्य२ पितॄन्देवान्गमनायोपचक्रमे । । ५
तत्र मूढं जनपदमपश्यत्पथि चेष्टनम् ।
विण्मूत्रोत्सर्गसंरुद्धं ज्योतिराक्षिप्तनिष्क्रियम् । ।
भ्रमन्तं तत्रतत्रैव समीक्ष्य स बलं नृपः । । ६
उवाच३ दुर्मना राजा अमात्यान्स्वान्पुरोगमान् ।
च्यवनस्याश्रमोऽयं हि नापराद्धं तु केनचित् । । ७
न चोवाच यदा कश्चित्तस्य राज्ञस्तु पृच्छतः ।
तदा सुता सुकन्यास्य प्रोवाच पितरं वचः । । ८
मया दृष्टं तु यत्तात सखिभिः सह कौतुकम् ।
तत्ते वच्मि निबोध त्वं शृणु तात महाद्भुतम् । । ९
शिञ्जितारावबहुलाः काञ्चीनूपुरमेखलाः ।
गायन्त्यो विलपन्त्यश्च कीडन्त्यश्चात्र कानने । । 1.19.१०
कोकिलध्वनिमश्रौषं व्यक्ताव्यक्ताक्षरं कृशम् ।
सुकन्ये ह्येहिह्येहीति वल्मीकाद्वचमुद्गिरन् । । ११
तत्र गत्वाद्भुतं तात पश्यामः किल पावकौ ।
दीपाविवाचलशिखौ भूयः कन्या उवाच ह । । १२
मया च कौतुकात्तात किमेतदित्यबुद्धितः ।
सूदितौ दर्भसूच्यग्रैस्तत्तेजः समुपारमत् । । १३
तच्छ्रुत्वा नृपतिस्त्रस्तस्तूर्णं तद्वनमागमत् ।
यत्रास्ते भार्गवः कष्टं वल्मीकान्तर्गतो मुनिः । । १४
गत्वा स तत्र प्रोवाच प्रणिपत्य द्विजोत्तमम् ।
अपराद्धं मया १ देव तत्क्षमस्व नमोऽस्तु ते । । १५
स तं प्रोवाच नृपतिं मया ज्ञातं नराधिप ।
सुकन्यां मे प्रयच्छस्व निवेशार्थी२ ह्यहं नृप । ।
अनुक्रमन्सुकन्यां तु दत्त्वा राजन्सुखी भव । । १६
इत्युक्तः प्रददौ राजा सुकन्यामविचारयन् ।
ततः स्वपुरमागम्य अवसत्सुचिरं सुखी । । १७
सुकन्यापि पतिं लब्ध्वा सुप्रीताराधयत्तदा ।
राज्यश्रियं परित्यज्य वल्कलाजिनधारिणी । । १८
गते बहुतिथे काले वसन्ते समुपस्थिते ।
तपोद्योतितसर्वाङ्गीं रूपोदार्यगुणान्विताम् । ।
स्नातां स्वभार्यां च्यवन उवाच मधुराक्षरम् । । १९
एह्येहि भद्रे भद्रं ते शयनीयं समाश्रय ।
अपत्यं जनयस्याद्य कुलद्वयविवर्धनम् । । 1.19.२०
एवमुक्ता तु सा कन्या प्राञ्जलिः पतिमब्रवीत् ।
३नार्हस्यद्य सुकल्याण सङ्गमं स्थण्डिलेऽसमे । । २१
मम प्रियं कुरुष्वाद्य ततो मामाह्वयस्व च ।
पितृगेहे यथातिष्ठं शयनीये सुसंस्कृते । । २२
बहुगैरिकवर्णाद्यैः श्वेतपीतारुणाकुले ।
वस्त्रालङ्कारगन्धाद्यैस्तथा त्वमपि तत्कुरु । । २३
आत्मानं वयसोपेतं रूपवन्तं सुवर्चसम् ।
वस्त्रालङ्कारगन्धाढ्यं पश्येयं येन सादरम् । । २४
सुकन्याया वचः श्रुत्वा च्यवनः प्राह दुर्मनाः ।
न मेऽस्ति वित्तं कल्याणि पितुस्तेऽस्ति यथा वने । । २५
स कथं भूषयाम्यद्य सुरूपश्च कथं वद ।
प्रोवाच सा पतिं भूयः प्रहसन्ती कृताञ्जलिः । ।
वित्तं ददावैलविलो रूपं वैरोचनोऽददत् । । २६
च्यवनः प्राह भार्यां तां न करिष्ये तपोव्ययम् ।
एवमुक्त्वा तपश्चोग्रं तताप सुचिरं तदा । । २७
अथ तत्रागतौ वीरावश्विनौ कालपर्ययात् ।
दृष्टवन्तौ सुकन्यां तौ दीप्त्या वै देवतामिव । । २८
उपगम्योचतुस्तां तौ का त्वं सुन्दरि रूपिणी ।
किमर्थमिह एका त्वं तिष्ठसे कस्तवाश्रयः । । २९
सा तावुवाच तन्वङ्गी शर्यातिदुहिता ह्यहम् ।
भर्ता च च्यवनो मह्यं कौ च वां मे तथोच्यताम् । । 1.19.३०
ऊचतुश्चाश्विनौ देवावावां विद्धि नृपात्मजे ।
किं करिष्यसि तेन त्वं जीर्णेन च कृशेन च । ।
आवयोर्वृणु भर्तारमेकमेव यमिच्छसि । । ३१
सा त्वब्रवीच्च मा मैवं वक्तुमर्हौ दिवौकसौ ।
भर्तारमनुरक्ताङ्गी यथा स्वाहा विभावसोः । । ३२
अश्विनावूचतुः
आयातु च विशत्वद्य च्यवनो वैष्णवीजलम् ।
ततो नौ मध्यगं ह्येकं वृणीष्वान्यं यमिच्छति । । ३३
तावब्रूतां सुकन्यां तु गत्वा पृच्छ स्वकं पतिम् ।
तं च पृष्ट्वा पुनश्चात्रागच्छ नौ सन्निधौ पुनः । । ३४.
आवामत्रैव तिष्ठावो यावदागमनं तव ।
सा गत्वा प्राह भर्तारमश्विनावेवसूचतुः १ । । ३५
रूपवन्तं च भर्तारं करिष्यावो यमिच्छसि ।
अथ मध्यगतं ह्येकं भर्तृत्वेन वरिष्यसि । । ३६
एवमस्त्विति तां प्राह भार्यां च्यवनस्त्वरन् ।
सा तं गृह्य जगामाशु यत्र तौ भिषजावुभौ । । ३७
सा तावुवाच च्यवनो यथोक्तं भवतोर्वचः ।
कुरुतं ह्यश्विनौ क्षिप्रं सुकन्या चेप्सितं२ वृणोत् । । ३८
तौ तं सङ्गृह्य गङ्गायां प्रविष्टौ मुनिना सह ।
मुहूर्तात्तु समुत्तिष्ठन्रूपतश्च श्रिया वृताः । । ३९
शोभन्ते स्म महाबाहौ कमुद्भिद्य तपोयुताः ।
कल्पादौ कलशे यद्वत्कञ्जाक्ष व्योम वेधसः । ।
उदकादुत्थितास्तस्मात्सर्वे ते समरूपकाः ।।1.19.४०
सुकन्या तु ततो दृष्ट्वा भर्त्तारं देवरूपिणम् ।
हर्षेण महताविष्टा न च तं वेद भारत ।।४१
समकायाः समवयः समरूपाः समश्रियः ।
वस्त्रालङ्कारसदृशान्दृष्ट्वा चिन्तां गता चिरम् ।।४२
सा चिन्तयित्वा सुचिरं वैद्यदेवावुवाच ह ।
बीभत्सोऽपि मया भर्ता परित्यक्तो न कर्हिचित् ।।४३
भवद्भिरात्मसंदृशं कथं१ त्यक्त्वा वृणे परम् ।
तस्मात्तमेव भर्तारं प्रयच्छध्वं दिवौकसः ।।४४
तया सबहुमानं तौ प्राञ्जल्या प्रार्थितौ तदा ।
देवचिह्नानि स्वान्येव धारयन्तौ सुपूजितौ ।।४५
सुकन्या निपुणं तौ तु सुनिरीक्ष्य च विह्वला ।
न रजो न निमेषो वै न स्पृशेते धरां पदे ।।४६
अयं च सरजा म्लानो भूमिमाश्रित्य तिष्ठति ।
निमेषं चैव तस्यैवं ज्ञात्वा वै च्यवनो वृतः ।।४७
च्यवने वृते सुकन्यया पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयश्चैव प्रावाद्यन्त अनेकशः ।।४८
ततस्तु च्यवनस्तुष्टो दिव्यरूपधरस्तदा ।
उवाच तौ तु सुप्रीत अश्विनौ किं करोमि वाम् ।।४९
भार्या दत्ता कृतं रूपं देवानामपि दुर्लभम् ।
उपकारं वरिष्ठं यो न करोत्युपकारिणः ।।1.19.५०
एकविंशत्स गच्छेच्च नरकाणि क्रमेण वै ।
तस्मादहं वरिष्ठं वै करिष्येऽहममानुषम् । । ५१
उपकारं भवद्भ्यां तु प्रीतः कुर्यां सुनिश्चितम् ।
यज्ञभागफलं दद्यां यद्देवेष्वपि दुर्लभम् । । ५२
एवमुक्त्वा तु देवेशौ विससर्ज महामुनिः ।
आजगामाश्रमं पुण्यं सहभार्यो मुदान्वितः । । ५३
अथ शुश्राव शर्यातिश्च्यवनं देवरूपिणम् ।
जगाम च महातेजा द्रष्टुं मुनिवरं वशी । । ५४
तं दृष्ट्वा प्रणिपत्यादौ प्रतिपूज्य यथार्हतः ।
सुकन्यां तु ततो दृष्ट्वा प्रणिपत्याभिनन्द्य च । । ५५
सस्वजे मूर्ध्नि आघ्राय ततोत्सङ्गं १ समानयत् ।
सा तस्याः सस्वजे प्रेम्णा आनन्दाश्रुपरिप्लुता । ।
संस्थाप्य तां मुदा युक्तो नृपतिः सह भार्यया । । ५६
भूयोऽब्रवीत्सुसंतुष्टं च्यवनस्तं नराधिपम् ।
संभारं कुरु यज्ञार्थं याजयिष्ये नराधिप । । ५७
एवमुक्तः स नृपतिः प्रणिपत्य महामुनिम् ।
जगाम स्वपुरं हृष्टो यज्ञार्थं यत्नमाचरत् । । ५८
सप्रेष्यान्प्रेषयन्क्षिप्रं यज्ञार्थे द्रव्यमाहरत् ।
मंत्रिपुरोहिताचार्यानानयामास सत्वरम् । । ५९
समानीतेषु सर्वेषु तेषु द्रव्येषु भारत ।
आजगाम विशुद्धात्मा च्यवनः सह भार्यया । । 1.19.६०
सम्पूजितश्च शुश्राव महान्तं त्यागमौजसम् ।
अन्यैश्च बहुभिः सार्द्धमत्र्यङ्गिरसभार्गवैः । । ६१
प्रवर्तिते महायज्ञे यजमाने नृपोत्तमे ।
ऋत्विक्त्वकर्मनिरते हूयमाने हुताशने । ।
आहूताः स्वागताः सर्वे भागार्थं त्रिदिवालयाः । । ६२
यज्ञभागे प्रवृत्ते तु शास्त्रोक्तेन विधानतः ।
आगतावश्विनौ तत्र आहूतो च्यवनेन तु । । ६३
आह्वाने क्रियमाणे तु अश्विभ्यां तु तदा नृप ।
प्रोवाचेन्द्रोऽथ च्यवनं नैतौ भागान्वितौ कुरु । ।
देवानां भिषजावेतौ न भागार्हौ न दैवतौ । । ६४
च्यवनस्त्विंद्रमाहेदं देवौ ह्येतावुभावपि ।
ममोपकारिणावेतौ दद्मि भागं न संशयः । । ६५
ततो ह्युवाच सक्रोधः स शक्रश्च्यवनं रुषा ।
विप्रर्षे प्रहरिष्यामि यदि भागं प्रयच्छसि । । ६६
एवमुक्तस्तु विप्रर्षिर्न चोवाचापि किञ्चन ।
भागौ ददौ च सोऽश्विभ्यां स्रुवमुद्यम्य मन्त्रतः । । ६७
अथ उद्यम्य भिदुरं मोक्तुकामो दिवस्पतिः ।
स्तम्भितश्च्यवनेनाथ सवज्रः स नराधिप । । ६८
स स्तम्भयित्वात्विन्द्रं तु भागं दत्त्वाश्विनोर्वशी ।
समापयामास तदा यज्ञकर्म यथार्थवत् । । ६९
कञ्जजोऽथाजगामाशु आह च च्यवनं तदा ।
उत्तंभ्यतामयं लेखो भागश्चास्त्वश्विनोरिह ।।1.19.७०
तथेन्द्रस्तमुवाचेदं च्यवनं प्रीतमानसः ।
जानामि शक्तिं तपसश्च्यवनेह तवोत्तमाम् ।।७ १
ख्यापनार्थं हि तपसस्तव एतत्कृतं मया ।
अद्यप्रभृति भागोऽस्तु देवत्वं चाश्विनोस्तथा ।।७२
यस्त्विमां तपसः ख्यातिं त्वदीयां वै पठिष्यति ।
शृणुयाद्वापि शुद्धात्मा तस्य पुण्यफलं शृणु ।।७३
विरोचनसदो गत्वा गत्वा पुष्पसदस्तथा ।
कालेऽथ वामदेवस्य मुञ्जकेशसदस्तथा ।।
यौवनयुक्तः स क्रीडास्तिष्ठतीति न संशयः ।।७४
एवमुक्त्वा जगामाशु देवः स्वभवनं वशी ।
च्यवनोऽपि सभार्यो वै शयार्तिश्चाश्रमं गतः ।।७५
अथापश्यद्विमानाभं भवनं देवनिर्मितम् ।
शय्यासनवरैर्जुष्टं सर्वकामसमृद्धिमत् ।।७६
१उद्यानवापिभिर्जुष्टं देवेन्द्रेण समाहृतम् ।
२गोखण्डसन्निभं रेजे गृहं तद्भुवि दुर्लभम् ।।७७
सुभूषणानि दिव्यानि रत्नवन्ति महान्ति च ।
अरजान्सि च वस्त्राणि दिव्यप्रावरणानि च । ।७८
तत्सर्वमखिलं सह पत्न्या महामुनिः ।
मुदं परमिकां लेभे शक्रं च प्रशशंस ह ।।७९
एवमिष्टा तिथिरियं द्वितीया अश्विनोर्नृप ।
देवत्वं यज्ञभागं च सम्प्राप्ताविह भारत ।।1.19.८०
उपोष्या विधिना येन तं शृणुष्व नराधिप ।
रूपं सुरूपं यो वाञ्छेद्द्वितीयायां नराधिप । । ८१
कार्तिके शुक्लपक्षस्य द्वितीयायां नराधिप ।
पुष्पाहारो वर्षमेकं भवेत्स नियतात्मवान् । । ८२
कालप्राप्तानि यानि स्युर्हविष्यं कुसुमानि तु ।
भुञ्जीयात्तानि दत्त्वा तु ब्राह्मणेभ्यो नराधिप । । ८३
सौवर्णरौप्यपुष्पाणि अथ वा जलजानि १ च ।
व्रतान्ते तस्य सन्तुष्टौ देवौ त्रिभुवनेऽश्विनौ । । ८४
ददतुः कामगं दिव्यं विमानमतितेजसम् ।
सुचिरं दिवि नारीभिर्लोकेऽसौ रमतेऽश्विनोः । । ८५
इह चागत्य कल्पान्ते जातो विप्रः पुरस्कृतः ।
वेदवेदांगविदुषः सप्तजन्मान्तराण्यसौ । । ८६
जातो जातो भवेद्विद्वान्ब्राह्मणोऽसौ कृते युगे ।
दाता यज्ञपतिर्वाग्मी आधिव्याधिविवर्जितः । । ८७
पुत्रपौत्रैः परिवृतः सह पन्त्याऽवसच्चिरम् ।
मध्यदेशे सुनगरे २ धर्मिष्ठो राज्यभाग्भवेत् । । ८८
इत्येषा कथिता तुभ्यं द्वितीया पुष्पसंज्ञिता ।
फलसंज्ञा तथान्या स्यात्सुते वै मुञ्जकेशिनि । । ८९
सुष्ठु पुण्या पापहरा विष्टरश्रवसः प्रिया ।
अशून्यशयना लोके प्रख्याता कुरुनन्दन । । 1.19.९०
तामुपोष्य नरो राजञ्छ्रद्धाभक्तिपुरस्कृतः ।
ऋद्धिं वृद्धिं श्रियं वाथ भार्यया सह मोदते । । ९१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयाकल्पे शर्यात्याख्याने पुष्पद्वितीयावर्णनं नामैकोनविंशोऽध्यायः । १९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 20
अशून्यशयना नाम्न्याः द्वितीयातिथेर्महत्त्वम्
शतानीक उवाच
ब्रूहि मे द्विजशार्दूल द्वितीयां फलसंज्ञिताम् ।
यामुपोष्य नरो योषिद्वियोगं नेह गच्छति । । १
पत्न्या नरो मुनिश्रेष्ठ भार्या च पतिना १ सह ।
तामहं श्रोतुमिच्छामि विधवा स्त्री न जायते । ।
उपोषितेन येनार्य पत्न्या च सहितो नरः । । २
तन्मे ब्रूहि द्विजश्रेष्ठ श्रेयोऽर्थं नरयोषिताम् ।
येन मे कौतुकं ब्रह्मञ्छ्रुत्वापूर्वं प्रसर्पति । । ३
सुमन्तुरुवाच
अशून्यशयनां नाम द्वितीयां शृणु भारत ।
यामुपोष्य न वैधव्यं स्त्री प्रयाति नराधिप । ।
पत्नीवियुक्तश्च नरो न कदाचित्प्रजायते । ।४
शेते जगत्पतिः कृष्णः श्रिया सार्धं यदा नृप ।
अशून्यशयना नाम तदा ग्राह्या हि सा तिथिः । । ५
कृष्णपक्षे द्वितीयायां श्रावणे मासि भारत ।
इदमुच्चारयेत्स्नातः प्रणम्य जगतः पतिम् । ।
श्रीवत्सधारिणं देवं भक्त्याभ्यर्च्य श्रिया सह । । ६
श्रीवत्सधारिञ्छ्रीकान्त श्रीवत्स श्रीपतेऽव्यय ।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् । । ७
गावश्च मा प्रणश्यन्तु मा प्रणश्यन्तु मे जनाः । । ८
जामयो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ।
लक्ष्म्या वियुज्येऽहं देव न कदाचिद्यथा भवान् । । ९
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम् ।
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा । । 1.20.१०
शय्या ममाप्यशून्यास्तु तथा तु मधुसूदन ।
एवं प्रमाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः । । ११
फलानि दद्याच्छायायामभीष्टानि जगत्पतिम् ।
नक्तं १ प्रणम्यायतने हविर्भुञ्जीत वाग्यतः । । १२
ब्राह्मणाय द्वितीयेऽह्नि शक्त्या दद्याच्च दक्षिणाम् । । १३
शतानीक उवाच
कानि तानि अभीष्टानि केशवस्य फलानि तु ।
योज्यानि शयने विप्र देवदेवस्य कथ्यताम् । । १४
किं च दानं द्वितीयेऽह्नि दातव्यं ब्राह्मणस्य तु ।
भक्तैर्नरैर्द्विजश्रेष्ठ देवदेवस्य शक्तितः । । १५
सुमन्तुरुवाच
यानि तत्र महाबाहो काले सन्ति फलानि तु।
मधुराणि सुतीव्राणि न चापि कटुकानि तु । । १६
दातव्यानि नृपश्रेष्ठ स्वशक्त्या शयने नृप ।
मधुराणि प्रदत्तानि नरो वल्लभतां यजेत् । । १७
योषिच्च कुरुशार्दूल भर्तुर्वल्लभतामियात् ।
तस्मात्कटुकतीव्राणि स्त्रीलिङ्गानि विवर्जयेत् । । १८
खर्जूरमातुलिङ्गानि श्वेतेन शिरसा सह ।
फलानि शयने राजन्यज्ञभागहरस्य तु । । १९
देयानि कुरुशार्दूल स्वशक्त्या मुञ्जकेशिने ।
एतान्येव तु विप्रस्य गाङ्गेयसहितानि तु । । 1.20.२०
द्वितीयेऽह्नि प्रदेयानि भक्त्या शक्त्या च भारत ।
वासोदानं तथा धान्यफलदानसमन्वितम् । ।
गाङ्गेयस्य विशेषेण धान्यदानं प्रचक्षते । । २१
एवं करोति यः सम्यङ्नरो मासचतुष्टयम् ।
ततो जन्मत्रयं वीर गृहभङ्गो न जायते । । २२
अशून्यशयनश्चासौ धर्मकामार्थसाधनः ।
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः । । २३
१नारी च राजन्धर्मज्ञा व्रतमेतद्यथाविधि ।
या करोति न सा शोच्या बन्धुवर्गस्य जायते । । २४
वैधव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम ।
नाप्नोति जन्म त्रियतमेतच्चीर्त्वा२ महाव्रतम् । । २५
अदत्त्वा कटुकानीह फलानि कुरुनन्दन ।
खर्जूरमातुलिङ्गानि बृहत्फलशिरांसि च । । २६
दत्त्वा द्विजेभ्यो राजेन्द्र मधुराणि पराणि च ।
तस्मात्स्वशक्त्या यत्तेन देयानि मधुराणि च । । २७
इत्येषा कथिता कृष्णद्वितीया तिथिरुत्तमा ।
यामुपोष्य नरो राजन्नृद्धिं वृद्धिं तथा व्रजेत् । । २८
शतानीक उवाच
भवता कथितेयं वै द्वितीया तिथिरुत्तमा ।
अश्विभ्यां द्विजशार्दूल कथमस्यां जनार्दनः । । २९
सम्पूज्यः फलसंज्ञायां कथितः पद्मया सह ।
तदत्र कौतुकं मह्यं सुमहज्जायते द्विज । । 1.20.३०
सुमन्तुरुवाच
एवमेतन्न सन्देहो तथा वदसि भारत ।
अश्विनोर्वै तिथिरियं किं तु वाक्यं निबोध मे । । ३१
अशून्यशयना दत्ता १विष्णोरमिततेजसः ।
अश्विभ्यां कुरु शार्दूल प्रीतये मुञ्जकेशिनः । । ३२
तावेव कुरुशार्दूल पूज्येतेऽत्र महीपते ।
नासत्यौ भगवान्विष्णुर्दत्तश्च श्रीर्विभाव्यते । । ३३
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
द्वितीयाकल्पसमाप्तौ विंशोऽध्यायः । २० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 21
तृतीयातिथिव्रतमाहात्म्यम्
सुमन्तरुवाच
पतिव्रता पतिप्राणा पतिशुश्रूषणे रता ।
एवंविधापि या प्रोक्ता शुचिः संशोभना सती । । १
सोपवासा तृतीयां तु लवणं परिवर्जयेत् ।
सा गृह्णाति च वै भक्त्या व्रतमामरणान्तिकम् । । २
गौरी ददाति सन्तुष्टा रूपं सौभाग्यमेव च ।
लावण्यं ललितं हृद्यं श्लाघ्यं पुंसां मनोरमम् । । ३
पुंसो मनोरमा नारी भर्त्ता नार्या मनोरमः ।
गौरीव्रतेन भवति राजँल्लवणवर्जनात् । । ४
इदं व्रतं प्रति विभो धर्मराजस्य शृण्वतः ।
उमया च पुरा प्रोक्तं यद्वाक्यं तन्निबोध मे । । ५
मया व्रतमिदं सृष्टं सौभाग्यकरणं नृणाम् ।
मर्त्ये तु नियता नारी व्रतमेतच्चरिष्यति । ।
सह भर्त्रा स मोदेत यथा भर्ता हरो मम । । ६
या च कन्या न भर्तारं विन्दते शोभना सती ।
सा त्विदं व्रतमुद्दिश्य भवेदक्षारभोजना । ।
मच्चित्ता मन्मनाः कुर्यान्मद्भक्ता मत्परिग्रहा । । ७
गौरीं संस्थाप्य सौवर्णीं गन्धालङ्कारभूषिताम् ।
वस्त्रालङ्कारसंवीतां पुष्पमण्डलमण्डिताम् । । ८
लवणं गुडं घृतं तैलं देव्यै शक्त्या निवेदयेत् । १
कटुखण्डं जीरकं च पत्रशाकं च भारत । । ९
गुडघृष्टांस्तथापूपान्खडवेष्टांस्तथा नृप ।
ब्राह्मणे व्रतसम्पन्ने प्रदद्यात्सुबहुश्रुते । । 1.21.१०
शुक्लपक्षे सदा देया यथा शक्त्या हिरण्मयी ।
धनहीने तु भक्त्या२ च मधुवृक्षमयी नृप । । ११
अर्च्या नित्यं संनिधानात्तत्र गौरी न संशयः ।
अक्षारलवणं रात्रौ भुंक्ते चैव सुवाग्यता । । १२
गौरी सन्निहिता नित्यं भूमौ प्रस्तरशायिनी३ ।
एवं नियमयुक्तस्य४ देव्या यत्समुदाहृतम् । । १३
तच्छृणुष्व महाबाहो कथ्यमानं महाफलम् ।
भर्तारं तु लभेत्कन्या यं वाच्छति मनोऽनुगम् । । १४
सुचिरं सह वै भर्त्रा क्रीडयित्वा५ इहैव सा ।
सन्ततिं च प्रतिष्ठाप्य सह तेनैव गच्छति । । १५
हेलिलोकं चन्द्रलोकं लोकं चित्रशिखण्डिनः ।
गत्वा याति सदो राजन्वामदेवस्य भारत । । १६
विधवा तु यदा राजन्देव्या व्रतपरायणा६ ।
भर्त्तारं नियता नित्यं सदार्चनपरायणा । । १७
इह चोत्सृज्य देहं स्वं दृष्ट्वा हरिपुरे प्रियम् ।
आक्षिप्य यमदूतेभ्यः सह भर्त्रा रमेद्दिवि । । १८
वर्षकोटिं दशगुणां रमित्वा सा इहागता ।
भर्त्रा सहैव पूर्वोक्तं लभते फलमीप्सितम् । । १९
इन्द्राण्यापि व्रतमिदं पुत्रार्थिन्या नराधिप ।
लब्धः पुत्रो व्रतस्यान्ते जयन्तो नाम नामतः । । 1.21.२०
अरुन्धत्या तथा चीर्णं वशिष्ठं प्रति कामतः ।
दृश्यते दिवि चाद्यापि वशिष्ठस्य समीपतः । । २१
रोहिण्या लवणत्यागात्सपन्नीगणमर्दनम् ।
लब्धं देव्याः प्रसादेन सौभाग्यमचलं दिवि । । २२
इत्येषा तिथिरित्येव तृतीया लोकपूजिता ।
सदा विशेषतः पुण्या वैशाखे मासि या भवेत् । । २३
पुण्या भाद्रपदे मासि माघेप्येवं न संशयः ।
माघे भाद्रपदे चापि स्त्रीणां धन्या१ प्रचक्षते । । २४
साधारणी तु वैशाखे सर्वलोकस्य भारत ।
माघमासे तृतीयायां गुडस्य लवणस्य च । ।
दानं श्रेयस्करं राजन्स्त्रीणां२ च पुरुषस्य च । । २५
गुडेन तुष्यते दत्तो लवणेन तु विश्वभूः ।
गुडपूपास्तु दातव्या मासि भाद्रपदे तथा । । २६
तृतीयायां तु माघस्य वामदेवस्य प्रीतये ।
वारिदानं प्रशस्तं स्यान्मोदकानां च भारत । । २७
वैशाखे मासि राजेन्द्र तृतीया चन्दनस्य च ।
वारिणा तुष्यते वेधा मोदकैर्भीम एव हि । ।
दानात्तु चन्दनस्येह कञ्जजो नात्र संशयः । । २८
यात्वेषा कुरुशार्दूल वैशाखे मासि वै तिथिः ।
तृतीया साऽक्षया लोके गीर्वाणैरभिनन्दिता । । २९
आगतेयं महाबाहो भूरि चन्द्रं वसुव्रता ।
कलधौतं तथान्नं च घृतं चापि विशेषतः । ।
यद्यद्दत्तं त्वक्षयं स्यात्तेनेयमक्षया स्मृता । । 1.21.३०
यत्किञ्चिद्दीयते दानं स्वल्पं वा यदि वा बहु ।
तत्सर्वमक्षयं स्याद्वै तेनेयमक्षया स्मृता । । ३१
योऽस्यां ददाति करकन्वारिबीजसमन्वितान् ।
स याति पुरुषो वीर लोकं वै हेममालिनः । । ३२
इत्येषा कथिता वीर तृतीया तिथिरुत्तमा ।
यामुपोष्य नरो राजन्नृद्धिं वृद्धिं श्रियं भजेत् । । ३३
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां ब्राह्मे पर्वणि तृतीयाकल्पविधिवर्णनं
नामैकविंशोऽध्यायः । २१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 22
चतुर्थीतिथिव्रतमाहात्म्यम्
सुमन्तुरुवाच
चतुर्थ्यां तु सदा राजन्निराहारव्रतान्वितः ।
दत्त्वा तिलान्नं विप्रस्य स्वयं भुंक्ते तिलौदनम् । । १
वर्षद्वये समाप्तिर्हि व्रतस्य तु यदा भवेत् ।
विनायकस्तस्य तुष्टो ददाति फलमीहितम्१ । । २
याति भाग्यनिवासं हि क्रीडते विभवैः सह ।
इह चागत्य पुण्यान्ते दिव्यो दिव्यवपुर्यशाः । । ३
मतिमान्धृतिमान्वाग्मी भाग्यवान्कामकारवान्२ ।
असाध्यान्यपि साध्येह क्षणादेव महान्त्यपि । । ४
हन्त्यश्वरथसम्पन्नं षलीपुत्रसहायवान् ।
राजा भवति दीर्घायुः सप्तजन्मान्यसौ नृप । ।
एतद्ददाति सन्तुष्टो विघ्नहन्ता४ विनायकः । । ५
शतानीक उवाच
विघ्नः कस्य कृतस्तेन येन विघ्नविनायकः ।
एतद्वदस्व विघ्नेश विघ्नकारणमद्य मे । । ६
सुमन्तुरुवाच
कौमारे लक्षणे पुंसां स्त्रीणां च सुकृते कृते ।
विघ्नं चकार विघ्नेशो गाङ्गेयस्य विनायकः । । ७
तं तु विघ्नं विदित्वासौ कार्त्तिकेयो रुषान्वितः ।
उत्कृष्य दन्तं तस्यास्याद्धन्तुं तं च समुद्यतः । । ८
निवार्यापृच्छद्देवेशो रोषः कार्यः कुतस्त्वया ।
तं चाचख्यौ स पित्रे वै कृतं पूरुषलक्षणम् । ।
तत्र विघ्नकृते मह्यं योषिता न च लक्षणम् । । ९
अथोवाच महादेवः प्रहसन्त्स्वसुतं किल ।
मम किं लक्षणं पुत्र पश्यसे त्वं वदस्व मे । । 1.22.१०
स चोवाच करे तुभ्यं कपालं द्विजलक्षितम् ।
अविचारेण संस्थाप्यं कपाली तेन चोच्यते । ।
स तल्लक्षणमादाय समुद्रे प्राक्षिपद्रुषा । । ११
अथ देवसमाजे वै प्रवृत्ते ब्रह्मरुद्रयोः ।
अहं ज्यायानहं ज्यायान्विवादोऽभूत्तयोर्द्वयोः । ।
तव संभूत्यभिज्ञोऽस्ति मां तु वेद न कश्चन । । १२
एवं शिवेऽति ब्रुवति ब्रह्मणः पञ्चमं शिरः ।
मुक्ताट्टहासं प्रोवाच त्वामहं वेदिता भव । । १३
एवं ब्रुवन्तु रुद्रेण ब्राह्मं हयशिरो महत् ।
नखाग्रेण निकृत्तं च तस्यैव च करे स्थितम् । । १४
करस्थेनैव तेनासावागच्छद्यत्र वै हरिः ।
तपस्तेपे तदा मेरौ तत्रासौ भगवान्वशी । । १५
कृत्ते हयशिरे तस्मिन्स्थानात्तस्मात्तु ब्रह्मणः ।
रोषाद्विनिःसृतस्त्वन्यः पुरुषः श्वेतकुण्डली । । १६
कवची सशिरस्कश्च सशरः सशरासनः ।
अनिर्देश्यवपुः स्रग्वी किं करोमि स चाब्रवीत् । । १७
अथोवाच रुषा ब्रह्मा हन्यतां स सुदुर्मतिः ।
स तु मार्गेण रुद्रस्य आगच्छद्रोषतो द्रुतम् । । १८
रुद्रोऽपि विष्णुतेजोभिः प्रविष्टः स त्वधिष्ठितः ।
स प्रविश्य तदापश्यत्तपन्तं चोत्तमं तपः । ।
हरो नारायणं देवं वैकुण्ठमपराजितम् । । १९
हरं दृष्ट्वाथ सम्प्राप्तं कार्यं चास्य विचिन्त्य च ।
उवाच शूलिनं देवो भिन्धि शूलेन मे भुजम् । । 1.22.२०
स बिभेद महातेजा भुजं शूलेन तं हरः । । २१
शूलभेदादसृक्चोर्ध्वं जगामावृत्य रोदसी ।
विनिवृत्य ततः पश्चात्कपाले निपपात ह । । २२
असृक्कपाले पतितं प्रदेशिन्या व्यवर्द्धयत् ।
यदा हि विनिवृत्तिः स्याद्देवस्य रुधिरं प्रति । । २३
तदा तु व्यसृजत्तोयं स कृत्वा वारुणीं तनुम् ।
तोये प्रवृत्तेऽसृग्भूते कपाले यत्र तच्छिरः । । २४
कपाले तु प्रदेशिन्या रुद्रोऽसौ रुधिरेऽसृजत् ।
आमुक्तकवचं रक्तं रक्तकुण्डलिनं नरम् । । २५
अथोवाच भवं देवं किं करोमीति मानद ।
असावपि ससर्जाथ श्वेतकुण्डलिनं नरम् । । २६
तावुभौ समयुध्येतां धनुष्प्रवरधारिणौ ।
यथा राजन्बलीयांसौ कुजकेतू युगात्यये । । २७
तयोस्तु युध्यतोरेवं संवर्तश्चाधिको गतः ।
न चादृश्यत विजय एकस्यापि तदा तयोः । । २८
अथान्तरिक्षे तौ दृष्ट्वा वागुवाचाशरीरिणी ।
अवतारोऽथ भविता युवयोर्हि मया सह । । २९
भारापनोदः कर्त्तव्यः पृथिव्यर्थे सुरैः सह ।
तदाश्चर्यो हि भविता देवकार्यार्थसिद्धये । । 1.22.३०
भूलोकभावं निर्धूय भूयो गन्ता सुरालयम् ।
एवमुक्त्वा तु वैकुण्ठो ददावेकं रवेस्तदा । । ३१
श्वेतकुण्डलिनं दृप्तं१ तं जग्राह रविर्मुदा ।
इन्द्रस्यापि ततः पश्चाद्रक्तकुण्डलिनं ददौ ।।३२
जग्राह च मुदा युक्त इन्द्रः स्वं च पुरं ययौ ।
गतौ रवीन्द्रौ प्रगृह्य पुरुषौ क्रोधसम्भवौ ।।३ ३
अथोवाच तदा रुद्रं देवः कमलसंस्थितः ।
गच्छ त्वमपि कापाले कपालव्रतचर्यया ।।
अवतारो व्रतस्यास्य मर्त्यलोके भविष्यति ।। ३४
ये च व्रतं त्वदीयं वै धारयिष्यन्ति मानवाः ।
न तेषां दुर्लभं किञ्चिद्भवितेह परत्र च ।।३५
एवं संलप्य बहुशः सुमुखं प्रतिनन्द्य च ।
आहूय च समुद्रं स प्रत्युवाचाविचारयन् ।।३६
कुरुष्वाभरणं२ स्त्रीणां लक्षणं यद्विलक्षणम् ।
कार्त्तिकेयेन यत्प्रोक्तं तद्वदस्वाविचारयन् ।। ३७
स चाह मम नाम्नेदं भवेत्पुरुषलक्षणम् ।
देवेन तत्प्रतिज्ञातमेवमेतद्भविष्यति ।।३८
कार्त्तिकेयेन यत्प्रोक्तं तद्वदस्वाविचारयन् ।।३९
प्रयच्छास्य विषाणं वै निष्कृष्टं यत्त्वयाऽधुना ।
अवश्यमेव तद्भूतं भवितव्यं तु कस्यचित् ।।1.22.४०
ऋते विनायकं तद्वै दैवयोगान्न कामतः ।
गृहाण एतत्सामुद्रं यत्त्वया परिकीर्तितम् ।।४१
स्त्रीपुंसोर्लक्षणं श्रेष्ठं सामुद्रमिति विश्रुतम ।
इमं च सविषाणं वै कुरु देवविनायकम ।।४२
अथोवाच च देवेशं बाहुलेयः समत्सरम् ।
विषाणं दद्मि चास्याहं तव वाक्यान्न संशयः । । ४३
यदा त्वयं विषाणं च मुक्त्वा तु विचरिष्यति ।
तदा विषाणमुक्तः सन्भस्म ऐतं करिष्यति । । ४४
एवमस्त्विति तं चोक्त्वा विषाणं तत्करे ददौ ।
विनायकस्य देवेशः कार्तिकेयमते स्थितः । । ४५
सविषाणकरोऽद्यापि दृश्यते प्रतिमा नृप ।
भीमसूनोर्महाबाहोर्विघ्नं कर्त्तुं महात्मनः । । ४६
एतद्रहस्यं देवानां मया ते समुदाहृतम् ।
यत्र देवो न वै वेद देवानां भुवि दुर्लभम् । । ४७
मया प्रसन्नेन तव गुह्यमेतदुदाहृतम् ।
कथितं तिथिसंयोगे विनायककथामृतम् । । ४८
य इदं श्रावयेद्विद्वान्ब्राह्मणान्वेदपारगान् ।
क्षत्रियांश्च स्ववृत्तिस्थान्विट्शूद्रांश्च गुणान्वितान् । । ४९
न तस्य दुर्लभं किञ्चिदिह चामुत्र विद्यते ।
न च दुर्गतिमाप्नोति न च याति पराभवम् । । 1.22.५०
निर्विघ्नं सर्वकार्याणि साधयेन्नात्र संशयः ।
ऋद्धिं वृद्धिं श्रियं चापि विन्देत भरतोत्तम । । ५१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पवर्णनं
नाम द्वाविंशोऽध्यायः । २२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 23
विघ्न-विनायककथावर्णनम्
शतानीक उवाच
केनायं भीमजो विप्र प्रमथाधिपतिः कृतः ।
भर्तृत्वे चापि विघ्नानामधिकारी कथं बभौ । । १
सुमन्तुरुवाच
साधु पृष्टोऽस्मि राजेन्द्र यदयं विघ्नकारकः ।
यैर्वापि विघ्नकरणैर्निर्युक्तोऽपि विनायकः । ।
तत्ते वच्मि महाबाहो शृणुष्वैकमनाधुना । । २
आद्ये कृतयुगे वीर प्रजासर्गमवाप ह ।
दृष्ट्वा कर्माणि सिद्धानि विना विघ्नेन भारत । । ३
अगतक्लेशां प्रजां दृष्ट्वा गर्वितां कृत्स्नशो नृप ।
बहुशश्चिन्तयित्या तु इदं कर्म महीपते । । ४
विनायकः समृद्ध्यर्थं प्रजानां विनियोजितः ।
गणानां चाधिपत्ये च भीमः कञ्जजसात्त्वतैः । ।
ततोपसृष्टो यस्तस्य लक्षणानि निबोध मे । । ५
स्वप्नेवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति । । ६
अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ।
व्रजमानस्तथात्मानं मन्यतेऽनुगतं परैः । । ७
विमना विफलारम्भः संसीदत्यनिमित्ततः ।
करटारूढमात्मानमम्भसोन्तरगं तथा । । ८
पत्तिभिश्चावृतं यान्तं सङ्गमनान्तिकं नृप ।
पश्यते कुरुशार्दूल स्वप्नान्ते नात्र संशयः । । ९
चित्तं च विकृताकारं करवीरविभूषितम् ।
तेनोपसृष्टो लभते न राज्यं पौर्वसंभवम् । । 1.23.१०
कुमारी न च भर्तारमपत्यं गर्भिणी तथा ।
आचार्यत्वं श्रोत्रियश्च शिष्याश्चाध्ययनं तथा । ।
वणिग्लाभं च नाप्नोति कृषिं चैव कृषीवलः । । ११
स्नपनं तस्य कर्तव्यं पुण्येऽहनि ' महीपते ।
गौरसर्षपकल्केन साज्येनोत्सादितेन तु । । १२
शुक्लपक्षे चतुर्थ्यां तु वासरे धिषणस्य च ।
तिष्ये च वीरनक्षत्रे तस्यैव पुरतो नृप । । १३
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्ति वाच्य द्विजाञ्छुभान् । । १४
व्योमकेशं तु सम्पूज्य पार्वतीं भीमजं तथा ।
कृष्णं सपितरं तात पवमानं सितं तथा । । १५
धिषणं चेन्दुपुत्रं च कोणं केतुं च ३ भारत ।
विधुन्तुदं बाहुलेयं नन्दकस्य च धारिणम् । । १६
अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्ह्रदात् ।
मृत्तिकां रोचनां गन्धान्गुग्गुलं चाप्सु निक्षिपेत् । । १७
यदाहृतं ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ।
चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं तथा । । १८
सहस्राक्षं शतधारमृषिभिः १ पावनं कृतम् ।
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते । । १९
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । । 1.23.२०
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद् घ्नन्तु ते सदा । । २१
स्नातस्य सार्षपं तैलं सुवेणौदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य तु । । २२
मितश्च सम्मितश्चैव तथा च शालकंटकः ।
कूष्माण्डो राजश्रेष्ठास्तेऽग्नयः स्वाहासमन्विताः । । २३
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः । । २४
कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेव तु । । २५
पुष्पं चित्रं सगन्धं च सुरां च त्रिविधामपि ।
मूलकं पूरिकाः पूपांस्तथैवोण्डेरिकास्रजम् । ।
दधिपायसमन्नं च गुडवेष्टान्समोदकान् । । २६
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वा पुष्पाञ्जलित्रयम् । । २७
रूपं देहि यशो देहि भगं भगवति देहि मे ।
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे । ।
अचलां बुद्धिं मे देहि धरायां ख्यातिमेव च । । २८
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
भोजयेद् ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि । । २९
एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।
कर्मणां फलमाप्नोति श्रियं प्राप्नोत्यनुत्तमाम् । । 1.23.३०
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।
विनायकपतेश्चैव सर्वसिद्धिमवाप्नुयात् । । ३१
इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पवर्णनं
नाम त्रयोविंशोऽध्यायः । २३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 24
चतुर्थीकल्पे पुरुषलक्षणवर्णनम्
शतानीक उवाच
नराणां योषितां चैव लक्षणानि महामते ।
प्रोक्तानि यानि विप्रेन्द्र व्योमकेशस्य सूनुना । । १
क्रुद्धेन यानि क्षिप्तानि ईश्वरेण महोदधौ ।
कृष्णस्य वचनाद् भूयः समुद्रेणार्पितानि वै । । २
अर्पितानि ततस्तस्य तेन प्राप्तानि वै कथन् ।
बाहुलेयेन विप्रेन्द्र तानि मे वद सुव्रत । । ३
सुमन्तुरुवाच
यथा गुहेन राजेन्द्र स्त्रीपुंसां लक्षणानि वै ।
प्रोक्तानि कुरुशार्दूल तथा ते कथयामि वै । । ४
शक्तिपाताद्धते क्रौञ्चे व्योमकेशस्य सूनुना ।
ब्रह्मा तुष्टोऽब्रवीदेनं वरं वरय मेऽनघ । । ५
असावपि महातेजाः प्रणम्य शिरसा विभुम् ।
पितामहं बभाषेदं लक्षणं ब्रूहि मे विभो । । ६
नराणां युवतीनां च कौतुकं परमं मम ।
यन्मयोक्तं पुरा देव प्रक्षिप्तं लवणार्णवे । । ७
मत्पित्रा देवदेवेश सक्रोधेन पुरा तथा ।
प्राप्तं च विस्मृतं भूयस्तन्मे ब्रूहि ह्यशेषतः । । ८
ब्रह्मोवाच
साधु पृष्टोऽस्मि देवेश भीमस्यानन्दवर्धन ।
लक्षणानि निबोध त्वं पुरुषाणामशेषतः । ।
अधमोत्तममध्यानि यानि प्राप पयोनिधिः । । ९
शिवेऽहनि सुनक्षत्रे ग्रहे सौम्ये शुभे रवौ ।
पूर्वाह्णे मङ्गलैर्युक्ते परीक्षेत विचक्षणः । । 1.24.१०
प्रमाणं संहतिं छायां गतिं सर्वाङ्गलक्षणम् ।
दन्तकेशनखश्मश्रु एतत्सर्वं विचक्षणः । । ११
पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् ।
क्षीणे ह्यायुषि मर्त्यानां लक्षणैः किं प्रयोजनम् । । १२
जघन्यो नवतिः प्रोक्तो मध्यमस्तु शताड्गुलः ।
अष्टोत्तरशतं यस्य उत्तमं तस्य लक्षणम् । । १३
प्रमाणलक्षणं प्रोक्तं समुद्रेण शुभाशुभम् ।
यन्मे पुरा देववर मया वै कथितं तव । ।
अतः परं प्रवक्ष्यामि देहावयवलक्षणम् । । १४
पादैः समांसकैः २ स्निग्धै रक्तं सौम्यैः सुशोभनैः ।
उन्नतैः स्वेदरहितैः शिराहीनैश्च पार्थिवः । । १५
यस्य पादतले रेखा सांकुशेव प्रकाशते ।
सततं हि सुखं तस्य पुरुषस्य न संशयः । । १६
अस्वेदनौ मृदुतलौ कमलोदरसन्निभौ ।
श्लिष्टाङ्गुली १ ताम्रनखौ सुपार्ष्णी व्योमकेशज । । १७
उष्णौ शिराविरहितौ गूढगुल्फौ च भीमज ।
कूर्मोन्नतौ च चरणौ प्रख्यातौ पार्थिवस्य तु । १८
शूर्पाकृती महाबाहो रूक्षौ श्वेतनखौ तथा ।
वक्रौ शिरासन्ततौ च संशुष्कौ विरलाङ्गुली । । १९
दारिद्र्यदुःखदौ ज्ञेयौ चरणौ भीमनन्दन ।
ब्रह्मघ्नौ देवशार्दूल ३ पक्वमृत्सदृशौ पदौ । । 1.24.२०
पीतावगम्यानिरतौ कृष्णौ पानरतौ सदा ।
अभक्ष्यभक्षणे श्वेतौ ज्ञेयौ सेनाधिपोत्तम । । २१
अङ्गुष्ठौ पृथुलौ येषां ते नरा भाग्यवर्जिताः ।
क्लिश्यन्ते विकृताङ्गुष्ठास्ते नराः पादगामिनः । । २२
चिपिटैर्विकृतैर्भग्नैरङ्गुष्ठैरतिनिन्दिताः ।
वक्रैर्भग्नैस्तथा ह्रस्वैरङ्गुष्ठैः क्लेशभागिनः । । २३
शूर्पाकारैश्च विकृतैर्भग्नर्वक्रैः शिराततैः ।
सस्वेदैः पाण्डुरूक्षैश्च चरणैरतिनिन्दिताः । । २४
यस्य प्रदेशिनी दीर्घा अङ्गुष्ठं या अतिक्रमेत् ।
स्त्रीभोगं लभते नित्यं पुरुषो नात्र संशयः । ।
कनिष्ठायां तु दीर्घायां सुवर्णस्य तु भागिनः । । २५
चिपिटा विरलाः शुष्का यस्याङ्गुल्यो भवन्ति वै ।
स भवेद्दुःखितो नित्यं धनहीनश्च वै ४ गुह । । २६
श्वेतैर्नखैर्विरूक्षैश्च पुरुषा दुःखजीविनः ।
कुशीलाः कुनखैर्ज्ञेयाः कामभोगविवर्जिताः । ।
विकृतैः स्फुटितैरूक्षैर्नखैर्दारिद्र्यभागिनः । । २७
ब्रह्महत्यां च कुर्वन्ति पुरुषा हरितैर्नखैः ।
बन्धुभिश्च वियुज्यन्ते कुलक्षयकराश्च ते । । २८
इन्द्रगोपकसंकाशैर्नखैर्नृपतयः स्मृताः ।
शङ्खावर्तप्रतीकाशैर्नखैर्भवति पार्थिवः । । २९
ताम्रैर्नखैस्तथैश्वर्यं धन्याः पद्मनखा नराः ।
रक्तैर्नखैस्तथैश्वर्यं पुष्पितैः सुभगो भवेत् । ।
सूक्ष्मैरुपचितैस्ताम्रैर्नखैर्नृपतयः स्मृताः । । 1.24.३०
रोमशाभ्यां च जङ्घाभ्यां दुःखदारिद्र्यभागिनः ।
बन्धनं ह्रस्वजङ्घानामैश्वर्यं चैव निर्दिशेत् । । ३१
१मृगजङ्घाश्च राजानो जायन्ते नात्र संशयः ।
दीर्घजङ्घाः स्थूलजङ्घा नित्यं भाग्यविवर्जिताः । । ३२
शृगालजङ्घाः पुरुषा नित्यं भाग्यविवर्जिताः ।
काकजंघा नरा ये तु भवेयुर्दुःखभागिनः । । ३३
२पीनजङ्घास्तथैश्वर्यं प्राप्नुवन्ति न संशयः ।
सिंहव्याघ्रसमा जङ्घा धनिनः परिकीर्तिताः । । ३४
पार्थिवानां भवेद्रोम चैकैकं रोमकूपके ।
पंडितश्रोत्रियाणां च द्वेद्वे ज्ञेये महामते । । ३५
त्रिभिस्त्रिभिस्तथा निःस्वा मानवा दुःखभागिनः ।
केशाश्चैव महाबाहो निन्दिता पूजितास्तथा । । ३६
निर्मांसजानुर्म्रियते प्रवासे शिवनन्दन ३ । । ३७
सौभाग्यमल्पै कथितं दारिद्र्यं विकटैस्तथा ।
निम्नैः स्वस्त्रीजिता ज्ञेयाः समांसै राज्यभागिनः । । ३८
४हंसभासशुकानां च तुल्या यस्य गतिर्भवेत् ।
स भवेत्पार्थिवः पूज्यः समुद्रवचनं यथा । । ३९
अन्येषामपि शस्तानां पक्षिणां च शुभा गतिः ।
वृषसिंहगजेन्द्राणां ६गतिर्भोगविवर्धिनी । । 1.24.४०
जलोर्मिसदृशी या च काकोलूकसमा च या ।
गतिर्द्रव्यविहीनानां दुःखशोकभयङ्करा । । ४१
श्वानोष्ट्महिषाणां १खरसूकरयोस्तथा ।
गतिर्मेषसमा येषां ते नरा भाग्यवर्जिताः । । ४२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे
पुरुषलक्षणवर्णनं नाम चतुर्विंशोध्यायः । २४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 25
पुरुषलक्षणवर्णनम्
ब्रह्मोवाच
दक्षिणावर्तलिङ्गश्च नरो वै पुत्रमान्भवेत् ।
वामावर्ते तथा लिङ्गे नरः कन्यां प्रसूयते । । १
स्थूलैः शिरालैर्विषमैर्लिङ्गैर्दारिद्र्यमादिशेत् ।
ऋजुभिर्वर्तुलाकारैः पुरुषा पुत्रभागिनः । । २
निम्नपादोपविष्टस्य भूमिं स्पृशति मेहनः ।
दुःखितं तं विजानीयात्पुरुषं नात्र संशयः । । ३
भूमौ पादोपविष्टस्य गुल्फौ स्पृशति मेहनः ।
ईश्वरं तं विजानीयात्प्रमदानां च वल्लभम्२ । । ४
सिंहव्याघ्रसमो यस्य ह्रस्वौ भवति मेहनः ।
भोगवान्स तु विज्ञेयोऽशेषभोगसमन्वितः । । ५
रेखाकृतिर्मणिर्यस्य मेहने हि विराजते ।
पार्थिवः स तु विज्ञेयः समुद्रवचनं यथा । । ६
सुवर्णरजतप्रख्यैर्मणिमुक्तासमप्रभैः ।
प्रवालसदृशैः स्निग्धैर्मणिभिः पार्थिवो भवेत् । । ७
पाण्डुरैर्मलिनै रूक्षैर्दीर्घव्यासैर्दिशो व्रजेत् ।
समैस्तथोन्नतैश्चापि सुस्निग्धैर्मणिभिर्गृही । । ८
धनरक्षास्तथा स्त्रीणां भोक्तारस्ते भवन्ति हि ।
मणिभिर्मध्यनिम्नैस्तु पितरस्ते भवन्ति हि । । ९
युवतीनां महाबाहो निःस्वाश्चापि भवन्ति ते ।
नोल्बणैश्चापि धनिनो नरा वीरा भवन्ति हि । । 1.25.१०
मूत्रधारा पतेदेका वलिता दक्षिणा यदि ।
स भवेत्पार्थिवः पृथ्व्याः समुद्रवचनं यथा । । ११
द्वे धारे च तथा स्निग्धे धनवान्भोगवान्स्मृतः ।
बहुधारास्तथा रूक्षाः सशब्दाः पुरुषाधमाः । । १२
मीनगन्धि भवेद्रेतो धनवान्पुत्रवान्भवेत् ।
हविगन्धि भवेद्यस्य धनाढ्यः श्रोत्रियः स्मृतः । । १३
१मूषगन्धिर्भवेत्पुत्री पद्मगन्धिर्नृपः स्मृतः ।
लाक्षागन्धिर्भवेद्यश्च बहुकन्यः प्रजायते । ।
मद्यगन्धिर्भवेद्योद्धा क्षारगन्धिर्दरिद्रकः । । १४
शीघ्रमैथुनगामी यः स दीर्घायुरतोऽन्यथा ।
अल्पायुर्देवशार्दूल विज्ञेयो नात्र संशयः । । १५
तनुशुक्रः स्त्रीजनको मांसगन्धी च भोगवान् ।
पद्मवर्णं भवेद्रक्तं स नरो धनवान्भवेत् । । १६
किञ्चिद्रक्तं तथा कृष्णं भवेद्यस्य तु शोणितम् ।
अधमः स तु विज्ञेयः सदा दुःखैकभाजनम् । । १७
प्रवालसदृशं स्निग्धं भवेद्यस्य च शोणितम् ।
राजानं तं विजानीयात्सप्तद्वीपाधिपं गुह । । १८
विस्तीर्णा मांसला स्निग्धा वस्तिः पुंसां प्रशस्यते ।
निर्मांसा विकटा रूक्षा बस्तिर्येषां न ते शुभाः । । १९
गोमायुसदृशी यस्य श्वानोष्ट्रमहिषस्य च ।
स भवेद्दुःखितो नित्यं पुरुषो नात्र संशयः । । 1.25.२०
यश्चैकवृषणस्तात जले प्राणान्विमुञ्जति ।
स्त्रीचञ्चलस्तु विषमैः समै राज्यं प्रचक्षते । । २१
ऊर्ध्वगैश्चापि ह्रस्वायुः शतञ्जीवी प्रलम्बधृक् ।
मानवाश्चापि रक्तैस्तु धनवन्तो भवन्ति वै । । २२
स्थूलस्फिग्भवति क्षेमी द्रव्ययुक्तः समांसधृक् ।
व्याघ्रस्फिङ्मण्डलो राजा मण्डूकस्फिङ्नराधिपः । ।
द्विमण्डलो महाबाहो सिंहस्फिक्सार्वभौमता । । २३
उष्ट्रवानरयोर्यस्तु धारयेत्स्फिङ्महामते ।
धनधान्यविहीनोऽसौ विज्ञेयो भीमनन्दन । । २४
पुमान्मृगोदरो धन्यो मयूरोदर एव च ।
व्याघ्रोदरो नरपती राजा सिंहोदरो भवेत् । । २५
मण्डूकसदृशं यस्य पुरुषस्योदरं भवेत् ।
स भवेत्पार्थिवः पुष्ट्या समुद्रवचनं यथा । । २६
मांसलैर्ऋजुभिर्वृत्तैः पार्श्वैर्नृपतयः स्मृताः ।
ईश्वरो व्याघ्रपृष्ठस्तु सेनायाश्चैव नायकः । । २७
सिंहपृष्ठो नरो यस्तु बन्धनं तस्य निर्दिशेत् ।
कूर्मपृष्ठास्तु राजानो धनसौभाग्यभागिनः । । २८
विस्तीर्णं हदयं येषां मांसलोमचितं समम् ।
शतायुषो विजानीयाद्भोगभाजो महाधनान् । । २९
विरलाः शुष्कास्तथा रूक्षा दृश्यन्तेऽङ्गुलयः करे ।
स भवेद् दुःखितो नित्यं नरो दारिद्र्यभाजनम् । । 1.25.३०
यस्य मीनसमा रेखा कर्मसिद्धिभ्र तस्य तु ।
धनवान्स तु विज्ञेयो बहुपुत्रश्च मानवः । । ३१
तुला यस्य तु वेदी वा करमध्ये तु दृश्यते ।
तस्य सिध्यति वाणिज्यं पुरुषस्य न संशयः । । ३२
सौम्ये पाणितले यस्य द्विजस्य तु विशेषतः ।
यज्ञयाजी भवेन्नित्यं बहुवित्तश्च मानवः । । ३३
शैलं वाप्यथ वा वृक्षः करमध्ये तु दृश्यते ।
अचलां श्रियमाप्नोति बहुभृत्यसमन्वितः । । ३४
शक्तितोमरबाणासिरेखा १ चापोपमा तथा ।
यस्य हस्ते महाबाहो स जयेद्विग्रहे रिपून् । । ३५
ध्वजभ्राप्यथ वा शंखः करमध्ये तु दृश्यते ।
समुद्रयायी स भवेद्धनी च सततं गुह । । ३६
श्रीवत्समथ वा पद्मं वज्रं वा चकमेव च ।
रथो वाप्यथ वा कुम्भो यस्य हस्ते प्रकाशते । ।
राजानं तं विजानीयात्परसैन्यविदारणम् । । ३७
दक्षिणे तु कराङ्गुष्ठे यवो यस्य तु दृश्यते ।
सर्वविद्याप्रवक्ता च भवेद्वै नात्र संशयः । । ३८
यस्य पाणितले रेखा कनिष्ठामूलमुत्थिता२ ।
गता मध्यं प्रदेशिन्याः स जीवेच्छरदः शतम् । । ३९
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे
पुरुषलक्षणवर्णनं नाम पञ्चविंशोऽध्यायः । २५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 26
पुरुषलक्षणवर्णनम्
ब्रह्मोवाच
समकुक्षिर्भवेद्भोगी निम्नकुक्षिर्धनापहः ।
मायावी विषमा १ कुक्षिस्तथा कुहककृत्सदा । । १
राजा स्यान्निम्नकुक्षिस्तु सार्वभौमो महाबलः ।
सर्पोदरा दरिद्राः स्युर्बहुभक्षाश्च सुव्रत । । २
विस्तीर्णाभिर्मण्डलाभिरुन्नताभिश्च नाभिभिः ।
भवन्ति सुखिनो वीरा धनधान्यसमन्विताः । । ३
निम्नाभिरथ स्वल्पाभिः क्लेशभाजो भवन्ति हि ।
वलिर्मध्यङ्गता वीरा विषमा च विशेषतः । ।
धनहानिं तथा शूलं नित्यं जनयते विभो । । ४
वामावार्ता सदा शान्तिं करोतीति विदुर्बुधाः ।
करोति मेधां दक्षिणेन संप्रवृत्ता दिवस्पते । । ५
पार्श्वायता दीर्घमायुरैश्वर्यमूर्ध्वतः स्मृतम् ।
गवाढ्यतामधस्तात्तु करोतीति विदुर्बुधाः । । ६
शतपत्रकर्णिकाभा नाभिर्यस्य महामते ।
भूपत्वं कुरुते सा तु पुरुषस्य न संशयः । । ७
समोदरो भवेद्भोगी निस्वः स्याद्विषमोदरः ।
सूक्ष्मोदरो भवेद्वाग्मी बहुसम्पत्समन्वितः । । ८
शस्त्रेणान्तं व्रजेद्वीर स्त्रीभोगं चाप्नुयात्तथा ।
आचार्यो बहुपुत्रश्च यथासङ्ख्यं विनिर्दिशेत् । । ९
वलिभिर्देवशार्दूल इत्याह स पयोनिधिः ।
अगम्यागामिनो ज्ञेया विषमाभिर्न संशयः । । 1.26.१०
ऋजुभिर्वसुभोगी स्यात्परदारविनिन्दकः ।
मांसलैर्मृदुभिः पार्श्वै राजा स्यान्नात्र संशयः । । ११
अनूर्ध्वचिबुका ये तु सुभगास्ते भवन्ति वै ।
निर्धना विषमैर्दीर्घैर्भवन्तीह सुवीरज । । १२
पीनैश्चोपचितैर्निम्नैः १ स्कन्धैर्भीमाङ्गसम्भव ।
राजानः सुखिनश्चापि भवन्तीह न संशयः । । १३
समोन्नतं तु हृदयं समं च पृथु चैव हि ।
अवेपनं मांसलं च पार्थिवानां न संशयः । । १४
खररोमचितं वीरशिरालं च विशेषतः ।
अधनानां भवेदेव हृदयं ऋभवोत्तम । ।
समवक्षसोऽर्थयुताः पीनैः शूराः स्मृता बुधैः । । १५
तनुभिर्द्रव्यहीनाः स्युरसमैश्चाप्यकिञ्चनाः ।
वध्यन्ते चापि शस्त्रेण नात्र कार्या विचारणा । । १६
हनुभिर्विषमैर्वीर जन्महीनो भवेन्नरः ।
यस्योन्नतो भवेद्धनुः स भोगी स्यान्न संशयः । । १७
निर्मांसैर्विषमैर्वीर निःस्वो निम्नैः प्रचक्ष्यते ।
धनवांश्च भवेत्पीनैः सुखभोगसमन्वितः । ।
विषमैरर्थहीनः स्याद्दुःखभागी सदा नरः । । १८
चिपिटग्रीवको दुष्टो मतो लोके स वै गुह ।
शूरः स्यान्महिषग्रीवो मृगग्रीवो भयातुरः । । १९
कम्बुग्रीवो भवेद्राजा लम्बकण्ठोऽग्रलक्षणः ।
ह्रस्वग्रीवस्तु धनवान्सुसुखी भोगवांस्तथा । । 1.26.२०
निमांसौ रोमशौ भग्नावल्पौ वापि विशेषतः ।
निर्धनस्येदृशावंसौ प्रख्यातौ व्योमकेशज । । २१
भवेदरोमशं पृष्ठं धनिनां भीमसम्भव ।
सलोमशं तथा वक्रं निर्धनानां बलाधिप । । २२
अस्वेदनावुन्नतौ च तथा पीनौ षडानन ।
समरोमसुगन्धौ च कक्षौ ज्ञेयौ धनान्वितौ । । २३
अव्युच्छिन्नौ तथा श्लिष्टौ विपुलौ च सुराधिप ।
शूराणामीदृशावंसौ नगजानन्दवर्धन । । २४
उद्वृद्धबाहुको यस्तु वधबन्धनमाप्नुयात् ।
दीर्घबाहुर्भवेद्राजा समुद्रवचनं यथा । । २५
प्रलम्बबाहुर्विज्ञेयो नरः सर्वगुणान्वितः ।
ह्रस्वबाहुर्भवेद्दासः परप्रेष्यकरोऽपि वा । । २६
वामावर्तभुजा ये तु दीर्घायतभुजाश्च ये ।
सम्पूर्णबाहू राजा स्यादित्याह स पयोनिधिः । । २७
ग्रीवा च १वर्तुलाकारा कम्बुरेखासमावृता ।
स भवेत्पार्थिवो भूमौ सर्वदुष्टनिबर्हणः । । २८
दीर्घग्रीवा बकग्रीवा शुकग्रीवाश्च ये नराः ।
उष्ट्रग्रीवाः करिग्रीवाः सर्वे ते निर्धनाः स्मृताः । । २९
इभाङ्गसदृशौ२ वृत्तौ समौ पीनौ च सुव्रत ।
आजानुलम्बिनौ बाहू पार्थिवानां न संशयः । । 1.26.३०
दरिद्राणां लोमशौ ह्रस्वौ बाहू ज्ञेयौ सुरोत्तम ।
तस्कराणां च विषमौ स्थूलौ सूक्ष्मौ च सुव्रत । । ३१
निम्नं करतलं यस्य पितृवित्तं न तस्य वै ।
भवेदार्भवशार्दूल तथा भीरुश्च मानवः । । ३२
सुवृत्ततनुनिम्नेन धनवान्करतलेन तु ।
उत्तानकरतलो दाता भवतीति न संशयः । । ३३
विषमा भवन्ति विषमैर्निम्नाश्चापि विशेषतः ।
करतलैर्देवशार्दूल लाक्षाभैरीश्वराः स्मृताः । । ३४
अगम्यागमनं पीतै रूक्षैर्निर्धनता स्मृता ।
अपेयपानं कुर्वन्ति नीलकृष्णैः सदैव हि । । ३५
निम्नाः स्निग्धा भवेन्नृणां रेखा करतले गुह ।
धनिनां न दरिद्राणामित्याह स पयोनिधिः । । ३६
विरलाङ्गुलयो ये तु ते दरिद्राः प्रचक्षते ।
धनिनस्तु महाबाहो ये घनाङ्गुलयो नराः । । ३७
वदनं मण्डलं यस्य धर्मशीलं तमादिशेत् ।
शुण्डवक्त्रा नरा ये तु दुर्भगास्ते न संशयः । । ३८
हरिवक्त्रा जिह्मवक्त्रा विकृतास्यास्तथा नराः ।
भग्नवत्राः करालास्या सर्वे ते तस्कराः स्मृताः । । ३९
सम्पूर्णवक्त्रा राजानो गजसिंहाननास्तथा ।
छागवानरवक्त्राश्च धनिनः परिकीर्तिताः । । 1.26.४०
यस्य गण्डौ सुसम्पूर्णौ पद्मपत्रसमप्रभौ ।
कृषिभागी भवेन्नित्यं बहुवित्तश्च मानवः । । ४१
सिंहव्याघ्रगजेन्द्राणां कपोलः सदृशो यदि ।
महाभोगी स विज्ञेयः सेनायाश्चैव नायकः । । ४२
वदनं तु समं श्लक्ष्णं सौम्यं संवृतमेव हि ।
पार्थिवानां महाबाहो विपरीतन्तु दुःखदम् । । ४३
महामुखं तु देवेश दुर्भगत्वं प्रयच्छति ।
स्त्रीमुखं पुत्रनाशाय मण्डलं सुखितां व्रजेत् । । ४४
द्रव्यनाशाय वै दीर्घं पापदं भयदं तथा ।
धूर्तानां चतुरस्रं स्यात्पुत्रहानिकरं शृणु । । ४५
निम्नवक्त्रं च देवेन्द्र पुत्रहानिकरं भवेत् ।
ह्रस्वं भतति कीनाशे पूर्णकान्तं च भोगिनाम् । । ४६
रक्ताधरो नरपतिर्धनवान्कमलाधरः ।
स्थूलोष्ठा हनुमूलाश्च शुष्कैस्तीक्ष्णैश्च दुःखिताः । ।४७
अस्फोटिताग्रं स्निग्धं च नतं मृदु तथा गुह ।
सम्पूर्णं च सदा शस्तं श्मश्रु भूमिपतेर्गुह । । ४८
रक्तैश्चाल्पैस्तथा रूक्षैः श्मश्रुभिर्भीमनन्दन ।
नराश्चौरा भवन्त्येव परदाररतास्तथा । ।४९
निर्मांसौ यस्य वै कर्णौ संग्रामान्नाशमृच्छति १ ।
चिपिटाभ्यां भवेद्रोगी ह्रस्वौ च कृपणस्य च । । 1.26.५०
शङ्कुकर्णश्च भूनाथः सर्वशत्रुभयङ्करः ।
दीर्घायू रोमशाभ्यां तु विपुलाभ्यां नराधिपः । ।
भोगी च स भवेन्नित्यं देवब्राह्मणपूजकः । । ५१
शिरावबद्धौ क्रूरस्य व्यालम्बौ च विशेषतः ।
मांसलौ सुखदौ ज्ञेयौ श्रवणौ व्योमकेशज । । ५२
भोगी स्यान्निगण्डो वै मन्त्री सम्पूर्णगण्डकः ।
शुभभाक्छुकनासस्तु चिरजीवी शुष्कनासिकः । । ५३
कुन्दकुण्डलसङ्काशैः प्रकाशैर्दशनैर्नृपः ।
ऋक्षवानरदन्ताश्च नित्यं क्षुत्परिपीडिताः । । ५४
हस्तिदन्ताः खरदन्ताः स्निग्धदन्ता गुणान्विताः ।
करालैर्विरलै रूक्षैर्दशनैर्दुःखजीविनः । । ५५
द्वात्रिंशद्दन्ता राजान एकत्रिंशच्च भोगवान् ।
त्रिंशद्दन्ता नरा नित्यं सुखदुःखित्वभागिन । ।
ऊनत्रिंशच्य दशनैः पुरुषाः दुःखभागिनः । । ५६
कृष्णजिह्वो भवेत्प्रेष्यः सवलया तु जिह्वया ।
भवेत्कोपस्य कर्ता वै स्थूलरूक्षश्च जिह्वया । । ५७
श्वेतजिह्वा नरा ज्ञेयाः शौचाचारसमन्विताः ।
पद्मपत्रसमा जिह्वा सूक्ष्मा दीर्घा सुशोभना । ।
स्थूला च न च विस्तीर्णा येषां ते मनुजाधिपाः । । ५८
निम्ना स्निग्धा च ह्रस्वा च रक्ताग्रा रसना यदि ।
सर्वविद्याप्रवक्तारस्ते भवन्ति न संशयः । । ५९
कृष्णतालुर्नरो यस्तु स भवेत्कुलनाशनः ।
सुखभागी दुःखभागी पीततालुर्नराधिपः । । 1.26.६०
विकृतं स्फुटितं रूक्षं तालुकं न प्रशस्यते ।
सिंहतालुर्नरपतिर्गजतालुस्तथैव च । ।
पद्मतालुर्भवेद्राजा श्वेततालुर्धनेश्वरः । । ६१
हंसस्वरा नरा धन्या मेघगम्भीरनिःस्वनाः ।
क्रौंचस्वनाश्च राजानो भोगवन्तो महाधनाः । । ६२
चक्रवाकस्वना धन्या राजानो धर्मवत्सलाः ।
कुम्भस्वनो नरपतिर्दुन्दुभिस्वन एव च । ।
रूक्षदीर्घस्वराः क्रूराः पशूनां सदृशा न तु । । ६३
२गुर्गुरस्वरसंयुक्ताः पुरुषाः क्लेशभागिनः ।
चाषस्वना भाग्ययुता भिन्नकांस्यस्वराश्च ये । ।
क्षीणभिन्नस्वरा ये स्युरधमास्ते प्रकीर्तिताः । । ६४
पार्थिवास्तनुनासाश्च दीर्घनासाश्च भोगिनः ।
ह्रस्वनासा नरा ये तु धर्मशीलास्तु ते मताः । । ६५
हस्त्यश्वसिंहनासाश्च सूचीनासाश्च ये नराः ।
तेषां सिध्यति वाणिज्यं हयानां चैव विक्रयः । । ६६
विकृता नासिका यस्य ३स्थूलाग्रा रूपवर्जिता ।
पापकर्मा स विज्ञेयः सामुद्रवचनं यथा । । ६७
दाडिमीपुष्पसंकाशे भवेतां यस्य लोचने ।
४ भूपतिः स तु विज्ञेयः सप्तद्वीपाधिपो गुह । । ६८
व्याघ्राक्षाः कोपना ज्ञेयाः क५र्कटाक्षाः कलिप्रियाः ।
बिडालहंसनेत्राश्च भवन्ति पुरुषाधमाः । । ६९
मपूरनकुलाक्षाश्च नरास्ते मध्यमाः स्मृताः ।
न १श्रीस्त्यजति सर्वज्ञ पुरुषं मधुपिङ्गलम् । । 1.26.७०
आपिङ्गलाक्षा राजानः सर्वभोगसमन्विताः ।
रोचना हरितालाक्षा गुञ्जापिङ्गा धनेश्वराः । ।
बलसत्त्वगुणोपेताः पृथिवीचक्रवर्तिनः । । ७१
द्विमात्रावीक्षणा नित्यं जीवन्ति परमाश्रिताः ।
त्रिमात्रास्यन्दिनो ज्ञेयाः पुरुषाः सुखभागिनः । । ७२
चतुर्मात्रानिमेषैश्च नयनैरीश्वराः स्मृताः ।
दीर्घायुषो धर्मरताः पञ्चमात्रानिमेषिणः । । ७३
ह्रस्वकर्णा महाभागा महाकर्णाश्च ये नराः ।
आवर्तकर्णा धनिनः स्निग्धकर्णास्तथैव च । । ७४
दीर्घायुषः शुक्तिकर्णाः शङ्खकर्णा महाधनाः ।
दीर्घायुषो दीर्घकर्णा लम्बकर्णास्तपस्विनः । । ७५
ललाटेनार्धचन्द्रेण भवन्ति पृथिवीश्वराः ।
विपुलेन ललाटेन महाधनपतिः स्मृतः । ।
स्वल्पेन तु ललाटेन नरो धर्मरतः स्मृतः । । ७६
रेखा पञ्च ललाटे तु स्त्रिया वा पुरुषस्य वा ।
शतं जीवति वर्षाणामैश्वर्यं चाधिगच्छति । । ७७
चतूरेखामशीतिं तु त्रिभिः सप्ततिमेव च ।
द्वाभ्यां षष्टिं तु रेखाभ्यां चत्वारिंशत्तथैकया । ।
अरेखेन ललाटेन विज्ञेया पञ्चविंशतिः । । ७८
रेखाच्छेदैस्तु विज्ञेया हीनमध्योत्तमा नराः ।
अल्पायुषस्तथाल्पाभिर्व्याधिभिः परिपीडिताः । । ७९
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते ।
ईश्वरं तं विजानीयाद्भोगिनं कीर्तिमाश्रितम् । । 1.26.८०
उत्क्रान्तनिम्नं तु शिरः स्वल्पोपहतमेव च ।
चन्द्राकारं१ नरेन्द्राणां गवाढ्यं मङ्गलं स्मृतम् । । ८१
विषमं तु दरिद्राणां शिरो दीर्घं तु दुःखिनाम् ।
नागकुम्भनिभं राज्ञः समं सर्वत्र भोगिनः । । ८२
कपिलः स्फुटितै रूक्षैः स्थूलैश्व शिखरेशयैः ।
दुःखिता पुरुषा ज्ञेया रोमश्मश्रुभिरेव च । । ८३
रूक्षा विवर्णा निस्तेजाः खराः स्थूलाश्च मूर्धजाः ।
नातिस्तोका न बहुशो मूर्धजा दुःखभागिनः । । ८४
विरलाश्च मृदुस्निग्धा भ्रमराञ्जनसप्रभाः ।
कचा यस्य तु दृश्यन्ते स भवेत्पृथिवीपतिः । । ८५
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे
पुरुषलक्षणवर्णनं नाम षड्विंशोऽध्यायः । २६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 27
पुरुषलक्षण-वर्णनम्
कार्तिकेय उवाच
संक्षेपतो मम विभो लक्षणानि नृपस्य तु ।
शुभानि चाङ्गजातानि ब्रूहि मे वदतां वर । । १
ब्रह्मोवाच
शृणु वक्ष्येङ्गजातानि पार्थिवस्य शुभानि च ।
पार्थिवो ज्ञायते यैस्तु नराणां मध्यभागतः । । २
त्रीणि यस्य महाबाहो विपुलानि नरस्य तु ।
उद्यतानि तथा षड् वै गम्भीराणि च त्रीणि वै । । ३
चत्वारि चापि ह्रस्वानि सप्त रक्तानि वा विभो ।
दीर्घाणि चापि सूक्ष्माणि भवन्ति यस्य पञ्च वा । । ४
नाभिः संधिः स्वनश्चेति गम्भीराणि च त्रीणि वै ।
वदनं च ललाटं च दन्तोत्तम उरस्तथा । । ५
विस्तीर्णमेतस्त्रितयं वीर यस्य नरस्य तु ।
स राजा नात्र सन्देहः शृणुष्वेवोन्नतानि च । । ६
कृकाटिका तधा चास्यं नखा वक्षोऽथ नासिका ।
कक्षे चापि महाबाहो षडेतानि विदुर्बुधाः । । ७
लिङ्गं पृष्ठं तथा ग्रीवा जङ्घा ह्रस्वानि सुव्रत ।
नेत्रान्ते हस्तपादौ तु ताल्वोष्ठौ च सुरोत्तम । ।
जिह्वा रक्ता नखाश्चैव सप्तैतानि महामते । । ८
त्वचः कररुहाः केशा दशना ऋभवोत्तम ।
सूक्ष्माण्येतानि च गुह पञ्च चापि विदुर्बुधाः । । ९
नासिकालोचने बाहू स्तनयोरन्तरं हनुः ।
इति दीर्घमिदं प्रोक्तं पञ्चकं भूभुजां नृप । । 1.27.१०
क्षुतं राज्ञां सकृद्द्विस्त्रिर्नादितं ह्रादितं तथा ।
दीर्घायुषां प्रयुक्तं ते हसितं च विदुर्बुधाः । । ११
पद्मपत्रनिभे नेत्रे धनिनां शिवनन्दन ।
भार्गवीमाप्नुयात्सोऽपि रक्तान्ते यस्य लोचने । । १२
मधुपिङ्गैर्महात्मानो नरा ज्ञेयाः सुराधिप ।
भीरवो हि कृशाक्षास्तु चौरा मण्डलचक्रकैः । । १३
हयः केकरनेत्रास्तु गम्भीरैरर्थसम्पदः ।
नीलोत्पलाभैर्वेदविदो भृशं कृष्णैस्तथार्थिता । ।
मन्त्रित्वं स्थूलसुदृशो वदन्ति भुवि तद्विदः । । १४
श्यामाक्षाः सुभगा ज्ञेया दीनाक्षैभ्र दरिद्रता ।
विस्तीर्णैर्भोगिनो श्रेया विपुलैश्च तथा गुह । । १५
अभ्युन्नताभिर्ह्रस्वायुर्विशालाभिः सुखी भवेत् ।
दरिद्रो विषमाभिस्तु ततो ज्ञेयः सुरोत्तम । । १६
भ्रुवो बालेन्दुसदृशा धनिनामार्भवोत्तम ।
दीर्घाभिर्निर्धनो ज्ञेयः संसक्ताभिस्तु सुव्रत । । १७
क्षीणाभिरर्थहीनाः स्युर्नरा ज्ञेयाः सुरोत्तम ।
मध्ये नतभ्रुवो ये च परदाररतास्तु ते । । १८
विरलैरुन्नतैः शंखैर्धन्याः१ स्युर्नात्र संशयः ।
निम्नैः स्तुत्यर्थसंसक्ता२ उन्नतैश्च जनाधिपाः । । १९
विषमललाटा विधनाः सदा स्युर्देवसत्तम ।
आचार्याः शुक्तिसदृशैर्नराः स्युर्नात्र संशयः । । 1.27.२०
उन्नतशिरोभिराढ्या नरा ज्ञेयाः सदा गुह ।
वधबन्धभागिनो वीरा नरा निन्नललाटिनः । ।
भृशमुन्नतैश्च मूर्खाश्च कृपणाश्च तथा नतैः । । २१
शुभावहं मनुष्याणां वदनं स्याद्यथा शृणु ।
अदीनमाननं स्निग्धं सस्मितं च विशेषतः । । २२
साश्रुदीनं तथा रूक्षमस्निग्धं निन्दितं४ गुह ।
असम्भाव्यं मुखं ज्ञेयं नराणां नगदारण । । २३
अकम्पं गुभदं ज्ञेयं नराणां हसितं गुह ।
निमीलिताक्षं पापस्य हसितं चार्भवोत्तम । । २४
आमण्डलं शिरो यस्य स गवाढ्यो नरो भवेत् ।
छत्राकृति शिरो यस्य स भवेन्नृपतिर्नरः । । २५
चिपिटाकारितशिरा हन्याद्वै पितरौ नरः ।
घण्टाकृति शिरोध्वानमसकृत्सेवते नरः । ।
निम्नं शिरोनर्थदं स्यान्नराणामर्भवोत्तम । । २६
गुडैः स्निग्धैस्तथा कृष्णैरभिन्नाग्रैस्तथैव हि ।
केशैर्न चातिबहुलैर्मृदुभिः पार्थिवो भवेत् । । २७
बहुलाः कपिलाः स्थूला विषमाः स्फुटितास्तथा ।
परुषा ह्रस्वातिकुटिला दरिद्राणां कचाः घनाः । । २८
इत्युक्तं लक्षणं नॄणां शुभं वाशुभमेव च ।
योषितां तदिदानीं ते लक्षणं वच्मि भीमज । । २९
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम सप्तविंशोऽध्यायः । २७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 28
स्त्रीलक्षणवर्णनम्
ब्रह्मोवाच
शृण्विदानीं महाबाहो स्त्रीलक्षणमनुत्तमम् ।
यन्मयोक्तं पुरा वीर नारदस्य महात्मनः । । १
तत्त्वं विज्ञायते येन शुभाशुभमवस्थितम् ।
निन्दितं च प्रशस्तं च स्त्रीणां वक्ष्यामि लक्षणम् । । २
मातरं पितरं चैव भ्रातरं मातुलं तथा ।
द्वौ तु बिम्बौ परीक्षेत समुद्रस्य वचो यथा । । ३
मुहूर्ते तिथिसम्पन्ने नक्षत्रे चाभिपूजिते ।
द्विजैस्तु सह वागम्य कन्यां वीक्षेत शास्त्रवित् । । ४
हस्तौ पादौ परीक्षेत अङ्गुलीर्नखमेव च ।
१पाणिमेव च जङ्घे च कटिनासोरु एव च । । ५
जघनोदरपृष्ठं च स्तनौ कर्णौ भुजौ तथा ।
जिह्वां चोष्ठौ च दन्ताश्च कपोलं गलकं तथा । । ६
चक्षुर्नासा ललाटं च शिरः केशांस्तथैव च ।
रोमराजिं१ स्वरं वर्णमावर्तानि तु वा पुनः । । ७
यस्यास्तु रेखाग्रीवायां या२ च रक्तान्तलोचना ।
यस्य सा गृहमागच्छेत्तद्गृहं सुखमेधते । । ८
ललाटे दृश्यते यस्यास्त्रिशूलं देवनिर्मितम् ।
बहूनां स्त्रीसहस्राणां स्वामिनीं तां विनिर्दिशेत् । । ९
राजहंसगतिर्यस्या मृगाक्षी मृगवर्णिका ।
समशुक्लाग्रदन्ता च कन्यां तामुत्तमां विदुः । । 1.28.१०
मण्डूककुक्षी या कन्या न्यग्रोधपरिमण्डला ।
एकं जनयते पुत्रं सोऽपि राजा भविष्यति । । ११
हंसस्वरा मृदुवचा या कन्या मधुपिङ्गला ।
अष्टौ जनयते पुत्रान्धनधान्यविवर्धिनी । । १२
आयतौ श्रवणौ यस्याः सुरूपा चापि नासिका ।
भ्रुवौ चेन्द्रायुधाकारौ सात्यन्तं सुखभागिनी । । १३
तन्वी श्यामा तथा कृष्णा स्निग्धाङ्गी मृदुभाषिणी ।
शङ्खकुन्देन्दुदशना भवेदैश्वर्यभागिनी । । १४
विस्तीर्णं जघनं यस्या वेदिमध्या तु या भवेत् ।
आयते विपुले नेत्रे राजपत्नी तु सा भवेत् । । १५
यस्याः पयोधरे वामे हस्तेकर्णे गलेऽपि वा ।
मशकं तिलकं वापि सा पूर्वं जनयेत्सुतम् । । १६
गूढगुल्फाङ्गुलिशिरा अल्पपार्ष्णिः सुमध्यमा ।
रक्ताक्षी रक्तचरणा सात्यन्तं सुखभागिनी । । १७
कूर्मपृष्ठायतनखौ स्निग्धभावविवर्जितौ ।
वक्राङ्गुलितलौ पादौ कन्यां तां परिवर्जयेत् । । १८
येन केनचिदंशेन मांसं यस्या विवर्धते ।
रासभीं तादृशीं विद्यान्न सा कल्याणमर्हति । । १९
पादे प्रदेशिनी यस्या अङ्गुष्ठं समतिक्रमेत् ।
दुःशीला दुर्भगा ज्ञेया कन्यां तां परिवर्जयेत् । । 1.28.२०
पादे मध्यमिका यस्याः क्षितिं न स्पृशते यदि ।
रमते सा न कौमारे स्वच्छन्दा१ कामचारिणी । । २१
पादे अनामिका यस्याः क्षितिं न स्पृशते यदि ।
द्वितीयं पुरुषं हत्वा तृतीये सा प्रतिष्ठिता । । २२
पादे कनिष्ठा यस्यास्तु क्षितिं न स्पृशते यदि ।
द्वितीयं पुरुषं हत्वा तृतीये सा प्रतिष्ठिता । । २३
न देविका न धनिका न धान्यप्रतिनामिका ।
गुल्मवृक्षसनाम्नी च कन्यां तां परिवर्जयेत् । । २४
इन्द्रचन्द्रादिपुरुषसनाम्नी च यदा भवेत् ।
नैताः पतिषु रज्यन्ते याश्च नक्षत्रनामिकाः । । २५
आवर्तः पृष्ठतो यस्या नाभिं समनुविन्दति ।
तदपत्यं भवेद् ध्रस्वं ह्रस्वायुश्च विनिर्दिशेत् । । २६
पृष्ठावर्ता पतिं हन्ति नाभ्यावर्ता पतिव्रता ।
कट्यावर्ता तु स्वच्छन्दा न कदाचिद्विरज्यते । । २७
यस्यास्तु हसमानाया गण्डे जायेत् कूपकम् ।
रमते सा न कौमारे स्वच्छन्दा कार्यकारिणी । । २८
यस्यास्तु गच्छमानायाष्टिट्टीकायति जङ्घिका ।
पुत्रं व्यवस्येत्सा कर्तुं पतित्वे नात्र संशयः । । २९
स्थूलपादा च या कन्या सर्वांगेषु च लोमशा ।
स्थूलहस्ता च या स्याद्वै दासीं तां निर्दिशेद्बुधः । । 1.28.३०
यस्याश्चोत्कटकौ२ पादौ मुखं च विकृतं भवेत् ।
उत्तरोष्ठे च रोमाणि सा क्षिप्रं भक्षयेत्पतिम् । । ३१
त्रीणि यस्याः प्रलम्बन्ते ललाटमुदरं स्फिचौ ।
त्रीणि भक्षयते सा तु देवरं श्वसुरं पतिम् । । ३२
समुद्भूषितचारित्रा गुरुभक्ता पतिव्रता ।
देवब्राह्मणभक्ता च मानुषीं तां विनिर्दिशेत् ।।३ ३
नित्यं स्नाता सुगन्धा च नित्यं च प्रियवादिनी ।
अल्पाशिन्यल्परोषा च देवतां तां विनिर्दिशेत् ।। ३४
प्रच्छन्नं कुरुते पापमपवादं च रक्षति ।
हदयं स्याच्च दुर्ग्राह्यं मार्जारी तां विनिर्दिशेत् ।।३५
हसते क्रीडते चैव क्रुद्धा चैव प्रसीदति ।
नीचेषु रमते नित्यं रासभी तां विनिर्दिशेत् ।। ३६
प्रतिकूलकरी नित्यं बन्धूनां भर्तुरेव च ।
स्वच्छन्दे ललितां चैव आसुरीं तां विनिर्दिशेत् ।।३७
१बह्वाशी बहुवाक्या च नित्यं चाप्रियवादिनी ।
हिनस्ति स्वपतिं या तु राक्षसीं तां विनिर्दिशेत् ।। ३८
शौचाचारपरिभ्रष्टा रूपभ्रष्टा भयङ्करा ।
प्रस्वेदमलपङ्का च पिशाचीं तां विनिर्दिशेत् ।।३९
नित्यं स्नातां सुगन्धां च मांसमद्यप्रियादिनीम् ।
वृक्षोद्यानप्रसक्ता च गान्धर्वीं तां विनिर्दिशेत् ।।1.28.४०
चपला चञ्चला चैव नित्यं पश्येद्दिशस्तथा ।
चलस्वभावा लुब्धा च वानरीं तां विनिर्दिशेत् ।।४ १
चन्द्राननां शुभाङ्गीं तु मत्तवारणगामिनीम् ।
आरक्तनखहस्तां तु विद्याद्विद्याधरीं बुधः ।।४२
वीणावादित्रशब्देन वंशगीतरवेण च ।
पुष्पधूपप्रसक्तां च गान्धर्वीं तां विनिर्दिशेत् ।।४३
सुमन्तुरुवाच
इत्येवमुक्त्वा स महानुभावो जगाम वेधा निजमन्दिरं वै ।
स्त्रीणां तथा पुंस्त्ववतां च वीर यल्लक्षणं पार्थिव लोकपूज्यम् । । ४४
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थी कल्पे
स्त्रीलक्षणवर्णनं नामाष्टाविंशोऽध्यायः । २८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 29
गणपतिकल्पवर्णनम्
शतानीक उवाच
गकाराक्षरदेवस्य गणेशस्य महात्मनः ।
आराधनविधिं ब्रूहि साङ्गं मन्त्रसमन्वितम् । । १
सुमन्तुरुवाच
न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।
यथेष्टं१ चेष्टतः सिद्धिः सदा भवति कामिका । । २
श्वेतार्कमूलं सङ्गृह्य कुर्याद्गणपतिं बुधः ।
अङ्गुष्ठपर्वमात्रं तु पद्मासनगतं तथा । । ३
चतुर्भुजं त्रिनेत्रं च सर्वाभरणभूषितम् ।
नागयज्ञोपवीताङ्गं शशाङ्ककृतशेखरम् । । ४
दन्तं सव्ये करे दद्याद्द्वितीये चाक्षसूत्रकम् ।
तृतीये परशुं दद्याच्चतुर्थे मोदकं न्यसेत् । । ५
कुङ्कुमं चन्दनं चापि समालम्भनमुच्यते ।
वासोभिर्भूषणै रक्तैर्माल्यैश्चाराधयेद्गणम् । । ६
धूपेन च सुगन्धेन मोदकैश्चापि पूजयेत् ।
एवं पूज्याग्रतस्तस्य भोजयेद्ब्राह्मणं बुधः । । ७
वामनं कुब्जकं चापि भोजयेत्पुरतो द्विजम् ।
आशीर्वादं ततस्तस्मात्प्राप्य सिद्धिमवाप्नुयात् । । ८
भक्त्या कुरुकुलश्रेष्ठ १शृणु मन्त्रपदानि वै ।
गं स्वाहा मूलमन्त्रोऽयं प्रणवेन समन्वितः । । ९
गां नमो हदयं ज्ञेयं गीं शिरः परिकीर्तितम् ।
शिखा च गूं नमो ज्ञेयो गैं नमः कवचं स्मृतम् । । 1.29.१०
गौं नमो नेत्रमुद्दिष्टं गः फट् कामास्त्रमुच्यते ।
आगच्छोल्कामुखायेति मन्त्र आवाहने ह्ययम् । । ११
गं गणेशाय नमो गन्धमन्त्रः प्रकीर्तितः ।
पुष्पोल्काय नमः पुष्पमन्त्र एष प्रकीर्तितः । । १२
धूपोल्काय नमो धूपमन्त्र एष प्रकीर्तितः ।
दीपोल्काय नमो दीपमन्त्र एष प्रकीर्तितः । । १३
ॐ गं महोल्काय नमो बलिमन्त्रः प्रकीर्तितः ।
ओं संसिद्धोल्काय नमो मन्त्रश्चायं विसर्जने । । १४
ओं महाकर्णाय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् गायत्री जपः पूर्वतः । । १५
महागणपतये वीर१ स्वाहा दक्षिणतः सदा ।
महोल्काय पश्चिमतः कूश्माण्डायोत्तरेण तु । ।
एकदन्तत्रिपुरान्तकाय आग्नेय्यां वीर निर्दिशेत् । । १६
ओं शिवदत्त विकटहरहास प्राणाय स्वा नैर्ऋत्याम् ।
२तुलम्बनात्यचलदन्तकाय स्वाहा वायव्याम् । । १७
पद्मदंष्ट्राय नरायेति ऐशान्यां होमयेद्बुधः ।
हुं फट् हुँ फट् हस्ततालध्वनिर्हसनकूर्दनः । । १८
मृदनर्तनगणपतिर्देवस्य मुद्रां ततो होमं समाचरेत् ।
न यदा वश्या भवति । ।
कृष्णतिलाहुतिमष्टसहस्रं जुहुयात्त्रिरात्रेण राजा वश्यो भवति । । १९
तिलयवहोमेन सर्वे जनपदा वश्या भवन्ति ।
अति रूपवती कन्या गच्छन्तमनु(?)च्छति । । 1.29.२०
चणतन्दुलहोमेनाजितो भवेत् ।
निम्बपत्रसमैस्तैलैर्विद्वेषणं करोति । ।
सोमग्रहणे उदकमध्ये अवतीर्य अष्टसहस्रं जपेत् ।
सङ्ग्रामे अपराजितो भवति । । २१
( ॐ लम्बराज्ञे नमः ।)
आदित्याभिमुखो भूत्वा अष्टसहस्रं जपेत् ।
आदित्यो वरदो भवति । । २२
शुक्लचतुर्थ्यामुपोष्य गन्धपुष्पादिभिरर्चनं कृत्वा तिलतन्दुलाञ्जुहुयात् ।
शिरसा धारयंस्तैरपराजितो भवति । । २३
अपामार्गसमिद्भिरग्निं प्रज्वाल्य एकविंशत्याहुतीर्यो जुहुयात् ।
त्रिरात्राच्छत्रुं व्यापादयति । । २४
अथोत्तरेण मन्त्रं व्याख्यास्ये ।
वृक्षमूले कज्जलं सङ्गृह्य सप्तभिर्मन्त्रितं कृत्वा नेत्राण्यञ्जयेद्यं पश्यति स वशी भवति । । २५
पुष्पं फलं मूलं चाष्टसहस्राभिमन्त्रितं कृत्वा यस्मै ददाति स वश्यो भवति । । २६
यत्किञ्चिन्मूलमन्त्रेण करोति तत्सिध्यति ।
सर्वे ग्रहाः सुप्रीता भवन्ति । ।
नगरद्वारं गत्वा अष्टसहस्रं द्वारं निरूपयेत् । । २७
पुरं द्वारेण गृह्यते प्राङ्मुखो यजति स उच्चाटयति ।
सम्मुखो जपति चोरान्विद्रावयति । । २८
तृणानि लूनयति । काष्ठानि च्छेदयति । । २९
१गजराजेन युद्धयति । जलमध्ये सप्तरात्रं जपेत् । अकाले वर्षयति । कूपतडागाञ्छोषयति । ।
प्रतिमां नृत्ययति । आकर्षयति । स्तम्भयति । योजनशतात्स्त्रीपुरुषानाकर्षयति । । 1.29.३०
गोरोचनां च सहस्राभिमन्त्रितां कृत्वा हस्ते बद्ध्वा योजनशतसहस्रं गत्वा पुनरागच्छति । । ३१
अथ मारयितुकामः खदिरकीलकं कृत्वा स्त्रीपुरुषं विचिन्त्य हदये निखनयेत् । क्षणादेव म्रियते । । ३२
सर्वपातकविमुक्तो भवति । अग्नितेजाः सर्वेभ्योऽपराजितो भवति । । ३३
ॐ वकतुण्डाय स्वाहा । ॐ एकदंष्ट्राय स्वाहा । ॐ कृतकृष्णाय स्वाहा । ॐ गजकर्णाय स्वाहा । ।
ॐ लम्बोदराय स्वाहा । ॐ विकटाय स्वाहा । ॐ धूम्रवर्णाय स्वाहा । ॐ गगनकूजाय स्वाहा । ।
ॐ विनायकाय स्वाहा । ॐ गणपतये स्वाहा । ॐ हस्तिमुखाय स्वाहा । । ३४
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे
गणपतिकल्पवर्णनं नामैकोनत्रिंशोऽध्यायः । २९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 30
विनायकपूजाविधिवर्णनम्
सुमन्तरुवाच
निम्बमयमङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा नित्यधूपगन्धादिभिरर्चयित्वा प्रच्छन्नं शिरसि बद्ध्वा गच्छेत् । ।
सर्वजनप्रियो भवति । श्वेतार्कमूलाङ्गुष्ठमात्रं गणपतिं कृत्वा धूपादिभिरर्चयित्वा सर्वान्वर्णान्वशमानयति ।।
श्वेतचन्दनमङ्गुष्ठमात्रं गणपतिं कृत्वा पुष्पगन्धादिभिरर्चयित्वा शुक्लचतुर्थ्यामष्टम्यां वा बलिं कुर्यादष्टसहस्रं जुहुयाद्दध्ना पायसेन राजानं वशमानयति ।
रक्तचन्दनमयं गणपतिमङ्गुष्ठमात्रं कृत्वा भौतिकं बलिं दद्याद्दधिमधुघृताहुतीनां गणपतिमष्टसहस्रं जुहुयादात्मप्रापिकां प्रजां वशमानयति । रक्तकरवीरमूलाङ्गुष्ठपर्वमात्रं गणपतिं कारयेत् । ।
रक्तपुष्पगन्धोपहारैर्बलिं दद्यात् । तिललवणघृतेनाष्टसहस्रं जुहुयात् । दशग्रामान्वशमानयति । ।
श्वेतकरवीराङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा तिलपिष्टदधिघृतक्षीरहरिद्रामिश्रेणाष्टसहस्रं
जुहुयाद्वेश्यां वशमानयति । ।
अश्वत्थमूलाङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा गन्धपुष्पधूपबलिं दत्त्वा शतं जुहुयाच्छत्रुं वशमानयति । ।
अर्कमूलाङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा गन्धपुष्पधूपबलीन् दद्यात् ।
तिन्दुकाष्टशतं जुहुयाच्छत्रुं वशमानयति । ।
बिल्वमूलमयमङ्गुष्ठपर्वमात्रं गणपतिं कृत्वा गन्धपुष्पधूपार्चितं कृत्वा त्रिमध्वक्तानामष्टसहस्रं जुहुयाद्राजामात्यान्वशमानयति । ।
शिरसि धूपान्धृत्वा गच्छेद्राजद्वारं विग्रहे जयो भवति ।
हस्तिदन्तमृत्तिकामयमङ्गुष्ठपर्वमात्रं गणपतिं कारयेत् । ।
गन्धपुष्पधूपार्चितं कृत्वा. कृष्णचतुर्थ्यां नग्नो भूत्वाभ्यर्चयेत् ।
सप्त वाराञ्जपेन्नित्यं १ नारीणां सुभगो भवति । ।
वृषभशृङ्गमृत्तिकाङ्गुष्ठमात्रं गणपतिं कारयेत् ।
गन्धपुष्पार्चितं कृत्वा गुग्गुलुधूपं दद्याद्घोषपतिं वशमानयति । ।
अथ वा वल्मीकमृत्तिकांगुष्ठपर्वमात्रं गणपतिं कारयेत् ।
कटुकतैलेन प्रतिमां लेपयेत् । ।
उन्मत्तककाष्ठेनाग्निं प्रज्वाल्याहुतीनामष्टसहस्रं जुहुयात्तिलसर्षपमिश्रेण सर्वधूपं दद्यात्त्रिकटुकेन लेपयेत् । ।
अगरुधूपं दद्याद्राजानं वशमानयति । परेषां च वल्लभो भवति । रक्तचन्दनेनात्मानं धूपयेत्सुभगो भवति । ।
ॐ गणपतये वक्रतुण्डाय गजदन्ताय गुलगुलेतिनिनादाय२ चतुर्भुजाय त्रिनेत्राय मुशलपाशवज्रहस्ताय सर्वभूतदमनाय सर्वलोकवशंकराय सर्वदुष्टोपघातजननाय सर्वशत्रुविमर्दनाय सर्वराज्यसमीहनाय राजानमिह वशमानय हन हन पच पच वज्राङ्कुशेन गणेश फट् स्वाहा ।
ॐ गां गीं गूं गैं गौं गः स्वाहा नमः हदयं मूलमन्त्रस्य ।
ॐ कः शिरः, ॐ खः शिखा, ॐ गः हदयम्, ॐ गुः वक्त्रं, ॐ गैं नेत्रम् । ॐ घः कवचम्, ॐ ङ आवाहनं हदयस्य आवाहनाङ्गानि भवन्ति ॐ नमः हदयं मूलमन्त्रस्य, ॐ गाः शिरः, ॐ गैः नमः शिखा ॐ गौः नमः कवचम्, ॐ गं नमः नेत्रे, ॐ गः फट् अस्त्रम् । ।
ॐ अङ्गुष्ठोल्काय स्वाहा आवाहनं हदयस्य स्वाहा विसर्जनं हदयस्य ॐ गन्धोल्काय स्वाहा । ।
गन्धमन्त्रः । । ॐ धर्मभूतोल्काय स्वाहा । । पुष्पमन्त्रः । । दुर्जयाय १ पूर्वेण । ॐ धूर्जटये दक्षिणेन ।
ॐ लम्बोदराय पश्चिमतः । ॐ गणपतये उत्तरतः । ॐ गणाधिपतये ऐशान्याम् । ॐ महागणपतये आग्नेय्याम् । ॐ कूश्माण्डाय नैर्ऋत्याम् ।
ॐ एकदन्तत्रिपुरघातिने२ त्रिनेत्राय वायव्याम् । ॐ महागणपतये विद्महे वक्रतुण्डाय धीमहि । ।
तन्नो दन्तिः प्रचोदयात् । । गायत्री । ।
पद्मदंष्ट्रामालाप्रकर्षणीपरश्वंकुशपाशपटहमुद्रा अष्टौ मुद्रा दर्शयित्वा ततः कर्माणि कारयेत् । ।
कृष्णतिलाहुतीनामष्टसहस्रं जुहुयात् । राजानं वशमानयेत् । ।
आवाहनाद्येकादशमुद्रा नैवेद्यान्तं क्रमाद्दर्शयेत् । ।
आराधयेद्येन विधिना त्रिनेत्रं शूलिनं हरम् ।
तेनैवाराधयेद्देवं विघ्नेशं गणपं नृप । । १
तदेव मण्डलं चास्य अङ्गन्यासस्तथैव च ।
ऋते मन्त्रपदानीह समानं सर्वमेव हि । । २
पूजयेद्यस्तु विघ्नेशमेकदन्तमुमासुतम् ।
नश्यन्ति तस्य विघ्नानि न चारिष्टं कदाचन । । ३
यश्चोपवासं कृत्वा तु चतुर्थ्यां पूजयेन्नरः ।
सर्वे तस्य समारम्भाः सिध्येयुर्नात्र संशयः । ।४
यस्यानुकूलो विघ्नेशः शिवयोः कुलनन्दन ।
तस्यानुकूलं सर्वं स्याज्जगद्वै सर्वकर्मसु । । ५
तस्मादाराधयेदेनं भक्तिश्रद्धासमन्वितः ।
कुङ्कुमागुरुधूपेन तथैवोण्डीरकस्रजा । ।
३पललोल्लापिकाभिश्च जातिकोन्मत्तकैस्तथा । । ६
शुक्लपक्षे चतुर्थ्यां तु विधिनानेन पूजयेत् ।
तस्य सिध्यति निर्विघ्नं सर्वकर्म न संशयः । ।७
एकदन्ते जगन्नाथे गणेशे तुष्टिमागते ।
पितृदेवमनुष्याद्याः सर्वे तुष्यन्ति भारत । । ८
तस्मादाराधयेदेनं सदा भक्तिपुरःसरम् ।
कर्णलेपैस्तुण्डिकाभिर्मोदकैश्च१ महीपते । ।
पूजयेत्सततं देवं विघ्नविनाशाय दन्तिनम् । । ९
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे
विनायकपूजाविधिनिरूपणं नाम त्रिंशोऽध्यायः । ३० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 31
शिवाचतुर्थी पूजनम्
सुमन्तुरुवाच
शिवा शान्ता सुखा राजंश्चतुर्थी त्रिविधा स्मृता ।
मासि भाद्रपदे शुक्ला शिवा लोकेषु पूजिता । । १
तस्यां स्नानं तथा दानमुपवासो जपस्तथा ।
क्रियमाणं शतगुणं प्रसादाद्दन्तिनो नृप । । २
गुडलवणघृतानां तु दानं शुभकरं स्मृतम् ।
गुडापूपैस्तथा वीर पुण्यं ब्राह्मणभोजनम् । । ३
यास्तस्यां नरशार्दूल पूजयन्ति सदा स्त्रियः ।
गुडलवणपूपैश्च श्वश्रूं श्वसुरमेव च । ।४
ताः सर्वाः सुभगाः स्युर्वे१ विघ्रेशस्यानुमोदनात् ।
कन्यका तु विशेषेण विधिनानेन पूजयेत् । । ५
( इति शिवाकल्पः)
सुमन्तुरुवाच
माघे मासि तथा शुक्ला या चतुर्थी महीपते ।
सा शान्ता शान्तिदा नित्यं शान्तिं कुर्यात्सदैव हि । । ६
स्नानदानादिकं कर्म सर्वमस्यां कृतं विभो ।
भवेत्सहस्रगुणितं प्रसादात्तस्य२ दन्तिनः । । ७
कृतोपवासो यस्तस्यां पूजयेद्वि घ्ननायकम् ।
तस्य होमादिकं कर्म भवेत्साहस्रिकं नृप । । ८
लवणं च गुडं शाकं गुडपूपांश्च भारत ।
दत्त्वा भक्त्या तु विप्रेभ्यः फलं साहस्रिकं भजेत्३ । । ९
विशेषतः स्त्रियो राजन्पूजयन्तो गुरुं नृप ।
गुडलवणघृतैर्वीर सदा स्युर्भाग्यसंयुताः४ । । 1.31.१०
( इति शान्ताकल्पः)
सुमन्तुरुवाच
सुखावहा च सुसुखा सौभाग्यकरणी परम् । । ११
चतुर्थी कुरुशार्दूल रूपसौभाग्यदा शुभा ।
सुखाव्रतं महापुण्यं रूपदं भाग्यदं तथा । । १२
सुसूक्ष्मं सुकरं धन्यमिह पुण्यसुखावहम् ।
परत्र फलदं वीर दिव्यरूपप्रदायकम् । । १३
हसितं ललितं चोक्तं चेष्टितं च सुखावहम् ।
सविलासभुजक्षेपश्चंक्रमश्चेष्टितं शुभम् । । १४
सुखाव्रतेन सर्वेषां सुखं कुरुकुलोद्वह ।
कृत्येन पूजिते चेशे विघ्रेशे शिवयोः सुते । । १५
यदा शुक्लचतुर्थ्यां तु वारो भौमस्य वै भवेत् ।
तदा सा सुखदा ज्ञेया चतुर्थी वै सुखेति च । । १६
पुरा मैथुनमाश्रित्य स्थिताभ्यां तु हिमाचले ।
भीमोमाभ्यां महाबाहो रक्तबिन्दुश्च्युतः क्षितौ । । १७
मेदिन्यां स प्रयत्नेन सुखे विधृतोऽनया ।
जातोस्याः स कुजो वीर रक्तो रक्तसमुद्भवः । । १८
ममाङ्गतो यथोत्पन्नस्तस्मादङ्गारको ह्ययम् ।
अङ्गदोङ्गोपकारश्च अङ्गानां तु प्रदो नृणाम् । । १९
सौभाग्यादिकरो यस्मात्तस्मादङ्गारको मतः ।
भक्त्या चतुर्थ्यां नक्तेन यो वै श्रद्धासमन्वितः । । 1.31.२०
उपवत्स्यति ना राजन्नारी वा नान्यमानसा ।
पूजयेच्च कुजं भक्तया रक्तपुष्पविलेपनैः । । २१
गणेशं प्रथमं भक्त्या योजयेच्छद्धयान्वितः ।
यस्य तुष्टः प्रयच्छेत्स सौभाग्यं रूपसम्पदम् । । २२
पूर्वं च कृतसङ्कल्पः स्नानं कृत्वा यथाविधि ।
गृहीत्वा मृत्तिकां वन्देन्मन्त्रेणानेन भारत । । २३
इह त्वं वन्दिता पूर्वं कृष्णेनोद्धरता किल ।
तस्मान्मे दह पाप्मानं यन्मया पूर्वसञ्चितम् । । २४
इमं मन्त्रं पठन्वीर आदित्याय प्रदर्शयेत् ।
आदित्यरश्मिसम्पूतां गङ्गाजलकणोक्षिताम् । । २५
दत्त्वा मृदं शिरसि तां सर्वाङ्गेषु च योजयेत् ।
ततः स्नानं प्रकुर्वीत मन्त्रयेत जलं पुनः । । २६
त्वमापो योनिः सर्वेषां दैत्यदानवद्यौकसाम् ।
स्वेदाण्डजोद्भिदां चैव रसानां पतये नमः । । २७
स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च ।
तडागेषु च सर्वेषु मानसादिसरःसु च । । २८
नदीषु देवखातेषु सुतीर्थेषु ह्रदेषु वै ।
ध्यायन्यठन्निमं मन्त्रं ततः स्नानं समाचरेत् । । २९
ततः स्नात्वा शुचिर्भूत्वा गृहमागत्य वै स्पृशेत् ।
दूर्वाश्वत्थौ शमीं स्पृष्ट्वा गां च मन्त्रेण मन्त्रवित् । । 1.31.३०
दूर्वा नमस्य मन्त्रेण शुचौ भूमौ समुत्थिताम् ।
त्वं दूर्वेऽमृतनामासि सर्वदेवैस्तु वन्दिता । । ३१
वन्दिता दह तत्सर्वं दुरितं यन्मया१ कृतम् । । ३२
शमीमन्त्रं प्रवक्ष्यामि तन्निबोध महीपते ।
पवित्राणां पवित्रां त्वं काश्यपी प्रथिता श्रुतौ । ।
शमी शमय मे पापं नूनं वेत्सि धराधरान् । । ३३
अश्वत्थालम्भने वीर मन्त्रमेतं निबोध मे ।
नेत्रस्पन्दादिजं दुःखं दुःस्वप्नं दुर्विचिन्तनम् । ।
शक्तानां च समुद्योगमश्वत्थ त्वं क्षमस्व मे । । ३४
इमं मन्त्रं पठन्वीर कुर्याद्वै स्पर्शनं बुधः ।
ततो देव्यै तु गां दद्याद्वीरं कृत्वा प्रदक्षिणाम् । ।
समालभ्य तु हस्तेन ततो मन्त्रमुदीरयेत् । । ३५
सर्वदेवमयी देवि मुनिभिस्तु सुपूजिता ।
तस्मात्स्पृशामि वन्दे त्वां वन्दिता पापहा भव । । ३६
इमं मन्त्रं पठन्वीर भक्त्या श्रद्धासमन्वितः ।
प्रदक्षिणं तु यः कुर्यादर्जुनं कुरुनन्दन । ।
प्रदक्षिणीकृता तेन पृथिवी स्यान्न संशयः । । ३७
एवं मौनेन चागत्य ततो वह्निगृहं व्रजेत् ।
प्रक्षाल्य च मृदा पादावाचान्तोग्निगृहं विशेत् । ।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रपदैर्वरैः३ । । ३८
शर्वाय शर्वपुत्राय क्षोण्युत्सङ्गभवाय च ।
कुजाय ललिताङ्गाय लोहिताङ्गाय वै तथा । । ३९
ॐकारपूर्वकैर्मन्त्रैः स्वाहाकारसमन्वितैः ।
अष्टोत्तरशतं वीर अर्धार्धमर्धमेव च । । 1.31.४०
एतैर्मन्त्रपदैर्भक्त्या शक्त्या वा कामतो नृप ।
खादिरैः सुसमिद्भिस्तु चाज्यदुग्धैर्यवैस्तिलैः । । ४१
भक्ष्यैर्नानाविधैश्चान्यैः शक्त्या भक्त्या समन्वितः ।
हुत्वाहुतीस्ततो४ वीर देवं संस्थापयेत्क्षितौ । । ४२
सौवर्णं राजतं वापि शक्त्या दारुमयं नृप ।
देवदारुमयं वापि श्रीखण्डचन्दनैरपि । । ४३
ताम्रे पात्रे रौप्यमये चाज्यकुङ्कुमकेसरैः ।
अन्यैर्वा लोहितैर्वापि पुष्पैः पत्रैः फलैरपि । ।
रक्तैश्च विविधैर्वीर अथ वा शक्तितोऽर्चयेत्१ । । ४४
यावद्विसृजते वित्तं वित्तवान्वीर भक्तितः ।
तावद्विवर्धते पुण्यं दातुं शतसहस्रिकम् । । ४५
अन्ये ताम्रमये पात्रे वंशजे मृन्मयेऽपि वा ।
पूजयन्ति नराः शक्त्या कृत्वा कुङ्कुमकेशरैः । ।
पुरुषाकृतिकृतं पात्र इमं मन्त्रैः समर्चयेत् । । ४६
अग्रिर्मूर्धेति मन्त्रेण गन्धपुष्पादिभिस्तथा ।
धूपैरभ्यर्च्य विधिवद्ब्राह्मणाय प्रदीयते । । ४७
गुडौदनं घृतं क्षीरं गोधूमाञ्छालितण्डुलान् ।।।
अवेक्ष्य शक्तिं दद्याद्वै दरिद्रो वित्तवांस्तथा । । ४८
वित्तशाठ्यं न कर्तव्यं विद्यमाने धने नृप ।
वित्तशाठ्यं हि कुर्वाणो नामुत्र बलभाग्भवेत् । ।४ ९
शतानीक उवाच
अङ्गारकेण संयुक्ता चतुर्थी नक्तभोजनैः ।
उपोष्या कतिमात्रा तु उताहो सकृदेव तु२ । । 1.31.५०
सुमन्तुरुवाच
चतुर्थी सा चतुर्थी सा यदाङ्गारकसंयुता ।
उपोष्या तत्र तत्रैव प्रदेयो विधिवद्गुडः । । ५१
उपोष्य नक्तेन विभो चतस्रः कुजसंयुता ।
चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु यादृशम् । । ५२
सौवर्णं तु कुजं कृत्वा सविनायकमादरात् ।
दशसौवर्णिकं मुख्यं दशार्धमर्धमेव च । ।५ ३
सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा ।
विंशत्पलानि पात्राणि विंशत्यर्धपलानि वा । । ५४
विंशत्कर्षाणि वा वीर विंशदर्धार्धमेव वा ।
रौप्यसङ्ख्यं पलं कार्यं पलार्धमर्धमेव च । । ५५
शक्त्या वित्तैश्च भक्त्या च पात्रे ताम्रमयेऽपि तु ।
प्रतिष्ठाप्य ग्रहेशं वै वस्त्रैः सम्परिवेष्टितम् । ।
विविधैः साधकै रक्तैः पुष्पै रक्तैः समन्वितम् । । ५६
ब्राह्मणाय सदा दद्याद्दक्षिणासहितं नृप ।
वाचकाय महाबाहो गुणिने श्रेयसे नृप । । ५७
इति ते कथिता पुण्या तिथीनामुत्तमा तिथिः ।
यामुपोष्य नरो रूपं दिव्यमाप्नोति भारत । । ५८
कान्त्यात्रेयसमं वीरं तेजसा रविसन्निभम् ।
प्रभया रविकल्पं च समीरबलसंश्रितम् । । ५९
ईदृग्रूपं समाप्येह याति भौमसदो नृप ।
प्रसादाद्विघ्ननाथस्य तथा गणपतेर्नृप । । 1.31.६०
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः ।
ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः । ।
ऋद्धिं वृद्धिं तथा लक्ष्मीं लभते नात्र संशयः । । । ६१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे
सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायः । ३१ ।
( समाप्तश्चायं चतुर्थीकल्पः)
पर्व १ (ब्राह्मपर्व) — Adhyāya 32
thumb|400px|अग्निचयने अश्वपरिक्रमणम्
thumb|400px| उच्चैःश्रवा
नागपञ्चमीपूजनम्
सुमन्तुरुवाच
पञ्चमी दयिता राजन्नागानां नन्दिवर्धिनी ।
पञ्चम्यां किल नागानां भवतीत्युत्सवो महान् । । १
वासुकिस्तक्षकश्चैव कालियो मणिभद्रकः ।
ऐरावतो धृतराष्ट्रः१ कर्कोटकधनञ्जयौ । ।
एते प्रयच्छन्त्यभयं प्राणिनां प्राणजीविताम् । । २
पञ्चम्यां स्नपयन्तीह नागान्क्षीरेण ये नराः ।
तेषां कुले प्रयच्छन्ति तेऽभयप्राणदक्षिणाम् । । ३
शप्ता नागा यदा मात्रा दह्यमाना दिवानिशम् ।
निर्वापयन्ति स्नपनैर्गवां३ क्षीरेण मिश्रितैः । । ४
ये स्नपयन्ति वै नागान्भक्त्या श्रद्धासमन्विता ।
तेषां कुले सर्पभयं न भवेदिति निश्चयः । । ५
शतानीक उवाच
मात्रा शप्ताः कथं नागाः किं समुद्दिश्य कारणम् ।
कथं चानन्दकरणं कस्य वा सम्प्रसादजम् । । ६
सुमन्तुरुवाच
उच्चैःश्रवा अश्वरत्नं श्वेतो जातोऽमृतोद्भवः ।
तं दृष्ट्वा चाब्रवीत्कद्रूर्नागानां जननी स्वसाम् । । ७
अश्वरत्नमिदं श्वेतं सम्प्रेक्षेऽमृतसम्भवम् ।
कृष्णांश्च वीक्षसे बालान्सर्वं श्वेतमुताम्बरे । । ८
विनतोवाच
सर्वश्वेतो हयवरो नास्य कृष्णो न लोहितः ।
कथं पश्यसि कृष्णं त्वं विनतोवाच तां स्वसाम्४ । । ९
कद्रूरुवाच
वीक्षेऽहमेकनयना कृष्णबालसमन्वितम् ।
द्विनेत्रा त्वं तु विनते न पश्यसि पणं कुरु । । 1.32.१०
विनतोवाच
अहं दासी भवित्री ते कृष्णे केशे प्रदर्शिते ।
न चेद्दर्शयसे कद्रु मम दासी भविष्यसि । । ११
एवं ते विपणं कृत्वा गते क्रोधसमन्विते ।
विनता शयने सुप्ता कद्रूर्जिह्ममचिन्तयत् । । १२
आहूय पुत्रान्प्रोवाच बाला भूत्वा हयोत्तमे ।
तिष्ठध्वं विपणे जेष्ये विनतां जयगर्द्धिनीम् । । १३
प्रोचुस्ते जिह्मबुद्धिं तां नागा मातां१ विगृह्य तु ।
अधर्म्यमेतन्मातस्ते न करिष्याम ते वचः । । १४
ताञ्शशाप रुषा कद्रूः पावको वः प्रधक्ष्यति ।
गते बहुतिथे काले पाण्डवो जनमेजयः । । १५
सर्पसत्रं स कर्ता वै भुवि ह्यन्यैः सुदुष्करम् ।
तस्मिन्सत्रे स तिग्मांशुः पावको वः प्रधक्ष्यति । । १६
एवं शप्त्वा रुषा कद्रूः किञ्चिन्नोक्तवती तु सा ।
मात्रा शप्तास्तथा नागाः कर्तव्यं नान्वपत्सत । । १७
वासुकिं दुःखितं ज्ञात्वा ब्रह्मा प्रोवाच सान्त्वयन् ।
मा शुचो वासुकेऽत्यर्थं शृणु मद्वचन परम् । । १८
यायावरकुले जातो जरत्कारूरिति द्विजः ।
भविष्यति महातेजास्तस्मिन्काले तपोनिधिः १। ( १९
भगिनीं च जरत्कारुं तस्मै त्वं प्रतिदास्यसि ।
भविता तस्य पुत्रोऽसावास्तीक इति विश्रुतः । । 1.32.२०
स तत्सत्रं प्रवृद्धं वै नागानां भयदं महत् ।
निषेधेत्सुमतिर्वाग्भिरग्र्याभिस्तं नविष्यति । । २१
तदिमां भगिनीं राजंस्तस्य त्वं प्रतिदास्यसि ।
जरत्कारुं जरत्कारोः प्रदद्या अविचारयन् । । २२
यदासौ प्रार्थतेऽरण्ये यत्किञ्चिद्धि वदिष्यति ।
तत्कर्तव्यमशङ्केन यदीच्छेः श्रेय आत्मनः । । २३
पितामहवचः श्रुत्वा वासुकिः प्रणिपत्य च ।
तथाकरोद्यथा चोक्तं यत्नं च परमास्थितः । । २४
तच्छ्रुत्वा पन्नगाः सर्वे प्रहर्षोत्फुल्ललोचनाः ।
पुनर्जातमिवात्मानं मेनिरे भुजगोत्तमाः । । २५
तत्र सत्रं महाबाहो१ तव पित्रा प्रवर्तितम् ।
ऋत्विग्भिः स हि तेनेह सर्वलोकेषु दुष्करम् । । २६
प्रोक्तं च विष्णुना पूर्वं धर्मपुत्रस्य धीमतः ।
अवश्यं तस्य भविता नागानां भयकारकम्३ । । २७
तस्मात्कालान्तराद्राजन्साग्रे वर्षशते गते ।
तत्सत्रं भविता घोरं नागानां क्षयकारकम् । । २८
यास्यन्त्यधर्मभरिता दन्दशूका विषोल्बणाः ।
कोटिसङ्ख्या महाराज निपतिष्यन्त्यहर्निशम् । । २९
अपूर्वे तु निमग्नानां घोरे रौद्राग्निसागरे ।
आस्तीकस्तत्र भविता तेषां नौर्वह्निसागरे । । 1.32.३०
श्रुत्वा स चाग्निं राजानमृत्विजस्तदनन्तरम् ।
निवर्तयिष्यते यागं नागानां मोहनं परम् । । ३१
पञ्चम्यां तत्र भविता ब्रह्मा प्रोवाच लेलिहान् ।
तस्मादियं महाबाहो पञ्चमी दयिता सदा । ।
नागानामानन्दकरी दत्ता वै ब्रह्मणा पुरा । । ३२
कृत्वा तु भोजनं पूर्वं ब्राह्मणानां तु कामतः ।
विसृज्य नागाः प्रीयन्तां ये केचित्पृथिवीतले । । ३३
ये च हेलिमरीचिस्था येऽन्तरे दिवि संस्थिताः ।
ये नदीषु महानागा ये सरस्वतिगामिनः । ।
ये च वापीतडागेषु तेषु सर्वेषु वै नमः । । ३४
नागान्विप्रांश्च सम्पूज्य विसृज्य च यथार्थतः ।
ततः पश्चात्तु भुञ्जीत सह भृत्यैर्नराधिप । । ३५
पूर्वं मधुरमश्नीयात्ततो भुञ्जीत कामतः ।
एवं नियमयुक्तस्य यत्फलं तन्निबोध मे । । ३६
मृतो नागपुरं याति पूज्यमानोऽप्सरोगणैः ।
विमानवरमारूढो रमते कालमीप्सितम् । । ३७
इह चागत्य राजासावयुतानां१ वरो भवेत् ।
सर्वरत्नसमृद्धः स्याद्वाहनाढ्यश्च जायते । । ३८
पञ्च जन्मान्यसौ राजा द्वापरे द्वापरे भवेत् ।
आधिव्याधिविनिर्मुक्तः पत्नीपुत्रसहायवान् । ।
तस्मात्पूज्याश्च पाल्याश्च२ घृतपायसगुग्गुलैः । । ३९
शतानीक उवाच
दशन्ति ये नरं विप्र नागाः क्रोधसमन्विताः ।
भवेत्किं तस्य दष्टस्य विस्तराद् ब्रूहि मे द्विज । । 1.32.४०
सुमन्तुरुवाच
नागदष्टो नरो राजन्प्राप्य मृत्युं व्रजत्यधः ।
अधो गत्या भवेत्सर्पो निर्विषो नात्र संशयः । ।४ १
शतानीक उवाच
नागदष्टः पिता यस्य भ्राता वा दुहितापि वा ।
माता पुत्रोऽथ वा भार्या किं कर्तव्यं वदस्व मे । । ४२
मोक्षाय तस्य विप्रेन्द्र दानं व्रतमुपोषणम् ।
ब्रूहि तद्द्विजशार्दूल येन तद्वै करोम्यहम् । । ४३
सुमन्तुरुवाच
उपोष्या पञ्चमी राजन्नागानां पुष्टिवर्धिनी ।
त्वमेवमेकं राजेन्द्र विधानं शृणु भारत । । ४४
मासि भाद्रपदे या तु कृष्णपक्षे१ महीपते ।
महापुण्या तु सा प्रोक्ता ग्राह्यापि च महीपते । ।४५
ज्ञेया द्वादश षञ्चम्यो हायने भरतर्षभ ।
चर्तुथ्यां त्वेकभक्तं तु तस्यां नक्तं प्रकीर्तितम् । ।४ ६
भुवि चित्रमयान्नागानथ वा कलधौतकान् ।
कृत्वा दारुमयान्वापि अथ वा मृन्मयान्नृप । ।४७
पञ्चम्यामर्चयेद्भक्त्या नागानां पञ्चकं नृप ।
करवीरैः शतपत्रैर्जातीपुष्पैश्च सुव्रत । । ४८
तथा गन्धैश्च धूपैश्च पूज्य पञ्चकमुत्तमम्३ ।
ब्राह्मणं भोजयेत्पश्चाद् घृतपायसमोदकैः । ।४ ९
अनन्तो वासुकिः शङ्खः पद्मः कम्बल एव च ।
तथा कर्कोटको नागो नागो ह्यश्वतरो नृप । । 1.32.५०
धृतराष्ट्रः शङ्खपालः कालियस्तक्षकस्तथा ।
पिङ्गलश्च तथा नागो मासि मासि प्रकीर्तिताः । । ५१
वत्सरान्ते पारणं स्याद्ब्राह्मणान्भोजयेद्बहून् ।
इतिहासविदे नागं गैरिकेण कृतं नृप । ।
तथार्चना प्रदातव्या वाचकाय महीपते । । ५२
एष वै नागपञ्चम्या५ विधिः प्रोक्ता बुधैर्नृप ।
तव पित्रा कृतश्चैव पितुर्मोक्षाय भारत । । ५३
त्वमेकमेकं वै वीर पञ्चम्यां भरतर्षभ ।
सुवर्णभारनिष्पन्नं नागं दत्त्वा तथा च गाम् । । ५४
व्यासाय कुरुशार्दूल पितुरानृण्यमाप्नुयाः ।
तव पित्रा कृता ह्येवं पञ्चम्युपासना नृप । । ५५
उत्सृज्य नागतां वीर तव पूर्वपितामहः ।
पुष्पोत्तरं सदो गत्वा तथा पुष्पसदो नृप । । ५६
सुनासीरसदो गत्वा तदा भर्गसदो गतः ।
स्वभूसदस्ततो गत्वा कञ्जजस्य सदो गतः । । ५७
अन्येऽपि ये करिष्यन्ति इदं व्रतमनुत्तमम् ।
दष्टको मोक्ष्यते तेषां शुभं स्थानमवाप्स्यति । । ५८
यश्चेदं शृणुयान्नित्यं नरः१ श्रद्धासमन्वितः ।
कुले तस्य न नागेभ्यो भयं भवति कुत्रचित् । । ५९
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे
नागपञ्चमीव्रतवर्णनं नाम द्वात्रिंशोऽध्यायः । ३२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 33
सर्पभेदम्
शतानीक उवाच
सर्पाणां कति रूपाणि के वर्णाः किं च लक्षणम् ।
का जातिस्तु भवेत्तेषां केषु योनिकुलेषु वा । । १
सुमन्तुरुवाच
पुरा मेरौ नगवरे कश्यपं तपसां निधिम् ।
प्रणम्य शिरसा भक्तया गौतमो वाक्यमब्रवीत् । । २
सर्पाणां कति रूपाणि किं चिह्नं किं च लक्षणम् ।
जातिं कुलं तधा वर्णान्ब्रूहि सर्वं प्रजापते । । ३
कथं वा जायते सर्पः कधं मुञ्चेद्विषं प्रभो ।
विषवेगाः कति प्रोक्ताः कत्येव विषनाडिकाः । ।४
दंष्ट्राः कतिविधाः प्रोक्ताः किं प्रमाणं विषागमे ।
गृह्णीते तु कदा गर्भं कथं चेह प्रसूयते । । ५
कीदृशी स्त्री पुमांश्चैव कीदृशश्च नपुंसकः ।
किं नाम दशनं चैव एतत्कथय सुव्रत । । ६
तस्य१ तद्वचनं श्रुत्वा कश्यपः प्रत्यभाषत ।
शृणु गौतम तत्त्वेन सर्पाणामिह लक्षणम् । ।७
मास्याषाढे तथा ज्येष्ठे प्रमाद्यन्ति भुजङ्गमाः ।
ततो नागोऽथ नागी च मैथुने सम्प्रपद्यते । । ८
चतुरो वार्षिकान्मासान्नागी गर्भमधारयत् ।
ततः कार्त्तिकमासे तु अण्डकानि प्रसूयते । । ९
अण्डकानां तु विज्ञेये द्वेशते द्वे च विंशती ।
तान्येव भक्षयेत्सा तु भोगैकं घृणया त्यजेत् । । 1.33.१०
स्वर्णार्कवर्णाद्वै तस्मात्पुमान्सञ्जायतेऽण्डकात् ।
तान्येव खादते सर्प अहोरात्राणि विंशतिम् । । ११
स्वर्णकेतकवर्णाभाद्दीर्घराजीवसन्निभात् ।
तस्मादुत्पद्यते स्त्री वै अण्डाद्ब्राह्मणसत्तम । । १२
शिरीषपुष्पवर्णाभादण्डकात्स्यान्नपुंसकः ।
ततो भिनत्ति चाण्डानि षण्मासेन तु गौतम । । १३
ततस्ते प्रीतिसम्बन्धात्स्नेहं बध्नन्ति बालकाः ।
ततोऽसौ सप्तरात्रेण कृष्णो भवति पन्नगः । । १४
आयुःप्रमाणं सर्पाणां शतं विंशोत्तरं स्मृतम् ।
मृत्युश्चाष्टविधो ज्ञेयः शृणुष्वात्र यथाक्रमम् । । १५
मयूरान्मानुषाद्वापि चकोराद्गोखुरात्तथा२ ।
बिडालान्नकुलाच्चैव वराहाद्वृश्चिकात्तथा । ।
एतेषां यदि मुच्येत जीवेद्विंशोत्तरं शतम् । । १६
सप्ताहे तु ततः पूर्णे दंष्ट्राणां चाधिरोहणम् ।
विषस्यागमनं तत्र निक्षिपेच्च पुनः पुनः । । १७
एवं ज्ञात्वा तु तत्त्वेन विषकर्म्मारभेत वै ।
एकविंशतिरात्रेण विषदंष्ट्रा सुजायते । ।
नागीपार्श्वसमावर्ती बालसर्पः स उच्यते । । १८
पञ्चविंशतिरात्रस्तु सद्यः प्राणहरो भवेत् ।
षण्मासाज्जातमात्रस्तु कञ्चुकं वै प्रमुञ्चति । । १९
पादानां चापि विज्ञेये द्वे शते द्वे च विंशती ।
गोलोमसदृशाः पादाः प्रविशन्ति क्रमन्ति च । । 1.33.२०
सन्धीनां चास्य विज्ञेये द्वेशते विंशती तथा ।
अंगुल्यश्चापि विज्ञेया द्वे शते विंशती तथा । । २१
अकालजाता ये सर्पा निर्विषास्ते प्रकीर्तिताः ।
पञ्चसप्ततिवर्षाणि आयुस्तेषां प्रकीर्तितम् । । २२
रक्तपीतशुक्लदन्ता अनीला मन्दवेगिनः ।
एते अल्पायुषो ज्ञेयो अन्ये च भीरवः स्मृता । । २३
एकं चास्य भवेद्वक्त्रं द्वे जिह्वे च प्रकीर्तिते ।
द्वात्रिंशद्दशनाः प्रोक्ताः पन्नागानां न संशयः । । २४
तेषां मध्ये चतस्रस्तु दंष्ट्रा याः सुविषावहाः ।
मकरी कराली कालरात्री यमदूती तथैव च । । २५
सर्वासां चैव दंष्ट्राणां देवताः परिकीर्तिताः ।
प्रथमा ब्रह्मदेवत्या द्वितीया विष्णुदेवता । ।
तृतीया रुद्रदेवत्या चतुर्थी यमदेवता । । २६
हीना प्रमाणतः सा तु वामनेत्रं समाश्रिता ।
नास्यां मन्त्राः प्रयोक्तव्या नौषधं नैव भेषजम् । । २७
वैद्यः पराङ्मुखो याति मृत्युस्तस्या विलेखनात् ।
चिकित्सा न बुधैः कार्या तदन्तं तस्य जीवितम् । । २८
मकरीं मासिकां विद्यात्कराली च द्विमासिका ।
कालरात्री भवेत्त्रीणि चतुरो यमदूतिका । । २९
मकरीं गुडौदनं१ दद्यात्कषायान्नं करालिकाम् ।
कालरात्रीं कटुयुतं दूतीं वै सान्निपातिकम् । । 1.33.३०
मकरी शस्त्रकं विद्यात्कराली काकपादिका ।
कराकृतिः कालरात्रिर्याम्या कूर्माकृतिः स्मृता । । ३१
मकरी वातुला ज्ञेया कराली पैत्तिकी स्मृता ।
कफात्मिका कालरात्री यमदूती सान्निपातकी । । ३२
शुक्ला तु मकरी ज्ञेया कराली रक्तसन्निभा ।
कालरात्री भवेत्पीता कृष्णा च यमदूतिका । । ३३
वामा शुक्ला च कृष्णा च रक्ता पीता च दक्षिणा ।
समासेन तु वक्ष्यामि यथैता वर्णतः स्मृताः । । ३४
शुक्ला तु ब्राह्मणी ज्ञेया रक्ता तु क्षत्रिया स्मृता ।
वैश्या तु पीतिका ज्ञेया कृष्णा शूद्रा तु कथ्यते । ।
अतः परं प्रवक्ष्यामि दंष्ट्राणां विषलक्षणम् । । ३५
दंष्ट्राणां तु विषं नास्ति नित्यमेव भुजङ्गमे ।
दक्षिणं नेत्रमासाद्य विषं सर्पस्य तिष्ठति । । ३६
सङ्कुद्धस्येह सर्पस्य विषं गच्छति मस्तके ।
मस्तकाद्धमनीं याति ततो नाडीषु गच्छति । । ३७
नाडीभ्यः पद्यते दंष्ट्रां विषं तत्र प्रवर्तते ।
तत्सर्वं कथयिष्यामि यथावदनुपूर्वशः । । ३८
अष्टभिः कारणैः सर्पो दशते नात्र संशयः ।
आक्रान्तो दशते पूर्वं द्वितीयं पूर्ववैरिणम् । । ३९
तृतीयं दशते भीतश्चतुर्थं मददर्पितः ।
पञ्चमं तु क्षुधाविष्टः षष्ठं चेह विषोल्बणः । ।
सप्तमं पुररक्षार्थमष्टमं कालचोदितः । । 1.33.४०
यस्तु सर्पो दशित्वा३ तु उदरं परिवर्तयेत् ।
बलभुग्नाकृतिं दंष्ट्रामाक्रान्तं तं विनिर्दिशेत् । ।४ १
यस्य सर्पेण दष्टस्य गभीरं दृश्यते व्रणम् ।
वैरदष्टं विजानीयात्कश्यपस्य वचो यथा । ।४ २
एकं दंष्ट्रापदं यस्य अव्यक्तं न च कल्पितम् ।
भीतदष्टं विजानीयाद्यथोवाच प्रजापतिः । । ४३
यस्य सर्पेण दष्टस्य रेखा दन्तस्य जायते ।
मददष्टं विजानीयात्कश्यपस्य वचो यथा । । ४४
द्वे च दंष्ट्रापदे यस्य दृश्यन्ते च महाक्षतम् ।
क्षुधाविष्टं विजानीयाद्यथोवाच प्रजापतिः । । ४५
द्वे दंष्ट्रे यस्य दृश्येते क्वचिद्रुधिरसङ्कुले ।
विषोल्बणं विजानीयाद्दंशं तं नात्र संशयः । । ४६
अपत्यरक्षणार्थाय जानीयात्तं न संशयः ।
यत्तु काकपदाकारं त्रिभिर्दन्तैस्तु लक्षितम् । । ४७
महानाग इति प्रोक्तं कालदण्डं विनिर्दिशेत् ।
त्रिविधं दष्टजातैस्तु लक्षणं समुदाहृतम् । ।४८
दष्टानुपीतं विज्ञेयं कश्यपस्य वचो यथा ।
विषभागात्तु सर्पस्य त्रिभागस्तत्र संक्रमेत् । । ४९
उदरं दर्शयेद्यस्तु उद्धतं तं विनिर्दिशेत् ।
छर्दितं विषवेगेन निर्विषः पन्नगो भवेत् । । 1.33.५०
असाध्यश्चापि विज्ञेयश्चतुर्दंष्ट्राभिपीडितः ।
ग्रीवाभङ्गो भवेत्किञ्चित्सन्दष्टो विषयोगतः । ।
इतो दंशस्ततः शुद्धो व्यन्तरः परिकीर्तितः । । ५१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे
सर्पदंष्ट्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः । ३३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 34
काललक्षणम्
कश्यप उवाच
अतः परं प्रवक्ष्यामि कालदष्टस्य लक्षणम् ।
शृणु गौतम तत्त्वेन यादृशो भवते नरः । । १
जिह्राभङ्गोऽथ हृच्छूलं चक्षुर्भ्यां च न पश्यति ।
दंशं च दग्धसंकाशं पक्वजम्बूफलोपमम् । । २
वैवर्ण्यं चैव दन्तानां श्यावो भवति वर्णतः ।
सर्वेष्वङ्गेषु शैथिल्यं पुरीषस्य च भेदनम् । । ३
भग्नस्कन्धकटिग्रीव ऊर्ध्वदृष्टिरधोमुखः ।
दह्यते वेपते चैव स्वपते च मुहुर्मुहुः । । ४
शस्त्रेण च्छिद्यमानस्य रुधिरं न प्रवर्तते ।
दण्डेन ताड्यमानस्य दण्डराजी न जायते । । ५
दंशे काकपदं सुनीलमसकृज्जम्बूफलाभं घनमुच्छूनं रुधिरार्द्रसेकबहुलं कृच्छ्रान्निरोधो भवेत् ।
हिक्काश्वासगलग्रहश्च सुमहान्पाण्डुस्त्वचा दृश्यते शुष्काङ्गः प्रवदन्ति शास्त्रनिपुणास्तत्कालदष्टं विदुः । । ६
दंशे यस्याथ शोथः प्रचलितवलितं मण्डलं वा सुनीलं प्रस्वेदो गात्र भेदः स्रवति च रुधिरं सानुनासं च जल्पेत् ।
दन्तोष्ठाभ्यां वियोगो भ्रमति च हृदयं सन्निरोधश्च तीव्रो दिव्यानामेष दंशः स्थलविपुलमयो विद्धि तं कालदष्टम् । । ७
दन्तैर्दन्तान्स्पृशति बहुशो दृष्टिरायासखिन्ना स्थूलो दंशः स्रवति रुधिरं केकरं चक्षुरेकम् । ।
प्रत्यादिष्टः श्वसिति सततं सानुनासं च भाषेत्पापं ब्रूते सकलगदितं कालदण्डं तमाहुः । । ८
वेपते वेदना तीव्रा रक्तनेत्रश्च जायते ।
ग्रीवाभङ्गश्चला नाभिः कालदष्टं विनिर्दिशेत् । । ९
दर्पणे सलिले वापि आत्मच्छायां न पश्यति ।
मन्दरश्मिं तथा तीव्रं तेजोहीनं दिवाकरम्१ । । 1.34.१०
वेपते वेदनात्रस्तो रक्तनेत्रश्च जायते ।
स याति निधनं जन्तुः कालदण्डं विनिर्दिशेत् । । ११
अष्टम्यां च नवम्यां च कृष्णपक्षे चतुर्दशीम् ।
नागपञ्चमीदष्टानां जीवितस्य च संशयः । । १२
आर्द्राश्लेषामघाभरणीकृत्तिकासु विशेषतः ।
विशाखां त्रिषु पूर्वासु मूलस्वातीशतात्मके । ।
सर्पदष्टा न जीवन्ति विषं पीतं च यैस्तथा । । १३
शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च ।
न जीवन्ति नरा दष्टा नक्षत्रे तिथिसंयुते । । १४
अष्टोत्तरं मर्म शतं प्राणिनां समुदाहृतम् ।
तेषां मध्ये तु मर्माणि दश द्वे चापि कीर्तिते । । १५
शङ्खे नेत्रे भ्रुवोर्मध्ये बस्तिभ्यां वृषणोत्तरे ।
कक्षे स्कन्धे हदि मध्ये तालुके चिबुके गुदे । । १६
एषु द्वादशमर्मेषु२ दंशैः शस्त्रेण वा हतः ।
न जीवति नरो लोके कालदण्डं विनिर्दिशेत् । । १७
अकचटतपयशां वदन्ति प्रोक्ता जीवन्ति न तत्र हि ।
गतं ब्रूयाद्यदि स्खलति शिरस्तस्य सम्प्राप्तकालः । । १८
भवति च यदि दूतो ह्युत्तमस्याधमो वा यदि भवति च दूत उत्तमो वाधमस्य ।
आदौ दष्टस्य नाम यदि वदति क्वचिद्वक्ति तस्याथ पश्चात्तं वर्णभेदो यदि भवति समः प्राप्त कालस्य दूतः । । १९
दूतो वा दण्डहस्तो भवति च युगलं पाशहस्तस्तथा वा रक्तवस्त्रं च कृष्णं मुखशिरसि गतमेकवस्त्रश्च दूतः । ।
तैलाभ्यक्तश्च तद्वद्यदि त्वरितगतिर्मुक्तकेशश्च याति यः कुर्याद्घोरशब्दं करचरणयुगैः प्राप्तकालस्य दूतः । । 1.34.२०
नागोदयं प्रवक्ष्यामि ईशानेन तु भाषितम् ।
ब्रह्मणा तु पुरा सृष्टा ग्रहा नागास्त्वनेकशः । । २१
अनन्तं भास्करं विद्यात्सोमं विद्यात्तु वासुकिम् ।
तक्षकं भूमिपुत्रं तु कर्कोटं च बुधं विदुः । । २२
पद्मं बृहस्पतिं विद्यान्महापद्मं च भार्गवम् ।
कुलिकः शंखपालश्च द्वावेतौ तु शनैश्चरः । । २३
पूर्वपादः शंखपालो द्वितीयः कुलिकस्तथा ।
नित्यं भागे यथोद्दिष्टे दिनरात्री तथैव च । । २४
शुक्रसोमौ च मध्याह्ने उदये तु क्षमासुतः ।
शनिः प्रागष्टमे भागे दिवारात्रे त्विहोच्यते । । २५
ग्रहाश्च भुञ्जते चैव शेषं भागस्य लक्षणम् ।
रविवारे सदा ज्ञेयौ पादौ दश चतुर्दश । । २६
अष्ट द्वादश वै चन्द्रे दश षष्ठे कुजे तथा ।
बुधस्य नवमे पादे राहौ च दिवसस्य च । । २७
गुरोर्द्वितीयः षष्ठश्च षोडशस्य तु वर्जयेत् ।
भास्करस्य दिने प्रोक्ते चतुर्थे दशमेष्टमे । । २८
शनैश्चरदिने पादं त्यजेच्चैव सुदारुणम् ।
द्वितीयं द्वादशं चैव षोडशस्य तु वर्जयेत् । । २९
मुहूर्तघटिकादूर्द्ध्वं घटिका चतुर्थं भागं विंशतिश्च ।
कुहूसुतं बुद्बुदं निमेषमेतत्कालस्य लक्षणम् । । 1.34.३०
इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे
दंशदष्टकदूतलक्षणं नाम चतुस्त्रिंशोऽध्यायः । ३४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 35
यमदूतीलक्षणम्
कश्यप उवाच
सविषा दंष्ट्रयोर्मध्ये यमदूती तु वै भवेत् ।
न चिकित्सा बुधैः कार्या तं गतासुं विर्निदशेत् । । १
प्रहरार्धं दिवारात्रावेकैकं भुञ्जते बहिः ।
एकस्य च समानं च द्वितीयं षोडशं तथा । । २
नागोदयो यमुद्दिश्य हतो विद्धो विदारितः ।
कालदष्टं विजानीयात्कश्यपस्य वचो यथा । । ३
यन्मात्रं पतते बिन्दुर्वालाग्रं सलिलोद्धृतम् ।
तन्मात्रं स्रवते दंष्ट्रा विषं सर्पस्य दारुणम् । । ४
नाडीशते तु सम्पूर्णे देहे सङ्क्रमते विषम् ।
यावत्सङ्क्रामयेद्बाहुं कुञ्चितं वा प्रसारयेत् । । ५
अनेन क्षणमात्रेण विषं गच्छति मस्तके ।
वेपते विषवेगे तु शतशोऽथ सहस्रशः । । ६
वर्धते रक्तमासाद्य ततो वातैः शिखी यथा ।
तैलबिन्दुर्जलं प्राप्य यथा वेगेन वर्धते । । ७
शिखण्डी आश्रयं प्राप्य मारुतेन समीरितः ।
ततः स्थानशतं प्राप्य त्वचास्थानं विचेष्टितम् । । ८
त्वचासु द्विगुणं विद्याच्छोणितेषु चतुर्गुणम् ।
पित्ते तु त्रिगुणं याति श्लेष्मे वै षोडशं भवेत् । । ९
वायौ त्रिंशद्गुणं चैव मज्जाषष्टिगुणं तथा ।
प्राणे चैकार्णवीभूते सर्वगात्राणि सन्धयेत्१ । । 1.35.१०
श्रोत्रे निरुध्यमाने च याति दष्टस्त्वसाध्यताम् ।
ततोऽसौ म्रियते जन्तुर्निःश्वासोच्छ्वासवर्जितः । । ११
निष्क्रान्ते तु ततो जीवे भूते पञ्चत्वमागते ।
तानि भूतानि गच्छन्ति यस्य यस्य यथातथम् । । १२
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
इत्येषामेव सङ्घातः शरीरमभिधीयते । । १३
पृथिवी पृथिवीं याति तोयं तोयेषु लीयते ।
तेजो गच्छति चादित्यं मारुतो मारुतं व्रजेत् । । १४
आकाशं चैवमाकाशे सह तेनैव गच्छति ।
स्वस्थानं ते प्रपद्यन्ते परस्परनियोजिताः । । १५
न जीवेदागतः कश्चिदिह जन्मनि सुव्रत ।
विषार्तं न उपेक्षेत त्वरितं तु चिकित्सयेत् । । १६
एकमस्ति विषं लोके द्वितीयं चोपपद्यते ।
यथा नानाविधं चैव स्थावरं तु तथैव च । । १७
प्रथमे विषवेगे तु रोमहर्षोऽभिजायते ।
द्वितीये विषवेगे तु स्वेदो गात्रेषु जायते । । १८
तृतीये विषवेगे तु कम्पो गात्रेषु जायते ।
चतुर्थे विषवेगे तु श्रोत्रान्तरनिरोधकृत् । । १९
पञ्चमे विषवेगे तु हिक्का गात्रेषु जायते ।
षष्ठे च विषवेगे तु प्राणेभ्योऽपि प्रमुच्यते । ।
सप्तधातुवहा ह्येते वैनतेयेन भाषिताः । । 1.35.२०
त्वचः स्थाने विषे प्राप्ते तस्य रूपाणि मे शृणु ।
अङ्गानि तिमिरायन्ते तपन्ते च मुहुर्मुहुः । । २१
एतानि यस्य चिह्नानि तस्य त्वचि गतं विषम् ।
तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । २२
अर्कमूलमपामार्गं प्रियङ्गुं तगरं२ तथा ।
एतदालोड्य दातव्यं ततः सम्पद्यते सुखम् । । २३
ततस्तस्मित्कृते विप्र न निवर्तेत चेद्विषम् ।
त्वचः स्थानं ततो भित्त्वा रक्तस्थानं प्रधावति । । २४
विषे च रक्तं संप्राप्ते तस्य रूपाणि मे शृणु ।
दह्यते मुह्यते१ चैव शीतलं बहु मन्यते । । २५
एतानि यस्य रूपाणि तस्य रक्तगतं विषम् ।
तत्रागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । २६
उशीरं चन्दनं कुष्ठमुत्पलं तगरं तथा ।
महाकालस्य मूलानि सिन्दुवारनगस्य च । ।
हिङ्गुलं मरिचं चैव पूर्ववेगे तु दापेयत् । । २७
बृहती वृश्चिका काली इन्द्र वारुणिमूलकम्२ ।
सप्तगन्धघृतं चैव द्वितीये परिकीर्तितम् । । २८
सिन्दुवारं तथा हिङ्गुं तृतीये कारयेद्बुधः ।
तस्य पानं च कुर्वीत अञ्जनं लेपनं तथा । । २९
एतेनैवोपचारेण ततः सम्पद्यते सुखम् ।
रक्तस्थानं ततो गत्वा पित्तस्थानं प्रधावति । । 1.35.३०
पित्तस्थानगते विप्र विषरूपाणि मे शृणु ।
उत्तिष्ठते निपतते दह्यते मुह्यते तथा । । ३१
गात्रतः पीतकः स्याद्वै दिशः पश्यति पीतिका ।
प्रबला च भवन्मूर्च्छा न चात्मानं विजानते । ।
विषक्रियां तस्य कुर्याद्यथा सम्पद्यते सुखम् । । ३२
पित्तस्थानमतिक्रम्य श्लेष्मस्थानं च गच्छति । । ३३
पिप्पल्यो मधुकं चैव मधु खण्डं घृतं तथा ।
मधुसारमलाबूं च जातिं शङ्करवालुकाम् । ।
इन्द्रवारुणिकामूलं गवां मूत्रेण पेषयेत् । । ३४
नस्यं तस्य प्रयुञ्जीत पानमालेपनाञ्जनम् ।
एतेनैवोपचारेण ततः सम्पद्यते सुखम् । । ३५
श्लेष्मस्थानं ततः प्राप्ते तस्य रूपाणि मे शृणु ।
गात्राणि१ तस्य रुध्यन्ते निःश्वासश्च न जायते । ।
लाला च स्रवते तस्य कण्ठो घुरुघुरायते । । ३६
एतानि यस्य रूपाणि तस्य श्लेष्मगतं विषम् ।
तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । ३७
त्रिकुटकी श्लेष्मातको लोध्रञ्च मधुसारकम् ।
एतानि समभागानि गवां मूत्रेण पेषयेत् । । ३८
तस्य पानं च कुर्वीत अञ्जनं लेपनं तथा ।
एतेनैवोपचारेण ततः सम्पद्यते सुखम् । । ३९
श्लेष्मस्थानमतिक्रम्य वायुस्थानं च गच्छति ।
तत्र रूपाणि वक्ष्यामि वायुस्थानगते विषे । । 1.35.४०
आध्मायते च जठरं बान्धवांश्च न पश्यति ।
ईदृशं कुरुते रूपं वृष्टिभङ्गश्च जायते । । ४१
एतानि यस्य रूपाणि तस्य वायुगतं विषम् ।
तस्यागदं प्रक्ष्यामि येन सम्पद्यते सुखम् । ।४ २
शोणामूलं प्रियालं च रक्तं च गजपिप्पलीम् ।
भार्ङ्गीं वचां पिप्पलीं च देवदारुं मधूककम् । । ४३
मधूकसारं सहसिन्दुवारं हिङ्गुं च पिष्टा गुटिकां च कुर्यात् ।
दद्याच्च तस्याञ्जनलेपनादि एषोऽगदः सर्पविषाणि हन्यात् । । ४४
अञ्जनं चैव नस्यं च क्षिप्रं दद्याद्विषान्विते ।
वायुस्थानं ततो मुक्त्वा मज्जास्थानं प्रधावति । ।४५
विषे मज्जागते विप्र तस्य रूपाणि मे शृणु ।
दृष्टिश्च हीयते तस्य भृशमङ्गानि मुञ्चति । ।४ ६
एतानि यस्य रूपाणि तस्य मज्जागतं विषम् ।
तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् । । ४७
घृतमधुशर्करान्वितमुशीरं चंदनं तथा ।।
एतदालोड्य दातव्यं पानं नस्यं च सुव्रत ।। ४८ ।।
ततः प्रणश्यते दुःखं ततः संपद्यते सुखम् ।।
अथ तस्मिन्कृते योगे विषं तस्य निवर्तते ।।४९।।
मज्जास्थानं ततो गत्वा मर्मस्थानं प्रधावति।।
विषे तु मर्म संप्राप्ते शृणु रूपं यथा भवेत्।।1.35.५०।।
निश्चेष्टः पतते भूमौ कर्णाभ्यां बधिरो भवेत्।।
वारिणा सिच्यमानस्य रोमहर्षो न जायते ।।५१।।
दंडेन हन्यमानस्य दंडराजी न जायते।।
शस्त्रेण च्छिद्यमानस्य रुधिरं न प्रवर्तते ।। ५२ ।।
केशेषु लुच्यमानेषु नैव केशान्प्रवेदते ।।
यस्य कर्णौ च पार्श्वे च हस्तपादं च संधयः ।।
शिथिलानि भवंतीह स गतासुरिति श्रुतिः ।। ५३।।
एतानि यस्य रूपाणि विपरीतानि गौतम ।।
मृतं तु न विजानीयात्कश्यपस्य वचो यथा ।।५४।।
वैद्यास्तस्य न पश्यंति ये भवंति कुशिक्षिताः ।।
विचक्षणास्तु पश्यंति मंत्रौषधिसमन्विताः ।।५५।।
तस्यागदं प्रवक्ष्यामि स्वयं रुद्रेण भाषितम् ।।
मयूरपित्तं मार्जारपित्तं गन्धनाडीमूलमेव च ।। ५६ ।।
कुंकुमं तगरं कुष्ठं कासमर्दत्वचं तथा।।
उत्पलस्य च किंजल्कं पद्मस्य कुमुदस्य च ।। ५७ ।।
एतानि समभागानि गोमूत्रेण तु पेषयेत् ।।
एषोऽगदो यस्य हस्ते दष्टो न म्रियते स वै ।।
कालाहिनापि दष्टेन क्षिप्रं भवति निर्विषः ।।५८।।
क्षिप्रमेव प्रदा तव्यं मृतसंजीवनौषधम् ।।
अंजनं चैव नस्यं च क्षिप्रं दद्याद्विचक्षणः ।। ५९ ।।
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे धातुगतविषक्रियावर्णनं नाम पंचत्रिंशोऽध्यायः ।। ३५ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 36
।। गौतम उवाच।। ।।
कीदृशं सर्पदष्टस्य सर्पिण्याः कीदृशं भवेत् ।।
कुमारदष्टः कीदृक्स्यात्सूतिकादंशितस्य च ।। १ ।।
रूपं नपुंसकेनेह व्यंतरेण च कीदृशम् ।।
एतदाख्याहि मे सर्वमेभिर्दष्टस्य लक्षणम् ।। २ ।। ।।
।। कश्यप उवाच ।। ।।
अतः परं प्रवक्ष्यामि नागानां रूपलक्षणम् ।।
सर्पदष्टस्य च तथा समासाद्द्विजपुंगव ।। ३ ।।
अथ सर्पेण दष्टस्य ऊर्ध्व दृष्टिः प्रजायते ।।
सर्पीदष्टस्य च तथा अधोदृष्टिः प्रजायते ।। ४ ।।
कन्यादष्टस्य वामा स्यादृष्टिर्द्विजवरोत्तम ।।
कुमारेणापि दष्टस्य दक्षिणा एव जायते ।।५।।
गर्भिण्या वाथ दष्टस्य तथा स्वेदश्च जायते ।।
रोमांचः सूतिकायास्तु वेपथुश्चापि जायते ।।
नपुंसकेन दष्टस्य अंगमर्दः प्रजायते ।। ।।६।।
पन्नग्यः प्रभवो रात्रौ दिवा सर्पो विषाधिकः।।
नपुंसकस्तु संध्यायां कश्यपेन तु भाषितम्।।७।।
अंधकारे तु दष्टो य उदके गहने वने ।।
सुप्तो वा चेत्प्रमत्तो वा यदि सर्पं न पश्यति ।।
दष्टरूपाण्यजानन्वै कथं वैद्यचिकित्सितम्।।८।।
चतुर्विधा इह प्रोक्ताः पन्नगास्तु महात्मना ।।
दर्वीकरा मंडलिनो राजिला व्यंतरास्तथा ।। ९ ।।
दर्वीकरा वातविषा मंडला पैत्तिकाः स्मृताः ।।
श्लेष्मला राजिल्रा ज्ञेया व्यंतराः सान्निपातिकाः ।। 1.36.१० ।।
रक्तं परीक्षयेदेषां सर्पाणां तु पृथक्पृथक् ।।
कृष्णं दर्वीकराणां तु जायते नाल्पमुल्बणम् ।। ११ ।।
रक्तं घनं च बहुशः शोणितं मंडली कृतम् ।।
पिच्छिलं राजिले स्वल्पं तद्वद्व्यंतरके तथा ।। १२ ।।
सर्पा ज्ञेयास्तु चत्वारः पंचमो नोपलभ्यते ।।
ब्राह्मणः क्षत्रियो वैश्यः शूद्र श्चैव चतुर्थकः ।। १३ ।।
ब्राह्मणे मधुरं दद्यात्तिक्तं दद्यात्तथोत्तरे ।।
वैश्ये कर्षफलं दद्याच्छूद्रे त्रिस्थूणमेव च ।। १४ ।।
ब्राह्मणेन तु दष्टस्य दाहो गात्रेषु जायते ।।
मूर्च्छा च प्रबला स्याद्वै नात्मानमभिजानते ।। १५ ।।
श्यामवर्णं मुखं च स्यान्मज्जास्तंभश्च जायते ।।
तस्य कुर्यात्प्रतीकारं येन संपद्यते सुखम् ।। १६ ।।
अश्वगंधाप्यपामार्गः सिंदुवारं सुरामयम् ।।
एतत्सर्पिः समायुक्तं पाने नस्ये च दापयेत् ।।
एतेनैवोपचारेण सुखी भवति मानवः ।। १७ ।।
क्षत्रियेण तु दष्टस्य कंपो गात्रेषु जायते ।।
मूर्छा मोहस्तथा स्याद्वै नात्मानमभिवेत्ति सः ।। १८ ।।
जायते वेदना तस्य ऊर्ध्वं चैव निरीक्षते ।।
तस्य कुर्यात्प्रतीकारं येन संपद्यते सुखम् ।। १९ ।।
अर्कमूलमपामार्गं प्रियंगुमिन्द्रवारुणीम् ।।
एतत्सर्पिः समायुक्तं पानं नस्यं च दापयेत् ।।
एतेनैवोपचारेण सुखी भवति मानवः ।। 1.36.२० ।।
वैश्येनापि हि दष्टस्य शृणु रूपाणि यानि तु ।।
श्लेष्मप्रकोपो लाला च न चोद्वहति चेतनाम् ।। २१ ।।
मूर्छा च प्रबला यस्य आत्मानं नाभिनंदति ।।
तस्य कुर्यात्प्रतीकारं येन संपद्यते सुखम् ।। २२ ।।
अश्वगंधा सगोमूत्रा गृह धूमं सगुग्गुलम् ।।
शिरीषार्कपलाशेन श्वेता च गिरिकर्णिका ।। २३ ।।
गोमूत्रेण समायुक्तं पानं नस्यं च दापयेत् ।।
एष वैश्येन दष्टानामगदः परिकीर्त्तितः ।। २४ ।।
शूद्रेणापि हि दष्टस्य शृणु तत्त्वेन गौतम ।।
कुथ्यते वेपते चैव ज्वरः शीतं च जायते ।। २५ ।।
अंगानि चुलुचुलायंते शूद्रदष्टस्य लक्षणम् ।।
तत्रागदं प्रवक्ष्यामि येन संपद्यते सुखम् ।। २६ ।।
पद्मं च लोध्रकं चैव क्षौद्रं पद्मस्य केसरम् ।।
मधूकसारं मधु च श्वेतां च गिरिकर्णिकाम् ।। २७ ।।
एतानि समभागानि पेषयेच्छीतवारिणा ।।
पानलेपांजनैर्नस्यैः सुखी भवति मानवः ।। २८ ।।
पूर्वाह्णे चरते विप्रो मध्याह्ने क्षत्रियश्चरेत् ।।
अपराह्ने चरेद्वैश्यः शूद्रः संध्याचरो भवेत् ।।२९।।
आहारो वायुपुष्पाणि ब्राह्मणानां विदुर्बुधाः ।।
मूषिका क्षत्रि याणां च आहारो द्विजसत्तम ।।
वैश्या मंडूकभक्षाश्च शूद्राः सर्वाशिनस्तथा ।।1.36.३०।।
अग्रतो दशते विप्रः क्षत्रियो दक्षिणेन तु ।।
वामपार्श्वे सदा वैश्यः पश्चाद्वै शूद्र आदशेत् ।। ३१ ।।
मदकाले तु संप्राप्ते पीड्यमाना महाविषाः ।।
अवेलायां दशंते वै मैथुनार्ता भुजंगमाः ।। ३२ ।।
पुष्पगंधाः स्मृता विप्राः क्षत्रियाश्चंदनावहाः ।।
वैश्याश्च घृतगंधा वै शूद्राः स्युर्मत्स्यगंधिनः ।। ३३ ।।
वासं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः ।।
वापीकूपतडागेषु गिरिप्रस्रवणेषु च ।।
वसंति ब्राह्मणाः सर्पा ग्रामद्वारे चतुष्पथे ।।३४।।
आरामेषु पवित्रेषु शुचिष्वायतनेषु च ।।
वसन्ति क्षत्रिया नित्यं तोरणेषु सरःसु च ।।३५।।
श्मशाने भस्मशालासु पलालेषु तटेषु च ।।
गोष्ठेषु पथि वृक्षेषु विप्र वैश्या वसंति च ।।३६।।
अविविक्तेषु स्थानेषु निर्जनेषु वनेषु च ।।
शून्यागारे श्मशाने च शूद्रा विप्र वसंति च ।। ३७ ।।
श्वेताश्च कपिलाश्चैव ये सर्पास्त्वनलप्रभाः ।।
मनस्विनः सात्त्विकाश्च ब्राह्मणास्ते बुधैः स्मृताः ।।३८।।
रक्तवर्णाः सुवर्णाभाः प्रवालमणिसंनिभाः ।।
सूर्यप्रभास्तथा विप्र क्षत्रियास्ते भुजंगमाः।।३९।।
नानाविचित्रराजीभिरतसीवर्णसन्निभाः।।
बाण पुष्पसवर्णाभा वैश्यास्ते वै भुजंगमाः ।। 1.36.४० ।।
काकोदरनिभाः केचिद्ये च अंजनसन्निभाः ।।
काकवर्णा धूम्रवर्णास्ते शूद्राः परिकीर्तिताः ।।४१।।
यस्य सर्पेण दष्टस्य दंशमंगुष्ठमंतरम् ।।
बालदष्टं विजानीयात्कश्यपस्य वचो यथा।। ४२ ।।
यस्य सर्पेण दष्टस्य दंशं द्व्यंगुलमंतरम् ।।
यौवनस्थेन दष्टस्य एतद्भवति लक्षणम् ।। ४३ ।।
यस्य सर्पेण दष्टस्य सार्धं द्व्यंगुलमzतरम् ।।
वृद्धदष्टं विजानीयात्कश्यपस्य वचो यथा ।। ४४ ।।
अनंतः प्रेक्षते पूर्वं वामपार्श्वे तु वासुकिः ।।
तक्षको दक्षिणेनेह कर्कोटः पृष्ठतस्तथा ।। ४५ ।।
चलते भ्रमते पद्मो महापद्मो निमज्जति ।।
विसंज्ञस्तिष्ठते चैव शंखपालो मुहुर्मुहुः ।। ४६ ।।
सर्वेषां कुरुते रूपं कुलिकः पन्नगोत्तमः ।।
अनंतस्य दिशा पूर्वा वासुकेस्तु हुताशनी ।।४७।।
दक्षिणा तक्षकस्योक्ता कर्कोटस्य तु नैर्ऋती ।।
पश्चिमा पद्मनाभस्य महापद्मस्य वायुजा ।।
उत्तरा शंखपालस्य ऐशानी कंबलस्य तु।।४८।।
अनंतस्य भवेत्पद्मं वासुकेः स्यात्तथोत्पलम् ।।
स्वस्तिकं तक्षकस्योक्तं कर्कोटस्य तु पंकजम् ।। ४९ ।।
पद्मस्य तु भवेत्पद्मं शूलं पद्मेतरस्य तु ।।
शंखपाले भवेच्छत्रं कुलिकस्यार्धचन्द्रकम् ।। 1.36.५० ।।
अनंतकपिलौ विप्रौ क्षत्रियौ शंखवासुकी ।।
महापद्मस्तक्षकश्च वैश्यौ विप्र प्रकीर्तितौ ।।
पद्मकर्कोटकौ शूद्रौ सदा ज्ञेयौ मनीषिभिः ।। ५१ ।।
अनंतकुलिकौ वर्णतो ब्रह्मसंभवौ ।।
वासुकिः शंखपालश्च रक्तौ ह्यग्निसमुद्भवौ ।। ५२ ।।
तक्षकश्च महापद्म ईषत्पीतौ बभूवतुः ।।
पद्मकर्कोटकौ विप्र सर्पौ कृष्णौ बभूवतुः ।। ५३ ।।
हयं यानं वृषं छत्रं राजानमथ पावकम् ।।
धरणीमुत्पाद्य धृतानेतान्सिद्धिकरान्विदुः ।। ।।५४।।
पूर्णकुम्भः पताका च कांचनं मणयस्तथा ।।
शिरीषं माणिकं कण्ठे जीवजीवेति सुव्रत ।।
एतेषां दर्शनं श्रेष्ठं कन्या चैकप्रसूयिका ।।५५।।
चतुःषष्टिः समाख्याता भोगिनो ये तु पन्नगाः ।
अदृश्यास्तेषु षट्त्रिंशद्दृश्यास्त्रिंशन्महीचराः ॥ ५६ ॥
विंशच्च स्रग्विणः प्रोक्ताः सप्त मंडलिनस्तथा ।
राजीवन्तो दश प्रोक्ता दर्व्यः षोडश पंच च ॥ ५७ ॥
दुंदुभो डुंडुभश्चैव चेटभश्चेंद्रवाहनः ॥
नागपुष्पसवर्णाख्या निर्विषा ये च पन्नगाः॥
एवमेव तु सर्पाणां शतद्विनवति स्मृतम् ॥५८॥
वराहकर्णीं गजपिप्पलीं च गांधारिकां पिप्पलदेवदारु ॥
मधूकसारं सहसिंदुवारं हिंगुं च पिष्ट्वा गुटिका च कार्या ॥५९॥
॥ सुमंतुरुवाच ॥ ॥
इत्युक्तवान्पुरा वीर गौतमस्य प्रजापतिः॥
लक्षणं सर्वैनागानां रूपवर्णौ विषं तथा ॥ 1.36.६० ॥
तस्मात्संपूजयेन्नागान्सदा भक्त्या समन्वितः ॥
विशेषतस्तु पंचम्यां पयसा पायसेन च ॥६१॥
श्रावणे मासि पंचम्यां शुक्लपक्षे नरा धिप ।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ॥ ६२ ।
पूजयेद्विधिवद्द्वारं दधिदूर्वाक्षतैः कुशैः ।
गंधपुष्पोपहारैश्च ब्राह्मणानां च तर्पणैः॥ ६३।।
ये त्वस्यां पूजंतीह नागान्भक्तिपुरःसराः।।
न तेषां सर्वपतो वीर भयं भवति कर्हिचित्।६४।।
इति श्रीभविष्ये महापुराणे शतार्द्ध साहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे श्रावणिकनागपञ्चमीव्रतवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥ ॥ छ ॥
पर्व १ (ब्राह्मपर्व) — Adhyāya 37
॥ सुमंतुरुवाच ॥ ॥
तथा भाद्रपदे मासि पंचम्यां श्रद्धयान्वितः ॥
अथालेख्य नरो नागान्कृष्णवर्णादिवर्णकैः ॥ १ ॥
पूजयेद्गंधपुष्पैश्च सर्पिः पायसगुग्गुलैः ॥
तस्य तुष्टिं समायांति पन्नगास्तक्षकादयः।।२।।
आसप्तमात्कुलात्तस्य न भयं नागतो भवेत्।।
तस्मात्सर्वप्रयत्नेन नागान्संपूजयेद्बुधः।।३।।
इति श्रीभविष्ये महापुराणे शतर्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे भाद्रपदिकनागपञ्चमीव्रतवर्णनं नाम सप्तत्रिंशोध्यायः।।३७।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 38
॥ ॥ सुमंतुरुवाच ॥ ॥
तथा चाश्वयुजे मासि पञ्चम्यां कुरुनंदन ॥
कृत्वा कुशमयान्नागान्गंधांद्यैः संप्रपूजयेत् ॥ १ ॥
घृतोदकाभ्यां पयसा स्नपयित्वा विशांपते ॥
गोधूमैः पयसा स्विन्नैर्भक्ष्यैश्च विविधैस्तथा ॥ २ ॥
यस्त्वस्यां विधिवन्नागाञ्छुचिर्भक्त्या समन्वितः ॥
पूजयेत्कुरुशार्दूल तस्य शेषादयो नृप ॥३॥
नागाः प्रीता भवंतीह शांतिमाप्नोति वा विभो ॥
स शांतिलोकमासाद्य मोदते शाश्वतीः समाः ॥ ४ ॥
इत्येष कथितो वीर पञ्चमीकल्प उत्तमः ।
यत्रायमुच्यते मंत्रः सर्वसर्पनिषेधकः ॥ ९॥
ॐ कुरुकुल्ले फट् स्वाहा।॥
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे समाप्तिकथनं नामाष्टत्रिंशोऽध्यायः ॥३८॥ ॥छ॥
पर्व १ (ब्राह्मपर्व) — Adhyāya 39
॥सुमंतुरुवाच॥ ॥
षष्ठ्यां फलाशनो राजन्विशेषात्कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना । । २
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः ।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना । । ३
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः ।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा । । ४
दत्त्वार्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः ।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत । । ५
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव ।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते । ।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम् । । ६
दत्त्वा विप्राय चात्मान्नं यच्चान्यदपि विद्यते ।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम् । । ७
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः ।
तन्निबोध महाराज प्रोच्यमानं मयाखिलम् । । ८
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति ।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः । । ९
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम् ।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः । । 1.39.१०
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत् ।
इह वामुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम् । ।
स्वर्गे च नियतं वासं लभते नात्र संशयः । । ११
इह चागत्य कालान्ते यथोक्तफलभाग्भवेत् ।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति । । १२
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह ।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा । । १३
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः । ३९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 40
कार्तिकेयवर्णनम्
शतानीक उवाच
अहो व्रतं महत्कष्टं संशयो हृदि वर्तते ।
कार्तिकेयस्य माहात्म्यं श्रुत्वा जन्म तथा द्विज । । १
अनेकजनितस्येह कार्त्तिकेयस्य सुव्रत ।
माहात्म्यं सुमहद्विप्र कथमेतद्विभाव्यते । । २
जातिः श्रेष्ठा भवेद्वीर उत कर्म भवेद्वरम् ।
संशयस्तु महानत्र दृष्ट्वा मे कृत्तिकासुतम् । । ३
एतद्वद विनिश्चित्य न यथा संशयो भवेत् ।
जन्मतः कर्मणश्चैव यज्ज्वायस्तद् ब्रवीहि मे । । ४
सुमन्तुरुवाच
इममर्थं पुरा पृष्टो ब्रह्मा शिष्यैर्मनीषिभिः ।
यदुक्तं तेन तेषां च तत्ते वच्मि निबोध मे । । ५
सुरज्येष्ठं सुखासीनमभिगम्य महर्षयः ।
प्रणम्य च महाबाहो विश्वामित्रस्य विप्रताम् । । ६
दृष्ट्वा विस्मयमागत्य कौतूहलसमन्विताः ।
भक्तिं श्रद्धां पुरोधाय प्रणम्यानतकन्धराः । । ७
ऋषय ऊचुः
भो ब्रह्मन्नादकल्पे हि ब्राह्मण्यं ब्रूहि किं भवेत् ।
जात्यध्ययनदेहात्मसंस्काराचारकर्मणाम्१ । । ८
बाह्याभ्यन्तरसामान्यविशेषा यदि कृत्रिमाः ।
मनोवाक्कर्मशारीरजातिद्रव्यगुणात्मकाः । । ९
सन्त्यक्तव्याः प्रसिद्धा ये जातिभेदविधायिनः ।
वस्तुभूताः परोक्षैर्वा प्रमाणैर्न विनिश्चिताः । । 1.40.१०
अव्यक्तागमसिद्धश्चेज्जातिभेदविधिर्नृणाम् ।
विकल्पोऽयं न पुष्णाति भवतः शेमुषीबलम् । । ११
ब्रह्मोवाच
एवमेतन्न सन्देहो यथा यूयं वदन्ति१ ह ।
शृणुध्वं योगिनो वाक्यं सतर्कं शिष्यश्रेयसे । । १२
योगेश्वर उवाच
प्रमाणे हि प्रसिद्धे तु भिन्नार्थविषये यतः ।
स्पष्टयोग्यार्थविषयं प्रत्यक्षं तावदीक्षते । । १३
समान्यातीन्द्रियग्राही सिद्धान्तोऽभ्युपगम्यते ।
स एव भगवानेकं प्रमाणमिति चेन्न तत् । । १४
यस्माद्विविधमे तत्ते सङ्कटं भद्र वर्तते ।
वेदस्य पौरुषेयत्वं नित्यजातिसमर्थकम् । । १५
कार्या विशेषा वेदोक्ता न युक्तमकृतं वचः ।
ताल्वादिकरणानां च व्यापारानन्तरं श्रुतेः । । १६
व्यापारात्परतस्तस्य प्रागभावविशेषतः ।
तद्भावानुविधायित्वमन्वयव्यतिरकेतः । । १७
तस्माद्धूमाग्निवद्वार्थफलभावोऽवतिष्ठते ।
न च व्यापारवचसोरन्यथानुपपत्तितः । । १८
पुरुषानुगता जातिर्ब्राह्मणत्वादिकास्ति चेत् ।
द्विवर्णजातिभेदेन प्रत्याक्षार्थोपलक्षणात् । । १९
गोवर्गमध्यं च गतो यथाश्वो निर्धार्यते ज्ञैः सुविचक्षणत्वात् ।
मनुष्यभावादविशिष्यमाणस्तद्वद्द्विजः शूद्रगणान्न भिन्नः । । 1.40.२०
मनुष्यजातेर्न परो विशेषो यः कल्प्यते सर्वनरानुयायी ।
संस्कारयुक्ता हि क्रियाविशिष्टा द्विजन्मनां शूद्रविवेकहेतुः । । २१
जीवोऽपि ब्राह्मणः प्रोक्तो यैरतत्त्वज्ञमानवैः ।
प्रभ्रष्टब्राह्मणत्वास्ते जायन्ते विप्रसङ्गतः । । २२
जराजन्मान्तरक्लेशदुष्टग्राहकुलाकुलम् ।
नर तिर्यगसच्छूद्र योनिदुःखोर्मिसंकटम् ।। २३
दौस्थित्यरोगशोकार्तिजनावर्तसमन्वितम् ।
श्वानुशूकरचाण्डालकृमिकूर्मादिकायकम् । । २४
संसारसागरं घोरं मग्नः खलु परिप्लवन् ।
भूरिपापभराक्रान्तः स जीवो ब्राह्मणः कथम् । । २५
ब्रह्मोवाच
सप्तव्याधकथा विप्रा मनुना परिकीर्तिताः ।
तं निशम्य यदुश्रेष्ठ नित्यं जातिपदं त्यजेत् । । २६
सप्तव्याधा दशार्णेषु१ मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः सरिद्द्वीपे हंसाः सरसि मानसे । । २७
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः।
प्रस्थिता दीर्घमध्वानं मृयं किमवसीदथ । । २८
तस्मान्न जीवे ब्राह्मण्यं पश्यामो हि कथञ्चन । । २९
शस्त्रादिमद्भार्गवजातियुक्तो गजाश्वगोजोष्ट्रखरादिकानाम् ।
शक्त्या कृतो ह्यङ्गजवर्णधर्मैर्भेदः स्फुटं लक्षणतोऽत्र यद्वत् । । 1.40.३०
तदुत्तरान्नैव विकर्तनीया ब्राह्मण्यजातिनृषु नास्ति काचित् ।
नित्याकृतिर्नानुपभेदरूपा यथा हि भेदः परमोऽत्र सिध्येत् । ।
सिताद्यसाधारणतुल्यरूपाः सनातनोऽङ्गेषु न वर्णभेदः । । ३१
ब्राह्मण्यमध्रुवमिदं किल कृत्रिमत्वादकृत्रिमं भवति सामयिकत्वयोगात् ।
साङ्केतिकं सुकृतलेशविशेषलब्धं वाणिज्यभेषजकृतामिव जातिभेदाः । । ३२
किं ब्राह्मणा ये सुकृतं त्यजन्ति किं क्षत्रिया लोकमपालयन्तः .।
स्वधर्महीना हि तथैव वैश्याः शूद्राः स्वमुख्यक्रियया विहीनाः । । ३३
तस्मान्न गोश्ववत्कश्चिज्जातिभेदोऽस्ति देहिनाम् ।
कार्यशक्तिनिमित्तस्तु सङ्केतः कृत्रिमो भवेत् । । ३४
एवं प्रमाणैः प्रतिषिध्यमानां साङ्केतिकीं याति नरो व्यवस्थाम् ।
स्वकीयसिद्धां स्वमतैर्निषिद्धां न बुध्यते मूढमना वराकः । । ३५
गोमहिष्यजवाज्युष्ट्रवानेयाविगजाधिपाः ।
प्रेष्यवार्धुषिकाकार्यकरणोद्यतमानसाः । । ३६
वणिक्कारुक्रियाविष्टा१ दिव्यास्तेऽपि च ये द्विजाः ।
विनष्टास्ते तु विज्ञेयाः क्रव्यादाश्च कुशीलवाः । । ३७
पलाण्डुलशुनादाश्च मृग्युष्ट्रीक्षीरपायिनः ।
मांससर्वरसक्षीरक्रयविक्रयकारिणः । । ३८
पुनर्भूवृषलीवेश्याचाण्डालस्त्रीनिषेविणः ।
शूद्रान्नरसपुष्टाङ्गाः प्रेतवस्त्रान्नभोजनाः । । ३९
मृतसूतकलब्धान्नपानाद्यभ्यवहारिणः ।
ब्रह्मदेवपितृभूतमनुष्येषु बहिष्कृताः । ।1.40.४०
मात्सर्यमदविद्वेषतृष्णाकामतमोमयाः ।
हीनाचारा१ हि ये केचिदपरे पिशुना द्विजाः । ।
प्रकारैर्बहुभिः सर्वे ते प्रणश्यन्ति नान्यथा । ।४ १
एवं शास्त्रोदितन्यायमार्गभ्रष्टास्तु ये नराः ।
विशिष्टगोत्रसंस्कारकलापसकलात्मकाः । ।४ २
वेदानध्यापयन्तोऽपि तेऽधीयानाः श्रुतिक्रमात् ।
ब्राह्मणत्वाद्विहीयन्ते दुराचारविघायिनः । ।४ ३
तस्मान्न जातिरेकत्र भूतात्मास्त्यनपायिनी ।
नाशित्वादत्र च श्लोकान्मानवाः समधीयते । ।४.
