Books / Bhaviṣya Purāṇa — Sanskrit Text

2. Bhaviṣya Purāṇa (part 2 of 3)

पर्व १ (ब्राह्मपर्व) — Adhyāya 195

सूर्यारुणसंवादे स्वप्नवर्णनम्

।। ।। अनूरुरुवाच ।। ।।

भगवञ्छ्रोतुमिच्छामि सप्तमीनां परं विधिम् ।।

सर्वासामनुरूपाणां कथयस्व महामुने ।। १ ।।

।। सप्ताश्वतिलक उवाच ।। ।।

शृणु वीर खगश्रेष्ठ सप्तमीनां परं विधिम् ।।

कीर्तयिष्यामि ते सर्वं यथावत्परिपृच्छते ।। २ ।।

तुल्यं किल खगश्रेष्ठ यथाख्यातं विवस्वता ।।

शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे ।। ३ ।।

पुत्रदारधनक्षेत्रे गृह्णीयात्सप्तमीव्रतम् ।।

ऋषिभिर्ज्ञानसंपन्नैः सर्वकामफल प्रदैः ।। ४ ।।

सप्तम्यः सप्तआख्यातास्तासां नामानि मे शृणु ।।

अर्कसंपुटकैरेका द्वितीया मरिचैस्तथा ।। ५ ।।

तृतीया निंबपत्रैश्च चतुर्थी फल सप्तमी ।।

सप्तमी कामिका नाम्ना विधिमासां निबोध मे ।। ६ ।।

पंचम्यामेकभक्तं तु कुर्यान्नियतमानसः ।।

अल्पाहारं न कुर्वीत मैथुनं दूरतस्त्यजे त् ।। ७ ।।

वर्जयेन्मधु मांसं च अत्यम्लं च खगाधिप ।।

प्रभाते चैव षष्ठ्यां तु एकैकपर्णसंपुटे ।। ८ ।।

घृतशाल्योदनं कृत्वा भक्षयेत्तु विधानतः ।।

अन्यदन्नमभुंजानः सप्तम्यां भोजनं भवेत् ।। ९ ।।

एकैकवृद्धाभियुक्तैर्यो वसेत्तु खगेश्वर ।।

अन्यत्र मरिचं भक्षेन्निंबपत्राण्यतः परम् ।। 1.195.१० ।।

एवं लब्धफलानीह पक्षयोरुभयोरपि।।

अन्नादै रहितो यत्नादनोदन इति स्मृतः ।। ११ ।।

आचरेद्विधिवद्भक्त्या पूजयित्वा विभावसुम् ।।

अहोरात्रं वायुभक्षः कुर्याद्विजयसप्तमीम् ।। १२ ।।

एकैकं सप्त सप्तमीरत्रैव विधिवच्चरेत् ।।

प्रालेख्य तासां नामानि पत्रकेषु पृथक्पृथक् ।। १३ ।।

तानि सर्वाणि नामानि विलेख्य सुसमाहितः ।।

श्वेतचंदनदिग्धांगे माल्यदामोपशोभिते ।। १४ ।।

सप्तधान्यहिरण्याढ्ये शशिकुन्देंदुसन्निभे।१३ ।।

अश्वत्थाशोकपत्राढ्ये दध्योदनसमन्विते ।। १५ ।।

तदर्थं पूजयेद्भक्त्या तैस्तैर्दृष्टैर्न संशयः ।।

दृष्ट्वा तु शोभनं स्वप्नं न भूयः शयनं स्वपेत्।।१६।।

प्रातश्च की र्तयेत्स्वप्ने यथादृष्टं खगाधिप ।।

प्राज्ञभोजकविप्रेभ्यः सुहृद्भ्यश्च खगाधिप ।। १७ ।।

ततो मध्याह्नसमये स्नातः प्रयतमानसः ।।

तं चैव देवं विधिवत्पूजयित्वा दिवाकरम् ।। १८ ।।

सम्यक्कृतजपो मौनी नरो हुतहुताशनः ।।

निष्क्रम्य देवायतनाद्भोजकाय निवेदयेत् ।। १९ ।।

भवेदलाभो यदि भोजकानां विप्रास्तमर्हंति पुराणविज्ञाः ।।

ये मंत्रवेदावयवेषु निश्चिता विभुं समभ्यर्च्य दिवं व्रजेयुः ।। 1.195.२० ।।

कृत्वैवं सप्तमी सप्त नरो भक्ति समन्वितः ।।

श्रद्दधानोपि सूर्यस्य स कथं नाप्नुयात्फलम् ।।२१।।

दशानामश्वमेधानां कृतानां यत्फलं भवेत् ।।

तत्फलं सप्तमी सप्त कृत्वा भक्त्या लभेत ना ।। २२ ।।

दुष्पापं नास्ति तद्वीर सप्तम्यां यन्न दह्यते ।।

न च रोगोऽस्त्यसौ लोके य एताभिर्न शाम्यति ।। २३ ।।

कुष्ठानि यानि रौद्राणि दुश्छेद्यानि भिषग्जनैः ।।

नीयन्ते तानि सर्वाणि गरुडेनेव पन्नगाः ।। २४ ।।

सकलविबुधमान्यं स्वप्रकाशं जनानामभिमतफलदाने दीक्षितं तं सुपूज्यम् ।।

सुतधनकुलभोगैः सौख्यपुण्यैरुपेतो व्रजति च सुतनुं कां शाश्वता तिग्मरश्मेः ।। २५ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यारुणसंवादे स्वप्नवर्णनं नाम पंचनवत्यधिकशततमोऽध्यायः ।। १९५ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 196

नामपूजाविधिवर्णनम्

।।सप्ताश्ववतिलक उवाच।। ।।

अतीत्य भुक्तं पुरुषः सप्तम्यां गरुडाग्रज ।।

मैत्रीं विदध्यात्सर्वत्र जीवहिंसां विवर्जयेत् ।। १ ।।

सप्तम्यां न स्पृशेत्तैलं नीलं वस्त्रं न धारयेत् ।।

न शयीत स्त्रिया सार्धं न सेवेत दुरोदरम् ।। २ ।।

न रुद्यादश्रुपातेन न वा ध्यायेत्पिशाचकान् ।।

नाकृषेच्छिरसो यूका न वृथावादमाचरेत् ।।

परस्यानिष्टकथनमतिवादं च वर्जयेत् ।। ३ ।।

न कंचित्ताडयेज्जंतुं न विशेत कदाचन ।।

ब्रह्महत्यामवाप्नोति विशमानो रवेर्गृहम् ।। ४ ।।

इत्येते समयाः प्रोक्ताः सौराणां गरुडाग्रज ।।

भोजकानां विशेषेण पुरा मे भानुनानघ ।। ५ ।।

भोजकः खगशार्दूल यो लोभाद्द्रव्यमुत्सृजेत् ।।

वृद्ध्यै तु सततं वीर स गच्छेन्नरकं धुवम् ।। ६ ।।

विशेषे चाल्पकशते कामयाने खगाधिप ।।

प्रयुज्यमानो भोजकस्तु पंचकेन शतेन वै ।। ७ ।।

प्रायश्चित्ती भवेद्वीर न चार्हः पूजने रवेः।।

कृत्वा सांतपनं कृच्छ्रं तत्रः संपूजयेद्रविम् ।। ८ ।।

नान्यदेवप्रतिष्ठा तु कर्तव्या भोजकेन तु ।।

कृत्वा तु तां खगश्रेष्ठ प्रायश्चित्तीयते नरः ।। ९ ।।

तस्मात्तु तां न कुर्याद्वै भोजकः खगसत्तम ।।

मुक्त्वा तु भास्करं देवं नान्यं देवं निवेदयेत् ।। १० ।।

कृत्वाधिवेशं देवानां ब्रह्मादीनां खगाधिप ।।

भोजको न स्पृशेद्भानुं कुर्यात्कृच्छ्रं च शुद्धये ।। ११ ।।

कृत्वा तु कृच्छ्रं विधि वच्छुद्धेर्हेतुं खगाधिप ।।

ततः पूजयितुं भानुमधिकारी भवेन्नरः ।। १२ ।।

न विज्ञातं प्रदातव्यं न म्लानं न च दूषितम् ।।

न च पर्युषितं माल्यं दातव्यमृद्धिमिच्छता ।। १३ ।।

देवमुल्लोचयेद्यस्तु स खलः पुष्पलोभतः ।।

पुष्पाणि च सुगंधीनि भोजको नेतराणि च ।। १४ ।।

ब्रह्महत्यामवाप्नोति भोजको लोभमोहितः ।।

महारौरवमासाद्य पच्यते शाश्वतीः समाः ।। १५ ।।

हंत ते कीर्तयिष्यामि धूपदानविधिं परम् ।।

प्रदाने देवदेवस्य येन धूपेन यत्फलम् ।। १६।।

सदा चंदनधूपेन सान्निध्यं कुरुते रविः ।।

प्रदद्यान्मानसे चैव यद्यदिच्छति मानवः ।।१७।।

तथैवागुरुधूपेन वरं दद्या दभीप्सितम् ।।

आरोग्यं वा स्त्रियं प्रेप्सुर्नित्यदा गुग्गुलं दहेत् ।। १८ ।।

मंगलं धूपदानेन सदा यच्छति भानुमान् ।।

आरोग्यं च स्त्रियं दद्या त्सौख्यं च परमं भवेत् ।। १९ ।।

सदा कुंकुमधूपेन सौभाग्यं लभते नरः ।।

श्रीवासकस्य धूपेन वाणिज्यं सफलं भवेत् ।। २० ।।

रसं सर्वरसोपेतं ददतोर्थागमो ध्रुवम् ।।

देवदारुं च दहतो भवत्यन्नमथाक्षयम् ।। २१ ।।

विलेपनं कुंकुमेन सर्वकामफलप्रदम् ।।

इह लोके सुखी भूत्वा दाता स्वर्गम वाप्नुयात् ।। २२ ।।

चंदनस्य प्रदानेन श्रियमायुश्च विंदति ।।

रक्तचंदनदानेन सर्वं दद्याद्दिवाकरः ।। २३ ।।

अपि रोगशतैर्ग्रस्तैः क्षिप्रारोग्यमवा प्नुयात् ।।

वर्तिगंधैश्च सौगंध्यं परमं विंदते नरः ।। २४ ।।

कस्तूरिकालेपनकैरैश्वर्यमतुलं लभेत् ।।

कर्पूरसंयुतैर्गंधैः क्ष्माधिपाधिपतिर्भवेत् ।। २५ ।।

चतुःसमेन गंधेन किं तुल्यं प्राप्नुयान्नरः ।।

देवागारं तु तन्मन्ये भक्त्या य उपलेपयेत् ।। २६ ।।

स रोगान्मुच्यते क्षिप्रं पुरुषो भोगवान्भवेत् ।।

अष्टादशेह कुष्ठानि ये चान्ये व्याधयो नृणाम् ।।

प्रलयं यांति ते सर्वे मृदा यद्युपलेपयेत् ।। २७ ।।

प्रलेपनानां सर्वेषां रक्तचंदनमुत्तमम् ।।

नातः परतरं किंचिद्भानोस्तुष्टिकरं परम् ।। २८ ।।

किं तस्य न भवेल्लोको यो ह्यनेन प्रलेपयेत् ।।

सर्वकामसमृद्धोऽसौ सूर्यलोके महीयते ।। २९ ।।

उपलिप्य रवेर्गेहं कुर्याद्वै मंडलं पुनः ।।

एकेनाथ समाप्नोति भाग्यमारोग्यमुत्तमम् ।। ३० ।।

त्रिभिः सप्तभिरच्छिन्ना बालो वान्योपि यो नरः ।।

तेन प्रदापयेद्देवान्कुर्यात्तान्न निवारयेत् ।।

अनेन विधिना कुर्याद्यावतीः सप्त सप्तमी ।। ३१ ।।

एता वै सप्त सप्तम्यो यथा प्रोक्ता विवस्वता ।।

कुर्वीत यो नरो भक्त्या सर्वपापैः प्रमुच्यते ।।३२।।

अर्कसंपुटकैर्वित्तं मरिचैः प्रियसंगमम् ।।

निंबपत्रै रोगनाशं फलैः पुत्रान्यथेप्सितान् ।।

धनं धान्यं सुवर्णं च ततो दद्याद्विवस्वते ।। ३३ ।।

जयं प्राप्नोति विपुलं कृत्वा सर्वत्र खेचर ।।

सर्वान्कामान्कामिकस्तु प्राप्नुयान्नात्र संशयः ।। ३४ ।।

नरो वा यदि वा नारी यथोक्तं सप्तमीव्रतम् ।।

यः करोति खगश्रेष्ठ स याति परमं पदम् ।। ३५ ।।

न तेषां त्रिषु लोकेषु किंचिदस्तीति दुर्लभम् ।।

ये भक्त्या लोकनाथस्य व्रतिनः संयतेन्द्रियाः ।। ३६ ।।

सर्वयज्ञफलं तेषां यथा वेदोदितं भवेत्।।

ब्रह्मेंद्रविष्णवस्तेन पूजिता नात्र संशयः ।।३७ ।।

नांधो न कुष्ठी न क्लीबो न व्यंगो न च निर्धनः ।।

कदापि च भवेत्कश्चिद्यश्चरेत्सप्तमीव्रतम् ।। ३८ ।।

पुत्रार्थी श्रुतिसंपन्नाल्लँभेत्पुत्राश्चिरायुषः ।।

न तेषां त्रिषु लोकेषु किंचिदस्तीति दुर्लभम् ।।

भोगार्थी लभते भोगान्व्रतेनानेन सुव्रत।। ३९ ।।

क्रोधात्प्रमादाल्लोभाच्च व्रतभंगो यदा भवेत् ।।

प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ।।४०।।

सप्तैव यावत्सप्तम्यः संप्राप्ता गुरुणा खग ।।

तासु भास्करमभ्यर्च्य माल्यधूपादिभिर्नरः ।।

भोजयित्वा द्विजाञ्छक्त्या प्राप्नुयात्स्वर्गमक्षयम् ।। ४१ ।।

सप्तम्यां विप्रमुख्येभ्यो योऽन्नं दद्यात्खगेश्वर ।।

तदक्षयं भवेत्तस्य स च सूर्यगृहं व्रजेत् ।। ४२ ।।

इति ते कीर्तितं वीर सप्तमीव्रतमुत्तमम् ।।

भूय एवाभिधास्यामि शृणु मे वदतोनघ ।। ४३ ।।

येन व्रतप्रभावेण कामिकं फलमश्नुते ।।

सप्तमीं खगशार्दूल शुक्लां द्वादशनामिकाम् ।। ४४ ।।

गोमूत्रगोमयाहारः षड्वृताहार एव च ।।

अथ वा यावकाहारः शीर्णपर्णाशनोपि वा। ।४५।।

क्षीराशी चैकभक्तं(चैव भक्तं?) वा सिक्थाहारोथ वा पुनः ।।

जलाहारोथ वा विद्वान्पूजयेत दिवाकरम् ।। ४६ ।।

पुष्पोपहारैर्विविधैः पद्मसौगंधिकोत्पलैः ।।

नानाप्रकारैर्गंधैश्च धूपैर्गुग्गुलुचंदनैः ।। ४७ ।।

कृशरैः पायसान्नैर्वा विविधैश्च विभूषणैः ।।

अर्चयित्वा द्विजश्रेष्ठ भक्ष्यवस्त्रादिभूषणैः ।। ४८ ।।

सर्वपक्षफलं प्राप्य सूर्यलोकं ततो व्रजेत् ।।

तपसोंते ततो वीर कुले महति जायते ।। ४९ ।।

यथाक्रमं प्रयत्नेन नामानि परिकीर्तयेत् ।।

माघे च फाल्गुने मासि चैत्रे च गरुडाग्रज ।। ५० ।।

वैशाखे त्वथ ज्येष्ठे तु आषाढे श्रावणे तथा ।।

मासि भाद्रपदे वीर तथा चाश्वयुजे खग ।। ५१।।

मार्गशीर्षे तथा पौषे पूजयेत्सततं रविम् ।।

विभावसुं विवस्वंतं भास्करं पक्षिसत्तम ।। ५२ ।।

विकर्तनं पतंगं च सहस्रांशुं खगाधिप ।।

एतानि देवनामानि मासेष्वेतेषु खेचर ।। ५३ ।।

पूजयेद्देवदेवेशं देवानामपि दुर्लभम् ।।

एवं क्रमेण तीक्ष्णांशुं नामभिः परिपूजयेत् ।। ५४ ।।

इत्येवं ते समाख्यातं मया गुह्यमिदं खग ।।

अभक्ताय न दातव्यं नाशिष्याय कथंचन ।। ५५ ।।

न च पापकृते वीर दातव्यं विनतात्मज ।।

व्याधेस्तु नाशनार्थाय देयं विप्राय सुव्रत ।। ५६ ।।

दत्त्वा स्वर्गमवाप्नोति श्रुत्वा च विधिवत्खग ।। ५७ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सौरधर्मे सप्तमीकल्पे नामपूजाविधिवर्णनं नाम षण्णवत्यधिकशततमोऽध्यायः ।। १९६ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 197

वराटिकावर्णनम्

।। सप्ताश्वतिलक उवाच ।। ।।

अतः परं प्रवक्ष्यामि पुष्पधूपादिकामिकम् ।।

येन येन तु दानेन तत्तत्फलमवाप्नुयात् ।। १ ।।

मालतीकुसुमैः पूजा भवेत्सान्निध्यकारिका ।।

आरोग्यं करवीरैस्तु भवत्यर्थश्च शाश्वतः ।। २ ।।

ऐश्वर्यमतुलं चैव यशश्च विपुलं तथा ।।

मल्लिकायाश्च कुसुमैर्भगवत्सम्मुखो भवेत् ।। ३ ।।

सौभाग्यं पुंडरीकैस्तु परमैश्वर्यमाप्नुयात् ।।

कमलोत्पलकुंदैस्तु यशो विद्या बलं भवेत् ।। ४ ।।

नानाविधैः सुकुसुमैः क्षिप्रं रोगात्प्रमुच्यते ।।

भवत्यक्षयमन्नं च नित्यम र्चयतो रविम् ।। ५ ।।

मंदारकुसुमैः पूजा सर्वकुष्ठनिवारिणी ।।

बिल्वस्य पत्रकुसुमैर्महतीं श्रियमाप्नुयात् ।। ६ ।।

अर्कस्रजा भवत्यर्कः सर्वदा वरदः प्रभुः ।।

प्रदद्याद्रूपिणीं कन्यामर्चितो बकुलस्रजा ।।७।।

किंशुकैः पूजितो देवो न पीडयति भास्कर. ।।

अगत्स्यकुसुमैः सिद्धिं सानुकूल्यं प्रयच्छति ।। ८ ।।

स्वयं रूपवतीं दद्यात्पूजितश्चंपकस्रजा ।।

निरुद्वेगो भवेन्नित्यं पूजितः पुष्पमालया ।। ९ ।।

अशोककुसुमैर्देवमर्चयेद्यो दिवाकरम् ।।

आम्रातकस्य कुसुमं निर्माल्यमिव दृश्यते ।। १० ।।

अप्रत्यग्नं(ग्रं) बहिर्यस्मात्तस्मात्तत्परिवर्जयेत् ।।

नवभिस्त्वचलां कीर्तिं दशभिः सुखमुत्तमम् ।। ११ ।।

भोगानेकादशेनेह प्राप्नुयान्नात्र संशयः ।।

द्वादशेनाचलं राज्यं द्वादशाख्यमवाप्नुयात् ।। १२ ।।

प्रथमं पूजयेद्भक्त्या भूरूपं प्रणमेत्सदा ।।

भुवर्नमो द्वितीयं च तृतीयं स्वर्नमेन्नरः ।। १३ ।।

महर्नमश्चतुर्थं तु पंचमं तु जनो नमः ।।

तपो नमस्तथा षष्ठं नमः सत्यं तु सप्तमम् ।। १४ ।।

अष्टमं भूर्भुवश्चेति नवमं खगसत्तम ।।

दशमं षडतो वीर नमोल्काय तथा परम् ।। १५ ।।

द्वादशं तु खषोल्केति ॐ नमः पूजयेत्खग ।।

एवं मंडलकारी तु क्रमादेवं फलं लभेत् ।।१६।।

घृतदीपप्रदानेन चक्षुष्माञ्जायते नरः ।।

कटुतैलस्य दीपेन शत्रूणां संश्रयो भवेत् ।।

मधूकानां तु तैलेन सौभाग्यं परमं लभेत् ।। १७ ।।

संपूज्य विधिवद्देवं पुष्पधूपादिभिर्नरः ।।

यथाशक्त्या ततः पश्चान्नैवेद्यं तु प्रकल्पयेत् ।। १८ ।।

पुष्पाणां प्रवरा जाती धूपानां चैव चन्दनम् ।।

गंधानां कुंकुमं श्रेष्ठं मोदकाश्च निवेदने ।। १९ ।।

एतैस्तुष्यति देवेशः सान्निध्यं चाधिगच्छति ।।

ददाति प्रवरानिष्टान्दातुश्च स्वर्गतिं तथा ।। २० ।।

एवं संपूज्य विधिवत्कृत्वा चापि प्रदक्षिणाम् ।।

प्रणम्य शिरसा देवं भास्करं तिमिरापहम् ।।

आरुह्य सुविमानं स याति भानोः सलोकताम्।।२१।।

पुनः संपूज्य देवेशं जपं कुर्याद्यथेष्टकम्।।

हुताशने च जुहुयाद्विधिदृष्टेन कर्मणा ।।

एवमेकैकशः कार्याः सप्तम्यः सप्त सर्वदा।।२२।।

उदकप्रसृतिं पीत्वा क्रियते या तु सप्तमी ।।

सा ज्ञेया सुखदा वीर सदैवोदकसप्तमी ।। २३ ।।

या काचित्सप्तमी नोक्ता तां ते वक्ष्यामि मर्वदा।।

वराटिका क्रमेणाप्तं यत्किंचित्प्रतिभक्षयेत् ।। २४ ।।

अनेन देयमूल्येन यल्लब्धं तत्प्रभक्षयेत ।।

अभक्ष्यं चापि भक्ष्यं वा नात्र कार्या विचारणा।। २५ ।।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु वराटिकावर्णनं नाम सप्तनवत्यधिकशततमोऽध्यायः ।। १९७ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 198

व्यासभीष्मसंवादवर्णनम्

।। शतानीक उवाच ।। ।।

किमेकं दैवतं लोके किं वाप्येकं परायणम् ।।

स्तुवन्तः कं कमर्चतः प्राप्नुयुर्मानवाः शुभम् ।। १ ।।

को धर्मः सर्वधर्माणां कश्च पूज्यो मतस्तव ।।

ब्रह्मादयः कमर्चंति कश्चादिस्त्रिदिवौकसाम्।। २ ।।

।। सुमन्तुरुवाच ।। ।।

अत्राहं ते प्रवक्ष्यामि संवादं पापनाशनम् ।।

भीष्मस्य नरशार्दूल व्यासस्य च महात्मनः ।।३।।

सुखासीनं महाव्यासं गंगाकूले द्विजोत्तम।।

तं दृष्ट्वा सुमहातेजा ज्वलंतमिव पावकम् ।।४।।

साक्षान्नारायणं देवं तेजसादित्यसन्निभम्।।

प्रणम्य शिरसा वीर सर्वशास्त्रालयं परम् ।।५।।

महाभारतकर्तारं वेदार्थनिकषं परम् ।।

आचार्यं परमर्षीणां राजर्षीणां च भारत ।।६।।

कर्तारं कुरुवंशस्य दैवतं परमं मम ।।

पप्रच्छ कुरुशार्दूलो द्विजभक्त्या समन्वितः ।।७।।

देवदेवस्य माहात्म्यं चित्तस्थं भास्करस्य तु ।।

स महात्मा महातेजा भीष्मः पूर्वं मुनिं तथा ।। ८ ।।

।। भीष्म उवाच ।। ।।

भगवन्द्विजशार्दूल पाराशर्य महामते ।।

ममाख्यातं त्वया सर्वं वाङ्मयं सचराचरम् ।। ९ ।।

भास्करस्य मुनिश्रेष्ठ संशयोद्यापि वर्तते ।।

आदौ तस्य नमस्कारमन्येषां तदनंतरम् ।। १० ।।

ब्रह्मादीनां तु रुद्राद्यैर्ब्रूहि तत्त्वेन हेतुना ।।

क एष भास्करो ब्रह्मन्कुतो जातः क उच्यते ।। ११ ।।

कीर्तयस्व यथान्यायं कौतुकं हि परं मम ।।

कुशलो हि भवांल्लोके तस्मात्त्वं वक्तुमर्हसि ।। १२ ।।

।। व्यास उवाच ।। ।।

अहो तव महत्कष्टं प्रमूढोसि न संशयः ।।

स्तुवंतश्च तमर्चाभिः सिद्धा ब्रह्मादयः सुराः ।। १३ ।।

सर्वेषामेव देवानामादिरादित्य उच्यते ।।

स हंति तिमिरं सर्वं दिग्विदिक्षु व्यवस्थितम् ।। १४ ।।

स धर्मः सर्वधर्माणां स च पूज्यतमो मतः ।।

ब्रह्मादयस्तमर्चंति स चादिस्त्रिदिवौकसाम् ।। १५ ।।

अदितिः कश्यपसती आदित्यस्तेन चोच्यते ।।

आदिकर्ताथ वा यस्मा त्तस्मादादित्य उच्यते ।। १६ ।।

तस्मादेतज्जगत्सर्वमादित्यात्संप्रवर्तते ।।

सदेवासुरगंधर्वं सयक्षोरगराक्षसम् ।। १७ ।।

रुद्रोपेंद्रौ तथेंद्रश्च ब्रह्मा दक्षोथ कश्यपः ।।

आदित्यदेवताः सर्वे तथान्ये देवदानवाः ।। १८ ।।

मुखाद्भूतो विरिंचिस्तु रुद्रो वक्षस्थलात्ततः ।।

उपेंद्रो दक्षिणाद्धस्ताद्धाता वामकरात्तथा ।। १९ ।।

वामपादतलाद्दक्षो दक्षिणात्कश्यपस्तथा ।।

इत्युत्पन्नास्तथा चान्ये देवासुरनराः खगाः ।।

तेनासौ देव आदित्यः सर्वदेवेषु पूजितः ।।२०।।

।। भीष्म उवाच ।। ।।

यदीत्थं गीयते वीर दिग्विदिक्षु स भास्करः ।।

यदि तस्य प्रभावोयं पाराशर्य जगत्पतेः ।।२१।।

स किमर्थं त्रिसंध्यं तु राक्षसैः परिभूयते ।।

द्विजैः संरक्ष्यते भूयश्चक्रवद्भ्रमते पुनः ।।

राहुणा गृह्यतेऽग्राह्यस्तत्किमर्थं द्विजोत्तम ।।२२।।

।।व्यास उवाच ।। ।।

पिशाचोरगरक्षांसि डाकिनीदानवांस्तथा ।।

दक्षिणाग्निर्दहेत्क्रोधात्तमाक्रामति भास्करः ।। २३ ।।

त्रिसंध्यं तु त्रयो देवाः सान्निध्यं रविमंडले ।।

मुहूर्तस्य प्रभावोयमसाध्ये दृष्टके तथा ।। २४ ।।

तमेकमेवमुद्दिश्य लोके धर्मः प्रवर्तते ।।

नमस्कृते स्तुते तस्मिन्सर्वे देवा नमस्कृताः ।। २५ ।।

त्रिसन्ध्यं वसुधादेवैर्भास्करस्त्रिः प्रणम्यते ।।

राहुरादित्यबिंबस्य स्थितोधस्तान्न संशयः ।। २६ ।।

अमृतार्थी विमानस्थो यावत्संस्रवतेऽमृतम् ।।

विमानांतरितं बिंबमादिशेद्ग्रहणं ततः ।। २७ ।।

न कश्चिद्धर्षितुं शक्त आदित्यो दहते ध्रुवम् ।।

दिवारात्रिमुहूर्तानां ज्ञानायाक्रमते रविः।।२८।।

नादित्येन विना रात्रिर्न दिनं न च तर्पणम् ।।

नाधर्म्मो नाथ वा धर्म्मस्तेन दृष्टं चराचरम् ।। २९ ।।

आदित्यः पाति वै सर्वमादित्यः सृजते सदा ।।

एतत्सर्वं समाख्यातं यत्पृष्टं भवता मम ।। ३० ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे व्यासभीष्मसंवादेऽष्टनवत्यधिकशततमोऽध्यायः ।। १९८ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 199

भीष्मव्याससंवादवर्णनम्

।। भीष्म उवाच ।। ।।

स आदित्यो भवेद्येन अचिरात्तु वरप्रदः ।।

तदहंश्रोतुमिच्छामि विप्र मां ब्रूहि तत्त्वतः ।। १ ।।

।। व्यास उवाच ।। ।।

पूजया जपहोमेन ध्यानधारणया सह ।।

सकलं मण्डलं कृत्वा तद्दीक्षा समयं तथा ।। २ ।।

लब्ध्वा राधयते यस्तु भक्त्या तद्गतमानसः ।।

तस्य भानुर्भवेद्वीर अचिरात्तु वरप्रदः ।। ३ ।।

बलसिद्धिं महद्वीर्यं प्रतापं च स्वकायनम् ।।

धनं धान्यं सुवर्णं च रूपं सौभाग्यसंपदम् ।। ४ ।।

आरोग्यमायुः कीर्तिं च यशः पुत्रांश्च मानद ।।

ददते नात्र संदेहो यस्य तुष्टो दिवाकरः ।। ५ ।।

धर्ममर्थं तथा कामं विद्यां मोक्षश्रियं तथा ।।

ददते भास्करस्तुष्टो नराणां नात्र संशयः ।। ६ ।।

सौरेण विधिना तात पूजयित्वा दिवाकरम् ।।

सर्वान्कामानवाप्नोति तथादित्यालयं नृप ।। ७ ।।

।। भीष्म उवाच ।। ।।

सौरस्नानविधिं ब्रूहि सरहस्यं महामते ।।

येन स्नातोऽमलो याति नरः पूज यितुं रविम् ।। ८ ।।

।। व्यास उवाच ।। ।।

हंत ते संप्रवक्ष्यामि स्नानं पापप्रणाशनम् ।।

शुचौ मनोरमे स्थाने संगृह्यास्त्रेण मृत्तिकाम् ।।९ ।।

संधिसंघो हकारस्तु टरेफोफसमन्विते ।।

अनेनास्त्रेण संगृह्य ततः स्नानं समाचरेत् ।। १०।।

मलस्नानं ततः पश्चाच्छेषार्धेन तु कारयेत् ।।

भागत्रयं तु सार्धं तु तृणपाषाणवर्जितम् ।। ११ ।।

एकमस्त्रेण चालभ्य तथान्यं भास्करेण तु ।।

अंगं चैव तृतीयेन अभिमंत्र्य सकृत्सकृत् ।। १२ ।।

जप्त्वास्त्रेण क्षिपेद्दिक्षु निर्विघ्नं तु जलं भवेत् ।।

सूर्यतीर्थे द्वितीयेन अभिमंत्र्य सकृत्सकृत् ।। १३ ।।

गु(मु)ण्डयित्वा ततः स्नायादिति तीर्थेषु मानवः ।।

तूर्यशंखनिनादेन ध्यात्वा देवं दिवाकरम् ।। १४ ।।

स्नात्वा राजोपचारेण पुनराचम्य यत्नतः ।।

स्नानं कृत्वा ततो भीष्म मंत्रराजेन संयुतम् ।। १५ ।।

हरेफौ बिंदुयुक्तश्च तथान्यो दीर्घया सह ।।

मात्रया रेफसंयुक्तो हकारो बिंदुना सह ।। १६ ।।

सकारः सविसर्गस्तु मंत्रराजोऽयमुच्यते ।।

ततस्तु तर्पयेन्मंत्रान्सर्वांस्तांस्तु कराग्रजैः ।। १७ ।।

पर्वणामूर्ध्वतो देवाः सव्येन मुनयस्तथा ।।

पितरश्चापसव्येन तद्बीजेन प्रतर्पयेत्।। ।। १८ ।।

यद्गीतं प्रवरं लोके अक्षराणां मनीषिभिः ।।

तद्बिंदुसहितं प्रोक्तं हृद्बीजं नात्र संशयः ।। १९ ।।

कृत्वा वामकरे हस्ताद्ध्यात्वा प्राज्ञो विधानवित् ।।

एवं स्नात्वा विधानेन संध्यां वन्देद्विधानतः ।। २० ।।

ततो विद्वान्क्षिपेत्पश्चाद्भास्करायोदकांजलिम् ।।

जपेच्च त्र्यक्षरं मंत्रं षण्मुखं वा यदिच्छया ।। २१ ।।

मंत्रराजेति यः पूर्वं तवाख्यातो मया नृप ।।

पश्चात्तीर्थे तु मंत्रांस्तु संहृत्य हृदयं न्यसेत् ।। २२ ।।

मंत्रैरात्मानमेकत्र कृत्वा ह्यर्घ्यं प्रदापयेत् ।।

रक्तचन्दनगंधैस्तु शुचिस्नातो महीतले ।। २३ ।।

कृत्वा मण्डलकं वित्तमेकचित्तो व्यवस्थितः ।।

गृहीत्वा करवीराणि संस्थाप्य ताम्रभाजने ।। २४ ।।

तिलतंडुलसयुक्तं कुशगन्धोदकेन तु ।।

रक्तचन्दनधूपेन युक्तमर्घ्यं प्रसाध्य तत् ।। २५ ।।

कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः ।।

पूर्वमंत्रेण संयुक्तमर्घ्यं दद्यात्तु भानवे ।।२६।।

मुच्यते सर्वपापैस्तु यो ह्येवं विनिवेदयेत् ।।

यद्युगादिसहस्रेण व्यतीपातशतेन च ।। २७ ।।

अयनानां सहस्रेण चन्द्रस्य ग्रहणे तथा ।।

गवां शतसहस्रेण यत्फलं ज्येष्ठपुष्करे ।।

दत्ते कुरुकुलश्रेष्ठ तदर्घ्येण फलं लभेत् ।।२८।।

दीक्षामन्त्रविहीनोऽपि भक्त्या संवत्सरेण तु ।।

फलमर्घ्येण वै वीर लभते नात्र संशयः ।। २९ ।।

यः पुनर्दीक्षितो विद्वान्विधिनार्घ्यं निवेदयेत् ।।

नासावुत्पद्यते भूमौ स लयं याति भास्करे।। ३० ।।

इह जन्मनि सौभाग्यमायुरागेग्यसंपदाम् ।।

अचिराद्भवते वीर स भार्यासुखभाजनम्।।३१।।

एष स्नानविधिः प्रोक्तो मया संक्षेपतस्तव ।।

हिताय मानवेंद्राणां सर्वपापप्रणाशनः ।।३२।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु भीष्मव्याससंवाद एकोनद्विशततमोऽध्यायः ।। १९९ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 200

सौरधर्मवर्णनम्

।। भीष्म उवाच ।। ।।

कथितस्ते स्नानविधिर्ब्रह्मन्वै पापहारकः ।।

सम्यग्ब्रह्मर्चनविधिं पूजयिष्यामि येन वै ।। १ ।।

।। व्यास उवाच ।। ।।

हंत ते संप्रवक्ष्यामि विधिमादित्यपूजने ।।

विविक्ते विजय स्थाने सुप्रसन्ने सुशोभने ।। २ ।।

पूजयेद्भास्करं मन्त्री सरलीकृतविग्रहः ।।

भद्रासनसमारूढः प्राङ्मुखः साधकोत्तमः ।। ३ ।।

अस्त्रबीजेन मंत्रेण नरः स्वांगानि विन्यसेत् ।।

अंगुष्ठमादितः कृत्वा कनिष्ठान्तं सुविन्यसेत् ।।४।।

हृदयादीन्फडन्तांस्तान्विन्यसेत्क्रमतः सदा ।।

नेत्रपाणितले वीर न्यस्य अर्घ्यादि मंत्रवित् ।। ५ ।।

यवर्गे यचतुर्थं तु कर्णबिंदुसमन्वितम् ।।

नेत्रबीजमिति प्रोक्तं ज्योतीरूपं न संशयः ।।६।।

पश्चात्तु त्र्यक्षरं सूर्यं कवचं विन्यसेद्बुधः ।।

कथितं तन्मया वीर मंत्रराजेति पृच्छतः ।। ७ ।।

प्राणायामं ततः कुर्यात्प्रथमं बीजमुद्गिरन् ।।

शेषक्रमेण हुत्वायं विरजे भीष्मशक्तितः ।। ८ ।।

त्रिभिरेव ततो घोरैरात्मशुद्धिः कृता भवेत् ।।

इति संशोध्य चात्मानं सूर्यं सर्वांतिकं न्यसेत् ।। ९ ।।

हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ।।

एकविंशतिमातृकाया अक्षरं यत्प्रकीर्तितम् ।। १० ।।

हृद्बीजमिति विख्यातं ब्रह्मस्थानमनौपमम्।।

शिरसार्कस्य पूजा तु लोकेर्कः प्रतिकथ्यते ।। ११ ।।

शिखायां तु शिखां न्यस्येच्छरीरे कवचं न्यसेत् ।।

नेत्रयोर्विन्यसेन्नेत्रं करयोरस्त्रमेव च ।। १२ ।।

महाव्याहृतयो राजंस्तथारज्वालिनी शिखा ।।

हकारश्च रकारश्च कुकारो बिंदुना सह ।।१३ ।।

एतेषां समयाश्चैव कवचं परिकथ्यते ।।

नेत्रयोर्विन्यसेन्नेत्रं करयोर स्त्रमेव च ।। १४ ।।

एवमंगानि विन्यस्य नासौ केनापि बाद्ध्यते ।।

शत्रवो मित्रतां यांति अलाभे लाभमाप्नुयात् ।।१५।।

आत्मानं भास्करं ज्ञात्वा यथोक्तं तत्त्वदर्शिभिः ।।

ततस्तु पूजयेद्भानुं स्थंडिले विधिवत्पुनः ।। १६ ।।

कृत्वा तु दक्षिणे पार्श्वे दिव्यपुष्पकरंडकम् ।।

कृत्वा सुशोभिते वामे ताम्रपूर्णेन वारिणा ।। १७ ।।

अस्त्रेण क्षालितां पूर्णां शेषं मंत्रैर्जलैस्तथा ।।

अभिमंत्र्य ततः स्थाप्य कवचेनावगुंठिताम् ।। १८ ।।

स्थंडिले चैव द्रव्याणि पूजार्थं कल्पितानि तु ।।

सर्वाणि प्रोक्षयेद्विद्वानर्घ्यपात्रं जलेन तु ।।

ततो मंत्रं जपेत्पश्चादेकचित्तेन मंत्रवित् ।।१९।।

।। भीष्म उवाच ।। ।।

पुराणसहितैर्मंत्रैर्यो विधिः कथितो बुधैः ।।२०।।

स मया विदितः कृत्स्नः कथितो नैकशो द्विजैः ।।

वेदोक्तैर्विविधैर्मंत्रैर्यथा संपूज्यते रविः ।।२१ ।।

तथा मे ब्रूहि सकलं वैदिकं विधिसत्तमम् ।। २२ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि सप्तमीकल्पे सौरधर्मे द्विशततमोऽध्यायः ।।२००।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 201

सूर्यमण्डलदेवतार्चनविधिवर्णनम्

।। व्यास उवाच ।।

अथ त्वां कथयिष्येहं संवादं धर्मवर्द्धनम् ।।

सुरज्येष्ठस्य देवस्य केशवस्य च भारत ।। १ ।।

मनोवत्यां सुरज्येष्ठं सुखासीनं चतुर्मुखम्।।

प्रणम्य शिरसा विष्णुरिदं वचनमब्रवीत् ।। २ ।।

।। विष्णुरुवाच ।। ।।

भगवन्देवदेवेश सुरज्येष्ठ चतुर्मुख ।।

आराधनविधिं ब्रूहि भास्करस्य महात्मनः ।। ३ ।।

कथमाराधयेद्भानुं मंडलस्थं दिवस्पतिम् ।।

ब्रूहि मेऽत्र गणं देवं येनाहं पूजये विभुम् ।। ४ ।।

साधुसाधु महाबाहो साधु पृष्टोऽ स्मि भूधर ।।

शृणु चैकमना देव भास्कराराधने विधिम् ।।५।।

खषोल्कं निर्मलं देवं पूजयित्वा विभावसुम् ।।

पूर्वे मध्ये तथाग्नेय्यां विरूपाक्षे प्रभं जने ।। ६ ।।

क्रमेण यावदीशानीं हृदि बीजेन विन्यसेत् ।।

खषोल्कासनमेतत्तु विन्यस्तं मानवोत्तमैः ।। ७।।

ततस्तस्योपरिष्टात्तु हृदयेन तु कंचु कम् ।।

सप्तावरणसंयुक्तमष्टपत्रं सकर्णिकम् ।। ८ ।।

केसरालंबदेवत्वं पंचवर्णं महाद्भुतम् ।।

परीक्षाभूमिविधिवच्छास्त्रोक्तविधिना कृतम् ।। ९ ।।

दीप्तादि पूर्वादारभ्य यावदीशानगोचरम् ।।

न्यसेच्छक्त्यष्टकं मंत्री मध्यतः सर्वतोमुखीम् ।। 1.201.१० ।।

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।।

अमोघा विद्युता चैव नवमी सर्वतोमुखी ।। ११ ।।

तत आवाहयेद्भानुं स्थापयेत्कर्णिकोपरि।।

उपस्थानं तु वै कृत्वा मंत्रेणानेन सुव्रत ।। १२ ।।

उदुत्यं जातवेदसमिति मंत्रः प्रकीर्तितः ।।

अग्निं दूतेन मंत्रेण अनेन विश्वसुव्रत ।।१३।।

आकृष्णेन रजसा मंत्रेणानेन चार्चयेत् ।।

हंसःशुचिषदिति च मंत्रेणार्कं प्रपूजयेत् ।। १४ ।।

अपप्तेतारकं देवीदीप्तानेन प्रपूजयेत् ।।

अदृश्रमस्यकेतवः सूक्ष्मां देवीं समर्चयेत् ।। १५।।

तरणिर्विश्वदर्शेति अनेन सततं जयम् ।।

प्रत्यङ्देवानां विशेति भद्रां देवीं समर्चयेत् ।। १६ ।।

विभूतिमर्चयेन्नित्यं येनापावकचक्षसा ।।

विद्यामेषीति मंत्रेण ह्यनेन विमलां सदा ।। १७ ।।

अमोघां पूजयेन्नित्यं मंत्रेणानेन सुव्रत।।

नवमीं पूजयेद्देवीं सततं सर्वतोमुखीम् ।। १८ ।।

मंत्रेणानेन कृष्णस्य उद्वयंतमितीह च ।।

उद्यन्नद्यमित्रहोमं प्रथममक्षरं व्रजेत्।। १९ ।।

द्वितीयं पूजयेत्कृष्णं शुक्लेषु हरिमाहवे ।।

उदगादयमादित्यो अनेनापि तृतीयकम् ।। 1.201.२० ।।

तत्सवितुर्वरेण्येति चतुर्थं परिकीर्तितम् ।।

महितोमहितोयेति पंचर्चं परिकीर्तयेत् ।। २१ ।।

हिरण्यगर्भः समवर्तता षष्ठं बीजं प्रकीर्तितम् ।।

सविता पश्चातात्पुरस्तात्सप्तमं देवसत्तम ।। २२ ।।

एवं बीजानि विन्यस्य आदित्यं स्थापयेद्द्विजः ।।

आदित्यं स्थापयेद्ध्याने सर्वेषां पूजयेद्बुधः ।। २३ ।।

बाह्यतो देवशार्दूल इन्द्रादीनां समंततः।।

रक्तवर्णं महातेजं सितपद्मोपरि स्थितम्।।२४।।

सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम्।।

द्विभुजं चैकचक्रं च सौम्यं पद्मधनुष्करम्।।२५।।

वर्तुलं तेन बिंबेन मध्यस्थमतितेजसम्।।

आदित्यस्य त्विदं रूपं सर्वलोकेषु पूजितम्।।२६।।

ध्यात्वा संपूजयेन्नित्यं स्थंडिलं मंडलाश्रितम्।।२७।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यमण्डलदेवतार्चनविधिवर्णनं नामैकाधिक द्विशततमोऽध्यायः ।। २०१ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 202

आदित्यपूजाविधिवर्णनम्

विष्णुरुवाच ।। ।।

मण्डलस्थं सुरश्रेष्ठ विधिना येन भास्करम् ।।

पूजयेन्मानवो भक्त्या स विधिः कथ्यतां मम ।। १ ।।

पूजयेद्विधिना येन भास्करं पद्मसंभवम् ।।

मूर्तिस्थं सर्वगं देवं पूजितं ससुरासुरैः ।।२।।

।। ब्रह्मोवाच ।।

साधु कृष्ण महाबाहो साधु पृष्टोऽस्मि सुव्रत ।।

शृणु चैकमनाः पूर्वं मूर्तिस्थं येन पूजयेत् ।। ३ ।।

इषे त्वेति च मन्त्रेण उत्तमांगं सदार्चयेत् ।।

अग्निमीळेति मन्त्रेण पूजयेद्दक्षिणे करे ।।४।।

अग्न आयाहि मन्त्रेण पादौ देवस्य पूजयेत् ।।

आजिघ्रेति च मंत्रेण पूजयेत्पुष्पमालया ।।५।।

योगयोगति मंत्रेण मुक्तपुष्पांजलिं क्षिपेत् ।।

समुद्रं गच्छ यत्प्रोक्तमनेन स्नापयेद्रविम् ।। ६ ।।

इमं मे गंगेति यत्प्रोक्तमनेनापि च भूधर ।।

समुद्रज्येति मन्त्रेण कषायैः परिरूपयेत्।। ७ ।।

स्नापयेत्पयसा कृष्ण आप्यायस्वेति मन्त्रतः ।।

दधिक्राव्णेति वै दध्ना स्नापयेद्दधिवद्रविम् ।। ८ ।।

तेजोऽसि शुक्रमिति च घृतेन स्नपनं परम्।।

या औषधीति मंत्रेण स्नानमोषधिभिः स्मृतम् ।। ९ ।।

उद्वर्तयेत्ततो द्विपदाभिः सुराधिप ।।

मानस्तोकेति मन्त्रेण युगपत्स्नानमाचरेत्।।१०।।

विष्णोरराटमन्त्रेण स्नापयेद्गन्धवारिणा।।

सौवर्णेन तु मंत्रेण अर्घ्यं पाद्यं निवेदयेत्।।११।।

इदं विष्णुर्विचक्रमे मंत्रेणार्घ्यं प्रदापयेत्।।

वेदोऽसीति हि मंत्रेण उपवीतं प्रदापयेत्।।१२।।

बृहस्पतेति मन्त्रेण दद्याद्वस्त्राणि भानवे।।

येन श्रियं प्रकुर्वाणां पुष्पमालां प्रयोजयेत्।।१३।।

धूरसीति च मन्त्रेण धूपं दद्यात्सगुग्गुलम्।।

समिद्धोंऽजनमंत्रेण अंजनं तु प्रयच्छति।।१४।।

युञ्जानीति च मंत्रेण भानुं रोचनयार्चयेत् ।।

आरक्तकं च वै कुर्याद्दीर्घायुष्ट्वाय वै बुधः ।। १५ ।।

सहस्रशीर्षा पुरुषो रविं सरसि पूजयेत् ।।

संभावयेति मंत्रेण पद्मनेत्रे परामृशेत् ।। १६ ।।

विश्वतश्चक्षुरित्येवं भानोर्देहं समालभेत् ।।

श्रीश्च ते लक्ष्मीश्चेति मंत्रेणानेन पूजयेत् ।। १७ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्म आदित्यपूजाविधिवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः ।। २०२ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 203

भास्कराराधनविधिवर्णनम्

।। विष्णुरुवाच ।।

व्योमपूजाविधिं ब्रूहि समासाच्चतुरानन ।।

अष्टशृंगं कथं व्योम पूजयेद्भास्करस्य तु ।। १ ।।

।। ब्रह्मोवाच ।। ।।

व्योमपूजाविधिं कृष्ण निबोध गदतो मम ।।

अष्टशृंगं यथा व्योम पूजयंति मनीषिणः ।। २ ।।

सौवर्णं राजतं ताम्रं कृत्वा चाश्ममयं तथा ।।

अष्टशृंगं महाबाहो अनेन विधिनार्चयेत् ।। ३ ।।

प्रथमं पूजयेद्भानुं मध्ये मंत्रेण सुव्रत ।।

महिषा वो महायेति नानापुष्पकदंबकैः ।। ४ ।।

त्रातारमिंद्रं मंत्रेण सर्वशृंगं सदार्चयेत् ।।

उदीरतामवर इत्यथ वानेन पूजयेत् ।। ५ ।।

आयं गौरिति मन्त्रेण नैर्ऋ(कृ)तं शृंगमर्चयेत् ।।

रक्षोहणं वाजिनं वा पूजयेदसुरांतकम् ।। ६ ।।

इन्द्रसोमांतपतये ह्यथ वानेन पूजयेत् ।।

अभित्वा शूर नो नुम ऐशानं शृंगमर्चयेत् ।। ७ ।।

एवं भानुं च परितः पूजयंति सदाच्युत ।।

येनेदं भूतमिति वै अथ वानेन पूजयेत ।। ८ ।।

नमोऽस्तु सर्वपापेभ्यो व्योमपीठं सदार्चयेत् ।।

ते नराः सततं कामान्प्राप्नुवंति न संशयः ।। ९ ।।

त्वमेको रुद्राणां वसूनां पूर्वाह्णे तेन पूजयेत् ।।

तद्विष्णोः परमं पदं हंसः शुचिषदिति वै अपराह्ने सदार्चयेत् ।। १० ।।

एवं भानुं ग्रहैः सार्धं पूजयंति सदस्पते ।।

ते सर्वान्विविधान्कामान्प्राप्नुवंति न संशयः ।। ११ ।।

विमले वाससी दत्त्वा गुरवे सपवित्रके ।।

उपानहौ तथा कृष्ण सौवर्णमंगुलीयकम् ।। १२ ।।

गन्धपुष्पाणि चित्राणि भक्ष्यभोज्यान्यनेकशः ।।

अनेन विधिना यस्तु सोपवासोर्चयेद्रविम् ।।

बहुपुत्रो बहुधनः स नरो भव्यवान्भवेत् ।।१३।।

उत्तरे चायने यस्तु सोपवासोर्चयेद्रविम् ।।

सोश्वमेधफलं विंद्याद्बहुपुत्रश्च जायते ।। १४ ।।

कृत्वोपवासं विषुवे यस्तु पूजयते रविम् ।।

बहुपुत्रो बहुधनो कीर्तिमांश्चापि जायते ।। १५ ।।

कृत्वोपवासं ग्रहणे विधिवच्चंद्रसूर्ययोः ।।

पूजयेद्भास्करं भक्त्या ब्रह्मलोकं स गच्छति ।। १६ ।।

इति ते कथितो विष्णो भास्कराराधने विधिः ।।

यं श्रुत्वा पुरुषो भक्त्या मम लोके महीयते ।। १७ ।।

पुनरेत्य महीं कृष्ण राजा भवति भूतले ।।

बहु पुत्रो बहुधनः समरेष्वपराजितः ।। १८ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे भास्कराराधनविधिवर्णनं नाम त्र्यधि कद्विशततमोऽध्यायः ।। २०३ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 204

व्योमार्चनविधिवर्णनम्

।। सुमन्तुरुवाच ।। ।।

अतः परं प्रवक्ष्यामि विधिं परमपूजितम् ।।

रत्नव्योमप्रतिष्ठायां यथा भानुं प्रपूजयेत् ।। १ ।।

अर्चयित्वा तु प्रकृतिं गंधपुष्पाक्षतैर्विभो ।।

सहोदकेनांजलिना सहपुष्पाक्षतेन वा ।। २ ।।

आवाहयेन्महादेवं खषोल्कं भास्करं विभुम् ।।

मन्त्रेण कुरुशार्दूल प्रत्यक्षकिरणाय वै ।। ३ ।।

ॐ खषोल्कमावाहयामि ॐ भूर्भुवः स्वरों आदित्याराधने मन्त्रः ।। ४ ।।

अभिमन्त्र्य भुवे मात्रं सावित्र्या च ऋचा विभो ।।

आपो हिष्ठेति या प्रोक्ता वृथा सूर्यस्य सर्वदा ।। ५ ।।

यथान्यायं तु संक्षाल्य पूरयेच्चान्यतो यतः ।।

हिरण्यगर्भः समवर्ततेत्यनया क्षालयेद्बुधः ।। ६ ।।

सविता पश्चातात्सविता ह्यनया पूरयेद्बुधः ।।

इत्येवं पूरयित्वा तु वारि पुष्पाक्षतैर्बुधः ।। ७ ।।

पात्रमौदुम्बरं गृह्य कृत्स्नं सूर्यस्य दर्शयेत् ।।

उदुत्यं जातवेदसमनया व्योम्नि निक्षिपेत् ।। ८ ।।

हंसः शुचिषदिति पाद्यं दद्याद्विचक्षणः ।।

निर्वापयेच्च पयसा खषोल्कं स्नापयेत्ततः ।। ९ ।।

अग्निस्तु सप्तभिर्वीर कीर्तितास्ताश्च कृत्स्नशः ।।

आपो हिष्ठेति च क्रमात्तिसृभिः कुरुनंदन ।। १० ।।

हिरण्यवर्णेति क्रमाच्चतुर्भिश्च नराधिप ।।

अभिमंत्र्योदकमृग्भिस्तिसृभि र्निक्षिपेन्नृप ।। ११ ।।

भानोः प्रदक्षिणं कृत्वा कृणुष्वपाज इत्यपि ।।

त्य(इत्य)मूषु वाजिनं गिरः प्रथमा परिकीर्तिता ।। १२ ।।

पतिमिंद्रस्तवाचाम द्वितीया परिकीर्तिता ।।

पतिमिंद्रस्तु शुद्धो न आगहि तृतीया परिकीर्तिता ।। १३ ।।

सिध्ये वृत्राणि जिघ्ने शगंधैर्भानुं प्रपूजयेत्।।

अस्य वामस्येत्यनया अक्षतैः पूजयेद्रविम् ।। १४ ।।

सप्त युंजंति रथमनया पूजयेद्रविम् ।।

पुष्पैर्भरतशार्दूल सततं तमनाशनम् ।। १५ ।।

को ददर्श प्रथम मनया धूपमादिशेत् ।।

पाकः पृच्छाम्यनया चंदनं प्रतिपादयेत् ।। १६ ।।

उद्दीप्यस्येत्यनया दीपं दद्याद्विभावसोः ।।

अर्चित्वा कुंकुमं चैव शीर्षं क्षीरं तु मंडलम् ।। १७।।

युक्ता मातासीत्यनया नैवेद्यं प्रतिपादयेत् ।।

गौरीर्मिमायेति दद्यात्तथा शुक्ले च वाससी ।। १८ ।।

तस्याः समुद्रेत्यनया उपवीतं निवेदयेत् ।।

इति संपूज्य देवेशं ततः कुर्यात्परां स्तुतिम् ।। १९ ।।

ऋग्भिर्वै पंचभिस्तात शृणु चैकमनादृतः ।।

उक्षाणं पृश्निरिति च प्रथमा परिकीर्तिता ।। २० ।।

चत्वारि वागिति भवेद्द्वितीया परिकीर्तिता ।।

इंद्रं मित्रं तृतीया तु वराधिक्ये प्रकीर्तिता ।। २१ ।।

कृष्णं नियानं हि तथा चतुर्थी परिकीर्तिता ।।

यो रत्नवाहीत्यनया किरीटं योजयेद्रवौ ।। २२ ।।

गतेहनामित्यनया अव्यंगं भास्करं न्यसेत् ।।

इयमददाद्रभसमृणच्युतमिति ऋगादितः ।। २३ ।।

कृत्वा पूजां ततश्चर्ग्भिरष्टाभिरिति चाच्युत ।।

देवस्य शक्तयोऽष्टौ च पूजयेद्विधिवत्क्रमात् ।। २४ ।।

इत्येष ते मयाख्यातः प्रतिमापूजने विधिः ।।

यः पुरोक्तो महाबाहो ब्रह्मणा विष्णवे तथा ।।२५।।

अनेन विधिना यस्तु सततं पूजयेद्रविम् ।।

स प्राप्नोत्यखिलान्कामानिह लोके परत्र च ।।२६।।

पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ।।

कन्यार्थी लभते कन्यां वेदार्थी वेदविद्भवेत् ।।२७।।

निष्कामः पूजयेद्यस्तु स मोक्षं प्राप्नुयान्नरः ।।

अनेन विधिना पूज्य गतः सिद्धिं स वैष्णवः ।। २८ ।।

ब्रह्मादयस्तथा देवं पूजयित्वा विभावसुम् ।।

अनेन विधिना पूज्य संतः सिद्धिं परां गताः ।। २९ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्योमार्चनविधिवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ।। २०४ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 205

महादेवार्चनविधिवर्णनम्

।। व्यास उवाच ।। ।।

पुनर्निबोध मे भीष्म गदतः परमं विधिम् ।।

येन पूजयते नित्यं महादेवं दिवा करम् ।। १ ।।

प्रभूतं निर्मलं तेज आराध्य परमं सुखम् ।।

पूर्वमंतस्तथाग्नेय्यां नैर्ऋत्यां पवनालये ।। २ ।।

क्रमेण यावदीशानं हृदि बीजं च विन्यसेत् ।।

भास्करासनमेतत्तु न्यस्तव्यं तत्त्वदर्शिभिः ।। ३ ।।

उपरिष्टात्ततस्तस्य हृदयेन तु पंकजम् ।।

अष्टपत्रं केशरालं पंचवर्णसकेशरम् ।। ४ ।।

दीप्तादि पूर्वमारभ्य आमहादेवगोचरम् ।।

शक्त्यष्टकं न्यसेन्मंत्रैरादितः सर्वतोमुखीम् ।। ५ ।।

अबीजैः केसराग्रेषु क्रमेणैव च पूजयेत् ।।

ततस्त्वावाहयेद्भानुं स्थापयेत्कर्णिकोपरि ।। ६ ।।

तस्योपहृत्य तं चान्यं वेदितव्यं खपुष्करम् ।।

तेनैवावाहनं चार्च्य स्थापनं चार्धमेव च ।। ७ ।।

पाद्यमाचमनं स्थानं वस्त्रगंधादिभूषणम् ।।

विधिना वीरपुष्पाणि नैवेद्यं धूपमेव च ।। ८ ।।

कर्तव्यं श्रद्धया भक्त्या एवं तुष्यति भास्करः ।।

महापातकिनोऽप्याशु लभंते चिंतितं फलम् ।। ९ ।।

आदित्यं पूजयित्वा तु पश्चादंगानि पूजयेत् ।।

दीप्तायां हृदयं न्यस्य भवान्या शिरसो न्यसेत् ।। १० ।।

दिग्विदिक्षु न्यसेदस्त्रमिंद्रादि दिशोत्तरांतिकम् ।।

कर्णिकायां न्यसेन्नेत्रं स्वबीजेन तु वार्चयेत ।। ११ ।।

पुष्पैर्गंधैश्च धूपैश्च हृदयानि क्रमेण तु ।।

पूजयित्वा तु विधिवद्गर्भं पश्चात्तु मंत्रवित् ।। १२ ।।

बाह्यतः पूर्वतो मंदं दक्षिणेन बुधं तथा ।।

विषाणं पश्चिमे पूज्य उत्तरेण तु भार्गवम् ।। १३ ।।

आग्नेय्यां च कुजं पूज्य नैर्ऋत्यां भानुदेहजम् ।।

वायव्यां पूजयेत्कृष्णमैशान्यां विकचं नृप ।। १४ ।।

इन्द्रादिलोकपालांश्च ततोऽष्टौ पूजयेद्बुधः ।।

सुगंधैर्विविधैः पुष्पैर्धूपैश्चैव मनोरमैः ।। १५ ।।

क्रमेण पूजयेद्भानुं लोकपालैर्ग्रहैः सह ।।

मंत्रैः कुरुकुलश्रेष्ठ य इच्छेच्छ्रेय आत्मनः ।। १६ ।।

अनेन विधिना यत्र देवः संपूज्यते रविः ।।

न चौराग्निभयं तत्र न चापि नरकाद्भयम् ।। १७ ।।

वर्षोपलविषादिभ्यो भयं तत्र न विद्यते ।।

सुखमारोग्यमानंदं सुभिक्षमचलां श्रियम् ।। १८ ।।

तेजोबिंबांतमध्यस्थ आदित्यः परमार्थतः ।।

यष्टव्यः साधकैर्नित्यं न रथो न च वाजिनः ।। १९ ।।

इत्येष विधिराख्यातो मया भीष्म तवाखिलः ।।

येन पूजयते नित्यं महादेवो दिवाकरम् ।। २० ।।

इत्थं पूज्य विवस्वन्तं हृद्बीजेन विसर्जयेत् ।।

य एवं पूजयेद्भानुं स याति परमां गतिम् ।। २१ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे भीष्मव्याससंवादे महादेवा र्चनविधिवर्णनं नाम पंचाधिकद्विशततमोऽध्यायः ।। २०५ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 206

सूर्यपूजामाहात्म्यवर्णनम्

।। भीष्म उवाच ।। ।।

मंत्रोद्धारं परं ब्रूहि मुद्राशक्तिसमन्वितम् ।।

रूपवर्ण समं चैव पौराणिकमनुत्तमम् ।। १ ।।

।। व्यास उवाच ।। ।।

शृणु भीष्म महाबाहो यथा वक्ष्यामि तेनघ ।।

पौराणिकानां मंत्राणामुद्धारं वैदिकादृते ।।२।।

वर्णरेफसमायुक्तं विद्रुमेनैव भूषितम् ।।

अंतस्थानां हि अंत्यं वै ब्रह्मदैवत्यमुच्यते ।।३।।

बिंदुरेफसमायुक्तं दीर्घया मात्रया तथा ।।

दीक्षाक्षरं समुद्दिष्टं द्वितीयं विष्णुदैवतम् ।।४।।

तृतीयं तु तथा प्रोक्तं सविसर्गं जनाधिप ।।

स तृतीयो बुधैः प्रोक्तो रुद्रदैवत एव हि ।।५।।

भास्करोयं महान्साक्षान्मंत्रमूर्तिस्त्रिरक्षरः।।

दुर्लभः परमो गुह्यस्त्रिदेवो देवपूजितः ।।६।।

यस्त्विदं जपते भक्त्या स याति परमां गतिम् ।।

ततश्च मुद्रां वक्ष्यामि सान्निध्य कारणं परम् ।।७।।

पद्माकारौ करौ कृत्वा मध्ये श्लिष्टे तु मध्यमे।।

अंगुलिं क्षारयेत्तस्मिन्विमुद्रेति च सोच्यते ।।८।।

अनया बद्धया राजन्भास्करस्य प्रियो भवेत् ।।

महाभयेषु सर्वेषु मातृवत्परिरक्षति ।। ९ ।।

हृदयं तस्य विज्ञेयं यदक्षरवरं स्मृतम् ।।

विद्रुमोपरि संछन्नं हृद्गतं तद्गतं सदा ।। १० ।।

शिरस्यर्कमिति प्रोक्तं देवदेवस्य भारत ।।

महाव्याहृतयस्तिस्रस्तथारज्वालिनी शिखा ।। ११ ।।

अष्टाक्षरा तु विद्येयमादित्यस्य महात्मनः ।।

यः स्मरेत्साधकस्त्वेनं नासौ केनापि बाध्यते ।। १२ ।।

अकारेण समायुक्तं बिंदुरेफसमन्वितम् ।।

हकारमग्निदैवत्यं कवचं भास्करप्रियम्।। १३ ।।

एकाक्षरमिदं प्रोक्तमभेद्यं यः स्मरेदिदम् ।।

दुष्टानां चैव विघ्नानां नाशनं नात्र संशयः ।। १४ ।।

सविसर्गो रेफ इति अस्त्रमेकाक्षरं स्मृतम् ।।

नाशयेद्दुष्टकर्माणि साधकस्य न संशयः ।। १५ ।।

संमुखौ तौ करौ कृत्वा श्लिष्टौ तु ग्रथितांगुली ।।

कनिष्ठेनामिके योज्ये तर्जन्यौ मध्यमे तथा ।। ।। १६ ।।

हृच्छिरः सशिखा चर्मा मुद्रेयं व्योमसंज्ञिता ।।

मुष्टिवक्रोच्छ्रितं कुर्यात्सव्यहस्तस्य तर्जनीम् ।।१७।।

मालशब्दकृतादिस्तु मुद्रा ह्यस्त्रस्य कीर्तिता ।।

त्रासनी नाम विख्याता सर्वविप्रभयंकरी ।। १८ ।।

कर्णबिंदुसमायुक्तं यं चतुर्थं महामते ।।

भास्करस्य त्विदं नेत्रमग्रिदैवतमुच्यते ।।। ।। १९ ।।

स्मरः स्यात्साधकेंद्राणां दुरंतो नाशने ध्रुवम् ।।

मध्यमा तर्जनी चैव सव्यहस्तस्य चोच्छ्रितम्।। २० ।।

कनिष्ठानामिके कुंच्य अंगुष्ठेन ततः क्रमेत् ।।

नेत्राभ्यां स्पर्शयेदेनां नेत्रमुद्रा प्रकीर्तिता ।। २१ ।।

गोवृषा नाम विख्याता दर्शयेद्दिव्यगोचरम् ।।

रां दीप्तारिं ततः सूक्ष्मारीं जया भीष्म उच्यते ।। २२ ।।

उभाह्वारूं विभूतिश्च विमला रें प्रकीर्तिता ।।

अघहा च महाबाहो विद्युता रौं प्रकीर्तिता ।। २३ ।।

गोवृषा नाम रं सर्वं वीरभद्रकरी तथा ।।

इत्येता बीजरूपास्तु कथिताश्चैव शक्तयः ।। २४ ।।

उत्तानौ तु करौ कृत्वा सव्याकुंच्य ततोंगुलीः ।।

कुर्यादुपरि चांगुष्ठौ चालयेत पुनःपुनः ।। २५ ।।

सर्वासां चैव शक्तीनामेता मुद्राः प्रदर्शयेत् ।।

नाम्ना च विद्युता चैव नवमी सर्वतोमुखी ।। २६ ।।

नामान्येतानि शक्तीनां समासात्कथितानि तु ।।

सबीजानि महाबाहो मया स्नेहेन भारत ।। २७ ।।

ग्रहाणां शृणु बीजानि रूपं च गदतो मम ।।

सर्वत्र भं तथा खं च कंजकूतुहलोद्वह ।। २८ ।।

ॐकारा दीपिताः सर्वे नमस्कारांतयोजिताः ।।

पूजाकाले प्रयोक्तव्या जपकाले तथैव च ।। २९ ।।

होमकाले तु स्वाहांतं मंत्रं षट्कारसंयुतम् ।।

सर्वे बिंदुयुता भीष्म शिखा बिंदुविभूषिताः ।। ३० ।।

सोमाद्याः केतुपर्यंता ग्रहा ह्येवं प्रकीर्तिताः ।।

एता मुद्राः प्रवक्ष्यामि सर्वसिद्धिप्रदायिकाः ।। ३१ ।।

सुमुखौ तु करौ कृत्वा श्लिष्टौ चैव प्रसारितौ ।।

इयं मुद्रा नमस्कारे ग्रहसान्निध्यकारिका ।। ।। ३२ ।।

मंत्रोद्धारस्तवाख्यातो रहस्यो दुर्लभो नृप ।।

शृणुष्व रूपं देवानां ध्यानकाले ह्युपस्थिते ।। ३३ ।।

जपावर्णं महातेजं श्वेतपद्मोपरि स्थितम्।।

सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ।। ३४ ।।

तथैकवक्त्रं द्विभुजं सोमपंकजकंधरम् ।।

मंडलेन च रूपं तु मध्यस्थं रक्तवाससम् ।। ३५ ।।

मार्तंडस्य इदं रूपं शुचिः स्नातो जितेंद्रियः।।

त्रिकालं यः स्मरेद्भीम एकचित्तो व्यवस्थितः ।। ३६ ।।

सोऽचिराद्भवते लोके वित्तेन धनदोपमः ।।

मुच्यते सर्वभोगैस्तु तेजस्वी बलवान्भवेत् ।। ३७ ।।

हृदयं चोत्तमांगं च शिखा वै वक्त्रमेव च ।।

रक्तवर्णा इमे श्यामाः सर्वाभरणभूषिताः ।। ३८।।

वरदाऽभयहस्ताश्च ध्यातव्या साधकेन तु ।।

तडित्पुंजनिभं शस्त्रं रौद्रं चंद्रकरालिनम् ।। ३९ ।।

विशेषः कथितो ह्येष कामरूपः स्वभावतः ।।

दीप्ता दीप्तशिखाकारा ध्यातव्या मम शक्तयः ।। ४० ।।

श्वेतवर्णं स्मरेत्सोमं रक्तवर्णं कुजं स्मरेत् ।।

सौम्यमष्टापदाभं च गुरुं च पीतवर्णकम् ।। ।। ४१ ।।

शंखक्षीरनिभं श्वेतं काणं चांजनसंनिभम् ।।

रजावर्तनिभं राहुं धूम्रं च विकचं स्मरेत् ।। ४२ ।।

वामहस्तौ कटिन्यस्तौ दक्षिणौ चाभयप्रदौ ।।

रक्तभ्रूरक्तनेत्रास्य अर्धकायकृतांजलिः ।। ४३ ।।

इति भानुं ग्रहैः सार्धं ये ध्यायंति नृपोत्तम ।।

लभंते ते महासिद्धिमचिरान्नात्र संशयः ।। ।। ४४ ।।

तवाख्यातमिदं वक्त्रं ग्रहाणां भीष्म कृत्स्नशः ।।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यंते भुवि मानवाः ।। ४५ ।।

अनेन विधिना भीष्म सदा देवं दिवाकरम्।।

त्रिकालं पूजयेद्भक्त्या वीर श्रद्धासमन्वितः ।। ४६ ।।

इत्थं पूजयमानस्तु सर्वदेवं दिवाकरम् ।।

ब्रह्महत्याविनिर्मुक्तो महादेवत्वमाप्नुयात्।। ४७ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यपूजामाहात्म्यवर्णन्ं नाम षडुत्तरद्विशततमोऽध्यायः ।। ।। २०६ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 207

आदित्यपूजाविधिवर्णनम्

।। भीष्म उवाच ।। ।।

अहो देवस्य माहात्म्यं भास्करस्य त्वयोदितम् ।।

पूजयंति सदा ह्येनं ब्रह्मविष्णुशिवादयः ।। १ ।।

।। ।। व्यास उवाच ।। ।।

एवमेतन्न संदेहो यथा वदसि भारत ।।

नास्ति सूर्यसमो देवो नास्ति सूर्यसमा गतिः ।। २ ।।

नास्ति सूर्यसमं ब्रह्म नास्ति सूर्यसमं हुतम् ।।

नास्ति सूर्यसमो धर्मो नास्ति सूर्यसमं धनम् ।। ३ ।।

नास्ति सूर्यादृते कामो नास्ति सूर्यादृते पदम् ।।

नास्ति सूर्यसमो बंधुर्नास्ति सूर्यसमः सुहृत् ।। ४ ।।

नास्ति सूर्यसमा माता नास्ति सूर्यसमो गुरुः ।।

नास्ति सूर्यसमं तीर्थं न पवित्रं ततः परम् ।। ५ ।।

तमेकं दैवतं विद्यान्नैवाप्यर्कपरायणम् ।।

लोकानां देवतानां च पितॄणां चापि भारत ।। ६ ।।

तमर्चंतः स्तुवंतश्च प्राप्नुवंति परां गतिम्।।

ते प्रपन्नास्तु ये भक्त्या मुक्तास्ते भवसागरात्।। ७ ।।

राजा चोरा ग्रहाः सर्पा दारिद्र्यं दुःखसंपदः ।।

नैते पीडयितुं शक्ताः प्रसन्ने भास्करे सति ।। ८ ।।

।।व्यास उवाच ।। ।।

एवं तात महाबाहो देवो भास्करतत्परः ।।

स पूज्यः स नमस्कार्यः स हि ध्यातव्य एव च ।। ९ ।।

प्रत्यक्षदेवता ह्येषा देवदेवोयमादरात् ।।

अथ किं बहुनोक्तेन यद्वक्ष्यामि निबोध मे ।। 1.207.१० ।।

पूजयेत्तनयः पापी तथादित्यदिनैरपि ।।

पूजयन्ति नरा ये वै ते यांति परमां गतिम् ।। ११ ।।

प्राप्ते सूर्यदिने भक्त्या भानुं संपूज्य श्रद्धया ।।

नक्तं करोति पुरुषः स यात्यमरलोक्ताम् ।। १२ ।।

यस्तु पूर्वं रवेर्भक्त्या पञ्चरत्नसमन्वितम्।।

निवेदयति मंत्रेण स यात्यमरलोकताम् ।। १३ ।।

मार्तंडप्रीतये यस्तु कुर्याच्छ्राद्धं विधानतः ।।

संक्रान्तावयने वीर सूर्यलोकं स गच्छति ।। १४ ।।

कृत्वोपवासं षष्ठ्यां तु सप्तम्यां यस्तु मानवः ।।

करोति विधिवच्छ्राद्धं भास्करः प्रीयतामिति।।१५।।

सर्वदोषविनिर्मुक्तः सूर्यलोके महीयते ।।

मानवो यस्तु सप्तम्यां योषिद्वापि दिवाकरम् ।।१६।।

प्रपूज्य विधिवद्भानुं सर्वान्कामानवाप्नुयात् ।।

विशेषतस्तस्य दिने ग्रहणे च नराधिप ।। १७ ।।

इति भीष्म विजानीहि न देवो भास्करात्प्रियः ।।

आदित्यमेकं परमं देवदेवेषु पूजितम् ।। १८ ।।

रत्नपर्वतमारुह्य यथा भुवि नराधिपाः ।।

सत्त्वानुरूपं गच्छन्ति रत्नभागानशेषतः ।। १९ ।।

तथा भानुं समाराध्य प्राप्नुवंति नराः फलम्।।

धनार्थी प्राप्नुयादर्थं पुत्रार्थी प्राप्नुयात्सुतम् ।। 1.207.२० ।।

मोक्षार्थी मोक्षमाप्नोति चाथ वाऽमरतां व्रजेत् ।।

अथ किं बहुनोक्तेन शृणु त्वं वचनं मम ।। २१ ।।

ब्रह्मादयो देवगणा भानुमाराध्य भारत ।।

मनोहराणि दिव्यानि दिवि स्थानान्यवाप्नुवन् ।। २२ ।।

अचलानि महाभागाः सर्वपापहराणि च ।। २३ ।।

।। सुमन्तुरुवाच ।। ।।

इत्युक्त्वा भगवान्व्यासस्तत्रैवांतरधीयत ।।

भीष्मोऽपि पूजयामास भक्त्या भानुं विधानतः ।।२४।।

तथा त्वमपि राजेन्द्र पूजयेमं दिवाकरम् ।।

पूजयित्वा रविं भक्त्या स्थानं यास्यसि शाश्वतम् ।।२५।।

यथा गतः स भगवान्व्यासो भीष्मश्च मानद ।।

सकृत्प्रपूज्य सप्तम्यां भक्त्या देवं दिवाकरम् ।। २६ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्यासभीष्मसंवादे आदित्यपूजामाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ।। २०७ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 208

सप्तमीव्रतवर्णनम्

।। शतानीक उवाच ।। ।।

पुनर्मे ब्रूहि सप्तम्यां प्रीतये भास्करस्य तु ।।

उपोषितो भवतीह नरो यस्तु द्विजोत्तम ।। १ ।।

।। सुमन्तुरुवाच ।। ।।

कथिताः सप्त सप्तम्यः पुनरस्मिन्महामते ।।

बहवः कुरुशार्दूल भूयस्त्वेताः शृणुष्व मे ।। २ ।।

स्वयं याः कथिताः पूर्वमादित्येन खगाधिप ।।

अरुणस्य महाबाहो सप्तम्यः सप्त पूजिताः ।। ३ ।।

अर्कसंपुटकैरेका द्वितीया मरिचैस्तथा ।।

तृतीया निंबपत्रैश्च चतुर्थी फलसप्तमी ।। ४ ।।

अनोदना पञ्चमी स्यात्षष्ठी विजयसप्तमी ।।

सप्तमी कामिका ज्ञेया विधिं तासां निबोध मे ।। ५ ।।

शुक्लपक्षे रविदिने दक्षिणे चोत्तरायणे ।।

ग्रहणे सूर्यनक्षत्रे गृह्णीयात्सप्त सप्तमी ।। ६ ।।

स तां सु ब्रह्मचारी स्याच्छौचयुक्तो जितेन्द्रियः ।।

सूर्यार्चनरतो दांतो जपहोमपरस्तथा ।। ७ ।।

पञ्चम्यामेव पुरुषः कुर्यान्नित्य मनात्मकम् ।।

षष्ठ्यां न मैथुनं गच्छेन्मधुमांसं च वर्जयेत् ।। ८ ।।

अर्कसंपुटकैरेकां तथान्यां मरिचैर्नयेत् ।।

तथापरां निंबपत्रैः फलाख्यायां फलं चरेत् ।। ९ ।।

अनोदनामन्नरहित उपासीत यथाविधि ।।

अहोरात्रं वायुभक्षः कुर्याद्विजयसप्तमीम् ।। 1.208.१० ।।

तथैकां सप्तमीं कृत्वा प्रतिमासं विचक्षणः ।।

कुर्याद्यथाविधि मुदा ततः कुर्वीत कामिकाम् ।। ११ ।।

आसां लिखित्वा नामानि पत्रकेषु पृथक्पृथक् ।।

तानि सर्वाणि पत्राणि क्षिपेदभिनवे घटे ।। १२ ।।

तदर्थं यो न जानाति लोकवाह्योपि वा नरः ।।

तेन ह्युद्धारयेदेकं न कुर्याच्च विचारणाम् ।।१३।।

तेनैव विधिना यस्तु प्रतिमासं च तत्तपः ।।

सप्तैव यावत्सप्तम्यो विज्ञेया सा तु कामिका ।। १४ ।।

इत्येताः सप्त सप्तम्यः स्वयं प्रोक्ता विवस्वता ।।

कुर्वीत यो नरो भक्त्या स यात्यर्कसदो नृप ।। १५ ।।

अर्कसंपुटकैर्वित्तमचलं सप्तपौरुषम् ।।

मरिचैः संगमः स्याद्वै प्रियैः पुत्रादिभिः सदा ।। १६ ।।

सर्वरोगाः प्रणश्यंति निंबपत्रैर्न संशयः ।।

फलैस्तु पुत्रपौत्राश्च दौहित्रश्चापि पुष्कलः ।। १७ ।।

अतो धनं धनं धान्यं सुवर्णं रजतं तथा ।।

तथा पशुर्हिरण्यं च आरोग्यं सततं नृप ।। १८ ।।

उपोष्य विजयां शत्रून्राजञ्जयति नित्यशः ।।

साधयेत्कामदा कामान्विधिवत्समुपासिता ।। १९ ।।

पुत्रकामो लभेत्पुत्रमर्थकामोर्थमक्षयम् ।।

विद्याकामो लभेद्विद्यां राज्यार्थी राज्यमाप्नुयात् ।।

कृत्स्नान्कामान्ददात्येषा कामदा कुरुनन्दन ।। 1.208.२० ।।

नरो वा यदि वा नारी यथोक्तं सप्तमीव्रतम् ।।

करोति नियतात्मा वै स याति परमां गतिम् ।। २१ ।।

न तेषां त्रिषु लोकेषु किंचिदस्तीति दुर्लभम् ।।

ये भक्त्या लोकनाथस्य व्रतिनः संशितव्रताः ।। २२ ।।

व्रतैस्तु विविधैर्वीर तपोभिर्वा सुदुष्करैः ।।

न तत्फलमवाप्नोति यज्ञैर्वा बहुदक्षिणैः ।। २३ ।।

तीर्थाभिषेचनैर्वापि दानहोमार्चनैस्तथा ।।

यत्फलं च पूजयितुं सप्तम्यां प्राप्य मोक्षदम् ।।

मोक्षार्थी पार्थिवश्रेष्ठ यथाह भगवान्रविः ।। २४ ।।

कृत्वादित्यदिने नक्तं भक्त्या संपूजयेद्रविम् ।।

अचलं स्थानमाप्नोति मानवः श्रद्धयान्वितः ।।

सूर्यलोके च नियतं तस्य वासो न संशयः ।। २५ ।।

यस्तु पूजयते भक्त्या सप्तम्यां भास्करं नरः ।।

ब्रह्मेंद्ररुद्रलोकेषु तस्याप्रतिहता गतिः ।।२६ ।।

नांधो न कुष्ठी न क्लीबो न व्यंगो न च निर्धनः ।।

कुले तस्य भवेद्वीर यश्चरेत्सप्तमीव्रतम् ।। २७ ।।

विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात् ।।

भार्यार्थी रूपसंपन्नां स्त्रियं पुत्रांश्च भारत ।। २८ ।।

लोभात्प्रमादान्मोहाच्च व्रतभंगो यदा भवेत् ।।

तदा त्रिरात्रं नाश्नीयात्कुर्याद्वा केशमुंडनम् ।।।२९।।

प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ।।

सप्तैव यावत्सप्तम्यो भवंति च खगेश्वर।।1.208.३०।।

अभ्यर्च्य सूर्यसप्तम्यां माल्यधूपादिभिर्नरः ।।

भोजयित्वा द्विजाञ्छक्त्या प्राप्नुयात्स्वर्गमक्षयम्।।३१।।

सप्तम्यां विप्रमुख्येभ्यो हिरण्यं यः प्रयच्छति।।

स तदक्षय्यमाप्नोति सूर्यलोकं च गच्छति ।।३२।।

इतीदं कीर्तितं वीर सप्तमीव्रतमुत्तमम्।।

भूय एवाभिधास्यामि शृणुष्वैकमना नृप ।।३३।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यारुणसंवादे सप्तसप्तमीव्रतवर्णनं नामाष्टाधिकद्विशततमोऽध्यायः ।। २०८ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 209

सप्तमीव्रतवर्णनम्

।। सुमन्तुरुवाच ।। ।।

यः क्षिपेद्गोमयाहारः शुक्ला द्वादश सप्तमीः ।।

अथवा यावकाहारः शीर्णपर्णाशनोऽपि वा ।। १ ।।

क्षीराशी चैकभक्तो वा भिक्षाहारोथ वा पुनः ।।

जलाहारोपि वा विद्वान्पूजयित्वा दिवाकरम् ।। २ ।।

पुष्पोपहारैर्विविधैः पद्मसौगन्धिकोत्पलैः ।।

नानाप्रकारैर्गंधैश्च धूपैर्गुग्गुलुचंदनैः ।। ३ ।।

कृष्णगंधपायसाद्यैर्विचित्रैः सुविभूषणैः ।।

अर्चयित्वा द्विजाञ्च्छ्रेष्ठान्हिरण्यान्नादिभिर्नरः ।। ४ ।।

स तत्फलमवाप्नोति क्रतुभिर्भूरिदक्षिणैः ।।

यदेह तप्यते वीर प्राप्यते केवलं रवेः ।। ५

विमानवरमारूढः सूर्यलोके महीयते ।।

ततः पुण्यक्षयाद्राजन्कुले महति जायते ।। ६ ।।

एवं भक्त्या विवस्वंतं प्रतिमासं समाहितः ।।

पूजयेद्विधिवद्भक्त्या नामानि परिकीर्तयेत् ।। ७ ।।

चैत्रिके मासि विष्णुश्च माधवे ह्यर्यमेति वै ।।

शुक्रे विवस्वा न्मासे तु शुचौ मासे दिवाकरः ।। ८ ।।

पर्जन्यः श्रावणे मासि नभस्ये वरुणस्तथा ।।

मार्तंडेति च विज्ञेयः कार्तिके भार्गवः पुनः ।। ९ ।।

मार्गशीर्षेपि मित्रस्तु कीर्तितः सततं बुधैः ।।

पूषा पौषे तु वै मासे पूजनीयः प्रयत्नतः ।। १० ।।

माघे भगेति विज्ञेयस्त्वष्टा चैवाथ फाल्गुने ।।

एवं क्रमेण नामानि कीर्तयेत्प्रीतये रवेः ।। ११ ।।

धूपार्चनविधिमिमं सप्तम्यां सुसमाहितः ।।

यः करोति नरो भक्त्या स याति परमां गतिम् ।। १२ ।।

ततस्ते सर्वमाख्यातं यथागुह्यतमं विभोः ।।

नैव देयमशिष्याय नाभक्ताय कदाचन ।।१३।।

न च पापकृते देयं न देयं नास्तिकाय वा।।

कृतघ्ने नास्तिके वीर न देयं क्रूरकर्मणि ।। १४ ।।

य इदं शृणुयान्नित्यं सप्तमीव्रतमुत्तमम् ।।

पठेद्यश्चापि नियतः श्रद्धया परयान्वितः ।। १५ ।।

इह लोके सुखं प्राप्य सूर्यलोके महीयते ।।

पुण्यक्षयादिहागत्य राजा भवति भूतले ।। १६ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यारुणसंवादे प्रतिमाससप्तमीव्रतवर्णनं नाम नवाधिकद्विशततमोऽध्यायः ।। २०९ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 210

सूर्यपूजावर्णनम्

।। सुमन्तुरुवाच ।। ।।

इत्येष सप्तमीकल्पः समासात्कथितस्तव।।

विस्तरात्ते पुनर्वच्मि शृणु चैकमना विभो ।। १ ।।

फाल्गुनामलपक्षस्य षष्ठ्यां च समुपोषितः ।।

पूजयेद्भास्करं स्नात्वा गंधपुष्पविलेपनैः ।।२।।

अर्कपुष्पैर्महाबाहो गुग्गुलेन सुगंधिना ।।

श्वेतेन करवीरेण चंदनेन दिवाकरम् ।।३।

गुडोदकेन नैवेद्यं निवेद्यं प्रीतये रवेः ।।

एवं पूज्य दिवा भानुं रात्रौ तस्याग्रतः स्वपेत्।।

जपन्भौमं परं जाप्यं विनिद्रः सततं बुधः।।४

शतानीक उवाच

किं तत्परं भगवतः प्रियं जाप्यमनुत्तमम् । । ५

जप्तव्यो यत्परैर्भक्त्या भानुस्तस्याग्रतो नरैः ।

तन्मे ब्रूहि तथा मन्त्रान्धूपदीपान्विशेषतः । ।

येनाहं तं जपञ्जप्यं पूजयामि दिवाकरम् । । ६

सुमन्तुरुवाच

वच्मि ते भरतश्रेष्ठ समासान्न तु विस्तरात् । । ७

षडक्षरेण मन्त्रेण कुर्यात्सर्वं समाहितः ।

जपं होमं तथा पूजां शतजप्तेन सर्वदा । । ८

सावित्र्या च जपं पूर्वं कृत्वा शतसहस्रशः ।

पश्चात्सर्वं प्रकुर्वीत जपादिकमनाकुलम् । । ९

ॐ भोः सावित्रि भास्कराय सहस्ररश्मि धीमहि ।

तेन सूर्यः प्रचोदयात् । । 1.210.१०

जप एव परः प्रोक्तः सप्तम्यां भानुना स्वयम् ।

जप्त्वा सकृद्भवेत्पूतो मानवो नात्र संशयः । । ११

प्रभाते त्वथ सप्तम्यां जपन्नियतमानसः ।

पूजयेद्भान्करं भक्त्या पूर्वोक्तविधिना नृप । । १२

श्रद्धया भोजयेच्चापि ब्राह्मणाञ्छक्तितो नृप ।

दिव्यान्भोगांश्च विधिवद्भक्ष्यभोज्यैरनेकशः । । १३

वित्तशाठ्यं न कुर्वीत भोजकांश्च प्रभोजयेत् ।

न भोजयेत्तथाऽसौरान्सौरान्यत्नेन भोजयेत् । । १४

शतानीक उवाच

के भोज्या के न वा भोज्या ब्राह्मणा ब्रह्मवित्तम ।

केषु चित्तेषु सप्तम्यां देवदेवो दिवाकरः । । १५

घटीभोज्यो भवेद्विप्रः सप्तमीं कुरुते च यः ।

सौरभिन्नेष्वभोज्यो यो यश्च भुक्तो दिवाकरे । । १६

एते भोज्या द्विजा राजन्नादित्येन समासतः ।

प्रोक्ताः कुरुकुलश्रेष्ठ तथाऽभोज्याञ्छृणुष्व वै । । १७

सभार्यः सपतिर्यस्तु कुष्ठरोगैर्हतश्च यः ।

यश्चान्यदेवताभक्तस्तथा नक्षत्रसूचकः । । १८

परापवादनिरतो यश्च देवलकस्तथा ।

एतेऽभोज्याः सवित्रा तु स्वयं देवेन चिन्तिताः । । १९

शतानीक उवाच

ये भोज्या ब्राह्मणाः प्रोक्ता ये चाभोज्या द्विजोत्तमाः ।

एतेषां लक्षणं ब्रूहि सर्वेषां वै समाहितः । । 1.210.२०

सुमन्तुरुवाच

साधु पृष्ठोऽस्मि राजेन्द्र कीर्तयाम्येव कृत्स्नशः ।

पठतां तु त्रयी विद्यां ब्राह्मणानां कदम्बकः । । २१

घटेत्युक्ता तु सा राजन्स्वयं देवेन भानुना ।

सा घटा विद्यते यस्य स घटीत्युच्यते द्विजैः । । २२

ब्रह्मक्षत्रविशां वीर शूद्राणां च कदम्बकः ।

शृण्वतां विधिवत्पुण्यं भक्त्या पुस्तकवाचनम् । । २३

इति मासे निबद्धस्य होमस्येति च भानुना ।

कथितं कुरुशार्दूल स्वयमाकाशगामिना । । २४

यस्याः कर्ता भवेद्यस्तु मम स्यात्करको मतः ।

स विप्रो राजशार्दूल सदेष्टो भास्करस्य तु । । २५

जयोपजीवी व्यासश्च समः स्याज्जीवकस्तथा ।

यान्येतानि पुराणानि सेतिहासानि भारत । ।

जयेति कथितानीह स्वयं देवेन भास्वता । । २६

एकं निवासयन्यस्तु ब्राह्मणं तूपजीवति ।

जयोपजीवी स ज्ञेयो वाचकश्च तथा नृप । । २७

आरुणेयादिशास्त्राणि सप्ताश्वतिलकं तथा ।

यश्च जानाति सौराणि विप्रः सौरस्स तत्त्ववित् । । २८

पूजयेत्सततं यस्तु भास्करं नृपसत्तम ।

भोजकांश्च तथा राजन्यथा देवं दिवाकरम् । । २९

स ज्ञेयो भास्करे भक्तो भोजनीयः प्रयत्नतः ।।

भोज्यानां लक्षणं ह्येतदभोज्यानां शृणुष्व मे ।। 1.210.३० ।।

वृषली यस्य वै भार्या ब्राह्मणस्य विशेषतः ।।

परभार्यापतिरसौ ब्राह्मणो ब्राह्मणाधमः ।। ३१ ।।

दैवेन निहतः कुष्ठी ब्राह्मणो ब्रह्मघातकः ।।

भोजको विंदते यस्तु न च तं पूजये त्तथा ।। ३२ ।।

ज्ञेयोन्यदेवभक्तोसौ स विप्रः कुरुनंदन ।।

आदित्यं भोजकं विद्याद्भानोर्देहसमुद्भवम् ।। ३३ ।।

नादित्यं पूजयेद्यस्तु स भोज्यो न कदाचन ।।

मुण्डो व्यंगधरो गौरः शंखपुष्पधरस्तथा ।।३४।।

यस्य याति गृहे राजन्भोजको मानवस्य तु ।।

तस्य यांति गृहे देवाः पितरो भारक रस्य तु ।। ३५ ।।

रक्षोभूतपिशाचाश्च योगिन्योपि पलायिताः ।।

सकृद्भुङ्क्ते गृहे यस्य भोजको गृहधर्मिणः ।। ३६ ।।

सप्तसंवत्सरं यावतृप्तो भवति भास्करः ।।

तस्मात्तान्भोजयेद्दिव्यान्भोजकान्सततं बुधः ।।

यस्तु तान्निंदते विप्रः स न भोज्यः कदाचन ।। ३७ ।।

निजं भर्तारमुत्सृज्य स्वैरं यान्यत्र गच्छति ।।

स्वैरिणी सा तु वै प्रोक्ता पापिष्ठा कुलदूषिणी ।। ३८ ।।

प्रच्छन्नं रोचते राजन्या नारी भवदोषतः ।।

ज्ञेया सा स्वैरिणी राजन्कुले भवति नाशिनी ।।३९।।

योऽस्यां रतो भवेद्विप्रः स ज्ञेयः स्वैरिणीरतः ।।

रंगोपजीवी कथको यश्च प्राकृतनर्तकः ।। 1.210.४० ।।

रंगोपजीवी राजेंद्र तथा च बहुयाचकः ।।

द्वे एते नामनी राजन्कथकस्य प्रकीर्तिते ।।

कृतेनानेन यादृक्च उद्वृत्तः कुरुनंदन ।। ४१ ।।

यः स्तुतिं गायते विप्रः प्रोच्चैस्तु जनसंसदि ।।

रंगोपजीवी प्रोक्तोयं द्वितीयः परिकीर्तितः ।। ४२ ।।

सूचनं कथनं प्रोक्तं सर्वशास्त्रेषु भारत ।।

सूचयेद्यस्तु ऋक्षाणि स वै नक्षत्रसूचकः ।। ४३ ।।

।। शतानीक उवाच ।। ।।

अहो बत महत्कष्टं भवतो यद्द्विजान्प्रति ।।

वेदांगं ज्योतिःशास्त्रं तु षष्ठं प्रोक्तं मनीषिभिः ।। ४४ ।।

षडंगो न भवेत्तेन रहितेन द्विजेन च ।।

अभोज्ये पठनात्तस्य यद्वत्स्याद्ब्राह्मणो द्विज ।। ४५ ।।

भोज्योऽखण्डं ययौ विप्रोऽनर्थकेन त्वनर्थकम्।।

विमृश्य कथ्यतां विप्र अत्र मे संशयो महान् ।। ४६ ।।

।। सुमंतुरुवाच ।। ।।

साधु पृष्टोस्मि भवता श्रूयतामत्र निर्णयः ।।

यस्य जीव्यमिदं ज्ञेयमंगं विप्रस्य वै भवेत् ।। ४७ ।।

सांवत्सरेण ज्योतिषा ज्ञाननक्षत्रसूचकः ।।

न स भोज्यो भवेद्राजन्यस्येयं जीविका भवेत् ।। ४८।।

निष्कारणं पराणां च परोक्षं दोषकीर्तनम्।।

गुणानां च यथा गुप्तिः परिवादपरस्तु सः ।। ४९ ।।

ब्राह्मणो यस्तु राजेंद्र वृत्त्या कर्म करोति वै ।।

देवतायतने चेह देवानां पूजनं तथा ।। 1.210.५० ।।

आधिपत्यं भक्षणं च नैवेद्यस्य परंतप ।।

स ज्ञेयो देवलो राजन्ब्राह्मणो ब्राह्मणाधमः ।। ५१ ।।

नाधिकारस्तु विप्राणां भौमानां देवपूजने ।।

वृत्त्या भरतशार्दूल आधिपत्ये विशेषतः ।। ५२ ।।

यस्तु पूजयते देवीं ब्राह्मणो द्रव्यलोभतः ।।

वृत्त्यै कुरुकुलश्रेष्ठ स याति नरकं ध्रुवम् ।। ५३ ।।

देवालयेषु सर्वेषु अग्निकार्यं च सुव्रत ।।

यः कुर्याद्द्रव्यलोभेन अधोगतिमवाप्नुयात् ।। ५४ ।।

देवालयेषु सर्वेषु वर्जयित्वा शिवालयम् ।।

देवानां पूजनं राजन्नग्निकार्येषु वा विभो ।। ५५ ।।

अधिकारः स्मृतो राजन्भोजकानां न संशयः ।।

पूजयंतस्तु ते देवान्प्राप्नुवंति परां गतिम् ।। ५६ ।।

नैवेद्यं भुञ्जते यस्माद्भोजयंति च भास्करम् ।।

पूजयंति च देवानां दिव्यतन्त्रेण ते गताः ।। ५७ ।।

पूजयित्वा तु वै देवान्नैवेद्यं भक्ष्य च प्रभोः ।।

यांति ते परमं स्थानं यत्र देवो दिवाकरः ।। ५८ ।।

ब्राह्मणश्चापि तं ब्रूया त्तीक्ष्णे सति महामते ।।

एवं करिष्ये श्रेयोर्थं नात्मनस्तव वा विभो ।। ५९ ।।

इत्यामंत्र्य ततो गच्छेत्स्वगृहं कुरुनन्दन ।।

तथा परेऽह्नि संपूज्य देवं भक्त्या दिवाकरम् ।। 1.210.६० ।।

कृत्वा च पावकं राजन्ब्राह्मणान्भोजयेत्ततः ।।

शाल्योदनं तथा मुद्गं सुगन्धं मुद्गमेव हि ।। ६१ ।।

अपूपान्गुडपूपांश्च पयो दधि तथा नृप ।।

एतैस्तु तृप्तिमायाति भास्करो नरसत्तम ।। ६२ ।।

वर्ज्यानि भरतश्रेष्ठ शृणु त्वं गदतो मम ।।

कुलत्थकान्मसूरांश्च निष्पावादींस्तथैव च ।। ६३ ।।

सिस्रुकं च तथान्यच्च राजमाषांस्तथैव च ।।

नैतानि भास्करे दद्याद्य इच्छेच्छ्रेय आत्मनः ।। ६४।।

दुर्गधं यच्च कटुकमत्यल्पं भास्करस्य तु ।।

विमिश्रांस्तडुलांश्चापि न दद्याद्भास्कराय वै ।। ६५ ।।

इत्थं भोज्य द्विजं राजन्प्राशयेदर्कसंपुटम् ।।

प्रणम्य शिरसा देवमुदकेन समन्वितम् ।। ६६ ।।

गृहीत्वा केतनं यस्तु भजतेऽन्यत्र लोकतः ।।

नाश्नंति पितरस्तस्य न देवा न च मानवाः ।। ।। ६७ ।।

निष्क्रम्य नगराद्राजन्गत्वा पूर्वोत्तरां दिशम् ।।

नात्युच्चे नातिनीचे च शुचौ देशेऽर्कमुत्तमम् ।। ६८।।

जातं दृष्ट्वा महाबाहो पूजयित्वा खगोत्तम।।

पूर्वोत्तरगताश्चैव तस्य शाखा दिशन्नृप।।६९।।

शाखाया अग्रतः पात्रे सुसूक्ष्मे पल्लवाश्रिते।।

सुश्लिष्टे न पृथग्भूते संपूज्य गृहमाव्रजेत्।।1.210.७०।।

स्नातः पूज्य विवस्वंतमर्कपुष्पैः खगोत्तम।।

ब्राह्मणान्भोजयित्वा तु अर्को मे प्रीयतामिति।।७१।।

प्राश्य मंत्रेणार्कपुटं ततो भुंजीत

वाग्यतः ।। देवस्य पुरतो वीर त्वस्पृशन्दशनैः पुटम् ।। ७२ ।।

ॐ अर्कसंपुट भद्रं ते भद्रं तेऽर्कं सदास्तु वै ।।

ममापि कुरु भद्रं च प्रायश्चित्तप्रदो भव ।। ७३ ।।

इमं मंत्रं जपन्राजन्स्मरन्नर्कं महामते ।।

स्थित्वा पूर्वमुखो ब्रह्म वारिणा सहितं नृप।। ७४।।

प्राश्य भुंक्ते च यो राजन्स याति परमां गतिम् ।।

दंतैरस्पृश्य हे वीर तत्पुटं चार्कसंज्ञितम् ।। ७५ ।।

अनेन विधिना भक्त्या कर्तव्या सप्तमी सदा ।।

यावद्वर्षे महाबाहो प्रीतयेऽर्कस्य श्रद्धया ।। ७६ ।।

यश्चेमां सप्तमीं कुर्याद्भास्करं प्रीणयन्नरः ।।

तस्याक्षयं भवेद्वित्तमचलं साप्तपौरुषम् ।। ७७ ।।

सुवर्णं रजतं ताम्रं हिरण्यं च तथा क्षयम् ।।

कृत्वेमां सिद्धिमायातः कौथुमिः सहसा गतः ।। ७८ ।।

कुष्ठरोगाच्च वै मुक्तो जयस्तोमो महीपतिः ।।

बृहद्बलध्वजः कोपी याज्ञवल्क्यो ऽथ कृष्णजः ।। ७९ ।।

अर्कं चैव समाराध्य ततोऽगुस्तेऽर्कसाम्यताम् ।।

इयं धन्यतमा पुण्या सप्तमी पापनाशिनी ।। 1.210.८० ।।

पठतां शृण्वतां राजन्कुर्वतां च विशेषतः ।।

तस्मादेषा सदा कार्या विधिवच्छ्रेयसेऽनघ ।। ८१ ।।

।। शतानीक उवाच ।। ।।

जनकादयो यथा सिद्धिं गता भानुं प्रपूज्य च ।।

श्रुतं मया तु बहुशो न श्रुतं कौथुमिर्यथा ।। ८२ ।।

सिद्धिं गतोऽर्कमाराध्य कुष्ठान्मुक्तश्च सुव्रत ।।

कश्चासौ कौथुमिर्विप्रः कथं कुष्ठ मवाप्तवान् ।। ८३ ।।

कथमाराधयामास भानुं देवपतिं द्विज ।।

एतन्मे विप्र निखिलं कीर्तयस्व समासतः ।। ८४ ।। ।।

इति श्रीभविष्ये महापु राणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यपूजादिवर्णनं नाम दशाधिकद्विशततमोऽध्यायः ।। २१० ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 211

अर्कसम्पुटिकावर्णनम्

।। सुमंतुरुवाच ।। ।।

साधु पृष्टो ऽस्मि राजेंद्र शृणुष्व गदतो मम ।।

आसीत्पुरा महाविद्वान्ब्राह्मणः स्थानगोत्तमः ।। १ ।।

स गतः पुत्रसहितो जनकस्याश्रमं द्विजः ।।

तत्र वादोऽ भवत्तेषां विप्रैरन्यैर्नृपोत्तम ।। २ ।।

क्रोधाविष्टेन वै तत्र हतः कौथुमिना द्विजः ।।

तेन दृष्ट्वा हतं विप्रं त्यक्तः पित्रा स कौथुमिः ।। ३ ।।

भ्रातृभिश्च महाबाहो तथा शिष्टैश्च कृत्स्नशः ।।

प्रत्युक्तः स च सर्वैस्तु शोकदुःखसमन्वितः ।। ४ ।।

तीर्थानि स जगामाथ दिव्यान्यायतनानि च ।।

न च मुक्तस्त्वसौ विप्रः सहसा ब्रह्महत्यया ।। ५ ।।

अमुक्तेऽथ तया विप्रे परो व्याधिरजायत ।।

कर्णनासाविहीनस्तु पूयशोणितविस्रवः ।। ६ ।।

पृथिवीं पर्यटन्सर्वां पुनरागात्पितुर्गृहम् ।।

दुःखोपहतचित्तस्तु पितरं वाक्यमब्रवीत् ।।७।।

पितर्गतस्तु तीर्थानि पुण्यान्यायतनानि च ।।

मुक्तोऽस्मि नानया तात क्रूरया ब्रह्महत्यया ।। ८ ।।

कृतेऽपि हि परे तात प्रायश्चित्ते तु मेऽनघ ।।

किं करोमि क्व गच्छामि तातातीव रुजो मम ।। ९ ।।

कृतेन कर्मणा येन अल्पायासेन मे विभो ।।

नश्येत्तु ब्रह्महत्येयं व्याधिश्चायं परंतप ।। १० ।।

कथ्यतां मा चिरं तात कुरु निःश्रेयसं मम ।।

हिरण्यनाभो विप्रस्तु श्रुत्वा वाक्यं सुतस्य तु ।।

शोकदुःखाभिभूतस्तु वाक्यं पुत्रमुवाच ह ।। ११ ।।

।। हिरण्यनाभ उवाच ।। ।।

ज्ञातः पुत्र तव क्लेशः प्राप्तो यस्त्वयाटता महीम् ।। १२ ।।

तीर्थानि च त्वया वत्स प्रायश्चित्तानि कुर्वता ।।

न चापि ब्रह्महत्या त्वां मुंचते मत्कुलोद्वह ।। १३ ।।

उपायमेकं वक्ष्यामि येन त्वं मोक्षमाप्स्यसि ।।

अल्पायासेन वै पुत्र शृणुष्व गदतो मम ।। १४ ।।

।। कौथुमिरुवाच ।। ।।

आराधयामि कं देवं ब्रह्मादीनां कथं विभो ।।

शरीरेण विहीनोऽस्मि हेतुना सर्वकर्मणाम् ।। १५ ।।

।। हिरण्यनाभ उवाच ।। ।।

सिद्धिसंततियुक्तेन कर्मणा तुष्टिमाप्नुयुः ।।

देवैरपि सुपूज्योयमुपलेपनमार्जनैः ।। १६ ।।

भानुरेको द्विजश्रेष्ठ ऊचुरेवं मनीषिणः ।।

ब्रह्मा विष्णुर्महादेवो जलेशो धनदस्तथा ।। ।। १७ ।।

भानुमाश्रित्य सर्वे ते मोदंते दिवि पुत्रक ।।

तस्माद्भानोः समं देवं नाहं पश्यामि कंचन ।। १८ ।।

एवं भानुं सर्वमान्यमधुना खिलकामदम् ।।

पितरं मातरं तात नराणां नात्र संशयः ।। १९ ।।

तमाराधय वै भक्त्या जपन्मंत्रमनुत्तमम् ।।

इतिहासपुराणानि शृषु श्रद्धा समन्वितः ।। २० ।।

आराधयन्रविं भक्त्या जपन्साम महामते ।।

पुराणानि ततो लोके मोक्षं प्राप्स्यसि पुत्रक ।। २१ ।।

।। कौथुमिरुवाच ।। ।।

दिश सामानि वै तात प्रवराणि महामते।।

ॐकारप्रवरोद्गीथं प्रस्थानं च चतुष्टयम्।। २२ ।।

पंचमः परिहारोत्र षष्ठमाहुस्तमद्भुतम्।।

निधनं सप्तमं साम्नां साप्तविध्यमिति स्मृतम् ।।२३।।

साप्तविध्यमिति प्रोक्तं हिंकारप्रणवेषु च।।

अष्टमं च तव शाठ्यं नवमं वामदेविकम् ।।२४।।।

ज्येष्ठं तु दशमं साम वेधसे प्रियमुत्तयम् ।।

एतेषां तात साम्नां वै कंठे जाप्यं परं मतम् ।।

जपित्वा तु अहं शक्त्या गच्छामि परमं पदम् ।। २५ ।। ।।

।। हिरण्यनाभ उवाच ।। ।।

साधु पुत्र कुलं पूतं त्वत्पुत्रेण समेन च ।। २६।।

एवं गतस्यापि हि ते जाता पुत्र विधेः स्मृतिः ।।

एवं तात न संदेहः सामान्येतानि पुत्रक ।। २७ ।।

प्रवराणि हि साम्ना वै ब्रह्मणा कथितानि ह ।।

एषामपि परं प्रोक्तं सामद्वयमनुत्तमम् ।।

तस्मादेकं परं जाप्यं सर्व पापभयापहम् ।। २८ ।।

।। कौथुमिरुवाच ।। ।।

कथ्यतां तात तच्छीघ्रं यत्तु सामद्वयं परम् ।।

एतेषां तात साम्नां तु नान्यज्जाप्यं च यद्भवेत् ।। २९ ।।

।। हिरण्यनाभ उवाच ।। ।।

ज्येष्ठसामपरं पूर्वं द्वितीयं गदतः शृणु ।। ३० ।।

ततः श्राव्यं तृतीयं तु जप्तव्यं मुक्तिमिच्छता ।।

ततश्च परमं प्रोक्तं स्वयं देवेन भानुना ।। ३१ ।।

स्वयं दैवतमादिष्टं छंदसामुत्तमं व्रतम् ।।

प्रियं हिरण्यगर्भस्य प्रियं सूर्यस्य सर्वदा ।। ३२ ।।

जपश्च विनियोगोपि लक्षणं च निबोध मे ।।

सत्येन स्वरलीनस्तु शूकरादि स्मृतं बुधैः ।। ३३ ।।

ऋतुर्भावस्तथा धर्मो विधर्मः सत्यकृत्तथा ।।

धर्माधर्मौ तथा कार्यौ धर्मवेदनमे व च ।। ३४ ।।

यदेभिर्गीयते शब्दे रुचिरं समयैर्द्विजैः ।।

जाप्यं तत्परमं प्रोक्तं स्वयं देवेन भानुना ।। ३५ ।।

एतद्वै जपमानस्तु पुनरावर्तते न तु ।।

सर्वरोगविनिर्मुक्तो मुच्यते ब्रह्महत्यया ।। ३६ ।।

एतज्जाप्यं तु संजप्य आराधय दिवाकरम् ।।

गायन्साम तव प्रोक्तं शृणु पौराणिकं सुत ।। ३७ ।।

ज्येष्ठसाम्नोऽपि ते पुत्र लक्षणं कथयामि हि ।।

आद्यायादाज्यदोहेति ज्येष्ठसामोपि लक्षणम् ।। ३८ ।।

तव श्राव्यं जपं पुत्रज्येष्ठगायै रविः सदा ।।

समाराधय शृण्वन्वै पुत्राणामिव पुत्रक ।।

एवमाराध्य देवेशं ततो दुःखं प्रहास्यसि ।। ३९ ।।

।। सुमंतुरुवाच ।। ।।

ततः श्रुत्वा पितुर्वाक्यं सामगः कौथुमिस्तथा ।। ४० ।।

आराधयामास रविं भक्त्या श्रद्धासमन्वितः ।।

ततः श्राव्यं जपन्राजंत्रिकाले पुरतो रवेः ।। ४१ ।।

शृण्वतस्तु पुराणानि बह्महत्या गता तदा ।।

व्याधिश्च कुरुशार्दूल फलमेतच्छ्रुतस्यवै ऽ। ४२ ।।

जपता यत्फलं तेन देवं पूजयता नृप ।।

सोपि प्राप्तो रविं राजञ्छृणुष्वैक मना नृप ।। ४३ ।।

स गतो मूर्तिमान्विप्रः प्रसादाद्भास्करस्य तु ।।

प्रविश्य मंडलं भानोः पदं यत्परमं विभोः ।। ४४ ।।

आवर्तते न चाद्यापि गतोसौ परमं पदम् ।।

इति ते कथितं राजन्गतः सिद्धिं महाद्विजः ।।४५।।

उपोष्येमां भवेद्वीर सप्तमीं याति भास्करम् ।।

कौथुमिर्नरशार्दूल प्रसा दाद्भास्करस्य तु ।। ४६ ।।

जपमानस्तु वै सोपि पुराणश्रवणस्तथा ।।

इत्येषा कथिता राजन्प्रथमा सप्तमी तथा ।। ४७ ।।

अर्कस्य पुटिका पुण्या वित्तदा या प्रिया रवेः ।। ४८ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेऽर्कसंपुटिकानामसप्तमीव्रतवर्णनं नामैकादशाधिकद्विशततमोऽध्यायः ।। २११ ।।

वर्गः:भविष्यपुराणम्

पर्व १ (ब्राह्मपर्व) — Adhyāya 212

सौरार्चनविधिवर्णनम्

।। सुमंतुरुवाच ।। ।।

इत्येषा कथिता वीर अर्कसंपुटिका तव ।।

द्वितीया मरिचैर्या तु शृणुष्व गदतो मम ।। १ ।।

शुक्लपक्षे तु चैत्रस्य षष्ठ्यां सम्यगुपोषितः ।।

पूजयेद्भास्करं भक्त्या सौरधर्मविधानतः ।। २ ।।

।। शतानीक उवाच ।। ।।

ब्रूहि सर्वान्मम ब्रह्मन्मंत्रान्पुण्यान्विशेषतः ।।

सूर्यादिहृदयं चापि शिरोन्यासयुतांस्तथा ।। ३ ।।

।। सुमंतुरुवाच ।। ।।

अहं ते कथयिष्यामि रहस्यं परमं विभो ।।

यदुक्तं ब्रह्मणा पूर्वं भक्त्या भानोर्महात्मनः ।। ४ ।।

सर्वपापक्षयार्थाय तच्छृणुष्व महामते ।।

सर्वपापहरं पुण्यमादित्यं लोकपूजि तम् ।। ५ ।।

शिखादामसमायुक्तं वकारामृतमुत्तमम् ।।

ॐ वं फट् ।।

ॐ एष सूर्यः स्वयं तात मंत्रमूर्तिर्महाबलः ।। ६ ।।

अस्यानुस्मरणान्मंत्री नित्यं मधुरभोजनः ।।

संवत्सरेण देवेशं साक्षाद्भानुं प्रपश्यति ।। ७ ।।

व्याधिमृत्योश्च निर्मुक्तः सूर्यलोकं स गच्छति ।।

सततं जपमानस्तु राजन्मंत्रविदां वरः ।। ८ ।।

मनसा कर्मणा वाचा शापानुग्रहतोपि वा ।।

क्षीराशी मौनमाश्रित्य विविक्ते नियतेन्द्रियः ।। ९ ।।

जपित्वा द्वादशलक्षं सशरीरो दिवं व्रजेत् ।।

त्रैलोक्यं चरते राजंश्चिंतामणिरिवेच्छया ।। 1.212.१० ।।

अथेदं परमं वामं सूर्यस्य हृदयं शृणु ।।

स्मर्तव्यं शुचिना नित्यं सर्वपापभयाप हम् ।। ११ ।।

वियुक्तं चंद्रसंयुक्तमृकारेण च भारत ।।

ॐकारदीपितं चैव हृदयं परिकीर्तितम् ।। १२ ।।

यकारबिंदुसंयुक्तं वैशाखः कथितो बुधैः।।

यकारश्च वकारश्च मात्रा बिंदुस्तथा नृप ।।१३।।

इष्टं कवचमादिष्टमस्त्रं वक्ष्ये निबोध मे ।।

प्रणवादिं दुकारं च सानुस्वारं कटस्तथा ।। १४ ।।

इदमस्त्रं स्मृतं राजन्नमृतं च निबोध मे ।।

बिंदुचंद्रसमायुक्तं वकारममृतं स्मृतम् ।।१५।।

ॐ ब्रह्मन्नस्त्रममृतं गायत्रीं चापि ते रोगं धेनुर्वै परिकीर्तितम्।।

यकारश्च वकारश्च रिरोवेत्रमादिशेत् ।।१६।।

व्यनेत्र एतान्यंगानि सूर्यस्यामिततेजसः ।।

आदित्यं मूर्ध्नि विन्यस्य हृदये हृदयं न्यसेत्।।१७।।

सावित्रीं कंठदेशे तु अशेषं मूर्ध्नि चिंतयेत् ।।

अर्कन्यासो मयाख्यातो विद्वान्न्यासं प्रकल्पयेत् ।।१८।।

एकाक्षरस्य सूर्यस्य शृण्वर्चनविधिं परम् ।।

प्रथमं किंकिणीमुद्रां बद्ध्वा तु हृदये नृप ।। १० ।।

प्राणायामे च तथा परिवीरसमन्वितम् ।।

एकाक्षरं समावेत्ति आत्मशुद्ध्यर्थमादरात् ।। 1.212.२० ।।

पुनस्त्वामेव वध्यं तु वकारेणात्मना लभेत् ।। २१ ।।

एतत्कृत्वादित्यसमो भवतीति न संशयः ।।

कृत्वा च मुद्रां प्रासादे अस्त्रं योज्य महीपते ।। २२ ।।

प्रासादशोभनं स्याद्वै कृत्वा तद्भरतर्षभ ।।

कवचेनार्कवाञ्छत्रुं क्षालयेद्वर्धनक्रियाम् ।। २३ ।।

ततोर्घ्यपात्रं पुष्पैश्च पूजयेद्विधिवनृप ।।

हृदिना स्नापयेद्देवं ततः पूजां समाचरेत् ।। २४ ।।

पद्ममुद्रा पुष्पगर्भा देवं शिरसि विन्यसेत् ।।

आवाहितो भवेदेवं देवदेवो दिवाकरः ।। २५ ।।

हृदयेनार्घ्यसंयुक्तां पूजां बध्नीत भारत ।।

हृदयेन च नैवेद्यं दातव्यं शक्तितो विभोः ।। २६ ।।

यथाशक्ति जपं कुर्यात्सुव्रती वाग्यतेन्द्रियः ।।

अनेन विधिना राजन्सर्वका र्याणि साधयेत् ।। २७ ।।

न क्वचित्प्रतिघातः स्यान्न चापि दुरितं भवेत् ।।

व्योममुद्रां परां बद्ध्वा कृत्वा चापि प्रदक्षिणम् ।। २८ ।।

देवं विसर्जयेत्पश्चाद्धृदयेन महीपते ।। २९ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सौरार्चनविधिवर्णनं नाम द्वादशाधिकद्विशततमोऽ ध्यायः ।। २१२ ।।

पर्व १ (ब्राह्मपर्व) — Adhyāya 213

सौरार्चनविधिवर्णनम्

।। सुमंतुरुवाच ।। ।।

दृष्ट्वा तु पावकं देवं पावकस्थं दिवाकरम् ।।

अव्यात्तु सपरीवारं घुकारं परिकीर्तयेत् ।। ।। १ ।।

एवं कृते शोधनं स्यात्पावकस्य न संशयः ।।

पद्मगर्भे ततो वाथ हृदयाग्नौ समाक्षिपेत् ।। २ ।।

आवाहितो भवेद्देवदेवः साक्षान्न संशयः ।।

ओंकारेणाहुतिशतं नेत्रांजनसमाधिना ।। ३ ।।

पञ्चाहुतीस्ततो दद्यादंगानां प्रीतये नृप ।।

विसर्जनं ततः कुर्याद्धृदयेन विचक्षणः ।। ४ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरार्चनविधिवर्णनं नाम त्रयोदशाधिकद्विशततमोऽध्यायः ।। २१३ ।।

पर्व १ (ब्राह्मपर्व) — Adhyāya 214

मरिचसप्तमीव्रतवर्णनम्

।। सुमन्तु रुवाच ।। ।।

पद्मिनी च तथान्या तु मध्यमानामनी तथा ।।

अर्किणी ज्वालिनी चैव तेजनी च गभस्तिनी ।। १ ।।

शंखमुद्रा च दशमी सूर्य वक्त्रा तथापरा ।।

सहस्रकिरणा चैव मुद्रा द्वादश कीर्तिताः ।। २।।

दद्यादर्घ्यं तु पद्मिन्या व्योम बद्धा जपेद्बुधः ।।

उदयाश्रयः समाकर्षे मध्यमा व्याधिनाशिनी ।। ३ ।।

अर्किण्या पश्यते सूर्यं विधिस्थस्तु भवेद्यदि ।।

ज्वालिनीमुपसंगंतुं बद्ध्वा सूर्यमुखो जपेत् ।। ४ ।।

सप्ताहाद्वीक्षते सूर्यं सिध्यते च ततः स्वयम् ।।

अवतीर्य पद्मखंडं सूर्यादभिमुखो नरः ।। ५ ।।

जपञ्छतसहस्रं हि अक्षयं लभते निधिम् ।।

शंखमुद्रादिभिरिमं सूर्य चक्रविधिं शृणु ।। ६ ।।

अहोरात्रोषितो भूत्वा बद्ध्वा सूर्यमुखो नरः ।।

स्थितः पद्मासने राजञ्जपंश्चाप्ययुतं मनुम् ।। ७ ।।

पश्यते तु त्र्यहात्सूर्यं भवेत्सिद्धिश्च मानसी ।।

सहस्रकिरणं बद्ध्वा नाभिमात्रजले स्थितः ।। ८ ।।

जपेदयुतमात्रं तु भवेत्तद्गतमानसः ।।

सहस्रकिरणं देवं परं रश्मिभिरावृतम्।। ।। ९ ।।

स पश्यति परं धाम भवेत्सिद्धिश्च पुष्कला ।।

शापानुग्रहकर्तासौ सर्वेषां प्राणिनां भवेत् ।। 1.214.१० ।।

सर्वतः कञ्चुकं मुक्त्वा भवेद्वै विगत ज्वरः ।। ११ ।।

परौ गुल्फौ करौ कृत्वा संलग्नौ च परस्परम् ।।

वामानामिकयाक्रम्य दक्षिणां तु कनीयसीम् ।। १२ ।।

वामा दक्षिणया चैव दक्षिणा वामया तथा ।।

मुद्रैषा हि महापुण्या व्योममुद्रा प्रकीर्तिता ।। १३ ।।

बद्धया चानया सद्यो हीयंते व्याधयो नृणाम् ।।

नानया रहितः कश्चित्सिद्धिं प्राप्नोति साधकः ।। १४ ।।

सर्वत्रैवोत्तमा ह्येषा मंत्रमुष्टिरिति स्मृता ।।

सूर्यस्य हृदयं सेयमर्कमुद्रेति विश्रुता ।। १५ ।।

बध्नीयात्सततं मन्त्रैरायुरारोग्यवृद्धये ।।

सूर्यमंडल अभ्यग्रे मन्त्री सूर्योदये स्थितः ।। १६ ।।

स सूर्याभिमुखो भूत्वा जपेन्मंत्रं तु साधकः ।।

दिनत्रयेण वीक्षेत ध्यानी जपपरायणः ।। १७ ।।

तं दृष्ट्वा नाश्नुते मृत्युं दुःखी न च न संशयः ।।

प्राप्नोति च परं स्थानं यत्र देवो दिवाकरः ।। १८ ।।

उत्तानौ तु करौ कृत्वा पृष्ठलग्नौ परस्परम् ।।

बद्ध्वा त्वंगुलयः सर्वाः सुप्रकीर्णा न संशयः ।। १९ ।।

आक्रम्य चांगुलीमूलमंगुष्ठाभ्यां यथाक्रमम् ।।

उदया नाम मुद्रैषा बध्नीयादुदये रवेः ।। 1.214.२० ।।

द्वादशाद्वीक्षते सूर्यं दिनात्स हि न संशयः ।।

सर्वपापहरा चैव सर्वपापविनाशिनी ।। २१ ।।

उदया च विना वामं मध्यतश्चैव तं क्षिपेत् ।।

मध्यमा नाम विख्याता मध्यसू्र्ये तु चिन्तयेत् ।। २२ ।।

मध्यमा विधिना तेन बद्ध्वा मुद्रां तु साधकः ।।

अंगुल्योः परमंगुष्ठौ विधिना तावुभौ ग्रथेत् ।। २३ ।।

मुद्रा सास्तमनी ह्येषा सर्वतन्त्रेश्वरी शुभा ।।

सूर्यस्यास्तमने मुद्रा बद्ध्वा जप्तं समारभेत् ।। २४ ।।

सहस्रं हि शतं वापि मुद्रां बद्ध्वा जपेद्बुधः ।।

सर्वपातकसंयुक्तः सप्ताहादनुशोभनम् ।। २५ ।।

करौ परस्परं लग्नावंगुष्ठौ चोर्ध्वसंस्थितौ ।।

उभौ चांगुष्ठकौ चोर्ध्वौ संलग्नौ मूर्ध्नि संस्थितौ ।। २६ ।।

मुद्रा नु मालिनी चैव निर्दहेत्पापपञ्जरम् ।।

ब्रह्महत्यादि यत्पापं योजिता सा तु मूर्धनि ।। २७ ।।

विदर्भ्यांगुलयः सर्वा ईषन्मध्यस्तथाग्रतः ।।

ऊर्ध्वस्थितौ तषांगुष्ठौ मुद्रेयं तर्जनी स्मृता ।। २८ ।।

सर्वव्याधिहरा देवी सर्व शत्रुविनाशिनी ।।

एतां बद्ध्वा महापुण्यां सर्वान्स्तंम्भयते रिपून् ।। २९ ।।

उभौ प्रसार्य वै हस्तौ मध्ये सार्धेन संस्थितौ ।।

शेषानाम्या ततश्चैव अंगुष्ठाग्रं तथा क्रमात् ।। 1.214.३० ।।

मुद्रा गभस्तिनी नाम सूर्यस्य हृदयं परम् ।।

मृत्युं नाशयते ह्येषा बद्ध्वा सूर्योदये शुभा ।।३१।।

अर्घ्यकाले तु बध्नीयादर्चयाग्निं प्रपूजयेत् ।।

जपकाले च बध्नीयान्मंत्राणां नात्र संशयः ।। ३२ ।।

विदक्षिणकनिष्ठिक्यां तर्जनीभ्यां तथा भवेत् ।।

तर्जनीभ्यां तथांगुष्ठौ संलग्नौ तु परस्परम् ।।

जपं यः कुरुते नित्यं त्रिभिर्मासैर्विशुद्यति ।। ३३ ।।

करौ तु संपुटौ कृत्वा तर्जन्यौ द्वे च कुञ्चयेत् ।।३४।।

सहस्रकिरणा ह्येषा सर्वमुद्रेश्वरेश्वरी ।।

त्रिसंध्यमेतां बध्नीयात्साधको मंत्रमूर्धनि ।।

नाशयेत्सर्वपापानि तमोराशिमिवांशुमान् ।। ३५ ।।

मुद्रा मुद्रककुंभेति बद्ध्वा पश्चात्तु मंत्रयेत् ।।

मासेन नाशयेत्कुष्ठं त्रिभिर्मासैर्न संशयः ।।

इति मुद्रांगसहितं सूर्यं पूजयते तु यः ।। ३६ ।।

अनेन विधिना राजन्ब्रह्मा पूजयते रविम् ।।

तस्मात्त्वमपि राजेंद्र पूजयानेन भास्करम् ।। ३७ ।।

ततः सूर्यमवाप्येह सूर्यलोकं स गच्छति ।।

अनेन विधिना यस्तु पूजयेत्सत तं रविम् ।। ३८ ।।

स याति परमं स्थानं यत्र देवो दिवाकरः ।।

इत्थं पूज्य च देवेशमनेन विधिना नृप ।। ३९ ।।

भोजयित्वा यथाशक्ति ब्राह्मणांश्च विधानतः ।।

सप्तम्यां प्राशयेद्वापि मरिचं मंत्रतस्तथा ।। 1.214.४० ।।

एकं गृहीत्वा मरिचमव्रणं च दृढं परम् ।।

सजलं प्राशयेद्राजन्मन्त्रेणानेन वा स्मृतम् ।। ४१ ।।

यथोक्तेन विधानेन पूजयित्वा दिवाकरम्।।

इति संप्राश्य मरिचं ततो भुंजीत वाग्यतः ।।४२।।

प्रियसंगमवाप्नोति तत्क्षणादेव नान्यथा ।।

इतीयं सप्तमी पुण्या प्रियसंगमदायिनी ।। ४३ ।।

कुर्यादेकेन कामांस्तु वत्सरेण स गच्छति ।।

पुत्रादिभिर्नरश्रेष्ठ पुनः संगममृच्छति ।। ४४ ।।

कुरु तस्मान्महाबाहो त्वमेव प्रियदायिनीम् ।।

उपोष्य इंद्रो विधिवत्सुरामरिचसप्तमीम् ।। ४५ ।।

संयोगं कृतवान्वीर सह शच्या विधानतः ।।

उपोष्यैनां नलश्चापि दमयन्त्या महाबलः ।। ४६ ।।

रामोऽगात्सीतया सार्धमुपोष्यैनां नराधिप ।। ४७ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे मरिचसप्तमीव्रतवर्णनं नाम चतुर्दशाधिकद्विशततमोऽध्यायः ।। २१४ ।।

पर्व १ (ब्राह्मपर्व) — Adhyāya 215

सूर्यमन्त्रोद्धारवर्णनम्

।। सुमंतुरुवाच।। ।।

तृतीयां सप्तमी वीर शृणुष्व गदतो मम ।।

निंबपत्रैः स्मृता या तु परमा रोगनाशिनी।। १ ।।

यथार्चनविधिर्वान्यो येन पूजयते रविम्।।

देवदेवः शार्ङ्गपाणिः शंख चक्रगदाधरः ।। २ ।।

अथार्चनविधिं वच्मि मंत्रोद्धारं निबोध मे ।। ३ ।।

ॐ खषोल्काय नमः ।। मूलमंत्रः ।।

ॐ विटि २ शिरः ।।

ॐ सहस्ररश्म ये अस्त्रम् ।।

ॐ सहस्रकिरणाय २०० ऊर्ध्वबंधः ।।

ॐ घनाय भूतभाविने नमः इति भूतबंधः ।।

ॐ ज्वल २ प्रज्वल २ अग्निप्रकर ।। ४ ।।

ॐ आदित्याय विद्महे विश्वभागाय धीमहि ।।

तन्नः सूर्यः प्रचोदयात् ।। ५ ।।

गायत्रीसंकलीकरणमिदम् ।।

ॐ धर्मात्मने नमः ।। एशान्याम् ।।

ॐ दक्षिणाय नमः आग्नेय्याम् ।।

ॐ वज्रपाणयेऽनंताय नमः उत्तरतः ।।

ॐ श्यामपिंगलाय नमः ऐशान्याम् ।।

ॐ अमृताय नमः आग्नेय्याम् ।।

ॐ बुधाय सोमसुताय नमो दक्षिणतः ।।

ॐवागीश्वराय सर्वविद्याधिपतये नैर्ऋत्याम् ।।

ॐ शुक्राय महर्षये भूताय पश्चिमतः ।।

ॐ ईश्वराय सूर्यात्मने नमो वायव्याम् ।।

ॐ कृतवते नमः उत्तरतः ।।

ॐ राहवे नमः ऐशान्याम्।।

ॐ अंतराय सूर्यात्मने नमः पूर्वतः।।

ॐ ध्रुवाय नमः ऐशान्याम् ।।

ॐ भगवते पूषन्मालिन्सकलजगत्पते सप्ताश्ववाहन भूभुज परमसिद्धिशिरसि गतं गृह्ण तेजोरूपं अनंतज्वाल २ ।। आवाहनमंत्रः ।।

ॐ नमो भगवते आदित्याय सहस्रकिरणाय यथासुखं पुनरागमनाय इति ।। ६ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यमंत्रोद्धारवर्णनं नाम पञ्चदशाधिकद्विशततमोऽध्यायः ।। २१५ ।।

पर्व १ (ब्राह्मपर्व) — Adhyāya 216

पुराणश्रवणविधिवर्णनम्

।। सुमंतुरुवाच ।। ।।

शृणुष्वर्चाविधिं राजन्मंत्रपूतेन वारिणा ।।

प्रोक्षणीयं प्रयत्नेन किमर्थं सुसमाहितः ।। १ ।।

हदयादिष्वथांगेषु मंत्रं विन्यस्य मंत्रवित् ।।

आत्मानं भास्करं ध्यात्वा परिचारसमन्वितः ।। २ ।।

कुर्यात्संमार्जनीं मुद्रां दिशां च प्रतिबोधनम् ।।

पाताले भूशोधनं चैव नभसश्च तथा मतम् ।। ३ ।।

अर्चनस्य प्रकारोऽयं सर्वेषामीप्सितप्रदः ।।

सर्वैरपि बुधैर्वीर पद्ममेतत्प्रकीर्तितम् ।। ४ ।।

अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम् ।।

आवाहनीं ततो बद्ध्वा मुद्रामावाहयेद्रविम् ।। ५ ।।

खषोल्कं स्नापयेत्तत्र स्वरूपं लोभदायकम् ।।

स्थापयेत्स्नापयेच्चैव मंत्रै मंत्रशरीरिणम् ।। ६ ।।

आग्नेय्यां दिशि देवस्य हृदयं स्थापयेन्नरः ।।

ऐशान्यां तु शिरः स्थाप्य नैर्ऋत्यां विन्यसेच्छिखाम् ।। ७ ।।

पौरंदर्यां न्यसेन्नेत्रे एकामहृदयस्तु सः ।।

आवाह्य चैकं कवचं वारुण्यामस्त्रमेव च ।। ८ ।।

ऐशान्यां स्थापयेत्सोमं पौरंदर्यां तु लोहितः ।।

आग्नेय्यां सोमतपनं याम्यां चैव बृहस्पतिम् ।। ९ ।।

नैर्ऋत्यां दानवं शुक्रं वारुण्यां च शनैश्चरम् ।।

वायव्यां च तथा केतुं कौबेर्यां राहुमेव च ।। 1.216.१० ।।

द्वितीयायां तु कक्षायां देवतेजःसमुद्भवान् ।।

स्थापयेद्द्वादशादित्यान्काश्यपेयान्महाबलान् ।। ११ ।।

भगः सूर्योर्यमश्चैव मित्रो वरुण एव च ।।

सविता चैव धाता च विवस्वांश्च महाबलः ।। १२ ।।

त्वष्टा पूषा तथा रुद्रो द्वादशो विष्णुरुच्यते ।।

पूर्वे चेन्द्राय दक्षिणे यमाय पश्चिमे वरुणाय उत्तरे कुबेराय ऐशान्यामीश्वराय आग्नेय्यामग्निदेवतायै नैर्ऋत्यां पितृदेवेभ्यो वायव्यां वायवे ।।

जया च विजया चैव जयंती चापराजिता ।।

शेषश्च वासुकिश्चैव रेवती च विनायकः ।।

महाश्वेता महादेवी राज्ञी चैव सुवर्चला ।। १३ ।।

तथान्यो वापि देवानां समूहस्त त्र तत्र ह ।।

तथान्यो लोकविख्यातो योगः प्रोक्तश्च दक्षिणे ।। १४ ।।

पुरस्ताद्भासुरस्थाने स्थापनीया विजानता ।।

सिद्धिर्वृद्धिः स्मृतिर्देवी श्रीश्चैवोत्पलमालिनी ।। १५ ।।

स्थाप्या स्वदक्षिणे पार्श्वे लोकपूज्या समंततः ।।

प्राज्ञावती क्षुधा वीर हारीता बुद्धिरेव च ।। १६ ।।

स्थाप्य बुद्धिमती नित्यं श्रीकामैर्वा विवस्वतः ।।

ऋद्धिश्चैव विसृष्टिश्च पौर्णमासी विभावरी।।

स्थाप्याश्च स्वोत्तरे पार्श्वे इत्येता देवशक्तयः ।।१७।।

दीपश्चान्नमलंकारो वासः पुष्पाणि मन्त्रतः ।।

देयानि देवदेवाय सानुगाय समूर्तये ।।१८।।

विधिनानेन सततं सदा योर्चयति भास्करम् ।।

संप्राप्य परमान्कामांस्ततो भानुसदो व्रजेत् ।। १९ ।।

अनेन विधिना यस्तु भोजयेद्भास्करं नृप ।।

त्वं निंब कटुकात्मासि आदित्यनिलयस्तथा ।।

सर्वरोगहरः शान्तो भव मे प्राशनं सदा ।। 1.216.२० ।।

इत्थं प्राश्य जपेद्भूमौ देवस्य पुरतो नृप ।।

ब्राह्मणान्भोजयित्वा तु शक्त्या दत्त्वा तु दक्षिणाम्।। २१ ।।

भुञ्जीत वाग्यतः पश्चान्मधुरं क्षारवर्जितम् ।।

इत्येषा वर्षपर्यन्तं कर्तव्या चैव सप्तमी ।। २२ ।।

कुर्वाणः सप्तमीमेतां सर्वरोगैः प्रमुच्यते ।।

सर्वरोग विनिर्मुक्तः सूर्यलोकं स गच्छति ।। २३ ।।

।। सुमन्तुरुवाच ।। ।।

अथ भाद्रपदे मासि सिते पक्षे महीपते ।।

कृत्वोपवासं सप्तम्यां विधिवत्पूजयेद्रविम् ।। २४ ।।

माहेश्वरेण विधिना पूजयेदत्र भास्करम् ।।

अष्टम्यां तु पुनः स्नातः पूजयित्वा दिवाकरम् ।। २५ ।।

दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति ।।

खर्जूरं नालिकेरं च मातुलिङ्गफलानि च ।। २६ ।।

देवस्य पुरतो दत्त्वा तथा चाम्रफलानि च ।।

इति ते कथितं राजन्सप्तमीफलमादितः ।। २७ ।।

महातपो महाश्रेष्ठं भास्करस्य विशाम्पते ।।

यच्छ्रुत्वा मानवो राजन्मुच्यते ब्रह्महत्यया ।। २८ ।।

तथेदं परमं पर्व कथितं ब्रह्मसंज्ञितम् ।।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते मानवा नृप ।। २९ ।।

अश्वमेधसहस्रस्य वाजपेयशतस्य च ।।

सर्वतीर्थाभिगमने वेदाभ्यासे च यत्फलम् ।।

यत्फलं पृथिवीदाने तत्सर्वं प्राप्नुयान्नरः ।। 1.216.३० ।।

राजसूयसहस्रस्य वाजपेयशतस्य च ।।

सहस्रशतदानस्य फलं विंदति मानवः ।। ३१ ।।

लेखत्वं ब्राह्मणो गच्छेत्क्षत्रियो विप्रतां व्रजेत् ।।

वैश्योऽपि क्षत्रतां याति शूद्रो वैश्यत्वमेव च ।। ३२ ।।

सूतमागध बन्द्याद्या ये चान्ये संकरोद्भवाः ।।

तेऽपि यांत्युत्तमं स्थानं पुराणश्रवणाद्विभो ।। ३३ ।।

इतिहासपुराणाभ्यां न त्वन्यत्पावनं नृणाम् ।।

येषां श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ।। ३४ ।।

विधिना राजशार्दूल शृण्वतां यत्फलं किल ।।

यथोक्तं नात्र संदेहः पठतां च विशांपते ।। ३५ ।। ।।

।। शतानीक उवाच ।। ।।

भगवन्केन विधिना श्रोतव्यं भारतं नरैः ।।

चरितं रामभद्रस्य पुराणानि विशेषतः ।। ३६ ।।

कथं तु वैष्णवा धर्माः शिवधर्मा अशेषतः ।।

सौराणां चापि विप्रेन्द्र उच्यतां श्रवणे विधिः ।। ३७ ।।

वाचनीयं कथं चापि वाचको द्विजसत्तम ।।

लक्षणं चास्य मे ब्रूहि वाचकस्य महात्मनः ।। ३८ ।।

स्वरूपं चास्य मे ब्रूहि खषोल्कस्य महात्मनः ।।

फलं च पूजिते किं स्याद्वाचके विधिवद्द्विज ।। ।। ३९ ।।

पारणेपारणे पूज्यो वाचकः श्रावकैः कथम् ।।

समाप्ते भगवन्किंकिं देयं पर्वणि वाचके ।। 1.216.४० ।।

न च किं कार्यसिद्धं यत्सिद्धं पर्वणि पर्वणि ।।

।। सुमन्तुरुवाच ।। ।।

सम्यक्पृष्टोऽस्मि राजेन्द्र इतिहासपुराणयोः ।। ४१ ।।

श्रवणे तु महाबाहो श्रूयतां यन्मया पुरा ।।

पृष्टो वोचन्महातेजा विरिंचो भगवान्गुरुः ।। ४२ ।।

हंत ते कथयाम्येष पुराणश्रवणे विधिम् ।।

इतिहासपुराणानि श्रुत्वा भक्त्या विशेषतः ।।

मुच्यते सर्वपापेभ्यो ब्रह्महत्यादिभिर्विभो ।। ४३ ।।

सायं प्रातस्तथा रात्रौ शुचिर्भूत्वा शृणोति यः ।।

तस्य विष्णुस्तथा ब्रह्मा तुष्यते शंकरस्तथा ।। ४४ ।।

प्रत्यूषे भगवान्ब्रह्मा दिनांते तुष्यते हरिः ।।

महादेवस्तथा रात्रौ शृण्वतां तुष्यते विभुः ।।

पारणानि दशाहेषु एके कुर्वंति तानि भोः ।। ४५ ।।

भवेद्वै राजशार्दूल शृणु तेषां च यत्फलम् ।।

विधानं वाचकस्येह शृण्वतां च विशांपते।।४६।।

शुद्धवासा गृहादेत्य स्थानं यत्समयान्वितम् ।।

प्रदक्षिणं ततो गत्वा यस्तस्मिन्देव एव हि ।। ४७ ।।

नात्युच्चं नातिनीचं च ह्यासनं भजते ततः ।।

आसनं तस्य वै राजन्बोधकस्य सदा भवेत् ।। ४८ ।।

वन्दनीयं प्रपूज्य च श्रोतृभिः कुरुनन्दन ।।

व्यासपीठं तु तत्प्रोक्तं गुरोरासनमादिशेत् ।। ४९ ।।

न स्थेयं श्रावकैस्तस्माद्वाचकस्यासने नृप ।।

राजासने यथा भृत्यैर्यथा पुत्रैः पितुर्नृप ।। 1.216.५० ।।

यथा शिशुर्गुरोर्वीर स तेषां हि गुरुर्मतः ।।

देवार्चामग्रतः कृत्वा ब्राह्मणार्चां विशेषतः ।। ५१ ।।

उप विश्य ततः पश्चाच्छ्रावकः शृणुयान्नृप ।।

समस्तानागतान्कृत्वा ततः पुस्तकमाददेत् ।। ५२ ।।

प्रणम्य शिरसा तस्य पुस्तकस्य विशांपते ।।

ग्रंथिं च शिथिलां कुर्याद्वाचकः कुरुनन्दन ।।

पुनर्बध्नीत तत्सूत्रं तन्मुक्त्वा वाचयेत्क्वचित् ।। ५३ ।।

त्रिविधं पुस्तकं विद्यात्सूत्रं वासुकिरुच्यते ।।

पत्राणि भगवान्ब्रह्मा अक्षराणि जनार्दनः ।।५४।।

शंकरश्च तथा सूत्रं पंक्तयः सर्वदेवताः ।।

पावकश्च तथा सूत्रे मध्ये भानुः समाश्रितः ।।५५।।

अग्रे स्थिता ग्रहाः सर्वे दिशो वापि तथा विभो ।।

स्मृतो मेरुः सदा शंकुश्छिद्रमाकाशमुच्यते ।।५६।।

यंत्रद्वयं काष्ठमयमधोर्ध्वं यदुदाहृतम् ।।

द्यावापृथिव्योश्च शंखस्तथा चंद्र उदाहृतः ।।५७।।

इत्थं देवमयं ह्येतत्पुस्तकं देवपूजितम् ।।

नमस्यं पूजनीयञ्च गृहे स्थाप्यं विभूतये।। ५८ ।।

योऽस्य सूत्रं बृहत्कृत्वा प्रयच्छति नरोत्तमः ।।

स याति परमं स्थानं यत्र देवो दिवाकरः।।५९।।

निरूप्य पात्रं राजेन्द्र कराभ्यां गृह्य वाचकः ।।

प्रणम्य शिरसा सर्वान्ब्रह्मादीन्व्यासमेव च ।।

वाल्मीकिं च तथा राजन्विधिं विष्णुं शिवं रविम्।।1.216.६०।।

नमस्कारमथैषां तु पठित्वा कुरुनंदन।।

ततोसौ व्याहरेद्विप्रान्वाचकः श्रदयान्वितः६१।। ।

अलंबितमतस्तब्धमद्भुतं वीरमूर्जितम् ।।

असंसक्ताक्षरपदं रसभावसमन्वितम् ।। ६२ ।।

सप्तस्वरसमायुक्तं कालेकाले विशांपते ।।

प्रदर्शयन्रसान्त्सर्वान्वाचको व्याहरेन्नृप ।। ६३ ।।

ईदृशाद्वाचकाद्विप्राच्छ्रुत्वा श्रद्धासमन्वितः ।।

इतिहासपुराणानि रामस्य चरितं तथा।। ६४।।

नियमस्थः शुचिः श्रोता शृणुयात्फलमश्नुते ।।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि विशेषतः ।। ६५ ।।

अश्वमेधमवाप्नोति सर्वान्कामानवाप्नुते ।।

रोगैश्च मुच्यते सर्वैर्महत्पुण्यं च विंदति ।।

गच्छेद्वापि परं स्थानं देवस्याद्भुतमुत्तमम् ।।६६।।

स्नातैर्गृहं समागम्य श्रोतृभिर्वाचकस्य तु ।।

प्रणम्य शिरसा विप्रं वाचकं श्रद्धया नृप।।६७।।

आसनं च समाश्रित्य स्थातव्यं वाचकस्य तु।।

संमुखं राजशार्दूल वाग्यतैः सुसमाहितैः।।६८।।

वाचकेन नमस्कारे कृते व्यासस्य भूपते।।

न वक्तव्यं महाबाहो श्रावकैः संशयादृते ।।६९।।

संशये सति प्रष्टव्यो वाचकः संप्रसाद्य तु ।।

यतश्च स गुरुस्तेषां धर्मतो बंधुरुच्यते।।1.216.७०।।

वाचकेनापि वक्तव्यं यत्स्यात्तेषां निबोधनम् ।।

अनुग्रहाय सर्वेषामशेषा गुरवो नृप ।। ७१ ।।

नमस्कारादयः श्राव्या शिवमस्त्विति वोद्यते ।।

वाग्यतैर्नृपशार्द्ल वर्णैः सर्वैर्महीपते।।७२।।

शूद्राणां पुरतो वैश्या वैश्यानां क्षत्रिणस्तथा ।।

मध्यस्थितोऽथ सर्वेषां वाचको व्याहरेन्नृप ।।

ये च संकरजा राजन्नरास्ते शूद्रपृष्ठतः ।। ७३ ।।

ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरेत् ।।

श्रुत्वान्यवर्णजाद्वाचं वाचकान्नरकं व्रजेत् ।। ७४ ।।

इत्थं हि शृण्वतां तेषां वर्णानामनुपूर्वशः ।।

मासिमासि भवेद्राजन्पारणं कुरुनन्दन ।। ७५ ।।

श्रेयोऽर्थमात्मनो राजन्पूजयेद्वाचकं बुधः ।।

मासि पूर्णे द्विज श्रेष्ठे दातव्यं स्वर्णमाषकम् ।। ७६ ।।

ब्राह्मणेन महाबाहो द्वे देये क्षत्रियस्य तु ।।

वाचकाय द्विजश्रेष्ठ वैश्येनापि त्रयं तथा ।। ७७ ।।

शूद्रेणैव च चत्वारो दातव्याः स्वर्णमाषकाः ।।

मासिमासि द्विजश्रेष्ठ श्रद्धया वाचकाय तु ।। ७८ ।।

प्रथमे पारणे राजन्वाचकं पूज्य शक्तितः ।।

अग्निष्टोमस्य यज्ञस्य फलं विंदति मानवः ।। ७९ ।।

कार्तिकादीन्समारभ्य यावत्कार्त्तिकमच्युत ।।

अग्निष्टोमं गोसवं च ज्योतिष्टोमं तथा नृप ।। 1.216.८० ।।

सौत्रामणिं वाजपेयं वैष्णवं च तथा विभो ।।

माहेश्वरं तथा ब्राह्मं पुंडरीकं यजेत यः ।। ८१ ।।

आदित्ययज्ञस्य तथा राजसूयाश्वमेधयोः ।।

फलं प्राप्नोति राजेंद्र मासैर्द्वादशभिः क्रमात् ।।

इत्थं यज्ञफलं प्राप्य याति लोकांस्तथोत्तमान् ।। ८२ ।।

वज्रवेदिकसंपन्नं मणिरत्नविभूषितम् ।।

विमानमास्थितो राजन्मोदते शक्रमंदिरे ।। ८३ ।।

ततश्चंद्रस्य भवने वारुणे भवने ततः ।।

शोचिष्केशगृहे गत्वा गच्छेच्चैलविले गृहे ।। ८४ ।।

धिषणस्य गृहं गत्वा ततश्चित्रशिखंडिनः ।।

वृद्धश्रवसमासाद्य गच्छेत्कंजजमंदिरे ।।

एवमेव नृपश्रेष्ठ नात्र कार्या विचारणा ।। ८५ ।।

फलमेतत्समुद्दिष्टं शृण्वतां सततं नृणाम् ।।

एतत्फलं वत्सरेण शृण्वतो विधितो नृप ।। ८६ ।।

एतानि परिमाणानि वत्सरेण भवंति वै ।।

शृण्वतां नृपशार्दूल ददतां वाचकाय वै ।। ८७ ।।

एकं च द्वे तथा त्रीणि चत्वारि च विशांपते ।।

देयानि वाचकायेह मासिमासि नराधिप ।। ८८ ।।

ब्राह्मणाद्यैर्नृप श्रेष्ठ सर्ववर्णविभागशः ।।

समाप्ते पर्वणि तथा वाचकं पूजयेत्पुनः ।।८९।।

वाचकं ब्राह्मणं चैव सर्वकामैः प्रपूजयेत् ।।

गन्धमाल्यादिभिर्दिव्यैर्वा सोभिर्विविधैरपि ।। 1.216.९० ।।

वाचकाय प्रदत्त्वा तु ततो विप्रान्प्रपूजयेत् ।।

हिरण्यं रजतं रुक्मं गाश्च कांस्योपदोहनाः ।।९१।।

दत्त्वा च वाचकायेह श्रुतस्य प्राप्यते फलम् ।।

यथा सदक्षिणं चान्नं श्राद्धकाले प्रकीर्तितम् ।।

तथा श्रुतं नृपश्रेष्ठ सदक्षिणमुदाहृतम् ।। ९२ ।।

वाचकं पूजयेद्यस्मा त्पश्चाल्लेखकपूजनम् ।।

समाप्ते पर्वणि विभो विशेषेणैव चार्चयेत् ।। ९३ ।।

वाचकः पूजितो येन पूजितास्तेन देवताः ।।

वाचके परितुष्टे च मम प्रीतिरनुत्तमा ।।९४।।

इति वेधाः सदा प्राह देवानां पुरतः पुरा ।।

तस्मिंस्तुष्टे जगत्सर्वं तुष्टं भवति नित्यशः।।।।

तस्मात्प्रपूजयेद्विप्र वाचकं नृप सत्तम ।।

न तुल्यं वाचकेनेह पात्रदानस्य विद्यते।।९६।।

तिष्ठंति यस्य शास्त्राणि जिह्वाग्रे पृथिवीपते।।

दृष्टश्च गोचरस्तात कस्तेन सदृशो द्विजः।।९७।।

न तुल्यं विद्यते तेन भुवि पात्रं नरेषु वै ।।

तस्मादन्नं सदा पूर्वं तस्मै देयं विदुर्बुधाः ।।

श्राद्धे यस्य द्विजो भुंक्ते वाचकः श्रदयान्वितः ।।

भवंति पितरस्तस्य तृप्ता वर्षशतं नृप ।।९८।।

यथेह सर्वदेवानां भास्करः प्रवरः स्मृतः ।।

विस्पष्टमद्भुतं शांतं स्पष्टाक्षरपदं तथा ।।

कलस्वरसमायुक्तं रसभावसमन्वितम् ।। ९९ ।।

बुध्यमानः सदात्यर्थं ग्रंथाथं कृत्स्नशो नृप ।।

ब्राह्मणादिषु वर्णेषु ग्रंथार्थं वाचयेन्नृप ।। 1.216.१०० ।।

य एवं वाचयेद्राजन्य विप्रो व्यास उच्यते ।।

अतोऽन्यथा कथयिता ज्ञेयोऽसौ वक्तृनामकः ।। १०१ ।।

इत्थंभूतो वसेद्यस्मिन्वाचको व्याससन्निभः ।।

देशेऽथ पत्तने राजन्स देशः प्रवरः स्मृतः ।। १०२ ।।

ते धन्यास्ते महात्मानस्ते कृतार्था न संशयः ।।

वसंति यत्नतो यस्मिन्स देशः प्रवरः स्मृतः ।। १०३ ।।

न शोभते पुरं वीर व्यासहीनं कदाचन ।।

यथार्कहीनं हि दिनं चंद्रहीना यथा निशा ।। १०४ ।।

न राजते सरो यद्वत्पद्मिनी रहितं नृप ।।

तथा व्यासविहीनं तु राजते न पुरं क्वचित् ।। १०५ ।।

प्रणम्य वाचकं भक्त्या यत्फलं प्राप्यते नरैः ।।

न तत्क्रतुसहस्रेण प्राप्यते कुरुनंदन ।। १ ० ६ ।।

यथैकतो ग्रहाः सर्वे एकतस्तु दिवाकरः ।।

तथैकतो द्विजाः सर्वे एकतस्तु स वाचकः ।। १०७ ।।

यथा वेदसमो नास्ति आगमो भुवि कश्चन ।।

तथा व्याससमो नास्ति ब्राह्मणो भुवि कश्चन ।। १०८ ।।

कुरुक्षेत्रसमं तीर्थं न द्वितीयं प्रचक्षते ।।

न नदी गंगया तुल्या न देवो भास्कराद्वरः ।।१०९।।

नाश्वमेधसमं पुण्यं न पापं ब्रह्महत्यया ।।

पुत्रजन्मसुखैस्तुल्यं न सुखं विद्यते यथा ।।1.216.११ ०।।

तथा व्याससमो विप्रो न क्वचित्प्राप्यते नृप ।।

दैवे कर्मणि पित्र्ये च पावनः परमो नृणाम् ।। १११ ।।

नास्ति व्याससमः श्रेष्ठ इतीयं वैदिकी श्रुतिः ।।

अथ विप्रसहस्राणां विप्रोऽयं श्रेष्ठ ईरितः ।।

उपविष्टो यदा भुंक्ते व्यासो वै विप्रमण्डले ।।११२।।

श्राद्धे तात पवित्राणि कथितानि पुरा मम।।

ब्रह्मणा राजशार्दूल शृणु तानि यथाविधि ।।११३।।

मधु पायसं कालशाकस्तिलाश्च कुतपस्तथा ।।

राजतं चापि पात्रेषु ब्राह्मणेष्वथ वाचकः ।।११४।।

दैवे कर्मणि पित्र्ये च स ज्ञेयः पंक्तिपावनः ।।

वाचकश्च यतिश्चैव तथा यश्च षडंगवित् ।। ११५ ।।

एते सर्वे नृपश्रेष्ठ विज्ञेयाः पंक्तिपावनाः ।।

नामनी वाचकस्यैते शृङ्गवार्थमथैतयोः ।। ११६ ।।

इतिहासपुराणानि जयेति विदितानि वै ।।

उपजीवति यस्माद्वै वाचयानो द्विजो नृप ।।

जयोपजीवी तेनासौ गतः ख्यातिं तु वाचकः ।। ११७ ।।

विस्पष्टमद्भुतं शांतं स्पष्टाक्षरमिदं तथा ।।

कलस्वरसमायुक्तं रसभावसमन्वितम्।।११८।।

युध्यमानोथ वात्यर्थं ग्रंथार्थं कृत्स्नशो नृप ।।

ब्राह्मणादिषु वर्णेषु ग्रंथार्थं चार्पयेत्तथा ।। ११९ ।।

य एवं वाचयेद्राजन्य विप्रो व्यास उच्यते ।।

अतोऽन्यथा वाचयिता न गच्छेद्व्यासतां क्वचित् ।। 1.216.१२० ।।

त्रिविधं वाचकं विद्यात्सदा गुणविभेदतः ।।

श्रावकं च महाबाहो त्रिविधं गुणभेदतः ।। १२१ ।।

द्वावेतौ कथ्यमानौ तु निबोध गदतो मम ।।

अभिद्रुतं तथास्पष्टं विस्तरं स्वरवर्जितम् ।।१२२।।

पदच्छेदविहीनं च तथा भावविवर्जितम् ।।

अबुध्यमानो ग्रंथार्थमभीष्टोत्साहवर्जितः ।। १२३ ।।

ईदृशं वाचयेद्यस्तु वाचकः क्ष्माधिपेश्वर ।।

क्रोधनोऽप्रियवादी च अज्ञानाद्ग्रंथदूषकः ।। १२४ ।।

बुध्यते न च कष्टाच्च स ज्ञेयो वाचकाधमः ।।

विस्पष्टमद्भुतं शांतं रसभावसमन्वितम्।। १२५ ।।

अबुध्यमानो ग्रंथार्थं वाचयेद्यस्तु वाचकः ।।

स ज्ञेयो राजसो राजन्निदानीं सात्त्विकं शृणु ।। १२६ ।।

विस्पष्टमद्भुतं शांतं स्पष्टाक्षरपदं तथा ।।

कलस्वरसमायुक्तं रसभावसमन्वितम् ।।१२७ ।।

अत्त्यर्थं बुध्यमानस्तु ग्रंथार्थं कृत्स्नशो नृप ।।

ब्राह्मणादिषु वर्णेषु आचार्यो विधिवन्नृप ।। १२८ ।।

य एवं वाचयेद्राजन्स ज्ञेयः सात्त्विको बुधैः ।।

श्रद्धा भक्तिविहीनो यो लोभिष्ठः कटुको यथा ।। १२९ ।।

हेतुवादपरो राजंस्तथासूयासमन्वितः ।।

नित्यां नैमित्तिकां काम्यामाददद्दक्षिणां नृप ।। ।। 1.216.१३० ।।

वाचको यो महाबाहो शृणुयाद्यस्तु मानवः ।।

स ज्ञेयस्तामसो राजञ्छ्रावको मानवोऽपि सः ।। १३१ ।।

न तस्य पुरतो वीर वाचये त्प्राज्ञ एव हि ।।

प्रसंगाच्छृणुयाद्यस्तु श्रद्धाभक्तिविवर्जितः ।। १३२।।

राजन्कौतुकपात्रं तु स ज्ञेयो राजसो भवेत् ।।

संत्यज्य सर्वकार्याणि भक्त्या श्रद्धासमन्वितः ।। १३३ ।।

सततं पूजयेद्यस्तु वाचकं श्रद्धया मुदा ।।

नित्ये नैमित्तिके काम्ये गुरून्वै देवतास्तथा ।। १३४ ।।

य एवं शृणुयाद्वीर स ज्ञेयः सात्त्विको बुधैः ।।

व्यासः पूज्यः श्रावकाणां यथा व्यासवचो नृप।। १३५ ।।

तस्मात्पूज्यतमो नान्यः श्रावकाणां नृपोत्तम ।।

यतः स वै गुरुस्तेषां ज्ञानदाता सदा नृप ।।१३६।।

चतुर्णामिह वर्णानां नान्यो बन्धुः प्रचक्ष्यते ।।

व्यासादृते नृपश्रेष्ठ इतीयं वैदिकी श्रुतिः ।।१३७।।

तस्मात्सर्वप्रयत्नेन पूजयेद्वाचकं सदा ।।

स गुरुः स पिता माता स बंधुः स सुहृत्तथा ।। १३८ ।।

वाचको नृपशार्दूल विप्रादीनामशेषतः ।।

इत्थं व्यासो गुरुर्ज्ञेयः पूज्यो मान्यो द्विजातिभिः ।। १३९ ।।

शृण्वंति ये नरा राजन्स तेषां गुरुरुच्यते ।।

पूजार्थं तस्य समयः श्रावकाणामुदाहृतः ।। । 1.216.१४० ।।

ये शृण्वंति नृपश्रेष्ठ मासि मासि ददंति ते ।।

स्वर्णमाषकमेकस्मै वाचकाय पृथक्पृथक् ।।१४१।।

द्वादश्यां चामावास्यायामथ वा रविसंक्रमे ।।

सा नित्या दक्षिणा तस्यां या च श्रेयोऽर्थमात्मनः।।१४२।।

अयने विषुवे चैव चंद्रसूर्यग्रहे तथा ।।

प्राप्ते वापरपक्षे च दानं तस्यै स्वशक्तितः ।। १४३ ।।

देयं स्याच्छ्रावकैस्तात तं मुक्त्वा नान्यतो नृप ।।

प्रथमं तस्य दातव्यं श्रेयोऽर्थं श्रावकैः सदा ।।१४४।।

अदत्त्वा तस्य येन्यस्मै संप्रयच्छंति श्रावकाः ।।

अवमानः कृतस्तैस्तु वाचकस्य भवेन्नृप ।। १४५ ।।

कृत्वावमानमथ तैः प्राप्यते यत्फलं नृप ।।

ब्राह्मणाद्यैः समस्तैश्च तच्छृणुष्व वरानन ।।१४६।।

शूद्रत्वं ब्राह्मणो याति क्षत्रियो याति काकताम् ।।

जायते च तथा वैश्यः शूद्रश्चाण्डालतां व्रजेत् ।।१४७।।

तस्मात्पूज्यो नृपश्रेष्ठ प्रथमं वाचको बुधैः ।।

आपत्काले च वृद्धौ च यतश्चासौ गुरुः स्मृतः ।। १४८ ।।

वैशाख्यामयने वीर तृतीयायां च सुव्रत ।।

कार्त्तिक्यामथ मार्ग्यां च संपूज्यः प्रथमं भवेत् ।। १४९ ।।

पर्वस्वन्येषु च विभो संपूज्यो धर्मतः स्मृतः ।।

हिरण्यं च सुवर्णं च धनं धान्यं तथैव च ।। 1.216.१५० ।।

अन्नं चापि तथा पक्वं मांसं च कुरुनंदन ।।

दातव्यं प्रथमं तस्मै श्रावकैर्नृपसत्तम ।। १५१ ।।

वाचकस्तु यथा नित्यं सुखमास्ते नराधिप ।।

न पीड्यते यथा द्वंद्वैस्तथा कार्यं वरानन ।। १५२ ।।

हेमंते लोमशा देयाश्छत्रं प्रावृषि सत्तम ।।

उपानहौ कालयोग्ये काले चैवानुलोमशः ।।१५३।।

इत्थं द्वंद्वविनिर्मुक्तः स येषां वाचको नृप ।।

ते धन्याः श्रावका लोके ते गताः परमं पदम् ।। १५४ ।।

आत्मना तु कथं वीर सुखमिच्छेद्विचक्षणः ।।

विषमस्थे गुरौ राजन्यतश्च स गुरुः स्मृतः ।। १५५ ।।

वाचकश्रावकाणां च तस्माद्द्वंद्वं विघातयेत् ।।

यत्नः कार्यः श्रावकैश्च वाचकस्य जनाधिप ।। १५६ ।।

इत्थं पूज्यः सदा व्यासः श्रेयोऽर्थं प्रथमं नृप ।।

भर्ता पूज्यो यथा स्त्रीणां सर्वासां वै मही पते ।। १५७ ।।

श्रावकाणां तथा राजन्वाचकः पूज्य उच्यते ।।

उपाध्यायस्तु शिष्याणां यथा भागवतो हरिः ।। १५८ ।।

सौराणां च यथा भानुः शैवानां शंकरो यथा ।।

वाचकस्तु तथा पूज्यः श्रावकाणां नराधिप ।। १५९ ।।

दक्षिणां ददता नित्यं श्रोतव्यं भूतिमिच्छता ।।

पूर्वोक्तमाषकं तस्मै वाचकाय जनाधिप ।। 1.216.१६० ।।

यदा दातुं न शक्नोति माषकं कांचनस्य तु ।।

रजतस्य तदा देयं माषकं श्रेयसे नृप ।। १६१ ।।

तदभावे हिरण्यं च वित्तशाठ्यविवर्जितः ।।

मृत्तिकापि हि दातव्या प्राप्नोति सत्फलं शुभम् ।। १६२ ।।

इत्येषा दक्षिणा नित्या मासिमासि भवेन्नृप ।।

नैमित्तिका भवेद्राजन्ग्रहणादिषु पर्वसु ।। १६३ ।।

अमले वाससी राजन्गंधमाल्यविभूषणे ।।

समाप्ते पर्वणि विभो दातव्ये भूतिमिच्छता ।। ।। १६४ ।।

ज्ञात्वा सर्वसमाप्तिं तु पूजयेच्छ्रावको धुवम् ।।

आत्मानमपि विक्रीय य इच्छेत्सफलं श्रुतम् ।। १६५ ।।

नैमित्तिकां च नित्यां च दक्षि णामप्रदाय च ।।

शृणोति च सदा यस्तु तस्य तन्निष्फलं श्रुतम् ।। १६६ ।।

यथा च दक्षिणाहीनाद्यज्ञान्न फलमश्नुते ।।

तथा श्रुतं च राजेंद्र दक्षि णारहितं स्मृतम् ।। १६७ ।।

चतुर्गुणा भवेद्राजन्या नित्या दक्षिणा विभो ।।

समाप्ते पर्वणि विभो इत्याह भगवाञ्छिवः ।। १६८ ।।

इत्येष कथितो राजन्पुराणश्रवणे विधिः ।।

यतश्च विधिहीनं तु न कर्मफलमुद्यते ।। १६९ ।।

स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।।

विधिपूर्वं स्मृतं ज्ञेयं यथेह कुरुनदन।।1.216.१७० ।।

फलदं नृपशार्दूल पुराणश्रवणं तथा ।।

यथायं कथितं तुभ्यं विधिना श्रवणं मया ।।१७१।।

यथोक्तं तु यथा जीवं यथोक्तं ब्रह्मवादिना ।।

स ब्राह्मणो महाराज सर्वलोकेषु पूजितः ।। १७२ ।।

यथाश्रुतं महाबाहो तथेदं कथितं तव ।।

भास्करस्य तु माहात्म्यं माहात्म्यं वाचकस्य तु ।। १७३ ।।

तथा च सप्तमीकल्पः सर्वपापभयापहः ।।

अनेन विधिना यस्तु पूजयेत्सततं नरः ।। १७४ ।।

भगलोकं समासाद्य त्रिषु लोकेषु गीयते ।।

ततोऽर्कलोकमासाद्य गच्छेच्चित्रशिखंडिनः ।। १७५ ।।

तस्मादपि महाबाहो गच्छेल्लोकं दिवाकरम्।।

अर्कलोके ततो यातस्ततो गोलोकमश्नुते ।। १७६ ।।

ऋतस्य च ततो गच्छेत्कंजजस्य ततः परम् ।।

दशानां राजसूयानामग्निष्टोमशतस्य च ।। १७७ ।।

श्रवणात्फलमाप्नोति पितामहवचो यथा ।। १७८ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे आदित्यमाहात्म्यवाचकमाहात्म्यपुराण श्रवण विधिवर्णनं नाम षोडशाधिकद्विशततमोऽध्यायः ।। २१६ ।।

।। पूर्वार्धः समाप्तोऽयम् ।।

।। श्रीनारायणार्पणमस्तु ।। ।।

इति श्रीभविष्ये महापुराणे प्रथमं ब्राह्मपर्व समाप्तम् ।। १ ।।

अयं युनिकोड रूपान्तरणं आश्विन् शुक्ल सप्तमी, विक्रम संवत् २०७३ तिथौ indsenz OCR द्वारा निम्नलिखित पुस्तकद्वयेभ्यः कृतमस्ति -

श्रीभविष्यपुराणम्(नाग प्रकाशक, दिल्ली)

श्रीभविष्यपुराणम् (हिन्दी साहित्य सम्मेलन, प्रयाग)

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 1

पातालवर्णनम्

।। श्रीगणेशाय नमः ।।

ॐ नमः कमलदलनयनाभिरामाय ।।

श्रीरामचंद्राय ।।

स्वच्छं चंद्रावदातं कविकरमकरक्षोभसंजातफेनं बक्षोद्भूतिप्रसूक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः ।।

ॐकारालंकृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टपूतं संभोगाभोगगम्यं जनकलुषहरं पौष्करं वः पुनातु ।। १ ।१

जयति भुवनदीपो भास्करो लोककर्ता जयति च शितिदेहः शार्ङ्गधन्वा मुरारिः ।।

जयति च शशिमौली रुद्रनामाभिधेयो जयति सकलमौलिर्भानु मांश्चित्रभानुः ।। २ ।।

नमस्कृत्याप्रमेयाय देवाय ब्रह्मरूपिणे ।।

पुराणं संप्रवक्ष्यामि यदुक्तं ब्रह्मयोगिना ।। ३ ।।

पुराणसंहितां पुण्यां पप्रच्छू रौमहर्षणिम् ।।

वक्तुमर्हसि चास्माकं पुराणार्थविशारद ।।४।।

मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः ।।

प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम्।।।।।

।। सूत उवाच ।। ।।

नमस्कृत्य जगद्योनिं ब्रह्मरूपधरं हरिम् ।।

वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ।। ६ ।।

यच्छ्रुत्वा पापकर्माणि स गच्छेत्परमां गतिम् ।।

पुण्यं पवित्रमायुष्यमिदानीं शृणुत द्विजाः ।। ७ ।।

भविष्यपुराणमखिलं यज्जगाद गदाधरः ।।

मध्यपर्व ह्यथो वक्ष्ये प्रतिष्ठादिविनिर्णयम् ।। ८ ।।

धर्मप्रशंसनं चात्र ब्राह्मणादिप्रशंसनम् ।।

आपद्धर्मस्य कथनं विद्यामाहात्म्यवर्धनम्।। ९ ।।

प्रतिमाकरणं चैव स्थापनाचित्रलक्षणम् ।।

कालव्यवस्थासर्गादिप्रतिसर्गादिलक्षणम् ।। 2.1.1.१० ।।

पुराणलक्षणं चैव भूगोलस्य च निर्णयम् ।।

निरूपणं तिथीनां च श्राद्धसंकल्पमन्तरम् ।। ११ ।।

मुमूर्षोरपि यत्कर्म दानमाहात्म्यमेव च ।।

भूतं भव्यं भविष्यं च युगधर्मानुशासनम् ।। १२ ।।

उच्चावचावधानं च प्रायश्चित्तादिकं च यत् ।।

षष्ट्याधिकाष्टसाहस्रनवश्लोकशतोद्भवम् ।। १३ ।।

पंचतंत्रसमायुक्तं प्रतितंत्रे च विंशतिः ।।

पंचोत्तरं तथाध्यायाः पुराणेऽस्मिन्द्विजोत्तमाः ।। १४ ।।

त्रयाणामाश्रमाणां च गृहस्थो योनिरुच्यते ।।

अन्येऽपि सूपजीवन्ति तस्माच्छ्रेष्ठो गृहाश्रमी ।। १५।।

एकाश्रमं गृहस्थस्य त्रयाणां मूर्तिदर्शनम् ।।

तस्माद्गार्हस्थमेवैकं विज्ञेयं धर्मशासनम् ।। १६ ।।

परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।।

सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ।।१७।।

तडागस्य च सान्निध्ये तडागं परिवर्जयेत् ।।

प्रपास्थाने प्रपा वर्ज्या मठस्थाने मठं त्यजेत् ।।१८।।

धर्मात्संजायते ह्यर्थो धर्मात्कामोऽभिजायते ।।

धर्मादेवापवर्गोऽयं तस्माद्धर्मं समाश्रयेत् ।। १९ ।।

धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।।

सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ।। 2.1.1.२० ।।

ऊर्ध्वं गच्छंति सत्त्वस्था मध्ये तिष्ठंति राजसाः ।।

जघन्यगुणवृत्तिस्था अधो गच्छंति तामसाः ।। २१ ।।

यस्मिन्धर्मः समायुक्तो ह्यर्थकामौ व्यवस्थितौ ।।

इह लोके सुखी भूत्वा प्रेत्यानंत्याय कल्पते।।२२।।

तस्मादर्थं च कामं च युक्त्वा धर्मं समाश्रयेत् ।।

धर्मात्संजायते कामो धर्मादर्थोभिजायते।।२३।।

एवं धर्मस्य मध्येऽयं चतुर्वर्गः प्रदर्शितः ।।

एवं च धर्मकामार्थं मोक्षस्यापि च मानवः ।।

माहात्म्यं वानुतिष्ठेच्च स चानंत्याय कल्पते ।। २४ ।।

तस्मादर्थं च कामं च मुक्त्वा धर्मं समाचरेत् ।।

धर्मात्संजायते सर्वमित्याहुर्ब्रह्मवादिनः ।। २५ ।।

धर्मेण धार्यते सर्वं जगत्स्थावरजंगमम् ।।

अनादिनिधना शक्तिर्नैषा ब्राह्मी द्विजोत्तम ।। २६ ।।

कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।।

तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ।। २७ ।।

प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् ।।

ज्ञानपूर्वा निवृत्तिः स्यात्प्रवृत्तिर्वर्ततेऽन्यथा ।। २८ ।।

निवृत्तिं सेवमानस्तु याति तत्परमं पदम् ।।

तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत्पुनः।।२९।।

शमो दमो दया दानमलोभस्त्याग एव च ।।

आर्जवं चानसूया च तीर्थानुसरणं तथा ।। 2.1.1.३० ।।

सत्यं संतोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।।

देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ।।३१।।

अहिंसा सत्यवादित्वमपैशुन्यं सुकल्पता ।।

शौचाचारश्चानुकंपा सर्ववर्णेऽब्रवीन्मुनिः।।३२।।

श्रद्धापूर्वाः स्मृता धर्माः श्रद्धामध्ये तु संस्थिताः ।।

श्रद्धानिष्ठाः प्रतिष्ठाश्च धर्माः श्रद्धेव कीर्तिताः ।। ३३ ।।

प्राजापत्यं ब्राह्मणानां श्रुतं स्थानं क्रियावताम् ।।

स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ।।३४।।

वैश्यानाममृतं स्थानं स्वधर्ममनुवर्तताम् ।।

गांधर्वं शूद्रजीवानां परिचारेण वर्तताम् ।। ३५ ।।

अष्टाशीति सहस्राणां मुनीनामूर्ध्वरेतसाम् ।।

स्मृतं स्थानं तु यत्स्थानं तदेव गुरुवासिनाम् ।। ३६ ।।

सप्तर्षीणां तु यत्स्थानं श्रुतं तद्वै वनौकसाम् ।।

प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा ।। ३७ ।।

यतीनां यतचित्तानां तदेव वनवासिनाम् ।।

हिरण्यगर्भं यत्स्थानं तस्मान्नावर्तते पुनः ।। ३८ ।।

योगिनाममृतं स्थानं व्योमाख्यं परमाकरम् ।।

आनंदमैश्वरं नाम सा काष्ठा परमा गतिः ।। ३९ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे प्रथमोऽध्यायः ।। १ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 2

सृष्टिवर्णनम्

।। सूत उवाच ।। ।।

इदानीं विस्तरं चैव विभागं रूपमैश्वरम् ।।

वक्ष्ये कल्पानुसारेण मन्वतरशतानुगम् ।। १ ।।

आसीत्तमोमयं सर्वमप्रज्ञातमलक्षणम् ।।

तत्र चैको महानासीद्रुद्रः परमकारणम् ।। २ ।।

आत्मना स्वयमात्मानं सञ्चित्य भगवान्विभुः ।।

मनः संसृजते पूर्वमहंकारं च पृष्ठतः ।। ३ ।।

अहंकारात्प्रजानाति महाभूतानि पञ्च च ।।

अष्टौ प्रकृतयः प्रोक्ता विकाराश्चैव षोडश ।। ४ ।।

शब्दः स्पर्शश्च रूपं च रसो गंधस्तथैव च ।।

प्राणोऽपानः समानश्चोदानव्यानौ तथैव च ।। ५ ।।

सत्त्वं रजस्तमश्चैव गुणाः प्रोक्तास्तु ते त्रयः ।।

तस्माद्भागवतो ब्रह्मा तस्माद्विष्णुरजायत ।।६।।

ब्रह्मविष्णुमोहनार्थं ततः शंभुस्तु तेजसा ।।

अशरीरो वासुदेवो ह्यनुत्पत्तिरयोनिजः ।।७।।

व्यामोहयित्वा तत्सर्वं तेजसाऽमोहयज्जगत् ।।

तस्मात्परतरं नास्ति तस्मात्परतरं न हि ।। ८ ।।

ब्रह्मा विष्णुश्च द्वावेतावुद्भूतौ भगवत्सुतौ ।।

कल्पेकल्पे तु तत्सर्वं सृजतेऽसौ जनं जगत् ।। ९ ।।

उपसंहरते चैव नानाभूतानि सर्वशः ।।

द्वासप्ततियुगान्येव मन्वन्तर इति स्मृतः ।। 2.1.2.१० ।।

चतुर्दश तु तान्येवं कल्प इत्यभिधीयते ।।

दिनैकं ब्रह्मणः प्रोक्तं निशि कल्पस्तथोच्यते ।। ११ ।।

एवं मासश्च वर्षश्च तथा चाष्टशतं द्विजाः ।।

एवं बुद्धीन्द्रियस्यास्य विष्णोश्च निमिषः स्मृतः ।। १२ ।।

ब्रह्मादिस्तंबपर्यंतं निमेषश्च ध्रुवस्य वै ।।

निमेषजीवनं सर्वं सर्वलोकचराचरम् ।। १३ ।।

भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च प्रकीर्तितः ।।

जनस्तपश्च सत्यं च ब्रह्मलोकश्च सप्तमः ।। १४ ।।

पातालं वितलं तद्धि अतलं तलमेव च ।।

पञ्चमं विद्धि सुतलं सप्तमं च रसातलम् ।। १५ ।।

एतेषु सप्तविख्याता अधःपातालवासिनः ।।

तेषामादौ च मध्ये च अंते रुद्रः प्रकीर्तितः ।। १६ ।।

ग्रसते जायते लोकान्क्रीडार्थं तु महेश्वरः ।।

ब्रह्मलोकपरीप्सूनां गतिरूर्ध्वं प्रकीर्तिता ।। १७ ।।

पृथिवीं चांतरिक्षं च दिशश्च विदिशस्तथा ।।

समुद्राणां गिरीणां च अधस्तिर्यक्प्रसंख्यया ।। १८ ।।

समुद्राणां च विस्तारं प्रमाणं च ततः शृणु ।।

स्थावराणां च शैलानां देवानां च दिवौकसाम् ।। १९ ।।

चतुष्पदानां द्विपदां तथा धर्मैकभाषिणाम् ।।

सहस्रगुणमाख्यातं स्थावराणां प्रकीर्तितम् ।। 2.1.2.२० ।।

सहस्रगुणशीलाश्च इत्याह भगवान्मुनिः ।।

ऋषिस्तु प्रथमं कुर्वन्प्रकृतिं नाम नामतः ।। २१ ।।

तस्या ब्रह्मा प्रकृत्यास्तु उत्पन्नः सह विष्णुना ।।

तस्माद्बुद्ध्या प्रकुरुते सृष्टिं नैमित्तिकीं द्विजाः ।। २२ ।।

तस्मात्स्वयंभुवो ब्रह्मा ब्राह्मणान्समकल्पयत् ।।

पादहीनान्क्षत्रियांश्च तस्माद्धीनांस्तु वैश्यकान् ।। २३ ।।

चतुर्थ पादहीनांश्च आचारेषु बहिष्कृतान् ।।

पृथिवीं चांतरिक्षं च दिशश्चैवाप्यकल्पयत् ।। २४ ।।

लोकालोकस्य संस्था च द्वीपानामुदधेस्तथा ।।

सरितां सागराणां च तीर्थान्यायतनानि च ।। २५ ।।

मेघस्तनितनिर्घोषरोहितेंद्रधनूंषि च ।।

उल्कानिर्घातकेतूंश्च ज्योतींष्यायतनानि च ।। २६ ।।

उत्पन्नं तस्य देहेषु भूयः कालेन पीडयेत् ।। २७ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे द्वितीयोऽध्यायः ।। २ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 3

पातालवर्णनम्

।। सूत उवाच ।। ।।

ध्रुवादूर्ध्वं महर्लोकः कोटियोजनविस्तरः ।।

कल्पाभिकरणे तत्र संस्थिता द्विजपुङ्गवाः ।। १ ।।

जनलोको महर्लोकात्तथा कोटिद्वयात्मकः ।।

सनंदनादयस्तत्र संस्थिता ब्रह्मणः सुताः ।। २ ।।

जनलोकात्तपोलोकः कोटित्रयसमन्वितः ।।

विराजंते तु देवा वै स्थिता दाह विवर्जिताः ।। ३ ।।

प्राजापत्यात्तु भूर्लोकः कोटिषट्केन संयुतः ।।

सनत्कुमारकस्तत्र ब्रह्मलोकस्तु स स्मृतः ।। ४ ।।

तत्र लोके गुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः ।।

आस्ते यद्योगिभिः पीत्वा योगं मृत्योः परं गतम् ।। ५ ।।

गायंति यतयो गाथा ह्यास्तिका ब्रह्मवादिनः ।।

योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनम् ।। ६ ।।

द्वारं तु योगिनामेकं गच्छतां परमं पदम् ।।

तत्र गत्वा न शोचंति स विष्णुः स च शंकरः ।। ७ ।।

सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम् ।।

न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम् ।। ८ ।।

तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे ।।

शेषे तस्य हरिः श्रीमान्मायासहचरः परः ।। ९ ।।

स विष्णुर्लोककथितः पुनरावृत्तिवर्जितः ।।

प्रयांति च महात्मानो ये प्रपन्ना जनार्दनम् ।। 2.1.3.१० ।।

ऊर्ध्वं ब्रह्मासनात्पूर्वं परं ज्योतिर्मयं शुभम् ।।

वह्निना उपरि क्षिप्तं तत्रास्ते भगवान्भवः ।।११।।

देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः ।।

योगिभिः शतसाहस्रैर्वृतैकत्वैश्च संवृतः ।। १२ ।।

तत्र ते यांति नियता द्विजा वै ब्रह्मवादिनः ।।

महादेवपरेशानास्तापसा ब्रह्मवादिनः ।। १३ ।।

निर्ममा निरहंकाराः कामक्रोधविवर्जिताः ।।

द्रक्ष्यंति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः ।। १४ ।।

एते सप्त महर्लोकाः पृथिव्यां परिकीर्तिताः ।।

महीतलादयश्चाधः पातालाः संति वै द्विजाः ।। १५ ।।

महातलं हैमतलं सर्ववर्णोपशोभितम् ।।

प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम् ।। १६ ।।

अनंतेन समायुक्तं मुचुकुन्देन धीमता ।।

नृपेण बलिना चैव पातालं स्वर्गवासिना ।। १७ ।।

शैलं रसातलं विप्राः शांकरं हि रसातलम् ।।

पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम् ।। १८ ।।

सितं हि वितलं प्रोक्तं तलं चैव सितेतरम् ।।

सुवर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् ।। १९ ।।

रसातलमिति ख्यातं सर्वशोभासमन्वितम् ।।

वैनतेयादिभिश्चैव कालनेमिपुरोगमैः ।। 2.1.3.२० ।।

शंकुकर्णेन संभिन्नं तथा नमुचिपूर्वकम् ।।

तथान्यैर्विवि धैर्नागैस्तलं चैव सुशोभनम् ।। २१ ।।

तेषामधस्तान्नरका रौरवाद्याश्च कोटयः ।।

पापिनस्तेषु पात्यंते न तेऽवनमितुं क्षमाः ।। २२ ।।

पाताला नामधश्चांते शेषाख्या वैष्णवी तनुः ।।

कालाग्निरुद्रयोगात्मा नारसिंहोऽपि माधवः ।। २३ ।।

योऽनंतः पठ्यते देवो नागरूपी जनार्दनः ।।

तदाधारमिदं सर्वं सकलाग्निमुपाश्रितम् ।। २४ ।।

तमाविश्य महायोगी कालस्तद्वदनानलः ।।

विषज्वालासमोऽनंतो जगत्संहरति स्वयम् ।।२५।।

तामसी शांभवी मूर्तिः कालात्मा परमेश्वरः।।

स एव गर्भमाश्रित्य प्रकाशयति नित्यशः ।।२६।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे पाताल वर्णनंनाम तृतीयोऽध्यायः ।। ३ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 4

ज्योतिश्चक्रवर्णनम्

।। सूत उवाच ।। ।।

एतद्ब्रह्मांडमाख्यातं चतुर्विधमिदं महत् ।।

अतः परं प्रवक्ष्यामि भूर्लोकस्य विनिर्णयम् ।। १ ।।

तद्द्वीपप्रधानो जंबूः प्लक्षः शाल्मल एव च ।।

कुशः क्रौंचश्च शाकश्च पुष्करश्चैव सप्तमः ।। २ ।।

एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः ।।

द्वीपाद्द्वीपो महानुक्तः सागरादपि सागरः ।। ३ ।।

क्षीरोदेक्षुरसोदोऽथ क्षारोदश्च घृतोदकः ।।

दध्योदः क्षीरसलिलो जलोदश्चेति सागराः ।। ४ ।।

पंचाशत्कोटिविस्तीर्णा समुद्रवलया स्मृता।।

द्वीपैश्च सप्तभिर्युक्ता योजनानां समानतः ।। ५ ।।

जंबूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः ।।

तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ।। ६ ।।

चतुराशीतिसाहस्रयोजनैरस्य चोच्छ्रयः ।।

प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विष्कृतः ।। ७ ।।

मूले षोडशसाहस्रं विस्तारस्तस्य सर्वतः ।।

भूप्रमुख्यश्च शैलोऽसौ कलिकात्वेन संस्थितः ।। ८ ।।

हिमवान्हिमकूटश्च निषधस्त स्य दक्षिणे ।।

नीलः श्वेतश्च शृंगी च उत्तरे वर्षपर्वतः।।९।।

लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे ।।

सहस्रद्वितयं दीर्घास्तावद्विस्तारिणश्च ते ।। ।।2.1.4.१०।।

भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम् ।।

हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ।।११।।

चंपकं चोत्तरं वर्षं तथैवाश्वहिरण्मयम्।।

उत्तराः कुरवश्चैव यथैते भारतास्तथा ।। १२ ।।

नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः ।।

इलावृतश्च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ।।१३।।

मेरोश्चतुर्दिशस्तत्र नवसाहस्रविष्कृतम् ।।

इलावृतं महाभागाश्चत्वारस्तत्र पर्वताः ।।१४।।

विष्कंभा रचिता मेरोर्योजनायुतमुच्छ्रिताः ।।

पूर्वेण मंदरो नाम दक्षिणे गंधमादनः ।। १५ ।।

विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः ।।

कदंबेष्वेषु नद्यश्च पिप्पलो वट एव च ।। १६ ।।

जंबूद्वीपस्य सा जंबूर्नामहेतोर्महर्षयः ।।

महागजप्रमाणानि जंबून्यस्य फलानि च ।। १७ ।।

पतंति भूभृतः पृष्ठे शीर्यमाणानि सर्वशः ।।

रसेन चैव प्रख्याता तस्य जंबूनदी इति ।।१८।।

सरित्तु वर्तते सापि पीयते तत्र वासिभिः।।

न खेदो न च दौर्गंध्यं न जरा नेंद्रियक्षयः ।।

उत्पन्नाः स्वच्छमनसो नरास्तत्र भवन्ति वै ।।१९।।

तीरसूत्रं समं प्राप्य वायुना च विशोषितम् ।।

जांबूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ।। 2.1.4.२० ।।

भद्राश्वः पार्श्वतो मेरोः केतुमालश्च पश्चिमे ।।

वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् ।। २१ ।।

मेरोरुपरि विप्रेंद्रा ब्रह्मणः स्थानमुत्तमम् ।।

तदूर्ध्वे वासवस्थानं तदूर्ध्वे शंकरस्य च ।। २२ ।।

तदूर्ध्वं वैष्णवो लोको दुगार्लोकस्तदूर्ध्वतः ।।

ज्योतिर्मयं परं स्थानं निराकारं हिरण्मयम् ।। २३ ।।

भक्तस्थानं तदूर्ध्वं च देवो हि भगवान्रविः।।

ज्योतिश्चक्रस्थितः शुद्धो निश्चलः परमेश्वरः ।।

राशिचक्रे च भ्रमति मेरोरुपरि सत्तमाः ।। २४ ।।.