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविकयी । ।४५
गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् ।
प्रेष्यान्वार्धुषिकांश्चैव शूद्रास्तान्मनुरब्रवीत् । ।४६
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ।
क्षत्रियो याति विप्रत्वं विद्याद्वैश्यं तथैव च । ।४७
इति श्री भविष्ये महापुराण शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे
कार्तिकेयवर्णने जातिवर्णनं नाम चत्वारिंशोऽध्यायः ।४ ० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 41
ब्राह्मणविवेकवर्णनम्
ब्रह्मोवाच
वेदाध्ययनमप्येतद्ब्राह्मण्यं प्रतिपद्यते ।
विप्रवद्वैश्यराजन्यौ राक्षसा रावणादयः । । १
श्वादचाण्डालदासाश्च लुब्धकाभीरधीवराः ।
येन्येऽपि वृषलाः केचित्तेऽपि वेदानधीयते । । २
यदा देशान्तरं गत्वा ब्राह्मण्यं क्षत्रियं श्रिताः ।
व्यापाराकारभावाद्यैर्विप्रतुल्यैः प्रकल्पितैः । । ३
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
प्रोद्वहन्ति शुभां कन्यां शुद्धब्राह्मणजा नराः । ।४
अथवाधीत्य वेदांस्तु क्षत्रवैश्यैस्तु१ वा नराः ।
गौडपूर्वां कृतामेयुर्जातिं वा दाक्षिणात्यजाम् । । ५
अपरिज्ञातशूद्रत्वाद्ब्राह्मण्यं यान्ति कामतः ।
तस्मान्न ज्ञायते भेदो वेदाध्यायक्रियाकृतः । । ६
शास्त्रकारैस्तथा चोक्तं न्यायमार्गानुसारिभिः ।
ते साधु मतमाकर्ण्य सन्तः सन्ति विमत्सराः । । ७
आचारहीनान्न पुनंति वेदा यद्यप्यधीताः सह षद्भिरङ्गैः२ ।
शिल्पं हि वेदाध्ययनं द्विजानां वृत्तं स्मृतं ब्राह्मणलक्षणं तु । । ८
अधीत्य चतुरो वेदान्यदि वृत्ते न तिष्ठति ।
न तेन क्रियते कार्यं स्त्रीरत्नेनेव षण्ढकः । । ९
शिखाप्रणवसंस्कारसन्ध्योपासनमेखलाः ।
दण्डाजिनपवित्राद्याः शूद्रेष्वपि निरङ्कुशाः । । 1.41.१०
प्रसङ्गोऽपि हि शूद्राणां न शक्यो विनिवारितुम् ।
देवोत्तमत्रयेणापि निवर्तन्ते नराः स्वयम् । । ११
तस्मान्नैतेऽपि लक्ष्यन्ते विलक्षणतया१ नृणाम् ।
यज्ञोपवीतसंस्कारमेखलाचूलिकादयः । । १२
आभिचारिकमन्त्राद्यैर्दुर्लभत्वादिभाषणैः ।
ब्राह्मणस्यैव शक्तिश्चेत्केनास्य विनिहन्यते । । १३
तपः सत्यादिमाहात्म्याद्देवतासमयस्मृतिः ।
मन्त्रशक्तिर्नृणामेषां सर्वेषामपि विद्यते । । १४
वञ्चनं दुर्वचस्यापि क्रियते सर्वमानवैः ।
शूद्रब्राह्मणयोस्तस्मान्नास्ति भेदः कथञ्चन । । १५
शापानुग्रहकारित्वं शक्तिभेदो न विद्यते ।
चौरचाटादिराजन्यदुर्जनाभिहते नृणाम् । । १६
आत्मादुःखोदयापायं स्वेषु जन्तुषु रक्षणम् ।
कर्तुं न प्रभवेच्छूद्रो ब्राह्मणस्तद्वदेव हि । । १७
मा भूद्युगे कलावेतद्देशे चाकार्यकृद्द्विजे ।
स्यादन्यदेशकालादौ द्विजानामतिशायिनाम् । । १८
शापानुग्रहसामर्थ्यमन्यद्वाध्यात्मगोचरम् ।
ब्रह्मसाधनमेतद्धि लिङ्गं केचित्प्रचक्षते । । १९
संसारारक्तचेतस्का मोहान्धतमसावृताः ।
पतन्त्युन्मार्गगर्तेषु प्रत्यग्नि शलभा यथा । । 1.41.२०
जातिधर्मः स्वयं किञ्जिद्विशेषः श्रुतिसङ्गमात् ।
असिद्धः शूद्रजातीनां प्रसिद्धो विप्रजातिषु । । २१
संस्कारो योनिसाध्यो वा सामग्री प्रभवोऽथ वा ।
शूद्रेभ्योऽतिशयं धत्ते यः साधारणतागुणः । । २२
विप्राणां पञ्चधा भेदः कल्पनीयस्तु पण्डितैः ।
न जातिजस्त्रयीजो वा विशेषो युक्तिबाधकात् । ।
क्रमाक्रमक्रियाः सन्ति न सनातनवस्तुनः । । २३
नित्यो न हेतुर्विगतक्रियत्वाद्धेतुर्भवेद्वेदविशेषतः सः ।
स तत्समस्तत्प्रतिसन्निधानात्कालात्ययेक्षित्वमयुक्तमेव । । २४
स्वान्तः शरीरवृत्तिस्थः श्रुतियोगादुदेति यः ।
सोऽनन्यवेदविज्ञातस्वभावोऽन्यैर्न गम्यते । २५
विशिष्टाधीतिधर्मत्वे कृत्रिमा ब्रह्मसङ्गतिः ।
यस्यास्यतिशयस्तस्य नान्यो नाश्रयते यदि । । २६
दृश्यस्वभावं किमभीष्टमेतद्ब्राह्मण्यमाहोस्विददृष्टरूपम् ।
सर्वैः प्रतीयेत हि दृश्यरूपं ततोऽन्यथावद्गतिरेव न स्यात् । । २७
सामग्र्यभावात्परमं विशेषं भूदेवगात्रस्थमभूमिदेवाः ।
स्मरन्ति तेनात्मनि पुण्यपापं यथा तथेत्येतदयुक्तमुक्तम् । । २८
सामग्र्यनुष्ठानगुणैः समग्राः शूद्रा यतः सन्ति समा द्विजानाम् ।
तस्माद्विशेषो द्विजशूद्रनाम्नोर्नाध्यात्मिको बाह्यनिमित्तको वा । । २९
संस्कारतः सोऽतिशयो यदि स्यात्सर्वस्य पुंसोऽस्त्यतिसंस्कृतस्य ।
यः संस्कृतो विप्रगणप्रधानो व्यासादिकैस्तेन न तस्य साम्यम्१ । । 1.41.३०
हेतुत्वं घटते१ नैषां जात्यादीनामसम्भवात् ।
जातेरकृतकत्वाच्च अधीते न विशेषतः । । ३१
संस्कारातिशयाभावादन्तरस्यागते परैः ।
भौतिकत्वाच्छरीरस्य समस्तानामसंहतैः । । ३२
किं चान्यनास्तिकम्लेच्छ यवनादिजनेष्वलम्२ । । ३३
वेदोदितबहिर्दुष्टचरितेषु दुरात्मसु ।
धर्मादतिशयो३ दृष्टः क्रूरसाहसिकादिषु । ।
तस्माद्विप्रेषु जात्यादिसामग्रीप्रभवो न सः । । ३४
तस्मान्न च विभेदोऽस्ति न बहिर्नान्तरात्मनि ।
सुखादौ न चैश्वर्ये नाज्ञायां नाभयेष्वपि । ।३ ५
न वीर्ये नाकृतौ नाक्षे न व्यापारे न चायुषि ।
नाङ्गे पुष्टे न दौर्बल्ये न स्थैर्ये नापि चापले । । ३६
न प्रज्ञायां न वैराग्ये न धर्मे न पराक्रमे ।
न त्रिवर्गे न नैपुण्ये न रूपादौ न भेषजे । । ३७
न स्त्रीगर्भे न गमने न देहमलसम्प्लवे ।
नास्थिरन्ध्रे न च प्रेम्णि न प्रमाणेषु लोमसु । । ३८
शूद्रब्राह्मण्योर्भेदो मृग्यमाणोऽपि यत्नतः ।
नेक्ष्यते सर्वधर्मेषु संहतैस्त्रिदशैरपि । । ३९
उक्तमात्रा विसम्भूतिर्विचारक्रमकारिभिः ।
वृद्धवृन्दारकाधीशैरप्रधृष्यमिदं वचः । । 1.41.४०
न ब्राह्मणाश्चन्द्रमरीचिशुभ्रा न क्षत्रियाः किंशुकपुष्पवर्णाः ।
न चेह वैश्या हरितालतुल्याः शूद्रा न चाङ्गारसमानवर्णाः । । ४१
पादप्रचारैस्तनुवर्णकेशैः सुखेन दुःखेन च शोणितेन ।
त्वङ्मांसमेदोस्थिरसैः१ समानाश्चतुष्प्रभेदा हि कथं भवन्ति ।।४२
वर्णप्रमाणाकृतिगर्भवासवाग्बुद्धिकर्मेन्द्रियजीवितेषु ।
बलत्रिवर्गामयभेषजेषु न विद्यते जातिकृतो विशेषः ।।४३
स एक एवात्र पतिः प्रजानां कथं पुनर्जातिकृतः प्रभेदः ।
प्रमाणदृष्टान्तनयप्रवादैः परीक्ष्यमाणो विघटत्वमेति ।।४४
चत्वार एकस्य पितुः सुताश्च तेषां सुतानां खलु जातिरेका ।
एवं प्रजानां हि पितैक एवं पित्रैकभावान्न च जातिभेदः ।।४५
फलान्यथोदुम्बरवृक्षजातेर्यथाग्रमध्यान्तभवानि यानि ।
वर्णाकृतिस्पर्शरसैः समानि तथैकतो जातिरतिप्रचिन्त्या ।।४६
ये कौशिकाः काश्यपगौतमाश्च कौंडिन्यमाण्डव्यवशिष्ठगोत्राः ।
आत्रेयकौत्साङ्गिरसः सगर्गा मौद्गल्यकात्यायनभार्गवाश्च ।।४७
गोत्राणि नानाविधजातयश्च भ्रातृस्नुषामैथुनपुत्रभावाः ।
वैवाहिकं कर्म न वर्णभेदः सर्वाणि शिल्पानि भवन्ति तेषाम् ।।४८
ये चान्ये२ पण्डिताः प्राहुर्देहब्राह्मणतां नराः ।
तेषां दुर्दृष्टितिमिरमपनीयानुकम्प्य च ।।४९
न्यायाञ्जनौषधैर्दिव्यैः परिणामसुखावहैः ।
उपनीतः प्रयत्नेन सुदृष्टिं संविदद्महे ।।1.41.५०
मृतिमत्त्वाच्च नाशित्वं नाशित्वाच्छेषभूतवत्१ ।
देहाधारनिविष्टानां ब्राह्मण्यं न प्रकल्प्यते । ।५ १
एकैकोवयवस्तेषां न ब्राह्मण्यं समश्नुते ।
न चानेकसमूहेऽपि सर्वथातिप्रसङ्गतः । ।५२
पृथिव्युदकवाय्यग्निपरिणामविशेषतः ।
देहतः सर्वभूतानां ब्राह्मणत्वप्रसङ्गतः । ।५३
देहस्य ब्राह्मणत्वं यैरतत्त्वज्ञैः प्रकल्प्यते ।
संस्कर्तॄणां शरीरस्य तेषां न ब्रह्मता भवेत् । ।५४
मृग्यमाणे प्रयत्नेन देहे तन्नोपलभ्यते ।
तस्मान्न देहे ब्राह्मण्यं नापि देहात्मकं भवेत् । ।५५
वर्णापसदचांडालश्वादादीनां३ प्रसज्यते ।
यदि देहस्य विप्रत्वं भवद्भिरुपगम्यते । ।५६
देहशक्तिगुणैः क्षीणैः कायभस्मादिरूपवत् ।
तस्माद्देहात्मकेनैतद्ब्राह्मण्यं नापि कर्मजम् । । ५७
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे
ब्राह्मण्यविवेकवर्णनं नामैकचत्वारिंशोऽध्यायः ।४ १ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 42
ब्राह्मणसंस्कारविवेकवर्णनम्
ब्रह्मोवाच
अपरैश्च सदाचारयोगयुक्तैर्मनीषिभिः ।
यदकारि महासत्त्वैः सुभाषितमिदं शृणु । । १
बहुवनस्पतिशङ्खपिपीलिकाभ्रमरवारणजातिमुदाहरन्।
गतिषु कर्ममितो नटवत्सदा भ्रमति जन्तुरलब्धसुदर्शनः । । २
रूपैश्वर्यज्ञानकुलैर्विभवैर्वर्मितो भूत्वा धर्मपथं चेद्विजहासि ।
न वक्ष्ये व्रजन्भुवनानि त्वमटिष्यंस्तस्मादभिभस्मीभूते मद आत्मनः । । ३
जातिकुलरूपवयोवर्णानेकश्रुतमदान्धाः क्लीबाः ।
परत्र चेह च हितमप्यर्थं न पश्यन्ति । ।४
ज्ञात्वा भवपरिवर्ते जातीनां कोटिशतसहस्रेषु ।
हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् । । ५
नैकाञ्जातिविशेषानिन्द्रियनिवृत्तिपूर्वकान्सर्वान् ।
कर्मवशाद्गच्छत्यत्र कस्यैका शाश्वती जातिः । । ६
विद्वत्सदसि योऽप्याह संस्काराद्ब्राह्मणो भवन् ।
न्यायज्ञैः१ स निराकार्यो वाक्यैर्न्यायानुसारिभिः । । ७
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
जातकर्म नामकर्म तथान्नप्राशनं च वै । । ८
चूडोपनयनं चास्य व्रतादेशस्तथैव च ।
समावर्तनमप्यन्यत्पाणिग्रहणमेव च । । ९
इत्येवमादिसंस्कारविधानैर्येऽतिसंस्कृताः ।
त एव ब्राह्मणा येषां नैरन्तर्येण२ कामनाः । । 1.42.१०
यस्माद्वै ब्राह्मणा जाता ब्राह्मणैः कृतसंस्कृतैः ।
नायुः शक्तिर्हि कान्त्यादिविशेषो विद्यते स्फुटः । । ११
तौ वा ब्राह्मणगात्रोत्थौ संस्कृतासंस्कृतौ नरौ ।
इष्टानिष्टाप्त्यनाप्तिभ्यां न भिद्येते परस्परम् । । १२
ज्ञानाध्ययनमीमांसा नियमेन्द्रियनिग्रहैः ।
विना संस्कारयोगेऽपि पुंसः शूद्रान्न भिन्नता । । १३
संस्कारः क्रियमाणश्च न शूद्रे च प्रवर्तते ।
संस्कृताङ्गश्च१ पापेभ्यो न पश्यति निवर्तते । । १४
विलासिनीभुजंगादिजनवन्मदविह्वलाः ।
व्यामुह्यन्ति सदाचाराद्ब्राह्मणत्वात्पतन्ति३ च । । १५
संस्कृतोऽपि दुराचारो नरकं याति मानवः ।
निःसंस्कारः सदाचारो भवेद्विप्रोत्तमः सदा । । १६
मन्त्रपूतात्मसंस्कारयुक्तोऽपि प्लवते न तु ।
ब्राह्मण्यादविकल्पं स पश्चाद्दुश्चरितो नरः । । १७
सामर्थ्यात्पतनं तस्माद्ब्राह्मण्यान्मुच्यते ध्रुवम् ।
दुरनुष्ठानसक्तानां पुंसां पुरुषपुङ्गवैः । । १८
किं क्वचिद्दृष्टमेवैतत्किं वा स्पर्धाविदत्ययम् ।
तुल्यमुत्सहसे कर्तुमप्यदृष्टं तदा वद । । १९
आचारमनुष्ठिन्तो व्यासादिमुनिसत्तमाः ।
गर्भाधानादिसंस्कारकलापरहिताः स्फुटम् । । 1.42.२०
विप्रोत्तमाः श्रियं प्राप्ताः सर्वलोकनमस्कृताः ।
बहवः कथ्यमाना ये कतिचित्तान्निबोधत । । २१
जातो व्यासस्तु कैवर्त्याः श्वपाक्याश्च पराशरः ।
शुक्याः शुकः कणादाख्यस्तथोलूक्याः सुतोऽभवत् । । २२
मृगीजोथर्षशृङ्गोपि वशिष्ठो गणिकात्मजः ।
मन्दपालो४ मुनिश्रेष्ठो नाविकापत्यमुच्यते५ । । २३
माण्डव्यो मुनिराजस्तु मण्डूकीगर्भसम्भवः ।
बहवोऽन्येऽपि विप्रत्वं प्राप्ता ये पूर्ववद्द्विजाः । । २४
यच्चैतच्चारुचरितैरर्च्यमुच्चरितं वचः ।
तद्विचार्याचरन्नुच्चैराचारोपचितद्युतिः । । २५
हरिणीगर्भसम्भूत ऋष्यशृङ्गो महामुनिः ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २६
श्वपाकीगर्भसम्भूतः पिता व्यासस्य पार्थिव ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २७
उलूकीगर्भसम्भूतः कणादाख्यो महामुनिः ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २८
गणिकागर्भसम्भूतो वशिष्ठश्च महामुनिः ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । २९
नाविकागर्भसम्भूतो मन्दपालो महामुनिः ।
तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । । 1.42.३०
वेदतन्त्रजसंस्कारकलापनिपुणैरपि ।
विद्यातपोधनबलादुत्कृष्टं लभ्यते फलम् । ३१
लब्धसंस्कारदेहाश्च महापातकिनो नराः ।
यस्मान्निवर्तते ब्रह्म तस्मात्साङ्केतिकं विदुः । । ३२
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
षष्ठीकल्पे ब्राह्मणसंस्कारविवेकवर्णनं नाम द्वाचत्वारिंशोऽध्यायः । ४२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 43
वर्णव्यवस्थावर्णनम्
ब्रह्मोवाच
किं चान्यदपरं यूयं वेदमन्त्रविदो जनाः ।
प्रष्टव्याः कस्य संस्कारे विशेषमुपगच्छत । । १
किं देहस्योत येनासौ निसर्गमलिनः स्थितः ।
शुक्रशोणितसम्भूतः शमलोद्भवकीटवत् । । २
निषेकादिश्मशानान्तैर्विविधैर्विधिविस्तरैः ।
देहिनोऽतिशयं केचिदुपगच्छन्ति मानवाः । । ३
तेषां गूढमनः कायवाग्विदुष्टैः सुचेष्टितैः ।
असंयतमनुष्याणां पक्षोऽयं दूष्यते मया । । ४
वैदिकाखिलसंस्कारसारभूता द्विजातयः ।
सर्वकार्यकरान्सर्वान्वृषलानतिशेरते । । ५
चण्डकर्मा विकर्मस्थो ब्रह्महा गुरुतल्पगः ।
स्तेनो गोघ्नः सुरापाणः परस्त्रीरमणप्रियः । । ६
मिथ्यावादी मदोन्मत्तो नास्तिको वेदनिन्दकः ।
ग्रामयाजकनिर्ग्रन्थौ बहुदोषो दुरासदः । । ७
नि१षिद्धाचारसंसेवी चोरश्चाटो मदोद्धतः ।
धूर्तो नटः शठः पापी सर्वाशी सर्वविक्रयी । । ८
वाङ्मनः कायजैर्दुष्टैर्हता ये ब्राह्मणाधमाः ।
ते न शुद्धिं व्रजन्तीह अपि यज्ञशतैरपि२ । । ९
शूद्राणां यान्यनिष्टानि सम्पद्यन्ते स्वभावतः ।
विप्राणामपि तान्येव निर्विघ्नानि भवन्ति न । । 1.43.१०
तस्मान्मन्त्रोग्निहोत्रं वा वेद्यां पशुवधोऽपि वा ।
हेतवो न हि विप्रत्वे शूद्रैः शक्या क्रिया यथा । । ११
ये चापि कर्मबन्धेन बद्धाः सीदन्ति जन्तवः ।
संसारानलसन्तापविक्लवीकृतमानसाः । । १२
ते जन्ममरणाटव्यां सुखामृतपिपासवः ।
कृपणस्याश्रयेऽटन्तो लभन्ते नैव निर्वृतिम् । । १३
चतुर्वर्णा नरा ये तु तत्तद्वीर्ये नराधमाः ।
तेषां सर्वात्मना सर्वैर्धर्मैः साङ्कर्यमीक्ष्यते ।। १४
शूद्रविप्रादयो योनौ न भिद्यन्ते परस्परम् ।
सर्वधर्मसमानत्वात्संस्कारादि निरर्थकम् ।। १५
तदनुष्ठानवैधर्म्यवियोगमरणादिभिः ।
असेव्यसेवनैरन्यैः शूद्रविप्रादयः समाः ।। १६
बुद्ध्या शक्त्या स्वभावेन धर्मैर्जात्या१दिभिः श्रिया ।
कर्तव्यैः पुण्यपापाभ्यां शनैः२ सर्वशरीरगैः ।। १७
बन्धनै रोधनैर्नानायातनोपायपीडनैः ।
दण्डैरदण्डकरणैर्विषादपरिवेदनैः ।। १८
सात्त्विकः प्रतिधर्माद्यै राजसैश्चित्रवेष्टितैः ।
तामसैस्तापमोहाद्यैर्दूयमानाः पुनः१ पुनः ।। १९
श्लेश्ममारुतपित्ताद्यैर्महाबीभत्सदर्शनैः ।
क्वचिद्वृत्तिनिवृत्तिभ्याममृतानृतहिताहितैः ।।1.43.२०
अलङ्कारोपयोगेन मन्मथाद्यैर्विचेष्टितैः ।
धनलाभाशयानैकजन्तुसङ्घातपातनैः ।।२ १
अधिसिद्धिगतिं याति नानाविधमनोरथैः ।
आत्मस्नेहपरद्वेषस्वीकृतद्रवरक्षणैः ।।२२
अतिक्षीबत्वसंक्षोभक्षुतक्षामक्षमामयैः ।
यातनोपायपैशुन्यशून्यत्वोपशमैस्तथा ।।२३
अप्रशस्तैरनुष्ठानैः समीपस्थापदः समाः ।
हिंसकाः प्राणिनः पापवितथालापभाषिणः ।।२४
साधूनांभाषकाः स्तेना निर्दयाः पारदारिकाः ।
नीचकर्मसमाचाराः सर्वभक्षाः पिशाचवत् ।।२५
दुष्कुलीना दुराचारा नृपाणामुपजीविनः ।
विप्रकार्या विकर्मस्था धनिनो दुष्टचेतसः ।।२६
लुब्धका हरिणान्हत्वा वासं कृत्वा यथा वने ।
तथा खादन्ति पिशुना बहवश्च३ क्रियावशात् ।।२७
वेदवादमधीयानाः१ प्राणिघाताभिशंसिनः ।
पुष्णन्ति कपटैरर्थान्वेदविक्रयिणोऽधमाः । । २८
मायिनो मत्सरग्रस्ता लुब्धा मुग्धा मदोद्धताः ।
चाटाः कार्पटिकाः कूराः कदर्याः कलहप्रियाः । । २९
वाचाटदुष्टकुलटा अटन्तो भाटकैः सह ।
भण्डमान्या भटाटोपैः संक्रुद्धाः सुविलुण्ठकाः । । 1.43.३०
पर्यटा भाटका जीवाः कण्ठकश्लोकभाषिणः ।
विक्रीणते ह्यविक्रेयमभक्ष्यद्रव्यभक्षिणः । । ३१
शूद्रकर्मानुतिष्ठन्तो निस्तपास्ते नराधमाः ।
सेवाध्यापनवाणिज्यकृष्याद्यारम्भलम्भिताः । ।
गृह्णन्तः सम्पदो बाहयाद्द्रव्यधान्यधनादिकाः । । ३२
क्रोधादाभ्यन्तरान्दोषांस्तथा दुष्टमनोरथान् ।
अत्यजन्तो विशिष्टानां श्रेष्ठास्ते कचमर्दिनः । । ३३
नोपदेयानि वस्त्राणि नित्यमाददते द्विजाः ।
हापयन्ति न हेयानि कथं ते गुरवः क्षितौ । । ३४
दन्तिका दिण्डिका भण्डाश्चण्डाश्चण्डालचेष्टिता ।
वैतण्डकास्ते निघ्नन्ति यथा सिंहो मृगान्पशून् । । ३५
निर्ग्रन्थं मुनिमालोक्य मन्यमानाः समुन्नतम् ।
परिभूयावतिष्ठन्ते धिक्तान्रिक्तान्सवैरिणः । । ३६
तस्मात्संसारिकाः सत्त्वाश्चित्तक्लेशकलङ्किताः ।
दौःशील्यदौर्मनस्याद्यैस्तुल्यजातीयबन्धनात् । । ३७
शूद्रां प्ररोचते विप्रो रागिणीं मैथुनं प्रति ।
सा कामदुःखविगमे गर्भं धत्ते समागमे ।।३८
कामकामातुराभ्यस्तु रोचन्ते शूद्रमानवाः ।
मैथुनं प्रति ब्राह्मण्ये तेऽपि तासां सुखावहाः ।।३९
ये तु जात्यादिभिर्भिन्ना गवाश्वोष्ट्मतङ्गजाः ।
ते विजातिषु नो गर्भं कुर्वतेऽपि सुखार्थिनः ।।1.43.४०
अनड्वानेव गोरेव कामं पुष्णाति सङ्गमे ।
घोटकाश्च रतिं सम्यक्कुर्वते वडवासु च ।।४१
पतिं करभमेवाप्य करभी रमते मुदा ।
गजमेव पतिं लब्ध्वा सुखं तिष्ठति हस्तिनी ।।४२
तिर्यग्जातिः स्त्रिया साकं कुर्वाणाऽपि हि मैथुनम् ।
न तस्याः कुरुते गर्भं नरो नापि सुखासिकाम् ।।४३
तिरश्चा सह कुर्वाणा मैथुनं मनुजाङ्गना ।
नाधत्ते तत्कृतं गर्भं न युक्तं मैथुनं तयोः ।।४४
नैवं कश्चिद्विभागोस्ति मैथुने स्त्रीमनुष्ययोः ।
येन संक्षीयते भेदः प्रस्फुटं द्विजशूद्रयोः ।।४५
वेदपाठच्छलेनायं न क्रियाभिः प्रपद्यते ।
बहुभिर्जडसङ्घातैरविशिष्टे पदेऽहनि ।।४६
देहे देहिनि चामुष्मिन्नशुचावनवस्थिते ।
रागद्वेषादिभिर्दोषैरधिकं परिपीडिते ।।४७
कुलालचक्रवद्भ्रान्तमानसे विषयार्णवे ।
घोरदुःखभयाक्रान्ते समाजेऽनीश्वरात्मनि ।।४८
जन्ममृत्युजराशोकानिष्टयोगाग्निपीडिते ।
हीनसत्त्वशरीरादौ न विशेषो विभाव्यते ।।४९
तस्मान्मनुष्यभेदोऽयं सङ्केतबलनिर्मितः ।
ब्राह्मण्यं ब्राह्मणासङ्गाद्ब्राह्मणी चोपसेवते ।।1.43.५०
पतिं त्यक्त्वा मुखस्वादलालसैर्मदलालसैः ।
आसेव्यते विटं गत्वा बन्धकी चेटकैरपि । । ५१
ब्राह्मण्यात्प्रच्यवन्तेऽन्ये महापातकसेविताः ।
व्यलीककल्पनैवैषा तस्माज्जात्यादिकल्पना । । ५२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे
वर्णव्यवस्थावर्णनं नाम त्रिचत्वारिंशोऽध्यायः । ४३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 44
वर्णविभागविवेकवर्णनम्
ब्रह्मोवाच
हेयोपादेयतत्त्वज्ञास्त्यक्तान्यायपथागमाः ।
जितेन्द्रियमनोवाचः सदाचारपरायणाः । । १
नियमाचारवृत्तस्था हितान्वेषणतत्पराः ।
संसाररक्षणोपायक्रियायुक्तमनोरथाः । । २
सम्यग्दर्शनसम्पन्नाः समाधिस्था हतक्रुधः ।
स्वाध्यायभक्तहृदयास्त्यक्तसङ्गा विमत्सराः । । ३
विशोका विमदाः शान्ता सर्वप्राणिहितैषिणः ।
सुखदुःखसमालोका विविक्तस्थानवासिनः । । ४
व्रतोपयुक्तसर्वाङ्गा धार्मिकाः पापभीरवः ।
निर्ममा निरहङ्कारा दानशूरा दयापराः । । ५
सत्यब्रह्मविदः शान्ता सर्वशास्त्रेषु निष्ठिताः ।
सर्वलोकहितोपायप्रवृत्तेन स्वयंभुवा । । ६
वागीश्वरेण देवेन नाभेयेन भवच्छिदा ।
ब्रह्मणा कृतमर्यादास्त एवं ब्राह्मणाः स्मृताः । । ७
महातपोधनैरार्यैः सर्वसत्त्वाभयप्रदैः ।
सर्वलोकहितार्थाय निपुणं सुप्रतिष्ठितम् । । ८
वृहत्त्वाद्भगवान्ब्रह्मा नाभेयस्तस्य ये जनाः ।
भक्त्यासक्ताः प्रपन्नाश्च ब्राह्मणास्ते प्रकीर्तिताः । । ९
क्षत्रियास्तु क्षतत्राणाद्वैश्या वार्ताप्रवेशनात् ।
ये तु श्रुतेर्द्रुतिं प्राप्ताः शूद्रास्तेनेह कीर्तिताः । । 1.44.१०
ये चाचाररताः प्राहुर्ब्राह्मण्यं ब्रह्मवादिनः ।
ते तु फलं प्रशंसन्ति यत्सदा मनसेप्सितम् । । ११
क्षमा दमो दया दानं सत्यं शौचं धृतिर्घृणा ।
मार्दवार्जवसन्तोषानहङ्कारतपःशमाः. । । १२
धर्मो ज्ञानमपैशुन्यं ब्रह्मचर्यममूढता ।
ध्यानमास्तिक्यमद्वेषो वैराग्यं च शमात्मता । । १३
पापभीरुत्वमस्तेयममात्सर्यमतृष्णता ।
नैःसङ्ग्यं गुरुशुश्रूषा मनोवाक्काय संयमः । । १४
य एवम्भूतमाचारमनुतिष्ठन्ति मानवाः ।
ब्राह्मण्यं पुष्कलं तेषां नित्यमेव प्रवर्धते । । १५
ते स्वमतास्वादलब्धवर्णाचारा महौजसः ।
सर्वशास्त्राविरोधेन पवित्रीकृतमानसाः । । १६
सज्जनाभिमताः प्राज्ञाः पुराणागमपण्डिताः ।
गीतगीतागमाचाराः स्मृतिकाराः पठन्ति च । । १७
मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः ।
वर्णाश्रमाचारकृतं कर्म सिद्ध्यत्यनुत्तमम् । । १८
संसिद्धायां तु वार्तायां ततस्तेषां स्वयं प्रभुः ।
मर्यादां स्थापयामास यथारब्धं परस्परम् । । १९
ये वै परिगृहीतारस्तेषां सत्त्वबलाधिकाः ।
इतरेषां क्षतत्राणान्स्थापयामास क्षत्रियान् । । 1.44.२०
उपतिष्ठन्ति ये तान्वै याचन्तो नर्मदाः सदा ।
सत्यब्रह्म सदाभूतं वदन्तो ब्राह्मणास्तु ते । । २१
ये चान्येप्यबलास्तेषां वैश्यकर्मणि संस्थिताः ।
कीलानि नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः । ।
वैश्यानेव तु तानाह कीनाशान्वृत्तिमाश्रितान् । । २२
शोचन्तश्व द्रवन्तश्च परिचर्यासु ये नराः ।
निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः । । २३
ब्राह्मणक्षत्रियविशां शूद्राणां च परस्परम् ।
कर्माणि प्रविभक्तानि स्यभावप्रभवैर्गुणैः । । २४
शमस्तपो दमः शौचं क्षांतिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् । । २५
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् । । २६
कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् । । २७
योगस्तपो दया दानं सत्यं धर्मश्रुतिर्घृणा ।
ज्ञानं विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् । । २८
शिखा ज्ञानमयी यस्य पवित्रं च तपोमयम् ।
ब्राह्मण्यं पुष्कलं तस्य मनुः स्वायम्भुवोऽब्रवीत् । । २९
यत्र वा तत्र वा वर्णे उत्तमाधममध्यमाः ।
निवृत्तः पापकर्मेभ्यो ब्राह्मणः स विधीयते । । 1.44.३०
शूद्रोऽपि शीलसम्पन्नो ब्राह्मणादधिको भवेत् ।
ब्राह्मणो विगताचारः शूद्राद्धीनतरो भवेत् । । ३१
न सुरां सन्धयेद्यस्तु आपणेषु गृहेषु च ।
न विक्रीणाति च तथा सच्छूद्रो हि स उच्यते । । ३२
यद्येका स्फुटमेव जातिरपरा कृत्यात्परं भेदिनी ।
यद्वा व्याहृतिरेकतामधिगता यच्चान्यधर्मं ययौ । ।
एकैकाखिलभावभेदनिधनोत्पत्तिस्थितिव्यापिनी ।
किं नासौ प्रतिपत्तिगोचरपथं यायाद्विभक्त्या नृणाम् । । ३३
इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे
वर्णविभागविवेकवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः । ४४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 45
कार्तिकेयवर्णनम्
ब्रह्मोवाच
इदं श्रुणु मयाख्यातं तर्कपूर्वमिदं वचः ।
युष्माकं संशये जाते कृते वै जातिकर्मणोः । । १
पुनर्वच्मि निबोधध्वं समासान्न तु विस्तरात् ।
संसिद्धिं यान्ति मनुजा जातिकर्मसमुच्चयात् । । २
सिद्धिं गच्छेद्यथा कार्यं दैवकर्मसमुच्चयात् ।
एवं संसिद्धिमायाति पुरुषो जातिकर्मणोः । । ३
इत्येवमुक्तवान्पूर्वं शिष्याणां बोधने पुरा ।
योगीश्वरो महातेजाः समासान्न तु विस्तरात् । । ४
सुमन्तुरुवाच
इति पृष्टः पुरा ब्रह्मा ऋषीन्प्रोवाच भारत ।
सवितर्कमिदं वाक्यं विप्रर्षे जातिकर्मणोः । । ५
तस्मात्त्वया महाबाहो न कार्यो विस्मयो नृप ।
कार्तिकेयं प्रति सदा देवानां दुर्विदा गतिः । । ६
इति श्रीभविष्ये महापुराणे शतार्धसाहहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे
कार्तिकेयवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः । ४५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 46
ब्रह्मपर्ववर्णनम्
सुमन्तुरुवाच
येयं भाद्रपदे मासि षष्ठी च भरतर्षभ ।
सुपुण्येयं पापहरा शिवा शान्ता गुहप्रिया । । १
स्नानदानादिकं सर्वं यस्यामक्षय्यमुच्यते ।
येऽस्यां पश्यन्ति गाङ्गेयं दक्षिणापथमाश्रितम् । । २
ब्रह्महत्यादिभिः पापैर्मुच्यन्ते नात्र संशयः ।
तस्मादस्यां सदा पश्येत्कार्त्तिकेयं नृपोत्तम । । ३
पूजयन्ति गुहं येऽस्यां नरा भक्तिसमन्विताः ।
प्राप्येह ते सुखान्कामान्गच्छन्तीन्द्रसलोकताम् । । ४
यस्तु कारयते वेश्म सुदृढं सुप्रतिष्ठितम् ।
दार्वं शैलमयं चापि भक्तया श्रद्धासमन्वितः । ।
गाङ्गेयं यानमारुह्य गच्छेद्गाङ्गेयसद्म वै । । ५
सम्मार्जनादि यः कर्म कुर्याद्गुहगृहे नरः ।
ध्वजस्यारोपणं राजन्स गच्छेद्रुद्रसद्म वै । । ६
चन्दनागरुकर्पूरैर्यश्च पूजयते गुहम् ।
गजाश्वरथयानाढ्यं सैनापत्यमवाप्नुते । । ७
राज्ञां पूज्यः सदा प्रोक्तः कार्तिकेयो महीपते ।
कार्त्तिकेयमृते नान्यं राज्ञां पूज्यं प्रचक्षते । । ८
सङ्ग्रामं गच्छमानो यः पूजयेत्कृत्तिकासुतम् ।
स शत्रुं जयते वीर यथेन्द्रो दानवान्रणे । । ९
तस्मात्सर्वप्रयत्नेन पूजयेच्छङ्कारात्मजम् ।
पूजमानस्तु तं भक्त्या चम्पकैर्विविधैर्नृप । ।
मुच्यते सर्वपापेभ्यस्तदा गच्छेच्छिवालयम् । । 1.46.१०
तैलं षष्ठ्यां न भुञ्जीत न दिवा कुरुनन्दन ।
यस्तु षष्ठ्यां नरो नक्तं कुर्याद्धि भरतर्षभ । ।
सर्वपापैः स निर्मुक्तो गाङ्गेयस्य सदो व्रजेत् । । ११
त्रिकृत्वो दक्षिणामाशां गत्वा यः श्रद्धयान्वितः ।
पूजयेद्देवदेवेशं स गच्छेच्छान्तिमन्दिरम् । । १२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां षष्ठीकल्पे कार्त्तिकेयमाहात्मयवर्णनं नाम षट्चत्वारिंशोऽध्यायः । ४६ । ।
इति षष्ठी कल्पः समाप्तः ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 47
शाकसप्तमीव्रतवर्णनम्
सुमन्तुरुवाच
सप्तम्यां सोपवासस्तु नक्ताहारोऽपि वा भवेत् ।
सप्तम्यां देवदेवेन लब्धं स्वं रूपमादरात् । । १
अण्डेन सह जातो वै अण्डस्थो बुद्धिमाप्तवान् ।
अण्डस्थस्यैव दक्षेण भार्यां दत्त्वा स्वकां सुताम् ।। २
नाम्ना रूपेति रूपेण नान्या नारी तथा १ भवेत् ।
अण्डस्थ एव सुचिरं स्थितो मार्तण्ड इत्यतः । । ३
दक्षाज्ञया विश्वकर्मा वपुरस्य प्रकाशयन् ।
प्रकाशतस्ततो नाम तस्य जातं नराधिप । ।
अण्डस्थस्यैव सञ्जातो यमुना यम एव च । ।४
दाक्षायणी तस्य भार्या वैराग्यात्तनुमध्यमा ।
चिन्तयामास सा देवी दुःखान्निर्वेदमागता । । ५
अहो तेजोमयं रूपं कान्तं कान्तस्य कान्तिमत् ।
न चास्य किञ्चित्पश्यामि अङ्गं तेजोविमोहितम् । । ६
शुभं कनकतुल्यं मे रूपं कान्तं सुकान्तिमत् ।
साम्प्रतं श्यामतां यातं दग्धमेतस्य तेजसा । । ७
तस्मात्तप्स्ये तपश्चाहं गत्वा वै उत्तरान्कुरून् ।
स्वां छायामत्र निक्षिप्य भयाच्छापस्य रूपिणी । । ८
निक्षिप्योवाच तां बालां मा चास्मै वै वदिष्यसि ।
एवं सा निश्चयं कृत्वा गता वै उत्तरान्कुरून् । । ९
स्वरूपं तत्र निक्षिप्य वडवारूपधारिणी ।
चचार सा मृगैः सार्धं बहून्वर्षगणान्नृप । । 1.47.१०
असावपि च मार्तण्डश्छायां भार्याममन्यत् ।
शनिं च तपतीं चैव द्वे अपत्ये च जज्ञिवान् । । ११
अथ च्छायात्मापत्यानि स्नेहेन परिपालयेत् ।
नातिस्नेहेन चापश्यद्यमुनां यममेव च । । १२
अथ ताभ्यां विवादोऽभूदादित्यदुहित्रोर्द्वयोः ।
ते उभे विवदन्त्यौ तु परस्परमसम्मतम् । ।
यमुना तपती चोभे निम्नगे सम्बभूवतुः । । १३
यमोऽपि यमुनाभ्राता छायया ताडितो भृशम् ।
पादमुद्यम्य तस्या वै तस्थौ सम्मुख एव सः । । १४
छाया शशाप तं रोषाद्यस्मात्पादोद्यतो मम।
तस्मात्ते कर्म बीभत्सं प्राणिनां प्राणहिंसनम् । । १५
भविष्यति चिरं मूढ आचन्द्रार्कं न संशयः ।
पादं च यदि भूमौ त्वमिमं संस्थापयिष्यसि । । १६
कृमयो भक्षयिष्यन्ति मच्छापकलुषीकृतम् । । १७
तेषां विवदमानानां मार्तण्डोऽभ्यागमत्ततः ।
यमोऽप्याह महात्मानं मार्तण्डं लोकपावनम् । । १८
तात नित्यमियं चापि क्रूरभावेन पश्यति ।
न चास्याः सुसमा दृष्टिरस्मास्वस्तीति लक्ष्यते । । १९
प्रोवाचाथ स तां छायां मार्तण्डो भृशकोपनः ।
१समे अपत्ये किं मूढे समत्वं नानुपश्यसि । । 1.47.२०
यमः प्रोवाच पितरं नेयं माता पितर्मम ।
मातुश्छाया त्वियं पापा शप्तोऽहमनया पितः । ।
यमुना तपती वृत्तं तत्सर्वं विन्यवेदयत् । । २१
अथ प्रोवाच मार्तण्डो मा ते पादो महीतले ।
मांसं रुधिरमादाय कृमयो यान्तु भूतलम् । । २२
यमुनायाश्च यत्तोयं गङ्गातुल्यं भविष्यति ।
नर्मदायास्तपत्याश्च समं पुण्येन वै द्विज । । २३
विन्ध्यस्य दक्षिणेनेह तपती प्रवहिष्यति ।
तत्सायुज्यतया साग्रं गङ्गा यास्यति शोभना । । २४
गङ्गामासाद्य यमुना गङ्गा सैव भविष्यति ।
सौरसौम्ये उभे पुण्ये सर्वपापप्रणाशने । । २५
१सौरी च वैष्णवी चोभे महापापभयापहे ।
त्वं पुत्र लोकपालत्वं ब्रह्मणोऽज्ञां सभाजयन् । ।
अद्यप्रभृति च्छायेयं स्वदेहस्था भविष्यति । । २६
एवं संस्थाप्य स्वां भार्यामपत्यानि तथैव च ।
आजगाम सकाशं वै दक्षस्याह च कारणम्२ । ।
दक्षो विज्ञाय तत्सर्वं मार्तण्डमिदमाह वै । । २७
रूपं न पश्यती तुभ्यं सा भार्या उत्तरान्गता । । २८
रूपं ते प्रकटिष्यामि यदि शक्ष्यसि वेदनाम् ।
असौ प्रोवाच शक्ष्येऽहं प्रकाशी कुरु मे वपुः । । २९
अथ सस्मार तक्षाणं स्मृत एवाजगाम सः ।
प्रोवाच दक्षस्तक्षाणं मार्तण्डं वै प्रकाशय । । 1.47.३०
तक्षा प्रोवाच मार्तण्डं वेदना विसहिष्यसे ।
विसहिष्येथ प्रोवाच तक्षाणं दक्षचोदितः । । ३१
अथ तक्षा प्रकाशं वै तस्य रूपं विभावसौ ।
मुखादारभ्य पादान्तं ततक्षकरणैः स्वकैः । ।
किरणैस्तुद्यमानेषु तस्याङ्गेषु पुनः पुनः ।
क्षणेक्षणे मूर्छयति मार्तण्डो वेदनातुरः । । ३२
तस्य शापभयात्तक्षा पादौ गुल्फादियावतः ।
चकाराथो निराकारा अङ्गुल्यो न प्रकाशयत् । । ३३
पर्याप्तं तक्षकर्मेदं वेदना मम बाधते ।
तक्षा प्रोवाच मार्तण्डं वेदनां जहि गोपते । । ३४
करवीरस्य पुष्पाणि रक्तचन्दनमेव च ।
करादारभ्य गात्राणि विलिम्पे देहजानि ते । । ३५
तत्तत्कृतं तथा तेन स रुजं त्यक्तवान्रविः ।
अतश्चेमानि चेष्टानि मार्तण्डस्येह भूपते । । ३६
करवीरस्य पुष्पाणि तथा वै रक्तचन्दनम् ।
इदमाह पुरा देवो ह्यनूरोरग्रतो नृप । । ३७
करवीरस्य पुष्पाणि रक्तचन्दनमेव हि ।
इतिहासपुराणाभ्यां सुपर्णगुग्गुलं तथा । । ३८
यः प्रयच्छति मे भक्त्या स मे प्राणान्प्रयच्छति ।
तस्मान्न देयमन्यन्मे भक्तियुक्तेन जानता । । ३९
मार्तण्डस्याण्डजं तेजो गृहीत्वा किल भारत ।
चकार वज्रमजरं १ शत्रुलेखादिनाशनम् । । 1.47.४०
मार्तण्डः परितुष्टोऽभूल्लब्ध्वा रूपं गतव्यथः ।
जगाम स कुरून्वेगात्स्वभार्यादर्शनोत्सुकः । । ४१
मृगमध्यगतां दृष्ट्वा वडवारूपधारिणीम् ।
अश्वरूपं ततः कृत्वा स्वभार्यामधिरुह्य सः । ।
अवासृजत्स्वकं तेजो वेगेनारुह्य सोऽश्ववत् । ।४ २
परपुरुषाशङ्कया सा स्थिता देवस्य संमुखी ।
तेजो नासापुटाभ्यां तु युगपत्साक्षिपत्पुनः । ।४ ३
तत्र जातौ देवभिषजौ नासत्यावश्विनाविति ।
रेतसोऽन्ते तु रेवन्तो विरोचनसुतो महान् । । ४४
तपती शनिश्च सावर्णिश्छायापत्यानि वै विदुः ।
यमुना यमश्च पूर्वोक्तौ संज्ञा २ याश्च तथात्मजौ । । ४५
भार्या लब्धा वपुर्दिव्यं तथा पुत्राश्च भारत ।
सप्तम्यां देवदेवस्य सर्वमेवमिदं यतः । ।
अनेन कारणेनेष्टा सदा देवस्य सप्तमी । । ४६
सप्तम्यां सोपवासस्तु रात्रौ भुञ्जीत यो नरः ।
कृत्वोपवासं षष्ठ्यां तु पञ्चम्यामेककालभुक् । । ४७
दत्त्वा सुसंस्कृतं शाकं भक्ष्यभोज्यैः समन्वितम् ।
देवाय ब्राह्मणेभ्यश्च रात्रौ भुञ्जीत वाग्यतः । । ४८
यावज्जीवं नरः कश्चिद्व्रतमेतच्चरेदिति ।
तस्य श्रीर्विजयश्चैव त्रिवर्गश्चापि वर्धते । । ४९
मृतश्च स्वर्गमायाति १ विमानवरमास्थितः ।
सूर्यलोके स रमते मन्वन्तरगणान्बहून् । ।
इह चागत्य कालान्ते नृपः शान्ति समन्वितः । । 1.47.५०
पुत्रपौत्रैः परिवृतो दाता स्यान्नृपतिश्चिरम् ।
भुनक्ति हि धरां राजन्विग्रहैश्चाजितः परै । । ५१
ये नरा राजशार्दूल शाकाहारेण सप्तमीम् ।
उपोष्य लब्धं तत्तीर्थं पित्र्यं वै राजसंज्ञिकम् । । ५२
कुरुणा तव पूर्वेण शाकाहारेण सप्तमीम् ।
धर्मक्षेत्रं कुरुक्षेत्रं कृतं तस्य विवस्वता । । ५३
सप्तमी नवमी षष्ठी तृतीया पञ्चमी नृप ।
कामदास्तिथयो ह्येता इहैव नरयोषिताम् । । ५४
सप्तमी माघमासे तु नवम्याश्वयुजे मता ।
षष्ठी भाद्रपदे धन्या वैशाखे तु तृतीयिका । । ५५
पुण्या भाद्रपदे प्रोक्ता पञ्चमी नागपञ्चमी ।
इत्येतास्तेषु मासेषु विशेषास्तिथयः स्मृताः । । ५६
शाकं सुसत्कृतं कृत्वा यश्च भक्त्या समन्वितः ।
दत्त्वा विप्रे यथाशक्त्या पश्चाद्भुङ्क्ते निशि व्रती । । ५७
कार्तिके शुक्लपक्षस्य ग्राह्येयं कुरुनन्दन ।
चतुभिर्वापि मासैस्तु पारणं प्रथमं स्मृतम् । । ५८
अगस्त्यकुसुमैश्चात्र पूजा कार्या विभावसोः ।
विलेपनं कुङ्कुमं तु धूपश्चैवापराजितैः । । ५९
स्नानं च पञ्चगव्येन तमेव प्राशयेत्ततः ।
नैवेद्यं पायसं चात्र देवदेवस्य कीर्तितम् । । 1.47.६०
तदेव देयं विप्राणां शाकं भक्ष्यमथात्मना ।
शुभशाकसमायुक्तं भक्ष्यपेयसमन्वितम् । । ६१
द्वितीये पारणे राजञ्छुभगन्धानि यानि वै ।
पुष्पाणि तानि देवस्य तथा श्वेतं च चन्दनम् । । ६२
अगुरुश्चापि धूपोऽत्र नैवेद्यं गुडपूपकाः ।
स्नानं कुशोदकेनात्र प्राशनं गोमयस्य तु । । ६३
तृतीये करवीराणि तथा रक्तं च चन्दनम् ।
धूपानां गुग्गुलश्चात्र प्रियो देवस्य सर्वदा । । ६४
शाल्योदनं तु नैवेद्यं दधिमिश्रं महामते ।
तमेव ब्राह्मणानां च भक्ष्यलेह्यसमन्वितम् । ।
कालशाकेन च विभो युक्तं दद्याद्विचक्षणः । । ६५
गौरसर्षपकल्केन स्नानं चात्र विदुर्बुधाः ।
तस्यैव प्राशनं धन्यं सर्वपापहरं शुभम् । । ६६
तृतीये पारणस्यान्ते महद्ब्राह्मणभोजनम् ।
श्रवणं च पुराणस्य वाचनं चापि शस्यते । । ६७
दैवस्य पुरतस्तात ब्राह्मणानां तथाग्रतः ।
ब्राह्मणाद्वाचकाच्छ्राव्यं नान्यवर्णसमुद्भवात् । ।
अथ तान्ब्राह्मणान्सर्वान्भक्त्या शक्त्या च पूजयेत् । । ६८
वाचकस्यामले राजन्वाससी सन्निवेदयेत् ।
वाचके पूजिते देवः सदा तुष्यति भास्करः । । ६९
करवीरं यथेष्टं तु तथा रक्तं च चन्दनम् ।
यथेष्टं गुग्गुलं तस्य यथेष्टं पायसं सदा । । 1.47.७०
यथेष्टा मोदकास्तस्य यथा वै ताम्रभाजनम् ।
यथेष्टं च घृतं तस्य यथेष्टो वाचकः सदा । ।
पुराणं च यथेष्टं वै सवितुः कुरुनन्दन । । ७१
इत्येषा सप्तमी पुण्या शाकाह्वा गोपतेः सदा ।
यामुपोष्य नरो भक्त्या भाग्यवांश्च१ प्रजायते । । ७२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
शाकसप्तमीव्रतवर्णनंनाम सप्तचत्वारिंशोऽध्यायः । ४७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 48
आदित्यमाहात्म्यवर्णनम्
शतानीक उवाच
विस्तराद्वद विप्रेन्द्र सप्तमीकल्पमुत्तमम् ।
महाभाग्यं च देवस्य भास्करस्य महात्मनः । । १
सुमन्तुरुवाच
अत्रैवाहुर्महात्मानः सम्वादं पुण्यमुत्तमम् ।
कृष्णेन सह सत्त्वेन स्वपुत्रेण महीपते । । २
भक्त्या प्रणम्य विधिवद्वासुदेवं जगद्गुरुम् ।
इहामुत्र हितं शांबः पप्रच्छ ज्ञानमुत्तमम् । । ३
जातो जन्तुः कथं दुःखैर्जन्मनीह न बाध्यते ।
प्राप्नोति विविधान्कामान्कथं च मधुसूदन । । ४
परत्र स्वर्गमाप्नोति सुखानि विविधानि च ।
अनुभूयोचितं कालं कथं मुक्तिमवाप्नुते । । ५
दृष्ट्वैवं मम निर्वेदो जातो व्याधिर्जनार्दन ।
दृष्ट्वेमं जीविताशापि रोचते न हि मे क्षणम् । । ६
किं त्वेवमकृतार्थोऽस्मि यन्मे प्राणा न यान्ति हि ।
संसारे न पतिष्यामि जराव्याधिसमन्विते । । ७
येनोपायेन तन्मेऽद्य प्रसादं कुरु सुव्रत ।
आधिव्याधिविनिर्मुक्तो यथाहं स्यां तथा वद । । ८
वासुदेव उवाच
देवतायाः प्रसादोऽन्यः सर्वस्य परमो मतः ।
उपायः शाश्वतो नित्य इति मे निश्चिता मतिः । । ९
अनुमानागमाद्यैश्च सम्यगुत्पादिता मया ।
कदाचिदन्यथा कर्तुं धीयते केनचित्क्वचित् । । 1.48.१०
प्रसादो जायते तस्य सम्यगाराधनक्रिया ।
यदा तां च समुद्दिश्य कृता तद्वेदिना तथा । । ११
विशिष्टा देवता सम्यग्विशिष्टेनैव देहिना ।
आराधिता विशिष्टं च ददाति फलमीहितम् । । १२
शाम्ब उवाच
अस्तित्वे न च सन्देहः केषाञ्चिद्देवतां प्रति ।
नास्तीति निश्चयोऽन्येषां विशिष्टास्त्वं कथाः कुरुः । । १३
वासुदेव उवाच
सिद्धं तु देवतास्तित्वमागमेषु बहुष्वथ ।
प्रमाणमागमो यस्य तस्यास्तित्वं च विद्यते । । १४
अनुमानेन वाप्यद्य तदस्तित्वं प्रसाध्यते ।
प्रमाणमस्ति यस्येदं सिद्धा यस्येह चास्तिता । । १५
प्रत्यक्षेणापि चास्तित्वं देवतायां प्रसाध्यते ।
तच्चावश्यं प्रमाणं च दृष्टं सर्वशरीरिणाम् । । १६
यदि नामा विविक्तास्तु तिर्यग्योनिगता अपि ।
नोत्पद्यते तथा ह्यस्ति व्यवहारो यथा स्थितः । । १७
शाम्ब उवाच
प्रत्येक्षेणोपलभ्यन्ते सम्यग्वै यदि देवताः ।
अनुमानागमाभ्यां च तदर्थं .न प्रयोजनम् । । १८
वासुदेव उवाच
प्रत्यक्षेणोपलभ्यन्ते न सर्वा देवताः क्वचित् ।
अनुमानागमैर्गम्याः सन्ति चान्याः सहस्रशः । ।१९
शाम्ब उवाच
या चाक्षगोचरा काचिद्विशिष्टेष्टफलप्रदा ।
तामेवादौ ममाचक्ष्व कथयिष्यस्यथापराम् । । 1.48.२०
वासुदेव उवाच
प्रत्यक्षं देवता सूर्यो जगच्चक्षुर्दिवाकरः ।
तस्मादभ्यधिका काचिद्देवता नास्ति शाश्वती । । २१
यस्मादिदं जगज्जातं लयं यास्यति यत्र च ।
कृतादिलक्षणः कालः स्मृतः साक्षाद्दिवाकरः । । २२
ग्रहनक्षत्रयोगाश्च राशयः १ करणानि च ।
आदित्या वसवो रुद्रा अश्विनौ वायवोऽनलः । । २३
शक्रः प्रजापतिः सर्वे भूर्भुवःस्वस्तथैव च ।
लोकाः सर्वे नगा नागाः सरितः सागरास्तथा । ।
भूतग्रामस्य सर्वस्य स्वयं हेतुर्दिवाकरः । । २४
अस्येच्छया जगत्सर्वमुत्पन्नं सचराचरम् ।
स्थितं प्रवर्तते चैव स्वार्थे चानुप्रवर्तते । । २५
प्रसादादस्य लोकोऽयं चेष्टमानः प्रदृश्यते ।
अस्मिन्नभ्युदिते सर्वमुदेदस्तमिते सति । ।
अस्तं यातीत्यदृश्येन किमेतत्कथ्यते मया । ।२ ६
तस्मादतः परं नास्ति न भूतं न भविष्यति ।
यो वै वेदेषु सर्वेषु परमात्मेति गीयते । । २७
इतिहासपुराणेषु अन्तरात्मेति गीयते ।
बाह्यात्मैति सुषुम्णास्थः स्वप्नस्थो जाग्रतः स्थितः । । २८
अस्तं यातीत्यदृष्टेन किमेतत्कथ्यते मया ।
तस्मादतः परं नास्ति न भूतं न भविष्यति । । २९
यन्न वाह इति ख्यातः प्रेरकः सर्वदेहिनाम् ।
नानेन रहितं किञ्चिद्भूतमस्ति चराचरम् । । 1.48.३०
यो वेदैर्वेदविद्भिश्च विस्तरेणेह शक्यते ।
वक्तुं वर्षशतैर्नासौ शक्यः संक्षेपतो मया । । ३१
१तस्माद्गुणाकरः ख्यातः सर्वत्रायं दिवाकरः ।
सर्वेशः सर्वकर्तायं सर्वभर्तायमव्ययः । । ३२
जाता मत्स्यादयः सम्यग्गतिमन्तो महेश्वरात् ।
मण्डलव्यतिरिक्तं च जानामि परमार्थतः । । ३३
तथास्य मण्डलं कृत्वा२ यो ह्येनमुपतिष्ठते ।
प्रातः सायं च मध्याह्ने स याति परमां गतिम् । । ३४
किं पुनर्मण्डलस्थं यो जपते परमार्थतः ।
विविधाः सिद्धयस्तस्य भवन्ति न तदद्भुतम् । । ३५
मण्डले च स्थितं देवं देहे चैनं व्यवस्थितम् ।
स्वबुद्ध्यैवमसम्मूढो य- पश्यति स पश्यति । । ३६
ध्यात्वैवं १ पूजयेद्यस्तु जपेद्यो जुहुयाच्च यः ।
स सर्वान्प्राप्नुयात्कामान्गच्छेद्धर्मध्वजं तथा । । ३७
तस्मात्त्वमिह दुःखानामन्तं कर्तुं यदीच्छसि ।
इहामुत्र च भोगानां भुक्तिं मुक्तिं च शाश्वतीम् । । ३८
आराधयार्कमर्कस्थो मन्त्रैरिह तदात्मनि ।
अङ्गैर्वृतं वृते चैव स्थाने शास्त्रेण शोधिते । । ३९
कवचेन च सङ्गुस्ते सर्वतोऽस्त्रेण रक्षिते ।
एवं प्राप्स्यसि यत्नेन सर्वदा फलमीप्सितम् । । 1.48.४०
दुःखमाध्यात्मिकं नेह तथा चैवाधिभौतिकम् ।
आधिदैविकमत्युग्रं न भविष्यति ते सदा । । ४१
न भयं विद्यते तेषां प्रपन्ना ये दिवाकरम् ।
इहामुत्र सुखं तेषामच्छिद्रं जायते सुखम् । । ४२
सूर्येणेदं ममोद्दिष्टं साक्षाद्यज्ज्ञानमुत्तमम् ।
आराधितेन विधिवत्कालेन बहुना तथा । । ४३
प्राप्यते परमं स्थानं यत्र धर्मध्वजः स्थितः ।
एतत्संक्षिप्तमुद्दिष्टं क्षिप्रसिद्धिकरं परम् । ।
यथा नान्यदतोऽस्तीति स्वयं तूर्येण भाषितम् । । ४४
उपायोऽयं समाख्यातस्तव संक्षेपतस्त्विह ।
यस्मात्परतरो नास्ति हितोपायः शरीरिणाम् । । ४५
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
आदित्यमाहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः । ४८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 49
सूर्यमाहात्म्यवर्णनम्
वासुदेव उवाच
अथार्चनविधिं वक्ष्ये धर्मकेतोरनुत्तमम् ।
सर्वकामप्रदं पुण्यं विघ्नघ्नं दुरितापहम् । । १
सूर्यमन्त्रैः पुरः स्नातो यजेत्तेनैव भास्करम् ।
यतस्ततः प्रवक्ष्यामि स्नानमादौ समासतः । । २
आचान्तस्तमुपालभ्य मुद्रया शुचिशुद्धया ।
कृत्वा नीराजनं पुत्र संशोध्य च जलं ततः । । ३
स्नानाद्धृदयपूतेन १ मन्त्रेण मत्कुलोद्वह ।
उत्थायाचम्य तेनैव वाससी परिधाय च । । ४
द्विराचम्याथ सम्प्रोक्ष्य तनुं सप्ताक्षरेण च ।
उत्थायाचम्य तेनैवं रवेः कृत्वार्घ्यमेव च । । ५
दत्त्वा तेन जपित्वा तं स्वकं ध्यात्वार्कवद्धृदि ।
गत्वा चायतनं शुभ्रमार्कमार्की तनुं यजेत् । । ६
पूरकं कुम्भकं कृत्वा रेचकं च समाहितः ।
कृत्वोङ्कारेण दोषांस्तु हन्यात्कायादिसम्भवान् । । ७
वायव्याग्नेयमाहेन्द्रवारुणीभिर्यथाक्रमम् ।
किल्विषं वारुणाद्भिश्च हन्यात्सिद्ध्यर्थमात्मनः । । ८
शोषणं दहनं स्तम्भं प्लावनं च यथाक्रमात् ।
वाय्वग्नीन्द्रजनाख्याभिर्धारणाभिः कृते सति । । ९
ध्यात्वा विशुद्धमात्मानं प्रणमेदर्कमास्थितम् ।
देहं तेनैव सञ्चिन्त्य पञ्चभूतमयं परम् । । 1.49.१०
सूक्ष्मं स्थूलं तथाक्षाणि स्वस्थानेषु प्रकम्य च ।
विन्यस्याङ्गानि खादीनि हृदाद्यानि हृद्यादिषु । । ११
खस्वाहा हदयं भानोः खमर्काय शिरस्तथा ।
उल्का स्वाहा शिखार्कस्य यै च हुं कवचं परम् । ।
खां फडस्त्रं च संहाराश्चादितः प्रणवः कृतः । । १२
स पूर्वे प्रणवस्याथो मन्त्रकर्मप्रसिद्धये ।
एभिर्जलं त्रिधा जप्त्वा स्नानद्रव्याणि तेन च । । १३
सम्प्रोक्ष्य पूजयेत्सूर्यं गन्धपुष्पादिभिः शुभैः ।
ततो मूर्तिषु सर्वासु रात्रावग्नौ प्रपूजयेत् । । १४
प्राक्पश्चिमोदगभ्यग्रां प्रातः सायं निशासु वै ।
सप्ताक्षरेण तन्मन्त्रं ध्यात्वा च पद्मकर्णिकाम् । । १५
आदित्यमण्डलान्तस्थं तत्र देहं प्रकल्पयेत् ।
प्रभामण्डलमध्यस्थं ध्यात्वा देहं यथा पुरा । ।
सर्वलक्षणसम्पूर्णं सहस्रकिरणोज्ज्वलम् । । १६
रक्तैर्गन्धैश्च पुष्पैश्च चरुभिर्बलिभिस्तथा ।
रक्तचन्दनमिश्रैर्वा वस्त्रैरावरणैः शुभैः । । १७
आवाहनादिकर्माणि रक्षां तु हृदयेन च ।
तच्चित्तश्च सदा कुर्याज्ज्ञात्वा कर्मक्रमं बुधः । । १८
कृत्वा चावाहनं मन्त्रैरेकत्र स्थापनं ततः ।
यावद्यागावसानं तु सान्निध्यं तत्र कल्प्य च । । १९
दत्त्वा पाद्यादिकां पूजां शक्त्या वार्घ्यं निवेद्य च ।
जपित्वा विधिवद्ध्यात्वा ततो देवीं विसर्जयेत् । । 1.49.२०
एष कर्म क्रमः प्रोक्तः सर्वेषां यजनक्रमात् ।
प्रवक्ष्यामि जपस्थानं पद्मेशावरणे तथा । । २१
आदित्यं कर्णिकासंस्थं दलेष्वङ्गानि पूर्वशः ।
सोमादीन्राहुपर्यंतान्ग्रहांश्चैवोदगादितः । । २२
मूर्तिमल्लोकपालांश्च क्रमादावरणेष्वथ ।
तदस्त्राणि च रक्षार्थं स्वमन्त्रैः पूजयेत्क्रमात् । । २३
प्रणवैश्चाभिधानैश्च चतुर्थ्यां ह्यभियोजितैः ।
सर्वेषां कथिता मन्त्रा मुद्राश्च कथयाम्यतः । । २४
व्योममुद्रा रतिः पद्मा महाश्वेतास्त्रमेव च ।
पञ्चमुद्राः समाख्याताः सर्वकर्मप्रसिद्धये । । २५
उत्तानौ तु करौ कृत्या अङ्गुल्यो ग्रथिताः क्रमात् ।
तर्जनीं यन्ति यावत्ताः समे वाधोमुखे स्थिते । । २६
तर्जन्यो १ मध्यमस्यैव ज्येष्ठाग्रे वानुगोपरि ।
मुद्रेयं सर्वमुद्राणां व्योम मुद्रेति कीर्तिता । ।
सर्वकर्मसु योगोऽयं तथा स्थानं प्रकल्पते । । २७
पद्मवत्प्रसृताः सर्वा महाश्वेता रवेः स्मृता ।
जवसंनिहितो नित्यं रथारूढो रविः स्मृतः । । २८
हस्तावूर्ध्वमुखौ कृत्वा वामाङ्गुष्ठेन योजितौ ।
द्रव्याणां शोधने योज्या रक्षार्थं च विशेषतः । । २९
अनया मुद्रया सर्वं रक्षितं शोधितं भवेत् ।
अर्घ्यं दत्वा प्रयोक्तव्या पूजान्ते च विशेषतः । । 1.49.३०
जपध्यानावसाने च यदीच्छेत्सिद्धिमात्मनः ।
अनेन विधिना नित्यं जपेदब्दमतन्द्रितः । । ३१
स लभेतेप्सितान्कामानिहामुत्र न संशयः ।
रोगार्तो मुच्यते रोगाद्धनहीनो धनं लभेत् । । ३२
राज्यभ्रष्टो लभेद्राज्यमपुत्रः पुत्रमाप्नुयात् ।
प्रज्ञामेधासमृद्धीश्च चिरं जीवति मानवः । ।
सुरूपां लभते कन्यां कुलीना पुरुषो ध्रुवम् । । ३३
सौभाग्यं स्त्री कुलीनापि कन्या च पुरुषोत्तमम् ।
अविद्यो लभते विद्यामित्युक्तं भानुना पुरा । । ३४
नित्ययागः स्मृतो ह्येष धनधान्यसुखावहः ।
प्रजापशुविवृद्धिश्च निष्कामस्यापि जायते । । ३५
तदैकः स्तूयते स्वर्गे शब्द्यते च नरोत्तमः ।
भक्त्या तं पूजयेद्यस्तु नरः पुण्यतरः सदा । । ३६
इह वै कामिकं प्राप्य ततो गच्छेन्मनोः पदम् ।
द्विजस्तस्य प्रसादेन तेजसा बुधसन्निभः । । ३७
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
सूर्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः । ४९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 50
सप्तमीमाहात्म्यवर्णनम्
वासुदेव उवाच
नैमित्तिकं ततो वक्ष्ये यज्ज्ञात्वा च समासतः ।
सप्तम्यां ग्रहणे चैव संक्रान्तिषु विशेषतः । । १
शुक्लपक्षस्य सप्तम्यां हविर्भुक्त्वैकदा दिवा ।
सम्यगाचम्य सन्ध्यायां वारुणं प्रणिपत्य च । । २
इन्द्रियाणि च संयम्य कृतं ध्यात्वा स्वपेदधः ।
दर्भशय्यागतो रात्रौ प्रातः स्नातः सुसंयतः । । ३
ततः सन्ध्यामुपास्याथ पूर्वोक्तं च मनुं जपेत् ।
जुहुयाच्च तदा वह्निं सूर्याग्नी परिकल्प्य च । ।४
सूर्याग्निकरणं वक्ष्ये तर्पणं च समासतः ।
अर्चनागारमुल्लिख्य प्रविश्यार्च्य जनैर्जनम् । । ५
प्रक्षिप्यास्तीर्य दर्भश्च पात्राद्यालभ्य च क्रमात् ।
पवित्रं द्विकुशं कृत्वा साग्रं प्रादेशसम्मितम् । । ६
तेन पात्राणि सम्प्रोक्ष्य संशोध्याध विलोक्य च ।
उदगग्रे स्थिते पात्रे प्रज्वाल्याथोल्मुकेन च । । ७
पर्यग्निकरणं कृत्वा तथाज्योत्यवनं त्रिधा ।
परिमृज्य स्रुवादींश्र दर्भैः सम्प्रोक्षयेत्ततः । । ८
जुहुयात्प्रोक्ष्य तान्वह्नौ तत्रार्कं पूर्ववद् व्रजेत् ।
अभूमौ स्थितपात्रेण विष्टरेण तु पाणिना । ।
दानेन यदुशार्दूल नान्तरिक्षे स्थले क्वचित् । । ९
दक्षिणेन स्रुवं गृह्य जुहुयात्पावकं बुधः ।
हदयेन क्रियाः सर्वाः कर्तव्याः पूर्वचोदिताः । । 1.50.१०
अर्कादारभ्य संज्ञार्थं दद्यात्तूष्णीं हुतिं स्थितः ।
वरुणाय शतैर्माघे सप्तम्यां वरुणं यजेत् । । ११
यथाशक्त्या तु विप्रेभ्यः प्रदद्यात्खण्डवेष्टकान् ।
दद्याच्च दक्षिणां शक्त्या प्राप्नोति याचितं फलम् । । १२
एवं वै फाल्गुने सूर्यं चैत्रे वैशाख एव च ।
वैशाखे मासि धातारमिन्द्रं ज्येष्ठे यजेद्रविम् । । १३
आषाढे श्रावणे मासि नभं भाद्रपदे यमम् ।
तथाश्वयुजि पर्जन्यं त्वष्टारं कार्तिके यजेत् । । १४
मार्गशीर्षे च मित्रं च पौषे विष्णुं यजेद्यदि ।
संवत्सरेण यत्प्रोक्तं फलमिष्टं दिनेदिने । ।
तत्सर्वमाप्नुयात्क्षिप्रं भक्त्या श्रद्धान्वितो व्रती । । १५
एवं संवत्सरे पूर्णे कृत्वा वै काञ्चनं रथम् ।
सप्तभिर्वाजिभिर्युक्तं नानारत्नोपशोभितम् । । १६
आदित्यप्रतिमां मध्ये शुद्धहेम्ना कृतां शुभाम् ।
रत्नैरलङ्कृतां कृत्वा हेमपद्मोपरिस्थिताम् । । १७
तस्मिन् रथवरे कृत्वा सारथिं चाग्रतः स्थितम् ।
वृतं द्वादशभिर्विप्रैः क्रमान्मासाधिपात्मभिः । । १८
मध्ये कृत्वा स्वमाचार्यं पूजयित्वा यथाश्रुतिः ।
सञ्चिन्त्यादित्यवर्णं वै वस्त्ररत्नादिनार्हयेत् । । १९
एवं मासाधिपान्विप्रान्सम्पूज्याथ निवेदयेत् ।
आचार्याय रथं छत्रं ग्रामं गाश्च महीं शुभाम् । । 1.50.२०
अश्वान्मासाधिपेभ्यस्तु द्वादशभ्यो निवेदयेत् ।
एवं भक्त्या यथाशक्त्या हेमरत्नादिभूषणम् । । २१
दत्त्वा तस्य नमस्कृत्य व्रतं पूर्णं निवेदयेत् ।
अत ऊर्ध्वं न दोषोऽत्र व्रतस्याकरणेष्वपि ।। २२
एवमस्त्विति विप्रेन्द्रैः सहाचार्यः पुनः पुनः ।
बह्वीश्चैवाशिषो दत्त्वा प्रवदेत्प्रीयतामिति । । २३
आदित्यो येन कामेन त्वया आराधितो व्रतैः ।
तुभ्यं ददातु तं कामं सम्पूर्णं भवतु व्रतम् । । २४
आचार्यान्विप्ररूपैस्तु प्रविष्टो भास्करः स्वयम् ।
दास्यत्येव परं कर्तुमित्युक्तं भानुना स्वयम् । । २५
विप्रेभ्यो गुणवद्भ्यश्च निस्वेभ्यश्च विशेषतः ।
दीनान्धकृपणेभ्यश्च शक्त्या दत्त्वा च दक्षिणाम् । ।
ब्राह्मणान्भोजयित्वा च व्रतमेतत्समापयेत् । । २६
कृत्वैवं सप्तमीमब्दं राजा भवति धार्मिकः ।
पुरुषः स्त्री भवेद्राज्ञां तादृशामथ वल्लभा । । २७
शतयोजनविस्तीर्णं निःसपत्नमकण्टकम् ।
निष्पन्नमण्डलं भुङ्क्ते साग्रं वर्षशतं सुखी । । २८
वित्तहीनोऽपि यो १ भक्त्या कृत्त्वा ताम्रमयं रथम् ।
दद्याद्व्रतावसाने तु कृत्वा सर्वं यथोदितम् । ।
सोऽशीतियोजनं भुङ्क्ते विस्तीर्णं मण्डलं नृपः । । २९
एवं पिष्टमयं योऽपि वित्तहीनः करोति ना ।
आषष्टियोजनं भुङ्क्ते दीर्घायुर्नीरुजः सुखी । ।
सूर्यलोके च कल्पान्तं यावत्स्थित्वेदमाप्नुयात् । । 1.50.३०
मनसापि च यो भक्त्या यजेदर्कमतन्द्रितः ।
सर्वावस्थासु सोऽप्यत्र व्याधिभिर्मुच्यते भृशम् । । ३१
आपदो न स्पृशन्त्येनं नीहारा इव भास्करम् ।
किं पुनर्व्रतसम्पन्नं भक्तं १ मन्त्रैश्च रक्षितम् । । ३२
यत एवं ततो ज्ञात्वा विधानं कल्पचोदितम् ।
सुखेन फलसिद्ध्यर्थं कुर्यात्सर्वमशेषतः । । ३३
इत्येतत्कथितं साम्ब पुरा सूर्येण मे शुभम् ।
कल्पोऽयं प्रथमे कल्पे सर्वदा गोपितो मया । । ३४
अनेन विधिना वत्स विशुद्धेनान्तरात्मना ।
भानुमाराधयेत्क्षिप्रं यदीच्छेत्फलमुत्तमम् । । ३५
मयास्यैव प्रसादेन प्राप्ताः पुत्राः सहस्रशः ।
असुरा निर्जिताश्चैव सुराः सर्वे वशीकृताः । । ३६
त्वयाप्ययं गोपितव्यः कल्पः सूर्यस्य सम्मतः ।
प्रसादादस्य कल्पस्य सदा सन्निहितो रविः । ।
चक्रेऽस्मिन्निर्जिता येन सुरा सुरनरोरगाः । । ३७
यदिनाधिष्ठितं चक्रमिदं सूर्यांशुभिः स्वयम् ।
सततं स्यात्प्रभायुक्तं कथमध्याहतं भवेत् । । ३८
अहमेतं जपन्नित्यं यजन्ध्यायंश्च शक्तितः ।
जातोऽस्मि सर्वकामानां पूज्यः श्रेष्ठश्च तेजसा । ३९
त्वमभ्यस्यैव मनसा वाचा वा कर्मणापि वा ।
कुरु भक्तिमनेनैव विधिना फलसिद्धये । । 1.50.४०
शृणुयाद्भक्तियुक्तो यो नरः श्रद्धासमन्वितः ।
विधानमादितः पुत्र सप्तमीं कुरुते च यः । । ४१
सेह १ प्राप्याऽखिलं काममारोग्यं च जयं तथा ।
भार्गव्या परया युक्तो गच्छेद्वैरोचनं सदः । । ४२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
सप्तमीमाहात्म्यवर्णनं नाम पञ्चाशत्तमोऽध्यायः । ५० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 51
महासप्तमीव्रतवर्णनम्
वासुदेव उवाच
माघस्य शुक्लपक्षे तु पञ्चम्यां मत्कुलोद्वह ।
एकभक्तं सदाख्यातं षष्ट्यां नक्तमुदाहृतम् । । १
सप्तम्यामुपवासं तु केचिदिच्छन्ति सुव्रत ।
षष्ठ्यां केचिद्वदन्तीह सप्तम्यां पारणं किल । । २
कृतोपवासः षष्ठ्यां तु पूजयेद्भास्करं बुधः ।
रक्तचन्दनमिश्रैस्तु करवीरैश्च सुव्रत । । ३
गुग्गुलेन महाबाहो संयावेन च सुव्रत ।
पूजयेद्देवदेवेशं शङ्करं २ भास्करं रविम् । । ४
एवं हि चतुरो मासान्माघादीन्पूजयेद्रविम् ।
आत्मनश्चापि शुध्यर्थं प्राशनं गोमयस्य च । । ५
स्नानं च गोमयेनेह कर्तव्यं चात्मशुद्धये ।
ब्राह्मणान्दिव्यभौमांश्च भोजयेच्चापि शक्तितः । । ६
ज्येष्ठादिष्वथ मासेषु श्वेतचन्दनमुच्यते ।
श्वेतानि चापि पुष्पाणि शुभगन्धान्वितानि वै । । ७
कृष्णागरुस्तथा धूपो नैवेद्यं पायसं स्मृतम् ।
तेनैव ब्राह्मणांस्तुष्टान्भोजयेच्च महामते । । ८
प्राशयेत्पञ्चगव्यं तु स्नानं तेनैव पुत्रक ।
कार्तिकादिषु मासेषु अगस्तिकुसुमैः स्मृतम् । । ९
पूजयेन्नरशार्दूल धूपैश्चैवापराजितैः ।
नैवेद्यं गुडपूपास्तु तथा चेक्षुरसं स्मृतम् । । 1.51.१०
तेनैव ब्राह्मणांस्तात भोजयस्व स्वशक्तितः ।
कुशोदकं प्राशयेथाः स्नानं च कुरु शुद्धये । । ११
तृतीये पारणास्यान्ते माघे मासि महामते ।
भोजनं तत्र दानं च द्विगुणं समुदाहृतम् । । १२
देवदेवस्य पूजा च कर्तव्या शक्तितो बुधैः ।
रथस्य चापि दानं तु रथयात्रा तु सुव्रत । । १३
व्रतस्य प्राप्तिहेतोर्वै कर्तव्या विभवे सति ।
दानं स्वर्णरथस्येह यथोक्तं विभवे सति । ।
इत्येषा कथिता पुत्र रथाह्वा सप्तमी शुभा । । १४
महासप्तमी विख्याता महापुण्या महोदया ।
यामुपोष्य धनं पुत्रान्कीर्तिं विद्यामवाप्नुयात् । । १५
तथाखिलं कुवलयं चन्द्रेण च समोर्चिषा । । १६
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
महासप्तमीव्रतवर्णनं नामैकपञ्चाशत्तमोऽध्यायः । ५१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 52
सूर्यपूजावर्णनम्
सुमन्तुरुवाच
इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः ।
अन्तर्धानं गतो वीरं शाम्बस्येह प्रपश्यतः । । १
शाम्बोऽपि कृत्वा विधिवत्सप्तमीं रथसप्तमीम् ।
आधि(दि?)भिर्व्याधिभिर्मुक्तो जगामाशु स्वमन्दिरम् । । २
शतानीक उवाच
रथयात्रा कथं कार्या रथः कार्यः रथं रवेः ।
केनेह मर्त्यलोकेषु रथयात्रा प्रवर्तिता । । ३
सुमन्तुरुवाच
इममर्थं पुरा पृष्टः पद्मयोनिः प्रजापतिः ।
रुद्रेण कुरुशार्दूल आसीनः काञ्चने गिरौ । । ४
पद्मासनं पद्मयोनिं सुखासीनं प्रजापतिम् ।
प्रणम्य शिरसा देवो रुद्रो वाचमुदैरयत् । । ५
श्रीरुद्र उवाच
य एष भगवान्देवो भास्करो लोकभास्करः ।
कथमेष भ्रमेद्देवो रथस्थो विमलः सदा । । ६
ब्रह्मोवाच
यथा दिवि भ्रमेत्तात रथारूढो रविः सदा ।
तथा ते वर्तयिष्येऽहं रथं चास्य त्रिलोचन । । ७
रथेन ह्येकचक्रेण पञ्चारेण त्रिणाभिना ।
हिरण्यमयेन कान्तेन अष्टबन्धैकनेमिना । । ८
चक्रेण भास्वता चैव दिवि सूर्यः प्रसर्पति ।
दशयोजनसाहस्रो विस्तारोऽप्यस्य कथ्यते । । ९
त्रिगुणा च रथोपस्थादीषा दण्डप्रमाणतः ।
युगमस्य तु विस्तीर्णमरुणो१ यत्र सारथिः । । 1.52.१०
प्रासङ्गः कांचनो दिव्यो युक्तः पवनगैर्हयैः ।
छन्दोभिर्वाजिरूपैस्तु यतश्चक्रं ततः स्थितैः । । ११
येनासौ पर्यटेद्व्योम्नि भास्वता तु दिवस्पतिः ।
अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य तु । । १२
संवत्सरस्यावयवैः कल्पितानि यथाक्रमम् ।
१नाभ्यस्तिस्रस्तु चक्रस्य त्रयः कालाः प्रकीर्तिताः । । १३
आराः पञ्चर्तवस्तस्य नेम्यः षडृतवः स्मृताः ।
रथवेदी स्मृते तस्य अयने दक्षिणोत्तरे । । १४
मुहूर्ता २ इषवस्तस्य शम्याश्चास्य कलाः स्मृताः ।
तस्य काष्ठाः स्मृताः कोणा अक्षदण्डः क्षणाः स्मृताः । । १५
निमेषाश्चास्य कर्षाः स्यादीषादण्डो लवाः स्मृताः ।
रात्रिर्वरूथो धर्मोऽस्य ध्वज ऊर्ध्वं प्रतिष्ठितः । । १६
युगाक्षिकोटी ते तस्य अर्थकामावुभौ स्मृतौ ।
अश्वरूपाणि च्छन्दांसि वहन्ते वामतो धुरम् । । १७
गायत्री चैव त्रिष्टुप् च जगत्यनुष्टुबेव च ।
पङ्क्तिश्च बृहती चैव उष्णिगेव तु सप्तमी । । १८
चक्रमक्षनिबद्धं तु ध्रुवे चाक्षः समर्पितः ।
सहचक्रो भ्रमत्यक्षः स चाक्षो भ्रमति ध्रुवे । । १९
अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवे स्थितः ।
एवमक्षवशात्तस्य ३ सन्निवेशो रथस्य तु । । 1.52.२०
तथा संयोगभावेन संसिद्धो भास्करो रथः ।
तेन चासौ रविर्देवो नभः संसर्पते सदा । । २१
युगाक्षकोटीसम्बद्धे द्वे रश्मी स्यन्दनस्य तु ।
ध्रुवे ते भ्रमतो रश्मी न चक्रयुगयोस्तु वै । । २२
भ्रमतो मण्डलान्यस्य रवेरस्य रथस्य तु ।
कुलालचक्रवद्याति मण्डलं सर्वतोदिशम् । । २३
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु ।
ऋग्यजुर्भ्यां गृहीतेन विचक्राश्वेन वै ध्रुवे । । २४
ह्रसेते तस्य रश्मी तु मण्डलेषूत्तरायणे ।
दक्षिणेऽथ समृद्धे तु भ्रमतो मण्डलानि तु । । २५
युगाक्षकोटी ते तस्य भ्रमेते स्यन्दनस्य तु ।
सक्तासक्तं च भ्रमते मण्डलं सर्वतोदिशम् । । २६
आकृष्येते ध्रुवेणेह समं तिष्ठति सुव्रत ।
तदा साभ्यन्तरं देवो भ्रमते मण्डलानि तु । । २७
ध्रुवेण मुच्यमाने तु पुना रश्मियुगेन वै ।
तथैव १ बाह्यतः सूर्यो भ्रमते मण्डलानि तु । । २८
अशीतिमण्डलशतं काष्ठयोरुभयोरपि ।
सरथोऽधिष्ठितो देवैर्विभ्रमेदृषिभिः सह । । २९
गन्धर्वैरप्सरोभिश्च सर्पग्रामणिराक्षसैः ।
एतैर्वसति वै सूर्ये मासौ द्वौ द्वौ क्रमेण तु । । 1.52.३०
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ।
खण्डको वासुकिश्चैव सकर्णो रश्मिरेव च । । ३१
तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ ।
क्रतुस्थलाप्सरश्चैव या च सा पुञ्जिकस्थला । । ३२
ग्रामणीरथकृत्स्नश्च रथौजाश्वतरावुभौ ।
रक्षो हेतिः प्रहेतिश्च यातुधानौ च तावुभौ । । ३३
मधुमाधवयोरेष गणो वसति भास्करे ।
तथा ग्रीष्मौ तु द्वौ मासौ मित्रश्च वरुणश्च ह । । ३४
ऋषिरत्रिर्वशिष्ठश्च तक्षकोऽनन्त एव च ।
मेनका सहजन्या च गंधर्वो च हहा हूहूः । । ३५
रथस्वनश्च ग्रामण्यौ रथचित्रश्च तावुभौ ।
पौरुषेयो वधश्चैव यातुधानौ महाबलौ । । ३६
शुचिशुक्रौ तु द्वौ मासौ वसन्त्येते दिवाकरे ।
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च । । ३७
एलापर्णस्तथा सर्पः शङ्खपालश्च पन्नगाः ।
प्रम्लोचा दुन्दुकाश्चैव गन्धर्वौ भानुदर्दुरौ । । ३८
यातुधानौ तथा सर्पस्तथा ब्राह्मश्च तावुभौ ।
एते नभो नभस्यौ च निवसन्ति दिवाकरे । । ३९
शरद्येते पुनः शुभ्रा निवसन्ति स्म देवताः ।
पर्जन्यश्चैव पूषा च भारद्वाजः सगौतमः । । 1.52.४०
चित्रसेनश्च गन्धर्वस्तथा वसुरुचिश्च यः ।
विश्वाची च घृताची च ते उभे पुण्यलक्षणे । । ४१
नागस्त्वैरावतश्चैव विश्रुतश्च धनञ्जयः ।
सेनजिच्च सुषेणश्च सेनानीर्ग्रामणीस्तथा । । ४२
आपो वातश्च द्वावेतौ यातुधानौ प्रकीर्तितौ ।
वसन्त्येते तु वै सूर्ये इषोर्जौ कालपर्ययात् । । ४३
हेमंतिकौ तु द्वौ मासौ वसन्त्येते दिवाकरे ।
अंशौ भगश्च द्वावेतौ कश्यपश्च क्रतुस्तथा । । ४४
भुजङ्गश्च महापद्मः सर्पः कर्कोटकस्तथा ।
आपो वातश्च द्वावेतौ यातुधानौ प्रकीर्तितौ । । ४५
चित्राङ्गदश्च गन्धर्वोरुणायुश्चैव तावुभौ ।
सहे चैव सहस्ये च वसन्त्येते दिवाकरे ।.। ४६
पूषा जिष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ।
काद्रवेयौ महानागौ कम्बलाश्वतरावुभौ । । ४७
गन्धर्वो धृतराष्ट्रश्च सूर्यवार्चाश्च तावुभौ ।
तिलोत्तमा च रम्भा च सर्वलोके च विश्रुते । । ४८
१ग्रामणीः सेनजिच्चैव सत्यजिच्च महातपाः ।
ब्रह्मोपेतश्च वै रक्षो यज्ञो यज्ञस्तथैव च । ।
एते तपस्तपस्यै च निवसन्ति दिवाकरे । । ४९
अन्येऽपि ये मन्देहा राक्षसाधिपतयो देवदेवगुह्यतमस्य रक्षार्थं सकल देवैरस्मदादिभिः
सन्नियुक्तास्तान्भवते कथयामि । । 1.52.५०
रुद्र उवाच
वद ब्रह्मन्कथां दिव्यां यामहं प्रष्टुमागतः ।
तामेव विस्तरेणैव कथयाशु मम प्रभो । । ५१
दिविष्ठं भास्करं दृष्ट्वा नमेत्केन विधानतः ।
किं फलं तस्य वा देव समाप्ते भवति कर्मणि । । ५२
ब्रह्मोवाच
शृणु रुद्र समासेन भास्करस्य नतिक्रियाम् ।
यां कृत्वा रोगदुःखार्ता मुच्यन्ते पापसञ्चयात् । । ५३
स्थण्डिले मण्डलं कृत्वा द्वादशाङ्गुलमानतः ।
सद्यो गोमयलिप्ते च तत्रैवावाहयेद्रविम् । । ५४
पूजयित्वा गणेशादीन्वासुदेवं च सात्यकिम् ।
सत्यभामां तथा लक्ष्मीमुमां देवीं च शङ्करम् । । ५५
मण्डलस्य समीपस्थान्पूर्वोक्तान्वेदमन्त्रवित् ।
ततः प्रदक्षिणीकृत्य दण्डवत्प्रणमेत्सकृत् । । ५६
शतं सहस्रमयुतं लक्षं वा निजपापतः ।
दृष्ट्वा शक्तिं प्रणम्याथ सदा संयतमानसः । । ५७
विप्राय दक्षिणां दद्यान्निरुच्छ्वासः समाहितः ।
रक्तिके च हिरण्यस्य शतमात्रे सहस्रके । । ५८
माषकाणां चतुष्कं चायुतं दशगुणं दिशेत् ।
दक्षे दशगुणं प्रोक्तं दद्याद्रोगविमुक्तये । । ५९
एवं कृते विरूपाक्ष सर्वरोगाद्विमुच्यते ।
इदं रहस्यं परमं शृणुयाद्यो हि मानवः । । 1.52.६०
तस्य रोगा विनश्यन्ति मार्तण्डस्य प्रसादतः ।
अन्यच्च ते प्रवक्ष्यामि यच्चापृष्टमुमापते । ।
तच्छृणुष्व मया प्रोक्तं रथयन्तृनियामकम् । । ६१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
सूर्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः । ५२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 53
सूर्यवर्णनम्
ब्रह्मोवाच
तत्रारुणो मया पूर्वं सारथ्ये सन्नियोजितः ।
इन्द्रेण माठरो नाम वायुना कल्मषेण तु । । १
वैनतेयेन तार्क्ष्योपरि विमलो नखतुण्डप्रहरणः पुरोगामी नियुक्त इति । ।
कालेन दण्डो महादण्डायुधो भवता शेषा महागणाधिपः । । २
वैशाखेन राज्ञा वसुभिदायुधाङ्गारिकौ द्वौ अग्निना पिङ्गलः ।
संयन्ता महादण्डायुधो भवता शेषो महागणाधिपः । । ३
हस्तो यमेन पाशहस्तोम्बुपतिना समिन्धनः ।
अलकाधिपतिना विष्णुः । । ४
अश्विभ्यां कालोपकालौ वाक्षप्रधानकौ ।
नरनारायणाभ्यां क्षारौ धारौ धिषणकृष्णौ।। ५
वैराजशङ्खपालपर्जन्यरजसां दिशासु विदिशासु दिशां पालनं विश्वेदेवा ददुः । । ६
सप्तैता लोकमातरः सर्वमरुतोऽददन् ।
ओंकारो वषट्कारो वेदनिस्वनः पिनाकी विनायकः शेषोऽनन्तो वासुकिश्च नागसहस्रेणात्मतुल्येनादित्यस्य रथमनुयान्ति १ । । ७
गायत्री सावित्री रथे स्थिते उभे सन्ध्ये सदा सा देवता या रविमण्डलं नापैति२ ।
भगवन्तं सहस्रकिरणमवलम्बितुम् । । ८
एतद्वै सर्वदैवत्यं मण्डलं ब्रह्मवादिनं ब्रह्मयज्ञवादिनीं यज्ञः ।
भगवद्भक्तानां परमादित्योयं विष्णुर्माहेश्वराणाम् । । ९
स्थानाभिमानिनो ह्येते सदा वै वृषभध्वज ।
सूर्यमाप्याययन्त्येते तेजसां तेज उत्तमम् । । 1.53.१०
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ते ऋषयो रविम् ।
गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते । । ११
वियद्भ्रमणतो रक्षां कुर्वंति स्म इषुग्रहम् ।
सर्पा वहन्ति वै सूर्यं यातुधानास्तु यान्ति च । । १२
वालखिल्या १नमन्त्येतं परिचार्योदयाद्रविम् ।
दिवस्पतिः स्वभूश्चोभौ अग्रगौ योजनस्य तु । । १३
भर्गोऽथ दक्षिणे पार्श्वे कञ्जजो वामतः स्थितः ।
सर्वे ते पृष्ठगा ज्ञेया ग्रहा लोकेषु पूजिताः. । । १४
उपरागशिखी चोभावग्रतो नात्र संशयः ।
मनुष्यधर्मा दक्षिणत उत्तरेण प्रचेतसः । । १५
सम्भवन्ति तथा कृष्ण उभावेतौ सदाग्रगौ ।
वामेन वीतिहोत्रस्तु पृष्ठतस्तु हरिः सदा । । १६
रथपीठे क्षमा ज्ञेया अन्तराले नभस्तथा ।
आश्रित्य रथजां कान्तिं खं दिवः समयः स्थितः । । १७
ध्वजो दण्डश्च विज्ञेयो ध्वजाग्रे वृष एव च ।
ऋद्धिर्वृद्धिस्तथा श्रीश्च पताका पार्वतीप्रिय । । १८
ध्वजदण्डाग्रे गरुडस्तदग्रे वरुणालयः ।
मैनाकश्छत्रदण्डस्तु हिमवांश्छत्रमुच्यते । । १९
केचिदेवं वदन्तीह लोके चान्ये महामते ।
छत्रदण्डस्तथा क्लेशः क्लेशं छत्रं विदुर्बुधाः । । 1.53.२०
एतेषामेव देवानां यथा वीर्यं तथा तपः ।
यथायोगं तथा सत्त्वं यथा सत्त्वं तथा बलम् । । २१
तथा तपत्यसौ सूर्यस्तेषां सिद्धः स्वतेजसा ।
एते तपन्ति वर्षन्ति यान्ति विश्वं सृजन्ति च । । २२
भूतानामशुभं कर्म व्यपोहन्ति च कीर्तिताः ।
एते सहैव सूर्येण भ्रमन्ते सानुगा दिवि । । २३
तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै द्विजाः ।
गोपायन्ति स्म भूतानि इह ते ह्यनुकम्पया । । २४
प्रीणाति देवानमृतेन सूर्यः सोमेन सूक्तेन विवर्धयित्वा ।
शुक्लेन पूर्णा दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति । । २५
पीतं हि सोमं द्विकलावशेषं कृष्णे तु पक्षे रुचिभिर्ज्वलन्तम् ।
सुधामृतं तत्पितरः पिबन्ति ऊर्जाश्च सौम्याश्च तथैव कल्पाः । । २६
सूर्येण गोभिश्च समृद्धिताभिरद्भिः पुनश्चैव समुज्जिताभिः ।
तथौषधीभिः सततं पिबन्ति अत्यन्तपानेन क्षुधा जयन्ति । । २७
मासार्धतृप्तिस्तु मताभिरद्भिर्मासेन तृप्तिः स्वधया पितॄणाम् ।
अन्नेन शश्वद्विदधाति मर्त्यं त्वयं जगच्चैव बिभर्ति गोभिः । । २८
अहोरात्रं रथेनासावेकचक्रेण वै भ्रमन् ।
सप्तद्वीपसमुद्रान्तां सप्तभिश्च हयैः सह । । २९
छन्दोभिर्वाजिरूपैस्तैर्यतश्चक्रं ततः स्थितैः ।
कामरूपैः सकृद्युक्तैरन्तरस्थैर्मनोजवैः । । 1.53.३०
हरिभिरव्ययैर्वश्यै क्षुधाश्रमविवर्जितैः ।
द्व्यशीतिमण्डलशतमीहन्त्यब्देन वै हयाः । । ३१
बाह्यतोऽभ्यन्तरं चैव मण्डलं दिवसक्रमात् ।
कल्पादौ सम्प्रयुक्तास्ते वहन्त्याभूतसम्प्लवम् । । ३२
आवृता बालखिल्यैस्तैर्भ्रमन्ति तान्यहानि तु ।
ग्रथितैः स्वैर्वचोभिस्तु स्तूयमानो महर्षिभिः । । ३३
सेव्यते नृत्यगीतैश्च गन्धर्वैरप्सरोगणैः ।
पतङ्गः पतगैरश्वैर्वसते भ्रमयन्दिवि । । ३४
वीथ्याग्र्यया विचरते नक्षत्राणि यथा शशी ।
मध्यगाश्चामरावत्यां यदा भवति भास्करः । । ३५
वैवस्वते संयमने उत्तिष्ठन्दृश्यते तदा ।
सुखायामर्धरात्रं तु विभायामस्तमेति च । । ३६
वैवस्वते संयमने मध्यमस्तु रविर्यदा ।
सुखायामथ वारुण्यामुत्तिष्ठन्दृश्यते तदा । । ३७
रात्र्यर्धं चामरावत्यामस्तमेति यमस्य वै ।
सोमपुर्यां विभायां तु मध्यगश्चार्यमा यदा । । ३८
माहेन्द्रस्यामरावत्यामुत्तिष्ठति दिवाकरः ।
अर्धरात्रं संयमने वारुण्यामस्तमेति च । । ३९
एवं चतुर्षु पार्श्वेषु मेरोः कुर्वन्प्रदक्षिणम् ।
उदयास्तमने चासावुत्तिष्ठति पुनः पुनः । । 1.53.४०
पूर्वाह्णे चापराह्णे च द्वौ द्वौ देवालयौ पुनः ।
तपत्येकं तु मध्याह्ने ताभिरेव गभस्तिभिः । । ४१
उदितो वर्धमानाभिरामध्याह्नात्तपेद्रविः ।
ततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति । । ४२
यत्रोद्यन्दृश्यते सूर्यः स तेषामुदयः स्मृतः ।
प्रणाशं गच्छते यत्र स तेषामस्तमुच्यते । । ४३
एवं पुष्करमध्येन तदा सर्पति भास्करः ।
त्रिंशद्भागं तु मेदिन्या मुहूर्तेन स गच्छति । । ४४
योजनाग्रेण सङ्ख्यां १ तु मुहूर्तस्य निबोध मे ।
पूर्णं शतसहस्राशं सहस्रं तु त्रिलोचन । । ४५
पञ्चाशच्च तथाल्पानि सहस्राण्यधिकानि तु ।
मौहूर्तिको गतिर्ह्येषा सूर्यस्य तु विधीयते । । ४६
योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ।
निमेषान्तरमात्रेण दिवि सूर्यः प्रसर्पति । । ४७
स शीघ्रमेव पर्येति भास्करोऽलातचक्रवत् ।
भ्रमन्वै भ्रममाणेषु ऋक्षेषु विचरत्यसौ । । ४८
इन्द्रः पूजयते सूर्यमुत्तिष्ठन्तं दिने दिने ।
मध्याह्ने च यमः पश्चादस्तं यान्तमपां पतिः । । ४९
सोमस्तथार्धरात्रे तु सदा पूजयते रविम् ।
विष्णुर्भवानहं रुद्रः पूजयाम निशाक्षये । । 1.53.५०
एवमग्निर्निर्ऋतिश्च वायुरीशान एव च ।
पूजयन्ति क्रमेणैव भ्रममाणं दिवाकरम् । ।
श्रेयोऽर्थं देवशार्दूल सर्वे ब्रह्मादयः सुराः । । ५१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्पे
सूर्यगतिवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः । ५३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 54
सूर्यमहिमवर्णनम्
रुद्र उवाच
अहो हंसस्य माहात्म्यं वर्णितं भवतेदृशम् ।
कथ्यतां पुनरेवेदं माहात्म्यं भास्करस्य तु । । १
ब्रह्मोवाच
आदित्यमन्त्रमखिलं त्रैलोक्यं सचराचरम् ।
भवत्यस्माज्जगत्सर्वं सदेवासुरमानुषम् । । २
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् ।
महाद्युतिमतां कृत्स्नं तेजो यत्सार्वलौकिकम् । । ३
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ।
सूर्य एष त्रिलोकस्य मूलं परमदैवतम् । । ४
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । । ५
सूर्यात्प्रसूयते १सर्वं तत्र चैव प्रलीयते ।
भावाभावौ हि लोकानामादित्यान्निःसृतौ पुरा । । ६
एतत्तु ध्यानिनां ध्यानं मोक्षं चाप्येष मोक्षिणाम् ।
अत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात्पुनः प्रजाः । । ७
क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च नित्यशः ।
मासाः संवत्सराश्चैव ऋतवोऽथ युगानि च । । ८
सदादित्यादृते ह्येषा कालसङ्ख्या न विद्यते ।
कालादृते न नियमो २ नाग्निर्न हवनक्रिया । । ९
३ऋतूनामविभागाच्च, पुष्पमूलफलं कुतः ।
कुतः सस्यविनिष्पत्तिस्तृणौषधिगणाः ४ कुतः । । 1.54.१०
अभावो व्यवहाराणां जन्तूनां दिवि चेह च ।
जगत्प्रतपनमृते भास्करं वारितस्करम् । । ११
नावृष्ट्या तपते सूर्यो नावृष्ट्या परिविश्यते ।
नावृष्ट्या विकृतिं धत्ते वारिणा दीप्यते रविः । । १२
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ।
श्वेतो वर्णेन वर्षासु पाण्डुः शरदि भास्करः । । १३
हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः ।
इति वर्णाः समाख्याताः शृणु वर्णफलं हर । । १४
कृष्णोभयाय जगतस्ताम्रः सेनापतिं विनाशयति ।
पीतो नरेन्द्रपुत्रं५ श्वेतस्तु पुरोहितं हन्ति । । १५
चित्रोऽथ वापि धूम्रो रवी रश्मिव्याकुलं करोत्युच्चैः ।
तस्करशस्त्रनिपातैर्यदि न सलिलमाशु पातयति । । १६
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्पे
सूर्यमहिमवर्णनं नाम चतुष्पञ्चाशत्तमोऽध्यायः । ५४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 55
सूर्यरथयात्रावर्णनम्
रुद्र उवाच
रथयात्रा कथं कार्या भास्करस्येह मानवैः ।
फलं च किं भवेत्तेषां यात्रां कुर्वन्ति ये रवेः १। । १
विधिना केन कर्तव्या कस्मिन्काले सुरोत्तम ।
कथं च भ्रामयेद्देवं रथारूढं२ दिवाकरम् । । २
देवस्य ये रथं भक्त्या भ्रामयन्ति वहन्ति च ।
तेषां च किं फलं प्रोक्तं ये च नृत्यकरा नराः । । ३
भ्रमन्ति ये न च देवेन नृत्यगीतपरायणाः ।
प्रजागरं च कुर्वन्ति भक्त्या श्रद्धासमन्विताः । । ४
तेषां च किं फलं प्रोक्तं. रथं यच्छन्ति ३ ये रवेः ।
बलिं भक्तं च ये भक्त्या दिशन्त्याहि(?)कभोजनम् । । ५
एतन्मे ब्रूहि निखिलं सुरज्येष्ठ सविस्तरम् ।
लोकानां श्रेयसे देव परं कौतूहलं हि मे । । ६
ब्रह्मोवाच
साधु पृष्टोऽस्मि भूतेश गणेशोऽसि त्रिलोचन ।
शृणुष्वैकमना वच्मि यथाप्रश्नं सविस्तरम् । । ७
देवस्य रथयात्रेयं भास्करस्य महात्मनः ।
इन्द्रोत्सवस्तथा रुद्र मया ह्येतौ प्रकीर्तितौ । । ८
मर्त्यलोके शान्तिहेतोर्लोकानां लोकपूजित ।
प्रवर्तितावुभौ यस्मिन्देशे देवमहोत्सवौ । । ९
न तत्रोपद्रवाः सन्ति राजतस्करसम्भवाः ।
तस्मात्कार्याविमौ भक्त्या दुर्भिक्षस्येह शान्तये । । 1.55.१०
शुक्लपक्षे तु सप्तम्यां मासि भाद्रपदे हर ।
घृतेनाभ्यङ्गयेद्देवं पञ्चपूताङ्गजेन वै । । ११
अभ्यङ्गयेद्महेशं यः सर्षपैः श्रद्धयान्वितः ।
दिने दिने जगन्नाथं प्रविष्टं वर्णके रविम् । । १२
स गच्छेद्यानमारूढो गैरिकं किङ्किणीकृतम् ।
वैश्वानरपुरं दिव्यं गन्धर्वाप्सरशोभितम् । । १३
शाल्योदनं खण्डमिश्रं वज्रं वज्रसमन्वितम् ।
वर्णभक्तं प्रयच्छेद्यो भास्कराय दिने दिने । । १४
आरूढः स विमानं तु ज्वालामालाकुलं शुभम् ।
गच्छेन्मम पुरं देव स्तूयमानो महर्षिभिः । । १५
तस्मात्सर्वप्रयत्नेन भास्कराय नरः शिव ।
वर्णभक्तं प्रदातव्यं प्रविष्टस्येह वर्णकम् । । १६
घृतपूर्णं खण्डवेष्टं कासारं मोदकं पयः ।
दध्योदनं पायसं च संयावं गुडपूपकान् । । १७
ये प्रयच्छन्ति देवस्य भास्करस्येह वर्णकम् ।
ते गच्छन्ति न सन्देहो नरा वै मन्दिरं मम । । १८
अहन्यहनि यो भक्त्या भास्कराय प्रयच्छति ।
अभ्यङ्गाय घृतं देयं स याति परमां गतिम् । । १९
तथा यो वर्णभक्तं च अहन्यहनि भक्तितः ।
स प्राप्येह शुभान्कामान्गच्छेत्स भवसालयम् । । 1.55.२०
चूर्णमुद्वर्तनायेह यः प्रयच्छेच्छुभं रवेः ।
स याति परमं स्थानं यत्र देवो दिवाकरः । । २१
ततस्तं स्नापयेद्देवं पौषे मासि विधानतः ।
सप्तम्यां शुक्लपक्षस्य शृणुष्वैकमनास्तथा । । २२
तीर्थोदकमुपानीय अन्यद्वाथ जलं शुभम् ।
वेदोक्तेन विधानेन प्रतिमां स्थापयेद्बुधः । । २३
यजेद्धि तीर्थनामानि मनसा संस्मरन्बुधः ।
प्रयागं पुष्करं देवं कुरुक्षेत्रं च नैमिषम् । । २४
पृथूदकं चन्द्रभागां शौरं गोकर्णमेव च ।
ब्रह्मावर्तं कुशावर्तं बिल्वकं नीलपर्वतम् । । २५
गङ्गाद्वारं तथा पुण्यं गङ्गासागरमेव च।
कालप्रियं मित्रवनं शुण्डीरस्वामिनं तथा । । २६
चक्रतीर्थं तथा पुण्यं रामतीर्थं तथा शिवम् ।
वितस्ता हर्षपंथा वै तथा वै देविका स्मृता । । २७
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा सनर्मदा ।
विपाशा यमुना तापी शिवा वेत्रवती तथा । । २८
गोदावरी पयोष्णी च कृष्णा वेण्या तथा नदी ।
शतरुद्रा पुष्करिणी कौशिकी सरयूस्तथा । । २९
तथान्ये सागराश्चैव सान्निध्यं कल्पयन्तु वै ।
तथाश्रमाः पुण्यतमा दिव्यान्यायतनानि च । । 1.55.३०
एवं स्नानविधिं कृत्वा अर्चयित्वा प्रणम्य च ।
धूपमर्घ्यं प्रदत्त्वा तु प्रतिमामधिवासयेत् । । ३१
त्रिरात्रं सप्तरात्रं वा मासं मासार्धमेव च ।
स्थितं स्नानगृहे देवं पूजयेद्भक्तितो नरः । । ३२
चत्वरे लेपयेद्वेदिं चतुरस्रां शुभे कृताम् ।
चतुर्दिशं श्वेतकुम्भैर्वितानवरशोभिताम् । । ३३
कृष्णपक्षे तु माघस्य सप्तम्यां त्रिपुरांतक ।
कृत्वाग्निकार्यं विधिवत्कृत्वा ब्राह्मणभोजनम् । । ३४
शङ्खभेरीनिनादैस्तु ब्रह्मघोषैश्च पुष्कलैः ।
पुण्याहघोषविविधैर्ब्राह्मणान्स्वस्ति वाच्य च । । ३५
ततोऽस्य परया भक्त्या सूर्यस्य परमात्मनः ।
रथेन दर्शनीयेन किङ्किणीजालमालिना । ।
सूर्यश्च भ्रामयेद्देवं महोत्सवपुरःसरम् । । ३६
शुक्लपक्षे तु माघस्य रथमारोपयेद्रविम् ।
कृत्वाग्निहोमं विधिवत्तथा ब्राह्मणभोजनम् । । ३७
प्रीणयित्वा जनं सर्वं दक्षिणाभोजनादिना ।
प्रपूज्य ब्राह्मणान्दिव्यान्भौमांश्चापि सुवाचकान् । । ३८
इतिहासपुराणाभ्यां वाचको ब्राह्मणोत्तमः ।
ततो देवश्च इष्टश्च सम्पूज्यो यत्नतस्तदा । । ३९
माघस्य शुक्लपक्षस्य पञ्चम्यामेकभक्तकम् ।
अयाचितं चतुर्थ्यां तु षष्ठ्यां नक्तं प्रकीर्तितम् । । 1.55.४०
सप्तम्यामुपवासं तु आश्रमाद्रोपयेद्रथम् ।
अग्निकार्यं तु वै कृत्वा रथस्य पुरतः शिव । । ४१
षष्ठ्यां च रात्रौ भूतेश रथस्येहाधिवासनम् ।
ब्राह्मणान्भोजयित्वा तु दिव्यान्भौमांश्च वाचकान् । । ४२
रथमारोपयेद्देवं सप्तम्यां भूतभावनम् ।
सितायां माघमासे तु तस्य देवालयाग्रतः । । ४३
तत्रस्थस्यैव देवस्य कुर्याद्रात्रौ प्रजागरम् ।
नानाविधैः प्रेक्षणकैर्दीपवृक्षोपशोभितैः । ।४४
शंखतूर्यनिनादैश्च ब्रह्मघोषैश्च पुष्कलैः ।
कुर्यात्प्रजागरं भक्त्या देवस्य पुरतो निशि । ।४५
ततोऽष्टम्यां च यत्नेन देवं रथगतं नयेत् ।
नगरस्योत्तरं द्वारं शङ्खभेरी निनादितम् । । ४६
ततः पूर्वं दक्षिणं च द्वारं चापि तथा परम् ।
एवं हि क्रियमाणायां यात्रायां वत्सरावधौ । । ४७
मानवाः सुखमेधन्ते राजा जयति चाहितान् ।
नीरुजश्च जनाः सर्वे गवां शान्तिर्भवेत्तथा । ।४८
कर्तारभ्रापि यात्रायाः स्यर्गभागो भवन्ति हि ।
वोढारश्च तथा वत्स सूर्यलोकं यजन्ति वै । । ४९
रुद्र उवाच
कथं सञ्चाल्यते ब्रह्मन्स्थापिता प्रतिभा सकृत् ।
एतन्मे वद देवेश सुमहान्संशयो हि मे । । 1.55.५०
ब्रह्मोवाच
पूर्वमेव सहस्रांशोर्यानहेतोर्महात्मनः ।
संवत्सरस्यावयवैः १कल्पितोऽस्य रथो मया । । ५१
सर्वेषां तु रथानां वै स रथः प्रथमः स्मृतः ।
तं दृष्ट्वा तु ततस्त्वन्ये स्यन्दना विश्वकर्मणा । । ५२
कल्पिताः सर्वदेवानां सोमादीनामनेकशः ।
विश्वकर्मकृतं प्राप्य रथं देवेन पुत्रक । । ५३
पूजार्थमात्मनो दत्तं मनवे सत्कुलोद्वह ।
मनुनेक्ष्वाकवे दत्तं मर्त्यैः सम्पूज्यतां रविः । । ५४
अतस्तु रथयानेन १चालनं विहितं रवेः ।
तस्मान्न चालने दोषः सवितुश्चल एव सः । । ५५
यस्माद्रथेन पर्येति भास्करः पृथिवीमिमाम् ।
गच्छन्न दृश्यते चैतन्मण्डलं सवितुस्तथा । । ५६
अदृष्टं चलते यस्मात्तस्माद्वै पार्वतीप्रिय ।
तदेवं रथयात्रासु दृष्टं भानोर्मनीषिभिः । । ५७
अन्येषां चालनं नेष्टं देवानां पार्वतीप्रिय ।
ब्रह्मविष्णुशिवादीनां स्थापितानां विधानतः । । ५८
तस्माद्रथेन देवस्य यात्रा कार्या विधानतः ।
प्रजानामिह शान्त्यर्थं प्रतिसंवत्सरं सदा । । ५९
काञ्चनो वाथ रौप्यो वा दृढदारुमयोऽपि वा ।
दृढाक्षयुगचक्रश्च रथः कार्यः सुयन्त्रितः । । 1.55.६०
तस्मिन् रथवरे श्रेष्ठे कल्पिते सुमनोरमे ।
आरोप्य प्रतिमां यत्नाद्योजयेद्वाजिनः शुभान् । । ६१
हरिल्लक्षणसम्पन्नान्सुमुखान्वशवर्तिनः ।
कुङ्कुमेन समालब्धांश्चामरस्रग्विभूषितान् । । ६२
सदश्वान्योजयित्वा तु रथस्यार्घ्यं प्रदाय च ।
विबुधाम्पूजयित्या तु धूपमाल्यानुलेपनैः । । ६३
आहारैर्विविधैश्चापि भोजयित्वा द्विजोत्तमान् ।
दीनान्धकृपणादींश्च सर्वान्संतर्प्य शक्तितः२ । । ६४
न कञ्चिद्विमुखं कुर्यादुत्तमाधममध्यमम् ।
सूर्यक्रतौ तु वितते एवमाहुर्मनीषिणः । । ६५
यश्चिन्तयति भग्नाशः क्षुधावातप्रपीडितः ।
अदातुर्हि पितॄंस्तेन स्वर्गस्थानपि पातयेत् । । ६६
यज्ञश्च दक्षिणाहीनः सवितुर्न प्रशस्यते १ ।
तस्मान्नानाविधैः कामैर्भक्ष्यलेह्यसमन्वितैः । । ६७
पूजयित्वा जनं सर्वमिममुच्चारयेन्मनुम् ।
बलिं गृह्णन्तु मे देवा आदित्या वसवस्तथा । । ६८
मरुतोथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ।
असुरा यातुधानाश्च२ रथस्था यास्तु देवताः । । ६९
दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः ।
जगतः स्वस्ति कुर्वंतु ये च दिव्या महर्षयः । । 1.55.७०
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः ।
सौम्या भवन्तु तृप्ताश्च देवा भूतगणास्तथा । । ७१
वामदेव्यैः पवित्रैश्च मानस्तोकरथन्तरैः ।
आकृष्णेन रजसा ऋचमेकामुदाहरेत् । । ७२
ततः पुण्याहशब्देन कृतवादित्रनिःस्वनैः ।
रथक्रमणकं कुर्याद्वर्त्मना सुसमेन तु । ।
पुरुषैश्चापि वोढव्यः सूर्यभक्तिसमन्वितैः । । ७३
सुकृतैः च ३प्रग्रहैर्दान्तैर्बलीवर्द्दैरथापि वा ।
यथा पर्यटनं च स्याद्विषमे पथि गच्छतः । । ७४
उपवासस्थितैर्विप्रैर्दिव्यैर्भौमैश्च सुव्रतैः ।
त्रिंशद्भिः षोडशैर्वापि प्रतिमां भास्करस्य तु । । ७५
स्थानात्प्रचाल्यं वै रुद्र रथमारोपयेच्छनैः ।
राज्ञी च निक्षुभा रुद्र भार्ये तस्य महात्मनः । । ७६
शनैरारोपयेद्रुद्र उभयोः पार्श्वयो रथे ।
निक्षुभां दक्षिणे पार्श्वे राज्ञीं चाप्युत्तरे तथा । ७७
द्वावेव ब्राह्मणौ तस्मिन्दिव्यो भौमश्च पार्श्वयोः ।
ब्रह्मकल्पस्तथा भौमः कूबरस्योपरि स्थितः । ७८
गरुडं पृष्ठतश्चास्य वल्गमानं प्रकल्पयेत् ।
आतपत्रं तथा श्वेतं स्वर्णदण्डमनौपमम् । । ७९
सुवर्णबिन्दुभिश्चित्रं मणिमुक्ताफलोज्ज्वलम् ।
ततस्त्विन्द्रधनुःप्रख्यं स्वर्णदण्डमथाव्रणम् । । 1.55.८०
ध्वजं प्रकल्पयेत्तस्य पताकाभिरलङ्कृतम् ।
भूतेशनानावर्णाभिस्सप्तभिः कामनाशनः । । ८१
ध्वजोपरिचरं१ व्योम अरुणाधिष्ठितं भवेत् ।
रथतुण्डगतान्विप्रान्नयेद्रथवरं रवेः । । ८२
सारथ्यं रुद्र कुर्याद्वै श्रेयोऽर्थमात्मनः सदा ।
नारुहेत रथेऽश्रद्धो यदीच्छेच्छ्रेय आत्मनः । । ८३
रथमारोहतस्तस्य क्षयं गच्छति सन्ततिः ।
स रथो देवदेवस्य वोढव्यो ब्राह्मणैः सदा । । ८४
क्षत्रियैश्चापि वैश्यैश्च न तु शूद्रैः कदाचन ।
ये त्वन्यदेवताभक्ता ये च मद्यप्रवर्तकाः । । ८५
नैतैः शूद्रैश्च वोढव्य इतरैस्तु सदोह्यते ।
उपवासव्रतोपेतैर्वोढव्यः पार्वतीप्रिय । । ८६
स्वस्थानाच्चलितो रुद्र पूर्वद्वारं व्रजेत३ वै ।
दिनमेकं वसेत्तत्र पूज्यमानो नृपेण वै । । ८७
नानाविधैः प्रेक्षणकैः पुराणश्रवणेन च ।
नानाविधैर्ब्रह्मघोषैर्ब्राह्मणानां च तर्पणैः । । ८८
स्थित्वा तु तत्राष्टम्यन्तं नवम्यां चलते पुनः ।
व्रजेत दक्षिणं द्वारं नगरस्य त्रिलोचन । । ८९
तत्रापि दिनमेकं तु तिष्ठन्तेन्धकसूदन ।
स्थितेऽत्र तैः पूज्यमानो यथा राज्ञा तथा नृपैः । । 1.55.९०
तस्मादपि चलेद्भद्र द्वारं पश्चात्ततोत्तरम् ।
तत्रापि पूज्यः शूद्रैस्तु विधिवत्प्रियदर्शन । । ९१
तस्माच्च चलते रुद्र व्रजेन्मध्यं पुरस्य तु ।
तत्रस्थं पूजयन्ति स्म ब्राह्मणाः श्रद्धयान्विताः । । ९२
शंखवादित्रनिर्घोषैस्तथा प्रेक्षणकैर्वरैः ।
ब्रह्मघोषैश्च विविधैः समन्ताद्दीपकैः शुभैः । । ९३
नानाविधैर्वित्तदानैर्ब्राह्मणानां च तर्पणैः ।
दीनान्धकृपणानां च तर्पणैस्त्रिपुरान्तक । । ९४
पुरमध्यात्तु चलितस्तिष्ठेत्प्राप्य स्वमंदिरम् ।
इत्थं प्राप्य स्थितो देवः पुरतो मंदिरस्य तु । । ९५
तत्र स्थितः पूजनीयो भवेत्पौरेण कृत्स्नशः ।
पूज्यमानस्त्वहोरात्रं रथारूढस्तु तिष्ठति । । ९६
अपरे दिने व्रजेत्स्थानं तच्चिरन्तनमादरात् ।
त्रयोदश्यां व्यतीतायां चतुर्दश्यां त्रिलोचन । । ९७
सदैवं भ्रामयेद्देवं ग्रहेशं दुरितापहम् ।
परिवारयुतं रुद्र सानुगं परमेश्वरम् । । ९८
इति श्रोभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्पे
रथयात्रावर्णनं नाम पञ्चपञ्चाशत्तमोध्यायः । ५५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 56
सूर्यरथयात्रावर्णनम्
श्रीरुद्र उवाच
कथं प्रचालयेद्ब्रह्मन् रथस्थं तमनाशनम् ।
अनुगाश्च कथं चास्य के च ते अनुगा क्रमात् । । १
भूयोभूयः सुरश्रेष्ठ विस्तरान्मम श्रेयसे ।
१ वद सर्वं जगन्नाथ परं कौतूहलं हि मे । । २
ब्रह्मोवाच
शनैर्नयेद्रथं रुद्र वर्त्मना सु समेन तु ।
यथा पर्यटनं तु स्याद्विषमे पथि गच्छतः । । ३
प्रतीहाररथं पूर्वं नयेन्मार्गविशुद्धये ।
तस्मादनन्तरं रुद्र दण्डनायकमादरात् । । ४
पिङ्गलं च ततस्तस्य पृष्ठगं चादरान्नयेत् ।
रक्षको द्वारको यस्माद्रथारूढौ तु पृष्ठतः । । ५
रथारूढस्तथा दिण्डी देवस्य पुरतः स्थितः ।
तस्मादपि तथा रुद्र लेखको भास्करप्रियः । । ६
शनैःशनैर्नयेद्रुद्र रथं देवस्य यत्नतः ।
युगाक्षचक्रभङ्गो वा यथा न स्यात्त्रिलोचन । । ७
ईषाभङ्गे द्विजभयं भग्नेऽक्षे क्षत्रियक्षयः ।
तुलाभङ्गे तु वैश्यानां शय्याशूद्रक्षयो भवेत् । । ८
युगभङ्गे त्वनावृष्टिः पीठभङ्गे प्रजाभयम् ।
परचक्रागमं १ विद्याच्चक्रभङ्गे रथस्य तु । । ९
ध्वजस्य पतने चापि नृपभङ्गं विनिर्दिशेत् ।
२व्यङ्गितप्रतिमायां तु राज्ञो मरणमादिशेत् । । 1.56.१०
छत्रभङ्गाद्भयं रुद्र युवराज्ञो विनिर्दिशेत् ।
उत्पन्नेष्वेवमाद्येषु उत्पातेष्वशुभेषु च । । ११
बलिकर्म पुनः कुर्याच्छांतिहोमं तथैव च ।
ब्राह्मणान्वाचयेद्भूयो दद्याद्दानानि चैव हि । । १२
पूर्वोत्तरे च दिग्भागे रथस्याग्निं प्रकल्पयेत् ।
समिद्भिस्तु घृताक्ताभिर्होमयेज्जातवेदसम् । । १३
स्वाहाकारान्वदन्सम्यग्दैवतेभ्यस्त्वनुक्रमात् ।
ग्रहेभ्यश्च प्रजाभ्यश्च नामान्युद्दिश्य होमयेत् । । १४
प्रथमं चाग्नये स्वाहा स्वाहा सोमाय चैव हि ।
स्वाहा प्रजापतये च देया आहुतयः क्रमात् । । १५
स्वस्त्यस्त्विह च विप्रेभ्यः स्वस्ति राज्ञे तथैव च ।
गोभ्यः स्वस्ति प्रजाभ्यश्च जगतः शान्तिरस्तु वै । । १६
शं नोऽस्तु द्विपदे नित्यं शान्तिरस्तु चतुष्पदे ।
शं प्रजाभ्यस्तथैवास्तु शं सदात्मनि चास्तु वै । । १७
भूः शान्तिरस्तु देवेश भुवः शान्तिस्तथैव च ।
स्वश्चैवास्तु तथा शान्तिः सर्वत्रास्तु तथा रवेः । । १८
त्वं देव जगतः स्रष्टा पोष्टा चैव त्वमेव हि ।
प्रजापाल ग्रहेशान शान्तिं कुरु दिवस्पते । । १९
इदमन्यच्च वक्ष्यामि शान्त्या परमकारणम् ।
यात्राकारणभूतस्य पुरुषस्य स्वजन्मनः । । 1.56.२०
दुःस्थान्ग्रहांश्च विज्ञाय ग्रहशान्तिं समाचरेत् ।
प्रादेशमात्राः कर्त्तव्याः समिधोऽथ प्रमाणतः । । २१
thumb|अर्क
thumb|पलाश
thumb|खदिर
thumb|अपामार्ग
thumb|अश्वत्थ
thumb|उदुम्बर
thumb|शमी
thumb|दूर्वा
thumb|कुशा
अर्कमय्यो रवेः कार्या पालाश्यः शशिनः स्मृताः ।
खादिर्यश्चैव भौमाय आपामार्ग्योऽब्जसूनवे । । २२
आश्वत्थ्यश्चाथ जीवाय औदुम्बर्यः सिताय च ।
असिताय शमीमय्यो दूर्वा कार्यस्तु राहवे । ।२ ३
केतवे तु कुशाः कार्याः दक्षिणाश्चाप्यतः शृणु ।
सूर्याय शोभनां धेनुं शंखं दद्यादथेन्दवे । । २४
रक्तमनड्वाहं भौमाय काञ्चनं सोमसूनवे ।
जीवाय वाससी देये शुक्रायाश्वं सितं हर । । २५
शनैश्चराय गां नीलां राहवे भाण्डपायसम् ।
छागं तु केतवे दद्याच्छृण्वेषां भोजनान्यपि । । २६
गुडौदनं तु सूर्याय सोमाय घृतपायसम् ।
हविष्यमन्नं भौमाय क्षीरान्नं सोमसूनवे । । २७
दध्योदनं तु जीवाय शुक्रायाथ घृताशनम् ।
तिलपिष्टांश्च माषाश्च सूर्यपुत्राय दापयेत् । । २८
राहवे दापयेन्मांसं केतवे चित्रमोदनम् ।
सौवीरमारनालं च स्विन्नबीजं च काञ्जिकम् । । २९
यथा बाणप्रहाराणां वारणं कवचं स्मृतम् ।
तथा दैवोपघातानां शान्तिर्भवति वारणम् । । 1.56.३०
अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च ।
नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः । । ३१
ग्रहाः पूज्याः सदा रुद्र इच्छता विपुलं यशः ।
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । । ३२
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्पुनः ।
यानपत्या भवेन्नारी दुष्प्रजाश्चापि या भवेत् । । ३३
बाला यस्याः प्रम्रियन्ते या च कन्याप्रजा भवेत् ।
राज्यभ्रष्टो नृपो यस्तु दीर्घरोगी च यो भवेत् । । ३४
ग्रहयज्ञः स्मृतस्तेषां मानवानां मनीषिभिः ।
तस्मादसौ सदा कार्यः श्रेयोऽर्थं जानता हर । । ३५
दत्तपुष्पः क्रूरदृक्च पुष्पजो धिषणस्तथा ।
सितासितौ तथा रुद्र उपरागः शिखी तथा । । ३६
एते ग्रहा महाबाहो विद्वद्भिः पूजिताः सदा ।
ताम्रकात्स्फाटिकाद्रक्तचन्दनात्स्वर्णकादपि । ३७
राजतादायसात्सीसाद्ग्रहाः कार्याः२ प्रयत्नतः ।
स्वर्णे वाथ पटे लेख्या यथाशास्त्रं महेश्वर । । ३८
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ।
गंधाश्च बलयश्चैव धूपो देयश्च गुग्गुलः । । ३९
कर्तव्या मन्त्र३वंतश्च चरवः प्रतिदैवतम् ।
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । । 1.56.४०
उद्बुध्यस्व यथासंख्यमृच एताः प्रकीर्तिताः ।
बृहस्पते अतियदर्यस्तथैवान्नात्परिस्रुतः । । ४१
शं नो देवी तथा कांडात्केतुं कृण्वन्निमाः क्रमात् ।
पूर्वोक्ताः समिधस्त्वत्र यथाशास्त्रं प्रहोमयेत् । ।४ २
एकैकस्याष्टशतकमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिभ्यां दध्ना चैव समन्विताः । ।४ ३
पूर्वोक्तभोजनं यद्धि ब्राह्मणेभ्यो निवेदयेत् ।
शक्तितो वा यथालाभं दक्षिणा तु१ विधानतः । । ४४
यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।
मयैषा हि वरो दत्तः पूजिताः पूजयिष्यथ । । ४५
ग्रहाधीना नरेंद्राणामुच्छ्रयाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः । । ४६
ग्रहा गावो नरेन्द्राश्च गुरवो ब्राह्मणास्तथा ।
पूजितः पूजयन्त्येते निर्दहन्त्यपमानिताः । । ४७
यथा समुत्थितं यन्त्रं यन्त्रेणैव प्रहन्यते ।
तथा समुत्थितां पीडां ग्रहशान्त्या ३ प्रशामयेत् । । ४८
यज्वनां सत्यवाक्यानां तथा नित्योपवासिनाम् ।
जपहोमपराणां च सर्वं दुष्टं प्रशाम्यति । । ४ ९
एवं कृत्वा प्रजाशान्तिं कृत्वा च स्वस्तिवाचनम् ।
पुनः सज्जं रथं कृत्वा कुर्यात्प्रकमणं हर । । 1.56.५०
मार्गं शेषं नयित्वा तु नयेद्देवालयं रविम् ।
पूजयित्वा ततः ४पूर्वा याः प्रोक्ता रथदेवताः । । ५१
यथा पूज्या ग्रहाः सर्वे उत्पातेषु त्रिलोचन ।
रथदेवास्तथा५ पूज्या याः स्थिता रथमाश्रिताः । । ५२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
आदित्यमहिमवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः । ५६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 57
रथयात्रावर्णनम्
ब्रह्मोवाच
क्षीरं यवागूर्ब्रह्मणे स्यात्परमान्नं त्रिलोचन ।
फलानि कार्तिकेयस्य दद्याद्भूतेशप्रीतये । ।
विवस्वते मधु मांसं तथा मद्यं च सुव्रत । । १
पुरुहूताय भक्ष्याणि सानुगाय निवेदयेत् ।
हविरन्नमग्नये स्यादग्रान्नं विष्णवे तथा । । २
राक्षसेभ्यः समैरेयं दद्यान्मांसौदनं हर ।
संस्कृतं पिशितान्नं च रेवताय निवेदयेत् । । ३
तिलान्नं पितृराजाय दद्यात्त्रिपुरसूदन ।
आश्विनाभ्यामपूपांस्तु वसुभ्यो मांसमोदनम् । । ४
पितृभ्यः पायसं दद्याद्घृताक्तं मधुना सह ।
कात्यायन्यै यवागूं च श्रियै दद्यात्तथा दधि । । ५
सरस्वत्यै त्रिमधुरं वरुणायेक्षुरसौदनम् ।
१खाडवान्नं धनपतावेवं मित्रे त्रिलोचन । । ६
सस्नेहेन तु तक्रेण मरुद्भ्यस्तर्पणं स्मृतम् ।
मांसान्नभक्तसूपांश्च मातृभ्यो वै निवेदयेत् । । ७
उल्लेपिकाश्च भूतेभ्यो जलं सूर्याय वै हर ।
दद्याद्गणाधिपतये मोदकांस्त्रिपुरान्तक । । ८
शष्कुल्यस्तु नैर्ऋताय देयाः स्युर्गणनायक ।
सर्वभक्ष्याणि विश्वेभ्यो दातव्यानि समन्ततः । । ९
क्षीरौदनमृषिभ्यस्तु क्षीरं नागेभ्य एव हि ।
सूर्यरथाय बलिं दद्यात्कुर्याद्वै सार्वभौतिकम् । । 1.57.१०
उद्वर्तनं सुरा मांसं तद्वाहेभ्यश्च भारत ।
आज्यं च ब्रह्मणे दद्यात्त्र्यम्बकाय तिलांस्तथा । । ११
स्वाहातनये वै लाजा दातव्यास्त्रिपुरान्तक ।
भास्कराय सदा दद्यात्कोविदारं त्रिलोचन । । १२
राजवृक्षं तथेन्द्राय हविष्यं पावकाय च ।
चक्रिणे सप्तधान्यं च गरुडे मत्स्यमोदनम् । । १३
यक्षेभ्यो विविधान्नानि निर्यासं रेवते त्यजेत् ।
वैकंकतस्रजो रुद्र यमाय परिकीर्तिताः । । १४
देयं स्यात्कर्णिकारं तु अश्विभ्यां वृषभध्वज ।
श्रियै पद्मानि देयानि चंडिकाय सुचंदनम् । । १५
नवनीतं सरस्वत्यै विनतायै तथामिषम् ।
पुष्पाण्यप्सरसां रुद्र मालत्याः परिकीर्त्तितम् । । १६
वरुणायाग्निमन्थं तु फलं मूलं निर्ऋतये ।
बिल्वं दद्यात्कुबेराय कपित्थं मरुतां तथा । । १७
गंधर्वेभ्यस्त्वारग्वधं दद्यात्त्रिपुरसूदन ।
वासवेभ्यस्तु कर्पूरं दद्याद्दारु गणाधिपे । । १८
पितृभ्यः पिण्डमूलानि भूतेभ्यश्च बिभीतकम् ।
गोभ्यो यवान्प्रदद्याद्वै मातृभ्यश्चाक्षतान्हर । । १९
गुग्गुलं विघ्नपतये विश्वेभ्यो देयमोदनम् ।
ऋषिभ्यो ब्रह्मवृक्षं तु नागेभ्यो विषमुत्तमम् । । 1.57.२०
भास्करस्येह देयानि सकलानि गणाधिप१ ।
मधुसर्पिस्तथोक्तानि गैरिकस्य त्रिलोचन । । २१
न्यग्रोधं तस्य वाहेभ्यो भक्त्या रुद्र निवेदयेत् ।
सायं प्रातस्तु मध्याह्ने सदैकाग्रमना हर । । २२
सर्वेषां शक्तितो भक्त्या २दहेद्धूपं विचक्षणः ।
मन्त्रतो देवशार्दूल यो यस्येह प्रकीर्तितः । । २३
शान्त्यर्थं ब्राह्मणेभ्यस्तु तिलान्दद्याद्विचक्षणः ।
वैश्वानरे वा जुहुयाद् घृतेन सहितान्हर । । २४
देवानाममृतं ह्येते पितॄणां हि स्वधामृतम् ।
शरणं ब्राह्मणानां च सदा ह्येतान्विदुर्बुधाः । । २५
कस्यपस्याङ्गजा ह्येते पवित्राश्च तथा हर ।
स्नाने दाने तथा होमे तर्पणेह्यशने पराः । । २६
इत्थं देवान्ग्रहांश्चैव पूजयित्वा प्रयत्नतः ।
अवतार्य रथाच्चैनं मण्डले स्थापयेत्पुनः । । २७
कृत्वा त्वारार्तिकं यत्नाद्दीपतोययवाक्षतैः १ ।
कार्पासबीजलवणतुषैर्दुर्दृष्टिशान्तये । । २८
वेदीमारोपयेत्पश्चात्पत्नीभ्यां सह सुव्रत ।
तत्रस्थं पूजयेद्देवं दिनानि दश सुव्रत । । २९
दशाहिकेति विख्याता या पूजा भूतले हर ।
तया सम्पूयेद्देवं चतुर्थेऽह्नि तथा हर । । 1.57.३०
चतुर्थेऽहनि कर्तव्यं यत्नाद्धि स्नपनं रवेः ।
अभ्यङ्गभोजनाद्यैस्तु पूजासत्कारमण्डलैः । । ३१
अनेन विधिना पूज्य दशाहानि दिवाकरम् ।
ततो नयेत्परं स्थानं यत्तत्पूर्वमथालयम् । । ३२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्प
आदित्यमहिमवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः । ५७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 58
रथ-यात्रावर्णनम्
ब्रह्मोवाच
अनेन विधिना यस्तु कुर्याद्वा कारयेत वा ।
यात्रां भगवतो भक्त्या भास्करस्यामितौजसः । । १
स परार्धं तु वर्षाणां सूर्यलोके महीयते ।
कुले न जायते तस्य दरिद्रो व्याधितोऽपि वा । । २
अभ्यङ्गाय घृतं यस्तु भास्कराय प्रयच्छति ।
कृते तु वर्णतिलके स गच्छेत्सुरभी १ पुरम् । । ३
तीर्थोदकं तु यो भक्त्या गंगायाश्च तथोदकम् ।
स्नानार्थमानयेद्यस्तु भास्करस्य त्रिलोचन । ।४
भक्त्या वर्णत्रयं दद्याद्भास्करस्य त्रिलोचन ।
समाप्येहाखिलान्कामान्प्राप्नुयाद्वरुणालयम् । । ५
रक्तवर्णं तु यो दद्याद्धविष्यान्नं गुडौदनम् ।
स गच्छेद्दीप्तिमान्रुद्र सूर्यलोकं पुरं वरम् । । ६
गच्छेत्पुरवरे रुद्र यत्र देवः प्रजापतिः ।
स्नापयेद्यस्तु वा भक्त्या भास्करं पूजयेत्तथा । । ७
स गच्छेद्दीप्तिमान्रुद्र सूर्यलोकं न संशयः ।
२रथमारोपयेद्यस्तु रथमार्गं प्रमार्जति । । ८
स याति वातसालोक्यं वाततुल्यपराक्रमः ।
रथस्य गच्छतो यस्तु मार्गे कुर्यात्सुमण्डलम् । । ९
स लोकं प्राप्नुयात्पुण्यं मारुतं नात्र संशयः ।
सूर्यस्य गच्छतो यस्तु मार्गं कुर्यात्सुमण्डलम् । । 1.58.१०
स लोकं प्राप्नुयात्पुण्यं यः कुर्यान्मार्गमादरात् ।
पुष्पप्रकरशोभाढ्यं ३शुभतोरणमण्डितम् । । ११
शंखतूर्यनिनादाढ्यं तथा४ प्रेक्षणकान्वितम् ।
स याति परमं स्थानं यत्र देवो विभावसुः । । १२
देवेन सहितो यस्तु नृत्यन्गायंस्तथार्चयन् ।
कुर्यान्महोत्सवं भक्त्या स याति परमं पदम् । । १३
प्रजागरं यस्तु कुर्याद्देवे रथगते रवौ ।
स सुखी पुण्यवान्नित्यं मोदते शाश्वतीः समाः । । १४
भक्तदासादिकं १ सर्वं यो ददाति रवेर्नरः ।
सम्प्राप्येहाखिलान्कामान्सूर्यलोकमवाप्नुयात् । । १५
रथारूढस्य सूर्यस्य भ्रमतो दर्शनं हर ।
दुर्लभं देवशार्दूल विशेषात्पुरतो व्रजन् । । १६
उत्तराभिमुखं यान्तं तथा वै दक्षिणामुखम् ।
धन्यः पश्यति देवेशं भास्करं भक्तवत्सलम् । । १७
अथ संवत्सरे प्राप्ये भानोर्यात्रादिने यदि ।
रथप्रकमणं तत्र न कथञ्चित्कृतं भवेत् । । १८
ततो वै द्वादशे वर्षे कर्तव्यं भूतिमिच्छता ।
इन्द्रध्वजस्य चाप्येवं यदि नोत्थापनं कृतम् । । १९
ततो वै द्वादशे वर्षे कर्तव्यं नान्तरा पुनः ।
यात्रायाश्चापि ये भङ्गं कुर्वन्ति वृषभध्वज । । 1.58.२०
मन्देहा नाम ते ज्ञेया राक्षसा नात्र संशयः ।
ये कुर्वन्ति तथा यात्रां नरा धर्मध्वजस्य तु । । २१
इन्द्रादिदेवास्ते ज्ञेया गताश्च परमं पदम् ।
पुनर्यात्राविधिं चेमं समासात्कथयामि ते । । २२
यं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
वर्तमाने तु वै माघे रथे २देवगणाश्रिते । । २३
स तस्मिन्नेव मनसा स्थापनीयो रथोपरि ।
द्यौर्मही च द्विमूर्तिस्थे यथापूर्वं प्रतिष्ठिते । । २४
तथैव राज्ञी द्यौर्ज्ञेया निक्षुभा पृथिवी स्मृता ।
एताभ्यामपि देवीभ्यां यथैव सवितुस्तथा । । २५
दिण्डिनः पिंगलादीनां पृथुः कार्यो रथक्रमः ।
मनसा चिन्तयेदन्यां यथास्थानेषु देवताम् । । २६
दिक्पालांल्लोकपालांश्च कल्पयेत्मनसैव तु ।
देवो वेदमयश्चायं सर्वदेवमयस्तथा । । २७
मंडलमृङ्मयं चैव छन्दांस्यास्यं प्रकीर्तितम् ।
गायत्री चैव त्रिष्टुप्च जगत्यनुष्टुबेव च । । २८
पंक्तिश्च बृहती चैव उष्णिगेव च सप्तमी ।
ततो देवमयात्वाच्च च्छन्दसां चैव कल्पनात् । । २९
ततो वेदमयात्वाच्च तरणिर्लोकपूजितः ।
१रथप्रकमणात्सूर्यो वोढव्यो ब्रह्मवादिभिः । । 1.58.३०
उपवासपरैर्युक्तैर्वेदवेदांगपारगैः ।
रथं तु नारुहेच्छूद्रो भास्करस्य त्रिलोचन । । ३१
आरुह्य तरणेर्यानं व्रजेच्छूद्रो ह्यधोगतिम् ।
यथोक्तकरणाद्रुद्र सदा शान्तिर्भवेन्नृणाम् । । ३२
नायकश्चापि सर्वेषां देवानां तु२ दिवाकरः ।
विन्यसेत्तु रथानां तु देवतायतनेषु च । । ३३
ततो धूपोपहारैस्तु पूजयेत्प्रथमं रविम् ।
दिग्देवानुचरांश्चैव पूजयेत्पूज्यते श्रिया । । ३४
अपूज्य प्रथमं सूर्यमपरान्यस्तु पूजयेत् ।
३तत्तद्भूतकृतं पाद्यं न प्रगृह्णन्ति देवताः । । ३५
यात्राकाले तु सम्प्राप्ते ४सवितुर्दीक्षितां तनुम् ।
ये द्रक्ष्यंति नरा भक्त्या ते भविष्यन्त्यकल्मषाः । । ३६
पौर्णमास्याममायां च दर्शनं पुण्यदं स्मृतम् ।
सप्तम्यां च तथा षष्ठ्यां दिने तस्य रवेस्तथा । । ३७
आषाढी कार्त्तिकी माघी तिथ्यः पुण्यतमाः स्मृताः ।
महाभाग्यं तिथे पुण्यं यथा शास्त्रेषु गीयते । । ३८
कार्त्तिक्यां तु विशेषेण महाकार्तिक्युदाहृता ।
एवं कालसमायोगाद्यात्राकालो विशिष्यते । । ३९
दर्शनं च महापुण्यं सर्वपापहरं भवेत् ।
उपवासपरो यस्तु तस्मिन्काले यतव्रतः । ।1.58.४ ०
पूजयेत्तु१ रविं भक्त्या स गच्छेत्परमां गतिम् ।
देवोऽयं यज्ञपुरुषो लोकानुग्रहकांक्षया । । ४१
प्रतिमावस्थितो भूत्वा पूजां गृह्णात्यनुग्रहात् ।
स्नानाद्दानाज्जपाद्धोमात्संयोगाद्देवकर्मणः । । ४२
कूर्चानां वपनाच्चैव दीक्षितः पुरुषो भवेत् ।
कचानां वापनं कार्यं सूर्यभक्तैः सदा नरैः । । ४३
सूर्यक्रतौ शुचिस्त्वेवं दीक्षितः पुरुषो भवेत् ।
चतुर्णामपि वर्णानां भक्त्या सूर्यस्य नित्यदा । । ४४
एवं येऽत्र करिष्यन्ति ते नरा नित्यदीक्षिताः ।
चीर्णव्रता महात्मानस्ते यास्यन्ति परां गतिम् । । ४५
इत्येषा कथिता रुद्र रथयात्रा दिवस्पतेः ।
यां श्रुत्वा वाचयित्वा सर्वरोगैर्विमुच्यते । । ४६
कृत्वा च विधिवद्भक्त्या याति सूर्यसदो नरः ।
रथाह्वा कथिता रुद्र समासात्सप्तमी शुभा । । ४७
भूयोऽपि श्रूयतां रुद्र सप्तमी गदतो मम । ।४८
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
रथयात्रा वर्णनं नामाष्टपञ्चाशत्तमोऽध्याय । ५८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 59
रथसप्तमीमाहात्म्यवर्णनम्
ब्रह्मोवाच
माघे मासि तथा देव सिते पक्षे जितेन्द्रियः ।
षष्ठ्यामुपोषितो भूत्वा गन्धपुष्पोपहारतः । । १
पूजयित्वा दिनकरं रात्रौ तस्याग्रतः स्वपेत् ।
विबुद्धस्त्वथ सप्तम्यां भक्त्या भानुं समर्चयेत् । । २
ब्राह्मणान्भोजयेत्पश्चाद्वित्तशाठ्यं१ विवर्जयेत् ।
खण्डवेष्टैर्मोदकैश्च तथेक्षुगुडपूपकैः । । ३
अथ संवत्सरे पूर्णे सप्तम्यां कारयेद्बुधः ।
देवदेवस्य वै यात्रां पूर्वोक्तविधिना हर । । ४
कृष्णपक्षे तु यः कृत्वा रथमारोहितं रविम् ।
पश्येद्भक्त्या जगन्नाथं स याति परमां गतिम् । । ५
तृतीयायामैकभक्तं चतुर्थ्यां नक्तमुच्यते ।
पञ्चम्यामयाचितं स्यात्षष्ठ्यां चैवमुपोषणम् । । ६
सप्तम्यां पारणं कुर्याद्दृष्ट्वा देवं रथे स्थितम् ।
पूजयित्वा च विधिना शक्त्या भक्त्या त्रिलोचन । । ७
सौवर्णं तु रथं कृत्वा ताम्रपात्रोपरि स्थितम् ।
रथमध्ये न्यसेद्व्योम पूजितं मणिभिर्हर । । ८
पद्मरागं न्यसेन्मध्ये मौक्तिकं पूर्वतो न्यसेत् ।
इंद्रनीलमथो याम्यां वारुण्यां मरकतं हर । । ९
प्रवालमुत्तरे रुद्र सवज्रं विन्यसेद् बुधः ।
श्वेतं पीतासितं चापि रक्तं चान्धकसूदन । । 1.59.१०
एतानि तात वस्त्राणि दिक्षु सर्वासु विन्यसेत् ।
पताकाकारसंस्थानं घण्टाभरणभूषितम् । । ११
पुष्पैर्दामैरलंकृत्य रथं रुद्र समन्ततः ।
यथान्यायं पूजयित्वा भास्कराय निवेदयेत् । । १२
भोजयित्वाथ वा विप्रानाचार्याय निवेदयेत् ।
योऽधीते सप्तमीकल्पं सोपाख्यानं च भारत । । १३
आचार्यः स द्विजो ज्ञेयो वर्णानामनुपूर्वशः ।
सौराणां वैष्णवानां तु शैवानां पार्वतीप्रिय । । १४
अलाभे तु सुवर्णस्य रथं राजतमादिशेत् ।
तदलाभे ताम्रमयं रथं व्योम च कारयेत् । । १५
अभावे चापि ताम्रस्य रथः पिष्टमयः स्मृतः ।
सहिरण्यो १महादेव ताम्रभाजनमाश्रितः । । १६
२कौशेययुग्मसहितं ब्राह्मणाय निवेदयेत् ।
पूर्वोक्ताय महादेव वाचकाय महात्मने । । १७
पञ्चरत्नसमायुक्तं गुभगन्धाधिवासितम् ।
स्वशक्त्या तु विरूपाक्ष वित्तशाठ्यं विवर्जयेत् । । १८
एषा पुण्या पापहरा रथाह्वा सप्तमी हर ।
कथिता ते मया रुद्र महतीयं प्रकीर्तिता । । १९
स्नानं दानमथो होमः पूजा ग्रहपतेर्हर ।
शतसाहस्रं भवेदस्यां कृतं भूधरविद्यते । । 1.59.२०
एवमेषा पुण्यतमा माघे प्रोक्ता तु सप्तमी ।
यामुपोष्य नरो भक्त्या सूर्यस्यानुचरो भवेत् । । २१
ब्राह्मणो याति देवत्वं क्षत्रियो विप्रतां व्रजेत् ।
वैश्यः क्षत्रियतां याति शूद्रो वैश्यत्वमेति च । । २२
विद्याविनयसम्पन्नं भर्त्तारं ३ कन्यका लभेत् ।
अपुत्रा स्त्री सुतं विन्देत्सौमाग्यं च गणाधिप । । २३
विधवा चाप्युपोष्येमां सप्तमीं त्रिपुरान्तक ।
नान्यजन्मसु वैधव्यं प्राप्नुयात्पार्वतीप्रिय । । २४
बहुपुत्रा बहुधना पत्युर्वल्लभतां व्रजेत् ।
यावद्वै सप्त जन्मानि स्त्रियस्तु पुरुषास्तथा । । २५
एवंविधा सप्तमी ते कथिता वृषभध्वज ।
यां श्रुत्वा मानवो भक्त्या मुच्यते ब्रह्महत्यया । । २६
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
रथसप्तमीमाहात्म्यवर्णनं नामैकोनषष्टितमोऽध्यायः । ५९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 60
रथयात्रावर्णनम्
सुमन्तुरुवाच
इत्युक्त्वा स जगामाशु सुरज्येष्ठं त्रिलोचनम् ।
रथयात्रा महाबाहो सूर्यस्येत्यमितौजसः । । १
शतानीक उवाच
यमाराध्य जगन्नाथं मम पूर्वपितामहाः ।
तुष्ट्यर्थं ब्राह्मणानां तु अन्नमापुश्चतुर्विधम् । । २
तस्य देवस्य माहात्म्यं श्रुतं च बहुशो मया ।
देवर्षिसिद्धमनुजैः स्तुतस्य हि दिनेदिने । । २
कः स्तोतुमीशस्तमजं१ यस्यैतत्सचराचरम् ।
अव्ययस्याप्रमेयस्य विबुध्येतोदयाज्जगत् । । ४
कराभ्यां यस्य देवेशौ कविष्णू लोकपूजितौ ।
उत्पन्नौ द्विजशार्दूल ललाटात्त्रिपुरान्तकः । । ५
तस्य देवस्य कैः शक्या वक्तुं सर्वा विभूतयः ।
सोऽहमिच्छामि देवस्य तस्य सर्वात्मना द्विज । । ६
श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् ।
केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया । । ७
दानैर्वृतोपवासैर्वा होमैर्जाप्यैरथापि वा ।
आराधितः समस्तानां क्लेशानां हानिदो भवेत् । । ८
सैका विद्या हि विद्यानां यया तुष्यति सर्वकृत् ।
श्रुतानामपि तत्पुण्यं यत्र भानोः प्रकीर्तनम् । । ९
रहस्यानां रहस्यं तद्येन हंसः प्रसीदति ।
एकः श्रेष्ठतमो मंत्रस्तदेकं परमं व्रतम् । । 1.60.१०
उपोषितं च तच्छ्रेष्ठं येन भानुः प्रसीदति ।
सा चैका रसना धन्या मार्तण्डं स्तौति या सदा । । ११
तदेकं निर्मलं चित्तं १यद्गतं सततं रवौ ।
श्लाघ्यानामपि तौ श्लाघ्याविह लोके परत्र च । । १२
यो सदा द्विजशार्दूल भानोः पूजाकरौ करौ ।
तदेकं केवलं धन्यं शरीरं सर्वजन्तुषु । । १३
यदेव पुलकोद्भासि भानोर्नामानुकीर्तने ।
सा जिह्वा कण्ठतालूकमथ वा प्रतिजिह्विका । । १४
अथ वा सापरो रोगो या न वक्ति रवेर्गुणम् ।
नवद्वाराणि सन्त्यस्मिन्पुरे पुरुषसत्तम । । १५
प्राकारैस्त्वावृते विष्वग्वृथा तानि विदुर्बुधाः ।
दत्त्वावधानं यच्छब्दे विनैव रविसंस्तुतिम् । । १६
श्रेयसां न हि. सम्प्राप्तौ पुरुषाणां विचेष्टितम् ।
जन्मन्यविफला सेवा कृता याश्रित्य भास्करम् । । १७
दुर्गसंसारकांतारमपारमभिधावताम् ।
एको भानुनमस्कारः संसारार्णवतारकः । । १८
रत्नानामाकरो मेरुः सर्वाश्चर्यमयं नभः ।
तीर्थानामाश्रयो गंगा देवानामाश्रयो रविः । । १९
एवमादिगुणो भोगो भानोरमिततेजसः ।
श्रुतो मे बहुशः सिद्धैर्गीयमानैस्तथामरैः । । 1.60.२०
सोऽहमिच्छामि तं देवं सप्तलोकपरायणम् ।
दिवाकरमशेषस्य जगतो हृद्यवस्थितम् । । २१
आराधयितुमीशेशं भास्करं चामितौजसम् ।
मार्तण्डं भुवनाधारं स्मृतमात्राघदारिणम् । । २२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
सप्तमीकल्पे सूर्यपरिचर्यावर्णनं नाम षष्टितमोऽध्यायः । ६० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 61
सूर्य-महिमावर्णनम्
सुमन्तुरुवाच
तमेकमक्षरं धाम परं सदसतोर्महत् ।
भेदाभेदस्वरूपस्थं प्रणिपत्य रविं नृप । । १
प्रवक्ष्यामि यथापूर्वं विरिञ्चेन महात्मना ।
ऋषीणां कथितं पूर्वं तं निबोध नराधिप । । २
आराधनाय सवितुर्महात्मा पद्मसंभवः ।
योगं ब्रह्मपरं प्राह महर्षीणां यथा प्रभुः । । ३
समस्तवृत्तिसंरोधात्कैवल्यप्रतिपादकम् ।
तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः । ।४
सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् ।
योयं योगो भगवता प्रोक्तो वृत्तिनिरोधजः । । ५
प्राप्तुं शक्यः स त्वनेकैर्जन्मभिर्जगतः पते ।
विषया दुर्जया नॄणामिन्द्रियाकर्षिणः प्रभो । । ६
वृत्तयश्चेतसश्चापि चञ्चलस्यापि दुर्धरा ।
रागादयः कथं जेतुं शक्या वर्षशतैरपि । । ७
न योगयोग्यं भवति मन एभिरनिर्जितैः ।
अल्पायुषश्च पुरुषा ब्रह्मन्कृतयुगेप्यमी । । ८
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ।
भगवंस्त्वामुपासीनान्प्रसन्नो वक्तुमर्हसि । । ९
अनायासेन येनैव उत्तरेम भवार्णवम् ।
दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्मन्महाप्लवम् । । 1.61.१०
उत्तरेम भवाम्भोधिं तथा त्वमनुचिंतय ।
एवमुक्तस्तदा ब्रह्माक्रियायोगं महात्मनाम् । । ११
तेषामृषीणामाचष्ट नराणां हितकाम्यया ।
आराधयत विश्वेशं दिवाकरमतन्द्रिताः । । १२
बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् ।
इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम् । । १३
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणं ।
तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः । । १४
अपरिच्छेद्यमाहात्म्यमाराधयत भास्करम् ।
तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः । । १५
तद्दृष्टयस्तन्मनसः सर्वस्मिन्त्स१ इति स्थिताः ।
समस्तान्यथ कर्माणि तत्र सर्वात्मनात्मनि । । १६
संन्यसध्वं स वः कर्त्ता समस्तावरणक्षयम् ।
एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ । । १७
२यतो यस्मिन्यथा चोभौ सर्वय्यापिन्यवस्थितौ ।
परः पराणां परमः सैकः सुमनसां परः । । १८
यस्माद्भिन्नमिदं सर्वं ३यच्चेदं यच्च नेङ्गति ।
मोक्षकारणमव्यक्तमचिन्त्यमपरिग्रहम् । ।
समाराध्य जगन्नाथं क्रियायोगेन मुच्यते । । १९
इति ते ब्रह्मणः श्रुत्वा रहस्यमृषिसत्तमाः । । 1.61.२०
नराणामुपकाराय योगशास्त्राणि चक्रिरे ।
क्रियायोगपराणीह मुक्तिकारीण्यनेकशः । । २१
आराध्यते जगन्नाथस्तदनुष्ठानतत्परैः ।
परमात्मा स मार्तण्डः सर्वेशः सर्वभावनः । । २२
यान्युक्तानि पुरा तेन ब्रह्मणा कुरुनन्दन ।
तानि ते कुरुशार्दूल सर्वपापहराण्यहम् । । २३
वक्ष्यामि श्रूयतामद्य रहस्यमिदमुत्तमम् ।
संसारार्णवमग्नानां विषयाक्रांतचेतसाम् । । २४
हंसपोतं विना नान्यत्किंचिदस्ति परायणम् ।
उत्तिष्ठंश्चिंतय रविं व्रजंश्चिंतय गोपतिम् । । २५
भुञ्जंश्चिंतय मार्तंडं स्वपांश्चिंतय भास्करम् ।
एवमेकाग्रचित्तस्त्वं संश्रितः सततं रविम् । । २६
जन्ममृत्युमहाग्राहं संसाराम्भस्तरिष्यसि । । २७
ग्रहेशमीशं वरदं पुराणं जगद्विधातारमजं च नित्यम् ।
समाश्रिता ये रविमीशितारं तेषां भवो नास्ति विमुक्तिभाजाम् । । २८
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
सूर्ययोगमहिमवर्णनं नामैकषष्टितमोऽध्यायः । ६१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 62
सूर्यदिण्डीसंवादम्
सुमन्तुरुवाच
अथान्यं सरहस्यं तु संवादं वच्मि तेऽखिलम् ।
सूर्यस्य दिण्डिना सार्धं सर्वपापप्रणाशनम् । । १
ब्रह्महत्याभिभूतस्तु परा दिंडिर्महातपाः ।
आराधनाय देवस्य स्तोत्रं चक्रे महात्मनः । । २
श्रुत्वा तस्यार्थतः स्तोत्रं तुतोष भगवान्रविः ।
उवाच देवदेवस्तं दिण्डिनं गणनायकम् । । ३
आदित्य उवाच
हंत दिण्डे प्रसन्नोऽस्मि भक्त्या स्तोत्रेण तेऽनघ१ ।
वरं वृणीष्व धर्मज्ञ यत्ते मनसि वर्तते । । ४
दिण्डिरुवाच
एष एव वरः श्लाघ्यो यत्प्राप्तोऽसि ममान्तिकम् ।
त्वद्दर्शनमपुण्यानां स्वप्नेष्वपि च दुर्लभम् । । ५
यथैषा ब्रह्महत्या मे आगता लोकगर्हिता ।
भवाञ्जानाति सर्वेशो हदिस्थः सर्वदेहिनाम् । । ६
त्वत्प्रसादान्ममेशान३ नाशमाशु प्रयातु वै ।
तथा च दुरितं सर्वं यच्चान्यल्लोकगर्हितम् । । ७
यद्यदिच्छाम्यहं तत्तत्सर्वमस्तु दिवस्पते ।
एतेनैवानुमानेन प्रसन्नो भगवन्निति । । ८
ज्ञातं मया हि मार्तण्डे नाप्रसन्ने विभूतयः ।
एवं सर्वसुखाह्लादमध्यस्थोऽपि हि भानुमान् । । ९
त्वं मामगाधे संसारे मग्नमुद्धर्तुमर्हसि ।
सुखानि तानि चैवान्ते तेषां दुःखं न तत्सुखम् । । 1.62.१०
यदा तु दुःखमागामि किं४ वा कस्यैव भक्षणात् ।
तत्प्रसादं कुरु विभो जगतां त्वं जगत्पते । । ११
ज्ञानदानेन येनैवमुत्तरेयं भवार्णवम् ।
इत्युक्तस्तेन मार्तण्डः कथयामास योगवित् । । १२
योगं निर्बीजमत्यन्तं दुःखसंयोगभेषजम् ।
श्रुत्वा योगं तु तं दिण्डिर्निर्बीजं निष्कलं बभौ । । १३
प्रणिपत्य महातेजा इदं वचनमब्रवीत् ।
देवदेव त्वया योगो यः प्रोक्तो ध्वान्तनाशन । ।
नैष प्राप्यो मया नान्यैर्मानवैरजितेन्द्रियैः । । १४
विषया दुर्जयाः पुंभिरिन्द्रियाकर्षिणः सदा ।
इन्द्रियाणां जयो युक्तः कः शक्तानां करिष्यति । । १५
अहंममेतिविख्यातिर्दुर्जयं चञ्चलं मनः ।
रागादयस्तथा त्यक्तुं शक्या जन्मान्तरैर्यदि२ । । १६
सोऽहमिच्छामि देवेश त्वत्प्रसादादनिर्जितैः ।
रागादिभिरमर्त्यत्वं प्रापुः प्रक्षीणकल्मषाः । । १७
आदित्य उवाच
यद्येवं मुक्तिकामस्त्वं गणनाथ शृणुष्व तम् ।
क्रियायोगं समस्तानां क्लेशानां हानिकारकम्३ ।। १८.
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः । । १९
मद्भावना मद्यजना मद्भक्ता मत्परायणाः ।
मम पूजाकराश्चैव मयि यान्ति लयं नराः । । 1.62.२०
सर्वभूतेषु मां पश्यन्ममवस्थितमीश्वरम्४ ।
कर्त्तासि केन चैव त्वमेवं दोषान्प्रहास्यसि५ । । २१
जङ्गमाजङ्गमे ज्ञाते मय्यासक्ते समन्ततः ।
रागलोभादिनाशेन भवित्री कृतकृत्यता । । २२
भक्त्यातिप्रणयस्यापि चञ्चलत्वान्मनो यदि ।
मय्यावेशं दधद् भूयः कुरु मद्रूपिणीं तनुम् । । २३
सुवर्णरजताद्यैस्त्वं शैलमृद्दारुलेखनम् ।
पूजोपहारैर्विविधैः सम्पूजय त्रिलोचनम् । । २४
तस्याश्रितं समाविश्य सर्वभावेन सर्वदा ।
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी । । २५
गच्छंस्तिष्ठन्स्वपन्भुञ्जस्तामेवाग्रे च पृष्ठतः ।
उपर्यधस्तथा पार्श्वे चिन्तयंस्तन्मयश्च वै । । २६
स्नानैस्तीर्थोदकैर्हद्यैः १पुष्पैर्गन्धानुलेपनैः ।
वासोभिर्भूषणैर्भक्ष्यैर्गीतवाद्यैर्मनोरमैः । । २७
यच्च यच्च तवेष्टं वै किञ्चिद्भोज्यादिकं तव ।
भक्तिनम्रो गणश्रेष्ठ प्रीणयस्व कृतिं२ मम । । २८
रागेणाकृष्यते तात गन्धर्वाभिमुखं यदि ।
मयि बुद्धिं समावेश्य गायेथा याः कथा मम । । २९
कथया रमते चेतो यदि तद्भवतो मम ।
श्रोतव्याः प्रीतियोगेन मत्स्वरूपोदयाः कथाः । । 1.62.३०
एवं समर्पितमनाश्चेतसो येऽथ आश्रयाः ।
हेयास्तान्निखिलान्दिण्डे परित्यज्य सुखी भव । । ३१
अक्षीणरागद्वेषोऽपि मत्प्रियः परमः परम् ।
पदमाप्नोषि मा भैषीर्मय्यर्पितमना भव । । ३२
मयि संन्यस्य सर्वं त्वमात्मानं यत्नवान्भव ।
मदर्थं कुरु कर्माणि मा च धर्मव्यतिक्रमम् । । ३३
एवं व्यपोह्य हत्यास्त्वं ब्रह्मण मोक्ष्यसे भवात् ।
एतेनैवोपदेशेन व्याख्यातमखिलं तव । । ३४
क्रियायोगं समास्थाय मदर्पितमना भव । । ३५
दिण्डिरुवाच
मद्धिताय जगन्नाथ क्रियायोगामृतं मम ।
विस्तरेण समाख्याहि प्रसन्नस्त्वं हि दुःखहा । । ३६
त्वामृते न हि तद्वक्तुं समर्थोऽन्यो१ जगद्गुरो ।
गुह्यमेतत्पवित्रं च तदाचक्ष्व प्रसीद मे । । ३७
आदित्य उवाच
आख्यास्यते तदखिलं निर्विकल्पं गणाधिप ।
इत्युक्त्वान्तर्दधे देवः सर्वलोकप्रदीपकः । । ३८
स च दिण्डिर्महातेजा जगामाशु नभोगतिम् । । ३९
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
दिण्ड्यादित्यसंवादवर्णनं नाम द्विषष्टितमोऽध्याय । ६२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 63
आदित्यमहिमावर्णनम्
सुमन्तुरुवाच
प्रणम्य शिरसा देवं सुरज्येष्ठं चतुर्मुखम् ।
उवाच स महातेजा दिण्डिर्लोकेशमादरात् । । १
देवदेवेन भवतादिष्टोऽस्मि च महात्मना ।
क्रियायोगामृतं२ सर्वमाख्यास्यति भवान्किल । । २
स त्वां पृच्छाम्यहं ब्रह्मन्क्रियायोगं निरन्तरम् ।
सन्तोषयितुमीशेहं यथावद्वक्तुमर्हसि । । ३
ब्रह्मोवाच
एह्येहि मत्सकाशं च मत्समीपे गणाधिप ।
ब्रह्महत्या प्रणष्टा ते दर्शनादेव तस्य तु । । ४
अनुग्राह्योऽसि भूतेश भास्करस्यामितौजसः ।
आराधनाय भूतेश यदीशे प्रवणं मनः । । ५
यदि देवपतिं भानुमाराधयितुमिच्छसि ।
भगवन्तमनाद्यन्तं भव दीक्षागुणान्वितः । । ६
न ह्यदीक्षान्वितैर्भानुर्ज्ञातु स्तोतुं च तत्त्वतः ।
द्रष्टुं वा शक्यते मूढैः प्रवेष्टुं कुत एव हि । । ७
जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः ।
भवन्ति भगवन्सौरास्तदा दीक्षागुणान्विताः । । ८
अनेकजन्मसंसारचिते पापसमुच्चये ।
नाक्षीणे जायते पुंसां मार्तण्डाभिमुखी मतिः । । ९
प्रद्वेषं याति मार्तण्डे द्विजान्वेदांश्च निन्दति ।
यो नरस्तं विजानीयात्पापबीजसमुद्भवम् १ । । 1.63.१०
पाखण्डेषु रतिः पुंसां हेतुवादानुकूलता ।
जायते विष्णुमायाम्भः पतितानां दुरात्मनाम् । । ११
यदा पापक्षयः पुंसां तदा वेदद्विजादिषु ।
रवौ च देवदेवेशे श्रद्धां भवति निश्चला । । १२
यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः ।
तदा दीक्षागुणान्सर्वे भजन्ते नात्र संशयः । । १३
भ्रमतामत्र संसारे नराणां पापदुर्गमे ।
हस्तावलम्बदोप्येको भक्तिप्रीतो दिवाकरः । । १४
सर्वभागवतो भूत्वा सर्वपापहरं रविम् ।
आराधयेह तं भक्त्या प्रीतिमेष्यति भास्करः । । १५
दिण्डिरुवाच
किं लक्षणा नरा दीक्षामर्हन्ति पद्मसम्भव ।
यच्च दीक्षान्वितैः कार्यं तन्मे कथय पद्मज । । १६
ब्रह्मोवाच
कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः ।
भावभक्तश्च मार्तण्डे तस्य दीक्षा गुणान्विता । । १७
ब्राह्मणांश्चैव देवांश्च नित्यमेव नमस्यति ।
न च द्रोग्धा१ परं वादे स मार्तण्डं समर्चति । । १८
सर्वान्देवान् रविं वेत्ति सर्वलोकांश्च भास्करम् ।
तेभ्यश्च नान्यमात्मानं स नरः सौरतां व्रजेत् । । १९
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकान् ।
तरुपाषाणकाष्ठानि भूम्यंभो गगनं दिशः । । 1.63.२०
आत्मानं चापि देवेशाद्व्यतिरिक्तं दिवाकरात् ।
यो न जानाति यतिषु स वै दीक्षागुणान्भजेत् । । २१
भावं न कुरुते यस्तु सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा स तु दीक्षां समर्हति । । २२
सुतप्तेनेह तपसा यथैर्वा बहुदक्षिणैः ।
तां गतिं न नरा यान्ति यां गताः सूर्यमाश्रिताः । २३
येन सर्वात्मना भानौ भक्त्या भावो निवेशितः ।
गणेश्वर कृतार्थत्वाच्छ्लाघ्यः सौरः स मानवः । । २४
अपि न: स कुले धन्यो जायते कुलपावनः ।
भगवान्भक्तिभावेन येन भानुरुपासितः । । २५
यः कारयति - देवार्चां हृदयालम्बनं रवेः ।
स नरो भानुसालोक्यमाप्नोति धुतकल्मषः । । २६
यस्तु देवालयं भानोर्भक्त्या कारयति ध्रुवम् ।
स सप्त पुरुषाँल्लोकं भानोर्नयति मानवः । । २७
यावन्त्याब्दानि देवार्चा रवेस्तिष्ठति मन्दिरे ।
तावद्वर्षसहस्राणि सूर्यलोके महीयते । । २८
देवार्चा लक्षणोपेता तद्गृहे सन्ततो विधिः ।
निष्कामं च मनो यस्य स यात्यक्षरसाम्यताम् । । २९
पुष्पाणि च सुगन्धीनि मनोज्ञानि च यः पुमान् ।
प्रयच्छति सहस्रांशोः सदा प्रयतमानसः । । 1.63.३०
धूपांश्च तांस्तान्विविधान्गन्धाढ्यं चानुलेपनम् ।
नरः सोऽनुदिनं यज्ञं करोत्याराधनं रवेः । । ३१
यज्ञेशो भगवान्पूषा सदा क्रतुभिरिज्यते ।
बहूपकरणा यज्ञा नानासम्भारविस्तराः । । ३२
न ते दिण्डिन्नवाप्यन्ते मनुष्यैरल्पसञ्चयैः ।
भक्त्या तु पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि । ।
भानोर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ३३
यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम् ।
दयितं भूषणं यच्च प्रीतये चैव वाससी । । ३४
यानि चाभ्यवहार्याणि भक्षााणि च फलानि वै ।
प्रयच्छ तानि मार्तण्डे भवेथाश्चैव तन्मनाः । । ३५
आद्यं तं भुवनाधारं यथाशक्त्या प्रसादय ।
आराध्य याति तं देवं तस्मिन्नेव नरो लयम् । । ३६
पुष्पैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा ।
क्षीरेण स्नापयेद्भानुं ग्रहेशं गोपतिं खगम् । । ३७
दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः ।
प्रयास्यति गणश्रेष्ठ निर्वृत्तिं च विलक्षणाम् । । ३८
स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः ।
मनसश्चैव योगेन आराधय दिवाकरम् । । ३९
आराध्य तं जगन्नाथं मया सर्गः प्रवर्तितः ।
विष्णुश्च पालयेल्लोकांस्तमाराध्य दिवाकरम् । । 1.63.४०
रुद्रश्च प्राप्तवान्देवीं भवानीं तत्प्रसादतः ।
दीप्यन्ते ऋषयश्चापि तमाराध्य दिवाकरम् । । ४१
स त्वमेभिः प्रकारैस्तमुपवासैश्च भास्करम् ।
तोषयाब्दं हि तुष्टोऽसौ भानुर्द्वंद्वप्रशान्तिदः । । ४२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मदिण्डिसंवादे आदित्यक्रियायोगवर्णनं नाम त्रिषष्टितमोऽध्यायः । ६३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 64
फलसप्तमीवर्णनम्
दिण्डिरुवाच
उपवासैः सुरश्रेष्ठ कथं तुष्यति भास्करः ।
परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिभिः । । १
यद्यत्कार्यं यथा चैव भास्कराराधने नरै ।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि । । २
ब्रह्मोवाच
स्मृतः सम्पूजितो धूपपुष्पान्नैर्भानुरादरात् ।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् । । ३
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः । । ४
एकरात्रं द्विरात्रं वा त्रिरात्रं नक्तमेव च ।
उपवासी रविं यस्तु भक्त्या ध्यायति मानवः । । ५
तन्नामजापी तत्कर्मरतस्तद्गतमानसः ।
निष्कामः पुरुषो दिण्डे स ब्रह्म परमाप्नुयात् । । ६
यं च काममभिध्याय मास्करार्पितमानसः ।
उपोषति तमाप्नोति प्रसन्ने खगमेऽखिलम् । । ७
दिण्डिरुवाच
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिश्च कञ्जज ।
संसारगर्ते पङ्कस्थे सुगतिः प्राप्यते कथम् । । ८
ब्रह्मोवाच
अनाराध्य जगन्नाथं गोपतिं ध्वान्तनाशनम् ।
निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् । । ९
विषयग्राहि वै यस्य न चित्तं भास्करार्पितम् ।
स कथं पापपङ्काक्तो नरो यास्यति सद्गतिम् । । 1.64.१०
यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि ।
तदाराधय सर्वेशं भास्करं ज्योतिषां पतिम् । । ११
पुष्पैः सुगन्धैर्हद्यैश्च धूपैः सागरुचन्दनैः ।
वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः । । १२
यदि संसारनिर्वेदादभिवाच्छसि सद्गतिम् ।
तदाराधय मार्तण्डं भक्तिप्रवणचेतसा । । १३
पुष्पाणि यदि ते न स्नुः शस्तपादपपल्लवैः ।
दूर्वाङ्करैरपि दिण्डे तदभावेऽर्चयार्यमम् । । १४
पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमात्मनः ।
पूजितस्तुष्टिमतुलां भक्त्या यात्येकचेतसा । । १५
यः सदायतने भानोः कुरुते मार्जनक्रियाम् ।
स यात्युत्तमके स्थाने सर्वपापं व्यपोहति । । १६
यावत्यः पांसुकणिका मार्ज्यन्ते भास्करालये ।
दिनानि दिवि तावन्ति तिष्ठत्यर्कसमो नरः । । १७
अहन्यहनि यत्पापं कुरुते गणनायक ।
गोचर्ममात्रं सम्मार्ज्य हन्ति तद्भास्करालये । । १८
यश्चानुलेपनं कुर्याद्भानोरायतने नरः ।
सोऽपि लोकं समासाद्य हंसेन सह मोदते । । १९
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।
उपलेपनकृद्याति मत्पुरं यानमास्थितः । । 1.64.२०
उदकाभ्युक्षणं भानोर्यः करोति सदा गृहे ।
सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः । । २१
पुष्पप्रकरमत्यर्थं सुगन्धं भास्करालये ।
अनुलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् । । २२
विमानमतिशोभाढ्यं सर्वर्तुसुखभूषितम् ।
समाप्नोति नरो दत्त्वा दीपकं भास्करालये । । २३
यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः ।
ध्वजं च भास्करे दद्यात्सममत्र फलं लभेत् । । २४
विधूतो हन्ति वातेन दातुरज्ञानतः कृतम् ।
पापं कर्तुर्गृहे भानोर्दिवा रात्रौ नराधिप । । २५
गीतवाद्यादिभिर्भानुं य उपास्ते तमोपहम् ।
गन्धर्वैर्नृत्यगीतैः स विमानस्थो निषेव्यते । । २६
जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम् ।
प्राप्नोति गणाशार्दूल कृत्वा पुस्तकवाचनम् । । २७
एवं खगेश्वरो भक्त्या येन भानुरुपासितः ।
स प्राप्नोति गतिं श्लाध्यां यां यामिच्छति चेतसा । । २८
देवत्वं मनुजैः कैश्चिद्गन्धर्वत्वं तथा परैः ।
विद्याधरत्वमपरैः संराध्येह दिवाकरम् । । २९
शक्रः १ क्रतुशतेनेशमाराध्य ज्योतिषां पतिम् ।
देवेन्द्रत्वं गतस्तस्मान्नान्यः२ पूज्यतमः क्वचित् । । 1.64.३०
ब्रह्मचारिगृहस्थानां वनस्थानां गणाधिप ।
नान्यः पूज्यस्तथा स्त्रीणामृते देवं दिवाकरम् । । ३१
मध्ये परिव्राजकानां सहस्रांशुं महात्मनाम् ।
मोक्षद्वारं विशन्तीह तं रविं विजितात्मनाम् । । ३२
एवं सर्वाश्रमाणां हि सहस्रांशुः परायणम् ।
सर्वेषां चैव वर्णानां ग्रहेशो वै गतिः परा । । ३३
शृणुष्व गदतः काम्यानुपवासांस्तथापरान् ।
शृणु दिण्डे महापुण्यफलकां सप्तमीं पराम् । । ३४
आदित्याराधनायैनां सर्वपापहरां शिवाम् ।
यामुपोष्य नरो भक्त्या मुच्यते सर्वपातकैः । । ३५
तथा लोकमवाप्नोति सूर्यस्यामिततेजसः ।
अथ भाद्रपदे मासि शुक्लपक्षे समागते । । ३६
सोपोष्या प्रथमं तात विधानं शृणु तत्र वै ।
अयाचितं चतुर्थ्यां तु पञ्चम्यामेकभोजनम् । । ३७
उपवासपरः षष्ठ्यां जितक्रोधो जितेन्द्रियः ।
अर्चयित्वा दिनकरं गन्धधूपनिवेदनैः । । ३८
पुरतः स्थण्डिले रात्रौ स्वप्याद्देवस्य पुत्रक ।
प्रध्यायन्मनसा देवं सर्वभूतार्तिनाशनम् । । ३९
सर्वदोषप्रशमनं सर्वपातकनाशनम् ।
विबुद्धस्त्वथ सप्तम्यां कुर्याद्ब्राह्मणभोजनम् । । 1.64.४०
पूजयित्वा दिनकरं पुष्पधूपविलेपनैः ।
नैवेद्यं तात देवस्य फलानि कथयन्ति४ हि । ।४ १
खर्जूरनालिकेराणि तथा आम्रफलानि तु ।
मातुलिङ्गफलान्येव कथितानि मनीषिभिः । । ४२
एतैश्च भोजयेद्विप्रानात्मना च प्रभक्षयेत् ।
तथैषां चाप्यभावेन शृणु चान्यानि सुव्रत । ।४ ३
शालिगोधूमपिष्टानि कारयेद्गणनायक ।
गुडगर्भकृतानीह घृतपाकेन पावयेत् । ।४४
चातुर्यावकमिश्राणि आदित्याय निवेदयेत् ।
अग्निकार्यमथो कृत्वा ब्राह्मणान्भोजयेत्ततः । ।४५
इत्थं द्वादश वै मासान्कार्यं व्रतमनुत्तमम् ।
मासि मासि फलाहारः फलदायी फलार्चनः । ।४६
वर्षान्ते त्वथ कुर्वीत शक्त्या ब्राह्मणभोजनम् ।
स्नानप्राशनयोश्चापि विधानं शृणु सुव्रत । । ४७
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
तिलसर्षपयोः कल्कं श्वेता मृच्चापि सुव्रत । ।४८
दूर्वाकल्कं घृतं चापि गोशृंगक्षालितं जलम् ।
जातिगुल्मविनिर्यासः प्रशस्तः स्नानकर्मणि । । ४९
प्राशने चाप्यथैतानि सर्वपापहराणि वै ।
आदौ कृत्वा भाद्रपदं यथा संख्यं विदुर्बुधाः । । 1.64.५०
इत्थं वर्षान्तमासाद्य भोजयित्वा द्विजोत्तमान् ।
दिव्यान्भोगान्महादेव ततस्तेभ्यो निवेदयेत् । । ५१
फलानि तात१ हैमानि यथा शक्त्या गणाधिप ।
सवत्सामथ वा धेनुं भूमिं सस्यान्वितामथ । । ५२
प्रासादमथ वा भौमं सर्वधान्यसमन्वितम् ।
दद्यात्छुक्लानि२ वस्त्राणि ताम्रपात्रं ३सविद्रुमम् । । ५३
शक्तियुक्तस्य चैतानि दरिद्रस्य तु मे शृणु ।
फलानि पिष्टकान्येषां तिलचूर्णान्वितानि तु । । ५४
भोजयित्वा द्विजान्दद्याद्राजतानि४ फलानि तु ।
धातुरक्तं वस्त्रयुगममाचार्याय निवेदयेत् । । ५५
सहिरण्यं महादेव पञ्चरत्नसमन्वितम् ।
इत्थं समाप्यते तात पारणं वार्षिकान्तिकम् । । ५६
इत्येषा वै पुण्यतमा सप्तमी दुरितापहा ।
यामुपोष्य नराः सर्वे यान्ति सूर्यसलोकताम् । । ५७
१पूज्यमानः सदा देवैर्गन्धर्वाप्सरसां गणैः ।
अनया मानवो नित्यं पूजयेद्भास्करं सदा । । ५८
दारिद्यदुःखदुरितैर्मुक्तो याति दिवाकरम् ।
ब्राह्मणो मोक्षमायाति क्षत्रियश्चेन्द्रतां व्रजेत् । । ५९
वैश्यो धनदसालोक्यं शूद्रो: विप्रत्वमाप्नुयात् ।
अपुत्रो लभते पुत्रं दुर्भगा सुभगा भवेत् । । 1.64.६०
यामुपोष्य च नारीमां सप्तमीं लोकपूजिताम् ।
विधवा वा सती भक्त्या अनया पूजयेद्रविम् । । ६१
नान्यजन्मनि वैधव्यं नारी प्राप्नोति मानद ।
चिन्तामणिसमा ह्येषा विज्ञेया फलसप्तमी । । ६२
पठतां शृण्वतां दिण्डे सर्वकामप्रदा स्मृता । । ६३
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि ब्रह्मदिण्डिसंवादे
सप्तमीकल्पे फलसप्तमीवर्णनं नाम चतुःषष्टितमोऽध्याय । ६४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 65
आदित्यमाहात्म्यवर्णनम्
ब्रह्मोवाच
अतः परं प्रवक्ष्यामि रहस्यां नाम सप्तमीम् ।
सप्तमी कृतमात्रेयं नरांस्तारयते भवात् । । १
सप्तापरान्सप्त पूर्वान्पितॄंश्चापि न संशयः ।
रोगांश्छिनत्ति दुश्छेद्यान्दुर्जयाञ्जयते ह्यरीन् । । २
अर्थान्प्राप्नोति दुष्प्रापान्यः कुर्यान्नाम सप्तमीम् ।
कन्यार्थी लभते कन्यां धनार्थी लभते धनम् । । ३
पुत्रार्थी लभते पुत्रान्धर्मार्थी धर्ममाप्नुयात् ।
समयान्पालयन्सर्वान्कुर्याच्चेमां विचक्षणः । ।४
समयाञ्छृणु भूतेश श्रेयसे गदतो मम ।
आदित्यभक्तः पुरुषः सप्तम्यां गणनायक । । ५
मैत्रीं सर्वत्र वै कुर्याद्भास्करं वापि चिंतयेत् ।
सप्तम्यां न स्पृशेत्तैलं नीलं वस्त्रं न धारयेत् । ।
न चाप्यामालकैः स्नानं न कुर्यात्कलहं क्वचित् । । ६
दिण्डिरुवाच
किमर्थं न स्पशेत्तैलं सप्तम्यां पद्मसंभव । । ७
कश्च दोषो भवेद्देव नीलवस्त्रस्य धारणात् ।
ब्रह्मोवाच
शृणु दिण्डे महाबाहो नीलवस्त्रस्य धारणे । । ८
दूषणं गणशार्दूल गदतो मम कृत्स्नशः ।
पालनं विक्रयश्चैव सद्वृत्तिरुपजीवनम् । । ९
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छैर्विशुद्ध्यति ।
नीलीरक्तेन वस्त्रेण यत्कर्म कुरुते द्विजः । । 1.65.१०
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ।
वृथा तस्य महायज्ञा नीलसूत्रस्य धारणात् । । ११
नीलीरक्तं यदा वस्त्रं विप्रस्त्वङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति । । १२
रोमकूपे यदा गच्छेद्रक्तं नीलस्य१ कस्यचित् ।
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुद्ध्यति । । १३
नीलीमध्यं यदा गच्छेत्प्रमादाद्ब्राह्मणः क्वचित् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति । । १४
नीलीदारु यदा भिंद्याद्ब्राह्मणानां शरीरके ।
शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् । । १५
कुर्यादज्ञानतो यस्तु नीलेर्वा दन्तधावनम् ।
कृत्वा कृच्छ्रद्वयं दिण्डे विशुद्धः स्यान्न संशयः । । १६
वापयेद्यत्र नीलीं तु भवेत्तत्राशुचिर्मही ।
प्रमाणद्वादशाब्दानि तत ऊर्ध्वं शुचिर्भवेत्३ । । १७
सप्तम्यां स्पृशतस्तैलमिष्टा भार्या विनश्यति ।
इत्येष नीलीतैलस्य दोषस्ते कथितो मया । । १८
न चैव खादेन्मांसानि मद्यानि न पिबेद्बुधः ।
न द्रोहं कस्यचित्कुर्यान्न पारुष्यं समाचरेत् । । १९
नावभाषेत चाण्डालं स्त्रियं नैव रजस्वलाम् ।
न वापि संस्पृशेद्धीनं मृतकं नावलोकयेत् । । 1.65.२०
नास्फोटयेन्नातिहसेद्गायेच्चापि न गीतकम् ।
न नृत्येदतिरागेण न च वाद्यानि वादयेत् । । २१
न शयीत स्त्रिया सार्धं न सेवेत दुरोदरम् ।
न रुद्यादश्रुपातेन न च वाच्यं च शौकिकम् । । २२
आकृषेन्न शिरोयूका न वृथावादमाचरेत् ।
परस्यानिष्टकथनमतिशोकं च वर्जयेत् । । २३
न कञ्चित्ताडयेज्जन्तुं न कुर्यादतिभोजनम् ।
न चैव हि दिवा स्वप्नं दम्भं शाठ्यं च वर्जयेत् । । २४
रथ्यायामटनं वापि यत्नतः परिवर्जयेत् ।
अथापरो विधिश्चात्र श्रूयतां त्रिपुरान्तक । । २५
चैत्रात्प्रभृति कर्तव्या सर्वदा नाम सप्तमी ।
धातेति चैत्रमासे तु पूजनीयो दिवाकरः । । २६
अर्यमेति च वैशाखे ज्येष्ठे मित्रः प्रकीर्तितः ।
आषाढे वरुणो ज्ञेय इन्द्रो नभसि कथ्यते । । २७
विवस्वांश्च नभस्येऽथ पर्जन्योश्वयुजि स्मृतः ।
पूषा कार्त्तिकमासे तु मार्गशीर्षेषुरुच्यते । । २८
भगः पौषे भवेत्पूज्यस्त्वष्टा माघे तु शस्यते ।
विष्णुश्च फाल्गुने मासि पूज्यो वन्द्यश्च भास्करः । । २९
सप्तम्यां चैव सप्तम्यां भोजयेद्भोजकान्बुधः१ ।
सघृतं भोजनं देयं भोजयित्वा विधानतः । । 1.65.३०
भोजकायैव विप्राय दक्षिणां स्वर्णमाषकम् ।
सघृतं भोजनं देयं रक्तवस्त्राणि चैव हि । । ३१
अभावे भोजकानां तु दक्षिणीया द्विजोत्तमाः ।
तथैव भोजनीयाश्च श्रद्धया परया विभो । । ३२
विशेषतो वाचकश्च बाह्मणः कल्पवित्सदा ।
इत्येषा कथिता तुभ्यं सप्तमी गणनायक । । ३३
श्रुता सती पापहरा सूर्यलोकप्रदायिनी । । ३४
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि ब्रह्मदिण्डिसंवादे सप्तमीकल्पे आदित्यमहात्म्यवर्णने सप्तमीवर्णनं नाम पञ्चषष्टितमोऽध्यायः । ६५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 66
याज्ञवल्क्यवर्णनम्
सुमन्तुरुवाच
इत्युक्त्वा भगवान्ब्रह्मा जगामादर्शनं विभोः ३ ।
सूर्यमाराधयद्दिण्डी४ सूर्यस्यानुचरोऽभवत् । । १
शतानीक उवाच
भूयः कथय विप्रेन्द्र माहात्म्यं भास्करस्य मे ।
शृण्वतो नास्ति मे तृप्तिरमृतस्येव सुव्रत । । २
सुमन्तुरुवाच
शृणुष्वावहितो राजन्सम्वादं द्विजशङ्खयोः ।
यं श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो१ नृप । । ३
आसीनमाश्रमे शंखं द्विजो द्रष्टुं जगाम ह ।
फलभारानतच्छाये वृक्षवृन्दसमाकुले । । ४
परस्परमृगशृङ्गकण्डूयितमृगावृते ।
बर्हिर्वनाम्बरानीततीर्थकन्दोपभोगिनि । । ५
प्रभूतकुसुमामोदषट्पदोद्गीतशालिनी ।
सिद्धदेवर्षिगन्धर्वतीर्थसेवितवारिणि । । ६
मुण्डैश्च जटिलैश्चैव तापसैरुपशोभिते ।
आश्रमे तं मुनिश्रेष्ठं शंखाह्वं सुखमास्थितम् । । ७
स्तोत्रैः स्तोतुं सहस्रांशुं तद्भक्तं तत्परायणम् ।
ततः संहत्य सहसा तं भोजककुमारकाः । । ८
विनीता उपसंगम्य यथावदभिवाद्य च ।
आसनेषूपविष्टास्त उपविष्टमथाब्रुवन् । । ९
भगवन्त्सर्ववेदेषु२ च्छिंधि नः संशयो महान् ।
विनयेनोपपन्नानां कुमाराणां ततो मुनिः । । 1.66.१०
अनादींश्चतुरो वेदानुवाच प्रीतमानसः ।
तेषां तु पठतामेव आश्रमं तु यदृच्छया । । ११
मुनिश्रेष्ठोऽथ तं देशमाजगाम द्विजो नृप ।
यथावदर्चितस्तेन शङ्खेनामिततेजसा । । १२
वन्दितश्च कुमारैस्तैरभवत्प्रीतमानसः ।
अथैतानब्रवीच्छंखस्तान्भोजककुमारकान् । । १३
शिष्टागमादनध्यायः स च जातो विरम्यताम् ।
यथाज्ञापयसीत्याहुः कुमारास्ते ऋषिं ततः । । १४
प्रपच्छ सिद्धिदश्चैतान्के ह्येते किं पठन्ति च ।
शङ्खोवाच महाराज कुमारा भोजकात्मजाः । । १५
ससूत्रकल्पांश्चतुरो विप्र वेदानधीयते ।
तथैव सप्तमीकल्पे परिचर्यां च भास्वतः । । १६
अग्निकार्यविधानं च प्रतिष्ठाकल्पमादितः ।
अध्यङ्गलक्षणं १ ब्रह्मन् रथयात्राविधिं तथा । । १७
द्विज उवाच
कथं क्रियेत सप्तम्यां कभ्रार्चनविधिक्रमः ।
गन्धपुष्पप्रदीपानां किं फलं रविमन्दिरे । । १८
केन तुष्यति दानेन व्रतेन नियमेन च ।
धूपपुष्पोपहारादि किं च देयं विवस्वते । । १९
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ।
विशेषतस्तु माहात्म्यं ब्रूहि मां भास्करस्य हि । । 1.66.२०
शङ्ख उवाच
इममर्थं वशिष्ठेन पृष्टः साम्बो यथा पुरा ।
स चोवाच वशिष्ठाय तदहं कथयामि ते । । २१
अत्राश्रमे पुण्यतमे तीर्थानामुत्तमे प्रभुः ।
ववन्दे नियतात्मानं वशिष्ठं मुनिसत्तमम् । । २२
विनयेनोपसंगम्य ववन्दे चरणौ मुनेः ।
कृतप्रणामं साम्बं तु भक्तिप्रह्वीकृताननम् । । २३
विलोक्य परमप्रीतो मुनिः पप्रच्छ तं तदा ।
सर्वतः स्फुटितं गात्रं कुष्ठेन महता तव । । २४
घोररूपेण तीव्रेण कथं तद्विगतं तव१ ।
कथं च लक्ष्मीरधिका रूपं चातिमनोहरम् । । २५
तेजस्वितातिमहती तथैव२ सुकुमारता । । २६
साम्ब उवाच
स्तुतो नामसहस्रेण लोकनाथो दिवाकरः ।
दर्शनं च गतः साक्षाद्दत्तवांश्च वरान्मम । । २७
वशिष्ठ उवाच
कथमाराधितः सूर्यस्त्वया यादवनंदन ।
कैश्च व्रततपोदानैर्दर्शनं भगवान्गतः । । २८
साम्ब उवाच
शृणुष्वावहितो ब्रह्मन्सर्वमेव मया यथा ।
तोषितो भगवान्सूर्यो विधिना येन सुव्रत । । २९
मोहान्मयोपहसितो३ दुर्वासाः कोपनो मुनिः ।
ततोऽहं तस्य शापेन महाकुष्ठमवाप्तवान् । । 1.66.३०
ततोऽहं पितरं गत्वा कुष्ठयोगाभिपीडितः ।
लज्जमानोऽतिगर्वेण इदं वाक्यमथाब्रवम् । । ३१
तात सीदति मे गात्रं स्वरश्च परिहीयते ।
घोररूपो महाव्याधिर्वपुरेष जिघांसति । । ३२
अशेषव्याधिराज्ञाहं पीडितः क्रूरकर्मणा ।
वैद्यैरोषधिभिश्चैव न शान्तिर्मम विद्यते । । ३३
सोऽहं त्वया ह्यनुज्ञातस्त्यक्तुमिच्छामि जीवितम् ।
यदि वाहमनुग्राह्यस्ततोऽनुज्ञातुमर्हसि । । ३४
इत्युक्तवाक्यः स पिता षुत्रशोकाभिपीडितः ।
पिता क्षणं ततो ध्यात्वा मामेवं वाक्यमुक्तवान् । । ३५
धैर्यमाश्रयतां१ पुत्र मा शोके च मनः कृथाः ।
हन्ति शोकार्दितं व्याधिः शुष्कं तृणमिवानलः । । ३६
देवताराधनपरो भव पुत्रक मा शुचः ।
इत्युक्ते च मया प्रोक्तो देवमाराधयामि कम् । । ३७
कमाराध्य विमुच्येऽहं तात रोगैः समन्ततः ।
इत्येवमुक्तो भगवान्मामुवाच पिता मम । । ३८
इममर्थं पुरा पृष्टः पद्मयोनिः सनातनः ।
याज्ञवल्क्येन ऋषिणा योगीशेन महात्मना२ । । ३९
यदुवाच महातेजास्तस्मै स यदुनन्दन ।
तच्छृणुष्व शुचिर्भूत्वा आत्मनः श्रेयसे सुत । । 1.66.४०
सुरज्येष्ठं सुखासीनं पद्मयोनिं प्रजापतिम् ।
याज्ञवल्क्यो महातेजाः पर्यपृच्छत्पितामहम् । । ४१
भगवञ्छ्रोतुमिच्छामि किंचिदात्ममनोगतम् ।
समाराध्य विभो देवं नरो मुच्येत वै भवात् । । ४२
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ।
य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत सः । । ४३
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैः श्रेयसं सुखम् ।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते पुनः । । ४४
देवातानां तु को देवः पितॄणां चैव कः पिता ।
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह । । ४५
केन सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् ।
प्रलयो च कमभ्येति तन्मे त्वं वक्तुमर्हसि । । ४६
ब्रह्मोवाच
साधु पृष्टोऽस्मि भवता तुष्टश्चास्मि महामते ।
प्रणम्य शिरसा देवं पुण्योत्तरमनुत्तमम् । । ४७
कथयिष्ये द्विजश्रेष्ठ शृणुष्वैकमनाधुना ।
आत्मनः श्रेयसे विप्र शुचिर्भूत्वा समाहितः । ।४८
उद्यन्य एष कुरुते जगद्वितिमिरं करैः ।
नातः परतरो देवः किमन्यत्कथयामि ते । ।४ ९
अनादि निधनो ह्येषः पुरुषः शाश्वतोऽव्ययः ।
दीपयत्येव लोकांस्त्रीन्रवी रश्मिभिरुल्बणैः । । 1.66.५०
सर्वदेवात्मको ह्येष तपसा चांशुतापनः ।
सर्वस्य जगतो नाथः कर्मसाक्षी शुभाशुभे । । ५१
क्षपयत्येष भूतानि तथा विसृजते पुनः ।
एष भाति तपत्येष वर्धते च गभस्तिभिः । । ५२
एष धाता विधाता च पूषा१ प्रकृतिभावन ।
न ह्येष क्षयमायाति नित्यमक्षयमण्डलः । । ५३
पितॄणां हि पिता देवतानां च देवता ।
ध्रुवं स्थानं स्मृतं ह्येष आधारो जगतस्तथा । । ५४
सर्वकाले जगत्कृत्स्नमादित्यात्संप्रसूयते ।
प्रलये च तमभ्येति आदित्यं दीप्ततेजसम् । । ५५
योगिनश्चात्र संलीनास्त्यक्त्वा गृहकलेवरम् ।
वायुभूता विशन्त्यस्मिंस्तेजोराशौ दिवाकरे । । ५६
तस्य रश्मिसहस्राणि शाखा इव विहंगमाः ।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह । । ५७
जनकादयो गृहस्थास्तु राजानो योगधर्मिणः ।
वालखिल्यादयश्चैव मुनयो ब्रह्मचारिणः । । ५८
व्यासादयो वनस्थाश्च भिक्षुः पञ्चशिखस्तथा ।
सर्वे३ ते योगमास्थाय प्रविष्टाः सूर्यमण्डलम् । । ५९
शुको व्यासात्मजः श्रीमान्योगधर्ममवाप्य तु ।
आदित्यकिरणान्पीत्वा न पुनर्भवमान्तवान् । । 1.66.६०
शब्दमात्राः श्रुतिसुखा ब्रह्मविष्णुशिवादयः ।
प्रत्यक्षोऽयं स्मृतो देवः सूर्यस्तिमिरनाशनः । । ६१
तस्मादन्यव्रते भक्तिर्न कार्या शुभमिच्छता ।
हृष्टेन साध्यते यस्माददृष्टं नित्यमेव हि । ।
त्वयातः सततं विप्र अर्चनीयो दिवाकरः । । ६२
याज्ञवल्क्य उवाच
अहो य एष कथितो भवता भास्करो मम ।
देवता सर्वदेवानां नैतन्मिथ्या प्रजायते । । ६३
तस्य देवस्य माहात्म्यं श्रुतं सुबहुशो मया ।
देवर्षिसिद्धमनुजैः स्तुतस्येह महात्मनः । । ६४
कः स्तौति दैवतमजं यस्यैतत्सचराचरम् ।
अक्षयस्याप्रमेयस्य किरणोद्गमनाद्भवेत् । । ६५
दक्षिणात्किरणाद्यस्य सम्भूतो भगवान्हरिः ।
वामाद्भवांस्तथा जातः किरणात्किल कञ्जज । । ६६
लालाटाद्यस्य रुद्रस्तु का तुल्या तेन देवता ।
तस्य देवस्य कः शक्तः प्रवक्तुं गुणविस्तरम् । । ६७
सोऽहमिच्छामि देवस्य तस्य सर्वात्मनः प्रभो ।
श्रोतुमाराधनं येन निस्तरेयं भवार्णकम् । । ६८
केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया ।
दानैर्व्रतोपवासैर्वा होमैर्जप्यैरथापि वा । । ६९
आराधितः समस्तानां क्लेशानां हानिदो रविः ।
शक्यः समाराधयितुं कथं शंस प्रजापते । । 1.66.७०
धर्मार्थकामसम्प्राप्तौ पुरुषाणां विचेष्टताम् १ ।
जन्मन्यवितथा सैका क्रिया यार्कं समाश्रिता । । ७१
दुर्गसंसारकांतारमपारमभिधावताम् ।
एकः सूर्यनमस्कारो मुक्तिमार्गस्य देशकः२ । । ७२
सोऽहमिच्छामि तं देवं सप्तलोकपरायणम् ।
कालायनमशेषस्य१ जगतो हद्यवस्थितम् । । ७३
आराधयितुं गोपालं ग्रहेशममितौजसम् ।
शङ्करं जगतो दीपं स्मृतमात्राघनाशनम् । । ७४
तमनाद्यं सुरश्रेष्ठं प्रसादयितुमिच्छतः ।
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि । । ७५
तस्यैतद्वचनं श्रुत्या भक्तिमुद्वहतो रवौ ।
जगाम परितोषं स पद्मयोनिर्महातपाः । ।७ ६
ब्रह्मोवाच
यत्पृच्छसि द्विजश्रेष्ठ सूर्यस्याराधनं प्रति ।
व्रतोपवासजप्यादि तदिहैकमनाः शृणु । । ७७
अनादि यत्परं ब्रह्म सर्वहेयविवर्जितम् ।
व्याप्य यत्सर्वभूतेषु स्थितं सदसतः परम् । । ७८
प्रधानपुंसोरनयोर्यतः क्षोभः प्रवर्तते ।
नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः । ।७९
तत्क्षोभकत्वाद् ब्रह्मांडं सृष्टेर्हेतुर्निरञ्जनः ।
अहेतुरपि सर्वात्मा जायते परमेश्वरः । । 1.66.८०
प्रधानपुरुषत्वं च तथैवेश्वरलीलया ।
समुपैति ततश्चैवं ब्रह्मत्वं छन्दतः प्रभुः । । ८१
ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये ।
रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुते रविः । । ८२
तमेकमक्षरं धाम सर्वदेवनमस्कृतम् ।
भेदाभेदस्वरूपं तं प्रणिपत्य दिवाकरम् । ।
३वर्णयिष्येऽखिलं विप्र तस्यैवाराधनं रवेः । । ८३
गुह्यं चापि तथा तस्य भास्करस्य शृणुष्व वै ।
तुष्टेन हि पुरा मह्यं कथितं भास्करेण तु । । ८४
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि याज्ञवल्क्यब्रह्मसंवादे सप्तमीकल्पे आदित्यमाहात्म्यवर्णनं नाम षट्षष्टितमोऽध्यायः । ६६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 67
ब्रह्मयाज्ञवल्क्यसम्वादवर्णनम्
ब्रह्मोवाच
प्रभाते संस्तुतो देवो मूर्तिहेतोर्मया पुरा ।
यजन्तं चापरं देवं भक्तिनम्रं महामतिः । । १
प्रत्यक्षत्वमथो गत्वा रहस्यं प्रोक्तवान्मम ।
अहं च कृतवान्प्रश्नं दृष्ट्वा प्रत्यक्षतो रविम् । । २
वेदेषु१ च पुराणेषु साङ्गोपाङ्गेषु गीयसे ।
त्वमजः शाश्वतो धाता महाभूतमनुत्तमम्२ । । ३
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ।
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः । । ४
यजन्ते त्वामहरहर्नानामूर्तिसमाश्रिताः ।
पिता माता हि सर्वस्य दैवतं त्वं हिं शाश्वतम् । । ५
यजसे चैव कं देवमेव चापि न विद्महे ।
कथ्यतां मम देवेश परं कौतूहलं हि मे । । ६
इत्थं मयोक्तो भगवानिदं वचनमब्रवीत् ।
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् । । ७
तव भक्तिमतो ब्रह्मन्वक्ष्यामीह यथातथम् ।
यतः सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् । । ८
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ।
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते । । ९
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कथ्यते ।
हिरण्यगर्भो भगवान्सैव४ बुद्धिरिति स्मृतः । । 1.67.१०
महानिति च योगेषु प्रधानश्चेति कथ्यते ।
सांख्ये५ च पठ्यते शास्त्रे नामभिर्बहुभिः सदा । । ११
विश्वगो विश्वभूतश्च विश्वात्मा विश्वसम्भवः१ ।
धृतं चैवात्मकं येन इदं त्रैलोक्यमात्मना । । १२
अशरीरः शरीरेषु लिप्यते न च कर्मभिः ।
ममान्तरात्मा तव च ये चान्ये देहसंज्ञकाः । । १३
सर्वेषां साक्षिभूतोऽसौ२ न करोति न लिप्यते ।
सगुणो निर्गुणो विष्णुर्ज्ञानगम्यो ह्यसौ स्मृतः । । १४
सर्वतः पाणिपादोऽसौ सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतियुक्तोऽसौ सर्वमावृत्य तिष्ठति । । १५
विश्वमूर्धा४ विश्वभुजो विश्वपादाक्षिनासिकः ।
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् । । १६
क्षेत्राण्यस्य शरीराणि बीजं चापि शुभाशुभम् ।
तानि वेत्ति स योगात्मा अतः क्षेत्रज्ञ उच्यते । ।
अव्यक्तके पुरे शेते तेनाऽसौ पुरुषः स्मृतः । । १७
विश्वं बहुविधं ज्ञेयं स च सर्वत्र विद्यते ।
तस्मात्स बहुरूपत्वाद्विश्वरूप इति स्मृतः । । १८
महापुरुषशब्दं हि बिभर्त्येष सनातनः ।
स तु वै विक्रियापन्नः सृजत्यात्मानमात्मना । । १९
आकाशात्पतितं तोयं याति स्वाद्वन्तरं यथा ।
भूमे रसविशेषेण तथा गुणवशात्तु सः । । 1.67.२०
एक एव यथा वायुर्देहे तिष्ठति पञ्चधा ।
एकत्वं च पृथक्त्वं च तथा तस्य न संशयः । । २१
स्थानान्तरविशेषेण यथाग्निर्लभते पराम् ।
संज्ञां दावाग्रिकाद्येषु तथा देवो ह्यसौ स्मृतः । । २२
यथा दीपसहस्राणि दीप एकः प्रसूयते ।
तथा रूपसहस्राणि स एवैकः प्रसूयते । । २३
स यदा बुध्यतेत्मानं तदा भवति केवलः ।
एकत्वं प्रलये चास्य बहुत्वं स्यात्प्रवर्तने । । २४
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते१ तमेकमीशानं पुरुषं बीजसंज्ञितम् । । २५
अक्षयश्चाप्रमेयध्र सवर्गभ्र स उच्यते ।
तस्मादव्यक्तमुत्पन्नं त्रिगुणं सर्वकारणम् । । २६
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते ।
तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः । । २७
नास्ति तस्मात्परो ह्यन्यः स पिता स प्रजापतिः ।
आत्मा मम स विज्ञेयस्ततस्तं पूजयाम्यहम् । । २८
स्वर्गताश्चापि ये केचित्तं नमस्यन्ति देहिनः ।
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टाः परां गतिम् । । २९
तं देवाश्चासुराश्चैव नानामतसमाश्रिताः३ ।
भक्त्या सम्पूजयन्त्याद्यं गतिं चैषां ददाति सः । । 1.67.३०
स हि सर्वगतश्चैव निर्गुणश्चापि कथ्यते ।
एवं ज्ञात्वा तमात्मानं पूजयामि सनातनम् । ।
भास्करं देवदेवेशं सर्वभूतेशमच्युतम् । । ३१
ब्रह्मोवाच
इत्युक्तवान्पुरा पृष्टो मया देवो दिवाकरः ।
पूजय त्वं महात्मानं तपन्तं विपुलं तपः । । ३२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि ब्रह्मयाज्ञवल्क्यसंवादे सप्तमीकल्पे सूर्यमहिमवर्णनं नाम सप्तषष्टितमोऽध्यायः । ६७
पर्व १ (ब्राह्मपर्व) — Adhyāya 68
सिद्धार्थसप्तमीव्रतवर्णनम्
ब्रह्मोवाच
वच्मि ते परमं देवं सर्वदेवैश्च पूजितम् ।
आराधयन्ति यं देवं ब्रह्मविष्णुमहेश्वराः । । १
पद्माकृतिं सदा ब्रह्मा नलिनैर्गुग्गुलेन तु ।
व्योमरूपं सदा देवं महादेवोर्चते रविम् । । २
जातिपुष्पैर्द्विजश्रेष्ठ धूपेन विजयेन तु ।
वृषणं सिह्लकं विप्र श्रीखण्डमगरुस्तथा । । ३
कर्पूरं च तथा मुस्ता शर्करा सत्वचा द्विज ।
इत्येष विजयो धूपः स्वयं देवेन निर्मितः । । ४
केशवश्चक्ररूपं तु सदा सम्पूजयेद्रविम् ।
नीलोत्पलदलश्यामो नीलोत्पलकदम्बकैः । । ५
धूपेनागुरुसंज्ञेन भक्तिश्रद्धासमन्वितः ।
मया स पृष्टो देवेशस्तस्यैवाराधनाय वै । । ६
कानि पुष्पाणि चेष्टानि सदा भास्करपूजने ।
तेन चोक्तानि पुष्पाणि स्वयं तानि निबोध मे । । ७
मल्लिकायास्तु कुसुमैर्भोगवाञ्जायते नरः ।
सौभाग्यं पुण्डरीकैश्च भजत्येव च शाश्वतम् । । ८
१गन्धकुटजकैः पुष्पैः परमैश्वर्यमश्नुते ।
भवत्यक्षयमत्यन्तं नित्यमर्चयतो रविम् । । ९
मन्दारपुष्पैः पूजा तु सर्वकुष्ठविनाशिनी२ ।
बिल्वपत्रैश्च कुसुमैर्महतीं श्रियमश्नुते । । 1.68.१०
अर्कस्रजा भवत्यर्थं सर्वकामफलप्रदः ।
प्रदद्यादूपिणीं कन्यामर्चितो बकुलस्रजा । । ११
किंशुकैरर्चितो देवो न पीडयति भास्करः ।
पूजितोऽगस्त्यकुसुमैरानुकूल्यं प्रयच्छति । । १२
करवीरैस्तु विप्रेन्द्र सूर्यस्यानुचरो भवेत् ।
तथा १मुद्गरपुष्पैश्च समभ्यर्च्य दिवाकरम् । । १३
हंसयुक्तेन यानेन रवेः सालोक्यतां व्रजेत् ।
शतपुष्पसहस्रैस्तु पूषसालोक्यतां व्रजेत् । ।
बकपुष्पैर्द्विजश्रेष्ठ याति भानुसलोकताम् । । १४
चतुःसमेन गन्धेन समभ्यर्च्य दिवाकरम् ।
पञ्चभूतालयस्थानमाप्नुयान्नात्र संशयः । । १५
देवागारं तु सम्मार्ज्य भक्त्या यस्तु प्रलेपयेत् ।
स रोगान्मुच्यते क्षिप्रं द्रव्यलाभं च विन्दति । । १६
तस्य चायतनं भक्त्या गैरिकेणोपलेपयेत् ।
प्राप्नुयान्महतीं लक्ष्मीं रोगैश्चापि प्रमुच्यते । । १७
अष्टादशेह कुष्ठानि ये चान्ये व्याधयो नृणाम् ।
प्रलयं यान्ति ते सर्वे मृदा यद्युपलेपयेत् । । १८
विलेपनानां सर्वेषां रक्तचन्दनमुत्तमम् ।
पुष्पाणां करवीराणि प्रशस्तानि प्रचक्षते । । १९
नातः परतरं किंचिद्भास्वतस्तुष्टिकारकम् ।
किं तस्य न भवेल्लोके यस्त्वेभिः स्वर्चयेद्रविम् । । 1.68.२०
करवीरैः पूजयेद्यो भास्करं श्रद्धयान्वितः ।
सर्वकामसमृद्धोऽसौ सूर्यकाममवाप्नुयात् । । २१
विलेप्यायतनं३ यस्तु कुर्यान्मण्डलकं शुभम् ।
स सूर्यलोकमासाद्य मोदते शाश्वतीः समाः । । २२
एकेनास्य भवेदर्थो द्वाभ्यामारोग्यमश्नुते ।
त्रिभिः सन्तत्यविच्छिन्ना चतुर्भिर्भार्गवीं४ लभेत् । । २३
पञ्चभिर्विपुलं धान्यं षड्भिरायुर्बलं यशः ।
सप्तमण्डलकारी स्यान्मंडलाधिपतिर्नर । । २४
आयुर्धनसुतैर्युक्तः सूर्यलोके महीयते ।
घृतप्रदीपदानेन चक्षुष्माञ्जायते नरः । । २५
कटुतैलप्रदानेन स शत्रूञ्जयते नरः ।
तिलतैलप्रदानेन सूर्यलोके महीयते । । २६
मधूकतैलदानेन सौभाग्यं परमं व्रजेत् ।
संपूज्य विधिवद्देवं पुष्पधूपादिभिर्बुधः । । २७
यथाशक्त्या ततः पश्चान्नैवेद्यं भक्तितो न्यसेत् ।
पुष्पाणां प्रवरा जाती धूपानां विजयः परः । । २८
गन्धानां कुङ्कुमं श्रेष्ठं लेपानां रक्तचन्दनम् ।
दीपदाने घृतं श्रेष्ठं नैवेद्ये मोदकः परः । । २९
एतैस्तुष्यति देवेशः सान्निध्यं चाधिगच्छति ।
एवं संपूज्य विधिवत्कृत्वा चापि प्रदक्षिणम् । । 1.68.३०
प्रणम्य शिरसा देवं देवदेवं दिवाकरम् ।
सुखासीनस्ततः पश्येद्रवेरभिमुखे स्थितः । । ३१
एकं सिद्धार्थकं कृत्वा हस्ते पानीयसंयुतम् ।
कामं यथेष्टं हृदये कृत्वा तं वाञ्छितं नरः । । ३२
पिबेत्सतोयं तं विप्र अस्पृष्टं दशनैः सकृत् ।
द्वितीयायां तु सप्तम्यां द्वौ गृहीत्वा तु सुव्रत । । ३३
तृतीयायां तु सप्तम्यां ग्रहीतव्यास्त्रयोऽपि च ।
ज्ञेयाश्चतुर्थ्यां चत्वारः पञ्चम्यां पञ्च एव हि । । ३४
षट् पिबेच्चापि षष्ठ्यां तु इतीयं वैदिकी श्रुतिः ।
सप्तम्यां सप्तमायां तु सप्त चैव पिबेन्नरः । । ३५
आदौ प्रभृति विज्ञेयो मन्त्रोऽयमभिमन्त्रणे ।
सिद्धार्थकस्त्वं हि लोके सर्वत्र श्रूयसे यथा । ।
तथा मामपि सिद्धार्थमर्थतः कुरुतां रविः । । ३६
ततो हविरुपस्पृश्य जपं कुर्याद्यथेप्सितम् ।
हुताशनं च जुहुयाद्विधिदृष्टेन कर्मणा । । ३७
एवमेव पराः कार्या सप्तम्यः सप्त सर्वदा ।
एकात्प्रभृति कार्या सा सर्वदोदकसप्तमी । । ३८
एकं तोयेन सहितं द्वौ चापि घृतसंयुतौ ।
त्रींस्तथा मधुना सार्धं दध्ना चतुर एव च । । ३९
युक्तान्नपयसा पञ्च षट् च गोमयसंयुतान् ।
पञ्चगव्येन वै सप्त पिबेत्सिद्धार्थकान्द्विज । । 1.68.४०
अनेन विधिना यस्तु कुर्यात्सर्षपसप्तमीम् ।
बहुपुत्रो बहुधनः सिद्धार्थश्चापि सर्वदा । । ४१
इह लोके नरो विप्र प्रेत्ययाति विभावसुम् ।
तस्मात्सम्पूजयेद्देवं विधिनानेन भास्करम् । । ४२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
सिद्धार्थसप्तमीव्रतवर्णनं नामाष्टषष्टितमोऽध्यायः । ६८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 69
स्वप्नदर्शनवर्णनम्
ब्रह्मोवाच
सप्तम्यामुषितो विप्रः स्वप्नदर्शनमुच्यते ।
स्वप्ने दृष्टे च सप्तम्यां पुरुषो नियतव्रतः । । १
समाप्य विधिवत्सर्वं जपहोमादिकं क्रमात् ।
पूजयित्वा दिनेशं तु यथाविभवमात्मनः । । २
ततः शयीत शयने देवदेवं विचिन्तयन् ।
सम्प्रसुप्तो यदा पश्येदुदयन्तं दिवाकरम् । । ३
शक्रध्वजं तथा चन्द्रं तस्य सर्वाः समृद्धयः ।
दृश्यं जनं तथा शक्तिं१ स्रग्विगोवेणुनिस्वनाः । । ४
श्वेताब्जचामरादर्शकनकासिसुतोद्भवम् ।
रुधिरस्य स्रुतिं सेकं पानं चैश्वर्यकारकम् । । ५
श्वेतायाः पञ्चपूताया दर्शनं वृद्धिकारकम् ।
प्रजापतेर्घृताक्तस्य दर्शनं पुत्रदं स्मृतम् । । ६
शस्तवृक्षाभिरोहश्च क्षिप्रमैश्वर्यकारकः ।
दोहनं महिषीसिंहीगोधेनूनां स्वके मुखे । । ७
धनुषां च शराणां च नाभौ च द्रुतनिर्गतिः ।
अभिहन्यात्स्वयं खादेत्सिंहान्गा भुजगांस्तथा । । ८
स्वांगशीर्षं२ हुतवहे तस्य श्रीरग्रतः स्थिता ।
राजते हैमने पात्रे यो भुंक्ते पायसं द्विजः । । ९
पद्मपत्रे यथा विप्रस्तस्य जन्तोर्बलं भवेत् ।
द्यूते वादेऽथ वा युद्धे विजयो हि सुखावहः । । 1.69.१०
अग्नेस्तु ग्रसनं विप्र आग्रेयं वृद्धिकारकम् ।
गात्रस्य ज्वलनं विप्र शिरोवेधश्च भूतये । । ११
माल्याम्बराणां४ युक्तानां शस्तानां शुक्लपक्षिणाम् ।
सदा लाभं प्रशंसन्ति तथा विष्ठानुलेपनम् । । १२
स्वाङ्गस्य कर्तने क्षेपे रथयाने प्रजागमः ।
नानाशिरोबाहुता च हस्तानां कुरुते श्रियम् । । १३
अगम्यागमनं चैव शोकमध्ययनं तथा ।
देवद्विजजनाचार्यगुरुवृद्धतपस्विनः । । १४
यद्यद्वदन्ति तत्सर्वं सत्यमेव हि निर्दिशेत् ।
प्रशस्तदर्शनं चैव अभिषेको नृपश्रियाः । । १५
स्याद्राज्यं शिरश्छेदेन बहुधा स्फुटितेन तु ।
रुदितं हर्षसम्प्राप्त्यै राज्यं निगडबन्धने । । १६
तुरङ्गं वृषभं पद्मं राजानां श्वेतकुञ्जरम् ।
महदैश्वर्यमाप्नोति योभीकश्चाधिरोहति । । १७
ग्रसमानो ग्रहांस्तारा महीं च परिवर्तयन् ।
उन्मूलयन्पर्वतांश्च राज्यलाभमवाप्नुयात् । । १८
देहान्निष्क्रान्तिरन्त्राणां तैर्वा वृक्षस्य वेष्टनम् ।
पातः समुद्रसरितामैश्वर्याणि सुखानि च । । १९
उदधिं सरितं वापि तीर्त्वा पारं प्रयाति च ।
अद्रिं लङ्घयतेश्चापि भवन्त्यर्थजयायुषः । । 1.69.२०
उज्ज्वला स्त्री विशेदङ्कमाशीर्वादपराः स्त्रियः ।
भवत्यर्थागमः शीघ्रं कृमिभिर्यदि भक्ष्यते । । २१
स्वप्ने स्वप्न इति ज्ञातं दृष्टप्रकथनं तथा ।
मङ्गलानां च सर्वेषां शुभं दर्शनमेव च । । २ २
संयोगश्चैव मङ्गल्यैरारोग्यधनकारकः ।
ऐश्वर्यराज्यलाभाय यस्मिन्स्वप्न उदाहृतः । । २३
तैर्दृष्टै रोगिणो रोगान्मुच्यन्ते नात्र संशयः ।
न स्वप्नं शोभनं दृष्ट्वा स्वप्यात्प्रातश्च कीर्तयेत् । ।
राजभोजकविप्रेभ्यः शुचिभ्यश्च शुचिर्नरः । । २४
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
स्वप्नदर्शनवर्णनं नामैकोनसप्ततिमोऽध्यायः । ६९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 70
सर्षपसप्तमीवर्णनम्
ब्रह्मोवाच
ततो मध्याह्नसमये स्नातः प्रयतमानसः ।
तथैव देवान्विधिवत्पूजयित्वा यथासुखम्१ । । १
सम्यक्कृतजपो मौनी नरो हुतहुताशनः ।
निष्क्रम्य देवायतनाद्भोजकान्भोजयेत्ततः १ । । २
तथा पुराणविदुष इतिहासविदो द्विजान् ।
तथा वेदविदश्चैव दिव्यान्भौमांश्च सुव्रत । । ३
रक्तानि वस्त्राणि तथा च गावः सुगन्धमाल्यादि हविष्यमन्नम् ।
पयस्विनी चाप्यथ भोजकाय देया तथान्यत्प्रियमात्मनो यत् । । ४
भवेदलाभो यदि भोजकानां विप्रास्तदार्हन्ति जयोपजीविनः ।
ये मन्त्रविद्ब्राह्मणपाठकाश्च ये येऽपि सामाध्ययनेषु युक्ताः । । ५
प्रथमं भोजका भोज्याः पुराणविदुषैः२ सह ।
तेषामृते मन्त्रविदस्तथा वेदविदो द्विजाः । । ६
कृत्वैवं सप्तमी सप्त नरो भक्त्या समन्वितः ।
श्रद्दधानोऽनसूयश्च अनन्तं प्राप्नुयात्सुखम् ३ । । ७
दशानामश्वमेधानां कृतानां यत्फलं लभेत् ।
तत्फलं सप्तमी२ सप्त कृत्वा प्राप्नोति मानवः । । ८
दुष्प्रापं नास्ति तल्लोके अनया यन्न लभ्यते ।
न च रोगोस्त्यसौ लोके अनया यो न शाम्यति । । ९
कुष्ठानि चापि सर्वाणि दुरुच्छेद्यान्यपि ध्रुवम् ।
अपयान्ति यथा नागा गरुडस्य भयार्दिताः । । 1.70.१०
व्रतनियमतपोभिः सप्तमीः सप्तएवं विधिवदिह हि कृत्वा मानवो धर्मशीलः ।
श्रुतधनसुतभाग्यारोग्यपुण्यैरुपेतो व्रजति तदनुलोकं शाश्वतं तिग्मरश्मेः । । ११
इमं विधिं द्विजश्रेष्ठ श्रुत्वा कृत्वा च मानवः ।
सहस्ररश्मिं स विशेषान्नात्र कार्या विचारणा । । १२
सुरैर्वा मुनिभिर्वापि पुराणज्ञैरिदं श्रुतम् ।
सर्वे ते परमात्मानं पूजयन्ति दिवाकरम् । । १३
इदमाख्यानमार्षेयं यन्मयाभिहितं तव ।
सूर्यभक्ताय दातव्यं नेतराय १ कदाचन । । १४
यश्चैतच्छ्रावयेन्नित्यं यश्चैतच्छृणुयान्नरः ।
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः । । १५
मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् ।
जिज्ञासुर्लभते कामान्भक्तः सूर्यगतिं लभेत् । । १६
क्षेमेण गच्छतेऽध्वानं यस्त्विदं पठतेध्वनि ।
यो यं प्रार्थयते कामं स तं प्राप्नोति च ध्रुवम् । । १७
एकान्तभावोपगत एकान्ते सुसमाहितः ।
प्राप्यैतत्परमं गुह्यं भूत्वा सूर्यव्रतो नरः । । १८
प्राप्नोति परमं स्थानं भास्करस्य महात्मनः ।
लग्नगर्भा प्रमुच्येत गर्भिणी जनयेत्सुतम् । । १९
वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमन्वितम् ।
एवमेतन्ममाख्यातं भास्करेणामितौजसा । ।
मयापि तव माख्यातं भक्त्या भानोरिदं द्विज । । 1.70.२०
पूजनीयस्त्वया भानुः सर्वपापोपशान्तये ।
स हि धाता४ विधाता च सर्वस्य जगतो गुरुः । । २१
उद्यन्यः कुरुते नित्यं जगद्वितिमिरं करैः ।
द्वादशात्मा स देवेशः प्रीयतां तेऽदितेः सुतः । । २२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
आदित्यमाहात्म्ये सर्षपसप्तमीवर्णनं नाम सप्ततितमोऽध्यायः । ७० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 71
ब्रह्मप्रोक्तसूर्यनामवर्णनम्
ब्रह्मोवाच
नामभिः संस्तुतो देवो यैरर्कः परितुष्यति ।
तानि ते कीर्तयाम्येष यथावदनुपूर्वशः । । १
नमः सूर्याय नित्याय रवये कार्यभानवे ।
भास्कराय मतङ्गाय मार्तण्डाय विवस्वते । । २
आदित्यायादिदेवाय नमस्ते रश्मिमालिने ।
दिवाकराय दीप्ताय अग्नये मिहिराय च । । ३
प्रभाकराय मित्राय नमस्तेऽदितिसम्भव ।
नमो गोपतये नित्यं१ दिशां च पतये नमः । ।४
नमो धात्रे विधात्रे च अर्यम्णे वरुणाय च ।
पूष्णे भगाय मित्राय पर्जन्यायांशवे नमः । । ५
नमो हितकृते नित्यं धर्माय तपनाय च ।
हरये२ हरिताश्वाय विश्वस्य पतये नमः । । ६
विष्णवे ब्रह्मणे नित्यं त्र्यम्बकाय तथात्मने ।
नमस्ते सप्तलोकेश नमस्ते सप्तसप्तये । । ७
एकस्मै हि नमस्तुभ्यमेकचक्ररथाय च ।
ज्योतिषां पतये नित्यं सर्वप्राणभृते नमः । । ८
हिताय सर्वभूतानां शिवायार्तिहराय च ।
नमः पद्मप्रबोधाय नमो वेदादिमूर्तये । । ९
काधिजाय४ नमस्तुभ्यं नमस्तारासुताय च ।
भीमजाय नमस्तुभ्यं पावकाय च वै नमः । । 1.71.१०
धिषणाय५ नमोनित्यं नमः कृष्णाय नित्यदा ।
नमोऽस्त्वदितिपुत्राय नमो लक्ष्याय नित्यशः । । ११
एतान्यादित्यनामानि मया प्रोक्तानि वै पुरा ।
आराधनाय देवस्य सर्वकामेन सुव्रत । । १२
सायं प्रातः शुचिर्भूत्वा यः पठेत्सुसमाहितः ।
स प्राप्नोत्यखिलान्कामान्यथाहं प्राप्तवान्पुरा । । १३
प्रसादात्तस्य देवस्य भास्करस्य महात्मनः ।
श्रीकामः श्रियमाप्नोति धर्मार्थी धर्ममाप्नुयात् । । १४
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
राज्यार्थी राज्यमाप्नोति कामार्थी काममाप्नुयात् । । १५
एतज्जप्यं रहस्यं च संध्योपासनमेव च ।
एतेन जपमात्रेण नरः पापात्प्रमुच्यते । । १६
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
ब्रह्मप्रोक्तसूर्यनामवर्णनं नामैकसप्ततितमोऽध्यायः । ७१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 72
दुर्वासाशापविसर्जनवर्णनम्
सुमन्तुरुवाच
इत्थं ब्रह्मवचो योगी श्रुत्वा राजन्दिवाकरम् ।
व्योमरूपं समाराध्य गतः सूर्यसलोकताम् । । १
तथा त्वमपि राजेन्द्र पूजयित्वा विभावसुम् ।
गमिष्यसि परं स्थानं देवानामपि दुर्लभम् । । २
शतानीक उवाच
आद्यं स्थानं रवेः कुत्र जम्बूद्वीपे महामुने ।
यत्र पूजां विधानोक्तां प्रतिगृह्णात्यसौ रविः । । ३
सुमन्तुरुवाच
स्थानानि त्रीणि देवस्य द्वीपेऽस्मिन्भास्करस्य१ तु ।
पूर्वमिन्द्रवनं नाम तथा मुण्डीरमुच्यते । । ४
कालप्रियं३ तृतीयं तु त्रिषु लोकेषु विश्रुतम् ।
तथान्यदपि ते वच्मि यत्पुरा ब्रह्मणोदितम् । । ५
चन्द्रभागातटे नाम्ना पुरं यत्साम्बसंज्ञितम्४ ।
द्वीपेस्मिञ्छाश्वतं स्थानं यत्र सूर्यस्य नित्यता । । ६
प्रीत्या साम्बस्य तत्रर्को जनस्यानुग्रहाय च ।
तत्र द्वादशभागेन मित्रो मैत्रेण चक्षुषा । । ७
अवलोकञ्जगत्सर्वं श्रेयोऽर्थं तिष्ठते सदा ।
प्रयुक्तां विधिवत्पूजां गृह्णाति भगवान्स्वयम् । । ८
शतानीक उवाच
कोऽयं साम्बः सुतः कस्य कस्य प्रीतो दिवाकर ।
यस्य चायं सहस्रांशुर्वरदः पुण्यकर्मणः७ । । ९
सुमन्तुरुवाच
य एते द्वादशादित्या विराजन्ते महाबलाः ।
तेषां यो विष्णुसंज्ञस्तु सर्वलोकेषु विश्रुतः । । 1.72.१०
इहासौ वासुदेवत्वमवाप भगवान्विभुः ।
तस्मात्साम्बः सुतो जज्ञे जाम्बवत्यां महाबलः । । ११
स तु पित्रा भृशं शप्तः कुष्ठरोगमवाप्तवान् ।
तेनायं स्थापितः सूर्यः स्वानाम्ना च पुरं कृतम् । । १२
शतानीक उवाच
शस्तः कस्मिन्निमित्तेऽसौ पित्रा चैवात्मसम्भवः८ ।
नाल्पं हि कारणं विप्र येनासौ शप्तवान्सुतम् । । १३
सुमन्तुरुवाच
शृणुष्वावहितो राजंस्तस्य यच्छापकारणम् ।
दुर्वासा नाम भगवान्रुद्रस्यांशसमुद्भवः । । १४
अटमानः स भगवांस्त्रील्लोकान्प्रचचार ह ।
अथ प्राप्तो द्वारवतीं मधुसंज्ञोचितां पुरा । । १५
तमागतमृषिं दृष्ट्वा साम्बो रूपेण गर्वितः ।
पिङ्गाक्षं१ क्षुधितं रूक्षं विरूपं सुकृशं तथा । । १६
अनुकारास्पदं चक्रे दर्शने गमने तथा ।
दृष्ट्वा तस्य मुखं साम्बो वक्र चक्रे तथात्मनः । । १७
मुखं कुरुकुलश्रेष्ठ गर्वितो यौवनेन तु ।
अथ क्रुद्धो महातेजा दुर्वासा ऋषिसत्तमः । । १८
साम्बं चोवाच भगवान्विधुन्वन्मुखमात्मनः ।
यस्माद्विरूपं मां दृष्ट्वा स्वात्मरूपेण गर्वितः । । १९
गमने दर्शने मह्यमनुकारं समाचरः ।
तस्मात्तु कुष्ठरोगित्वमचिरात्त्वं गमिष्यसि । । 1.72.२०
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
साम्बाय दुर्वाससा शापविसर्जनं नाम द्विसत्ततितमोऽध्यायः । ७२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 73
साम्बकृतसूर्याराधनवर्णनम्
सुमन्तुरुवाच
एतस्मिन्नेव काले तु नारदो भगवानृषिः ।
ब्रह्मणो मानसः पुत्रस्त्रिषु लोकेषु विश्रुतः । । १
सर्वलोकचरः सोऽथ अटमानः समन्ततः ।
वासुदेवं स वै द्रष्टुं नित्यं द्वारवतीं पुरीम् । । २
आयाति ऋषिभिः सार्धं क्रोधनो मुनिसत्तमः ।
अथागच्छति तस्मिंस्तु सर्वे यदुकुमारकाः । । ३
प्रद्युम्नप्रभृतयो ये प्रह्वाश्चावनताः स्थिताः ।
अभिवाद्यार्घ्यपाद्याभ्यां पूजां चक्रुः समन्ततः । । ४
साम्बस्त्ववश्यभावित्वात्तस्य शापस्य कारणम् ।
अवज्ञां कुरूते नित्यं नारदस्य महात्मनः । । ५
रतः क्रीडासु वै नित्यं रूपयौवनगर्वितः ।
अविनीतं तु तं दृष्ट्वा चिन्तयामास नारदः । । ६
अस्याहमविनीतस्य करिष्ये विनयं शुभम् ।
एवं सञ्चिन्तयित्या तु वासुदेवमथाब्रवीत् .। । ७
इमाः षोडशसाहस्र्यः स्त्रियो यादवसत्तम ।
सर्वासां हि सदा साम्बे भावो देव समाश्रितः । । ८
रूपेणाप्रतिमः साम्बो लोकेस्मिन्सचराचरे ।
सदा हीच्छन्ति १तास्तस्य दर्शनं चापि हि स्त्रियः । । ९
श्रुत्वैवं नारदाद्वाक्यं चिन्तयामास केशवः ।
यदेतन्नारदेनोक्तमन्यदत्र तु किं भवेत् । । 1.73.१०
वचनं श्रूयते लोके चापल्यं स्त्रीषु विद्यते ।
श्लोकौ चेमौ पुरा गीतौ चित्तज्ञैर्योषितां द्विजैः । । ११
पौंश्चल्याच्चलचित्तत्वान्नैःस्नेह्याच्च स्वभावतः ।
रक्षिताः सर्वतो ह्येता विकुर्वन्ति हि भर्तृषु । । १२
नैता रूपं परीक्षन्ते नासां वयसि निश्चयः ।
सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते । । १३
मनसा चिन्तयन्नेव कृष्णो नारदमब्रवीत् ।
न ह्यहं श्रद्दधाम्येतद्यदेतद्भाषितं त्वया । । १४
ब्रुवाणमेवं देवं तु नारदो वाक्यमब्रवीत्१ ।
तथाहं तत्करिष्यामि यथा श्रद्धास्यते भवान् । । १५
एवमुक्त्वा ययौ स्वर्गं नारदस्तु यथागतः ।
ततः कतिपयाहोभिर्द्वारकां पुनरभ्यगात् । । १६
तस्मिन्नहनि देवोऽपि सहान्तःपुरिकैर्जनैः ।
अनुभूय जलक्रीडां पानमासेवते रहः । । १७
३रम्यरैवतकोद्याने नानाद्रुमविभूषिते ।
सर्वर्तुकुसुमैर्नित्यं वासिते सर्वकानने । । १८
नानाजलजफुल्लाभिर्दीर्घिकाभिरलङ्कृते ।
हंससारससंघुष्टे चक्रवाकोपशोभिते । । १९
तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा ।
हारनूपुरकेयूररशनाद्यैर्विभूषणैः । । 1.73.२०
भूषितानां वरस्त्रीणां चार्वङ्गीनां विशेषतः ।
ताभिः सम्पीयते पानं शुभगन्धान्वितं शुभम् । । २१
एतस्मिन्नन्तरे बुद्ध्वा मद्यपानात्ततः स्त्रियः ।
उवाच नारदः साम्बं साम्बोत्तिष्ठ कुमारक । । २२
त्वां समाह्वायते देवो न युक्तं स्थातुमत्र ते ।
तद्वाक्यार्थमबुद्धैव नारदेनाथ चोदितः । । २३
गत्वा तु सत्वरं साम्बः प्रणाममकरोत्प्रभोः४ ।
साष्टाङ्गं च हरेः साम्बो विधिवद्वल्लभस्य च । । २४
एतस्मिन्नन्तरे तत्र यास्तु वै स्वल्पसात्त्विकाः ।
तं दृष्ट्वा सुन्दरं साम्बं सर्वाश्चुक्षुभिरे स्त्रियः । । २५
न स दृष्टः पुरा याभिरन्तःपुरनिवासिभिः ।
मद्यदोषात्ततस्तासां स्मृतिलोपात्तथा नृप । । २६
स्वभावतोल्पसत्त्वानां जघनानि विसुस्रुवुः ।
श्रूयते चाप्ययं श्लोकः पुराणप्रथितः क्षितौ । । २७
ब्रह्मचर्येऽपि वर्तन्त्याः साध्व्या ह्यपि च श्रूयते ।
हृद्यं हि पुरुषं दृष्ट्वा योनिः संक्लिद्यते स्त्रियाः । । २८
लोकेऽपि दृश्यते ह्येतन्मद्यस्यात्यर्थसेवनात् ।
लज्जां मुञ्चन्ति निःशङ्का ह्रीमत्यो ह्यपि हि स्त्रियः । । २९
समांसैर्भोजनैः स्निग्धैः यानैः सीधुसुरासवैः ।
गन्धैर्मनोज्ञैर्वस्त्रैश्च२ कामः स्त्रीषु विजृम्भते । । 1.73.३०
३सीधुप्रयुक्तं शुक्रेण सततं साधु हीच्छता ।
मद्यं .न पेयमत्यर्थ पुरुषेण विपश्चिता । । ३१
नारदोप्यथ तं साम्बं प्रेषयित्वा त्वरान्वितः ।
आजगामाथ तत्रैव साम्बस्यानुपदेन तु । । ३२
आयान्तं ताश्च तं दृष्ट्वा प्रियं सौमनसमृषिम् ।
सहसैवोत्थिताः सर्वाः स्त्रियस्तं मदविह्वलाः । । ३३
तासामथोत्थितानां तु वासुदेवस्य पश्यतः ।
भित्त्वा वासांसि शुभ्राणि पत्रेषु पतितानि तु । । ३४
ता दृष्ट्वा तु हरिः क्रुद्धः सर्वास्ता शप्तवान्स्त्रियः ।
यस्माद्गतानि चेतांसि मां मुक्त्वान्यत्र च स्त्रियः । । ३५
४तस्मात्पतिकृताँल्लोकानायुषोंन्ते न यास्यथ ।
पतिलोकपरिभ्रष्टाः स्वर्गमार्गात्तथैव च । । ३६
भूत्वा चाशरणा यूयं दस्युहस्तं गमिष्यथ । । ३७
सुमन्तुरुवाच
शापदोषात्ततस्तस्मात्ताः स्त्रियः स्वर्गते हरौ ।
हृताः पाञ्जनदैश्चौरैरर्जुनस्य तु पश्यतः । ।
अल्पसत्त्वास्तु यास्त्वासन्गतास्ता दूषणं स्त्रियः । । ३८
रुक्मिणी सत्यभामा च तथा जाम्बवती प्रिया ।
नैता गता दस्युहस्तं स्वेन सत्त्वेन रक्षिताः । । ३९
शप्त्वैव ताः स्त्रियः कृष्णः साम्बमप्यशपत्ततः ।
यस्मादतीव ते कान्तं रूपं दृष्ट्वा इमाः स्त्रियः । । 1.73.४०
क्षुब्धाः सर्वा यतस्तस्मात्कुष्ठरोगमवाप्नुहि ।
तस्य तद्वचनं श्रुत्वा साम्बः कृष्णस्य भारत । । ४१
उवाच प्रहसन्राजन्संस्मरन्नृषिभाषितम् ।
अनिमित्तमहं तात भावदोषविवर्जितः । ।
शप्तो न मेऽत्र वै क्रुद्धो दुर्वासा अन्यथा वदेत् । । ४२
सुमन्तुरुवाच
अस्मिच्छप्तेऽनिमित्तेऽसौ पित्रा जाम्बवतीसुतः ।
प्राप्तवान्कुष्ठरोगित्वं विरूपत्वं च भारत । । ४३
साम्बेन पुनरप्येव दुर्वासाः कोपितो मुनिः ।
तच्छापान्मुसलं जातं कुलं येनास्य घातितम् । । ४४
श्रुत्वा ह्यविनयाद्दोषान्साम्बेनाप्तान्क्षमाधिप ।
नित्यं भाव्यं विनीतेन गुरुदेवद्विजातिषु । । ४५
प्रियं च वाक्यं वक्तव्यं सर्वप्रीतिकरं विभो ।
किं त्वया न श्रुतौ श्लोकौ यावुक्तौ वेधसा पुरा । ।
१शृण्वतो देवदेवस्य व्योमकेशस्य भारत । । ४६
यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी ।
स्वदारतुष्टः परदारवर्जितो न तस्य लोके भयमस्ति किञ्चित् । । ४७
न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया ।
प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी । । ४८
ततः शापाभिभूतेन सम्यगाराध्य भास्करम् ।
साम्बेनाप्तं तथारोग्यं रूपं१ च परमं पुनः । । ४९
रूपमाप्य तथाऽऽरोग्यं भास्कराद्धरिसूनुना ।
निवेशितो रविर्भक्त्या स्वनाम्ना क्ष्माधिपेश्वर । । 1.73.५०
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
साम्बकृतसूर्याराधनवर्णनं नाम त्रिसप्ततितमोऽध्यायः । ७३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 74
आदित्यद्वादशमूर्तिवर्णनम्
शतानीक उवाच
स्थापितो यदि साम्बेन सूर्यश्चन्द्रसरित्तटे ।
तस्मान्नद्यमिदं स्थानं यथैतद्भाषते भवान् । । १
सुमन्तुरुवाच
आद्यं स्थानमिदं भानोः पश्चात्साम्बेन भारत ।
विस्तरेणास्य चाद्यस्य कथ्यमानं निबोध मे । । २
अत्राद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः ।
मित्रत्वे च स्थितो देवस्तपस्तेपे पुरा नृप । । ३
अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च ।
सृष्ट्वा प्रजापतीन्ब्रह्मा सृष्ट्वा च विविधाः प्रजाः । । ४
ससर्ज मुखतो देवं पूर्वमम्बुजसन्निभम् ।
कञ्जजस्तं ततो देवं वक्षस्तो निर्ममे नृप । । ५
ललाटात्कुरुशार्दूल नीरजाक्षं दिगम्बरम् १ ।
ऋभवः पादतः सर्वे सृष्टास्तेन महात्मना । । ६
ततः शतसहस्रांशुरव्यक्तः पुरुषः स्वयम् ।
कृत्वा द्वादशधात्मानमदित्यामुदपद्यत । । ७
इन्द्रो धाता च पर्जन्यः पूषा त्वष्टार्यमा भगः ।
विवस्वानंशुर्विष्णुश्च वरुणो मित्र एव च । । ८
एभिर्द्वादशभिस्तेन आदित्येन महात्मना ।
कृत्स्नं जगदिदं व्याप्तं मूर्तिभिस्तु नराधिप । । ९
तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसंज्ञिता ।
स्थिता सा देवराजत्वे दानवासुरनाशिनी । 1.74.१०
द्वितीया चास्य या मूर्तिर्नाम्ना धातेति कीर्तिता ।
स्थिता प्रजापतित्वे सा विधात्री सृजते प्रजाः । । ११
तृतीया तस्य या मूर्तिः पर्जन्य इति विश्रुता ।
करेष्वेव स्थिता सा तु वर्षत्यमृतमेव हि । । १२
चतुर्थी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता२ ।
मन्त्रेष्ववस्थिता सा तु प्रजाः पुष्णाति भारत । । १३
मूर्तिर्या पञ्चमी तस्य नाम्ना त्वष्टेति विश्रुता ।
वनस्पतिषु सा नित्यमोषधीषु च वै स्थिता । । १४
षष्ठी मूर्तिस्तु या तस्य अर्यमेति च विश्रुता ।
प्रजासम्वरणार्थं सा पुरेष्वेव स्थिता सदा । । १५
भानोर्या सप्तमी मूर्तिर्नाम्ना भग इति स्मृता ।
भूमौ व्यवस्थिता सा तु क्ष्माधरेषु च भारत । । १६
अष्टमी चास्य या मूर्तिर्विवस्वानिति संज्ञिता ।
अग्नौ व्यवस्थिता सा तु ४पचतेऽन्नं शरीरिणाम् । । १७
नवमी चित्रभानोर्या मूर्तिरञ्शुरिति स्मृता ।
वीर चन्द्रे स्थिता सा तु आप्याययति वै जगत् । १८
मूर्तिर्या दशमी तस्य विष्णुरित्यभिधीयते ।
प्रादुर्भवति सा नित्यं गीर्वाणारिविनाशिनी । । १९
मूर्तिस्त्वेकादशी या तु भानोर्वरुणसंज्ञिता ।
जीवाययति सा कृत्स्नं जगद्धि समुपाश्रिता । । 1.74.२०
अपां स्थानं समुद्रस्तु वरुणोऽत्र प्रतिष्ठितः ।
तस्माद्वै प्रोच्यते वीर सागरो वरुणालयः । । २१
मूर्तिर्या द्वादशी भानोर्नामतो मित्रसंज्ञिता ।
लोकानां सा हितार्थं तु स्थिता चन्द्रसरित्तटे । । २२
वायुभक्षा तपस्तेपे युक्ता मैत्रेण चक्षुषा ।
अनुगृह्णन्सदा भक्तान्वरैर्नानाविधैः सदा । । २३
एवमाद्यमिदं स्थानं पुण्यं मित्रपदं स्मृतम् ।
तत्र मित्रः स्थितो यस्मात्तस्मान्मित्रपदं स्मृतम् । । २४
तयाराध्य महाबाहो साम्बेनामिततेजसा ।
तत्प्रसादात्तदादेशात्प्रतिष्ठा तस्य वै कृता । । २५
आभिर्द्वादशभिस्तेन भास्करेण महात्मना ।
कृत्स्नं जगदिदं व्याप्तं मूर्तिभिस्तु नराधिप । । २६
तस्माद्वन्द्यो नमस्यश्च द्वादशस्वपि मूर्तिषु ।
ये नमस्यन्ति चादित्यं नरा भक्तिसमन्विताः । । २७
ते यास्यन्ति परं स्थान १ तिष्ठेद्यत्राम्बुजेश्वरः ।
इत्येवं द्वादशात्मानमादित्यं पूजयेत्तु यः । । २८
स मुक्तः सर्वपापेभ्यो याति हेलिसलोकताम् । । २९
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
सूर्यद्वादशमूर्तिवर्णनं नाम चतुःसप्ततितमोऽध्यायः । ७४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 75
नारदोपसङ्गमनवर्णनम्
शतानीक उवाच
कथं साम्बः प्रपन्नोऽर्कं केन वा प्रतिपादितः ।
उग्रं शापं च तं प्राप्य पितरं स किमुक्तवान् । । १
सुमन्तुरुवाच
उक्तमेव पुरा वीर यथा शप्तः स यादवः ।
पित्रा साम्बो महाराज हरिणाम्बुजधारिणा । । २
अथ शापाभिभूतस्तु साम्बः पितरमब्रवीत् ।
१ विनयावनतो भूत्वा प्राञ्जलिः शिरसा गतः । । ३
किं मयापकृतं देव येन शप्तोस्म्यहं त्वया ।
अहं त्वदाज्ञया देव त्वरमाणोत्र आगतः । । ४
कस्मान्निपातितः शापो मयि तेऽनपकारिणि ।
न वै जानाम्यहं किञ्चित्प्रसीद जगतः पते । । ५
शापं नियच्छ मे देव प्रसादं कुरु मे प्रभो ।
कश्मलेनाभिभूतोऽहं येन मुच्येय किल्बिषात् । । ६
तमुवाच ततः कृष्णः साम्बं बुद्ध्वा ह्यनागसम् ।
नाहं पुत्र पुनः शक्तो रोगस्यास्य व्यपोहने । । ७
अस्यायं जगतो नाथो द्वादशात्मा दिवाकरः३ ।
सहस्ररश्मिरादित्यः शक्तः पुत्र व्यपोहितुम् । । ८
ज्ञातं मयाधुना चैव यथा त्वं नारदेन तु ।
रोषाद्विसर्जितः पुत्र मत्सकाशं महात्मना । । ९
तस्मात्तमेव पृच्छ त्वं प्रसाद्य ऋषिसत्तमम् ।
आख्यास्यति स ते देवं शापं यस्तेऽपनेष्यति । । 1.75.१०
अथैतत्स पितुर्वाक्यं श्रुत्वा जाम्बवतीसुतः ।
दीनः १शोकपरीतात्मा ततः सञ्चिन्त्य भारत । । ११
द्वारवत्यां स्थितं विष्णुं कदाचिद्द्रष्टुमागतम् ।
विनयादुपसङ्गम्य साम्बः पप्रच्छ नारदम् । । १२
भगवन्वेधसः पुत्र सर्वलोकज्ञ सुव्रत ।
प्रसादं कुरु मे विप्र प्रणतस्य महामते । । १३
ये मे नीरुजं कायं कश्मलं च प्रणश्यति ।
तं योगं इहि मे विप्र प्रणतस्यास्य सुव्रत । । १४
नारद उवाच
यः स्तुत्यः सर्वदेवानां नमस्यः पूज्य एव च ।
पूजयित्वाशु तं देवं ततो व्याधिं प्रहास्यसि । । १५
साम्ब उवाच
कः स्तुत्यः सर्वदेवानां नमस्यः पूज्य एव च ।
कः सर्वगश्च सर्वत्र शरणं यं वज्राम्यहम् । । १६
पितृशापानलेनाहं दह्यमानो महामुने ।
शान्त्यर्थमस्य कं देवं शरणं च व्रजाम्यहम् । । १७
एतच्छ्रुत्वा तु साम्बस्य वचनं करुणावहम् ।
हित्वा तु ४कामजं वीर नारदो वाक्यमब्रवीत् । । १८
स्तुत्यो वन्द्यश्च पूज्यश्च नमस्य ईड्य एव च ।
भास्करो यदुशार्दूल ब्रह्मादीनां सदानघ । । १९
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि साम्बोपाख्याने साम्बं प्रति कृष्णशापे साम्बस्य नारदोपसंगमनवर्णनं नाम पञ्चसप्ततितमोऽध्यायः । ७५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 76
नारदसाम्बसंवादे सूर्यपरिवारवर्णनम्
नारद उवाच
कदाचित्पर्यटँल्लोकान्सूर्यलोकमहं गतः ।
तत्र दृष्टो मया सूर्यः सर्वदेवगणैर्वृतः । । १
गन्धर्वैरप्सरोभिश्च नागैर्यक्षैश्च राक्षसैः ।
तत्र गायन्ति गन्धर्वा नृत्यन्त्यप्सरसस्तथा । । २
रक्षन्त्युद्गतशस्त्रास्तं यक्षराक्षसपन्नगाः ।
ऋचो यजूंषि सामानि मूर्तिमन्तीह सर्वशः । ।
तत्कृतैर्विविधैः स्तोत्रैः स्तुवन्ति ऋषयो रविम् । । ३
मूर्तिमत्यः स्थितास्तत्र तिस्रः संध्याः शुभाननाः ।
गृहीतवज्रनाराचाः परिवार्य रविं स्थिताः । । ४
अरुणा वर्णतः पूर्वा मध्यमा चेन्दुसन्निभा ।
तृतीयाक्ष्माजसंकाशा १ संध्या चैव प्रकीर्तिता । । ५
आदित्या वसवो रुद्रा मरुतोथाश्विनौ तथा ।
त्रिसंध्यं पूजयन्त्यर्कं तथान्ये च दिवौकसः । । ६
ईरयञ्जयशब्दं तु इन्द्रस्तत्रैव तिष्ठति ।
कविस्तु त्र्यम्बको देवस्त्रिसंध्यं पूजयन्ति वै । । ७
२दिनादावम्बुजाकारं पूजयेदम्बुजासनम् ।
चक्ररूपं तु मध्याह्ने घृतार्चिः पूजयेत्सदा । । ८
पूजयेत्सगणं रात्रौ विपुलाज्यस्वरूपिणम् ।
रविं भक्त्या सदा देवं ३कंजार्धकृतशेखरः । । ९
सारथ्यं कुरुते तस्य पतगस्याग्रजः १ सदा ।
वहमानो रथं दिव्यं कालावयवनिर्मितम् । । 1.76.१०
हरितैः सप्तभिर्युक्तं छन्दोभिर्वाजिरूपिभिः । । ११
द्वे भार्ये पार्श्वयोस्तस्य राज्ञीनिक्षुभसंज्ञिता ।
तथान्यैर्नामभिर्देवाः परिवार्य रविं स्थिताः । । १२
पिङ्गलो लेखकस्तत्र तथान्यो दण्डनायकः ।
२राजाश्रोषौ च द्वौ द्वारे स्थितौ कल्माषपक्षिणौ । । १३
ततो व्योम चतुःशृङ्गं मेरोः सदृशलक्षणम् ।
दिण्डिस्तथाग्रतस्तस्य दिक्षु चान्ये स्थिताः सुराः । । १४
एवं सर्वगमं देवं प्रदीप्तं जगति द्विज ।
ब्रह्माद्यैः संस्तुतं देवं गीर्वाणैर्ऋषभोत्तमम् । ।
ग्रहेशं भुवनेशानमादित्यं शरणं व्रज । । १५
साम्ब उवाच
तत्त्वतः श्रोतुमिच्छामि कथं सर्वगतो रविः । । १६
कति वा रश्मयस्तस्य मूर्तयश्च कति स्मृताः ।
का राज्ञी निक्षुभा का च कश्चायं दण्डनायकः । । १७
पिङ्गलश्चापि कस्तत्र किं चासौ लिखते सदा ।
राजाश्रोषौ च कौ तत्र कौ च कल्माषपक्षिणौ । । १८
किं दैवत्यं च तद्व्योम मेरोः सदृशलक्षणम् ।
को दिण्डिरग्रतस्तत्र के देवा दिक्षु ये स्थिताः । । १९
तत्त्वतो निगमैश्चैव विस्तरेण वदस्व माम ।
येनाहं तत्त्वतो ज्ञात्वा व्रजामि शरणं द्विज । । 1.76.२०
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने नारदसाम्बसंवादे सूर्यपरिवारवर्णनं नाम षट्सप्ततितमोऽध्यायः । ७६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 77
साम्बोपाख्याने सूर्यवर्णनम्
नारद उवाच
विस्तरेणानुपूर्व्या च सूर्यं निगदतः शृणु ।
ततः शेषान्प्रवक्ष्येऽहं नमस्कृत्य विवस्वते । । १
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिश्चेति यमाहुस्तत्त्वचिन्तकाः । । २
गन्धैर्वर्णै रसैर्हीनं शब्दस्पर्शविवर्जितम् ।
जगद्योनिं महद्भूतं परं ब्रह्मा सनातनम् । । ३
निग्रहं सर्वभूतानामव्यक्तमभवत्किल ।
अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् । । ४
अनाकारमविज्ञेयं तमाहुः पुरुषं परम् ।
तस्यात्मना सर्वमिदं जगद्व्याप्तं महात्मनः । । ५
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ।
धर्मेश्वर्यकृता बुद्धिर्ब्राह्मी तस्याभिमानिनः । । ६
अव्यक्ताज्जायते तस्य मनसा यद्यदिच्छति ।
चतुर्मुखस्य ब्रह्मत्वे कालत्वे चान्तकृद्भवेत् । । ७
सहस्रमूर्धा पुरुषस्तिस्रोवस्थाः स्वयम्भुवः ।
सत्त्वं रजश्च ब्रह्मत्वे कालत्वे च रजस्तमः । । ८
सात्त्विकं पुरुषत्वे च गुणवृत्तं स्वयंभुवः ।
ब्रह्मत्वे सृजते लोकान्कालत्वे चापि संक्षिपेत् । । ९
पुरुषत्वे उदासीनस्तिस्रोऽवस्थाः प्रजापतेः ।
त्रिधा विभज्य चात्मानं त्रिकालं सम्प्रवर्तते । । 1.77.१०
सृजते ग्रसते चैव वीक्षते च त्रिभिः स्वयम् ।
अग्रे हिरण्यगर्भस्तु प्रादुर्भूतः स्वयम्भुवः । । ११
आदित्यस्यादिदेवत्वादजातत्वादजः स्मृतः ।
देवेषु स महान्देवो महादेवः स्मृतस्ततः । । १२
सर्वेशत्वाच्च लोकस्य अधीशत्वाच्च ईश्वरः ।
बृहत्त्वाच्च स्मृतो ब्रह्मा भवत्वाद्भव उच्यते । । १३
पाति यस्मात्प्रजाः सर्वाः प्रजापतिरतः स्मृतः ।
पुरे शेते च वै यस्मात्तस्मात्पुरुष उच्यते । । १४
नोत्पाद्यत्वादपूर्वत्वात्स्वयंभूरिति विश्रुतः । । १५
हिरण्याण्डगतो यस्माद्ग्रहेशो वै दिवस्पतिः ।
तस्माद्धिरण्यगर्भोऽसौ देवदेवो दिवाकरः । । १६
आपो नारा इति प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः ।
अयनं तस्य ता आपस्तेन नारायणः स्मृतः । । १७
अर इत्येष शीघ्रार्थो निपातः कविभिः स्मृतः ।
आप एवार्णवा भूत्वा न शीघ्रास्तेन ता नराः १ । । १८
एकार्णवे पुरा तस्मिन्नष्टे स्थावरजङ्गमे ।
नारायणाख्यः पुरुषः सुष्वाप सलिले तदा । ।
सहस्रशीर्षा ३सुमनाः सहस्राक्षः सहस्रपात् । । १९
सहस्रबाहुः प्रथमः प्रजापतिस्त्रयीपथे यः पुरुषो४ निगद्यते ।
आदित्यवर्णो भुवनस्य गोप्ता अपूर्व एकः पुरुषः पुराणः । । 1.77.२०
हिरण्यगर्भः पुरुषो महात्मा सम्पद्यते वै तमसा परस्तात् । । २१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
साम्बोपाख्याने सूर्यवर्णनं नाम सप्तसप्ततितमोऽध्यायः । ७७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 78
सूर्यमहिमावर्णनम्
नारद उवाच
तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः ।
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् । । १
सलिलेनाप्लुतां भूमि दृष्ट्वा कार्यं विचिन्त्य सः ।
भूत्वा स तु वराहो वै अपः संविशते प्रभुः । । २
सञ्चित्यैवं स देवेशो भूमेरुद्धरणे क्षमः ।
महीं महार्णवे मग्नामुद्धर्तुमुपचक्रमे । । ३
उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विधार्य ।
विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयो १जपन्ति । । ४
उद्धृत्योर्वीं स सलिलात्प्रजासर्गमकल्पयत् ।
मनसा जनयामास पुत्रानात्मसमाञ्छुभान् । । ५
भृग्वङ्गिरसमत्रिं च पुलस्त्यं पुलहं कतुम् ।
मरीचिमथ दक्षं च वशिष्ठं नवमं तथा । । ६
नव प्रजापतीन्सृष्ट्वा ततः स पुरुषोत्तमः ।
प्रादुर्भूतोऽदितेः पुत्रः प्रजानां हितकाम्यया । । ७
मरीचात्कश्यपं २पुत्रं यं वेधा जनयज्जले ।
प्रजापतीनां दशमं तेजसा ब्रह्मणः समम् । । ८
वृक्षकन्याऽदितिर्नाम्ना पत्नी सा कश्यपस्य तु ।
अण्डं सा जनयामास भूर्भुवःस्वस्त्रिसंयुतम् । । ९
तत्रोत्पन्नः सहस्रांशुर्द्वादशात्मा दिवाकरः ।
नवयोजनसाहस्रो विस्तारोऽस्य महात्मनः । ।
विस्तारास्त्रिगुणश्चास्य परिणाहो विभावसोः । । 1.78.१०
यथापुण्यं कदम्बस्य समन्तात्केशरैर्वृतम् ।
तथैव तेजसां गोलं समन्ताद्रश्मिभिर्वृतम् । । ११
सहस्रशीर्षा पुरुषो ब्राह्म योगमुदाहरन् ।
तैजसस्य च गोलस्य स तु मध्ये व्यवस्थितः । । १२
आदत्ते स तु रश्मीनां सहस्रेण समन्ततः ।
अपो नदीसमुद्रेभ्यो ह्रदकूपेभ्य एव च । । १३
सौरी प्रभा या देवस्य अस्तं याते दिवाकरे ।
अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते१ । । १४
उदिते च ततः सूर्ये तेज आग्नेयमाविशत् ।
पादेन तेजसश्चाग्नेस्तस्मात्स तपते रविः । । १५
प्रकाशत्वं तथोष्णत्वं सूर्येऽग्नौ च प्रकीर्तिते ।
परस्परानुप्रवेशादाप्यायेते दिवानिशम् । । १६
व्यापकत्वं च रश्मीनां नामानि च निबोध मे ।
हेतयः किरणा गावो रश्मयोऽथ गभस्तयः । । १७
अभीषवो घनं चोस्रा वसवोऽथ मरीचयः ।
नाड्यो दीधितयः साध्या मयूखा भानवोंशवः । । १८
सप्तार्चयः सुपर्णाश्च कराः पादास्तथैव च ।
एषां तु नाम्नां रश्मीनां पर्याया विंशतिः स्मृताः । । १९
चन्दनादीनि वक्ष्यामि नामान्येषां पृथक्पृथक् ।
सहस्रं तात कथितं शीतवर्षोष्णनिःश्रवम् । । 1.78.२०
तेषां चतुःशतं नाड्यो वर्षंते चित्रमूर्तयः ।
२चन्दनाच्चैव मन्दाश्च कोतनामानुमास्तथा । ।
अमृता नाम ते सर्वे रश्मयो वृष्टिहेतवः । । २१
हिमोद्वहास्तु तत्रान्ये रश्मयस्त्रिशतं स्मृताः ।
चन्द्रास्ते नामतः सर्वे पीतास्ते तु गभस्तयः । । २२
सौम्येशाश्चैव१ वामश्च ह्लादिनो हिमसर्जनाः ।
शुक्लाश्च ककुभश्चैव गावो विश्वभृतस्तथा । । २३
शुक्लास्ते नामतः सर्वे त्रिशतं धर्मसर्जनाः ।
समं बिभ्रति ते सर्वे मनुष्या देवतास्तथा । । २४
मनुष्यानोषधीभिस्तु स्वधया च पितॄनपि ।
अमृतेन सुरान्सर्वांस्त्रयस्त्रिभिरतर्पयन् । । २५
वसन्ते चैव ग्रीष्मे च शतैः स तपते त्रिभिः ।
वर्षाशरत्सु चैवेशस्तपते सम्प्रवर्षते । । २६
हेमन्ते शिशिरं चैव हिमोत्सर्गं च स त्रिभिः ।
ओषधीषु बलं धत्ते स्वधायां च स्वधां पुनः । ।
अमरेष्वमृतं सूर्यस्त्रयं त्रिषु नियच्छिति । । २७
कालोग्निर्वत्सरश्चैव द्वादशात्मा प्रजापतिः ।
तपत्येषु सुरश्रेष्ठस्त्रींल्लोकान्सचराचरान् । । २८
एष ब्रह्मा तथा विष्णुरेष एव महेश्वरः ।
ऋचो यजूंषि सामानि एष एव न संशयः । । २९
ऋचाभिः स्तूयते पूर्वं मध्याह्ने यजुर्भिः सदा ।
सामभिस्त्वपराह्णेषु महेशानः प्रपूज्यते । । 1.78.३०
पूज्यमानस्तु नित्यं वै तपत्येष दिवस्पतिः ।
सदैष तेजसां राशिर्दीप्तिमान्सर्वलोकगः । । ३१
पार्श्वतोर्ध्वमधश्चैव तापयत्येष सर्वतः ।
ब्रह्मविष्णुमहेशानैः पूज्यमानस्तु नित्यशः । । ३२
यथा सर्वगतो वायुर्वहमानस्तु तिष्ठति ।
तद्वत्सहस्रकिरणो ग्रहराजो दिवस्पतिः । । ३३
सूर्यो गोभिर्जगत्कृत्स्नमादीपयति सर्वशः ।
त्रीणि रश्मिशतान्यस्य भूर्लोकं द्योतयन्ति वै । । ३४
त्रीणित्रीणि तथा चान्यौ द्वौ लोकौ तापयन्त्युत ।
शतं चापि अधस्तात्तु पातालं तापयन्त्युत । । ३५
इत्येतन्मण्डलं शुक्लं भास्वरं हेलिसंज्ञितम्१ ।
नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च । ।
विधुऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसभ्भवाः । । ३६
रवेः करसहस्रं यत्प्राङ्मया समुदाहृतम् ।
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहसंज्ञिताः । । ३७
सुषुम्णो हरिकेशश्च विश्वकर्मा तथैव च ।
सूर्यश्चैवापरो रश्मिर्नाम्ना विष्णुरिति२ स्मृतः । । ३८
ससत्त्वः सर्वबन्धुस्तु जीवायति च वै जगत् ।
सप्तजः प्रथमस्तत्र कञ्जजश्च तथा परः । । ३९
तारेयश्चापरस्तत्र गुरुः सुमनसां तथा ।
उग्राह्वः पञ्चमस्तेषां पुत्रोऽन्यो वनमालिनः । ।
कः शेषः सप्तमस्तेषामेते वै सप्त रश्मयः । । 1.78.४०
आदित्यमूलमखिलं त्रैलोक्यं सचराचरम् ।
भवत्यस्माज्जगत्सर्वं स देवासुरमानुषम् । । ४१
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्र त्रिदिवौकसाम् ।
महद्युतिमतः कृत्स्नं तेजो यत्सार्वलौकिकम् । । ४२
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ।
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् । । ४३
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । । ४४
सूर्यात्प्रसूयते सर्वं तस्मिन्नेव प्रलीयते ।
भावाभावौ तु लोकानामादित्यान्निःसृतौ पुरा । । ४५
एतत्तु ध्यानिनां ध्यानं मोक्षश्चाप्येव मोक्षिणाम् ।
अत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात्पुनः प्रजाः । । ४६
क्षणा मुहूर्ता दिवसा निशाः पक्षास्तु नित्यशः ।
मासाः सम्वत्सराश्चैव ऋतवोऽथ युगानि च । ।
अथादित्यमृते ह्येषां कालसंख्या न विद्यते । । ४७
कालादृते न नियमा नाग्नेर्विहरणक्रिया ।
ऋतू नामविभागाच्च पुष्पमूलफलं कुतः । । ४८
अभावो व्यवहाराणां जन्तूनां दिवि चेह च ।
जगत्प्रतापनमृते भास्करं वारितस्करम् । । ४९
नावृष्ट्या तपते सूर्यो नावृष्ट्या परिवेष्यते ।
आदित्यस्य च नामानि सामान्यानीह द्वादश । । 1.78.५०
द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यनेकशः ।
आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रतापनः । । ५१
मार्तंडो भास्करो भानुश्चित्रभानुर्दिवाकरः ।
रविर्वै द्वादशश्चैव ज्ञेयः सामान्यनामभिः । । ५२
विष्णुर्धाता भगः पूषा मित्रेन्द्रो वरुणोऽर्यमा ।
विवस्वानंशुमांस्त्वष्टा पर्जन्यो द्वादश स्मृताः । । ५३
इत्येते द्वादशादित्याः पृथक्त्वेन प्रकीर्तिताः ।
उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् । । ५४
विष्णुस्तपति चैत्रे च वैशाखे चार्यमा तथा ।
विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमांस्तथा । । ५५
पर्जन्यः श्रावणे मासि वरुणः प्रोष्ठसंज्ञके ।
इन्द्रश्चाश्वयुजे मासि धाता तपति कार्तिके । । ५६
मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः ।
माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने । । ५७
तैश्च द्वादशभिर्विष्णू रश्मीनां दीप्यते सदा ।
दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा । । ५८
द्विसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चकैस्त्रिभिः ।
विवस्वानिव पर्जन्यो वरुणश्चार्यमा इव । । ५९
इन्द्रस्तु द्विगुणैः षड्भिर्धातैकादशभिः शतैः ।
मित्रवद्भगवत्त्वष्टा सहस्रेण शतेन च । । 1.78.६०
उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयः सदा ।
दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः । । ६१
एवं रश्मिसहस्रं तु सौर्यं लोकार्थसाधकम् ।
भिद्यते ऋतुमासैस्तु सहस्रं बहुधा १भृशम् । । ६२
एवं नाम्नां चतुर्विंशदेकस्यैषा प्रकीर्तिता ।
विस्तरेण सहस्रं तु पुनरेवं प्रकीर्तितम् । । ६३
आसां परमयत्नेन ब्रुवते भिन्नदर्शनाः ।
तामसा बुद्धिमोहाच्च दृष्टान्तानि ब्रुवन्ति हि । । ६४
ब्रह्माणं कारणं केचित्केचिदाहुर्दिवाकरम् ।
केचिद्भवं परत्वेन आहुर्विष्णुं तथापरे । । ६५
कारणं तु स्मृता ह्येते नानार्थेषु सुरोत्तमाः ।
एकः स तु पृथक्त्वेन स्वयंभूरिति विश्रुतः । । ६६
वनमालिनमुग्रेशं दिवि चक्षुरिवान्तकम् ।
तं स्वयंभूरिति प्रोक्तं स सोपर्णिमनौपमम् । । ६७
यथानुरज्यते वर्णेर्विविधैः स्फाटिको मणिः ।
तथा गुणवशात्तस्य स्वयंभोरनुरञ्जनम् । । ६८
एको भूत्वा यथा मेघः पृथक्त्वेन प्रतिष्ठितः ।
वर्णतो रूपतश्चैव तथा गुणवशात्तु सः । । ६९
नभसः पतितं तोयं याति स्वादान्तरं यथा ।
भूमे रसविशेषेण तथा गुणवशात्तु सः । । 1.78.७०
यथेन्धनवशादग्निरेकस्तु बहुधायते ।
वर्णतो रूपतश्चैव तथा गुणवशात्तु सः । । ७१
यथा द्रव्यविशेषाच्च वायुरेकः पृथग्भवेत् ।
सुगन्धिः पूतिगन्धिर्वा तथा गुणवशात्तु सः । । ७२
यथा वा गार्हपत्योग्निरन्यत्संज्ञान्तरं व्रजेत् ।
दक्षिणाहवनीयादिब्रह्मादिषु तथा ह्यसौ । । ७३
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ।
तस्माद्भक्तिः सदा कार्या देवे ह्यस्मिन्दिवाकरे । । ७४
एषोऽण्डजोऽधिगश्चैव एष एव भृगुस्तथा ।
एष रजस्तमश्चैव एष सत्त्वगुणस्तथा । । ७५
एष वेदाश्च यज्ञाश्च सर्वश्चैव न संशयः ।
सूर्यव्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् । । ७६
१इज्यते पूज्यते चासावत्र यानात्मको रविः ।
सर्वत्र सविता देवस्तनुभिर्नामभिश्च सः । । ७७
वसत्यग्नौ तथा वाते व्योम्नि तोये तथा विभो ।
एवंविधो ह्ययं सूर्यः सदा पूज्यो विजानता । । ७८
आदित्यं वेत्ति यस्त्वेवं स तस्मिन्नेव लीयते ।
अप्येकं वेत्ति यो नाम धात्वर्थनिगमै रवेः । । ७९
स रोगैर्वर्जितः सर्वैः सद्यः पापात्प्रमुच्यते ।
न हि पापकृतः साम्ब भक्तिर्भवति भास्करे । । 1.78.८०
तथा त्वं परया भक्त्या प्रपद्यस्व दिवाकरम् ।
येन व्याधिविनिर्मुक्तः सर्वान्कामानवाप्स्यसि । । ८१
यथा तव पिता साम्ब यथा वेधा यथा हरः ।
यथा गुणवशात्तस्य स्वयम्भोरनुरञ्जनम् । । ८२
एकीभूय यथा मेघः पृथक्त्वेन प्रतिष्ठते ।
वर्णतो रूपतश्चैव तथा गुणवशात्तु सः । । ८३
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
सूर्यमहिमवर्णनं नामाष्टसप्ततितमोऽध्यायः । ७८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 79
आदित्यमहिमवर्णनम्
सुमन्तुरुवाच
एतच्छ्रुत्वा तु कार्त्स्न्येन हृष्टो जाम्बवतीसुतः ।
जातकौतूहलो भूयः परिपप्रच्छ नारदम्१ । । १
साम्ब उवाच
अहो सूर्यस्य माहात्म्यं वर्णितं हर्षवर्धनम् ।
येन मे भक्तिरुत्पन्ना परा ह्यस्मिन्विभावसौ । । २
ततो राज्ञीं महाभागां निक्षुभां च महामुने ।
दिण्डिनं पिङ्गलादींश्च सर्वान्कथय मे मुने । । ३
नारद उवाच
प्रागुक्तेऽर्कस्य द्वे भार्ये राज्ञी निक्षुभसंज्ञिते ।
तयोर्हि राज्ञी द्यौर्ज्ञेया निक्षुभा पृथिवी स्मृता । ।४
सौम्यमासस्य२ सप्तम्यां द्यावार्कः सह युज्यते ।
माघकृष्णस्य सप्तम्यां मह्या सह भवेद्रविः । ।
भूरादित्यश्च भगवान्गच्छतः सङ्गमं तथा । । ५
ऋतुस्नाता मही तत्र गर्भं गृह्णाति भास्करात् ।
द्यौर्जलं सूयते गर्भं वर्षास्विह च भूतले । । ६
ततस्त्रैलोक्यभूत्यर्थं३ मही सस्यानि सूयते ।
सस्योपयोगसंहृष्टा जुह्वत्याहुतयो द्विजाः । । ७
स्वाहाकारस्वधाकारैर्यजन्ति पितृदेवताः । । ८
निक्षुभा सूयते यस्मादन्नौषधिसुधामृतैः ।
मर्त्यान्पितॄंश्च देवांश्च तेन भूर्निक्षुभा स्मृता । । ९
यथा राज्ञी द्विधा भूता यस्य चेयं सुता मता ।
अपत्यानि च यान्यस्यास्तानि वक्ष्याम्यशेषतः । । 1.79.१०
मरीचिर्ब्रह्मणः पुत्रो मरीचेः कश्यपः सुतः ।
तस्माद्धिरण्यकशिषुः प्रह्लादस्तस्य चात्मजः । । ११
प्रह्लादस्य सुतो नाम्ना विरोचन इति श्रुतः ।
विरोचनस्य भगिनी संज्ञाया जननी शुभा । । १२
हिरण्यकशिपोः पौत्री दितेः पुत्रस्य सा स्मृता ।
सा विश्वकर्मणः पुत्री प्राह्लादी प्रोच्यते बुधैः । । १३
अथ नाम्ना सुरूपेति मरीचेर्दुहिता शुभा ।
पुत्री ह्यङ्गिरसः सा तु जननी तु बृहस्पतेः । । १४
बृहस्पतेस्तु भगिनी विश्रुता ब्रह्मवादिनी ।
प्रभासस्य तु सा पत्नी वसूनामष्टमस्य तु । । १५
प्रसूता विश्वकर्माणं सर्वशिल्पकरं वरम् ।
स वै नाम्रा पुनस्त्वष्टा त्रिदशानां च वार्धकिः । । १६
देवाचार्यश्च तस्येयं दुहिता विश्वकर्मणः ।
सुरेणुरिति विख्याता त्रिषु लोकेषु भामिनी । । १७
राज्ञी संज्ञा च द्यौस्त्वाष्ट्री प्रभा सैव विभाव्यते ।
तस्यात्तु या तनुच्छाया निक्षुभा सा महीमयी । । १८
सा१ तु भार्या भगवतो मार्तण्डस्य महात्मनः ।
साध्वी पतिव्रता देवी रूपयौवनशालिनी । । १९
न तु तां नररूपेण सूर्यो भजति वै पुरा ।
आदित्यस्येह तद्रूपं महता स्वेन तेजसा । । 1.79.२०
गात्रेष्वप्रतिरूपेषु नातिकान्तमिवाभवत् ।
अनिष्पत्रेषु गात्रेषु गोलं दृष्ट्वा पितामहः । । २१
मार्तस्त्वं भव चाण्डस्तु मार्तण्डस्तेन स स्मृतः ।
देवानां च यतस्त्वादिस्तेनादित्य इति स्मृतः । । २२
अतः परं प्रवक्ष्यामि प्रजास्तस्य महात्मनः ।
त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः । । २३
वर्षाणां तु सहस्रं वै वसमाना पितुर्गृहे ।
भर्तुः समीपं याहीति पित्रोक्ता सा पुनःपुनः । । २४
अगच्छद्वडवा भूत्वा त्यक्त्वा रूपं यशस्विनी ।
उत्तरांश्च कुरून्गत्वा तृणान्यनुचचार ह । । २५
पितुः समीपं या भार्या संज्ञा या वचनेन सा ।
संज्ञाया धारयद्रूपं छाया सूर्यमुपस्थिता । । २६
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् ।
आदित्यो जनयामास पुत्रौ कन्यां च रूपिणीम् । । २७
पूर्वजस्य मनोस्तुल्यौ सादृश्येन च तावुभौ ।
श्रुतश्रवाश्च धर्मज्ञः श्रुतकर्मा तथैव च । । २८
श्रुतश्रवा मनुस्ताभ्यां सावर्णिर्यो भविष्यति ।
श्रुतकर्मा तु विज्ञेयो ग्रहो यो वै शनैश्चरः । । २९
कन्या च तपती नाम रूपेणाप्रतिरूपिणी ।
संज्ञा तु पार्थिवी तेषामात्मजानां यथाकरोत् । । 1.79.३०
न स्नेहं पूर्वजानां तु तथा कृतवती तु सा ।
मनुस्तु क्षमते तस्या यमस्तस्या न चक्षमे । । ३१
बहुशो यात्यमानस्तु पितुः पत्न्या सुदुःखितः ।
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् । । ३२
पदा सन्तर्जयामास संज्ञां वैवस्वतो यमः ।
तं शशाप ततः क्रोधात्संज्ञा सा पार्थिवी भृशम् । । ३३
पदा तर्जयसे यन्मां पितुर्भार्यां गरीयसीम् ।
तस्मात्तवैष चरणः पतिष्यति न संशयः । । ३४
यमस्तु तेन शापेन भृशं पीडितमानसः ।
मनुना सह तन्मातुः पितुः सर्वं न्यवेदयत् । । ३५
स्नेहेन तुल्यमस्मासु माता देव न वर्तते ।
निःस्नेहाञ्ज्यायसो ह्यस्मात्कनीयां सं बुभूषति । । ३६
तस्या मयोद्यतः पादो न तु देव निपातितः ।
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति । । ३७
शप्तोऽहमस्मिंल्लोकेश जनन्या तपतां वर ।
तव प्रसादाच्चरणस्त्रायतां महतो भयात् । । ३८
रविरुवाच
असंशयं महत्पुत्र भविष्यत्यत्र कारणम् ।
येन त्वामाविशत्क्रोधो धर्मज्ञं धर्मशालिनम् । । ३९
सर्वेषामेव शापानां प्रतिघातस्तु विद्यते ।
न तु मात्राभिशप्तानां क्वचिन्मोक्षो भवेदिह । । 1.79.४०
न शक्यमेतन्मिथ्या मे कर्तुं मातुर्वचस्तव ।
किञ्चित्तेऽहं विधास्यामि पितृस्नेहादनुग्रहम् । ।४ १
कृमयो मांसमादाय यास्यन्ति तु महीतले ।
कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि । ।४ २
सुमन्तुरुवाच
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयावुभौ ।
तुल्येष्वभ्यधिकः स्नेह एकत्र क्रियते त्वया । । ४३
सा१ तत्पुराभवं तस्मै नाचचक्षे विवस्वते ।
आत्मानं स समाधाय वक्तुं तस्यामपश्यत् । ।४४
तां शप्तुकामो भगवानुद्यतः कुपितस्ततः ।
ततश्छाया यथावृत्तमाचचक्षे विवस्वते । । ४५
विवस्वांस्तु ततः क्रुद्धः श्रुत्वा श्वशुरमागतः ।
सा चापि तं यथान्यायमर्चयित्वा दिवाकरम् । ।
निर्दग्धुकामं रोषेण सान्त्वयामास तं शनैः ।।४६
विश्वकर्मोवाच
तवातितेजसाविष्टमिदं रूपं सुदुःसहम् ।
असहन्ती तु संज्ञा च वने चरति शाद्वले ।।४७
द्रक्ष्यते तां भवानद्य स्वां मायां शुभचारिणीम् ।
रूपार्थं भवतोरण्ये चरन्तीं सुमहत्तपः ।।४८
रूपं ते ब्रह्मणो वाक्याद्यदि वै रोचते विभो ।
प्रशातयामि देवेन्द्र श्रेयोऽर्थं जगतः प्रभो ।।४९
सन्तुष्टस्तस्य तद्वाक्यं बहु मेने महातपाः ।
ततोऽन्वजानात्त्वष्टारं रूपनिर्वर्तनाय तु ।।1.79.५०
विश्वकर्मा ह्यनुज्ञातः शाकद्वीपे विवस्वतः ।
भ्रमिमारोप्य तत्तेजः शातयामास तस्य वै ।।५ १
आजानुलिखितश्चासौ निपुणं विश्वकर्मणा ।
लेखनं नाभ्यनन्दत्तु ततस्तेन निवारितः ।।५२
तत्र तद्भासितं रूपं तेजसा प्रकृतेन तु ।
कान्तात्कान्ततरं भूत्वा अधिकं शुशुभे ततः ।।५३
ददर्श योगमास्थाय स्वां भार्यां वडवां तथा ।
अदृश्यां सर्वभूतानां तेजसा स्वेन संवृताम् ।।५४
अश्वरूपेण मार्तण्डस्तां मुखेन समासदत् ।
मैथुनाय विचेष्टन्तो परपुंसो विशङ्कया ।।५५
सा तं विवस्वतः शुक्रं नासाभ्यां समधारयत् ।
देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।।५६
नासत्यश्चैव दस्रश्च तौ स्मृतौ नामतोऽश्विनौ ।
अतः परं स्वकं रूपं दर्शयामास भास्करः ।।
तद्दृष्ट्वा चापि संज्ञा तु तुतोष च मुमोह च ।।५७
ततस्तु जनयामास संज्ञा सूर्यसुतं शुभम् ।
रूपेण चात्मनस्तुल्यं रेवतं नाम नामतः । । ५८
पिर्तुगृह्याष्टमं सोऽश्वं जातमात्रः पलायत ।
स तस्मिन्त्सकृदारूढस्तमश्वं नैव मुञ्जति । । ५९
ततोऽर्केण समादिष्टौ दण्डनायकपिङ्गलौ ।
अश्वं प्रत्यानयेथां मे मा बलाच्छिद्रतोऽस्य तु । । 1.79.६०
पार्श्वस्थौ तिष्ठतस्तस्य अश्वच्छिद्राभिकाञ्क्षिणौ ।
न च्छिद्रं तु लभेते तौ तस्याद्यापि महात्मनः । । ६१
प्लवन्गच्छत्यसौ यस्मात्संज्ञायाः शान्तिदः सुतः ।
रेवृस्तु च गतौ धातू रेवन्तस्तेन स स्मृतः । । ६२
मनुर्यमो यमी चैव सावर्णिः स शनैश्चरः ।
तपती चाश्विनौ चैव रेवन्तश्च रवेः सुताः । । ६३
एवमेषा पुरा संज्ञा द्वितीया पार्थिवी स्मृता ।
या संज्ञा सा स्मृता राज्ञी छाया या सा तु निक्षुभा । । ६४
राजृदीप्तौ स्मृतो धातू राजा राजति यत्सदा ।
अधिकः सर्वभूतेभ्यो राजते च दिवाकरः । । ६५
अधिकं राजते यस्मात्तस्माद्राजा स उच्यते ।
राज्ञः पत्नी तु सा यस्मात्तस्माद्राज्ञी प्रकीर्तिता । । ६६
क्षुभ सञ्चलने धातुर्निश्चला तेन निक्षुभा ।
भवन्तीत्यथ वा यस्मात्स्वर्गीयाः १ क्षुद्विवर्जिताः । ।
छायां तां विशते दिव्यां स्मृता सा तेन निक्षुभा । । ६७
दृष्ट्वा जनं सदा तात भृशं पीडितमानसम् ।
धर्मेण रञ्जयामास धर्मराजस्ततः स्मृतः । । ६८
शुद्धेन कर्मणा तात शुभेन परमद्युतिः ।
पितॄणामाधिपत्यं च लोकपालत्वमाप च । । ६९
साम्प्रतं वर्तते योऽयं मनुर्लोके महामते ।
यस्यान्ववाये जातस्तु शङ्खचक्रगदाधरः । । 1.79.७०
यमस्य भगिनी या तु यमी कन्या यशस्विनी ।
साभवत्सरितां श्रेष्ठा यमुना लोकपावनी । । ७१
मनुः प्रजापतिस्त्वेष सावर्णिः स महायशाः ।
भविष्यन्स मनुस्तात अष्टमः परिकीर्तितः । । ७२
मेरुपृष्ठे तपो दिव्यमद्यापि चरते प्रभुः ।
भ्राता शनैभ्ररस्तस्य ग्रहत्वं स तु लब्धवान् । । ७३
तपती नाम या नाम्ना तयोः कन्या गरीयसी ।
सा बभूव शुभा पत्नी राज्ञः संवरणस्य तु । । ७४
तापी नाम नदी चेयं विन्ध्यमूलाद्विनिःसृता ।
नित्यं पुण्यजला स्नाने पश्चिमोदधिगामिनी । । ७५
सौम्यया सङ्गता सा तु सर्वपापभयापहा ।
वैवस्वती यथा वीर सङ्गता १शिवकान्तया । । ७६
अश्विनौ देववैद्यत्वं लब्धवन्तौ यदूत्तम ।
तयोः कर्मोपजीवन्ति लोकेस्मिन्भिषजः सदा । । ७७
रेवन्तो नाम योऽर्कस्य रूपेणार्कसमः सुतः ।
२अश्वानामाधिपत्ये तु योजितः स तु भानुना । । ७८
क्षेमेण गच्छतेऽध्वानं यस्तं पूजयते पथि ।
सुखप्रसाद्यो मर्त्यानां सदा यदुकुलोद्वह । । ७९
त्वष्टापि तेजसा तेन मार्तण्डस्यैव चाज्ञया ।
भोजानुत्पादयामास पूजायै सत्य सुव्रत । । 1.79.८०
य इदं जन्म देवस्य शृणुयाद्वा पठेत वा ।
विवस्वतो हि पुत्राणां सर्वेषाममितौजसाम् । । ८१
सर्वपापविनिर्मुक्तो याति सूर्यसलोकताम् ।
इह राजा भवत्येव पुनरेत्य न संशयः । । ८२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
आदित्यमाहात्म्यवर्णनं नामैकोनाशीतितमोऽध्यायः । ७९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 80
आदित्यमहिमावर्णनम्
सुमन्तुरुवाच
इत्थं श्रुत्वा कथां दिव्यां हेलिमाहात्म्यमाश्रिताम् ।
साम्बः पप्रच्छ भूयोऽपि नारदं मुनिसत्तमम् । । १
साम्ब उवाच
सूर्यपूजाफलं यच्च यच्च दानफलं महत् ।
प्रणिपाते फलं यच्च गीतवाद्ये च यत् फलम् । । २
भास्करस्य द्विजश्रेष्ठ तन्मे ब्रूहि समन्ततः ।
येन सम्पूजयाम्येष भानुं देवैः१ सदार्चितम् । ३
नारद उवाच
इममर्थं पुरा पृष्टो ब्रह्मा लोकपितामहः ।
दिण्डिना यदुशार्दूल शृणुष्वैकाग्रमानसः । । ४
सुखासीनं तथा देवं सुरज्येष्ठं पितामहम् ।
प्रणम्य शिरसा दिण्डिरिदं वचनमब्रवीत् । । ५
दिण्डिरुवाच
सूर्यपूजाफलं ब्रूहि ब्रूहि दानफलं तथा ।
प्रणामे यत्फलं देव यच्चोक्तं तौर्यकत्रये । । ६
इतिहासपुराणाभ्यां कारिते श्रवणे तथा ।
पुरतो देवदेवस्य यत्फलं स्यात्तदुच्यताम् । । ७
मार्जने लेपने यच्च देवदेवस्य मन्दिरे ।
भास्करस्य कृते ब्रूहि मम लोकपितामह । । ८
ब्रह्मोवाच
स्तुतिजप्योपहारेण पूजया न नरो रवेः ।
उपवासेन षष्ठ्यां च सर्वपापः प्रमुच्यते । । ९
प्रणिधाय शिरो भूमौ नमस्कारपरो रवेः ।
तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः । । 1.80.१०
भक्तियुक्तो नरो यस्तु रवेः कुर्यात्प्रदक्षिणाम् ।
प्रदक्षिणी कृता तेन सप्तद्वीपा १भवेन्मही । । ११
सूर्यलोकं व्रजेच्चापि इह रोगैश्च मुच्यते ।
उपानहौ परित्यज्य अन्यथा नरकं व्रजेत् । । १२
सोपानत्को नरो यस्तु आरोहेत्सूर्यमन्दिरम् ।
स याति नरकं घोरमसिपत्रवनं विभो । । १३
सूर्यं मनसि यः कृत्वा कुर्याद्व्योमप्रदक्षिणाम् ।
प्रदक्षिणी कृतास्तेन सर्वे देवा भवन्ति हि । । १४
परितुष्टाश्च ते सर्वे प्रयच्छन्ति गतिं शुभाम् ।
सर्वे देवा महाबाहो ह्यभीष्टं तु परन्तप । । १५
एकाहारो नरो भूत्वा षष्ठ्यां योऽर्चयते रविम् ।
सप्तम्यां वा महाबाहो सूर्यलोकं स गच्छति । । १६
अहोरात्रोपवासी स पूजयेद्यस्तु भास्करम् ।
सप्तम्यां वाथ षष्ठ्यां वा स गच्छेत्परमां गतिम् । । १७
कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ।
सर्वरक्तोपहारेण पूजयेद्यस्तु भास्करम् । । १८
पङ्कजैः करवीरैर्वा कुङ्कमोदकचन्दनैः ।
मोदकैश्च गणश्रेष्ठ सूर्यलोकं स गच्छति । । १९
शुक्लपक्षस्य सप्तम्यामुपवासरतः सदा ।
सर्वशुक्लोपहारेण पूजयेद्यस्तु भास्करम् । । 1.80.२०
जातीमुद्गरकैश्चैव श्वेतोत्पलकदम्बकैः ।
पायसेन १तथा देवं सवज्रेणार्चयेद्रविम् । । २१
सर्वपापविशुद्धात्मा विधुः कान्त्या न संशयः ।
हंसयुक्तेन यानेन हंसलोकमवाप्नुते । । २२
दिण्डिरुवाच
ब्रूहि मे विस्तराद्देव सप्तमीकल्पमुत्तमम् ।
उपोष्य सप्तमीं येन गमिष्ये शरणं रवेः । । २३
ब्रह्मोवाच
साधु पृष्टोऽस्मि भवता सप्तमीकल्पमुत्तमम् ।
यथा सहस्रकिरणः पुरा पृष्टोऽरुणेन वै । । २४
कथिताः सप्त सप्तम्यो भानुना श्रेयसे नृणाम् ।
अरुणस्य गणश्रेष्ठ पृच्छतः कारणान्तरे । । २५
कस्यचित्त्वथ कालस्य देवदेवं दिवाकरम् ।
ध्यानमाश्रित्य तिष्ठन्तमरुणो वाक्यमब्रवीत् । । २६
किमर्थं देवदेवश ध्यानमाश्रित्य तिष्ठसि ।
दिनं न याति देवेश कारणं मम कथ्यताम् । । २७
कुरु चङ्क्रमणं देव वहमानो दिवस्पते ।
इत्येवं भगवान्पृष्ट इदं वचनमब्रवीत् । । २८
शृणु त्वं द्विजशार्दूल यदर्थं ध्यानमाश्रितः ।
अर्वावसुर्द्विजश्रेष्ठः स चापुत्रः खगोत्तम । । २९
आराधयति मां नित्यं गन्धपुष्पोपहारकैः ।
पुत्रकामः खगश्रेष्ठ न च जानात्ययं यथा । । 1.80.३०
पुत्रदोऽहं भवे येन विधिना पूजितः खग ।
श्रूयतां च विधिः सर्वे येन प्रीतो भवे नृणाम् । । ३१
सप्तमीकल्पसंज्ञो वै विधीनामुत्तमो विधिः ।
यस्तु मां पूजयेन्नित्यं तस्य पुत्रान्ददाम्यहम् ।। ३२
गृह्णीष्व सप्तमीकल्पं गत्वा ब्रूहि द्विजोत्तमम् ।
येनाहं बहुपुत्रत्वं दद्यां तस्य तथा खग । । ३३
श्रुत्वा भानोः क्षणादेव जगाम स खगोत्तमः ।
कथयामास तत्सर्वं भानोर्वचनमादितः । । ३४
ब्राह्मणस्य खगश्रेष्ठ स च श्रुत्वा द्विजोत्तमः ।
चकार सप्तमीकल्पं यथाख्यातं खगेन तु । । ३५
ऋद्धिं वृद्धिं तथारोग्यं प्राप्य पुत्रांश्च पुष्कलान् ।
गतोऽसौ सूर्यलोकं च तेजसा तत्समोभवत् । । ३६
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि
सप्तमीकल्पमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः । ८० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 81
विजयासप्तमीवर्णनम्
ब्रह्मोवाच
जया च विजया चैव जयन्ती चापराजिता ।
महाजवा च नन्दा च भद्रा चान्या प्रकीर्तिता । । १
शुक्लपक्षस्य सप्तम्यां सूर्यवारो भवेद्यदि ।
सप्तमी विजया नाम तत्र दत्तं महाफलम् । । २
स्नानं दान तथा होमं उपवासस्तथैव च।
सर्वं विजयसप्तम्यां महापातकनाशनम् । । ३
पञ्चम्यामेकभक्तं स्यात्पष्ठ्यां नक्तं प्रचक्षते ।
उपवासस्तु सप्तम्यामष्टम्यां पारणं भवेत् । । ४
केचिद्देवमुशन्त्येव नेति चान्ये गणाधिप ।
अभिप्रेतस्तु मे १ षष्ठ्यामुपवासो गणोत्तम । । ५
चतुर्थ्यामेकभक्तं तु पञ्चम्यां नक्तमादिशेत् ।
उपवासस्तु षष्ठ्यां स्यात्सप्तम्यां पारणं भवेत् । १६
उपवासपरः षष्ठ्यामब्देशं पूजयेद्बुधः ।
गन्धपुष्पोपहारैश्च भक्त्या श्रद्धासमन्वितः । । ७
प्रकल्प्य पूजां भूमौ तु देवस्य पुरतः स्वपेत् ।
जपमानस्तु२ गायत्रीं सौरसूक्तमथापि वा । । ८
अक्षरं वा महाश्वेतं षडक्षरमथापि वा ।
विबुद्धस्त्वथ सप्तम्यां कृत्वा स्नानं गणाधिप । । ९
ग्रहेशं पूजयित्वा तु होमं कृत्वा विधानतः ।
ब्राह्मणान्भोजयेद्भक्त्या शक्त्या च गणनायक । । 1.81.१ ०
शाल्योदनमपूपाश्च खण्डवेष्टांश्च शक्तितः ।
सघृतं पायसं दद्यात्तथा विप्रेषु शक्तितः । । ११
दत्त्वा च दक्षिणा भक्त्या १ ततो विप्रान्विसर्जयेत् ।
इत्येषा कथिता देव पुण्या विजयसप्तमी । १२
यामुपोष्य नरो गच्छेत्पदं वैरोचनं परम् ।
करवीराणि रक्तानि कुङ्कुमं च विलेपनम् । । १३
विजयं धूपमस्यां तु भानोस्तुष्टिकराणि वै ।
एषा पुण्या पापहरा महापातकनाशिनी । । १४
अत्र दत्तं हुतं चापि क्षीयते न गणाधिप ।
स्नानं दानं तथा होमः पितृदेवाभिपूजनम् । । १५
सर्वं विजयसप्तम्यां महापातकनाशनम् ।
आदित्यवारेण युता स्मृता विजयसप्तमी ।१६
इत्येषा कथिता वीर सर्वकामप्रदायिनी ।
धन्यं यशस्यमायुष्यं कीर्तितं श्रवणं तथा । । १७
स्मरणं तु तथास्यां तु पुण्यदं त्रिपुरान्तक । । १८
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे
विजयसप्तमीवर्णनं नामैकाशीतितमोऽध्यायः । ८१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 82
नन्दवर्णनम्
दिण्डिरुवाच
ये त्वादित्यदिने ब्रह्मन्पूजयन्ति दिवाकरम् ।
स्नानदानादिकं तेषां किं फलं स्याद्ब्रवीतु मे।।१
पुण्या सा सप्तमी प्रोक्ता युक्ता तेन पितामह ।
विजयेति तथा नाम वर्ण्यतामस्य १ पुण्यता । । २
ब्रह्मोवाच
ये त्वादित्यदिने ब्रह्मञ्छ्राद्धं२ कुर्वन्ति मानवाः ।
सप्तजन्मसु ते जाताः सम्भवन्ति विरोगिणः । । ३
नक्तं कुर्वन्ति ये तत्र मानवाः स्थैर्यमाश्रिताः ।
जपमाना परं जाप्यमादित्यहदयं परम् । ।४
आरोग्यमिह वै प्राप्य सूर्यलोकं व्रजन्ति ते ।
उपवासं च ये कुर्युरादित्यस्य दिने सदा । । ५
जपन्ति च महाश्वेतां ते लभन्ते यथेप्सितम् ।
अहोरात्रेण नक्तेन त्रिरात्रनियमेन वा । । ६
जपमानो महाश्वेतामीप्सितं लभते फलम् ।
विशेषतः सूर्यदिने जपमानो गणाधिप । । ७
षडक्षरं३ तथा श्वेतां गच्छेद्वैरोचनं पदम् ।
द्वादशेह स्मृता वारा आदित्यस्य महात्मनः । । ८
नन्दो भद्रस्तथा सौम्यः कामदः पुत्रदस्तथा ।
जयो जयन्तो विजय आदित्याभिमुख स्थितः । । ९
हृदयो रोगहा चैव महाश्वेतप्रियोऽपरः ।
शुक्लपक्षस्य षष्ठ्यां तु माघे मासि गणाधिप । । 1.82.१०
यः४ कुर्यात्स भवेद्भूपः सर्वपापभयापहः ।
अत्र नक्तं स्मृतं पुण्यं घृतेन स्नपनं रवेः । । ११
अगस्त्यकुसुमानीह भानोस्तुष्टिकराणि तु ।
विलेपनं सुगन्धस्तु श्वेतचन्दनमुत्तमम् । । १२
धूपस्तु गुग्गुलः श्रेष्ठो नैवेद्यं पूपमेव हि ।
दत्त्वा पूपं तु विप्रस्य ततो भुञ्जीत वाग्यतः । । १३
नक्षत्रदर्शनान्नक्तं केचिदिच्छन्ति मानद१ ।
मुहूर्तोनं दिनं केचित्प्रवदन्ति मनीषिणः । । १४
नक्षत्रदर्शनान्नक्तमहम्मन्ये गणाधिप ।
प्रस्थमात्रं भवेत्पूपं गोधूममयमुत्तमम् । । १५
यवोद्भवं वा कुर्वीत सगुडं सर्पिषान्वितम् ।
सहिरण्यं च दातव्यं ब्राह्मणे सेतिहासके २ । । १६
भौमे दिव्येऽथ वा देयं न्यसेद्वा पुरतो रवेः ।
दातव्यो मन्त्रतश्चायं मण्डको३ ग्राह्य एव हि । । १७
भूत्वादित्येन वै भक्त्या आदित्यं तु नमस्य च ।
आदित्यतेजसोत्पन्नं राज्ञीकरविनिर्मितम् । ।
श्रेयसे मम विप्र त्वं प्रतीच्छापूपमुत्तमम् । । १८
कामदं सुखदं धर्म्यं धनदं पुत्रदं तथा ।
सदास्तु ते प्रतीच्छामि मण्डकं भास्करप्रिपम् । । १९
एतौ चैव महामन्त्रौ दानादाने रविप्रियौ ।
अपूपस्य गणश्रेष्ठ श्रेयसे नात्र संशयः । । 1.82.२०
एष नन्दविधिः प्रोक्तो नराणां श्रेयसे विभो ।
अनेन विधिना यस्तु नरः४ पूजयते रविम् । ।
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते । । २१
न दरिद्रं न रोगश्च कुले तस्य महात्मनः ।
योऽनेन पूजयेद्भानुं न क्षयः सन्ततेस्तथा । । २२
सूर्यलोकाच्च्युतश्चासौ राजा भवति भूतले ।
बहुरत्नसमायुक्त६ स्तेजसा द्विजसन्निभः७ । । २३
पठतां शृण्वतां चेदं विधानं त्रिपुरान्तक ।
कं १ ददात्यचलं दिव्यमम्बुजामचलां तथा । २४
इति श्री भविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे नन्दविधिवर्णनं
नाम द्वयशीतितमोऽध्यायः । ८२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 83
भद्रविधिवर्णनम्
ब्रह्मोवाच
मासि भाद्रपदे वीर शुक्ते पक्षे तु यो भवेत् ।
षष्ठ्यां गणकुलश्रेष्ठ स भद्रः परिकीर्तितः । । १
तत्र नक्तं तु यः कुर्यादुपवासमथापि वा ।
हंसयानसमारूढो याति हंससलोकताम् । । २
मालतीकुसुमानीह तथा श्वेतं च चन्दनम् ।
विजयं च तथा धूपं नैवेद्यं पायसं परम् । । ३
पूजायां भास्करस्येह कुर्यात्त्रिपुरसूदनम् ।
इत्थं सम्पूज्य देवेशं मध्याह्ने च दिनाधिपम् । ४
दत्त्वा तु दक्षिणां शक्त्या ततो भुञ्जीत वाग्यतः ।
पायसं गणशार्दूल सगुडं सर्पिषा सह । ५
य एवं पूजयेद्भक्त्या मानवस्तिमिरापहम् ।
सर्वकामानवाप्नोति पुत्रदारधनादिकान् । । ६
विमुक्तः सर्वपापेभ्यो व्रजद्भानुसलोकताम् ।
एष भद्रा विधिः प्रोक्तो मया यस्ते गणाधिप ।।७
श्रुत्वा कृत्वा च यत्पापान्मुच्यते मानवो भुवि । । ८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे भद्रविधिवर्णनं नाम
त्र्यशीतितमोऽध्यायः । ८३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 84
सौम्यविधिवर्णनम्
ब्रह्मोवाच
नक्षत्रं रोहिणी वीर यदा वारेऽस्य वै भवेत् ।
यात्यसौ सौम्यतां वीर१ स सौम्यः परिकीर्तितः । । १
स्नानं दानं जपो होमः पितृदेवादितर्पणम् ।
अक्षयं स्यान्न सन्देहस्त्वत्र वारे महात्मनः । । २
नक्तं समाश्रितो योऽत्र पूजयेद्भास्करं नरः ।
याति लोकं स देवस्य भास्करस्य न संशयः । । ३
रक्तोत्पलानि वै तत्र तथा रक्तं च चन्दनम् ।
सुगन्धश्चापि धूपस्तु नैवेद्यं पायसं तथा । ।
ब्राह्मणाय च दातव्यं भोक्तव्यं चात्मना तथा । । ४
य एवं पूजयेत्सौम्ये चित्रभानुं गवाम्पतिम् ।
स विमुक्तस्तु पापेभ्यस्त्वाष्ट्रीं कान्तिमवाप्नुयात् । । ५
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे सौम्यविधिवर्णनं
नाम चतुरशीतितमोऽध्यायः । ८४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 85
कामदविधिवर्णनम्
ब्रह्मोवाच
प्राप्ते मार्गशिरे मासि शुक्लषष्ठ्यां तु यो भवेत् ।
स ज्ञेयः कामदो वारः सदेष्टो भास्करस्य तु । । १
तत्र यः पूजयेद्भानुं भक्त्या श्रद्धासमन्वितः ।
विमुक्तः सर्वपापैस्तु प्राप्नुते नन्दनाधिपम्१ ।। २
रक्तचन्दनमिश्राणि करवीराणि सुव्रत ।
धूपं घृताहुतिं वीर भास्करस्य प्रयोजयेत् । । ३
नैवेद्यं चापि कृशरं सुगन्धं तीक्ष्णमेव च ।
कृत्वोपवासमथ वा नक्तं त्रिपुरसूदन । । ४
इत्थं प्रपूजितो ह्यत्र भास्करो लोकभास्करः ।
कामान्ददाति सर्वान्वै अतोयं कामदः स्मृतः । । ५
स पुत्र पुत्रकामस्य धनकामस्य वा धनम् ।
विद्यार्थिने शुभां विद्यामारोग्यं रोगिणे विभो । । ६
अन्यांश्च विविधान्कामान्मन्त्रैः सम्पूजितो रविः ।
ददाति गणशार्दूल अतोयं कामदः स्मृतः । । ७
दद्याद्यो मण्डकं चात्र गोपतेर्गोत्रभूषणः ।
गोत्रारितेजसा३ तुल्यो गोपतेर्गोपुरं व्रजेत् । । ८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे कामदविधिवर्णनं
नाम पञ्चाशीतितमोऽध्यायः । ८५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 86
जयवारतिथिवर्णनम्
ब्रह्मोवाच
पञ्चतारं भवेद्यत्र नक्षत्रं ते वृषध्वज ।
वारे तु देवदेवस्य स वारः पुत्रदः स्मृतः । । १
उपवासो भवेत्तत्र श्राद्धं कार्यं तथा भवेत् ।
प्राशनं चापि पिण्डस्य मध्यमस्य प्रकीर्तितम् । । २
सोपवासस्तु यो भक्त्या पूजयेदत्र गोपतिम् ।
धूपमाल्योपहारैस्तु दिव्यगन्धसमन्वितैः । । ३
एवं पूज्य विवस्वन्तं तस्यैव पुरतो निशि ।
भूमौ स्वपिति वै वीर जपञ्छ्वेतां महामते । । ४
प्रातरुत्थाय च स्नानं कृत्वा दत्त्वार्घ्यमुत्तमम् ।
रक्तचन्दनसम्मिश्रैः करवीरैर्गणाधिप । । ५
प्रपूज्य ग्रहभूतेशमंशुमन्तं त्रिलोचन ।
वीरं १ च पूजयित्वा तु ततः श्राद्धं प्रकल्पयेत् । । ६
पञ्चभिर्ब्राह्मणैर्देव दिव्यैभोमैश्च२ सुव्रत ।
मगसंज्ञौ३ तत्र दिव्यौ ब्राह्मणौ परिकल्पयेत् । । ७
त्रीनत्र ब्राह्मणान्भीमान्प्रकल्प्यान्धकसूदन ।
कुर्यादेवं ततः श्राद्धं पार्वणं भास्करप्रियम् । । ८
श्राद्धे त्वथ समाप्ते तु दद्यात्पिण्डं तु मध्यमम् ।
पुरतो देवदेवस्य स्थित्वा मन्त्रेण सुव्रत । । ९
स एष पिण्डो देवेश योऽभीष्टस्तव सर्वदा ।
अश्नामि पश्यते तुभ्यं तेन मे सन्ततिर्भवेत् । । 1.86.१०
प्रसादात्तव देवेश इति मे भावितं मनः ।
इत्थं सम्पूजितो ह्यत्र भास्करः पुत्रदो भवेत् । । ११
अतोऽयं पुत्रदो वारो देवस्य परिकीर्तितः ।
एवमत्र सदा यस्तु भास्करं पूजयेन्नरः । । १२
उपवासपरः श्राद्धे स पुत्रं लभते ध्रुवम् ।
धनं धान्यं हिरण्यं च आरोग्यं सुखदं तथा । ।
सूर्यलोकं च सम्प्राप्य ततो राजा भवेन्नृषु । । १३
प्रभया द्विजसंकाशः कान्त्या चाम्बुजसन्निभः ।
वीर्येण गोपतेस्तुल्यो गाम्भीर्ये सागरोपमः । । १४
( इति पुत्रदविधिवर्णनम्)
ब्रह्मोवाच
दक्षिणे त्वयने यः स्यात्स जयः परिकीर्तितः । । १५
अत्रोपवासो नक्तं च स्नानं दानं जपस्तथा ।
भवेच्छतगुणं देव भास्करप्रीतये कृतम् । । १६
तस्मान्नक्तादि कर्तव्यं यत्स्याच्छतगुणं विभो । । १७
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे जयवारतिथिवर्णनं नाम
षडशीतितमोऽध्यायः । ८६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 87
जयन्तविधिवर्णनम्
ब्रह्मोवाच
जयन्तो ह्युत्तरे ज्ञेयश्चायने गणनायक ।
वारो देवस्य यः स्याद्वै तत्र पूज्यो दिवाकरः । । १
पूजितस्तत्र देवेशः सहस्रगुणितं फलम् ।
ददाति देवशार्दूल स्नानदानादिकर्मणाम् । । २
घृतेन पयसा यत्र स्नानमिक्षुरसेन तु ।
विलेपनं कुङ्कुमं तु प्रशस्तं भास्करे प्रियम् । । ३
धूपक्रिया गुग्गुलेन नैवेद्ये मोदकः स्मृतः ।
इत्थं सम्पूज्य देवेशं कुर्याद्धोमं ततस्तिलैः । ।
ब्राह्मणान्भोजयेत्पश्चान्मोदकांस्तिलशष्कुलीः । । ४
इत्थं यः पूजयेद्भानुं मन्त्रेणैव गणाधिप ।
सहस्रगुणितं तस्य फलं देवो ददाति वै । । ५.