बिंबषट्केद्रिनाभौ च रथचक्रं दिवानिशम् ।।

वातरज्जुनिबंधेन ध्रुवाधारे प्रतिष्ठितम्।। २५ ।।

दिक्पालाद्या ग्रहास्तत्र दक्षिणादुत्तरायणम् ।।

प्रतिमासं गतः पंथा ह्रासवृद्धिदिनक्षयः ।। २६ ।।

रविणा लंघितो मासश्चांद्रः ख्यातो मलिम्लुचः ।।

द्वादशे भगवत्सूर्ये प्रत्यहं भक्तसेवके ।। २७ ।।

कृत्वा त्रिषु त्वहोरात्रं तारामयगतं विभुम् ।।

यामेयामे चोदयश्च देशेदेशे च शर्वरी ।। २८ ।।

दिवा चरति यः सूर्यो रात्रौ चरति चन्द्रमाः ।।

नक्षत्राणि दिवा रात्रौ सूर्यचक्रे प्रतिष्ठितम्।।२९।।

देशान्नं चावगमनं यत्र तस्मादिवाभवत् ।।

यत्र चंद्रक्षयो भवति यत्र सूर्यः प्रवर्तते ।। 2.1.4.३० ।।

रात्रिंदिवं विजानीयाज्ज्योतिश्चक्रे प्रतिष्ठितम् ।।

उदयास्तमनं नास्ति नक्षत्राणां विशेषतः ।। ३१ ।।

यन्नक्षत्रे च यो देशः स तेषामुदयः स्मृतः ।।

तत्रास्तो जीवशुक्राणां सूर्यादीनां च सर्वशः ।। ३२ ।।

तदा काले नियोक्तव्या भार्गवास्तादिकी क्रिया ।।

सूर्यः सोमो बुधश्चंद्रो भार्गवश्चैव शीघ्रकः ।। ३३ ।।

दक्षिणायनमास्थाय यदा चरति रश्मिमान् ।।

तदा सर्वग्रहाणां स सूर्योधस्तात्प्रसर्पति ।। ३४ ।।

विस्तीर्णमंडलं कृत्वा तस्योर्ध्वे चरते शशी ।।

नक्षत्रमंडलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ।। ।। ३५ ।।

नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः ।।

चन्द्रस्तु भार्गवादूर्ध्वं चंद्रादूर्ध्वं शनैश्चरः ।। ३६ ।।

तस्माच्छनैश्चरादूर्ध्वं ततः सप्तर्षिमंडलम् ।।

ऋषीणां चैव सप्तानां ध्रुवश्चोर्ध्वं व्यवस्थितः ।। ३७ ।।

कालचक्रमये चक्रे सूर्यो भवति सर्वदा ।।

राश्यर्दे्धेषु गतिर्यत्र तिथीनां च तिथौ स्मृता ।। ३८ ।।

स्तंभते चरते शीघ्रं ह्रासे चापि दिनक्षयः ।।

पादास्तं चापि शुक्रस्य महास्तं तत्र दृश्यते ।। ३९ ।।

पादास्ते पक्षमात्रं स्यान्महास्ते याममात्रकम् ।।

चक्रे पक्षार्धमासः स्यादतिचारोऽष्टवासरान् ।। 2.1.4.४० ।।

न गण्यते देशभेदे नक्षत्रेण च गण्यते ।।

बाल वृद्धस्तु शुक्रस्य देशस्थे वा गणस्य च ।। ४१ ।।

बाल्यवार्द्ध्ये क्षत्रियस्य न गण्येते सदा बुधैः ।।

पादादूर्ध्वं महास्तस्य वैश्यस्य द्विजस त्तमाः ।। ४२ ।।

शेषार्धं भार्गवास्तस्य शूद्राणामथ गर्हितम् ।।

अभिचारे च चक्रे च न शूद्रस्य विधीयते ।। ४३ ।।

वर्जयेद्वासरान्सप्त इति चाथर्वणी श्रुतिः ।। ४४ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे ज्योतिश्चक्रे चतुर्थोऽध्यायः ।। ४ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 5

कर्मानुसारव्यक्तिनिर्धारणवर्णनम्

।। सूत उवाच ।। ।।

त्रयाणामेव वर्णानां जन्मतो ब्राह्मणः प्रभुः ।।

संसृष्टा ब्राह्मणाः पूर्वं तपस्तप्त्वा द्विजोत्तमाः ।। १ ।।

हव्यानामिह कव्यानां सर्वस्यापि च गुप्तये ।।

अश्नंति च मुखेनास्य हव्यानि त्रिदिवौकसः ।। २ ।।

कव्यानि चैव पितरः किं भूतमधिकं ततः ।।

जन्मना चोत्तमोऽयं च सर्वार्चा ब्राह्मणोऽर्हति ।। ३ ।।

स्वकीयं ब्राह्मणो भुंक्ते विदधाति द्विजोत्तमाः ।।

त्रयाणामिह वर्णानां भावाभावाय वै द्विजः ।। ४।।

भवेद्विप्रो न संदेहस्तुष्टो भावाय वै भवेत् ।।

अभावाय भवेत्क्रुद्धस्तस्मात्पूज्यः सदा हि सः ।। ५ ।।

गर्भाधानादयश्चेह संस्कारा यस्य सत्तमाः ।।

चत्वारिंशत्तथा चाष्टौ निर्वृत्ताः शास्त्रतो द्विजाः .।।

स याति ब्रह्मणः स्थानं ब्राह्मणत्वेन संयुतः ।। ६ ।।

संस्कारपूतः प्रथमो वेदपूतो द्वितीयकः ।।

विद्यापूतस्तृतीयः स्यात्तीर्थपूतस्त्वनंतरम् ।। ७ ।।

क्षेत्रपूतं प्रविज्ञाय विपूतं पूजयेद्द्विजाः ।।

स्वर्गापवर्गफलदमन्यथा श्रमतामियात ।। । ८ ।।

पूतानां परमः पूतो गुरूणां परमो गुरुः ।।

सर्वसत्त्वान्विता विप्रो निर्मितो ब्रह्मणा पुरा ।। ९ ।।

पूजयित्वा द्विजान्देवाः स्वर्गं भुञ्जंति चाक्षयम्।।

मनुष्याश्चापि देवत्वं स्वंस्वं राज्यं गतेन सः ।। 2.1.5.१० ।।

यस्य विप्राः प्रसीदंति तस्य विष्णुः प्रसीदति ।।

तस्माद्ब्राह्मणपूजायां विष्णुस्तुष्यति तत्क्षणात् ।। ११ ।।

यस्माद्विष्णुमुखाद्विप्रः समुद्भूतः पुरा द्विजाः ।।

वेदास्तत्रैव संजाताः सृष्टिसंहारहेतवः ।। १२ ।।

तस्माद्विप्रमुखे वेदाश्चार्पिताः पुरुषेण हि ।।

पूजार्थं ब्रह्मलोकानां सर्वज्ञानार्थतो ध्रुवम् ।। १३ ।।

पितृयज्ञविवाहेषु वह्निकार्येषु शांतिषु ।।

प्रशस्ता ब्राह्मणा नित्यं सर्वस्वस्त्ययनेषु च ।। १४ ।।

देवा भुञ्जंति हव्यानि बलिं प्रेतादयोऽसुराः ।।

पितरो हव्यकव्यानि विप्रस्यैव मुखाद् ध्रुवम् ।। १५ ।।

देवेभ्यश्च पितृभ्यश्च यो ददयाद्यज्ञकर्मसु ।।

दानं होमं बलिं चैव विना विप्रेण निष्फलम् ।। १६ ।।

विना विप्रं च यो धर्मः प्रयासफलमात्रकः ।।

भुञ्जते चासुरास्तत्र प्रेता भूताश्च राक्षसाः ।। १७ ।।

तस्माद्ब्राह्मणमाहूय तस्य पूजां च कारयेत् ।।

काले देशे च पात्रे च लक्षकोटिगुणं भवेत् ।। १८ ।।

श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम्।।

दीर्घायुस्तस्य वाक्येन चिरंजीवी भवेन्नरः ।। १९ ।।

अनभिवादिनां विप्रे द्वेषादश्रद्धयापि च ।।।

आयुः क्षीणं भवेत्पुंसां भूमिनाशश्च दुर्गतिः ।। 2.1.5.२० ।।

आयुर्वृद्धिर्यशोर्वृद्धिर्वृद्धिर्विद्याधनस्य च ।।

पूजयित्वा द्विजश्रेष्ठान्भवेन्नास्त्यत्र संशयः ।।। ।। २१ ।।

न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिगर्जितानि ।।

स्वाहास्वधास्वस्तिविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ।। २२ ।।

षद्विंशतिदोषमाहुर्नरा नरकभीरवः ।।

विमुच्यैव वसेत्तीर्थे ग्रामे वा पत्तने वने ।। २३ ।।

ते स्वर्गे पितृलोके च ब्रह्मलोकेष्ववस्थिताः ।। २४ ।।

अन्यथा न वसेद्वासस्तस्मात्स्तेयी न पालयेत् ।।

अधर्मो विषमश्चैव पशुश्च पिशुनस्तथा ।। २५ ।।

पापिष्ठो नष्टकष्टौ च रुष्टो दुष्टश्च मुक्तकः ।।।

हृष्टः कुण्ठश्च अन्धश्च काणश्चैव तथापरः ।। २६ ।।

चण्डः खण्डश्च वक्ता च दत्तस्यापहरस्तथा ।।

नीचः खलश्च वाचालः कदर्यश्चपल स्तथा ।। २७ ।।

मलीमसश्च ते दोषाः षड्विंशतिरमी मताः ।।

एतेषां चापि विप्रेन्द्राः पञ्चाशीतिर्निगद्यते ।। २८ ।।

शृणुध्वं द्विजशार्दूलाः शास्त्रेस्मिन्ब्रुवतः क्रमात् ।।

अधमोऽत्र त्रिधाविद्याद्विषमः स्याद्विधोचितः ।।२९।।

पशुश्चतुर्विधश्चैव कृपणोपि हि वै द्विधा ।।

द्विधाथापि च पापिष्ठो नष्टः सप्तविधः स्मृतः ।। 2.1.5.३० ।।

कष्टः स्यात्पञ्चधा ज्ञेयो रुष्टोपि स्याद्द्विधा द्द्विजाः ।।

दुष्टः स्यात्षड्विधो ज्ञेयः पुष्टश्चैव भवेद्द्विधा ३१ ।।

हृष्टश्चाष्टविधः प्रोक्तः कुण्ठश्चैव त्रिधोदितः ।।

अन्धः काणश्च तौ द्वौ द्वौ स्याद्वै च सगुणोऽगुणः ।। ३२ ।।

द्वौ चण्डौ चपलश्चैकावण्डचण्डो द्विगुर्भवेत् ।।

दण्डपण्डौ तथा ज्ञेयौ खलनीचौ चतुर्द्वयम् ।। ३३ ।।

वाचालश्च कदर्यश्च क्रमात्त्रिभिरुदाहृतः ।।

कदर्यश्चपलश्चैव तथा ज्ञेयो मलीमसः ।। ३४ ।।

द्वावेकौ चतुरश्चैव स्तेयी चैकविधो भवेत् ।।

पृथग्लक्षणमेतेषां शृणुध्वं द्विजसत्तमाः ।। ३५ ।।

सम्यग्यस्य परिज्ञानं नरो देवत्वमाप्नुयात् ।।

उपानच्छत्रधारी च गुरुदेवाग्रतश्चरन् ।। ३६ ।।

उच्चासनं गुरोरग्रे तीर्थयात्रां करोति यः ।।

यानमारुह्य विप्रेन्द्राः सोप्येकत्राधमो मतः ।। ३७ ।।

निमज्ज्य तीर्थे विधिवद्ग्राम्यधर्मेण वर्तयन् ।।

द्वितीयश्चाधमः प्रोक्तो निंदितः परिकीर्तितः ।। ३८ ।।

वाचैव मधुरा श्लक्ष्णा हृदि हालाहलं विषम् ।।

वदत्यन्यत्करोत्यन्यद्द्वावेतौ विषमौ स्मृता ।। ३९ ।।

मोक्षचिन्तामतिक्रम्य योऽन्यचिन्तापरिश्रमः ।।

हरिसेवा विहीनो यः स पशुर्योनितः पशुः ।।2.1.5.४०।।

प्रयागे विद्यमानेऽपि योऽन्यत्र स्नानमाचरेत् ।।

दृष्टं देवं परित्यज्य अदृष्टं भजते तु यः ।।४१।।

आयुषस्तु क्षयार्थाय शास्त्रेयमृषिसंमतः ।।

योगाभ्यासं ततो हित्वा तृतीयश्चाधमः पशुः ।। ४२ ।।

बहूनि पुस्तकानीह शास्त्राणि विविधानि च ।।

तस्य सारं न जानाति स एव जंबुकः पशुः।। ४३ ।।

बलेन च्छलछद्मेन उपायेन प्रबंधनम् ।।

सोऽपि स्यात्पिशुनः ख्यातः प्रणयाद्वा द्वितीयकः ।। ४४ ।।

मधुरान्नं प्रतिष्ठाप्य दैवे पित्र्ये च कर्मणि ।।

म्लानं चापि च तिक्तान्नं यः प्रयच्छति दुर्मतिः ।। ४५ ।।

कृपणः स तु विज्ञेयो न स्वर्गी न च मोक्षभाक् ।।

कुदाता च मुदा हीनः सक्रोधस्तु यजेत यः ।। ४६ ।।

स एव कृपणः ख्यातः सर्वधर्मबहिष्कृतः ।।

अदोषेण शुभत्यागी शुभकार्योपविक्रयी ।। ४७ ।।

पितृमातृगुरुत्यागी शौचाचारविवर्जितः ।।

पित्रोरग्रे समश्नाति स पापिष्ठतमः स्मृतः ।।४८ ।।

जीवत्पितृपरित्यक्तं सुतं सेवन्न वा क्वचित् ।।

द्वितीयस्तु स पापिष्ठो होमलोपी तृतीयकः ।। ४९ ।।

साध्वाचारं च प्रच्छाय सेवनं चापि दर्शयेत् ।।

स नष्ट इति विज्ञेयः क्रयक्रीतं च मैथुनम् ।। 2.1.5.५० ।।

जीवेद्देवलवृत्तिर्यः भार्याविपणजीवकः ।।

कन्याशुल्केन जीवेद्वा स्त्रीधनेन च वा क्वचित् ।। ५१ ।।

षडेव नष्टाः शास्त्रे च न स्वर्गमोक्षभागिनः ।।

सदा क्रुद्धं मनो यस्य हीनं दृष्ट्वा प्रकोपवान् ।। ५२ ।।

भ्रुकुटीकुटिलः क्रुद्धो रुष्टः पंचविधोदितः ।।

अकार्ये भ्रमते नित्यं धर्मार्थे न व्यवस्थितः ।। ५३ ।।

निद्रालुर्व्यसनासक्तो मद्यपः स्र्त्रीनिषेवकः ।।

दुष्टैः सह सदालापः स दुष्टः सप्तधा स्मृतः ।।५४ ।।

एकाकी मिष्टमश्नाति वंचकः साधुनिंदकः ।।

यथा सूकरः पुष्टः स्यात्तथा पुष्टः प्रकीर्तितः ।। ९५ ।।

निगमागमतंत्राणि नाध्यापयति यो द्विजः।।

न शृणोति च पापात्मा स दुष्ट इति चोच्यते ।। ५६ ।।

श्रुतिः स्मृतिश्च विप्राणां नयने द्वे विनिर्मिते ।।

एकेन विकलः काणो द्वाभ्यामंधः प्रकीर्तितः ।। ५७ ।।

विवादः सोदरैः सार्द्धं पित्रोरप्रियकृद्वदेत् ।।

द्विजाधमः स विज्ञेयः स चंडः शास्त्रनिंदितः ।।५८।।

पिशुनो राजगामी च शूद्रसेवक एव च ।।

शूद्रांगनागमो विप्रः स चंडश्च द्विजाधमः ।।५९।।

पक्वान्नं शूद्रगेहे च यो भुंक्ते सकृदेव वा ।।

पंचरात्रं शूद्रगेहे निवासी चंड उच्यते ।। ।। 2.1.5.६० ।।

अष्टकुष्ठान्वितः कुष्ठी त्रिकुष्ठी शास्त्रनिन्दितः ।।

एतैः सह सदालापः स भवेत्तत्समोऽधमः ।। ६१ ।।

कीटवद्भ्रमणं यस्य कुव्यापारी कुपंडितः ।।

अज्ञानाच्च वदेद्धर्ममग्रवृत्तिः प्रधावति ।। ६२ ।।

अविमुक्तं परित्यज्य योऽन्यदेशे वसेच्चिरम् ।।

स द्विधा शूकरपशुर्निंदितः सिद्धसंमतः।। ।। ६३ ।।

कपोलेन हि संयुक्तो भ्रुकुटीकुटिलाननः ।।

नृपवद्दंडयेद्यस्तु स दंडः समुदाहृतः ।। ६४ ।।

ब्रह्मस्वहरणं कृत्वा नृपदेव स्वमेव च ।।

धनेन तेन इतरं देवं वा ब्राह्मणानपि ।। ६५ ।।

संतर्पयति योऽश्नाति यः प्रयच्छति वा क्वचित् ।।

स खरश्च पशुश्रेष्ठः सर्ववेदेषु निंदितः ।। ६६ ।।

अक्षराभ्यासनिरतः पठत्येव न बुध्यते ।।

पदशास्त्रपरित्यक्तः स पशुः स्यान्न संशयः ।। ६७ ।।

वदत्यन्यत्करोत्यन्यद्गुरुदेवाग्रतो यतः ।।

स नीच इति विज्ञेयो ह्यनाचारस्तथापरः ।। ६८ ।।

षड्गुणालंकृतेः साधोर्दोषान्मृगयते खलः ।।

वने पुष्पफलाकीर्णे शलभः कंटकानिव ।। ६९ ।।

दैवेन च विहीनो यः कुसंभाषां वदेत्तु यः ।।

स वाचाल इति ख्यातो यो ह्यपत्रपतायुतः ।। 2.1.5.७० ।।

चांडालैः सह आलापः पक्षिणां पोषणे रतः ।।

मार्जारैश्चापि संभुंक्ते यत्कृत्यं मकर्टोदितम् ।। ७१ ।।

तृणच्छेदी लोष्टमदी वृथा मांसाशनश्च यः ।।

चपलः स तु विज्ञेयः परभार्यारतस्तथा।। ७२ ।।।

स्नेहोद्वर्तनहीनो यो गंधचंदनवर्जितः ।।

नित्यक्रिया अकुर्वाणो नित्यं स च मलीमसः ।। ७३ ।।

अन्यायेन गृहं विंदेदन्यायेन गृहान्धनम् ।।।

शास्त्रादन्यद्गृह मंत्रं स स्तेयी ब्रह्मघातकः ।। ७४ ।।

देवपुस्तकरत्नानि मणिमुक्ताश्वमेव च।।

गोभूमिस्वर्णहरणः स स्तेयीति निगद्यते ।। ७५ ।।।

देवोऽपि भावयेत्पश्चान्मानुषोऽपि न संशयः ।।

अन्योन्यभावना कार्या स स्तेयी यो न भावयेत्।। ७६ ।।

गुरोः प्रसादाज्जयति पित्रोश्चापि प्रसादतः ।।

करोति च यथार्हं च स च स्वर्गे महीयते ।।७७ ।।

न पोषयति दुष्टात्मा स स्तेयी चापरः स्मृतः ।। ७८ ।।

उपकारिजनं प्राप्य न करोति परिष्क्रियाम् ।।

स तप्तनरके शेते शोणिते च पतत्यधः ।। ७९ ।।

सर्वेषां च सवर्णानां धर्मतो ब्राह्मणः प्रभुः ।।

पृथिवीपालको राजा धर्मचक्षुरुदाहृतः ।। 2.1.5.८० ।।

प्रजापतेर्मुखोद्भूतो होरातंत्रे यथोदितम् ।।

तद्विदो गणनाभिज्ञा अन्यविप्राः प्रचक्षते ।। ८१ ।।

गंगाहीनो हतो देशो विप्रहीना यथा क्रिया ।।

होराज्ञप्तिविहीनो यो देशोऽसौ विप्लवप्लवः ।। ८२ ।।

अप्रदीपा यथा रात्रिरनादित्यं यथा नभः ।।

तथाऽसांवत्सरो राजा भ्रमत्यंध इवाध्वनि ।। ८३ ।।

स्थापयेद्धर्मतो विप्रं भावयेत्कर्मवृद्धये ।।

श्मश्रुयुक्तो द्विजः पूज्यः सूर्यो विप्रस्तु श्मश्रुलः ।। ८४ ।।

प्रत्यक्प्रदर्शनात्पुण्यं त्रिदिनं कल्मषापहम् ।।

दर्शने व्रात्यविप्रस्य सूर्यं दृष्ट्वा विशुध्यति ।। ८५ ।।

न व्रात्यत्वं सूर्यविप्रे पूजयेद्यज्ञसिद्धये ।।

ज्योतिर्वेदस्याधिकारः सूर्यविप्रस्य वै द्विजाः ।। ८६ ।।

जातिभेदाश्च चत्वारो भोजकः कथकस्तथा ।।

शिवविप्रः सूर्यविप्रश्चतुर्थः परिपठ्यते ।। ८७ ।।

कथको मध्यमस्तेषां सूर्यविप्रस्तथोत्तमः ।।

शिवलिंगार्चनरतः शिवविप्रस्तु निंदितः ।। ८८ ।।

सूर्यविप्रस्य विप्रस्य वैद्यस्य च नृपस्य च ।।

प्रवासयेदक्षतेन सपुत्रपशुबांधवः ।।

अवध्यः सर्वलोकेषु राजा राज्येन पालयेत् ।। ८९ ।।

वसुभिर्वस्त्रगंधाद्यैर्माल्यैश्च विविधैरपि ।।

देशचक्रविदः पूज्या होराचक्रविदः पराः ।। 2.1.5.९० ।।

सूर्यचक्रविदः पूज्या नावमन्येत्कथंचन ।।

सिद्धवृद्धिं च धनर्द्धिं च य इच्छेदायुषा समम् ।।

गणविप्रसमः पूज्यो दैवज्ञः समुदाहृतः ।। ९१ ।।

जाते बाले निरूप्ये च लग्नग्रहनिरूपणम् ।।

संस्थानं सूर्यविप्रो यः सूर्यविप्रस्य सत्तमाः ।।

द्विमात्रिकां समभ्यस्य सर्ववेदफलं लभेत् ।। ९२ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे पंचमोऽध्यायः ।। ५ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 6

गुरुवर्णनम्

।। सूत उवाच ।। ।।

चतुर्णामपि वर्णानां नान्यो बंधुः प्रचक्षते ।।

ऋते पितुर्द्विजश्रेष्ठा इतीयं नैगमी स्मृतिः ।। १ ।।

त्रयोऽपि गुरवः श्रेष्ठास्ताभ्यां माता परो गुरुः ।।

ये सोदरा ज्येष्ठश्रेष्ठा उत्तरोत्तरतो गुरुः ।। २ ।।

द्वादश्यां तु आमवास्यामथ वा रविसंक्रमे ।।

वासांसि दक्षिणा देया मणिमुक्ता यथारुचि ।। ३ ।।

अयने विषुवे चैव चंद्रसूर्यग्रहे तथा ।।

प्राप्ते चापरपक्षे तु भोजयेच्चापि शक्तितः ।। ४ ।।

पश्चात्प्रवंदयेत्पादौ मंत्रेणानेन सत्तमाः ।।

विधिवद्वंदनादेव सर्वतीर्थफलं लभेत् ।। ५ ।।

स्वर्गापवर्गप्रदमेकमाद्यं ब्रह्मस्वरूपं पितरं नमामि ।।

यतो जगत्पश्यति चारुरूपं तं तर्पयामः सलिलैस्तिलैर्युतैः ।। ।। ६ ।।

पितरो जनयंतीह पितरः पालयंति च ।।

पितरो ब्रह्मरूपा हि तेभ्यो नित्यं नमोनमः ।। ७ ।।

यस्माद्विजयते लोकस्तस्माद्धर्मः प्रवर्तते ।।।

नमस्तुभ्यं पितः साक्षाद्ब्रह्मरूप नमोऽस्तु ते ।। ८ ।।

या कुक्षिविवरे कृत्वा स्वयं रक्षति सर्वतः ।।

नमामि जननीं देवीं परां प्रकृतिरूपिणीम् ।।९।।।

कृच्छ्रेण महता देव्या धारितोऽहं यथोदरे ।।

त्वत्प्रसादाज्जगद्दृष्टं मातर्नित्यं नमोऽस्तु ते ।। 2.1.6.१० ।।

पृथिव्यां यानि तीर्थानि सागरादीनि सर्वशः ।।

वसंति यत्र तां नौमि मातरं भूतिहेतवे ।। ११ ।।

गुरुदेवप्रसादेन लब्धा विद्या यशस्करी ।।

शिवरूप नमस्तस्मै संसारार्णवसेतवे ।। १२ ।।

वेद वेदांगशास्त्राणां तत्त्वं यत्र प्रतिष्ठितम् ।।

आधारः सर्वभूतानामग्रजन्मन्नमोऽस्तु ते ।। १३ ।।

ब्राह्मणो जगतां तीर्थं पावनं परमं यतः ।।

भूदेव हर मे पापं विष्णुरूपिन्नमोऽस्तु ते ।। १४ ।।

पितामहं च प्रणमेत्सर्वादौ मातरं गुरुम् ।।

मातामहं च तदनु आचार्यमथ ऋत्विजम् ।। १५ ।।

मातृमंत्रैश्च प्रथमं प्रणमेद्भक्तिभावतः ।।

यथाग्रजस्तथा ज्येष्ठः पितृव्योऽपि द्विजोत्तमाः ।। १६ ।।

दृष्टादृष्टे च स गुरुर्गुरुर्माता तथा गुरुः ।।

दृष्टादृष्टस्तृतीयः स्यात्सूर्योऽग्निश्चंद्र एव च ।।१७।।

मंत्रदाता गुरुः ख्यातस्सप्तमः परिकीर्तितः ।।

कभोजनगुरुः श्रेष्ठः स्वर्गापवर्गहेतुकः ।।१८।।

दृष्टदेवं च यो हित्वा अदृष्टं च निषेवते ।।

पापात्मा परमः सैकस्तिर्यग्योनिं च गच्छति ।।१९।।

यथा पिता ज्येष्ठपिता कनीयांश्च तथा द्विजाः ।।

ज्येष्ठो भ्राता पितृतुल्यो मान्यः सत्कारभाग्यतः ।।2.1.6.२०।।

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।।

माता स्यान्पृथिवीमूर्तिर्भ्रातरो मूर्तिरात्मनः ।। २१ ।।

पिता मेरुर्व शिष्ठः स्याद्धर्ममूर्तिः सनातनः ।।

स चापि दृष्टदेवः स्यात्तदाज्ञां परिपालयेत् ।। २२ ।।

पितामहं च पित्रग्रे हव्यकव्यैश्च तर्पयेत् ।।

स याति ब्रह्मणः स्थानं यस्मान्नावर्तते पुनः ।। २३ ।।

तस्य पादोदकस्नानाद्गंगा नार्हति केवलम् ।।

तथावलोकनात्तस्य ज्योतिर्लिंगशतैश्च किम् ।। २४ ।।

द्वात्रिं शत्कुंडकशिलास्पर्शने यादृशं फलम् ।।

तादृशं कोटिगुणितं पितामहप्रदक्षिणे ।। २५ ।।

शतमातृवरिष्ठाश्च पितामह्याश्च पोषणे ।।

गुणास्तद्दर्शने विप्राः संसारे न पुनर्विशेत् ।। २६ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे गुरुगुणवर्णनं नाम षष्ठोध्यायः ।। ६ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 7

गुरुवर्णनम्

।। सूत उवाच ।। ।।

समाख्यामीह विप्रेंद्रा इतिहासं पुरातनम् ।।

श्रवणेपि च धर्मात्मञ्छ्रूयतां यन्मया पुरा ।। १ ।।

पृष्टोवोचन्महातेजा विरिंचो भगवान्प्रभुः ।।

हंत ते कथयाम्येष पुराणश्रवणे विधिम् ।। २ ।।

इतिहासपुराणानि श्रुत्वा भक्त्या द्विजोत्तमाः ।।

मुच्यते सर्वपापेभ्यो ब्रह्महत्याशतं च यत् ।। ३ ।।

सायं प्रातस्तथा रात्रौ शुचिर्भूत्वा शृणोति यः ।।

तस्य विष्णुस्तथा ब्रह्मा तुष्यते शंकरस्तथा ।। ४ ।।

प्रत्यूषे भगवान्ब्रह्मा दिनांते तुष्यते हरिः ।।

महादेवस्तथा रात्रौ शृण्वतां पठतां नृणाम्।।५।।

शुक्लवस्त्रधरश्चैव चैलाजिनकुशोत्तरः ।।

प्रदक्षिणत्रयं कुर्याद्या तस्मिन्देवता गुरौ ।।६।।।

नात्युच्छ्रितं नातिनीचं स्वासनं भजते ततः ।।

दिक्पतिभ्यो नमस्कृत्य ऊँकाराधिष्ठितानपि ।। ७ ।।

पुस्तकं धर्मशास्त्रस्य धर्माधिष्ठानशाश्वतम् ।।

आगमानां शिवो देवस्तंत्रादीनां च शारदा ।। ८ ।।

जामलानां गणपतिर्डामराणां शतक्रतुः ।।

नारायणो भारतस्य तथा रामायणस्य च ।। ९ ।।।

वासुदेवो भवेद्देवः सप्तानां शृणु सत्तम ।।

आदित्यो वासुदेवश्च माधवो रामकेशवौ ।। 2.1.7.१० ।।

वनमाली महादेवः सप्तानां सप्तपर्वसु ।।

विष्णुधर्मादिकानां च शिवो ज्ञेयः सनातनः ।।

अथ चादिपुराणस्य विरिंचिः परिकीर्तितः ।। ११ ।।

शुद्धौदनं यवक्षीरं पायसं कृशरं तथा ।।

कृशरान्नं च वा दद्यात्क्रमाद्बलिगणं विदुः ।। १२ ।।

शालिभक्तं सगोधूमं तिलाक्षतविमिश्रितम् ।।

गव्यं च सफलं चैव देयश्चैभ्यस्त्वयं बलिः ।।१३।।

पृथक्पृथक्चैव कांस्ये विन्यसेद्दिक्षु मध्यतः ।।

पठेच्चापि विधानेन स यागः षण्मयः परः ।।१४।।

शीतोदकं मधु क्षीरं सितेक्ष्वोश्च रसो गुडः।।

सगर्भश्च परो ज्ञेयः षण्मयश्चापरो बलिः ।। १५ ।।

शालितंडुलप्रस्थं तु तदर्धं वा तदर्धकम् ।।

क्षीरेणापि च संभक्तं यवक्षीरमिदं स्मृतम् ।। १६ ।।

क्षीरं भागाष्टकं ग्राह्यं सप्तभागेन संस्थितम्।।

हैमंतिकं सिताख्यं च तांडुलं प्रपचेच्चरुम् ।। १७ ।।

अशीतिपलमानेन सिद्धमासादयेत्ततः ।।

भागार्धेन ददेत्पश्चान्माक्षिकं वा सितामपि ।। १८ ।।

गुडमिश्रेण यो दद्यात्संपर्को जायते क्वचित् ।।

संपृक्तं माक्षिकेणापि दद्यादिक्षुरसं बुधः ।।

गृहीत्वा याचकः शुद्धः शृणुत द्विजसत्तमाः ।। १९ ।।

शृणुते वाधीयानो यो दद्याद्धस्ते च पुस्तकम् ।।

समुत्थाय च गृह्णीयात्प्रणम्य विनिवेदयेत् ।। 2.1.7.२० ।।

पूर्वस्थः श्रावको विप्रो विख्यातस्तस्यदक्षिणे ।।

पश्चिमाशामुखेनैव तर्जन्यांगुष्ठया सह ।।२१।।

प्रस्तरेणापि हस्तेन विन्यासः पंडितैः सदा ।।

इतोन्यथा न कर्तव्यः कृत्वा न्यासमथाप्नुयात् ।।२२।।

असकृद्विन्यसेद्विप्राः पावमानीं जले जपेत् ।।

वेदांतागमवेदांतविधिरेष स्मृतो बुधैः ।।२३।।

यमदिक्संमुखे श्रोता वाचकश्चोत्तरामुखः ।।

पुराणभारताख्यान एष वै कथितो विधिः ।।२४।।

वैपरीत्येन विधिना विज्ञेयो द्विजसत्तमाः ।।

रामायणे धर्मशास्त्रे हरिवंशे च सत्तमाः ।। २५ ।।

इतोऽन्यथा यातुधानाः प्रलुंपंति फलं यतः ।।

तस्माद्विधिविधानेन शृणुयादथ वा पठेत् ।। २६ ।।

श्रुत्वा प्रति पुण्यविद्यां योऽश्नीयान्मांसमेव तु ।।

स याति गार्दभीं योनिं यदि मैथुनिनः क्वचित् ।। २७ ।।

यदि देवालये तीर्थे वाचयेच्छृणुयादथ ।।

यस्य देवगृहे तस्य तस्य तीर्थस्य वर्णनम् ।।२८।।

माहात्म्यश्रवणादेव गोदानस्य फलं लभेत्।।

महागुरोश्च माहात्म्यं पित्रोरग्रे न च स्मरेत् ।।

पितुर्माहात्म्यं यत्पुत्रैर्वाच्यं संसदि पर्वणि ।। २९ ।।

वासुदेवामतश्चापि रुद्रमाहात्म्यवर्णनम् ।।

रुद्राग्रे वासुदेवस्य कीर्तनं पुण्यवर्धनम् ।। 2.1.7.३० ।।

दुर्गाग्रे शिवसूर्यस्य वैष्णवाख्यानमेव च ।।

यः करोति विमूढात्मा गार्दभीं योनिमाविशेत् ।। ३१ ।।

गुरोरनुज्ञया पित्रोः प्रकुर्यादभिवादनम् ।।

अनुज्ञया तथा पित्रोर्हरेः कुर्यात्प्रदक्षिणम् ।। ३२ ।।

न विष्णुर्न च ब्रह्मा च न च रुद्रः शचीपतिः ।।

सर्ववेदेन तत्तुल्यं सर्वधर्मपरायणम् ।। ३३ ।।

सर्वज्ञानमयं चैव सर्वज्ञेन च तत्समम् ।।

तस्माद्द्विजन्मन्पित्रोर्हि सेवनाद्ब्रह्मशाश्वतम् ।।३४।।

गुरुभ्यो वंदनं व्यर्थ पितरं यो न तर्पयेत् ।।

जीवन्न तर्पयेन्मुख्यं गंगायां मरणेपि च ।।

उभयोस्तर्पणं नास्ति जीवन्नपि न जीवति ।। ३५ ।।

पुराणश्रवणं पुण्यं शून्यं भागवतं यदि ।।

व्यर्थं भागवतं विप्रा नारसिंहविहीनकम् ।। ।। ३६ ।।

आदिपर्वणि हीने तु भारताख्यं न धारयेत् ।।

विनाश्वमेधिकं विप्रा विना यज्ञाननं विना ।। ३७ ।।

दानकर्मविहीनं च मोक्षधर्मं न धारयेत ।।

भारतं च दिवारोहधारणादौ वरं व्रजेत् ।। ३८ ।।

वायुपुराणमश्रुत्वा शास्त्रं च यौगिकं विना ।।

वायुहीनं देहिकुलं वृथा तस्य न धारकम् ।। ३९ ।।

तथा वायुपुराणं यद्विहीनं श्रव्यमन्यकम् ।।

यथा सुन्दरकांडेन आरण्यं च न धारयेत ।। 2.1.7.४० ।।

लंकां विना चादिकांडं तल्लिखित्वा न धारयेत् ।।

पाराशरं विना व्यासं याज्ञवक्त्यं विना मखम् ।। ४१ ।।

दक्षं विना न शंखं च शंखहीनं बृहस्पतिम् ।।

वह्नीयं श्रवणाद्येन न च युक्तिमथापयेत् ।। ४२ ।।

संस्थापनादेव विना न च किमपि राक्षसैः ।।

न ददेत्प्रार्थकादिभ्यो न विक्रीयेत्कथंचन ।। ४३ ।।

न हरेत्पुस्तकं चापि न हरेदक्षराणि षट् ।।

ब्रह्माक्षरस्य हरणाद्रौरवान्न निवर्तते ।।४४।।

आद्याक्षरस्य हरणात्ताम्रकुष्ठी भवेदिह ।।

मुखवृत्तस्य हरणाद्यावदाचंद्रतारकम्।। ।।४५।।

कुवले असिपत्रे च पततीह न संशयः ।।

स्वाक्षरस्य हरणे स्वमातृहरणेऽपि यत् ।।४६।।

तस्मात्पुस्तकमात्रं यो हरेन्नरकमाप्नुयात् ।।

यद्भारतं यत्पुराणं स्तोत्ररूपाणि तानि च ।। ४७ ।।

तानि वेदागमादीनि पुस्तकेष्वपि वाचयेत् ।।

वेदानां पुस्तकं यत्र लिखित्वा तन्न वाचयेत् ।। ।। ४८ ।।

तथा तन्त्रोदितान्मंत्राँल्लिखित्वा तन्न वाचयेत् ।।

पुस्तकं निगमानां च मन्त्रव्याख्यानसंग्रहम् ।। ४९ ।।

स्फुटं कृत्वा पुरः स्थाप्य यावत्कालं प्रवर्तते ।।

तावत्स नरके घोरे प्रेतत्वं जन्मजन्मनि ।। 2.1.7.५० ।।

न वाचयेच्च व्याख्याता वाचकोऽपि प्रवाचयेत् ।।

पौष्करे च श्लोक पादमाश्वमेधं पदेपदे ।। ५१ ।।

वेदार्थं वाचयेद्यस्माद्विपरीतोऽपवाचकः ।।

तावुभौ पतितौ ज्ञेयौ पावमानीशतं जपेत्।। ५२ ।।

आदिमध्यावसाने च मन्त्रे च प्रणवं दिशेत् ।।

बलिभिर्गंधपुष्पैश्च पुस्तकं देवनिर्मितम् ।। ५३ ।।

त्रिदेवं पुस्तकं विद्यात्सूत्रं वासुकिरुच्यते ।।

अमानकरणे दोषस्तस्मात्तच्च न हापयेत् ।। ५४ ।।

पत्राणि भगवान्ब्रह्मा ऊर्ध्वदीर्घाणि यानि च ।।

जनार्दनश्चाक्षराणि मात्रा प्रकृतिरव्यया ।। ५५ ।।

लिपी भंगी महेशः स्यात्तस्या मात्रा सरस्वती ।।

एकरेखा च एकात्मा पादाच्च पादविच्युतिः ।। ५६ ।।

चतुष्पादांतरे युग्मं मध्यमोंऽते युगं युगम् ।।

विपत्करं युग्मपंक्तावयुग्मे स्वर्गसाधनम् ।। ५७ ।।

भारते चेतिहासे च पुराणे द्विजसत्तमाः ।।

अयुग्मपंक्तौ स्वर्गः स्याद्युग्मे नरकमाविशेत् ।। ।। ५८ ।।

वक्तृनामाक्षरैर्युक्तं पंक्तिभेदेन सत्तमाः ।।

उपन्यस्तस्य यन्नाम तत्कलौ मात्रया सह ।। ५९ ।।

आत्मसंशुद्धिसंशुद्ध्या धारयेद्धर्म संहिताम् ।।

इतोऽन्यथा भवेद्दोषस्तस्मात्तत्परिवर्जयेत् ।। 2.1.7.६० ।।

रिपुः सूर्यस्तयारामो यक्षोऽनंतः सरस्वती ।।

ब्राह्मी च यक्षिणी चैव गायत्री नवमी स्मृता ।। ६१ ।।

विष्ण्वन्ते च भवेन्मुक्तिः सूर्यांऽते पादविच्युतिः ।।

रिपुंकरं भवेत्तस्य यक्षे दुर्गतिमादिशेत् ।। ६२ ।।

अनंते विपुला कीर्तिः सरस्वत्यां धनागमः ।।

ब्राह्म्या ब्रह्मत्वमाप्नोति यक्षिण्या यक्षमन्दिरम् ।। ६३ ।।

मुक्तिमाप्नोति गायत्र्या इति पंक्तिफलोदयः ।।

चतुर्धा प्रतिभक्तिः स्यात्पुस्तकं धर्मनिर्मितम् ।। ६४ ।।

ब्रह्मेन्द्रवैष्णवं शैवं शाक्तिकं च महेश्वरी ।।

ब्रह्मरूपं चेतिहासमैंद्रं रामायणात्मकम्।।६५।।

वैष्णवं परमं दैवं यच्छैवं तल्ललाटकम् ।।

पावकोऽस्य तथा मूले मध्ये भागे शतक्रतुः ।। ६६ ।।

अग्रे स्थिता ग्रहाः सर्वे दिशामीशास्तथा द्विजाः ।।

मेरुः सुमेरुरुद्दिष्टः संगवान्काम उच्यते ।। ६७ ।।

द्वावापृथिव्यौ पातालं तस्यांतः समुदाहृतम् ।।

पौराणिककथायुक्तपुस्तको देवपूजितः ।। ६८ ।।

न शस्यः पूजनीयश्च गृहे स्थाप्येत मानवः ।।

यो यस्मै शूद्रो विप्राय वृत्तिं दद्याच्च मानवः ।। ६९ ।।

स याति ब्रह्मसदनं मणिवर्त्मादिकुट्टिमम् ।।

न शस्यः पूजनीयश्च गृहे स्थाप्येत मानवः ।।2.1.7.७०।।

पत्राणामग्रभागे तु वेधं कुर्यात्सुवर्तुलम् ।।

श्रवणात्तत्र मात्रेण तत्र पद्मं च वर्तुलम् ।। ७१ ।।

संहितागमतन्त्रेषु प्रतिवेधे च संकुलम् ।।

प्रकुर्याच्चित्ततापेन ततः शक्रपुरं व्रजेत् ।। ७२ ।।

मध्यं तस्य हरेदायुः पार्श्ववेधः शिवं हरेत् ।।

युग्मवेधे जयं दद्यादेकवेधे बलिर्भवेत् ।।७३।।

परमं प्रकृतेर्गुह्यं स्थानं देवैर्विनिर्मितम् ।।

पूरयेत्ताम्रलिंगेन अथ रैत्यमयेन वा ।।७४।।

अशक्तो बिल्वकाष्ठस्य तथा श्रीपर्णिकस्य च ।।

न काष्ठस्य नवं शस्यं न लौहं योजयेत्क्वचित् ।। ७५ ।।

प्रागारंभश्लोकशतं धर्मशास्त्रस्य वै लिखेत् ।।

संहितायां पुराणायां युग्मकल्पं तदर्धकम्।। ७६ ।।

ब्रह्मचर्येण विलिखेन्न मोहाद्ब्रह्मणः क्वचित् ।।

तथापि चाखिलव्यास लेखनात्संततिक्षयः ।। ७७ ।।

अनामात्वे हेमयुतां बलाकं चित्तमेव च ।।

न लिखेत्खिलभागं च हरिवंशस्य सत्तमाः ।। ७८ ।।

गारुडस्य च स्कान्दस्य न लिखेन्मध्यतन्त्रकम् ।।

लेखनं हरिवंशस्य व्रतस्थो नियमैर्युतः ।। ७९ ।।

गृहस्थो न लिखेद्ग्रंथं लिखेच्च मथुरां विना ।।

लेखने पारिजातस्य मत्स्य मांसाशिनं लिखेत् ।। 2.1.7.८० ।।

वाल्मीकिसंहितायाश्च लेखने च तथा क्वचित् ।।

स्तोत्रमात्रं लिखेद्विप्रा अव्रती न लिखेत्क्वचित् ।। ८१ ।।

अब्राह्मणेन लिखितं निष्फलं परिकीर्तितम्।। ८२ ।।

पतितैरपि पाखंडैर्न स्त्री विलिखति क्वचित् ।।

दुर्विचारो दुष्टभार्यो दुर्मतिश्चापि लेखकः ।।

न लिखेद्धर्मशास्त्रं च पुराणं स्तोत्रसंहितम् ।। ८३ ।।

तच्च प्राप्नुवन्कर्तव्यं सुवर्णरजतस्य च ।।

कज्जलैर्मलिनं कुर्यान्मन्त्री निर्यासमंत्रितैः ।। ८४ ।।

जीवन्त्याश्च रसैर्युक्तैर्मणिकर्दमलोलुपैः ।।

वंगुन्यान्मुख्यायुतैर्वापि पीतयोगैरथापि वा ।। ८५ ।।

कृष्णे वायुप्रदं विद्यात्पीते वायुक्षयो भवेत् ।।

रक्ते पुष्टिमवाप्नोति कृष्णे च संपदागमः ।।८६।।

इतिहासपुराणानां विलिखेद्यन्मुखाच्छृणु ।।

वायव्यादिमुखेनैव काष्ठवेदं च संलिखेत् ।। ८७।।

पूर्वामुखे चार्थहानिरुत्तरे च मुखे श्रियः ।।

मरणं दक्षिणास्ये तु पश्चिमास्ये धनक्षयः ।।८८।।

पितृमेधे भुवः कंपे न लिखेज्जन्मवासरे ।।

अशौचे मृतके सूतावमायां रविसंक्रमे ।। ८९ ।।

अत्र लेखाद्दरिद्रः स्यात्तथा पुत्रविनाशनम् ।।

बलधर्मं क्षयं चैव तस्माद्यत्नेन वर्जयेत् ।। 2.1.7.९० ।।

पितृश्राद्धदिने लेखः कुलक्षयकरो भवेत् ।।

एकरात्रं भुवः कंपे तस्मिँल्लेखे धनक्षयः ।।९१।।

अशोचेऽपि दरिद्रः स्याज्जन्माहे चायुषः क्षयः ।।

लिपिच्छंदः पदज्ञश्च युवा धीमाञ्जितासनः ।।९२।।

द्रुतलेखी च तेजस्वी यो लेखयति लेखकः ।।

असंवलितभावेन ऊर्ध्वोर्ध्वे स्यात्समाक्षरम् ।।९३।।

लिपियुक्तः समायुक्तः एवागमलेखकः ।।

नांदीनागरकैर्वर्णैः शुद्धनागरकैरपि ।। ९४ ।।

कामरूपाक्षरैर्वापि यावच्च संहितागणः ।।

अचेतनेन लिखितं यावत्कालं प्रवर्तते ।। ९५ ।।

यावदक्षरसंस्थानं तावत्स्वर्गे महीयते ।।

अनुक्तो वाचयेद्यस्तु धर्मशास्त्रस्य वेतनम् ।। ९६ ।।

लिखित्वा यस्तु पापात्मा यावदक्षर संख्यया ।।

तावत्कालं तु नरके पच्यते नात्र संशयः ।। ९७ ।।

कुटुंबभरणार्थं तु गृह्णीयाद्वापि वेतनम् ।।

न जीवति स दुष्टात्मा धनवस्त्रफलान्वितः ।। ९८ ।।

पतितैरंत्यजैर्म्लेच्छै रोगी कुष्ठी क्षयी तथा ।।

रोगी शिलीपदैश्चैव मूकोऽपि धर्मसंहतः ।। ९९ ।।

एतैर्विलिखितं यच्च धारयेन्न गृहाश्रमी ।।

अनायुष्यकरं यस्मात्तस्मात्तत्परिवर्जयेत् ।। 2.1.7.१०० ।।

हीनांगा प्रतिमा चैव पुस्तकं मानहीनकम् ।।

न कलौ धारयेद्देह अनायुष्यकरं भवेत् ।। १०१ ।।

द्वात्रिंशदगुलैर्युक्तं कर्तव्यं पुस्तकोत्तमम् ।।

स वै नारायणः ख्यातो धारणाच्च कुतोऽप्यलम् ।। १०२ ।।

चतुविशांगुलं यच्च तद्वै स्वधनमुच्यते ।।

शंकरः स तु विज्ञेयो धर्मकामफलप्रदः ।। १०३ ।।

अष्टांगुलं भवेद्यच्च तत्कनिष्ठमिहोच्यते ।।

तस्माद्ब्रह्ममयं ज्ञेयं त्रिवर्ग फलदायकम् ।। १०४ ।।

ताडिता जलपत्रे च अथ वा चागुरुत्वचि ।।

एत्याः पत्रकृते मानं भूर्जे मानं न विद्यते ।। १०५ ।।

द्वादशांगुलकं यच्च भूर्जतैडादिनिर्मितम् ।।

अंगुलानां प्रमाणं यत्तेनापि ज्ञानपुस्तकम् ।। १०६ ।।

हस्तसंस्थापिते तस्य तेनायुष्यकरं भवेत् ।।

धर्मशास्त्रस्य साहस्रे धर्मशास्त्रस्य वेतनम् ।। १०७ ।।

स्वर्गमार्गस्य गमने भारते च तदर्धकम् ।।

हरिवंशे स्वर्णमाने कृते मूल्यसहस्रके ।। १०८ ।।

युगेयुगे पादहीनं धर्मं कुर्याद्यथारुचि ।।

प्रणम्य शिरसा सर्वान्व्यासादीन्संहिताश्रुतान् ।। १०९ ।।

जैमिनिं च ततो व्यासं शंकरं च तथा हरिम् ।।।

नमस्कारमथैषां तु आदिमध्यावसानके ।। 2.1.7.११० ।।

ततः प्रवाचयेद्विप्रो धर्मशास्त्रार्थकोविदः ।।

अलक्षितमनास्तद्वद्यद्रूपं स्पष्टमुच्चरन्।। १११ ।।

असंयुक्ताक्षरपदं स्पष्टभागसमन्वितम् ।।

सप्तस्वरसमायुक्तं सप्तनादविभूषितम् ।। ११२ ।।

सामगाथाः समाश्रित्य रागयुक्तांतरं पठेत्।।

मणिवारो धनं यत्स्याद्गौरांधां संतिकस्तथा ।। ११३ ।।

श्रीरागश्चैव हिल्लोलरागो वाजाविकस्तथा ।।

एवं प्रक्रममाणेन शृणुयाद्धर्मसंहिताः ।। ११४ ।।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि विशेषतः ।।

अश्वमेधमवाप्नोति सर्वान्कामानवाप्नुयात् ।।

पापैः प्रमुच्यते सर्वैर्महापुण्यं च विंदति ।। ११५ ।।

शूद्राणां पुरतो वैश्यो वैश्यानां क्षत्रियः परः ।।

क्षत्रियांते तथा विप्राः शृणुयुश्चाग्रतः सदा ।। ११६ ।।

न शूद्रः कथयेद्धर्मांस्तपअध्यापने तथा ।।

नैहिकत्वं परत्वं च न शुभं न परां गतिम् ।। ११७ ।।

शूद्रेणाधिगतं नास्ति विशेषाच्छब्दलक्षणम् ।।

यद्द्विजस्य कृतो दासो ब्रह्मणाऽव्यक्तयोनिना ।।११८।।

श्वशृगालखरीक्षीरमपेयं हि यथा भवेत् ।।

एवं शूद्रमुखाद्धर्मा न ग्राह्याः शब्दसंस्कृताः ।।११९।।

अमेध्यं शुध्यते तोयैः शूद्रः श्रोता हि शुध्यति ।।

एवं शूद्रोऽप्यशुचिः स्याद्यदि व्याकरणार्थवित् ।।2.1.7.१२०।।

यः शूद्र उद्दिशेद्धर्मं तथा चागमवैदिकम् ।।

स वै वध्यो नरेंद्रेण जिह्वां चक्रेण छेदयेत् ।। ।।। १२१ ।।

बुध्यमानः सदा ह्यर्थं ग्रंथार्थं कृत्स्नमेव च ।।

य एवं कथयेत्सम्यक्स विप्रो व्यास उच्यते ।। १२२ ।।

वसेत्स पत्तने ग्रामे पुण्ये देशे स कीर्तितः ।।

ते धन्यास्ते कृतात्मानस्ते कृतार्था न संशयः ।।

वसंति पत्तने तस्मिन्व्याख्याता यत्र संवसेत् ।। १२३ ।।

यथार्कहीनं दिवसश्चंद्रहीना यथा निशा ।।

न रराज सभा तद्वद्व्यासेन रहिता द्विजाः।।१२४।।

यद्गृहे नैव शिशवो न रराज गृहं क्वचित् ।।

यथैकतो ग्रहाः सर्वे एकतस्तु दिवाकरः ।।

तथैव सोदर गेहे दृष्ट्वा पुष्करदर्शनम् ।। १२५ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे सप्तमोऽध्यायः ।। ७ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 8

अङ्कमाहात्म्यवर्णनम्

।। सूत उवाच ।। ।।

शृणुध्वं विप्रसंघाताः पुराणं देवसंमतम्।।

यच्छ्रुत्वा मुच्यते पापात्पुरुषो ब्रह्महत्यया।।१।।

तृतीयं शैवमाख्यातं ततो भागवतं परम्।।

पंचमं च तथा मात्स्यं भविष्यं षष्ठमुच्यते ।।२।।

असामर्थ्ये च मात्स्योक्तं वैष्णवं च भविष्यकम् ।।

भारते चापि पर्वं च शांतिभैष्मीयकं तथा ।। ३ ।।

पराशरमतं गृह्यं गोभिलोक्तानि यानि च ।।

कात्यायनोक्तमपरमभ्यसेन्निगमादितः ।। ४ ।।

अंतरेणागते मर्त्ये शास्त्रं नाध्यापयेत्क्वचित् ।।

एकरात्रं गते मर्त्ये त्रिरात्रमजमेषयोः ।। ५ ।।

मंडूके पंचरात्रं तु सर्पे रात्रिचतुष्टयम् ।।

संवत्सरं तु तुरगे गजे द्वादशवत्सरान् ।। ६ ।।

मासमेकं खरे काके स्थानत्यागान्न कुत्रचित् ।।

केरवे वा रवे चैव अहोरात्रं प्रचक्षते ।।७।।

त्रिरात्रमपि मार्जारे नकुले मूषके खरे ।।

हंसे दिनमनध्यायं क्षुद्रजंतौ न दूषणम् ।। ८ ।।

अध्यापयेद्गुरोः पुत्रं ज्ञानिनं धार्मिकं शुचिम् ।।

भक्तं शांतं वैष्णवं च जितक्रोधं जितेंद्रियम् ।। ९ ।।

अध्यात्माध्यापयेदेभ्यः शठं पापहरं द्विषम् ।।

अन्यायेनैव यच्छतमभयं दांभिकं द्विषम्।।2.1.8.१०।।

निरर्थकं मंथरं च विशुश्रूषुमयाजकम् ।।

षण्डं चैवानृजुं क्रुद्धं कृपणं व्यसनार्थिनम्।। ११ ।।

निंदकं चाविधिज्ञं च दूरतः परिवर्जयेत् ।।

अप्रच्छन्ननतं ब्रूयात्पुत्रपौत्रादिकादृते ।। १२ ।।

विद्यया सह मर्तव्यं न दद्याच्च पृथग्जने ।।

अतो विद्या वदत्येवं पाठयंतं द्विजोत्तमम् ।।१३।।

मा दद्याद्भक्तिहीनाय दुर्जनाय दुरात्मने ।।

अप्रमादाय विप्राय शुचये ब्रह्मचारिणे ।। ।। १४।।

सार्थकाय विधिज्ञाय साधवे देहि सत्तम ।।

दद्याद्यदि निषिद्धाय विद्याधनमनुत्तमम् ।। १५ ।।

तयोरेकतरो गच्छेदचिरेण यमक्षयम् ।।

अन्यायेन ग्रहं विद्यामन्यं पाठयते सुखात् ।। १६ ।।

स याति नरकं घोरं विद्यावर्ज्यः स उच्यते ।।

आध्यात्मिकं वैदिकं चालौकिकं वाथ यो वदेत्।।१७।।

मानमादौ प्रणम्याथ ततोऽधीयीत सुव्रतः ।।

कर्मकांडं ज्योतिषस्य तद्विना न समभ्यसेत् ।। १८।।

चूतभोगसमभ्यासाद्दरिद्रश्चाभिजायते ।।

वादभागसमभ्यासाद्धननाशाय जायते ।।१९।।

निधिभागसमभ्यासाज्जायते नारके कुले।।

यान्यनुक्तानि शास्त्राणि माननीयानि यानि च ।।2.1.8.२०।।

म्लेच्छोक्तानि महिम्नानि नाभ्यसेद्दूरतस्त्यजेत् ।।

लोकानां ज्ञानवृद्ध्यर्थं यः कुर्याद्धर्मसंग्रहम् ।। २१ ।।

प्रवर्तयित्वा स गुरुर्भवेज्जानप्रदः पिता ।।

ज्ञानदाता च लोकानां तेषु धर्मः प्रवर्तते।।२२।।

निगमानां ज्योतिषाणां वेदानां नाटकस्य च ।।

व्याख्यानसंग्रहं कृत्वा कलौ नाशमवाप्नुयात् ।।२३।।

वेदानां धर्भशास्त्राणां पुराणानां तथैव च ।।

मीमांसाज्योतिषां चैव नाटकानां विरंचिनी।।२४।।

भागावसाने कथितः पुराणाध्याय एव च ।।

पुष्पकश्च परिच्छेदः खंडश्च प्रतिखंडकः ।।२५।।

व्यवहारश्चार्थशास्त्रमश्वशास्त्रस्य चैव हि ।।

यस्य भागावसाने तु प्रयोक्तव्यः स एव हि।। ।।२६।।

तत्संग्रहेपि कविना नियोक्तव्यः स एव हि।।

यस्य नात्रोपदेशे तु प्रवर्तयति संग्रहः ।।२७।।

तत्तदक्षरसख्यानां ब्रह्मलोकान्न तच्च्युतिः ।।

न संग्रहस्तंत्रमंत्रे वेदमंत्रे च वर्जयेत् ।।२८।।

मोहात्कृत्वा होमधेनुं दत्त्वा शुद्धिर्भविष्यति ।।

कृत्वा चाख्यायिकाग्रंथस्वरूपान्स दिवं व्रजेत् ।। २९ ।।।

धर्मशास्त्रस्य गम्यस्य व्यवहारस्य चैव हि ।।

कलौ यः संग्रहं कुर्यात्प्रसुप्ते चैव केशवे ।। 2.1.8.३० ।।

यावत्प्रवर्तते लोकस्तावत्स्वर्गे महीयते ।।

सिंहे पौषे च चैत्रे च न कुर्यात्संग्रहं क्वचित् ।। ३१ ।।

प्रातःकाले न कुर्वीत् तथा मध्यंदिने द्विजाः ।।

पक्षांते भूभिदाहे च भुवः कंपे दिनक्षये ।। ३२ ।।

मलमासे विशेषेण सन्ध्ययोश्च विवर्जने ।।

अमेध्याक्तं च पत्रं च लिप्यक्षरविभूषितम् ।। ३३ ।।

पूतं स्यात्तत्क्षणाद्विप्राश्चतुः पंचाक्षरेण वा।।

नारसिंहस्य विन्यासे पूतो भवति तत्क्षणात् ।। ३४ ।।

मायाविभवविन्यस्ते महापापकलेवरे ।।

मुहूर्तार्धेन पूतत्वं प्रभोर्यांति परां गतिम् ।। ३५ ।।

स्त्रियो वा निंदितो वापि म्लेच्छो याति परां गतिम् ।।

यो मूढो मन्यते दोषं तस्य शौचं समाचरेत् ।।

स गर्दभीं खरीं योनिं प्रविशेन्नात्र संशयः।। ।। ३६ ।।

एकमेवात्मकं ब्रह्म तत्प्रकृत्यात्मकं द्वयम् ।।

नवात्मको भैरवश्च दशमश्च जनार्दनः ।। ३७ ।।

रुद्र एकादशश्चैव अर्कार्कश्चापि द्वादशः ।।

त्रयोविंशे च भूतात्मा षड्विंशे मनुरीरितः ।। ३८ ।।

तिथ्यात्मकं पंचदशे षोडशाख्या कलापरा ।।

वातात्मकः सप्तदशो मन्त्रः समनुवर्तते ।।३९।।

अष्टादशाक्षरो मंत्रः पुराणात्मक एव च ।।

ऊनविंशश्चंद्रमाः स्याद्विंशो नारायणो वपुः ।।2.1.8.४०।।

ज्योतिर्मयश्चैकविंशो द्वाविंशे केशवार्चनम् ।।

नक्षत्राणि त्रयोविंशे चतुर्विंशे च तानकम् ।। ४१ ।।

पंचविंशे च तीर्थानि षड्विंशे च त्रियंबकः ।।

अष्टाविंशे धनेशश्च ऊनत्रिंशे सरस्वती ।। ४२ ।।

त्रिंशद्योगे शिवः प्रोक्तः पातालमेकत्रिंशके ।।

अहोरात्रश्च द्वात्रिंशे चतुस्त्रिंशे च जाह्नवी ।। ४३ ।।

पंचत्रिंशे तदंतः स्याच्छते पूर्णे दिवाकरः ।।

सहस्रे च शिवो ज्ञेयश्चायुते मेरुरुच्यते ।। ४४ ।।

लक्षे ब्रह्मा तथा कोट्यां देवो नारायणः परः ।।

पुंप्रकृत्यात्मकं चान्यच्छारदालिपिमातृका ।।४५।।

शुद्धब्रह्ममयं नित्यं ज्ञानरूपं परं महत् ।।

यस्मिन्न व्यसनादेव शुचौ चाप्यशुचिस्थले ।।

क्षणे ब्रह्ममयं याति इत्याह भगवान्मनुः ।। ४६ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागेंऽकमाहात्म्यकथनं नामाष्टमोऽध्यायः ।। ८ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 9

पूर्तनिर्णयवर्णनम्

।। सूत उवाच ।। ।।

अंतर्वेदिं प्रवक्ष्यामि ब्रह्मणोक्तं युगांतरे ।।

बहिर्वेदं तथैवोक्तं शस्तं स्याद्द्वापरे कलौ ।। १ ।।

ज्ञानसाध्यं तु यत्कर्म अंतर्वेदीति कथ्यते ।।

देवतास्थापनं पूजा बहिवेंदिरुदाहृता ।। २ ।।

प्रपापूर्तादिकं चैव ब्राह्मणानां च तोषणम् ।।

गुरुभ्यः परिचर्या च बहिर्वेदी द्विधा मता ।। ३ ।।

अकामेन कृतं कर्म कर्म च व्यसनादिकम् ।।

अंतर्वेदी तदेवोक्तं बहिर्वेदी विपर्ययः ।। ४ ।।

धर्मस्य कारणं राजा धर्ममेतद्भवेन्नृपः ।।

तस्मान्नृपं समाश्रित्य बहिर्वेदी ततो भवेत् ।। ५ ।।

सप्ताशीतिर्बहिर्वेदी सारमेषां तृतीयकम् ।।

देवतास्थापनं चैव प्रासादकरणं तथा ।। ६ ।।

तडागकरणं चैव तृतीयं न चतुर्थकम् ।।

पंचमं पितृपूजा च गुरुपूजापुरःसरा ।। ७ ।।

अधिवासः प्रतिष्ठा च देवतानामविक्रिया ।।

प्रतिमाकरणं चैव वृक्षाणामथ रोपणम् ।। ८ ।।

त्रिविधा सा विनिर्दिष्टा उत्तमा चाथ मध्यमा ।।

कनिष्ठा शेषकल्पश्च सर्वकार्येष्वयं विधिः ।। ९ ।।

त्रिधा भवति सर्वत्र प्रतिष्ठादिविधिर्मतः ।।

पूजाहोमादिभिर्दानैर्मानतश्च त्रिभागतः ।। 2.1.9.१० ।।

त्र्यहसाध्यविधानेन अष्टाविंशतिदेवताः ।।

त्रिधा भवति सर्वत्र प्रतिष्ठादिविधिर्मतः ।। ११ ।।

प्रत्यहं पूजयेत्तत्र जापकास्तत्र षोडश ।।

उत्तमोऽसौ विधिः कृत्स्नो ह्यश्वमेधफलप्रदः ।। १२ ।।

चत्वारो याजकास्तत्र त्रयोविंशतिदेवताः ।।

ब्रहदिक्पाल वारुण्यं पृथिवी च शिवस्तथा ।। १३ ।।

एकाहेनैव पूजा च मध्यमः कथितो विधिः ।।

गणेशग्रहदिक्पालान्वरुणं च शिवं तथा ।। १४ ।।

संपूज्य पूज्यते यत्र कनिष्ठोऽसौ विधिः स्मृतः ।।

एकवृक्षश्चैकरूपैः प्रतिमाक्षुद्रदेवताः ।। १५ ।।

नलिनीदीर्घिकागर्तवापीमलप्रपादिकम् ।।

एषां संस्कारकार्येषु प्रतिमानां परिष्क्रिया ।। १६ ।।

अग्निकार्यं ततः कृत्वा न कुर्याद्विधिविस्तरम् ।।

गणेशग्रहदिक्पालान्पूजयेदुपचारतः ।। १७ ।।

वाप्यादेः पुष्करिण्याश्च क्षिपेद्गंगाजलं ततः ।।

उलूखलद्वयेनापि जीर्णानां तु कदाचन ।। १८ ।।

सेतुप्रासादवापीनां प्रतिष्ठां नैव कारयेत् ।।

प्रासादः सेतवश्चैव तडागाद्यास्तथैव च ।। १९ ।।

त्रिभिर्वर्णैः प्रतिष्ठार्हा जीर्णानां तु समुद्गताः ।।

मुनयो मानमिच्छंति अमानं न हि दृश्यते ।। 2.1.9.२० ।।

तस्मान्मानं प्रवक्ष्यामि यन्मानं यादृशं फलम् ।।

षष्टिहस्तप्रमाणेन तदुक्तं वारणोदितम् ।। २१ ।।

एकषष्टिहस्तमितं प्रासादं चोत्तमं विदुः ।।

मध्यं तदर्धं विज्ञेयं कनिष्ठं तत्परं स्मृतम् ।। २२ ।।

अथ वा देवमानेन कर्तव्यं भूतिमिच्छता ।।

यस्तडागं नवं कृत्वा जीर्णं वा नवतां नयेत् ।। ।। २३ ।।

सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते ।।

वापीकूपतडागाश्च उद्यानप्रवहास्तथा ।। २४ ।।

पुनः पुनश्च संस्कार्यो लभते मौक्तिकं फलम् ।।

गुणानां च प्रमाणेन प्रतिमानं विभागतः ।। २५ ।।

द्विशतेन शतेनापि प्रासादस्यैष निश्चयः ।।

सहस्रहस्तविस्तारं दैर्घ्येणाष्टाधिकं भवेत् ।। २६ ।।

तडागं तं विजानीयात्प्रथमं मानमीरितम् ।।

मध्यं चतुःशतेनापि प्रस्तावे दशहीनकम् ।। २७ ।।

कनिष्ठं त्रिशतं चैव प्रस्थे स्याद्विंशहीनकम् ।।

तदर्धेन कलौ ज्ञेयं तदर्धेन तदर्धकम् ।। २८ ।।

तडागमानं विज्ञेयं त्रिवर्गफलदायकम् ।।

अथ पुष्करिणीपक्षे द्वे शते मानमुत्तमम् ।। २९ ।।

तडागे द्विगुणा नेमी मानार्धे गर्तमीरितम् ।।

तत्क्षेत्रं वारुणं स्थानं त्र्युदितं तद्बहिः स्मृतम् ।। 2.1.9.३० ।।

चतुर्थं चैव गांधर्वं पैशाचं पंचमं विदुः ।।

यक्षस्थानमिता भागे एवं सर्वक्रमाणि हि ।। ३१ ।।

अशीतिहस्तमानेन नलिन्या मणिरुच्यते ।।

पञ्चहीनं च प्रस्तावे एवं मानविदो विदुः ।। ३२ ।।

षष्टिहस्तेन नलिनी प्रस्तावे तुर्यहीनकम् ।।

चतुःषष्टिहस्तमिता दीर्घिका च प्रकीर्तिता ।। ३३ ।।

तुर्यहीनं च प्रस्तावे गर्ते मानं न विद्यते ।। ३४ ।।

अग्नौ रोगो बंधुनाशश्च याम्यां मृत्युश्चोग्रः प्राप्यते राक्षसे च ।।

भीतिश्चोग्रा प्राप्यते वायवीये तस्मादेता वर्जनीयाः प्रयत्नात् ।। ३५ ।।

विप्रादीनां देवतानां समाजे मेरुस्थाने यत्र तत्रैव कुर्यात् ।।

नद्यास्तीरे वर्जयेद्वा स्मशाने तडागाद्वै आश्रमादीञ्जनानाम् ।। ३६ ।।

यदा प्रतिष्ठां न करोति मूढः प्रासादवाप्यादिषु पापचेताः ।।

भयं समाप्नोति च पापमुग्रं पदेऽहिना वै वधभागितां व्रजेत् ।। ३७ ।।

यदा तु दीर्घासरसीतडागप्रासादकूपादिषु निर्मितानि ।।

कुर्वंति चान्यानि यदा मखानि भवंति नैवास्य फलप्रदानि ।।३८।।

यदप्रतिष्ठेषु निपानकेषु प्रासादकूपेषु वनादिकेषु ।।

प्रतिष्ठिते यत्फलमाप्नुवंति फलं तदाल्पाल्पकमाहुरस्य ।।३९ ।।

तस्मात्प्रतिष्ठां विधिना जलादेः कुर्याद्यथेष्टं प्रयतो मनुष्यः ।।

पुण्यार्जनेनैव धनेन काले स्ववित्तसाध्येन शुभाशयेन ।। 2.1.9.४० ।।

प्रसादे मृन्मयं पुण्यं मयैतत्कथितं द्विजाः ।।

तस्माच्चतुर्गुणं प्रोक्तं तृणकाष्ठमये तथा ।। ४१ ।।

तृणमये शतमयं तदर्धं नववल्कले ।।

तस्माद्दशगुणं प्रोक्तं कृते दारुमये भवेत्।। ४२ ।।

ततो दशगुणं प्रोक्तमिष्टिकारचिते शुभे ।।

तस्माच्छतगुणं शैले सहस्रं ताम्ररौप्यके ।। ४३ ।।

ततश्च शतसाहस्रं सौवर्णे द्विजसत्तमाः ।।

अनंतफलमाप्नोति रत्नादि रचिते तथा ।। ४४ ।।

यदतीतं भविष्यच्च कुलानामयुतं नरः ।।

विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम्।। ४५ ।।

कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम् ।।

अर्धं च वैष्णवं लोकं मोक्षं च लभते क्रमात् ।। ४६ ।।

हस्तानां पोडशैर्यावत्प्रस्थे स्यात्करहीनकम्।।

तृणवंशमये मानं मध्यं चार्ककरं भवेत् ।। ४७ ।।

कनिष्ठं तारहस्तं स्यादुत्तमं पंचविंशतिः ।।

सर्वोत्तमं च द्वात्रिंशच्चतुष्कोणे महाफलम् ।। ४८ ।।

पुरद्वारं च कर्तव्यं चतुरस्रं समं भवेत् ।।

अष्टकोणं न कर्तव्यं त्रिपुरं च कलौ युगे ।। ४९ ।।

सुरवेश्मनि यावंतो द्विजेन्द्राः परमाणवः ।।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। 2.1.9.५० ।।

कर्तुर्दशगुणं प्रोक्तमापानपरिपालकः ।।

पतितान्युद्धरेद्यस्तु स सर्वं फलमश्नुते ।। ५१ ।।

पतितं पतमानं च तथार्द्धस्फुटितं तथा ।।

समुद्धृत्य हरेर्वेश्म द्विगुणं फलमाप्नुयात् ।। ५२ ।।

पतितस्य तु यः कर्ता पतमानस्य रक्षिता ।।

विष्णोरधितलस्यैव मानवः स्वर्गभाग्भवेत् ।। ५३ ।।

यः कुर्याद्विष्णुप्रासादं ज्योतिर्लिंगस्य वा क्वचित् ।।

सूर्यस्यापि विरिंचेश्च दुर्गायाः श्रीधरस्य च ।। ५४ ।।

स्वयं स्वकुलमुद्धृत्य कल्पकोटिं वसेद्दिवि ।।

स्वर्गाद्भ्रष्टो भवेद्राजा धनी पूज्यतमोपि वा ।। ५५ ।।

देवीलिंगेषु योनौ वा कृत्वा देवकुलं नरः ।।

स्मरत्वं प्राप्नुयाल्लोके पूजितो दिवि सर्वदा ।। ५६ ।।

प्रावृट्काले स्थितं तोयमग्निष्टोमफलं लभेत् ।।

शरत्कालस्थितं तोयं यज्ञतोयाद्विशिष्यते ।। ५७ ।।

निदाघकाले पानीयं यस्य तिष्ठति वापिनः ।।

स्वर्गं गच्छेत्स नरकं न कदाचिदवाप्नुयात् ।। ५८ ।।

एकाहं तु स्थितं तोयं पृथिव्यां द्विजसत्तमाः ।।

कुलानि तारयेत्तस्य सप्त सप्त पराणि च ।। ५९ ।।

पूर्वं पितृकुले सप्त तद्वन्मातृकुले द्विजाः ।।

चतुर्दशमिदं ज्ञेयं शतलेखं ततः शृणु ।। 2.1.9.६० ।।

पितुरूर्ध्वं कुलं विंशं मातुरूर्ध्व कुलं तथा ।।

तद्वत्परं विजानीयाद्भार्यायाः पंच एव च ।। ६१ ।।

पंच वै मातृतश्चास्य पितुर्मातामहे कुले ।।

पंच पंच विजानीयान्मातुर्मातामहस्य च ।। ६२ ।।

गुरोः पितृकुले पंच तस्य मातृकुले तथा ।।

आचार्यस्य कुले द्वंद्वं दशराजकुलस्य च ।। ६३ ।।

राज्ञो मातामहकुले पंच चैव प्रकीर्तिताः ।।

एकोत्तरं शतकुलं परिसंख्यातमेव च ।।६४।।

आत्मना सह विप्रेंद्रा उद्धारः संमतः स्मृतः ।।

कुर्याद्देवार्चनं तीर्थे स्वविमुक्ते दशार्णवे ।।६५।।

समुद्धरेत्कुलशतं शृणु विंशकुलं द्विज ।।

पंच पंच च पित्रोश्च पितुर्मातामहस्य च ।। ६६ ।।

मातुर्मातामहस्यैव जातिं द्वंद्वमुदाहृतम्।।

गुरोः संतानके द्वंद्वं तद्वद्यादवसात्त्वतौ ।।६७।।

परपक्षस्य चैकं स्यादेकविंशं कुलं क्रमात्।।

पानीयमेतत्सकलं त्रैलोक्यं सचराचरम्।। ।। ६८ ।।

पानीयेन विना वृत्तिर्लोके नास्तीति कर्हिचित्।।

वारस्वस्थं पुष्पखंडं तोये पतति यावति ।।६९।।

तावत्कालं वसेत्स्वर्गे चान्ते ब्रह्मत्वमाप्नुयात् ।।

तस्मात्तोयोपरि गृहं प्रसादोपरि वर्जयेत्।।2.1.9.७०।।

सूर्यरश्मियुतं यद्वै तत्तोयं तु विनिंदतम्।।

चंद्ररश्मिविहीनं यन्नामृतत्वाय कल्पते ।।७१।।

तस्माद्दशगुणं कुंडे तस्माद्दशगुणं ह्रदे।।

देवानां स्थापनं कुर्यादविमुक्तफलं शुभम् ।।७२।।

सुस्थितं दुःस्थितं वापि शिवलिंगं न चालयेत् ।।

चालनाद्रौरवं याति न स्वर्गं न च स्वर्गभाक् ।।७३।।

उच्छन्नगरग्रामे स्थानत्यागे च विप्लवे ।।

पुनः संसारधर्मेण स्थापयेदविचारयन्।।७४।।

बाहुदंतादिप्रतिमा विष्णोश्चान्यस्य सत्तमाः।।

न चालयेत्स्थापिते च विप्रवृक्षं न चालयेत् ।।४।।

केशवं हरिवृक्षं च मधूकं किंशुकं तथा।।

नाकाले स्थापयेज्जातु चालनाद्ब्रह्महा भवेत।।७६।।

देवालयस्य पुरतः कुर्यात्पुष्करिणी द्विजाः।।

ब्राह्मणानां समाजे च राजद्वारे चतुष्पथे।।७७।।

देवाथें ब्राह्मणार्थे च मुखं कुर्याच्च सर्वतः ।।

पश्चिमे पुष्टिकामं तु उत्तरे सर्वकामदम् ।। ७८ ।।

याम्ये स्वार्थं न कुर्वीत कोणे तु नरकं भवेत् ।।

मुखं प्रकल्पयेन्मध्ये केचिदुत्तरलंघनम् ।। ७९ ।।

कुर्याद्दक्षिणपूर्वे तु अर्कहस्तप्रमाणतः ।।

तडागे तु फलाहस्तं हस्तिकं ह्रासयेत्क्रमात् ।। 2.1.9.८० ।।

तृप्ये हस्तं नलिन्यादावतो हीनं न कारयेत् ।।

गर्ततृणं कलाहस्तं तडागेऽत्र प्रचक्ष्यते ।। ८१ ।।

हीने हीनतरं कुर्याद्धस्तमानेन ह्रासयेत् ।।

यूपस्तथा खादिर एव कार्यः श्रैपर्णिको धात्रिसमुद्भवश्च ।।

मानस्तथा षोडशहस्तसम्मितो रत्नात्सगण्डीयुगकामयोजितैः ।। ८२ ।।

आनाहभग्ने च भवेच्च तस्य विंशां गुलो द्विगुणो मध्यगश्च ।।

मध्येंऽगुलैश्च हीनः कार्यः शुभदः सर्वदा स्यात् ।। ८३ ।।

एवंविधश्चैव तडागयूपो मध्ये तथा षोडशहस्तसंमितः ।।

कूपे च यूपोप्यथ हस्तमात्रस्ततश्चतुर्हस्तमितः प्रकीर्तितः ।। ८४ ।।

आरामयोगेऽप्यथ मण्डपे च कार्यश्चतुर्हस्तमितोऽथ यूपः ।।

संपूर्णमाने कथितं प्रमाणं हीने तु हीनं प्रवदंति तज्ज्ञाः ।।

हस्तद्वयं प्रापितव्यं तडागे हस्तः सार्धः पुष्करिण्यां प्ररोपः ।।८५।।

प्रादेशं वै हस्तमानं कूपयूपस्य रोपतः ।।

न कुर्याज्जलमग्नं च यूपं सर्वत्र सत्तमाः ।। ८६ ।।

तडागे चापि आरामे स्थापयेच्च जलोपरि ।।

हस्तमर्धं तदर्धं स्यान्मानेनानेन दापयेत् ।।

वाप्यां गर्ते पुष्करिण्यां प्रकुर्याज्जलसंमितम् ।। ८७ ।।

यावत्प्रतोलीगतरेणुसंगसंख्यागणो नो जरतामुपैति ।।

तावत्सुरेशः सुरलोकवासी प्रासादकृज्जातु न जायते हि ।।८८।।

किं वा वाच्यः पुष्करिण्या प्रभावः कर्ता यः स्याद्वारुणो ब्रह्मलोकात् ।।

यावत्कालो बाहुमात्रोद्धता स्याद् दृष्टिःप्रोक्ता न निवर्तेत्कदाचित् ।। ८९ ।।

लक्षैकमाराममयोत्तमः स्यान्मध्यं तदर्धं च कनिष्ठमानम् ।।

तदर्धं वा प्रशस्तं तदनन्यं मुनयो वदंति ।।

विनार्जुनैर्बदरैः शैलुकैश्च हीनं कुर्याच्छानलैः पातिलैश्च ।। 2.1.9.९० ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे पूर्तनिर्णयो नाम नवमोऽ ध्यायः ।। ९ ।।.

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 10

पूर्तनिर्णयवर्णनम्

।। सूत उवाच ।। ।।

शोधयेत्प्रथमं भूमिं मितां कृत्वा ततो द्विजाः ।।

दशहस्तेन दण्डेन पञ्चहस्तेन वा पुनः ।। १ ।।

वाहयेत्सदा वृषभैस्तडागार्थेऽपि भूमिकाम् ।।

देवागारस्य या भूमिः श्वेतैश्च वृषभैरपि ।। २ ।।

या भूमिर्ग्रहयागार्थे तन्न वाहैरपि स्पृशेत् ।।

आरामार्थे कृष्णवृषैः कृषार्थखननैरपि ।। ३ ।।

वाहयेत्त्रिदिनं विप्राः पञ्चव्रीहींश्च वापयेत् ।।

देवपक्षे सप्तगुण आरामकरणे गुणः ।। ४ ।।

मुद्गमाषौ धान्य तिलाः श्यामाकश्चेति पञ्चमः ।।

मसूरश्च कलायश्च सप्तव्रीहिगणः स्मृतः ।। ५ ।।

सर्षपश्च कलायश्च मुद्गो माषश्चतुर्थकः ।।

व्रीहित्रयं माषमुद्गौ श्यामाको महिषो गणः ।। ६ ।।

सुवर्णमृत्तिका ग्राह्या वर्णानामनुपूर्वशः ।।

बिल्ववृक्षैरियं कुर्याद्यूपशूनध्वजे दिने ।।७।।

अरत्निमात्रं विज्ञेयं प्रशस्तं यष्टिहस्तकम् ।।

ऊर्णासूत्रमयीं मूर्तिं कृत्वा कुर्याच्चतुष्टयम् ।। ८ ।।

क्षीरदारुगर्तयुतं द्वादशांगुलमेव च ।।

ज्वालयेत्तिलतैलेन तथा केशरजेन वा। ।। ९ ।।

पूर्वदिक्प्रणवे सिद्धिः पश्चिमाशागतिः शुभा ।।

मरणे दक्षिणायां च हानिः स्यादुत्तरे स्थिते ।। 2.1.10.१० ।।

कल्पे विपत्करं विद्यात्तथा चैव च दिग्गते ।।

नारसिंहेन मनुना चाग्निं प्रज्वाल्य दापयेत् ।। ११ ।।

मासे घटे तथा मासं कुर्याद्भूमिपरिग्रहम् ।।

सूत्रयेत्कीलयेत्पश्चान्महामाने द्विजोत्तमाः ।। १२ ।।

ततो वास्तुबलिं दद्यात्खनित्रं परिपूजयेत् ।।

आब्रह्मन्निति मन्त्रेण खनयेन्मध्यदेशतः ।। १३ ।।

आज्येन मधुयुक्तेन गात्रमेकं प्रलेपयेत् ।।

स्वर्णतोयैस्तथा रत्नतोयैः स्नात्वा प्रलेपयेत् ।। १४ ।।

ईशानाभिमुखेनैव कूपपक्षे विदुर्बुधाः ।।

अकृत्वा वास्तुयागं च यस्तडागं समुत्सृजेत् ।। १५ ।।

तस्य वैवस्वतो राजा धर्मस्यार्धं निकृन्तति ।।

प्रासादे च तथारामे महाकूपे तथैव च ।। १६ ।।

गृहारंभे च विप्रेंद्रा दद्याद्वास्तु बलिं ततः ।।

शालैश्च खादिरैश्चैव पलाशैः केशरस्य च ।१७।।

बिल्वस्य बकुलस्यैव कलौ यूपः प्रशस्यते ।।

शुना चक्रोदरकृतं तत्पार्श्वे तु ध्वजद्वयम् ।। १८ ।।

सर्पाकारस्तडागे च कूपे कुम्भाकृतिर्भवेत् ।।

आरामे पद्मपुष्पाभश्छत्रकारस्तु मंडले ।।१९।।

कुर्याच्छुनाकृतिं सेतौ विष्णुगेहे गदाकृतिम् ।।

अश्वाकारं चाश्वमेधे नरमेधे नराकृतिम् ।।2.1.10.२०।।

गोयागे च वृषाकारं गृहयागे ध्वजाकृतिम् ।।

श्मशानगोप्रचारार्थं चैत्यवृक्षालयोत्तमाः ।। २१ ।।

चक्राकारो लक्षहोमे कोटिहोमे हलाकृतिः ।।

नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे ।। २२ ।।

एवं शस्योदितां भूमिं शुद्धां पूर्वप्लवान्विताम् ।।

परिगृह्य यजेद्देवं वनपालं शिखिध्वजम् ।।२३।।

सोमं च नागराजानं ततो बीजं सुशोधयेत् ।।

आनयेद्धारयेत्पश्चाद्रौद्रतापेन तापयेत्।। ।।२४।।

दिनद्वयांतरे चैव मंत्रैश्च परिमंत्रयेत् ।।

गर्भाधानं ततः कुर्याद्विष्णुमंत्रं जपंस्त्रिधा ।। २५ ।।

एवमस्येति मंत्रेण त्रिधा जप्त्वा विमार्जयेत् ।।

देहि मेति च मंत्रेण संप्रोक्ष्य दशवारिणा ।।२६।।

इत्यगृहीतमनुना पञ्चधा परिमंत्रितम् ।।

त्र्यंबकेनेति मंत्रेण बीजमारोपयेत्ततः ।। २७ ।।

भार्यामृतुमतीं स्नात्वा पञ्चमेऽहनि सत्तमाः ।।

उत्संगे स्थापयित्वा च चुम्बयेन्मंत्रयेत्ततः ।। २८ ।।

एवं वृक्षस्य संस्कारमध्येऽपि त्वनुगच्छति ।।

तेन पुत्रत्वमाप्नोति नात्र कार्या विचारणा ।। २९ ।।

तुलस्या बीजमादाय वैष्णवर्क्षे द्विजोऽहनि ।।

खानयेदपि गोमूत्रबिंदुतोयैः प्रसेचयेत् ।। 2.1.10.३० ।।

एतां तु स्वर्गमाप्नोति सितकुंभे निपातयेत् ।।

एकरात्रं परिस्थाप्य तत आरोपयेद्भुवि ।। ३१ ।।

अविधौ कूपवाप्यादौ खनने सूयते क्वचित् ।।

कुर्वंति सहकारादिरोपणं ये नराधमाः ।।

लभंते न फलं तेषामिह चाभ्येत्यधोगतिम् ।। ३२ ।।

नदीतीरे श्मशाने च स्वगृहस्य च दक्षिणे ।।

तुलसीरोपणं कृत्वा याति कर्ता यमालयम् ।। ३३ ।।

पत्रपुष्पफलानां च रजोरेणुसमागमाः ।।

पोषयंति च पितरं प्रत्यहं प्रतिकर्मणि ।। ३४ ।।

यस्तु वृक्षं प्रकुरुते छायापुष्पफलोपगम् ।।

पथि देवालये चापि पापात्तारयते पितॄन्।।

कीर्तिश्च मानुषे लोके प्रत्यभ्येति शुभं फलम् ।। ३५ ।।

अतीतानागताश्चातः पितॄन्स स्वर्गतो द्विजाः।।

तारयेद्वृक्षरोपी च तस्माद्वृक्षं प्ररोपयेत ।।३६।।

अपुत्रस्य हि पुत्रत्त्वं पादपा इह कुर्वते ।।

यत्नेनापि च विप्रेंद्रा अश्वत्थारोपणं कुरु ।। ३७ ।।

शतैः पुत्रसहस्राणामेक एव विशिष्यते ।।

कामेन रोपयेद्विप्रा एकद्वित्रिप्रसंख्यया ।। ३८ ।।

मुक्तिहेतुः सहस्राणां लक्षकोटीनि यानि च ।।

धनी चाश्वत्थवृक्षे च अशोकः शोकनाशनः ।।३९।।

प्लक्षो भार्याप्रदश्चैव बिल्व आयुष्यदः स्मृतः ।।

धनप्रदो जंबु वृक्षो ब्रह्मदः प्लक्षवृक्षकः ।। 2.1.10.४० ।।

तिंदुकात्कुलवृद्धिः स्याद्दाडिमी कामिनीप्रदः ।।

बकुलो वंजुलश्चैव पापहा बलबुद्धिदः ।। ४१ ।।

स्वर्गप्रदा धातकी स्याद्वटो मोक्षप्रदायकः ।।

सहकारः कामप्रदो गुवाकः सिद्धिमादिशेत् ।। ४२ ।।

सर्वशस्यं बलबले मधुके चार्जुने तथा ।।

कदंबे विपुला कीर्तिस्तिंतिडी धर्मदूषिकः ।। ४३ ।।

जीवंत्या रोगशांतिः स्यात्केशरः शत्रुमर्दनः ।।

धनप्रदश्चैव वटो वटः श्वेतवटस्तथा ।। ४४ ।।

पनसे मंदबुद्धिः स्यात्कलि वृक्षः श्रियं हरेत् ।।

कलिवृक्षं च शाखोट उदरावर्तकं तथा ।। ४५ ।।

तथा च मर्कटीनीपरोपणात्संततिक्षयः ।।

शिंशपां चार्जुनं चैव जयंती हय मारकान् ।।

श्रीवृक्षं किंशुकं चैव रोपणात्स्वर्गमादिशेत् ।। ४६ ।।

न पूर्वां रोपयेज्जातु समिधं कंटकीद्रुमम् ।।

कुशं पद्मं जलजानां रोपणाद्दुर्गतिं व्रजेत् ।। ४५ ।।

मंदारे कुलहानिः स्याच्छाल्मले शुकबुद्धिमान् ।।

निंबे पशुविनाशः स्याच्छत्राके कुलपांसलः ।। ४८ ।।

उत्पन्ने कुलपातः स्या त्पशोरेव क्षयो भवेत् ।।

शत्रुवृद्धिः काकनादे बलपूगे हतश्रियः ।। ४९ ।।

विना क्रतौ विरुद्धश्च न सिंहं द्विजसत्तमाः ।।

क्रतौ हि स्याद्विरुद्धश्च प्राप्नुयान्नरकाकृतिम् ।। 2.1.10.५० ।।

सहकारसहस्रात्तु वरिष्ठं धातकीद्वयम् ।।

तस्माच्चैव सहस्राद्धि पाटलैका विशिष्यते ।। ५१ ।।

पाटलानां शतात्पश्चादेकरक्तवटो भवेत् ।।

वटानां द्विसहस्राच्च पंचकं नागकेशरम् ।। ५२ ।।

तस्माद्वरिष्ठः श्रीवृक्षो जंबूवृक्षः प्रशस्यते ।।

तस्माद्धिमवतो ज्ञेयः श्रीपर्णीवृक्ष उत्तमः ।। ५३ ।।

तिंदुकस्य त्रयश्चैव जंबूवृक्षस्य पंचकम् ।।

कदंबार्जुनवृक्षस्य नारिकेरस्य च त्रयम् ।।

एवमुक्त्वा स धर्मात्मा कारयेत्कीदृशं बलम् ।। ५४ ।।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।

स्वर्गभोगं समश्नाति विधिवद्द्रुमरोपणे ।। ५५ ।।

जन्मत्रयादिकं पापं विनाश्य स्वर्गमादिशेत् ।।

शतरोपी च ब्रह्मत्वं विष्णुत्वं च सहस्रके ।। ५६ ।।

तुलसीरोपणाच्चैत्र आधिव्याधियुतो भवेत् ।।

वैशाखे कीर्तिमाप्नोति ज्येष्ठे तु मरणं व्रजेत् ।। ५७ ।।

आषाढे कीर्तिमाप्नोति श्रावणे परमां गतिम् ।।

भाद्रे धनागमश्चैव आश्विने कार्तिके क्षयः ।।

तुलसी त्रिविधा लोके कृते श्वेता प्रशस्यते ।। ५८ ।।

किंचिच्छेदं च यः कुर्यादश्वत्थस्य वटस्य च ।।

श्रीवृक्षस्य च विप्रेंद्राः स भवेद्ब्रह्मघातकः ।। ५९ ।।

मूलच्छेदेन विप्रेंद्राः कुलपातो भवेदनु ।।

वृक्षच्छेदी भवेन्मूक आधिव्याधिशतं भजेत् ।।

सायं प्रातश्च घर्मांते शीतकाले दिनांतरे ।। 2.1.10.६० ।।

फलमामकुलत्थश्च माषो मुद्गास्तिला यवाः ।।

नृत्यगीतपयःकेशफलपुष्पप्रदो भवेत् ।। ६१ ।।

अविकाकसकृच्चूर्णं यवचूर्णानि यानि च ।।

गोमांसमुदकं चैव सप्तरात्रं निधापयेत् ।। ६२ ।।

तमेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदम् ।।

रोहिमत्स्यस्य पित्तानि धान्याकं तत्र स्थापयेत् ।। ६३ ।।

तेनोदकादिसेकश्च कृतो वै वृद्धिमादिशेत् ।।

तित्तिडीबीजमादाय इक्षुदंडेन मर्दयेत् ।।६४।।

तेनाशोके प्रसेकः स्यात्सहकारस्य वृद्धिमान् ।।

नालिकेरोदकं चैव माक्षिकैः सह सेचयेत् ।। ६५ ।।

दोहदं सर्ववृक्षाणां पूगादीनां विशेषतः ।।

दशशिराबीजयुतादभिषेकाच्च जीवति ।। ६६ ।।

प्राक्प्रसूतिर्गवादीनां छागादिमहिषस्य च ।।

जरासु तोयं वृक्षाग्रे स्थापयेदविचारयन् ।। ६७ ।।

परस्य सहकारस्य फलं स्यान्नात्र संशयः ।।

मेषस्य च वितालस्य यवागूं च समाहरेत् ।। ६८ ।।

तत्र मासैः सर्षपैश्च पूरयेन्मर्दयेत्ततः ।।

गुवाकवृक्षकं देव घर्षयेन्मर्दयेत्त्रिभिः ।। ६९ ।।

मृतोऽपि जीवयेच्छीघ्रं म्रियमाणोऽपि जीवति ।।

निंबपत्रं योगपत्रं शतावरिपुनर्नवाम् ।। 2.1.10.७० ।।

क्षीरिकाताम्रकैः पत्रैर्धूमं दद्याद्दिनत्रयम् ।।

सहकारस्य मूलेन कीट रोधो न जायते ।। ७१ ।।

ततः प्राधान्यतो वक्ष्ये द्रुमाणां दोहदोऽन्यथा ।।

मत्स्योदकेन सिक्तेन आम्राणां वृद्धिरिष्यते ।। ७२ ।।

पक्वाम्रं रुधिरं चैव दाडिमानां प्रशस्यते ।।

यवोदकं सगोमांसं केतकीनां प्रशस्यते ।। ७३ ।।

क्षीरके बलवृद्धिः स्यात्तिंदुकः करमर्दकः ।।

मांसपूति रसामज्जा शोकताले गुवाकके ।। ७४ ।।

सपूतिमांसं सघृतं नालिकेरस्य रोहितम् ।।

मधुयष्ट्युदकैः सेकात्सामान्यं निहितं भवेत् ।। ७५ ।।

कपित्थबिल्वयोः सेकं गुडतोयेन सेचयेत् ।।

जातीनां मल्लिकानां च कुंदानां रंतिकस्य च ।। ७६ ।।

गंधतोयसितकरं सर्पनिर्मोकधूपकम् ।।

कूर्ममांसमन्नरसं विडंगस्य च पुष्पकम् ।। ७७ ।।

रथ्यावृक्षे प्रतिष्ठाप्य फलवाञ्जायते ततः ।।

वातसर्पस्य निर्मोकं तगराजगवस्य च ।। ७८ ।।

दद्याद्धूपं धान्यमध्ये धान्यवृद्धिश्च जायते ।।

मयूरपत्रमादायच्छागरोमाणि सप्त वै ।। ७९ ।।

एरंडतैलयोगेन दद्याद्धूपं निशागमे ।।

हिंगुकुसुमसंयोगान्मूषिकाणां परिन्यसेत् ।। 2.1.10.८० ।।

करिविष्ठामृच्छविष्ठां कृत्तिकायां समाहरेत् ।।

निशातोये प्रसेकः स्यात्तत्क्षात्रमूलकं हरेत् ।। ८१ ।।

अश्वत्थमूले दशहस्तमात्रं क्षेत्रं पवित्रं पुरुषोत्तमस्य ।।

अश्वत्थच्छायासलिलस्य मध्ये विशेषतो वै त्रिपथैव गंगा ।। ८२ ।।

बाहुविंशांतरे रोपेत्सहकारं स धर्मवित् ।।

कलाहस्तांतरं धात्री बकुलं वंजुलं तथा ।। ८३ ।।

श्रैपर्णिकं च पुन्नागं श्रीवृक्षं द्विगुणं तरौ ।।

हस्ते शैलमये चैव उत्तमं मानमीरितम् ।। ८४ ।।

शैलेष्टकादिरचिते चतुर्हस्ते तु संमिते ।।

वाप्यादीनां तु कूपानामेकवृक्षादिकस्य च ।। ८५ ।।

श्रीविष्णोर्वृक्षपक्षे च वरुणेष्टं च कूपके ।।

गणेशं पूजयेत्कुम्भं दिक्पालांश्च विशेषतः ।। ८६ ।।

अग्निकार्यं विना कुर्यात्प्रकुर्याच्च सतां गतिम् ।।

श्रुत्वा कृतिं विधानेन अन्येषां वा तथोद्भवम् ।। ८७ ।।

अन्येषां चैव वृक्षे च तथा च तुलसीवने ।।

कुम्भे वनस्पतिः स्थाप्यः पूजयेद्धोमयेत्ततः।। ८८ ।।

वृक्षान्वानेन संस्कृत्य वासोभिरभिवेष्टयेत् ।।

शुच्यमानमिदं ज्ञेयमन्येषां वा तथोद्भवम् ।। ८९ ।।

तुलस्याः सहकारस्य ब्रह्मवृक्षस्य चैव हि ।।

अश्वत्थस्य वटस्यैव स्वर्णतामथ वेधयेत् ।। 2.1.10.९० ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे दशमोऽध्यायः ।। १० ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 11

तन्त्रात्मकप्रतिष्ठावर्णनम्

।। ।। सूत उवाच ।। ।।

अथ तंत्रविधिं वक्ष्ये पुराणेष्वपि गीयते ।।

तन्त्रे चैव प्रतिष्ठां च कुर्यात्पुण्यतमेऽहनि।।१।।

शतवृक्षक्षुद्रवृक्षे दशद्वादश वृक्षके ।।

दृष्टिमात्रांतरे सेतौ कूपयागे समुत्सृजेत् ।।२।।

न कूपमुत्सृजेज्जातु वृक्षयागे कथंचन ।।

तुलसीवनयागे तु न चान्यं यागमाचरेत् ।। ३ ।।।

तडागयागे सेत्वादीन्न चारामे कदाचन ।।

न सेतुं देवयागे तु तडागं न समुत्सृजेत् ।।४।।

तंत्रे श्राद्धं पृथङ्नास्ति कर्तुर्भेदे पृथग्भवेत् ।।

शिवलिंगस्थापनायां न चान्यद्देवस्थापनम् ।।५।।

स्वदेशे वर्जयेत्तं तं स्वतन्त्रेण विधीयते ।।

विपरीते कृते चापि आयुःक्षय इति स्मृतिः ।।६।।

तडागे पुष्करिण्या वा आरामेऽपि द्विजोत्तमाः ।।

मानहीने मानपूर्णे दशहस्ते न दूषणम्।।७।।

द्विसहस्राधिकं यत्र तत्प्रतिष्ठां समाचरेत्।।

दश द्वादशवृक्षे च आरामे पूर्ववद्द्विजाः ।।८।।

प्रतिष्ठां बिल्ववृक्षे च अन्यथा कर्णवेधनम् ।।

कुर्याद्दोहददानं च तत्र निर्मंथनादिकम् ।।९।।

अनंतरं प्रदातव्या लाजा मूर्ध्न्यक्षतादिकम् ।। 2.1.11.१० ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि पूर्वभागे एकादशोऽध्यायः ।। ११ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 12

प्रतिमालक्षणवर्णनम्

।। सूत उवाच ।। ।।

प्रतिमालक्षणं वक्ष्ये यथाशास्त्रमतं द्विजाः ।।

प्रतिमां लक्षणैर्हीनां गृहीतां नैव पूजयेत् ।। १ ।।

शैलजा दारुजा ताम्री मृद्भवा सर्वकामदा ।।

एकहस्ता द्विहस्ता वा सार्धहस्ता तथापि वा ।। २ ।।

प्रासादमानमथवा अथवा सर्वलक्षणम् ।।

अष्टांगुलोत्सेधकं च न गेहेऽर्चयेत्कृती ।। ३ ।।

देवागारस्य यद्द्वारं तस्मादष्टांगुलेन तु ।।

त्रिभागपिंडिका कार्या द्वौ भागौ प्रतिमा भवेत् ।। ४ ।।

अंगुलं वै भवेद्वृद्धिरशीतिश्चतुरुत्तरा।।

विस्तारमानतः कार्यं वदनं द्वादशांगुलम् ।। ५ ।।

मुखत्रिभागे चिबुकं ललाटं नासिकां तथा ।।

कर्णौ नासिकया ग्रीवातुल्यौ वा नियतौ तु यौ ।। ६ ।।

नयने द्व्यंगुले स्यातां त्रिभागा तारका भवेत् ।।

तृतीयतारकाभागे शुभदृष्टिं विचक्षणः ।। ७ ।।

ललाटमस्तकग्रीवं कुर्यात्तत्सममेव तु ।।

परिणाहस्तु शिरसो भवेद्द्वात्रिंशदंगुलः ।। ८ ।।

तुल्यौ नासिकया ग्रीवा मुखेन हृदयांतरम् ।।

अथ विस्तारपंक्तिस्तु ततोऽर्धं तु कटिः सदा ।। ९ ।।

बाहू च बाहुतुल्यौ च ऊरू जंघे च जाघनम् ।।

गुल्फावस्थ्नस्तु पादः स्याद्धाटितश्चतुरंगुलः ।।

षडंगुलस्तु विस्तारस्तुल्यांगुष्ठोंऽगुलत्रयम् ।। 2.1.12.१० ।।

प्रदेशिनी च तत्तुल्या हीना शेषान्नखानखम् ।।

चतुर्दशांगुलः पादस्यायामः परिकीर्तितः ।। ११ ।।

एवं लक्षणसंयुक्ता सा पूज्या प्रतिमा शुभा ।।

अधरोष्ठस्तथैवोरुभ्रूललाटमनीषिकम् ।। १२ ।।

गंडं च नियतं मूर्तौ कुर्यादंगसमुन्नतेः ।।

विशालनयनस्ताम्रपदो वायतलोचनः ।। १३ ।।

सवितानल पत्रस्य चारुविद्याधरस्तथा ।।

वत्सप्रोक्तोऽतिमुकुटः कटकांगदहारवान् ।। १४ ।।

अभ्यंगपदबन्धादि सामान्येनोपशोभि च ।।

सुप्रभामंडला चारु विचित्रमणिकुण्डला ।। १५ ।।

कराभ्यां कांचनीं मालां प्रोद्वहंतीं शिरोरुहान्।।

एवं लक्षणसंपन्नां कारयेद्विहितप्रदाम् ।। १६ ।।

सुस्निग्धां वरदां सौम्यां द्वितीयाश्रमिणामिमाम् ।।

नवतालो भवेद्विष्णुर्वासुदेवस्त्रितालकः ।। १७ ।।

नृसिंहः पञ्चतालः स्याद्धयग्रीवस्तु पंचमः ।।

नारायणश्चाष्टतालो महेशः पञ्चतालकः ।। १८ ।।

नवताला भवेद्दुर्गा लक्ष्मीश्चैव त्रितालिका ।।

वाणीं त्रितालिकां विद्यात्सविता सप्ततालकः ।। १९ ।।

दक्षिणे वासुदेवस्य करे चक्रं प्रतिष्ठितम् ।।

शंखो भवेच्च तदधो वामार्धे तस्य वै गदा ।। 2.1.12.२० ।।

तदधश्च भवेत्पद्मं श्रीवत्सेनोपशोभितम् ।।

सव्येऽर्धे तारकास्यं च त्रिनेत्रमुभयात्मकम् ।। २१ ।।

पार्श्वे नलिनसिंहौ द्वौ सुभद्रां दक्षिणे न्यसेत् ।।

रुक्मिणी वामभागे च तदधस्ताद्दिवींद्रकम् ।। २२ ।।

कृतांजलिपुटस्थश्च नारदः कपिलस्तथा ।।

धर्माधर्मावुभौ पार्श्वे कर्तव्यौ स्रग्विणां वरौ ।। २३ ।।

यदुग्रं वासुदेवस्य तथा नारायणस्य च ।।

वैपरीत्यं विजानीयान्माधवानां तथैव च ।। २४ ।।

तीर्थे गिरौ तडागे च समीपे स्थापयेत्सुधीः ।।

नगरग्राममध्ये वा ब्राह्मणानां च संसदि ।। २५ ।।

अविमुक्ते विशेषण सिद्धक्षेत्रे दशार्णके ।।

त्रीण्युत्तरसहस्राणि पंचपंचोत्तराणि षट् ।। २६ ।।

कुलानि पूर्वं विप्रेंद्राः समुद्धरति नान्यथा ।।

कलौ दारुमयः कार्यो ह्यशक्तो मृन्मयोथ वा ।। २७ ।।

चंदनागुरुभिः कुर्याद्बिल्वश्रीपर्णिकस्य च ।।

पद्मकाष्ठमयश्चैव वाममस्य तथैव हि ।। २८ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे द्वादशोऽध्यायः ।। १२ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 13

कुण्डनिर्माणविधिवर्णनम्

।। सूत उवाच ।। ।।

अतः परं प्रवक्ष्यामि कुंडानामथ निर्णयम् ।।

तस्योद्धारं च संस्कारं शृणुध्वं द्विजसत्तमाः ।। १ ।।

चतुरस्रं च वृत्तं च पादार्धं चार्धचंद्रकम् ।।

योन्याकारं चंद्रकं च अष्टार्धमथ पंचमम् ।। २ ।।

सप्तार्धं च नवार्धं च कुंडं दशकमीरितम् ।।

भूमिं संशोध्य विधिवत्तुषकेशादिवर्जिताम् ।। ३ ।।

भ्रामयेच्चोर्ध्वतस्तस्या भस्मांगाराणि यत्नतः ।।

अंकुरार्पणकं कुर्यात्सप्ताहादेव बुद्धिमान् ।। ४ ।।

स्थानं विमर्दितं कुर्यात्खनित्वा सेचयेज्जलैः ।।

पुष्टिहस्तोच्छ्रायमितं प्रकुर्यात्परिसूत्रयेत्।। ५ ।।

अर्कांगुलमितं सूत्रं चतुरस्रं प्रकल्पयेत् ।।

अष्टादशांगके क्षेत्रे न्यसेदेकं बहिस्ततः ।। ६ ।।

मापयेत्तेन मानेन त्रिवृत्तं कुंडमुज्ज्वलम् ।।

पूर्ववद्विभजेत्क्षेत्रं भागैकं पुरतो न्यसेत् ।। ७ ।।

वृत्तानि कालिकादीनि बहिस्त्रीणि विवर्जयेत् ।।

पद्मकुंडमिदं प्रोक्तं विलोचनमनोहरम् ।। ८ ।।

दशधा भेदयेत्क्षेत्रे उर्ध्वाधोर्ध्वांगुलद्वयम् ।।

संपरिपातयेत्सूत्रं पाटयेत्तत्प्रमाणतः ।। ९ ।।

पंचधा भेदिते क्षेत्रे कामं वा विभजेत्सुधीः ।।

न्यसेत्पुरस्तादेवांगं कोणार्धार्धप्रमाणतः ।। 2.1.13.१० ।।

योनिस्थानं प्रतिष्ठाप्य अश्वत्थस्य दलाकृतिः ।।

सूत्रद्वयं ततो दद्यात्कुंडं परिमितं भवेत् ।। ११ ।।

चतुरस्रं समुद्धृत्य सूत्रं संकल्पयोगतः ।।

दिशं प्रति यथान्यायं पातयेच्च द्विजोत्तमाः ।। १२ ।।

शृंगाटकं युग्मपुटं षडस्रं कुंडत्रयं बुधाः ।।

जलाशयारामकूपे नित्ये गृहमये यथा ।। १३ ।।

चतुस्रं भवेत्कुंडं द्विजसंस्कारकर्मणि ।।

देवप्रतिष्ठायागे च गृहवास्तौ चतुर्थकम् ।। १४ ।।

वसुंधरायोगभेदे प्रपंचे वर्तमादिशेत् ।।

सोमेऽष्टौ पंकजं प्रोक्तं नरमेधाश्वमेधयोः ।। ।। १५ ।।

अंकुरार्पणयागे च वैष्णवे यागकर्मणि ।।

शिवदेव्योश्च जन्मादावष्टम्यां चार्धचंद्रकम् ।। १६ ।।

मार्जारपौष्टिके वैरं रम्ये च शांतिके तथा ।।

शांतिप्रतिष्ठायागे तु शाक्तानां काम्यकर्मणि ।। १७ ।।

पुरश्चरणकाम्येषु ज्वरादीनां विमोक्षणे ।।

एवंविधेषु कार्येषु योनिकुंडं प्रशस्यते ।। ।। १८ ।।

देवतातीर्थयात्रादौ महायुद्धप्रवेशने ।।

सौरे शांते पौष्टिके च षट्पुरं कुंडमुत्तमम्।। १९।।

मारणोच्चाटने चैव तथा रोगोपशांतये ।।

वैष्णवानां कोटिहोमे नृपाणामतिशोचने ।। 2.1.13.२० ।।

अष्टास्रमब्जकुंडं च सप्तास्रं निधिसाधने ।।

राज्ञा साध्ये च पंचास्रं कन्याप्राप्तौ त्रिरस्रकम् ।।२१।।

यावन्निम्नं भवेदेव विस्तारस्तावदेव तु ।।

कुंडानुरूपतः कार्या मेखला सर्वतो बुधैः ।। २२ ।।

अयुतादिषु होमेषु मेखलां योजयेत्सुधीः ।।

निम्न प्रमाणे चात्रापि मूले सार्धांगुलं त्यजेत् ।। २३ ।।

कोणवेदरसैर्मानं यथायोग्यमनुक्रमात् ।।

मुष्टिहस्ते समुत्सेधो सार्धांगुलपरिष्कृतः ।। २४ ।।

अरत्निमात्रे कुंडे तु त्रिश्चैकांगुलतः क्रमात् ।।

एकहस्तमिते कुंडे वेदाग्निनयनांगुलाः ।। २५ ।।

सप्तमेखलकं युक्तं लक्षहोमे न शस्यते ।।

पंचमेखलकं वाथ लक्षकोट्यां च योजयेत् ।। २६ ।।

एकांगुलादिमानेन नेमिं संवर्धयेत्सुधीः ।।

चतुर्हस्तमिते कुंडे तावदेव गुणांगुलाः ।। २७ ।।

वसुहस्ते भानुपंक्तिर्युग्महीनेऽपि ताः क्रमात् ।।

सर्वाः समा ग्रहमखे मेखलाश्च सहस्रके ।। २८ ।।

पार्श्वतो योजयेत्तत्र मेखलास्ता यथाक्रमम् ।। ।

सार्धांगुलादिमानेन नेमिं संवर्धयेत्सुधीः ।। २९ ।।

एकमेखलयागेन योजयेच्छक्तिभावतः ।।

होमाधिक्ये बहुफलमन्यूनं नाधिकं भवेत् ।।2.1.13.३०।।

कुंडस्य रूपं जानीयात्परमं प्रकृतेर्वपुः ।।

ततो होमे शतगुणं स्थंडिले स्वल्पकं फलम् ।। ३१।।

षटचतुर्धा गुणायामविस्तारोन्नतिशालिनी ।।

एकांगुलं तु योन्यग्रं कुर्यादीषदधोमुखम् ।। ३२ ।।

एकैकांगुलतो योनिं कुंडशून्येषु वर्धयेत् ।।

सममध्ये मेखलायाः सपर्या या सुलक्षणा ।। ३३ ।।

स्थापयेत्कुंडकोणेषु योनिं तां द्विजसत्तमाः ।।

कुंडानां कल्पयेन्नाभिं स्फुटमंबुजसन्निभाम् ।। ३४ ।।

तत्तु कुंडानुरूपं वा सुव्यक्तं सुमनोहरम् ।।

योनिकुंडे योनिमब्जं कुंडे नाभिं च वर्जयेत् ।। ३५ ।।

यावद्द्वयप्रमाणेन अर्धांगुलक्रमाद्बहिः ।।

नाभिं प्रवर्धयेदेकं कुंडानां रूपतो यथा ।। ३६ ।।

तत्र तत्र भवेत्कुंडं बिंबशून्यं न होमयेत् ।।

शिवशक्तिसमायोगात्काम उत्पद्यते यतः ।। ३७ ।।

अवटोपि उमादेवी बिंबः ख्यातः सदाशिवः ।।

न कुर्यादेकया हीनं मरणं च समुद्दिशेत् ।।३८।।

त्रयोदशांगुलं हित्वा वह्निहस्तमथापि वा ।।

महातीर्थे सिद्धक्षेत्रे यत्र शंभुगृहे कुले ।। ३९ ।।

तस्य दक्षिणदिग्भागे अग्रतो मंडलं लिखेत् ।।

तत्र पूजा प्रकर्तव्या पूर्वमानेन चाश्रयेत् ।।2.1.13.४०।।

अर्कहस्तांतरे कुर्याच्छतोर्ध्वांते शतेन वा ।। ४१ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे त्रयोदशोऽध्यायः ।। १३ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 14

यज्ञमानविधानवर्णनम्

।। सूत उवाच ।। ।।

यस्य यज्ञस्य यन्मानं तत्तु तेनैव योजयेत् ।।

अमानेन हतो यज्ञस्तस्मान्मानं न हापयेत् ।। १ ।।

शतार्धं प्रथमं मानं शतसाहस्रमेव च ।।

अयुतं च तथा लक्षं कोटिहोममतः परम् ।।२।।

अतः परं तु विभवे राजा वान्यो द्धिजोत्तमाः ।।

न स सिद्धिमवाप्नोति अयागफलभाग्भवेत् ।।३।।

विपाकं कर्मणां सर्वं नरः प्राप्नोति सर्वदा ।।

शुभाशुभं ततो नित्यं प्राप्नोति मनुजः किल ।। ४ ।।

युक्ताश्चापि ग्रहास्तत्र नित्यं शांतिकपौष्टिके ।।

तस्मात्प्रयत्नतो भक्त्या नित्यं पूजा यथाविधि ।। ५ ।।

अद्भुते च तथा शांतिं कुर्याद्भक्तिसमन्वितः ।।

तस्माद्ग्रहाभिजनितं शुभाशुभफलं खलु ।। ।। ६ ।।

अद्भुतेषु च सर्वेषु अयुतं कारयेन्नरः ।।

होमं यथाभिरुचितं पौष्टिके काम्यकर्मणि ।। ७ ।।

लक्षहोमं कोटिहोमं राजा कुर्याद्यथाविधि ।।

अन्यः शतादिकं कुर्यादयुतं विभवे सति ।। ८ ।।

ग्रहाणां लक्षहोमस्तु कोटिहोमस्तथा कलौ ।।

निधिहोमं चाभिचारं तन्न कुर्याद्गृहाश्रमी ।। ९ ।।

यत्र यत्र जपः कार्यो होमो वा यत्र कुत्रचित् ।।

मानं नैव च कर्तव्यं मानादौ चाष्टकं न्यसेत् ।। 2.1.14.१० ।।

युग्मसाध्यं न कर्तव्यं युग्मतो भयमादिशेत् ।।

लक्षे सप्ततालसंख्या कोटिहोमे च विंशतिः ।। ११ ।।

एकत्रिंशद्दिनैर्वापि न कुर्याद्व्यत्ययं क्वचित् ।।

आरंभस्त्रिसहस्रः स्याद्द्वितीयेऽष्टसहस्रकः ।। १२ ।।

तृतीये तु सहस्रं स्याद्ग्रहसाध्यः स्मृतो विधिः ।।

पञ्चाहे च समारंभे सहस्रं जुहुयाद्बुधः ।। १३ ।।

द्वितीयेऽह्नि द्विसाहस्रं तृतीये तु सहस्रकम् ।।

गुणसाहस्रकं तुर्ये पञ्चाहे शेषमीरितम् ।। १४ ।।

नवाहे कल्पयेल्लक्षमेकैकांगं दिने दिने ।।

पंचमे च तथा षष्ठे कुले भागद्वयाधिकम् ।। १५ ।।

कोटिहोमे च तिथ्यंगे शतभागेन कल्पयेत् ।।

न न्यूनं नाधिकं कार्यमेतन्मानमुदाहृतम् ।। १६ ।।

नित्यमेकं दिने दद्यात्पृथङ्नित्यं न चाचरेत् ।।

स समाजे जपेन्नित्यं पञ्चतारेण स्विष्टकृत् ।। १७ ।।

अयुते लक्षहोमे च कोटिहोमे च सर्वदा ।।

प्रथमे दिवसे कुर्याद्देवतानां च स्थापनम् ।। १८ ।।

महोत्सवे द्वितीये तु बलिदानं तथैव च ।।

त्र्यहसाध्ये त्रिरात्रे च पूर्णं कृत्वा विसर्जयेत् ।। १९ ।।

पञ्चाहे तु तृतीयेऽह्नि बलिदानं प्रशस्यते ।।

सप्ताहे चाष्टदिवसे नवाहे पंचमेऽहनि ।। 2.1.14.२० ।।

पञ्चाहे द्वादशाहे तु द्वात्रिंशत्षोडशेऽहनि ।।

इतोऽन्यथा न कुर्वीत नात्र यज्ञफलं लभेत् ।। २१ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे चतुर्दशोऽध्यायः ।। १४ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 15

कुण्डसंस्कारवर्णनम्

।। सूत उवाच ।। ।।

कुण्डानामथ संस्कारे वक्ष्ये शास्त्रमतं यथा ।।

असंस्कृते चार्थहानिस्तस्मात्संस्कृत्य होमयेत् ।। १ ।।

अष्टादश स्युः संस्काराः कुण्डानां तत्र दर्शिताः।।

तारेणावेक्षयेत्स्थानं कुशतोयैः प्रसेचयेत् ।।२।।

त्रिसूत्रीकरणं पश्चाद्वृत्तसूत्रं निपातयेत्।।

वारेण कीलकं दद्यान्नारसिंहेन कुड्मलम् ।।३।।

जिह्वां प्रकल्पयेत्पश्चात्तस्मादग्निं समाहरेत् ।।

न च म्लेच्छगृहादग्निं न शूद्रनिलयात्क्वचित् ।। ४ ।।

नदीपर्वतशालाभ्यः स्त्रीहस्तात्परिवर्जयेत् ।।

संस्कृत्य परिगृह्णीयात्त्रिधा कृत्वा समुद्धरेत् ।। ५ ।।

तमग्निं प्रतिगृह्णीयादात्मनोऽभिमुखं यथा ।।

वह्निबीजेन मतिमाञ्छिवबीजेन प्रोक्षयेत् ।। ६ ।।

वागीश्वरीमृतुस्नातां वागीश्वरसमागताम् ।।

ध्यात्वा समीरणं दद्यात्काममुत्पद्यते ततः ।। ७ ।।

कालबीजेन चैशान्यां योनावग्निं विनिक्षिपेत् ।।

पश्चाद्देवस्य देव्याश्च दद्यादाचमनीयकम् ।। ८ ।।

पितृपिङ्गल दहदह पंचयुग्ममुदीर्य च ।।

सर्वज्ञाज्ञापय स्वाहा मन्त्रोयं वह्निपूजने ।। ९ ।।

वह्निबर्हिषि संयुक्ताः सादियांताः सबिंदवः ।।

वह्निमन्त्राः समुद्दिष्टा द्विजानां मंत्र ईरितः ।। 2.1.15.१० ।।

जिह्वास्तास्त्रिविधाः प्रोक्ता यज्ञदत्तेन सत्तमाः ।।

हिरण्यामाज्यहोमेषु होमयेत्संयतात्मकः ।। ११ ।।

त्रिमध्वक्तैर्यत्र होमं कर्णिकायां च होमयेत् ।।

कनकास्यात्तु कृष्णास्याद्धिर्ण्या शुभ्रता तथा ।। १२ ।।

बहुरूपातिरूपा च सात्त्विका योगकर्मसु ।।

विश्वमूर्तिं स्फुलिंगिन्यौ धूम्रवर्णा मनोजवा ।।१३।।

लोहितास्यात्करालास्यात्कालीभासस्य इत्यपि।।

एताः सप्त नियुंजीत विज्ञेयाः क्रूरकर्मसु ।।१४।।

समिद्भेदेषु या जिह्वास्तास्तु तेनैव योजयेत् ।।

हिरण्यामाज्यहोमे होमयेत्संयतात्मकः ।।१५।।

त्रिमध्वक्तैर्यथा होमं कर्णिकायां च होमयेत् ।।

शुद्धक्षीरेण रक्तायां नैत्यिकेषु प्रभा स्मृता ।। १६ ।।

बहुरूपा पुष्पहोमे कृष्णा चान्नेन पायसैः ।।

इक्षुहोमे पद्मरागा सुवर्णा पद्महोमके ३१७।।

लोहिता पद्महोमे च श्वेता वै बिल्वपत्रके ।।

धूमिनी तिलहोमे च काष्ठहोमे करालिका ।। १८ ।।

लोहितास्या पितृहोमे ततो ज्ञेया मनोजवा ।।

वैश्वानरं स्थितं होमे समिद्धोमेषु सत्तमाः ।। १९ ।।

समानमाज्यहोमे च निषण्णं शेषवस्तुषु ।।

आस्यात्तु जुहुयाद्वह्नौ पिपर्त्ति सर्वकर्मसु ।। 2.1.15.२० ।।

कर्णहोमे तु वै व्याधिर्नेत्रे तद्द्वयमीरितम् ।।

नासिकायां मनःपीडा मस्तकेऽध्वा न संशयः ।। २१ ।।

पुत्रं विपत्करं चैव तस्मात्तत्र न होमयेत् ।।

साधारणमथो वक्ष्ये वह्नेर्जिह्वाश्च कीर्तिताः ।। २२ ।।

प्रवक्ष्यामि विधिं कृत्स्नं यद्विशेषं पुनः शृणु ।।

घृताहुतौ हिरण्याख्या गगना पाणिहोमतः ।। २३ ।।

वक्रा ख्याता महाहोमे कृष्णाभा सा क्रतौ मता ।।

सुप्रभा मोदकविधौ बहुरूपातिरूपिकाः ।। २४ ।।

पुष्पपत्रविधौ होमे वह्नेर्जिह्वाः प्रकीर्तिताः ।।

न वा संकल्पयेत्कुण्डे शूद्राकार विभेदतः ।। २५ ।।

इन्द्रकोष्ठं मस्तकं स्यादीशाग्नेये च मस्तके ।।

तत्काष्ठपार्श्वे द्वे नेत्रे द्वौ करौ च पदक्रमात् ।। २६ ।।

अविशिष्टं भवेत्पुच्छं मध्ये चोदरसम्भवम् ।।

उदरे होमयेत्पुष्टिमन्नं पायसकं च यत् ।। २७ ।।

हुत्वा व्रीहिगणं तत्र कर्णे पुष्पाहुतिं हुनेत् ।।

वामकर्णे वामनेत्रे हुनेदब्जादिकं बुधः ।। २८ ।।

श्रवणे चैव नेत्रे च दक्षिणे चेक्षुखंडकम् ।।

वामपादे वामकरे अभिचारेषु शस्यते ।। २९ ।।

मारणे पुष्पदेशे तु न चान्यं होमयेत्क्वचित् ।।

विपत्करं विजानीयाद्ध्वनिः सर्वविनाशकृत् ।। 2.1.15.३० ।।

चन्दनागरुकर्पूरपाटलायूथिकानिभः ।।

पावकस्य सुतो गंधः समंतात्सुमहोदयः ।। ३१ ।।

प्रदक्षिणस्त्यक्तकल्पा छत्राका शिथिला शिखा ।।

शुभदा यजमानस्य राज्यस्यापि विशेषतः ।। ३२ ।।

छिन्नवृत्ताः शिखाः कुर्यान्मृत्युर्धनपरिक्षयः ।।

निर्वाप्यं मरणं विद्यान्महाधूमाकुलेऽपि च ।। ३३ ।।

एवंविधेषु दोषेषु प्रायश्चित्तं समाचरेत् ।।

अष्टाविंशाहुतीस्त्यक्त्वा ब्राह्मणान्भोजयेत्ततः ।। ३४ ।।

मूलेनाज्येन जुहुयाज्जुहुयात्पञ्चविंशतिम् ।।

महास्नानं प्रकर्तव्यं त्रिकालं हरिपूजनम् ।। ।। ३५ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे पञ्चदशोऽध्यायः ।। १५ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 16

यज्ञान्तपूजाविधिवर्णनम्

।। सूत् उवाच ।। ।।

नित्यं नैमित्तिकं चैव यागादौ च समाप्तके ।।

होमावसाने प्रजपेदुपचारांश्च षोडश ।। १ ।।

दद्यात्समीरणं पश्चात्पीठपूजां समाचरत् ।।

गृहीत्वा रक्तपुष्पं च ध्यायेद्वह्निं यथाविधि ।। २ ।।

इष्टं शक्तिस्वस्तिकाभीतिमुच्चैर्दीर्घैर्दोर्भिर्धारयन्तं वरांतम् ।।

हेमाकल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वह्निं बद्धमौलिं जटाभिः ।। ।। ३ ।।

पूर्वादिद्वारदेशेषु कामदेवं शतक्रतुम् ।।

वराहं षण्मुखं चैव गंधाद्यैः साधु पूजयेत् ।। ४ ।।

आवाह्य स्थापयेत्पश्चादष्टौ मुद्राः प्रदर्शयेत् ।।

दत्त्वासनं स्वागतं च दद्यात्पाद्यादिकत्रयम् ।। ५ ।।

अतः पूर्वादिपात्रेषु यावता च हुताशनम् ।।

सुवर्णवर्णममलं समिद्धं सर्वतोमुखम् ।। ६ ।।

महोदरं महाजिह्वमाकाशत्वेन पूजयेत् ।।

तारकादीन्समाप्ते च गन्धैः पुष्पैः पृथग्विधैः ।। ७ ।।

तत्रैव जिह्वास्त्रिविधा ध्यायेन्मंत्रपुरःसराः ।।

वक्ष्यमाणेन मंत्रेण उपचारैरनंतरम् ।। ८ ।।

त्वमादिः सर्वभूतानां संसारार्णवतारकः ।।

परमज्योतीरूपस्त्वमासनं सफली कुरु ।। ९ ।।

दद्यादासनमेतेन पुष्पगुच्छत्रयेण तु ।।

पुटांजलिं ततो बद्ध्वा पृच्छेत्कुशलपूर्वकम् ।। 2.1.16.१० ।।

वैश्वानर नमस्तेऽस्तु नमस्ते हव्यवाहन ।।

स्वागतं तु सुरश्रेष्ठ शांतिं कुरु नमोऽस्तु ते ।। ११ ।।

नमस्ते भगवन्देव आपोनारायणात्मक ।।

सर्वलोकहितार्थाय पाद्यं च प्रतिगृह्यताम्।। १२ ।।

नारायणपरं धाम ज्योतीरूप सनातन ।।

गृहाणार्घ्यं मया दत्तं विश्वरूप नमोऽस्तु ते ।। १३ ।।

जगदादित्यरूपेण प्रकाशयति यः सदा ।।

तस्मै प्रकाशरू पाय नमस्ते जातवेदसे ।। १४ ।।

धनंजय नमस्तेऽस्तु सर्वपापप्रणाशन ।।

स्नानीयं ते मया दत्तं सर्वकामार्थसिद्धये ।। १५ ।।

हुताशन महाबाहो देवदेव सनातन ।।

शरणं ते प्रयच्छामि देहि मे परमं पदम् ।। १६ ।।

ज्योतिषां ज्योतीरूपस्त्वमनादिनिधनाच्युत ।।

मया दत्तमलंकारमलंकुरु नमोस्तु ते ।। १७ ।।

देवीदेवा मुदं यांति यस्य सम्यक्समागमात् ।।

सर्वदोषोपशांत्यर्थ गन्धोऽयं प्रतिगृह्यताम् ।। १८ ।।

त्वं विष्णुस्त्वं हि ब्रह्मा च ज्योतिषां गतिरीश्वर ।।

गृहाण पुष्पं देवेश सानुलेपं जगद्भवेत् ।। १९ ।।

देवतानां पितॄणां च सुखमेकं सनातनम् ।।

धूपोऽयं देवदेवेश गृह्यतां मे धनंजय ।। 2.1.16.२० ।।

त्वमेकः सर्वभूतेषु स्थावरेषु चरेषु च ।।

परमात्मा पराकारः प्रदीपः प्रतिगृह्यताम् ।। २१ ।।

नमोऽस्तु यज्ञपतये प्रभवे जातवेदसे ।।

सर्वलोकहितार्थाय नैवेद्यं प्रतिगृह्यताम् ।। २२ ।।

हुताशन नमस्तुभ्यं नमस्ते रुक्मवाहन ।।

लोकनाथ नमस्तेऽस्तु नमस्ते जातवेदसे ।। २३ ।।

इत्यनेन तु मन्त्रेण दद्याद्दिव्येऽप्यधीतकम् ।।

सर्वस्वं यज्ञसूत्रं च परमान्नं समाक्षिकम् ।।२४।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे षोडशोऽध्यायः ।। १६ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 17

अग्निवर्णनम्

।। सूत उवाच ।। ।।

यज्ञभेदं त्रिभेदं च वक्ष्ये शास्त्रमतं यथा ।।

यथावेदानुसारेण यथाग्रहण योजनम् ।। १ ।।

शतार्धे वह्निरुद्दिष्टः शतार्धे काश्यपः स्मृतः ।।

घृतप्रदीपके विष्णुस्तिलयागे वनस्पतिः ।। २ ।।

सहस्रे ब्राह्मणो नाम अयुते हरिरुच्यते ।।

लक्षहोमे तु वह्निः स्यात्कोटिहोमे हुताशनः ।।३।।

वरुणः शांतिके ज्ञेयो मारणे ह्यरुणः स्मृतः ।।

नित्यहोमेऽनलो नाम प्रायश्चित्ते हुताशनः ।। ४ ।।

लोहितश्चान्नयज्ञे यो ग्रहाणां प्रत्यनुक्रमात् ।।

देवप्रतिष्ठायागे तु लोहितः परिकीर्तितः ।। ५ ।।

प्रजापतिर्वास्तुयागे मंडपे चापि पद्मके ।।

प्रपायां चैव नागाख्यो महादाने हविर्भुजः ।।६।।

गोदाने च भवेद्रुद्रः कन्यादाने तु गोऽजकः ।।

तुलापुरुषदाने च धाताग्निः परिकीर्तितः ।। ७ ।।

वृषोत्सर्गे भवेत्सूर्योऽवसानांते रविः स्मृतः ।।

पावको वैश्वदेवे च दीक्षापक्षे जनार्दनः ।। ८ ।।

त्रासने च भवेत्कालः क्रव्यादः शरदाहने ।।

पर्णदाहे यमो नाम ह्यस्थिदाहे शिखंडिकः ।। ९ ।।

गर्भाधाने च मरुतः सीमंते पिंगलः स्मृतः ।।

पुंसवे त्विंद्र आख्यातः प्रशस्तो यागकर्मणि ।। 2.1.17.१० ।।

नामसंस्थापने चैवमुपन्यस्ते च पार्थिवः ।।

निष्क्रमे हाटकश्चैव प्राशने च शुचिस्तथा ।। ११ ।।

षडाननश्च चूडायां व्रतादेशे समुद्भवः ।।

वीतिहोत्रश्चोपनये समावर्ते धनंजयः ।। १२ ।।

उदरे जठराग्निश्च समुद्रे वडवानलः ।।

शिखायां च विभुर्ज्ञेयः स्वरस्याग्निः सरीसृपः ।। १३ ।।

अश्वाग्निर्मंथरो नाम रथाग्निर्जातवेदसः ।।

गजाग्निर्मंदरश्चैव सूर्याग्निर्विंध्यसंज्ञकः ।। १४ ।।

तोयाग्निर्वरुणोनाम ब्राह्मणाग्निर्हविर्भुजः ।।

पर्वताग्निः क्रतुभुजो दावाग्निः सूर्य उच्यते ।। १५ ।।

दीपाग्निः पावको नाम गृह्याग्निर्धरणीपतिः ।।

घृताग्निश्च नलो वायुः सूतिकाग्निश्च राक्षसः ।। १६ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागेऽग्निनामवर्णनंनाम सप्तदशोऽध्यायः ।। १७ ।।।छ।।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 18

होमद्रव्यकथनम्

।। सूत उवाच ।। ।।

अथातो होमद्रव्याणां प्रमाणमभिधीयते ।।

प्रमाणे चाप्रमाणे च निष्फलं भवति धुवम् ।।१।।

कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ।।

तत्समं पञ्चगव्यं च दधि दुग्धं तथा मधु ।। २ ।।

मुष्टिमानेन पृथुका लाजाः स्युर्मुष्टिसंमिताः ।।

शर्करा मुष्टिमात्रा च शर्करातोलकं विदुः ।। ३ ।।

त्रितोलकं गुडं विद्यादिक्षुपर्ववि धिर्भवेत् ।।

एकैकं पत्रपुष्पाणि शालूकस्य त्रिमुष्टिकम् ।।४।।

एकलग्ने न जुहुयान्न पृथग्जुहुयात्क्वचित् ।।

सवृंतकं जपापुष्पं केशरं तत्सवृंतकम् ।। ।। ५ ।।

एकैकशश्च पद्मानां जलजानां तथैव च ।।

जीवंत्याः फलमानेन पिष्टकानां प्रसंख्यया ।। ६ ।।

वसंतकं धात्रिमाने मोदकस्य प्रमाणतः ।।

एकैकशः फलानां च मातुलिंगत्रिखेडकम् ।।७।।

अष्टधा नालिकेरस्य पनसं दशधा भवेत्।।

पद्मबीजप्रमाणेन कूष्मांडं चाष्टधा भवेत् ।।८।।

उर्वारुकं चाष्टधा च गुडूची चतुरंगुलम् ।।

पूगमानं च मांसस्य सगुडं तत्र दृश्यते ।।९।।

अन्यत्र बदरीमानं तिंदुकं च त्रिधा कृतम् ।।

काष्ठं प्रादेशमात्रं स्याद्दूर्वा याश्च त्रिपत्रकम् ।। 2.1.18.१० ।।

भूर्जपत्रं च गृह्णीयाच्छमीं प्रादेशमात्रिकाम् ।।

व्रीहयो मुष्टिमात्राः स्युः शुक्तिमानेन सर्षपाः ।। ११ ।।

मरिचाः स्युर्विमा नेन मृणालं चाथ मूलकम् ।।

सप्तखंडं च वार्ताकं त्रिपुष्टं च त्रिधोदितम् ।।१२।।

चंदनागुरुकर्पूरकस्तूरीकुंकुमानि च ।।

तित्तिडीबीजमानेन समुद्दि ष्टानि देशिकैः ।। १३ ।।

समिदाप्लवने त्र्यंगतिलानामपि मध्यतः।।

दशकं प्लावनेनैव सहस्राणां शतं विना ।। १४ ।।

एवं व्रीहिप्लावने च काष्ठवदि क्षुदंडकम् ।।

प्रोक्षणं मृदुपुष्पाणां लतादीनां तथैव च ।। १५ ।।

पायसान्ने तथान्ने च मोदके पिष्टकेऽपि च ।।

शाल्यासक्तेन जुहुयाद्व्यत्यये व्यत्ययं फलम् ।। १६ ।।

बिल्वपत्रस्य प्लवनं दंडं हित्वा च प्लावयेत् ।।

वृंतसंप्लावनादेव फलं हरति राक्षसः ।। १७ ।।

बिल्वपत्रस्य पूर्वार्धप्राप्तमात्रेण योज येत् ।।

पत्रत्रयं तथा होमे छिन्नेभिन्नेऽतिदूषणम् ।। १८ ।।

न द्वित्रिप्लवनं कुर्यात्कृत्वा याति रसातलम् ।।

तस्माच्च पुत्रशिष्याद्यैर्ब्राह्मणैस्तत्त्वकोविदैः ।। १९ ।।

पूर्वाशाभिमुखो भूत्वा पावयेच्च यथाक्रमात् ।।

न न्यूनं नाधिकं कुर्याच्छांतिपक्ष उदङ्मुखः ।। 2.1.18.२० ।।

पायसान्यन्यदेवेषु यत्नेन परिव र्जयेत् ।।

न चाग्नौ दापयेद्यत्नादेतेभ्यः प्रतिपादयेत् ।।२१।।

कनिष्ठांगुलिमासाद्य प्रकुर्यात्पर्वभूषणम् ।।

गुणदोरकमानेन तावद्धोमगतिर्बुधाः ।।२२।।

अंगुलैर्द्वित्रिचतुरैः पत्रहोमाकृतिक्रमात् ।। २३ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागेष्टादशोऽध्यायः ।। १८ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 19

स्रुवदर्वीनिर्णयवर्णनम्

।। सूत उवाच ।। ।।

श्रीपर्णी शिंशपा क्षीरी बिल्वः खदिर एव च ।।

स्रुवे प्रशस्तास्तरवः सिद्धिदा यागकर्मणि ।। १ ।।

प्रतिष्ठायां प्रशस्तास्तु धात्रीखदिरकेशराः ।।

संस्कारे शशिभिन्नौ च धात्री धात्रा विनिर्मिता ।। २ ।।

संप्राशे यः स्रुवः प्रोक्तः संस्कारे यज्ञसाधने ।।

प्रतिष्ठायां तु कथितास्त दन्ये शास्त्रवेदिभिः ।। ३ ।।

स्रुवं स्रुचमथो वक्ष्ये यदधीनश्च जायते ।।

यज्ञे न सर्वकं धार्यमक्षरेण च व्यत्ययः ।। ४ ।।

तस्यादौ च स्रुवं वक्ष्ये यच्च मानं यदास्पदम् ।।

काष्ठं गृहीत्वा बिल्वस्य रिक्तादितिथिवर्जिते ।। ५ ।।

समुपोष्य च रचयेदामिषाणि न च स्मरेत् ।।

वर्जयेद्ग्राम्यधर्मं च निर्माणे स्रुक्स्रुवस्य वै ।। ६ ।।

काष्ठं गृहीत्वा विभजेद्भागांस्त्रिंशत्तथा पुनः ।।

विंशत्यंगुलमानं तु कुंडवेदिसमोदरम्।। ७।।

कटाहाकारनिम्नं च स्रुवं कुर्याद्विचक्षणः ।।

धात्रीफलसमाकारं स्वधानिम्नं सुशोभनम् ।। ८ ।।

वेदीं शूर्पाकृतिं कुर्यात्कुंडानि परिकल्पयेत् ।।

हंसवत्त्रिगुणा वापि हस्तेनाऽनुमुखं लिखेत् ।। ९ ।।

स्रुवं चतुर्विंशतिभिर्भागैश्च रचयेद्ध्रुवम् ।।

द्वित्रिंशं स्यात्कुंडमानमदैवे तस्य कीर्तितम् ।। 2.1.19.१० ।।

चतुर्भिरंगैरानाहं कर्षाद्यग्रं ततः स्रुवम् ।।

अंगद्वयेन विलिखेत्पंके मृगमदाकृतिम् ।।११।।

दंडमूलाश्रये दंडी भवेत्कंकणभूषितः ।।

सौवर्णस्य च ताम्रस्य कार्या दर्वी प्रमाणतः ।।१२।।

श्रैवर्णिकोद्भवं यच्च इंदुवृक्षसमुद्भवम्।।

क्षीरवृक्षसमुद्भूतं द्वादशांगुलसंमितम्।।१३।।

द्वयंगुलं मंडलं तस्य दर्वी सा यज्ञसाधने।।

चत्वारिंशत्तोलिकाभिरिति ताम्रमयस्य च।।१४।।

पंचांगुलं मंडलं च अष्टहस्तं च दंडकम्।।

अन्नादिपायसविधौ दर्वी यज्ञस्य साधने।।१५।।

दशतोलकमानेन सा च दर्वी उदाहृता ।।

आज्यसंशोधनार्थं तु सा तु ताम्रमयस्य च ।। १६ ।।

षोडशांगुलमानेन सर्वाभावे च पैप्पलीम् ।।

आज्य स्थालीं घृतमयीं मृन्मयीं च समाश्रयेत् ।। १७ ।।

अथ ताम्रमयी कार्या न च तां तत्र योजयेत् ।। १८ ।।

इति श्रीभविष्ये महापुराणे मध्यम पर्वणि प्रथमभागे स्रुवदर्वीनिर्णयो नामैकोनविंशोऽध्यायः ।। १९ ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 20

पूर्णविधिवर्णनम्

।। सूत उवाच ।। ।।

अथ पूर्णविधिं वक्ष्ये यथा चंद्रार्थवेदिनाम् ।।

यस्य सम्यगनुष्ठानात्संपूर्णं स्यादिति स्थितिः ।। १ ।।

होमपूर्तौ मोक्षकल्पः पूजांतेऽर्घ्यं विधीयते ।।

अथ तस्यामपूर्णायां हतश्रीर्यज्ञभ्रंशता ।। २।।

तस्मात्सर्वप्रयत्नेन स्रुवाधो विन्यसेच्चरुम्।।

पूर्णं दत्त्वा सवित्रेऽर्घ्यं ब्राह्मणान्भोजयेत्ततः।।३।।

गृहं प्रविश्य च ततः कुलपूजां समाचरेत्।।

सप्तते देहि मे पूर्णां पुनात्विति ऋचा क्रमात्।।४।।

नियोजयेत्प्रतिष्ठायां नित्यनैमित्तिके शृणु।।

पुनात्विति ऋचा पूर्णा प्रथमा परिकीर्तिता ।। ५ ।।

सप्ततेति द्वितीया स्याद्देहिमेति तृतीयिका ।।

पूर्णा दर्वी चतुर्थी स्यात्कुलेवस्थाप्य देशिकः ।। ६ ।।

उत्थाय दद्यात्पूर्णां तु नोपविश्य कदाचन ।।

कनकायां च जिह्वायां रक्तायां ग्रहयागके ।। ७ ।।

ग्रहहोमे शतांते च पूर्णा एका विधीयते ।।

सहस्रांते युगं दद्यादयुतांते युगद्वयम् ।। ८ ।।

सहस्रांते ददेदेकं पुष्पहोमे च सत्तमाः ।।

पूर्णा त्वेकसहस्रं तु दद्याद्यज्ञफलेप्सया ।। ९ ।।

मृदुपुष्पाकृतौ त्वेका केवले चेक्षुहोमके ।।

शतं द्वे च शते चैव गर्भाधानान्नप्राशने ।। 2.1.20.१० ।।

सीमंतोन्नयने चैव प्रायश्चित्ताकृतीषु च ।।

वैश्वदेवे च नित्ये च पूर्णा त्वेका विधीयते ।। ११ ।।

एवं स्रुचौ समौ कृत्वा उपर्युपरि विन्यसेत् ।।

यथा न व्ययते कृत्वा न कल्पयति यावता ।। १२ ।।

ऋषिछंदादिकं श्रुत्वा प्रतिमंत्रस्य सत्तमाः ।।

अन्यथाल्पाल्पकफलं तस्मात्संन्यस्य होमयेत् ।।१३।।

सप्ततेति ब्राह्मणस्य ऋषिः कौंडिन्य ईरितः ।।

जगती च भवेच्छंदो देवताग्निः प्रकीर्तितः ।। ।। १४ ।।

देहि मेति च मंत्रस्य प्रजापतिर्ऋषिः स्मृतः ।।

अनुष्टुप् च भवेच्छंदो देवतास्य प्रजापतिः ।। १५ ।।

पूर्णा दर्वीति मन्त्रस्य शतक्रतुर्ऋषिः स्मृतः ।।

छंदोनुष्टुप्समाख्यातं वह्निश्चैवात्र देवता ।। १६ ।।

पुनात्विति च मन्त्रस्य ऋषिः स्यात्पवनः स्मृतः ।।

छंदोऽपि जगती ख्यातं देवताग्निश्च कीर्तितः ।। १७ ।।

तुर्यपूर्णा यज्ञमध्ये नकुले द्विजसत्तमाः ।।

न चाशिषं यज्ञमध्ये अभिषेकं च तर्पणम् ।। १८ ।।

ऋत्विक्छंदः स्पृशन्सम्यग्दक्षिणांगमथापि वा ।।

यजमानः सपत्नीको महोत्सवपुरःसरम् ।। १९ ।।

विश्वामित्रोऽयुतं तत्र होमं कुर्याद्विचक्षणः ।।

लवली बदरी शस्तं पिचुमंदकच्छत्रकम् ।। 2.1.20.२० ।।

नागरंगं धातकीं च पूर्णायां च विवर्जयेत् ।।

जप्यहानिरसंख्याते होमभ्रंशश्च जायते ।। २१ ।।

तस्मात्प्रागेव सतिलान्गणित्वा स्थापयेत्पृथक् ।।

युगपद्गणयेद्वाथ न चांगेन कदाचन ।।२२।।

धातक्याश्च फलैः संख्या कर्तव्या फलमिच्छता ।।

बदर्याश्च लवल्याश्च फलैः सर्वार्थसिद्धये ।। २३ ।।

नागरंगफलैरेव धातक्या बकुलैः फलैः ।।

यज्ञहानिकरं यस्मात्तस्मात्तत्परिवर्जयेत् ।। २४ ।।

कर्पूरचंदनैः कुर्याद्धोलिकां यज्ञसिद्धये ।।

गंगामृत्तिकया युक्तः शुनिकामथ वा द्विजाः ।। २५ ।।

रक्तगुंजाफलैः संख्यां पुष्टिकामेषु योजयेत् ।।

वातार्धे च शते चैव सहस्रे च तथैव हि ।। २६ ।।

होता स्यादयुतेनापि एकाहे वेदसंख्यया ।।

ऋणसाध्ये भवेद्धोता त्रय एव द्विजोत्तमाः ।। २७ ।।

लक्षहोमे तु होतारः षडेव परिकीर्तिताः ।।

कोटिहोमे तु विप्राः स्युः प्रशस्ताः पंक्तिसंख्यया ।। २८ ।।

नव पंच दशदशकं पंचविंशमथापि वा ।।

कामक्रोध विहीनाः स्युर्ऋत्विजः शांतचेतसः ।। २९ ।।

नवग्रहमखे विप्राश्चत्वारो वेदवेदिनः ।।

अथवा ऋत्विजौ शांतौ द्वावेव परिकीर्तितौ ।।2.1.20.३०।।

कार्यावयुतहोमे तु न प्रसज्येत विस्तरे ।।

तद्वत्सदशधा चाष्टौ नवहोमे तु ऋत्विजः ।। ३१ ।।

कर्तव्याः शक्तितस्तद्वच्चत्वारोऽपि विमत्सराः ।।

तमेव पूजयेद्ब्रह्मा द्वौ वा त्रीन्वा यथाविधि ।। ३२ ।।

एकमप्यर्चयेद्ब्रह्मा सहस्रे त्वेकब्राह्मणम् ।।

दक्षिणाभिः प्रयत्नेन निर्वहेदल्पवित्तवान् ।। ३३ ।।

लक्षहोमस्तु कर्तव्यो यदा वित्तं भवेत्तदा ।।

यतः सर्वमवाप्नोति कुर्यात्कामविधानतः ।। ३४ ।।

पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः ।।

यावत्कल्पशतान्यष्टावंते मोक्षमवाप्नुयात् ।। ३५ ।।

अकामो यस्त्विमं कुर्याल्लक्षहोमं यथाविधि ।।

शतकाममवाप्नोति पदं चानंत्यमश्नुते ।। ३६ ।।

पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।।

भार्याथीं लभते भार्यां कुमारी च शुभं पतिम् ।। ३७ ।।

भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् ।।

यं यं कामयते कामं सर्वं प्राप्नोति पुष्कलम् ।। ३८ ।।

निष्कामः कुरुते यस्तु परं ब्रह्माधिगच्छति ।।

तस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयंभुवा ।। ३९ ।।

आचार्य एव होता स्याद्ब्राह्मणानामसंभवे ।।

न योजयेदेकमेव चायुते होमकर्मणि ।। 2.1.20.४० ।।

दर्भासनेऽतो न कुशे तृणे पत्त्रे त्वचेऽपि च ।।

पाषाणे मृत्तिकायां च न च वस्त्रासने क्वचित् ।। ४१ ।।

तत्र दारुमयं कुर्यादागमं भजते द्विजः ।।

दानं दद्याच्च होमांते पूर्णादौ च यथा भवेत् ।। ४२ ।।

द्विजसंस्कारकार्येषु पूर्णादौ चापि दक्षिणा ।।

मंत्रोपासनकार्येषु सोमयागाश्वमेधके ।। ४३ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे विंशोऽध्यायः ।। २० ।।

पर्व २ (मध्यमपर्व) · भागः १ — Adhyāya 21

मण्डलविधिवर्णनम्

।। सूत उवाच ।। ।।

अथातो मंडलं वक्ष्ये पुराणेषु यथोदितम् ।।

यदधीना भवेत्सिद्धिस्तस्मात्कुर्यात्समाहितः ।। १ ।।

देवाः पद्मासनस्थाश्च भविष्यंति वसंति च ।।

विनाब्जं नार्चयेद्देवीमर्चिते यक्षिणी हरेत् ।। २ ।।

अतो मंडलविच्छेदं यस्माद्दशगुणं भवेत् ।।

रजःसाध्ये शतगुणं केवले द्विगुणं फलम् ।। ३।।

त्रिशतं वंदने साध्ये सहस्रं च रजोऽष्टकम् ।।

रजोभिः षोडशैर्बिंबं शतंशतमनंतकम् ।। ४ ।।

यन्त्रे मणौ शालग्रामे प्रतिमायां विशेषतः ।।

महालये महायोनौ रक्तलिंगे च साधिकम् ।। ५ ।।

रजोयुक्तं लिखेद्यस्तु पूजाकार्ये विभूतये ।।

करणादिफलं यस्मात्तस्मात्तत्परिवर्जयेत् ।।६।।

चतुरस्रं नवं व्यूहं क्रौंचप्राणं चतु र्विधम् ।।

कामबीजं वज्रनाभं विघ्नराजं गजाह्वयम् ।। ७ ।।

पारिजातं चंद्रबिंबं सूर्यकांतं च शेखरम् ।।

शतपत्रं सहस्रारं नवनाभं च मुष्टिकम् ।। ।। ८ ।।

पंचाब्जं चैव मैनाकं कामराजं च पुष्करम् ।।

अष्टास्रं चैव श्रीबिंबं षडस्रं त्र्यस्रमेव तु ।।९।।

चत्वारिंशत्तथा पंचस्वाधिकं परिसंख्यया ।।

चतुरस्रं नवव्यूढं वैष्णवे यागकर्मणि ।। 2.1.21.१० ।।

प्रशस्तं चापि गोमेधे क्रौंचं घ्राणं चतुर्विधम् ।।

सुभद्रं चाश्वमेधे च नरमेधे नरासनम् ।। ११ ।।

सर्वत्र सर्वतोभद्रं चतुरस्रं सुभद्रकम् ।।

कामराजं तथा त्र्यस्रमष्टास्रं च षडस्रकम् ।।१२।।

शक्तानां कामपक्षे च पंचसिंहासनं महत् ।।

ध्यानाचले मेरुपृष्ठं मणिमुक्ताचलेष्वपि ।। १३ ।।

सहस्रं शतपत्रं च अन्नदाने तिलाचले ।।

हरिवल्लभं राजसूये सोमयागेषु शस्यते ।। १४ ।।

प्रतिष्ठायां सुभद्रं च सर्वतोभद्रमेव च ।।

जलाशयप्रतिष्ठायां विघ्नराजं प्रशस्यते ।। १५ ।।

घटप्रस्थापने चैव गजाह्वं तुरगासनम् ।।

शतपत्रं लक्षहोमे अयुते चतुरस्रकम् ।। १६ ।।

यस्य यज्ञस्य यद्बिंबं तत्तु तेनैव योजयेत् ।।

इतोऽन्यथा भवेद्दोषो विपरीतेष्वधोगतिः ।। १७ ।।

द्विहस्ता चतुरस्रा च वेदिका परिकीर्तिता ।।

चतुरंगुलोच्छ्रायमिता षडंगुला ह्यथापि वा ।।१८।।

षडंगुला नवव्यूहे वर्धयेद्यज्ञकोविदः ।।

एकांगुलसमुत्सेधः कर्तव्यस्सुसमाहितैः।। ।।। १९ ।।

क्रौंचप्राणे तुर्यहस्तं मुष्टिहस्तं समुच्छ्रितम् ।।

मध्यद्वये हीनकरं कनिष्ठं त्र्यंगुलाधिकम् ।। 2.1.21.२० ।।

कुर्याद्द्वित्रिक्रमाद्धीनमुच्छ्राये द्विजसत्तमाः ।।

पारिजातं चंद्रबिंबं सूर्यकांतं च शेखरम् ।। २१ ।।

ग्रहाणां पौष्टिके पक्षे बाह्यग्रामादिसाधने ।।

नियोजयेत्तत्रतत्र वेदिकाचक्रकत्रयम् ।। २२ ।।

प्रथमे मुष्टिहस्तः स्यात्संपूर्णे शेषमानकैः ।।

नवलाभे च पंचाब्जं करत्रयमुदाहृतम् ।। २३ ।।

शेषा चैव वरिष्ठा च लवली भित्ति वेदिका ।।

विज्ञेया द्विजशार्दूला यथाकाम्येषु योजयेत् ।। २४ ।।

अयथाव्यत्यये दोषस्तस्माद्यत्नेन साधयेत् ।।

दशहस्ते चाष्टहस्ते अष्टहस्ते च षोडशम् ।।२५।।

मुष्टिबाहुञ्च प्रादेशं वर्धयेत्षोडशांशके ।।

हस्तोत्सेधं च कर्तव्यं हीने हीनं च ह्रासयेत् ।। २६ ।।

दर्पणाकारकं कुर्याद्यागके शांति कर्मणि ।।

हीनं कुर्यात्प्रयत्नेन वप्राकारं परिस्तवे ।। २७ ।।

निशारणैर्गोमयैश्च वेदिकां च प्रलेपयेत् ।।

स्वर्णरत्नमयैस्तोयैरभिषिच्य कुशोदकैः ।। ।। २८ ।।

हीनवीर्यगवानां च पुरीषं धेनुकं तथा ।।

कपिलायाश्च यत्नेन कुंडमंडललेपने ।। २९ ।।

वर्जयेत्सर्वयागेषु स्थंडिलेषु प्रयत्नतः ।।

विना सूत्रैः कीलके न मंडले नैव सूत्रयेत् ।। 2.1.21.३० ।।

तस्मात्प्रयत्नतः कार्यं यत्सूत्रं यच्च कीलकम् ।।

अर्कहस्तमितं सूत्रं मृदु लाक्षामयं तथा ।। ३१ ।।

पीतकार्यस्रजं चैव कीलकं स्वर्णनिर्मितम् ।।

रौप्यताम्रमयं कुर्याद्वैष्णवे यागकर्मणि ।। ३२ ।।

गणनायके सुप्रशस्तं शैषेपामार्गमेव च ।।

ग्रहपक्षे तथेशस्य कच्छपस्य द्विजोत्तमाः ।। ३३ ।।

षोडशे चार्कहस्ते च तत्र नेमियुतं भवेत् ।। ३४ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथम भागे एकविंशतितमोऽध्यायः ।। २१ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 1

मण्डलदेवरचनावर्णनम्

।। सूत उवाच ।। ।।

अथोद्धारं प्रवक्ष्यामि चतुरस्रादिकस्य च ।।

अर्कांगुलमितं क्षेत्रं चतुरस्रं प्रकल्पयेत्।।१।।

गुणांगुलं प्रतिदिशं वर्धयेत्सुविचक्षणः ।।

चतुरस्रं समं कुयादिष्टेरष्टादशांगुलम् ।। २ ।।

द्विहस्ते चैव सूत्राग्रे त्र्यंगुलानि समंततः ।।

चतुरस्रीकृते पश्चाद्द्विहस्तमपि जायते ।। ३ ।।

एवं पोडशहस्तांतं वर्धयेत्क्रमतः स्वयम् ।।

हस्ते विनिर्णयं विप्रा रचयेन्मंडल सुधीः ।। ४ ।।

द्वादशांगुलकल्पाभ्यां मधुहस्ते च मंडले ।।

द्विहस्ते हस्तमात्रं स्याद्द्विहस्तं तु चतुष्करे ।। ५ ।।

पद्ममानं चतुर्द्धा तु वृत्तं कुर्यात्समंततः ।।

प्रथमे कर्णिका कार्य्या केशराणि द्वितीयके ।। ६ ।।

तृतीये दलसंधींश्च दलाग्राणि चतुर्थके ।।

कर्णिकां पीतवर्णेन शुद्धेन पंकजं लिखेत् ।।७।।

केशरास्त्रिविधाः प्रोक्ता मूलमध्याग्रदेशतः ।।

मूले शुक्लारुणा मध्ये पीताश्चाग्रे प्रतिष्ठिताः ।। ८ ।।

पात्रसंधिर्भवेच्छ्यामः कोणे रक्तेन रंजयेत् ।।

देवास्त्राणि लिखेद्बाह्ये पुरमध्ये च कोणके ।। ९ ।।

अष्टांगुलप्रमाणं यद्यथावर्णं विनादितः ।।

शंभुर्गौरी तथा ब्रह्मा रामकृष्णेत्यनुक्रमात् ।। 2.2.1.१० ।।

सीमरेखांगुलोच्छ्रायं तत्तदर्धेन योजयेत् ।।

शिवविष्ण्वोर्महायागे शंभुमारभ्य दापयेत् ।। ११ ।।

प्रतिष्ठायां च रामांतं कृष्णांतं च जलाशये ।।

दुर्गायागे च श्रीपक्षे ब्रह्मादीन्परिकल्पयेत् ।। १२ ।।

ग्रहयागे च पीतादीन्कुर्याच्च न तदन्यथा ।।

नवव्यूहमथो वक्ष्ये पुराणमतसम्मतम् ।। १३ ।।

सर्वं च पूर्ववत्कार्यं पंकजं सुलिखेत्सुधीः ।।

तावत्संख्याहरणयोर्वेष्टयेत्प्रक्रमादपि ।। १४ ।।

शुक्लारुणैस्तथा पीतैः पीतारुणसितैरपि ।।

पीतारुणसितैरेवं स्वभावे प्रतिभागके ।। १५ ।।

कलायंत्रं तदंते च गुह्यपत्रा ग्रकेण तु ।।

षोडशैर्विंशमाने तु सलिङ्गं चाष्टपत्रके ।।१६।।

एवं मंडलमंत्राणां वर्जयेत्परमार्थतः ।।

तद्वन्मूलेषु कोणेषु केशराणि प्रकल्पयेत्।।१७।।

दशदंडसमाकारं त्रिवर्णं प्रतिरंजितम् ।।

अरं दद्याद्दशाग्रे तु सर्वांगुलप्रमाणतः ।। १८ ।।

पीतेनारं च सर्वत्र तन्मध्ये शोणतुंडकम् ।।

नवव्यूहमिदं प्रोक्तं धर्मकामार्थदायकम् ।। १९ ।।

न शूद्रो मंडलं कुर्यान्न कुर्याद्ब्राह्मणब्रुवः ।।

कुर्याच्च संगमे तीर्थे देवतायतनेषु च ।। 2.2.1.२० ।।

लिखित्वा नार्चयेद्य स्तु अग्निकार्यविहीनकः ।।

अविद्धो जायते सोऽपि यतो जन्मनिजन्मनि ।। २१ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे प्रथमोऽध्यायः ।। १ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 2

क्रौञ्चमानवर्णनम्

।। सूत उवाच ।।

क्रौञ्चमानं प्रवक्ष्यामि यथावेदार्थवादिनाम् ।।

संमतं सर्वतंत्रेषु गोपनीयं प्रयत्नतः ।। १ ।।

आत्मनोऽरत्निमानेन द्विगुणं परिकल्पयेत् ।।

मध्ये वृद्ध्या तु तत्सूत्रं भ्रामयेत्कीलकोपरि ।। २ ।।

चतुष्टयं न्यसेद्वृत्तं मध्यमाधमभावतः।।

कर्णिका प्रथमे वृत्ते द्वितीये त्वथ केशरम् ।। ३ ।।

तृतीये पद्मपत्राणि चतुर्थे षोडशच्छदाः ।।

शोभोपशोभे कुर्याच्च चतुरस्रे समे शुभे ।। ४ ।।

तद्दक्षिणाग्रं सुलिखेत्पार्श्वयोः पक्षकद्वयम् ।।

तत्र पद्मयुगं कुर्यान्मध्ये चांगुलमंतरम्।।५।।

शुक्लं पीतं तथा रक्तं कृष्णं लोहितसन्निभम् ।।

संख्यातं ताम्रपर्णं च श्यामलं चाष्टकं रजः ।। ६ ।।

शुक्लं तंडुलचूर्णोत्थं पीतं तु निशया स्मृतम् ।।

रक्तं तु निशया योगाच्छंखचूर्णादिभावितम् ।। ७ ।।

कृष्णं पुलकादिदग्धं रक्तं पीतास्ययोगतः ।।

कुंकुमाभं पांडुरं च रक्तश्वेतैर्विनिर्मितम् ।। ८ ।।

ताम्रवर्णं कुसुंभेन श्यामलं बिल्वपत्रजम् ।।

यवगोधूमचूर्णादियोगेन तु रजः स्मृतम् ।। ९ ।।

सर्वरेखासु विभजेच्छुक्लं मध्ये तु पीतकम् ।।

कर्णिकायां केशरेषु शुभ्रमेव निपातयेत् ।। 2.2.2.१० ।।

पूर्वादिक्रमयोगेन शुक्लादीनि प्रयोज येत् ।।

पत्रसंधौ तु विभजेद्रजः सेकांतरक्रमात् ।।११।।

ततः षोडशपत्रेषु पूर्वादिक्रमतो भवेत् ।।

शुक्लं पीतं तथा ताम्रं ततः संख्यातमेव च ।।१२।।

श्यामलं कुंकुमाभं च रक्तं शुक्लं च कृष्णकम् ।।

पीतं ताम्रं च संख्यातं श्यामं कुंकुमरक्तकम् ।। १३।।

एवं दद्याद्द्विजः पूर्वे ईशानांतं विभावयेत् ।।

क्रौंचमूर्घ्नि भवेद्रक्तं चतुरंगुलमानतः।।१४।।

तुंडभागे भवेत्पीतं ग्रीवायां शुक्लमेव च ।।

पुच्छे विंशतिपत्राणि आदौ पंच रजःक्रमात् ।।१५।।

षडंगुलेष्वंडभागे पीतेन परिकल्पयेत् ।।

ग्रीवायां शुक्लरजसा भावितायां विशेषतः ।।१६।।

तत्र पीतादिकं लेख्यं पूर्वोक्तं च यथा भवेत् ।।

शुक्लादिकं प्रदद्यानु पात्रेष्वेकैकशः पृथक् ।। १७ ।।

चतुरंगुलके पादे जानोरूर्ध्वे तु पीतकम् ।।

अधस्तात्तु भवेद्रक्तं तदेव चतुरंगुलम् ।।१८।।

द्व्यंगुलेन भवेच्छ्याममंगुलीष्वपि विन्यसेत् ।।

एवं पक्षद्वयेनापि लिखेच्छुक्लं विभावयेत् ।। १९ ।।

पदे शुद्धं चांगुलीषु रक्तं श्यामेन भावयेत् ।।

पूर्वपश्चिमदिग्भागे शुक्लं स्याद्वारदेशतः ।।2.2.2.२०।।

दक्षिणोत्तरतश्चैव रक्तवर्णं विनिर्दिशेत् ।।

महाक्रौंचमिदं ज्ञेयं मध्यक्रौचमिदं शृणु ।। २१ ।।

कनिष्ठं सर्वयज्ञेषु विद्यानां सप्तमुत्तमम् ।।

अथापरं प्रवक्ष्यामि सर्वतंत्रमतं क्रमात् ।। २२ ।।

रक्तपीतं रक्तपीतैः कुर्यात्पुच्छचतुष्टयम् ।।

पूर्वादिक्रमयोगे तु पत्रांते धरणीतले ।। ।।२३।।

सुलिखेन्मूलसंलग्नं बहिष्कोणचतुष्टयम् ।।

कनिष्ठेऽष्टकुलं कुर्यात्पुच्छं कुर्याच्चतुर्विधम् ।।२४।।

त्रिवृत्तं वेष्टयेत्पश्चात्सितरक्तासितैः क्रमात् ।।

दृष्टं जन्मशतोद्भूतं पापं नाशयते धुवम् ।।२५।।

पीतं वा विलिखेद्विप्रा नश्यंति सकलापदः।।

अतश्चक्रं बहिश्चक्रं क्षेत्रे च प्रतिदर्शनम् ।।२६।।

तस्य कल्पशतोद्भूतं पापं नाशयते धुवम् ।।

मयूरं वृषभं चैव सिंहं क्रौंचं च वै कपिम् ।।२७।।

प्रमादाद्वा गृहे क्षेत्रे वृक्षाग्रे चापि भो द्विजाः ।।

उत्थाय वंदनं कुर्याद्ब्रह्महत्याशतं दहेत् ।। २८ ।।

पोषणात्कीर्तिमाप्नोति दर्शनात्पापविच्युतिः ।।

दर्शनाद्वर्धते लक्ष्मीरायुर्वृद्धिश्च जायते ।। २९ ।।

मयूरो ब्रह्मणो मूर्तिर्वृषभश्च सदाशिवः।। .

सिंहे च संभवेद्दुर्गा वैष्णवो विधिरुच्यते ।।2.2.2.३०।।

क्रौंचो नारायणो देवो व्याघ्रस्त्रिपुरसुंदरी ।।

कालिका कृष्णव्याघ्रश्च लक्ष्मीश्चित्रकपोतकः ।।३१।।

स्नातः पश्यति प्रत्यह्नि ग्रहदोषो न जायते ।।

तस्मात्प्रयत्नतो भूत्वा धारयेत्पोषयेद्गृहे ।। ३२ ।।

अतः परं प्रवक्ष्यामि मंडले मंडलेष्वपि ।।

रजोद्रव्यप्रमाणं च यथोक्तं यत्नवर्जनम् ।। ३३ ।।

तंडुलोत्थं यवोत्थं वा वर्ज्यं मकररोपणम् ।।

यद्बाल्यश्रावणे जातं हिंगुलं गंधकं तथा ।।३४।।

हरितालं सुभद्रं च सदा विघ्नं विवर्जयेत् ।।

हैमंतिकोद्भवं यच्च सितपाषाणमेव च ।।३५।।

कांचन्याश्च प्रभेदं यच्छस्तं शुक्लगुणं द्विजाः ।।

शेफालिवृत्तं निशया अतसीकुसुमानि च ।।३६।।

किंशुकस्य च पुष्पाणि शस्तं पीतं गुणं भवेत् ।।

नागजं गैरिकं चैव कुसुंभ कुसुमानि च ।।३७।।

कुशीतं गुडकं चैव मंजिष्ठां पंचरंगकम् ।।

विजयापत्रकं चैव बिल्वपत्रं तथैव च।।३८।।

पुनर्नवायाः पत्रं च केशरस्य बकस्य च।।

कृष्णपाषाणकं चैव कृष्णाभ्रं समयूथकम्।।३९।।

नागपाषाणकं चैव पुन्नागं दग्धपंचकम् ।।

शंखचूर्णं लोहविष्ठां नागविष्ठां च वर्जयेत्।।2.2.2.४०।।

कर्पूरं कुंकुमं चैव रोचनारोचनां श्रयेत् ।।

यवशालीयकैर्भिन्नं शुक्लं च कारयेत्सुधीः ।।४१।।

लाक्षां च यदि गृह्णीयात्तद्भर्जित्वा प्रदापयेत् ।।

आकाशं पृथिवीं चैव भौमं रामं तथा शनी ।।४२।।

धरणीं सदनस्थाने पञ्चधा विभजेद्बहिः ।।

पद्ममुल्लिख्य प्रथमं कर्णिकां तदनन्तरम् ।।४३।।

तर्जन्यमध्या पूर्वोत्थं विभजेद्वा समाहितः ।।

तर्जन्यंगुष्ठयोगैर्वा तृणमारभ्य यद्भवेत् ।। ४४ ।।

तृणमारभ्य सामान्ये शक्तो वा मध्यमादितः ।।

राक्षसादिप्रतिष्ठायां ग्रहपक्षेऽग्निमादितः ।। ४५ ।।

अंगुल्यग्रे च विभजेत्सर्वकामार्थसिद्धये ।।

प्रतिष्ठायां ग्रहमखे काम्येषु परिवर्जयेत् ।। ४६ ।।

सुभद्रं मण्डलं वक्ष्ये शुभदं शुभमादिशेत् ।।

अतः सुभद्रमुद्दिष्टं स्वर्गमोक्षप्रदायकम् ।। ४७ ।।

सार्धहस्तेन मानेन कुर्यान्मंण्डलमुत्तमम् ।।

चतुर्विशांगुलैः पूर्णं सर्वत्र हस्तमादिशेत् ।। ४८ ।।

कर्तुर्मध्यसहस्रस्य मध्यमा मध्यपर्वणि ।।

मध्यमा दीर्घमानेन मानांगुलमिति स्मृतम् ।। ४९ ।।

रेखाद्वयांतरं यच्च मूलरेखां न चाश्रयेत् ।।

वद्धांगुष्ठनखद्वंद्वं मानांगुलमथापि वा ।।2.2.2.५०।।

मध्ये निबध्य शंकुं च मुष्टिबाहुप्रमाणतः ।।

त्रिवृत्तं कारयेन्मध्ये ज्येष्ठोत्तरकनीयसम् ।। ५१ ।।

प्रकल्प्य कर्णिकादीनि मध्ये चाष्टदलं लिखेत् ।।

बहिश्चार्कदलं कुर्याद्वर्णानां क्रमकेण तु ।।५२।।

पंचमं श्वेतवर्णेन बहिः कुर्यात्त्रिवेष्टनम् ।।

सितपीतारुणं कुर्यात्पश्चाद्वेदांगुलांतरे ।। ५३ ।।

वेष्टयेच्छुक्लवर्णेन मध्ये कल्पलतां लिखेत् ।।

सुभद्रं मण्डलात्पूर्वं सर्वतोभद्रकं शृणु ।। ।। ५४ ।।

सर्वकार्येषु यज्ञेषु सर्वकल्याणमाप्नुयात् ।।

मंडलं सर्वतोभद्रं सर्वयज्ञेषु पुष्टिदम् ।। ५५ ।।

साधकानां हितार्थाय ईश्वरेणैव भाषितम् ।।

चतुर्विंशत्यंगुलेन हस्तः प्रथमतो भवेत् ।। ५६ ।।

कोणे सूत्रद्वयं दद्यान्मध्ये सूत्रद्वयं पुनः ।।

ततो मत्स्यान्विरचयेत्कर्णे सूत्राणि साधकः ।।५७।।

चतुः सूत्रं पातयेच्च पूर्वापरविभागतः ।।

पुनर्दद्याच्चतुःसूत्रं कर्णसूत्रं पुनर्ददेत् ।। ५८ ।।

शतद्वयपदं यावत्षट्पंचाशाधिकं तथा ।।

पातयेच्च तथा सूत्रमेवं सप्तदशं भवेत् ।। ५९ ।।

ऊर्ध्वपंक्त्या पदयुगं चाद्ये पदचतुष्टयम् ।।

द्वारपार्श्वे भवेद्यावद्दंतपंक्त्या पदत्रयम् ।। 2.2.2.६० ।।

रेखां सर्वत्र शुक्लेन रचयेद्यज्ञियोत्तमः ।।

पङ्कजं शुक्लवर्णेन वैष्णवो यागकर्मणि ।। ६१ ।।

शक्तियोगे भवेद्रक्तं शैवे पीतं विनिर्दिशेत् ।।

प्रतिष्ठासु च सर्वासु शुक्लमेव प्रशस्यते ।। ६२ ।।

पीतेन कर्णिका कार्या चतुर्भागेन मानतः ।।

शुभं चकोरावस्थाने तापयित्वा विचक्षणः ।। ६३ ।।

कर्णिकामूलमारभ्य रेखाः षोडश कल्पयेत् ।।

रेखामूले भवेच्छुक्लं मध्ये रक्तं निपातयेत् ।। ६४ ।।

अग्रे पीतं भवेदेवं कृत्वा पंकजवेष्टनम् ।।

शुभ्रवर्णेन तद्दद्यात्पीतवर्णेन सर्वतः ।। ६५ ।।

मध्ये रक्तं भवेत्तच्च एवं षोडशकल्पयेत् ।।

कोणेषु रक्तं दद्याच्च पद्मं क्षेत्रेषु निर्दिशेत् ।। ६६ ।।

शुक्लेन पीठगात्राणि पीठकोणे पदत्रये ।।

पीतवर्णेन रचयेद्द्विधा पंक्तिद्वये तथा ।। ६७ ।।

शुद्धेन रचयेत्पादौ पुनः पीतादिवर्णकैः।।

चित्रं सुशोभनं कार्यं तत्र कल्पलतां न्यसेत् ।। ।।६८।।

मानं कल्पलतायास्तु द्व्यङ्गुलं परिकीर्तितम् ।।

द्वेद्वे शस्तं च भ्रमणं शंखावर्तक्रमात्त्रयम् ।।६९।।

ग्रंथौग्रंथौ पुष्पफले नानावर्णेन भावयेत् ।।

नानापशुगणैर्युक्तं नानापक्षिगणैर्युतम् ।। 2.2.2.७० ।।

वैष्णवे गारुडं शस्तं शैवे कीशवृषं लिखेत् ।।

शाक्ते व्याघ्रं तथैशे च शरभं हरिमालिखेत् ।।७१।।

शोभां पीतेन रचयेदुपशोभां च पीतकैः ।।

कोणेषु कृष्णवर्णेन बहिः स्याद्वेष्टनत्रयम् ।। ७२ ।।

शुक्लपीतारुणैः कार्यं मण्डलं स्यान्मनोरमम् ।।

सर्वतोभद्रमपरं सर्वसिद्धिप्रदायकम् ।। ७३ ।।

सर्वज्ञानमयं शुद्धं धर्मकामार्थदायकम् ।।

चतुरस्रं समं कृत्वा दिग्भ्यो द्वादशधा द्विजाः ।। ७४ ।।

पातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम् ।।

चतुश्चत्वारिंशदाद्यं पश्चात्षट्त्रिंशदंबुजम् ।। ७५ ।।

कोष्ठं प्रकल्पयेत्पीठं पंक्त्या चैवात्र वीथिकाम् ।।

द्वारशोभे यथापूर्वमुपशोभं च दृश्यते ।। ७६ ।।

अवशिष्टैः पदैः कुर्यात्सद्भिस्तंत्राणि मन्त्रवित् ।।

विदध्यात्पूर्ववच्छेषमेवं वा मण्डलं भवेत् ।। ७७।।

पूर्वोक्तमण्डले विद्वन्धरणीसदनं बहिः ।।

मध्ये कल्पलता कार्या बहिष्कोणेषु सत्तमाः ।। ७८ ।।

गुलालीतूर्यवर्णेन महामत्त इति स्मृतः ।।

शोभोपशोभे शोभाग्रां कुर्याद्वै मण्डलं भवेत् ।। ७९ ।।

एतद्धि सर्वतोभद्रं राशियुक्तमतः परम् ।।

शतपत्रं वज्रनाभं बिंबनाभं सहस्रकम् ।। 2.2.2.८० ।।

गजाह्वं च गजाकारं मध्ये तु समलङ्कृतम् ।।

चतुश्चन्द्रे चन्द्रबिम्बश्चन्द्रकांतमुदाहृतम् ।। ८१ ।।

बहिर्द्वादशभिः सूर्यैः सूर्याक्रांतं प्रकीर्तितम् ।।

शेखरी त्रिपुटं चैव शतपत्रं च प्रक्रमात् ।। ८२ ।।

सहस्रमेव विप्रेन्द्राः पद्मान्ते यस्य स्वस्तिकम् ।।

स्वस्तिकं तद्भवेद्विप्राः पुष्करं वज्रसंमतम् ।। ८३ ।।

चिन्तामणिं कुंकुमांशं खातं च हरिवल्लभम् ।।

पञ्चसिंहासनस्थं च पञ्चसिंहासनं विदुः ।। ८४ ।।

तद्वद्वृषासनं ज्ञेयं शिखिरूपं शिखिध्वजम् ।।

नारसिंहं पद्मगर्भं कपोतास्यं तथा भवेत् ।। ८५ ।।

गारुडं मेरुगर्भं च नीलकण्ठं नराकृतिम् ।।

शतक्रतुगजारूढं श्रीबिंबनवसूत्रकम् ।। ८६ ।।

अष्टास्रमष्टकोणाद्यं बहिः पद्मवनं कृतम् ।।

कामद्वयेन पुटितं सहस्रं पद्मवेष्टितम् ।। ८७ ।।

त्र्यस्रगर्भं पङ्कजं च त्र्यस्रं तत्परिकीर्तितम् ।।

अष्ट पत्राणि वै मेरुं सुमेरुं तद्विपर्यये ।। ८८ ।।

महामहामेरुपृष्ठं शतत्रयच्छदैर्वृतम् ।।

छिद्रव्यक्तिं प्रवक्ष्यामि यथा मानेन भो द्विजाः ।। ८९ ।।

वसु ८ दिग् १० विंशकैश्चैव २० चत्वारिंशत् ४० शतार्धकम् ५० ।।

दंडिश्रवणसंपन्न ६० माकाशं वसुसंमितम् ।। 2.2.2.९० ।।

शतविंशाधिकं चैव १२० दलानि तदनन्तरम् ।।

शुक्लरक्तं चाष्टवणैर्बिंबोष्ठं परिपूरयेत् ।। ९१ ।।

शुक्लेन पङ्कजं तत्र पश्चात्कुर्यात्त्रिवेष्टनम् ।।

शतपत्रमथो वक्ष्ये बिम्बराजेति कथ्यते ।। ९२ ।।

स्थंडिले कुशहस्ते च पूर्ववद्वेष्टयेत्क्रमात् ।।

वसु ८ पञ्चकला १६ पञ्चविंशकं २५ तन्नपत्रकात् ।। ९३ ।।

चत्वारिंशत्ततः पश्चा ४० दष्टोत्तरशतं १०८ भवेत् ।।

शुक्लं शोणं तथा पीतं श्यामशुक्लैरनंतरम् ।। ९४ ।।

विलोमे दलसन्धीनि शाक्ते शैवे तु षट्पुरम् ।।

वेष्टयेत्पंचवर्णेन शुक्लादीनि समंततः ।। ९५ ।।

रक्तपीतैः समास्तीर्य कोणाञ्छुक्लेन पूरयेत् ।।

स्थंडिले तारहस्तेन अष्टहस्तं प्रकल्पयेत् ।। ९६ ।।

मंडलं बिंबराजस्य अष्टोत्तरदलैर्वृतम् ।।

वसुपञ्चशक्तिविंशच्चत्वारिंशच्छतार्द्धकम् ।। ९७ ।।

त्र्यृतुपत्रं सुवृत्तं स्याद्वृत्तयुक्तं सबिल्वकम् ।।

चत्वारिंशद्द्वयं चैव गगनेन समावृतम् ।। ९८ ।।

शतं विंशाधिकशतं द्विशतं विंशमुत्तमम् ।।

वेष्टनांसे च त्रिशतं प्रक्रमादथ वर्धयेत् ।। ९९ ।।

लवल्याभमथो वक्ष्ये सार्द्धहस्तप्रमाणतः ।।

नवविंशं कल्पयेत्तु चतुःसूत्राणि पातयेत् ।। 2.2.2.१०० ।।

दक्षिणोत्तरतश्चैव तद्वदेव विजानीहि ।।

पीतेन रेतपुःटिता मध्ये शुक्लं विभाव्यते ।। १०१ ।।

ग्रहपक्षेन्नपीतेन मध्ये रक्तं प्रतिष्ठितम् ।।

सर्वा रेखाश्च शुक्लेन पौष्टिके पीतमादिशेत् ।। १०२ ।।

सशांतिके न योक्तव्यं कामे रक्तं विनिर्दिशेत् ।।

मध्ये तु पङ्कजं रक्तं युग्मे सोमस्य पङ्कजम् ।। १०३ ।।

शुक्लवर्णेन तत्कुर्यात्पीतवर्णमुदस्य च ।।

ऐशान्यां चोत्तरे भागे गुरोः पीतं तु पङ्कजम् ।। १०४ ।।

पूर्वस्यां दिशि शुक्रस्य पङ्कजं शुभ्रवर्णकम् ।।

वारुणे तु शनैः कृष्णं नैर्ऋत्यां धूम्रवर्णकम् ।। १०५ ।।

राहोः प्रकल्पयेत्तच्च केतोरपि नियोजयेत् ।।

वायव्यां दिशि संयोज्य पङ्कजं विलिखेत्ततः ।। ।। १०६ ।।

विलोमे दलसन्धीनि पूरयत्सुविचक्षणः ।।

बहिः पञ्चरजैः कार्यं युवदुर्गविभूषितम् ।। १०७ ।।

पूर्वपश्चिमदिग्भागे शुक्लं स्याद्द्वारदेशतः ।।

दक्षिणोत्तरदिग्भागे रक्तमेव प्रशस्यते ।। १०८ ।।

त्रिस्थाने सममध्ये च द्वादशांगुलप्रक्रमात् ।।

द्विहस्तादावंगुलेन वर्द्धयेत्तद्विभागतः ।। ।। १०९ ।।

पञ्चाब्जमण्डलं ज्ञेयं चतुःस्वस्तिकभूषितम् ।। 2.2.2.११० ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे द्वितीयोऽध्यायः ।।२।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 3

मूल्यकथनवर्णनम्

।। सूत उवाच ।। ।।

न कुर्याद्दक्षिणाहीनं मानहीनं न कारयेत् ।।

अमानेन हतो यज्ञस्तस्मान्मानं प्रशस्यते ।। १ ।।

यस्य यज्ञस्य यन्मानं तत्तु तेनैव योजयेत् ।।

अमानेन कृते सर्वे व्रजेयुर्नरकं पुनः ।। २ ।।

आचार्यहोतृब्रह्माणो विधिज्ञः सहकर्तृकः ।।

यस्य यज्ञे पापकश्च जातिहीनः प्रवेशयेत् ।। ३ ।।

अशीतिभिर्वराटैश्च पण इत्यभिधीयते ।।

तैस्तु षोडशभिर्ज्ञेयं पुराणं सप्तभिस्तु तैः ।। ४ ।।

राजतैश्चाष्टभिः स्वर्णं यज्ञादौ दक्षिणा स्मृता ।।

महारामे द्विसौवर्णं कूपे स्वर्णार्धमेव च ।। ५ ।।

तुलस्यामलकीयागे सुवर्णैकं प्रचक्षते ।।

यकृल्लोके च सौवर्णं लक्षे स्वर्णं चतुष्टयम् ।। ६ ।।

नवमे कोटिहोमे च देवतानां च स्थापने ।।

प्रासादस्य समुत्सर्गे अष्टादश सुवर्णकाः ।। ७ ।।

तडागे पुष्करिण्यां च अर्धार्धं परि कीर्तितम् ।।

महादाने च दीक्षायां वृषोत्सर्गे च सत्तमाः ।। ८ ।।

जीवतश्च वृषोत्सर्गे गयाश्राद्धे तथैव च ।।

अवित्तसाध्यमानेन यज्ञं कुर्यात्कलौयुगे ।। ९ ।।

दंपत्योश्च वृषोत्सर्गे मानमेकमुदाहृतम् ।।

बहुभिः कियमाणोपि याग एको महोत्तमैः ।। 2.2.3.१० ।।

राज्ञः करग्रहे चैव दीक्षायां दान कर्मणि ।।

अशीतिरत्तिकं स्वर्णं श्रवणे भारतस्य च ।। ११ ।।

ग्रहयागे प्रतिष्ठायां सुवर्णशतरत्तिकः ।।

लक्षहोमे चायुते च कोट्यामेव विधीयते ।। ।। १२ ।।

देवानां ब्राह्मणानां च दानं यस्य प्रकल्पितम् ।।

तस्यैव देयं तद्दानं सांगोपांगं सदक्षिणम् ।। १३ ।।

नानास्य किञ्चिद्दातव्यं संगभंगो भवेद्यतः ।।

गृही तु कृत्वा यद्दानं तदा तस्य ऋणी भवेत् ।। १४ ।।

यज्ञेषु होमे यद्द्रव्यं काष्ठमाज्यादिकं च यत् ।।

तन्नायकस्य पूजायां द्रव्यमाहुर्विनिर्मितम् ।। १५ ।।

अनादिदेवतार्चायां पूजास्नानादिकर्मणि ।।

यस्यार्हणादिकं द्रव्यं तस्य देवस्य तद्भवेत् ।। १६ ।।

प्रत्यक्षं दक्षिणां दद्याद्यज्ञदानव्रतादिके ।।

अदक्षिणं नैव कार्यं प्रकुर्याद्भूरिदक्षिणम् ।। १७ ।।

अतो दत्तं पुरा दत्तं दातव्यं चैव संप्रति ।।

परस्वोदारबुद्धीनां सा सा हि दक्षिणा भवेत् ।। १८ ।।

दत्तानि विधिवत्पुंसां देवदानानि यानि हि ।।

दासीदासगवादीनि मनसा यानि कर्हि चित् ।। १९ ।।

दातव्यान्यपि तान्येव कारयेत्परिवर्त्तनम् ।।

एकस्यानेकदानं च ददेत्कश्चित्पृथक्पृथक् ।। 2.2.3.२० ।।

वरणं च कदा कुर्यात्तन्त्रे कुर्याच्च दक्षिणाम् ।।

रत्नस्य दक्षिणा देया कांचनं समुदाहृतम् ।। २१ ।।

कांचनस्य भवेद्रौप्यं रौप्ये कांचनमुद्विशेत् ।।

भूमेर्भूमिर्दक्षिणा स्याद्वस्त्रस्य वस्त्रदक्षिणा ।। २२ ।।

पानीयस्य तु पानीयं व्रीहीणां व्रीहिदक्षिणा ।।

गजस्य दक्षिणा छागो ह्यश्वस्य मेष ईरितः ।। ।।२३।।

पशूनां च चतुष्पादा देवस्य देवदक्षिणा ।।

यज्ञो मानस्य षड्भागो द्विगुणः परिकीर्तितः ।। २४ ।।

आचार्यस्यैव भागैकं यजमानः प्रदास्यति ।।

पापकैस्तु कलत्राणां भागैकं तदनंतरम् ।। २५ ।।

पात्राणामृत्विगादीनां भागत्रयमुदाहृतम् ।।

सर्वसत्त्वस्य भागैकं स्वल्पं चेच्छिष्टगौरवात् ।।२६।ः

आचार्याद्यंशतः कश्चित्क्षीणवित्तं समाहरेत् ।।

अमूल्यं वर्गमूल्यं यद्भवेद्वै दक्षिणोत्तमा ।। २७ ।।

मानाशक्तौ तु यज्ञानां यद्देयं यज्ञसिद्धये ।।

देवता पुस्तकं रत्नं गावो धान्यं तिलास्तथा ।।२८।।

नमेरुफलपुष्पाणि देयान्येतानि सर्वतः ।।

चतुश्चक्रांकितो यस्तु सांद्रो वृत्तो जनार्दनः ।।२९।।

देवताप्रतिमाद्यं च शिरोनाभिस्तथैव च ।।

श्वेतलिंगं रत्नलिंगमिन्द्रनीलादिकं च यत् ।।2.2.3.३०।।

दक्षिणावर्तशंखं च हरिवंशस्तथा खिलः ।।

कपिलो नीलवृषभः सोमधान्यं तथैव च ।। ३१ ।।

अमूल्यान्याहुरेतानि दत्त्वानन्तफलानि च ।।

स्वर्णपादो भवेन्मूल्यं शालग्रामस्य दक्षिणा ।। ३२ ।।

क्षुद्रलिंगे स्वर्णमूल्यं पादार्धं श्रीधरेपि च ।।

अनन्तोनन्तमित्युक्तं पादार्धं बाणलिङ्गके ।। ३३ ।।

यथा पुस्तकमात्रेण स्वर्ण पादार्धमिष्यते ।।

ज्योतिषेर्धं सुवर्णस्य रजतार्धं वृषे तथा ।। ३४ ।।

हरिवंशे श्लोकशते स्वर्णमेकं प्रकीर्तितम् ।।

धर्मशास्त्रस्य साहस्रे रजतत्रयमीरितम्।। ३५ ।।

कपिलायां सुवर्णार्धं धेनुमात्रे पुराणकम् ।।

प्रायश्चित्तविधौ ज्ञेयं धेनुमात्रं पुराणकम् ।। ३६ ।।

पुराणत्रितयं चान्ये वीर्यहीने द्वयं भवेत् ।।

कृष्णे वृषे षट्पुराणं श्वेते नवपुराणकम् ।।३७।।

द्वात्रिंशच्च पुराणं स्याद्वृषे नीले तथैव च ।।

नमेरोः प्रतिचक्रे च द्वादश स्वर्णरत्तिकाः ।। ।। ३८ ।।

मूल्यं श्रीफलमात्रेऽपि पुराणत्रितयं भवेत् ।।

पङ्क्त्यापि तुर्यकं विवात्कलौ पणव्यवस्थया ।। ३९ ।।

धात्रीफलस्य प्रत्येकं भवेद्रजतमा षकम् ।।

एतान्याहुः प्रशस्तानि मूलयोगे परं विदुः ।। 2.2.3.४० ।। ।।

इति श्रीभविष्पे महापुराणे मध्यमपर्वणि द्वितीयभागे मूल्यकथने तृतीयोऽ ध्यायः ।। ३ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 4

मूल्यदानवर्णनम्

।। सूत उवाच ।। ।।

पूर्णपात्रमथो वक्ष्ये यज्ञे साधारणेऽपि च ।।

कामहोमे भवेन्मुष्टिर्मुष्टयोष्टौ तु कुञ्चिका ।। १ ।।

एकैक कुञ्चिमानेन कुर्यात्पात्राणि वै सदा ।।

पात्राणि च पृथक्कृत्वा स्थापयेद्द्वारदेशतः ।। २ ।।

सिद्धानां खड्गधाराणां प्रत्येकस्य दिनक्रमात् ।।

तत्रैव दद्या न्नान्यत्र न कुर्याद्व्यत्ययं क्वचित् ।। ३ ।।

कुण्डानां कुड्मलानां च वेदनं यादृशं शृणु ।।

चतुरस्रपदस्यापि रौप्यार्धं च कलौ युगे ।। ४ ।।

द्वे रौप्ये सर्वतोभद्रे क्रौञ्चघ्राणे चतुर्थकम्।।

महासिंहासने पञ्च दशपात्रे तदर्धकम् ।। ५ ।।

सहस्रारे मेरुपृष्ठे तुर्यरौप्यवृषाधिकम् ।।

वृषे गले च वृषभं शेषे रौप्यसहस्रकम् ।। ६ ।।

चतुरस्रस्य निर्माणे स्वर्णपादः कलौ युगे ।।

महाकुण्डे तु द्विगुणं वृत्ते रौप्यं निवेदयेत् ।। ७ ।।

पद्मकुण्डे तु वृषभमर्ध चन्द्रे तु रौप्यकम् ।।

योनिकुण्डे ददेद्धेनुमष्टार्धस्वर्णमाषकम् ।। ८ ।।

षडस्रे तु तदर्धं स्याद्यागे माषद्वयं भवेत् ।।

शैवे चोद्यापने चैव प्रत्यह्ना स्वर्णमाषकम् ।। ९ ।।

दारणे हस्तमात्रं स्यात्स्वर्णकृष्णकलं भवेत् ।।

इष्टिकाकरणे चैव प्रत्यह्ना स्यात्पणद्वयम् ।। 2.2.4.१० ।।

खण्डे दशवराटं स्याद्बृ हन्माने तु काकिणी ।।

तडागे पुष्करिण्यां च खनने प्रथमांगके ।। ११ ।।

सप्तहस्तमिते कुण्डे निष्ठे आबद्धमात्रकम् ।।

पुराणस्य च एकांशं वेतनं परिकीर्तितम् ।। १२ ।।

वर्धयेत्पणमात्रेण निम्ने पत्रे च प्रक्रमात् ।।

बृहत्कूपस्य निर्माणे प्रत्यहं च पणद्वयम् ।। १३ ।।

शैले ज्ञेयं काञ्चनस्य रत्तिका गृहकर्मणि।।

कोष्ठे ज्ञेयं सार्द्धपणं रंगादिरचिते पणम्।।१४।।

वृक्षाणां रोपणे दद्यात्प्रत्यह्ना सार्धमाषकम् ।।

सेतुबंधे च पंकिले च पणद्वयं च काकिणी ।। १५ ।।

पणेपणे तु ताम्रस्य दद्यात्पणचतुष्टयम् ।।

घटने कांस्यसीसानां पणत्रयमुदाहृतम् ।। १६ ।।

अथ वा दिनसंख्यानं पणैकं च सकाकिणि ।।

सुवर्णस्य पणैके तु पुराणं रत्नकुट्टिमे ।। १७ ।।

रजते तु तदर्धं स्यात्स्फटिकस्य च दारणे ।।

दिनसंख्यापणद्वंद्वं रत्नानामथ कुड्मलम्।। १८ ।।

मणिवेधे मणौ ज्ञेयं काकिणी परिकीर्तिता ।।

चतुर्वराटमधिकं स्फाटिके मणिवेधने ।। १९ ।।

कांस्यतालस्य निर्माणे धमने तु पणत्रयम् ।।

लाक्षानिर्माणके कार्ये तदर्धमपि कीर्तितम्।।2.2.4.२०।।

गवां च दोहने चैव वराटे तुर्यवेतनम्।।

वेतने वस्त्रनिर्माणे पत्रे हस्तपणत्रयम् ।।२१।।

अविवस्त्रस्य निर्माणे स्यंदनं दशकाकिणी ।।

पिधानवस्त्रनिर्माणे त्रिपणं परिकीर्तितम् ।। २२ ।।

दश काकिणी ऊर्ध्वाधस्तद्व्यये पण्यवेतनम् ।।

वंशाजीवस्य प्रत्यह्ना पणस्यार्धे सकाकिणि ।। २३ ।।

लोहकारस्य च तथा नापितस्य च वेतनम् ।।

शिरसा तस्य वपने विज्ञेया दश काकिणी ।। २४ ।।

सश्मश्रुनखमाने तु प्रदद्यात्काकिणीद्वयम् ।।

नारीणामथ संस्कारे नखचित्रादिरञ्जने ।। २५ ।।

सकाकिणि पणं तच्च सवित्रे च पयोधरे ।।

पणानां तुर्यकं दद्यात्सीमंतस्यालके तथा ।। २६ ।।

पदचित्रे तु सार्द्धं स्याद्ग्रीवाणां गुह्यधारणे ।।

धान्यानां रोपणे चैव दिनैके पण वेतनम् ।। २७ ।।

लवणे तु तथा देया गुवाकानां च रोपणे ।।

दण्डपत्रस्य संस्कारे मरिचानां तथैव च ।। २८ ।।

पणद्वयं वराटानामधिकं दशमेव तु ।।

हलेहले पणैकं स्यात्काकिण्यधिकमेव च ।। २९ ।।

पणत्रयं चक्रपणे महिषाणां पणाधिकम् ।।

नराणां वाहने चैव पणैकं दश काकिणी ।। 2.2.4.३० ।।

दासीनां गर्दभानां च अधिकं काकिणीद्वयात् ।।

क्षालने चापि वस्त्रस्य तैलक्षारविवर्जिते ।। ३१ ।।

वस्त्रे प्रतिपणं दद्याद्दीर्घे प्रस्थेऽपि वर्धयेत् ।।

सद्यः प्रक्षालनेऽप्यर्धं दिनादावधिकं भवेद् ।। ३२ ।।

श्वेतवस्त्रे भवेन्न्यूनं पदे सूक्ष्मे च वर्द्धयेत् ।।

मृत्तिकानां समुद्धारं कुद्दाले चेक्षुपीडने ।। ३३ ।।

वेतनं पुष्पसंस्कारे सहस्रं दशकाकिणी ।।

काकिणी स्रङ्निबद्धे च द्विगुणं कण्ठमालिका ।। ३४ ।।

अबद्धे द्व्यंगुलं यावन्मुण्डमाला प्रकीर्तिता ।।

हस्तत्रये कण्ठमाला आनाभि कमलावधि ।। ३५ ।।

काकिणीकत्रयं चैव निर्माणे द्विजसत्तमाः ।।

मालत्याश्च तुलस्याश्च जातियूथ्योश्च सत्तमाः ।। ३६ ।।

तदर्धार्धं मारुतेन दमने बकुलस्य च ।।

वेतनं दीपतैले च आज्यस्य परिवर्धयेत् ।। ३७ ।।

यामेयामे रौप्यमाषं स्नेहे चैव तु काकिणी ।।

सार्धांगुलप्रमाणेन वस्त्रवर्तिं विदुर्बुधाः ।। ३८ ।।

षडंगुलेन दैर्घ्यं च न न्यूनं नाधिकं भवेत् ।।

पञ्चविंशतिभिः संख्या तंतुभिर्द्विजसत्तमाः ।। ३९ ।।

पञ्चाङ्गुलेन मानेन कर्तव्यः सुसमाहितः ।।

हस्तोच्छ्राये प्रदद्यात्तु मुष्टिहस्ते तु मध्यमम् ।। 2.2.4.४० ।।

त्रिहस्ते चतुर्हस्ते वा उत्तमं मानमीरितम् ।।

स्वर्णधारे हतो राजा रजते सर्वकामदः ।। ४१ ।।

ताम्रे चायुःक्षयकरमायसे दुर्गतिप्रदः ।।

शस्तस्य करमर्दस्य प्रशस्तोत्तर उच्यते ।। ४२ ।।

दीपाधारं कांस्यमयं तथारीतिमयस्य च ।।

अभावे मृन्मयस्यैव मृन्मये मानवर्जितम् ।। ४३ ।।

दशाङ्गधूपके मूल्यं विंशके तु पणत्रयम् ।।

द्वादशकांगुलेऽप्यर्धवर्तिं धूपाय वर्तयेत् ।। ४४ ।।

हस्ते पंचप्रमाणं च वस्त्रैः कुर्याच्च वर्तिकाम् ।।

पञ्चविंशतिभिर्वा यः स महावर्तिरुच्यते ।।४५।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे चतुर्थोऽध्यायः ।।४।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 5

कलशनिर्णयवर्णनम्

सूत उवाच ।।

अतः परं प्रवक्ष्यामि कलशानां विनिर्णयम् ।।

यस्यार्पिते च मांगल्ये यात्रासिद्धिश्च जायते ।।१।।

सप्ताङ्गं कलशे ज्ञेयं पञ्चाङ्गमथ वा पुनः ।।

वारिमात्रेण संपूर्णे न सा सिद्धिः प्रजायते ।।२।।

अथ वाक्षतपुष्पेषु देवमावाह्य पूजयेत् ।।

न चान्यत्र यजेद्देवान्विफलं परिकीर्तितम्।।३।।

वटस्याश्वत्थवृक्षस्य धातकीबिल्वकस्य च ।।

पञ्चपल्लवमुद्दिष्टं विन्यसेत्कलशोपरि ।। ४ ।।

सौवर्णा राजता वापि ताम्राद्या मृन्मयास्तथा ।।

कलशाः क्रमशः प्रोक्ता यथावित्तानुसारतः ।। ५ ।।

अभेद्याः सुषमाः प्लक्षाः सर्वे आद्याः सुपूरिताः ।।

निश्छिद्रा ऋजवश्चैव सेचनान्येककर्षकः ।। ६ ।।

एक त्रिंशाङ्गुलं कुर्यात्कालाहे द्विगुणं शतम् ।।

मुखं चाष्टांगुलं तस्य द्व्यंगुले च वरार्थिते ।।७।।

तैजसैः कारयेन्मानं मृन्मये मानमुच्यते ।।

कलशोदकनिर्माणे अमानं नैव योजयेत् ।। ८ ।।

कलशस्थापनं वक्ष्ये यत्र सन्निहिताः सुराः ।।

व्युत्क्रमेण प्रविन्यासे यातुधानो हरेत्किल ।। ९ ।।

यज्ञे साधारणं वक्ष्ये यद्विधानं यथामतम् ।।

स्वस्तिकोपरि विन्यासे संपूर्णस्यार्धमानके ।। 2.2.5.१० ।।

चतुरस्रोत्तरं भित्त्वा चोर्ध्वाधोमानतः समम् ।।

तुर्यसूत्राणि मतिमान्पञ्च पूर्वायतनानि च ।। ११ ।।

मार्जयेत्स्वस्तिकाकारं तुर्यमात्रं यथा भवेत् ।।

स्वस्तिकं जायते तत्र कलशानां तथासनम् ।। १२ ।।

स्योना पृथिवीति मंत्रेण कुर्याद्भूभिपरिग्रहम् ।।

मध्यमानानिकाभ्यां च न्यस्येत्पातालसंमुखम् ।।

ऋषिर्नारायणोऽस्य स्याद्गायत्री देवता रविः ।। १३ ।।

विनियोगः स्थापने च तथा भूमिपरिग्रहः ।।

धान्यमसीति मन्त्रेण धान्यसूक्तं परिस्तवेत् ।। १४ ।।

अस्य मन्त्रस्य च ऋषिर्गौतमः परिकीर्तितः ।।

अनुष्टुप्च भवेच्छन्दो देवतास्य गुरुः स्मृतः ।। १५ ।।

आजिघ्रं कलशं मह्यां स्थापयेत्कलशं ततः ।।

कनिष्ठांगुष्ठकं त्यक्त्वा कुम्भाग्रे उदरेऽपि च ।। १६ ।।

विन्यासश्चैव कर्तव्यस्त्र्यंगुले ब्रह्ममुद्रया ।।

आजिघ्रस्य च मन्त्रस्य ऋषिर्भर्ग उदाहृतः ।।

पंक्तिश्छन्दश्च उद्दिष्टो देवता विष्णुरव्ययः ।। १७ ।।

कलशस्थापने चैव सोमयागे च योजयेत् ।।

पंचनद्येतिमन्त्रेण क्षिपेद्गङ्गाजलं ततः ।। १८ ।।

देवता परमा त्रिष्टुब्देवता सोमभावितः ।।

विनियोगः पल्लवे च विन्यसेत्परिकीर्तितः ।। १९ ।।

याः फलिनीति मंत्रेण प्रदद्यात्सफलाक्षतम् ।।

याः फलिनीति मंत्रस्य ऋषिः कमलसंज्ञकः ।।

त्रिष्टुप्छन्दो गणपतिर्देवता परिकीर्तिता ।। 2.2.5.२० ।।

बदरं नागरं चैव धात्री च पिचुमर्दकम् ।।

जीवंती पीवरं चैव फलान्येतानि वर्जयेत् ।। २१ ।।

हिरण्यगर्भेति ऋचा पञ्चरत्नानि निक्षिपेत् ।।

ऋषिर्हिरण्यगर्भोस्य छन्दस्त्रिष्टुबुदाहृतम् ।।

सविता देवता चास्य रत्नन्यासेति योज येत् ।।२२।।

अमृतीकरणं कुर्याद्दैवशुल्बनमेव च ।।

वरुणस्य त्वेति ऋषिर्वरुणांतरे योजयेत् ।।२३।।

श्रीश्च ते इति मन्त्रेण दद्यात्पुष्पं सचन्दनम् ।।

गन्धद्वारेति मंत्रेण दद्याद्गन्धं विलोडितम् ।। २४ ।।

काण्डादिति च मन्त्रेण दद्याद्दूर्वाक्षतं पुनः ।।

व्रीहयश्चेति मन्त्रेण पञ्च व्रीहींश्च निक्षिपेत् ।।२५।।

तिलाश्च माषा मुद्गाश्च श्यामाकाः शालयः स्मृताः ।।

पञ्च धान्यगणः प्रोक्तः सर्वारिष्टनिषूदनः ।। २६ ।।

इति श्रीभविष्ये महापुराणे मध्यम पर्वणि द्वितीयभागे पञ्चमोऽध्यायः।। ५ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 6

मासवर्णनम्

।। सूत उवाच ।। ।।

अथ मासाश्रयं कर्म कर्तुं मासनिरूपणम् ।।

क्रियते तद्विधं संख्ये भवेन्मास श्चतुर्विधः ।। १ ।।

चान्द्रः सौरः सावनश्च नाक्षत्रश्च तथापरः ।।

शुक्लप्रतिपदं प्राप्य यावद्दर्श च ऐन्दवः ।। २ ।।

एकराशौ रविर्यावत्स मासः सौर उच्यते ।।

त्रिंशता दिवसैर्मासः सावनः परिकीर्तितः ।। ३ ।।

नाक्षत्रमासोऽश्विन्यादिरेवत्यन्तो हि विश्रुतः।।

उदयादुदयं यस्तु सावनो दिवसो रवेः ।। ४ ।।

तंत्रेणैकतिथेर्भागकालो दिवस ऐन्दवः ।।

राशेस्त्रिंशद्भागकालः कालस्त्वेकस्य भास्वतः ।।५।।

अहोरात्रं तु तन्नैवं सौरेऽपि भागमानतः।।

अहोरात्रं साधनस्य मुख्यवृत्त्वैव लभ्यते ।। ६ ।।

सौरे चान्द्रे तूपगणौ त्रिंशद्भागे त्वदर्शनात् ।।

सावना दिवसा ग्राह्या ऋषीणां समये गृहे ।। ७ ।।

अतिभागव्यवस्थायां प्रायश्चित्तक्रियासु च।।

मन्त्रोपासनकार्ये च अन्नस्य प्राशने शिशोः।।८।।

करस्य ग्रहणे राज्ञो व्यवहारेषु माःसु च।।

यज्ञेषु दिनसं ख्यायां ग्राह्यो मासस्तु सावनः ।।९।।

सौरमासो विवाहादौ यदाद्यैः सुप्रगृह्यते ।।

यज्ञेष्वपि व्रते वापि विहिते स्नानकर्मणि ।।2.2.6.१०।।

चान्द्रस्तु पार्वणे ग्राह्यो वार्षिकेष्वष्टकासु च ।।

श्राद्धेषु तिथिकार्येषु तिथ्युक्तेषु व्रतेषु च ।।११।।

नाक्षत्रः सोमपादीनामार्यभागविचारणे ।।

करग्रहविधौ राज्ञां नायं सर्वजनाकृतिः ।। १२।।

तद्वच्चैत्रादिमासोक्तं तिथ्युक्तं कर्म दृश्यते ।।

तत्तु चान्द्रेण कर्तव्यं सा हि चैत्रादिनोच्यते ।।१३।।

राजोक्तौ सावनः प्रोक्ते तिथिसंभागकर्मणि।।

तत्र सौरो भवेद्वाच्यः सौरशब्दप्रवर्तनात् ।।१४।।

चित्रानक्षत्रयोगेन चैत्री सा पूर्णिमा स्मृता।।

तयोपलक्षितो मासश्चैत्र इत्यभिधीयते ।। १५ ।।

स च तिथ्यात्मको मासश्चान्द्रः श्रवणभास्करः ।।

चान्द्रश्चैत्र्यंतिको मासो मुख्यश्चैत्रादिसंज्ञकः ।। १६।।

गौणोऽप्यसौ युगाद्यादेरनुरोधेन वर्धनात् ।।

मुख्यः शुक्लादिदर्शांतो मासो लाक्षणिको मतः ।। १७ ।।

चैत्राद्याश्चान्द्रमासा ये द्वादशापि तु योगतः ।।

पौर्णमासीयुताभिस्तु न चर्क्षत्वं न रेभिरे ।। १८ ।।

विशाखयाद्येषु या वा तथा भाद्रपदेन वा ।।

यत्र न पूर्णिमायोगो मासः स स्याद्विनाशकः ।। १९ ।।

योऽसौ यद्यपि चैत्रादौ नैष्ठिकोऽपि प्रलभ्यते ।।

यथा सौरेऽपि यातोऽसौ योगोऽयमतिदुर्घटः ।। 2.2.6.२० ।।

तथा च माससामान्ये योगेनायं भवेत्क्वचित् ।।

यदि वर्षसहस्रान्ते तदक्षेणैव पूर्णिमा ।। २१ ।।

संयुक्ता लभ्यते यत्र भवेद्राज्यविनाशनम् ।।

सूर्याचन्द्रमसौ नित्यं कुर्वाते तिथिभोजनम् ।। २२ ।।

दण्डद्वये भुक्तशेषे न भुञ्जीत कदाचन ।।

अतिक्रम्यापरां भोक्तुं तिथिं यत्र उभावपि ।।२३।।

यत्र विंशत्तिथिस्तस्मात्सञ्चितैका भवेदिति ।।

त्रिंशता चान्द्रमासौ तु चन्द्रेणैको हि वर्द्धते ।। २४।।

स चाधिको यतो मासस्ततः स्यादधिमासकः ।।

समरात्रिं दिवं कृत्वा वैवस्वतपुरीगतिम् ।। २५ ।।

गशे राश्यंतरे सूर्यो यावद्गच्छति भानुमान् ।।

गच्छन्वर्धयति पूर्वं तिथयस्तास्तु संचिताः ।। २६ ।।

वर्धते तिथयो यावत्तुलां याति दिवा करः ।।

तुलादिराशिषट्के तु न वर्द्धते कदाचन ।। २७ ।।

स्वभावात्समगत्या तु यतः संक्रमते रविः ।।

संचयमानात्वेकैका प्रतिमासं विवर्द्धते ।।

निशास्वपि तु सौरे ता एकस्मिंस्तिस्र इत्यपि ।। २८ ।।

संपूर्णत्रिंशत्तिथिभिर्मास्येकस्मिन्यदा भवेत् ।।

स चान्द्रो मलिनो मासः कोणपाद्यैः समीहितः ।। २९ ।।

भुक्तोच्छिष्टा तु तन्मासादसंस्पृष्टदिवाकरः ।।

यदा संक्रमते लंघ्य तदा ज्ञेयो मलिम्लुचः ।। 2.2.6.३० ।।

सार्धवर्षद्वये पूर्णे पतत्येवं निशाकरः ।।

परित्यक्ताश्च यावंत्यो व्युत्क्रमिण्यश्च याः पुनः ।।

तिथयस्ते नियोक्तव्या नरो न स्यात्स पूरणः ।। ३१ ।।

नैर्ऋत्यांतं हितार्थाय जलकेतुर्निगच्छति ।।

निर्ममं मलिनं मासं प्रेतानां च हिताय च ।।३२।।

अतः प्रेतक्रियाः सर्वाः कार्या मलिम्लुचेऽपि च।।

यत्कर्तव्यं न कर्तव्यं मलमासे द्विजोत्तमाः ।।३३।।

तदिदानीं प्रवक्ष्यामि कथितं च प्रसंगतः ।।

यच्छ्राद्धं प्रेतसंबंधि सर्पिडीकरणावधि ।।

मलमासेऽपि तत्कार्यं विशि नष्टि सपिंडनम् ।। ३४ ।।

यदा तु द्वादशो मासो दैवान्मलिम्लुचो भवेत्।

तत्रैव यत्नात्कर्तव्या क्रिया प्रेतस्य वार्षिकी ।। ३५ ।।

मासांतरे तु पतिते तस्मिन्नेव मलिम्लुचे ।।

तदा त्रयोदशे मासि कर्तव्यं तत्सपिंडनम्।। ३६ ।।

वर्ज्यं मासिकया श्राद्धमेकं तस्मिंस्त्रयोदशे ।।

त्रिंशता घटिकैः श्राद्धं वर्धतेऽद्यापि संमितम् ।। ३७ ।।

कुर्यात्पत्याब्दिकं कर्म प्रयत्नेन मलिम्लुचे ।।

नैमित्तिकं च कुर्वीत नाधिकारस्तयोर्भवेत् ।। ३८ ।।

तीर्थस्नानमलभ्यं तत्तदाद्यं देवदर्शनम् ।।

उपवासादिकं कर्म सीमन्तोन्नयनं तथा ।। ३९ ।।

आर्तवर्जं पुंसवनं पुत्रादिमुखदर्शनम् ।।

मलमासेपि कुर्वीत शुक्रे चास्तमुपागते ।।2.2.6.४०।।

मलमासेपि कुर्वीत नृपाणामभिषेचनम्।।

व्रतारंभं प्रतिष्ठां च चूडाकर्म च मेखलाम्।।४१।।

मंत्रोपासां रहस्यं च महादानं सुमङ्गलम् ।।

विवाहं च गृहारंभं प्रवेशं नववेश्मनः ।। ४२ ।।

उपग्रहं गवादीनामाश्रमांतरसंक्रमम् ।।

दीर्घमात्रासु नेज्यं वै तीर्थयात्रावसेचनम्।। ४३ ।।

वर्षवृद्धिवृषोत्सर्गकन्या द्विर्नयनादि च ।।

यज्ञं च कामिकं विद्वान्मलमासे विवर्जयेत् ।।४४।।

एवमस्तं गते शुक्रे वृद्धबाल्ये च संत्यजेत्।।

पादास्तं च महास्तं च द्विविधं चास्तमस्य तु ।। ४५ ।।

द्विसप्ततिर्दिनान्यस्य महास्तं पूर्वतो भवेत् ।।

पृथिव्यामेव पादास्तं भवेद्द्वादश वत्सरान् ।। ४६ ।।

ऊनपञ्चाशदधिकं दिवसानां शतद्वयम् ।।

प्रतीच्यामुदितः काव्यो दृश्यो भवति सर्वदा ।। ४७ ।।

एकर्क्षे गुरुणा युक्तो यावत्तिष्ठति भार्गवः ।।

मलमासवत्कर्माणि प्राहुस्त्याज्यानि सर्वशः ।।४८।।

ऋक्षभेदे त्वेकराशौ संपर्के यदि वानयोः ।।

गुरो राहोरपि तथा त्यजेद्विद्वान्न संशयः ।। ४९ ।।

सिंहे राशौ स्थिते सूर्ये जीवे चास्तमुपागते ।।

हेयानि यानि कर्माणि निषिद्धानि मलिम्लुचे ।। 2.2.6.५० ।।

मिथुनस्थे यदा भानौ मलमासः पतत्यसौ ।।

द्विराषाढ इति ख्यातो गौणे शब्दविवर्तनात् ।। ५१ ।।

फलं चात्र मृतस्यौर्ध्वदेहिकं कर्म कुर्वता ।।

आषाढकीर्तनं कार्यमेवं वर्षांतरेऽपि च ।। ५२ ।।

आषाढद्वयसंयुक्तपूर्णमासीद्वयं तथा ।।

युग्मकर्कटयो राश्यो द्विराषाढस्तदा भवेत् ।। ५३ ।।

भवेद्गौणो द्विराषाढो राशिस्तत्रैव संयुते ।।

पूर्वत्रिके तु पतिते तदेव भगवान्हरिः ।। ५४ ।।

कर्कटे शयनं कुर्यादागमिष्यं परत्रके ।।

कर्किण्यर्के सुप्तहरौ शक्रपूजाश्विने भवेत् ।। ५५ ।।

दुर्गोत्थानं तुलायां तु विष्णुर्निद्रां जहात्यसौ ।। ५६ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे षष्ठोऽध्यायः ।। ६ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 7

तिथिविधानवर्णनम्

।। सूत उवाच ।। ।।

दैवं वा पैतृकं कर्म कालमाश्रित्य वर्तते ।।

काले तान्येव कर्माणि फलं यच्छंति कुर्वताम् ।। १ ।।

मुहुर्बाल्ये कर्मफलं त्रिकालेऽपि न विद्यते ।।

व्ययो वा मुख्यभावेन फलदः कर्मशालिनाम् ।। २ ।।

कालस्तु गुणभावेन सर्वकालाश्रिता क्रिया ।।

न कालेन विना किञ्चित्त्रिषु लोकेषु जायते ।। ३ ।।

अतः कालं प्रवक्ष्यामि निमित्तं कर्मणामिह ।

काले ह्यमूर्तिर्भगवानेक एव तु यद्यपि ।।

तथाप्युपाधिभेदेन भिद्यते कालभेदिभिः ।।४।।

तिथिनक्षत्रवारादौ रात्रियोगादयोपि ये ।।

तेऽपि कालाः पक्षमासराशिवर्षांतरेऽपि च ।।

साधनानि भवन्त्येते स्वातन्त्र्येण न कस्यचित् ।।५।।

धर्मस्य वाप्यधर्मस्य मुख्यो व्यापार एव सः ।।

तिथ्यादिकालभावेषु निषिद्धं निहितं हि तत् ।। ६ ।।

पालयन्स्वर्गमाप्नोति हित्वा प्राप्नोत्यधोगतिम् ।।

साधयंत्यपि कर्माणि परस्परमवेक्ष्यते ।। ।। ७ ।।

कालभागो निःसहायो येऽपि स्युः कर्मसाधनाः ।।

तिथौ पूर्वाह्णव्यापिन्यां कुर्वीत कर्म वैदिकम् ।। ८ ।।

एकोद्दिष्टं तु मध्याह्नव्यापिन्यां हि समाचरेत्।।

पराह्णव्यापिनीं प्राप्य तिथिं कुर्यात्तु पार्वणम् ।। ९ ।।

न तु पूर्वाह्णमध्याह्नपराह्णेषु यथोचितम् ।।

अप्रधाने तु कुर्वीत कर्म दैवादिकं च यत्।।2.2.7.१०।।

एको हि कालः प्रातस्तु वृद्धिश्राद्धादिसाधने ।।

नापेक्षते साहाय्यं तत्तिथ्यादिविषुवादिषु ।।११।।

देवेभ्यो ब्रह्मणा दत्तः पूर्वाह्णस्तिथिभिः सह ।।

पितृभ्यो ह्यपराह्णस्तु पार्वणं तु परं विना ।। १२ ।।

पूर्वाह्णमात्रसंप्राप्तौ ततो देवान्प्रपूजयेत् ।।

पूर्वाह्णस्पर्शमात्रेऽपि तिथिखण्डेन चार्पयेत् ।।१३।।

खर्वा दर्पा तथा हिंस्रा तिथिश्च त्रिविधा भवेत् ।।

खर्वादि लंघयेत्तुल्या दर्पा भवति वर्द्धिता ।।१४।।

हिंस्रा तु क्षयजा ज्ञेया कालभेदेन गृह्यते ।।

खर्वा दर्पा परे ग्राह्या हिंस्रा ग्राह्या तु पूर्वतः ।। १६।।

शुक्लपक्षे परा ग्राह्या कृष्णे पूर्वा प्रशस्यते ।।

स्नानदानव्रते चैव विषयोगो निदर्शितः ।। १७ ।।

तिथौ चोदेति सविता कालमात्रं च वा यदि ।।

अन्यापि सैव विज्ञेया तिथिस्तस्मिन्नहर्निशम् ।। १६ ।।

यथावास्ते रविर्भाति घटिका दश वापि वा।।

सा तिथिस्तदहोरात्रं व्यपदेश्या न चेतरा।।१९।।

शुक्ले वा यदि वा कृष्णे खर्वा दर्पा तिथिश्च या ।।

ययास्तं सविता याति पितृकार्ये च सा तिथिः ।। 2.2.7.२० ।।

दिनद्वयेऽपि कुतपे अस्तगां तिथिमाश्रयेत् ।।

श्राद्धकालादिकं यत्र तत्र श्राद्धं विधीयते ।।

व्रते च वृद्धिगामिन्यां यत्रोदयो रवेर्भवेत् ।।२१।।

अमावास्यपार्वणे च सा तिथिः पितृपूजने ।।

अमावस्यामृतस्यैव पार्वणं यत्र कुत्रचित् ।।२२।।

अस्तगामितिथिर्यत्र सा तिथिः पितृमंदिरम्।।

एकोद्दिष्टं चरेत्तत्र नोदये च कदाचन।।२३।।

शुक्लपक्षे च कृष्णे च यो योगः परपूर्वयोः।।

पूर्वेद्युर्वा परेद्युर्वा त्रिसंध्यव्यापिनी तिथिः।।

सा पूज्या च स्वकृत्येषु पक्षयोरुभयोरपि ।।२४।।

पूज्या हि व्यस्तं संत्यज्य पूर्वं चैकादशीयुगम् ।।

द्वितीया वह्निना युक्ता चतुर्थी पंचमीयुता ।। ।। २५ ।।

एता उपोष्यास्तिथयः पुण्याः स्युर्धर्मवेदिभिः ।।

एतद्व्यस्तास्तु पुण्यानि घ्नंति पूर्वकृतान्यपि ।। २६ ।।

बाणेन विद्धा या षष्ठी मुनिविद्धा तथाष्टमी ।।

दशम्येकादशीविद्धा त्रयोदश्या चतुर्दशी ।। २७ ।।

अमावास्या भूतविद्धा नोपोष्या मुनिनापि च ।।

हंति पुत्रकलत्राणि धनानि समुपोषिता ।। २८ ।।

विद्धा ये नाभिनिन्द्याः स्युर्युक्तास्तेनाभिनन्दिताः ।।

व्यस्तस्य संभवे युग्मं विद्धा भवति सर्वशः ।।२९।।

तामस्तां तु तिथिं प्राप्य युग्मान्यपूज्यतामियुः ।।

युग्मानि च दिवायोगे ग्राह्याणि व्यस्तनिंदनम् ।। 2.2.7.३० ।।

नक्तादिव्रतयोगे तु दिवासंवर्द्धमर्करान् ।।

रात्रियोगश्चतुर्थ्योस्तु विशिष्य परिगृह्यते ।। ३१ ।।

रात्रियोगं विनापि स्यादेकादश्यादिकं व्रतम् ।।

नक्तं जागरणं चैव विनायोगेऽपि शस्यते ।। ३२ ।।

एकादश्युपवासं तु द्वादशीयोगतश्चरेत् ।।

दिवायोगे तु संपूर्णां त्यजेदुभयपूर्वतः ।। ३३ ।।

रात्रियोगे तु संपूर्णा सोपास्यैकादशी सदा ।।

सप्तमी शुक्ल पक्षेऽपि पूज्या षष्ठ्या समन्विता ।। ३४ ।।

निशि तु स्याद्यदा षष्ठी सप्तमी नवमी दिवा ।।

उपोष्य केवलां षष्ठीं तोषयेद्भास्करं नरः ।। ३५ ।।

एवं त्रयोदशीं कृष्णां विधिप्राप्तां विना द्विजाः ।।

उपोष्य पार्वतीनाथं तोषयेद्यश्च केवलम् ।।३६ ।।

दिवा त्रयोदशीयुक्ता कृष्णोपोष्या चतुर्दशी ।।

परेणापि चतुर्दश्या न तु कुर्यादमातिथौ ।।३७।।

त्रिसंध्यव्यापिनी प्राप्य यदि कुर्यादुपौषणम् ।।

पारणं तु सिनीवाल्यां चतुर्दश्यामुपोषयेत्।।३८।।

चतुर्दशीमतिक्रम्य सिनीवाल्यां तु पारणात्।।

व्रतानि तस्य नश्यंति प्राकृतानि चतुर्दशीम् ।।३९।।

सप्तमी ललिता भाद्रे शक्तोत्थानं च वारुणी ।।

पूज्याश्चैताः पराः कुर्यात्त्रिसंध्यव्यापिनीष्वपि ।।2.2.7.४०।।

त्रिसंध्याव्यापिनी पूर्वे परतो वर्द्धते यदि ।।

सऋक्षा ऋक्षयोगे तु ऋक्षाभावे परा युता।।४१।।

ऋक्षाभावे परा ग्राह्या त्रिसंध्यव्यापिनीष्वपि ।।

श्रावणे चाद्यपादे तु प्रशस्ता शक्रपूजने ।।४२।।

अभावे चोत्तराषाढा धनिष्ठा च विशिष्यते ।।

दण्डार्धं दण्डमेकं वा तदर्धं पलमेव वा ।।४३।।

उदये संयुता ग्राह्या सा तिथिश्चोत्तमा भवेत् ।।

त्रिसंध्यव्यापिनीं हित्वा पूज्या शुक्लाष्टमी परा ।।४४।।

रविचक्रवता ग्राह्या रथे तिथ्यादेरपि च ।।

त्रिसंध्यव्यापिनी या तु पलमेकं परे दिने ।।४५।।

अपरेऽपि च सर्वत्र हलानां वाहनं त्यजेत्।।

शुक्लैकादश्यमावास्यासंक्रान्त्यां श्राद्धवासरे ।।४६।।

नराश्वगोगजादीनां वाहनात्पातकी भवेत् ।।४७।।

कर्तुर्गोमहिषादीनां गर्दभोष्ट्रखरस्य च ।।

न वाहयेद्दास दासी वाहनेनास्ति दूषणम् ।। ४८ ।।

बहुकालिकयज्ञे च यज्ञश्राद्धे तथैव च ।।

ग्रामांतरे न दोषः स्याद्दिवि नद्यंतरेऽपि च ।। ४९ ।।

नित्यश्राद्धेऽप्यम्बुघटे यच्छ्राद्धं मासिकं भवेत् ।।

तत्र गोमहिषादीनां वाहने नास्ति दूषणम् ।। 2.2.7.५० ।।

कुर्यादंबुघटश्राद्धं न कालनियमं क्वचित् ।।

न चान्ननियमं कुर्यादश्मपात्रं च वर्जयेत् ।। ५१ ।।

तैजसैर्निर्मितं कुम्भमथ वा वृक्षपत्रजम् ।।

न योजयेन्मृन्मयं च शूद्राणां मृन्मये विधिः ।। ५२ ।।

निवेदयेच्च मासांते मृन्मयं वृक्षमूलके ।।

आस्फालयेत्परेणैव न वस्त्रं तु कथञ्चन ।।

पर्वश्राद्धे दैवलकं तथा रण्डाश्रमं त्यजेत् ।। ५३ ।।

मातापितृपरित्यागी तैलहव्यादिविक्रयी ।।

चत्वारिंशदुत्सवानां साष्टानां च चरेद्यदि ।। ५४ ।।

स्त्रिया विमुच्यते कश्चित्स तु रण्डाश्रमी मतः ।।

अष्टचत्वारिंशदब्दं वयो यावन्न पूर्यते ।। ५५ ।।

पुत्रभार्यावियुक्तस्य नास्ति यज्ञाधिकारिता ।। ५६ ।।

यां तिथिं समनुप्राप्य समुदेति दिवाकरः ।।

स्नानाध्ययनदानेषु सा तिथिः सकला स्मृता ।। ५७ ।।

ययास्तं सविता याति कृष्णपक्षे तु सा तिथिः ।।

पितॄणां सकला ज्ञेया स्नानदानादिकर्मसु ।। ।। ५८ ।।

सप्तमी शुक्लपक्षे या यावदिच्छेच्च खण्डिता ।।

आद्यभागे रवेः षष्ठ्यां परादौ याष्टमीयुता ।।

यद्यखण्डा भवेत्सैव तदा ज्ञेया भवात्मिका ।। ५९ ।।

माघमासेन साप्येवं पूर्वेण रवितोषिणी ।।

मन्वंतरा परेणैव स्नानपानादिकर्मसु ।। 2.2.7.६० ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे सप्तमोध्यायः ।। ७ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 8

उत्तमतिथिनिर्णयवर्णनम्

।।सूत उवाच ।। ।।

तिथीनां प्रवरा यस्माद्ब्रह्मणा समुदाहृता ।।

प्रतिपादिता परे पूर्वे प्रतिपाद्य नवोद्यते ।। १ ।।

कार्तिकाश्वयुजोश्चैत्रे माघे चापि विशेषतः ।।

स्नानं दानं दशगुणं शिवविष्ण्वोश्च पूजनम् ।। २ ।।

अग्निमिष्ट्वा च कृत्वा च प्रतिपद्यामिति स्मृतम् ।।

हविषा सर्वधान्यानि प्राप्नुयादीप्सितं धनम् ।। ३ ।।

बृहस्पतौ द्वितीयायां शुक्लायां विधिपूजनम् ।।

कृत्वा नक्तं समश्नीयाल्लभते भूतिमीप्सिताम् ।।४।।

मिथुने कर्कटे चैव गोविप्रदमनांतरम् ।।

द्वितीया या तु विप्रेंदास्तामुपोष्य हरिं यजेत् ।।

यामुपोष्य न वैधव्यं प्रयाति स्त्री न संशयः ।। ५ ।।

अमूल्यशयनं मासं दंपती प्रतिपूजयेत् ।।

वासोभिर्गन्धपुष्पैश्च नानाभक्ष्यैः पृथग्विधैः ।। ६ ।।

वैशाखे शुक्लपक्षे तु तृतीयायां तथैव च ।।

गंगातोये नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ।।७।।

स्वातियुक्ततृतीयायां वैशाखे तु विशेषतः ।।

माघे तु रोहिणीयुक्ता वृषे चाश्वयुजे तथा ।। ८ ।।

तस्यां यद्दीयते किञ्चित्तदक्षयमुदाहृतम् ।।

विशेषतो हविष्यान्नं मोदकादिसमायुतम् ।।९।।

तोयदानं विशेषेण प्रशंसंति मनीषिणः ।।

गुडकर्पूरसंयुक्तं ब्रह्मलोके महीयते ।। 2.2.8.१० ।।

बुधश्रवणसंयुक्ता तृतीया यदि लभ्यते ।।

तस्यां स्नानोपवासाद्यमक्षयं परिकीर्तितम् ।।११।।

चतुर्थीभरणीयोगे भवेच्चरदिनं यदा ।।

तदाभ्यर्च्य यमं देवं मुच्यते सर्वकिल्बिषैः ।। १२ ।।

शिवा शांता सुखा चैव चतुर्थी त्रिविधा स्मृता ।।

सापि भाद्रपदे शुक्ला शिवलोके सुपूजिता ।। १३ ।।

कार्त्तिके तु भवेच्छाया तथा माघे तु कीर्त्यते ।।

तस्यां स्नानं तपो दानमुपवासो जपस्तथा ।।

भवेत्सहस्रगुणितं श्राद्धं भवति चाक्षयम् ।। १४ ।।

गणेशे कारयेत्पूजां मोदकादिभिरादरात् ।।

चतुर्थ्यां विघ्ननाशाय सर्वकामप्रसिद्धये ।। १५ ।।

श्रावणे मासि पञ्चम्यां शुक्लपक्षे विशेषतः ।।

स्नापयेन्नवनागांश्च गंधतोयैः सुगंधिभिः ।। १६ ।।

तेषां कुले प्रयच्छंति अभयं प्राणरक्षणम् ।। १७ ।।

द्वादश्योभयलेखे च गोमयेन विशेषतः ।।

पूजयेद्दधिदुग्धाद्यैः सिंदूरैरपि भक्तितः ।। १८ ।।

सुप्ते जनार्दने कृष्णपञ्चम्यां भवनांगणे ।।

पूजयेन्मनसादेवीं वामां स्नुहीति संश्रयाम् ।। १९ ।।

पिचुमंदस्य पत्राणि स्थापयेद्भवनोदरे ।।

पूजयित्वा नरो देवीं न सर्पभयमाप्नु यात् ।। 2.2.8.२० ।।

येयं भाद्रपदे षष्ठी षष्ठी च द्विजसत्तम ।।

स्नानदानादिकं तस्यां सर्वमक्षयमुच्यते ।। २१ ।।

षष्ठ्यां फलाशनो विप्रा विशेषान्माघकार्तिके ।।

इह चामुत्र मुख्यां च लभते ख्यातिमुत्तमाम् ।। २२ ।।

शुद्धे पक्षे च सप्तम्यां यदा संक्रमते रविः ।।।।

महाजया तदा स्याद्वै सप्तमी भास्करप्रिया ।। २३ ।।

अपराजिता तु भाद्रस्य महापातकनाशिनी ।।

ललिता केवला ज्ञेया पुत्रपौत्र विवर्द्धिनी ।। २४ ।।

शुक्ला वा यदि वा कृष्णा षष्ठी वा सप्तमी तु वा ।।

रविवारेण संयुक्ता तिथिः पुण्यतमा स्मृता ।। २५ ।।

आश्विनस्य सिताष्टम्यामष्टादशभुजां यजेत् ।।

कार्त्तिके शुक्लपक्षे वा महाविभवविस्तरैः ।। २६ ।।

आषाढे श्रावणे मासि शुक्लाष्टम्यां च चंडिकाम् ।।

प्रातः स्नात्वार्चयेद्भक्त्या रात्रौ संस्नापयेद्द्विजाः ।। २७ ।।

चैत्रमासि सिताष्टम्यामशोककुसुमैर्द्विजाः ।।

अर्चयेन्मृन्मयीं देवीमशोकार्थं च सर्वदा ।। २८ ।।

सत्यष्टममुहूर्ते वा रोहिणीसहिताष्टमी ।।

श्रावणे मासि सिंहार्के क्वचित्सापि च शस्यते ।। २९ ।।

एकादशीनां कोटीनां व्रतैश्च लभते फलम्।।

अतो दशगुणं प्रोक्तं कृत्वैतत्फलमाप्नुयात ।। 2.2.8.३० ।।

अशक्तोऽन्यक्रियां कर्तुमुपवासं तु केवलम् ।।

कृत्वा विमुच्यते पापात्सप्तकृत्यकृतां वरः ।।३१।।

न कालनियमस्तत्र न वारनियमः क्वचित् ।।

नापि नक्षत्रदोषोऽस्ति वारदोषो न गण्यते ।। ३२ ।।

त्रिकालं पूजयेद्देवं दिवा रात्रौ विशेषतः ।।

अर्धरात्रे विशेषेण पुष्पैर्नानाविधैरपि ।।३३।।

दिवा तिथेरलाभे तु न कुर्याद्विधिवद्व्रतम् ।।

रात्रिस्पर्शे यदि परं रजन्यामपि चाष्टमी ।।३४।।

सप्तमी सार्धयामं च रोहिणी वा न संस्पृशेत्।।

व्रती संकल्पयेत्तत्र न च रात्रौ कदाचन।।३५।।

प्रागारंभं प्रकुर्वीत अधिमात्राधिके व्रती ।।

विश्वनाथादिदेवानां दर्शनं प्राग्विवर्जयेत्।।३६।।

यत्र तत्रोपवासी स्याद्यामाष्टकव्रतं चरेत्।।

यामार्धं तत्परं यामे पारणं विचरेद्व्रती।।३७।।

तत्परे चाऽन्नजन्यं वा न कुर्यात्पारणं गृही ।। ३८ ।।

नक्षत्रयोगे ग्रहणे पूजयेत्परमेश्वरम् ।।

जपहोमादिकं कुर्याद्गृही नोपवसेत्क्वचित् ।। ३९ ।।

दिवाष्टम्यां मुहूर्ते वा प्राजापत्येन संयुतम् ।।

तथापि च दिवाकृत्यं समाप्य च व्रतं चरेत् ।। 2.2.8.४० ।।

मुहूर्तांते च मासांते अष्टम्यामपि रोहिणी ।।

उपवासे च यो दोषः पूजाहोमः प्रशस्यते ।। ४१ ।।

नवम्यां च सदा पूज्याः प्रतिमासेऽयुतं द्विजाः ।।

गृह्णीयान्नियमं चैव यथा कर्म फलप्रदम् ।। ।। ४२ ।।

कार्तिकस्य तु मासस्य दशमी शुक्लपक्षिका ।।

तस्यां युक्ताशना विप्रा ब्रह्मलोकमवाप्नुयुः ।। ४३ ।।

दशमी ज्येष्ठमासस्य सा चेद्दशहरा स्मृता ।।

आश्विनस्य महापुण्या कार्तिके विजया स्मृता ।। ४४ ।।

एकादशी व्रतपरा सर्वपापप्रणाशिनी ।।

सर्वपापविनिर्मुक्ता यथा कुर्वंति मानवाः ।। ४५ ।।

दशम्यामेकभक्तस्तु संयतः स्याज्जितेन्द्रियः ।।

एकादश्यामुपोष्याथ द्वादश्यां पारणं चरेत् ।।४६।।

द्वादश द्वादशीर्हन्ति तस्मात्तथाचरेद्बुधः ।।

पूर्वेद्युरेकादशी पूर्णा परेहनि च वर्धते ।। ४७ ।।

न वर्धते द्वादशी तु तदा त्वेवं व्यवस्थितिः ।।

वनवासी परां कुर्यात्पूर्वां कुर्याद्गृहाश्रमी ।।४८।।

पूर्वेवैकादशी त्याज्या वर्धते चेत्तिथिद्वयम् ।।

एकादशी द्वादशी तु तदोपोष्या परा तिथिः ।। ४९ ।।

यदा तु पारणा योग्या द्वादशी नोपतिष्ठते ।।

तदा पूर्वैव संग्राह्या त्याज्या वृद्धा परेऽहनि ।। 2.2.8.५० ।।

एकादशी कलायुक्ता सकला द्वादशी यदि ।।

तत्र क्रतुसमं पुण्यं त्रयोदश्यां तु पारणम् ।। ५१ ।।

एकादशी द्वादशी च परेऽहनि न लभ्यते ।।

नोपोष्या सा महादोषा पुत्रपौत्रधनक्षयात् ।। ५२ ।।

एकादशी दशाविद्धा द्वादश्यां लिप्तिका यदा ।।

द्वादशी पारणायोग्या वर्धते चापरेऽहनि ।।

तदा दिनद्वये त्याज्या पारणं च नियोगतः ।। ५३ ।।

षोडशीग्रहणं दृष्ट्वा द्वादशी लुप्तपारणा ।।

चण्डातिथौ व्रतं चैव हंति पुण्यं पुरा कृतम् ।। ५४ ।।

त्रयोदश्यां यद्विहितं पारणं न तु पुण्यदम् ।।

गृहाश्रमी न कुर्याद्वा दशमीद्वादशीक्षयात् ।। ५५ ।।

यदि रुद्रा दशमित्रा परेऽह्निरविसंक्रमः ।।

तथापि संपरित्यज्य द्वादश्यां समुपावसेत् ।। ५६ ।।

वज्रालोकनमात्रं तु दशमी संविशेद्यदि ।।

एकादशी न भोक्तव्या परा ह्येकादशी तदा ।। ५७ ।।

तदा चेद्दशमीविद्धा समुपोष्या न दूषणम्।। ५८ ।।

द्वादश्यामुपवासं तु यः करोति नरोत्तमः ।।

स याति परमं स्थानं यत्र विष्णुरनामयः ।। ५९ ।।

उपोष्य दशमीमित्रां मोहादेकादशीं नरः ।।

निरयं याति स प्रेत्य धर्मसंततिसंक्षयात् ।। 2.2.8.६० ।।

रविवारे शुक्रवारे संक्रान्त्यां तु दिनक्षये ।।

उपवासं प्रकुर्वीत पारणं तु विवर्जयेत् ।। ६१ ।।

शुक्लां वा यदि वा कृष्णां पूर्वसंकल्पितामपि ।।

एकादशीं सदा कुर्यान्न वै कृष्णेत्तरां क्वचित् ।।६२।।

नक्तेन वर्तयेत्कृष्णामिति शास्त्रविनिश्चयः ।।

मासे चैकादशी यत्र लभ्यते शुक्लपक्षके ।।

तत्र कुर्यात्कृष्णपक्षे परा तिथिर्न गृह्यते ।।६३।।

श्रावणी द्वादशी शुक्ला चांद्रभद्रे यदा हरौ ।।

तत्रोपोष्य हृषीकेशं पूजयेद्विधिवन्नरः ।। ६४ ।।

श्रावणे चाश्विने चैव लभ्यते द्वादशीदिने ।।

श्रवणेन समायुक्ता महती सा प्रकीर्तिता ।। ६५ ।।

पुष्येण द्रादशीयुक्ता फाल्गुने विजया स्मृता ।।

कार्तिके चेत्परित्याज्या माघे तु नारकी भवेत् ।।६६।।

या भाद्रे विजया प्रोक्ता श्रवणेन समायुता।।

विशेषः कथ्यते तत्र यथावद्व्रतमाचरेत् ।।६७।।

एकादश्यामुत्तरतो द्वादशी च दिवान्विता ।।

निशिपूर्णा द्वादशी च श्रवणेनापि संयुता ।।६८।।

सफला द्वादशी ज्ञेया उपोष्यैषा महाफला ।। ६९ ।।

द्वादश्यां विष्णुविद्धायां वासुदेवं प्रपूजयेत् ।।

कृष्णायां तु व्रतं कुर्याद्बहुदुःखं समाचरेत ।। 2.2.8.७० ।।

द्वादशी कामविद्धा चेन्मन्यते नाप्युपोषणम् ।।

हन्यात्पुराकृतं पुण्यं त्रयोदश्यामुपोषणम् ।।७१।।

प्रहरेप्रहरे स्नानं शर्वर्यां च विधीयते ।।

पूजनं चाग्निकार्यं च षट्सु कार्यं व्रती चरेत् ।।७२।।

एकादशीं द्वादशीं च प्राप्नोति श्रवणे यदि ।।

एकादश्यामुपोष्याथ द्वादश्यामप्युपावसेत्।।७३।।

पारणं तु त्रयोदश्यां द्वादशी चेन्न लभ्यते ।।

आमिषान्नं न भुञ्जीत हविष्यान्नेन पारणम् ।।७४।।

यदा तु पारणायोग्या लभ्यते द्वादशी तदा ।।

तस्यां नातिक्रमो युक्तस्तदभावे त्रयोदशी।।७५।।

एकादशी द्वादशी च श्रवणर्क्षेण संयुता ।।

विष्णुशृंखलको नाम बुधवारे विशिष्यते ।।७६।।

दशम्यां संयतो भूत्वा प्रातरेकादशीदिने ।।

कृत्वा तु सङ्गमे स्नानं प्रहरेप्रहरे द्विजाः ।।७७।।

अनेन विधिना कृत्वा विजयायां व्रतोत्तमम् ।।

सर्वपापं क्षयं नीत्वा विष्णुलोके वसेन्नरः ।। ७८ ।।

चतुर्युगानां दिव्यानां यावत्स्याद्विष्णुरूपधृक ।।

तावदेव हि सर्वत्र सार्वभौमो भवेन्नरः ।। ७९ ।।

त्रेतायां दशजन्मानि मध्यदेशेषु भो द्विजाः ।।

ततश्च भारते वर्षे वेदवेदांतसारवित् ।।

पुत्रपौत्रधनैर्युक्तो लक्षदो नृपसन्निभः ।। 2.2.8.८० ।।

जायते दश जन्मानि त्रेतायां ब्राह्मणोत्तमः ।।

सपत्नीकश्च दीर्घायुर्धर्मकर्मसु पूजितः ।। ८१ ।।

भाद्रे मासि सिते पक्षे द्वादश्यां पृथिवीपतिम् ।।

शत्रुमुत्थापयेत्प्राह्णे शुभलग्ने शुभक्षणे ।। ८२ ।।

शल्यशाल्मलिकस्यापि सप्तपर्णीयकस्य च ।।

एषामन्यतमं वृक्षं चंपकस्यार्जुनस्य वा ।। ८३ ।।

बृहत्कदंबवृक्षस्य द्विचत्वारिंशदंगुलैः ।।

द्वात्रिंशदंगुलैर्वापि मानद्वयमथापि वा ।।

त्रिव्यायामं च प्रथमं द्वाविंशहस्तमेव वा ।। ८४ ।।

हस्तः षोडशवारस्य गृहस्थस्य विशिष्यते ।।

हस्तत्रयेण विप्रस्य द्वादश क्षत्रियस्य तु ।। ८५ ।।

अष्टहस्तं तु वैश्यस्य शूद्रस्य पञ्चहस्तकम् ।।

अभ्रतः श्वेतच्छत्रं स्यात्पताका च पुरेपुरे ।। ८६ ।।

घनसारसमायुक्तां कर्पूरमंडनान्विताम् ।।

रक्तवस्त्रपरिच्छन्नां पुष्पमाल्यैरलंकृताम् ।। ८७ ।।

मञ्चस्थां कारयेत्पूजां भक्त्या च सुदृढो नरः ।।

सप्तरात्रं चरेत्पूजामैन्द्रमन्त्रेण मन्त्रवित् ।। ८८ ।।

काकादीन्न स्पृशेज्जातु वैरपक्षे विशेषतः ।।

पताकाया निपाते तु राष्ट्रहानिं समादिशेत् ।। ८९ ।।

पताके निस्सृते भग्ने महिषाणां विनाशनम् ।।

स्थूणापाते च भग्ने वा चाश्वहानिं समादिशेत् ।। 2.2.8.९० ।।

तस्करश्च कुले तस्य प्रायश्चित्तं समाचरेत् ।।

तद्विष्णोरिति मंत्रेण शतपद्मसमन्वितम् ।। ९१ ।।

विष्णुमुद्दिश्य जुहुयादयुतं पिप्पलस्य च ।।

ग्रहाणां च त्रिभागेन चायुतं जुहुयाद्बुधः ।। ९२ ।।

आदित्यस्याद्भुतमिदं द्विजपाते तु भो द्विजाः ।।

कपोतपाते शुक्रस्य काकादौ भौममादिशेत् ।। ९३ ।।

भूकंपे जायते विष्टं गुरोरद्भुतमादिशेत् ।।

कीटविद्धे कृते विप्राश्चन्द्रस्याद्भुतमादिशेत् ।। ९४ ।।

पताके निस्सृते भग्ने राहोरद्भुतमादिशेत्।। ९५ ।।

शिवा रुवंति चान्द्रस्य वानरो वा स्पृशेत्क्वचित् ।।

केतोरद्भुतमुद्दिष्टं भूमिकंपे तु ते द्विजाः ।। ९६ ।।

त्रयोदशीं सितां प्राप्य पुष्पैर्नानाविधैरपि ।।

कामदेवं समभ्यर्चेद्गन्धाद्यैः सुमनोहरैः ।। ९७ ।।

चैत्रे मासि सिताष्टम्यां शनौ शतभिषा यदि ।।

गंगाया यदि लभ्येत सूर्यग्रहशतैः समा ।। ९८ ।।

सेयं महावारुणीति ख्याता कृष्णत्रयोदशी ।।

अस्यां स्नानं च दानं च श्राद्धं वाक्षयमुच्यते ।। ९९ ।।

मधुमासे सिते पक्षे दम्भभञ्जी चतुर्दशी ।।

तस्यां मदनमूले च अक्षरं काममर्चयेत् ।। 2.2.8.१०० ।।

स याति परमं स्थानं मदनस्य प्रभावतः ।।

जुगुप्सितवचोभिस्तु सम्यक्तुष्टो मनोभवः ।। १०१ ।।

अनन्तस्य व्रतं वक्ष्ये सर्वपापप्रणाशनम् ।।

अनन्तं सुखमाप्नोति यः कुर्याद्भक्तिमान्नरः ।। १०२ ।।

द्वादश्यां पूजिते शक्रे ध्वजके वास्तुयष्टिषु ।।

ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिम् ।। १०३ ।।

कृत्वा दर्भमयानन्तं वारिधान्यान्वितं तथा ।।

पूजयेच्चन्दनैर्गन्धैर्नैवेद्यैर्विविधैरपि ।। १०४ ।।

चतुर्दश फलैर्मूलैर्जलजैः कुसुमैरपि ।।

यवगोधूमशालीनां चूर्णैर्नैकतमस्य च ।। १०५ ।।

कृत्वा पूपाह्वयं तस्मै दद्यादेकं श्रुतेक्षितम् ।।

स्वयमेकं तु भुञ्जीत दद्यात्सत्रस्य दोरकम् ।। १०६ ।।

चतुर्दशग्रन्थियुतं कुंकुमेन विलेपितम् ।।

चतुर्दशसूत्रमयं सूत्रं कार्पासमेव च ।। १०७ ।।

अतः प्रेत चतुर्दश्यां भोजयित्वा तपोधनान् ।।

दानं दत्त्वा द्विजेभ्यश्च यमलोकं न गच्छति ।। १०८ ।।

ततः प्रेतकथां श्रुत्वा शाकैर्नक्तं समाचरेत् ।।

चतुर्दशं द्वादशं वा सप्तमं वापि पञ्चमम् ।। १०९ ।।

मानमात्रादिकं कृत्वा सर्वपापैः प्रमुच्यते ।। 2.2.8.११० ।।

माघे मासि वटापायः कस्य पापं पुनीमहे ।।

स्नात्वा तत्र चतुर्दश्यां समये तारकामये ।। १११ ।।

संभवेत्फाल्गुने मासि या च कृष्णा चतुर्दशी ।।

शिवरात्रिरिति ख्याता सा जगत्सर्वकामदा ।। ११२ ।।

दिवा तस्या अलाभे तु रात्रियोगे व्रतं चरेत् ।।

चतुर्दशी अमाविद्धा तद्व्रतं परिवर्जयेत् ।। ११३ ।।

तिथियोगे च शर्वर्यां संपूर्णे व्रतमाचरेत् ।।

कामविद्धा सा च पूज्या रात्रियोगे चरेद्व्रती ।। ११४ ।।

प्रहरेप्रहरे स्नानं स्वयं स्नात्वा शिवस्य च ।।

कारयेद्विधिवद्भक्त्या होमं कुर्याद्यथाविधि ।। ११५ ।।

अथ वक्ष्यामि चैत्रादिमासे तु पूर्णिमा यथा ।।

चित्रानक्षत्रसंयुक्तो गुरुपूर्णो विधुर्यदि ।।

महाचैत्रीति सा ज्ञेया पूर्णिमाक्षयपुण्यदा ।। ११६ ।।

विशाखादिषु भेदेषु पूर्णचन्द्रो गुरुश्चरेत् ।।

महावैशाखिकाद्यास्तु पूर्णिमा द्वादश स्मृताः ।। ११७ ।।

महाज्यैष्ठी विशेषोऽयं प्राजापत्ये यथा रविः ।।

गुरुपूर्णचन्द्रो ज्येष्ठायां महाज्यैष्ठीति सा स्मृता ।। ११८ ।।

विनापि गुरुणा चन्द्रः कृत्तिका पूर्णिमा तथा ।।

तथा महाकार्त्तिकी सा तिथिः पुण्यतमा भवेत् ।। ११९ ।।

रोहिण्यां तु स्थितश्चन्द्रः पौर्णमास्यां तु कार्त्तिके ।।

महाकार्त्तिकी तथापि स्यात्स्वर्गलोकेऽपि दुर्लभा ।। 2.2.8.१२० ।।

चित्रा वा यदि वा पूर्णा यदा स्यात्पूर्णिमातिथिः ।।

महाचैत्री तथापि स्यादश्वमेधफलप्रदा ।। १२१ ।।

रविणा कृत्तिकायोगाद्रविवारे च पूर्णिमा ।।

महाचैत्री तथापि स्याद्दत्तस्याक्षयकारिका ।। १२२ ।।

एवं गुरौ गुरोर्योगे महाचैत्री प्रकीर्तिता ।।

तत्र स्नानं च दानं च जपो नियम एव च ।। १२३ ।।

सर्वमक्षयतां याति फलं चैवाश्वमेधिकम् ।।

पितरस्तर्पिता यांति वैष्णवं लोकमक्षयम् ।। १२४ ।।

भरण्यां कार्त्तिके मासि यदि स्यात्पूर्णिमा तिथिः ।।

गंगाद्वारे तु महती वैशाखी पुण्यदा स्मृता ।। १२५ ।।

शालग्रामे महाचैत्री कृतपुण्या महातिथिः ।।

गंगाद्वारे तु महती वैशाखी पुण्यदा स्मृता ।। १२६ ।।

पुरुषोत्तमे महाज्यैष्ठी महाषाढी तु शृंखले ।।

महाश्रावणी केदारे महापुण्यतमा मता ।। १२७ ।।

महाभाद्री बदर्यां च कुजोऽपि स्यान्नरस्तथा ।।

महाकार्त्तिकी पुष्करे च कान्यकुब्जे तथोत्तरं ।। १२८ ।।

महती मार्गशीर्षे स्यादयोध्यायां तथोत्तरे ।।

महापौषी पुण्यतमा महामाघी प्रयागतः ।। ।। १२९ ।।

महाफाल्गुनी नैमिषे च निर्दिष्टाः स्युर्महाफलाः ।। 2.2.8.१३० ।।

अत्र स्म विहितं कर्म शुभं वा यदि वाशुभम् ।।

सर्वमक्षयतां याति वर्द्धते चाधिकं फलम् ।। १३१ ।।

आश्विने पौर्णमासी तु कौमुदीति प्रकीर्तिता ।।

अस्यां चन्द्रोदये लक्ष्मीं पूजयेद्विधिवन्नरः ।। १३२ ।।

निर्वतयेन्न यः श्राद्धं प्रभाते पैतृकं द्विजः ।।

इन्दुक्षये मासिमासि प्रायश्चित्तीयते तु सः ।। १३३ ।।

चन्द्राश्विने तु कृष्णायां पञ्चदश्यां यथाविधि ।।

कृत्वा स्नानादिकं कर्म सोपवासो दिनं नयेत् ।।१३४।।

प्रदोषसमये लक्ष्मीं पूजयित्वा यथाविधि ।।

दीपवृक्षान्यथा वृक्षाँल्लक्ष्मीप्रीत्यै समुत्सृजेत् ।। ।। १३५ ।।

नदीतीरे गिरौ गोष्ठे श्मशाने वृक्षमूलतः ।।

चतुष्पथे निजागारे चत्वरे तान्निधापयेत् ।। १३६ ।।

द्विर्भोजनममावास्यां न कर्तव्यं कदाचन ।।

शर्वर्यां च विशेषेण माघफाल्गुनयोर्नरैः ।।१३७।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागेऽष्टमोऽध्यायः ।। ८ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 9

प्रवरविचारवर्णनम्

।। सूत उवाच ।। ।।

वक्ष्ये प्रवरसंतानं यथाक्रममिति द्विजाः ।।

यद्विना व्यत्ययो यस्मात्तस्माच्छास्त्रानुसारतः ।। १ ।।

प्रवरत्रयं काश्यपस्य काश्यपाशावनैर्ध्रुवम् ।।

पञ्चाश्वगौतमस्याद्य गौतमश्चोय एव च ।। २ ।।

च्यवनो जामदग्न्यश्च आप्लवायनमेव च ।।

मोकुन्यांगिरसभास्याज्जामदग्न्याप्लवायनम् ।। ३ ।।

शांडिल्यासितदैवलाः प्रवरत्रयमेव च ।।

पराशरस्य च तथा स्वयं शांबवशिष्ठकम् ।। ४ ।।

आत्रेयमाचार्यणस्याबालप्रवरमेव हि ।।

वात्स्यवास्यायनौ चैव उरुकंटक एव च ।। ५ ।।

अर्थक्षीरमित्रावरुणं पञ्चमं परिकीर्तितम्।।

औतथ्यस्य त्रयं विद्याद्वाल्मीकोऽवरमेव हि ।। ६ ।।

औतथ्यस्य च वाशिष्ठमैन्द्रे चक्रं च क्रौञ्चायनं तथा ।।

औतथ्येति समाख्यातं माहिष्यं च्यवनं तथा ।। ७ ।।

उरुकंटत्रयं विद्यात्कौशिकस्य त्रयं तथा ।।

यद्गालो देवराट् ख्यातः कुशिकाद्याश्च भो द्विजाः ।।८।।

विश्वामित्रो देवराट्च स्वयं चैव त्रयं मतम् ।।

घृतकौशिकस्य कुशिका विश्वामित्राघमर्षणम् ।। ९

चण्डकौशिकस्य च तथा देवराट् देवरातकम्।।

विश्वामित्रे तु विख्यातः सुमन्तोरेव एव हि ।। 2.2.9.१० ।।

तरुंकशाकटायनः स्वयमेव प्रवरत्रयम् ।।

भ्रमद्वयं जैमिनेश्च स्वयं वाशिष्ठमेव च ।। ११ ।।

शंखमांगिरसच्यवनं शंखभस्य त्रयं मतम्।।

वात्स्यस्य च्यवनो नाम आप्लवायनकस्तथा ।। १२ ।।

सावर्णस्य तु सावर्ण्यच्यवनजामदग्निभार्गवम् ।।

आप्लवायनेति पाठीने एक एव तु सत्तमाः ।। १३ ।।

कृष्णाजिनस्य कृष्णाजिनं विश्वामित्रस्य जैमिनम् ।।

कात्यायनस्य कात्यायनगार्ग्यायणत्रयं तथा ।। १४ ।।

वात्स्यायनेति विख्यातं कुशिकस्य च पंचमम् ।।

अमुं च विश्वामित्रं च जामदग्न्याप्लवायनम् ।। १५ ।।

गार्ग्यस्य गार्ग्यसामुंच तथांगिरस एव च ।।

बार्हस्पत्यभरद्वाज इति पंच प्रकीर्तितम् ।। १६ ।।

वशिष्ठस्य च वासिष्ठं च तथांगिरस एव च ।।

मित्रावरुणसंयुक्तं तावत्तस्य प्रकीर्तितम्।। १७ ।।

जाह्वकर्णभवकर्णौ प्रवरौ परिकीर्तितौ ।।

उपमन्युरुपमन्योस्तथेन्द्रः सह एव च ।। १८ ।।

तदुत्तमेति त्रितयं मित्रावरुणस्य च त्रयम् ।।

आत्रेयगौतमांगिरसप्रवरत्रयमेव हि ।। १९ ।।

कमंडलोत्पलमित्रामित्रावरुण एव च ।।

कमंडलुश्चेति त्रितयं प्रवरत्रयमेव च ।। 2.2.9.२० ।।

च्यवनस्य तथा ज्ञेयमूर्वच्यवनाप्लवायनम् ।।

अथ स कस्यांगिरसबार्हस्पत्य एव त्रयम् ।। २१ ।।

आगस्त्यस्य अगस्तिश्च माहश्च च्यवनेति च ।।

विश्वामित्रे देवरात औतथ्येति तथैव च ।। २२।।

ये नोक्ता ये ऽप्यविज्ञातास्ते प्रोक्ताः काश्यपाज्जगत् ।। २३ ।।

इति श्रीभविण्ये महापुराणे मध्यम पर्वणि द्वितीयभागे नवमोऽध्यायः ।। ९ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 10

वास्तुयागवर्णनम्

thumb|500px|वास्तुपुरुष

thumb|500px|वास्तुपुरुषः.

।। सूत उवाच ।। ।।

वास्तुयागमथो वक्ष्ये बलिमण्डलपूर्वकम् ।।

अंकुरार्पणकं कृत्वा मध्ये कुर्याच्च मंडलम् ।। १ ।।

त्रिहस्ता पिंडिका कार्या चतुरस्रा उदक्प्लवा ।।

प्रादेशमात्र उत्सेधो दर्पणांतर्निभो भवेत् ।। २ ।।

मध्ये संमार्जयेद्विद्वान्पादान्नव यथाक्रमात्।।

कोणे चतुष्पदं ज्ञेयं दिक्षु त्रिपदकं क्रमात् ।। ३ ।।

पञ्चकं युग्मपादेन चतुर्दिक्षु ततः परम् ।।

कोणे चतुष्पदं स्थाप्यं चतुष्कोणे विभावयेत् ।। ४ ।।

चतुष्कोणं बहिः कुर्यात्कोणे चापि चतुष्टयम् ।।

द्वात्रिंशच्च भवेद्बाह्ये चातश्चापि त्रयोदश ।। ५ ।।

चत्वारिंशत्पञ्चयुता मिलित्वा वास्तुदेवताः ।।

शिखी चैवाथ पर्जन्यो जयंतः कुलिशायुधः ।। ६ ।।

सूर्यः सत्यो वृषश्चैव आकाशं वायुरेव च ।।

पूषा च वितथश्चैव गुहान्यश्च यमस्तथा ।।७।।

गन्धर्वो मृगराजस्तु मृगाः पितृगणास्तथा ।।

दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ।। ८ ।।

असुरः पशुपाशौ च रोगो हि मोक्ष एव च ।।

भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ।। ९ ।।

बहिर्द्वादश इत्येतानीशानादीन्यथाक्रमम् ।।

ईशानादिचतुष्कोणं संस्थितान्पूजयेद्बुधः ।। 2.2.10.१० ।।

आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ।।

अर्यमा सविता चैव विवस्वान्विबुधाधिपः ।। ११ ।।

मित्रोऽथ राजयक्ष्मा च सप्तमः पृथिवीधरः ।।

अष्टमस्त्वापवत्सस्तु परिधौ ब्रह्मणः स्मृतः ।। १२ ।।

पूर्वादिषु तथा पूज्या गन्धपुष्पैः पृथग्विधैः ।।

पंचचत्वारिंशदेतच्चरक्या च चतुर्थकम् ।। १३ ।।

मिलित्वा ऊनपञ्चाशदुत्तमा वास्तुदेवताः ।।

नान्यत्र योजयेद्विप्राः प्रासादे च विशेषतः ।। १४ ।।

बहिः कोणे चरक्यादि चरकं च विदारिकाम् ।।

पूतनां च ततः पश्चाद्वायव्ये पापराक्षसीम् ।। १५ ।।

स्वैःस्वैर्मंत्रैश्च गंधाद्यैः पूजयेत्कुसुमादिना ।।

यथोक्तेन बलिं दद्यात्पायसान्नेन वा पुनः।। १६ ।।

रेखाः सर्वत्र शुक्लेन पद्मं रक्तेन भावयेत् ।।

रञ्जयेदेव वर्णेन बहिष्पञ्चरजेन तु ।। १७ ।।

देववर्णानथो वक्ष्ये यथावदनुवर्णिताः ।।

रक्तो गौरस्तथा शोणः सितरक्तः सितस्तथा ।। १८ ।।

पीतः शुक्लश्च धर्मश्च पूषा रक्तः प्रकीर्तितः ।।

श्यामः शुक्रश्च कृष्णश्च पीतः शुक्लो यथाक्रमम् ।। १९ ।।

पीतो भृंगः पुनः शुक्लः कृष्णः शुक्लस्तथैव च ।।

रक्तः शुक्लश्च शोणश्च कृष्णरक्तस्तथैव च ।। 2.2.10.२० ।।

धूम्रपीतो रक्तपीतः शुक्लः कृष्णश्च श्यामकः ।।

रक्तवर्णेन द्वात्रिंशद्दश वर्णाः प्रकीर्तिताः ।। २१ ।।

शुक्लशोणं पुनः श्वेतं सिंदूराभं प्रकीर्तितम् ।।

पांडुरकुंकुमाभं च रक्तं ज्ञेयं च पीतकम् ।। २२ ।।

शुक्लपीतं च श्वेतं च गौरं चेत्यष्टवर्णकम् ।।

पीतं रक्तं च श्यामं च गौरं चेति चतुष्टयम्।। २३ ।।

धरणीमदनं वाद्ये शंभुवर्णादिप्रक्रमात् ।।

शुक्लेन रञ्जयेद्द्वारान्पुरद्वारं च मध्यमे ।। २४ ।।

मध्येंते ऊनपञ्चाशत्सर्वं च वास्तुकर्मणि ।।

चत्वारिंशद्द्वारयुतं गृहदेवकुलेऽपि च ।। २५ ।।

महाकूपे तथा श्वेतो अन्यत्रापि प्रशस्यते ।।

सुलिप्ते च शुचौ देशे सार्धहस्तप्रमाणतः ।। २६ ।।

दश पूर्वायता रेखा दश चैवोत्तरायताः ।।

एकादशीपदं कुर्याद्रेखाभिः पदकेन तु ।। २७ ।।

सर्ववास्तुविभागेन विज्ञेया नवका नव ।।

पदस्थान्पूजयेद्देवांस्त्रिंशत्पञ्चादशदेव तु ।।२८।।

द्वात्रिंशद्बाह्यतः पूज्याः पूज्यागारे त्रयोदश ।।

मध्ये नव पदे ब्रह्मा तस्याप्यष्टौ समीपगाः ।।२९।।

चतुर्दिक्षु षट्पदं तु त्रिपदं तु चतुष्पदम् ।।

पदैकं तु चतुष्कोणे एष वास्तुविनिर्णयः ।।

चरक्यादि ततो हित्वा चत्वारिंशच्च पंचकम्।। ।। 2.2.10.३० ।।

अपरं मण्डलं वक्ष्ये यथावदनुपूर्वशः ।।

नवरेखाप्रयोगेण नवकोष्ठान्प्रकल्पयेत् ।। ३१ ।।

द्विचतुष्कोष्ठकैर्दिक्षु यजेतार्यमणं ततः ।।

विवस्वंतं ततो मित्त्रं महीधरमतः परम् ।। ३२ ।।

कोणेषु कोष्ठद्वंद्वेषु बाह्यादिपरिकीर्तितम् ।।

सावित्रं सवितारं च शक्रमिन्द्रं जयं पुनः ।। ३३ ।।

रुद्रं रुद्रजयं चैव वायुं जृंभकमेव च ।।

पिलिपिच्छं च मेधावी विदारी पूतना तथा ।। ३४ ।।

क्रमादीशानपर्यंतां जयंतः शक्रभास्करौ ।।

सत्योवृषांतरिक्षौ च दिशि प्राच्यामवस्थिताः ।। ३५ ।।

अग्निः पूषा च वितधो यमश्च गृहरक्षकः ।।

गंधर्वो भृंगराजश्च मृगो दक्षिणमाश्रिताः ।। ३६ ।।

निर्ऋतिर्दौवारिकश्च सुग्रीववरुणौ ततः ।।

पुष्पदंतस्वरौ शोषरोगौ प्रत्यग्दिशि स्थिताः ।। ३७ ।।

प्राणवायुश्च नागश्च सोमो भल्लाट एव च ।।

मुद्गलाख्यो दित्यदिती कुबेरस्य दिशि स्थिताः ।। ३८ ।।

मिलित्वा च त्रिपञ्चाशत्तेभ्यः पूर्वे बलिं हरेत् ।।

पिण्याकैः परमान्नैर्वा पूर्वोक्तैर्वा यथा क्रमात्।। ३९ ।।

रक्तमर्यमणं ध्यायेच्चतुर्भिर्बहुभिर्वृतम् ।।

श्वेताश्ववाहनं दिव्यं किरीटैः स्वैर्विभूषितम् ।। 2.2.10.४० ।।

आकृष्णेनेति मन्त्रस्य स्वर्ण ऋषिजगतीछन्दः सवित्रर्यमप्रीतये विनियोगः ।। ४१ ।।

विवस्वंतं पीतवर्णं पीताम्बरधरं शुभम् ।।

मेषस्थं च महाकायं देवगन्धर्वसेवितम् ।।४२।।

एतातविषंतीति मंत्रस्य कर्दम ऋषिः पंक्तिश्छन्दः कमलादेवताविवस्वत्प्रीतये विनियोगः ।। ४३ ।।

मित्रं ध्यायेच्छुक्लवर्णं श्वेतहंसोपरिस्थि तम् ।।

त्रिनेत्रं त्रिभुजं चैव श्वेतांबरधरं शुभम् ।। ४४ ।।

कयानश्चीति मंत्रस्य जयंत ऋषिर्गायत्री छन्दः शङ्करो देवता मित्रप्रीतये विनियोगः ।। ।।४५।।

प्रीतं महीधरं ध्यायेद्वृषभोपरि संस्थिम्।।

त्रिभुजं पद्महस्तं च व्यालयज्ञोपवीतिनम् ।।४६।।

त्र्यम्बकमिति मंत्रस्य गर्गऋषिस्त्रिष्टुप् छन्दो हरो देवता महीधरप्रीतये विनियोगः ।। ४७ ।।

सावित्रीं श्वेतवर्णां च सर्वलक्षणसंयुताम् ।।

द्विभुजां पीतवस्त्रां च श्वेतसिंहासने स्थिताम् ।। ४८ ।।

रक्ताम्बरधरां रक्तां रक्तमालोपशोभिताम् ।। ४९ ।।

तद्वर्षं इति मंत्रस्य गौतम ऋषिर्विराट् छन्दः सूर्यो देवता सवितृप्रीतये विनियोगः ।। 2.2.10.५० ।।

शक्रं ध्यायेत्पीतवर्णं शुक्लकैरावतस्थितम् ।।

सर्वदेवैः स्तूयमानं द्विभुजं पीतवाससम् ।।५१।।

त्रातारमिति मंत्रस्य भार्गव ऋषिस्त्रिष्टुप् छन्दो नरसिंहो देवता इन्द्रजयप्रीतये विनियोगः ।। ५२ ।।

रुद्रं ध्यायेच्छ्वेतवर्णं वृषभारूढविग्रहम् ।।

नागयज्ञोपवीतं च सर्वलक्षणसंयुतम् ।। ५३ ।।

नमस्ते रुद्रेति मंत्रस्य गायत्री छंदस्त्र्यंबको देवता रुद्रप्रीतये विनियोगः ।। ५४ ।।

रक्तं रुद्रं जयं ध्यायेद्रक्तपद्मोपरि स्थितम् ।।

रक्तश्यामांबरधरं द्विभुजं रक्तवाससम् ।। ५५ ।।

त्र्यंबकमिति मन्त्रस्य गायत्रीच्छन्दो महेशो देवता रुद्रजयप्रीतये विनियोगः ।। ५६ ।।

अपि श्वेतं ततो ध्यायेद्वराभयकरं परम् ।।

सर्वलक्षणसंपन्नं श्वेतपद्मोपरि स्थितम् ।। ५७ ।।

ईशान इति मंत्रस्य मरीचिर्ऋषिः पंक्तिच्छन्दो वायुर्देवता अपां प्रीतये विनियोगः।।

आपवत्सं पीतवर्णं मेषारूढं चतुर्भुजम् ।।५८।।

पद्मशंखधरं वामे वराभयकरं परम् ।। ५९।।

वरुणस्योत्तंभनमसीति मन्त्रस्य नरोत्तम ऋषिर्विराट् छन्दो वरुणो देवता आवयः प्रीतये विनियोगः ।।2.2.10.६०।।

कोणसूत्रस्योभयतः श्वेतकोष्ठद्वये पुनः।।

शर्वं ध्यायेद्रक्तवर्णं वृषभोपरि संस्थितम् ।।६१।।।।

द्विभुजं च त्रिनेत्रं च जटाभारोपशोभितम् ।।६२।।

माला स्वाहेति मंत्रस्य भार्गव ऋषिर्गायत्रीछन्दो महादेवो देवता शर्वप्रीतये विनियोगः।।।६३।

गुहं ध्यायेत्पीतवर्णं पीतपद्मासनस्थितम ।।

नानाभरणशोभाढ्यं कुण्डलाद्यैरलङ्कृतम् ।। ६४ ।।

स बोध इति मन्त्रस्य अगस्तिर्ऋषिर्गायत्री छन्दो हरो देवता गुहप्रीतये विनियोगः ।। ६५ ।।

अर्यम्णं द्विभुजं रक्तं रक्तमाल्योपशोभितम्।।

रक्तपद्मासनस्थं च देवगन्धर्वसेवितम् ।। ६६ ।।

वातो वारेति मंत्रस्य काश्यप ऋषिरनुष्टुप्छन्दो वायुर्देवता अर्यमप्रीतये विनियोगः।।६७।।

ध्यायेच्च जम्भकं श्वेतं द्विभुजं कुटिलाननम् ।।

करालवदनं घोरं वराहोपरि संस्थितम् ।। ६८ ।।

कुविदोगवय इति मन्त्रस्य विश्वामित्र ऋषिर्जगती छन्दः सोमो देवता जंभकप्रीतये विनियोगः ।।६९।।

पिलपिच्छं रक्तवर्णं रक्तमाल्यैरलङ्कृतम् ।।

रक्तपद्मासनस्थं च रक्ताभरणशोभितम् ।। 2.2.10.७० ।।

देवस्य हेति मन्त्रस्य पंक्तिश्छंदः शची देवता पिलपिच्छप्रीतये विनियोगः ।। ७१ ।।

पीतां च चरकीं ध्यायेद्रक्तमाल्यैरलंकृताम् ।।

सुचारुवदनां भव्यां गुञ्जाहारोपशोभिताम् ।। ७२ ।।

तद्वर्षं इति मन्त्रस्य जटिल ऋषिर्बृहती छन्दो भवो देवता चरकीप्रीतये विनियोगः ।। ७३ ।।

श्यामां विदारिकां ध्यायेत्त्रिनेत्रां च चतुर्भुजाम्।।

नानागणयुतां देवीं पङ्कजद्वयधारिणीम् ।। ७४।।

श्रीश्च ते इति मन्त्रस्य वरुण ऋषिर्नृसिंहो देवता विदारिकाप्रीतये विनियोगः ।। ७५ ।।

रक्तां च पूतनां ध्यायेत्पङ्कजस्थां सुशोभनाम् ।।

सर्वाभरणसंपन्नां सर्वालंकारशोभिताम् ।। ७६ ।।

मयि गृह्णामीति मंत्रस्य विवस्वानृषिर्नारायणो देवता पूतनाप्रीतये विनियोगः ।। ७७ ।।

पूर्वादिदिक्षु सर्वासु सार्धाद्यंतपदेषु च ।।

ईशानं जटिलं श्वेतं शूलहस्तं महाभुजम् ।।७८।।

त्रिनेत्रं वृषभारूढं नागहारो पशोभितम् ।। ७९ ।।

आयुःशीर्षाण इति मंत्रस्य वामदेव ऋषिर्बृहती छन्दो धरणीधरो देवता ईशानप्रीतये विनियोगः ।। 2.2.10.८० ।।

रक्तं ध्यायेच्च पर्जन्यं द्विभुजं पीतवाससम् ॥

दक्षिणे परशुं ध्यायेदोंकारं च तथापरे ॥ ८१॥

कयानश्चेति मन्त्रस्य धर्म ऋषिर्बृहती छन्दो भवो देवता पर्जन्य प्रीतये विनियोगः ॥८२।।

जयन्तं श्वेतं श्वेतवृषभारूढं ध्यात्वा।।

मानस्तोकेति मन्त्रस्य शक्त्यृषिस्त्रिष्टुप्छन्दः शङ्करो देवता जयंतप्रीतये विनियोगः ॥ ८३ ॥

शुक्लं पीतं द्विभुजमैरावतस्थं वज्रधरं ध्यात्वा मूलबीजेन स्थापयेत् ।। ८४ ।।

भास्करं रक्तद्विभुजं रक्ताश्वस्थं ध्यात्वा मायाबीजेन पूजयेत् ।।८५।।

सत्यं च द्विभुजं श्वेतं त्रिनेत्रं पीतवाससं मन्दकुंदबीजेन पूजयेत्।।

वृषं पीतं वृषभारूढमाकाशबीजेन पूजयेत् ।।८६।।

ऋक्षं नीलं चतुर्भुजं महिषारूढम् ।।

आच्छीम इति मन्त्रस्य होता यक्ष ऋषिस्त्रिष्टुप्छन्दः शंकरो देवता ऋक्षप्रीतये विनियोगः ।। ८७ ।।

अग्निमारभ्य पूजयेत् ।।

अग्निं रक्तं सप्तजिह्वं रक्तवाससं पिङ्गाक्षं ध्यात्वा ।।

अग्निदूतमिति मंत्रस्य भरद्वाज ऋषिस्त्रिष्टुच्छन्दः शंकरो देवता अग्निप्रीतये विनि योगः ।। ८८ ।।

वितथं रक्तमजवाहनं द्विभुजं ध्यात्वा गायत्र्या पूजयेत् ।। ८९ ।।

गायत्र्या विश्वामित्र ऋषिर्गायत्रीछन्दः सविता देवता वितथप्रीतये विनियोगः ।।2.2.10.९०।।

यमं कृष्णमहिषारूढं दण्डहस्तं ध्यायेत् ।।

अच्छिय इति मन्त्रस्य त्रिष्टुप्छन्दो भवानी देवता यमप्रीतये विनियोगः ।।९१।।

गृहे क्षेत्रं रक्तमूर्ध्वकेशं महाभुजं रक्तवाससं ध्यात्वा वह्निबीजेन पूजयेत् ।।९२।।

गन्धर्वं श्वेतं द्विभुजं पद्मासनस्थं ध्यात्वा यमबीजेन पूजयेत् ।।९३।।

भृङ्गराजं रक्तसिंहासनारूढं दिव्ययज्ञोपवीतिनं ध्यायेत् ।। ९४ ।।

होता यस्केति मन्त्रस्य भार्गव ऋषिर्गायत्रीछन्दो यशो देवता भृंगराजप्रीतये विनियोगः ।। ९५ ।।

मृगं पीतं मृगारूढं पीतवाससं ध्यात्वा ।।

कदाचनेति मन्त्रस्य वामदेवऋषिर्बृहती छन्दो वामदेवो देवता मृगप्रीतये विनियोगः ।।९६।।

नैर्ऋतार्द्धपदेषु च ।।

निर्ऋतिं पीतं श्वेतं पद्मासनस्थं ध्यात्वा ।।

कैदाचनेति मन्त्रस्य पंक्तिश्छन्दः सविता देवता निर्ऋतिप्रीतये विनियोगः ।।९७।।

नैर्ऋतार्द्धपदेषु च दौवारिकं श्वेतशरभारूढं त्रिनेत्रं सर्वाभरणभूषितं ध्यात्वा ।।

होतस्वेति मन्त्रस्य नरसिंहऋषिर्बृहती छन्दो गणेशो देवता दौवारिकप्रीतये विनियोगः ।। ९८ ।।

श्यामं सुग्रीवं कृष्णमेषारूढं पीतवाससं ध्यात्वा ।।

स्वादित्येति मन्त्रस्य त्रिष्टुप्छन्दो वामनो देवता सुग्रीवप्रीतये विनियोगः ।। ९९ ।।

सुमित्रिया न इति मन्त्रस्य कन्दर्पऋषिः पङ्क्तिश्छन्दः सूर्यो देवता वरुणप्रीतये विनियोगः ।। 2.2.10.१०० ।।

पुष्पदंतं पीतं मेषारूढं पीतवाससं ध्यात्वा ।।

या ओषधीरिति मन्त्रस्य मन्मथ ऋषिर्जगती छन्दो वायुर्देवता पुष्पदंतप्रीतये विनियोगः ।। १०१ ।।

असुरं कृष्णं कृष्णमाल्यैरलंकृतं कृत्वा ।।

आकृष्णेति मन्त्रस्य हिरण्यवर्ण ऋषिर्जगती छन्दः सविता देवता असुरप्रीतये विनियोगः ।। ।। १०२ ।।

असुरं कृष्णं नागहारान्वितं पद्मासनस्थं ध्यात्वा ।।

आब्रह्मन्निति मंत्रस्य नलिन ऋषिस्त्रिष्टुप्छन्दो भवानी देवता सोमप्रीतये विनियोगः ।। १०३ ।।

रोगं कृष्णं नीलेन्दीवरधरं श्वेतवृषभारूढं ध्यात्वा ।।

नमस्ते रुद्र इति मन्त्रस्य नारद ऋषिः पंक्तिश्छन्दः श्रीर्देवता रोगप्रीतये विनियोगः ।। १०४ ।।

वायुकोणादारभ्य पूजयेत् ।।

वायुं धूम्रवर्णं ध्वजहस्तं मृगारूढं ध्यात्वा ।।

देवा इति मन्त्रस्य बृहती छन्दो यमो देवता नागप्रीतये विनियोगः ।। १०५ ।।

श्वेतं सोमं श्वेतवर्णासनस्थं ध्यात्वा भद्रबीजेन पूजयेत् ।। ।। १०६ ।।

रक्तं भल्लाटं पीतवाससं ध्यात्वा वह्निबीजेन पूजयेत् ।।

पीतवाससमजवाहनं हारकेयूरान्वितं वायुबीजेन मंदराद्यैः पूजयेत् ।। ।। १०७ ।।

रक्तां दितिं नागहारान्वितां रक्तपद्मासनस्थां ध्यात्वा ।।

मानार्थं इति मन्त्रस्येति पूजयेत् ।। १०८ ।।

मानो त्वा इति मंत्रस्य भार्गव ऋषिः पंक्तिश्छन्दः पृथिवी देवता दितिप्रीतये विनियोगः ।। १०९ ।।

अदितिं पीतवर्णां सिंहारूढां पीतांबरधरां ध्यात्वा ।।

हिरण्यवर्ण इति मंत्रस्य जनार्दन ऋषिर्बृहती छन्दः सोमो देवता अदितिप्रीतये विनियोगः ।। 2.2.10.११० ।।

एवं यथा विधायाथ होमं कुर्याद्यथाविधि ।।

होमांते दक्षिणां दद्यात्काञ्चनं हेमसंयुतम् ।। १११ ।।

तडागयागपक्षे तु सुवर्णं चार्धमेव वा ।। ११२ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे दशमोऽध्यायः ।। १० ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 11

पूजाक्रमवर्णनम्

।। सूत उवाच ।। ।।

अथ पूजाक्रमं वक्ष्ये पुराणस्मृतिचोदितम् ।।

उत्तरे पश्चिमे वाथ पूर्वे चापि समाचरेत् ।। १ ।।

नदीतीरे नेमिप्रांते दशद्वादशसंख्यया ।।

मंडलं रचयेद्विप्राश्चरुकद्वयसंयुतम् ।। २ ।।

त्रिभागं विभजेत्क्षेत्रं मध्यभागद्वयेन तु ।।

त्रिहस्तवेदिकां कुर्यात्तालोत्सेधामुदक्प्लवाम् ।। ३ ।।

उत्तराशे दक्षिणे चारत्निहस्तांतरेऽपि च ।।

त्रिमेखलां हस्तमात्रां गुणवेदीसमन्विताम्।। ४ ।।

मूले सार्धं च शुक्लां च मेखलां तु तथैव च ।।

चतुरंगुलिकां वेदिं मध्योन्नतां प्रकल्पयेत् ।। ५ ।।

षट्सप्तांगुलिकां योनिं पश्चिमे मेखलोपरि ।।

विन्यसेन्नाभिसंयुक्तमेवं कुण्डं प्रकल्पयेत् ।। ६ ।।

श्राद्धं वृद्ध्यात्मकं कुर्यात्संकल्पं मानसं चरेत् ।।

श्राद्धार्थं नैव संकल्पेत्तथा वै देवदर्शने ।। ७ ।।

गयाश्राद्धार्थकं चाष्टतीर्थश्राद्धार्थमेव च ।।

ऐशान्यां कलशे देवं पूजयेद्गणनायकम् ।। ८ ।।

मध्ये कुण्डे महांश्चैव विष्णुदेवं दिगीश्वरान्।।

ब्रह्माणं चाग्निकुण्डे तु स्वैः स्वैर्मन्त्रैः प्रपूजयेत् ।। ९ ।।

प्राणायामं विधायाथ भूतशुद्धिं समाचरेत् ।।

ध्यायेद्वाटवीशपुरुषं सर्वलक्षणसंयुतम् ।। 2.2.11.१० ।।

श्वेतं चतुर्भुजं शांतं कुण्डलाद्यैरलंकृतम् ।।

पुस्तकं चाक्षमालां च वराभयकरं परम् ।। ११ ।।

पितृवैश्वानरोपेतं कुटिलभ्रूपशोभितम् ।।

करालवदनं चैव आजानुकरलंबितम् ।। १२ ।।

thumb|500px|वास्तुपुरुष

thumb|500px|वास्तुपुरुषः.

मूर्धन्यग्निं समाविश्य मुखे वायुः समाहितः ।।

पृथ्वीधरोर्यमा चैव तथाष्टवनेष्टितौ ।। १३ ।।

वक्षस्थले ऽपरां संध्यां यजेच्चैव यथाविधि ।।

नेत्रयोर्दितिपर्जन्यौ श्रोत्रे दितीज्यपुत्रकौ ।। १४ ।।

सर्पेन्द्रावासनस्थौ च वामे दक्षं विभावयेत् ।।

सत्यसोमाग्नयस्तत्र राहोः पंच च पंच च ।। १५ ।।

रुद्रश्च राजयक्ष्मा च वामहस्ते व्यवस्थितौ ।।

पार्श्वे तु दक्षिणे तद्वद्विरथश्च महर्क्षकः।। १६ ।।

उभौ ज्ञेयौ तथा जान्वोरुभौ गन्धर्वपुष्पकौ ।।

जंघयोर्भृंगसुग्रीवौ स्फिचोर्दौवारिको गणः ।। १७ ।।

जयशक्रौ तथा मेढ्रे पदयोः पितरस्तथा ।।

एवं ध्यात्वा न्यसेत्पुष्पं सोमे नैवं विचिंतयेत् ।। १८ ।।

मन्दरं दीर्घयुक्तेन षडङ्गानि समाचरेत्।।

तावद्वीर्यं ततः कृत्वा प्रणवं ब्रह्मणेति च ।। १९ ।।

वास्त्वीशाय विद्महेति तन्नो विष्णुः प्रचोदयात् ।।

अनेन स्नपनं कुर्यात्पूजाद्रव्याणि प्रोक्षयेत् ।। 2.2.11.२० ।।

आसनं पूजयेत्पूर्वं धर्मेणापि स्वशक्तितः ।।

आदौ तु भास्करं सूर्यं शचीनाथं गणाधिपम् ।। २१ ।।

आधारशक्तिं पृथिवीं पूजयेत्तत्र पङ्कजम् ।।

बंदीशासनमित्युक्तं पूजयेदासनं ततः ।। २२ ।।

सितचन्दनयुक्तेन श्वेतपुष्पं प्रगृह्य च ।।

हरेर्ध्यानं ततः कुर्यात्स्थापयेन्मध्यमण्डले ।।२३।।

आवाह्य चासनं दद्यात्ततः पाद्यादिकत्रयम् ।।

मधुपर्कं ततो दद्याद्वास्तोष्पतिमथेश्वरम् ।। २४ ।।

अस्य मन्त्रस्य च ऋषिश्छन्दो गायत्रमीरितम् ।।

देवता च भवेद्ब्रह्मा योजयेदश्वमेधकम् ।। २५ ।।

मंदरं विजयं सोमं महादेवं च माधवम् ।।

रुद्रं हरं जयं भं च पूर्वादिदलमूलके ।। २६ ।।

जया च विजया चैव सत्या माया शिवांबिका ।।

हासिनी कामिनी चैता दलमूलेषु भावयेत् ।। २७ ।

पुष्पाञ्जलित्रयं दद्याद्वास्तोष्पतय इत्यपि ।।

अर्घ्यमंत्रेण गंधाद्यैः पूजयेद्भूतिमिच्छता ।।२८।।

वास्तोष्पते भव मते इति ध्यात्वा ऋतं चेति मंत्रेण पूजयेत् ।।

ऋषिर्नारायणश्छन्दो गायत्री परिकीर्तितम् ।। २९ ।।

सूर्यश्च देवता ख्यातः प्रीणितः कुलिशायुधः ।।

सूर्यं रक्तासनारूढं द्विभुजं रक्तवाससम् ।। 2.2.11.३० ।।

रक्तपद्मद्वयधरं कुंडलाद्यैः सुशोभितम्।।

एवं ध्यात्वा तु मतिमान्हंसं समंत्रमीश्वरम्।।३१।।

हंसस्य इति मंत्रस्य ऋषिरौतथ्य ईरितः ।।

पंक्तिश्छन्दः स्वयं देवो विनियोगस्तु प्रीतये ।।३२।।

नीलोत्पलद्वयधरं सत्यं मृत्यूपरिस्थितम्।।

स्वच्छश्वेतांबरधरं वरदं भक्तवत्सलम् ।।३३।।

स्वं मदात्वमिति मन्त्रेण श्वेतचन्दनपुष्पकैः ।।

पूजयेत्परया भक्त्या वस्त्रालंकारभूषणैः ।।३४।।

उद्धर्षण इति मंत्रेण कृष्णपुष्पैरथार्चयेत् ।।

सत्यव्रत ऋषिश्चास्य त्रिष्टुप्छन्दोऽस्य देवता ।।

सविता चैव विज्ञेयः प्रीतये च वृषस्य च ।।३५।।

शुल्कवर्णं तथाकाशमृष्टिसंघैश्च संस्तुतम् ।।

घटस्थं द्विभुजं ध्यायेद्गदापद्मविधारिणम् ।।३६।।

शन्नो देवीति पठनाद्गन्धपुष्पादिभिर्यजेत् ।।

ऋषिः स्यात्कर्दमो विप्राश्छन्दो जागतिका तथा ।।

देवता च भवेच्चाग्निराकाशप्रीतये न्यसेत् ।।३७।।

ध्वजहस्तमहाबाहुं मरुद्भिश्चोपसेवितम्।।

द्विभुजं धूम्रवर्णं च वायुं ध्यात्वा प्रपूजयेत्।।३८।।

राजान इति मन्त्रेण पूजयेत्सिततंडुलैः।।

ऋषिर्नारायणच्छन्दो गायत्री देवता द्विजाः।।३९।।

देवता च भवेद्वायुः प्रीतये तस्य योजयेत् ।।

पूषारक्तश्च द्विभुजो रक्तपद्मासनस्थितः ।।2.2.11.४०।।

राजान इति च ऋचा पूजयेद्गन्धचन्दनैः।।

गोभिलोस्य ऋषिः पङ्क्तिश्छन्दोऽथ जगती स्मृतम् ।।

देवता च भवेद्वायुः प्रीतये विनियोजयेत् ।।४१।।

वितथं श्यामवर्णं च चतुर्भिर्बाहुभिर्वृतम्।।

मृगाक्षपाशखट्वाङ्ग शूलं च दधतं करैः ।।

मेषारूढं विशालाक्षं राजानो मह्यमीरयन् ।। ४२ ।।

गृहक्षतं तथा शुक्लं चतुर्भिर्गर्दभैर्वृतम् ।।

शूलं दंडं च खड्वांगं दधतं वृषवाहनम् ।। ४३ ।।

पीतवस्त्रधरं देवं जटामुकुटसंयुतम् ।।

आशुः शिशान इति मन्त्रेण पूजयेद्गन्धचन्दनैः ।। ४४ ।।

पुष्पदंत ऋषिस्त्रिष्टुप्छन्दश्च परिकीर्तितम् ।।

ईश्वरस्य देवताया प्रीतये विनियोजयेत् ।। ४५ ।।

यमं ध्यायेत्कृष्णवर्णं महिषस्थं द्विबाहुकम् ।।

दण्डपाशधरं चैव केयूराद्यैर्विभूषितम्।। ४६ ।।

ईशानेति च मन्त्रेण पूजयेत्कुसुमादिना ।।

वामदेव ऋषिः पंक्तिश्छन्दः कालोस्य देवता ।। ४७ ।।

षडाननं च गन्धर्वं पीतं ध्यायेच्चतुर्भुजम् ।।

पीतांबरधरं चैव नानाभरणभूषितम् ।। ४८ ।।

यद्देव इति मन्त्रेण पूजयेत्कुसुमादिना ।।

हारीतोस्य ऋषिः प्रोक्तो जगतीछन्द ईरितम् ।।

हिरण्यगर्भो देवतास्य प्रीतये विनियोजयेत् ।। ४९ ।।

भृङ्गराजं जटारूढं स्वच्छं पीतांबरं शुभम् ।।

चक्षुः पीतेति मन्त्रेण पूजयेद्गन्धचंदनैः ।। 2.2.11.५० ।।

ऋषिश्चागस्तिराख्यातस्त्रिष्टुप्छन्दः प्रकीर्तितम् ।।

विश्वेदेवा देवता च भृङ्गराजस्य प्रीतये ।। ५१ ।।

पीतं मृगं मृगारूढं जटामुकुटमंडितम् ।।

परो देवा इति मंत्रेण पूजयेद्बलिपायसैः ।। ५२ ।।

कपिलश्च ऋषिः प्रोक्तो गायत्री छन्द ईरितम् ।।

वरुणो देवता चास्य प्रीतये विनियोजयेत् ।। ५३ ।।

ध्यायेत्पितृगणं शुक्रं चतुर्भिर्बाहुभिर्वृतम् ।।

पितृभ्य इति मन्त्रेण पूजयेत्कुसुमादिना ।। ५४ ।।

शुनःशेप ऋषिश्चास्य त्रिष्टुप्छन्दश्च देवता ।।

विश्वेदेवाः समाख्याताः पितृमेधेन पूजयेत् ।। ५५ ।।

दौवारिकं चाष्टभुजं कृष्णवर्णं विचिन्तयेत् ।।

रक्तवस्त्रपिंगलाक्षं कृष्णव्याघ्रोपरि स्थितम् ।। ५६ ।।

यो नः पितेति मन्त्रेण पूजयेद्भक्तितत्परः ।। ५७ ।।

वैश्वानर ऋषिश्चास्य गायत्री छन्द ईरितम् ।।

देवता च भवेच्छक्तिर्विनियोगश्च पूजने ।। ५८ ।।

शंखाभं चैव सुग्रीवं द्विभुजं चक्रधारिणम् ।।

हंसारूढं महाकायं बलिविज्ञानकारणम् ।। ५९ ।।

शंखपद्मधरं चैव महिषस्थं विचिन्तयेत्।।

स इषु हस्तेति मंत्रेण पूजयेद्रक्तभूषणैः ।। 2.2.11.६० ।।

ऋषिः शंखस्तथाच्छन्दः पङ्क्तिः सोमोऽथ देवता ।।

श्वेतं जलाधिपं ध्यायेद्गन्धर्वाद्यैश्च वेष्टितम् ।। ६१ ।।

ऋष्यासनगतं ध्यायेच्छ्वेतगन्धेन चर्चयेत् ।।

बृहस्पते परिदीया इति मंत्रेण भक्तितः ।। ६२ ।।

त्र्यंबकोऽस्य ऋषिस्त्रिष्टुप्छन्दो देवो जलाधिपः ।।

ध्यायेच्च असुरं रक्तं करालं नरवाहनम् ।। ६३ ।।

दशभिर्बाहुभिर्युक्तं कृष्णवस्त्रानुलेपनम् ।।

शन्नो देवीति मंत्रेण कृष्णपुष्पैः प्रपूजयेत्।। ६४ ।।

ऋषिर्वैश्वानरश्छन्दो विराडित्यभिधीयते।।

वैश्वानरोत्तरो देवः प्रीतये तस्य योजयेत् ॥ ६५॥

शेषं षडाननं ध्यायेत्कृष्णं च मधुपिंगलम् ॥

मेषस्थं कुण्डलोपेतं नागयज्ञोपवीतिनम् ॥

उद्वर्ष इति मन्त्रेण पूजयेद्भूतिमिच्छता ॥ ६६॥

पापं रक्तं त्रिनेत्रं च रक्तं प्रान्ते विचिन्तयेत् ॥

रक्तश्मश्रुधरं चैव वरहस्तं विचिन्तयेत् ॥ ६७।।

सिद्धो वीरेति मन्त्रेण कृष्णपुष्पैरथार्चयेत्।।

यमं च कृकराक्षं च आकुञ्चन्मूर्धजे द्विजाः।।६८।।

कपिलोऽस्य ऋषिश्छन्दोऽनुष्टुप् चैव प्रकीर्तितम् ।।

देवता च यशः ख्यातं प्रीतये विनियोजयेत् ।। ६९ ।।

यमं च कृकराक्षं च क्षमाकुञ्चितमूर्धजम् ।। ।।

खरस्थं द्विभुजं ध्यायेदिमं मन्त्रमुदीरयेत् ।। 2.2.11.७० ।।

वासुकिः स्यादृषिश्चास्य पंक्तिश्छन्दश्च देवता ।।

हिरण्यगर्भ इत्युक्तः प्रीतयेऽस्य नियोजयेत् ।। ७१ ।।

अर्धपीतं च द्विभुजं रक्ताक्षं धूम्रमेव वा ।।

देवताभिश्च संपन्नं वातो वारेतिरेव च ।। ७२ ।।

ऋषिर्वायुश्च गायत्री छन्दो वायुश्च देवता ।। ७३ ।।

मुग्धरक्तं शंखचक्रगदापद्मधरं तथा ।।

पीतवस्त्रं पन्नगस्थं हारकेयूरमंडितम् ।। ७४ ।।

अवसृष्टा परापत इति मन्त्रेण पूजयेत् ।।

अग्निश्चास्य ऋषिः प्रोक्तच्छन्दः सोमश्च देवता ।। ७५ ।।

पीतं भल्लाटकं ध्यायेत्पद्मस्थं रक्तभूषणम् ।।

द्विभुजं पद्महस्तं च देवमेवं विचिन्तयेत् ।।

यन्मातुरिति मन्त्रेण पूजयेत्सिततंडुलैः ।। ७६ ।।

जम्भकोऽस्य ऋषिश्छन्दो गायत्री समुदाहृता ।।

देवता च भवेत्कुम्भः प्रीतये विनियोगतः ।। ।। ७७ ।।

सोमं ध्यायेच्छ्यामरूपं पद्मासनगतं परम् ।।

नानाभरणसम्पन्नं किरीटवरधारिणम् ।।

मर्माणितेति मन्त्रेण गन्धाद्यैरपि पूजयेत् ।। ७८ ।।

ऋषिः स्वार्थो वेदश्छन्दो जगतीत्यभिधीयते ।।

देवता च भवेत्सोमः प्रीयते विनियोजयेत् ।। ७९ ।।

दर्पं ध्यायेत्कृष्णवर्णं कृष्णांबरधरं तथा ।।

नागयज्ञोपवीतिं च शिखिस्तंभं द्विजोत्तमाः ।। 2.2.11.८० ।।

पश्चदीशेति मन्त्रेण गन्धाद्यैः परिपूजयेत् ।। ८१ ।।

मन्त्रश्चास्य ऋषिश्चास्य पञ्चायत नमीरितम् ।।

पंक्तिश्छन्दस्तथा प्रोक्तं देवः पञ्चाननः स्मृतः ।। ८२ ।।

श्यामवर्णां दितिं ध्यायेद्द्विभुजां पीतविग्रहाम् ।।

सर्वलक्षणसंपन्नां सर्वालंकारशोभिताम् ।। ८३ ।।

सुपर्णोऽसीति मन्त्रेण पूजयेत्पीतचन्दनैः ।। ८४ ।।

ऋषिर्नारायणश्छन्दो जगती परिकीर्त्यते ।।

भवेद्देवो भार्गवश्च इष्टार्थे परिपूजयेत् ।। ८५ ।।

रक्ताभामदितिं ध्यायेत्सर्वालंकारभूषिताम् ।।

शुक्रांभारितिमन्त्रेण गन्धाद्यैरभिपूजयेत् ।। ८६ ।।

वामदेव ऋषिश्चास्य गन्धाद्यैरभिपूजयेत् ।

देवः शुक्रः समाख्यातः स्तुतौ च विनियोजयेत् । । ८७

ईशानादिकोणगतान्पूजयेत्सुसमाहितः ।

आपं ध्यायेच्छुक्लवर्णं कुण्डलाद्यैर्विभूषितम् । । ८८

इदं विष्णुरिति मन्त्रेण त्रिगन्धेन समर्चयेत् । । ८९

ऋषिः स्यात्कर्दमश्छन्दो विराडित्यभिधीयते । । 2.2.11.९०

देवः सोमः समाख्यातः प्रीतये विनियोजयेत्।।

सरितं द्विभुजं रक्तं रक्तश्वेतांबरान्वितम्।।९१।।

पयसा शुक्ल इति मन्त्रेण पूजयेत्कमलादिना ।। ९२ ।।

नारायण ऋषिश्चास्य पंक्तिश्छन्दः प्रकीर्त्यते ।।

नारायणः स्वयं देवः प्रीतये विनियोजयेत् ।। ९३ ।।

जयं ध्यायेत्पीतवर्णं द्विभुजं वरहस्तकम् ।।

देवं किरीटसम्पन्नं सर्वालंकारभूषितम् ।। ९४ ।।

दृष्ट्वा परिश्रुत इति मन्त्रेणानेन पूजयेत् ।।

ऋषिर्नारायणश्छन्दः पंक्तिः सोमोऽथ देवता ।।९५।।

रुद्रं ध्यायेद्रक्तवर्णं शीतांशुकृतशेखरम्।।

द्विभुजं शूलहस्तं च डमरुं च पराभवेत् ।।९६।।

दिवो मूर्धन्निति मन्त्रेण ऋषयः समुदाहृताः।।

ऋषिः स्यात्काश्यपश्छन्दो विराडित्यभिधीयते ।।९७।।

स्वयं देवो विनियोगः स्तुतौ च विनियोजयेत् ।।

द्विभुजं रक्तपद्मस्य पंकजद्वयधारिणम् ।। ९८ ।।

अस्य किरीट इति मन्त्रेण रक्तस्रक्चन्दनादिभिः ।।

पूजयेत्परया भक्त्या ऋषिर्नील उदाहृतः ।।

त्रिष्टु्प्छन्दो देवता स्याद्ध्रदोपि परिकीर्तितः ।। ९९ ।।

सवितारं तथा ध्यायेत्पद्मस्थं द्विभुजप्रभुम्।।

नानाभरणशोभाढ्यं सप्ताश्वरथमंडितम् ।। 2.2.11.१०० ।।

यद्देवा इति मन्त्रेण गन्धाद्यैः परिपूजयेत् ।।

ऋषिरौतथ्य आख्यातः प्रीतये विनियोजयेत् ।। १०१ ।।

ध्यायेद्रक्तं विवस्वन्तं द्विभुजं पद्मविग्रहम्।।

अविद्या इति मन्त्रेण पूजयेद्गन्धचन्दनैः ।। १०२ ।।

ऋषिर्गन्धः समाख्यातस्त्रिष्टुप्छन्दश्च ईरितम् ।।

देवता च भवेत्सोमः स्तुतौ च विनियोजयेत् ।। १०३ ।।

विबुधाधिपं ततो ध्यायेत्पीतं वृषभवाहनम् ।।

चतुर्भुजं यष्टिहस्तमक्षमालैकहस्तकम् ।।

त्रिनेत्रं रक्तवस्त्रं च मुकुटाद्यैरलंकृतम् ।। १०४ ।।

ऋषिर्हारीत इत्युक्तो जगतीच्छन्द ईरितम् ।।

देवता च भवेच्छक्तिः प्रीतये विनियोजयेत् ।। १०५ ।।

मित्रं ध्यायेच्छुक्लवर्णं वराभयकरं परम् ।।

मेषस्थं च त्रिनेत्रं च किरीटवरमंडितम् ।। १०६ ।।

धनाकरस्त्विति मन्त्रेण पूजयेद्दधिपायसैः।।१ ०७।।

ऋषिरौतथ्य इत्युक्तो जगती छन्द ईरितम् ।।

देवता च भवेद्यक्ष्मा प्रीतये विनियोजयेत् ।।१०८।।

पीतास्यं राजयक्ष्याणं करालं च विचिंतयेत्।।

यशो रूपमिति मन्त्रेण गन्धाद्यैः परिपूजयेत् ।। १०९ ।।

दध्यङ्ङाथर्वण ऋषिर्गायत्री छन्द ईरितम् ।।

यक्ष्मा च देवता चैव स्तुतौ च विनियोज येत् ।।2.2.11.१ १ ०।।

शुक्लांबरधरं ध्यायेद्द्विभुजं शिखिवाहनम् ।।

यमं विनेति मंत्रेण पूजयेद्भक्तितत्परः ।।१११।।

ऋषिः स्यान्नारदः प्रोक्तश्छन्दोनुष्टुप्प्रकीर्तितम् ।।

विवस्वान्देवता चैव क्रतौ च विनियोजयेत् ।।११२।।

एवं ध्यात्वा विवस्वंतं महाकायं महोदरम् ।।

अभिन्नरूपमंत्रेण गन्धाद्यैः परिपूज येत् ।। ११३ ।।

काश्यपोस्य ऋषिश्छन्दस्त्रिष्टुब्देवः शचीपतिः ।। ११४ ।।

बहिरीशानकोणेषु देवादीन्परिपूजयेत् ।।

कूष्माण्डैर्वरणापुष्पैः शौरकैर्वा समर्चयेत् ।। ११५ ।।

पीतां करालिकां ध्यायेच्चरकीं वरवर्णिनीम् ।।

स्वब्जस्थां द्विभुजां चैव गुञ्जाहारोपशोभिताम् ।। ११६ ।।

पीतिन्यरूपमन्त्रेण पूजयेद्भूतिमिच्छुकः ।।

बलदेव ऋषिश्चास्य छन्दो गौरी च देवता ।। ११७ ।।

ध्यायेद्विदारिकां रक्तां नवयौवनसंयुताम् ।।

पवित्रेण पुनीहीति मंत्रेणानेन पूजयेत् ।। ११८ ।।

ऋषिर्गर्गः समाख्यातस्त्रिष्टुप्छन्दोस्य देवता ।।

रुद्रोऽपि च समाख्यातः स्तुतौ च विनियोजयेत् ।। ११९ ।।

पापादिराक्षसीं ध्यायेत्सौरभेयोपरिस्थिताम् ।।

कया न इति मंत्रेण पूजयेद्गन्धचन्दनैः ।। 2.2.11.१२० ।।

ऋषिः सुवर्ण आख्यातः पङ्क्तिश्छन्दः प्रकीर्तितम् ।।

देवता च महादेव इष्टार्थे विनियोजयेत् ।। १२१ ।।

कुण्डवेद्या अंतरे च स्थापवेद्विधिवद्बुधः ।।

पर्वताग्रमृदं चैव गजदंतमृदं तथा ।। १२२ ।।

वल्मीके संगमे चैव राजद्वारचतुष्पथात् ।।

कुशमूलमृदं चैव यज्ञियस्य वनस्पतेः ।। १२३ ।।

इन्द्रवल्ली तथाक्रांत अमृती त्रपुषस्य च ।।

मालती चंपकं चैव तथा उर्वारुकस्य च ।। १२४ ।।

पारिभद्रस्य पत्रैश्च परितः परिवेष्टनम् ।।

पञ्चतुंगस्य परितो मुखे कुर्यात्फणान्वितम् ।। १२५ ।।

श्रीफलं बीजपूरं च नालिकेरं च दाडिमम् ।।

धात्रीं जंबुफलं चैव अन्यया दोषमादिशेत् ।।१२६।।

पञ्चरक्तं सुवर्णं च निक्षिपेद्वरुणं यजेत् ।।

पञ्चोपचारैर्विधिवद्गन्धपुष्पादिभिर्यजेत्।।१२७।।

उद्वर्तन इति मन्त्रेण वरुणं च पुनर्यजेत् ।।१२८।।

अस्य मंत्रस्य च ऋषिर्विष्णुश्छन्द उदाहृतम् ।।

गायत्री देवता पाशी प्रीतये विनियोजयेत् ।। १२९ ।।

पञ्चगंधान्विनिक्षिप्य हस्तं दत्त्वा पठेत्ततः ।। 2.2.11.१३० ।।

सर्वे समुद्राः सरितः सरांसि च महाह्रदाः।।।

आयांतु सर्वपापघ्नाः सर्वलोकसुखावहाः ।। १३१ ।।

गंगाद्याः सरितः सर्वास्तीर्थानि जलदाः नदाः ।।

आयांतु यजमानस्य दुरितक्षयकारकाः ।। १३२ ।।

अघोराज्यष्टककृता वास्तोष्पतय इत्यपि ।।

शतं वा चाष्टसंयुक्तं सहस्रं वा विशेषतः ।। १३३ ।।

शतार्धं वा हुनेद्विप्रस्तिलैर्वा तंडुलैः सह ।।

पालाशैर्वा पिप्पलैर्वौदुम्बरैर्वा समाचरेत्।।१३४।।

पयोदध्यादिभिर्वापि मध्वाज्यैर्वा विशिष्यते।।

अन्येषां च व्रतेनैव एकैकामथ वाहुतिम्।।१३५।।

अष्टाविंशतिभिश्चान्यैरष्टाष्टौ पंचपंच वा ।। १३६ ।।

चरक्यादींश्चासनैश्च पिष्टकैर्वटकेन वा ।।

रक्तपुष्पेण पत्रेण त्रिमध्वक्तेन यत्नतः ।। १३७ ।।

वास्तोष्पते दृढं जप्त्वा यजेद्वास्तुपतिं यदा ।।

पंचोपचारैर्विधिवत्सांगोपांगैरनंतरम् ।।१३८।।

बलिमासादयेत्पश्चाद्दद्यादेकैकशः क्रमात्।।

ब्राह्मणैश्चैव दद्याच्च सदा आज्यं समाक्षिकम् ।। १३९ ।।

शाल्यन्नं शिखिने दद्यात्तथा नीलोत्पलानि च ।।

ओदनं सोत्पलं दद्यात्पर्जन्याय विचक्षणः ।। 2.2.11.१४० ।।

जयाय पिष्टकं कार्यमिन्द्राय घृतमोदकः ।।

सूर्याय पिष्टकान्नं च सत्याय यवपूलिकाम् ।।१४१।।

भ्रमाय मत्स्यमांसान्नं शष्कुलीमथ पिष्टकम् ।।

वायव्ये च तथा सक्तून्पूष्णे चापूपमेव हि ।। १४२ ।।

वितथाय कलायान्नं गृहर्क्षाय समाक्षिकम् ।।

पूष्णेथ कृशरान्नं च शाल्यन्नं च निवेदयेत् ।। १४३ ।।

गन्धर्वाय कस्तूरिकान्नं कृशरं भृंगराजके ।।

मृगाय यावकान्नं च पितृभ्यो मुद्गपायसम् ।।१४४।।

दौवारिकाय कृशराननडुंहे च पूपकम् ।।

पायसं पुष्पदंताय वरुणाय च पिष्टकम् ।। १४५ ।।

असुराय मोदकांश्चैव दद्यादापिक्षये सुराम्।।

घृतोदनं च सोमाय कणान्नं यक्ष्मणे ददेत् ।। १४६ ।।

रोगाय घृतलड्डूकं सपायसगुडौदनम् ।।

अक्षाय विविधान्नं च भल्लाटाय तथैव च ।। १४७ ।।

सोमाय मधुशाल्यन्नं नागाय गुडपिष्टकम् ।।

अदित्यै चापि गोधूमं घृतपक्वं निवेदयेत् ।। १४८ ।।

दित्यै दद्यात्तथा क्षीरं सितशर्करया सह ।।

क्षीरान्नं चैव पूष्णे च आपवत्साय वै दधि ।। ।। १४९ ।।

सावित्र्यै लड्डुकान्नं च सवित्रे च गुडौदनम् ।।

जयाय घृतमन्नं च मिष्टान्नं च विवस्वते ।। 2.2.11.१५० ।।

विरूपाय च तद्दद्याद्धरिद्रान्नं तथैव च ।।

घृतौदनं च चित्राय रुद्राय घृतपायसम् ।। १५१ ।।

मांसौदनं यक्ष्मणे च कृशरं वरुणाय च ।।

अर्यम्णे शर्करापूपं बहिर्दद्याच्चतुष्टयम् ।। ।। १५२ ।।

चित्रौदनं समांसं च मत्स्यान्नं गुडपिष्टकम् ।।

प्रतिदेवोपरि क्षीरं घृतक्षीरसमन्वितम् ।।

तीर्थतोयसमायुक्तं सुगन्धेन समन्वितम्।।१५३।।

पताका देववर्णेन दद्याद्ब्रह्मादिषु क्रमात् ।।

मंत्रं जपेत्स्वसामर्थ्यात्स्वसामर्थ्यात्स्तुतिं पठेत् ।। १५४ ।।

पुरुषस्तवस्य सूर्य ऋषिर्जगती छन्दः ।।

सविता देवता सोमपाके स्तुतौ विनियोगः ।। १५५ ।।

।। शंकर उवाच ।। ।।

विष्णुर्जिष्णुर्विभुर्यज्ञो यज्ञियो यज्ञपालकः ।।

नारायणो नरो हंसो विष्वक्सेनो हुताशनः ।। १५६ ।।

यज्ञेशः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ।।

आदिदेवो जगत्कर्ता मण्डलेशो महीधरः ।। १५७ ।।

पद्मनाभो हृषीकेशो दाता दामोदरो हरिः ।।

त्रिविक्रमस्त्रिलोकेशो ब्रह्मणः प्रीतिवर्द्धनः ।। १५८ ।।

भक्तप्रियोऽच्युतः सत्यः सत्यवाक्यो ध्रुवः शुचिः ।।

संन्यासी शास्त्रतत्त्वज्ञस्त्रिपंचाशद्गुणात्मकः ।। १५९ ।।

विदारी विनयः शांतस्तपस्वी वैद्युतप्रभः ।।

यज्ञस्त्वं हि वषट्कारस्त्वमोंकारस्त्वमग्नयः ।। 2.2.11.१६० ।।

त्वं स्वधा त्वं हि स्वाहा त्वं सुधा च पुरुषोत्तमः ।।

नमो देवादिदेवाय विष्णवे शास्वताय च ।।

अनंतायाप्रमेयाय नमस्ते गरुडध्वज ।। १६१ ।।

ब्रह्मस्तवमिमं प्रोक्तं महादेवेन भाषितम् ।।

प्रयत्नाद्यः पठेन्नित्यममृतत्वं स गच्छति ।। १६२ ।।

ध्यायंति ये नित्यमनंतमच्युतं हृत्पद्ममध्ये स्वयमाव्यवस्थितम् ।।

उपासकानां प्रभुमेकमीश्वरं ते यांति सिद्धिं परमां तु वैष्णवीम् ।। १६३ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे एकादशोध्यायः ।। ११ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 12

अर्घ्यदानविधिवर्णनम्

।। सूत उवाच ।। ।।

ततो भेर्यादिघोषेण यजमान उदङ्मुखः ।।

कनकतोयेन गन्धेन मुद्गलाग्रेण लेपयेत् ।। १ ।।

ऐशान्यां मध्यभागे वा यजेद्वा सुसमाहितः ।।

वर्तुलाकारयेद्यस्मान्मन इच्छति संजपन् ।। २ ।।

ऋषिः कंठोथ गायत्री छन्द इत्यभिधीयते ।।

देवता पृथिवी चैव स्तुतौ च विनियोजयेत् ।।३।।

विवरे पूजयेत्कर्म ब्रह्माणं च धराधरम् ।।

पृथिवीं गन्धपुष्पाद्यैर्नैवेद्यैर्विविधैरपि ।। ४ ।।

अग्रतोऽष्टदलं लेख्यं स्थापयेत्कलशं ततः।।

मुखे विधाय कनकं राजतेन विनिर्मितम् ।। ५ ।।

शुक्तिशंखसमं वापि विश्वामित्रसमुद्भवम् ।।

पूजयेत्तीर्थतोयेन गन्धपुष्पाक्षतादिना ।।६।।

विष्णुक्रांता वचाकुष्ठचन्दनेन विलोडितम् ।।

क्षीरं च मातुलिंगं च सावित्रं च सदूर्वया ।। ७ ।।

दध्यक्षतं मधुयुतमेवमर्घ्यं च साधयेत् ।।

सितचन्दनवस्त्राद्यैः शाल्यैश्च विविधैरपि ।। ८ ।।

अव्रणं कलशं कृत्वा पञ्चवर्णसमन्वितम् ।।

आवाहयेत्तोयनिधिं मंत्रेणानेन भक्तितः ।। ९ ।।

आयाहि भगवन्देव तोयमूर्ते जलेश्वर ।।

हृद्वर्णार्घ्यं मया दत्तं परितोषाय ते नमः ।। 2.2.12.१० ।।

गृहेभ्यश्चैव सोमाय त्वष्ट्रे चैव च शूलिने ।।

इमं मे वरुणेत्यादि प्रत्येकं स्याद्गतित्रयम् ।। ११ ।।

ततोर्घ्यदानं विधिवत्क्षीरेण हविषा मधु ।।

यजमानः सपत्नीकः कुंभं कुक्षौ निधाय च।।१२।।

हिरण्यगर्भेति मंत्रस्य भरद्वाजऋषिः स्मृतः ।।

छन्दश्च जगती ख्यातं देवता च जलाधिपः।।१३।।

वरुणस्योत्तंभनेति मंत्रस्य जलकुंभं निवेदयेत् ।।

अस्य मंत्रस्य च ऋषिर्नारदः परिकीर्तितः ।।

विराट्छन्दश्च ईशानो देवता समुदाहृता ।।१४।।

मोचयेन्मीनयुग्मं च मेषयुग्मं तथैव च ।।

संभवे पक्षियुग्मं च आडीं वा चक्रवाककम् ।।१५।।

मोचयेन्नागयुग्मं च आयुवृद्धेश्च हेतवे ।।

दिक्षु जीवंतिकां दद्याद्राक्षसेभ्यो बलिं हरेत् ।। १६ ।।

निर्मितं माषभक्तेन रक्तपुष्पैरलंकृतम् ।।

क्षात्रको लक्ष्मणश्चैव मणिभद्रो गणेश्वरः ।।

सबिंदुकेन हंतेन दिक्षु मध्ये यथा क्रमात् ।। १७ ।।

ये भवा भाविनो भूता ये च तेषु मयासिनः ।।

आहरं तु बलिं तुष्ट्या प्रयच्छंतु शुभं मम ।। १८ ।।

इत्युक्त्वा च बलिं दद्यान्नमस्कुर्यादनंतरम् ।।

दद्यात्पयस्विनीं गां च आचार्याय विशेषतः ।। १९ ।।

अन्येषां हि हिरण्यं च गां च दद्याद्द्विजन्मने ।।

व्याहृतिद्वितयं चैव ततो वारुणपंचकम् ।। 2.2.12.२० ।।

प्राजापत्यं स्विष्टकृच्च जुहुयात्तदनंतरम् ।।

घृतैः स्विष्टकृतं नास्ति तथा रसविसारकैः ।। २१ ।।

पद्मोत्पलैर्मातुलिंगैः पनसैर्मातुलुंगकैः ।।

मधूकैर्विश्वपुष्पैश्च तथाम्रातककाशकैः ।। २२ ।।

अभिषेकं ततः कुर्यात्सुवास्त्विति च वै जपन् ।।

दद्यात्पूर्णां च विधिवत्सूर्यायार्घ्यं निवेदयेत् ।। २३ ।।

पञ्चदोषं पुरस्कृत्य ब्राह्मणानुमतेन च ।।

गृहं प्रविश्य च ततो ब्राह्मणानथ भोजयेत् ।। २४ ।।

दीनांधकृपणे चैव दद्याद्वित्तानुसारतः ।।

ज्ञातिभिः सह भुञ्जीत दधिक्षीरामिषं विना ।। २५ ।।

न क्षीरं च कषायं च भर्जितं शाकमेव च ।।

न काण्डं च न पुष्पं च करीरं च कदाचन ।। २६ ।।

शाल्यन्नं मूलकं चैव पनसाम्रफलानि च ।।

मस्तं मधुघृतगुडं मातुलिंगं ससैंधवम् ।। २७ ।।

बदरं धातकिफलं कुन्द पुष्पं तथा तिलम् ।।

एतत्प्रशस्तं जानीयान्मरीचानि विशेषतः ।। २८ ।।

त्रिरात्रमथ सप्ताहं परित्यज्य खले ततः ।।

पञ्चांगकं ततः कुर्यात्स्थाप येन्नेति युग्मकम् ।। २९ ।।

प्रथमा चार्कहस्तेन द्वितीया दशहस्तिका ।।

वितस्ते तु भवेच्छतं द्विगुणं तदनंतरम् ।। 2.2.12.३० ।।

शतार्धं ततः पश्चात्षष्टिहस्तमनंतरम् ।। ३१ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागेऽर्घ्यदानविधौ द्वादशोऽध्यायः ।।१२।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 13

अग्निहोत्रविधानवर्णनम्

।।सूत उवाच।। ।।

स्वगृह्याग्निविधिं वक्ष्ये योगभेदेषु सत्तमाः ।।

न परोक्तं विधानेन भयदं कीर्तिध्वंसनम् ।। १ ।।

पुत्रा एव च कन्याश्च जनिष्याश्चापरे सुताः ।।

गृह्या इति समाख्याता यजमानस्य दायदाः ।। २ ।।

तेषां संस्कारयागेषु शान्तिकर्मक्रियासु च ।।

आचार्यविहितः कल्पस्तस्माच्चक्ष इति स्मृतः ।। ।। ३ ।।

त्रिकुशं परिगृह्णाति ततश्च कुरुते दृढम् ।।

ऋषिर्दक्षश्च जगती छन्दो विष्णुश्च देवता ।।४।।

कश्यपस्तृप्यतामिति भूरसीति च शोधनम् ।।

ऋषिः सुवर्ण गायत्री जगती छन्द इष्यते ।।

देवता च भवेत्सूर्यः पृथिवीशोधने न्यसेत् ।। ५ ।।

ऐशान्यादिक्रमेणैव प्रादक्षिण्येन यत्नतः ।।

यत्पवित्रेति मंत्रेण तर्जन्यंगुष्ठयोरपि ।। ६ ।।

कुशगर्भत्रयेणापि भ्रामयेद्वलयाकृति ।।

परिसमूहनमित्युक्तं स्नपनं शृणु सत्तम ।। ७ ।।

ईशानादेश्च संस्कारं कुर्यात्परिसमूहनम् ।।

प्रतिष्ठायां चरेत्यादिनैर्ऋत्यादिग्रहं मखे ।। ८ ।।

परिसमूहनमैन्द्रस्य पर्वतोऽस्य ऋषिः स्मृतः ।।

पंक्तिच्छन्दः समुद्दिष्टमिन्द्राणी चास्य देवता ।। ९ ।।

गोमयं च त्रिगंधं च पंचमूर्तिकयापि च ।।

कनिष्ठं गुह्यकं त्यक्त्वा देवतार्थे न लेपयेत् ।। 2.2.13.१० ।।

मानस्तोकेनेति ऋचा विश्वेदेवश्च पूज्यताम् ।।

ऋषिः स्यात्काश्यपच्छन्दो विश्वदेवः प्रकीर्तितः ।। ११ ।।

योजयेल्लेपयेद्विद्वान्घटमाबद्ध्य सत्तमाः ।।

मध्यमातर्जनीभ्यां च कुशमारभ्य दक्षिणम् ।। १२ ।।

चतुरस्त्रीकृते क्षेत्रं हस्तमानं तथाननम् ।।

यज्वभिरिति मन्त्रेण सूर्यः प्रीणाति सत्तमाः ।। १३ ।।

दक्षे सार्धांगुलं त्यक्त्वा पश्चिमेन परित्यजेत् ।।

उत्तराग्रां लिखेद्रेखामन्यथाऽमंगलं भवेत् ।। १४ ।।

आप्यायस्वेति मन्त्रस्य धन्वतरि ऋषिः स्मृतः ।।

त्रिष्टुप्छन्दः समाख्यातं सविता चात्र देवता ।। १५ ।।

तल्लग्नं दक्षिणे चैकं पूर्वार्द्धद्वादशाङ्गुलम् ।।

अन्यांगुलांतरं चैकं ततः सप्तांगुलं भवेत् ।। १६ ।।

कुशमूलेन स्वर्णेन प्रतिष्ठायां च राजते ।।

अंगुष्ठानामिकाभ्यां च संज्योतीति च संजपन् ।। १७ ।।

संस्मरेन्मित्रा वरुणौ ऋषिरौतथ्यसंज्ञकः ।।

पंक्तिश्छन्दः शिवो देवो रेखामथ च योजयेत् ।। १८ ।।

तेनैवोर्द्ध्वकरौ कुर्याद्दक्षवामे सकृत्सकृत् ।।

भास्वराय क्षिपेदग्नौ तत ऊर्ध्वं रणं स्मृतम् ।। १९ ।।

सदसंपदृषिः कर्णो विराडिति उदाहृतः ।।

छन्द इन्द्रो देवता च पृथिव्या देवता भवेत् ।। 2.2.13.२० ।।

कुशपुष्पोदकेनापि देवतीर्थेन सत्तमाः ।।

पंचगव्येन मतिमान्पञ्चरत्नोदकेन च ।।

पञ्चपल्लवतोयेन महायोगे विशेषतः ।। २१ ।।

अथोनस्य च मन्त्रस्य वरिष्ठः परिकीर्तितः ।।

छन्दोऽथ देवी गायत्री देवता गणनायकः ।। २२ ।।

कीशादग्निं समादाय मे गृह्णामीति संपठन् ।।

मे गृह्णामीति मंत्रस्य ऋषिर्गौतम ईरितः ।।

छन्दोनुष्टुप्समाख्यातं वामदेवोऽथ देवता ।। २३ ।।

क्रव्यादग्निं परित्यज्य क्रव्यादमग्निमीरयन् ।।

मन्त्रेणानेन मतिमान्दक्षिणस्यां विनिक्षिपेत् ।। २४ ।।

अस्य मन्त्रस्य हारीत ऋषिः स्याच्छन्द इष्यते ।।

देवता वामदेवोऽपि दाहेपि विनियोजयेत् ।। २५ ।।

आवाहनं ततः कुर्यात्संसरक्षेति संजपन्।।

संसरक्षेति मंत्रस्य ऋषिर्नील उदाहृतः ।।

विराट् छन्दोऽथ विज्ञेयो देवता च शतक्रतुः ।। २६ ।।

वैश्वानर इति ऋचा अग्निस्थापनमीरितम्।।

मंत्रमाचाति प्रीणाति ऋषिः स्यात्काश्यपः स्मृतः ।।

अनुष्टुप् च भवेच्छन्दो देवता हव्यवाहनः ।। २७ ।।

बध्नासीति च मंत्रेण अग्निं कुर्यात्प्रदक्षिणम् ।।

ऋषिः स्वयंभूराख्यातो विराट्छन्द उदाहृतम् ।।

देवता परमात्मा च नमस्कारेण योजयेत् ।। ।। २८ ।।

ततोग्निदक्षिणे भागे प्रागग्रकुशकुब्जके ।।

द्विहस्ते भवतश्चैव हस्तपानासने अथ ।। २९ ।।

ब्रह्मन्निहोपवेश्यतामिति ब्रह्माणं विनिवेशयेत् ।।

ब्रह्मयज्ञानृचा दोग्ध्री धेनुरिति त्वृचा ।।2.2.13.३०।।

द्वाभ्यामिति च मन्त्राभ्यामिति ब्रह्मप्रवेशनम्।।

शक्रोऽस्य त्रायतामेति शृणु ऋग्भ्यामृषीद्विजाः ।।३१।।

प्रजापतिर्ऋषिश्छन्दस्त्रिष्टुब्देवोऽथ शंकरः ।।

नारदश्च ऋषिश्छन्दस्त्रिष्टुब्देवः शचीपतिः ।। ३२ ।।

अग्नेरुत्तरभागे च हस्तमानांतरेपि च ।।

प्रणीता स्थापनं कुर्याद्दिन एहीति संजपन्।। ३३ ।।

मन्त्रस्य च ऋषिश्छन्दो वामदेवः प्रकीर्तितः ।।

जगती च भवेच्छन्दो देवता च शतक्रतुः ।। ३४ ।।

श्रीपर्णीसहकारोत्थं वरुणस्य विशेषतः ।।

षडंगुलेन विस्तारं विंशत्यंगुलकेन च ।। ३५ ।।

दैर्घ्येण च चतुःख्यातकांगुलं च प्रमाणतः ।।

द्व्यंगुले चरकाकायामासासन्देवकर्मणि ।। ३६ ।।

अभिचारे भवेत्कांस्यं ताम्रं स्याच्छांतिकर्मणि ।।

प्रतिष्ठायां मृन्मयं च अष्टांगुलमथापि वा ।। ३७ ।।

द्वादशांगुलप्रस्तारं तैजसं मानवर्जितम्।।

इमं मे वरुणेनर्चा प्रणीतामथ पूरयेत् ।। ३८ ।।

सागरा अथ प्रीयंतामित्थमाध्यानमाचरेत् ।।

सकृदच्छिन्नदर्भेण दिग्विदिक्षु परिस्तरेत् ।। ३९ ।।

नैर्ऋते दिक्षु सीतः स्याद्वैश्वदेवे तथैव च ।।

कया नश्चित्र इत्यृचा नागः प्रीणाति सत्तमाः ।। 2.2.13.४० ।।

अस्य मंत्रस्य च ऋषिर्भरद्वाज उदाहृतः ।।

छन्दोऽनुष्टुब्देवता च ईशानः परिकीर्तितः ।। ४१ ।।

प्रयोजनादिकं द्रव्यं तत आसादयेत्क्रमात् ।।

दक्षिणादि उत्तरांतं धुवास इत्यृचापि च ।। ४२ ।।

ऋषिः स्यान्नारदश्छन्दोनुष्टुप्चैवाथ देवता ।।

शतक्रतुश्च प्रीणाति योजयेदथ सादरात् ।। ४३ ।।

काष्ठं च पश्चिमे कुर्यात्प्रयच्छन्पश्चिमेन तु ।।

पुरतोऽन्नं पञ्चव्रीहीस्तिलाश्च सहसर्षपान् ।। ४४ ।।

दक्षिणे चैव आपूपं भृंगराजं तथैव च ।।

फलपत्रे वामभागे पिष्टकं दधि दुग्धकम् ।। ४५ ।।

पनसं नारिकेलं च मोदकं लड्डुकं तथा ।।

प्रणीतां च दिग्विदिक्षु स्थापयेदविचारयन् ।। ४६ ।।

प्रणीतां न स्पृशेज्जातु होमकाले कथंचन ।।

स्नानकुंभं च भो विप्रा यावद्यागः प्रवर्तते ।। ४७ ।।

उच्चीरकं मातुलिंगं दूर्वां धात्रीफलानि च ।।

तुलसीमालतीजाती जलजानि विशेषतः ।। ४८ ।।

ऐशान्यां स्थापयेत्सर्वं यच्च वै कंकतीमयम् ।।

नैर्ऋत्येति विशेषोयं यच्च वैकंकती शमी ।। ४९ ।।

यथायोगेन तत्सर्वं ग्राह्यं तत्पत्रमेव च ।।

क्षीरपाके तु क्षीरांते चरुस्थालीमथानयेत् ।। 2.2.13.५० ।।

पविवच्छेदनकुशैश्छिंद्यात्प्रादेशिकं पुनः ।।

छित्त्वा पवित्रं प्रोक्षण्यां स्थापयेद्बलभिदाम्रकम् ।। ५१ ।।

विष्णो रराटमंत्रेण छेदयेदग्रभागतः ।।

पायसेन काठिनेन प्रमथ्नीयात्कदाचन ।। ५२ ।।

न रसेन न कार्ष्णेन न दृढेन कदाचन ।।

ताम्रेण भस्मना चाथ शुक्तिशंखेन वाग्यतः ।।५३।।

छेदयेत्पिञ्जुलीं चापि पवित्रमथ देशिकः।।

विष्णो रराटमंत्रस्य हारीतश्च ऋषिः स्मृतः ।। ५४ ।।

पंक्तिश्छंदो भवेद्देवः संस्कारे विनियोजयेत् ।।

प्रणीताभाजनं गृह्य प्रोक्षणीं पूरयेत्त्रिभिः ।। ५५ ।।

कायतीर्थेन तत्कुर्याद्देवतीर्थेन चेत्यपि ।।

वामहस्ततले पश्चात्स्थापयेत्प्रोक्षणीयकम् ।। ५६ ।।

मध्यमामध्यमांगुष्ठ अपामार्गेण मंत्रिभिः ।।

उत्तानं तत्पवित्रं च पवित्रं तेति संजपन् ।। ५७ ।।

ऋषिः स्याद्गौतमश्छन्दो धर्मराजोऽथ देवता ।।

अथ स्थापितद्रव्याणि प्रोक्षयेत्स्थापयेत्क्रमात् ।। ५८ ।।

सकृद्द्रव्ये त्रिभिः काष्ठैस्त्रिवारं मंत्रपुष्पकैः ।।

स्थिरस्थाने तु संप्राप्तप्रणीतायाश्च दक्षिणे ।। ५९ ।।

प्रादेशांतरतश्चैव आज्यस्थालीमथार्पयेत् ।।

अग्रतो मण्डलं कृत्वा वह्निं विप्रे तु स्थापयेत् ।। 2.2.13.६० ।।

द्यूतं निःसारयेत्तत्तु निरूप्याशु क्रमेण तु ।।

ईशानेति च मंत्रेण अधिश्रपणमीरितम् ।।६१।।

ऋषिर्नारायणश्छन्दः पंक्तिरीशोऽथ देवता।।

पर्यग्निकरणं कुर्यादादराद्द्वयमप्यथ ।। ६२ ।।

अवेक्ष्य ईशमारभ्य दक्षिणावर्तकेन तु ।।

कुलायनीति मंत्रेण ऋषिच्छन्दादिकं स्मरन् ।। ६३ ।।

परिवेष्याज्यस्थालीं च त्रिः सकृद्वा समाहितः ।।

पितरस्तृप्यतामिति संस्कारे मातरः स्मृताः ।। ६४ ।।

ऋषिः स्याज्जमदग्निश्च गायत्री छन्द ईरितम् ।।

देवता च पिनाकी स्यादग्निष्टोमे च योजयेत् ।। ६५ ।।

घृतस्य च तथा त्वं नो ब्रह्मा वै तृप्यतामिति ।।

षडंगुलं स्रुवं पश्चाद्गृहीत्वाग्नौ प्रतप्य च ।। ६६ ।।

त्रिरात्रं तु महायोगे सकृदन्यत्र सत्तमाः ।।

संमार्जयेत्कुशेनापि मूलादग्रं तु सेचयेत् ।। ६७ ।।

अग्रान्मूलं पुनः कुर्यात्संपूज्य च पुनः पुनः ।।

त्रिभिस्त्रिभिः प्रणीतोदे प्रोक्षयेत्तदनंतरम् ।। ६८ ।।

भुवं पुनः प्रतप्याथ प्रोक्षण्युत्तरतो न्यसेत् ।।

आज्यपात्रं पुरस्कृत्य पवित्रं च समाहरेत् ।।६९।।

अंगुष्ठे द्वे अनामे तु गृह्णीयात्तत्पवित्रकम् ।।

अष्टांगुलं मध्यकृत्वो घृतं त्रिः पवनं चरेत् ।।2.2.13.७०।।

पाताले त्रिस्तथाकाशे अवेक्ष्याज्यं ततस्त्रिभिः ।।

प्रोक्षण्यां च तथा कुर्यादधः संप्रोक्ष्य देशिकः ।। ७१ ।।

ततः पायसमादाय उत्थाय च समन्त्र कम् ।।

तूष्णीं दद्यात्तथा चाग्नौ सन्निवेशेन तत्त्वतः ।। ७२ ।।

सपवित्रं दक्षकरे गृहीत्वा प्रोक्षणीयकम् ।।

अष्टांगुले मूलभागे तज्जलेन ईशादितः ।। ७३।।

अग्निं पर्युक्षयेत्पश्चाद्दक्षिणावर्तकेन च ।।

पवित्रं च प्रणीतायां निधाय प्रोक्षणीयकम् ।। ७४ ।।

संयावार्थं च भो विप्रा अग्निवत्तत्र देशिकः ।।

ध्यायेदग्निं रक्तवर्णं स्रुवहस्तं त्रिबाहुकम् ।। ७५ ।।

कमंडलुं परे हस्ते ततो दक्षकरेण तु ।।

स्रुवं गृहीत्वा जुहुयात्तूष्णीमेव समाहितः ।। ७६ ।।

अंते च देवतोद्देशं प्राजापत्यं समीरयन् ।।

प्रणवांतेन जुहुयात्सर्वत्र द्विजसत्तमाः ।। ७७ ।।

वायुकोणं समारभ्य वह्निकोणान्तकेन तु ।।

अच्छिन्नेन घृतेनैव इन्द्राय तदनंतरम् ।। ७८ ।।

अग्नीषोमात्मकं चैव जुहुयाद्राक्षसादितः ।।

ऐशानकोणपर्यंतं ततो नैमित्तिकं चरेत् ।। ७९ ।।

पश्चात्स्विष्टं ततो दद्याद्दद्याच्च मतिभिस्तथा ।।

वारुणं पञ्चकं चैव कृत्वा पूर्णां ततो लभेत् ।। 2.2.13.८० ।।

उद्वाह इति मंत्र स्य अथर्वण ऋषिः स्मृतः ।।

छंदो देवी च गायत्री देवतं चापि वारुणम् ।। ८१ ।।

प्रकृते योजयेन्मन्त्री स्तुतौ चापि नियोजयेत् ।।

त्वन्नोग्न इति मंत्रस्य ऋषिर्वाशिष्ठसंज्ञकः ।।

छंदश्च बृहती ख्यातं तदेवाग्निः प्रकीर्तितः ।। ८२ ।।

इडो गतमिति मन्त्रस्य ऋषिः को गुह्यसंज्ञकः ।।

छन्दश्च जगती ख्यातं देवो विष्णुः प्रकीर्तितः ।। ८३ ।।

उद्वर्तन इति मंत्रस्य ऋषिः को नु प्रकीर्तितः ।।

छन्दो देवी च गायत्री वरुणश्चाधिदेवता ।।८४।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे त्रयोदशोऽध्यायः ।। १३ ।। ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 14

मखविधानवर्णनम्

।। सूत उवाच ।। ।।

मखे सर्वत्र ब्रह्माणमृत्विजं वरयेदथ ।।

कुशकण्डीं स्वगृह्येन कृत्वाग्निं चार्चयेत्ततः ।। १ ।।

आघाराज्यभागौ तु महाव्याहृतयस्त्रयः ।।

सर्वं प्रायश्चित्तसंज्ञकं प्राजापत्यं च स्विष्टकृत् ।। २ ।।

एतन्नित्यं हि सर्वत्र होमे कर्मणि निर्दिशेत् ।।

प्राजापत्ये च इन्द्राय एतावाघारसंज्ञकौ ।। ३ ।।

अग्नये चैव सोमाय आज्यभागौ प्रकीर्तितौ।।

भूर्भुवःस्वस्त्रयश्चैव महाव्याहृतयः स्मृताः ।।४।।

अयाश्चाग्ने इति तथा ये ते शतमनुत्तमम् ।।

सर्वप्रायश्चित्तसंज्ञा एते वै पञ्च मंत्रकाः ।। ५ ।।

प्राजापत्याहुतिश्चैका स्विष्टकृच्चापरा स्मृता ।।

चतुर्दशैताः कृतयो होतव्या नित्यसंज्ञकाः ।। ६ ।।

कृत्वा सकृद्देवतोद्देशं होमं पश्चात्समाचरेत् ।।

सोमपा ये च गोयागे नरमेधाश्वमेधयोः ।। ७ ।।

अन्यत्र विपरीतेन स्वाहांतेन हुनेद्बुधः ।।

नैमित्तिकं विना नित्यं विफलं याति नान्यथा ।। ।। ८ ।।

नित्यं वर्ज्यं शतार्धेन वैश्वदेवे तथैव च ।।

त्र्यहसाध्यादियागेषु यन्निदेशं शृणु द्विजाः ।। ९ ।।

एकाहे वाघारारज्यौ कृत्वा नैमित्तिकीं कृतीः ।।

समा स्विष्टकृतं विद्यादाकृत्याद्यास्ततः परम् ।। 2.2.14.१० ।।

विशेषतस्त्र्यहादौ तु अघारावाज्यपूर्वकम् ।।

पश्चान्नैमित्तिकं कुर्यात्समाप्तिदिवसे प्यथ ।। ११ ।।

आघाराराज्यपूर्वेण ततो नैमित्तिकं चरेत् ।।

स्विष्टकृद्व्याहृतिश्चैव वारुणाद्यास्तथा हि षट् ।। १२ ।।

द्विजातिः पतितो यत्र द्वित्रिकं च चतुश्चतुः ।।

एकस्मिन्दिवसे कुर्यात्सोमयागे च शैशवे ।। १३ ।।

द्विजातीनां विवाहे तु नैत्यिकं प्रथमं भवेत् ।।

एकस्मिन्दिवसे कुर्यादग्निकार्यं पृथक्पृथक् ।। १४ ।।

दद्यादेकं च नित्यं च पृथङ् नित्यं न चाचरेत् ।।

द्विजातिः पतितो यत्र द्वित्रिकं च चतुश्चतुः ।। १५ ।।

एकस्मिन्दिवसे कुर्यात्तत्रापि नैत्तिकं त्यजेत् ।।

होमे ब्रह्मा स्तुते विष्णुः स्रुवे चैव महेश्वरः ।। १६ ।।

अजस्यानियमे चेन्द्रोऽधिश्रयणं विवस्वतः ।।

पर्यग्निकरणे चैव उद्वाहे मातरः स्मृताः ।। १७ ।।

चन्द्रादित्यौ चोत्पवने वीक्षणे च दिशस्तथा ।।

प्रोक्षण्यां स्थापने दुर्गा इमे लक्ष्मी प्रतिष्ठिता ।। १८ ।।

होमं कुर्याद्द्विजश्रेष्ठा विधिं कुर्यात्समाहितः।।

एतेषु देवताः प्रोक्ता द्विजातीनां हिताय च।।१९।।

यजेत्सुपशुबद्धेषु संस्कारे चैव पर्वणि ।।

देवताः सर्वा ज्ञातव्या एता यज्ञे समाहितैः ।।2.2.14.२०।।

अधिदैवेन जानीयात्करवल्यां पंचफलं यतः।।

तस्मात्सर्वप्रयत्नेन देवतामथ विन्यसेत् ।।२१।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे चतुर्दशोऽध्यायः ।। १४ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 15

देवध्यानवर्णनम्

।। सूत उवाच ।। ।।

अथ वक्ष्यामि सच्चैषां देवानां ध्यानमुत्तमम् ।।

अस्य यज्ञे परिज्ञानाज्जिह्वा सम्यक्फलप्रदा ।।१।।

हिरण्यवर्णां प्रथमां वह्निजिह्वां महाद्युतिम् ।।

कनकाढ्यकरां देवीं हिरण्याख्येष्टसिद्धये ।। २ ।।

कनकां द्विभुजां शुक्लां हस्ताभ्यां दर्भसंयुताम् ।।

कमंडलुं च बिभ्राणां नुमः साधकसिद्धिदाम् ।। ३ ।।

उद्यदिन्दुनिभां रक्तां चतुर्भिर्भुजप ल्लवैः ।।

शंखचक्राभयवरान्दधतीं प्रणमाम्यहम् ।। ४ ।।

भिन्नांजनचयप्रख्यां स्वर्णकुंभं तु वामतः ।।

दक्षिणेन वरारक्तां धारयंतीं नमाम्यहम् ।। ९ ।।

सुप्रभामण्डलाभा च कराभ्यां तत्कृताञ्जलिः ।।

पद्मासनस्था कौशेयवसना मे प्रसीदतु ।। ६ ।।

जपाकुसुमसंकाशा बहुरूपा सखे मम ।।

शुभदा स्याद्भुजैः शुभ्रा सहस्रं दधती परान् ।। ७ ।।

नीलोत्पलनिभे देवि वह्निवर्णपराभवे ।।

जपापुष्पधरे नित्यं सतीरूपे प्रसीद मे ।। ८ ।।

मूलेन वीक्षयेत्स्थानं मंत्रेण खननं मतम् ।।

त्रिसूत्रीकरणं कुर्याच्चतुःसूत्रं निपातयेत् ।। ९ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यम पर्वणि द्वितीयभागे पञ्चदशोऽध्यायः ।। १५ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 16

देवध्यानविधानवर्णनम्

।। सूत उवाच ।। ।।

प्रतिष्ठायाः पूर्वदिने कुर्याद्देवाधिवासनम् ।।

धान्यप्रतिष्ठां तस्यैव यूपं चापि यथाविधि ।। १ ।।

रात्रौ मूलाग्रे च घटे स्थापयेद्गणनायकम् ।।

संपूज्य च विधानेन दिगीशांश्च तथा ग्रहान् ।। २ ।।

ब्रह्माणं च तडागेषु वरुणं शान्तियागके ।।

सोमं च मंडले सूर्यं पादे विष्णुं तथैव च ।। ३ ।।

शैवे शैवं तथा प्रोक्तं प्रपायामथ वारुणम् ।।

आरामे चैव ब्रह्माणं पाद्याद्यैरपि चार्चयेत् ।। ४ ।।

द्रुपदादीति मन्त्रेण स्नापयेत्प्रथमं बुधः ।।

गायत्र्या च ततः पश्चाद्गन्धद्वारेति तैलकम् ।। ५ ।।

सुनाभेति च मंत्रेण द्वाभ्यामेव विशिष्यते ।।

श्रीश्च ते इति कुसुमं फलिनीति च वै फलम् ।। ६ ।।

कांडादिति च मंत्रेण दद्याद्दूर्वाशतं ततः ।।

सिंदोरिवेति सिंदूरं विश्वामिति च मार्जनम् ।। ७ ।।

समिच्छेत्यञ्जनं दद्याद्दुःस्थं सुरासुरा जपन् ।।

चन्दनं यज्वभिर्जप्त्वा मानस्तोकेति चन्दनम् ।। ८ ।।

यूपे चैव विशेषोयमुत्तराग्रं प्रविन्यसेत् ।।

अद्यैव तेन मंत्रेण स्थापयेदथ वारिणा ।। ९ ।।

गायत्र्या प्रथमं चैव आपो हिष्ठेति वै जपन् ।।

शन्नो देवीति द्रुपदां स्नापयेत्तदनन्तरम् ।। 2.2.16.१० ।।

अभिमन्त्र्याथ ब्रह्मेति त्रिरात्रं मंत्रमीरयन् ।।

योगं योगदृढं जप्त्वा पवित्रं विन्यसेत्ततः ।। ११ ।।

त्वं गन्धर्वेति मन्त्रेण तथा सुभाभ इत्यपि ।।

द्वाभ्यां तैलगंधयुतं श्रीसूक्तेनापि पुष्पकम् ।। १२ ।।

धूरसीति च तथा धूपमास्रज्योतिर्भिर्दीपकम् ।।

अनुमीमहताति दद्याद्दूर्वाक्षतं ततः ।। १३ ।।

विश्वामीति च निम्न्यंतकांडादिति तथाक्षतम् ।।

सिंदोरिवेति सिन्दूरं समिधेति तथाञ्जनम् ।। १४ ।।

पादोऽस्येत्यथ भुक्तं स्याद्याः फलिनीति पुनः फलम् ।।

रूपं नेति दहेद्रूपं न सोचिति च पूजनम् ।। १५ ।।

युवा सुवासेति वस्त्रं नागगन्धेति चन्दनम् ।।

ततो यमगृहाद्बाह्ये मण्डपांतरमाश्रितः ।।१६।।

सुनातीति वचो दद्यात्ततश्चावाहयेत्प्रभुम् ।।

तत्राधिवासनं कुर्याद्रक्षयेच्च सुरक्षिभिः ।।१७।।

आचार्यो यजमानश्च ऋत्विग्भोजनमाचरेत् ।।

अक्षारलवणान्यासी दधि विश्वं तिलांस्त्यजेत् ।।१८।।

आधारणं चाधिवासं वक्ष्ये तत्रानुसारतः ।।

सुनातेति वचो दद्यात्तैलं चैव शिवे त्रिभिः ।। १९ ।।

पञ्चभिर्ब्राह्मणैः सार्धं गन्धर्वा इति विस्मरन् ।।

दद्याद्गन्धं तैलयुतं गन्धद्वारेत्यृचा पुनः ।। 2.2.16.२० ।।

याः फलिनीति च फलं पूगतानामवर्जनम् ।।

कौशिकीरुत्तमोसीति दद्यात्खड्गं सुतीक्ष्णकम् ।। २१ ।।

रूपेन वेति मन्त्रेण मुद्गरं च निवेदयेत् ।।

श्रीश्च ते इति कुसुमं विश्वानीति च संपठन् ।। २२ ।।

निर्मथनं ततः कार्यमिति साधारणो विधिः ।।

ततोधिवासकल्पे तु प्रदेशे तु समाचरेत् ।। २३ ।।

विनाधिवासनं विप्राः प्रतिष्ठानं समाचरेत् ।।

न तत्फलमवाप्नोति विवाहे शरणं दिशेत् ।। २४ ।।

ततः प्रयत्नतः कार्यं पूर्वाह्ने रात्रियोगतः ।।

नित्ये नैमित्तिके काम्ये कारयेत्कुण्डमण्डपम् ।। २५ ।।

स्थंडिले हस्त मात्रेण वालुकानिर्मितेऽपि च ।।

त्रयोदशांगुले हस्ते द्विहस्ते चापि वर्द्धते ।। २६ ।।

एकैकांगुलको विप्राः पीठे नास्ति विचारणा ।।

नवपञ्चक कुण्डे च लक्षादावपि शंकया ।। २७ ।।

ततो दशांगुले पक्षे दशांगं शृणुत द्विजाः ।।

काष्ठं पत्त्रं च पुष्पं च मोदकं पिष्टकं तथा ।। २८ ।।

अन्नं च परमान्नं च ह्यवेक्ष्यं तिलमेव च ।।

एतद्वै गृहपक्षे च विष्णुपक्षे तिलादितः।।२९।।

शैवे यवादितः कार्या शाक्ते पुष्पादितो भवेत् ।।

सूर्ये पक्षे पिष्टकादि गोपाले कृशरादितः ।। 2.2.16.३० ।।

कृष्णे च करवीरादि श्रीफलानि च त्रैपुरे ।।

सारस्वते च श्रीवृक्षे मोक्षकामे निगद्यते ।। ३१ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे षोडशोऽध्यायः ।। १६ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 17

देवध्यानवर्णनम्

।। सूत उवाच ।। ।।

अष्टौ होतारो द्वारपालाथाष्टौ अष्टौ कार्या ब्राह्मणा याजकाश्च ।।

सर्वे शुद्धा लक्षिता लक्षणाद्यैरेकः कार्यो जापकोस्मिन्महात्मा ।। १ ।।

दिव्यैर्गंधैर्गंधमाल्यैः सुवर्णैस्तैलं कार्यं ब्राह्मणाः पञ्चविंशाः ।।

आवाप्यैस्तु द्विगुणैर्वै बलीयो दिव्यैर्वस्त्रैरर्हणादक्षिणाभिः ।। २ ।।

नार्हयित्वा यथोक्तेन कश्चित्पत्रं निवेशयेत् ।।

अनर्हितेषु विप्रेषु न सम्यक्फलमाप्नुयात् ।। ३ ।।

प्रतिष्ठादिषु सर्वेषु सम्यग्विप्रानथार्हयेत् ।।

कुशद्विजं तु सर्वत्र अर्घ्यं विष्टरमात्रकम् ।। ४ ।।

प्रदद्यादर्हणं सम्यक्पश्चात्पात्रं निवेदयेत् ।।

विनार्हणं कृते तस्मिन्नरके परिपच्यते ।। ५ ।।

प्रत्येकं ब्राह्मणा यज्ञे वेदमन्त्रेषु पारगाः ।।

आचार्यो यदि कार्येषु वरयेद्दश गोव्रजान् ।। ६ ।।

विशिष्टानामभावेऽपि कुर्यात्कुशमयान्द्विजान् ।।

कुशप्रतिकृतौ चापि स्वगोत्रं स्वं द्विजं विना ।। ७ ।।

न कुर्याच्चरणोद्देशं तथा प्रहरसंहतिम् ।।

गोत्रादिकीर्तनांतेषु स्वनामोद्देशमीरयन् ।। ८ ।।

तुलापुरुषदाने च तथा च हाटकाचले ।।

कन्यादाने तथोत्सर्गे कीर्तयेत्प्रवरादिकम् ।। ९ ।।

न पात्रं प्रतिकृत्यर्थं न चालं सोदकं तथा ।।

मृतभार्य्यो ह्यभार्यश्च अपुत्रो मृतपुत्रकः ।। 2.2.17.१० ।।

शूद्रसंस्कारकश्चैव कृपणो गणयाजकः ।।

प्रायश्चित्तगृहीतश्च राजयाजकपैशुनौ ।। ११ ।।

शूद्रगेहनिवासी च शूद्रप्रेरक एव च ।।

स्वल्पकण्ठो वामनश्च वृषलीपतिरेव च ।। १२ ।।

बन्धुद्वेषी गुरुद्वेषी भार्याद्वेषी तथैव च ।।

हीनांगश्चैव वृद्धांगो भग्नदंतश्च दांभिकः ।। १३ ।।

प्रतिग्राही च कुनखः पारदारिक एव च ।।

श्वित्री कुष्ठी कुलोद्भूतो निद्रालुर्व्यसनार्थकः ।।१४।।

अदीक्षितः कदर्यश्च चंडरोगी गलद्व्रणः ।।

महाव्रणी च उदरी यज्ञपात्रं न कारयेत् ।। १५ ।।

वरणांते तु पात्राणां पूजामन्त्राञ्छृणु द्विज ।।

प्रतिमन्त्रेण गन्धाद्यैरर्चयेन्मन्त्रवित्तमः ।। १६ ।।

ब्रह्ममूर्तिस्त्वमाचार्यः संसारात्पाहि मां विभो ।।

त्वत्प्रसादाद्गुरो यज्ञं प्राप्तोस्मि यन्मयेप्सितम् ।।। ।। १७ ।।

चिरं मे शाश्वती कीर्तिर्यावल्लोकाश्चराचराः ।।

प्रसीद त्वं महेशान प्रतिष्ठाकर्मसिद्धये ।। १८ ।।

त्वमादिः सर्वभूतानां संसारार्णव तारकः ।।

ज्ञानामृतप्रदाचार्यो यजुर्वेद नमोऽस्तु ते ।। १९ ।।

ब्रह्मणैव समुद्भूत प्रकाशितदिगन्तर ।।

शुद्धजांबूनदप्रख्य यजुर्वेद नमोऽस्तु ते ।। 2.2.17.२० ।।

प्रतप्तकनकाभास भासितद्युतिभूतल ।।

मन्त्रप्रख्यानसंस्थान यजुर्वेद नमोऽस्तु ते ।। २१ ।।

प्रफुल्लकनकाभास भास्वरासुरभूषित ।।

प्रकीर्णमन्त्रसंभारविधिज्ञ प्रणतोऽस्मि ते ।। २२ ।।

षडंगवेदवेदज्ञ ऋत्विङ्गमोक्षप्रदो भव ।।

प्रविश्य मण्डलं विप्रा स्वस्थाने स्थापयेत्क्रमात् ।। २३ ।।

वेद्याः पश्चिमभागे तु आचार्यं स्थापयेद्बुधः ।।

कुण्डस्याग्रे तु ब्रह्माणं मण्डलस्यैव पश्चिमे ।। २४ ।।

होतारं स्थापयेत्तत्र विधिज्ञमथ चोत्तरे ।।

द्वौद्वौ कृत्वा ज्ञापकौ च खड्गधारकमेव च ।।२५।।

द्वारिद्वारि प्रयत्नेन द्वारपालाननुक्रमात् ।।

वक्ष्यमाणेन मंत्रेण प्रत्येकमथ स्थापयेत् ।।२६।।

पूजयेद्गन्धपुष्पाद्यैर्वाससो युगलेन तु ।।

यज्ञे सवितते योऽसौ पूज्यते पुरुषः सदा।।२७।।

नारायणस्वरूपेण यज्ञं मे सफलं कुरु ।।

यज्ञेषु साक्षी सर्वेषु यजुर्वेदार्थतत्त्ववित् ।। २८ ।।

ऋग्वेदार्थस्य तत्त्वज्ञ इन्द्ररूप नमोऽस्तु ते ।।

मखश्रेष्ठेषु सर्वेषु येन मंत्राः सुविस्तृताः ।। ।। ३९ ।।

यजुर्वेदार्थतत्त्वज्ञ ब्रह्मरूप नमोऽस्तु ते ।।

मखश्रेष्ठेषु सर्वेषु एष एव विधिः स्मृतः ।। 2.2.17.३० ।।

मांगल्यं कर्मणां नित्यं सर्वज्ञं ज्ञानरूपि णम् ।।

सिद्धये मम यज्ञस्य नमामि शिवरूपिणम् ।। ३१ ।।

पालय त्वं दिशः सर्वा विदिशश्च तथा इमम् ।।

दिक्पालरूपिणं विप्रं यज्ञसिद्धौ नमा म्यहम् ।।

न संकल्पं चरेद्यागं व्रतं देवार्चनं तथा ।। ३२ ।।

संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः ।।

संकल्पेन विना विप्रा यत्किञ्चित्कुरुते नरः ।। ३३ ।।

फलं चाल्पाल्पकं तस्य धर्मस्यार्द्धक्षयो भवेत् ।।

तस्मात्सर्वप्रयत्नेन यागं संकल्पयेत्सुधीः ।। ३४ ।।

कामात्परो नैव भवेन्निष्कामोऽपि न शोभनः ।।

तस्मात्काममयं धर्मं विना मोक्षं न चाचरेत् ।। ३५ ।।

संकल्पेन विना यस्तु धर्मं चरति मानवः ।।

न तस्य फलमाप्नोति नित्यनैमित्तिकस्य च ।। ३६ ।।

न कुर्यात्स्थापने चैव कुर्याद्वै मंडलांतरे ।।

गृहीत्वौदुंबरं पात्रं वारिपूर्णं गुणान्वितम् ।। ३७ ।।

जलाशयारामकूप संकल्पे पूर्वदिङ्मुखः ।।

साधारणे चोत्तरास्यो ग्रहयज्ञे तु संमुखः ।।३८।।

महाव्रते प्रतिष्ठायां पात्रं ताम्रं हिरण्मयम् ।।

राजताश्ममयं सांगं यद्यज्ञेषु प्रशस्यते ।। ३९ ।।

यज्ञीयपात्रपुटकं हस्तस्थाने प्रकीर्तितम् ।।

ऐश्यान्यां निक्षिपेत्तोयं प्रतिष्ठायां च पूर्वतः ।।2.2.17.४०।।

आकाशे निक्षिपेद्यागे व्रते ईशेपि नित्यके ।।

पितृमेधे च गोयागे नरमेधे च दक्षिणे ।।४१।।

शुक्तिकांस्यादिहस्तैश्च ताम्ररौप्यादिभिस्तथा।।

संकल्पो नैव कर्तव्यो मृन्मये च कदाचन ।। ४२ ।।

प्रणवं पूर्वमुच्चार्य यजेद्यज्ञेश्वरं स्मरेत् ।।

गङ्गा चादित्यचंद्रौ च द्यौर्भूमी रात्रिवासरौ ।।४३।।

सूर्यः सोमो यमः कालो महाभूतानि पंच च ।।

एते शुभाशुभास्येह कर्मणो नव साक्षिणः ।। ४४ ।।

इत्युच्चार्य न्यसेद्धर्मं ध्यात्वा पुष्पाञ्जलिं सृजेत् ।।

अमृतं कृत्यपात्रे च ॐ तत्सदिति निर्दिशेत् ।। ४५ ।।

धर्मः शुभ्रवपुः सितांबरधरः कार्योर्ध्वदेशे वृषो हस्ताभ्यामभयं वरं च सततं रूपं परं यो दधत् ।।

सर्वप्राणिसुखावहः कृतधियां मोक्षैकहेतुः सदा सोयं पातु जगंति चैव सततं भूयात्सतां भूतये ।। ४६ ।।

यज्ञसंबंधिविप्रांश्च एकाहेनैव योजयेत् ।।

हविर्द्रव्याणि यानि स्युरष्टयागांतरेपि च ।। ४७ ।।

पुनःपुनर्नियोज्यानि ब्राह्मणा हविरग्नयः ।। ४८ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागेसप्तदशोऽध्यायः ।। १७ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 18

योगस्थापनदेवप्रतिष्ठापनवर्णनम्

।। सूत उवाच ।। ।।

माघादिमासेष्वपि षट्सु कार्या योगप्रतिष्ठा ऋषिभिः प्रणीता ।।

देवादिसंस्थापनमा हुरत्र यावन्न सुप्तो मधुसूदनश्च ।। १ ।।

वारे भृगोर्देवगुरोर्बुधस्य सोमस्य सर्वाः शुभदा भवंति ।।

लग्ने शुभस्थे शुभवीक्षिते वा कार्या प्रतिष्ठा च जलाशयानाम् ।। २ ।।

शुद्धा द्वितीया च तथा तृतीया त्रयोदशी चापि तथैव विप्राः ।।

तथापि सप्तम्यपि पौर्णमासी दशम्यसौ चाप्यथ पंचमी च ।। ३ ।।

प्राणप्रतिष्ठा च जलाशयादेरेताः प्रशस्तास्तिथयो भवंति ।।

अप्राप्य चैतानि शुभानि यानि कार्या प्रतिष्ठा विषुवद्वये च ।। ४ ।।

षडशीतिलोकाप्ययनद्वयेन युगादिके पुण्यादिने शुभे च ।।

कार्या तडागादिजलाशयस्य प्राच्यां प्रतिष्ठा अथ चोत्तरे वा ।। ५ ।।

सुचारु ईषत्प्रवणे च देशे सुवर्तुलः षोडशहस्तमंडपः ।।

द्वारैश्चतुर्भिः प्रथितैरुपेतश्चतुर्मुखश्चापि भवेत्सुरेताः ।। ६ ।।

पूर्वादिद्वारेषु चतुष्टयेषु प्लक्षादिभिस्तोरणकैः सुरेशः ।।

प्लक्षस्तथोदुंबरपिप्पलौ च न्यग्रोधकं चापि यथाक्रमेण ।।७।।

ऊर्ध्वे च हस्तानमितानि यानि विचित्रमाल्यांबरभूषितानि ।।

भूमौ यथा प्रीति च हस्तकानि भवंति चैतान्यपि तोरणानि ।।८।।

सर्वत्र यागेपि हि मंडपस्य कार्या ध्वजा दिक्षु विदिक्षु शुभ्राः।।

दिक्पालवर्णाभपताकयुक्ता मध्ये च वै नीलपताकयुक्ताः ।। ९ ।।

ध्वजाश्च यस्मिन्दशहस्तसम्मितास्तस्मिन्पताका अपि पञ्चहस्ताः ।।

अरत्निमात्रा यदि मूलभागे पंचांगु लाग्रे विनिबद्धगूढाः ।। 2.2.18.१० ।।

द्वारे च तस्मिंश्च निरूपिता वा रंभा सुपुष्पा सुखशाड्वलाश्च ।।

वचाभिवृक्षोत्तरपंचहस्ताः सपंचशाखा अपि तोर णानि ।।११।।

मुंजोद्भवैर्बर्हिसमुद्भवैर्वा सुरंजितश्चेत्त्रितपद्मपल्लवैः ।।

पुष्टद्वये सूत्रितं वेष्टयेच्च तथेक्षुकाण्डैरथ यागमण्डपम्।।१२।।

वेदिस्तथा मंडप मध्यभागे कार्या च कोणेस्थितुषादिहीना।।

हस्तोच्छ्रिता रेरववती सुरेखपरिष्कृता हस्तचतुष्टयेन ।। १३ ।।

वेद्यां परित्यज्य दशांगुलानि ऐशान्यत स्त्रीणि तथा पराणि ।।

कुंडाय दद्याच्चतुरस्रमेकमवस्थितं त्र्यंगुलमेखलोज्ज्वलम्।।१४।।

प्रासादे च तडागे च महारामे तथैव च ।।

मंडलं सर्वतोभद्रं प्रयत्नेनैव कारयेत् ।।१५।।

कुंडं चापि प्रकुर्वीत यथाभ्यन्तरमेखलम् ।।

बहिर्योनिगतं श्वेतं निश्चित्रं समसूत्रकम् ।।१६।।

कुंडानि कुर्यान्नव कुंडपक्षे वेद्यास्तथोच्चैरविदिक्षु चैव।

सर्वाणि सर्वत्र च मेखलानि षडस्रपंचास्रसमेखलानि।।१७।।

अष्टास्रजान्यब्जत्रिकोणकानि तथार्द्धचन्द्रं चतुरस्रकं च।।

कुण्डस्य पूर्वोत्तरदिग्विभागे स्थाप्यो घटश्चन्दनचारुलिप्तः ।। १८ ।।

माल्याम्बराच्छादितपूर्णपाथाः सवृत्तपत्रश्च सुवर्णगर्भः ।। १९ ।।

।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे अष्टादशोऽध्यायः ।। १८ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 19

देवग्रहपूजाविधानवर्णनम्

।। सूत उवाच ।। ।।

गतो यागगृहादन्यन्मण्डलांतरमाश्रितः ।।

यजमानस्तथा नित्यं कर्म कृत्वा यथाविधि ।। १ ।।

पंच देवान्नमस्कृत्य तथा यज्ञेश्वरं हरिम् ।।

संकल्पं च ततः कृत्वा ब्राह्मणानामनुज्ञया ।। २ ।।

एतस्मिन्पुण्यदेशे तु फलं गोत्रश्च वै यमः ।।

वेदव्यासादिप्रणीतं यथाशास्त्रनिदर्शनम् ।। ३ ।।

यथायथा स्वतन्त्रोक्तं पुण्या रण्याभिधायकम् ।।

जलाशयप्रतिष्ठायां करिष्ये विधिवद्द्विजाः ।। ४ ।।

यथायथा च कल्पोक्तं यथाकुण्डं विधानतः ।।

साधिवासं यथैवैकः पुण्यारण्यविधायकः ।। ५ ।।

जलाशयप्रतिष्ठां च करिष्ये विधिवद्द्विजाः ।।

संकल्पमेवं कृत्वा तु वृद्धिश्राद्धं समाचरेत् ।। ६ ।।

मातृयागं पुरस्कृत्य वृद्धिश्राद्धं समापयेत्।।७।।

भेर्यादिघोषेण सुमंगलेन पद्यं लिखेदत्र सषोडशाक्षरम् ।।

इन्द्रादिदिक्पालवरायुधानि समुल्लिखेदेव दिशि स्थितानि ।। ।। ८ ।।

ब्रह्मेशान्वरयेत्सर्वानाचार्यं तु विशेषतः ।।

स्वर्णकुंडलयुग्मेन तथा ताम्रादिभाजनैः ।। ९ ।।

नानारत्नैश्च वस्त्रैश्च आचार्यं वरयेद्बुधः ।।

हेमालंकारयुग्मैश्च वासोभिर्विविधरैपि ।। 2.2.19.१० ।।

यथामानं यथाशक्ति यथाभिवृणुयाद्बुधः ।।

रचिता यजमानेन ध्रुवं स्वस्त्यस्तु ते इति ।।११।।

ततः सर्वौषधीभिश्च यजमानः सपत्निकः ।।

आपोहिष्ठेतिमन्त्रेण स्नापयामासुरप्रजाः ।। १२ ।।

यवगोधूमनीवारतिलश्यामाकशालयः ।।

प्रियंगुव्रीहयश्चाष्टौ सर्वौषधिगणः स्मृतः ।। १३ ।।

ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।।

सर्वौषध्युदकस्नातः स्नापितो वेदपुङ्गवैः ।। १४ ।।

ब्राह्मणैरभ्यनुज्ञातः पुरोहितपुरःसरः ।।

नानामंगलघोषेण भेरीपटहनिस्वनैः ।। १५ ।।

यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः ।।

पश्चिमं द्वारमासाद्य प्रविशेद् यागमण्डपम् ।। १६ ।।

चरके पूजयेद्विघ्नं गंगां च यमुनां तथा ।।

पार्श्वयोश्चार्धतो लक्ष्मीं प्रतिहारमनुक्रमात् ।। १७ ।।

वेदिं प्रदक्षिणीकृत्य नमस्कुर्याद्यथाविधि ।।

उपविश्य ततस्तस्मिन्ब्राह्मणानुमते स्थितः ।। १८ ।।

स्वस्ति वाच्यं ततः कृत्वा पंच देवान्प्रपूजयेत् ।।

भूतोत्सादं ततः कृत्वा विकिरान्विकिरेद्भुवि ।। १९ ।।

अपक्रामंतु ये भूता ये चास्मिन्विप्रकारकाः ।।

यस्मान्नो नाम्नि वर्तंते यज्ञमात्रं प्रवर्तताम् ।। 2.2.19.२० ।।

पूजयेदासनं पश्चात्स्वकीयं पुष्पचंदनैः ।।

नमोनंतासनायेति तथा पद्मासनाय च ।। २१ ।।

विमलासनाय च नमो नमः सारासनाय च ।।

योगासनाय च नमः पृथिव्यै नम इत्यपि ।। २२ ।।

ततो भूमितले वामहस्तं दत्त्वा पठेन्नरः ।।

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।। २३ ।।

त्वं च धारय मां नित्यं पवित्रमासनं कुरु ।।

सूर्यायार्घ्यं ततो दत्त्वा गुरुं नत्वा कृताञ्जलिः ।। २४ ।।

देवं हृत्पद्मके नीत्वा प्राणायामत्रयं चरेत् ।।

ततोऽर्चयेद्विघ्नराजमैशान्यां च घटोपरि ।। २५ ।।

गन्धपुष्पैस्तथा वस्त्रैर्नैवेद्यैर्विविधैरपि ।।

गणानां त्वेति मंत्रेण ब्रह्माणं तदनंतरम् ।। २६ ।।

आब्रह्मन्निति ऋचा तद्विष्णोरिति संस्मरन् ।।

वासुदेवं ततः पश्चाद्बलिभिर्गन्धचंदनैः ।। २७ ।।

ततो देवशरीरं तु नवमासाद्य त्रिंशतम् ।।

वेद्याश्च परितः सर्वान्स्वेस्वे स्थाने यथाक्रमम् ।। २८ ।।

ततो राजाधिराजेन भूतशुद्धिं समाचरेत् ।।

ततो बुद्बुदमध्ये तु श्वेतपद्मासनस्थितम् ।। २९ ।।

शुद्धस्फटिकसंकाशं शंखकुन्देन्दुसप्रभम्।।

किरीटकुण्डलयुतं सितं पंकजधारिणम् ।। 2.2.19.३० ।।

शुक्लमाल्यांबरं शुक्लं शुक्लगंधानुलेपनम् ।।

अहितुण्डासनस्थं च पाशहस्तं महाबलम् ।। ३१ ।।

स्तूयमानं सुरगणैः सिद्धगंधर्वसेवितम् ।।

सुचारुवदनं देवं पद्ममालोपशोभितम् ।। ३२ ।।

राजीवलोचनं नित्यं नागलोकोपशोभितम् ।।

मकरग्राहकूर्माद्यैर्नानाजलचरैर्वृतम् ।। ३३ ।।

जलाशयगतं देवं चिंतयेज्जलशायिनम्।।

ततो न्यासं प्रकुर्वीत पचांगत्वावशोभितम् ।। ३४ ।।

अर्घ्यपात्रं ततः कृत्वा त्रिभागजलपूरितम् ।।

अष्टधा मूलमंत्रं च जप्त्वा तेनोदकेन च ।। ३५ ।।

आसनं यागवस्तूनि प्रोक्षयेत्तेन वारिणा ।।

अरुणाय विद्महे तमोघ्नाय च धीमहि ।। ३६ ।।

तन्नो अरुणः प्रचोदयादिति स्नानं समाचरेत् ।।

ततो गणेशमैशान्यामाग्नेय्यां गुरुपादुकाम्।। ३७ ।।

धर्माधर्मादिकान्सर्वान्त्सत्त्वादीनथ चार्चयेत् ।।

सूर्यसोमजलादीनां मण्डलानि यथाक्रमम् ।।३८।।

मध्ये शक्तिं च क्षीरोदमनंतं पृथिवीं तथा ।।

कूर्मं चाधारशक्तिं च सुमेरुं मन्दरं तथा ।। ३९ ।।

पञ्चतत्त्वं समभ्यर्च्य सांगोपागमनंतरम् ।।

ततः श्वेतं च कुसुमं साक्षतं योगमायया ।। 2.2.19.४० ।।

गृहीत्वा पूर्ववद्देशे स्थापयेत्कलशोपरि ।।

आवाहनं ततः कृत्वा मन्त्रेणानेन मंत्रवित् ।। ४१ ।।

एह्येहि भगवन्वरुण एष यज्ञः प्रवर्तते ।।

यज्ञभागं गृहाणेदं त्वामेवावाहयाम्यहम् ।। ४२ ।।

एवमावाह्य लोकेशमष्टौ मुद्राः प्रदर्शयेत् ।।

गायत्र्या स्नापयित्वा तु दद्यात्पाद्यादिकत्रयम् ।। ४३ ।।

पुष्पाञ्जलिं ततो दत्त्वा मूलमंत्रेण देशिकः ।।

पूर्वादिपत्रमूलेषु धर्मादीन्पूजयेद्बुधः ।। ४४ ।।

सत्त्वाद्याः पूजयेत्तत्र तेषामेव वरांगनाः ।।

ज्ञानं धर्मं च सोमं च रजः सत्त्वं तमस्तथा ।। ४५ ।।

पूर्वादिपत्रमध्ये तु ग्रहानष्टौ प्रपूजयेत् ।।

पत्राग्रे लोकपालानामग्न्या(ग्र्या?)दीनायुधांस्तथा ।। ४६ ।।

कर्णिकादक्षिणे पूर्वं वामे चापि शचीपतिम् ।।

पूर्वपत्रे तु ब्रह्माणं पूजयेत्सितपङ्कजैः ।। ४७ ।।

नैर्ऋत्ये वरुण स्याथ मध्येऽनंतं प्रपूजयेत् ।।

पीठमन्त्रेषु पूर्वादिब्रह्माणं च शिवं तथा ।। ४८ ।।

विष्णुं चापि गणेशं च पृथिवीं गंधचन्दनैः ।।

जपेन्मन्त्रं साष्टशतं सहस्रं विजपेद्बुधः ।।४९ ।।

जानुभ्यामवनीं गत्वा विजयाख्यस्तवं पठेत् ।।

ईशानादिपीठकोणेषु कमलामंबिकां तथा ।। 2.2.19.५० ।।

नैर्ऋत्यां विश्वकर्माणं वायव्ये तु सरस्वतीम् ।।

पूर्वादिद्वारदेशे तु मरुतं चावहादिकम् ।। ५१ ।।

आवहं प्रवहं चैव तथैवोद्वहसंवहौ ।।

विन्यसेत्पश्चिमे द्वारि निवहं च परीवहम् ।। ५२ ।।

विन्यसेदुत्तरद्वारि मरुतं च पराभवम् ।।

आग्नेयादिषु कोणेषु बहिष्पीठं ततो जयेत् ।। ५३ ।।

पिशाचान्राक्षसान्भूतान्वेतालांश्च तथा क्रमात् ।।

क्षोभकः कामरूपश्च सौभद्रो मरुतस्तथा ।। ५४ ।।

गोमुखो नन्दभद्रश्च द्विजिह्वो मलिनस्तथा ।।

हस्तिकर्णो विशालाख्यः सप्तरक्षोगणः स्मृतः ।। ५५ ।।

भूमिदो वरदश्चैव जयंतः क्षोभकस्तथा ।।

विवस्वंतः सुदंतश्च एते भूतगणाः स्मृताः ।। ५६ ।।

अंगदो नीलकर्णोऽसौ वसंतो यावकस्तथा ।।

घोररूपा महाकायः वेतालाश्च प्रकीर्तिताः ।।५७।।

गंधपुष्पाक्षतैर्भक्तं सर्वे देवा ग्रहादयः ।।

ध्यानवर्णानुरूपेण पूजनीयाः प्रयत्नतः ।। ५८ ।।

ध्यायेदादित्यमारक्तं रक्तपद्मासनस्थितम् ।।

रक्तांबरधरं रक्तं रक्तमाल्यानुलेपनम् ।। ५९ ।।

यवविद्रुमसंकाशं सिंदूरारुणसप्रभम्।।

आकृष्णेनेति मंत्रेण स्थापयेत्कलशोपरि ।। 2.2.19.६० ।।

इहागच्छेति चावाह्य पाद्यार्घ्यैश्च पृथग्विधैः ।।

गंधपुष्पादिभिर्भक्त्या पूजयेत्तं यथाविधि ।। ।। ६१ ।।

बलिं च लोहितं दद्यात्पायसं दधिखंडकम् ।।

घृतलिप्तं च शाल्यन्नं पताकां रक्तवर्णिकाम् ।। ६२ ।।

श्वेतांबरधरं श्वेतं शुक्लगंधानु लेपनम् ।।

द्विभुजं वरदं देवं गदाहस्तं महाबलम् ।। ६३ ।।

नानाभरणसंपन्नं सिद्धगंधर्वसेवितम् ।।

शुक्लपद्मासनस्थं चाश्वं दद्याच्छ्वेतभूषितम्।। ।। ६४ ।।

इमं देवा इति मंत्रेण स्थापयेत्पूर्वदिग्दले ।।

सितवस्त्रैश्च पुष्पैश्च शुक्लमाल्यानुलेपनैः ।। ६५ ।।

पायसैः श्वेतबलिभिर्दधिभक्तं निवेदयेत्।।

धूपैः श्वेतपताकाभिर्नैवेद्यैर्विविधैरपि ।। ६६ ।।

रक्तमाल्यांबरं देवं रक्ताभरणभूषितम् ।।

सुचारुनयनं रक्तं रक्तपद्मासनस्थितम् ।। ६७ ।।

किरीटकुंडलधरं मेषकंठं चतुर्भुजम् ।।

वरदं यज्ञनाशं च शूलशक्तिगदाधरम् ।। ६८ ।।

सर्वकामप्रदं देवं सिद्धगंधर्वसेवितम् ।।

चिंतयेत्परया भक्त्या मंगलं धरणीसुतम् ।। ६९ ।।

अग्निमीळेतिमंत्रेण स्थापयेदग्निदिग्दले ।।

पूजयेद्रक्तपुष्पैश्च रक्तमाल्यानुलेपनैः ।। 2.2.19.७० ।।

धूपै रक्तपताकाभिर्गुडभक्तनिवे दनैः ।।

अतसीपुष्पसंकाशं कर्णिकारसमप्रभम् ।। ७१ ।।

रौहिणेयं महाकायं नीलनीरजलोचनम् ।।

प्रशांतवदनं देवं पीतवस्त्रं चतुर्भुजम् ।।७२।।

खङ्गचर्मधरं तद्वद्गदापरशुधारिणम् ।।

पद्मासनगतं देवं पीतपद्मासनस्थितम् ।। ७३।।

नानाभरणसंपूर्णं मृगेन्द्रवरवाहनम् ।।

उद्बुध्यस्वेति मंत्रेण या म्यां तु स्थापयेद्बुधम् ।। ७४ ।।

पूजयेद्गन्धपुष्पाद्यैः पीतगंधानुलेपनैः ।।

वस्त्रैः पीतपताकाभिर्बलिभिः कृशरान्वितैः ।। ७५ ।।

पीतवर्णं गुरुं ध्यायेत्पीतपद्मासनस्थितम् ।।

पीताभरणसंपन्नं पीतवस्त्रं चतुर्भुजम् ।।७६।।

वरदं दंडहस्तं च साक्षसूत्रकमंडलुम् ।।

पूज्यमानं सुगंधर्वैः सेन्द्रैर्देवगणैरपि ।।७७।।

बृहस्पतय इति मंत्रेण नैर्ऋत्यां दिशि संस्थितम् ।।

पीतचन्दनगंधैश्च पीतवस्त्रादिभूषणैः ।।७८।।

धूपैः पीतपताकाभिः पीतोदकनिवेदनैः।।

पूजयेत्परया भक्त्या पुरंदरपुरोहितम् ।। ७९ ।।

ध्यायेच्छुक्रं भृगुसुतं श्वेतपद्मासनस्थितम् ।।

चतुर्भुजं महाकायं वरदं दंडधारिणम् ।। 2.2.19.८० ।।

महाबाहुं विशालाक्षं साक्षसूत्रकमंडलुम् ।।

स्तूयमानं मुनिश्रेष्ठैः सेवितं दैत्यपुङ्गवैः ।। ८१ ।।

सिंहासनगतं देवं नीलेन्दीवरलोचनम् ।।

विलसत्पुण्डरीकस्य मालाभिरुपशोभितम् ।। ८२ ।।

नानादैत्येन्द्रपुत्रांश्च पाठयन्तं मुहुर्मुहुः ।।

नानाशस्त्रास्त्रचतुरं नानाशास्त्रविशारदम् ।। ८३ ।।

एवं ध्यात्वा भृगुश्रेष्ठं जपन्नन्नात्परिस्रुतम् ।।

मनसा भक्तियुक्तेन स्थापयेत्पश्चिमे दले ।। ८४ ।।

सितचंदनवस्त्रैश्च धूपमाल्यानुलेपनैः ।।

धूपैः श्वेतपताकाभिः सक्तुभिः क्षीरसंयुतैः ।। ८५ ।।

पूजयेत्परया भक्त्या पुंडरीकाक्षतैरपि ।।

ध्यायेत्सौरिं चतुर्बाहुं शूलहस्तं वरप्रदम् ।। ८६।।

इन्द्रनीलनिभं श्यामं दिव्य बाणधनुर्धरम्।।

इन्दीवरासनस्थं च सरोजवरसप्रभम् ।। ८७ ।।

नीलांबरधरं नीलपद्ममालोपशोभितम् ।।

घोररूपं महाकायं छायाहृदयनन्दनम्।। ८८ ।।

शन्नोदेवीति मंत्रेण वायव्यां दिशि विन्यसेत् ।।

कृष्णचंदनवस्त्रैश्च कृष्णमाल्यानुलेपनैः ।। ८९ ।।

धूपैर्नीलपताकाभिर्बलिभिर्माषमिश्रितैः ।।

धूम्रवर्णं सदा केतुं गदाहस्तं वरप्रदम् ।। 2.2.19.९० ।।

द्विभुजं भीमकायं च धूम्राक्षं धूम्रवाससम् ।।

केतुं कृण्वन्निति मन्त्रेण ऐशा न्यां स्थापयेद्दिशि ।। ९१ ।।

धूम्रवर्णैश्च माल्यैश्च धूम्रगंधानुलेपनैः ।।

धूम्रधूम्रपताकाभिर्बलिभिर्माषमिश्रितैः ।। ९२ ।।

पूजयेत्परया भक्त्या केतुं सर्वार्थसिद्धिदम् ।।

लोकपालानहं वक्ष्ये सर्वसिद्धिप्रदायकान् ।। ९३ ।।

येषु पूजितमात्रेषु नालभ्यं विद्यते क्वचित् ।।

देवराजं ततो ध्यायेत्पुष्पबाणचयप्रभम् ।।

द्विभुजं पीतसंकाशं नीलेन्दीवरलोचनम् ।। ९४ ।।

रक्तोत्पलधरं तद्वत्पीतवाससमन्वितम् ।।

चामरासक्तहस्तैश्च कन्यारत्नैश्च शोभितम् ।। ९५ ।।

इन्द्राणीं चिंतयेद्वामे उत्पलद्वयधारिणीम् ।।

एवं संपूजयेद्भक्त्या सुरराजं जगत्प्रभुम् ।।

त्रातारमिति मन्त्रेण स्थापयेत्कर्णिकोत्तरे ।। ९६ ।।

पूजयेत्परया भक्त्या धृपगंधानुलेपनैः ।।

नानाविधोपहारैश्च पताकाभिर्ध्वजैरपि ।। ९७ ।।

बलिं क्षीरान्वितं दद्यान्मोदकं सितशर्कराम् ।।

उत्तप्तस्वर्णसंकाशं वीतिहोत्रं चतुर्भुजम् ।। ९८ ।।

अर्धचन्द्रसमस्थं च अजवाहनमुत्तमम् ।।

ज्वालावितानसंरक्तं मूर्ध्नि सप्तशिखान्वितम् ।। ९९ ।।

वरदं विभयं मालां दक्षे सूत्रं कमण्डलुम् ।।

त्रिनेत्रं रक्तनयनं जटामुकुटमंडितम् ।। 2.2.19.१०० ।।

नानाभरणसंपन्नं सिद्धगन्धर्वसेवितम् ।।

अग्निजिह्वेति मंत्रेण स्नापयेदग्निदिग्दले ।। १०१ ।।

पूजयेद्रक्तपुष्पैश्च रक्तमाल्यानुलेपनैः ।।

धूपै रक्तपताकाभिर्बलिभिः पायसैरपि ।। १०२ ।।

नीलाञ्जनचयप्रख्यं नीलसिंहासनस्थितम् ।।

महामहिषमारूढं दंडपाशधर विभुम् ।। १०३ ।।

करालवदनं भीमं ज्वाला घूर्णितलोचनम् ।।

घोरदंष्ट्राकरालैश्च किंकराणां गणैर्वृतम् ।।

महिषं चिंतयेद्वामे चित्रगुप्तं च दक्षिणे ।। १०४ ।।

अच्छीयस इति मंत्रेण स्थापयेद्यमदिग्दले ।।

पूजयेत्परया भक्त्या धर्मराजं जगद्गुरुम् ।।

राक्षसेन्द्रं महाकायं कृष्णवर्णं द्विबाहुकम् ।। १०५ ।।

नानाभरणसंपन्नं खङ्गहस्तं महाब लम् ।।

वरमुक्ताविमानस्थं घोररूपं जलेश्वरम् ।। १०६ ।।

एष त इति मंत्रेण नैर्ऋत्यां स्थापयेद्दिशि ।।

कृष्णचन्दनवस्त्रैश्च कृष्णमाल्यानुलेपनैः ।। १०७ ।।

धूपैः कृष्णपताकाभिर्बलिभिर्माषमिश्रितैः ।।

शुद्धस्फटिकसंकाशं शंखकुन्देन्दुसप्रभम् ।। १०८ ।।

द्विभुजं पाशहस्तं च सुन्दराङ्गं वरप्रदम् ।।

वरुणस्येति मंत्रेण स्थापयेत्पश्चिमे दले ।। १०९ ।।

सितचन्दनधूपैश्च पताकाभिर्ध्वजैरपि ।। 2.2.19.११० ।।

समीरणं कुञ्जरवर्णसन्निभं मृगाधिरूढं द्विभुजं द्विनेत्रम् ।।

ध्वजांबरं चापि दधानमेकं नीलांबरं मेघगणैर्वृतं च ।। १११ ।।

नीलचन्दनवस्त्रैश्च नीलमाल्यानुलेपनैः ।।

पूजयेत्परया भक्त्या पताकाभिर्ध्वजैरपि ।। ११२ ।।

धूपैर्नीलपताकाभिर्बलिभिः पायसैरपि ।। ११३ ।।

ध्यायेद्द्विनेत्रं द्विभुजं धनेशं पीतांबरं वै नरवाहनं च ।।

गदाधरं भक्तवरप्रदं च आवाहयेदुत्तरपद्मपत्रे ।। ११४ ।।

गन्धचंदनवस्त्रैश्च पीतमाल्यानुलेपनैः ।। ११५ ।।

धूपैः पीतपताकाभिर्बलिभिः पायसैरपि ।। ११६ ।।

स्निग्धकर्पूरसंकाशं तुषारकिरणप्रभम् ।।

त्रिशूलतुम्बुरुधरं तथाभयवरप्रदम् ।। ११७ ।।

उत्तंगवृषभारूढं त्रिनेत्रं भस्मभूषितम् ।।

कपालमालिनं तद्वत्खण्डेंदुकृतशेखरम् ।। ११८ ।।

एवं ध्यात्वा महेशानं स्थापयेदीशदिग्दले ।। ११९ ।।

पूजयेत्परया भक्त्या भक्ष्यभोज्यैरनेकशः ।। ।। 2.2.19.१२० ।।

सितध्वजपताकाभिर्बलिभिः पायसादिभिः ।।

त्वमीशान इति मंत्रेण ऋषिं छन्दः समीरयन् ।। १२१ ।।

ब्रह्माणं रक्तगौरागं शोण पद्मसमप्रभम् ।।

राजीवलोचनं तद्वत्पद्मगर्भसमप्रभम् ।। १२२ ।।

पद्मासनस्थितं तद्वच्छ्वेतवस्त्रं चतुर्भुजम् ।।

चतुर्मुखं सुरश्रेष्ठं मेघगम्भीरनिस्वनम् ।। १२३ ।।

राजहंससमायुक्तं विमानवरसंस्थितम् ।।

स्रुक्स्रुवौ दक्षिणे हस्ते वामे दंडं कमण्डलुम् ।।१२४।।

कुर्वाणमिव लोकांस्त्रीन्सिद्धगन्धर्वसेवितम् ।।

आज्यस्थालीं तथैवाग्रे कुशांश्च समिधं तथा ।। १२५ ।।

वामपार्श्वे तु सावित्रीं दक्षिणे तु सरस्वतीम् ।।

आब्रह्मन्निति मंत्रेण स्थापयेत्पूर्व दिग्दले ।। १२६ ।।

नानाभक्ष्योपचारैश्च पूजयेद्गंधचन्दनैः ।।

धूपैः श्वेतपताकाभिर्बलिभिश्चाज्यपायसैः ।। १२७ ।।

अनन्तशुक्लवर्णाभं पीतवस्त्रं चतुर्भुजम् ।।

शंखचक्रगदापद्मधारिणं जगदीश्वरम् ।। १२८ ।।

आधारभूतं जगतां स्वर्णयज्ञोपवीतिनम् ।

नानाभरणसम्पन्नं फणाशतसमन्वितम्।। ।। १२९ ।।

ॐ नमोस्त्विति मंत्रेण स्थापयेद्वरुणांतरे ।।

पूजयेद्भक्ष्यभोज्यैश्च दीपगन्धानुलेपनैः ।। 2.2.19.१३० ।।

धूपैः श्वेतपताकाभिर्बलिभिश्चैव निर्मितैः ।।

ततो मण्डलपूर्वे तु ब्रह्माणं पीतवाससम् ।।।३४।।।

चतुर्भुजं चतुर्वक्त्रं स्रुवहस्तं वरप्रदम् ।।

बिभ्रतं च श्रुतं तद्वत्तथा दंडकमण्डलू ।।१३२।।

आब्रह्मन्निति मन्त्रेण पूजयेद्गन्धचन्दनैः ।।

दक्षिणे त्र्यंबकं ध्यायेच्छूलखट्वांधारिणम् ।। १३३ ।।

वरदं डमरुधरं नागयज्ञोपवीतिनम् ।।

निबद्ध जृटचन्द्रार्धं शुद्धस्फटिकसन्निभम् .।। १३४ ।।

कपालमालिनं देवं भुजंगाभरणान्वितम्।।

त्रिनेत्रं कुन्दसंकाशं भूतप्रेतगणैर्वृतम्।। १३५ ।।

त्र्यंबकं चेति मन्त्रेण पूजयेन्मधुपायसैः ।।

अतसीपुष्पसंकाशं हारकेयूरभूषितम् ।। १३६ ।।

नानाभरणसंपन्नं पीतवस्त्रं चतुर्भुजम् ।।

दक्षिणे च गदां चक्रं वामे शंखं सपद्मकम् ।। १३७ ।।

श्रिया दक्षिणतो वामे सरस्वत्या समन्वितम् ।।

तद्विष्णोरिति मंत्रेण स्थापयेत्पश्चिमे ततः ।। १३८ ।।

पूजयेद्गन्धपुष्पाद्यैः पायसेन घृतेन च ।।

गणेशं तु चतुर्बाहुं व्यालयज्ञोपवीतिनम् ।। १३९ ।।

गजेन्द्रवदनं देवं श्वेतवस्त्रं चतुर्भुजम् ।।

परशुं लगुडं वामे दक्षिणे दंडमुत्पलम् ।। 2.2.19.१४० ।।

मूषकस्थं महाकायं शङ्खकुन्देंदुसप्रभम् ।।

युक्तं बुद्धिकुबुद्धिभ्यामेकदंतं भयापहम् ।। १४१ ।।

नानाभरणसंपन्नं सर्वापत्तिविनाशनम् ।।

गणानां त्विति मन्त्रेण विन्यसेदुत्तरे ध्रुवम् ।। १४२ ।।

उत्तप्तजांबूनदहेमसन्निभां लक्ष्मीं सरोजासनसंस्थितां शुभाम्।।

वामे सरोजं दधतीं तथैव हस्ते च दक्षे धृतचामरां च ।। १४३ ।।

श्रीश्च तेति च मन्त्रेण ऐशान्यां मंडलाद्बहिः ।।

स्थापयेत्पूजयेद्भक्त्या सितचन्दन पङ्कजैः ।। १४४ ।।

मोदकं परमान्नं च यवक्षीरं निवेदयेत् ।। १४५ ।।

ततो देवीमंबिकां दिव्यरूपां ब्रह्मेंद्राद्यैः स्तूयमानां त्रिनेत्राम् ।।

सिंहेशस्थां तप्तजांबूनदाभां चन्द्रार्द्धेनाबद्धमौलिं जटाभिः ।। १४६ ।।

दिव्यैर्वस्त्रैर्बाहुभिः साग्रलम्बैर्दिव्यैर्माल्यैर्भूषणैः स्वैरुपेताम् ।।

ब्रह्मेंद्राद्यैर्दुर्जयां माहिषास्यं तीक्ष्णैरस्त्रैर्दानवं मर्दयंतीम् ।। १४७ ।।