स्नानदानजपादीनामुपवासस्य वै विभो । । ६
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे जयन्तविधिवर्णनं नाम
सप्ताशीतितमोऽध्यायः । ८७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 88
विजयवारविधिवर्णनम्
ब्रह्मोवाच
शुक्लपक्षस्य सप्तम्यां प्राजापत्यर्क्षसंयुतः ।
स ज्ञेयो विजयो नाम सर्वपापभयापहः । । १
तत्र कोटिगुणं सर्वफलं पुण्यस्य कर्मणः ।
ददाति भगवान्देवः पूजितश्चन्दनाधिपः । । २
स्नानं दानं जपो होमः पितृदेवादिपूजनम् ।
नक्तं चाप्युपवासस्तु सर्वमत्र दिवाकरः । । ३
कुर्यात्कोटिगुणं सर्वं पूजितो ह्यत्र गोपतिः ।
तस्मादत्र सदा देवं पूजयेद्भक्तिमान्नरः । । ४
सर्वेशं सप्तद्वीपेशं सप्तसैन्धववाहनम् ।
सप्तम्यां तु समाराध्य सप्तप्रकृतिसम्भवम् । ।५
सप्तलोकाधिपत्यं तु प्राप्नुते सप्तरश्मिभिः । । ६
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे विजयवारविधिवर्णनं
नामाष्टाशीतितमोऽध्यायः । ८८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 89
आदित्याभिमुखविधिवर्णनम्
ब्रह्मोवाच
कृष्णपक्षस्य सप्तम्यां माघमासे भवेत्तु यः ।
सादित्याभिमुखो१ ज्ञेयः शृणु चास्य विधिं परम् । । १
कृत्वैकभक्तं कृष्णस्य वारे त्रिपुरसूदन२ ।
प्रातः कृत्वा ततः स्नानं पूजयित्वा दिवाकरम् । । २
आदित्याभिमुखस्तिष्ठेद्यावदस्तमनं रवेः ।
जपमानो महाश्वेतां लाभमाश्रित्य सुव्रत । । ३
चतुर्हस्तमृजं श्लक्ष्णमव्रणं सुसमं दृढम् ।
रक्तचन्दनवृक्षस्य स्तम्भं कृत्वा गणाधिप । । ४
तमाश्रित्य महाभक्त्या देवदेवं दिवाकरम् ।
पश्यमानो जपञ्श्वेतां तिष्ठेदस्तमनाद्रवेः । । ५
गन्धपुष्पोपहारैस्तु पूजयित्वा दिवाकरम् ।
ब्राह्मणे दक्षिणां दत्त्वा ततो भुञ्जीत वाग्यतः । । ६
इत्थमेतं तु यः कुर्यादादित्यप्रीतये नरः ।
भानुमांस्तस्य प्रीतः स्यात्सर्वं प्रीतो ददादि हि । । ७
धनं धान्यं तथा पुत्रमारोग्यं भार्गवो यशः ।
तस्मात्सम्पूजयेदत्र गीर्वाणाधिपतिं हर । । ८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे आदित्याभिमुखविधिवर्णनं
नाम नवाशीतितमोऽध्यायः । ८९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 90
हृदयवारविधिवर्णनम्
ब्रह्मोवाच
रविसङ्क्रमणे यः स्याद्रवेर्वारो गणाधिप ।
स ज्ञेयो हृदयो नाम आदित्यहदयप्रियः । । १
तत्र नक्तं समाश्रित्य देवं सम्पूज्य भक्तितः ।
गत्वा च सदने भानोरादित्याभिमुखस्थितः । । २
जपेदादित्यहदयं सङ्ख्ययाष्टशतं बुधः ।
अथ वास्तमनं यावद्भास्करं चिंतयेद्धृदि । । ३
गृहमेत्य ततो विप्रान्भोजयेच्छक्तितः शिव ।
भुक्त्वा तु पायसं वीर ततो भूमौ स्वपेद्बुधः । । ४
योऽत्र सम्पूयेद्भानुं भक्त्या श्रद्धासमन्वितः ।
स कामाँल्लभते सर्वान्भास्कराद्धृदयस्थितान् । । ५
तेजसा यशसा तुल्यः प्रभयैषां महात्मनः ।
शक्रगोपाण्डजानां तु गोपतेर्गोवृषेक्षण । । ६
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे हृदयवारविधिवर्णनं
नाम नवतितमोऽध्यायः । ९० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 91
रोगहरविधिवर्णनम्
ब्रह्मोवाच
पूष्णो भवेद्यदा ऋक्षं भवेच्च भगदैवतम् ।
वासरः स महान्प्रोक्तः सर्वरोगभयापहः । । १
योऽत्र पूजयते भानुं शुभगन्धविलेपनैः ।
सर्वरोगविनिर्मुक्तो याति भानुसलोकताम् । । २
अर्कपत्रपुटे कृत्या पुष्पाण्यर्कस्य सुव्रत ।
देवस्य पुरतो रात्रौ भक्त्या यः स्थापयेद्बुधः । । ३
पूजयित्वार्कपुष्पैस्तु अर्कमर्कप्रियं सदा ।
प्राशयित्वार्कपुष्पं१ तु दत्त्वा विप्राय दक्षिणाम् । । ४
भक्त्या च पायसं वीर रात्रौ स्वपिति भूतले ।
अनेन विधिना यस्तु पूजयेदत्र वै रविम् । । ५
स मुक्तः सर्वरोगैस्तु३ गच्छेद्दिनकरालयम्४ ।
तस्मादपि व्रजेल्लोकं फुंकाररवहेतिनः । । ६
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यकल्पे रोगहरविधिवर्णनं
नामैकनवतितमोऽध्यायः । ९१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 92
महाश्वेतवारविधिवर्णनम्
ब्रह्मोवाच
यस्त्वादित्यग्रहस्यास्य वारो देवस्य सुव्रत ।
शस्यः प्रोक्तः प्रियो लोके ख्यातो गोश्रुतिभूषणः । । १
यस्तु पूजयते तस्मिन्पतङ्गं पतगप्रियम् ।
गन्धपुष्पोपहारैस्तु सूर्यलोकं स गच्छति । । २
सोपवासो गणश्रेष्ठ आदित्यग्रहणे शुचिः ।
जपमानो महाश्वेतां खपोषमथ वा शिवम् । । ३
पूजयेज्जगतामीशं तमोनाशनमाशुगम् ।
पूजयित्वा खपोषं तु महाश्वेतां ततो जपेत् । ।४
पूजयित्वा महाश्वेतां रविं देवं समर्चयेत् १ ।
महाश्वेतां प्रतिष्ठाप्य गन्धपुष्पैः सुपूजिताम् । । ५
तस्या एव बहिः२ कार्यं स्थण्डिलं सुसमाहितः ।
शुचौ भूमिविभागे तु वीरं संस्थाप्य यत्नतः । । ६
कुर्याद्धोमं तिलैः स्नातः सर्पिषा च विशेषतः ।
आदित्यग्रहवेलायां जपेञ्छ्वेतां महामते । । ७
मुक्ते दिनकरे पश्चात्स्नानं कृत्वा समाहितः ।
पूजयित्वा महाश्वेतां खगोल्कं३ च ग्रहाधिपम् । । ८
ब्राह्मणान् वाचयित्वा च ततो भुञ्जीत वाग्यतः ।
आदित्यग्रहयुक्तेऽस्मिन्वारे त्रिपुरसूदन । । ९
यत्कर्म क्रियते पुण्यं तत्सर्वं शुभदं भवेत् ।
स्नानदानजपादीनां कर्मणां गोवृषध्वज । । 1.92.१०
अनन्तं हि फलं तेषां भवत्यस्मिन्न संशयः ।
कृतानां तु गणश्रेष्ठा भास्करस्य वचो यथा । । ११
तस्माद्द्विजगणैः कार्यं पुण्यकर्मविचक्षणैः ।
एकभक्तं च नक्तं च उपवासं गणाधिप । । १२
ये वादित्यदिने कुर्युस्ते यान्ति परमं पदम् ।
धर्म्यं पुण्यं यशस्यं च पुत्रीयं कामदं तथा । । १३
तस्मिन्दानमपूपस्य गोदानेन समं भवेत् ।
द्वादशैते महाबाहो वीरभानोर्महात्मनः । । १४
तुष्टिदाः कथितास्तुभ्यं सर्वपापभयापहाः ।
पठतां शृण्वतां तात कुर्वतां च विशेषतः । । १५
कृत्वैकमेषां विधिवद्वारं वृषभवाहन ।
वृषादित्रितयं प्राप्य चात्रिजामचलां तथा । । १६
ततो याति परं लोकं वृषकेतो महात्मनः ।
तेजसाम्बुजसंकाशः प्रभयाण्डजसन्निभः । । १७
पत्रिहेतिसमो वीर्ये कान्त्या चन्द्रसमप्रभः । । १८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे महाश्वेतवारविधिवर्णनं
नाम द्विनवतितमोऽध्यायः । ९२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 93
भानुमहिमवर्णनम्
ब्रह्मोवाच
येषां धर्मक्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ।
न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा । । १
देवायतनभूमेस्तु गोमयेनोपलेपनम् ।
यः करोति नरो भक्त्या सद्यः पापात्प्रमुच्यते । । २
श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ।
उपलेपनकर्ता वै चिन्तितं लभते फलम् । । ३
चित्रभानुं विरञ्च्यैव१ कुसुमैर्यः सुगन्धिभिः ।
पूजयेत्सोपवासस्तु स कामानीप्सिताँल्लभेत् । । ४
घृतेन दीपकं ज्वाल्य तिलतैलेन वा रवेः ।
प्रयाति सूर्यलोकं स दीपकोटिशतैर्वृतः । । ५
दीपतैलप्रदानेन न याति नरकं नरः ।
दीपतैलं तिलाश्चैव२ महापातकनाशनाः । । ६
दीपं ददाति यो नित्यं भास्करायतनेषु३ वै ।
चतुष्पथेषु तीर्थेषु रूपौजस्वी ह जायते । । ७
यस्तु कारयते४ दीपं रवेर्भक्तिसमन्वितः ।
स कामानीप्सितान्प्राप्य वृन्दारकपुरं व्रजेत् । । ८
यः समालभते सूर्यं चन्दनागुरुकुङ्कुमैः ।
कर्पूरेण विमिश्रैश्च तथा कस्तूरिकान्वितैः । । ९
शुभं कालं कोटिशतं विहृत्य५ च भवालये ।
पुनः सञ्जायते भूमौ राजराजो न संशयः । ।
सर्वकामसमृद्धात्मा सर्वलोकनमस्कृतः । । 1.93.१०
चन्दनोदकमिश्रैश्च दत्त्वार्घ्यं कुसुमै रवेः ।
सपुत्रपौत्रपत्नीकः स्वर्गलोके महीयते६ । । ११
सुगन्धोदकमिश्रैस्तु दत्त्वार्घ्यं कुसुमै रवेः ।
देवलोके चिरं स्थित्वा राजा भवति भूतले । । १२
स हिरण्येन चार्घेण रक्तोदकयुतेन वा ।
कोटीशतं तु वर्षाणां स्वर्गलोके महीयते । । १३
पद्मैरभ्यर्चनं कृत्वा रवेः स्वर्गगतो नरः ।
पद्मे वसति वर्षाणां स्त्रीपद्मशतसंवृतः । । १४
गुग्गुलं सघृतं दत्त्वा रवेर्भक्तिसमन्वितः १ ।
तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः । । १५
पक्षं तु गुग्गुलं दत्त्वा मुच्यते ब्रह्महत्यया ।
संवत्सरेण लभते अश्वमेधफलं शिव । । १६
धूपेन लभते स्वर्गं तुरुष्केण सुगन्धिना ।
कर्पूरागुरुधूपेन राजसूयफलं लभेत् । । १७
पूर्वाह्णे मानवो भक्त्या श्रद्धया योऽर्चयेद्रविम् ।
स तत्फलमवाप्नोति यद्दत्ते कपिलाशते । । १८
मध्याह्ने योऽर्चयेत्सूर्यं प्रयतात्मा जितेन्द्रियः ।
लभते भूमिदानस्य गोशतस्य च तत्फलम् । । १९
पश्चिमायां तु सन्ध्यायां योऽर्चयेद्भास्करं नरः ।
शुचिः शुक्लाम्बरोष्णीषो गोसहस्रफलं लभेत् । । 1.93.२०
अर्धरात्रे तु यो हेलिं भक्त्या सम्पूजयेन्नरः ।
जातिस्मरत्वमाप्नोति कुले जातो वृषान्वितः । । २१
प्रदोषरात्रिवेलायां यः पूजयति भास्करम् ।
स गत्वा सहसा वीर क्रीडेत्सौमनसं२ क्षयम् । । २२
दण्डनायकवेलायां प्रभातसमये पुनः ।
पूजयित्वा रविं भक्त्या व्रजेदनिमिषालयम् । । २३
एवं वेलासु सर्वासु अवेलासु च मानवः ।
भक्त्या पूजयते योऽर्कमर्कपुष्पैः समाहितः । ।
तेजसादित्यसंकाशो ह्यर्कलोके महीयते । । २४
अयने तूत्तरे सूर्यमथ वा दक्षिणायने ।
पूजयेद्यस्तु वै भक्त्या स गच्छेत्कञ्जजालयम् । । २५
तत्रस्थः पूज्यते केशैः१ सर्वेः सुमनसस्तथा ।
गोपतिः पूज्यते यद्वद्गोपतिप्रमुखैः सुरैः । । २६
विषुवेषूपरागेषु षडशीतिमुखेषु च ।
पूजयित्वा रविं भक्त्या नात्मानं शोचते नरः । । २७
विबुध्य२ वा स्वयं वापि यो नमस्कुरुते रविम् ।
सन्तुष्टो भास्करस्तस्मै गतिमिष्टां प्रयच्छति । । २८
कृशरापायसापूपपललोन्मिश्रमोदकैः ।
बलिं कृत्वा तु सूर्याय सर्वकाममवाप्नुयात् । । २९
मोदकानां प्रदानेन३ पायसस्य च सुव्रत ।
मधुमांसरसैश्चापि प्रीयतेऽतीवभास्करः । । 1.93.३०
घृतेन तर्पणं कृत्वा सदा स्निग्धो भवेन्नरः ।
तर्पयित्वा तु मांसेन सद्यः पापात्प्रमुच्यते । । ३१
घृतेन स्नपनं कृत्वा एकाहमुदये रवेः ।
गवां शतसहस्रस्य दत्तस्य फलमश्नुते । । ३२
गवां क्षीरेण सन्तर्प्य पुण्डरीकफलं लभेत् ।
रसेन स्नापयेद्देवमश्वमेधफलं ५ लभेत् । । ३३
सूर्याय तरुणीं धेनुं गामेकां यः प्रयच्छति ।
कञ्जजामचलां प्राप्य पुनर्लेखपुरं व्रजेत् । । ३४
गोशरीरे तु रोमाणि यावन्ति त्रिपुरान्तक ।
स तावद्वर्षकोटीस्तु लेखलोके महीयते । । ३५
गोशतं भानवे दत्त्वा राजसूयफलं लभेत् ।
अश्वमेधफलं तस्य यः सहस्रं प्रयच्छति । । ३६
गुग्गुलं देवदारुं च दहेन्नित्यं घृतस्रवम् ।
आज्यधूमो६ हि देवानां प्रकृत्यैव प्रियः सदा । । ३७
भेर्यादीनि च वाद्यानि शङ्खवेण्वादिकानि च ।
ये प्रयच्छन्ति सूर्याय यान्ति ते हंसमन्दिरम् । । ३८
वज्रमाहरते यस्तु रवेर्भक्तिसमन्वितः ।
तीर्थोदकमथैवान्यः स याति विबुधालयम् । । ३९
विमानैः स्त्रीशताकीर्णैः क्रीडयित्वा चिरं नरः ।
मानुषत्वमनुप्राप्य राजा भवति धार्मिकः । ।1.93.४ ०
छत्रं ध्वजं वितानं च पताकाश्चामराणि च ।
हेमदण्डानि वै दद्याद्रवेर्यो भक्तिमान्नरः । । ४१
विमानेन स दिव्येन किङ्किणीजालमालिना ।
सूर्यलोकमतो गत्वा भवत्यप्सरसां पतिः । । ४२
तत्रोष्य सुचिरं कालं स्वर्गात्प्रत्यागतः पुनः ।
मानुष्ये जायते राजा सर्वराजनमस्कृतः । । ४३
दत्त्वा वासांसि सूर्याय अलङ्कारांस्तथैव च ।
क्रीडते जनलोकस्थो यावदाभूतसंप्लवम् । । ४४
गीतवादित्रनृत्यैश्च कुर्याज्जागरणं रवेः ।
गन्धर्वाप्सरसां मध्ये क्रीडते सुचिरं नरः । । ४५
गन्धैः पुष्पैस्तथा पत्रैः स्तोत्रैर्वा विविधैस्तथा ।
ये स्तुवन्ति रविं भक्त्या ते यान्ति पतगालयम् । । ४६
उषः स्तुवन्ति ये सूर्यमुपगायन्ति ते सदा ।
पाठकाश्चारणाश्चैव सर्वे ते स्वर्गगामिनः । । ४७
अश्वयुक्तं युगैर्युक्तं यो दद्याद्रवये रथम्।
काञ्चनं वापि रौप्यं वा मणिरत्नान्वितं शुभम् । । ४८
स यानेनार्कवर्णेन किङ्किणीजालमालिना ।
स्वर्गलोकमितो गत्वा क्रीडतेऽप्सरसा सह ।४ ९
यस्तु दारुमयं कुर्याद्रवे रथमनुत्तमम् ।
स यात्यर्कसवर्णेन१ विमानेनार्कमण्डलम् । । 1.93.५०
यात्रां कुर्वन्ति ये भानोर्नराः संवत्सरादपि ।
षण्मासाद्वा गणश्रेष्ठ तेषां पुण्यफलं शृणु । । ५१
ध्यानिनो योगिनश्चैव प्राप्नुवन्तीह यां गतिम् ।
तां गतिं प्रतिपद्यन्ते सूर्यवर्त्मावगाहिनः । । ५२
रथं वहन्ति ये भानोर्नरा भक्तिसमन्विताः ।
अरोगाश्चादरिद्राश्च जातौ जातौ भवन्ति ते । । ५३
कर्तारो रथयात्राया ये नरा भास्करस्य तु ।
ते भानुलोकमासाद्य विहरन्ति यथासुखम् । । ५४
यात्राभङ्गं तु यो मोहात्क्रोधाद्वा कुरुते नरः ।
मन्देहास्ते नरा ज्ञेया राक्षसाः पापकारिणः । । ५५
धनं धान्यं हिरण्यं वा वासांसि विविधानि च ।
ये प्रयच्छन्ति सूर्याय ते यान्ति परमां गतिम् । । ५६
गा वाथ महिषीर्वापि गजानश्वांश्च शोभनान् ।
य प्रयच्छति सूर्याय तस्य पुण्यफलं शृणु । । ५७
अक्षयं सर्वकामीयमश्वमेधफलं लभेत् ।
सहस्रगुणितं तच्च दानमस्योपतिष्ठति । । ५८
महीं ददाति योऽर्काय कृष्टां फलवती शुभाम् ।
स तारयति वै वंश्यान्दश पूर्वान्दशापरान् । । ५९
विमानेन च दिव्येन गोपुरं गोपतेर्व्रजेत् ।
क्रीडत्यप्सरसां मध्ये करीव करिणीगणे । । 1.93.६०
ग्रामं ददाति यो भक्त्या सूर्याय मतिमान्नरः१ ।
विमानेनार्कवर्णेन स याति परमां गतिम् । । ६१
आरामान्ये प्रयच्छन्ति पत्रपुष्पफलोपगान् ।
भानवे भक्तियुक्तास्तु ते यान्ति परमां गतिम् । । ६२
मानसं वाचिकं वापि कर्मजं यच्च दुष्कृतम् ।
सर्वं सूर्यप्रसादेन अशेषं च प्रणश्यति । । ६३
आर्तो वा व्याधितो वापि दरिद्रो दुःखितोऽपि वा ।
आदित्यं शरणं गत्वा नात्मानं शोचते नरः । । ६४
एकाहेनापि यद्भानोः पूजायाः प्राप्यते फलम् ।
तद्वै क्रतुशतैरिष्टैः प्राप्यते फलमुत्तमम् । । ६५
कृत्वा प्रेक्षणकं भानोर्दिव्यमायतने शुभम् ।
अक्षयं सर्वकामीयं राजसूयफलं लभेत् । । ६६
वेश्याकदम्बकं यस्तु दद्यात्सूर्याय भक्तितः ।
स गच्छेत्परमं स्थानं यत्र तिष्ठति भानुमान् । । ६७
पुस्तकं भानवे दद्याद्भारतस्य गणाधिप ।
सर्वपापविमुक्तात्मा विष्णुलोके महीयते । । ६८
रामायणस्य दत्वा तु पुस्तकं त्रिपुरान्तक ।
वाजपेयफलं प्राप्य गोपतेः पुरमाव्रजेत् । । ६९
भविष्यं साम्बसंज्ञं वा दत्त्वा सूर्याय पुस्तकम् ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः । ।1.93.७ ०
सर्वान्कामानवाप्नोति याति सूर्यसलोकताम् ।
सूर्यलोके चिरं स्थित्वा ब्रह्मलोकं व्रजेत्पुनः । ।
स्थित्वा कल्पशतं तत्र राजा भवति भूतले । । ७१
भानोरायतने यस्तु प्रपां कुर्याद्गणाधिप ।
स याति परमं स्थानं दिव्यं सौमनसं नरः । । ७२
शीतकाले घनं दद्यान्नराणां शीतनाशनम् ।
भानोरायतने देव अश्वमेधफलं लभेत् । । ७३
इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम् ।
अश्वमेधसहस्रं यो नित्यं कर्तुं प्रवर्तते । ।
न तत्फलमवाप्नोति यदाप्नोत्यस्य कर्मणः । । ७४
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ।
इतिहासपुराणाभ्यां भानोरायतने शुभम् । । ७५
नान्यत्पुष्टिकरं भानोस्तथा तुष्टिकरं परम् ।
पुण्याख्यानकथा यास्तु यथा तुष्यति भास्करः । । ७६
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे भानुमहिमवर्णनं
नाम त्रिनवतितमोऽध्यायः । ९३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 94
पुण्यश्रवणमाहात्म्यवर्णनम्
ब्रह्मोवाच
अत्राख्यानमुशन्तीह संवादं गणपुङ्गव ।
पितामहकुमाराभ्यां पुण्यं पापहरं शिवम् । । १
स्रष्टारं सर्वलोकानां सुखासीनं पितामहम् ।
प्रणम्य शिरसा देवं श्रद्धाभक्तिसमन्वितः । । २
कुमारो देवशार्दूल इदं वचनमब्रवीत् ।
गतोऽहमद्य भगवन्द्रष्टुं देवं दिवाकरम् । । ३
कृत्वा प्रदक्षिणं देवः स मया पूजितो रविः ।
प्रणम्य शिरसा भक्त्या परया श्रद्धया विभो । । ४
अनुज्ञातस्ततस्तेन सुखासीनो ह्यहं स्थितः ।
आसीनेन मया तत्र दृष्टमाश्चर्यमद्भुतम् । । ५
काञ्चनेन विमानेन किङ्किणीजालमालिना ।
मणिमुक्ताविचित्रेण वैदूर्यवरवेदिना । । ६
आगतं पुरुषं तत्र दृष्ट्वा देवो दिवाकरः१ ।
ससम्भ्रमं समुत्थाय आसनादेव सत्तम । । ७
गृहीत्वा१ दक्षिणे पाणौ पुरतः प्राप्य तं नरम् ।
शिरस्याघ्राय देवेश पूजयामास वै रविः । । ८
उपविष्टं तु तं भानुरिदं वचनमब्रवीत् ।
सुस्वागतं भद्र सुखकृता प्रीतास्त्वया वयम् । । ९
समीपे मम तिष्ठ त्वं यावदाभूतसंप्लवम् ।
पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा स्वयं स्थितः । । 1.94.१०
एतस्मिन्नंतरे चान्यो विमानवरमास्थितः ।
आगतः पुरुषो देवो यत्र तिष्ठति भास्करः । । ११
स चाप्येवं नरो देव पूजितो भानुना तदा ।
सामपूर्वं तथोक्तस्तु प्रश्रयावनतः स्थितः । । १२
तत्र मे कौतुकं जातं दृष्ट्वा पूजां कृतां तयोः ।
भानुना देवशार्दूल पृष्टो भानुर्मया ततः । । १३
किमनेन कृतं देव योऽयं पूर्वमिहागतः ।
नरस्तत्र सकाशं वै यस्य तुष्टो भवादृशाम् । । १४
यदस्य भवता पूजा कृता हि स्वयमेव तु ।
अत्र मे कौतुकं जातं विस्मयश्च विशेषतः । । १५
तथैवास्य कृता पूजा द्वितीयस्य नरस्य च ।
सर्वथा पुण्यकर्माणाविमौ नरवरोत्तमौ । । १६
ब्रह्मविष्णुशिवाद्यैस्तु पूज्यते भगवान्सदा ।
यस्त्वमाभ्यां परं पूजां कृतवान्देवसत्तम । । १७
कथ्यतां मम देवेश किमेतौ कर्म चक्रतुः ।
यस्येदृक्परमं पुण्यं फलं दिव्यमवापतुः । ।
श्रुत्वा तद्वचनं देव इदं वचनमब्रवीत् । । १८
सूर्य उवाच
साधु पृष्टोऽस्मि भवता कर्मणो निर्णयं परम् । । १९
यदनेन कृतं कर्म नरेण मुनिसत्तम ।
योऽसौ सूर्यमिहायातस्तच्छृणुष्व महामते । । 1.94.२०
येयं मदंशसम्भूतैः पार्थिवैः पालिता सदा ।
अयोध्या नाम नगरी प्रख्याता पृथिवीतले । । २१
तत्रासौ वैश्यजातीयो धनपाल इति स्मृतः ।
तस्याः पुर्यां द्विजश्रेष्ठ दिव्यमायतनं व्यधात्१ । । २२
तस्मिन्नायतने दिव्ये ह्याम्नायार्थं तथाश्रितः ।
ब्राह्मणानां विशिष्टानां पूजयित्या कदम्बकम् । । २३
इतिहासपुराणाभ्यां वाचकं च विशेषतः ।
पूजयित्वा द्विजश्रेष्ठं मुनश्रेष्ठं महामुनिम् । । २४
पुस्तकं चापि सम्पूज्य गन्धपुष्पोपहारतः ।
तस्य विप्रकदम्बस्य व्यासस्य च यथाग्रतः । । २५
प्रकल्प्योक्तो द्विजोऽनेन पाठको२ वाचकोत्तमः ।
एष तिष्ठति देवेशः सहस्रकिरणो रविः । । २६
चातुर्वर्ण्यमिदं वापि श्रोतुकामं कदम्बकम् ।
तिष्ठ चेह द्विजश्रेष्ठ कुरु पुस्तकवाचनम् । । २७
येन मे वरदो भानुः३ सप्त जन्मानि वै भवेत् ।
यावत्संवत्सरं विप्र प्रगृह्य वृत्तिमुत्तमाम् । । २८
स्वर्णनिष्कशतं विप्र ततो दास्ये तथापरम् ।
पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोऽर्थमहमात्मनः । । २९
एवं प्रवर्तिते तस्मिन्पुण्ये पुस्तकवाचने ।
षण्मासागतमात्रे तु काले सुरवरोत्तम । ।
तथैवान्तरतश्चायं कालधर्ममुपेयिवान् । । 1.94.३०
मया चास्य विमानं तु प्रेषितं कुर्वतो व्रतम् ।
इत्येषा कर्मणस्तुष्टिः पुण्याख्यानकजार्चिता । । ३१
गन्धपुष्पोपहारैस्तु न तथा जायते मम ।
प्रीतिर्देववर श्रेष्ठ पुराणश्रवणे यथा । । ३२
गोसुवर्णहिरण्यानां वस्त्राणां चापि कृत्स्नशः ।
ग्रामाणां नगराणां च दानं प्रीतिकरं मम । । ३३
न तथा स्यात्सुरश्रेष्ठ यथा प्रीतिकरं गुह ।
इतिहासपुराणाभ्यां श्रवणं सुरसैन्यप ।। ३४
श्राद्धं कुर्वन्ति ये मह्यं भक्ष्यभोज्यैरनेकशः ।
न करोति तथा प्रीतिर्यथा पुस्तकवाचनम् । । ३५
कर्णश्राद्धे यथा प्रीतिर्मम स्यात्सुरसत्तम ।
न तथा जायते प्रीतिर्भोज्यश्राद्धे तथैव च । । ३६
अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम ।
पुण्याख्यानादृते देव गुह्यमेतत्प्रकीतितम् । । ३७
यश्चायमपरो विप्र इहायतो नरोत्तमः ।
अयमासीद्दिवजश्रेष्ठस्तस्मिन्नेव पुरोत्तमे । । ३८
एकदा तु गतश्चायं धर्मश्रवणमुत्तमम् ।
श्रोतुं भक्त्या द्द्विजश्रेष्ठ श्रद्धया परया वृतः । । ३९
श्रुत्वा तत्र ततो भक्त्या पुण्याख्यानमनुत्तमम् ।
कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः । ।
एष विप्रोऽमरश्रेष्ठ दत्तवान्स्वर्णमाषकम् । । 1.94.४०
दत्त्वा तु दक्षिणां तस्मै वाचकायामितौजसे १ ।
आनन्दमगमद्विप्रः प्राप्तवान्काञ्चनं यथा ।४ १
एतद्धि सफलं चास्य न चान्यत्कृतवानयम् ।
यदनेन कृता पूजा वाचकस्य महात्मनः । ।
फलं हि कर्मणस्तस्य यन्मया पूजितः स्वयम् । । ४२
वाचकं पूजयेद्यस्तु श्रद्धाभक्तिसमन्वितः ।
तेनाहं पूजितः स्यां वै को विष्णुः शङ्करस्तथा । । ४३
वाचकं भोजयेद्यस्तु भक्त्या भोज्येरनुत्तमैः ।
तेनाहं पूजितः स्यां वै दश वर्षाणि पञ्च च ।।४४
न यमो न यमी चापि न मन्दो न मनुस्तथा ।
तपती न तथान्विष्टा यथेष्टो वाचको मम ।।४५
वाचके सत्कृते देव भोजिते सुरसैन्यप ।
तृप्तिर्भवति मे देव संवत्सरशतद्वयम् ।।४६
न केवलं मम प्रीतिर्वाचके भोजिते भवेत् ।
कृत्स्नशो देवतानां च इन्द्रादीनां तथा भवेत् ।।४७
ब्रह्मविष्णुशिवादीनां स चेष्ठो वाचको मम ।
प्रीते तस्मिन्देवताः स्युः सर्वाः प्रीता न संशयः ।।४८
इत्येतत्कथितं सर्वमाभ्यां कर्म महाबल ।।४९
न चान्यच्चक्रतुः कर्म किमन्यच्छ्रोतुमिच्छसि ।
एतद्दृष्ट्वाहमाश्चर्यं तवाभ्याशमिहागतः ।।
किमत्र तथ्यं देवेश कथ्यतां कौतुकं मम ।।1.94.५०
श्रुत्वा कुमारवचनं सर्वलोकपितामहः ।।५१
ब्रह्मोवाच
हन्त भोः साधु पुण्योऽसि नास्ति तुल्यस्त्वयापरः ।
यद्दृष्टौ भवता तौ हि सुपुण्यौ पुण्यकारिणौ ।।५२
यदुक्तं भानुना वत्स तत्तथा नान्यथा भवेत् ।
यदासीन्मे मुखं पुत्र प्रथमं लोकपूजितम् ।।५३
तस्मादेतानि सर्वाणि निर्गतानि समन्ततः ।
इतिहासपुराणानि लोकानां हितकाम्यया ।।५४
यथैतानि ममेष्टानि पुराणानि महामते ।
न तथा वै चतुर्वेदी न चाङ्गिनि महामते ।।५५
शृण्वन्त्येतानि ये भक्त्या नित्यं श्रद्धासमन्विताः ।
दत्त्वा तु वाचके वृत्तिं ते गच्छन्ति परं पदम् ।।५६
धर्मार्थकाममोक्षाणां स्पष्टीकरणमुत्तमम् ।
इतिहासपुराणानि मया सृष्टानि सुव्रत । । ५७
चत्वारो य इमे वेदा गूढार्थाः सततं स्मृताः ।
अतस्त्वेतानि सृष्टानि बोधायैषां महामते । । ५८
यस्तु कारयते नित्यं धर्मश्रवणमुत्तमम् ।
आदित्याद्भास्करं प्राप्य याति तत्परमं पदम् । । ५९
दत्त्वा तु दक्षिणां तत्र आदित्यस्य पुरं व्रजेत् ।
किमाश्चर्यं सुरश्रेष्ठ दानपात्रं हि तत्परम् । । 1.94.६०
यथा देववरो लेखो यथा हेतिः परं पविः ।
ब्राह्मणानां तथा श्रेष्ठो वाचको नात्र संशयः । । ६१
हेतिर्यथा तेजसां तु सरसां सागरो यथा ।
तथा सर्वद्विजेभ्यस्तु वाचकः प्रवरः स्मृतः । । ६२
वाचकं पूजयेद्यस्तु नरो भक्तिपुरः सरम् ।
पूजितं सकलं तेन जगत्यान्नात्र संशयः । । ६३
सत्यमुक्तं न सन्देहो भानुना मत्कुलोद्वह ।
वाचकेन समं पात्रं न जात्वन्यद्भवेत्क्वचित् । । ६४
तच्छ्रुत्वा ब्रह्मणो वाक्यं कुमारो वाक्यमब्रवीत् । । ६५
अहो हि धन्यता तस्य पुण्यश्रवणकारिणः ।
दानं च ददतोऽत्यर्थं पुण्यता वाचकाय वै । । ६६
ब्रह्मोवाच
इत्थं दिण्डे सदा यस्तु देवदेवस्य मन्दिरे ।
कुर्यात्तु धर्मश्रवणं स याति परमां गतिम् । । ६७
इति श्रीभविष्यमहापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे पुण्यश्रवणमाहात्म्य वर्णनं
नाम चतुर्नवतितमोऽध्यायः । ९४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 95
आदित्यालयमाहात्म्यवर्णनम्
ब्रह्मोवाच
त्रिभिः प्रदक्षिणां कृत्वा यो नमस्कुरुते रविम् ।
भूमौ गतेन शिरसा स याति परमां गतिम् । । १
सोपानत्को देवगृहमारोहेद्यस्तु मानवः ।
स याति नरकं घोरं तामिस्रं नाम नामतः । । २
श्लेष्ममूत्रपुरीषाणि समुत्सृजति यस्तु वै ।
देवस्यायतने भानोः स गच्छेन्नरकं क्रमात् । । ३
घृतं मधु पयस्तोयं तथेक्षुरसमुत्तमम् ।
स्नपनार्थं तु देवस्य ये ददतीह मानवाः । ।
सर्वकामानवाप्येह ते यान्ति हेलिमण्डलम् । । ४
स्नाप्यमानं रविं भक्त्या ये पश्यन्ति वृषध्वज ।
तेऽश्वमेधफलं प्राप्य लयं यान्ति वृषध्वजे । । ५
स्नपनं ये च कुर्वंति भानोर्भक्तिसमन्विताः ।
लभन्ते तत्फलं भीम राजसूयाश्वमेधयोः । । ६
यथा न लङ्घयेत्कश्चित्स्नपनं भास्करस्य तु ।
तथा कार्यं प्रयत्नेन लङ्घितं ह्यसुखावहम् । । ७
तामिस्रं नरकं याति लङ्घयेच्च स रौरवान् ।
तस्मात्सर्वप्रयत्नेन कार्यं स्नपनमादितः । । ८
घृतेन स्नापयेद्देवं कञ्जमाप्नोति मानवः ।
मधुना प्रियमायाति तोयेनापि घृतौकसम् । । ९
इक्षुरसेन संस्नाप्य पयसा कञ्जशध्वजम् ।
एवमेभिः स्नापयेद्वै रविमीहितमाप्नुयात् । । 1.95.१०
इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि सप्तमीकल्पे आदित्यालयमाहात्म्यवर्णनं
नाम पञ्चनवतितमोऽध्यायः । ९५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 96
जयानामसप्तमीवर्णनम्
दिण्डिरुवाच
यच्चैताः सप्त सप्तम्यो भवता कथिता मम ।
तासां या प्रथमा देव कथिता सा सविस्तरा । । १
यास्त्वन्या देवशार्दूल ताः सर्वाः कथयस्व मे ।
येनोपोष्य ततस्तास्तु व्रजेऽहं हेलिसद्म वै । । ६
ब्रह्मोवाच
शुक्लपक्षस्य सप्तम्यां नक्षत्रं पञ्चतारकम् ।
यदा स्यात्सा तदा ज्ञेया जया नामेति सप्तमी । । ३
तस्यां दत्तां१ हुतं जापस्तर्पणं देवपूजनम् ।
सर्वं शतगुणं प्रोक्तं पूजा चापि दिवाकरे । । ४
भास्करस्य प्रिया ह्येषा सप्तमी पापनाशिनी ।
धन्या यशस्या पुत्र्या च कामदा कञ्जजावहा । । ५
विधिनानेन कर्तव्या तिथिर्या मम विद्यते ।
तं शृणुष्व विधिं मत्तो येन कृत्वार्थमश्नुमते । ६
हंसे हंसमाक्ये शुक्लेयं सप्तमी पुरा ।
समुपोष्य च कर्तव्या विधिनानेन शङ्कर । । ७
पारणा तृतीयाऽहे स्यात्कथितं गोवृषावहम् ।
प्रथमं चतुरो मासान्पारणं कथितं बुधैः । । ८
कथितान्यत्र पुष्पाणि करवीरस्य सुव्रत ।
चन्दनं च तथा रक्तं धूपार्थं गुग्गुलं परम् । । ९
कासारं तु सुपक्वं च नैवेद्यं भास्कराय वै ।
अनेन विधिना पूज्य मार्तण्डं विबुधाधिपम् । । 1.96.१०
पूजयेद्ब्राह्मणान्भीम भक्ष्यभोज्यैर्यथाविधि ।
कासारं भोजयेद्विप्रान्पारणेऽस्मिन्विचक्षणः । ।
स्वयमेव तथाश्नीयात्प्रयतो मौनमाश्रितः । । ११
पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रवर्तते ।
कृत्वोपवासं सप्तम्यामष्टम्यां पारणं भवेत् । । १२
षष्ठ्या समेता कर्तव्या नाष्टम्येयं कदाचन ।
यस्योपवासनायैव षष्ठ्यामाहुरुपोषितम् । । १३
यथैकादश्यां कुर्वन्ति उपवासं मनीषिणः ।
उपवासनाय द्वादश्यां तथेयं परिकीर्तिता । । १४
सिद्धार्थकैः स्नानमन्त्रः प्राशनं गोमयस्य तु ।
भानुर्मे प्रीयतामत्र दन्तकाष्ठं तथार्कजम् । । १५
इत्येष कथितस्तात प्रथमे पारणे विधिः ।
द्वितीयं श्रूयतां भीम पारणं गदतो मम । । १६
मालतीकुसुमानीह श्रीखण्डं चन्दनं तथा ।
नैवेद्यं पायसं भानोर्धूपं विजयमादिशेत् । । १७
ब्राह्मणान्भोजयेद्वापि तथाश्नीयात्स्वयं विभो ।
रविर्मे प्रीयतामत्र नाम देवस्य कीर्तयेत् । । १८
प्राशयेत्पञ्चगव्यं तु खदिरं दन्तधावने ।
द्वितीये पारणे वीर विधिरुक्तो मयाधुना । । १९
तृतीयं पारणं चापि कथ्यमानं निबोध मे ।
अगस्तिकुसुमैरत्र भास्करं पूजयेद्बुधः । । 1.96.२०
समालम्भनमत्रोक्तं श्रीखण्डं कुसुमं तथा ।
सिह्लको धूप उद्दिष्टो भानोः प्रीतिकरः परः । । २१
शाल्योदनं तु नैवेद्यं रसालोपरिसंयुतम् ।
ब्राह्मणानां तु दातव्यं भक्षयेत तथात्मना । । २२
कुशोदकप्राशनं तु बदर्या दन्तधावनम् ।
विकर्तनः प्रीयतां मे नाम देवस्य कीर्तयेत् । । २३
वर्षासु देवदेवस्य पूजा कार्या विधानतः ।
गन्धपुष्पोपहारैस्तु नानाप्रेक्षणकैस्तथा । । २४
गोदानैर्भूमिदानैर्वा ब्राह्मणानां च तर्पणैः ।
इत्थं सम्पूज्य देवेशं देवस्य पुरतः स्थितः । । २५
कारयेत्परमं पुण्यं धन्यं पुस्तकवाचनम् ।
वस्त्रैर्गन्धैस्तथा धूपैर्वाचकं पूजयेत्ततः । । २६
देवस्य पुरतः स्थित्वा ततो मन्त्रमुदीरयेत् ।
देवदेव जगन्नाथ सर्वरोगार्तिनाशन । ।
ग्रहेश लोकनयन विकर्तन तमोऽपह । । २७
कृतेयं देवदेवेश जया नामेति सप्तमी ।
मया तव प्रसादेन धन्या पापहरा शिवा । । २८
अनेन विधिना वीर यः कुर्यात्सप्तमीमिमाम् ।
तस्य स्नानादिकं सर्वं भवेच्छतगुणं विभो । । २९
कृत्वेमां सप्तमीं वीर पुरुषः प्राप्नुयाद्यशः ।
धनं धान्यं सुवर्णं च पुत्रमार्यबलं श्रियम् । । 1.96.३०
प्राप्येह देवशार्दूल सूर्यलोकं स गच्छति ।
तस्मादेत्य पुनर्भूमौ राजराजो भवेद्बुधः । । ३१
इत्येषा कथिता वीर जया नामेति सप्तमी । कृता स्मृता श्रुता सा तु हेलिलोकप्रदायिनी । । ३२
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे जयानामसप्तमीमाहात्म्यवर्णनं
नाम षण्णवतितमोऽध्यायः । ९६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 97
जयन्तीकल्पवर्णनम्
ब्रह्मोवाच
माघस्य शुक्लपक्षे तु सप्तमी या त्रिलोचन ।
जयन्ती नाम सा प्रोक्ता पुण्या पापहरा शिवा । । १
सोपोष्या येन विधिना शृणु तं पार्वतीप्रिय ।
पारणानि तु चत्वारि कथितान्यत्र पण्डितैः । । २
पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम् ।
उपवासस्तु सप्तम्यामष्टम्यां पारणं भवेत् । । ३
माघे च फाल्गुने मासि तथा चैत्रे च सुव्रत ।
बकपुष्पाणि रम्याणि कुङ्कुमं च विलेपनम् । । ४
नैवेद्यं मोदकांश्चात्र धूप आज्यमुदाहृतः ।
प्राशनं पञ्चगव्यं तु पवित्रीकरणं परम् ।। ५
मोदकैर्भोजयेद्विप्रान्यथाशक्त्या गणाधिप ।
शाल्योदनं च भूतेश दद्याच्छक्त्या द्विजेषु वै । ६
इत्थं सम्पूजयेद्यस्तु भास्करं लोकपूजितम् ।
सर्वस्मिन्पारणे वीर सोऽश्वमेधफलं लभेत् । । ७
द्वितीये पारणे पूज्य राजसूयफलं लभेत् ।
वैशाखाषाढज्येष्ठेषु श्रावणे मासि सुव्रत । ।
पूजार्थमथ भानोर्वै शतपत्राणि सुव्रत । । ८
श्वेतं च चन्दनं भीम धूपो गुग्गुलुरुच्यते ।
नैवेद्यं गुडपूपास्तु प्राशनं गोमयस्य तु । ।
भोजने चापि विप्राणां गुडपूपाः प्रकीर्तिताः । । ९
द्वितीयमिदमाख्यातं पारणं पापनाशनम् ।
राजसूयाश्वमेधाभ्यां फलदं भास्करप्रियम् । । 1.97.१०
तृतीयं शृणु देवस्य पूजार्थे भास्करस्य तु ।
मासि भाद्रपदे वीर तथा चाश्वयुजे विभो । । ११
कार्त्तिके चापि मासे तु रक्तचन्दनमादिशेत् ।
मालतीकुसुमानीह धूपो विजय उच्यते । । १२
नैवेद्यं घृतपूपास्तु भोजनं च द्विजन्मनाम् ।
कुशोदकप्राशनं तु कायशुद्धिकरं परम् । । १३
तृतीयमपि चाख्यातं पारणं पापनाशनम् ।
राजसूयाश्वमेधाभ्यां फलदं भास्करप्रियम् । । १४
चतुर्थमपि ते वच्मि पारणं पापनाशनम् ।
राजसूयाश्वमेधाभ्यां फलदं भास्करप्रियम् । । १५
तदद्य देवशार्दूल पारणं श्रेयसे शृणु ।
मासि मार्गशिरे वीर पौषे मासि तथा शिव । । १६
माघे च देवशार्दूल शृणु पुण्यान्यशेषतः ।
करवीराणि रक्तानि तथा रक्तं च चन्दनम् । १७
अमृताख्यस्तथा धूपो नैवेद्यं पायसं परम् ।
आर्जनीयं तथा तक्रं प्राशनं परमं स्मृतम् । । १८
अगरुं चन्दनं मुस्तं सिह्लकं त्र्यूषणं तथा ।
समभागैस्तु कर्तव्यमिदं चामृतमुच्यते । । १९
नामानि कथितान्यत्र भास्करस्य महात्मनः ।
चित्रभानुस्तथा भानुरादित्यो भास्करस्तथा । । 1.97.२०
प्रीयतामिति सर्वस्मिन्पारणे विधिमादिशेत् ।
अनेन विधिना यस्तु कुर्यात्पूजां विभावसोः । । २१
तस्यां तिथौ देवदेव स याति परमं पदम् ।
कृत्वैवं सप्तमीं भीम सर्वकामानवाप्नुते । । २२
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ।
सरोगो मुच्यते रोगैः शुभमाप्नोति पुष्कलम् । । २३
पूर्णे संवत्सरे भीम कार्या पूजा दिवाकरे ।
गन्धपुष्पोपहारैस्तु ब्राह्मणानां च तर्पणैः । ।
नानाविधैः प्रेक्षणकैः पूजया वाचकस्य तु । । २४
इत्थं सम्पूज्य देवेशं ब्राह्मणांश्चाभिपूज्य च ।
वाचकं च द्विजं पूज्य इदं वाक्यमुदीरयेत् । । २५
धर्मकार्येषु मे देव अर्थकार्येषु नित्यशः ।
कामकार्येषु सर्वेषु जयो भवतु सर्वदा । । २६
ततो विसर्जयेद्विप्रान्वाचकं तु द्विजोत्तमम् ।
इत्थं कुर्यादिदं यस्तु स जयं प्राप्नुयात्फलम् । ।
सर्वपापविशुद्धात्मा सूर्यलोकं स गच्छति । । २७
विमानवरमारुढः कञ्जजोद्भवमुत्तमम् ।
तेजसा रविसंकाशः प्रभया पतगोपमः । । २८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे जयन्तीकल्पवर्णनं
नाम सप्तनवतितमोऽध्यायः । ९७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 98
अपराजितावर्णनम्
ब्रह्मोवाच
मासि भाद्रपदे शुक्ला सप्तमी या गणाधिप ।
अपराजितेति विख्याता महापातकनाशिनी । । १
चतुर्थ्यामेकभक्तं तु पञ्चम्यां नक्तमादिशेत् ।
उपवासं तथा षष्ठ्यां सप्तम्यां पारणं स्मृतम् । । २ ।
पारणान्यत्र चत्वारि कथितानि मनीषिभिः ।
पुष्पाणि करवीरस्य तथा रक्तं च चन्दनम् । ।३
धूपक्रिया गुग्गुलेन नैवेद्यं गुडपूपकाः ।
भाद्रपदादिमासेषु विधिरेष प्रकीर्तितः । । ४
श्वेतानि भीमपुष्पाणि तथा श्वेतं च चन्दनम्।
धूपमाज्यमिहाख्यातं नैवद्यं पायसं रवेः । । ५
मार्गशीर्षादिमासेषु विधिरेष प्रकीर्तितः ।
ततोऽगस्त्यस्य पुष्पाणि कुङ्कुमं च विलेपनम् । । ६
धूपार्थं सिह्लकं प्रोक्तमथ वा रविवर्णकम् ।
शाल्योदनं च नैवेद्यं सरसं फाल्गुनादिषु । । ७
रक्तोत्पलानि भूतेश सागुरुं चन्दनं तथा ।
अनन्तो धूप उद्दिष्टो नैवेद्यं खण्डपूपकाः । । ८
श्रीखण्डं ग्रन्थिसहितमगुरुः सिह्लकं तथा ।
मुस्ता तथेन्द्रं भूतेश शर्करा गृह्यते त्र्यहम् । । ९
इत्येष धूपोऽनन्तस्तु कथितो देवसत्तम ।
ज्येष्ठादिमासेषु तथा विधिरुक्तो मनीषिभिः । । 1.98.१०
शृणु नामानि देवस्य प्राशनानि च सुव्रत ।
सुधांशुरर्यमा चैव सविता त्रिपुरान्तकः । । ११
पारणेष्वेव सर्वेषु प्रीयतामिति कीर्तयेत् ।
गोमूत्रं पञ्चगव्यं तु घृतं चोष्णं पयो दधि । । १२
यस्त्वेतां सप्तमो कुर्यादनेन विधिना नरः ।
अपराजितो भवेत्सोऽसौ सदा शत्रुभिराहवे । । १३
जित्वा शत्रुं लभेतापि त्रिवर्गं नात्र संशयः ।
त्रिवर्गमथ सम्प्राप्य स्वर्भानोः पुरमश्नुते । । १४
ततः पूर्णेषु मासेषु पूजयेच्छक्तितः खगम् ।
गन्धपुष्पोपहारैस्तु पुराणश्रवणेन च । । १५
अश्वदानेन च विभोर्ब्राह्मणानां च तर्पणैः ।
वाचकं पूजयित्वा च भास्करस्य प्रियं सदा । । १६
भास्कराय ध्वजान्दद्यान्नानारत्नविभूषितान् ।
य इत्थं कुरुते वीर सप्तमीं यत्नतः सदा । । १७
स पराजित्य वै शत्रुं याति हंससलोकताम् । । १८
शुक्लाश्वोद्भवयानेन आपगेन पताकिना ।
आपगाधिपसंकाश आपगानुचरो भवेत् । । १९
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे अपराजितावर्णनं
नामाष्टनवतितमोऽध्यायः । ९८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 99
महाजयाकल्पवर्णनम्
ब्रह्मोवाच
शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः ।
महाजया तदा सा वै सप्तमी भास्करप्रिया । । १
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।
सर्वं कोटिगुणं प्रोक्तं भास्करस्य वचो यथा । । २
यस्तस्यां मानवो भक्त्या घृतेन स्नापयेद्रविम् ।
सोऽश्वमेधफलं प्राप्य स्वर्गलोकमवाप्नुयात् । । ३
पयसा स्नापयेद्यस्तु भास्करं भक्तिमान्नरः ।
विमुक्तः सर्वपापेभ्यो याति सूर्यसलोकताम् । ।४
कार्पूरेण विमानेन किङ्किणीजालमालिनी ।
तेजसा हरिसंकाशः कान्त्या सूर्यसमस्तथा । । ५
स्थित्वा तत्र चिरं कालं राजा भवति चाञ्जसा ।
महाजयैषा कथिता सप्तमी त्रिपुरान्तक । । ६
यामुपोष्य नरो भक्त्या भवते सूर्यलोकगः ।
ततो याति परं ब्रह्म यत्र गत्वा न शोचति । । ७
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे महाजयाकल्पवर्णनं
नामैकोनशततमोऽध्यायः । ९९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 100
नन्दानामसप्तमीवर्णनम्
ब्रह्मोवाच
या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी ।
नन्दा सा कथिता वीर सर्वानन्दकरी शुभा । । १
पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम् ।
सप्तम्यामुपवासं तु कीर्तयन्ति मनीषिणः । । २
पारणान्यत्र वै त्रीणि शंसन्तीह मनीषिणः ।
मालतीकुसुमानीह सुगन्धं चन्दनं तथा । । ३
कर्पूरागरुसम्मिश्रं धूपं चात्र विनिर्दिशेत् ।
दध्योदनं सखण्डं च नैवेद्यं भास्करप्रियम् । । ४
तमेव दद्याद्विप्रेभ्योऽश्नीयाच्च तदनु स्वयम् ।
धूपार्थं भास्करस्यैष प्रथमे पारणे विधिः । । ५
पलाशपुष्पाणि विभो धूपो यः शक्य एव च ।
कर्पूरं चन्दनं कुष्ठमगुरुः सिह्लकं तथा । । ६
सग्रन्थि वृषणं भीम कुंकुमं गृञ्जनं तथा ।
हरीतकी तथा भीम एष पक्षक उच्यते । । ७
धूपः प्रबोध आदिष्टो नैवेद्यं खण्डमण्डकाः ।
कृष्णागरुः सितं कञ्जं बालकं वृषणं तथा । । ८
चंदनं तगरो मुस्ता प्रबोधशर्करान्विता ।
भोजयेद्ब्राह्मणांश्चापि खण्डखाद्यैर्गणाधिप । ।
निम्बपत्रं तु सम्प्राश्य ततो भुञ्जीत वाग्यतः । । ९
पारणस्य द्वितीयस्य विधिरेष प्रकीर्तितः । । 1.100.१०
नीलोत्पलानि शुभ्राणि धूपं गौग्गुलमाहरेत् ।
नैवेद्यं पायसं देयं१ प्रीतये भास्करस्य तु । । ११
विलेपनं चन्दनं तु प्राशने विधिरुच्यते ।
तृतीयस्यापि ते वीर कथितो विधिरुत्तमः । । १२
शृणु नामानि देवस्य पावनानि नृणां सदा ।
विष्णुर्भगस्तथा धाता प्रीयतामुद्गिरेच्च वै । । १३
अनेन विधिना यस्तु कुर्यात्प्रयतमानसः ।
सकामानिह सम्प्राप्य नन्दते शाश्वती समाः । । १४ ।
ततः सूर्यसदो गत्या नन्दते नन्दवर्धन ।
एषा तु नन्दजननी तवाख्याता भया शिव । । १५
यामुपोष्य ततो भुक्त्वा नन्दते हंसमाप्य वै । । १६
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे नन्दानामसप्तमीवर्णनं
नाम शततमोऽध्यायः । १०० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 101
भद्राकल्पवर्णनम्
ब्रह्मोवाच
शुक्लपक्षे तु सप्तम्यां नक्षत्रं सवितुर्भवेत् ।
यदा प्रथमता चैव तदा वै भद्रतां व्रजेत् । । १
स्नपनं तत्र देवस्य घृतेन कथितं बुधैः ।
क्षीरेण च तथा वीर पुनरिक्षुरसेन च । । २
स्नापयित्वा तु देवेशं चन्दनेन विलेपयेत् ।
दग्ध्वा तु गुग्गुलं तस्य दद्याद्भद्रं तथाग्रतः । । ३
गोधूमचूर्णं निवपन्विमलं शशिसन्निभम् ।
सवज्रं सगुडं चैव रक्तपुष्पोपशोभितम् । । ४
यदस्य शृङ्गमीशानं तत्र वै मौक्तिकं न्यसेत् ।
यदाग्नेयं तत्र माणिक्यं न्यसेद्वा लोहितं मणिम् । । ५
नैर्ऋत्ये मकरं दद्याद्वायव्ये पद्मरागिणम् ।
गाङ्गेयमन्ततस्तस्य स्वशक्त्या विन्यसेद्बुधः । । ६
चतुर्थ्यामेकभक्तं तु पञ्चम्यां नक्तमादिशेत् ।
षष्ठ्यामयाचितं प्रोक्तं(क्त?) उपवासो ह्यतः परः । । ७
पाषण्डिनो विकर्मस्थान्बैडालव्रतिकान्त्यजान् ।
सप्तम्यां पालयेत्प्राज्ञो दिवा स्वापं विवर्जयेत् । । ८
अनेन विधिना यस्तु कुर्याद्वै भद्रसप्तमीम् ।
तस्मै भद्राणि सर्वाणि यच्छन्ति ऋभवः सदा । । ९
भद्रं ददाति यस्त्वस्यां भद्रस्तस्य सुतो भवेत् ।
भद्रमासाद्य भूतेश सदा भद्रेण तिष्ठति । । 1.101.१०
दिण्डिरुवाच
कोऽयं भद्र इति प्रोक्तः कथं कार्यं प्रभूषणम् ।
दत्त्वा च किं फलं विद्याद्विधिना केन दीयते । । ११
ब्रह्मोवाच
व्योम भद्रमिति प्रोक्तं देवचिह्नमनूपमम् ।
यद्धृत्वेह नरः सूर्यं मुच्यते सर्वकिल्बिषैः । । १२
शालिपिण्डमयं कार्यं चतुष्कोणमनूपमम् ।
गव्येन सर्पिषा युक्तं खण्डशर्करयान्वितम् । । १३
चातुर्जातकपूर्णं तु द्राक्षाभिश्च विशेषतः ।
नालिकेरफलैश्चैव सुगन्धं च गणाधिप । । १४
मध्येन्द्रनीलं भद्रस्य न्यसेत्प्राज्ञः स्वशक्तितः ।
पुष्परागं मरकतं पद्मरागं तथैव च । । १५
अनौपम्यं च माणिक्यं क्रमात्कोणेषु विन्यसेत् ।
वाचकायाथ वा दद्यादथ वा भोजके स्वयम् । । १६
अनेन विधिना यस्तु कृत्वा भद्रं प्रयच्छति ।
स हि भद्राणि सम्प्राप्य गच्छेद्गोपतिमन्दिरम् । । १७
ब्रह्मलोकं ततो गच्छेद्यानारूढो न संशयः ।
तेजसा गोजसंकाशः कांत्या गोजसमस्तथा । । १८
प्रभया गोपतेस्तुल्य ऊर्जसा गोपरस्य च ।
तस्मादेत्य पुनर्भूमौ गोपतिः स्यान्न संशयः । ।
प्रसादाद्गोपतेर्वीर सर्वज्ञाधिपपूजितः । । १९
इत्येषा कथिता भीम भद्रा नामेति सप्तमी ।
यामुपोष्य नरो भीम ब्रह्मलोकमवाप्नुयात् । । 1.101.२०
शृण्वन्ति ये पठन्तीह कुर्वन्ति च गणाधिप ।
ते सर्वे भद्रमासाद्य यान्ति तद्ब्रह्म शाश्वतम् । । २१
सुमन्तुरुवाच
इत्युक्तवान्पुरा ब्रह्मा दिण्डिने सप्तमीव्रतम् ।
मयाप्युक्तं तव विभो यथाज्ञातं यथाश्रुतम् । । २२
गृहीत्वा सप्तमीकल्पं मानवो यस्तु भूतले ।
त्यजेत्कामाद्भयाद्वापि स ज्ञेयः पतितोऽबुधः । । २३
तस्माद्धारय तद्वीर न त्याज्यं सप्तमीव्रतम् ।
त्यजमानो भवेद्वीर आरूढपतितो नरः । । २४
श्रावयेद्यस्तु भक्त्या च सप्तमीकल्पमादितः ।
सोऽश्वमेधफलं प्राप्य ततो याति परं पदम् । । २५
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भद्राकल्पवर्णनं
नामैकाधिकशततमोध्यायः । १०१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 102
नक्षत्रपूजाविधिवर्णनम्
सुमन्तुरुवाच
एवं या देवदेवस्य सप्तमी भास्करस्य तु ।
यथा बहूनां भार्याणां भर्तुः काचित्प्रिया भवेत् । । १
सर्वाश्च तिथयो ह्यस्य प्रियाः सूर्यस्य भारत ।
तस्मादस्यां नरेणेह पूजनीयो दिवाकरः । । २
शतानीक उवाच
तिथीनामधिपः सूर्यः सर्वासां कथितो यदि ।
सप्तम्यामेव यागोऽस्य किमर्थं क्रियते बुधैः । । ३
सुमन्तुरुवाच
इदमर्थं पुरा पृष्टः सुरज्येष्ठो दिवि स्थितः ।
विष्णुना कुरुशार्दूल तेनोक्तं हरये यथा । ।
तथा ते सर्वमाख्यास्ये शृणुष्वैकमना विभो । । ४
सुखासीनं सुरज्येष्ठं पुरा देवं पितामहम् ।
प्रणम्य शिरसा देव कृष्णो वचनमब्रवीत् । । ५
यद्येष भानुमान्देवस्तिथीनामधिपः स्मृतः ।
किमर्थं पूज्यते ब्रह्मन्सप्तम्यां ब्रूहि मे विभो । । ६
एवमुक्तः सुरज्येष्ठो विष्णुना प्रभविष्णुना ।
प्रहस्य भगवान्देव इदं वचनमब्रवीत् । । ७
ब्रह्मोवाच
देवेभ्यस्तिथयो दत्ता भास्करेण महात्मना ।
मुक्त्वैकां सप्तमीं सर्वां सम्यगाराधनेन वै । । ८
यस्यैव यद्दिनं दत्तं स तस्यैवाधिपः स्मृतः ।
स्वदिने पूजितस्तस्मात्स्वमन्त्रैर्वरदो भवेत्.. । । ९
विष्णुरुवाच
अर्केण कतरत्कस्मै दिनं दत्तं महात्मना ।
स्वदिने पूजितेऽस्मिन्वै स्वमन्त्रैर्जायते ध्रुवम् । । 1.102.१०
ब्रह्मोवाच
अग्नये प्रतिपद्दत्ता द्वितीया ब्रह्मणे तथा ।
तृतीया यक्षराजाय गणेशाय चतुर्थ्यपि । । ११
पञ्चमी नागराजाय कार्तिकेयाय षष्ठ्यपि ।
सप्तमी स्थापितात्मार्थं दत्ता रुद्राय चाष्टमी । । १२
दुर्गायै नवमी दत्ता यमाय दशमी स्वयम् ।
विश्वेभ्यश्चाथ देवेभ्यो दत्ता चैकादशी सदा । । १३
द्वादशी विष्णवे दत्ता मदनाय त्रयोदशी ।
चतुर्दशी शङ्कराय दत्ता सोमाय पूर्णिमा । । १४
पितॄणां भानुना दत्ता पुण्या पञ्चदशी सदा ।
तिथ्यः पञ्चदशैतास्तु सोमस्य परिकीर्तिताः । । १५
पीयते कृष्णपक्षे तु सुरैरेभिर्यथोदितैः ।
शुक्लपक्षे प्रपूर्यन्ते षोडश्या कलया सह । । १६
अक्षया सा सदैकैका तत्र साक्षात्स्थितो रविः ।
क्षयवृद्धिकरो ह्येवं तेनासौ तत्पतिः स्मृतः । । १७
ददाति गतिमक्षीणा ध्यानमात्रस्थितो १ रविः ।
अन्येपीष्टान्यथाकामान्प्रयच्छन्ति सुखेन वै । । १८
तथा सर्वं प्रवक्ष्यामि कृष्ण संक्षेपतः शृणु ।
अग्निमिष्ट्वा च हुत्वा च प्रतिपद्यमृतं घृतम् । ।
हविषा सर्वधान्यानि प्राप्नुयादमितं धनम् । । १९
ब्रह्माणं च द्वितीयायां सम्पूज्य ब्रह्मचारिणम् ।
भोजयित्वा च विद्यानां सर्वासां पारगो भवेत् । । 1.102.२०
तृतीयायां च वित्तेशं वित्ताढ्यो जायते ध्रुवम् ।
क्रयादिव्यवहोरषु लाभो बहुगुणो भवेत् । । २१
गणेशपूजनं कुर्याच्चतुर्थ्यां सर्वकर्मसु ।
अविघ्नं विद्विषां विघ्नं कुर्याच्चास्य न संशयः । । २२
नागानिष्ट्वा च पञ्चम्यां न विषैरभिभूयते ।
स्त्रियं च लभते पुत्रान्परां च श्रियमाप्नुयात् । । २३
सम्पूज्य कार्तिकेयं तु षष्ठ्यां श्रेष्ठः प्रजायते ।
मेधावी रूपसम्पन्नो दीर्घायुः कीर्तिवर्धनः । । २४
सप्तम्यां पूज्य रक्षेशं चित्रभानुं दिवाकरम् ।
अष्टम्यां पूजितो देवो गोवृषाभरणो हरः । । २५
ज्ञानं ददाति विपुलं कान्तिं च विपुलां तथा ।
मृत्युहा ज्ञानदश्चैव पाशहा च प्रपूजितः । । २६
दुर्गां सम्पूज्य दुर्गाणि नवम्यां तरतीच्छया ।
सङ्ग्रामे व्यवहारे च सदा विजयमश्नुते । । २७
दशम्यां यममातिष्ठेत्सर्वव्याधिहरो ध्रुवम् ।
नरकादथ मृत्योश्च समुद्धरति मानवम् । । २८
एकादश्यां यथोद्दिष्टा विश्वेदेवाः प्रपूजिताः ।
प्रजां पशुं धनं धान्यं प्रयच्छन्ति महीं तथा । । २९
द्वादश्यां विष्णुमिष्ट्वेह सर्वदा विजयी भवेत् ।
पूज्यश्च सर्वलोकानां यथा गोपतिगोकरः । । 1.102.३०
कामदेवं त्रयोदश्यां सुरूपो जायते ध्रुवम् ।
इष्टां रूपवतीं भार्यां लभेत्कामांश्च पुष्कलान् । । ३१
दृष्ट्वेश्वरं चतुर्दश्यां सर्वैश्वर्यसमन्वितः ।
बहुपुत्रो बहुधनस्तथा स्यान्नात्र संशयः । । ३२
पौर्णमास्यां तु यः सोमं पूजयेद्भक्तिमान्नरः ।
स्वाधिपत्यं भवेत्तस्य सम्पूर्णं न च हीयते । । ३३
पितरः स्वदिने दिण्डे दृष्टाः कुर्वन्ति सर्वदा ।
प्रजावृद्धिं धनं रक्षां चायुष्यं बलमेव च । । ३४
उपवासं विनाप्येते भवन्त्युक्तफलप्रदाः ।
पूजया जपहोमैश्च तोषिता भक्तितः सदा । । ३५
मूलमन्त्रैश्च संज्ञाभिरंशमन्त्रैश्च कीर्तिताः ।
पूर्ववत्पद्ममध्यस्थाः कर्त्तव्याश्च तिथीश्वराः । । ३६
गन्धपुष्पोपहारैश्च यथा शक्त्या विधीयते ।
पूजा बाह्येन विधिना कृतापि च फलप्रदा । । ३७
आज्यधारासमिद्भिश्च दधिक्षीरान्नमाक्षिकैः ।
यथोक्तफलदो होमो जपः शान्तेन चेतसा । । ३८
मूलमन्त्राश्च संज्ञाभिरङ्गमन्त्राश्च कीर्तिताः ।
कृत्वा यज्ञान्दश द्वौ च फलान्येतानि भक्तितः । । ३९
यथोक्तानि तथोक्तानि लभेतेहाधिकान्यपि ।
इह यस्माद्यथान्यस्मिन्यो वसेद्यः सुखी सदा । । 1.102.४०
तेषां लोकेषु मन्त्रज्ञो यावत्तेषां तिथिः स्थिता ।
दहेत्तस्मात्तथारिष्टं तद्रूपो जायते नरः । । ४१
सुरूपो धर्मसम्पन्नो क्षपितारिर्महीपतिः ।
स्त्री वा नपुंसको वापि जायते पुरुषोत्तमः । । ४२
इत्येताः कथिताः कृष्ण तिथयो या मया तव ।
नक्षत्रदेवताः सर्वा नक्षत्रेषु व्यवस्थिताः । । ४३
इष्टान्कामान्प्रयच्छन्ति यास्ता वक्ष्ये महीधर ।
चन्द्रमा यत्र नक्षत्रे महावृद्ध्या स्थितः सदा । ।४४
उक्तस्तु देवतायज्ञस्तदा सा फलदा भवेत् ।
देवताश्च प्रवक्ष्यामि नक्षत्राणां यथाक्रमम् । । ४५
नक्षत्राणि च सर्वाणि यज्ञाश्चैव पृथक्पृथक् ।
अश्विन्यामश्विनाविष्ट्वा दीर्घायुर्जायते नरः । । ४६
व्याधिभिर्मुच्यते क्षिप्रमत्यर्थं व्याधिपीडितः ।
भरण्यां यम उद्दिष्टः कुसुमैरसितैः शुभैः । । ४७
तथा गन्धादिभिः शुभ्रैरपमृत्योर्विमोचयेत् । । ४८
अनलः कृत्तिकायां तु इह सम्पूजितः परः ।
रक्तमाल्यादिभिर्दद्यात्फलं होमेन च ध्रुवम् । । ४९
पूज्यः प्रजापतिः प्रीत इष्टो दद्यात्पशूंस्तथा ।
रोहिण्यां देवशार्दूल पूजनादिह गोपते । ।
मृगशीर्षे सदा सोमो ज्ञानमारोग्यमेव च । । 1.102.५०
आर्द्रायां तु शिवं पूज्य पश्चाद्द्विज यमाप्नुयात् ।
पद्मादिभिः स दिव्यैश्च पूजितः शं प्रयच्छति । । ५१
तथा पुनर्वस्वदितिः सदा सम्पूज्यते दिवि ।
गुरूणां तर्पिता चैव मातेव परिरक्षति । । ५२
पुष्ये बृहस्पतिर्बुद्धिं ददाति विपुलां शुभाम् ।
गीतैर्गन्धादिभिर्नागा आश्लेषायां प्रपूजिताः । । ५३
तर्पिताश्च यथान्यायं भक्ष्याद्यैर्मधुरैः सितैः ।
रक्षामिषादिभिस्तैस्तैः प्रीतिं कुर्वन्ति मानद । । ५४
मघासु पितरः सर्वे हव्यैः कव्यैश्च पूजिताः ।
प्रयच्छन्ति धनं धान्यं भृत्यान्पुत्रान्पशूंस्तथा । । ५५
फाल्गुन्यामथ वै पूषा इष्टः पुष्पादिभिः शुभैः ।
पूर्वायां विजयं दद्यादुत्तरायां भगं तथा । । ५६
भर्तारमीप्सितं दद्यात्कन्यायै पुरुषाय ताम् ।
इह जन्मनि युज्येत रूपद्रविणसम्पदा । । ५७
पूजितः सविता हस्ते विश्वतेजोनिधिः सदा ।
गन्धपुष्पादिभिः सर्वं ददाति विपुलं धनम् । । ५८
राज्यं तु त्वष्टा चित्रायां निःसपत्नं प्रयच्छति ।
इष्टः सन्तर्पितः प्रीतः स्वात्यां वायुर्बलं परम् । । ५९
इंद्राग्नी च विशाखायां जातरक्तै प्रपूज्य च ।
धनधान्यानि लब्ध्वेह तेजस्वी निवसेत्सदा । । 1.102.६०
रक्तैर्मित्रमनूराधास्वेवं सम्पूज्य भक्तितः ।
श्रियो भजन्ति सर्वेषां चिरं जीवन्ति सर्वदा । । ६१
ज्येष्ठायां पूर्ववच्छक्रमिष्ट्वा पुष्टिमवाप्नुयात् ।
गुणैर्ज्येष्ठश्च१ सर्वेषां कर्मणा च धनेन च । । ६२
मूले देवपितॄन्त्सर्वान्भक्त्या२ सम्पूज्य पूर्ववत् ।
पूर्ववत्फलमाप्नोति स्वर्गस्थाने ध्रुवो भवेत् । । ६३
पूर्वाषाढे ह्यपः पूज्य हुत्वा तत्रैव पूर्ववत् ।
सन्तापान्मुच्यते क्षिप्रं शारीरान्मानसात्तथा । । ६४
आषाढासु तथा विश्वानुत्तराषाढयोगतः ।
विश्वेशं पूज्य पुष्पाद्यैः३ सर्वमाप्नोति मानवः । । ६५
श्रवणे तु सितैर्विष्णुं पीतैर्नीलैश्च भक्तितः ।
सम्पूज्य श्रियमाप्नोति परं विजयमेव च । । ६६
धनिष्ठासु वसूनिष्ट्वा न भयं भजते क्वचित् ।
महतोऽपि भयात्त्वेतैर्गन्धपुष्पादिभिः शुभैः । । ६७
इन्द्रं शतभिषायां च व्याधिभिर्मुच्यते ध्रुवम् ।
आतुरः पुष्टिमाप्नोति स्वास्थ्यमैश्वर्यमेव च । । ६८
अजं भाद्रपदायां तु शुद्धस्फटिकसन्निभम् ।
सम्पूज्य भक्तिमाप्नोति परं विजयमेव च । । ६९
उत्तरायामहिर्बुध्न्यं परां शान्तिमवाप्नुयात् ।
रेवत्यां पूजितः पूषा ददाति सततं शुभम्१ । ।
सितैः पुष्पैः स्थितिं चैव धृतिं विजयमेव च । । 1.102.७०
तवैवैते समाख्याता यज्ञाः संक्षेपतो मया ।
नक्षत्रदेवतानां च साधकानां हिताय वै । ।
भक्त्या वित्तानुसारेण भवन्ति फलदाः सदा । । ७१
गन्तुमिच्छेदनन्त्यं वा क्रियां प्रारब्धमेव च ।
नक्षत्रदेवतायज्ञं कृत्वा तत्सर्वमाचरेत् । । ७२
एवं कृते हि तत्सर्वं यात्राफलमवाप्नुयात् ।
क्रियाफलं च सम्पूर्णमित्युक्तं भानुना स्वयम् । । ७३
यज्ञात्स विजयं कुर्यात्क्रियां कुर्याद्यथेप्सिताम् ।
कालचक्रेऽथ वा सूर्यं राशिचक्रे कलात्मना । । ७४
विश्वतेजोनिधिं ध्यात्वा सर्वं कुर्याद्यथेप्सितम् ।
विभूतिरेषा चोद्दिष्टा क्रियाभिः साध्यते ध्रुवम् । । ७५
उद्दिष्टाभिः प्रयत्नेन मुक्तियोगेन साध्यते ।
भानोराराधनाद्वापि प्राप्यते मुक्तिरेव हि । ।
तस्मादाराधय रविं भक्त्या त्वं मधुसूदन । । ७६
इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम् ।
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणैः । । ७७
यः कारयति देवार्चां हदयालम्बनं रवेः ।
स नरो भानुसालोक्यमुपैति गतकल्मषः१। । ७८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे नक्षत्रपूजाविधिवर्णनं
नाम द्व्यधिकशततमोऽध्यायः । १०२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 103
सूर्यपूजामहिमवर्णनम्
ब्रह्मोवाच
यश्च देवालयं भक्त्या भानोः कारयते स्थिरम् ।
स सप्त पुरुषांल्लोकान्भानोर्नयति मानवः । । १
यावन्त्यब्दानि देवार्चा रवेस्तिष्ठति मन्दिरे ।
तावद्वर्षसहस्राणि सूर्यलोके स मोदते । । २
देवार्चा लक्षणोपेता यद्गृहे सन्ततो विधिः ।
निष्कामं वा मनो यस्य स याति रविसाम्यताम् । । ३
पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान् ।
प्रयच्छति हि देवेशं तद्भावगतमानसः । ।४
धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम् ।
दीपबल्युपहाराश्च यच्चाभीष्टमथात्मनः । । ५
नरः सोऽनुदिनं यज्ञात्प्राप्नोत्याराधनाद्रवे ।
यज्ञेशो भगवान्भानुर्मखैरपि च तोष्यते । । ६
बहूपकरणा यज्ञा नानासम्भारविस्तराः ।
प्राप्यन्ते३ तैर्धनयुतैर्मनुष्यैर्लोकसञ्चयैः ।। ७
भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि ।
रवेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ८
यानि पुष्पाणि भक्ष्याणि धूपगन्धानुलेपनम् ।
दयितं भूषणं यच्च रक्तके चैव वाससी । । ९
यानि चाभ्युपहाराणि भक्ष्याणि च फलानि च ।
प्रयच्छ तानि देवेश भवेथाश्चैव तन्मनाः । । 1.103.१०
आद्यं तं यज्ञपुरुषं यथाशक्त्या प्रसादय ।
आराध्य स्थापितं देवं तस्मिन्नेव नरालये । । ११
पुष्पैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा ।
क्षीरेण स्नापयेद्देवं चित्रभानुं दिवाकरम्१। । १२
दधिक्षीरह्रदान्याति स्यर्गलोकान्मधुच्युतान् ।
प्रयास्यति यदुश्रेष्ठ निर्वृतिं वापि शाश्वतीम् । । १३
स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः ।
मनसश्चैकतायोगादाराधय विभावसुम् । । १४
आराध्य तं विदेहानां पुरुषाः सप्तसप्ततिः ।
हैहयानां च पञ्चाशदमृतत्वं समागताः । । १५
स त्वमेभिः प्रकारैस्तमुपवासैस्तु भास्करम् ।
सन्तोषय हि तुष्टोऽसौ भानुर्भवति शान्तिदः । । १६
कृष्ण उवाच २
उपवासैश्चित्रभानुः कथं तुष्टः प्रजायते ।
परिचर्या कथं कार्या या कार्या चोपवासिना । । १७
यद्यत्कार्यं यदा चैव भानोराराधनं नरैः ।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि । । १८
ब्रह्मोवाच
स्मृतः सम्पूजितो धूपपुष्पाद्यैः स सदा रविः ।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् । । १९
उपावृत्तस्तु पापेभ्यो यस्तु वासोगुणैः सह ।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः । । 1.103.२०
एकरात्रं द्विरात्रं वा त्रिरात्रमथ वा हरे ।
उपवासी रविं यस्तु भक्त्या ध्यायति मानवः । । २१
तन्नामयाजी तत्कर्मरतस्तद्गतमानसः ।
निष्कामः पूजयित्वा तं परं ब्रह्माधिगच्छति । । २२
यश्च काममभिध्याय भास्करार्पितमानसः ।
उपोषति तमाप्नोति प्रसन्ने तु वृषध्वजे । । २३
श्रीकृष्ण उवाच
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथा विभो ।
संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् । । २४
ब्रह्मोवाच
अथाराध्य जगन्नाथं भास्करं तिमिरापहम् ।
निर्व्यलीकेन चित्तेन प्रयास्यति च सद्गतिम् । । २५
विषयाग्राहवैषम्यं न चित्तं भास्करार्पणम् ।
स कथं पाप कर्ता वै नरो यास्यति सद्गतिम् । । २६
यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि ।
तदाराधय सर्वेशं१ ग्रहेशं लोकपूजितम् । । २७
पुष्पैः सुगन्धैर्हद्यैश्च धूपैः सागुरुचन्दनैः ।
वासोविभूषणैर्भक्ष्यैरुपवासपरायणः । । २८
यदि संसारनिर्वेदादभिवाच्छसि सद्गतिम् ।
तदाराधय कालेशं यच्चेष्टं तव चेतसा । । २९
पुष्पाणि यदि तेन स्युः शस्तं पादपपल्लवैः ।
दूर्वांकुरैरपि कृष्ण तदभावेऽर्चयेद्रविम् । । 1.103.३०
पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमात्सनः ।
पूजितस्तुष्टिमतुलां भक्त्या यात्येकचेतसाम् । । ३१
यः सदायतने भानोः कुर्यात्सम्मार्जनं नरः ।
स पांसुदेहसंयोगात्सर्वपापैः प्रमुच्यते । । ३२
यावत्यः पांसुकणिका मार्ज्यन्ते भास्करालये ।
दिनानि दिवि दिव्यानि तावन्ति मोदते नरः । । ३३
सबाह्याभ्यन्तरं वेश्म मार्जते भास्करस्य यः ।
स बाह्याभ्यन्तरस्तस्य कायो निष्कल्मषो भवेत् । । ३४
यश्चानुलेपनं कुर्याद्भानोरायतने नरः ।
स हेलिलोकमासाद्य मोदते गोगते हरौ । । ३५
मृदा वा मृद्विकारैर्वा वर्णकैर्गोमयेन वा ।
अनुलेपनकृद्भक्त्या नरो गोपतिमाप्नुयात् । । ३६
उदकाभ्युक्षणं भानोर्यः करोति तथाक्षये ।
स गच्छति नरः कृष्ण यत्रास्ते गोपतिः सदा । । ३७
पुष्पप्रकरमत्यर्थं सुगन्धं भास्करालये ।
अनुलिप्ते नरो दद्यात्पूषोत्तरगृहं व्रजेत् । । ३८
विमानवरमभ्येति सर्वरत्नमयं दिवि ।
सम्प्राप्नोति नरो दत्त्वा दीपकं भास्करालये । । ३९
यस्तु सम्वत्सरं पूर्णं तिलपात्रप्रदो नरः ।
ध्वजं च भास्करे दद्यात्सममत्र फलं लभेत्१ । । 1.103.४०
विधुनोत्यतिवातेन दातुरज्ञानतः कृतम् ।
पापं दातुर्गृहे भानुर्दिवारात्रौ न संशयः । । ४१
गीतवाद्यादिर्भिर्देवं य उपास्ते विभावसुम् ।
गन्धर्वनृत्यैर्वाद्यैश्च विमानस्थो निषेव्यते । । ४२
जातिस्मरत्वं वृद्धिं च ततस्तु परमां गतिम् ।
प्राप्नोति हेलेरायतने पुण्याख्यानकथाकरः । । ४३
तस्मात्कुर्यात्प्रयत्नेन पूजयेद्वापि वाचकम् ।
नान्यत्प्रीतिकरं भानोः पुण्याख्यानादृते क्वचित् । । ४४
एकोऽपि हेलेः सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म हेलिप्रणामी न पुनर्भवाय । । ४५
एवं१ देवेश्वरो भक्त्या येन भानुरुपासितः ।
स प्राप्नोति गतिं श्लाघ्यां यामिच्छति च चेतसा । ।४ ६
तमाराध्य मया प्राप्तं ब्रह्मत्वं लोकपूजितम् ।
सौरेर्यथेप्सितं प्राप्तं त्वया तस्मात्पुरानघ । । ४७
ब्रह्महत्याभिभूतस्तु गोश्रुताभरणो हरः ।
तमाराध्य रविं भक्त्या मुक्तोऽसौ ब्रह्महत्यया । ।४८
देवत्वं मनुजैः कैश्चिद्गन्धर्वत्वं तथा परैः ।
विद्याधरत्वमपरैरेवाप्तं हि दिवाकरात् । । ४९
लेखः क्रतुशतेनेशमाराध्यैनं दिवाकरम् ।
इन्द्रत्वमगमत्तस्मान्नान्यः पूज्यो दिवाकरात् । । 1.103.५०
देवेभ्योऽप्यतिपूज्यस्तु स्वगुरुर्ब्रह्मचारिणा ।
तस्मात्स यज्ञपुरुषो विवस्वान्पूज्य एव हि । । ५१
स्त्रियाश्च भर्तारमृते पूज्योऽत्यन्तं विभावसुः ।
भर्तुर्गृहस्थस्य सतः पूज्यो गोपतिरंशुमान् । । ५२
वैश्यानामपि चाराध्यस्तपोभिस्तमनाशनः ।
ध्येयः परिव्राजकानां सदा देवो विभावसुः । । ५३
एवं सर्वाश्रमाणां हि चित्रभानुः परायणम् ।
सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् । । ५४
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे सूर्यपूजामहिमवर्णनं नाम
त्र्यधिकशततमोऽध्यायः । १०३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 104
त्रिवर्गसप्तमीव्रतनिरूपणम्
शृणुष्व संयतः काम्यानुपवासांस्तथापरान् ।
तांस्तानाश्रित्य यान्कामान्कुरुतेप्सितमानसः । । १
सप्तम्यां शुक्लपक्षे तु फाल्गुनस्येह मानवः ।
जपन्हेलीति देवस्य नाम भक्त्या पुनःपुनः । । २
देवार्चने चाष्टशतं कृत्वैतच्च जपेच्छुचिः ।
स्नातः प्रस्थानकाले तु उत्थाने स्खलिते क्षुते । । ३
पाखण्डान्पतितांश्चैव तथैवान्यायशालिनः ।
नालपेत तथा भानुमर्चयेच्छ्रद्धयान्वितः । ।
इदं चोदाहरेद्भानौ मनः संधाय तत्परः । ।४
हंसहंस कृपालुस्त्वमगतीनां गतिर्भव ।
संसारार्णवमग्नानां त्राता भव दिवाकर । । ५
एवं प्रसाद्योपवासं कृत्वा नियतमानसः ।
पूर्वाह्ण एव च सकृत्प्राश्याच्चाचमनीयकम् । । ६
स्नात्वार्चयित्वा हंसेति पुनर्नाम प्रकीर्तयेत् ।
वज्रधारात्रयं चैव क्षिपेत्त्रिर्देवपादयोः । । ७
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयन् ।
मर्त्यलोके गतिं श्रेष्ठां कृष्ण प्राप्नोति वै नरः । । ८
उत्क्रांतस्तु व्रजेत्कृष्ण दिव्यं हंसालयं शुभम् ।
वृषध्वजप्रसादाद्वै संक्रन्दनश्रिया वृतः । । ९
आषाढे श्रावणे चैव मासि भाद्रपदे तथा ।
तथैवाश्वयुजे चैव अनेन विधिना नरः । । 1.104.१०
उपोष्य सम्पूज्य तथा मार्तण्डेति च कीर्तयेत् ।
गोमूत्रप्राशनोत्पूतो धनी धनपुरं व्रजेत् । । ११
आराधितस्य जगतामीश्वरस्याव्ययात्मनः ।
उत्क्रांतिकाले स्मरणं भास्करस्य तथाप्नुयात् । । १२
क्षीरस्य प्राशनं कृष्ण विधिं चैव यथोदितम् ।
कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् । । १३
तेनैव विधिना कृष्ण भास्करेति च कीर्तयेत् ।
स याति भानुसालोक्यं भास्करं स्मरति क्षये । । १४
प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेप्सितम् ।
चातुर्मास्ये तु सम्पूर्णे कृत्वा पुस्तकवाचनम् । । १५
कथां तु भास्करस्येह सङ्गीतकमथापि वा ।
धर्मश्रवणमभीष्टं सदा धर्मध्वजस्य तु । । १६
वाचकं पूजयित्वा तु तस्मात्कार्यं विपश्चिता ।
श्राद्धमन्येन पक्वेन वाचकेन द्विजेन तु । ।
दिव्येन च यथायुक्तमभीष्टं भास्करस्य हि । । १७
एवमेव गतिं श्रेष्ठां देवानामनुकीर्तनात् ।
प्राप्नुयात्त्रिविधां कृष्ण त्रिलोकाख्यां नरः सदा । । १८
कथितं पारणं यत्ते प्रथमं गोधराधनम् ।
आधिपत्यं तथा भोगांस्ततः प्राप्नोति मानुषः । । १९
द्वितीयेन तथा भोगान्गोपतेः प्राप्नुयान्नरः ।
सूर्यलोकं तृतीयेन पारणेन तथाप्नुयात् । । 1.104.२०
एवमेतत्समाख्यातं गतिप्रापकमुत्तमम् ।
विधानं देवाशार्दूल यदुक्तं सप्तमीव्रते । । २१
यः श्वेतां सप्तमीं कुर्यात्सुगतिं श्रद्धया नरः ।
तथा भक्त्या च वै नारी प्राप्नोति त्रिविधां गतिम् । । २६२
एषा धन्या पापहरा तिथिर्नित्यमुपासिता ।
आराधनाय यस्तेषां यदा भानोर्धराधर । । २३
पठतां शृण्वतां चापि सर्वपापभयापहा ।
तथा धन्या च पुण्या च त्रिवर्गादीष्टदा सदा । । २४.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे त्रिवर्गसप्तमीव्रतनिरूपणं नाम
चतुरधिकशततमोऽध्यायः । १०४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 105
कामदासप्तमीव्रतनिरूपणम्
ब्रह्मोवाच
फाल्गुनामलपक्षस्य सप्तम्यां क्ष्माधराव्यय ।
उपोषितो नरो नारी समभ्यर्च्य तमोऽपहम् । । १
सूर्यनाम जपन्भक्त्या मितभोक्ता जितेन्द्रियः ।
उत्तिष्ठन्प्रस्वपंश्चैव सूर्यमेवाभिकीर्तयेत् । । २
ततोऽन्यदिवसे प्राप्ते त्वष्टम्यां प्रयतो रविम् ।
स्नात्वा देवं समभ्यर्च्य दद्याद्विप्राय दक्षिणाम् । । ३
रविमुद्दिश्य वै चाग्नौ घृतहोमकृतक्रियः ।
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् । । ४
यमाराध्य पुरा देवी सावित्री कामनाय वै ।
स मे ददातु देवेशः सर्वान्कामान्विभावसुः । । ५
समभ्यर्च्य इति प्राप्तान्कृत्स्नान्कामान्यथेप्सितान् ।
स ददात्यखिलान्कामान्प्रसन्नो मे दिवस्पतिः । । ६
भ्रष्टराज्यश्च देवेन्द्रो यमभ्यर्च्य दिवस्पतिः ।
कामान्सम्प्राप्तवान्राज्यं स मे कामं प्रयच्छतु । । ७
एवमभ्यर्च्य पूजां च निष्पाद्येह विवस्वतः ।
भुञ्जीत प्रयतः सम्यग्घविष्यं पतगध्वज । । ८
फाल्गुने चैत्रवैशाखज्येष्ठे यस्य समापनम् ।
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् । । ९
करवीरैश्चतुरो मासान्भक्त्या सम्पूजयेद्रविम् ।
कृष्णागुरुं दहेद्धूपं प्राश्यं गोशृङ्गजं जलम् । । 1.105.१०
नैवेद्यं खण्डवेष्टांस्तु दद्याद्विप्रेभ्य एव च ।
ततश्च श्रूयतामन्या ह्याषाढादिषु या क्रिया ।। ११
जातीपुष्पाणि शस्तानि धूपो गौग्गुल उच्यते ।
कूपोदकं समश्नीयान्नैवेद्यं पायसं मतम् । । १२
स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् ।
कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् । । १३
महाङ्गो धूप उद्दिष्टः पूजा रक्तोत्पलैस्तथा ।
कासारं चात्र नैवेद्यं निवेद्यं भास्कराय वै । । १४
प्रतिमासं च विप्राय दातव्या दक्षिणा तथा ।
कर्पूरं चन्दनं मुस्तामगरुं तगरं तथा । । १५
ऊषणं शर्करा कृष्ण सुगन्धं सिह्लकं तथा ।
महाङ्गोऽयं स्मृतो धूपः प्रियो देवस्य सर्वदा । । १६
प्रीणनं चेष्टया भानोः पारणेपारणे गते ।
यथाशक्ति यथायोगं वित्तशाठ्यं विवर्जयेत् । । १७
सद्भावेनैव सप्ताश्वः पूजितः प्रीयते यतः ।
पारणान्ते यथाशक्त्या पूजितः स्नापितो रविः । । १८
प्रीणितश्चेप्सितान्कामान्दद्यादव्याहतं हरे ।
एषा पुण्या पापहरा सप्तमी सर्वकामदा । । १९
यथाभिलषितान्कामाँल्लभते गरुडध्वज ।
उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा । । 1.105.२०
पुत्रं प्रापच्च सावित्री पुत्रांस्तु अदितिस्तथा ।
यदवः कामनां प्राप्ता धौम्यो वेदमवाप्तवान् । । २१
त्वयाप्ता भार्गवी कृष्ण शङ्करः शुद्धिमाप्तवान् ।
पितामहत्वं प्राप्तोऽहं तत्प्रसादाज्जनार्दन । । २२
अन्यैश्चाधिगताः कामास्तमाराध्य न संशयः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्योषिद्भिरेव च । । २३
यं यं काममभिध्यायेत्तंतं प्राप्नोत्युपोषणात् ।
जनः प्राप्नोत्यसंदिग्धं भानोराराधनाद्यतः । । २४
अपुत्रः पुत्रमाप्नोति रोगतश्चापि मोदते ।
रोगाभिभूत आरोग्यं कन्या विन्दति सत्पतिम् । । २५
समागत्य प्रवसित उपोष्यैतदवाप्नुयात् ।
सर्वान्कामानवाप्नोति गोगतश्चापि मोदते । । २६
नापुत्रो नाधनो वापि न वानिष्टो न निर्घृणः ।
उपोष्यैतद्व्रतं मर्त्यः स्त्रीजनो वापि जायते । । २७
गोहेलिलोकमासाद्य मोदते शाश्वतीः समाः ।
गौरिकं यानमारूढस्तेजसा रविसन्निभः । । २८
पुनरेत्य महीं कृष्ण घनाघनसमो नृपः ।
क्ष्मातले स्यान्न संदेहः प्रसादाद्गोपतेर्नरः । । २९
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे कामदासप्तमीव्रतनिरूपणं
नाम पञ्चाधिकशततमोऽध्यायः । १०५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 106
पापनाशिनीव्रतविधिवर्णनम्
ब्रह्मोवाच
पुनश्चैतन्महाभाग श्रूयतां गदतो मम ।
प्रोक्तं खगेन देवानां तिथिमाहात्म्यमुत्तमम् । । १
विष्णुरुवाच
विजयातिजया चैव जयन्ती च महातिथिः ।
त्वत्तः श्रुता सुरथेष्ठ ब्रूहि मे पापनाशिनीम् । । २
तथोत्तरायणं ब्रूहि शस्तं यद्भास्करार्चने ।
यत्र सम्पूजितो भानुर्भवेत्सर्वाघनाशनः । ।
तन्मे कथय यत्नेन भक्त्या पृष्टोऽक्षयं फलम् । । ३
ब्रह्मोवाच
शुक्लपक्षे तु सप्तम्यां यदर्क्षं तु रवेर्भवेत् ।
तदा स्यात्सा महापुण्या सप्तमी पापनाशिनी । ।४
तस्यां सम्पूज्य देवेशं चित्रभानुं जगद्गुरुम् ।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः । । ५
यश्चोपवासं कुरुते तस्यां नियतमानसः ।
सर्वपापविमुक्तात्मा सूर्यलोके महीयते । । ६
दानं यद्दीयते किञ्चित्तमुद्दिश्य दिवाकरम् ।
होमो वा क्रियते तत्र तत्सर्वं चाक्षयं भवेत् । । ७
एक ऋग्वेदः पुरतो जप्तः श्रद्धापरेण तु ।
ऋग्वेदस्य समस्तस्य यच्छते सत्फलं ध्रुवम् । । ८
सामवेदफलं साम यजुर्वेदफलं यजुः ।
अथर्वा अथर्वांगिरसो निखिलं यच्छते रविः । । ९
तारका इव राजन्ते द्योतमाना दिवानिशम् ।
समभ्यर्च्य च सप्तम्यां देवदेवं दिवाकरम् । । 1.106.१०
यत्र पापमशेषं वै नाशयत्यत्र भास्करः ।
कर्तव्या सप्तमी कृष्ण तेनोक्ता पापनाशिनी । । ११
अस्यां समभ्यर्च्य रविं याति सौरपुरं नरः ।
विमानवरमारुह्य कर्पूरोद्भवमुत्तमम् । । १२
तेजसा कविसंकाशः प्रभया सूर्यसन्निभः ।
कान्त्यात्रेयसमः कृष्ण शौर्ये हरिसमः सदा । । १३
मोदते तत्र सुचिरं वृन्दारकगणैः सह ।
पुनरेत्य भुवं कृष्ण भवेद्वै क्ष्माधिपाधिपः । । १४
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे पापनाशिनीव्रतविधिवर्णनं
नाम षडधिकशततमोऽध्यायः । १०६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 107
भानुपादद्वयव्रतवर्णनम्
ब्रह्मोवाच
तथान्यदपि धर्मज्ञ शृणुष्व गदतो मम ।
पदद्वयं जगद्धातुर्देवदेवस्य गोपतेः । । १
यदेकपादपीठं हि तत्र न्यस्तं पदद्वयम् ।
स्वयमंशुमता कृष्ण लोकानां हितकाम्यया । । २
वामनस्य पदं कृष्ण ज्ञेयं वै उत्तरायणम् ।
देवाद्यैः सकलैर्वन्द्यं दक्षिणं दक्षिणायनम् । । ३
अहं त्वं च सदा कृष्ण दक्षिणं पादमर्चतः ।
श्रद्धान्वितौ भास्करस्य हरीशौ वाममर्चतः । । ४
तस्मिन्यः प्रत्यहं सम्यग्देवदेवस्य मानवः ।
करोत्याराधनं तस्य तुष्टः स्याद्भानुमान्त्सदा । । ५
विष्णुरुवाच
कथमाराधनं तस्य देवदेवस्य गोपतेः ।
क्रियते देवशार्दूल तत्समाख्यातुमर्हसि । । ६
ब्रह्मोवाच
उत्तरे त्वयने कृष्ण स्नातो नियतमानसः ।
घृतक्षीरादिभिर्देवं स्नापयेत्तिमिरापहम् । । ७
चारुवस्त्रोपहारैश्च पुष्पधूपानुलेपनैः ।
समभ्यर्च्य ततः सम्यग्ब्राह्मणानां च तर्पणैः । । ८
पदद्वयं व्रतं यस्य गृह्णीयाद्भानुतत्परः ।
वन्देत्स्नातश्चित्रभानुं ततश्च गरुडध्वज । । ९
भुक्त्वान्नं चित्रभानुं तु चित्रभानुं व्रजंस्तथा ।
स्वपन्विबुध्यन्प्रणमन्होमं कुर्वंस्तथार्चयन् । । 1.107.१०
चित्रभानोरनुदिनं करिष्ये नामकीर्तनम् ।
यावदद्य दिनात्प्राप्तं क्रमशो दक्षिणायनम् । । ११
चलिते हुंकृते चैव वेदारम्भेऽपि वा सदा ।
तावद्वक्ष्ये चित्रभानुं यावदेवोत्तरायणम् । । १२
यावज्जीवं च यत्किञ्चिज्जानतोज्ञानतोऽपि वा ।
करिष्येऽहं तथा चैव कीर्तयिष्यामि तं प्रभुम् । । १३
यदानृतं किञ्चिद्वक्ष्ये तदा वक्ष्यामि तद्वचः ।
अज्ञानादथ वा ज्ञानात्कीर्तयिष्यामि तं प्रभुम् । । १४
षण्मासमेकमनसा चित्रभानुमयं परम् ।
तं स्मरन्मरणे याति यां गतिं सास्तु मे गतिः । । १५
षण्मासाभ्यन्तरे मृत्युर्यदि तस्मिन्भवेन्मम ।
तन्मया भास्करस्येह स्वयमात्मा निवेदितः । । १६
परमात्ममयं ब्रह्म चित्रभानुमयं परम् ।
यमं ते संस्मरिष्यामि स मे भानुः परा गतिः । । १७
यदि प्रातस्तथा सायं मध्याह्ने वा जपाम्यहम् ।
षण्मासाभ्यन्तरे न्यासः कृतो व्रतमयो मया । । १८
तथा कुरु जगन्नाथ स्वर्गलोकपरायणः ।
चित्रभानो यथा शक्त्या भवान्भवति मे गतिः । । १९
एवमुच्चार्य षण्मासं चित्रभानुमयं व्रतम् ।
तावन्निष्पादयेद्यावत्सम्पूर्णं दक्षिणायनम् । । 1.107.२०
ततश्च प्रीणनं कुर्याद्यथाशक्त्या विभावसोः ।
भोजयेद्ब्राह्मणान्दिव्यान्भौमांश्चापि सदक्षिणान् । । २१
पुण्याख्यानकथां कुर्यान्मार्तंडस्य तथाग्रतः ।
पूजयेद्वाचकं भक्त्या यथाशक्त्या१ च लेखकम् । । २२
एवं व्रतमिदं कृष्ण यो धारयति मानवः ।
इहैव देवशार्दूल मुच्यते सर्वकिल्बिषैः । । २३
षण्मासाभ्यन्तरे चास्य मरणं यदि जायते ।
प्राप्नोत्यनशनस्योक्तं यत्फलं तदसंशयम् । । २४
पदद्वयं च देवस्य सम्यक्त्वेन सदार्चितम् ।
भवत्येतज्जगौ भानुः पुरा चन्द्राय पृच्छते । । २५
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भानुपादद्वयव्रतवर्णनं
नाम सप्ताधिकशततमोऽध्यायः । १०७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 108
सर्वार्थावाप्तिसप्तमीवर्णनम्
ब्रह्मोवाच
कृष्णपक्षे तु माघस्य सर्वाप्तिं सप्तमीं शृणु ।
यामुपोष्य समाप्नोति सर्वान्कामांस्तथा परान् । । १
पाखण्डादिभिरालापं न कुर्याद्भानुतत्परः ।
पूजयेत्प्रणतो देवमेकाग्रमनसा शुभम् । । २
माघाद्यैः पारणं मासैः षड्भिः सांक्रान्तिकं स्मृतम् ।
मार्तण्डः प्रथमं नाम द्वितीयं कः प्रकीर्तितम् । । ३
तृतीयं चित्रभानुश्च विभावसुरतः परम् ।
भगेति पञ्चमं ज्ञेयं षष्ठं हंसः स उच्यते । ।४
पूर्णेषु षट्सु मासेषु पञ्चगव्यमुदाहृतम् ।
स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् । । ५
प्रणामं देवदेवस्य कृत्वा पूजां यथाविधि ।
विप्राय दक्षिणां दद्याच्छ्रद्दधानश्च शक्तितः । । ६
पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम् ।
कुर्वीत भक्त्या विधिवद्रविभक्त्या तु गृह्यते । । ७
नक्तभोजी तथा विष्णो तैलक्षारविवर्जितः ।
कृष्ण जागरणं रात्रौ सप्तम्यामथ वा दिने । । ८
एतामुषित्या धर्मज्ञो हंसप्रीणनतत्परः ।
सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते । । ९
यतः सर्वमवाप्नोति यद्यदिच्छति चेतसा ।
अतो लोकेषु विख्याता सर्वार्थावाप्तिसप्तमी । । 1.108.१०
कृताभिलषिता ह्येषा प्रारब्धा धर्मतत्परैः ।
पूरयत्यखिलान्कामान्संश्रुता च दिनेदिने । । ११
तमाराधयस्व रविं तथाथ गरुडध्वज ।
यथाराधितवान्भानुं भगणाधिपतिः पुरा । । १२
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे सर्वार्थावाप्तिसप्तमीवर्णनम्
नामाष्टाधिकशततमोऽध्यायः । १०८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 109
मार्तण्डसप्तमीवर्णनम्
ब्रह्मोवाच
मार्तण्डसप्तमीं कृष्ण यथान्यां१ वच्चि तेऽनघ ।
शृणुष्वैकमना वीर गदतो मे शुभप्रदाम् । । १
यस्याः सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम् ।
पौषे मासे सिते पक्षे सप्तम्यां समुपोषितः । । २
सम्यक्सम्पूज्य मार्तण्डं मार्तण्ड इति वै जपेत् ।
पूजयेत्कुतपं भक्त्या श्रद्धया परयान्वितः । । ३
धूपपुष्पोपहराद्यैरुपवासैः समाहितः ।
मार्तण्डेति जपन्नाम पुनस्तद्गतमानसः । । ४
विप्राय दक्षिणां दद्याद्यथाशक्त्या खगध्वज ।
स्वपन्विबोधन्स्खलितो मार्तण्डेति च कीर्तयेत् । । ५
पाषण्डादिविकर्मस्थैरालापं च विवर्जयेत् ।
गोमूत्रं गोपयो वापि दधि क्षीरमथापि वा । । ६
गोदेहतः समुद्भूतं प्राश्नीयादात्मशुद्धये ।
द्वितीयेऽह्नि पुनः स्नातस्तथैवाभ्यर्चनं रवेः । । ७
तेनैव नाम्ना सम्भूय दत्त्वा विप्राय दक्षिणाम् ।
ततो भुञ्जीत गोदोहसम्भूतेन समन्वितम् । । ८
एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः ।
दद्याद्गवादिकं विप्रान्प्रतिमासं स्वशक्तितः । । ९
धारिता चेत्पुनर्वर्षे यथाशक्त्या गवादिकम् ।
दत्त्वा परं रवेर्भूयः शृणु यत्फलमश्नुते । । 1.109.१०
स्वर्णशृंगीं च पञ्चम्यां षष्ठ्यां च वृषभं नरः ।
प्रतिमासं द्विजातिभ्यो यद्दत्त्वा फलमश्नुते । । ११
तत्प्राप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः ।
तं च लोकमवाप्नोति मार्तण्डो यत्र तिष्ठति । । १२
शाण्डेलेयसमः कृष्ण तेजसा नात्र संशयः ।
मार्तण्डसप्तमीमेतामुपोष्यैते गणा दिवि । । १३
विद्योतमाना दृश्यन्ते लोकैरद्यापि भूधर ।
तस्मात्त्वमादिदेवेशं ग्रहेशं भास्करं रविम् । ।
अनयार्चय गोविन्द गोपतिं गोलसन्निभम् । । १४
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे मार्तण्डसप्तमीवर्णनम्
नाम नवाधिकशततमोऽध्यायः । १०९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 110
सप्तमीकल्पे ऽनन्तरसप्तमीव्रतवर्णनम्
ब्रह्मोवाच
शुक्लपक्षे तु सप्तम्यां मासि भाद्रपदेऽच्युत ।
प्रणम्य शिरसादित्यं पूजयेत्सप्तवाहनम् । । १
पुष्पधूपादिभिर्वीर कुतपानां च तर्पणैः ।
पाषण्डादिभिरालापमकुर्वन्नियतात्मवान् । । २
विप्राय दक्षिणां दत्त्वा नक्तं भुञ्जीत वाग्यतः ।
तिष्ठन्व्रजन्प्रस्थितश्च क्षुतप्रस्खलितादिषु । । ३
आदित्यनामस्मरणं कुर्वन्नुच्चारणं तथा ।
अनेनैव विधानेन मासान्द्वादश वै क्रमात् । । ४
उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम् ।
पुण्येन श्रावणेनेह प्रीणयन्पुष्टिमश्नुते । । ५
अनन्तं श्रावणेनेह यतः फलमुदाहृतम् ।
तेनादित्यं समभ्यर्च्य तदेव लभते फलम् । । ६
एवं यः पुरुषः कुर्यादादित्याराधनं शुचिः ।
प्राप्येह विपुलं भोगं धर्ममर्थं तथाव्ययम् । । ७
अमुत्र लोकमायाति दिव्ये खे गीतसंयुते ।
नारी वा स्वर्गमभ्येत्य ह्यनन्तं फलमश्नुते । । ८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तकल्पेऽनन्तरसप्तमीव्रतवर्णनम्
नाम दशाधिकशततमोऽध्यायः । ११० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 111
सप्तमीकल्पेऽभ्यङ्गसप्तमीवर्णनम्
ब्रह्मोवाच
श्रावणे मासि देवाग्र्यं सप्तम्यां सप्तवाहनम् ।
शुक्लपक्षे समभ्यर्च्य पुष्पधूपादिभिः शुचिः । । १
पाखण्डादिभिरालापमकुर्वन्नियतात्मवान् ।
विप्राय दक्षिणां दत्त्वा नक्तं भुञ्जीत वाग्यतः । । २
अभ्यङ्गं देवदेवस्य वर्षे वर्षे नियोजयेत् ।
सप्तम्यामन्नमेवाग्र्यं शुभं शुक्लं नवं तथा । । ३
विभवेषु तथान्येषु वादित्राण्येव वै विदुः ।
तथा देवस्य मासेऽस्मिन्नभ्यङ्गः परिगीयते । ।४
यस्तु चाराधयेद्भक्त्या भास्करस्य नरोऽच्युत ।
अभ्यङ्गं विधिवच्छक्त्या कृत्वा ब्राह्मणभोजनम् । । ५
शङ्खतूर्यनिनादैश्च ब्रह्मघोषैश्च पुष्कलैः ।
स दिव्यं यानमारूढो लोकमायाति हेलिनः । । ६
अनेनैव विधानेन मासान्द्वादश वै क्रमात् ।
उपोष्य पारणे पूर्णे दद्याद्विप्राय दक्षिणाम् । । ७
व्रतं यः पुरुषः कुर्यादादित्याराधनं शुचिः ।
स गच्छेत्परमं लोकं दिव्यं वै वनमालिनः । । ८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पेऽभ्यङ्गसप्तमीवर्णनम्
नामैकादशाधिकशततमोऽध्यायः । १११ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 112
तृतीयपदव्रतवर्णनम्
ब्रह्मोवाच
एवं कृष्ण सदा भानुर्नरैर्भक्त्या यथाविधि ।
फलं ददात्यसुलभं सलिलेनापि पूजितः । । १
न भानुर्जीवदानेन न पुष्पैर्न फलैस्तथा ।
आराध्यते सुयुद्धेन हृदयेनैव केवलम् । । २
रागादपेतं हृदयं वाग्दुष्टा नानृतादिभिः ।
हिंसाविरहितं कर्म भास्कराराधनत्रयम् । । ३
रागादिदूषिते चित्ते नास्पन्दी तिमिरापहः ।
बध्नाति तं नरं हंसः कदाचित्कर्दमाम्भसि । । ४
तमसो नाशनायालं चेन्दोर्लेखा ह्यनारतम् ।
हिंसादिदूषितं कर्म केशवाराधने कुतः । । ५
जनश्चित्ताप्रसादाद्वै न चाप तिमिरापहम् ।
तस्मात्सत्यस्वभावेन सत्यवाक्येन चाच्युत । । ६
अहिंसकेन चादित्यो निसगदेव तोषितः ।
सर्वस्वमपि देवाय यो दद्यात्कुटिलाशयः । । ७
स नैवाराधयेदेवं देवदेवं दिवाकरम् ।
रागादपेतं हदयं कुरु त्वं भास्करार्पणम् । ।
ततः प्रापयसि दुष्प्राप्यमयत्नेनैव भास्करम् । । ८
विष्णुरुवाच
देवेशः कथितः सम्यल्काम्योऽयं भास्करो मयि ।
आराधनविधिं सर्वं भूयः पृच्छामि तं वद । । ९
कुले जन्म तथारोग्यं धनवृद्धिश्च दुर्लभा ।
त्रितयं प्राप्यते येन तन्मे वद जगत्पते । । 1.112.१०
ब्रह्मोवाच
मासे तु माघे सितसप्तमेऽह्नि हस्तर्क्षयोगे जगतः प्रसूतिम् ।
सम्पूज्य भानुं विधिनोपवासी सुगन्धधूपान्नवरोपहारैः । । ११
गृही तु पुष्पैः प्रतिपाद्य पूजां दानादियुक्तं व्रतमब्दमेकम् ।
दद्याच्च दानं मुनिपुङ्गःवेभ्यस्तत्कथ्यमानं विनिबोध धीर । । १२
वज्रं तिलान्व्रीहियवान्हिरण्यं यवान्नमम्भः करकामुपानहम् ।
छत्रोपपन्नं गुडफेणिताढ्यं दद्यात्क्रमाद्वस्तु अनुक्रमेण । । १३
यद्येष१ वर्षे विधिनोदितेन यस्यां तिथौ लोकगुरुं प्रपूज्य ।
अश्मन्तनान्यात्मविशुद्धिहेतोः सम्प्राशनानीह निबोध तानि । । १४
गोमूत्रमम्भश्च रसे नु शाकं दूर्वा दधिव्रीहितिलान्यवांश्च ।
सूर्यांशुतप्तं जलमम्बुजाक्ष क्षीरं च मासैः क्रमशः प्रयुज्यः । । १५
कुले प्रधाने धनधान्यपूर्णे पद्मावृते ह्यस्तसमस्तदुःखे ।
प्राप्नोति जन्माऽविकलेन्द्रियश्च भवत्यरोगो मतिमान्सुखी च । । १६
तस्मात्त्वमप्येतदमोघवीर्य दिवाकराराधनमप्रमत्तः ।
कुरु प्रभावं भगवन्तमीशमाराध्य कामानखिलानुपेहि । । १७
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे तृतीयपदव्रतवर्णनं
नाम द्वादशाधिकशततमोऽध्यायः । ११२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 113
आदित्यालयवन्दनमार्जनादिवर्णनम्
विष्णुरुवाच
सुरज्येष्ठ पुनर्ब्रूहि यत्पृच्छाम्यहमादितः ।
यत्फलं समवाप्नोति कारयित्वा रवेर्गृहम् । । १
देवार्चां कारयित्वा तु यत्पुण्यं पुरुषोऽश्नुते ।
पूजयित्वा च विधिवदनुलिप्य च यत्फलम् । । २
कानि माल्यानि शस्तानि कानि नार्हति भास्करः ।
के धूपा भानुदयिताः के वर्ज्याश्च जगत्पतेः । । ३
उपचारफलं किं स्यात्किं फलं गीतवादिते ।
घृतक्षीरादिना यत्तु स्नापिते भास्करे फलम् । । ४
यथोपलेपनादौ च फलमभ्युक्षितेन तु ।
दिवाकरगृहे तात तदशेषं वदस्व मे । । ५
ब्रह्मोवाच
साधु वत्स यदेतत्त्वं मार्तण्डस्येह पृच्छसि ।
शुश्रूषणे विधिं पुण्यं तदिहैकमनाः शृणु । । ६
यस्तु देवालयं भानोर्दार्वं शैलमथापि वा ।
कारयेन्मृन्मयं चापि तस्य पुण्यफलं शृणु । । ७
अहन्यहनि यज्ञेन यजतो यन्महत्फलम् ।
प्राप्नोति तत्फलं भानोर्यः कारयति मन्दिरम् । । ८
कुलानां शतमागामि समतीतं कुलं शतम् ।
कारयेद्भगवद्धाम स नयेदर्कलोकताम् । । ९
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
भानोरालयविन्यासप्रारम्भादेव नश्यति । । 1.113.१०
सप्तलोकमयो भानुस्तस्य यः कुरुते गृहम्१ ।
प्रतिष्ठां समवाप्नोति स नरः साप्तलौकिकीम् । । ११
प्रशस्तदेशभूभागे प्रशस्तं भवनं रवेः ।
कारयेदक्षयाँल्लोकान्स नरः प्रतिपद्यते । । १२
इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति ।
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः । । १३
प्रतिमां लक्षणवतीं यः कारयति मानवः ।
दिवाकरस्य तल्लोकमक्षयं प्रतिपद्यते । । १४
षष्टिर्वर्षसहस्राणां सहस्राणि स मोदते ।
लोके सुमनसां वीर प्रत्येकं मधुसूदन । । १५
प्रतिष्ठाप्य रवेरर्चां सुप्रशस्ते निवेशने ।
पुरुषः कृतकृत्योऽस्ति न दोषफलमश्नुते । । १६
ये भविष्यन्ति येऽतीता आकल्पं पुरुषाः कुले ।
तांस्तारयति संस्थाप्य देवस्य प्रतिमां रवेः । । १७
अनुशिष्टाः किल पुरा यमेन यमकिङ्कराः ।
पाशदण्डकराः कृष्ण प्रजासंयमनोद्यताः । । १८
यम उवाच
विहरन्तु यथान्यायं नियोगो मेऽनुपाल्यताम् ।
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् । । १९
केवलं ये जगन्मूलं विवस्वन्तमुपाश्रिताः ।
भवद्भिः परिहर्तव्यास्तेषां नैवेह संस्थितिः । । 1.113.२०
ये तु वैवस्वता लोके तच्चित्तास्तत्परायणाः ।
पूजयन्ति सदा भानुं ते च त्याज्या सुदूरतः । । २१
तिष्ठंश्च प्रस्वपन्गच्छन्नुत्तिष्ठन्स्खलिते क्षुते ।
सङ्कीर्तयति देवं यः स नस्त्याज्यः सुदूरतः । । २२
नित्यनैमित्तिकैर्देवं ये यजन्ति तु भास्करम् ।
न चालोक्या भवद्भिस्ते यद्ध्यानं हंति वो गतिम् । । २३
ये पुष्पधूपवासोऽभिर्भूषणैश्चापि वल्लभैः ।
अर्चयन्ति न ते ग्राह्या मत्पितुस्ते परिग्रहाः । । २४
उपलेपनकर्तारः कर्तारो मार्जनस्य ये ।
अर्कालये परित्याज्यं तेषां त्रिपुरुषं कुलम् । । २५
ये वायतनं भानोः कारितं तत्कुलोद्भवः ।
पुमान्न नावलोक्यो वै भवद्भिर्दुष्टचक्षुषा । । २६
येनार्चा भगवद्भक्त्या मत्पितुः कारिता शुभा ।
नराणां तत्कुलं वीराः सदा त्याज्यं सुदूरतः । । २७
भवतां भ्रमतां यत्र भानुसंश्रयमुद्रया ।
न चाज्ञाभङ्गकृत्कश्चिद्भविष्यति नरः क्वचित् । । २८
इत्युक्ताः किङ्करास्तेन यमेन सुमहात्मना ।
अनाश्रित्य वचः कृष्णः सत्राजितमथो गताः । । २९
तस्य ते तेजसा सर्वे भानोर्भक्तस्य सुव्रत ।
मोहिताः पतिता भूमौ यथा च विहगा नगात् । । 1.113.३०
एतां महाफलां योर्चां भानोः कारयते नरः ।
तवाख्यानं महाबाहो गृहं कारयितुश्च यत् । । ३१
यज्ञा नराणां पापौघनाशकाः सर्वकामदाः ।
तथैवेष्टो जगद्भानुः सर्वयज्ञमयो रविः । । ३२
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यालयवन्दनमार्जनादिवर्णनं नाम त्रयोदशाधिकशततमोऽध्यायः । ११३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 114
आदित्यस्नापनयोगवर्णनम्
ब्रह्मोवाच
स्थापितां प्रतिमां भानोः सम्यक्सम्पूज्य मानवः ।
यं यं प्रार्थयते कामं तं तं प्राप्नोत्यसंशयम् । । १
यः स्नापयति देवस्य घृतेन प्रतिमां रवेः ।
प्रस्थेप्रस्थे द्विजाग्र्याणां स ददाति गवां शतम् । । २
गवां शतस्य विप्रेभ्यो यद्वत्तस्य भवेत्फलम् ।
घृतप्रस्थेन तद्भानोर्भवेत्स्नातकयोगिनाम् । । ३
भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा ।
घटोदकेन मार्तण्डप्रतिमा स्नापिता किल । ।४
प्रतिमामसिताष्टम्यां घृतेन जगतीपतेः ।
स्नापयित्वा समस्तेभ्यः पापेभ्यः कृष्ण मुच्यते । । ५
सप्तम्यामथ षष्ठ्यां वा गव्येन हविषा रवेः ।
स्नपनं तु भवेच्छ्रेष्ठं महापातकनाशनम् । । ६
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।
तत्क्षालयति सन्ध्यायां घृतेन स्नपनं रवेः । । ७
सर्वयज्ञमयो भानुर्हव्यानां परमं घृतम् ।
तयोरशेषपापानां क्षालकः सङ्गमो भवेत् । । ८
येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः ।
मोदते तेषु लोकेषु क्षीरस्नानकरो रवेः । । ९
आह्लादं निर्वृतिस्थानमारोग्यं चारुरूपताम् ।
सप्तजन्मान्यवाप्नोति क्षीरवानपरो रवेः । । 1.114.१०
दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा ।
यथा च विमलं क्षीरं यथा निर्वृतिकारकम् । ।
तथा च निर्मलं ज्ञानं भवत्यपि न संशयः । । ११
ग्रहानुकूलतां पुष्टिं प्रियत्यमखिले जने ।
करोति भगवान्भानुः क्षीरस्नपनतोषितः । । १२
सर्वस्य स्निग्धतामेति दृष्टमात्रे प्रसीदति ।
घृतक्षीरेण देवेश स्नापिते तिमिरापहे । । १३
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यस्नापनयोगवर्णनं
नाम चतुर्दशाधिकशततमोऽध्यायः । ११४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 115
सूर्यपूजाविधिवर्णनम्
ब्रह्मोवाच
प्रशंसन्ति महात्मानः संवादं भास्कराश्रयम् ।
गौतम्या सह कौशल्या सुमनायां सुरालये । । १
स्वर्गेऽतिशोभनां दृष्ट्वा कौशल्यां पतिना सह ।
ब्राह्मणी गौतमी नाम पर्यपृच्छत विस्मिता । । २
गौतम्युवाच
शतशः सन्ति कौशल्ये देवाः स्वर्गनिवासिनः ।
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा । । ३
न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता ।
न वाससी शोभने ये यथा ते पतिना सह । । ४
नैवाभरणजातानि तेषां भ्राजन्ति वै तथा ।
यथा तव यथा पत्युर्न च स्वर्गनिवासिनाम् । । ५
सुस्नातचैलतश्चैव युवयोरतिरिच्यते ।
लेखाद्यानामपीशानां क्षयातिशयवर्जितः । । ६
तपःप्रभावो दानं वा होमो वा कर्मसंज्ञितः ।
युवयोर्यत्समाचक्ष्व तत्सर्वं वरवर्णिनि । ।
येन मे विक्रमे बुद्धिर्मनुजा येन सङ्गताः । । ७
कौशल्योवाच
यज्ञो यज्ञेश्वरो भानुरावाभ्यां जातु तोषितः ।
स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् । । ८
सुरूपता ततः प्रीतिः पश्यतां चारुवेषिता ।
यत्पृच्छसि महाभागे तदप्येषां वदामि ते । । ९
तीर्थोदकैस्तथा गन्धैः स्नापितो यद्दिवाकरः ।
तेन कान्तिरियं नित्यं देवांस्त्रिभुवनेश्वरान् । । 1.115.१०
मनःप्रसादः सौम्यत्वं शरीरे ये च निर्वृताः ।
यत्प्रियत्वं च सर्वं स्यात्तद्घृतस्नपनात्फलम् । । ११
यान्यभीष्टानि वासांसि यच्चाभीष्टविभूषणम् ।
रत्नानि यान्यभीष्टानि यत्प्रियं चानुलेपनम् । । १२
ये धृता यानि माल्यानि दयितान्यभवन्सदा ।
मम भर्तुस्तदैवास्य तदा राज्यं प्रशासतः । । १३
तानि सर्वाणि सर्वज्ञ सर्वपातरि भानुनि ।
दत्तानि तं समुत्थोऽयं गन्धधूपात्मको गुणः । । १४
आहारा दयिता ये च पवित्राश्च निवेदिताः ।
त्रिलोककर्तुः सवितुस्तृप्तिस्तद्गुणसम्भवा । । १५
स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने ।
कृतमेतत्कृतेनाभूदावयोर्भवसंक्षयः । । १६
ये त्वकामा नराः सम्यक्तत्कुर्वन्ति च शोभने ।
तेषां ददाति विश्वेशो भगवान्मुक्तिमीश्वरः । । १७
ब्रह्मोवाच
एवमभ्यर्च्य मार्तण्डमर्कं देवेश्वरं गुरुम् ।
प्राप्तोऽस्म्यभिमतान्कामान्कृष्णाहं शाश्वतीः समाः । । १८
चन्दनागुरुकर्पूरकुङ्कुमोशीरपद्मकैः ।
अनुलिप्तो नरैर्भक्त्या ददाति१ सागरोद्भवाम् । । १९
कालेयकं तुरुष्कं च रक्तचन्दनमेव च ।
यान्यात्मनि सदेष्टानि तानि शस्यान्यपाकुरु । । 1.115.२०
गन्धाश्चापि शुभा ये च धूपा ये विजयोदयाः ।
दिवाकरस्य धर्मज्ञ निवेद्यास्सर्वदाच्युत । । २१
न दद्यात्सल्लकीक्षारं नो मुखेन च संहृतम् ।
दद्यादर्काय धर्मज्ञ धूपमाराधनोद्यतः । । २२
मालती मल्लिका चैव यूथिका चातिमुक्तिकः ।
पाटलाः करवीरश्च जपा सेवन्तिरेव च । । २३
कुङ्कुमस्तगरश्चैव कर्णिकारः सकेशरः ।
चम्पकः केतक कुन्दो बाणबर्बरमालिका । । २४
अशोकस्तिलको लोध्रस्तथा चैवाटरूषकः ।
शतपत्राणि धन्यानि बकाह्वानी विशेषतः । । २५
अगस्तिं किंशुकं तद्वत्पूजार्थं भास्करस्य तु ।
अमी पुष्पप्रकारास्तु शस्ता भास्करपूजने । । २६
बिल्वपत्रं शमीपत्रं पत्रं वा भृङ्गरस्य च ।
तमालपत्रं च हरे सदैव भगवत्प्रियम् । । २७
तुलसी कालतुलसी तथा रक्तं च चन्दनम् ।
केतकी पत्रपुष्पं तु सद्यस्तुष्टिकरं रवेः । । २८
पद्मोत्पलसमुत्थानि रक्तं नीलोत्पलं तथा ।
सितोत्पलं तु भानोस्तु दयितानि सदाच्युत । । २९
कृष्णलोकन्मत्तकं कान्तं तथैव गिरिमल्लिका ।
न कर्णिकारिकापुष्पं भास्कराय निवेदयेत् । । 1.115.३०
कुटजं शाल्मलीपुष्पं तथान्यद्गन्धवर्जितम् ।
निवेदितं भयं रोगं निःस्वतां च प्रयच्छति । । ३१
येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च ।
तानि पुष्पाणि देयानि मानवे लोकभानवे । । ३२
सुगन्धैश्च मुरामांसीकर्पूरागरुचन्दनैः ।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेद्वनमालिनम् । । ३३
दुकूलपट्टकौशेयवार्क्षकार्पासकादिभिः ।
वासोभिः पूजयेद्भानुं यानि चात्मप्रियाणि तु । । ३४
भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च ।
फलं च वल्लभं यत्स्यात्तत्ते देयं दिवाकरे । । ३५
सुवर्णमणिमुक्तानि रजतं च तथाच्युत ।
दक्षिणा विविधा चेह यच्चान्यदपि वल्लभम् । । ३६
आत्मानं भास्करं मत्वा यज्ञं तस्मै निवेदयेत् ।
तत्तदव्यक्तरूपाय भास्कराय निवेदयेत् । । ३७
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्ये सूर्यपूजाविधिवर्णनं
नाम पञ्चदशाधिकशततमोऽध्यायः । ११५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 116
रविपूजाविधिवर्णनम्
ब्रह्मोवाच
कृष्ण राजा महानासीद्ययातिकुलसम्भवः ।
सत्राजिदिति विख्यातश्चक्रवर्ती महाबलः । । १
प्रभावैस्तेजसा कान्त्या क्षान्त्या बलसमन्वितः ।
धैर्यगम्भीर्यसम्पन्नो वदान्यो यशसान्वितः । । २
बुद्ध्या विक्रमदक्षश्च सम्पन्नो ब्राह्मणायतः ।
कृती कविस्तथा शूरः षट्पदाख्यैर्न निर्जितः । । ३
सदा पञ्चसु रक्तश्च वसुमद्भिर्न निर्जितः ।
रुद्रता वसुभिर्जातैः सत्त्वश्रद्धासमन्वितः । । ४
अम्बुजस्याण्डजस्येव आत्रेयस्य तथाच्युत ।
अम्बुजायास्तथा कृष्ण वार्यपात्रं स वै विभो । । ५
गाङ्गेयेन बले तुल्यः पौलस्त्यार्चाश्रमो यथा ।
गाङ्गेयस्य तथा कृष्ण धिषणस्य हरेर्यथा । । ६
काम्यश्च द्विजभक्तस्तु तथा वाल्मीकिवत्सदा ।
व्यासस्य देवशार्दूल जामदग्न्यस्य वा विभोः । । ७
एषां नैकैर्गुणैर्युक्तः स राजा क्ष्मातले विभो ।
शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् । । ८
यस्मिन्गाथां प्रगायन्ति ये पुराणविदो जनाः ।
सत्राजिते महाबाहौ कृष्ण धात्रीं समाश्रिते । । ९
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
सत्राजितं तु तत्सर्वं क्षेत्रमित्यमिधीयते । । 1.116.१०
स सर्वरत्नसंयुक्तां सप्तद्वीपवतीं महीम् ।
शशास धर्मेण पुरा चक्रवर्ती महाबलः । । ११
नान्यायकृन्न चाशक्तो वदान्यो बलवत्तरः ।
तस्याभूत्पुरुषा राज्ञः सम्यग्धर्मानुशासिनः । । १२
चत्वारः सचिवास्तस्य राज्ञः सत्राजितस्य तु ।
बभूवुरप्रतिहताः सदा वाति बलस्य वै । । १३
तस्य भक्तिरतीवासीन्निसर्गादेव भूपतेः ।
दिवाकरे जगद्भानौ रक्तचन्दनमालिनि । । १४
तस्योर्ध्वमहिमानं च विलोक्य पृथिवीपतेः ।
न केवलं जनस्यापि ह्यभवत्तस्य विस्मयः । । १५
सञ्चिन्तयामास नृपः समृद्ध्या विस्मितस्तथा ।
कथं स्यात् सम्पदेषा मे पुनरप्यन्यजन्मनि । । १६
एवं स बहुशो राजा तदा कृष्ण महायशाः ।
चिन्तयन्नपि तन्मूलं नासदन्निश्चयान्वितः । । १७
यदा न निश्चयं राजा स ययौ भार्गवीप्रियः ।
तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् । । १८
सर्वाश्च ससुखान्वीर विविक्तान्तः पुरस्थितः ।
प्रणिपत्य महाबाहुर्ग्रहीतुं शासनक्रियाः । । १९
विश्वासानुग्रहा बुद्धिर्भवतां मयि सत्तमाः ।
तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ । । 1.116.२०
सद्विद्याखिलविज्ञानसम्यग्धौतान्तरात्मभिः ।
भवद्भिर्यद्यनुग्राह्यः स्यामहं वेदवित्तमाः । । २१
तद्यथावन्मया पृष्टा भवन्तो मत्प्रसादिनः ।
वक्तुमर्हथ विद्वांसः सर्वस्यैवोपकारिणः । । २२
ब्रह्मोवाच
यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते ।
वदिष्यामो यथान्यायं यत्ते१ मनसि वर्त्तते । । २३
वयं हि नृपशार्दूल भवता पारितोषिताः ।
सम्यक्प्रजां पालयित्रा ददता भोजनं सदा । । २४
सन्तुष्टो ब्राह्मणोऽश्नीयाच्छिंद्याद्वा धर्मसंशयम् ।
हितं चोपदिशेद्वर्त्म अहिताद्वा निवर्तयेत् । । २५
विवक्षुमथ भूपालं भार्या तस्यैव धीमतः ।
प्रणिपातेन चाहेदं विनयात्प्रणयान्वितम् । । २६
न स्त्रीणामवनीपाल वक्तुमीदृगिहेष्यते ।
तथापि भूपते वक्ष्ये सम्पदीदृक्सुदुर्लभा । । २७
भूयोऽपि संशयान्प्रष्टुमलमीशो भवानृषीन् ।
नन्वहं पुरषव्याघ्र सदान्तः पुरचारिणी । । २८
तत्प्रसादं यदि भवान्करोति मम पार्थिव ।
तन्मदीयमृषीन्प्रष्टुं सन्देहं पार्थिवार्हसि । । २९
सत्राजित उवाच
ब्रूहि सुभ्रूर्मतं यत्ते प्रष्टव्या यन्मया द्विजाः ।
भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतद्द्विजोत्तमान् । । 1.116.३०
विमलवत्युवाच
श्रूयन्ते पृथिवीपाल नृपा ये तु चिरन्तनाः ।
येषां च सम्पद्भूपाल यथा तेऽद्य किलाभवत् । । ३१
तदीदृक्सम्पदो धाम तवाशेषं क्षितीश्वर ।
येन कर्मविपाकेन तद्वदन्तु महर्षयः । । ३२
अहं च भवतो भार्या सर्वसीमन्तिनीवरा ।
अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् । । ३३
तथा सम्पत्समृद्धत्वमन्येष्वपि हि विद्यते ।
निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा । । ३४
तदन्यजन्मचरितं नरनाथ निजं भवान् ।
मुनीन्पृच्छ त्वया चाहं यन्मया च पुरा कृतम् । । ३५
ब्रह्मोवाच
स तथोक्तस्तया राजा पत्न्या विस्मितमानसः ।
मुनीनां पुरतो मायां प्रशंसन्वाक्यमब्रवीत् । । ३६
साधु देवि मतं यन्मे त्वया यदिदमीरितम् ।
सत्यं मुनिवचः पुंसां स्याद्ध वै गृहिणी तथा । । ३७
सोऽहमेतन्महाभागे पृच्छाम्येतान्महामुनीन् ।
तेषामविदितं किञ्चित्त्रिषु लोकेषु न विद्यते । । ३८
एवमुक्त्वा प्रियां राजा प्रणिपत्य च तानृषीन् ।
यथावदेतदखिलं पप्रच्छ धरणीधरः । । ३९
राजोवाच
भगवन्तो ममाशेषं प्रसादावृतचेतसः ।
कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् । ।1.116.४ ०
कोऽहमासं पुरा विप्राः किंस्वित्कर्म मया कृतम् ।
किं वानया तु चार्वंग्या मम पत्न्या कृतं द्विजाः । ।४ १
येनावयोरियं लक्ष्मीर्मर्त्यलोके सुदुर्लभा ।
चत्वारश्चाप्रतिहता अमात्या मम गच्छतः । ।४ २
अशेषा भूभृतो वश्या धनस्यान्तो न विद्यते ।
बलं चैवाप्रतिहतं शरीरारोग्यमेव च । ।४ ३
प्रतिभाति च मे कान्त्या भार्यायामखिलं जगत् ।
ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ।४४
सोऽहमिच्छामि तज्ज्ञातुं तथैवेयमनिन्दिता ।
निजानुष्ठानमखिलं यस्याशेषमिदं फलम् । ।४५
ब्रह्मोवाच
इति पृष्टा नरेन्द्रेण समस्तास्ते तपोधनाः ।
परावसुमथोचुस्ते कथ्यतामस्य भूभृतः । । ४६
चोदितः सोऽपि धर्मज्ञैर्महाशूरा महामतिः ।
योगमास्थाय सुचिरं यथावद्यतमानसः । । ४७
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् ।
स तमाह मुनिर्भूपं विज्ञानेच्छं महामतिम् । । ४८
सत्राजितं महात्मानं जितशत्रुं मनस्विनम् ।
सपत्नीकं महाबुद्धिं ब्राह्मणान्सत्यवादिनः । । ४९
परावसुरुवाच
शृणु भूपाल सकलं यस्येदं कर्मणः फलम् ।
तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते । । 1.116.५०
त्वमासीः शूद्रजातीयः परहिंसापरायणः ।
कुष्ठार्तो दण्डपारुष्ये निःस्नेहः सर्वजन्तुषु । । ५१
द्वयं च भवतो भार्या पूर्वमप्यायतेक्षणा ।
नित्यं बभूव त्वच्चित्ता भवच्छुश्रूषणे रता । । ५२
पतिव्रता महाभागा भर्त्स्यमानापि निष्ठुरम् ।
त्वद्वाक्येषु च सर्वेषु वीर कर्मसु चोद्यता । ५३
नैश्वर्यादसहायस्य त्यज्यमानस्य बन्धुभिः ।
क्षयं जगाम योर्थोऽभूत्सञ्चितः प्रपितामहैः । । ५४
तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते ।
सापि कर्मविपाकेन कृषिर्विफलतां गता । । ५५
ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम् ।
तत्याज साध्वी नेयं त्वां त्यज्यमानापि पार्थिव । । ५६
अनया तु समं साध्व्या भानोरावसथे त्वया ।
कृतं शुश्रूषणं वृत्त्या भक्त्या सम्मार्जनादिकम् । । ५७
निःस्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः ।
अहन्यहनि विस्रम्भात्तस्मिन्नावसथे रवेः । । ५८
कान्यकुब्जपुरे वीर महाशुश्रूषितं त्वया ।
दिवाकरालये नित्यं कृतं तन्मार्जनं त्वया । । ५९
तथैवाभ्युक्षणं भूप नित्यं चैवानुलेपनम् ।
पत्न्यानया नृप तथा युष्मच्चित्तानुवृत्तया । । 1.116.६०
कारितं श्रवणं पुण्यमितिहासपुराणयोः ।
दत्त्वाङ्गुलीयकं राजन्पितृदत्तं तु वाचके । । ६१
अहन्यहनि यत्कर्म युवयोर्नृपकुर्वतोः ।
तत्रैव तन्मयत्वेन पापहानिरजायत । । ६२
भानोः कार्यं मया कार्यं परं शुश्रूषणं तथा ।
नाप्रभातं प्रभातं वा चिन्तेयमभवन्निशि । । ६३
एवमायतनं रम्यमित्येवं च सुखावहम् ।
सूर्यवच्चैवमेतत्स्यादित्यासीत्ते मनस्तदा । । ६४
योगिनां सुखदं कर्म तथैव सुखमित्यपि ।
भवच्चित्तमभूत्तत्र योगकर्मण्यहर्निशम् । । ६५
एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव ।
भूतानुमानिनः सम्यग्यथोक्ताधिककारिणः । । ६६
स्मरतो गोपतिं नित्यं चित्तेनापि दृढात्मनः ।
निःशेषमुपशांतं ते पापं सूर्यनिषेवणात् । । ६७
ततोऽधिकं पुरस्तस्मादगारस्यानुलेपनम् ।
संमार्जनं च बहुशः सपत्नीकेन यत्कृतम् । । ६८
केवलं धर्ममाश्रित्य त्यक्त्वा वृत्तिमशेषतः ।
अनया श्रवणं पुण्यं कारितं वाचकात्सदा । ६९
नानाधातुविकारैस्तु गोमयेन मृदा तथा ।
उपलेपनं कृतं भक्त्या त्वया पूर्वं सुरालये । । 1.116.७०
अथाजगाम वै तत्र कुवलाश्वो महीपतिः ।
महासैन्यपरीवारः प्रभूतगजवाहनः । । ७१
सर्वसम्पदुपेतं तं सर्वाभरणभूषितम् ।
वृतं भार्यासहस्रेण दृष्ट्वा संक्रन्दनोद्बलम् । ।
स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे । । ७२
सर्वकामप्रदं कर्म क्रियते भास्काराश्रितम् ।
तेनैतदखिलं राज्यमशेषं चाप्तवान्महीम् । । ७३
तेजश्चैवाधिकं यत्ते तथैव शृणु पार्थिव ।
योगप्रभावतो लब्धं कथयाम्यखिलं तव । । ७४
तत्रैवावसथे दीपः प्रशान्तः स्नेहसंक्षयात् ।
निजभोजनतैलेन पुनः प्रज्वलितस्त्वया । । ७५
अन्या चोत्तरीयेण वीर वर्त्योपबृंहितः ।
तव पत्न्या स्वयं ज्वाल्य कान्तिरस्यास्ततोऽधिका । । ७६
तवाप्यखिलभूपालमनः क्षोभकरं पुनः ।
तेजो नरेन्द्र एतस्मात्किमुताराध्य भास्करम् । । ७७
एवं नरेन्द्रः शूद्रत्वाद्भानुकर्मपरायणः ।
तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् । । ७८
किं पुनर्यो नरो भक्त्या नित्यं शुश्रूषणावृतः ।
करोति सततं पूजां निष्कामो नान्यमानसः । । ७९
सर्वामृद्धिमिमां लब्ध्वा सर्वलोकमहेश्वरः ।
पूजयित्वार्कमीशेशं तमाराध्य न सीदति । । 1.116.८०
पुष्पै धूपैस्तथा वान्यैर्दीपैर्वस्त्रानुलेपनैः ।
आराधयार्कं तद्वेश्म सदा सम्मार्जनादिना । । ८१
यद्यदिष्टतमं किञ्चिद्यद्यन्यत्तु दुर्लभम् ।
तद्दत्वा च जगद्धात्रे भास्कराय न सीदति । । ८२
सुगन्धागुरुकर्पूरचन्दनागुरुकुंकुमैः ।
वासोभिर्विविधैर्धूपैः पुष्पैः स्रक्चामरध्वजैः । । ८३
अन्योपहारैर्विविधैः कृतक्षीराभिषेचनैः ।
गीतवादित्रनृत्याद्यैस्तोषयस्वार्कमादरात् । । ८४
पुण्यरात्रिषु मार्तण्डं नृत्यगीतैरथोज्ज्वलम् ।
भूप जागरणैर्भक्त्या होमः कार्यः सदा शुचिः । । ८५
इतिहासपुराणानां श्रवणेन .विशेषतः ।
तथा वेदस्वनैः पुण्यैर्ऋक्सामयजुभिर्नृप । । ८६
एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत् ।
भूयो वैवस्वतो भूत्वा भवहृद्भास्करो नरैः ।। ८७
तोषितो भगवान्भानुर्ददात्यभिमतं फलम् ।
दैवकर्मसमर्थानां प्राणिनां स्मृतिसम्भवैः । । ८८
तोषितो भगवान्कामान्प्रयच्छति दिवाकरः ।
नैष वृत्तैर्न रत्नौघैः पुष्पैर्धूपानुलेपनैः । ।
सद्भावेनैव मार्तण्डस्तोषमायाति संस्मृतः । । ८९
त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम् ।
कृत्वाल्पमीदृशं प्राप्तं राज्यमन्येन दुर्लभम् । । 1.116.९०
अनया श्रवणं पुण्यं कारयित्वा गृहे रवेः ।
ईदृक्प्राप्ता सम्पदियं पूजां कृत्वा तु वाचके । । ९१
प्राप्तोपकरणैर्यस्तमेकाग्रमतिरण्डजम् ।
सन्तोषयति नेन्द्रोऽपि भवता वै समः क्वचित् । । ९२
तस्मात्त्वमनया देव्या सहात्यन्तविनीतया ।
भास्कराराधने यत्नं कुरु धर्मभृतां वर । । ९३
ब्रह्मोवाच
एतन्मुनेर्वचो वीर निशम्य स नराधिपः ।
भार्यासहायः स तदा संप्रहृष्टतनूरुहः । । ९४
कृतकार्यमिवात्मानं मन्यमानस्तदाभवत् ।
उवाच प्रणतो भूत्वा राजा सत्राजितोऽच्युत । । ९५
सत्राजित उवाच
यथामरत्वं सम्प्राप्य यथा वायुर्बलं परम् ।
परं निर्वाणमाप्नोति तथाहं वचसा तव । । ९६
कृतकृत्यः सुखासीनो निर्वृतिं परमां गतः ।
अज्ञानतमसाच्छन्ने यत्प्रदीपस्त्वया धृतः । । ९७
अहमेषा च तन्वङ्गी विभूतिभ्रंशभीरुकः ।
द्रव्यमापादितं ब्रह्मन्निहाद्य वचसा तव । । ९८
सम्पदः कथितं बीजमावयोर्भवता मुने ।
त्वद्वक्त्रादुद्यता वाचो विज्ञाता हि द्विजोत्तम । । ९९
न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः ।
आराध्यश्च जगन्नाथो भावशून्यैर्दिवाकरः । । 1.116.१००
बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः ।
निःस्वैराराध्यते देवो भानुः सर्वेश्वरेश्वरः । । १०१
सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने ।
यच्च पृच्छामि तन्मे त्वं प्रसादसुमुखो वद । । १०२
कथमाराधितो देवो नरैः स्त्रीभिश्च भास्करः ।
तोषमायाति विप्रेन्द्र तद्वदस्व महामुने । । १०३
रहस्यानि च देवस्य प्रीतये या तिथिः सदा ।
चान्यशेषाणि मे ब्रूहि अर्काराधनकांक्षिणः । । १०४
परावसुरुवाच
शृणु भूपाल यैर्भानुर्गृहेष्याराध्यते जनैः ।
नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे । । १०५
समभ्यर्च्य जगन्नाथं देवमकं समाधिना ।
एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणार्पणम् । । १०६
करोति भास्करप्रीत्यै कार्त्तिकं मासमात्मना ।
पूर्वे वयसि यत्नेन जानताऽजानतापि वा । । १०७
पापमाचरितं तस्माद्भिद्यते नात्र संशयः ।
अनेनैव विधानेन मासि मार्गशिरे पुनः । । १०८
समभ्यर्च्य मरकतं विप्रेभ्यो यः प्रयच्छति ।
भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे । । १०९
मध्ये वयसि यत्पापं योषिता पुरुषेण वा ।
कृतमस्माच्च तेनेक्तो विमोक्षः परमात्मना । । 1.116.११०
तथा चैवेकभक्तं तु यस्तु विप्राय यच्छति ।
दिवाकरं समभ्यर्च्य पौषे मासि महीपते । । १११
तत्तच्च प्रीणयत्यर्कं वार्धिकेनैव यत्कृतम् ।
स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा । । ११२
त्रिमासिकं व्रतमिदं यः करोति नरेश्वर ।
स भानुप्रीणनात्पापैर्लघुभिः परिमुच्यते । । ११३
द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः ।
तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् । । ११४
व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् ।
त्रिभिः संवत्सरैश्चैव प्रददाति फलं नृणाम् । । ११५
त्रिभिर्मासैरनुष्ठानात्त्रिविधात्पातकान्नृप ।
त्रीणि नामानि देवस्य मोचयन्ति च वार्षिकैः । । ११६
यतस्ततो व्रतमिदं विविधं समुदाहृतम् ।
सर्वपापप्रशमनं भास्कराराधने परम् । । ११७
सत्राजित उवाच
कतमाय 'तु विप्राय दातव्यं भक्तितो मुने ।
द्वितीये द्विजशार्दूल कथयस्वाखिलं मम । । ११८
परावसुरुवाच
देये पुराणविदुषे वस्त्रे विप्रोत्तमाय च ।
श्रूयतां चापि वचनं यदुक्तं भास्करेण च । ।
अरुणाय महाबाहो पृच्छते यत्पुरा नृप । । ११९
उदयाचलमारूढं भास्करं तिमिरापहम् ।
प्रणम्य शिरसा नूनमिदं वचनमब्रवीत् । । 1.116.१२०
कानि प्रियाणि ते देव पूजने सन्ति सर्वदा ।
पुष्पादीनां समस्तानामाराधनविधौ सदा । ।
उपरागादिवस्त्रादौ ब्राह्मणानां तथा रवे । । १२१
भास्कर उवाच
पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् ।
गुग्गुलञ्चापि धूपानां नैवेद्ये मोदकाः प्रियाः । । १२२
पूजाकरो भोजकस्तु घृतदीपस्तथा प्रियः ।
दानं प्रियं खगश्रेष्ठ वाचकाय प्रदीयते । । १२३
मामुद्दिश्य च यद्दानं दीयते मानवैर्भुवि ।
वाचकाय१ तु दातव्यं तन्मम प्रीतये खग । । १२४
इतिहासपुराणाम्यामभिज्ञो यस्तु वाचकः ।
ब्राह्मणो वै खगश्रेष्ठ सम्पूज्यः प्रीतये मम । । १२५
पूजितेऽस्मिन्सदा विप्रे पूजितोहं न संशयः ।
भवामि खगशार्दूल यतस्त्विष्टः स मे सदा । । १२६
वेदवीणामृदङ्गैश्च नातिगन्धविलेपनैः ।
तथा मे जायते प्रीतिर्यथा श्रुत्वा खगोत्तम । । १२७
इतिहासपुराणानि वाच्यमानानि वाचकैः ।
अतः प्रियो वाचको मे पूजाकर्ता च भोजकः । । १२८
इति भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सत्राजितोपाख्याने रविपूजाविधिवर्णनं नाम षोडशाधिकशततमोऽध्यायः । ११६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 117
उपलेपनस्नापनमाहात्म्यवर्णनम्
अरुण उवाच
किमर्थं भोजकस्तुभ्यं प्रियो देवेश कथ्यताम् ।
नान्ये विप्रादयो वर्णा देवतायतनेषु वै । । १
कश्चायं भोजको देव कस्य पुत्रः किमात्मकः ।
वर्णतश्चास्य मे ब्रूहि कर्म चास्य समन्ततः । । २
आदित्य उवाच
साधु पृष्टोऽस्मि भद्रं ते वैनतेय महामते ।
शृणुष्वैकमनाः सर्वं गदतो मम खेचर । । ३
विप्रादयस्तु ये त्वन्ये वर्णाः कश्यपनन्दन ।
ते पूजयन्ति मां नित्यं भक्तिश्रद्धासमन्विताः । ।४
देवालयेषु ये विप्राः प्रीत्या मां पूजयन्ति हि ।
अन्याश्च देवतावृत्त्या ते स्युर्देवलकाः खग । ।
एतस्मात्कारणान्मह्यं भोजको दयितः सदा । । ५
वर्णतो ब्राह्मणश्चायं स्वानुष्ठानपरो यदि ।
अनुष्ठानविहीनो हि नरकं यात्यसंशयम् । । ६
न त्याज्यं भोजकैस्तस्मात्स्वकं कर्म कदाचन ।
मयासौ निर्मितः पूर्वं तेजसा स्वेन वै खग । । ७
पूजार्थमात्मनो नूनं कर्म चास्य प्रकीर्तितम् ।
प्रियव्रतसुतो राजा शाकद्वीपे महामतिः । । ८
तेन मे कारितं दिव्यं विमानप्रतिमं गृहम् ।
तस्मिन्द्वीपे तदात्मीये दिव्यं शिलामयं महत् । । ९
स मदर्चां कारयित्वा काञ्चनीं लक्षणान्विताम् ।
प्रतिष्ठापनाय वै तस्याश्चिन्तयामास सुव्रतः । । 1.117.१०
कृतमायतनं श्रेष्ठं तेनेयं प्रतिमा कृता ।
को वै प्रतिष्ठापयिता देवमर्कं शुभालये । । ११
एवं सञ्चिन्तयित्वा तु जगाम शरणं मम ।
भक्तिं तस्य च सञ्चिन्त्य खगाहं पार्थिवस्य तु । । १२
गतोऽहं दर्शनं तस्य उक्तञ्चापि मया खग ।
किं चिन्तयसि राजेन्द्र कुतश्चिंता समागता । । १३
ब्रूहि यत्ते हृदि प्रौढं चिन्ताकारणमागतम् ।
संपादयिष्ये तत्सर्वं विमना भव मा नृप । । १४
अत्यर्थं दुष्करमपि करिष्ये नात्र संशयः ।
इत्युक्तः स मया राजा इदं वचनमब्रवीत् । । १५
द्वीपेऽस्मिन्देवदेवस्य कृतमायतनं तव ।
मया भक्त्या जगन्नाथ तथेयं प्रतिमा कृता । । १६
प्रतिष्ठां कारयेद्यस्तु तव देवालये खग ।
यत्र सन्ति त्रयो वर्णा द्वीपेस्मिन्क्षत्रियादयः । । १७
ते मयोक्ता न कुर्वन्ति प्रतिष्ठां तव कृत्स्नशः ।
न चाप्यर्चां जगन्नाथ ब्राह्मणश्चात्र विद्यते । । १८
तेनेयमागता चिन्ता हृदि शल्यं तयार्पितम् ।
ततो मयोक्तो राजाऽसौ वैनतेय वचः शुभम् । । १९
एवमेतन्न संदेहो यथात्थ त्वं नराधिपः ।
क्षत्रियादित्रयो वर्णा द्वीपेऽस्मिन्नात्र संशयः । । 1.117.२०
ते च नार्हन्ति मे पूजां न प्रतिष्ठां कदाचन ।
तस्मात्ते श्रेयसे राजन्प्रतिष्ठामात्मनस्तथा । । २१
सृजामि प्रथमं वर्णं भग(मग?)संज्ञमनौपमम् ।
इत्युक्त्वा तमहं वीर राजानं खगसत्तम । । २२
जगाम परमां चिन्तां तस्य कार्यस्य सिद्धये ।
अथ मे चिन्तयानस्य१ स्वशरीराद्विनिःसृताः । । २३
शशिकुन्देन्दुसंकाशाः संख्ययाष्टौ महाबलाः ।
पठन्ति चतुरो वेदान्सांगोपनिषदः खग । । २४
काषायवाससः सर्वे करण्डाम्बुजधारिणः ।
ललाटफलकाद्द्वौ तु द्वौ चान्यौ वक्षसस्तथा । । २५
चरणाभ्यां तथा द्वौ तु पादाभ्यां द्वौ तथा खग ।
अथ ते च महात्मानः सर्वे प्रणतकन्धराः । । २६
पितरं मन्यमाना मामिदं वचनमब्रुवन् ।
तात तात महादेव लोकनाथ जगत्पते । । २७
किमर्थं भवता सृष्टा वयं देवस्य देहतः ।
ब्रूहि सर्वं करिष्याम आदेशं भवतोऽखिलम् । । २८
पितास्माकं भवान्देवो वयं पुत्रा न संशयः ।
इत्युक्तवन्तस्ते सर्वे मयोक्ता देवसम्भवाः । । २९
प्रियव्रतसुतो योयमस्य वाक्यं करिष्यथ ।
स चाप्युक्तो मया राजा शाकद्वीपाधिपः खग । । 1.117.३०
य एते मत्सुता राजन्नर्घ्या ब्राह्मणसत्तमाः ।
कारयन्तु प्रतिष्ठां मे सर्वैरेभिर्महीपते । । ३१.
कारयित्वा प्रतिष्ठां तु ममार्चायां नराधिप ।
पश्चादायतनं सर्वमेषामर्पय पूजने । । ३२
एते मत्पूजने योग्याः प्रतिष्ठासु च सर्वशः ।
समाप्य न प्रहर्तव्यं भोजकेभ्यः कदाचन । । ३३
सर्वमायतनार्थं तु गृहक्षेत्रादिकं च यत् ।
धनधान्यादिकं राजन्यन्ममायतने भवेत् । । ३४
तत्सर्वं भोजकेभ्यस्तु दातव्यं नात्र संशयः ।
धनधान्यसुवर्णादि गृहक्षेत्रादिकं च यत् । ।
यन्मदीयं भवेत्किञ्जिद्ग्रामे वा नगरे क्वचित् । । ३५
तस्य सर्वस्य राजेन्द्र मदीयस्य समन्ततः ।
अधिपा भोजकाः सर्वे नान्ये विप्रादयो नृप । । ३६
यथाधिकारी पुत्रस्तु पितृद्रव्यस्य वै भवेत् ।
तथा मदीयवित्तस्य भोजकाः स्युर्न संशयः । । ३७
इत्युक्तेन मया राज्ञा तथा सर्वं प्रवर्तितम् ।
कारयित्वा प्रतिष्ठां तु दत्त्वा सर्वस्वमेव हि । ।
भोजकेभ्यः खगश्रेष्ठ ततो हर्षमवाप्तवान् । । ३८
एवमेते मया सृष्टा भोजका गरुडाग्रज ।
अहमात्मा ततो ह्येषां सर्वे सुमनसस्तथा । । ३९
मत्पुत्रेण समा ज्ञेयास्तथा मम हिताः सदा ।
तस्मात्तेभ्यः प्रदातव्यं न हर्तव्यं कदाचन । । 1.117.४०
भोजकस्य हरेद्यस्तु लोभाद्द्वेषात्तथापि वा ।
स याति नरकं घोरं तामिस्रं शाश्वतीः समाः । । ४१
तस्माद्ग्रामादिकं द्रव्यं यत्किञ्चिन्मम विद्यते ।
तत्सर्वं भोजकस्वं हि पितृपर्यागतं मम । । ४२
भोजकश्च भवेद्यादृक्तत्ते वच्मि खगेश्वर ।
ममाज्ञां पालेयद्यस्तु स्वानुष्ठानपरः सदा । । ४३
वेदाधिगमनं पूर्वं दारसंग्रहणं तथा ।
अभ्यङ्गधारणं नित्यं तथा त्रिषवणं स्मृतम् । । ४४
पञ्चकृत्वः सदा पूज्यो ह्यहं रात्रौ दिने तथा ।
देवब्राह्मणवेदानां निन्दा कार्या न वै क्वचित् । । ४५
नान्यादेवप्रतिष्ठा तु कार्या वै भोजकेन तु ।
ममापि च न कर्तव्या तेन एकाकिना क्वचित् । । ४६
सर्वमेव निवेद्यान्नं नाश्नीयाद्भोजकः सदा ।
न भुञ्जीत गृहं गत्वा शूद्रस्य गरुडाग्रज । । ४७
शूद्रोच्छिष्टं प्रयत्नेन सदा त्याज्यं हि भोजकैः ।
येऽश्नन्ति भोजका नित्यं शूद्रान्नं शूद्रवेश्मनि । । ४८
ते वै पूजाफलं चात्र कथं प्राप्स्यन्ति खेचर ।
गत्वा गृहं तु शूद्रस्य न भोक्तव्यं कदाचन । । ४९
गृहागतं च शूद्रान्नं तच्च त्याज्यं तथैव च ।
आध्मातव्योम्बुजो नित्यं भोजकेनाग्रतो मम । । 1.117.५०
सकृत्प्रवादिते शंखे मम प्रीतिर्हि जायते ।
षण्मासान्नात्र सन्देहः पुराणश्रवणं तथा । । ५१
तस्माच्छंखः सदा वाद्यो भोजकेन प्रयत्नतः ।
तस्येयं परमा वृत्तिर्नैवेद्यं यन्मदीयकम् । । ५२
नाभोज्यं भुञ्जते यस्मात्तेनैते भोजका मताः ।
मगं ध्यायन्ति ते यस्मात्तेन ते मगधाः स्मृताः । । ५३
भोजयन्ति च मां नित्यं तेन ते भोजका स्मृताः ।
अभ्यङ्गं च प्रयत्नेन प्रायं शुद्धिकरं परम् । । ५४
अभ्यङ्गहीनो ह्यशुचिर्भोजकः स्यान्न संशयः ।
यस्तु मां पूजयेद्वीर अभ्यङ्गेन विना खग । । ५५
न तस्य सन्ततिः स्याद्वै न चाहं प्रीतिमान्भवे१ ।
मुण्डनं शिरसा कार्यं शिखा धार्या प्रयत्नतः । । ५६
नक्तं चादित्यदिवसे तथा षष्ठ्यां प्रवर्तयेत् ।
सप्तम्यामुपवासस्तु मम संक्रमणे तथा । । ५७
कर्तव्यो भोजकेनैव मत्प्रीत्यै गरुडाग्रज ।
त्रिकालं चापि गायत्रीं जपेद्वाचा पुरो मम । । ५८
मुखमावृत्य यत्नेन पूजनीयोऽहमादरात् ।
मौनं चास्य प्रयत्नेन त्यक्त्वा क्रोधं च दूरतः । । ५९
शूद्रेभ्यो यस्तु वैश्येभ्यो लोभात्कामात्प्रयच्छति ।
निर्माल्यं मम वै वत्स स याति नरकं ध्रुवम् । । 1.117.६०
लोभाद्वै भोजको यस्तु मत्पुष्पाणि खगाधिप ।
यच्छतेन्यस्य दुष्टात्मा मय्यनारोप्य खेचर । । ६१
स ज्ञेयो मे परः शत्रुः स मामर्हो न चार्चितुम् ।
निर्माल्यं मम देयं स्याद्ब्राह्मणादिषु वै नृषु । । ६२
नैवेद्यं यन्मदीयं तु तदश्नीयात्सदैव हि ।
तेनासौ शुद्ध्यते नित्यं हविष्यान्नसमं तथा । । ६३
तत्क्षणादुत्क्षिपेद्यस्तु ममांगात्पुष्पमेव हि ।
नान्यस्य देयं नैवेद्यं मदीयमुदके२ क्षिपेत् । । ६४
पञ्चगव्यसमं तस्य मन्मतं नात्र संशयः ।
ममाङ्गलग्नं यत्किञ्चिद्गन्धं पुष्पमथापि वा । । ६५
दातव्यं न च वैश्याय न शूद्राय कदाचन ।
आत्मना तद्ग्रहीतव्यं न विक्रेयं कथञ्चन । । ६६
यस्तु नारोप्य पुष्पाणि अव्यङ्गानि ममोपरि ।
यः कश्चिदाहरेल्लोके स याति नरकं ध्रुवम् । । ६७
स्नपनं मम निर्माल्यं पावकं यस्तु लङ्घयेत् ।
स नरो नरकं याति सरौद्रं रौरवं खग । । ६८
भोजकेन सदा कार्यं स्नपनं मे प्रयत्नतः ।
यथा न लङ्घयेत्कश्चिद्यथा श्वा नापि भक्षयेत् । । ६९
यद्ययत्नपरः कुर्याद्भोजकः स्नपनं मम ।
यथा वै लङ्घितमतिर्भक्ष्यतां च खगाधिप । । 1.117.७०
स याति नरकं रौद्रं तामिश्रं नाम नामतः ।
एकभक्तं सदा कार्यं स्नानं त्रैकालमेव हि । । ७१
त्रिचैलं परिवर्तेत भवितव्यं दिनेदिने ।
पूजाकालेऽर्घकाले च क्रोधस्त्याज्यः प्रयत्नतः । । ७२
अमांगल्यं न वक्तव्यं वक्तव्यं च शुभं तदा ।
ईदृग्भूतो भोजको मे प्रेयान् पूजाकरः सदा । । ७३
सन्मान्यः पूजनीयश्च विप्रादीनां यथास्म्यहम् ।
यः करोत्यवमानं तु वृत्तिरूपं तु भोजके । । ७४
तस्याहं रोषमेत्याशु कुलं हन्मि समन्ततः ।
प्रियो मे भोजको नित्यं यथा त्वं विनतासुत । । ७५
उपलेपनकर्ता च सम्मार्जनपरश्च यः । ।
परावसुरुवाच
इत्युक्त्वा भगवान्भानुर्बभ्राम रथमास्थितः । । ७६
अरुणोऽपि तथा श्रुत्वा मुदया परया नृपः ।
पूज्यस्तस्मान्महाराज भोजकस्तु महीपते । । ७७
तस्माद्देवं वाचकाय द्वितीयमशनं नरैः । । ७८
ब्रह्मोवाच
इत्थं श्रुत्वा स राजा तु कर्मणः फलमात्मनः ।
पुरातनं महाबाहुर्मुदमाप महीपतिः । ।७९
यद्यदायतनं भानोः पृथिव्यां पश्यते नृपः ।
तस्मिंस्तस्मिन्कारयति उपलेपनमादरात् । । 1.117.८०
भार्या तस्यापि सुश्रोणि पुण्यश्रवणमादरात् ।
वाचके वेतनं दत्त्वा भानोर्देवस्य मन्दिरे । । ८१
इत्थं राजा सपत्नीकः पूज्य भक्त्या दिवाकरम् ।
प्राप्तावुभौ परां प्रीतिं गतिं चानुत्तमां तथा । । ८२
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्प उपलेपनस्नापनमाहात्म्यवर्णनं नाम सप्तदशाधिकशततमोऽध्यायः । ११७ ।
सत्राजितोपाख्यानं समाप्तम्
पर्व १ (ब्राह्मपर्व) — Adhyāya 118
दीपदानफलवर्णनम्
ब्रह्मोवाच
दीपं प्रयच्छति नरो भानोरायतने तु यः ।
तेजसा रविसंकाशः सर्वयज्ञफलं१ लभेत् । । १
कार्त्तिके तु विशेषेण कौमारे मासि दीपकम् ।
दत्वा फलमवाप्नोति यदन्येन न लभ्यते । । २
कृष्णकृष्णात्र ते वच्मि संवादं पापनाशनम् ।
भ्रातृभिः सह भद्रस्य ब्राह्मणस्य महात्मनः । । ३
जगत्यस्मिन्पुरी रम्या नाम्ना माहिष्मती पुरा ।
तस्यामासीद्द्विजः कृष्ण नागशर्मेति विश्रुतः । ।४
तस्य पुत्रशतं जातं प्रसादाद्भास्करस्य च ।
तेषां कनिष्ठो भद्रस्तु तत्पुत्राणां विचक्षणः । । ५
स च नित्यं जगद्धातुर्देवदेवस्य भास्वतः ।
दीपवर्तिपरस्तद्वत्तैलाद्याहरणोद्यतः । । ६
भानोरायतने तस्य सहस्रं भार्गवीप्रिय ।
प्रदीपानां तु जज्वाल दिवारात्रमनिन्दितम् । ।७
तस्य दीप्त्या पराभूतास्तस्य लावण्यधर्षिताः ।
सर्वे ते भ्रातरो भद्रं पप्रच्छुरिदमादरात् । । ८
भो भद्र वद वै भ्रातर्भद्रं तेस्तु सदा द्विज ।
कौतूहलपराः सर्वे यत्पृच्छामस्तदुच्यताम् । । ९
तेषां तद्वचनं श्रुत्वा भद्रो वचनमब्रवीत् ।
विषये सति वक्तव्यं यन्मया तदिहोच्यताम् । । 1.118.१०
नाहं मत्सरयुक्तो वै न च रागादिदूषितः ।
भवन्तो मम सर्वे वै भ्रातरो गुरवस्तथा । । ११
कथं न कथयाम्येष भवतां पुत्रसम्मितः ।
तस्माद्ब्रुवन्तु मां सर्वे भ्रातरो यद्विवक्षितम् । । १२
भ्रातर ऊचुः
न तथा पुष्पधूपेषु न तथा द्विजपूजने ।
सुप्रयत्नं तु पश्यामो भानोरायतने परम् । । १३
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि ।
तव दीपप्रदानाय यथा भद्र सदोद्यमम् । । १४
तत्त्वं तत्कथयास्माकं हंत कौतूहलं परम् ।
यन्नाम दीपदानस्य भवता विदितं फलम् । । १५
तदेतत्कथयास्माकं सविशेषं महाबल ।
एवमुक्तस्ततस्तैस्तु भ्रातृभिश्चोदितो मुदा । । १६
व्याजहार स भ्रातॄणां न किञ्चिदपि सुव्रत ।
पुनः पुनरसौ तैस्तु भ्रातृभिश्चोदितो मुदा । । १७
दाक्षिण्यसारो भद्रस्तु कथयामास कृत्स्नशः ।
भवतां कौतुकं चैतदतीवाल्पेऽपि वस्तुनि । । १८
तदेष कथयाम्यद्य यद्व्रतं मम सुव्रत ।
इक्ष्वाकुराज्ञस्तु पुरा वशिष्ठोऽभूत्पुरोहितः । । १९
तेन चायतनं भानोः कारितं सरयूतटे ।
अहन्यहनि शुश्रूषां पुष्पधूपानुलेपनैः । । 1.118.२०
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः ।
कार्तिके दीपको भक्त्या प्रदत्तस्तेन वै सदा । । २१
आसीन्निर्वाण एवासौ देवार्चापुरतो निशि ।
देवतायतने चाहमवसं व्यथितो भृशम् । । २२
पूयशोणितनिष्पन्दं प्रावहन्कायतः सदा ।
शीर्ण घ्राणो ह्यर्वरवो दुर्गंधपतितस्तथा । । २३
दुष्टबुद्ध्या सदा युक्तः सप्ताश्वं प्रति सुव्रत ।
यदृच्छ्या दीपदानं वर्त्यादीनां विभावसौ । ।२४
तत्तद्भुक्त्वा सदा तुष्टिं व्रजामि द्विजसत्तमाः ।
एकदा तु ततस्तस्मिन्भानोरायतने गतः । । २५
रात्रौ दृष्टा मया तत्र भक्ता जागरणागताः ।
प्रतिश्रयं प्रार्थिताश्च तैश्च दत्तो दयान्वितः । । २६
व्याधितोऽयं सुदीनश्च इति कृत्वा मतिं शुभाम् ।
ततोऽहमग्निमाश्रित्य स्थितस्तेषां समीपतः । । २७
दुष्टां बुद्धिं समाश्रित्य हर्तुकामो विवस्वतः ।
दिव्यमाभरणं भानोश्छिद्रान्वेषी द्विजोत्तमाः । । २८
स्थितोऽहं भोजका ह्यत्र यदि निद्रां व्रजन्ति ते ।
येनास्य वैरिवद्भानोर्हराम्याभरणं शुभम् । । २९
अथ सुप्ता भोजकास्ते निद्रया मोहितास्तदा ।
निर्वाणाश्चापि दीपास्तु ततोऽहमुत्थितस्त्वरन् । । 1.118.३०
मुदा परमया युक्तो गतो वैश्वानरं प्रति ।
प्रज्वाल्यं पावकं यत्नाद्दीपवर्तिन्ततो मया । । ३१
योजयित्वा तु वै दीपे धृतो दीपोऽग्रतो रवेः ।
हर्तुकामेनाभरणं भानोर्देवस्य सुव्रत । । ३२
अथ ते भोजकाः सर्वे वृद्धा देवस्य पुत्रकाः ।
तैस्तु दृष्टो ह्यहं तत्र दीपहस्तो विभावसोः । । ३३
पुरः स्थितो द्विजश्रेष्ठा गृहीतश्चापि तैरिह ।
ततोऽहं तेजसा मूढो भास्करस्य महात्मनः । । ३४
विलपन्करुणं तेषां पादयोरवनिं गतः ।
तैश्चापि करुणां कृत्वा मुक्तोऽहं भोजकैस्तदा । । ३५
गृहीतो राजपुरुषैः पृष्टश्चापि समन्ततः ।
किमिदं भवतारब्धं देवदेवस्य मंदिरे । । ३६
दीपं प्रज्वाल्य दुष्टात्मन्कथ्यतां मा चिरं कुरु ।
इत्युक्त्वा तु ततस्तैस्तु शस्त्रहस्तैः समावृतः । । ३७
ततोऽहं व्याधिना क्लिष्टो भयेन च द्विजोत्तमाः ।
हित्वा प्राणान्गतो यत्र स्वयं देवो विभावसुः । । ३८
स्थित्वा कल्पं ततस्तत्र युष्माकं भ्रातृतां गतः ।
एष प्रभावो दीपस्य कार्तिके मासि सुव्रताः । । ३९
दत्तस्यार्कस्य भवने यस्येयं व्युष्टिरुत्तमा ।
दुष्टबुद्ध्या कृतं यत्तु मया दीपप्रवर्तनम् । । 1.118.४०
भगायतनदीपस्य तस्येदं भुज्यते फलम् ।
क्षुधाभिभूतेन मया देवदेवस्य भूषणम् । । ४१
दीपश्च देवपुरतो ज्वालितो भास्करस्य तु ।
ततो जातिस्मृतिर्जन्म प्रान्तं ब्राह्मणवेश्मनि । । ४२
कुष्ठिना चापि शूद्रेण प्राप्तं ब्राह्मण्यमुत्तमम् ।
नानाविधानि शास्त्राणि सांगं वेदं समाप्तवान् । । ४३
दुष्टबुद्ध्या धृताद्दीपात्फलमेतन्महाद्भुतम् ।
प्राप्तं मया द्विजश्रेष्ठाः किं पुनर्दीपदायिनाम् । । ४४
एतस्मात्कारणाद्दीपानहमेवमहर्निशम् ।
प्रयच्छामि रवेर्धाम्नि ज्ञातमस्य हि यत्फलम् । ।४५
युष्माकमिदमुक्तं वै स्नेहात्सत्यं न संशयः ।
एष प्रभावो दीपस्य कार्तिके मासि सुव्रताः । ।४ ६
अर्कायतनदीपस्य भद्रोवोचद्यथा पुरा ।
दिनेदिने जपन्नाम भास्करस्य समाहितः । ।४७
ददाति कार्तिके यस्तु भगायतनदीपकम् ।
जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्वजन्तुषु । । ४८
अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः ।
सर्वकालं च चक्षुष्मान्मेधावी दीपदो नरः । ।४ ९
जायते नरकं चापि तमः संज्ञं न पश्यति ।
षष्ठीं वा सप्तमीं वापि प्रतिपक्षं च यो नरः । । 1.118.५०
दीपं ददाति यत्नाद्यत्फलं तस्य निबोध मे ।
काञ्चनं मणियुक्तं च मनोज्ञमतिशोभनम् । । ५१
दीपमालाकुलं दिव्यं विमानमधिरोहति ।
तस्मादायतने भानोर्दीपान्दद्यात्सदाच्युत । । ५२
तांश्च दत्त्वा न हिंस्याच्च न च तैलवियोजितान् ।
कुर्वीत दीपहर्ता तु मूषकोन्धश्च जायते । । ५३
तस्माद्दद्यान्नाहरेद्वै श्रेयोऽर्थी दीपकं नरः । । ५४
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भद्रोपाख्यान
आदित्यायतनदीपदानफलवर्णनं नामाष्टादशाधिकशततमोऽध्यायः । ११८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 119
दीपदानवर्णनम्
ब्रह्मोवाच
अन्धे तमसि दुष्पारे नरके पतितात्किल ।
संक्रोशमानान्संक्षुब्धानुवाच यमकिङ्करः । । १
विलापैरलमत्रेति किं वो विलपिते फलम् ।
यत्प्रमादादिभिः पूर्वमात्मायं समुपेक्षितः । । २
पूर्वमालोचितं नैतत्कथमन्ते भविष्यति ।
इदानीं यातनां भुङ्ध्वं किं विलापं करिष्यथ । । ३
देहो दिनानि स्वल्पानि विषयाश्चातिदुर्बलाः ।
एतत्को न विजानाति येन यूयं प्रमादिनः । । ४
जन्तुर्जन्मसहस्रेभ्य एकस्मिन्मानुषो यदि ।
स तत्राप्यतिमूढात्मा किं भोगानभिधावति । । ५
पुत्रदारगृहक्षेत्रहिताय सततोद्यताः ।
न जानन्ति ततो मूढाः स्वल्पमप्यात्मनो हितम् । । ६
वञ्चितोऽहं मया लब्धमिदमस्मादुपागतम् ।
न वेत्ति मोहितः कश्चित्प्रक्रान्तनरको नरः । । ७
न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च ।
साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च । । ८
जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम् ।
यदर्थं यत्कृतं कर्म तस्य जन्मशतानि तु । । ९
अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि ।
क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् । । 1.119.१०
एवमाकृष्टचित्तानां विषयैः स्वादुतर्पणैः ।
नृणां न जायते बुद्धिः परमार्थविलोकिनी । । ११
तथा च विषयासङ्गे करोत्यविरतं मनः ।
को हि भारो रवेर्नाम्नि जिह्वायाः परिकीर्तने । । १२
वर्तितैलेऽल्पमूल्ये च यद्वर्त्तिर्लभ्यते सुधा ।
अतो वै कतरो लाभः का तश्चिन्ता भवेत्तदा । । १३
येनायतेषु हस्तेषु स्वातंत्र्ये सति दीपकः ।
महाफलो भानुगृहे न दत्तो नरकापहाः । । १४
नरो विलपते किञ्चिदिदानीं दृश्यते फलम् ।
अस्वातंत्र्ये विलपतां स्वातंत्र्ये सति मानिनाम् । । १५
अवश्यं पातिनः प्राणा भोक्ता जीवोऽप्यहर्निशम् ।
दत्तं च लभते भोक्तं कामयन्विषयानपि । । १६
एतत्स्थानं दुष्कृतैर्वा युक्तं चाद्य मयेक्षितम् ।
इदानीं किं विलापेन सहध्वं यदुपागतम् । । १७
यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम् ।
तदद्भुतमतिः पापे न कर्तव्या कदाचन । । १८
कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम् ।
कर्तव्यमनवच्छिन्नं पूजनं सवितुः सदा । । १९
ब्रह्मोवाच
नारकास्तद्वचः श्रुत्वा तमूचुरतिदुःखिताः ।
क्षुत्क्षामकण्ठास्तृट्तापविसंस्फुटिततालुकाः । । 1.119.२०
भो भोः साधो कृतं कर्म यदस्माभिस्तदुच्यताम् ।
नरकस्थैर्विपाकोऽयं भुज्यते यत्सुदारुणः । । २१
किङ्कर उवाच
युष्माभियौंवनोन्मादान्मुदितैरविवेकिभिः ।
घृतलोभेन मार्तण्डगृहाद्दीपः पुरा हृतः । । २२
तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः ।
भवन्तः पतितास्तीव्रे शीतवातविदारिताः । । २३
ब्रह्मोवाच
एतत्ते दीपदानस्य प्रदीपहरणस्य च ।
पुण्यं पापं च कथितं भास्करायतनेऽच्युत । । २४
सर्वत्रैव हि दीपस्य प्रदानं कृष्ण शस्यते ।
विशेषेण जगद्धातुर्भास्करस्य निवेशने । । २५
येऽन्धा मूका बधिरा निर्विवेका हीनास्तैस्तैर्दानसाधनैर्वृष्णिवीर ।
तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतः कृष्ण नीताः । । २६
इति श्री भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे दीपदानमाहात्म्यवर्णनं
नामैकोनविंशत्यधिकशततमोऽध्यायः । ११९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 120
आदित्यपूजावर्णनम्
विष्णुरुवाच
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः ।
दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः । । १
आभिचारिककृत्याभिः स्पर्शरोगैश्च दारुणैः ।
सदा सम्पीड्यमानास्तु तिष्ठन्त्यम्बुजसम्भव । । २
येन कर्मविपाकेन विषरोगाद्युपद्रवाः ।
प्रभवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि । । ३
ब्रह्मोवाच
व्रतोपवासैर्यैर्भानुर्नान्यजन्मनि तोषितः ।
ते नरा देवशार्दूल ग्रहरोगादिभागिनः । । ४
यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम् ।
विषग्रहज्वराणां ते मनुष्याः कृष्ण भागिनः । । ५
आरोग्यं परमां वृद्धिं मनसा यद्यदिच्छति ।
तत्तदाप्नोत्यसंदिग्धं परत्रादित्यतोषणात् । । ६
नाधीन्प्राप्नोति न व्याधीन्न विषयग्रहबन्धनम् ।
कृत्यास्पर्शभयं वापि तोषिते तिमिरापहे । । ७
सर्वे दुष्टाः समास्तस्य सौम्यास्तस्य सदा ग्रहाः ।
देवानामपि पूज्योऽसौ तुष्टो यस्य दिवाकरः । । ८
यः समः सर्वभूतेषु यथात्मनि तथा हिते ।
उपवासादिना येन तोष्यते तिमिरापहः । । ९
तोषितेऽस्मिन्प्रजानाथे नराः पूर्णमनोरथाः ।
अरोगाः सुखिनो नित्यं बहुधर्मसुखान्विताः । । 1.120.१०
न तेषां शत्रवो नैव शरीराद्यभिचारकम् ।
ग्रहरोगादिकं चापि पापकार्युपजायते । । ११
अव्याहतानि देवस्य धनजालानि तं नरम् ।
रक्षन्ति सकलापत्सु येन श्वेताधिपोऽर्चितः । । १२
विष्णुरुवाच
अनाराधितमार्तण्डा ये नराः दुःखभागिनः ।
ते कथं नीरुजः सन्तु विज्वरा गतकल्मषाः ।। १३
ब्रह्मोवाच
आराधयन्तु देवेशं पुष्पेणैवमनौपमम् ।
भास्करं तु जगन्नाथं सर्वदेवगुरुं परम् ।। १४
विष्णुरुवाच
दोषाभिभूतदेहैस्तु कथमाराधनं रवेः ।
कर्त्तव्यं वद देवेश भक्त्या श्रेयोऽर्थमात्मनः ।। १५
अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति ।
तन्मयोपदिश त्वं च महदाराधनं रवेः ।। १६
अनन्तमजरं देवं दुष्टसन्देहनाशनम् ।
आराधयितुमिच्छामि भगवन्तस्त्वदनुज्ञया । ।
येनाहं त्वत्प्रसादेन भवेयमतिविक्रमः ।। १७
ब्रह्मोवाच
अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः ।
आराधनाय ते विष्णो यदेतत्प्रवणं मनः ।। १८
यदि देवपतिं भानुमाराधयितुमिच्छसि ।
भगवन्तमनाद्यं च भव वैवस्वतोऽच्युत ।। १९
न ह्यवैवस्वतैर्भानुर्ज्ञातुं स्तोतुं च शक्यते ।
द्रष्टुं वा शक्यते मूढैः प्रवेष्टुं कुत एव तु ।।1.120.२ ०
तद्भक्तिप्रार्थिताः पूता नरास्तद्भक्तिचेतसः ।
वैवस्वता भवन्त्येवं विवस्वन्तं विशन्ति च ।।२ १
अनेकजन्मसंसारचिते पापसमुच्चये ।
नाक्षीणे जायते पुंसां मार्तण्डाभिमुखी मतिः । । २२
प्रद्वेषं याति मार्तण्डे द्विजान्वेदांश्च निन्दति ।
यो नरस्तं विजानीयादसुरांशसमुद्भवम् । । २३
पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता ।
जायते दम्भमायाम्भः पतितानां दुरात्मनाम् । । २४
यदा पापक्षयः पुंसां तदा वेदद्विजातिषु ।
भानौ च यज्ञपुरुषे श्रद्धा भवति नैष्ठिकी । । २५
यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः ।
तदा भोजकविप्रेषु भानौ पूजां प्रकुर्वते । । २६
भ्रमतामत्र संसारे नराणां कर्मदुर्गमे ।
करावलम्बनो ह्येको भक्तिप्रीतो दिवाकरः । । २७
स त्वं वैवस्वतो भूत्या सर्वपापहरं हरिम् ।
आराधय समं भक्त्या प्रीतिमभ्येति भास्करः । । २८
विष्णुरुवाच
किं लक्षणा भवन्त्येते नरा वैवस्वता गुणैः ।
यच्च वैवस्वतं कार्यं तन्मे कथय कञ्जज । । २९
ब्रह्मोवाच
कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः ।
भावभक्तश्च मार्तण्ड कृष्ण वैवस्वतो हि सः । । 1.120.३०
यो भोजकद्विजान्देवान्नित्यमेव नमस्यति ।
न च भोक्ता परस्वादेर्विष्णो वैवस्वतो हि सः । । ३१
सर्वान्देवान्रविं वेत्ति सर्वांल्लोकांश्च भास्करम् ।
तेभ्यश्चानन्यमात्मानं कृष्ण वैवस्वतो हि सः । । ३२
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकम् ।
तरुपाषाणकाष्ठादिभूम्यम्भोधिं दिवं तथा । । ३३
आत्मानं चापि देवशाद्व्यतिरिक्तं दिवाकरात् ।
यो न जानाति तं विद्यात्कृष्ण वैवस्वतं नरम् । । ३४
सर्वो वैवस्वतो भागो यद्भूतं यद्व्यवस्थितम् ।
इति वै यो विजानाति स तु वैवस्वतो नरः । । ३५
भवभीतिं हरत्येष भक्तिभावेन भावितः ।
विवस्वानिति भावो यः स तु वैवस्वतो नरः । । ३६
भावं न कुरुते यस्तु सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा स च वैवस्वतो नरः । । ३७
बाह्यार्थनिरपेक्षो यः क्रियां भक्त्या विवस्वतः ।
भावेन निष्पादयति ज्ञेयो वैवस्वतो हि सः । । ३८
नारयो यस्य न स्निग्धा न भेदाधीनवृत्तयः ।
वीक्षते सर्वमेवेदं भानुं वैवस्वतो हि सः । । ३९
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ।
तां गतिं न नरा यन्ति यां तु वैवस्वतो गतः । ।1.120.४ ०
येन सर्वात्मना भानौ भक्त्या भावो निवेशितः ।
देवश्रेष्ठ कृतार्थत्वाच्छ्लाघ्यो वैवस्वतो हि सः । । ४१
अपि नः स कुले धन्यो जायेत कुलपावनः ।
भास्करं भक्तिभावेन यस्तु वै पूजयिष्यति । ।४२
यः कारयति देवार्चां हदयालम्बिनीं रवेः ।
स नरोऽर्कमवाप्नोति धर्मध्वजमनौपमम् । ।४ ३
यश्च देवालयं भक्त्या भानोः कारयते स्थिरम् ।
स सप्त पुरुषाँल्लोकान्भानोर्नयति मानवः । ।४४
यावन्तोब्दान्हि देवार्चा रवेस्तिष्ठति मंदिरे ।
तावद्वर्षसहस्राणि पुष्पोत्तरगृहे वसेत् । । ४५
देवार्चालक्षणोपेतो यद्गृहे सन्ततो विधिः ।
निष्कामं च मनो यस्य स यात्यक्षरसाम्यताम् । । ४६
पुष्पाण्यतिसुगंधीनि मनोज्ञानि च यः पुमान् ।
प्रयच्छति जगन्नाथे सप्ताश्वे ज्योतिषां पतौ । ।
स याति परमं स्थानं यत्र ज्योतिः सनातनम् । ।४७
यस्य यस्य विहीनो यो देशो यद्वर्जितं च यत् ।
धूपांश्च विविधांस्तांस्तान्गंधाढ्यं सुविलेपनम् । ।४८
दीपवर्त्युपहारांश्च यच्चाभीष्टमथात्मनः ।
नरः सोनुदिनं यज्ञान्करोत्याराधनाद्रवेः । ।४ ९
यज्ञेशो भगवान्भानुर्मखैरपि स तोष्यते ।
बहूपकरणा यज्ञा नानासंभारविस्तराः । ।
संप्राप्यन्ते धनयुतैर्मनुष्यैर्नाल्पसंचयैः । । 1.120.५०
भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि ।
रवेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ५१
यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम् ।
दयितं भूषणं यच्च तथा रक्ते च वाससी । । ५२
यानि चाभ्यवहार्याणि भक्ष्याणि च फलानि च ।
प्रयच्छ तानि मार्तण्ड भवेथाश्चैव तन्मनाः । । ५३
आद्यं तं यज्ञपुरुषं यथा भक्त्या प्रसादय ।
आराध्य याति तं देवं यत्तद्ब्रह्म परं स्मृतम् । । ५४
पुण्यैस्तीर्थोदकैः पुष्पैर्मधुना सर्पिषा तथा ।
क्षीरेण स्नापयेद्देवमच्युतं जगतां पतिम् । । ५५
दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः ।
प्रयास्यसि यदुश्रेष्ठ निर्वृतिं चापि ऐश्वरीम् । । ५६
स्तोत्रैर्हद्यैर्यथा वाद्यैर्ब्राह्मणानां च तर्पणैः ।
मनसश्चैकतायोगादाराधय दिवाकरम् । । ५७
आराध्यं तं महादेवो महच्छब्दमवाप्तवान् । । ५८
अहं चापि समस्तानां लोकानां सृष्टिकारकः ।
तमाराध्य विवस्वन्तं तत्प्रसादाज्जनार्दन । । ५९
त्वमप्येतं हृषीकेश तत्प्रसादान्न संशयः ।
समर्थो देवशत्रूणां दैत्यानां नाशने सदा । । 1.120.६०
दक्षिणः किरणस्तस्य यो देवस्य विवस्वतः ।
अहं तस्मात्समुत्पन्नो वेदवेदाङ्गसम्मितः । । ६१
वामो यः किरणः कृष्ण रश्मिमालाकुलः सदा ।
तस्मादीशः समुत्पन्नः पार्वतीदयितोऽच्युत । । ६२
वक्षसस्त्वं समुत्पन्नः शंखचक्रगदाधरः ।
तथाम्बुजकरा देवी अम्बुजाननवल्लभा । । ६३
समाराध्य बलं कीर्तिं श्रियं चावाप्तवानहम् ।
तथा त्त्वमपि राजेन्द्र तमाराध्य दिवाकरम् । ।
यान्यानिच्छसि कामांस्त्वं तांस्तान्सर्वानवाप्स्यसि । । ६४
य इदं शृणुयान्नित्यं संवादं विधिकृष्णयोः ।
सोऽपि कामानवाप्याग्र्यांस्ततो लोकमवाप्नुयात् । । ६५
गैरिकं यानमारूढो युक्तं कुञ्जरवाजिभिः ।
तेजसाम्बुजसंकाशः प्रभयाण्डज सन्निभः । । ६६
कान्त्या चंद्रसमो राजन्वृन्दारकगणैर्वृतः ।
गन्धर्वैर्गीयमानस्तु तथा चाप्सरसां गणैः । । ६७
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यपूजावर्णनं नाम
विंशत्यधिकशततमोऽध्यायः । १२० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 121
विश्वकर्मकृतसूर्यतेजः शातनवर्णनम्
शतानीक उवाच
शरीरलेखनं१ भानोरुक्तं संक्षेपतस्त्वया ।
विस्तराच्छ्रोतुमिच्छामि तन्ममाचक्ष्व सुव्रत । । १
सुमन्तुरुवाच
पितुर्गृहं तु यातायां संज्ञायां कुरुनंदन ।
भास्करश्चिंतयामास संज्ञा मद्रूपकारिणी । । २
एतस्मिन्नंतरे ब्रह्मा तत्रागत्य दिवाकरम् ।
अव्रवीन्मधुरां वाचं रवेः प्रीतिकरां शुभाम् । । ३
आदिदेवोऽसि देवानां व्याप्तमेतत्त्वया जगत् ।
श्वशुरो विश्वकर्मा ते रूपं निर्वर्तयिष्यति । । ४
एवमुक्त्वा रविं ब्रह्मा विश्वकर्माणमब्रवीत् ।
निवर्तस्य मार्तण्डं स्वरूपं तत्सुशोभनम् । । ५
ततो ब्रह्मसमादेशाद्भ्र(भू?)मिमारोप्य भास्करम् ।
रूपं निर्वर्तयामास विश्वकर्मा शनैःशनैः । । ६
ततस्तुष्टाव तं ब्रह्मा सर्वदेवगणैः सह ।
गुह्यैर्नानाविधैः स्तोत्रैर्वेदवेदाङ्गपारगैः । । ७
स्वस्ति तेऽस्तु जगन्नाथ धर्मवर्षहिमाकर ।
शांतिस्ते सर्वलोकानां देवदेव दिवाकर । । ८
ततो रुद्रश्च विष्ण्वाद्याः स्तुवंतस्तं दिवाकरम् ।
तेजस्ते वर्धतां देव लिख्यतेऽपि दिवस्पते । । ९
इन्द्रश्चागत्य तं देवं लिख्यमानमथास्तुवत् ।
जय देव जयस्वेति तत्त्वदोऽसि जगत्पते ।। 1.121.१०
ऋषयस्तु ततः सप्त विश्वामित्रपुरोगमाः ।
तुष्टुवुर्विविधैः स्तोत्रैः स्वस्तिस्वस्तीतिवादिनः ।। ११
वेदोक्ताभिरथाशीर्भिर्वालखिल्याश्च तुष्टुवुः ।
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनामपि ।। १२
त्वं गतिः सर्वभूतानां त्वयि सर्वं प्रतिष्ठितम् ।
प्रजाभ्यश्चैव देवेश शं नोऽस्तु जगतः पते ।। १३
त्वत्तो भवति वै नित्यं जगत्संलीयते त्वयि ।
त्वमेकस्त्वं द्विधा चैव त्रिधा च त्वं न संशयः ।। १४
त्वयैकेन जगत्सृष्टं त्वयैकेन प्रबोधितम् ।
ततो विद्याधरगणा यक्षराक्षसपन्नगाः ।। १५
कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् ।
ऊचुरेवंविधा वाचो मनः श्रोत्रसुखप्रदाः ।। १६
सह्यं भवतु ते तेजो भूतानां भूतभावन ।
हाहा हूहूस्ततश्चैव तुम्बुरुर्नारदस्तथा ।। १७
उपगातुं समारब्धा गामुच्चैः कुशला रविम् ।
षड्जमध्यमगांधारग्रामत्रयविशारदाः ।। १८
मूर्च्छनाभिस्ततश्चैव तथा धैवतपञ्चमैः ।
नानानुभावमन्द्रैश्च अर्धमन्द्रैस्तथैव च ।। १९
त्रिसाधनैः प्रकारैस्तु वाद्यतालसमन्वितैः ।
विश्वाची च घृताची च उर्वशी च तिलोत्तमा ।।२०
मेनका सहजन्या च रम्भा चाप्सरसां वरा ।
हावभावविलासैश्च कुर्वत्योऽभिनयान्बहून् ।।२ १
ततोऽतीव कलं गेयं मधुरं च प्रवर्तते ।
सर्वेषां देवसंघानां मनः श्रोत्रसुखप्रदम् ।।२२
प्रवाद्यं तु ततस्तत्र वीणावंशादि सुव्रत ।
पणवाः पुष्कराश्चैव मृदङ्गाः पटहास्तथा । । २३
देवदुन्दुभयः शंखाः शतशोऽथ सहस्रशः ।
गायद्भिश्चैव गन्धर्वैर्नृत्यद्भिश्चाप्सरोगणैः । । २४
तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ।
ततः कृतैः करपुटैः पद्यकुड्मलसन्निभैः । । २५
ललाटोपरि विन्यस्तैः प्रणेमुः सर्वदेवताः ।
ततः कोलाहले तस्मिन्सर्वदेवसमागमे । । २६
तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । २७
इति हिमजलघर्मकालहेतोर्हरकमलासनविष्णुसंस्तुतस्य ।
तदुपरि लिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोन्ते । । २८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे विश्वकर्मकृतसूर्यतेजः शातनं
नामैकविंशोत्तरशततमोऽध्यायः । १२१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 122
आदित्यस्तववर्णनम्
शतानीक उवाच
तस्मिन्काले समारूढो लिख्यमानो दिवस्पतिः ।
ब्रह्मादिभिः स्तुतो देवैर्यथा वै तद्वदस्व मे । । १
सुमन्तुरुवाच
शृणुष्वैकमना राजन्यथा देवो दिवस्पतिः ।
ब्रह्मादिभिः स्तुतो देवैर्ऋषिभिश्च पुराऽनघ । । २
प्रयत्नतः प्रणतहितानुकम्पिने स्वरूपतो लोकविभाविने नमः ।
दिवस्पते कमलकुलावबोधिने नमस्तमः पटसपटावपायिने । । ३
पावनातिशयपुण्यकर्मणे नैककामविभवप्रदायिने ।
भासुरामलमयूखमालिने सर्वलोकहितकारिणे नमः । । ४
अजाय लोकत्रयभावनाय भूतात्मने गोपतये प्रियाय ।
नमो महाकारुणिकोत्तमाय सूर्याय लोकत्रयभावनाय । । ५
विवस्वते ज्ञानकृतान्तरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे ।
स्वयम्भुवे लोकसमस्तचक्षुषे सुरोत्तमायामिततेजसे नमः । । ६
निजोदयाय सुरगणमौलिमणे जगता त्वं महितस्त्वमुरुमयूखसहस्रतपाः ।
जगति विभो वतमसतुद वनतिमिरासवपावन मदाद्भवति विलोहितविग्रहतातिमिरविनाशिनमुग्रं सुतरां त्रिभुवनभाप्रकरैः । । ७
रथामारुह्य१ समामयं भ्रमसि सदा जगतो हितदः । । ८
इत्येवं संस्तुतो देवो भास्करो वेधसा पुरा ।
दैवतैश्च महाबाहो शिवविष्ण्वादिभिर्नृप । । ९
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यस्तवो
नाम द्वाविंशत्यधिकशततमोऽध्यायः । १२२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 123
परिलेखवर्णनम्
शतानीक उवाच
भूयोऽपि कथयस्वेमां कथां सूर्यसमाश्रिताम् ।
न तृप्तिमधिगच्छामि शृण्वन्नेतां कथां मुने । । १
सुमन्तुरुवाचं
भास्करस्य कथां पुण्यां सर्वपापप्रणाशिनीम् ।
वक्ष्यामि कथितां पूर्वं ब्रह्मणा लोककर्तृणा१ । । २
ऋषयः परिपृच्छन्ति ब्रह्मलोके पितामहम् ।
तापिताः सूर्यकिरणैस्तेजसा सम्प्रमोहिताः । । ३
ऋषय ऊचुः
कोऽयं दीप्तो महातेजा हवीराशिसमप्रभः ।
एतद्वेदितुमिच्छामः प्रभावोऽस्य कुतः प्रभो । । ४
ब्रह्मोवाच
तमोभूतेषु लोकेषु नष्टे स्थावरजङ्गमे ।
प्रवृत्ते गुणहेतुत्वे पूर्वं बुद्धिरजायत । । ५
अहंकारस्ततो जातो महाभूतप्रवर्तकः ।
वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत । । ६
तस्मिन्नण्ड इमे लोकाः सप्त वै संप्रतिष्ठिताः ।
पृथ्वी च सप्तभिर्द्वीपैः समुद्रैश्चापि सप्तभिः । । ७
तत्रैवावस्थितो ह्यासमहं विष्णुर्महेश्वरः ।
प्रमूढास्तमसा सर्वे प्रध्याता ईश्वरं परम् । । ८
ततो भिद्य महातेजः प्रादुर्भूतं तमोनुदम् ।
ध्यानयोगेन चास्माभिर्विज्ञातं सवितुस्तथा । । ९
ज्ञात्वा च परमात्मानं सर्व एव पृथक्पृथक् ।
दिव्याभिः स्तुतिभिर्देवं संस्तोतुमुपचक्रमुः । । 1.123.१०
आदिदेवोऽसि देवानामीश्वराणां त्वमीश्वरः ।
आदिकर्तासि भूतानां देवदेव सनातन । । ११
जीवनं सर्वसत्त्वानां देवगन्धर्वरक्षसाम् ।
मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् । । १२
त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः ।
वायुरिन्द्रश्च सोमश्च विवस्वान्वरुणस्तथा । । १३
त्वं कालः सृष्टिकर्ता च हर्ता त्राता प्रभुस्तथा ।
सरितः सागराः शैला विद्युदिन्द्रधनूंषि च । ।
प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः । । १४
ईश्वरात्परतो विद्या विद्यायाः परतः शिवः ।
शिवात्परतरो देवस्त्वमेव परमेश्वर । । १५
सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः ।
सहस्रांशुस्त्वं तु देव सहस्रकिरणस्तथा । । १६
भूरादिभूर्भुवः स्वश्च महर्जनस्तपस्तथा ।
प्रदीप्तं दीप्तिमन्नित्यं सर्वलोकप्रकाशकम्। ।
दुर्निरीक्ष्यं सुरेन्द्राणां यद्रूपं तस्य ते नमः ।। १७
सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः ।
शुभं परममव्यग्रं यद्रूपं तस्य ते नमः ।। १८
पञ्चातीतस्थितं तद्वै दशैकादश एव च ।
अर्धमासमतिक्रम्य स्थितं तत्सूर्यमण्डले ।।
तस्मै रूपाय ते देव प्रणताः सर्वदेवताः ।। १९
विश्वकृद्विश्वभूतं च विश्वानरसुरार्चितम् ।
विश्वस्थितमचिंत्यं च यद्रूपं तस्य ते नमः ।।1.123.२०
परं यज्ञात् परं देवात्परं लोकात्परं दिवः ।
दुरतिक्रमेति यः ख्यातस्तस्मादपि परं परात् ।।
परमात्मेति विख्यातं यद्रूपं तस्य ते नमः ।।२ १
अविज्ञेयमचित्यं च अध्यात्मगतमव्ययम् ।
अनादिनिधनं देवं यद्रूपं तस्य ते नमः ।।२२
नमोनमः कारणकारणाय नमोनमः पापविनाशनाय ।
नमोनमो वंदितवंदनाय नमोनमो रोगविनाशनाय ।।२ ३
नमोनमः सर्ववरप्रदाय नमोनमः सर्वबलप्रदाय ।
नमोनमो ज्ञाननिधे सदैव नमोनमः पञ्चदशात्मकाय ।।२४
स्तुतः स भगवानेवं तेजसां रूपमास्थितः ।
उवाच वाचं कल्याणीं को वरो वः प्रदीयताम् ।।२५
तवातितेजसा रूपं न कश्चित्सहते विभो ।
सहनीयं भवत्वेतद्धिताय जगतः प्रभो ।।२६
एवमस्त्विति गामुक्त्वा भगवान्सर्वकृत्स्वयम् ।
लोकानां कार्यसिद्ध्यर्थं घर्मवर्षाहिमप्रदः । । २७
अतः सांख्याश्च योगाश्च ये चान्ये मोक्षकांक्षिणः ।
ध्यायन्ति ध्यानिनो नित्यं हदयस्थं दिवाकरम् । । २८
सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः ।
सर्वं तरति वै पापं देवकर्मसमाश्रितः । । २९
अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
भानोर्भक्त्या नमस्कारकलां नार्हन्ति षोडशीम् । । 1.123.३०
तीर्थानां परमं तीर्थं मङ्गलानां च मङ्गलम् ।
पवित्रं च पवित्राणां तं प्रपद्ये दिवाकरम् । । ३१
ब्रह्माद्यैः संस्तुतं देवैर्ये प्रपद्यन्ति १ भास्करम् ।
निर्मुक्ताः किल्बिषैः सर्वैस्ते यान्ति रविमन्दिरम् । । ३२
उपचर्यादिभिः साध्यो यथा वेदे दिवस्पतिः ।
लोकानामिह सर्वेषां तथा देवो दिवाकरः । । ३३
शतानीक उवाच
शरीरलेखनं सूर्ये कथं वै प्रतिपादितम् ।
देवैः सऋषिभिर्वापि तन्ममाचक्ष्व सुव्रत । । ३४
सुमन्तुरुवाच
ब्रह्मलोके सुखासीनं ब्रह्माणं ते सुरासुराः ।
ऋषयः समुपागम्य इदमूचुः समाहिताः । । ३५
भगवन्देवतापुत्रो य एष दिवि राजते ।
तेनान्धकारो निकृत्तः सोऽयं जाज्वलितीति हि । । ३६
अस्य तेजोभिरखिलं जगत्स्थावरजंगमम् ।
नाशमायाति देवेश यथा क्लिष्टं नदीतटम् । । ३७
वयं च पीडिता सर्वे तेजसा तस्य मोहिताः ।
पद्मश्चायं यथा म्लानो योयं योनिस्तव प्रभो । । ३८
दिवि भुव्यन्तरिक्षे च शर्म नोपलभामहे ।
तथा कुरु सुरज्येष्ठ यथा तेजः प्रशाम्यति । । ३९
एवमुक्तः स भगवान्पद्मयोनिः प्रजापतिः ।
उवाच भगवान्ब्रह्मा देवान्विष्णुपुरोगमान्१ । । 1.123.४०
महादेवेन सहिता इन्द्रेण च महात्मना ।
तमेव शरणं देवं गच्छामः सहिता वयम् । । ४१
ततस्ते सहिताः सर्वे ब्रह्मविष्ण्वादयः सुराः ।
गत्वा ते शरणं सर्वे भास्करं लोकभास्करम् । । ४२
स्तोतुं प्रचक्रमुः सर्वे भक्तिनम्रा समन्ततः ।
केशादिदेवताः सर्वा भक्तिभावसमन्विताः । । ४३
ब्रह्मविष्ण्वीशा ऊचुः
नमोनमः सुरवर तिग्मतेजसे नमोनमः सुरवर संस्तुताय वै ।
जडान्धमूकान्बधिरान्सकुष्ठान्सश्वित्रिणोंऽधान्विविधव्रणावृतान् । ।
करोषि तानेव पुनर्नवान्त्सदा अतो महाकारुणिकाय ते नमः । । ४४
यदौदरं ज्योतिरतित्वरन्महद्यदल्पतेजो यदपीह चक्षुषाम् ।
यदत्र यज्ञेष्वपनीतमाहितं तवैव तदूपमनेकतः स्थितम् । । ४५
सुरद्विषः सागरतोयवासिनः प्रचण्डपाशासिपरश्वधायुधाः ।
समुच्छ्रितास्ते भुवि पापचेतसः प्रयांति नाशं तव देव दर्शनात् । । ४६
यतो भवांस्तीर्थफलं समस्तं यज्ञेषु नित्यं भगवानवस्थितः ।
नमो भवन्नत्र विचारणास्ति सदा समः शांतिकरो नराणाम् । ।
यच्चापि लोके तप उच्यते बुधैस्तत्ते महातेज उशंति पण्डिताः । ।४७
स्तुतः स भगवानेवं प्रजापतिमुखैः सुरैः ।
अवधानं ततश्चक्रे श्रवणाभ्यां महीपते । ।४८
स्तुवन्ति ते ततो भूयः शिवविष्णुपुरोगमाः ।
कृत्वा मां पुरतः सर्वे भक्तिनम्राः समन्ततः । ।४९
१नमोनमस्त्रिभुवनभूतिदायिने क्रतुक्रियासत्फलसम्प्रदायिने ।
नमोनमः प्रतिदिनकर्मसाक्षिणे सहस्रसंदीधितये नमोनमः । । 1.123.५०
प्रसक्तसप्ताश्वयुजे क्षयाय ध्रुवैकरश्मिग्रथिने नमोनमः ।
सवालखिल्याप्सरकिन्नरोरगैः संसिद्धगन्धर्वपिशाचमानुषैः । ।
सयक्षरक्षोगणगुह्यकोत्तमैः स्तुतः सदा देव नमोनमस्ते । । ५१
यतो रसान्संक्षिपसे शरीरिणां गभस्तिभिर्हिमजलघर्मनिस्रवैः ।
जगच्च संशोषयसे सदैव अतोसि लोके जगतो विशोषणम् । । ५२
ब्रह्मोवाच
ज्ञात्वा तेषामभिप्रायमुवाच भगवान्वचः ।
लब्ध्वानुज्ञां ततः सर्वे सुराः संहृष्टचेतसः । । ५३
त्वष्टारं पूजयामासुर्मनोवाक्कायकर्मभिः ।
विश्वकर्मा तवादेशात्करोतु तव सौम्यताम् । । ५४
ततस्तु तेजसो राशिं सर्वकर्मविधानवित् ।
भ्रमिमारोपयामास विश्वकर्मा विभावसुम् । । ५५
अमृतेनाभिषिक्तस्य तदा सूर्यस्य वै विभोः ।
तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । ५६
आजानुलिखितश्चासौ समुरासुरपूजितः ।
नाभ्यनन्दत्ततो देव उल्लेखनमतः परम् । । ५७
ततः प्रभृति देवस्य चरणौ नित्यसंवृतौ ।
तापयन्ग्लापयंश्चैव युक्ततेजोऽभवत्तदा । । ५८
यच्चास्य शातितं तेजस्तेन चक्रं विनिर्मितम् ।
येन विष्णुर्जघानोग्रान्सदा वै दैत्यदानवान् । । ५९
शूलशक्तिगदावज्रशरासनपरश्वधान् ।
देवतानां ददौ कृत्वा विश्वकर्मा महामतिः । । 1.123.६०
त्रिदेवनिर्मितं स्तोत्रं सन्ध्ययोरुभयोर्जपन् ।
कुलं पुनाति पुरुषो व्याधिभिर्न च पीड्यते । । ६१
प्रजावान्सिद्धकर्मा च जीवेत्साग्रं शरच्छतम् ।
पुत्रवान्धनवांश्चैव सर्वत्र चापराजितः । ।
हित्वा पुरं भूतमयं गच्छेत्सृर्यमयं पुरम् । । ६२
भूयोऽपि तुष्टुवुर्देवास्तथा देवर्षयो रविम् ।
वाग्भिरित्थमशेषस्य त्रैलोक्यस्य समागताः । । ६३
देवा ऊचुः
नमस्ते१ रविरूपाय सोमरूपाय ते नमः ।
नमो यजुः स्वरूपायाथर्वायाङ्गिरसे२ नमः । । ६४
ज्ञानैकधामभूताय३ निर्धूततमसे नमः ।
शुद्धज्योतिःस्वरूपाय निस्तत्त्वायामलात्मने । । ६५
नमोऽखिलजगद्व्याप्तिस्वरूपायात्ममूर्तये ।।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम्।।६६।।
नमोऽस्तु ज्ञेयरूपाय प्रकाशे लक्षरूपिणे ।।
भास्कराय नमस्तुभ्यं तथा शब्दकृते नमः ।। ६७ ।।
संसारहेतवे चैव संध्याज्योत्स्नाकृते नमः ।।
त्वं सर्वमेतद्भगवाञ्जगद्वै भ्रमति त्वया ।। ६८ ।।
भ्रमत्वाविद्धमखिलं ब्रह्माण्डं सचराचरम् ।।
त्वदंशुभिरिदं सर्वं संसृष्टं जायते शुचि ।। ६९ ।।
क्रियते त्वत्करस्पर्शाज्जलादीनां पवित्रता ।।
होमदानादिको धर्मो नोपकाराय जायते ।। 1.123.७० ।।
तावद्यावन्न संयोगी जगत्यत्र भवाञ्छुचिः ।।
प्रातर्होमं प्रशस्तं हि उदिते त्वयि जायते ।। ७१ ।।
ऋचोऽथ सकला ह्येता यजूंषि त्वं जगत्पते ।।
सकलानि च सामानि तपत्येवं जगत्सदा ।। ७२ ।।
ऋङ्मयस्त्वं जगन्नाथ त्वमेव च यजुर्मयः ।।
तथा साममयश्चैव ततो नाथ त्रयीमयः ।। ७३ ।।
त्वमेव ब्रह्मणो रूपं परं चापरमेव च ।।
मूर्तोऽमूर्तस्तथा सूक्ष्मः स्धूलरूपतया स्थितः ।। ७४ ।।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।।
प्रसीद स्वेच्छया रूपं स्वतेजोमयमादिश ।। ७५ ।।
इत्थं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा ।।
मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः।।७६।।
यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी ।।
यजुर्मयेनापि दिवं स्वयं साममयो रविः।।७७।।
शातितास्तेजसो भागा ये च स्युर्दश पंच च।।
तस्यैव तेन शर्वस्य कृतं शूलं महात्मना।। ७८।।
चक्रं विष्णोर्वसूनां च शंकरस्य च दारुणम्।।
षण्मुखस्य तथा शक्तिः शिबिका धनदस्य च।।७९।।
अन्येषां चासुरारीणां शस्त्राण्युग्राणि यानि वै।।
यक्षविद्याधराणां च तानि चक्रे स विश्वकृत्।।1.123.८०।।
ततश्च षोडशं भागं बिभर्ति भगवान्रविः।।
तत्तेजसः पंचदश शातिता विश्वकर्मणा।। ८१।।
ततः सुरूपदृग्भानुरुत्तरानगमत्कुरून्।।
ददर्श तत्र संज्ञां च वडवारूपधारिणीम्।।८२।।
इत्येतन्निखिलं भानोः कथितं मुनिसत्तमाः।।
शृणुयाद्यो नरो भक्त्या अश्वमेधफलं लभेत्।।८३।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मर्षिसंवादे परिलेखवर्णनं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः।।१२३।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 124
ब्रह्मोवाच।।
वक्ष्याम्यहं ते पुनरेव दिंडे सूर्यस्य सर्वप्रवरप्रधानम्।।
व्योम्नः परं तिष्ठति यस्तु मग्नः स मुच्यते रुद्र इहापि दिंडी।।१।।
स्थित्वा पुरा ब्रह्मशिरः किलासौ प्रगृह्य तत्तस्य शिरःकपालम्।।
ततो ह्यसावाश्रममुत्तमं शिवो बहूदकैः पुष्पफलैः समृद्धम् ।। २ ।।
नग्नो यदा दारुवने मुनीनां दृष्ट्वा च तं भैक्ष्यचरं सुरेशम् ।।
योषित्सुताः संक्षुभितास्तु सर्वे जग्मुर्हरं तं मुनयः सुतुष्टाः ।। ।।
स हन्यमानो मुनिमुख्यसंघैर्गृहीतलोष्टैर्ऋषिदंडकाष्ठैः ।।
विहाय दिंडिः स तु तान्सुरर्षींस्ततो रवेर्लोकमथाजगाम ।। ४ ।।
आगच्छमानं प्रमथास्तमूचुर्देवेश नित्यं भ्रमसे किमर्थम् ।।
स प्राह तान्पापविमोचनार्थमटामि तीर्थानि सुरालयांश्च ।। ५ ।।
ते भूय ऊचुः प्रमथास्तमेवमत्रैव तिष्ठस्व रवेः पुरस्तात् ।।
शुद्धिं तवैष प्रकरिष्यतीति शुद्धस्ततो यास्यसि रुद्रलोकम् ।। ६ ।।
इत्येवमुक्तः प्रमथैस्तु रुद्रस्तत्रैव तस्थौ रवितोषणाय ।।
नग्नो जटी मुष्टिकपालपाणी रूपेण चैवाप्रतिमस्त्रिलोके ।। ७ ।।
उक्तः स तुष्टेन ततः सवित्रा प्रीतोस्मि देवागमनात्तवाहम् ।।
मद्दर्शनादेव भवान्विशुद्धो दिंडीति नाम्ना भवितासि लोके ।। ८ ।।
अष्टादशैते प्रमथास्तु भानोश्चतुर्दशान्ये तु रवे रथस्थाः ।।
हे देवते द्वौ च ऋषिप्रधानौ गंधर्वसर्पावपि तावदेव ।। ९ ।।
यक्षौ च सिद्धौ च निशाचरौ चादित्यात्मजावप्सरसां प्रधानौ ।।
वसंति ते ह्यस्तमुषश्च सूर्ये तेषाम शीतिश्चतुरोत्तरा सा ।। 1.124.१० ।।
इत्यादिदेवप्रवरास्तु सर्वे धात्वर्थशब्दैश्च भवंति सिद्धाः ।। ११ ।।
।। ऋषय ऊचुः ।। ।।
विस्तराद्ब्रूहि मे ब्रह्मन्प्रवरान्धातुशब्दजान् ।।
यतश्च कौतुकं ब्रह्मन्नस्माकमिह जायते ।। १२ ।।
ब्रह्मोवाच ।। ।।
भूयस्तव प्रवक्ष्यामि दंडनायकपिंगलौ ।।
राज्ञस्रौषादयश्चान्ये दिग्देवा दिंडिना सह ।। १३ ।।
मया सह समागम्य पुरा देवैर्विचारितम् ।।
एष कारुणिकः सूर्यो युध्यते दानवैः सह ।। १४ ।।
ते तु लब्धवरा भूत्वा अमात्याद्या ह्यभीक्ष्णशः ।।
आदित्यं मन्यमानास्ते तपंतं हंतुमुद्यताः ।। १५ ।।
तस्मात्तेषां विघातार्थं प्रवराश्च भवामहे ।।
अस्माभिः प्रतिरुद्धास्ते न द्रक्ष्यंति दिवाकरम् ।। १६ ।।
संमंत्र्यैवं ततः स्कंदो वामपार्श्वे रवेः स्थितः ।।
दंडनायकसंज्ञस्तु सर्वलोकस्य स प्रभुः ।। ।। १७ ।।
उक्तश्च स तदार्केण त्वं प्रजादंडनायकः ।।
दंडनीतिकरो यस्मात्तस्मात्त्वं दंडनायकः ।। १८ ।।
लिखते यः प्रजानां च सुकृतं यच्च दुष्कृतम् ।।
अग्निर्दक्षिणपार्श्वे तु पिंगलत्वात्स पिंगलः ।। १९ ।।
आश्विनौ चापि सूर्यस्य पार्श्वयोरुभयोः स्थितौ ।।
अश्वरूपात्समुपन्नौ तेन तावश्विनौ सुरौ ।। 1.124.२० ।।
द्वारपालौ स्मृतौ तस्य राज्ञः श्रेष्ठौ महाबलौ ।।
कार्त्तिकेयः स्मृतो राज्ञः श्रेष्ठश्चापि हरः स्मृतः ।। २१ ।।
राजृदीप्तौ स्मृतो धातुर्नकारस्तस्य प्रत्ययः ।।
सुरसेनापतित्वेन स यस्माद्दीप्यते सदा ।।
तस्मात्स कार्तिकेयस्तु नाम्ना राज्ञ इति स्मृतः ।। २२ ।।
स्रु गतौ च स्मृतो धातुर्यस्य स प्रत्ययः स्मृतः ।।
गच्छतीति रहस्तस्मात्पर्यायात्स्रौष उच्यते ।। २३ ।।
प्रथमं यद्भवेद्द्वारं धर्मार्थाभ्यां समाश्रितम् ।।
तत्रैतौ संस्थितौ देवौ लोकपूज्यौ द्विजोत्तमाः ।। २४ ।।
द्वितीयायां तु कक्षायामप्रधृष्टौ व्यवस्थितौ ।।
पक्षिप्रेताधिपौ नाम्ना स्मृतौ कल्माषपक्षिणौ ।। २५ ।।
वर्णस्य शबलत्वाच्च यमः कल्माष उच्यते ।।
पक्षावस्येति यः पक्षी गरुडः परिकीर्तितः ।। २६ ।।
स्थितो दक्षिणत तस्य दंडहस्तसमन्वितः ।।
उत्तरेण स्थितोऽर्कस्य कुबेरश्च विनायकः ।। २७ ।।
कुबेरो धनदो ज्ञेयो हस्तिरूपो विनायकः ।।
कुत्सया कुप्यता शप्तं कुशरीरमजायत ।।
कुबेरः कुशरीरत्वात्स नाम्ना धनदः स्मृतः ।। २८ ।।
नायकः सर्वसत्त्वानां तेन नायक उच्यते ।।
विविधं नयते यस्मात्स तु तस्माद्विनायकः ।। २९ ।।
रैवतश्चैव दिंडिश्च तौ रवेः पूर्वतः स्थितौ ।।
ततो दिंडिः स्मृतो रुद्रो रेवतस्तनयो रवेः ।। 1.124.३० ।।
प्लुतं गच्छत्यसौ यस्मात्सर्वलोकनमस्कृतः ।।
रेवृप्लवगतौ धातू रेवतस्तेन स स्मृतः ।।३१।।
डीङ्गतावस्य वै धातोर्दिंडिशब्दो निपात्यते ।।
डयतेऽसौ सदा दिंडी तेन दिंडी प्रकीर्तितः ।। ३२ ।।
इत्येते प्रवराः प्रोक्ता धात्वर्था नैगमैः शुभैः ।।
एषां संक्षेपतो भूयः संख्यां वो निगदामि वै ।। ३३ ।।
अश्विनौ तौ ततो ज्ञेयौ दंडनायकपिंगलौ ।।
तौ सूर्यद्वारपौ ज्ञेयौ राज्ञस्रौषौ ततः स्मृतौ ।। ३४ ।।
रेवतश्चैव दिंडिश्च इत्येते प्रवरा मया ।।
अष्टादश समा ख्याताः संक्षेपात्संख्यया मया ।। ३५ ।।
इत्येभिर्नामभिस्त्वन्ये दानवानां जिघांसया ।।
परिवार्य स्थिताः सूर्यं नानाप्रहरणायुधाः ।। ३६ ।।
सरूपाश्चान्यरूपाश्च विरूपाः कामरूपिणः ।।
परिवार्य स्थिताः सूर्यं गरुडश्च महाबलः ।। ३७ ।।
धातुर्दिविति वै प्रोक्तो क्रीडायां स तु उच्यते ।।
क्रीडंते दिवि वै यस्मात्तस्मात्ते दैवताः स्मृताः ।। ३८ ।।
ऋचो यजूंषि सामानि यान्युक्तानीह वै मया ।।
नानारूपैः स्थितान्येव रवेस्तानि सम न्ततः ।। ३९ ।।
।। सुमंतुरुवाच ।। ।।
इत्येवमुक्तवान्ब्रह्मा ऋषीणां पृच्छतां पुरा ।।
ते श्रुत्वाराध्य देवेशं संसिद्धा दिवि संस्थिताः ।। 1.124.४० ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मर्षिसंवादे प्रवरवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ।। १२४ ।। ।। छ ।। ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 125
।। शतानीक उवाच ।। ।।
यदेतद्दृश्यते व्योम सूर्यस्य पुरतो द्विज ।।
तदुच्यते किमात्मा च कथंभूतश्च कथ्यताम् ।। १ ।।
।। सुमंतुरुवाच ।। ।।
हंत व्योम प्रवक्ष्यामि सूर्यप्रहरणं शुभम् ।।
यदात्मकं हि यत्प्रोक्तं यथा वसंति देवताः ।। २ ।।
पुरस्ताच्च चतुःशृंगं तद्व्योमायतनं रवेः ।।
व्योमशब्दं चतुःशृंगं सर्वदेवमयं च यत् ।। ३ ।।
गैरिकार्णवसंभूतं यदंतर्गर्भमाश्रितम् ।।
तत्रोत्पन्नमिदं व्योम कलेर्व्योम मही स्मृता ।। ४ ।।
वरुणस्य यथा पाशो हुङ्कारो वेधसो यथा ।।
विष्णोश्चापि यथा चक्रं त्रिशूलं त्र्यंबकस्य च ।।५।।
इन्द्रस्य च यथा वज्रं तथा व्योम रवेः स्मृतम् ।।
तस्मिन्व्योम्नि त्रयस्त्रिंशत्क्रीडन्तो यज्ञियाः सुराः ।। ६ ।।
हरश्च वर्षशुद्धश्च त्र्यंबकश्चापराजितः ।।
वृषाकपिश्च शंभुश्च कपर्दी रैवतस्तथा ।।
ईश्वरो भुवनश्चैते रुद्रा एकादश स्मृताः ।। ७ ।।
आदित्यानां च नामानि विष्णोश्चक्रस्य दीयताम् ।।
अर्यमा च तथा मित्रो भगोऽथ वरुणस्तथा ।। ८ ।।
विवस्वान्त्सविता चैव पूषा त्वष्टा तथैव च ।।
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ।। ९ ।।
ध्रुवो धरश्च सोमश्च आपश्चैवाऽनिलोऽनलः ।
प्रत्यूषश्च प्रभातश्च वसवोऽष्टौ प्रकीर्तिताः । । 1.125.१०
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावुभौ ।
विश्वेदेवान्प्रवक्ष्यामि नामतस्तान्निबोधत । । ११
क्रतुर्दक्षो वसुः सत्यः कालकामौ धृतिः कुरुः ।
शङ्कुमात्रो वामनश्च विश्वेदेवा दश स्मृताः । । १२
वर्तमाना इमे देवा भविष्यानन्तरे शृणु ।
यमश्च तुषिताश्चैव१ वसवो२ वशवर्तिनः । । १३
सत्याश्च भूतरजसः साध्याश्च तदनन्तरा ।
षट्सु मन्वन्तरेष्वेवं देवा द्वादशद्वादश३ । ।
पारावतास्तथा चान्ये ते ह्यासंस्तुषितैः सह । । १४
साध्यान्देवान्प्रवक्ष्यामि नामतस्तान्निबोध मे ।
मनोऽनुमन्ता प्राणश्च नरो नारायणस्तथा । । १५
वृत्तिलम्बो मनुश्चैव समो४ धर्मश्च वीर्यवान् ।
वित्तस्वामी प्रभुश्चैव साध्या द्वादश कीर्तिताः । । १६
एते यज्ञभुजो देवाः सर्वलोकेषु पूजिताः ।
आदित्यामेव ते धीर कश्यपस्यात्मजाः स्मृताः । । १७
विश्वे च वसवः साध्या विज्ञेया धर्मसूनवः ।
एवं धर्मसुतः सोमस्तृतीयो वसुरिष्यते । । १८
धर्मोऽपि ब्रह्मणः पुत्रः पुराणे निश्चयं गतः ।
अथ चेन्द्रान्वसूंश्चैव नामभिश्च निबोध मे । । १९
स्वायम्भुवो मनुः पूर्वः ततः स्वारोचिषः स्मृतः ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा । । 1.125.२०
इत्येते षडतिक्रान्ताः सप्तमः साम्प्रतो मनुः ।
वैवस्वतेति विज्ञेयो भविष्याः सप्त चापरे । । २१
एषामाद्योर्कसावर्णिर्ब्रह्मसावर्णिरेव च ।
तस्माच्च भवसावर्णिर्धर्मसावर्णिरित्युत । । २२
पञ्चमो दक्षसावर्णिः सावर्णिः५ पञ्च कीर्तिताः ।
रौच्यो भौव्यश्च द्वावन्यावित्येते मनवः स्मृताः । । २३
इन्द्रस्तु विष्णुभुग्ज्ञेयो विद्युतिस्तदनन्तरम् ।
विभुः प्रभुश्चैव शिखी तथैव च मनोजवः । । २४
ओजस्वी साम्प्रतिस्विन्द्रो बलिर्भाव्यस्ततः परम् ।
अद्भुतस्त्रिदिवश्चैव दशमस्त्विन्द्र उच्यते । । २५
सुसात्त्विकश्च१ कीर्तिश्च शतधामा२ दिवस्पतिः ।
इति भूता भविष्याश्च इन्द्रा ज्ञेयाश्चतुर्दश । । २६
कश्यपोऽत्रिर्वशिष्ठश्च भरद्वाजश्च गौतमः ।
विश्वामित्रो जमदग्निः सप्तैते ऋषयः स्मृताः । । २७
अतः परं प्रवक्ष्यामि मरुतोऽग्निपरिग्रहान् ।
प्रवहोथावहश्चैव उद्वहः संवहस्तथा । । २८
विवहो निवहश्चैव परिवाहस्तथैव च ।
अन्तरिक्षचरा३ ह्येते पृथङ्मार्गविसारिणः । । २९
सूर्योऽग्निश्च शुचिर्नाम्ना वैद्युतः पावकः स्मृतः ।
निर्मन्थः पवमानोऽग्निस्त्रयः प्रोक्ता इमेग्नयः । । 1.125.३०
अग्नीनां पुत्रपौत्रास्तु चत्वारिंशत्तथैव तु ।
मरुतामपि सर्वेषां विज्ञेयाः सप्तसप्तकाः । । ३१
ऋतुः संवत्सरोऽह्यग्निर्ऋतवस्तस्य जज्ञिरे ।
ऋतुपुत्राश्च वै पञ्च इति सर्गः सनातनः । । ३२
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।
इद्वत्सरस्तृतीयस्तु चतुर्थस्त्वनुवत्सरः । । ३३
पञ्चमो वत्सरस्तेषामित्येवं पञ्च ते स्मृताः ।
तेषु संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः । । ३४
सोम इद्वत्सरस्तेषां वायुश्चैवानुवत्सरः ।
रुद्रस्तु वत्सरो ज्ञेयः पञ्चैता ' युगदेवताः । । ३५
आर्तवा पितरो ज्ञेया ये जाताः ऋतुसूनवः ।
पितामहास्तु विज्ञेयाः पञ्चाब्दा ब्रह्मणः सुताः । । ३६
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये त्रयः ।
एते वै पितरस्तेषां ये जीवत्पितृका नराः । । ३७
आदित्यश्चैव सोमश्च लोहिताङ्गो बुधस्तथा ।
बृहस्पतिश्च शुक्रश्च तथा हेलिसुतश्च यः । । ३८
उपरागः शिखी चोभौ नवैते नु ग्रहाः स्मृताः ।
त्रैलोक्यस्य त्विमे नित्यं भावाभावनिवेदकाः । । ३९
आदित्यश्चैव सोमश्च द्वावेतौ मण्डलग्रहौ ।
राहुश्छायाग्रहस्तेषां शेषास्तारा ग्रहाः स्मृताः । ।1.125.४ ०
नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः ।
पठ्यते चाग्निरादित्य उदकश्चन्द्रमाः स्मृतः । । ४१
आदित्यः पठ्यते ब्रह्मा विष्णुस्तेषां तु चन्द्रमाः ।
महेश्वरस्तु विज्ञेयस्तृतीयस्तारकग्रहः । । ४२
कश्यपस्य सुतः सूर्यः सोमो धर्मसुतः स्मृतः ।
देवासुरगुरू द्वौ तु नामतस्तौ१ महाग्रहौ । । ४३
प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती ।
बुधः सोमात्मजः श्रीमाञ्छनी रविसुतः स्मृतः । । ४४
सिंहिकायाः सुतो राहुः केतुस्तु ब्रह्मणः सुतः ।
सर्वेषां च ग्रहाणां हि अधस्ताच्चरते रविः । । ४५
ततो दूरं स्मृतं तावद्विधोर्नक्षत्रमण्डलम् ।
नक्षत्रेभ्यः कुजबुधौ श्वेताह्वस्तदनन्तरम् । । ४६
तस्मान्माहेश्वरश्चोर्द्ध्वं धिषणस्तदनन्तरम् ।
कृष्णश्चोर्ध्वं ततस्तस्मादथ चित्रशिखण्डिजः । । ४७
एषामेव क्रमः प्रोक्ताश्चासक्तं त्रिदिवं ध्रुवे ।
आदित्यनिलयो राहुः कदाचित्सोममार्गगः । । ४८
सूर्यमण्डलसंस्थस्तु१ शिखी सर्पति सर्वदा ।
नवयोजनसाहस्रो विस्तारो भार्गवस्य२ तु । । ४९
द्विगुणः सूर्यविस्ताराद्विस्तारः शनिनः स्मृतः ।
त्रिगुणं३ मंडलं ज्ञेयं नाक्षत्रं विस्तराद्विधोः । । 1.125.५०
नक्षत्रमण्डलात्तत्र पादहीनो बृहस्पतिः ।
बृहस्पतेः पादहीनः शुक्रोङ्गारक एव हि । । ५१
विस्तारो मण्डलानां तु पादहीनस्तयोर्बुधः ।
बुधतुल्यानि ऋक्षाणि सर्वऋक्षाणि यानि तु । । ५२
योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ।
राहुः सूर्यप्रमाणश्च कदाचित्सोमसन्निभः । । ५३
नक्षत्रग्रहमानस्तु१ केतुस्त्वनियतः स्मृतः ।
अविज्ञातगतिश्चैव चञ्चलत्वन्नराधिप । । ५४
तथालक्षितरूपस्तु बहुरूपधरो हि सः ।
भूर्लोकः पृथिवी प्रोक्ता अन्तरिक्षं भुवः स्मृतम् । । ५५
स्वर्लोकस्त्रिदिवं ज्ञेयं शेषादूर्ध्वं यथाक्रमम् ।
भूपतिस्तु सदा त्वग्निस्तेनासौ भूपतिः स्मृतः । । ५६
वायुर्नभस्पतिस्तेन तथा सूर्यो दिवस्पतिः ।
गन्धर्वाप्सरसश्चैव गुह्यकाः सिद्धराक्षसाः । ।५७
भूर्लोकवासिनः सर्वे अन्तरिक्षचराञ्छृणु ।
मरुतः सप्तमस्कंधे रुद्रास्तत्रैव चाश्विनौ । ।५८
आदित्या वसवः सर्वे तथैव च गवां गणाः ।
चतुर्थे तु महर्लोके वसन्ते कल्पवासिनः । ।५ ९
प्रजानां पतिभिः सर्वेः सहिताः कुरुनन्दन ।
जनलोके पञ्चमे च वसन्ते भूमिदाः सदा । । 1.125.६०
ऋतुः सनत्कुमाराद्या वैराजभ्र तथाश्रयाः ।
सत्यस्तु सप्तमे लोके ह्यपुनर्मार्गगामिनाम् । । ६१
ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ।
इतिहासविदो यत्र क्रीडन्ते कुरुनन्दन । । ६२
शृण्वन्ति च पुराणानि ये सदा भीमनंदन ।
महीतलात्सहस्राणां शतादूर्ध्वं दिवाकरः । । ६३
शतयोजनकोट्यस्तु१ भूमेरूर्ध्वं ध्रुवः स्थितः ।
ततो विंशतिलक्षस्तु त्रैलोक्योत्सेध उच्यते । । ६४
द्विगुणैस्तु सहस्रैस्तु योजनानां शतेषु च ।
लोकांतरमथो चैवं ध्रुवादूर्ध्वं विधीयते । । ६५
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
भूता विद्याधराश्चैव अष्टौ ते देवयोनयः । । ६६
यस्मिन्व्योम्नि त्विमे लोकाः सप्त वै सम्प्रतिष्ठिताः ।
मरुतः पितरो ह्येते तस्मिन्नेवाग्नयो ग्रहाः । । ६७
यास्त्वप्येताः समाख्याता मयाष्टौ देवयोनयः ।
मूर्ताश्चामूर्तयश्चैव सर्वास्ता व्योम्नि संस्थिताः । । ६ ८
एवंविधमिदं व्योम सर्वव्योममयं स्मृतम् ।
सर्वदेवमयं चैव सर्वग्रहमयं तथा । । ६९
तस्माद्यो ह्यर्चयेद्व्योम तेन सर्वेऽर्चिताः सुराः ।
तस्मात्सर्वप्रयत्नेन शुभार्थी व्योम चार्चयेत् । । 1.125.७०
यस्त्वर्चते सदा व्योम भक्त्या श्रद्धासमन्वितः ।
वृषध्वजसदो राजन्स गच्छेन्नात्र संशयः । । ७१
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्योम माहात्म्ये भुवनकोशवर्णनं नाम पञ्चविंशत्यधिकशततमोऽध्यायः । १२५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 126
व्योममाहात्म्यवर्णनम्
सुमन्तुरुवाच
आकाशं खं दिशो व्योम अन्तरिक्षं नभोऽम्बरम् ।
पुष्करं गगनं मेरुर्विपुलं च बिलं तथा । । १
आपोछिद्रं तथा शून्यं तमो वै रोदसी तथा ।
नामान्येतानि ते व्योम्नः कीर्तितानि महीपते । । २
लवणक्षीरदध्यम्लघृतमध्विक्षवस्तथा ।
स्वादूदकश्च सप्तैते समुद्राः परिकीर्तिताः । । ३
हिमवान्हेमकूटश्च निषधो नील एव च ।
श्वेतश्च शृङ्गवांश्चैव षडेते वर्षपर्वताः । ।४
मध्यसंस्थस्तथैतेषां महाराजतपर्वतः ।
माहेन्द्री चाप्यथाग्नेयी याम्या च नैर्ऋती तथा । । ५
वारुणी चाथ वायव्या सौम्यैशानी तथैव च ।
एताः पुर्यस्तु देवानां तथोपरि समाश्रिताः । । ६
पृथिव्यां तु स्थितो वीर लोकालोकस्तु पर्वतः ।
ततश्चण्डकपालं तु तस्मात्तत्परतस्तु यः । । ७
ततोऽग्निर्वायुराकाशं ततो भूतादिरुच्यते ।
ततो महानहङ्कारः प्रकृतिः पुरुषस्ततः । । ८
पुरुषादीश्वरो श्रेय ईश्वरेणाव्रृतं जगत् ।
ईश्वरो भगवन्भानुस्तेनेदं पूरितं जगत् । । ९
सहस्रांशुर्महातेजाश्चतुर्बाहुर्महाबलः ।
ऊर्ध्वमप्यथ लोकास्तु प्राङ्मया ये प्रकीर्तिताः । । 1.126.१०
भूयस्तान्सम्प्रवक्ष्यामि अण्डावरणकारकान् ।
भूर्लोकस्तुभुवर्लोकस्तृतीयः परिकीर्तितः । । ११
महर्जनस्तपः सत्यः सप्तलोकाः प्रकीर्तिताः ।
१ततस्तवंडकपालं तु तस्माच्च परस्तपः । । १२
ततोऽग्निर्वायुराकाशं ततो भूतादिरुच्यते ।
ततो महान्प्रधानश्च प्रकृतिपुरुषस्ततः । । १३
पुरुषादीश्वरो ज्ञेय ईश्वरेणावृतं जगत् ।
भूमेरधस्तात्सप्तैव लोकानभिमताञ्छृणु । । १४
तलं सुतलपाताले तलातलं तथातलम् ।
वितलं च कुरुश्रेष्ठ सप्तमं च रसातलम् । । १५
ततोऽग्निर्वायुराकाशं ततो भूतादिरुच्यते ।
ततो महान्प्रधानश्च प्रकृतिः पुरुषस्ततः । । १६
पुरुषादीश्वरो ज्ञेय ईश्वरेणावृतं जगत् ।
एवं मेरोः प्रमाणं तु सर्वमेतत्प्रकीर्तितम् । । १७
चतुरस्रश्चतुः शृंगः स मेरुः काञ्चनः शुभः ।
पृथिव्यां संस्थितो मध्ये सिद्धगन्धर्वसेवितः । । १८
चतुर्भिः काञ्चनैः शृंगैर्दिव्यैर्दिवमिवोल्लिखन् ।
योजनानां सहस्राणि चतुराशीतिरुच्छ्रितः । । १९
प्रविष्टः षोडशाधस्तादष्टविंशतिविस्तृतः ।
विस्तारस्त्रिगुणश्चास्य परिणाहस्ततः स्मृतः । । 1.126.२०
तस्य सौमनसं नाम शृंगमेकं तु काञ्चनम् ।
द्वितीयं पद्मरागाभं ज्योतिष्कं नाम नामतः । । २१
तृतीयं नामतश्चित्रं सर्वदेवमयं शुभम् ।
चतुर्थं राजतं शुक्लं चन्द्रौजस्कमिति स्मृतम् । । २२
यत्तु सौमनसं नाम शृंगं गाङ्गेयमुच्यते ।
तदेव चोदयो नाम्ना यत्रोद्यन्दृश्यते रविः । । २३
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ।
दृश्यो भवति भूतानां शिखरं च समास्थितः । । २४
काञ्चनस्य च शैलस्य तेजसार्कस्य चाहृते ।
उभे सन्ध्ये प्रकाशेते आताम्रे पूर्वपश्चिमे । । २५
शृंगे सौमनसे सूर्य उत्तिष्ठत्युत्तरायणे ।
ज्योतिषे दक्षिणे चापि विषुवे मध्यतस्तयोः । । २६
ईशेन्द्रोद्रिश्च ऐशान्यां तत्राग्निः पूर्वदक्षिणे ।
नैर्ऋतेऽपि ततो ज्ञेयो वायव्ये मरुतस्तथा । । २७
मध्ये तु कंजजः साक्षाद्ग्रहा ज्योतींषि चैव हि ।
आदित्यस्तेन रूपेण तस्मिन्व्योम्नि प्रतिष्ठितः । । २८
इदं देवमयं व्योम तथा लोकमयं स्मृतम् ।
पूर्वकोणस्थिते शृंगे स्थितः शुक्रो महीपते । । २९
हेलिजश्चापरे ज्ञेयो धननाथस्तथापरे ।
सोमश्चापि चतुर्थे तु स्थितः शृंगे जनाधिप । । 1.126.३०
मध्ये केशास्थितो राजन्हुङ्कारश्च पिनाकिनः ।
शृंगे पूर्वोत्तरे राजन्स्थितो देवो विधुक्षये१ । । ३१
ततः स्थितो महादेवो गोपतिर्लोकपूजितः ।
पूर्वाग्नेयीस्थिते शृंगे स्थितो वै शाण्डिलः सुतः । । ३२
ततः स्थितो महातेजाः कीनाशो हेलिनन्दनः ।
स्थितो वै नैर्ऋते शृंगे विरूपाक्षो महाबलः । । ३३
तस्मादनन्तरो देवः स्थितो वै यादसां पतिः ।
ततः स्थितो महातेजा वीर मित्रो महाबलः । । ३४
वायव्यं शृंगमाश्रित्य सर्वदेवनमस्कृतम् ।
ततः स्थितो दशबलो नरमारुह्य भारत । । ३५
ब्रह्मा मध्ये स्थितो देवो ह्यनन्तश्चाध एव हि ।
उपेन्द्रशङ्करौ देवौ ब्रह्मणोऽन्ते समास्थितौ । । ३६
एष मेरुस्तथा व्योम एष धर्मश्च पठ्यते ।
सर्वदेवमयश्चायं मेरुर्व्योम इति स्मृतः । । ३७
तथा वेदमयश्चापि पठ्यते नात्र संशयः ।
शृंगाणि वेदाश्चत्वारः पूर्वशृंगादयो विदुः । । ३८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्योममाहात्म्यवर्णनं
नाम षड्विंशत्यधिकशततमोऽध्यायः । १२६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 127
सूर्यप्रसादवर्णनम्
शतानीक उवाच
कथमाराधितः सूर्यः साम्बेनामिततेजसा ।
विमुक्तस्तु कथं रोगैर्ब्रूहि मां द्विजसत्तम । । १
सुमन्तुरुवाच
साधु पृष्टोऽस्मि राजेन्द्र शृणु साम्बकथां पुरा ।
विस्ताराद्वच्मि ते सर्वां कथां पापविमोचिनीम् । । २
पुरा संश्रुत्य माहात्म्यं भास्करस्य स नारदात् ।
विनयादुपसङ्गम्य वचः पितरमब्रवीत् । । ३
कश्मलेनाभिभूतोऽस्मि मलेन व्याधिनाच्युत ।
वैद्यैरोषधिभिश्चापि न शान्तिर्मम विद्यते । । ४
वनं गच्छामि भगवन्ननुज्ञां दातुमर्हसि ।
शिवेन पुण्डरीकाक्ष ध्याय मां पुरुषोत्तम । । ५
अनुज्ञातः स कृष्णेन सिन्धोरुत्तरकूलतः ।
गत्वा सन्तारयामास चन्द्रभागां महानदीम् । । ६
ततो मित्रवनं गत्वा तीर्थं त्रैलोक्यविश्रुतम् ।
उपवासपरः साम्बः शुष्को धमनिसन्ततः । । ७
आराधनार्थं सूर्यस्य गुह्यं स्तोत्रं१ जजाप ह ।
वेदैश्चतुर्भिः समितं पुराणाश्रयबृंहितम् । । ८
यदेतन्मण्डलं शुक्लं दिव्यं ह्यजरमव्ययम् ।
युक्तं मनोजवैरश्वैर्हारीतैर्ब्रह्मवादिभिः२ । । ९
आदिरेष१ हि भूतानामादित्य इति संज्ञितः ।
त्रैलोक्यचक्षुरेवात्र परमात्मा प्रजापतिः । । 1.127.१०
एष वै मण्डले ह्यस्मिन्पुरुषो दीप्यते महान् ।
एष विष्णुरचिन्त्यात्मा ब्रह्मा चैष पितामहः । । ११
रुद्रो महेन्द्रो वरुण आकाशं पृथिवी जलम् ।
वायुः शशाङ्कः पर्जन्यो धनाध्यक्षो विभावसुः । । १२
यष एष मण्डले ह्यस्मिन् पुरुषो दीप्यते महान् ।
एकः साक्षान्महादेवो वृत्रमण्डनिभः सदा । । १३
कालो ह्येष महाबाहुर्निबोधोत्पत्तिलक्षणः ।
य एष मण्डले ह्यस्मिंस्तेजोभिः पूरयन्महीम् । । १४
भ्राम्यते ह्यव्यवच्छिन्नो वातैर्योऽमृतलक्षणः ।
नातः परतरं किञ्चित्तेजसा विद्यते क्वचित् । । १५
पुष्णाति सर्वभूतानि एष एव सुधामृतैः । अन्तस्थान्म्लेच्छजातीयांस्तिर्यग्योनिगतानपि । । १६
कारुण्यात्सर्वभूतानि पासि त्वं च विभावसो ।
श्वित्रकुष्ठ्यंधबधिरान्पंगूंश्चापि तथा विभो । । १७
प्रपन्नवत्सलो देव कुरुते नीरुजो भवान् ।
चक्रमण्डलमग्रांश्च निर्धनाल्पायुषस्तथा । । १८
प्रत्यक्षदर्शी त्वं देव समुद्धरसि लीलया ।
का मे शक्तिः स्तवैः स्तोतुमार्तोऽहं रोगपीडितः । । १९
स्तूयसे त्वं सदा देवैर्ब्रह्मविष्णुशिवादिभिः ।
महेन्द्रसिद्धगन्धर्वैरप्सरोभिः सगुह्यकैः । । 1.127.२०
स्तुतिभिः किं पवित्रैर्वा तव देव समीरितैः ।
यस्य ते ऋग्यजुः साम्नां त्रितय मण्डलस्थितम् । । २१
ध्यानिनां त्वं परं ध्यानं मोक्षद्वारं च मोक्षिणाम् ।
अनन्ततेजसाक्षोभ्यो ह्यचिंत्याव्यक्तनिष्कलः । । २२
यदयं व्याहतः किञ्चित्स्तोत्रेऽस्मिञ्जगतः पतिः ।
आर्तिं भक्तिं च विज्ञाय तत्सर्वं ज्ञातुमर्हसि । । २३
तमुवाच ततः सूर्यः प्रीत्या जाम्बवतीसुतम् ।
प्रीतोऽस्मि तपसा वत्से ब्रूहि तन्मां यदिच्छसि । । २४
साम्ब उवाच
यदि प्रसन्नो भगवानेष एव वरो मम ।
भक्तिर्भवतु मेऽत्यर्थं त्वयि देव सनातन । । २५
श्रीसूर्य उवाच
भूयस्तुष्टोऽस्मि भद्रं ते वरं वरय सुव्रत ।
स द्वितीयं वरं वव्रे तदैव वरदं विभुम् । । २६
मलः शरीरसंस्थो मे त्वत्प्रसादात्प्रणश्यतु ।
येन मे शुद्धमखिलं वपुर्भवतु गोपते । । २७
सुमन्तुरुवाच
स तथास्त्विति तेनोक्तो भास्करेण महात्मना ।
तां मुमोच रुजं साम्बो देहात्त्वचमिवोरगः । । २८
ततो रूपेण दिव्येन रूपवानभवत्पुनः ।
प्रणम्य शिरसा देवं पुरतोऽवस्थितोऽभवत् । । २९
श्रीसूर्य उवाच
भूयश्च शृणु मे साम्बं तुष्टोऽहं यद्ब्रवीमि ते ।
अद्य प्रभृति त्वन्नाम्ना मम स्थानानि सुव्रत । ।
क्षितौ ये स्थापयिष्यन्ति तेषां लोकाः सनातनाः । । 1.127.३०
स्थापयस्वैव मामस्मिंश्चन्द्रभागातटे शुभे ।
तव नाम्ना च साम्बेदं परां ख्यातिं गमिष्यति । । ३१
कीर्तिस्तवाक्षया लोके ख्यातिं यास्यति सुव्रत ।
भूयश्च ते प्रदास्यामि प्रत्यहं स्वप्नदर्शनम् । । ३२
सुमन्तुरुवाच
एवं दत्त्वा वरं तस्मै वृष्णिसिंहाय चापरम् ।
प्रत्यक्षदर्शनं दत्त्वा तत्रैवान्तरधाद्धरिः । । ३३
य इदं पठते स्तोत्रं त्रिकालं भक्तिमान्नरः ।
त्रिसप्तशतमावर्त्य होमं वा सप्तरात्रकम् । । ३४
राज्यकामो लभेद्राज्यं धनकामो लभेदधनम् ।
रोगार्तो मुच्यते रोगाद्यथा साम्बस्तथैव सः । । ३५
सूर्यलोकं व्रजेच्चापि भक्त्या पूज्य दिवाकरम् ।
रमते च तथा तस्मिन्देवैश्च परिवारितः । । ३६
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यप्रसादवर्णनं
नाम सप्तविंशत्यधिकशततमोऽध्यायः । १२७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 128
साम्बस्तववर्णनम्
सुमन्तुरुवाच
अस्तावीच्च तत साम्बः कृशो धमनिसन्ततः ।
राजन्नामसहस्रेण सहस्रांशुं दिवाकरम् । । १
खिद्यमानं ततो दृष्ट्वा सूर्यः कृष्णात्मजं तदा ।
स्वप्नेऽस्मै दर्शनं दत्त्वा पुनर्वचनमब्रवीत् । । २
श्रीसूर्य उवाच
साम्ब साम्ब महावाहो शृणु जाम्बवतीसुत ।
अलं नामसहस्रेण पठ चेमं शुभं स्तवम् । । ३
यानि गुह्यानि नामानि पवित्राणि शुभानि च ।
तानि ते कीर्तियिष्यामि प्रयत्नादवधारय । ४
वैकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकः श्रीमांल्लोकचक्षुर्ग्रहेश्वरः । ५
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ।
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः । ६
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ।
एकर्विशतिरित्येष स्तव इष्टस्सदा मम । । ७
शरीरारोग्यदश्चैव धनवृद्धियशस्करः ।
स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः । ८
य एतेन महाबाहो द्वे सन्ध्येऽस्तमनोदये ।
स्तौति मां प्रणतो भूत्वा सर्वपापैः प्रमुच्यते ।। ९
मानसं वाचिकं वापि कायिकं यच्च दुष्कृतम् ।
एकजाप्येन तत्सर्वं प्रणश्यति ममाग्रतः । 1.128.१०
एष जप्यश्च होमश्च सन्ध्योपासनमेव च ।
बलिमन्त्रोऽर्घ्यमन्त्रोऽथ धूपमन्त्रस्तथैव च । ।११
अन्नप्रदाने स्नाने च प्रणिपाते प्रदक्षिणे ।
पूजितोऽयं महामन्त्रः सर्वपापहरः शुभः । । १२
एवमुक्त्वा स भगवान्भास्करो जगतां पतिः ।
आमन्त्र्य कृष्णतनयं तत्रैवान्तर्हितोऽभवत् । । १३
साम्बोऽपि स्तवराजेन स्तुत्वा सप्ताश्ववाहनम् ।
प्रीतात्मा नीरुजः श्रीमांस्तस्माद्रोगाद्विमुक्तवान् । । १४
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बस्तववर्णनं
नामाष्टाविंशत्यधिकशततमोऽध्यायः । १२८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 129
साम्बकृतादित्यमूर्तिस्थापनवर्णनम्
सुमन्तुरुवाच
अथ लब्धवरः साम्बो वरं प्राप्य पुरातनम् ।
मन्यमानस्तदाश्चर्यं प्रहृष्टेनान्तरात्मना । । १
पूर्वाभ्यासेन तेनैव सार्धमन्यैस्तपस्विभिः ।
स्नापनार्थं नातिदूरं चन्द्रभागां नदीं ययौ । । २
कृत्वात्ममण्डलाकारं श्रद्दधानो दिनेदिने ।
सस्नौ सञ्चिन्तयामास किं रूपं स्थापयाम्यहम् । । ३
स स्नातः सहसैवाथ प्रणम्य१ तु प्रभावतीम् ।
उह्यमानां जलौघेन प्रतिमां सम्मुखीं रवेः । । ४
तां दृष्ट्वा तस्य वीरस्य समुत्पन्नमिदं यथा ।
देवेन यत्तदाज्ञप्तं तदिदं नात्र संशयः । । ५
स तामुत्तार्य सलिलादानीय च महीपते ।
तस्मिन्मित्रवनोद्देशे स्थापयामास तां तदा । । ६
निधाय प्रतिमाँल्लोके साम्बस्तस्य महात्मनः ।
मित्रं मित्रवने रम्ये स्थापयित्वा विधानतः । । ७
ततस्तामेव पप्रच्छ प्रणम्य प्रतिमां रवेः ।
केनेयं निर्मिता नाथ भवतो ह्याकृतिः शुभा । । ८
प्रतिमा तमुवाचाथ शृणु साम्ब ब्रुवे स्वयम् ।
निर्मिता येन चाप्येषा मदीया पुरुषाकृतिः । । ९
ममातितेजसाविष्टं रूपमासीत्पुरातनम् ।
असह्यं सर्वभूतानां ततोऽस्म्यभ्यर्चितः सुरैः । ।
सह्यं भवतु ते रूपं सर्वप्राणभृतामिति । । 1.129.१०
ततो मया समादिष्टो विश्वकर्मा महातपाः ।
तेजसां शातनं कुर्वन्रूपं निर्वर्तयस्व मे । । ११
ततस्तु मत्समादेशात्तेनैव निपुणं तदा ।
शाकद्वीपे भ्रमिं कृत्वा रूपं निर्वर्तितं मम । । १२
प्रीत्या तेषां प्रपञ्चोऽयं स मया कारितः पुनः ।
तेनेयं कल्पवृक्षात्तु निर्मिता विश्वकर्मणा । । १३
कृत्वा हिमवतः पृष्ठे पुरा सिद्धनिषेविते ।
त्वदर्थं चन्द्रभागायां ततस्तेनावतारिता । । १४
भवतस्तारणार्थं हि ततः स्थानमिदं शुभम् ।
रुचिरं सर्वदा साम्ब सान्निध्यं मेऽत्र यास्यति । । १५
सान्निध्यं मम पूर्वाह्णे सुतीरे द्रक्ष्यते जनैः ।
कालप्रिये च मध्याह्नेऽपराह्णे चात्र नित्यशः । । १६
पूर्वाह्णे पूजयेद् ब्रह्मा मध्याह्ने चक्रधृत्स्वयम् ।
शङ्करश्चापराह्णे तु मां पूजयति सर्वदा । । १७
इत्युक्तोऽसौ भगवता भास्करेण स यादवः ।
हर्षमाप महाबाहो भास्करोऽन्तर्दधे ततः । । १८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने
साम्बकृतादित्यमूर्तिस्थापनं नामैकोनत्रिंशदधिकशततमोऽध्यायः । । १२९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 130
प्रसादलक्षणवर्णनम्
शतानीक उवाच
कथं साम्बेन विप्रेन्द्र प्रतिष्ठा कारिता रवेः ।
कस्य वा वचनात्तेन प्रासादः कारितो रवेः । । १
सुमन्तुरुवाच
अत्र ते वच्मि राजेन्द्र यथा साम्बेन धीमता ।
प्रतिष्ठा कारिता भानोः प्रसादश्च महीपते । । २
सुलब्ध्वा प्रतिमां भानोश्चिन्तयामास नारदम् ।
स चापि चिन्तितश्चागाद्यत्र जाम्बवतीसुतः । । ३
तमागतमभिप्रेक्ष्य नारदं मुनिसत्तमम् ।
सम्पूज्य विधिवत्सांबो नारदं वाक्यमब्रवीत् । ।४
प्रासादं कारयेद्यस्तु भास्करस्य नरो द्विज ।
किं फलं तस्य देवर्षे प्रतिष्ठां यश्च कारयेत् । । ५
नारद उवाच
प्रासादं शोभने देशे यस्तु कारयते रवेः ।
स याति नरशार्दूल सूर्यलोकं न संशयः । । ६
साम्ब उवाच
कथं कुर्यादायतनं कस्मिन्देशे द्विजोत्तम ।
कीदृक्छस्तं चायतनं देवदेवस्य१ वै द्विज । । ७
नारद उवाच
यत्र प्रभूतं सलिलमागमे च विनाशने ।
देवतायतनं कुर्याद्यशोधर्मविवृद्धये । । ८
इष्टापूर्तेन लभते लोकांस्तांश्च१ विभूषितान् ।
देवानामालयं कार्यं द्वयं यत्र च दृश्यते । । ९
सलिलाद्यं च आरामः कृतेष्वायतनेषु च ।
स्थानेष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः । । 1.130.१०
सरःसु नलिनीच्छन्ननिरस्तरविरश्मिषु ।
हंससंक्षिप्तकह्लारवीथीविमलवारिषु । । ११
हंसकारण्डवक्रौञ्चचक्रवाकविराविषु ।
पर्यन्तविमलच्छायाविश्रान्तजनचारिषु । । १४
क्रौञ्चकाञ्चीसुलापाश्च कलहंसकलस्वनाः ।
नद्यस्तोयांशुका यत्र शफरीकृतमेखलाः । । १३
फुल्लद्रुमोत्तमावासाः सङ्गमश्रोणिमण्डलाः ।
पुलिनाद्युन्नतोरस्का रसहासाश्च निम्नगाः । । १४
वनोपान्तनदीशैलसंस्करोपान्तभूमिषु ।
रमन्ते देवता नित्यं पुरेषूद्यानवत्सु च । । १५
भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि ।
ता एवं तेषां शस्यन्ते देवतायतनेष्वपि । । १६
चतुःषष्टिपदं कुर्याद्देवतायतनं सदा ।
द्वारं च मध्यमं तस्मिन्समदिक्सम्प्रशस्यते । १७
यो विस्तारो भवेत्तस्य द्विगुणा तत्समुन्नतिः ।
उच्छ्रायस्तु तृतीयोऽथ तेन तुल्या कटिर्भवेत् । । १८
विस्तारार्धो भवेद्गर्भो भिन्नयोन्याः समन्ततः ।
गर्भपादोनविस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् । । १९
उच्छ्रयात्पादविस्तीर्णा शाखा तद्वदुदुम्बरी ।
विस्तारात्पादप्रतिमाद्बाहुल्यं शेषयोः स्मृतम् । । 1.130.२०
नृपं सप्तनवभिः शाखाभिस्तत्प्रशस्यते ।
अथ शाखाचतुर्भागे प्रतिहारौ निवेशयेत् । । २१
शैलमङ्गल्यविहगः श्रीवृक्षः स्वस्तिकैर्घटैः ।
मानाष्टमेन१ भागेन प्रतिमा स्यात्सपिण्डिका । । २२
द्विभागा प्रतिमा तत्र तृतीयो भागपिण्डिका ।
पूर्वे मेरुर्महाबाहो कैलासश्च तथापरे । । २३
भवन्ति चापरे वीर विमानच्छदनं तथा ।
समुद्रपद्मगरुडनन्दिवर्द्धनकुञ्जराः । । २४
गृहराजो वृषो हंसः सर्वतोभद्रको घटः ।
सिंहो वृषश्चतुष्कोणः षोडशाष्टाश्रयस्तथा । । २५
इत्येते विंशतिः प्रोक्ताः प्रासादा यदुनन्दन ।
यथोक्तानुक्रमेणैव लक्षणानि वदामि ते । । २६
नवत्रिंशदुच्छ्रितमेरुर्द्वादशभौमो विविधकुहरश्च । द्वारैर्युतश्चतुभिर्द्वात्रिंशद्धस्तविस्तीर्णः । । २७
त्रिंशद्धस्तायामो दशभौमः सप्त मन्दरः ।
शिखरयुतः कैलासोऽपि शिखरवानष्टाविंशोष्टभौमश्च । । २८
जालगवाक्षैर्युक्तो विमानसंज्ञस्त्रिसप्तकायामः ।
नन्दन इति वै भौमो द्वात्रिंशत्षोडशाङ्गयुतः । । २९
वृत्तः समुद्गनामा पद्माकृतिरयं चाष्टौ ।
शृङ्गेणैकेन भवेदेकेन च भूमिका तस्य । । 1.130.३०
गरुडाकृतिश्च गरुडो नन्दी वै षष्टिविस्तीर्णः ।
कायश्च सप्तभौमो विभूषितोंऽगैश्च सप्तविंशतिभिः । । ३१
कुञ्जर इति गजपृष्ठः षोडशाहस्तोच्छ्रितो मध्ये ।
गृहराजः षोडशकस्त्रिचक्रशाला भवेद्वलभी । । ३२
वृष एवं मृमिशृङ्गो द्वावशहस्तः समुन्नतो वृत्तः ।
हंसो हंसाकारो घटोऽष्टसहस्रकलशरूपः । । ३३
द्वारैर्युतश्चतुर्भिर्बहुशिखरो भवति सर्वतोभद्रः ।
बहुरुचिरचन्द्रशालः षप्तविंशद्भागभूमिश्च । । ३४
सिंहः सिंहाकारो१ द्वादशकोणोऽष्टहस्तश्च । । ३५
सहस्रत्रितयं चैव कथितं विश्वकर्मणा ।
प्राहुः स्थापयतश्चात्र मतमेकं विपश्चितः । । ३६
कपोतपालिनीयुक्तमतो गच्छति तुल्यताम् । । ३७
साम्ब उवाच
य एते कथिता विप्र प्रासादा विंशतिस्त्वया ।
तेषां सूर्यस्य कः कार्यः प्रासादो भास्करस्य तु । । ३ ८
स्थानानि यानि चोक्तानि प्रासादस्य द्विजोत्तम ।
तेषां त्वयोक्तं हि पुरं व्ययवद्भिर्नरैर्युतम् । । ३ ९
तस्मिन्प्रदेशे वै कार्यं भानोर्मन्दिरमुत्तमम् ।
दिशां भागे च कतमे ब्रूहि शेषं द्विजोत्तम । । 1.130.४०
नारद उवाच
पुरमध्यं समाश्रित्य कुर्यादायतनं रवेः ।
दिशां भागेऽथ वा पूर्वे पूर्वद्वारसमीपतः । । ४१
भूमिं परीक्ष्य पूर्वं तु कुर्यादायतनं ततः ' ।
इष्टगन्धरसोपेता निम्ना२ भूमिः प्रशस्यते । ४२
शर्करातुषकेशास्थिक्षाराङ्गारविवर्जिता ।
मेघदुन्दुभिनिर्घोषा सर्वबीजप्ररोहिणी । । ४३
शुक्ला रक्ता तथा पीता कृष्णा च कथिता क्षितिः ।
द्विजराजन्यवंश्यानां शूद्राणां च यथाक्रमम् । । ४४
परीक्षितायां तस्यां तु मध्ये तस्याः प्रमाणतः ।
उपलिप्य चतुर्हस्तं चतुरस्रं च समन्ततः । । ४५
हस्तमात्रमधः कृत्वा मध्ये तस्या दशाङ्गुलम् ।
गर्तमुत्कीर्य तेनैव पांसुना प्रतिपूरयेत् । । ४६
समे समगुणा ज्ञेया हीने हीनगुणा भवेत् ।
वर्धमाने तु वै पांसौ भवेद्वृद्धिकरी क्षितिः । । ४७
नित्यं सम्मुखमर्कस्य कदाचित्पश्चिमामुखम् ।
स्थापनीयं गृहं सम्यक्प्राङ्मुखस्थानकल्पनात् । । ४८
भवनाद्दक्षिणे पार्श्वे रवेः स्नानगृहं भवेत् ।
अग्निहोत्र गृहं कार्यं रवेरुत्तरतः शुभम् । ।
उदङ्मुखं भवेच्छम्भोर्मातॄणां गृहमेव च । । ४९
ब्रह्मा पश्चिमतः स्थाप्यो विष्णुरुत्तरतस्तथा ।
निम्बस्तु दक्षिणे पार्श्वे वामे राज्ञी प्रकीर्तिता । । 1.130.५०
पिंगलो पक्षिणे७ भानोर्वामतो दण्डनायकः ।
श्रीमहाश्वेतयोः स्थानं पुरतस्त्वंशुमालिनः । । ५१
ततःस्थाप्याश्विनोः स्थानं पूर्वदेवगृहाद्वहिः ।
द्वितीयायां तु कक्षायां राज्ञास्रौषौ व्यवस्थितौ । । ५२
तृतीयायां तु कक्षायां स्थितौ कल्माषपक्षिणौ ।
जण्डकामचरौ१ स्थाप्यौ दक्षिणां दिशमाश्रितौ । । ५३
उदीच्यां स्थापनीयस्तु कुबेरो लोकपूजितः ।
उत्तरेण ततस्तस्य रेवतः सविनायकः । । ५४
यत्र वा विद्यते स्थानं दिक्षु सर्वा गुहादयः ।
द्वे मण्डलेऽर्घ्यदानार्थं कार्ये सव्यापसव्यतः । । ५५
दद्यादुदयवेलायामर्घं सूर्याय दक्षिणे ।
उत्तरे मण्डले दद्यादर्घ्यमस्तमने रवेः । । ५६
चक्राकृतां तथान्यस्मिन्देवस्य प्रतिमां रवेः ।
स्थापयेद्विधिवद्वीर चतुर्भिः कलशैः शुभैः । । ५७
नानातूर्यनिनादैश्च शङ्खशब्दैश्च पुष्कलैः ।
तृतीये मण्डले ह्येव पूजनीयो दिवाकरः । । ५८
चतुरस्रं चतुःशृङ्गं व्योम देवगृहाग्रतः ।
प्रतिमायास्तु सूत्रेण कार्यं मध्येऽस्य मण्डलम् । । ५९
दिण्डी स्थाप्यः पुरस्तस्मादादित्याभिमुखः स्थितः ।
यदेतत्कथितं व्योम सर्वदेवमयं मया । । 1.130.६०
मध्याह्ने तस्य दातव्यमर्घ्यमत्र यदूत्तम ।
अथ वा मण्डलं चान्यत्तृतीयं चक्रसम्मितम५ । । ६१
स्थापयित्वा तु देवेशं दातव्योऽर्घः सुपण्डितैः ।
देवस्य पुरतः कार्यं व्योमस्थानं समीपतः । ।
पुस्तकवाचनस्थानमथ वा यत्र रोचते । । ६२
एष स्थानविधिः प्रोक्तो देवतानां यथाक्रमम् ।
गृहराज्ञोऽथ रुद्रस्तु द्वावेतौ भास्करप्रियौ । । ६३
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने
प्रासादलक्षणवर्णनं नाम त्रिंशदधिकशततमोऽध्यायः । १३० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 131
दारुपरीक्षावर्णनम्
नारद उवाच
अथ ते सम्प्रवक्ष्यामि प्रतिमाविधिविस्तरम् ।
सर्वेषामेव देवानामादित्यस्य विशेषतः । । १
अर्चा१ सप्तविधा प्रोक्ता भक्तानां शुभवृद्धये ।
काञ्चनी राजती ताम्री पार्थिवी शैलजा स्मृता । । २
वार्क्षी चालेख्यका चेति मूतिस्थानानि सप्त वै ।
वार्क्षीविधानं ते वीर वर्णयिष्याम्यशेषतः । । ३
कर्त्रनुकूले दिवसे संवत्सरविशोधिते ।
शुभैर्निमित्तैः शकुनैः प्रस्थानैश्च वनं विशेत् । । ४
क्षीरिणो वर्जिताः सर्वे दुर्बलास्ते स्वभावतः ।
चतुष्पथेषु न ग्राह्या ये च पुत्रकवृक्षकाः२ । । ५
देवतायतनस्था ये तथा वल्मीकसम्भवा ।
उत्कीर्णा देवता येषु चैत्यवृक्षाश्च ये स्मृताः । । ६
श्मशानभूमिजा ये च पक्षिणां निलयाश्च ये ।
सकोटराश्च ये वृक्षाः शुष्काग्रा ये च पादपाः । । ७
शस्त्रेण निहता ये च कुञ्जराशास्तथा कृताः ।
सामाद्याः सरुजोऽधश्च व्याधिनश्च तथैव च । । ८
अकाले पुष्पिता ये च काले ते च विवर्जिताः ।
शीर्णपर्णाश्च तरवो रक्षोध्वांक्षनिषेविताः । ।
एकशाखातिशाखाश्च त्रिशाखाश्च तथाधमाः । । ९
मधूको देवदारुश्च वृक्षराजश्च चन्दनः ।
बिल्वश्चाम्रातकश्चैव खदिरोथाञ्जनस्तथा । । 1.131.१०
निम्बः श्रीपर्णवृक्षश्च पनसः सरलोऽर्ज्जुनः ।
रक्तचन्दनपर्यन्ताः श्रेष्ठाः स्युः प्रतिमाद्रुमाः । । ११
वर्णानामानुपूर्व्येण द्वौ द्वौ वृक्षौ प्रकीर्तितौ ।
निम्बाद्याः सर्ववर्णानां वृक्षा साधारणाः स्मृताः । । १२
कथ्यमानान्विशेषेण शृणु वीर तथापरान् ।
सुरदारुः शमी चैव मधूकश्चन्दनस्तथा । ।
एते वै तरवस्तात ब्राह्मणानां शुभाः स्मृताः । । १३
क्षत्रस्य च तथारिष्टः खदिरस्तिन्दुकस्तथा ।
अश्वत्थश्च तथा साम्ब द्रुमः करकतः शुभः । । १४
वैश्यानां तद्वदेव स्युः खदिरश्चन्दनस्तथा ।
पुण्याश्च तरवश्चैते शुभदास्तु तथैव च । । १५
केसरः सर्जकश्चाम्रः शालवृक्षस्तथेतरः ।
एते वै तरवः पुण्याः शूद्राणां शुभदायकाः । । १६
लिङ्गं च प्रतिमां चैवमवस्थाप्य यथाविधि ।
वृक्षं चाभिमतं गत्वा पूजयेद्बलिपुष्पकैः । । १७
शुचौ देशे विविक्ते च केशांगारविवर्जिते ।
प्रागुदक्सूचके देशे लोककष्टविवर्जिते । । १८
विस्तीर्णस्कन्धविटपः षत्रवानृजुवृद्धिगः ।
आतङ्कहीनो विवशः सत्त्वक्पर्णः शुभस्तथा । १९
स्वेनैव पतिता ये च हस्तिभिः पातितास्तथा ।
शुक्लाश्च वह्निदग्धाश्च पक्षिभिश्चापि वर्जिताः । । 1.131.२०
तरवो वर्जनीयाश्च ग्रहीतव्याः शुभा द्रुमाः ।
स्निग्धरूपाः सपर्णाश्र सपुष्पाः सफलास्तथा । । २१
तेषां तु ग्रहणं चाष्टमासेषु कार्त्तिकादिषु ।
भूत्वा शुभदिने चैव सोपवासोऽधिवासयेत् । । २२
समन्तादुपलिप्याथ तस्याधस्ताद्वसुन्धराम् ।
गायत्र्या परिपूतेन परितः प्रोक्ष्य वारिणा । । २३
शुक्ले च परिधूते च परिधाय च१ वाससी ।
पूजयेद्गन्धमाल्यैश्च सधूपबलिकर्मभिः । । २४
ततः कुशैः परिस्तीर्णे हुत्वाग्नौ तस्य चान्तिके ।
देवदारुसमिद्भिश्च मन्त्रेणानेन तत्त्ववित् । । २५
ॐ भूर्भुवः सुवरिति ततो वृक्षं च पूजयेत् ।
ॐ प्रजापतये सत्यसदाय नित्यं श्रेष्ठन्तरात्मन्त्सचराचरात्मन् । ।
सान्निध्यमस्मिन्कुरु देव वृक्षे सूर्यावृतं मण्डलमाविशेश्च नमः । । २६
नारद उवाच
एवं सम्पूजयित्या तु वाक्यैस्तं परिसान्त्वयन् ।
वृक्षलोकस्य शान्त्यर्थं गच्छ देवालयं शुभम् । । २७
देव त्वं स्थास्यसे तत्र च्छेददाहविवर्जितः ।
काले धूपप्रदानेन सपुष्पैर्बलिकर्मभिः । । २८
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् ।
वृक्षमूले कुठारं तु धूपमाल्यैः प्रपूज्य च । । २९
पूर्वतस्तु शिरः कृत्वा स्थापनीयः प्रयत्नतः ।
परमान्नमोदकौदनपलपूपिकादिभिर्भक्ष्यैः । । 1.131.३०
मद्यैः कुसुमैर्धूपैर्गन्धैश्च तरुं समभ्यर्च्य । सुरपितृपिशाचराक्षसभुजङ्गसुरगणविनायकाद्यानाम् । । ३१
कृत्वा पूजां रात्रौ वृक्षं संस्पृश्य च ब्रूयात् । । ३२
अर्चासु देवदेव त्वं देवैश्च परिकल्पितः ।
नमस्ते वृक्ष पूजेयं विधिवत्परिगृह्यताम् । । ३३
यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम् ।
अन्यत्र वासं परिकल्पयन्तु क्षमन्तु ते चाद्य नमोऽस्तु तेभ्यः । । ३४
प्रभातायां तु शर्वर्यां पुनः सम्पूज्य तं नगम् ।
ब्राह्मणेभ्यस्ततो दत्त्वा भोजकेभ्यश्च दक्षिणाम् । ।
छिन्द्याद्वनस्पतींस्तज्ज्ञैस्तै कृतस्वस्तिवाचनैः । । ३५
पूर्वस्यां दिशि पातोऽस्य ऐशान्यां चापि यो भवेत् ।
अथवा उत्तरस्यां तु तथा छिन्द्यात्तु१ नान्यथा । । ३६
ऐन्द्र्यैशान्योरुदीच्यां चः पातस्तिसृषु शस्यते ।
नैर्ऋत्याग्नेययाम्यासु दिक्षु पातो न शोभनः । ।
वायव्यां चैव वारुण्यां तस्य पातस्तु मध्यमः । । ३७
यस्य बाह्यस्थिता शाखा दिक्षु नष्टा चतसृषु ।
वास्तुपूर्वं ततः स्थित्वा ततः पश्चादवस्थिता । । ३८
अविलग्नमशब्दं तु पतनं तु प्रशस्यते ।
उत्पद्येद्द्विदलं यस्य द्रावश्च मधुरो भवेत् । । ३९
सर्पिस्तैलं क्षरेद्यस्य पादपं तं विवर्जवेत् ।
शुभदं यदुशार्दूल शृणु त्वं कथये शुचि । । 1.131.४०
वृक्षं प्रभाते सलिलैर्निषिक्तं पूर्वोत्तरस्यां दिशि सन्निकृत्य ।
मध्वाज्यदिग्धेन कुठारकेण प्रदक्षिणां शोषमभिप्रहण्यात् । । ४१
पूर्वोत्तरेऽप्युत्तरदिग्विभागे पाते यदा वृद्धिकरस्तदा स्यात् ।
आग्नेयकोणक्रमशोऽग्निदाह उग्रोग्ररोगाः सुधनक्षयश्च । ।४२
गारुडे दिशि पाषाणं कपोतो गृहगोधिका ।
सितवर्णं जलं ज्ञेयमङ्गुष्ठाभं भवेत्कृमिः । ।
दोषैरेतैर्विनिर्मुक्तं मुदा कालं समुद्धरेत् । । ४३
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे दारुपरीक्षावर्णनं
नामैकत्रिंशदधिकशततमोऽध्यायः । १३१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 132
श्रीसूर्यप्रतिमालक्षणवर्णनम्
नारद उवाच
हन्त ते सर्वदेवानां प्रतिमालक्षणं परम् ।
वच्मि ते यदुशार्दूल आदित्यस्य विशेषतः । । १
एकहस्ता द्विहस्ता वा त्रिहस्ता वा प्रमाणतः ।
तथा सार्द्धत्रिहस्ता च सवितुः प्रतिमा शुभा । । २
प्रसादाद्द्वारतो वापि प्रमाणं च प्रकल्पितम् ।
तद्वत्प्रयाणं कर्तव्यं सततं शुभमिच्छता । । ३
एकहस्ता भवेत्सौम्या द्विहस्ता धनधान्यदा ।
त्रिहस्ता प्रतिमा भानोः सर्वकामप्रदा स्मृता । । ४
सार्धत्रिहस्ता प्रतिमा सुभिक्षक्षेमकारिणी ।
अग्रे मध्ये च मूले च प्रतिमा सर्वतः समा । ।
गान्धर्वी सा तु विज्ञेया धनधान्यावहा स्मृता । । ५
देवागारस्य यद्द्वारं तस्मादष्टांशमुद्यता ।
विभागैः पिण्डिकाः कार्या द्वौ भागौ प्रतिमा भवेत् । । ६
अङ्गुलैश्च तथा मूर्तिश्चतुरशीतिसंमितैः ।
विस्तारायामतः कार्या वदनं द्वादशाङ्गुलम् । । ७
मुखात्त्रिभागैश्चिबुकं ललाटं नासिका तथा ।
कर्णौ नासिकया तुल्यौ पादौ चानियतौ तयोः । । ८
नयने द्व्यंगुले स्यातां त्रिभागा तारका भवेत ।
तृतीयतारकाभागात्कुर्याद्दृष्टिं विचक्षणः । । ९
ललाटमस्तकोत्सेधं कुर्यात्तत्सममेव च ।
परिणाहस्तु शिरसो भवेद्द्वाविंशदङ्गुलः । । 1.132.१०
तुल्या नासिकया ग्रीवा मुखेन हदयांतरम् ।
मुखमात्रा भवेन्नाभिस्ततो मेढ्रमनन्तरम् । ।
मुखविस्तारणमुरस्ततोऽर्द्धं तु कटिः स्मृता । । ११
बाहू प्रवाहतुल्यौ तु ऊरू जङ्घे च तत्समे ।
गुल्फाधस्तात्तु पादः स्यादुच्छ्रितश्चतुरङ्गुलः । । १२
षडङ्गुलसुविस्तारस्तस्याङ्गुष्ठाङ्गुलत्रयम् ।
प्रदेशिनी च तत्तुल्या हीना शेषा नखैर्युताः । । १३
चतुर्दशाङ्गुलः पाद आयामात्परिकीर्तितः ।
एवं लक्षणसंयुक्ता प्रतिमार्च्या भवेत्सदा । । १४
अंसौ हरेस्तथैवोरू ललाटं च सनासिकम् ।
नियते नयने गण्डौ मूर्तेः कुर्यात्समुन्नते । । १५
विशालधवलावामपक्ष्मलायतलोचने ।
सस्मिताननपद्मस्य चारुबिम्बाधरस्तथा । । १६
रत्नप्रोद्भासिमुकुटकटकाङ्गदहारवान् ।
अव्यङ्गपदमध्यादिसमायोगोऽपि शोभितः । । १७
सुप्रभो मण्डलश्चारुर्विचित्रमणिकुण्डलः ।
कराभ्यां काञ्चनीं मालां प्रोद्वहन्ससरोरुहाम् । । १८
एवं लक्षणसंयुक्तां कारयेदीहितप्रदाम् ।
प्रजाभ्यश्च सदा भानुः शिवारोग्याभयप्रदः । । १९
अल्पाङ्गायां नृपभयं हीनाङ्गायामकल्पता ।
खातोदर्यां च क्षुत्पीडा कृशायां तु दरिद्रता । । 1.132.२०
सक्षतायां भयं शस्त्रात्स्फुटिता मृत्युकारिणी ।
दक्षिणावनतायां तु शश्वदायुः क्षयो भवेत् । । २१
उत्तरावनतायां तु वियोगो भवति ध्रुवम् ।
नालोक्या नाप्यनालोक्या रक्ष्यामूर्तिः प्रशस्यते । । २२
तस्माद्भास्करभक्तेन लोकद्वयहितैषिणा ।
तन्मूर्तेश्चादरः कार्यस्तदधीनास्तु सम्पदः । । २३
शिरोरुगण्डवदनैः सर्वाङ्गावयवैस्तथा ।
एवं लक्षणसंपूर्णा प्रतिमा भवते शुभा । । २४
नासाललाटजङ्घोरुदण्डवक्षोभिरन्विता ।
कुर्यादादित्यवेषं तु गूढपादोदरं तथा । । २५
कमलोदरकान्तिनिभः कञ्चुकगुप्तः प्रसन्नमुखः ।
रक्तोत्पलप्रभामण्डलश्च कर्तुः शुभं करोत्यर्कः । । २६
कुण्डलभूषितवदनः प्रलम्बहारोऽपि गृहवृत्तः ।
नृपतिभयं व्यङ्गायां हीनाङ्गायामकल्पना कर्तुः । । २७
खातोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् ।
मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत्कर्तुः । । २८
वामोन्नता तु पत्नीं दक्षिणावनता हिनस्त्यायुः ।
अन्धत्वमूर्द्ध्वदृष्टिः करोति चिन्तामधोमुखी दृष्टिः । । २९
सर्वप्रतिमास्वेवं शुभाशुभं भास्करेणोक्तम् ।
ब्रह्मा कमण्डलुकरश्चतुर्मुखः पङ्कजस्थश्च । । ३०
स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ।
शुक्लश्चतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम् । । ३१
तिर्यगूर्ध्वललाटसंस्थं तृतीयमपि लोचनं चिह्नम् । । ३२
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने
श्रीसूर्यप्रतिमालक्षणवर्णनं नाम द्वात्रिंशदधिकशततमोऽध्यायः । १३२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 133
विश्वरूपवर्णनम्
नारद उवाच
ततोऽधिवासनं कुर्याद्विधिदृष्टेन कर्मणा ।
ऐशान्यां दिशि वै कुर्यादधिवासनमण्डपम् । । १
चतुस्तोरणसम्पन्नं सर्वाभरणसंयुतम् ।
दिशासु विदिशास्वेव पताकाभिस्तु भूषितम् । । २
आग्नेय्यां दिशि रक्ताः स्युः कृष्णाः स्युर्याम्यनैर्ऋते ।
श्वेता दिश्यपरस्यां तु वायव्यामेव पाण्डुरा । । ३
चित्रा चोत्तर पार्न्ये तु पीता पूर्वोत्तरे तथा ।
श्रियमायुर्जयं चैव बलं यशो यदूत्तम । । ४
ददाति सा वीर कृता सम्पदर्धे न संशयः ।
हिताय सर्वलोकानां मृण्मयी प्रतिमा भवेत् । । ५
सुभिक्षक्षेमदा नित्यं सर्वा मणिमयीकृता ।
गाङ्गेया१ पुष्टिदा रौप्या स्याद्वै कीर्तिप्रवर्तिनी । । ६
प्रजावृद्धिं ताम्रमयीं कुर्यान्नित्यमसंशयः ।
भूमेर्लाभं तु विपुलं कुर्यादश्ममयी सदा । । ७
प्रधानपुरुषं हन्ति त्रपुलोहमयी सदा ।
सर्वदेवमयस्यैवमर्चा कुर्यात्प्रयत्नतः । । ८
साम्ब उवाच
सर्वदेवमयत्वं हि ब्रूहि मे भास्करस्य तु ।
सर्वदेवमयो ह्येष कथं नारद कथ्यते । । ९
नारद उवाच
साधु साम्ब महाबाहो शृणु मे परमं वचः ।
बुधसोमौ स्मृतौ नेत्रे ललाटे चेश्वरः स्थितः । । 1.133.१०
सुरज्येष्ठः शिरस्तस्य कपालेऽस्य बृहस्पतिः ।
एकादशे तथा रुद्राः कण्ठमस्य२ समाश्रिताः । । ११
नक्षत्राणि ग्रहाश्चैव दशनेषु समाश्रिताः ।
धर्माधर्मौ च देवस्य ओष्ठसम्पुटके स्थितौ । । १२
सर्वशास्त्रमयी देवी जिह्वायां च सरस्वती ।
दिशश्च विदिशश्चैव सर्वाः श्रोत्रेषु संस्थिताः । । १३
ब्रह्मेन्द्रौ तालुदेशे तु स्थितौ देवैश्च पूजितौ ।
आदित्या द्वादश विभोभ्रुर्वोर्मध्ये समाश्रिताः । । १४
ऋषयो रोमकूपेषु समुद्रा जठरे स्थिताः ।
यक्षकिन्नरगन्धर्वाः पिशाचा दानवास्तथा । । १५
राक्षसाश्च गणाः सर्वे हृदये स्युः स्थिताः रवेः ।
नद्यो बाहुगताश्चैव नगाः कक्षान्तरे स्थिताः । । १६
पृष्ठमध्ये स्थितो मेरुः स्तनयोरन्तरे कुजः ।
तस्य पुत्रो धर्मराजः स्थितो वै नाभिमण्डले । । १७
कटिदेशे पृथिव्याद्या लिङ्गे सृष्टिः समाश्रिता ।
जानुनी चाश्विनीदेवावूरू तस्याचला स्मृताः । । १८
सप्त पाताललोकास्तु नखमध्ये समाश्रिताः ।
ससागरवना पृथ्वी पादमध्येऽस्य वर्तते । । १९
देवः कालाग्निरुद्रो यो दन्तान्तेषु समाश्रितः ।
सर्वदेवमयो भानुः सर्वदेवात्मकस्तथा । । 1.133.२०
व्यंगेषु वायवश्चैव लोकालोकं चराचरम् ।
व्याप्तं कर्मशरीरेण वायुना तस्य वै विभोः । । २१
स एष भगवानर्को भूतानुग्रहणे स्थितः ।
एतत्ते परमं ज्ञानमेतत्ते परमं पदम् । । २२
तस्य स्थानविभागेन प्रतिमास्थापनं यथा ।
तत्ते सर्वं प्रवक्ष्यामि यथोक्तं ब्रह्मणा पुरा । । २३
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने प्रतिमाप्रतिष्ठाकल्पे विश्वरूपवर्णनं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः । १३३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 134
मण्डलविधिवर्णनम्
नारद उवाच
प्रतिपच्य द्वितीया च चतुर्थी पञ्चमी तथा ।
दशमी त्रयोदशी चैव पौर्णमासी च कीर्तिता । । १
सोमो बृहस्पतिश्चैव शुक्रश्चैव बुधस्तथा ।
एते सौम्या ग्रहाः प्रोक्ताः प्रतिष्ठायज्ञकर्मणि । । २
त्रिषूत्तरासु रेवत्यामश्विन्यां ब्राह्मभे तथा ।
पुनर्वस्वोस्तथा हस्ते वासवे१ श्रवणेऽथवा । ।
भरण्यां चैव नक्षत्रे भानोः१ स्थापनमुत्तमम् । । ३
शोधयित्वा तु वै भूमिं तुषकेशविवर्जिताम् ।
वालुकाङ्गारपाषाणास्थिविहीनां विशोध्य तु । । ४
चतुर्हस्तसमायुक्ता वेदी विस्तरतो रवेः२ । । ५
मण्डपस्तु प्रमाणेन दशहस्तः समंततः ।
मण्डलं वृक्षशाखाभिः कारयेद्विधिपूर्वकम् । । ६
नदीसङ्गमतीरोत्थां मृत्तिकां च समानयेत् ।
उपलिप्य ततो भूमिं कारयेत्कुण्डमुत्तमम् । । ७
चतुरस्रं श्रिया युक्तं पूर्वं कुण्डं तु कारयेत् ।
दक्षिणे चार्धचन्द्रं स्याद्वारुण्यां दिशि वर्तुलम् । । ८
पद्माकारं तु वै कुर्यादुत्तरे४ च विचक्षणः ।
तोरणानि ततः कुर्यात्पञ्चहस्तानि सुव्रत । । ९
न्यग्रोधोदुम्बरौ चैव बिल्वपालाशमेव च ।
अश्वत्थश्च शमी चैव चन्दनश्चेति कीर्तिताः । । 1.134.१०
शुक्लवस्त्रसमायुक्तश्चित्रपट्टसमन्वितः ।
जपमालान्वितः कुर्यात्तोरणानि विचक्षणः । । ११
अग्निमीळेति मन्त्रेण यजेद्वै पूर्वतोरणम् ।
इषेत्वोर्जेति मन्त्रेण यजेद्दक्षिणतोरणम् । । १२
अग्न आयाहीति मन्त्रेण पश्चिमं तु समर्चयेत् ।
शं नो देवीति मन्त्रेण यजेदुत्तरतोरणम् । । १३
कलशांस्तु समादाय हेमगर्भसमन्वितान् ।
श्वेतचन्दनपङ्केन कण्ठस्वस्तिकभूषणान् । । १४
यवशालिशरावान्नवस्त्रालङ्कारविग्रहान् ।
आजिघ्रेति च मन्त्रेण कलशांस्तु निवेशयेत् । । १५
दुकूलश्चित्रपट्टैश्च वेष्टयेत्स्तम्भमालिकाम् ।
ध्वजादर्शपताकाभिश्चामरैस्तु वितानकैः । । १६
शङ्खघण्टानिनादैश्च गेयमङ्गलवाचनैः ।
तूर्यभेरीनिनादैश्च वेदध्वनिसमन्वितैः । । १७
पुण्यैश्च जयशब्दैश्च कारयेत महोत्सवम् ।
पताकाभिर्विचित्राभिः पूजामाल्योपशोभितम् । । १८
विचित्रस्रग्वितानाढ्यं प्रकीर्णकुसुमाङ्कुरम् ।
तन्मध्ये तु कुशास्तीर्णे देवार्चां स्थापयेद् बुधः । । १९
पताकां पीतवर्णां तु पूर्वे शक्राय दापयेत् ।
आग्नेय्यां रक्तवर्णाभां१ २यमाशायां यमोपमान् । । 1.134.२०
नीलाञ्जनसमप्रख्यां नैर्ऋत्यां च प्रदापयेत् ।
वारुण्यां सितवर्णां च कृष्णां वायव्यगोचरे । । २१
हरितां यक्षराजाय ऐशान्यां सर्ववर्णिकाम् ।
श्वेतरक्तकचूर्णेन पद्ममालेखयेत्ततः । । २२
वैद्या वेदीति मन्त्रेण वेद्या आलभनं भवेत् ।
पूर्वाग्रानुत्तराग्रांश्च कुशानास्तीर्य यत्नतः । । २३
योगेयोगेति मन्त्रेण कुशश्चास्तरणं भवेत् ।
शय्या तत्रैव कर्तव्या दिव्यास्तरणसंयुता । । २४
गडुके द्वे विचित्रे तु तन्मध्ये स्थापयेद्बुधः ।
विचित्रदीपमालाभिर्भक्ष्यभोज्यान्नपानकैः । । २५
पूपकान्सुविचित्रान्वै मोदकांश्च प्रदापयेत् ।
पायसं कृशरं चैव दध्योदनसमन्वितम् । । २६
दधि चन्द्रसमप्रख्यं शुभच्छत्रं च विन्यसेत् । । २७
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यप्रतिष्ठायां
मंडलविधिवर्णनं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः । १३४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 135
प्रतिष्ठास्नानविधिवर्णनम्
नारद उवाच
अतः परं प्रवक्ष्यामि स्नानकर्मविधिं तव ।
स्नापकस्तु महाप्राज्ञो ब्राह्मणो वेदपारगः । । १
अभिज्ञः सौरशास्त्राणामरुणो यदुसत्तम १ ।
भोजको भोजकैश्चान्यैर्ब्राह्मणैश्च तथा वृतः । । २
दिशाभागे मण्डलस्य ईशाने वै यथाक्रमम् ।
हस्तमात्रप्रमाणं तु भद्रपीठं तु विन्यसेत् । । ३
हस्तिना शकटेनापि भक्त्या ब्रह्मरथेन च ।
मंगलैर्ब्रह्मघोषैश्च देवं प्रासादमानयेत् । । ४
भद्रपीठं समादाय भद्रं कर्णेति मन्त्रतः ।
सूत्रधारस्तथा प्रोक्तः शुक्लाम्बरधरः शुचिः । । ५
स्नापयेत्कलशं गृह्य देवदेवं विभावसुम् ।
सामुद्रं तोयमाहृत्य जाह्नवं यामुनं तथा । । ६
सारस्वतं जलं पुण्यं चान्द्रभागं ससैन्धवम् ।
पुष्करस्य जलं श्रेष्ठं गिरिप्रस्रवणोदकम् । । ७
अन्यद्वापि शुचि तोयं नदीनदतडागजम् ।
यथाशक्त्या उपाहृत्य कलशैः काञ्चनादिभिः । । ८
भोजकाश्चाष्टभिः सूर्यं कलशैः स्नापयन्ति वै ।
ततस्तु मणिरत्नानि सर्वबीजौषधीस्तथा । । ९
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ।
चन्दनानि च मुख्यानि गन्धाश्च विविधास्तथा । । 1.135.१०
ब्राह्मी सुवर्चला मुस्ता विष्णुक्रान्ता शतावरी ।
दूर्वा च शिबिपुष्पी च प्रियङ्गू रजनी वचा । । ११
सम्भृत्यैतांस्तु सम्भारान्स्नानकर्मविभागवित् ।
बलाश्वत्थशिरीषाणां पल्लवैः कुशसंयुतैः । । १२
कलशोपरि विन्यस्य दद्यादर्घ्यं रवेः सदा ।
काञ्चनै राजतैस्ताम्रैर्मृण्मयैः कलशैस्तथा । । १३
साक्षतैः सहिरण्यैश्च सर्वौषधिसमन्वितैः ।
गायत्र्या परिपूतैस्तु षोडशैः स्नापयेद्रविम् । । १४
कुशोत्तरां१ ततः कृत्वा वेदिं पक्वेष्टकामयीम् ।
तस्यां वेद्यां समारोप्य परिधाप्य च वाससी । १५
प्रतिमामभिषिञ्चेच्च सोपवासः प्रयत्नतः ।
मूर्ध्नि सर्वौषधीः कृत्वा तथैवामलकानि च । । १६
मन्त्रेण मृत्तिकां चापि मन्त्रतश्च जलं तथा ।
त्वं देवी वन्दिता देवैः सकलैर्दैत्यदानवैः । । १७
तेन संस्थापिता मूर्ध्नि मया देवस्य शुद्धये ।
आदिस्त्वं सर्वभूतानां देवतानां च सर्वथा । । १८
रसानां पतये तुभ्यमाह्वानं च कृतं मया ।
इत्थं पौराणिकैर्मंत्रैवैदिकैश्च विशेषतः । । १९
कार्यं हि वारुणं स्नानं देवस्य यदुनंदन ।
इत्थमुच्चारयेद्वाचं कुर्यात्स्नानं विचक्षणः । । 1.135.२०
देवास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुशिवादयः ।
व्योमगङ्गा च पूर्णेन द्वितीयकलशेन तु । । २१
सारस्वतस्य पूर्णेन कलशेन सुरोत्तम ।
शक्रादयोभिषिंचन्तु लोकपालाः सुरोत्तमाः । । २२
सागरोदकपूर्णेन चतुर्थकलशेन तु ।
वारिणा परिपूर्णेन पद्मपत्रसुगन्धिना । । २३
पञ्चमेनाभिषिञ्चन्तु नागाश्च कलशेन तु ।
हिमवद्धेमकूटाद्याश्चाभिषिञ्चन्तु वारिणा । । २४
नैर्ऋतोदकपूर्णेन षष्ठेन कलशेन तु ।
सर्वतीर्थाम्बुपूर्णेन पद्मरेणुसुवासिना । । २५
सप्तमेनाभिषिञ्चन्तु ऋषयः सप्त ये वराः ।
वसवश्चाभिषिञ्चन्तु कलशेनाष्टमेन वै । । २६
अष्टमङ्गलयुक्तेन देवदेव नमोऽस्तु ते ।
ततो वै कलशैर्दिव्यैः स्नानकर्म समारभेत् । । २७
समुद्रं गच्छ यः प्रोक्तो मन्त्रमेतमुदीरयेत् ।
हिरण्यगर्भेति च यो मन्त्रस्तं समुदीरयेत् । । २८
समुद्रज्येष्ठेति मन्त्रेण क्षालयेन्मृत्तिकान्वितम् ।
सिनीवालीति मन्त्रेण दद्याद्वल्मीकमृत्तिकाम् । । २९
शम्युदुम्बरमश्वत्थं न्यग्रोधं च पलाशकम् ।
यज्ञं यज्ञेति मन्त्रेण दद्यात्पञ्चकषायिकम् । । 1.135.३०
पञ्चगव्यं पवित्रं च आहरेत्ताम्रभाजने ।
गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् । । ३१
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।
तेजोऽसीति घृतं तद्वद्देवस्य त्वा कुशोदकम् । । ३२
एवमादिविधियुतं पञ्चगव्यं प्रकीर्तितम् ।
या१ ओषधीति मंत्रेण स्नानमोषधिभिः क्रमात् । । ३३
द्रुपदाभिः पुनस्तस्य कुर्याच्चोद्वर्तनं बुधः ।
शिरः स्नानं ततो दद्यान्मानस्तोकाभिमन्त्रितम् । । ३४
विष्णोरराटमन्त्रेण दद्याद्गन्धोदकं शुभम् ।
ततो नद्युद्भवेनैव क्षालयेच्छुद्धवारिणा । । ३५
जातवेदसमुच्चार्य वस्त्रपूतेन वारिणा ।
तत आवाहयेद्देवं रक्तमाल्याम्बरं शुभम् । । ३६
एह्येहि भगवन्भानो लोकानुग्रहकारक ।
यज्ञभागं गृहाणार्घ्यमर्कदेव नमोऽस्तु ते । । ३७
हिरण्येन तु पात्रेण देवायार्घ्यं प्रदापयेत् ।
इदं विष्णुर्विचक्रमे मन्त्रेणार्घ्यं समर्पयेत् । । ३८
पार्थिवैः प्रथमं कलशैः स्नापयेद्भास्करं बुधः ।
ततस्त्वौदुम्बरैर्वीर राजतैस्तदनन्तरम् । । ३९
ततस्तु काञ्चनैर्देवं स्नापयेद्यदुनन्दन ।
सर्वतीर्थजलैर्युक्तं सर्वौषधिसमन्वितम् । । 1.135.४०
शङ्खमादाय देवस्य ततो मूर्धनि शङ्कर ।
दत्त्वा पुष्पाणि देवस्य मूर्ध्नि यत्नाद्विचक्षणः । ।४ १
तोयमुत्क्षिप्य यत्नेन ततः स्नपनमाचरेत् ।
प्रथमं स्नापयेद्देवं वारिणा यदुनन्दन । । ४२
ततस्तु पयसा राजन्पायसेन ततस्तु वै ।
घृतेन मधुना वापि तथा इक्षुरसेन च । । ४३
अग्निष्टोमस्य यज्ञस्य गोमेधस्य च सुव्रत ।
ज्योतिष्टोमस्य राजेन्द्र वाजपेयस्य वै विभो । । ४४
राजसूयाश्वमेधाभ्यां घृताद्यैर्लभते फलम् ।
यस्तु कारयते स्नानं यस्तु भक्त्या प्रपश्यति३ । ।
क्रियमाणं तु देवस्य स्नानं यदुकुलोद्वह । । ४५
य एते कथिता यज्ञा एतेषां क्रमशः फलम् ।
अर्चां च कुरुशार्दूल दृष्ट्वा वै लभते फलम् । । ४६
स्नानं तु यत्नतः कार्यं देवदेवस्य सुव्रत ।
यथा न लङ्घयेत्कश्चिद्देवस्य स्नपनं विभोः । । ४७
न प्राश्नन्ति यथा काकास्तीर्थं लोकविगर्हिताः ।
स्नानोदकं तु देवस्य अथवा पय एव हि । । ४८
भूमौ गतं यथा चैव प्राश्नाति यदुनंदन ।
रोगं प्राप्नोति कर्ता वै दुःखं कारयिता तथा । । ४९
तस्माद्यत्नेन कर्तव्यं देवस्य स्नपनं विभोः । । 1.135.५०
स्नापयित्वा क्रमेणेत्थं स्नानकर्म विधानवित् ।
ततो वर्धनिकां गृह्य वारिधारां समुत्सृजेत् । । ५१
त्रिवारान्पुरतोऽर्कस्य आचमस्वेति च ब्रुवन् । वे
दोसीति च मन्त्रेण उपवीतं प्रवापयेत् । । ५२
बृहस्पतेति मन्त्रेण वस्त्रयुग्मं प्रदापयेत् ।
यत्नक्रमं प्रकुर्वाणः पुष्पमालां प्रदापयेत् । । ५३
धूरसीति च मन्त्रेण धूपं दद्यात्सगुग्गलम्१ ।
समिद्धोञ्जनमन्त्रेण अञ्जनं तु प्रदापयेत् । । ५४
युञ्जानीति च मन्त्रेण रोचनां तस्य दापयेत् ।
आरार्तिकं च वै कुर्याद्दीर्घायुष्ट्वाय वर्चसे । । ५५
स्नानकर्म त्विदं प्रोक्तं भास्करस्य महात्मनः ।
भोजका ब्राह्मणाश्चैव क्रियां कुर्युः प्रयत्नतः । । ५६
बहवृचोऽथर्वणश्चैव छन्दोगोध्वर्युरेव च ।
स्नापकस्य च चिह्नानि ये च मूर्तिधरास्तथा । । ५७
तेषां प्रवक्ष्यामि विभो शृणु चैकमनाः किल ।
सम्पूर्णगात्रो मतिमाञ्छास्त्रज्ञः प्रियदर्शनः । । ५८
कुलीनः श्रद्दधानश्च आर्यदेशसमुद्भवः ।
न स्थूलो न कृशो दीर्घः सौरशास्त्रविशारदः । । ५९
यश्च युक्तो जितात्मा च गुरुभक्तो जितेन्द्रियः ।
पञ्चविंशतितत्त्वज्ञः स्थापकः समुदाहृतः । । 1.135.६०
वर्जनीयांश्च वक्ष्यामि यैस्तु कर्म न कारयेत् ।
हीनाङ्गश्चाधिकाङ्गश्च वामनो विकटस्तथा । । ६१
नातिगौरो न कृष्णश्च स्नापनाय प्रयोजयेत् ।
चार्वाको याजकश्चैव नित्यं गोमुखदम्भकः । । ६२
अशुचिव्रतसंयुक्तः श्यामदन्तोऽथ मत्सरी१ ।
कोपनो दुष्टशीलश्च युवा वा वृद्ध एव च । । ६३
श्वित्री कुष्ठी च रोगी च काणो दुर्मतिरेव च ।
संकीर्णो जातिहीनश्च तथा न वृषलीपतिः । । ६४
कुब्जश्चाधस्तथा व्यंगः खल्वाटो विकलेन्द्रियः ।
अविनीतो दुरात्मा च विकलः पङ्गुरेव च । । ६५
तिथिनक्षत्रयोगानां वाराणां च तथा विभो ।
सूचको जीविकार्थं३ हि यश्च मूल्येन पाठयेत् । । ६६
ईदृशान्स्नापकान्सर्वान्वर्जयेत प्रयत्नतः ।
तस्मात्सर्वप्रयत्नेन परीक्ष्याः स्नापका बुधैः । । ६७
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सांबोपाख्याने
सूर्यप्रतिष्ठास्नानविधिवर्णनं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः । १३५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 136
सूर्यप्रतिष्ठावर्णनम्
नारद उवाच
अतः परं प्रवक्ष्यामि अधिवासनमुत्तमम् ।
सहस्रशीर्षा पुरुषो मण्डपं यत्नतो विशेत् । । १
ततोऽन्ये च शुचौ देशे असंस्पृष्टोपलेपने ।
मण्डलं पञ्चवर्णैस्तु आलिखेच्चतुरस्रकम् । । २ पताकातोरणच्छत्रध्वजमाल्याद्यलंकृतम् ।
विचित्रसुवितानाढ्यं प्रकीर्णकुसुमोत्करैः । । ३
तस्य मध्ये कुशास्तीर्णे मूर्तिः स्थाप्या विवस्वतः ।
तत्रास्यावाहनं कृत्वा दद्यादर्घ्यं विवस्वते । । ४
सुवर्णमधुपर्कादि कृत्वा१ तत्र विधानतः ।
देवस्य दर्शयेद्गां च सवत्सां रोहिणीं शुभाम् । । ५
नमो गोपतये तुभ्यं सहस्रांशो प्रसीद मे ।
एवमर्घ्येण सम्मन्त्र्य परिधाय च वाससी । । ६
यज्ञोपवीतमातिथ्यं तथाभ्यङ्गं तथैव च ।
वत्सरे वत्सरे तस्य नवमव्यङ्गमाहरेत् । । ७
श्रावणे मासि राजेन्द्र पवित्रं तस्य तद्धि वै ।
ब्राह्मणान्भोजयित्वा तु वर्षेवर्षे प्रयोजयेत् । । ८
अव्यङ्गं यदुशार्दूल श्रावणे मासि भास्करम् ।
सर्वगन्धैः समालभ्य चन्दनागुरुकुङ्कुमैः । । ९
अलङ्कारैरलङ्कृत्य कुसुमैश्च सुगन्धिभिः ।
मालाभिश्च विचित्राभिराबद्धाभिरनेकशः । । 1.136.१०
ततो धूपं निवेद्याशु प्रतिमाग्रे प्रयत्नतः ।
सहस्रशीर्षा पुरुषो मण्डपं च प्रवेशयेत् । । ११
नमः शम्भवेति मन्त्रेण शय्यायां विनिवेशयेत् ।
विश्वतश्चक्षुरित्येव कुर्यात्कमलनिष्कलम् । । १२
पुनरेव च वक्ष्यामि सङ्कलीकरणं शुभम् ।
स्नापने तु यथाकार्यः स्वदेहे न्यास उत्तमः । । १३
प्रतिमायां तथा कार्यो यथा चालम्भनं बुधः ।
ॐ हुं खषोल्काय नमो मूलमन्त्रः प्रकीर्तितः । । १४
आदित्योऽयं स्वयं देवो ह्यक्षरेणोपबृंहितः ।
ॐकारं विन्यसेन्मूर्ध्नि हुंकारं नासिकोपरि । । १५
खकारं च ललाटे तु षकारं वदने न्यसेत् ।
लकारं चैव कंठे तु ककारं हृदये न्यसेत् । । १६
यकारं तु भुजे वामे नकारं दक्षिणे भुजे ।
मकारं वामकुक्षौ च विसर्गं दक्षिणे न्यसेत् ।। १७
ॐकारं तु सदा ध्यायेज्ज्वालामालासमाकुलम् ।
हुङ्कारं शुद्धवर्णाभं प्रसुवन्तमलं शुभम् ।। १८
खकारं चिन्तयेत्प्राज्ञो भिन्नाञ्जनसमप्रभम् ।
तरुणादित्यवर्णाभं खकारं चिन्तयेद्बुधः ।। १९
षोकारं तु महाबाहो हेमवर्णं विचिन्तयेत् ।
शुक्लपद्मनिभाकारमकारं चिंतयेद्बुधः ।।1.136.२०
जातीकुसुमसंकाशं ह्रींकारं सर्ववर्णकम् ।
क्षीरवर्णं सकारं तु चिन्तयेत्सततं बुधः ।।२ १
नकारं हिमकुन्दाभं मकारममृताक्षरम् ।
ह्रींकारं विद्युत्संकाशं ह्रींकारं सर्ववर्णकम् ।।२२१
क्षीरवर्णं सकारं तु चिन्तयेत्सततं बुधः ।
नकारं स्वर्णवर्णाभं मकारं कनकप्रभम् ।।२३
ततो देवं महात्मानं सहस्रकिरणं रविम् ।
प्रसादाभिमुखं देवं शयनीये निवेशयेत् ।।२४
अग्निकार्यं ततः कुर्युरग्निकुण्डेषु वै द्विजाः ।
ततोऽरण्यां समुत्थाप्य अग्निं लौकिकमेव वा ।।२५
प्रज्वाल्याग्निं विधानेन कुर्याद्धोमं विचक्षणः ।
बह्वृचः पूर्वकाण्डेषु याम्यां मध्यन्दिनस्तथा ।।२६
पश्चिमे चैव च्छन्दोग उत्तरेऽथर्वणो मतः ।
मध्ये च भोजकः कुर्याद्धोमं यज्ञे यदुत्तम ।।२७
शमीपालाशोदुम्बराणि ह्यपामार्गस्तथैव च ।
द्वादश तु सहस्राणि अष्टौ चत्वारि एव च ।।२८
द्वे त्रीणि च सहस्राणि अथ वा एकमेव हि ।
अग्निर्मूर्धेति मन्त्रेण कुण्डस्यालम्भनं भवेत् ।।२९
उल्लिख्याभ्युक्ष्य तेनैव अग्निं दूतमिति स्मृताः ।
सम्बुध्यस्वाग्ने मन्त्रेण गर्भाधानं तु कारयेत् ।।1.136.३ ०
सीमन्तेति पुनस्तत्र महामन्त्रेण होमयेत् ।
जातकर्म तथा प्रोक्तं प्राणायामं विदुर्बुधाः । । ३१
नमः स्वाहेति मन्त्रेण नामकरणमेव च ।
अन्नप्राशनमन्त्रेण अन्नप्राशनमादिशेत् । । ३२
ज्येष्ठमग्रेति मन्त्रेण तेन चूडोपकर्मणि ।
व्रतबन्धस्य मन्त्रेण व्रतबन्धं समादिशेत् । । ३३
समावर्तनमित्येव आकृष्णेति च होमयेत् ।
पत्नीसंयोजनं चैव स्वयमेव प्रकल्पयेत् । । ३४
अग्निहोत्रादिकं कर्म यज्ञकर्माणि यानि च ।
महाव्याहृतिमन्त्रेण होतव्यानि समन्ततः । । ३५
मातॄणां यज्ञभूतानां बलिकर्म प्रदापयेत् ।
सर्वकामसमृद्ध्यर्थं कारयेदधिवासनम् । । ३६
त्रिरात्रं पञ्चरात्रं च अहोरात्रमथापि वा ।
ततः त्वलङ्कृतां स्नातां मणिरत्नैर्विभूषिताम् । । ३७
कृतरक्षां प्रयत्नेन प्रतिमामधिवासयेत् ।
देवागारादथैशाने दिग्भागे दिव्यमन्दिरम् । । ३८
कृत्वा कुशपरिस्तीर्णे वरास्तरणसंवृते ।
पूर्वशीर्षां तथा शय्यां शुक्लां शुक्लाम्बरोत्तराम् । । ३९ तस्यामावेशयेत्सम्यङ्महाश्वेतमुपाहरेत् ।
निक्षुभा दक्षिणे पार्श्वे वामे राज्ञी च कीर्तिता । । 1.136.४०
दण्डपिङ्गलकौ चास्य स्थितौ पादप्रवेशितौ ।
तस्यां संवेशितायां तु शर्वर्यां प्रतिमां रवेः । । ४१
वसेत्तां रजनीं तत्र स्तूयमानश्चतुदिशम् ।
ब्राह्मणैर्बन्दिभिश्चापि गीतज्ञैश्चारणैस्तथा । । ४२
कुर्याज्जागरणं तत्र सूर्यभक्तिसमन्वितैः ।
प्रभातायां तु शर्वर्यां बोधयेदृग्विधानतः । । ४३
हविष्यं भोक्तुकामांस्तु ब्राह्मणान्भोजकांस्तथा ।
दक्षिणाभिश्च सम्पूज्य तैः कृतस्वस्तिवाचनः । ।४४