शूलं तीक्ष्णं बाणशक्ती च तीक्ष्णे खड्गं तीक्ष्णं बिभ्रतीं दक्षिणेन ।।

चापं पाशं खेटकं चांकुशं च घण्टां वामे बिभ्रतीं वै कुठारम् ।। १४८ ।।

शिरश्छेदादर्धजातं कबन्धं खड्गं तीक्ष्णं बिभ्रतीं दैत्यराजम् ।।

नागैः पाशैर्वेष्टयित्वा समं ताच्छूलेनैनं निघ्नतीं देहमध्ये ।। १४९ ।।

सेन्द्रैर्देवैः स्तूयमानां सुवेणीं गंधर्वाद्यैः सिद्धसंघैश्च सेव्याम् ।।

नानावस्त्रैर्भूषणैर्दीप्यमानां ध्यायेद्देवीमंबिकामुज्वलंतीम् ।। 2.2.19.१५० ।।

वस्त्रैर्माल्यैर्यक्षधूपैर्वितानैर्भक्ष्यैर्भोज्यैर्मोदकैः पायसैश्च ।।

मांसैः पिष्टैश्छागलाढ्यैरशेषैः पूज्या देवी चंडिकाऽभीष्टदा च ।। १५१ ।।

श्यामां च पृथिवीं ध्यायेत्पंकजद्वयधारिणीम् ।। १५२ ।।

मण्डूकस्थां द्विभुजां स्योना पृथिवीति चार्चयेत् ।।

नैर्ऋत्यां विश्वकर्माणं द्विभुजं टंकधारिणम् ।। १९३ ।।

उत्पलं दक्षिणे हस्ते पद्मस्थं पीतवाससम् ।।

एवं ध्यात्वा ततो ब्रह्मन्निति मंत्रेण पूजयेत् ।। १५४ ।।

स्वस्थां सरस्वतीं ध्यायेद्वरदाभयदायिनीम् ।।

पीतवस्त्रां सुमुकुटां देवगन्धर्वसेविताम् ।। १५५ ।।

यामधा इति मन्त्रेण पूजयेत्सितचंदनैः ।।

बलिं श्वेत चरुं दद्यात्कृशरं यावकं तथा ।। १५६ ।।

स्थापयेद्वामदिग्भागे कुंदपुष्पैः प्रपूजयेत् ।।

पूर्वादिद्वारदेशे तु पूजयेच्च मरुद्गणैः ।। १५७ ।।

अग्न्यादिषु च कोणेषु बहिर्भूतान्समाचरेत् ।।

पिशाचा राक्षसा भूता वेतालकपिजातयः ।। १५८ ।।

निर्णासाश्चैव ते सर्वे रौद्रा विकृतरूपिणः ।।

ततो मण्डल मध्ये तु वारुणं पूर्ववर्त्मना ।। १५९ ।।

पूरयेत्कलशे तत्र सुवर्णादिविनिर्मितम् ।।

कूर्मं कूर्माकृतिं कुर्याच्छुद्धस्वर्णेन सत्तमाः ।। 2.2.19.१६० ।।

बृहत्पर्व प्रमाणेन राजतस्य च दुर्लभम् ।।

पादं पादेन मानेन अंगुलं परिमण्डलम् ।। १६१ ।।

प्रौष्ठीमत्स्यं तथा कुर्यात्कुलीरं ताम्रनिर्मितम् ।।

तेनैकस्य विनिर्माणं द्व्यंगुलायामविस्तृतम् ।। १६२ ।।

तथा मानेन मण्डूकं तां भूमिं मुनिसत्तमाः ।।

शिशुमारं च वै सम्यक्तोलकद्वयनिर्मितम् ।। १६३ ।।

अंगुलत्रयदीर्घं च यथा तस्याकृतिर्भवेत् ।।

सितचन्दनवस्त्रैश्च पूजनीयाः समंततः ।। १६४ ।।

यावकैश्च विशेषेण बहुमंत्रविशारदान् ।।

बह्वृचौ पूर्वमत्स्यार्थे दक्षिणे तु यजुर्विदौ ।। १६५ ।।

सासनौ पश्चिमे चाथ उत्तरेऽथर्वणौ स्मृतौ ।।

जयध्वमिति तान्ब्रूयाद्धोतृकान्पुनरेव हि ।। १६६ ।।

स्थापयित्वा पृथक्सूत्रे सर्पं च मातरुद्दीपमेव च ।।

पञ्चांगं शिवसूक्तं च यथा विष्णोर्हरस्य च ।। १६७ ।।

जयाग्रतः पुरुषसूक्तमद्भ्यः संभूतमेव च ।।

आशुः शिशानमारभ्य वयं मोषांगरुद्रके ।। १६८ ।।

यज्जाग्रतश्चाग्नेश्च विष्णोरराटमेव च ।।

समस्ताध्यायरुद्रेण शतरुद्राख्यमीरितम् ।। ।। १६९ ।।

thumb|300px|शुकरहस्योपनिषदेअङ्गुलिविन्यासः

thumb|300px|शुकरहस्योपनिषदे अङ्गुलिविन्यासः

पञ्चांगरुद्रस्य पुष्पदंत ऋषिर्गायत्री छन्दो वेदाहमेतद्बीजं श्रीश्चत्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । - ते इति शक्तिर्नमस्ते रुद्र इति नायकः परमरुद्रो देवता परम स्तुतौ विनियोगः ।।

सप्तांगरुद्रस्य पुष्पदंतऋषिः पंक्तिश्छंदः ।।

त्र्यंबकमिति अंगुष्ठाभ्यां नमः ।।

त्रिपादूर्ध्वमिति तर्जनीभ्यां स्वाहा ।।

वेदाहमिति मध्यमाभ्यां वषट् ।।

अमीषां चित्रमिति अनामिकाभ्यां हुम् ।।

यवागूं सोम इति कनिष्ठिकाभ्यां वौषट् ।।

परितो धेनुमिति करतलकरपृष्ठाभ्याम् अस्त्राय फट् इति ।।

यज्जाग्रत इति हृदयाय नमः ।।

सहस्रशीर्षेति शिरसे स्वाहा ।।

अद्भ्यः संभूत इति शिखायै वषट् ।।

आशुः शिशान इति कवचाभ्यां हुं ।।

नमस्ते रुद्र इति नेत्रत्रयाय वौषट् ।।

रूढं ब्रह्मन्निति अस्त्राय फट् ।।

चतुर्दिक्षु छोटिकांदानम् ।। इति सर्वांगेषु ।।)

होमे प्रवर्तमाने तु सूक्तानन्यांश्च वै जपेत् ।।

प्रजपेद्वारुणं सूक्तं तथा च पालसूक्तकम् ।। 2.2.19.१७० ।।

रात्रिसूक्तं च रौद्रं च पावमानं समुज्ज्वलम् ।।

जपेच्च पौरुषं सूक्तं सर्वतोवरतं पृथक् ।। १७१ ।।

शाक्तं रौद्रं च सौम्यं च कूष्माण्डं जातवेदसम् ।।

सौरसूक्तं च यजतो दक्षिणेन यजुर्विदः ।। १७२ ।।

वैराजं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम् ।।

शैशवं पञ्चनिरयं गायत्र्यं ज्येष्ठसाम च ।। १७३ ।।

वामदेव्यं बृहत्साम तथा चैव रथंतरम् ।।

गोव्रतं च विकर्णं च रक्षोघ्नं पावनं स्मृतम् ।। १७४ ।।

गायंतं ब्राह्मणा ये च पूर्वादिद्वारदेशतः ।।

अन्नात्परिस्रुत इति पञ्चपूर्वं सौरसूक्तकम् ।। १७५ ।।

रुद्राध्यायं च पञ्चांगं रौद्र इत्यभिधीयते ।।

आप्यायस्वेति च चतुः सौम्यं सूक्तं प्रचक्षते ।। १७६ ।।

ईशावेत्यादि स्वांगं च कौष्मांडं दशमं स्मृतम् ।।

अग्रे बृहन्निति नवसूक्तं वै जातवेदसम् ।। १७७ ।।

षोडशं तु विभ्राड् वृहत्सौरं सूक्तं प्रकीर्तितम् ।।

सौरसूक्तं ध्रुवोसीति इषवो मंगलं स्मृतम् ।। १७८ ।।

रात्रिसूक्तं हि यज्वाग्ने रक्षोघ्नं शैवसूक्तकम् ।।

गणानान्त्वेति पञ्च आपोहिष्ठेति च त्रयम् ।। १७९ ।।

पवमानं तु तद्विद्धि पावमानं तु षोडश ।।

समस्तं देवयागेषु तद्रात्रौ तु तदूर्ध्वकम् ।।

तदर्द्धार्द्धं च आरामे कूपे त्वेकऋचं जपेत् ।। 2.2.19.१८० ।।

स्वगृह्योक्तविधानेन प्रतिकुण्डेषु होमयेत् ।।

संस्कुर्यादीक्षणाद्यैश्च संपूज्य च परस्परम् ।।१८१।।

प्रज्वाल्याग्निं च विधिवद्धोमं कुर्यादनन्तरम् ।।

वागीश्वरं समभ्यर्च्य वागीश्वर्या समन्वितम् ।। १८२ ।।

यस्य देवस्य यो यागः प्रतिष्ठा यस्य कस्यचित् ।।

प्रागेव तस्य जुहुयात्सहस्रं च शतं तथा ।। १८३ ।।

तिलाज्यैः पायसैर्वाथ पत्रपुष्पाक्षतेन च ।।

ग्रहेभ्यो विधिवत्सर्वं तथेन्द्रायेश्वराय च ।। १८४ ।।

मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे ।।

ऊर्जेन समिधा कुर्यादष्टाष्टौ स्वगृहेष्वपि ।।१८५।।

इन्द्रेश्वरमारुतानां तिलाज्येन घृतेन वा ।।

एकैकामाहुतिं दद्यात्स्वैर्मंत्रैर्यथाक्रमात् ।। १८६ ।।

दिगीशानां च प्रत्येकमष्टाष्टौ च विशेषतः ।।

विश्वकर्मन्निति मन्त्रेण कृत्वा आज्याहुतित्रयम् ।। १८७ ।।

समित्त्रयं पलाशस्य अथवाश्वत्थसंभवम् ।।

एकैकामाहुतिं दद्यादाज्येन च विशेषतः ।। १८८ ।।

शिवं प्रजा पतिं विष्णुं दुर्गां च कमलामपि ।।

सरस्वतीं च विधिवत्पृथिव्या इति पावकैः ।। १८९ ।।

भूतेभ्योऽप्याहुतिं दद्यादेवं मासद्वयं क्रमात् ।।

अन्येषां मधुराक्तेन तिललाजैर्ययाक्रमम् ।। 2.2.19.१९० ।।

विष्णुं चैव तु वायव्ये दुर्गायाश्च तथोत्तरे ।।

कमलायाश्च ईशाने ईशानस्य सभूतकम्।। १९१ ।।

एककुण्डे तु एकस्मिन्होमं कुर्याद्यथाविधि ।।

पक्षे वै पञ्चकुण्डे तु पूर्वादीनां क्रमेण तु ।। १९२ ।।

एककुंडे ग्रहान्कृत्वा कृत्वा बलभिदा सह ।।

दक्षिणे क्रमतश्चैव लोकेशं च तथैव च ।। १९३ ।।

पश्चिमे यस्य यागस्य दुर्गायाश्चोत्तरे दिशि ।।

ईशाने भूतयक्ष्मा च जुहुयाद्देशिकोत्तमः ।।! ।। १९४ ।।

विष्ण्वादिदेवतानां च अग्रकुंडे विधीयते ।।

प्रथमे दिवसे कुर्याद्देवतानां च स्थापनम् ।।

द्वितीये पूजनं कुर्याद्धोमं कुर्याद्यथाविधि ।। ।। १९५ ।।

बलिदानं तृतीये तु चतुर्थीकं चतुर्थके ।।

नीराजनं पञ्चमे तु पञ्चाहसाध्यको विधिः ।।

त्र्यहसाध्ये तृतीये तु नवाहे त्वथ पंचमे ।।। । १९६ ।।

उदङ्मुखः प्राङ्मुखो वाप्यैशान्यादि क्रमेण तु ।।

प्रादक्षिण्येन यज्ञं तु मन्त्रैः परिसमूहनम् ।।

मन्त्रपूर्वं साग्निकानां निरग्नेस्तुष्टिकेन तु ।। १९७ ।।

त्रिकुशेन महायागे विवाहादौ द्विपत्रकम् ।।

वैश्वदेवे त्वेकपत्रमिति साधारणो विधिः ।। १९८ ।।

दिग्विदिक्षु परिस्तीर्य महायागेषु सर्वदा ।।

दिक्षुमात्रं नित्यके च विश्वदेवे तथैव च ।। १९९ ।।

अकृत्वा कर्म नित्यं च वृथा नैमित्तिकं भवेत् ।।

तस्मात्फलाद्यैरपि तत्कृत्वा नैमित्तिकं चरेत् ।। 2.2.19.२०० ।।

प्रायश्चित्ते वैश्वदेवे सायंप्रातः प्रतीषु च ।। २०१ ।।

मारणोच्चाटहोमेषु तथा संकल्पिताकृती १

प्रत्यवायकुले क्वापि तत्र नित्याकृतिं विना ।। २०२ ।।

शतार्द्धं जुहुयाद्यत्र तत्र नित्यं विवर्जयेत् ।।

तूर्यहोमं ततः कृत्वा तूष्णीमेव जितेन्द्रियः ।। २०३ ।।

प्रजपेदिन्द्रमग्निं च सोमाय च यथाक्रमम् ।।

ततस्तु समिधाहोमं व्याहृतिस्तदनन्तरम् ।। २०४ ।।

भूर्भुवः स्वाहेति तथा तत्र इत्यादिपंचकम् ।।

अन्ते स्विष्टकृतं दद्याद्विधानं तस्य भोः शृणु ।। २०५ ।।

घृताहुतिं स्विष्टकृच्च द्विजसंस्कारकर्मसु ।।

घृतैः स्विष्टकृतं दद्याद्यागादौ परिवर्जयेत् ।। २०६ ।।

सर्वौषध्युदकस्नानं करिदंतोत्थमुष्णया ।।

रथ्यावल्मीकगोष्ठस्य तथाश्वस्य सुरस्य च ।। २०७ ।।

त्रिगन्धं च त्रिशीतं च कुशमूलस्य मृत्तिकाः ।।

निक्षिपेत्स्नानकुम्भेषु आचार्यादींस्तु स्थापयेत् ।। २०८ ।।

यजमानः पुरः कृत्वा दंतकाष्ठपुरःसरम् ।।

रात्रौ च भक्ष्यभोज्याद्यैः परितोष्य यवाक्षतम् ।। २०९ ।'

कृत्वा यथोक्तकालेन पूजयेत्तैलधारया ।।

ततः प्रभाते विमले स्नानं कुर्याद्यथा विधि ।। 2.2.19.२१० ।।

स्नानमब्दैवतैर्मन्त्रैः सूक्तेन पुरुषेण तु ।।

वारुणेन च सूक्तेन सुरास्त्वादि यथाक्रमम् ।। २११ ।।

सुरास्त्वामभिषिंचंतु ब्रह्मन्न विष्णुमहेश्वराः ।।

वासुदेवो जगन्नाथस्तथा संकर्षणः प्रभुः ।। २१२ ।।

आखंडलोग्निर्भगवान्यमो वै निर्ऋतिस्तथा ।।

वरुणः पवनश्चैव धनायक्षस्तथा शिवः ।। २१३ ।।

ब्रह्मणा सहितः शेषो दिक्पालाः पातु ते सदा ।।

कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।। २१४ ।।

बुद्धिर्लज्जा वपुः शांतिस्तुष्टिः कांतिश्च मातरः ।।

एतास्त्वामभिषिंचंतु देवपन्त्यः समाहिताः ।। २१५ ।।

आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः।।

ग्रहास्त्वामभिषिंचंतु राहुः केतुश्च तर्पिताः ।। २१६ ।।

देवदानवगंधर्वा यक्षराक्षसपन्नगाः ।।

ऋषयो मनवो देवा देवमातर एव च ।। २१७ ।।

देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ।।

अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।। २१८ ।।

औषधानि च रत्नानि कालस्यावयवाश्च ये ।।

सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।। २१९ ।।

एते त्वामभिषिंचंतु सर्वकामार्थसिद्धये ।।

स्नानं समाप्य विधिवत्स्वगणेनानु लेपयेत् ।। 2.2.19.२२० ।।

गवामष्टोत्तरशतं तदर्धं चाथ विंशतिम् ।।

आचार्यायाभिरूपाय प्रददियादभिपूजयन्।। २२१ ।।

ततः प्रभाते विमले जले समृवतारयेत् ।।

शुद्धां च कपिलां दोग्ध्रीं घटाचामरवर्जिताम् ।। २२२ ।।

सामगाय ततो दद्यात्सुवर्णदक्षिणान्विताम् ।।

यूपमादाय संस्थाप्य स्नापयेद्वारुणं जपन् ।। २२३ ।।

अच्छेवतेन मन्त्रेण गायत्र्या तदनन्तरम् ।।

रोचनाभिस्त्रिरत्नेन तथा कुंभोदकेन च ।। २२४ ।।

पर्वताग्रमृदा तोयनागवल्मीकजातया ।।

गजदंतमृदा चैव कूलमूलतमृदा तथात ।।२२५।।

पुष्पोदकेन शंखेन तथा रत्नोदकेन च ।।

दध्यक्षतेन दुग्धेन घटेन शतधारया ।। २२६ ।।

सुगंधेन त्रिशीतेन विलिप्य च समाहितः ।।

दापयेत्कांस्यमूलं च दद्याल्लोहमयं च वा ।। २२७ ।।

माल्यवस्त्रैरलंकृत्य पूजयेद्गन्धचन्दनैः ।।

ईशावा इति मंत्रेण दद्यात्पुष्पाञ्जलित्रयम् ।। २२८ ।।

पुनस्त्वादिति मंत्रेण पुनः पुष्पं समुत्सृजेत् ।।

प्रादेशमात्रविस्तारं मध्ये वृत्तं षडंगुलम् ।। २२९ ।।

कांस्यचक्रस्य मानं तु ऊर्ध्वं यद्द्वादशांगुलम् ।।

तदूर्ध्वे विलिखेच्छूलं चतुरंगुलमानतः ।। 2.2.19.२३० ।।

अंगुष्ठहीने लोहस्य तत्र शूलं न कारयेत् ।।

ततो मंगलपूर्वे तु द्विजातीनां मतेन च ।। २३१ ।।

समुत्सृजेच्च प्रासादं तडागं च विशेषतः ।।

चतुर्दर्भं गृहीत्वा तु ईशानाभिमुखेन तु ।।

समुत्सृजेत्ततः पश्चाद्वाक्यमेतदुरीयेत् ।। २३२ ।।

ओमित्यादिश्रीकृष्णद्वैपायनाभिधान वेदव्यासप्रणीत भविष्यपुराणोक्त फलप्रप्तिकामश्चतुष्कोणाद्यवच्छिन्नमत्कारितपुष्करिणीजलमेतदूर्जितं गंधपुष्पाद्यर्चितं वरुणदैवतं सर्वसत्त्वेभ्यः स्नानावगाहनार्थमहमुत्सृजे ।। २३३ ।। ततो वरुणसूक्तेन वरुणं नागसंयुतम् ।।

मकरं कच्छपं चैव तोयेषु परिनिक्षिपेत् ।।२३४।।

पूजयेद्वरुणं देवमर्घ्यं दद्याद्विशेषतः ।।

तेनोदकेन संस्नाप्य गजदंतोत्थमृत्स्नया ।। २३५ ।।

श्वेताश्वसुरसंभूतं श्रीश्च तेति च संजपन् ।।

आप्यायस्वेति मंत्रेण मृदं चतुष्पथोद्भवाम् ।। ।। २३६ ।।

तद्विष्णोरिति मंत्रेण कुशमूलेन स्थापयेत् ।।

तीर्थतोयेन गंधेन तथा पञ्चामृतेन च ।। २३७ ।।

गायत्र्या स्नापयेद्देवं रत्नतोयेन साधकः ।।

आप्यायस्वेति मंत्रेण क्षीरेण तदनंतरम् ।। २३८ ।।

दधिक्राव्णेति दध्ना च मधुवातेति वै मधु ।।

सरस्वत्यांतेति जातीपुष्पतोयेन स्नापयेत् ।। २३९ ।।

( वरुणोत्तमिति मंत्रस्य नारायण ऋषिः गायत्री छंदो वरुणो देवता वरुणप्रीतये विनियोगः ।।

श्रीश्च ते इति मंत्रस्य कर्दम ऋषिः पंक्तिश्छंदः सरिद्देवता अश्वखुरमृदा स्नाने विनियोगः ।।

आप्यायस्वेति मंत्रस्य पर्वत ऋषिः उष्णिक्छन्दः सरस्वती देवता वरुणप्रीतये चतुष्पथमृदा स्नाने विनियोगः ।।

तद्विष्णोरिति मंत्रस्य मैनाक ऋषिस्त्रिष्टुप्छन्दः सरस्वती देवता वरुणप्रीतये कुशमृदा स्नाने विनियोगः ।।

कया न इति मंत्रस्य वसिष्ठ ऋषिरनुष्टुप्छन्दः सोमो देवता वरुणप्रीतये नागगंधस्नाने विनियोगः ।।

तेजोसीति मंत्रस्य गर्ग ऋषिस्त्रिष्टुप्छन्द वासवो देवता वरुणप्रीतये विनियोगः ।।

सरस्वत्यै भैषज्येनेति मंत्रस्य वामदेव ऋषिः पंक्तिश्छंदो विष्णुर्देवता वरुणप्रीतये विनियोगः ।।

पुष्पोदकस्नाने ।।

अग्न आयाहीति मंत्रस्य जनार्दन ऋषिः जगतीछन्द ऐन्द्री देवता वरुणप्रीतये विनियोगः ।।)

प्रक्षिपेत्पञ्च व्रीहींश्च इयञ्चेति च संपठन् ।।

पश्चान्नीराजनं कुर्यात्पञ्चघोषपुरःसरम् ।। 2.2.19.२४० ।।

शिरीषपुष्पसंभूतं दर्पणं कास्यसंभवम् ।।

गोपीचन्दनसंभूतं गंगामृत्तिकयाथ वा ।।

कृष्णां गां गोमयं वापि स्वस्तिकं शंखमेव च ।। २४१ ।।

कारयेत्पदकं वापि यवगोधूमकस्य वा ।।

उत्पन्नस्वर्गसंभूतं कलशं माषसंभवम् ।।

श्रीरसं पुष्पसंभूतं दर्पणं कांस्यसंभवम् ।। २४२ ।।

नन्द्यावर्ते मलयजे ततो निर्मलयेत्सुधीः ।।

एकैकं प्रतिमंत्रेण प्रत्येकं तु जलोपरि ।। २४३।।

ध्रुवप्रतिकृतैर्मंत्रैरष्टभिश्च यथाक्रमम् ।।

पूर्वाक्षतं माषभक्तबलिं दद्याद्विधानतः ।। २४४ ।।

ततो नारायणसूक्तेन देवं नारायणं व्रजेत् ।।

अन्येषां चैव देवानां प्रदद्यात्त्रिंशतं बलिम् ।। २४५ ।।

तत आचमनीयं च वस्त्रयुग्मं निवेदयेत् ।।

वक्ष्यमाणेन मंत्रेण क्रमेणापि विधानतः ।। २४६ ।।

पृथक्पृथक्ततो दद्यात्तावंत्येनापि भो द्विजाः ।।

वेदसूक्तसमायुक्ते यज्ञसूत्रसमन्विते ।।

सर्ववर्णप्रदे देव वाससी ते विनिर्मिते ।।२४७।।

शरीरं ते न जानामि चेष्टां नैव च नैव च ।।

मया निवेदितान्गन्धान्प्रगृह्य च विलिप्यताम् ।।२४८।।

अष्टोत्तरशतान्दीपान्परितः स्थापयेत्क्रमात् ।।

तदर्धं वा पञ्चविंशं मंत्रेण प्रयजेत्सुधीः ।। २४९ ।।

त्वं सूर्य्यचन्द्रज्योतींषि विषादस्त्वं तथैव च।।

त्वमेव सर्वज्योतींषि दीपोऽयं प्रतिगृह्यताम् ।। 2.2.19.२५० ।।

प्रदक्षिणं ततः कुर्यात्पञ्चधा सप्तधाथ वा ।।

वक्ष्यमाणेन मंत्रेण दद्याद्धूपं दशांगकम् ।। २५१ ।।

वनस्पतिरसो दिव्यो गंधाढ्यः सुरभिः शुचिः ।।।

मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ।। २५२ ।।

अलंकारैश्च गंधैश्च पीतवस्त्रैस्तथैव च ।।

दूर्वाक्षतेन माल्येन युक्तं पुष्पेण पूजयेत् ।।

दद्यात्पञ्चाञ्जलिं पश्चाद्विष्णुसूक्तं पुनर्जपेत् ।। २५३ ।।

ततः सुशोभने स्थाने वेदीं निर्माय देशिकः ।।

वरुणं विन्यसेत्तत्र तथा पुष्करिणीमपि ।। २५४ ।।

विवाहोक्तेन विधिना कुर्यान्निर्मंछनादिकम् ।।

गंधपुष्पं ततो दद्याद्गां च दद्यात्सदक्षिणाम् ।।२५५।।

चामरं व्यजनं छत्रं कांस्यं लोहं तथैव च ।।

कुर्यात्पुष्करिणीं रम्यां राजतीं च त्रिपादिकाम् ।। २५६ ।।

चतुष्कोणां च सुषमां द्व्यंगुष्ठपरिमंडलाम् ।।

सुवर्णप्रतिमां कुर्याद्भालेनैकेन भो द्रिजाः ।। २५७ ।।

अथ वा स्वर्णपत्रे च कुंकुमेन तले लिखेत् ।।

बाणशक्तिप्रमाणेन स्वर्णपत्रं तु द्व्यंगुलम् ।।२५८।।

कारयेच्चतुरस्रं च पीठोपरि न्यसेद्बुधः ।।

नीराजनांते विप्रेंद्राः संस्मरेदमृतं तरेत् ।। २५९ ।।

अशक्तेन तथैवैककाष्ठे वा पिप्पलच्छदे ।।

ताम्रपट्टे लिखेद्वापि अलक्तेन यथाविधि ।।2.2.19.२६०।।

प्राणप्रतिष्ठां कुर्यात्तु वरुणाय निवेदयेत् ।।

महं तु वत्सरं कुर्याद्वेदघोषपुरःसरम् ।। २६१ ।।

अशोकः खदिरः शालो ह्यश्वत्थो बिल्वकस्तथा ।।

धात्री कुरुबकश्चैव बकुलो नागकेशरः ।। २६२ ।।

एषामेव काष्ठयूपं यजमानप्रमाणकम् ।।

समादाय च संस्थाप्य वस्त्राद्यैः प्रतिगृह्य च ।। २६३ ।।

यूप रक्षेति मंत्रेण खनित्वा च प्रदापयेत् ।।

स्थिरो भवेति मन्त्रेण हस्तं दत्त्वा पठेत्ततः ।। २६४ ।।

तडागस्य तथैशान्यां तथा प्रासादकस्य च ।।

प्रापयेद्दक्षिणे भागे आवासस्य च मध्यके ।। २६५ ।।

नौका गत्वा ततः पश्चाद्यूपमादाय वाग्यतः ।।

मध्यदेशे तडागस्य समुलंघ्य तथोत्तरम् ।। २६६ ।।

गंतव्यं प्रकल्प्य तत्रैव आप्यायस्वेति वै ऋचा ।।

शिलायां होमयेत्तत्र हुनेन्नौकाहुतित्रयम् ।। २६७ ।।

अंगदाय स्वाहेति भौमाय नम इत्यतः ।।

लाजाशक्तौ दधिमधौ वासने प्रतिहोमयेत् ।। २६८ ।।

कूर्माय नम इत्युक्त्वा पृथिव्यै नम इत्युत ।।

स्वाहेत्यनंतमंत्रेण दद्यादर्घ्यमनंतरम्।।२६९।।

पञ्चरत्नेन गन्धेन शंखेनार्घ्यं प्रदापयेत् ।।

चतुरस्रं समाकीर्णं चतुर्दिक्ष्वधृतैर्जनैः ।। 2.2.19.२७० ।।

कल्पयेद्रोपयेत्तत्र हस्तं दत्त्वा पठेदिदम् ।।

स्थिरो भवेति मंत्रेण गंधपुष्पैः प्रपूजयेत् ।। २७१ ।।

चक्रं सदर्पणं दद्यान्नागदंडशिरो गतः ।।

विद्युदत्र च कर्तारं ग्र(ग्न?)हदुःखहरिप्रियम् ।। २७२ ।।

एवं चक्रं पूजयित्वा शूलं नागांश्च पूजयेत् ।।

उच्चैर्ध्वजं ततः कृत्वा न नागेति च संपठेत् ।। २७३ ।।

गायत्रस्वेति मंत्रेण पठेद्द्वारद्वयं ततः ।।

दिक्पालेभ्यो बलिं दद्यान्माषभक्तं गुडौदनम् ।। २७४ ।।

रक्तपुष्पान्वितं कृत्वा प्रणिपत्य प्रसादयेत् ।।

सहस्रं वा धनं दद्याद्ब्राह्मणाय कुटुंबिने।।२७५।।

ततो भोज्यं ससर्पिश्च सहिरण्यं यथाविधि ।।

इक्षुस्वस्तीतिकां दद्याज्जले मातॄश्च पूजयेत् ।।२७६।।

मंथरां वसुतां कांतां राक्षसीं च पिशाचिकाम्।।

नागिनीर्नागपुत्रांश्च मध्ये संपूजयेत्ततः ।। २७७ ।।

पूर्णांते च पृथग्दद्याल्लाजाद्यैर्गुडमिश्रितैः ।।

इन्द्रो बलवती स्वाहा यशो बलवतामपि ।।२७८।।

बृहत्पक्षाविशषोऽयं मध्यमे च कनीयके ।।

बृहस्पते च इन्द्राय तव देवलतामिति ।। २७९ ।।

स्वाहेति जुहुयात्पश्चात्प्रणीतां चालयेत्ततः।।

कनिष्ठ पक्षे प्रासादे तथा चैव जलाशये ।। 2.2.19.२८० ।।

मन्दरे तोरणस्यैव विष्वक्सेनं प्रकल्पयेत् ।।

आरामे च तथा सेतौ विशेषः पञ्चमो द्विजाः ।।२८१।।

पूजांतरेण यः कस्य जपेन्मन्त्रसहस्रकम् ।।

स्तुतिं समाप्य विधिवदिमं मंत्रमुदाहरेत् ।। २८२ ।।

सर्वसत्त्वेभ्य उच्छिष्टमपि तज्जलमुद्धृतम् ।।

इति पठित्वा पुष्करिणीजलं हस्ते गृहीत्वा जले क्षिपेत् ।। २८३ ।।

ततो जलमातृभ्यो नम इति जलमातॄः प्रपूजयेत् ।।

त्रैलोक्ये यानि स्थानानि स्थावराणि चराणि च ।। २८४ ।।

तेषामाप्यायनायैतज्जलमुत्सृज्यते मया ।।

मात्रे तु कृतमेतत्ते जगदानंदकारकम् ।। २८५ ।।

शिवाय सर्वभूतानां सदा पाहि जलाशयम् ।।

पिबंतो ह्यवगाहंतः सुखिनः सर्वजंतवः ।। २८६ ।।

जलं विश्वोपकाराय कृतमेतन्मया सदा ।।

कीर्तिस्तिष्ठतु मे देवाश्चिराय धरणीतले ।। २८७ ।।

त्वत्प्रसादान्महाभाग नागराज नमोऽस्तु ते ।।

येऽत्र केचिद्विपद्यंते स्वकर्मफलभोजनाः ।। २८८ ।।

तेषां दोषैर्न लिप्येऽहं स्वंस्वं गममवाप्नुयात् ।।

नारायणो जगत्प्राणः सर्वकामप्रदायकः ।। २८९ ।।

आपेया मातरः संतु जगतां वृक्षयोनयः ।।

अपांपते रसायात्र यादसामीश्वर प्रभो ।। 2.2.19.२९० ।।

वरुणास्यासने कीर्तिं सनातन नमोस्तु ते ।।

तत्तोयं निधिवद्दद्याद्दक्षिणार्थं द्विजन्मने ।। २९१ ।।

सुवर्णंरजतं दद्यादनड्वाहं पयस्विनीम् ।।

दद्याद्धेनुद्वयं पश्चात्कुर्याद्ब्राह्मणतर्पणम् ।।२९२।।

वह्निपूजां पुरस्कृत्य मन्त्रेण प्राशयेत्ततः ।।

पितॄणां दापयेदर्घ्यं ततो देवं प्रसादयेत् ।। २९३ ।।

बिंबमुद्रां पद्ममुद्रां नागमुद्रां प्रदर्शयेत् ।।

वैश्वानरा इति ऋचा पूजां कृत्वा विवर्जयेत् ।।२९४।।

यस्ते प्राणाञ्जपन्पश्चात्प्रकुर्यादथ चन्दनम्।।

प्रदक्षिणं ततः पश्चात्तडागस्य शृणु द्विजाः ।।२९५।।

ब्राह्मणान्पुरतः कृत्वा वेदघोषं समुच्चरन् ।।

महामङ्गलपूर्वेण प्रविशेद्भवनं सुधीः ।। २९६ ।।

ततो गृहार्चनं कुर्याद्ब्राह्मणानां च भोजनम् ।।

दीनानां कृपणानां च सवित्रेऽर्घ्यं निवेदयेत् ।।२९७।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे ऊनविंशोऽध्यायः ।। १९ ।।

पर्व २ (मध्यमपर्व) · भागः २ — Adhyāya 20

मध्यमविधानवर्णनम्

।।सूत उवाच ।। ।।

सप्ताग्निष्टोमको नाम द्युत्तमः कथितो विधिः ।।

मध्यमे मध्यमफलं कनिष्ठे तु कनिष्ठकम् ।। १ ।।

अधुना मध्यमं वक्ष्ये विधिं शास्त्रानुसारतः ।।

यथाविभवयागेन यत्कर्तव्यं नरेण वै ।। २ ।।

सद्योधिवासकल्पेन यूपादीनधिवास्य च ।।

पूर्वस्मिन्नेव दिवसे दैवज्ञकथिते शुभे ।। ३ ।।

मुहूर्ते कलशं स्थाप्य संगृह्य गणनायकम् ।।

स्थापयेत्प्रथमं यूपमा पोहिष्ठेतिमन्त्रकैः ।। ४ ।।

शन्नो देव्यास्ततः पश्चाद्गन्धद्वारेति गंधकम् ।।

श्रीसूक्तेन ततो दद्यात्पुष्पं दूर्वाक्षतं ततः ।। ५।।

काण्डादिति च मन्त्रेण ततो धूपं निवेदयेत् ।।

ये गृह्णामीति च ऋचा पूजायां स्थापयेत्ततः ।। ६ ।।

विवाहविधिना सर्वं कार्यं चैवाधिवासनम् ।। ७ ।।

सर्वमेव प्रयुंजीत तडागादिषु पण्डितः ।।

अधिवास्य तडागादीनाचार्यादींश्च सर्वशः ।। ८ ।।

संगृह्य गंधपुष्पाद्यैर्धूपैर्दीपैः सुशोभनैः ।।

ततः प्रभातसमये नित्यं निर्वर्त्य शास्त्रतः ।। ९ ।।

वृद्धिश्राद्धं ततः कुर्यान्मातृपूजापुरःसरम् ।।

अलंकृत्य यथाशक्ति आचार्यादींश्चरेद्बुधः ।। 2.2.20.१० ।।

शृणुयात्पश्चिमे भागे मंडपस्य समीपतः ।।

मध्यदेशे समुद्भूतं यज्ञपात्रं प्रशस्यते ।। ११ ।।

अथ वा तत्र देशीयं गुरुं वा श्रोत्रियोद्भवम् ।।

यज्ञे प्रधानद्वितीयमृत्विगाचार्यमेव हि ।। १२ ।।

वैतानकल्पे संपन्नं शक्तिकल्पपरायणम् ।।

निगमज्ञानसंपन्नं यज्ञे पात्रं प्रशस्यते ।। १३ ।।

पत्नीहीनमपुत्रं च श्यावदंतमदंतकम् ।।

गणानां याजकं षंढं स्वगोत्रं परिवर्जयेत् ।। १४ ।।

अप्रधानेषु यज्ञेषु दानयज्ञेषु सत्तमाः ।।

नियोजयेत्स्वगोत्रं च होमे नस्ति विचारणा ।। १५ ।।

कुशप्रतिकृतौ चापि ततः स्वर्गं स गच्छति ।।

धनमादौ च संशोध्य ततो यज्ञं समाचरेत् ।। १६ ।।

अयाज्ययाजनोद्भूतं पल्लवं व्यवहारके ।।

कूटसाक्ष्येण पल्लवे स्थाप्यहारकमेव च ।। १७ ।।

देवस्वं ब्राह्मणस्वं च लोहविक्रयणं धनम् ।।

हविर्विक्रयणं कृत्वा पुत्रभार्या दिविक्रयी ।। १८ ।।

निंदितानि पुराणेषु यत्कृतं तत्र तत्फलम् ।।

यज्ञसद्मनि विप्रांश्च न श्राद्धान्भोजयेत्क्वचित् ।।

न दद्यात्तस्य दानं च यावन्नैव समापयेत् ।। १९ ।।

ब्रह्मन्नाचार्यमुख्योसि संसारात्त्राहि मां विभो ।।

त्वत्प्रसादाद्गुरो यज्ञे प्राप्नुयां मानसेप्सितम् ।। 2.2.20.२० ।।

चिरं मे शाश्वती कीर्तिर्यावल्लोकाश्चराचराः ।।

प्रसीद त्वं महेशान प्रतिष्ठाकर्मसिद्धये ।। २१ ।।

त्वमादिः सर्वभूतानां संसारार्णवतारक ।।

ज्ञानामृतप्रदाचार्य विष्णु रूप नमोऽस्तु ते ।। २२ ।।

ब्रह्मासनसमुद्भूतं प्रकाशितदिगंतरम् ।।

त्वं च जांबूनदप्रख्य यजुर्वेद नमोस्तु ते ।।२३।।

प्रफुल्लकमलोद्भासि भास्वरांबरभूषित ।।

प्रकीर्णशास्त्रसंभार विधिज्ञ प्रणतोस्मि ते ।।२४।।

ज्वलद्वैश्वानरप्रख्य धूमश्यामालितानन ।।

षडंगवेदतत्त्वज्ञ ऋत्विङ् मोक्षं समाचर ।। २५ ।।

ततस्तूर्यादिघोषेण पुरस्कृत्य द्विजोत्तमान् ।।

यजमानः सपत्नीकः प्रविशेद्यागमण्डपम् ।। २६ ।।

स्वस्थाने स्थापयेद्विप्रान्मखे धर्मैर्यथाक्रमम् ।।

पूजयेद्गन्धमाल्याद्यैर्गंधाद्यैः सुमनोहरैः ।। २७ ।।

यज्ञे सुवितते योसौ पूज्यते पुरुषः सदा ।।

नारायणस्वरूपोसौ यज्ञं मे सफलं कुरु ।।२८।।

मखश्रेष्ठेषु सर्वेषु येन मंत्राः सुविस्तृताः ।।

यजुर्वेदार्थतत्त्वज्ञ ब्रह्मरूप नमोस्तु ते ।।२९।।

यज्ञेषु साक्षी सर्वेषु वेदवेदार्थतत्त्ववित् ।।

ऋग्वेदज्ञ महाप्राज्ञ विश्वरूप नमोस्तु ते ।। 2.2.20.३० ।।

मांगल्यं कर्मणां नित्यं शाश्वतं ब्रह्मरूपिणम् ।।

सिद्धये मम यज्ञस्य नमामि शिवरूपिणम् ।। ३१ ।।

पालयंति दिशः सर्वा विदिशश्च तथा इमाः ।।

दिक्पालरूपिणं विप्रं यज्ञसिद्ध्यै नमाम्यहम् ।।

पातयेद्दक्षिणं जानु विकिरान्विकिरेत्ततः ।। ३२ ।।

त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।।

ब्रह्मविष्णुशिवाः सर्वे रक्षां कुर्वंतु तानि वै।।३३।।

वेद्यावेदीति मंत्रेण पठेद्वेदिं प्रणम्य च।।

संपूज्य गन्धपुष्पाद्यैरिमं मंत्रमुदा हरेत्।। ३४ ।।

याजनं यजमानश्च श्रेयसा तत्र याजकः ।।

इदमर्घ्यमिदं पाद्यं धूपोयं प्रतिगृह्यताम् ।। ३५ ।।

ऐशान्यां कलशे देवं संपूज्य गण नायकम् ।।

ब्रह्माणं वासुदेवं च द्वितीयकलशे यजेत् ।।३६।।

मंडलं चैव विष्णुर्वै द्वारकारूपमास्थितः।।

तेन त्वां पूजयाम्यद्य स्वर्गप्राप्तिं कुरुष्व मे ।। ।। ३७ ।।

पूर्वादिदिक्षु कलशान्संस्थाप्य च त्रयंत्रयम् ।।

अर्धपादसवर्णेन निर्मितं तारणं बुधः ।। ३८ ।।

गंगामृत्तिकया युक्ते पल्लवे संनिवेदयेत् ।।

मंदरं कल्पयित्वा तु गोपीनां च कुलेन वा ।।३९।।

कलशोपरि संस्थाप्य मंदरं संप्रपूजयेत् ।।

स्योना पृथिवीति मंत्रेण गंधपुष्पैः पृथिग्विधैः ।।2.2.20.४०।।

( स्योना पृथिवीति मन्त्रस्य सुमंत ऋषिर्जगती छन्दो हरो देवता मंदरप्रीतये विनियोगः) ।।

एवं दक्षिणदिग्भागे नवतोलकनिर्मितम् ।।

प्रादेशमात्रलोहं तु रौप्येण गंधमादनम् ।।

मृदा संघटनैः पश्चात्कदाचन ऋचा यजेत् ।। ४१ ।।

कदाचनेति मंत्रस्य सूर्य ऋषिस्त्रिष्टुप्छन्दः सूर्यो देवता गंधमादनप्रीतये विनियोगः ।।)

उत्तरे तोरणतोद्रेरंगुष्ठद्वयमानके ।।

तोलकद्वयमानेन यवानां पिष्टकोपरि ।। ४२ ।।

( आप्यायस्वेति मंत्रस्य कर्दम ऋषिर्जगती छन्दः शची देवता सुपार्श्वप्रीतये विनियोगः ।।)

पूजयेत्पार्श्वकलशे धात्रादीन्पूर्वदिक्क्रमात् ।।

श्रीसूक्तेनैव मन्त्रेण यजेद्विजयसप्तकम् ।।

पूजयेत्परया भक्त्या गंधपुष्पाक्षतादिना ।। ४३ ।।

अंबाअंबिकेति मंत्रस्य नलिन ऋषिर्गायत्री छन्दः शंभुर्देवता जय प्रीतये विनियोगः ।।

गायत्र्या पूजयेद्दक्षे पश्चिमं कलशद्वयम् ।। ४४ ।।

( गायत्र्या विश्वामित्र ऋषिः सविता देवता विजयप्रीतये विनियोगः ।।)

भद्रं चैव सुभद्रं च प्रयतः संयजेद्बुधः।।४५।।

(उत्तरे युग्मकलशे मनोन्ना इति मंत्रस्य अंतक ऋषिर्बृहती छंदो निर्ऋतिर्देवता भूतप्रीतये विनियोगः।।)

भूतशुद्धिं ततः कृत्वा न्यासं कृत्वा विधानतः ।।

विधायार्घ्यादिकं चैव धर्मादिमंडले यजेत् ।।४६।।

मध्ये आधारशक्त्यादीन्वरुणं मध्यतो यजेत् ।।

पूर्वादिक्रमतश्चैव इन्द्रादीन्कुलदेवताः ।।४७।।

पार्श्वद्वये कर्णिकाया ब्रह्माणं चाप्यनन्तकम् ।।

स्वैःस्वैर्मंत्रैर्यथोक्तैश्च बलिभिर्गन्धपुष्पकैः ।। ४८ ।।

इन्द्राभिषेकमंत्रस्य वाद्यं गांधाररागकम् ।।

अग्नेस्तेजोसीति वाद्यं रागं चैव वराटकम् ।। ४९ ।।

घनकंटकमस्यापि वाच्यं रागं तु गुर्जरम् ।।

रक्षोधिपस्य संग्रामं वैतालं वाद्यमुच्यते ।। 2.2.20.५० ।।

नाटकाख्यं तथा रागं वरुणस्यापि मे शृणु ।।

वाद्यं राज्याभिषेकाख्यं रागो वसंतसंज्ञकः ।। ५१ ।।

ईशस्य नंदिघोषाख्यं वाद्यं रागोथ कामदः ।।

सुवर्णं दुंदुभिर्वाद्यं ब्रह्मणः कथितो बुधैः ।। ५२ ।।

रागो देवी वसंतश्च अनंतस्य निबोध मे ।।

वाद्यं गांधारताराख्यं रागश्चाङ्गारवातकः ।। ५३ ।।

सोमे घोषे भवेद्वाद्यं जलेशस्य महात्मनः ।।

मालवाख्यो भवेद्रागः पत्राग्रेषु महानपि ।। ५४ ।।

स्वैः स्वैर्धर्मैश्च संगृह्य दक्षिणे पृथिवीं यजेत् ।।

स्योना पृथिवीति मंत्रेण उपचारैः पृथग्विधैः ।। ५५ ।।

मण्डपस्योत्तरे भागे महादेवं प्रपूजयेत् ।।

नमो वृक्षेभ्य इत्यादि नैवेद्यैश्च पृथग्विधैः ।। ५६ ।।

( महादेवं द्विभुजं डमरुशूलधरमुमासहितं ध्यात्वा ।।

नमो वृक्षेभ्य इति मन्त्रस्य ब्रह्मा ऋषिर्गा यत्री छंदश्चन्द्रो देवता चन्द्रप्रीतये विनियोगः ।।)

गंधपुष्पादिभिर्भक्त्या भूतानि परितो यजेत् ।। ५७ ।।

वेतालाश्च पिशाचाश्च राक्षसाश्च सरी सृपाः ।।

अस्मात्प्रयांतु मे स्थानाद्ये चान्ये विघ्नकारकाः ।। ५८ ।।

मधुयुक्तं पायसान्नं वरुणाय निवेदयेत् ।।

पीतं चालोहितं कृष्णं शुद्धं कृष्णं च धूम्रकम्।। ५९ ।।

पीतं शुक्लं तथा चित्रं श्वेतमन्नं यथाक्रमम्।।

बलयस्तु दिगीशानां ग्रहाणामपि ताञ्छृणु ।। 2.2.20.६० ।।

क्षीरौदनं ग्रहेशाय शुक्लान्नं शशिने स्मृतम् ।।

लोहितान्नं च भौमाय बुधाय क्षीरषाष्टिकम् ।। ६१ ।।

पीतमन्नं देवगुरोः शुक्रस्य सिततंदुलम् ।।

मांसौदनं शनेर्ज्ञेयं राहोश्च कृष्ण भक्तकम् ।। ६२ ।।

धूम्रवर्णं तु ताम्रं तु भौमस्य क्षीरषाष्टिकम् ।।

पिष्टकान्नं शिवस्योक्तं भूतानां माषभक्तकम् ।। ६३ ।।

एवं बलिं विधायाथ अग्रे कुंभं निवेशयेत् ।।

प्रदेशद्व्यङ्गुलं नाम अष्टोत्तरसहस्रकम् ।।६४।।

बह्वंगुलकं विन्यस्य विन्यस्य कलशोपरि।।

निशावांछ्तिसूत्रैश्च संवेष्ट्य पिहितं तथा ।। ६५ ।।

शरावं च पुनर्दद्याद्वर्धनीं प्रतिपूजयेत् ।।

अस्त्राय फडिति मंत्रेण ध्यात्वा देवं जलेश्वरम् ।। ६६ ।।

सूक्तं यजेद्यथाशक्ति शतमष्टोत्तरं जपेत् ।।

कुंडेषु विन्यसेन्नागानष्टौ पूर्वादिषु क्रमात् ।। ६७ ।।

अनंतं पूजयेत्पूर्वं मानेनांगुलमात्रकम् ।।

निर्मितं कांचनेनैव सप्तवर्तिकया सुधीः ।। ६८ ।।

राजतं वासुकिं नागं यजेत्पत्रांतरे पुनः ।।

पादमात्रेपि चांगुष्ठमात्रं ताम्रस्य भक्ष्यकम् ।। ६९ ।।

पंचांगुलं तोलिकया लोहं कर्कोटकं पुनः ।।

वर्तिकाभिः षोडशभिर्बृहत्पर्वप्रमाणकम् ।। 2.2.20.७० ।।

शंखपालं कुशमयमर्धपादेन निर्मितम्।।

अंगुष्ठमात्रं रक्तेन नागं तालकमात्रकम् ।।७१।।

अंगुष्ठे तोलकं पश्चात्पद्मनागं पुनर्यजेत् ।।

तोलकार्धप्रमाणेन अंगुलं परिमाणतः ।। ७२ ।।

कुर्याच्छैलमयं सम्यग्यथावल्लक्षणान्वितम् ।।

महापद्मस्य वै तस्य पूर्वमानेन निर्मितम् ।। ७३ ।।

ध्यात्वानंतं चतुर्बाहुं शुक्लसप्तफणान्वितम् ।।

दक्षिणोर्ध्वकरे शंखमधिचक्रं प्रतिष्ठितम् ।। ७४ ।।

वामोर्ध्वे तु गदापद्मं मध्यस्थाने व्यवस्थितम् ।।

सर्वालंकारसंयुक्तमेवं ध्यात्वा यथाविधि ।।७५।।।

सहस्रशीर्षेति मंत्रेण पूजयित्वा बलिं हरेत् ।।

लाजैश्च तिलसंमिश्रैः क्षीरयुक्तैः पृथग्विधैः ।। ७६ ।।

चतुर्विधं तथा श्वेतं सर्वालंकारसंयुतम् ।।

स्वकीयं प्रजपेत्तत्र आप्यायस्वेति वै ऋचा ।। ७७ ।।

पिण्याकं नागजिह्वां च तथा सर्जरसं दधि ।।

बलयस्तस्य निर्दिष्टास्तक्षकं लोहितं यजेत् ।। ७८ ।।

पद्मं टंकं दधानं च भुजाभ्यां नागसत्तमम्।।

मनोन्ना इति मंत्रेण आज्यं सोमो बलिं हरेत् ।। ७९ ।।

कर्कोटकं च द्विभुजं पीतवस्त्रधरं यजेत् ।।

पञ्च नद्य इति ऋचा विष्णुक्रांता बलिर्भवेत् ।। 2.2.20.८० ।।

पीतवस्त्रं च कुलिशं याजयेत्तु चतुर्भुजम् ।।

भुजाभ्यामूर्ध्वभागे तु रक्तपद्मधरं हरिम् ।। ८१ ।।

शर्करा कुष्ठकं चैव बलिस्तस्य प्रकी र्तितः।।

द्विभुजं शंखपालं च शंखाभं शंखधारिणम् ।। ८२ ।।

पद्मासनस्थं पद्माभ्यां हस्ताभ्यां च वरं विभुम्।।

ध्रुवक्षितिध्रुवोसीति मंत्राभ्यां पूजयेत्पृथक् ।। ८३ ।।

घटौदनं भृंगराजं पद्मं च वलयस्तयोः ।।

स्वगृह्योक्तेन विधिना संस्थाप्याग्निं कुशंडिकाम् ।। ८४ ।।

कृत्वा आज्यस्य संस्कारं वारुणं श्रपयेच्चरुम् ।।

जुहुयादष्ट बिल्वानि दिगीशानां घृतेन वै ।। ८५ ।।

एकैकामाहुतिं दद्याद्ग्रहाणां च त्रयंत्रयम् ।।

सुसमिद्भिर्घृतमधु पयोभिर्मिश्रितैः पृथक् ।। ८६ ।।

पलाशसमिधं पश्चात्प्रतिष्ठामाहुतित्रयम् ।।

शिवस्य परमान्नेन जुहुयादष्टसंख्यया ।। ८७ ।।

मध्वाज्यगुडमिश्राभिर्लाजाभिर्जुहुयात्पृथक् ।।

लाजान्यथोक्तं वितरेदेकैकामाहुतिं क्रमात् ।। ८८ ।।

स्थालीपाकस्य जुहुयादेकैकामाहुतिं पुनः ।।

वरुणं च समुद्दिश्य रुद्रं सर्वं पृथक्पृथक् ।। ८९ ।।

वास्तोष्पतय इति मंत्रेण पञ्चगव्यो भवेत्ततः ।।

स्योनापृथिवीति मंत्रेण व्रीहिमृत्तिकया पुनः ।। 2.2.20.९० ।।

वृषान्न इति मंत्रेण कया न इति वै पुनः ।।

कुशमूलमृदा चैव चतुष्पथमृदा तथा ।। ९१ ।।

इमा रुद्रेति मंत्रेण श्रीश्चेति ऋचा पुनः ।।

पद्मखण्डस्य च मृदा स्नापयेत्सुसमाहितः ।। ९२ ।।

तद्विष्णोरिति मंत्रेण तथा पुष्पोदकेन च ।।

तीर्थोदकेन कृष्णेन त्रिरक्तेन त्रिशीतकैः ।। ९३ ।।

पञ्चरक्तेन रक्तानां मृदा कैश्च कुशोदकैः ।।

स्वर्णतोयैश्च कलशैरष्टोत्तरशतेन तु ।। ९४ ।।

तैजसैर्मार्त्तिकैश्चापि अष्टाविंशतिभिस्तथा ।।

यथाशक्ति तु संस्थाप्य कुंकुमैश्चन्दनैरपि ।। ९५ ।।

अन्नं लिप्य ततो मृद्भिर्दद्याच्चैव यथाक्रमम् ।।

सुरासुरेति च ऋचा वस्त्रयुग्मेन वेष्टयेत् ।। ९६ ।।

ध्वजं च धनुनागेति गंधद्वारेति गोमयम् ।।

धूरसीति ततो धूपं होत्रे चाहुतिदीपकम् ।। ९७ ।।

सिंधोसीति च सिंदूरं स्वभावे रक्तकं तथा ।।

मालतीकुसुमैः कृत्यैर्नागान्संस्थापयेत्ततः ।। ९८ ।।

धाराभिः शतपुष्पाभिर्गन्धतोयादिभिस्तथा ।।

अथवाश्वत्थपत्रेषु वटपत्रेषु वा सुधीः ।। ९९ ।।

रोचना कुंकुमैर्वापि संलिख्य तत्र पूजयेत् ।।

प्रक्षिपेत्तत्र मुक्ता हि कलशेषु विनिक्षिपेत् ।। 2.2.20.१०० ।।

मंडपस्योत्तरेदेशे शय्यां निर्माय शोभनाम् ।।

राजतं वारुणं तस्यां पादमात्रेण निर्मिताम् ।। १०१ ।।

अंगुष्ठमात्रं संस्थाप्य ततः पुष्करिणीमपि ।।

स्वर्णपादेन घटितां चतुरस्रां सुशोभनाम् ।। १०२ ।।'

अंगुष्ठमात्रं सम्पूज्य वरुणाय निवेदयेत् ।।

यथाशक्ति ततो गां च संभवे पञ्चविंशतिः ।। १०३ ।।

सुवर्णं राजतं चैव धान्यं वासो वराटकम् ।। ।। १०४ ।।

नागयष्टिं समादाय किंचिदुत्तरगां तथा ।। १०५ ।।

ततोक्षताय भौमाय कृत्वा चाज्याहुतित्रयम् ।।

लाजान्दधिसमायुक्तं घृतं मधु गुडं तथा ।। १०६ ।।

क्षीरं च पिष्टकं चैव शष्कुलीगन्धपुष्पकम् ।।

पंचामृतं पञ्चरत्नं गर्भे दद्यात्समाहितः ।। १०७ ।।

आचार्यो यजमानेन सुसन्नद्धैश्च भृत्यकैः ।।

गंगाजलेशयोर्मध्ये पंचघोषपुरःसरम् ।। १०८ ।।

अवाप्य च ततो यष्टिं स्थिरो भवति वैरिवा ।।

ध्रुवं ध्रुवेति मंत्रेण यष्टिमा मंत्रयेत्ततः ।। १९१०३ ।।

यज्ञप्रियासि देवि त्वं सर्वविघ्नविनाशिनी ।।

पाहि मां सर्वपापेभ्य आत्मना त्वं स्थिरीभव ।। 2.2.20.११० ।।

इत्यामंत्र्य यजेच्चैव गायत्रीं च पठेत्ततः ।।

वनस्पतेति विडवामिति मंत्रं जपेत्पुनः ।। १११ ।।

पुनरागत्य तां वेदिं निर्मथ्य वरुणं प्रभुम् ।।

तथा पुष्करिणीं चैव वर्धनीं कलशोदरैः ।। ११२ ।।

अनिष्टं मार्जयेन्नागानुद्धृत्य कलशं तथा ।।

पाषाणाभ्यंतरं कृत्वा गोमयैः परिलिप्य च ।। ११३ ।।

वरुणं पुष्करिण्यां च जलमध्ये विनिक्षिपेत् ।।

नमोस्त्विति च मन्त्रेण बलिं दद्याच्च पायसम् ।। ११४ ।।

निर्मन्थेत्तत्र यो नागः स्थापयेत्तु यथाविधि ।।

श्रावयेत्तमिमं मंत्रमत्र संनिहितो भव ।। ११५ ।।

अत्र स्वामी भवान्नाग रक्षणीयस्त्वया जनः ।।

गायत्रेण त्वा छंदसामीमन्त्रं संश्रावयेत्पुनः ।। ।। ११६ ।।

संपूज्य गंधपुष्पाद्यैः पुरतो निक्षिपेद्दिशि ।।

पिधाय नागराजानमृचाभ्यां परिसूत्रकैः ।। ११७ ।।

सन्निरुद्ध्याशु संस्थाप्य बलिं दद्या द्विधानतः ।।

लाजौदनं मनस्तस्य यज्जाग्रत ऋचा जपेत् ।। ११८ ।।

एवं भूरिति मंत्रै स्वैः स्वैरेव तु पृथग्विधैः ।।

स्वासु दिक्षु च संस्थाप्य पूज येच्च प्रयत्नतः ।। ११९ ।।

पूर्वभागे पुष्करिण्यां हरिताभं सवज्रकम् ।।

हलग्रहीत मंत्रेण न्यस्य लाजाहुतिं कुले ।। 2.2.20.१२० ।।

त्रातारमिति मंत्रेण अग्नौ विन्यस्य मौक्तिकम् ।।

मनःशिलां प्रवालं च अग्निमीडेति संपठेत् ।।१२१।।

वैश्वानरेण मन्त्रेण पठल्लाँजाहुतिं पुनः ।।

दद्याद्ये ते शतमन्त्रेण पश्चिमे काटिकं न्यसेत् ।।१२२।।

शालिबीजेन सहितं कया न इति मंत्रकम् ।।

वरुणस्यो इति मंत्रेण दद्यादष्टादशाहुतीः ।।१२३।।

उत्तरे रोचनां कन्यां तथैव गौरसर्षपम् ।।

कुंकुमेन समायुक्तं कुविदंडमृचा पठन् ।। १२४ ।।

विन्यस्य तेन मंत्रेण प्रदद्यादाहुतिं पुनः ।।

ऐशान्यां मंद्रकं रंगमी शावा इति संपठन् ।। १२५ ।।

संस्थाप्याज्याहुतिं दद्यात्तमीशान ऋचा पुनः।।

आसद्यैर्मंत्रसंयुक्तैर्देवं नारायणं यजेत् ।। १२६ ।।

वरुणात्मकं ततो ध्यात्वा ततो नीराजनं पठेत् ।।

जानुभ्यामवनिं गत्वा पठेज्ज्ञानामृतं स्तवम् ।। १२७ ।।

धर्मो वंशं ततः कुर्यादुत्सर्गांते विधीयते ।।

ततो देवीं पुनः कृत्वा दत्त्वा पुष्पाञ्जलित्रयम् ।। १२८ ।।

सर्वसत्त्वोपकाराय समुत्सृजेत्तु वै जनम् ।।

उत्सृष्टं सर्वसत्त्वेभ्यो दृश्यते जलमूर्जितम् ।। १२९ ।।।

रमंतीं सर्वभूतानि स्नानपानावगाहनैः ।।

वरुणं च ततो देवं पुष्करिण्यां च निक्षिपेत् ।। 2.2.20.१३० ।।

जले वरुणमन्त्रेण मत्स्यादीन्प्रक्षिपेत्ततः ।।

पक्षिणश्च शुभांस्तत्र भेकं कूर्मं च कर्दमम् ।।१३१।।

शैवालं प्रक्षिपेच्चैव दक्षिणां तदनंतरम् ।।

सुवर्णं धान्यरत्नं च आचार्याय पृथग्ददेत्।।१३२।।

ऋत्विग्भ्यश्च पृथग्दद्याद्यथावित्तानुसारतः ।।

ब्राह्मणेभ्यो गायनेभ्यो वसुभ्यश्च पृथक्पृथक् ।। १३३ ।।

नित्यं समाप्य विधिवद्दद्यात्पूर्णाहुतिं पुनः ।।

दद्यादर्घ्यं च सूर्याय हस्तास इति संजपन् ।। १३४ ।।

ततः प्रदक्षिणावर्तं संवेष्ट्य क्षीरधारया ।।

प्रासादपक्षे प्रासादमारामे अथ मंडपम् ।।१३५।।

शताधिधारया शक्त्या त्रिवारं ब्राह्मणैः सह ।।

विकीर्य लाजकुसुमं व्रीहीश्चैव कपर्दकान् ।। १३६ ।।

तूर्यघोषेण महता ततो विप्रपुरःसरम् ।।

यजमानः सपत्नीकः प्रविशेत्स्वगृहं पुनः ।। १३७ ।।

ततो गृहार्चनं कृत्वा ब्राह्मणानथ भोजयेत् ।।

कुमारीश्च कुमारांश्च दीनान्धकृपणानपि ।।१३८।।

नारायणं ततो दद्याद्विप्रमुद्दिश्य भक्तितः ।। १३९ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभाग विंशोऽध्यायः।। २० ।।

इति मध्यमपर्वणि द्वितीयभागः समाप्तः ।। २ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 1

उपवनादिप्रतिष्ठावर्णनम्

।। ।। सूत उवाच ।। ।।

आरामादौ विशेषो यो वक्ष्यतेऽत्र मयाधुना ।।

मंडलं कारयित्वा तु चतुरस्रं समं शुभम् ।।१।।

ऐशान्यां कलशे देवं तत्र नाथं प्रपूजयेत् ।।

मध्यमे कलशे पूजा ग्रहाणां च ततः परम् ।। २ ।।

स्वदिक्षु द्वारदेशे तु पश्चिमद्वारदेशयोः ।।

ब्रह्माणं चाप्यनन्तं च मध्यतो वरुणं यजेत् ।।३।।

वरुणं चोदकुम्भस्थं भूतशाखासु शोभनम् ।।

तेन चावाहयामि त्वां विभो स्वर्गाय वै भव ।।४।।

पूर्वगं मन्दरं स्थाप्य तोरणोपरि सत्तमाः ।।

विष्वक्सेनं समभ्यर्च्य अर्चनं स्वर्गसंयुतम् ।।५।।

कर्णिकायां वासुदेवं शुद्धस्फटिकसन्निभम् ।।

चतुर्भुजं शङ्खचक्रगदापद्मविभूषितम् ।। ६ ।।

श्रीवत्सकौस्तुभोरस्कं मुकुटाद्यैरलंकृतम् ।।

दक्षिणे कमला तस्य वामे पुष्टिव्यवस्थितिः ।। ७ ।।

सिद्धकिन्नरयक्षाद्यैः स्तूयमानं सुरासुरैः ।।

संपूज्य विधिवद्भक्त्या विष्णोरराट इत्यृचा ।। ८ ।।

दले संकर्षणादींश्च विमलाद्याश्च नायिकाः ।।

संपूज्य धूपदीपाद्यैरुपहारैरनुत्तमैः ।। ९ ।।

घृतप्रदीपो देवस्य गुग्गुलुः सरलस्तथा ।।

धूपो देवबलिः क्षीरं परमान्नं घृतप्लुतम् ।। 2.3.1.१० ।।

ध्यायेत्सोमं कर्णिकायां दक्षिणे पद्मसंस्थितम् ।।

शुक्लाभं द्विभुजं शान्तं केयूराद्युपशोभितम्।। ११ ।।

प्रशस्यं देवयक्षाणां वरदाभयहस्तकम् ।।

इमं देवा इति ऋचा उपचारैः पृथग्विधैः ।। १२ ।।

पूजयेच्च निशानाथं घृतभक्तं निवेदयेत् ।।

इन्द्रं जयन्तमाकाशं वरुणं चाग्निमेव च ।। १३ ।।

ईशानं तत्पुरुषं चैव वायुं पूर्वादिदिक्ष्वपि ।।

कर्णिकाया वामभागे वरदाभयहस्तकम् ।।१४।।

द्विभुजं शुक्लवर्णं च महादेवं प्रपूजयेत् ।।

त्र्यंबकेण च मंत्रेण दद्याच्च घृतपिष्टकम् ।। १५ ।।

वासुदेवाय देवाय जुहुयादष्ट आहुतीः ।।

परमान्नेन सौम्यस्य जुहुयादष्टविंशतिम् ।। १६ ।।

शिवाय परमान्नेन जुहुयादाहुतिद्वयम् ।।

गणेशस्य तथाज्येन ददेदेकाहुतिं बुधः ।। ।। १७ ।।

ब्रह्मणो वरुणस्याथ एकैकामाहुतिं तथा ।।

ग्रहाणां स्वोक्तसमिधा दिगीशानां पृथक्पृथक् ।। १८ ।।

एकैकामाहुतिं दद्यादाज्येन च यथाक्रम् ।।

कराली धूमली श्वेता लोहिता कनकप्रभा ।। १९ ।।

अतिरक्ता पद्मरागा वह्निजिह्वा प्रकीर्तिताः ।।

तासां मंत्राः क्रमेणैव सादिवासांत बिन्दवः ।। 2.3.1.२० ।।

यकारस्थाश्च विज्ञेया अष्टस्वरविभूषिताः ।।

घृतमध्वाज्यसिक्ताभिर्होमयेच्च पृथक्पृथक् ।। २१ ।।

एकैकामाहुतिं दद्याद्दत्त्वा चैव समाहितः ।।

अग्नीषोमं तथेन्द्रं च पृथिवीमन्तरिक्षकम् ।। २२ ।।

स्थालीपाकेन जुहुयान्मधुक्षीरयवान्वितम् ।।

एकैकामाहुतिं तेषां समुद्दिश्य पृथक्पृथक् ।। २३ ।।

यावकैर्गंधपुष्पाद्यैरर्चित्वा सपरावकम् ।।

जपस्व त्वं महाभाग श्रद्धया चैव वाग्यतः ।। २४ ।।

जापको विधिनानेन प्रजपेत्तत्र रुद्धकम् ।।

मङ्गलं परमान्नं च सौरसूक्तं तथा जपेत् ।। २५ ।।

ततः संमृज्य विधिना स्नापयित्वा यथाविधि ।।

यूपं गर्भे विनिक्षिप्य तत्र कुर्याद्विचक्षणः ।।२६।।

ध्वजानारोप्य प्रांतेषु दद्यात्सोमं वनस्पतिम् ।।

कोऽदादिति पठित्वा च वृक्षाणां कर्णवेधनम् ।।२७।।

सूच्या सुतीक्ष्णया कार्यं द्विपात्रे वामदक्षिणे ।।

नवग्रहाणां तृप्त्यर्थं यावकं लड्डुकं तथा ।। २८ ।।

पिष्टकं च पृथग्दद्यात्कुमारीबालकेषु च ।।

निशारंजितसूत्रेण संवेष्ट्य च सचूर्णकम् ।। २९।।

प्रदद्याद्दोहकं चैव वृक्षाणां विधिपूर्वकम् ।।

प्राशयेच्चैव तान्वृक्षानिमं मन्त्रमुदाहरेत् ।। 2.3.1.३० ।।

वृक्षाग्रात्पतितस्यापि आरोहात्पतितस्य च।।

मरणे वास्थिभङ्गे वा कर्ता पापैर्न लिप्यते ।।३१।।

धेनुं सुवर्णं धान्यं च आचार्याय प्रदक्षिणम्।।

दत्त्वा च ऋत्विजे दद्यात्सुवर्णं रजतं तथा ।। ३२ ।।

धान्यं च ब्रह्मणे दद्याद्घृतभोज्यं सशर्करम् ।।

इष्टां च दक्षिणां दद्यात्सदस्याय तथैव च ।। ३३ ।।

अधिकलशं समानीय स्नानं कुर्याद्विधानतः ।।

कृत्वा चैवानिशं कुर्याद्दद्यात्पूर्णाहुतिं तथा ।।३४।।

सर्वौषध्युदकं प्रोक्ष्य त्रिवारं क्षीरधारया ।।

संवेष्ट्य त्रिश्चतुर्वारं ब्रह्मघोषपुरःसरम् ।। ।। ३५ ।।

गृहं व्रजेत्ततो विप्रैः कुर्याच्चैव गृहार्चनम् ।।

तंतौ विशेषं वक्ष्यामि वरा एवेदमित्यृचा ।। ३६ ।।

बलं कामं हयग्रीवं माधवं पुरुषोत्तमम्।।

वासुदेवं धनाध्यक्षं ततो नारायणं यजेत्।।३७।।

दधिभक्तं बलिं दद्यात्पञ्चगव्यसमुद्भवम्।।

एवं संपूज्य विधिना दक्षिणे पृथिवीं यजेत्।।३८।।

शुद्धकांञ्चनवर्णाभां वराभयकरां शुभाम् ।।

मंडूकस्थां च द्विभुजां सर्वालङ्कारसुन्दरीम् ।।३९।।

स्योना पृथिवीति मन्त्रेण पूजयित्वा यथाविधि ।।

पायसं मधुसंयुक्तं बलिं दद्यात्सशर्करम् ।। 2.3.1.४० ।।

वामतो विश्वकर्माणं शुद्धस्फटिकसंनिभम् ।।

शूलटंकधरं शांतं संयजेदुपचारकैः ।। ४१ ।।

विश्वन्निति ऋचा तं च बलिं च मधु पिष्टकम् ।।

दद्याज्जपेच्च कौष्माण्डं सूक्तं पौरुषमेव च ।।।४५।।।

मधुपायसयुक्तेन होमानष्टौ विधाय च।।

एकैकं होमयेत्पश्चा त्पृथिवीहोमकर्मणि ।।४३।।

समुत्सृज्य ततः सेतुमिमं मन्त्रं पठेत्ततः ।।

पिच्छिले पतितानां च उच्छ्रितेनांगसंगतः ।। ४४ ।।

प्रतिष्ठिते धर्मसेतौ धर्मो मे स्यान्न पातकम् ।।

सेतोरस्य प्रबन्धस्य श्रद्धया परया तथा ।। ४५ ।।

ये चात्र प्राणिनः संति रक्षां कुर्वति सेतवः ।।

वेदागमेन यत्पुण्यं यथैव हि समर्पितम् ।। ४६ ।।

गर्तं कृत्वा पञ्चरत्नं संस्थाप्यं तदनन्तरम् ।।

संस्थाप्य च ततो यूपं संपूज्य च यथाविधि ।। ४७ ।।

आचार्याय ततो दद्यादिष्टां च वरदक्षिणाम् ।।

पूजयेद्द्विजदांपत्यं लाजाभिः परिपूजितम् ।। ४८ ।।

पोटिकां च ततः शय्यां दद्यादिष्टार्थसिद्धये ।।

सेतौ वृक्ष स्थिता ये स्यू रोपयेत्कदलीं शुभाम् ।। ४९ ।।

तेषां पार्श्वद्वयेप्येवमारामे च पृथक्पृथक् ।। 2.3.1.५० ।। ।।

इति श्रीभविष्ये महापुराणे मध्य मपर्वणि तृतीयभागे प्रथमोऽध्यायः ।। १ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 2

गोप्रचारवैशिष्ट्यवर्णनम्

।। सूत उवाच ।। ।।

गोप्रचारं पुनर्वक्ष्ये विशेषं तत्र मे शृणु ।।

यजेद्विष्णुं सल क्ष्मीकमुपचारैः पृथग्विधैः ।। १ ।।

उपचारैश्च ब्रह्माणं रुद्रं चैव करालिकाम् ।।

वराहं सोमसूर्ये च महादेवं यथाक्रमम् ।। २ ।।

होमं चैव यथा विष्णोः कमलायास्त्रयंत्रयम् ।।

आज्येन क्षेत्रपालानामन्येषां मधुमिश्रितैः ।। ३ ।।

एकैकामाहुतिं दद्याल्लाजादिषु पृथक्पृथक् ।।

समुत्सृज्य विधानेन यूपं संस्थाप्य पूजयेत् ।। ४ ।।

त्रिहस्तमात्त्रं रचितं कुर्यान्नागफणान्वितम् ।।

रोपयेदेकहस्तेन गर्भे होमं प्रयोजयेत् ।।५।।

लाजासंयुक्तविधिना विश्वेषामिति सञ्जपन् ।।

नागाधिपतये तद्वदच्युताय तृतीयकम् ।। ६ ।।

भौमायेति चतुर्थं च ततो यूपं निवेदयेत् ।।

मयि गृभ्णामीति सम्पूज्य यूपं च रुद्रदैवतम ।। ७ ।।

संपूज्य रुद्रं पञ्चांगं धान्यं वस्त्रं च दक्षिणाम् ।।

आचार्याय तथा होत्रे अन्येषामिष्टदक्षिणाम् ।। ८ ।।

गोप्रचारे च शैलेयं यूपं हस्तद्वयान्वितम् ।।

पञ्चशीर्षान्वितं कुर्याद्धस्तमात्रं प्ररोपयेत् ।। ९ ।।

यूपं च चैत्रवृक्षं च कुण्डलीमठपीठिकाम् ।।

संस्पृश्याचम्य वै विप्राः प्राणायामेन शुध्यति ।। 2.3.2.१० ।।

चतुर्हस्तप्रमाणेन शतकुण्डेन संमितम् ।।

तदर्धं च कनिष्ठेन अष्टकाष्टाधिकं भवेत् ।। ११ ।।

भूमौ रत्नं च संस्थाप्य इमं मन्त्रमुदाहरेत् ।।

शिवलोकस्तथा गावः सर्वदेवसुपूजिताः ।। १२ ।।

गोभ्य एषा मया भूमिः सम्प्रदत्ता शुभार्थिना ।।

एवं निवेदयेद्यस्तु गोप्रचारं समाहितः ।। १३ ।।

स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ।।

यावंति तृणगुल्मानि संति भूमौ शुभानि च ।। १४ ।।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।

पूर्वे सीमां निबध्नीयात्कृत्वा वृक्षस्य रोपणम् ।। १५ ।।

सेतुं कृत्वा दक्षिणतः पश्चिमेंगाररोपणम् ।।

उत्तरे खानयेत्कूपं तस्य सीमां न लंघयेत।।१६।।

ततः सहस्रधारां च शस्येन परिपूरिताम् ।।

प्रदद्याद्वा ततो विप्राः सर्वपापैः प्रमुच्यते ।।१७।।

नगरग्रामपूर्वे वा उत्तरे पश्चिमेपि वा ।।

न कुर्यादग्निदिग्भागे दक्षिणां वा ततः शुभाम् ।। १८ ।।

गोप्रचारं खनेद्यस्तु वाहयेद्वा कथंचन ।।

कुलानि पातयत्याशु ब्रह्महत्याश्च विंदति ।। १९ ।।

स्वर्गं नयति गोचर्म सम्यग्दत्तं सदक्षिणम् ।।

यावत्तृणानि तद्भूमौ सप्तसंख्यानि संख्यया ।। 2.3.2.२० ।।

तावत्कालं वसेत्स्वर्गे विष्णुलोकान्न तच्च्युतिः ।। २१ ।।

महायागावसाने च यो न तर्पयति द्विजान् ।।

निरर्थकं तस्य कर्म प्रयासफलमात्रकम् ।। २२ ।।

वृषोत्सर्गा वसाने तु प्रदद्याद्यो महीं द्विजाः ।।

न याति विप्राः प्रेतत्वं तस्माद्विप्रादमत्सराः ।। २३ ।।

तत्र मानं पृथक्चैव शृणुतात्र समागताः ।।

अमानेन ददेद्यस्तु नरकं याति रौरवम ।। २४ ।।

गवां शतं वृषश्चैको यत्र तिष्ठत्ययंत्रितः ।।

तद्गोचर्मेति विख्यातं दत्तं सर्वाघनाशनम् ।। २५ ।।

गोप्रचारस्य देवस्य ब्राह्मणस्य च भो द्विजाः ।।

यावत्कालावधे सीमा अतीते नास्ति पातकम् ।। २६ ।।

मण्डपं पूजयेत्सूर्यं वासुदेवसमन्वितम्।।

होमस्तिल गुडाभ्यां च अष्टावष्टौ पृथक्पृथक् ।। २७ ।।

देहि मेति च मन्त्रेण विन्यसेन्मंडपोपरि ।।

यत्नसिद्धं ततः कृत्वा शुल्कघटचतुष्टयम्।। २८ ।।

समुत्सृजेज्जपेत्पश्चात्सौरं सूक्तं च वैष्णवम् ।।

वटपत्रे तु संलिख्य चित्रं निर्माय वा पुनः ।। २९ ।।

दिक्पालान्संन्यसेत्स्वासु स्वासु दिक्षु विचक्षणः ।।

बद्धाञ्जलिः पठेन्मंत्रानिंद्रादीनां यथाक्रमम् ।। 2.3.2.३० ।।

धर्मसंस्थापनार्थाय आत्मनो विभवाय च ।।

वज्रहस्तो महेन्द्र त्वं धर्मतस्त्रातुमर्हसि ।।३१।।

भो वह्ने मेषवाहस्त्वं चतुःशृंगविराजित ।।

अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३२ ।।

यम त्वं दक्षिणाशेश महामहिषवाहन ।।

अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३३ ।।

मञ्चस्थो राक्षसेन्द्रस्त्वं खड्गपाणिर्महाबलः ।।

अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३४ ।।

वारिराट् ध्वजहस्तोऽसि पवनो मृगवाहनः ।।

अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३५ ।।

धनाध्यक्षो गदाहस्तः पिंगाक्षो नरवाहनः ।।

अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३६ ।।

आदिदेवोसि देवानां कर्ता हर्ता महेश्वरः ।।

अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३७ ।।

अनंतो नागराजो यो धरामुद्धृत्य तिष्ठति ।।

अनाथं मण्डपं त्वं हि धर्मतस्रातुमर्हसि ।। ३८ ।।

चतुर्णामेव वर्णानां स्थित्यर्थं मृगपक्षिणाम् ।।

प्रीतये वासुदेवस्य एवं मण्डपमुत्सृजेत् ।। ३९ ।।

भग्ने स्तम्भे तृणे जीर्णे पुनस्तृणप्रदापने ।।

स्थापने च तथैवास्य प्रतिष्ठा स्याद्यथाक्षया ।। 2.3.2.४० ।।

घातापायादिदोषेण म्रियंते यदि जन्तवः ।।

प्रतिष्ठायां कृतायां तु धर्मो मे स्यान्न पातकम् ।। ४१ ।।

मानुषाः पशवो ये च निवसन्तीह मण्डपे ।।

स्वस्ति चास्तु सदा तेषां त्वत्प्रसादात्किल प्रभो ।। ४२ ।।

ततस्त्रिगुणसूत्रेण सुत्रामाणेति वै ऋचा ।।

सप्तधा वेष्टयित्वा तु दक्षिणां संप्रकाश्य च ।। ४३ ।।

उपानहौ तथा छत्रमाचार्याय निवेदयेत् ।।

मण्डपे भोजयेद्विप्रांस्तेषां दद्याद्यथेप्सितान् ।। ।। ४४ ।।

दीनेभ्यश्च पृथग्दद्याद्गृहं विप्रपुरःसरम् ।।

प्रविशेत्तूर्यघोषेण प्रकुर्याच्च गृहार्चनम् ।। ४५ ।।

एवं प्रपायां विज्ञेयो विशेषो वरुणं व्रजेत् ।।

वासुदेवेन सहितं सांगोपांगं सदक्षिणम् ।। ४६ ।।

स्थालीपाकविधानेन प्रकुर्याद्देशिकोत्तमः ।।

आचार्याय गृहं दद्यात्परिच्छेदसमन्वितम् ।। ४७ ।।

ऋत्विजे ताम्रपात्रं च जलपूर्णं च धान्यकम् ।।

दिक्पालान्द्वारदेशे तु कूपयागे विशेषतः ।। ४८ ।।

ब्रह्माणं नागराजानं द्वारपालौ च पश्चिमे ।।

यजेन्मन्त्रैः पृथग्देवान्मन्त्रैरेभिर्यथाक्रमम् ।। ४९ ।।

बलिदानं विधानेन कृत्वा दद्याद्यथाविधि ।।

पताकानामतस्तत्त्वं प्रवक्ष्यामि यथाक्रमम् ।। 2.3.2.५० ।।

वज्री च धूमली कृष्णा पीता चैवाथ वारुणी ।।

शीघ्रा गौरी उमा चैव पीता शुक्ला प्रकीर्तिता ।।५१।।

कुंभेषु पूजयेद्देवान्महेशं प्रथमं बुधः ।।

ग्रहांश्च मध्यकलशे ब्रह्माणं च ततः परम् ।। ५२ ।।

वेदिकापूर्वभागे तु उत्तरे कलशे शिवम् ।।

दक्षिणे कलशे विष्णुं कर्णिकायां जलेश्वरम् ।। ५३ ।।

कलशे विधिवद्भक्त्या उपचारैः पृथग्विधैः ।।

संपूज्य वटपत्रे च नागान्संलिख्य नागजैः ।। ५४ ।।

यो नागास्तान्प्रवक्ष्यामि अनंतो वासुकिस्तथा ।।

तथा कर्कोटकश्चैव पद्मश्च कुलिकस्तथा ।।

पद्मश्चैव महापद्मो मन्त्रैरेभिः पृथक्पृथक् ।। ५५ ।।

पुंडरीकदलाभास शुभकर्णांतलोचन ।।

फणासहस्रसंयुक्त शंखाब्जकृतलोचन ।। ५६ ।।

अनंत नागराजेन्द्र इहागच्छ नमोऽस्तु ते ।।

सित कुंदेन्दुवर्णाभ विस्फुरद्भोगमंडल ।। ५७ ।।

सर्वनागस्य शूरस्य कृतस्वस्तिकलांछन ।।

नागेन्द्रतक्षक श्रीमन्निहागच्छ नमोस्तु ते ।। ५८ ।।

नवीनजलदश्याम श्रीमन्कमललोचन ।।

विषदर्पबलोन्मत्त ग्रीवायामेकशेखर ।। ५९ ।।

शंखपाल इति ख्यात जलाधारप्रतीक्षक ।।

अध्यक्षे नागलोकानामिहागच्छ नमोऽस्तु ते ।। 2.3.2.६० ।।

अतिपीत सुवर्णाभ चन्द्रार्धांकितमस्तक ।।

दीप्तभोगकृताटोप शुभलक्षणलक्षित ।। ६१ ।।

कुलीर नागराजेंद्र सर्वसत्त्वहिते रत ।।

तिष्ठेह यज्ञसिद्ध्यर्थं कामरूप नमोस्तु ते ।। ६२।।

यः सुवर्णेन वर्णेन पद्मपत्रायतेक्षणः ।।

पंचबिंदुकृताभोगो ग्रीवायामेकशेखरः ।।

तस्मै ते पद्मनागेन्द्र तीव्ररूप नमोऽस्तु ते ।। ६३ ।।

नागिन्यो नागकन्याश्च तथा नागकुमारकाः ।।

सर्वे ते प्रीतमनसः पूजां गृह्णंतु मे सदा ।। ६४ ।।

स्वगृह्योक्तेन विधिना कृत्वाग्निस्थापनं बुधः ।।

आज्यं संस्कृत्य जुहुयाद्दिगीशानां यथाक्रमम् ।। ६५ ।।

आदित्यादिग्रहांश्चैव ब्रह्माणं कृष्णमेव च ।।

मधुपिष्टेन च शिवं वरुणं जुहुयात्ततः ।। ६६ ।।

प्रादेशमात्रं संप्रोक्ष्य यूपं चास्य प्रमाणकम् ।।

चतुरस्रं शूलयुक्तं गणानानीय पूजयेत् ।। ६७ ।।

कूपे निक्षिप्य तान्नागान्पञ्चरत्नं क्षिपेत्ततः ।।

सुत्रामाणेति मंत्रेण त्रिधा संवेष्ट्य सूत्रकैः ।। ६८ ।।

रञ्जितः कदलीवृक्षं वरुणाय समुत्सृजेत् ।।

त्रातारमिति मंत्रेण वस्त्रमाल्येन भूषयेत् ।।

कर्णवेधं ततः कृत्वा उत्सृजेद्वाक्यमुच्चरन् ।। ६९ ।।

ॐ अद्येत्यादि सर्वभूतेभ्यः फलपुष्पपत्रच्छायावृतमुख्यनानातरुविरचितमारामं वनस्पतिदेवतं सुपूजितं वेदव्यासाद्युक्तफलावाप्तये अमुकऋषिसगोत्रः अमुकदेव शर्माहमुत्सृजे ।।)

महोत्सवं ततः कुर्यात्कृत्वा बद्धाञ्जलिः पठेत् ।।

वृक्षाग्रात्पतितस्यापि आरोहात्पतितस्य वा ।। 2.3.2.७० ।।

मरणे चास्थिभंगे वा कर्ता पापैर्न लिप्यते ।।

वज्राघातादिदोषेण म्रियंते तरवो यदा ।। ७१ ।।

तद्दोशमनार्थाय तस्याप्येतत्प्रतिष्ठितम् ।।

मध्ये यूपं समारोप्य चतुष्को णेपि यत्नतः ।। ७२ ।।

मधुलाजाक्षतं दद्यादञ्जनं माल्यमेव च ।।

निशासूत्रेण संवेष्ट्य कदलीविटपं न्यसेत् ।। ७३ ।।

वेष्टयेत्क्षीरधारां च पातयेद्घृतधारया ।।

तोयान्वितं गुच्छयुक्तं वेष्टयेत्स्वगृहं व्रजेत्।। ७४ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे द्वितीयोऽध्यायः। ।। २ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 3

क्षुद्रारामप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।

क्षुद्रारामप्रतिष्ठां च वक्ष्ये वै द्विजसत्तमाः ।।

अमंडले शुभे स्थाने द्विहस्तेऽप्यथ स्थंडिले ।। १ ।।

स्थापयेत्कलशं तत्र विष्णुं सोमं समर्चयेत् ।।

आचार्यमात्रं वरयेन्निशासूत्रैः प्रवेष्टयेत्।। २ ।।

वृक्षान्माल्यैरलंकृत्य भूषयेद्भूषणादिना ।।

दोहदं च ततो दद्यात्स्थापयेच्छतधारया ।। ३ ।।

भोजयेत्पञ्चविप्रान्हि पुरतस्तं विशेषयेत् ।।

कर्णवेधं ततः कृत्वा उत्सृजेद्वाक्यपूर्वकम् ।। ४ ।।

दद्याद्यूपं मध्यदेशे रोपयेत्कदलीं ततः ।।

रंभाश्च रोपयेद्दिक्षु स्थालीपाकविधानतः ।। ५ ।।

अष्टावष्टौ च जुहुयादन्येषां च घृतेन तु ।।

एकैकामाहुतिं दद्यात्स्विष्टकृत्तदनंतरम् ।। ६ ।।

दक्षिणां च ततो दद्यात्पूर्णां दत्त्वाहुतिं व्रजेत् ।।७।।

एकादिवृक्षं वृक्षाणां विधिं वक्ष्ये द्विजोत्तमाः ।।

समुत्सृज्य ततो यूपं कर्मणा सह धर्मवित् ।। ८ ।।

वृक्षमूले यजेद्धर्मं पृथिवी च विशं तथा ।।

दिगीशांश्च तथा यक्षानाचार्यं तोषयेत्ततः ।। ९ ।।

धेनुं च दक्षिणां दद्याद्दोहदं वृक्षपूजनम् ।।

कृत्वा सम्यग्विधानेन सवित्रेऽर्घ्यं निवेदयेत् ।। 2.3.3.१० ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे तृतीयोऽ ध्यायः ।।३।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 4

क्षुद्रारामप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।

अथाश्वत्थप्रतिष्ठायां मूले बाहुप्रमाणके।।

स्थंडिलं कारयेत्तत्र चंदनेनोक्षितं तथा ।।१।।

पद्मं प्रकल्पयेत्तत्र सामान्यार्घ्यं विधाय च ।।

पूर्वेद्यु रात्रिसमये तद्विष्णोरिति वै ऋचा।।२।।

स्थापयेद्वारिणा पूर्णं कया नेति च गन्धकम् ।।

गंधद्वारेति तैलेन श्रीश्च तेति च चन्दनम् ।। ३ ।।

दद्याद्दूर्वाक्षतं कल्पे ब्राह्मणत्रयभोजनम ।।

कारयेत्सितसूत्रैश्च वेष्टयेच्चन्दनोक्षितैः ।।४।।

कुंभे विनायकं पूज्य ब्रह्माणं च परे घटम् ।।

स्वदिक्षु दिक्पतींश्चैव वृक्षमूले नवग्रहान् ।।५।

मंडले शिवमभ्यर्च्य पीठपूजापुरःसरम् ।।

अथ ध्यानं प्रवक्ष्यामि श्वेतं वृषभमेव च ।। ६ ।।

द्विभुजं शूलहस्तं च सर्वाभरणसंयुतम्।।

आरोपयेत्स्वसामर्थ्याद्भूतशुद्धिं समाचरेत् ।।७।।

ततोर्घ्यपात्रं कृत्वा तु पीठपूजां समाचरेत्।।

गणेशं गुरुपादं च जयं भद्रं समाहितः।।८।।

मध्ये आधारशक्तिं च कूर्मानंतौ सपद्मकौ।।

चन्द्रसूर्याग्निकादीनां मंडलानि क्रमाद्यजेत्।।९।।

पुनः पात्रांतरस्थं च गृहीत्वा कुसुमं बुधः ।।

पाणिकच्छपिकां कृत्वा ध्यायेद्वै वरुणं तथा ।।2.3.4.१०।।

पूर्ववच्च विधानेन दद्यात्पात्रादिकं त्रयम् ।।

मधुपर्कं चासनं च पृच्छेच्च स्वागतं पुनः ।। ११ ।।

मुद्रां प्रदर्श्य विधिवदंगपूजां समाचरेत् ।।

पूर्वादिपत्रे इन्द्रादीन्ब्रह्माणं मध्यतो यजेत् ।। १२ ।।

अनंतं पुरतश्चैव तेषामस्त्राणि तद्बहिः ।।

मध्ये तोयाधिपं रुद्रं शांतं चैव प्रशांतकम् ।। १३ ।।

भूस्तत्त्वं च भुवस्तत्वं स्वस्तत्त्वादि च तत्त्वकम् ।।

कामं धर्ममधर्मं च दिक्षु नारा यणं शिवम् ।। १४ ।। ।।

नैर्ऋते च यजेद्दुर्गां पार्श्वयोश्च शतक्रतुम् ।।

विनायकं च विष्णुं च गङ्गां पृथिविषष्टिकम् ।। १५ ।।

षोडशेनोपचारेण पूजयेच्च विशेषतः ।।

मंडलस्योत्तरे भागे नागरूपमनंतकम् ।। १६ ।।

पंचकृष्णालकैः कुर्याद्बृहत्पर्वप्रमाणकम् ।।

आरोपयेच्चाक्षताद्यैः श्वेतचन्दनपुष्पकैः ।। १७ ।।

पूजयेत्परया भक्त्या अग्निकार्यमथाचरेत् ।।

वरुणं जुहुयात्पूर्वं मधुना पायसेन वा ।। १८ ।।

तिलाक्षतैर्वा आज्यैर्वा त्रिमध्वक्तैरथापि वा ।।

अष्टोत्तरशतं कुर्याद्दिगीशानां घृतेन तु ।।१९।।

एकैकामाहुतिं दद्यात्पुष्पैस्तिलघृतेन च ।।

नारायणं शिवं दुर्गां गणेशं च ग्रहान्निशि।। ।। 2.3.4.२० ।।

अष्टावष्टौ च जुहुयाद्घृतैरेकाहुतिर्भवेत ।।

ब्रह्मायुध्वानमिति मंत्रेण ब्रह्माणं पायसेन तु ।।२१।।

एकाहुतिं ततो दद्यादापोहिष्ठेति वा त्रिभिः ।।

ततो वरुणमुद्दिश्य दद्यादाज्याहुतित्रयम् ।। २२ ।।

इमं वरुण इति वा तद्वरोमा ऋचा पुनः ।।

वरुणस्योत्तंभनमसीति येनापावक एव च ।। २३ ।।

वातस्ययमिति पुनः पञ्चवर्णं यथाक्रमात् ।।

ततो वरुणमुद्दिश्य घृतेन च गुडैः सह ।। २४ ।।

ततः स्विष्टकृते दद्याद्बलिं दद्यादनुक्रमात्।।

मध्वाज्यपायसं दद्याद्वरुणाय विशेषतः ।।२५।।

यवक्षीरं दिगीशेभ्यो ह्यन्येभ्यः पायसेन तु ।।

नागाय पिष्टकं दद्याल्लाजाहोमाष्टकं पुनः।। २६ ।।

अनंतस्योत्तरे तीरे पद्मपत्रं परिस्तरेत् ।।

अष्टाष्टापदमानेन वरुणं राजतेन तु ।। २७ ।।

कुर्यात्पूर्वद्वयेनापि बाणरत्तिसुवर्णकैः ।।

कुर्यात्पुष्करिणीं तत्र पूर्वार्धे चतुरस्रके ।। २८ ।।

वरुणं विन्यसेत्तत्र तथा पुष्करिणीमपि ।।

विधिवद्वाक्यपूर्वेण उत्सृजेच्च जलेशयम् ।। २९ ।।

ॐ अद्येत्यादि विष्णुरूपाय करुणाय श्रुतिरत्याद्युक्तवेदव्याससप्रणीताग्निष्टोमफलप्राप्तये पुष्करिणीप्रतिष्ठाकर्मणि इमां पुष्करिणीं सुवर्णराजतां स्वगृह्योदितां सालंकारां सुपूजिताममुकगोत्रः अमुकदेवशर्मा तुभ्यमहं संप्रददे ।। इत्युत्सर्गवाक्यम् ।। ॐ अद्येत्यादि ब्राह्मणमुख्येभ्यः ममाग्निष्टोमाद्यनेकफलप्राप्तये इमं जलाशयं वरुणदैवतं सुपूजितं चतुर्मुखसहितं चतुःसत्त्वावच्छिन्नस्नानपानाद्युपभोगाय अमुकसगोत्रः अमुकदेवशर्माहमुत्सृजे ।।)

ततो नौकां समादाय मध्यात्किंचित्तथोत्तरे ।।

जलाशयस्य मध्यं तु ऋत्विग्घोमं चरेत्ततः ।। 2.3.4.३० ।।

पूर्वावस्थायिनीं यष्टिं समारोप्य विधानतः ।।

ततो वरुण सूक्तेन वरुणं राजतोद्भवम् ।।

पुष्करिण्यासमं तेन नागयष्ट्यंतरे क्षिपेत् ।। ३१ ।।

तत्रैवानंतनागं च मंत्रमेतदुदीरयेद्।।

पुंडरीकदलाभास शुभरक्तांतलोचन ।।

फणासहस्रसंयुक्त सुप्रतिष्ठ नमोऽस्तु ते ।। ३२ ।।

दक्षिणां च ततो दद्यात्ततः पूर्णां विधाय च ।।

मोचयेन्मकरान्ग्राहान्मीनकूर्माञ्जलेचरान् ।। ३३ ।।

पद्मोत्पलं च शैवालं मंत्रमेव प्रयत्नतः ।।

पुष्करिण्यां च त्रिः कुर्यात्खातं सर्वप्रदक्षिणाम् ।। ३४ ।।

आदित्याध्यायकं जप्त्वा क्षिपेल्लाजकपर्दकान् ।।

पातयेत्क्षीरधारां च सहस्रेण शतेन च ।। ३५ ।।

सूत्रेण वेष्टयेत्प्राज्ञो रक्तेन च चतुष्क्रमात् ।।

पथि संतोषयेद्दीनान्संतोष्य च गृहं व्रजेत् ।। ३६ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे चतुर्थोऽध्यायः ।। ४ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 5

सरोवरादिप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

नलिन्याश्च तथा वाप्या ह्रदस्य द्विजसत्तमाः ।।

विधिं वक्ष्ये सहाङ्गेन विधानं शृणुत द्विजाः ।। १ ।।

स्वर्णपादेन मानेन पूर्वेद्युरधिवास येत् ।।।

आपोहिष्ठेति मन्त्रेण तथा अस्त्रैः शतैरपि ।। २ ।।

स्वमण्डले शुभे स्थाने विशेत्पूर्वमुखेन तु ।।

गणेशं वरुणं चैव घटे संपूजयेच्छिवम् ।। ३ ।।

वागीशं च तथा विष्णुं सूर्ये कुंभे समर्चयेत् ।।

पायसेनाहुतिं दद्याद्वरुणाय घृतेन च ।। ४ ।।

एकैकामाहुतिं दद्यादन्येषां च स्रुवेण च ।।

बलिदानं पायसेन उत्सृजेत्तदनंतरम् ।। ५ ।।

यूपं निवेशयेत्पश्चाद्दद्याद्धेनुं च दक्षिणाम् ।।

पूर्णं दद्यात्सवित्रेऽर्घ्यं दत्त्वा तु स्वगृहं व्रजेत् ।। ६ ।।

आरामस्य विधिं वक्ष्ये प्रतिष्ठाविधिविस्तरम् ।।

हीनारामस्य च तथा एक वृक्षस्य च द्विजाः ।। ७ ।।

अरण्यमध्ये पाश्चात्ये उत्तरे वा विशेषतः ।।

मंडपं वर्तुलं कुर्यादर्घ्यहस्तप्रमाणकम् ।। ८ ।।

तद्दक्षिणे भवेत्कुंडं चतुरस्रं समं शुभम् ।।

चतुर्मुखं च कर्तव्यं तोरणाद्यैरलंकृतम् ।। ९ ।।

मंदरादिकमावाह्य ततः संपूजयेत्क्रमात् ।।

विष्वक्सेनं च तत्रैव पूजयेद्गन्धचन्दनैः ।। 2.3.5.१० ।।

भृगुं कर्णसमारूढं सर्वभूषणभूषितम् ।।

विष्वक्सेनस्य मंत्रोयं पूजायां चैव सर्वतः ।। ११ ।।

द्वारपालं च संपूर्णं गौर्यादीन्कलशेषु च ।।

स्वासु दिक्षु दिगीशानां बलिपुष्पाक्षतादि ना ।। १२ ।।

नैर्ऋत्यवरुणयोर्मध्ये अनंतं प्रतिपूजयेत् ।।

इन्द्रेशानयोश्च मध्ये ब्रह्माणं च प्रकल्पयेत् ।। १३ ।।

वेदिपार्श्वे ततो गत्वा वेदिमावाह्य पूजयेत् ।।

आसनं कल्पयित्वा तु सामान्यार्घ्यं विधाय च ।। १४ ।।

ऐशाने कलशे विद्युद्ब्रह्माणं च तथा ग्रहान् ।।

स्वैःस्वैर्मंत्रैर्गंधपुष्पैर्नैवेद्यैश्च पृथग्विधैः ।। १५ ।।

मडलेशं वासुदेवं सासनं च बृहस्पतिम् ।।

पूजयेत्परया भक्त्या पायसान्नं बलिं हरेत् ।। १६ ।।

द्विभुजं वासुदेवं च शंख चक्रधरं विभुम् ।।

पद्मासनगतं ध्यायेत्पीतवस्त्रं सुशोभनम् ।। १७ ।।

नीलोत्पलदलाभासं हरिचंदनचर्चितम् ।।

देवर्षिसिद्धसहितं कलत्रद्वय संयुतम्।। १८ ।।

ध्यात्वा आरोपयेदेवं बालादीनथ नायकान् ।।

विमलाद्या नायिकाश्च दिगीशांश्च यथाविधि ।। १९ ।।

षोडशोच्चैः पृथग्रूपैः प्रतिपुष्पांजलिक्रमात्।।

परितः पूजयेद्विष्णुं शिवं दुर्गां सरस्वतीम् ।। 2.3.5.२० ।।

शुद्धस्फटिकसंकाशं ध्यायेत्सोमं चतुर्मुखम् ।।

अश्वारूढं दिव्य रूपं पद्माक्षं धृतपुष्पकम् ।। २१ ।।

वरदं देवगंधर्वैः सेवितं मुनिभिः स्तुतम् ।।

श्वेतं वनस्पतिं ध्यायेद्द्विभुजं पीतवाससम् ।। २२ ।।

स्वरथस्थं महाबाहुं शंखांकुशसखेटकम् ।।

विद्यां च वामतो ध्यायेत्स्वमन्त्रेण च स्थापयेत् ।। २३ ।।

दशस्वरान्वितं तोयं स्वभावं तमसान्वितम् ।।

मंत्रोऽयं देवदेवस्य पूजायां विनियोजयेत् ।।२४।।

नीलं जयं भृंगिणं च परितश्च यथाक्रमात् ।।

ततः कुशकंडिकां कृत्वा स्थालीपाकं विधानतः।। ।। २५ ।।

अष्टोत्तरशतं चैव सोमाय द्वादशाहुतीः ।।

वानस्पतेस्तथाष्टौ च आज्येऽन्येषां विधीयताम् ।। २६ ।।

एकैकामाहुतिं दद्यात्सप्तजिह्वामनंतरम् ।।

वास्तोष्पतय इति मंत्रेण स्थालीपाकद्वयं नयेत् ।। २७ ।।

वनस्पतिं समुद्दिश्य ततोयमीरयेदृचम् ।।

वृक्षादीन्स्थापयेत्पूर्वे गायत्र्या प्रथमं बुधः ।। २८ ।।

अब्जैरग्रं कांस्यवस्त्रं रत्नं दिक्षु यथाक्रमम् ।।

ब्रीहयश्चेति मंत्रेण तथा च सरितश्च मे ।। २९ ।।

मित्रत्रयश्चेति तथा पूषा च म ऋचा तथा ।।

संस्थाप्य व्रीहीन्संवाप्य तत्रैव विधिपूर्वकम् ।। 2.3.5.३० ।।

क्षिपेद्गङ्गाजलं तोये सर्वौषध्युदकेन च ।।

संस्थाप्य यजमानं च सुरास्त्वामिति मन्त्रकैः ।। ३१ ।।

आचार्यमात्मने तत्र संस्थितं द्विजपुंगवैः ।।

समाप्य नित्यविधिनाचार्यायाथ च दक्षिणाम् ।। ३२ ।।

धेनुं च लोहपात्रं च दत्त्वा इष्टां च दक्षिणाम् ।।

ब्राह्मणेभ्यो यथाशक्ति दद्यात्पूर्णां गृहं व्रजेत् ।। ३३ ।। ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे पंचमोऽध्यायः ।। ५ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 6

क्षुद्रारामप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।

क्षुद्रारामप्रतिष्ठां च वक्ष्ये च द्विजसत्तम ।।

अमंडले शुभे स्थाने द्विहस्तम यस्थंडिले ।। १ ।।

स्थापयेत्कलशं तत्र सोमं विष्णुं समर्चयेत् ।।

आचार्यमात्रं वरयेन्निशासूत्रैः प्रवेष्टयेत् ।। २ ।।

वृक्षान्माल्यैरलंकृत्य भूषयेद्भूषणादिना ।।

दोहदं च ततो दद्यात्स्थापयेच्छितधारया ।। ३ ।।

भोजयेत्पंचविप्रांश्च पुरतोंऽते विशेषतः ।।

कर्णवेधं ततः कृत्वा उत्सृजेद्वास्यपूर्वकम्।। ।। ४ ।।

दद्याद्यूपं मध्यदेशे रोपयेत्कदलीं ततः ।।

रंभां च रोपयेद्दिक्षु स्थालीपाकविधानतः ।। ५ ।।

अष्टावष्टौ च जुहुयादन्येषां च घृतेन तु ।।

एकैकामाहुतिं दद्यात्स्विष्टकृत्तदनंतरम् ।। ६ ।।

दक्षिणां च ततो दद्यात्पूर्णां दद्याद्गृहं व्रजेत् ।। ७ ।।

।। इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे षष्ठोऽध्यायः ।। ६ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 7

श्रेष्ठवृक्षप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

एकादिवरवृक्षाणां विधिं वक्ष्ये द्विजोत्तमाः ।।

वृक्षस्य पश्चिमे भागे स्थापयेत्कलशं ततः ।। १ ।।

वृक्षं संस्थापयेत्पूर्वं सूत्रेण परिवेष्टयेत् ।।

ब्रह्माणं कलशेभ्यश्च सोमं विष्णुं वनस्पतिम् ।। २ ।।

ततस्तिलयवैर्होमानष्टाष्टौ विधिवच्चरेत् ।।

समुत्सृज्य ततो यूपं कदल्या सह धर्मवित् ।। ३ ।।

वृक्षमूले यजेद्धर्मं पृथिवीं च विशं तथा ।।

दिगीशांश्च तथा यक्षान्नाचार्यं तोषयेत्ततः।। ४।।

धेनुं च दक्षिणां दद्याद्दोहदं वृक्षपूजनम् ।।

कृत्वा सम्यग्विधानेन सवित्रेऽर्घ्यं निवेदयेत् ।। ५ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे सप्तमोऽध्यायः ।। ७ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 8

अश्वत्थप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

अथाश्वत्थप्रतिष्ठायां मूले बाहुप्रमाणकम् ।।

स्थण्डिलं कारयेत्तत्र चंदनेनाङ्कितं यथा ।। १ ।।

पद्मं प्रकल्पयेत्तत्र सामान्यार्घ्यं विधाय च ।।

पूर्वेद्यु रात्रिसमये तद्विष्णोरिति वै ऋचा ।। २ ।।

स्थापयेद्वारिणा पूर्णं कया नेति च गंधकम् ।।

गंधद्वारेति तैलेन श्रीश्च तेति च चंदनम् ।। ३ ।।

दद्याद्दूर्वाक्षतं कल्ये ब्राह्मणत्रयभोजनम् ।।

कारयेत्सितसूत्रैश्च वेष्टयेच्चंदनस्य च ।। ४ ।।

कुम्भे विनायकं पूज्य ब्रह्माणं च परे घटे ।।

स्वदिक्षु दिक्पतींश्चापि वृक्षमूले नवग्रहान् ।। ५ ।।

मंडले शिवमभ्यर्च्यं पीठपूजा पुरःसरम् ।।

पूर्वे चंडं प्रचंडं च दक्षिणे नंदिभृंगिणौ ।।६।।

अनंतं पश्चिमे काममुत्तरे गणनायकम् ।।

कार्तिकेयं मध्यदेश आधारशक्तिपूर्वकम्।।७।।।

अनंतं पृथिवीं चैव त्रिवृत्तं च त्रिमंडलम्।।

अथ ध्यानं प्रवक्ष्यामि श्वेतं वृषभमेव च ।। ८।।

द्विभुजं शूलहस्तं च सर्वाभरणसंयुतम्।।

आरोपयेत्स्वतंत्रेण मूले विष्णुं समर्चयेत्।।९।।

शंकरं च तथा मध्ये अग्रे ब्रह्माणकं यजेत्।।

बलिं च पिष्टकान्नं च दत्त्वा च श्रपयेच्चरुम्।।2.3.8.१०।।

जुहुयाद्रुद्रमुद्दिश्य रुद्रसंख्याहुतिं क्रमात् ।।

अन्येषां च स्रुवेणैव होमं दद्यात्प्रयत्नतः ।। ११ ।।

रोपयेत्कदलीवृक्षमाचार्यं परितोषयेत् ।।

कृत्वा पूर्णां पंचधारां कृत्वा चापि प्रदक्षिणाम् ।। १२ ।।

क्षीरधारां च संपाद्य अर्घ्यं दत्त्वा गृहं व्रजेत् ।। १३ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागेऽष्टमोऽध्यायः ।। ।। ८ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 9

वटप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

वटस्थानमथो वक्ष्ये तस्य मूले तु दक्षिणे ।।

त्रिहस्तवेदिमुपरि स्थापयेत्कलशत्रयम् ।। १ ।।

गणेशं च शिवं विष्णुं पूजयित्वा हुनेच्चरुम् ।।

रक्तसूत्रैस्त्रिगुणितैः स्वर्णमेव पुरःसरम्।। २ ।।

यवक्षीरबलिं दद्यादुत्सृजेद्वाक्यमुच्चरन्।।

यूपमारोपयेत्पश्चाद्वटमूलैः समर्पयेत् ।। ३ ।।

यक्षान्नागांश्च गंधर्वान्सिद्धांश्चैव मरुद्गणान् ।। ४ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे नवमोऽध्यायः ।। ९ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 10

बिल्वप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

वक्ष्ये बिल्वप्रतिष्ठां च पूर्वेद्युरधिवासयेत् ।।

त्र्यंबकं चेति मंत्रेण स्थापयेद्गंधवारिणा ।। १ ।।

सुनाभेति च मंत्रेण मे गृह्णामीति चाक्षतम् ।।

कयानेति ततो धूपं वस्त्रं माल्यं निवेदयेत् ।। २ ।।

यजेद्रुद्रं ततो देवं मध्ये दुर्गां धनेश्वरम् ।।

ततः कल्ये समुत्थाय नित्यं निर्वर्त्य शास्त्रतः ।। ३ ।।

स्वगृहे सप्त विप्रांश्च भोजयेद्द्विजदंपती ।।

मूले हस्तद्वयं दत्त्वा वर्तुला वेदिका भवेत् ।। ।। ४ ।।

तत्र गैरिकयुक्तेन कुसुंभचूर्णकेन वा ।।

निशारक्तेन वा कुर्यादष्टपत्रं सुशोभनम्।। ५ ।।

निवेष्टनं ततः कुर्याद्वृक्षस्य द्विजसत्तमाः ।।

रक्त सूत्रैर्वेष्टयेच्च पंचसप्तनवभिस्तु ।। ६ ।।

व्रीहींश्च वापयेत्तत्र उत्तराभिमुखस्तथा ।।

शिवं विष्णुं च ब्रह्माणं पूजयेद्भूतिमिच्छता ।। ७ ।।

शिवं च नायकं कुर्यादादित्यान्पत्रमूलके ।।

शेषं च तरुमूले तु मध्येऽनंतं शतक्रतुम् ।। ८ ।।

वनपालं च सोमं च सूर्यं पृध्वीमनुक्रमात् ।।

होमस्तिलाक्षतैः कार्यो बलिं दद्याद्घृतौदनैः ।। ९ ।।

यक्षेभ्यो माषभक्तं च वायनानि च द्वादश ।।

ग्रहाणां प्रीतये दद्यात्क्षीरेणावेष्ट्य दक्षिणाम्।। 2.3.10.१०

कांचनं कांस्यपात्रं च तांबूलं ताम्रपात्रकम् ।।

यूपारोपं कर्णवेधं सवित्रेऽर्घ्यं निवेदयेत् ।। ११ ।।

अथ रात्रिप्रतिष्ठां च वक्ष्ये शास्त्रानुसारतः ।।

यक्षैकवृक्षसंस्कारे न पुनर्जायते भुवि ।। १२ ।।

पूर्वेद्युरुपवाहे तु वृक्षमूले घटं न्यसेत् ।।

विष्णुं शिवं गणेशं च पूजयित्वा तु स्थापयेत्।। १३ ।।

कलशान्पञ्च वा सप्त गंधतैलैरलंकृतान् ।।

दुग्धेन पंचगव्येन शंखतोयेन यत्नतः ।।१४।।

सूत्रैः संवेष्टनं कृत्वा वस्त्रमाल्यैरनंतरम्।।

कांडादिति च मंत्रेण दद्याद्दूर्वा क्षतं ततः ।। १५।।

विष्णुसूक्तेन च पुनः सिंदूरांजनचंदनम्।।

दद्यात्फलं च दीपं च स्वयं तत्र स्वपेत्ततः।।१६।।

हुनेत्पंचाहुतीस्तत्र यूपं दद्यात्समुत्सृजेत्।। १८ ।।

बलिं च पायसेनैव प्रकुर्यात्कर्णवेधनम् ।।

वेष्टयेत्क्षीरतोयेन धान्यं धेनुं च दक्षिणाम् ।।१९।।

दद्यादर्घ्यं हुनेत्पूर्णं भोजयेद्द्विजदंपती ।। २० ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे दशमोऽध्यायः ।। १० ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 11

सद्वृक्षप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

शतहस्तमितां मुष्टिं नानातरुविभूषिताम् ।।

पूगाम्रादिफलैर्युक्तं वास्तुं कृत्वा यजेत्तु यः ।। १ ।।

षष्टिवर्षसहस्राणि स्वर्गलोके वसेच्चिरम्।।

तद्विधानं प्रवक्ष्यामि यथाशास्त्रानुसारतः ।। २ ।।

नित्यं निर्वर्त्य विधिवत्पंच विप्रान्समर्चयेत् ।।

भोजयेत्पूजयेद्विष्णुं प्रजापतिसमन्वितम् ।। ३ ।।

अग्निकार्यं ततः कृत्वा दद्याद्विप्राय दक्षिणाम् ।। ४ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभाग एकादशोऽध्यायः।। ११ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 12

मण्डपप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

प्रतिष्ठां मंडपस्यैव शैलदारुमयस्य च ।।

तृणकाष्ठस्य च विभो तृणवत्तस्य च द्विजाः ।। १ ।।

अधिवासस्य पूर्वेद्युः शुभे लग्ने घटं न्यसेत् ।।

सूर्यं सोमं तथा विष्णुं कलशे तु समर्चयेत् ।। २ ।।

प्रोक्षयेत्कुशतोयेन आपोहिष्ठेति वै ऋचा ।।

आप्यायस्वेति गंधेन गंधद्वारेति गंधकम् ।। ३ ।।

आकृष्णेनेति तैलेन श्रीश्च ते इति चंदनम् ।।

सिंदूरालक्तकं दद्यादंजनं पूर्वया सह ।। ४ ।।

ततः प्रभाते विमले श्राद्धं वृद्ध्यात्मकं चरेत् ।।

दिक्पालांश्चैव विन्यस्य मंडपे शुभलक्षणे ।। ५ ।।

मध्ये वेद्यंतरे चैव राजभिर्मडलं लिखेत् ।।

सूर्यमावाहयेत्तत्र सोमं विष्णुं च पार्श्वयोः ।। ६ ।।

गणेशं च ग्रहांश्चैव दिक्पालांश्च घटेऽर्चयेत् ।।

पायसं जुहुयादग्नावष्टोत्तरशतं तथा ।। ७ ।।

आदित्यस्य तथा विष्णोः सोमस्य द्वादशाहुतीः ।।

बलिं च पायसं दद्यात्तैलं क्षीरमथापि वा ।। ८ ।।

तत उत्सृज्य विधिवद्वाक्यमेतदुदीरयेत् ।।

जानुभ्यामवनिं गत्वा शनैरोष्ठं न चालयेत् ।। ९ ।।

वास्तोष्पतिं च तत्रैव पूजयेद्गन्धचन्दनैः ।।

अर्घ्यं दद्याच्च विधिवद्भूनैवाहुतिं हुनेत्।। 2.3.12.१० ।।

( ॐ अद्येत्यादि ब्राह्मणादिसर्वसत्त्वेभ्यो विष्णुप्रीणनार्थमिमं मण्डपं सुपूजितं सूर्यदैवतं शैलेयेष्टकादिभिः सर्वसत्त्वेभ्यो रचितं श्रुतिस्मृत्युक्तफलप्राप्तिकामनया अमुकऋषिसगोत्रः अमुकदेवशर्माहमुत्सृजे ।।)

ततः श्वेतघटं दद्यान्मण्डपोपरि सत्तमाः ।।

त्रिगुणेन निशाक्तैर्वा वेष्टयेद्वारिधारया ।। ।। ११ ।।

दक्षिणां विधिवद्दद्यात्सूर्यायार्घ्यं निवेदयेत् ।।

तृणवेश्मनि वै सूर्यं वासुदेवसमन्वितम् ।। १२ ।।

घटे गणेशं वरदं वरं कृत्वा समुत्सृजेत् ।।

ऐशान्यां दापयेद्यूपं ध्वजान्दिक्षु प्रकल्पयेत् ।। १३ ।।

मण्डपोपरि कलशं संस्थाप्य मन्त्रमुच्चरेत् ।।

प्रपायां वरुणः पूज्यो विश्वकर्मा प्रयत्नतः।।। १४ ।।

पृथिवीं च गणेशं च पूजयित्वा हुनेद्घृतम् ।।

सर्ववर्ज्यमिदं वाक्यं ध्वजमात्रं विधीयते ।। १५ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे द्वादशोऽध्यायः ।। १२ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 13

महायूपनिर्माणप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।

चतुर्हस्तं महायूपं हस्तषोडशनिर्मितम् ।।

वक्ष्ये तं च प्रतिष्ठां च रात्रौ त्रैरात्रिकं यजेत् ।। १ ।।

वरुणं सितकुंभे च प्रपाकूपस्य पश्चिमे ।।

गायत्र्या स्नापयेत्पूर्व मापोहिष्ठेति वै क्रमात् ।। २ ।।

गंधद्वारेति गन्धं च अंशुना चेति तैलकम् ।।

मनोन्ना इति कुसुमं धूरसीति च धूपकम् ।। ३ ।।

कयानेति ददेद्वस्त्रं नैवेद्यं दीपचन्दनम् ।।

आदौ श्राद्धं न कर्तव्यं प्रतिष्ठांते विधीयते ।। ४ ।।

दंपतीभोजनं कुर्याद्वरयेदेकब्राह्मणम् ।।

मंडपे चाष्टहस्ते च कलशं तत्र विन्यसेत्।। ५ ।।

पूजयेद्वरुणं देवं नारायणसमन्वितम् ।।

शिवं च पृथिवीं चैव स्वैः स्वैर्मन्त्रैर्यथाक्रमात् ।। ६ ।।

ततः कुशकंडिकां कृत्वा स्थालीपाकविधानतः ।।

वरुणं च समभ्यर्च्य जुहुयादाहुतीर्दश ।।७।।

अन्येषां च स्रुवेणैव दद्यादेकाहुतिं क्रमात् ।।

वरुणस्योक्तवरुणं तत्त्वा यामि ततः परम् ।। ८ ।।

वरुणस्योत्तंभनमसीति च आभ्यां देवांस्तथैव च ।।

येनापावकचक्षसा पंचमं समुदाहृतम् ।। ९ ।।

रात्रस्य यूपमित्यादि परं च दशमस्तकम् ।।

ततः स्विष्टकृतं कृत्वा सप्तजिह्वं चरुं नयेत् ।।2.3.13.१०।।

इह वेत्यादिकं पंच ततः पंचाहुतिं हुनेत् ।।

शंभवे च पृथिव्यै च महा राजाय च क्रमात् ।।११।।

चरुपाकेति नैवेद्यं बलिं चैवागुरूदनम् ।।

शंकराय च रुद्राय शर्वाय पशुपतये इति च ।।

उग्राय असनायेति भवाय तद नंतरम् ।। १२ ।।

महादेवाय च पुनरीशानायेति च क्रमात् ।।

चरुपाकेति नैवेवं बलिं चैवागुरूदनम् ।। १३ ।।

वाक्यपूर्वं सृजेत्तोयं तत्र वाक्करणं शृणु ।। १४ ।।

( ॐ अद्येत्यादि ब्राह्मणादिसर्वसत्त्वेभ्यः अमुकगोत्रस्य मत्पितुरमुकदेवशर्मणः श्रुतिस्मृत्यायुक्तं कूपप्रतिष्ठाजन्यफलप्राप्तये इमं सु पूजितं सच्छादितं वरुणदैवतममुकसगोत्रः अमुकदेवशर्माहमुत्सृजे) ।।

दक्षिणां विधिवद् दद्याद्गां च दद्यात्पयस्विनीम् ।। १५ ।।

मंडपे क्षुद्रकूपे च प्रतिष्ठां शृणुत द्विजाः ।।

गणेशं वरुणं कुंभे विधिवत्पूजयेत्सुधीः ।। १६ ।।

वेष्टयेद्रक्तसूत्रैश्च दद्यायूपं समुत्सृजेत् ।।

दक्षिणां विधिवद् दद्याद्विप्रान्सं पूजयेत्ततः ।। १७ ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे त्रयोदशोऽध्यायः ।। १३ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 14

पुष्पवाटिकाप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

पुष्पारामप्रतिष्ठां तु वक्ष्ये शृण्वंतु वै द्विजाः ।।

मध्ये वेदिं त्रिहस्तां च कृत्वा संस्थापयेद्घटम् ।। १ ।।

अधिवासस्य पूर्वेद्युर्यथावद्विप्रभोजनम् ।।

कृत्वा घटे गणेशं च सूर्यं सोमं हुताशनम् ।। २ ।।

नारायणं स्थंडिले च जुहुयान्मधुपायसम्।।

विधिवद्यूपमारोप्य गोधूमान्सेचयेद्गुरौ ।। ३ ।।

वेष्टयेद्रक्तसूत्रैश्च प्रदद्याच्चेति दक्षिणाम् ।।

एतद्धाराजलेनैव यवान्नं सगुडं पयः ।। ४ ।।

ऐशान्यां यूपमारोप्य विधिवद्द्विजसत्तमाः ।।

कर्णवेधं समारोप्य स्नापयेत्कुशवारिणा ।। ५ ।।

धान्यं यवं च गोधूमं दद्याद्विप्राय दक्षिणाम् ।।

शतधारजलेनैव वेष्टयेत्परितो द्विजाः ।। ६ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यम पर्वणि तृतीयभागे चतुर्दशोऽध्यायः ।। १४ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 15

तुलसीप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

ज्येष्ठाषाढे तुलस्याश्च प्रतिष्ठां विधिवच्चरेत् ।।

यजमानः शुद्धदिने एकादश्यामथापि वा ।। १ ।।

ततो रात्रौ घटं स्थाप्य पूजयेत्परमेश्वरम् ।।

नारायणं शिवं सोमं ब्रह्माणं चेंद्रमेव च ।। २ ।।

गायत्र्या स्नपनं कुर्यात्तथोक्तैर्मंत्रकैरपि ।।

कयानेति च गंधेन अश्रुनेति च तैलकम् ।। ३ ।।

त्वां गंधर्वेति च पुनः पुष्पं मंडंशनेति च ।।

मानस्तोकेति कुसुमं श्रीश्चतेति च चंदनम् ।। ४ ।।

वैश्वदेवीति च पुनर्मंत्रेणानेन चंदनम् ।।

दूर्वामंत्रेण दूर्वाश्च रूपेणेति च दर्प्पणम् ।। ५ ।।

फलमंत्रेण च फलं समेधेति च अंजनम् ।।

सकुशैः पीतसूत्राद्यैर्वेष्टयेत्क्षीरधारया ।। ६ ।।

शतधाराजलेनैव वेष्टयेत्स्वगृहं व्रजेत्।।

वस्त्रेणावृत्य विधिवद्बुधः काले घटं न्यसेत् ।। ७ ।।

सप्तपंचत्रिभिर्वाथ तद्विष्णोरिति वै ऋचा ।।

स्नापयेदथ साध्वीभिः कृतमंगलपूर्वकम् ।। ८ ।।

ततः श्राद्धं समाप्यैव मातृपूजापुरःसरम् ।।

आचार्यं वरयेत्पूर्वं गंधाद्यैः कुसुमैरपि ।। ९ ।।

आचार्य एव होता स्याद्ब्रह्माणं च सदस्यकम् ।।

मंडपे दशहस्तेऽपि वर्तुले स्थंडिलेषु च ।। 2.3.15.१० ।।

सहस्रं मंडलं कुर्यात्तत्र नारायणं यजेत् ।।

ग्रहाँल्लोकेश्वरान्मध्ये आदित्यांश्च मरुद्गणान्।। ११ ।।

रुद्रान्वसूंश्च कलशे परितश्च समर्चयेत् ।।

ततः कुशकंडिकां कृत्वा होमं तिलयवेन तु ।। १२ ।।

अष्टोत्तरशतं कुर्यादन्येषां शक्तितो हुनेत् ।।

नारायणं समुद्दिश्य दद्यादुत्सृज्य सत्तमाः ।। १३ ।।

मध्ये यूपं समुद्दिश्य चरुपाकं बलिं ददेत् ।।

कदलीं दिक्षु संन्यस्य ध्वजान्दिक्षु प्ररोपयेत् ।। १४ ।।

दक्षिणां कांचनं दद्यात्तिलं धान्यं सपुष्पकम् ।।

धेनुं पयस्विनीं दयाद्वेष्टयेत्क्षीरधारया।। १५।।

जयंत्याः सोमवृक्षस्य तथा सोमवटस्य च ।।

पनसस्य कदंबस्य निंबस्य द्विजसत्तमाः ।। १६ ।।

पाटला कनकस्यैव शाल्मलीनिंबकस्य च।।

बिंबाशोकवटस्यैव प्रतिष्ठां नैव कारयेत् ।। १७ ।।

भद्रकस्य शमीकोणचंडातकबकस्य च ।।

खदिरस्यैव कर्तव्यं कर्णवेधं न कारयेत् ।।१८।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे पंचदशोऽध्यायः ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 16

प्रतिष्ठाविशेषनियमवर्णनम्

।। सूत उवाच ।। ।

वृक्षादीनां प्रतिष्ठां च उत्तमेषूत्तमं चरेत्।।

मध्येमध्ये कनिष्ठा तु कनिष्ठं परिकीर्तितम्।।१।।

वर्तुलं मंडलं कुर्यात्तत्तु शीर्षे तथान्त्यके।।

मध्ये वा वेदिकां कुर्यात्तन्मध्ये कुंडमंडलम्।।२।।

पूर्वेद्यू रात्रिसमये घटं संस्थाप्य पूजयेत्।।

शेषं संपूज्य विधिवत्पृथिवीं च शिवं तथा।। ३ ।।

गंधतोयेन गायत्र्या सेतुं संपूज्य मोक्षयेत्।।

कयानेति च मन्त्रेण आप्यायस्वेति वै ऋचा ।। ४ ।।

दद्याद्गन्धादिकं श्रीश्च ते लक्ष्मीरिति चन्दनम् ।।

दूर्वामन्त्रेण दूर्वाश्च फलमन्त्रेण वै फलम् ।। ५ ।।

शन्नोदेवीति मन्त्रेण दद्यात्कुशपवित्रकम् ।।

सुरासुरेति मन्त्रेण प्रदद्याद्वस्त्रयुग्मकम् ।। ६ ।।

अञ्जनालक्तकं कुर्यान्मनोन्ना इति संपठन्।।

कुर्याच्छ्राद्धं परदिने वसुधारापुरःसरम् ।। ७ ।।

वरयेदथ आचार्यं होतारं नृवरश्चरेत् ।।

पात्रद्वयं विधातव्यं सदस्याचार्यमेव च ।।८ ।।

सेतुयागे विधातव्यं तथा धान्याचलेपि च ।।

सहस्रहोमे वैकं तु विवाहे ब्रह्मऋत्विजौ ।। ९ ।।

यजेदेनं कृते मौलियागार्थं यागमंडपम् ।।

वेदिमावाहयेत्पूर्वं मंडपं प्रतिपूजयेत् ।। 2.3.16.१० ।। विघ्नग्रहाँल्लोकपालान्सर्वसिद्धिप्रदायकान्।।

स्थंडिले सर्वतोभद्रे शेषं विष्णुं प्रदर्शयेत् ।। ११।।

तत्रैव तु वराहाख्यं प्रतीतमृत्विगुत्तमम् ।।

स्थालीपाकेन जुहुयादष्टाविंशतिकत्रयम् ।। १२ ।।

आज्येन तु वराहस्य होमपञ्चकमीरितम् ।

ततस्तिलयवेनैव एकैकामाहुतिं क्रमात् ।। १३ ।।

बलिं दद्यात्पृथग्रूपं शेषयेद्विधिपूर्वकम् ।।

पिष्टकान्नं घृतान्नं च विस्तरे वा गुडौदनम् ।। १४ ।।

माषभक्तं तु लोकाय पृथिव्यै परमान्नकम् ।।

वाक्यपूर्वं सृजेद्धीरो वाक्यप्रकरणं शृणु ।। १५ ।।

( ॐ अद्येत्यादि एकविंशतिकुलस्य विशिष्टस्वर्गप्राप्तय इमं सेतुं संक्रमसमेतं विष्णुदैवतं सुरपूजितं विधिवद्वासुदेवस्य प्रीतयेऽहमुत्सृजे ।।)

बद्धांञ्जलिः पठेन्मन्त्रं कुर्याच्च विधिवत्ततः ।।

पिच्छिले पतितानां च उद्गतेनाङ्गभङ्गतः ।।

प्रतिष्ठिते धर्मसेतौ धर्मो मे स्यान्न पातकम् ।। १६ ।।

सेतोरस्य प्रबन्धस्य श्रद्धया परया युतः ।।

ये चात्र प्राणिनः सन्ति सर्वेषां प्राणधारकाः ।। १७ ।।

वेदागमेन यत्पुण्यं कथितं सेतुबन्धने ।।

तत्पुण्यं तु मया देव पाथेये हि समर्पितम् ।। १८ ।।

यूपं दद्यादिति मन्त्रेण अन्ते चापि तथा ध्वजान् ।।

विधिवद्दक्षिणां दद्यात्कुलानि नव पञ्च वा ।। १९ ।।

पूर्णां दत्त्वा सवित्रेऽर्घ्यं दत्त्वा च स्वगृहं व्रजेत् ।।

अनातपे क्षुद्रसेतोः प्रतिष्ठां विधिवच्चरेत् ।। 2.3.16.२० ।।

पूर्वं च दधिवासं च प्रभाते विप्रभोजनम् ।।

सेतुमध्यं ततो गत्वा गन्धादीन्विधिवच्चरेत् ।। २१ ।।

विष्णुं शिवं हुताशं च एककुण्डे समर्चयेत् ।।

वास्तोष्पतिं यजेत्तत्र होमं तिलयवेन तु ।। २२ ।।

कुर्यादेकैकशो विप्रा अष्टा विंशतिसंख्यया ।।

उत्सृज्य दापयेद्धूपं ध्वजवर्ज्यं हि सत्तमाः ।।

ज्ञातिभिः सह भुञ्जीत कृतकृत्योऽभिधीयते ।। २३ ।। ।।

इति श्रीभविष्ये महा पुराणे मध्यमपर्वणि तृतीयभागे षोडशोऽध्यायः ।। १६ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 17

गोप्रचारविधिवर्णनम्

।। सूत उवाच ।। ।।

तत्र दंडे च विप्रेन्द्राश्चतुरस्रे समंततः ।।

षष्टिहस्तमितां भूमिं तस्य पूर्णां मनोरमाम् ।। १ ।।

प्रचारार्थं गवां चैव यो दद्यात्सुसमाहितः ।।

षष्टिवर्षसहस्राणि रुद्रलोके महीयते ।।२।।

तदर्धं च तदर्धं च तदर्धं वा समुत्सृजेत् ।।

यो दद्यात्केवलां भूमिं कन्यां दासीं तथा वृषम् ।। ३ ।।

अलंकारं विना धेनुं फलस्यार्धं प्रकीर्तितम्।।

अमण्डपे शुभे स्थाने शर्करादिविवर्जिते ।। ४ ।।

द्विहस्तवेदिकामध्ये प्रकुर्यात्सेतुमंडपम्।।

तत्र संपूजयेद्भद्रं ब्रह्माणं च शचीपतिम् ।। ५ ।।

गणेशं क्षेत्रपालं च शेषं चैव दिगीश्वरान् ।।

पञ्चोपचारैर्विधिवत्पूजयेत्पायसादिना ।। ६ ।।

स्थालीपाकेन जुहुयादन्ते वै विप्रभोजनम् ।।

अत्र यागे श्राद्धवर्ज्यं पूर्वेद्युरधिवासयेत् ।। ७ ।।

त्र्यम्बकेनैव मंत्रेण भूमिं संस्थाप्य पूजयेत् ।।

तद्विष्णोरिति मंत्रेण गन्धतैलं सचन्दनम् ।। ८ ।।

प्रदद्यादसुनीतेति पुनस्तु नैव स्थापयेत् ।।

पञ्चगव्येन च पुनः श्रीश्चतेति च पुष्पकम् ।। ९ ।।

एवं यूपस्य च तथा अधिगृह्णाति मंत्रकम् ।।

गन्धद्वारेति गन्धेन अंशुनातेति तैलकम् ।। 2.3.17.१० ।।

सुरासुरेति कुसुमं दूर्वामन्त्रेण दूर्विकाम् ।।

प्रभाते पूजयेद्देवान्रुद्रमुद्दिश्य होमयेत् ।। ११ ।।

स्थालीपाकेन विधिना अन्येषां पूर्ववच्चरेत् ।।

उत्सृज्यारोपयेद्दीपं स्थिरो भवेति वै ऋचा ।। १२ ।।

तंत्रेण निर्मितं कुर्यात्सकलं च त्रिहस्तकम् ।।

हस्तैकं प्रापयेन्मध्ये क्षेत्रे चैव विशेषतः ।। १३ ।।

स्थापयेत्तत्र मन्त्रेण पञ्चगव्येन यत्नतः ।।

मधुवातेति मधुना आप्यायस्वेति वै दधि ।। १४ ।।

तद्विष्णोरिति मन्त्रेण घटतोयैरनन्तरम् ।।

पृथिवीं च वराहं च कूर्ममाधवशक्तिकान् ।। १५ ।।

वास्तोष्पतिं च विष्णुं च यूपे संपूजयेत्क्रमात्।।

दद्यादर्घ्यं च विवरे गर्ते होमं विवर्जयेत् ।। १६ ।।

अर्घ्यपात्रे च दुष्टे च हस्तेनोत्सृज्य सत्तमाः ।।

( ॐ अद्येत्यादि गोब्राह्मणसर्वसत्त्वेभ्यः पर्यटनार्थाय इमां भूमिं सुपूजितां विष्णुदैवतां गोप्रचाररूपिणीं श्रुतिस्मृत्याद्युक्तफलप्राप्तयेऽहमुत्सृजे ।।) शिवलोकस्थिता गावः सर्वदेवैः सुपूजिताः ।।

एवं निवेदयेद्विप्रो गोप्रचारं समाहितः ।।

स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ।। १७ ।।

यावंति तृणगुल्मानि संति भूमौ शुभानि च ।।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। १८ ।। ।।

इति श्रीभविष्ये महापुराणे तृतीयभागे गोप्रचारविधौ सप्तदशोऽध्यायः ।। १७ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 18

दिनैकसाध्यप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।

कलौ चैकाहसाध्येन प्रतिष्ठामल्पवित्तवान् ।।

सद्योधिवासमाज्येन प्रकुर्यात्तांत्रिकोत्तमः ।। १ ।।

उत्तरं तु गते हंसे अतीते चोत्तरायणे ।।

शरत्काले व्यतीते तु वसंते यज्ञमारभेत् ।। २ ।।

नारायणादिमूर्तीनां द्वात्रिंशद्भेद एव तु ।।

प्रतिष्ठां प्रतिमानां च गजास्यादींश्च सत्तमाः ।। ३ ।।

नित्यं निर्वर्त्य मतिमान्कुर्यादभ्युदयं ततः ।।

विप्रान्संभोजयेद्वाथ ततो यागगृहं व्रजेत् ।। ४ ।।

गणेश ग्रहदिक्पालान्प्रतिकुंभेषु पूजयेत् ।।

स्थंडिले पूजयेद्विष्णुं परिवारगणं यजेत् ।। ५ ।।

स्नापयेत्प्रथमं देवं तोयैः पञ्चविधैरपि ।।

पञ्चामृतैः पञ्चगव्यैः पंचमृत्पिण्डकैरपि ।। ६ ।।

तिलतैलैश्च स्नेहैश्च कषायैरपि सत्तमाः ।।

पञ्चपुष्पोदकैर्वाथ त्रिपदैरपि सत्तमाः ।। ७ ।।

तुलसीकुसुमापुष्पपत्राण्याहुस्त्रिपत्रकम् ।।

पञ्चकाम्रशमीपद्मकरवीरं च पंचकम् ।।८।।

मृत्तिका करिदंतस्य तथाश्वखुरमृत्तिका ।।

गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तु पंचमम् ।। ।। ९ ।।

कुर्यात्प्राणप्रतिष्ठां च होमं कुर्याद्यथाविधि ।।

दक्षिणां विधिवद्दद्यात्पूर्णां तु तदनंतरम् ।। 2.3.18.१० ।।

इति श्रीभविष्ये महापुराणे मध्यम पर्वणि तृतीयभागेऽष्टादशोऽध्यायः ।। १८ ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 19

देवादिप्रतिष्ठावर्णनम्

।। सूत उवाच ।। ।।

अतः परं तु विप्रेन्द्राः काल्यादीनां तथैव च ।।

अधिवास्य च पूर्वेद्युः श्राद्धमभ्युदयात्मकम् ।। १ ।।

प्रथमे जलजैः स्नानं पञ्चगव्यैरनंतरम् ।।

पूर्ववच्च विधानेन कुंभे दुर्गां समर्चयेत् ।। २ ।।

पञ्चामृतैः पञ्चगव्यैः करीषशतधारया ।।

श्रीबिल्वे पूजयेद्देवीं दद्यात्प्राणमनंतरम् ।। ३ ।।

बिल्वपत्रैः फलैर्वापि दद्याच्चापि शताहुतीः ।।

एकैकशस्तु सर्वेषां दद्यात्काञ्चन दक्षिणाम् ।। ४ ।।

प्रतिमां कालिकायाश्च तारायाश्च पृथक्पृथक् ।।

ग्राह्यं विनार्चयेद्विप्राः पञ्चपञ्चशतैरपि ।। ५ ।।

भोजयेत्स्नापयेद्देवो गंधतोयैर्दिनत्रयम् ।।

ताम्रकुंभेऽर्चयेद्देवीं त्रिदिनं प्रातरेव हि ।। ६ ।।

समीरणं ततो दद्यात्पेटिकायां निवेशयेत् ।।

ततोऽपि गन्धतोयैश्च स्नापयेत्कन्यकादिभिः।। ।। ७ ।।

ततो वै चाष्टमदिने रात्रावपि प्रपूजयेत् ।।

पशुदानं प्रकर्तव्यमग्निकार्यं च पायसैः ।। ८ ।।

शिवलिङ्गप्रतिष्ठां च वक्ष्ये तंत्रमतं यथा ।।

त्रिविप्रं भोजयेद्विप्रा अधिवास्यं विशेषतः ।। ९ ।।

नित्यं समाप्य च पुनः कुर्यादभ्युदयं ततः ।।

आचार्यं वरयेत्प्रातः स्नापयेत्पूर्ववर्त्मना ।।2.3.19.१०।।

परिवारगणैः सार्द्धमर्चयेत्तदनंतरम् ।।

दद्यात्समीरणं पश्चादग्निकार्यं समाचरेत् ।। ११ ।।

तिलहेममयीं गां च दद्याद्गां च विधानतः ।।

न नाम न च गोत्रं च होमकर्मणि सर्वदा ।। १२ ।।

पूर्णिमायां विशेषेण नान्येषां च कथंचन ।।

होमांते वसुधारां च कुंभे दत्त्वा विधानतः ।। १३ ।।

त्रिहस्तचरकायं च हस्तैकं चतुर्हस्तके ।।

शालशमशिलायाश्च प्रतिष्ठां विधिवच्चरेत् ।। १४ ।।

सद्योधिवासयेद्देवं द्वादश्यां स्नापयेदथ ।।

रत्नतोयैः परिमलैस्त्रिगंधैः पंचपल्लवैः ।। १५ ।।

कुंभे प्रजापतिं स्थाप्य श्वेताब्जं नवनाभके ।।

नवदुर्गोक्तमार्गेण पूजयेत्परमेश्वरम् ।। १६ ।।

चक्रस्वरूपतो ज्ञेयं प्रदद्याच्च समीरणम् ।।

आनीय ताम्रभांडे च त्रिकालं प्रतिपूजयेत् ।।१७।।

पायसान्नैरुत्पलैर्वा पङ्कजैर्वापि होमयेत् ।।

सकाञ्चनं वस्त्रयुग्मं प्रद द्याद्भूरिदक्षिणम् ।। १८ ।।

श्रीसूर्यस्य गणेशस्य विरिञ्चेश्चापि सत्तमाः ।।

वटवृक्षांतिकं गत्वा स्थापयेद्वरुणं ततः ।। १९ ।।

रक्ताब्जे पूजयेत्सूर्यं परिवारसमन्वितम् ।।

अष्टाविंशतिभिर्द्दत्त्वा दद्यात्प्राणमनंतरम् ।। 2.3.19.२० ।।

एकाहमथवाकाशे गुप्तं कृत्वा दिनत्रयम् ।।

त्र्यहादेव पुनः पूजां पुनर्होमं समाचरेत् ।। २१ ।।

पुनश्च भोजयेद्विप्रान्दद्यात्काञ्चनदक्षिणाम् ।।

वाराह्यास्त्रिपुरायाश्च नारिकेलोदकैरपि ।।२२।।

स्थापयेद्वा विधानेन सिन्दूराद्यैः समर्चयेत् ।।

दद्यात्समीरणं पश्चात्पुनः पूजां च होमयेत् ।। २३ ।।

पशुज्ञानं च कर्तव्यं षण्मासैः पञ्चमोदकैः ।।

कुमारीं भोजयेद्रात्रौ दद्यात्काञ्चन दक्षिणाम् ।। २४ ।।

प्रतिमां भुवनेशीं च महामायाम्बिकामपि ।।

कामाक्षीं च ततो देवीमिन्द्राक्षीं चापराजिताम् ।। २५ ।।

पूर्वेद्यू रात्रिसमये पिष्ट काष्टौ निवेदयेत् ।।

अष्टौ निर्माणयेत्पश्चाद्बलिं चाष्टौ विधानवित् ।। २६ ।।

परिवारगणैः सार्द्धं पूजयेत्प्रयतः सुधीः ।।

समीरणं ततो दद्याच्छिवं सूर्यं यजेत्पुनः ।। २७ ।।

पायसान्नैश्च जुहुयात्त्रिदिनं लिपिपूजनम् ।।

कुमारीपूजनं कुर्यादग्निकार्यं दिनत्रयम् ।। २८ ।।

पशुदानं च कर्तव्यं विभवे सति सत्तमाः ।।

रात्रौ जागरणं कुर्यान्मठोत्सवपुरःसरम् ।।२९।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे एकोनविंशोऽध्यायः ।।१९।। ।।

पर्व २ (मध्यमपर्व) · भागः ३ — Adhyāya 20

ग्रहोपद्रवोत्पातशान्तिवर्णनम्

।। सूत उवाच ।। ।।

दुर्निमित्तान्यथो वक्ष्ये शृण्वंतु मुनिसत्तमाः ।।

यस्य ये ग्रहदोषाः स्युस्तेषां शांतिं यथाक्रमात् ।। १ ।।

दिव्यंतरिक्षे भौमे चेत्येवं त्रिः परिकीर्तितम् ।।

ग्रहर्क्षाद्यैः कृतं दिव्यमान्तरिक्षं निबोध मे ।। २ ।।

उल्काहितो दिशो दाहः परिवेषस्तथैव च ।।

जलाशयानां वै कृत्यं भौमं तदपि कीर्तितम् ।। ३ ।।

भौमं चाल्पफलं ज्ञेयं दिव्यान्तरिक्षमेव च ।।

सप्ताहमफलं दद्याद्दैवं चापि च तत्क्षणात् ।। ४ ।।

देवानां हसनं चैव कल्कनं रुधिरस्रवः ।।

अकस्माद्व्यसनं तत्र यत्र निर्घातनिर्दयः ।।

सर्पाद्यारोहणं चैव दैवं तदपि कीर्तितम् ।। ५ ।।

ततो मेघात्समुत्पन्ना यदि वृष्टिः शिलातले ।।

सप्ताहाभ्यंतरे जीवमुत्पन्नं निष्फलं भवेत् ।। ६ ।।

एकराशिस्थिताः पापाः शनिभौमदिवाकराः ।।

पृथ्वी धूमाकुला तत्र रुदंति बहवो जनाः ।।७।।

अभिचारं गते जीवे शनौ च तत्र नागते ।।

तत्र पश्यति राजेन्द्रः को धरां धारयिष्यति।।८।।

सूर्यमपश्यनो द्वंद्वं दिग्दाहश्च तथैव च ।।

दर्शनं धूमकेतोश्च नक्षत्रे धूमदर्शनम् ।। ९ ।।

भूकम्प एव मासे च एकमासे तथा दिने ।।

राज्ञो जन्मदिने वाथ शक्रचापं दिनांतरे ।। 2.3.20.१० ।।

दर्शनं खरवातस्य ग्रहयुद्धस्य दर्शनम् ।।

मासत्रये तु ग्रहणमुल्कापातप्रपातनम् ।। ११ ।।

आकाशेऽप्यथ भूमौ च तत्र मण्डूकमेव च ।।

हरिद्रावृष्टिः पाषाणे सिंहबिल्वाकृतिर्यदि ।।

दर्शने राष्ट्रदुर्भिक्षमकरं नृपतिक्षयः ।। १२।।

चैत्रे कुम्भे नदीवेगदर्शने विप्लवो भवेत् ।।

अर्क स्याद्भुतमेतद्धि स्रुग्युक्तं श्रपयेच्चरुम् ।। १३ ।।

आकृष्णेनेति मन्त्रेण अथ वार्केण यत्नतः ।।

प्रासादतोरणं तत्र द्वारं३.४३ प्राकारवेश्म च ।। १४ ।।

धान्यसारं गवां सारं कूपे कुम्भप्रदर्शनम् ।।

आदित्यस्याद्भुतं विद्यात्कमलं जुहुयात्ततः ।।१५।।

सहस्रं जुहुयाद्वाथ ततः शांतिर्भवेद्ध्रुवम् ।।

विकृताः पक्षिणश्चैव पांडुकपोतकास्ततः ।। १६ ।।

श्वेतोलूको बृहंश्चैव द्रोणकाकश्च कोकिलः ।।

क्रौंचश्च वर्द्धनी चैव निपतंति गृहे यदि ।। १७ ।।

गृहे तस्य महोत्पातो भविष्यति न संशयः ।।

स्थूलभङ्गप्रग्रहणं प्ररोहणमथापि वा ।। १८ ।।

हाराः कटकटायंते जातस्य दंतसम्भवः ।।

हसता देवतानां च गात्रे स्वेदश्च जायते ।।

सर्पमण्डूकप्रसवः कुंभे वापि क्वचिद्भवेत् ।। १९ ।।

निमित्तान्येवमादीनि जायंते यस्य वेश्मनि ।।

षड्भिर्मासैश्च म्रियते गृहिणी च शुभा च या ।।2.3.20.२०।।

अशनिः पतते यत्र गृहे वज्रं च पादपे ।।

शुक्ला वह्निस्फुलिंगाश्च तस्य विद्धि महद्भयम् ।।२१।।

खर्जूर उदरावर्ते निकोचगरलेऽपि च ।।

फलिवृक्षे तिन्दुके च यत्र निर्जायते क्वचित् ।।२२।।

उद्याने देवगेहे च स्वगृहे चैत्यवृक्षके ।।

कुर्यादादित्यवारे वा अयुतं तिलपायसम् ।।

ततः शांतिर्भवेदाशु धेनुं दद्याच्च दक्षिणाम् ।। २३ ।।

पायसं तिलमुद्गौ च पुष्पं वा तालवृन्तकम् ।।

इक्षुमोदकपिण्याकाञ्जुहुयाद्रविमुद्दिशन् ।। २४ ।।

सिंहासनं रथच्छत्रं ध्वजश्चामरभूषिते ।।

अकस्माद्दृश्यते यत्र राज्ञो वान्यत्र कुत्रचित् ।। २५ ।।

नदयंति च सत्यस्योज्ज्वलनं स्त्रीपुरुषयोः ।।

आगमस्य च दृष्ट्वैव भंगः कटकटायनम् ।। २६ ।।

उपरिष्टाद्भवेद्यस्य महोत्पातो भवेदयम् ।।

चलत्वं चाधरस्यापि तथा कटकटायनम् ।। २७ ।।

रुदितं कोकिलस्यापि उलूकोप्यशुभं वदेत् ।।

राजामात्यविनाशाय महीं च तत्सुतोऽपि वा ।।

हस्तिनो मदयुक्ताश्च म्रियंते नात्र संशयः ।। २८ ।।

ताडीपूगादयो यत्र यमौ स्यातां प्रमादतः ।।

गेही तत्र विनश्येत सदारः पुत्रसंयुतः ।। २९ ।।

बद्धपुष्पे यदा पुष्पं फलं वा यदि दृश्यते ।।

अक्षतादर्शनात्तत्र सोमस्याद्भुतदर्शनम् ।।

दधि मधु घृतं चैव जुहुयादयुतं द्विजाः ।।2.3.20.३०।।

पालाशं सोममुद्दिश्य सोमस्य च भवेद्दिने ।।

इमंदेवा इति मंत्रेण सोमाय श्रपयेच्चरुम् ।।३१।।

उत्पतंति गृहे यस्य यवा माषाश्च पुष्कलाः ।।

दधिक्षीराज्यपाकेषु रुधिरं दृश्यते यदि ।।३२।।

अकस्माद्गृहदाहस्तु अनग्निज्वलनं यथा ।।

मेघहीना भवेद्विद्युद्वृषस्योद्गमनं तथा ।।३३।।

व्याधिलीना विनश्यंति निखिलाः पशुमानुषाः ।।

एवं सर्वाणि भूतानि भवंत्यकारके ध्रुवम् ।। ३४

राजामात्यविनाशाय गेहे गेही विनश्यति ।।

प्राणनाशाय विप्रायाहुत्या च प्रभवंति हि ।। ३५ ।।

दृष्ट्वा वाभद्रमत्युग्रं जुहुयादयुतं क्रमात् ।।

दधिमधुघृतैर्युक्तं खादिरोदुम्बरेऽपि च ।। ३६ ।।

अग्निर्मूद्धेंति मंत्रेण श्रपितं लोहितं चरुम् ।।

त्रिविप्रान्भोजयेद्दद्याद्दक्षिणां लोहितं ततः ।।

स्वर्णमंगारमुद्दिश्य ततः शांतिः प्रजायते ।। ३७ ।।

पुष्पं वा पातयेद्यत्र फलं वापि तथैव च ।।

दध्यन्नं च घृतैर्मिश्रं रौप्यं हिरण्यमेव च ।।३८।।

हस्त्यश्वमहिषा गावो दारापत्यधनानि च ।।

तुष्टेनांगारकेणैव सर्वमेतत्प्रदीयताम्।।

आंगारकेण मंत्रेण खादिरं चाक्षतैर्युतम्।। ।। ३९ ।।

दक्षिणां च यथाशक्ति दद्याद्विप्राय वा पुनः ।।

लोहितं च बलिं दद्यात्ततः संपद्यते शुभम् ।।2.3.20.४०।।

धावंति चोर्ध्वपुच्छाश्च गृहे गावः स्वयं यदि ।।

आरोहंति गृहं विप्राः सारमेयाश्च सूकराः।। ४१ ।।

गृहे यस्य भवंत्येते तस्य भार्या विनश्यति ।।

सर्वेषां वा भवेन्मृत्युर्वंध्या गौर्वा प्रजायते ।।४२।।

मिथ्यावादेन गेही च राज्ञा वादैश्च तिष्ठति ।।

अथ वा यद्गृहे गावो नर्दयंति हसंति च ।।४३।।

धरणीहननं यत्र द्वयोरास्कदनं तथा ।।

निमित्तान्येवमादीनि गोश्वजातानि सत्तमाः ।।४४।।

यस्य गेहे भवंत्येते नाशस्तस्य भवेद्ध्रुवम् ।।

मण्डूकसर्पकूष्मांडाः प्रसुवंति यथा स्त्रियः ।।४५।।

अकस्माद्यदि चैतानि बुधस्योत्पातलक्षणम् ।।

शांतिं तत्र प्रवक्ष्यामि यथा संपद्यते सुखम् ।। ४६ ।।

दधिमधुघृताक्तं च अपामार्गं तथा पुनः ।।

अयुतं बुधवारे च जुहुयाच्छ्रद्धया युतः ।। ४७ ।।

अंबकेति च मंत्रेण बुधाय श्रपयेच्चरुम् ।।

सुवर्णं बुधमुद्दिश्य गां च दद्यात्पयस्विनीम् ।। ४८ ।।

सुवर्णं पुष्पवृष्टिं च सुफलं चाक्षतं तथा ।।

गृहे प्रांगणके यस्य निपतंति कदाचन ।।४९।।

अलंकारयुतां वापि सर्वाभरणभूषिताम् ।।

गृहमध्ये तु यः पश्ये त्क्षीणामंतर्हितां स्त्रियम् ।। 2.3.20.५० ।।

अकस्मान्मालतीपुष्पं जातं स्यात्तस्य वा गृहे ।।

सोमाय न च संतुष्टः सर्वमेतत्प्रदृश्यते ।। ५१ ।।

धनं धान्यं तथा पुत्र ऐश्वर्यं च वरस्त्रियः ।।

सभृत्याश्च महिष्यश्च मरिष्यंति न संशयः ।।५२।।

श्रीश्चतेति च मन्त्रेण अपामार्गं तथा बुधः ।।

सहस्रं बुधवारे च जुहुयाद् घृतसंयुतम् ।। ५३ ।।

पयस्विनीं तथा गां च वासोयुगसमन्वितम् ।।

द्विजाय श्रद्धया दद्यात्ततः संपद्यते शुभम्।। ५४ ।।

रक्तस्रावो भवेद्यत्र तत्र ऋत्विक्प्रसूयते ।।

सिंहव्याघ्रगवादीनां धनहानिविपत्करः ।। ५५ ।।

एको वृषस्त्रयो गावः सप्ताष्ट नव दंतिनः ।।

संवत्सरेण तस्यैका प्रसूतिर्विहता पुनः ।। ५६ ।।

पुनःपुनर्व्रतं चाशु अकाले मैथुनं तथा ।।

गावो यत्र प्रसूयंते यमौ दोषकराविमौ ।। ५७ ।।

भुञ्जीकृतानि धान्यानि व्रीहयो यवतंडुलाः ।।

ग्राविमार्जारमंडूकाः स्थूणाभंगे च प्राङ्गणे ।। ५८ ।।

विकिरंति नखैर्भूमिं प्ररोहंति ग्रहं तथा ।।

गृहे यस्य प्रजायंते तस्या मृत्युर्न संशयः ।। ५९ ।।

षण्मासाभ्यन्तरे यत्र श्मशानं यास्यति ध्रुवम् ।।

कलहं ज्ञातिवैरं च व्याधिपीडा भविष्यति ।। 2.3.20.६० ।।

विप्रलापो मित्र नाश इष्टेष्वनिष्टदर्शनम्।।

भार्यापुत्रविनाशश्च भवेदेषु विनिश्चितम् ।। ६१ ।।

क्रियावंतं यदा कुर्वन्कुर्वीत गृध्रबिल्वके ।।

तदा राज्ञां विभ्रमश्च तथा गृहविनाशनम् ।। ६२ ।।

अमात्यवर्गाश्च पुरे राज्ञां राज्यपराङ्मुखाः ।।

बृहस्पतिं समुद्दिश्य गां च दद्यात्पयस्विनीम् ।। ६३ ।।

वारिमंडे च कूपे च वाप्यां च मधुकांजिके ।।

क्षीरं दधिघृतं चैव जातं यदि भविष्यति ।। ६४ ।।

अकस्मात्तत्र वृक्षश्च फलेन सह संयुतः ।।

गृहमध्ये प्रजायेत ततः संपद्यते शुभम् ।। ६५ ।।

बृहस्पतेस्तु तुष्टस्य सर्वमेतन्निदर्शनम् ।।

गौरं बृहस्पतेश्चैव प्रकुर्यात्प्रायदक्षिणाम् ।। ६६ ।।

अशुभं हि शुभेनैव शांतिं होमं च कारयेत् ।।

तत्रैव राक्षसं यत्र घटकं परिशोषणम् ।। ६७ ।।

केसरी शर्करा तैलं राजतं तांडवं स्थितम् ।।

माषभक्तं तथा धान्यं सुवर्णं रजतानि च ।। ६८ ।।

ताम्रं कांस्यं तथा लोहं सीसकं पित्तलं तथा ।।

स्थापितानीव दृश्यंते गृहे चैतानि यस्य वै ।। ६९ ।।

धननाशो भवेत्तस्य स्वर्ग भंगो ह्यथापि वा ।।

व्याधिपीडे तथा घोरे राजोपद्रवबंधने ।।

गजाश्वपशुभृत्यानां विनाशो जायते ध्रुवम् ।। 2.3.20.७० ।।

यस्यैतानि प्रदृश्यंते पर्वतः कनकानि च ।।

संपत्तस्य प्रजायेत निश्चला सुखदा सदा ।। ७१ ।।

दंतोत्तरेषु दंताश्च पंक्तिमाक्रम्य संस्थिताः ।।

तेऽपि दोषकराः सर्वे शला काकृतिनस्तथा ।।

उपदंताश्च सर्वे ते न ते दोषकराः क्वचित् ।। ७२ ।।

भांडे कुंभे यदा चैव श्रूयते घनगर्जितम् ।।

कंचुकानां गृहे चैव प्राकारः श्रूयते यदि ।। ७३ ।।

मूषिकानां मुखे चैव ज्वलंती यस्य पश्यति ।।

गेही तत्रैव नश्येत शुक्रस्याद्भुतदर्शनम् ।।७४।।

शांतिं तत्र प्रवक्ष्यामि यया संपद्यते शुभम् ।।

शमीपत्रं निर्मितं च यवैर्युक्तं गृहिण्यपि ।।

दधिमधुघृताक्तं च जुहुयाद्भार्गवे दिने ।। ७५ ।।

शुक्लवासोयुगं चैव गां च शुक्लां पयस्विनीम् ।।

सुवर्णं श्रद्धया चैव दद्याद्विप्राय दक्षिणाम् ।। ७६ ।।

देवागारे यदा भूमिर्लोहिता यस्य दृश्यते ।।

पुष्पिता दृश्यते लोके तत्र विद्धि महद्भयम् ।। ७७ ।।

राजा वा राजपुत्रो वा राज्यं वापि विनश्यति ।।

मंत्रिणो मंत्रिपुत्राश्च म्रियंते नात्र संशयः ।।७८।।

यत्र वा दृश्यते लोके गृहे यस्य सुपूजिताः ।।

पुष्पिताश्च गृहस्तंभाः शरीरं च घटस्तथा ।। ७९ ।।

हस्त्यश्वमहिषाश्चैव अजा गावस्तथैव च ।।

नित्यं स्वामिवधार्थाय पुष्पितां प्रवहंति च ।। 2.3.20.८० ।।

गृहे हंसो गृहे सम्यङ्मण्डूका जलचारिणः ।।

द्वारे प्रविश्य सर्पश्च प्रतिमायाः प्रकल्पनम् ।। ८१ ।।

अकस्माद्धटशब्दोपि यत्र कुत्रापि जायते ।।

स्रवंति प्रमदा यत्र भिन्नास्ते स्युर्नवांगिकाः ।। ८२ ।।

गृही तत्र विनश्येत सपुत्रपशुबांधवः ।।

धनुःखड्गधरा रात्रौ मध्याह्ने चान्द्रके तथा ।। ८३ ।।

उदितो दृश्यते व्योम्नि ज्वलितः पावकस्तथा ।।

मनुष्याङ्गनानां मरणं तथा स्याद्राष्ट्रविप्लवः ।। ८४ ।।

रससिद्धानि वस्तूनि सुराद्याश्चापि वा पुनः ।।

हस्तिनो मदयुक्ताश्च अश्वा धीरितहिंसकाः ।।

विनश्यंति सदा चैते शनेरद्भुतदर्शने ।। ८५ ।।

नगरे वा तथा ग्रामे जायन्ते तस्य वैरिणः ।।

दिवा वा यदि वा रात्रौ शनेरद्भुतदर्शनम् ।। ८६ ।।

मृगव्याघ्रादिरक्षांसि तथा गोमहिषा अपि ।।

उत्पतंति यदा चैते शनेरद्भुतमादिशेत् ।। ८७ ।।

निधिमंत्रं प्रवक्ष्यामि येन संपद्यते शुभम् ।।

जुहुयादयुतं सम्यक्सस्यांश्च समिधं द्विजाः ।। ८८ ।।

शन्नो देवीति मंत्रेण शुभार्थं शनिवासरे ।।

चरुं च श्रपयेत्तत्र समुद्दिश्य शनैश्चरम् ।। ८९ ।।

गां च नीलां ततो दद्याज्जीवद्वत्सां पयस्विनीम् ।।

वासोयुगं च विप्राय सुवर्णं रजतं तथा ।। 2.3.20.९० ।।

दत्त्वा तु श्रद्धया सम्यग्दक्षिणां शिरसि स्थिताम् ।।

विधिं होमावसाने तु ततः संपद्यते शुभम् ।। ९१ ।।

यदा द्वारे गोधिका च शंखिनी प्रविशेद्गृहम् ।।

तदाऽशुभं विजानीयाद्राजपीडा धनक्षयः ।।

अयुतं जुहुयात्सम्यक्ततः संपद्यते शुभम् ।। ९२ ।।

विना गर्जितमेघेन शिलावृष्टिः प्रजायते ।।

रक्तमिश्रा हि पांडुश्च पतन्ती यत्र दृश्यते ।। ९३ ।।

तत्र संदृश्यते चाभ्रं वृक्षा वातविवर्जिताः ।।

शक्रध्वजस्तथा चापं पतनं सुमनस्य च ।। ९४ ।।

दिवा शिवा पुरा रौति उलूको वा निशाचरः ।।

निशि निपत्य काकुत्स्थे प्रदेशे रौति वा वृषः ।। ९५ ।।

अधर्मप्रबला देशा राजा धर्मपराङ्मुखः ।।

अन्योन्यं च जिघांसंति गोब्राह्मणमथापि वा ।। ९६ ।।

गृहे गृही विनश्येच्च सपुत्रपशुबांधवः ।।

उत्सानं द्वारदेशेऽस्य मरणं राष्ट्रविभ्रमः ।। ९७ ।।

राज्यनाशो भवेद्राज्ञो मरणं वाहनस्य च ।।

विपरीतानि देशानि क्रमतः संभवंति हि ।। ९८ ।।

राहुणा ग्रस्तसूर्योऽपि निशि चाथ यदा दिवा ।।

तारकागणवच्चैव राज्ञां निधनकारकः ।। ९९ ।।

सहामात्या विनश्यंति स्वर्गे ये च सुदुर्जयाः ।।

परचक्रेण पात्यंते राजानो नात्र संशयः ।। 2.3.20.१०० ।।

छायाध्वजश्च गगने दृश्यते चेत्कदाचन ।।

दर्शनादेव राज्ञस्तु विनाशः सहराष्ट्रकैः ।। १०१ ।।

ज्वलितो दृश्यते यत्र पावकश्च सकृज्जले ।।

वज्रे शिरसि गात्रे वा जीवितं तस्य दुर्लभम् ।। १०२ ।।

द्वारोपांते तथा स्तंभे आग्निर्वा धूम एव वा ।।

पुरुषस्य तु तत्रैव मरणं जायते ध्रुवम् ।। १०३ ।।

गगनेऽशनिघातश्च शक्तिहस्तेन वा पुनः ।।

अब्दस्याभ्यंतरे तस्य मरणं नात्र संशयः ।।१०४।।

शिखावलयमध्ये तु सधूमः पावकोद्गमः ।।

दृश्यते नगरे मध्ये तत्रैवाद्भुतदर्शनम् ।। १०५ ।।

शवस्य नीयमानस्य उत्थानं वा प्रमादतः ।।

स्थापितस्य च लिंगस्य अन्यत्र गमनं तथा ।। १०६ ।।

निर्घातश्चापि भूकंपो निवातोल्काप्रदर्शनम् ।।

अकाले पुष्पिता वृक्षाः फलं चाकालसंभवम् ।। ।। १०७ ।।

अनिमित्तानि सर्वाणि दूरमागत्य निर्भरम् ।।

अनिमित्तस्य नाशो यः सैंहिकेयकृतस्य च ।। १०८ ।।

नराणामासनं चैव गवां वा मानुषीगिरा ।।

पक्षमात्रांतरे तस्य पुत्रस्य मरणं दिशेत् ।। १०९ ।।

अयुतं जुहुयात्तत्र राहुमुद्दिश्य यत्नतः ।।

शांतिमत्र प्रवक्ष्यामि यया संपद्यते शुभम् ।। 2.3.20.११० ।।

दधिमधुघृताक्तं च कुर्याद्दूर्वाक्षतं तथा ।।

कलायु इति मन्त्रेण जुहुयाद्रविवासरे ।। १११ ।।

चरुं च श्रपयेत्तत्र राहुमुदिश्य संश्रयात् ।।

होमं कुर्यात्ततो गां च कपिलां च पयस्विनीम् ।। ११२ ।।

अतसी तिलशंखौ वा वासोयुगमथापि वा ।।

श्रद्धया राहुमुद्दिश्य दद्याद्विप्राय दक्षिणाम् ।। ११३ ।।

दुरितस्य विनाशाय तस्य संपद्यते शुभम् ।।

दधिमधुघृतक्षीरेण वारुणेन च वारुणे ।। ११४ ।।

दृश्यते चाद्भुतं तेषु विशिष्टैर्दोषदर्शिभिः ।।

गृही तत्र विनष्टश्च भवेत्सपशुबांधवः ।।११५।।

दृश्यंते तत्र क्रौञ्चाश्च जंबुका गृध्रवायसाः ।।

दारुणं भीषणं घोरं नृत्यंति च हसंति च ।।१ १६।।

मैथुनानि च सर्वेषां यस्य वासे भवेद्यदि ।।

मृत्युस्तस्य भवेदाशु ईश्वरस्य च शासनात् ।। ११७ ।।

धूमकेतुर्यदा व्योम्नि ज्वलत्पावक सन्निभः ।।

स्थानात्स्थानांतरं याति भूमौ वा पतते भृशम् ।।

सबंधुरस्यते राजा परचक्रैः स पीडितः ।। ११८ ।।

दुर्भिक्षं मरणं चैव चिरं राष्ट्रे भविष्यति ।।

गावो मर्कटकुंभा व विशंते गृहवेश्मनि ।। ११९ ।।

गावश्च तस्य नश्यंति दारापत्यधनानि च ।।

अन्यस्य दोषो भवति गृहे यांति प्रमादतः ।। 2.3.20.१२० ।।

अब्दांतरे भवेन्मृत्युर्विरजा हि भविष्यति ।।

शांतिमत्र प्रवक्ष्यामि यया संपद्यते शुभम् ।। १२१ ।।

सप्ताश्वरथसंयुक्तं हेमच्छत्रविभूषितम् ।।

विप्राय मंडपं दद्याद्बिल्वपत्रमथापि वा ।। १२२ ।।

ऐंद्रेणैव तु मन्त्रेण होमः कार्यो द्विजातिभिः ।।

अकस्माच्छालतालाक्षखदिरोत्पलसेरकाः ।। १२३ ।।

गृहमध्ये प्रजायेत केतोरद्भुतदर्शनम् ।।

हंसो वा द्रोणकाको वा मयूरो वा गृहोपरि ।। १२४ ।।

गृहे तस्य महोत्पातः केतोरद्भुतदर्शनम् ।।

शांतिमत्र प्रवक्ष्यामि यया संपद्यते शुभम्।।१२५।।

दधिमधुघृताक्तं च जुहुयादयुतं कुशम्।।

त्र्यंबकं चेति मन्त्रेण केतवेभिवपे च्चरुम् ।। १२६ ।।

नीलां धेनुं सवत्सां च बहुक्षीरप्रदां तथा ।।

मृत्तिकां हेमवासश्च नानालंकारमेव च ।। १२७ ।।

दक्षिणां च प्रवक्ष्यामि यस्य नास्ति प्रतिक्रिया ।।

देवमुद्दिश्य दानेन होमेन चरुणा तथा ।। १२८ ।।

दक्षिणस्यां दिशि च्छायां यः पश्येदात्मनः स्वयम् ।।

स्वच्छायां पादुकस्यैव पश्येत्पञ्चशिरोद्वयम् ।। १२९ ।।

एवमेवैव यच्छिन्नं शिनष्टि च ततो हितम् ।।

शीघ्रं नाशमवाप्नोति सप्ताहान्नात्र संशयः ।। 2.3.20.१३० ।।

उच्चावचान्प्रवक्ष्यामि यथा शास्त्रेण चोदितम् ।।

काकमार्जारशूकानां कपोतानां विशेषतः ।।

मैथुनं दृश्यते यत्र तच्च राहोर्महाद्भुतम् ।। १३१ ।।

शनिमुद्दिश्य जुहुयादयुतं शनिवासरे ।।

पूजयेदर्कपुष्पेण शतेन जुहुयाच्चरुम् ।। १३२ ।।

कृत्वा तत्रैव पश्येत शनेरद्भुतदर्शनम् ।।

अष्टाविंशं चरुं कृत्वा ततः शांतिर्भवेद्ध्रुवम् १३३ ।।

भुजपदोस्तथा चक्षुःस्पंदने मरणं दिशेत् ।।

तत्तु सोमाद्भुतं विद्याद्वामदक्षिणतः क्रमात् ।। १३४ ।।

कृष्णपक्षे भवेद्वामे विपरीतेऽद्भुतं दिशेत् ।।

अनिष्टसूचकं यस्मात्तस्माच्छांतिं प्रकल्पयेत्।।१३५।।

शतार्द्धं रविमुद्दिश्य शान्त्यर्थे होममाचरेत् ।।

चरुपाकविधानेन यवैस्तिलसुसर्पिषा ।। १३६ ।।

पुस्तके यज्ञसूत्रं च असत्पात्रे चरौ तु वा ।।

शक्रवस्त्रप्रदग्धे च सूर्यस्याद्भुतदर्शनम् ।। १३७ ।।

हयमारं त्रिमध्वक्तं जुहुयादिष्टसिद्धये ।।

देवपुस्तकरत्नानि मणिकांचनमेव च ।। १३८ ।।

लोहितस्याद्भुतं विद्यात्सहस्रं च विशोधनम् ।।

देवागारे तथा गोधा शंखिनी प्रविशेत्क्वचित् ।। १३९ ।।

द्रोणकाको बकश्चैव उलूकद्वयमेव च ।।

रक्तकंठः कपोतश्च व्याघ्र एणश्च वा विशेत् ।। 2.3.20.१४० ।।

यस्य देवगृहं पश्येत्तस्य तस्यायुतं हुनेत् ।।

न चात्र गृहवैकृत्यं हसनं यदि दृश्यते ।।

संपत्तिसूचकं गेहे मरणं दुःखदर्शनम् ।। १४१ ।।

क्रंदने हतराज्येन गजाश्ववाहने क्वचित् ।।

सूर्यमुद्दिश्य जुहुयादयुतं सर्वसिद्धये ।। १४२ ।।

प्रमादात्कंपने हानिः स्वेदे जाते विपद्भवेत् ।।

क्षीरस्रावे च रुधिरे तत्र राज्ये महद्भयम् ।। १४३ ।।

गोच्छागौ वाथ गोमायुर्गृहोपरि प्रनृत्यति ।।

यदा रौति दिवा फेरुस्तदा नाशो भवेद्ध्रुवम् ।। १४४ ।।

श्वजंबुकावथ व्याघ्रो यथाशक्ति च धावति ।।

ईशाने महिषस्तद्वत्तदा देशे च विप्लवः ।। १४५ ।।

राहोरद्भुतमुदिश्य सहस्रं जुहुयाच्चरुम् ।।

वृक्षाद्भुतं यदा पश्येत्तत्र तस्यां परित्यजेत् ।।

यद्गृहेषु हुतं याति देशविप्लवमादिशेत् ।। ।। १४६ ।।

देशे वा नगरे ग्रामे आरण्यपशुबन्धनम् ।।

सर्पे वा विपरीतं च मांसपिंडमथापि वा ।।

तद्गृहे मरणं चैव देश विप्लवमादिशेत् ।। १४७ ।।

दिवाद्भुतेऽयुतं रात्रौ द्विगुणं च भवेद्ध्रुवम् ।।

द्विगुणं चापि संध्यायामर्धरात्रे चतुर्गुणम् ।। १४८ ।।

अकाले तत्र मरणमकाले गृहिणीमृतिः ।।

सौराद्भुतं विजानीयादशुभे वा विशोधनम् ।। १४९ ।।

एकैकस्यायुतं यत्र कुर्यात्तत्रैव होमयेत् ।।

सांगोपांगेन सहित मष्टावष्टौ हुतं च वा ।। 2.3.20.१५० ।।

अधिप्रत्यधिसहितं गृहपक्षेऽपि सत्तमाः ।।

तन्मानेन हुतं विप्रा कुर्यात्तत्रैव भूषणम् ।। १५१ ।।

एकैकस्याहुतं विप्रा अष्टावष्टौ हुतं च वा ।।

अधिप्रत्यधिदेवानां याश्चान्याश्चांगदेवताः ।। १५२ ।।

मानांतं च ददेत्पूर्णां दत्त्वा पूर्णां न होमयेत् ।।

वक्ष्ये ग्रहमखे मानं येन मानेन सिध्यति ।। १५३ ।।

अमानकरणे दोषस्तस्मान्मानं न हापयेत् ।।

पंक्तिचत्वारिंशदाद्यैश्चतुर्धा विभजेन्नरः ।। १५४।।

अनिष्टाय ततो दद्याच्चरुहोमं विभागशः ।।

अधिप्रत्यधिदेवानामष्टावष्ट ह्युदाहृतम् ।।१५५ ।।

त्र्यंबकादिषु मंत्रेषु होमत्रयमुदाहृतम् ।।

धनंजये तथा दद्याच्चरुहोमं विभागतः ।। १५६ ।।

आदित्यायाष्टावष्टावधिककल्पयेत्सुधीः ।।

शतहोमे तु सर्वत्र दशांगं कल्पयेन्नरः ।। १५७ ।।

अनिष्टाय युगांगं तु ग्रहेभ्यो ह्यंगनाय च ।।

अधिप्रत्यधिदेवानां तथैवांगं प्रकल्पयेत् ।। १५८ ।।

द्वौ तु दद्यात्त्र्यंबकाय तथा धनंजयाय च ।।

तत्र होमो नायकाय सर्वत्रैव विचक्षणः ।। १५९ ।।

सहस्रे चैव विंशांगे अनिष्टाय दशांशकम् ।।

पञ्चांशेन ग्रहाणां च पञ्चांशेन यवानपि ।। 2.3.20.१६० ।।

तत्रानिष्टे पंचशतं तस्यार्धं ग्रहवाग्यतः ।।

एकत्रिंशद्भवेन्मानम् ( ३१) अन्येषां तु चतुर्दश (१४) ।।१६१।।

ग्रहाधिकं होमयुगं तत्र भागे प्रकल्पयेत् ।।

अधातये च तिथ्यंगं पञ्चांगं यस्य चाद्भुतम् ।। १६२ ।।

ग्रहेभ्यश्चैव पंचांगं तत्र वांगं परानपि ।।

एकैकांगे भवेन्मानं षट्शतं षष्टिरेव च ।। १६३ ।।

अधिकं च भवेत्षष्टिर्दशमे भागशेषतः ।।

अनिष्टांशे त्रिसहस्रं त्रिशतं त्रिंशतं तथा ।। १६४ ।।

चतुःशतं ग्रहाणां च तथा सप्तशताधिकम् ।।

उपग्रहेभ्यो दद्याच्च पंचाशीत्यधिकं शतम् ।। १६५ ।।

तिथ्यंगभागः शेषेण ग्रहे सप्तशताधिकम् ।।

एकैकं तु ग्रहस्यैवमादित्याय युगं भवेत् ।। १६६ ।।

ग्रहांगे यः स्थितो भागो युगलं भागशेषतः ।।

त्र्यंबकाय च तद्दद्यात्तथा धनंजयाय च ।।१६७।।

शांतिके पौष्टिके काम्ये यदीच्छेत्सुखमात्मनः।।

ग्रहाणां चायुतं होमं त्र्यहसाध्येन होमयेत् ।। १६८ ।।

त्र्यहसाध्ये विधानं यत्पुरैवोदीरितं द्विजाः ।।

इदानीं प्रक्रमेणैव यो भागः स निगद्यते ।। १६९ ।।

पूर्वस्मिन्दिवसेऽनिष्टे सहस्रं त्रिशतोत्तरम् ( १३००) ।।

इतरेषां ग्रहाणां च प्रत्येकं तु शतं शतम्( १००) ।। 2.3.20.१७० ।।

अधिप्रत्यधिदेवानां पंचाशद्धोम उच्यते ।।

प्रथमेह्नि प्रदद्याच्च मिलित्वा त्रिसहस्रकम्( ३०००) ।। १७१ ।।

द्वितीयदिवसेऽनिष्टे द्विसहस्रमुदाहृतम् ( २०००) ।।

प्रति ग्रहेभ्यस्त्रिशतं दद्यादष्ट शताधिकम्( १०८) ।। १७२ ।।

उपग्रहेभ्यो दद्याच्च षोडशभ्यो यथाक्रमम् ।।

एकाशीतिं ददौ यत्नादशीतिं चांत्ययोर्द्वयोः ।। १७३ ।।

एवं द्वितीयदिवसे मिलित्वा षट्सहस्रकम् ( ६०००) ।।

अनिष्टाय त्रिशतं तु तृतीयदिवसे मतम्।।१७४।।

तत्प्रत्येकं ग्रहाणां च द्वाचत्वारिंशदुच्यते ।।

अधिप्रत्यधिदेवानां प्रत्येकं पंचत्रिंशकम् ।। १७५ ।।

तृतीयदिवसे दद्यान्मिलित्वैकसहस्रकम् ( १०००) ।।

आदित्याय युगं दद्यादेकं तु त्र्यंबकाय च ।। १७६ ।।

धनंजयाय होमैकमेकं चायुतमुच्यते ।।

तदर्धकं ग्रहेभ्यश्च इतरेभ्यस्तदर्धकम् ।। १७७ ।।

ग्रहाणां त्रिसहस्रं तु पंचानां च सहस्रकम् ।।

त्रिसहस्रभागशेषमादित्याय सहस्रकम् ।। १७८ ।।

त्र्यंबकाय तथा दद्यात्तथा धनंजयाय च ।।

षट्पादाधिक षटषट्कसहस्रपरिसंख्यया ।।

नवश्लोकशतोद्भूतं संपूर्णं स्याद्भविष्यकम् ।। १७९ ।। ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे विंशोऽध्यायः ।। २० ।।

इति तृतीयभागः समाप्तः ।।

इति श्रीभविष्ये महापुराणे मध्यमपर्व समाप्तम्।।

।।श्रीवेङ्कटेश्वरार्पणमस्तु ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः १ — Adhyāya 1

कृतयुगभूपाख्यानम्

।। ।। श्रीगणेशाय नमः ।। ।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।१।।

।। शौनक उवाच ।। ।।

भविष्याख्ये महाकल्पे ब्रह्मायुषि परार्द्धके ।।

प्रथमेऽब्देह्नि तृतीये प्राप्ते वैवस्वतेऽन्तरे ।। १ ।।

अष्टाविंशे सत्ययुगे के राजानोऽभवन्मुने ।।

तेषां राज्यस्य वर्षाणि तन्मे वद विचक्षण ।। २ ।।

।। सूत उवाच ।। ।।

कल्पाख्ये श्वेतवाराहे ब्रह्माब्दस्य दिनत्रये ।।

प्राप्ते सप्तमुहूर्ते च मनुर्वैवस्व तोऽभवत ।। ३ ।।

स तप्त्वा सरयूतीरे तपो दिव्यं शतं समाः ।।

तच्छिक्कातोऽभवत्पुत्र इक्ष्वाकुः स महीपतिः ।। ४ ।।

ब्रह्मणो वरदानेन दिव्यं यानं स आप्तवान् ।।

नारायणं पूजयित्वा हरौ राज्यं निवेद्य च ।। ५।।

षट्त्रिंशच्च सहस्राणामब्दं राज्यं तदाऽकरोत् ।।

तस्माज्जातो विकुक्षिश्च शतहीनं तदब्दकम् ।।६।।

राज्यं कृत्वा दिवं यातस्तस्माज्जातो रिपुंजयः।।

शतहीनं कृतं राज्यं तत्ककुत्स्थसुतः स्मृतः।।७।।

शतहीनं कृतं राज्यं ततोऽनेनांस आत्मजः ।।

शतहीनं कृतं राज्यं तस्माज्जातो नृपः पृथुः ।। ८ ।।

शतहीनं कृतं राज्यं विष्वगश्वश्च तत्सुतः ।।

शतहीनं कृतं राज्यं तस्मादार्द्रो नृपोऽभवत् ।। ९ ।।

शतहीनं कृतं राज्यं भद्राश्वस्तत्सुतोऽभवत् ।।

शतहीनं कृतं राज्यं युवनाश्वस्तु तत्सुतः ।। 3.1.1.१० ।।

शतहीनं कृतं राज्यं श्रवस्थस्तत्सुतोऽभवत् ।।

सत्यपादश्च संजातः प्रथमो भारतेऽन्तरे ।। ११ ।।

उदयादस्तपर्यंतं तैर्नृपैर्भूमिमंडलम् ।।

भुक्तं नीतिपरैर्देवैः श्रवस्थेन तु भूतले।।

शतहीनं कृतं राज्यं बृहदश्वस्ततोऽभवत् ।। १२ ।।

शतहीनं कृतं राज्यं तस्मात्कुवलयाश्वकः ।।

शतहीनं कृत राज्यं दृढाश्वस्तत्सुतोऽभवत्।।१३।।

सहस्रहीनं राज्यं तत्तस्मात्पुत्रो निकुंभकः ।।

सहस्रहीनं राज्यं तत्संकटाश्वस्तु तत्सुतः ।। १४ ।।

सहस्रहीनं राज्यं तत्तस्माज्जातः प्रसेनजित् ।।

सहस्रहीनं राज्यं तद्रवणाश्वस्तु तत्सुतः ।। १५ ।।

सहस्रहीनं राज्यं तन्मांधाता तत्सुतोऽभवत् ।।

शतहीनं कृतं राज्यं पुरुकुत्सस्तु तत्सुतः ।।१६।।

शतहीनं कृतं राज्यं त्रिंशदश्वस्तु तत्सुतः ।।

रथे यस्य स्मृता वाहा वाजिनस्त्रिंशतो वराः ।। १७ ।।

अनरण्यस्ततो जातो ह्यष्टाविंशत्सहस्रकम् ।।

राज्यं द्वितीयचरणे स्मृतं सत्ययुगस्य वै ।। १८ ।।

पृषदश्वस्ततो जातो राज्यं षष्ठसहस्रकम् ।।

तदब्दं भूतले कृत्वा पितृलोकमुपाययौ ।। १९ ।।

हर्यश्वस्तु ततो जातो विष्णुभक्तकुले नृपः ।।

सहस्रहीनं राज्यं तत्तत्सुतो वसुमान्स्मृतः ।। 3.1.1.२० ।।

सहस्रहीनं राज्यं तत्त्रिधन्वा तनयस्ततः ।।

सहस्रहीनं राज्यं तत्तेन राज्ञा च सत्कृतम् ।। २१ ।।

सत्यपादः समाप्तोऽयं द्वितीयो भारतेऽन्तरे ।।

त्रिधन्वनश्च नृपतेस्त्रपारण्यस्तु वै सुतः ।। २२ ।।

सहस्रहीनं राज्यं तत्कृत्वा स्वर्गमुपाययौ ।।

तस्माज्जातस्त्रिशंकुश्च राज्यं वर्षसहस्रकम् ।। २३ ।।

छद्मना हीनतां जातो हरिश्चंद्रस्तु तत्सुतः ।।

राज्यं विंशत्सहस्रं च रोहितो नाम तत्सुतः ।।२४ ।।

पितुस्तुल्यं कृतं राज्यं हारीतस्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं चंचुभूपश्च तत्सुतः ।। २५ ।।

पितुस्तुल्यं हि राज्यं तद्विजयो नाम तत्सुतः ।।

पितुस्तुल्यं हि राज्यं तद्रुरूकस्तनयस्ततः ।। २६ ।।

पितुस्तुल्यं कृतं राज्यं सगरस्तनयोऽभवत् ।।

भूपाश्च बाहुसेनान्ता वैष्णवाः परिकीर्तिताः।।२७।।

राज्यमानं कृतं सम्यग्भूपैर्वैवस्वतादिभिः ।।

मणिस्वर्णसमृद्धिश्च बह्वन्नं बहुदुग्धकम् ।। २८ ।।

पूर्णो धर्मस्तदा भूम्यां मुने सत्ययुगस्य वै ।।

तृतीयचरणे मध्ये सगरो नाम भूपतिः ।। २९ ।।

शिवभक्तः सदाचारस्तत्पुत्राः सागराः स्मृताः ।।

त्रिंशत्सहस्रवर्षं तद्राज्यं वै मुनिभिः स्मृतम् ।। 3.1.1.३० ।।

नष्टेषु सागरेष्वेवमसमञ्जस आत्मजः ।।

शतहीनं कृतं राज्यमंशुमांस्तत्सुतोऽभवत् ।।३१।।

शतहीनं कृतं राज्यं दिलीपस्तत्सुतोऽभवत् ।।

शतहीनं कृतं राज्यं तस्माज्जातो भगीरथः ।।३२।।

शतहीनं कृतं राज्यं श्रुतसेनस्ततोऽभवत् ।।

शतहीनं कृतं राज्यं नाभागस्तनयस्ततः ।।३३।।

शतहीनं कृतं राज्यमम्बरीषस्ततोऽभवत् ।।

शैवाः षट्श्रुतसेनान्ता नाभागो वैष्णवो नृपः ।। ३४ ।।

सत्यपादः समाप्तोऽयं तृतीयो भारतेंतरे ।।

अंवरीषेण भूपेन शतहीनं कृतं पदम् ।। ३५ ।।

चतुर्थे चरणे तस्य चाष्टादश सहस्रकम् ।।

अब्दं राज्यं शुभं ज्ञातं कर्मभूम्यां च भारते ।। ३६ ।।

एकोनत्रिंशद्वर्षाणि राज्यं तत्त्रिंशतानि च ।।

शतहीनं कृतं राज्यं सिंधुद्वीपोऽम्बरीषजः ।। ३७ ।।

शतहीनं कृतं राज्यमयुताश्वस्ततोऽभवत् ।।

शतहीनं कृतं राज्यमृतुपर्णस्तु तत्सुतः ।। ३८ ।।

शतहीनं कृतं राज्यं सर्वकामो नृपस्ततः ।।

शतहीनं कृतं राज्यं नृपः कल्माषपादकः ।। ३९ ।।

शतहीनं कृतं राज्यं सुदासस्तनयोऽभवत्।।

तस्मादशमकश्चैव मदयन्त्या वशिष्ठजः ।। 3.1.1.४० ।।

शतहीनं कृतं राज्यं हरिवर्मा ततोऽभवत् ।।

सप्त भूपाः सुदासान्ता वैष्णवाः परिकीर्तिताः ।।४१।।

गुरुशापात्तु सौदासो राज्याङ्गं गुरवेऽर्पयत् ।।

गोकर्णलिंगभक्तश्च शैवः समय उच्यते ।। ४२ ।।

हरिवर्मा शमकजो वैश्यवत्साधुपूजकः ।।

ऊनत्रिंशत्सहस्राणि तथा सप्तशतानि वै ।। ४३ ।।

हरिवर्माऽकरोद्राज्यं तस्माद्दशरथोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं तस्माद्दिल्लीवयस्सुतः ।। ४४ ।।

पितुस्तुल्यं कृतं राज्यं भृपो विश्वासहस्ततः ।।

राज्यं दशसहस्रं तन्नियज्ञः प्राकृतो नृपः ।। ४५ ।।

तदधर्मप्रतापेन ह्यनावृष्टिस्तदाऽभवत् ।।

शतवर्षमना वृष्टिस्सर्वराज्यं व्यनाशयत् ।। ४६ ।।

यज्ञं कृत्वा वशिष्ठस्तु राज्ञीवचनतत्परः ।।

यज्ञात्खट्वांग उत्पन्नः खट्वांगं शस्त्रमुद्वहन् ।। ४७ ।।

इन्द्रसाहाय्यमगमद्राज्यं त्रिंशत्सहस्रकम् ।।

कृत्वा .तत्र वरं लब्ध्वा देवेभ्यो मुक्तितां गतः .।। ४८ ।।

खट्टांगाद्दीर्घबाहुश्च राज्यं विंशत्स हस्रकम् ।।

तस्मात्सुदर्शनो जातो देवीपूजनतत्परः ।। ४९ ।।

वैष्णवा दाशरथ्यं तास्त्रयो विख्यातसद्बलाः ।।

खट्वांगो दीर्घबाहुश्च वैष्णवौ परिकीर्तितौ ।। 3.1.1.५० ।।

सुदर्शनो महाप्राज्ञः काशीराजसुतां नृपः ।।

उदूह्य भूपतीञ्जित्वा देवीसेवाप्रसादतः।। ।।

राज्यं भरतखण्डान्तमदधद्धर्मतो नृपः ।।

वर्षपञ्चसहस्राणि राज्यं चक्रे स भूपतिः ।। ५२ ।।

स्वप्नमध्ये वचः प्रोक्तं महाकाल्या नृपाय वै ।।

वत्स त्वं प्रियया सार्द्धं वशिष्ठादिभिरन्वितः ।। ५३ ।।

हिमालयं गिरिं प्राप्य वासं कुरु महामते ।।

महावायुप्रभावेन क्षयो भरतखंडके ।। ५४ ।।

रत्नाकरः पश्चिमोऽब्धिस्तस्य द्वीपाः क्षयं गताः ।।

महोदधिः पूर्वतोऽब्धिस्तस्य द्वीपाः क्षयं गताः ।। ५५ ।।

वाडवोऽब्धिर्दक्षिणे च तस्य द्वीपाः क्षयं गताः ।।

हिमाब्धिरुत्तरे तस्य सगरैः खनितो हि सः ।। ५६ ।।

ये द्वीपास्तु सुविख्यातास्तेऽपि सर्वे लयं गताः ।।

भारतो वर्ष एवासौ वत्सरे सप्तमेऽहनि ।। ५७ ।।

सजीवः प्रलयं यायात्तस्मात्त्वं जीवितो भव ।।

तथेति मत्वा स नृपः पर्वतं वै हिमालयम् ।। ५८ ।।

प्राप्तवान्मुख्यभूपैश्च मुख्यवैश्यैर्द्विजैः सह ।।

पञ्चवर्षप्रमाणेन वायुस्तेजःक्रमाज्जलम् ।। ५९ ।।

शर्करा च महीं प्राप्तास्ततो जीवाः क्षयं गताः ।।

पंचवर्षमिते काले जलं जाता वसुंधरा ।।3.1.1.६०।।

शांतो भूत्वा पुनर्वायुर्जलं सर्वमशोषयत् ।।

दशवर्षांतरे भूमिः स्थली भूत्वा प्रदृश्यते ।। ६१ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कृतयुगभूपाख्यानं नाम प्रथमोऽध्यायः ।। १ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः १ — Adhyāya 2

त्रेतायुगभूपाख्यानवर्णनम्

।। सूत उवाच ।। ।।

वैशाखशुक्लपक्षे तु तृतीयागुरुवासरे ।।

सुदर्शनो जनैः सार्द्धमयोध्यामगमत्पुनः ।। १ ।।

मायादेवीप्रभावेण पुरं सर्वं मनोहरम् ।।

महावृद्धियुतं प्राप्तं बह्वन्नं सर्वरत्नकम् ।। २ ।।

दशवर्ष सहस्राणि राज्यं कृत्वा सुदर्शनः ।।

प्राप्तवाञ्छाश्वतं लोकं दिलीपस्तत्सुतोऽभवत् ।। ३ ।।

नन्दिनीवरदानेन तत्पुत्रो रघुरुत्तमः ।।

दशवर्षसहस्राणि दिलीपो राज्यसत्कृतः ।। ४ ।।

राज्यं कृतं च रघुणा दिलीपान्ते पितुस्समम् ।।

रघुवंशस्ततः ख्यातस्त्रेतायां भृगुनन्दन ।। ५ ।।

विप्रस्य वरदानेन तत्पुत्रोऽज इति स्मृतः ।।

पितुस्तुल्यं कृतं राज्यं तस्माद्दशरथोऽभवत् ।। ६ ।।

पितुस्तुल्यं कृतं राज्यं तस्माद्रामो हरिः स्वयम् ।।

एकादश सहस्राणि रामराज्यं प्रकीर्तितम् ।। ७ ।।

तस्य पुत्रः कुशो नाम राज्यं दशसहस्रकम् ।।

अतिथिर्नाम तत्पुत्रः कृतं राज्यं पितुः समम् ।। ८ ।।

निबन्धो नाम तत्पुत्रः कृतं राज्यं पितुस्समम् ।।

तस्माज्जातो नलो नाम त्रेतायां शक्तिपूजकः ।।९।।

पितुस्तुल्यं कृतं राज्यं तस्मान्नाभः सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं पुंडरीकः सुतोऽभवत् ।। 3.1.2.१० ।।

पितुस्तुल्यं कृतं राज्यं क्षेमधन्वा तु तत्सुतः ।।

पितुस्तुल्यं कृतं राज्यं द्वारको नाम तत्सुतः ।। ११ ।।

पितुस्तुल्यं कृतं राज्यं तस्माज्जातो ह्यहीनजः ।।

पितुस्तुल्यं कृतं राज्यं कुरुर्नाम सुतस्ततः ।।१२।।

कुरुक्षेत्रं कृतं तेन त्रेतायां शतयो जनम् ।।

त्रेतापादस्समाप्तोऽयं प्रथमो भारतेऽन्तरे ।। १३ ।।

पितुस्तुल्यं कृतं राज्यं पारियात्रः सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं दलपालस्सुतस्ततः ।। १४ ।।

पितुस्तुल्यं कृतं राज्यं छद्मकारी तु तत्सुतः ।।

पितुस्तुल्यं कृतं राज्यं तस्मादुक्थः सुतोऽभवत् ।। १५ ।।

पितुस्तुल्यं कृतं राज्यं वज्रनाभिस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं शंखनाभिस्ततोऽभवत् ।। १६ ।।

पितुस्तुल्यं कृतं राज्यं व्युत्थनाभिस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं विश्वपालस्ततोऽभवत् ।। १७ ।।

पितुस्तुल्यं कृतं राज्यं स्वर्णनाभिस्तु तत्सुतः ।।

पितुस्तुल्यं कृतं राज्यं पुष्पसेनस्तु तत्सुतः ।। ।। १८ ।।

पितुस्तुल्यं कृतं राज्यं ध्रुवसंधिस्तु तत्सुतः ।।

पितुस्तुल्यं कृतं राज्यमपवर्मा तु तत्सुतः ।। १९ ।।

पितुस्तुल्यं कृतं राज्यं शीघ्रगन्ता तु तत्सुतः ।।

पितुस्तुल्यं कृतं राज्यं मरुपालस्तु तत्सुतः ।। 3.1.2.२० ।।

पितुस्तुल्यं कृत राज्यं प्रसूवश्रुत उच्यते ।।

पितुस्तुज्यं कृतं राज्यं सुसंधिस्तनयोऽभवत् ।।

त्रेतापादः समाप्तोऽयं प्रथमो भारतेंतरे ।। २१ ।।

उदयादुदयं यावद्राज्ञा तत्र सुसंधिना ।।

पितुस्तुल्यं कृतं राज्यं मामर्बस्तनयस्ततः ।। २२ ।।

पितुस्तुल्यं कृतं राज्यं महाऽश्वस्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं बृहद्बालः सुतस्ततः ।। २३ ।।

पितुस्तुल्यं कृतं राज्यं बृहदैशान एव तत् ।।

पितुस्तुल्यं कृतं राज्यमुरुक्षेपस्ततोऽभवत्।।२४।।

पितुस्तुल्यं कृतं राज्यं वत्सपालस्तु तत्सुतः।।

पितुस्तुल्यं कृतं राज्य वत्सव्यूहस्ततोऽभवत् ।। २५ ।।

पितुस्तुल्यं कृतं राज्यं प्रतिव्योमा ततो नृपः ।।

पितुस्तुल्यं कृतं राज्यं सुतो देवकरस्ततः ।। २६ ।।

पितुस्तुल्यं कृतं राज्यं सहदेवस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं बृहदश्वस्ततो नृपः ।। २७ ।।

पितुस्तुल्यं कृतं राज्यं भानुरत्नस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं सुप्रतीकस्ततोऽभवत् ।। २८ ।।

पितुस्तुल्यं कृतं राज्यं मरुदेवस्सुतस्ततः ।।

पितुस्तुल्यं कृतं राज्यं सुनक्षत्रस्ततोऽभवत् ।। २९ ।।

पितुस्तुल्यं कृतं राज्यं सुतः केशीनरस्ततः ।।

पितुस्तुल्यं कृतं राज्यमन्तरिक्षस्ततो नृपः ।। 3.1.2.३० ।।

पितुस्तुल्यं कृतं राज्यं सुवर्णांगो नृपोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं तस्य पुत्रो ह्यमित्रजित् ।। ३१ ।।

पितुस्तुल्यं कृतं राज्यं बृहद्राजस्ततोऽभवत् ।। ३२ ।।

पितुस्तुल्यं कृतं राज्यं धर्मराजस्ततो नृपः ।।

पितुस्तुल्यं कृतं राज्यं तस्माज्जातः कृतञ्जयः ।। ३३ ।।

पितुस्तुल्यं कृतं राज्यं तस्माज्जातो रणञ्जयः ।।

पितुस्तुल्यं कृतं राज्यं सञ्जयस्तत्सुतः स्मृतः ।। ३४ ।।

पितुस्तुल्यं कृतं राज्यं तत्पुत्रः शाक्यवर्धनः ।।

पितुस्तुल्यं कृतं राज्यं क्रोधदानस्तु तत्सुतः ।। ।। ३५ ।।

पितुस्तुल्यं कृतं राज्यं तस्मादतुलविक्रमः ।।

पितुस्तुल्यं कृतं राज्यं तस्माज्जातः प्रसेनजित् ।। ३६ ।।

पितुस्तल्यं कृतं राज्यं तत्पुत्रः शूद्रकः स्मृतः ।।

पितुस्तुल्यं कृतं राज्यं सुरथस्तत्सुतोऽभवत् ।। ३७ ।।

पितुरर्द्धं कृतं राज्यं सर्वे तु रघुवंशजाः ।।

पञ्चषष्टिमिता भूपा देवीपूजनतत्पराः ।। ३८ ।।

हिंसायज्ञपराः सर्वे स्वर्गलोकमितो गताः ।।

बुद्धा जाताश्च ये पुत्रास्ते सर्वै वर्णसंकराः ।। ३९ ।।

त्रेतातृतीयचरणप्रारम्भेन नवतां गताः ।।

इन्द्रेण प्रेषितो भूमौ चन्द्रमा रोहिणीपतिः ।। 3.1.2.४० ।।

प्रयागनगरे रम्ये भूमिराजयमचीकरत्।।

विष्णुभक्तश्चन्द्रमाश्च शिवपूजनतत्परः ।। ४१ ।।

मायादेवीप्रसन्नार्थे शतं यज्ञमचीकरत् ।।

अष्टादशसहस्राणि राज्यं कृत्वा दिवं गतः ।।४२ ।।

तस्य पुत्रो बुधो नाम मेरुदेवस्य वै सुतः ।।

इलामुद्वाह्य धर्मेण तस्माज्जातः पुरूरवाः ।।४३।।

चतुर्दशसहस्राणि भूमिराज्यमचीकरत्।।

उर्वशीं सोऽपि स्वर्वेश्यां समयेनैव भोग्यवान् ।। ४४ ।।

आयुर्नाम सुतो जातो धर्मात्मा विष्णुतत्परः ।।

षट्त्रिंशच्च सहस्राणि राज्यं कृत्वा पुरूरवाः ।। ४५ ।।

गंधर्वलोकं संप्राप्य मोदते दिवि देववत् ।।

पितुस्तुल्यं कृतं राज्यमायुषो नहुषस्सुतः ।। ४६ ।।

पितुस्तुल्यं कृतं राज्यं ततः शक्रत्वमागतः ।।

त्रिलोकीं स्ववशं चक्रे वर्षमेकसहस्रकम् ।। ४७।।

मुनेर्दुवाससः शापान्नृपोऽजगरतां गतः ।।

पञ्च पुत्रा ययातेश्च त्रयो म्लेच्छत्वमागताः ।। ४८ ।।

द्वौ तथार्यत्वमापन्नौ यदुज्येष्ठः पुरुर्लघुः ।।

तपोबलप्रभावेण राज्यं लक्षाब्दसंमितम् ।। ४९ ।।

कृत्वा विष्णुप्रसादेन ततो वैकुण्ठमागतः ।।

यदोः पुत्रः स्मृतः क्रोष्टा राज्यं षष्टिसहस्रकम् ।। 3.1.2.५० ।।

वृजिनघ्नस्सुतस्तस्माद्राज्यं विंशत्सहस्रकम् ।।

तस्मात्स्वाहार्चनः पुत्रः कृतं राज्यं पितुस्समम् ।। ५१ ।।

तस्माच्चित्ररथः पुत्रः कृतं राज्यं पितुस्समम् ।।

अरविंदस्सुतस्तस्मात्कृतं राज्यं पितुः समम् ।। ५२ ।।

अथ श्रवास्ततो जातस्तेजस्वी विष्णुतत्परः ।।

पितुरर्थं कृतं राज्यं तत्पुत्रस्तामसः स्मृतः ।। ५३ ।।

पितुस्तुल्यं कृतं राज्यं तस्मादुशनस्सुतः ।।

पितुस्तुल्यं कृतं राज्यं शीतांशुकनृपोऽभवत् ।। ।। ५४ ।।

पितुस्तुल्यं कृतं राज्यं कमलांशुस्ततोऽभवत् ।। ५५ ।।

पितुस्तुल्यं कृतं राज्यं पारावतसुतस्ततः ।।

पितुस्तुल्यं कृतं राज्यं जामघस्त त्सुतोऽभवत् ।। ५६ ।।

पितुस्तुल्यं कृतं राज्यं विदर्भस्तत्सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं क्राथो नाम सुतस्ततः ।। ५७ ।।

पितुस्तुल्यं कृतं राज्यं कुन्तिभोजस्तु तत्सुतः ।।

पुरुर्देत्यसुतापुत्रः पाताले वृषपर्वणः ।। ५८ ।।

उषित्वा नगरे तस्मिन्मायाविद्यस्ततोऽभवत् ।।

प्रयागस्य प्रतिष्ठाने पुरे राज्यमथाकरोत् ।। ५९ ।।

दशवर्षसहस्राणि राज्यं कृत्वा दिवं गतः ।।

देवीभक्तः स नृपतिस्तत्पुत्रो जनमेजयः ।। 3.1.2.६० ।।

पितुस्तुल्यं कृतं राज्यं प्रचिन्वांस्तत्सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं प्रवीरस्तनयोऽभवत् ।। ६१ ।।

पितुस्तुल्यं कृतं राज्यं नभस्यस्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं भवदस्तत्सुतस्स्मृतः ।। ६२ ।।

पितुस्तुल्यं कृतं राज्यं सुद्युम्नस्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं पुत्रो बाहुगरः स्मृतः ।। ।। ६३ ।।

पितुस्तुल्यं कृतं राज्यं संयातिस्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं धनयातिस्ततोऽभवत् ।। ६४ ।।

पितुस्तुल्यं कृतं राज्यमैन्द्राश्वस्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं तस्माद्रंतिनरः सुतः ।। ६५ ।।

पितुस्तुल्यं कृतं राज्यं तत्पुत्रः सुतपाः स्मृतः।।

पितुस्तुस्यं कृतं राज्यं संवरणस्तनयस्ततः ।। ६६ ।।

हिमालयगिरौ प्राप्ते तपः कर्तुं मनो दधत् ।।

शतवर्षं ततः सूर्यस्तपतीं नाम कन्यकाम् ।। ६७ ।।

संवरणाय ददौ तुष्टो रविलोकं नृपो गतः ।।

ततो मायाप्रभावेन युगं प्रलयमागतम् ।। ६८ ।।

चत्वारः सागरा वृद्धा भारतं क्षयतां गतम् ।।

द्विवर्षे सागरे भूमिरुषित्वा भूधरैस्सह ।। ६९ ।।

महावायुप्रभावेन सागराः शुष्कतां गताः ।।

अगस्त्यतेजसा भूमिः स्थली भूत्वा प्रदृश्यते ।। 3.1.2.७० ।।

पञ्चवर्षांतरे भूमिर्वृक्षदूर्वादिसंयुता ।।

सूर्याज्ञया च संवर्णस्तपत्या मुनिना सह ।। ७१ ।।

वशिष्ठेन त्रिवर्णैश्च मुख्यैः सार्द्धं समागतः ।। ७२ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये त्रेतायुगभूपाख्यानं नाम द्वितीयोध्यायः ।। २ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः १ — Adhyāya 3

द्वापरनृपोपाख्यानवर्णनम्

।। शौनक उवाच ।। ।।

संवर्णश्च महीपालः कस्मिन्काले समागतः ।।

लोमहर्षण मे ब्रूहि द्वापरस्य नृपांस्तथा ।। १ ।।

।। सूत उवाच ।। ।।

भाद्रस्य कृष्णपक्षे तु त्रयोदश्यां भृगौ दिने ।।

संवर्णो मुनिभिः सार्द्धं प्रतिष्ठाने समागतः ।। २ ।।

प्रतिष्ठानं कृतं रम्यं पञ्चयोजनमायतम् ।।

अर्द्धक्रोशोन्नतं हर्म्यं रचितं विश्वकर्मणा ।। ३ ।।।

बुद्धिवंशे प्रसेनस्य सक्ताया भूपतिः कृतः ।।

यदुवंशे सात्वतश्च मधुराभूपतिः कृतः ।। ४ ।।

म्लेच्छवंशे श्मश्रुपालो मरुदेशस्य भूपतिः ।।

क्रमेण वर्द्धिता भूपाः प्रजाभिः सहिता भुवि ।। ५ ।।

दशवर्षसहस्राणि संवर्णो भूपतिः स्मृतः ।।

तस्यात्मजोऽयमर्चाज्ञः कृतं राज्यं पितुस्समम् ।। ६ ।।

तस्य पुत्रः सूरिजापी पितुरर्द्धं च राज्यकृत् ।।

सूर्ययज्ञस्तस्य पुत्रः सौरयज्ञपरायणः ।। ७ ।।

शतहीनं कृतं राज्यं तस्मादातिथ्यवर्धनः ।।

शतहीनं कृतं राज्यं द्वादशात्मा तु तत्सुतः ।। ८ ।।

शतहीनं कृत राज्यं तस्माज्जातो दिवाकरः ।।

शतहीनं कृतं राज्यं तस्माज्जातः प्रभाकरः ।। ९ ।।।

शतहीनं कृतं राज्यं भास्वदात्मा च तत्सुतः ।।

शतहीनं कृतं राज्यं विवस्वज्ज्ञस्तदात्मजः ।। 3.1.3.१० ।।

शतहीनं कृतं राज्यं हरिदश्वार्चनस्ततः ।।

शतहीनं कृतं राज्यं तस्माद्वैकर्तनः सुतः ।। ११ ।।

शतहीनं कृतं राज्यं स्तस्मादर्केष्टिमान्सुतः ।।

शतहीनं कृतं राज्यं तस्मान्मार्तंडवत्सलः ।। ।। १२ ।।

शतहीनं कृतं राज्यं मिहिरार्थस्तु तत्सुतः ।।

शतहीनं कृतं राज्यं तस्मादरुणपोषणः ।। १३ ।।

शतहीनं कृतं राज्यं तस्माद्द्युमणिवत्सलः ।।

शतहीनं कृतं राज्यं तस्मात्तरणियज्ञकः ।। १४ ।।

शतहीनं कृतं राज्यं तस्मान्मैत्रेष्टिवर्धनः ।।

शतहीनं कृतं राज्यं चित्रभानूर्जकस्ततः ।। ।।' १५ ।।

शतहीनं कृतं राज्यं तस्माद्वैरोचनः स्मृतः ।।

शतहीनं कृतं राज्यं हंसन्यायी तु तत्सुतः ।। १६ ।।

पितुस्तुल्यं कृतं राज्यं तस्माद्वेदप्रवर्धनः ।।

शतहीनं कृतं राज्यं तस्मात्सावित्र उच्यते ।। १७ ।।

शतहीनं कृतं राज्यं धनपालस्ततोऽभवत् ।।

शतहीनं कृत राज्यं म्लेच्छहन्ता सुतः स्मृतः ।। १८ ।।

शतहीनं कृतं राज्यं तस्मादानंदवर्द्धनः ।।

शतहीनं कृतं राज्यं धर्मपालसुतस्ततः ।। १९ ।।

शतहीनं कृतं राज्यं ब्रह्मभक्त सुतस्ततः ।।

पितुस्तुल्यं कृतं राज्यं तस्माद्ब्रह्मेष्टिवर्द्धनः।।3.1.3.२०।।

पितुस्तुल्यं कृतं राज्यं तस्मादात्मप्रपूजकः।।

पितुस्तुल्यं कृतं राज्यं परमेष्ठी सुतस्ततः।।२१।।

पितुस्तुल्यं कृतं राज्यं तस्माद्धैरण्यवर्द्धनः।।

शतहीनं कृतं राज्यं धातृयाजी तु तत्सुतः।।२२।।

पितुस्तुल्यं कृतं राज्यं तद्विधातृप्रपूजकः ।।

पितुस्तुल्यं कृतं राज्यं तस्माद्वै द्रुहिणः क्रतुः ।। २३ ।।

पितुस्तुल्यं कृतं राज्यं तस्माद्वैरञ्च्य उच्यते।।

शतहीनं कृतं राज्यं तत्पुत्रः कमलासनः ।। २४ ।।

पितुस्तुल्यं कृतं राज्यं शमवर्ती तु तत्सुतः ।।

पितुस्तुल्यं कृतं राज्य श्राद्धदेवस्तु तत्सुतः ।।२५।।

पितुस्तुल्यं कृतं राज्यं तस्माद्वै पितृवर्द्धनः ।।

पितुस्तुल्यं कृतं राज्यं सोमदत्तस्तु तत्सुतः ।। २६ ।।

पितुस्तुल्यं कृतं राज्यं सौमदत्तिस्तदात्मजः ।।

पितुस्तुल्यं कृतं राज्यं तस्माद्वै सोमवर्द्धनः ।। २७ ।।

पितुस्तुल्यं कृतं राज्यमवतंसः सुतस्ततः ।।

पितुस्तुल्यं कृतं राज्यं प्रतंसस्तनयस्ततः ।। २८ ।।

पितुस्तुल्यं कृतं राज्यं परातंसस्तदात्मजः ।।

पितुस्तुल्यं कृतं राज्यमयतंसस्ततोऽभवत् ।। २९ ।।

पितुस्तुल्यं कृत राज्यं समातंसस्तु तत्सुतः ।।

पितुस्तुल्यं कृतं राज्यमनुतंसस्तदात्मजः ।। 3.1.3.३० ।।

पितुस्तुल्यं कृतं राज्यमधितंसस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यमभितंसस्तदात्मजः ।।। ।। ३१ ।।

पितुस्तुल्यं कृतं राज्यं समुत्तंसस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं तंसोनाम सुतोऽभवत् ।। ३२ ।।

पितुस्तुल्यं कृतं राज्यं दुष्यंतस्तनयस्ततः ।।

शकुंतलायां तस्माच्च भरतो नाम भूपतिः ।। ३३ ।।

पितुस्तुल्यं कृतं राज्यं दुष्यंतः स्वर्गतिं गतः ।।

भरतोनाम तत्पुत्रो देवपूजन तत्परः ।। ३४ ।।

महामायाप्रभावेन षट्त्रिंशद्वर्षजीवनम् ।।

षट्त्रिंशाब्दसहस्राणि नृपायुर्वर्द्धितं तथा ।। ३५ ।।

तस्य नाम्ना स्मृतः खंडो भारतो नाम विश्रुतः ।।

तेन भूमेर्विभागश्च कृतं राज्यं पृथक् चिरम् ।। ३६ ।।

दिव्यं वर्षशतं राज्यं तस्माज्जातो महाबलः ।।

दिव्यं वर्षशतं राज्यं भरद्वाजस्ततोऽभवत् ।। ३७ ।।

दिव्यं वर्षशतं राज्यं तस्माद्भवनमन्युमान् ।।

अष्टादशसहस्राणि समा राज्यं प्रकीर्तितम् ।। ३८ ।।

बृहत्क्षेत्रस्ततो ह्यासीत्पितुस्तुल्यं कृतं पदम् ।।

सुहोत्रस्तनयस्तस्य पितुस्तुल्यं कृतं पदम् ।। ३९ ।।

वीतिहोत्रस्तस्य सुतो राज्यं दशसहस्रकम् ।।

यज्ञहोत्रस्ततोऽप्यासीत्पितुस्तुल्यं कृतं पदम् ।। 3.1.3.४० ।।

शक्रहोत्रस्ततो जातः पितुस्तुल्यं कृतं पदम् ।।

प्रसन्नो भगवानिंद्रस्तं नृपं स्वर्गमाप्तवान् ।। ४१ ।।

तदायोध्यापतिः श्रीमान्प्रतापेंद्रो महाबलः ।।

भारतं वर्षमदधद्वर्षं दशसहस्रकम् ।। ४२ ।।

मंडलीकस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।

विजयेंद्रस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ४३ ।।

धनुर्दीप्तस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।

इंद्राज्ञया शक्रहोत्रो घृताच्या सह भूतले ।। ४४ ।।।

प्राप्तावान्सधनुर्दीप्तं जित्वा राज्यमचीकरत् ।।

हस्तीनाम सुतो जात ऐरावतसुतं गजम् ।। ४५ ।।

आरुह्य पश्चिमे देशे हस्तिनानगरी कृता ।।

दशयोजनविस्तीर्णा स्वर्गंगायास्तटे शुभा ।। ४६ ।।

राज्यं दशसहस्रं च तत्र वासं चकार सः ।।

तत्पुत्रस्त्वजमीढाख्यः पितुस्तुल्यं कृतं पदम् ।। ४७ ।।

तस्माजातो रक्षपालः पितुस्तुल्यं कृतं पदम् ।।

सुशम्यर्णस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ४८ ।।

तस्य पुत्रः कुरुर्नाम पितुरर्द्धं कृतं पदम् ।।

इंद्रस्य वरदानेन सदेहः स्वर्गमागतः ।। ४९ ।।

तदा सात्त्वतवंशेऽस्मिन्वृष्णिर्नाम महाबलः ।।

मथुरायां स्थितो राज्यं सर्वं स्ववशमाप्तवान् ।। 3.1.3.५० ।।

भगवतो वरदानेन हरेरद्भुतकर्मणः ।।

पंचवर्षसहस्रं च सर्वं राज्यं वशीकृतम् ।। ५१ ।।

निरावृत्तिस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।

दशारी तस्य तनयः पितुस्तुल्यं कृतं पदम् ।। ५२ ।।

वियामुनस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।

जीमूतस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।। ५३ ।।

विकृतिस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।।

तस्माज्जातो भीमरथः पितुस्तुल्यं कृतं पदम् ।। ५४ ।।

तस्माज्जातो नवरथः पितुस्तुल्यं कृतं पदम् ।।

तस्माज्जातो दशरथः पितुस्तुल्यं कृतं पदम् ।। ५५ ।।

तस्माज्जातश्च शकुनिः पितुस्तुल्यं कृतं पदम् ।।

तस्माज्जातः कुशुंभश्च पितुस्तुल्यं कृतं पदम् ।। ५६ ।।

तस्माज्जातो देवरथः पितुस्तुल्यं कृतं पदम् ।।

देवक्षेत्रस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ५७ ।।

तस्य पुत्रो मधुर्नाम पितुस्तुल्यं कृतं पदम् ।।

ततो नवरथः पुत्रः पितुस्तुल्यं कृतं पदम् ।। ५८ ।।

कुरुवत्सस्त स्य सुतः पितुस्तुल्यं कृतं पदम् ।।

तस्मादनुरथः पुत्रः पितुस्तुल्यं कृतं पदम् ।। ५९ ।।

पुरुहोत्रः सुतस्तस्य पितुस्तुल्यं कृतं पदम् ।।

विचित्राङ्गस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।3.1.3.६०।।

तस्मात्सात्वतवान्पुत्रः पितुस्तुल्यं कृतं पदम् ।।

भजमानस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६१ ।।

विदूरथस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।

सुरभक्तस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६२ ।।

तस्माच्च सुमनाः पुत्रः पितुस्तुल्यं कृतं पदम्।।

ततिक्षेत्रस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६३ ।।

स्वायंभुवस्तस्य सुतः पितुस्तुल्यं कृंतं पदम् ।।

हरिदीपक एवासौ तस्य राज्यं पितुस्स मम ।। ६४ ।।

देवमेधास्सुतस्तस्य पितुस्तुल्यं कृतं पदम् ।।

सुरपालस्तदा जातः पितुस्तुल्यं कृतं पदम् ।। ६५ ।।

शक्राज्ञया कुरुश्चैव द्वापर त्रितये पदे ।।

व्यतीते च सुकेश्यास्स स्वर्वेश्यायाः पतिः प्रभुः ।। ६६ ।।

आगतो भारते खंडे कुरुक्षेत्रं तदा कृतम् ।।

विंशद्योजनविस्तीर्णं पुण्य क्षेत्रं स्मृतं बुधैः ।। ६७ ।।

द्वादशाब्दसहस्रं च कुरुणा राज्यसात्कृतम् ।।

तस्माज्जह्नुस्सुतो जातः पितुस्तुल्यं कृतं पदम् ।। ६८ ।।

तस्माच्च सुरथो जातः पितुस्तुल्यं कृतं पदम् ।।

विदूरथस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६९।।

सार्वभौमस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।

जयसेनस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। 3.1.3.७० ।।

तस्मादर्णव एवासौ पितुस्तुल्यं कृतं पदम् ।।

चतुस्सागरगामी च पितुस्तुल्यं कृतं पदम् ।। ७१ ।।

अयुतायुस्तस्य सुतो राज्यं दशसहस्रकम्।।

अक्रोधनस्तस्य सुतः पितुस्तुल्यं कृतं पदम्।।७२।।

तस्मादृक्षस्सुतो जातः पितुस्तुल्यं कृतं पदम्।।

भीमसेनस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ७३ ।।

दिलीपस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।।

प्रतीपस्तस्य तनयो राज्यं पंचसहस्रकम् ।। ।। ७४ ।।

शंतनुस्तस्य पुत्रश्च राज्यमेकसहस्रकम् ।।

विचित्रवीर्यस्तत्पुत्रो राज्यं वै द्विशतं समाः ।। ७५ ।।

पांडुश्च तनयो यस्मिन्राज्यं पंचशतं कृतम् ।।

युधिष्ठिरस्तस्य सुतो राज्यं पंचाशदब्दकम् ।। ७६ ।।

सुयोधनेन षष्ट्यब्दं कृतं राज्यं ततः परम् ।।

युधिष्ठिरेण निधनं तस्य प्राप्तं कुरुस्थले ।। ७७ ।।

पूर्वं देवासुरे युद्धे ये दैत्याश्च सुरैर्हताः ।।

ते सर्वे शंतनो राज्ये जन्मवंतः प्रतस्थिरे ।। ७८ ।।

लक्षमक्षौहिणी तेषां तद्भारेण वसुन्धरा ।।

शक्रस्य शरणं प्राप्तावतारं च ततो हरेः ।। ७९ ।।

स शौरेर्वसुदेवस्य देवक्यां जन्मनाविशत् ।।

एवं कृष्णो महावीर्यो रोहिणीनिलयं गतः ।। 3.1.3.८० ।।

पंचत्रिंशदुत्तरं च शतं वर्षं च भूतले ।।

उषित्वा कृष्णचन्द्रश्च ततो गोलोकमागतः ।। ८१ ।।

चतुर्थचरणान्ते च हरेर्जन्म स्मृतं बुधैः ।।

हस्तिनापुरमध्यस्याभिमन्योस्तनयस्ततः ।। ८२ ।।

राज्यमेकसहस्रं च ततोऽभूज्जनमेजयः ।।

त्रिसहस्रं कृतं राज्यं शतानीकस्ततोऽभवत् ।। ८३ ।।

पितुस्तुल्यं कृतं राज्यं यज्ञदत्तस्ततः सुतः ।।

राज्यं पंचसहस्रं च निश्चक्रस्तनयोऽभवत् ।। ८४ ।।

सहस्रमेकं राज्यं तदुष्ट्रपालस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं तस्माच्चित्ररथस्सुतः ।। ८५ ।।

पितुस्तुल्यं कृतं राज्यं धृतिमांस्तनयस्ततः ।।

पितुस्तुल्यं कृतं राज्यं सुषेणस्तनयोऽभवत् ।। ८६ ।।

पितुस्तुल्यं कृतं राज्यं सुनीथस्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं मखपालः सुतोऽभवत् ।। ८७ ।।

पितुस्तुल्यं कृतं राज्यं न चक्षुस्तनयस्ततः ।।

पितुस्तुल्यं कृतं राज्यं सुखवंतस्ततोऽभवत् ।। ८८ ।।

पितुस्तुल्यं कृतं राज्यं तस्मात्पारिप्लवस्सुतः ।।

पितुस्तुल्यं कृतं राज्यं सुनयस्तत्सुतोऽभवत् ।। ८९ ।।

पितुस्तुल्यं कृतं राज्यं मेधावी तत्सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं तस्माज्जातो नृपंजयः ।। 3.1.3.९० ।।

पितुस्तुल्यं कृतं राज्यं मृदुस्तत्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं तिग्मज्योतिस्तु तत्सुतः ।। ९१ ।।

पितुस्तुल्यं कृतं राज्यं तस्माज्जातो बृहद्रथः ।।

पितुस्तुल्यं कृतं राज्यं वसुदानस्ततोऽभवत् ।।९२।।

पितुस्तुल्यं कृतं राज्यं शतानीकस्ततोऽभवत्।।

पितुस्तुल्यं कृतं राज्यं तस्मादुद्यान उच्यते ।। ९३ ।।

पितुस्तुल्यं कृतं राज्यं तस्माज्जातो ह्यहीनरः ।।

पितुस्तुल्यं कृतं राज्यं निर्मित्रस्तनयोऽभवत् ।। ९४ ।।

पितुस्तुल्यं कृतं राज्यं क्षेमकस्तत्सुतोऽभवत् ।।

राज्यं त्यक्त्वा स मेधावी कलापग्राममाश्रितः ।। ९५ ।।

म्लेच्छैश्च मरणं प्राप्तो यमलोकमतो गतः ।।

नारदस्योपदेशेन प्रद्योतस्तनयस्ततः ।। ९६ ।।

म्लेच्छयज्ञः कृतस्तेन म्लेच्छा हननमागताः ।। ।। ९७ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये द्वापरनृपोपाख्याने तृतीयोऽध्यायः ।। ३ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः १ — Adhyāya 4

द्वापरयुगभूपाख्यानवर्णनम्

।। शौनक उवाच ।। ।।

कथं यज्ञः कृतस्तेन प्रद्योतेन विचक्षण ।।

सर्वं कथय मे तात त्रिकालज्ञ महामुने ।। १ ।।

।। सूत उवाच ।। ।।

एकदा हस्तिनगरे प्रद्योतः क्षेमकात्मजः ।।

आस्थितः स कथामध्ये नारदोऽभ्यागमत्तदा ।। २ ।।

तं दृष्ट्वा हर्षितो राजा पूजयामास धर्मवित् ।।

सुखोपविष्टः स मुनिः प्रद्योतं नृपमब्रवीत् ।। ३ ।।

म्लेच्छैर्हतस्तव पिता यमलोकमतो गतः ।।

म्लेच्छयज्ञप्रभावेण स्वर्गतिर्भविता हि सः ।।४।।

तच्छ्रुत्वा क्रोधताम्राक्षो ब्राह्मणान्वेदवित्तमान् ।।

आहूय स कुरुक्षेत्रे म्लेच्छयज्ञं समारभत् ।। ५ ।।

यज्ञकुंडं चतुष्कोणं योजनान्येव षोडश ।।

रचित्वा देवता ध्यात्वा म्लेच्छांश्च जुहुयान्नृपः ।। ६ ।।

हारहूणान्बर्बरांश्च गुरुंडांश्च शकान्खसान् ।।

यवनान्पल्लवांश्चैव रोमजान्खरसंभवान् ।। ७ ।।

द्वीप स्थितान्कामरूश्च चीनान्सागरमध्यगान्।।

प्राहूय भस्मसात्कुर्वन्वेदमंत्रप्रभावतः ।। ८ ।।

ब्राह्मणान्दक्षिणां दत्त्वा अभिषेकमकारयत् ।।

क्षेमको नाम नृपतिः स्वर्गलोकं ततो गतः ।। ९ ।।

म्लेच्छहंता नाम तस्य विख्यातं भुवि सर्वतः ।।

राज्यं दशसहस्राब्दं कृतं तेन महात्मना ।। 3.1.4.१० ।।

स्वर्गलोकं गतो राजा तत्पुत्रो वेदवान्स्मृतः।।

द्विसहस्रं कृतं राज्यं तदा म्लेच्छः कलिः स्वयम् ।।

नारायणं पूजयित्वा दिव्यां स्तुतिमथाकरोत् ।। ।। ११ ।।

।। कलिरुवाच ।। ।।

नमोऽनंताय महते सर्वकालप्रवर्तिने ।। १२ ।।

चतुर्युगकृते तुभ्यं वासुदेवाय साक्षिणे ।।

दशावताराय हरे नमस्तुभ्यं नमोनमः ।।१३।।

नमः शक्त्यवताराय रामकृष्णाय ते नमः ।।

नमो मत्स्यावताराय महते गौरवासिने ।। १४ ।।

नमो भक्तावताराय कल्पक्षेत्रनिवासिने ।।

राज्ञा वेदवता नाथ मम स्थानं विनाशितम् ।।

मम प्रियस्य म्लेच्छस्य तत्पित्रा वंशनाशनम् ।। १५ ।।

।। सूत उवाच ।। ।।

इति स्तुतस्तु कलिना म्लेच्छस्य सह भार्यया ।।१६।।

प्राप्तवान्स हरिः साक्षाद्भगवान्भक्तवत्सलः ।।

कलिं प्रोवाच स हरिर्युष्मदर्थे युगोत्तमम् ।। १७ ।।

बहुरूपमहं कृत्वा तवेच्छां पूरयाम्यहम् ।।

आदमो नाम पुरुषः पत्नी हव्यवती तथा ।। १८ ।।

विष्णुकर्दमतो जातौ .म्लेच्छवंशप्रवर्धनौ ।।

हरिस्त्वन्तर्दधे तत्र कलिरानंदसंकुलः ।। १९ ।।

गिरिं नीलाचलं प्राप्य किंचित्कालमवासयत् ।।

पुत्रो वेदवतो जातः सुनंदो नाम भूपतिः ।। 3.1.4.२० ।।

पितुस्तुल्यं कृतं राज्यमनपत्यो मृतिं गतः ।।

आर्यदेशाः क्षीणवंतो म्लेच्छवंशा बलान्विताः ।। २१ ।।

भविष्यंति भृगुश्रेष्ठ तस्माच्च तुहिनाचलम् ।।

गत्वा विष्णुं समाराध्य गमिष्यामो हरेः पदम् ।। २२ ।।

इति श्रुत्वा द्विजाः सर्वे नैमिषारण्यवासिनः ।।

अष्टाशीतिसहस्राणि गतास्ते तुहिनाचलम् ।। २३ ।। ।।

विशालायां समासाद्य विष्णुगाथां प्रचक्षिरे ।।

इति व्यासेन कथितं वाक्यं कलिविशारदम् ।।

श्रोतारं स मनः कृत्वा भविष्यं समुदीरयत् ।। २४ ।।

।। व्यास उवाच ।। ।।

मनः शृणु ततो गाथां भावी सूतेन वर्णिताम् ।।

कलेर्युगस्य पूर्णां तां तच्छ्रुत्वा तृप्तिमावह ।। २५ ।। ।।

।। सूत उवाच ।। ।।

षोडशाब्दसहस्रे च शेषे तद्द्वापरे युगे ।।

बहुकीर्तिमती भूमिरार्यदेशस्य कीर्तिता ।।२६।।

क्वचिद्विप्राः स्मृता भूपाः क्वचिद्राजन्यवंशजाः ।।

क्वचिद्वैश्याः क्वचिच्छूद्राः कुत्रचिद्वर्णसंकराः।।२७।।

द्विशताष्टसहस्रे द्वे शेषे तु द्वापरे युगे ।।

म्लेच्छदेशस्य याभूमिर्भविता कीर्तिमालिनी ।। २८ ।।

इंद्रियाणि दमित्वा यो ह्यात्मध्यानपरायणः ।।

तस्मादादमनामासौ पत्नी हव्यवती स्मृता ।। २९ ।।

प्रदाननगरस्यैव पूर्वभागे महावनम् ।।

ईश्वरेण कृतं रम्यं चतुःक्रोशायतं स्मृतम् ।। 3.1.4.३० ।।

पापवृक्षतले गत्वा पत्नीदर्शनतत्परः ।।

कलिस्तत्रागतस्तूर्णं सर्परूपं हि तत्कृतम्।। ।। ३१ ।।

वंचिता तेन धूर्तेन विष्ण्वाज्ञा भंगतां गता ।।

खादित्वा तत्फलं रम्यं लोकमार्गप्रदं पतिः ।। ३२ ।।

उदुंबरस्य पत्रैश्च ताभ्यां वाय्वशनं कृतम् ।।

सुताः पुत्रास्ततो जाताः सर्वे म्लेच्छा बभूविरे ।। ३३ ।।

त्रिंशोत्तरं नवशतं तस्यायुः परिकीर्तितम् ।।

फलानां हवनं कुर्वन्पत्न्या सह दिवं गतः ।। ३४ ।।

तस्माज्जातः सुतः श्रेष्ठः श्वेतनामेति विश्रुतः ।।

द्वादशोत्तरवर्षं च तस्यायुः परिकीर्तितम् ।। ३५ ।।

अनुहस्तस्य तनयः शतहीनं कृतं पदम् ।।

कीनाशस्तस्य तनयः पितामहसमं पदम् ।। ३६ ।।

महल्ललस्तस्य सुतः पंचहीनं शतं नव ।।

तेन राज्यं कृतं तत्र तस्मान्मानगरं स्मृतम् ।। ३७ ।।

तस्माच्च विरदो जातो राज्यं षष्ट्युत्तरं समाः ।।

ज्ञेयं नवशतं तस्य स्वनाम्ना नगरं कृतम् ।। ३८ ।।

हनूकस्तस्य तनयो विष्णु भक्तिपरायणः ।।

फलानां हवनं कुर्वंस्तत्त्वं ह्यसि जयन्सदा।।३९।।

त्रिशतं पंचषष्टिश्च राज्यं वर्षाणि तत्स्मृतम् ।।

सदेहः स्वर्गमायातो म्लेच्छधर्मपरायणः।।3.1.4.४०।।

आचारश्च विवेकश्च द्विजता देवपूजनम्।।

कृतान्येतानि तेनैव तस्मान्म्लेच्छः स्मृतो बुधैः ।।४१।।

विष्णुभक्त्यग्निपूजा च ह्यहिंसा च तपो दमः ।।

धर्माण्येतानि मुनिभिर्म्लेच्छानां हि स्मृतानि वै ।। ४२ ।।

मतोच्छिलस्तस्य सुतो हनुकस्यैव भार्गव।।

राज्यं नवशतं तस्य सप्ततिश्च स्मृताः समाः ।।४३।।

लोमकस्तस्य तनयो राज्यं सप्तशतं समाः ।।

सप्तसप्ततिरेवास्य तत्पश्चात्स्वर्गतिं गतः ।।४४।।

तस्माज्जातः सुतो न्यूहो निर्गतस्तूह एव सः ।।

तस्मान्न्यूहः स्मृतः प्राज्ञै राज्यं पंचशतं कृतम् ।। ४५ ।।

सीमः शमश्च भावश्च त्रयः पुत्रा बभूविरे ।।

न्यूहः स्मृतो विष्णुभक्तस्सोऽहं ध्यानपरायणः ।। ४६ ।।

एकदा भगवान्विष्णुस्तत्स्वप्ने तु समागतः ।। ४७ ।।

वत्स न्यूह शृणुष्वेदं प्रलयः सप्तमेऽहनि ।।

भविता त्वं जनैस्सार्धं नावमारुह्य सत्वरम् ।। ४८ ।।

जीवनं कुरु भक्तेषु सर्वश्रेष्ठो भविष्यसि ।।

तथेति मत्वा स मुनिर्नावं कृत्वा सुपुष्टिताम् ।। ४९ ।।

हस्तत्रिशतलम्बां च पंचाशद्धस्तविस्तृताम् ।।

त्रिंशद्धस्तोच्छ्रितां रम्यां सर्वजीवसमन्विताम् ।। 3.1.4.५० ।।

आरुह्य स्वकुलैस्सार्द्धं विष्णुध्यानपरोऽभवत् ।।

सांवर्तको मेघगणो महेंद्रेण समन्वितः ।। ५१ ।।

चत्वारिंशद्दिनान्येव महावृष्टिमकारयत् ।।

सर्वं तु भारतं वर्षं जलैः प्लाव्य तु सिंधवः ।। ५२ ।।

चत्वारो मिलिताः सर्वे विशालायां न चागताः ।।

अष्टाशीतिसहस्राणि मुनयो ब्रह्मवादिनः ।। ५३ ।।

न्यूहश्च स्वकुलैस्सार्धं शेषास्सर्वे विनाशिताः ।।

तदा च मुनयस्सर्वे विष्णुमायां प्रतुष्टुवुः ।। ५४ ।।

।। मुनय ऊचुः ।। ।।

नमो देव्यै महाकाल्यै देवक्यै च नमोनमः ।।

महालक्ष्म्यै विष्णुमात्रे राधा देव्यै नमोनमः ।। ५५ ।।

रेवत्यै पुष्पवत्यै च स्वर्णवत्यै नमोनमः ।।

कामाक्षायै च मायायै नमो मात्रे नमोनमः ।। ५६ ।।

महावातप्रभावेन महा मेघरवेण च ।।

जलधाराभिरुग्राभिर्भयं जातं हि दारुणम् ।।५७।।

तस्माद्भयाद्भैरवि त्वमस्मान्संरक्ष किंकरान् ।।

तदा प्रसन्ना सा देवी जलं शांत तया कृतम् ।। ५८ ।।

अब्दांतरे मही सर्वा स्थली भूत्वा प्रदृश्यते ।।

आराच्च शिषिणा नाम हिमाद्रेस्तटभूमयः ।। ५९ ।।

न्यूहस्तत्र स्थितो नावमारुह्य स्वकुलैस्सह ।।

जलांते भूमिमागत्य तत्र वासं करोति सः ।। 3.1.4.६० ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये द्वापरनृपोपाख्यानं नाम चतुर्थोऽध्यायः ।। ४ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः १ — Adhyāya 5

कलियुगभूपाख्यानवर्णनम्

।। शौनक उवाच ।। ।।

सांप्रतं वर्तते यो वै प्रलयांते मुनीश्वर ।।

दिव्यदृष्टिप्रभावेन ज्ञातं ब्रूहि ततः परम् ।। १ ।।

।। सूत उवाच ।। ।।

न्यूहो नाम स्मृतो म्लेच्छो विष्णुमोहं तदाकरोत् ।।

तदा प्रसन्नो भगवांस्तस्य वंशः प्रवर्द्धितः ।।२।।

म्लेच्छभाषा कृता तेन वेदवाक्यपराङ्मुखा ।।

कलेश्च वृद्धये ब्राह्मीं भाषां कृत्वाऽपशब्दगाम् ।।. ३ ।।

न्यूहाय दत्तवान्देवो बुद्धीशो बुद्धिगः स्वयम् ।।

विलोमं च कृतं नाम न्यूहेन त्रिसुतस्य वै ।। ४ ।।

सिमश्च हामश्च तथा याकूतो नाम विश्रुतः ।।

याकूतः सप्तपुत्रश्च जुम्रो माजूज एव सः ।।५।।

मादी तथा च यूनानस्तूवलोमसकस्तथा ।।

तीरासश्च तथा तेषां नामभिर्देश उच्यते ।।६।।

जुम्रा दश कनाब्जश्च रिफतश्च तजर्रुमः ।।

तन्नाम्ना च स्मृता देशा यूनाद्या ये सुताः स्मृताः ।। ७ ।।

इलीशस्तरलीशश्च कित्तीहूदानिरुच्यते ।।

चतुर्भिर्नामभिर्देशास्तेषां तेषां प्रचक्रिरे ।। ।। ८ ।।

द्वितीयतनयाद्धामात्सुताश्चत्वार एव ते ।।

कुशो मिश्रश्च कूजश्च कनआंस्तत्र नामभिः ।। ९ ।।

देशाः प्रसिद्धा म्लेच्छानां कुशात्षट्तनयाः स्मृताः ।।

स वा चैव हवीलश्च सर्वतोरगमस्तथा ।। 3.1.5.१० ।।

तथा सवतिका नाम निमरूहो महाबलः ।।

तेषां पुत्राश्च कलनः सिंनारोरक उच्यते ।। ११ ।।

अक्कदो वावुनश्चैव रसनादेशकाश्च ते ।।

श्रावयित्वा मुनीन्सूतो योगनिद्रावशं गतः ।। १२ ।।

द्विसहस्रे शताब्दान्ते बुद्ध्वा पुनरथाब्रवीत ।।

सिमवंशं प्रवक्ष्यामि सिमो ज्येष्ठः स भूपतिः ।। १३ ।।

राज्यं पंचशतं वर्षं तेन म्लेच्छेन सत्कृतम् ।।

अर्कन्सदस्तस्य सुतश्चतुस्त्रिंशच्च राज्यकम् ।। १४ ।।

चतुश्शतं पुनर्ज्ञेयं सिंहस्तत्तनयोऽभवत् ।।

राज्यं तस्य स्मृतं तत्र षष्ट्युत्तर चतुः शतम् ।। १५ ।।

इव्रतस्य सुतो ज्ञेयः पितुस्तुल्यं कृतं पदम् ।।

फलजस्तस्य तनयश्चत्वारिंशद्द्वयं शतम् ।। १६ ।।

राज्यं कृतं तु तस्माच्च रऊ नाम सुतः स्मृतः ।।

सप्तत्रिंशच्च द्विशतं तस्य राज्यं प्रकीर्तितम् ।। १७ ।।

तस्माच्च जूज उत्पन्नः पितुस्तुल्यं कृतं पदम् ।।

नहूरस्तस्य तनयो वयः षष्ट्युत्तरं शतम् ।।

राज्यं चकार नृपतिर्बहुशत्रून्विहिंसयन् ।। १८ ।।

ताहरस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।।

तस्मात्पुत्रोऽविरामश्च नहूरो हारनस्त्रयः ।। १९।।

एवं तेषां स्मृता वंशा नाममात्रेण कीर्तिताः ।।

सरस्वत्याश्च शापेन म्लेच्छभाषा महाधमाः ।। 3.1.5.२० ।।

तेषां वृद्धिः कलौ चासीत्संक्षेपेण प्रकीर्तिता ।।

संस्कृतस्यैव वाणी तु भारतं वर्षमूह्यताम् ।। २१ ।।

अन्यखंडे गता सैव म्लेच्छा ह्यानंदिनोऽभवन् ।।

एवं ते विप्र कथितं विष्णुभक्तद्विजैस्सह ।। २२ ।। ।।

।। व्यास उवाच ।। ।।

तच्छ्रुत्वा मुनयस्सर्वे विशालायां निवासिनः ।।

नरं नारायणं देवं संपूज्य विनयान्विताः ।।२३।।

ध्यानं चक्रुर्मुदा युक्ता द्विशतं परिवत्सरान् ।।

तत्पश्चाद्बोधितास्सर्वे शौनकाद्या मुनीश्वराः ।। २४ ।।

संध्यातर्पणदेवार्चाः कृत्वा ध्यात्वा जनार्द्दनम् ।।

लोमहर्षणमासीनं पप्रच्छुर्विनयान्विताः ।। २५ ।।

व्यासशिष्य महाभाग चिरं जीव महामते ।।

सांप्रतं वर्तते यो वै राजा तन्मे वद प्रभो ।। २६ ।।

।।सूत उवाच ।। ।।

त्रिसहस्राब्दसंप्राप्ते कलौ भार्गवनंदन ।।

आवन्ते शंखनामाऽसौ सांप्रतं वर्तते नृपः ।।२७।।

म्लेच्छदेशे शकपतिरथ राज्यं करोति वै ।।

शृणु तत्कारणं सर्वे यथा यस्य विवर्धनम् ।। २८ ।।

द्विसहस्रे कलौ प्राप्ते म्लेच्छवंशविवर्द्धिता ।।

भूमिर्म्लेच्छमयी सर्वा नानापथविवर्द्धिता।।२९।।

ब्रह्मावर्तमृते तत्र सरस्वत्यास्तटं शुभम् ।।

म्लेच्छाचार्यश्च मूशाख्यस्तन्मतैः पूरितं जगत् ।। 3.1.5.३० ।।

देवार्चनं वेदभाषा नष्टा प्राप्ते कलौ युगे ।।

तल्लक्षणं शृणु मुने म्लेच्छभाषाश्चतुर्विधाः ।। ३१।।

व्रजभाषा महाराष्ट्री यावनी च गुरुंडिका ।।

तासां चतुर्लक्षविधा भाषाश्चान्यास्तथैव च ।। ।।३२।।

पानीयं च स्मृतं पानी बुभुक्षा भूख उच्यते ।।

पानीयं पापडी भाषा भोजनं कक्कनं स्मृतम् ।।३३।।

इष्टिशुद्धरवः प्रोक्त इस्तिनी मसपावनी

आहुतिर्वै आजु इति ददाति च दधाति च ।। ३४ ।।

पितृपैतरभ्राता च बादरः पतिरेव च ।।

सेति सा यावनी भाषा ह्यश्वश्चास्पस्तथा पुनः।।३५।।

जानुस्थाने जैनुशब्दः सप्तसिंधुस्तथैव च ।।

सप्तहिन्दुर्यावनी च पुनर्ज्ञेया गुरुंडिका ।। ३६ ।।

रविवारे च संडे च फाल्गुने चैव फर्वरी ।।

षष्टिश्च सिक्सटी ज्ञेया तदुदाहारमीदृशम् ।। ३७ ।।

या पवित्रा सप्तपुरी तासु हिंसा प्रवर्तते ।।

दस्यवः शबरा भिल्ला मूर्खा आर्ये स्थिता नराः।। ३८ ।।

म्लेच्छदेशे बुद्धिमतो नरा वै म्लेच्छधर्मिणः ।।

म्लेच्छाधीना गुणाः सर्वेऽवगुणा आर्यदेशके ।। ३९ ।।

म्लेच्छराज्यं भारते च तद्द्वीपेषु स्मृतं तथा ।।

एवं ज्ञात्वा मुनिश्रेष्ठ हरिं भज महामते ।। 3.1.5.४० ।।

तच्छ्रुत्वा मुनयः सर्वे रोदनं चक्रिरे बहु ।। ४१ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखंडापरपर्याये कलियुगभूपवर्णनंनाम पंचमोऽध्यायः ।। ५ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः १ — Adhyāya 6

कलियुगभूपाख्यानवर्णनम्

।। शौनक उवाच ।। ।।

ब्रह्मावर्ते कथं म्लेच्छा न प्राप्ताः कारणं वद।।

सूतः प्राह शृणुष्वेदं सरस्वत्याः प्रभावतः ।।१।।

म्लेच्छाः प्राप्ता न तत्स्थाने काश्यपो नाम वै द्विजः ।।

कलौ प्राप्ते सहस्राब्दे स्वर्गात्प्राप्तः सुराज्ञया ।। २ ।।

आर्यावती च तत्पत्नी दश पुत्रानकल्मषान् ।।

काश्यपात्सा लब्धवती तेषां नामानि मे शृणु ।। ३ ।।

उपाध्यायो दीक्षितश्च पाठकः शुक्लमिश्रकौ ।।

अग्निहोत्री द्विवेदी च त्रिवेदी पाण्ड्य एव च ।। ४ ।।

चतुर्वेदीति कथिता नामतुल्यगुणाः स्मृताः ।।

तेषां मध्ये काश्यपश्च सर्वज्ञानमसमन्वितः ।। ५ ।।

काश्मीरे प्राप्तवान्सोऽपि जगदम्बां सरस्वतीम् ।।

तुष्टाव पूजनं कृत्वा रक्तपुष्पैस्त्वथाक्षतैः ।। ६ ।।

धूपैर्दीपैश्च नैवेद्यैः पुष्पांजलिसमन्वितः।।७।

।। काश्यप उवाच ।। ।।

मातः शंकरदयिते मयि ते करुणा कुतो नास्ति।।

भोऽसि त्वं जगदंबा जगतः किं मां बहिर्न यसि ।।८।।

देवि त्वं सुरहेतोर्धर्मद्रोहिणमाशु हंसि मातः ।।

उत्तमसंस्कृतभाषां त्वं कुरु म्लेच्छांश्च मोहयेः शीघ्रम् ।। ९ ।।

अंब त्वं बहुरूपा हुंकारा द्धूम्रलोचनं हसि ।।

भीमं दुर्गा दैत्यं हत्वा जगतां सुखं नयसि ।। 3.1.6.१० ।।

दंभं मोहं घोरं गर्वं हत्वा सदा सुखं शेषे ।।

बोधय मातर्जगतो दुष्टान्नष्टा न्कुरु त्वं वै ।।

तदा प्रसन्ना सा देवी भो मुनेस्तस्य मानसे ।। ११ ।।

वासं कृत्वा ददौ ज्ञानं मिश्रदेशे मुनिर्गतः ।।

सर्वान्म्लेच्छान्मोहयित्वा कृत्वाथ तान्द्विजन्मनः ।। १२ ।।

संख्यादशसहस्रं च नरवृन्दं द्विजन्मनाम् ।।

द्विसहस्रं स्मृता वैश्याः शेषाः शूद्रसुताः स्मृताः ।। १३ ।।

तैः सार्द्धमार्यदेशे स सरस्वत्याः प्रसादतः ।।

अवसद्वै मुनिश्रेष्ठो मुनिकार्यरतः सदा ।। १४ ।।

तेषामार्यसमूहानां देव्याश्च वरदानतः ।।

वृद्धिर्भवति बहुला चतुष्कोटिनराः स्त्रियः ।। १५ ।।

तेषां पुत्राश्च पौत्राश्च तद्भूपः काश्यपो मुनिः ।।

विंशोत्तरशतं वर्षं तस्य राज्यं प्रकीर्तितम् ।। १६ ।।

राज्यपुत्राख्यदेशे च शूद्राश्चाष्टसहस्रकाः ।।

तेषां भूपश्चार्यपृथुस्तस्माज्जातस्स मागधः ।। १७ ।।

मागधं नाम तत्पुत्रमभिषिच्य ययौ मुनिः ।।

इति श्रुत्वा भृगुश्रेष्ठः शौनको हर्षमागतः ।। १८ ।।

सूतं पौराणिकं नत्वा विष्णुध्यानपरोऽभवत् ।।

पुनश्च श्रुतिवर्षान्ते बोधिता मुनयस्तथा ।। १९।।

नित्यनैमित्तिकं कृत्वा पप्रच्छुरिदमादरात् ।।

लोमहर्षण मे ब्रूहि के राजानश्च मागधात् ।।

कलौ राज्यं कृतं यैस्तु व्यासशिष्य वदस्व नः ।।3.1.6.२०।।

।। सूत उवाच ।। । ।। ।।

मागधो मागधे देशे प्राप्तवान्काश्यपात्मजः।।२१।।

पितृराज्यं स्मृतं तेन त्वार्यदेशः पृथक्कृतः।।

पाञ्चालात्पूर्वतो देशो मागधः परिकीर्तितः ।। २२ ।।

आग्नेय्यां च कलिंगश्च तथावन्तस्तु दक्षिणे ।।

आनर्तदेशा नैर्ऋत्यां सिंधुदेशस्तु पश्चिमे ।। २१ ।।

वायव्यां कैकयो देशो मद्रदेशस्तथोत्तरे ।।

ईशाने चैव कोणिन्दश्चार्यदेशश्च तत्कृतः ।।२४।।

देशनाम्ना तस्य सुता मगधस्य महात्मनः ।।

तेभ्योंशानि प्रदत्तानि तत्पश्चात्क्रतुमुद्वहन् ।।२५।।

बलभद्रस्तदा तुष्टो यज्ञभावेन भावितः ।।

शिशुनागः क्रतोर्जातो बलभद्रांशसंभवः ।।२६।।

शतवर्षं कृतं राज्यं काकवर्मा सुतोऽभवत् ।।

तद्राज्यं नवतिवर्षं क्षेमधर्मा ततोऽभवत् ।। २७ ।।

अशीतिवर्षं राज्यं तत्क्षेत्रौजास्तत्सुतोऽभवत् ।।

दशहीनं कृतं राज्यं वेदमिश्रस्ततोऽभवत् ।। २८ ।।

दशहीनं कृतं राज्यं ततोऽजातरिपुस्सुतः ।।

दशहीनं कृतं राज्यं दर्भकस्तनयोऽभवत् ।। २९ ।।

दशहीनं कृतं राज्यमुदयाश्वस्ततोऽभवत् ।।

दशहीनं कृतं राज्यं नंदवर्धन एव तत् ।। 3.1.6.३० ।।

दशहीनं कृतं राज्यं तस्मान्नंदसुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं शूद्रीगर्भसमुद्भवः ।। ३१ ।।

नन्दाज्जातः प्रनन्दश्च दशवर्षं कृतं पदम् ।।

तस्माजातः परानन्दः पितुस्तुल्यं कृतं पदम् ।। ३२ ।।

तस्माज्जातस्समानंदो विंशद्वर्षं कृतं पदम् ।।

तस्माजातः प्रियानंदः पितुस्तुल्यं कृतं पदम् ।। ३३ ।।

देवानंदस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।

यज्ञभंगः सुतस्तस्मात्पितुरर्द्धं कृतं पदम् ।। ३४।।

मौर्यानंदस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।

महानन्दस्ततो जातः पितुस्तुल्यं कृतं पदम् ।। ३५ ।।

एतस्मिन्नेव काले तु कलिना संस्मृतो हरिः ।।

काश्यपादुद्भवो देवो गौतमो नाम विश्रुतः ।। ३६ ।।

बौद्धधर्मं च संस्कत्य पट्टणे प्राप्तवान्हरिः ।।

दशवर्षं कृतं राज्यं तस्माच्छाक्यमुनिः स्मृतः ।। ३७ ।।

विंशद्वर्षं कृतं राज्यं तस्माच्छुद्धोदनोऽभवत् ।।

त्रिंशद्वर्षं कृतं राज्यं शाक्य सिंहस्ततोऽभवत् ।। ३८ ।।

शताद्रौ द्विसहस्रेऽब्दे व्यतीते सोऽभवन्नृपः ।।

कलेः प्रथमचरणे वेदमार्गो विनाशितः ।। ३९ ।।

षष्टिवर्षं कृतं राज्यं सर्वबौद्धा नराः स्मृताः।।

नरेषु विष्णुर्नृपतिर्यथा राजा तथा प्रजाः।।3.1.6.४०।।

विष्णोर्वीर्यानुसारेण जगद्धर्मः प्रवर्त्तते ।।

तस्मिन्हरौ ये शरणं प्राप्ता मायापतौ नराः ।। ४१ ।।

अपि पापसमाचारा मोक्षवंतः प्रकीर्तिताः ।।

शक्यसिंहाद्बुद्धसिंहः पितुरर्थं कृतं पदम् ।। ४२ ।।

चंद्रगुप्तस्तस्य सुतः पौरसा धिपतेः सुताम् ।।

सुलूवस्य तथोद्वाह्य यावनीबौद्धतत्परः ।। ४३ ।।

षष्टिवर्षं कृतं राज्यं बिंदुसारस्ततोऽभवत् ।।

पितृस्तुल्य कृतं राज्यमशोकस्तनयोऽभवत् ।।४४।।

एतस्मिन्नेव काले तु कान्यकुब्जो द्विजोत्तमः ।।

अर्बुदं शिखरं प्राप्य ब्रह्महोममथाकरोत् ।।४५।।

वेदमंत्रप्रभावाच्च जाताश्चत्वारि क्षत्रियाः ।।

प्रमरस्सामवेदी च चपहानिर्यजुर्विदः।।४६।।

त्रिवेदी च तथा शुक्लोथर्वा स परिहारकः ।।

ऐरावतकुले जातान्गजानारुह्य ते पृथक् ।।४७।।

अशोकं स्ववशं चकुस्सर्वे बौद्धा विनाशिताः ।।

चतुर्लक्षाः स्मृता बौद्धाः दिव्यशस्त्रैः प्रहारिताः ।। ४८ ।।

अवन्ते प्रमरो भूपश्चतुर्योजनविस्तृताम् ।।

अम्बावतीं नाम पुरीमध्यास्य सुखितोऽभवत् ।। ४९ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगभूपवर्णनो पाख्याने षष्ठोध्यायः ।। ६ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः १ — Adhyāya 7

।। सूत उवाच ।। ।।

चित्रकूटगिरेर्देशे परिहारो महीपतिः ।।

कलिंजरपुरं रम्यमक्रोशायतनं स्मृतम् ।। १ ।।

अध्यास्य बौद्धहंता स सुखितोभवदूर्जितः ।।

राजपुत्राख्यदेशे च चपहानिर्महीपतिः ।। २ ।।

अजमेरपुरं रम्यं विधिशोभासमन्वितम् ।।

चातुर्वर्ण्ययुतं दिव्यमध्यास्य सुखितोऽभवत् ।। ३ ।।

शुक्लो नाम महीपालो गत आनर्तऽमंडले ।।

द्वारकां नाम नगरीमध्यास्य सुखितोऽभवत् ।। ४ ।। ।

।। शौनक उवाच ।।

तेषामग्न्युद्भवानां च ये भूपा राज्यसत्कृताः ।।

तान्मे ब्रूहि महाभाग सूतो वाक्यमथाब्रवीत् ।। ५ ।।

गच्छध्वं ब्राह्मणाः सर्वे योगनिद्रावशो ह्यहम् ।।

तच्छुत्वा मुनयः सर्वे विष्णोर्ध्यानं प्रचक्रिरे ।। ६ ।।

पूर्णे द्वे च सहस्रान्ते सूतो वचनमब्रवीत् ।।

सप्तत्रिंशशते वर्षे दशाब्दे चाधिके कलौ ।। ७ ।।

प्रमरो नाम भूपालः कृतं राज्यं च षट्समाः।।

महामदस्ततो जातः पितुरर्धं कृतं पदम् ।।८।।

देवापिस्तनयस्तस्य पितु स्तुल्यं कृतं पदम् ।।

देवदूतस्तस्य सुतः पितुस्तुल्यं स्मृतं पदम् ।। ९ ।।

तस्माद्गंधर्वसेनश्च पंचाशदब्दभूपदम् ।।

कृत्वा च स्वसुतं शंखमभिषिच्य वनं गतः ।। 3.1.7.१० ।।

शंखेन तत्पदं प्राप्तं राज्यं त्रिंशत्समाः कृतम् ।।

देवांगना वीरमती शक्रेण प्रेषिता तदा ।। ११ ।।

गंधर्वसेनं संप्राप्य पुत्ररत्नमजीजनत् ।।

सुतस्य जन्मकाले तु नभसः पुष्पवृष्टयः ।। १२ ।।

पेतुर्दुंदुभयो नेदुर्वांति वाताः सुखप्रदाः ।।

शिवदृष्टिर्द्विजो नाम शिष्यैस्सार्द्धं वनं गतः ।। १३ ।।

विंशद्भिः कर्मयोगं च समाराध्य शिवोऽभवत् ।।

पूर्णे त्रिंशच्छते वर्षे कलौ प्राप्ते भयंकरे ।। १४ ।।

शकानां च विनाशार्थमार्यधर्मविवृद्धये ।।

जातश्शिवाज्ञया सोऽपि कैलासाद्गुह्यकालयात् ।। १५।।

विक्रमादित्यनामानं पिता कृत्वा मुमोद ह ।।

स बालोऽपि महाप्राज्ञः पितृ मातृप्रियंकरः ।। १६ ।।

पञ्चवर्षे वयःप्राप्ते तपसोऽर्थे वनं गतः ।।

द्वादशाब्दं प्रयत्नेन विक्रमेण कृतं तपः ।। १७ ।।

पश्चादम्बावतीं दिव्यां पुरीं यातः श्रियान्वितः ।।

दिव्यं सिंहासनं रम्यं द्वात्रिंशन्मूर्तिसंयुतम् ।। १८ ।।

शिवेन प्रेषितं तस्मै सोपि तत्पदमग्रहीत् ।।

वैतालस्तस्य रक्षार्थं पार्वत्या निर्मितो गतः ।। १९ ।।

एकदा स नृपो वीरो महाकालेशश्वरस्थलम् ।।

गत्वा सम्पूजयामास देवदेवं पिनाकिनम् ।। 3.1.7.२० ।।

सभा धर्ममयी तत्र निर्मिता व्यूहविस्तरा ।।

नानाधातुकृतस्तम्भा नानामणिविभूषिता ।।२१।।

नानाद्रुमलताकीर्णा पुष्पवल्लीभिरन्विता ।।

तत्र सिंहासनं दिव्यं स्था पितं तेन शौनक ।। २२ ।।

आहूय ब्राह्मणान्मुख्यान्वेदवेदांगपारगान् ।।

पूजयित्वा विधानेन धर्मगाथामथाऽशृणोत् ।। २३ ।।

एतस्मिन्नन्तरे तत्र वैतालो नाम देवता ।।

स कृत्वा ब्राह्मणं रूप जयाशीर्भिः प्रशस्य तम् ।। २४ ।।

उपविश्यासने विप्रो राजानमिदमब्रवीत् ।।

यदि ते श्रवणे श्रद्धा विक्रमादित्यभूपते ।। २५ ।।

वर्णयामि महाख्यानमितिहाससमुच्चयम् ।। २६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापर पर्याये कलियुगसंभूतरविशशिवंशभूपवर्णनं नाम सप्तमोऽध्यायः ।। ७ ।।

इति प्रथमखंडः संपूर्णः ।। १ ।।

अग्रिम पुटं

वेतालोपरि टिप्पणी

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 1

।। सूत उवाच ।। ।।

इत्युक्तस्स तु वैतालो महाकालेश्वरस्थितः ।।

शिवं मनसि संस्थाप्य राज्ञानमिदमब्रवीत्।।

विक्रमादित्यभूपाल शृणु गाथां मनोरमाम् ।।

वाराणसी पुरी रम्या महेशो यत्र तिष्ठति ।। २ ।।

चातुर्वर्ण्यप्रजा यत्र प्रतापमुकुटो नृपः ।।

महादेवी च महिषी धर्मज्ञस्य महीपतेः ।। ३ ।।

तत्पुत्रो वज्रमुकुटो मंत्रिणः सुतवल्लभाः ।।

षोडशाब्देऽथ संप्राप्ते हयारूढो वनं गतः ।।४।।

अमात्यतनयश्चैव बुद्धिदक्ष इति श्रुतः ।।

हयारूढो गतः सार्धं समानवयसा वने ।।५।।

स दृष्ट्वा विपिनं रम्यं मृगपक्षिसमन्वितम् ।।

मुमोद वजमुकुटः कामाशयवशं गतः ।। ६ ।।

तत्र दिव्यं सरो रम्यं नानापक्षिनिनादितम् ।।

तस्य कूले शिवस्थानं मुनिवृंदैः प्रपूजितम् ।। ७ ।।

दृष्ट्वा तत्र गतौ वीरौ परमानंदमापतुः ।।

एतस्मिन्नंतरे भूप करणाटकभूपतेः ।। ८ ।।

दंतवक्त्रस्य तनया नाम्ना पद्मावती मता ।।

कामदेवं नमस्कृत्य कामिनी कामरूपिणी ।।९।।

चिक्रीड सखिभिः क्रीडां सरोमध्ये मनोहरा ।।

तदा तु वज्रमुकुटो मन्दिरादागतो बहिः ।। 3.2.1.१० ।।

दृष्ट्वा पद्मावतीं बालां तुल्यरूपगुणान्विताम्।।

मूर्च्छितः पतितो भूमौ सा दृष्ट्वा तु मुमोह वै ।। ११ ।।

प्रबुद्धो वज्रमुकुटो मां पाहि शिवशंकर ।।

इत्युक्त्वा भूपतनयः पुनर्बालां ददर्श ह ।। १२

शिरसः पद्मकुसुमं सा गृहीत्वा तु कर्णयोः ।।

कृत्वा चखान दशनैः पादयोर्दधती पुनः ।। १३ ।।

पुनर्गृहीत्वा तत्पुष्पं हृदये संप्रवेशितम् ।।

इति भावं च सा कृत्वाऽऽलिभिः सार्धं ययौ गृहम् ।। १४ ।।

तीर्थार्थं च समं पित्रा संप्राप्ता गिरिजावने ।।

तस्यां गतायां स नृपो मारबाणेन पीडितः ।। १५ ।।

महतीं मानसीं पीडां प्राप्तवान्मोहमागतः ।।

उन्मादीव ततो भूत्वा खाद्यपानविवर्जितः ।। १६ ।।

ध्यात्वा पद्मावतीं बालां मौनव्रतमचीकरत् ।।

तदा कोलाहलो जातः प्रतापमुकुटांतिके ।। १७ ।।

कुमारः कां दशां प्राप्त इति हाहेति सर्वतः ।।

त्रिदिनांते मंत्रिसुतो बुद्धि दक्षो विशारदः ।। १८ ।।

अब्रवीद्वज्रमुकुटं सत्यं कथय भूपते ।।

स आह कारणं सर्वं यथा जातं सरोवरे ।। १९ ।।

तच्छ्रुत्वा बुद्धिदक्षश्च विहस्याह महीपतिम् ।।

महाकष्टेन सा देवी मित्रत्वं हि गमिष्यति ।। 3.2.1.२० ।।

करणाटकभूपस्य दंतवक्त्रस्य सा सुता ।।

पद्मावतीति विख्याता दधती त्वां स्वमानसे ।। २१ ।।

पुष्पभावेन ज्ञात्वाहं त्वां नयामि तदंतिके ।।

इत्युक्त्वा तस्य पितरं प्रतापमुकुटं प्रति ।। २२ ।।

आहाज्ञां देहि भूपाल यास्येहं कारणाटके ।।

त्वत्सुतस्य चिकित्सार्थं स वज्रमुकुटोऽचिरम् ।। २३ ।।

आयामि नाऽत्र सन्देहो यदि जीवयसे सुतम् ।।

तथेति मत्वा स नृपः प्रादात्पुत्रं च मन्त्रिणे ।। २४ ।।

हयारूढौ गतौ शीघ्रं दंतवक्त्रस्य पत्तने ।।

काचिद्वृद्धा स्थिता तत्र तस्या गेहं च तौ गतौ ।। २५ ।।

बहुद्रव्यं ददौ तस्यै बुद्धिदक्षो विशारदः ।।

ऊषतुर्मंदिरे तस्मिन्रात्रिं घोरतमोवृताम् ।। २६ ।।

प्रातःकाले तु सा वृद्धा गच्छती राजमन्दिरम् ।।

तामाह मन्त्रितनयः शृणु मातर्वचो मम ।। २७ ।।

पद्मावतीं च संप्राप्यैकांते मद्वचनं वद ।।

ज्येष्ठशुक्लस्य पञ्चम्यामिंदुवारे सरोवरे ।। २८ ।।

यो दृष्टः पुरुषो रम्यस्त्वदर्थे समुपागतः।।

इति श्रुत्वा ययौ वृद्धा पद्मं तस्यै न्यवेदयत् ।। २९ ।।

रुष्टा पद्मावती प्राह चंदनार्द्रांगुलीयिका ।।

गच्छ गच्छ महादुष्टे तलेनोरस्यताडयत् ।।3.2.1.३० ।।

अंगुलीभिः कपोलौ च तस्याः स्पृष्ट्वा ययौ गृहम् ।।

सा तु वृद्धा बुद्धिदक्षं सर्वं भावं न्यवेदयत् ।। ।। ३१ ।।

स मित्रं दुःखितं प्राह शृणु मित्र शुचं त्यज ।।

त्वामाह भूपतेः कन्या प्राणप्रिय वचः शृणु ।। ३२ ।।

त्वदर्थे ताडितं वक्षः कदा मित्रं भविष्यसि।।

श्रुत्वा तन्मधुरं वाक्यं रजो देहे समागतम् ।। ३३ ।।

रजस्वलांते भो मित्र तवास्यं चुंबितास्म्यहम् ।।

इति श्रुत्वा भूपसुतः परमानन्दमाययौ ।। ३४ ।।

त्रिदिनांते तु सा वृद्धा पद्मावत्यै न्यवेदयेत् ।।

त्वामुत्सुकः स भूपालस्तव दर्शनलालसः ।। ३५ ।।

तं भजस्वाद्य सुश्रोणि सफलं जीवनं कुरु ।।

इति श्रुत्वा महाहृष्टा सा मस्यार्द्रांगुलीयकम् ।। ३६ ।।

गवाक्षद्वारि निष्कास्य तले पृष्ठे च ताडिता ।।

तथैव वृद्धा तं प्राप्य मन्त्रिणं चाब्रवीद्वचः ।। ३७ ।।

प्रसन्नो बुद्धिदक्षश्च मित्रं प्राह शृणुष्व भोः ।।

पश्चिमे दिशि भोः स्वामिन्गवाक्षं तव निर्मितम् ।। ३८ ।।

अर्द्धरात्रे तु संप्राप्य भज मां कामविह्वलाम् ।।

श्रुत्वा तद्वज्रमुकुटः प्रियादर्शनलालसः ।। ३९ ।।

ययौ शीघ्रं महाकामी रमणीं तामरामयत् ।।

मासांते कामशिथिलो मित्रदर्शनलालसः ।। 3.2.1.४० ।।

पद्मावतीं प्रियां प्राह शृणु वाक्यं वरानने ।।

येन प्राप्तवती मह्यं त्वं सुभ्रूः सुरदुर्लभा ।। ४१ ।।

तन्मित्रं बुद्धिदक्षश्च किं नु तिष्ठति सांप्रतम् ।।

आज्ञां देहि प्रिये मह्यं दृष्ट्वायास्यामि तेंऽतिकम् ।। ४२ ।।

इति श्रुत्वा वचस्तस्य निष्ठुरं कुलिशोपमम् ।।

मिष्टान्नं सविषं कृत्वा मंत्रिणे सा न्यवेदयत् ।। ४३ ।।

तदा तु बुद्धिदक्षश्च चित्रगुप्तप्रपूजकः ।।

ज्ञात्वा तत्कारणं सर्वं न तु भक्षितवान्स्वयम् ।। ४४ ।।

एतस्मिन्नन्तरे प्राप्तो भूपतिस्त्वरयान्वितः ।।

विवेकवन्तं मित्रं तं दृष्ट्वा प्राह रुषान्वितः ।। ४५ ।।

कस्मान्न खादितं मित्र भोजनं मत्प्रियाकृतम् ।।

विहस्य बुद्धिदक्षस्तु सारमेये ददौ हि तत् ।। ४६ ।।

भुक्त्वा स मरणं प्राप्तः स दृष्ट्वा विस्मितो नृपः ।।

स्त्रीचरित्रं च विज्ञाय स्नेहं त्यक्त्वाऽब्रवीत्तु तम् ।।४७।।

मित्र गच्छ गृहं शीघ्रं मया त्यक्ता च पापिनी ।।

स आह शृणु भूपाल गच्छ शीघ्रं प्रियांतिकम् ।।४८।।

तदलंकारमाहृत्य त्रिशूलं कुरु जानुनि ।।

प्रसुप्तां त्यज भो मित्र याहि त्वं मा विचारय ।। ४९ ।।

इति श्रुत्वा ययौ भूपस्तथा कृत्वा समागतः ।।

स्वमित्रेण ययौ सार्धं स्मशाने रुद्रमण्डपे ।। 3.2.1.५० ।।

शिष्यं कृत्वा नृपं तं स योगिरूपो हि भूषणम् ।।

विक्रयार्थं ददौ तस्मै स्वमित्राय स बुद्धिमान् ।। ५१ ।।

स वज्रमुकुटो मत्वा तदाज्ञां नगरं गतः ।।

चोरोयमिति तं मत्वा बद्ध्वा राज्ञो हि रक्षिणः ।। ५२ ।।

शीघ्रं निवेदयामासुर्दन्तवक्त्रस्तमब्रवीत् ।।

क्व प्राप्तं भूषणं रम्यं सर्वं कथय पूरुष ।। ५३ ।।

जटिलः प्राह भो राजन्श्मशाने मद्गुरुः स्थितः ।।

तेन दत्तं विक्रयार्थं भूषणं स्वर्णगुंठितम् ।। ५४ ।।

इति श्रुत्वा स नृपतिस्तूर्णमाहूय तद्गुरुम् ।।

भूषणं पृष्टवान्राजा योगी प्राह शृणुष्व भोः ।। ५५ ।।

स्मशाने संधितं मंत्रं मया योगिस्वरूपिणा ।।

पिशाची प्रापिता काचित्तस्याश्चिह्नं मया कृतम् ।। ५६ ।।

वामजानुनि शूलेन तया दत्तं हि भूषणम् ।।

ज्ञात्वा तत्कारणं राजा सुता निष्कासिता गृहात् ।। ५७ ।।

स वज्रमुकुटस्तां तु गृहीत्वा गृहमाययौ ।।

विहस्य प्राह वैतालः शृणु विक्रमभूपते ।। ५८ ।।

कस्मै पापं महत्प्राप्तं चतुर्णा मे वदाधुना ।।

।। सूत उवाच ।। ।।

इति श्रुत्वा वचस्तस्य विक्रमो नाम भूपतिः ।। ५९ ।।

विहस्य भार्गवं प्राह प्राप्तं पापं हि भूपतेः ।।

मित्रकार्यममात्येन स्वामिकार्यं च रक्षिभिः ।। 3.2.1.६० ।।

भूप पुत्रेणार्थसिद्धं कृतं तस्माच्च भूपतेः ।।

महत्पापं च संप्राप्तं तेनासौ नरकं गतः ।। ६१ ।।

रजोवतीं सुतां दृष्ट्वा न विवाहेत यो नरः ।।

स पापी नरकं याति षष्टिवर्षसहस्रकम् ।। ६२ ।।

गांधर्वं च विवाहं वै कामिन्या च कृतं यया ।।

तस्या विघ्नकरो यो वै स पापी यमपीडितः ।। ६३ ।।

अदृष्टदोषां यः कन्यां विवेकेन विना त्यजेत् ।।

स पापी नरकं याति लक्षवर्षप्रमाणकम् ।। ६४ ।।

इति श्रुत्वा? स वैतालो धर्मगाथां नृपेरिताम् ।।

प्रसन्नहृदयः प्राह भूपतिं धर्मतत्परम् ।।६५ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये नाम प्रथमोऽध्यायः ।। १ ।।

मुकुटोपरि टिप्पणी

तुलनीय - वेतालपंचविंशतिः

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 2

।। सूत उवाच ।। ।।

प्रसन्नमनसं भूपं महासिंहासने स्थितम् ।।

द्विजवर्यः स वैतालो वचः प्राह प्रसन्नधीः ।।१।।

एकदा यमुनातीरे धर्मस्थलपुरी शुभा ।।

धनधान्यसमायुक्ता चतुर्वर्णसमन्विता ।। २ ।।

गुणाधिपो महीपालस्तत्र राज्यं चकार वै ।।

हरिशर्मा पुरोधास्तु स्नानपूजनतत्परः ।।३ ।।

तस्य पत्नी सुशीला च पतिव्रतपरायणा ।।

सत्यशीलः सुतो जातो विद्याध्ययनतत्परः ।। ४ ।।

तस्यानुजा मधुमती शीलरूपगुणान्विता ।।

द्वादशाब्दवयःप्राप्ते विवाहार्थं पिता यदा ।। ५ ।।

भ्राता? बभ्राम तौ सर्वं चिनुतश्च सुतावरम् ।।

कदाचिद्राजपुत्रस्य विवाहे समतो द्विजः ।। ६ ।।

पठनार्थे तु काश्यां वै सत्त्वशीलः स्वयं गतः ।।

एतस्मिन्नंतरे राजन्द्विजः कश्चित्समागतः ।। ७ ।।

वामनो नाम विख्यातो रूपशीलवयोवृतः ।।

सुता मधुमती तं च दृष्ट्वा कामातुराऽभवत् ।। ८ ।।

भोजनं छादनं पानं स्वप्नं त्यक्त्वा च विह्वला ।।

चकोरीव विना चंद्रं कामबाणप्रपीडिता ।। ९ ।।

दृष्ट्वा सुशीला तं बाला वामनं ब्राह्मणं तथा ।।

वारयामास तांबूलैः स्वर्णद्रव्यसमन्वितैः ।। 3.2.2.१० ।।

हरिशर्मा प्रयोगे च द्विजं दृष्ट्वा त्रिविक्रमम् ।।

वेदवेदांतत्त्वज्ञं सुतार्थेऽवरयत्तदा ।। ११ ।।

सत्यशीलस्तु काश्यां वै गुरुपुत्रं च केशवम् ।।

वरित्वा तं भगिन्यर्थे ययौ गेहं मुदान्वितः ।। १२ ।।

माघकृष्णत्रयोदश्यां भृगौ लग्नं शुभं स्मृतम् ।।

त्रयो विप्रास्तदा प्राप्ताः कन्यार्थे रूपमोहिताः ।। १३ ।।

तस्मिन्काले तु सा कन्या भुजगेनैव दंशिता ।।

मृता प्रेतत्वमापन्ना पूर्वकर्मप्रभावतः ।। १४ ।।

तदा ते ब्राह्मणा यत्नं कारयामासुरुत्तमम् ।।

न जीवनवती बाला गरलेन विमोहिता ।।१५।।

हरिशर्मा तु तत्सर्वं कृत्वा वेदविधानतः ।।

आययौ मंदिरं राजन्त्सुतागुणविमोहितः ।। १६ ।।

त्रिविक्रमस्तु बहुधा दुःखं कृत्वा स्मरानुगः ।।

कंथाधारी यतिर्भूत्वा देशाद्देशातरं ययौ ।। १७ ।।

केशवस्तु महादुःखी प्रियास्थीनि गृहीतवान् ।।

तीर्थात्तीर्थांतरं प्राप्तः कामबाणेन पीडितः ।। १८ ।।

भस्मग्राही वामनस्तु विरहाग्निप्रपीडितः ।।

तस्थौ चितायां कामार्तः पत्नीध्यानपरायणः ।।१९।।

एकदा सरयूतीरे लक्ष्मणाख्यपुरे शुभे ।।

त्रिविक्रमस्तु भिक्षार्थे संप्राप्तो द्विजमंदिरे ।। 3.2.2.२० ।।

तस्मिन्दिने रामशर्मा शिवध्यानपरायणः ।।

यतिनं वरयामास भोजनार्थं स्वमंदिरे ।। २१ ।।

तस्य पत्नी विशालाक्षी रचित्वा बहुभोजनम् ।।

आहूय यतिनं राजन्पात्रमालभमाकरोत् ।। २२ ।।

तस्मिन्काले च तद्बालो मृतः पापवशंगतः ।।

अरोदीत्तस्य सैरंध्री विशालाक्ष्यपि भर्त्सिता ।। २३ ।।

न रोदनं त्यक्तवती पुत्रशोकाग्नितापिता ।।

रामशर्मा तदा प्राप्तो मंत्रं संजीवनं शुभम् ।। २४ ।।

जपित्वा मार्जनं कृत्वा जीवयामास बालकम् ।।

विनयावनतो विप्रस्तं च संन्यासिनं तदा।। ।। २५ ।।

भोजनं कारयित्वा तु मंत्रं संजीवनं ददौ ।।

त्रिविक्रमस्तु तं मंत्रं पठित्वा यमुनातटे ।।२६।।

प्राप्तवान्यत्र सा नारी दाहिता हरिशर्मणा।।

एतस्मिन्नन्तरे तत्र राजपुत्रो मृतिं गतः ।। २७ ।।

दाहितस्तनयः पित्रा शोककर्त्रा तदामुना ।।

जीवनं प्राप्तवान्बालस्तस्य मंत्रप्रभावतः ।। २८ ।।

गुणाधिपस्य तनयो राज्ञो धर्मस्थलीपतेः ।।

त्रिविक्रमं वचः प्राह वीरबाहुर्महाबलः ।।२९।।

जीवनं दत्तवान्मह्यं वरयाद्य वरं मम ।।

स विप्रः प्राह भो राजन्केशवो नाम यो द्विजः ।। 3.2.2.३० ।।

गृहीत्वास्थि गतस्तीर्थे तमन्वेषय मा चिरम् ।।

वीरबाहुस्तथा मत्वा दूतमार्गेण तं प्रति ।। ३१ ।।

प्राप्तस्तं कथयामास यथा प्राप्तं हि जीवनम् ।।

इति श्रुत्वा वचस्तस्य केशवोऽस्थिसमन्वितः ।३२।।

प्रगत्यास्थीनि सर्वाणि ददौ तस्मै द्विजातये ।।

पुनः संजीविता बाला केशवादीन्वचोऽब्रवीत्।।३३।।

योग्या धर्मेण यस्याहं तस्मै प्रायामि धर्मिणे।।

इति श्रुत्वा वचस्तस्या मौनवंतस्त्रयः स्थिताः।।३४।।

अतस्त्वं विक्रमादित्य धर्मज्ञ कथयस्व मे ।।

कस्मै योग्या च सा बाला नाम्ना मधुमती शुभा ।। ३५ ।।

।।सूत उवाच ।। ।।

विहस्य विक्रमादित्यो वैतालं प्राह नम्रधीः।।

योग्या मधुमती नारी वामनाय द्विजन्मने।।३६।।

प्राणदाता तु यो विप्रः पितेव गुणतत्परः ।।

अस्थिदाता तु यो विप्रो भ्रातृतुल्यस्स वेदवित् ।। ३७ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वितीयोऽध्यायः ।। २ ।।

वामनोपरि टिप्पणी

केशवोपरि टिप्पणी

अस्थ्नोपरि टिप्पणी

तुलनीय - वेतालपञ्चविंशतिः

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 3

।। सूत उवाच ।। ।।

विप्रवर्य महाभाग शृणु गाथां मनोरमाम्।।

वैतालो भूपतिश्रेष्ठं पुनर्विक्रममब्रवीत् ।।१।।

वर्द्धवन्नगरे रम्ये नानाजननिषेविते।।

तत्राभवन्महीपालो रूपसेनो महाबलः ।। २ ।।

विद्वन्माला प्रिया तस्य पतिसेवापरायणा ।।

एकदा क्षत्रियः कश्चिन्नाम्ना वीरवरः स्मृतः ।। ३ ।।

पुत्रकन्यासपत्नीको वृत्त्यर्थं समुपागतः ।।

विनयावनतो भूत्वा रूपसेनं महीपतिम् ।। ४ ।।

किंचिच्छ्रुत्वा ददौ स्वर्णं सहस्रं प्रत्यहं नृप ।।

वीरसेनस्तु तल्लब्ध्वा वह्नौ तीर्थे द्विजातिषु ।।५।।

व्ययं कृत्वा तु तच्छेषं स कुल्ये भुक्तवान्स्वयम् ।।

एवं वर्षे गते राजन्राजलक्ष्मीः शिवाज्ञया ।।६।।

परीक्षार्थं स्मशाने च रोदनं बहु कुर्वती ।।

अर्धरात्रे तदा राजा बुद्ध्वा प्राह स्वसेवकम् ।। ७ ।।

गच्छ वीरवर त्वं वै यतोऽसौ श्रूयते रवः ।।

ज्ञात्वा तत्कारणं सर्वं मह्यं शीघ्रं निवेदय ।। ८ ।।

इति श्रुत्वा वीरवरः शस्त्रास्त्रकुशलो बली ।।

स तत्र गत्वा यत्रास्ते राजलक्ष्मीः शुभानना ।। ९ ।।

श्लक्ष्णं वचश्च तामाह किमर्थं रोदने स्थिता ।।

महत्कष्टं च किं प्राप्तं कारणं देवि मे वद ।। 3.2.3.१० ।।

इति श्रुत्वा राजलक्ष्मीर्वीरसेनं तमब्रवीत् ।।

राजलक्ष्मीं च मां विद्धि रूपसेनस्य भूपतेः ।। ११ ।।

मासान्ते प्रलयं यास्ये तस्माच्छोचामि भो बलिन् ।।

स आह शृणु भो देवि त्वदल्पायुस्स मीरितम् ।।

केन पुण्येन दीर्घायुस्त्वं भवेः कारणं वद ।। १२ ।।

देव्युवाच ।।

महाबाहो महाप्राज्ञ यदि ते तनयस्य वै ।। १३ ।। ।।

कपालमर्पय त्वं च चंडिकायै तदानघ ।।

दीर्घायुर्भविता चाहं स्वामिकार्यं प्रसाधय।।१४।।

इति श्रुत्वा वीरवरो मंदिरं स्वयमागतः ।।

पत्नीं प्राह प्रसन्नात्मा सुतं देव्यै निवेदय ।। १५ ।।

तथेत्युक्त्वा तु सा साध्वी तनयं प्राह निर्भया ।।

राज्ञोऽर्थे तव देहं वै पुत्र पासि कुरुष्व तत् ।। १६ ।।

तथा मत्वा तु तत्पुत्रो भगिन्या मातृसंयुतः।।

चंडिकाभवनं प्राप्याब्रवीत्स्वपितरं तदा ।। १७ ।।

भोस्तात मे कपालं च चंडिकायै समर्पय ।।

दीर्घायुर्येन यत्नेन राजलक्ष्मीश्च तत्कुरु ।। १८ ।।

इति श्रुत्वा वीरसेनः शिरश्छित्त्वा समार्पयत् ।।

तस्यानुजा मृता तत्र तथा माता तथा पिता ।। १९ ।।

दृष्ट्वा तद्रूप सेनस्तु कारणं सर्वमादितः ।।

सेवकं सत्यसंधं च मत्वा तु स्वशिरोऽर्पयत् ।। 3.2.3.२० ।।

तदा प्रसन्ना सा देवी नृपमुजीव्य साब्रवीत् ।।

वरं वरय भूपाल यथेष्टं शीघ्रमाप्नुयाः ।। २१ ।।

स आह वीरसेनस्तु सकुलो जीवमाप्नुयात् ।।

तथेत्युक्त्वा तु सा देवी तत्रैवांतर्हिताभवत् ।। २२ ।।

रूपसेनः प्रसन्नात्मा स्वसुतां कामरूपिणीम् ।।

ददौ सुताय वैतालो नृपतिं प्राह विस्मितः।।

मुख्यस्नेहं कृतं केन तेषां मध्ये वदस्व मे ।।२३।।

।। राजोवाच ।।

मुख्यस्नेहं कृतं राज्ञा दासार्थे स्वतनुं ददौ ।।

स्वर्णस्नेही वीरवरो धमर्प्रीतिः पतिव्रता ।।

बंधुप्रीतिश्च भगिनी पितृस्नेही तु पुत्रकः ।। २४ ।।

महान्स्नेहः कृतो राज्ञा रूपसेनेन धीमता ।। २५ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये तृतीयोऽध्यायः ।। ३ ।।

तुलनीय - वेतालपञ्चविंशति

वीरवर - शूद्रकोपरि टिप्पणी

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 4

।। सूत उवाच ।। ।।

इति श्रुत्वा स वैतालो राजानमिदमब्रवीत् ।।

काचिद्भोगावती नाम्ना नगरी परमाद्भुता ।।१।।

रूपवर्मा च नृपतिस्तत्र राज्यं करोति वै ।।

चूडामणिरिति ख्यातः शुको बुद्धिविशारदः ।।२।।

तस्य भूपस्य गेहे च निवसनञ्च्छुभपंजरे ।।

कदाचिद्रूपवर्मा च त्रिंशदब्द उरूर्जितः ।। ३ ।।

पप्रच्छ मम योग्या वै शुक काचिद्वरांगना ।।

चेदस्ति तर्हि मे ब्रूहि श्रुत्वा तं चाब्रवीच्छुकः ।। ४ ।।

मगधेश्वरभूपस्य कन्या चन्द्रवती शुभा ।।

तव योग्या हि भो राजन्सांप्रतं तां गृहाण वै ।। ५ ।।

इति श्रुत्वा स नृपतिर्गणेशं द्विजसत्तमम् ।।

प्रेषयित्वा ददौ द्रव्यं यथोद्वाह्या तथा कुरु ।। ६ ।।

गणेशोपि गतस्तूर्णं देशे मागधके शुभे ।।

महादेवं च संपूज्य चकार स्तवनं मुदा ।। ७ ।।

नमः शिवाय शांताय सर्वाभीष्टप्रदायिने ।।

भवाय शंकरायैव रुद्राय सततं नमः ।। ८ ।।

मृडायानंदरूपाय सर्वदुःखहराय च ।। ९ ।।

इत्युक्तवति विप्रे च तदा चन्द्रवती शुभा ।।

कामातुराब्रवीच्चैनां नाम्ना मदनमञ्जरीम् ।। 3.2.4.१० ।।

मम योग्यश्च पुरुषः कश्चिदस्ति महीतले ।।

साह भो रूपवर्मा च योग्यो भोगापुरीपतिः ।। ११ ।।

इति श्रुत्वा तु सा देवी दुर्गां वाञ्छितदायिनीम् ।।

तुष्टाव मनसा सुभ्रूर्यया जातमिदं जगत् ।। १२ ।।

नमोनमो जगन्मातर्मम कार्यप्रदायिनि ।।

त्रिलिंगजननी त्वं वै वर्णमूर्तिः सनातनी ।।१३।।

त्वं स्वाहा त्वं स्वधा संध्या नमस्तस्यै नमोनमः ।।

नृपतिं रूपवर्माणं मत्पतिं कुरु भोः शिवे।।१४।।

इति स्तुत्या प्रसन्नाभूज्जगदंबा जगन्मयी।।

पितरं मगधेशं च मोहयित्वा च मातरम् ।।१५।।

विवाहं कारयामास मासान्ते सिद्धरूपिणी ।।

रूपवर्मा चंद्रवती बुभुजाते परं सुखम् ।।१६।।

एकस्मिन्दिवसे राजन्मेनां मदनमंजरीम्।।

नृपः प्राह विवाहं त्वं सुशुकेन कुरुष्व भोः ।। ।।१७।।

मेनका प्राह भो राजन्विवाहाश्चेदृशो मताः ।।

उत्तमाधममध्याश्च पुरुषास्त्रिविधाः स्मृताः।।१८।।

तथैव त्रिविधा नारी यथा योग्यो वरो भवेत्।।

उत्तमा यो भवेन्नारी योग्याया चाधमाय वै ।।१९।।

शृणु तत्कारणं राजन्मया दृष्टं यथाऽभवत् ।।

इलापुरे वसत्येको वैश्यो लक्षपतिर्धनी।। 3.2.4.२० ।।

अनपत्यो देवयाजी तस्य पत्नी पतिव्रता ।।

बहुयत्नेन तनयस्तस्य जातो महाधमः ।। २१ ।।

द्यूतक्रीडापरो नित्यं सुरापाने रतस्सदा ।।

वेश्यागामी महाधूर्तो नित्यं मांसाशनः खलः ।। २२ ।।

तस्य धर्मं च पितरौ समालोक्य वनं गतौ ।।

नरं नारायणं ध्यात्वा परमं पदमापतुः ।। २३ ।।

मदपालस्तु तनयः कृत्वा सर्वधनव्ययम् ।।

अन्यदेशे च वृत्त्यर्थं जगाम धनवर्जितः ।।२४।।

प्राप्तश्चंद्रपुरे रम्ये यत्र हेमपतिः स्थितः।।

वृत्तांतं कथयामास वैश्यं हेमपतिं हि सः ।। २५ ।।

देवयाजी सुतोऽहं वै स्वल्पं वै धनमाहृतम् ।।

देशान्तरे विक्रयार्थे सिन्धुमार्गेण प्राप्तवान् ।। २६ ।।

महावायु प्रभावेन द्रव्यं तन्मग्नमंभसि ।।

तल्लज्जया न यास्येऽहं पितरं प्रति मारिष ।। २७ ।।

इति श्रुत्वा हेमपतिः स्वपत्नीं काममंजरीम् ।।

वचः प्राह प्रसन्नात्मा संयोगो विधिना कृतः ।। २८ ।।

चंद्रकांतिं सुतां दास्ये तद्वराय त्वदाज्ञया ।।

संमंत्र्य दंपती राजन्ददौ कन्यां विधानतः ।। २९ ।।

स्वगृहे वासयामास मदपालं सुतापतिम् ।।

मासमेकमुषित्वा तं श्वशुरं प्राह नम्रधीः ।। 3.2.4.३० ।।

आज्ञां देहि धनाध्यक्ष स्वगेहं यामि मा चिरम् ।।

इति श्रुत्वा हेमपतिः स्वसुतां स्वर्णभूषिताम् ।।३१।।

चंद्रकांतिं सदासीं च तस्मै दत्त्वा गृहं ययौ ।।

नरान्विसृज्य दुष्टात्मा शिबिकावाहकान्नृप ।।। ।। ३२ ।।

दासीं हत्वा तदा पत्नीं विसृज्य धनवर्जिताम् ।।

एकाकी प्राप्तवान्गेहं मदपालो महाधमः ।। ३३ ।।

वर्षांतरे च तत्स्वर्णं व्ययं कृत्वा कुमार्गके ।।

बुभुक्षितः पुनः शोकं चकार बहुधा नृप ।। ३४ ।।

पुनश्च श्वशुरस्यैव गृहे संप्राप्तवान्खलः ।।

चंद्रकांतिस्तु तं दृष्ट्वा स्वपतिं प्राह नम्रधीः ।। ३५ ।।

मया निवेदितं पित्रे धनं चौरैश्च लुंठितम् ।।

अतस्त्वं त्यज संतापं चिरं वस गृहे मम ।। ३६ ।।

तथेत्युक्त्वा महाधूर्त उवास कतिचिद्दिनम् ।।

ज्ञात्वा विमोहिता पत्नीमर्द्धरात्रे तमोवृते ।। ३७ ।।

हत्वा तां स ययौ गेहं गृहीत्वा बहुभूषणम् ।।

अयोग्योयमतो राजन्विवाहः शुकमेनयोः ।। ३८ ।।

इति श्रुत्वा शुकः प्राह भूपतिं करुणानिधिम् ।।

विवाहं न करिष्यामि नार्य्या चाधमया सह ।। ३९ ।।

अधमा मेनका नारी श्यामांगा च कुरूपिणी ।।

उत्तमोऽहं शुको राजन्पुरुषश्च हरेत्तनुम् ।। 3.2.4.४० ।।

शृणु तत्कारणं भूप मया दृष्टं महोत्तमम् ।।

नगरे कांचनपुरे वणिक्छंखपतिः श्रुतः ।। ४१ ।।

तस्य पुत्रस्तु मेधावी सिन्धुगुप्तो गुणी धनी ।।

प्रभावती प्रिया तस्य श्रीदत्तस्तत्सुतः स्मृतः ।। ४२ ।।

विवाहमकरोत्तस्य जयश्रीपत्तने शुभे ।।

सोमदत्तस्य सुतया जयलक्ष्म्या समन्वितम् ।। ४३ ।।

श्रीदत्तस्तु गतो देशं वाणिज्यार्थं कुरुस्थलम् ।।

आयाति द्वादशाब्दे तु सधनो गेहमागतः ।। ४४ ।।

जयलक्ष्मीस्तु कामेन पीडिता पितृमंदिरे ।।

अमात्यतनयेनैव होमदत्तेन मोहिता ।। ४५ ।।

दूती मार्गेण तं प्राप्य व्ययं कृत्वा धनं बहु ।।

रमयामास सा नारी तेन सार्द्धं महाधमा ।। ४६ ।।

त्रिमासान्ते च तत्स्वामी श्रीदत्तः श्वशुरालये ।।

संप्राप्तः सा तु तं दृष्ट्वा महद्दुःखमुपाययौ ।। ४७ ।।

अर्धरात्रे तु तन्मात्रा प्रेषिता स्वपतिं प्रति ।।

जयलक्ष्मीश्च संप्राप्ता क्रोधेन स्फुरिताधरा।।४८।।

बहुमानेन स्वपतिस्नेहं कृत्वालयं ययौ ।।

तदा तु कुलटा सा च गता दूतीगृहं प्रति ।। ४९ ।।

शून्यालये होमदत्तो दंशितो भुजगेन वै ।।

सुष्वाप मरणं प्राप्य तदा बाला समागता ।। 3.2.4.५० ।।

वेगेन रमयामास तं जारं विषमोहितम् ।।

पिप्पलस्थः पिशाचश्च दृष्ट्वा तां जारिणीं शुभाम् ।। ५१ ।।

शवदेहं च संप्राप्य रमणीं तामरीरमत् ।।

खनित्वा दशनैर्नासां पिप्पलोपरि सोऽगमत् ।। ५२ ।।

कफल्लो नाम चौरस्तु दृष्ट्वा तत्कारणं तदा ।।

कामिन्या अनुगो भूत्वा मंदिरं तत्प्रविष्टवान् ।। ५३ ।।

तदा तु जयलक्ष्मीश्च स्वपतिं प्राप्य दुर्भगा ।।

चक्रे सा रोदनं गाढं सर्वे लोकाः प्रत स्थिरे ।। ५४ ।।

नासाहीनां सुतां दृष्ट्वा सोमदत्तो महाधनः ।।

बद्ध्वा जामातरं शीघ्रं राजांतिकमुपाययौ ।। ५५ ।।

नृपाज्ञया राजदूतास्तमुद्बंधनमादधुः ।।

तदा कफल्लः संप्राप्य सर्वं राज्ञे न्यवेदयत् ।। ५६ ।।

मत्वा तस्य वचः सत्यं जयलक्ष्मीं महाधमाम् ।।

रासभोपरि संस्थाप्य कृत्वा दुर्गतिरूपिणीम् ।। ५७ ।।

नगरात्प्रेषयामास वनं शार्दूलसेवितम् ।।

अतस्त्वं शृणु भूपाल मेना मद्योग्यिका न हि ।। ५८ ।।

इत्युक्त्वा स तु वैतालो विक्रमं प्राह नम्रधीः ।।

नारी पापाधिका वाथ पुरुषस्तद्वद्वस्व मे ।। ५९ ।।

।। विक्रम उवाच ।। ।।

ब्रह्मणोऽगुणरूपस्य मायावर्णस्व रूपिणी ।।

तमो न पुंसकं ज्ञेयं त्रिलिंगैकं तदव्ययम् ।। 3.2.4.६० ।।

अव्ययं ब्रह्मणो धाम माया लिंगस्वरूपिणी ।।

तया जातमिदं विश्वं तदंबायै नमोनमः ।। ६१ ।।

क्लीबा स्त्री सर्वदा श्रेष्ठा स्त्रियास्तु पुरुषस्तथा ।।

अव्याधिकश्च पुरुषो नारी कर्माधिका मता ।। ६२ ।।

क्लीबमज्ञानमधिकं कथितं पूर्वकोविदैः ।।

कर्मैव बन्धनं पुंसां ज्ञानं निर्बंधन स्मृतम् ।। ६३ ।।

अतः पापाधिका नारी पुरुषो हीनकिल्बिषः ।। ।। ६४ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्थोऽध्यायः ।। ४ ।।

तुलनीय - वेतालपंचविंशति

शुकोपरि टिप्पणी

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 5

।। सूत उवाच ।। ।।

भृगुवर्य महाभाग श्रुत्वा वैताल एव सः ।।

प्रसन्नात्मा वचः प्राह भूपतिं ज्ञानसंपदम् ।। १ ।।

उज्जयिन्यां महाराज महाबल इति श्रुतः ।।

चंद्रवंशी नृपः प्राज्ञो वेदशास्त्रविशारदः ।। २ ।।

तस्य दूतो हरेर्दासः स्वामिकार्यकरः सदा ।।

भक्तिमाला प्रिया तस्य साधुसेवापरायणा ।। ३ ।।

तस्यां जाता रूपवती कन्या कमललोचना ।।

महादेवीति विख्याता सर्वविद्याविशारदा ।। ४ ।।

हरिदासं च सा प्राह शृणु तात वचो मम ।।

मत्तोऽधिको नरो यो वै तस्मै मां तु ददस्व भोः ।। ५ ।।

तथेत्युक्त्वा पिता राजन्राज्ञाहूतो गतः सभाम् ।।

नत्वा तं नृपतिः प्राह हरिदास शृणुष्व भोः ।। ६ ।।

तैलंगाधिपतिं गच्छ हरिश्चंद्रं महीपतिम् ।।

तस्य क्षेमं तथा ज्ञात्वा मां निवेदय मा चिरम् ।। ।। ७ ।।

इति श्रुत्वा द्विजः प्रागाद्धरिश्चंद्रं महामतिम् ।।

कुशलं वर्णयामास महाबलनृपस्य वै ।। ८ ।।

श्रुत्वा प्रसन्नहृदयो हरिश्चंद्रो महीपतिः ।।

श्वशुरस्तस्य नृपतेः स भूयो हर्षमागतः ।। ९ ।।

हरिदासं स पप्रच्छ कलेरागमनं कदा ।।

इत्युक्तः स तु तं प्राह न्यूहश्च भविताधिकम् ।। 3.2.5.१० ।।

यदा राज्यं कृतं तेन कलेरागममनं तदा ।।

ब्रह्मणोस्य मुखाज्जात ओंकारः सत्यपूजितः ।।११।।

द्वितीयास्याच्च विविधा भाषा लोक विमोहिनी ।।

जाता कलेर्हितार्थाय यमलोकहितैषिणी ।। १२ ।।

यदा धर्मं च वेदोक्तं विपरीतं हि दृश्यते ।।

कलिराज्यं तदा ज्ञेयं म्लेच्छा यस्य प्रियाः स्मृताः।। ।। १३ ।।

कलिनाऽधर्ममित्रेण सर्वे देवा निराकृताः ।।

पापस्यैव मृषा भार्या दुःखं तत्तनयः स्मृतः ।। १४ ।।

दुर्गतिस्तस्य चार्धांगी गेहेगेहे तदा भवेत् ।।

क्रोधवश्याः नृपाः सर्वे ब्राह्मणाः कामकिंकराः ।। १५ ।।

लोभवश्यास्तु धनिनो महत्त्वं शूद्रका गताः ।।

नार्यो लज्जाविहीनाश्च किंकराः स्वामिघातकाः ।। १६ ।।

निष्फला तु मही जाता कलौ प्राप्ते हि दृश्यते ।।

ये हरेः शरणं प्राप्तास्ते सर्वे मुदिताः कलौ ।। १७ ।।

इति श्रुत्वा हरिश्चंद्रो दत्त्वा तस्मै सुदक्षिणाम् ।।

स्वगेहं प्राप्तवान्राजा विप्रस्तु शिबिरं ययौ ।। १८ ।।

एतस्मिन्नंतरे तत्र ब्राह्मणो बुद्धिकोविदः ।।

स्वविद्यां दर्शयामास हरिदासाय धीमते ।। १९ ।।

विमानं शीघ्रगं नाम देव्या दत्तं महोत्तमम् ।।

मंत्रजापात्समुद्भूतं कामजं विस्मयप्रदम् ।। 3.2.5.२० ।।

तस्मिन्ददर्श कन्यार्थे तदा विप्रो विमोहितः ।।

वरित्वा तं स्वकन्यार्थं ततः स्वपुरमागतः ।। २१ ।।

हरिदासस्य तनयो मुकुंदो नाम कोविदः ।।

पठित्वा स्वगुरुं प्राह वृणीष्व गुरुदक्षिणाम् ।। २२।।

गुरुराह च शिष्यं तं शृणु वाचं मुकुंद मे ।।

दापय स्वस्य भगिनीं मत्पुत्राय च धीमते ।।२३।।

तथेत्युक्त्वा मुकुंदस्तु स्वगेहं शीघ्रमाययौ ।।

तस्मिन्काले महादेवी द्रौणिशिष्यं द्विजं शुभम् ।। २४ ।।

वामनं वरयामास तं विप्रं शब्दवेधिनम् ।।

दक्षिणादिभिरभ्यर्च्य तांबूलेन विधानतः ।। २५ ।।

त्रयस्ते ब्राह्मणाः प्राप्ताः सुतार्थे गुणकोविदाः ।।

एतस्मिन्नन्तरे कामी राक्षसो दैवमोहितः ।। ।। २६ ।।

महादेवीं जहाराशु प्राप्तो विंध्याचले गिरौ ।।

तदा ते दुःखिनो भूत्वा विलेपुः कामपीडिता ।। २७ ।।

धीमान्नाम द्विजो विद्वांस्तान्प्राह गणकोत्तमः।।

विंध्याचले गिरौ बाला चास्ते क्रव्यादवश्यगा ।। २८ ।।

स्वविमाने समारोप्य तौ द्विजौ बुद्धिकोविदः ।।

विंध्याचले गिरौ प्राप्तः शब्दवेधी तदा धनुः ।। २९ ।।

समारोप्य शरेणैव जघानाशु स राक्षसम् ।।

कन्यां गृहीत्वा ते जग्मुरुज्जयिन्यां विमानगाः ।। 3.2.5.३० ।।

मिथो विवादवंतस्ते दृष्ट्वा कन्यां स्मरानुगाः ।।

कस्मै योग्या भवेत्कन्या भूप मे कृपया वद ।। ३१ ।।

।। सूत उवाच ।। ।।

इति श्रुत्वा वचस्तस्य विक्रमो नाम भूपतिः ।।

प्रश्रयावनतः प्राह वैतालं रुद्रकिंकरम् ।। ३२ ।।

विदित्वा योऽवदत्कन्यां पितृतुल्यो द्विजो हि सः ।।

येन प्राप्ता विमानेन स तु तद्भ्रातृकः स्मृतः ।। ३३ ।।

हत्वा यो राक्षसं वीरं कन्यायोग्यो हि सोऽभवत् ।। ३४ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापर पर्याये कलियुगीयेतिहाससमुच्चये पंचमोऽध्यायः ।। ५ ।।

विज्ञानाद्युपरि टिप्पणी

तुलनीय- वेतालपञ्चविंशति

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 6

।। सूत उवाच ।। ।।

पुनराह स वैतालः शृणु राजन्कथामिमाम् ।।

ग्रामे धर्मपुरं रम्ये नानाजननिषेविते ।। १ ।।

तत्राभवन्महीपालो धर्मशीलो महोत्तमः ।।

लज्जादेवी च महिषी तस्य भूपस्य भूपते ।। २ ।।

अंधको नाम तन्मंत्री न्यायशास्त्रविशारदः ।।

कियता चैव कालेन देवीमंदिरमुत्तमम् ।। ३ ।।

धर्मशीलेन रचितं तत्र दुर्गा प्रतिष्ठिता ।।

अपत्यार्थे भूपतिना कृतस्तत्र महोत्सवः ।। ४ ।।

अर्द्धरात्रे महागौरी नृपं प्राह वृणीष्व भोः ।।

श्रुत्वामृतमयं वाक्यं धर्मशीलो नृपोत्तमः ।।

स्तुतिं चकार नम्रात्मा येन दुर्गा प्रसीदति ।। ५ ।।

।। धर्मशील उवाच ।। ।।

एका तु प्रकृतिर्नित्या सर्ववर्णस्वरूपिणी ।। ६ ।।

सा त्वं भगवती साक्षात्त्वया सर्वमिदं ततम् ।।

त्वदाज्ञया सुरश्रेष्ठो रचित्वा लोकमुत्तमम् ।।७।।

महालक्ष्म्या त्वया सार्द्धं बुभुजे निर्मलं सुखम् ।।

त्वद्भक्त्या भगवान्विष्णुस्त्रैलोक्यं ब्रह्म निर्मितम् ।। ८ ।।

पालयंश्च महालक्ष्म्या त्वया सार्द्धं सनातनि ।।

त्वद्बलेन महादेवि त्रैलोक्यं विष्णुपालितम् ।। ९ ।।

महाकाल्या त्वया सार्द्धं भस्म कृत्वा विराजते ।।

सर्वे देवास्तथा दैत्याः पितरो मनुजाः खगाः ।।3.2.6.१ ०।।

त्वल्लीलया च ते जाता जगन्मातर्नमोस्तु ते ।।

इत्युक्तवंतं नृपतिं वागुवा चाशरीरिणी।। ११।।

महाबलो महावीर्यस्तनयस्ते भविष्यति ।।

तव स्तुत्या प्रसन्नाहं दास्यामि विविधं फलम्।।१२।।

इति श्रुत्वा स नृपतिः स्वगेहं प्राप्य निर्भयः ।।

राज्ञ्यै निवेदयामास देवीवचनमुत्तमम्।।१३।।

ततः प्रभृति राजेन्द्र मूर्तौ जाता स्वयं किल।।

एकस्मिन्दिवसे राजन्रजकः कलिभोजनः।।१४।।

काशीदासेन सहितो ग्रामं धर्मपुरं गतः ।।

तत्र दृष्ट्वा शुभां कन्यां कामांगीं नाम विश्रुताम् ।। १५ ।।

पित्रान्वितां राजमार्गे गच्छंती श्रमपीडिताम् ।।

मुमोह कामवेगेन रजकः कलिभोजनः ।। १६ ।।

कामांधश्चंडिकां प्राह जगन्मातः सनातनि ।।

यदि मे भविता सुभ्रूस्तर्हि दास्यामि ते शिरः ।। १७ ।।

जातियोग्या ममैवास्ति रजकस्य सुता शुभा ।।

इति श्रुत्वा तु सा देवी वचनं रजकस्य वै ।। १८ ।।

मोहयित्वा च पितरं तस्याः पाणिग्रहः कृतः ।।

स सुतां कामिनीं प्राप्य प्रसन्नात्मा गृहं ययौ ।। १९ ।।

भुक्त्वा स विविधं भोगं तया सार्द्धं सुखप्रदम् ।।

वर्षांतरे शिरो देव्यै गत्वा शीघ्रं समार्पयत् ।। 3.2.6.२० ।।

काशिदासस्तु तच्छ्रुत्वा स्नेहेन त्वरितोऽगमत् ।।

स्वशिरो दत्तवान्देव्यै कामांगी पतिशोकतः।। २१ ।।

अर्पयित्वा शिरो देव्यै देवीरूपत्वमागता ।।

तदा प्रसन्ना सा चण्डी त्रीनुज्जीव्याब्रवीच्च तान् ।। २२ ।।

वरं वरयतामद्य यो यः कामो ह्यभीप्सितः ।।

काशिदासस्तु तां प्राह कामांगीं मां समर्पय।।२३।।

कामांगी सा तु तां प्राह स्वपतिं मां समर्पय।।

कलिभोजन एवासौ देवीं प्राह प्रसन्नधीः।।२४।।

मित्रांगं सुन्दरं मह्यं देहि मातर्नमोनमः ।।

तेषां वाचस्तदा श्रुत्वा सा दुर्गा मौनमास्थिता ।।

यथाकामं दत्तवती वरं दारसुरूपिणी ।। ।। २५ ।।

।। सूत उवाच ।। ।।

इत्युक्त्वा स तु वैतालो नृपं प्राह विहस्य भोः ।। २६ ।।

किं कृतं च तया देव्या तेषामर्थे वदस्व मे ।।

इत्युक्तः स तु भूपालो वैतालमिदमब्रवीत् ।। २७ ।।

कपालमुत्तमं देहे तया च्छिन्नं द्वयोस्तदा ।।

विपरीतं कृतं मात्रा वरं स्वंस्वं समाप्नुयुः ।। २८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये षष्ठोऽध्यायः ।। ६ ।।

तुलनीय - वेतालपञ्चविंशति

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 7

सूत उवाच ।। ।।

तस्मिन्काले स वैतालो भृगुवर्यः प्रसन्नधीः ।।

राजानमुत्तमां गाथां वर्णयामास विश्रुताम् ।। १ ।।

चंपापुरी च विख्याता चम्पकेशो महीपतिः ।।

तत्रास्ते बलवान्धन्वी महिषी तत्सुलोचना ।। २ ।।

त्रिलोकसुंदरी नाम कन्या तस्यामजायत ।।

वदनं चन्द्रवद्यस्या भ्रुवौ चापसमे स्मृते ।। ३ ।।

मृगाक्षी कोकिलरवा कोमलांगी महोत्तमा ।।

देवैर्मनोवृता बाला किमन्यैर्मानुषैर्नृप ।। ४ ।।

तस्याः स्वयंवरो जातो नृपा बहुविधास्तदा ।।

तस्या योगेन संप्राप्ता ये भूपा भुवि विश्रुताः ।। ५ ।।

इन्द्रो यमः कुबेरश्च वरुणो विबुधोत्तमः ।।

कृत्वा नरमयं रूपं तदर्थे समुपागताः ।। ६ ।।

चंपकेशमिदं प्राह शृणु राजन्वचो मम ।।

सर्वशास्त्रेषु निपुणं रूपवन्तं मनोरमम् ।।

इन्द्रदत्तं च मां विद्धि स्वसुतां मे समर्पय ।। ७ ।।

द्वितीयस्तु तदा प्राह धर्मदत्तं मनोरमम् ।।

धनुर्वेदेषु निपुणं स्वकन्यां दातुमर्हसि ।। ८ ।।

तृतीयश्चाह भो राजन्धनपालाय शोभिने ।।

सर्वजीवस्य भाषाणां ज्ञायिने गुणरूपिणे ।।

मह्यं च स्वसुतां शीघ्रं समर्पय सुखी भव ।। ९ ।।

चतुर्थश्चाह भो राजन्सर्वकलासु कोविदः ।।

पञ्चरत्नसमुद्योगी प्रत्यहं भूपते ह्यहम् ।। ।। 3.2.7.१० ।।

पुण्यार्थमेकरत्नं च होमार्थं द्वितियं वसु ।।

आत्मार्थं तृतियं रत्नं पत्न्यर्थे तुरियं वसु ।। ११ ।।

शेषं सुभोजनार्थं च रत्नं नित्यं मयाहृतम् ।।

ईदृग्विधं मां पुरुषं स्वसुतां दातुमर्हसि ।। १२ ।।

इति श्रुत्वा वचस्तेषां मोहितो नृपतिस्तदा ।।

स्वसुतां प्राह धर्मात्मा कस्मै दास्यामि कन्यके ।। १३ ।।

सा देवी तु वचः श्रुत्वा व्रीडिता दैवमोहिता ।।

नोत्तरं च ददौ तस्मै स्वपित्रे धर्मशालिनी ।। १४ ।।

इत्युक्त्वा स तु वैतालो विहस्योवाच भूपतिम् ।।

कस्मै योग्या भवेत्कन्या रूपयौवनशालिनी ।। १५ ।।

।। सूत उवाच ।। ।।

इत्युक्तः स तु भूपालो वचनं तं समब्रवीत् ।।

धर्मदत्ताय सा कन्या योग्या भवति रूपिणी ।। १६ ।।

सर्वशास्त्रेषु निपुणः स द्विजो वर्णतः स्मृतः ।।

भाषावेत्ता तु वणिजो धनधान्य प्रसारकः ।।१७।।

कलाज्ञः स तु शूद्रो हि धनुर्वेदी स भूपतिः।।

सवर्णाय च वैताल सदा योग्या हि कन्यका ।।

अतो विवाहिता बाला धर्मदत्ताय शीलिने।।१८।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्तमोऽध्यायः ।। ७ ।।

तुलनीय - कथासरित्सागरे वेतालपञ्चविंशति

चम्पा शब्दोपरि टिप्पणी

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 8

।। सूत उवाच ।। ।।

इति श्रुत्वा स वैतालो राजानमिदमब्रवीत् ।।

विदेहदेशे भूपाल नगरी मिथिलावती ।। १ ।।

गुणाधिपस्तत्र राजा धनधान्यसमन्वितः ।।

चिरंदेव इति ख्यातो राजन्यः कश्चनागतः ।। २ ।।

वृत्त्यर्थं मिथिलादेशे तत्र वासं चकार सः ।।

वर्षांते भूपतिः सोऽपि चतुरङ्गबलान्वितः ।। ३ ।।

मृगयार्थे वनं प्राप्तस्तत्र शार्दूलमुत्तमम् ।।

दृष्ट्वा तं चावधीद्राजा क्रोधताम्रेक्षणो वने ।। ४ ।।

व्याघ्र मार्गेण भूपालो वनान्तरमुपाययौ ।।

चिरंदेवस्तु तत्पश्चाद्गतः स गहने वने ।। ५ ।।

क्षुत्क्षामकण्ठो नृपतिः श्रमसन्तापपीडितः ।।

चिरंदेवमुवाचाशु भोजनं देहि मेऽद्य भोः ।। ६ ।।

इति श्रुत्वा स राजन्यो हत्वा हरिणमुत्तमम् ।।

संस्कृत्य प्रददौ राज्ञे तन्मांसं भूपतिप्रियम् ।। ७ ।।।

तुष्टो भूपस्तदा प्राह वरं वरय सत्तम ।।

वांछितं ते ददाम्याशु स होवाच महीपतिम्।। ८।।

त्वया सहस्रमुद्राश्च खादिता मम भूपते।।

गृहमानीय भूपाल ताः समर्पय मा चिरम्।।९।।

शतमुद्रास्तु मासान्ते मह्यं देहि कुटुंबिने।।

तथेत्युक्त्वा स नृपतिः स्वगेहं शीघ्रमाययौ।। 3.2.8.१०।।

एकस्मिन्दिवसे राजन्स च राजा गुणाधिपः।।

चिरंदेवं स्वभृत्यं च प्रेषयामास सागरे।।११।।

स गत्वा सागरतटे देवीमूर्तिं ददर्श ह।।

नाम्ना कुसुमदां देवीं मार्कण्डेयस्थलस्थिताम्।।१२।।

गन्धर्वतनयां सुभ्रूं पूजयित्वा प्रसन्नधीः।।

प्रांजलिः पुरतस्तस्थौ तदा देवी समागता। ।। १३ ।।

वरं वरय तं प्राह चिरंदेवस्तु चाब्रवीत् ।।

पाणिं गृहाण मे सुभ्रूस्त्वद्रूपेण विमोहितः ।।१४।।

इति श्रुत्वा तु सा देवी विहस्योवाच कामिनम् ।।

अद्य स्नानं विधेहि त्वं मत्कुण्डे देवनिर्मिते।।१५।।

तथेत्युक्त्वा गतस्तोये प्लावितो मिथिलां ययौ।।

स स्थितो भूपतिं प्राह कारणं विस्मयप्रदम्।।१६।।

गुणाधिपस्तु तच्छ्रुत्वा स्वभृत्येन समन्वितः।।

प्राप्तवान्मंदिरे देव्याः सा भूयः प्राह पुष्पदा।।१७।।

गांधर्वेण विवाहेन मां गृहाण गुणाधिप।।

इति श्रुत्वा नृपः प्राह यदि देवि वचो मम।।१८।।

पुण्यदे त्वं गृहाणाद्य तर्हि त्वां संभजाम्यहम्।।

तथेति मत्वा तं प्राह सत्वं कार्यं निवेदय।।१९।।

स होवाच शृणु त्वं भो मम भृत्यं चिरं सुरम् ।।

भज त्वं चपलापांगि देवि सत्यं वचः कुरु ।।3.2.8.२०।।

व्रीडिता तु कथां कृत्वा भूपतिं प्राह कामिनी।।

मां भजस्व दयासिंधो कामिनीं शक्रचोदिताम् ।। २१ ।।

चिरंदेवं तु संप्राप्य कामांधा त्वां समागता ।।

पुष्पदंतरुय? तनया गन्धर्वस्य शुभानना।।

शापिता देवदेवेन नरभोगकरी ह्यहम् ।।२२।।

इति श्रुत्वा स भूपालो धर्मात्मा शीलविग्रहः ।।

कथं भजाम्यहं सुभ्रूः स्नुषामिव सुधर्मिणीम् ।। २३ ।।

चिरंदेवस्तु राजन्यो मत्पुत्र इव वर्तते ।।

तस्य त्वं भोगिनी नारी शोभने भव सांप्रतम् ।। २४ ।।

लज्जिता सा तदा देवी स्नुषेवः च ववर्त वै ।। २५ ।।

इत्युक्त्वा भूपतिं प्राह वैतालो रुद्रकिंकरः ।।

सत्यं धर्मश्च कस्यैव जातस्तन्मे वदस्व भोः ।। २६ ।।

।। सूत उवाच ।। ।।।

भूपतिस्तं विहस्याह चिरंदेवस्य जायते ।।

सत्यं धर्मश्च वेताल शृणु तत्कारणं शुभम् ।। २७ ।।

नृपाणां परमो धर्मः सर्वोपकरणं स्मृतः ।।

कृतोपकारभृत्यस्य तेन तत्किं हि सत्यता ।। २८ ।।

भृत्येन च कृतं कर्म तच्छृणुष्व वदाम्यहम् ।।

विना वृत्तिं स्थितो गेहे भूपतेर्गुणशालिनः ।।

सेवा वृत्तिः कृता सर्वा यथान्यैर्न नरैः कृता ।। २९ ।।

पश्चाद्भूपतिना ज्ञातः संकटे बृहदागते ।।

चिरंदेवस्तु तस्माच्च कारणादधिको मतः ।। 3.2.8.३० ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टमोऽध्यायः ।। ८ ।।

तुलनीय - कथासरित्सागरे वेतालपञ्चविंशतिः

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 9

।। सूत उवाच ।। ।।

भो शौनक महाबुद्धे वैतालेन महीपतिः ।।

महाप्रवीणश्च मतस्तमाह स च भूपतिम् ।। १ ।।

राजन्कामपुरे रम्ये वीरसिंहो महीपतिः ।।

न्यायतो धर्मतश्चैव तत्र राज्यमचीकरत् ।। २ ।।

हिरण्यदत्तस्तत्रैव वैश्यो धनमदान्वितः ।।

कामालसा तस्य सुता रूपयौवनशालिनी ।। ३ ।।

अवसत्सुखतो नित्यं वसंते कुसुमप्रिया ।।

कदाचित्कुसुमार्थं वै वनं भ्रमरनादितम् ।। ४ ।।

गच्छन्तीं तां समालोक्य धर्मदत्तात्मजो बली ।।

सोमदत्त इति ख्यातः पस्पर्श मदनालसाम् ।। ५ ।।

सा तु तं निर्जने स्थाने प्रोवाच विनयान्विता ।।

कन्यकाहं महावीर त्यज मां धर्मतोद्य भोः ।। ६ ।।

विवाहे सति पूर्वं त्वां भजामि दशमेऽहनि ।।

अतो दशदिनस्यैवादेशं देहि दयानिधे ।। ७ ।।

तथेति मत्वा तां त्यक्त्वा निजगेहं समागतः ।।

कामालसा तु तद्ग्रामे पित्रा दत्ता वराय च ।। ८ ।।

मदपालाय वैश्याय मणिग्रीवसुताय च ।।

श्वशुरस्य गृहं गत्वा स्वमित्रं प्रत्यचिन्तयत् ।। ९ ।।

नवमेऽहनि तत्स्वामी गृहीत्वा कामिनीं बलात् ।।

कामातुरः स पत्नीं तामालिलिंग मदान्वितः ।। 3.2.9.१० ।।

अरुदत्सा तु तत्पत्नी मित्रवाक्येन कर्षिता ।।

तामुवाच तदा वैश्यः शांतिपूर्वमिदं वचः ।। ११ ।।

किं रोदिषि मदापूर्णे सत्यं कथय शोभने ।।

सा तु सत्यवती प्राह यथाजातं हि कानने ।। १२ ।।

यदि नायामि पार्श्वे त्वां सोमदत्त धनोत्तम ।।

तदा वैधव्यतां प्राप्य भजामि वृजिनं हि तत् ।। १३ ।।

इति वाक्येन बद्धाहं यास्याम्यद्य तदंतिके ।।

इति श्रुत्वा च तत्स्वामी तामाज्ञाप्य मुदान्वितः ।। १४ ।।

सुष्वाप सा तु तत्पार्श्वे ह्यगमत्कामविह्वला ।।

तदा चौरस्तु तां दृष्ट्वा सर्वाभरणभूषिताम् ।। १५ ।।

वचश्चोवाच लोभात्मा कुत्र यासि च सुन्दरि ।।

केनैवापेक्षिता रात्रौ सत्यं कथय भामिनि ।। १६ ।।

कामालसा तु तं चौरमुवाच मदविह्वला ।।

रक्षिता कामबाणेन स्वमित्रं प्रति यामि भोः ।। १७ ।।

चौरस्तामाह भोः सुभ्रूर्भूषण देहि मेऽबले ।।

चौरोऽहं ते धनग्राही सा श्रुत्वा वाक्यमब्रवीत् ।। १८ ।।

आलिंग्योपपतिं मित्रं तुभ्यं दास्यामि भूषणम् ।।

तथेत्युक्त्वा तु तेनैव सोमदत्तं समागता ।। १९ ।।

दृष्ट्वा तामब्रवीद्वैश्यः कथं याता स्मरालसे ।।

सत्यं कथय मे शीघ्रं तत्पश्चात्त्वां भजाम्यहम् ।। 3.2.9.२० ।।

कामालसा तु तच्छ्रुत्वा यथा जातं तथाऽब्रवीत् ।।

श्रुत्वा स ज्ञानहृदयो विष्णुदेवेन बोधितः ।। २१ ।।

मत्वा पतिव्रतां नारीं परिक्रम्य व्यसर्जयत् ।।

चौरस्तु कारणं श्रुत्वा विष्णुदेवेन बोधितः ।। २२ ।।

गेहे प्रवेशयामास तत्पतिर्यत्र तिष्ठति ।।

सा तु कामालसा देवी स्वपातिव्रत्य धर्मिणी ।। २३ ।।

बुभुजे विषयान्दिव्यान्देवदेवेन चोदितान् ।।

इत्युक्त्वा स तु वैतालो नृपतिं प्राह कोविदम् ।।

कस्य सत्यं स्मृतं श्रेष्ठं तेषां मध्ये वदस्व मे ।। २४ ।।

।। सूत उवाच ।। ।।

इत्युक्तः स तु भूपालो वैतालमिदमब्रवीत् ।। २५ ।।

चौरस्य सत्यता श्रेष्ठा यथा जाता तथा शृणु ।।

नृपभीत्या स वैश्यस्तु तां नारीं न तु भुक्तवान्।। २६ ।।

वैधव्यभीत्या सा देवी स्वमित्रं प्रति चागता ।।

धर्मभीत्या च तत्स्वामी स्वपत्नीं न तु भुक्तवान् ।। २७ ।।

चौरस्तु सत्यभीत्या वै त्यक्त्वा तां मुदमागतः ।। २८ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये नवमोऽध्यायः ।। ९ ।।

तुलनीय - वेतालपञ्चविंशति

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 10

।। सूत उवाच ।। ।।

वैतालस्तु महाभाग राजानमिदमब्रवीत् ।।

गौडदेशे महाराज वर्धनं नाम वै पुरम् ।। १ ।।

गुणशेखर आख्यातो भूपालस्तत्र धर्मवान् ।।

तन्मन्त्री निर्भयानन्दो जैनधर्मपरा यणः ।। २ ।।

कदाचिद्भूपतिर्यातो मन्दिरे गिरिजापतेः ।।

पूजयामास तं देवं सर्वव्यापिनमीश्वरम् ।। ३ ।।

वृश्चिकस्तत्र संप्राप्य ददंश नृपतिं रुषा ।।

तत्कष्टेन स भूपालो मूर्छितः पतितो भुवि ।। ४ ।।

तदा तु निर्भयानन्दो विषमुत्तार्य तस्य वै ।।

भूपतिं वर्णयामास जैनधर्म परायणः ।। ५ ।।

शृणु राजन्महाभाग शत्रून्षण्मानसाधमान् ।।

कामः क्रोधस्तथा लोभो रतिर्हिंसा च तृष्णिका ।।

रजोगुणाच्च ते जातास्तेषां भेदाः पृथक्पृथक् ।। ६ ।।

मोहो दंभो मदश्चैव ममताशा च गर्हणा ।।

तमोगुणाच्च ते जातास्तैरिदं पूरितं जगत् ।। ७ ।।

कामी विष्णुस्तथा रुद्रः क्रोधी लोभी विधिस्तथा ।।

दंभी शक्रो यमो मोही मदी यक्षपतिः स्वयम् ।। ८ ।।

माया वश्याश्च ते सर्वे तर्हि तत्पूजनेन किम् ।।

षट्शत्रुभिर्जितो यो वै स जिनो मुनिभिः स्मृतः ।। ९ ।।

न जितः स जिनो ज्ञेयोऽद्वैतवादी निरंजनः ।।

तस्य ध्यानेन भावेन मोक्षवंतो नराः सदा ।। 3.2.10.१० ।।

तत्प्रसादाय यो धर्मः शृणु मे वसुधाधिप ।।

गोपूजनेन ते देवास्तुष्टिं यान्ति सदैव हि ।। ११ ।।

अतो गोपूजनं शुद्धं हिंसा सर्वत्र वर्जिता ।।

मदपानेन सर्वात्मा जिनः क्लेशं समाप्नुयात् ।। १२ ।।

तस्मान्मांसं च पानं च वर्जितं सर्वदैव हि।

न्यायेनोपार्जितं वित्तं भोजयेच्च बुभुक्षितान् ।। १३ ।।

रविरात्मा जिनस्यैव तत्प्रकाशे हि भोजयेत् ।।

इत्येवं वर्णयित्वैनं मंत्री गेहमुपाययौ ।। १४ ।।

तथैव मत्वा स नृपो जिनधर्मं गृहीतवान् ।।

कियता चैव कालेन वेदमार्गो हि लंघितः ।। १५ ।।

तदा तु दुःखिता राज्ञी शिवस्य शरणं ययौ ।। १६ ।।

वरदानेन रुद्रस्य पुत्रो जातो महोत्तमः ।।

धर्मराज इति ख्यातो वेदव्रतपरायणः ।। १७ ।।

गुणशेखर एवासौ पंचत्वे निरयं ययौ ।।

धर्मराजस्तदा राज्यं कृतवान्धर्मतः स्वयम् ।। १८ ।।

तस्य धर्मप्रभावेण तत्पिता स्वर्गमाप्तवान् ।।

त्रयः पत्न्योभवंस्तस्यगुणरूपा महोत्तमा ।। १९ ।।

वसंतसमये राजा ताभिः सह वनांतरे ।।

संयातो रमयामास पुष्पभ्रमरनादिते ।। 3.2.10.२० ।।

श्रमितः स तु भूपालो राज्ञीभिः सह मोदितः ।।

सरोवरे स्नापितवान्मदाघूर्णितलोचनः ।। २१

गृहीत्वा कुसुमं पाद्मं करे राज्ञ्यै समार्पयत् ।।

पदि हीनत्वमायाता पतता कुसुमेन वै ।।२२ ।।

दुःखितः स तु भूपालो राज्ञीं तामचिकित्सयत् ।।

रात्रौ प्राप्ते द्वितीया तु चन्द्रशीलेन मोहिता ।। २३ ।।

अपतद्व्याकुलीभूत्वा शुद्धं पादमभूत्ततः ।।

पतितायाश्च शब्देन तृतीया ज्वरिताऽभवत् ।। २४ ।।

तस्या मूर्च्छा तदा क्षीणा द्वितीयाया अजायत ।।

नृपस्पर्शेन सा सुभ्रूर्ज्वरतापं विहाय च ।। २५ ।।

प्रभाते सुंदरे जाते स ताभिर्गृहमाययौ ।।

इत्युक्त्वा स तु वैतालो भूपतिं प्राह नम्रधीः ।।

आसां मध्ये महाराज का श्रेष्ठा सुकुमारिका ।।२६।।

।।राजोवाच।। ।।

तृतीया सुकुमारी च तासां मध्ये महोत्तमा।।

वायुप्रकृतितश्चासौ पद्मपुष्पेण खंजिता।।२७।।

शीतांशुना द्वितीया तु मूर्च्छिता कफभावतः ।।

शब्दमात्रेण संतापो यस्यां जातो हि सोत्तमा ।।२८।।

विहस्याह पुनर्देवो भवभक्तं महीपतिम् ।।

जैनधर्मः प्रधानो हि वेदधर्मोथ वा वद ।।२९।।

स होवाच प्रधानोऽसौ वेदधर्मः सनातनः।।

अष्टौ श्रेण्यो हि तस्यैव ब्रह्मणोव्यक्तरूपिणः।।3.2.10.३०।।

शूद्रो वैश्यस्तथा क्षत्री ब्राह्मणो ब्रह्मचर्यकृत् ।।

गेही वन्यो यतिश्चैव क्रमाच्छ्रेष्ठाः प्रकीर्तिताः ।। ३१ ।।

यः कृत्वा दारसंसर्गं यतिवद्वर्तते गृही ।।

स पापी नरकं याति यावदाभूतसंप्लवम् ।। ३२ ।।

गृहेषु यतिवद्धर्मो जैनशास्त्रे प्रकीर्तितः ।।

पाखण्डः स स्मृतः प्राज्ञैर्वर्जनीयो हि सर्वदा ।। ३३ ।।

इति श्रीभविष्ये महापुराणे चतुर्युगखंडापरपर्याये कलियुगी येतिहाससमुच्चये दशमोऽध्यायः ।।१०।।

तुलनीय - वेतालपंचविंशति

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 11

।। सूत उवाच ।। ।।

भोः शौनक महाभाग स वैतालो हि देवता।।।

राजानमब्रवीद्गाथां धर्मप्रश्नमयीं शुभाम् ।।१।।

राजन्पुण्यपुरे रम्ये नानाजननिषेविते ।।

धर्मवल्लभभूपालस्तत्र राज्यं पुराकरोत् ।।२।।

सत्यप्रकाशस्तन्मंत्री लक्ष्मीश्चामात्यकामिनी ।।

कदाचित्स तु भूपालो मंत्रिणं प्राह धर्मवित् ।।३।।

आनंदः कतिधा लोके तन्ममाचक्ष्व सत्तम ।।

स होवाच महाराज सुखं चैव चतुर्विधम् ।।४।।

ब्रह्मचर्याश्रमे यो वै ब्रह्मानंदो महोत्तमः ।।

गार्हस्थ्ये विषयानंदो मध्यमः कथितो बुधैः ।।५।।

वानप्रस्थे महाराज स धर्मानंदकोऽधमः ।।

कर्मकांडेन चानंदः सत्यधर्मः स वै स्मृतः।।६।।

संन्यस्ते तु शिवानंदस्स हि सर्वोत्तमोत्तमः।।

विषयानंदको राजन्स्त्रीप्रधानः प्रकीर्तितः।।७।।

स्त्रियं विना सुखं नास्ति गृहस्थाश्रमके नृप।।

इति श्रुत्वा स भूपालो देशांतरमुपाययौ ।।८।।

पत्नीमन्वेषयामास स्वयोग्यां धर्मतत्पराम् ।।

प्राप्तवान्न तु वामांगीं मनोवृत्त्यनुसारिणीम्।।९।।

स भूपो मंत्रिणं प्राह नारीमन्वेषयाद्य भोः।।

नो चेत्प्राणानहं त्यक्ष्ये सत्यं वाक्यं ब्रवीम्यहम्।।3.2.11.१०।।

इति श्रुत्वा ययौ मंत्री देशाद्देशांतरं प्रति ।।

सिंधुदेशे च संप्राप्य समुद्रं प्रति सोऽगमत् ।।

तुष्टाव मनसा सिंधुं सर्वतीर्थपतिं शुभम्।। ११ ।।

।। बुद्धिप्रकाश उवाच ।। ।।

सिंधुदेव नमस्तुभ्यं सर्वरत्नालय प्रभो ।।१२।।

अहं ते शरणं प्राप्तः शरणागतवत्सल।।

त्वां नमामि जलाधीशं गंगादिसरितां पतिम्।।१३।।

स्त्रीरत्नं देहि राज्ञोऽर्थे नो चेत्प्राणांस्त्यजाम्यहम् ।।

इति श्रुत्वा प्रसन्नात्मा सागरः सरितां पतिः ।।१४।।

जले वृक्षं सुवर्णांगं पत्रविद्रुमकं महत् ।।

मुक्ता फलान्वितं दिव्यं मंत्रिणे समदर्शयत् ।।१५।।

तस्योपरि स्थिता बाला सुकुमारी मनोरमा ।।

तत्रैव सा लये जाता वृक्षेण सह भूपते ।।१६।।

इति दृष्ट्वा महाश्चर्यं नृपांतिकमुपाययौ ।।

वर्णयित्वा तु तत्सर्वं राज्ञा सार्धं समाप्तवान्।। १७ ।।

तथाविधं नृपो दृष्ट्वा सागरांतमुपाययौ ।।

बालया सह पातालं प्राप्तवान्भूपतिः स्वयम् ।। १८ ।।

तां नारीं प्राह नम्रात्मा त्वदर्थेऽहं समागतः ।।

गांधर्वेण विवाहेन मां प्रापय वरानने ।। १९ ।।

विहस्य साऽऽह तं भूपं कृष्णपक्षे चतुर्दशी ।।

तद्दिनेऽहं समागत्य त्वां भजामि नृपोत्तम ।।3.2.11.२०।।

इति श्रुत्वा स नृपतिस्तद्दिने स्मरविह्वलः।।

खड्गहस्तो ययौ तत्र यत्र देवीगृहोत्तमम् ।। २१ ।।

एतस्मिन्नंतरे तत्र राक्षसो बकवाहनः ।।

तां बालां स च पस्पर्श नृपः क्रोधातुरोऽभवत् ।। २२ ।।

कामांधो राक्षसं हत्वा स्वपत्नीं प्राह निर्भयाम् ।।

कोऽयं तेऽत्र समायातः कारणं वद भामिनि ।। २३ ।।

साह भोः शृणु भूपाल विद्याधरसुता ह्यहम् ।।

पितृप्रिया मदवती कामार्ता वनमागता ।। २४ ।।

नागता भोजने काले पितृमात्रोश्च मंदिरे ।।

ज्ञात्वा ध्यानेन मत्पित्रा शापिता तच्छृणुष्व भोः ।। २५ ।।

अद्य कृष्णचतुर्दश्यां त्वां भजिष्यति राक्षसः ।।

कृष्णपक्षचतुर्दश्यां भुंक्ष्व त्वमपराधकम् ।। २६ ।।

तदाहं रोदनं कृत्वा ब्रवीमि पितरं प्रति ।।

कदा मुक्तिर्भवेद्देव तत्त्वं कथय सुव्रत ।। २७ ।।

स होवाच कुमारि त्वं वीरभुक्ता भविष्यसि।।

तदा शापस्य मुक्तिः स्यात्साहं तव विमोचिता ।। २८ ।।

त्वदाज्ञयाहं यास्यामि भो राजन्पितृमंदिरे ।।

इति श्रुत्वा नृपः प्राह मम गेहं समाव्रज ।। २९ ।।

त्वया सार्द्धं गमिष्यामि गृहं विद्याधरस्य तत् ।।

तथेत्युक्त्वा तु सा देवी नृपगेहं समाययौ ।। 3.2.11.३० ।।

तदा तु नगरे तस्मिन्नृणां जातो महोत्सवः ।।

मंत्री दृष्ट्वा तु तं भूपं दिव्यपत्नीसमन्वितम् ।।

पञ्चत्वमगमत्तूर्णं कुतो हेतोर्हि तद्वद ।। ३१ ।।

।। राजोवाच ।। ।।

मन्त्री बुद्धिप्रकाशस्तु दृष्ट्वा देवीं समागताम् ।।३२।।

नृपं स हृदि संध्यात्वा राज्यभंगभयातुरः ।।

त्यक्त्वा प्राणान्ययौ स्वर्गं शृणु यत्कारणं शुभम् ।। ३३ ।।

विषयी यो हि भूपालस्तस्य राज्यविनाशनम् ।।

स्त्रीमदं प्राप्य राज्यस्य सदा हानिमवाप्नुयात् ।। ३४ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकादशोऽध्यायः ।। ११ ।।

तुलनीय - कथासरित्सागरः

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 12

।। सूत उवाच ।। ।।

विहस्य स तु वैतालो राजानमिदमब्रवीत् ।।

राजंश्चूडापुरे रम्ये भूपश्चूडामणिः स्मृतः ।।१।।

देवस्वामी गुरुस्तस्य वेदवेदांगपारगः ।।

तस्य पत्नी विशालाक्षी पतिधर्मपरायणा ।। २ ।।

शिवमाराधयामास पुत्रार्थे वरवर्णिनी ।।

रुद्रस्य वरदानेन कामदेवसमः सुतः ।। ३ ।।

हरिस्वामीति विख्यातो जातो देवांशवान्बली ।।

सर्वसंपत्समायुक्तो देवतुल्यसुखी क्षितौ ।। ४ ।।

रूपलावण्यिका नाम्ना तत्पत्नी हि सुरांगना ।।

जाता देवलशापेन तस्य नन्दनतो नृप ।। ५ ।।

एकदा पतिना सार्द्धं वसन्ते कुसुमाकरे ।।

हर्म्ये सुष्वाप संप्रीत्या शय्यामध्यास्य सुंदरी ।।६।।

सुकलो नाम गंधर्वस्तस्या रूपेण मोहितः ।।

तां जहार विमाने स्वे संस्थाप्य स्वपुरं ययौ ।।७।।

प्रबुद्धः स तु तां नारीं मृगयामास विह्वलः ।।

अलब्ध्वा व्याकुलो भूत्वा देशं त्यक्त्वा वनं गतः ।।८।।

संन्यस्य विषयान्सर्वान्हरिध्यानपरायणः ।।

कदाचित्प्राप स स्नेही विप्रगेहमुपागतः ।। ९ ।।

प्रपच्य पायसमपि वटवृक्षमुपाश्रितः ।।

वृक्षोपरि निधायाशु नदीस्नानमथाकरोत् ।।

भोजनं च ततो राजन्सर्पेण गरलीकृतम् ।। 3.2.12.१० ।।

ततो यतिः समायातो भुक्त्वा मदमुपाययौ ।।

विषेण पीडिततनुर्दृष्ट्वा ब्राह्मणमब्रवीत् ।। ११ ।।

त्वया प्रदत्तं मूर्खेण पायसं विषमिश्रितम् ।।

मरणं यामि भो दुष्ट ब्रह्महत्यामवाप्स्यसि ।। १२ ।।

इत्युक्त्वा मरणं प्राप्य शिवलोकमुपाययौ ।।

रूपतेजोयुतां देवीं गृहीत्वा सुखमाप्तवान् ।। १३ ।।

इत्युक्त्वा स तु वेतालो राजानमिदब्रवीत् ।।

कस्मै प्राप्ता ब्रह्महत्या तेषां मध्ये वदस्व मे ।। १४ ।।

।। राजोवाच ।। ।।

स्वाभाविकविषो नागो ह्यज्ञानेन विषं कृतम् ।।

अतो दोषी हि भुजगो ब्रह्महत्यां न चाप्तवान् ।। १५ ।।

बुभुक्षिते ददौ भिक्षां स द्विजो दैवमोहितः ।।

ब्रह्महत्यामतो नायात्कुलधर्मपरायणम् ।। १६ ।।

आत्मना च कृतं पापं भोक्तव्यं सर्वदा जनैः ।।

आत्मत्यागो ब्रह्महत्या चातिथेश्चावमाननम्।। १७ ।।

ब्रह्महत्या तदा ज्ञेया विषदत्तेन सा तथा ।।

आत्मत्यागः स्मृतो दैवात्तस्मात्सोपि न पापवान् ।। १८ ।।

यैर्नरैः कथिता वार्ता ब्रह्महत्या त्वया कृता ।।

तेषां ब्राह्मणहत्या सा न्यायभ्रष्टवतां नृणाम् ।। १९ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युग खण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वादशोऽध्यायः ।। १२ ।।

तुलनीय - कथासरित्सागरे वेतालपञ्चविंशति

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 13

।। सूत उवाच ।। ।।

कृतकृत्यः प्रसन्नात्मा वैतालो नृपमब्रवीत् ।।

नगरे चन्द्रहृदये रणधीरो नृपोऽभवत् ।। १ ।।

तत्र वैश्योऽवसद्धर्मी नाम्ना धर्मध्वजो धनी ।।

तस्य पुत्री समायाता सुन्दरी सुखभाविनी ।। २ ।।

एकदा नगरे तस्मिन्यातुभक्तो नरोऽभवत् ।।

द्यूतविद्यापरो नित्यं मद्यमांसपरायणः ।। ३ ।।

वाशरो नाम तत्रासीद्राक्षसः पुरुषादनः ।।

तस्मै मद्यं च मांसं च प्रत्यहं स च दत्तवान् ।। ४ ।।

प्रसन्नो राक्षसो भूत्वा यातुभक्तं तमब्रवीत् ।।

वरं वरय यो योग्यो मत्तः सर्वमवाप्स्यसि ।। ५ ।।

स होवाच वरो मह्यं देयस्ते पुरुषादक ।।

गुप्तगर्तं च भूमध्ये कुरु चौरनिरूपणम् ।। ६ ।।

इति श्रुत्वाकरोद्गर्तं नर बुद्धिविमोहनम् ।।

स्वयं तत्र स्थितो देवः स्वभक्तेन समन्वितः ।। ७ ।।

तेन रात्रौ तु चौर्येण नृपदासी वरांगना ।।

हृता संस्थापिता गर्ते बहुद्रव्यं तथा हृतम् ।। ८ ।।

सप्तपत्न्योऽभवंस्तस्य चतुर्वर्णस्य योषितः ।।

तासां मध्ये भूपदासी तस्य चौरस्य वल्लभा ।। ९ ।।

नृपदुर्गसमं गेहं रचितं तेन रक्षसा ।।

भूतले गुप्तरूपं च नरबुद्धिविमोहनम्।। 3.2.13.१० ।।

चोरितं बहुधा द्रव्यं गर्ते संस्थापितं बलात्।।

तदा ते व्याकुला राजञ्जना राजानमब्रु वन् ।। ११ ।।

त्यजाम नगरीं भूप चौरविघ्नकरीं तव ।।

इति श्रुत्वाथ भूपेन रक्षिणः शस्त्रसंयुताः ।।

स्थापिता नगरे तस्मिश्चौरहिंसापराय णाः ।। १२ ।।

आज्ञाप्य स ययौ गेहं तैस्तु श्रुत्वा तथा कृतम् ।। १३ ।।

राक्षस्या मायया सर्वे मोहिता रक्षिणस्तदा ।।

चौरेण बहुधा द्रव्यं हृतं च धनिनां वलात् ।। १४ ।।

पुनस्ते प्रययुर्भूपं रणधीरं समेरयन् ।।

श्रुत्वा तु विस्मितो राजा स्वयं नगरमागतः ।। १५ ।।

अर्धरात्रे तमोभूते स चौरो नृपमागतम् ।।

ज्ञात्वाब्रवीच्च राजानं को भवानत्र चाप्तवान् ।। १६ ।।

नृपोऽब्रवीदहं चौरश्चोदितार्थः समागतः ।।

यास्यामि धनिनां गेहे भवान्मे वचनं कुरु ।। १७ ।।

मया सार्द्धं च बहुधा द्रव्यं हर सुखी भव ।।

तथा मत्वा तु बहुधा चौरेण धनमाहृतम् ।। १८ ।।

गर्तमध्ये गतो रात्रौ स्थापयित्वा नृपं बहिः ।।

एतस्मिन्नेव तत्पत्नी नृपदासी वरांगना ।। १९ ।।

भूपतिं प्राह भो राजन्गच्छ शीघ्रं स्वकं गृहम् ।।

चौरोऽसौ हि त्वदर्थे च मृत्युं कुर्वन्गृहं गतः ।। 3.2.13.२० ।।

इत्युक्त्वा सा तु भूपाय मार्गभेदमदर्शयत् ।।

नृपोऽपि स्वगृहं प्राप्य प्रभाते विमले रवौ ।। २१ ।।

आययौ सेनया सार्द्धं यत्र चौरः स्वयं स्थितः ।।

चौरोऽपि भयमासाद्य वाशरं नाम राक्षसम् ।। २२ ।।

संपूज्य वर्णयामास यथा जातं तथाविधि ।।

विहस्याह च रक्षस्तं त्वया मे भोजनं कृतम्। २३ ।।

अद्य भक्ष्याम्यहं सर्वान्मानुषान्दैवचोदितान् ।।

इत्युक्त्वा स ययौ घोरो राक्षसो नृपतिं प्रति ।। ।। २४ ।।

चखाद बहुलां सेनां तेपि याता दिशो दश ।।

आक्रांतः स च भूपालो रक्षसा विकलीकृतः ।। २५ ।।

तदा चौरः स्वयं प्राप्य भूपतिं प्राह रोषतः ।।

पलायनं न भूपस्य योग्यं धर्मजनस्य वै ।। २६ ।।

इति श्रुत्वा नृपश्चैव तूर्णमागत्य तत्र ह ।।

ध्यात्वा देवीं महाकालीं लब्ध्वा मंत्रं महोत्तमम् ।। २७ ।।

रक्षसा सह तद्गर्तं भस्मसादभवत्क्षणात् ।।

निगडैस्तं बबंधाशु चौरं नगरलुंठकम् ।। २८ ।।

तथा सर्वधनैः सार्धं स्त्रीभिस्ताभिः समाययौ ।।

राज्यस्थानं समासाद्य दुर्गतिस्तस्य चाभवत् ।। २९ ।।

पटहाताडितेनैव शब्देन च गृहेगृहे ।।

ज्ञापितं करणं सर्वं तच्चौरस्य वधस्य तैः ।। 3.2.13.३० ।।

तद्दिने नगरे तस्मिन्भ्रामितो गर्दभोपरि ।।

धर्मध्वजगृहद्वारे स चौरो हि समागतः ।। ३१ ।।

तस्य रूपं समालोक्य मुमोह सुखभाविनी ।।

पितरं प्राह दुःखार्ता चौरं मोचय सत्वरम् ।। ३२ ।।

स गत्वा नृपतिं प्राह पंचलक्षधनं मम ।।

गृहाण चौरमोक्षार्थे म्रियते न हि मे सुता ।। ३३ ।।

विहस्याह नृपस्तं वै चौरोऽयं धनलुंठकः ।।

कर्हिचिन्न मया त्याज्यो भुवि वै पुरुषाधमः ।। ३४ ।।

इति श्रुत्वा निराशोऽभूत्स चौरो मरणं गतः ।।

शल्यारोपणकाले तु प्राक्प्रहस्य ततोऽरुदत् ।। ३५ ।।

एतस्मिन्नेव तत्पुत्री देवमायाविमोहिता ।।

गृहीत्वा चौरदेहं तु वह्निकुण्डे तु सागमत् ।। ३६ ।।

तदा प्रसन्ना सा दुर्गा तावुजीव्य प्रसादतः ।।

तस्यै दत्तो वरो दिव्यो भुक्तिमुक्तिफलप्रदः ।। ३७ ।।

इत्युक्त्वा स तु भूपालं पुनः प्राह विहस्य तम् ।।

किं कारणेन चौरोसौ प्राक्प्रहस्य ततोऽरुदत् ।। ३८ ।।

।। राजोवाच ।। ।।

मदर्थे सुन्दरी नारी स्वप्राणान्दातुमुद्यता ।।

तस्यै किं च प्रदातव्यं मया तत्स्नेहरूपिणा ।। ३९ ।।

अतो रोदितवान्पश्चाद्धसने कारणं शृणु ।।

धन्योऽयं भगवान्कृष्णो यस्य लीलेयमीदृशी ।। ।। 3.2.13.४० ।।

अधर्मिणे च नाकस्य फलं दातुं समर्हति ।।

धर्मिणे नरकस्यैव फलं तस्मै नमोनमः ।। ४१ ।।

अतः स हसितः पूर्वं मोहितो हरिलीलया ।।

इति श्रुत्वाह वैतालो हरेः शरणमुत्तमम् ।। ४२ ।।

वाक्यं तेन कृतं शूल्यामतो जीवितवाच्छुचिः ।। ४३ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रयोदशोऽध्यायः ।। १३ ।।

तुलनीय - वेतालपंचविंशति

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 14

।। सूत उवाच ।। ।।

भृगुवर्य महाभाग वैतालो नृपमब्रवीत् ।।

राजन्पुष्पावती रम्या नगरी तत्र भूपतिः ।।

सुविचार इति ख्यातः प्रजापालनतत्परः ।। १ ।।

चन्द्रप्रभा तस्य पत्नी रूपयौवन शालिनी ।।

तस्यां जाता सुता देवी नाम्ना चन्द्रावली मता ।। २ ।।

कदाचित्स्वालिभिः सार्द्धं विपिनं कुसुमाकरम् ।।

आययौ तत्र वै विप्रं सुदेवं सा ददर्श ह ।।३।।

मोहिता चाभवद्देवी विप्रोपि पतितः क्षितौ ।।

कामबाणव्यथां प्राप्य गतप्राण इवाभवत् ।। ४ ।।

तस्यां गतायां सदने द्वौ विप्रौ तत्र चागतौ ।।

मूलदेवः शशी नाम्ना तत्र विद्याविशारदौ ।।५।।

तथागतं द्विजं दृष्ट्वा रूपयौवनशालिनम् ।।

पप्रच्छ कारणं सर्व येन मोहत्वमागतः ।। ६ ।।

स श्रुत्वा रोदनं कृत्वा सर्वं तस्मै न्यवेदयत् ।।

कृपालुर्मूलदेवस्तु तं स्वगेहमवाप्तवान् ।। ७ ।।

गृहे जप्त्वा महामंत्रं चामुण्डाबीजसंयुतम् ।।

कृतवान्गुटिके चोभे सुदेवाय समार्पयत् ।। ८ ।।

एकया सुंदरी कन्या द्वादशाब्दमयी शुभा ।।

द्वितीयया महावृद्धो मूलदेवस्तदाभवत् ।। ९ ।।

द्वौ गतौ राजसदने नृपमाशीर्भिरर्च्य तम् ।।

हेतुं निवेदयामास तच्छुणुष्व महामते ।।3.2.14.१०।।

नगरे तांत्रिके राजन्मद्गेहं सुन्दरोपमम् ।।

विलापध्वजनाम्ना वै राज्ञा संलुठितं बलात्।।१ १।।

पलायितौ सुतः पत्नी तावन्वेष्टुं समाययौ।।

इयं वधूर्महाराज मम तत्पुत्रभाविनी।।१२।।

यावदहं न गच्छामि स्वगेहे रक्ष धर्मतः ।।

इति श्रुत्वा स नृपतिश्चाहूय स्वसुतां तदा ।।

तस्यै समर्प्य तां पश्चात्स द्विजो गेहमाययौ ।। १३ ।।

सुदेवस्तु निशीथे वै रमणीं प्राह निर्भयः।।

कुतस्ते मन उद्विग्नं सत्यं कथय मे सखि ।।१४।।

साह मे हृदये नित्यं सुदेवो ब्राह्मणोत्तमः ।।

उषितस्तद्वियोगेन व्याकुलाहं सदा सखे ।।१५।।

सुदेवश्चाह भोः सुभूर्यदि ते ब्राह्मणोत्तमम् ।।

समर्पयामि तत्त्वं मे किं ददासि वदस्व भोः ।।

साह ते सर्वदा दासी भवामि द्विजभामिनि ।।१६।।

इति श्रुत्वा सुदेवस्तु मुखान्निष्कृष्य यंत्रकम् ।।

पूर्वदेहत्वमापन्नस्तया सार्द्धं समारमत् ।। १७ ।।

चतुर्मास्यो भवद्गर्भस्तस्मिन्काले तु भो नृप ।। ।। १८ ।।

अमात्यतनयो विप्रस्त्रीरूपं प्रति मोहितः ।।

तदा मरणसम्पन्नं ज्ञात्वा तं मदनालसम् ।। १९ ।।

मन्त्री स्नेहाच्च बहुधा सञ्चित्य हृदि पंडितैः ।।

तस्मै समर्पयामास तां नारीं मन्त्रसम्भवाम् ।। 3.2.14.२० ।।

साह भोमात्यतनय त्रिमासं तीर्थमण्डले ।।

संस्नाहि तर्हि मे योग्यो भविष्यसि तथा कुरु ।। २१ ।।

तथा मत्वा मंत्रिसुतो नम्रात्मा मदनालसः ।।

तीर्थांतरं गतः सोऽपि सुदेवस्तस्य योषितम् ।। २२ ।।

भूपकांतिं कामवशां चालिलिंग स कामुकः ।।

सा तु गर्भं दधाराशु द्विमासस्य द्विजेन वै ।। २३ ।।

सुदेवो मानुषो भूत्वा मूलदेवगृहं ययौ ।।

सर्वं निवेदयामास यथाजातं नृपालये ।। २४ ।।

मूलदेवः प्रसन्नात्मा शशिनं नाम मित्रकम् ।।

विंशद्वर्षतरं कृत्वा स्वयं वृद्धस्य रूपवान् ।। २५ ।।

राज्ञे निवेद्य तत्सर्वं वधूं मे देहि भूपते ।।

तदा तु स नृपो भीत्या तं प्राह श्लक्ष्णया गिरा ।। २६ ।।

मन्त्री राजकरो नाम तत्पुत्रो मदनालसः ।।

दृष्ट्वा तव वधूं रम्यां मुमोह मरणोन्मुखः ।। २७ ।।

स्वपुत्रस्य वियोगेन स मन्त्री च तथेदृशः ।।

तथाहं ब्राह्मणान्वृद्धान्पृष्ट्वा तस्मै च तामदाम् ।। २८ ।।

यथा प्रसन्नो हि भवान्कुरु त्वं च तथाविधम् ।।

मूलदेवस्तु नृपतिं प्रोवाच विषमुद्वमन् ।। २९ ।।

देहि भूप सुतां मह्यं तत्पुत्रस्य सुरताय वै ।।

तथैव मत्वा स नृपः सुतां चन्द्रावलीं शुभाम् ।। 3.2.14.३० ।।

दत्त्वा च वेदविधिना बहुधा द्रव्यसंयुताम् ।।

स्वयं चकार राज्यं वै ब्रह्मदोषविवर्जितः ।। ३१ ।।

शशी तु भूपतेः कन्यां गृहीत्वा स्वगृहं ययौ ।।

सुदेवस्तु तदा दुःखी मूलदेवमुवाच ह ।। ३२ ।।

मदीयेयं नृपसुता भोगपत्नी महोत्तमा ।।

तच्छ्रुत्वा मूलदेवस्तु विस्मितः स तथाकरोत् ।। ३३ ।।

इत्युक्त्वा नृपतिं प्राह वैतालो रुद्रकिंकरः ।।

कस्मै प्राप्ता नृपसुता धर्मतस्तद्वदस्व मे ।। ३४ ।। ।।

।। राजोवाच ।। ।।

पितामात्राज्ञया पुत्री देवानां सन्मुखे स्थिता ।।

यस्मै निवेदिता तस्मै सा योग्या धर्मतः सदा ।। ३५ ।।

शास्त्रेषु कथितं देव स्त्रीरत्नं सर्वदैव हि ।।

यथाक्षेत्रं भुवि ख्यातं बीजमन्त्रेन रोपितम् ।। ३६ ।।

तत्क्षेत्रं कृषिकारस्य बीजदातुर्न चैव ह ।।

तस्माद्वै राजतनया शशिनं वरयिष्यति ।। ३७ ।।

सुदेवस्य वै तनयो योग्यत्वं हि गमिष्यति ।। ३८ ।।

इति ते कथितं देव यथाशास्त्रेषु भाषितम् ।।

किं कृतं मन्त्रिपुत्रेण तथैव कथयस्व मे ।। ३९ ।।

इति श्रुत्वा स होवाच स पुत्रो मदनालसः ।।

वृन्दावनं शुभं प्राप्य राधाकुण्डे समागतः ।। 3.2.14.४० ।।

स स्नात्वा बहुला ष्टम्यां तत्पुण्येन नृपोत्तम ।।

भस्मसादभवत्पापं येन मोहत्वमागतः ।। ४१ ।।

स्मृत्वा स हृदि गोविंदं तुष्टाव श्लक्ष्णया गिरा ।। ४२ ।।

।। मदनालस उवाच ।। ।।

नमस्ते दयासिंधवे कृष्णदेव त्वयेदं ततं विश्वमम्भोधिरूपम् ।।

त्वयैकेन लीलार्थतो देवदेव प्रियाराधया सार्द्धमेतद्धि गुप्तम्।। ।। ४३ ।।

जगत्यन्तकाले त्वया कालमूर्त्या जगत्संहृतं वै नमस्तेनमस्ते ।।

मदीया च बुद्धिर्हृषीकेश शुद्धा यथा स्यात्तथैवेश शीघ्रं कुरु त्वम् ।। ।। ४४ ।।

इति स्तोत्रप्रभावेन देवदेवेन मोचिता ।।

कामपाशात्तस्य बुद्धिः स क्षत्री गृहमाययौ ।। ४५ ।।

रमणीं स्वां समालिंग्य ननन्द मुदितो नृप ।।

विप्रदोषविनाशाय हृदि संचिन्त्य बुद्धिमान्।।

सुदेवं स समाहूय स्वां स्वसारं ददौ मुदा ।। ४६।।

सुदेवस्तस्य भगिनीं क्षत्रियस्य मदातुराम् ।।

धर्मेणोद्वाह्य स्वगेहं प्राप्तवान्कामकिंकरः ।। ४७ ।।

इति ते कथितं भूप चरित्रं तस्य धीमतः ।।

मूलदेवस्य विप्रस्य तथान्यत्कथयाम्यहम्।। ।। ४८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्दशोऽध्यायः ।। १४ ।।

तुलनीय - कथासरित्सागरे वेतालपञ्चविंशति

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 15

।। सूत उवाच ।। ।।

प्रशस्य भूपतिं शुद्धं वेतालो रुद्रकिंकरः ।।

पुनराख्यानकं विप्र वर्णयामास सुन्दरम् ।। १ ।।

कान्यकुज्जे महाराज ब्राह्मणो दानशीलकः ।।

बभूव सत्यसंधश्च देवीपूजनतत्परः ।।

प्रतिग्रहेण यद्द्रव्यं तेन दानमचीकरत् ।। २ ।।

कदाचित्तु शरत्काले नवदुर्गाव्रतं ह्यभूत् ।।

न प्राप्तं दानतो द्रव्यं तदा चिंतातुरोऽभवत् ।।३।।

किं कर्तव्यं मया चाद्य येन द्रव्ययुतो ह्यहम् ।।

कन्या निमंत्रिताश्चाद्य कथं तां भोजयाम्यहम् ।।४।।

इति शोकसमायुक्तस्तदा देवीप्रसादतः ।।

मुद्राः पञ्च तदा प्राप्तास्ताभिर्व्रतमचीकरत् ।। ५ ।।

निराहारव्रतं तेन कृतं तु नवमाह्निकम् ।।

तेन व्रतप्रभावेन मृतो देवत्वमागतः ।। ६ ।।

जीमूतकेतुरिति च सोभूद्विद्याधराधिपः ।।

हिमाचलगिरौ रम्ये पुरे विद्याधरे शुभे ।।७।।

उवास कतिचिद्वर्षान्दिव्य भोगप्रभोगवान्।।

तत्र कल्पद्रुमं नित्यं पूजयामास भक्तितः ।। ८ ।।

तेन वृक्षप्रभावेन जातः पुत्रो महोत्तमः ।।

सर्वाकलासु निपुणो नाम्ना जीमूतवाहनः ।। ९ ।।

स वै पूर्वभवे राजन्मध्यदेशे महोत्तमे ।।

क्षत्रियः शूरसेनाख्यो बभूव वसुधाधिपः ।। 3.2.15.१० ।।

एकदा मृगयाकेलिलोलुपः स महीपतिः ।।

प्राप्तवानुत्पलारण्यं यत्र वाल्मीकिसंस्थितिः ।। ११ ।।

चैत्रशुक्लनवम्यां तु न कृतं जीवघातनम् ।।

उत्सवं रामदिवसे चकार विधिवन्नृपः ।। १२ ।।

वाल्मीकेश्च कुटीमध्ये रात्रौ जागरणं कृतम् ।। १३ ।।

श्रुता राममयी गाथा तस्य पुण्यप्रभावतः ।।

विद्याधरत्वमापन्नो मुमुदे तत्र शक्रवत् ।।१४।।

कल्पवृक्षस्य वै पूजा कृता तेन महात्मना ।।

वर्षांतरे द्रुमः प्राह वरं वरय सत्तम ।। १५ ।।

स तमाह महावृक्ष मदीयं नगरं शुभम् ।।

धनधान्यस मायुक्तं यथैव स्यात्तथा कुरु ।। १६ ।।

इत्युक्ते सति वृक्षेण नगरं भूपतेः समम् ।।

कृतं तदा न कोऽप्यासीद्यो मन्येत्पार्थिवाश्रयम् ।। १७ ।।

सर्वे ते राजतुल्याश्च कल्पवृक्षप्रसादतः ।।

तदा तौ तु पितापुत्रौ तपसोऽर्थे वनं गतौ ।।१८।।

मलयाद्रौ महारम्ये तेपतुर्बहुलं तपः।।

एकस्मिन्दिवसे राजन्मलयध्वजभूपतेः ।। १९ ।।

कमलाक्षीति विख्याता कन्या च शिवमंदिरे ।।

स्वसख्या सहिता प्राप्ता शिवपूजनतत्परा ।। 3.2.15.२० ।।

जीमूतवाहनश्चैव पूजार्थे मंदिरं ययौ ।।

बालां ददर्श दिव्यांगीं सर्वभूषासमन्विताम् ।। २१ ।।

तस्या दर्शनमात्रेण कामबाणेन पीडितः ।।

मनसा कामदेवं तं तुष्टाव श्लक्ष्णया गिरा ।। २२ ।।

जीमूतवाहन उवाच ।। ।।

मदनाय नमस्तुभ्यं कृष्णपुत्राय ते नमः ।।

शंबरप्राणहंत्रे च चतुर्व्यूहाय ते नमः ।। ।। २३ ।।

पंचबाणाय कामाय प्रद्युम्नाय नमोनमः ।।

मद्योग्यां कुरु सुश्रोणीं कामिनीं कमलाननाम् ।। २४ ।।

तदा प्रसन्नो भगवान्मकरध्वजदेवता ।।

मोहयित्वा च पितरं तद्विवाहमकारयत् ।। २५ ।।

विश्वावसुरिति ख्यातस्तस्य भूपस्य वै सुतः ।।

भगिनीपतिना सार्द्धं स ययौ गंधमादनम् ।। २६ ।।

नरं नारायणं नत्वा गरुडोत्तुंगमाययौ ।।

तदा नागस्य वै माता शंखचूडस्य भो नृप ।।२७।।

रुरोद बहुधा तत्र यत्र जीमूतवाहनः।।

दुःखितः स जगामाशु दयालुर्दीनवत्सलः ।। २८ ।।

वृद्धामाश्वास्य पप्रच्छ केनेदं दुःखमागतम् ।।

साह मे तनयो देव गरुडास्ये गमिष्यति ।। ।। २९ ।।

तद्वियोगेन दुःखार्ता विलपामि महाकुला ।।

इति ज्ञात्वा स नृपतिर्गरुडोत्तुंगमाययौ ।। 3.2.15.३० ।।

गरुडोऽपि गृहीत्वा तं नभोमार्गमुपागमत् ।।

तस्यांगदोऽसृजा लिप्तो न्यधात्तत्तत्र भामिनी ।। ३१ ।।

कमलाक्षी तु वियति स्थितं गरुडभक्षितम् ।।

विलोक्य चारुदद्गाढं पतिदुःखेन दुःखिता ।। ३२ ।।

तदा तु गरुडस्त्रस्तस्तत्रागत्य त्वरान्वितः ।।

जीमूतवाहनं प्राह कस्मात्त्वं मम भक्षितः ।। ३३ ।।

स होवाच प्रभो मेद्य वचः शृणु महामते ।।

शंखचूडस्य जननी महादुःखेन दुःखिता ।। ३४ ।।

तस्याः पुत्रस्य रक्षार्थं संप्राप्तोऽहं तवांतिकम् ।।

इत्युक्ते सति भूपाल शंखचूडश्च पन्नगः ।। ३५ ।।

तद्व्यालस्यैव दुःखेन दुःखितः शत्रुमाप्तवान् ।।

मां प्रभक्ष कृपासिंधो त्वदाहारार्थमागतम् ।। ३६ ।।

संत्यज्य मानुषं दिव्यं कुर्वाहारं महामते ।।

तदा प्रसन्नो गरुडो ददौ तस्मै वरत्रयम् ।।३७ ।।

जीमूतवाहनायैव विद्याधरसुताय च ।।

शंखचूडकुलं नाहं भक्षयिष्ये कदा चन ।। ३८ ।।

त्वं तु विद्याधरपुरे प्राप्य राज्यं महोत्तमम् ।।

सुभोजयित्वा लक्षाब्दं ततो वैकुण्ठमेष्यसि ।। ३९ ।।

इत्युक्त्वान्तर्दधौ देवः स पित्रा राज्यमाप्तवान् ।।

स्वपत्न्या सह राज्यांगं भुक्त्वा वैकुंठमाययौ ।। 3.2.15.४० ।।

इत्युक्त्वा स तु वैतालो नृपतिं प्राह नम्रधीः ।।

तेषां मध्ये महाराज कस्य प्राप्तं महाफलम् ।। ४१ ।।

।। राजोवाच ।। ।।

शंखचूडस्य संप्राप्तं जीवदानमहाफलम् ।।

नृपस्यैवोपकारं च स्वभावो विधिना कृतः ।। ४२ ।।

पतिव्रताप्रभावेन जीवदानेन भूपतेः ।।

सन्तुष्टो गरुडो जातस्तस्य किं तर्हि तत्फलम् ।। ४३ ।।

निर्भयः शंखचूडस्तु स्वशत्रुं प्रति चागमत् ।।

शरीरमर्पयित्वा तं ततः प्राप्तं महाफलम् ।। ४४ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेति हाससमुच्चये पंचदशोऽध्यायः ।। १५ ।।

तुलनीय - कथासरित्सागरे वेतालपंचविंशति

जीमूतवाहनोपरि टिप्पणी

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 16

।। सूत उवाच ।। ।।

पुनः प्राह स वैतालो भूपतिं ज्ञानकोविदम् ।।

चंद्रशेखरभूपस्य नगरी दक्षिणे स्थिता ।। १ ।।

रत्नदत्तोवसद्वैश्यो धर्मज्ञो धनधान्यवान्।।

कामावरूथिनी तस्य सुता जाता महोत्तमा ।। २ ।।

तद्रूपमुत्तमं दृष्ट्वा स वैश्यो भूपतिं प्रति ।।

उवाच भो महाराज सुता मम सुरेप्सिता ।। ३ ।।

तां गृहाण कृपासिंधो त्वद्योग्या विधिनिर्मिता ।।

इति श्रुत्वा तु वचनं भूपतिश्चंद्रशेखरः।।। ।। ४ ।।

मंत्रिणं विदुरं प्राह त्वं च गच्छ महामते ।।

यथायोग्यं हि तद्रूपं मां निवेदय सत्वरम् ।। ५ ।।

इत्युक्त्वा स ययौ गेहं भूपतिश्चंद्रशेखरः।

श्यामला नाम तत्पत्नी ज्ञात्वा राजानमागतम्।।६।।

धूपदीपादिभिः पुष्पैर्यथायोग्यैः समार्चयत् ।।

एतस्मिन्नेव काले तु गौश्च शार्दूलपीडिता।।७।।

हंभाशब्देन महता विललाप भयातुरा ।।

तच्छ्रुत्वा स तु भूपालः खड्गहस्तः समभ्यगात् ।। ८ ।।

शीघ्रं हत्वा तु शार्दूलं मुमोद नृपतिस्तदा ।।

मुकुलो दानवो नाम तद्देहाद्रूपमाप्तवान् ।।९।।

भूपतिं प्राह नम्रात्मा धर्मज्ञं चंद्रशेखरम् ।।

त्वया विमोचितो नाथ यास्यामि वरुणालयम् ।।१ ०।।

प्रह्रादस्यैव शापेन व्याघ्रदेहत्वमागतः ।।

परिक्रम्य ययौ दैत्यः प्रह्लादं प्रति सत्वरः ।। ११ ।।

नृपतिर्गृहमागत्य सुष्वाप परया मुदा ।।

प्रभाते बोधितो राजा सभायां स्वयमागमत् ।। १२ ।।

नृपोक्तः स ययौ तत्र यत्र कामावरूथिनी ।।

दिव्यमूर्तिमयीं दृष्ट्वाचिंतयत्स स्वमानसे ।। १३ ।।

अस्या मूर्तिप्रभावेन राजासौ मोहमाप्स्यति।।

इति ज्ञात्वा नृपं प्राह सैव त्वद्योग्यका न हि।।१४।।

तथा मत्वा स नृपतिर्न विवाहमथाकरोत्।।

रत्नदत्तस्य भूपस्य सेनायाः पतये ददौ ।। १५ ।।

बलभद्रस्य सा पत्नी बभूव वरवर्णिनी ।।

एकदा नृपतिस्तां वै दृष्ट्वा कामावथरूथिनीम् ।। १६ ।।

मोहितः कामबाणेन मूर्च्छितः पतितो भुवि ।।

तदा सेनापतिस्तूर्णं नृपमुत्थाप्य सत्वरम् ।। १७ ।।

शिबिकां चैव संस्थाप्य सभायां च समैरयत् ।।

तदा प्रबुद्धो नृपतिः प्राह सेनापतिं मुदा ।। १८ ।।

कस्येयं सुन्दरी भार्या कुतो जाता महोत्तमा ।।

बलभद्रस्तु तच्छ्रुत्वा नृपतिं प्राह नम्रधीः ।। १९ ।।

ममेयं सुन्दरी नारी रत्नदत्तस्य सा सुता ।।

राज्यभंगभयान्मन्त्री न रूपं त्वयि वर्णिवान् ।। २० ।।

मम दासस्य या पत्नी त्वद्योग्या भूपते सदा ।।

तवेच्छां पूरयिष्यामि तां गृहाण कृपानिधे ।। २१ ।।

इत्युक्तः क्रोधताम्राक्षो भूपतिस्तमुवाच ह ।।

तवेयं धर्मतो भार्या प्राप्ता सुन्दररूपिणी ।। २२ ।।

गृह्णामि यदि तां देवीं नरके यमकिंकराः ।।

पातयित्वा महादुःखं भजयिष्यन्ति तर्हि भोः ।। २३ ।।

इत्युक्त्वा भूपतिस्तूर्णं विरहाग्निप्रपीडितः ।।

मरणं प्राप्तवान्राजा गतो धर्मपुरांतिके ।। २४ ।।

इत्युक्त्वा स तु वैतालो नृपं प्राह शृणुष्व भोः ।।

मृते राजनि तत्पत्नी सती भूत्वा प्रदृश्यते ।।२५।।

सेनापतिस्तु तत्रैव भस्मसादभवत्क्षणात् ।।

कामावरूथिनी देवी भस्म कृत्वा कलेवरम् ।।२६।।

स्वर्गं गतास्तु ते सर्वे कस्य पुण्याधिकं मतम् ।।

स होवाच च वैतालं राजा धर्माधिको मतः ।।२७ ।।

मरणं किंकरस्यैव योग्यं भूपतिहेतवे ।।

पतिव्रताया मरणं पतिसंगेन योग्यकम् ।। २८ ।।

दत्ता यत्किंकरेणैव सुंदरी नृपहेतवे ।।

धर्मभीत्या न नृपतिस्तामगृह्णात्स कामुकः ।। २९ ।।

जित्वा कामं तथा पाल्यं धर्मं तस्मान्नृपेऽधिकम् ।। ३० ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये षोडशोऽ ध्यायः ।। १६ ।।

तुलनीय - कथासरित्सागरे वेतालपंचविंशति

मुकुलोपरि टिप्पणी

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 17

।। सूत उवाच ।। ।।

पुनः प्रोवाच वेतालस्तदा ब्राह्मणरूपवान् ।।

शृणु भूप महाभाग कथां तव मनोरमाम् ।। १ ।।

उज्जयिन्यां महाभाग महासेनो नृपोऽभवेत् ।।

तस्य राज्येऽवसद्विप्रो देवशर्मेति विश्रुतः ।। २ ।।

गुणाकरस्तस्य सुतो मद्यमांसपरायणः ।।

द्यूतेन संक्षयं वित्तं तस्य पापस्य चाभवत् ।। ३ ।।

बांधवैः स परित्यक्तो बभ्राम वसुधातले ।।

कदाचिद्दैवयोगेन सिद्धाश्रममुपागमत् ।। ४ ।।

कपर्दी नाम तं योगी कपालान्नैरपूजयत् ।।

ज्ञात्वा पैशाचमन्नं स बुभुक्षुर्न गृहीतवान् ।। ५ ।।

तदातिथ्यं तदर्थं स यक्षिणीं समुपाह्वयत् ।।

तया रात्रौ महानन्दं प्राप्तवान्स द्विजः शयी ।। ६ ।।

प्रातः काले तु संप्राप्ते कैलासं यक्षिणी गता ।।

स द्विजस्तद्वियोगेन योग्यंतिकमुपाययौ ।। ७ ।।

कपर्दी प्रददौ तस्मै विद्यां यक्षिणिकर्षिणीम् ।।

चत्वारिंशद्दिनान्येव निशीथे जलमध्यगः ।। ८ ।।

स जजाप शुभं मन्त्रं न प्राप्ता कामचारिणी ।।

तदा योग्याज्ञया विप्रः स्वयं तु ममतां त्यजन् ।। ९ ।।

प्राप्तवान्पितरौ नत्वा स्वगेहे निवसन्निशि ।। 3.2.17.१०।।

प्रतिबोधिवनं प्राप्तस्तच्छिष्यत्वमुपाययौ ।।

पञ्चाग्निमध्ये स स्थित्वा तन्मंत्रमजपच्छुचिः ।। ११ ।।

न प्राप्ता योगिनी देवी तदा चिन्तातुरो ऽभवत् ।।

इत्युक्त्वा स वैतालो नृपतिं ज्ञानकोविदम् ।। १२ ।।

पुनराह कथं देवी न प्राप्ता यक्षिणी प्रिया ।।

श्रुत्वाह नृपतिर्विप्र वैतालं रुद्र किंकरम् ।। १३ ।।

त्रिविधं कर्म भो विप्र सिद्ध्यर्थे साधकाय वै ।।

मनोवाग्विहितं कर्म परलोके सुखप्रदम् ।। १४ ।।

सुन्दरांगकृतं ज्ञेयं पुनर्वाक्कायसंभवम् ।।

किञ्चित्सिद्धिप्रदं ज्ञेयमिह जन्मनि वीक्षितम् ।। १५ ।।

परत्र च भुवर्लोके पिण्डदेहकृतं स्मृतम् ।।

मनःकायेन संभूतं पर जन्मनि राज्यदम् ।। १६ ।।

मनोवाक्कायसंभूतमिह जन्मनि सिद्धिदम् ।।

परत्र परमां सिद्धिं तत्कर्म प्रददाति हि ।। १७ ।।

तस्मात्कर्तव्यमेवेह त्रिविधं कर्म साधकैः ।।

अन्यवित्त्तेन स द्विजः कृतवान्कर्म मन्त्रजम् ।।

अतोऽन्यजन्मनि प्राप्तो यक्षत्वं तत्परो द्विजः ।। १८ ।।

।। सूत उवाच ।।

इत्युक्त्वा स तु वैतालः प्रसन्नवदनोऽभवत् ।। १९ ।।

साधु साध्विति तं प्रोच्य सद्वाक्यैः समपूजयत् ।।

इतिहासं पुनः प्राह परीक्षार्थे नृपाय सः ।। 3.2.17.२० ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्तदशो ऽध्यायः ।। १७ ।।

तुलनीय - कथासरित्सागरे वेतालपंचविंशति

यक्षिण्योपरि टिप्पणी

यक्षिणीसाधन मन्त्राः

कपर्द्युपरि टिप्पणी

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 18

।। सूत उवाच ।। ।।

भोः शौनक महाप्राज्ञ वैतालस्तं हि सोऽब्रवीत् ।।

सुदक्षो नाम नृपतिर्वसन्कंबलके पुरे ।। १ ।।

न्यायवान्धर्मवाञ्छूरो दाता शिवपरायणः ।।

तस्य राज्येऽवसद्वैश्यो धनाध्यक्ष इति श्रुतः ।। २ ।।

तनया सुन्दरी तस्य नाम्ना धनवती शुभा ।।

गौरीदत्ताय वैश्याय पित्रा दत्ता वरांगना ।। ३ ।।

कियता चैव कालेन मोहिनी तत्सुताभवत् ।।

द्वादशाब्दवयस्तस्याः पिता तु निधनं गतः ।। ४ ।।

तदा धनवती रंडा निधना पितुरंतिके ।।

कन्यया सह संप्राप्ता निशि मार्गे तमोमये ।। ५ ।।

न्यायशर्मा द्विजः कश्चिद्ब्रह्मस्वस्यापहारकः ।।

नामसत्यत्वभावेन शूल्यां न निधनं गतः ।। ६ ।।

अकस्माद्वैश्यजा प्राप्ता तत्करं सा तदास्पृशत् ।।

तेन दुःखेन महता रुरोदो च्चैर्द्विजश्च सः ।।७।।

हा रामकृष्ण प्रद्युम्नानिरुद्धेति पुनःपुनः ।।

श्रुत्वा धनवती दीना को भवानिति साब्रवीत् ।।८।।

द्विज आह च विप्रोऽहं त्र्यहं शूल्यां निरूपितः ।।

यदि दास्यसि मे कन्यां कोटिस्वर्णं ददामि ते ।। ९ ।।

श्रुत्वा धनवती तस्मा उद्वाह्य मोहिनीं सुताम् ।।

वटमूले स्थितं द्रव्यं खनित्वा गृहमाययौ ।। 3.2.18.१० ।।

मोहिन्यपि पतिं प्राह भवान्मृत्युवशं गतः ।।

कुतो जायेत तनयस्तन्मे ब्रूहि दयानिधे ।। १ १।।

द्विजः प्राह शृणु व्यंगे यदा ते हृच्छयो भवेत् ।।

दता त्वं पंडितं प्राप्य पुत्रमुत्पादयाशु वै ।।१२।।

इत्युक्त्वा मरणं प्राप्य यमलोकं गतो द्विजः ।।

नारकीं यातनां नित्यं बुभुजे निंद्यकर्मजाम् ।। १३ ।।

मातुर्गृहे तु सा नारी मोहिनी यौवनान्विता ।।

समयं हृदये कृत्वा तिष्ठंती च पुनःपुनः ।। १४ ।।

के भोगाश्च किमाश्चर्यं को जागर्ति शयीत कः ।।

पापो व्याधिश्च दुःखं च कुतो जातं हृदि स्थितम् ।। १५ ।।

इति श्लोकं द्विजानाह नोत्तरं च ददुर्द्विजाः ।।

मेधावी नाम काश्मीरे स्थितो विप्रः समागतः ।। १६ ।।

तामुवाच प्रसन्नात्मा शृणु मोहिनि सुंदरि ।।

सुगंधि वनिता वस्त्रं गीतं पानं च भोजनम् ।।

शय्या च भूषणं ज्ञेयो भोगो ह्यष्टविधो बुधैः ।। १७ ।।

अहन्यहनि भूतानि म्रियन्ते जनयन्ति च ।।

ममतां यः करोत्येषां तदाश्चर्यं स्मृतं बुधैः ।। १८ ।।

यो विवेकं समासाद्य कुरुते कर्मसंग्रहम् ।।

संसारे घोरतमसि स जागर्ति विवेकवान्।। १९ ।।

संसाराजगरं ज्ञात्वा वैराग्यं योऽकरोद्भुवि ।।

औदासीन्यं समाधिं च सुखं शेते हि मानवः ।।3.2.18.२०।।

संकल्पाज्जायते कामस्ततो लोभः प्रजायते।।

लोभाज्जातश्च तृष्णायां स पापो निरयप्रदः ।। २१ ।।

जलप्रकृत्यां यो जातो रसो रसविकारवान् ।।

रसाजातस्य देहेऽस्मिन्व्याधिः कर्ममयोऽशुभः ।। २२ ।।

रुद्रात्काल्यां समुद्भूतो मोहो हृदि च लोकहा ।।

स तुष्टाव महादेवीं पत्न्यर्थे सुरपूजिताम् ।। २३ ।।

मिथ्यादृष्टिस्ततो जाता मोहस्य दयिताभवत्।।

तस्मात्स्नेहश्च तत्पत्न्यां जातश्च ममताप्रियः ।। २४ ।।

तयोः सकाशात्संजातं दुःखं शोकसमन्वितम् ।।

इति श्रुत्वा तु सा नारी मुहोह वरवर्णिनी ।। २५ ।।

मानी शूरश्च चतुरोऽधिकारी गुणवान्सखा ।।

स्त्रीरक्षकश्च पुरुषो वशं नारीं सदा नयेत् ।। २६ ।।

तस्यै गर्भं च विप्रोऽसौ दत्त्वा स्वर्णं गृहीतवान् ।।

सापि नारी सुखं लेभे तेन गर्भेण प्रत्यहम् ।। २७ ।।

कदाचिद्दशमासांते मोहिनीमब्रवीच्छिवः ।।

स्वप्नांतरे महाराज सापि ज्ञात्वा तथाकरोत् ।। २८ ।।

दोलामध्ये सहस्रं च स्वर्णं चैव स्वबालकम् ।।

राजद्वारे स्थापयित्वा सुष्वाप जननी सुखम् ।। २९ ।।

शिवेन बोधितो राजा सुतार्थी रुद्रपूजकः ।।

द्विजपुत्रं समालेभे मोहिन्यां जातमुत्तमम् ।। 3.2.18.३० ।।

कारयित्वा जातकर्म विततार धनं बहु ।।

हरदत्तश्च नाम्नासीत्सर्वविद्याविशारदः ।। ३१ ।।

पितुरन्ते च तद्राज्यं प्राप्य धर्मं प्रकाशयन् ।।

गयाश्राद्धं कृतं तेन फल्गुतीरे विधानतः ।। ३२ ।।

त्रयो हस्तास्तदा जाताः स राजा विस्मितोऽभवत् ।। ३३ ।।

इत्युक्त्वा स तु वैतालो नृपतिं प्राह भो नृप ।।

कस्मै योग्यो हि पिंडोऽसौ श्रुत्वा राजाब्रवीदिदम् ।। ३४ ।।

द्रव्यार्थी पंडितो ज्ञेयो गुरुतुल्यश्च भूपतिः ।।

चौराय पिंड उचितो यस्य नारी च मोहिनी ।। ३५ ।।

।। सूत उवाच ।। ।।

तेन पिंडप्रभावेन स चौरो ब्रह्मद्रव्यहा ।।

निरयान्निःसृतो विप्र स्वर्गलोकं समागतः ।। ३६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलि युगीयेतिहाससमुच्चयेऽष्टादशोऽध्यायः ।।१८।।