ततो गर्भगृहस्थाय मध्ये कृत्वा तु पिण्डिकाम् ।
विधिवत्तत्र सौवर्णं न्यसेत्सप्तहयं रथम् । ।४५
सर्वबीजौषधैश्चैव तत्र धृत्वा विधानवित् ।
दत्त्वार्घ्यं स्थापयेत्तत्र यजमानः सहायवान् । । ४६ शङ्खदुन्दुभिनिर्घोषैर्जलधारासहाक्षतैः ।
कृत्या पुण्याहशब्दं तु आलयस्य प्रदक्षिणाम् । ।४७
शुभलग्ने दिने ऋक्षे पूर्वाह्णे भानवे क्षणे ।
मुहूर्ते च शुभे भानोः प्रतिमां स्थापयेद्बुधः । ।४८
नाधोमुखीं नोर्ध्वमुखीं न पार्श्वावनतां तथा ।
समामभिमुखीं चेमां प्रतिमां तु निवेशयेत् । ।४९
पत्न्यौ चास्य ततः सम्यक्पार्श्वयोर्विनिवेशयेत् ।
निक्षुभा दक्षिणे पार्श्वे रवे राज्ञी तु वामतः । । 1.136.५०
ततस्तदुपहारार्थं सम्भारं प्राक्तमाहृतैः ।
मोदकायूषिकापूपशष्कुलीभूतशीर्षकैः । । ५१
कृशरैः पायसोन्मिश्रैः सर्वदिक्षु क्षिपेद्बलिम् ।
इन्द्राय देवपतये बलिने वज्रपाणये । ।५ २
शतयज्ञाधिपतये तस्मै इन्द्राय ते नमः ।
त्रातारमिन्द्रमन्त्रेण इन्द्रस्यावाहनं भवेत् । । ५३
अग्नये रक्तनेत्राय ज्वालामालार्चिताय वै ।
शक्तिहस्ताय तीव्राय तथा चैवाजवाहिने । ।
आग्रेय्यामग्रिमन्त्रेण वह्नेरावाहनं स्मृतम् । । ५४
दण्डहस्ताय कृष्णाय महिषोत्तमवाहिने ।
सूर्यपुत्राय देवाय धर्मराजाय वै नमः । । ५५
यमाय त्विति मन्त्रेण मुद्रास्तस्यैव कीर्तिताः ।
नैर्ऋते खड्गहस्ताय नीललोहितकाय च । । ५६
सर्वबाह्याधिपतये विरूपाख्याय वै नमः ।
आयं गौरिति मन्त्रेण नैर्ऋत्यां तु प्रकल्पयेत् ।।५७
वारुण्यां पाशहस्ताय वरुणायेति कल्पयेत् ।
मन्त्रेणावाहनं विद्यात्पञ्चनद्यः सरस्वतीम् ।।५८
प्राणात्मकाय धूपाय अव्यङ्गायानिलाय च ।
ध्वजहस्ताय भीमाय नमो गन्धवहाय च ।।५९
तस्याप्यावाहनं विद्याद्यद्देवादेवहेडनम् ।
गदाहस्ताय सोमाय शुष्मिणे नृगताय च ।।1.136.६ ०
गदापट्टिशहस्ताय सोमराजाय वै नमः ।
ईशावास्यं च गुह्या वै सोममन्त्रः प्रकीर्तितः ।।६ १
चतुर्मुखाय देवाय पद्मासनगताय च ।
कृष्णाजिननिषण्णाय नमो लम्बोदराय च ।।६२
गणाधिपतये देव नीलकण्ठाय शूलिने ।
विरूपाक्षाय रुद्राय त्रैलोक्याधिपते नमः ।।
अभि त्वा शूर नो मन्त्र ईशानाय प्रकल्पयेत् ।।६ ३
सर्वनागाधिराजाय श्वेतवर्णाय भोगिने ।
सहस्रफणिने नित्यमनन्ताय नमोनमः ।।६४
नमोऽस्तु सर्पेभ्य इति मन्त्रश्चैव प्रकीर्तितः ।
पञ्चरात्रादिभिर्न्यासो ह्यंगन्यासः प्रयुज्यते ।।६५
तथोपक्षीरपानैश्च स्तुतिस्तोत्रैश्च भास्करम् ।
विप्रेभ्यो भोजकेभ्यश्च ततो दद्याच्च दक्षिणाम् ।।६६
सूर्यक्रतुं महापुण्यं नैव कुर्याददक्षिणम् ।
स्थाप्यतेऽनेन विधिना तद्भक्तैः प्रतिमा च या ।।६७
सा तु वृद्धिकरा नित्यं सान्निध्याच्च सदा भवेत् ।
सप्तजन्मसु तेषां तु न रोगाः सम्भवन्ति हि ।।६८
उपासते त्रिरात्रं ये भानोर्यात्राभिवासने ।
गन्धमाल्योपहारैस्तु ते यान्ति भुवनं रवेः ।।६९
आत्मीयं परकीयं वा प्रतिमास्थापनं रवेः ।
यः पश्यति पुमान्भक्त्या स स्वर्लोकमवाप्नुयात् । । 1.136.७०
दशानामश्वमेधानां वाजपेयशतस्य च ।
फलं प्राप्नोति पुरुषः प्रतिष्ठाप्य दिवाकरम् । । ७१
यावत्कीर्तिः पुण्यकृता भानोः स्थाने निवेशिते ।
तावत्स तु यदुश्रेष्ठ सूर्यलोके महीयते । । ७२
स्थापने चास्य वै मन्त्रः प्रोक्तो लोकेषु पूजितः ।
ध्रुवा द्यौश्च ध्रुवा पृथ्वी ध्रुवं विश्वमिदं जगत् । ।
श्रेयसे यजमानस्य तथा त्वं ध्रुवतां व्रज । । ७३
स्थापयित्वा रविं भक्त्या विधिदृष्टेन कर्मणा ।
मासे मासे ऋतुफलं लभन्ते नात्र संशयः । । ७४
एकाहेनापि यद्भानोः पूजया प्राप्यते फलम् ।
न तु क्रतुशतैर्वीर प्राप्यते मानवैर्भुवि । । ७५
कृत्वापि सुमहत्पापं यः पश्चात्सेवते रविम् ।
स याति सूर्यलोकं तु नरो विगतकल्मषः । । ७६
न भवेदिष्टकानां च द्रवणं भूमिसंमिति ।
स्वर्गे महीयते तावत्कारको देववेश्मनः । । ७७
खण्डस्फुटितसंस्कारं कृत्वा यत्फलमाप्यते ।
न तु क्रतुसहस्रैस्तु प्राप्यते फलमुत्तमम् । । ७८
सिकतायामपि गृहं यस्तु कुर्याद्विभावसोः ।
गोपतेः स प्रियसदः प्रगच्छेद्गोपतेर्वरम् । । ७९
इत्येवं सुरवरस्य तस्य भानोर्भूतानां स्थितिनिलयप्रसूतिहेतोः ।
श्रीभागी भवति नरो निकेतकारी कल्पानां वसति शतं स सूर्यलोके । । 1.136.८०
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यप्रतिष्ठावर्णनं नाम षट्त्रिंशदधिकशततमोऽध्यायः ।१३६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 137
प्रतिष्ठापनविधिवर्णनम्
नारद उवाच
यः प्रासादं रचयति पुमान्देवतानां प्रयत्नात्तत्र प्रीत्या सपदि कुरुते स्थापनां भानुभक्तः ।
दिव्यान्भोगाँल्लभति च सदा कामतश्चाप्रमेयांस्तान्भुक्त्वासौ पुनरपि भवेच्चक्रवर्ती पृथिव्याम् । । १
ये मानवास्त्रिदशमूर्तिनिकेतनानि कुर्वन्ति साधुजनदृष्टिमनोहराणि ।
तेषां मृतेऽप्यपरमार्थमये शरीरे लोके परिभ्रमति कीर्तिमयं शरीरम् । । २
इति ते कथितमिदं देवपूज्यस्य सवितुः स्थापनमिवाधानम् ।
साधारणं विधानं शृणु देवानां प्रतिष्ठापने वीर । । ३
स्नातो भुक्तो वस्त्रालङ्कृतकुसुमैर्गन्धैः प्रतिमाया आस्तीर्णायां शय्यायां स्थापनं कुर्यात् ।
सुप्तायां तु स नृत्यगीतैर्जागरणैः सम्यगेवाधिवास्य दैवज्ञेन प्रतिदिष्टकाले संस्थापनं कुर्यात् ।
अभ्यर्च्य कुसुमगन्धानुलेपनैः शङ्खतूर्यनिर्घोषैः प्रादक्षिण्येन नयेदायतनस्य प्रयत्नेन कृत्वा बलिं प्रतिमामभ्यर्च्य ब्राह्मणांश्च साधून्दत्त्वा हिरण्यकलशं विधिना निक्षिपेत्पिंण्डिकामध्ये सुश्वभ्रे स्थापकदैवज्ञद्विजान्सम्यग्विशेषतोऽभ्यर्च्याकल्पान्तं भोगी भवतीह परत्र सुखी । ।४
विष्णोर्भागवता मताश्च सवितुः शम्भोः सभस्मद्विजा मातॄणामपि मातृमण्डलविदो विप्रा विदुर्ब्राह्मणाः ।
सर्वे यस्य विमुक्तशुक्लवसना बुद्धस्य रक्ताम्बरा ये यं देवमुपाश्रिताः सुविधिना तैस्तस्य कार्या क्रिया । । ५
सामान्यमिदं देवानामधिवासनं भवति मया कथितम् ।
क्रियमाणमिदं दृष्ट्वा देवानां प्रतिष्ठापनम् । ।
नरो भक्त्या इह कामानवाप्य स्वर्गभाजनं भवति । । ६
इदं ते कथितं राजन्प्रतिष्ठापनमादितः ।
यत्कृत्वा सवितुः स्नानं नरो याति मनोगतिम् । । ७
इत्थं कुर्यान्नरो भक्त्या सवितुः स्थापनं बुधः ।
कारयेत्पुरतो भक्तया सवितुः स्थापनं बुधः । । ८
इतिहासपुराणस्य श्रवणं पापनाशनम् ।
ताभ्यां हि श्रवणाद्वीर सान्निध्यं याति भास्करः । । ९
कृते त्वायतने तस्मिन्ये चान्ये चापि देवताः ।
तस्मात्कार्यं बुधैर्नित्यं धर्मश्रवणमादितः । । 1.137.१०
वाचकं पूजयित्वा तु ब्राह्मणानुपपूज्य च ।
कारयेद्वाचनं वीर पुस्तकस्याग्रतो रवेः । । ११
सर्वस्वं स्थापके दद्याद्यत्किञ्जिद्गृहमागतम् ।
गोदानमथवा दद्यात्तस्य चित्तं प्रसादयेत् । । १२
इत्येष कथितो वीर प्रतिष्ठाकल्प आदितः ।
कृत्वा दृष्ट्वा च श्रुत्वा च यं नरोऽर्कमवाप्नुयात् । । १३
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने
प्रतिष्ठापनविधिवर्णनम् नाम सप्तत्रिंशदधिकशततमोऽध्यायः । १३७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 138
ध्वजारोपणविधिवर्णनम्
नारद उवाच
हन्त ते कथयिष्यामि ध्वजारोपणमुत्तमम् ।
यदुक्तं ब्रह्मणा पूर्वमृषभाधिपते पुरः । । १
पुरा देवासुरे युद्धे यानि देवैर्जयेप्सुभिः ।
कृतान्युपरि चिह्नानि वाहनानि ध्वजानि तु । । २
लक्ष्मचिह्नध्वजं केतुरिति पर्यायनामभिः ।
कीर्तितः स च तस्येह प्रमाणं गदतः शृणु । । ३
ध्वजो वंशस्य कर्तव्यस्त्वविद्ध ऋजुरव्रणः ।
प्रासादव्यास तुल्यस्य ध्वजवंशप्रमाणतः । । ४
देवागारस्य ये प्रोक्ता मञ्जरीकलशादयः ।
अथ वा तत्प्रमाणस्तु ध्वजदण्डः प्रकीर्तितः । । ५
अन्तर्गृहस्य या वेदी सूत्रतः परिकल्पिता ।
तस्या व्यासो भवेद्वंशः प्रसादस्य यदूत्तम । । ६
अथ वा मूलसूत्रेण यो व्यासोऽन्तर्गृहस्य तु ।
प्रासादव्यास इति ते प्रोक्तश्चेह न संशयः । । ७
केतुर्भवेद्वरो वंशो न निम्नो न ऋजुस्तथा ।
पत्रं ध्वजे युगं चैव नलिकापुरुषस्तथा । । ८
चतुर्हस्ता भवन्त्येते प्रशस्ताः कृष्णनन्दन ।
अष्टहस्तप्रमाणस्तु विंशार्धस्य१ प्रमाणतः । । ९
सामान्यो ध्वजदण्डस्तु सर्वसाधारणो मतः ।
दण्डपाणिध्वजो यस्तु स्मृतः षोडशहस्तवान् । । 1.138.१०
विंशद्धस्तात्परो दण्डो न कार्यः सर्वथा रवेः ।
युग्महस्तस्तु कर्तव्यो ध्वजदण्डो मनीषिभिः । । ११
चतुरङ्गुलविस्तीर्णः सुवृत्तो द्व्यङ्गुलोपरि ।
नातिसूक्ष्मो न च स्थूलो न कार्यो नतपर्वकः । । १२
समपर्वातु कर्तव्यः सुदृढः सूक्ष्म एव हि ।
वक्रः पुत्रविनाशाय सव्रणोऽर्थविनाशनः । । १३
रोगदो युग्महस्तस्तु भिन्नो दुःखमनन्तकम् ।
करोति हानि धर्मस्य हीनो यस्तु प्रमाणतः । । १४
वैषम्यमसमपर्वा दद्यात्कृच्छ्रमधोन्नतः ।
जयो जयन्तो जैत्रेयः४ शत्रुहन्ता जयावहः । । १५
नन्दोपनन्दनौ चैवेन्द्रोपेन्द्रौ गदितौ तथा ।
दशैते कीर्तिता भेदा ध्वजस्यानन्दसम्मिताः । । १६
द्विजहस्तस्तु जयो दण्डो जयन्तो द्विगुणो मतः ।
द्वादशहस्तस्तु जैत्रेयः शत्रुहन्ता कलान्वितः । । १७
जयावहस्तु विंशार्धो नन्द आदित्यसन्निभः ।
चतुर्दशोपनन्दस्तु इन्द्रः षोडश उच्यते । । १८
उपेन्द्रोऽष्टादशः५ प्रोक्तस्तथेन्द्रो विंशतिः स्मृतः ।
भिन्नो वक्रोऽसाधितश्च न कार्यो दण्ड एव हि । । १९
मूलमन्त्रेण कर्तव्यो व्यासतोऽन्तर्गृहस्य तु ।
ध्वजदण्डो महाबाहो अथ वा वास्तुमानतः । । 1.138.२०
मञ्जरीमानतो वापि तदर्धेनाथवा विभो ।
पताका वै शुभा कार्या ध्वजवंशावलम्बिनी । । २१
देवागारस्य शिखरात्त्रिभागपरिमार्जनी ।
सा प्रोक्ता दशधा वीर मानतोमानतस्तथा । । २२
अङ्कुरः पल्लवश्चैव स्कन्धः शाखा तथैव च ।
पताका कदली वीर केतुर्लक्ष्म जयस्तथा । । २३
ध्वजश्च दशमः प्रोक्तः सर्वदेवमयोव्ययः ।
अङ्कुरो द्वयंगुलः प्रोक्तः पल्लवश्चतुरङ्गुलः । । २४
स्कन्धः षडङ्गुलः प्रोक्तः शाखा चाष्टाङ्गुलो मता ।
एकादशपताका तु कदली च चतुर्दश । । २५
केतुस्तु षोडशः प्रोक्तो लक्ष्माष्टादशमुच्यते ।
जया विंशति वै प्रोक्ता एतावत्त्वङ्गुलानि तु । । २६
देवागारस्य कुम्भस्य प्रसन्ना सा प्रमार्जनी ।
अङ्कुरेति पताका सा विज्ञेया यदुनन्दन । । २७
पल्लवेति द्वितीयस्य मार्जनी परिकीर्तिता ।
त्रिभागमार्जनीस्कन्धः शाखा वै पञ्चमस्य तु । । २८
षष्ठस्योक्ता पताका तु कदली सप्तमस्य तु ।
अष्टमस्य तथा केतुर्लक्ष्म च नवमस्य तु । । २९
ततस्तु दशमः प्रोक्तो जयन्तो यदुनन्दन ।
वृषस्थानावमार्गी तु ध्वजस्तु परिकीर्तितः । । 1.138.३०
गजो मेषोऽथ महिषः कबन्धस्तु वृषस्तथा ।
हरिणोऽथ नरश्चैव नरश्च नरसत्तम । । ३१
स्थानान्येतानि भूयोऽथ१ प्रयुक्तस्य ध्वजस्य तु ।
दिशभागे तु पूर्वात्तु क्रमेण परिकल्पयेत् । । ३२
एवं दशविधा प्रोक्ता पताका तत्त्वदर्शिभिः ।
कर्तव्या सा यथापूर्वं तच्छृणु त्वं नराधिप । । ३३
शुक्लवस्त्रमयी चित्रा सघण्टा सुमनोहरा ।
नानाचामरसम्पन्ना किङ्किणीजालमण्डिता । । ३४
ध्वजाग्रे चैव कर्तव्यो देवतालिङ्गसूचकः ।
काञ्चनो वाथ रौप्यो वा मणिरत्नमयोऽपि वा । । ३५
रङ्गकैर्लिख्यते वापि तद्वाहनसमाकृतिः ।
ध्वजदण्डोऽत्र विन्यस्तः कर्तव्यो यदुनन्दन । । ३६
गरुत्मात्मांस्तु ध्वजो विष्णोरीश्वरस्य ध्वजो वृषः ।
ब्रह्मणः पङ्कजं कार्यं रवेर्धर्मः स्मृतो ध्वजः । । ३७
हंसो१ जलाधिपस्योक्तः सोमस्य तु नरो ध्वजः ।
बलदेवस्य कालस्तु कामस्य मकरध्वजः । । ३८
सिंहो ध्वजस्तु दुर्गायाः कीर्तितो यदुनन्दन ।
गोधा चापि उमादेव्या रैवतस्य हयः स्मृतः । । ३९
कच्छपो वरुणस्योक्तो वातस्य हरिणो मतः ।
पावकस्य तथा मेष आखुर्गणपतेर्मतः । । 1.138.४०
ब्रह्मर्षीणां कुशः प्रोक्त इत्येषा ध्वज कल्पना ।
यस्य यद्वाहनं प्रोक्तं तत्तस्य ध्वज उच्यते । । ४१
विष्णोर्ध्वजे तु सौवर्णं दण्डं कुर्याद्विचक्षणः ।
पताका चापि पीता स्याद्गरुडस्य समीपगा । । ४२
ईश्वरस्य ध्वजे दण्डो राजतो यदुनन्दनः ।
पताका चापि शुक्ला स्याद्वृषभस्य समीपगा । । ४३
पितामहध्वजे दण्डः स्मृतस्ताम्रमयो बुधैः ।
पद्मवर्णा पताका स्यात्पङ्कजस्य समीपगा । । ४४
आदित्यस्य च सौवर्णो ध्वजे दण्डः प्रकीर्तितः ।
पञ्चवर्णा पताका स्याद्धर्मस्याधोगता नृप । । ४५
किङ्किणीजालसम्पन्ना नानबुद्बुदसन्निभा ।
पुष्पमालोपसम्पन्ना नानावादिभिरावृता । । ४६
दण्ड इन्द्रध्वजस्योक्तः काञ्चनो यदुनन्दन ।
पताका बहुवर्णा स्यात्कुञ्जरस्य समीपगा । । ४७
आयसश्चापि दण्डोक्तो यमचिह्नं विचक्षणैः ।
पताका वर्णतः कृष्णा महिषस्य समीपगा । । ४८
जलाधिपध्वजो दण्डो राजतः परिकीर्तितः ।
पताका सर्वतः श्वेता विचित्रा सा च कथ्यते । । ४९
ध्वजे चापि कुबेरस्य दण्डो मणिमयः स्मृतः ।
पताका चापि रक्ता स्यान्नरपादसमीपगा । । 1.138.५०
बलदेवध्वजे दण्डो राजतो यदुनन्दन ।
पताका वर्णतः शुक्ला तालस्याधोगता स्मृता । । ५१
कामध्वजे त्रिलोहः स्याद्दण्डो यदुकुलोद्वह ।
पताका रोहिणी तत्र मकरस्य समीपगा । । ५२
मायूरं कार्त्तिकेयस्य चिह्नं लोकेषु गीयते ।
त्रिलोहदण्डमारूढं बहुरत्नविभूषितम् । । ५३
बहुवर्णकचित्रा तु पताका कथिता बुधैः ।
हस्तिदन्तभवं दण्डं कुर्याद्गणपतेर्नृप । । ५४
ताम्रदण्डं समारुढं संशुद्धं सम्प्रतिष्ठितम् ।
शुक्ला पताका कर्तव्या सुप्रमाणा महीपते । । ५५
मातॄणां चापि कर्तव्यो नैकरूपो ध्वजो बुधैः ।
पताकाभिरनेकाभिबर्हुरत्नाभिरन्वितः । । ५६
रेवतस्यापि कर्तव्यो ध्वजो वाजी नराधिप ।
रक्ता पताका तत्रापि कर्तव्या यदुनन्दन । । ५७
चामुण्डामन्दिरे कार्यः शिरोमालाकुलो ध्वजः ।
नीला पताका कर्तव्या दण्डो लोहमयस्तथा । । ५८
रीतीमयश्च मातॄणां रेवतस्य च कारयेत् ।
गौर्या ध्वजस्ताम्रमयः पताका गोपसन्निभा । । ५९
स्वर्णदण्डस्तु वीरस्य ध्वजो मेषसमन्वितः ।
पताका बहुरत्नाढ्ये१ कर्तव्या यदुनन्दन । । 1.138.६०
अश्मसारमयो दण्डो ध्वजो वातस्य उच्यते ।
पताका कृष्णवर्णा तु हरिणस्य समीपगा । । ६१
भगवत्या ध्वजो दण्डः सर्वरत्नमयः स्मृतः ।
पताका तु त्रिवर्णा स्यात्सिंहस्याधोगता नृप । । ६२
एवंविधमिमं कृत्वा ध्वजं लक्षणलक्षितम् ।
अधिवास्य ततो राजंस्तत आरोपयेद्बुधः । । ६३
ततः सर्वौषधीभिश्च स्नापयित्वा प्रयत्नतः ।
समालभ्य च बध्नीयान्मध्ये प्रतिसरान्नृप । । ६४
कल्पयित्वा शुभां वेदिं कलशैरुपशोभिताम् ।
तस्यां वेद्यां समारोप्य तां रात्रिमधिवासयेत् । । ६५
नानाकुसुमचित्रां च स्रजं तस्यानुलम्बयेत् ।
समभ्यर्च्य प्रयत्नेन धूपमस्य निवेदयेत् । । ६६
बलिकर्म ततः कृत्वा कृशरापूपकादिभिः ।
पलालपूपिकाभिश्च दधिपायससूपकैः२ । । ६७
उद्दिश्य लोकपालेभ्यो बलिं दद्याच्च वायसैः ।
ब्राह्मणान्स्वस्ति वाच्याथ कृत्वा पुण्याहमङ्गलम् । । ६८
वादित्रकृतनिर्घोषं जलं संस्कारसंयुतम् ।
नानाबुद्बुदसपन्नं वेष्टितं नववाससा । । ६९
शुभे लग्ने दिने ऋक्षे ध्वजं चारोपयेद्बुधः ।
विन्यस्य स्वर्णकलशं श्वभ्रराजं ध्वजस्य तु । । 1.138.७०
एवमारोपयेद्यस्तु ध्वजं देवालयोपरि ।
स श्रिया वर्धते नित्यं प्राप्नोति परमां गतिम् । । ७१
असुरा वासमिच्छन्ति ध्वजहीने सुरालये ।
तस्माद्देवालयं प्राज्ञो ध्वजहीनं न कारयेत् । । ७२
मन्त्रश्च स्थापने प्रोक्तो विधानज्ञैर्ध्वजस्य तु ।
एह्येहि भगवन्देव देववाहन वै खग । । ७३
श्रीकरः श्रीनिवासश्च जय जैत्रोपशोभित ।
व्योमरूप महारूप धर्मात्मंस्त्वं च वै गतेः । । ७४
सान्निध्यं कुरु दण्डेऽस्मिन्साक्षी च ध्रुवतां व्रज ।
कुरु वृद्धिं सदा कर्तुः प्रासादस्यार्कवल्लभ । । ७५
ॐ एह्येहि भगवन्नीश्वरविनिर्मित उपरिचरवायुमार्गानुसारिञ्छ्रीनिवास रिपुध्वंस
यक्षनिलय सर्वदेवप्रियं कुरु सान्निध्यं शान्ति स्वस्त्ययनं च मेभयं सर्वविघ्ना व्यपसरन्तु । । ७६
मन्त्रेणानेन राजेन्द्र श्वभ्रे दण्डे निवेशयेत् ।
पताकां पूर्वमन्त्रेण स्थित्या पूर्वमुखो नृप । । ७७
क्षिपेदूर्ध्वमथाकाशं प्रासादशिखराद्विभोः ।
यजमानस्ततः पश्येत्पताकां यदुनन्दन । । ७८
प्रासादपुरतो वापि पताकां पातयेद्यदि ।
इन्द्रलोकं तदा कर्ता विशेद्वै यदुनन्दन । । ७९
आग्नेय्यामग्निलोकं तु याम्यां यमसदो भजेत् ।
नैऋत्यां नैऋतं लोकं वारुण्यः वारुणं व्रजेत् । । 1.138.८०
यस्य देवस्य यद्वेश्म कृतं यदुकुलोद्वह ।
तस्य लोकमवाप्नोति वृषस्थानगतो यदि । । ८१
वायव्ये वायुमाप्नोति सौम्यायां सोममाप्नुयात् ।
ऐशान्यामीशमाप्नोति कर्ता वै देववेश्मनः । । ८२
य एवं कारयेद्भक्त्या ध्वजस्यारोपणं रवेः ।
स हि भुक्त्वा परान्भोगान्सूर्यलोके महीयते । । ८३
तेजसाम्बुजसंकाशः कान्त्या चाम्बुजसन्निभः ।
द्विजातितुल्यः प्रभया विक्रमेण च गोपतेः । । ८४
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने
ध्वजारोपणविधिवर्णनं नामाष्टत्रिंशदधिकशततमोऽध्यायः । १३८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 139
भोजकानयनवर्णनम्
साम्ब उवाच
त्वत्प्रसादान्मया प्राप्तं रूपमेतत्पुरातनम् ।
प्रत्यक्षदर्शनं चापि भास्करस्य महात्मनः । । १
सर्वमेतत्तु सम्प्राप्य पुनश्चिन्ताकुलं मनः ।
देवस्य परिचर्यायाः पालनं कः करिष्यति । । २
गुणयुक्तं द्विजं किञ्चित्समर्थं परिपालने ।
ममैवानुग्रहाद्ब्रह्मन्द्विजं व्याख्यातुमर्हसि । । ३
एवमुक्तस्तु साम्बेन नारदः प्रत्युवाच तम् ।
न द्विजाः परिगृह्णन्ति देवस्य स्वीकृतं धनम् । । ४
विद्यते हि धनं ह्यत्र गुणश्चायं प्रतिग्रहः ।
देवचर्यागतैर्द्रव्यैः क्रिया ब्राह्मी न विद्यते । । ५
अवज्ञया च कुर्वन्ति ये क्रियां लोभमोहिताः ।
अपाङ्क्तेया भवन्तीह ते वै देवलका द्विजाः । । ६
देवस्वं ब्राह्मणत्वं च यो लोभादुपजीवति ।
स पापात्मा नरो लोके गृध्रोच्छिष्टेन जीवति । ।
ततो न ब्राह्मणः कश्चिद्देवचर्यां करिष्यति । । ७
विधिज्ञं ज्ञानवन्तं च परिचर्याक्षमं तथा ।
देव एव तमाख्यातुं तस्मात्तं शरणं व्रज । । ८
अथवा यदुशार्दूल उग्रसेनपुरोहितम् ।
गत्वा१ गौरमुखं पृच्छ स ते कामं विधास्यति । । ९
नारदेनैवमुक्तस्तु साम्बो जाम्बवतीसुतः ।
सुखासीनं गृहे वीर उग्रसेनपुरोहितम् । । 1.139.१०
कृतपूर्वाह्णिकं वीर विप्रं गौरमुखं नृप ।
विनयेनोपसङ्गम्य साम्बो वाक्यमथाब्रवीत् । । ११
मया भानोः प्रसादेन कारितं विपुलं गृहम् ।
सपत्नीकं ससैन्यं च पृथिव्यां सारवत्स्थितम् । । १२
सर्वं तस्मिन्मया दत्तं कृतं मूर्तेश्च मण्डलम् ।
तस्मादिष्ट्वा विशिष्टेभ्यो देयं दानं मनोगतम् । । १३
तत्सर्वं मम सम्प्रीत्या गृहाण त्वं महामुने ।
साम्बवाक्यमिदं श्रुत्वा प्रत्युवाच महामुनिः । । १४
गौरमुख उवाच
ब्रवीम्यहमशेषेण यथावदनुपूर्वशः ।
अहं विप्रो भवान्राजा स च देवपरिग्रहः । ।
अपरस्परमेवं तु ग्रहणं मे विरुध्यते । । १५
ब्रह्मविद्याप्रणीतानि स्वकर्माणि द्विजातयः ।
कुर्वाणा न प्रहीयन्ते अन्यथा भिन्नवृत्तयः । । १६
क्षान्तिरध्यापनं२ जापः सत्यं च यदुनन्दन ।
एतानि विप्रकर्माणि न देवार्थपरिग्रहः३ । । १७
यदि देवार्थदानं१ स्यात्ततो देवलका द्विजाः ।
देवद्रव्याभिलाषश्च ब्राह्मण्यं तु विमुञ्चति । । १८
देवद्वारे च यद्दानं ब्राह्मणाय प्रयच्छति ।
द्वावेतौ पापकर्तारावात्मदोषेण मानवौ । । १९
देवार्थदानं२ वार्ष्णेय यद्गृहीत्वा च यो द्विजः ।
श्राद्धे वा यदि वा सत्रे तज्जुहोति ददाति वा । ।
भिन्न वृत्तो द्विजः पापो राक्षसः सोऽभिजायते । । 1.139.२०
द्विजो देवलको यत्र पङ्क्त्यां भुङ्क्ते महीपते ।
अन्नान्युपस्पृशेन्नीचा सा पङ्क्तिः पापमाचरेत् । । २१
द्विजो देवलको यस्य संस्कारं सम्प्रयच्छति ।
सोऽधोमुखान्पितॄन्सर्वानाक्रम्य विनिपातयेत् । । २२
आत्मानं पातयेद्यस्तु सोन्यानुद्धरते कथम्
उद्धरिष्यति चात्मानमित्येषा कल्पनाधमा । । २३
यो हठाच्च भयाच्चैव कुरुते रविवेश्मनः ।
वृत्तिं विधत्ते विप्रत्वात्पतितस्स तु जायते । । २४
सप्रतिग्रहमन्त्रेण द्विजोऽश्नाति परिग्रहम् ।
देवप्रतिग्रहार्थेषु वेदवाक्यं न विद्यते । । २५
तस्माद्राजा न देवार्थं विप्रे दद्यात्कथञ्चन ।
ब्रह्मसूत्रमहं छित्त्वा गमिष्यामीति गम्यताम् । । २६
साम्ब उवाच
अग्राह्यं चेद्द्विजातिभ्यः कस्मै देयमिदं मया ।
श्रुतं वा दृष्टपूर्वं वा तन्मे व्याख्यातुमर्हसि । । २७
गौरमुख उवाच
मगाय सम्प्रयच्छ त्वं पुरमेतच्छुभं विभो ।
तस्याधिकारो देवान्ने देवतानां च पूजने । । २८
साम्ब उवाच
कोऽयं मगेति ते प्रोक्ताः क्व वासौ वसते विभो ।
कस्य पुत्रो द्विजश्रेष्ठ किमाचारः किमाकृतिः । । २९
गौरमुख उवाच
योऽयं मगेति वै प्रोक्तो मगो दिव्यो द्विजोत्तमः ।
निक्षुभायां १ सुतो वीर आदित्यात्मज उच्यते । । 1.139.३०
साम्ब उवाच
कथं स निक्षुभापुत्रः कथं वीरसुतस्तथा ।
कथं चादित्यतनयो मगोऽसावुच्यतेनऽघ । । ३१
गौरमुख उवाच
मानुषत्वं गता देवी निक्षुभा किल यादव ।
गता शापमवाप्येह भास्कराल्लोकपूजिता । । ३२
गोत्रं मिहिरमित्याहुस्तस्मै ब्राह्मण्यमुत्तमम् ।
सुजिह्वा नाम धर्मात्मा ऋषिपुत्रः पुरानघ । । ३३
तस्यात्मजा समुत्पन्ना निक्षुभा सा वराङ्गना ।
रूपेणाप्रतिमा लोके हारलीला मता तु सा । । ३४
पितुर्नियोगात्सा कन्या विहरेज्जातवेदसि । । ३५
विहरन्ती यथान्यायं समिद्धे पावके तथा ।
अथ तां देवदेवेशो ह्यंशुमाली ददर्श ह । । ३६
रूपयौवनसम्पन्नां ततः कामवशं गतः ।
चिन्तयामास देवेशः कथं तां वै भजाम्यहम् । । ३७
अनयावहृतो योऽयं पावको देवपूजितः ।
वनमाविश्य तन्वङ्गीं भजेयं लोकपूजिताम् । । ३८
इति सञ्चिन्त्य देवेशः सहस्रांशुर्दिवस्पति ।
विवेश पावकं वीर तत्पुत्रश्चाभवत्तदा । । ३९
ततो विलासलावण्यरूपयौवनशालिनी ।
समिद्धं लङ्घयित्वाग्निं जगामायतलोचना । । 1.139.४०
क्रुद्धः स्वरूपमास्थाय दृष्ट्वा कन्यां स पीडितः ।
करं करेण सङ्गृह्य ततस्तां हव्यवाहनः । । ४१
उवाच यदुशार्दूल नोदितो भास्करेण तु ।
वेदोक्तं विधिमुत्सृज्य यथाहं लंघितस्त्वया । ।४ २
तस्मान्मत्तः समुत्पन्नो न च पुत्रो भविष्यति ।
जरशब्द इति ख्यातो वंशकीर्तिविवर्धनः । । ४३
अग्निजात्या मगाः प्रोक्ताः सोमजात्या द्विजातयः ।
भोजकादित्यजात्या हि दिव्यास्ते परिकीर्तिताः । ।४४
तामेवमुक्त्वा भगवानादित्योऽन्तरतस्तदा ।
अथोत्पन्नां प्रजां ज्ञात्वा ध्यानयोगेन वै ऋषिः । । ४५
पतितः स्यान्महातेजा ऋग्जिह्वः सुमहामतिः ।
शापमुद्यम्य तेजस्वी ऋग्जिह्वो वाक्यमब्रवीत् । । ४६
आत्मापराधात्कामिन्या यथा गर्भो नलावृतः ।
सम्भूतस्ते महाभागे अपूज्योऽयं भविष्यति । । ४७
पुत्रशोकाभिसन्तप्ता बाला पर्याकुलेक्षणा ।
चिन्तयामास दुःखार्ता तमेकं ज्वलनाकृतिम् । । ४८
ततो देववरिष्ठस्य मम योनिसमुद्भवः ।
अयं दत्तो महाशापः पूज्यतां कर्तुमर्हसि । ।४ ९
भवेत्पूज्यो हि मे पुत्रो देवेश्वर तथा कुरु ।
एवं चिंतयमानस्तु भगवानर्यमा किल । । 1.139.५०
आग्नेयं रूपमाश्रित्य चेदं वचनमब्रवीत् ।
स्निग्धो गम्भीरनिर्घोषः शान्तो ज्वरविवर्जितः । । ५१
ऋग्जिह्रः सुमहातेजा धर्मं चरति सुव्रत ।
तेनोत्सृष्टं महाशापं नान्यथा कर्तुमुत्सहे । । ५२
किं तु कार्यगरीयस्त्वादात्मनो योग्यमुत्तमम् ।
तव पुत्रं विधास्यामि चापूज्यं वेदपारगम् । । ५३
वंशश्च सुमहांस्तस्य निवसिष्यति भूतले ।
ममाङ्गानि महात्मानो वाशिष्ठा ब्रह्मवादिनः । । ५४
मद्गायना मद्यजना मद्भक्ता मत्परायणाः ।
मम शुश्रूषकाश्चैव मम च व्रतचारिणः । । ५५
त्वां च मां च यथान्यायं वेदं तत्त्वार्थदर्शिनः ।
पूजयिष्यन्ति निरताः सदा मद्भावभाविताः । । ५६
मत्कर्मणां मदङ्गानां मद्भावविनिवेशनात् ।
विरजा मत्प्रसादेन मामेवैष्यन्त्यसंशयम् । । ५७
जटाश्मश्रुधरा नित्यं सदा मयि परायणाः ।
पञ्चकालविधानज्ञा वीरकालस्य यज्विनः । । ५८
पूर्णेकदक्षिणे पाणौ वर्म वामेन धारयन् ।
पतिदानेन वदनं प्रच्छाद्य नियतः शुचिः । । ५९
प्राणं हि महतां कृत्वा ततो भुञ्जीत वाग्यतः ।
अयमाच्चाप्रसादाच्च व्याकुलेन्द्रियचेतसा । । 1.139.६०
विधिहीनं मंत्रहीन ये वै यक्ष्यन्ति मामतः ।
तेऽपि स्वर्गाच्च्युताः क्लान्ता रमन्ते सूर्यसन्निधौ । । ६१
एवंविधास्तव सुता भविष्यन्ति महीतले ।
मगवंशे महात्मानो वेदवेदाङ्गपारगाः । । ६२
एवमाश्वास्य तां देवीं भास्करो वारितस्करः ।
अन्तदर्धे महातेजाः सा च हर्षमवाप ह । । ६३
एवमेते समुत्पन्ना भोजकाः कृष्णनन्दन ।
विष्णुभास्ते तथादित्या उत्पन्ना लोकपूजिताः । । ६४
तेषामेतत्पुरं देहि पर्याप्तास्ते प्रतिग्रहे ।
त्वदीयस्यास्य मे वीर तथा भास्करपूजने । । ६५
तस्य गौरमुखस्येदं वाक्यं श्रुत्वा स यादवः ।
साम्बो जाम्बवतीपुत्रः प्रणम्य शिरसोक्तवान् । । ६६
क्व वसन्ते महात्मान एते भास्करपुत्रकाः ।
भोजका द्विजशार्दूल येन तानानयाम्यहम् । । ६७
गौरमुख उवाच
नाहं जाने महाबाहो वसन्ते यत्र वै मगाः ।
जानीते तान्रविर्वीर तस्मात्तं शरणं व्रज । । ६८
ब्राह्मणेनैवमुक्तस्तु प्रणम्य शिरसा रविम् ।
जगाद भास्करं साम्बः कस्ते पूजां करिष्यति । । ६ ९-
विज्ञप्तस्त्वेव साम्बेन प्रतिमा तमुवाच ह ।
न योग्याः परिचर्यायां जम्बूद्वीपे ममानघ । । 1.139.७०
मम पूजाकरं गत्वा शाकद्वीपादिहानय ।
लवणोदात्परे पारे क्षीरोदेन समावृतः । । ७१
जम्बूद्वीपात्परो यस्माच्छाकद्वीप इति स्मृतः ।
तत्र पुण्या जनपदाश्चतुर्वर्णसमन्विताः । । ७२
मगाश्च मगगाश्चैव गानगा१ मन्दगास्तथा ।
मगा ब्राह्मणभूयिष्ठा मगगाः क्षत्रियाः स्मृताः । । ७३
वैश्यास्तु गानगा ज्ञेयाः शूद्रास्तेषां तु मन्दगाः ।
न तेषां सङ्करः कश्चिद्धर्माश्रयकृते क्वचित् । । ७४
धर्मस्यास्य विचारो वा ह्येकतः सुखिनः प्रजाः ।
तेजसस्ते मदीयस्य निर्मिता विश्वकर्मणा । । । । ७५
तेभ्यो वेदास्तु चत्वारः सरहस्या मयोदिताः ।
वेदोक्तैर्विविधैः स्तोत्रैः परैर्गुह्यैर्मया कृतैः । । ७६
ते च ध्यायन्ति मामेव यजन्ते मां च नित्यशः ।
मन्मानसा मद्यजना मद्भक्ता मत्परायणाः । । ७७
मम शुश्रूषकाश्चैव मम च व्रतचारिणः ।
अव्यङ्गधारिणश्चैव विधिदृष्टेन कर्मणा । । ७८
कुर्वन्ति ते सदा भद्रां मम पूजां ममानुगाः ।
तथा देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः । ।
विहरन्ते रमन्ते च दृश्यमानाश्च तैः सह । । ७९
जम्बूद्वीपे त्वहं विष्णुर्वेदवेदाङ्गपूजितः ।
शक्रोऽहं शाल्मलीद्वीपे क्रौञ्चद्वीपे ह्यहं भगः१ । । 1.139.८०
प्लक्षद्वीपे त्वहं भानुः शाकद्वीपे दिवाकरः ।
पुष्करे च स्मृतो ब्रह्मा ततश्चाहं महेश्वरः । । ८१
तान्मगान्मम पूजार्थं शाकद्वीपादिहानय ।
आरुह्य गरुडं साम्ब शीघ्रं गत्वाविचारयन् । । ८२
तथेति गृह्य तामाज्ञां रवेर्जाम्बवतीसुतः ।
पुनर्द्वारवतीं गत्वा कान्त्यातीव समन्वितः । । ८३
आख्यातवान्पितुः सर्वं स्वकीयं देवदर्शनम् ।
तस्माच्च गरुडं लब्ध्वा ययौ साम्बोऽधिरुह्य तम् । । ८४
शाकद्वीपमनुप्राप्य सम्प्रहृष्टतनूरुहः ।
तत्रापश्यद्यथोद्दिष्टान्साम्बस्तेजस्विनो मगान् । । ८५
विवस्वन्तं पूजयन्तो धूपदीपादिभिः शुभैः ।
सोऽभिवाद्य च तान्पूर्वं कृत्वाप्येषां प्रदक्षिणाम् । । ८६
पृष्ट्वा चानामयं तेषां प्रशंसासामपूर्वकम् ।
यूयं हि पुण्यकर्माणो द्रष्टव्यार्थे शुभार्थिनः । ।
रता येऽर्कस्य पूजायां येषां चैव वरप्रदः । । ८७
तनयं वित्त मां विष्णोः साम्बं नाम्ना च विश्रुतम् ।
चन्द्रभागातटे चापि मया सूर्यो निवेशितः । । ८८
तेनाहं प्रेषितश्चात्र उत्तिष्ठध्वं व्रजामहे ।
ते तमूचुस्ततः साम्बमेवमेतन्न संशयः । । ८९
अस्माकमपि देवेन व्याख्यातां पूर्वमेव हि ।
अष्टादश कुलानीह मगानां वेदवादिनाम् । ।
यास्यन्ति ये त्वया सार्धं यथा देवेन भाषितम् । । 1.139.९०
ततस्तानि दशाष्टौ च कुलानीह समन्ततः ।
आरोप्य गरुडे साम्बस्त्वरितः पुनरभ्यगात् । । ९१
सोऽल्पेनैव तु कालेन प्राप्तो मित्रवनं ततः ।
कृत्वाज्ञां तु रवेः साम्बः कृत्स्नं त्वेवं न्यवेदयत् । । ९२
रविः शोभनमित्युक्त्वा प्रसन्नः साम्बमब्रवीत् ।
मम पूजाकरा ह्येते प्रजानां शान्तिकारकाः । । ९३
मम पूजां करिष्यन्ति विधानोक्तां यदूत्तम ।
तत्कृते न पुनश्चिन्ता तव काचिद्भविष्यति । । ९४
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकानयनं
नामैकोनचत्वारिंशदधिकशततमोऽध्यायः । १३९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 140
भोजकोत्पत्तिवर्णनम्
सुमन्तुरुवाच
एवं स आनयित्वा तु मगान्साम्बो महीपते ।
स महात्मा पुरा साम्बश्चन्द्रभागासरित्तटे । । १
पुरं निवेशयामास स्थापयित्वा दिवाकरम् ।
कृत्वा धनसमृद्धं तु भोजकानां समर्पयत् । । २
तत्पुरं सवितुः पुण्यं त्रिषु लोकेषु विश्रुतम् ।
सांबेन कारितं यस्मात्तस्मात्साम्बपुरं स्मृतम् । । ३
तस्मिन्प्रतिष्ठितो देवः पुरमध्ये दिवाकरः ।
सत्कृत्य स्थापिताः सर्वे आत्मनामाङ्किते पुरे । । ४
मगानां तु सदाचारो दृष्टाचारकुलोचितः ।
देवशुश्रूषणं गीतं वेदप्रोक्तेन कर्मणा । । ५
कृतकृत्यस्तदा साम्बो वरं लब्ध्वा पुनर्युवा ।
आदिदेवं सुरज्येष्ठमादित्यं प्रणिपत्य सः । । ६
अनन्तरं मगान्सर्वान्प्रणिपत्याभिवाद्य च ।
प्रस्थितो निर्मलः साम्बः पुरीं द्वारवतीं तदा । । ७
मगानां कारणार्थेन प्रार्थिता भोजवंशजाः ।
वसुदेवस्य पौत्रेण गोत्रजेन महात्मना । । ८
कन्यादानं कृतं तेषां मगानां भोजकोत्तमैः ।
सर्वास्ताः सहिताः कन्याः प्रवालमणिभूषिताः । । ९
अर्चयित्वा तु ताः सर्वाः प्रेषिताः सवितुर्गृहम् ।
पुनर्गत्वा तु सांबेन पृष्टो देवो दिवाकरः । । 1.140.१०
मगानां ज्ञानमाख्याहि१ वेदानव्यङ्गमेव च ।
साम्बस्य वचनं श्रुत्वा भास्करो वाक्यमब्रवीत् । । ११
पृच्छ त्वं नारदं गत्वा स ते सर्वं वदिष्यति ।
एवमुक्तोऽथ वै साम्बो गतवान्नारदं प्रति । । १२
गत्वा कृत्स्नमिदं सर्वं तस्मै तेन निवेदितम् ।
स चाप्याह ततः साम्बं न जाने ज्ञानमुत्तमम् । । १३
भोजकानां यदुश्रेष्ठ ज्ञानं व्यासो महामुनिः ।
तं गत्वा परिपृच्छ त्वं प्रणम्य शिरसा मुनिम् । । १४
कृष्णानुरोधात्ते सर्वं स वक्ष्यति न संशयः ।
नारदेनैवमुक्तस्तु साम्बो जाम्बवतीसुतः । । १५
व्यासाश्रमं स गत्वा तु प्रणम्य शिरसा मुनिम् ।
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् । । १६
शाकद्वीपं मया गत्वा आनीता मगपुङ्गवाः ।
बाला यौवनसम्पन्नाः सन्निविष्टा मगोत्तमाः । । १७
सत्कृत्य पूजयित्वा तु पुरं तेषां समर्पितम् ।
सम्प्राप्य तु पुरं ते वै ज्येष्ठमध्यकनीयसः । । १८
भोजवंशसमुत्पन्नाः कन्यकाः समलङ्कृताः ।
वरयित्वा कृतं तेषां विप्रप्रणयनं शुभम् । । १९
अहो सभाग्याः श्लाघ्याश्च कृतपुण्याश्च ते सदा ।
पूजायां ये रता भानोर्येषां चैव वरप्रदः । । 1.140.२०
पर्याप्तं सर्वमेतेषामिह चामुष्मिकं फलम् ।
अनित्ये सति मानुष्ये देवपूजारता हि ये । । २१
किन्तु चिन्तयतः सूर्यं चिन्तयित्वा तु भोजकान् ।
ज्ञानं प्रति तथा चैषां हदये संशयो मम । । २२
कथं पूजाकरा ह्येते के मगाः के च भोजकाः ।
ज्ञानं किं परमं तेषां ज्ञेयस्तेषां क एव तु । । २३
दिव्येति ते कथं प्रोक्ताः किमर्थं कूर्चधारणम् ।
सौरव्रतं किमर्थं तु वाचकास्ते कथं स्मृताः । । २४
किमर्थं तेजसा वेदान्गायन्तश्चैव ते कथम् ।
अथाहिकञ्चुकस्याङ्गं किं प्रमाणं च कस्य वै । । २५
कस्य वै का समाख्याता यदुत्पन्नं कथं स्मृतम् ।
कथं देवांश्च गायन्ति यज्ञं कुर्वन्ति ते कथम् । । २६
अग्निहोत्रं च किं तेषां पञ्च दोलाश्च काः स्मृताः ।
एतत्सर्वं समाख्याहि भोजकानां विचेष्टितम् । । २७
साम्बस्य वचनं श्रुत्वा कृष्णद्वैपायनो मुनिः ।
कालीसुतो महातेजा उवाच परमं वचः । । २८
साधुसाधु यदुश्रेष्ठ साधु पृष्टोऽस्मि सुव्रत ।
दुर्ज्ञेयचेष्टितं किञ्चिद्भोजकानां न संशयः । । २९
भास्करस्य प्रसादेन ममापि स्मृतिमागतम् ।
यथाख्यातं वशिष्ठेन तथा ते वच्मि कृत्स्नशः । । 1.140.३०
मगानां चरितं श्रेष्ठं शृणु त्वं कृष्णनन्दन ।
ज्ञानवेदिन एवैते कर्मयोगं समाश्रिताः । । ३१
श्रूयन्ते ऋषयः सर्वे मौनेन नियमस्थिताः ।
भुञ्जते चापि मौनेन सर्वे वै परमर्षयः । । ३२
मुनिचर्याकृतस्तेऽपि शाकद्वीपनिवासिनः ।
तस्मान्मौनेन भोक्तव्यमगुणत्वमनिच्छता । । ३३
वचः सूर्यसमाख्यातं कारणं च वरं तथा ।
अर्चायां ते च ते नित्यमर्चयन्तश्च ते स्मृताः । । ३४
भोजकन्यासुजातत्वाद्भोजकास्तेन ते स्मृताः ।
ब्राह्मणानां यथा प्रोक्तो वेदाश्चत्वार एव तु । । ३५
ऋग्वेदोऽथ यजुर्वेदः सामवेदस्त्वथर्वणः ।
ब्रह्मणोक्तास्तथा वेदा मगानामपि सुव्रत । । ३६
त एव विपरीतास्तु तेषां वेदाः प्रकीर्तिताः ।
वेदो विश्वमदश्चैव विद्वद्वह्निरसस्तथा । । ३७
वेदा ह्येते मगानां तु पुरोवाच प्रजापतिः ।
मगा वेदमधीयन्ते वेदाङ्गास्तेन ते स्मृताः । । ३८
शेषो न हि महाभागः सर्वसत्त्वसुखावहः ।
ससूर्यरथमासाद्य रथिभिः सह वर्षति । । ३९
यस्तस्य तु पुनर्मोकं स रवेर्हि महानकः ।
वन्दितव्यो मगानां तु अस्त्रमन्त्रेण नित्यशः । ।1.140.४ ०
यथा स्रजो द्विजानां तु पूजाकाले प्रमीयते ।
सर्वसंस्कारयज्ञेषु यथा दर्भा द्विजातिषु । ।४ १
पवित्राः कीर्तितास्तेषां तथा धर्मो मगस्य तु ।
एभिर्जयन्ति भूयिष्ठं तस्मिन्द्वीपे मगाधिपाः । ।४२
विद्यावन्तः कुलश्रेष्ठाः शौचाचारसमन्विताः ।
यज्ञावसक्ता१ भक्ताश्च जपन्तो मन्त्रमादितः । ।४ ३
प्रियास्तु यदुशार्दूल भोजका यदुनन्दन ।
अस्त्रमिव वै मन्त्रो वेदस्य परिपठ्यते । ।४४
सर्वेषां ब्राह्मणानां तु सावित्री परिकल्प्यते ।
अस्माकं तु यदुश्रेष्ठ महाव्याहृतिपूर्तिका । ।४५
अमोहकेनाथ विमानभुञ्जी मौनेन चैवापि यथा हि युक्तम् ।
न चापि किञ्चित्स्मृतिकं स्पृशेच्च तच्चापि नात्रैव च संस्पृशेद्धि । । ४७
श्वसन्त्यनिच्छंस्तु परिक्षिपेत्तु स्वाभीष्टसूर्यं तु नमेत्सदैव ।
यथा यज्ञं हि मन्त्रेण वेदप्रोक्तेन कर्मणा । ।४७
तत्त्वमन्यन्मगानान्तु विधिमन्त्रपुरस्कृतम् ।
हविः सम्पद्यते यस्मात्तेन ते यज्विनः स्मृताः । ।४८
यथाग्निहोत्रं प्रथितं द्विजानां तथाध्वहोत्रं विहितं मगानाम् ।
अच्छं च नामेति तदध्वरस्य मुनेर्वचो नात्र विचारणास्ति । ।४९
पञ्चधूपाः प्रदातव्याः सिद्धिरस्येह सर्वदा ।
दण्डनायकवेले द्वे त्रिसन्ध्यं भास्करस्य तु । । 1.140.५०
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकोत्पत्तिवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः । १४० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 141
भोजकजातिवर्णनम्
साम्ब उवाच
भोजकानां यत्त्वयोक्तमव्यङ्गो देहशोधकः ।
व्रतबन्धस्त्वसौ प्रोक्तस्तेषां जातिश्च का स्मृता । । १
व्यास उवाच
ते पृष्टा भवता सर्वे भोजकानां कुमारकाः ।
किमाख्यातं ततस्तैस्तु तदेवाचक्ष्व कृत्स्नशः । । २
साम्ब उवाच
सन्निवेषा मया प्रोक्ता भोजकानां समन्ततः ।
ममैव ब्रूत तत्त्वं तद्वर्णः कोऽत्र कथं स्थितः । । ३
ततस्तु भगवान्प्राह वाक्यं वाक्यविशारदः ।
ये त्वयोक्ता श्रुताः साम्ब भोजकानां कुमारकाः । । ४
ममैवैते मगा ज्ञेया अष्टौ शूद्रा मदङ्गजाः ।
एतद्बुद्ध्वा तु वचनं प्रणम्य शिरसा रविम् । । ५
दत्ता भोजकुलोत्पन्ना दशभ्यो दशकन्यकाः ।
ततस्तु मन्दकेभ्योऽपि दत्ताश्चाष्टौ हि कन्यकाः । । ६
ततो निवेशितं तेषां मया साम्ब पुरं स्मर ।
दासकन्यास्तु याश्चाष्टौ भोजकन्याश्च या दश । । ७
एतास्तेषां कुमाराणां ज्ञेयास्ता दश चाष्ट च ।
तत्र ते भोजकन्यासु द्विजैरुत्पादिताः सुताः । । ८
भोजकास्तान्गणान्प्राहुर्ब्राह्मणान्दिव्यसंज्ञितान् ।
दासकन्यासु ये जाता मन्दगैरन्त्यसंज्ञितैः । । ९
मदङ्गा नाम ते ज्ञेयाः सवितुः परिचारकाः ।
ते च विप्रपुरे तस्मिन्पुत्रदारशुभैर्वृताः । । 1.141.१०
स्वधर्मैर्यष्टुमारब्धैः शाकद्वीपेऽर्चितो रविः ।
नानाविधैर्वैदिकैस्तु मन्त्रैर्मुनिवरोत्तमाः । । ११
अव्यङ्गधारिणो मर्त्याः पूजयन्ते दिवस्पतिम् ।
दृष्ट्वा व्यङ्गं तु वै तेषां कौतूहलसमन्वितः । । १२
साम्बः प्राह नमस्कृत्य भूयः सत्यवतीसुतम् ।
कथं वरोऽयमव्यङ्गः कथितो मुनिसत्तम । । १३
कुत एष समुत्पन्नः कस्माच्च स शुचिः स्मृतः ।
बन्धनीयः कदा चायं किमर्थं चैव धार्यते । ।
किं प्रमाणं च भगवन्व्यङ्गश्चायं किमुच्यते । । १४
सुमन्तुरुवाच
श्रुत्वैवं वचनं व्यासो जाम्बवत्याः सुतस्य च । । १५
उवाच कुरुशार्दूल साम्बं कालीसुतः स तु । ।
व्यास उवाच
एतच्च मे यथोक्तस्त्वं जातिरेषां न संशयः । । १६
अव्यङ्गस्यापि ते वच्मि लक्षणं गदतः शृणु । । १७
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकजातिवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः । १४१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 142
व्यड्गोत्पत्तिनामवर्णनम्
व्यास उवाच
देवता ऋषयो नागा गन्धर्वाप्सरसां गणाः ।
यक्षरक्षांसि वै भानौ निवसन्ति ऋतुक्रमात् । । १
तत्र तु वासुकिर्ह्यब्दमुद्यत्सूर्यरथं जवात् ।
स्वस्थानमाजगामाशु नमस्कृत्य दिवाकरम् । । २
अव्यङ्गमेव सूर्याय प्रीत्यर्थं वै समर्पयत् ।
गाङ्गेयभूषितं दिव्यं नातिरक्तसितं शुभम् । । ३
बबन्ध तं च तत्प्रीत्यै मध्यभागे तमात्मनः ।
नागराजाङ्गसम्भूतो धृतो यस्माच्च भानुना । । ४
तत्तस्माद्धार्यते सूर्यप्रीत्यै तद्भक्तिमिच्छता ।
विधानेन च तत्त्वेन शुचिर्भवति भोजकः । । ५
नित्यं च धारणात्तस्य भवेत्प्रीतो दिवाकरः ।
न धारयन्ति ये त्वेवं भोजकाः पूजकाः रवेः । । ६
सौरहीना न ते याज्या उच्छिष्टा नात्र संशयः ।
स्मृत्याचारे ते हि भग्ना रविं नार्हन्ति पूजितुम् । । ७
पूजयन्तो रविं ते हि नरकं यान्ति रौरवम् ।
न वै हसेन्न उत्तिष्ठेद्यावदर्चा लभन्ति ते । । ८
इत्थं ज्ञात्वा न सन्देहो ह्यव्यङ्गेन विना रविः ।
नागराजस्य संस्पृष्टो ह्यारसुस्तेन संस्मृतः । । ९
एकवर्णः स कर्तव्यः कार्यसिद्धिकरस्तथा ।
प्रमाणेनाङ्गुलानां तु शताद्धि शतमुत्तरम् । । 1.142.१०
उत्कृष्टोऽयं प्रमाणेन मध्यमो विंशदुत्तरः ।
शतमष्टोत्तरं ह्रस्वो न तु ह्रस्वतरस्ततः । । ११
तदाकृतिः कृतश्चैष निर्मितो विश्वकर्मणा ।
मध्यमे भोजकानां तु परः शत उदाहृतः । । १२
संस्कृतोऽपि विना तेन शुचिर्नैव भवत्युत ।
तेनास्य धारणाद्वीर शुचिरेव तदा भवेत् । । १३
हविर्होमादिकाः सर्वा भवन्त्यस्य क्रियाः शुभाः ।
अव्यङ्गः पतिताङ्गश्च अव्यङ्गोऽथ महीपते । । १४
एष सारश्च सा रम्या वै ज्ञेया जयनामभिः ।
अहेरङ्गात्समुत्पन्नो ह्यव्यङ्गस्तु ततः स्मृतः । । १५
यस्मादस्मादहेरङ्गमव्यङ्गस्तेन चोच्यते ।
अर्हेति पूजायां धातोः प्रत्ययो ण्वुल्ततः स्मृतः । । १६
पूजितश्च पवित्रश्च यस्मात्तेनार्हकः स्मृतः ।
सारसार्तः स्मृतं रूपं प्रधानं सार उच्यते । । १७
षण भक्तौ स्मृतौ धातुस्तस्मात्सारसनः स्मृतः ।
यस्मादर्चितमेवं तु सुवर्णमणिमौक्तिकैः । । १८
स ज्ञेयः पतिताङ्गस्तु नित्ययज्ञैरुपाहृतः ।
इत्येते कथिता वीर अव्यङ्गा व्यङ्गभोजकाः । । १९
ऋद्धिवृद्धिकरो नित्यं कायशुद्धिकरस्तथा ।
सर्ववेदमयश्चायं सर्वदेवमयस्तथा । । 1.142.२०
सर्वभूतमयः साम्ब सर्वलोकमयस्तथा ।
मध्येऽस्य संस्थितो ब्रह्मा मूले विष्णुर्महामते । । २१
शशाङ्कमौलिरन्त्ये तु संस्थितो यदुनंदन ।
ऋग्वेदोऽस्य स्थितो मूले यजुर्वेदोऽस्य मध्यगः । । २२
अग्रे स्थितः सामवेदो ग्रन्थिराङ्गिरसोनघ ।
पृथ्वी मूलमाश्रित्य स्थिता च यदुसत्तम । । २३
मूलाशनास्त्वपः साम्ब मध्ये देवो विभावसुः ।
तासामनन्तरं वात आकाशोऽग्रे समास्थितः । । २४
मूले स्थितस्तु भूर्लोको भुवर्लोकस्तु मध्यगः ।
स्वर्लोकश्चाग्रमाश्रित्य स्थितो व्यङ्गस्य यावता । । २५
एवं देवमयः सांब एवं लोकमयस्तथा ।
धारणीयो महान्भक्त्या पूजकः प्रीतये रवेः । । २६
पूजयन्ति रविं ये वै विनानेन यदूत्तम ।
पूजाफलं न तेषां स्यान्नरकं च व्रजन्ति हि । । २७
तथा तेषां भवेन्नित्यमव्यङ्गो भोजकः सदा ।
अन्यकाले यदुश्रेष्ठ इत्येतत्कथितं तव । । २८
बन्धने कारणं वीर भूषणानि च सुव्रत । । २९
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने व्यङ्गोत्पत्तिर्नाम द्विचत्वारिंशदधिकशततमोऽध्यायः । १४२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 143
धूपादिविविधविधिवर्णनम्
सुमन्तुरुवाच
श्रुत्वैवमेव साम्बेन व्यासात्सत्यवतीसुतात् ।
अव्यङ्गस्य च उत्पत्तिं पुनरागान्महामतिः । । १
अथागत्य महातेजाः साम्बो गत्वाश्रमं पुनः । । २
नारदस्य महाबाहोर्नारदं वाक्यमब्रवीत् ।
कथमुत्क्षिप्य वै धूपं भोजकैः सवितुर्मुने । । ३
स्नानमाचमनं चैवमर्घ्यदानं महात्मने ।
साम्बस्य वचनं श्रुत्वा नारदो मुनिसत्तमः । । ४
उवाच कुरुशार्दूल साम्बं जाम्बवतीसुतम् ।
हन्त ते कथयिष्यामि रवेर्धूपविधिक्रमम् । । ५
स्नानमाचमनं चैव स्वर्णदानं तथैव च ।
आचान्तस्त्रिस्ततः स्नात्वा वाससी निर्मले शुभे । । ६
अनार्द्रे संवसीतैव पवित्रे परिधाय च ।
उदङ्मुखः प्राङ्मुखो वाप्याचामेच्च प्रयत्नतः । । ७
जले जलस्थो नाचामेज्जलादुत्तीर्य यत्नतः ।
अप्सु सूर्यस्तथाग्निश्च माता देवी सरस्वती । । ८
तस्मादुत्तीर्य चाचामेन्नाचामेत्तु जलाशये ।
उपविश्य शुचौ देशे प्रयतः प्रागुदङ्मुखः । । ९
पादौ प्रक्षाल्य हस्तौ च अन्तर्जानुस्तथाचमेत् ।
प्रसन्नास्त्रिः पिबेत्त्वापः प्रयतः सुसमाहितः । । 1.143.१०
सम्मार्जनं तु द्विः कुर्यात्त्रिभिरभ्युक्षणं पुनः ।
मूर्धानं खानि चात्मानमुपस्पृश्यानु पूर्वशः । । ११
आचान्तोऽर्कं नमस्कृत्य शौचेषु शुचितामियात् ।
क्रियां यः कुरुते मोहादनाचम्येह नास्तिकः । । १२
भवन्तीह क्रियाः सर्वा वृथा तस्य न संशयः ।
शुचिकामा हि वै देवा वेदैरेवमुदाहृताः । । १३
इनोपासाकृतश्चैव सर्वे देवाः प्रयत्नतः ।
शौचमेव प्रशंसन्ति शौचाङ्गैर्हि विधीयते । । १४
आचान्तो मौनमास्थाय देवागारं ततो व्रजेत् ।
श्वासरोधनिमित्तं तु प्राणमाच्छाद्य वाससा । । १५
शिरः प्रावृत्य यत्नेन केशोदकनिवृत्तये ।
ततः पूजां रवेः कुर्यात्पुष्पैर्नानाविधैः शुभैः । । १६
गायत्रीं सशिरस्कां च यजमानः प्रयत्नतः ।
धूपं ततोऽग्नये दद्यात्प्रथमं गुग्गुलाहुतम् । । १७
पुष्पाञ्जलिं ततो गृह्य तच्छिखायां प्रयत्नतः ।
रवेर्मूर्धनि तं दद्याद्देवमन्त्रमुदाहरन् । । १८
ॐ व्रतेन यद्व्रतिनो वर्जयन्ति देवा मनुष्याः पितरश्च सर्वे ।
तस्यादित्यं प्रसरं च मनामहे यस्तेजसा प्रथमं नाविभाति । । १९
धूपवेलाः स्मृताः पञ्च धूपेष्वेव तु पञ्चसु ।
हवनाद्याः क्रियाः पञ्च रक्षिष्येऽहं तथा पुनः । 1.143.२०
दण्डनायकवेला तु प्रत्यूषे ऋक्षदर्शनात् ।
नाज्ञावेला प्रदोषस्तु तत्त्वकार्यं विजानता । । २१
त्रिकालं तु रवेः पूजा कर्तव्या सूर्यदर्शनात् ।
अर्धोदितस्तु पूर्वाह्णे ततोऽर्द्धस्तु रविर्विभुः । । २२
हेलयेति च पूर्वाह्णे मध्याह्ने ज्वलनाय च ।
तथैव मण्डले देयं नीचाह्ने ज्वलनाय च । । २३
चन्दनोदकमिश्राणि गन्धोदकयुतानि च ।
पद्मानि करवीराणि तथा रक्तोत्पलानि च । । २४
कुसुमोदकमिश्राणि कुरुंटकुसुमं तथा ।
गन्धादीनि च दिव्यानि कृत्वा वै ताम्रभाजने ।।२५
धूपं दत्त्वाग्नये वीर प्रयत्नाद्गुग्गुलाहुतिम् ।
अर्घ्यपात्रं तदा गृह्य कुर्यादावाहनं रवेः ।।२६
एहि सूर्य सहस्रांशो तेजोराशे जगत्पते ।
अनुकम्प्य मां देव गृहाणार्घ्यं दिवाकर ।।२७
अनेनावाहनं कृत्वा जानुभ्यामवनीं गतः ।
रवेर्निवेदयेदर्घ्यमादित्यहृदये गतः ।।२८
ॐ नमो भगवते१ आदित्याय विश्वाय खेशाय ब्रह्मणेलोककर्तृणे।
ईशानाय पुराणाय सहस्राक्षाय ते नमः ।।२९
सोमाय ऋग्यजुरथर्वाय।
ॐ भूर्भुवःस्वःॐमहः ॐजनः ॐतपः ॐ सत्यं ब्रह्मणे मुण्डे मध्ये पुरतः ।। आदित्याय नमः ।।1.143.३ ०
नारद उवाच
सावित्र्याश्च परे तन्त्रे त्रैलोक्यत्राणकारिणे ।
परितः परिगृह्याथ धूपभाजनमुत्क्षिपेत् ।।३ १
निवेदयेत्ततो धूपं वाचमेतामुदीरयेत् ।
त्वमेक एव रुद्राणां वसूनां च पुरातनः ।।३२
देवानां गीर्भिरभितः संस्तुतः शाश्वतो दिवि ।
पूर्वाह्णे च त्वया तेन मध्याह्ने चापरेण तु ।।३ ३
ॐ नमो भगवते ज्ञानात्मने त्वां च ।
विष्णोस्तत्परमं पदं सदा पश्यंति सूरयः ।।३४
दिवाकरस्तु सायाह्ने मन्त्रेणार्घ्यं निवेदयेत् । ॐ
नमो वरुणाय शम्भवे ।।३५
ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन्।।३६
अनेन विधिना दत्त्वा धूपं सूर्याय भोजकः ।
उत्क्षिपेच्चैव धूपेन विशेद्गर्भगृहं ततः । । ३७
ततः प्रविश्य धूपं तु प्रतिमार्थं निवेदयेत् ।
मन्त्रेण मिहिरायेति निक्षुभायेति नित्यशः । । ३८
ततो राज्ञै नमश्चेति निक्षुभायै ततो नमः ।
दण्डनायकसंज्ञाय पिङ्गलाय च वै नमः । । ३९
तथा राज्ञाय स्रौषाय तथेशाय गरुत्मते ।
ततः प्रदक्षिणं कुर्वन्दिग्देवेभ्यो निवेदयेत् । । 1.143.४०
दिण्डिने तु ततो दद्याद्धेमन्ताय यदूत्तम ।
महेश्वराय दद्यात्तु तथा व्योमाय यादव । ।४ १
(विश्वेभ्यो देवेभ्यो नमः । रुद्रेभ्यो नमः) ।
ॐ ब्रह्मणे मुण्डपतये आदित्याय पुरुषेश्वराय सूर्याय नमोनमः । । ४२
ॐ अनेककान्तये नत्वा शेषाय वासुकितक्षककर्कोटकाय पद्मशङ्खकुलिकेभ्यो नागराजेभ्यो नमः । ।४ ३
तलसुतलपातालातलवितलरसातलादिवासिभ्यो दैत्यादानवपिशाचेभ्यो नमः ।
ततः प्रदक्षिणं कुर्यान्मातृकाभ्यो नमोनमः ( ॐ ग्रहेभ्यो नमः । । ४४
ॐ दण्डनायकाय नमः । ॐ मार्तंडाय नमः । ॐ विनायकाय नमः । । ४५)
एवमुद्दिश्य नामानि धूपं दत्त्वा वरानन ।
उत्क्षिप्तो यत्र वै धूपो मुक्त्वा तत्रैव तं पुनः । । ४६
सूर्यगुप्तैरभिष्टूय एवं विज्ञाय ते ततः ।
अर्चितस्त्वं यथा शक्त्या मया भक्त्या विभावसो । ।
ऐहिकामुष्मिकीं नाथ कार्यसिद्धिं वदस्व मे । । ४७
एवं त्रिषवणं स्नात्वा योऽर्चयेत्प्रणतो रविम् ।
विधिना तु यथोक्तेन सोऽश्वमेधफलं लभेत् । । ४८
यश्चैवं कुरुते नित्यं यथोक्तं धूपविस्तरम् ।
स पुत्रवानरोगी च मृतः संलीयते रवौ । । ४९
विधिना तु यथोक्तेन क्रियमाणानि यत्नतः ।
सर्वकार्याणि सिद्ध्यन्ति सफलानि भवन्ति च । । 1.143.५०
पुष्पं श्रेष्ठं यदा न स्यात्पत्राणि समुपाहरेत् ।
पत्रं न स्यात्ततो धूपं धूपो न स्यात्ततो जलम् । । ५१
सर्वं न स्याद्यदा चैव प्रणिपातेन पूजयेत् ।
अशक्तः प्रणिपातस्य मनसा पूजयेद्रविम् । । ५२
असम्भवे तु द्रव्याणां विधिरेष प्रकीर्तितः ।
द्रव्याणां सम्भवे चैव सर्वमेवोपहारयेत् । । ५३
मन्त्रैः कर्मयुतो यस्तु मित्रे धूपं निवेदयेत् ।
उच्चारणाच्च वै तेषां धूपप्रीतो भवेद्रविः । । ५४
शिरो नासामुखं चैव भृशमावृत्य यत्नतः ।
पूजयेद्भास्करं वीर शिथिलं१ तु न कारयेत् । । ५५
नलिनेन तु राजेन्द्र नरो याति दिवाकरम् ।
तस्माद्युक्तं सदा कार्यं पूज्यते च दिवाकरः । । ५६
तेऽश्वमेधफलं प्राप्य सूर्यलोकं व्रजन्ति हि ।
धूपेन पूज्यमानं तु नराः पश्यन्ति यादव । । ५७
यान्ति ते परमं स्थानं यन्न पश्यन्ति सूरयः ।
क्रियमाणं तथार्कं च भक्त्या पश्यन्ति ये नराः । ।
सर्वान्कामानिह प्राप्य ते यान्ति परमं पदम् । । ५८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने
धूपादिविविधवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः । १४३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 144
भोजकस्योत्पत्तिवर्णनम्
सुमन्तुरुवाच
अथाजगाम भगवान्व्यासो द्वारवतीं पुरीम् ।
द्रष्टुं नारायणं देवं शङ्खचक्रगदाधरम् । । १
तमागतमृषिं दृष्ट्वा वासुदेवो विशांपते ।
अभ्युत्थाय महातेजाः पूजयामास भारत । । २
स्वयमेवासनं दत्त्वा पाद्यमर्घ्यं तथैव च ।
पप्रच्छ प्रयतो भूत्वा व्यासं सत्यवतीसुतम् । । ३
य एते भोजका विप्रा आनीता मत्सुतेन वै ।
शाकद्वीपमितो गत्वा ज्ञानिनो मोक्षगामिनः । । ४
तान्दृष्ट्वा रूपतो विप्र प्रवेशात्कर्मतस्तथा।
कौतूहलं समुत्पन्नं हर्षश्च परमो मम । । ५
कथमेते क्षणमपि तिष्ठन्ते पृथिवीतले ।
येषां रविः सदा पूज्यस्तेषां मुक्तिः सदा वसेत् । । ६
नागत्वा भोजकत्वं हि मोक्षमाप्नोति कश्चन ।
इदं मे मनसो ब्रह्मन्सदा सम्प्रतिभाति वै । । ७
व्यास उवाच
एवमेव यथात्थ त्वं शङ्खचक्रगदाधर ।
धन्या एते महात्मानो भोजका नात्र संशयः । । ८
ये पूजयन्ति सततं भानुमन्तं दिवाकरम् ।
ज्ञानिनः कर्मनिष्ठाश्च सदा मोक्षगतिं गताः । । ९
यजन्ते सततं भानुं बलिपुष्पफलैस्तथा ।
अन्नेनौषधिभिश्चैव आज्यहोमैश्च कृत्स्नशः । । 1.144.१०
होमं च शाश्वतं कृत्वा परं होमं ततः श्रिताः ।
परहोमस्य करणात्पूतात्मानो ह्यकल्मषाः । । ११
विशन्ति परमां दिव्यां भास्करीं तैजसीं कलाम् ।
कर्मणः साधने चैका तत्र चाग्नौ प्रतिष्ठिता । । १२
वायुमार्गस्थिता व्योम्नि द्वितीयान्तः प्रकाशिका ।
ततः परं तृतीया तु तत्स्मृतं सूर्यमण्डले । । १३
मण्डलं तच्च सवितुर्दिव्यं ह्यजरमव्ययम् ।
तस्याऽसौ पुरुषो मध्ये योऽसौ सदसदात्मकः । । १४
क्षराक्षरस्तु विज्ञेयो महासूर्यस्तथैव च ।
निष्कलः सकलश्चापि द्वौ च तस्य प्रकल्पितौ । । १५
अक्षरः सकलश्चैव सर्वभूतव्यवस्थितः ।
सतत्त्वः सकलः प्रोक्तस्तत्त्वहीनस्तु निष्कलः । । १६
तृणगुल्मलतावृक्षवृकसिंहद्विजाधिपान् ।
सुरसिद्धमनुष्यांश्च स्थलजाञ्जलजान्हरेत् । । १७
व्यवस्थितः स सर्वत्र सर्वेषामन्तरात्मनि ।
यदा कल्पात्मकश्चैव द्वितीयां तनुमाश्रितः । । १८
निष्कलस्तु सदा ज्ञेयः संस्थितस्तैजसीं कलाम् ।
हिमं घर्मं च वर्षं च त्रैलोक्ये कुरुते सदा । । १९
द्वितीया या तनुस्तस्य अक्षरं तत्परं पदम् ।
देवयानं तु पन्थानं कर्मयोगेन संस्थिता । 1.144.२०
आदित्यसिद्धान्तरिताः साङ्ख्ययोगविदश्च ये ।
तेऽभिगच्छन्ति तत्स्थानं स मोक्षः परिकीर्तितः । । २१
निर्द्वन्द्वो निर्गमश्चैव तत्र गत्वा न शोचति ।
वेदेषु ब्रह्म वदन्ति ध्यायन्ते तत्त्ववेदिनः । । २२
अकारं तत्त्वतश्चापि ध्यायन्ते पुरुषोत्तम ।
त्र्यक्षरं च तमोंकारं सार्धमात्रात्रये स्थितम् । । २३
वदन्ति चार्धमात्रस्थं मकारं व्यञ्जनात्मकम्।
ध्यायन्ति ये मकारीयं ज्ञानं ते हि सदात्मकम् । । २४
मकारो भगवान्देवो भास्करः परिकीर्तितः ।
मकारध्यानयोगाच्च मगा ह्येते प्रकीर्तिताः । । २५
धूपमाल्यैर्युतश्चापि उपहारैस्तथैव च ।
भोजयन्ति सहस्रांशुं तेन ते भोजकाः स्मृताः । । २६
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकस्योत्पत्तिवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः । १४४ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 145
भोजकज्ञानवर्णनम्
वासुदेव उवाच
ज्ञानोपलब्धिं विप्रेन्द्र भोजकानां महामुने ।
ब्रूहि तत्त्वं द्विजश्रेष्ठ कौतुकं परमं मम । । १
व्यास उवाच
इमां ज्ञानोपलब्धिं तु निबोध गदतो मम ।
अस्थिस्थूलं स्नायुयुतं मांसशोणितलेपनम् । ।
चर्मावनद्धं दुर्गंधिपूर्णं मूत्रपुरीषयोः । । २
जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासमिमं त्यजेत् । । ३
कपालं वृक्षमूलानि कुचैलमसहायता ।
समता सर्वभूतेषु एवं मुक्तस्य लक्षणम् । । ४
तिले तैलं गवि क्षीरं काष्ठे पावकसन्ततिः ।
उपायं चिन्तयेदस्य धिया धीरः समाहितः । । ५
प्रमाथि च प्रयत्नेन मनः संयम्य चञ्चलम् ।
बुद्धीन्द्रियाणि संयम्य शकुनानिव पञ्जरे । । ६
इन्द्रियैर्नियतैर्देही धाराभिरिव तृप्यते ।
सततममृतस्यैव जनार्दन महामते । । ७
प्राणायामैर्दहेद्दोषान्धारणाभिश्च१ किल्बिषम् ।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् । । ८
ध्यायमानस्य दह्यन्ते चान्ते दोषा यथाग्निना ।
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् । । ९
चित्तं चित्तेन संशोध्य भावं भावेन शोधयेत् ।
मनस्तु मनसा शोध्यं बुद्धिं बुद्ध्या तु शोधयेत् । । 1.145.१०
चित्तस्यातिप्रसादेन भाति कर्म शुभाशुभम् ।
शुभाशुभविनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः । ।
निर्ममो निरहङ्कारस्ततो याति परां गतिम् । । ११
पर्वाह्णे लोहितं रूपं प्रथममृङ्ममयं स्मृतम् ।
यजुर्मयं द्वितीयं तु श्वेतं माध्याह्निकं स्मृतम् । । १२
कृष्णं तृतीयं सायाह्ने साम्नो रूपं तु तत्कृतम् ।
प्रथमं राजसं देव द्वितीयं सात्त्विकं स्मृतम् । १३
तृतीयं तामसं रूपं त्रैगुण्यं तस्य कल्पितम् ।
त्रयाणां व्यतिरेकेण चतुर्थं सूर्यमण्डलम् । । १४
ज्योतिः प्रकाशकं सूक्ष्मं प्रोक्तं देवनिरञ्जनम् ।
चतुर्थं तु वेदविदः सूर्यसिद्धान्तवेदिनः । । १५
ॐकारप्रणवैर्युक्ता ध्याननिर्भूतकल्मषाः ।
स्थिताः पद्मासने वीरा नाभिसंन्यस्तपाणयः । । १६
सुषुम्नानाडिकामार्गं कुम्भरेचकपूरकैः ।
त्रिभिः संशोध्य तान्पञ्च मरुतो देहमध्यगान् ।। १७
पदाङ्गुष्ठान्वितः स्विन्नमूर्ध्वमुत्क्षेपयेत्क्रमात् ।
नाभिदेशे तु तं दृष्ट्वा देवमग्निमनामयम् ।। १८
सोमं च हदये दृष्ट्वा मूर्ध्नि वाग्निशिखां ततः ।
वातरश्मिभिरासाद्य तं भित्त्वा मण्डलं परम् ।। १९
ततः परं तु यो गच्छेद्योगस्थः सूर्यमण्डलम् ।
यत्र गत्वा न शोचन्ति तत्सौरं परमं पदम् ।।1.145.२ ०
देवार्चनं महाबाहो कीर्तितः केशिसूदन ।
प्रथमं हदयं स्थानं द्वितीयं चाग्निमाश्रितम् ।।२ १
तृतीयं नाभिसंस्थं च चतुर्थं सूर्यमण्डलम् ।।२२
स्थानं परं वै परमात्मसंस्थं भानोः सुरेशस्य वदन्ति तज्ज्ञाः ।
ज्ञेयः स मोक्षश्च नृणां स एव संसारविच्छित्तिकरं पदं ततः ।।२३
इदममृतसमं परस्य वेद्यं किरणसहस्रमृतो हितं जनानाम् ।
ऋषिचरितमवेत्य तत्त्वसारं व्यपगतमोहधियः प्रयान्ति मोक्षम् ।।२४
इदं मगानां चरितं मया ते प्रख्यापितं यानवरेण युक्तम् ।
ज्ञात्वात्विमं मोक्षविदो वदन्ति सिद्धाश्च तत्स्थानमवाप्नुवन्ति ।।२५
यन्मयोक्तमिदं ज्ञानं देयं श्रद्धावतां नृणाम् ।
नास्तिकानामबुद्धीनां न देयं भूतिमिच्छता ।।२६
सुमन्तुरुवाच
इत्युक्त्वा भगवान्व्यासो भोजकज्ञानमुत्तमम् ।
नारायणं महाबाहो जगामायतनं हरेः ।।२७
ख्यातो यस्त्रिषु लोकेषु गंगया परितोषितः ।
बदर्या मण्डितो वीर नरनारायणाश्रमः । । २८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भोजकज्ञानवर्णनं
नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः । १४५ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 146
भोजकवर्णनम्
शतानीक उवाच
य एते भोजकाः प्रोक्ता देवदेवस्य पूजकाः ।
नान्यं भोज्यमथैतेषां ब्राह्मणैश्च कदाचन । । १
भास्करस्य प्रिया ह्येते पूज्यत्वं च तथा गताः ।
दिव्याश्चैते स्मृता विप्रा आदित्याम्भः समुद्भवाः । । २
अभोज्यत्वं कथं याता भोजकास्तद्वदस्व मे ।
किं कुर्वाणास्तथा कर्म भोज्यतां यान्ति मे वद । । ३
सुमन्तुरुवाच
इममर्थं पुरा पृष्टो वासुदेवो महीपते ।
कृतवर्मणा पुरा राजंस्तथा साम्बो महाबलः । । ४
गतौ साम्बपुरीं वीर तथा नारदपर्वतौ ।
भुक्तवन्तो गृहे सर्वे भोजकस्य महात्मनः । । ५
आदित्यकर्मणो लोके देवान्नख्यातिमागताः ।
तेन ते पूजिताः सर्वे भक्त्या भोज्यैरनेकशः । । ६
आगतास्ते पुरीं वीर पुण्यां द्वारवतीं विभोः ।
तावृषी दिवमारुढौ राजन्नारदपर्वतौ । ७
वासुदेवं महातेजा हार्दिक्यो वाक्यमब्रवीत् ।
य एते भोजका विप्र पूजका भास्करस्य तु । । ८
अन्नमेषां कथं विप्रौ भुक्तवन्तौ जनार्दन ।
तावृषी दिव्यमाख्यातौ यौ तौ नारदपर्वतौ । ।
अभोज्याः किल एते वै ब्राह्मणानां जनार्दन । । ९
वासुदेव उवाच
न ते भोज्या महाबाहो भोज्या भोजाश्च सर्वदा ।
अभिवाद्यां प्रयत्नेन यथादित्यो महामते । । 1.146.१०
आचरन्तश्र तत्कर्म भोज्यत्वं प्रवजन्ति ते ।
तच्छ्रूयतां यदुश्रेष्ठ यत्कार्यं चापि तैर्विभो । ।
यतमानैर्महाबाहो तदिहैकमनाः शृणु । । ११
वृषली यस्य वै भार्या यश्चाव्यङ्गं न धारयेत् ।
अभोज्यः स तु विज्ञेयो भोजको नात्र संशयः । । १२
अस्नातः पूजयेद्यस्तु तथाभ्यङ्गविवर्जितः ।
आदित्यं यदुशार्दूल तथा च विधिना विभो । । १३
सेवको भोजको यस्तु शूद्रान्नं येन भुज्यते ।
कृषिं च कुरुते यस्तु देवार्चामपि वर्जयेत् । । १४
जातकर्मादयो यस्य न संस्काराः कृता विभो ।
आरुणेयैश्च मन्त्रैश्च सावित्रीं न च वै पठेत् । ।
तस्य गेहे द्विजो भुक्त्वा कृच्छ्रपादेन शुध्यति । । १५
पितृदेवमनुष्याणां भूतानां भास्करस्य तु ।
अकृत्वा विधिवत्पूजां यस्तु भुङ्क्ते स धर्महा । । १६
अभ्यङ्गेन विहीनो यः शंखहीनस्तथैव च ।
शिरसा धारयेत्केशान्स ज्ञेयो भोजकाधमः । । १७
देवार्चनं तथा होमं स्नानं तर्पणमेव च ।
दानं ब्राह्मणपूजां च कुर्वतो भोजकस्य तु । ।
अभ्यङ्गेन विहीनस्य सर्वं भवति निष्फलम् । । १८
सर्वदेवमयो ह्येष सर्ववेदमयस्तथा ।
अभ्यङ्गो यदुशार्दूल पवित्रः परमः स्मृतः । । १९
भोजकानां यदुश्रेष्ठ तस्य मूले स्थितो हरिः ।
मध्ये ब्रह्मा महातेजा अग्रे गोश्रुतिभूषणः । । 1.146.२०
ऋग्वेदो यस्य मूलस्थो मध्ये सामानि कृत्स्नशः ।
यजुर्वेदस्तथा श्रेष्ठश्चाथर्वसहितः स्थितः । । २१
त्रयोऽग्नयस्तथा राजंस्त्रयो लोकाः स्थिताः क्रमात् ।
एवमेव पवित्रस्तु अभ्यङ्गो भोजकस्य तु । । २२
यस्त्वनेन विहीनस्तु भोजको भोजकाधमः ।
अभोज्यः स तु विज्ञेयः सोऽशुचिर्नात्र संशयः । । २३
निर्माल्यमथ नैवेद्यं कुङ्कुमं देवहेलिनाम् ।
ये प्रयच्छन्ति शूद्राणां विक्रीणन्ति च भोजकाः । ।
तेऽधमा भोजका ज्ञेया ये च देवस्वहारिणः । । २४
न पूजयन्ति देवेशं देवस्वं क्षपयन्ति च ।
न ते देव प्रियास्तात विज्ञेया भोजकाधमाः । । २५
यस्मिन्न भुक्ते नैवेद्यं भोजकोऽश्नाति मानद ।
तदन्नं भुङ्जतस्तस्य नरकाय न शान्तये । । २६
नैवेद्यं भोजयेत्तस्माद्भास्करस्य नरः सदा ।
प्रथमं यदुशार्दूल तच्च देहविशोधनम् । । २७
ब्राह्मणानां पुरोडाशो यथा कायविशोधनः ।
भोजकानां तथा वीर नैवेद्यं कायशोधनम् । । २८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकवर्णनं
नाम षट्चत्वारिंशदधिकशततमोऽध्यायः । १४६ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 147
भोजकब्राह्मणवर्णनम्
वासुदेव उवाच
अत्र पृष्टो यथा देवो भास्करो देवपूजितः ।
अरुणेन महाबाहो के प्रिया भोजकास्तथा । । १
पूजायां तव के योग्याः के न योग्या भवन्ति च ।
इति पृष्टः स भगवानरुणेन दिवाकरः । ।
यदुवाच महाबाहो तदिहैकमनाः शृणु । । २
भास्कर उवाच
परदारान्परद्रव्यं ये न हिंसन्ति भोजकाः ।
ते प्रिया मम वै नित्यं ये न निंदन्ति दैवतान् । । ३
वाणिज्यं कृषिसेवां तु वेदानां निन्दनं च ये ।
कुर्वन्ति भोजका ज्ञेयाः सर्वे ते मम वैरिणः । । ४
येषां भार्यासङ्ग्रहणं कर्षणं ये प्रकुर्वते ।
नृपसेवां खगश्रेष्ठ विज्ञेयाः पतितास्तु ते । ।
भुञ्जते ये च शूद्रान्नं ज्ञेयास्ते शत्रवो मम । । ५
पूजा कृता तु या तैस्तु तथार्घ्यं च खगोत्तम ।
पूजां तामथ चाप्यर्घ्यं नाहं गृह्णामि खेचर । । ६
य एते कथिता वीर ये च शङ्खविवर्जिताः ।
निर्माल्यं ये मदीयं तु नैवेद्यं कुङ्कुमं तथा । । ७
शूद्राय ये प्रयच्छन्ति विकीर्णन्ति च ये खग ।
यच्छन्ति ये च वैश्याय भोजका मे न ते प्रियाः । । ८
यजन्ते ये च सावित्रीं महाश्वेतां च गोपतेः ।
ये न जानन्ति मे मुद्रां किङ्कराणां च नामतः । । ९
य एते१ कथिता वीर भोजकास्ते मया खग ।
नैते पूजयितुं शक्ता ये प्रिया मम भोजकाः । ।
ताञ्छृणुष्व खगश्रेष्ठ भूत्वा चैकाग्रमानसः । । 1.147.१०
देवद्विजमनुष्याणां पितॄणां चापि पूजकाः ।
ते प्रिया मम वै नित्यं शक्ताः पूजयितुं रविम् । । ११
येषां मुण्डं शिरो नित्यं ये चाभ्यङ्गसमन्विताः ।
वादयन्ति च ये शङ्खं दिव्यास्ते भोजका मताः । । १२
त्रिकालं ये च मां नित्यं सुस्नाताः क्रोधवर्जिताः ।
पूजयन्ति खगश्रेष्ठ ते प्रिया मम भोजकाः । । १३
वारे मदीये नक्तं तु षष्ठ्यां ये च प्रकुर्वते ।
सप्तम्यामुपवासं तु तथा सङ्क्रमणे मम । । १४
दिव्यास्ते ब्राह्मणा ज्ञेया भोजका मम पूजकाः ।
पूजयन्ति च ये विप्रान्मद्भक्ता मत्परायणाः । ।
ते प्रियाः सततं मह्यं भोजका गरुडाग्रज । । १५
मयि भक्तिं न कुर्वन्ति ब्राह्मणान्पूजयन्ति नो ।
न ते पूज्या न वन्द्याश्च ये द्विषन्ति च मां सदा । । १६
ये कुर्वन्ति महायज्ञान्भोजका गरुडाग्रज ।
पितृदेवमनुष्याणां पूजार्थं सन्ततं खग । । १७
प्रियास्ते सततं वीर भोजकानां तथोत्तमाः ।
तस्मात्सर्वप्रयत्नेन पञ्चयज्ञान्प्रवर्तयेत् । । १८
एकभक्तेन ये नित्यं वर्तन्ते कश्यपात्मज ।
भुञ्जते न च ये रात्रौ भोजकास्ते प्रिया मम । । १९
मम वारे च ये वीर तथा षष्ठ्यां च केशव ।
न रात्रौ भुञ्जते प्राज्ञा मत्प्रियास्ते मगाः खग । । 1.147.२०
प्रतिसंवत्सरं ये तु भोजका गरुडाग्रज ।
न यच्छन्ति पितुर्मातुर्दिवसे तेन मे प्रियाः । । २१
इत्थं भूता भोजका या माघमासे च सप्तमी ।
पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् । । २२
वाचको ब्राह्मणानां तु नैवेद्यं मोदकास्तथा ।
घृताहुत्यो गुग्गुलश्च क्षीरेण स्नपनं तथा । । २३
वाद्यानां शङ्खशब्दश्च नृत्यं नाट्यं मतं मम ।
पञ्चवर्णा पताकास्तु श्वेतं छत्रं च मे प्रियम् । । २४
नान्यवर्णैः कृता पूजा तथा प्रीणाति मां खग ।
यथा कृता भोजकेन पूजा प्रीणाति मां सदा । ।
नान्यदेवप्रतिष्ठा तु कर्तव्या भोजकेन तु । । २५
वासुदेव उवाच
इत्युक्त्वा भगवान्देवश्चारुणाय पुरानघ ।
लक्षणं भोजकानां तु ततो मेरुमथाक्रमत् । । २६
एवं भोज्या भोजकास्तु न चाभोज्याः कदाचन ।
अनुष्ठानविहीना ये न ते भोज्यास्तु भोजकाः । । २७
भौमास्तु ब्राह्मणा ये तु अनुष्ठानविवर्जिताः ।
तेऽप्यभोज्या भवन्तीह विकर्मस्था विशेषतः । । २८
नास्ति पूज्यतमं किञ्चिन्माङ्गल्यं पावनं तथा ।
चतुर्णामिह वर्णानां मुक्त्वा भोजकमुत्तमम् । ।
पूजिते भोजके वीर आदित्यः पूजितो भवेत् । । २९
भुञ्जते यस्य वै गेहे भोजका यदुनंदन ।
तस्य भुङ्क्ते स्वयं भानुर्ब्रह्मा विष्णुस्तथा शिवः । । 1.147.३०
यथेह सर्वसत्त्वानां प्रधानत्वे स्थितो रविः ।
तथेह सर्वभूतानां भोजकः पूज्य उच्यते । । ३१
तीर्थानां तु कुरुक्षेत्रं सरसां सागरो यथा ।
तथा पूज्यतमो ज्ञेयः पूज्यानां भोजको विभो । । ३२
विशेषेण च सौराणां भोजकः पूज्य उच्यते ।
भर्ता पूज्यो यया स्त्रीणां शिष्याणां च यथा गुरुः । ।
भोजकस्तु तथा पूज्यः सौराणां हृदिकात्मज । । ३३
यस्य भुङ्क्ते भोजकस्तु गन्धपुष्पादिनार्चितः ।
तस्य भुङ्क्ते स्वयं भानुः पितरो देवतास्तथा । । ३४
एवं पूज्यास्तथा भोज्या भोजका हृदिकात्मज ।
ये सौरा भोजकस्यान्नं भुञ्जते निर्विकल्पतः । ।
ते सर्वे पापनिर्मुक्ता यान्ति सूर्यसलोकताम् । । ३५
कथितो यत्र यो भोज्यो यथा भोज्यः स वर्जितः ।
अथ किं बहुनोक्तेन श्रूयतां वचनं मम । । ३६
नास्ति वेदात्परं शास्त्रं नास्ति गङ्गासमा सरित् ।
अश्वमेधसमं पुण्यं नास्ति पुत्रसमं सुखम् । । ३७
नास्ति भानुसमो देवो नास्ति मातृसमा गतिः ।
यथैतानि समस्तानि उत्तमानि यदूत्तम ।।
तथोत्तमो भोजकस्तु सम्प्रोक्तो भास्करेण तु । । ३८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकलक्षणवर्णनं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः । १४७ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 148
कालचक्रवर्णनम्
सुमन्तुरुवाच
अध साम्बो महातेजा दृष्ट्वा चक्रं पितुः करे ।
ज्वालामालाकरालं तु महता तेजसान्वितम् । । १
पप्रच्छ पितरं साम्बो भक्त्या श्रद्धासमन्वितः ।
कुतस्तात त्वया प्राप्तं चक्रमादित्यसन्निभम् । । २
किमर्थं वहते देव दिव्यमायुधमुत्तमम् ।
एतदाख्याहि मे सर्वं श्रोतुकामस्य१ कौतुकात् । । ३
वासुदेव उवाच
साधुसाधु२ महाबाहो साधु पृष्टोस्म्यऽहं त्वया ।
शृणुष्वैकमनाः पुत्र चक्रस्य विधिनिर्णयम् । ।४
दिव्यं वर्षसहस्रं तु भानुमाराध्य श्रद्धया ।
प्राप्तं चक्रं मया तस्माद्भास्कराल्लोकपूजितात् । ।५
नभोगः पञ्चकारूढः स्थितः साक्षाद्दिवाकरः ।
ग्रहाः सोमादयो यस्य संस्थिता नाभिमण्डले । । ६
आदित्या द्वादश समा अरेषु क्रमशस्तथा ।
प्रोक्तं पथिषु तत्त्वानि पृथिव्यादीनि यानि वै । ।७
एतैस्तत्त्वैः परिव्याप्तं चक्रं कालात्मकं परम् ।
संक्षेपात्ते मयाख्यातं दत्तं चक्रमिवापरम् । । ८
साम्ब उवाच
कथं कालमयं देव चक्रं कमलमुच्यते ।
इदं तावन्ममाचक्ष्व ज्ञातुमिच्छामि तत्त्वतः । । ९
वासुदेव उवाच
कमलं ह्यृतुभिः षड्भिः षट्दलं चाक्षयाश्रितम् ।
पुरुषाधिष्ठितं तद्धि तत्र साङ्गो रविः स्थितः । । 1.148.१०
यच्च कालत्रयं लोके तन्नाभित्रयमुच्यते ।
मासा अरा महाबाहो पक्षाश्च प्रधयः स्मृताः । । ११
नेमी चैव परे प्रोक्ते अयने दक्षिणोत्तरे ।
पथिनाभिषु योगे च योगाख्यास्तपनादिभिः । । १२
नक्षत्राणि ग्रहाश्चैव सदा चात्र स्थिताः स्मृताः ।
एतैर्व्याप्तमिदं चक्रं स्थूलसूक्ष्मप्रभेदतः । । १३
अत्रोद्दिष्टेषु कालेषु ये नोद्दिष्टा मया तव ।
युगादिकल्पपर्यन्तास्तेऽपि चात्र स्थिताः क्रमात् । । १४
यत्ते कालात्मकं चक्रमिदं संक्षेपतो मया ।
कथितं तद्विनिष्क्रान्तं प्रदीप्तात्सूर्यमण्डलात् । । १५
असुराणां वधायेदं मया लब्धं दिवाकरात् ।
आराध्य तपसा सूर्यं पुरा कल्पे जगद्गुरुम् । ।
अतः सम्पूज्ययाम्येनं ग्रहैस्तत्त्वैर्वृतं सदा । । १६
अर्कं भक्तो हि चक्रस्थं यः पूजयति भक्तिमान् ।
तेजसा रविसंकाशः पुष्पोत्तरपुरं व्रजेत् । । १७
तस्मात्तं मत्कुलानन्दं मित्रं सम्पूजयाम्यहम् ।
ग्रहैस्तत्त्वैर्वृतं भक्त्या स्वमन्त्रैः सततं विभुम् । । १८
सप्तम्यां चक्रमालिख्य ये यजन्ति दिवाकरम् ।
रक्तचन्दनपूर्णेन कुंकुमेन सुगंधिना । । १९
पिष्टगन्धादिभिर्वापि रक्तवर्णकमिश्रकैः ।
रक्तैश्च कमलैः शुद्धैः करवीरैः सुगन्धिभिः । । 1.148.२०
अन्यैर्वा कुसुमैर्वन्यैः प्रत्यग्रैर्जन्तुवर्जितैः ।
अपर्युषितनिश्छिद्रैः शुभधन्यैर्दलैरपि । । २१
फलैः पक्वैरोषधिभिस्तथा दूर्वाङ्कुरैः कुशैः ।
धूपैश्च विविधैर्गन्धैस्तथा वस्त्रैश्च भूषणैः । । २२
भक्ष्यैर्भोज्यैश्च पेयैश्च चोष्यैर्लेह्यैश्च शक्तितः ।
वितानशोभासिकतैः पलाशैरुपशोभितैः । । २३
छत्रचामरघण्टाभिर्भूषणैर्दर्पणादिभिः ।
नृत्यवादित्रगीतैश्च वेदैः पुण्यकथास्वनैः । । २४
सर्वत्र जयघोषैश्च सम्पूर्णे पूजयन्ति ये ।
सम्पूर्णान्विविधान्कामान्निर्विघ्नान्प्राप्नुवन्ति ते । । २५
स्वचक्रं चापि निर्विघ्नं वृद्धिमायाति सुव्रत ।
हन्यते परचक्रं च यत्रेदं पूज्यते सकृत् । । २६
सङ्क्रान्तौ ग्रहणे चापि लिखित्वा यो जपेदिदम् ।
भवन्ति नियताः साम्ब तस्य सानुग्रहा ग्रहाः । । २७
सर्वरोगविहीनस्तु सर्वदुःखविवर्जितः ।
चिरं जीवति धर्मात्मा सर्वैश्वर्यसमन्वितः । । २८
एष वै कथितो वत्स चक्रयोगो मया तव ।
अर्कस्य सर्वयज्ञानां श्रेष्ठं सिद्धिप्रदो भृशम् । । २९
पुण्यो धर्मस्तथा पुष्ट्यः शत्रुघ्नश्च विशेषतः ।
श्वेतो रक्तोऽथ पीतश्च कृष्णश्चापि विभागशः । । 1.148.३०
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने कालचक्रवर्णनं
नामाष्टचत्वारिंशदधिकशततमोऽध्यायः । १४८ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 149
सूर्यदीक्षावर्णनम्
साम्ब उवाच
किं प्रमाणं लिखेच्चक्रं तत्र पद्मं च किं भवेत् ।
नेमिप्रध्यारनाभीनां विभागः क्रियते कथम् । । १
वासुदेव उवाच
चतुःषष्ट्यङ्गुलं चक्रं कृत्वा वृत्तं प्रमाणतः ।
अष्टाङ्गुला भवेन्नेमिः सेयं विभवतः सदा । । २
नाभिक्षेत्रं तथैव स्यात्पद्मं तत्त्रिगुणं भवेत् ।
अरक्षेत्रं च पद्मस्य कणिकाकेसराणि च । । ३
केसरस्य च पादेन शेषपत्राणि कल्पयेत् ।
पत्रसन्धिश्च पादाङ्गं क्रमात्तत्रापि भिद्यते । ।४
उन्नतं कमलं तत्तु कुर्यान्नाभ्यां न संशयः ।
आकीर्णाः संविभक्ताश्च कर्तव्याः प्रधयः क्रमात् । ।५
अङ्गुलस्थूलमूलं स्यादराग्रं त्रिगुणं ततः ।
भूमिः पीता बहिर्ज्ञेया कर्णिकाकेसराणि च । । ६
सितं नाभिस्थलं तत्र द्वाराणि परिकल्पयेत् ।
हस्तमात्रं भवेत्तस्य तन्मानं द्वारसन्निभम् । ।७
शेषं रक्तं समुद्दिष्टं संहताः पत्रसन्धयः ।
नाभिनेम्यन्तरे लेखाः सिताश्चाङ्गुलमानतः । । ८
सितरक्तसिताभिश्च समन्तादुपशोभितम् ।
कपोलं द्वारपद्मं च द्वारकोणे प्रकल्पयेत् । । ९
चतुर्द्वारं भवेदेवमैन्द्रद्वारं प्रकल्पयेत् ।
अपराह्णेऽथ पूर्वाह्णे वरुणमावाहयेत्सदा । । 1.149.१०
द्वाराण्येतानि संवर्त्य यथोक्तविधिना यजेत् ।
यथोक्ता देवताः सर्वाः स्वमन्त्रैरेव भक्तितः । । १ १
चक्रमेवं समुद्दिष्टं यजनार्थं मया तव ।
यज्ञेनानेन सम्बद्धो दीक्षितश्चार्कमण्डले । ।
इत्थं मे भानुना पूर्वमिदमुक्तं वरानन । । १२
साम्ब उवाच
के मन्त्राश्चक्रयज्ञेऽस्मिन्देवतानां प्रकीर्तिताः ।
यज्ञक्रमश्च कः प्रोक्तो रूपं किं च पृथक्पृथक् । । १३
वासुदेव उवाच
खषोल्कं हदयाध्यक्षं पूर्वोक्ते कमले यजेत् ।
कर्णिकायां दलेष्वेवमङ्गानि हृदयादि च । । १४
नाममन्त्राश्चतुर्थ्यंतास्तेषां पूर्वोक्तकोटयः ।
नमस्कारश्च सर्वत्र एष एव विधिः स्मृतः । । १५
स्वाहान्ता होमकाले च कर्मस्वन्येषु ते पुनः ।
यथा कर्मावसानाश्च प्रयोक्तव्याः समासतः । । १६
ॐ खषोल्काय विद्महे दिवाकराय धीमहि ।
तन्नः सूर्यः प्रचोदयात् । । १७
सावित्री च महाबाहो चतुर्विंशाक्षरा मता ।
सर्वतत्त्वमयी पुण्या ब्रह्मगोत्रार्कवल्लभा । । १८
एवं मन्त्राः प्रयोक्तव्याः सर्वकर्मस्वतंद्रितैः ।
अन्यथा विफलं कर्म भवेदिह परत्र च । । १९
तस्मात्सर्वप्रयत्नेन मन्त्राञ्ज्ञात्वा विधिं तथा ।
यथावत्कर्म तत्कृत्वा साधयेदीप्सितं फलम् । । 1.149.२०
साम्ब उवाच
आदित्यमण्डले दीक्षा कस्य कार्या कथं च सा ।
कदा केन किमर्थं च कथयेदं ममाखिलम् । । २१
वासुदेव उवाच
ब्राह्मणं क्षत्रियं वैश्यं कुलीनं शूद्रमेव च ।
पुरुषं वा स्त्रियं वापि दीक्षयेत्सूर्यमण्डले । । २२
स्वयं भक्त्योपपन्नश्च प्रणिपत्य गुरुं तथा ।
गुरुस्तं दीक्षयेद्विप्रः कल्पज्ञः सत्यवाक्छुचिः । । २३
षष्ठ्यामग्निं समाधाय पूर्वोक्तविधिना क्रमात् ।
सम्पूज्यार्कं तथा वह्नौ हुत्वा वै हविषा रविम् । । २४
शिष्यं स्नातमथाचान्तं खषोल्काकृतिविग्रहम् ।
स्वाङ्गैरालभ्य चाङ्गेषु दर्भवद्भिस्तथाक्षतैः । । २५
पुष्पैः सम्पूज्य चाङ्गानि देयः कार्यो बलिस्तथा ।
आदित्यो वरुणोऽर्कोऽग्निः साधितो हृदयेन च । । २६
भवेद् घृतगुडक्षीरैस्तन्दुलैश्च१ प्रमाणतः ।
त्रिभिरञ्जलिभिर्हुत्वा देवायाग्नौ हुतं पुनः । । २७
दत्त्वा शिष्टाय मुक्त्वैवं दत्त्वान्ते दन्तधावनम् ।
क्षीरं वृक्षोद्भवं तस्मै द्वादशाङ्गुलसन्निभम् । । २८
दन्तश्लिष्टेऽपनीते च तेन प्राच्यां क्षिपेत्ततः ।
दन्तधावनमास्यं च तदा तस्योपरि क्षिपेत् । । २९
मैत्रावारुणमीशानं वक्रं सौम्यसमाश्रितम् ।
प्रशस्तं दन्तकाष्ठस्य मुखमन्यत्र निन्दितम् । । 1.149.३०
यां दिशं दन्तकाष्ठस्य मुखं पश्यति तत्पतिम् ।
अर्चयेत्तेन शांतिः स्यादित्युक्तं भानुना स्वयम् । । ३१
पुनस्तद्वचनं श्रुत्वा अङ्गैरालभ्य च क्रमात् ।
सम्पूज्य लोचने तत्र सञ्चिंत्य परिजप्य च । । ३२
कारयित्वा च सङ्कल्पं तथा चेन्द्रियसंयमम् ।
स्थापयेत स्वयं चापि वरं श्रुत्वा समाहितः । । ३३
आचम्य कृतरक्षस्तु कृतद्रव्याधिवासनः ।
हदयेन नमेत्प्रातः स्नात्वा हुत्वा हुताशनम् । । ३४
स्वप्नं पृच्छेद्यथा दृष्टं शुभं संवादयेच्च तम् ।
हदयेनाशुभे दृष्टे शतहोमं समाचरेत् । । ३५
स्वप्ने पश्यति हर्म्याणि देवतानां हुताशनम् ।
नदीयानानि रम्याणि उद्यानोपवनानि च । । ३६
पत्रपुष्पफलाढ्यानि कमलानि च राजतम् ।
सम्पश्यति यदि स्वप्ने ब्राह्मणं वेदपारगम् । । ३७
राजानं शौर्यसम्पन्नं धनाढ्यं क्षत्रियोत्तमम् ।
शुश्रूषणपरं शूद्रं यदि तत्त्वार्थमादिशेत् । । ३८
प्रशस्तं भाषणं चैव यथासम्भवतो मतम् ।
एतैः स्पर्शनमेतेषां श्रेष्ठमारोहणं ततः । । ३९
वाहनानि प्रशस्तानि प्रासादं नावमेव च ।
पर्वतं च समारुह्य विपुलां भार्गवीं भजेत् । । 1.149.४०
पीत्वा सुरां समुद्रं च दध्याज्यं क्षीरमेव च ।
सोमं मांसं हविर्भुक्त्वा काश्यपीं लभते नरः । । ४१
लब्ध्वा वस्त्राणि रत्नानि विविधाभरणानि च ।
वाहनानि महीं गाश्च धान्योपकरणानि च । । ४२
समृद्धिमाप्नुयात्किञ्चित्स्वप्नानां दर्शनं शुभम् ।
शुभकर्मानुगं यच्च तत्सर्वं शुभमुच्यते । ।४ ३
तस्मादन्यदनिष्टं स्यात्तस्माद्युक्ता प्रतिक्रिया ।
क्रमादालिख्य सप्तम्यां तत्र सम्पूज्य भास्करम् ।४४
तर्पयित्वा द्विजाञ्च्छिष्टानानम्य पूर्ववद्गुरुम् ।
सृष्टिक्रमेण भृत्यर्थं मुक्त्यर्थं नान्यथा भवेत् । ।४५
दिवाकरं समालभ्य पुरुषोऽथ यथाक्रमम् ।
सर्वग्रहेषु तत्त्वेषु यथावत्तन्नियोजयेत् । ।४६
विशुद्धेषु विशुद्धं तं ध्यात्वा चादित्यवत्क्रमात् ।
नियोजयेत्पृथिव्याश्च ततः प्रभृति सर्वशः । ।४७
आदित्यमण्डलं शुद्धं सर्वमुक्तं नियोजयेत् ।
एवं तु मनसा ध्यात्वा जुहुयाच्चैव तं शतम् ।। ४८
सर्वैर्मन्त्रैः क्रमादेवं दीक्षा प्रोक्ता वरापरा ।
कृत्वैव पुष्पपातं तु तस्मिन्नादित्यमण्डले । । ४९
बद्ध्वास्यमञ्जलौ पुष्पं कृत्वा दत्त्वा च मन्त्रितम् ।
क्षिपेद्वै कुलशुद्ध्यर्थं नामार्थं च विशेषतः । 1.149.५०
यत्र तत्पतितं पुण्यं तस्य तत्कुलमादिशेत् ।
नाम चादित्यसंयुक्तमित्युक्तं भानुना स्वयम् । । ५१
सम्पूज्य श्रावयेत्तत्र समयानर्कभाषितान् ।
प्रातः सायं मध्याह्ने रवेरभिमुखः स्थितः । । ५२
उपस्थानं सदा कुर्यादर्चनं च सदा नरः ।
अदृष्ट्वार्कं न भोक्तव्यं दिवा रात्रौ हुताशनम् । ।५ ३
दृष्ट्वा भोक्तव्यमर्काख्यं न भोक्तव्यं कदाचन ।
न च पद्या स्पृशेत्तद्वन्नासनं परिवर्जयेत् । । ५४
न लङ्घ्या प्रतिमाच्छाया न लङ्घ्यास्तिथयः क्वचित् ।
नक्षत्राणि ग्रहा योगा मासा मासाधिपाश्च ये । । ५५
अयने ऋतवः पक्षास्तथैव दिवसानि च ।
कालः संवत्सरश्चापि यः कश्चित्काल उच्यते । । ५६
अभिवन्द्यः स सर्वोऽपि नमस्यः पूज्य एव च ।
तस्मात्कालाधिपः सूर्यः स्वयं कालश्च पठ्यते । ।५७
ज्योतिर्गणस्य सर्वस्य स्थावरास्थावरस्य च ।
चेतनाचेतनस्यापि सर्वात्मा यः प्रकीर्तितः । । ५८
स्तुत्यो वन्द्यः सदा पूज्यस्त्वयायं सर्वथा नृप ।
मनसा कर्मणा वाचा देवनिन्दां परित्यजेत् । ।५ ९
प्रेषयित्वा१ च निर्माल्यं तदश्वेभ्यो निवेदयेत् ।
प्रक्षाल्य हस्तौ पादौ च नमस्कुर्याद्दिवाकरम् । । 1.149.६०
इत्येषा परमा दीक्षा तव संक्षेपतो मया ।
भुक्तिमुक्तिकरी चापि कथिता प्रविभागतः । । ६१
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यदीक्षावर्णनं
नामैकोनपञ्चाशदधिकशततमोऽध्यायः । १४९ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 150
आदित्यपूजाविधिवर्णनम्
वासुदेव उवाच
अतः परं प्रवक्ष्यामि यथा पूज्यो दिवाकरः ।
स्थण्डिले यदुशार्दूल निबोधैकाग्रमानसः । । १
मण्डलैरष्टभिः कार्यं चक्रं कालात्मकं शुभम् ।
मध्ये पद्माकृतं चक्रमरैर्द्वादशभिर्युतम् । । २
तन्मध्ये कमलं प्रोक्तं पत्राष्टकसमन्वितम् ।
सर्वात्मा सकलो देवः खषोल्कः किरणोज्ज्वलः । । ३
पूजनीयः सदा मध्ये सहस्रकिरणायुधः ।
प्रणवेन महाबाहो चतुर्बाहुसमन्वितः । ।४
अरुणं१ पूजयेत्प्राज्ञः सदा देवाग्रजं२ शुभम् ।
दक्षिणे पूजयेद्देवीं निक्षुभां भास्करस्य तु । । ५
रेवतं दक्षिणे पार्श्वे उत्तरे पिङ्गलं सदा ।
संज्ञां च यदुशार्दूल श्रेयसे सततं बुधः । । ६
आग्नेय्यां लेखकं वीर नैर्ऋत्यामश्विनौ तथा ।
वायव्यां पूजयेद्देवं मनुं वैवस्वतं विभुम् । । ७
ऐशान्यां पूजयेद्देवीं यमुनां लोकपावनीम् ।
द्वितीयावरणे वीर पूर्वतः पूजयेद्वियत् । । ८
दक्षिणे च ततो देवीं पश्चिमे गरुडं तथा ।
उत्तरे नागराजानं पुत्रमैरावतं शुभम् । । ९
आग्नेय्यां पूजयेद्धेलिं प्रहेलिं नैर्ऋते तथा ।
वायव्यामुर्वशीं देवीमीशाने विनतां तथा । । 1.150.१०
तृतीयावरणे पूर्वे पूजयेद्गुरुमादरात् ।
पश्चिमे त्वर्कपुत्रं तु उत्तरे धिषणं तथा । । ११
ऐशाने शशिपुत्रं तु सोममाग्नेयमण्डले ।
पूजयेद्दक्षिणे कोणे नैर्ऋते राहुमादरात् । । १२
वायव्ये विकचं वीर पूजयेत्सततं बुधः ।
चतुर्थावरणे देवं पूजयेल्लेखमादरात् । । १३
आग्नेये शाण्डिलीपुत्रं दक्षिणे दक्षिणाधिपम् ।
विरूपाक्षं नैर्ऋते देवं जलेशं पश्चिमे तथा । । १४
वायुपुत्रं च वायव्यां सततं पूजयेन्नरः ।
ईशाने देवमीशानं पूजयेत्सततं बुधः । । १५
उत्तरे यक्षराजानां कुबेरं पूजयेद्बुधः ।
पञ्चमे पूजयेद्वीर सदा स्वावरणे द्विजाः । । १६
पूर्वतः परमां देवीं महाश्वेतां महामतिः ।
श्रियमृद्धिं विभूतिं च धृतिं चैवोन्नतिं तथा । । १७
पृथिवीं यदुशार्दूल महाकीर्तिं तथैव च ।
इन्द्रं विष्णुं चार्यमणं भगं पर्जन्यमेव च । । १८
विवस्वन्तं तथार्कं च त्वष्टारं किरणोज्ज्वलम् ।
पूजयेद्वरुणं षष्ठे चैवमेतान्दिवाकरान् । । १९
शिरो नेत्रे तथा वर्म अस्त्रं च यदुसत्तम ।
अरुणं सरथं वीर सप्तमे पूजयेद्बुधः । । 1.150.२०
तथाश्वान्यदुशार्दूल सदा चावरणे बुधः ।
यक्षरक्षांसि गन्धर्वान्मासान्पक्षानहानि तु । । २१
संवत्सरं तथा पुत्र ह्येतान्संपूजयेत्पुरा ।
य एवं पूजयेद्देवं भास्करं सततं नरः । ।
स गच्छेत्परमं स्थानं यत्र गत्वा न शोचति । । २२
( ॐ खषोल्काय नमः)
मूलमन्त्राक्षराणीह चाङ्गानि परिचक्षते ।
अनेन विधिना यस्तु पूजयेत्सततं रविम् । । २३
नित्यमुभयसप्तम्यां स गच्छेत्परमं पदम् ।
इत्युक्त्वा भगवान्देवो जगामाशु गृहं रविः । । २४
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने आदित्यपूजाविधिवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः । १५० ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 151
सौरधर्मवर्णनम्
सूत उवाच
अथ राजा महातेजाः शतानीको द्विजोत्तमम् ।
प्रणम्य शिरसा भक्त्या सुमन्तुं वाक्यमब्रवीत् । । १
अहो देवस्य माहात्म्यं भास्करस्यामितौजसः ।
कीर्तितं भवता मह्यं सर्वपापप्रणाशनम् । । २
तस्मान्नार्कसमं देवं लोके पश्यामि सुव्रत ।
न चाप्यस्य स्थिता विप्र गतिर्लोकेषु विद्यते । । ३
प्रवर्तते जगद्विप्र सर्गकाले दिवाकरात् ।
स्थितौ पालयते चापि कल्पान्ते संहरेत्पुनः । । ४
श्रुत्वैवं देवमाहात्म्यं भास्करस्यामितौजसः ।
कीर्तितं भवता मह्यमश्वमेधशताद्वरम् । । ५
किं तु मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते ।
केनोपायेन विप्रेन्द्र मुच्यते सम्भवार्णवात् । । ६
दिवाकरप्रसादाद्वै सुप्रसन्नाद्वृषध्वजात् ।
कथं तुष्येत्सदा देवो धर्मेण कतरेण तु । । ७
श्रुता मे बहवो धर्माः श्रुतिस्मृत्युदितास्तथा ।
वैष्णवाः शैवधर्माश्च तथा पौराणिकाः श्रुताः । । ८
श्रोतुकामो ह्यहं विप्र सौरं धर्ममनौपमम् ।
भगवन्सर्वधन्यास्ते सौरधर्मपरायणाः । । ९
ब्रूहि मे देवदेवस्य भानोर्धर्ममनौपमम् ।
शृण्वतो नास्ति मे तृप्तिरमृतस्यैवमेव च । । 1.151.१०
अश्वमेधादयो यज्ञा बहुसम्भारविस्तराः ।
न शक्यास्ते यतः कर्तुमल्पवित्तद्विजातिभिः । । ११
सुखोपायमतो ब्रूहि धर्मकामार्थसाधकम् ।
हिताय सर्वमर्त्यानां सर्वपापभयापहम् । । १२
सौरधर्मपरं पुण्यं पवित्रं पापनाशनम् ।
श्रुत्वा तु वचनं राज्ञो व्यासशिष्यो महामुनिः । ।
प्रणम्य शिरसा व्यासमिदं वचनमब्रवीत् । । १३
सुमन्तुरुवाच
श्रूयतामभिधास्यामि सुखोपायं महाफलम् ।
परमं सर्वधर्माणां सर्वधर्ममनौपमम् । । १४
रविणा कथितं पूर्वमरुणस्य विशांपते ।
कृष्णस्य ब्रह्मणो वीर शङ्करस्य न विद्यते । । १५
संसारार्णवमग्नानां सर्वेषां प्राणिनामयम् ।
सौरधर्मतमः श्रीमान्हिताय जगतोदितः । । १६
यैरयं शान्तहृदयैः सूर्यभक्तैर्भगार्थिभिः ।
संसेव्यते परो धर्मस्ते सौरा नात्र संशयः । । १७
एककालं द्विकालं वा त्रिकालं नित्यमेव च ।
ये स्मरन्ति रविं भक्त्या सकृदेवापि भारत । ।
सर्वपापैर्विमुच्यन्ते सप्तजन्मकृतैरपि । । १८
स्तुवन्ति ये सदा भानुं न ते प्रकृतिमानुषाः ।
स्वर्गलोकात्परिभ्रष्टास्ते ज्ञेया भास्करा भुवि । । १९
नानर्कः स्मरतेऽर्कं वै नानर्कोऽर्कं समर्चयेत् ।
नानर्कः कीर्तयेदर्कं नानर्कोऽर्कमवाप्नुयात् । । 1.151.२०
सौरधर्मस्य सारोऽयं सूर्यभक्तिः सुनिश्चला ।
षोडशाङ्गा च सा प्रोक्ता रविणेह दिवौकसाम् । । २१
प्रातः स्नानं जपो होमस्तथा देवार्चनं नृप ।
द्विजानां पूजनं भक्त्या पूजा गोश्वत्थयोस्तथा । । २२
इतिहासपुराणेभ्यो भक्तिश्रद्धापुरस्कृतम् ।
श्रवणं राजशार्दूल वेदाभ्यासस्तथैव च । । २३
मद्भक्त्या जनवात्सल्यं पूजायां चानुमोदनम् ।
स्वयमभ्यर्चयेद्भक्त्या ममाग्रे वाचकं परम् । । २४
पुस्तकस्य सदा श्रेष्ठ ममातीव प्रियं सुराः ।
मत्कथाश्रवणं नित्यं स्वरनेत्राङ्गविक्रिया । । २५
ममानुस्मरणं नित्यं भक्त्या श्रद्धापुरस्कृतम् ।
षोडशाड्गा भक्तिरियं यस्मिन्म्लेच्छेऽपि वर्तते । ।
विप्रेन्द्रः स मुनिः श्रीमान्सजात्यः स च पण्डितः । । २६
न मे पृथक्चतुर्वेदा मद्भक्तः श्वपचोऽपि यः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् । । २७
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति । । २८
यो मां सर्वगतं पश्येत्सर्वं च मयि संस्थितम् ।
तस्याहमास्थितो नित्यं स च नित्यं मयि स्थितः । । २९
अष्टादशार्धकक्षायाः परं चाष्टभिरुद्भवैः ।
रोधयित्वा महाबाहो तथा ज्ञानतरेण तु । । 1.151.३०
दुर्गपालं विजित्याशु भास्करार्धं तु दुर्जयम् ।
जित्वा च पुरराजानां महातेजमनौपमम् । । ३१
मनसाचलया भक्त्या यो मां ध्यायति मानवः ।
अहं तमेव चिंतामि आत्मवत्सततं नरम् । । ३२
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मवर्णनं
नामैकपञ्चाशदधिकशततमोऽध्यायः । १५१ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 152
सूरधर्मेषु प्रश्नवर्णनम्
सुमन्तुरुवाच
सूरे च दुर्लभा भक्तिर्दुर्लभं सुरपूजनम् ।
सूराय दुर्लभं दानं सूरहोमश्च दुर्लभः । । १
सुदुर्लभं रवेर्ज्ञानं तदभ्यासोऽपि दुर्लभ ।
सुदुर्लभतरं ज्ञेयं खषोल्कज्ञानमुत्तमम् । । २
सुदुर्लभतरं ज्ञानं सदा वै भास्करस्य तु ।
प्रदक्षिणां चक्रतुर्वै पादौ भक्त्याऽर्कमन्दिरे । । ३
तौ करौ श्लाघ्यतां प्राप्तौ यौ पूजां चक्रतू रवेः ।
सैवैका रसना धन्या स्तोत्रं या कुरुते रवेः । । ४
तन्मनः पुण्यतां प्राप्तं यद्धित्वा विषयं नृप ।
निश्चला च रवेर्लीला निर्भीका क्रोधवर्जिता । । ५
शतानीक उवाच
सूर्यार्चनविधिं कुर्वञ्छ्रोतुमिच्छामि तत्त्वतः ।
त्वत्प्रसादाद्द्विजश्रेष्ठ कौतूहलमतीव मे । । ६
यत्पुण्यं स्थापिते सूर्ये कृते सूर्यालये च यत् ।
सम्मार्जने च यत्पुण्यं यत्पुण्यमुपलेपने। । ७
स्थाने कृते च यत्पुण्यं तथा नीराजने कृते ।
नीलौषधिप्रवापेन नृत्यमङ्गलवादितैः । । ८
अर्घ्यदानेन यत्पुण्यं तोयस्नानेन यद्भवेत् ।
पञ्चामृतमयस्नाने दधिस्नाने च यत्फलम् । । ९
चक्राभ्यङ्गे च यत्प्रोक्तं वज्रस्नाने च यत्फलम् ।
मधुस्नाने पयःस्नाने स्नान इक्षुरसस्य तु । । 1.152.१०
उद्वर्तनं शुचिस्थाने कुशपुष्पोदकेन तु ।
सुवर्णरत्नतोयैश्च गन्धचन्दनवारिभिः । । ११
कर्पूरागुरुतोयेन स्वच्छतो येन यत्फलम् ।
विलेपनैश्च गन्धाढ्यैर्विलेपनफलं लभेत् । । १२
तालपत्रप्रदाने तु प्रदाने चामरस्य तु ।
रक्तपुष्पार्चने यच्च दामभिः पूजनेन च । । १३
सुमानां मण्डपे यच्च पुष्पमालावलम्बनात् ।
पूजाभक्तिविशेषैश्च गृहमालावलम्बने । । १४
पुष्पदानविशेषेण धूपदीपैश्च यत्फलम् ।
वस्त्रालङ्कारदाने तु पुण्यश्रवणकीर्तने । । १५
ब्रह्मश्रवस्य दाने तु अव्यङ्गस्य च गोपते ।
मगानां मत्प्रसादेन अभिवादनपूजने । । १६
व्योमपूजाफलं यच्च अरुणस्य च पूजनम् ।
तथान्यदपि यत्प्रोक्तमज्ञानाद्ब्राह्मणोत्तम । । १७
तत्सर्वं ब्रूहि मे ब्रह्मन्भक्तानामनुकम्पया । । १८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सूरधर्मेषु प्रश्नवर्णनं नाम
द्विपञ्चाशदधिकशततमोऽध्यायः । १५२ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 153
सूर्यतेजोवर्णनम्
सुमन्तुरुवाच
सुमतिश्च रवेर्भक्तः पाण्डवेय महामते ।
अतस्ते निखिलं वच्मि शृणुष्वैकमना नृप । । १
कल्पादौ सृजतो वीर ब्रह्मणो विविधाः प्रजाः ।
अहंकारो महानासीन्नास्ति लोके मदुत्तमः । । २
तथा पालयतो वीर केशवस्य धरापते ।
तथा संहरतो जज्ञेऽहङ्कारस्त्र्यम्बकस्य च । । ३
चिंतयन्तोथ ते देवाः केशवश्च नराधिप ।
मिथस्ते स्पर्धया युक्ताः परस्परविरोधिनः । । ४
विवादस्तु महानासीत्कञ्जाम्बुनगौकसाम् ।
परस्परं महाबाहो मनसाश्रित्य केवलम् । । ५
अहं कर्ता विकर्ताऽहं पालकोऽहं जगत्प्रभुः ।
इत्याह भगवान्ब्रह्मा कृष्णभीमौ समर्चितौ । । ६
तथैत्य शंकरः क्रुद्धः कः शक्तो मदृते भुवि ।
संहर्तुं जगदेतद्धि स्रष्टुं पालयितुं तथा । ।७
नारायणोऽप्येवमेव मनाक् क्रोधसमन्वितः ।
न वा शक्तो जगत्स्रष्टुं संहर्तुं रक्षितुं तथा । । ८
एवं तेषां प्रवदतां क्रुद्धानां च परस्परम् ।
समाविशत्तदाऽज्ञानं तमो मोहात्मकं विभो । । ९
तेन क्रान्तधियः सर्वे न पश्यन्ति परस्परम् ।
अत्यर्थं मोहमापन्ना न जानन्तीह किञ्चन । । 1.153.१०
अपश्यन्तो मिथस्ते तु निषण्णाः क्ष्मातले विभो ।
आरमन्ति हि ये चान्ये ते दिवाकरमास्थिताः । । ११
तमसा मोहिताः सर्वे निद्रावत्क्रान्तचेतसः ।
मनाग्ज्ञानेन चाक्रान्ताः किं कुर्यामेति मोहिताः । । १२
अथ भूताधिपो देवो गोश्रुताभरणोज्ज्वलः ।
चन्द्रार्धकृतशोभस्तु शीतलांशुविशोधितः । । १३
आर्तिमेत्य परां वीर मोहितस्तमसा विभो ।
अपश्यन्नब्रवीद्देवं माधवं भूधरं हरिम् । । १४
महादेव उवाच
कृष्ण कृष्ण महाबाहो क्व गतस्त्वं महामते ।
ब्रह्मा च क्व गतो वीर नाहं पश्यामि वां क्वचित् । । १५
मोहेन महताहं वै तमसा च विमोहितः ।
किं करोमि क्व गच्छामि क्व चाहमधुना स्थितः । । १६
क्ष्माधरं पृथिवीं वृक्षान् देवगन्धर्वदानवान् ।
विपुलं सागरं सिन्धून्नहि पश्यामि किञ्चन । । १७
केनोपायेन पश्येयं जगत्स्थावरजङ्गमम् ।
ब्रूहि मे देवशार्दूल व्रीडा मेऽतीव जायते । । १८
शङ्करस्य वचः श्रुत्वा हरिर्वचनमब्रवीत् ।
शोकगद्गदया वाचा तमसा मोहितो नृप । । १९
विष्णुरुवाच
भीम भीम न जानेऽहं क्व भवान्वर्ततेऽधुना ।
ममापि मोहितं चेतस्तमसातीव शङ्कर । । 1.153.२०
क्व गच्छामि क्व तिष्ठामि कथं तत्स्वस्थतां व्रजेत् ।
तमसा पूरितं सर्वं जगद्धि परमेश्वर । । २१
यद्यसौ दृश्यते देवः सुरज्येष्ठोऽम्बुजोद्भवः ।
पृच्छावस्तं महात्मानं यदि ते रोचते हर । । २२
हित्वा दर्पमहङ्कारं सममास्थाय केवलम् ।
पद्माननं पद्मयोनिं पद्मपत्रनिभेक्षणम् । । २३
इत्येवं गदतो वाक्यं विष्णोरमिततेजसः ।
श्रुत्वोवाच विभुर्ब्रह्मा गङ्गाधरमहीधरौ । । २४
कृष्ण कृष्ण महाबाहो भीम भीम महामते ।
क्व भवन्तौ ब्रूत किं च किं युवामूचथुर्मिथः । । २५
ममातीव मनोबुद्धी तमसा वशमागते ।
न शृणोमि न पश्यामि निद्रामोहवशं गतः । । २६
अहो बत जगत्सर्वं सदेवासुरमानुषम् ।
तमसा व्याष्टतं देवौ न जाने क्व गतं महः । । २७
अथ तेषां प्रवदतां ब्रह्मादीनां दिवौकसाम् ।
दर्पक्रोधभयार्तानां तमसाक्रान्तचेतसाम् । । २८
तेषां दर्पापहाराय प्रबोधार्थं च गोपतेः ।
तेजोरूपं समुद्भूतमष्टशृङ्गमनौपमम् । । २९
अलक्ष्यं पापतमसा महद्व्योम नराधिप ।
ज्वालामालावृतं वीर बहुरूपं च भासते । । 1.153.३०
शतयोजनविस्तीर्णं गतमूर्ध्वं भ्रमत्तथा ।
गोमध्यतो महाराज कर्णिकेवाम्बुजस्य तु । । ३१
प्रकाशं तेजसा तस्य जगत्सर्वमिदं नृप ।
पुरेष्वन्तर्यथा वीर अम्बुजस्यार्चिभिः सदा । । ३२
दृष्ट्वा परस्परं सर्वे हुङ्कारादिविकारिणः ।
तेजसा मोहितास्तस्य जगत्सर्वमिदं नृप । । ३३
तेजसा मोहितं तस्य महद्व्योम नराधिप ।
ततो विस्मयमासीनः दृष्टगोपतयो नृप । । ३४
पश्यमाना महो व्योम्नि मिथो वचनमब्रुवन् ।
अहो तेजः समुद्धूतमस्माकं श्रेयसे नृप । । ३५
प्रकाशाय च लोकानां सर्वे पश्याम किं न्विदम् ।
ज्ञानायोर्ध्वं गतो ब्रह्मा चाधस्तात्त्रिपुरान्तक. । । ३६
तिर्यग्जगाम देवेशश्चक्राम्बुजगदाधरः ।
अलब्ध्वा तस्य ते सर्वे प्रमाणं गैरिकाधिपाः । । ३७
विस्मयोत्फुल्लनयना समागम्य परस्परम् ।
सर्वे कञ्जादिका देवा इदं वचनमब्रुवन् । । ३८
कोऽयं किमात्मकश्चायं किमिदं तेजसां निधिः ।
अहोऽस्य दर्शनात्सर्वे सञ्जाता ज्ञानिनो वयम् । । ३९
तस्मात्सर्वे प्रणम्यैनं स्तुवीमोऽद्भुतदर्शनम् ।
कृताञ्जलिपुटाः सर्वे चास्तुवंस्त्रिदिवौकसः । । 1.153.४०
स्तुवतामप्यथैतेषां सहस्रकिरणो रविः ।
आत्मानं दर्शयामास कृपया परया वृतः । । ४१
ज्ञात्वा भक्तिं महाबाहो ब्रह्मादीनां महोपमाम् ।
अथ ते व्योम्नि देवेशं ददृशुः परमेश्वरम् । । ४२
खषोल्कलोकनाथेशं सहस्रकिरणोज्ज्वलम् ।
कृत्तिकाभिरसंस्पृष्टं यद्वा तत्कार्तिकास्थितम् । । ४३
दुर्जयं कृत्तिकानां तु तथैकेन विवर्जितम् ।
तथा हस्तविहीनं च सप्तर्षिरहितं तथा । । ४४
वर्षाब्दरहितं देवं सप्तस्वरविवर्जितम् ।
सकलं निष्कलं चैव सदैकाकाररूपिणम् । ।४५
तद्दृष्ट्वानेकशिरसमनेकचरणं तथा ।
अनेकोदरबाह्वंसमनेकाभरणान्वितम् । ।४ ६
अनेकाननमक्षीबं सहस्राक्षमनौपमम् ।
अनेकवर्णरूपं च अनेकमुकुटोज्ज्वलम् । ।४७
दृष्ट्वैवं देवदेवस्य रूपं भानोर्महात्मनः ।
विस्मयोत्फुल्लनयनास्तुष्टवुस्ते दिवाकरम् । । ४८
कृताञ्जलिपुटो भूत्वा ब्रह्मा स्तोतुं प्रचक्रमे ।
प्रणम्य शिरसा भानुमिदं वचनमब्रवीत् । । ४९
ब्रह्मोवाच
नमस्ते देवदेवेश सहस्रकिरणोज्ज्वल ।
लोकदीप नमस्तेऽस्तु नमस्ते कोणवल्लभ । । 1.153.५०
भास्कराय नमो नित्यं खषोल्काय नमोनमः ।
विष्णवे कालचक्राय सोमायामिततेजसे । । ५१
नमस्ते पञ्चकालाय इन्द्राय वसुरेतसे ।
खगाय लोकनाथाय एकचक्ररथाय च । । ५२
जगद्धिताय देवाय शिवायामिततेजसे ।
तमोघ्नाय सुरूपाय तेजसां निधये नमः । । ५३
अर्थाय कामरूपाय धर्मायामिततेजसे ।
मोक्षाय मोक्षरूपाय सूर्याय च नमोनमः । । ५४
क्रोधलोभविहीनाय लोकानां स्थितिहेतवे ।
शुभाय शुभरूपाय शुभदाय शुभात्मने । । ५५
शान्ताय शान्तरूपाय शान्तयेऽस्मासु वै नमः ।
नमस्ते ब्रह्मरूपाय ब्राह्मणाय नमोनमः । । ५६
ब्रह्मदेवाय ब्रह्मरूपाय ब्रह्मणे परमात्मने ।
ब्रह्मणे च प्रसादं वै कुरु देव जगत्पते । । ५७
एवं स्तुत्वा रविं ब्रह्मा श्रद्धया परया विभो ।
तूष्णीमासीन्महाभाग प्रहृष्टेनान्तरात्मना । । ५८
ब्रह्मणोऽनन्तरं रुद्रः स्तोत्रं चक्रे विभावसोः ।
त्रिपुरारिर्महातेजाः प्रणम्य शिरसा रविम् ।।५९
महादेव उवाच
जय भाव जयाजेय जय हंस दिवाकर ।
जय शम्भो महाबाहो खग गोचर भूधर ।।1.153.६०
जय लोकप्रदीपेन जय भानो जगत्पते ।
जय काल जयानन्त संवत्सर शुभानन ।।६ १
जय देवादितेः पुत्र कश्यपानन्दवर्धन ।
तमोघ्न जय सप्तेश जय सप्ताश्ववाहन ।।६२
महेश जय कान्तीश जय कालेश शङ्कर ।
अर्थकामेश धर्मेश जय मोक्षेश शर्मद ।।६३
जय वेदाङ्गरूपाय ग्रहरूपाय वै नमः ।
सत्याय सत्यरूपाय सुरूपाय शुभाय च ।।६४
क्रोधलोभविनाशाय कामनाशाय वै जय ।
कल्माषपक्षिरूपाय यतिरूपाय शम्भवे ।।६५
विश्वाय विश्वरूपाय विश्वकर्माय वै जय ।
जयोङ्कार वषट्कार स्वाहाकार स्वधामय ।।६६
जयाश्वमेधरूपाय चाग्निरूपार्यमाय च ।
संसारार्णवपीताय मोक्षद्वारप्रदाय च ।।६७
संसारार्णवमग्नस्य मम देव जगत्पते ।
हस्तावलम्बनो देव भव त्वं गोपतेऽद्भुत ।।६८
ईशोऽप्येवमहीनाङ्गं स्तुत्वा भानुं प्रयत्नतः ।
विरराम महाराज प्रणम्य शिरसा रविम् ।।६९
अथ विष्णुर्महातेजाः कृताञ्जलिपुटो रविम् ।
उवाच राजशार्दूल भक्त्या श्रद्धासमन्वितः ।।1.153.७०
विष्णुरुवाच
नमामि देवदेवेशं भूतभावनमव्ययम् ।
दिवाकरं रविं भानुं मार्तण्डं भास्करं भगम् ।।७१
इन्द्रं विष्णुं हरिं हंसमर्कं लोकगुरुं विभुम् ।
त्रिनेत्रं त्र्यक्षरं त्र्यङ्गं त्रिमूर्तिं त्रिगतिं शुभम् । ।७२
षण्मुखाय नमो नित्यं त्रिनेत्राय नमोनमः ।
चतुर्विंशतिपादाय नमो द्वादशपाणये । ७३ ।
नमस्ते भूतपतये लोकानां पतये नमः ।
देवानां पतये नित्यं वर्णानां पतये नमः । ।७४
त्वं ब्रह्मा त्वं जगन्नाथो रुद्रस्त्वं च प्रजापतिः ।
त्वं सोमस्त्वं तथादित्यस्त्वमोंकारक एव हि । । ७५
बृहस्पतिर्बुधस्त्वं हि त्वं शुक्रस्त्वं विभावसुः ।
यमस्त्वं वरुणस्त्वं हि नमस्ते कश्यपात्मज । । ७६
त्वया ततमिदं सर्वं जगत्स्थावरजङ्गमम् ।
त्वत्त एव समुत्पन्नं सदेवासुरमानुषम् । । ७७
ब्रह्मा चाहं च रुद्रश्च समुत्पन्ना जगत्पते ।
कल्पादौ तु पुरा देव स्थितये जगतोऽनघ । । ७८
नमस्ते वेदरूपाय अहोरूपाय वै नमः ।
नमस्ते ज्ञानरूपाय यज्ञाय च नमोनमः । ।७९
प्रसीदास्मासु देवेश भूतेश किरणोज्ज्वल ।
संसारार्णवमग्नानां प्रसादं कुरु गोपते । ।1.153.८०
वेदान्ताय नमो नित्यं नमो यज्ञकलाय च । ।
सुमन्तुरुवाच
स्तुत्वैवं भास्करं भक्त्या विष्णुर्भरतसत्तम ।
प्रदध्यौ नृपशार्दूल रविं तद्गतमानसः । ८१
एवं ते नरशार्दूल देवा ब्रह्मादयोऽनघ ।
स्तुवन्ति तं महात्मानं सहस्रकिरणं रविम् । । ८२
इत्येवं स्तुवतां तेषां रविं भक्त्या महात्मनाम् ।
अथ तुष्टो रविस्तेषां ब्रह्मदीनां जगत्पतिः । ८३
विज्ञाय भक्तिं परमां श्रद्धां च परमां विभुः ।
उवाच स महातेजाः प्रहृष्टेनान्तरात्मना ।८४
ग्रहेशो व्योम चारूढस्तेजसा प्रज्वलन्दिशः ।
ब्रह्माणं विष्णुमीशानमामन्त्र्यैतान्विशांपते । ।८५
दृष्ट्वा तान्प्रणतान्त्सर्वाञ्छिरोभिरवनिं गतान् ।
तुष्टोऽस्मि ते सुरज्येष्ठ चतुर्मुख जगत्पते । ।
वरं वरय भद्रं ते मनसा त्वं यदिच्छसि ।।८६
कृत्वा तु वचनं भानोर्ब्रह्मा लोकगुरुर्नृप ।
जगाम शिरसा भूमावुवाच स कृताञ्जलिः ।।८७
ब्रह्मोवाच
कृतकृत्योऽस्मि देवेश पूतश्चास्मि खगाधिप ।
धन्योऽस्म्यनुगृहीतोऽस्मि गतोऽस्मि परमां गतिम् । ।८८
सहस्रकिरणैर्यन्मे भवान्दर्शनमागतः ।।८९
अपश्यतश्च देवेश मूढमासीन्मनो मम ।
भगवन्सम्प्रसीद त्वं ममोपरि विभावसो । ।1.153.९ ०
प्रयच्छ त्वं बलं भक्तिमात्मनो मम गोपते ।
गत्वा शिरोभिरवनिमष्टाङ्गैः पतितस्य च । ।
भक्त्या विज्ञप्तिमाकर्ण्य प्रसादं कुरु गोपते । । ९१
ब्रह्मणो वचनं श्रुत्वा पूषा देवो जगत्पतिः ।
तथेत्याह महाराज विराट प्रश्रयान्वितम् । । ९२
ब्रह्मणे च वरं दत्त्वा राजन्देवो दिवाकरः ।
उवाच त्र्यम्बकं देवं शशाङ्ककृतशेखरम् । । ९३
वरं वरय भूतेश भूभृज्जादयितानघ ।
यमिच्छसि महादेव ददेऽहं तदशेषतः । । ९४
भास्करस्य वचः श्रुत्वा ईश्वरस्त्रिपुरान्तक ।
गत्वा तु शिरसा भूमौ प्रणम्योवाच भास्करम् । । ९५
महादेव उवाच
पुण्योऽहं पुण्यकर्माहं नास्ति धन्यतरो मम ।
गतोऽहं परमां सिद्धिं गतश्च परमां गतिम् । । ९६
नाप्राप्यमस्ति देवेश नासाध्यं मम किंचन ।
यस्य मे भगवान्देवः प्रसादप्रवणः स्थितः । । ९७
त्वया ततमिदं सर्वं जगत्स्थावरजङ्गमम् ।
त्वत्त एव समुत्पन्नं लयं च त्वयि यास्यति । । ९८
यदि तुष्टो मम विभो अनुग्राह्योऽस्मि ते यदि ।
अचलां देहि मे भक्तिमात्मनश्चरणं नय । । ९९
व्योमकेशवचः श्रुत्वा पूषा देवो दिवाकरः ।
तथेत्याह हरं वीर ततो हरिमुवाच । । 1.153.१००
नारायण महाबाहो वरं वरय गोधर ।
परितुष्टोऽस्मि ते देव यमिच्छसि महाबल । । १०१
श्रुत्वा तु भास्करवचः कीलालजनको हरिः ।
उवाच परया भक्त्या नत्वा च शिरसा रविम् । । १०२
नारायण उवाच
जय देव जगन्नाथ जय देव गुरो रवे ।
प्रसीद मम देवेश भक्तिं यच्छात्मनो रवे । । १०३
येनाहं सर्वदेवानामुत्तमः स्यां जगत्पते ।
अजेयश्च तथा देव दैत्यदानवरक्षसाम् । । १०४
त्वद्भक्त्या बृंहितबलस्तेजसा महतान्वितः ।
ततो मया महत्कर्म कर्तव्यं तव शासनात् । । १०५
प्रजानां पालनं देव देवानां च ग्रहाधिप ।
वर्णानामाश्रमाणां च वर्णधर्मस्य वा विभो । । १०६
दुष्टदैत्यविनाशाय लोकानां पालनाय च ।
सृष्टोऽहं भवता पूर्वं कल्पादौ च कृतोऽनघ । । १०७
यस्य रुष्टो भवान्स्याद्वै कथञ्चित्पुरुषस्य तु ।
व्याधिर्दुःखं मनोरोगं दारिद्र्यं सन्ततिक्षयः । । १०८
तस्यैतानि भवन्तीह आधयो विविधास्तथा ।
तस्मात्त्वं च ततो देव संस्तव्यः सततं बुधैः । । १०९
एवं त्वां गोपते देव भक्त्या श्रद्धासमन्वितः ।
अहमर्चितुमिच्छामि तस्मान्मयि कृपां कुरु । । 1.153.११०
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यतेजोवर्णनं
नाम त्रिपञ्चाशदधिकशततमोऽध्यायः । १५३ ।
पर्व १ (ब्राह्मपर्व) — Adhyāya 154
त्रयी-उपाख्यानवर्णनम्
सुमन्तुरुवाच
श्रुत्वा तु वचनं भानुर्विष्णोरमिततेजसः ।
उवाच कुरुशार्दूल आदित्यः कृपयान्वितः । । १
आदित्य उवाच
कृष्ण कृष्ण महाबाहो शृणु मे परमं वचः ।
यदर्थं प्रार्थितः कृष्ण तत्सर्वं ते भविष्यति । । २
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
अजेयस्त्वं महाबाहो भविष्यसि न संशयः । । ३
जगत्पालयितुं सर्वं समर्थश्च भविष्यसि ।
अचला तव भक्तिश्च भविष्यति ममोपरि । ।४
ब्रह्मापि सततं शक्तो जगत्स्रष्टुं भविष्यति ।
संहर्तुं शङ्करश्चापि मत्प्रसादाद्भविष्यति । ।५
भवन्तो मत्प्रसादेन ज्ञानिनामुत्तमं पदम् ।
गमिष्यन्ति न सन्देहो मत्पूजाप्रसादतः । ।६
रवेर्वचनमाकर्ण्य गोश्रुताभरणो विभो ।
उवाच गोपतिर्गोगो गोपतिं गोवृषध्वजः । ।७
त्वामाराध्य भविष्यामो वयं सर्वे सुरोत्तमाः ।
कथमाराधयामो हि भवन्तं श्रद्धयान्विताः । ।
श्रेयसे सततं देव ब्रूहि नस्तत्त्वमात्मनः । ।८
भवतो हि न पश्यामो मूर्तिं परमपूजिताम् ।
पश्यामः केवलं तेजो ह्यब्धेस्तोयमिवोज्झितम् । । ९
ज्वालामालाकुलं सर्वमनेकाकृति चाद्भुतम् ।
न चाकारविहीनं तु चेतसो लम्बनं भवेत् । । 1.154.१०
आलम्बनादृते देव न चित्तरमणं क्वचित् ।
चेतसोऽरमणे भक्तिर्न पुंसां जायते क्वचित् । । ११
भक्तिं विना पूजयितुं न शक्यन्ते दिवौकसः ।
त्वत्पूजने हि प्राप्यन्ते देव धर्मादयो नरैः । । १२
तस्माद्दर्शय तां मूर्तिमात्मनो या परा मता ।
येन त्वां पूजयित्वा तु वयं सिद्धा भवामहे । । १३
सूर्य उवाच
साधु साधु महादेव साधु पृष्टोऽस्मि सुव्रत ।
शृणु चैकमनाः कृत्स्नं गदतो मम मानद । । १४
चतुर्मूर्तिरहं देव जगद्व्याप्य व्यवस्थितः ।
श्रेयसे सर्वलोकानामादिमध्यान्तकृत्सदा । । १५
एका मे राजसी मूर्तिर्ब्रह्मेति परिकीर्तिता ।
सृष्टिं करोति सा नित्यं कल्पादौ जगतां विभो । । १६
द्वितीया सात्त्विकी प्रोक्ता या परा परिकीर्तिता ।
जगत्सा पालयेन्नित्यं दुष्टदैत्यविनाशिनी । । १७
तृतीया तामसी ज्ञेया ईशेति षरिकीर्तिता ।
त्रैलोक्यं संहरेत्सा तु कल्पान्ते शूलपाणिनी । । १८
चतुर्थी तु गुणैर्हीना सत्यादिभिरनुत्तमा ।
सा चाशक्या क्वचिद्द्रष्टुं स्थिता सा चाभवत्सदा । । १९
तया ततमिदं सर्वं यच्चोद्गीथं तु मे गतिः ।
निष्कला सकला सा तु सुरूपा रूपवर्जिता । । 1.154.२०
अन्तर्गता च लोकानां न च कर्मफलं गता ।
तिष्ठमानाप्यलिप्ता सा पद्मपत्रमिवाम्भसा । । २१
अनष्टा च सदा षड्भिः सप्तातीत्य व्यवस्थिता ।
चतुस्तना च सा षड्भ्यस्तुरीयाख्या सुपूजिता । । २२
न सा स्प्रष्टुं त्वया शक्या हरिणा ब्रह्मणा न च ।
मामनाराध्य भूतेश व्योमरूपं कदाचन । । २३
यदेतद्भवतां देव प्रबोधार्थमुपस्थितम् ।
अहंकारविमूढानां तमसा च त्रिलोचन । । २४
प्रकाशाय च लोकानां ज्वालामालासमाकुलम् ।
कर्णिकेव स्थितं देव भूपद्मस्याखिलस्य च । । २५
यस्य संदर्शनादेव यूयं सर्वे प्रबोधिताः ।
प्रकाशमभवद्वापि जगत्सर्वमथार्चिभिः । । २६
तस्मादाराधयस्वैनमस्पृष्टं गमनोपमम् ।
मन्मूर्तिं येन तां दिव्यां द्रक्ष्यसि त्वं त्रिलोचन । । २७
यत्त्वाद्यमीश्वरं जज्ञे तद्व्योम परिकीर्तितम् ।
कल्पान्ते ह्यत्र वै व्योम्नि लीयन्ते सर्वदेवताः । । २८
दक्षिणे लीयते ब्रह्मा वामे तस्य जनार्दनः ।
त्वं सदा कचदेशे तु लीयसे त्रिपुरान्तक । । २९
गायत्री लीयते तस्य हृदये लोकमातरः ।
लीयन्ते मूर्द्ध्नि वै वेदः सषडङ्गपदक्रमः । । 1.154.३०
जठरे लीयते सर्वं जगत्स्थावरजङ्गमम् ।
पुनरुत्पद्यते ह्यस्माद्ब्रह्माद्यं सचराचरम् । । ३१
आकाशं व्योम इत्याहुः पृथिवी निक्षुभा मता ।
भूतश्रेयोहऽमाकाशो निक्षुभा दयिता मम । । ३२
मया निक्षुभया सर्वं जगद्व्याप्तं त्रिलोचन ।
तस्मादाराधय व्योम त्वं ब्रह्मा केशवस्तथा । । ३३
तन्मे रूपं महद्व्योम पूजयित्वा त्रिलोचन ।
दिव्यं वर्षसहस्रं हि गिरौ त्वं गन्धमादने । ।
ततो यास्यसि संसिद्धिं षडङ्गां परमां शुभाम् । । ३४
कलापग्राममाश्रित्य शङ्खचक्रगदाधरः ।
आराधयतु मां भक्त्या व्योमरूपं जनार्दनः । । ३५
अन्तरिक्षगतं तीर्थं पुष्करं लोकपावनम् ।
तत्र गत्वा विरिञ्चो मे व्योमरूपं सदार्चतु । । ३६
एवं मां सततं यूयं समाराध्य जगत्पतिम् ।
समानां च सुदिव्यानां सहस्रत्रयमादरात् । । ३७
ततो द्रक्ष्यथ मे मूर्तिं परमां यां विदुर्बुधाः ।
कदम्बगोलकाकारां रश्मिमालाकुलां पराम् । । ३८
अथ नारायणो देवः प्रणम्य शिरसा रविम् ।
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् । । ३९
विष्णुरुवाच
यदि ते परमं रूपं मतं व्योम ह्यनौपमम् ।
तमाराध्य वयं सर्वे यास्यामः सिद्धिमुत्तमाम् । ।1.154.४ ०
कीदृग्व्योम त्वहं ब्रह्मा हरश्च त्रिपुरान्तकः ।
आराधयामहे देव भक्त्या श्रेयोऽर्थमात्मनः । ।४ १
येन सिद्धिं गमिष्यामस्तमाराध्य दिवाकरम् ।
तस्मान्नो लक्षणं ब्रूहि व्योम्नः परमपूजित । ।४२
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे त्रय्युपाख्याने
चतुःपञ्चाशदधिकशततमोऽध्यायः । १ ५४।
पर्व १ (ब्राह्मपर्व) — Adhyāya 155
सौरधर्मनिरूपणम्
आदित्य उवाच
साधुसाधु सुरश्रेष्ठ साधु पृष्टोऽस्मि भूधर ।
शृणुष्वैकमनाः कृष्ण गदतो निखिलं मम । । १
आराधय त्वयं देवो मम रूपमनौपमम् ।
चतुष्कोणं परं व्योम अद्भुतं गैरिकोज्ज्वलम् । । २
त्वामाराध्य च चक्रांकं शंकरो वृत्तमादरात् ।।
शब्दादौ सततं ब्रह्म सगरादौ त्रिलोचनः ।। ३ ।।
मध्याह्ने त्वं सदा देव भक्त्या मामर्चयस्व वै ।।
यथेष्टमृभवः सर्वे भक्त्या मां पूजयंतु वै ।। ४ ।।
ततो ब्रह्मादयो देवाः श्रुत्वा वाक्यं विभावसोः ।।
प्रणम्य शिरसा सर्वं इदं वचनमब्रुवन् ।। ५ ।।
धन्या देव वयं सर्वे कृतकृत्यास्तथैव च ।।
अस्माभिर्भगवान्पृष्ट स्तेजसा प्रज्वलंति च ।। ६ ।।
संभूता ज्ञानिनः सर्वे भवतो दर्शनाद्वयम् ।।
तमोमोहात्तथा तंद्रा सर्वमेकपदे गतम् ।। ७ ।।
वयं त्वन्मूर्तयः सर्वे तेजसा तव संवृताः ।।
उत्पत्तिस्थितिनाशाय लोकानां तव शासनात् ।। ८ ।।
स्थिताः सर्वे सुरज्येष्ठ लोकपालाश्च कृत्स्नशः ।।
अधुना साध यामेह व्योम्नः पूजां व्रजामहे ।। ९ ।।
इत्थं तेषां वचः श्रुत्वा भास्करो वारितस्करः ।।
उवाच ब्रह्मविष्ण्वीशान्सामपूर्वमिदं वचः ।। 1.155.१० ।। ।।
।। आदित्य उवाच ।। ।।
एवमेतन्न संदेहो यदा वदथ सुव्रताः।।
यूयं मन्मूर्तयः सर्वे युष्माकमहमेव हि।।११।।
यदेतद्दर्शनं देवाः प्रमाण च यदुत्तमम्।।
ज्वालामालाकुलं शुभ्रं शांडिलेयमिवोज्झितम् ।। १२ ।।
युष्माकं देवशार्दूलास्तन्निबोधत कारणम्।।
अहंकारविमूढानां मिथः कलहिनां तथा ।। ।। १३ ।।
प्रबोधार्थं हि युष्माकं तमसो नाशनाय च ।।
प्रवर्तनाय सर्वेषां कर्मणां च प्रदर्शितम् ।।१४।।
तस्मादेवं विदित्वा तु नाहंकारः कदाचन ।।
कर्तव्यो भूतिमिच्छद्भिः सततं देवसत्तमाः ।। १५ ।।
मानं दर्पमहंकारं पूर्वं त्यक्त्वा सुदूरतः ।।
आराधयत मां भक्त्या सततं श्रद्धयान्विताः ।। १६ ।।
ततो द्रक्ष्यथ मे रूपं सकलं निष्कलं च यत् ।।
यस्य संदर्शनादेव सर्वे सिद्धिमवाप्स्यथ ।। १७।।
एवमुक्त्वा महाराज सहस्रकिरणो विभुः ।।
जगामादर्शनं तेषां पश्यतामेव भारत ।। १८ ।।
अथ ते विस्मिताः सर्वे ब्रह्मविष्णुपिनाकिनः ।।
तेजसा तस्य देवस्य भास्करस्य महौजसः ।।१९।।
परस्परमथोचुस्ते विस्मयेन तदा नृप ।।
अहो महात्माऽयं देवोऽदितिपुत्रो दिवस्पतिः ।। 1.155.२० ।।
बृहद्भानुर्महातेजा लोकदीपो विभावसुः ।।
येन सर्वे वयं त्राता निघ्नता विपुलं तमः ।।२१।।
आराधयामस्तं सर्वे गत्वा स्थानानि कृत्स्नशः ।।
येन सर्वे वयं तस्य प्रसादात्सिद्धिमाप्नुमः ।।२२ ।।
तद्व्योम पूजयित्वा तु परया श्रद्धया विभोः ।।
आमंत्र्य ते मिथः सर्वे गताः पूजार्थमादरात् ।। २३ ।।
जगाम पुष्करं ब्रह्मा शालग्रामं जनार्दनः ।।
वृषभध्वजो गतो वीर पर्वतं गंधमादनम् ।।२४।।
त्यक्त्वा मानमहंकारं कुर्वंतस्तप उत्तमम् ।।
आराधयंति तं देवं भास्करं वारितस्करम्।।२५।।
व्योम्नि कृत्वा चतुष्कोणं ब्रह्मा नित्यमपूजयत् ।।
चक्रांकितं हरिर्नित्यं सम्यग्व्योमं त्वपूजयत् ।। २६ ।।
हरोऽपि सततं वीर तेजसा वह्निसन्निभम् ।।
अपूजयत्सदा वृत्तं व्योमं भक्त्या समन्वितः ।। २७ ।।
दिव्यवर्षसहस्रांते पूजयंतो दिवाकरम् ।।
गंधमाल्योपहारैस्तु नृत्यगीतप्रवादितैः ।।२८।।