तुलनीय - वेतालपञ्चविंशतिः

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 19

चित्रकूटे च नृपती रूपदत्त इति श्रुतः ।।

वने मृगप्रसंगेन वनान्तरमुपाययौ।।१।।

मध्याह्ने सरसस्तीरे मुनिपुत्रो ददर्श सः।।

चिन्वतीं पद्मकुसुमं रूपयौवनशालिनीम् ।।२।।

तस्या नेत्रे स्वयं नेत्रे चैकीभूते समागते।।

एतस्मिन्नंतरे विप्रस्तत्र प्राप्तो ददर्श तौ ।।३।।

तस्य दर्शनमात्रेण नृपतेर्ज्ञानमागतम् ।।

विनयावनतो राजा धर्मं पप्रच्छ चोत्तमम् ।।४।।

तमुवाच मुनिर्द्धीमान्दयाधर्मप्रपोषणम् ।। ।

निर्भयस्य समं दानं न भूतं न भविष्यति ।।५।।

अनर्हान्दण्डमादद्यादर्हपूजाफलं भजेत् ।।

मित्रता गोद्विजे नित्यं समता दंडनिग्रहे ।। ६ ।।

सत्यता सुरपूजायां दमता गुरुपूजने ।।

मृदुता दानसमये संतुष्टिर्निंद्यकर्मणि ।।७।।

इत्युक्त्वा स मुनिः पुत्रीं तस्मै दत्त्वा गृहं ययौ।।

राजापि च तया सार्द्धं वटमूलेऽशयिष्ट वै ।।८।।

तदा तु राक्षसः कश्चित्तत्पत्नीभक्षणोत्सुकः ।।

बोधयामास नृपतिं बलिं तस्मै स भूपतिः ।।९।।

दानार्थं चैव क्रव्यादे सप्तवर्षात्मकं द्विजम् ।।

समयं कृतवान्राजा सत्येन स्वगृहं ययौ ।।3.2.19.१ ०।।

अमात्यैः संमतं कृत्वा स्वर्णलक्षं ददौ द्विजे ।।

मध्यं बालं पुरस्कृत्य राक्षसाय बलिं ददौ।।११।।

मृत्युकाले द्विजसुतो विहस्योच्चै रुरोद ह ।।

कथं हास्यं कृतं तेन तत्पश्चाद्रोदनं कथम् ।।१२।।

इति श्रुत्वा नृपः प्राह शृणु वैतालिक द्विज ।।

ज्येष्ठपुत्रं पितुर्हृद्यं मातृहृद्यमवर्यकम्।।१३।।

ज्ञात्वा स मध्यमः पुत्रो राजानं शरणं ययौ।।

निर्दयी रूपसेनश्च पत्नीकल्याणभिक्षुकः ।।१४।।

खङ्गहस्तं नृपं ज्ञात्वा जहास शिवतत्परः ।।

राक्षसाय शरीरं मे प्राप्तमस्माद्रुरोद ह ।।१५।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चय एकोनविंशोऽध्यायः ।।१९।।।

तुलनीय - वेतालपञ्चविंशतिः २०

कथोपरि टिप्पणी

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 20

।। सूत उवाच ।। ।।

इति श्रुत्वा स वैतालो नृपं प्राह पुनः कथाम् ।।

विशालनगरे रम्ये विपुलेशो महीपतिः ।।१।।

तस्य ग्रामेवसद्वैश्योर्थदत्तोविपणे रतः ।।

अनंगमंजरी कन्या तस्य जाता मनोरमा।।२।।

सुवर्णनाम्ने वैश्याय पिता वै दत्तवान्स्वयम्।।

कदाचित्कमलग्रामात्सुवर्णो द्वीपमागमत्।।

द्रव्यलाभाय न्यवसच्चिरं कालं स लुब्धवान् ।।३।।

अनंगमंजरीगेहे दैवयोगाद्द्विजोत्तमः ।।

कमलाकरनामासौ कृत्ययोगात्समागतः ।। ४ ।।

होमांते सुन्दरी नारी मार्जनार्थे सुता गता ।।

दृष्ट्वा तां कामकलिकां मुमोह द्विजसत्तमः ।। ५ ।।

सुतापि मदघूर्णाक्षी विप्राय समयं ददौ ।।

निशीथे तमउद्भूते त्वं मां प्राप्य सुखी भव ।। ६ ।।

इति श्रुत्वा द्विजो वाक्यं तस्या ध्यानं तदाकरोत् ।।

कामाग्निना चिरं तप्तः सुष्वाप परमासने ।। ७ ।।

अर्द्धरात्रे तु सा नारी द्विजागमनतत्परा ।।

मार्गमन्वेषमाणा सा प्रियस्य स्मरपीडिता।। ।। ८ ।।

नागतः स द्विजो दैवात्तदा सा मरणं गता ।।

कमलाकर एवाशु समयान्ते समाययौ ।। ९ ।।

दृष्ट्वा मृत्युवशां सुभ्रूं स्वयं मरणमागतः ।।

प्रभाते चार्थदत्तो वै दाहयामास तां शुचा ।। 3.2.20.१० ।।

सुवर्णश्च तदागत्य विललाप प्रियां प्रति ।।

चितायां भस्मसाद्भूत्वा स्वर्गलोके तु सा ययौ।। ।। ११ ।।

इत्युक्त्वा स तु वैतालो नृपतिं प्राह विक्रमम् ।।

कस्य स्नेहोऽधिकस्तेषां कुतः स्वर्गपुरं ययौ ।। १२ ।।

।। राजोवाच ।। ।।

पति स्नेहोधिकस्तेषां मध्यमौ नारिविप्रकौ ।।

द्विजस्नेहेन सा नारी मृता स्वर्गपुरं ययौ ।। १३ ।।

वैश्यवर्णैः सदा पूज्यो ब्राह्मणो ब्रह्ममूर्तिमान् ।। ।। १४ ।।

द्विजोऽपि नाप्तवान्नारीं तदा स्वर्गगतिं हरिम् ।।

हृदि कृत्वा च निधनं प्राप्तो ह्यस्मात्त्रिविष्टपम् ।। १५ ।।

सुवर्णो हृदि संज्ञाय मत्प्रिया ब्रह्मवत्सला ।।

मां त्यक्ता तु दिवं याता वह्निदाहप्रभावतः ।। १६ ।।

इति श्रीभीविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियु गीयेतिहासमुच्चये विंशोऽध्याय ।। २० ।।

तुलनीय - वेतालपञ्चविंशतिः २१

कथायाः संभावित विवेचनम्

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 21

सूत उवाच।।

इत्युक्त्वा स तु वैतालो राजानं प्राह नम्रधीः।।

जयस्थलपुरे रम्ये वर्धमानो नृपोभवत्।।१।।

तस्य ग्रामेवसद्विप्रो वेदवेदांगपारगः।।

विष्णुस्वामीति विख्यातो राधाकृष्णपरायणः।।२।।

चत्वारश्चात्मजास्तस्य चतुर्भागपरायणाः ।।

द्यूतकर्मा च कुलटो विषयी नास्तिकः श्रुतः ।। ३ ।।

कदाचिद्दैवयोगेन निर्द्धनत्वं च ते गताः ।।

पितरं विष्णुशर्माणं नेमुस्ते विनयान्विताः ।। ४ ।।

ऊचू रमा कथं नष्टा तद्वदस्व पितः प्रिय ।।

पितोवाच तु तच्छ्रुत्वा द्यूतकर्मन्निशामय ।। ५ ।।

द्यूतो धनव्ययकरः पापमूलो महाखलः ।।

व्यभिचारस्तथा चौर्यं निर्दयत्वमतो भवेत् ।।

द्यूतकर्मप्रभावेण त्वदीयद्रव्यसंक्षयः ।। ६ ।।

धनोपायेन भोः पित्रोर्वाक्यं कुरु मतिं प्रति ।।

तीर्थव्रतप्रभावेण त्वत्पापं संक्षयं व्रजेत् ।। ७ ।।

हे पुत्र कुलट त्वं वै वेश्यासंगं महाशुभम् ।।

त्यक्त्वा ब्रह्मपरो भूत्वा ब्रह्मचर्ये मतिं कुरु ।। ८ ।।

विषयिन्मांसमदिरे नित्यपापविवर्धिके ।।

अतः प्राप्स्यति चौर्यत्वमतो वै निरयस्तथा ।। ९ ।।

तस्मात्त्वं प्रभुमीशानं विष्णुं जिष्णुं जगत्पतिम् ।।

निवेद्य सर्वथा द्रव्यं भुञ्जीथा वाग्यतः स्वयम् ।। 3.2.21.१० ।।

नास्तिकत्वं देवनिंदा परित्यज्य मतिं कुरु ।।

आत्मा सर्वाभयो नित्यमात्मशक्तिश्च चंडिका ।। ११ ।।

आत्मनोंगानि देवाश्च सर्वजीवगुहाशयाः ।।

ताञ्ज्ञात्वा पूजनं तेषां कुरु त्वं पापशान्तये ।। १२ ।।

इति ते वचनं श्रुत्वा गतास्तीर्थान्तरं प्रति ।।

शिवमाराधयामासुर्विद्यार्थे सर्वरूपिणम् ।। १३ ।।

वर्षांते च महादेवो विद्यां संजीवनीं ददौ ।।

ते प्राप्य वनमागत्य परीक्षार्थे समुद्यताः ।। १४ ।।

मृतव्याघ्रास्थिनि श्रेष्ठं मंत्रपूतांबु चाक्षिपत् ।।

तेन मंत्रप्रभावेण पंजरत्वमुपागतम् ।। १५ ।।

तस्योपर्य्येव कुलटो मंत्रपूतं पयोऽक्षिपत् ।।

घनमांसं च रुधिरं तेन मंत्रेण चाभवत् ।। १६ ।।

विषयी चाक्षिपच्चैव तस्योपरि जलं शुभम् ।।

तेन मन्त्रप्रभावेण त्वक्प्राणत्वमुपागतम् ।। १७ ।।

सुप्तं व्याघ्रं च संज्ञाय नास्तिकस्तु जलं ददौ ।।

मंत्रेण बोधितो व्याघ्रस्तांश्च विप्रानखादयत्।।१८।।

सूत उवाच ।।

इत्युक्त्वा स तु वेतालो राजानमिदमब्रवीत् ।।

राजन्मूर्खो हि कस्तेषां श्रुत्वा राजाब्रवीदिदम् ।। १९ ।।

बोधितो येन स व्याघ्रः स मूर्खस्त्वधिको मतः ।।

इति श्रुत्वा द्विजश्रेष्ठो वैतालः पुनरब्रवीत् ।। 3.2.21.२० ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहा ससमुच्चय एकविंशोऽध्यायः ।। २१ ।।

तुलनीय - कथासरित्सागरे वेतालपंचविंशति

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 22

।। वैताल उवाच ।। ।।

भो राजन्बिल्वतीग्रामे गंगायामुनमध्यगे ।।

अहं पूर्वभवे चासं क्षत्रसिंहो महीपतिः ।। १ ।।

तस्य ग्रामे वसद्विप्रो वेदवेदांगपारगः ।।

शंभुदत्त इति ख्यातो रुद्रभक्तिपरायणः ।। २ ।।

उभकौ तनयौ तस्य सर्वविद्याविशारदौ ।।

विष्णुभक्तः स्मृतो ज्येष्ठो नाम्ना लीलाधरो बली ।।

शाक्तोऽभवत्तदनुजो मोहनो नाम श्रुतः ।। ३ ।।

कदाचित्क्षत्रसिंहस्तु यज्ञार्थी यज्ञहेतवे ।।

शंभुदत्तं समाहूय ससुतं धर्मकोविदम् ।।

स्वयं च कारयामास च्छागमेधं सुरप्रियम् ।। ४ ।।

शंभुदत्तस्तु वृद्धात्मा शिवभक्तिपरायणः ।।

चतुश्चक्रांश्च संस्थाप्य कलशं कार्यसिद्धिदम् ।। ५।।

हव्यैः सुसंस्कृतै रम्यैश्चकार हवनं मुदा ।।

छागमाहूय विधिवत्पूजयामास भूपतिः ।। ६ ।।

लीलाधरस्तु तं दृष्ट्वा छागं च मरणोन्मुखम् ।।

दयालुर्वेष्णवो धीमानब्रवीद्वचनं रुषा ।। ७ ।।

दारुणं नरकं योग्यमनया जीवहिंसया ।।

सर्वेशो भगवान्विष्णुहिंसायज्ञेन दुष्यति ।। ८ ।।

इति श्रुत्वा वचस्तस्य ज्येष्ठबंधोश्च मोहनः ।।

मृदुपूर्वं जहासोच्चैर्वचनं प्राह नम्रधीः ।। ९ ।।

पुरा सत्ययुगे भ्रातर्ब्राह्मणा यज्ञतत्पराः ।।

अजेनैव हि यष्टव्यमिति ज्ञात्वा परां श्रुतिम् ।।3.2.22.१ ०।।

तिलाधिकमजं मत्वा हव्ये ते तु मनो दधुः ।।

तदा शक्रादयो देवा वह्निमध्ये समागताः ।। ११ ।।

ऊचुस्ते मधुरं वाक्यं त्वन्मतं निष्फलप्रदम् ।।

अजच्छागः स्मृतो वेदैस्तेन यष्टव्यमन्तरम् ।। १२ ।।।

श्रुत्वेति वचनं तेषां विस्मिता मुनयोऽभवन् ।।

एतस्मिन्नंतरे तत्र पितृयोनिरमावसुः ।। १३ ।।

विमानं परमारुह्य मुनीन्प्रोवाच निर्भयः ।।

छाग मेधेन यष्टव्यं सुराणां तृप्तिहेतवे ।। १४ ।।

इति श्रुत्वा वचस्तस्य तथा कृत्वा शिवं ययुः ।।

तस्मात्त्वं च मया सार्द्धं यज्ञं कुरु महामते ।। १५ ।।

इति श्रुत्वा वचो घोरं लीलाधर उदारधीः ।।

मोहनं प्राह धर्मात्मा यज्ञस्त्रेतायुगेऽभवत् ।। १६ ।।

रजोगुणमयो लोकस्त्रेतायां संबभूव ह ।।

हिंसा सत्ययुगे नासीद्धर्मस्तत्र चतुष्पदः ।।१७।।

हव्येन तर्पिता देवा न मांसे रक्तसंभवैः।।

इति श्रुत्वा क्षत्रसिंहस्त्यक्त्वा छागं भयातुरम् ।।१८।।

फलाऽद्यैः कारयामास तदा पूर्णाहुतीर्नृप ।।

एतस्मिन्नन्तरे देवी तामसी क्रोधमूर्छिता ।।

नगरं दाहयामास नरनारीसमन्वितम् ।। १९ ।।

महामायाप्रभावेण शंभुदत्तः शिवप्रियः ।।

स भूत्वा च महोन्मादी त्यक्त्वा देहं दिवं ययौ ।। 3.2.22.२० ।।

तदा लीलाधरो विप्रो दशपुत्रोपजीवकः ।।

बालानध्यापयामास ग्रामे पद्मपुरे शुभे ।। २१ ।।

क्षत्रसिंहस्तु नृपतिर्मोहनान्तिकमाययौ ।।

प्रसादं कारयामास देवमातुरनुग्रहम् ।। २२ ।।

।। मोहन उवाच ।। ।।।

बीजमन्त्रजपाद्ब्रह्मा ब्राह्मीं शक्तिमवाप्तवान् ।।

तदंबायै नमस्तुभ्यं महावीरायै नमोनमः ।। २३ ।।

जप्त्वा सप्तशतीं विष्णुर्वैष्णवीं शक्तिमाप्तवान् ।।

तदंबायै नमस्तुभ्यं महालक्ष्म्यै नमोनमः ।। २४ ।।

प्रणवास्तनया यस्यास्तुरीयपुरुषप्रिया ।।

तदंबायै नमस्तुभ्यं प्रणवायै नमोनमः ।। २५ ।।।

यया दृश्यमिदं जातं यया वै पाल्यते जगत् ।।

यस्या देहे स्थितं विश्वं तदंबायै नमोनमः ।। २६ ।।

शची सिद्धिस्तथा मृत्युः प्रभा गीर्वाणसैनिकाः ।।

स्वाहा च निर्ऋती रात्रिर्ऋद्धिर्भुक्तिस्त्वदुद्भवा ।।

लोकपालप्रिया त्वं हि लोकमातर्नमोनमः ।। २७ ।।

तृष्णा तृप्ती रतिर्न्नीतिर्हिंसा क्षांतिर्मतिर्गतिः ।।

निंदा स्तुतिस्तथेर्ष्या च लज्जा त्वं हि नमोनमः ।। २८ ।।

इत्यष्टकप्रभावेण क्षत्रसिंहो महीपतिः ।।

शिवलोकं गतः साधु र्वैतालत्वमवाप्तवान् ।। २९ ।।

तस्मात्त्वं विक्रमादित्य भज दुर्गां सनातनीम् ।।

शिवाज्ञया त्वहं प्राप्तस्त्वत्समीपे महीपते ।। 3.2.22.३० ।।

प्रश्नोत्तरेण भूपाल मया त्वं संपरीक्षितः ।।

भुजयोस्ते स्थितिर्मे स्याज्जहि सर्वरिपून्भुवि ।। ३१ ।।

दस्युनष्टाः पुरीः सर्वाः क्षेत्राणि विविधानि च ।।

शास्त्रमानेन संस्थाप्य समयं कुरु भो नृप ।। ३२ ।।

यो नृपः सर्वतीर्थानि पुनरुद्धारयिष्यति ।।

स हि मत्स्थापितं संवद्विपरीतं करिष्यति ।। ।। ३३ ।।

विक्रमाख्यानकालोऽयं पुनर्धर्मं करोति हि ।।

द्वादशाब्दशतं वर्षं द्वापरो हि प्रवर्तते ।। ३४ ।।

तदन्ते भुवि कृष्णांशो भविष्यति महा बली ।।

कलेरुद्धरणार्थाय म्लेच्छवंशविवृद्धये ।। ३५ ।।

सूताद्या मुनयः सर्वे नैमिषारण्यवासिनः ।।

विशालायां समागत्य चक्रतीर्थनिवासिनः ।।

भविष्यंति महाराज पुराणश्रवणे रताः ।। ३६ ।।

इत्युक्त्वा स तु वैतालस्तत्रैवान्तरधीयत ।।

नृपतिर्विक्रमादित्यः परमानंदमाप्तवान् ।।३७।।

तस्माद्यूयं मुनिश्रेष्ठा ज्ञात्वा संध्यां समागताम् ।।

शिवं भजत सर्वेशं ध्याननिष्ठासमन्विताः ।। ३८ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्ग पर्वणि वतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वाविंशोऽध्यायः ।। २२ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 23

।। व्यास उवाच ।। ।।

इति श्रुत्वा तु मुनयो विशालानगरीस्थिताः ।।

स्नात्वा केदारकुण्डे ते मनसा पूजयञ्छिवम् ।। १ ।।

समाधिनिष्ठास्ते सर्वे वर्षमेकं व्यतीतयन् ।। २ ।।

एतस्मिन्नंतरे राजा विक्रमादित्यभूपतिः ।।

नत्वा मुनीन्समाधिस्थांस्तुष्टाव परया गिरा ।। ३ ।।

उषित्वा ते तु मुनयः सूतं गत्वाऽब्रुवन्निदम् ।।

सोऽयं राजा समायातो यस्यैवं वर्णिता कथा ।। ४ ।।

वाजिमेधं च नृपतेः कारयामस्त्वदाज्ञया ।।

भवान्हि चक्रतीर्थे च स्थित्वा ध्यानपरो भवेत् ।। ५ ।।

तथेत्युक्त्वा तु सूतस्तैः सार्धं च पुनरागमत् ।।

विधिना कारयामास हयमेधं महामखम् ।।६।।

पूर्वे तु कपिलस्थानं दक्षिणे सेतुबन्धनम् ।।

पश्चिमे सिंधुनद्यन्तं चोत्तरे बदरीवनम् ।। ७ ।।

हयो जगाम तरसा ततः क्षिप्रां नदीं गतः ।।

त्यक्त्वा कलेवरं वह्नौ स्वर्गलोकमतो ययौ ।। ८ ।।

नृपयज्ञे सुराः सर्वे सपत्नीकाः समागताः ।।

चंद्रमास्तत्र नायातो भूपतिर्विमना अभूत् ।।९।।

यज्ञांते विविधं दानं दत्त्वा वैतालसंयुतः ।।

चंद्रलोकं गतो राजा चंद्रमाः सुखितोऽभवत् ।।3.2.23.१ ०।।

भोभो राजन्महाभाग कलौ प्राप्ते भयंकरे ।।

मद्गतिर्भूतले नास्ति तस्मान्नायामि तेऽन्तिकम् ।। ११ ।।

दत्त्वा सुधामयं तोयं चंद्रश्चान्तर्दधे पुनः ।।

ज्ञात्वेन्द्रस्तत्र संप्राप्य द्विजरूपी ह्ययाचयत् ।।१२।।

दत्तं राज्ञा तदमृतं शक्रः स्वर्गमुमुपागतः ।।

तेन तस्य फलं जातमायुर्लक्ष समं ह्यभूत्।।१३।।

तस्मिन्काले द्विजः कश्चिज्जयन्तो नाम विश्रुतः ।।

तत्फलं तपसा प्राप्तः शक्रतः स्वर्गृहं ययौ ।।१४।।

जयन्तो भर्तृहरये लक्षस्वर्णेन वर्णयन् ।।

भुक्त्वा भर्तृहरिस्तत्र योगारूढो वनं ययौ ।।१५।।

विक्रमादित्य एवास्य राज्यमकंटकम्।।

शतवर्षं मुदायुक्तो जगाम मरणे दिवम् ।। ।।१६।।

शौनकाद्यास्तु ऋषयो ज्ञात्वा भूपस्य स्वर्गतिम् ।।

गत्वा सूतं प्रणम्योचुर्धर्मं मुख्यं वदाधुना ।। १७ ।।

तेभ्यः सूतः पुराणानि श्रावयामास वै पुनः ।।

शतवर्षं पञ्चलक्षश्लोकमध्यापयन्मुदा ।।

ते श्रुत्वा मुनयः सर्वे जग्मुर्हृष्टाः स्वमालयम् ।। १८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रयोविंशोऽध्यायः ।। २३ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 24

।। व्यास उवाच ।। ।।

एकदा नैमिषारण्ये ऋषयः शौनकादयः ।।

पृच्छन्ति विनयेनैव सूतं पौराणिकं खलु ।। १ ।।

भगवन्ब्रूहि लोकानां हितार्थाय चतुर्युगे ।।

कः पूज्यः सेवितव्यश्च वांच्छितार्थप्रदायकः ।।२।।

विनायासेन वै कामं प्राप्नुयुर्मानवाः शुभम् ।।

सत्यं ब्रह्मन्वदोपायं नराणां कीर्तिकारकम् ।।३।।

।। सूत उवाच ।। ।।

नवांभोजनेत्रं रमाकेलिपात्रं चतु्र्बाहुचामीकराचारुगात्रम् ।।

जगत्त्राणहेतुं रिपौ धूम्रकेतुं सदा सत्यनारायणं स्तौमि देवम् ।। ४ ।।

श्रीरामं सहलक्ष्मणं सकरुणं सीतान्वितं

सात्त्विकं वैदेहीमुखपद्मलुब्धमधुपं पौलस्त्यसंहारकम् ।।

वन्दे वन्द्यपदांबुजं सुरवरं भक्तानुकम्पाकरं

शत्रुघ्नेन हनूमता च भरतेनासेवितं राघवम् ।। ५ ।।

कलिकलुषविनाशं कामसिद्धिप्रकाशं सुरवरमुखभासं भूसुरेण प्रकाशम् ।।

विबुधबुधविलासं साधुचर्याविशेषं नृप तिवरचरित्रं भोः शृणुष्वेतिहासम् ।। ६ ।।

एकदा नारदो योगी परानुग्रहवांच्छया ।।

पर्यटन्विविधाँल्लोकान्मर्त्यलोकमुपागमत् ।। ७ ।।

तत्र दृष्ट्वा जनान्सर्वान्नानाक्लेशसमन्वितान् ।।

आधिव्याधियुतानार्तान्पच्यमानान्स्वकर्मभिः ।। ८ ।।

केनोपायेन चैतेषां दुःखनाशो भवेद्ध्रुवम्।।

इति सञ्चिंत्य मनसा विष्णुलोकं गतस्तदा ।। ९ ।।

तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् ।।

शंखचक्रगदापद्मवनमालाविभूषितम् ।। 3.2.24.१० ।।

प्रसन्नवदनं शांतं सनकाद्यैरभिष्टुतम् ।।

दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ।। ११ ।।

।। नारद उवाच ।। ।।

नमो वाङ्मनसातीतरूपायानंतशक्तये ।।

नादि मध्यान्तदेवाय निर्गुणाय महात्मने ।। १२ ।।

सर्वेषामादिभूताय लोकानामुपकारिणे ।।

अपारपरिमाणाय तपोधाम्ने नमोनमः ।। १३ ।। ।।

।। सूत उवाच ।। ।।

इति श्रुत्वा स्तुतिं विष्णुर्नारदं प्रत्यभाषत ।।

किमर्थमागतोऽसि त्वं कि ते मनसि वर्तते ।।१४।।

कथयस्व महाभाग तत्सर्वं कथयामि ते ।।

श्रुत्वा तु नारदो विष्णुमुक्तवान्सर्वकारणम् ।। १५ ।।

नारदस्य वचः श्रुत्वा साधुसाध्वित्यपूजयत् ।।

शृणु नारद वक्ष्यामि व्रतमेकं सनातनम्।।१६।।

कृते त्रेतायुगे विष्णुर्द्वापरेऽनेकरूपधृक् ।।

कलौ प्रत्यक्षफलदः सत्यनारायणो विभुः ।। १७ ।।

चतुष्पादो हि धर्मश्च तस्य सत्यं प्रसाधनम् ।।

सत्येन धार्यते लोकः सत्ये ब्रह्म प्रतिष्ठितम् ।। १८ ।।

सत्यनारायणव्रतमतः श्रेष्ठतमं स्मृतम् ।।

इति श्रुत्वा हरेर्वाक्यं नारदः पुनरब्रवीत् ।। १९ ।।

किं फलं किं विधानं च सत्यनारायणार्चने ।।

तत्सर्वं कृपया देव कथयस्व कृपानिधे ।। 3.2.24.२० ।।

।। भगवानुवाच ।। ।।

नारायणार्चने वक्तुं फलं नालं चतुर्मुखः ।।

शृणु संक्षेपतो ह्येतत्कथयामि तवाग्रतः ।। २१ ।।

निर्धनोपि धनाढ्यः स्यादपुत्रः पुत्रवान्भवेत् ।।

भ्रष्टराज्यो लभेद्राज्यमन्धोऽपि स्यात्सुलोचनः ।। २२ ।।

मुच्यते बंधनाद्बद्धो निर्भयः स्याद्भयातुरः ।।

मनसा कामयेद्यंयं लभते तं विधानतः ।।२३।।

इह जन्मनि भो विप्र भक्त्या च विधिनार्चयेत् ।।

लभेत्कामं हि तच्छीघ्रं नात्र कार्या विचारणा ।। २४ ।।

प्रातःस्नायी शुचिर्भूत्वा दंतधावनपूर्व कम् ।।

तुलसीमञ्जरीं धृत्वा ध्यायेत्सत्यस्थितं हरिम् ।। २५ ।।

नारायणं सांद्रघनावदातं चतुर्भुजं पीतमहार्हवाससम् ।।

प्रसन्नवक्त्रं नवकंजलोचनं सनन्दनाद्यैरुपसेवितं भजे ।। २६ ।।

करोमि ते व्रतं देव सायंकाले त्वदर्चनम् ।।

श्रुत्वा गाथां त्वदीयां हि प्रसादं ते भजाम्यहम् ।। २७ ।।

इति संकल्प्य मनसा सायंकाले प्रपूजयेत् ।।

पञ्चभिः कलशैर्जुष्टं कदलीतोरणान्वितम् ।। २८ ।।

शालग्रामं स्वर्णयुक्तं पूजयेदात्मसूक्तकैः ।।

पञ्चामृतेन संस्नाप्य चन्दनादिभिरर्चयेत् ।। २९ ।।

ॐनमो भगवते नित्यं सत्यदेवाय धीमहि ।।

चतुःपदार्थदात्रे च नमस्तुभ्यं नमोनमः ।। 3.2.24.३० ।।

जप्तव्यष्टोत्तरशतं जुहुयात्तद्दशांशकम् ।।

तर्पणं मार्जनं कृत्वा कथां श्रुत्वा हरेरिमाम् ।।३१।।

षडध्यायीं सत्यमुख्यां तत्पश्चात्तत्प्रसादकम् ।।

सम्यग्विभज्य तत्सर्वं दापयेच्छ्रोतृकाय च ।। ३२ ।।

आचार्यायादिभागं च द्वितीयं स्वकुलाय सः ।।

श्रोतृभ्यश्च तृतीयं च चतुर्थं चात्महेतवे ।। ३३ ।।

विप्रेभ्यो भोजनं दद्यात्स्वयं भुञ्जीत वाग्यतः ।।

देवर्षेऽनेन विधिना सत्यनारायणार्चनम् ।।३४।।

कारयेद्यदि भक्त्या च श्रद्धया च समन्वितः ।।

व्रती कामानवाप्नोति वांछितानिह जन्मनि ।। ३५ ।।

इह जन्मकृतं कर्म परजन्मनि पद्यते ।।

परजन्मकृतं कर्म भोक्तव्यं सर्वदा नरैः ।। ३६ ।।

सत्यनारायण व्रतमिह सर्वान्कामान्ददाति हि ।।

अद्यैव जगतीमध्ये स्थापयामि त्वदाज्ञया ।। ३७ ।।

इत्युक्त्ंवाऽतर्दधे देवो नारदः स्वर्गतिं ययौ ।।

स्वयं नारायणो देवः काश्यां पुर्यां समागतः ।।३८।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्विशोऽध्यायः ।। २४ ।।

सत्यनारायणव्रतस्य वैदिक दृष्टिकोणम्

सत्यनारायणव्रतोपरि श्री हरिशंकरजोशीमहोदयस्य दृष्टिकोणम्

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 25

।। सूत उवाच ।। ।।

कृपया ब्राह्मणद्वारा प्रकटीकृतवान्स्वकम् ।।

इतिहासमिमं वक्ष्ये संवादं हरिविप्रयोः ।। १ ।।

काशीपुरीति विख्याता तत्रासीद्ब्राह्मणो वरः ।।

दीनो गृहाश्रमी नित्यं भिक्षुः पुत्रकलत्रवान् ।। २ ।।

शतानंद इति ख्यातो विष्णुव्रतपरायणः ।।

एकदा पथि भिक्षार्थं गच्छतस्तस्य श्रीपतिः ।। ३ ।।

विनीतस्यातिशांतस्य स बभूवाक्षिगोचरः ।।

वृद्धब्राह्मणवेषेण पप्रच्छ ब्राह्मणं हरिः ।।

क्व यासीति द्विजश्रेष्ठ वृत्तिः कामेन कथ्यताम् ।। ४ ।।

।। शतानन्द उवाच ।। ।।

भिक्षावृत्तिरहं सौम्य कलत्रापत्यहेतवे ।।

याचितुं धनिनां द्वारि व्रजामि धनमुत्तमम् ।। ५ ।।

।। नारायण उवाच ।। ।।

भिक्षावृत्तिस्त्वया दीर्घकालं द्विज सदा धृता ।।

तद्वारक उपायोयं विशेषेण कलौ किल ।। ६ ।।

ममोपदेशतो विप्र सत्यनारायणं भज ।।

दारिद्र्यशोकशमनं संतापहरणं हरेः ।।

चरणं शरणं याहि मोक्षदं पद्मलोचनम् ।। ।। ७ ।।

एवं संबोधितो विप्रो हरिणा करुणात्मना ।।

पुनः पप्रच्छ विप्रोसौ सत्यनारायणो हि कः ।। ८ ।।

।। वृद्धब्राह्मण उवाच ।। ।।

बहु रूपः सत्यसंधः सर्वव्यापी निरञ्जनः ।।

इदानीं विप्ररूपेण तव प्रत्यक्षमागतः ।। ९ ।।

दुःखोदधिनिमग्नानां तरणिश्चरणौ हरेः ।।

कुशलाः शरणं यांति नेतरे विषयात्मिकाः ।। 3.2.25.१० ।।

आहृत्य पूजासंभारान्हिताय जगतां द्विज ।।

अर्चयंस्तमनुध्यायंस्त्वमेतत्प्रकटी कुरु ।। ११ ।।

इति ब्रुवंतं विप्रोसौ ददर्श पुरुषोत्तमम् ।।

जलदश्यामलं चारुचतुर्बाहुं गदादिभिः ।। १२ ।।

पीतांबरं नवांभोजलोचनं स्मितपूर्वकम् ।।

वनमालामधुव्रात चुंबितांग्रिसरोरुहम् ।। १३ ।।

निशम्य पुलकांगोसौ प्रेमपूर्णसुलोचनः ।।

स्तुवन्गद्गदया वाचा दंडवत्पतितो भुवि ।। १४ ।।

प्रणमामि जगन्नाथ जगत्कारणकारकम् ।।

अनाथनाथं शिवदं शरण्यमनघं शुचिम् ।। १५ ।।

अव्यक्तं व्यक्ततां यातं तापत्रयविमोचनम् ।। १६ ।।

नमः सत्य नारायणायास्य कर्त्रे नमः शुद्धसत्त्वाय विश्वस्य भर्त्रे ।।

करालाय कालाय विश्वस्य हर्त्रे नमस्ते जगन्मङ्गलायात्ममूर्ते ।। १७ ।।

धन्योस्म्यद्य कृती धन्यो भवोद्य सफलो मम ।।

वाङ्मनोगोचरो यस्त्वं मम प्रत्यक्षमागतः ।। १८ ।।

दिष्टं किं वर्णयाम्याहो न जाने कस्य वा फलम् ।।

क्रियाहीनस्य मन्दस्य देहोऽयं फलवान्कृतः ।। १९ ।।

पूजनं च प्रकर्तव्यं लोकनाथ रमापते ।।

विधिना केन कृपया तदाज्ञापय मां विभो ।। ।। 3.2.25.२० ।।

हरिस्तमाह मधुरं सस्मितं विश्वमोहनः ।।

पूजायां मम विप्रेन्द्र बहु नापेक्षितं धनम् ।। २१ ।।

अनायासेन लब्धेन श्रद्धामात्रेण मां यज ।।

ग्राहग्रस्तोजामिलो वा यथाऽभून्मुक्तसंकटः ।। २२ ।।

विधानं शृणु विप्रेन्द्र मनसा कामयेत्फलम् ।।

पूजासंभृतसंभारः पूजां कुर्याद्यथा विधि ।।२३।।

गोधूमचूर्णं पादार्द्धं सेटकादिप्रमाणतः ।।

दुग्धेन तावता युक्तं मिश्रितं शर्करादिभिः ।।२४।।

तच्चूर्णं हरये दद्याद् घृतयुक्तं हरिप्रियम्।।

गोदुग्धेनैव दधिना गोघृतेन समन्वितम् ।। २५ ।।

गंगाजलेन मधुना युक्तं पञ्चामृतं प्रियम् ।।

पञ्चामृतेन संस्नाप्य शालग्रामोद्भवां शिलाम् ।। ।। २६ ।।

गन्धपुष्पादिनैवेद्यैर्वेदवादैर्मनोहरैः ।।

धूपैर्दीपैश्च नैवेद्यैस्तांबूलादिभिरर्चयेत् ।। २७ ।।

मिष्टान्नपानसन्मानैर्भक्ष्यैर्भोज्यैः फलैस्तथा ।।

ऋतुकालोद्भवैः पुष्पैः पूजयेद्भक्तितत्परः ।। २८ ।।

ब्राह्मणैः स्वजनैश्चैव वेष्टितः श्रद्धयान्वितः ।।

त्वया सार्द्धं मम कथां शृणुयात्परमादरात् ।। ।। २९ ।।

इतिहासं तथा राज्ञो भिल्लानां वणिजोऽस्य च ।।

कथांते प्रणमेद्भक्त्या प्रसादं विभजेत्ततः ।। 3.2.25.३० ।।

लब्धं प्रसादं भुंजीत मानयन्न विचारयेत् ।।

द्रव्यादिभिर्न मे शांतिर्भक्त्या केवलया यथा ।। ३१ ।।

विधि?नानेन विप्रेन्द्र पूजयंति च ये नराः ।।

पुत्रपौत्रधनैर्युक्ता भुक्त्वा भोगान नुत्तमान् ।। ३२ ।।

अन्ते सान्निध्यमासाद्य मोदन्ते ते मया सह ।।

यंयं कामयते कामं सुव्रती तंतमाप्नुयात् ।। ३३ ।।

इत्युक्त्वान्तर्दधे विष्णुर्विप्रोपि सुखमाप्तवान् ।।

प्रणम्यागाद्यथादिष्टं मनसा कौतुकाकुलः ।। ३४ ।।

अद्य भैक्ष्येण लभ्येन पूज्यो नारायणो मया ।।

इति निश्चित्य मनसा भिक्षार्थी नगरं गतः ।। ३५ ।।

विना देहीति वचनं लब्धा च विपुलं धनम् ।।

कौतुकायासमनसा जगाम निजमालयम् ।। ३६।।

वृत्तांतं सर्वमाचख्यौ ब्राह्मणी सान्वमोदत ।।

सादरं द्रव्यसंभारमाहृत्य भर्तुराज्ञया ।। ३७ ।।

आहूय बन्धुमित्राणि तथा सान्निध्यवर्तिनः ।।

सत्यनारायणं देवं यजामि स्वगणैर्वृतः ।। ३८ ।।

भक्त्या तुतोष भगवान्सत्यनारायणः स्वयम् ।।

कामं दित्सुः प्रादुरासीत्कथांते भक्तवत्सलः ।। ३९ ।।

वव्रे विप्रोऽभिलषितमिहामुत्र सुखप्रदम् ।।

भक्तिं परां भगवति तथा तत्संगिनां व्रतम् ।। 3.2.25.४० ।।

रथं कुञ्जरं मंजुलं मन्दिरं च हयं चारु चामी करालं कृतं च ।।

धनं दासदासीगणं गां महीं च लुलायाः सदुग्धा हरे देहि दास्यम् ।।४१।।

तथास्त्विति हरिः प्राह ततश्चांतर्दधे प्रभुः ।।

विप्रोऽपिकृत कृत्योऽभूत्सर्वे लोका विसिस्मिरे ।।४२।।

प्रणम्य भुवि कायेन प्रसादं प्रापुरादरात् ।।

स्वंस्वं धाम समाजग्मुर्धन्यधन्येति वादिनः ।। ४३ ।।

प्रचचार ततो लोके सत्यनारायणार्चनम् ।।

कामसिद्धिप्रदं मुक्तिभुक्तिदं कलुषापहम् ।।४४।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये पञ्चविंशोऽध्यायः ।।२५।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 26

।। सूत उवाच ।। ।।

राजासीद्धार्मिकः कश्चित्केदारमणिपूरके ।।

चन्द्रचूड इति ख्यातः प्रजापालनतत्परः ।।१।।

शांतो मधुरवाग्धीरो नारायणपरायणः।।

बभूवुः शत्रवस्तस्य म्लेच्छा विंध्यनिवासिनः ।।२।।

तस्य तैरवभवद्युद्धमतिप्रबलदारुणैः।।

भुशुंडीयुद्धनिपुणैः क्षेपणैः परिघायुधैः ।।३।।

चन्द्रचूडस्य महती सेना यमपुरे गता।।

शतं रथास्तथा नागासहस्रं तु हयास्तथा।।४।।

पत्तयः पंचसाहस्रा मृताः स्वर्गपुरं ययुः ।।

दस्यवः पंचसाहस्रा मृताः कैतवयोधिनः ।। ५ ।।

आक्रांतः स महाभागस्तैर्म्लेच्छैर्दंभयोधिभिः ।।

त्यक्त्वा राष्ट्रं च नगरं सैकाकी वनमाययौ ।। ६ ।।

तीर्थव्याजेन स नृपः पुरीं काशीं समागतः ।।

तत्र नारायणं देवं वंद्यं सर्वगृहेगृहे ।। ७ ।।

ददर्श नगरीं चैव धनधान्यसमन्विताम् ।।

यथा द्वारावती ज्ञेया तथा सा च पुरी शुभा ।। ८ ।।

विस्मितश्चंद्रचूडश्च दृष्ट्वाश्चर्यमनुत्तमम् ।।

सत्येन रोधितां लक्ष्मीं शीलधर्मसमन्विताम्।। ९ ।।

दृष्ट्वा श्रुत्वा सदानंदं सत्यदेवप्रपूजकम् ।।

पतित्वा तच्चरणयोः प्रणनाम मुदा युतः ।। 3.2.26.१० ।।

द्विजराज नमस्तुभ्यं सदानंद महामते ।।

भ्रष्टराज्यं च मां ज्ञात्वा कृपया मां समुद्धर ।। ११ ।।

यथा प्रसन्नो भगवाँल्लक्ष्मीकान्तो जनार्दनः ।।

तथा तद्वद यद्योग्यं व्रतं पापप्रणाशनम् ।। १२ ।।

।। सदानंद उवाच ।। ।।

दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ।।

सौभाग्यसंततिकरं सर्वत्र विजयप्रदम् ।। १३ ।।

सत्यनारायणव्रतं श्रीपतेस्तुष्टिकारकम् ।।

यस्मिन्कस्मिन्दिने भूप यजेच्चैव निशामुखे ।। १४ ।।

तोरणादि प्रकर्तव्यं कदलीस्तंभमंडितम् ।।

पंचभिः कलशैर्युक्तं ध्वजपंचसमन्वितम् ।।१५।।

तन्मध्ये वेदिकां रम्यां कारयेत्स व्रती द्विजैः ।।

तत्र स्थाप्य शिलारूपं कृष्णं स्वर्ण समन्वितम् ।।१६।।

कुर्याद्गंधादिभिः पूजां प्रेमभक्तिसमन्वितः।।

भूमिशायी हरिं ध्यायन्सप्तरात्रं व्यतीतयेत् ।।१७।।

इति श्रुत्वा स नृपतिः काश्यां देवमपूजयत् ।।

रात्रौ प्रसन्नो भगवान्ददौ राज्ञेऽसिमुत्तमम् ।। १८ ।।

शत्रुपक्षक्षयकरं प्राप्य खङ्गं नृपोत्तमः ।।

प्रणम्य च सदानन्दं केदारमणिमा ययौ ।। १९ ।।

हत्वा दस्यून्षष्टिशतांस्तेषां लब्ध्वा महद्धनम् ।।

हरिं प्रपूजयामास नर्मदायास्तटे शुभे ।।3.2.26.२०।।

पौर्णमास्यां विधानेन मासिमासि नृपोत्तमः।।

अपूजयत्सत्यदेवं प्रेमभक्तिसमन्वितः।।२१।।

तद्व्रतस्य प्रभावेन लक्षग्रामाधिपोऽभवत्।।

राज्यं कृत्वा स षष्ट्यब्दमन्ते विष्णुपुरं ययौ।।२२।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये चन्द्रचूडोद्धारोनाम षडूविंशोऽध्यायः ।। २६ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 27

।। सूत उवाच ।। ।।

अथेतिहासं शृणुत यथा भिल्लाः कृतार्थिनः ।।

विचरंतो वने नित्यं निषादाः काष्ठवाहिनः ।।१।।

वनात्काष्ठानि विक्रेतुं पुरीं काशीं ययुः क्वचित्।।

एकस्तृषाकुलो यातो विष्णुदासाश्रमं तदा ।।२।।

ददर्श विपुलैश्वर्यं सेवितं च द्विजैर्हरिम् ।।

जलं पीत्वा विस्मितोऽभूद्भिक्षुकस्य कुतो धनम्।।३।।

यो दृष्टोऽकिंचनो विप्रो दृश्यतेऽद्य महाधनः।।

इति संचिंत्य हृदये स पप्रच्छ द्विजोत्तमम्।।४।।

ऐश्वर्यं ते कुतो ब्रह्मन्दुर्गतिस्ते कुतो गता ।।

आज्ञापय महाभाग श्रोतुमिच्छामि तत्त्वतः ।। ५ ।।

।। सदानंद उवाच ।। ।।

सत्यनारायणस्यांग सेवया किं न लभ्यते ।।

न किंचित्सुखमाप्नोति विना तस्यानुकंपया ।। ६ ।।

।।निषाद उवाच ।। ।।

अहो किमिति माहात्म्यं सत्यनारायणार्चने ।।

विधानं सोपचारं च ह्युपदेष्टुं त्वमर्हसि ।। ७ ।।

साधूनां समचित्तानामुपकारवतां सताम् ।।

न गोप्यं विद्यते किंचिदार्तानामार्तिनाशनम् ।। ८ ।।

इति पृष्टो विधिं वक्तुमितिहासमथाब्रवीत् ।।

चन्द्रचूडो महीपालः केदारमणिपूरके ।। ९ ।।

ममाश्रमं समायातः सत्यनारायणार्चने ।।

विधानं श्रोतुकामोऽसौ मामाह सादरं वचः ।। 3.2.27.१० ।।

मया यत्कथितंतस्मै तन्निबोध निषादज ।।

संकल्प्य मनसा कामं निष्कामो वा जनः क्वचित् ।। ११ ।।

गोधूमचूर्णं पादार्धं सेटकाद्यैः सुचूर्णकम् ।।

संस्कृतं मधुगंधाज्यैर्नैवेद्यं विभवेऽर्पयेत् ।। १२ ।।

पंचामृतेन संस्नाप्य चन्दनाद्यैश्च पूजयेत् ।।

पायसापूपसंयावदधिक्षीरमथोहरेत् ।। १३ ।।

उच्चावचः फलैः पुष्पैर्धूपदीपैमर्नोरमैः ।।

पूजयेत्परया भक्त्या विभवे सति विस्तरैः ।। १४ ।।

न तुष्येद्द्रव्यसंभारैर्भक्त्या केवलया यथा ।।

भगवान्परितः पूर्णो न मानं वृणुयात्क्वचित् ।। १५ ।।

दुर्योधनकृतां त्यत्क्वा राजपूजां जनार्दनः ।।

विदुरस्याश्रमे वासमातिथ्यं जगृहे विभुः ।। १६ ।।

सुदाम्नस्तंडुलकणाञ्जग्ध्वा मानुष्यदुर्लभाः ।।

संपदोऽदाद्धरिः प्रीत्या भक्तिमात्रमपेक्ष्यते ।। १७ ।।

गोपो गृध्रो वणिग्व्याधो हनुमान्सविभीषणः ।।

येऽन्ये पापात्मका दैत्या वृत्रकायाधवादयः ।। १८ ।।

नारायणान्तिकं प्राप्य मोदंतेऽद्यापि यद्वशाः ।।

इति श्रुत्वा नरपतिः पूजासंभारमादरात् ।। १९ ।।

कृतवान्स धनं लब्ध्वा मोदते नर्मदातटे ।।

निषाद त्वमपि प्रीत्या सत्यनारायणं भज ।। 3.2.27.२० ।।

इह लोके सुखं प्राप्य चान्ते सान्निध्यमाप्नुयाः ।।

कृतकृत्यो निषादोऽभूत्प्रणम्य द्विजपुंगवम् ।। २१ ।।

स गत्वा स्वगणानाह माहात्म्यं हरिसेवने ।।

ते हृष्टमनसः सर्वे समयं चक्रुरादृताः ।। २२ ।।

सत्यनारायणे पूजां काष्ठलब्धेन यावता ।।

वयं कुलैः करिष्यामः पुण्यवृक्षविधानतः ।। २३ ।।

इति निश्चित्य मनसा काष्ठं विक्रीय लेभिरे ।।

चतुर्गुणं धनं हृष्टाः स्वंस्वं भवनमाययुः ।।२४।।

मुदा स्त्रीभ्यस्समाचख्युर्वृत्तांतं सर्वमादितः।।

ताः श्रुत्वा हृष्टमनसः पूजनं चक्रुरादरात् ।।२५।।

कथान्ते प्रणमन्भक्त्या प्रसादं जगृहुस्ततः ।।

स्वजातिभ्यः परेभ्यश्च ददुस्तच्चूर्णमुत्तमम् ।। २६ ।।

पूजाप्रभावतो भिल्लाः पुत्रदारादिभिर्युताः ।।

लब्ध्वा भूमितले द्रव्यं ज्ञानचक्षुर्महोत्तमम् ।। २७ ।।

भुक्त्वा भोगान्यथेष्टन्ते दरिद्रान्धा द्विजोत्तम ।।

जग्मुस्ते वैष्णवं धाम योगिनामपि दुर्लभम् ।। २८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्तर्विशोऽध्यायः ।। २७ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 28

।। सूत उवाच ।। ।।

अथ ते वर्णयिष्यामि कथां साधूपचारिताम् ।।

नृपोपदेशतः साधुः कृतार्थोऽभूद्वणिग्यथा।। ।। १ ।।

मणिपूरपती राजा चन्द्रचूडो महायशाः ।।

सह प्रजाभिरानर्च सत्यनारायणं प्रभुम् ।। २ ।।

अथ रत्नपुरस्थायी साधुर्लक्षपतिर्वणिक् ।।

धनैरापूर्य तरणीः सह गच्छन्नदीतटे ।। ३ ।।

ददर्श बहुलं लोकं नानाग्रामविलासिनम् ।।

मणिमुक्ताविरचितैर्वितानैस्समलंकृतम् ।। ४ ।।

वेदवादांश्च शुश्राव गीतवादित्रसंगतान् ।।

रम्यं स्थानं समालोक्य कर्णधारं समादिशत् ।। ५ ।।

विश्रामयात्र तरणीरिति पश्यामि कौतुकम् ।।

भर्त्रादिष्टस्तथा चक्रे कर्णधारः सभृत्यकैः ।। ६ ।।

तटसीम्नः समुत्तीर्य मल्ललीलाविलासिनः ।।

कर्णधारा नगा वीरा युयुधुर्मल्ललीलया ।। ७ ।।

स्वयमुत्तीर्य सामात्यो लोकान्पप्रच्छ सादरम् ।।

यज्ञस्थानं समालोक्य प्रशस्तं समुदो ययौ ।।८।।

किमत्र क्रियते सभ्या भवद्भिर्लोकपूजितैः ।।

सभ्या ऊचुश्च ते सर्वे सत्यनारायणो विभुः ।। ९ ।।

पूज्यते बंधुभिः सार्धं राज्ञा लोकानुकंपिना ।।

प्राप्तं निष्कटकं राज्यं सत्यनारायणार्चनात् ।। 3.2.28.१० ।।

धनार्थी लभते द्रव्यं पुत्रार्थी सुतमुत्तमम् ।।

ज्ञानार्थी लभते चक्षुर्निर्भयः स्याद्भयातुरः ।। ११ ।।

सर्वान्कामानवाप्नोति नरः सत्यसुरार्च नात् ।।

विधानं तु ततः श्रुत्वा चैलं बद्ध्वा गलेऽसकृत् ।। १२ ।।

दंडवत्प्रणिपत्याह कामं सभ्यानमोदयत् ।।

अनपत्योऽस्मि भगवन्वृथैश्वर्यो वृथोद्यमः ।। १३ ।।

पुत्रं वा यदि वा कन्यां लभेयं त्वत्प्रसादतः ।।

पताकां कांचनीं कृत्वा पूजयिष्ये कृपानिधिम् ।। १४ ।।

श्रुत्वा सभ्या अब्रुवंस्ते कामनासिद्धिरस्तु ते ।।

हरिं प्रणम्य सभ्याश्च प्रसादं भुक्तवांस्तदा ।। १५ ।।

जगाम स्वालयं साधुर्मनसा चिंतयन्हरिम्।।

स्वगृहे ह्यागते तस्मिन्नार्यो मंगलपाणयः ।। १६ ।।

मंगलानि विचित्राणि यथोचितमकारयन् ।।

विवेशांतःपुरे साधुर्महाकौतुकमंगलः ।। १७ ।।

ऋतुस्नाता सती लीलावती पर्यचरत्पतिम् ।।

गर्भं धृतवती साध्वी समये सुषुवे तु सा ।। १८ ।।

कन्यां कमललोलाक्षीं बांधवामोदकारिणीम् ।।

साधुः परां मुदं लेभे विततार धनं बहु ।। १९ ।।

विप्रानाहूय वेदज्ञान्कारयामास मंगलम् ।।

लेखयित्वा जन्मपत्रीं नाम चक्रे कलावतीम् ।। 3.2.28.२० ।।

कलानिधिकले वासौ ववृधे सा कलावती ।।

अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ।। २१ ।।

दशवर्षा भवेत्कन्या ततः प्रौढा रजस्वला ।।

प्रौढां कालेन तां दृष्ट्वा विवाहार्थमचिन्तयत् ।। २२ ।।

नगरे कांचनपुरे वणिक्छंखपतिः श्रुतः ।।

कुलीनो रूपसंपत्तिशीलौदार्यगुणान्वितः ।। २३ ।।

वरयामास तं साधुर्दुहितुः सदृशं वरम् ।।

शुभे लग्ने बहुविधैर्मंगलैरग्निसन्निधौ ।।२४।।

वेदवादित्रनिनदैर्ददौ कन्यां यथाविधि ।।

मणिमुक्ताप्रवालानि वसनं भूषणानि च ।। २५ ।।

महामोदमनाः साधुर्मंगलार्थं ददौ च ह ।।

प्रेम्णा निवासयामास गृहे जामातरं ततः ।। २६ ।।

तं मेने पुत्रवत्साधुः स च तं पितृवत्सुधीः ।।

अतीते भूयसः काले सत्यनारायणार्चनम् ।। २७ ।।

विस्मृत्य सह जामात्रा वाणिज्याय ययौ पुनः ।।

।। सूत उवाच ।। ।।

अथ साधुः समादाय रत्नानि विविधानि च ।। २८ ।।

नौकाः संस्थाप्य स ययौ देशाद्देशान्तरं प्रति ।।

नगरं नर्मदातीरे तत्र वासं चकार सः ।।२९।।

कुर्वन्क्रयं विक्रयं च चिरं तस्थौ महामनाः ।।

कर्मणा मनसा वाचा न कृतं सत्यसेवनम् ।। 3.2.28.३० ।।

ततः कर्मविपाकेन तापमापाचिराद्वणिक् ।।

कस्मिंश्चिद्दिवसे रात्रौ राज्ञो गेहे तमोवृते:।। ३१ ।।

ज्ञात्वा निद्रागतान्सर्वान्हृतं चौरैर्महाधनम् ।।

प्रभाते वाचितो राजा सूतमागधबंदिभिः ।। ।। ३२ ।।

प्रातःकृत्यं नृपः कृत्वा सदः संप्राविशच्च सः ।।

ततस्तत्र समायातः किंकरो राजवल्लभः ।। ३३ ।।

उवाच स तदा वाक्यं शृणुष्व त्वं धरा पते ।।

मुक्तामालाश्च बहुधा रत्नानि विविधानि च ।। ३४ ।।

मुमुषुश्चौरा गतास्सर्वे न जानीमो वयं नृप ।।

इति विज्ञापितो राजा पुण्यश्लोक शिखामणिः ।। ३५ ।।

उवाच क्रोधताम्राक्षो यूयं संयात मा चिरम् ।।

सचौरं द्रव्यमादाय मत्पार्श्वं त्वमुपानय ।। ३६ ।।

नो चेद्धनिष्ये सगणानिति दूतान्समादिशत् ।।

नृपवाक्यं समाकर्ण्य प्रजग्मुस्ते च किंकराः ।। ३७ ।।

बहुयत्नैर्न संशोध्य द्रव्यं चोरसमन्वितम् ।।

एकीभूत्वा निशि तदा महाचिंतातुरोऽभवत् ।। ३८ ।।

हन्ता मां सगणं राजा किं करोमि कुतः सुखम् ।।

नृपदंडाच्च मे मृत्युः प्रेतत्वाय भवेदिह ।। ३९ ।।

नर्मदायां च मरणं शिवलोकप्रदायकम् ।।

इत्येवं संमतं कृत्वा नर्मदायास्तटं ययुः ।। 3.2.28.४० ।।

विदेशिनोऽस्य वणिजो ददर्श विपुलं धनम् ।।

मुक्ताहारं गले तस्य लुंठितं वणिजोऽस्य च ।। ४१ ।।

चौरोऽयमिति निश्चित्य तौ बबंधात्मरक्षणात् ।।

सधनं सह जामात्रा नृपान्तिकमुपानयत् ।। ४२ ।।

प्रतिकूले हरौ तस्मिन्राज्ञापि न विचारितम् ।।

धनागारे धनं नीत्वा बध्नीत तौ सुदुर्मती ।। ४३ ।।

कारागारे लोहमयैः शृंखलैरंगपादयोः ।।

इति राजाज्ञया दूतास्तथा चक्रुर्निबंधनम् ।। ४४ ।।

जामात्रा सहितः साधुर्विललाप भृशं मुहुः ।।

हा पुत्र तात तातेति जामातः क्व धनं गतम् ।। ४५ ।।

क्व स्थिता च सुता भार्या पश्य धातुर्विपर्ययम् ।।

निमग्नौ दुःखजलधौ को वां पास्यति संकटात् ।। ४६ ।।

मया बहुतरं धातुर्विप्रियं हि पुराकृतम् ।।

तत्कर्मणः प्रभावोऽयं न जाने कस्य वा फलम् ।। ४७ ।।

समं श्वशुरजामात्रौ द्वादशेषु विषादिनौ ।। ४८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टाविंशो ऽध्यायः ।। २८ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 29

।। सूत उवाच ।। ।।

तापत्रयहरं विष्णोश्चरितं तस्य ते शिवम् ।।

शृण्वंति सुधियो नित्यं ते वसंति हरेः पदम् ।। ।। १ ।।

प्रतिकूले हरौ तस्मिन्यास्यन्ति निरयान्बहून् ।।

तत्प्रिया कमला देवी चत्वारस्तस्य चात्मजाः ।। २ ।।

धर्मो यज्ञो नृपश्चौरः सर्वे लक्ष्मीप्रियंकराः ।।

विप्रेभ्यश्चातिथिभ्यश्च यद्दानं धर्म उच्यते।।३ ।।

मातृभ्यो देवताभ्यश्च स्वधा स्वाहेति वै मखः ।।

धर्मस्यैव मखस्यैव रक्षको नृपतिः स्मृतः ।। ४ ।।

द्वयोर्हन्ता हि चोरः स ते सर्वे धर्मकिंकराः ।।

यत्र सत्यं ततो धर्मस्तत्र लक्ष्मीः स्थिरा भवेत् ।।५।।

सत्यहीनस्य तत्साधोर्धनं यत्तद्ग्रहे स्थितम् ।।

हृतवानवनीपालः चौरैर्भार्यातिदुःखिता ।। ६ ।।

वासोलंकरणादीनि विक्रीय बुभुजे किल ।।

नास्ति तत्पच्यते किंचित्तदा कष्टमगाहत ।। ७ ।।

अथैकस्मिन्दिने कन्या भोजनाच्छादनं विना ।।

गता विप्रगृहेऽपश्यत्सत्यनारायणार्चनम् ।। ८ ।।

प्रार्थयंतं जगन्नाथं दृष्ट्वा सा प्रार्थयद्धरिम् ।।

सत्यनारायण हरे पिता भर्ता च मे गृहम् ।।९।।

आगच्छत्वर्चयिष्यामि भवंतमिति वाचये ।।

तथास्तु ब्राह्मणैरुक्ता ततः सा त्वाश्रमं ययौ ।। 3.2.29.१० ।।

मात्रा निर्भर्त्सितेयंतं कालं कुत्र स्थिता शुभे ।।

वृत्तांतं कथयामास सत्यनारायणार्चने ।। ११ ।।

कलौ प्रत्यक्ष फलदः सर्वदा क्रियते नरैः ।।

कर्तुमिच्छाम्यहं मातरनुज्ञातुं त्वमर्हसि ।। १२ ।।

देशमायातु जनकः स्वामी च मम कामना ।।

रात्रौ निश्चित्य मनसा प्रभाते सा कलावती ।। १३ ।।

शीलपालस्य गुप्तस्य गेहे प्राप्ता धनार्थिनी ।।

बंधो किंचिद्धनं देहि येन सत्यार्चनं भवेत् ।। १४ ।।

इति श्रुत्वा शीलपालः पंचनिष्कं धनं ददौ ।।

त्वत्पितुश्च ऋणं शेषं मयीत्येव कलावति ।। १५ ।।

इत्युक्त्वा सोऽनृणो भूत्वा गयाश्राद्धाय संययौ ।।

सुतापि तेन द्रव्येण कृतं सत्यार्चनं शुभम् ।। १६ ।।

लीलावती सह तया भक्त्याकार्षीत्प्रपूजनम्।।

पूजनेन विशेषेण तुष्टो नारायणोऽभवत्।।१७।।

नर्मदातीरनगरे नृपः सुष्वाप मंदिरे ।।

रात्रिशेषे सुपर्यंके निद्रां कुर्वति राजनि ।।

उवाच विप्ररूपेण बोधयञ्छ्लक्ष्णया गिरा ।। १८ ।।

उत्तिष्ठोत्तिष्ठ राजेन्द्र तौ साधू परिमोचय ।।

अपराधं विना बद्धौ नो चेच्छं न भवेत्तव ।। १९ ।।

इत्येवं भूपतिश्चैव विप्ररूपेण बोधितः ।।

तदा ह्यन्तर्दधे विष्णु र्विनिद्रो नृपतिस्तदा ।। 3.2.29.२० ।।

विस्मितः सहसोत्थाय दध्यौ ब्रह्म सनातनम् ।।

सभायां मंत्रिणे राजा स्वप्नहेतुं न्यवेदयत् ।। २१ ।।

महामन्त्री च भूपालं प्राह सत्येन भो द्विज ।।

मयापि दर्शितं स्वप्नं वृद्धविप्रेण बोधितम् ।।

अतस्तौ हि समानीय संपृच्छ विधिवन्नृप ।। २२ ।।

आनीय साधुं पप्रच्छ सत्यमालंब्य भूपतिः ।।

कुत्रत्यौ वां कुलं किं वा वसतिः कस्य वा पुरे ।। २३ ।।

।। साधुरुवाच ।। ।।

रम्ये रत्नपुरे वासो वणिग्जातौ जनिर्मम ।।

वाणिज्यार्थं महाराज वाणिज्यं जीविकावयोः ।। २४ ।।

मणिमुक्तादि विक्रेतुं क्रेतुं वा तव पत्तने ।।

प्राप्तौ दूतैश्च बद्ध्वावां त्वत्समीपमुपागतौ ।। २५ ।।

प्रतिकूले विधौ को वा दशां नाप्नोति वै पुमान् ।।

विनापराधं राजेन्द्र मणिचौरानवादयन् ।। २६ ।।

आवां न चौरो राजेंद्र तत्त्वतस्त्वं विचारय ।।

श्रुत्वा तन्निश्चयं ज्ञात्वा तयोर्बंधनकारणम् ।। २७ ।।

छेदयित्वा दृढं पाशं लोमशातिमकारयत् ।।

कारयित्वा परिष्कारं भोजयामास तौ नृपः ।। २८ ।।

नगरे पूजयामास वस्त्राभूषणवाहनैः ।।

अब्रवीत्पूजितः साधुर्भूपतिं विनयान्वितः ।। २९ ।।

कारागारे बहुविधं प्राप्तं दुःखमतः परम् ।।

आज्ञापय महाराज देशं गंतुं कृपानिधे ।। 3.2.29.३० ।।

श्रुत्वा साधुवचो राजा प्राह कोशाधिकारिणम् ।।

मुद्राभिस्तरणीः सद्यः पूरयाशु मदाज्ञया ।। ३१ ।।

जामात्रा सहितः साधुर्गीतवादित्रमंगलैः ।।

स्वदेशं चलितोऽद्यापि न चक्रे हरिसेवनम्।। ३२ ।।

सत्यनारायणो देवः प्रत्यक्षफलदः कलौ ।।

स एव तापसो भूत्वा चक्रे साधुविडंबनम् ।। ३३ ।।

।। तापस उवाच ।। ।।

धर्मः किं नौषु ते साधो मामनादृत्य यासि भोः ।।

प्रत्युत्तरमदात्साधुः क्षिप नौकाश्च सत्वरम् ।। ३४ ।।

भोः स्वामिन्मे धनं नास्ति लतापत्रादिपूरितम् ।।

नौभिर्गच्छामि स्वस्थानं विरोधे नात्र किं फलम् ।। ३५ ।।

इत्युक्तस्तापसः प्राह तथास्त्विति वचः क्षणात् ।।

धनमंतर्दधे साधोर्लतापत्रावशेषितम् ।। ३६ ।।

धनं नौकासु नास्तीति साधुश्चिंतातुरोऽभवत् ।।

किमिदं कस्य वा हेतोर्धनं कुत्र गतं मम ।। ३७ ।।

वज्रपाताहत इव भृशं दुःखितमानसः ।।

क्व यास्यामि क्व तिष्ठामि किं करोमि धनं कुतः ।। ३८ ।।

इति मूर्छागतः साधुर्विललाप पुनःपुनः ।।

जामात्रा बोधितः पश्चात्तापसं तं जगाम ह ।। ३९ ।।

गले वसनमादाय प्रणनाम स तापसम् ।।

को भवानिति पप्रच्छ देवो गंधर्व ईश्वरः।।3.2.29.४०।।

देवदेवोऽथवा कोऽपि न जाने तव विक्रमम् ।।

आज्ञापय महाभाग तद्विडम्बनकारणम् ।। ४१ ।।

।। तापस उवाच ।। ।।

आत्मा चैवात्मनः शत्रुस्तथात्र च प्रियोऽप्रियः ।।

त्यज मौढ्यमति साधो प्रवादं मा वृथा कृथाः ।।४२।।

इति विज्ञापितः साधुर्न बुबोध महाधनः ।।

पुनः स तापसः प्राह कृपया पूर्वकर्मतः।।४३।।

चंद्रचूडो यदानर्च सत्यनारायणं नृपः ।।

अनपत्येन सुचिरं पुत्रकन्यार्थिना त्वया ।। ४४ ।।

प्रार्थितं न स्मृतं ह्येव इदानीं तप्यसे वृथा ।।

सत्यनारायणो देवो विश्वव्यापी फलप्रदः ।।४५।।

तमनादृत्य दुर्बुद्धे कुतः सम्यग्भवेत्तव ।।

पुरालब्धवरं स्मृत्वा सस्मार जगदीश्वरम् ।। ४६ ।।

सत्यनारायणं देवं तापसं तं ददर्श ह ।।

प्रणम्य भुवि कायेन परिक्रम्य पुनःपुनः ।।

तुष्टाव तापसं तत्र साधुर्गद्गदया गिरा ।। ४७ ।।

।। साधुरुवाच ।। ।।

सत्यरूपं सत्यसंधं सत्यनारायणं हरिम् ।।

यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम् ।। ४८ ।।

त्वन्मायामोहितात्मानो न पश्यंत्यात्मनः शुभम् ।।

दुःखांभोधौ सदा मग्ना दुःखे च सुखमानिनः ।। ४९ ।।

मूढोहं धनगर्वेण मदांधीकृतलोचनः ।।

न जाने स्वात्मनः क्षेमं कथं पश्यामि मूढधीः ।। 3.2.29.५० ।।

क्षमस्व मम दौरात्म्यं तपो धाम्ने हरे नमः।।

आज्ञापयात्मदास्यं मे येन ते चरणौ स्मरे ।। ५१ ।।

इति स्तुत्वा लक्षमुद्राः स्थापिताः स्वपुरोधसि ।।

गत्वावासं पूजयिष्ये सत्यनारायणं प्रभुम् ।।५२।।

तुष्टो नारायणः प्राह वांछा पूर्णा भवेत्तु ते ।।

पुत्रपौत्रसमायुक्तो भुक्त्वा भोगांस्त्वनुत्तमान् ।।

अंते सांनिध्यमासाद्य मोदसे त्वं मया सह ।।५३।।

इत्युक्त्वान्तर्दधे विष्णुः साधुश्च स्वाश्रमं ययौ ।।

सप्ताहेन गृहं प्राप्तः सत्यदेवेन रक्षितः ।। ५४ ।।

आगत्य नगराभ्याशे प्राहि णोद्द्रुतमाश्रमम् ।।

गृहमागत्य दूतोपि प्राह लीलावतीं प्रति ।। ५५ ।।

जामात्रा सहितः साधुः कृतकृत्यः समागतः ।।

सत्यनारायणार्चायां स्थिता साध्वी सकन्यका ।। ५६ ।।

पूजाभारं सुतायै सा दत्त्वा नौकांतिकं ययौ ।।

सखीगणैः परिवृता कृतकौतुकमंगला ।। ५७ ।।

कलावती त्ववज्ञाय प्रसादं सत्वरा ययौ ।।

पातुं पतिमुखांभोजं चकोरीव दिनात्यये ।। ५८ ।।

अवज्ञानात्प्रसादस्य नौकाशंखपतेरथ ।।

निमग्ना जलमध्ये तु जामात्रा सह तत्क्षणात् ।। ५९ ।।

मग्नं जामातरं पश्यन्विललाप स मूर्च्छितः ।।

लीलावती तु तद्दृष्ट्वा मूर्च्छिता विललाप ह ।। 3.2.29.६० ।।

ततः कलावती दृष्ट्वा पपात भुवि मूर्च्छिता ।।

रंभेव वातविहता कान्तकान्तेतिवादिनी ।। ६१ ।।

हा नाथ प्रिय धर्मज्ञ करुणाकरकौशल ।।

त्वया विरहिता पत्या निराशा विधिना कृता ।।

पत्युरर्द्धं गतं कस्मादर्द्धांगं जीवनं कथम्।। ६२ ।।

।। सूत उवाच ।। ।।

कलावती चारुकलासु कौशला प्रवालरक्तांघ्रितलातिकोमला ।।

सरोजनेत्रांबुकणान्विमुंचती मुक्तावलीभिस्तनकुड्मलांचिता ।। ६३ ।।

हा सत्यनारायण सत्यसिंधो मग्नं हि मामु द्धर तद्वियोगे ।।

श्रुत्वार्तशब्दं भगवानुवाच वचस्तदाकाशसमुद्भवं च ।। ६४ ।।

साधो कलावती क्षिप्रं मत्प्रसादं हि भोजयेत् ।।

तत्पश्चादिह संप्राप्य पतिं प्राप्स्यति मा शुचः ।। ६५ ।।

इत्याकाशे वचः श्रुत्वा विस्मिता तच्चकार सा ।।

नारायणस्य कृपया पतिं प्राप्ता कलावती ।। ६६ ।।

तत्रैव साधुः साह्लादो भक्त्या परमया युतः ।।

पूजनं लक्षमुद्राभिः सत्यदेवस्य चाकरोत् ।। ६७ ।।

तेन व्रतप्रभावेन पुत्रपौत्रसमन्वितः ।।

भुक्त्वा भोगान्मुदा युक्तो मृतः स्वर्गपुरं ययौ ।। ६८ ।।

इतिहासमिमं भक्त्या शृणुयाद्यो हि मानवः ।।

सोऽपि विष्णुप्रियतरः कामसिद्धिमवाप्नुयात् ।। ।। ६९ ।।

इति ते कथितं विप्र व्रतानामुत्तमं व्रत।।

कलिकाले परं पुण्यं ब्राह्मणस्य मुखोद्भवम् ।। 3.2.29.७० ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सत्यनारायणव्रतमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः।।२९।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 30

।। ऋषय ऊचुः।। ।।

भगवन्गुह्यजं कर्म वृत्तं प्रोक्तं पुरातनैः ।।

व्रतानां चैव सर्वेषां श्रेष्ठं नारायणव्रतम् ।। १ ।।

त्वन्मुखेन श्रुतं सूत तापत्रयविनाशनम् ।।

इदानीं श्रोतुमिच्छामि लिंगजं कर्म चोत्तमम् ।। २ ।।

सर्वेषां ब्रह्मचर्याणां ब्रह्मचर्ये हि किं परम् ।।

तन्मे वद महाप्राज्ञ सर्वंज्ञोऽसि मतौ मम ।। ३ ।।

।। सूत उवाच ।। ।।

आसीत्पुरा कलियुगे पितृशर्मा द्विजोत्तमः ।।

वेदवेदांगतत्त्वज्ञो यमलोकभयान्वितः ।। ४ ।।

ज्ञात्वा घोरतमं कालं कलि कालमधर्मजम्।।

वार्धनं यमराष्ट्रस्य तदा चिंतातुरोऽभवत् ।। ५ ।।

केनाश्रमेण वर्णेन मम श्रेयो भवेदिह ।।

कलौ संन्यासमार्गो हि दंभपाखंडखंडितः ।। ६ ।।

वानप्रस्थः कलौ नास्ति ब्रह्मचर्यं क्वचित्क्वचित् ।।

गार्हस्थ्यं कर्म सर्वेषां कर्मणां श्रेष्ठमुच्यते ।। ७ ।।

अतः स्त्री संग्राह्यो मया घोरे कलौ युगे ।।

यदि मे च भवेन्नारी मनोवृत्त्यनुसारिणी ।।

तर्हि मे सफलं जन्म मम श्रेयो भवेदिह ।। ८ ।।

इत्येवं संमतं कृत्वा शिवां मंगलदायिनीम् ।।

चंदनाद्यैश्च संपूज्य तुष्टाव मनसा पराम् ।।

विश्वेश्वरीं जगन्मूर्तिं सच्चिदानंदरूपिणीम् ।। ९ ।। ।।

।। पितृशर्मोवाच ।।

नमः प्रकृत्यै सर्वायै कैवल्यायै नमोनमः ।।

त्रिगुणैक्यस्वरूपायै तुरीयायै नमोनमः ।। 3.2.30.१० ।।

महत्तत्त्वजनन्यै च द्वंद्वकर्त्र्यै नमोनमः ।।

ब्रह्ममातर्नमस्तुभ्यं साहंकारपितामहि ।। ११ ।।

पृथग्गुणायै शुद्धायै नमो मातर्नमोनमः ।।

विद्यायै शुद्धसत्त्वायै लक्ष्म्यै सत्त्वरजोमयि ।।१२।।

नमो मातरविद्यायै ततः शुद्ध्यै नमोनमः।।

काल्यै सत्त्वतमोभूत्यै नमो मातर्नर्मोनमः ।।१३।।

स्त्रियै शुद्धरजोमूर्त्यै नमस्त्रैलोक्यवासिनि ।।

नमोरजस्तमोमूर्त्यै दुर्गायै च नमोनमः ।। १४ ।।

इति श्रुत्वा स्तवं देव्या प्रसादः स्थापितस्तया ।।

सुतायां विष्णुयशसो ब्राह्मणस्य तदा स्वयम् ।। १५ ।।

तामुद्वाह्य द्विजो देवीं नाम्ना वै ब्रह्मचारिणीम् ।।

न्यवसन्मथुरायां स कृत्वा धर्मं स्वयं हृदि ।। १६ ।।

प्रियायै स रजोवत्यै ऋतुदानं करोति हि ।।

चत्वारश्चात्मजाश्चासंश्चतुर्वेदैक्यधारिणः ।। १७ ।।

ऋग्यजुश्च तथा साम तुर्यश्चासी दथर्वणः ।।

ऋचश्च तनयो व्याडिर्न्यायशास्त्रविशारदः ।। १८ ।।

यजुषस्तु सुतो जातो मीमांसो लोकविश्रुतः ।।

पाणिनिः सामनस्यैव सुतोऽभू च्छब्दपालः ।। १९ ।।

पुत्रो वररुचिः श्रेष्ठोऽथर्वणस्य नृपप्रियः ।।

ते गता मागधेशस्य चन्द्रगुप्तस्य वै सभाम् 3.2.30.२० ।।

नृपस्तान्पूजयामास बहुमानपुरःसरम् ।।

अब्रवीत्तांस्ततो राजा ब्रह्मचर्यं हि किं परम् ।। २१ ।।

व्याडिराह महाराज यः स्तुतौ तत्परः पुमान् ।।

न्यायतोऽखिल देवानां ब्रह्मचारी हि मे मतः ।। २२ ।।

मीमांसश्चाह भो राजन्यज्ञे यो हि पुमान्परः ।।

कर्मणा यजते देवान्रोचनादिभिरर्चयेत् ।। २३ ।।

हवनं तर्पणं कृत्वा ब्रह्मादिकसुरान्प्रति ।।

तत्प्रसादं हि गृह्णीयाद्ब्रह्मचारी च स स्मृतः ।। २४ ।।

श्रुत्वेदं पाणिनिश्चाह चन्द्रगुप्त शृणुष्व भोः ।।

त्रिधा स्वरैः परं ब्रह्म शुद्धशब्दमयैः परैः ।। २५ ।।

तथैव सूत्रपाठैश्च लिंगधातुगणावृतैः ।।

यो यजेद्ब्रह्मचारी स परं ब्रह्माधिगच्छति ।। २६ ।।

श्रुत्वा वररुचिश्चाह शृणु मागधभूपते ।।

गृहीत्वा यज्ञसूत्रं यः प्राप्तो गुरुकुले वसन् ।। २७ ।।

दंडलोमनखाधारी भिक्षार्थी वेदतत्परः ।।

आज्ञया च गुरोर्वर्तेद्ब्रह्मचारी हि स स्मृतः ।। २८ ।।

इति तेषां वचः श्रुत्वा पितृशर्माब्रवीदिदम् ।।

यो गृहस्थे वसन्विप्रः पितृदेवातिथिप्रियः ।। २९ ।।

गामी पाणिगृहीतायामृतुकाले यतेंद्रियः ।।

ब्रह्मचारी हि मुख्यस्स श्रुत्वा राजाब्रवीदिदम् ।। 3.2.30.३० ।।

स्वामिन्यद्भवता चोक्तं धर्मज्ञेन यशस्विना ।।

कलौ भयंकरे प्राप्ते स धर्मो हि मतो मम ।।३१।।

इत्युक्त्वा तस्य शिष्योऽभूद्गुरुवाक्यपरायणः ।।

तथान्ते मरणं प्राप्य स्वर्गलोकं नृपो ययौ ।।३२।।

पितृशर्मापि मनसा ध्यात्वा दामोदरं हरिम् ।।

हिमालयं गिरिं प्राप्य योगध्यानपरोऽभवत् ।। ३३ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रिंशोऽध्यायः ।। ३० ।। छ ।।

अग्रिमपुटम्

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 31

पूर्वपुटम्

।। ऋषय ऊचुः ।। ।।

भगवन्सर्वतीर्थानां दानानां किं परं स्मृतम् ।।

यत्कृत्वा च कलौ घोरे परां निर्वृतिमाप्नुयात् ।। १ ।।

।। सूत उवाच ।। ।।

सामनस्य सुतः श्रेष्ठः पाणिनिर्नाम विश्रुतः ।।

कणभुग्वरशिष्यैश्च शास्त्रज्ञैः स पराजितः ।। २ ।।

लज्जितः पाणिनिस्तत्र गतस्तीर्थान्तरं प्रति ।।

स्नात्वा सर्वाणि तीर्थानि संतर्प्य पितृदेवताः ।।३।।

केदारमुदकं पीत्वा शिवध्यानपरोऽभवत् ।।

पर्णाशी सप्तदिवसाञ्जलभक्षस्ततोऽभवत् ।। ४ ।।

ततो दशदिनान्ते स वायुभक्षो दशाहनि ।।

अष्टाविंशद्दिने रुद्रो वरं ब्रूहि वचोऽब्रवीत् ।। ५ ।।

श्रुत्वामृतमयं वाक्यमस्तौद्गद्गदया गिरा ।।

सर्वेशं सर्वलिंगेशं गिरिजावल्लभं हरम् ।। ६।।

।। पाणिनिरुवाच ।। ।।

नमो रुद्राय महते सर्वेशाय हितैषिणे ।।

नन्दीसंस्थाय देवाय विद्याभयकराय च ।। ७ ।।

पापान्तकाय भर्गाय नमोनन्ताय वेधसे ।।

नमो मायाहरेशाय नमस्ते लोकशंकर ।। ८ ।।

यदि प्रसन्नो देवेश विद्यामूलप्रदो भव ।।

परं तीर्थं हि मे देहि द्वैमातुरपितर्नमः ।। ९ ।।

।। सूत उवाच ।। ।।।

इति श्रुत्वा महादेवः सूत्राणि प्रददौ मुदा ।।

सर्ववर्णमयान्येव अइउणादिशुभानि वै ।। 3.2.31.१० ।।

ज्ञानह्रदे सत्यजले राग द्वेषमलापहे ।।

यः प्राप्तो मानसे तीर्थे सर्वतीर्थफलं भजेत् ।।११।।

मानसं हि महत्तीर्थ ब्रह्मदर्शनकारकम् ।।

पाणिने ते ददौ विप्र कृतकृत्यो भवान्भव ।। १२ ।।

इत्युक्त्वांतर्दधे रुद्रः पाणिनिः स्वगृहं ययौ ।।

सूत्रपाठं धातुपाठं गणपाठं तथैव च ।। १३ ।।

लिंगसूत्रं तथा कृत्वा परं निर्वाणमाप्त वान् ।।

तस्मात्त्वं भार्गवश्रेष्ठ मानसं तीर्थमाचर ।। १४ ।।

यतो याता स्वयं गंगा सर्वतीर्थमयी शिवा ।।

गंगातीर्थात्परं तीर्थं न भूतं न भवि ष्यति ।। १५ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चय एकत्रिंशोऽध्यायः ।। ३१ ।। ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 32

।। सूत उवाच ।। ।।

तोतादर्यां द्विजः कश्चिद्बोपदेव इति श्रुतः ।।

बभूव कृष्णभक्तश्च वेदवेदांगपारगः ।। १ ।।

गत्वा वृन्दावनं रम्यं गोपगोपीनिषेवितम् ।।

मनसा पूजयामास देवदेवं जनार्द्दनम् ।। २ ।।

वर्षान्ते च हरिः साक्षाद्ददौ ज्ञानमनुत्तमम् ।।

तेन ज्ञानेन संप्राप्ता हृदि भागवती कथा ।। ३ ।।

शुकेन वर्णिता या वै विष्णुराताय धीमते ।।

तां कथां वर्णयामास मोक्षमूर्तिं सनातनीम् ।। ४ ।।

कथान्ते भगवान्विष्णुः प्रादुरासीज्जनार्दनः ।।

उवाच स्निग्धया वाचा वरं ब्रूहि महामते ।। ५ ।।

।। बोपदेव उवाच ।। ।।

नमस्ते भगवन्विष्णो लोकानुग्रहकारक ।।

त्वया ततमिदं विश्वं देवतिर्यङ्नरादिकम् ।। ६ ।।

त्वन्नाम्ना नरकार्ताश्च ते कृतार्थाः कलौ युगे ।।

त्वया दत्तं भागवतं श्रीम द्व्यासेन निर्मितम् ।।

माहात्म्यं तस्य मे ब्रूहि यदि दत्तो वरस्त्वया ।। ७ ।।

।। श्रीभगवानुवाच ।। ।।

एकदा भगवान्रुद्रो भवान्या सह शंकरः ।। ८ ।।

बौद्धराज्ये जगत्प्राप्ते दंभपाखण्डनिर्मिते ।।

दृष्ट्वा काश्यां भूमितुंगं प्रणनाम मुदा युतः ।।

जय सच्चिदानन्द विभो जगदानं दकारक ।। ९ ।।

इति श्रुत्वा शिवा प्राह को देवोऽस्ति तवोत्तमः ।।

स होवाच महादेवि यज्ञः सप्ताहमत्र वै ।। 3.2.32.१० ।।

तस्माद्भूमिपवित्रत्वमिह प्राप्तं वरानने ।।

सर्वतीर्थाधिकत्वं च स्वयं ब्रह्म सनातनम् ।। ११ ।।

इति श्रुत्वा शिवा देवी प्राप्तासीद्गुह्यकालयम् ।।

रुद्रेण सहिता तत्र भूमिशुद्धिमकारयत् ।। १२ ।।

चण्डीशश्च गणेशश्च नंदिनो गुह एव च ।।

रक्षार्थे स्थापितास्तत्र देवदेवेन भो द्विज ।। १३ ।।

शृणु देवि कथां रम्यां मम मानससंस्थिताम् ।।

इत्युक्त्वा ध्यानमास्थाय सप्ताहेन स्ववर्णयत् ।। १४ ।।

अष्टाहे नेत्र उन्मील्य दृष्ट्वा निद्रागतां शिवाम् ।।

बोधयामास भगवान्कथांते लोकशंकरः ।। १५ ।।

कियती ते श्रुता गाथा श्रुत्वाह जगदंबिका ।।

सुधामंथनपर्यंतं चरित्रं शिवयेरितम् ।। १६ ।।

कोटरस्थः शुकः श्रुत्वा चिरंजीवत्वमागतः ।।

पार्वत्या रक्षितोसौ वै शुकः परमसुन्दरः ।। १७ ।।

स्थित्वा शिवस्य सदने मम ध्यानपरोऽभवत् ।।

ममाज्ञया शुकः साक्षात्त्वदीयहृदयस्थितः ।। १८ ।।

तेन प्राप्तं भागवतं माहात्म्यं चास्य दुर्लभम् ।।

त्वं वै गंधर्वसेनाय पित्रे विक्रमभूपतेः ।। १९ ।।

नर्मदाकूलमासाद्य श्रावयस्व कथां शुभाम् ।।

हरिमाहात्म्यदानं हि सर्वदानपरं स्मृतम् ।। 3.2.32.२० ।।

सत्पात्राय प्रदातव्यं विष्णुभक्ताय धीमते ।।

बुभुक्षितान्नदानं च तद्दानस्य समं न हि ।। २१ ।।

इत्युक्त्वांतर्दधे देवो बोपदेवः प्रसन्नधीः ।। २२ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 33

।। ऋषय ऊचुः ।। ।।

वाग्जं कर्म स्मृतं सूत वेद पाठः सनातनः ।।

बहुत्वात्सर्ववेदानां श्रोतुमिच्छामहे वयम् ।। १ ।।

केन स्तोत्रेण वेदानां पाठस्य फलमाप्नुयात् ।।

पापानि विलयं यांति तन्मे वद विचक्षण ।। २ ।।

।। सूत उवाच ।। ।।

विक्रमादित्यराज्ये तु द्विजः कश्चिदभूद्भुवि ।।

व्याधकर्मेति विख्यातो ब्राह्मण्यां शूद्रतोऽभवत् ।। ।। ३ ।।

त्रिपाठिनो द्विजस्यैव भार्या नाम्ना हि कामिनी ।।

मैथुनेच्छावती नित्यं मदाघूर्णितलोचना ।। ४ ।।

द्विजस्सप्तशतीपाठे वृत्त्यर्थी कर्हिचिद्गतः ।।

ग्रामे देवलके रम्ये वहुवैश्यनिषेविते ।। ५ ।।

तत्र मासो गतः कालो नाययौ स स्वमंदिरम् ।।

तदा तु कामिनी दुष्टा रूपयौवनसंयुता ।। ६ ।।

दृष्ट्वा निषादं सबलं काष्ठभारोपजीविनम् ।।

तस्मै दत्त्वा पञ्च मुद्रा बुभुजे कामपीडिता ।। ७ ।।

तदा गर्भं दधौ सा च व्याधिवीर्येण संचि तम् ।।

पुत्रोऽभूद्दशमासांते जातकर्म पिताकरोत् ।। ८ ।।

द्वादशाब्दे गते काले स धूर्तो वेदवर्जितः ।।

व्याधकर्मकरो नित्यं व्याधकर्मा ह्यतोभवत्।। ।। ९ ।।

निष्कासितौ द्विजेनैव मातृपुत्रौ द्विजाधमौ ।।

त्रिपाठी ब्रह्मचर्यं तु कृतवान्धर्मतत्परः ।। 3.2.33.१० ।।

प्रत्यहं चंडिकापाठं कृत्वा विंध्यगिरौ वसन् ।।

जीवन्मुक्तोभवच्छीघ्रं जगदंबाप्रसादतः ।। ११ ।।

निषादस्य गृहे चोभौ वने गत्वोषतुर्मुदा ।।

प्रत्यहं जारभावेन बहुद्रव्यमुपार्जितम् ।। ।। १२ ।।

व्याधकर्मा तु चौर्येण पितृमातृप्रियंकरः ।।

एकदा दैवयोगेन शिवामंदिरमाययौ ।। १३ ।।

चौरवृत्तिपरो धूर्तः स्त्रिया भूषणमाहरत् ।।

कैश्चिज्जातः स नी? धूर्तो बहुमायाविशारदः ।। १४ ।।

कदाचित्प्राप्तवांस्तत्र द्विजवस्त्रसमुद्गतम् ।।

श्रुतमादिचरित्रं हि तेन शब्दप्रियेण वै ।। १५ ।।

पाठपुण्यप्रभावेण धर्मबुद्धिस्ततोऽभवत् ।।

दत्त्वा चौर्यधनं सर्वं तस्मै विप्राय पाठिने ।। १६ ।।

शिष्यत्वमगमत्तत्राक्षरमैशं जजाप ह ।।

बीजमंत्रप्रभावेण तदंगात्पापमुल्बणम् ।। १७ ।।

निःसृतं कृमिरूपेण बहुवर्णेन तापितम् ।।

त्रिवर्षान्ते च निष्पापो बभूव द्विजसत्तमः ।। १६ ।।

पठित्वाक्षरमालां च जजापादिचरित्रकम् ।।

द्वादशाब्दमिते काले काश्यां गत्वा स तु द्विजः ।। १९ ।।

अन्नपूर्णां महादेवीं तुष्टाव परया मुदा ।।

रोचनाद्यैश्च संपूज्यां मुनिदेवनिषेविताम् ।। 3.2.33.२० ।।

नित्यानंदकरी पराभयकरी सौंदर्यरत्नाकरी निर्धूताखिलपापपावनकरी काशीपुराधीश्वरी ।।

नानालोककरी महाभयहरी विश्वंभरी सुन्दरी विद्यां देहि कृपावलंबनकरी मातान्नपूर्णेश्वरी ।। २१ ।।

स इत्यष्टोत्तरं जप्त्वा ध्यानस्तिमितलोचनः ।।

सुष्वाप तत्र मुदितः स्वप्ने प्रादुरभूच्छिवा ।। २२ ।।

दत्त्वा तस्मै हि ऋग्विद्यां पुनरंतरधीयत ।।

उत्थाय स द्विजो धीमाँल्लब्ध्वा विद्यामनुत्तमाम् ।। २३ ।।

विक्रमादित्यभूपस्य यज्ञाचार्यो बभूव ह ।।

यज्ञांते योगमास्थाय जगाम तु हिमालयम् ।। २४ ।।

एतत्ते वर्णितं विप्र पुण्यमादिचरित्रकम् ।।

ब्रह्मीभूय यथा विप्रो लेभे सिद्धिमनुत्तमाम् ।। २५ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये प्रथमच रित्रवर्णनंनाम त्रयस्त्रिंशोध्यायः ।। ३३ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 34

।। सूत उवाच ।। ।।

उज्जयिन्यां पुरा विप्र राजन्यः सर्वहिंसकः ।।

बभूव मद्यमांसाशी भीमवर्मेति विश्रुतः ।। १ ।।

मांसलोभेन स खलः सूकरान्ग्रामकुक्कुटान् ।।

हत्वा चाभक्षयत्पापी वेश्यासंगपरायणः ।। ।। २ ।।

नरमांसं स क्रव्यादस्त्यक्त्वान्यान्भक्षकोऽभवत् ।।

एवं बहुगते काले भीमवर्मा महाधमः ।।

विसूच्यग्निवशं यातो ममार च युवापि सः ।। ३ ।।

कारितश्चंडिकापाठस्तेन दुष्टेन भीरुणा ।।

तस्य पुण्यप्रभावेन नागतो नरकान्प्रति ।। ४ ।।

पुनः क्षत्रत्वमगमन्मागधे स महीपतिः ।।

महानन्दीति विख्यातो राजनीतिपरायणः ।। ५ ।।

जातिस्मरो बभूवासौ वेदधर्मपरायणः ।।

कात्यायनस्य शिष्योऽभून्महाशाक्तस्य धीमतः ।। ६ ।।

तस्मै नृपाय स मुनिर्दत्त्वा मध्यचरित्रकम् ।।

सबीजं पुनरागत्य विन्ध्ये शक्ति परोऽभवत् ।। ७ ।।

नृपोऽपि प्रत्यहं देवीं महालक्ष्मीं सनातनीम् ।।

रोचनाद्यैश्च संपूज्य जपन्मध्यचरित्रकम् ।। ८ ।।

पुण्यक्षेत्रत्वमगमन्महामायाप्रसादतः ।।

शूद्रभावं परित्यज्य क्षत्रभावमुपागतः ।। ९ ।।

द्वादशाब्दांतरे प्राप्तस्तद्गुरुः शक्तितत्परः ।।

लक्षचण्डीं नृपादेव कारयामास धर्मतः ।। 3.2.34.१० ।।

तदा प्रादुरभूद्देवी जगदंबा सनातनी ।।

नृपाय धर्ममर्थं च कामं मोक्षं हि चाददात् ।। ११ ।।

महानन्दी महाभागो भुक्त्वा भोगं सुरेप्सितम् ।।

अन्ते जगाम परमं लोकं देवनमस्कृतम् ।। १२ ।।

इति ते कथिता विप्र यत्प्रोक्तं यजुषो गतिः ।।

सा वै मध्यचरित्रेण प्राप्ता शूद्रनृपेण वै ।। १३ ।।

इत्येवं वर्णितं विप्र माहात्म्यं मुनिवर्णितम् ।। १४ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतु र्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुस्त्रिंशोऽध्यायः ।। ३४ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः २ — Adhyāya 35

।। सूत उवाच ।। ।।

चित्रकूटे गिरौ रम्ये नानाधातुविचित्रिते ।।

तत्रावसन्महाप्राज्ञ उपाध्यायः पतञ्जलिः। १ ।।

वेदवेदांगतत्त्वज्ञो गीताशास्त्रपरायणः ।।

विष्णुभक्तः सत्यसन्धो भाष्यशास्त्र विशारदः ।। २ ।।

कदाचित्स तु शुद्धात्मा गतस्तीर्थांतरं प्रति ।।

काश्यां कात्यायनेनैव तस्य वादो महानभूत् ।। ३ ।।

वर्षान्ते च तदा विप्रो देवीभक्तेन निर्जितः ।।

लज्जितः स तु धर्मात्मा संतुष्टाव सरस्वतीम् ।। ४ ।।

।। पतञ्जलिरुवाच ।। ।।

नमो देव्यै महामूर्त्यै सर्वमूर्त्यै नमो नम ।।

शिवायै सर्वमांगल्यै विष्णुमाये च ते नमः ।। ५ ।।

त्वमेव श्रद्धा बुद्धिस्त्वं मेधा विद्या शिवंकरी ।।

शांतिर्वाणी त्वमेवासि नारायणि नमोनमः ।। ६ ।।

इत्युक्ते सति विप्रे तु वागुवाचाशरीरिणी ।।

विप्रोत्तम चरित्रं मे जप चैकाग्रमानसः ।। ७ ।।

तच्चरित्रप्रभावेण सत्यं ज्ञानमवाप्स्यसि ।।

कात्यायनस्य विप्रस्य राजसंज्ञानमुद्धतम् ।।

मद्भक्त्या तेन संप्राप्तं पराजय पतञ्जले ।।८ ।।

इति श्रुत्वा वचो देव्या विन्ध्यवासिनि मन्दिरम् ।।

गत्वा तां पूजयामास तुष्टाव स्तोत्रपाठतः ।। ९ ।।

ज्ञानं प्रसादजं विप्रः प्राप्य विष्णुपरायणम् ।।

कात्यायनं पराजित्य परां मुदमवाप ह ।। 3.2.35.१० ।।

ऊर्द्ध्वपुंड्रं च तिलकं तुलसीकण्ठमालिकाम् ।।

कृष्णमन्त्रं च शिवदं स्थापयित्वा गृहेगृहे ।। ११ ।।

जनेजने तथा कृत्वा महाभाष्य मुदैरयत् ।।

चिरंजीवित्वमगमद्विष्णुमायाप्रसादतः ।। १२ ।।

इति ते कथितो विप्र जाप्यानामुत्तमो जपः ।।

किमन्यच्छ्रोतुमिच्छंति शौनकाद्या महर्षयः ।। १३ ।।

सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःखभाग्भवेत् ।। १४ ।।

मंगलं भगवान्विष्णुर्मंगलं गरुडध्वजः ।।

मंगलं पुंडरीकाक्षो मंगला यतनो हरिः ।। १५ ।।

शुचिर्यो हि नरो नित्यमितिहाससमुच्चयम् ।।

शृणुयाद्धर्मकामार्थी स याति परमां गतिम् ।। १६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये उत्तमचरितमाहात्म्ये पंचत्रिंशोऽध्यायः ।।३५।।

समाप्तोऽयं द्वितीयः खंडः।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 1

।। ऋषयः ऊचुः ।। ।।

भगवन्विक्रमाख्यानकालोऽयं भवतोदितः ।।

शतद्वादशमर्यादो द्वापरस्य समो भुवि ।। ।। १ ।।

अस्मिन्काले महाभाग लीला भगवता कृता ।।

तामेतां कथयास्मान्वै सर्वज्ञोऽस्ति भवान्सदा ।। २ ।।

।। सूत उवाच ।। ।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। ३ ।।

भविष्याख्ये महाकल्पे प्राप्ते वैवस्वतेन्तरे ।।

अष्टाविंशद्द्वापरान्ते कुरुक्षेत्रे रणोऽभवत् ।। ४ ।।

पांडवैर्निर्जिताः सर्वे कौरवाः युद्धदुर्मदाः ।।

अष्टादशे च दिवसे पांडवानां जयोऽभवत् ।। ५ ।।

दिनान्ते भग वान्कृष्णो ज्ञात्वा कालस्य दुर्गतिम् ।।

शिवं तुष्टाव मनसा योगरूपं सनातनम् ।। ६ ।।

।। कृष्ण उवाच ।। ।।

नमः शांताय रुद्राय भूते शाय कपर्दिने।।

कालकर्त्रे जगद्भर्त्रे पापहर्त्रे नमोनमः ।। ७ ।।

पांडवान्रक्ष भगवन्मद्भक्तान्भूतभीरुकान् ।।

इति श्रुत्वा स्तवं रुद्रो नंदियानोपरिस्थितः ।।

रक्षार्थं शिबिराणां च प्राप्तवाञ्छूलहस्तधृक् ।। ८ ।।

तदा नृपाज्ञया कृष्णः स गतो गजसाह्वयम् ।।

पांडवाः पंच निर्गत्य सरस्वत्या स्तटेऽवसन् ।। ९ ।।

निशीथे द्रौणिभोजौ च कृपस्तत्र समाययुः ।।

तुष्टुवुर्मनसा रुद्रं तेभ्यो मार्गं शिवोददात् ।। 3.3.1.१० ।।

अश्वत्थामा तु बलवाञ्छिवदत्तमसिं तदा ।।

गृहीत्वा स जघानाशु धृष्टद्युम्नपुरःसरान् ।। ११ ।।

हत्वा यथेष्टमगमद्द्रौणिस्ताभ्यां समन्वितः ।। १२ ।।

पार्षतस्यैव सूतश्च हतशेषो भयातुरः ।।

पांडवान्वर्णयामास यथा जातो जनक्षयः ।। १३ ।।

आगस्कृतं शिवं ज्ञात्वा भीमाद्याः क्रोधमूर्च्छिताः ।।

स्वायुधैस्ता डयामास देवदेवं पिनाकिनम् ।। १४ ।।

अस्त्रशस्त्राणि तेषां तु शिवदेहे समाविशन् ।।

दृष्ट्वा ते विस्मिताः सर्वे प्रजघ्नुस्तलमुष्टिभिः ।। १५।।

ताञ्छशाप तदा रुद्रो यूयं कृष्णप्रपूजकाः ।।

अतोऽस्माभी रक्षिणीया वधयोग्याश्च वै भुवि ।। १६ ।।

पुनर्जन्म कलौ प्राप्य भोक्ष्यते चापराधकम् ।।

इत्युक्त्वान्तर्दधे देवः पांडवा दुःखितास्तदा ।। १७ ।।

हरिं शरणमाजग्मुरपराधनिवृत्तये ।।

तदा कृष्णयुताः सर्वे पांडवाः शस्त्रवर्जिताः ।। १८ ।।

तुष्टुवुर्मनसा रुद्रं तदा प्रादुरभूच्छिवः ।।

वरं वरयत प्राह कृष्णः श्रुत्वाब्रवीदिदम् ।। १९ ।।

शस्त्राण्यस्त्राणि यान्येव त्वदंगे क्षपितानि वै।।

पांडवेभ्यश्च देहि त्वं शापस्यानुग्रहं कुरु ।। 3.3.1.२० ।।

इति श्रुत्वा शिवः प्राह कृष्णदेव नमोऽस्तु ते ।।

अपराधो न मे स्वामिन्मोहितोऽहं तवाज्ञया ।। २१ ।।

तद्वशेन मया स्वामिन्दत्तः शापो भयंकरः ।।

नान्यथा वचनं मे स्यादंशावतरणं भवेत् ।। २२ ।।

वत्सराजस्य पुत्रत्वं गमिष्यति युधिष्ठिरः ।।

बलखानिरिति ख्यातः शिरीषाख्यपुराधिपः ।। २३ ।।

भीमो दुर्वचनाद्दुष्टो म्लेच्छयोनौ भविष्यति ।।

वीरणो नाम विख्यातः स वै वनरसाधिपः ।। २४ ।।

अर्जुनांशश्च मद्भक्तो जनिष्यति महामतिः ।।

पुत्रः परिमलस्यैव ब्रह्मानन्द इति स्मृतः।।२५।।

कान्यकुब्जे हि नकुलो भविष्यति महाबलः।।

रत्नभानुसुतो सौ वै लक्ष्मणो नाम विश्रुतः।।२६।।

सहदेवस्तु वलवाञ्जनिष्यति महामतिः।।

भीष्मसिंह सुतो जातो देवसिंह इति स्मृतः ।।२७।।

धृतराष्ट्रांश एवासौ जनिष्यत्यजमेरके ।।

पृथिवीराज इति स द्रोपदी तत्सुता स्मृता ।।२८।।

वेला नाम्ना च विख्याता तारकः कर्ण एव हि ।।

रक्तबीजस्तथा रुद्रो भविष्यति महीतले ।।२९।।

कौरवाश्च भविष्यन्ति मायायुद्धविशारदाः।।

पांडुपक्षाश्च ते सर्वे धर्मिणो बलशालिनः ।।3.3.1.३०।।

।। सूत उवाच ।। ।।

इति श्रुत्वा हरिः प्राह विहस्य परमेश्वरम् ।।

मया शक्त्यवतारेण रक्षणीया हि पांडवाः ।।३१।।

महावती पुरी रम्या मायादेवीविनिर्मिता ।।

देशराजसुतस्तत्र ममांशो हि जनिष्यते ।। ३२ ।।

देवकीजठरे जन्मोदयसिंह इति स्मृतः ।।

आह्लादो मम धामांशो जनिष्यति गुरुर्मम ।। ३३ ।।

हत्वाग्निवंशजान्भूपान्स्थापयिष्यामि वै कलिम् ।।

इति श्रुत्वा शिवो देवस्तत्रैवांतरधीयत ।। ३४ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये विक्रमाख्यानकाले प्रथमोऽध्यायः ।। १ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 2

।। सूत उवाच ।। ।।

प्रातः काले च संप्राप्ते पांडवाः पुत्रशोकिनः ।।

प्रेतकार्याणि ते कृत्वा भीष्मान्तिकमुपाययुः ।। १ ।।

राजधर्मान्मोक्षधर्मान्दानधर्मान्विभागशः ।।

श्रुत्वायजन्नश्वमेधैस्त्रिभिरुत्तमकर्मभिः ।।२।।

षट्त्रिंशदब्दराज्यं हि कृत्वा स्वर्गपुरं ययुः ।।

जनिष्यन्ते तदंशा वै कलिधर्म विवृद्धये ।। ३ ।।

।। व्यास उवाच ।। ।।

इत्युक्त्वा स मुनिः सर्वान्पुनः सूतो वदिष्यति ।।

गच्छध्वं मुनयः सर्वे योगनिद्रावशो ह्यहम् ।।

चक्रतीर्थे समाधिस्थो ध्यायेऽहं त्रिगुणात्परम् ।। ४ ।।

इति श्रुत्वा तु मुनयो नैमिषारण्यवासिनः ।।

योगसिद्धिं समास्थाय गमिष्यंत्यात्मनोन्तिके ।। ५ ।।

द्वादशाब्दशते कालेऽतीते ते शौनकादयः ।। ६ ।।

उत्थाय देवखाते च स्नानध्यानादिकाः क्रियाः ।।

कृत्वा सूतान्तिकं गत्वा वदिष्यंति पुनर्वचः ।। ७ ।।

।। ऋषय ऊचुः ।। ।।

विक्रमाख्यानकालोऽयं द्वापरे च शिवाज्ञया ।।

विनीतान्भगवन्भूमौ तदा तान्नृपतीन्वद ।। ८ ।। ।।

।। सूत उवाच ।। ।।

स्वर्गते विक्रमादित्ये राजानो बहुधाऽभवन् ।।

तथाष्टादश राज्यानि तेषां नामानि मे शृणु ।। ९ ।।

पश्चिमे सिंधुनद्यंते सेतुबन्धे हि दक्षिणे ।।

उत्तरे बदरीस्थाने पूर्वे च कपिलान्तिके ।।3.3.2.१ ०।।

अष्टादशैव राष्ट्राणि तेषां मध्ये बभूविरे ।।

इंद्रप्रस्थं च पांचालं कुरु क्षेत्रं च कापिलम् ।। ११ ।।

अन्तर्वेदी व्रजथ्यैवाजमेरं मरुधन्व च ।।

गौर्ज्जरं च महाराष्ट्रं द्राविडं च कलिंगकम् ।। १२ ।।

आवंत्यं चोडुपं वंगं गौडं मागधमेव च ।।

कौशल्यं च तथा ज्ञेयं तेषां राजा पृथक्पृक् ।। १३ ।।

नानाभाषाः स्थितास्तत्र बहुधर्मप्रवर्तकाः ।।

एवमब्दशतं जातं ततस्ते वै शकादयः ।।१४।।

श्रुत्वा धर्मविनाशं च बहुवृंदैः समन्विताः ।।

केचित्तीर्त्वा सिंधुनदीमार्य्यदेशं समागताः ।। १५ ।।

हिमपर्वतमार्गेण सिंधुमार्गेण चागमन् ।।

जित्वार्य्याल्लाँठयित्वा तान्स्वदेशं पुनराययुः ।। १६ ।।

गृहीत्वा योषितस्तेषां परं हर्षमुपाययुः ।।

एतस्मिन्नन्तरे तत्र शालिवाहनभूपतिः ।। १७ ।।

विक्रमादित्यपौत्रश्च पितृराज्यं गृहीतवान् ।।

जित्वा शकान्दुराधर्षांश्चीनतैत्तिरिदेशजान् ।। १८ ।।

बाह्लीकान्कामरूपांश्च रोमजान्खुरजा च्छठान् ।।

तेषां कोशान्गृहीत्वा च दंडयोग्यानकारयत् ।। १९ ।।

स्थापिता तेन मर्य्यादा म्लेच्छार्याणां पृथक्पृथक् ।।

सिंधुस्थानमिति ज्ञेयं राष्ट्र मार्य्यस्य चोत्तमम् ।।3.3.2.२०।।

म्लेच्छस्थानं परं सिन्धोः कृतं तेन महात्मना ।।

एकदा तु शकाधीशो हिमतुंगं समाययौ ।। २१ ।।

हूणदेशस्य मध्ये वै गिरिस्थं पुरुषं शुभम् ।।

ददर्श बलवान्राजा गौरांगं श्वेतवस्त्रकम् ।। २२ ।।

को भवानिति तं प्राह स होवाच मुदान्वितः ।।

ईशपुत्रं च मां विद्धि कुमारीगर्भसंभवम् ।। २३ ।।

म्लेच्छधर्मस्य वक्तारं सत्यव्रतपरायणम् ।।

इति श्रुत्वा नृपः प्राह धर्मः को भवतो मतः ।। २४ ।।

श्रुत्वोवाच महाराज प्राप्ते सत्यस्य संक्षये ।।

निर्मर्यादे म्लेच्छदेशे मसीहोऽहं समागतः ।। २५ ।।

ईशामसी च दस्यूनां प्रादुर्भूता भयंकरी ।।

तामहं म्लेच्छतः प्राप्य मसीहत्वमुपागतः ।। २६ ।।

म्लेच्छेषु स्थापितो धर्मो मया तच्छृणु भूपते ।।

मानसं निर्मलं कृत्वा मलं देहे शुभाशुभम् ।।२७।

नैगमं जपमास्थाय जपेत निर्मलं परम्।।

न्यायेन सत्यवचसा मनसैक्येन मानवः ।। २८ ।।

ध्यानेन पूजयेदीशं सूर्यमंडलसंस्थितम् ।

अचलोऽयं प्रभुः साक्षात्तथा सूर्योचलः सदा ।। २९ ।।

तत्त्वानां चलभूतानां कर्षणः स समंततः ।।

इति कृत्येन भूपाल मसीहा विलयं गता ।। 3.3.2.३० ।।

ईशमूर्तिर्हृदि प्राप्ता नित्यशुद्धा शिवंकरी ।।

ईशामसीह इति च मम नाम प्रतिष्ठितम् ।। ३१ ।।

इति श्रुत्वा स भूपालो नत्वा तं म्लेच्छपूजकम्।।

स्थापयामास त तत्र म्लेच्छस्थाने हि दारुणे ।। ३२ ।।

स्वराज्यं प्राप्तवान्राजा हयमेधमचीकरत् ।।

राज्यं कृत्वा स षष्ट्यब्दं स्वर्गलोकमुपाययौ।।

स्वर्गते नृपतौ तस्मिन्यथा चासीत्तथा शृणु ।। ३४ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये शालिवाहनकाले द्वितीयोऽध्यायः।।२।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 3

श्रीसूत उवाच।। ।।

शालिवाहनवंशे च राजानो दश चाभवन्।।

राज्यं पंचशताब्दं च कृत्वा लोकान्तरं ययुः।। १।।

मर्य्यादा क्रमतो लीना जाता भूमंडले तदा।।

भूपतिर्दशमो यो वै भोजराज इति स्मृतः ।।

दृष्ट्वा प्रक्षीणमर्य्यादां बली दिग्विजयं ययौ ।। २ ।।

सेनया दशसाहस्र्या कालिदासेन संयुतः ।।

तथान्यैर्ब्राह्मणैः सार्द्धं सिंधुपारमुपाययौ ।। ३ ।।

जित्वा गांधारजान्म्लेच्छान्काश्मीरान्नारवाञ्छठान् ।।

तेषां प्राप्य महाकोशं दंडयोग्यानकारयत् ।।४।।

एतस्मिन्नन्तरे म्लेच्छ आचार्य्येण समन्वितः।।

महामद इति ख्यातः शिष्यशाखासमन्वितः।।५।।

नृपश्चैव महादेवं मरुस्थलनिवासिनम्।।

गंगाजलैश्च संस्नाप्य पंचगव्यसमन्वितैः।।

चंदनादिभिरभ्यर्च्य तुष्टाव मनसा हरम्।।६।।

भोजराज उवाच।।

नमस्ते गिरिजानाथ मरुस्थलनिवासिने ।।

त्रिपुरासुरनाशाय वहुमायाप्रवर्त्तिने ।। ७ ।।

म्लेच्छैर्गुप्ताय शुद्धाय सच्चिदानन्दरूपिणे ।।

त्वं मां हि किंकरं विद्धि शरणार्थमुपागतम्।।८ ।।

।।सूत उवाच ।। ।।

इति श्रुत्वा स्तवं देवः शब्दमाह नृपाय तम् ।।

गंतव्यं भोजराजेन महाकालेश्वरस्थले ।। ९ ।।

म्लेच्छैस्सुदूषिता भूमिर्वाहीका नाम विश्रुता ।।

आर्य्यधर्मो हि नैवात्र वाहीके देशदारुणे ।। 3.3.3.१० ।।

बभूवात्र महामायी योऽसौ दग्धो मया पुरा।।

त्रिपुरो बलिदैत्येन प्रेषितः पुनरागतः ।। ११ ।।

अयोनिः स वरो मत्तः प्राप्तवान्दैत्यवर्द्धनः ।।

महामद इति ख्यातः पैशाचकृतितत्परः ।। १२ ।।

नागन्तव्यं त्वया भूप पैशाचे देशधूर्तके ।।

मत्प्रसादेन भूपाल तव शुद्धिः प्रजायते ।। १३ ।।

इति श्रुत्वा नृपश्चैव स्वदेशान्पुनरागमत्।।

महामदश्च तैः सार्द्धं सिंधुतीरमुपाययौ ।। १४ ।।

उवाच भूपतिं प्रेम्णा मायामदविशारदः ।।

तव देवो महाराज मम दासत्वमागतः ।। १५ ।।

ममोच्छिष्ठं सभुंजीयाद्यथा तत्पश्य भो नृप ।।

इति श्रुत्वा तथा दृष्ट्वा परं विस्मयमागतः ।। १६ ।।

म्लेच्छधर्मे मतिश्चासीत्तस्य भूपस्य दारुणे।।१७।।

तच्छ्रुत्वा कालिदासस्तु रुषा प्राह महामदम् ।।

माया ते निर्मिता धूर्त नृपमोहनहेतवे ।। १८ ।।

हनिष्यामि दुराचारं वाहीकं पुरुषाधमम् ।।।

इत्युक्त्वा स द्विजः श्रीमान्नवार्णजपतत्परः ।। १९ ।।

जप्त्वा दशसहस्रं च तद्दशांशं जुहाव सः ।।

भस्म भूत्वा स मायावी म्लेच्छदेवत्वमागतः।।3.3.3.२०।।।

भयभीतास्तु तच्छिष्या देशं वाहीकमाययुः ।।

गृहीत्वा स्वगुरोर्भस्म मदहीनत्वमागतम् ।। २१ ।।

स्थापितं तैश्च भूमध्ये तत्रोषुर्मदतत्पराः ।।।

मदहीनं पुरं जातं तेषां तीर्थं समं स्मृतम् ।। २२ ।।

रात्रौ स देवरूपश्च बहुमायाविशारदः ।।

पैशाचं देहमास्थाय भोजराजं हि सोऽब्रवीत्।।२३।।

आर्य्यधर्मो हि ते राजन्सर्वधर्मोत्तमः स्मृतः।।

ईशाज्ञया करिष्यामि पैशाचं धर्मदारुणम् ।। २४ ।।

लिंगच्छेदी शिखाहीनः श्मश्रुधारी स दूषकः ।।

उच्चालापी सर्वभक्षी भविष्यति जनो मम ।। २५ ।।

विना कौलं च पशवस्तेषां भक्ष्या मता मम ।।

मुसलेनैव संस्कारः कुशैरिव भविष्यति ।। २६ ।।

तस्मान्मुसलवन्तो हि जातयो धर्मदूषकाः ।।

इति पैशाचधर्मश्च भविष्यति मया कृतः ।। २७ ।।

इत्युक्त्वा प्रययौ देवः स राजा गेहमाययौ ।।

त्रिवर्णे स्थापिता वाणी सांस्कृती स्वर्गदायिनी ।। २८ ।।

शूद्रेषु प्राकृती भाषा स्थापिता तेन धीमता ।।

पंचाशदब्दकालं तु राज्यं कृत्वा दिवं गतः ।। २९ ।।

स्थापिता तेन मर्य्यादा सर्वदेवोपमानिनी ।।

आर्य्यावर्तः पुण्यभूमिर्मध्यं विंध्यहिमालयोः ।। 3.3.3.३० ।।

आर्य्य वर्णाः स्थितास्तत्र विंध्यान्ते वर्णसंकराः ।।

नरा मुसलवन्तश्च स्थापिताः सिंधुपारजाः ।। ३१ ।।

बर्बरे तुषदेशे च द्वीपे नानाविधे तथा ।।

ईशामसीहधर्म्माश्च सुरै राज्ञैव संस्थिताः ।। ३२ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये तृती योऽध्यायः ।। ३ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 4

।। सूत उवाच ।। ।।

स्वर्गते भोजराजे तु सप्तभूपास्तदन्वये ।।

जाताश्चाल्पायुषो मन्दास्त्रिशताब्दान्तरे मृताः ।। १ ।।

बहुभूपवती भूमिस्तेषां राज्ये बभूव ह ।।

वीरसिंहश्च यो भूपः सप्तमः संप्रकीर्तितः ।। २ ।।

तदन्वये त्रिभूपाश्च द्विशताब्दान्तरे मृताः ।।

गंगासिंहश्च यो भूपो दशमः स प्रकीर्तितः ।। ३ ।।

कल्पक्षेत्रे च राज्यं स्वं कृतवान्धर्मतो नृपः ।।

अन्तर्वेद्यां कान्यकुब्जे जयचन्द्रो महीपतिः ।। ४ ।।

इंद्रप्रस्थेनंगपालस्तोमरान्वयसंभवः ।।

अन्ये च बहवो भूपा बभूवुर्ग्रामराष्ट्रपाः ।। ५ ।।

अग्निवंशस्य विस्तारो बभूव बलवत्तरः ।।

पूर्वे तु कपिल स्थाने वाहीकान्ते तु पश्चिमे ।। ६ ।।

उत्तरे चीनदेशान्ते सेतुबंधे तु दक्षिणे ।।

षष्टिलक्षाश्च भूपाला ग्रामपा बलवत्तराः ।। ७ ।।

अग्निहोत्रस्य कर्तारो गोब्राह्मणहितैषिणः ।।

बभूवुर्द्वापरसमा धर्मकृत्यविशारदाः ।।८।।

द्वापराख्यसमः कालः सर्वत्र परिवर्तते ।।

गेहेगेहे स्थितं द्रव्यं धर्मश्चैव जनेजने ।।९।।

ग्रामेग्रामे स्थितो देवो देशेदेशे स्थितो मखः ।।

आर्यधर्मकरा म्लेच्छा बभूवुः सर्वतोमुखाः ।।3.3.4.१०।।

इति दृष्ट्वा कलिर्घोरो म्लेच्छया सह भीरुकः ।।

नीलाद्रौ प्राप्य मतिमान्हरिं शरणमाययौ ।।११।।

द्वादशाब्दमिते काले ध्यानयोगपरोऽभवत्।।

ध्यानेन सच्चिदानंदं दृष्ट्वा कृष्णं सनातनम्।।१२।।.

तुष्टाव मनसा तत्र राधया सहितं हरिम् ।।

पुराणमजरं नित्यं वृंदावननिवासिनम् ।।१३।।

।। कलिरुवाच ।। ।।

साष्टांगं दंडवत्स्वामिन्गृहाण मम चेश्वर ।।

.पाहि मां शरणं प्राप्तं चरणे ते कृपानिधे ।। १४ ।।

सर्वपापहरस्त्वं वै सर्वकालकरो हरिः ।।

भवान्गौरः सत्ययुगे त्रेतायां रक्तरूपकः ।। ।। १५ ।।

द्वापरे पीतरूपश्च कृष्णत्वं मम दिष्टके ।।

मत्पुत्राश्च स्मृता म्लेच्छा आर्य्यधर्मत्वमागताः।। १६ ।।

चतुर्गेहं च मे स्वामिन्द्यूतं मद्यं सुवर्ण कम् ।।

स्त्री हास्यं चाग्निवंश्यैश्च क्षत्रियैश्च विनाशितम् ।। १७ ।।

त्यक्तदेहस्त्यक्तकुलस्त्यक्तराष्ट्रो जनार्दन ।।

त्वत्पादांबुजमाधाय स्थितोऽहं शरणं त्वयि ।।१८।।

इति श्रुत्वा स भगवान्कृष्णः प्राह विहस्य तम् ।।

भो कले तव रक्षार्थं जनिष्येहं महावतीम् ।।१९।।

ममांशो भूमिमासाद्य क्षयिष्यति महाबलान् ।।

म्लेच्छवंशस्य भूपालान्स्थापयिष्यति भूतले ।। 3.3.4.२० ।।

इत्युक्त्वा भगवान्साक्षात्तत्रैवान्तरधीयत ।।

कलिस्तु म्लेच्छया सार्धं परमा नंदमाप्तवान् ।। २१ ।।

एतस्मिन्नन्तरे विप्र यथा जातं शृणुष्व तत् ।।

आभीरी वाक्सरे ग्रामे व्रतपा नाम विश्रुता ।। २२ ।।

नवदुर्गाव्रतं श्रेष्ठं? नववर्षं चकार ह ।।

प्रसन्ना चंडिका प्राह वरं वरय शोभने ।। २३ ।।

साह तां यदि मे मातर्वरो देयस्त्वयेश्वरि ।।

रामकृष्णसमौ बालौ भवेयाः ममान्वये ।। २४ ।।

तथेत्युक्त्वा तु सा देवी तत्रैवान्तरधीयत ।।

वसुमान्नाम नृपतिस्तस्या रूपेण मोहितः ।। २५ ।।

उद्वाह्य धर्मतो भूपः स्वगेहे तामवासयत् ।।

तस्यां जातौ नृपात्पुत्रौ देशराजस्तु तद्वरः ।। २६ ।।

आवार्यो वत्सराजश्च शतहस्तिसमो बले ।।

जित्वा तौ मागधान्देशान्राज्य वंतौ बभूवतुः ।। २७ ।।

शतयत्तः स्मृतो म्लेच्छः शूरो वनरसाधिपः ।।

तत्पुत्रो भीमसेनांशो वीरणोभूच्छिवाज्ञया ।। २८ ।।

तालवृक्षप्रमाणेन .चोर्ध्ववेगो हि तस्य वै ।।

तालनो नाम विख्यातः शतयत्तेन वै कृतः ।। २९ ।।

ताभ्यां नृपाभ्यां तद्युद्धमभवल्लोमहर्षणम् ।।

युद्धेन हीनतां प्राप्तस्तालनो बलवत्तरः ।। 3.3.4.३० ।।

तदा मैत्री कृता ताभ्यां तालनेन समन्विता ।।

जयचंद्रपरीक्षार्थे त्रयः शूराः समाययुः ।। ३१ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहासमुच्चये चतुर्थोऽध्यायः ।। ४ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 5

।। सूत उवाच ।। ।।

इंद्रप्रस्थेऽनंगपालोनपत्यश्च महीपतिः ।।

पुत्रार्थं कारयामास शैवं यज्ञं विधानतः ।। १ ।।

कन्यके च तदा जाते शिवभागप्रसादतः ।।

चंद्रकांतिश्च ज्येष्ठा वै द्वितीया कीर्तिमालिनी ।। २ ।।

कान्यकुब्जाधिपायैव चंद्रकान्तिं पिताददत् ।।

देवपालाय शुद्धाय राष्ट्रपालान्वयाय च ।। ३ ।।

सोमेश्वराय भूपाय चपहानिकुलाय तु ।।

अजमेराधिपायैव तथा वै कीर्तिमालिनीम् ।। ४ ।।

जयशर्मा द्विजः कश्चित्समाधिस्थो हिमालये ।।

दृष्ट्वा भूपोत्सवं रम्यं राज्यार्थे स्वमनोऽदधत् ।। ५ ।।

त्यक्त्वा देहं स शुद्धात्मा चंद्रकांत्याः सुतोभवत् ।।

जयचंद्र इति ख्यातो बाहुशाली जितेन्द्रियः ।।

रत्नभानुश्च संजज्ञे शूरस्तस्यानुजो बली ।। ६ ।।

स जित्वा गौडवंगादीन्मरुदेशान्मदोत्कटान् ।।

दंड्यान्कृत्वा गृहं प्राप्य भ्रात्राज्ञा तत्परोऽभवत् ।।७।।

गंगासिंहस्य भगिनी नाम्ना वीरवती शुभा ।।

रत्नभानोश्च महिषी बभूव वरवर्णिनी ।। ८ ।।

नकुलांशस्तदा भूमौ तस्यां जातः शिवाज्ञया ।।

लक्षणो नाम बलवान्खड्गयुद्धविशारदः ।।

स सप्ताब्दान्तरे प्राप्ते पितुस्तुल्यो बभूव ह ।। ९ ।।

त्रयश्च कीर्तिमालिन्यां पुत्रा जाता मदोत्कटाः ।।

धुंधकारश्च प्रथमस्ततः कृष्णकुमारकः ।।

पृथिवीराज एवासौ ततोनुज इति स्मृतः ।। 3.3.5.१० ।।

द्वादशाब्दवयः प्राप्तः सिंहखेलस्ततोऽभवत् ।।

श्रुत्वा चानंगपालश्च तस्मै राज्यं स्वयं ददौ ।।

गत्वा हिमेगिरिं रम्यं योगध्यानपरोभवत् ।। ११ ।।

मथुरायां धुंधकारोऽजमेरे च ततोनुजः ।।

राजा बभूव नीतिज्ञस्तौ सुतौ पितुराज्ञया ।। १२ ।।

प्रद्योतश्चैव विद्योतः क्षत्रियौ चद्रवंशजौ ।।

मंत्रिणौ तस्य भूपस्य बलवंतौ मदोत्कटौ ।। १३ ।।

प्रद्योततनयो जातो नाम्ना परिमलो बली ।।

लक्षसेनाधिपः सो हि तेन राज्ञैव संस्कृतः ।। १४ ।।

विद्योताद्भीष्मसिंहश्च गजसेनाधिपोऽभवत् ।।

स्वर्गतेऽनंगपाले तु भूमिराजो महीपतिः ।। १५ ।।

दृष्ट्वा तान्विप्रियान्सर्वान्निजराज्यान्निराकरोत् ।।

प्रद्योताद्याश्च चत्वारः स्वशूरैर्द्विशतैर्युताः ।। १६ ।।

कान्यकुब्जपुरं प्राप्य जयचंद्रमवर्णयन् ।।

जयचंद्र महीपाल त्वन्मातृष्वसृजो नृपः ।। १७ ।।

मातामहस्य ते राज्यं प्राप्तवान्निर्भयो बली ।।

न्यायेन कथितोऽस्माभिरर्द्धराज्यं हि ते स्मृतम् ।। १८ ।।

सर्वराज्यं कथं भुंक्षे श्रुत्वा तेन निराकृताः ।।

भवन्तं शरणं प्राप्ता यथायोग्यं तथा कुरु ।। १९ ।।

इति श्रुत्वा महीपालो जयचंद्र उवाच तान् ।।

अश्वसैन्ये मदीये चाधिकारी ते सुतो भवेत् ।। 3.3.5.२० ।।

नाम्ना परिमलः शूरस्त्वं मन्मंत्री भवाधुना ।।

विद्योतश्च तथा मंत्री गजसैन्ये हि भीमकः ।। २१ ।।

वृत्त्यर्थे च मया वो वै पुरी दत्ता महावती ।।

महीपतेश्च भूपस्य नगरी सा प्रियंकरी।।२२।।

इति श्रुत्वा तु ते सर्वे तथा मत्वा मुमोदिरे ।

महीपतिस्तु बलवान्दुःखात्संत्यज्य तां पुरीम्।।२३।।

कृत्वौर्वीयां पुरीमन्यां तत्र वासमकारयत् ।।

अगमा मलना चैव भगिन्यौ तस्य चोत्तमे ।। २४ ।।

अगमा भूमिराजाय चान्या परिमलाय सा ।।

दत्ता भ्रात्रा विधानेन परमानंदमापतुः ।। २५ ।।

विवाहांते च भूराजा दुर्गमन्यमकारयत् ।।

कृत्वा च नगरीं रम्यां चतुर्वर्णनिवासिनीम् ।। २६ ।।

देहली सुमूहूर्तेन दुर्ग द्वारे सुरोपिता ।।

गता सा योजनान्ते वै वृद्धिरूपा सुकालतः ।। २७ ।।

विस्मितः स नृपो भूत्वा देहली नाम चाकरोत् ।।

देहलीग्राम इति च प्रसिद्धोऽभून्नृपाज्ञया ।। २८ ।।

त्रिवर्षांते च भो विप्रा जयचन्द्रो महीपतिः ।।

लक्षषोडशसैन्याढ्यस्तत्र पत्रमचोदयत् ।। २९ ।।

किमर्थं पृथिवीराज मद्दायं मे न दत्तवान् ।।

मातामहस्य वै दायं चार्द्धं मे च समर्पय ।। 3.3.5.३० ।।

नो चेन्मच्छस्त्रकठिनैः क्षयं यास्यंति सैनिकाः ।।

इति ज्ञात्वा महीराजो विंशल्लक्षाधिपो बली ।। ३१ ।।

दूतं वै प्रेषयामास राजराजो मदोत्कटः ।।

जयचंद्र महीपाल सावधानं शृणुष्व तत् ।। ३२ ।।

यदा निराकृता धूर्ता मया ते चंद्रवंशिनः ।।

ततः प्रभृति सेनाङ्गं विंशल्लक्षं समाहृतम्।।३३।।

त्वया षोडशलक्षं च युद्धसैन्यं समाहृतम् ।।

सर्वे वै भारते भूपा दंडयोग्याश्च मे सदा ।।३४।।

भवान्न दंड्यो बलवान्करं मे दातुमर्हति ।।

नो चेन्मत्कठिनैर्बाणैः क्षयं यास्यंति सैनिकाः ।।३५।।

इति ज्ञात्वा तयोर्घोरं वैरं चासीन्महीतले ।।

भूमिराजश्च वलवाञ्जयचन्द्रभयार्दितः ।।३६।।

जयचंद्रश्च बलवान्पृथिवीराजभीरुकः ।।

जयचन्द्रश्चार्यदेशमर्द्धराष्ट्रममकल्पयत्।। ।।३७।।

पृथिवीराज एवासौ तथार्द्धं राष्ट्रमानयत् ।।

एवं जातं तयोर्वैरमग्निवंशप्रणाशनम् ।।३८।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युग खंडापरपर्याये कलियुगीयेतिहाससमुच्चये पंचमोऽध्यायः ।।५।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 6

।। सूत उवाच ।। ।।

एकदा रत्नभानुर्हि महीराजेन पालिताम् ।।

दिशं याम्यां स वै जित्वा तेषां कोशानुपाहरत् ।।१।।

महीराजस्तु तच्छुत्वा परं विस्मयमागतः ।।

रत्नभानोश्च तिलको बभूव बहुविस्तरः ।।२।।

तिलका नाम विख्याता या तु वीरवती शुभा ।।

श्रेष्ठा द्वादशराज्ञीनां जननी लक्षणस्य वै ।। ३ ।।

जयचंद्रस्य भूपस्य योषितः षोडशाभवन् ।।

तासां न तनयो ह्यासीत्पूर्वकर्मविपाकतः ।। ४ ।।

गौडभूपस्य दुहिता नाम्ना दिव्यविभावरी ।।

जयचंद्रस्य महिषी तद्दासी सुरभानवी ।। ५ ।।

रूपयौवन संयुक्ता रतिकेलिविशारदा ।।

दृष्ट्वा तां स नृपः कामी बुभुजे स्मरपीडितः ।।६।।

तस्यां जाता सुता देवी नाम्ना संयोगिनी शुभा ।।

द्वादशाब्दवयः प्राप्ता सा बभूव वरांगना ।। ७ ।।

तस्याः स्वयंवरे राजाह्वयद्भूपान्महाशुभान् ।।

भूमिराजस्तु बलवाञ्छ्रुत्वा तद्रूपमुत्तमम् ।। ।।

विवाहार्थे मनश्चासीच्चंद्रभट्टमचोदयत् ।।

मंत्रिप्रवर भो मित्र चंद्रभट्ट मम प्रिय ।। ९ ।।

कान्यकुब्जपुरीं प्राप्य मन्मूर्तिं स्वर्णनिर्मिताम्।। ।।

स्थापय त्वं सभामध्ये यद्वृत्तांतं तु मे वद ।। 3.3.6.१० ।।

इति श्रुत्वा चंद्रभट्टो भवानीभक्तितत्परः ।।

गत्वा तत्र भृगुश्रेष्ठ यथा प्रोक्तस्तथाकरोत् ।। ११ ।।

स्वयंवरे च भूपाश्च नानादेश्याः समागताः ।।

त्यक्त्वा संयोगिनी तान्वै नृपमूर्तिविमोहिता ।। १२ ।।

पितरं प्राह कामाक्षी यस्य मूर्तिरियं नृप ।।

भविष्यति स मे भर्ता सर्वलक्षणलक्षितः ।। १३ ।।

जयचंद्रस्तु तच्छ्रुत्वा चंद्रभद्रमुवाच तम् ।।

यदि ते भूपतिश्चैव सर्वसैन्यसमन्वितः ।। १४ ।।

सञ्जयेद्योगिनीमेतां तर्हि मेऽतिप्रियो भवेत् ।।

चंद्रभट्टस्तु तच्छ्रुत्वा तत्तु सर्वमवर्णयत् ।। १५ ।।

पृथिवीराज एवासौ श्रुत्वा सैन्यमचोदयत् ।।

एकलक्षा गजास्तस्य सप्तलक्षास्तुरंगमाः ।। १६ ।।

रथाः पंचसहस्राश्च धनुर्बाणविशारदाः ।।

लक्षाः पदातयो ज्ञेया द्वादशैव महाबलाः ।। १७ ।।

राजानस्त्रिशतान्येव महीराजपदानुगाः ।।

सार्द्धं द्वाभ्यां च बन्धुभ्यां कान्यकुब्जे नृपोऽगमत् ।। १८ ।।

धुन्धुकारश्च तद्बन्धुर्गजानीकपतिस्सदा ।।

हयानीकपतिः कृष्ण कुमारो बलवत्तरः ।। १९ ।।

पदातीनां नृपतयः पतयस्तत्र चाभवन् ।।

महान्कोलाहलो जातः स्थलीं शून्यामकारयन् ।। 3.3.6.२० ।।

विंशत्कोशप्रमाणेन स्थितं तस्य महाबलम् ।।

जयचंद्रस्तु संज्ञाय महीराजस्य चागमम् ।। २१ ।।

स्वसैन्यं कल्पयामास लक्षषोडशसंमितम् ।।

एकलक्षा गजास्तस्य सप्तलक्षाः पदातयः ।। २२ ।।

वाजिनश्चाष्टलक्षाश्च सर्वयुद्धविशारदाः ।।

द्विशतान्येव राजानः प्राप्तास्तत्र समागमे ।। २३ ।।

आगस्कृतं महीराजं मत्वा ते शुक्लवंशिनः ।।

युद्धार्थिनः स्थितास्तत्र पुरमागस्कृतं ह्यभूत् ।। २४ ।।

ईशनद्याः परे कूले तद्दोला स्थपिता तदा ।।

नाना वाद्यानि रम्याणि तत्र चक्रुर्महारवम् ।। २५ ।।

रत्नभानुर्गजानीके रूपानीके हि लक्षणः ।।

तस्यां सेनापतिभ्यां तौ संगुप्तौ बलवत्तरौ ।। २६ ।।

प्रद्योतश्चैव विद्योतो रत्नभानुं ररक्षतुः ।।

भीष्मः परिमलश्चैव लक्षणं चंद्रवंशजः ।। २७ ।।

भूपाः पदातिसैन्ये च संस्थिता मदविह्वलाः ।।

तयोश्चासीन्महद्युद्धं दारुणं सैन्यसंक्षयम् ।। २८ ।।

हया हयैर्मृता जाता गजाश्चैव गजैस्तथा ।।

पदातयः पदातैश्च मृताश्चान्ये क्रमाद्रणे ।। २९ ।।

भूपैश्च रक्षिताः सर्वे निर्भया रणमाययुः ।।

यावत्सूर्यः स्थितो व्योम्नि तावद्युद्धमवर्तत ।। 3.3.6.३० ।।

एवं पंचदिनं जातं युद्धं वीरजनक्षयम् ।।

गजा दशसहस्रणि हया लक्षाणि संक्षिताः ।। ३१ ।।

पंचलक्षं महीभर्तुर्हतास्तत्र पदातयः ।।

राजानो द्वे शते तत्र रथाश्च त्रिशतं तथा ।। ३२ ।।

कान्यकुब्जाधिपस्यैव गजा नवसहस्रकाः ।।

सहस्रैकं रथा ज्ञेयास्त्रिलक्षं च पदातयः ।। ३३ ।।

एकलक्षं हयास्तत्र मृताः स्वर्गपुरं ययुः ।।

षष्ठाहे समनुप्राप्ते पृथिवीराज एव सः ।। ३४ ।।

दुःखितो मनसा देवं रुद्रं तुष्टाव भक्तिमान् ।।

संतुष्टस्तु महादेवो मोहयामास तद्बलम् ।। ३५ ।।

प्रसन्नस्तु महीराजो गतः संयोगिनीं प्रति ।।

दृष्ट्वा तत्सुन्दरं रूपं मुमोह वसुधाधिपः ।। ३६ ।।

संयोगिनी नृपं दृष्ट्वा मूर्च्छिता चाभवत्क्षणात् ।।

एतस्मिन्नंतरे राजा तद्दोलामनयद्बलात्।। ३७ ।।

जगाम देहलीं भूपः सर्वसैन्यसमन्वितः ।।

योजनान्ते गते तस्मिन्बोधितास्ते मदोद्भटाः ।। ३८ ।।

दृष्ट्वा नैव तदा दोलां प्रजग्मुर्वेगवत्तराः ।।

श्रुत्वा कोलाहलं तेषां महीराजो नृपोत्तमः ।। ३९ ।।

अर्द्धसैन्यं च संस्थाप्य स्वयं गेहमुपागमत् ।।

उभौ तद्भ्रातरौ वीरौ चार्द्धसैन्यसमन्वितौ ।। 3.3.6.४० ।।

सूकरक्षेत्रमासाद्य युद्धाय समुपस्थितौ ।।

एतस्मिन्नन्तरे सर्वे प्रद्योतादिमहाबलाः ।।४१।।

स्वसैन्यैः सह संप्राप्य महद्युद्धमकारयन्।।

हया हयैश्च संजग्मुर्गजा अथ गजैः सह ।। ४२ ।।

संकुलश्च महानासीद्दारुणो लोमहर्षणः ।।

दिनान्ते संक्षयं यातं तयोश्चैव महद्बलम् ।। ४३ ।।

भयभीता परे तत्र ज्ञात्वा रात्रिं तमोवृताम् ।।

प्रदुद्रुवुर्भयाद्वीरा हतशेषास्तु देहलीम् ।।४४ ।।

प्रद्योताद्याश्च ते वीरा देहलीं प्रति संययुः ।।

पुनस्तयोर्महद्युद्धं ह्यभवल्लोमहर्षणम् ।। ४५ ।।

धुंधुकारश्च प्रद्योतं हृदि बाणैरताडयत् ।।

त्रिभिश्च विषनिर्धूतैर्मूछितः स ममार च ।। ४६ ।।

भ्रातरं निहतं दृष्ट्वा विद्योतश्च महावलः ।।

आजगाम गजारूढो धुंधुकारमताडयत् ।। ४७ ।।

त्रिभिश्च तोमरैः सोऽपि मूर्छितो भूमिमागमत् ।।

मूर्छितं भ्रातरं दृष्ट्वा धुंधुकारं महाबलम् ।। ४८ ।।

तदा कृष्णकुमारोऽसौ गजस्थस्त्वरितो ययौ ।।

रूपाविष्टश्च तं वीरं भल्लेनैवमताड यत् ।। ।। ४९ ।।

भल्लेन तेन संभिन्नो मृतः स्वर्गपुरं ययौ ।।

विद्योते निहते तस्मित्सर्वसैन्यचमूपतौ ।। 3.3.6.५० ।।

रत्नाभानुर्महावीरोऽयुध्यत्तेन समन्वितः ।।

एतस्मिन्नंतरे राजा सहस्रगजसंयुतः ।। ५१ ।।

लक्षणं सहितं ताभ्यां क्रुद्धं तं समयुध्यत ।।

शिवदत्तवरो राजा भीष्मं परिमलं रुषा ।। ।। ५२ ।।

रुद्रास्त्रैर्मोहयामास लक्षणं बलवत्तरम् ।।

मूर्छितांस्तान्समालोक्य रत्नभानुः शरैर्निजैः ।। ५३ ।।

धुंधुकारं महीराजं वैष्णवैः सममोजयन् ।।

कृष्णको रत्नभानुश्च युयुधाते परस्परम् ।।५४।।

उभौ समबलौ वीरौ गजपृष्ठस्थितौ रणे ।।

अन्योन्यनिहतौ नागौ खङ्गहस्तौ मही तले ।। ५५ ।।

युयुधाते बहून्मार्गान्कृतवंतौ सुदुर्जयौ ।।

प्रहरान्तं रणं कृत्वा मरणायोपजग्मतुः ।। ५६ ।।

हते तस्मिन्महावीर्ये कान्यकुब्जा भयातुराः ।।

मूर्छितांस्त्रीन्समादाय पंचलक्षबलैर्युताः ।। ५७ ।।

रणं त्यक्त्वा गृहं जग्मुर्नृपशोकपरायणाः ।।

रत्नभानौ च निहते हतोत्साहाश्च भूमिपाः ।। ५८ ।।

स्वंस्वं निवेशनं जग्मुर्महीराजभयातुराः ।।

देवानाराधयामासुर्यथेष्टं ते गृहे गृहे ।। ५९ ।।

महीराजस्तु बलवान्सप्तलक्षबलान्वितः ।।

धुंधुकारेण सहितो वंधुकृत्योर्ध्वमाचरत् ।। 3.3.6.६० ।।

तथा भीष्मः परिमलो लक्षणः पितरं स्वकम्।।

गंगाकूले समागम्य चौर्ध्वदैहिकमाचरन् ।। ६१ ।।

भूमिराजस्य विजयो जयचंदयशो रणे ।।

प्रसिद्धमभवद्भूमौ गेहेगेहे जनेजने ।।६२।।

जयचंद्रः कान्यकुब्जे देहल्यां पृथिवीपतिः ।।

उत्सवं कारयित्वा तु परमानन्दमाययौ ।। ६३ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये षष्ठोऽध्यायः ।। ६ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 7

।। सूत उवाच ।।

भीष्मः सिंहस्थिते गंगाकूले शक्रप्रपूजकः ।।

शक्रं सूर्यमयं ज्ञात्वा तपसा समतोषयत् ।। १ ।।

मासांते भगवानिंद्रो ज्ञात्वा तद्भक्तिमुत्तमाम् ।।

वरं वरय च प्राह श्रुत्वा शूरोब्रवीदिदम् ।। २ ।।

देहि मे वडवां दिव्यां यदि तुष्टो भवान्प्रभुः ।।

इति श्रुत्वा तदा तस्मै वडवां हरिणीं शुभाम् ।। ३ ।।

ददौ स भगवानिंद्रस्तत्रैवान्तर्हितोभवत् ।। ४ ।।

तस्मिन्काले परिमलः पितृशोकपरायणः ।।

पार्थिवैः पूजयामास महादेवमुमापतिम् ।।

परीक्षार्थं शिवः साक्षात्सर्परोगेण तं ग्रसत् ।। ५ ।।

व्यतीते पंचमे मासे नृपः शक्तिविवर्जितः ।।

न तत्याज महापूजां महाक्लेशसमन्वितः ।। ६ ।।

मरणाय ययौ काशीं स्वपत्न्या सहितो नृपः ।।

उवास वटमूलांते रात्रौ रोगप्रपीडितः ।। ७ ।।

एतस्मिन्नन्तरे कश्चित्पन्नगो मूलसंस्थितः ।।

शब्दं चकार मधुरं श्रुत्वा रुद्राहिराययौ ।। ८ ।।

रुद्राहिं पन्नगः प्राह भवान्निर्दय मन्दधीः ।।

शिवभक्तं नृपमिमं पीडयेत्प्रत्यहं खलः ।। ९ ।।

मूर्खोऽयं भूपतिः साक्षादारनालं पिबेन्नहि ।।

इति श्रुत्वा स रुद्राहिराह रे पन्नगाधम ।। 3.3.7.१० ।।

राज्ञो देहे परं हर्षं प्रत्यहं प्राप्तवानहम् ।।

स्वगेहं दुःखतस्त्याज्यं कथं त्याज्यं मया शठ ।। ११ ।।

मूर्खोत्र भूपतिर्यो वै तैलोष्णं यन्न दत्तवान् ।।

इत्युक्त्वान्तर्गतो देहे श्रुत्वा सा मलना सती ।। १२ ।।

चकार पन्नगोक्तं तद्गतरोगो नृपोऽभवत् ।।

तैलोष्णैर्बिलमापूर्य चखान च सती स्वयम् ।। १३ ।।

ततो जातं स्वयं लिंगमंगुष्ठाभं सनातनम् ।।

ज्योतीरूपं चिदानंदं सर्वलक्ष्मसमन्वितम् ।। १४ ।।

निशीथे तम उद्भूते दिक्षु सूर्यत्वमागतम् ।।

दृष्ट्वा स विस्मितो राजा पूजयामास शंकरम् ।। १५ ।।

महिम्नस्तवपाठैश्च तुष्टाव गिरिजापतिम् ।।

तदा प्रसन्नो भगवान्वरं ब्रूहि तमब्रवीत् ।। १६ ।।

श्रुत्वाह नृपतिर्देवं यदि तुष्टो महेश्वर ।।

श्रीपतिर्मे गृहं प्राप्य वसेन्मत्प्रियकारकः ।। १७ ।।

तथेत्युक्त्वा महादेवो लिंगरूपत्वमागतः ।।

प्रत्यहं भारमेकं च सुवर्णं सुषुवे तनोः ।। १८ ।।

तदा मलस्तु संतुष्टः प्राप्तो गेहं महावतीम् ।।

भीमसिंहेन सहितः परमानंदमाययौ ।। १९ ।।

ततःप्रभृति वर्षांते जयचंद्रपुरीं ययौ ।।

दृष्ट्वा परिमलं राजा कृतकृत्यत्वमागतः ।। 3.3.7.२० ।।

दिष्ट्या ते संक्षितो रोगो दिष्ट्या ते दर्शितं मुखम् ।।

भवान्निजपुरीं प्राप्य सुखी भवतु मा चिरम् ।। २१ ।।

यदा मे विघ्न आभूयात्तदा त्वं मां समाचर ।।

इति श्रुत्वा परिमलो गत्वा स्थानमवासयत् ।। २२ ।।

तदा तु लक्षणो वीरो भगवन्तमुषापतिम् ।।

जगन्नाथमुपागम्य समभ्यर्च्चापरोऽभवत् ।। २३ ।।

पक्षमात्रांतरे विष्णुर्जगन्नाथ उषापतिः ।।

वरं ब्रूहि वचश्चेति लक्षणं प्राह हर्षतः ।। २४ ।।

इत्युक्तः स तु तं देवं नत्वोवाच विनम्रधीः ।।

देहि मे वाहनं दिव्यं सर्वशत्रुविनाशनम् ।। २५ ।।

इति श्रुत्वा जगन्नाथः शक्तिमैरावताद्गजात् ।।

समुत्पाद्य ददौ तस्मै दिव्यामैरावतीं मुदा ।। २६ ।।

आरुह्यैरावतीं राजा लक्षणो गेहमाययौ ।।

स वै परिमलो राजा जगाम च महावतीम् ।। २७ ।।

एतस्मिन्नंतरे वीरास्तालनाद्या मदोत्कटाः ।।

महावतीं पुरीं प्राप्य ददृशुस्तं महीपतिम् ।। २८ ।।

तेन सार्द्धं च महतीं प्रीतिं कृत्वा न्यवासयन् ।।

मासान्ते च पुनस्ते वै राजानो विनयान्विताः ।। २९ ।।

ऊचुस्तं शृणु भूपाल वयं गच्छामहे पुरीः ।।

तदा राजापि तान्प्राह सर्वान्क्षितिपती नथ ।।

दत्त्वाधिकारं पुत्रेभ्यस्तदाऽऽयास्यामि वोऽन्तिकम् ।। 3.3.7.३० ।।

तथेत्युक्तास्तु ते राज्ञा स्वगेहं पुनराययुः ।।

सानुजो देशराजस्तु द्विजेभ्यः स्वपुरं ददौ ।। ३१ ।।

पुत्रेभ्यस्तालनो वीरो ददौ वाराणसीं पुरीम् ।।

अलिकोल्लामतिः कालः पत्र पुष्पोदरी वरी ।। ३२ ।।

करीनरी सुललितस्तेषां नामानि वै क्रमात् ।।

द्वौ द्वौ पुत्रौ स्मृतौ तेषां पितुस्तुल्यपराक्रमौ ।। ३३ ।।

स वै पुत्राज्ञया शूरस्तालनो राक्षसप्रियः ।।

यातुधानमयं देवं तुष्टाव म्लेच्छपूजनैः ।। ३४ ।।

तथा वसुमतः पुत्रौ भूपतीदेशवत्सजौ ।।

शक्रं सूर्य्यं समाराध्य कृतकृत्यौ बभूवतुः ।। ३५ ।।

सिंहिनीनाम वडवां या तु दत्ता भयानका ।।

आरुह्य बलवाञ्छूरो गमनाय मनो दधौ ।। ३६ ।।

पंचशब्दं महानागमिन्द्रदत्तं मनोरमम् ।।

देशराजस्तमारुह्य गमनाय मनो दधे ।। ३७ ।।

हयं पपीहकं नाम सूर्यदत्तं नरस्वरम् ।।

वत्सराजस्तमारुह्य गमनाय मनो दधे ।। ३८ ।।

त्रयः शूराः समागम्य नगरीं ते महावतीम् ।।

ऊषुस्तत्र महात्मानो बहुमानेन सत्कृताः ।। ३९ ।।

सेना षष्टिसहस्रं तत्तेषां स्वामी स तालनः ।।

मंत्रिणौ भ्रातरौ तौ च नृपतेश्चन्द्रवंशिनः ।। 3.3.7.४० ।।

तैर्वीरै रक्षितो राजा कृतकृत्यत्वमागतः ।। ४१ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापर पर्याये कलियुगीयेतिहाससमुच्चये सप्तमोऽध्यायः ।। ७ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 8

।। सूत उवाच ।। ।।

जम्बुको नाम भूपालो महीराजो भयातुरः ।।

कालियेन युतः प्राप्तो नर्मदायास्तटे शुभे ।। १ ।।

पार्थिवैः पूजयामास देवदेवं पिनाकिनम् ।।

षण्मासान्ते महादेवो जम्बुकं प्राह भूपतिम् ।। २ ।।

वरं वरय तेऽभीष्टं भूप आह कृतांजलिः ।।

अजितत्वं नृपैः सर्वैर्देहि मे करुणानिधे ।। ३ ।।

तथेत्युक्त्वा महादेवस्तत्रैवान्तर्हितोभवत् ।।

कालियस्त त्सुतो लब्ध्वा वीरो माहेश्वरं वरम् ।। ४ ।।

मोहनं सर्वसैन्यानां पितुरंतिकमाययौ ।।

पितरं प्राह नम्रात्मा देह्याज्ञां तात मत्प्रियाम् ।। ५ ।

गमिष्यामि बलैः सार्द्धं गंगां शुद्धजलां शुभाम् ।।

तथेत्युक्त्वा पिता तस्मै ययौ तु स्वं निवेशनम् ।। ६ ।।

भगिनीं प्राह बलवान्विजयैषिणि शोभने ।।

किमिच्छसि शुभं वस्तु तदाज्ञां देहि मा चिरम् ।। ७ ।।

साह ग्रैवेयकं हारं मणिमुक्ताविभूषितम् ।।

मत्प्रियं देहि मे वीर तथेत्युक्त्वा ययौ गृहात् ।। ८ ।।

कालियो लक्षतुरगैः संयुतस्त्वरितोऽगमत् ।।

प्राप्य गंगां सागरगां कृत्वा स्नानं विधानतः ।। ९ ।।

दत्त्वा दानानि विप्रेभ्यो जयचन्द्रपुरीं ययौ ।।

निर्धनः समभूद्राजा बाहुशाली महाबलः ।। 3.3.8.१० ।।

कान्यकुब्जे महाहारौ न प्राप्तो बहुमूल्यकः ।।

तदोर्वीयाधिपेनैव महीशेन प्रबोधितः ।।११।।

ययौ महावतीं रम्यां शिवदत्तवरो बली ।।

रुरोध नगरीं सर्वां श्रुत्वा राजा भयातुरः ।।१२।।

रुद्रं कपर्दिनं शंभुं शरण्यं शरणं ययौ ।।

शिवाज्ञया नृपो धीमान्बलैः षष्टिसहस्रकैः ।। १३ ।।

सार्द्धं पुराद्बहिर्यातस्त्रिभिः शूरैः सुरक्षितः ।।

तस्य नागाः सहस्रं च देशराजश्च तत्पतिः ।। १४ ।।

हयाः षोडशसाहस्रा वत्सराजस्तु तत्पतिः ।।

शेषाः पदातयस्तस्य तालनेनैव रक्षिताः ।। १५ ।।

प्रनष्टो मुलं युद्धं तेषां वीरवरक्षयम् ।।७

अहोरात्रप्रमाणेन महद्घोरमवर्तत ।। १६ ।।

ते हत्वा शात्रवीं सेनां चक्रुर्जयरवान्मुहुः ।।

भयार्ता नार्मदेयाश्च माहिष्मतिनिवासिनः ।। १७ ।।

दुद्रुवुः सर्वतो विप्र दृष्ट्वा तान्कालियो नृपः ।।

आश्वास्य प्रययौ युद्धमर्द्धसैन्यसमन्वितः ।। १८ ।।

हृदि कृत्वा महादेवं मोहनं बाणमादधत् ।।

सिद्धमन्त्रप्रभावेण मोहितास्ते बभूविरे ।। १९ ।।

शेषास्ते शत्रवः सर्वे रिपुघाताय संययुः ।।

अलसांस्तान्कपालेषु जघ्नुस्ते भयवर्जिताः ।। 3.3.8.२० ।।

भीष्मसिंहस्तथा दृष्ट्वा बोधयामास सैनिकान् ।।

सूर्यदत्तेन बाणेन संज्ञाख्यानेन तत्र वै ।। ।। २१ ।।

भैरवाख्येन भल्लेन शत्रुदेहमताडयत् ।।

मूर्च्छितः सोऽपतद्वीरो गजपृष्ठे शरार्दितः ।। २२ ।।

तदा माहिष्मती सेना निर्ययौ सा दिशौ दश ।।

मुहूर्तं कश्मलं प्राप्य पुनरुत्थाय कालियः ।। २३ ।।

भल्लेन तच्छिरः कायादपाहरत भूमिपः ।।

हते तस्मिन्महावीर्ये तालनाद्या महा बलाः ।। २४ ।।

कालियं ते पराजित्य तं शत्रुं प्रत्यषेधयन् ।।

महाकष्टान्वितो भूपो ध्यात्वा मनसि शंकरम् ।। २५ ।।

मोहयित्वा रिपून्सर्वान् ययौ स्वं निवेशनम् ।।

अर्द्धसैन्येन सहिता हतशेषास्त्रयस्तथा ।। २६ ।।

तदा परिमलो राजा दृष्ट्वा शत्रुपराजयम् ।।

परिष्वज्य महावीरान्स्व गेहं पुनराययौ ।। २७ ।।

जयचन्द्रस्तु तच्छुत्वा परं विस्मयमागतः ।।

तालनं च समाहूय सेनाधीशमकरायत् ।। २८ ।।

भीष्मसिंहे गते लोके पंचमासान्तरे नृपे ।।

तत्पत्नी जनयामास पुत्ररत्नं शुभाननम् ।। २९ ।।

सा तु गुर्जरभूपस्य तनयाख्या मदालसा ।।

दिव्यं पुत्रं समालोक्य मुमुदे सगणा भृशम् ।। 3.3.8.३० ।।

श्रुत्वा तज्जन्म नृपतिर्विततार धनं बहु ।।

आहूय गणकान्प्राज्ञाञ्जातकर्म ह्यकारयत् ।। ३१ ।।

सहदेवांश एवासौ भुवि जातः शिवाज्ञया ।।

देवसिंहः कृतो नाम गणकैः शास्त्रचिंतकैः ।। ३२ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टमोऽध्यायः ।। ८ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 9

।। सूत उवाच ।। ।।

कालियं तौ पराजित्य भ्रातरौ नृपसेवकौ ।।

गतौ गोपालके राष्ट्रे भूपतिर्दलवाहनः ।। १ ।।

सहस्रचंडिकाहोमे नानाभूपसमागमे ।।

गृहीतौ महिषौ ताभ्यां भूपैरन्यैश्च दुर्जयौ ।। २ ।।

पूर्वं हि नृपकन्याभ्यां प्रत्यहं बंधनं गतौ ।।

तौ संपूज्य विधानेन ददौ ताभ्यां च कन्यके ।। ३ ।।

देवकीं देशराजाय ब्राह्मीं तस्यानुजाय वै ।।

ददौ दुर्गाज्ञया राजा रूपयौवनशालि नीम् ।। ४ ।।

लक्षावृत्तिं तथा वेश्यां गीतनृत्यविशारदाम् ।।

कन्ययोश्च सखीं रम्यां मेघमल्लाररागिणीम् ।। ५ ।।

शतं गजान्रथान्पंच हयांश्चैव सहस्रकान् ।।

चत्वारिंशच्च शिबिकाः प्रददौ दलवाहनः ।। ६ ।।

बहुद्रव्ययुतां कन्यां दासदासीसमन्विताम् ।।

उदूह्य वेदविधिना प्रापतुश्च महावतीम् ।। ७ ।।

मलना तां वधूं दृष्ट्वा तस्यै ग्रैवेयकं ददौ ।।

ब्राह्म्यै षोडशशृंगारं तथा द्वादशभूषणम् ।। ८ ।।

राजा च परमानन्दी देशराजाय शूरिणे ।।

ददौ दशपुरं रम्यं नानाजननिषेवितम् ।। ९ ।।

ऊषतुस्तत्र तौ वीरौ राजमान्यौ महाबलौ ।।

एतस्मिन्नन्तरे जातो देवसिंहो हराज्ञया ।। 3.3.9.१० ।।

जाते तस्मिन्कुमारे तु देवकी गर्भमादधौ ।।

दासश्रुता पतेर्देवी सुषुवे पुत्रमूर्जितम् ।। १ १।।

गौरांगं कमलाक्षं च दीप्यमानं स्वतेजसा ।।

तदानंदमयो देवः शक्रः सुरगणैः सह ।। १२ ।।

शंखशब्दं चकारोच्चैर्जयशब्दं पुनःपुनः ।।

दिशः प्रफुल्लिताश्चासन्ग्रहाः सर्वे तथा दिवि ।। १३ ।।

आयाता बहवो विप्रा वेदशास्त्रपरायणाः ।।

चक्रुस्ते जातकर्मास्य नामकर्म तथाविधम् ।। १४ ।।

रामांशं तं शिशुं ज्ञात्वा प्रसन्नवदनं शुभम् ।।

भाद्रकृष्णतिथौ षष्ठ्यां चन्द्रवारेऽरुणोदये ।। १५ ।।

संजातः कृत्तिकाभे च पितृवंशयशस्करः ।।

आह्लादनाम्ना ह्यभवत्प्रश्रितश्च महीतले ।। १६ ।।

मासान्ते च सुते जाते ब्राह्मी पुत्रमजीजनत् ।।

धर्मजांशं तथा गौरं महाबाहुं सुवक्षसम् ।। १७ ।।

तदा च ब्राह्मणाः सर्वे दृष्ट्वा बालं शुभाननम् ।।

प्रसन्नवदनं चारुं पद्मचिह्नपदस्थितम् ।। १८ ।।

तैर्द्विजैश्च कृतो नाम्ना बलखानिर्महाबलः ।।

वर्षान्ते वत्सजे जातं मूलगंडान्तसंभवः ।। १९ ।।

चामुण्डो देवकिसुतो निजवंशभयंकरः ।।

जनितारं ततस्त्याज्य इत्यूचुर्द्विजसत्तमाः ।।

न तत्याज सुतं राजा बालत्वेऽपि दयापरः ।। 3.3.9.२० ।।

त्रिवर्षांते गते तस्मिन्बलखानौ सुते शुभे ।।

शूद्र्यां जातः शिखंडयंशो रूपणो नाम विश्रुतः ।। २१ ।।

वत्सराजो ययौ देशे गुर्जरे च मदालसाम्।

स सुतां च समादाय दिने तस्मिन्समागतः ।। २२ ।।

प्राप्ते तस्मिन्वत्सराजे जम्बुकः स्वबलैर्वृतः ।।

सप्तलक्षैश्च संप्राप्तो बाहुशाली यतेंद्रियः ।। २३ ।।

रुरोध नगरीं सर्वां राज्ञः परिमलस्य वै ।।

त्रिलक्षैश्च माहावत्यै सार्द्धं तौ जग्मतुः पुरात् ।। २४ ।।

माहिष्मतैः सप्तलक्षैः सार्द्धं युद्धमभून्महत् ।।

त्रिरात्रं दारुणं घोरं यमराष्ट्रविवर्द्धनम् ।। २५ ।।

शिवस्य वरदानेन भ्रात्रोर्जातः पराजयः ।।

बद्ध्वा तौ जम्बुको राजा लुंठयित्वा महावतीम् ।। २६ ।।

वेश्यां लक्षारतिं तस्य तं हतं तद्गजं तथा ।।

ग्रैवेयकं तथा हारं मणिरत्नविभूषितम् ।। २७ ।।

गृहीत्वा नगरीं सर्वां भस्मयित्वा गृहं ययौ ।।

ये गुप्ता भूतले शूरास्ते शेषाश्च तदाऽभवन् ।।२८ ।।

दुर्गेषु यानि रत्नानि तानि प्राप्य मुदा ययौ ।।

लुंठिते नगरे तस्मिन्देवकी गर्भमुत्तमम् ।। २९ ।।

कृष्णांशं सप्तमास्यं हि चादधाद्दैवतप्रिया ।।

ज्ञात्वा कुलाधमं पुत्रं चामुंडं देवकी सती ।। 3.3.9.३० ।।

कल्पक्षेत्रं समागम्य कालिंद्यां तमपातयत्।।

योजनान्ते गते तस्मित्महीराजपुरोहितः ।।३१।।

सामन्तो नाम तं गृह्य श्वशुरालयमाययौ ।।

जातस्तु दशमासान्ते रात्रौ घोरतमोवृते ।। ३२ ।।

भाद्रकृष्णाष्टमीसौम्ये ब्राह्मनक्षत्रसंयुते ।।

प्रादुरासीज्जगन्नाथो देवक्यां च महोत्तमः ।। ३३ ।।

श्यामांगः स च पद्माक्ष इंद्रनीलमणिद्युतिः ।।

विमानानां सहस्राणां प्रकाशः समजायत ।। ३४ ।।

विस्मिता जननी तत्र दृष्ट्वा बालं तमद्भुतम् ।।

नगरे च महाश्चर्यं जातं सर्वे समाययुः ।। ३५ ।।

उदयः किमहो जातो देवानां सूर्यरूपकः ।।

इत्याश्चर्य्यजुजां तेषां वागुवाचाशरीरिणी ।। ३६ ।।

कृष्णांशो भूतले जातः सर्वानन्दप्रदायकः ।।

स नाम्नोदयसिंहो हि सर्वशत्रुप्रकाशहा ।। ३७ ।।

इत्याकाशवचः श्रुत्वा ते परं हर्ष माययुः ।।

यस्मिन्काले सुतो जातस्तदा च मलना सती ।। ३८ ।।

श्यामांगं सुन्दरं बालं सर्वलक्षणलक्षितम् ।।

सुषुवे परमोदारं फाल्गुनांशं शिवाज्ञया ।। ३९ ।।

तदा तु नगरी सर्वा हर्षभूता बभूव ह ।।

षष्ठाहनि सुते जाते ब्रह्मानन्दगुणाकरे ।। 3.3.9.४० ।।

ब्राह्मी तु सुषुवे पुत्रं पार्षदांशं महाबलम् ।।

श्यामांगं कमलाक्षं च दृढस्कन्धं महाभुजम् ।। ४१ ।।

ब्राह्मणाश्च तदागत्य जातकर्म ह्यकारयन् ।।

सुखखानिर्द्विजैर्नाम्ना कृतस्तु गणकोत्तमैः ।। ४२ ।।

क्रमेण वर्द्धिता बालाः सर्वलोकशिवंकराः ।।

तेषां काली महच्छ्रेष्ठा पितृमातृप्रियंकरी ।। ४३ ।।

तृतीयाब्दे वयः प्राप्ते कृष्णांशे बलवत्तरे ।।

शक्रस्तद्दर्शनकांक्षी हयारूढो जगाम ह ।। ४४ ।।

क्रीडन्स चन्दनारण्ये कृष्णांशो भ्रातृभिः सह ।।

नभस्थं पुरुषं दृष्ट्वा सहस्राक्षं जहास वै ।। ४५ ।।

अश्विनी हरिणी दिव्या उच्चैःश्रवसमन्तिके ।।

गत्वा गर्भमुपादाय स्वगेहं पुनराययौ ।। ४६ ।।

वर्षांतरे च सुषुवे कपोतं तनयं शुभम् ।।

पञ्चाब्दं च समायाते विद्याध्यनमास्थिताः ।। ४७ ।।

ब्राह्मणं शिवशर्माणं सर्वविद्याविशारदम् ।।

स्वभक्त्या सेवनं कृत्वा ते चक्रुर्वेदपाठिकाम् ।। ४८ ।।

अष्टाब्दे चैव कृष्णांशो नामपत्रादिकां क्रियाम् ।।

लिखतां बालकानां च कृष्णांशः श्रेष्ठतामगात् ।। ४९ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णांशावतारो नाम नवमोऽध्यायः ।। ९ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 10

सूत उवाच ।। ।।

नवमाब्दं वयः प्राप्ते कृष्णांशो बलवत्तरः ।।

पठित्वान्वीक्षिकीं विद्यां चतुःषष्टिकलास्तथा ।। १ ।।

धर्मशास्त्रं तथैवापि सर्वश्रेष्ठं बभूव ह ।।

तस्मिन्काले भृगुश्रेष्ठ महीराजो नृपोत्तमः ।। २ ।।

करार्थं प्रेषयामास स्वसैन्यं च महावतीम् ।।

ते वै लक्षं महाशूराः सर्वशस्त्रास्त्रधारिणः ।। ३ ।।

ऊचुः परिमलं भूपं शृणु चंद्रकुलोद्भव ।।

सर्वे च भारते वर्षे ये राजानो महाबलाः ।। ४ ।।

षडंशं करमादायास्मद्राजाय ददंति वै ।।

भवान्करे हि तस्यैव योग्यो भवति सांप्रतम् ।। ५।।

अद्यप्रभृति चेद्राज्ञे तस्मै दद्यात्करं न हि ।।

महीराजस्य रौद्रास्त्रैः क्षयं यास्यति सैनिकैः ।। ६ ।।

ये भूपा जयचंद्रस्य पक्षगास्ते हि तद्भयात् ।।

ददंते भूमिराजाय दंडं तन्मानसत्कृताः ।। ७ ।।

इति श्रुत्वा स नृपतिस्तस्मै राज्ञे महात्मने।।

करं षडंशमादाय ददौ प्रीतिसमन्वितः ।। ८ ।।

दशलक्षमितं द्रव्यं गृहीत्वा ते समाययुः ।।

महीराजः प्रसन्नात्मा पूर्ववैरमपाहरत् ।। ९ ।।

तदा ते लक्षशूराश्च कान्यकुब्जमुपाययुः ।।

जयचंद्रं तु नत्वोचुः शृणु लक्षणकोविद ।। 3.3.10.१० ।।

पृथ्वीराजो महाराजो दंडं त्वत्तः समिच्छति ।।

इत्युक्तस्तैर्वैष्णवास्त्री लक्षणस्तानुवाच ह ।। ११ ।।

मद्देशे मंडलीकाश्च बहवः संति सांप्रतम् ।।

भूमिराजो मांडलिको मयि जीवति मा भवेत् ।। १२ ।।

इत्युक्त्वा वैष्णवास्त्रं तान्क्रुद्धः स च समादधत् ।।

तदस्त्रज्वालतः सर्वे भयभीता प्रदुद्रुवुः ।। १३ ।।

महीराजस्तु तच्छ्रुत्वा महद्भयमुपागमत् ।।

दशाब्दं च वयः प्राप्ते कृष्णांशे मल्लकोविदे ।। १४ ।।

नानामल्लाः समाजग्मुस्तेन राज्ञैव सत्कृताः ।।

तेषां मध्ये स कृष्णांशो बाहुशाली बभूव ह ।। १५ ।।

उर्वीयाधिपतेः पुत्रः षोडशाब्दवया बली ।।

शतमल्लैश्च सहितः कदाचित्स समागतः ।। १६ ।।

पितृष्वसृपतिं भूपं नत्वा नाम्नाऽभयो बली ।।

उवाच शृणु भूपाल कृष्णोऽयं मदमत्तरः ।। १७ ।।

तेन सार्द्धं भवेन्मल्लयुद्धं मम नृपोत्तम ।।

इति वज्रसमं वाक्यं श्रुत्वा राजा भयातुरः ।। १० ।।

उवाच श्यालजं प्रेम्णा भवान्युद्धविशारदः ।।

अष्टाब्दोऽयं सुतः स्निग्धो मम प्राणसमो भुवि ।। १९ ।।

क्व भवान्वज्रसदृशः क्व सुतोऽयं सुकोमलः ।।

अन्यैर्मल्लैर्मदीयैश्च सार्द्धं योग्यो भवान्रणे ।।3.3.10.२०।।

इति श्रुत्वा नृपः स्यालो महीपतिरिति स्मृतः ।।

स तमाह रुषाविष्टो बालोऽयं बलवत्तरः ।। २१ ।।

शृणु तत्कारणं भूप यथा ज्ञातो मया शिशुः ।।

आगस्कृतं महीराजं मत्वा सतिलकः सुतम् ।। २२ ।।

पंडितांश्च समाहूय मुहूर्तं पृष्टवान्मुदा ।।

गणेशो नाम मतिमाञ्ज्योतिश्शास्त्रविशारदः ।। २३ ।।

लक्षणं वचनं प्राह महीराजमनुत्तमम् ।।

शिवदत्तवरो राजन्कुबेर इव सांप्रतम् ।। २४ ।।

कृष्णांशस्तस्य योग्योऽयं देशराजसुतोऽवरः ।।

नान्योऽस्ति भूतले राजन्सत्यं सत्यं ब्रवीम्यहम् ।।। २५ ।।

तच्छ्रुत्वा लक्षणो वीरः पूर्वे बर्हिष्मतीं प्रति ।।

कल्पक्षेत्रं दक्षिणे च भूमिग्रामं तु पश्चिमे ।। २६ ।।

उत्तरे नैमिषारण्यं स्वकीयं राष्ट्रमादधत् ।।

अतः श्रेष्ठः कुमारोऽयं कान्यकुब्जे मया श्रुतः ।। २७ ।।

नागोत्सवे च भूपाल पंचम्यां च नभस्सिते ।।

दृश्यमात्रं कुमारांगं तस्माद्योग्यो ह्ययं सुतः ।। २८ ।।

इति श्रुत्वा स कृष्णांशो वाक्छरेण प्रपीडितः।

अभयं भुजयोः शीघ्रं गृहीत्वा सोऽयुधद्बली ।। २९ ।।

क्षणमात्रं रणं कृत्वा भूमिमध्ये तमक्षिपत् ।।

अभयस्य भुजो भग्नस्तत्र जातो बलेन वै ।। 3.3.10.३० ।।

मूर्च्छितं स्वसुतं ज्ञात्वा खड्गहस्तो महीपतिः ।।

प्रेषयामास तान्मल्लान्कृष्णांशस्य प्रहारणे ।। ३१ ।।

रुषाविष्टांश्च ताञ्ज्ञात्वा कृष्णांशो बलवत्तरः ।।

तानेकैकं समाक्षिप्य विजयी स बभूव ह ।। ३२ ।।

पराजिते मल्लबले खड्गहस्तो महीपतिः ।।

मरणाय मतिं चक्रे कृष्णांशस्य प्रभावतः ।।३३।।

ज्ञात्वा तमीदृशं भूपं वारयामास भूपतिः ।।

अभयं नीरुजं कृत्वा प्रेम्णा गेहमवासयत् ।। ३४ ।।

नवाब्दांगे च कृष्णांशे चाह्लादाद्याः कुमारकाः।।

मृगयार्थे दधुश्चित्तं तमूचुर्भूपतिं प्रियम् ।।३५।।

नमस्ते तात भूपाग्र्य सर्वानंदप्रदायक ।।

अस्मभ्यं त्वं हयान्देहि मत्प्रियान्करुणाकर ।। ३६ ।।

इति श्रुत्वा वचस्तेषां तथेत्युक्त्वा महीपतिः ।।

भूतले वासिनोऽश्वान्वै दिव्यान्राट् चतुरो वरान् ।। ३७ ।।

ददौ तेभ्यो मुदा युक्तो हरिणीगर्भसंभवान् ।।

ऋषय ऊचुः ।।

त्वन्मुखेन श्रुतं सूत हरिणी वडवा यथा।।३८ ।।

भीष्मसिंहाय संप्राप्ता शक्राद्देवेशतो मुने ।।

इदानीं श्रोतुमिच्छामः कुतो जातास्तुरंगमाः ।। ३९ ।।

दिव्यांगा भूषणापन्ना नभस्सलिलगामिनः ।।

।। सूत उवाच ।।

देशराजेन भूपेन पुरा धर्मयुतेन वै।।3.3.10.४०।।

सेवनं भास्करस्यैव कृतं च द्वादशाब्दिकम् ।।

सेवान्ते भगवान्सूर्यो वरं ब्रूहि तमब्रवीत्।। ।। ४१ ।।

प्राह देव नमस्तुभ्यं यदि देयो वरस्त्वया ।।

हयं दिव्यमयं देहि नभस्थलजलातिगम् ।। ४२ ।।

तथेत्युक्त्वा रविः साक्षाद्ददौ तस्मै पपिहकम् ।।

लोकान्पाति पपीर्ज्ञेयस्तस्येदं नाम चोत्तमम् ।। ४३ ।।

अतः पपीहको नाम लोकपालनकर्मवान् ।।

स हयो मदमत्तश्च हरिणीं दिव्यरूपिणीम् ।। ४४ ।।

बुभुजे स्मरवेगेन तस्यां जातास्तुरंगमाः ।।

मनोरथश्च पीतांगः करालः कृष्णरूपकः ।। ४५ ।।

एकगर्भे समुद्भूतौ शैब्यसुग्रीवकांशकौ ।।

यस्मिन्दिने समुद्भूतौ जिष्णुविष्णुकलांशतः ।। ६ ।।

तदा जातौ हरिण्याश्च मेघपुष्पबलाहकौ ।।

बिन्दुलश्च सुवर्णांगः श्वेतांगो हरिनागरः।। ४७ ।।

दिव्यांगास्ते हि चत्वारः पूर्वं जाता महाबलाः ।।

पश्चादंशावताराश्च जातास्तेषां महात्मनाम् ।। ४८ ।।

इति ते कथितं विप्र शृणु तत्र कथां शुभाम् ।।

भूतले ते हयाः सर्वे प्राप्ताश्चोपरिभूमिगाः ।। ४९ ।।

देवसिंहाय बलिने ददौ चाश्वं मनोरथम् ।।

आह्लादाय करालं च कृष्णांशायैव बिन्दुलम् ।। 3.3.10.५० ।।

ब्रह्मानंदाय पुत्राय प्रददौ हरिनागरम् ।।

ते चत्वारो हयारूढा मृगयार्थं वनं ययुः ।। ५१ ।।

हरिणीं वडवां शुभ्रां बलखानिः समारुहत् ।।

तदनु प्रययौ वीरो वनं सिंहनिषेवितम् ।। ५२ ।।

आह्लादेनैव शार्दूलो हतः प्राणिभयंकरः ।।

देवसिंहेन सिंहश्च सूकरो बलखानिना ।। ५३ ।।

ब्रह्मानंदेन हरिणो हतस्तत्र महावने ।।

मृगाः शतं हतास्तैश्च तान्गृहीत्वा गृहं ययुः ।। ५४ ।।

एतस्मिन्नंतरे देवी शारदा च शुभानना ।।

मृगी स्वर्णमयी भूत्वा तेषामग्रे प्रधाविता ।।५५।।

दृष्ट्वा तां मोहिताः सर्वे स्वैः स्वैर्बाणैरताडयन् ।।

शरास्तु संक्षयं जग्मुर्मृग्यंगे बलवत्तराः ।।५६।।

आह्लादाद्याश्च ते शूरा विस्मिताश्च बभूविरे ।।

तस्मिन्काले स कृ्ष्णांगो बाणेनैव ह्यताडयत् ।।५७।।

तदा च पीडिता देवी भयभीता ययौ वनम् ।।

कृष्णांशः क्रोधताम्राक्षस्तत्पश्चात्प्रययौ बली ।।५८।।

वनांतरं च संप्राप्य देवी धृत्वा स्वकं वपुः ।।

तमुवाच प्रसन्नाक्षी परीक्षा ते मया कृता ।। ५९ ।।

यदा ते च भयं भूयात्तदा त्वं मां सदा स्मर ।।

साधयिष्यामि ते कार्यं कृष्णांशो हि भवान्विभुः ।। 3.3.10.६० ।।

इत्युक्त्वान्तर्हिता देवी शारदा सर्वमंगला ।।

कृष्णांशस्तु ययौ गेहं तैश्च सार्द्धं मुदा युतः ।। ६१ ।।

तदा पराक्रमं तेषां दृष्ट्वा राजा सुखोऽभवत् ।।

गृहे गृहे च सर्वेषां लक्ष्मीर्देवी समाविशत् ।। ६२ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये दशमोऽध्यायः ।। १० ।।

३.३.१०.४३

पपीहकः -- पपि क्षान्तौ (सहने) - काशकृत्स्नधातुकोशः ९.३५ (चुरादिगणः)

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 11

।। सूत उवाच ।। ।।

दशाब्दे च वयः प्राप्ते विष्णोः शक्त्यवतारके ।।

वसंतसमये रम्ये ययुस्ते प्रमदावनम् ।। ।। १ ।।

ऊषुस्तत्र व्रताचारे माधवे कृष्णवल्लभे ।।

स्नात्वा च सागरे प्रातः पूजयामासुरंबिकाम् ।। २ ।।

ऋतुकालोद्भवैः पुष्पैर्धूपैर्दीपैर्विधानतः ।।

जप्त्वा सप्तशतीस्तोत्रं दध्युः सर्वकरीं शिवाम् ।। ३ ।।

कंदमूलफलाहारा जीवहिंसाविवर्जिताः ।।

तेषां भक्तिं समालोक्य मासांते जगदंबिका ।।४ ।।

ददौ तेभ्यो वरं रम्यं तच्छृणुध्वं समाहिताः।।

आह्लादाय सुरत्वं च बलत्वं बलखानये ।। ५ ।।

कालज्ञत्वं च देवाय ब्रह्मज्ञत्वं नृपाय च।।।

कृष्णांशायैव योगत्वं दत्त्वा चांतर्दधे शिवा ।। ६ ।।

कृतकृत्यास्तदा ते वै स्वगेहं पुनराययुः ।।

तेषां प्राप्ते वरे रम्ये मलना पुत्रमूर्जितम् ।।७।।

श्यामांगं सात्यकेरंशं सुषुवे शुभलक्षणम् ।।

स ज्ञेयो रणजिच्छूरो राजन्यप्रियकारकः ।। ८ ।।

आषाढे मासि संप्राप्ते कृष्णांशो हयवाहनः ।।

उर्वीयां नगरीं प्राप्त एकाकी निर्भयो वली ।। ९ ।।

दृष्ट्वा स नगरीं रम्यां चतुर्वर्णनिषेविताम् ।।

द्विजशालां ययौ शूरो द्विजधेनुप्रपूजकः ।। 3.3.11.१० ।।

दत्त्वा स्वर्णं द्विजातिभ्यः संतर्प्य द्विजदेवताः ।।

महीपतिगृहं रम्यं जगाम बलवत्तरः ।। ११ ।।

नत्वा स मातुलं धीमांस्तथान्याँश्च सभासदः ।। १२ ।।

तदा नृपाज्ञया शूरा बंधनाय समुद्यताः ।।

खङ्गहस्ताः समाजग्मुर्यथा सिंहं गजाः शशाः ।। १३ ।।

मोहितं तं नृपं कृत्वा दुष्टबुद्धिर्महीपतिः ।।

कृत्वा लोहमयं जालं तस्योपरि समादधेः ।। १४ ।।

एतस्मिन्नंतरे वीरो बोधितो देवमायया ।।

आगस्कृतान्रिपूञ्ज्ञात्वा खङ्गहस्तः समावधीत् ।। १५ ।।

हत्वा पंचशतं शूरो हयारूढो महाबली ।।

उर्वीयां नगरीं प्राप्य जलपाने मनो दधौ १६ ।।

कूपे दृष्ट्वा शुभा नार्यो घटपूर्तिकरीस्तदा ।।

उवाच मधुरो वाक्यं देहि सुंदरि मे जलम् ।। १७ ।।

दृष्ट्वा ताः सुंदरं रूपं मोहनायोपचक्रिरे ।।

भित्त्वा तासां तु वै कुम्भान्पाययित्वा हयं जलम् ।। १८ ।।

वनं गत्वा रिपुं जित्वा बद्ध्वा तमुभयं बली ।।

चण्डिकापार्श्वमागम्य तद्वधाय मनो दधे ।। १९ ।।

श्रुत्वा स करुणं वाक्यं त्यक्त्वा स्वनगरं ययौ ।।

नृपांतिकमुपागम्य वर्णयामास कारणम् ।। 3.3.11.२० ।।

श्रुत्वा परिमलो राजा द्विजातिभ्यो ददौ धनम् ।।

समाघ्राय स कृष्णांशं कृतकृत्योऽभवन्नृपः ।। २१ ।।

संप्राप्तैकादशदाब्दे तु कृष्णांशे युद्धदुर्मदे ।।

महीपतिर्निरुत्साहः प्रययौ देहलीं प्रति ।। २२ ।।

बलिं यथोचितं दत्त्वा भगिन्यै भयकातरः ।।

रुरोद वहुधा दुःखं देशराजात्मजप्रजम् ।। २३ ।।

अगमा भगिनी तस्य दृष्ट्वा भ्रातरमातुरम् ।।

स्वपतिं वर्णयामास श्रुत्वा राजाब्रवीदिदम् ।। २४ ।।

अद्याहं स्वबलैः सार्द्धं गत्वा तत्र महावतीम् ।।

हनिष्यामि महादुष्टं देशराजसुतं रिपुम् ।। २५ ।।

इत्युक्त्वा धुंधुकारं च समाहूय महाबलम् ।।

सैन्यमाज्ञापयामास सप्तलक्षं तनुत्यजम् ।। २६ ।।

केचिच्छूरा हयारूढा उष्ट्रारूढा महाबलाः ।।

गजारूढा रथारूढाः संययुश्च पदातयः ।। २७ ।।

देवसिंहस्तु कालज्ञः श्रुत्वा चागमनं रिपोः ।।

नृपपार्श्वं समागम्य सर्वं राज्ञे न्यवेदयत् ।। २८ ।।

श्रुत्वा परिमलो राजा विह्वलोऽभूद्भयातुरः ।।

बलखानिस्तमुत्थाय हर्षयुक्त इवाह च ।। ।। २९ ।।

अद्याहं च महीराजं धुंधुकारं ससैन्यकम् ।।

जित्वा दंड्यं च भवतः करिष्यामि तवाज्ञया ।। 3.3.11.३० ।।

इत्युक्त्वा तं नमस्कृत्य सेनापतिरभून्मुने ।।

तदा तु निर्भया वीरा दृष्ट्वा राजानमातुरम् ।। ३१ ।।

चतुर्लक्षबलैः सार्द्धं ते युद्धाय समाययुः ।।

शिंशपाख्यं वनं घोरं छेदयित्वा रिपोस्तदा ।। ३२ ।।

ऊषुस्तत्र रणे मत्ताः सर्वशत्रुभयंकराः ।।

एतस्मिन्नन्तरे तत्र धुंधुकारादयो बला ।। ३३ ।।

कृत्वा कोलाहलं शब्दं युद्धाय समुपाययुः ।।

पूर्वाह्णे तु भृगुश्रेष्ठ सन्नद्धास्ते शतघ्निपाः ।। ३४ ।।

शतघ्नीभिस्त्रिसाहस्रैः पञ्चसाहस्रका ययुः ।।

द्विसहस्रशतघ्नीभिः सहिता श्चन्द्रवंशिनः ।। ३५ ।।

सैन्यं षष्टिसहस्रं च स्वगर्लोकमुपाययौ ।।

तदर्द्धं च तथा सैन्यं महीराजस्य संक्षितम् ।। ३६ ।।

दुद्रुवुर्भीरुकाः शूरा वलखानेर्दिशो दश ।।

रथा रथै रणे हन्युर्गजाश्चैव गजैस्तथा ।। ३७ ।।

हया हयैस्तथा उष्ट्रा उष्ट्रपैश्च समाहनन् ।।

एवं सुतुमुले जाते दारुणे रोम हर्षणे ।। ३८ ।।

हाहाभूतान्स्वकीयांश्च सैन्यान्दृष्ट्वा महाबलान् ।।

अपराह्णे भृगुश्रेष्ठ पञ्च शूराः समाययुः ।। ३९ ।।

ब्रह्मानंदः शरैः शत्रूननयद्यमसादनम् ।।

देवसिंहस्तथा भल्लैराह्रादस्तत्र तोमरैः ।। 3.3.11.४० ।।

बलखानिः स्वखड्गेन कृष्णांशस्तु तथैव च ।।

द्विलक्षान्क्षत्रियाञ्जघ्नुः सर्वसैन्यैः समं ततः ।। ४१ ।।

दृष्ट्वा पराजितं सैन्यं धुंधुकारो महाबलः ।।

आह्लादं च स्वभल्लेन गजारूढः समावधीत् ।। ४२ ।।

आह्लादे मूर्च्छिते तत्र देवसिंहो महाबलः ।।

भल्लेन भ्रातरं तस्य दंशयामास वेगतः ।। ४३ ।।

स तीक्ष्णव्रणमासाद्य गजस्थः संमुमोह वै ।।

आगताः शतराजानो नानादेश्या महाबलाः ।। ४४ ।।

शस्त्राण्यस्त्राणि तेषां तु छित्त्वा खङ्गेन वत्सजः ।।

स्वखड्गेन शिरांस्येषां पातयामास भूतले ।। ४५ ।।

हते शत्रुसमूहे तु तच्छेषास्तु प्रदुद्रुवुः ।।

महीराजस्तु बलवान्दृष्ट्वा भग्नं स्वसैन्यकम् ।। ४६ ।।

आजगाम गजारूढः शिवदत्तवरो बली ।।

रौद्रेणास्त्रेण हृदये चावधीद्वत्सजं रिपुम् ।। ४७ ।।

आह्लादं च तथा वीरं देवं परिमलात्मजम् ।।

मूर्च्छयित्वा महावीराञ्छत्रुसैन्यमुपागमत् ।। ४८ ।।

पूजयित्वा शतघ्नीश्च महावधमकारयत् ।।

रोपणस्त्वरितो गत्वा राज्ञे सर्वमवर्णयत् ।। ४९ ।।

एतस्मिन्नंतरे वीरः सुखखानिर्महाबलः ।

कपोतं हयमारुह्य नभोमार्गेण चागमत् ।। 3.3.11.५० ।।

मूर्च्छयित्वा महीराजं स्वबंधूंश्च सवाहनान् ।।

कृत्वा नृपांतमागम्य बंधनाय समुद्यतः ।। ५१ ।।

तदोत्थाय महीराजो महादेवेन बोधितः ।।

पुनस्तान्स्वशरै रौद्रैर्मूर्च्छयामास कोपवान् ।। ५२ ।।

सुखखान्यादिकाञ्छूरान्संबध्य निगडैर्दृढैः ।।

नृपं परिमलं प्राप्य पुनर्युद्धमचीकरत् ।। ५३ ।।

हाहाभूतं स्वसैन्यं च दृष्ट्वा स उदयो हरिः ।।

नभोमार्गे हयं कृत्वा ताः शतध्नीरनाशयत् ।। ५४ ।।

महीराजगजं प्राप्य बद्ध्वा तं निगडैर्बलो ।।

आह्लादपार्श्वमागम्य भ्रात्रे भूपं समर्पयत् ।। ५५ ।।

तदा तु पृथिवीराजो लज्जितस्तेन निर्जितः ।।

पञ्चकोटिधनं दत्त्वा स्वगेहं पुनराययौ ।। ५६ ।।

देवसिंहाज्ञया शूरो बलखानिर्हि वत्सजः ।।

तैर्द्रव्यैर्नगरीं रम्यां कारयामास सुन्दरीम् ।। ५७ ।।

शिरीषाख्यं पुरं नाम तेन वीरेण वै कृतम् ।।

सर्ववर्णसमायुक्तं द्विक्रोशायामसंमितम् ।। ५८ ।।

तत्रैव न्यवसद्वीरो वत्सजः स्वकुलैः सह ।।

त्रिंशत्कोशे कृतं राष्ट्रं तत्रैव बलखानिना ।। ५९ ।।

श्रुत्वा परिमलो राजा तत्रागत्य मुदान्वितः ।।

आघ्राय वत्सजं शूरं देशराजसुतं तथा ।। 3.3.11.६० ।।

ब्रह्मानंदेन सहितः स्वगेहं पुनराययौ ।। ६१ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकादशो ऽध्यायः ।। ११ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 12

।। सूत उवाच ।। ।।

द्वादशाब्दे हि कृष्णांशे यथाजातं तथा शृणु ।।

इषशुक्लदशम्यां च राज्ञां जातः समागमः ।। १ ।।

कान्यकुब्जे महारम्ये नानाभूपाः समाययुः ।।

श्रुत्वा पराजयं राज्ञो महीराजस्य लक्षणः ।। २ ।।

कृष्णांशदर्शने वांछा तस्य चासीत्तदा मुने ।।

पितृव्यं भूपतिं प्राह द्रष्टुं यास्यामि तं शुभम् ।। ३ ।।

जितो येन महीराजः सर्वलोकप्रपूजितः ।।

इति श्रुत्वा वचस्तस्य जयचंद्रो महीपतिः ।।

भ्रातृजं प्रणतं प्राह शृणु शुक्लयशस्कर ।।४।।

राजराजपदं ते हि कथं संहर्तुमिच्छसि।।

इत्युक्त्वा जयचंद्रस्तु तदाज्ञां नैव दत्तवान् ।। ५ ।।

राजानस्ते च सहिताः स्वसैन्यैः परिवारिताः ।।

कृष्णांशं द्रष्टुमिच्छन्तः संययुश्च महीपतिम् ।। ६ ।।

शिरीषाख्यपुरस्थं च ज्ञात्वा कृष्णांशमुत्तमम् ।।

महीपतिं पुरस्कृत्य समाजग्मुर्नृपास्तदा ।। ७ ।।

ददृशुस्तं महात्मानं पुंडरीकनिभाननम् ।।

प्रसन्नवदनाः सर्वे प्रशशंसुः समंततः ।। ८ ।।

तदा महीपतिः क्रुद्धो वचनं प्राह भूपतीन् ।।

यस्येयं च कृता श्लाघा युष्माभिर्दूरवासिभिः ।।

पितरौ तस्य बलिनौ माहिष्मत्यां मृतिं गतौ ।। ९ ।।

जम्बुको नाम भूपालो नार्मदीयैः समन्वितः ।।

बद्ध्वा तौ प्रययौ गेहं लुंठयित्वा धनं बहु ।।

शिलापत्रे समारोप्य तयोर्गात्रमचूर्णयत् ।।

शिरसी च तयोश्छित्त्वा वटवृक्षे समारुहत् ।। 3.3.12.१० ।।

अद्यापि तौ स्थितौ वीरौ हा पुत्रेति प्रभाषिणौ ।।

प्रेतदेहे च पितरौ यस्य प्राप्तो महाबलो ।।

तस्योदयो वृथा ज्ञेयो वृथाकीर्तिः प्रियंकरी ।। ११ ।।

इति श्रुत्वा स कृष्णांशो भूपतीन्प्राह नम्रधीः ।।

गतौ मत्पितरौ सार्द्धं गुर्जरे यत्र वै रणः ।। १२ ।।

म्लेच्छैर्नराशनैः सार्द्धं तन्नृपेण रणोऽभवत् ।।

देशराजो वत्सराजो युद्धं कृत्वा भयंकरम् ।।

म्लेच्छैस्तैश्च हतौ तत्र श्रुतेयं विश्रुता कथा ।।१३।।

मातुलेनाद्य कथितं नवीनं मरणं तयोः।।

चेत्सत्यं वचनं तस्य पौरुषं मम पश्यत ।।१४।।

इत्युक्त्वा तान्स कृष्णांशो मातरं प्राह सत्वरम् ।।

हेतुं च वर्णयामास भाषितं च महीपतेः ।। १५ ।।

श्रुत्वा वज्रसमं वाक्यं रुरोद जननी तदा ।।

नोत्तरं प्रददौ माता पति दुःखेन दुःखिता ।।१६।।

ज्ञात्वा पितृवधं श्रुत्वा जम्बुकं शिवकिंकरम् ।।

मनसा स च कृष्णांशस्तुष्टाव परमेश्वरीम् ।।१७।।

जय जय जय जगदम्ब भवानि ह्यखिललोकसुरपितृमुनिखानि ।।

त्वया ततं सचराचरमेव विश्वं पातमिदं हृतमेव ।। १८ ।।

इति ध्यात्वा स कृष्णांशः सुष्वाप निजस द्मनि ।।

तदा भगवती तुष्टा तालनं बलवत्तरम् ।।

मोहयित्वाशु तत्पार्श्वे प्रेषयामास सर्वगा ।। १९ ।।

चतुर्लक्षबलैः सार्द्धं तालनः शीघ्रमागतः ।।

स्वसैन्यं चोदयामास चैकलक्षं महाबलम् ।।3.3.12.२०।।

बलखानिस्तदा प्राप्तश्चैकलक्षबलान्वितः ।।

अनुजं तत्र संस्थाप्य शिरीषाख्ये महाबलः ।।२१।।

सज्जीभूतान्समालोक्य तानुद्याने ससैन्यकान् ।।

भीतः परिमलो राजा कृष्णांशं प्रति चाययौ ।। २२ ।।

विह्वलं नृपमालोक्य कृष्णांशोऽऽश्वासयन्मुदा ।। २३ ।।

लक्षसैन्यं तदीयं च गृहीत्वा चाधिपोऽभवत् ।।

शतघ्न्यः पंचसाहस्रा नानावर्णाः सुवाहनाः ।। २४ ।।

पताकाः पञ्चसाहस्राः साहस्रं काष्ठकारिणः ।।

गजा दशसहस्राश्च रथाः पंचसहस्रकाः ।। २५ ।।

त्रिलक्षाश्च हयाः सर्वे उष्ट्रा दशसहस्रकाः ।।

शेषाः पदातयो ज्ञेयास्त स्मिन्सैन्ये भयानके ।। २६ ।।

तालनश्च समायातः सर्वसेनाधिपोऽभवत् ।।

देवसिंहो रथानां च सर्वेषामीश्वरोऽभवत् ।। २७ ।।

बलखानिर्हयानां च सर्वेषामधिपोऽभवत् ।।

आह्लादश्च गजानां च सर्वेषामधिपोऽभवत् ।।

पत्तीनां चैव सर्वेषां कृष्णांशश्चाधिपोऽभवत् ।। २८ ।।

नत्वा ते मलनां भूपो दत्त्वा दानान्यनेकशः ।।

समाययुश्च ते सर्वे दक्षिणाशां बलान्विताः ।। २९ ।।

पक्षमात्रगतः कालो मार्गे तस्मिन्रणैषिणाम् ।।

छित्त्वा तत्र वनं घोरं नानाकंटकसंयुतम् ।।

सेनां निवासयामासुर्निर्भयास्ते महाबलाः ।। 3.3.12.३० ।।

देवसिंहमतेनैव योगिनस्ते तदाभवन् ।।

नर्तकश्चैव कृष्णांशश्चाह्लादो डमरुप्रियः ।। ३१।।

मड्डुधारी तदा देवो वीणाधारी च तालनः ।।

वत्सजः कांस्यधारी च बलखानिर्महाबलः ।। ३२ ।।

मातुरग्रे स्थितास्ते वै ननृतुः प्रेमविह्वलाः।।

मोहिता देवकी चासीन्न ज्ञातं तत्र कारणम् ।। ३३।।

मोहितां मातरं दृष्ट्वा परं हर्षमुपाययुः ।।

तदा तां कथयामासुर्वयं ते तनया हि भोः ।। ३४ ।।

नत्वा तां प्रययुः सर्वे पुरीं माहिष्मतीं शुभाम् ।।

नगरं मोहयामासुर्वाद्यगानविशारदाः ।। ३५ ।।

दूत्या सार्द्धं रिपोर्गेहं ययुस्ते कार्यतत्पराः ।।

नृत्यगानसुवाद्यैश्च राज्ञस्ते मोहने रताः ।। ३६ ।।

विसंज्ञां महिषीं कृत्वा कृष्णांशः सर्वमोहनः ।।

प्राप्तवांस्तत्र यत्रासौ तत्सुता विजयैषिणी ।। ३७ ।।

दृष्ट्वा सा सुंदरं रूपं श्यामांगं पुरुषोत्तमम् ।।

मुमोह वशमापन्ना मैथुनार्थं समुद्यता ।। ३८ ।।

दृष्ट्वा तथा गतां नारीं कृष्णांशः श्लक्ष्णया गिरा ।।

शत्रोर्भेदं च पप्रच्छ कामिनीं मदविह्वलाम् ।।३९।।

साह भो देवकीपुत्र यदि पाणिं ग्रहीष्यसि।।

तर्हि ते कथयिष्यामि पितुर्भेदं हि दारुणम् ।। 3.3.12.४० ।।

तथेत्युक्त्वा स बलवाँस्तस्याः पाणिं गृहीतवान् ।।

ज्ञात्वा भेदं रिपोः सर्वं तामाश्वास्य ययौ मुदा ।।४१।।

एतस्मिन्नन्तरे राज्ञी बाधिता प्राह योगिनम् ।।

देशराजप्रियाहारं नवलक्षस्य मूल्यकम् ।।

तुभ्यं दास्यामि संतुष्टा नृत्यगानविमोहिता ।। ४२ ।।

इति श्रुत्वा वत्ससुतस्तां प्रशस्य गृहीतवान् ।।

प्रययौ बंधुभिः सार्द्धं जम्बूको यत्र तिष्ठति ।। ४३ ।।

ननर्त तत्र कृष्णांशो बलखानिरगायत ।।

आह्लादस्तालनो देवो दध्मुर्वाद्यगतीर्मुदा ।। ४४ ।।

मोहितोऽभून्नृपस्तत्र कालियः स्वजनैः सह ।।

कामं वरय कृष्णांग यच्च ते हृदये स्थितम् ।। ४५ ।।

इति श्रुत्वा वचः शत्रोर्बलखानिर्महाबलः ।।

तमाह भो महीपाल लक्षावर्तिर्वरांगना ।।

स्वविद्यां दर्शयेन्मह्यं तदा तृप्तिं व्रजाम्यहम् ।। ४६ ।।

इति श्रुत्वा तथा मत्वा लक्षावर्तिं नृपोत्तमः ।।

सभायां नर्तयामास देशराजप्रियां तथा ।। ४७ ।।

सा वेश्या सुतमाह्लादं ज्ञात्वा योगित्वमागतम् ।।

रुरोद तत्र दुःखार्ता नेत्रादश्रूणि मुंचती ।। ४८ ।।

रुदितां तां समालोक्य रुदन्नाह्लाद एव सः ।।

स्वभुजौ ताडयामास तत्प्रियार्थे महाबलः ।। ४९ ।।

कृष्णांशस्तत्र तं हारं तस्याः कंठे प्रदत्तवान् ।।

उवाच क्रोधताम्राक्षस्तामाश्वास्य पुनःपुनः ।। 3.3.12.५० ।।

अहं चोदयसिंहोऽयं पितुर्वैरार्थमागतः ।।

हनिष्यामि रिपुं भूपं सात्मजं सबलं तथा ।। ५१ ।।

इति श्रुत्वा वचस्तस्य कालियो बलवत्तरः ।।

पितुराज्ञां पुरस्कृत्य शतव्यूहसमन्वितः ।। ५२ ।।

तेषां च बंधनायैव कपाटं समरुद्ध सः ।।

ताञ्छत्रून्समनुज्ञाय पाशहस्तान्सशस्त्रगान् ।।५३।।

स्वंस्वं खड्गं समाकृष्य क्षत्रियास्ते समाघ्नत ।।

शतशूरे हते तैश्च कालियो भयकातरः ।। ५४ ।।

त्यक्त्वा तातं प्रदुद्राव ते तु गेहाद्बहिर्ययुः ।।

स्वसैन्यं शीघ्रमासाद्य युद्धाय समुपस्थितः ।।

शिबिराणि कृतान्येव नर्मदाकूलमास्थितैः ।। ५५ ।।

कृत्वा तु नर्मदासेतुं नल्वमात्रं सुपुष्टिदम् ।।

स्वसैन्यं तारयामास चतुरंगसमन्वितम् ।। ५६ ।।

रुरोध नगरीं सर्वां बलखानिर्बलैर्युतः ।।

शतघ्नीरग्रतः कृत्वा महाशब्दकरीस्तदा ।।

माहिष्मत्याश्च हर्म्याणि पातयामास भूतले ।। ५७ ।।

नराश्च स्वकुलैः सार्द्धं मुख्यद्रव्यसमन्विताः ।।

विंध्याद्रेश्च गुहां प्राप्य तत्रोषुर्भयकातराः ।। ५८ ।।

कालियस्तु गजानीके पंचशब्दगजे स्थितः ।।

हस्तिपा दशसाहस्रा युद्धाय समुपाययुः ।। ५९ ।।

तस्यानुजः सूर्यवर्मा त्रिलक्षैस्तुरगैर्युतः ।।

तुंदिलश्च रथैः सार्द्धं रथस्थश्च सहस्रकैः ।। 3.3.12.६० ।।

रंकणो वंकणश्चोभौ चतुर्लक्षपदातिभिः ।।

जग्मतुस्तौ महाम्लेच्छौ म्लेच्छभूपसहस्रकैः ।।

दाक्षिणात्यग्रामपास्ते तौ पुरस्कृत्य संययुः ।।६१।।

उभे सेने समासाद्य युद्धाय समुपस्थिते ।।

तयोश्च तुमुलयुद्धमभवल्लोमहर्षणम् ।।६२।।

त्रियामे रुधिरैस्तेषां नदी प्रावर्तत द्रुतम् ।।

दृष्ट्वास्रजां नदीं घोरां मांसकर्दमवाहिनीम् ।।

बलखानिरमेयात्मा खङ्गपाणिर्नरो ययौ ।। ६३ ।।

भल्लहस्तस्तदा देवो मनोरथहये स्थितः ।।

बिंदुलस्थश्च कृष्णांशः खङ्गेनैव रिपूनहन् ।। ६४ ।।

आह्लादश्च गदाहस्तः पोथयामास वाहिनीम् ।।

रूपणो नाम शूद्रश्च शक्तिहस्तोन्यहन्रिपून् ।।

तालनो हस्तनिस्त्रिंशो माहिष्मत्यां हनन्ययौ ।। ६५ ।।

एवं महाभये जाते रणे तस्मिन्महाबले ।।

दुद्रुवुः सर्वतो वीराः पाहिपाहीत्यथाब्रुवन् ।। ६६ ।।

प्रभग्नं स्वबलं दृष्ट्वा कालियो बलखानिकम् ।।

गजस्थस्ताडयामास स्वबाणैस्तं महाबलः ।। ६७ ।।

हरिणी वडवा तस्य ज्ञात्वा स्वामिनमातुरम् ।।

गजोपरि समास्थाय स्वपादैस्तमपातयत् ।। ६८ ।।

पतिते कालिये वीरे पंचशब्दो महागजः ।।

शृंखलैस्ताडयामास शूरांस्तान्मदमत्तकान्।। ।। ६९ ।।

मूर्च्छिते पंचशूरे तु रूपणो भयकातरः ।।

देवकीं वर्णयामास यथाजातं गजेन वै ।।3.3.12.७०।।

तदा तु दुःखिता देवी दोलामारुह्य सत्वरा ।।

तं गजं च समासाद्य वर्णयामास कारणम् ।। ७१ ।।

गजराज नमस्तुभ्यं शक्रदत्त महाबल ।।

एते पुत्रास्तु ते वीर पालनीया यथा पितुः ।।७२।।

इति श्रुत्वा दिव्यगजो देवमायाविशारदः ।।

देवकीं शरणं प्राप्य क्षमस्वागस्कृतं मम ।। ७३ ।।

इत्युक्ते गजराजे तु कृष्णांशो बलवत्तरः ।।

त्यक्त्वा मूर्च्छां ययौ तत्र यत्राह्लादश्च मूर्च्छितः ।। ७४ ।।

तमुत्थाप्य करस्पर्शैर्बलखानिसमन्वितः ।।

पितुर्गजं महामत्तमाह्लादाय प्रदत्तवान् ।।

कराल मन्दं स्मितं रूपणाय तदा ददौ ।। ७५ ।।

मूर्च्छितं कालियं शत्रुं बद्ध्वा स निगडैर्दृढैः ।।

सेनान्तं प्रेषयामास बलखानिर्महाबलः ।। ७६ ।।

सूर्यवर्मा तदा ज्ञात्वा बद्धं बंधुं च कालियम् ।।

प्रययौ शत्रुसेनान्तं क्रोधेन स्फुरिताधरः ।। ७७ ।।

तमायान्तं समालोक्य ते वीरा युद्धदुर्मदाः ।।

रथस्थं मंडलीकृत्य स्वस्वमस्त्रं समाक्षिपन् ।। ७८ ।।

कुंठितेऽस्त्रे तदा तेषां विस्मितास्तेऽभवन्मुने ।।

चिन्तां च महतीं प्राप्ताः कथं वध्यो भवेदयम् ।। ७९ ।।

तस्यास्त्रैस्ते महावीरा व्रणार्तिभयपीडिताः ।।

त्यक्त्वा युद्धं पुनर्गत्वा रणं चक्रुः पुनःपुनः ।। 3.3.12.८० ।।

एवं कति दिनान्येव बभूव रण उत्तमः ।।

आह्लादो वत्सजो देवस्तालनो भयसंयुतः ।।

कृष्णांशं शरणं जग्मुस्तेन वीरेण मोहिताः ।। ८१ ।।

कृष्णस्तु तं तथा दृष्ट्वा देवीं विश्वविमोहिनीम् ।।

तुष्टाव मनसा वीरो रात्रिसूक्तं पठन्हृदि ।। ८२ ।।

तदा तुष्टा जगद्धात्री दुर्गा दुर्गार्तिनाशिनी ।।

मोहयित्वा तु तं वीरं तत्रैवांतरधीयतः ।।८३।।

निद्रया मोहितं दृष्ट्वा कृष्णांशस्तु महाबलः ।।

बबंध निगडैस्तं च देवक्यन्ते समागमत् ।। ८४ ।।

तुंदिलश्च तथा ज्ञात्वा भातृशोकपरिप्लुतः ।।

आजगाम हयारूढः खङ्गहस्तो महाबलः ।।

रिपुसैन्यस्य मध्ये तु बहुशूरानताडयत् ।। ८५ ।।

माहिष्मत्याश्च ते शूरा रंकणेन समन्विताः ।।

तत्सैन्यं भञ्जयामासुस्तालनेन प्रपालितम् ।। ८६ ।।

प्रद्रुतं स्वं बलं दृष्ट्वा तालनः परिघायुधः ।।

शिरांसि पोथयामास म्लेच्छानां च पृथक्पृथक् ।। ८७ ।।

वंकणं च तथा हत्वा खड्गेनैव च रंकणम् ।।

तुंदिलं च तथा बद्ध्वा दिनान्ते शिबिरं ययौ ।।८८।।

कालिये च रिपौ बद्धे सुबद्धे सूर्यवर्मणि ।।

तुंदिले च तथा बद्धे रंकणे वंकणे हते ।। ८९ ।।

सहस्रं म्लेच्छराजानो हतशेषा बलान्विताः ।।

पक्षमात्रमहोरात्रं युद्धं चक्रुः समंततः ।। 3.3.12.९० ।।

प्रत्यहं तालनो वीरः सेनापतिरमर्षणः ।।

षष्टिं भूपाञ्जघानाशु शत्रुसैन्यभयंकरः ।। ९१ ।।

भयभीता रिपोः शूरा हता भूपा हतौजसः ।।

हतशेषा ययुर्गेहमर्द्धसैन्या भयातुराः ।। ९२ ।।

जम्बुकस्तु तथा श्रुत्वा दुःखितो गेहमाययौ ।।

व्रतं ह्यनशनं कृत्वा रात्रौ शोचन्नशेत सः ।। ९३ ।।

निशीथे समनुप्राप्ते तत्सुता विजयैषिणी ।।

पूर्णा तु सा कला ज्ञेया राधाया व्रजवासिनी ।।९४।।

आश्वास्य पितरं तं च ययौ मायाविशारदा ।।

रक्षकाञ्छिविराणां च मोहयित्वा समाययौ ।। ९९ ।।

भ्रातरो तत्र गत्वासौ यत्र सर्वानबोधयत् ।।

कृत्वा सा राक्षसीं मायां पंचवीरानमोहयत् ।। ९६ ।।

निरस्त्रकवचान्बंधून्प्रतिदोलां समारुहत् ।।

पितुरंतिकमासाद्य तस्मै भ्रातृन्ददौ मुदा ।।९७।।

प्रभाते बोधिताः सर्वे स्नानध्यानादिकाः क्रियाः ।।

कृत्वा ययू रिपोः शालां दृष्टवन्तो न तांस्तदा ।। ९८।।

बभूबुर्दुःखिताः सर्वे किमिदं कारणं कथम् ।।

तानुवाच तदा देवः प्राप्ता ह्यत्र रिपोः सुता ।। ९९ ।।

कृत्वा सा राक्षसीं मायां हृत्वा तान्गेहमाययौ ।।

तस्माद्यूयं मया सार्द्धं गत्वा यत्रैव तद्गुरुः ।। ।। 3.3.12.१०० ।।

विंध्योपरि महारण्ये नानासत्त्वनिषेविते ।।

कुटीरं तस्य तत्रैव नाम्नैवैलविली हि सः ।। इलविला

योगसिद्धियुतः कामी राक्षसेभ्यो हि निर्भयः ।। १०१ ।।

जम्बुकस्य सुता तत्र प्रत्यहं स्वजनैर्युता ।।

एकाकिनी च सा रात्रौ स्वं गुरुं तमरीरमत् ।। १०२ ।।

कृतेयं चैलविलिना माया मनुजमोहिनी ।।

कार्यसिद्धिं गमिष्यामो गत्वा तं पुरुषाधमम् ।।

इति श्रुत्वा तु चत्वारो विनाह्रादं ययुर्वनम् ।। १०३ ।।

गीतनृत्यप्रवाद्यैश्च मोहयित्वा च त दिने ।।

वासं चक्रुश्च तत्रैव धूर्तं मायाविशारदम् ।। १०४ ।।

स तु पूर्वभवे दैत्यश्चित्रो नाम महासुरः ।।

बाणकन्यामुषां नित्यमवाञ्छच्छिव पूजकः ।।

जात ऐलविली नाम पक्षपूजी स वेगवान् ।।१ ०५।।

तयोर्मध्ये प्रमाणोऽयं विवाहो मे यदा भवेत् ।।

तदाहं त्वां भजिष्यामि संत्यक्त्वोद्वाहितं पतिम् ।। १०६ ।।

हते तस्मिन्महाधूर्ते गत्वा संग्राममूर्द्धनि ।।

जम्बुकस्य ययुर्दुर्गं दृष्ट्वा ते तं समारुहन् ।।

हत्वा तत्र स्थितान्वीराञ्छतघ्न्यः परिखाकृताः ।। १०७ ।।

तदा तु जम्बुको राजा शिवदत्तवरो बली ।।

जित्वा पञ्च महावीरान्बद्ध्वा तान्निगडैर्दृढैः ।।

शैवं यज्ञं च कृतवांस्तेषां नाम्नोपबृंहितम् ।। १०८ ।।

रूपणस्तु तथा ज्ञात्वा देवकीं प्रत्यवर्णयत् ।।

तदा तु दुःखिता देवी भवानीं भयहारिणीम् ।।

मनसा च जगामाशु शरण्यां शरणं सती ।। १०९ ।।

तदा तुष्टा जगाद्धात्री स्वप्नांते तामवर्णयत् ।।

अहो देवकि कल्याणि पुत्रशोकं त्यजाधुना ।। 3.3.12.११० ।।

यदा तु जम्बुको राजा शिवदत्तवरो बली ।।

होमं कर्ता स मंदात्मा तेषां च बलिहेतवे ।। १११ ।।

मोहयित्वा तदाहं तं मोचयित्वा च ते सुतान् ।।

विजयं ते प्रदास्यामि मा च शोके मनः कृथाः ।। ११२ ।।

इति श्रुत्वा सती देवी नमस्कृत्य महेश्वरीम् ।।

पूजयामास विधिवद्धूपदीपोपहारकैः ।। ११३ ।।

एतस्मिन्नंतरे राजा देवमायाविमोहितः ।।

सुष्वाप तत्र होमान्ते ते च जाता ह्यबंधनाः ।। ११४ ।।

तैर्बद्धो जम्बुको राजा निगडैरायसैर्दृढैः ।।

ते तं बद्ध्वा ययुः शीघ्रं देवकीं प्रति निर्भयाः ।। ११५ ।।

एतस्मिन्नंतरे तत्र कालियाद्यास्त्रयः सुताः ।।

त्रिलक्षं सैन्यमादाय युद्धाय समुपाययुः ।। ११६ ।।

पुनर्युद्धमभूद्घोरं सेनयोरुभयोस्तदा ।।

तालनाद्याश्च चत्वारो हत्वा तां रिपुवाहिनीम् ।। ११७ ।।

त्रीञ्छत्रून्कोष्ठकीकृत्य स्वशस्त्रैर्जघ्नुरूर्जिताः ।।

एवं दिनानि कतिचित्तत्र जातो महारणः ।। ११८ ।।

कालियो दुःखितो भूत्वा सस्मार मनसा हरम् ।।

मोहनं मंत्रमासाद्य मोहयामास तान्रिपून् ।। ११९ ।।

एतस्मिन्नंतरे देवी देवकी पतिदेवता।।

पातिव्रत्यस्य पुण्येन सुतांतिकमुपागता ।। 3.3.12.१२० ।।

बोधयित्वा तु कृष्णांशं पञ्चशब्दगजस्थितम् ।।

पुनस्तुष्टाव जननीं सर्वविश्वविमोहिनीम् ।।

तदा तुष्टा स्वयं देवी बोधयामास तान्मुदा ।। १२१ ।।

आह्लादः सूर्यवर्माणं कालियं च ततोऽनुजः ।।

जघान बलखानिस्तं तुन्दिलं जम्बुकात्मजम् ।।१२२।।

ते तु पूर्वभवे विप्र जरासंधः सकालियः ।।

द्विविदो वानरः शूरः सूर्य्यवर्मेह चाभवत् ।।१२३।।

त्रिशिरास्तुदिलो जातः शृगालः स च जम्बुकः ।।

नित्यवैरकराः सर्वे भूपाश्चासन्महीतले ।।१२४ ।।

हतेषु शत्रुपुत्रेषु देवकी जम्बुकं रिपुम् ।।

खङ्गेन तर्जयामास पतिशोकपरायणा ।। १२५ ।।

कृष्णांशः शिरसी पित्रोर्गृहीत्वा स्नेहकातरः ।।

जम्बुकस्यैव हदये स्थापयामास विह्वलः ।।१२६।।

विहस्य तौ तदा तत्र प्रोचतुर्वचनं प्रियम् ।।

चिरं जीव हि कृष्णांश गयां कुरु महामते ।।

इति वाणी तयोर्जाता बलिनो प्रेतदेहयोः ।। १२७ ।।

खड्गहस्ता च सा देवी शिलायंत्रे तु तं रिपुम् ।।

संस्थाप्य चोदयामास स्वपुत्रान्हर्षसंयुता ।।१२८।।

हे पुत्राः स्वपितुः शत्रुं जम्बुकं पुरुषाधमम् ।।

खण्डखण्डं च तिलशः कृत्वानन्दसमन्विताः ।। १२९ ।।

संचूर्णयत तद्गात्रं तत्तैलैर्मदनिर्मितैः ।।

स्नास्याम्यहं तथेत्युक्त्वा रुरोद जननी भृशम् ।। 3.3.12.१३० ।।

तथा कृत्वा तु ते पुत्रा महिषीं ससुतां तदा ।।

बलखानियुतास्तत्राहूय चक्रुश्च तत्क्रियाम् ।। १३१ ।।

तदा परिमलं राज्ञी दृष्ट्वा स्वामिनमातुरम् ।।

मरणायोन्मुखं विप्र पंचत्वमगमन्मुने ।। १३२ ।।

तत्सुता खड्गमानीय बलखानिभुजं प्रति ।।

कृतित्वा मूर्छयित्वा तं तत्पक्षानन्वधावत।।१३३।।

तालनं देवसिंहं च रामांशं च तथाविधम्।।

कृत्त्वान्यांश्च तथा शत्रूनगच्छत्कुलकातरा।।१३४।।

कृष्णांशं मोहयित्वाशु मायया च समाहरत्।।

हते तत्र शते शूरे बलखानिरमर्षितः ।।

तच्छिरश्च समाहृत्य चितायां च समाक्षिपत् ।। १३५ ।।

तदा वाणी समुत्पन्ना बलखाने शृणुष्व भोः ।।

अवध्या च सदा नारी त्वया वध्या ह्यधर्मिणः ।। १३६ ।।

फलमस्य विवाहे स्वे भोक्तव्यं पापकर्मणः ।।

इति श्रुत्वा तदा दुःखी बलखानिर्ययौ पुरम् ।। १३७ ।।

ततस्तु सैनिकाः सर्वे महाहर्षसमन्विताः ।।

शतोष्ट्रभारवाह्यानि लुंठयित्वा धनानि च ।। १३८ ।।

महावतीं समाजग्मुः कृतकृ त्यत्वमागताः ।।

हतशेषैश्चार्द्धसैन्यैः सहिता गेहमाययुः ।। १३९ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलि युगीयेतिहाससमुच्चये द्वादशोऽध्यायः ।। १२ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 13

।। ऋषय ऊचुः ।। ।।

कस्मिन्मास्यभवद्युद्धं तयोः कतिदिनानि च ।।

तत्पश्चात्स्व पुरीं प्राय तदा किमभवन्मुने ।। १ ।।

।। सूत उवाच ।। ।।

पौषमास्यभवद्युद्धं तयोः शतदिनानि च ।।

ज्येष्ठे मासि गृहं प्राप्ता दध्मुर्वाद्यान्यनेकशः।। २ ।।

श्रुत्वा परिमलो राजा स्वसुताञ्जयिनो बलीन् ।।

ददौ दानानि विप्रेभ्यः सुखं जातं गृहेगृहे ।। ३ ।।

इति श्रुत्वा महीराजो बलखानिं महाबलम् ।।

तत्रागत्य नमस्कृत्य वचनं प्राह नम्रधीः ।। ४ ।।

अर्द्धकोटिमितं द्रव्यं मत्तः प्राप्य सुखी भव ।।

माहिष्मत्याश्च राष्ट्रं मे देहि वीर नमोस्तु ते ।। ५ ।।

वर्षे वर्षे च तद्द्रव्यं गृहाण बलवन्प्रभो ।।

इति श्रुत्वा तथा मत्वा बलखानिर्गृहं ययौ ।।६।।

वयस्त्रयोदशाब्दे च कृष्णांशे बलवत्तरे ।।

यथा जाता हरेर्लीला भृगुश्रेष्ठ तथा शृणु ।। ७ ।।

भाद्रे शुक्ले त्रयोदश्यां चाह्लादः सानुजो ययौ ।।

गयार्थे धनमादाय हस्त्यश्वरथसंकुलम् ।। ।। ८ ।।

कृष्णांशो बिन्दुलारूढो वत्सजो हरिणीस्थितः ।।

देवः पपीहकारूढः सुखखानिः करालके ।। ९ ।।

चत्वारो द्विदिनान्ते च गयाक्षेत्रं समाययुः ।।

पूर्णिमांते पुरस्कृत्य षोडशश्राद्धकारिणः ।। 3.3.13.१० ।।

शतं शतं गजांश्चैव भूषितांश्च रथास्तथा ।।

ददुर्हयान्सहस्रं च हेममालाविभूषि तान् ।। ११ ।।

धेनूर्हिरण्यरत्नानि वासांसि विविधानि च ।।

दत्त्वा ते सुफलीभूय स्वगेहाय दधुर्मनः ।। १२ ।।

लक्षावर्तिस्तु या वेश्या ययौ बदरिकाश्रमम् ।।

प्राणांस्तत्र परित्यज्य साप्सरस्त्वमुपागता ।। १३ ।।

राकां चंद्रे तु संप्राप्तं राहुग्रस्ते तमोमये ।।

काश्यां समागता भूपा नाना देश्याः कुलैः सह ।। १४ ।।

हिमालयगिरौ रम्ये नानाधातुविचित्रिते ।।

तत्र शार्दूलवंशीयो नेत्रसिंहो महीपतिः ।। १५ ।।

रत्नभानो हते शूरे नेत्रसिंहो भयातुरः ।।

नवतुंगे समासाद्य तोषयामास वासवम् ।। १६ ।।

द्वादशाब्दान्तरे देवो ददौ ढक्कामृतं मुदा ।।

पार्वत्या निर्मितं यत्तु वासवाय स्वसेविने ।। १७ ।।

ददौ ढक्कामृतं राज्ञे पुनः प्राह शुभं वचः ।।

अस्य शब्देन भूपाल त्वं सैन्यं जीवयिष्यसि ।। १८ ।।

क्षयं शीघ्रं गमिष्यंति शत्रवस्ते महाभटाः।।

प्राप्ते ढक्कामृते तस्मिन्नेत्रसिंहो महाबलः ।। १९ ।।

नगरं कारयामास तत्र सर्वजनैर्युतम् ।।

योजनान्तं चतुर्द्वारं दुराधर्षं परैः सदा ।। 3.3.13.२० ।।

नेत्रसिंहगढं नाम्ना विख्यातं भारते भुवि ।।

काश्मीरान्ते कृतं राज्ये तेन शृंगसमं ततः ।। २१ ।।

पालितं नेत्रसिंहेन तत्पुरः पुत्रवन्मुने ।।

नेत्रपाल इति ख्यातो ग्रामोऽसौ दुर्गमः परेः ।। २२ ।।

सोऽपि राजा समायातो नेत्रसिंहो महाबलः ।।

कन्या स्वर्णवती तस्य रेवत्यंशसमन्विता ।।

कामाक्ष्या वरदानेन सर्वमायाविशारदा ।। २३ ।।

दृष्ट्वा तां सुंदरीं कन्यां बालेन्दुसदृशाननाम् ।।

मूर्च्छिताश्चाभवन्भूपा रूपयौवनमोहिताः ।। २४ ।।

दृष्ट्वा तां च तथाह्रादः सर्वरत्नविभूषिताम् ।।

षोडशाब्दवयोयुक्तां कामिनीं रतिरूपिणीम् ।।

मूर्च्छितश्चापतद्भूमौ सा तं दृष्ट्वा मुमोह वै ।। २५ ।।

दोलामारुह्य तत्सख्यौ नृपान्तिकमुपाययुः ।।

आह्लादस्तु समुत्थाय महामोहत्वमागतः ।। २६ ।।

दृष्ट्वा तथाविधं बंधुं कृष्णांशः प्राह दुःखितः ।।

किमर्थं मोहमायातो भवाँस्तत्वविशारदः ।। २७ ।।

रजो रागात्मकं विद्धि प्रमादं मोहजं तथा ।।

ज्ञानासिना शिरस्तस्य छिंधि त्वमजितः सदा ।। २८ ।।

इति श्रुत्वा वचो भ्रातुस्त्यक्त्वा मोहं ययौ गृहम् ।।

भोजयित्वा द्विजश्रेष्ठान्सहस्रं वेदतत्परान् ।। २९ ।।

दुर्गामाराधयामास जप्त्वा मध्यचरित्रकम् ।।

मासान्ते च तदा देवी दत्त्वाभीष्टं हृदि स्थितम् ।। 3.3.13.३० ।।

मोहयामास तां कन्यां विवाहार्थमनिन्दिता ।।

स्वप्ने ददर्श सा बाला रामांशं देवकीसुतम् ।। ३१ ।।

प्रातर्बुद्ध्वा तु संचिंत्य महामोहमुपाययौ ।।

तदा ध्यात्वा च कामाक्षीं सर्वाभीष्टप्रदायिनीम् ।। ।। ३२ ।।

पौषमासे तु संप्राप्ते शुककंठे सुपत्रिकाम् ।।

बद्ध्वा तं प्रेषयामास शुकं पत्रस्थितं प्रियम् ।। ३३ ।।

स गत्वा पुष्पविपिनं महावतिपुरीस्थितम् ।।

नरशब्देन वचनं कृष्णांशाय शुकोब्रवीत ।। ३४ ।।

वीर तेऽवरजो बंधुर्नाम्नाह्लादो महाबलः ।।

तस्मै हि प्रेषिता पत्री स्वर्णवत्या हितप्रदा ।। ३५ ।।

तां ज्ञात्वा च पुनस्तस्या उत्तरं देहि मत्प्रियम् ।।

अथ वा पत्रमालिख्य तत्त्वं मे कुरु कंठके ।। ३६ ।।

इति श्रुत्वोदयो वीरो गृहीत्वा पत्रमुत्तमम् ।।

ज्ञातवांस्तत्र वृत्तांतमाह्लादाय पुनर्ददौ ।। ३७ ।।

जम्बुकश्च नृपो वीरो रुद्रदत्तवरो बली ।।

अजेयोन्यनृपैर्वीर त्वया युधि निपातितः ।। ३८ ।।

तथाविधं मत्पितरमिंद्रदत्तवरं रिपुम् ।।

तमेवं जहि संग्रामे मम पाणिग्रहं कुरु ।। ।। ३९ ।।

इति ज्ञात्वा स आह्लादस्तामाश्वास्य हृदि स्थिताम् ।।

शुककंठे बबंधाशु लिखित्वा पत्रमुत्तमम् ।। 3.3.13.४० ।।

स शुकः पन्नगः पूर्वं पुंडरीकेन शापितः ।।

रेवत्यंशस्य कार्यं च कृत्वा मोक्षत्वमागतः ।। ४१ ।।

मृते तस्मिञ्छुके रम्ये देवी स्वर्णवती तदा ।।

दाहयित्वा ददौ दानं विप्रेभ्यस्तस्य तृप्तये ।। ४२ ।।

माघमासि च संप्राप्ते पंचम्यां कृष्णपक्षके ।।

आह्लादः सप्तलक्षैश्च सैन्यैः सार्द्धं ययौ मुदा ।। ४३ ।।

तालनाद्याश्च ते शूराः स्वंस्वं वाहनमाश्रिताः ।।

आह्लादं रक्षयन्तस्ते ययुः पंचदशाहकम् ।। ४४ ।।

वंगदेशं समुल्लंघ्य शीघ्रं प्राप्ता हिमालयम् ।।

रूपणं पत्रकर्त्तारं बलखानिरुवाच तम् ।। ४५ ।।

गच्छ त्वं वीर कवची करालाश्वं समास्थितः ।।

पंचशस्त्रसमायुक्तो राजानं शीघ्रमावह ।। ४६ ।।

युद्धचिह्नं तनौ कृत्वा मामागच्छ त्वरान्वितः ।।

तथा मत्वा शिखंड्यंशो ययौ शीघ्रं स रूपणः ।।४७।।

स ददर्श सभां राज्ञो बहुशूरसमन्विताम्।।

पार्वतीयैर्नृपैः सार्द्धं सहस्रैर्बलवत्तरैः ।। ४८ ।।

स उवाच नृपश्रेष्ठं नेत्रसिंहं महाबलम् ।।

त्वत्सुताया विवाहाय बलखानिर्महाबलः ।।

सप्तलक्षबलैर्गुप्तः संप्राप्तस्तव राष्ट्रके ।। ४९ ।।

तस्मात्त्वं स्वसुतां शीघ्रमाह्लादाय समर्पय ।।

शुल्कं मे देहि नृपते युद्धरूपं सुदारुणम् ।। 3.3.13.५० ।।

इति श्रुत्वा वचस्तस्य स राजा क्रोधमूर्छितः ।।

पट्टनाधिपमाज्ञाय भूपं पूर्णबलं रुषा ।।

अरुधत्स कपाटं च तस्य बंधनहेतवे ।। ५१ ।।

पाशहस्ताञ्छूरशतं पट्टनाधिपरक्षितान् ।।

दृष्ट्वा स रूपणो वीरः खड्गयुद्धमचीकरत् ।। ५२ ।।

हत्वा तन्मुकुटं राज्ञो गृहीत्वाकाशगो बली ।।

बलखानिं तु संप्राप्य चिह्नं तस्मै न्यवेदयत् ।। ५३ ।।

इति श्रुत्वा प्रसन्नात्मा सप्त लक्षदलैर्युतः ।।

अरुधन्नगरीं सर्वां नेत्रसिंहेन रक्षिताम् ।। ५४ ।।

नेत्रसिंहस्तु बलवान्पार्वतीयैर्नृपैः सह ।।

हिमतुंगतलं प्राप्य युद्धार्थी तान्समाह्वयत् ।। ५५ ।।

सहस्रं च गजास्तस्य हया लक्षं महाबलाः ।।

सहस्रं च नृपाः शूराश्चतुर्लक्ष पदातिभिः ।। ५६ ।।

योगसिंहो गजैः सार्द्धं बलखानिं समाह्वयत् ।।

भोगसिंहो हयैः सार्द्धं कृष्णांशं च समाह्वयत् ।। ५७ ।।

विजयो नृपपुत्रश्च सर्वभूपतिभिः सह ।।

देवसिंहस्तथा म्लेच्छै रूपणं च समाह्वयत् ।। ५८ ।।

तयोश्चासीन्महद्युद्धं सेनयोस्तत्र दारुणम् ।।

निर्भयाश्चैव ते शूराः पार्वतीयाः समंततः ।।

जघ्नुस्ते शात्रवीं सेनां द्विलक्षां वीरपालिताम् ।। ५९ ।।

प्रभग्नं स्वबलं दृष्ट्वा चत्वारो मदमत्तकाः ।।

दिव्यानश्वान्समारुह्य चक्रुः शत्रोर्महावधम् ।।

पुनरुजीवितं सर्वं ढक्कामृतरवाद्बलम् ।। 3.3.13.६० ।।

युद्धाय संमुखं प्राप भृगुश्रेष्ठ पुनः पुनः ।।

अहोरात्रं रणश्चासीत्तेषां तत्रैव दारुणः ।। ६१ ।।

एवं सप्ताह्नि संजाते युद्धे भीरुभयंकरे ।।

उपायैर्बहुभिर्वीराश्चक्रुश्चैव रणं बहुम् ।। ६२ ।।

पुनस्ते जीवमापन्ना जघ्नुस्तान्रिपुसैन्यपान्।।

तालनाद्यास्तु ते शूरा दुःखितास्तत्र चाभवन् ।।

निराशां विजये प्राप्य कृष्णांशं शरणं ययुः ।। ६३ ।।

तानाश्वास्य स कृष्णांशस्तत्र दिव्यहये स्थितः ।।

नभोमार्गेण बलवान्स्वर्णवत्यंतिकं ययौ ।। ६४ ।।

हर्म्योपरि स्थितां देवीं सर्वशोभासमन्विताम् ।।

नत्वोवाच वचः श्लक्ष्णं किंकरोहमिहोदयः ।।

शरण्यां त्वामुपागच्छं कामाक्षीमिव भामिनि ।। ६५ ।।

वृत्तान्तं कथयामास यथासीच्च महारणः ।।

श्रमेण कर्शिता वीरा निराशां जीवनेऽगमन् ।। ६६ ।।

साह चोदयसिंह त्वं कामाक्ष्या मंदिरं व्रज ।।

अहं च स्वालिभिः सार्धं नवम्यां पूजने रता ।। ६७ ।।

ढक्कामृतस्य वाद्येन पूजये सर्वकामदाम् ।।

इति श्रुत्वा स बलवान्स्वसैन्यं प्रति चागमत् ।। ६८ ।।

अर्धशेषां रणात्सेनां पराजाप्य च दुद्रुवुः ।।

पट्टनाख्यपुरे प्राप्तां जयं प्राप्य महाबलाः ।। ६९ ।।

पराजिते रिपौ तस्मिन्नेत्रसिंहसुतैः सह ।।

गृहमागत्य बलवान्विप्रेभ्यो गोधनं ददौ ।। 3.3.13.७० ।।

नवम्यां पितरं प्राह देवी स्वर्णवती तदा ।।

कामाक्षीसेवनेनाशु कुरु यागोत्सवं मम ।।

यत्प्रसादाच्च विजयी दुर्जयेभ्योऽभवद्भवान् ।। ७१ ।।

इति श्रुत्वा पिता प्राह स्वप्नो दृष्टस्तथा मया ।।

पूजनान्मंगलं राज्ञां नो चेद्विघ्नो हि शोभने ।। ७२ ।।

पित्रोक्तैवं निशायां तु सा सुता पितुराज्ञया ।।

ढक्कामृतस्य वाद्येन कामाक्षीमदिरं ययौ ।। ७३ ।।

कृष्णांशो माल्यकारस्य वधूर्भूत्वा समागतः ।।

ढक्कामृतं च नारीभ्यो गृहीत्वा त्वरितो ययौ ।। ।।७४।।

एतस्मिन्नन्तरे वीराः षष्टिर्वाहनसंयुताः ।।

ढक्कार्थं प्रययुः शीघ्रं सर्वशस्त्रैः समुद्यताः ।।७५।।

तानागतान्स बलवान्दृष्ट्वा खड्गं गृहीतवान् ।।

पंचपंचाशतः शूराननयद्यमसादनम् ।। ७६ ।।

कृष्णांशस्त्वरितो गत्वा रूपणो यत्र तिष्ठति ।।

ढक्कामृतं च संप्राप्य हयारूढो ययौ सभाम् ।।७७।।

हृते ढक्कामृते दिव्ये नेत्रसिंहो भयातुरः ।।

ऐन्द्रं यज्ञं तथा कृत्वा हवनाय परोऽभवत् ।। ७८ ।।

प्रभाते समनुप्राप्ते ते वीराः स्वबलैः सह ।।

तरसा प्रययुः सर्वे गजोष्ट्रहयसंस्थिताः ।।

दिनान्ते प्राप्तवंतश्च यत्राभूत्समहारणः ।। ७९ ।।

कृष्णांशः पूजयित्वा तं दध्मौ ढक्कामृतं बली ।।

तच्छब्देन मृता वीराः पुनरुजीवितास्तदा ।। 3.3.13.८० ।।

सप्तलक्षबलं तस्य पुनः प्राप्तं मदातुरम् ।।

रुरोध नगरीं सर्वां दध्मौ वाद्यान्यनेकशः ।। ८१ ।।

रुद्धे तु नगरे तस्मिन्नेत्रसिंहो भयातुरः ।।

स्वात्मानमर्पयामास वह्नौ शक्राय धीमते ।। ८२ ।।

तदा प्रसन्नो भगवानुवाच नृपतिं प्रति ।।

रामांशोयं च कृष्णांशो भुवि जातौ कलैकया ।। ८३ ।।

तस्मै योग्याय सा कन्या रामांशाय यशस्विने ।।

योगिनीयं स्वर्णवती रेवत्यंशावतारिणी ।।८४।।

इत्युक्त्वा च स्वयं देवो ढक्कामृतमुमाप्रियम् ।।

हृत्वा वह्नौ समाक्षिप्य दुर्गायै संन्यवेदयत् ।। ८५ ।।

गते तस्मिन्सुरपतो स राजा ब्राह्मणैः सह ।।

महीपतिं प्रति ययौ मेलनार्थं समुद्यतः ।। ८६ ।।

तथागतं नृपं दृष्ट्वा कृष्णांशश्च महीपतिः ।।

आह्लादमातुलः प्राह मान्यः सर्वबलैः सदा ।।८७।।

राजन्नयं स बलवानाह्रादः सानुजैः सह ।।

मत्पंक्तौ न स्थितो वीरः कुले हीनत्वमागतः ।। ८८ ।।

आर्याभीरी स्मृता तेषां किं त्वया विदितं न हि ।।

यदि देया त्वया कन्या तर्हि त्वं हीनतां व्रज ।। ८९ ।।

अतस्त्वं वचनं चेदं कुलयोग्यं शृणुष्व भोः ।।

चतुरो बालकान्नीचांस्तालनेन समन्वितान् ।। 3.3.13.९० ।।

वञ्चयित्वा विवाहार्थे शिरांस्येषां समाहर ।।

मंडपति मखं कृत्वा चामुण्डायै समर्पय ।। ९१ ।।

त्वत्कन्यया समाहूता वीरा वै रेवती हि सा ।।

पश्चात्कन्यां स्वयं हत्वा कुलकल्याणमावह।। ९२ ।।

नो चेद्भवान्क्षयं यायात्सकुलो जंबुको यथा ।।

इत्युक्त्वा स ययौ सार्द्धं यत्राह्रादस्य बांधवः ।। ९३ ।।

इति श्रुत्वा स शल्यांशः सुयोधनमुखेरितम् ।।

तथेत्युक्त्वोत्सवं कृत्वा मंडपांते विधानतः ।।

आह्लादस्य समीपं स गत्वैतद्वंचनाय हि ।।

तमाह दंडवत्पादौ गृहीत्वा नृपतिस्स्वयम् ।। ९४ ।।

भवन्तोंशावताराश्च मया ज्ञाताः सुरोत्तमात् ।।

निरस्त्रान्पञ्च युष्मांश्च पूजयित्वा यथाविधि ।।

रामांशाय स्वकन्यां च दास्यामि कुलरीतितः ।। ९५ ।।

इत्याह्रादं समादिश्य स नृपश्छलमाश्रितः ।।

दुर्गोत्सवे ययौ गेहं तद्वधाय समुद्यतः ।। ९६ ।।

सहस्रं मंडपे भूपान्संस्थाप्य स्वबलैः सह ।।

तालनाद्यांश्च षट् शूरान्मंडपांते समाह्वयत् ।। ९७ ।।

विवाहप्रथमावर्ते योगसिंहोऽसिमुत्तमम् ।।

वरमाहत्य शिरसि जगर्ज बलवान्रुषा ।। ९८ ।।

तमाह तालनो धीमान्न योग्यं भवता कृतम् ।।

श्रुत्वाह नेत्रसिंहस्तं कुलरीतिरियं बलिन् ।।

निरायुधैः परैः सार्द्धं शस्त्रिणां संगरो हि नः ।। ९९ ।।

इति श्रुत्वा योगसिंहं कृष्णांशस्तं समारुधत् ।।

भोगसिंहं तथा कृष्य बलखानिर्गृहीतवान् ।। 3.3.13.१०० ।।

विजयं तृतीयावर्ते सुखखानिर्न्यरुंद्ध वै ।।

चतुर्थावर्तके शत्रुं नृपं पूर्णबलं शठम् ।।

रूपणस्तं गृहीत्वाशु युयुधे तद्बलैः सह ।। १०१ ।।

पंचमे बहुराजानं तालनश्च समारुधत् ।।

षष्ठावर्त्ते नेत्रसिंहं तथाह्लादो गृहीतवान् ।। १०२ ।।

संप्राप्ते तुमले युद्धे बहुशूराः क्षयं गताः ।।

निरायुधाः षड् बलिनः संक्षम्य व्रणमुत्तमम् ।।

निरायुधान्रिपून्स्वान्स्वांश्चक्रुः शक्तिप्रपूजकाः ।।१ ०३।।

एतस्मिन्नन्तरे देवः कालदर्शी समागतः ।।

नभोमार्गेण तानश्वांस्तेभ्य आगत्य संददौ ।। १०४ ।।

बिन्दुलं चैव कृष्णांशो देवस्तत्र मनोरथम् ।।

रूपणश्च करालाश्वं चाह्लादस्तु पपीहकम् ।। १०५ ।।

हरिणीं बलखानिश्च तद्भ्राता हरिनागरम् ।।

सिंहिनीं तालनः शूरः समारुह्य रणोद्यतः ।। १०६ ।।

रात्रौ तन्नृपतेः सेनां हत्वा बद्ध्वा च तत्पतिम् ।।

दोलां गेहाच्च निष्काश्य सप्तभ्रमरकारिताम् ।। १०७ ।।

स्वसैन्यं ते समाजग्मुर्निर्भया बलवत्तराः ।।

तान्सर्वान्नेत्रसिंहादीन्दृष्ट्वा पाहीति जल्पितः ।। १०८ ।।

निगडैरेकतः कृत्वा पञ्च भूपान्हि वंचकान् ।।

कारागारे महाघोरे तत्र तान्संन्यवासयन् ।। ।। १०९ ।।

नेत्रसिंहो वरो भ्राता सुन्दरारण्यभूमिपः ।।

हेतुं ज्ञात्वाययौ शीघ्रं मायावी लक्षसैन्यकः ।। 3.3.13.११० ।।

तत्रागत्य हरानन्दो नाम्ना तानयुधद्बली । ।

नेत्रसिंहस्य सैन्यं च चतुर्लक्षं तदागमत् । । १११ । ।

पञ्चलक्षै रणो घोरः सप्तलक्षयुतैरभूत् ।।

पञ्चाहोरात्रमात्रं च तयोश्चासीत्स संकुलः ।।

अर्द्धसैन्यं रिपोस्तत्र हतशेषमदुद्रुवत् ।। ११२ । ।

विस्मितः स हरानन्दो रुद्रमायाविशारदः ।।

बलाधिक्ययुताञ्ज्ञात्वा शिवध्यानपरोऽभवत् । । । । ११३ । ।

रचित्वा शांबरीं मायां नानारूपविधारिणीम् । ।

पाषाणभूतान्सकलान्कृत्वा भूपान्समाययौ । । ११४ । ।

ससुतं भ्रातरं ज्येष्ठं नृपं पूर्णबलं ततः ।।

मोचयित्वा ययौ गेहं कृतकृत्यो महाबली ।। ११५ ।।

आह्लादं निगडैर्बद्ध्वा मायया जडतां गतम् ।।

नेत्रसिंहः स बलवान्ययौ स्वं दुर्गमुद्यतः ।।

तं प्रशंस्यानुजं वीरो विप्रेभ्यश्च ददौ धनम् ।। ११ ६। ।

तदा स्वर्णवती दीना बद्धं ज्ञात्वा पतिं निजम् ।।

कृष्णांशाद्यान्मोहितांश्च शंभुमायावशानुगान् । । ।। ११ ७।।

रुरोदोच्चैस्तदा देवीं ध्यायंती कामरूपिणीम् । ।

तदा तुष्टा जगद्धात्री मूर्च्छितांस्तानबोधयत् । । ११८ । ।

ते सर्वे चेतनां प्राप्ताः प्राहुः स्वर्णवतीं मुदा ।।

क्वास्थितो वंधुराह्लादो देवि त्वं कारणं वद। । ११ ९।

यथा बद्धः स्वयं स्वामी कथयामास सा तथा ।।

अहं शुकी भवाम्यद्य भवान्बिंदुलसंस्थितः । ।। 3.3.13.१२ ० ।।

इत्युक्त्वा सा शुकी भूत्वा कृष्णांशेन समन्विता ।।

यत्रास्ते तत्पतिर्बद्धस्तत्र सा कामिनी ययौ ।। १२१ ।।

कृष्णांशोऽपि हयारूढो नभोमार्गेण चाप्तवान् ।।

अभीरीं मूर्तिमासाद्य स्वामिनं प्रति सा ययौ ।। १ २२।।

आश्वास्य तं यथायोग्यं कृष्णांशं प्रत्यवर्णयत् ।।

कृष्णांशस्तत्र बलवान्हत्वा दुर्ग निवासिनः ।। १२३ ।।

रक्षकाञ्छतसाहस्रान्हत्वा भ्रातरमाययौ । ।

पौर्णिमां मधुयुक्तां च ज्ञात्वा सर्वे त्वरान्विताः ।। १२४ ।।

अयोध्यां शीघ्रमागम्य स्नात्वा वै सरयूं नदीम् । ।

होलिकादाहसमये शीघ्रं वेण्यां समागताः ।। १ २५। ।

स्नानध्यानादिका निष्ठाः कृत्वा गेहमुपाययुः ।।

सागरस्य तटं प्राप्य कृत्वा ते च महोत्सवम् । ।

चैत्रस्य कृष्णपञ्चम्यां स्वगेहं पुनराययुः ।। १२६ ।।

दूता उष्ट्रसमारूढास्तत्क्षेमकरणोत्सुकाः । ।

वैशाखे शुक्लपंचम्यां स्वगेहं पुनराययुः ।। १२७ । ।

मलना भूपतिश्चैव गेहेगेहे महोत्सवम् ।।

कारयित्वा विधानेन ब्राह्मणेभ्यो ददौ धनम् । । १२८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रयोदशोऽध्यायः ।। १३ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 14

। । सूत उवाच ।। ।।

चतुर्दशाब्दे कृष्णांशे यथा जातं तथा शृणु ।।

जयन्तः शक्रपुत्रश्च जानकीशापमोहितः ।।

कलौ जन्मत्वमापन्नः स्वर्णवत्युदरेऽवसत् ।। १ । ।

चैत्रशुक्ल नवम्यां च मध्याह्ने गुरुवासरे ।।

स जातश्चन्द्रवदनो राजलक्षणलक्षितः ।। २ । ।

जाते तस्मिन्सुतश्रेष्ठे देवाः सर्षिगणास्तदा ।।

इन्दुलोयं महीं जातो जयन्तो वासवात्मजः ।।

इत्यूचुर्वचनं तस्मादिन्दुलो नाम चाभवत् । । ३ ।।

आह्लादो जातकर्मादीन्कारयित्वा शिशोर्मुदा ।।

ब्राह्मणेभ्यो ददौ स्वर्णधेनुवृन्दं हयान्गजान् ।। ४ ।।

इन्दुले तनये जाते द्विमासांते महीतले ।।

योगसिंहस्तदागत्य स्वर्णवत्यै ददौ धनम् ।।

नेत्रसिंह सुतं दृष्ट्वा मलनास्नेहसंयुता ।।

पप्रच्छ कुशलप्रश्नं भोजयित्वा विधानतः ।। ६ ।।

शतवृन्दाश्च नर्तक्यो नानारागेण संयुताः ।।

तत्रागत्येव ननृतुर्यत्र भूपसुतः स्थितः ।। ७ ।।

सप्तरात्रमुषित्वा स योगसिंहो ययौ गृहम् ।।

षण्मासे च सुते जाते देवेन्द्रः स्नेहकातरः ।। ८ ।।

पुत्रस्नेहेन तं पुत्रं स जहार स्वमायया ।।

संहृत्य बालकं श्रेष्ठमिन्द्राण्यै च समर्पयत् ।। ९ ।।

स्नेहप्लुता शची देवी स्वस्तनौ तमपाययत् ।।

देव्या दुग्धं स वै पीत्वा षोडशाब्दसमोभवत् ।। 3.3.14.१० ।।

इन्दुं पीयूषभवनं गृह्णाति वपुषा स्वयम् ।।

अतः स इन्दुलो नाम जयन्तश्च प्रकीर्तितः ।।

स बालः स्वपितुर्विद्यां पठित्वा श्रेष्ठतामगात् ।। ११ ।।

विनष्टे बालके तस्मिन्देवी स्वर्णवती तदा ।।

रुरोदोच्चैस्तदा दीना हा पुत्र क्व गतोऽसि भोः ।। १२ ।।

ज्ञात्वाह्लादं तथा भूतं दशग्रामे तथाविधे ।।

रौद्रः कोलाहलो जातो रुदतां च नृणां मुने ।। १३ ।।

आह्लादः स्वकुलैः सार्द्धं निराहारो यतेंद्रियः ।।

शारदां शरणं प्राप्तस्त्रिरात्रं तत्र चावसत् ।। १४।।

तदा तुष्टा स्वयं देवी वागुवाचाशरीरिणी ।।

हे पुत्र स्वकुलैः सार्द्धं मा शुचस्त्वं सुतं प्रति ।। ।। १५ ।।

इन्द्रपुत्रो जयन्तश्च स्वर्गलोकमुपागतः ।।

दिव्यविद्यां पठित्वा स त्रिवर्षांते गमिष्यति ।। १६ ।।

यावत्त्वं भूतलेऽवात्सीस्तावत्स भूतले वसेत् ।।

तत्पश्चात्स्वर्गतिं प्राप्य जयन्तो हि भविष्यति ।। १७ ।।

इत्युक्ते वचने देव्या निश्शोकास्ते तदाभवन् ।।

दशग्रामपुरं प्राप्य समूषुर्ज्ञान तत्पराः ।। १८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चय चतुर्दशोऽध्यायः ।। १४ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 15

।। सूत उवाच ।। ।।

इन्दुले स्वर्गसंप्राप्ते ते वीराः शोककातराः ।।

शारदां पूजयामासुः सर्वलोकनिवासिनीम् ।। १ ।।

जप्त्वा सप्तशती स्तोत्रं त्रिसन्ध्यं प्रेमभक्तितः ।।

ध्यानेनानन्दमापन्नास्तदा सप्तशतेहनि ।। २ ।।

सामन्तद्विजपुत्रश्च चामुण्डो नाम विश्रुतः ।।

सोऽष्टवर्षवया भूत्वा पूजयामास चण्डिकाम् ।। ३ ।।

द्वादशाब्दे ततो जाते त्रिचरित्रस्य पाठतः ।।

परीक्षार्थं तु भक्तानां साक्षान्मूर्तित्वमागता ।। ४ ।।

कुंडिकेयं च भो भक्ताः पूरयामि च तामहम् ।।

यूयं तु मनसोपायैः कुरुध्वं पूरणे मतिम् ।। ५ ।।

सुखखानिस्तु बलवान्मधुपुष्पैस्तथा फलैः ।।

कुण्डिकां पूरया मास न पूर्णत्वमुपागता ।।

बलखानिस्तथा मांसैर्मूलशर्मा तु रक्तकैः ।। ६ ।।

देवकी च तदा हव्यैश्चन्दनादिभिरर्चनैः ।।

कुण्डिकां पूरयामास न पूर्णत्वमुपागता ।। ७ ।।

आह्रादश्चैव सर्वांगैरुदयः शिरसा स्वयम् ।।

कुण्डिकां पूरयामास तदा पूर्णत्वमागता ।। ८ ।।

उवाच वचनं देवी स्वभक्तान्भक्तवत्सला ।।

सुखाखाने भवान्वीरो भविष्यति सुरप्रियः ।। ९ ।।

बलखानिर्महावीरो दीर्घे काले स मृत्युभाक् ।।

मूलशर्मा तु बलवान्रक्तबीजो भविष्यति ।। 3.3.15.१० ।।

देवकी च भवेद्देवी चिरकालं स्वलोकगा ।।

आह्लादश्चैव कृष्णांशस्तयोर्मध्ये द्वयं वरम् ।।

एकस्तु देववत्प्रोक्तो बलाधिक्यो द्वितीयकः ।। ११ ।।

निष्कामोऽयं देवसिंहो मृतो मोक्षत्वमाप्नुयात् ।।

इत्युक्त्वान्तर्दधे माता ते सर्वे तृप्तिमागताः ।। १२ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये पञ्चदशोऽध्यायः ।। १५ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 16

।। सूत उवाच ।। ।।

प्राप्ते सप्तदशाब्दे च कृष्णांशे तत्र चाभवत् ।।

शृणु त्वं मुनिशार्दूल दृष्टं यद्योगदर्शनात् ।। १ ।।

रत्नभानौ मृते राज्ञि मरुधन्वमहीपतिः ।।

गजसेनस्तदा विप्र पृथ्वीराजभयातुरः ।। २ ।।

आराध्य पावकं देवं यज्ञध्यानव्रतार्चनैः ।।

द्वादशाब्दं सदाचारः प्रेमभक्त्या ह्यतोषयत् ।। ३।।

तदा प्रसन्नो भगवान्पावकीयं हयं शुभम् ।।

ददौ तस्मै सुतौ चोभौ कन्यां च गजमुक्तिकाम् ।। ४ ।।

पावकास्ते हि चत्वारः समुद्भूता महीतले ।।

अग्निवर्णा महावीराः सर्वलक्षणलक्षिताः ।। ५ ।।

अष्टादशवयोभूताः सर्वे ते मुनिपुंगव ।।

जातमात्रा देवसमाः सर्वविद्याविशारदाः ।। ६ ।।

अष्टादशाब्दवयसा सा कन्या वरवर्णिनी ।।

दुर्गायाश्च वरं प्राप्ता धर्मांशस्त्वां वरिष्यति ।। ७ ।।

शार्दूलवंशी स नृपः कृतवान्वै स्वयंवरम् ।।

नानादेश्या नृपाः प्राप्ताः सुताया रूपमोहिताः ।। ८ ।।

मार्गशीर्षे सिते पक्षे चाष्टम्यां चंद्रवासरे ।।

तस्याः स्वयंवरश्चासीत्सा नृपान्प्रति चाययौ ।। ९ ।।

विद्युद्वर्णं मुखं तस्याश्चंचलायास्तथागतम् ।।

दृष्ट्वा मुमोह धर्मांशो बलखानिर्महीपतिः ।। 3.3.16.१० ।।

सापि दृष्ट्वा च तं वीरं मुमोह गजमुक्तिका ।।

बुद्ध्वा तस्मै ददौ मालां वैजयंती शुभानना ।। ११ ।।

तारकाद्याश्च भूपालाः सर्वशस्त्रास्त्रसंयुताः ।।

रुरुधुः सर्वतो वीरं ते बलात्कन्यकार्थिनः ।। १२ ।।

तथाविधान्नृपान्दृष्ट्वा भूपान्पंचशतान्बली ।।

स शीघ्रं खङ्गमुत्सृज्य शतभूपशिरांस्यहन् ।। ।। १३ ।।

सर्वतो वध्यमानं तं बलखानिं स तारकः ।।

तद्भुजाभ्यां ददौ खड्गं स तदंगे द्विधाभवत् ।। १४ ।।

महीराजसुतो ज्येष्ठो दृष्ट्वा खड्गं तथा गतम् ।।

अपोवाह रणाच्छूरस्तत्पश्चात्ते नृपा ययुः ।। १५ ।।

पराजिते नृपबले बलखानिर्महाबलः ।।

तां कन्यां शिबिकारूढां स्वगेहं सोऽनयद्बली ।। १६ ।।

तां गच्छंतीं सुतां दृष्ट्वा गजसेनो महीपतिः ।।

महीपत्याज्ञया प्राप्तो ज्ञात्वा तं क्षत्रियाधमम् ।। १७ ।।

जंबुकघ्नं महावीरं मायया तममोहयत् ।।

जाते निद्रातुरे वीरे दुर्गायाः शापमोहिते ।। १८ ।।

निगडैस्तं बबंधाशु दृढैर्लोहमयै रुषा ।।

लोहदुर्गं च संप्राप्य ग्रामरूपं महीपतिः ।। १९ ।।

चांडालांश्च समाहूय कठिनांस्तत्रवासिनः ।।

वधायाज्ञापयामास तस्य दंडैरनेकशः ।। 3.3.16.२० ।।

ते रौद्रास्तं समाबध्य ताडयामासुरूज्जिताः ।।

तत्ताडनात्तदा निद्रा तत्रैव विलयं गता ।। २१ ।।

दृष्ट्वा ततस्तु चंडालान्बलखानिरताडयत् ।।

तलमुष्टिप्रहारेण चांडाला मरणं गताः ।। २२ ।।

मृते पंचशते रौद्रे तच्छेषा दुद्रुवुर्भयात् ।।

कपाटं सुदृढं कृत्वा नृपांतिकमुपाययुः ।। २३ ।।

स नृपः कारणं ज्ञात्वा हस्तबद्धो महाबली ।।

उवाच तत्र गत्वासौ वचनं कार्यतत्परः ।।२४।।

भवान्महाबलो वीर चांडालैर्बंधनं गतः ।।

दस्युभिर्लुंठितस्तत्र निद्रावश्यो वनं गतः।।२५।।

मत्सुता भवने प्राप्ता दिष्ट्या त्वं जीवितं गतः ।।

उद्वाह्य मत्सुतां शीघ्रं स्वगेहं यातुमर्हसि ।।

इति श्रुत्वा प्रियं वाक्यं तं प्रशस्य तथाकरोत्।।२६।।

मंडपे वेदकर्माणि विवाहार्थं चकार सः ।।

जातायां मंडपार्चायां पत्रमाह्लादहेतवे ।। २७ ।।

तदाज्ञया लिखित्वासौ गजसेनोऽग्निसेवकः ।।

उष्ट्रारूढं समाहूय शीघ्रं पत्रमचोदयत् ।। २८ ।।

बलखानेर्विवाहोऽत्र भवान्सैन्यसमन्वितः ।।

संप्राप्य योग्यद्रव्याणि भुक्त्वा त्वं तृप्तिमावह ।। २९ ।।

इत्युक्ते निशि जातायां बलखानिर्महाबलः ।।

भोजनं कृतवांस्तत्र विषजुष्टं नृपार्पितम् ।। 3.3.16.३० ।।

गरलं तेन संभुक्तं न ममार वराच्छुभात् ।।

ततः काले च संप्राप्ते दृष्ट्वा मोहत्वमागतम् ।।

पुनर्बबंध निगडैस्ताडयामास वेतसैः ।। ३१ ।।

विषदोषमसृक्द्वारान्निस्सृतं सर्वदेहतः ।।

तदा बुबोध बलवान्भूपतिं प्राह नम्रधीः ।। ३२ ।।

राजन्किमीदृशं जातं त्वत्सैन्यं ताडने रतम् ।।

स आह भो महावीर मत्कुले रीतिरीदृशी ।।

यातनां प्रथमं प्राप्य तदनूद्वाहितो भवेत् ।। ३३ ।।

इत्युक्ते सति भूपाले गजमुक्ता समागता ।।

पितरं प्राह वचनं कोऽयं तत्ताडने गतः ।। ३४ ।।

नृपः प्राह सुते शीघ्रं याहि त्वं निजमंदिरे ।।

कृषिकरोयमायातो द्रव्यार्थं ताडने गतः ।। ३५ ।।

इति श्रुत्वा वचो घोरं बलखानिर्महाबलः ।।

छित्त्वा तद्बंधनं घोरं खड्गहस्तः समाययौ ।। ३६ ।।

शूरान्पंचशतं तं च रुद्ध्वा शस्त्रैः समंततः ।।

प्रजघ्नतस्तु तान्सर्वान्बलखानिर्व्यनाशयत् ।। ३७ ।।

गजसेन सुतो ज्येष्ठः सूर्यद्युतिरुपागतः ।।

बद्ध्वा पुनस्तं बलिनं गर्तमध्ये समाक्षिपत् ।। ३८ ।।

तथा गतं पतिं दृष्ट्वा गजमुक्ता सुदुःखिता ।।

निशि तत्र गता देवी दत्त्वा द्रव्यं तु रक्षकान् ।। ३९।।

पतिं निष्कास्य रुदती व्यजनं पतये ददौ ।।

रात्रौरात्रौ तथा प्राप्ता व्यतीतं पक्षमात्रकम् ।। 3.3.16.४० ।।

एतस्मिन्नंतरे वीरश्चाह्लादः सप्तलक्षकैः ।।

सैन्यैः सहाययौ शीघ्रं श्रुत्वा तत्रैव कारणम् ।। ४१ ।।

बलखानिर्गतो गर्ते रुरोध नगरीं तदा ।।

गजैः षोडशसाहस्रैर्गजसेनो रणं ययौ ।। ४२ ।।

त्रिलक्षैश्च हयैः सार्द्धं सूर्यद्युतिरुपाययौ ।।

कांतामलस्तदा प्राप्तस्त्रिलक्षैश्च पदातिभिः ।। ४३ ।।

तयोश्चासीन्महद्युद्धमहोरात्रं हि सैन्ययोः ।।

रक्षिते तालनाद्ये च गजसेनाद्यके तदा ।। ४४ ।।

द्वितीयेऽह्नि समायाते गजसेनो महाबलः ।।

प्रभग्नं स्वबलं दृष्ट्वा पावकीऽयं समारुहत् ।।

दाहयामास तत्सैन्यं तालनाद्यैश्च पालितम् ।। ४५ ।।

भस्मीभूतं बलं दृष्ट्वा तालनः शत्रुसम्मुखे ।।

गत्वा भल्लेन भूपालं ताडयामास वेगतः ।। ४६ ।।

मूर्छितं नृपमाज्ञाय सूर्यद्युतिरुपाययौ ।।

पावकीयं समारुह्य दाहयामास तालनम् ।। ४७ ।।

एतस्मिन्नंतरे शूरौ देवौ चाह्लादकृष्णकौ ।।

बबन्धतू रुषाविष्टौ सूर्यद्युतिमरिंदमम् ।। ४८ ।।

सुबद्धं भ्रातरं ज्ञात्वा हयं कांतामलोऽरुहत् ।।

देवसिंहं च संमोह्य कृष्णांशं प्रति सोऽगमत् ।।

गृहीत्वा तं स कृष्णांशं तस्य तेजः समाहरत् ।। ४९ ।।

सप्तलक्षबलं सर्वं वह्निभूतमभूत्तदा ।।

अमरत्वात्स आह्लादस्तदा तु समजीवयत् ।। 3.3.16.५० ।।

गजसेनस्यार्द्धसैन्यं तैश्च सर्वैर्विनाशितम् ।।

विजयं नृपतिः प्राप्य हर्षितो गेहमाययौ । ५१ ।।

वह्निभूतं च कृष्णांशं दृष्ट्वाह्लादः सुदुःखितः ।।

दुर्गां देवीं स तुष्टाव मनसा रणमूर्द्धनि ।। ५२ ।।

तदा देवी वचः प्राह वत्स ते पुत्र एव च ।।

स्वर्गादागत्य सर्वाणि पुनरुज्जीवयिष्यति ।। ५३ ।।

इत्युक्ते वचने देव्या इन्दुलो वासवाज्ञया ।।

द्वादशाब्दसमं रूपं धृत्वा विद्याविशारदः ।।

वडवामृतमारुह्य हयं तत्र समागतः ।। ५४ ।।

तदङ्गादुद्धृता वाहा मेघा इव समन्ततः ।।

पावकं शमयामासुस्त्रयस्ते देवतोपमाः ।। ५५ ।।

शमीभूते तदा वह्नौ स्वमुखात्सहयो मुदा ।।

लालामुद्वाहयामास तया ते जीवितास्ततः ।। ५६ ।।

जीविते सप्तलक्षे तु शमीभूते हि पावके ।।

गजसेनः सुताभ्यां च प्रयातः सर्वतोदिशम् ।। ५७ ।।

लक्षं सैन्यं तु ये शिष्टास्ते सर्वेऽपि भयातुराः ।।

दुद्रुवुर्भार्गवश्रेष्ठ दिव्यरूपत्वधारिणः ।। ५८ ।।

केचित्संन्यासिनो भूत्वा केचिद्वै ब्रह्मचारिणः ।।

जीवत्वं प्राप्तवन्तस्ते तथान्ये संक्षयं गताः ।। ५९ ।।

बद्ध्वा तान्गजसेनादींस्त्रीञ्छूरान्स च तालनः ।।

कृष्णांशेन समायुक्त इंद्रदुर्गं समाययौ ।। 3.3.16.६० ।।

बलखानिं च निष्कास्य तालनस्तदनंतरम् ।।

पृष्टवान् कारणं सर्वं श्रुत्वा तन्मुखतो वचः ।।

तान्वीरांस्ताडयामास वेतसैः स्तंभबंधनैः ।। ६१ ।।

गजमुक्ताज्ञया विप्र सेनापतरिरुदारधीः ।।

तालनस्तान्समुत्सृज्य विवाहार्थं समाययौ ।।

बलखानिर्हयारूढो गजमुक्ता च मंडपे ।। ६२ ।।

गजसेनस्तदा दिव्यैर्भोजनैस्तानभोजयत् ।।

निवास्य लोहदुर्गे तान्कपाटः सुदृढीकृतः ।।

लक्षशूरान्स संस्थाप्य स्वयं रुद्रपुरं ययौ ।।६३।।

ते रात्रौ लोहदुर्गेषु ह्युषित्वा यत्नतो बलात् ।।

प्रभाते च कपाटे न द्वारं दृष्ट्वा तदाब्रवीत् ।।

द्वारमुद्घाटयाशु त्वं नो चेत्प्राणांस्त्यजिष्यसि ।। ६४ ।।

इति सेनापतिः श्रुत्वा लक्षशूरान्समादिशत् ।।

नानायत्नैश्च हंतव्याः शत्रवो भयकारिणः ।। ६५ ।।

इति श्रुत्वा तु ते शूराः शतघ्न्यस्तैः सुरोपिताः ।।

एकैकं क्रमशो जघ्नुर्वृंदं ते वैरतत्पराः ।। ६६ ।।

हते दशसहस्रे तु कृष्णांशो बिंदुलं हयम् ।।

समारुह्य जघानाशु स्वखड्गेन महद्बलम् ।। ६७ ।।

हतशेषा भयार्ताश्च सहयाशीतिसम्मिताः ।।

इंद्रदुर्गं प्रति प्राहुर्यथा जातो बलक्षयः ।। ६८ ।।

श्रुत्वा भयातुरो राजा स्वसुताभ्यां समन्वितः ।।

गजमुक्तां पुरस्कृत्य वहुद्रव्यसमन्विताम् ।।

स्वपापं क्षालयामास दत्त्वा कन्यां विधानतः ।। ६९ ।।

षोडशोष्ट्राणि स्वर्णानि गृहीत्वाह्लाद एव सः ।।

ययौ स्वगेहं सहितः पुत्रभ्रातृसमन्वितः ।। 3.3.16.७० ।।

संप्राप्ते गेहमाह्लादे देवी स्वर्णवती स्वयम् ।।

इन्दुलं स्वांकमारोप्य ललाप करुणं बहु ।। ७१ ।।

मृताहं च त्वया पुत्र पुनरुज्जीविता खलु ।।

धन्याहं कृतकृत्यास्मि जयन्त तव दर्शनात् ।।७२।।

इति श्रुत्वेन्दुलो वीरो नत्वाह जननीं मुदा।।

अनृणं नाधिगच्छामि त्वत्तो मातः कदाचन।।७३।।

संप्राप्ते गेहमाह्लादे राजा परिमलः सुधीः ।।

वाद्यानि वादयामास विप्रेभ्यश्च ददौ धनम्।। ७४।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापपरपर्याये कलियुगीयेतिहाससमुच्चये षोडशोऽध्यायः ।। १६ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 17

।। सूत उवाच ।। ।।

कृष्णांशेऽष्टादशाब्दे तु यथाजातं तथा शृणु ।।

मृते कृष्णकुमारे तु भूपतौ रत्नभानुना ।। १ ।।

महीराजः सुदुःखार्तो लक्षचंडीमकारयत् ।।

होमान्ते तु तदा देवी वागुवाच नृपं प्रति ।। २ ।।

वर्षेवर्षे तु ते सप्त भविष्यंत्यंगसम्भवाः ।।

कुमाराः कौरवांशाश्च द्रौपद्यंशा सुता नृप ।। ३ ।।

इत्युक्ते वचने तस्मिन्राज्ञी गर्भमथो दधौ ।।

कर्णांशश्च सुतो जातस्तारको बलवत्तरः ।। ४ ।।

द्वितीयाब्दे तथा जाते दुश्शासनशुभांशतः ।।

नृहरिरिति विख्यातस्तृतीयाब्दे तु चाभवत् ।। ५ ।।

उद्धर्षांशः सरदनो दुर्मुखांशस्तु मर्दनः ।।

विकर्णांशः सूर्य्यकर्मा भीमश्चांशो विविंशतेः ।। ६ ।।

वर्द्धनश्चित्रबाणांशो वेला तदनु चाभवत् ।।

यथा कृष्णा तथा सैव रूपचेष्टागुणैर्मुने ।। ७ ।।

भुवि तस्यां च जातायां भूकम्पो दारुणोऽभवत् ।।

अट्टाट्टहासमशिवं चामुंडा खे चकार ह ।।

रक्तवृष्टिः पुरे चासीदस्थिशर्करया युता ।। ८ ।।

ब्राह्मणाश्च समागत्य जातकर्मादिकां क्रियाम् ।।

कृत्वा नाम तथा चक्रे शृणु भूमिप साक्षरम् ।। ९ ।।९।।

इला च शशिनो माता विकल्पेनाऽभवद्भुवि ।।

तस्माद्वेलेति विख्याता कन्येयं रूपशालिनी ।। 3.3.17.१० ।।

जातायां च सुतायां स पिता विप्रेभ्य उत्तमम् ।।

ददौ दानं मुदा युक्तो वासांसि विविधानि च ।। ११ ।।

द्वादशाब्दवयः प्राप्ते सा सुता वरवर्णिनी ।।

उवाच पितरं नम्रा शृणु त्वं पृथिवीपते ।। १२ ।।

मंडपे रक्तधाराभिर्यो मां संस्नापयिष्यति ।।

द्रौपद्या भूषणं दाता स मे भर्ता भविष्यति ।।१३।।

स्वर्णपत्रे तदा राजा पद्यं वेलामुखोद्भवम् ।।

लिखित्वा तारकं प्राह त्वमन्वेषय तत्पतिम् ।। १४ ।।

सार्द्धं लक्षत्रयं द्रव्यं गृहीत्वा लक्षसैन्यकः ।।

नृपान्तरं ययौ शीघ्रं तारकः पितुराज्ञया ।। १५।।

सिंधुस्थाने चार्यदेशे भूपं भूपं ययौ बली ।।

न गृहीतं नृपैः केश्चित्तद्वाक्यं घोरमुल्बणम् ।।

महीपतिं स संप्राप्य मातुलं तद्वचोऽब्रवीत् ।। १६ ।।

श्रुत्वा स आह भो वीर ब्रह्मानन्दो महाबलः ।।

स च वाक्यं प्रगृह्णीयादाह्लादाद्यैः सुरक्षितः ।। १७ ।।

किं त्वया विदितं नैव चरितं तस्य विश्रुतम् ।।

भवान्षड्बंधुसहितः कृष्णांशाद्यैर्विवाहितः ।। १८ ।।

ते सर्वे वशगास्तस्य ब्रह्मानंदस्य धीमतः ।।

नास्ति भूमंडले कश्चित्तद्बलेन समो नृपः ।। १९ ।।

इति श्रुत्वा ययौ तूर्णं तारकः स्वबलैः सह ।।

तत्पद्यं कथयित्वाग्रे हस्तबद्धस्तदाभवत् ।। 3.3.17.२० ।।

कृष्णांशस्तु गृहीत्वाशु पद्यं वाक्यमुवाच ह ।।

अहं विवाहयिष्यामि ब्रह्मानंदं नृपोत्तमम् ।। २१ ।।

तूष्णीं भूतास्तदा सर्वे तारकः स द्विजैः सह ।।

अभिषेकं तदा कृत्वा स्वगेहं पुनराययौ ।। २२ ।।

माघमासे सिते पक्षे त्रयोदश्यां सुवासरे ।।

विवाहलग्नं शुभदं वरकन्यार्थयोस्तदा ।। २३ ।।

सप्तलक्षबलैः सार्द्धं लक्षणश्च सतालनः ।।

महावतीं पुरीं प्राप्तो बली परिमलादिभिः ।। २४ ।।

आह्लादो लक्षसैन्याढ्यः कृष्णांशेन समन्वितः ।।

बलखानिर्लक्षसैन्यः संयुतः सुखखानिना ।। २५ ।।

नेत्रसिंहो लक्षसैन्यो योगभोगसमन्वितः ।।

रणजिच्च बली बालो द्विलक्षबलसंयुतः ।। २६ ।।

एवं द्वादशलक्षाणां सैन्यानामधिपो बली ।।

तालनः सिंहिनीसंस्थो वडवां प्रययौ सह ।। २७ ।।

सैन्यैर्द्वादशलक्षैश्च सहितस्तालनो बली ।।

आययौ देहलीग्रामे महीराजानुपालिते ।। २८ ।।

देवो मनोरथारूढो विंदुलस्थः स कृष्णकः ।।

वडवामृतमासाद्य स्वर्णवत्याः सुतो गतः ।। ।। २९ ।।

रूपणश्च करालस्थ आह्लादश्च पपीहके ।।

बलखानिः कपोतस्थो हरिणस्थोऽनुजस्ततः ।। 3.3.17.३० ।।

रणजिन्मलनापुत्रः संस्थितो हरिनागरे ।।

पञ्चशब्दगजारूढो महावत्यधिपो गतः ।। ३१ ।।

विमानवरमारुह्य धीवरैः शतवाहिकैः ।।

मणिमुक्तास्वर्णमयं सहस्रैर्वाद्यकैर्युतम् ।। ३२ ।।

अयुतैश्च पताकैश्च वेत्रपाणिसहक्रकैः ।।

सहस्रैः शिबिकाभिश्च पञ्चसाहस्रकै रथैः ।। ३३ ।।

शकटैर्महिषोढैस्तु तथा पञ्चसहस्रकैः ।।

सर्वतोपस्कृतं रम्यं ब्रह्मानंदं समागतः ।। ३४ ।।

श्रुत्वा कोलाहलं तेषां महीराजो नृपोत्तमः ।।

विस्मितः स बभूवात्र शिबिराणि मुदा ददौ ।। ३५ ।।

दुर्गद्वारि क्रियां रम्यां कृत्वा विधिविधानतः ।।

द्रौपद्या भूषणं देहि वेलायै स तमब्रवीत् ।। ३६ ।।

इन्दुलस्तु ययौ स्वर्गं वासवं प्रति चाब्रवीत् ।।

द्रौपद्या भूषणं सर्वं देहि मह्यं सुरोत्तम ।। ३७ ।।

कुबेरात्स समानीय दिव्यमाभूषणं ददौ ।।

इन्दुलः प्रहरान्ते च प्राप्तः पित्रे न्यवेदयत् ।। ३८ ।।

आह्लादस्तु स्वयं गत्वा वेलाये भूषणं ददौ ।।

प्राप्ते ब्राह्मे मुहूर्ते तु विवाहस्तत्र चाभवत् ।। ३९ ।।

संप्राप्ते प्रथमावर्ते तारकः खड्गमाददौ ।।

आह्लादस्तं समासाद्य युयुधे बहुलीलया ।। 3.3.17.४० ।।

नृहरिस्तु द्वितीये च कृष्णांशं प्रति चारुधत् ।।

तथा सरदनं वीरं बलखानिरुपाययौ ।। ४१ ।।

मर्दनं सुखखानिस्तु चतुर्थावर्तकेऽरुधत् ।।

रणजित्सूर्यवर्माणं स भीमं रूपणो बली ।।

देवस्तु वर्धनं वीरं सप्तावर्ते क्रमाद्ययौ ।। ४२ ।।

शतभूपान्खड्गधरान्गजसेनादिकांस्तदा ।।

लक्षणाद्याः समाजग्मुर्मंडपे बहुविस्तते ।। ४३ ।।

भग्नभूतं नृपबलं दृष्ट्वा राजा रुषान्वितः ।।

महीराजो ययौ रूढो गजं चारिभयंकरम् ।। ४४ ।।

जित्वा तान्नेत्रसिंहादीञ्छब्दवेधी नृपोत्तमः ।।

लक्षणं प्रययौ शीघ्रं बौद्धिनीं हस्तिनीं स्थितम् ।। ४५ ।।

शिवं मनसि संस्थाप्य जित्वा बद्ध्वा रुषान्वितः ।।

अगमत्तमुपगृह्य दर्शयामास तं नृपम् ।। ४६ ।।

श्रुत्वा परिमलो राजा कृष्णांशं भीरुको ययौ ।।

वृत्तान्तं कथयामास चाह्रादादिपराजयम्।। ४७ ।।

अजितः स च कृष्णांशो नभोमार्गेण मंदिरम् ।।

गत्वा जगर्ज बलवान्योगिन्यानंददायकः ।। ४८ ।।

तदा स लक्षणो वीरस्त्यक्त्वा बंधनमुत्तमम् ।।

विष्णुं मनसि संस्थाप्य महीराजं समाययौ ।। ४९ ।।

गृहीत्वा चागमां दोलां स्वयं शिबिरमाप्तवान् ।। 3.3.17.५० ।।

एतस्मिन्नंतरे सर्वे त्यक्त्वा मूर्च्छां समंततः ।।

खड्गयुद्धेन ताञ्जित्वा बद्ध्वा तान्निगडैर्दृढैः ।। ५१ ।।

सान्वयाञ्छतभूपांश्च हत्वा तद्रुधिरावहैः ।।

द्रौपदीं स्नापयामासुर्वेलारूपां कलोत्तमाम् ।। ५२ ।।

विवाहान्ते च ते सर्वे शिबिराणि समाययुः ।।

समुत्सृज्य सुतान्सप्त सुभोज्यैस्ते ह्यभोजयन् ।। ५३ ।।

भुक्तवत्सु सुवीरेषु साहस्रास्तैः सुतैः सह ।।

रुरुधुः सर्वतो जघ्नुरस्त्रशस्त्रैः समंततः ।। ५४ ।।

सहस्रशूरांस्तान्हत्वा पुनर्बद्ध्वा महाबलान् ।।

शिबिराणि समाजग्मुस्तेषां हास्यविशारदाः ।। ५५ ।।

दशलक्षसुवर्णानि गृहीत्वा नृपतिर्बली ।।

वेलां नवोढामादाय गत्वा नत्वा तमब्रवीत् ।। ५६ ।।

प्रद्योतसुत हे राजँल्लक्षणोऽसौ महाबलः ।।

मम पत्नीं समादाय दासीं कर्तुं समिच्छति ।। ५७ ।।

इति श्रुत्वा परिमलः सर्व भूपसमन्वितः ।।

बहुधा बोधितश्चैव न बुबोध तदा नृपः ।। ५८ ।।

तदा महासती वेला विललाप भृशं मुहुः ।।

तच्छुत्वा स च कृष्णांशः सहितो बलखानिना ।।

तामाश्वास्य तदा वेलां नभोमार्गेण चाययौ ।।५९।।

लक्षणं तर्जयित्वासौ गृहीत्वा चागमन्मुदा।।

नभोमार्गेण गेहे तं कृष्णांशः समपेषयत् ।। 3.3.17.६० ।।

पुनस्त्यक्त्वा सप्त सुतान्सहितान्नृपतेस्तु ते ।।

शपथं कारयामासुर्दंभं प्रति महाबलाः ।।

उषित्वा दशरात्रांते दध्युर्गंतुमनो मुने ।।६१।।

महीराजस्तु बलवान्गृहीत्वा भूपतेः पदौ ।।

स उवाचाश्रुपूर्णाक्षस्तदा परिमलं नृपम् ।। ६२ ।।

महाराज वधूस्ते च वेलेयं द्वादशाब्दिका ।।

पितृमातृवियोगं च न क्षमंती तु बालिका ।। ६३ ।।

तस्मात्तां त्वं परित्यज्य गच्छ गेहं सुखी भव ।।

पतियोग्या यदा भूयात्तदा त्वां पुनरेष्यति।।६४।।

इत्यु्क्त्वा च वचो राजा स स्नेहादंकमस्पृशत्।।

चूर्णीभूते परिमले चाह्लादस्तत्र दुःखितः।।

महीराजं स पस्पर्श स राजा चूर्णतां गतः।। ६५।।

भग्नास्थी भूपती चोभौ पावकीयैश्चिकित्सकैः।।

सुखवंतौ गृहं प्राप्य कृतकृत्यत्वमागतौ।।६६।।

मलना स्वसुतं दृष्ट्वा प्राप्तमुद्वाहितं गृहे ।।

कृत्वोत्सवं बहुविधं विप्रेभ्यश्च ददौ धनम् ।।

होमं वै कारयामास चंडिकायाः प्रसादतः ।। ६७ ।।

सभायां लक्षणो वीरो यात्राकाले तमब्रवीत् ।।

अगमा जयचन्द्राय मत्वा जित्वा हृतां तु ताम् ।।

नभोमार्गेण संप्राप्तौ योगिनौ च शिवाज्ञया।।६८।।

जहतुस्तौ च मां जित्वा तत्तीक्ष्णभय मोहितम् ।।

अद्याहं धाम गच्छामि चिरं जीव नृपोत्तम ।।

इत्युक्तवंतं तं नत्वा ययुर्भूपाः स्वमालयम् ।। ६९ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्तदशोऽध्यायः ।। १७ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 18

।। सूत उवाच ।। ।।

विंशाब्दे चैव कृष्णांशे यथा जातं तथा शृणु ।।

सागराख्यसरस्तीरे कदाचिदिंदुलो बली ।।

जप्त्वा सप्तशतीस्तोत्रं तत्र ध्यानान्वितोऽभवत् ।।१।।

एतस्मिन्नंतरे हंसा आकाशाद्भू मिमागताः ।।

तेषां च रुतशब्दैश्च स ध्यानादुत्थितोऽभवत् ।। २ ।।

वक्ष्यमाणं वचः प्राहुर्धन्योऽयं दिव्यविग्रहः ।।

पर्वतानां हिमगिरिर्वनं वृंदावनं तथा ।। ३ ।।

महावती पुरीणां च सागरः सरसामपि ।।

नारीणां पद्मिनी नारी नृणां श्रेष्ठस्त्वमिंदुलः ।। ४ ।।

भो इन्दुल महाप्राज्ञ मानसे सरसि स्थिताः ।।

वयं श्रुत्वा श्रियो वाक्यं नलिनी सागरं गताः ।। ५ ।।

दृष्ट्वा तत्र शुभां नारीं सर्वाभरणभूषिताम् ।।

सप्तालिभिर्युतां रम्यां गीतनाट्य विशारदाम् ।। ६ ।।

दृष्ट्वा मोहत्वमापन्ना वयं देशान्तरं गताः ।।

विलोकिता नराः सर्वेऽत्रास्माभिर्जगतीतले ।।

त्वत्समो न हि कोऽप्यत्र पद्मिनी सदृशो वरः ।। ७ ।।

तस्मात्त्वं नः समारुह्य तां देवीं द्रष्टुमर्हसि ।।

तथेत्युक्त्वा शक्रसुतो हंसराजं समारुहत् ।। ८ ।।

सिंहलद्वीपके रम्ये ह्यार्यसिंहो नृपः स्थितः ।।

तत्सुता पद्मिनी नाम्ना रूपयौवनशालिनी ।।

रागिण्यः सप्त विख्यातास्तत्सख्यः प्रमदोत्तमाः ।। ९ ।।

नलिनीसागरे रम्ये गिरिजामंदिरं शुभम् ।।

तत्र स्थितां च तां देवीमिन्दुलः स ददर्श ह ।। 3.3.18.१० ।।

सापि तं सुन्दरं दृष्ट्वा हंसदेहे समास्थितम् ।।

संमोह्याहूय तं देवं तेन सार्द्धमरीरमत् ।।११।।

वर्षमेकं ययौ तत्र नानालीलासु मोहितः ।।

नक्तं दिवं न बुबुधे रममाणस्तया सह ।। १२।।

भक्तिगर्वत्वमापन्ने चाह्लादे जगदंबिका ।।

दृष्ट्वा चान्तर्दधे देवी गर्वाचरणकुंठिता ।। १३ ।।

तस्य प्राप्तं महद्दुःखमाह्लादस्य जयैषिणः ।।

स कैश्चित्पुरुषैर्वीरः कथितोऽभूत्स्व मंदिरे ।। १४ ।।

इन्दुलं रूपसम्पन्नं लंकापुरनिवासिनः ।।

राक्षसास्तं समाहृत्य स्वगेहं शीघ्रमाययुः ।। १५ ।।

इति श्रुत्वा वचो घोरं सकुलो विललाप ह ।।

हाहाशब्दो महांश्चासीत्तेषां तु रुदतां मुने ।। १६ ।।

कृष्णांशो रुदितं प्राहाह्लादं ज्येष्ठं शृणुष्व भोः ।।

जित्वाहं राक्षसान्सर्वांस्तालनाद्यैः समन्वितः ।।

इंदुलं त्वां समेष्यामि भवान्धैर्यपरो भवेत् ।।१७।।

बलखानिश्च कृष्णांशो देवसिंहश्च तालनः ।।

सप्तलक्षबलैः सार्द्धं लकां प्रति ययुर्मुदा ।। १८ ।।

मार्गप्राप्ताश्च ये भूपा ग्रामपा राष्ट्रपास्तथा ।।

यथायोग्य बलिं रम्यं प्राप्य तस्मै न्यवेदयन् ।।१९।।

ये भूपा मदमत्ताश्च जित्वा तांस्तालनो बली ।।

बद्ध्वा तैश्च समागच्छत्सेतुबंधं शिवस्थलम् ।।3.3.18.२०।।

पूजयित्वा च रामेशं रामेण स्थापितं शिवम् ।।

सिंहलद्वीपमगन्षण्मासाभ्यंतरे तदा ।।२१।।

नलिनीसागरं प्राप्य तत्र वासमकारयन् ।।

पत्रं संप्रेषयामास बलखानिर्नृपाय च ।।२२।।

आर्य्यसिंह महाभाग स्वपोतान्देहि तीर्णकान् ।।

भवाँश्च स्वबलैः सार्द्धं लंकां प्रति व्रजाधुना ।।

नो चेत्त्वां सबलं जित्वा राष्ट्रभंगं करोम्यहम् ।।२३।।

इति श्रुत्वा पत्रवचो भूपतिर्बलवत्तरः ।।

रक्षितः शक्रपुत्रेण युद्धाय समुपाययौ ।।२४।।

इन्दुलः स्तंभनं मंत्रं संस्थाप्य शर उत्तमे ।।

स्तंभयामास तत्सैन्यं तालनाद्यैः सुरक्षितम् ।। ।।२५।।

दिवसे सुखशर्मा च त्रिलक्षैः स्वदलैः सह ।।

आर्य्यसिंहस्य तनयो महद्युद्धमचीकरत् ।। २६ ।।

निशामुखे च संप्राप्ते शक्रपुत्रो महाबलः।

शतपुत्रैः क्षत्रियाणां सार्द्धं युद्धाय चाययौ ।।२७।।

तेषां हया हरिद्वर्णा योगिवेषधरा बलात् ।।

महतीं ते सहस्रं च रिपोः सेनां व्यनाशयत् ।।

तत्पश्चाद्गेहमासाद्य तदा तैः सुखितोऽवसत् ।। २८ ।।

एवं जाताश्च षण्मासास्तयोर्युद्धं हि सेनयोः ।।

क्रमेण संक्षयं प्राप्तं बलखानेर्महद्बलम् ।। २९ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टादशोऽध्यायः ।। १८ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 19

।। सूत उवाच ।। ।।

दृष्ट्वा सैन्यनिपातं च बलखानिर्महाबलः ।।

संप्राप्य मानसीं पीडां युद्धार्थं विमुखोऽभवत् ।।१।।

देवसिंहं समाहूय त्रिकालज्ञं महामतिम् ।।

तं मंत्रं मंत्रयामास कार्यसिद्धिर्यथा भवेत् ।।

श्रुत्वोवाच महायोगी देवसिंहो महाबलः ।।२।।

महेंद्रतनयः कश्चित्सर्वशस्त्रास्त्रकोविदः ।।

त्वत्सैन्यं रोधयित्वा वै दिव्यास्त्रेण दिवामुखे ।।

रात्रौ स्वयं समागम्य करोति बलसंक्षयम् ।।३।।

अतस्त्वं मत्सहायेन तालनेन समन्वितः ।।

कृष्णांशेन समागम्य शक्र पुत्रं शुभाननम् ।।

विजयी भव शीघ्रं हि नो चेद्यायां यमक्षयम् ।।४।।

इति श्रुत्वा वचस्तस्य देवसिंहस्य भाषितम् ।।

यत्नं चकार बलवान्भ्रातृमित्रसमन्वितः ।।।।

एकविंशाब्दकृष्णांशे संप्राप्ते युद्धकोविदे ।।

सेनां निवेशयामास पोतेषु हयवाहनः ।।६।।

अर्द्धं सैन्यं च तत्रैव स्थापयित्वा महाबलः ।।

अर्द्धसैन्येन कृष्णांशो दक्षिणां दिशमागमत् ।। ७ ।।

हयारूढाश्च ते शूराः सर्वे युद्धसमन्विताः ।।

कपाटं दृढमुद्घाट्य नगरान्तमुपाययुः ।।८।।

हत्वा ते रक्षिणः सर्वाँल्लुंठयित्वा पुरं शुभम् ।।

रिपोर्दुर्गं समासाद्य चक्रुः शत्रोर्महाक्षयम् ।। ९ ।।

राज्ञोऽन्तः पुरमागत्य कृष्णांशो बलवत्तरः ।।

ददर्श सुन्दरीं बालां पद्मिनीं पद्मलोचनाम् ।।

सप्तालिभिर्वृतां रम्यां गीतनृत्यविशारदाम् ।। 3.3.19.१० ।।

बलाद्दोलां समारोप्य लुंठयित्वा रिपोर्गृहम्।।

जगाम शिविरे तस्मिन्यत्र जातो महारणः ।। ११ ।।

बलखानिस्तु बलवान्देवतालनसंयुतः ।।

जघान शात्रवीं सेनामिन्दुलास्त्रेण पालिताम् ।। १२ ।।

सुखवर्माणमागत्य सेनाध्यक्षं रिपोः सुतम् ।।

सर्वतस्तं स्वकीयास्त्रैर्जघ्नुस्ते मदविह्वलाः ।। १३ ।।

हते तस्मिन्महावीर्ये जयन्तः क्रोधमूर्च्छितः ।।

सेनामुज्जीवयांचक्रे शक्रपुत्रः प्रतापवान् ।। १४ ।।

श्यालं च सुखवर्माणं संजीव्य स्वगृहं ययौ ।।

तत्र दृष्ट्वा जनान्सर्वान्बहुरोदनतत्परान् ।। १५ ।।

विस्मितः स ययौ गेहं यथा पूर्वं तथाविधः ।।

न ददर्श प्रियां तत्र सखीभिः सहितां मुने ।। १६ ।।

आर्य्यसिंहगृहं गत्वा पृष्टवान्सर्वकारणम् ।।

ज्ञात्वा संलुठितं गेहं शत्रुभिः शस्त्रकोविदैः ।। १७ ।।

रुरोद सुभृशं वीरो हा प्रिये मदविह्वले ।।

दर्शयाद्य मुखं रम्यं त्वत्पतिस्त्वां समुत्सुकः ।।१८।।

इत्येवं रोदनं कृत्वा वडवोपरि संस्थितः ।।

धनुस्तूणीरमादाय खड्गं शत्रुविमोहनम् ।।

एकाकी स ययौ क्रुद्धो निशि यत्र स्थितो रिपुः ।। १९ ।।

एतस्मिन्समये वीरो बलखानिर्महाबलः ।।

दृष्ट्वा तां सुन्दरीं बालां विललाप भृशं मुहुः ।। 3.3.19.२० ।।

हा इन्दुल महावीर हा मद्बंधो प्रियंकर ।।

त्वद्योग्येयं शुभा नारी रूपयौवनशालिनी।।२१।।

दर्शनं देहि मे शीघ्रं गृहाणाद्य शुभाननाम् ।।

इत्युक्त्वा मूर्च्छितो भूत्वा मानसे पूजयञ्छिवाम् ।।२२।। ।

तस्मिन्काले च संप्राप्तः शक्रपुत्रो महाबलः।।

जघान शात्रवीं सेनां कृष्णांशेनैव पालिताम् ।। २३ ।।

दृष्ट्वा सैन्यनिपातं च तालनो वाहिनीपतिः।। ।

सिंहनादं ननादोच्चैः सिंहिन्युपरि संस्थितः ।। २४ ।।

न जयः सैन्यनाशेन तव वीर भविष्यति ।।

मां हत्वा जहि मत्सैन्यं योगिन्बालस्वरूपक ।। ।।।२५।।

इति श्रुत्वा वचस्तस्य शक्रपुत्रो भयंकरः ।।

जघान हृदये बाणान्स तु खड्गेन चाच्छिनत् ।।

स्वभल्लेन पुनर्वीरो दंशयामास वक्षसि ।।२६।।

इंदुले मूर्छिते तस्मिन्वडवा दिव्यरूपिणी ।।

आकाशोपरि संप्राप्य जयन्तं समबोधयत् ।।२७।।

तदा स बालस्त्वरितः कालास्त्रं चाप आदधे।।

तेन जातो महाञ्छब्दस्तालनः स ममार ह ।। २८ ।।

मृते सेनापतौ तस्मिन्कृष्णांशो मदविह्वलः ।।

नभोमार्गेण संप्राप्य जगर्ज्ज च मुहुर्मुहुः ।। २९ ।।

इन्दुलः क्रोधताम्राक्षस्त्वाग्नेयं शरमाददे ।।

वह्निभूतं नभस्तत्र स्वयोगेन महाबलः ।।

कृत्वा शीघ्रं ययौ शत्रुं स तु वायव्यमादधे ।। 3.3.19.३० ।।

स्वयोगेनैव कृष्णांशः पीत्वा वायव्यमुत्तमम् ।।

पुनर्जगाम तत्पार्श्वं कलैकः स हरेः स्वयम् ।।३१।।

तथाविधं रिपुं दृष्ट्वा शक्रपुत्रो महाबलः ।।

गंधर्वास्त्रं समादाय मोहनायोपचक्रमे ।। ३२ ।।

पुनर्योगबलेनैव तदस्त्रं संक्षयं गतम् ।।

वारुणं शरमादाय तस्योपरि समाक्षिपत् ।। ३३ ।।

स्वयोगेनैव कृष्णांशो जलं सर्वं मुखेऽकरोत् ।।

एवं सर्वाणि चास्त्राणि पीत्वा पीत्वा पुनःपुनुः ।।३४।।

ययौ शीघ्रं प्रसन्नात्मा बाहुशाली यतेन्द्रियः ।।

इंदुलस्तु तदा क्रुद्धोऽश्विनीं त्यक्त्वा भुवि स्थितः ।।

चर्म खड्गं गृहीत्वाशु खड्गयुद्धमचीकरत् ।।३५।।

एतस्मिन्नंतरे प्राप्ता देवाद्याः सर्वभूमिपाः ।।

ददृशुस्तन्महद्युद्धं सर्वविस्मयकारणम् ।। ३६ ।।

प्रातःकाले च संप्राप्ते बलखानिर्महाबलः ।।

ददर्श वालकं रम्यं जटाजिनसमन्वितम् ।। ३७ ।।

श्रमेण कर्शितो वीरः शक्रपुत्रः प्रतापवान् ।।

बलखानेः पितुर्बन्धोः शपथं कृतवान्स्वयम् ।। ३८ ।।

स्वखड्गेनैव कृष्णांश शिरस्तव हराम्यहम् ।।

नो चेन्मे दूषिता माता नाम्ना स्वर्णवती सती ।।

इत्युक्त्वा खड्गमादाय ययौ शीघ्रं रुषान्वितः ।। ३९ ।।

बलखानिस्तु तं ज्ञात्वा त्यक्त्वास्त्रं प्रेमकातरः ।।

पुत्रांतिकमुपागम्य वचनं चेदमब्रवीत् ।। 3.3.19.४० ।।

हे इन्दुल महाभाग पितृमातृयशस्कर ।।

आह्लादप्राणसदृश स्वर्णवत्यंगमानस ।। ४१ ।।

पूर्वं हत्वा च मां वीर स्वपितृव्यं ततः पुनः ।।

तथैवोदयसिंहं च देवसिंहं तथा कुलम् ।।

सुखी भव महावीर गेहे वै सुखवर्मणः ।। ४२ ।।

इति श्रुत्वा वचस्तस्य ज्ञात्वा च स्वकुलं शिशुः ।।

त्यक्त्वा खड्गं पतित्वा च स्वपितृव्यस्य पादयोः ।।

कृतवान्रोदनं गाढमपराधनिवृत्तये ।। ४३ ।।

उवाच मधुरं वाक्यं शृणु तात मम प्रिय ।।

नारीयं दूषिता वेदैर्नृणां मोहप्रदायिनी ।। ४४ ।।

देवो वा मानुषो वापि पन्नगो वापि दानवः ।।

आर्य्य नारीमयैर्जालैर्बन्धनाय समुद्यतः ।।४५।।

सोहमाजन्मशुद्धस्य पितुराह्लादकस्य च ।।

गेहे जातो जयन्तश्च शक्रपुत्रः स्वयं विभो ।। ४६ ।।

पद्मिन्या जनितं मोहं गृहीत्वा ज्ञातवान्न हि ।।

क्षमस्व मम मन्दस्य शेषमज्ञानजं पितुः ।। ४७ ।।

इत्युक्त्वा स पुनर्बालो रुरोद स्नेहकातरः ।।

सेनामुज्जीवयामास तालनं च महाबलम् ।।४८।।

इति श्रुत्वा वचस्तस्य कृष्णांशो वचनं शिशोः ।।

परमानन्दमागम्य हृदये तमरोपयत्।।

उत्सवं कारयामास तत्र देशे जनेजने ।।४९।।

आर्य्यसिंहस्तु तच्छ्रुत्वा नानाद्रव्यसमन्वितः ।।

ददौ कन्यां विधानेन पद्मिनीमिंदुलाय वै ।।3.3.19.५०।।

शतं हयांस्तथा नागान्मुक्तामणि विभूषितान् ।।

कन्यार्थे तान्ददौ राजा जामात्रे बहुभूषणम् ।।५१।।

प्रस्थानमकरोत्तेषां स प्रेम्णा वाक्यगद्गदः ।।

ते तु सर्वे मुदा युक्ताः स्वगेहं शीघ्र माययुः ।। ५२ ।।

उषित्वा मासमेकं तु तस्मिन्मार्गे भयानके ।।

कीर्तिसागरमासाद्य चक्रुस्ते बहुधोत्सवम्।।५३।।

आह्लादस्तु प्रसन्नात्मा सुतं पत्नीसमन्वितम् ।।

दृष्ट्वा विप्रान्समाहूय ददौ दानान्यनेकशः ।।५४ ।।

दशहाराख्यनगरं संप्राप्तः स्वकुलैस्सह ।।

कृष्णांशस्य महाकीर्तिर्जाता लोके जने जने ।।५९।।

पृथ्वीराजस्तु तच्छ्रुत्वा विस्मयं परमं ययौ ।।

सा तु वै पद्मिनी नारी दुर्वासःशापमोहिता ।। ५६ ।।

अप्ससरस्त्वं स्वयं त्यक्त्वा भूमौ नारीत्वमागता ।।

द्वादशाब्दप्रमाणेन सोषित्वा जगतीतले ।।५७।।

यक्ष्मणा मरणं प्राप्य स्वर्गलोकमुपाययौ ।।

नव मासान्कृतो वासस्तया चाह्ला दमंदिरे ।।५८।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकोनविंशोऽध्यायः ।।१९।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 20

।। ।। सूत उवाच ।। ।।

मुने पांचालदेशे तु राजासीद्बलवर्द्धनः ।।

तस्य पत्नी विशालाक्षी जलदेवीति विश्रुता ।। १ ।।

बिसेनवंशभूपालो वेदतत्त्वविशारदः ।।

सस्त्रीकः पूजयामास वरुणं यादसां पतिम् ।।२ ।।

तस्य पुत्रावुभौ जातौ क्षत्रधर्मपरायणौ ।।

लहरो ज्येष्ठतनयो मयूरध्वज एव हि ।। ३ ।।

द्वादशाब्दवया भूत्वा मयूरध्वज एव सः ।।

आज्ञया ज्येष्ठबंधोश्च स्कंददेवमतोषयत् ।। ४ ।।

यतेंद्रियस्तथा मौनी वानप्रस्थ परायणः ।।

पंचाब्दं तद्व्रती भूत्वा जपध्यानपरोभवत् ।। ५ ।।

तदा प्रसन्नो भगवान्सेनानीरग्निभूः स्वयम् ।।

स्वरूपं दर्शयामास सर्वाश्चर्यसमन्वि तम्।। ६ ।।

मयूरध्वज एवापि दृष्ट्वा सर्वमयं शिशुम् ।।

देवसेनासहायं च तुष्टाव श्लक्ष्णया गिरा ।। ७ ।।

मयूरध्वज उवाच ।।

जयति ते वपुर्दिव्यविग्रहं नयति सर्वदा देवतागणान् ।।

पिबति मात्रियं दुग्धमुत्तमं वधति सर्वदा दैत्यदानवान् ।। ८ ।।

नमस्ते देवसेनेश महिषासुरमर्दन ।।

षडानन महाबाहो तारकप्राणनाशक ।। ९ ।।

प्रसन्नो भव सर्वात्मन्गुहशक्तिधराव्यय ।।

किंकरं पाहि मां नित्यं शरणागतवत्सल ।। 3.3.20.१० ।।

इति श्रुत्वा स्तुतिं तस्य सेनानीस्तमुवाच वै ।।

किं तेऽभीष्टं नृपश्रेष्ठ मत्तः सर्वमवाप्स्यसि ।। ११ ।।

इत्युक्तस्तेन देवेन भूपतिः प्राह नम्रधीः ।।

बलं मे देहि भगवन्सहायं कुरु सर्वदा ।। १२ ।।

तथेत्युक्त्वा तु तं स्कंदस्तत्रैवान्तर्दधे पुनः ।।

स नृपस्तु प्रसन्नात्मा कारयामास वै पुरम् ।। १३ ।।

नाम्ना मयूरनगरं नरवृंदसमन्वितम् ।।

द्वियोजनायामयुतं स्कंददेवेन रक्षितम् ।। १४ ।।

लहरो नामा तद्बंधुर्द्विदशाब्दप्रयत्नतः ।।

वरुणं पूजयामास नदीनदसमन्वितम् ।। १५ ।।

तदा प्रसन्नो भगवान्वरुणो यादसां पतिः ।।

वरं ब्रूहीति वचनं प्रेम्णोवाच महीपतिम् ।। १६ ।।

इति श्रुत्वाऽमृतमयं वचनं लहरो नृपः ।।

तुष्टाव श्लक्ष्णया वाचा पाशिनं पयसां पतिम् ।। १७ ।।

।। लहर उवाच ।। ।।

यस्य चित्तं महज्ज्ञेयं तपो बलसमन्वितम् ।।

अतः प्रचेतास्ते नाम नमस्तुभ्यं प्रचेतसे ।। १८ ।।

रुणद्धि पयसां वेगं न केनाप्यवरोधितः ।।

अतस्त्वं वरुणो नाम नमस्ते वरुणाय वै ।। १९ ।।

दैत्यानां बंधनार्थाय देवानां जयहेतवे ।।

दिव्यः पाशस्त्वयानीतः पाशिने ते नमोनमः ।। 3.3.20.२० ।।

इति स्तुतस्तदा देवो राज्ञा तेनैव धीमता ।।

नगरीं कारयामास लाहरीमथ चोत्तमाम् ।।२१।।

त्रियोजनायामयुतां चतुर्वर्णसमन्विताम् ।।

स्वयं च ग्रामरक्षार्थे तत्रोवास जला धिपः।। २२ ।।

भूपस्तु तत्प्रसादेन प्राप राज्ञीं शुभाननाम् ।।

रावी नाम महाश्रेष्ठा ज्ञेया देवांगनोपमा ।। २३ ।।

तस्यां स जनयामास सुतान्षो डशसंमितान् ।। धार्तराष्ट्रांशजान्मुख्यान्गजतुल्यबलान्वितान् ।।२४।।

तत्पश्चात्कन्यका जाता नाम्ना मदनमंजरी ।।

द्वादशाब्दवयःप्राप्ते सुतायाः स तु भूपतिः ।। २५ ।।

देवसिंहं वरं मत्वा चंद्रवंशिनमुत्तमम् ।।

प्राहूय ज्येष्ठतनयं प्रेषयामास भूपतिः।।२६ ।।

रणधीरस्तु तनयो लक्षमुद्रान्वितो बली ।।

सहस्रशबरसहितः प्राप्तवान्स महावतीम् ।। २७ ।।

नत्वा परिमलं भूपं तदीयात्कुलशालिनः ।।

स्वहेतुं वर्णयामास विवाहार्थे स्वसुः स्वयम् ।।२८।।

श्रुत्वा परिमलो भूपो देवसिंहं महामतिम् ।।

आहूय वचनं प्राह विवाहार्थे मनः कुरु ।। ३९ ।।

देवसिंहस्तु बलवान्पितृव्यं प्राह नम्रधीः ।।

विवाहं न करिष्यामि ब्रह्मचर्यं व्रतं मम ।। 3.3.20.३० ।।

बहुधा प्रार्थितस्सर्वैर्द्विजवृंदसमन्वितैः ।।

न तत्याज व्रतं श्रेष्ठं देवसिंहो महामतिः ।। ।। ३१ ।।

तदा परिमलो भूपो रणधीरं वचोऽब्रवीत् ।।

सुखखानिरयं बालो विवाहार्थे वदाम्यहम्।। ३२ ।।

तथेति मत्वा स नृपो रणधीरो गृहं ययौ ।।

पितरं कथयामास सुखखानिर्महाव्रतः ।। ३३ ।।

एतस्मिन्नन्तरे धूर्तो महीपतिरुवाच तम् ।।

अयोग्योऽयं विवाहोऽत्र पावकीये कुलोत्तमे ।। ३४ ।।

शूद्रीयोऽत्र वरो राजन्वर्णसंकरकारकः ।।

तस्मात्त्वं सैन्यसहितो जेतुं तान्गंतुमर्हसि ।। ३५ ।।

कारागारे लोहमये बंधनं कुरु भूपतेः ।।

मत्कीर्तिः स्वर्गगा नित्यं जगत्यंते भविष्यति ।। ३६ ।।

जितस्तैर्जम्बुको राजा नेत्रसिंहस्तु यो नृपः ।।

तथा गजपतिर्भूपः पृथ्वीराजो महाबलः ।। ३७ ।।

आर्यसिंहस्तथान्ये च जितास्ते बलवत्तराः ।।

इति श्रुत्वा वचो रम्यं लहरो नृपसत्तमः ।। ३८ ।।

सेनां संस्थापयामास चतुरंगबलान्विताम् ।।

चतुर्लक्षमितां श्रेष्ठां पालितां षोडशात्मजैः ।। ३९ ।।

माघशुक्लदशम्यां च बलखानिं महाबलः ।।

संप्राप्तः स्वकुलैस्सार्द्धं चतुर्लक्षबलान्वितम् ।।3.3.20.४०।।

देशे पांचालके रम्ये लहरीनगरे स्थितः ।।

द्वादशाब्दे च कृष्णांशे तत्र वासमकारयत् ।। ४१ ।।

नृपतेराज्ञया शूरा युद्धाय समुपाययुः ।।

बलखानिस्तु धर्मात्मा दृष्ट्वा शूरांस्तथागतान्।।

वीरानाज्ञापयामास स्वकीयान्संगरे पुनः ।। ४२ ।।

तयोर्युद्धमभूद्घोरं सेनयोर्लोमहर्षणम् ।।

पंचमेऽह्नि दिवा प्राप्ते बलखानिर्महाबलः ।।

कृष्णांशेनैव सहितो रिपोर्वधमकारयत्।। ४३ ।।

पराजिताश्च ते शूरा हतशेषा भयातुराः ।।

तान्दृष्ट्वा षोडशसुता रथं स्वंस्वं समास्थिताः ।।

युद्धायाभिमुखं जग्मुर्धनुर्बाणविशारदाः ।। ४४ ।।

कृष्णांशस्तांस्तथा दृष्ट्वा शरवर्षसमन्वितान् ।।

एकाकी प्रययौ शीघ्रं खड्गचर्मधरो बली ।। ४५ ।।

तेषां धनूंषि संछिद्य बद्ध्वा तान्युद्धदुर्मदान्।।

आह्लादाय ददौ वीरः कृष्णांशो रणकोविदः ।। ४६ ।।

पुत्राणां बन्धनं श्रुत्वा लहरो नृपसत्तमः ।।

प्लावयामास तत्सैन्यं बलखानेर्महात्मनः ।। ४७ ।।

जलीभूते तथा सैन्ये जयन्तो बलवत्तरः ।।

वायव्यास्त्रेण समरे शुशोष सकलं जलम् ।।

लहरस्य ततः सेनामुवाह बहुयोजनम् ।। ४८ ।।

तदा तु भगवान्देवो वरुणो यादसां पतिः ।।

सुतामुद्वाहयामास लहरस्य महीपतेः ।। ४९ ।।

लहरोऽपि प्रसन्नात्मा ज्ञात्वांशं जगतीतले ।।

भक्तिं चकार शुद्धानामंशानां परया मुदा ।। 3.3.20.५० ।।

दत्त्वा च बहुधा द्रव्यं परिक्रम्य पुनःपुनः ।।

स्वान्ते निवेशयामास मासमात्रं प्रसन्नधीः ।। ५१ ।।

अंशास्तेऽपि महापूजां गृहीत्वा लहरप्रदाम् ।।

दोलामारोप्य तां देवीं स्वगेहाय ययुर्मुदा ।। ५२ ।।

इति ते कथितं विप्र कृष्णांशचरितं शुभम् ।।

सुखखानेर्विवाहं च श्रुत्वानंदमवाप्नुयात् ।।५३।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये विंशोऽध्यायः ।।२०।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 21

।। ऋषिरुवाच ।। ।।

गृहं गत्वा च ते वीराः किं चक्रुश्चरितं शुभम् ।।

तत्त्वं कथय विप्रेन्द्र सर्वज्ञोऽसि मतो हि नः ।। १ ।।

।। सूत उवाच ।। ।।

गृहमागत्य ते सर्वे परितो भूपतेः सभाम् ।।

गत्वा वार्तां तथा चक्रुर्यथा जातो महारणः ।। २ ।।

श्रुत्वा परिमलो भूपो वाजिवृंदं क्षयं गतम् ।।

आहूय स च कृष्णांशं वचनं प्राह नम्रधीः ।। ३ ।।

सिंधुदेशे च गंतव्यं त्वया च बलशालिना ।।

पञ्चलक्षान्हयान्कृत्वा पुनरागच्छ वै गृहम् ।।४।।

इति श्रुत्वा तु कृष्णांशो देवसिंहेन संयुतः ।।

स्वर्णभारसहस्रोष्ट्रान्गृहीत्वा तरसा ययौ ।। ५ ।।

शूरैश्च दशसाहस्रैस्सार्द्धं तत्र समागतः ।।

मयूरनगरी यत्र चतुर्वर्णसमन्विता ।। ६ ।।

प्रातःकाले तु संप्राप्ते मालाकारस्य वै सुता।।

पुष्पानाम समासन्ना चारंभे कुसुमार्थिनी ।। ७ ।।

कृष्णांशस्तु तदा पूजां कृत्वा देवमयो मुदा ।।

जगाम विपिनं रम्यं वसंते पुष्पनालिके ।। ८ ।।

बह्वाश्चर्ययुतं पुष्प मत्तभ्रमरनादितम् ।।

दृष्ट्वा मुमोह कृष्णांशस्तदर्थे स्वयमुद्यतः ।। ९ ।।

एतस्मिन्नंतरे पुष्पा पुष्पार्थं समुपागता ।।

ददर्श देवसदृशं षोडशाब्दमयं नरम् ।।

प्रसन्नवदनं शान्तमिंद्रनीलमणिद्युतिम् ।।3.3.21.१०।।

कृष्णांशस्तु शुभां नारीं दृष्ट्वाश्चर्यमुपागतः ।।

पप्रच्छ वचसा तां वै कस्येयं सुरसुंदरी ।।

स्वर्गलोकादिहायाता यदि वा पन्नगी स्वयम् ।। ११ ।।

इति श्रुत्वा च सा प्राह मालाकारस्य वै सुता ।।

अहं शूद्री महाबाहो पुष्पार्थं समुपागता ।। १२ ।।

पुष्पेणानेन भूपाल तुलिता भूपतेः सुता ।।

नाम्ना पुष्पवती देवी राधेव सगुणावली ।। १३ ।।

देवैश्च प्रार्थिता बाला रूपयौवनशालिनी ।।

मकरंदभयाद्देवास्तस्या योग्या न वै बलात् ।। १४ ।।

शृणु तत्कारणं भूप मकरंदो यथा भवेत् ।।

मयूरध्वजभूपेन संप्राप्तो गुहतो वरः ।। १५ ।।

अजेयोऽन्यैश्च कृष्णांशादृते त्वं जगतीतले ।।

तन्मित्रं पृथिवीराजो राजराजः शिवप्रियः ।। १६ ।।

स राज्यं कारयामास धर्ममेघं हरिप्रियम् ।।

तदा प्रसन्नो भगवान्यज्ञेशो यज्ञमूर्तिमान्।।१७।।

मिथुनं जनयामास पावकात्सुंदराननम् ।।

मकरंदः सुतो ज्ञेयः कन्या पुष्पवती मता ।। १८ ।।

पञ्चमाब्दवया भूत्वा मकरंदो महाबलः ।।

तुष्टाव तपसा धर्मं वेदधर्मपरायणः ।। १९ ।।

द्वादशाब्दवयः प्राप्ते मकरंदे नृपप्रिये ।।

प्रसन्नो भगवान्धर्मो ददौ तस्मै महाहयम् ।। 3.3.21.२० ।।

शिलामयं महावेगं शत्रुसेनाक्षयंकरम् ।।

तमश्वं स्वयमारुह्य सर्वपूज्यो ह्यभूत्सुखी ।।२१।।

तस्येदं सुंदरं दिव्यं विपिनं सुरपूजितम् ।।

भवानर्हति वै श्रेष्ठः पुष्पवत्याः कलेवरम् ।। २२ ।।

इति श्रुत्वा तु वचनं कृष्णांशः स्मरपीडितः ।।

ददौ बहुधनं तस्यै मालिन्या गेहमागतः ।। २३ ।।

देवसिंहस्तु कालज्ञो ज्ञात्वा मोहत्वमागतम् ।।

कृष्णांशं बोधयामास पद्यैः सांख्यसमुद्भवैः ।।२४ ।।

कृष्णांशस्तु ततस्सार्द्धं देवसिंहेन तन्मयः ।।

सिंधुदेशं समागत्य क्रीत्वा सर्वहयांस्तदा ।। २५ ।।

मासान्ते गृहमागत्य राज्ञे सर्वान्न्यवेदयत् ।।

पुष्पवत्याः शुभं रूपं ध्यात्वा पुष्पेरितं बली ।।

कृष्णांशो मोहमागत्य तुष्टाव जगदंबिकाम् ।।२६।।

कृष्णांश उवाच ।।

देवमाये महामाये नित्यशुद्धस्वरूपिणि ।।

पाहि मां कामदेवार्तं पुष्पवत्यै प्रबोधय ।।२७।।

मधुकैटभसंमोहे महिषासुरघातिनि ।।

पाहि मां कामदेवार्तं पुष्पवत्य प्रबोधय ।। २८ ।।

धूम्रलोचनसंदाहे चंडमुंडविनाशिनि ।।

पाहि मां कामदेवार्त्तं पुष्पवत्यै प्रबोधय ।। २९ ।।

रक्तबीजासृक्कपीते सर्वदैत्यभयंकरे ।।

पाहि मां कामदेवार्त्तं पुष्पवत्यै प्रबोधय ।। 3.3.21.३० ।। ।

निशुंभदैत्यसंहारे शुंभदैत्यविनाशिनि ।।

पाहि मां कामदेवार्त्तं पुष्पवत्यै प्रबोधय ।। ३१ ।।

इति स्तुत्वा च सुष्वाप स वीरः परमासने ।।

तदा तु शारदा देवी तस्याः स्वप्नप्रदर्शनम् ।।

चकार प्रत्यहं देवी वरदाभयकारिणी ।। ३२ ।।

एवं गते चतुर्मासे जलवृष्टिकरे मुने ।।

त्रिविंशाब्दवयश्चासीत्कृष्णांशस्य यशस्करम् ।। ३३ ।।

कार्तिके कृष्णपक्षे तु गतोऽसौ देवसंयुतः ।।

मयूरनगरे रम्ये मकरंदेन रक्षिते ।। ३४ ।।

पुष्पागृहमुपागम्य तत्र वासमचीकरत् ।। ३५ ।।

एकदा सुंदरं हार कृष्णांशेनैव गुंठितम् ।।

मणिमुक्तायुतं रम्यं नानापुष्पसमन्वितम् ।।

गृहीत्वा प्रययौ पुष्पा पुष्पवत्याश्च मंदिरे ।। ३६ ।।

सा तु ग्रैवेयकं दृष्ट्वा त्वष्ट्रेव रचितं प्रियम् ।।

हृदि कृत्वा मुमोहाशु कामिनी रतिरूपिणि ।। ३७ ।।

अये सखि महामाये सत्यं कथय मेऽग्रतः ।।

ग्रैवेयकमिदं रम्यं कुतः प्राप्तं मम प्रियम् ।। ३८ ।।

इति श्रुत्वा वचस्तस्या मकरंदभयातुरा ।।

पुष्पा पुष्पांजलिं कृत्वा वचनं प्राह तां प्रति ।। ३९ ।।

जीवदानं च मे देहि तर्हि ते कथयाम्यहम् ।।

तथेत्युक्तवतीं कन्यां साह मे भगिनी शुभे ।। 3.3.21.४० ।।

कृष्णा नाम महारम्या सर्वलोकविमोहिनी ।।

महावत्यां गृहं तस्या मद्गृहे सा समागता ।।

तया विरचितं सुभूर्ग्रैवेयकमनुत्तमम् ।। ४१ ।।

इति श्रुत्वा तु वचनं देवी पुष्पवती स्वयम् ।।

उवाच मालिनीं वाक्यं रात्रिं दर्शय तां मम ।। ४२ ।।

मकरंदभयाद्देवास्तथान्ये पुरुषा भुवि ।।

मत्समीपे गतिर्नास्ति तेषां सत्यं ब्रवीम्यहम् ।। ४३ ।।

इति श्रुत्वा वचो घोरं पुष्पा तु भयकातरा ।।

नोवाच वचनं किञ्चित्पृच्छ्यमाना पुनः पुनः ।। ४४ ।।

तदा पुष्पवती प्राह किं ते भयमुपागतम् ।।

साह मे भगिनी रम्या यदि त्वद्गेहमागता ।। ४५ ।।

मोहितः पुरुषः कश्चिद्बलात्तां हि भजिष्यति ।।

तर्हि मे मरणं ज्ञेयं कुलधर्मपरायणे ।। ४६ ।।

इति श्रुत्वा पुष्पवती पुनः प्रोवाच धर्मिणी ।।

मयूरध्वज एवापि मत्पिता नीतितत्परः ।।

अयोग्यं ये करिष्यंति ते यास्यंति यमालयम् ।। ४७ ।।

अतस्त्वं शीघ्रमादाय तद्दोलां च मदंतिके ।।

दर्शयित्वा च तां रम्यां पुनर्गच्छ गृहं स्वकम् ।। ४८ ।।

तथेति मत्वा सा शूद्री गृहमागत्य भामिनी ।।

कृष्णाशं वर्णयामास यथा प्रोक्तं तया मुने ।। ४९ ।।

इति श्रुत्वा वचो रम्यं कृष्णांशो बलवत्तरः ।।

नासावेधं स्वयं कृत्वा पुनर्नारीमयं वपुः ।।

जगाम पुष्पया सार्द्धं दोलामारुह्य वीर्यवान् ।। 3.3.21.५० ।।

तदा पुष्पवती देवी दृष्ट्वा कृष्णां मनोरमाम् ।।

उवाच वचनं पुष्पां शृणु मे वचनं सखि ।। ५१ ।।

यादृशीयं शुभा नारी तादृशः पुरुषो मया ।।

स्वप्नांते प्रत्यहं दृष्टो रममाणो मया सह ।। ५२ ।।

कृष्णांशश्च स तामाह देशराजसुतो वरः ।।

उदयो नाम विख्यातस्तस्याहं ललिता सखी ।। ५३ ।।

प्रत्यहं रचितं हारमथ पूजनहेतवे ।।

स वीरस्तु गृहीत्वा तं देवीं पूज्य न्यवेदयत् ।। ५४ ।।

एकदा प्रस्थितं वीरं पुष्पमध्ये शनैःशनैः ।।

उदासीनं च तं दृष्ट्वा प्रोवाचाहं समागता ।। ५५ ।।

मोहोऽयं ते कुतः प्राप्तः स त्वं कथय मा चिरम् ।।

इत्युक्तः स तु मामाह स्वप्नांते प्रत्यहं सखि ।। ५६ ।।

मया दृष्टा शुभा नारी रूपयौवनशालिनी ।।

तद्वियोगेन दुःखार्तं मुखं म्लानत्वमागतम् ।। ५७ ।।

इति श्रुत्वा पुष्पवती तामाह रुचिराननाम् ।।

विवाहो मे यदा तेन सार्द्धं रम्यो भविष्यति ।। ।। ५८ ।।

तदा त्वां तर्पयिष्यामि बहुद्रव्यैः शुभानने ।।

अतस्त्वं गच्छ तत्पार्श्वं शीघ्रं तस्मै निवेदय ।। ५९ ।।

इति श्रुत्वा तु तद्वाचं पुष्पा प्रेमसमन्विता ।।

दोलामारोप्य तां कृष्णां स्वगेहं गंतुमुयता ।। 3.3.21.६० ।।

दुर्गद्वारे तु प्राप्तायां तद्दोलायां च भार्गव ।।

मकरंदो महावीर्य्यो द्वादशाब्दवया बली ।। ६१ ।।

दोलासमीपमागत्य ददर्श रुचिराननाम् ।।

कृष्णामिन्दीवरश्यामां चारुनेत्रां मनोहराम् ।। ६२ ।।

मुमोह बलवान्वीरो गोवर्द्धन कलांशकः ।। गोवर्धन

प्रेम्णोवाच स चार्वंगि शृणु मे वचनं प्रिये ।। ६३ ।।

मद्गृहं शीघ्रमागच्छ पत्नी मम भवाधुना ।।

इति श्रुत्वा तु सा कृष्णा विहस्यो वाच भूपतिम् ।। ६४ ।।

कुलीनस्त्वं महावीर वह्निकुण्डात्समुद्भवः ।।

षोडशाब्दवयास्तूणी शनिभल्लसमन्वितः ।। ६५ ।।

त्वद्योग्या भूपतेः कन्या चंद्रसूर्य्यान्वयस्य वै ।।

अहं शूद्री हीनतमा कथं योग्या तवेह वै ।। ६६ ।।

कन्याहं शूद्रजातेश्च बह्मचर्य्यव्रते स्थिता ।।

इति श्रुत्वा तु वचनं मकरन्दो नृपात्मजः ।। ६७ ।।

बलाद्गृहीत्वा तां नारीं पस्पर्श हृदये स्वयम् ।।

कृष्णांशस्तु तदा तस्मै दत्त्वा हृदयवेदनाम् ।।

मोहयित्वा नृपसुतं स देवः स्वगृहं ययौ ।। ६८ ।।

मकरन्दस्तु संबुद्धो मदनाग्निप्रपीडितः ।।

गेहमागत्य पुष्पायाः सर्वं तस्यै न्यवेदयत् ।। ६९ ।।

तत्स्नेहकातरं भूपं मकरंदं महाबलम्।।

पुष्पाह श्लक्ष्णया वाचा शृणु पार्थिवसत्तम ।। 3.3.21.७० ।।

महावती पुरी रम्या तत्र कृष्णागृहं शुभम् ।।

त्वद्भयाच्च गता गेहं कृष्णांशस्य च सा सखी ।। ७१ ।।

रोदनं कुर्वती गाढं तव निन्दनतत्परा ।। ७२ ।।

आगमिष्यति वै वीरो बलैस्सार्द्धं महाबल ।।

अतस्त्वं सर्वसैन्यानि सज्जीभूतानि वै कुरु ।। ७३ ।।

जितो येन महावीरः पितृव्यो लहरस्तव ।।

विवाहं कारयामास तद्बन्धोः सुतया सह ।। ७४ ।।

इति श्रुत्वा वचो घोरं मकरन्दो महीपतिः ।।

शतघ्नीः स्थापयामास दुर्गकूटेषु दारुणाः ।। ७५ ।।

स्वसैन्यं च समाहूय त्रिलक्षं खड्गसंयुतम् ।।

तत्रैव स्थापयामास राष्ट्ररक्षार्थमुद्यतः ।। ७६ ।।

कृष्णांशस्तु गृहं प्राप्य बलखानिमुवाच तत् ।।

श्रुत्वा स च महावीरो भ्रातृमित्रसमन्वितः ।।

पञ्चलक्षबलैस्सार्द्धं मयूरनगरं ययौ ।। ७७ ।।

शतघ्न्यः पञ्चसाहस्रा गजा दश सहस्रकाः ।।

एकलक्षं हयाः सर्वे शेषा ज्ञेयाः पदातयः ।।

उषित्वा पक्षमात्रं तु मार्गे पांचालके तदा ।। ७८ ।।

मकरंदस्तु तच्छ्रुत्वा शनिभल्लकरः स्थितः ।।

सेनामाज्ञापयामास जहि शत्रून्महाबलान् ।। ७९ ।।

श्रुत्वा पदातयो लक्षं शतघ्नीवह्निमाददन् ।।

ते तु वै सप्तसाहस्राश्चक्रुः शत्रुबलक्षयम् ।। 3.3.21.८० ।।

ग्रामस्य दक्षिणद्वारे हयारूढास्तदा ययुः ।।

भुशुंडीक्षेपणीशक्तिखड्गयुद्धविशारदाः ।। ८१ ।।

एकलक्षं हयास्सर्वे मकरंदस्य भूपतेः ।।

तयोश्चासीन्महद्युद्धं तुमुलं हयसेनयोः ।। ८२ ।।

तदा तु पश्चिमद्वारे गजा विंशत्सहस्रकाः ।।

तथा दशसहस्रैश्च शत्रुभिः सह संययुः ।। ८३ ।।

उष्ट्र रक्षा महावीराश्चत्वारिंशत्सहस्रकाः ।।

बलखान्यादिभिः सार्द्धं युयुधुर्दिशि चोत्तरे ।। ८४ ।।

अहोरात्रमभूद्युद्धं तुमुलं लोमहर्षणम् ।।

ततः पराजितास्सर्वे बलखानेर्महाबलाः ।। ८५ ।।

त्यक्त्वा युद्धं तु ते सर्वे दुद्रुवुश्च दिशो दश ।।

कृष्णांशो बिंदुलारूढो बलखानिः कपोतगः ।। ८६ ।।

मनोरथस्थितो देवश्चाह्लादस्तु गजस्थितः।।

पूर्वादिक्रमतो द्वारि गतास्ते रणदुर्मदाः ।। ८७ ।।

सत्सरुं खड्गमुत्सृज्य चक्रुः शत्रुमहावधम् ।।

पराजिताश्च ते शूरा मकरंदमुपाययुः ।। ८८ ।।

वह्निपुत्रस्तु बलवान्वाजिनं च शिलामयम्।।

शनिभल्लकरग्राही तमारुह्य रणं ययौ ।। ८९ ।।

कृष्णांशाद्याश्च ते शूरा रुरुधुस्सर्वतोदिशम् ।।

तं च कंठे ददौ खड्गं बलखानिर्महाबलः ।। 3.3.21.९० ।।

स्वभल्लं देवसिंहश्च तमंके च समाहनत् ।।

आह्लादो वक्षसि शरं कृष्णांशः खड्गमुत्तमम् ।। ९१ ।।

शिलावाजिप्रभावेण कश्मलं न जगाम ह ।।

स दृष्ट्वा निष्फलान्वीराञ्जगर्ज भैरवं ध्वनिम् ।। ९२ ।।

शनिभल्लेन ते सर्वे बभूवुर्मूर्छिता रणे ।।

तेऽश्वाः शिलाश्ववेगेन मूर्छिताश्चाभवन्क्षणात् ।। ९३ ।।

मकरंदस्तु बलवान्बद्ध्वा तान्युद्धदुर्मदान् ।।

प्रसन्नात्मा ययौ गेहं स्वपित्रे तान्न्यवेदयत् ।। ९४ ।।

दृष्ट्वा पराजितान्वीरान्रूपणो भयकातरः ।।

महावतीं पुरीं प्राप्य भूपतिं समवर्णयत् ।। ९५ ।।

ब्रह्मानंदस्तु तच्छ्रुत्वा लक्षसैन्यसमन्वितः ।।

इंदुलेन सहायेन मयूरनगरं ययौ ।। ९६ ।।

लिखित्वा निर्मलं पत्रं तद्राज्ञे त्वरितो ददौ ।।

भूमिराजसुताकांत विद्धि मां मनुजर्षभ ।। ९७ ।।

कृष्णांशाय सुतां देहि नाम्ना पुष्पवतीं शुभाम् ।।

नो चेन्मत्कठिनैर्बाणैः क्षयं यास्यंति सैनिकाः ।। ९८ ।।

निशम्येति नृपश्रेष्ठो मयूरध्वज एव सः ।।

मकरंदेन सहितो द्विलक्षबलसंयुतः ।।

अहोरात्रं कृतं युद्धं तेन सार्द्धं भयप्रदम् ।। ९९ ।।

ब्रह्मानंदस्तु बलवान्बाणयुद्धमचीकरत् ।।

मकरंदस्य भल्लेन मूर्छितः सोऽपतद्भुवि ।। 3.3.21.१०० ।।

तदा स्वर्णवतीपुत्रो जयन्तः शक्रसंभवः ।।

स्वविद्यां दर्शयामास मकरंदाय धीमते ।। १०१ ।।

वैष्णवास्त्रप्रभावेन शिलाश्वो भस्म चाभवत् ।।

ब्रह्मास्त्रेण भृगुश्रेष्ठ शनिभल्लोऽपतद्भुवि ।।१ ०२।।

नागपाशेन तं बद्ध्वा मकरंदं महाबलम् ।।

विवाहं कारयामास कृष्णांशस्य महात्मनः ।।१ ०३।।

सेनामुज्जीवयामास स्वकीयामिंदुलो बली ।।

मंगलं कारयामास मकरंदो गृहेगृहे ।।

ददौ कन्यां विधानेन बहुद्रव्यसमन्विताम् ।।१ ०४।।

मयूरध्वजभूपालो महास्नेहमचीकरत्।।

नृपाज्ञां ते पुरस्कृत्य ययुः सार्द्धं महावतीम् ।। ।।१ ०५।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णांशविवाहोनामैकविंशोऽध्यायः।।२१।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 22

सूत उवाच ।।

महावत्यां तु संप्राप्ते कृष्णांशे बलवत्तरे ।।

मंगलं कृतवान्राजा तदा परिमलो बली ।। १ ।।

पुष्पवत्या तया सार्द्धं गीतनृत्यविशारदः ।।

कृष्णांशः प्रत्यहं गेहे मुमोह सखिभिः सह ।। २ ।।

हेमंतशिशिरे वीरो रहः क्रीडां करोति वै ।।

यथा शक्रोऽप्सरोभिश्च तथैव ह्युदयो बली ।। ३ ।।

ग्राम्यधर्मं न कृतवान्सर्वस्पर्शविशारदः ।।

एकदा नृत्यक्रीडायां देवी पुष्पवती स्वयम् ।। ४ ।।

कृष्णांशं वचनं प्राह पूर्वजन्मनि को भवान् ।।

इति श्रुत्वोदयो वीरो विहस्योवाच वै वचः ।। ५ ।।

नृपोहं चंद्रदासश्च पूर्वजन्मनि हे प्रिये ।।

बाल्यात्प्रभृति मे दुःखं प्राप्तं दैवविनिर्मितम्।।६।।

शालग्रामशिलापूजा प्रत्यहं वै मया कृता ।।

तेन पुण्यप्रभावेन सार्वभौमो बभूव ह ।।७।।

मृतेऽहनि तु संप्राप्ते शालग्रामे मनो दधौ ।।

सायुज्यं मे हरेश्चासीत्स्वयं ब्रह्मप्रसादतः।।८।।

कलिना प्रार्थितो विष्णुः कालात्मा परमेश्वरः ।।

स्वदेहान्मां तु निष्कास्य भूमौ जनिमचीकरत् ।।९।।

यदा यदा हि धर्मस्य ग्लानिर्भवति वै प्रिये।।

युगधर्मस्य मर्यादास्थापनाय भवाम्यहम्।।3.3.22.१ ०।।

सत्ये तु मानसी पूजा देवानां तृप्तिहेतवे ।।

त्रेतायां वह्निपूजा च यज्ञदानादिका क्रिया ।।११।।

द्वापरे मूर्तिपूजा च देवानां वै प्रियंकरी ।।

कलौ तु दारुणे प्राप्ते ब्रह्मपूजनमुत्तमम्।।१२।।

अहं हंसः सत्ययुगे त्रेतायां यज्ञपूरुषः ।।

हिरण्यगर्भश्च प्रिये द्वापरेऽहं सुखप्रदः ।।

शालग्रामः कलौ प्राप्ते देवानां तृप्तये ह्यहम् ।। १३ ।।

मुनयो देवतास्सर्वास्तथा पितृगणाः प्रिये ।।

सर्वे ते तृप्तिमायांति शालग्रामस्य पूजनात् ।। १४ ।।

द्विजातिभिस्त्रिवर्णैश्च पूजनं चंदनादिकैः ।।

शूद्रैश्च स्नानमात्रेण भक्ति भावेन पूजनम् ।।१५।।

म्लेच्छैश्च दर्शनं पुण्यं विनयाद्भक्तिभावतः ।।

शालग्रामः स्वयं ब्रह्म सच्चिदानंदविग्रहः ।।

तस्य दर्शनमात्रेण क्षयं यास्यंति वै मलाः ।।१६।।

इति ते कथितं देवि युगमर्यादमुत्तमम् ।।

पुरा त्वं कस्य तनया सत्यं कथय मेऽचिरम्।।१७।।

पुष्पवत्युवाच।।

पूर्वजन्मनि वेश्याहं चंद्रकांतिरिति श्रुता ।।

गाननृत्यादिकं वाद्यं देवस्याग्रे मया कृतम् ।। १८ ।।

तेन पुण्यप्रभावेण स्वर्गलोकमुपागता ।।

देवैश्च प्रार्थिता तत्र रूप यौवनशालिनी ।। १९ ।।

ब्रह्मचर्यं न तत्याज स्वर्गलोकेऽपि वै ह्यहम् ।।

तेन पुण्यप्रभावेण चोषा बाणसुताऽभवम् ।।

अनिरुद्धः स्वयं ब्रह्म मम पाणिं गृहीतवान् ।। 3.3.22.२० ।।

कलिना प्रार्थितो देवो मम स्वामी स्वहेतवे ।।

अर्चावतारमासाद्य मार्कंडेयस्थलं गतः ।। २१ ।।

स्वप्रसादस्य महिमा दर्शितस्तेन तत्र वै ।।

अत्रैव स्थितिमर्यादो दारुरूपस्य मे पतेः ।। २२ ।।

अहं तस्याज्ञया स्वामिञ्जम्बुकस्य सुताभवम् ।।

दिव्यरूपसमायुक्ता नाम्नाहं विजयैषिणी ।। २३ ।।

कृतं ममैव मरणं त्वद्भ्रात्रा बलखानिना ।।

मकरंदस्य भगिनी भूत्वा त्वां पतिमागता ।।२४।।

तेन दोषेण त्वद्भ्राता यातनां तीव्रमागतः ।।

राज्ञ इन्नगठस्यैव गेहे गजपतेः स्वयम् ।।

इत्युक्त्वा मौनमास्थाय रेमे पत्या समं मुदा ।। २५ ।।

होलिकासमये प्राप्ते मलना स्नेहदुःखिता ।।

सुतां चंद्रावलीं रम्यां स्वप्नांते सा ददर्श ह ।।

रुरोद निशि दुःखेन स्वसुतास्नेहकातरा ।। २६ ।।

तदोदयो महावीरो ज्ञात्वा रोदन कारणम् ।।

शूरैश्च दशसाहस्रैस्सार्द्धं बहुधनैर्युतः ।।

एकाकी प्रययौ वीरो यत्र चंद्रावलीगृहम् ।। २७ ।।

महीपतिस्तु तच्छत्रुर्ज्ञात्वा कारणमुत्तमम् ।।

पश्चाज्जगाम कार्यार्थी स तु दुर्योधनांशकः ।।

बलीठाठमिति ख्यातं ग्रामं यादवपालितम् ।। २८ ।।

वीरसेनो नृपस्तत्र त्रिलक्षबलसंयुतः ।।

अष्टौ सुताश्च तस्यासन्रूपयौवनशालिनः ।। २९ ।।

कामसेनः प्रसेनश्च महासेनस्तथैव च ।।

सुखसेनो रूपसेनो विष्वक्सेनो मधुव्रतः ।।

मधुपश्च क्रमाज्जाता यादवांशाश्च यादवाः ।। 3.3.22.३० ।।

तत्र गत्वा च कृष्णांशस्सभायां नरकेसरी ।।

दंडवत्प्रणतो भूत्वा वीरसेनं महीपतिम् ।। ३१ ।।

मलनालिखितं पत्रं दत्त्वा राज्ञे महामनाः ।।

दशभारं सुवर्णस्य पुनर्वासमचीकरत् ।। ३२ ।।

व्यंजनानि विचित्राणि भुक्त्वा यादवसंयुतः ।।

चंद्रावलीं समागत्य कुशलं च न्यवेदयत् ।। ३३ ।।

प्रेमोत्सुका च भगिनी कृष्णांशं प्राह दुःखिता।।

भवान्द्व्यब्दवया वीर तदाहं च विवाहिता ।।३४।।

विंशदब्दस्ततो जातो विस्मृता पितृमातृभिः ।।

समर्थेन त्वया वीर संस्मृता भगिनी स्वयम् ।। ३५ ।।

अद्य मे सफलं जन्म जीवितं सफलं च मे ।।

बंधुदर्शनमात्रेण सर्वं च सफलं मम ।। ३६ ।।

प्रसन्नात्मोदयस्तत्र भगिनीं प्राह नम्रधीः ।।

जम्बुकेन गृहं सर्वं लुण्ठितं बलशालिना ।। ३७ ।। ।

तस्य दुःखेन भूपालो भयभीतो दिनेदिने ।।

महाकष्टेन विजयो जम्बुकाच्चाभयोऽभवत् ।। ३८ ।।

महीराजस्तु बलवान्रुरोध नगरीं मम ।।

मया विवाहितो भ्राता ब्रह्मा तत्सुतया सह ।। ३९ ।।

पुनश्च सिंहलद्वीपे जयंतार्थे वयं गताः ।।

एवंविधानि दुःखानि बहूनि ह्यभवन्पितुः ।। 3.3.22.४० ।।

अतस्त्वां प्रति सुप्रीता वयं भगिनिकिंकराः ।।

मृदुवाक्यमिति श्रुत्वा तदा चंद्रावली मुदा ।। ४१ ।।

गेहं निवासयामास स्वकीयं प्रेमविह्वला ।।

एतस्मिन्नन्तरे धूर्तो महीपतिरुपाययौ ।। ४२ ।।

सभायां वीरसेनस्य राज्ञा तेनैव सत्कृतः ।।

वार्तांतरं समासाद्य तमुवाच महीपतिः ।। ४३ ।।

निष्कासिताश्च ते सर्वे राज्ञाह्लादादयः खलाः ।

चौरितो नृपतेः कोशो हीनजात्यैर्महाबलैः ।।४४।।

तदा तु कुंठिताः सर्वे शिरीषाख्यपुरेऽवसन् ।।

छिद्रदर्शी तु कृष्णांशो गेहं तव समागतः ।। ४५ ।।

चंद्रावल्याश्च वै दोलां गृहीत्वा स गमिष्यति ।।

सत्यं ब्रवीमि भूपाल नान्यथा वचनं मम ।। ।। ४६ ।।

इति श्रुत्वा वीरसेनो ज्ञात्वा तत्सत्यकारणम् ।।

कामसेनं समाहूय चंद्रावल्याः पतिं सुतम् ।।४७।।

वचनं प्राह भोः पुत्र बंधनं कुरु तस्य वै ।।

इति श्रुत्वा कामसेनो विषमादाय दारुणम् ।। ४८ ।।

भोजनाय ददौ तस्यै ज्ञात्वा चन्द्रावली तदा ।।

भ्रातुरंतिकमासाद्य पात्रमादाय सा ययौ ।। ४९ ।।

कामसेनश्च कुपितो गृहीत्वा दंडवेतसम् ।।

स्वप्रियां ताडयामास स दृष्ट्वा तं तदाकुपत् ।। 3.3.22.५० ।।

गृहीत्वा भुजयोस्तं वै बंधनाय समुद्यतः ।।

बंधनत्वं गते पुत्रे वीरसेनो महाबलः ।। ५१ ।।

पुत्रानाज्ञापयामास तस्य बंधनहेतवे ।।

एतस्मिन्नंतरे वीरो दोलामादाय सत्वरम् ।। ।। ५२ ।।

सेनामध्ये समागम्य महद्युदमचीकरत् ।।

एकतो दशसाहस्रास्त्रिलक्षास्तु तथैकतः ।।

अहोरात्रमभूद्युद्धं दारुणं रोमहर्षणम् ।।५३ ।।

हता लक्षं महाशूरा उदयेन महाबलाः ।।

शेषाः प्रदुद्रुवुस्सर्वे यादवा भयकातराः ।। ५४ ।।

दृष्ट्वा पराजितं सैन्यं सप्त पुत्रा महाबलाः ।।

स्वान्गजांश्च समारुह्य कृष्णांशं रुरुधू रुषा ।। ५५ ।।

स वीरो बिंदुलारूढो भूमौ कृत्वा गजासनान् ।।

तेषामस्त्राणि संच्छिद्य बध्नाति बलदर्पितः।।५६।।

इति श्रुत्वा वीरसेनः सूर्यभक्तिपरायणः ।।

सौरमस्त्रं समादाय तस्य सैन्यमदाहयत् ।।

तेनास्त्रेणैव कृष्णांशः सहयो मूर्च्छितो भुवि ।। ५७ ।।

वीरसेनस्तु तं बद्ध्वा मोचयित्वा सुतान्वधूम् ।।

स्वगेहमागतस्तृर्णं नानावाद्यान्यवादयत् ।। ५८ ।।

हतरोषास्तदा वीराः कृष्णांशस्य ययुर्दिशः ।।

हेतुं परिमलस्याग्रे सर्वमूचुस्तदादितः ।। ५९ ।।

महीपतिं महाधूर्तं मत्वा राजाब्रवीदिदम् ।।

गच्छ त्वं मलनापुत्र लक्षसैन्यसमन्वितः ।। 3.3.22.६० ।।

बद्ध्वा स्वभगिनीकांतं स्वबंधुं मोचयाशु वै ।।

इति श्रुत्वा च स सुतो लक्षसेनासमन्वितः ।।६१।।

शीघ्रं गत्वा च नगरीं रुरोध बलवान्रुषा ।।

युद्धी भूते बले तस्मिन्वीरसेनो नृपोत्तमः ।।

सौरमस्त्रमुपादाय दाहनार्थं समुद्यतः ।। ६२ ।।

सज्जीभूते तदस्त्रे तु ब्रह्मानंदो महाबलः ।।

ब्रह्मास्त्रेणैव स शरं वारयामास वै रुषा ।। ६३ ।।

दृष्ट्वा भयान्वितो भूपस्तमेव शरणं ययौ ।।

ब्रह्मानंदस्तु तं भूपं वचनं प्राह निर्भयः ।। ६४ ।।

धूर्तवाक्येन हे भूप मद्बंधुर्बाधितस्त्वया ।।

अवध्या च सदा नारी त्वत्सुतस्तामताडयत् ।।

अतस्त्वं भगिनीयुक्तं स्वसुतं देहि मे नृप ।। ६५।।

इति श्रुत्वा च नृपतिर्वचनं प्राह नम्रधीः ।।

मत्सुता च गृहे नास्ति कामसेनं गृहाण भोः ।। ६६ ।।

इत्युक्त्वा वीरसेनश्च सुतं चंद्रावलीं तथा ।।

दत्त्वा तस्मै प्रसन्नात्मा तत्प्रस्थानमकारयत् ।। ६७ ।।

ब्रह्मानन्दोऽपि बलवान्कृष्णांशेन समन्वितः ।।

सेनयाशीतिसाहस्र्या ययौ सार्द्धं महावतीम् ।। ६८ ।।

मलना स्वसुतं दृष्ट्वा प्रेमविह्वलकंपिता ।।

स्नापयित्वाश्रुधाराभिर्द्विजातिभ्यो ददौ धनम् ।। ६९ ।।

इति ते कथितं विप्र कृष्णांशचरितं शुभम् ।।

शृण्वतां कलिपापघ्नं कथयिष्यामि वै पुनः ।। 3.3.22.७० ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये द्वाविंशोऽध्यायः ।। २२ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 23

।। सूत उवाच ।। ।।

चतुर्विशाब्दकं प्राप्ते कृष्णांशे बलशालिनि ।।

इषशुक्लदशम्यां च कृतो राज्ञा महोत्सवः ।। १ ।।

भोजयित्वा द्विजश्रेष्ठान्दत्त्वा तेभ्यो हि दक्षिणाः ।।

स्वभृत्येभ्यस्तथा वित्तं यथायोग्यं क्रमाद्ददौ ।। २ ।।

कार्तिक्यां शुभयुक्तायां कृष्णांशो बलसंयुतः ।।

इन्दुलेन च संयुक्तो देवसिंहेन संयुतः ।। ३ ।।

अयुतैः स्वर्णद्रव्यैश्च शूरैर्दशसहस्रकैः ।।

ययौ बर्हिष्मतीस्थाने नानाभूपसमन्विते ।। ४ ।।

एतस्मिन्नंतरे तत्र चित्ररेखा समागता ।।

वृता सप्तालिभिर्देवी चित्रगुप्तप्रपूजिनी ।। ५ ।।

गंगामध्ये महारम्यं यानं मायामयं तया ।।

कृतं कौतूहलयुतं बहुसंपत्समन्वितम् ।। ६ ।।

आगतास्तत्र राजानो नाना तद्दर्शनोत्सुकाः ।।

तदोदयो देवयुतो जयंतेन समन्वितः ।।

शतशूरैश्च सहितो दर्शनार्थमुपाययौ ।। ७ ।।

चित्ररेखा महारम्या वाहीकनृपतेः सुता ।।

ददर्श सुदरं कान्तमिंदुलं शशिवन्मुखम् ।।

येन स्वप्नांतरे रम्यं सार्द्धं भुक्तं तया सुखम् ।। ८ ।।

तमाह्लादसुतं ज्ञात्वा साभिनंदनदेहजा ।।

कृत्वा मोहमयं जालं शुकभूतं तदेंदुलम् ।। ९ ।।

हृत्वा स्वयंवरे रम्ये परमानन्दमाययौ ।।

पुनराहृत्य तां मायां स्वगेहाय ययौ मुदा ।। 3.3.23.१० ।।

कृष्णांशस्तु तदा बुद्ध्वा न ददर्श स्वकं शिशुम् ।।

देवसिंहं बोधयित्वा पप्रच्छ क्व गतः शिशुः ।। ११ ।।

कालज्ञो देवसिंहोऽपि मोहितश्चित्रमायया ।।

न ज्ञातस्तेन वै बालः क्व गतः केन वा हृतः ।। १२ ।।

विस्मितं देवसिंहं च दृष्ट्वा कृष्णांशको बली ।।

रुरोदोच्चैस्तदा गाढं चित्रमायाविमोहितः ।। १३ ।।

श्रुत्वा तु रोदनं तस्य खलस्तत्र महीपतिः ।।

ययौ शीघ्रं प्रसन्नात्मा यत्राह्लादः स्वयं स्थितः ।।

रुदित्वा तत्र वै गाढं वचनं प्राह नम्रधीः ।। १४ ।।

उदयो नाम ते भ्राता मोहयित्वा मदेन तौ ।।

देवमिन्दुलमेवासौ हत्वा धारास्वरोपयत् ।। १५ ।।

प्रत्यक्षं च मया दृष्टं तेन वीरेण वै कृतम् ।।

शतं स्वर्णं च मे दत्त्वा विनयेनावरोधितः ।। १६ ।।

देवसिंहस्ततो बुद्ध्या न ज्ञातं तेन यत्कृतम् ।।

इति श्रुत्वा तु वचनं निश्चयं नाधिगच्छति ।। १७ ।।

एतस्मिन्नंतरे प्राप्तौ तौ वीरौ रोदने रतौ ।।

तद्वियोगेन कृष्णांशः स्वदेहं त्यक्तुमुद्यतः ।। १८ ।।

आह्लादो निश्चयं ज्ञात्वा भाषितं च महीपतेः ।।

कृष्णांशं ताडयामास वैतसैश्चर्मकर्तनैः।।१९।।

तस्य माता तथा पत्नी भगिनी प्रेमदुःखिताः ।।

आह्लादं बोधयामासुर्धूर्तमायाविमोहितम् ।।

न बोधितस्तदा वीरश्चित्रमायाविमोहितः ।। 3.3.23.२० ।।

तदा पुष्पवती देवी स्वपतिं भ्रातृपीडितम् ।।

दृष्ट्वा तत्र गता शीघ्रं पतिदुःखेन दुःखिता ।।२१।।

विनापराधं कृष्णांशो महानिंदामवाप्तवान् ।।

तदा वेदविदो विप्रा आह्लादं प्राहुरूर्जितम् ।। २२ ।।

वधस्त्यागः समो ज्ञेयो योग्यं बुद्ध्या विचारय ।।

इत्युक्तः स तुरीयात्मा पुत्रशोकेन दुःखितः ।। ।।२३ ।।

चांडालांश्च समाहूय बद्ध्वा तं पुत्रघातिनम् ।।

दत्त्वा तेभ्यः सपत्नीकं वधं कुरुत मा चिरम् ।। २४ ।।

अस्य नेत्रे समुत्पाट्य मां दर्शयत संयुताः ।।

इति श्रुत्वा गतास्ते वै गहनं व्याघ्रसेवितम् ।। २५ ।।

देवसिंहस्ततो गत्वा दत्त्वा तेभ्यो महद्धनम् ।।

संप्राप्य दंपती वीरश्चांडालेभ्यो वनं ययौ ।। २६ ।।

बलखानेस्तु या पत्नी गजमुक्ता पतिव्रता ।।

दंपती पालयामास गुह्यगेहे मुदा युता ।। २७ ।।

चांडालास्ते तु संगत्य मृगनेत्रे च तं ददुः ।।

देवसिंहस्तदागत्य क्रोधात्मा च तमब्रवीत् ।।

धिक्त्वां पापं दुराचारं त्वया मे हिंसितः सखा ।। २८ ।।

जीवितस्त्वत्सुतो भूमौ तदन्वेषणहेतवे ।।

यास्यामि विविधान्राष्ट्रान्सत्यंसत्यं ब्रवीम्यहम् ।।

इत्युक्त्वा प्रययौ वीरः शिरीषाख्यपुरं शुभम् ।। २९ ।।

गजमुक्तामनुज्ञाप्य दंपती प्राप्य निर्भयः ।।

मयूरनगरं रम्यं निशि घोरं समाययौ ।। 3.3.23.३० ।।

मकरंदस्तु बलवान्ज्ञात्वा तत्सर्वकारणम् ।।

स्वसुः पतिं च भगिनीं स्वांते प्रेम्णा न्यवासयत् ।। ३१ ।।

धर्ममाराधयामास यज्ञैर्नानाविधैः स्तवैः ।।

प्रसन्नो धर्मराजश्च मकरन्दमुवाच ह ।। ३२ ।।

अभिनंदनभूपस्य सुता चित्रप्रपूजिनी ।।

नाट्यात्मजा केसरिणी तत्सखी दंभकोविदा ।। ३३ ।।

केसरिण्या गुरुर्ज्ञेयः कुतुको योगुरूपधृक् ।।

तेन प्रसारिता माया शतयोजनमन्तरा ।। ३४ ।।

शत्रुभिर्दुर्गमा भूमिः शत्रुपाषाणकारिणी ।।

चित्रगुप्तप्रभावेण निर्भयो भूपतिः स्वयम् ।। ३५ ।।

चित्ररेखाभूपसुता जयंतस्तु तया हृतः ।।

नररूपधरो रात्रौ शुकरूपधरो दिने ।।

इन्दुलश्च स्थितो दुःखी चित्रमायाविमोहितः ।। ३६ ।।

कृष्णांशश्च भवान्देवः सहितः सूर्यवर्मणा ।।

मया दत्तानि यंत्राणि गृहीत्वा ते मुदा युताः ।।

चित्ररेखां समागत्य नृत्यादींस्तैः समं कुरु ।। ३७ ।।

मोहयित्वा च तां देवीं पठित्वा तन्मतं शुभम् ।।

पुनरागच्छ वै शीघ्रं सैन्ययोगं पुनः कुरु ।। ।। ३८ ।।

इत्युक्त्वान्तर्दधे देवस्स राजा विस्मयान्वितः ।।

कृष्णांशं वर्णयामास यथा धर्मेण भाषितम् ।। ३९ ।।

फाल्गुने मासि संप्राप्ते त्रयस्ते योगिरूपिणः ।।

ययुरिन्नगटं रम्यं नृत्यगीतविशारदाः ।। 3.3.23.४० ।।

मृदंगांकस्तदा देवो मकरंदो विपंचिमान्।।

नृत्यगानकरो वीरः कृष्णांशः सर्व मोहनः ।। ४१ ।।

मोहयित्वा च नगरं तथा गजपतिं नृपम् ।।

सकुलं च ससैन्यं च तुष्टो राजाब्रवीदिदिदम् ।। ४२ ।।

वांछितं ब्रूहि मे योगिन्स श्रुत्वा प्राह नम्रधीः ।।

देहि मे सूर्यवर्माणं स्वसुतं कार्यहेतवे ।।४३।।

कृत्वा कार्यमहं शीघ्रं पुनर्दास्यमि ते सुतम्।।

विधिना निर्मितो धर्मो राजभिर्विश्वरक्षणम् ।।४४।।

इति श्रुत्वा गजपतिर्दत्त्वा तेभ्यः स्वकं सुतम् ।।

स्वराज्ञीमाययौ राजा गतास्ते कार्यतत्पराः ।।४५।।

पक्षमात्रेण बाह्लीकं नगरं प्रययुर्मुदा ।।

धर्मदत्तानि यंत्राणि गृहीत्वा शत्रुमंदिरम् ।। ४६ ।।

आययुर्लास्यतत्त्वज्ञा नृपमोहनतत्पराः ।।

सर्वे च नागराः प्राप्तास्तत्र क्षत्रगणा मुदा ।।४७।।

मोहितास्तैश्च ते सर्वे गीतनृत्यविशारदैः ।।

महद्धनं ददौ तेभ्यस्तोमरान्वयसंभवाः ।।४८।।

तानादाय पुनर्भूपः स्वगेहमभिनंदनः ।।

आययौ गेहनृत्यार्थी कारयामास वै पुनः ।।४९।।

मकरंदस्तदा वीणां मृदंगं भीष्मजो बली।।

मंजीरं सूर्यवर्मा च कृष्णांशो गाननृत्यकम् ।।3.3.23.५०।।

गृहीत्वा मोदयामासुर्नारीवृन्दा महोत्तमम् ।।

चित्ररेखा स्वयं दृष्ट्वा तेषां मोहनहेतवे ।। ५१ ।।

मायां निर्वापयामास निष्फला साऽभवत्क्षणात् ।।

मोहिता तैश्च सा देवी तानुवाच मुदान्विता ।। ५२ ।।

वांछितं ब्रूहि मे वीर कृष्णांशश्चाह तां वधूम्।।

शुकं देहि च मे देहि नो चेच्छापं ददाम्यऽहम् ।। ५३ ।।

इति श्रुत्वा चित्ररेखा शोकव्याकुलचेतना ।।

कृष्णांशं योगिनं प्राह सत्यं कथय को भवान् ।। ५४ ।।

इंद्राद्या देवतास्सर्वे मया निर्मितया यया ।।

मोहिताः क्षणमात्रेण न भवान्मोहितो मया ।।५५।।

देवो नारायणो वापि धर्मो वापि शिवः स्वयम् ।।

इत्युक्तस्स तु कृष्णांशो वचनं प्राह निर्भयः ।।५६।।

उदयो नाम मे राज्ञि देवसिंहोऽयमुत्तमः ।।

मच्छ्यालो मकरंदोऽयं सूर्यवर्मा तथाविधः ।। ५७ ।।

इन्दुलस्य वियोगेन वयं योगित्वमागताः ।।

मद्गुरुश्च तथोन्मादी संकुलस्तद्वियोगतः ।। ५८ ।।

शुकं देहि महामाये इंदुलं देहि वा यदि ।।

इत्युक्त्वाशु रुरोदोच्चैर्हा इन्दुल महाबल ।। ५९ ।।

दर्शनं देहि मे शीघ्रं नो चेत्प्राणांस्त्यजाम्यहम् ।।

इत्येवंवादिनं वीरं चित्ररेखा महोत्तमा ।। 3.3.23.६० ।।

कृत्वा लज्जां पुनः प्राह मां च पुत्रं गृहाण भोः ।।

कृत्वा नरमयं रूपं स्वकान्तं सर्वसुंदरम् ।। ६१ ।।

पतित्वा तच्चरणयो रुरोदोच्चैश्च दंपती ।।

तथाविधौ च तौ दृष्ट्वा कृष्णांशो हर्षसंयुतः ।। ६२ ।।

इंदुलेनैव लिखितं गृहीत्वा पत्रमुत्तमम्।।

धर्मयंत्रप्रभावेण मयूरनगरं ययौ ।। ६३ ।।

सूर्यवर्मा गतो गेहं मकरंदेन मानितः ।।

देवसिंहस्तु बलवान्गृहीत्वा पत्रमुत्तमम् ।।६४।।

ययौ मनोरथारूढो यत्राह्लादः शुचान्वितः ।।

को भवानिति तं प्राह महोन्मादीव दृश्यते ।। ६५ ।।

देवसिंहं च मां विद्धि तव पुत्रान्वेषणे रतम् ।।

पत्रं गृहाण भो वीर लिखितं तत्सुतेन वै ।। ६६ ।।

इति श्रुत्वा स आह्लादश्चा ह्लादं परमाप्तवान् ।।

ज्ञात्वा तत्कारणं सर्वं यथाविधि सुतो हृतः ।।६७।।

महीपतिं समाहूय वचनं प्राह नम्रधीः।।

सत्यं कथय मे भूप कृष्णांशेन हतस्सुतः ।। ६८ ।।

स होवाच श्रुतं वीर कृष्णांशेन यथा हतः ।।

इत्युक्त्वा तु विहस्याशु कार्यसिद्धिमुपागतः ।। ६९ ।।

अह्लादः क्रोधताम्राक्षः केशाना कृष्य तं मुदा ।।

वेतसैस्ताडयामास स्वहस्तेन पुनः पुनः ।। 3.3.23.७० ।।

श्रुत्वा परिमलो राजा सपत्नीकस्समागतः ।।

बहुधा मोदयामास रामांशं बहुरूपिणम् ।। ७१ ।।

अरे धूर्त महापापिन्मद्बंधुर्घातितस्त्वया ।।

गतो यत्र मम प्राणस्सकुलं त्वां नयाम्यहम् ।। ७२ ।।

तदा महीपतिर्दुःखी निःश्वासो मौनमास्थितः ।।

तदघं हृदि संस्थाप्य महापीडामवाप्तवान् ।। ७३ ।।

एतस्मिन्नंतरे वीरो बलखानिः समागतः ।।

विमुच्य मातुलं धूर्तं ज्येष्ठबन्धुमसान्त्वयत् ।। ७४ ।।

स चकार विवाहार्थमुद्योगं भ्रातृजस्य वै ।।

नेत्रसिंहो नृपः प्राप्तो लक्षसैन्यसमन्वितः ।। ७५ ।।

तारकश्च तमायातस्सार्द्धं शूरसहस्रकैः ।।

वीरसेनः स्वयं प्राप्तः शूरैः सार्द्धं नवाऽयुतैः ।। ७६ ।।

तालनश्च ततः प्राप्तो लक्षसैन्यसम न्वितः ।।

सूर्यवर्मा तथा प्राप्तो लक्षसैन्यसमन्वितः ।। ७७ ।।

ब्रह्मानंदः स्वयं प्राप्तस्त्रिलक्षबलसंयुतः ।।

आह्लादश्च शुचाविष्टो लक्षसैन्य समन्वितः ।। ७८ ।।

हा बंधो क्व गतस्त्वं वै मां त्यक्त्वा पुरुषाधमम् ।।

इत्युक्त्वा प्रययौ वीरः शोकव्याकुलचेतनः ।। ७९ ।।

बलखानिस्तु बलवाँल्लक्षसैन्यसमन्वितः ।।

देवसिंहेन सहितो बाह्लीकं प्रति सोगमत् ।। 3.3.23.८० ।।

अहोरात्रप्रमाणेन मासैकः पथि वै गतः ।।

ज्येष्ठकृष्णस्य पंचम्यां वाह्लीकग्राममाप्तवान् ।।

व्यूहः स्वकीयसैन्यानां रचितो बलखानिना ।। ८१ ।।

एको रथः स्थितो युद्धे तत्पश्चात्संस्थिता गजाः ।।

पञ्चाशच्च क्रमात्तेषां वाजिनश्च शतंशतम् ।। ८२ ।।

तेषां पश्चात्क्रमाज्ज्ञेया पत्तयो दश संस्थिताः ।।

एका सेना च सा ज्ञेया तत्प्रमाणं ब्रवीम्यहम् ।। ८३ ।।

एको रथो गजास्सर्वे शतार्द्धं तु हयास्तु ये ।।

सेनायां पञ्चसाहस्राः शतघ्न्यस्तु तथा स्मृताः।। ८४ ।।

पञ्चायुतानि सेनायां सर्वे पदचराः स्मृताः ।।

एवंविधाश्च ताः सेना बलखानेश्च षोडश ।। ८५ ।।

गजास्तु दशसाहस्रा मदमत्ताः पृथग्ययुः ।।

युद्धे ऽस्मिन्गणितं ह्येवं शूराः शत्रुप्रहारिणः ।। ८६ ।।

अभिनन्दनभूपस्य म्लेच्छाः पैशाचधर्मिणः ।।

त्रिलक्षाश्च हयारूढा एकलक्षाः शतप्रिपाः? ।। ।। ८७ ।।

एकलक्षः पदचरा भुशुण्डीपरिघायुधाः ।।

तोमरान्वयसंयुक्ताः क्षत्रियाः प्रयुतानि वै ।।

गजस्थास्तत्र संप्राप्ता यत्राह्लादमहा चमूः ।। ८८ ।।

तयोश्चासीन्महद्युद्धं तुमुलं रोमहर्षणम् ।।

मदमत्ताश्च ते सर्वे निर्भया रणमाययुः ।। ८९ ।।

सप्ताहोरात्रमभवद्युद्धं समरशालि नाम् ।।

बाह्लीकस्यार्द्धसेना च क्षयं नीता च तैर्नृपैः ।। 3.3.23.९० ।।

एकलक्षं हताः सर्वे बलखानेश्च सैन्यपैः ।।

हाहाभूते शत्रुसैन्ये भयभीते दिशो गते ।।

हर्षिता बलखान्याद्या जय दुर्गे वचोऽब्रुवन्।।९१।।

दृष्ट्वा सैन्यविनाशं च राज्ञः सप्तकुमारकाः ।।

कौरवांशाश्च ते जग्मुर्यत्र जातो महारथाः।।९२।।

महानन्दश्च नन्दश्च परानन्दोपनन्दकौ ।।

सुनन्दश्च सुरानन्दः प्रनन्दः क्रमतोभवाः ।। ९३ ।।

गजस्थास्ते महावीरास्तोमरान्वयसंभवाः ।।

सेनां जघ्नुः शरैस्तीक्ष्णैर्बलखानेर्महात्मनः ।। ९४ ।।

भयभीताश्च ते सर्वे बलखानिमुपाययु ।।

दृष्ट्वा सैन्यं पराभूतं बलखानिस्तदा रुषा ।। ९५ ।।

अभ्यधावत वेगेन कपोतस्थो महाबलः ।।

नंदं प्रति तथा देवः परानंदं च तालनः ।। ९६ ।।

उपनन्दं सूर्यवर्मा सुनन्दं प्रति तारकः ।।

नेत्रसिंहः सुरानन्दं प्रनन्दं प्रति यादवः ।। ९७ ।।

युध्यमानास्तु ते सर्वे परस्परं वधैषिणः ।।

दिनार्द्धमभवद्युद्धं बहुवीरप्रणाशनम् ।। ९८ ।।

पराजितास्तु ते पुत्रा बाह्लीकस्य महाबलाः ।।

त्यक्त्वा युद्धं ययुर्गेहं भीरुका बलखानिना ।। ९९ ।।

दृष्ट्वा तेषां बलं घोरमभिनन्दनभूमिपः ।।

कुतुकं च समाहूय नाट्यां केसीरणीं तथा ।।

कथितं कारणं राज्ञा यथा जातः पराजयः ।। 3.3.23.१०० ।।

इति श्रुत्वा तु कुतुकस्तमाश्वास्य महीपतिम् ।।

स ध्यात्वा शांबरीं मायां महादेवेन निर्मिताम् ।।

तत्सैन्यं मोहयामास शिलाभूतमचेतनम् ।। १०१ ।।

तदा केसरिणी नाट्या अष्टौ बद्ध्वा महाबलान्।।

राज्ञः पार्श्वमुपागम्य दत्त्वा तान्गेहमाययौ ।।१०२।।

बाह्लीकश्च प्रसन्नात्मा बद्ध्वा तान्निगडैर्दृढैः ।।

लुंठित्वा द्रविणं तेषां कोशमध्ये समाक्षिपत् ।। १०३ ।।

देव्याश्च वरदानेन देवसिंहो भयातुरः ।।

महावतीं समागम्य स्वर्णवत्यै न्यवेदयत् ।। १०४ ।।

ज्ञात्वा स्वर्णवती देवी सर्वविद्याविशारदा ।।

श्येनीं मूर्तिं समास्थाय ययौ पुष्पवतीं प्रति ।। १०५ ।।

दृष्ट्वा तु दंपती तत्र मकरंदं गृहे स्थितौ ।।

रुदित्वा कथयामास यथा प्राप्तः पराजयः ।। ।। १०६ ।।

कृष्णांशस्तु तदा दुःखी मकरन्दं वचोऽब्रवीत् ।।

गच्छ वीर मया सार्द्धं मद्गुरुर्बंधनं गतः ।। १०७ ।।

कुलक्षये महत्पापं सुप्रोक्तं पूर्व सूरिभिः ।।

निमग्नान्दुःखजलधौ समुद्धर मम प्रिय ।। १०८ ।।

इति श्रुत्वा तु तच्छयालः शूरायुतसमन्वितः ।।

संन्यस्तवेषमास्थाय खड्गचर्मसमन्वितः ।।

कृष्णांशेन हयारूढो बाह्लीकं त्वरितो ययौ ।। १०९ ।।

तदा स्वर्णवती देवी पुष्पवत्या समन्विता ।।

श्येनीरूपमुपास्थाय ययौ यत्र महारणः ।। 3.3.23.११० ।।

स छित्त्वा शांबरीं मायां बोधयित्वा स्वसैनिकान् ।।

रुरोध नगरीं तस्य बाह्लीकस्य महात्मनः ।। १११ ।।

दृष्ट्वा ताञ्छत्रुसंयुक्तान्कुतुकस्तु तया सह ।।

पुनश्च शांबरीं मायां प्रेषयामास तान्प्रति ।। ११२ ।।

छित्त्वा सा सकलां मायां बद्ध्वा तौ दैत्यसन्निभौ ।।

नगरं दाहयामास तस्य भूपस्य मायया ।। ११३ ।।

न दाहो दाहमापन्नो न भस्मी भस्मवान्खलु ।।

स्वर्णवत्या कृतं चित्रं स्वयं देव्या च मायया ।। ।। ११४ ।।

तदा पुष्पवती देवी हत्वा केसरिणी रुषा ।।

तन्मांसैस्तर्पयामास गृध्रगोमायुवायसान् ।। ११५ ।।

कुतुकं च तथाभूतं हत्वा स्वर्णवती स्वयम् ।।

कारागारे लोहमये स्थितान्वीरानमोचयत् ।। ११६ ।।

पुनरागम्य सा देवी तया सार्द्धं शुभानना ।।

मकरन्दः स्थितो यत्र कृष्णांशेन समन्वितः ।। ११७ ।।

ते सर्वे विस्मिताश्चासञ्ज्ञात्वा देव्या विमोहिताः ।।

क्रोधवन्तो महावीरा युद्धाय समुपाययुः ।। ११८ ।।

पुनश्चासीत्तयोर्युद्धं सेनयोरुभयोर्मृधे ।।

बलखानिं महानन्दो नन्दश्चाह्लादमाययौ ।। ११९ ।।

परानंदस्तथा देवं तारकं चोपनंदनः ।।

सुनन्दो नेत्र सिंहं च सुरानंदश्च तालनम् ।। 3.3.23.१२० ।।

प्रनन्दो वीरसेनं च ब्रह्मानन्दं स भूपतिः ।।

गजस्थिताश्च ते सर्वे धनुर्युद्धपरायणाः ।।

अहोरात्रमभूद्युद्धं तेषां च तुमुलं क्रमात् ।। १२१ ।।

एतस्मिन्नन्तरे रात्रौ चित्ररेखा समागता ।।

स्वकीयान्व्याकुलीभूतांस्तादृशांश्च विलोक्य वै ।। १२२ ।।

चित्रगुप्तं तदा ध्यात्वा चित्रमायामचीकरत् ।।

तदा तद्बांधवाश्चासन्बहुधा चाभिनंदनाः ।। १२३ ।।

तान् दृष्ट्वा विस्मिताः सर्वे भयभीताश्च दुद्रुवुः ।।

त्यक्त्वा युद्धमयीं भूमिं शोकव्याकुलचेतना ।। १२४ ।।

पंचयोजनमागत्य ततो वासमकारयन् ।।

संध्याकाले तमोभूते निरुत्साहा महाबलाः ।। १२५।।

हा कृष्णांश महाबाहो शरणागतवत्सल ।।

इन्दुलस्ते कुमारोऽयं संहृतश्चित्ररेखया ।। १२६ ।।

तया विमोहिता वीरा वयं ते शरणं गताः ।।

इत्युक्त्वा रोदनं चक्रुः क्व गतोऽसि महामते ।।१२७।।

तदा कोलाहलश्चासीद्रुदतां बलशालिनाम् ।।

आह्लादं गर्हयित्वा ते मूर्छिता भुवि विह्वलाः ।। १२८ ।।

आह्लादस्तुऽतथा श्रुत्वा वज्रपाताहतः स्वयम् ।।

उन्मादिवत्तदा भूत्वा ताडयामास वक्षसि ।। १२९ ।।

एतस्मिन्नंतरे योगी कृष्णांशो भगवत्कला ।।

चंद्रोदये स्वयं प्राप्तश्चाष्टम्यां भृगुवासरे ।। 3.3.23.१३० ।।

शूरश्च दशसाहस्रैर्मकरंदेन संयुतः ।।

तत्सेनां बोधयामास पालितां बलखा निना ।। १३१ ।।

जित्वा तान्सर्वभूपालान्गृहीत्वा विपुलं धनम् ।।

पञ्चशब्दस्थितं बंधुं प्रत्यागत्य जगर्ज वै ।। १३२ ।।

तस्य शब्देन शेषांशो बोधितो बलशालिना ।।

शकुनं शुभमालोक्य भुजावुत्थाप्य वीर्यवान् ।।

स्वांके निवेशयामास कृष्णांशं योगिरूपिणम् ।। १३३ ।।

स्नापयित्वा श्रुधाराभिः कृष्णांशं प्रेमविह्वलः ।।

दत्त्वा द्विजातिमुख्येभ्यो वर्णयामास कारणम् ।। १३४ ।।

कृष्णांशोऽपि प्रसन्नात्मा स्वकीयां सकलां कथाम्।।

वर्णयित्वा यथाभूतां पुनर्बाह्लीकमाययौ ।।१३५।।

चित्रविद्यां स्वयं कृत्वा पाठितां चित्ररेखया ।।

बद्ध्वाभिनंदनं भूपं ससुतं च समंत्रिणम् ।।

विवाहं कारयामास जयंतस्य तया सह ।। १३६ ।।

बाह्लीकस्तु प्रसन्नात्मा दत्त्वा च विपुलं धनम् ।।

स्वसुतां चित्ररेखां च जयन्ताय मुदा ददौ ।।१३७।।

शतं गजान्हयांस्तत्र सहस्राणि धनैर्युतान् ।।

शतं दासांस्तथा दासीर्जयंताय स्वय ददौ ।। १३८ ।।

प्रस्थानं कारयामास बलखानेर्महात्मनः ।।

श्रावणे मासि संप्राप्तास्ते सर्वे च महावतीम् ।। १३९ ।।

स्वंस्वं गेहं ययुस्सर्वे भूपाश्चाह्लादमानिताः ।।

इति ते कथितं विप्र चरित्रं कलिनाश नम्।।

शृण्वतां सर्वपापघ्नं कथयिष्यामि वै पुनः ।। 3.3.23.१४० ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहा ससमुच्चये त्रयोविंशोऽध्यायः ।। २३ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 24

।। सूत उवाच ।। ।।

कृष्णांशे च गृहं प्राप्ते चेन्दुले च विवाहिते ।।

महीपतिस्सदा दुःखी देहलीं प्रति चागमत्।। १ ।।

वृत्तांतं च नृपस्याग्रे कथयित्वा स तारकः ।।

परं विस्मयमापन्नः कृष्णांशचरितं प्रति ।। २ ।।

एतस्मिन्नंतरे मंत्री चंद्रभट्ट उदारधीः ।।

भूमिराजं वचः प्राह शृणु पार्थिवसत्तम।।३।।

मया चाराधिता देवी वैष्णवी विश्वकारिणी ।।

त्रिवर्षांते च तुष्टाभूद्वरदा भयहारिणी।।४।।

तया दत्तं शुभं ज्ञानं कुमतिध्वंसकारकम्।।

ततोऽहं ज्ञानवान्भूत्वा कृष्णांशं प्रति भृपते ।।

चरित्रं वर्णयामास तस्य कल्मषनाशनम् ।। ५ ।।

इत्युक्त्वा स च शुद्धात्मा ग्रंथं भाषामयं शुभम् ।।

माहात्म्यं देविभक्तानां श्रावयामास वै सभाम् ।।६।।

तच्छ्रुत्वा भूमिराजस्तु विस्मितश्चाभवत्क्ष णात् ।।

महीपतिस्तदा प्राह दिव्याश्वबलदर्पितः। ।।

उदयो नाम बलवान्यस्यैवं वर्णिता कथा ।।७।।

चत्वारो वाजिनो दिव्या जलस्थलखगाश्च ते ।।

शीघ्रं तांश्च समाहृत्य स्वयं भूप बली भव ।। ८ ।।

इति श्रुत्वा स नृपतिः श्रुतवाक्यविशारदम् ।।

आहूय कुंदनमलं प्रेषयामास सत्वरम् ।। ९ ।।

महावतीं समागत्य स दूतो भूपतिं प्रति ।।

उवाच वचनं प्रेम्णा महीराजस्य भूपतेः ।। 3.3.2४.१० ।।

वाजिनस्ते हि चत्वारो दिव्यरूपाः शुभ प्रभाः ।।

दर्शनाथें तव वधूर्वेला नाम ममात्मजा ।। ११ ।।

तयाहूतान्हयान्भूप देहि मे विस्मयं त्यज ।।

नो चेद्वेलाग्निना सर्वे क्षयं यास्यंति सैन्यपाः ।। १२ ।।

इति श्रुत्वा वचो घोरं स भूपो भयकातरः ।।

आह्लादादीन्समाहूय वचनं प्राह नम्रधीः ।।

हयान्स्वान्स्वान्मुदा देहि मदीयं वचनं कुरु ।। ।।१३।।

इति श्रुत्वा स आह्लादो ध्यात्वा सर्वमयीं शिवाम् ।।

उवाच मधुरं वाक्यं शृणु भूप शिवप्रिय ।।१४।।

यत्र नः संस्थिताः प्राणास्तत्र ते वा जिनः स्थिताः ।।

न दास्यामो वयं राजन्सत्यंसत्यं न चान्यथा ।। १५ ।।

इति श्रुत्वा वचस्तस्य राजा परिमलो बली ।।१६।।

शपथं कृतवान्घोरं शृण्वतां बलशालिनाम् ।।

भोजनं ब्रह्ममांसस्य पानीयं गोऽसृजोपमम्।।१७।।

शय्या स्वमातृसदृशी ब्रह्महत्योपमा सभा ।।

मम राष्ट्रे च युष्माभिर्वासः पापमयो महान् ।।१८।।

इति श्रुत्वा तु शपथं देवकी शोकतत्परा ।।

चकार रोदनं गाढं सगेहजनविग्रहा।।१९।।

पंचविंशाब्दके प्राप्ते कृष्णांशे योगतत्परे ।।

भाद्रशुक्लचतुर्दश्यां तद्गेहाद्धर्मतत्पराः ।। 3.3.2४.२० ।।

निर्ययुः कान्यकुब्जं ते जयचंद्रेण पालितम् ।।

स्वर्णवत्या पुष्पवत्या सहिताश्चित्ररेखया ।।२१।।

इन्दुलः प्रययौ शीघ्रमयुताश्वबलैस्सह ।।

करालं हयमारुह्य पंचशब्दं च तत्पिता ।।

कृष्णांशो बिंदुलारूढो देवकीमनुसंययौ ।।२२।।

त्यक्त्वा ते भूपतेर्ग्रामं सर्वसंपत्समन्वितम् ।।

पथि त्र्यहमुषित्वा ते जयचंद्रमुपाययुः ।।२३।।

नत्वा तं भूपतिं प्रेम्णा गदित्वा सर्वकारणम् ।।

उषित्वा शीतलास्थाने पूजयामासुरम्बिकाम्।।२४।।

जयचंद्रस्तु भूपालो देवसिंहेन वर्णितः।।

तेभ्यश्च न ददौ वृत्तिं भूमा परिमलाज्ञया।।२५।।

कुंठितो देवसिंहस्तु गत्वा कृष्णांशमुत्तमम् ।।

उदित्वा कारणं सर्वं स श्रुत्वा रोषमादधौ ।। २६।।

त्वरितं बिंदुलारूढो हयपंचशतावृतः ।।

लुंठयामास नगरं पालितं लक्षणेन तत् ।। २७ ।।

दृष्ट्वा तं लक्षणो वीरो हस्तिनः पृष्ठमास्थितः ।।

शरेण ताडयामास कृष्णांशहृदयं दृढम् ।।२८।।

निष्फलत्वं गतो बाणो विष्णुमंत्रेण प्रेरितः ।।

विस्मितः स तु भूपालो वाहनाद्भूमिमागतः ।। २९ ।।

नत्वा तच्चरणौ दिव्यौ कुलिशादिभिरन्वितौ ।।

तुष्टाव दंडवद्भूत्वा लक्षणो गद्गदं गिरा ।। 3.3.2४.३० ।।

।। लक्षण उवाच ।। ।।

वैष्णवं विद्धि मां स्वामिन्विष्णुपूजनतत्परम् ।।

जानेऽहं त्वां महाबाहो कृष्णशक्त्यवतारकम् ।।३१।।

त्वदृते को हि मे बाणं निष्फलं कुरुते भुवि ।।

क्षमस्व मम दौरात्म्यं नाथ ते मायया कृतम् ।।३२।।

इत्युक्त्वा तेन सहितो जयचन्द्रं महीपतिम्।।

गत्वा तं कथयामास यथा प्राप्तः पराजयम्।।३३।।

नृपस्तयोः परीक्षार्थं यौ तु छायाविमोहितौ।।

गजौ कुवलयापीडौ त्यक्तवाच्छीतलास्थले।।३४।।

तदाह्लादोदयौ वीरौ गृहीत्वा तौ स्वलीलया ।।

चकृषतुर्बलात्पुच्छे क्रोशमात्रं पुनःपुनः ।। ३५ ।।

मृतौ कुवलयापीडौ दृष्ट्वा राजा भयातुरः ।।

ददौ राजगृहं ग्रामं तयोरर्थे प्रसन्नधीः ।। ३६ ।।

इषशुद्धे तु संप्राप्ते लक्षणो नाम वै बली ।।

नृपाज्ञया ययौ शीघ्रं तैश्च दिग्विजयं प्रति ।। ३७ ।।

सप्तलक्षबलैस्सार्द्धं तालनाद्यैश्च संयुतः ।।

वाराणसीं पुरीं प्राप्य रुरोध नगरीं तदा ।। ३८ ।।

रुद्रवर्मा च भूपालो गौडवंशयशस्करः ।।

पंचायुतैः स्वसैन्यैश्च सार्द्धं युद्धार्थमाप्तवान् ।। ३९ ।।

याममात्रेण तं जित्वा षोडशाब्दस्य वै करम् ।।

कोटिमुद्रामयं प्राप्य जयचंद्राय चार्पयत् ।।3.3.2४.४० ।।

मागधेशं पुनर्जित्वा नाम्ना विजयकारिणम् ।।

विंशत्यब्दकरं प्राप्य स्वभूपाय समर्पयत् ।। ४१ ।।

पंचकोटीश्च वै मुद्रा राजतस्य पुनर्ययौ ।।

अंग वंगदेशपतिं वीरो लक्षणो वै युतश्च तैः।।

लक्षसैन्ययुतं भूपं कालीवर्माणमुत्तमम्।।

अहोरात्रेण तं जित्वा महायुद्धेन लक्षणः।। ४४।

विंशत्यब्द करं प्राप्य कोटिं स्वर्णमयं तदा।।

प्रेषयामास भूपाय जयचंद्राय वै मुदा।।४५।।

उष्ट्रदेशं ययौ वीरः पालितं तैर्महाबलैः।।

धोयीकविस्तत्रनृपो लक्षसैन्यसमन्वितः।४६।।

जगन्नाथाज्ञया प्राप्तस्तैश्च सार्द्धं रणोन्मुखे।।

तयोश्चासीन्महद्युद्धं तुमुलं रोमहर्षणम्।।

अहोरात्रप्रमाणेन कृष्णांशेन जितो नृपः।।४७।।

विंशत्यब्दकरं सर्वं कोटिस्वर्णसमन्वितम् ।।

संप्राप्य प्रेषयामास कान्यकुब्जाधिपाय वै ।। ४८ ।।

पुंड्रदेशं ययौ वीरो लक्षणो बलवत्तरः ।।

नृपं नागपतिं नाम पंचायुतबलैर्युतम् ।।

दिनमात्रेण तं जित्वा कोटिमुद्रा गृहीतवान् ।। ४९ ।।

महेंद्रगिरिमागत्य नत्वा तं भार्गवं मुनिम् ।।

नतो निवृत्य ते सर्वे नेत्रपालपुरं ययुः ।। 3.3.2४.५० ।।

योगसिंहस्तदागत्य कृष्णांशं प्रति भार्गव ।।

कोटिमुद्रा ददौ तस्मै सप्तरात्रम वासयत् ।। ५१ ।।

वीरसिंहपुरं जग्मुस्ते वीरा मदवत्तराः ।।

रुरुधुर्नगरीं सर्वां हिमतुंगोपरि स्थिताम् ।।

पालितां गोरखाख्येन योगिना भक्तकार णात् ।। ५२ ।।

भूपानुजः प्रवीरश्च सैन्यायुतसमन्वितः ।।

कृतवान्दारुणं युद्धं लक्षणस्यैव सेनया ।। ५३ ।।

प्रत्यहं बलवाञ्छूरो हत्वा शूरसहस्र कम् ।।

सायंकाले गृहं प्राप्य योगिनं तमपूजयत् ।। ५४ ।।

पूजनात्स प्रसन्नात्मा सैन्यमुज्जीव्य भूपतेः ।।

दत्त्वा गजबलं तेभ्यः पुनर्योगं करोति वै ।। ५५ ।।

सार्द्धमासो गतस्तत्र युद्ध्यतां बलशालिनाम् ।।

तदा ते तु निरुत्साहा देवसिंहं तमब्रुववन् ।। ५६ ।।

विजयो नः कथं भूप ब्रूहि नस्तत्त्वमग्रतः।।

इति श्रुत्वा स होवाच शृणु कृष्णांश मे वचः ।।५७।।

योगिनां गोरखं नाम पराजित्य स्वनृत्यतः ।।

पुनर्युद्धं कुरु त्वं वै ततो जय मवाप्स्यसि ।। ५८ ।।

इत्युक्तास्ते हि कृष्णाद्याः कृत्वा योगमयं वपुः ।।

स्थापयित्वा रणे सेनां पालितां लक्षणेन वै ।। ५९ ।।

प्रातः काले ययुस्ते वै मंदिरं तस्य योगिनः ।।

कृष्णांशो नर्तकश्चासीद्वेणुवाद्यविशारदः ।। 3.3.2४.६० ।।

देवसिंहो मृदंगाढ्यो वीणाधारी च तालनः ।।

कांस्यधारी तदाह्लादो जगौ गीतां सनातनीम् ।। ६१ ।।

तदर्थं हृदये कृत्वा गोरखस्सर्वयोगवान् ।।

वरं वृणुत तानाह ते तच्छ्रुत्वाऽब्रुवन्वचः ।। ६२ ।।

नमस्यामो वयं तुभ्यं यदि देयो वरस्त्वया ।।

देहि संजीविनी विद्यामाह्लादाय महात्मने ।।६३।।

इति श्रुत्वा हृदि ध्यात्वा तानुवाच प्रसन्नधीः ।।

विद्या संजीविनी तुभ्यं वर्षमात्रं भविष्यति ।।

तत्पश्चान्निष्कलीभूयागमिष्यति मदंतिकम् ।।६४।।

अद्यप्रभृति भो वीर मया त्यक्तमिदं जगत् ।।

यत्र भर्तृहरिः शिष्यस्तत्र गत्वा शये ह्यहम्।। ६५ ।।

इत्युक्त्वान्तर्हितो योगी जग्मुस्ते रणमूर्द्धनि ।।

जित्वा प्रवीरसिंहं च वीरसिंहं तथैव च ।। ६६ ।।

हत्वा तस्यायुतं सैन्यं लुण्ठयित्वा च तद्गृहम् ।।

कृत्वा दासमयं भूपं लक्षणः प्रययौ मुदा ।। ६७ ।।

कोशलं देशमागत्य जित्वा तस्य महीपतिम् ।।

सैन्यायुतं सूर्यधरं करयोग्यमचीकरत् ।। ६८ ।।

षोडशाब्दकरं प्राप्य मुद्राकोट्ययुतं मुदा ।।

नैमिषारण्यमागम्य तत्रोषुः स्नानतत्पराः ।। ६९ ।।

होलिकाया दिने रम्ये लक्षणो बलवत्तरः ।।

दत्त्वा दानानि विप्रेभ्यो महोत्सवमकारयत् ।। 3.3.2४.७० ।।

तदा वयं च मुनयः समाधिस्थाश्च भूपतिः ।।

यदा स लक्षणः प्राप्तो नैमिषारण्यमुत्तमम् ।। ७१ ।।

स्नात्वा सर्वाणि तीर्थानि संतर्प्य द्विजदेवताः ।।

कान्यकुब्जपुरं जग्मुश्चैत्रकृष्णाष्टमीदिने ।। ७२ ।।

इति ते कथितं विप्र यथादिग्विजयोभवत् ।।

शृणु विप्र कथां रम्यां बलखानिर्यथा मृतः ।। ७३ ।।

मार्गकृष्णस्य सप्तम्यां भूमिराजो महाबलः ।।

महीपतेश्च वाक्येन सामंतं प्राह निर्भयः ।। ७४ ।।

मया श्रुतस्ते तनयः शारदावरदर्पितः ।।

रक्तबीजत्वमापन्नस्तं मे देहि कृपां कुरु ।। ७५ ।।

इत्युक्तस्स तु सामन्तस्तेन राज्ञेव सत्कृतः ।

चामुंडं नाम तनयं समाहूयाब्रवीदिदम् ।। ७६ ।।

पुत्र त्वं नृपतेः कार्यं सदा कुरु रणप्रिय ।।

इति श्रुत्वा पितुर्वाक्यं स वै राजानमब्रवीत् ।। ७७ ।।

देह्याज्ञां भूपते मह्यं शीघ्रं जयमवाप्स्यसि ।।

इति श्रुत्वा स होवाच बलखानिर्महाबलः ।। ७८ ।।

मच्छिरीषवनं छित्वा गृहीत्त्वा राष्ट्रमुत्तमम् ।।

सुस्थितो निर्भयो गेहे बाहुशाली यतेंद्रियः ।।७९।।

यदि त्वं बलखानिं च जित्वा मे ह्यर्पयिष्यसि।।

हत्वा वा तस्य सकलं राष्ट्रं त्वयि भविष्यति ।। 3.3.2४.८० ।।

इत्युक्त्वा रक्तबीजं तं समाहूय स्वकं बलम् ।।

सप्तलक्षं ददौ तस्मै स तत्प्राप्य मुदा ययौ ।। ।। ८१ ।।

उषित्वा त्रिदिनं मार्गे शिरीषाख्यमुपागतः ।।

रुरोध नगरीं सर्वां बलखानेर्महात्मनः।। ८२ ।।

चामुंडागमनं श्रुत्वा बलखानिर्महाबलः।।

पूजयित्वा महमायां दत्त्वा दानान्यनेकशः ।।

लक्षसैन्येन सहितः प्रययौ नगराद्बहिः ।। ८३ ।।

तस्यानुजो महावीरस्सुखखानिर्बलैः सह ।।

हरिणीं तां समारुह्य शत्रुसैन्यमचिक्षपत् ।। ८४ ।।

बलखानिः कपोतस्थो नाशयित्वा रिपोर्बलम् ।।

लक्षसैन्यं मुदा युक्तश्चामुंडं प्रति चागमत् ।। ।। ८५ ।।

तयोश्चासीन्महद्युद्धं स्वस्वसैन्यक्षयंकरम् ।।

अहोरात्रप्रमाणेन निहताः क्षत्रिया रणे ।। ८६ ।।

प्रातःकाले तु संप्राप्ते कृत्वा स्नानादिकाः क्रियाः ।।

जग्मतुस्तौ रणे वीरौ धनुर्बाणविशारदौ ।। ८७ ।।

रथस्थो बलखानिश्च चामुण्डो गजपृष्ठगः ।।

चक्रतुस्तुमुलं घोरं नरविस्मयकारकम् ।। ८८ ।।

बाणैर्बाणांश्च संछिद्य देवीभक्तौ च तौ मुदा ।।

अन्योन्यं वाहने हत्वा भूतलत्वमुपागतौ ।।

खड्गचर्मधरौ वीरौ युयुधाते परस्परम्।।८९।।

यावन्तो रक्तबीजांगात्संजाता रक्तबिंदवः ।।

तावन्तः पुरुषा जाता रक्तबीजपराक्रमाः ।। 3.3.2४.९० ।।

तैश्च वीरैर्मदोन्मत्तैर्बलखानिस्समंततः ।।

संरुद्धोऽभूद् भृगुश्रेष्ठ शारदां शरणं ययौ।।९१।।

एतस्मिन्नंतरे वीरः सुखखानिस्ततोऽनुजः।।

आग्नेयं शरमादाय रक्तबीजानदाहयत्।।९२।।

पुरा तु सुखखा निश्च हव्यैर्देवं च पावकम् ।।

पंचाब्दान्पूजयामास तदा तुष्टस्स्वयं प्रभुः ।। ९३ ।।

पावकीयं शरं रम्यं शत्रुसंहारकारकम् ।।

ददौ तस्मै प्रसन्नात्मा तेनासावभवज्जयी ।। ९४ ।।

बलखानिस्तु बलवान्दृष्ट्वा शत्रुविनाशनम् ।।

पराजितं च चामुंडं बद्ध्वा गेहमुपागतम् ।। ९५।।

कृत्वा नारीमयं वेषं स भीतो ब्रह्महत्यया ।।

दोलामारोप्य बलवान्प्रेषयामास शत्रवे ।। ९६ ।।

हतशेषं पंचलक्षं सैन्यं गत्वा च देहलीम् ।।

वृत्तान्तं कथयामास यथा जातो महारणः ।। ९७ ।।

नारीवेषं च चामुंडं स दृष्ट्वा पृथिवीपतिः ।।

क्रोधाविष्टश्च बलवान्महीपतिमुवाच ह ।। ९८ ।।

कथं जयो मे भविता सुखखानौ च जीविते ।।

श्रुत्वा महीपतिः प्राह च्छद्मना कार्यमाकुरु ।। ९९ ।।

ब्राह्मी माता तयोर्ज्ञेया शुद्धा सैव पतिव्रता ।।

दूतीभिः कारणं ज्ञात्वा पुनर्युद्धं कुरुष्व भोः ।। 3.3.2४.१०० ।।

इति श्रुत्वा महीराजो दूतीस्ताश्छलकोविदाः ।।

आहूय प्रेषयामास बलखानिगृहं प्रति ।।१ ०१।।

ब्राह्मण्यस्तास्तदा भूत्वा बलखानिगृहं ययुः ।।

ससुतां तां प्रशस्याशु पप्रच्छुर्विनयान्विताः ।। १०२ ।।

तव पुत्रौ महावीरौ दिष्ट्या शत्रुक्षयंकरौ ।।

तयोर्मृत्युः कथं भूयाज्जीवतां शरदां शतम् ।। १०३ ।।

तदा ब्राह्मी वचः प्राह पावकीयः शरः शुभः ।।

सुखखानेर्जीवकरो बलखानेः पदाह्वकः ।। १०४ ।।

इति ज्ञात्वा तु ता दूत्यः प्रययुर्देहलीं प्रति ।।

कथयित्वा नृपस्याग्रे धनं प्राप्यं गृहं ययुः ।।१०५।।

महीराजस्तु तच्छ्रुत्वा महादेवमुमापतिम् ।।

पार्थिवैः पूजनं चक्रे सहस्रदिवसान्मुदा ।।१०६।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्विशोऽ ध्यायः ।। २४ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 25

सूत उवाच ।।

षड्विंशाब्दे च कृष्णांशे यथा जातं तथा शृणु ।।

मुने बिंदुसरो नाम दक्षिणस्यां दिशि स्थितम् ।।१।।

तस्य तीरेऽवसद्ग्रामो योजनायामसंयुतः ।।

नाम्ना बिंदुगढो दुर्गो वर्णधर्मप्रवर्तकः ।। २ ।।

तस्मिन्ग्रामेऽवसद्भूपो विष्वक्सेनान्वयोद्भवः ।।

शारदानन्दनो नाम ब्रह्मध्यानपरायणः।।३।।

ब्रह्मचर्यप्रभावेण तद्वीर्यं शिरसि स्थितम् ।।

अतस्स कामपालाख्यः प्रथितोऽभून्महीतले।।४।।

यज्ञैः संपूजयामास सुरज्येष्ठं प्रजापतिम्।।

यज्ञांशभुक्तमात्रेण राज्ञी गर्भमुपादधौ।।५।।

दशमासान्तरे जाता कन्या सर्वगुणालया ।।

पद्मिनी नाम विख्याता सर्वशोभासमन्विता।। ६ ।।

द्वादशाब्दवयः प्राप्तौ बभूव वरवर्णिनी ।।

पद्माकरो भूपसुतो महीराजपदानुगः ।।७।।

पितुराज्ञानुसारेण भूपानाहूय सत्वरम् ।।

स्वयं वरं भगिन्याश्च कारयामास वै मुदा ।। ८ ।।

नानादेश्या ययुर्भूपा मुख्यशूरसमन्विताः ।।

सहाह्लादैश्चतुवीरैर्लक्षणः पितुराज्ञया ।। ९ ।।

ययौ बिंदुगढं ग्रामं स्थितो यत्र महोत्सवः ।।

महीराजस्तु बलवान्दृष्ट्वा लक्षणमागतम् ।। 3.3.25.१० ।।

स्वसेनां स्थापयामास रक्षार्थे सर्वभूभुजाम् ।।

एतस्मिन्नंतरे देवी सखीभिः सह पद्मिनी ।। ११ ।।

सर्वभूपान्विलोक्याशु लक्षणांतमुपाययौ ।।

श्यामांगं च युवानं च सर्वलक्षण लक्षितम् ।। १२ ।।

चत्वारिंशत्तथा पंचाशन्मानाब्दवयोवृतम् ।।

व्यूढोरस्कं दृढस्कंधं निर्जरं रोगवर्जितम् ।। १३ ।।

दृष्ट्वा तमात्मसदृशमाह्लादाद्यैश्च रक्षितम् ।।

जयमालां ददौ तस्मै पद्मिनी लक्षणाय च ।। १४ ।।

तदा स लक्षणो वीरो गृहीत्वा पाणिमुत्तमम् ।।

स्वरथं च समारुह्य राज्ञां मध्ये ययौ मुदा ।। १५ ।।

पृध्वीराजस्तथा सर्वे भूमिपा बलसंयुताः ।।

रुरुधुः सर्वतो वीरं लक्षणं बलवत्तरम् ।। १६ ।।

तालनः सिंहिनीसंस्थो गृहीत्वा परिघं मुदा ।।

सैन्यानि योधयामास भीमसेनांशसंभवः ।। १७ ।।

पंचशब्दगजारूढश्चाह्लादस्तोमरायुधः ।।

रिपून्विदारयामास बलभद्रांशसंभवः ।। १८ ।।

कृष्णांशो बिन्दुलारूढो गृहीत्वा खड्गमुत्तमम् ।।

भूपतीन्बहुधा छित्त्वा महावधमकारयत् ।। १९ ।।

देवो मनोरथारूढो भैरवं भल्लमादधौ ।।

हत्वा च बहुधा सैन्यं ननर्द च पुनःपुनः ।। 3.3.25.२० ।।

लक्षणो धनुरादाय वैष्णवास्त्राणि वै पुनः ।।

संधाय च जघानाशु महीराजस्य सैन्यपान् ।। २१ ।।

याममात्रमभूयुद्धं तेषां तैश्च समन्वितम् ।।

त्यक्त्वा युद्धं महीराजः सर्वभूपसमन्वितः ।। २२ ।।

ययौ स देहलीग्रामे शारदानंदनस्तदा ।।

संस्थाप्य मण्डपशुभं कृत्वा वैवाहिकीः क्रियाः ।।

ददौ कन्यां विधानेन धनधान्यादिसंवृताम् ।। २३ ।।

एतस्मिन्नन्तरे प्राप्तो महीपतिरुवाच तम् ।।

पद्माकरं भूपसुतं लक्षसैन्यसमन्वितम् ।। २४ ।।

अहो मित्र महावीर कीदृशी ते मतिः स्थिता ।।

विष्वक्सेनान्वये त्वं वै संजातः क्षत्रियोत्तमः ।। २५ ।।

लक्षणो धर्मरहितो वर्णसंकरसंयुतः ।।

आह्लादाद्याश्च ते शूरा आभीरमातृसंभवाः ।।

तैर्युतश्च निवासो वै संत्याज्यो धर्मकोविदैः ।। २६ ।।

इति पद्माकरः श्रुत्वा सर्वमायाविशारदः ।।

स कृत्वा शाम्बरीं मायां बद्ध्वा तानेव दुर्जयान् ।।

स्वगेहे स्थापयामास कारागारे शिलामये ।। २७ ।।

देव्याश्च वरदानेन देवसिंहस्तदा निशि ।।

त्यक्त्वा मायामोहमयी कान्यकुब्जमुपाययौ ।। २८ ।।

इंदुलाग्रे च तत्सर्वे गदित्वा तेन संयुतः ।।

प्राप्तो बिंदुगढं शीघ्रं दिव्यमायाविशारदः ।। २९ ।।

पद्माकरस्तु तच्छुत्वा कृत्वा मायां च शाम्बरीम् ।।

मोहनायोद्यतस्तत्र यथा मेघो रविं दिवि ।। 3.3.25.३० ।।

इंदुलश्च तदा चापे संधाय शरमुत्तमम् ।।

कामास्त्रेण तु तन्माया भस्मीभूताभवत्क्षणात् ।। ३१ ।।

तदा ते बोधिताः सर्वे कामास्त्रेण महाबलाः ।।

भित्त्वा लोहमयं जालं कपाटं च तथा दृढम् ।। ३२ ।।

बहिर्भूता: समाजग्मुः शत्रुसैन्यान्यनाशयन् ।।

क्षत्रियाः पंचसाहस्रा मृता यमपुरं ययुः ।। ३३ ।।

शारदानंदनो भूपस्तत्रागत्य विनम्य तान् ।।

स्वसुतां च ददौ तस्मै लक्षणाय महात्मने ।।३४।।

नानाविधानि भोज्यानि प्रशस्याभरणानि च ।।

सर्वेभ्यश्च ददौ राजा सहस्रेभ्यस्तदा मुदा ।। ३५ ।।

कुमारिकां स्वकीयां च बहुरोदनतत्पराम्।।

स मत्वा कामपालो वै स्वगेहात्तं न्यवासयत् ।।

आगतो लक्षणो गेहं माघकृष्णाष्टमीदिने ।। ३६ ।।

जयचंद्रस्तु तं दृष्ट्वा लक्षणं प्रेमविह्वलः ।।

शतग्रामान्ददौ तेभ्यस्तालनादिभ्य एव च।।३७।।

दत्त्वा ततोऽन्यदानानि गोवस्त्राभरणानि च ।।

प्रददौ ब्राह्मणेभ्यश्च स चकार महोत्सवम् ।।३८।। ।।

।। सूत उवाच ।। ।।

महीराजो वरं प्राप्तः शंकरात्पार्थिवार्चनात् ।।

संयोज्य फाल्गुने मासि सेनां शत्रुभयंकराम् ।। ३९ ।।

सप्तलक्षैश्च सहितः शिरीषाख्यपुरं ययौ ।।

नृपाज्ञया च चांमुडो रुरोध नगरं पुनः ।। 3.3.25.४० ।।

सुखखानिस्तदा क्रुद्धो लक्षसैन्यसमन्वितः ।।

नगराद्बहिरागत्य महावधमकारयत् ।। ४१ ।।

पावकास्त्रेण बलवान्हत्वा दशसहस्रकम् ।।

महीराजमुपागम्य वचनं प्राह निर्भयः ।। ४२ ।।

अद्य त्वां च हनिष्यामि त्वं वा हन्ता रणे मम ।।

स्वविद्यां कुरु भूप त्वं नो चेद्यास्यसि वैशसम् ।। ४३ ।।

इति श्रुत्वा महीराजो रौद्रास्त्रं चाप आदधे ।।

तदस्त्राच्च महावह्निः प्रादुर्भूतो भयंकरः ।। ४४ ।।

सुखखानिस्तदाग्नेयं संदधौ तस्य शांतये ।।

रौद्राग्निना च सशरः सुखखानिर्लयं गतः ।। ४५ ।।

तदस्त्रं शिवतूणीरे गतं कार्यं विधाय तत् ।।

बलखानिस्तु तच्छ्रुत्वा भयभीतः समागतः ।। ४६ ।।

भ्रातुर्वैरमुपादाय जघान च रिपोर्बलम् ।।

ध्यात्वा च शारदां देवीं भूमिराजमुपागमत् ।। ४७ ।।

भूमिराजस्तु तं दृष्ट्वा तद्बलाधिक्यमोहितः ।।

उवाच वचनं प्रेम्णा बलखाने शृणुष्व भोः ।। ४८ ।।

क्रोशमात्रान्तरे गर्ता द्वादशैव मया कृताः ।।

रक्षिता द्वादशशतैः शूरैर्युद्धविशारदैः ।। ४९ ।।

शूराञ्जित्वा समुल्लंघ्य गर्तान्द्वादशसम्मितान् ।।

ममार्द्धं सकलं राष्ट्रं गृहाण बलिसत्तम ।। 3.3.25.५० ।।

इति श्रुत्वा प्रियं वाक्यं तद्राज्ञा सत्यभाषितम् ।।

कपोतं हयमारुह्य खड्गहस्तो वनं ययौ ।। ५१ ।।

दृष्ट्वा गर्तान्महावीरो हत्वा शूराञ्छतञ्छतम्।।

ययौ स द्वादशान्गर्त्तान्बाहुशाली जितेंद्रियः ।। ५२ ।।

चामुंडस्तु तदागत्य शरायुतसमन्वितः ।।.