अतोषयन्महात्मानं कुर्वाणास्तप उत्तमम् ।।
भक्त्याचलेन मनसा विवस्वंतमनुत्तमम् ।। २९ ।।
अथ तेषां महाराज प्रसन्नो भुवनाधिपः ।।
दर्शयामास लोकात्मा युगपद्वै विभावसुः ।। 1.155.३० ।।
कृष्णात्मा च महातेजाश्चतुर्धा योगतोनघ ।।
गत्वैकेन सुरश्रेष्ठं सोब्रवीत्परमं वचः ।। ३१ ।।
अन्येन शंकरं मन्ये अन्येन गरुडध्वजम् ।।
स तताप तथान्येन रथारूढो दिवं सदा ।। ३२ ।।
एवं योगबलाद्भानुः कृतवान्महदद्भुतम्।।
उग्रे तपसि वर्तंतं दृष्ट्वा चैनं चतुर्मुखम् ।। ३३ ।।
पूजयन्तं महद्व्योम भूगतैर्मुखपङ्कजैः ।।
उवाच तं महाराज भास्करश्चतुराननम् ।। ३४ ।।
पश्यपश्य सुरश्रेष्ठ वरदं मामुपागतम् ।।
श्रुत्वैवं वचनं भानोर्विरिंचस्तमथैक्षत ।। ३५ ।।
दृष्ट्वा जगाम प्रणतो ह्यवनिं मुखपंकजैः ।।
हर्षादुत्फुल्लनयनः पुनरुत्थाय भास्करम् ।।
उवाच परमं वाक्यं कृतांजलिपुटः स्थितः ।। ३६ ।।
।। ब्रह्मोवाच ।। ।।
नमस्ते देवदेवेश नमस्ते तिमिरापह ।।
नमस्ते भूत भव्येश भूतादे भूतभावन ।। ३७ ।।
प्रसादं कुरु मे देव प्रसन्नोऽथ दिवाकरः ।।
गतिरन्या न मे देव विद्यते त्वदृते विभो ।। ३८ ।।
।। आदित्य उवाच ।। ।।
एवमेव यथात्थ त्वं नास्ति तत्र विचारणा ।।
त्वं मे प्रथमजः पुत्रः संभूतः कारणात्पुरा ।। ३९ ।।
वरं वरय भद्रं ते वरदोस्मि तवाग्रतः ।।
यमिच्छसि सुरज्येष्ठ मा त्वं शंकां कुरु प्रभो ।। 1.155.४० ।।
।। ब्रह्मोवाच ।। ।।
यदि मे भगवांस्तुष्टो ददाति वरमुत्तमम् ।।
कर्तुं शक्नोमि सृष्टिं च प्रसादात्तव गोपते ।।
कृताकृता हि मे देव सृष्टिर्नेह प्रसिध्यति ।। ४१ ।।
।। आदित्य उवाच ।। ।।
न पुत्रत्वमहं प्राप्तस्तव देव चतुर्मुख ।।
तवान्वये गमिष्यामि पुत्रत्वं हि मरीचये ।। ४२ ।।
ततो यास्यति ते सिद्धिं कृत्स्ना सृष्टिश्चतुर्मुख ।।
भवितैवं न सन्देहो मत्प्रसादा ज्जगत्पते ।। ४३ ।।
एवमुक्तो विरिंचिस्तु रविणा पृथिवीपते ।।
तं वै व्योढं विवस्त्रंतं लोकनाथं जगत्पतिम् ।। ४४ ।।
पुनराह सुरज्येष्ठः प्रणम्य शिरसा रविम् ।।
क्व मे वासो जगन्नाथ भविष्यति दिवस्पते ।। ४५ ।।
।। आदित्य उवाच ।। ।।
यन्मे रूपं महद्व्योम पृष्ठशृंगमनुत्तमम् ।।
तत्र देवकदंबैस्तु भवान्नित्यं निवत्स्यति ।। ४६ ।।
इन्द्रः पूर्वदिशो भागे आग्नेय्यां शांडिलीसुतः ।।
दक्षिणस्यां यमो नित्यं नैर्ऋत्यामथ निर्ऋतिः ।। ।। ४७ ।।
पश्चिमायां तु वरुणो वायव्यां तु सदागतिः ।।
उत्तरे तु दिशो भागे निवसेद्धनदस्ततः ।। ४८ ।।
ऐशान्यां शंकरो देवो मध्ये त्वं विष्णुना सह ।।
श्रुत्वैत्वं वचनं भानोर्वेधाः प्रीत्या तमब्रवीत् ।। ४९ ।।
कृतकृत्यं तथात्मानं मन्यते च नराधिप ।।
चकार च तथा सर्वं भास्क रोक्तमशेषतः ।। 1.155.५० ।।
स च सिद्धिं गतो वीर प्रसादाद्भास्करस्य तु ।।
आदित्योपि वरं दत्त्वा ब्रह्मण्यो ब्रह्मणेऽनघ ।। ५१ ।।
जगाम सह देवेन पर्वतं गन्धमादनम् ।।
ददर्श तत्र भूतेशं तपस्तीव्रं समाश्रितम् ।। ५२ ।।
कपर्दिनं शूलधरं चन्द्रार्ककृतशेखरम् ।।
पूजयंतं परं व्योम सुव्रतं तेज सान्वितम् ।। ५३ ।।
गन्धमाल्योपहारैश्च नृत्यगीतप्रवादितैः ।।
मुखवाद्यैश्च बहुभिः प्रणवस्तोत्रगीतिभिः ।।।
संपूज्यैव महद्व्योम जगाम शिरसा महीम् ।। ५४ ।।
दृष्ट्वैवं पूजयन्तं च भास्करस्त्रिपुरांतकम् ।।
तुष्टोवोचन्महातेजा गोश्रुताभरणं हरम् ।। ५९ ।।
भीम तुष्टोऽस्मि ते वत्स वरं मत्तो वृणुष्व वै ।।
तवांतिकमहं प्राप्तो वरदो भूभृदालय ।। ५६ ।।
श्रुत्वैवं वचनं भानोर्महादेवो महीपते ।।
ददर्श लोकनाथं तं प्रज्वलंतमनुत्तमम् ।।
उवाच प्रणतो भूत्वा अष्टांगैर्भूतलं गतः ।। ५७ ।।
नमोनमस्ते देवेश प्रभाकर दिवाकर ।।
शुभालय शुभाधार विकर्तन शुभानन ।। ५८ ।।
प्रसादं कुरु देवेश प्रसन्नस्त्वं विकर्तन ।।
संसारार्णवमग्नस्य भव पोतो जगत्पते ।। ५९ ।।
तवांगसंभवो देव पुत्रोहं वल्लभस्तव ।।
यत्करोति महादेव पिता पुत्रस्य तत्कुरु ।। 1.155.६० ।।
।। आदित्य उवाच ।। ।।
एवमेतन्न सन्देहो यथा वदसि शंकर ।।
ललाटात्त्वं समुत्पन्नः पुत्रः पुत्रवतां वर ।। ६१ ।।
वरं वरय भद्रं ते मनना त्वं यमिच्छसि ।।
दुर्देयं चापि ते दास्ये त्रिपुरान्तक सुन्दर ।। ६२ ।।
।। महादेव उवाच ।। ।।
यदि तुष्टोऽसि मे देव अनुग्राह्योस्मि ते यदि ।।
प्रयच्छ मे वरं भानो देहि भक्तिं ममाचलाम् ।। ६३ ।।
देवदानवगंधर्वयक्षरक्षोगणांस्तथा ।।
निर्जित्याहं यथा देव युगान्ते संहरे प्रजाम् ।। ६४ ।।
तथा प्रयच्छ मे देव स्थानं च परमं विभो ।।
येनाहं हेतिसर्वं च जये देव जगत्प्रभो ।। ६५ ।।
।। आदित्य उवाच ।। ।।
देवदानवगन्धर्वयक्षराक्षसपन्नगान् ।।
हरिष्यसि जगच्चापि युगान्ते त्रिपुरान्तक ।। ६६ ।।
यदेतत्पूजितं नित्यं मद्रूपं व्योम चोत्त मम् ।।
एतत्त्रिशूलं परमं तव शस्त्रं भविष्यति ।।
ईशाने च तथा भागे व्योम्नो वासो भविष्यति ।। ६७ ।।
।। महादेव उवाच ।। ।।
एवं भवतु मे देव यः प्रसादस्त्वया कृतः ।।
कृतकृत्योऽस्मि देवेश यन्मे देवो वरप्रदः ।। ६८ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मनिरुपणं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ।। १५५ ।। ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 156
त्रैसुरोपाख्यानवर्णनम्
।। सुमन्तुरुवाच ।। ।।
इत्थं दत्त्वा वरं भानुरीश्वराय विशां पते ।।
शालग्रामं जगामाशु वरं दातुं हरेर्नृप ।। १ ।।
ददर्श स हरिं तत्र तपन्तं परमं तपः ।।
कृष्णाजिनधरं शान्तं प्रज्वलन्तं स्वतेजसा ।। २ ।।
पूजयन्तं महद्व्योम चक्राकारमनौपमम्।।
गन्धमाल्योपहारैश्च नृत्यगीतप्रवादितैः ।। ३ ।।
एवं संपूज्य तद्व्योम भक्त्या श्रद्धासमन्वितः ।।
जगाम शिरसा भूमिं हृदि ध्यायन्दिवाकरम् ।। ४ ।।
विष्णुं तं प्रणतं दृष्ट्वा तुष्टो देवो विभावसुः ।।
उवाच विष्णुमामंत्र्य पश्य मामागतं हरे ।। ५ ।।
तद्वाक्यं केशवः श्रुत्वा शिरसा च महीं गतः ।।
नमस्ते सर्वदेवेश नमस्ते गगनेचर ।। ६ ।।
जगत्पते नमस्तेऽस्तु ग्रहाणां पतये नमः ।।
दारिद्र्यव्याधिदुःखघ्न नमस्ते भवनाशन ।। ७ ।।
आदित्यार्क रवे भानो भग पूर्ण दिवाकर ।।
नमस्ते सर्वतत्त्वज्ञ सर्वपापवितर्जित ।। ८ ।।
प्रसीद मे जगन्नाथ हंसानघ दिवस्पते ।।
संसारार्णवमग्नानां त्राहि देव वृषध्वज ।। ९ ।।
पुत्रोऽहं तव देवेश द्वितीयो ब्राह्मणोऽनघ ।।
पितेव पुत्रस्य रवे देहि कामाञ्जगत्पते ।। 1.156.१० ।।
विष्णोर्वचनमाकर्ण्य हर्षं प्राप्य दिवाकरः ।।
उवाच कुरुशार्दूल हर्षगद्गदया गिरा ।। ११ ।।
साधु कृष्ण महाबाहो तुष्टोहं तव केशव ।।
निशम्य ते परां भक्तिं श्रद्धां च पुरुषोत्तम ।। १२ ।।
वरं वरय तस्मात्त्वं वत्स यं मनसेच्छसि ।।
वरदोऽ हमनुप्राप्तो भक्त्याक्रांतस्तवानघ ।। १३ ।।
निशम्य वचनं भानोर्विष्णुर्भक्त्या समन्वितः ।।
कृतांजलिपुटो भूत्वा इदं वचनमब्रवीत् ।। १४ ।।
कृतकृत्योऽस्मि देवेश नास्ति धन्यतरो मम ।।
यस्य मे भगवंस्तुष्टो वरदस्त्वं गतः स्वयम् ।। १५ ।।
यदि तुष्टो मम विभुर्भक्त्या क्रीतो मया यदि ।।
प्रयच्छ त्वचलां भक्तिं यथा शत्रुं पराजये ।।
तथा मम वरं देहि सर्वाराति विनाशनम् ।। १६ ।।
मम स्थानं च परमं सर्वलोकनमस्कृतम् ।।
लोकानां पालने युक्तिं बलं वीर्यं यशः सुखम् ।। १७ ।।
एवमुक्तो रविर्भक्त्या विष्णुना वाक्यमुत्तमम् ।।
उवाच कुरुशार्दूल गजत्सन्नादयन्निव।।१८।।
साधु साधु महाबाहो ब्रह्मणस्त्वं जघन्यजः ।।
हरस्य अग्रजश्चापि सर्वदेवनमस्कृतः ।। १९ ।।
भक्तश्चापि ममात्यंतं ब्रह्मण्यश्च सदानघ ।।
तस्मात्तवाचला भक्तिर्भविष्यति ममोपरि ।। 1.156.२० ।।
एतदेव महद्व्योम चक्रं ते प्रभविष्यति ।।
सर्वायुधवरं वीर सर्वारातिविनाशनम् ।।
तथा स्थानं च परमं सर्वलोकनमस्कृतम् ।। २१ ।।
इत्थं भानोर्वरं प्राप्य हरिर्देवो जगत्पतिः ।।
महाप्रसादमित्युक्त्वा जगाम शिरसा महीम् ।। २२ ।।
भास्करोऽपि वरं दत्त्वा केशवायामितौजसे ।।
जगामाशु महाराज स्वपुरं विबुधाधिपः ।।२३ ।।
लोकानां पालने शक्तिं बलं वीर्यं यशः सुखम् ।।
दत्त्वा कृष्णाय देवेशस्तथान्यदपि कांक्षितम् ।। २४ ।।
एवं ब्रह्मादयो देवाः पूजयित्वा दिवाकरम् ।।
शक्तिमंतो बभूवुस्ते सर्गादीनां प्रवर्तने ।। २५ ।।
इति ते कथितं पुण्यमाख्यानं पापनाशनम् ।।
त्रिदैवत्यमुपाख्यानं त्रैसुरं लोकपूजितम् ।।२६।।
स्तोत्रत्रयसमायुक्तं धर्मकामार्थसाधनम् ।।
धर्म्यं स्वर्ग्यं तथा पुण्यमारोग्यधनधान्यदम् ।। २७ ।।
य इदं शृणुयान्नित्यं पठेत्स्तोत्रत्रयं च यः ।।
सोऽग्नेयं यानमारूढो याति भानोः पर पदम् ।। २८ ।।
अपुत्रो लभते पुत्रमधनो धनमश्नुते ।।
विद्यार्थी लभते विद्यां प्रसादाद्भास्करस्य तु ।।२९।।
तेजसा रविसंकाशः प्रभया पृश्निसन्निभः ।।
मोदते सुचिरं कालं ज्ञानिनामुत्तमो भवेत् ।। 1.156.३० ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे त्रैसुरोपाख्यानवर्णनं नाम षट्पंचाशदुत्तरशत तमोऽध्यायः ।। १५६ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 157
सूर्यावतारकथाप्रस्ताववर्णनम्
।। शतानीक उवाच ।। ।।
एतन्मे कौतुकं ब्रह्मन्यद्वरं ब्रह्मणे रविः ।।
दत्तवांस्तव पुत्रत्वमन्वये कश्यपस्य तु ।। ।। १।।
यास्यामि द्विजशार्दूल प्रपन्नतिमिरापहः ।।
एतन्मे महदाश्चर्यं शंस भूमिं कथं व्रजेत् ।। २ ।।
देवादीनां प्रणेता यो यो भुवि प्रसवो विभुः ।।
स कथं भूतले व्योम जन्मभावं गमिष्यति ।। ३ ।।
किमर्थं दिव्यमात्मानं जन्मने स नियोक्ष्यति ।।
यश्चक्रं वर्तयत्येको ब्रह्मादीनां मनोरमम्।।४।।।
स जन्मनि कथं पुण्यां बुद्धिं चक्रे विदांवर ।।
गोपायनं यत्कुरुते जगतः सर्वलौकिकम् ।।५ ।।
गोभिः पालयते कृत्स्नमात्मनो यः स्वयं रविः ।।।
महाभूतानि भूतात्मा यश्चकार दधार च ।। ६ ।।
अगर्भः स कथं गर्भमुदरे याचते विभुः ।।
येन गोभिः समाक्रांता विप्र लोकाश्चतुर्दश ।। ७ ।।।
स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ।।
योऽन्तकाले जगत्पीत्वा कृत्वा वज्रमयं वपुः ।। ८ ।।
लोकमेकार्णवं चक्रे दृश्यते स्वेन कर्मणा ।।
यः पुराणे पुराणात्मा तेजसां रूपमास्थितः ।। ९ ।।
अपि सृष्ट्वा द्विजश्रेष्ठ यः ससर्ज वसुंधराम्।।
चकार च पुरा यश्च त्रैलोक्यमिदमव्ययः ।। 1.157.१० ।।
ददौ कृत्वा वसुमतीं सुराणां सुरसत्तमः ।।
यः स्थितो ह्यनलं पीत्वा संवत्सरमयश्च यः ।।
पातालस्थोर्णवरसं मध्यतोयमयं हविः ।। ११ ।।।
सहस्रशिरसं देवं सहस्राक्षं सहस्रशः ।।
सहस्रचरणं ब्रह्मन्यमाहुर्वै युगे युगे ।। १२ ।।
मुखाद्यस्य समुत्पन्नो वेधा लोकपितामहः ।।
हरिश्च वक्षसो यस्य ललाटाद्यस्य शंकरः ।। १३ ।।
येन ते निहता दैत्या मंदेहा नाम नामतः ।।
ब्रह्मादीनां दुराधर्षो यः सदा विघ्ननाशनः ।।१४।।
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः ।।
एकचक्ररथारूढो गरुडाग्रजसारथिः ।। १५ ।।
करांते यो जगत्सर्वं सह दानवराक्षसम् ।।
प्रकाशतममस्पृष्टं वपुर्यस्य सदा द्विज ।। १६ ।।
पूर्वा दिशं गतो नित्यमुदयाचलमक्रमम् ।।
नाशयेद्यस्तु सततं तमो लोकस्य शांतये ।। १७ ।।
नाशयित्वा तमो यस्तु क्रियाः सर्वाः प्रवर्तयेत् ।।
योक्त्राणि दक्षिणादीक्ष्य मुसलोलूखलानि च ।। १८ ।।
गार्हपत्येन विधिना तद्वद्धार्येण कर्मणा ।।
अग्निमाहवनीं चैव वेदिं चैव कुशं स्रुचम् ।।
प्रोक्षणीयव्रतं चैव अवभृथं तथैव च ।। १९ ।।
सर्वानिमांश्च यश्चक्रे हव्यभागप्रदान्मुखे ।।
हव्यादांश्च सुरान्यज्ञे कव्यादांश्च पितॄनपि ।। 1.157.२० ।।
भागार्थे मधुधानाय चक्रे यो यज्ञकर्मणि ।।
पूषणं च सुतं सोमं पवित्रामरणीमपि ।। २१ ।।
यज्ञानि च द्रव्याणि यज्ञांश्चापि सऋत्विजः ।।
सदस्यान्यजमानांश्च मेधाविनस्तथोत्तमान्।। २२ ।।
विबभाज पुरा सर्वं पारमेष्ठयेन कर्मणा ।।
युगानुरूपो यः कृत्वा लोकाननुवरं क्रमात् ।। २३ ।।
क्षणान्कलाश्च काष्ठाश्च कालवैकल्यमेव च ।।
मुहूर्तास्तिथयो मासाः पक्षाः संवत्सरास्तथा ।।२४।।
ऋतवः कालयोगाश्च प्रमाणं विविधं नृषु ।।
आयुः क्षेत्राण्यपचयोपचयांश्चैव योऽकरोत् ।। २५ ।।
सृष्टा लोकास्त्रयोनंता येन ज्ञानेन वर्त्मना ।।
सर्व ,भूतगणाः सृष्टाः सर्वभूतात्मना सदा ।। २६ ।।
प्रणामत्रयपूर्वेण योगेन रमते च यः ।।
यो गतागतिपोतेन त्रातास्ति जगदीश्वरः ।। २७।।
यो गतिर्वृषयुक्तानां गतिर्योऽपापकर्मणाम् ।।
चातुर्वर्ण्यप्रभावश्च वपुर्होत्रस्य रक्षिता ।। २८ ।।
धातुवैद्यस्य यो वेत्ता चतुराश्रमसंश्रयः ।।
दिगंबरानुभूतश्च वायुर्वायुविभावनः ।। २९ ।।
अग्नीषोमात्मकं ज्योतिर्योगीशः क्षणदांतकः ।।
यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः ।। 1.157.३० ।।
यं परं परमं प्राहुः परमात्मानमच्युतम् ।।
ब्रह्मादिभिः स्तुतो देवो यश्च दैत्यांतकृद्विभुः ।।३१।।
युगांतेष्वतंको यस्तु यश्च लोकांतकोत्तमः ।।
सेतुर्यो लोकसेतूनां मध्ये यो मध्यकर्मणाम् ।।३२।।
वेत्ता यो वेदविदुषां प्रभुर्यः प्रभविष्णुनाम् ।।
सौम्यभूतस्तु सौम्यानामग्निभूतोग्निवर्चसाम् ।। ३३ ।।
मानुषाणां मनोभूतस्तपोभूतस्तपस्विनाम् ।।
विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ।। ३४ ।।
विग्रहो विग्रहाणां च गतिर्गतिमतामपि ।।
आकाशप्रसवो वायुर्वायुः प्राणो हुताशनः ।।
देवाहुतिप्रदानोद्यत्प्राणाग्निस्तमनाशनः ।। ३५ ।।
रसाद्धि शोणितं भवति शोणितान्मांसमुच्यते ।।
मांसान्मज्जावसोर्जन्म मज्जनोस्थीनि जन्मतः ।। ३६ ।।
अस्थिमज्ज्ञः समभवत्ततो वै शुक्रमादिशेत् ।।
शुक्राद्गर्भः समभवद्रसमूलेन कर्मणा ।।
तत्रापः प्रथमो भागः स सौम्यो राशिरुच्यते ।। ३७ ।।
ततः क्ष्मासंभवो ज्ञेयो द्वितीयो राशिरुच्यते ।।
शुक्रं सोमात्मकं विद्यादात्मरूपं यदात्मकम् ।। ३८ ।।
भवो रसात्मकस्तेषां वीर्यं च शशिपावकम् ।।
कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ।। ३९ ।।
कफस्य पृथिवी स्थानं पित्तं नाभौ प्रतिष्ठितम् ।।
देवस्य मध्यहृदयं स्थानं तु मनसः स्मृतम् ।।
नाभिकोष्ठांतरस्थं तु तत्र देवो दिवाकरः ।।1.157.४०।।
मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ।।
पित्तमग्निः स्मृतो यस्मादग्नीषोमात्मकं जगत् ।। ४१ ।।
एवं प्रवर्तिते गर्भे वर्धितेंऽबुदसन्निभे ।।
वायुः प्रवेशं संचक्रे संगतः परमात्मना ।। ४२ ।।
ततोंऽगानि विसृजते बिभर्ति परिवर्तयन् ।।
प्राणोऽपानः समानश्च उदानो व्यान एव च ।। ४३ ।।
प्राणोस्य प्रथमं स्थानं वर्धयन्परिवर्तते ।।
अपानं पश्चिमे काय उदानोर्ध्वं शरीरगः ।।
व्यानोऽथ व्यापको देहे समानः सन्निवर्तते ।। ४४ ।।
भूतावाप्तिस्ततस्तस्य जायतींद्रियगोचरा ।।
पृथिवी वायुराकाश आपो ज्योतिश्च पंचमः ।। ४५ ।।
तस्येंद्रियाणि पिष्टानि स्वंस्वं योगं प्रचक्रमुः ।।
पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम् ।। ४६ ।।
निद्रा ह्याकाशयोनिश्च जलाश्रये प्रवर्तते ।।
ज्योतिश्चक्षुषि तज्जन्म तदंशस्तामसः स्मृतः ।। ४७ ।।
ग्रामाश्च विषयाश्चैव यस्य वीर्यं प्रवर्तितम्।।
एवं यः सृजते लोकान्सदेवासुरमानवान् ।। ४८ ।।
स कथं देवदेवेशो गर्भमेष्यति चांशुमान् ।।
यथोदरमदित्यास्तु यः स्वयं चाविशत्पुरा ।।४९।।
एवं मे संशयो ब्रह्मन्नेष मे विस्मयो महान् ।।
कथं रविर्ययौ गर्भभावं द्विजवरेति मे ।। 1.157.५० ।।
आश्चर्यं परमं पृच्छे त्वामहं भास्करस्य वै ।।
भानोरुत्पत्तिमाश्चर्यं हृदि मे परिवर्तते ।। ५१ ।।
एतदाश्चर्यमाख्यानं कथयस्व महामुने ।।
समाख्याहि बलं वीर्य भानोरमिततेजसः ।। ५२ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यावतारकथाप्रस्ताववर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः ।। १५७ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 158
सौरधर्मेषु सूर्योत्पत्तिवर्णनम्
सुमंतुरुवाच ।। ।।
प्रश्नभारो महांस्तात त्वयोक्तो रश्मिमालिनि ।।
यथाशक्ति तु वक्ष्यामि श्रूयतां भानवं यशः ।। १ ।।
भानोः प्रभावश्रवणे यस्य ते मतिरुत्थिता ।।
हंत भानोः प्रवृत्तिं च शृणु दिव्यां मयेरिताम् ।। २ ।।
सहस्रास्यं सहस्राक्षं सहस्रकिरणं च यम् ।।
सहस्रशिरसं देवं सहस्रकरम व्ययम् ।। ३ ।।
सहस्रजिह्वं भास्वंतं सहस्रमुकुटं प्रभुम् ।।
सहस्रदं सहस्रारिं सहस्रभुजमव्ययम् ।। ४ ।।
सवनं भवनं चैव हव्यं होतारमेव च ।।
पात्राणि समतीतानि वेददीक्षी चरुं शुभम् ।। ५ ।।
श्रोत्रियं शूर्पमुसलं प्रोक्षणं दक्षिणायनम् ।।
अध्वर्युं सामगं विप्रं सदस्यं सदनं तथा ।। ६ ।।
यूपं समित्स्रुवं दर्वीं मुसलोलूखलानि च ।।
प्राग्वंशं जयभूतिं च होतारं चयनं च यत् ।। ७ ।।
रहस्यानि प्रमाणानि स्थावराणि चराणि च ।।
प्रतिष्ठितानि दार्ढ्यं च स्थंडिलानि कुशांस्तथा ।। ८ ।।
मंत्रयज्ञवहं वह्निभागं भार्गवमेव च ।।
अग्रेभुजी सोमभुजां यश्च त्रिषु उदाहृतः ।। ९ ।।
आयुर्वेदविदो विप्रा यजंते शाश्वतं विभुम् ।।
तस्य भानोः सुरेशस्य वीर चंदनमालिनः ।। 1.158.१० ।।
प्राहुर्भावसहस्राणि समतीतान्यनेकशः ।।
भूयश्चैव भविष्यंति विनश्यंति दिनेदिने ।। ११ ।।
यत्पृच्छसि महाराज पुण्यां दिव्यां कथां शुभाम् ।।
यदर्थं भगवान्भानुः कश्यपस्य सुतोऽभवत् ।। १२ ।।
तामहं त्वं प्रवक्ष्यामि शृणु सर्वमशेषतः ।।
हितार्थं सर्वमर्त्यानां लोकानां प्रभवाय च ।। १३ ।।
बहुशः सर्वभूतात्मा स्वयं समभिजायते ।।
तथा समभवद्देवः कश्यपस्यादितेः सुतः ।। १४ ।।
तुष्टो दत्त्वा वरं वीर विरञ्चस्य महात्मनः ।।
यं यं जनयते पुत्रमदितिः कश्यपाद्विभोः ।। १५ ।।
स स याति विनाशं वै तत्क्षणादेव भारत ।।
दृष्ट्वा सुतान्नश्यमानान्पुत्रशोकान्विता ऽदितिः ।। १६ ।।
जगाम कश्यपाभ्याशे शोकव्याकुलितेक्षणा ।।
सापश्यत्तं च मारीचं मुनिं दीप्तं तपोनिधिम् ।। १७ ।।
आद्यं देवगुरुं विप्रं दिव्यं त्रिषवणांबुभिः ।।
तेजसा वह्निसंकाशं सौरं वृकसमप्रभम् ।। १८ ।।
न्यस्तदण्डश्रिया युक्तं बद्धकृष्णाजिनांबरम् ।।
वल्कलाजिनसंवीतं प्रदीप्तं ब्रह्मवर्चसम् ।। १९ ।।
हुताशमिव दीव्यन्तं तपन्तमिव भास्करम् ।।
अथादितिश्च दृष्ट्वैवं भर्तारममितौजसम् ।। 1.158.२० ।।
शोकगद्गदया वाचा इदं वचनमब्रवीत् ।।
किमर्थं भगवान्देवो निरुद्योगस्तु तिष्ठति ।। २१ ।।
जातोजातो हि मे पुत्रः सद्य एव विनश्यति ।।
श्रुत्वा तु वचनं तस्याः कश्यपो मुनिसत्तमः ।। २२ ।।
चकार गमने बुद्धिं ब्रह्मलोकं प्रति प्रभो ।।
स गत्वा ब्रह्मभवनं नानाभावसमन्वितम् ।। २३ ।।
तद्वाक्य मुक्तं तं सर्वं यदुक्तं तस्य जायया ।।
कश्यपस्य वचः श्रुत्वा कञ्जजो वाक्यमब्रवीत् ।। २४ ।।
पुत्र गच्छाम सदनं भानोः परमदुर्लभम्।।
इत्युक्त्वा यानमारुह्य आग्नेयं पद्मलोचनः ।। २५ ।।
वेधा जगाम भवनमादित्यस्य महात्मनः ।।
अदितिः कश्यपो ब्रह्मा जग्मुर्विपुलमाश्रिताः ।। २६ ।।
ते मुहूर्तेन संप्राप्ताः सूर्यलोकं सुवर्चसम् ।।
दिव्यकामगमैर्यानैर्यथार्हं कुरुनन्दन ।। २७ ।।
आदित्यं प्रष्टुमिच्छंति तेजसां राशिमुत्तमम् ।।
गच्छन्तस्ते च विस्तीर्णामादित्यस्य परां सभाम् ।। २८ ।।
षट्पदोद्गीतनिनदां साभगैस्तु समीरिताम् ।।
क्रतवो बह्वृचमुखाः प्रोक्ताः पुण्यवदक्षराः ।। २९ ।।
तुष्टुवुः पुरुषव्याघ्रं विततेषु च कर्मसु ।।
यज्ञसन्धौ वेदविदां पदक्रमविदां तथा ।। 1.158.३० ।।
घोषेण परमर्षीणां सर्वं तत्र निनादितम् ।।
यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः ।। ३१ ।।
अष्टादशपुराणज्ञैः सर्वविद्याविशारदैः ।।
मीमांसाहेतुवादज्ञैः सर्ववादविशारदैः ।। ३२ ।।
लोकायतिकमुख्यैश्च तुष्टुवुः सूर्यमीरितम् ।।
तत्रतत्र च विप्रेन्द्रान् नियताञ्छंसितव्रतान्।।३३।।
जपहोमपरान्योग्यान्ददृशुः कश्यपादयः ।।
तस्यां सभायामास्ते स रश्मिमाली दिवाकरः ।। ३४ ।।
सुरासुरगुरुः श्रीमाञ्छुशुभे वीर मायया ।।
उपासते च तत्रैव प्रजानां पतिमीश्वरम् ।। ३५ ।।
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमः ।।
भृगुरत्रिर्वशिष्ठश्च गौतमो नारदस्तथा ।। ३६ ।।
दिव्या आत्मांतरिक्षं च वायुस्तेजोबलं मही ।।
शब्दः स्पर्शः स्वरूपं च रसगन्धौ तथैव च ।। ३७ ।।
प्रकृतिश्च विकाराश्च यच्चान्यत्कारणं महत् ।।
सांगोपागाश्च चत्वारो वेदा लोकपते तथा ।। ३८ ।।
लवाश्च ऋतवश्चैव संकल्पप्रणवास्तथा ।।
एते चान्ये च बहवो भानुमंतमुपासते ।। ३९ ।।
अर्थो धर्मश्च कामश्च मोक्षश्च सविशेषतः ।।
द्वेषो हर्षश्च मोहश्च मत्सरो मान एव च ।। 1.158.४० ।।
वृको विष्णुसुतः पुत्रः पुष्पजो धिषणस्तथा ।।
माहेश्वरस्तथा सौरो विटपो विकचस्तथा ।। ४१ ।।
मारुतो विश्वकर्मा च अश्वि नावन्यवाहनौ ।।
एवमुक्तः सुवचनैर्भानुना प्रभविष्णुना ।। ४२ ।।
जगाम कश्यपो वीर सहादित्या स्वमाश्रमम् ।।
अदितिर्देवमाता च तं गर्भं निदधे स्वयम् ।। ४३ ।।
भूतात्मानं महात्मानं दिव्यं वर्षसहस्रकम् ।।
पूर्णे वर्षसहस्रे तु प्रवृत्तो गर्भ उत्तमः ।। ४४ ।।
सुराणां शरणं देवश्चासुराणां विनाशनः ।।
गर्भस्थेन तु तेनैव परित्रातः सुतस्तथा ।। ४५ ।।
आददानस्तु तेजांसि त्रैलोक्यस्य नराधिप ।।
तस्मिञ्जाते तु देवेशे त्रैलोक्यस्य सुखावहे ।। ४६ ।।
प्रहत्य दैत्यसंघांश्च सुराणां नादवर्धने ।।
अभवत्परमानन्दः सर्वेषां तत्र तस्थुषाम् ।। ४७ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्योत्पत्तिर्नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः ।। १५८ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 159
सूर्यावतारवर्णनम्
सुमंतुरुवाच ।। ।।
दक्षः प्रजापतिश्चैव नमस्कारं चकार ह ।।
विद्योतमानो वपुषा सर्वाभरणभूषितः ।। १ ।।
उपातिष्ठत देवेशं भानुं चर्षिगणैः सह ।।
ततो गंधर्वमुख्येषु प्रणदत्सु विहा यसि ।।
बहुभिः सह गंधर्वैः प्रगायत्सु महीपते ।। २ ।।
एवं ते देवगंधर्वा उपागायंत भक्तितः ।।
उत्पन्नं द्वादशात्मानं भास्करं वारितस्करम् ।। ३ ।।
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ।।
भर्गोंऽशुमानर्यमार्कः पृश्निर्मार्तंड एव च ।।
इत्येकादश एवैते द्वादशो विष्णुरुच्यते ।। ४ ।।
एवं द्वादशधा जातमंशुमंतं महाद्भुतम् ।।
स्तुवन्ति देवताः सर्वे गताश्च तरसा महीम् ।। ५ ।।
मृगव्याधश्च शर्वश्च मृगांकांको महायशाः ।।
अजैकपादहिर्बुध्न्यः पतिः काचः परंतपः ।। ६ ।।
दमनश्चेश्वरश्चैव कपाली च विशांपते ।।
स्थाणुर्भगश्च भगवान्रुद्राश्चैतेऽवतस्थिरे ।। ७ ।।
अश्विनौ वसवश्चाष्टौ गरुडश्च महाबलः ।।
विश्वेदेवाश्च साध्याश्च तस्थुः प्रांजलयो नृप ।। ८ ।।
नागराजो महाराज वासुकिः प्रांजलिः स्थितः ।।
अन्ये च बहवो नागा राक्षसाश्च महाबलाः ।। ९ ।।
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ।।
अरुणश्चारुणिश्चैव तत्र प्रांजलयः स्थिताः ।।1.159.१०।।
पितामहश्च भगवान्स्वयमागम्य लोककृत् ।।
प्राह देवगुरुः श्रीमान्त्सुरैः सर्वैर्महर्षिभिः ।।११।।
यस्मात्प्रेक्षयते सर्वं प्रभविष्णुः सनातनः ।।
तस्माल्लोकेश्वरः श्रीमान्विवस्वांश्च भवत्विति ।। १२ ।।
देवदानवयक्षाणां गंधर्वोरगरक्षसाम् ।।
यस्मादयमादिदेवस्तस्मादादित्य एव हि ।। १३ ।।
एवमुक्त्वा तु भगवान्सार्धं देवर्षिभिः प्रभुः ।।
नमस्कृत्वा सुसंपूज्य ययौ तत्सदनं प्रति ।। १४ ।।
या गतिर्यज्ञशीलानां या गतिः पुण्यकर्मणाम्।।
या गतिः सिद्धयोगानां या गतिश्च महात्मनाम् ।। १५ ।।
यस्याष्टगुणमैश्वर्यं समभूद्देवसत्तमम्.।।
यं प्राप्य शाश्वतं विप्रा नावर्तंते भवार्णवे ।। १६ ।।
वालखिल्यादयो ये च सर्वाश्रमनिवासिनः ।।
सेवंते यं यतात्मानो दुश्चरं व्रतमास्थिताः।।१७।।
योऽनंत इव नागेषु यस्य ते सर्वयोगिनः ।।
सहस्रमूर्धा रक्ताक्षः शेषादिभिरनुत्तमैः ।।। ।। १६ ।।
यो यज्ञ इति विप्रेंद्रैरर्च्यते सुखमीप्सुभिः ।।
सर्वे च यं यतप्राणा ध्यायन्ति ब्रह्मरूपिणम् ।। १९ ।।
यं वेदविदो गायंति वेत्तारं यज्ञदायि नम् ।।
तं पुत्रं द्वादशात्मानं कश्यपः प्राप्य सत्तमम् ।। 1.159.२० ।।
मुदं लेभे सहादित्या सुखं च परमं विभो ।।
लोकश्च मुमुदे सर्वो राक्षसा भयमाप्नु वन् ।। २१ ।।
मधुपिंगलो महाबाहुः कंबुग्रीवो हसन्निव ।।
इंगुदीबद्धमुकुटो दिशः प्रज्वलयन्निव ।। २२ ।।
स उवाच महातेजाः कश्यपं चर्षिसत्त मम् ।।
एषोहं तव पुत्रत्वं गतो गर्भस्य सिद्धये ।। २३ ।।
दत्त्वा वरं पुरा विप्र विरंचस्य महात्मनः ।।
तस्मात्त्वमृषिशार्दूल कुरु सृष्टिमनौपमाम् ।। ।। २४ ।।
एवमाराध्य देवेशं ब्रह्मा सृष्टिमवाप्तवान् ।।
आराध्य कश्यपश्चापि भास्करं सुतमाप्तवान् ।। २५ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे उभयसप्तमीमहात्म्ये सूर्यावतारवर्णनं नामैकोनषष्ट्युत्तरशतमोऽध्यायः ।। १५९ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 160
सूर्यावतारवर्णनम्
।। शतानीक उवाच ।। ।।
अहो देवस्य चरितं भास्करस्य त्वयोदितम् ।।
ब्रह्मादयोऽपि यं नित्यं पूजयंति विधानतः ।। १ ।।
ब्रह्मा विष्णुः सुरा ब्रह्मंस्तमाराध्य दिवाकरम् ।।
ददृशुस्तस्य किंभूतं रूपं यत्तन्महाद्भुतम् ।। २ ।।
।। सुमंतुरुवाच ।। ।।
आराध्य देवमीशानं भास्करं सूतिवाचकम् ।।
कविष्णू कुरुशार्दूल जग्मतुस्तौ हिमाचलम् ।।३।।
गोपतेरंतिकं वीर प्रहृष्टौ विभुदर्शने ।।
कुंदेंदुसंनिभं द्रष्टुं कंजजश्चाच्युतश्च तौ ।।४।।
ददृशतुर्महात्मानं चंद्रार्धकृतशेखरम् ।।
पूजयंतं विवस्वंतं भास्करं वीरवन्नृप ।। ५ ।।
आर्च्योचतुर्महात्मानं कविष्णू तं त्रिलोचनम् ।।
भोभो भीम सुरश्रेष्ठ पश्यावामिह चागतौ ।। ६ ।।
श्रुत्वोवाच तयोर्वाक्यं कंजजस्याच्युतस्य च ।।
प्रणम्य शिरसा भूमौ कृत्वा पूजां विधानतः ।।७।।
उवाच मधुरं वाक्यं शिक्षाक्षरसमन्वितम् ।।
हर्ष गद्गदया वाचा दिशः सन्नादयन्निव ।। ८ ।।
किमाराध्य रविं प्राप्तौ सर्वदेववरं विभुम् ।।
कथ्यतां निखिलं देवौ परमं कौतुकं मम ।। ९ ।।
दृष्टवंतौ परं किंचिद्रूपं देवस्य शंकरम् ।।
अव्ययस्याप्रमेयस्य भानोरमिततेजसः ।।1.160.१ ०।।
निशम्य वचनं वीर शंकरस्य महात्मनः ।।
ऊचतुस्तौ महात्मानौ कविष्णू देवसत्तमौ ।।११।।
न तत्पश्यावहे रूपं यत्तत्परममद्भुतम् ।।
आराधयितुमेवापि ह्यागतौ तेंतिकं च तम् ।।१२।।
तस्मादाराधयामो हि एकीभूय विभावसुम्।।
गत्वोदयगिरिं पुण्यं पर्वतं कनकोज्ज्वलम्।।१३।।
श्रुत्वा तु वचनं वीर कंजजाच्युतयोर्हरः।।
तथेत्याह महाबाहो हर्षादुत्फुल्ललोचनः।। ।।१४।।
अथ ते राजशार्दूल विविगोगतयो नृप ।।
जग्मुस्तं पर्वतश्रेष्ठमुदयाचलमाशु वै ।।१५।।
तमासाद्य नगं पुण्यं शृंगैस्त्रिभिरलंकृतम् ।।
नाना धातुपिनद्धाङ्गं नानाधातुविभूषितम् ।। १६ ।।
आराधनाय विधिवद्यत्नं चक्रुर्विभावसोः ।।
स्तुवन्तस्ते समर्चंतो ध्यायंतश्च विभावसुम् ।। १७ ।।
दिव्यवर्षसहस्रांते तपंतः संस्थिता नगे ।।
पद्मासनगतो ब्रह्मा ध्यायमानो दिवाकरम् ।।१८।।
स्थाणुवत्संस्थितो भूमावूर्ध्वबाहुस्त्रिलोचनः ।।
पंचाग्निं भजमानस्तु स्थितो विष्णुरवाक्छिराः ।। १९ ।।
एवं वर्षसहस्रांते तपश्चक्रुः सुदारुणम् ।।
आराधयंतो विधिवद्गोपतिं पुत्रमालिनम् ।। 1.160.२० ।।
अथ ब्रह्मेशविष्णूनां कुर्वतां तप उत्तमम् ।।
तुतोष भगवान्भानुरुवाच च महीपते ।। २१ ।।
ब्रह्मञ्छंभो हरे ब्रूत मत्तः किमभिवांछथ ।।
तुष्टोहं भवतां दातु मिहायातो वरं स्वयम् ।। २२ ।।
।। सुमंतुरुवाच ।। ।।
निशम्य वचनं भानोः शांतं हृद्यं मनोरमम् ।।
प्रणम्य शिरसा केशा इदं वचमब्रुवन्।। ।। २३ ।।
कृतकृत्या वयं सर्वे प्रसादात्तव गोपते ।।
त्वामाराध्य पुरा देव त्वत्तः प्राप्य वरं शुभम् ।। २४ ।।
उत्पत्तिस्थितिनाशानां वयं सर्वे दिवाकर ।।
संभूयेह समर्था वै त्वत्प्रसादान्न संशयः ।। २५ ।।
किं त्वेकं देवदेवेश वरमिच्छामहे विभो ।।
यत्ते परमकं रूपं दुर्लभं दुर्दृशं तथा ।। २६ ।।
तस्मादस्माज्जगन्नाथ रूपं दर्शय तेऽच्युतम् ।।
सर्वदेवमयं यत्ते यत्त्वयोक्तं पुरानघ ।।२७।।
तेषां तद्वचनं श्रुत्वा ब्रह्मविष्ण्वीशभाषितम्।।
दर्शयामास तद्रूपमद्भुतं लोकपूजितम् ।। २८ ।।
अनेकवक्त्रशिरसमनेकाद्भुतदर्शनम् ।।
सर्वदेवमयं दिव्यं सर्वलोकमयं तथा ।। २९ ।।
भूः पादौ द्यौः शिरश्चापि तत्राग्नी लोचने मते ।।
पादांगुल्यः पिशाचाश्च हस्तांगुल्यश्च गुह्यकाः ।। 1.160.३० ।।
विश्वे देवाः स्मृतास्तस्य जंघासंघाः सुरोत्तमाः ।।
यक्षाः कुक्षिषु संलीनाः केशाश्चाप्सरसां गणाः ।।३१।।
दृष्टिधृष्ट्यश्च विपुलाः केशा वीरांशवः स्मृताः ।।
तारका रोमरूपाणि रोमाणि च महर्षयः ।।३२।।
बाहवो विदिशस्तस्य दिशः श्रोत्रे नराधिप।।
अश्विनौ श्रवणे चास्य नासा वायुर्महाबलः ।।३३।।
प्रसादश्च क्षमा चैव मनो धर्मस्तथैव च ।।
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ।। ३४ ।।
ग्रीवादितिर्महादेवी तालू रुद्रश्च वीर्यवान् ।।
द्वारं स्वर्गस्य नाभिर्वै मित्रस्त्वष्टा पिचंडकः ।। ३५ ।।
मुखं वैश्वानरश्चास्य वृषणौ च भगस्तदा ।।
हृदयं भगवान्ब्रह्मा ह्युदरं कश्यपो मुनिः ।। ३६ ।।
पृष्ठेऽस्य वसवो देवा मरुतः सर्वसंधिषु ।।
सर्वच्छंदांसि दशना ज्योतींषि विमला प्रभा ।। ३७ ।।
प्राणो रुद्रो महादेवः कुक्षौ चास्य महार्णवाः ।।
उदरे चास्य गंधर्वा भुजगाश्च महाबलाः ।। ३८ ।।
लक्ष्मीर्मेधा धृतिः कांतिः सर्वा विद्याश्च वै कटौ ।।
ललाटमस्य परमं वयःस्थानं परात्मनः ।। ३९ ।।
सर्वज्योतींषि जानीहि तपश्चक्रश्च देव राट्।।
तदेतदादिदेवस्य तनौ ह्याहुर्महात्मनः ।। 1.160.४० ।।
स्तनौ कुक्षौ च वेदाश्च तेष्टौ चास्य मखाः स्मृताः ।।
यष्टव्यपशुबंधाश्च द्विजानां वेष्टि तानि च ।। ४१ ।।
सर्वदेवमयं दृष्ट्वा रूपमर्कस्य ते नृप ।।
ब्रह्मा हरो हरिर्देवाः परं विस्मयमागताः ।। ४२ ।।
प्रणम्य शिरसा देवं वेपमाना धरां गताः ।।
भयगद्गदया वाचा इदं वचनमब्रुवन्।। ४३ ।।
समीक्ष्य रूपं ते देव भीमं ज्वालासमाकुलम् ।।
अनेकमुखबाहूरुचरणं चकिता वयम्।।४४।।
दिग्ज्ञानं हृतमस्माकं तत्प्रसीद जगत्पते ।।
उपसंहर विश्वात्मन्द्रष्टुं शक्ता न ते वयम् ।। ४५ ।।
इति तेषां वचः श्रुत्वा देवदेवो दिवाकरः ।।
प्रसन्नो भगवानाह वचस्तान्प्रहसन्निदम् ।। ४६ ।।
।। आदित्य उवाच ।। ।।
यदेतत्परमं पुण्यमद्भुतं लोकभावनम्।।
दृष्टं भवद्भिर्देवेंद्रा मम सर्वजगन्मयम् ।। ४७ ।।
एतन्मया प्रसन्नेन युष्माकं श्रेयसेऽनघाः ।।
दर्शितं पूजितेनेह योगिनां यन्महालयम् ।। ४८ ।।
।। ब्रह्मेशाच्युता उचुः ।। ।।
एवमेतन्न संदेहो यथात्थ त्वं दिवस्पते ।।
योगिनामपि देवेश दर्शनं ह्यस्य दुर्लभम् ।। ४९ ।।
त्वामाराध्य जगन्नाथं नाप्राप्यमिह विद्यते ।।
तस्मात्पूज्यतमो लोके नान्यो देवेषु विद्यते ।। 1.160.५० ।।
एवमुक्त्वाऽदितेः पुत्रो जगामादर्शनं रविः ।।
ब्रह्मादयोपि ते हर्षं प्रापुर्देवस्य दर्शनात् ।। ५१ ।।
एवं ब्रह्मादयो देवाः पूजयित्वा दिवाकरम् ।।
गतास्ते परमां सिद्धिं गंधर्वा ऋषयस्तथा ।। ५२ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु ब्रह्मादीनां सूर्यरूपदर्शनवर्णनं नाम षष्ट्युत्तरशततमोऽध्यायः ।। १६० ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 161
सूर्यपूजाफलप्रश्नवर्णनम्
।। शतानीक उवाच ।। ।।
एवमेतद्यथात्थ त्वं भास्करो दैवतं परम् ।।
नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः ।। १ ।।
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ।।
भवत्यस्माज्जगत्सर्वं सदेवासुरमानुषम् ।। २ ।।
रुद्रेंद्रोपेंद्रकेंद्राणां विप्रेंद्र त्रिदिवौकसाम् ।।
द्युतिर्द्युतिमतां कृत्स्ना तेजो यत्सार्वलौकिकम्।। ३ ।।
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ।।
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ।। ४ ।।
ततः संजायते सर्वं तत्रैव प्रविलीयते ।।
भावाभावौ हि लोकनामादित्यान्निःसृतौ पुरा ।। ५ ।।
जगज्ज्येष्ठो ग्रहो विप्र प्रदीप्तः प्रभवो रविः ।।
तत्र गच्छंति निधनं जायंते च पुनः पुनः ।। ६ ।।
क्षणा मुहूर्ता दिवसा रात्रिपक्षाश्च कृत्स्नशः ।।
मासाः संवत्सराश्चैव ऋतवश्च युगानि च ।। ७ ।।
स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः ।।
प्रभासयति विप्रेंद्र त्रैलोक्यं सचराचरम् ।। ८ ।।
तस्मादस्य द्विजश्रेष्ठ पूजने यत्फलं भवेत् ।।
तन्मे ब्रूहि प्रयत्नेन प्रसादप्रवणो भव ।। ९ ।। ।।
इति श्रीभविष्ये महापुराणे सप्तमीकल्पे ब्राह्मे पर्वणि सौरधर्मे सूर्यपूजाफलप्रश्नवर्णनं नामैकषष्ट्युतरशततमोऽध्यायः ।।१६१।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 162
सौरधर्मवर्णनम्
।। सुमंतुरुवाच ।। ।।
भानुं प्रतिष्ठाप्य नरः सर्वदेवमयं विभुम् ।।
प्राप्नोत्यमरतां वीर तेजसा रविसन्निभः ।। १ ।।
यो भानुं द्वेष्टि संमोहात्सर्वदेवनम स्कृतम् ।।
नरो नरकगामी स्यात्तस्यसंभाषणादपि ।। २ ।।
भानुमिष्टं प्रतिष्ठाप्य सर्वयत्नैर्विधानतः ।।
यत्पुण्यफलमाप्नोति तदेकाग्रमनाः शृणु ।। ।। ३ ।।
सर्वयज्ञतपोदानतीर्थदेवेषु यत्फलम् ।।
तत्फलं कोटिगुणितं स्थाप्य भानुं लभेन्नरः ।। ४ ।।
यो भानुं स्थापयेद्भक्त्या विधिपूर्वं नराधिप ।।
सर्वांगमुदितं पुण्यं लभेत्कोटिगुणं नरः ।। ५ ।।
मातृजान्पितृजांश्चैव यत्र चोद्वहते स्त्रियम् ।।
कुलत्रयं समुद्धृत्य शक्रलोके महीयते ।।६।।
भुक्त्वा विपुलान्भोगान्प्रलये समुपस्थिते ।।
ज्ञानयोगं समासाद्य तत्रैव प्रविमुच्यते ।। ७ ।।
अथ वा राज्यमाकांक्षेज्जायते संभवांतरे ।।
सप्तद्वीमसमुद्रायाः क्षितेरधिपतिर्भवेत् ।। ८ ।।
यत्कृत्वा पार्थिवं ब्योम्नि अर्चयेत्सर्वदेवकम् ।।
समूलमखिलं तेन त्रैलोक्यं पूजितं भवेत् ।। ९ ।।
इहैव धनवाञ्च्छ्रीमा न्सोंतेऽर्कत्वमवाप्नुयात् ।।
त्रिसंध्यं कीर्तयेद्व्योम कृत्वा बिंबेन पार्थिवम् ।। 1.162.१० ।।
शतैकादशकं यावत्तस्य पुण्यफलं शृणु ।।
अनेन सह देहेन भानुः संतिष्ठते क्षितौ ।। ११ ।।
पापहा सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ।।
उद्धारयेच्च संस्थाप्य कुलानामेकविंशतिम् ।। १२ ।।
गीर्वाणैः सहितो नित्यं मोदते दिवि सूरवत् ।।
योऽपि पिष्टमयं व्योम सर्वगंधोपशोभितम् ।। १३ ।।
कुसुमैः सुसुगंधैश्च फलैश्च विविधैर्नृप ।।
भक्ष्यलेह्यरसैश्चैव कृतदीपैरलंकृतैः ।। १४ ।।
नानारसमायुक्तं नानागंधसमन्वितम् ।।
तस्य दक्षिणपार्श्वे तु विन्यसेदगुरुं बुधः ।। १५ ।।
दद्याद्वै पश्चिमे भागे श्रीखंडं चंदनं शुभम् ।।
उत्तरे चंदनं दद्याद्रक्तं दद्याच्च पूर्वतः ।। १६ ।।
एवं वित्तानुसारेण कृत्वा विभवविस्तरम् ।।
कृष्णपक्षे तु सप्तम्यां भास्क रस्य निवेदयेत् ।। १७ ।।
सकृदेव तु यः कुर्याद्व्योम भरतसत्तम ।।
यत्फलं हि भवेत्तस्य तन्मे निगदतः शृणु ।। १८ ।।
सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः ।।
निष्कलः सर्वगो भूत्वा प्रविशेत्परमव्ययम् ।।
तेजसा रविसंकाशः प्रभयार्कसमप्रभः ।। १९ ।।
पांसुना क्रीडमानो यः कुर्याद्व्योम ह्यकार्यतः ।।
स राजन्भवते राजा पर्वतेषु समंततः ।। 1.162.२० ।।
सर्वेषामेव पात्राणां परं पात्रं विभावसुः।।
एतत्संतारयेद्यस्मादतीव नरकार्णवात् ।। २१ ।।
तस्य पात्रस्य माहात्म्यं ध्रुवमक्षयमादिशेत् ।।
तस्मात्तस्मै सदा देयमप्रमेयफलार्थिभिः ।। २२ ।।
रवौ दत्तं हुतं जप्तं बलिं पूजां निवेदयेत् ।।
अनंतफलमादिष्टं ब्रह्मादिसुरसत्तमैः ।। २३ ।।
भक्त्या वित्तानुसारेण यः कुर्यादालयं रवेः ।।
सोग्नेयं यानमारुह्य मोदते सह भानुना ।। २४ ।।
महाविभवसारोपि यः कुर्याद्भक्तिवर्जितम्।।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ।। २५ ।।
वित्तशाठ्येन यः कुर्याद्वित्तवानपि मानवः ।।
न स फलमवाप्नोति प्रलोभाक्रांतमानसः ।। २६ ।।
तस्मात्त्रिभागं वित्तस्य जीवनाय प्रकल्पयेत् ।।
भागद्वयं च धर्मार्थे अनित्यं जीवनं यतः ।। २७ ।।
भक्त्या प्रचोदितं कुर्यादल्पवित्तोऽपि यो नरः ।।
महाविभवसारोऽपि न कुर्याद्भक्तिवर्जितः ।। २८ ।।
सर्वस्वमपि यो दद्यादर्के भक्तिविवर्जितः ।।
न तेन धर्मभागी स्याद्भक्तिरेवात्र कारणम् ।। २९ ।।
न तपोभिर्विभोरुग्रैर्न च सर्वैर्महामखैः ।।
गच्छेदेकं पुरं दिव्यमर्के भक्तियुतो नृप ।। 1.162.३० ।।
रुचिरं शुभशैलोत्थं कुर्यायस्तु रवेर्गृहम् ।।
त्रिसप्तकुलसंयुक्तः सूर्यलोकमवाप्नुयात् ।। ३१ ।।
यन्मया कोटिगुणितं कृतं स्यादिष्टकाम्यया ।।
द्विपरार्धगुणं पुण्यं शैलजेऽपि विदुर्बुधाः ।। ३२ ।।
मृच्छैलेन समं ज्ञेयं पुण्यमाढ्यदरिद्रयोः ।।
यत्र तत्र गतः कुर्याद्भक्त्या पुण्यं भगालयम् ।। ३३ ।।
शैलोत्थमिष्टकाभिर्वा दृढं दारुमयं शुभम्।।
स गच्छेत्परमं स्थानं भानोरमिततेजसः ।।
गैरिकं यानमारुह्य यः कुर्याद्धृतभूषणः ।। ३४ ।।
क्रीडमानोऽपि यः कुर्याद्बालभावेऽर्कमंदिरम्।।
सोऽर्कलोकमवाप्नोति विमानवरमास्थितः ।। ३५ ।।
पुष्पमालाकुलं दिव्यं धूपगंधादिवासितम् ।।
अप्सरोगणसंकीर्णं सर्वकाममुखप्रदम् ।। ३६ ।।
तत्र रूढो महाराज वत्सरं वृन्दमुत्तमम् ।।
उषित्वा भास्करपुरे पूज्यमानस्तु दैवतैः ।। ३७ ।।
क्रमादागत्य लोकेऽस्मिन्राजा भवति धार्मिकः ।।
धर्मार्थकामसंपन्नो यशसा च नराधिप ।।३८।।
पश्यन्परिहरञ्जंतून्मार्जन्या मृदुसूक्ष्मया ।।
शनैः संमार्जनं कुर्याच्चांद्रायणफलं भवेत् ।।३९।।
पुत्रार्थं देहजीर्णाया वन्ध्यायाश्च विशेषतः ।।
रोगार्तानां च भूतानामारोग्यार्थं प्रपूजयेत् ।। 1.162.४० ।।
गृहीत्वा गोमयं स्वच्छं स्थाने च पतितं शुभे ।।
उपर्युपरि संत्यज्य प्रत्यग्रं जन्तुवर्जितम् ।। ४१ ।।
वस्त्रपूतगोमयेन यः कुर्यादुपलेपनम् ।।
पश्येत्तु सुखिताञ्जंतूंश्चांद्रायणशतं लभेत् ।। ४२ ।।
यः कुर्यात्सर्वकार्याणि वस्त्रपूतेन वारिणा ।।
स मुनिः स महासाधुः स गच्छेत्परमां गतिम् ।। ४३ ।।
क्षरंति सर्वदानानि यज्ञहोमबलिक्रियाः ।।
अक्षरं तु महादानं सुखदं सर्वदेहिनाम् ।। ४४ ।।
नैरंतर्येण यः कुर्यात्पक्षं संमार्जनार्चनम् ।।
वर्षमेकं शतं दिव्यं सुरलोके महीयते ।। ४५ ।।
तस्यांते च चतुर्वेद सुरूपः प्रियदर्शनः ।।
आद्यः सर्वगुणोपेतो राजा भवति धार्मिकः ।। ४६ ।।
संपर्केणापि यः कुर्यान्नरः कर्म भगालये ।।
सोपि सौमनसं गत्वा पुरं क्रीडति नित्यशः ।।४७।।
तावद्भ्रमंति संसारे दुःखशोकपरिप्लुताः ।।
न भजंति रविं भक्त्या यावत्सर्वेऽपि देहिनः ।। ४८ ।।
समासक्तं तथा चित्तं जन्तोर्विषयगोचरे ।।
यद्यर्को न भवद्देवः को मुञ्चेदेव बन्धनात् ।। ४९ ।।
यः कुर्यात्कुट्टिमां भूमिं दर्पणोदरसन्निभाम् ।।
नानावर्णविचित्रां च विचित्र कुसुमोज्ज्वलाम्।। 1.162.५० ।।
क्वचित्कलशविन्यस्तां पंकजैरुपशोभिताम्।।
रम्यां मनोरमां सौम्यामर्कायतनसंसदि ।। ५१ ।।
यावद्दंडा भवेद्भूमिः समंताच्च सुशोभना ।।
तावद्युगसहस्राणि सूरलोके महीयते ।। ५२ ।।
कारयेच्चित्रशास्त्रज्ञैश्चित्रकर्मार्कमंदिरे ।।
विचित्रं यानमारुह्य चित्रभानोर्गृहं व्रजेत्।।५३।।
यावत्स देवरूपाणि ग्रहरूपाणि लेखयेत् ।।
तावद्युगसहस्राणि स्वर्गलोके महीयते ।। ५४ ।।
भवेद्भूमिः समंताच्च यः कुर्यादर्कमंदि रम् ।।
आरामावसथादीनां लभेदामूल्यकं फलम् ।। ५५ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मवर्णनंनाम द्विषष्ट्यु त्तरशततमोऽध्यायः ।। १६२ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 163
सौरधर्मेषु पुष्पपूजावर्णनम्
।। सुमन्तुरुवाच ।। ।।
भास्करस्य महाबाहो भानोरमिततेजसः ।।
स्नानकाले प्रकुर्वीत जयशब्दादिमंग लम् ।। १ ।।
पद्मस्वस्तिकशंखं तु श्रीवत्सं द्विजसत्तम ।।
हेमरूपादिपात्रेषु कल्पितं गोमयादिभिः ।। २ ।।
नानावर्णकसंयुक्तैरक्षतैस्तिलतंदुलैः ।।
स्वच्छैश्च दधिसंमिश्रैर्यथाशोभं प्रपूरितैः ।। ३ ।।
द्रव्यपीठप्रदीपाश्च भूताश्वत्थादिपल्लवैः ।।
औषधीभिश्च मेध्याभिः सर्वबीजैर्यवादिभिः ।। ।। ४ ।।
सप्तम्यादिषु सर्वेषु षष्ठ्यादिषु विशेषतः ।।
शंखभेर्यादिभिः कुर्याद्वाद्यघोषं सुशोभनम् ।। ५ ।।
त्रिसन्ध्यं वेदनिर्घोषं कुर्वीत फलमुत्तमम् ।।
कुर्यान्नीराजनं चैव शंखवादित्रमंगलैः ।। ६ ।।
यावन्नीराजनं कुर्यात्पर्वाणि विधिवद्रवौ ।।
तावद्युगसहस्राणि सूरलोके महीयते ।। ७ ।।
कपिलापञ्चगव्येन कुशवारियुतेन वै ।।
स्नापयेन्मन्त्रपूतेन ब्रह्मस्नानं हि तत्स्मृतम् ।। ८ ।।
यस्त्वेकमपि सर्वेब्दे ब्रह्मस्नानं प्रयच्छति ।।
स मुक्तः सर्वपापैस्तु सूर्यलोके महीयते ।। ९ ।।
कपिलापञ्चगव्येन दधिक्षीरयुतेन च ।।
स्नानं दशगुणं ज्ञेयं महत्पुण्यं नराधिप ।। 1.163.१० ।।
ऋभवो वीरमुद्दिश्य देहशुद्धिं च शाश्वतीम् ।।
कपिलामाहरेन्नित्यं मुनिदेवाग्निनिर्मिताम् ।। ११ ।।
कापिलं यः पिबेच्छूद्रो देवकार्यार्थनिर्मितम् ।।
स पच्यते महाघोरे सुचिरं नरकार्णवे ।। १२ ।।
वर्षकोटिसहस्रेण यत्पापं समुपार्जितम् ।।
घृताभ्यंगेन सूर्यस्य दहेत्सर्वं न संशयः ।। १३ ।।
कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।।
वज्रस्नानेन तत्सर्वं दहत्यग्निरिवेंधनम् ।। १४ ।।
सप्तम्यां च कृतस्नानो यजेत्सूर्यं सकृन्नरः ।।
कुलान्युद्धृत्य सप्तेह सूर्यलोके महीयते ।।
वसुहेमादियुक्तं च क्षीरस्नानस्य तत्समम् ।। १५ ।।
सकृदाढकेन पयसा यो भानुं स्नाप येन्नरः ।।
राजतेन विमानेन सोऽर्कलोके महीयते ।। १६ ।।
स्नाप्य दध्ना सकृद्भानुं स त्रिलोके महीयते ।।
मधुना स्नपयित्वा तं शुक्रलोके मही यते ।। १७ ।।
उद्धृत्य शालिपिष्टेन वायुलोकेषु पूज्यते ।।
स्नानमिक्षुरसेनेह यः सूर्ये सकृदाचरेत् ।।
स गोपतिपुरं गच्छेत्सर्वकामसमन्वितः ।। ।। १८ ।।
फलोदकेन यो भानुं सकृत्स्नापयते नरः ।।
उत्सृज्य पापकलिलं पितृलोके महीयते ।। १९ ।।
श्रीखंडवारिणा स्नाप्य सकृद्भानुं नरा धिप ।।
चंद्रांशुनिर्मलः श्रीमांश्चरेदात्रेयमंदिरे ।। 1.163.२० ।।
वस्त्रपूतेन तोयेन यद्यर्कं स्नापयेत्सकृत् ।।
स सर्वकामतृप्तात्मा राकाधिपपुरं व्रजेत् ।।२१।।
आपो हिष्ठेति जप्येन गंगातोयेन भारत ।।
गैरिकेण विमानेन ब्रह्मलोके महीयते ।। २२ ।।
कर्पूरागुरुतोयेन योऽर्कं स्नापयते सकृत् ।।
स्नाप्य भानुं सकृन्मन्त्रैः सप्तम्यां समुपोषितः ।।
स कुलानेकविंशतिमुत्तार्य रविमाव्रजेत् ।। २३ ।।
पितृनुद्दिश्य यो भानुं स्नापयेच्छीतवारिणा ।।
तृप्ताः स्वर्ग व्रजंत्याशु पितरो नरकादपि ।। २४ ।।
भानुं शीतांबुना स्नाप्य धारोष्णपयसा सह ।।
स्नाप्य पश्चाद्व्रतेनेशमग्निलोके महीयते ।। २५ ।।
एतत्स्नानत्रयं कृत्वा पूजयित्वा तु भारत ।।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।। २६ ।।
मृत्कुम्भात्ताम्रकुम्भैस्तु स्नानं शतगुणं मतम् ।।
रौप्यैः पादोत्तरं पुण्यं दर्शनात्स्पर्शनं परम् ।।
स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम् ।। २७ ।।
इहामुत्र कृतं पापं घृतस्नानेन नश्यति ।।
सप्तजन्म कृतं पापं पुराणश्रवणेन तु ।।२८।।
दशापराधांस्तोयेन क्षीरेण तु शतं क्षमेत् ।।
सहस्रं क्षमते दध्ना घृतेनाप्ययुतं क्षमेत् ।।२९।।
नैरन्तर्येण यो मासं घृतस्नानं समाचरेत् ।।
दशैकादश कुलानीह नयेत्सूर्यस्य मंदिरम् ।। 1.163.३० ।।
स्नानं पलशतं ज्ञेयमभ्यंगः पञ्चविंशतिः ।।
पलानां द्विसहस्रेण महास्नानमति श्रुतिः।।३१।।
घृताभ्यंगं घृतस्नान भानोः कुर्य्याद्द्विजोत्तम।।
यश्च गोधूमचूर्णैस्तु कषायैर्दर्भसंमितैः।।३२ ।।
दशधेनुसहस्राणि यद्दत्त्वा लभते फलम्।।
तत्फलं लभते सर्वमर्कस्योद्वर्तने कृते।।३३।।
अर्घ्यं पुष्पफलोपेतं यस्त्वर्काय निवेदयेत्।।
स पूज्यः सर्वलोकेषु अर्कवन्मोदते दिवि।।३४।।
गंधतोयेन संमिश्रमुदकाद्द्वादशोत्तरम् ।।
पञ्चगव्यसमायुक्तमर्घ्यं शतगुणं नृप ।। ३५ ।।
योष्टांगगर्भमापूर्य भानोर्मूर्ध्नि निवेदयेत् ।।
दशवर्षसहस्राणि रमते चार्कमंदिरे ।। ३६ ।।
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु ।।
रक्तानि करवीराणि तथा रक्तं च चन्द नम् ।। ३७ ।।
अष्टांग एष अर्घो वै ब्रह्मणा परिकीर्तितः ।।
सततं प्रीतिजननो भास्करस्य नराधिप ।। ३८ ।।
दातुर्वैणवपात्रेण दत्तेऽर्घ्ये यत्फलं भवेत् ।।
तस्माच्छतगुणं पुण्यं मृत्पात्रेण नराधिप ।। ३९ ।।
ताम्रार्घ्यपात्रदानेन पुण्यं शतगुणं मतम् ।।
पालाशपद्मपत्राभ्यां ताम्रपात्रे फलं लभेत् ।। 1.163.४० ।।
रौप्यपात्रेण विज्ञेयं लक्षार्घ्यं नात्र संशयः ।।
सुवर्णपात्रविन्यस्तमर्घ्यं कोटिगुणं भवेत् ।। ४१ ।।
एवं स्नानार्घ्यनैवेद्यबलिधूपादिषु क्रमात् ।।
पात्रांतरविशेषेण तत्फलं तूत्तरोत्तरम् ।। ४२ ।।
रौप्यपात्रप्रदानेन यत्पुण्यं वेदपारगे ।।
ताम्रपात्रप्रदानेन तस्माच्छतगुणं रवौ ।। ।। ४३ ।।
फलं कोटिसुवर्णस्य यो दद्याद्वेदपारगे ।।
सूर्याय रूप्यपात्रे तु भवेत्पुण्यं ततोऽधिकम् ।।४४।।
सुवर्णपात्रं यो दद्याद्भास्कराय महीपते ।।
न शक्यं तस्य तद्वक्तुं पुण्यं पात्रविशेषतः ।। ४५ ।।
तुल्यमेव फलं प्रोक्तं सर्वमाढ्यदरिद्रयोः ।।
तयोरभ्यधिकं तस्य यस्त्वर्के भावनाधिकः ।। ।। ४६ ।।
विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम् ।।
नैव तत्फलमाप्नोति प्रलोभाक्रांतमानसः ।। ४७ ।।
तस्मान्मन्त्रैः फलैस्तोयैश्चन्दनाद्यैश्च यत्नतः ।।
तदनंतफलं ज्ञेयं भक्तिरेवात्र कारणम् ।। ४८ ।।
वर्षकोटिशतं दिव्यं सूर्यलोके महीयते ।।
गंधानुलेपनं पुण्यं द्विगुणं चन्दनस्य तु ।। ।। ४९ ।।
गंधाच्चतुर्गुणं ज्ञेयं पुष्पमष्टगुणं नृप ।।
कृष्णागुरु विशेषेण द्विगुणं फलमादिशेत ।।
तस्माच्छतगुणं पुण्यं कुंकुमस्य विधीयते ।। 1.163.५० ।।।
चंदनागुरुकर्पूरैः श्लक्ष्णपिष्टैः सकुंकुमैः ।।
भानुं पर्याप्तमालिप्य कल्पकोटिं वसेद्दिवि ।। ५१ ।।
स दीव्येत्सुरवृन्देन पुण्यगंधैः प्रलेपितः ।।
दशवर्षसहस्राणि वीर मित्रपुरे वसेत् ।। ५२ ।।
भक्त्या निवेद्य अर्काय तालवृंतं नराधिप ।।
दशवर्षसहस्राणि वीरलोकं महीयते ।। ५३ ।।
मायूरं व्यजनं दत्त्वा सूर्यायातीव शोभनम् ।।
वर्षकोटिशतं पूर्णं प्रभंजनपुरे वसेत् ।। ५४ ।।
पुष्पैररण्यसंभूतैः पत्रैर्वा गिरिसम्भवैः ।।
अपर्युषितनिश्छिद्रैः प्रोषितैर्जंतुवर्जितैः ।। ५५ ।।
आत्मारामभवैश्चैव पुष्पैः संपूजयेद्रविम् ।।
पुष्पजातिविशेषेण भवेत्पुण्यं ततोऽधिकम् ।। ५६ ।।
तपःशीलगुणोपेत इति हासविदि द्विजे ।।
दत्त्वा दश सुवर्णस्य निष्कान्यल्लभते फलम् ।। ५७ ।।
करवीरस्य कुसुममर्काय विनिवेदयेत् ।।
लभते तत्फलं वीर यथाह भगवान्रविः ।।
एवं पुष्पविशेषेण फलं तदधिकं भवेत् ।।
ज्ञेयं पुण्यं रसज्ञेन यथा स्यात्तन्निबोध मे ।। ५८ ।।
सदा पुष्पसहस्रेभ्यः करवीरं विशिष्यते ।।
बिल्वपत्रसहस्रेभ्यः पद्ममेकं नराधिप।। ५९ ।।
पद्मपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ।।
बकपुष्पसहस्रेभ्यो मुद्गरं परमुच्यते।।1.163.६०।।
कुशपुष्पसहस्रेभ्यः शमीपत्रं विशिष्यते ।।
शमीपुष्पसहस्रेभ्यो नृप नीलोत्पलं परम् ।।
सर्वासां पुष्पजातीनां प्रवरं नीलमुत्पलम् ।। ६१ ।।
रक्तोत्पलसहस्रेण नीलोत्पलशतेन च ।।
रक्तैश्च करवीरैश्च यस्तु पूजयते रविम् ।। ६२ ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
वसेदर्कपुरे श्रीमान्सूर्यतुल्यपराक्रमः ।। ६३ ।।
शेषाणां पुष्पजातीनां यत्फलं परिकीर्तितम् ।।
तत्फलस्यानुसारेण सूर्यलोके महीयते ।। ६४ ।।
शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमुच्यते ।।
करवीरसमा ज्ञेया जातीविजयपाटलाः।। ६५ ।।
श्वेतमंदारकुसुमं सितपुष्पं च तत्समम् ।।
नलचंपकपुन्नागमुद्गराणां समाः स्मृताः ।। ६६ ।।
गंधवंत्यपवित्राणि कुसुमानि विवर्जयेत् ।।
गंधहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम् ।। ६७ ।।
सात्त्विकं तद्धि कुसुममपवित्रं च तामसम् ।।
मुद्गराणि कदंबानि रात्रौ देयानि सूरये ।। ६८ ।।
दिवाशेषाणि पुष्पाणि त्यजेदुपहतानि च ।।
मुकुलैर्मार्चयेद्भानुमपक्वं न निवेदयेत् ।। ६९ ।।
फलं क्वथितविद्धं च यत्नात्पक्वमपि त्यजेत् ।।
अलाभे बत पुष्पाणां पत्राण्यपि निवेदयेत् ।। 1.163.७० ।।
पत्राणामप्यलाभे तु फलान्यपि निवेदयेत् ।।
फलानामप्यलाभेन तृणगुल्मौषधीरपि ।। ७१।।
ओषधीनामभावे तु भक्त्या भवति पूजितः ।।
प्रत्येकं मुक्तपुष्पेण दशसौवर्णिकं फलम् ।। ७२ ।।
यः सुगन्धैर्मुक्तपुष्पैः सम्यग्भानुं प्रपूजयेत् ।।
माघासितेऽपि सुमनाः सोऽनंतफलमश्नुते ।। ७३।।
करवीरैर्महाराज संयतो भानुमर्चयेत् ।।
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ।। ७४ ।।
अगस्त्यकुसुमैर्भक्त्या यः सकृद्भानुमर्चयेत्।।
गवां प्रयुतदानस्य फलं प्राप्य दिवं व्रजेत् ।। ७५ ।।
मल्लिकोत्पलपद्मैश्च जातीपुन्नागचंपकैः ।।
अशोकश्वेतमंदारकर्णिकारांधुकैस्तथा ।। ७६ ।।
करवीरार्ककह्लारशमीतगरकेशरैः ।।
अगस्तिबकपुष्पैस्तु शतपत्रैर्नराधिप ।। ७७ ।।
पुष्पैरेतैर्यथालाभं यो नरः पूजयेद्रविम् ।।
स तत्फलमवाप्नोति तदेकाग्रमनाः शृणु ।। ।। ७८ ।।
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिभिः ।।
पुष्पमालापरिक्षिप्तैर्गीतवादित्रनादितैः ।। ७९ ।।
तंत्रीमधुरवाद्यैश्च स्वच्छंदगमनैर्नृप ।।
सूर्यकन्यासमाकीर्णैर्देवानां च सुदुर्लभैः ।। 1.163.८० ।।
दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः ।।
गच्छेदर्कपुरीं दिव्यां तत्र संपूजितो भवेत् ।। ८१।।
यैस्तैश्च वापिकुसुमैर्जलजैः स्थलजैर्नृप ।।
संपूज्य श्रद्धया भानुमर्कलोके महीयते ।।८२ ।।
सूर्यस्योपरि यः कुर्याच्छोभनं पुष्पमंडलम्।।
शोभितं पुष्पस्रग्दामैरापीठांतं प्रलंबितैः ।। ८३ ।।
अत्याश्चर्यमहायानैर्दिव्यपुष्पोपशोभितः ।।
सर्वेषामुपरिष्टाच्च वसेदर्कपुरे सुखी ।। ८४ ।।
अनेकरागविन्यस्तैः सुगन्धैः कुसुमैर्गृहम् ।।
यः कुर्यात्पर्वकाले तु विचित्रकुसुमोज्ज्वलम् ।। ८५ ।।
स पुष्पकविमानेन पुष्पमालाकुलेन तु ।।
पुष्पेतरपुरं दिव्यं श्रयते नात्र संशयः ।। ८६ ।।
अक्षयं मोदते कालमतिरस्कृतशासनः ।।
सौरादिसर्वलोकेषु यत्रेष्टं तत्र याति सः ।। ८७ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु पुष्पपूजावर्णनं नाम त्रिषष्ट्युत्तरशततमोऽध्यायः ।। १६३ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 164
सूर्यषष्ठीव्रतवर्णनम्
शतानीक उवाच ।। ।।
पुनस्त्वं देवदेवस्य भास्करस्य महौजसः ।।
पूजने यत्फलं प्रोक्तं तन्मे ब्रूहि द्विजोत्तम ।। १
।। सुमंतुरुवाच ।। ।।
शृणु त्वं हि महाराज सर्वदं लोकपूजितम् ।।
ब्रह्मेशोपेंद्रदेवानां त्रयाणामपि भारत ।। २ ।।
सुखासीनं सुरज्येष्ठं मनोवत्यां चतुर्मुखम्।।
प्रणम्य शिरसा भूमौ विष्ण्वीशौ वाक्यमूचतुः ।। ३ ।।
य एष भगवान्देवः सहस्रकिरणो रविः ।।
अस्य यत्पूजने पुण्यं प्राप्यते तद्वदस्व नौ ।। ४ ।।
।। ब्रह्मोवाच ।। ।।
साधु साधु जगन्नाथ साधु पृष्टोऽस्मि वामिह ।।
तस्माच्छृणुतमेकाग्रौ गदतो निखिलं मम ।। ५ ।।
स्वयमुत्पाद्य पुष्णाणि यः सूर्यं पूजयेत्स्वयम् ।।
तानि साक्षात्प्रगृह्णाति तद्भक्त्या सततं रविः ।। ६ ।।
यस्त्वारामं रवेः कुर्यादाम्रबिल्वादिशोभितम्।।
जातीविजयराजार्ककरवीरैः सकुंकुमैः ।।७।।
पुन्नागनागबकुलैरशोकतिलचंपकैः ।।
अगस्तिकदलीखंडैस्तस्य पुण्यफलं शृणु ।। ८ ।।
यावद्धि पत्रं कुसुमं बीजं सूतफलानि च ।।
तावद्वर्षसहस्राणि सूरलोके महीयते ।। ९ ।।
सघृतं गुग्गुलं दद्याद्राजन्वा कंदुरुं तथा ।।
चतुर्वेदिगृहे जन्म प्राप्नोति सततं सुखी ।। 1.164.१० ।।
कृष्णागुरुं च कर्पूरधूपं दद्याद्दिवाकरे ।।
नैरंतर्येण यस्तस्य राजन्पुण्यफलं शृणु ।। ११ ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
भुक्त्वा सूर्यपुरे भोगांस्तस्यांते क्ष्माधिपो भवेत् ।। १२ ।।
गुग्गुलुं घृतसंयु्क्तं यक्षो गृह्णाति शब्दकृत् ।।
यक्षाह्वयस्य दानेन तस्य लोके महीयते ।। १३ ।।
कृष्णांशौ कृष्ण सप्तम्यां यः साज्यं गुग्गुलुं दहेत् ।।
स चासौ सौरमासाद्य वर्षाणां च दशार्बुदम् ।। १४ ।।
देवदारुं नमेरुं च श्रीवासं कुंदुरुं तथा ।।
श्रीफलं चाज्यसंयुक्तं दग्ध्वाश्रयमवाप्नुयात् ।। १५ ।।
एवं सौगधिकं रूपं षट्सहस्रगुणोत्तरम्।।
अगुरुं दशसाहस्रं सघृतं द्विगुणं भवेत् ।।१६।।
अनंतफलदं देवं सदा कुंदुरुकामुकम्।।
द्विसहस्रपलानां तु महिषाक्षस्य गुग्गुलोः ।।१७।।
दग्ध्वार्धमविमिश्रस्य सूर्यतुल्यः प्रजायते ।।
शोधयेत्पापसंयुक्तं पुरुषं नात्र संशयः ।। १८ ।।
कृष्णागुरुभवं धूपं तुषाग्निरिव कांचनम् ।।
योंतःपुरगृहं गन्धैः सुगन्धैः प्रविलेपयेत् ।। १९ ।।
कपाटद्वारकुड्यादितिर्यगूर्ध्वं सवेदिकम् ।।
वासयेत्पुष्पमालाभिर्धूपैश्चापि सुगंधिभिः ।। 1.164.२० ।।
तस्य पुण्यं यथावत्तु युवयोर्वच्मि कृत्स्नशः ।।
आपूरयन्दिशः सर्वा नानागंध समन्वितैः ।। २१ ।।
कल्पकोटिशतं दिव्यं तेजसा वह्निसन्निभः ।।
शक्रवत्प्रज्वलन्देवः सूर्यलोके महीयते ।। २२ ।।
तस्यांते धर्मशेषेण त्रैलोक्या धिपतिर्भवेत्।।
शतावृतं तु यः कुर्यादेवं गन्धैर्भगालयम्।। २३ ।।
स सर्वशर्मसंयुक्तः सूर्यतुल्यपराक्रमः ।।
सूर्यलोके वसेद्देवो युवाभ्यां संप्रपू जितः ।। २४ ।।
तद्वच्छुक्लैश्च संवीतं पट्टसूत्रैर्विनिर्मितम् ।।
दत्त्वोपवीतं सूर्याय भवेद्वेदांगपारगः ।। २५ ।।
वासांसि सुविचित्राणि सूरलोके महीयते ।।
त्रुटिमात्रं तु यो दद्यादूर्णावस्त्रं सपंकजम्।। २६ ।।
भास्करस्योत्तमांगेषु तस्य पुण्यं ब्रवीम्यहम् ।।
इन्द्रस्यार्धासने तिष्ठेद्यावद्रिन्द्राश्चतुर्दश ।। २७ ।।
एवं वित्तानुसारेण सर्वं ज्ञेयं समासतः ।।
सर्वेषां हेमपात्राणां मुकुटानां च सर्वशः ।। २८ ।।
अर्कपत्रपुटं चूर्णं मधुपर्णसमन्वितम्।।
यो निवेदयतेऽर्काय सोऽश्वमेधफलं लभेत् ।।२९।।
शालितंडुलप्रस्थस्य कुर्यादन्नं सुसंस्कतम् ।।
सूर्याय च चरुं दत्त्वा सप्तम्यां तु विशेषतः ।।1.164.३०।।
संयावं कृशरं पूपं पायसं यावकं तथा ।।
दध्योदनरसालान्नमोदकान्गुडपूपकान् ।। ३१ ।।
यावंतस्तण्डुलास्तस्मिन्नैवेद्ये परिसंख्यया ।।
तावद्वर्ष सहस्राणि सूरलोके महीयते ।। ३२।।
गुडखंडकृतानां च भक्ष्याणां विनिवेदने ।।
घृतेन प्लावितानां च फलं शतगुणं लभेत् ।। ३३ ।।
रसाल खाद्यकाद्यानां भक्ष्याणां फलमिष्यते ।।
तदर्धं सलिलस्यापि वासितस्य निवेदयेत् ।। ३४ ।।
यथाकालोपलब्धानि भक्ष्याणि विविधानि च ।।
निवेद्यार्काय परमं स्थानं प्राप्नोति पूजनात् ।। ३५ ।।
प्रज्वाल्य घृतदीपं तु भास्करस्यालये शुभम् ।।
आग्नेयं यानमारुह्य गच्छेत्सौमनसं पुरम्।। ३६ ।।
यः कुर्यात्कार्तिके मासि शोभनां दीपमालिकाम्।।
सप्तम्यामथ षष्ठ्यां वामावास्यायामथापि वा ।। ३७ ।।
भास्करायुतसंकाशस्तेजसा भासयन्दिशः ।।
दिव्याभरणसंपन्नः कुलमुद्धृत्य सर्वशः ।। ३८ ।।
यावत्प्रदीपसंख्यानं घृतेनापूर्य बोधितम्।।
तावद्वर्षसहस्राणि सूर्यलोके महीयते ।। ३९ ।।
दीपवृक्षमथोद्बोध्य पर्वस्वायतनेषु वै ।।
पूर्वस्माद्द्विगुणं पुण्यं लभते नात्र संशयः ।। 1.164.४० ।।
दीपवृक्षं समुद्बोध्य भास्करायतनेषु भोः ।।
सर्वलोहमयं वीर रविलोके महीयते ।। ४१ ।।
शिरसा धारयेद्दीपं भास्करस्याग्रतो निशि ।।
ललाटे चैव हस्ताभ्यां समुद्युक्तस्तथो रसि ।। ४२ ।।
भास्करायुतसंकाशो विमानैरर्कसन्निभैः ।।
कल्पायुतशतं चैव सूर्यलोके महीयते ।। ४३ ।।
अन्नदाता तु यो वीर वीरलोके मही यते ।।
भास्करस्याग्रतो दत्त्वा दर्पणं निर्मलं शुभम् ।। ४४ ।।
पर्यंके शोभितं कृत्वा श्वेतमाल्यैः सचन्दनैः ।।
वृकार्कनिर्मलः श्रीमान्दिव्याभरण रूपधृक् ।।
कल्पायुतसहस्राणि सूरलोके महीयते ।। ४५ ।।
कृत्वा प्रदक्षिणं भक्त्या श्रद्दधानो रवेर्नरः ।।
अश्वमेधसहस्रस्य सुखेन लभते फलम्।। ।। ४६ ।।
कृत्वा प्रदक्षिणं यस्तु नमस्कारं प्रयोजयेत् ।।
राजसूयाश्वमेधाभ्यां सकलं विन्दते फलम् ।। ४७ ।।
नमस्कारः स्मृतो यज्ञः सर्वयज्ञो त्तमोत्तमः ।।
नमस्कृत्वा सहस्रांशुमश्वमेधफलं लभेत् ।। ४८ ।।
प्रणम्य दंडवद्भूमौ नमस्कारेण योऽर्चयेत् ।।
स यां गतिमवाप्नोति न तां क्रतु शतैरपि ।। ४९ ।।
सर्वयज्ञोपवासेपु सर्वतीर्थेषु यत्फलम् ।।
अभिज्ञाप्योपहारेण पूजया फलमश्नुते ।। 1.164.५० ।।
श्वेतं महाध्वजं कृत्वा कृत्वा चापं च रंगकम् ।।
किंकिणीजालनिर्घोषं मयूरच्छत्रभूषितम् ।।
यस्त्वर्यम्णे नरो दद्याच्छ्रद्धया परयान्वितः ।। ५१ ।।
स शतेन विमानानां सर्वदेव नमस्कृतः ।।
मन्वन्तरशतं देव मोदते दिवि देववत् ।। ५२ ।।
ध्वजमालाकुलं कुर्याद्यः प्रांतेषु भगालयम्।।
महाध्वजाष्टकं चापि दिग्विदिक्षु निवेदयेत् ।। ५३ ।।
स विमानसहस्रेण ध्वजमालाकुलेन तु ।।
कल्पायुतशतं दिव्यं मोदेते दिवि सूरवत् ।। ५४ ।।
शतचन्द्रांशुविमलं मुक्तादामोपशोभितम् ।।
मणिदंडमयं छत्रं दद्याद्वा कांचनादिकम् ।। ५५ ।।
स धार्यमाणच्छत्रेण हेमदंडोपशोभिना ।।
मोदते सूर्यलोके तु विमानवरमा स्थितः ।। ५६ ।।
ततस्तस्माच्च्युतो लोकान्निसर्गाद्भुवमागतः ।।
भुङ्क्ते समुद्रपर्यंतामेकच्छत्रां वसुन्धराम् ।। ५७ ।।
यः शृंखलासमायुक्तां महाघण्टां महास्वनाम् ।।
कांस्यलोहमयीं वापि निबध्नीयाद्भगालये ।। ५८ ।।
शोभनः स्यान्नरः श्रीमान्भगस्यातीव वल्लभः ।।
सूर्यतुल्यबलो भूत्वा सूर्यलोके महीयते ।। ५९ ।।
भेरीमृदंगपटहझर्झरीमर्दलादिकम् ।।
दशकांस्यादिवादित्रं यो भगाय निवेदयेत् ।। 1.164.६० ।।
स विमानैर्महाभागेर्वंशवीणायुतस्वनैः ।।
युगान्तकशतं दिव्यं भगलोके महीयते ।। ६१ ।।
सुसंगीतकदानेन सवाद्येन विशेषतः ।।
यथेष्टं भास्करे लोके मोदते कालमक्षयम् ।। ६२ ।।
महामहास्वनं दत्त्वा शंखयुग्मं भगालये ।।
युगकोटिशतं दिव्यं भगलोके महीयते ।। ६३ ।।
विमानं बहुवर्णाभं मध्ये पंकजभूषितम् ।।
विचित्रमेकवर्णं वासनवस्त्रोपकल्पितम् ।। ६४ ।।
किंकिणीजालसंपन्नं वर्णकैश्चोपशोभितम् ।।
पुष्पमालाप्रभं वापि घंटाचामरभूषितम् ।। ६५ ।।
भगस्योपरि यो दद्यात्सर्वरत्नोपशोभितम् ।।
दुकूलपट्टदेवांगैर्वस्त्रैर्वा वर्णकान्वितैः ।। ६६ ।।
पट्टादिवस्त्रतंतूनां परिसंख्या तु या भवेत् ।।
तावद्युगसहस्राणि सूरलोके महीयते ।। ६७ ।।
भगाहुत्या जगत्सर्वं सृष्टिद्वारेण धार्यते ।।
अग्निवर्त्मा वचस्युक्तो ह्यग्निरस्यात्मजः सदा ।। ६८ ।।
यस्त्वग्निकार्यं(य?) विधिवत्कुर्यान्नित्यं भगालये ।।
भगमुद्दिश्य राजेंद्र स याति परमां गतिम् ।। ६९ ।।
सर्वान्नं यावकोपेतं यस्तु नित्यविधिं हरेत् ।।
पुष्पधूपजलोपेतं कालेकाले विशेषतः ।। 1.164.७० ।।
महाश्वेतादिमातॄणां त्रिकल्पानां च सर्वशः ।।
यः कृत्वा सकृदप्येवं सर्वदिक्षु बलिं हरेत् ।।
स नरश्च सहस्राणि शांडिलेयपुरे वसेत् ।। ७१ ।।
सौरसंध्याबलिं कृत्वा दिनांते सततं रवेः ।।
वर्षायुतशतं साग्रं भगलोके महीयते ।। ७२ ।।
दध्योदनपयोभिर्यः पूरितं पात्रमावृतम् ।।
पुष्पधूपार्चितं चैव वितानोपरि शोभितम् ।। ७३ ।।
शिरसा धारयेत्पात्रं शनैर्गच्छेत्प्रदक्षिणम् ।।
रव्यायतनपर्यंते शंखवीणादिनिस्वनैः ।। ७४ ।।
दर्पणैर्धूपमालाभिर्गेयनृत्यादिशोभितम् ।।
भानोर्हि स्मृतिशीलश्च तस्य पुण्यफलं शृणु ।। ७५ ।।
दिव्यं वर्षसहस्रं तु दिव्यं वर्षशतं तथा ।।
तपस्तप्तं महत्तेन भवेदेवं न संशयः ।। ७६ ।।
भगभक्तिप्रसन्नात्मा यद्यपि स्यात्स पापकृत् ।।
भगलोके वसेन्नित्यं भगानुचरतां गतः ।। ७७ ।।
कृष्णां तु षष्ठीं नक्तेन यश्च कृष्णां च सप्तमीम् ।।
इह भोगानवाप्नोति परत्र च शुभां गतिम् ।। ७८ ।।
योब्दमेकं तु कुर्वीत नक्तं भगदिने नरः ।।
ब्रह्मचारी जितक्रोधो भगार्चनपरो नरः ।।
अयाचितात्परं नक्तं तस्मन्नाक्तेन वर्तयेत् ।। ७९।।
देवैस्तु भुक्तं मध्याह्ने पूर्वाह्णे ऋषिभिस्तथा ।।
अपराह्णे तु पितृभिः संध्यायां गुह्यकादिभिः ।। 1.164.८० ।।
सर्वा वेला ह्यतिक्रम्य सौराणां भोजनं परम् ।।
भुंजानो नक्तकाले तु सूर्यभक्तिपरायणः ।। ८१ ।।
भगलोकमवाप्नोति सुमनाः सुमनोव्रतः ।।
भुक्त्वा सौमनसाँल्लोकान्रा जा भवति भूतले ।।८२।।
हविष्यभोजनं स्नानमाहारस्य च लाघवम् ।।
अग्निकार्यमधःशय्यां नक्तभोजी समाचरेत्।। ८३ ।।
कृष्णषष्ठ्यां प्रयत्नेन कृत्वा नक्तं विधानतः ।।
नरो मार्गशिरे मासि अंशुमानिति पूजयेत ।।८४।।
विधिवत्प्राश्य गोमूत्रमनाहारो निशि स्वपेत्।।
अतिरात्रस्य यज्ञस्य फलमाप्नोति मानवः ।। ८५ ।।
पुष्येप्येवं सहस्रांशुं भानुमंतमुशंति च ।।
वाजपेयफलं प्राप्य घृतं प्राश्य लभेन्नरः ।। ८६ ।।
माघे दिवाकरं नाम कृष्णषष्ठ्यां नरोत्तम ।।
निशि पीत्वा तु गोक्षीरं गोमेधफलमाप्नुयात् ।। ८७ ।।
मार्तंडं फाल्गुने मासि पूजयित्वा गवां पयः ।।
पिबेत्ततः सूर्यलोके मोदते सोऽयुतायुतम् ।।८८।।
चैत्रे मासि विवस्वंतं पूजयित्वा सुभक्तिमान् ।।
हविष्याशी सूर्यलोकेऽप्सरोभिः सह मोदते।।८९।।
वैशाखे चण्डकिरणं पूजयेच्च पयोव्रतः।।
वर्षाणामयुतं साग्रं मोदते सूर्यसंनिधौ।।1.164.९०।।
ज्येष्ठे दिवस्पतिं पूज्य गवां शृंगोदकं पिबेत्।।
गवां कोटिप्रदानस्य निखिलं फलमा प्नुयात् ।।९१।।
आषाढे त्वर्कनामानमिष्ट्वा प्राश्य च गोमयम् ।।
प्रयात्यर्कसलोकं तु वर्षाणां च शतंशतम्।।९२।।
श्रावणेऽर्यमनामानं पूजयित्वा पयः पिबेत् ।।
वर्षाणामयुतं साग्रं मोदते भास्करालये ।। ९३ ।।
मासि भाद्रपदे षष्ठ्यां भास्करं नाम पूजयेत् ।।
भास्करं पंचगव्यस्य सर्वमेधफलं लभेत्।।९४।।
मासि चाश्वयुजे षष्ठ्यां भगाख्यं नाम पूजयेत् ।।
पलगोमूत्रभुक्चैव अश्वमेधफलं लभेत् ।।९५।।
मासे तु कार्तिके षष्ठ्यां शक्राख्यं नाम पूजयेत् ।।
दूर्वांकुरं सकृत्प्राश्य राजसूयफलं लभेत्।।९६।।
वर्षांते भोजयेद्विप्रान्सूर्यभक्तिपरायणान्।।
पायसं मधुसंयुक्तं वज्रेण च परिप्लुतम्।।९७।।
शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् ।।
निवेदयेच्च सूर्याय कृष्णां गां च पयस्विनीम् ।। ९८ ।।
वर्षमेकं च देवे वै नैरंतर्येण यो नयेत् ।।
कृष्णषष्ठीव्रतं भक्त्या तस्य पुण्यफलं शृणु ।।९९।।
सर्वपापविनिर्मुक्तः सर्वकामसमन्वितः ।।
मोदते सूर्यलोके तु स नरः शाश्वतीः समाः।।1.164.१००।।
पुण्येष्वहःसु सर्वेषु विषुवद्ग्रहणादिषु ।।
दानोपवासहोमाद्यैरक्षयं खग जायते ।।१०१।।
।। सुमंतुरुवाच ।। ।।
इत्युक्तवान्पुरा भानुररुणाय विशांपते।।
कृष्णषष्ठीव्रतं पुण्यं सर्वपापभयापहम् ।। १०२ ।।
कृत्वेदं पुरुषो भक्त्या भास्करस्य महात्मनः ।।
प्रयाति परमं स्थानं भानोरमिततेजसः ।।१०३।।
इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि सप्तमीकल्पे सूर्यषष्ठीव्रतवर्णनं नाम चतुःषष्ट्युत्तरशततमोध्यायः।।१६४।।।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 165
उभयसप्तमीवर्णनम्
।। सुमंतुरुवाच ।। ।।
अहं ते संप्रवक्ष्यामि सूर्यस्यव्रत्तमुत्तमम्।।
धर्मकामार्थमोक्षाणां प्रतिपादनमुत्तमम्।।१।।
पौषमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम्।।
जितेंद्रियः सत्यवादी शालिगोधूमगोरसैः ।।२।।
पक्षयोः सप्तमीं यत्नादुपवासेन यापयेत् ।।
त्रिसंध्यमर्चयेद्भानुं शांडिलेयं च सुव्रत।।३।।
अधःशायी भवेन्नित्यं सर्वभोगविव र्जितः ।।
मासि पूर्णे तु सप्तम्यां घृतादिभिररिंदम ।। ४ ।।
कृत्वा स्नानं महापूजां सूर्यदेवस्य भास्त।।
नैवेद्यं मोदकप्रस्थं क्षीरं सिद्धं निवेदयेत् ।।५।।
भोजयेच्च द्विजानष्टौ भगार्चा शुभलक्षणाम् ।।
गां च दत्त्वा महाराज कपिलां भास्कराय तु ।।६।।
य एवं कुरुते पुण्यं सूर्यस्य व्रतमुत्तमम्।।
तस्य पुण्य फलं वच्मि सर्वकामसमन्वितम्।।७।।
सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः ।।
अप्सरोगणसंकीर्णैर्महाविभवसंयुतैः ।।८।।
संगीतनृत्यवाद्याद्यैर्गंधर्वगणशोभितैः ।।
दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः ।।९।।
सहस्रकिरणाभासः सौरैः सूर्यसमन्वितैः ।।
स याति परमं स्थानं यत्रास्ते रविरंशुमान्।।1.165.१०।।
रोमसंख्या तु या तस्यास्तत्प्रसूतिः कुलेषु च ।।
तावद्युगसहस्राणि सूरलोके महीयते ।।११।।
त्रिःसप्तकुलजैः सार्धं भोगान्भुक्त्वा यथेप्सितान् ।।
ज्ञानयोगं समासाद्य पुनरेव प्रमुच्यते ।। १२ ।।
योगाद्दुःखांतमाप्नोति ज्ञानयोगं प्रवर्तते ।।
सौरधर्माद्भवेज्ज्ञानं सौरधर्मो भगार्चनात्।। ।। १३ ।।
इत्येवं ते समाख्यातं भवार्णवव्यपोहनम्।।
सौरमोक्षक्रमोपायं सूराश्रयनिषेवणम् ।। १४ ।।
माघमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् ।।
पिण्याकं घृतसंयुक्तं भुंजानः स जितेन्द्रियः ।। १५ ।।
सोपवासश्च सप्तम्यां भवेदुभयपक्षयोः ।।
घृताभिषेकमष्टम्यां कुर्याद्भानोर्नराधिप ।।
गां च दयाद्दिनेशाय तरुणीं नीलसंनिभाम्।। १६ ।।
इन्द्रनीलप्रतीकाशैर्विमानैः शिखिसंयुतैः ।।
गत्वादित्यपुरं रम्यं भोगान्भुंक्ते यथेप्सितान् ।। १७ ।।
राजेंद्र फाल्गुने मासि यः कुर्यान्नक्तभोजनम् ।।
श्यामाकक्षीरनीवारैर्जितक्रोधो जितेन्द्रियः ।। १८ ।।
षष्ठ्यां वाप्यथ सप्तम्यामुपवासपरो नरः ।।
अष्टम्यां तु महास्नानं पञ्चगव्यघृतादिभिः ।।१९।।
वल्मीकजादिमृद्भिश्च गोमूत्रशकृदादिभिः।।
त्वग्भिश्च क्षीरवृक्षाणां स्नापयित्वा प्रमार्जयेत् ।।1.165.२०।।
सौरभेयीं ततो दद्याद्रक्ताभां रक्तमालिने ।।
पद्मरागप्रतीकाशैर्विमानैर्हस्तिसंयुतैः ।।
गत्वादित्यपुरं रम्यं मोदते शाश्वतीः समाः ।। २१ ।।
मासि चैत्रे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् ।।
शाल्यन्नं पायसैर्युक्तं भुञ्जानश्च जितेन्द्रियः ।।
भानवे पाटलां दद्याद्वैष्णवीं तरुणीं नृप ।। २२ ।।
पुष्पराग प्रभैर्यानैर्नानाहंसादियायिभिः ।।
गच्छेत्सूर्यपुरं रम्यं मोदते शाश्वतीः समाः ।।२३।।
वैशाखे वीरमासे तु यः कुर्यान्नक्तभोजनम् ।।
सूर्ये खंडाज्य संमिश्रं सकृद्दद्यान्निवेदनम् ।। २४ ।।
गां च दद्यान्महाराज भास्कराय शुभानन ।।
सामान्यं च विधिं कुर्यात्प्रयुक्तो यो मया तव ।। २५ ।।
शुद्धस्फटिकसंकाशैर्यानैर्बर्हिणवाहनैः ।।
अणिमादिगुणैर्युक्तः सूर्यवद्विचरेद्दिवि ।। २६ ।।
संप्राप्ते श्रावणे मासि यः कुर्यान्नक्तभोजनम् ।।
क्षीरषष्टिकभक्तेन सर्वसत्त्वहिते रतः ।। २७ ।।
पीतवर्णां च गां दद्याद्भास्कराय महात्मने ।।
सामान्यमखिलं कुर्याद्विधानं यत्प्रकीर्तितम् ।।२८।।
स विचित्रैर्महायानैर्हंससारसगामिभिः ।।
गत्वादित्यपुरं श्रीमान्पूर्वोक्तं लभते फलम् ।। २९ ।।
वीर भाद्रपदे मासि यः कुर्यान्नक्तभोजनम् ।।
हुतशेषहविष्याशी वृक्षमूलमुपाश्रितः ।। 1.165.३० ।।
स्वप्यादायतने रात्रौ सर्वभूतानुकम्पकः ।।
दद्याद्गां रोहिणीं श्रेष्ठां भास्कराय महात्मने ।। ३१ ।।
निशाकरकरप्रख्यैर्वज्रवैदूर्यसन्निभैः ।।
चक्रवाकसमायुक्तैर्विमानैः सार्वकामिकैः ।। ३२ ।।
गत्वादित्यपुरं रम्यं सुरासुरसुवन्दितम्।।
मोदते स महाभागो यावदा भूतसंप्लवम् ।। ३३ ।।
श्रीमानाश्वयुजे मासि यः कुर्यान्नक्तभोजनम् ।।
मिताशनं प्रभुञ्जानो जितक्रोधो जितेन्द्रियः ।। ३४ ।।
दद्याद्गां पद्मवर्णाभां ,भानवेऽमिततेजसे ।।
दिव्याभरणसंपन्नां तरुणीं च पयस्विनीम् ।।३५।।
स्वस्तिमौक्तिकसंकाशैरिंद्रनीलोपशोभितैः ।।
जीवो जीवकसंयुक्तविमानैः सार्वकामिकैः ।।
गच्छेद्भानुसलोकत्वं भुञ्जानः स जितेन्द्रियः ।। ३६ ।।
दिवाकराय गां दद्याज्वलनार्कसमप्रभाम् ।।
पूर्वोक्तं च विधिं कुर्यात्सूर्य तुल्यो भवेन्नरः ।। ३७ ।।
कालानलशिखप्रख्यैर्महायानैर्नगोपमैः ।।
महासिंहकृतारोपैः सूर्यवन्मोदते सुखी ।। ३८ ।।
मार्गशीर्षे शुभे मासि यः कुर्यान्नक्तभोजनम् ।।
यच्चान्नं पयसा युक्तं भुञ्जानः स जितेन्द्रियः ।।३९।।
प्रयच्छेद्गां तथा रक्तां नानालंकारभूषिताम् ।।
सूर्याय कुरुशार्दूल विधिं चापि समाचरेत् ।। 1.165.४० ।।
सितपद्मनिभैर्यानैः श्वेताश्वरथसंयुतैः ।।
गत्वा तत्र पुरे रम्ये प्रभया परयान्वितः ।। ४१ ।।
अहिंसासत्यवचनमस्तेयं क्षांतिरार्जवम् ।।
त्रिषवणाग्निहवनं भूशय्या नक्तभोजनम् ।। ४२ ।।
पक्षयोरुभयोर्मार्गे सप्तम्यां कुरुनंदन ।।
एतान्गुणान्समाश्रित्य कुर्वाणो व्रतमुत्त मम् ।। ४३ ।।
सप्तम्योभयविख्यातं सर्वपापभयापहम् ।।
सर्वरोगप्रशमनं सर्वकामफलप्रदम् ।।४४।।
इत्येवमादीन्नियमांश्चरेत्सूर्यव्रती सदा।।
य इच्छेद्विपुलं स्थानं भानोरमिततेजसः ।।४५।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्प उभयसप्तमीवर्णनं नाम पंचषष्ट्युत्तरशततमोऽध्यायः ।। १६५ ।। छ
पर्व १ (ब्राह्मपर्व) — Adhyāya 166
सौरधर्मे निक्षुभाव्रतवर्णनम्
।।सुमंतुरुवाच ।।
सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत्।।
स्त्री पुत्रमुत्तमं सा चेत्कांक्षते शृणु तद्व्रतम्।। १ ।।
निक्षुभार्काख्यमाख्यातं सदा प्रीतिविवर्धनम् ।।
अवियोगकरं वीर धर्मकामार्थसाधकम् ।। २ ।।
सप्तम्यामथ षष्ठ्यां वा संक्रांतौ च रवेर्दिने ।।
हविषा हविर्होमं तु सोपवासः समाचरेत् ।। ३ ।।
निक्षुभां कांस्यनिष्पन्नां कृत्वा स्वर्णमयीं शुभाम् ।।
राजतीं वाथ वा वर्षं स्नापयेच्च घृतादिभिः ।।४।।
गंधमाल्यैरलंकृत्य वस्त्रयु ग्मैश्च शोभनैः ।।
भक्ष्यभोज्यैरशेषैश्च वितानध्वजचामरैः ।। ५ ।।
भोजयेत्सूर्यभक्तांश्च शुक्लवस्त्रावगुण्ठितान् ।।
कृत्वायतनमध्ये तु प्रतिमामुपकल्पयेत् ।। ६ ।।
कृत्वा शिरसि तत्पात्रं वितानच्छत्रशोभितम् ।।
ध्वजशंखादिविभवैर्भगस्यायतनं नयेत् ।। ७ ।।
निक्षुभार्कदिनेशस्य व्रतमेतन्निवेदयेत् ।।
तत्पिंड्यां स्थापयेत्पात्रमुपशोभासमन्वितम् ।। ८ ।।
प्रदक्षिणीकृत्य रविं प्रणिपत्य क्षमापयेत् ।।
समाप्य तद्व्रतं पुण्यं शृणुयात्फ लमश्नुते ।। ९ ।।
द्वादशादित्यसंकाशैर्महायानैर्नगोपमैः ।।
यथेष्टं भानवे लोके सौरैः सार्धं प्रमोदते ।। 1.166.१० ।।
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ।।
नंदतेऽसौ महाभाग विष्णुलोके महीयते ।। ११ ।।
ततः कर्मविशेषेण सर्वकामसमन्वितम् ।।
ब्रह्मलोकं समासाद्य परं सुखमवाप्नुयात्।। १२ ।।
ब्रह्मलोकात्परिभ्रष्टः श्रीमान्त्सुरसुपूजितः ।।
प्रजापतिमवाप्नोति सुरासुरनमस्कृतः ।। १३ ।।
लोकानिह चिरं भुक्त्वा सोमलोके महीयते ।।
सोमादेंद्रं पुनर्लोकमासाद्येंद्रपतिर्भवेत् ।। १४ ।।
इंद्रलोकाच्च गंधर्वलोकं प्राप्य स मोदते ।।
ततस्तद्धर्मशेषेण भवत्यादित्यभावितः ।। १५ ।।
स्वकर्मभावनोद्योगात्पुनः प्रारभते शुभम् ।।
शुभाच्च पुनरेत्येह स यात्यतिसहस्रशः ।। १६ ।।
यावन्नाप्नोति मरणं तावद्भ्रमति कर्मणा ।।
सुनिर्वेदात्सवैराग्यं वैराग्याज्ज्ञानसंभवः ।। १७ ।।
ज्ञानात्प्रवर्तते योगो योगाद्दुःखांतमाप्नुयात् ।। १८ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे निक्षुभाव्रतवर्णनं नाम षट्षष्ट्युत्तरशततमोऽध्यायः ।। १६६ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 167
निक्षुभार्कव्रतवर्णनम्
।। सुमंतुरुवाच ।। ।।
षष्ठ्यां चाप्यथ सप्तम्यां नियता ब्रह्मचारिणी ।।
वर्षमेकं न भुंक्ते या महाभागजिगीषया ।। १ ।।
वर्षांति प्रतिमां कृत्वा निक्षुभांकेति विश्रुताम् ।!
स्नानाद्यं च विधिं कृत्वा पूर्वोक्तं लभते गुणम्।।२।।
जांबूनदमयैर्यानैश्चतुर्द्वारैरलंकृते ।।
गत्वादित्यपुरे रम्ये अशेषं विंदते फलम् ।। ३ ।।
सौरादिसर्वलोकेषु भोगान्भुक्त्वा यथेप्सितान् ।।
क्रमादागत्य लोकेऽस्मिन्राजानं पतिमाप्नुयात् ।। ४ ।।
या नार्युपवसेदेवं कृष्णामेकां तु सप्तमीम् ।।
सा गच्छेत्परमं स्थानं भानोरमिततेजसः ।। ५ ।।
वर्षांते प्रतिमां कृत्वा शालिपिष्टमयीं शुभाम् ।।
पीतानुलेपनैर्माल्यैः पीतवस्त्रैश्च पूजयेत् ।।
पूर्वोक्तमखिलं कृत्वा भास्कराय निवेदयेत् ।। ६ ।।
सप्तभीमैर्महायानैर्दंतिचामीकरप्रभैः ।।
वर्षकोटिशतं साग्रं सूर्यलोके महीयते ।। ७ ।।
सौरलोकादिलोकेषु भुक्त्वा भोगान्नराधिप ।।
क्रमादागत्य लोकेऽस्मिन्य थेष्टं विंदते पतिम् ।।
सर्वलक्षणसंपन्नं धनधान्यसमन्वितम् ।। ८ ।।
कृष्णपक्षे तु सप्तम्यां या नारी तु दृढव्रता ।।
।। ९ ।। वर्षांते सर्वगंधाढ्यं निक्षुभार्कं निवेदयेत् ।।
सुवर्णमणिमुक्ताभ्यां भोजयित्वा मगांगनाम् ।।1.167.१०।।
सुविचित्रैर्महायानैर्दिव्यगंधर्वशोभितैः।।
सा वै युगसहस्राणि सूरलोके नराधिप ।।११।।
यथेष्टं भानवे लोके भोगान्भुक्त्वा तु कृत्स्नशः ।।
क्रमादागत्य लोकेस्मिन्राजन्तं विंदते पतिम् ।।१२।।
एवं या कुरुते राजन्व्रतं पापभयापहम् ।।
निक्षुभार्कमिदं पुण्यं सा याति परमं पदम् ।। १३ ।।
वर्षमेकं महाबाहो श्रद्धया परयान्वितः ।।
वर्षांते वै भोजयेद्वीर दांपत्यं भोजकेषु वै ।।१४।।
भोजयित्वा तु दांपत्यं भोगकानां महाबलैः ।।
पूजयेद्गंधमाल्यैस्तु वासोभिः कुरुनंदन ।। १५ ।।
कृत्वा ताम्रमये पात्रे वज्रपूर्णैरलंकृतम् ।।
निक्षुभार्कं तु सौवर्णं दत्त्वा ताभ्यां तु शक्तितः ।। १६ ।।
निक्षुभा भोजिका ज्ञेया भोजकोऽर्कः प्रकीर्तितः ।।
तस्मात्तौ पूजयेत्सौरीश्वरवच्छ्रद्धयान्वितः ।। १७ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु निक्षुभार्कव्रतं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ।। १६७
पर्व १ (ब्राह्मपर्व) — Adhyāya 168
कामप्रदस्त्रीव्रतवर्णनम्
।। सुमंतुरुवाच ।। ।।
एकभक्तेन या नारी कार्त्तिकं क्षपयेन्नृप ।।
क्षमाहिंसादिनियमैः संयता ब्रह्मचारिणी ।।१।।
गुडाज्यमिश्रं शाल्यन्नं भास्कराय निवेदयेत् ।।
पक्षयोरुभयोस्तात श्रदया परयान्विता ।। २ ।।
पुष्पाणां करवीराणां गुग्गुलं साज्यमादिशेत् ।।
सप्तम्यां तात षष्ठ्यां वै उपवासरतिर्भवेत् ।। ३ ।।
इंद्रनीलप्रतीकाशैर्विमानैः सार्वकामिकैः ।।
वर्षायुतशतं साग्रं सूरलोके महीयते ।। ४ ।।
तथा च सर्वलोकेषु भोगमासाद्य यत्नतः ।।
क्रमादागत्य लोकेऽस्मिन्यथेष्टं विंदते पतिम् ।। ५ ।।
इत्येवं सर्वयज्ञेषु विधिस्तुल्यः प्रकीर्तितः ।।
एकभक्तोपवासस्य फलं च सदृशं भवेत् ।। ६ ।।
क्षमा सत्यं दया दानं शौचमिंद्रियनिग्रहः ।।
सूर्यपूजाग्निहवनं संतोषः स्तेयवर्जनम्।।७।।
सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।।
निःशेषमहं वक्ष्यामि मासान्मासव्रतं प्रति ।। ८ ।।
मार्गशीर्षे शुभे मासि व्योमपृष्ठे विनिर्मितम् ।।
गंधमाल्यैरलंकृत्य शुभाननमनौपमम्।। ९ ।।
ताम्रपात्रादिकैश्चैवाप्यप्सरोगणसेवितैः ।।
सुमेरौ दशसाहस्रे सूर्यलोके महीयते ।। 1.168.१० ।।
सर्वदेवकदंबेषु संप्राप्य विमलां श्रियम् ।।
क्रमादागत्य लोकेऽस्मिन्राजानं पतिमाप्नुयात् ।।
पुष्पैरमुमलंकृत्य भानवे विनिवेदयेत् ।। ११ ।।
गंधमाल्यैरलंकृत्य शुभाननमनौप मम् ।।
ताम्रपात्रादिकांस्यं वा कृत्वा तत्र निवेदयेत् ।। १२ ।।
महापुष्पकयानेन दिव्यगंधप्रवाहिना ।।
सुमेरौ दशसाहस्रं सूर्यलोके महीयते ।।१३।।
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेषु भारत ।।
संप्राप्यैतं क्रमाल्लोकं यथेष्टं विदते पतिम्।।१४।।
माघे रथमश्वयुजं दीपमाल्यविभूषितम्।।
पिष्टसानुसमा युक्तं कृत्वायतनमानयेत्।।१५।।
महारथोपमैर्यानैः श्वेताश्ववरसंयुतैः ।।
वर्षायुतशतं साग्रं सूर्यलोके महीयते।।१६।।
सर्वामराणां लोकेषु प्राप्य भोगान्यथेप्सितान्।।
क्रमादागत्य लोकेऽस्मिन्यथेष्टं पतिमाप्नुयात् ।।१७।।
प्रतिमां फाल्गुने मासि कृत्वा पिष्टमयी रवेः ।।
गंधमाल्यैरलंकृत्य स्थापयेद्भास्करा लये।।१८।।
यानैरप्रतिमैर्दिव्यैर्गीतनादसमाकुलैः।।
सुमेरौ दशसाहस्रं सूर्यलोके महीयते ।।१९।।
सर्वाभिमतलोकेऽस्मिन्प्राप्य भोगान्यथेप्सितान्।।
पुनरेत्य इमं लोकं यथेष्टं विंदते पतिम् ।।1.168.२०।।
कृत्वारुणं तथा चैत्रे गंधमाल्योपशोभितम् ।।
स्थाप्य पात्रे यथोक्ते तु भास्कराय निवेदयेत् ।।२१।।
शरदिंदुप्रतीकाशैर्विमानैः सार्वकामिकैः ।।
वर्षायुतशतं साग्रं सूर्यलोके महीयते ।। २२।।
कर्मक्षयादिहागत्य पुत्रपौत्रसमन्वितम् ।।
अभीष्टं पतिमासाद्य लभेद्भोगान्त्सुदुर्लभान् ।। २३ ।।
तंडुलाढकपिष्टेन कृत्वा वै मेरुपर्वतम् ।।
निक्षुभार्कसमायुक्तं सर्वधातुविभूषितम् ।। २४
नानालंकारसंपन्नं नानामाल्यविभूषितम् ।।
सर्वरत्नसमायुक्तं स्थापयेद्भास्करालये ।। २५ ।।
महद्व्योमव्रतं ह्येतद्वैशाखे यः समाचरेत् ।।
नानाविधैश्च यानैस्तु सूर्यलोके महीयते ।। २६ ।।
सौरादिसर्वलोकेषु भुक्त्वा भोगानशेषतः ।।
क्रमादागत्य लोकेऽस्मिन्राजानं पतिमाप्नुयात् ।। २७ ।।
द्वितीयं च तथा पद्ममाषाढे पिष्टमुत्तमम् ।।
सर्वबीजरसैः पूर्णं कृत्वा तु शुभ्रलक्षणम् ।।
नानाकेशरगंधाढयं सर्वरत्नविभूषितम् ।। २८ ।।
एतैर्वा हैमभिर्यानैः सर्वभोगान्वितैर्नृप ।।
वर्षकोटिशतं साग्रं सूर्यलोके महीयते ।।२९।।
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेष्वनुक्रमात् ।।
प्राप्ता तु सर्वभोगाढयं तरुणं विंदते पतिम् ।। 1.168.३० ।।
सर्वधातुसमाकीर्णं विचित्रध्वजशोभितम् ।।
निवेदयेत सूर्याय श्रावणे तिलपर्वतम् ।। ३१ ।।
स्वच्छंदगामिभिर्यानैर्नाना वर्णविभूषितैः ।।
वर्षकोटिशतं साग्रं सूर्यलोके महीयते ।। ३२ ।।
संप्राप्य विविधान्भोगान्बह्वाश्चर्यसमन्वितान् ।।
क्रमाल्लोकमिमं प्राप्य राजानं विंदते पतिम् ।। ३३ ।।
कृत्वा भाद्रपदे मासि व्योम शालिमयं नृप ।।
वितानध्वजच्छत्राढ्यं नानामालाविभूषितम् ।। ३४ ।।
तरुणार्ककरप्रख्यैर्महा यानैः सुशोभनै ।।
वर्षकोटिसहस्राणि सूर्यलोके महीयते ।। ३५ ।।
संप्राप्य विविधान्भोगान्त्सर्वान्निमिषसंभवान् ।।
क्रमादागत्य लोकेऽस्मिन्राजानं विंदते पतिम् ।। ३६ ।।
कृत्वा चाश्वयुजे मासि विपुलं धान्यपर्वतम् ।।
सुवर्णवस्त्रगंधाढ्यं भास्कराय निवेदयेत् ।। ३७ ।।
सावित्रैश्च महायानैर्वरभोगसमन्वितैः ।।
वर्षकोटिसहस्राणि सूर्यलोके महीयते ।। ३८ ।।
सूर्यलोकादिलोकेषु भुक्त्वा भोगान्यथेप्सितान् ।।
अस्मिँल्लोके चा संप्राप्ता राजानं विंदते पतिम् ।।
चन्द्राग्निभास्कराणां तु कांतितेजःप्रभान्वितम् ।। ३९ ।।
यंयं कामं समुद्दिश्य नरनारीनपुंसकाः ।।
पूजयंति रविं भक्त्या तत्सर्वं प्राप्नुवंति हि ।। 1.168.४० ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु कामप्रदस्त्रीव्रतवर्णनं नामाष्ट षष्ट्युत्तरशततमोऽध्यायः ।। १६८ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 169
सूर्यव्रतवर्णनम्
।। सुमंतुरुवाच ।। ।।
मृन्मयं दारुजं शैलं पक्वेष्टकमथापि वा ।।
कृत्वा मठं गृहं वापि यथा विभ वसंभवात् ।। १ ।।
सर्वोपकरणोपेतं सर्वधान्यसमन्वितम् ।।
सूर्यायेत्थं गृहं दद्यात्सर्वान्कामानवाप्नुयात् ।। २ ।।
कृत्वैकभक्तं हेमंते माघमासमतं द्रितः ।।
मासांतेन रथं कुर्याच्चित्रवस्त्रोपशोभितम् ।। ३ ।।
श्वेतैश्चतुर्भिः संयुक्तं तुरगैः समलंकृतम् ।।
श्वेतध्वजपताकाभिश्छत्रचामरदर्पणैः ।। ।। ४ ।।
तंडुलाढकपिष्टेन कृत्वा भानुं नराधिप ।।
विन्यस्य तं रथोपस्थे संज्ञया सह भूपते ।। ५ ।।
तं रात्रौ राजमार्गेण शंखभेर्यादिनिस्वनैः ।।
भ्रमयित्वा शनैः पश्चात्सूर्यायतनमाविशेत् ।। ६ ।।
तत्र जागरपूजाभिः प्रदीपावलिशोभितैः ।।
प्रेक्षणीयैः प्रदानैश्च क्षपयित्वा शनैः क्षपाम् ।।७ ।।
प्रभाते स्नपनं कृत्वा मधुक्षीरघृतेन च ।।
दीनांधकृपणेभ्योऽन्नं यथाशक्त्या च दक्षिणाम् ।। ८ ।।
रथं संवाहनोपेतं भास्कराय निवेदयेत्।।
भुक्त्वा च बांधवैः सार्धं प्रणम्यार्कगृहं व्रजेत् ।।९।।
सर्वव्रतानां प्रवरं मंत्रधर्मान्वितः सदा ।।
व्रतं सूर्यव्रतं नामसर्वकामार्थसिद्धये ।।1.169.१०।।
सर्वव्रतेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।।
सर्वं सूर्यरथेनेह तत्पुण्यं लभते नृप ।। ११ ।।
सूर्यायुतप्रतीकाशैर्विमानैः सार्वकामिकैः ।।
त्रिसप्तकुलजैः सार्धं सूर्यलोके महीयते ।। १२ ।।
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेष्वनुक्रमात् ।।
कल्पायुतशतं साग्रं ततो राजा भवेत्क्षितौ ।। १३ ।।
पंचबलिसमायुक्तं मृदु षड्वास्तुकल्पितम् ।।
सर्वोपकरणोपेतं सूर्यं संज्ञां प्रकल्पयेत् ।। १४ ।।
संज्ञादेवीसमायुक्तं पैष्टाशाढ्यं निवेदयेत्।।
सौरज्ञानार्थतत्त्वज्ञमाचार्यमुदयान्वितम् ।। १५ ।।
संपूज्य गंधपुष्पाद्यैर्वस्त्रालंकारचामरैः ।।
भक्ष्य भोज्यैरशेषैश्च ततः शय्यां निवेदयेत् ।। १६ ।।
तदूर्णातूलवस्त्राणां परिसंख्या तु यावती ।।
तावद्वर्षसहस्राणि सूर्यलोके महीयते ।। १७ ।।
सुरादिसर्वलोकेषु भुक्त्वा भोगानशेषतः ।।
कामादागत्य लोकेऽस्मिन्राजा भवति धार्मिकः ।। १८ ।।
दश गोभिः सह वृषं ता वृषैकादशाः स्मृताः ।।
सूर्याय विनिवेद्येह यत्फलं लभते शृणु ।। १९ ।।
द्वादशादित्यतुल्यात्मा अणिमादिगुणैर्युतः ।।
सर्वत्र मोदते राजन्सूर्यस्यानुचरो भवेत् ।। २० ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यव्रतवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः ।। १६९ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 170
गोदानवर्णनम्
।। सुमन्तुरुवाच ।। ।।
सवृषं गोशतं दत्त्वा भास्कराय नराधिप ।।
त्रिःसप्तकुलजैः सार्धं शृणु यत्फलमाप्नुयात् ।। १ ।।
वरकोटिप्रतीकाशैः सर्वकामसमन्वितैः ।।
महायानैरसंख्येयैरमरासुरपूजितैः ।। २ ।।
द्वादशादित्यसंकाशो दिवाकर इवापरः ।।
गत्वादित्यपुरं रम्यं क्रीडते सूर्यमंडपे ।। ३ ।।
भुक्त्वा तु विपुलान्भोगान्प्रलये सर्वदेहिनाम् ।।
मोहकंचुकमुत्सृज्य विशत्यादित्यमंडले ।। ४ ।।
सर्वज्ञः सूरपरमः शुद्धः स्वात्मन्यवस्थितः ।।
सर्वगः परिपूर्णत्वात्सूर्यवद्दीप्तिमान्भवेत् ।। ५।।
यो दद्यादुभयमुखीं सौरभेयीं दिवाकरे ।।
सप्तद्वीपां महीं दत्त्वा यत्फलं तदवाप्नुयात् ।।
पादद्वयं शिरोऽर्धं च सशैलवनकानना ।। ६ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गोदानवर्णनं नाम सप्तत्युत्तरशततमोऽध्यायः ।। १७० ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 171
भोजकभोजनानुष्ठानवर्णनम्
।। शतानीक उवाच ।। ।।
मगानां ब्रूहि मे धर्मं समासव्यासयोगतः ।।
फलं च किं भवेद्ब्रह्मन्मगधर्मनिषेवणात् ।। १ ।।
।। सुमंतुरुवाच ।। ।।
य एष धर्मः सूर्येति तवाख्यातो मयानघ ।।
मगधर्मः स एवोक्तः सर्वपापभयापहः ।। २ ।।
सर्वेषामेव वर्णानां मगधर्मनिषेवणम्।।
मगधर्मश्च संप्रोक्त एतेषां भवमुक्तये ।।३।।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्री शूद्रो वा मगाश्रमी ।।
यः पूजयति मार्तंडं स याति परमां गतिम् ।। ४ ।।
त्रिसंध्यमर्चयेद्भानुमग्निकार्यं च शक्तितः ।।
कुर्यान्मगो महाबाहो मुखमावृत्य यत्नतः ।।५।।
त्रिसंध्यमेककालं वा पूजयेच्छद्धया रविम् ।।
असंपूज्य रविं मोहान्न भुंजीत कदाचन ।। ६ ।।
एष धर्मः परो ज्ञेयः शेषो भवति मानवः ।।
अपूजयित्वा भुंजानो विष्ठां भुङ्क्ते च वै मगः ।। ७ ।।
देवं समाश्रितैः पूजा कर्तव्येयं त्रिभिः सदा ।।
मनसा पूजयेद्योगी पुष्पैश्चारण्यसंभवैः ।। ८ ।।
देवार्थपुष्पहिंसायां न भवेत्तस्य हिंसकः ।।
यद्यल्पमपि चात्मार्थं निहन्याद्धिंसकस्तदा ।। ९ ।।
मगश्चाग्निपरो नित्यं तद्भक्तोऽतिथिपूजकः ।।
मगी मैथुनवर्ज्यः स्याच्छ्रीमान्गृहमगाश्रमी ।। 1.171.१० ।।
देवाग्निस्वतिथौ भक्तं पचते चात्मकारणात् ।।
आत्मार्थे यः पचेन्मोहात्स मगो नरकं व्रजेत् ।। ११ ।।
देवार्थे पचनं येषां संतानार्थं तु मैथुनम् ।।
अर्थो दानार्थं उद्दिष्टो नरकं हि विपर्ययात्।। ।। १२ ।।
जीवतृतीयभागेपि न प्रकुर्वीत वार्चनम् ।।
वित्तार्जने तदर्धेन यतो नित्यं हि जीवितम् ।। १३ ।।
न्यायोपार्जितवित्तः स्यादन्यायं परि वर्जयेत् ।।
अन्यायार्जितवित्तैस्तु कुर्वन्नरकमाप्नुयात् ।। १४ ।।
वाचोर्थे ब्रह्मचारी यः सूर्यपूजाग्नितत्परः ।।
भवेज्जितेंद्रियः शांतो नैष्ठिको भौति कोऽपि वा ।। १५ ।।
सर्वगंधविनिर्मुक्तः कंदमूलफलाशनः ।।
मम वैखानसो ज्ञेयः सूर्यपूजाग्नितत्परः ।। १६ ।।
निवृत्तः संगमेभ्यस्तु सूर्यध्यान रतः सदा ।।
ज्ञेयः सौरयतींद्राय पूजानिष्ठो जितेंद्रियः ।। १७ ।।
मुंडोपनयनो व्यंगी शुक्लवासः समन्वितः ।।
ज्ञेयं तदर्चनस्थानमेतत्कार्यं प्रयत्नतः ।। १८ ।।
अथाव्यंगो महाराज धारयेद्यस्तु भोजकः ।।
अगम्यं सर्वसत्त्वानां सूर्यलोकं स गच्छति ।। १९ ।।
ध्वंसनं सर्वदुष्टानां सर्वपाप भयापहम् ।।
भावशुद्धेन सततमर्चनीयो दिवाकरः ।। 1.171.२० ।।
गंधलेपविहीनोऽपि भावशुद्धो न दुष्यति ।।
भावेषु च चरेच्छौचं वस्त्रपूतं जलं पिबेत् ।। २१ ।।
दृष्टिपूतं न्यसेत्पादं सत्यपूतं वचो वदेत् ।।
सौरध्यानरताः शांताः सौरधर्मपरायणाः ।। २२ ।।
सर्व एवाश्रमा ज्ञेया भास्करांगसमुद्भवाः ।।
भोजकाष्टव्रतं धार्यं रविणोक्तमनौपमम् ।।२३।।
सर्वव्रतानां परमं धर्मालयमनुत्तमम् ।।
सौरभक्ते सदा क्षांतिरहिंसा सर्वदा शमः ।।२४।।
संतोषः सत्यमस्तेयं ब्रह्मचर्यं तथाष्टमम् ।।
यथासंभवपूजाभिः कर्मणा मनसा गिरा ।। २५ ।।
सौरभक्तिः सदा कार्या भोजकेषु विशेषतः ।।
स्वदेहान्निर्विशेषं हि भोजकान्पालयेद्बुधः ।। २६ ।।
भयदारिद्र्यरोगेभ्यस्तेषां कुर्यात्प्रियाणि वै ।।
सूर्यस्य परिपूर्णस्य किं नाम क्रियते नरैः ।। २७ ।।
यत्कृतं भोजकानां वै तत्कृतं स्याद्रवेर्नृप ।।
सुदूरमपि गंतव्यं मगानां यत्र वै गणः ।। २८ ।।
स च प्रयत्नाद्द्रष्टव्यस्तत्र संनिहितो रविः ।।
भोजकस्य तु भक्तस्य सूर्यपूजारतस्य च ।। २९ ।।
आज्ञां कृत्वा यथान्यायमश्वमेधफलं लभेत् ।।
देवाश्रमगतो भक्त्या देवार्चां पूजयेन्नृप ।। 1.171.३० ।।
स्वागतासनपाद्यार्घ्यमधुपर्काद्यनुक्रमात् ।।
भोजयित्वा यथान्यायं सूर्यलोके महीयते ।।३१।।
प्रतिश्रयप्रदानेन राजा भवति भारत ।।
दत्त्वा स्थानं तथा शौचं वारुणं लोकमाप्नुयात् ।। ३२ ।।
श्वेतबिंदुपरीतांगं ध्यानश्रमविकर्शितम् ।।
संवीज्य तालवृंत्तेन वायुलोके महीयते ।। ३३ ।।
क्षुत्पिपासातुरं श्रांतं मलिनं रोगिणं तथा ।।
पालयित्वा यथा शक्त्या सर्वान्कामानवाप्नुयात् ।। ३४ ।।
पतिताशस्तसंकीर्णचंडालादीनां पक्षिणाम् ।।
कारुण्यात्सर्वभूतानां देयमन्नं स्वशक्तितः ।। ३५ ।।
अत्यल्पमपि कारुण्याद्दत्तं भवति चाक्षयम् ।।
तस्मात्सर्वेषु भूतेषु देवकारुण्यमुच्यते ।।३६।।
अभावे तृणभूम्यन्नं पत्रं धनफलानि च ।।
दत्त्वाऽऽगताय प्रणतः स्वर्गं याति प्रियेण वा ।।३७।।
न हीदृक्स्वर्गयानाय यथा लोके प्रियं वचः ।।
इहामुत्र सुखं तेषां वाग्येषां मधुरा भवेत् ।।३८।।
अमृतस्यंदिनी वाचं चंदनस्पर्शशीतलाम् ।।
धर्माविरोधिनीमुक्त्वा सुखमक्षय्यमाप्नुयात् ।। ३९ ।।
अलं दानेन राजेंद्र पूजयाध्यापनेन वा ।।
इदं स्वर्गस्य सोपानमचलं यत्प्रियं वचः ।। 1.171.४० ।।
पूजाभिभाषणं दृष्टिः प्रत्येकं स्वर्गहेतवः ।।
संपृच्छेदा(पा)गतं भक्त्या कुशलं प्रश्नमादरात् ।। ४१ ।।
गमने तस्य वक्तव्यं पंथानः संतु ते शिवाः ।।
सुखं भवतु ते नित्यं सर्वकार्यकरं भृशम् ।। ४२ ।।
आशीर्वादमिदं वाक्यं सर्वकालेषु सर्वदा ।।
नमस्कारादिवाक्येषु स्वस्ति मंगलवादने ।। ४३ ।।
शिवं भवतु ते नित्यं तं ब्रूयात्सर्वकर्मसु ।।
एवमादि च वाचारमनुष्ठाय सदाश्रमी ।। ४४ ।।
अशेषपाप निर्मुक्तः सूर्यलोके महीयते ।।
सूर्यभक्ते तु या भक्तिः सद्भक्तैः क्रियते नरैः ।।
सूर्ये भक्तिसमा नित्यं भक्ते भक्तिरनुष्ठिता ।। ४५ ।।
आक्रुष्टे ताडिते वापि यो नाक्रोशेन्न ताडयेत् ।।
वाक्यादधिकृतः स्वस्थः स दुःखात्परिमुच्यते ।। ४६ ।।
सर्वेषामेव तीर्थानां क्षांतिः परमपूजिता ।।
तस्मात्पूर्व प्रयत्नेन क्षांतिः कार्या क्रियासु वै ।। ४७ ।।
ज्ञानयोगतपो यस्य यज्ञदानानि सत्क्रिया ।।
क्रोधनस्य वृथा यस्मात्तस्मात्क्रोधं विवर्जयेत् ।। ।। ४८ ।।
मर्मास्थिप्राणहृदयं निर्दहेदप्रियंवचः ।।
न वचो ह्यप्रियं तस्माद्भोजकेषु विशेषतः ।। ४९ ।।
क्षमा दानं त्विषः सत्यं क्षमाहिंसार्कसंभवाः ।।
न शक्या विस्तराद्वक्तुमपि वर्षशतैरपि ।। 1.171.५० ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे भोजकभोजनानु ष्ठानवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ।। १७१ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 172
सौरधर्मवर्णनम्
।। सुमंतुरुवाच ।। ।।
पुनः शृणु महाराज धर्ममादित्यसंमतम् ।।
सौरप्रियं सदा सौरं पवित्रं पापनाशनम् ।। १ ।।
क्वचिद्गच्छन्यदा पश्येत्सूर्यार्चासंप्रपूजनम् ।।
यत्र पूजा ततो गच्छन्त्स सूर्यो नात्र संशयः ।।२ ।।
स्नाननैवेद्यवस्त्रैश्च नानालंकारभूषणैः ।।
यथाविभवमाश्रित्य नमस्कारादिसंस्तवैः ।। ३ ।।
दृष्ट्वायतनमाक्रम्य नमस्कृत्य रविं व्रजेत् ।।
क्वचित्पथि नदीं शैलं गच्छमानं च भोजकम् ।। ४ ।।
उपश्रुत्यावनिं गत्वा भोजकं पूजयेद्बुधः ।।
रथाश्वगजयानेभ्यो ह्यवतीर्य मगान्नृप ।।
मगानां भोजनं भक्त्या शक्त्या दानं प्रकल्पयेत् ।। ५ ।।
दशपूर्वान्दश परानात्मना सह भारत ।।
समादाय व्रजेत्स्थानं रवेरमिततेजसः ।। ६ ।।
दैवपर्वोत्सवे श्राद्धे पुण्येषु दिवसेषु च ।।
भानुं संपूज्य विधिवद्भोजकान्भोजयेत्ततः ।। ७ ।।
पितरः सर्वदेवानां सूर्यमाश्रित्य संस्थिताः ।।
प्रीते सूर्ये तु ते सर्वे प्रीताः स्युर्नात्र संशयः ।। ८ ।।
यदा च श्रद्धया युक्तं प्रसक्तं रविपूजनम् ।।
भोजयेद्भोजकं भक्त्या श्राद्धेषु विधिवन्नृप ।। ९ ।।
भोजकस्य महाराज दिवसेनापि यत्फलम् ।।
न तच्छक्यमिदं तेन प्राप्तुं वर्षशतैरपि ।। 1.172.१० ।।
यः पश्यति प्रसन्नात्मा यो न द्वेष्टि न कांक्षति ।।
शब्दादीनां तु संभोगं स विज्ञेयो जितेंद्रियः ।। ११ ।।
ज्ञानविज्ञानसम्पन्नः सूर्यभक्त्या समन्वितः ।।
पाषंडयोगमुक्तश्च स वै भोजक उच्यते।। १२ ।।
सूर्यधर्माद्भवेज्ज्ञानं ज्ञानाद्वैराग्यसंभवः ।।
ज्ञानवैराग्ययुक्तस्य सूर्ययोगः प्रवर्तते ।। १३ ।।
सूर्ययोगाच्च सर्वज्ञः परिपूर्णः सुनिर्वृतः ।।
आत्मन्यवस्थितः शुद्धः सूर्यवद्दि वि मोदते ।।१४।।
सर्वेषामेव भूतानामुत्तमः पुरुषः स्मृतः ।।
पुरुषेभ्यो द्विजः श्रेष्ठो द्विजेभ्यो ग्रंथपारगः ।। १५ ।।
ग्रन्थिभ्यो वेदविद्वांसस्तेभ्यस्त त्त्वार्थचिंतकाः ।।
अर्थविद्भ्यश्च ज्ञानार्थप्रतिबुद्धो विशिष्यते ।। १६ ।।
ज्ञानार्थकोटिकोटिभ्यो वरिष्ठा योगिनो मताः ।।
योगिनां कोटिकोटिभ्यो भोजकश्चोत्तमो भवेत् ।। १७ ।।
योगज्ञा योगनिष्ठाश्च पितरो योगसंभवाः ।।
भोजिते भोजके सर्वे प्रीताः स्युस्ते न संशयः ।। १८ ।।
सर्वज्ञानतपोदानैः कृतैर्दत्तैश्च यत्फलम् ।।
तत्फलं लभते सर्वं विधिवद्भोज्यभोजकम् ।। १९ ।।
यश्च द्रव्यकलापात्मा दक्षिणा हविर्ऋत्विजः ।।
ऋग्यजुःसाम योगैश्च देवयज्ञः प्रकीर्तितः ।।1.172.२०।।
ब्रह्मचर्यं तपो मौनं क्षांतिराहारलाघवम् ।।
इत्येतत्तपसां रूपं सुधीरं पंचलक्षणम् ।।२१।।
यच्च दिष्टं विशिष्टं च न्यायप्राप्तं च यद्भवेत।।
तत्तद्गुणवते देयमित्येतद्दानलक्षणम्।।२२।।
विवर्धनीं सहस्राणां सर्वसस्यप्ररोहिणीम्।।
दद्याद्भूमिं जलोपेतां भूमिदानं तदुच्यते ।।२३।।
एकच्छत्रां महीं कृत्वा द्विजेभ्यः प्रतिपादयेत् ।।
संपूर्णां पर्वतारण्यैर्भूमिदानं तदुच्यते।।२४।।
कन्यामलंकृतां दद्यादधनाय नराधिपा।
द्विजाय वेदविदुषे कन्यादानं तदुच्यते ।।२५।।
सर्वदोषविनिर्मुक्तां कुलयोग्यामलंकृताम् ।।
मध्यमोत्तमवस्त्राणां यो दद्यादहतानि च ।।२६।।
एतत्समासतो ज्ञेयं वस्त्रदानस्य लक्षणम्।।
ब्रह्मविष्णुसमाधिक्यकांतिशीलपरायणः।।
अहोरात्रं न भुञ्जीत ह्युपवासस्य लक्षणम् ।।२७।।
चत्वारिंशत्समायुक्तं पिंडानां हि शतद्वयम् ।।
मासे ह्यद्यायथाकाममिदं चाद्रायणं स्मृतम्।।२८।।
ऋषिभिः सर्वशास्त्रज्ञैस्तपोनिष्ठैर्जितेंद्रियैः ।।
देवैश्च सेवितं तोयं क्षितौ तत्तीर्थमु च्यते ।। २९ ।।
सूर्यावांतरस्थानानि पुण्यक्षेत्राणि निर्दिशेत्।।
मृतानां तेषु सूर्यत्वं सौरक्षेत्रेषु देहिनाम् ।। 1.172.३० ।।
दानान्यावसथं कुर्यादुद्यानं देव तागृहम् ।। आवसथ
तीर्थेष्वेतानि यः कुर्यात्सोऽक्षयं लभते फलम् ।। ३१ ।।
क्षान्तिः स्पृहा तथा सत्यं दानं शीलं तपः श्रुतम्।।
एतदष्टांगमुद्दिष्टं परं पात्रस्य लक्षणम् ।। ३२ ।।
यज्ञोपवासदानानि तपस्तीर्थर्फलानि च ।।
संपूर्णं लभते भक्त्या भोजयित्वा तु भोजकान् ।। ३३ ।।
सूरे भक्तिः क्षमा सत्यं दशेंद्रियविनिग्रहः ।।
सुखितेषु च मैत्री च सूर्यधर्मस्य लक्षणम् ।। ३४ ।।
सूर्यभक्तं द्विजं भक्त्या यः श्राद्धेषु च भोजयेत् ।।
कुलसप्तकमुद्धृत्य सूर्यलोके महीयते ।। ३५ ।।
बहुनात्र किमुक्तेन सूर्यभक्तं तु भोजयेत् ।।
सूर्यभक्तेन यद्भुक्तं भानुनामाश्रयं नृप ।। ३६ ।।
न वेदविदुषां कोट्या लभ्यते चेह तत्फलम् ।।
तत्फलं लभते राजन्भोजं भाज्य विधानतः ।। ३७ ।।
तस्माच्छ्राद्धे विशेषेण पुण्येषु दिवसेषु च ।।
सूर्यमुद्दिश्य विप्रेंद्र भोजं संभोजयेन्नृप ।। ३८ ।।
असंयतः संयतो वा सर्वावस्थां गतोपि वा ।।
यश्चासौ रविभक्तः स्यात्सूर्यवत्पूज्य एव हि ।। ३९ ।।
संसर्गाद्वापि वा लोभाद्भोजकं यस्तु भोजयेत् ।।
सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि ।। 1.172.४० ।।
तस्मान्मान्यश्च पूज्यश्च रक्षणीयश्च सर्वदा ।।
भोजकः कुरुशार्दूल सौरेण गतिमिच्छता ।। ४१ ।।
नाममात्रप्रयत्नोऽपि यदि स्याद्भोजको रवेः ।।
सूर्यवत्स हि द्रष्टव्यः पूजनीयश्च भारत ।। ४२ ।।
गृहे श्राद्धस्य यत्पुण्यमरण्ये तच्छताधिकम् ।।
सौराश्रमेषु विज्ञेयं तत्पुण्यमयुताधिकम् ।। ४३ ।।
दत्त्वा तु भोजके सौम्यं ह्यासनं सपरिच्छदम् ।।
धातुदंतमयं चापि राजा भवति भूतले ।। ४४ ।।
विमले वाससी दत्त्वा भोजकाय महीपते ।।
उद्धृत्य शतसाहस्रं सूर्यलोके महीयते ।। ४५ ।।
दत्त्वा तु लोमशां राजन्भोजकाय शुभां बृहत् ।।
रोम्णिरोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ।। ४६ ।।
शंखं ददाति यो भक्त्या तथा दिव्ये च पादुके ।।
सूर्यलोकमवाप्नोति तेजसा रविसन्निभः ।। ४७ ।।
लिखापयति यो भक्त्या पुराणेन तु पुस्तकम् ।।
युगकोटिशतं दिव्यं सूर्यलोके महीयते ।। ४८ ।।
भवेदिहागतः श्रीमान्सुखाढ्यो वेदपारगः।।
यः करोति गृहं भानोस्तत्स्थानं चोत्तमं भवेत् ।। ४९ ।।
तत्सूर्यो भोजकः सोत्र भोजकः सूर्य एव हि ।।
तेन भोजकविप्रेषु दानमक्षय्यमित्यपि ।। 1.172.५० ।।
यद्यद्यस्योपयुज्येत देयं तत्तस्य यत्नतः ।।
उपयोगपरो नित्यं सूर्यस्तदुभयोरपि ।।५१।।
व्याख्याने सौरधर्मस्य कृत्वा आमलकं महत् ।।
शोभितं पुष्पपत्राद्यैर्न्यसेत्तत्रासने सुराः ।। ५२ ।।
शोभितं माल्यगन्धैस्तु सूर्यस्य साधनं महत् ।।
पुरस्तात्तस्य संस्थाप्य आचार्यं पूजयेत्सदा ।।
सूर्यवत्सौरधर्मे च तुल्यमेतद्द्वयं वचः ।। ५३ ।।
य एवं न्यायतो वक्ति सौरधर्मं शृणोति च ।।
आयुर्विद्यां यशः कीर्तिमुपलभ्य रविं जपेत् ।।
वदंत्यन्ये पिबंत्यन्ये सर्वे ते फलभागिनः ।। ५४ ।।
तस्मादेवंविधो धर्मो वाचकैश्च विदुर्बुधाः ।।
तस्यान्ते पूजयेद्भक्त्या य इच्छेद्विपुलं यशः ।। ५५ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे द्विसप्तत्युत्तरशततमोऽध्यायः ।। १७२ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 173
सौरधर्मवर्णनम्
।। शतानीक उवाच ।। ।।
पुनर्मे ब्रूहि विप्रेन्द्र सौरं धर्ममनुत्तमम् ।।
समासात्कथितं ब्रह्मन्विस्तरेण प्रकीर्तय ।। १ ।।
।। सुमन्तुरुवाच ।। ।।
साधुसाधु महाबाहो साधु पृष्टोऽस्मि भारत ।।
त्वत्समो नास्ति लोकेऽस्मिन्सौरः पार्थिवसत्तम ।। २ ।।
कीर्तयाम्यथ तं पुण्यं संवादं पापनाशनम् ।।
गरुडारुणयो राजन्पुरावृत्तं नराधिप ।। ३ ।।
सुखासीनं पुरा राजन्नरुणं सूर्यसारथिम् ।।
उपगम्य महाबाहो गरुडो वाक्यमव्रवीत् ।। ४ ।।
धर्माणामुत्तमं धर्मं सर्वपापप्रणाशनम् ।।
सौरधर्मं खगश्रेष्ठ ब्रूहि मे कृत्स्नशोनघ ।। ५ ।।
।। अरुण उवाच ।। ।।
साधु वत्स महात्मासि धन्यस्त्वं पापवर्जितः ।।
श्रोतुकामोऽसि यत्पुत्र सौरधर्ममनुत्तमम् ।। ६ ।।
शृणु त्वं कीर्तयाम्येष सुखोपायं महत्फलम् ।।
परमं सर्वधर्माणां सौरधर्ममनुत्तमम् ।। ७ ।।
अज्ञानार्णवमग्नानां सर्वेषां प्राणिनामयम् ।।
सौरधर्मो ह्ययं श्रीमान्परतीरप्रदो यतः ।। ८ ।।
ये स्मरंति रविं भक्त्या कीर्तयंति च ये खग ।।
पूजयन्ति च ये नित्यं ते गताः परमं पदम् ।। ९ ।।
आत्मद्रोहः कृतस्तेन जातेनेह खगाधिप ।।
नार्चितो येन देवेशः सहस्रकिरणो रविः ।। 1.173.१० ।।
सुचिरं संभ्रमत्यस्मिन्दुःखदे च भवार्णवे ।।
जराभूतमहाग्राहे तृष्णावेलाकुलापरे ।। ११ ।।
मानुष्यं दुर्लभं प्राप्य येऽर्चयंति दिवाकरम्।।
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ।। १२ ।।
सूर्यभक्तिपरा ये च ये च तद्गतमानसाः ।।
ये स्मरंति सदा सूर्यं न ते दुःखस्य भागिनः ।। १३ ।।
विविधानि मनोज्ञानि विविधाभरणाः स्त्रियः ।।
धनं वा दृष्टपर्यंतं सूर्यपूजाविधेः फलम् ।। १४ ।।
ये वांछन्ति महाभोगान्राज्यं वा त्रिदशा लये ।।
सौभाग्यं कांतिमतुलां भोगं त्यागं यशः श्रियम् ।। १५ ।।
सौन्दर्यं जगतः ख्यातिः कीर्तिर्धर्मादयः स्मृताः ।।
फलान्येतानि वै पुत्र सूर्य भक्तिविधेर्बुध ।। १६ ।।
तस्मात्संपूजयेत्सूर्यं सर्वदेवगणार्चितम् ।।
दुर्लभा भास्करे भक्तिर्दुर्लभं च तदर्चनम् ।। १७ ।।
दानं च दुर्लभं तस्मै तद्धोमश्च सुदुर्लभः ।।
दुर्लभं तस्य विज्ञानं तदभ्यासोऽपि दुर्लभः ।। १८ ।।
सुदुर्लभतरं ज्ञेयं तदाराधनमुत्तमम् ।।
लोभस्तेषां मनुष्याणां ये रविं शरणं गताः ।। १९ ।।
येषामिहेश्वरे भानौ नित्यं सूर्ये गतं मनः ।।
नमस्कारादिसंयुक्तं रविरित्यक्षरद्वयम् ।। 1.173.२० ।।
जिह्वाग्रे वर्तते यस्य सकलं तस्य जीवितम् ।।
य एवं पूजयेद्भानुं श्रद्धया परयान्वितः।
मुच्यते सर्वपापेभ्यः स नरो नात्र संशयः ।। २१ ।।
डाकिन्यो विविधाकारा राक्षसाः सपिशाचकाः ।।
न तस्य पीडां कुर्वंति तथान्याश्च विभीषणाः ।। २२ ।।
शत्रवो नाशमायांति संग्रामे जयमाप्नुयात् ।।
न रोगैः पीड्यते वीर आपदो न स्पृशंति तम् ।। २३ ।।
धनमायुर्यशो विद्या प्रभावो ह्यतुलं तथा ।।
शुभेनोपचयं यांति नित्यं पूर्णमनोरथाः ।।।२४ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गरुडारुणसंवादे सौरधर्मवर्णनं नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ।। १७३।
पर्व १ (ब्राह्मपर्व) — Adhyāya 174
सूर्यस्तुतिवर्णनम्
।। ।। अरुण उवाच ।। ।।
पूजयित्वा रविं भक्त्या ब्रह्मा बह्मत्वमागतः ।।
विष्णुत्वं चापि देवेशो विष्षुराप तदर्चनात् ।। १ ।।
शंकरोऽपि जगन्नाथः पूजयित्वा दिवाकरम् ।।
महादेवत्वमगमत्तत्प्रसादात्खगाधिप ।। २ ।।
सहस्राक्षोपि देवेश इन्द्रो भानुं तमोपहम् ।।
इन्द्रत्वमगमद्देवं पूजयित्वा दिवाकरम् ।। ३ ।।
मातरो देवगंधर्वाः पिशाचोरगराक्षसाः ।।
पूजयंति सदा भानुमीशानं सुरनायकम् ।। ४ ।।
सर्वमेतज्जगन्नित्यं भानौ देवे प्रतिष्ठितम् ।।
तस्मात्संपूजयेद्भानुं य इच्छेत्स्वर्गमक्षयम् ।। ५ ।।
यो न पूजयते सूर्यं भास्करं तमसूदनम् ।।
धर्मार्थकाममोक्षाणां न नरो भाजनं भवेत् ।। ६ ।।
तस्मात्कार्यं हि तद्ध्यानं यावज्जीवं प्रतिज्ञया ।।
अर्चयेत सदा भानुमापन्नोऽपि सदा खग ।। ।। ७ ।।
यस्तु संतिष्ठते नित्यं विना सूर्यस्य पूजनात् ।।
वरं प्राणपरित्यागः शिरसो वाथ च्छेदनम् ।। ८ ।।
सूर्यं संपूज्य भुञ्जीत त्रिदशेशं दिवाकरम् ।।
इत्थं निर्वहते यस्य यावज्जीवं तदर्चनम् ।।
मनुष्यचर्मणा नद्धः स रविर्नात्र संशयः ।। ९ ।।
न हि अर्कार्चनादन्यत्पुण्यमप्यधिकं भवेत् ।।
इति विज्ञाय यत्नेन पूजयस्व दिवाकरम् ।। 1.174.१० ।।
सूर्यभक्तागमाश्चैव सूर्यार्चनपरायणाः ।।
संयता धर्मसंपन्ना धर्मादीन्साधयन्ति ते ।। ११ ।।
सर्वद्वन्द्वसहा वीरा नीतिविध्युक्तचेतसः ।।
परोपकारनिरता गुरुशुश्रूषणे रताः ।। १२ ।।
अमानिनो बुद्धिमन्तोऽव्यक्तस्पर्धा गतस्पृहाः ।।
शांता स्वांतगता भद्रा नित्यं स्वागतवादिनः ।। १३ ।।
स्वल्पवाचः सुमनसः शूराः शास्त्रविशारदाः ।।
शौचाचारसुसंपन्ना दयादाक्षिण्यगोचराः ।। १४ ।। दंभमत्सरनिर्मुक्तास्तृष्णालोभविवर्जिताः ।।
संविभागपराः प्रोक्ता न शठाश्चाप्यकुत्सिताः ।। १५ ।।
विषयेष्वपि निर्लेपाः पद्मपत्रमिवांभसा ।।
न दीना मानिनश्चैव न च रोगवशानुगाः ।। १६ ।।
भवंति भावितात्मानः सुस्निग्धाः साधुसेविताः ।।
न पाणिपादवाक्चक्षुःश्रोत्रशिश्नोदरे रताः ।। १७ ।।
चपलानि न कुर्वंति सर्वव्यासंगवर्जिताः ।।
सूर्यासनरताः शांताः षडक्षरमनोगताः ।। १८ ।।
इत्याचारसमायुक्ता भवंति भुवि मानवाः ।।
एकांतभक्तिमास्थाय धर्मकामार्थसिद्धये ।। १९ ।।
पूजनीयो रविर्नित्यं गुणेष्वेतेषु वर्तते ।।
सर्वेषामेव पात्राणामतिपात्रं दिवाकरः ।।
पतन्तं त्रायते यस्मादतीव नरकार्णवात् ।। 1.174.२० ।।
तस्य पात्रातिपात्रस्य माहात्म्यं दानमण्वपि ।।
अनेन फलमादिष्टमिहलोके परत्र च ।। २१ ।।
द्रव्येणापि हि यः कुर्यान्नरः कर्म तदालये ।।
सोऽपि देहक्षये ज्ञानं प्राप्य शांतिमवाप्नुयात् ।।२२।।
सर्वद्विजकदंबेषु कश्चिज्ज्ञानमवाप्नुयात् ।।
कश्चिदेतत्तु मे दिव्यं लब्ध्वा ज्ञानं विमुञ्चति ।। २३ ।।
तावद्भ्रमंति संसारे दुःखशोकपरिप्लुताः ।।
न भवंति रवेर्भक्ता यावत्सर्वेपि देहिनः ।। २४ ।।
सूर्यस्यालेपनं पुण्यं द्विगुणं चन्दनस्य तु ।।
चन्दनादगुरौ ज्ञेयं पुण्यमष्टगुणोत्तरम् ।। २५ ।।
कृष्णागुरौ विशेषेण द्विगुणं फलमिष्यते ।।
तस्माच्छतगुण पुण्यं कुंकुमस्य विधीयते ।। २६ ।।
सूर्ययज्ञोपकरणं कृत्वाल्पं यदि वा बहु ।।
भावाद्वित्तानुसारेण सूर्यलोके महीयते ।। २७ ।।
यदपीष्टमनिष्टं च न्यायेनोभयमागतम् ।।
तत्सूर्याय निवेद्यं सद्भक्त्यानन्तफलार्थिना ।। २८ ।।
कर्मशाठ्येन यः कुर्याद्दुःखेनापि तदर्चनम् ।।
सोऽपि द्विजो दिवं याति कर्मणा पापवर्जितः ।। २९ ।।
सर्वमन्यत्परित्यज्य सूर्ये चैकमना सदा ।।
सूर्यपूजाविधिं कुर्याद्य इच्छेच्छ्रेय आत्मनः ।। 1.174.३० ।।
त्वरितं जीवितं याति त्वरितं यौवनं तथा ।।
त्वरितं व्याधिरप्येति तस्मान्नित्यं रविं व्रजेत् ।। ३१ ।।
यावन्नाभ्येति मरणं यावन्नाक्रमते जरा !।।
यावन्नेंद्रिय वैकल्यं तावदर्चेद्दिवाकरम् ।। ३२ ।।
न सूर्यार्चनतुल्योपि न धर्मोन्यो जगत्त्रये ।।
इत्थं विज्ञाय देवेशं पूजयस्व दिवाकरम् ।। ३३ ।।
ये भक्त्या देवदेवेशं सूर्यं शांतमजं प्रभुम्।।
इह लोके सुखं प्राप्य ते गताः परमं पदम् ।। ३४ ।।
गोपतिं पूजयित्वा तु प्रहृष्टेनांतरात्मना ।।
कृतांजलिपुटो भूत्वा पुरा ब्रह्माब्रवीदिदम् ।। ३५ ।।
।। ब्रह्मोवाच ।। ।।
भगवन्तं भगकरं शांतचित्तमनुत्तमम् ।।
देवमार्गप्रणेतारं प्रणतोऽस्मि रविं सदा ।। ।। ३६ ।।
शाश्वतं शोभनं शुद्धं चित्रभानुं दिवस्पतिम् ।।
देवदेवेशमीशेशं प्रणतोऽस्मि दिवाकरम् ।। ३७ ।।
सर्वदुःखहरं देवं सर्वदुःखहरं रविम् ।।
वराननं वरांगं च वरस्थानं वरप्रदम्।। ३८ ।।
वरेण्यं वरदं नित्यं प्रणतोऽस्मि विभावसुम् ।।
अर्कमर्यमणं चेन्द्रं विष्णुमीशं दिवाकरम् ।। ३९ ।।
देवेश्वरं देवरतं प्रणतोऽस्मि विभावसुम् ।।
य इदं शृणुयान्नित्यं ब्रह्मणोक्तं स्तवं परम् ।।
स हि कीर्तिं परां प्राप्य पुनः सूर्यपुरं व्रजेत् ।। 1.174.४० ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गरुडारुणसंवादे सूर्यस्तुतिर्नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ।।१७४।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 175
सूर्याग्निकर्मवर्णनम्
।। गरुड उवाच।। ।।
सर्वरोगहता ये तु आधिव्याधिसमन्विताः ।।
ग्रहोपघातैर्विविधैरर्दिता ये च मानवाः ।। १ ।।
अरिभिः पीडिता ये च विनायकहताश्च ये ।।
कर्तव्यं किं भवेत्तेषामात्मनः श्रेयसेऽनघ ।। २ ।।
।। अरुण उवाच ।। ।।
नानारोगहतानां तु अर्दितानां तथारिभिः ।।
आदित्याराधनं मुक्त्वा नान्यच्छ्रेयस्करं परम् ।। ३ ।।
तस्मादाराधयेन्नित्यं सर्वरोगविनाशनम् ।।
ग्रहोपघातहंतारं राजोपद्रवनाशनम् ।। ४ ।।
।। गरुड उवाच ।। ।।
सर्वपत्रविहीनं मे सर्वरोगविवर्जितम् ।।
शापेन ब्रह्मवादिन्याः पश्यांगं द्विजसत्तम ।। ५ ।।
एवं मत्तस्य मे तात किं कार्यमवशिष्यते ।।
येनाहं कर्मणा कल्पो भवेयं पत्रवान्पुनः ।। ६ ।।
तन्मे ब्रूहि खगश्रेष्ठ प्रपन्नस्य खगाधिप ।।
यत्कृत्वा कल्पतां प्राप्य पूजयामि दिवाकरम् ।।७।।
।। अरुण उवाच ।। ।।
पूजयस्व जगन्नाथं भास्करं तिमिरापहम् ।।
सूर्याग्निकार्यं सततं शुद्धचित्तः समाचर ।। ८ ।।
महाशांतिकरं ख्यातं सर्वोपद्रवनाशनम् ।।
ग्रहोपघातहंतारं शुभकार्यंकरं परम् ।। ९ ।।
।। गरुड उवाच ।। ।।
नाहं शक्तोस्मि वै कर्तुं पूजां दिनकरस्य च ।।
न चाग्निकार्यं शक्नोमि कर्तुं विकलतां गतः ।।1.175.१ ०।।
तस्मान्मे कुरु शांत्यर्थमग्निकार्यं खगाधिप ।।
महाशांतिरिति ख्यातं शांतये मम सुव्रत ।। ११ ।।
।। अरुण उवाच ।।। ।।
एवमेव यदात्थ त्वं वैनतेय खगाधिप ।।
अकल्पस्त्वं न शक्नोषि महाव्याधिप्रपीडितः ।। १२ ।।
अहं करोमि ते पुत्र शांतये पावकार्चनम् ।।
यत्कृतं मम चार्केण पुरा शांतिदमादरात् ।।१३।।
सर्वपापहरं पुण्यं महाविप्रविनाशनम् ।।
महोदयं शातिकरं लक्षहोमविधि स्मृतम् ।। १४ ।।
अपमृत्युहरं वीर सर्वव्याधिहरं परम् ।।
परचक्रप्रमथनं सदाविजयवर्धनम् ।। १५ ।।
तृप्तिदं सर्वदेवानां भास्करप्रियमुत्तम्।।
आग्नेय्यां दिशि लिप्याथ स्थडिलं गोमयेन तु ।।१६।।
देवालयस्य विधिवत्कुर्यादग्निप्रबोधनम् ।।
महाव्याहृतिभिर्वीर लक्षहोमं समाचरेत् ।।१७।।
भूर्भुवःस्वरिति स्वाहा प्रणवेन समन्वितम्।।
आरक्तदेहरूपाय रक्ताक्षाय महात्मने।।१८।।
धराधराय शान्ताय सहस्राक्षिशिराय च।।१९।।
अधोमुखाय श्वेताय स्वाहा पूर्वाहुतिं सृजेत् ।।।
चतुर्मुखाय शांताय पद्मासनगताय च ।।1.175.२०।।
पद्मवर्णाय वेधाय कमण्डलुधराय च ।।
द्वितीयोर्ध्वमुखायेह स्वाहाकाराहुतिं सृजेत्।।२१।।
हेमवर्णाय देहाय ऐरावतगताय च ।।
सहस्राक्षशरीराय पूर्वदिश्युन्मुखाय च ।। २२ ।।
देवाधिपाय चेन्द्राय विहस्ताय शुभाय च ।।
स्वाहाकारं चोत्सृजेदेव तृतीयवदनाय च ।। २३ ।।
दीप्ताय व्यक्तदेहाय ज्वालामालाकुलाय च ।।
इन्द्रनीलाभदेहाय सर्वारोग्यकराय च।। २४ ।।
यमाय धर्मराजाय दक्षिणाशामुखाय च ।।
कृष्णांबरधरायेह स्वाहाहुतिमनुत्सृजेत् ।।२५।।
नीलजीमूतवर्णाय रक्तांबरधराय च ।।
मुक्ताफलशरीराय पिंगाक्षाय महात्मने ।। २६।।
शुक्लवस्त्राय पीताय दिव्यपाशधराय च ।।
स्वाहाकाराय च तथा पश्चिमाभिमुखाय च ।। २७ ।।
कृष्णपिंगलनेत्राय वायव्याभिमुखाय च।।
नीलध्वजाय वीराय तथा चेन्द्राय वेधसे ।।२८।।
स्वाहेति पवनायेह आहुतिं चोत्सृजेद्बुधः।।
गदाहस्ताय सूर्याय चित्रस्रग्भूषणाय च।।२९।।
महोदराय शांताय स्वाहाधिपतये तथा ।।
उत्तराभिमुखायेह महादेवप्रियाय च ।। 1.175.३० ।।
श्वेताय श्वेतवर्णाय चित्राक्षाय महात्मने ।।
शांताय शांतरूपाय पिनाकवरधारिणे ।। ३१ ।।
ईशानाभिमुखायेह दद्यादीशाय चाहुतिम् ।।
विसृजेत्खगशार्दूल विधिवच्छ्रेयसेनघ ।। ३२ ।।
एवं देवं महात्मानं पावकं विधिवत्खग ।।
अर्हेदिति तु यत्कार्यं तत्सौरं खगसत्तम ।। ३३ ।।
लक्षहोमं च विधिवत्कृत्वा शांतिकमाचरेत् ।।
भूर्भुवःस्वरिति स्वा हा लक्षहोमविधिः स्मृतः ।। ३४ ।।
महाहोमे च वै सौर एष एव विधिः परः ।।
कृत्वैवमग्निकार्यं तु भोजको भास्कराय वै ।। ३५ ।।
शांत्यर्थं सर्वलोकानां ततः शांतिकमाचरेत् ।।
सिन्दूरासनरक्ताभः रक्तपद्माभलोचनः ।। ३६ ।।
सहस्रकिरणो देवः सप्ताश्वरथवाहनः ।।
गभस्तिमाली भगवान्सर्वदेवनमस्कृतः ।। ३७ ।।
करोतु ते महाशांतिं ग्रहपीडानिवारिणीम् ।।
त्रिचक्ररथमारूढ अपां सारमयं तु यः ।।३८।।
दशाश्ववाहनो देव आत्रेय श्चामृतस्रवः ।।
शीतांशुरमृतात्मा च क्षयवृद्धिसमन्वितः ।।
सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ।। ३९ ।।
पद्मरागनिभो भौमो मधुपिंगल लोचनः ।।
अंगारकोऽग्निसदृशो ग्रहपीडां व्यपोहतु ।। 1.175.४० ।।
पुष्परागनिभेनेह देहेन परिपिंगलः ।।
पीतमाल्यांबरधरो बुधः पीडां व्यपोहतु ।। ।। ४१ ।।
तप्तगैरिकसंकाशः सर्वशास्त्रविशारदः ।।
सर्वदेवगुरुर्विप्रो ह्यथर्वणवरो मुनिः ।। ४२ ।।
बृहस्पतिरिति ख्यात अर्थशास्त्रपरश्च यः ।।
शांतेन चेतसा सोपि परेण सुसमाहितः ।। ४३ ।।
ग्रहपीडां विनिर्जित्य करोतु तव शांतिकम् ।।
सूर्यार्चनपरो नित्यं प्रसादाद्भास्करस्य तु ।। ४४ ।।
हिमकुंदेंदुवर्णाभो दैत्यदानवपूजितः ।।
महेश्वरस्ततो धीमान्महासौरो महामतिः ।। ४५ ।।
सूर्यार्चनपरो नित्यं शुक्रः शुक्लनिभस्तदा ।।
नीतिशास्त्रपरो नित्यं ग्रहपीडां व्यपोहतु ।। ४६ ।।
नानारूपधरोव्यक्त अविज्ञातगतिश्च यः ।।
नोत्पत्तिर्जायते यस्य नोदयपीडितैरपि ।। ४७ ।।
एकचूलो द्विचूलश्च त्रिशिखः पंचचूलकः ।।
सहस्रशिररूपस्तु चन्द्रकेतुरिव स्थितः ।।४८।।
सूर्यपुत्रोग्निपुत्रस्तु ब्रह्मविष्णुशिवात्मकः ।।
अनेकशिखरः केतुः स ते पीडां व्यपोहतु ।। ४९ ।
एते ग्रहा महात्मानः सूर्यार्चनपराः सदा ।।
शांतिं कुर्वंतु ते हृष्टाः सदा कालं हितेक्षणाः ।। 1.175.५० ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्याग्निकर्मणि पंचसप्तत्युत्तरशततमोऽध्यायः ।। १७५ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 176
सौरधर्मवर्णनम्
।। सुमंतुरुवाच ।। ।।
पद्मासनः पद्मवर्णः पद्मपत्रनिभेक्षणः ।।
कमण्डलुधरः श्रीमान्देवगंधर्वपूजितः ।। १ ।।
चतुर्मुखो देवपतिः सूर्यार्चनपरः सदा ।।
सुरज्येष्ठो महातेजाः सर्व लोकप्रजापतिः ।।
ब्रह्मशब्देन दिव्येन ब्रह्मा शांतिं करोतु ते ।। २ ।।
पीतांबरधरो देव आत्रेयीदयितः सदा ।।
शंखचक्रगदापाणिः श्यामवर्णश्चतुर्भुजः ।। ३ ।।
यज्ञदेहः क्रमो देव आत्रेयीदयितः सदा ।।
शंखचक्रगदापाणिर्माधवो मधुसूदनः ।। ४ ।।
सूर्यभक्तान्वितो नित्यं विगतिर्विगतत्रयः ।।
सूर्यध्यानपरो नित्यं विष्णुः शांतिं करोतु ते ।। ५ ।।
शशिकुंदेंदुसंकाशो विश्रुताभरणैरिह ।।
चतुर्भुजो महातेजाः पुष्पार्धकृतशेखरः ।। ६ ।।
चतुर्मुखो भस्मधरः स्मशाननिलयः सदा ।।
गोत्रारिर्विश्वनिलयस्तथा च क्रतुदूषणः ।। ७ ।।
वरो वरेण्यो वरदो देवदेवो महेश्वरः ।।
आदित्यदेहसंभूतः स ते शांतिं करोतु वै ।। ८ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु षट्सप्तत्युत्तरशततमोऽध्यायः ।। १७६ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 177
अग्निकार्यविधिवर्णनम्
।। अरुण उवाच ।। ।।
पद्मरागप्रभा देवी चतुर्वदनपंकजा ।।
अक्षमालार्पितकरा कमंडलुधरा शुभा ।। १ ।।
ब्रह्माणी सौम्यवदना आदित्याराधने रता ।।
शांतिं करोतु सुप्रीता आशीर्वादपरा खग ।। २ ।।
महाश्वेतेति विख्याता आदि त्यदयिता सदा ।।
हिमकुंदेंदुसदृशा महावृषभवाहिनी ।। ३ ।।
त्रिशूलहस्तावरणा विश्रुताभरणा सती ।।
चतुर्भुजा चतुर्वक्त्रा त्रिनेत्रा पापनाशिनी।।
वृषध्वजार्चनरता रुद्राणी शांतिदा भवेत् ।। ४ ।।
मयूरवाहना देवी सिंदूरारुणविग्रहा ।।
शक्तिहस्ता महाकाया सर्वालंकारभूषिता ।।५।।
सूर्यभक्ता महावीर्या सूर्यार्चनरता सदा ।।
कौमारी वरदा देवी शांतिमाशु करोतु ते ।। ६ ।।
गदाचक्रधरा श्यामा पीतांबरधरा खग ।।
चतुर्भुजा हि सा देवी वैष्णवी सुरपूजिता ।।७।।
सूर्यार्चनपरा नित्यं सूर्यैकगतमानसा ।।
शांतिं करोतु ते नित्यं सर्वासुरविमर्दिनी ।।८।।
ऐरावतगजारूढा वज्रहस्ता महा बला ।।
सर्वत्रलोचना देवी वर्णतः कर्बुरारुणा ।। ९ ।।
सिद्धगंधर्वनमिता सर्वालंकारभूषिता ।।
इंद्राणी ते सदा देवी शांतिमाशु करोतु वै ।। 1.177.१० ।।
वराहघोणा विकटा वराहवरवाहिनी ।।
श्यामावदाता या देवी शंखचक्रगदाधरा ।। ११ ।।
तेजयंतीति निमिषान्पूजयंती सदा रविम् ।।
वाराही वरदा देवी तव शांतिं करोतु वै ।। १२ ।।
अर्धकोशा कटीक्षामा निर्मांसा स्नायुबंधनात् ।।
करालवना घोरा खड्गघंटोद्गता सती ।। १३ ।।
कपालमालिनी क्रूरा खट्वांगवरधारिणी ।।
आरक्ता पिंगनयना गजचर्मावगुंठिता ।। १४ ।।
गोश्रुताभरणा देवी प्रेतस्थाननिवासिनी ।।
शिवारूपेण घोरेण शिवरूपभयंकरी ।।
चामुंडा चंडरूपेण सदा शांतिं करोतु ते ।। १५ ।।
चंडमुंडकरा देवी मुंडदेहगता सती ।।
कपालमालिनी क्रूरा खट्वांगवरधारिणी ।। १६ ।।
आकाशमातरो देव्यस्तथान्या लोकमातरः ।।
भूतानां मातरः सर्वास्तथान्याः पितृमातरः ।। १७ ।।
वृद्धिश्राद्धेषु पूज्यंते यास्तु देव्यो मनीषिभिः ।।
मात्रे प्रमात्रे तन्मात्रे इति मातृमुखास्तथा ।। १८ ।।
पितामही तु तन्माता वृद्धा या च पितामही ।।
इत्येतास्तु पितामह्यः शांतिं ते पितृमातरः ।। १९ ।।
सर्वा मातृमहादेव्यः स्वायुधाव्यग्रपाणयः ।।
जगद्व्याप्य प्रतिष्ठंत्यो बलिकामा महोदयाः ।। 1.177.२० ।।
शांतिं कुर्वंतु ता नित्यमादित्याराधने रताः ।।
शांतेन चेतसा शांत्यः शांतये तव शांतिदा ।। २१ ।।
सर्वावयवमुख्येन गात्रेण च सुमध्यमा !।
पीतश्यामाति सौम्येन स्निग्धवर्णेन शोभना ।। २२ ।।
ललाटतिलकोपेता चंद्ररेखार्धधारिणी ।।
चित्रांबरधरा देवी सर्वाभरणभूषिता ।। २३ ।।
वरा स्त्रीमयरूपाणां शोभा गुणसुसम्पदा ।।
भावनामात्रसंतुष्टा उमा देवी वरप्रदा ।।२४।।
साक्षादागत्य रूपेण शांतेनामिततेजसा ।।
शांतिं करोतु ते प्रीता आदित्या राधने रता ।। २५ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु दशमुखे अग्निकार्यविधौ सप्तसप्तत्युत्तरशततमोध्यायः ।। ।। १७७ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 178
सौरधर्मवर्णनम्
।। अरुण उवाच ।। ।।
अबलो बालरूपेण खट्वांगशिखिवाहनः ।।
पूर्वेण वदनः श्रीमांस्त्रिशिखः शक्तिसंयुतः ।। १ ।।
कृत्तिकायाश्च रुद्रस्य चांगोद्भूतः सुरार्चितः ।।
कार्तिकेयो महातेजा आदित्यवरदर्पितः ।।
शांतिं करोतु ते नित्यं बलं सौख्यं च तेजसा ।। २ ।।
आत्रेयीबलवान्देव आरोग्यं च खगाधिप ।।
श्वेतवस्त्रपरीधानस्त्र्यक्षः कनकसुप्रभः ।। ३ ।।
शूलहस्तो महाप्राज्ञो नदीशो रविभावितः ।।
शांतिं करोतु ते शान्तो धर्मे च मतिमुत्तमाम् ।। ४ ।।
धर्मेतरावुभौ नित्यमचलः संप्रयच्छतु ।।
महोदरो महाकायः स्निग्धांजनसमप्रभः ।। ५ ।।
एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः ।।
नागयज्ञोपवीतेन नानाभरणभूषितः ।।६।।
सर्वार्थसंपदोद्धारो गणाध्यक्षो वरप्रदः ।।
भीमस्य तनयो देवो नायकोथ विनायकः ।।
करोतु ते महाशांतिं भास्करार्चनतत्परः ।। ७ ।।
इंद्रनीलनिभस्त्र्यक्षो दीप्तशूलायुधोद्यतः ।।
रक्तांबरधरः श्रीमान्कृष्णांगो नागभूषणः ।। ८ ।।
पापापनोदमतुलमलक्ष्यो मलनाशनः ।।
करोतु ते महाशांतिं प्रीतः प्रीतेन चेतसा ।। ९ ।।
वरांबरधरा कन्या नानालंकारभूषिता ।।
त्रिदशानां च जननी पुण्या लोकनमस्कृता ।। 1.178.१० ।।
सर्वसिद्धिकरा देवी प्रसादपरमास्पदा ।।
शांतिं करोतु ते माता भुवनस्य खगाधिप ।। ११ ।।
स्निग्धश्यामेन वर्णेन महामहिषमर्दनी ।।
धनुश्चक्रप्रहरणा खङ्गपट्टिशधारिणी ।। १२ ।।
आतर्जन्यायतकरा सर्वोपद्रवनाशिनी ।।
शांतिं करोतु ते दुर्गा भवानी च शिवा तथा ।। १३ ।।
अतिसूक्ष्मो ह्यतिक्रोधस्त्र्यक्षो भृंगिरिटिर्महान् ।।
सूर्यात्मको महावीरः सूर्यैकगतमानसः ।।
सूर्यभक्तिकरो नित्यं शिवं ते संप्रयच्छतु ।। १४ ।।
प्रचंडगणसैन्येशो महाघंटाक्षधारकः ।।
अक्षमालार्पितकरश्चाक्षचंडेश्वरो वरः ।। १५ ।।
चंडपापहरो नित्यं ब्रह्महत्या विनाशनः ।।
शांतिं करोतु ते नित्यमादित्याराधने रतः ।।
करोति च महायोगी कल्याणानां परंपराम् ।। १६ ।।
आकाशमातरो दिव्यास्तथान्या देवमातरः ।।
सूर्यायणपरा देव्यो जगद्व्याप्य व्यवस्थिताः ।।
शांतिं कुर्वंतु मे नित्यं मातरः सुरपूजिताः ।। १७ ।।
ये रुद्रा रौद्रकर्माणो रौद्र स्थाननिवासिनः ।।
मातरो रुद्ररूपाश्च गणानामधिपाश्च ये ।। १८ ।।
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः ।।
सर्वे ते प्रीतमनसः प्रतिगृह्णंतु मे बलिम् ।।
सिद्धिं कुर्वंतु ते नित्यं भयेभ्यः पांतु सर्वतः ।। १९ ।।
ऐंद्रादयो गणा ये तु वज्रहस्ता महाबलाः ।।
हिमकुन्देंदुसदृशा नीलकृष्णांगलोहिताः ।। 1.178.२० ।।
दिव्यांतरिक्षा भौमाश्च पातालतलवासिनः ।।
ऐंद्राः शांतिं प्रकुर्वंतु भद्राणि च पुनः पुनः ।। २१ ।।
आग्नेय्यां ये भृताः सर्वे ध्रुवहत्यानुषंगिणः ।।
सूर्यानुरक्ता रक्ताभा जपासुमनिभास्तथा ।। २२ ।।
विरक्तलोहिता दिव्या आग्नेय्यां भास्करादयः ।।
आदित्याराधनपरा आदित्यगतमानसाः ।। २३ ।।
शांतिं कुर्वंतु ते नित्यं प्रयच्छंतु बलिं मम ।।
भयाऽऽदित्यसमा ये तु सततं दण्डपाणयः ।।
आदित्याराधनपराः कं प्रयच्छंतु ते सदा ।। २४ ।।
ऐशान्यां संस्थिता ये तु प्रशांताः शूलपाणयः ।।
भस्मोद्धूलितदेहाश्च नीलकण्ठा विलोहिताः ।। २५ ।।
दिव्यांतरिक्षा भौमाश्च पातालतलवासिनः ।।
सूर्यपूजाकरा नित्यं पूजयित्वांशुमालिनम् ।। २६ ।।
ततः सुप्रीतमनसो लोकपालैः सम न्विताः ।।
शांतिं कुर्वंतु मे नित्यं कं प्रयच्छंतु पूजिताः ।।२७।।
अमरावती पुरी नाम पूर्वभागे व्यवस्थिता ।।
विद्याधरगणाकीर्णा सिद्धगन्धर्वसे विता ।।२८।।
रत्नप्राकाररुचिरा महारत्नोपशोभिता ।।
तत्र देवपतिः श्रीमान्वज्रपाणिर्महाबलः ।।
गोपतिर्गोसहस्रेण शोभमानेन शोभते ।।२९।।
ऐरावतगजारूढो गैरिकाभो महाद्युतिः।।
देवेंद्रः सततं हृष्ट आदित्याराधने रतः ।। 1.178.३० ।।
सूर्यज्ञानैकपरमः सूर्यभक्तिसमन्वितः ।।
सूर्यप्रणामः परमां शांतिं तेऽद्य प्रयच्छतु ।। ३१ ।।
आग्नेयदिग्विभागे तु पुरी तेजस्वती शुभा ।।
नानादेवगणाकीर्णा नानारत्नोपशोभिता ।। ३२ ।।
तत्र ज्वाला समाकीर्णो दीप्तांगारसमद्युतिः ।।
पुरगो दहनो देवो ज्वलनः पापनाशनः ।। ३३ ।।
आदित्याराधनरत आदित्यगतमानसः ।।
शांतिं करोतु ते देवस्तथा पापपरिक्षयम् ।। ३४ ।।
वैवस्वती पुरी रम्या दक्षिणेन महात्मनः ।।
सुरासुरशताकीर्णा नानारत्नोपशोभिता ।।३५।।
तत्र कुन्देंदुसंकाशो हरिपिंगललोचनः ।।
महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः ।। ३६ ।।
अन्तकोऽथ महातेजाः सूर्यधर्मपरायणः ।।
आदित्याराधनपरः क्षेमारोग्ये ददातु ते ।। ३७ ।।
नैर्ऋते दिग्विभागे तु पुरी कृष्णेति विश्रुता ।।
मोहरक्षोगणाशौचपिशाचप्रेतसंकुला ।। ३८ ।।
तत्र कुन्दनिभो देवो रक्तस्रग्वस्त्र भूषणः ।।
खड्गपाणिर्महातेजाः करालवदनोज्ज्वलः ।। ३९ ।।
रक्षेंद्रो वसते नित्यमादित्याराधने रतः ।।
करोतु मे सदा शांतिं धनं धान्यं प्रय च्छतु ।। 1.178.४० ।।
पश्चिमे तु दिशो भागे पुरी शुद्धवती सदा ।।
नानाभोगिसमाकीर्णा नानाकिन्नरसेविता ।। ४१ ।।
तत्र कुन्देदुसंकाशो हरिपिंगल लोचनः ।।
शांतिं करोतु मे प्रीतः शांतः शांतेन चेतसा ।। ४२ ।।
यशोवती पुरी रम्या ऐशानीं दिशमाश्रिता ।।
नानागणसमाकीर्णा नानाकृत शुभालया ।।
तेजःप्राकारपर्यंता अनौपम्या सदोज्वला ।। ४३ ।।
तत्र कुंदेंदुसंकाशश्चांबुजाक्षो विभूषितः ।।
त्रिनेत्रः शांतरूपात्मा अक्षमाला धराधरः ।।
ईशानः परमो देवः सदा शांतिं प्रयच्छतु ।। ४४ ।।
भूलोके तु भुवर्लोके निवसंति च ये सदा ।।
देवादेवाः शुभायुक्ताः शांतिं कुर्वंतु ते सदा ।। ४५ ।।
महर्लोके जनोलोके परलोके गताश्च ये ।।
ते सर्वे मुदिता देवाः शांतिं कुर्वंतु ते सदा ।। ४६ ।।
सरस्वती सूर्यभक्ता शांतिदा विदधातु मे ।।
चारुचामीकरस्था या सरोजकरपल्लवा ।।
सूर्यभक्त्याश्रिता देवी विभूतिं ते प्रयच्छतु ।। ४७ ।।
हरेण सुविचित्रेण भास्वत्कनकमेखला ।।
अपराजिता सूर्यभक्ता करोतु विजयं तव ।। ४८ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मवर्णनं नामाष्टसप्तत्यु त्तरशततमोऽध्यायः ।। १७८ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 179
सौरधर्मवर्णनम्
।। अरुण उवाच ।। ।।
कृत्तिका परमा देवी रोहिणी च वरानना ।।
श्रीमन्मृगशिरो भद्रा आर्द्रा चाप्यपरोज्ज्वला ।। १ ।।
पुनर्वसुस्तथा पुष्य आश्लेषा च तथाधिप ।।
सूर्यार्चनरता नित्यं सूर्यभावानुभाविताः ।। २ ।।
अर्चयंति सदा देवमादित्यं सुरते सदा ।।
नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः ।। ३ ।।
मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी ।।
स्वाती विशाखा वरदा दक्षिणां दिशमाश्रिताः ।। ४ ।।
अर्चयंति सदा देवमादित्यं सुरपूजितम् ।।
तवापि शांतिकं द्योतं कुर्वंतु गगनोदिताः ।। ५ ।।
अनुराधा तथा ज्येष्ठा मूलं सूर्यपुरःसरा ।।
पूर्वाषाढा महावीर्या आषाढा चोत्तरा तथा ।। ६ ।।
अभिजिन्नाम नक्षत्रं श्रवणं च बहुश्रुतम् ।।
एताः पश्चिमतो दीप्ता राजंते चानु मूर्तयः ।। ७ ।।
भास्करं पूजयंत्येताः सर्वकालं सुभाविताः ।।
शांतिं कुर्वंतु ते नित्यं विभूतिं च महर्द्धिकाम् ।।८।।
धनिष्ठा शतभिषा तु पूर्वभाद्रपदा तथा ।। ९ ।।
उत्तरा भाद्ररेवत्यौ चाश्विनी च महामते ।।
भरणी च महादेवी नित्यमुत्तरतः स्थिताः ।। 1.179.१० ।।
सूर्यार्चनरता नित्यमादित्यगतमा नसाः ।।
शांतिं कुर्वतु ते नित्यं विभूतिं च महर्द्धिकाम् ।। ११ ।।
मेषो मृगाधिपः सिंहो धनुर्दीप्तिमतां वरः ।।
पूर्वेण भासयंत्येते सूर्ययोगपराः शुभाः ।।
शांतिं कुर्वंतु ते नित्यं भक्त्या सूर्यपदांबुजे ।। १२ ।।
वृषः कन्या च परमा मकरश्चापि बुद्धिमान् ।।
एते दक्षिणभागे तु पूजयंति रविं सदा ।।
भक्त्या परमया नित्यं शांतिं कुर्वंतु ते सदा ।।१३।।
मिथुनं च तुला कुंभः पश्चिमे च व्यवस्थिताः ।।
जपंत्येते सदाकालमादित्यं ग्रहनाय कम् ।। १४ ।।
शांतिं कुर्वंतु ते नित्यं खखोल्काज्ञानतत्पराः ।।
सतपोदत्तपुष्पाभ्यां ये स्मृता सततं बुधैः ।। १५ ।।
ऋषयः सप्त विख्याता ध्रुवांताः प्ररमोज्ज्वलाः ।।
भानुप्रसादात्संपन्नाः शांतिं कुर्वंतु ते सदा ।। १६ ।।
कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः ।।
मुनिर्दक्षो वशिष्ठश्च मार्कण्डः पुलहः क्रतुः ।। १७ ।।
नारदो भृगुरात्रेयो भारद्वाजश्च वै मुनिः ।।
वाल्मीकिः कौशिको वात्स्यः शाकल्योऽथ पुनर्वसुः ।। १८ ।।
शालंकायन इत्येते ऋषयोऽथ महातपाः ।।
सूर्यध्यानैकपरमाः शांतिं कुर्वंतु ते सदा।। १९ ।।
मुनिकन्या महाभागा ऋषिकन्याः कुमारिकाः ।।
सूर्यार्चनरता नित्यं शांतिं कुर्वंतु ते सदा ।। 1.179.२० ।।
सिद्धाः समृद्धतपसो ये चान्ये वै महातपाः ।।
विद्याधरा महात्मानो गरुडश्च त्वया सह ।। २१ ।।
आदित्यपरमा ह्येते आदित्याराधने रताः ।।
सिद्धिं ते संप्रयच्छंतु आशीर्वादपरायणाः ।। २२ ।।
नमुचिर्दैत्यराजेद्रः शंकुकर्णो महाबलः ।।
महानाथोऽथ विख्यातो दैत्यः परमवीर्यवान् ।। २३ ।।
ग्रहाधिपस्य देवस्य नित्यं पूजापरायणाः ।।
बलं वीर्यं च ते ऋद्धिमारोग्यं च ब्रुवंतु ते ।।२४।।
महाढ्यो यो हयग्रीवः प्रह्लादः प्रभयान्वितः ।।
तानैकाग्निमुखो दैत्यः कालनेमिर्महाबलः ।। २५ ।।
एते दैत्या महात्मानः सूर्यभावेन भाविताः ।।।
तुष्टिं बलं तथाऽऽरोग्यं प्रयच्छंतु सुरारयः ।। २६ ।।
वैरोचनो हिरण्याक्षस्तुर्वसुश्च सुलोचनः ।।
मुचकुंदो मुकुंदश्च दैत्यो रैवतकस्तथा ।।२७।।
भावेन परमेणेमं यजंते सततं रविम् ।।
सततं च शुभात्मानः पुष्टिं कुर्वंतु ते सदा ।। २८ ।।
दैत्यपतयो महाभागा दैत्यानां कन्यकाः शुभाः ।।
कुमारा ये च दैत्यानां शांतिं कुर्वंतु ते सदा ।। २९ ।।
आरक्तेन शरीरण रक्तांतायतलोचनाः ।।
महाभागाः कृताटोपाः शंखाद्याः कृतलक्षणाः ।। 1.179.३० ।।
अनंतो नागराजेंद्र आदित्याराधने रतः ।।
महापापविषं हत्वा शांतिमाशु करोतु ते ।। ३१ ।।
अतिपीतेन देहेन विस्फुरद्भोगसंपदा ।।
तेजसा चातिदीप्तेन कृतस्वस्तिकलांछनः ।। ३२ ।।
नागराट् तक्षकः श्रीमान्नामकोट्या समन्वितः ।।
करोतु ते महाशांतिं सर्वदोषविषापहाम् ।। ३३ ।।
अतिकृष्णेन वर्णेन स्फुटाधिकटमस्तकः ।।
कंठरेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः ।। ३४ ।।
कर्कोटको महानागो विषदर्पबलान्वितः ।।
विषशस्त्राग्निसंतापं हत्वा शांतिं करोतु ते ।। ३५ ।।
पद्मवर्णः पद्मकान्तिः फुल्लपद्मायतेक्षणः ।।
ख्यातः पद्मो महानागो नित्यं भास्करपूजकः ।। ३६ ।।
स ते शांति शुभं शीघ्रमचलं संप्रयच्छतु ।।
श्यामेन देहभारेण श्रीमत्कमललोचनः ।। ३७ ।।
विषदर्पबलोन्मत्तो ग्रीवायां रेखयान्वितः ।।
शंखपालश्रिया दीप्तः सूर्यपादाब्जपूजकः ।। ३८.।।
महाविषं गरश्रेष्ठं हत्वा शांतिं करोतु ते ।।
अतिगौरेण देहेन चंद्रार्धकृतशेखरः ।। ३९ ।।
दीपभागे कृताटोपशुभलक्षणलक्षितः ।।
कुलिको नाम नागेन्द्रो नित्यं सूर्यपरायणः ।।
अपहृत्य विषं घोरं करोतु तव शांतिकम् ।। 1.179.४० ।।
अंतरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ।।
गिरिकंदरदुर्गेषु ये नागा भुवि संस्थिताः ।। ४१ ।।
पाताले ये स्थिता नागाः सर्वे यत्र समाहिताः ।।
सूर्यपादा र्चनासक्ताः शांतिं कुर्वंतु ते सदा ।।४२।।
नागिन्यो नागकन्याश्च तथा नागकुमारकाः ।।
सूर्यभक्ताः सुमनसः शांतिं कुर्वंतु ते सदा ।।४३।।
य इदं नामसंस्थानं कीर्तयेच्छृणुयात्तथा ।।
न तं सर्पा विहिंसति न विषं क्रमते सदा ।। ४४ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौर धर्मवर्णनं नामैकोनाशीत्युत्तरशततमोऽध्यायः ।।१७९।। ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 180
शान्तिकवर्णनम्
गंगा पुण्या महादेवी यमुना नर्मदा नदी ।।
गौतमी चापि कावेरी वरुणा देविका तथा ।।१।।
सर्वग्रहपतिं देवं लोकेशं लोकनायकम् ।।
पूजयंति सदा नद्यः सूर्यसद्भावभाविताः ।।
शांतिं कुर्वंतु ते नित्यं सूर्यध्यानैकमानसाः ।।२।।
निरंजना नाम नदी शोणश्चापि महानदः ।।
मंदाकिनी च परमा तथा सन्निहिता शुभा।।३।।
एताश्चान्याश्च बहवो भुवि दिव्यंतरिक्षके।।
सूर्यार्चनरता नद्यः कुर्वंतु तव शांतिकम् ।।४।।
महावैश्रवणो देवो यक्षराजो महर्षिकः ।।
यक्षकोटिपरीवारो यक्षसंख्येयसंयुतः ।।५।।
महाविभवसंपन्नः सूर्यपादार्चने रतः ।।
सूर्यध्यानैकपरमः सूर्यभावेन भावितः।।६।।
शांतिं करोतु ते प्रीतः पद्मपत्रायतेक्षणः ।।
माणिभद्रो महायक्षो मणिरत्नविभूषितः ।।७।।
मनोहरेण हारेण कंठलग्नेन राजते ।।
यक्षिणीयक्षकन्याभिः परिवारितविग्रहः ।।
सूर्यार्चनसमासक्तः करोतु तव शांतिकम्।।८।।
सुचिरो नाम यक्षेंद्रो मणिकुडल भूषितः ।।
ललाटे हेमपटलप्रबद्धेन विराजते ।। ९ ।।
बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः ।।
सूर्यपूजापरो युक्तः करोतु तव शांतिकम् ।। 1.180.१०।।।
पांचिको नाम यक्षेंद्रः कंठाभरणभूषितः ।।
कुक्कुटेन विचित्रेण बहुरत्नान्वितेन तु ।। ११ ।।
यक्षवृन्दसमाकीर्णो यक्षकोटिसमन्वितः ।।
सूर्यार्चनकरः श्रीमान्करोतु तव शांतिकम् ।। १२ ।।
धृतराष्ट्रो महातेजा नानायक्षाधिपः खग ।।
दिव्यपट्टः शुक्लच्छत्रो मणिकांचनभूषितः ।। १३ ।।
सूर्यभक्तः सूर्यरतः सूर्यपूजापरायणः ।।
सूर्यप्रसादसंपन्नः करोतु तव शांतिकम् ।। १४ ।।
विरूपाक्षश्च यक्षेंद्रः श्वेतवासा महाद्युतिः ।।
नानाकांचनमालाभिरुपशोभितकंधरः ।। १५ ।।
सूर्यपूजापरो भक्तः कंजाक्षः कंजसन्निभः ।।
तेजसादित्यसंकाशः करोतु तव शांतिकम् ।। १६ ।।
अंतीरक्षगता यक्षा ये यक्षाः स्वर्गगामिनः ।।
नानारूपधरा यक्षाः सूर्यभक्ता दृढव्रताः ।। १७ ।।
तद्भक्तास्तद्गमनसः सूर्यपूजासमुत्सुकाः ।।
शांतिं कुर्वंतु ते हृष्टाः शांताः शांतिपरायणाः ।। १८ ।।
यक्षिण्यो विविधाकारास्तथा यक्षकुमारकाः ।।
यक्षकन्या महाभागाः सूर्याराधनतत्पराः ।। १९ ।।
शांतिं स्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम् ।।
सिद्धिं चाशु प्रयच्छंतु नित्यं च सुसमाहिताः ।। 1.180.२० ।।
पर्वताः सर्वतः सर्वे वृक्षाश्चैव महर्द्धिकाः ।।
सूर्यभक्ताः सदा सर्वे शांतिं कुर्वंतु ते सदा ।। २१ ।।
सागराः सर्वतः सर्वे गृहारण्यानि कृत्स्नशः ।।
सूर्यस्याराधनपराः कुर्वंतु तव शांतिकम् ।। २२ ।।
राक्षसाः सर्वतः सर्वे घोररूपा महाबलाः ।।
स्थलजा राक्षसा ये तु अंतरिक्षगताश्च ये ।।२३।।
पाताले राक्षसा ये तु नित्यं सूर्यार्चने रताः ।।
शांतिं कुर्वंतु ते सर्वे तेजसा नित्यदीपिताः ।। २४ ।।
प्रेताः प्रेतगणाः सर्वे ये प्रेताः सर्वतोमुखाः ।।
अतिदीप्ताश्च ये प्रेता ये प्रेता रुधिराशनाः ।।२५।।।
अंतरिक्षे च ये प्रेतास्तथा ये स्वर्गवासिनः ।।
पाताले भूतले वापि ये प्रेताः कामरूपिणः ।। २६ ।।
एकचक्रो रथो यस्य यस्तु देवो वृषध्वजः ।।
तेजसा तस्य देवस्य शांतिं कुर्वंतु ते सदा ।।२७।।
ये पिशाचा महावीर्या वृद्धिमंतो महाबलाः ।।
नानारूपधराः सर्वे सर्वे च गुणवत्तराः ।।२८।।।
अंतरिक्षे पिशाचा ये स्वर्गे ये च महाबलाः ।।
पाताले भूतले ये च बहुरूपा मनोजवाः ।। २९ ।।
यस्याहं सारथिर्वीर यस्य त्वं तुरगः सदा ।।
तेजसा तस्य देवस्य शांतिं कुर्वंतु तेऽञ्जसा ।। 1.180.३० ।।
अपस्मारग्रहाः सर्वे सर्वे चापि ज्वरग्रहाः ।।
ये च स्वर्गस्थिताः सर्वे भूमिगा ये ग्रहोत्तमाः ।। ।। ३१ ।।
पाताले तु ग्रहा ये च ये ग्रहाः सर्वतो गताः ।।
दक्षिणे किरणे यस्य सूर्यस्य च स्थितो हरिः ।। ३२ ।।
हरो यस्य सदा वामे ललाटे कंजजः स्थितः ।।
तेजसा तस्य देवस्य शांतिं कुर्वंतु ते सदा ।। ३३ ।।
इति देवादयः सर्वे सूर्ययज्ञविधायिनः ।।
कुर्वंतु जगतः शांतिं सूर्यभक्तेषु सर्वदा ।। ३४ ।।
जयः सूर्याय देवाय तमोहंत्रे विवस्वते ।।
जयप्रदाय सूर्याय भास्कराय नमोस्तु ते ।। ३५ ।।
ग्रहोत्तमाय देवाय जयः कल्याणकारिणे ।।
जयः पद्मविकाशाय बुधरूपाय ते नमः ।। ३६ ।।
जयः दीप्तिविधानाय जयः शांतिविधायिने ।।
तमोघ्नाय जयायैव अजिताय नमोनमः ।।३७।।
जयार्क जयदीप्तीश सहस्रकिरणोज्ज्वल ।।
जय निर्मितलोकस्त्वमजिताय नमोनमः ।। ३८ ।।
गायत्रीदेहरूपाय सावित्रीदयिताय च ।।
धराधराय सूर्याय मार्तंडाय नमोनमः ।। ३९ ।।
सुमंतुरुवाच ।।
एवं हि कुर्वतः शांतिमरुणस्य महीपते ।।
श्रेयसे वैनतेयस्य गरुडस्य महात्मनः ।। 1.180.४० ।।
एतस्मिन्नेव काले तु सुपर्णः पत्रवानभूत् ।।
तेजसा बुधसंकाशो वलेन हरिणा समः ।। ४१ ।।
संपूर्णावयवो राजन्यथापूर्वं तथाभवत् ।।
प्रसादाद्देवदेवस्य भास्करस्य महात्मनः ।। ४२ ।।
एवमन्येऽपि राजेंद्र मानवा ये च रोगिणः ।।
अस्मित्कृतेऽग्निकार्ये तु विरुजास्ते भवंति हि ।।
तस्माद्यत्नेन कर्तव्यमग्निकार्यं विधानतः ।। ४३ ।।
करणीयं च राजेंद्र मानवैश्च प्ररोगिभिः ।।
अस्मिन्कृते अग्निकाये विरुजास्ते भवंति हि।। ४४ ।।
ग्रहो पघाते दुर्भिक्ष उत्पातेषु च कृत्स्नशः ।।
अवर्षमाणे पर्जन्ये लक्षहोमसमन्वितः ।। ४५ ।।
पूजयित्वा प्रसूक्तं तु ध्यात्वा वीरं प्रयत्नतः ।।
वारुणैश्च तथा सूक्तैर्होमं कुर्याद्विचक्षणः ।। ४६ ।।
चेतसा सुप्रसन्नेन सर्पिषा मधुना सह ।।
तिलैर्यवैश्च सहितैः पायसं मधुना तथा ।। ४७ ।।
इदं च शांतिकं कुर्याद्बलिं दयात्प्रयत्नतः ।।
एवं कृते श्रियं देवा वर्षंते कामना नृणाम् ।। ४८ ।।
इत्येवं शांतिकाध्यायं यः पठेच्छृणुयादपि ।।
विधिना सर्वलोकस्तु ध्यायमानो दिवाकरम्।। ४९ ।।
स विजित्य रणे शत्रुं मानं च परमं लभेत् ।।
अक्षयं मोदते कालमतिरस्कृतशासनः ।। 1.180.५० ।।
व्याधिभिर्नाभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः ।।
भवेदादित्यसदृशस्तेजसा प्रभया तथा ।। ५१ ।।
यानुद्दिश्य पठेद्वीर वाचको मानवो भुवि।।
न पीड्यते च तै रोगैर्वातपित्तकफात्मकैः ।। ५२ ।।
नाकाले मरणं तस्य न सर्पैश्चापि दश्यते ।।
न विषं क्रमते देहे न जडांध्यं न मूकता ।। ५३ ।।
न चोत्पत्ति भयं तस्य नाभिचारकजं भवेत् ।।
ये रोगा ये महोत्पाता येऽहयश्च महाविषाः ।।
ते सर्वे प्रशमं यांति श्रवणादस्य भारत।।।५४ ।।
यत्पुण्यं सर्व तीर्थानां गंगादीनां विशेषतः ।।
तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिभिः ।। ५५ ।।
दशानां राजसूयानामन्येषां च विशेषतः ।।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ।। ५६ ।।
गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः ।।
शरणागतदीनार्तमित्रविश्रभघातकः ।। ५७ ।।।
दुष्टः पापसमाचारः पितृहा मातृहा तथा ।।
श्रवणादस्य पापेभ्यो मुच्यते नात्र संशयः ।। ५८ ।।
इतिहासमिमं पुण्यमग्निकार्यमनुत्तमम् ।।
न दद्यात्कस्यचिद्वीर मूर्खस्य कलुषात्मनः ।। ५९ ।।
सूर्यभक्ते सदा देयं सूर्येण कथितं पुरा ।।
अरुणस्य महाबाहो गरुडस्यारुणेन च ।। 1.180.६० ।।
गरुडेन पुरा प्रोक्तं भोजकानां महात्मनाम् ।।
सूर्यशर्मसुखादीनां शाकद्वीपे महीपते ।। ६१ ।।
तैश्चापि कथितं पुण्यं मुनेर्व्यासस्य धीमतः ।।
तेनापि कथितं पुण्यं सर्वपापभयापहम् ।। ६२ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे गरुडारुणसंवादे शांतिकं वर्णनं नामाशीत्युत्तरशततमोऽध्यायः ।। १८० ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 181
स्मृतिभेदवर्णनम्
।। शतानीक उवाच।। ।।
पंचप्रकारं धर्मं मे वद स्मार्तं यथाक्रमम् ।।
कौतुकं पृच्छ ते ब्रह्मन्समासव्यासयोगतः ।। १ ।।
।। सुमन्तुरुवाच ।। ।।
पंचधा वर्णितं धर्मं शृणु राजन्समासतः ।।
यथोक्तं भास्करेणेह अरुणस्य महात्मनः ।। २ ।।
सहस्रकिरणं भानुमुदयस्थं दिवाकरम् ।।
प्रणम्य शिरसा देवमुवाच गरुडाग्रजः ।। ३ ।।
भगवन्देवदेवेश सहस्रकिरणोज्ज्वल ।।
स्मृतिधर्मान्यथातत्त्वं वक्तुमर्हसि पृच्छतः ।। ४ ।।
एवं पृष्टस्तु भगवानरुणेन खगाधिपः ।।
उवाच परया प्रीत्या पूजयित्वा महीपते ।। ५ ।।
।। ।। भास्कर उवाच ।। ।।
स्मृतिधर्मं वेदमूलं शृणु त्वं गरुडाग्रज ।।
पूर्वानुभूतं यद्ध्यानमथ तत्स्मरणं स्मृतिः ।। ६ ।।
धर्मः क्रियात्मा निर्दिष्टः श्रेयोभ्युदयलक्षणः ।।
स च पञ्चविधः प्रोक्तो वेदमूलः सनातनः ।। ७ ।।
अस्य शब्दस्यानुष्ठानात्स्वर्गो मोक्षश्च जायते ।।
इह लोके सुखैश्वर्यमलं यच्च खगाधिप ।। ८ ।।
।। अनूरुरुवाच ।। ।।
कथं पंचविधो ह्येष प्रोक्तो धर्मः सनातनः ।।
कस्य भेदास्तु ते पंच ब्रूहि मे देवसत्तम ।। ९ ।। ।।
।। भास्कर उवाच ।। ।।
वेदधर्मः स्मृतस्त्वेक आश्रमाणां स तत्परः ।।
वर्णाश्रमस्तृतीयस्तु गुणनैमित्तिको यथा ।। 1.181.१० ।।
वर्णत्वमेकमाश्रित्य अधिकारे प्रवर्तते ।।
सवर्णाश्रमदंडस्तु भिक्षा दंडादिको यथा ।।११।।
वर्णाश्रमाश्रमत्वं च योधिकृत्य प्रवर्तते।।
स वर्णाश्रमधर्मस्तु दंडाद्या मेखला यथा ।।१२।।
यो गुणेन प्रवर्तेत स गुणो धर्म उच्यते ।।
यथा मूर्धाभिषिक्तस्य प्रजानां पालनं परम् ।।१३।।
निमित्तमेकमाश्रित्य यो धर्मः संप्रवर्तते ।।
नैमित्तिकः स विज्ञेयो जातिद्रव्यगुणाश्रयः ।।१४।।
एष तु द्विविधः प्रोक्तः समासादविशेषतः ।।
नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ।। १५ ।।
स चतुर्धा निरूप्यस्तु स्वरूपफलसाधनैः ।।
प्रमाणतस्तु प्रत्येकसमस्तैश्च यथाक्रमम् ।। १६ ।।
श्रुत्या सह विरोधे तु बाध्यते विषयं विना ।।
व्यवस्थया विरोधेन कार्यो यत्नः परीक्ष्यते ।।१७।।
स्मृत्या सह विरोधेन चार्थशास्त्रस्य साधनम् ।।
परस्परविरोधे तु अर्थशास्त्रस्य साधनम् ।।१८।।
अदृष्टार्थे विकल्पस्तु व्यवस्थासंभवे सति ।।
स्मृतिशास्त्रविकल्पस्तु आकांक्षापूरणे सति ।। १९ ।।
वेदमूले स्थितं त्वेतदनुष्ठानं क्रिया सती ।।
एवं शक्यविधानं तु न्यायो ह्येवं व्यवस्थितः ।। 1.181.२० ।।
निषेधविधिरूपं तु द्विधा शास्त्रं खगाधिप ।।
एकरूपं वदंत्यन्ये बहुरूपमथा परे ।। २१ ।।
पंचप्रकाराः स्मृतय एवं शिष्यव्यवस्थिताः ।।
त्रिधा चतुर्धा द्वेधा वा एकधा बहुधा खग ।। २२ ।।
दृष्टार्था तु स्मृतिः काचिददृष्टार्था तथापरा ।।
अनुवादस्मृतिस्त्वन्या दृष्टादृष्टा तु पंचमी ।।
सर्वा एता वेदमूलाः स्मृता वै ऋषिभिः स्वयम् ।। २३ ।। ।।
।। अरुण उवाच ।। ।।
या एता भवता प्रोक्ताः स्मृतयः पर्वगोपने ।।
एतासां लक्षणं ब्रूहि समासादेव सत्तम ।। २४ ।।
दृष्टार्था का मता देव अदृष्टार्था च का भवेत् ।।
दृष्टादृष्टस्वरूपा का न्यायमूला च का भवेत् ।।
अनुवादस्मृतिः का स्यादृष्टादृष्टा तु का भवेत् ।। २५ ।।
एवमुक्तो महातेजा भास्करो वारितस्करः ।।
उवाच तं खगं वीरं प्रणतं विनयान्वितम् ।। २६ ।।
।। आदित्य उवाच ।। ।।
षड्गुणस्य स्वरूपं तु प्रयोगा त्कार्यगौरवात् ।।
समयानामुपायानां योगो व्याससमासतः ।। २७ ।।
अध्यक्षाणां च निक्षेपः करणानां निरूपणम् ।।
दृष्टार्थेयं स्मृतिः प्रोक्ता ऋषिभिर्गरुडाग्रज ।। २८ ।।
संध्योपास्तिस्तथा कार्या शुनो मांसं न भक्षयेत् ।।
अदृष्टार्था स्मृतिः प्रोक्ता मनुना विनतात्मज ।। २९ ।।
पालाशं धारयेद्दंडमुभयार्था विदुर्बुधाः ।।
विरोधे तु विकल्पः स्याद्यागो होमस्ततो यथा ।। 1.181.३० ।।
श्रुतौ दृष्टं यथा कार्यं स्मृतो तत्तादृशं यदि ।।
उक्तानुवादिनी सा तु पारिव्राज्यं तथा गृहात् ।। ३१ ।।
उक्तो धर्मश्च संक्षेपात्परिभाषा च तद्गता ।।
तत्साधनं च देशादि इत्थमित्यब्रवीद्रविः ।। ३२ ।।
ब्रह्मावर्तः परो देश ऋषिशस्तस्त्वनंतरः ।।
मध्यदेशस्ततोऽप्यन्य आर्यावर्तस्त्वनंतरः ।। ३३ ।।
कृष्णसारस्तु विचरेन्मृगो यत्र स्वभावतः ।।
यज्ञियः स तु देशः स्यान्म्लेच्छदेशस्ततः परः ।। ३४ ।।
ब्रह्मादीनां च देवानां ब्राह्मणादेस्तथैव च ।।
भूतग्रामस्य कृत्स्नस्य त्रयं कृत्स्नस्य खेचर ।। ।। ३५ ।।
साधनत्वं मनुः प्राह वेदमूलं सनातनम् ।।
प्रकाशयज्ञसंसिद्ध्यै यदशब्दस्य एव तु ।। ३६ ।।
उपलभ्य यथातत्त्वं स च दर्शितवानृषिः ।।
सम्यक्संसाधनं धर्मः कर्तव्यस्त्वधिकारिणा ।। ३७ ।।
निष्कामेन सदा वीर काम्यं रूपान्वितेन च ।।
आचारयुक्तः श्रद्धालुर्वेदज्ञोऽध्यात्मचिंतकः ।।
कर्मणां फलमाप्नोति न्यायार्जितधनश्च यः ।। ३८ ।।
।। अरुण उवाच ।। ।।
ब्रह्मावर्तादिदेशानां समस्तानां विभावसो ।।
विभागं ब्रूहि देवेंद्र संमानय ग्रहाधिप ।। ३९ ।।
।। आदित्य उवाच ।। ।।
सरस्वतीदृषद्वत्योर्देवनद्योर्यदंतरम् ।।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ।। 1.181.४० ।।
हिमवद्विंध्यधरयोर्यदंतरमुदाहृतम् ।।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ।।
आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।। ४१ ।।
तयोरेवांतरं गिर्योरार्यावर्तं विदुर्बुधाः ।। आर्यावर्त
एतान्विज्ञाय सद्देशान्त्संश्रयेत प्रयत्नतः ।। ४२ ।।
शूद्रस्तु यस्मिंस्तस्मिन्वा निवसेद्वृत्तिकर्शितः ।।
एषा धर्मस्य वै ज्योतिः समासात्कथिता तव ।। ४३ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु अरुणादित्यसंवादे स्मृतिभेदवर्णनं नामैकाशीत्युत्तरशततमोऽध्यायः ।। १८१ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 182
विवाहविधिवर्णनम्
।। ।। आदित्य उवाच ।। ।।
उक्तं धर्मस्य रूपं तु साधिकारं सनातनम् ।।
अतः परं प्रवक्ष्यामि धर्ममाश्रमिणां खग ।। १ ।।
ब्रह्मचारी गृहस्थश्च वनस्थो भिक्षुरेव च ।।
चत्वार आश्रमाः प्रोक्ता एक एव चतुर्विधः ।। २ ।।
गायत्रो ब्रह्मचारी तु प्राजापत्यो द्वितीयकः ।।
देवव्रतस्तृतीयस्तु नैष्ठिकस्तु चतुर्थकः ।। ३ ।।
चत्वार आश्रमाः प्रोक्ताः सवेदाः समधर्मकाः ।।
अतः परं प्रवक्ष्यामि संस्कारं धर्मसिद्धये ।। ४ ।।
गर्भाधानमृतौ कार्यं हृष्टयोस्तु समन्त्रकम् ।।
कार्यं पुंसवनं मातुस्तृतीये मासि संयुतैः ।। ५ ।।
सीमन्तः सप्तमे गर्भे षष्ठे वा सप्तमेऽपि वा ।।
पात्रसंस्कारका इष्टा गर्भाधानादयस्त्रयः ।। ६ ।।
जातकर्मादयः सर्वे संस्काराः पुरुषस्य तु ।।
जातस्य प्राशनं यत्र स्वर्णा दीनां समन्त्रकम् ।। ७ ।।
जातकर्मेति तत्प्रोक्तं गुह्यं नाम तदैव तु ।।
प्रकाशो नाम कर्तव्यं दिने त्वेकादशेर्थवत् ।। ८ ।।
धर्मशास्त्रादिसंयुक्तं षष्ठेऽन्नप्राशनं खग ।।
प्रथमेऽब्दे तृतीये वा चूडाकर्म विधीयते ।। ९ ।।
अष्टमे दशमे वापि ब्राह्मणस्योपनायनम् ।।
पुरुषस्य तथा चान्यजातीयानां विशेषतः ।। 1.182.१० ।।
एकादशे द्वादशे वा कार्य क्षत्रियवैश्ययोः ।।
वेदसंस्कारकं वच्मि मन्यन्ते त्वौपनायनम् ।। ११ ।।
पुरुषस्य तथा चान्य उभयोश्च ब्रवीम्यहम् ।।
सावित्रं वैदिकं चैव महानाम्नीमहाव्रतम् ।। १२ ।।
तथौपनिषदं चाब्दं गोदानं च सुवर्णकम् ।।
व्रतानि ग्रहणार्थानि वेदस्येति मनोर्मतम् ।। १३ ।।
वेदैकदेशपाठस्य उक्तं गृह्ये प्रपञ्चकम् ।।
उक्ता गुरोस्तु शुश्रूषा दृष्टादृष्टार्थसाधनम् ।। १४ ।।
उभयोर्वा तथा चान्या यथान्यायं यथाश्रुतम् ।।
गुरोरप्येव तं विद्यात्तद्ध्यानं त्रिविधं स्मृतम् ।। १५ ।।
तोषः परस्परस्येति एतावान्धर्मसंग्रहः ।।
कृत्स्नो वेदोऽधिगंतव्यः स्वधर्ममनुतिष्ठता ।। १६ ।।
ज्ञात्वा वेदं ब्रह्मचारी ग्रंथार्थान्यान्यथाविधि ।।
नैष्ठिकश्च विधानं तु यावत्क्लीबं विधीयते ।।
विद्यान्तेऽभीष्टदानं च अनुज्ञातो गृही भवेत् ।। १७ ।।
निष्कासनं गुरुगृहाद्गृहस्थस्य यथाभवेत् ।।
नैष्ठिकश्च तथा स्नानं कुर्यात्सम्यग्यथाविधि ।। १८ ।।
उद्वहेद्वै ततो भार्यां सवर्णां लक्षणान्विताम् ।।
अविप्लुतब्रह्मचर्यश्चाधिकारी खगोत्तम ।। १९ ।।
स्वतन्त्रमन्ये चेच्छन्ति ह्यधिकारं द्विजोत्तमाः ।।
सप्तमीं पञ्चमीं चैव कन्यकां पितृमातृतः ।। 1.182.२० ।।
उद्वहेत द्विजो भार्यामसमानार्षगोत्रजाम् ।।
संख्याविधिविवाहेषु गोत्रार्थं विधिवर्जितम् ।। २१ ।।।
विकल्पेनैव मन्तव्यमृषीणां विविधा श्रुतिः ।।
अष्टौ विवाहा वर्णानां संस्काराख्या इति श्रुतिः ।। २२ ।।
यस्तु दोषवतीं कन्यामनाख्याय प्रय च्छति ।।
तस्य कुर्यान्नृपो दंडं स्वयं षण्णवतिं पणान् ।।२३।।
पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता ।।
पतंति पितरस्तस्य कन्या च वृषली भवेत् ।। २४ ।।
यस्तु तां वरयेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः ।।
अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिम् ।। २५ ।।
सर्वदोषान्हि विख्याप्य स्त्रिया वा पुरुषस्य वा ।।
उभयोरपि विख्याप्य ततः संबन्धमाचरेत् ।। २६ ।।
गौरी कन्या प्रधाना वै मध्यमा कन्यका स्मृता ।।
रोहिणी तत्समा ज्ञेया अधमा तु रजस्वला ।। २७ ।।
।। अनूरुरुवाच ।। ।।
गौरी तु का मता कन्या रोहिणी च जगत्पते ।।
रजस्वला नग्निका च देवकन्या च का भवेत् ।। २८ ।।
।। भास्कर उवाच ।। ।।
असंप्राप्तरजा गौरी प्राप्ते रजसि रोहिणी ।।
अव्यञ्जनयुता कन्या कुचहीना च नग्निका ।। २९ ।।
सप्तवर्षा भवेद्गौरी दशवर्षा तु नग्निका ।।
द्वादशे तु भवेत्कन्या अत ऊर्ध्वं रजस्वला ।। 1.182.३० ।।
व्यञ्जनेन समोपेतां सोमो भुङ्क्ते हि कन्यकाम् ।। तु. - ऋग्वेद १०.८५.४०
पयोधरेषु गंधर्वा रजस्यग्निः प्रकीर्तितः ।। ३१ ।।
हिनस्ति व्यञ्जनैः पुत्रान्कुलं हन्यात्पयोधरैः ।।
गतिमिष्टां तथा लोकान्हन्यात्तु रजसा पितुः ।। ३२ ।।
तस्मादव्यञ्जनोपेतामरजस्कपयोधराम् ।।
नान्योपभुक्तां सोमाद्यैर्दद्याद्दुहितरं पिता ।। ३३ ।।
अन्नं तस्य न भोक्तव्यं वृथा पाको हि स स्मृतः ।।
वृथा पाकस्य भुक्त्वान्नं प्रायश्चित्तं समाचरेत् ।।३४।।
प्राणायामं त्रिरभ्यस्य घृतं प्राश्य विशुद्ध्यति ।।
विवाहयेदेकगोत्रां समानप्रवरां खग ।।
कृत्वा तस्यां समुत्सर्गमतिकृच्छ्रो विशोधनम् ।। ३५ ।।
उद्वाहयेत्सगोत्रां च तनयां मातुलस्य च ।।
ऋषिभिश्चैव तुल्यो यो द्विजश्चांद्रायणं चरेत् ।। ३६ ।।
असपिण्डा तु या मातुरसगोत्रा च या पितुः ।।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ।। ३७ ।। ।।
।। अरुण उवाच ।। ।।
दारकर्म किमुक्तं वै यदुक्तं भवता इदम् ।।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ।। ३८ ।।
।। आदित्य उवाच ।। ।।
अग्निहोत्रादि यत्कर्म वैदिकं विनतात्मज ।।
तदुक्तं दारकर्मेति द्वाभ्यां योगात्तु मैथुने ।।३९।।
नोद्वहेत्कपिलां कन्यां नाधिकांगीं न रोगिणीम् ।।
नालोमिकां नातिलोमां न चाकूटां न पिङ्गलाम् ।।1.182.४०।।
ऋक्षवृक्षनदीनाम्नीं नान्यपर्वतनामिकाम् ।।
न यक्षाहिप्रेष्यनाम्नीं चातिभीषणनामिकाम्।।४१।।
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वै पिता ।।
नोपगच्छेद्धि तां प्राज्ञः पुत्रिकाधर्मशंकया ।।४२।।
हंसस्वरामेकवर्णां मधुपिंगललोचनाम् ।।
तादृशीं वरयेत्कन्यां गृहार्थी खगसत्तम ।। ४३ ।।
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ।।४४ ।।
परिवित्तिः परिवेत्ता च यया स परिविद्यते ।।
सर्वे ते नरकं यांति दातृयाजकपंचमाः ।। ४५ ।।
क्लीबे देशांतरस्थे वा पतिते व्रजिते तथा ।।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ।।४६।।
खंजवामनकुब्जेषु गद्गदेषु जडेषु च ।।
जात्यंधे बधिरे मूके न दोषः परिवेदने ।। ४७ ।।
न श्राद्धं तु कनिष्ठस्य विकुलाय च कन्यका ।।
वरश्च कुलशीलाभ्यां न शुद्ध्येत कदाचन ।।
न मंत्राः कारणं तत्र न च कन्या वृता भवेत् ।। ४८ ।।
उद्वाहिता तु याकन्या न च प्राप्ता तु मैथुनम् ।।
पुनरभ्येति भर्तारं यथा कन्या तथैव सा ।। ४९ ।।
समाक्षिप्य मतां कन्यां पिता त्वक्षतयोनिकाम् ।।
कुलशीलवते दद्यान्न स्याद्दोषः खगाधिप ।। 1.182.५० ।।
।। अनूरुरुवाच ।। ।।
एतेऽष्टौ प्रभवाः प्रोक्ता विवाहा ये जगत्पते ।।
लक्षणं ब्रूहि चैतेषां समासात्तिमिरापह ।। ५१ ।।
।। आदित्य उवाच ।। ।।
शुभां लक्षणसंपन्नां कुलशीलगुणान्विताम् ।।
अलंकृत्यार्हते दानं विवाहो ब्राह्म उच्यते ।। ५२ ।।
सह धर्मक्रियाहेतोर्दानं समयबंधनात् ।।
अलंकृत्यैव कन्यायाः प्राजापत्यः स उच्यते ।। ५३ ।।
प्रदानं यत्र कन्यायाः सहगोमिथुनेन तु ।।
सवर्णायाः सगोत्रायास्तमार्षमृषयो विदुः।। ५४ ।।
अंतर्वेद्यां समानीय कन्यां कनकमंडिताम् ।।
ऋत्विजे चैव यद्दानं विवाहो दैवसंज्ञकः ।। ५५ ।।
एते विवाहाश्चत्वारो धर्मकामार्थदायकाः ।।
अशुल्का ब्रह्मणा प्रोक्तास्तारयंति कुलद्वयम् ।। ५६ ।।
चतुर्ष्वेतेषु दत्तायामुत्पन्नो यः सुतः स्त्रियाम् ।।
दातुः प्रतिग्रहीतुश्च पुनात्यासप्तमान्पितॄन् ।। ५७ ।।
विविक्ते स्वयमन्योऽन्यं स्त्रीपुंसोर्यः समागमः ।।
प्रीतिहेतुः स गांधर्वो विवाहः पंचमो मतः ।।५८।।
हत्वा च्छित्त्वा च भित्त्वा च क्रोशंतीं रुदतीं गृहात्।।
प्रसह्य कन्याहरणं राक्षसोद्वाह उच्यते।।५९।।
शुल्कं प्रदाय कन्याया हरणं व्यसनादपि।।
प्रसाद हेतुरुक्तोयमासुरः सप्तमस्तथा ।। 1.182.६० ।।
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।।
स पापिष्ठो विवाहानां पैशाचश्चाष्टमोधमः ।। ६१ ।।
एतान्सशुल्कान्सामान्यान्विवाहांश्चतुरो विदुः ।।
केवलं क्षत्रियस्यैव वीर्यं छित्त्वा हि राक्षसः ।। ६२ ।।
प्राप्ते पूर्वविवाहे तु विधिर्वैवाहिकः शिवः ।।
कर्तव्यस्तु त्रिभिर्वर्णैः समयेनाग्निसाक्षिकः ।। ६३ ।।
दोषवत्याः प्रदाने तु दातुः षण्णवतिर्दमः ।।
स्यात्तु शुल्कप्रदाने च कन्यायाश्चापवर्जने ।।६४।।
मोक्षोपवर्तनं द्वेषः स्त्रीधनस्य निवर्तनम् ।।
आकांक्षा तीर्थसंरोधस्त्यागहेतुश्च वक्ष्यते ।। ६५ ।।
परस्परस्य संबंधान्मोक्षः स्त्रीपुंसयोः स्मृतः ।।
न स्यादन्यतरः प्रीतो रोषात्सांप्रतिकादपि ।। ६६ ।।
बाधते चेत्पतिर्भार्यां स तु द्वेष इति स्मृतः ।।
वृत्तिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत्।।६७।।
भोक्तृस्तु स्वयमेवेदं प्रतिज्ञाहननं भवेत् ।।
वृथा मोक्षेण भोगेन स्त्रियै दद्यात्सवृद्धिकम् ।।६८।।
आपत्तिसमये जाते स्त्रीधनं भोक्तुमर्हति ।।
आकांक्षेताष्टवर्षाणि भर्तापि प्रसवं स्त्रियाः ।। ६९ ।।
जायन्ते यदि नो पुत्रास्तस्यां यत्ने महत्यपि ।।
ततो विंदेत पुत्रार्थी धर्मतः कुलजां स्त्रियम्।। 1.182.७० ।।
पुत्रलाभात्परं लोके नास्ति हि प्रसवार्थिनः ।।
एतां शुल्कस्य तां भुक्त्वा अन्यां लब्धुं यदीच्छति ।।
समस्तास्तोषयित्वार्थैः सूर्योढां परमां वरेत्।।७१।।
एका शूद्रस्य वैश्यस्य द्वे तिस्रः क्षत्रियस्य तु।।
चतस्रो ब्राह्मणस्य स्युर्भार्या राज्ञो यथेष्टतः ।। ७२ ।।
अतीर्थगमनात्पुंसस्तीर्थे संगाहनात्स्त्रियाः ।।
उभयोर्धर्मलोपः स्यात्स्वेष्वेव तु विशेषतः ।। ७३ ।।
यौगपद्ये तु तीर्थानां विवाहक्रमशो व्रजेत् ।।
तत्साम्यं जीवपुत्रा वा ग्रहणक्रमशोपि वा।।७४।।
ब्राह्मादिभिर्विवाहैस्तु संस्कृतौ तौ खगाधिप ।।
अष्टौ विवाहा वर्णानां वैनतेय उशंति वै ।। ७५।।
ब्राह्मो दैवस्तथार्षश्च प्राजापत्यः खगा धिप ।।
गांधर्वश्चासुरो रक्षः पैशाचस्त्वष्टमोऽधमः ।। ७६ ।।
प्रशस्ताः क्षत्रियादीनां विप्रादीनां तु मानतः ।।
प्रतिग्रहादयो बद्धा विवाहा ब्राह्मणस्य तु ।।७७।।
क्षत्रियस्यापि देया तु प्रतिग्रहविवर्जिता ।।
प्रवृत्तिं केचिदिच्छंति दानमित्यपरे स्त्रियाः ।।
पावनं पुरुषाणां तु विवाहं परिचक्षते ।।७८।।
इति श्रीभविष्ये महापुराणे सप्तमीकल्पे ब्राह्मे पर्वणि सूर्यारुणसंवादे विवाहविधिवर्णनं नाम द्व्यशीत्युत्तरशततमोऽध्यायः ।। १८२ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 183
श्राद्धविधिकथावर्णनम्
भास्कर उवाच।।
कुर्यात्पंचमहायज्ञानधिकारो द्विजस्य सः।।
भूतपित्रमरब्रह्ममनुष्याणां यथाविधि।।१।।
सदा सदान कृत्यानां फलार्थमपरे स्थिताः।।
नित्यानित्य मिति प्राहुरनुषंगात्फलं परे ।।२।।
अतिथेः परितोषाय परिचर्या विधीयते ।।
अदृष्टनियमादृष्टमारोग्यान्तं च वर्जनम् ।।३।।
तिस्रोष्टकास्तु कर्तव्या मध्यावर्ती चतुर्थिका।।
शाकपायसपूपैस्तु मांसेन तु चतुर्थिका।।४।।
प्रतिपदि क्रियते यत्तु चतुष्पार्वणमुच्यते ।।
स्वगृह्योक्तविधानेन तत्तु पक्षादि कीर्त्यते।।५।।
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिंडनम्।।
पार्वणं चेति विज्ञेयं गोष्ठशुद्ध्यर्थमुत्तमम्।।
कर्मांगं नवमं प्रोक्तं वैदिकं दशमं स्मृतम् ।।६।। ।।
।। अनूरुरुवाच ।। ।।
यदेतद्भवता प्रोक्तं श्राद्धं द्वादशधा विभो ।।
तस्य सर्वस्य मा ब्रूहि लक्षणं वै पृथक्पृथक् ।। ७ ।।
नित्यं किमुच्यते श्राद्धं किं वा नैमित्तिकं भवेत् ।।
काम्यादि देवदेवेश एतेषां लक्षणं वद ।। ८ ।।
।। आदित्य उवाच ।। ।।
अहन्यहनि यच्छ्राद्धं तन्नित्यं खग कीर्तितम् ।।
वैश्वदेवविहीनं तु अशक्तावुदकेन तु ।। ९ ।।
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ।।
तत्सदैव प्रकर्तव्यमयुग्मान्भोजयेद्द्विजान् ।। 1.183.१० ।।
कामयुक्तं हि तत्काम्यमभिप्रेतार्थसिद्धये ।।
पार्वणेन विधानेन तदप्युक्तं खगाधिप ।। ११ ।।
वृद्धौ यत्क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते ।।
सर्वं प्रदक्षिणं कार्यं पूर्वाह्णे तूपवीतिना ।।१२।।
गंधोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्।।
अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रमोचयेत् ।।१३।।
ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिंडनम् ।।
नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि।।१४।।
दर्शे वै क्रियते यत्तु तत्पार्वणमुदाहृतम् ।।
पर्वणि क्रियते यच्च तत्पार्वणमिति स्थितिः ।।
गोभ्यश्च क्रियते श्राद्धं तद्गोष्ठश्राद्धमुच्यते ।। १५ ।।
बहूनां विदुषां संपत्सुखार्थं पितृतृप्तये ।।
क्रियते शुद्धये यद्वै ब्राह्मणानां च भोजनम् ।।
शुद्यर्थमिति तत्प्रोक्तं वैनतेय मनीषिभिः ।। १६ ।।
निषेककाले सोमे च सीमतोन्नयने तथा ।।
ज्ञेयं पुंसवनं श्राद्धं तच्च कर्मांगमेव च ।। ।। १७ ।।
क्रियते देवमुद्दिश्य सप्तम्यादिषु यत्नतः ।।
गच्छेद्देशांतरे यस्तु श्राद्धं कुर्यात्तु सर्पिषा ।।
तद्यत्नार्थमिति प्रोक्तं प्रदिशेच्च न संशयः ।।१८।।
शरीरोपचये श्राद्धमश्ववृद्ध्यर्थमेव च ।।
पुष्ट्यर्थमेतद्विज्ञेयमौपचारिकमुच्यते ।। १९ ।।
सर्वेषामेव श्राद्धानां श्रेष्ठं सांवत्सरं मतम् ।।
कियते यत्खगश्रेष्ठ मृतेहनि बुधैः सह ।। 1.183.२० ।।
मृतेऽहनि पुनर्यस्तु न कुर्याच्छ्राद्धमादरात् ।।
मातुश्च खगशार्दूल वत्सरांते मृतेऽहनि ।। २१ ।।
नाहं तस्य खगश्रेष्ठ पूजां गृह्णामि नो हरिः ।।
न ब्रह्मा न च वै रुद्रो न चान्ये देवतागणाः ।। २२ ।।
तस्माद्यत्नेन कर्तव्यं वर्षेवर्षे मृतेऽहनि ।।
नरेण खगशार्दूल भोजकेन विशेषतः ।। २३ ।।
भोजको यस्तु वै श्राद्धं न करोति खगाधिप ।।
मातापितृभ्यां सततं वर्षेवर्षे मृतेऽहनि ।।।२७।
स याति नरकं घोरं तामिस्रं नाम नामतः ।।
ततो भवति दुष्टात्मा नगरे सूकरः खग ।। २५ ।।
अनूरुरुवाच ।। ।।
न जानाति दिनं यस्तु न मासं विबुधाधिप ।।
मृतौ यत्र महाप्राज्ञ पितरौ स कथं नरः ।।
श्राद्धं करोतु वै ताभ्यां विधिवद्वत्सरात्मकम् ।। २६ ।।
।। आदित्य उवाच ।। ।।
न जानाति नरो यस्तु मृतानां विनतात्मज ।।
मासं दिनं मृतानां तु पितॄणां खगसत्तम ।। २७ ।।
यथा कुर्यात्खगश्रेष्ठ शृणु कृत्स्नं समासतः ।।
मृताहं यो न जानाति मानवो विनतात्मज ।। २८ ।।
तेन कार्यममायां च श्राद्धं सांवत्सरं खग ।।
मासे मार्गशिरे वीर माघे वा विधिवत्खग ।। ।। २९ ।।
विशेषतो भोजनेन यो मां पूज्यते सदा ।।
प्रीतये मम वै तेन संपूज्याः पितरः सदा ।। 1.183.३० ।।
ममेष्टाः पितरो नित्यं गावो विप्राश्च सुव्रत ।।
तस्माच्च ते सदा पूज्या मद्भक्तेन विशेषतः ।। ३१ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे श्राद्धविधिकथनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ।।१८३।। ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 184
ब्राह्मणधर्मविधिवर्णनम्
प्रख्याते प्रत्ययेनैव प्रश्नपूर्वं प्रतिग्रहः ।।
यजनेऽध्यापने वादे षड्विधो वेदविक्रयः ।। १ ।।
वेद विक्रयनिर्दिष्टं स्त्रिया चावर्जितं धनम् ।।
न देयं पितृदेवेभ्यो यच्च क्लीबात्खगाधिप ।। २ ।।
अनुयोगेन यो दद्याद्ब्राह्मणाय प्रतिग्रहम् ।।
स पूर्वं नरकं याति ब्राह्मणास्तदनंतरम् ।। ३ ।।
वेदाक्षराणि यावंति नियुज्यन्तेर्थकारणात् ।।
तावत्यो भ्रूणहत्या वै वेदविक्रयमाप्नुयात् ।। ४ ।।
वैश्वदेवेन यो हीन आदित्यस्य च कर्मणः ।।
सर्वे ते वृषला ज्ञेयाः प्राप्तवेदाश्च ब्राह्मणाः ।।५।।
येषामध्ययनं नास्ति ये च केचिदनग्नयः।।
कुलं वाऽश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ।। ६ ।।
अकृत्वा वैश्वदेवं तु यो भुङ्क्ते सोऽबुधः खग ।।
वृथा तेनान्नपाकेन यमयोनिं व्रजेत्तु सः ।। ७ ।।
प्रियो वा यदि वा द्वेष्यो मूर्खः पंडित एव च ।।
वैश्वदेवे तु संप्राप्ते सोऽतिथिः स्वर्गसंक्रमः ।। ८ ।।
नैकग्रामीणमतिथिं विप्रसांगतिकं तथा ।।
अचिंत्योभ्यागतो यस्मात्तस्मादतिथिरुच्यते ।। ९ ।।
अचिंत्यः स तु वै नाम्ना वैश्वदेव उपागतः ।।
अतिथिं तं विजानीयान्न पुनः पूर्वमागतः ।। 1.184.१० ।।
यावच्च प्राप्नुयादन्नं कृताशीः स्नातको द्विजः ।।
तस्यान्नस्य चतुर्भागं हंतकारं विदुः खग।।११।।
ग्रासमात्रा भवेद्भिक्षा चतुष्कालं चतुर्गुणम् ।।
पुष्कलानि च चत्वारि हंतकारो विधीयते ।। १२ ।।
आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।।
चांद्रायणं चरेन्मासमिति विद्धि खगाधिप ।। १३ ।।
आरूढपतितापत्या ब्राह्मणो वृषलेन च ।।
द्वावेतौ विद्धि चांडालौ वेदित्राद्यश्च जायते ।। १४ ।।
ब्राह्मणी कुलटा नित्यं स्वकं त्यक्त्वा पतिं खग ।।
अन्यस्य विशते गेहे ब्राह्मणस्य खगाधिप।।१५।।
उत्पद्यते तु यस्तस्या ब्राह्मणेन महामते ।।
स चांडालो महान्प्रोक्तो महाचांडाल इत्युत।।१६।।
यस्तु प्रव्रजितो भूत्वा पुनः सेवति मैथुनम्।।
षष्टिवर्षसहस्राणि विष्ठायां जायते क्रिमिः ।।
पंचगव्येन शुद्धिः स्यादित्याह मम देहकृत्।।१७।।
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमंत्रितम् ।।
तथैव वृषलस्यान्नं ब्राह्मणेन निमंत्रितम् ।।१८।।
ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् ।।
उभावेतावभोज्यान्नौ भुक्त्वा चांद्रायणं चरेत् ।।१९।।
उपनिक्षेपधर्मेण शूद्रान्नं च पचेद्द्विजः ।।
अभोज्यं तद्भवेदन्नं स च विप्रः पुरोहितः ।।1.184.२०।।
शूद्रान्नं शूद्रसंपर्कं शूद्रेण सह वासनम् ।।
शूद्राज्ज्ञानागमः कश्चिज्वलंतमपि पातयेत् ।।२१।।
शूद्रान्नोपहता विप्रा विह्वला रतिलालसाः ।।
कुपिताः किं करिष्यंति निर्विषा इव पन्नगाः ।। २२ ।।
हस्तदत्तास्तु ये स्नेहाल्लवणव्यंजनादयः ।।
दातारं नाधितिष्ठंति भोक्ता भुंक्ते तु किल्बिषम् ।। २३ ।।
आयसेन तु पात्रेण यदन्नमुपदीयते ।।
भोक्ता विष्ठाशनं भुंक्ते दाता तु नरकं व्रजेत् ।। २४ ।।
अंगुल्या दंतकाष्ठं यत्प्रत्यक्षलवणं च यत् ।।
मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणैः ।। २५ ।।
मुखे पर्युषिते नित्यं भवत्यप्रयतो द्विजः ।।
तस्माच्छुष्कमथार्द्रं वा भक्षयेद्दंतधावनम् ।। २६ ।।
पुष्पालंकारवस्त्राणि गंध माल्यानुलेपनम्।।
उपवासे न दुष्यंति दंतधावनमंजनम् ।।२७।।
गृहांते वसते मूर्खो दूरे चास्य गुणान्वितः ।।
गुणन्विते च दातव्यं नास्ति मूर्खव्य तिक्रमः ।। २८ ।।
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ।।
ज्वलंतमग्निमुत्सृज्य न हि भस्मनि हूयते ।। २९ ।।
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत्।।
भोजनेनैव दानेन दहत्यासप्तमं कुलम् ।। 1.184.३० ।।
।। अनूरुरुवाच ।। ।।
एवमेव जगन्नाथ देवदेव जगत्पते ।।
किं तु यत्ते पुरा देव श्रुतं वाक्यं महात्मनः ।। ३१ ।।
गदतो नारदस्यैव शृणु त्वं विबुधाधिप ।।
गदतो मे सुरश्रेष्ठ धर्म्यमर्थं सुखावहम् ।। ३२ ।।
सत्यनिष्ठं द्विजं यस्तु शुक्लजातिं प्रियंवदम् ।।
मूर्खं पाखंडिनं वापि वृत्तिहीनमथापि वा ।। ३३ ।।
अतिक्रम्य नरो घोरं नरकं पातयेत्खग।।
सप्त परान्सप्त पूर्वान्पुरुषानात्मना सह ।। ३४ ।।
तस्मान्नातिक्रमेद्राजा ब्राह्मणं प्रातिवेशिकम् ।।
संबन्धतस्तथासन्नं दौहित्रं विद्यते तथा ।। ३५ ।।
भागिनेयं विशेषेण तथा बंधुं ग्रहाधिप ।।
नातिक्रमेन्नरस्त्वेतान्सुमूर्खानपि गोपते ।।
अतिक्रम्य महद्रौद्रं रौरवं नरकं व्रजेत् ।। ३६ ।।
।। आदित्य उवाच ।। ।।
एवमेतन्न संदेहो यथा वदसि खेचर ।।
ममाप्यवगतं वीर ब्राह्मणं न परीक्षयेत् ।। ३७ ।।
सर्वदेवमयं विप्रं सर्वलोकमयं तथा ।।
तस्मात्संपूजयेदेनं न गुणांस्तस्य चिंतयेत् ।। ३८ ।।
केवलं चिंतयेज्जातिं न गुणान्विनतात्मज ।।
तस्मादामंत्रयेत्पूर्वमासन्नं ब्राह्मणं बुधः ।। ३९ ।।
यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते ।।
दूरस्थान्पूजयेन्मूढो गुणाढ्यान्नरकं व्रजेत् ।। 1.184.४० ।।
देवकर्मविनाशेन ब्रह्मस्वहरणेन च ।।
देवद्रव्यं द्विजान्नं च ब्रह्मस्वं ब्राह्मणार्जितम् ।।
वियोन्यां क्षिपते यस्तु वियोनिमधिगच्छति ।। ४१ ।।
मा ददस्वेति यो ब्रूयाद्गवाग्निब्राह्मणेषु वै ।।
तिर्यग्योनिशतं गत्वा चांडा लेष्वभिजायते ।। ४२ ।।
यत्तु वाचा प्रतिज्ञातं कर्मणा नोपपादितम् ।।
तदृणं धर्मसंयुक्तमिह लोके परत्र च ।। ४३ ।।
वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते ।।
क्रीडंत्योषधयः सर्वा यास्यामः परमां गतिम् ।। ४४ ।।
मधु मांसं सुरां सोमं लाक्षाद्यं लवणं तथा ।।
विक्रीयान्यतमं तेषां द्विजश्चांद्रायणं चरेत् ।। ४५ ।।
गुडं तिलं तथा नीलं केशान्गोधूमकान्यवान् ।।
विक्रीय ब्राह्मणो गां च कृच्छ्रं सांतपनं चरेत् ।। ४६ ।।
औष्ट्रमाविकदुग्धं च अन्नं मृतकसूतके ।।
चौरस्यान्नं मृतश्राद्धे भुक्त्वा चांद्रायणं चरेत् ।। ४७ ।।
गवां शृंगोदके स्नातो महानद्याश्च संगमे ।।
समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् ।। ४८ ।।
वेदविद्याव्रतस्नातः शुना दष्टो द्विजः खग ।।
हिरण्योदकमिश्रं तु घृतं प्राश्य विशुद्ध्यति ।। ४९ ।।
तिष्ठन्वाप्यथ वा गच्छञ्छुना दष्टो द्विजः खग ।।
वज्रं प्राश्य शुचिः स्याद्वै यथाह भगवान्मनुः ।। 1.184.५० ।।
व्रतिनश्चापि दष्टस्य त्रिरात्रं क्षपणं स्मृतम् ।।
सघृतं च ततो भुक्त्वा व्रतशेषं समाचरेत् ।। ५१ ।।
ब्राह्मणी तु शुना दष्टा सोमे दृष्टं समाचरेत् ।।
यदा न दृश्यते सोमः प्रायश्चित्तं कथं भवेत् ।। ५२ ।।
यां दिशं व्रजते सोमस्तां दिशं चावलोकयेत् ।।
सोममार्गेण सा पूर्वा पञ्चपूतेन शुध्यति ।। ५३। ।।
ब्राह्मणस्य ब्रह्मद्वारे पूय शोणितसंभवे ।।
क्रिमिभिर्दश्यते यश्च निष्कृतिं तस्य वच्मि ते ।। ५४ ।।
गवां तत्र पुरीषेण त्रिकालं स्नानमाचरेत् ।।
दधि क्षीरं घृतं पीत्वा कृमिदष्टो विशुध्यति ।। ५५ ।।
अथ नाभ्याः प्रदष्टस्य आपादाद्विनतात्मज ।।
एतद्विनिर्दिशेत्प्राज्ञः प्रायश्चित्तं खगाधिप ।। ५६ ।।
नाभिकण्ठांतरे वीर यदा चोत्पद्यते कृमिः ।।
षड्रात्रं तु तदा प्रोक्तं प्रायश्चित्तं मनीषिभिः ।। ५७ ।।
यदा दशंति शिरसि कृमयो विनतात्मज ।।
कृच्छ्रं तदा चरेत्प्राज्ञः शुद्धये कश्यपात्मज ।। ५८ ।।
मृतान्नं मधु मांसं च यस्तु भुञ्जीत ब्राह्मणः ।।
स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ।। ५९ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पेऽनूर्वादित्यसंवादे ब्राह्मणधर्मवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः ।। १८४ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 185
मातृश्राद्धविधिवर्णनम्
।। ।। आदित्य उवाच ।। ।।
रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।।
सन्ध्ययोरुभयोर्वीर सूर्ये चैव तिरोहिते ।।१।।
अकृत्वा मातृयज्ञं तु यः श्राद्धं परिवेषयेत् ।।
तातस्य क्रोधसंयुक्तां हिंसामिच्छंति दारुणाम् ।।२।।
।। अनूरुरुवाच ।। ।।
मातृश्राद्धं कथं कार्यं काश्च ता मातरः स्मृताः।।
नांदीमुखाश्च पितरः कथं पूजामवाप्नुयुः ।। ३ ।।
।। आदित्य उवाच ।। ।।
हन्त ते सम्प्रवक्ष्यामि मातृश्राद्धविधिं खग ।।
शृणु त्वं खगशार्दूल गदतो मम कृत्स्नशः ।।४।।
पूर्वाह्णे भोजयेद्विप्रानष्टौ सर्वान्प्रदक्षिणान् ।।
तथान्यं नवमं विप्रं चतुरश्च खगाधिप ।। ५ ।।
ऋजून्वै कृतपान्दत्त्वा सत्येन विधिवत्खग ।।
कृत्वा यवैस्तिलार्थं तु दधिमिश्रं क्रमेण च ।।६।।
गन्धपुष्पादिकं सर्वं कुर्याद्विप्रप्रदक्षिणम् ।।
ब्राह्मणेभ्यस्ततो दद्यान्मधुरं भोजनं खग ।। ७ ।।
गुडमिश्रं खगश्रेष्ठ सवस्त्रमोदनं परम् ।।
रसानां मोदकांश्चैव न च तान्कटुकांस्तथा ।। ८ ।।
एवं भुक्तेषु विप्रेषु दद्यात्पिंडा न्समाहितः ।।
दध्यक्षतविमिश्रांस्तु बदरैश्च खगाधिप ।। ९ ।।
कृत्वा तु मंडपं वीर चतुरस्रं प्रदक्षिणम् ।।
पूर्वाग्रांश्च कुशान्दत्त्वा पुष्पाणां प्रकरं तथा ।। 1.185.१० ।।
सव्येन पाणिना वीर विधिवत्खगसत्तम ।।
मात्रे प्रमात्रे तन्मात्रे निर्वपेत्पूर्वतोमुखः ।। ११ ।।
पितुर्मात्रे तु तन्मात्रे निर्वपेद्विधिव त्खग ।।
वृद्धायै प्रपितामह्यै तथान्यं निर्वपेद्बुधः ।। १२ ।।
एवमुद्दिश्य वै मातॄः षट् पिंडान्निर्वपेत्खग ।।
अष्टाशयेद्द्विजान्वीर मातृश्राद्धे खगा धिप ।।
नवमं सर्वदैवत्यं भोजयेद्विधिवत्खग ।। १३ ।।
नांदीमुखांस्तानुद्दिश्य पितॄन्पंच द्विजोत्तमान् ।।
भोजयेद्विधिच्छ्राद्धे वृद्धिश्राद्धे प्रदक्षिणम् ।। १४ ।।
इत्थं श्राद्धद्वयं कुयाद्वृद्धौ कश्यपनंदन ।।
तथान्यमपि ते वच्मि परं श्राद्धविधिं तव ।। १५ ।।
अथैवं भोजयेच्छ्राद्धे तत्पूर्वं तु प्रवर्तयेत्।।
अन्यथा तत्र लुंपंति सदेवासुरमानुषाः ।।१६।।
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्।।
यो ह्यग्निः स द्विजो वीन्द मंत्रदर्शिभिरुच्यते।। ।। १७ ।।
पूर्व पात्रे यदन्नं च यच्चान्नमुपकल्पितम् ।।
तेनैव सह भोक्तव्यं पृथग्भावो न विद्यते ।।१८।।
द्वौ दैवेऽथर्वणौ विप्रौ प्राङ्मुखावुपवेशयेत्।।
पित्र्ये त्रीनुदगास्यांश्च वृद्धौ चाध्वर्युसंगमान् ।। १९ ।।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतुपास्तिलाः ।।
त्रीणि चात्र प्रशंसंति शौचमक्रोधमत्वरम् ।। 1.185.२० ।।
दौहित्रं खंडमित्युक्तं ललाटाय प्रजापते ।।
तत्र शृंगस्य यत्पात्रं तद्दौहित्रमिति स्मृतम् ।। २१ ।।
सव्यादंसात्परिभ्रष्टं नाभिदेशे व्यवस्थितम् ।।
एकवस्त्रं तु तं विद्याद्दैवे पित्र्ये च वर्जयेत् ।। २२ ।।
पितृदेवमनुष्याणां पूजनं भोजनं तथा ।।
नोत्तरीयं विना कार्यं कृतं स्यान्निष्फलं यतः ।। २३ ।।
परिधानकृते स्कंधे गृहस्थो योऽर्चयेत्पितॄन् ।।
न स तत्फलमाप्नोति यथा योगपटावृतः ।। २४ ।।
वनस्थानां खगश्रेष्ठ यतीनां च महामते ।।
सिद्धये कर्मणां वीर योगपट्टकमुच्यते ।। २५ ।।
हस्तौ प्रक्षाल्य गंडूषं यः पिबेदविचक्षणः ।।
स तु दैवं च पित्र्यं च आत्मानं चोपघा तयेत् ।। २६ ।।
भोजनेष्वेव तिष्ठंति स्वस्ति कुर्वंति ये द्विजाः ।।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ।। २७ ।।
दातारो नोभिवर्धंता वेदाः संत तिरेव च।।
श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्त्विति ।।२८।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे अरुणादित्य संवादे मातृश्राद्धविधिवर्णनं नाम पंचाशीत्युत्तरशततमोऽध्यायः ।। १८५ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 186
शुद्धिप्रकरणवर्णनम्
भास्कर उवाच ।। ।।
श्रावण्यां तु बलिः कार्यः सर्पाणां मंत्रपूर्वकः ।।
शयनारोहणे चैव कार्ये सुखमभीप्सता ।। १ ।।
कार्यः प्रत्यवरोहस्तु मार्गशीर्ष्यां न संशयः ।।
फलं विना त्वनुष्ठानं नित्यानामिष्यते स्फुटम् ।। २ ।।
काम्यानां सफलार्थं तु दोषप्राप्त्यर्थमेव च ।।
नैमित्तिकानां करणं त्रिविधं कर्मणां फलम् ।। ३ ।।
फलं केचिदुपात्तस्य दुरितस्य प्रचक्षते ।।
अनुत्पत्तिं तथा चान्ये प्रत्येत्याभ्युपमंत्र्य च ।। ४ ।।
नित्यक्रियं तथा चान्ये अनुषंगात्फलं श्रुतिः ।।
अग्न्याधेयं तथा दर्शं पौर्णमासं द्वितीयकम्।।५।।
चातुर्मास्यमग्निहोत्रं पशुबंधो निरूढकाः ।।
सौत्रामणी संस्थाः स्युर्हविषः श्रुतिनोदिताः ।। ६ ।।
अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः संषोडशी तथा ।।
वाजपेयातिरात्रश्च आप्योर्यामः श्रुतौ श्रुतः ।।७।।
दया स्यात्सर्वभूतेषु अनसूयाथ मंगलम् ।।
क्षांतिर्दया त्वनायासः शौचमस्पृहता व्रतम् ।। ८ ।।
सम्यगुक्तास्तु संस्कारा ब्रह्मप्राप्तिनिमित्तकाः ।।
अनंतरं प्रवक्ष्यामि विप्राणां वृत्तयः शुभाः ।। ९ ।।
ऋतामृते च विप्राणामृतं प्रमृतमेव च ।।
प्रतिग्रहवणिज्यादि श्रेयसी नोत्तरोत्तरा ।। 1.186.१० ।।
आजीविकावृत्तयस्तु इत्याद्याः संप्रवर्तिताः ।।
तासां कयापि जीवेत्तु अनुतिष्ठेद्यथाविधि ।। ११ ।।
नित्यं शुचिः सुगंधश्च स्नानशीलः प्रियंवदः ।।
पूज्यश्च पूजयेद्देवान्कार्याणि स्वयमाचरेत् ।। १२ ।।
नेक्षेतार्कं न नग्नां स्त्रीं न च संस्पृष्ट मैथुनम् ।।
नाप्सु मूत्रं पुरीषं वा नाशुची रात्रितारकाः ।। १३ ।।
शास्त्रोक्ता यंत्रणा या तु नानुक्तानि व्रतानि च ।।
स्वर्गार्थं साधयेत्तैश्च शक्तिमान्मनसा तथा ।।१४।।
नित्यानि केचिदिच्छंति काम्यानि च तथापरे ।।
काम्याप्रवृत्तौ संगे च प्रायश्चित्तं विधीयते ।।१५।।
व्रतानि मनसा त्विष्टसंकल्प इति मानसः ।।
अंतरानुफलं यत्तदृषिवादाः प्रकीर्तिताः ।।१६।।
अनध्यायं स्वयं सम्यग्वर्जयेत्फलसाधनम् ।।
आत्मा शुद्धस्तथा देशो ह्यसुहारः प्रजापदः ।। १७ ।।
अशुभानि निमित्तानि उत्पातो विकृतं तथा ।।
पर्वाणि मनसोऽशुद्धिरनध्याय इति स्मृतः ।।१८।।
अनध्यायाश्च दृष्टार्था अदृष्टार्थास्तथापरे ।।
वेदाध्ययनमेवेति त्रिधा मद्ध्यानदर्शनम् ।।१९।।
अभक्ष्यं सर्ववर्णानां शावाशौचं खगाधिप ।।
द्रव्यशुद्धिस्तथैव स्यादन्यथा त्वसमंजसम् ।।1.186.२०।।
जातिदुष्टं क्रियादुष्टं कालदुष्टं विभूषितम्।।
संसर्गाश्रयदुष्टं च सहृल्लेखं स्वभावतः ।।२१।।
लशुनं गृंजनं चैव पलांडुं कवकानि च ।।
वार्ताकं नालिकेरं तु मूलकं जातिदुष्टकम्।।२२।।
नो भुञ्जीत क्रियादुष्टं दुष्टं च पतितैः पृथक्।।
कालदुष्टं तु विज्ञेयं हानिदं चिरसंस्थितम् ।।२३।।
दधिभक्ष्यविकाराश्च मधुवर्ज्यास्तदिष्यते ।।२४।।
सुरालशुनसंस्पृष्टं पेयूषादिसमन्वितम् ।।
संसर्गदुष्टमेतद्धि शुनोच्छिष्टं खगेश्वर।।२५।।
शूद्रसक्तं खंडसक्तं ज्ञेयमाश्रयदूषितम्।।
विचिकित्सा तु हृदये भक्ष्ये यस्मिन्त्सुजायते।।२६।।
सहृल्लेखं तु तज्ज्ञेयं पुरीषं तु स्वभावतः ।।
रसदुष्टे विकारोऽपि रसस्येति प्रदर्शितः।।२७।।
पायसं क्षीरपाकादि तस्मिन्नेव दिने तथा।।
यथाशास्त्रं खगश्रेष्ठ भक्ष्याभक्ष्ये निरूपयेत्।।२८।।
प्राणात्यये प्रोक्षितं च श्राद्धे च द्विजकाम्यया ।।
पितॄन्देवांश्चार्पयित्वा भुंजन्मांसं न दोषभाक्।।२९।।
प्रेताशुद्धिः सपिंडानां तस्मिन्नेव मृते सति।।
दशाहं द्वादशाहं वा पक्षं मासं त्वशुद्धता ।। 1.186.३० ।।
दशाहादित्रिके भागे वर्णशो न भवंति हि ।।
दशाहेन तु भोज्याः स्युः सूतकाशौचयोस्तथा ।। ३१।।
ऊर्ध्वं दशाहादेकाहश्रवणे सति जायते ।।
संवत्सरे व्यतीते तु स्नानादेव विशुध्यति ।। ३२ ।।
समानोदकता प्रोक्ता जन्मनाम्नोरपर्यये ।।
सपिंडाः सप्तपुरुषाः श्रुतावेतन्निदर्शनम् ।। ३३ ।।
आ दंतजन्मनः सद्य आचूडान्नैष्ठिकी स्मृता ।।
त्रिरात्रमाव्रतादेशात्सपिंडेषु मृतेषु च ।। ३४ ।।
तेषामपि तदेकं स्याद्वयोवस्थाप्यपेक्ष्यते ।।
समानोदकात्त्रिरात्रेण शुध्येद्वै मृत्युजन्मनोः ।। ३५ ।।
गर्भस्रावे त्रिरात्रेण उदक्या शुध्यते तथा ।।
अनंतजन्म मरणे तच्छेषेण विशुध्यति ।। ३६ ।।
द्विजानां त्वेवमेव स्यात्पित्रर्थं मातुरेव वा ।।
अग्निहोत्रार्थं विज्ञेयं सद्यः शौचमिति स्थितिः ।।३७।।
असपिंडे तु निर्हारात्त्रिरात्रमपि मानवः ।।
तस्यैवानुगतौ ज्ञेयं सद्यः शौचं खगाधिप ।। ३८ ।।
शुध्येद्द्विजो दशाहेन जन्महानौ द्वियोनिषु ।।
षङ्भिस्त्रिभिरहै केन क्षत्रविट्शूद्रयोनिषु ।। ३९ ।।
उक्तशौचं यथान्यायं शारीरं तत्त्वदर्शिभिः ।।
द्रव्यशुद्धिविधानं तु यथावदभिधीयते ।। 1.186.४० ।।
तैजसी मार्तिकी वीर वारिशुद्धिः स्मृता तथा ।।
निर्लेपक्षालनेनैव स्पर्शे तु प्रोक्षणेन वै ।। ४१ ।।
अशुद्धं नैव किंचिद्धि द्रव्यमस्तीति खेचर ।।
वचनाच्छुद्ध्यशुद्धी तु द्रव्याणामिह खेचर ।। ४२ ।।
स्नानं शौचं च कर्तव्यं द्रव्यशौचादनंतरम् ।।
प्रातःस्नानं तु नित्यं स्याद्ग्रहणे काम्यमेव च ।। ४३ ।।
नैमित्तिकं क्षुराशौचं तेन पापाद्विशुध्यति ।।
उक्तं तु शौचं विज्ञेयं दोषक्षयकरं खग ।। ४४ ।।
कर्मांगं चेति विज्ञेयं षट्प्रकारा समासतः ।।
एवमाचमनं विद्याद्विशिष्टं तु द्विजन्मनाम् ।।४५।।
तदा मृतानां तद्वत्स्यादन्येषां तु यथासुखम् ।।
कन्यानिवृत्तिं पुत्रैस्तु यथान्यायं समाचरेत्।। ४६ ।।
कलाशिल्पानिसर्वाणि गृह्रीयात्परितुष्टये ।। ४७ ।।
शुश्रूषेत पतिं भार्या परितोषं यथा व्रजेत् ।।
गुरूणां परितोषश्च धर्मः स्त्रीणां सनातनः।।४८।।
वृद्धाऽपुत्रा यदि मृता तदभावे नृपस्य तु ।।
मृतापत्याप्यगर्भा च वृद्धापत्या पतिव्रता ।। ४९ ।।
कुर्यादनिर्वृतं भर्तुर्गते सन्निहितेपि वा ।।
एतां धर्म समां निष्ठां भर्तृलोकमवाप्नुयात् ।।1.186.५०।।
स्त्री धर्मचारिणी साध्वी मृता दाह्या तथाग्निभिः ।।
विपरीताददाह्या तु पुनर्दारक्रिया तथा ।।५१।।
स्त्रीणां नियोगो विहितो मरणाद्ब्रह्मचारकम् ।।
प्राप्तव्यश्च यथाधर्मो दृष्टादृष्टफलप्रदः ।। ५२ ।।
तस्माद्धर्मं सदा कुर्यात्कुर्वती स्वर्गमाप्नुयात् ।। ५३ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु शुद्धिप्रकरणवर्णनं नाम षडशीत्युत्तरशततमोऽध्यायः ।। १८६ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 187
सौरधर्मे धेनुमाहात्म्यवर्णनम्
।। अनूरुरुवाच ।। ।।
कानि पुण्यानि कृत्वेह स्वर्गं गच्छंति मानवाः ।।
मनुष्यलोके संभूताः स्वर्लोके गामिनः परम् ।।१।।
कर्मयज्ञस्तपोयज्ञः स्वाध्यायो ध्याननिर्मितः ।।
ज्ञानयज्ञश्च पंचैते महायज्ञाः प्रकीर्तिताः ।। २ ।।
एतेषामेव यज्ञानामुत्तमः कतमः स्मृतः ।।
एतद्यज्ञफलानां च किं फलं का गतिर्भवेत् ।।३।।
धर्माधर्मप्रभेदाश्च कियन्तः परिकीर्तिताः ।।
तत्साधनानि कतिधा गतयश्च यथा वद ।।४।।
खग नारकिणां पुंसामागतानां पुनः क्षितौ ।।
कानि चिह्नानि जायन्ते मुक्तशेषेण कर्मणा ।। ५ ।।
महाभवार्णवाद्घोराद्धर्माधर्माभिसंकुलात् ।।
गर्भादिदुःखफेनाढ्यान्मुच्यंते देहिनः कथम् ।। ।। ६ ।।
इत्युक्तो भगवान्भानुः सर्वप्रश्नार्थमादरात् ।। ७ ।।
प्रत्युवाच महातेजाः समासव्यासयोगतः ।। ७ ।।
।। आदित्य उवाच ।। ।।
स्वर्गापवर्गफलदं नरकार्णवतारणम् ।।
धर्मं पापहरं पुण्यं शृणु शूर प्रभाषतः ।। ८ ।।
श्रद्धापूर्वः सदा धर्मः श्रद्धामध्यांतसंस्थितः ।।
श्रद्धानिष्ठप्रतिष्ठश्च धर्मः श्रद्धा प्रकीर्तिता ।। ९ ।।
श्रुतिमंत्ररसाः सूक्ष्माः प्रधानपुरुषेश्वरः ।।
श्रद्धामात्रेण गृह्यंते न परेण च चक्षुषा ।। 1.187.१० ।।
कायक्लेशैर्न बहुभिर्न चैवार्थस्य राशिभिः ।।
धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ।। ११ ।।
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा यज्ञाहुतं तपः।।
श्रद्धा मोक्षश्च स्वर्गश्च श्रद्धा सर्वमिदं जगत् ।। १२ ।।
सर्वस्वं जीवितं वापि दद्यादश्रद्धया च यः ।।
नाप्नुयात्स फलं किंचित्तस्माच्छ्रद्धापरो भवेत् ।।।१३ ।।
एवं श्रद्धामयाः सर्वे मम धर्माः प्रकीर्तिताः ।।
पूज्यस्तु श्रद्धया पुंसा ध्येयः पूज्यश्च श्रद्धया ।। १४ ।।
अधिकारस्य प्राप्त्यर्थं महासारविमुक्तिदम् ।।
अज्ञादुक्तं ससंदिग्धं वाक्यमेतन्ममाद्भुतम् ।। १५ ।।
नानासिद्धिकरं दिव्यं लोकचित्तानुरंजनम् ।।
सुनिश्चितार्थगंभीरं वाक्यं मम मनोरमम् ।। १६ ।।
मन्मानससमुद्रो हि द्विपदोयं विदुर्बुधाः ।।
स खषोल्केति विख्यातः सशिवं मंडलं खग ।। १७ ।।
देवत्रयगुणातीतः सर्वज्ञः सर्ववित्प्रभुः ।।
ओमित्येकाक्षरे मंत्रे स्थितः स परमो मम ।।१८।।
यथानादिप्रवृत्तोयं घोरः संसारसागरः ।।
खषोल्कोपि तथानादिः संसारार्णवशोधनः ।।१९।।
व्याधीनां भेषजं यद्वत्प्र तिपक्षस्वभावतः ।।
मोक्षिणां मुक्तिहेतुश्च सिद्धः सर्वार्थसाधकः ।। 1.187.२० ।।
ममाभिधानमन्त्रोयमभिधेयः सदा स्मृतः ।।
अभिधानाभिधेयोहं मन्त्रसिद्धोऽस्मि खेचर ।। २१ ।।
वेदो मनोगमे चात्र षडक्षरमंत्रस्थितः ।।
यद्वा मुक्तोऽक्षरैकेन लोके पञ्चाक्षरः स्मृतः ।। २२ ।।
किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्तरैः ।।
यस्यों नमः खषोल्केति मन्त्रोऽयं हृदि संस्थितः ।। २३ ।।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।।
येनों नमः खषोल्केति मम वाक्यं षडक्षरम् ।। २४ ।।
विधिवाक्यमिदं सर्वं नार्थवादं वचो मम ।।
एतत्ते वक्ष्यतेऽशेषं मम वाक्यार्थमुत्तमम् ।।
पृच्छस्वेमं प्रणम्याशु वैनतेय महामते ।। २५ ।।
।। सुमन्तुरुवाच ।। ।।
श्रुत्वा तु वचनं भानोर्वैनतेयो महाबलः ।।
सप्ताश्वतिलकं भक्त्या प्रणम्योवाच भारत ।। २६ ।।
।। अनूरुरुवाच ।। ।।
ब्रूहि मां देवशार्दूल यत्पृच्छामि महामते ।।
कीदृग्वाक्यमिदं भानोर्वाक्यार्थं ब्रूहि च प्रभो ।। २७।। ।।
।। सप्ताश्वतिलक उवाच ।। ।।
विमुक्ताशेषदोषेण सर्वज्ञेन भगेन यत् ।।
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ।। २८ ।।
यस्मान्मार्तंड नामासौ कथ्यते च मनीषिभिः ।।
यथार्थं पुण्यमाप्नोति पतत्यश्रद्धया त्वधः ।। २९ ।।
सौरवाक्यप्रवक्तारं सूरवत्पूजयेद्गुरुम् ।।
संसारार्णव निर्मग्नं यः समुद्धरते जनम् ।। 1.187.३० ।।
सौरधर्माम्बुहस्तेन कस्तेन सदृशो गुरुः ।।
अज्ञानवह्निसंतप्तं निर्वापयति यः शनैः ।।
ज्ञानामृतेन वै भक्ता कस्तं न प्रतिपूजयेत् ।। ३१ ।।
नैव राज्येन महता न चैवार्थस्य राशिभिः ।।
प्राप्तमज्ञानशमनं परलोके सुखावहम् ।। ३२ ।।
स्वर्गापवर्ग सिद्ध्यर्थं भाषितं यत्तु शोभनम् ।।
वाक्यं ते देवदेवेन तद्विज्ञेयं सुभाषितम् ।। ३३ ।।
रागद्वेषाक्षमाक्रोधकामतृष्णानुसारिणाम् ।।
वाक्यं निरय हेतुत्वात्तद्दुर्भाषितमुच्यते ।। ३४ ।।
संस्कृतेनापि किं तेन मृदुलालापसंगिना ।।
अविद्यारामवाक्येन संसारक्लेशहेतुना ।। ३५ ।।
यच्छ्रुत्वा जायते पुण्यं रागादीनां च संक्षयः ।।
विरूपमपि तद्वाक्यं विज्ञेयमतिशोभनम् ।। ३६ ।।
स्मृतयो भारतं वेदाः शास्त्राणि सुमहांति च ।।
स्वायुषः क्षपणायैव धमोऽर्थसमग्रन्थितः ।। ३७ ।।
पुत्रदारादिसंसारे नराणां मूढचेतसाम् ।।
संसारविदुषां शास्त्रमनादि मुखनिर्गतम् ।। ३८।।
इदं श्रेष्ठमिदं ज्ञेयं सर्वं त्वं ज्ञातुमिच्छसि ।।
अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ।। ३९ ।।
विज्ञायाक्षरतन्मात्रं जीवितं चातिवंचनम् ।।
विहाय सर्वशास्त्राणि परलोकं समाचरेत् ।। 1.187.४० ।।
पण्डितेनापि किं तेन समर्थेन च देहिनाम् ।।
यः पुण्यभारमुद्वोढुमशक्तः पारलौकिकम् ।। ४१ ।।
पण्डितोऽपि स मूर्खः स्याच्छक्तियुक्तोऽप्यशक्तिकः ।।
यः सौरज्ञानमाहात्म्यमुच्चारयितुमक्षमः ।। ४२ ।।
तस्मात्स पंडितः शक्तः स तपस्वी जितेन्द्रियः ।।
यः सौरज्ञानसद्भावमालोचयितुमुद्यतः ।। ४३ ।।
यः प्रदद्यान्नृपः कृत्स्नां क्ष्मां धनं कांचनं तथा ।।
सर्वमन्यायतः पृछेन्न तस्योपदिशेद्गुरुः ।। ४४ ।।
यः शृणोति रवेर्धर्मं न्यायतः स च वक्ति च ।।
ततो गच्छति सुस्थानं नरकं तद्विपर्यये ।। ४५ ।।
दत्तगोदोहसंभूतः षडक्षरविधानतः ।।
रविः संपूजितः शीघ्रं नराणां तुल्यता भृशम् ।। ४६ ।।
सुरासुरैर्मथ्यमानात्क्षीरोदात्सागरात्पुरा ।।
पञ्च गावः समुत्पन्नाः सर्वलो कस्य मातरः ।। ४७ ।।
नंदा सुभद्रा सुरभी सुमना शोभनावती ।।
गावः सूर्यसमा भासा उत्पन्नाः कृतिमागताः ।। ४८ ।।
सर्वलोकोपकारार्थं देवानां तर्पणाय च ।।
मामाश्रित्य स्थिता गावः स्नानार्थं भास्करस्य तु ।। ४९ ।।
तासामंगानि पुण्यानि षड्रसाः खगसत्तम ।।
खगादिषु च सर्वेषु स्थिराणीत्युपधारय ।। 1.187.५० ।।
गोमयं रोचनं मूत्रं क्षीरं दधि घृतं गवाम् ।।
षडंगानि पवित्राणि सर्वसिद्धिकराणि च ।। ५१ ।।
गोमयादुत्थितः श्रीमान्बिल्ववृक्षोऽर्कवल्लभः ।।
तत्रास्ते पद्महस्ता श्रीर्वृक्षस्तेन च स स्मृतः ।। ५२ ।।
पंकान्युत्पलपद्मानि पुनर्जातानि गोमयात् ।।
गोरोचनं च मंगल्य पवित्रं सर्वकामदम् ।। ५३ ।।
गोमूत्राद्गुग्गुलुर्जातः सुगंधिः प्रियदर्शनः ।।
आहारः सर्वदेवानां भास्करस्य विशेषतः ।। ५४ ।।
यद्बीजं जगतः किंचित्तज्ज्ञेयं क्षीरसंभवम् ।।
दध्नः सर्वाणि जातानि मांगल्यान्यर्थसिद्धये ।। ५५ ।।
घृतादमृतमुत्पन्नममराणामतिप्रियम् ।।
तस्माद्धृतेन पयसा दध्ना यः स्नापयेद्रविम् ।। ५६ ।।
तदंते चोष्णतोयेन कषायैश्च निरूपयेत् ।।
स्नाप्य शीतांबुना पश्चाद्भानुं रोचनयालभेत् ।। ५७ ।।
पूजयेद्बिल्वपत्रैश्च पद्मैर्नीलोत्पलैस्तथा ।।
अर्घ्यं दद्यात्ततः पश्चात्सवज्रं गुग्गुलं खग ।। ५८ ।।
पायसं दधिभक्तं च वज्रं च मधुना सह ।।
निवेदयेच्च सद्भक्त्या भक्ष्याणि विविधानि च ।। ५९ ।।
कृत्वा प्रदक्षिणं पश्चात्प्रणिपत्य क्षमापयेत् ।।
अनेन विधिना भानुं षडंगेन दिवस्पतिम् ।। 1.187.६० ।।
इह लोके परे चैव सर्वान्कामान्स गच्छति ।।
षडंगविधिना तं चापूज्यैवं सुमना रविम् ।। ६१ ।।
स्वर्गं नयेत्सधीमांस्तु कुलानामेकविंशतिम् ।।
स्वर्गे स्थाप्य स्वयं गच्छेज्ज्यौतिषं नाम तत्पदम् ।। ६२ ।।
अंशेन भोजका वीर देवकार्ये नियोजिताः ।।
प्रयांति स्वामिना सार्धं श्रीमद्भानुं परं महः ।। ६३ ।।
भुक्त्वा भोगांस्तु विपुलान्भोजको भोगसंमितः ।।
कालात्पुनरिहायातः पृथिव्यामेकराड्भवेत् ।। ६४ ।।
पुष्पं पत्रं फलं तोयं यद्गतं भास्करार्चने ।।
सौरा गावश्च गच्छंति सूर्यलोकं न संशयः ।। ६५ ।।
यः पिबेद्भोजने धेनोरदत्ता भानवे पयः ।।
स गच्छेन्नरकं घोरमकुर्वंस्तर्पणं रवेः ।। ६६ ।।
एककालं पिबेत्क्षीरं धेनूनां भास्करस्य तु ।।
अनेन स्नापयेद्देवं क्षीरेण खगसत्तम ।। ६७ ।।
प्रत्यूषे यद्भवेत्क्षीरं धेनूनां भास्करस्य तु ।।
स्नापयेत्तेन वै भानुं कृत्स्नेन गरुडाग्रज ।। ६८ ।।
यस्तु लोको भजेत्सर्व न देवाय निवेदयेत् ।।
यावन्तो रोमकूपाश्च गवां देहे खगाधिप ।।
तावद्वर्षसहस्राणि नरके पच्यते खग ।। ६९ ।।
पूजितं पूज्यमानं वा यः कश्चिच्छृणुयाद्रविम् ।।
श्रुत्वानुमोदते यस्तु स यज्ञफलमश्नुते ।। 1.187.७० ।।
भास्करं पृजितं दृष्ट्वा सर्वपापैः प्रमुच्यते ।।
हर्षात्प्रणम्य वै भानुं तस्य लोके महीयते ।। ७१ ।।
पूज्यमानं रविं भक्त्या यः पश्येन्मानवः खग ।।
सोऽपि यज्ञफलं कृत्स्नं प्राप्नुयान्नात्र संशयः ।। ७२ ।।
श्रुत्वानुमोदते यस्तु पूज्यमानं दिवाकरम् ।।
तत्सर्वं फलमाप्नोति प्रसादाद्भास्करस्य तु ।। ७३ ।।
एकजन्मानुगं दानं भक्त्या यच्च निवेदितम् ।।
जपयज्ञाद्वियुक्तेभ्यः सहस्रभविकं स्मृतम् ।।
आभूतसंप्लव स्थायि प्रदानं जपजीविनाम् ।। ७४ ।।
अत्यल्पमपि यद्दत्तं वाचकाय खगाधिप ।।
तन्महाप्रलयं यावद्दातुर्भोगाय कल्पते ।। ७५ ।।
न दानमल्पं बहुधा किंचिदस्ति विजानताम् ।।
देशकालविधिश्रद्धापात्रयुक्तं तदक्षयम् ।। ७६ ।।
पात्रे देशे च काले च विधिना श्रद्धया च यत् ।।
दत्तं हुतं कृतं चैव तदनंतफलं भवेत् ।। ७७ ।।
तिलार्धमपि यद्वीर दीयते श्रद्धया द्विज ।।
सत्पात्रे विधिवद्भक्त्या तद्भवेत्सर्वकामिकम् ।। ७८ ।।
यत्स्नातं ज्ञानसलिलैः शीलभस्मप्रमार्जितम् ।। स्नान
तत्पात्रं सर्वपात्रेभ्य उत्तमं परिकीर्तितम् ।। ७९ ।।
जपो दमो यमः पुंसां त्राता संसाग्सागरात् ।।
अज्ञानां पापनेत्राणां तत्पात्रं परमं स्मृतम् ।। 1.187.८० ।।
ज्ञानप्लवेन चोपेतं शास्त्रं पापमहार्णवात् ।।
अज्ञान्संतारयेन्नूनं किं शिला तारयेच्छिलाम् ।। ८१ ।।
द्विजानां वेदविदुषां कटिसंभोगि यत्फलम् ।।
हंतकारप्रदानेन तत्फलं जपजीविने ।। ८२ ।।
जीवो यस्यैत्य गृहे च भुङ्क्ते सत्कृतिसत्कृतः ।।
कुलमुत्तारयेत्तस्य नरकार्णवसंस्थितम् ।। ८३ ।।
यज्ञाग्निहोमतीर्थेषु यत्फलं परिकीर्तितम् ।।
जपिनामन्नदानेन तत्समग्रं फल लभेत् ।। ८४ ।।
भोजिने शांतचित्ताय परिध्यानरताय च ।।
श्रद्धयान्नं सकृद्दत्त्वा सर्वपापैः प्रमुच्यते ।। ८५ ।।
जपकाञ्छांतिसंयुक्तानादित्यार्पितचेतसः ।।
भोजयित्वा सकृद्भक्त्या सर्वान्कामानवाप्नुयात् ।। ८६ ।।
ध्यायमानो रवेः सूक्तं भोजयेत्सततं च यः ।।
ततः साक्षादनेनैव तद्भुक्तमशन भवेत् ।। ८७ ।।
पितॄनुदिश्य यः श्राद्धे भोजयेद्भोजकं नरः ।।
स स्थानं समवाप्नोति भानवीयमसंशयः ।। ८८ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे धेनुमाहात्म्यवर्णनं नाम सप्ताशीत्यधिकशततमोऽध्यायः ।। १८७ ।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 188
भोजकसत्कारवर्णनम्
।। सप्ताश्व उवाच ।। ।।
सूर्याय सर्वपाकान्नं निवेद्याग्नौ च होमयेत् ।।
हुत्वाग्नौ प्रक्षिपेद्वीर बलिं दिक्षु समंततः ।। १ ।।
सूर्याग्निगुरुविप्राणां सर्वपाकान्नमन्वहम् ।।
योऽनिवेद्यात्मना भुंक्ते स भुंक्ते किल्बिषं नरः ।। २ ।।
कृषिपाल्ये च वाणिज्ये क्रोधसत्यक्षयादिभिः ।।
पुंसां पापानि वर्धंते सूनादोषैश्च पंचभिः ।। ३ ।।
कंडनी पेषणी चुल्ली उदकुंभः प्रमार्जनी ।।
पंच सूना गृहस्थस्य तेन स्वर्गं न गच्छति ।। ४ ।।
सूर्याग्निगुरुपूजाभिः पापैरेतैर्न लिप्यते ।।
अन्यैश्च पातकैघोरैस्तस्मात्संपूजयेत्सदा ।। ५ ।।
सूर्याग्निगुरुनैवेद्यं यावत्स्यादन्नसंख्यया ।।
तावद्वर्षसहस्राणि दाता सूर्यपुरे वसेत् ।। ६ ।।
घृतपूपयुतैः सिक्तैः पुण्यं दशगुणोत्तरम् ।।
अवदंशगुणैर्युक्तं पुण्यं शतगुणं खग ।। ७ ।।
षष्टिकौदननैवेद्यं सहस्रगुणितं फलम् ।।
सुगंधशालिनैवेद्यं विज्ञेयमयुतोत्तरम्।। ८ ।।
भक्ष्यान्नपानदानानि तत्फलानि तथातथा ।।
यद्वा तद्वा सदा देयं सूर्याग्निगुरुसाधुषु ।।
भक्ष्यं निवेद्य पूर्वोक्तमक्षयं लभते फलम् ।। ९ ।।
एवं यः कुरुते भक्तिं देव देवे दिवाकरे ।।
स पितॄन्सर्वपापेभ्यः समुद्धृत्य दिवं नयेत् ।। 1.188.१० ।।
गंगास्नानमिदं पुण्यं दर्शनात्प्राप्नुयाद्रवेः ।।
सर्वतीर्थाभिषेकं च प्रणामाद्विंदते खग ।। ११ ।।
मुच्यते सर्वपापेभ्यः प्रणम्य शिरसा रविम् ।।
शुश्रूषेत च संध्यायां सूर्यलोके महीयते ।। १२।।
युगपत्पूजितास्तेन ब्रह्मविष्णु महेश्वराः ।।
पितरः सर्वदेवाश्च भवेयुः पूजिता रवौ ।। १३ ।।
तुष्यंति पितरस्तस्य सुकृष्टेनेव कर्षुकाः ।।
यः श्राद्धे भोजयेद्भक्त्या ब्राह्मणं जपजीविनम् ।। १४ ।।
अपि नः स कुले कंचिदुद्धरेत्किं खगेश्वर ।।
यः संपूज्य रविं श्राद्धे भोजयेज्जपजीविनम् ।। १५ ।।
तृप्यंति पितरस्तस्य गायंति च पितामहाः ।।
अद्य नः स कुले प्राज्ञो वाचकं भोजयिष्यति ।। १६ ।।
पुराणविदमायांतं दृष्ट्वैव सह संस्थिताः ।।
क्रीडंत्योषधयः सर्वा यास्यामः स्वर्गमक्षयम् ।। १७ ।।
अनुग्रहाय लोकानां श्रद्धायाश्च परीक्षणे ।।
चरंत्यतिथिरूपेण पितरो देवतास्तथा ।। ।। १८ ।।
तस्मादतिथिमायांतमग्रे गच्छेत्कृतांजलिः ।।
स्वागतासनपाद्यार्घ्यस्नानान्नशयनादिभिः ।। १९ ।।
रूपान्वितं विरूपं वा मलिनं मलिनांबरम् ।।
वेलायामतिथिं प्राप्तं पंडितो न विचारयेत् ।। 1.188.२० ।।
भोजकानां शरीरेषु नित्यं सन्निहितो रविः ।।
ये भोजकास्त्यजंत्यन्ये सर्वपापेष्ववस्थिताः ।।
अधोमुखोर्द्ध्वपादास्ते पतंति नरकाग्निषु ।। २१ ।।
कृमिभिर्भिन्नवदनास्तप्यमानाश्च वह्निना ।।
पीड्यंते चायुधै र्घोंरैर्यावदिंद्राश्चतुर्दश ।। २२ ।।
ये चापवादं शृण्वंति विमूढा ब्राह्मणेषु वै ।।
ते विशेषेण पच्यंते नरकेषु मदिच्छया ।। २३ ।।
सर्वेषामेव पात्राणां सत्पात्रं जापकः परः ।।
तस्मात्सर्वप्रयत्नेन पूजयेत्सुसमाहितः ।। २४ ।। ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे सौरधर्मेषु भोजकसत्कारवर्णनं नामाष्टाशीत्यधिकशततमोऽध्यायः ।। १८८ ।।
वर्गः:भविष्यपुराणम्
पर्व १ (ब्राह्मपर्व) — Adhyāya 189
सौरधर्मेषु सप्ताश्वसंवादः
।। सप्ताश्वतिलक उवाच ।। ।।
आमपात्ररसा यद्वन्नश्यंते नश्यभाजने ।।
जपोपेक्षे तथा दानं सह पात्रेण नश्यति ।।
सद्बीजमूषरे यद्वत्समुप्तं निष्फलं भवेत् ।।१।।
भस्मनीव हुतं हव्यं यथा होतुश्च निष्फलम् ।।
जपेन रहिते विप्रे तथा दानं निरर्थकम् ।।२।।
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।।
ब्राह्मणस्य तथा जन्म जपहीनस्य निष्फलम् ।।३।।
लोहोडुपेन प्रतरन्निमज्जत्युदके यथा ।।
दाता दाता ग्रहीता च पतत्यंधे तमस्यथ।।४।।
कारुण्यात्सर्वभूतेषु श्रद्धया यत्प्रदीयते ।।
दानं तद्वै खग ज्ञेयं सार्वकामिकमुत्तमम् ।। ५ ।।
दीनांधकृपणानां च बालवृद्धातुरेषु च ।।
यद्दीयते खगश्रेष्ठ तस्यानन्तफलं भवेत् ।। ६ ।।
न हि स्वार्थं समुद्दिश्य प्रतिगृह्णंति साधवः ।।
दातुरेवोपकाराय जगृहुः श्रवणादयः ।। ७ ।।
दातुरेवोपकाराय वदत्यर्थी ददस्व मे ।।
यस्माद्दाता प्रयात्यूर्ध्वमधस्तिष्ठेत्प्रतिग्रही ।। ८ ।।
देहीति सुवदन्नर्थी धनं बोधयतीव सः ।।
यन्मया कृतमर्थित्वं प्रगेऽदानफलं हि तत् ।। ९ ।।
बोधयंति न याचन्ते देहीति कृपणा जनाः ।।
अवस्थेयमदानस्य यद्याचामो गृहेगृहे ।। 1.189.१० ।।
आयात्यर्थी गृहं यस्तु कस्तं न प्रतिपूजयेत् ।।
कोयमर्थी न पूज्यः स्याद्याचमानो दिनेदिने ।। ११ ।।
यद्बलादप्यनिच्छंतं योजयंति नराश्रयान् ।।
अहन्यहनि याचंते दातुस्ते दर्शयंति हि ।। ।। १२ ।।
एकस्तिष्ठति चाधस्तादन्यश्चोपरि तिष्ठति ।।
दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ।। १३ ।।
यः प्राप्तायार्थिने दानं त्यक्त्वा पात्र मुदीक्षते ।।
सर्वकर्मसु युक्तत्वान्न दाता पारमार्थिकः ।।१४।।
यद्यर्थिनो नरा न स्युर्दानधर्मः कथं भवेत्।।
तदर्थिषु भवेद्दानं स्वागतं स्वागतं प्रियम्।। ।। १५ ।।
पादोदकमनुव्रज्यात्स्वर्गसोपानसप्तकम् ।।
चिंताचिंतानुरूपेण कदा कस्य विनष्यति ।। १६ ।।
ग्रासादर्धमपि ग्रासं युक्तं दातुं सदार्थिनाम् ।।
दानं प्रियविनिर्मुक्तं नष्टमाहुर्मनीषिणः ।। १७ ।।
तस्मात्सत्कृत्य दातव्यमनंतफलमिच्छता ।।
प्रेत्याख्यानमपि श्रेयः प्रियानुनयपेश लम् ।।१८।।
न तद्दानमसत्कारपारुष्यमलिनीकृतम् ।।
वरं न दत्तमर्थिभ्यः संक्रुद्धेनांतरात्मना।।१९।।
न तद्धनं न च प्रीतिर्न धर्मः प्रियवर्जितः ।।
दानप्रदाननियमयज्ञध्यानं हुतं तपः ।।
यत्नेनापि कृतं सर्वं क्रोधोऽस्य निष्फलं खग ।। 1.189.२० ।।
यः श्रद्धयार्चितं दद्यात्प्रति गृह्णाति चार्चितम् ।।
तावुभौ गच्छतः स्वर्गं नरक तद्विपर्ययात् ।। २१ ।।
औदार्यं स्वागतं मैत्री ह्यनुकंपा च मत्सरः ।।
पंचभिस्तु गुरौ दानं दातुर्दाने महाफलम्।।२२।।
वाराणसी कुरुक्षेत्रं प्रयागं पुष्कराणि च ।।
गातटं समुद्रश्च नैमिषारण्यमेव च ।। २३ ।।
मूलस्थानं महापुण्यं पुंडीरस्वामिकं तथा ।।
कालप्रियं खगश्रेष्ठ क्षीरिकावास एव च ।। २४ ।।
इत्येते कीर्तिता देशाः सुरसिद्धनिषेविताः ।।
सर्वे सूर्याश्रमाः पुण्याः सर्वा नद्यः सपर्वताः ।।
गोसिद्धमुनि वासाश्च देशाः पुण्याः प्रकीर्तिताः ।। २५ ।।
सूर्यायतनसंस्थानां यद्यदल्पं तु दीयते ।।
तदनंतफलं ज्ञेयं वचः क्षेत्रानुभावतः।। ३६ ।।
ग्रहणं चंद्रसूर्याभ्यामुत्तरायणमुत्तमम् ।।
विषुवं सव्यतीपातं षडशीतिमुखं तथा ।। २७ ।।
दिनच्छिद्राणि संक्रांतिः पुण्यं विषुपदं खग ।।
इति कालः समा ख्यातः पुंसां पुण्यविवर्धनः ।। २८ ।।
भक्तिभावः परा प्रीतिर्धर्मो धर्मैकभावनः ।।
प्रतिपत्तिरिति ज्ञेयं श्रद्धापर्यायपंचकम् ।।२९।।
श्रद्धया विधिवत्पात्रे प्रतिपादितमुत्तमम् ।।
तस्माच्छ्रद्धां समास्थाय देयमक्षयमिच्छता ।। 1.189.३० ।।
यद्दानं श्रद्धया पात्रे विधिवत्प्रतिपादितम् ।।
तदनंतफलं ज्ञेय मपि वा भारमात्रकम् ।। ३१ ।।
आर्तेषु दीनेषु गुणान्वितेषु यः श्रद्धया स्वल्पमपि प्रदद्यात् ।।
स सर्वकामान्समुपैति लोकाञ्च्छ्रद्धैव दानं प्रवदंति तज्ज्ञाः ।। ३२ ।।
श्रद्धा दानं परं ज्ञेयं श्रद्धा एव तपः परम् ।।
श्रद्धां यज्ञमुशन्तीह श्रद्धा परमुपोषितम् ।। ३३ ।।
अथाहिंसा क्षमा सत्यं ह्रीः श्रद्धेंद्रियसंयमः ।।
दानमिष्टं तपो ध्यानं दशकं धर्मसाधनम् ।। ३४ ।।
हंतव्यस्तैः समस्तैर्वा सूर्यधर्मैरनुष्ठितैः ।।
सूर्यौकसां च संप्राप्तेर्गतिरेका प्रकीर्तिता ।। ३५ ।।
यथा भूः सर्वभूतानां शांतिरतिशयः स्मृतः ।।
कुर्यात्पुण्यं महत्तस्मान्मम लोकेप्सया सुधी ।। ३६ ।।
परस्त्रीद्रव्यसंकल्पं यः सापेक्षं करोति च ।।
गुरुमार्तमशक्तं वा विदेशे प्रस्थितं तथा ।।
अरिभिः परिभूतं च संत्यजेच्चैव पापकृत् ।। ३७ ।।
तद्भार्यामित्रपुत्रेषु यश्चावज्ञां करोति च ।।
इत्येतत्पातकं ज्ञेयं गुरुनिंदासमं भवेत् ।। ३८ ।।
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।।
महापातकिनस्त्वेते तत्संयोगी च पञ्चमः ।। ३९ ।।
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य वदेत यः ।।
प्राणांतिकं महादोषं ब्रह्महा स उदाहृतः ।। 1.189.४० ।।
ब्राह्मणं च समाहूय याचमानमकिंचनम् ।।
यन्नास्तीति च यो ब्रूयात्स चाण्डालं उदाहृतः ।। ४१ ।।
देवद्विजगवां भूमिं पूर्वदत्तां हरेत यः ।।
प्रनष्टामपि काले तु तमाहुर्ब्रह्मघातकम् ।। ४२ ।।
अधीत्य यो रवेर्ज्ञानं परित्यजति मंदधीः ।।
सुरापेन समं ज्ञेयं तस्य पापं च सुव्रत ।। ४३ ।।
अग्निहोत्रपरित्यागः पंचयज्ञियकर्मणाम् ।।
मातापितृपरित्यागः कूटसाक्ष्यं सुहृद्वधः ।। ४४ ।।
अप्रियं सूर्यभक्तानामभक्ष्यस्य च भक्षणम् ।।
एवं निरपराधानां प्राणिनां च प्रमारणम् ।। ४५ ।।
सर्वाधिपत्यमेतेषां नास्ति देवपुरोत्तमे ।।
आत्मलोकाधिपत्यं तु यच्छेत्सर्वजत्पतिः ।। ४६ ।।
केचिदत्रैव मुच्यन्ते ज्ञानयोगपरा नराः ।।
आवर्तंते पुनश्चान्ये संसारे भोगतत्पराः ।। ४७ ।।
तस्माद्विमोक्षमन्विच्छन्भोगासक्तिं विवर्जयेत् ।।
विरक्तः शांतचित्तात्मा सौरलोकमवाप्नुयात् ।। ४८ ।।
यच्चाप्यसक्तहृदया जपन्तीमं प्रसंगतः ।।
तेषामपि वदत्येकः स्वानुभावानुरूपतः ।। ४९ ।।
तन्नार्चयन्ति ये भानुं सकृदुच्छिष्टदेहिनः ।।
तेषां पिशाचलोके तु भोगान्भानुः प्रयच्छति ।। 1.189.५० ।।
द्विर्जपंति च ये भानुं क्रूराः संक्रुद्धलोचनाः ।।
रक्षोलोके रविस्तेषां महाभाग्यं प्रयच्छति ।। ५१ ।।
त्रिरर्चयन्ति ये भानुं मद्यमांसरता नराः ।।
ऋषिलोके रविस्तेषां भोगान्दिव्यान्प्रयच्छति ।। ५२ ।।
ये नृत्यगीतं कुर्वंति त्रिश्चतुर्धा यदृच्छया ।।
सूर्यस्याग्रे तु ते यांति गंधर्वभवनं खग ।। ५३ ।।
लोकाः ख्यातिं समुद्दिश्य पूजयंति च गोपतिम् ।।
तेषां शक्रालये भानुः कामान्त्सर्वान्प्रयच्छति ।। ५४ ।।
कामासक्तेन चित्तेन यः षडर्चयते रविम् ।।
प्राजापत्ये रविस्तस्य लोके भोगान्प्रयच्छति ।। ५५ ।।
नवकृत्वोर्चयेद्यस्तु चित्रभानुं खगाधिप ।।
स याति विष्णुसालोक्यं विष्णुना सह मोदते ।। ५६।।
तस्मादपि परं स्थानं यद्भूतानां मनोहरम् ।।
अप्रमेयगुणैदिव्यैर्विमानैः सार्वकामिकैः ।। ५७ ।।
असंख्यैर्वस्तुभिर्व्याप्तं गैरिकै रक्तचित्रकैः ।।
नानागृहसमाकीर्णैः सूर्यकोटिसमप्रभम् ।। ५८ ।।
तत्स्थानं ते प्रगच्छंति अर्चयन्ति च ये द्विजान् ।।
तत्र लोके खगश्रेष्ठ वसंति विहरंति च ।।
तस्मादपि परं स्थानं ज्योतिष्कं सौरमुच्यते ।। ५९ ।।
एवं सूर्यानुभावेन निकृष्टेनापि कर्मणा ।।
नरैः स्थानान्यवाप्यन्ते श्रद्धाभावानुरूपतः ।। ।।1.189.६०।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सप्ताश्वानूरुसंवादो नाम एकोननवत्यधिकशततमोऽध्यायः।।१८९।।
पर्व १ (ब्राह्मपर्व) — Adhyāya 190
सौरधर्मेषु सूर्यानूरुसंवादवर्णनम्
।। ।। सप्ताश्वतिलक उवाच ।। ।।
तारारूपविमानानामिमाः संति च कोटयः ।।
यः कुर्यात्तु नमस्कारं तस्यैव च फलं भवेत् ।। १ ।।
इत्येता गतयः प्रोक्ता महत्यः सौरधर्मिणाम् ।।
तस्मात्सौरः सदा धर्मः कर्तव्यः सुखमिच्छता ।। २ ।।
इदानीं पापनिचयाः स्थूला नरकहेतवः ।।
ते समासेन कथ्यन्ते मनोवाक्कायसाधनैः ।। ३ ।।
गवां मार्गे वने चाग्नेः पुरे ग्रामे समर्पणम् ।।
इत्येतानीह पापानि सुरापानसमानि च ।। ४ ।।
वने सर्वस्य हरणं नरस्त्रीगजवाजिनाम् ।।
गोभूसमीपजातानामोषधीनां च खेचर ।। ५ ।।
चन्दनागुरुकर्पूरकस्तूरीपट्टवाससाम् ।।
हस्तन्यासाप हरणं रुक्मस्तेयसमं स्मृतम् ।। ६ ।।
कन्यानां वरयोग्यानामाकर्षणमसंगतः ।।
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ।। ७ ।।
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् ।।
सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ।। ८ ।।
महापातकतुल्यानि पापान्युक्तानि यानि तु ।।
तानि पातकसंज्ञानि ब्रूमहे चोपपातकम् ।। ९ ।।
द्विजायार्थं परिश्रुत्य न प्रयच्छति यो द्विज ।।
सद्भार्याणां च संत्यागः साधुबन्धुतपस्विनाम् ।। 1.190.१० ।।
गोभू हिरण्यवस्त्राणामपहारः प्रयत्नतः ।।
ईश्वरार्पितबुद्धीनां पीडनं सुमहत्कृतम् ।। ११ ।।
यः पीडामाश्रमस्थान आचरेदल्पिकामपि ।।
तद्भूत्युपरिभूतस्य पशुधान्यधनस्य च ।। १२ ।।
कूपधान्यपशुस्तेयमयाज्यानां च याजनम् ।।
यज्ञारामतडागानां दारापत्यस्य विक्रयः ।। १३ ।।
तीर्थ यात्रोपवासानां व्रते च जपकर्मणि ।।
स्त्रीधनान्युपकर्षंति ये जनाः पापकर्मणा ।। १४ ।।
अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम् ।।
ऋषीणामप्रदानं च धान्यवृद्ध्युपसेवनम् ।। १५ ।।
देवाग्निसाधुसाध्वीनां निन्दा गोब्राह्मणस्य च ।।
प्रत्यक्षं वा परोक्षं वा राजमाण्डलिकानपि ।। १६ ।।
उत्सन्नपितृदेवाश्च स्वकर्मत्यागिनश्च ये ।।
दुःशीला नास्तिकाः पापाः सदसच्छून्यवादिनः ।। १७ ।।
एवं कामे प्रवृत्ते तु वियोनौ पशुयोनिषु ।।
रजस्वलास्वयोनौ तु मैथुनं यः समाचरेत् ।। १८ ।।
स्त्रीपुत्रमित्रसंप्रीते रारामोच्छेदकाश्च ये ।।
जनस्याप्रियवक्तारो जनाभिप्रायभेदिनः ।। १९ ।।
भेत्ता तडागवप्राणां संक्रमाणां रसस्य च ।।
एकपंक्तिस्थितानां च पंक्तिभेदं करोति यः ।।1.190.२०।।
इत्येतैस्तु नराः पापैरुपपातकिनः स्मृताः ।।२१।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यानूरुसंवादे नवत्यधिकशततमोऽध्यायः ।। १९० ।।
वर्गः:भविष्यपुराणम्
पर्व १ (ब्राह्मपर्व) — Adhyāya 191
सप्ताश्वतिलकारुणसंवादम्
।। सप्ताश्वतिलक उवाच ।। ।।
ये गोब्राह्मणसस्यानां साधूनां तु तपस्विनाम् ।।
दूषकाश्चैव वर्तंते नरा नरकगामिनः ।। १ ।।
परिश्रमेण तप्यन्ते येऽपरे तस्य सूचकाः ।।
परदाररतानां च कन्याया दूषकाश्च ये ।। २ ।।
गोष्ठाग्निजलरम्यासु तरुच्छायानगेषु च ।।
त्यजंति ये पुरीषाणि आरामा यतनेषु च ।। ३ ।।
मद्यपानरता नित्यं गीतवाद्यरता नराः ।।
कामक्रोधमदाविष्टा रंध्रान्वेषणतत्पराः ।। ४ ।।
पाखण्डमतसंयुक्ता वृथा संलाप कौतुकाः ।।
ये मार्गानुपरुधंति परसीमां हरंति च ।। ५ ।।
कूटशासनकर्तारः कूटकर्मकृतो नराः ।।
धनुषः शिल्पिशस्त्राणां यः कर्ता यश्च विक्रयी ।। ६ ।।
निर्दयोतीवभृत्येषु पशूनां दमकश्च यः ।।
मिथ्या प्रवदतो वाचमाकर्णयति यः शनैः ।।
स्वामिमित्रगुरुद्रोही मायावी चपलः शठः ।। ७ ।।
ये भार्यापुत्रमित्राणि बालवृद्धकुशातुरान् ।।
भृत्यानतिथिबन्धूंश्च त्यजंति च बुभुक्षितान् ।। ८ ।।
यः स्वयं पक्वमश्नाति विप्रायान्नं न यच्छति ।।
वृथा पाकः स विज्ञेयो ब्रह्मवादिषु गर्हितः ।। ९ ।।
नियमं स्वयमादाय ये त्यजंत्यजितेंद्रियाः ।।
प्रव्रज्यावसिता ये च रहस्यानां तु भेदकाः ।। 1.191.१० ।।
ये ताडयंति गां मूढास्त्रासयंति मुहुर्मुहुः ।।
दुर्बलं न च पुष्णंति प्रनष्टान्नान्विषंति च ।। ११ ।।
पीडयंत्यतिभारेण अक्षयं वाहयंति च ।।
वृषाणां वृषणानन्ये पापिष्ठा गालयंति हि ।।
वाहयंति च गां वंध्यां ते पापिष्ठा नराधमाः ।। १२ ।।
अनर्थविकलं हीनं बालवृद्धकृशानुगम् ।।
नानुकंपंति ये मूढास्ते यांति नरकं नराः ।। १३ ।।
अजाविका माहिषिकाः सवित्रीवृषलीपतिः ।।
क्षत्रविट्शूद्रवृद्धाश्च स्वधर्मविहताः सदा ।। १४ ।।
शिल्पिनः कारुका वेश्याः क्षेमकारनृपध्वजाः ।।
नर्तक्यो ज्योतिषि हताः सर्वे नरकगामिनः ।। १५ ।।
घृत तैलानुपानानि मधुमांसरसासवम् ।।
गुडेक्षुक्षीरशाकान्हि दधिमूलफलानि च ।। १६ ।।
तृणानि काष्ठं पुष्पाणि बीजौषधिमनुत्तमाम् ।।
उपानच्छत्र शकटमासनं शयनं मृदः ।। १७ ।।
ताम्रं सीसं त्रपुं कांस्यं शंखाद्यं च जलोद्भवम् ।।
वार्क्षं वा वैणवं वापि गृहोपकरणानि च ।।१८।।
और्णकार्पासकौशेयभंगपट्टोद्भवानि च ।।
स्थूलसूक्ष्माणि संमूढा ये च लोका हरंति वै ।।१९।।
एवमादीनि चान्यानि द्रव्याणि विविधानि च।।
नरकेषु ध्रुवं गच्छेद्यौ हरेत पुमान्बलात् ।। 1.191.२० ।।
यद्वा तद्वा तु पारोक्ष्यमपि सर्षपमात्रकम् ।।
अपहृत्य नरो याति नरकं नात्र संशयः ।। २१ ।।
एवमाद्यैर्नरः पापैरुत्क्रांतेः समनंतरम् ।।
शरीरयातनार्थं तत्पूर्वकायमवाप्नुयात् ।। २२ ।।
यमलोके व्रजेदेवं शरीरेण यमाज्ञया ।।
यमदूतैर्महाघोरैर्नीयमानः सुदुःखितः ।। २३ ।।
देवमानुषजीवानामधर्मनिरतात्मनाम् ।।
धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः ।। २४ ।।
विनयाभावयुक्तानां प्रमादा त्स्वलितात्मनाम् ।।
प्रायश्चित्तैर्बहुविधैः पातकं नष्टतामियात् ।। २५ ।।
पारदारिकचोराणामन्यायव्यवहारिणाम् ।।
शास्ता क्षितिपतिः प्रोक्तः प्रच्छन्नानां च धर्मराट् ।। २६ ।।
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ।।
नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि ।। २७ ।।
यः करोति शुभं कर्म कारयेदनुमोदयेत् ।।
कायेन मनसा वाचा स विंदेतोत्तमं सुखम् ।।२८।।
इति संक्षेपतः प्रोक्ता पापभेदात्त्रिधा गतिः ।।
तथान्या गतयश्चित्राः कथ्यंते कर्मभेदतः ।। २९ ।।
।। इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सप्ताश्वतिलकारुणसंवाद एकनवत्यधिकशततमोऽध्यायः ।। १९१ ।।
वर्गः:भविष्यपुराणम्
पर्व १ (ब्राह्मपर्व) — Adhyāya 192
सप्ताश्वतिलकानूरुसंवादवर्णनम्
सप्ताश्वतिलक उवाच ।। ।।
संत्रासजननं घोरं पापानां पापकारिणाम् ।।।
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।। १
स्त्रीपुनपुंसकैर्वृद्धैर्गंतव्यं सर्वजंतुषु ।।
शुभाशुभफलं तत्र भोक्तव्यं देहिभिस्तथा ।। २ ।।
चित्रगुप्तादिभिः सर्वैर्धर्मस्थैः सत्यवादिभि ।।
प्रोक्तं वै धर्मराजस्य निकटे यच्छुभाशुभम् ।।
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम् ।। ३ ।।
तत्र ये शुभकर्माणः सौम्य चित्ता दयान्विताः ।।
ते नरा यांति सौम्येन यथा यमनिकेतनम् ।। ४ ।।
यः प्रदद्याद्द्विजेंद्राणामुपानत्काष्ठछत्रकम् ।।
स च धर्मेण महता सुखं याति यमालयम् ।। ५ ।।
सोपानत्को नरो यस्तु देवायतनमाविशेत् ।।
विशेषतो गर्भगृहं स संत्रासमुपाश्नुते ।।६।।
सोपानत्कानि दानानि तथान्नं तु विशेषतः ।।
एवं दानविशेषेण धर्मराजपुरं नरः ।।
यस्माद्याति सुखेनैव तस्माद्धर्मं समाचरेत् ।।७।।
ये पुनः क्रूरकर्माणो नराः पापरताः खग ।।
ते घोरेण तथा यांति दक्षिणेन यमालयम् ।। ८ ।।
षडशीतिसहस्राणि योजनानामशीति च ।।
वैवस्वतपुरं ज्ञेयं नानारूपमिति स्थितम् ।। ९ ।।
समीपस्थमिवाभाति नराणां शुभचारिणाम् ।।
पापानामतिदूरस्थं तथा रौद्रेण गच्छताम् ।। 1.192.१० ।।
तीक्ष्णकंटकयुक्तेन शर्करानिचितेन च ।।
क्षुरधारातिनिस्त्रिंशैः पाषाणैश्चिंतितेन च ।। ११ ।।
क्वचिदर्केण महता दुरंतैश्चैव खातकैः ।।
लोहशंकुभिराच्छिन्नास्तथा खड्गैः समन्विताः ।। ।। ३२ ।।
ततः पतद्भिर्विमलैः पर्वतैर्वृक्षसंकुलैः ।।
प्रेतप्राकारयुक्तेन यांति मार्गेण दुःखिताः ।। १३ ।।
क्वचिद्विषमगर्ताभिः क्वचिल्लोष्ठैः सपिच्छलैः ।।
सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः ।। १४ ।।
अनेकशाखारचितैर्व्याप्तैर्वंशवनैः क्वचित् ।।
कष्टेन तमसः मार्ग अना लंबे सुदारुणि ।।१५।।
अथ शृंगाटकैर्व्याप्तैः क्वचिद्दावाग्निना पुनः ।।
क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन तु ।। १६ ।।
क्वचिद्वालुकया व्याप्तमाकंठांतं प्रवेशयेत् ।।
क्वचिद्दुष्टांबुना व्याप्तं क्वचिच्च करिषाग्निना।।१७।।
क्वचित्सिंहैः क्वचिद्व्याघ्रैर्दंशैः कीटैश्च दारुणैः ।।
क्वचिन्महाजलौकाभिः क्वचि द्वाजगरैः पुनः ।।१८।।
मक्षिकाभिश्च रौद्राभिः क्वचित्सपेंर्विषोल्बणैः ।।
महागजेंद्रयूनैश्च बलोन्मत्तैः प्रमाथिभिः ।।१९।।
पंथानमुल्लिखद्भिश्च तीक्ष्ण शृंगैर्महावृषैः ।।
महाशृंगैश्च महिषैरुष्ट्रैर्मत्तैर्मदातुरैः।।1.192.२०।।
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः।।
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति हि ।। ।। २१ ।।
महापाशविमिश्रेण महाचंडेन वायुना ।।
महापाषाणवर्षेण हन्यमाना निराश्रयाः ।। २२।।
क्वचिद्विद्युत्प्रपातेन दीर्यमाणा व्रजंति हि ।।
पतद्भिर्वज्रसंघातैरुल्कापातैश्च दारुणैः ।। २३ ।।
प्रदीप्तांगारवर्षेण दह्यमाना व्रजंति हि ।।
महांधकारशुक्रेण पीड्यमाना व्रजंति हि ।। २४ ।।
महामेघरवैर्घोरैर्वित्रास्यंते मुहुर्मुहुः ।।
तीक्ष्णपाषाणयुक्तेन पूर्यमाणाः समन्ततः ।। २५ ।।
महाक्षुरांबुधाराभिः सेव्यमाना व्रजंति हि ।।
महामेघरवैर्घोरै र्वित्रास्यन्ते मुहुर्मुहुः ।।२६।।
भृशं शीतेन तीक्ष्णेन रूक्षेण मारुतेन च ।।
इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ।।२७।।
निरालंबेन दुर्गेण निर्जनेन समंततः ।।
अविश्रामेण महता विगतापायदुर्धरैः ।। २८ ।।
नीयंते देहिनः सर्वे ये मूढाः पापकारिणः ।।
इति ज्ञात्वा नरः कुर्यात्पुण्यं पापं च वर्जयेत् ।।
पुण्येन याति देवत्वं पापेन नरकं व्रजेत् ।। २९ ।।
यैर्मनागपि देवेशो मनसा पूजितो रविः ।।
ते कदापि न पश्यंति यमस्य वदनं खग ।। ।। 1.192.३० ।।
किं तु पापैर्महाघोरैः किञ्चित्कालं तवाज्ञया ।।
भवंति प्रेतराजानस्ततो यांति रवेः पुरम्।। ३१ ।।
ये पुनः सर्वभावेन भजन्ते भुवि भास्क रम् ।।
न ते लिम्पंति पापेन पद्मपत्रमिवांभसा ।। ३२ ।।
तस्मात्प्रकुर्याद्भक्तिं वै भास्करे सततं नरः ।।
श्रद्धया पूजयेद्भानुं य इच्छेद्विपुलं धनम् ।। ३३ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सप्ताश्वतिलकानूरुसंवादे द्विनवत्यधिकशततमोऽध्यायः ।।१९२।।
वर्गः:भविष्यपुराणम्
पर्व १ (ब्राह्मपर्व) — Adhyāya 193
दन्तकाष्ठविधिवर्णनम्
।। ।। सप्ताश्वतिलक उवाच ।। ।।
अयने विषुवे वारे संक्रांतौ ग्रहणे तथा ।।
पूजयेत्सततं भानुं सप्तम्यां तु विशेषतः ।। १ ।।
वैनतेय निबोध त्वं विधानं सप्तमीव्रते ।।
एतद्धि परमं गुह्यं रवेराराधनं परम् ।। २ ।।
सिद्धार्थकैस्तु प्रथमा द्वितीया चार्कसंपुटैः ।।
तृतीया मरिचैः कार्या चतुर्थी तिल सप्तमी ।। ३ ।।
सप्तमी चौदनैर्वीर सप्तमी परिकीर्तिता ।।
इत्येताः सप्त सप्तम्यः कर्तव्या भूतिमिच्छता ।। ४ ।।
तथा चानुक्रमे तासां लक्षणं कथया म्यहम् ।।
माघे वा मार्गशीर्षे वा कार्या शुक्ला तु सप्तमी ।। ५ ।।
आर्तस्य तु न नियमः पक्षमासकृतो भवेत् ।।
अर्धप्रहरशेषे तु कुर्याद्वै दंतधाव नम् ।। ६ ।।
पञ्चम्यां तत्र ये वृक्षाः कामितास्तान्वदाम्यहम् ।।
मधूके पुत्रलाभः स्याद्दुःखहा मार्कवो भवेत् ।। ७ ।।
बदर्या च बृहत्या च क्षिप्रं रोगात्प्रमुच्यते ।।
ऐश्वर्यं च भवेद्बिल्वैः खदिरेण च संचयः ।। ८ ।।
शत्रुक्षयः कदंबेषु अर्थलाभोतिमुक्तके ।।
गुरुतां याति सर्वत्र आटरूषकसंभवैः ।। ९ ।।
ज्ञातिप्रधानतां याति अश्वत्थो यच्छते यशः ।।
करवीरात्परिज्ञानमचलं स्यान्न संशयः ।। 1.193.१० ।।
श्रियं प्राप्नोति विपुलां शिरीषस्य निवे शने ।।
प्रियंगुं सेव्यमानस्य सौभाग्यं परमं भवेत् ।। ११ ।।
अभीप्सितार्थसिद्ध्यर्थं सुखासीनोथ वाग्यतः ।।
कामं यथेष्टहृदये कृत्वा समभि मंत्र्य च ।।
मंत्रेणानेन मतिमानश्नीयाद्दन्तधावनम्।। १२ ।।
वरं दत्त्वाभिजानासि कामदं च वनस्पते ।।
सिद्धिं प्रयच्छ मे नित्यं दंतकाष्ठ नमोऽस्तु ते ।। १३ ।।
त्रीन्वारान्परिजप्यैवं भक्षयेद्दंतधावनम् ।।
पश्चात्प्रक्षाल्य काष्ठं तु शुचौ देशे विनिक्षिपेत् ।। १४ ।।
ऊर्ध्वे निपतिते सिद्धिस्तथा चाभि मुखे स्थिते ।।
अतोन्यथा तु पतिते आनीय पुनरुत्सृजेत् ।। १५ ।।
पराङ्मुखं यदि भवेत्त्रीन्वारान्दंतधावनम् ।।
असिद्धां तु विजानीयान्न ग्राह्या सा तु सप्तमी ।। १६ ।।
ब्रह्मचारी तु तां रात्रिं स्वप्यान्मंगलसेवया ।।
बिभ्रद्वासोनुपहतं शुचिराचारसंयुतः ।। १७ ।।
तस्यां रात्र्यां व्यतीतायां प्रात रुत्थाय वै खग ।।
प्रक्षालयेन्मुखं धीमानश्नीयाद्दन्तधावनम् ।। १८ ।।
उपविश्य शुचिर्भूत्वा प्रणम्य शिरसा रविम् ।।
जपं यथेष्टं कृत्वा तु जुहुयाच्च हुताशने ।। १९ ।।
ततोपराह्नसमये स्नात्वा मृद्गोमयांबुभिः ।।
विधिवन्नियमं कृत्वा मौनी शुक्लांबरः शुचिः ।। 1.193.२० ।।
पूजयित्वा विधिं भक्त्या देवदेवं दिवाकरम् ।।
स्वप्याद्देवस्य पुरतो गायत्रीजपतत्परः ।। २१ ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे दन्तकाष्ठविधिवर्णनंनाम त्रिनवत्यधिकशततमोऽध्यायः ।। १९३ ।।
वर्गः:भविष्यपुराणम्
पर्व १ (ब्राह्मपर्व) — Adhyāya 194
सूर्यारुणसंवादे स्वप्नवर्णनम्
।। सप्ताश्वतिलक उवाच ।। ।।
अतः परं प्रवक्ष्यामि यैर्यैर्य त्फलमश्नुते ।।
स्वप्ने दृष्टे तु सप्तम्यां पुरुषो नियतव्रतः ।। १ ।।
समाप्य विधिवत्सर्वां जपहोमादिकां क्रियाम् ।।
भूमौ शय्यां समास्थाय देवदेवं विचिन्तयेत् ।। २ ।।
हन्त सुप्तो यदि नरः पश्येत्स्वप्ने दिवाकरम् ।।
शक्रध्वजं वा चन्द्रं वा तस्य सर्वाः समृद्धयः ।। ३ ।।
भृंगारचमरादर्शकनकाभरणानि च ।।
रुधिरस्य स्रुतिः केशपातं ऐश्वर्यकारकः ।।
स्वप्ने वृक्षाधिरोहे तु क्षिप्रमैश्वर्यमाहवे ।। ४ ।।
दोहनं महिषीसिंहीगोधेनूनां करे स्वके ।।
बन्धश्चासां राज्यलाभो नाभेः स्पर्शे तु दुर्मतिः ।। ५ ।।
अविं हत्वा स्वयं खादेत्सिंहमंबुजमेव च ।।
स्वांगमस्थि हुताशं च सुरापानं खगाधिप ।। ६ ।।
हैमे वा राजते वापि यो भुंक्ते पायसं नरः ।।
पात्रे तु पद्मपत्रे वा तस्यैश्वर्यं समं भवेत् ।। ।। ७ ।।
द्यूते च वाथ वा युद्धे विजयो हि सुखावहः ।।
गात्रस्य स्वस्य ज्वलनं शिरोबन्धश्च भूतये ।। ८ ।।
माल्यांबराणां शुक्लानां हयानां पशुपक्षिणाम् ।।
सदा लाभं प्रशंसंति विष्ठानां चानुलेपनम् ।। ९ ।।
हययाने भवेत्क्षिप्रं रथयाने प्रजागमः ।।
नानाशिरोबाहुता च गृहस्थां कुरुते श्रियम् ।। 1.194.१० ।।
अगम्यागमनं धन्यं वेदाध्ययनमुत्तमम् ।।
देवद्विजश्रेष्ठवीरगुरुवृद्धतपस्विनः ।। ११ ।।
यद्वदंति नरं स्वप्ने सत्यमेवेति तद्विदुः ।।
प्रशस्तं दर्शनं चैषामाशीर्वादः खगाधिप ।। १२ ।।
राज्यं स्यात्स्वशिरश्छेदे धनं बहुवधे भवेत् ।।
रुदिते भक्ष्यसंप्राप्ती राज्यं निगडबन्धने।।१३।।
पर्वतं तुरगं सिंहं वृषभं गजमेव हि ।।
महदैश्वर्यमाप्नोति यो विक्रम्याधिरोहति ।। १४ ।।
आगृह्णानो ग्रहांस्तारा मरीचिं परिवर्तयन् ।।
उन्मूलयति पर्वतांश्च राजा भवति भूतले ।। १५ ।।
देहान्निष्कांतिरंत्राणां सर्वेषां च खगाधिप ।।
पानं समुद्रसरितामैश्वर्यसुखकारकम् ।। १६ ।।।।
बलं चांबुनिधिं वापि तीर्थपारं प्रयाति यः ।।
तस्यापत्यं भवेद्वीर अचलं च खगाधिप ।। १७ ।।
भवत्यर्थागमः शीघ्रं कृमिर्वा यदि भक्षयेत् ।।।
अंगानां च सुरूपाणां लाभो दर्शनमेव च ।।
संयोगश्चैव मांगल्यैरारोग्यं धनमेव च ।। १८ ।।
ऐश्वर्यं राज्यलाभश्च यस्मिन्स्वप्न उदाहृतः ।।
सप्त स्यान्नात्र संदेहश्चतुर्भिः श्रुत उत्तमः ।। १९ ।।
पंचभिः पुत्रबाहुल्यं षड्भिरायुः सुतान्धनम् ।।
सप्तभिर्विविधान्कामानष्टभिर्विविधं यशः ।। ।। 1.194.२० ।।
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यारुणसंवादे स्वप्नवर्णनं नाम चतुर्नवत्यधिकशततमोऽध्यायः ।। १९४ ।।।५ ।।
वर्गः:भविष्यपुराणम्