रुरोध सर्वतो वीरं छद्मकारी द्विजाधमः ।। ५३ ।।

बलखानिश्च महतीं सेनां तस्य जघान ह ।।

चामुंडं तमुपागम्य ननर्द च पुनःपुनः ।। ५४ ।।

त्रयोदशं गुप्तगर्तं तृणैराच्छादितं मृदा ।।

विषधौतैर्महाभल्लैस्संरुद्धं विवरप्रभम् ।। ५५ ।।

पतितः सकपोतश्च स वीरो दैवमोहितः ।।

अंधकारे महाघोरं गंभीरं क्रोशमात्रकम् ।। ५६ ।।

विदीर्णस्तत्र चरणस्स पद्मो वत्सजस्य वै ।।

महाकष्टेन तद्वाजी गर्तादागत्य वै बहिः ।।

स्वपदैस्ताडयामास महीराजस्य तद्बलम् ।। ५७ ।।

चामुंडस्तु तदागत्य बलखानेश्च वै शिरः ।।

छित्त्वा जघान तत्सैन्यं हाहाभूतं विनेश्वरम् ।। ५८ ।।

गजमुक्ता च तच्छुत्वा चितामारोप्य वै पतिम् ।।

दाहयामास चांगानि सा पत्या सह वै सती ।। ५९ ।।

तदा ब्रह्मा स्ववध्वा च सार्द्धमागत्य तत्र वै ।।

सुखखानिं च संहूय ददाह तत्कलेवरम् ।। 3.3.25.६० ।।

शून्यभूतं च नगरं भस्म कृत्वा स वै नृपः ।।

जगाम देहली शीघ्रं महोत्साहसमन्वितः ।। ६१ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये विक्रमाख्यानकाले पंचविंशोऽध्यायः ।। २५ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 26

।। सूत उवाच ।। ।।

श्रावणे मासि संप्राप्ते देहलीं च महीपतिः ।।

नागोत्सवाय प्रययौ सदैव कलहप्रियः ।। १ ।।

दृष्ट्वा नागोत्सवं तत्र गीतनृत्यसमन्वितम् ।।

महीराजं नमस्कृत्य वचनं प्राह नम्रधीः ।। २ ।।

राजन्महावतीग्रामे कीर्तिसागरमध्यगे ।।

वामनोत्सवमत्यं तं यवव्रीहिसमन्वितः ।।

पश्य त्वं तत्र गत्वा च ममैव वचनं कुरु ।। ३ ।।

इति श्रुत्वा महीराजो धुंधुकारेण संयुतः ।।

सप्तलक्षबलैर्युक्तश्चामुण्डेन समन्वितः ।।

प्राप्तः शिरीषविपिने तत्र वासमकारयत् ।। ४ ।।

महीपतिस्तु नृपतिं नत्वा वै चन्द्रवंशिनम् ।।

उवाच वचनं दुःखी धूर्तो मायाविशारदः ।। ५ ।।

राजन्प्राप्तो महीराजो युद्धार्थी त्वामुपस्थितः ।।

चन्द्रावलीं च तनयां ब्रह्मानंदं तवात्मजम् ।।

दिव्यलिंगं स संपूज्य बलात्काराद्ग्रहीष्यति ।। ६ ।।

तस्मात्त्वं स्वबलैः सार्द्धं मया सह महामते ।।

छद्मना तं पराजित्य नगरेऽस्मिन्सुखी भव ।। ७ ।।

इति श्रुत्वा दैव वशो राजा परिमलो बली ।।

चतुर्लक्षबलैस्सार्द्धं निशीथे च समागतः ।। ८ ।।

शयितान्क्षत्रियाञ्छूरान्हत्वा पंचसहस्रकान् ।।

शतघ्नीं रोषणीं चक्रे बहुशूरविनाशिनीम् ।। ९ ।।

तदोत्थाय महीराजः कटिमाबध्य संभ्रमात् ।।

वैरिणं परमं मत्वा महद्युद्धमचीकरत् ।। 3.3.26.१० ।।

युद्ध्यंत्योः सेनयो स्तत्र मलना पुत्रगृद्धिनी ।।

शारदामादराद्गत्वा पूजयामास भक्तितः ।। ११ ।।

देविदेवि महादेवि सर्वदुःखविनाशिनि ।।

हर मे सकलां बाधां कृष्णांशं बोधयाशु च ।। १२ ।।

जप्त्वायुतमिमं मंत्रं हुत्वा तर्पणमार्जने ।।

कृत्वा सुष्वाप तद्वेश्मस्तदा तुष्टा स्वयं शिवा ।। १३ ।।

मलने महती बाधा क्षयं यास्यति मा शुचः ।। १४ ।।

इत्युक्त्वा शारदा देवी कृष्णांशं प्रति चागमत् ।।

पुत्र ते जननी भूमिर्महीराजेन पीडिता।।

क्षयं यास्यति शीघ्रं च तस्मात्त्वं तां समुद्धर ।। १५ ।।

इति श्रुत्वा वचो देव्यास्स वीरो विस्मयान्वितः ।।

देवकीं प्रति संप्राप्तः कथयामास कारणम् ।। १६ ।।

सा तु श्रुत्वा वचो घोरं स्वर्णवत्या समन्विता ।।

रुरोद भृशमुद्विग्ना विलप्य बहुधा सती ।। १७ ।।

कृष्णांशस्तु तदा दुःखी देवसिंहमुवाच ह ।।

किं कर्तव्यं मया वीर देह्याज्ञां दारुणे भये ।। १८ ।।

तच्छ्रुत्वा तेन सहितो लक्षणेन समन्वितः ।।

ययौ दिग्विजयार्थेन व्याजेन च महावतीम् ।। ।। १९ ।।

तालनो भीमसेनांशः सेनापतिरुदारधीः ।।

सप्तलक्षबलैस्सार्द्धं विनाह्लादेन संययौ ।। 3.3.26.२० ।।

कल्पक्ष्रेत्रमुपागम्य योगिनस्ते तदाभवन् ।।

सेनां निवेशयामास विपिने तत्र दारुणे ।। २१ ।।

कृष्णांशस्तालनो देवो लक्षणो बलवत्तरः ।।

गृहीत्वा लास्यवस्तूनि युद्धभूमिमुपागमन् ।।२२।।

सप्ताहं च तयोर्युद्धं जातं मृत्युविवर्द्धनम् ।।

सप्तमेऽहनि ते वीरास्संप्राप्ता रणमूर्द्धनि ।।२३।।

तस्मिन्दिने महाभाग महद्युद्धमवर्तत ।। २४ ।।

दृष्ट्वा पराजितं सैन्यं राजा परिमलो बली ।।

रथस्थश्चापमादाय महीराजमुपाययौ ।। २५ ।।

यादवश्च गजारूढस्तदा चंद्रावलीपतिः ।।

धुन्धुकारं समाहूय धनुर्युद्धमचीकरत् ।। २६ ।।

हरिनागरमारुह्य ब्रह्मानंदो महाबल. ।।

तारकं शत्रुमाहूय धनुर्युद्धं चकार ह ।। २७ ।।

मर्दनं राजपुत्रं च रणजिद्ग जसंस्थितः ।।

स्वशरैस्ताडयामास तत्सुतं च जघान ह ।। २८ ।।

रूपणो वै सरदनं हयारूढो जगाम ह ।।

आभीरीतनयो जातो मदनो नाम वै बली ।।

नृहरं राजपुत्रं च शंखांशश्च जगाम ह ।। २९ ।।

तेषु संग्राममेतेषु चामुण्डोऽयुतसैन्यपः ।।

महीपतेश्च वचनं मत्वा नगरमाययौ ।। 3.3.26.३० ।।

ददर्श नगरीं रम्यां चतुर्वर्णसमन्विताम् ।।

धनधान्ययुतां वीरो देवीभक्तिपरायणः ।। ३१ ।।

महीपतिस्तु वै धूर्तो दुर्गद्वारि समागतः ।।

चामुंडेन युतः पापी राजगेहमुपाययौ ।।३२।।

मलना भ्रातरं दृष्ट्वा वचनं प्राह दुःखिता ।।

भाद्रकृष्णाष्टमी चाद्य यवव्रीहि गृहे स्थितम् ।।३३।।

न प्राप्तं जल संस्थाने सुपुण्ये कीर्तिसागरे ।।

महीराजो महापापी वामनोत्सवमागतः ।।३४।।

विनाह्लादं च कृष्णांशं महद्दुःखमुपागतम् ।।

इत्युक्तस्य विहस्याह ब्राह्मणोऽयं महाबली ।।

कान्यकुब्जात्समायातः कृष्णांशेन प्रयोजितः ।।३५।।

देवीदत्तश्च नाम्नाऽयं स ते कार्यं करिष्यति ।।

श्रुत्वा चंद्रावली देवी सर्वभूषणसंयुता ।।३६।।

कामाग्निपीडितं विप्रं चामुंडं च ददर्श ह।।

मातरं प्रति चागम्य वचनं प्राह निर्भरम्।।३७।।

धूर्तोऽयं ब्राह्मणो मातर्निश्चयं मां हरिष्यति ।।

कोऽयं वीरो न जानामि कथं यामि पतिव्रता ।।३८।।

इति श्रुत्वा वचस्तस्या लज्जितस्स महीपतिः।।

चामुंडेन युतः प्राप्तो यत्राभूत्स महारणः।।३९।।

एतस्मिन्नंतरे ते वै ब्रह्माद्यास्तैः पराजिताः।।

त्यक्त्वा युद्धं गृहं प्राप्तास्त्रिलक्षबलसंयुताः ।।3.3.26.४०।।

कपाटं सुदृढं कृत्वा महाचिंतामुपाययुः ।

महीराजस्तु बलवान्महीपत्यनुमोदितः।।४१।।

प्रमदावनमागत्य षष्टिलक्षबलान्वितः।।

जुगोप तत्र बलवान्माननोत्सवहेतवे ।।

तालनाद्याश्च चत्वारः शिरीषाख्यपुरं ययुः।।

स्थलीभूतं च तं ग्रामं दृष्ट्वा ते विस्मयान्विताः।।

प्रययुस्ते सुखभ्रष्टा ददृशुर्हिमदं मुनिम्।।४३।।

प्रणम्योचुः शुचाविष्टा बलखा निर्मुने बली ।।

क्व गतः समरश्लाघी स च कुनागरैर्युतः ।।४४।।

श्रुत्वाह हिमदो योगी महीराजेन नाशितः ।।

छद्मना बलखानिश्च तस्येयं सुन्दरी चिता ।।४५।।

इति श्रुत्वा वचो घोरं कृष्णांशः शोकतत्परः ।।४६।।

विललाप भृशं तत्र हा बन्धो धर्मजांशक ।।

त्वदृते भूतले वासो ममातीव भयंकरः ।। ४७ ।।

दर्शनं देहि मे क्षिप्रं नो चेत्प्राणांस्त्यजाम्यहम् ।। ४८ ।।

इत्युक्तः स तु तद्भ्राता बलखानिः पिशाचगः ।।

सपत्नीकस्समायातो रोदनं कृतवान्बहु ।।

कथित्वा सर्ववृत्तान्तं यथाजातं स्ववैशसम् ।। ४९ ।।

दिव्यं विमानमारुह्य गतो नाकं मनोरमम् ।।

युधिष्ठिरे तस्य कला बलखानेर्लयं गता ।। 3.3.26.५० ।।

तदा दुःखी स कृष्णांशः कृत्वा भ्रातुस्तिलांजलिम् ।।

महावतीं समागत्य राजगेहमुपाययौ ।। ५१ ।।

वेणुशब्देन कृष्णांशो ननर्त जनमोहनः ।।

वीणाप्रवाद्यं च जगौ तालनो योगिरूपधृक ।। ५२ ।।

मृदंगध्वनिना देवो लक्षणः कांस्यवाद्यकः ।।

सुस्वरं च जगौ तत्र श्रुत्वा राजा विमोहितः ।। ५३ ।।

तदा तु मलना राज्ञी दृष्ट्वा तद्वामनोत्सवम् ।।

रुदित्वा वचनं प्राह क्व गतो मे प्रियंकरः ।। ५४ ।।

कृष्णांशो बन्धुसहितस्त्यक्त्वा मां मन्दभागिनीम् ।।

त्वया विरहितो देशो महीराजेन लुंठितः ।। ५५ ।।

इत्युक्तां मलनां दृष्ट्वा कृष्णांशः स्नेह कातरः ।।

वचनं प्राह नम्रात्मा देवि त्वं वचनं कुरु ।। ५६ ।।

योगिनश्च वयं राज्ञि सर्वयुद्धविशारदाः ।।

तवेदं सकलं कार्यं कृत्वा यामो हि नैमिषम् ।। ५७ ।।

ये यवव्रीहयश्चैव तव सद्मनि संस्थिताः ।।

गृहीत्वा योषितस्सर्वा गच्छन्तु सागरान्तिकम् ।।

वयं तु योगसैन्येन तव रक्षां च कुर्महे ।। ५८ ।।

इति श्रुत्वा वचस्तस्य तत्सुता च पतिव्रता ।।

मातरं वचनं प्राह कृष्णांशोऽयं न नर्तकः ।। ५९ ।।

पुण्डरीकनिभे नेत्रे श्यामांगं तस्य सुन्दरम् ।।

कृष्णांशेन विना मातः को रक्षार्थं क्षमो भुवि ।।

दुर्जयश्च महीराजः कृष्णांशेन विनिर्जितः ।। 3.3.26.६० ।।

इति तद्वचनं श्रुत्वा मलना प्रेमविह्वला ।।

यववीहयो निष्कास्य योषितां स्थापिताः करे ।। ६१ ।।

जगुस्ता योषितस्सर्वाः कृष्णांशचरितं शुभम् ।।

लक्षणः शीघ्रमागम्य योगिवेषान्स्वसैनिकान् ।।

सज्जीकृत्य स्थितस्तत्र तालनाद्यैः सुरक्षितः ।। ६२ ।।

कीर्तिसागरमागम्य ते वीरा बल दर्पिताः ।।

रुरुधुः सर्वतो नारीर्दोलायुतमितस्थिताः ।। ६३ ।।

महीपतिस्तु कुलहा ज्ञात्वा कृष्णांशमागतम् ।।

चंद्रवंशिनमागम्य सपुत्रश्च रुरोद ह ।। ६४ ।।

योगिभिस्तैर्महाराज लुंठिताः सर्वयोषितः ।।

मलना संहृता तत्र तथा चंद्रावली सुता ।। ६५ ।।

महीराजस्य ते सैन्या योगिवेषास्समागताः ।।

तारकाय सुतां प्रादान्महीराजाय मत्स्वसाम् ।। ६६ ।।

इति श्रुत्वा वचो घोरं ब्रह्मानन्दो महाबलः ।।

लक्षसैन्यान्वितस्तत्र ययौ रोषसमन्वितः ।। ६७ ।।

महीराजस्तु कलही सैन्यायुतमहात्मजः ।।

रक्षितः कामसेनेन तथा रणजिता ययौ ।। ६८ ।।

तयोश्चासीन्महयुद्धं सेनयोरुभयोर्भुवि ।।

तालनो योगिवेषश्च ब्रह्मानंदमुपाययौ ।। ६९ ।।

लक्षणश्चाभयं शूरं देवसिंहो महीपतिम् ।।

जित्वा बद्ध्वा च मुदितौ कामसेनस्समागतः ।। 3.3.26.७० ।।

लक्षणः कामसेनं च देवो रणजितं तदा ।।

बद्ध्वा तत्र स्थितौ वीरौ शत्रूसैन्यक्षयंकरौ ।। ७१ ।

एतस्मिन्नंतरे ब्रह्मा बद्ध्वा वै तालनं बली ।।

लक्षणान्तमुपागम्य धनुर्युद्धमचीकरत् ।। ७२ ।।

लक्षणं छिन्नधन्वानं पुनर्बद्ध्वा महाबलः ।।

देवसिंहमुपागम्य मूर्छितं तं चकार ह ।। ७३ ।।

हाहाभूते योगिसैन्ये प्रद्रुते सर्वतो दिशम् ।।

कृष्णांशो योषितस्सर्वा वचनं प्राह नम्रधीः ।। ७४ ।।

ब्रह्मानन्दोऽयमायातो मम सैन्य क्षयंकरः ।।

तस्माद्यूयं मया सार्द्धं गच्छाशु च तं प्रति ।। ७५ ।।

इत्युक्त्वा तास्समादाय ब्रह्मानन्दमुपाययौ ।।

तयोश्चासीन्महद्युद्धं नरनारायणां शयोः ।। ७६ ।।

कृष्णांशस्तत्र बलवान्नभोमार्गेण तं प्रति ।।

रथस्थं च समागम्य मोहयामास सोऽसिना ।। ७७ ।।

तदा तु मूर्छिते तस्मिन्मोचयित्वा च ता मुदा ।।

योगी सैन्यान्वितो युद्धात्पलायनपरोऽभवत् ।। ७८ ।।

पराजिते योगिसैन्ये ब्रह्मानंदो महाबलः ।।

योषितस्ताः समादाय स्वगेहाय दधौ मनः ।। ७९ ।।

महीराजस्तु संप्राप्तो महीपत्यनुमोदितः ।।

रुरोध सर्वतो नारीः शिवदत्तवरो बली ।। 3.3.26.८० ।।

नृहरश्चाभयं शूरं मर्दनश्चैव रूपणम् ।।

मदनं वै सरदनो ब्रह्मानंदं च तारकः ।। ८१ ।।

चामुण्डः कामसेनं च धनुर्युद्धमचीकरत् ।।

तदाभयो महावीरो धुन्वंतं नृहरं रिपुम् ।। ८२ ।।

छित्त्वा धनुस्तमागत्य खड्गयुद्धमचीकरत् ।।

नृहरः खड्गरहितोऽभवद्युद्धपराङ्मुखः ।।

तमाह वचनं क्रुद्धोऽभयो युद्धार्थमुद्यतः ।। ।। ८३ ।।

भवान्वै मातृष्वस्रीयो महीराजस्य चात्मजः ।। ८४ ।।

क्षत्रियाणां परं धर्मं कथं संहर्तुमिच्छति ।।

इति श्रुत्वा तु नृहरो गृहीत्वा परिघं रुषा ।। ८५ ।।

जघान तं च शिरसि स हतः स्वर्गमाययौ ।।

स च वै कृतवर्मांशो विलीनः कृतवर्मणि ।। ८६ ।।

मदनं गोपजातं च हत्वा सरदनो बली ।।

जयशब्दं चकारोच्चैर्पुनर्हत्वा रिपोर्बलम् ।।

उत्तरांशश्च स ज्ञेयो मदनश्चोत्तरे लयः ।। ८७ ।।

रूपणश्च समागत्य मूर्छयित्वा च मर्दनम् ।।

पुनस्सरदनं प्राप्य खड्गयुद्धं चकार ह ।। ८८ ।।

ब्रह्मानंदश्च बलवान्स बद्ध्वा तारकं रुषा ।।

महीराजान्तमागम्य धनुर्युद्धं चकार ह ।। ८९ ।।

नृहरं रणजित्प्राप्य स्वभल्लेन तदा रुषा ।।

जघान समरश्लाघी महीराजसुतं शुभम् ।।3.3.26.९०।।

स वै दुश्शासनांशश्च मृतस्तस्मिन्समागतः ।। ९१ ।।

निहते नृहरे बंधौ मर्दनः क्रोधतत्परः ।।

स्वशरैस्ताडयामास सात्यकेरंशमुत्तमम् ।। ९२ ।।

छित्त्वा तान्रणजिच्छूरस्स वै परिमलोद्भवः ।।

स्वभल्लेन शिरः कायान्मर्दनस्य स चाहरत् ।। ९३ ।।

मृतेऽस्मिन्मर्दने वीरे तदा सरदनो बली ।।

ताडयामास तं वीरं स्वभल्लेनैव वक्षसि ।। ९४ ।।

महत्कष्टमुपागम्य रणजिन्मलनोद्भवः ।।

स्वखङ्गेन शिरः कायादपाहरत वैरिणः ।। ९५ ।।

त्रिबंधौ निहते युद्धे तारकः क्रोधमूर्छितः ।।

रथस्थश्च रथस्थं च ताडयामास वै शरैः ।। ९६ ।।

छित्त्वा बाणं च रणजित्तथैव च रिपोर्द्धनुः ।।

त्रिशरैस्ताडयामास कर्णांशं तारकं हृदि ।। ९७ ।।

अमर्षवशमापन्नो यथा दंडैर्भुजंगमः ।।

ध्यात्वा च शंकरं देवं विषधौतं शरं पुनः ।। ९८ ।।

संधाय तर्जयित्वा च शत्रुकंठमताडयत् ।।

तेन बाणेन रणजित्त्यक्त्वा देहं दिवं गतः ।। ९९ ।।

हते तस्मिन्महावीर्ये ब्रह्मानंदश्च दुःखितः ।।

महीराजभयाद्ब्रह्मा पुरस्कृस्य च योषितः ।।

संध्याकाले तु संप्राप्ते भाद्रकृष्णाष्टमीदिने ।। 3.3.26.१०० ।।

कपाटं सुदृढं कृत्वा सैन्यैः षष्टिसहस्रकैः ।।

सार्द्धं गेहमुपागम्य शारदां शरणं ययौ ।। १०१ ।।

महीराजस्तु बलवान्पुत्रशोकेन दुःखितः ।।

संकल्पं कृतवान्घोरं शृण्वतां सर्वभूभृताम् ।। १०२ ।।

शिरीषाख्यपुरं रम्यं यथा शून्यं मया कृतम् ।।

तथा महावती सर्वा ब्रह्मानंदादिभिस्सह ।।

क्षयं यास्यंति मद्बाणैः सर्वे ते चंद्रवंशिनः ।। १०३ ।।

इत्युक्त्वा धुंधुकारं वै चाह्वयामास भूपतिः ।।

पंचलक्षबलैस्सार्द्धं शीघ्रमागम्यतां प्रिय ।। १०४ ।।

इति श्रुत्वा धुंधुकारो गत्वा शीघ्रं च देहलीम् ।।

उषित्वा सप्त दिवसान्युद्धभूमिमुपागमत् ।। १०५ ।।

तदाष्टलक्षसहितो महीराजो महाबलः ।।

तारकेण च संयुक्तो युद्धाय समुपाययौ ।। १०६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युग खण्डापरपर्याये कलियुगीयेतिहासससमुच्चये षड्विंशोऽध्यायः ।। २६ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 27

।। सूत उवाच ।। ।।

सप्तविंशाब्दके प्राप्ते कृष्णांशे सर्वमंगले ।।

भाद्रकृष्णदशम्यां च मलना शोककातरा ।।

जननायकमाहूय वचनं प्राह दुःखिता ।। १ ।।

अये कच्छपदेशीय गोतमान्वयसंभव ।।

हरिनागरमारुह्य कान्यकुब्जं व्रजाधुना ।। २ ।।

पुत्रमाह्लादमाहूय सानुजं मत्प्रियंकरम् ।।

इति श्रुत्वा तु वचनं हृदि संचिंत्य त्रै पुनः ।। ३ ।।

मलनां दुःखितां प्राह न त्वायास्यति स प्रभुः ।।

राज्ञः परिमलस्यैव वाक्यं मत्वा सुदुःखदम् ।। ४ ।।

इति श्रुत्वा तु वचनं रुरोद मलना सती ।।

पुनर्मूर्च्छां गता भूमौ जीवनं त्यक्तुमुद्यता ।। ५ ।।

हा रामांश महाबाहो वत्स कृष्णांश सुन्दर ।।

क्व गतौ सह देवक्या त्यक्त्वा मां मंदभागिनीम् ।।६।।

तदा परिमलापुत्रो दृष्ट्वा राज्ञीं तथा गताम् ।।

बहुधाश्वास्य बलवान्कान्यकुब्जपुरं ययौ ।। ७ ।।

।। ऋषय ऊचुः ।। ।।

त्वया परिमलापुत्रस्संप्रोक्तो जननायकः ।।

रोमहर्षण नो ब्रूहि सोऽयं कस्तेन किं कृतम् ।। ८ ।।

।। सूत उवाच ।। ।।

इंद्रप्रस्थपुरेवात्सीत्प्रद्योतः कथितो मया ।।

पिता परिमलस्यैवामात्योऽनंगमहीपतेः ।। ९ ।।

तस्य कन्या समाजाता नाम्ना परिमला मुने ।।

दुःशलांशसमुद्भूता रंभेव सुकुमारिका ।। 3.3.27.१० ।।

तद्विवाहार्थमुद्योगः कृतः पित्रा स्वयंवरः ।।

पुत्रः कच्छपभूपस्य स नाम्ना कमलापतिः ।।

तामुद्वाह्म विधानेन स्वगेहाय ययौ मुदा।। ११ ।।

तयोस्समागमो जातः पुत्रोऽयं जननायकः ।।

शत्रुविद्यापरः शूरः खड्गयुद्धविशारदः ।।१२।।

जित्वा भूपान्बलाद्वीरः सिंधुतीरलनिवासिनः ।।

षडंशकरमादाय पितृराज्यमुपस्थितः ।।१३।।

एकदा तु महीराजः स्वसैन्यपरिवारितः ।।

कच्छदेशमुपागम्य करार्थं समुपस्थितः ।।१४।।

तयोश्चासीन्महद्युद्धं जननायकभूपयोः।।

मासान्ते सूर्यवंशीयो महीराजेन निर्जितः ।। १५ ।।

त्यक्त्वा राष्ट्रं च सकुलः संप्राप्तश्च महावतीम् ।।

परिमलस्तु तदा राजा तस्मै ग्रामं शुभं ददौ ।। १६ ।।

निवासं कृतवांस्तत्र स्वनाम्ना प्रथितं भुवि ।।

स वै कच्छपदेशीयो ययौ परिमलाज्ञया।। १७ ।।

तदासौ च महीराजो महीपत्यनुमोदितः ।।

चामुंडं शीघ्रमाहूय लक्षसैन्यसमन्वितम् ।।

आदेशं कृतवान्राजा तस्य बंधनहेतवे ।। १८ ।।

स च नेत्रवतीकूले संप्राप्ते लक्ष सैन्यपः ।।

रुरोध सूर्यवंशीयं जननायकमुत्तमम् ।।१९।।

स तदा खड्गमादाय बाहुशाली यतेंद्रियः ।।

तत्र शूरशतं हत्वा नभोमार्गमुपाययौ ।।3.3.27.२०।।

सेनापतेश्च मुकुटं गजस्थस्य गृहीतवान् ।।

लज्जितः स तु चामुंडो वचनं प्राह नम्रधीः ।।२१।।

भवान्वृत्तिकरो मह्यं क्षत्रियो ब्राह्मणस्य वै ।।

देहि मे मुकुटं वीर चिरं जीव सुखी भव।।२२।।

इति श्रुत्वा स विनयं दत्त्वा तस्मै शुभं वसु ।।

कुठारनगरे प्राप्तो वामनेन सुरक्षितः ।।२३।।

दृष्ट्वा तत्र वटच्छायां श्रमेणातीव कर्षितः।।

सुष्वाप निर्भयो वीरस्तत्र स्थाने सुखप्रदे ।। २४ ।।

तदा तु वामनो ज्ञात्वा स्वदूतैस्तत्र कारणम् ।।

वस्त्राण्याच्छाद्य चागम्य चाहरद्धरिनागरम् ।। २५ ।।

हृते तस्मिंश्च दिव्याश्वे प्रबुद्धो जननायकः ।।

चिंतामवाप्य महतीं रोदनं कृतवान्बहु ।। २६ ।।

अश्वांघ्रिचिह्नमालोक्य वामनं प्राप्य निर्भयः ।।

वचनं प्राह नम्रात्मा नृपं गौरान्वयोद्भवम् ।। २७ ।।

क्षत्रियाणां हि संहास्यो भयदो भुवि सर्वदा ।।

स भवान्राजनीतिज्ञो देहि मेऽश्वं सुखी भव ।।२८।।

नो चेत्त्वां वै सनगरं कृष्णांशः क्षपयिष्यति ।।

इति श्रुत्वा तु वचनं वामनो गौरवंशजः।।२९।।

भयभीतो विनिश्चित्य प्रददौ हरिनागरम् ।। 3.3.27.३० ।।

प्रतोदं स्वर्णरचितं नानारत्नसमन्वितम् ।।

लोभाच्च न ददौ राजा मृषा शपथकारकः ।।३१ ।।

तदा परिमलापुत्रः कुंठितः प्राह भूपतिम् ।।

प्रतोदलोभात्ते राजन्क्षयं दुर्गो गमिष्यति ।। ३२ ।।

इत्युक्त्वा प्रययौ वीरः कान्यकुब्जं महोत्तमम्।।

लक्षणो हस्तिनीसंस्थो वचनं प्राह गर्वितः ।।

कस्त्वं प्राप्तो हयारूढो निर्भयः क्षत्रियोत्तमः ।। ३३ ।।

स होवाच महाराज प्रेषितश्चंद्रवंशिना ।।

तवान्तिकं समायातः शरणागतवत्सल ।। ३४ ।।

महीराजश्च बलवान्सकुलं चंद्रवंशिनम् ।।

हनिष्यति च रौद्रास्त्रैर्महीपत्यनुमोदितः ।। ३५ ।। ।

अतस्त्वं स्वबलैस्सार्द्धं सहाह्लादादिभिर्युतः ।।

गच्छगच्छ महाराज मृतानुजीवयाधुना ।। ३६ ।।

इत्युक्तो लक्षणस्तेन जयचंद्रं प्रणम्य सः ।।

सर्वं वै कथयामास महीराजो यथागतः ।। ३७।।

जयचंद्रस्तु तच्छ्रुत्वा चाहूय जननायकम् ।।

वचनं प्राह क्रुद्धात्मा शृणु गौतमवंशज ।। ३८ ।।

राजा परिमलः क्रूरस्त्यक्त्वा मां निजभूपतिम् ।।

प्रीतिं च कृतवांस्तेन मच्छत्रोर्देहलीपतेः ।। ३९ ।।

प्रियं संबधिनं मत्वा संत्यक्तास्तेन रक्षकाः ।।

यथा कृतं फलं तेन भोक्तव्यं च तथा भुवि ।। 3.3.27.४० ।।

इति श्रुत्वा तु वचनं कृष्णांशः प्राह नम्रधीः ।।

राजञ्छुद्धः परिमलो महीपत्यनुवाचकः ।।

अतो वै त्वां समुत्सृज्य भूमिराजवशं गतः ।।४१।।

भवान्वै सर्वधर्मज्ञस्तत्क्षमस्वापराधकम् ।।

आज्ञां देहि महाराज निवत्स्यामस्तदंतिकम्।। ४२ ।।

इति श्रुत्वा तु वचनं जयचंद्रो महीपतिः ।।

कृष्णांशं प्राह भो वीर देहि मे भुक्तिमूल्यकम् ।।

शीघ्रं व्रज त्वं सकुलो नो चेन्नो गंतुमर्हसि ।। ४३ ।।

इति श्रुत्वा विहस्याह कृष्णांशस्सर्वमोहनः ।।

मया दिग्विजयः सर्वः कृतो भीरुभयंकरः ।।

तद्देयं देहि मे राजन्गृहाण भुक्तिमूल्यकम्।।४४।।

इत्युक्तस्स तु भूपालः कृष्णांशेन विलज्जितः ।।

सैन्यमाज्ञापयामास सप्तलक्षं महाबलम् ।। ४५ ।।

तदा वै सकुलो वीरश्चाह्लादो लक्षणान्वितः ।।

नृपस्याग्रे समास्थाय नमस्कृत्य ययौ मुदा ।। ४६ ।।

कुठारनगरं प्राप्य नृपदुर्गं रुरोध ह ।।

ज्ञात्वा स वामनो भूपः प्रतोदं च ददौ मुदा ।। ४७ ।।

सैन्यायुत युतं भूपं वामनं लक्षणो बली ।।

पश्चात्कृत्य ययौ शीघ्रं यमुनातटमुत्तमम् ।। ४८ ।।

यमुनाजलमुत्तीर्य कल्पक्षेत्रमवाप्तवान्।।

गंगासिंहं च नृपतिं षष्टिसाहस्रसंयुतम् ।।

पुरस्कृत्य ययौ वीरो लक्षणो बलवत्तरः ।। ४९ ।।

नदीं वेत्रवतीं रम्यां समागम्य बलैस्सह ।।

तत्रोषुः क्षत्रियाः शूरास्सर्व शस्त्रास्त्रसंयुताः ।। 3.3.27.५० ।।

एतस्मिन्नंतरे वीरश्चामुंडो लक्षसैन्यपः ।।

शतघ्नीः स्थापयामास भैरवीः शत्रुनाशिनीः ।। ५१ ।।

तयोश्चासीन्महद्युद्धं शतघ्रीरणसंस्थयोः ।।

प्रहरान्ते च तत्सैन्यं दृष्ट्वा शूरः पराजितम् ।। ५२ ।।

रक्तबीजः समागम्य गजस्थस्त्वरितो बली।।

स्वबाणैस्ताडयामास सैन्यं तालनपालितम् ।। ५३ ।।

केचिच्छूरा हता युद्धे केचित्तत्र पराजिताः ।।

दुद्रुवुर्भयभीताश्च चामुंडेन च पीडिताः ।। ५४ ।।

प्रभग्नं स्वबलं दृष्ट्वा तालनः परिघायुधः ।।

जघान तेन स गजं चामुंडो भूमिमागतः ५५ ।।

खड्गयुद्धपरो वीरस्तालनं पीरघायुधम्।।

पराजित्य ययौ पश्चाच्छत्रु सैन्यक्षयंकरः ।।५६।।

लक्षणस्त्वरितो गत्वा स्वभल्लेन च तं रिपुम् ।।

भुजयोस्ताडयामास तदा ते बहुधाऽभवन्।। ५७ ।।

सहस्रं रक्तबीजाश्च खड्ग शक्त्यृष्टिपाणयः ।।

तिष्ठतिष्ठेति भाषन्तः क्षत्रियान्युद्धदुर्मदान् ।। ५८ ।।

आह्लादाद्याश्च ते शूरा रक्तबीजभयातुराः ।।

त्यक्त्वा युद्धं ययुस्सर्वे ब्रह्मानंदं महाबलम् ।। ५९ ।।

ब्रह्मानंदस्तु तान्दृष्ट्वा गत्वा स्वपितरं प्रति ।।

वृत्तांतं कथयामास लक्षणागमनं मुने ।। 3.3.27.६० ।।

श्रुत्वा परिमलो राजा प्रेमविह्वलगद्गदः ।।

आह्लादपार्श्वमागम्य रुरोद भृशमातुरः ।। ६१ ।।

तदा तु देवकी देवी नृपतिं प्रेमतत्परम् ।।

उवाच सुमुखी दीना वयं ते भक्ति तत्पराः ।। ६२ ।।

भवता संपरित्यक्ता विचरामोऽन्यभूपतिम् ।।

क्षमस्व मम दौरात्म्यं पूर्वजन्मविपाकजम्।। ६३ ।।

इति श्रुत्वा च नृपतिः परमा नंदनिर्भरः ।।

मंत्रिणश्चाधिकारं च रामांशाय ददौ मुदा ।।

स्वकीयं लक्षसैन्यं च तत्पतिश्चोदयः कृतः ।। ६४ ।।

ततः पंचदिनान्ते तु महीराजस्समागतः ।।

रुरोध नगरीं सर्वां चामुंडबलदर्पितः ।।

तयोश्चासीन्महयुद्धं मासमात्रं भयानकम् ।।६५।।

प्रभाते विमले जाते कृष्णांशो लक्षसैन्यपः।।

चामुडान्तमुपागम्य सहस्रं स्वांगसंभवम् ।।

चिच्छेद च शिरस्तेषां चामुंडानां पृथक्पृथक् ।। ६६ ।।

छिन्ने शिरसि ते सर्वे लक्षवीरा बभूविरे ।।

तदा तद्व्याकुलं सैन्यं चामुण्डैस्तैः प्रपीडितम् ।।६७।।

विस्मितश्चैव कृष्णांशो भयभीतस्तदा मुने ।।

तुष्टाव शारदां देवीं सर्वमंगलकारिणीम् ।। ६८ ।।

कृष्णांश उवाच।।

नमस्ते शारदे मातर्ब्रह्मलोकनिवासिनि।।

त्वया ततमिदं विश्वं शब्दमात्रनिरंतरम्।।६९।।

रक्तबीजविनाशाय चामुंडारूपधारिणि।।

नमस्ते दिव्यचामुण्डे पाहि मां शरणागतम्।।3.3.27.७०।।

इति श्रुत्वा स्तवं देवी वरदा सर्वकारिणी।।

तस्य खड्गमुपागम्य रक्तबीजं ददाह वै।। ७१।।

भस्मीभूते लक्षरिपौ चामुण्डो भूमिमागतः।।

बबंध तं स कृष्णांशो ब्रह्मानंदांतिकं ययौ।।

भूमिराजस्तु तच्छ्रुत्वा भयभीतः समागतः।।

तदा परिमलं भूपं दयालुं प्रेमविह्वलम् ।।

उवाच वचनं राजा क्षमस्व मम दुष्कृतम् ।। ७३ ।।

महीपतेश्च वचनान्महद्भयमुपागतम् ।।

अद्यप्रभृति भो वीर संत्यक्तः कलहः प्रियः ।।

भवांश्च मम संबन्धी वयं वै तव किंकराः ।।७४ ।।

इति श्रुत्वा परिमलो राजानमिदमब्रवीत् ।।

रत्नभानोश्च तनयं लक्षणं नाम विश्रुतम् ।।

शरण्यं शरणं याहि विष्णुभक्तं दयापरम् ।। ७५ ।।

इति श्रुत्वा भूमिराजो द्विजरूपधरो बली।।

साष्टांगं दंडवद्भूमौ लक्षणस्य चकार ह ।। ७६ ।।

तदा तु लक्षणो वीरः कृत्वा स्नेहं नृपोपरि ।।

सप्तलक्षबलैः सार्द्धं कान्यकुज्जमुपाययौ ।। ७७ ।।

फाल्गुने मासि संप्राप्ते सर्वे स्वंस्वं गृहं ययुः ।। ७८ ।।

बलखानेर्गयाश्राद्धमचीकरदविप्लुतः ।।

चैत्रमासि सिते पक्षे संप्राप्य निजमंदिरे ।।

ब्राह्मणान्भोजयामास सहस्रं वेदतत्परान् ।। ७९ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्त विंशोऽध्यायः ।। २७ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 28

।। सूत उवाच ।। ।।

अष्टाविंशाब्दके प्राप्ते कृष्णांशे बलवत्तरे ।।

कार्तिक्यामिंदुवारे च कृत्तिकाव्यतिपातभे।।१।।

कृष्णांशोऽयुतसेनाढ्यः स्वर्णवत्या समन्वितः।।

विवाहमुकुटस्यैव संत्यागाय ययौ मुदा।।२।।

पवित्रमुत्पलारण्यं वाल्मीकिमुनिसेवितम्।।

गंगाकूले ब्रह्ममयं लोहकीलकमुत्तमम्।।३।।

तत्र गत्वा स शुद्धात्मा पुष्पवत्या समन्वितः।।

गोसहस्रं च विप्रेभ्यो ददौ स्नाने प्रसन्नधीः।। ।। ४ ।।

एतस्मिन्नंतरे प्राप्ता म्लेच्छजातिसमुद्भवा ।।

शोभा नाम महारम्या वेश्या परमसुन्दरी।। ५ ।।

सा ददर्श परं रम्यं कृष्णाशं पुरुषोत्तमम्।।

तद्दृष्टिमोहमापन्ना व्याकुला चाभवत्क्षणात् ।। ६ ।।

मूर्च्छितां तां समालोक्य कृष्णांशः सर्वमोहनः ।।

स्वनिवासमुपागम्य विप्रानाहूय पृष्टवान् ।। ७ ।।

अष्टादश पुराणानि केन प्रोक्तानि किं फलम् ।।

ब्रूत मे विदुषां श्रेष्ठा वेदशास्त्रपरायणाः ।। ८ ।।

इति श्रुत्वा वचो रम्यं विद्वांसः शास्त्रकोविदाः ।।

अब्रुवन्वचनं रम्यं कृष्णांशं सर्वधर्मगम् ।। ९ ।।

पराशरेण रचितं पुराणं विष्णुदैवतम् ।।

शिवेन रचितं स्कांदं पाद्मं ब्रह्ममुखोद्भवम् ।। 3.3.28.१० ।।

शुकप्रोक्तं भागवतं ब्राह्मं वै ब्रह्मणा कृतम् ।।

गारुडं हरिणा प्रोक्तं षड् वै सात्त्विकसंभवाः ।। ११ ।।

मत्स्यः कूर्मो नृसिंहश्च वामनः शिव एव च ।।

वायुरेतत्पुराणानि व्यासेन रचितानि वै ।। १२ ।।

राजसाः षट् स्मृता वीर कर्मकांडमया भुवि ।।

मार्कंण्डेयं च वाराहं मार्कण्डेयेन निर्मितम् ।। १३ ।।

आग्नेयमंगिराश्चैव जनयामास चोत्तमम् ।।

लिंगब्रह्मांडके चापि तंडिना रचिते शुभे ।।

महादेवेन लोकार्थे भविष्यं रचितं शुभम् ।। १४ ।।

तामसाः षट् स्मृताः प्राज्ञैः शक्तिधर्मपरायणाः ।।

सर्वेषां च पुराणानां श्रेष्ठं भागवतं स्मृतम् ।। १५ ।।

घोरे भुवि कलौ प्राप्ते विक्रमो नाम भूपतिः ।।

कैलासाद्भुवमागत्य मुनीन्सर्वान्समाह्वयत् ।। १६ ।।

तदा ते मुनयस्सर्वे नैमिषारण्यवासिनः ।।

सूतं सञ्चोदयामासुस्तेषां तच्छ्रवणाय च ।।

प्रोक्तान्युपपुराणानि सूतेनाष्टादशैव च ।। १७ ।।

इति श्रुत्वा तु वचनं कृष्णांशो धर्मतत्परः ।।

श्रुत्वा भागवतं शास्त्रं सप्तमेऽह्नि महोत्तमम् ।। १८ ।।

ददौ दानानि विप्रेभ्यो गोसुवर्णमयानि च ।।

ब्राह्मणान्भोजयामास सहस्रं वेदतत्परान् ।।१९।।

तदा तु भिक्षुकी भूत्वा शोभा नाम मदातुरा ।।

मायां कृतवती प्राप्य कृष्णांशो यत्र वै स्थितः ।। 3.3.28.२० ।।

ध्यात्वा महामदं वीरं पैशाचं रुद्रकिंकरम् ।।

मायां सा जनयामास सर्वपाषाणकारिणीम् ।। २१ ।।

दृष्ट्वा स्वर्णवती देवी तां मायां शोभयोद्भवाम् ।।

छित्त्वा चाह्लाद्य वामांगीं स्वगेहं गंतुमुद्यता २२ ।।

सा वेश्या तु शुचाविष्टा तस्याः शृंगारमुत्तमम् ।।

स्वर्णयंत्रस्थितं रम्यं लक्षद्रव्योपमूल्यकम् ।।

संहृत्य मायया धूर्ता देशं वाह्लीकमाययौ ।। २३ ।।

कल्पक्षेत्रमुपागम्य नेत्रसिंहसमुद्भवा ।।

वेश्यया मम शृंगारं हृतं ज्ञात्वा सुदुःखिता ।। २४ ।।

कृष्णांशं वचनं प्राह गच्छगच्छ महाबल ।।

गृहीत्वा मम शृंगारं शीघ्रमागच्छ मां प्रति ।। २५ ।।

गुटिकेयं मया वीर रचिता तां मुखेन च ।।

धूर्तमायाविनाशाय तव मंगलहेतवे ।। २६ ।।

इति श्रुत्वा तथा कृत्वा कृष्णांशस्सर्वमोहनः ।।

शूकरक्षेत्रमागम्य तत्र वेश्यां ददर्श ह ।। २७ ।।

सा तु वेश्या च तं वीरं दृष्ट्वा कन्दर्पकारिणम् ।।

रचयित्वा पुनर्मायां तदंतिकमुपागता ।। २८ ।।

तदा सा निष्फलीभूय रुरोद करुणं बहु ।।

रुदतीं तां समालोक्य दयालुस्स प्रसन्नधीः ।। २९ ।।

गृहीत्वा सर्वशृंगारं वचनं प्राह निर्भयः ।।

किं रोदिषि महाभागे सत्यं कथय मा चिरम् ।। 3.3.28.३० ।।

साह मे सहरो नाम भ्राता प्राणसमप्रियः ।।

नाट्यैश्च पञ्चसाहस्रैः सहितो मरणं गतः ।।३१।।

अतो रौमि महाभाग संप्राप्ता शरणं त्वयि ।।

इत्युक्त्वा मायया धूर्ता कृत्वा शवमयान्त्यजान् ।। ३२ ।।

तस्मै प्रदर्शयामास निजकार्यपरायणा ।।

रुदित्वा च पुनस्तत्र प्राणांस्त्यक्तुं समुद्यता ।। ३३ ।।

दयालुस्स च कृष्णांशस्तामाह करुणं वचः ।।

कथं ते जीवयिष्यन्ति शोभने कथयाशु मे ।। ३४ ।।

साह वीर तवास्ये तु संस्थिता गुटिका शुभा ।।

देहि मे कृपया वीर जीवयिष्यन्ति ते तथा ।। ३५ ।।

इत्युक्तस्तु तया वीरो ददौ तस्यै च तद्वसु।।

तदा प्रसन्ना सा धूर्ता कृत्वा शुकमयं वपुः ।।

पंजरस्थमुपादाय कृष्णांशं कामविह्वला ।। ३६ ।।

बाह्लीकदेशमागम्य सारट्टनगरं शुभम् ।।

उवास च स्वयं गेहे कृत्वा दिव्यमयं वपुः ।। ३७ ।।

निशीथे समनुप्राप्ते कृत्वा तं नररूपिणम् ।।

आलिलिंग हि कामार्ता कृष्णांशं धर्मकोविदम् ।। ३८ ।।

दृष्ट्वा तां स तथाभूतां कृष्णांशो जगदंबिकाम् ।।

तुष्टाव मनसा धीरो रात्रिसूक्तेन नम्रधीः ।।३९।।

तदा सा स्वेडिनी भूत्वा त्यक्त्वा कृष्णांशमुत्तमम् ।।

पुनः शुकमयं कृत्वा चिंचिणीवृक्षमारुहत् ।। 3.3.28.४० ।।

तदा स्वर्णवती देवी बोधिता विष्णुमायया ।।

कृत्वा श्येनीमयं रूपं तत्र गत्वा मुदान्विता ।।

ददर्श शुकभूतं च कृष्णांशं योगतत्परम् ४१ ।।

एतस्मिन्नंतरे वेश्या पुनः कृत्वा शुभं वपुः ।।

नरभूतं च कृष्णांशं वचनं प्राह नम्रधीः ।। ४२ ।।

अये प्राणप्रिय स्वामिन्भज मां कामविह्वलाम् ।।

पाहि मां रतिदानेन धर्मज्ञोसि भवान्सदा ।। ४३ ।।

इत्युक्तस्स तु तामाह वचनं शृणु शोभने ।।

ते आर्यवर्त्मस्थितोहं वै वेदमार्गपरायणः ।। ४४ ।।

विवाहितां शुभां नारीं यो भजेत ऋतौ न हि ।।

स पापी नरकं याति तिर्य्यग्योनिमयं स्मृतम् ।।

अतः परस्त्रिया भोगो ज्ञेयो वै निरयप्रदः ।। ४५ ।।

इति श्रुत्वा तु सा प्राह विश्वामित्रेण धीमता ।।

शृंगिणा च महाप्राज्ञ वेश्यासंगः कृतः पुरा ।।

न कोऽपि नरकं प्राप्तस्तस्मान्मां भज कामिनीम् ।। ४६ ।।

पुनश्चाह स कृष्णांशः कृत्तं पापं तपोबलात् ।।

ताभ्यां च मुनियुग्माभ्यामसमर्थो हि सांप्रतम् ।। ४७ ।।

अर्द्धांगं पुरुषस्य स्त्री मैथुने च विशेषतः ।।

अहमार्यश्च भवती वेश्या च बहुभोगिनी ।। ४८ ।।

ऋचि शब्दश्च पूर्वास्याज्जात ऋग्जस्सनातनः ।।

योगजश्चैव यः शब्दो दक्षिणास्याद्यजुर्भवः ।।४९।।

तद्धितान्तश्च यश्शब्दः पश्चिमास्याच्च सामजः ।।

छन्दोभूताश्च ये शब्दास् ते सर्वे ब्राह्मणप्रियाः ।।

केवलो वर्णमात्रश्च स शब्दोऽथर्वजः स्मृतः ।। 3.3.28.५० ।।

पञ्चमास्याच्च ये जाताः शब्दाः संसारकारिणः ।।

ते सर्वे प्राकृता ज्ञेयाश्चतुर्लक्षविभेदिनः ।। ५१ ।।

हित्वा तान्यो हि शुद्धात्मा चतुर्वेदपरायणः ।।

स वै भवाटवीं त्यक्त्वा पदं गच्छत्यनामयम् ।। ५२ ।।

न वदेद्यावनीं भाषां प्राणैः कंठगतैरपि ।।

गजैरापीडयमानोऽपि न गच्छेज्जैनमंदिरम् ।। ५३ ।।

इत्येवं स्मृतिवाक्यानि मुनिना पठितानि वै ।।

कथं त्याज्यो मया धर्मस्सर्वलोकसुखप्रदः ।। ५४ ।।

इति श्रुत्वा तु सा वेश्या म्लेच्छायाश्चांशसंभवा ।।

शोभना नाम रंभोरूर्महाक्रोधमुपाययौ ।। ५५ ।।

वेतसैस्ताडयित्वा तं पुनः कृत्वा शुकं स्वयम् ।।

न ददौ भोजनं तस्मै फलाहारं शुकाय वै ।। ५६ ।।

तदा स्वर्णवती देवी कृत्वा नारीमयं वपुः ।।

मशकीकृत्य तं वीरं तत्रैवान्तर्दधे तु सा ।। ५७ ।।

पुनः श्येनीवपुः कृत्वा तद्देशाद्यातुमुद्यता ।।

पृष्ठमारोप्य मशकं मयूरनगरं ययौ ।। ५८ ।

मकरंदस्तु तां दृष्ट्वा कृष्णांशेन समन्विताम् ।।

नेत्रपालस्य तनयां नाम्ना स्वर्णवती बली ।।

चरणावुपसंगृह्य स्वगेहे तामवासयत् ।। ५९ ।।

शोभनापि च संबुध्य पञ्जरान्तमुपस्थिता ।।

न ददर्श शुकं रम्यं मूर्छिता चापतद्भुवि ।। 3.3.28.६० ।।

किं करोमि क्व गच्छामि विना तं रमणं परम् ।।

इत्येव बहुधालप्य मदहीनपुरं ययौ ।। ६१ ।।

तत्र स्थितं च पैशाचं मायामदविशारदम् ।।

महामदं च संपूज्य स्वदेहं त्यक्तुमुद्यता ।। ६२ ।।

महामदस्तु संतुष्टो गत्वा वै शिवमंदिरम् ।।

मरुस्थलेश्वरं लिंगं तुष्टावार्षभभाषया ।। ६३ ।।

तदा प्रसन्नो भगवान्वचनं प्राह सेवकम् ।।

स्वर्णवत्या हृतो वीरः कृष्णांशश्चार्यधर्मगः ।।

मया सह समागच्छ मयूरनगरं प्रति ।। ६४ ।।

इत्युक्तस्तेन पैशाचो नटैः पंचसहस्रकैः ।।

तया सह ययौ तूर्णं सहुरेणं समन्वितः ।। ६५ ।।

इन्दुलश्च तथाह्लादो बोधितो विष्णुमायया ।।

त्रिलक्षबलसंयुक्तो देवसिंहेन संयुतः ।।

मयूरनगरं प्राप्य मकरंदमुपाययौ ।।६६।।

तदा तु शोभना वेश्या सहुरेण बलैस्सह ।।

चकार भैरवीं मायां सर्वशत्रुभयंकरीम् ।।६७।।

सर्वतश्चोत्थितो वातो महामेघसमन्वितः।।

पतंति बहुधा चोल्काः शर्करावर्षणे रताः ।। ६८

दृष्ट्वा तां भैरवीं मायां तमोभूतां समन्ततः ।।

मकरन्दश्च बलवान्रथस्थः स्वयमाययौ ।। ६९ ।।

शनिभल्लेन तां मायां भस्म कृत्वा महाबलः ।।

गृहीत्वा सहुरं धूर्तं सबलं गेहमाप्तवान् ।। 3.3.28.७० ।।

तदा तु शोभना नारी काममायां चकार ह ।।

बहुलास्संस्थिता वेश्या गीतनृत्यविशारदाः ।। ७१ ।।

मोहिताः क्षत्रियाः सर्वे मुमुहुर्लास्यदर्शनात् ।।

देवसिंहाच्च कृष्णांशादृते ते जडतां गताः ।। ।।७२।।

तदा स्वर्णवती देवी कामाक्षी ध्यानतत्परा ।।

पुनरुत्थाप्य तान्सर्वान्गृहीत्वा शोभनां पुनः ।।

मयूरध्वजमागम्य निगडैस्तान्बबंध ह।।७३।।

महामदस्तु तज्ज्ञात्वा रुद्रध्यानपरायणः ।।

चकार शाम्बरीं मायां नानासत्त्वविधायिनीम् ।।७४।।

व्याघ्राः सिंहा वराहाश्च वानरा दंशका नराः ।।

सर्पा गृध्रास्तथा काका भक्षयंति समंततः ।। ७५ ।।

तदा स्वर्णवती देवी कामाक्षीध्यानतत्परा ।।

ससर्ज स्मरजां मायां तन्मायाध्वंसिनीं रणे ।। ।।७६।।

तया तार्क्ष्यास्समुत्पन्नाः शरभाश्च महाबलाः ।।

सिंहादीन्भक्षयामासुर्जघ्नुश्चैव सहस्रशः ।।७७।।

हाहाभूते च तत्सैन्ये दिक्षु विद्राविते सति ।।

शोभना चाभवद्दासी स्वर्णवत्याश्च मायिनी ।। ७८।।

सहुरस्तैर्नटैस्सार्द्धं चाह्लादेनैव चूर्णितः ।।

तेषां रुधिरकभाश्च? भूमिमध्ये समारुहन् ।। ७९ ।।

एवं च मुनिशार्दूल चतुर्मास्स्वभवद्रणः ।।

वैशाखे मासि संप्राप्ते ते वीरा गेहमाययुः ।।

इति ते कथितं विप्र चान्यत्किं श्रोतुमिच्छसि ।। 3.3.28.८० ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टाविंशोऽध्यायः ।। २८ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 29

।। ऋषय ऊचुः ।। ।।

किन्नरी नाम या कन्या त्वया प्रोक्ता महामुने ।।

कुत्र स्थाने कथं जाता तत्सर्वं कृपया वद ।। १ ।।

।। सूत उवाच ।। ।।

पुरा चैत्ररथे देशे नानाजननिषेविते ।।

वसंतसमये प्राप्ते क्रीडंत्यत्र दिवौकसः ।। २ ।।

मंजुघोषा च स्वर्वेश्या शुकस्थाने समागता ।।

दृष्ट्वा तं सुन्दरं बालं मोहनाय समुद्यता ।। ३ ।।

गीतनृत्यादिरागांश्च कृत्वा सा कामविह्वला ।।

प्रांजलिं प्रणता बद्ध्वा पुनस्तुष्टाव तं मुनिम् ।।४।।

तदा शुकस्तु भगवान्पद्यं स्तुति मयं शुभम् ।।

श्रुत्वा प्रसन्नहृदयो वरं ब्रूहीति सोऽब्रवीत् ।। ५ ।।

सा तु श्रुत्वा शुभं वाक्यं प्रोवाच श्लक्ष्णया गिरा ।।

पतिर्मे भव हे नाथ शरणागतवत्सल ।। ६ ।।

इति श्रुत्वा तु वचनं तथा कृत्वा तया सह ।।

स रेमे मुनिशार्दूलः शुको विज्ञानकोविदः ।। ७ ।।

तयोस्सकाशात्संजज्ञे मुनिर्नाम सुतोऽनयोः ।।

तपश्चकार बलवान्द्वादशाब्दं प्रयत्नतः ।। ८ ।।

तस्मै ददौ तदा पत्नीं स्वर्णदेवस्य वै सुताम् ।।

कुबेरो रुद्रसहितः स मुनिस्तु मुदान्वितः ।। ९ ।।

तया रेमे प्रसन्नात्मा तयोर्जाता सुतोत्तमा ।।

किन्नरी नाम विख्याता हिमतुंगे समुद्भवा ।।

तपश्चचार सा देवी रूपयौवन शालिनी ।। 3.3.29.१० ।।

तदा प्रसन्नो भगवाञ्छंकरो लोकशंकरः ।।

मकरंदाय धीराय ददौ तां रुचिराननाम् ।। ११ ।।

मुनिस्तु शंकरं प्राह देवदेव नमोऽस्तु ते ।।

मत्सुतायै वरं देहि राष्ट्रवर्धनमुत्तमम् ।। १२ ।।

इति श्रुत्वा शिवः प्राह गुरुंडान्ते च भूतले ।।

मध्यदेशे च ते राष्ट्रं भविष्यति सुखप्रदम् ।।

त्रिंशदब्दप्रमाणेन तत्पश्चात्क्षयमेष्यति ।। १३ ।।

इति श्रुत्वा तु स मुनिर्हिमतुंगनिवासकः ।।

मकरंदेन सहितस्तत्र वासमकारयत्।।१४।।

इति ते कथितं विप्र पुनः शृणु कथां शुभाम् ।।

ऊनत्रिंशाब्दकं प्राप्ते कृष्णांशे रणकारणम् ।। १५ ।।

नेत्रपालस्य नगरं नानाधातुविचित्रितम् ।।

मत्वा न्यूनपतिर्बौद्धो रुरोध नगरं शुभम् ।। १६ ।।

सप्तलक्षयुतो राजा बौद्धसिंहो महाबलः ।।

त्रिलक्षबलसंयुक्तैस्सार्द्धं युद्धमचीकरत् ।। १७ ।।

सप्ताहोरात्रमभवत्सेनायुद्धं भयानकम् ।।

योगसिंहो भोगसिंहो विजयश्च महाबलः ।। १८ ।।

जघान शात्रवीं सेनां बौद्धसिंहेन पालिताम् ।।

एतस्मिन्नंतरे प्राप्ताः श्यामजापकदेशगाः ।। १९ ।।

बौद्धा मायाविनस्सर्वे लोकमान्यप्रपूजकाः ।।

पुनर्जातं महद्युद्धं मासमेकं तयोस्तदा ।। 3.3.29.२० ।।

नेत्रपालाज्ञया सर्वे कृष्णांशाद्याः समागताः ।।

कृष्णांशो बिंदुलारूढो देवः स्वहयसंस्थितः ।।२१।।

इंदुलश्च करालाश्वे मंडलीको गजे स्थितः ।।

गौतमश्च समायातो हरिनागरसंस्थितः ।।२२।।

तालनश्च समायातः सिंहिन्युपरि संस्थितः ।।

धान्यपालस्तैल्यकारो युयुत्सोरंशसंभवः ।।२३।।

लल्लसिंहश्च बलवान्कुंतिभोजांशसंभवः ।।

ताम्बूलीयकजातीयो लक्षणानुज्ञया ययौ ।। २४ ।।

तदा तु नेत्रसिंहश्च सप्तलक्षबलैर्वृतः ।।

पालितश्चाष्टभिर्वीरैस्तेषां नाशाय चाययौ ।। २५ ।।

भयभीताश्च ते बौद्धास्त्यक्त्वा देशं समन्ततः ।।

चीनदेशमुपागम्य युद्धभूमिमकारयन् ।। २६ ।।

तदनुप्रययुस्ते वै हूहानदमुपस्थिताः ।।

माघमासे तु संप्राप्ते पुनर्युद्धमवर्तत ।। २७ ।।

श्यामदेशोद्भवा लक्षं तथा लक्षं च जापकाः ।।

दश लक्षाश्चीनदेश्या युद्धाय समुपस्थिताः ।। २८ ।।

कृष्णांशो लक्षसेनाढ्यो देवो लक्षसमन्वितः ।।

नेत्रपालश्च लक्षाढयो योगभोगसमन्वितः ।। २९ ।।

मंडलीकश्चेन्दुलेन लक्षसैन्यसमन्वितः ।।

ध्यानपालो लल्लसिंहो लक्षसैन्यान्वितः स्थितः ।। 3.3.29.३० ।।

जननायक एवापि लक्षसैन्ययुतः स्थितः ।।

तालनो लक्षसेनाढ्यो युद्धाय समुपागतः ।। ३१ ।।

तत्र युद्धमभूद्घोरं बौद्धानामार्यकैस्सह ।।

पक्षमात्रं मुनिश्रेष्ठ यमलोकविवर्द्धनम् ।। ३२ ।।

सप्त लक्षं हता बौद्धा द्विलक्षं चार्यदेशजाः ।।

ततस्ते भयभीताश्च त्यक्त्वा युद्धं गृहं ययुः ।। ३३ ।।

कृत्वा दारुमयीं सेनां कलयंत्रप्रभावतः ।।

गजाश्च दशसाहस्रा सशूराः काष्ठनिर्मिताः ।। ३४ ।।

एकलक्षं हयारूढा दारुपाश्च रणोन्मुखाः ।।

सहस्रं महिषारूढास्सहस्रं कोलपृष्ठगाः।। ३५ ।।

सिंहारूढास्सहस्रं च सहस्रं हंसवाहनाः।।

कंकगोमायुगृध्राणां श्यामारूढाः पृथक्तथा ।। ३६ ।।

उष्ट्राः सप्तसहस्राणि सशूराश्च रणोन्मुखाः ।।

एवं सपादलक्षैश्च काष्ठसैन्यैश्च मानुषाः ।। ३७ ।।

द्विलक्षाणि क्षयं जग्मुः कृष्णांशाद्यैः सुरक्षिताः ।।

ततो हाहाकृतं सैन्यं चार्य्याणां च ननाश तत् ।। ।। ३८ ।।

दृष्ट्वा तत्कौतुकं रम्यं जयन्तो युद्धकोविदः ।।

आग्नेयं शरमादाय काष्ठसैन्येषु चाक्षिपत् ।। ३९ ।।

भस्मीभूताश्च ते सर्वे तत्रैव विलयं गताः ।।

त्रिलक्षं क्षत्रियाः शेषा जयंतं रणकोविदम् ।।

चक्रुर्जयरवं तत्र तुष्टुवुश्च पुनः पुनः ।। 3.3.29.४० ।।

तदा तु चीनजा बौद्धाः कृत्वा विंशत्सहस्रकान्।। हयारूढाँल्लोहमयान्प्रेषयामासुरूर्जितान् ।। ४१ ।।

योगसिंहो गजारूढो धनुर्बाणधरो वली ।।

कंठेषु लोहजान्वीरांस्ताडयामास वै तदा ।। ।। ४२ ।।

मृतास्ते पंचसाहस्रा योगसिंहशरार्दिताः ।।

बौद्धसिंहस्तदा शूरो दृष्ट्वा तस्य पराक्रमम् ।।

कृत्वा लोहमयं सिंहं योगसिंहमपेषयत् ।।४३।।

पातेन तस्य सिंहस्य स वीरो मरणं गतः ।।

तदा तु भोगसिंहश्च हयारूढो जगाम ह ।।

स्वभल्लेन च तं सिंहं हत्वा तत्र जगर्ज वै ।। ४४ ।।

तदा तु बौद्धसिंहेन शार्दूलस्तत्र चोदितः ।।

सहयो भोगसिंहश्च तेनैव मरणं गतः ।। ४५ ।।

मातुलौ मृत्युवशगौ दृष्ट्वा स्वर्णवतीसुतः ।।

करालं हयमा रुह्य बौद्धसिंहमुपाययौ ।। ४६ ।।

शरमादाय वै शीघ्रं नाम्ना संमोहनं शुभम् ।।

मोहयित्वा रिपुबलं बौद्धसिंहसमन्वितम् ।। ४७ ।।

बद्ध्वा तान्बौद्धसिंहादीन्नृपान्दशसहस्रकम् ।।

कलयंत्रं च संचूर्ण्य कृष्णां शांतिकमाययौ ।। ४८ ।।

तदा ते हर्षितास्सर्वे प्रपेष्य नगरं ययुः ।।

तद्वेश्म योजनायामं सर्वसंपत्समन्वितम् ।।

लुण्ठयित्वा बलात्सर्वे नृपदुर्गमुपाययुः ।। ४९ ।।

बौद्धसिंहस्तदागत्य जयन्तेन विमोचितः ।।

सुतां स्वां पद्मजां नाम्ना जयन्ताय ददौ मुदा ।। 3.3.29.५० ।।

दशकोटीः सुवर्णस्य चाह्लादाय तदा धनम्।।

सर्वैश्च बौद्धवृन्दैश्च तत्रैव शपथः कृतः ।। ५१ ।।

आर्यदेशं न यास्यामः कदाचिद्राष्ट्रहेतवे ।।

इत्युक्त्वा तान्प्रणम्याशु संप्रस्थानमकारयन् ।।

त्रिलक्षैश्च युतास्ते वै नेत्रपालगृहं गताः ।। ५२ ।।

।। ऋषयः ऊचुः ।। ।।

इन्दुलेन कथं सूत तत्र प्राणीकृता न हि ।।

सुप्रिया योगसिंहाद्यास्तन्नो वद विचक्षण ।। ५३ ।।

।। सूत उवाच ।। ।।

आगता यमलोकाद्वै कतिचित्प्राणिनो भुवि ।।

तदा तु दुःखितो देवो महेंद्रान्तमुपाययौ ।। ५४ ।।

देवराज नमस्तुभ्यं सर्वदेवप्रियंकर ।।

जयंतो जगतीं प्राप्य मृताञ्जीवयति स्वयम् ।।

अतो वै लोकमर्यादा विरुद्धा दृश्यते भुवि ।। ५५ ।।

इति श्रुत्वा तु वचनं महेन्द्रो देवमायया ।।

वडवामृतमाहृत्य तथा वै स्वर्गगां गतिम् ।।

जयंतस्य स्वपुत्रस्य मुमोद स सुरैः सह ।। ५६ ।।

इन्दुलश्च तदा दुःखी शारदां सर्वमंगलाम् ।।

पूजयित्वा विधानेन योगध्यान परोऽभवत् ।। ५७ ।।

इति ते कथितं विप्र पुनः शृणु कथां शुभाम् ।।

नेत्रपालश्च बलवान्बहुपुत्रः शुचान्वितः ।।

दशकोटिमितं स्वर्णं तेभ्यो दत्त्वा समं समम् ।। ५८ ।।

प्रस्थानं कारयामास चाष्टानां बलशालिनाम् ।।

ते वै द्विलक्षसैन्याढ्याः स्वगेहाय ययुर्मुदा ।। ५९ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये एकोनत्रिंशोऽध्यायः ।। २९ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 30

।। सूत उवाच ।। ।।

यदा ते चीनदेशस्थास्तदाहूतो नृपेण वै ।।

कामपालेन भो विप्र लक्षणो नकुलांशकः ।। १ ।।

जयचंद्र महाभाग सावधानं वचः शृणु ।।

वैशाखशुक्ल सप्तम्यां मुहूर्तोऽयं दिनागमे ।। २ ।।

अतो वै लक्षणो वीरश्चैकाकी मां समाप्नुयात् ।।

गृहीत्वा मत्सुतां दोलां गमिष्यति तवांतिकम् ।। ३ ।।

सेनान्वितं च तं ज्ञात्वा महीराजो महाबलः ।।

ग्रहीष्यति पराजित्य तस्माद्योग्यं वचो मम ।। ४ ।।

इति तत्रत्यवचनं मत्वा राजा प्रसन्नधीः ।।

लक्षणं हस्तिनीसंस्थं शतशूरसमन्वितम् ।। ५ ।।

आहूय प्रेषयामास कामपालाय धीमते ।।

मार्गे पंचदिनं वीर उषित्वा तद्गृहं ययौ ।। ६ ।।

तदा पद्माकरः श्यालो ज्ञात्वा लक्षणमागतम् ।।

भूमिराजं समाहूय तेन युद्धमचीकरत् ।। ७ ।।

लक्षणो नकुलांशश्च दृष्ट्वा शत्रुमुपस्थितम् ।।

स्वशरैस्तर्पयामास राजराजं महाबलम् ।। ८ ।।

मूर्च्छयित्वा महीराजं हत्वा पंचशतं बली ।।

कामपालं समागम्य नत्वा वासमकारयत् ।। ९ ।।

उत्थितश्च महीराजो गत्वा पद्माकरं प्रति ।।

वचनं प्राह कार्यार्थी शृणु मित्र वचो मम ।। 3.3.30.१० ।।

लक्षणो मे महाञ्छत्रुस्स च त्वद्गेहमागतः ।।

यदि दास्यसि तं बद्ध्वा त्वां मदंगं करोम्यहम् ।। ११ ।।

इति श्रुत्वा स लोभात्मा दत्त्वा हालाहलं विषम् ।।

बद्ध्वा तं लक्षणं वीरं महीराजाय चार्पयत् ।।

हत्वा ताञ्छतशूरांश्च गुप्तवार्तामकारयन् ।। १२ ।।

ज्ञात्वा तत्पद्मिनी नारी दुःखितालप्य वै भृशम् ।।

चंडिकां पूजयामास पतिमंगलहेतवे ।। १३ ।।

तदा प्रसन्ना सा देवी वरदा सर्वमंगला ।।

आश्वास्य पद्मिनीं नारीं लक्षणांतमुपाययौ ।। १४ ।।

स्वप्ने तमाह सा देवी ह्रीं फट् घेघे जपं कुरु ।।

अस्य मंत्रप्रभावाच्च सर्वविघ्नः प्रणश्यति ।। १५ ।।

स बुद्ध्वा लक्षणो वीरस्तं मंत्रं च जजाप ह ।।

आषाढे मासि संप्राप्ते कृष्णांशाद्या गृहं ययुः ।। १६ ।।

तालनश्च युतस्ताभ्यां कल्यकुब्जमुपाययौ ।।

न दृष्टो लक्षणो वीरो जयचंद्रप्रियंकरः ।।

ज्ञात्वा तत्कारणं तैश्च कृतं योगमयं वपुः ।। १७ ।।

धान्यपालः कांस्यधारी वीणाधारी च तालनः ।।

लल्लसिंहो मृदंगांको ययुस्ते वै महावतीम् ।। १८ ।।

सभां परिमलस्यैव गत्वा ते योगरूपिणः ।।

चक्रुर्गानं मुदा युक्ताः सर्वे ते मोहमागताः ।। १९ ।।

प्रसन्नश्च तदा राजा मुक्तामालां स्वकण्ठगाम् ।।

तालनाय ददौ प्रीत्या ताभ्यां स्वर्णांगुलीयके ।। 3.3.30.२० ।।

तदा ते हर्षिताः सर्वे कृष्णांशं प्रति चाययुः ।।

ज्ञात्वा कृष्णांश एवापि धृत्वा योगमयं वपुः ।।

ययौ बिंदुगढं वीरस्तालनाद्यैस्समन्वितः ।। २१ ।।

हट्टमध्ये समागम्य कृत्वा रासोत्सवं शुभम् ।।

गेहं पद्माकरस्यैव गत्वा ते ननृतुर्मुदा ।। ।। २२ ।।

एतस्मिन्नंतरे सर्वा योषितस्तत्र चागताः ।।

वेणुवाद्यवृतंवीरं कृष्णांशं ददृशुर्मुहुः ।।

मोहितास्तस्य गानेन जडीभूता धनं ददुः ।। ।। २३ ।।

तदा तु पद्मिनी नारी सर्वलक्षणसंयुता ।।

ज्ञात्वा कृष्णांशमेवापि रुरोद चिरमातुरा ।। २४ ।।

उवाच च विलप्याशु मत्पतिर्ल क्षणो बली ।।

महीराजेन शूरेण कारागारे बलात्कृतः ।।

अहं योषा भवान्योगी कथं कार्यं भविष्यति ।। २५ ।।

इति श्रुत्वा तु स नृपो भुजमुत्थाप्य सत्वरम् ।।

आश्वास्य पद्मिनीं नारीं ययुस्ते देहलीं प्रति ।।

राजद्वारमुपागम्य कृष्णांशस्स ननर्त ह ।। २६ ।।

महीराजस्तु बलवान्प्रसन्नस्तस्यलीलया ।।

वांछितं ब्रूहि कृष्णांश सर्वं योगिन्ददाम्यहम् ।। २७ ।।

इति श्रुत्वा भूपवचो विहस्योवाच तं प्रति।।

कारागारं लोहमयं नृपयोग्यं च मे नृप ।।

दर्शयाशु स्वकीयं वै भवान्भूपशिरोमणिः ।। २८ ।।

इति श्रुत्वा स नृपतिर्मोहितः कृष्णलीलया ।।

दर्शयित्वा च वै शीप्रं पुनस्तेभ्यो ददौ धनम् ।। २९ ।।

ततस्ते योगिनस्सर्वे संप्राप्य च महावतीम् ।।

नत्वा परिमलं भूपं गदित्वा सर्वकारणम् ।। ।। 3.3.30.३० ।।

स्वसेनां सज्जयामास चाह्लादश्च नृपाज्ञया ।।

पञ्चलक्षं महावत्या हयारूढास्समास्थिताः ।। ३१ ।।

तालनस्सप्त लक्षाणि सैन्यान्याहूय चागतः ।।

एवं द्वादशलक्षाणि क्षत्रिया रणदुर्मदाः ।।

देहलीं च समाजग्मुस्सर्वशस्त्रसमन्विताः ।। ३२ ।।

एतस्मिन्नंतरे मन्त्री चद्रभट्टो विशारदः ।।

सर्वशास्त्रार्थकुशलो वैष्णवीशक्तिपूजकः ।।३३।।

महीराजं समागम्य वचः प्राह शृणुष्व भोः ।।

मया वै च रहः क्रीडा दृष्टा देवीप्रसादतः ।।३४।।

तत्रोदयश्च कृष्णांशः पूर्णब्रह्माणमागमत् ।।

वचः प्राह प्रसन्नात्मा शृणु त्वं सत्त्वविग्रह ।। ३५ ।।

अग्निवंशविनाशाय चाद्य यास्यामि देहलीम् ।।

हत्वाहं कौरवांशांश्च स्थापयित्वा कलिं भुवि ।। ३६ ।।

पुनस्तवान्तिकं प्राप्य रहः क्रीडां करोम्यहम् ।।

इत्युक्त्वा बिंदुलारूढः स वीरस्त्वामुप स्थितः ।।

इत्यहं दृष्टवान्भूप कृष्णांशं योगनिद्रया ।। ३७ ।।

इति तस्य वचः श्रुत्वा स भूपो विस्मयान्वितः ।।

भयभीतः सहस्राणि शूरानाहूय सत्वरम् ।।

तेभ्यश्च लक्षणं दत्त्वा वचनं प्राह तान्प्रति ।। ३८ ।।

पद्माकराय भूपाय गत्वा दत्त्वाशु लक्षणम् ।।

ममान्तिकमुपागम्य कारणं वदताशु तत् ।। ३९ ।।

इति श्रुत्वा तु ते सर्वे वह्निवंश्या महाबलाः ।।

गत्वा तत्र तथा कृत्वा महीराजमुपागमन् ।। 3.3.30.४० ।।

भगदंतश्च तेषां तु सहस्राणां च नायकः।।

महीराजं वचः प्राह शृणु तन्नृपभाषितम् ।।४१।।

पद्मिनी मे स्वसा राजन् गुप्तविद्याविशारदा ।।

तया यज्ञपतिर्देवः सम्यगाराधितः पुरा ।। ४२ ।।

दत्तस्तेन वरो रम्यो ह्यन्तर्धानमयः परः ।।

सा तु तं लक्षणं कांतमंतर्धानं करिष्यति ।।

इति श्रुत्वा स नृपतिः परमानन्दमाप्तवान् ।। ४३ ।।

एतस्मिन्नंतरे प्राप्ताः कृष्णांशाद्या महाबलाः ।।

रुरुधुर्देहलीं सर्वां महीराजेन पालिताम् ।। ४४ ।।

स तदा पृथिवीराजो गृहीत्वा बहुभूषणम् ।।

सर्वेभ्यश्च ददौ प्रेम्णा वचनं प्राह नम्रधीः ।। ४५ ।।

लक्षणो नाम ते राजा कारागारे न वै मम ।।

यदि मन्नगरे चास्ति तर्हि ते रोष ईदृशः ।। ४६ ।।

इत्युक्त्वा तं च कृष्णांशं दर्शयामास वै गृहम्। ।।

महादेवस्य शपथं कृतवान्भूपतिर्भयात् ।। ४७ ।।

तदोदयो भूपवचः सत्यं मत्वा सुदुःखितः ।।

स्वकीयैः सह संप्राप्तो ग्रामं बिंदुगढं शुभम् ।। ४८।

कामपालस्तु तच्छ्रुत्वा कृष्णांशागमनं बली ।।

बलिं बहुं गृहीत्वाशु कृष्णांशं शरणं ययौ ।।

प्रांजलिः प्रणतो भूत्वा वचनं प्राह भीरुकः ।। ४९ ।।

सुता मे पद्मिनी नारी लक्षणेन समन्विता ।।

न ज्ञात्वा क्व गताऽस्माभिस्सत्यं सत्यं ब्रवीम्यहम् ।।3.3.30.५०।।

इति तद्वचनं श्रुत्वा कृष्णांशः स्वबलैस्सह ।।

कान्यकुब्जं समागत्य जयचन्द्रमुवाच ह ।। ५१ ।।

भ्रातृजस्तव भूपाल पद्मिन्या लक्षणोऽन्वितः ।।

कामपालगृहे नास्ति निश्चितो बहुधा मया ।। ५२ ।।

न जाने क्व गतो राजा मम प्राणसमो भुवि ।।

यदि भूप न पश्यामि सत्यं प्राणांस्त्यजाम्यहम् ।। ५३ ।।

हा रत्नभानुतनय विष्णुभक्त शुभंकर ।।

स्वमित्रं मां परित्यज्य कां दिशं गतवान्भवान् ।।

इत्युक्त्वा मूर्छितश्चासीत्कृष्णांशो वैष्णवप्रियः ।। ५४ ।।

तदा स्वर्णवती देवी स्वदास्या शोभया सह ।।

धृत्वा शुकमयं रूपं तत्रागत्य स्वमूर्तिगा ।। ५५ ।।

तया संप्रेषिता शोभा म्लेच्छमायाविशारदा ।।

जयचंद्रमुपागम्य धृत्वा दिव्यमयं वपुः ।। ५६ ।।

उवाच वचनं तत्र शृणु भूपशिरोमणे ।।

मायाविनी च मां विद्धि शोभनां नाम विश्रुताम् ।। ५७।।

दंपती तव भूपाल संहृतौ येन यत्र वै ।।

तत्राहं च गमिष्यामि महामदसमन्विता ।। ५८ ।।

आह्लादश्चेन्दुलो वीरो देवो वै तालनो बली ।।

कृष्णांशपालितास्सर्वे यास्यामो भूपते वयम् ।। ५९।।

इत्युक्त्वा शोभना वेश्या कृत्वा योगमयं वपुः ।।

महामदं समारुह्य पैशाचं रुद्रकिंकरम् ।।

प्रययौ तान्पुरस्कृत्य योगिवेषान्महाब लान्।। 3.3.30.६० ।।

आह्लादो गजसंस्थो वै करालारूढ इन्दुलः ।।

तालनः सिंहिनीसंस्थो देवसिंहो मनोरथे ।।

कृष्णांशो बिन्दुलारूढो नर्तयामास तं हयम्।। ६१ ।।

कामरूपमयं देशं शतयोजनगामिनः ।।

बलवंतश्च संप्राप्ता गेहेगेहे जनेजने ।।

लक्षणं शोधयामासुर्न प्राप्तास्तत्र तं नृपम् ।। ६२ ।।

पुनर्मयूरनगरं शोभना तैः समन्विता ।।

चिन्वती तं मनुष्येषु न प्राप्ता तत्र वै नृपम् ।। ६३ ।।

पुनरिन्नगढग्रामं शोभना च जनेजने ।।

लक्षणं मृगयामास न प्राप तत्र लक्षणम्।। ६४ ।।

गत्वा बाह्लीकनगरं शोभना तैस्समन्विता ।।

लक्षणं च नृपश्रेष्ठं नापश्यत्तत्र दुःखिता ।। ६५ ।।

पुनः स्वदेशमागम्य बाह्लीकं म्लेच्छवासिनम् ।।

मर्कटेश्वरमीशानं तत्राह वनवासिनम् ।।

पूजयित्वा च सा वेश्या गाननृत्यपराभवत् ।। ६६ ।।

स देवो भूमिमध्यात् समागम्य मुदान्वितः ।।

कृष्णांशं प्रणतो भूत्वाऽब्रवीन्म्लेच्छप्रपूजितः ।। ६७ ।।

अहं कालाग्निरुद्रेण भूमिगर्ते सुरोपितः ।।

असमर्थं च मां विद्धि गच्छ वीर यथासुखम् ।। ६८ ।।

इति श्रुत्वा च सा शोभा निराशाभूत्तदा स्वयम् ।। ६९ ।।

पुनः स्वर्णवतीं प्राप्य सर्वमेवा दितोऽब्रवीत् ।।

त्रिंशदब्दैश्च कृष्णांशे चैत्रशुक्ल समागते ।। 3.3.30.७० ।।

तानाश्वास्य सुवर्णांगी पूजयामास चंडिकाम् ।।

नवरात्रं गतं तस्या भोजनाच्छादनं विना ।।

निशीथान्ते तमःप्राप्ते गत्वाह जगदम्बिका ।। ७१ ।।

पद्मिनी नाम या नारी मणिदेवस्य वै प्रिया ।।

जाता सा कामपालस्य गृहे यज्ञावमानिता ।। ७२ ।।

सेनापतिः कुबेरस्य मणिदेवो हि स स्मृतः ।।

पूर्वं हि भीमसेनेन यक्षयुद्धेषु घातितः ।। ७३ ।।

तदा तत्पद्मिनी नारी देवदेवमुमापतिम् ।।

तुष्टाव च निराहारा मत्पतिं देहि शंकर ।। ७४ ।।

शतवर्षांतरे देवो महादेव उवाच ताम् ।।

कलौ विक्रमकाले हि शतद्वादशकेऽन्तिके ।। ७५ ।।

नकुलांशं च संप्राप्य भुक्त्वा तेन महत्सुखम् ।।

तद्वियोगेन संत्यज्य देहं पद्मानुवासितम् ।।

स्वपतिं च तदा प्राप्य कैलासं पुनरेष्यसि ।। ७६ ।।

महावतीं पुरीं रम्यां राष्ट्रपालाय शारदा ।।

करिष्यति तदा देवी मणिदेवस्तु त्वत्पतिः ।। ७७ ।।

तया विरचितो भूमौ ग्रामरक्षार्थमुद्यतः ।।

प्राप्तस्त्वां पद्मिनीं नारीं कैलासं पुनरेष्यति ।। ७८ ।।

अतः स्वर्णवति त्वं वै कैलासं गुह्यकालयम् ।।

गत्वाशु पद्मिनीं तत्र बोधयाशु वचः कुरु ।। ७९ ।।

इति श्रुत्वा स्वर्णवती पद्मिनीं प्रति चागमत् ।।

वृत्तांतं कथयित्वाग्रे पद्मिनीं तु दयातुरा ।। 3.3.30.८० ।।

कामपालगृहं प्राप्य तत्र वासमकारयत् ।।

स्वर्णवत्यपि संप्राप्ता तदा शीघ्रं महावतीम् ।। ८१ ।।

तस्यां गतायां गेहे वै पद्मिन्या लिखितं शुभम् ।।

पत्रं परिमलो राजा वर्तयामास हर्षितः ।।८३।।

आगच्छ सेनया सार्द्धं कृष्णांश बलवत्तर ।।

जित्वा पद्माकरं बंधुं मत्पतिं मोचयाशु वै।।

भूतले लक्षणो राजा स्थितः पद्माकरार्तिगः ।। ८३ ।।

इति ज्ञात्वा च कृष्णांशो लक्षद्वादशसेनया ।।

रुरोध नगरीं सर्वां कामपालेन रक्षिताम् ।। ८४ ।।

कामपालस्तु बलवांस्त्रिलक्षबलसंयुतः ।।

सुताज्ञया ययौ युद्धं सार्द्धं पद्माकरेण वै ।। ८५।।

तयोश्चासीन्महद्युद्धं सेनयोरुभयोस्तदा ।।

अहोरात्रप्रमाणेन भूपसेना पराजिता ।। ८६ ।।

पद्मिनीं शरणं प्राप्य तदा भ्राता पिता स्थितः ।।

तयोर्विजयमेवाशु यथाप्राप्तं चकार सा ।।

अन्तर्द्धानमयं पत्रं तयोरर्थे च सा ददौ ।। ८७ ।।

तौ तत्रान्तर्हितौ भूत्वा स्वखड्गेन रिपोर्बलम् ।।

अयुतं जघ्नतुर्मत्तौ तदा ते विस्मयं गताः ।।८८।।

तालनाद्या रणं त्यक्त्वा कृष्णांणशं शरणं ययुः ।।

कृष्णांशोऽपि तदा दुःखी ध्यात्वा सर्वमयीं शिवाम् ।। ८९ ।।

दिव्यदृष्टिस्ततो जातः संप्राप्य तमयुध्यत ।।

नभोगतं कामपालं तथा पद्माकरं नृपम् ।। 3.3.30.९० ।।

बद्ध्वा तत्र मुदाविष्टो लक्षणं प्राप्य निर्भयः ।।

दोलामारोप्य तां देवीं स्वगेहाय मुदा ययौ ।। ९१ ।।

जयचंद्राय भूपाय दत्त्वा वै तौ च दंपती ।।

लक्षणं पद्मिनीं चैव कृतकृत्यस्तदाभवत् ।। ९२ ।।

जयचंद्रोऽपि बलवान्दृष्ट्वा गेहे स्वदंपती ।।

ददौ दानं द्विजातिभ्यो भूपतिं सममोचयत् ।।

ज्येष्ठे मासि सिते पक्षे कृष्णांशो गेहमागतः ।। ९३ ।।

इति ते कथितं विप्र कृष्णांशचरितं शुभम् ।।

पुनस्ते कथयिष्यामि दृष्टं योगबलेन वै ।।९४।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये त्रिंशोऽध्यायः ।।३०।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 31

।। सूत उवाच ।। ।।

शृणु विप्र महाभाग चंद्रभट्टस्तदा स्वयम् ।।

महीराजं सदःस्थं तं चन्द्रतुल्यस्समागतः ।। १ ।।

तमागतं समालोक्य स राजा शोकतत्परः ।।

उवाच वचनं रम्यं शृणु मंत्रिवर प्रभो ।। २ ।।

कृष्णांशाद्यैर्महाशूरैर्मद्ग्रामे भयमागतम् ।।

कदा ते च मरिष्यंति कंटका मम दारुणाः ।। ३ ।।

इत्युक्तस्स तु शुद्धात्मा ध्यात्वा सर्वमयीं शिवाम् ।।

वचनं प्राह राजानं स्थ भूपशिरोमणे ।। ४ ।।

जिष्णोरंशात्समुद्भूतो ब्रह्मानंदो महावतीम् ।।

स कृष्णांशसखः श्रेष्ठः सर्वदा तत्प्रिये रतः ।। ५ ।।

यदा च मलनापुत्रो देहं त्यक्त्वा गमिष्यति ।।

तदा ते सर्वदेवांशा गमिष्यंति यतो गताः ।। ६ ।।

इत्येवंवादिनं धीरममात्यं च महीपतिः ।।

वचनं प्राह नम्रात्मा कोऽप्यर्थश्चिंतितो मया ।। ७ ।। ।

एकाकिनं महाशूरं ब्रह्मानंदं नृपोत्तमम् ।।

समाहूय महीराजो द्विरागमनहेतवे ।।

छद्मना घातयित्वा तं कृतकृत्यो भविष्यति ।। ८ ।।

इत्युक्ते नृपतिं प्राह महीराजः प्रसन्नधीः ।।

वचनं शृणु भो मित्र गच्छ शीघ्रं महावतीम् ।। ९ ।।

मलनां च समागत्य बोधयित्वा तु तां स्वयम् ।।

ममान्तिकमुपागम्य चिरं जीव सुखीभव ।। 3.3.31.१० ।।

इति श्रुत्वा तु वचनं नत्वा तं च महीपतिः ।।

रात्रौ घोरं मुनिश्रेष्ठ मलनां प्राह निर्भयः ।।११ ।।

वधूस्तव महाराज्ञि वेला नाम सुरूपिणी ।।

संप्राप्ता यौवनवती पतियोग्या शुभानना ।। १२ ।।

कुजातिश्चैव कृष्णांशः श्रुतो राज्ञा महात्मना ।।

अतो न प्रेषिता पुत्री तव पुत्राय धीमते ।।

अतो मद्वचनं मत्वा कुरु कार्यं तव प्रियम् ।। १३ ।।

मया सार्द्धं तव सुतो ब्रह्मानंदो महाबलः ।।

उर्वीयां नगरीं प्राप्य तदा मत्सैन्यसंयुतः ।। १४ ।।

महीराजमुपागम्य पत्नीं शीघ्रमवाप्स्यति ।।

नो चेन्ममाज्ञया वेला त्यक्त्वा कान्तं मरिष्यति ।। १५ ।।

इति श्रुत्वा तु सा राज्ञी मोहिता देवमायया ।।

राजानं समुपागम्य भ्रातुर्वचनमुत्तमम् ।।

कथयामास वै सर्वं श्रुत्वा भूपोऽब्रवीदिदम् ।। १६ ।।

महीपतिर्महाधूर्तो मद्विनाशाय चोद्यतः ।।

तस्य वार्ता न मे रम्या कपटस्तेन निर्मितः ।। १७ ।।

इति श्रुत्वा च मलना राजानं कोपसंयुतम् ।।

वचनं प्राह भो राजन्यथा बंधुस्तथा ह्यहम्।।

वचनं कुरु मे राजन्नो चेत्प्राणांस्त्यजाम्यहम्।।१८।।

इत्युक्तवादिनीं रात्रौ तदा परिमलो नृपः ।।

ब्रह्मानन्दं ददौ तस्मै स सुतो मातृवत्सलः ।। १९ ।।

मातुराज्ञां पुरस्कृत्य मातुलेन समन्वितः ।।

रात्रौ च मातुलग्रामं संप्राप्य मुदितोऽभवत् ।।3.3.31.२०।।

प्रातःकाले च संप्राप्ते हरिनागरमास्थितः ।।

एकाकी देहलीं रम्यां प्रययौ देवमोहितः ।। २१ ।।

सायंकाले तु संप्राप्ते महीराजस्य मंदिरे ।।

अगमां दर्शयामास सुरूपां दिव्यविग्रहाम् ।। २२ ।।

अगमा च समालोक्य परं हर्षमुपाययौ ।।

माघशुक्लस्य चाष्टम्यां ब्रह्मानंदश्च निर्भयः ।।

श्यालानां योषितः सप्त ददर्श रुचिरानना ।। २३ ।।

तिस्रो नार्यश्च विधवाश्चतस्रो धवसंयुताः ।।

ब्रह्मानंदं शरुमयं वाक्यमूचुर्मुदान्विताः ।। २४ ।।

ब्रह्मानंद महाभाग सावधानं वचः शृणु ।।

तव पत्नी स्वयं काली वेला कलहरूपिणी ।।

संजहार धवानेव नो वयं तु सुदुःखिता ।। २५ ।।

सापत्न्यमस्तु तत्तस्या गृहाणास्मान्मनोहर ।।

धवान्विदेहि नो वीर पतिर्भव मुदान्वितः ।। २६ ।।

इति श्रुत्वा वचस्तासां ब्रह्मानंदो महाबलः ।।

उवाच मधुरं वाक्यं श्रुतिस्मृतिसमन्वितम् ।। २७ ।।

पुरा सत्ययुगे नारी चोत्तमा च पतिव्रता ।।

त्रेतायां मध्यमा जाता निकृष्टा द्वापरे पुनः ।। २८ ।।

अधमा हि कलौ नारी परपुंसोपभोगिनी ।।

अतस्तु कलिकाले वै विहाहो? विधवास्त्रियाः ।।

देवलेन शुभः प्रोक्तश्चासितेन स्वयं स्मृतौ ।।२९।।

सती सत्ये तु सा प्रोक्ता त्रेतायां पतिभस्मगा ।।3.3.31.३०।।

सती सा मध्यमा प्रोक्ता द्वापरे विधवा सती ।।

ब्रह्मचर्यपरा ज्ञेया कलौ नास्ति सतीव्रतम् ।। ३१ ।।

अतो यूयं मया सार्द्धं भुंक्षध्वममलं सुखम् ।।

इति श्रुत्वा प्रियं वाक्यं तिस्रस्ता विधवाः स्त्रियः ।। ३२ ।।

कृत्वा शृंगार रूपाणि भूषणानि च सर्वशः ।।

ब्रह्मानंदमुपागम्य समालिंगनतत्पराः ।।३३।।

ता दृष्ट्वा मलनापुत्रो वचनं प्राह निर्भयः ।।३४।।

युष्माभिः पतयो मुक्ता ये च मद्बंधुना हताः ।। ३५ ।।

युष्मानतो न गृह्णीयां सत्यंसत्यं ब्रवीम्यहम्।।

इति श्रुत्वा वचो घोरं हास्ययुक्तं च योषितः ।।३६।।

महीराजन्तमागम्य रुरुदुर्भृशदुःखिताः।।

राजन्वेलापतिर्धूर्तो मम धर्मं जहाति वै ।।

दंडं देहि च धूर्ताय नो चेत्प्राणांस्त्यजाम्यहम् ।। ३७ ।।

इति श्रुत्वा महीराजो ब्रह्मानन्दं महाबलम् ।।

समाहूय वचः प्राह भवान्भूपकुलाधमः ।। ३८ ।।

परस्त्रियं च यो भुंक्ते स याति यममंदिरम् ।।

अद्यैव त्वं सुताकान्त कारागृहमवाप्नुयाः ।। ३९ ।।

इतिश्रुत्वा वचो घोरं ब्रह्मानंदो महाबलः ।।

सत्सरोः खड्गमुत्सृज्य महीराजमधावत ।। 3.3.31.४० ।।

दृष्ट्वा भयातुरो राजा चामुंडान्तमुपाययौ।।

कपाटं दृढमाच्छाद्य तत्र वासमकारयत् ॥ ४१ ॥

॥ ऋषय ऊचुः।। ॥ ॥

तासां कथं विवाहाः स्युस्तत्त्वं नो ब्रूहि विस्तरात्।।

कुत्रत्यास्ताः किमंशाश्च दृष्टा योगेन वै त्वया ॥ ४२॥

॥ सूत उवाच। ॥

अंगदेशे मुनिश्रेष्ठ मायावर्मनृपोऽभवत् ॥

तामसीं पूजयित्वा वै शक्तिं सर्वविमोहिनीम् ॥ ४३ ॥

वर्मोत्तमं तया दत्तं सर्वसत्त्वभयंकरम्।

गृहीत्वा स तु भूपालः प्रस्थितोऽभून्महीतले ॥४४॥

प्रमदा नाम तत्पत्नी दश पुत्रानसूषुवत् ॥

कौरवांशान्महाभाग वर्षान्ते नाम मे शृणु ॥४५॥

मत्तः प्रमत्त उन्मत्त सुमत्तो दुर्मदस्तथा॥

दुर्मुखो दुर्धरो बाहुः सुरथो विरथः क्रमात्।

तेषां स्वसानुजा चासीत्सुनाम्ना मदिरेक्षणा॥४६॥

तस्या वै सुंदरं रूपं मदाघूर्णितलोचनम् ॥

कितवो नाम वै दैत्यो दृष्ट्वा मोहमुपागतः ॥ ४७॥

मायावर्माणमागत्य वचनं प्राह नम्रधीः ॥

यदि त्वं मे स्वतनयां देहि कामातुराय च ॥४८॥

तर्हि ते सकलं कार्यं करिष्यामि न संशयः ॥

इति श्रुत्वा तदा भूपो ददौ तस्मै स्वकन्यकाम्॥४९॥

कितवो गह्वरावासी रात्रौ घोरे तमोवृते ॥

नृपगेहमुपागम्य बुभुजे स्मरविह्वलः ॥

प्रातःकाले तु तां त्यक्त्वा कन्दरान्तमुपाययौ॥3.3.31.५०॥

वर्मदेवमते जाते ततो राजा मदातुरः॥

पुरोहितं समाहूय लक्षद्रव्यसमन्वितम् ॥

महीराजाय संप्रेष्य तारकं स समावृणोत् ॥५१॥

महीराजस्तु बलवाँल्लक्षषोडशसैन्यपः॥

संयुतः शतभूपालैर्मासान्ते समुपागमत् ॥५२॥

कृष्णांशे पंचदशके संप्राप्ते व्रततत्परे।।

तारकश्च विवाहाय बहुभूपोंगमानयत्।।५३।।

मायावर्मा च तं दृष्ट्वा तारकं भूपसंयुतम्।।

वचनं प्राह बलवान्राजराज वचः शृणु।। ५४।।

कितवो नाम मेधावी दैत्यवंशयशस्करः।।

तेन मे पीडिता बाला रात्रौ घोरतमोवृते ॥५५॥

हता भूपकुमाराश्च मत्सुतार्थं समागताः।।

भक्षितास्तेन दैत्येन संययुस्ते यमालयम्॥ ५६ ॥

तेषां च बहुधा द्रव्यं लुंठयित्वा मदातुरः॥

मत्सुतायै ददौ सर्वं तस्मात्त्वं दितिजं जहि।।५७।।

इति श्रुत्वा महीराजस्सर्वसैन्यसमन्वितः ॥

कितवं च समाहूय महद्युद्धमचीकरत् ॥५८॥

कितवस्स तु मायावी जित्वा सर्वान्महाबलान्॥

तारकं च समाहृत्य गुहायां समुपागमत् ॥ ५९ ॥

तारकश्च तदा दुःखी ध्यात्वा शंकरमुत्तमम् ॥

पाषाणभूतो ह्यगमन्महादेवप्रसादतः ॥ 3.3.31.६० ॥

एतस्मिन्नंतरे प्राप्ता महावतीनिवासिनः ।।

क्षत्रिया दशसाहस्रा कृष्णांशाद्यैश्च पालिताः ।। ६१ ।।

महीराजस्तु तान्दृष्ट्वा बलखानिं महाबलम् ।।

उवाच वचनं प्रेम्णा पुत्रशोकेन दुःखितः ।। ६२ ।।

तारकः कितवेनैव संहृतो दितिजेन वै ।।

यदि त्वं मे सुतं देहि कोटिस्वर्णं ददामि तत् ।।६३।।

इति श्रुत्वा तु ते धीराः कृष्णांशो देवसिंहकः ।।

वत्सजौ च तथागम्य कितवं रुरुधुर्बलात् ।।६४।।

अहोरात्रमभूद्युद्धं तेषां तेन समन्वितम् ।।

कितवस्तु रुषाविष्टः कृष्णांशं देवसिंहकम् ।।

बलखानिं मोहयित्वा जगर्ज च पुनःपुनः ।। ६५ ।।

सुखखानिस्तदा शूरः कितवं बलवत्तरम् ।।

स्वखड्गेन शिरस्तस्य छित्त्वा राजानमागमत् ।। ६६ ।।

त्रयस्ते सुखिनो भूत्वा सुखखानिं प्रशस्य च ।।

महीराजाय च ददौ तारकं कैतवं शिरः ।। ।। ६७ ।।

तदा भूपसुता देवी सुखखानिं समावृणोत् ।।

महीपतिस्तदागत्य तत्सुतां मदिरेक्षणाम् ।। ६८ ।।

संबोध्य विविधैर्वाक्यैर्भूमिराजांतमागमत् ।।

तारकस्य तया सार्द्धं विवाहो मुदितोऽभवत् ।। ६९ ।।

कोटिस्वर्णं नृपात्प्राप्य बलखानिर्महाबलः ।।

प्रययौ बंधुभिस्सार्द्धं शिरीषाख्यपुरं शुभम् ।। 3.3.31.७० ।।

।। सूत उवाच ।। ।।

गुर्जरे नृपतिश्चासीन्मूलवर्मा महाबलः ।।

प्रभावती तस्य सुता दशपुत्रानुजाभवत् ।। ७१ ।।

बलश्च प्रबलश्चैव सुबलो बलवान्बली ।।

सुमूलश्च महाभूलो दुर्गो भीमो भयंकरः ।। ७२ ।।

करभो नाम वै यक्षो लल्लराजस्य सेवकः ।।

प्रभावतीं समालोक्य मुमोह मदविह्वलः ।।

पञ्चवर्षांतरे जाते तेन भुक्ता कुमारिका ।। ७३ ।।

मूलवर्मा महीराजं समाहूय ससैन्यकम् ।।

वचनं प्राह नम्रात्मा राजराज वचः कुरु ।। ७४ ।।

प्रभावतीं शुभां कन्यां नृहराय ददाम्यहम् ।।

इत्युक्त्वा नृहरं पुत्रं समाहूय स्वमंदिरे ।।

ददौ वेदविधानेन सुतां च नृहराय वै ।। ।। ७५ ।।

पक्षमात्रांतरे यक्षः करभस्तत्र चागतः ।।

दंपती पीडयामास जित्वा सर्वमहीपतीन् ।। ७६ ।।

महीराजस्तदा दुःखी वत्सजौ बलवत्तरौ ।।

समाहूय कथित्वाग्रे रुरोद बलवान्बली ।। ७७ ।।

दयालू वत्सजौ वीरौ करभांतमुपेयतुः ।।

करभस्तौ समालोक्य तत्रैवांतर्धिमागमत् ।।

नागपाशेन तौ बद्ध्वा पीडयामास दंपती ।। ७ ।।

इति श्रुत्वा स कृष्णांशः करभं यक्षकिंकरम् ।।

बद्ध्वा योगबलेनैव मोचयामास दम्पती ।। ७९ ।।

भ्रातरौ तौ समागम्य नागपाशं तु चासिना ।।

छित्त्वा मुमोद बलवान्कोटिस्वर्णं गृहीतवान्।।

भूमिराजः प्रसन्नात्मा देहलीं मुदितोऽगमत्।। 3.3.31.८० ।। ।।

।। सूत उवाच ।। ।।

काश्मीरे च नृपश्चासीत्कैकयो नाम विश्रुतः ।।

दश पुत्राश्च तस्यैव कन्या च मदनावती ।। ८१ ।।

कामः प्रकामः सकामो निष्कामो निरपत्रपः ।।

जयश्च विजयश्चैव जयन्तो जयवाञ्जयः ।। ८२ ।।

स भूपो भूमिराजं च समाहूय वचोऽब्रवीत् ।।

पुत्रस्ते वै सरदनो मत्कन्यां प्राप्तुमर्हति ।। ८३ ।।

गंधर्वस्सुकलो नाम मत्कन्यां च शुभाननाम् ।।

ज्योत्स्नायां निशि संहृत्य तया सार्द्धं हि दीव्यति ।। ८४ ।।

पूर्णिमायां च संप्राप्तः स वै चित्ररथप्रियः ।।

वैशाखस्यासिते पक्षे चाष्टमी चाद्य मंगला ।।

वधं कुरु नृपश्रेष्ठ देहलीं गंतुमर्हसि ।। ८५ ।।

इति श्रुत्वा महीराजो लक्षसैन्यसमन्वितः ।।

गृहीत्वा दंपती शीघ्रं देहलीनगरं ययौ ।। ८६ ।।

वैशाख्यां सुखजातायां सुकलोनाम वीर्यवान् ।।

गंधर्वो दश साहस्रै रुरोध नगरं रुषा ।। ८७ ।।

नगराच्च बहिर्जाता ये शूरा मदविह्वलाः ।।

हत्वा तान्सुकलः शीघ्रं राज्ञे दुःखं चकार ह ।। ८८ ।।

भयभीतो महीराजो ध्यात्वा सर्वमयीं शिवाम् ।।

सुष्वाप निशि शुद्धात्मा तुष्टाभूज्जगदंबिका ।। ८९ ।।

कृष्णांशादीन्बोधयित्वा तैश्च सार्धं समागमत् ।।

तेषां चासीन्महद्युद्धं गंधर्वेण तदाह्निकम्।। 3.3.31.९० ।।

बलखानिश्च बलवाञ्छतगंधर्वमुत्तमम् ।।

त्रिदिनांते च संहत्य सुखखानिस्तथैव च ।। ९१ ।।।

सुकलश्च तदा क्रुद्धो गांधर्वीं च ससर्ज ह ।।

बहुधा ते हि गंधर्वास्तैश्च सार्द्धं समारुधन् ।। ९२ ।।

भयभीतास्तदा सर्वे रामांशं शरणं ययुः ।।

आह्लादश्च प्रसन्नात्मा शारदां सर्वमंगलाम् ।। ९३ ।।

दिवासूक्तेन तुष्टाव तदा प्रादुरभूच्छिवा। ।।

गंधर्वान्मोहयित्वाशु द्रावयामास शारदा ।। ९४ ।।

पराजिते च गंधर्वे कृष्णांशो जनमोहनः ।।

महीराजमुपागम्य कोटिस्वर्णं गृहीतवान् ।। ९५ ।।

षोडशाब्दे च कृष्णांशे संप्राप्ते देविपूजके ।।

मार्गमासं तु संप्राप्ते मर्दनश्च विवाहितः ।। ९६ ।।

।। सूत उवाच ।। ।।

पुंड्रदेशे महाराजो नागवर्मा महाबलः ।।

बभूव तक्षकपरो धर्मवाञ्जगतीतले ।।।१ ।। ९७ ।।

पत्नी नागवती तस्य तक्षकस्य सुता शुभा ।।

पितुः शापेन सञ्जाता कलिंगाधिपतेः सुता ।। ९८ ।।

दशैव तनयाश्चासन्कन्या तस्य शुभानना ।।

सुवेला नाम विख्याता रूपयौवनशालिनी ।। ९९ ।।

पुरोहितं समाहूय महीराजाय प्रैषयत् ।।

स गत्वा कथयित्वाग्रे मर्दनो वीरतो मया ।। 3.3.31.१०० ।।

महीराजस्तु तच्छ्रुत्वा त्रिलक्षबलसंयुतः ।।

मंगलं कारयामास गत्वा नागपुरे शुभे ।। १०१ ।।

सुवेला पितरं प्राह देहि मे नागभूषणम्।।

विवाहं हि करिष्यामि नोचेत्प्राणांस्त्यजाम्यहम् ।। १०२ ।।

इति श्रुत्वा नागवर्मा महीराजान्तमाययौ ।।

सुवेलाया अभिप्रायं वर्णयामास विस्तरात् ।। १०३ ।।

इत्युक्तः स महीराजो विस्मितोभूत्सुदुःखितः ।।

प्रेषयामास वै पत्रं यत्राह्लादादयः स्थिताः ।। १०४ ।।

इति ज्ञात्वा तदाऽऽह्लादः शूरपंचशतावृतः ।।

कृष्णांशवत्सजैस्सार्द्धं दिनांते च समागमत् ।। १०५ ।।

शतयोजनगामिन्यो वाजिन्यश्च द्वियामके ।।।।

सहस्रयोजनं वीर्यं तासां चैव दिने निशि।।१०६।।

कलांशादुद्भवा अश्वा वाजिना च हरेः स्वयम्।।

रत्नाश्वस्य कलांशश्च कपोतो हरणीभवः।।१०७।।

गायत्रो योभवद्वाजी कालचक्रप्रवर्तकः ।।

तत्कलांशात्समुद्भूतो रविदत्तः पपीहकः ।।

हरिणी नाम तच्छक्तिः कलांशाद्भूमिमागता ।। १०८ ।।।

सुखखानिः पपीहस्थो बलखानिः कपोतगः।।

आह्लादश्च करालस्थो बिंदुलस्थो हरेः कला ।।१०९।।

गत्वा ते तु महीराजं नत्वा तुंगासनां ययुः ।।

प्रसन्नः स महीराजो वचनं प्राह नम्रधीः ।। 3.3.31.११० ।।

मम पुत्राश्च युष्माभिस्त्रयः शूरा विवाहिताः ।।

तथैव मर्दनं वीरं समुद्वाह्य सुखी भव ।।१११।।

इति श्रुत्वा स आह्लादो गत्वा भूतलमुत्तमम् ।।

रसातलं च विख्यातं नागिनीं प्राह निर्भयः ।। ११२ ।।

सुप्तो हि तव भर्ता च पुंडरीकः शुभाननः ।।

बोधयाशु महाराज्ञि नागानां नो दयां कुरु ।।११३।।

इत्युक्ता साह तं वीरं पुंडरीकश्च मत्पतिः ।।

रुषाविष्टश्च बलवान्दाहयेच्च वपुस्तव ।। ११४ ।।

इति श्रुत्वा विहस्याह तव भर्तुर्न नो भयम् ।।

इत्येवं वचनं कृत्वा पद्भ्यां पुच्छमताडयत् ।। ११५ ।।

प्रबुद्धश्च तदा राजा नागानां च महाबलः।।

ज्वालामालां स्वदेहाच्च जनयामास वीर्यवान्।।११६।।

दृष्ट्वा तद्विषमुज्ज्वालं स ध्यात्वा सर्वमंगलाम्।।

शमयामास बलवान्देवीपूजनतत्परः ।।११७।।

पुंडरीकः प्रसन्नात्मा नागभूषणमुत्तमम् ।।

आह्लादाय ददौ शीघ्रं सर्वशृङ्गारसंयुतम् ।। ११८ ।।

आह्लादस्तु हयारूढो महीराजाय दत्तवान् ।।

विवाहं कारयामास वैवाहिकविधानतः ।।

कोटिस्वर्णं नृपात्प्राप्तं गृहीत्वा शीघ्रमाययौ ।। ११९ ।।

हयविद्यासमारूढास्ते हया गेहमागताः ।।

ज्ञेयाः पंचशतं सर्वे सशूरा गृहमाययुः ।। 3.3.31.१२० ।।

सूत उवाच ।।

मद्रदेशेषु यश्चासीन्मद्रकेशो महाबलः।।

पञ्चाब्दं पूजयामास स्वर्गवैद्यौ सुरोत्तमौ ।। १२१ ।।

तयोश्च वरदानेन दश पुत्रा बभूविरे ।।

सुता कान्तिमती जाता रूपयौवनशालिनी ।।१२२।।

स महीराजमाहूय त्रिलक्षबलसंयुतम् ।।

ददौ कन्यां विधानेन मद्रेशः सूर्यवर्मणे ।।१२३।।

नवोढां तु तदा पत्नीं सूर्यवर्मा गृहीतवान्।।

स्वगेहाय ययौ शीघ्रं महीराजो बलैस्सह ।। १२४ ।।

कर्बुरोनाम मायावी विभीषणसुतो बली ।।

राक्षसस्तत्र संप्राप्तो दृष्ट्वा कांतिमतीं शुभाम् ।। १२५ ।।

मद्रकेशस्य तनयां दिव्यशोभासमन्वि ताम् ।।

जहार पश्यतां तेषां सह्याद्रिगिरिमाययौ ।। १२६ ।।

महीराजस्तदा दुःखी विललाप भृशं मुहुः ।।

देहलीगेहमागम्य दूतमाहूय सत्व रम् ।। १२७ ।।

कृष्णांशं प्रेषयामास स गत्वा समवर्णयत् ।।

ज्ञात्वा ते तु हयारूढाः शूराः पंचशतावृताः ।। १२८ ।।

सह्याद्रिगिरिमागम्य कृष्णां शः कर्बुरं प्रति ।।

निर्भयो वचनं प्राह शृणु राक्षससत्तम ।। १२९ ।।

विभीषणो भक्तराजस्तस्य त्वं दयितः सुतः ।।

तस्मात्त्वया न कर्तव्यं पापं वंश विनाशनम् ।।

रावणेन पुरा सीता संहृता विदितं तव ।। 3.3.31.१३० ।।

इति श्रुत्वा स होवाच पुरेयं दयिता प्रिया ।।

मम गंधर्वतनया मुनिशापान्महीं गता ।। १३१ ।।

अतोऽहं तद्वियोगेन त्यक्त्वा लंकां महापुरीम् ।।

मद्रकेशमहं प्राप्य मद्रकेशभयादहम् ।।

न जहार प्रियां रम्यां तत्रोषित्वा दिनं बहु ।। १३२ ।।

अद्य मे वशगा साभून्नाम्ना कांतिमती शुभा ।।

जित्वा मां च गृहाणाशु समर्थाश्च वयं सदा ।। १३३ ।।

इति श्रुत्वा स कृष्णांशः खड्गयुद्धमचीकरत् ।।

सप्तरात्रेण तं जित्वा लब्ध्वा कांतिमतीं शुभाम् ।।

तदा च देहलीं प्राप्य महीराजान्तमाययौ ।।१३४।।

कोटिस्वर्णं ददौ राजा कृष्णांशाय महात्मने ।।

स वीरो बंधुभिः सार्धं प्रमदावनमाययौ ।।१३५।।

।। सूत उवाच ।। ।।

पट्टनाख्यपुरे राजा नाम्ना पूर्णामलो बली ।।

वसूनाराधायामास पंचवर्षान्तरे मुदा ।।

तदा प्रसन्नास्ते देवा ददुस्तस्मै वरं शुभम् ।। १३६ ।।

वरदानाच्च सञ्जाता दश पुत्रा महीपतेः ।।

विद्युन्माला सुता जाता रूपयौवनशालिनी ।। १३७

तद्विवाहार्थमाहूय महीराजं महाबलम् ।।

सप्तलक्षबलैः सार्द्धं तत्पुत्राय सुतां ददौ ।। १३८ ।।

महीराजसुतो भीमः पत्नीं प्राप्य मनोरमाम् ।।

गेहमागम्य तैः सार्द्धं देहलीं हर्षमाप्तवान् ।। १३९ ।।

तदा पैशाचदेशस्थः सहोदश्च महीपतिः ।।

म्लेच्छैश्च दशसाहस्रैर्विद्युन्मालार्थमुद्यतः ।।3.3.31.१४०।।

बलिदैत्याज्ञया प्राप्तः कुरुक्षेत्रं शुभस्थलम् ।।

भित्त्वा मूर्तीः सुराणां गोरक्तैस्तीर्थजलं कृतम् ।। ।। १४१ ।।

पत्रमालिख्य बलवान्महीराजाय धर्मिणे ।।

स्वदूतः प्रेषितस्तेन श्रुत्वा भूपोऽब्रवीदिदम् ।। १४२ ।।

भवान्म्लेच्छपती राजा विद्युन्मालार्थमुद्यतः ।।

मां शब्दवेधिनं विद्धि चौर्यदेशधुरंधरम् ।। १४३ ।।

इत्युक्त्वा स त्रिलक्षैश्च कुरुक्षेत्रमुपागतः ।।

तयोश्चासीन्महद्युद्धमहोरात्रं भयानकम् ।। १४४ ।।

निशीथे समनुप्राप्ते ज्येष्ठे मासि तमोमये ।।

पातालाद्बलिरागत्य दैत्यायुतसमन्वितः ।। १४५ ।।

नृपसैन्यं जघानाशु भक्षयित्वा पुनः पुनः ।।

भयभीतस्तदा राजा शारदां शरणं ययौ ।। १४६ ।।

एतस्मिन्नंतरे देवाः कृष्णांशाद्या महाबलाः ।।

क्षणमात्रेण संप्राप्तास्तदा पदचरा मुने ।। १४७ ।।

हत्वा दैत्यसहस्राणि बलिदैत्यमुपाययुः ।।

देशजौ वत्सजौ वीरौ देवसिंहस्तथैव च ।।

स्वखड्गैस्तर्पयामास दैत्यराजं महाबलम् ।। १४८ ।।

तदा प्रसन्नो बलवान्दैत्यराजो बलिः स्वयम् ।।

वरं वृणुत तानाह ते तु श्रुत्वाब्रुवन्वचः ।।१४९।।

आर्यदेशं च ते दैत्या नागच्छन्तु त्वया सह।।

म्लेच्छदेशं सदा प्राप्य भक्षध्वं म्लेच्छधर्मगान् ।। 3.3.31.१५० ।।

इति श्रुत्वा वचो घोरं विप्रियं च बलिः स्वयम् ।।

कृष्णांशमुदयं गत्वा तुष्टाव परया गिरा ।। १५१ ।।

तदा प्रसन्नः कृष्णांशो वचनं प्राह निर्भयः ।।

यावदहं भूमिवासी तावत्त्वं गेहमावस ।।

तत्पश्चाद्भूमिमागत्य यथायोग्यं कुरुष्व भोः ।। १५२ ।।

इति तद्वचनं श्रुत्वा सहोदो नीलसंयुतः ।।

पैशाचं देशमगमत्पुनः प्राप्तो रसातलम् ।। १५३ ।।

भूमिराजः प्रसन्नात्मा कोटिस्वर्णं ददौ तदा ।।

गजारूढाश्च ते पंच संययुश्च महावतीम् ।। १५४ ।।

।। सूत उवाच ।। ।।

वर्द्धनो भूमिराजस्य सुतः सर्वेभ्य उत्तमः।।

पंचमाब्दवया भूत्वा श्रीदं तुष्टाव भक्तितः।।

वर्षांतरे च भगवान्ददौ सर्वं शुभं निधिम् ।।१५५।।

तत्सर्वनिधिभावेन नृपकोशः समन्ततः ।।

पूर्णो बभूव कनकै राजराजप्रभावतः ।।१५६।।

किंनरी नाम या कन्या मंकणस्य प्रकीर्तिता ।।

कुबेरश्च ददौ तस्मै वर्द्धनाय प्रियाय च ।।

इति ते कथितं सर्वं विवाहचरितं मुने ।। १५७ ।।

धुन्धुकारो महाशूरो लक्षसैन्यसमन्वितः ।।

ब्रह्मानंदमुपागम्य युद्धार्थाय तमाह्वयत्।। १५८ ।।

एकत्रिंशाब्दके प्राप्ते कृष्णांशे बलवत्तरे ।।

एकाकी मलनापुत्रो दृष्ट्वा सैन्यमुपस्थितम् ।।

ब्रह्मास्त्रं चाप आधाय चार्धसैन्यमदाहयत् ।। १५९ ।।

पंचायुताश्च ते शूरा भयभीता दिशो गताः ।।

धुन्धुकारो रणं त्वक्त्वा भूमिराजमुपागमत् ।। 3.3.31.१६० ।।

महीराजस्तदा दुःखी भयभीतः समंततः ।।

महीपतिं समाहूय चन्द्रभट्टं च सोऽब्रवीत् ।। १६१ ।।

कथं जयो मे भविता तत्सर्वं मंत्रयाशु वै ।।

महीपतिस्तदा प्राह शृणु भूपशिरोमणे ।। ।। १६२ ।।

कृत्वा नारीमयं वेषं चामुण्डं बलशालिनम् ।।

वेलां मत्वा च तद्दोलां ब्रह्मानंदाय चार्पय ।। १६३ ।।

चत्वारस्ते सुताः शूरा धुंधुकारेण संयुता ।।

छद्मना च स्वशस्त्रैश्च घातयेयुस्तमूर्जिताः ।। १६४ ।।

इति श्रुत्वा महीराजो ब्रह्मानंदाय हर्षितः ।।

तथा कृत्वा ददौ दोलां पंचशूरैश्च पालिताम् ।। १६५ ।।

सायंकाले तु संप्राप्ते माघशुक्लाष्टमीदिने ।।

वेलावंशश्च चामुण्डो ब्रह्मानंदमुपाययौ ।। १६६ ।।

छद्मना च त्रिशूलं च बलात्कृत्वा रिपूदरे ।।

रुरोद बलवाञ्छूरस्ते तु शूराः समागताः ।। १६७ ।।

तारको हृदि तं बाणैः सूर्यवर्मा च तोमरैः ।।

भीमश्च गदया चात्र वर्द्धनश्च तदासिना ।।

धुंधुकारश्च भल्लेन जघान रिपुमूर्द्धनि ।। १६८ ।।

मूर्छितः पतितो भूमौ बह्मानंदो महाबलः ।।

महद्व्रणयुतस्तत्र स्वखङ्गं च समाददत् ।। १६९ ।।

भीमस्य च शिरः कायाद्वर्द्धनस्य तथैव च ।।

छित्त्वा तथैव भूमध्ये सूर्यवर्माणमागतंः ।। 3.3.31.१७० ।।

तारको धुंधुकारश्च चामु ण्डश्च तथैव च ।।

ब्रह्मानंदं तदा त्यक्त्वा महीराजान्तमाययौ ।। १७१ ।।

हतेषु तेषु पुत्रेषु महीराजो भयातुरः ।।

वेलापार्श्वमुपागम्य रुरोद बहु दुःखितः ।। १७२ ।।

इति श्रुत्वा तदा वेला दोलामारुह्य सत्वरम् ।।

ब्रह्मानंदं ययौ शीघ्रं मूर्च्छितं तं ददर्श ह ।। १७३ ।।

कनिष्ठामृतभावेन वेलाया बलवांस्तदा ।।

उत्थाय रुदतीं नारीं ददर्श रुचिरान्विताम् ।। १७४ ।।

का त्वं कस्य सुता रम्या संग्रामे मामुपस्थिता ।।

जलं देहि महा सुभूर्वचनं कुरु सुप्रियम् ।। १७५ ।।

इति श्रुत्वा तदा वेला जलं दत्त्वा शुचान्विता ।।

वचनं प्राह वै रात्रौ शृणु त्वं मलनासुत ।। १७६ ।।

वेला नाम महीभर्तुः सुताहं त्वामुपस्थिता ।।

मत्पतिश्च भवान्धीरश्छद्मना वंचकैर्हतः ।।

जीवनं कुरु राजेंद्र भुंक्ष्व भोगान्मया सह ।। १७७ ।।

इत्युक्तः स तु तामाह कलिकाले समागते ।।

जीवनान्मरणं श्रेष्ठं तस्मान्मद्वचनं कुरु ।। १७८ ।।

हरिनागरमारुह्य मया सार्द्धं शुभानने ।।

गत्वा तीर्थानि रम्याणि संत्यजामि कलेवरम्।।१७९।।

इत्पुक्त्वा तौ समारुह्य पूर्वे च कपिलान्तिकम्।।

गत्वा स्नात्वा च विधिवत्ततोध्ये जग्मतुर्मुदा।।3.3.31.१८०।।

पृथक्पृथक्सुतार्थानि स्नात्वा दत्त्वा च .जग्मतुः ।।

दक्षिणे सेतुबंधान्ते पश्चिमे द्वारिकामनु ।। १८१ ।।

उत्तरे बदरीस्थाने स्नात्वा तीर्थानि जग्मतुः ।।

गंधमादनमागत्य ब्रह्मानंदो महाबलः ।। १८२ ।।

वेलामुवाच वचनं भाद्रशुक्लाष्टमीदिने ।।

देहं त्यजामि भो राज्ञि तारकं जहि भूतले ।।१८३।।

इति श्रुत्वा तु सा प्राह स्वामिन्मद्वचनं कुरु ।।

कुरुक्षेत्रं मया सार्द्धं भवान्वै गंतुमर्हति ।।१८४।।

स्थित्वा तत्र समस्वान्तो भज त्वं सर्वमंगलाम् ।।

अहं महावतीं प्राप्य पुनर्वै देहलीं प्रति ।। १८५ ।।

तारकं च तथा हत्वा त्वत्समीपं व्रजाम्यहम् ।।

इत्युक्तः स तथेत्युक्त्वा ब्रह्मध्यानपरोऽभवत् ।। १८६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकत्रिंशोऽध्यायः ।। ३१ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 32

।। सूत उवाच ।। ।।

द्वात्रिंशाब्दे च कृष्णांशे संप्राप्ते योगरूपिणी ।।

वेला नाम शुभा नारी हरिनागरसंस्थिता ।।

महावतीं समागम्य सभायां तत्र चाविशत् ।। १ ।।

एतस्मिन्नंतरे प्राप्ताः कृष्णांशाद्या महाबलाः ।।

नत्वा परिमलं भूपं वेला वचनमब्रवीत् ।। २ ।।

महीपतिं प्रियं मत्वा कृष्णांशं नृप दुष्प्रियम् ।।

त्वया मे घातितो भर्ता ब्रह्मानंदो महाबलः ।। ३ ।।

महीराजसुतैर्धूर्तैस्तारकाद्यैर्महाबलैः ।।

नारीवेषं च चामुण्डो धुंधुकारेण कारितः ।। ४ ।।

स्वामिनं प्रति चागम्य ते जग्मुश्छद्मना प्रियम् ।।

कुरुक्षेत्रं स्थितः स्वामी महत्या मूर्छयान्वितः ।।

तस्माद्यूयं मया सार्द्धं गंतुमर्हथ तं प्रति ।। ५ ।।

इति घोरतमं वाक्यं श्रुत्वा सर्वे शुचान्विताः ।।

धिग्भूपतिं च मलनां ताभ्यां नो घातितः सखा ।। ६ ।।

इत्युक्त्वोच्चैश्च रुरुदुः कृष्णांशाद्या महाबलाः ।।

पत्राणि प्रेषयामासुः स्वकीयान्भूपती न्प्रति ।। ७ ।।

क्रोधयुक्ता तदा वेला लिखित्वा पत्रमुल्बणम् ।।

महीराजाय संप्रेष्य मलनागेहमागमत् ।। ८ ।।

तत्पत्रं च महीराजो वाचयित्वा विधानतः ।।

ज्ञात्वा तत्कारणं सर्वं तन्निशम्य विशाम्पतिः ।। ९ ।।

चिन्ताकलेवरं प्राप्य सुखनिद्रां व्यनाशयत् ।।

आहूय भूपतीन्सर्वान्घोरयुद्धोन्मुखोऽभवत् ।। 3.3.32.१० ।।

चतुर्विंशतिलक्षैश्च शूरैर्भूपसमन्वितैः ।।

कुरुक्षेत्रं ययौ शीघ्रं धृतराष्ट्रांशसंभवः ।। ११ ।।

तथा परिमलो भूपो लक्षषोडशसैन्यपः ।।

द्रुपदांशो ययौ शीघ्रं वेलया स्वकुलैः सह ।। १२ ।।

स्यमन्तपंचके तीर्थे शिबिराणि चकार ह ।।

ब्रह्मानंदः स्थितो यत्र समाधिध्यानतत्परः ।। १३ ।।

गंगाकूले च ते सर्वे कौरवांशा महाबलाः ।।

शिबिराणि विचित्राणि चक्रुस्ते विजयैषिणः ।।१४।।

कृत्वा ते कार्तिकीस्नानं दत्त्वा दानान्यनेकशः ।।

मार्गकृष्णद्वितीयायां युद्धभूमिमुपाययुः ।। १५ ।।

विष्वक्सेनीयभूपालो लहरस्तत्र चागतः ।।

कौरवांशाश्च तत्पुत्राः षोडशैव महाबलाः ।।

पूर्वजन्मनि यन्नाम तन्नाम्ना प्रश्रिता इह ।। १६ ।।

दुस्सहो दुश्शलश्चैव जलसंधः समः सहः ।।

विंदस्तथानुविंदश्च सुबाहुर्दुष्प्रधर्षणः ।। १७ ।।

दुर्मर्षणश्च दुष्कर्णः सोमकीर्तिरनूदरः ।।

शलः सत्त्वो विवित्सुश्च क्रमाज्ज्ञेया महाबलाः ।। १८ ।।

तोमरान्वयभूपालो बाह्लीकपतिरागतः ।।

त्रिलक्षैश्च तथा सैन्यैः सप्तपुत्रैश्च भूपतिः ।। १९ ।।

चित्रोपचित्रौ चित्राक्षश्चारुश्चित्रः शरासनः ।।

सुलोचनः सवर्णश्च पूर्वजन्मनि कौरवाः ।। 3.3.32.२० ।।

तेषामंशाः क्रमाज्जाता अभिनंदनदेहजाः ।।

महानंदश्च नंदश्च परानंदोपनंदकौ ।।

सुनंदश्च सुरानन्दः प्रनंदः कौरवांशकः ।। २१ ।।

नृपः परिहरवंशीयो मायावर्मा महाबली ।।

लक्ष सैन्ययुतः प्राप्तो दशपुत्रसमन्वितः ।। २२ ।।

दुर्मदो दुर्विगाहश्च नंदश्च विकटाननः ।।

चित्रवर्मा सुवर्मा च सुदुर्मोचन एव च ।। २३ ।।

ऊर्णनाभः सुनाभश्च चोपनंदश्च कौरवाः ।।

तेषामंशाः क्रमाज्जाताः सुता अंगपतेः स्मृताः २४ ।।

मत्तः प्रमत्त उन्मत्तः सुमत्तो दुर्मदस्तथा।।

दुर्मुखो दुर्दरो वायुः सुरथो विरथः क्रमात् ।। २५ ।।

शुक्लवंशीयभूपालो मूलवर्मा समागतः ।।

लक्षसैन्यैश्च बलवान्दशपुत्रसमन्वितः ।। २६ ।।

अयोबाहुर्महाबाहुश्चित्रांगश्चित्रकुण्डलः ।।

चित्रायुधो निषंगी च पाशी वृन्दारकस्तथा ।। २७ ।।

दृढवर्मा दृढक्षत्रः पूर्वजन्मनि कौरवाः ।।

तेषामंशा महीं जाता गृहे ते मूलवर्मणः ।। २८ ।।

बलश्च प्रबलश्चैव सुबलो बलवान्बली ।।

सुमूलश्च महामूलो दुर्गो भीमो भयंकरः ।। २९ ।।

कैकयश्चंद्रवंशीयो लक्षसैन्यसमन्वितः ।।

दशपुत्रान्वितः प्राप्तः कुरुक्षेत्रे महा रणे ।। 3.3.32.३० ।।

भीमवेगो भीमबलो बलाकी बलवर्द्धनः ।।

उग्रायुधो दंडधरो दृढसंधो महीधरः ।।३१।।

जरासंधः सत्यसंधः पूर्वजन्मनि कौरवाः ।।

तेषामंशाः समुद्भूताः कैकयस्य गृहे शुभे ।। ३२ ।।

कामः प्रकामः संकामो निष्कामो निरपत्रपः ।।

जयश्च विजयश्चैव जयंतो जयवाञ्जयः ।। ३३ ।।

नागवंशीयभूपालो नागवर्मा समागतः ।।

लक्षसेनान्वितः प्राप्तो दशपुत्रसमन्वितः ।।३४।।

पूर्वजन्मनि यन्नाम्ना तन्नाम्ना कौरवा भुवि।।

पुंड्रदेशपतेः पुत्रा जाता दश शिवाज्ञया ।।३५।।

उग्रश्रवा उग्रसेनः सेनानीर्दुष्परायणः।।

अपराजितः कुण्डशायी विशालाक्षो दुराधरः।।३६।।

दृढहस्तः सुहस्तश्च सुतास्ते नागवर्मणः ।। ३७ ।।

मद्रकेशः समायातस्तोमरान्वयसंभवः ।।

लक्षसैन्यैर्युतो राजा दशपुत्रसमन्वितः ।। ३८ ।।

वातवेगः सुवर्चाश्च नागदंतोग्रयाजकः ।।

आदिकेतुश्च वक्शी च कवची क्राथ एव च ।। ३९ ।।

कुण्डश्च कुण्डधारश्च कौरवाः पूर्वजन्मनि ।।

तन्नाम्ना भुवि वै जाता मद्र केशस्य मंदिरे ।। 3.3.32.४० ।।

नृपः शार्दूलवंशीयौ लक्षसैन्यसमन्वितः ।।

पूर्णामलो मागधेशो दशपुत्रान्वितो ययौ ।। ४१ ।।

वीरबाहुर्भीमरथश्चोग्रश्चैव धनुर्धरः।।

रौद्रकर्मा दृढरथोऽलोलुपश्चाभयस्तथा।।४२।।

अनाधृष्टः कुण्डभेदी कौरवाः पूर्वजन्मनि।।

पूर्णामलस्य वै गेहे तन्नाम्ना भुवि संभव।।४३।।

मंकणः किंनरो नाम रूपदेशे महीपतिः ।।

चीनदेशात्परे पारे रूमदेशः स्मृतो बुधैः ।।

नरः किन्नरजातीयो वसति प्रियदर्शनः ।। ४४ ।।

मंकणश्च तदा प्राप्तः किन्नरायुतसंयुतः ।।

अष्टपुत्रान्वितः प्राप्तो यत्र सर्वनृपाः स्थिताः ।। ४५ ।।

विरावी प्रथमश्चैव प्रमाथी दीर्घरोमकः ।।

दीर्घबाहुर्महाबाहुर्व्यूढोराः कनकध्वजः ।। ४६ ।।

पूर्वजन्मनि यन्नाम्ना तन्नाम्ना किन्नरा भुवि ।।

विरजोंशश्च यो जातो मंकणो नाम किन्नरः ।।४७।।

नेत्रसिंहः समायातो लक्षसैन्यसमन्वितः ।।

शल्यांशः स तु विज्ञेयः शार्दूलान्वयसंभवः ।। ४८ ।।

तदा गजपती राजा लक्षसैन्यसमन्वितः।।

संप्राप्तः शकुनेरंशस्त्यक्त्वा गेहे स्वपुत्रकान् ।।४९।।

मयूरध्वज एवापि लक्षसैन्यसमन्वितः ।।

मकरंदं गृहे त्यक्त्वा विराटांशः समागतः ।। 3.3.32.५० ।।

वीरसेनः समायातः कामसेनसमन्वितः ।।

लक्षसेनान्वितस्तत्र चोग्रसेनांशसंभवः ।।५१।।

लक्षणश्च समायातः सप्तलक्षबलैर्युतः ।।

संत्यज्य पद्मिनीं नारीं महा कष्टेन भूपतिः ।।५२।।

तालनो धान्यपालश्च लल्लसिंहस्तथैव च ।।

भीमस्यांशो युयुत्सोश्च कुंतिभोजस्य वै क्रमात् ।।५३ ।।

आह्लादश्च समायातः कृष्णांशेन समन्वितः ।।

जयन्तेन च वै वीरो लक्षसैन्यान्वितो बली ।। ५४ ।।

जगन्नायक एवापि शूरायुतसमन्वितः ।।

संप्राप्तो भगदत्तांशो गौतमान्वयसंभवः ।। ५५ ।।

अन्ये च क्षुद्रभूपाश्च सहस्राढ्याः पृथक्पृथक् ।।

कुरुक्षेत्रं परं स्थानं संययुर्मदविह्वलाः ।। ५६ ।।

मूलवर्मा च नृपतिः सपुत्रो लक्षसैन्यपः ।।

नृपं परिमलं प्राप्य संयुक्तो देहलीपतेः ।। ५७ ।।

कैकयो लक्षसेनाढ्यः सपुत्रो नृपतिः स्वयम् ।।

नृपं परिमलं प्राप्य स युद्धार्थमुपस्थितः ।। ५८ ।।

नेत्रसिंहश्च नृपतिः स वीरो लक्षसैन्यपः ।।

मयूरध्वज एवापि लक्षपः शशिवंशिनम् ।। ५९ ।।

वीरसेनश्च लक्षाढ्यः सपुत्रश्चांद्रिपक्षगः ।।

लक्षणः सप्तलक्षाढ्यो युद्धार्थं समुपस्थितः ।। 3.3.32.६० ।।

आह्लादो लक्षसैन्याढ्यः पक्षगश्चंद्रवंशिनः ।।

द्विलक्षसंयुतो राजा चन्द्रवंशो रणोन्मुखः ।।

एवं षोडशलक्षाढ्यः स्थितः परिमलो रणे ।। ६१ ।।

लहरो भूपतिश्रेष्ठो लक्षपः पुत्रसंयुतः ।।

महीराजमुपागम्य युद्धार्थं समुपस्थितः ।। ६२ ।।

अभिनन्दन एवापि सपुत्रो लक्षसैन्यपः ।।

मायावर्मा च नृपतिः सपुत्रो लक्षसैन्यपः ।। ६३ ।।

नागवर्मा समायातः सपुत्रो लक्षसैन्यपः ।।

मद्रकेशः सपुत्रश्च लक्षसैन्यो रणोन्मुखः ।। ६४ ।।

पूर्णामलः सपुत्रश्च लक्षपश्चैव पक्षगः ।।

मंकणः किन्नरो नाम सपुत्रस्तत्र संस्थितः ।। ६५ ।।

गजराजः समायातो महीराजं हि लक्षपः ।।

धुंधुकारः समायातः पञ्चलक्षपतिः स्वयम् ।। ६६ ।।

पुत्रः कृष्णकुमारस्य भगदत्तः समागतः ।।

त्रिलक्षबलसंयुक्तो महीराजं महीपतिम् ।। ६७ ।।

बलवाहनपुत्रश्च दशगोपालसंस्थितः ।।

अंगदस्तत्र संप्राप्तः सायुतो देवकी प्रियः ।।

महीराजमुपागम्य युद्धार्थं समुपस्थितः ।।६८।।

कलिंगश्च नृपः प्राप्तस्त्रिकोणश्च तथैव च ।।

श्रीपतिश्च तथा राजा श्रीतारश्च तथा गतः ।। ।। ६९ ।।

मुकुन्दश्च सुकेतुश्च रुहिलो गुहिलस्तथा ।।

इन्दुवारश्च वलवाञ्जयंतश्च तथाविधः ।।

सर्वे दशसहस्राढ्या महीराजमुपस्थिताः ।। 3.3.32.७० ।।

महीराजस्य पक्षे तु सहस्रं क्षुद्रभूमिपाः ।।

ते तु साहस्रसेनाढ्या महीराजमुपस्थिताः ।। ७१ ।।

तेषां मध्ये च वै भूपान्द्विशतान्देहलीं प्रति ।।

ससैन्यान्प्रेषयामास राष्ट्ररक्षणहेतवे ।।

एवं स देहलीराजश्चतुर्विंशतिलक्षपः ।। ७२ ।।

युद्धमष्टादशाहानि सञ्जातं सर्वसंक्षयम् ।।

शृणु युद्धकथां रम्यां भृगुवर्य सुविस्तरात् ।। ७३ ।।

मार्गकृष्णद्वितीयायां महीराजो महाबलः ।।

आहूय लहरं भूपं वचनं प्राह निर्भयः ।।९।।

भवान्सपुत्रः सेनाढ्यो धुंधुकारेण रक्षितः ।।

चामुण्डेन युतो युद्धे गन्तुमर्हति सत्तम ।।

इति श्रुत्वा ययौ शीघ्रं कुरुक्षेत्रे महारणे ।। ७५ ।।

तदा परिमलो राजा मयूरध्वजमेव हि ।।

समाहूय वचः प्राह शृणु पार्थिवसत्तम ।। ७६ ।।

कृष्णांशेन जयंतेन देवसिंहेन रक्षितः ।।

स भवाँल्लक्षसैन्याढ्यो गंतुमर्हति वै रणे ।। ।। ७७ ।।

इति श्रुत्वा तु वचनं मयूरध्वज एव हि ।।

लक्षसैन्यान्वितः प्राप्तो लहरं नृपतिं प्रति ।। ७८ ।।

तयोश्चासीन्महद्युद्धं सेनयोरुभयो रणे ।।

सेना तु लक्षवीरस्य तत्र युद्धे प्रकीर्तिता ।। ७९ ।।

एको रथो गजास्तत्र ज्ञेयाः पञ्चशतं रणे।।

हयाश्च पञ्चसाहस्रा पत्तयस्तद्गणा दश ।।

एते सैन्या नरा ज्ञेया सैन्यपांश्च शृणुष्व भोः ।।3.3.32.८०।।

दशानां पच्चराणां च पतिर्नाम्ना स पत्तिपः ।।

पंचानां च हयानां च पतिर्नाम्ना स गुल्मपः।।८१।।

पंचानां च गजानां च पतिर्नाम्ना गजाधिपः ।।

एतैः सार्द्धं रथी ज्ञेयो रणेऽस्मिन्दारुणे कलौ ।।८२।।

उष्ट्रारूढाः स्मृता दूताश्चत्वारिंशच्च तद्बले ।।

शतघ्न्यस्तत्र साहस्रास्तेषां मध्ये पृथक्पृथक् ।।

षड्त्रिंशद्वै पदचरास्तेषां कर्माणि मे शृणु ।। ८३ ।।

दश गोलकदातारो दशतत्पुष्टिकारकाः ।।

दश चार्द्रकरास्तां वै त्रयस्ते वह्निदायिनः ।।

त्रयो दृष्टिकरा ज्ञेयास्त्रियामेषु पृथक्पृथक् ।। ८४ ।।

शेषाः शूद्रास्तु सेनानां शूरकृत्यपरायणाः ।।

एवं च लक्षवीराणां सेना तत्र प्रकीर्तिता ।। ८५ ।।

तत्रासीत्तुमुलं युद्धं धर्मेण च समन्ततः ।।

प्रातःकालात्समारभ्य मध्याह्नं सैन्ययोर्द्वयोः ।। ८६ ।।

तत्पश्चाद्याममात्रेण सैन्यपा युद्धमागताः ।।

तत्पश्चाच्च महाशूरा धुंधुकारादयो बलाः ।।८७।।

याममात्रं च युद्धाय संस्थिता रणमूर्धनि ।।

चामुण्डेन च कृष्णांशो धुंधुकारेण चेन्दुलः ।। ८८ ।।

भगदत्तेन वै देवः कृतवान्युद्धमुत्तमम् ।।

सायंकाले तु संप्राप्ते सर्वे शूराः क्षयं गताः ।। ८९ ।।

कृष्णांशस्तत्र चामुण्डं जित्वा तु लहरात्मजान् ।।

षोडशैव जघानाशु घटीमात्रेण वीर्यवान् ।।

दध्मौ शंखं प्रसन्नात्मा लक्षणान्तमुपाययौ ।।3.3.32.९०।।

चामुंडो धुंधुकारश्च भगदत्तो युतः शतैः ।।

महीराजमुपागम्य सुषुपुर्निशि निर्भयाः ।। ९१ ।।

इंदुलो देवसिंहश्च सहस्रैः संयुतौ मुदा ।।

गत्वा परिमलं भूपं रात्रौ सुषुपतुस्तदा ।। ९२ ।।

प्रातःकाले तु संप्राप्ते तृतीयायां भयंकरे ।।

महीराजस्तदाहूय नृपं गजपतिं बली ।। ९३ ।।

वचनं प्राह भो राजँस्त्वं त्रिवीरैः सुरक्षितः ।।

स्वकीयैर्लक्षसैन्यैश्च गंतुमर्हसि वै रणे ।।९४ ।।

तदा परिमलो भूपो नेत्रसिंहं महीपतिम् ।।

युद्धायाज्ञापयामास कृष्णांशाद्यैः सुरक्षितम् ।। ९५ ।।

तयोश्चासीन्महयुद्धं सेनयोरुभयोः क्रमात् ।।

हया हयैः क्षयं जग्मुर्गजाश्चैव तथा गजैः ।।

पच्चराः पच्चरैः सार्द्धं शतघ्न्यश्च शतघ्निभिः ।।९६।।

अपराह्ने मुनिश्रेष्ठ नेत्रसिंहो महाबलः ।।

महागजं गजपतिं गत्वा युद्धमचीकरत् ।।९७।।

परस्परं च विरथौ संछिन्नधनुषौ तदा ।।

खड्गहस्तौ महीं प्राप्य चक्रतू रणमुल्बणम् ।।

अन्योन्येन वधं कृत्वा स्वर्गलोकमुपागतौ ।। ९८ ।।

इन्दुलस्तं तु चामुंडं देवो वै धुंधुकं तथा ।।

कृष्णांशो भगदत्तं च जित्वा राजानमाययुः ।। ९९ ।।

शेषैः पंचशतैः शूरैस्तैः सार्द्धं लक्षणं प्रति ।।

पराजिताश्च ते सर्वे सहस्रैः सहिता ययुः ।। 3.3.32.१००।।

प्रातःकाले तु संप्राप्ते महीराजो महाबलः ।।

मायावर्माणमाहूय वचनं प्राह निर्भयः ।। १०१ ।।

भवान्दशसुतैर्वीरैर्लक्षसैन्यैश्च संयुतः ।।

सर्वशत्रुविनाशाय गंतुमर्हति सत्तम ।।

इति श्रुत्वा स नृपतिर्वाद्यान्संवाद्य चाययौ ।। १०२ ।।

दृष्ट्वा परिमलो भूपो मायावर्माणमागतम् ।।

जगन्नायकमाहूय वचनं प्राह निर्भयः ।। १०३ ।।

भवान्दशसहस्रैश्च सार्द्धं तैस्त्रिभिरन्वितः ।।

गन्तुमर्हति युद्धाय शीघ्रं मद्विजयं कुरु ।। १०४ ।।

इति श्रुत्वा ययौ शीघ्रं सेनयोरुभयोर्महत् ।।

युद्धं चासीन्मुनिश्रेष्ठ याममात्रं भयानकम् ।। १०५ ।।

हतास्ते दशसाहस्रा कृष्णांशाद्यैः सुरक्षिताः ।। शं

खान्दध्मुश्च ते सर्वे चांगदेशनिवासिनः ।। १०६ ।।

एतस्मिन्नंतरे धीराः कृष्णांशाद्यास्तुरीयकाः ।।

याममात्रेण संजघ्नुर्लक्षसैन्यं रिपोस्तदा ।। १०७ ।।

अपराह्णे महाराजो मायावर्मा सुतैः सह।।

कृष्णांशं देवसिंहं च संप्राप्तो जगनायकम् ।।१ ०८।।

अथाङ्गभूपं दशपुत्रयुक्तं कृष्णांश एवाशु जगाम शीघ्रम् ।।

हयस्थितो वीरवरः प्रमाथी कलैकजातो मधुसूदनस्य ।।१ ०९।।

ततोंगभूपस्त्रिभिरेव बाणैरताडयन्मूर्ध्नि च पार्श्वयोर्वै ।।

अमर्ष माणो बलवान्महीपतिर्दंडैर्हतः काल इवाशु सर्पः।। ।। 3.3.32.११० ।।

हयं समुड्डीय सु पुष्करान्तं ततोभ्यगात्तं नृपतिं रथस्थम् ।।

हयस्य पातैर्विरथी चकार स एव भूपोऽसिमुपादधानः ।। १११ ।।

स्वेनासिना बिंदुलमंगशल्यं कृत्वा स कृष्णांशमुवाच वाक्यम् ।।

कल्लोलमायात्तव नाशनाय त्वया जिता भूपतयः प्रधानाः ।।१ १२।।

तदैव कीर्तिर्भविता ममाशु हत्वा भवंतं च सुखी भवामि ।।

इत्युक्तवन्तं नृपतिं महान्तं स्वेनासिना तस्य शिरो जहार ।। ११३ ।।

हतेऽङ्गभूपे दश तस्य पुत्रास्तमेव जग्मुर्युधि कौरवांशाः ।।

तानागतानिंदुल एव पंच जघान बाणैस्तु तदा समन्युः ।। ११४।।

उभौ च देवस्तु जघान तत्र भल्लेन सिद्धेन नृपात्मजौ च।।

ज्येष्ठं सुतं गौतम एव हत्वा द्वौ यौ स कृष्णांश उपाजघान।।११५।।

शंखान्प्रदध्मू रुचिराननास्ते प्रदोषकाले शिबिराणि जग्मुः।।

श्रमान्वितास्ते सुषुपुर्निशायां प्रातः समुत्थाय स्वकर्म कृत्वा।।११६।।

गत्वा सभायां नृपतिं प्रणम्य वाक्यं समूचुः शृणु चंद्रवंशिन्।।

अद्यैव सेनापतिरस्ति को वै चाज्ञापयास्मान्नृप तस्य गुप्त्यै।।११७।।

श्रुत्वाह भूपोद्य तु वीरसेनः सकामसेनः स्वबलैः समेतः।।

रणं करिष्यत्यचिरेण वीरास्तस्मात्सुरक्षध्वमरिभ्य एव।। ११८

स वीरसेनो नृपतिं प्रणम्य लक्षैः स्वसैन्यैर्युधि संजगाम।।

तदा महीराजनृपः प्रतापी स नागवर्माणमुवाच तापी ।। ११९ ।।

रणाय गच्छाशु सुतैः समेतो लक्षैः स्वसैन्यैरुत भूपवर्य ।।

हत्वा रिपुं घोरतमं हि वीरं पतिं महान्तं युधि वीरसेनम् ।। 3.3.32.१२० ।।

इत्युक्तवंतं नृपतिं प्रणम्य सुवादयामास तदा हि वीरः ।।

तयोर्बभूवाशु रणो महान्वै सुसेनयोः संकुलयुद्धकर्त्रोः ।। १२१ ।।

त्रियाममात्रेण हताश्च सर्वे विमानमारुह्य ययुश्च नाकम् ।।

हतेषु सर्वेषु च नागवर्मा सुतेषु वै यादवभूपमाह ।। १२२ ।।

भवान्विसैन्यश्च तथैव चाहं भवान्सपुत्रश्च तथाहमेव ।।

संस्मृत्य धर्मं कुरु युद्धमाशु ततो रथस्थः सुधनुर्गृहीत्वा ।। १२३ ।।

बाणैश्च बाणान्भुवि तौ च छित्त्वा बभूवस्तुस्तौ विरथौ नृपाग्र्यौ ॥

खड्गेन खड्गं च तथैव छित्त्वा विमानमारुह्य गतौ हि नाकम् ॥ १२४ ॥

स कामसेनः स्वरिपोश्च पुत्राञ्जघान बाणैश्च तदाष्टसंख्यान् ॥

ज्येष्ठौ तदा कोपसमन्वितौ तं गृहीतखड्गौ च समीयतुश्च ॥ १२५ ॥

रिपोः शिरो जह्रतुरुग्रवेगी स कामसेनश्च कबंध एव ॥

हत्वा रिपू तौ च तदा मिलित्वा स्वर्गं ययुस्ते च विमानरूढाः ।। १२६ ।।

हतेषु सर्वेषु तदा त्रयस्ते चामुंडकाद्या जगनायकं ते ।।

रुद्धा समेताः स्वशरैः कठोरैर्जघ्नुस्तमश्वं हरिनागरं च ।। १२७ ।।

स दिव्यवाजी च तदा स्वपक्षौ प्रसार्य्य खेनाशु रिपुं जगाम ।।

स पुंधुकारस्य गजं विहत्य चामुंडकस्यैव गजं विमर्द्य ।।१२८ ।।

रथं च भूमौ भगदत्तकस्य विचूर्ण्य शीघ्रं च नभो जगाम ।।

प्रवाद्य शंखं जगनायकश्च कृष्णांशमागम्य कथां चकार ।।१२९।।

निशामुषित्वा जगनायकाद्याः प्रातः समुत्थाय रणं प्रजग्मुः ।।

तदा महीराज उताशुका री स किन्नरेशं कणकं सपुत्रम् ।।3.3.32.१३०।।

उवाच राजञ्छृणु किन्नराणां महाबलास्ते रिपवो ममैते ।।

विनाशयाशु प्रबलारिघातान्देवैर्न सार्द्धं युधि वै मनुष्याः ।। १३१ ।।

इत्युक्तवान्मंकणभूपतिस्तु ययौ सपुत्रोऽयुतसैन्यपश्च ।।

तमागतं तत्र विलोक्य राजा वीरान्स्वकीयांश्च समादिदेश ।।१३२।।

मनोरथस्थो जगनायकश्च स तालनो वै वडवां विगृह्य ।।

करालसंस्थश्च तदा जयन्तो विगृह्य चापं तरसा जगाम।।१३३।।

पपीहकस्थश्च स रूपणो वै जगाम कृष्णांशसमन्वितश्च ।।

स लल्लसिंहो गजमत्तसंस्थः स धान्यपालो हयमारुरोह ।। १३४ ।।

समंततः किन्नरसैन्यघोरं विनाशयामासुरुपांशुखड्गैः।।

विनश्यमाने त्रिसहस्रसैन्ये स किन्नरेशस्तरसा जगाम ।।१३५।।

ध्यात्वा कुबेरं च गृहीतचापो नभोगतस्तत्र बभूव सूक्ष्मः।।१३६।।

अदृश्यमानः स्वशरैः कठोरैर्विनर्द्य सर्वान्हि ननर्द घोरम् ।।

विलप्यमाने च समस्तशूरे जयन्त एवाशु जगाम शत्रुम ।। १३७ ।।

ध्यात्वा महेंद्रं कणकं च बद्ध्वा कृष्णांशमागम्य पदौ ननाम ।।

तदा तु ते शत्रुसहस्रसैन्ये निशम्य बद्धं कणकं निजेंद्रम् ।। १३८ ।।

विनर्घ घोरं रुरुधुश्च सर्वान्माया विनो गुह्यकमस्त्रमूहुः ।।

दिनेषु सप्तेषु तथा निशासु बभूव युद्धं च समंततस्तैः ।। १३९ ।।

श्रमान्विताः सप्त महाप्रवीरा हतेषु सर्वेषु सुषुपुश्च वै यदा।।

तदा कुबेरं कणकश्च ध्यात्वा लब्ध्वा वरं बंधनमाशु छित्त्वा ।। 3.3.32.१४० ।।

सुप्तान्समुत्थाय च सप्त शूरान्निशीथकाले स चकार युद्धम् ।।

जित्वा च तान्षट् स वरप्रभावात्तदेंदुलेनैव रणं चकार ।। १४१ ।।

गृहीतखड्गौ रणघोरमत्तौ हत्वा ततो वै भुवि चेयतुश्च ।।

प्रजग्मतुर्नाकमुपान्तदेवौ संस्तूयमानौ सुरसत्तमैश्च ।। १४२ ।।

ततः प्रभाते विमले विजाते रुरोद रामांश उताललाप ।।

पापैः कलापैः परीपीड्यमानः कुलान्वितः सर्व युतो मुनींद्र ।। १४३ ।।

स पंचशब्दं गजमारुरोह त्रिलक्षसैन्यैस्तरसा जगाम ।।

तदा महीराज उताह शृण्वन्गच्छध्वमद्यैव मया समेताः ।। ।। १४४ ।।

स्वपंचलक्षैः प्रबलैश्च शूरैः सार्द्धं रुरोधाशु रिपोश्च सेनाम् ।।

तयोर्बभूवाशु रणः प्रघोरो विनर्दतोर्युदनिमित्तमाशु ।। १४५ ।।

त्रियाम मात्रेण हताश्च सर्वे द्वयोश्च पक्षा बलशालिनश्च ।।

तदा महीराज उताययौ वै समंडलीकश्च धनुर्विगृह्य ।। १४६ ।।

स धुंधुकारश्च तदाजगाम रथ स्थितं लक्षणमुग्रवीरम् ।।

तदोदयो वै भगदत्तमेव चामुंडकं भीष्मकराजसूनुः ।। १४७ ।।

स पंचशब्दं गजमास्थितो वै गतः स एवाशु जगाम भूपम् ।।

धनुर्विगृह्याशुगमुल्बणं च नृपस्थितश्चाथ भयंकरं च ।। १४८ ।।

गजं प्रमत्तं शिवदत्तमुग्रमाह्लादहन्तारमुवाच वाक्यम् ।।

अये प्रमत्ताग्रगजेंद्र शूर जयं च मे देहि शिवप्रदत्त ।। १४९ ।।

स मंडलीको रणदुर्मदश्च रामांश आह्लाद इति प्रसिद्धः।।

तस्माच्च मां रक्ष जवेन हस्तिन्महाबलात्काल रसाच्च वीरात् ।। 3.3.32.१५० ।।

इत्येवमुक्तो नृपतिं स हस्ती वचस्तमाहाशु शृणुष्व राजन्।।

यावदहं वै तनुजीवधारी तावद्भवाञ्छत्रुभयंकरश्च।।१५१।।

इत्युक्तवंतं च गजं प्रमत्तं स पंचशब्दश्च तदा स्वदंतैः ।।

मुखं चतुर्भिश्च विदार्य शत्रोर्ननर्द घोरं स महेंद्रदत्तः ।। १५२ ।।

स रुद्रदत्तश्च गजः प्रमत्तो रुषान्वधावत्तरसा गजेंद्रम् ।।

रिपुं स्वपद्भ्यां च चखान कुंभैः स्वतुंडदंडेन तुदं प्रकुर्वन् ।। १५३ ।।

अवाप मूर्छां च स पंचशब्दस्तदाशु भूपं प्रति मंडलीकः ।।

स्वतोमरेणांगव्रणं प्रदाय खड्गेन हत्वा गजराजमुग्रम् ।।

जगाम पद्भ्यां स रिपुप्रमाथी यत्र स्थितश्चेन्दुल उग्रधन्वा ।। ।। १५४ ।।

उत्थाप्य पुत्रं च विलप्यमानां पत्नीं स्वकीयां प्रति चाजगाम ।।

तदा प्रमत्तौ च गजौ समूर्छां त्यक्त्वा पुनश्चक्रतुरेव युद्धम् ।। ।। १५५ ।।

स लक्षणः खड्गवरेण बाणान्रिपोश्च छित्त्वा निजवैष्णवास्त्रम् ।।

दधार चापे च सुमंत्रयित्वा सधुंधुकारं च गजं ददाह ।। १५६ ।।

हते च तस्मिन्निजमुख्यबंधौ सभूमिराजश्च गृहीतचापः ।।

शरेण रौद्रेण च लक्षणं तं जघान तत्रादिभयंकरस्थः ।। १५७ ।।

स मूर्छितः शुक्ल कुलेषु सूर्यस्तदोदयो वै भगदत्तमेव ।।

सुमूर्छयित्वा च जगाम शीघ्रं यत्र स्थितो लक्षण एकवीरः ।। १५८ ।।

भयान्वितस्तं च विलोक्य राजा जवेन दुद्राव च रक्तबीजम् ।।

तदा सुदेवं च स रक्तबीजो जित्वा तु कृष्णांशयुतं जगाम ।। १५९ ।।

बाणेन शीघ्रं स च मूर्च्छयित्वा पुनश्च देवं च स मूर्छयित्वा ।।

तद्बंधनायोद्यत आशुकारी स लक्षणस्तत्र तदा जगाम ।। 3.3.32.१६० ।।

प्रधाय चापे च स वैष्णवास्त्रं प्रचोदयामास च रक्तबीजे ।।

तदा स सामन्तसुतो बलीयान्रणं विहायाशु विलोक्य संध्याम् ।।

भयान्वितः स्वैश्च युतो ययौ वै यत्र स्थिता भूपतयः सकोपाः ।। १६१ ।।

विलोक्य शत्रुं च स रत्नभानोः सुतो ययौ वै शिबिराणि युक्तः ।।

निशाम्य भूपः स च चंद्रवंशी जयं स्वकीयं सुषुपुस्तु ते वै ।।

प्रातश्च काले स च चंद्रवंशी विलोक्य शुक्लान्वयमाह भूपम्।।१६२।।

अये गु्र्जरदेशीय मूलवर्मन्सुतैः सह।।

लक्षसैन्यान्वितो भूत्वा गन्तुमर्हतु वै भवान्।। १६३।।

इत्युक्तः स तु भूपालो युद्धभूमिमुपाययौ।।

महीराजाज्ञया प्राप्तो नाम्ना पूर्णामलो बली।। १६४।।

दशपुत्रान्वितो युद्धे सैन्य लक्षेण संयुत्ः।।

तयोश्चासीन्महद्युद्धं यामद्वयमुपस्थितम्।।१६५।।

हतेषु तेषु सर्वेषु तौ नृपौ ससुतैर्बलौ ।।

अनोन्येन रणं कृत्वा यमलोक मुपागतौ ।। १६६ ।।

मार्गकृष्णचतुर्दश्यां प्रभाते विमले रवौ ।।

कैकयो लक्षसेनाढ्यो दयापुत्रसमन्वितः ।।

लक्षणानुज्ञया प्राप्तस्तस्मिन्युधि भयानके ।। १६७ ।।

मद्रकेशस्तदा राजा दशपुत्रसमन्वितः ।।

लक्षसैन्यान्वितस्तत्र यत्र युद्धं समन्वभूत्।।

परस्परं हताः सर्वे दिनान्ते क्षत्रिया रणे ।। १६८ ।।

पुनः प्रभाते विमले भगदत्तो महाबली ।।

त्रिलक्षबलसंयुक्तो जगर्ज्ज रणमूर्द्धनि।। १६९।।

दृष्ट्वा तं लक्षणो वीरस्त्रिलक्षबलसंयुतः ।।

चकार तुमुलं घोरं सेनया च स्वकीयया ।। 3.3.32.१७० ।।

अपराह्णे हताः सर्वे सैनिका नृपयोस्तदा ।।

भगदत्तः स्वयं क्रुद्धो रथस्थो लक्षणं ययौ ।। १७१ ।।

लक्षणो रथमारुह्य स्वपितुः शत्रुजं नृपम् ।।

त्रिभिर्बाणैश्च संतोद्य भल्लेन समताडयत् ।। ।१७२ ।।

भगदत्तस्तदा क्रुद्धो विरथं तं चकार ह ।।

क्रुद्धवंतं रिपुं घोरं लक्षणः खङ्गपाणिकः ।।

हत्वा हयांस्तथा सूतं भगदत्तमुपाययौ ।। १७३ ।।

मर्दयित्वा च तच्चर्म च्छित्त्वा वर्म तदुद्भवम् ।।

त्रिधा चकार बलवान्भगदत्तं रिपोस्सुतम् ।। १७४ ।।

संध्याकाले हते तस्मिँल्लक्षणस्त्वरयान्वितः ।।

एकाकी शिविरं प्राप्तो हस्तिन्युपरि संस्थितः ।। १७५ ।।

भगदत्ते हते तस्मिन्स राजा क्रोधमूर्छितः ।।

स्वकीयान्सर्वभूपांश्च चामुंडेन समन्वितान् ।।

प्रेषयामास युद्धाय मार्गे च प्रतिपद्दिने ।। १७६ ।।

अंगदश्च कलिंगश्च त्रिकोणः श्रीपतिस्तथा ।।

श्रीतारश्च मुकुंदञ्च रुहिलो गुहिलस्तथा ।। १७७ ।।

सुकेतुर्नव भूपास्ते नवायुतबलैर्युताः ।।

वाद्यानि वादयामासुस्तस्मिन्युद्धमहोत्सवे ।। १७८ ।।

दृष्ट्वा ताँल्लक्षणो वीरो राजभिश्च स्वकीयकैः ।।

सार्द्धं जगाम युद्धाय तथा व्यूह्यायुधद्रिपून् ।। १७९ ।।

रुद्रवर्मा च नृपतिः शूरैर्दशसहस्रकैः ।।

अंगदं वैरिणं मत्वा तेन सार्द्धमयुध्यत ।। 3.3.32.१८० ।।

कालीवर्माऽयुतैस्सार्धं कलिंगं प्रत्यबुध्यत ।।

वीरसिंहोऽयुतैस्सार्द्धं त्रिकोणं प्रत्ययुध्यत ।। १८१ ।।

ततोनुजः प्रवीरश्च श्रीपतिं सोऽयुतैस्सह ।।

नृपः सूर्यो धरो वीरोऽयुताढयो बलवान्रणे ।।

श्रीतारं नृपमासाद्य महद्युद्धमचीकरत् ।।१८२।।

वामनोयुतसंयुक्तो मुकुंदं प्रति सोऽगमत् ।।

गंगासिंहश्च बलवान्महिलं प्रति सायुतः ।।१८३।।

लल्लसिंहोयुतैस्सार्द्धं गुहिलं प्रति सोऽगमत् ।।

त्रिशतानि ततो भूपाः सहस्राढ्याः पृथक्पृथक् ।।१८४।।

क्षुद्रभूपाः क्षुद्रभूपांस्त्रिशतानि समाययुः ।।

अन्योन्येन हताः सर्वे कृत्वा युद्धं भयानकम्।। १८५ ।।

चामुंडस्तु तदा दृष्ट्वा मृतकान्सर्वभूपतीन् ।।

लक्षणान्तमुपागम्य महद्युद्धं चकार ह ।।१८६।

लक्षणो रक्तबीजं तं ज्ञात्वा ब्राह्मणसंमतम् ।।

वैष्णवास्त्रं तदा तस्मै न ददौ तेन पीडित।।१८७।।

सायंकाले तु संप्राप्ते लक्षणो हस्तिनीस्थितः ।।

एकाकी शिविरं प्राप्तश्चामुंडं नृपमाययौ ।। १८८ ।।

द्वितीयायां प्रभाते च कृष्णांशो देवसंयुतः ।।

शूरैर्दशसहस्रैश्च युद्धभूमिमुपाययौ ।। १८९ ।।

तारकश्च सचामुंडो द्विलक्षबलसंयुतः ।।

द्विशतैश्च तथा भूपैः सार्द्धं युद्धमुपस्थितौ।।3.3.32.१९०।।

पुरस्कृत्य ,नृपान्सर्वान्ससैन्यौ बलवत्तरौ ।।

तेषामनु स्थितौ युद्धे तत्र जातो महारणः ।। १९१ ।।

याममात्रेण तौ वीरौ हत्वा सर्वमहीपतीन् ।।

लक्षसैन्यांस्तथा हत्वा संस्थितौ श्रमकर्षितौ।।१९२।।

चामुंडस्तारको धूर्तः संप्राप्तौ छिद्रदर्शिनौ ।।

ताभ्यां श्रमान्विताभ्यां च चक्रतुस्तौ समं रणम्।।१९३।।

तेषां त्रियाममात्रेण संबभूव महान्रणः ।।

सायंकाले तु संप्राप्ते कृष्णांशश्च निरायुधः ।।

तलप्रहारेण रिपुं मूर्च्छयामास वीर्यवान् ।।१९४।।

एतस्मिन्नंतरे वीरस्तारको देवसिंहकम् ।।

हयं मनोरथं हत्वा शंखशब्दमथाकरोत् ।। १९५ ।।

तच्छब्दात्स च चामुंडस्त्यक्त्वा मूर्छां महाबलः ।।

कृष्णांशस्य शिरः कायादपहृत्य च वेगवान् ।।

तयोर्गृहीत्वा शिरसी महीराजमुपाययौ ।। १९६ ।।

महीराजस्तु ते दृष्ट्वा परमानंदनिर्भरः ।।

दत्त्वा दानं द्विजातिभ्यो महोत्सवमकारयत् ।। १९७ ।।

लक्षणस्य तदा सैन्ये हाहाशब्दो महानभूत् ।।

श्रुत्वा कोलाहलं तेषां ज्ञात्वा तौ च हतौ नृपः ।।

ब्रह्मानंदस्तदा मूर्च्छां त्यक्त्वा वेलामुवाच ह ।। १९८ ।।

प्रिये गच्छ रणं शीघ्रं हरिनागरमास्थिता ।।

मम वेषं शुभं कृत्वा तारकं जहि मा चिरम् ।। १९९ ।।

इति श्रुत्वा तु सा वेला रामांशेन समन्विता ।।

सहस्रशूरसहिता युद्धभूमिमुपाययौ ।। 3.3.32.२०० ।।

श्रुत्वा स लक्षणो वीरस्तालनेन समन्वितः ।।

सैन्यैश्च दशसाहस्रैर्महीराजमुपाययौ ।।२०१।।

तृतीयायां प्रभाते च तारको बलवत्तरः ।।

ब्रह्मानंदं च तं मत्वा महद्युद्धमची करत् ।। २०२ ।।

रक्तबीजश्च चामुंडो रामांशो बलवत्तरः ।।

चकार दारुणं युद्धं तस्मिन्वीरसमागमे ।। २०३ ।।

याममात्रेण रामांशो हत्वा तस्य महागजम् ।।

तच्छस्त्राणि तथा च्छित्वा मल्लयुद्धमचीकरत् ।। २०४ ।।

त्रियाममात्रेण तदा सायंकाले समागते ।।

ममंथ भ्रातृहन्तारं स च वीरो ममार ह ।। २०५ ।।

तदा वेला महाशत्रुं तारकं बलवत्तरम् ।।

छित्त्वास्त्राणि स्वखड्गेन शिरः कायादपाहरत् ।। २०६ ।।

चितां कृत्वा विधानेन सा देवी द्रुपदात्मजा ।।

ब्रह्मानंदं नमस्कृत्य तच्चितायां समारुहत् ।। २०७ ।।

तेन सार्द्धं च सा शुद्धा श्वशुरस्याज्ञया मुदा ।।

सप्तजन्मकथां कृत्वा स्वपतेस्तु ददाह वै ।। २०८ ।।

तच्चितायां च भर्तारमिंदुलं बलवत्तरम् ।।

संस्थाप्य दाहयामास तेन सार्द्धं कलेवरम् ।। २०९ ।।

रात्रौ परिमलो राजा लक्षणेन समन्वितः ।।

महीराजमुपागम्य महद्युद्धमकारयत् ।। 3.3.32.२१० ।।

सपादलक्षाश्च तदा हतशेषा महाबलाः ।।

त्रिलक्षैर्हतशेषैश्च सार्द्धं योद्धुमुपस्थिताः।।२११।।

धान्यपालः शतं भूपाँल्लक्षणश्च तथा शतम्।।

तालनश्च शतं भूपान्हत्वा राजानमाययौ।।२१२।।

महीराजस्तदा दुःखी ध्यात्वा रुद्रं महेश्वरम्।।

निशीथे समनुप्राप्ते हतशेषैस्समागतः।।

एकाकी गजमारुह्य ययौ चादिभयंकरम्।। २१३।।

रुद्रदत्तेन बाणेन हत्वा परिमलं नृपम्।।

धान्यपालं तथा हत्वा तालनं बलवत्तरम् ।।

लक्षणान्तमुपागम्य महद्युद्धमचीकरत् ।। २१४ ।।

महीराजस्य रौद्रास्त्रैस्सैन्यास्सर्वे क्षयं गताः ।।

लक्षणं प्रति रौद्रास्त्रं महीराजः समादधे ।। २१५ ।।

तदा तु लक्षणो वीरो वैष्णवास्त्रं समादधे ।।

तेनास्त्रेण क्षयं जातो महीराजस्य सायकः ।।

तेनास्त्रतेजसा राजा महासंतापमाप्तवान् ।। २१६ ।।

ध्यात्वा रुद्रं महादेवं त्यक्त्वा विद्यां च वैष्णवीम् ।।

स्वभल्लेन शिरः कायादपाहरत भूमिपः ।। २१७ ।।

हस्तिनी च तदा रुष्टा गजमादिभयंकरम् ।।

गत्वा युद्धं मुहूर्तेन कृत्वा स्वर्गमुपाययौ ।। २१८ ।।

उषःकाले च संप्राप्ते मलना पतिमुत्तमम् ।।

तच्चितायां समारोप्य ददाह स्वं कलेवरम्।। २१९ ।।

तदा तु देवकी शुद्धं लक्षणं बलवत्तरम्।।

तालनादींस्तथा हुत्वा ददाह स्वं कलेवरम् ।। 3.3.32.२२० ।।

प्रभाते विमले जाते चतुर्थे भौमवासरे ।।

तथा हुत्वा स्वर्णवती कृत्वा तेषां तिलांजलिम् ।।

ध्यात्वा सर्वमयीं देवीं स्थिरीभूय स्वयं स्थितः ।। २२१ ।।

एतस्मिन्नंतरे तत्र कलिर्भार्यासमन्वितः ।।

वांछितं फलमागम्य तुष्टाव श्लक्ष्णया गिरा ।। २२२ ।।

।। कलिरुवाच ।। ।।

नम आह्लाद महते सर्वानंदप्रदायिने ।।

योगेश्वराय शुद्धाय महावतीनिवासिने ।। २२३ ।।

रामांशस्त्वं महाबाहो मम पालनतत्परः ।।

कलैकया समागम्य भुवो भारस्त्वया हृतः ।। २२४ ।।

राजानः पावकीयाश्च तपोबलसमन्विताः ।।

हत्वा तान्पञ्चसाहस्रान्क्षुद्रभूपाननेकशः ।।

योगमध्ये समासीनो नमस्तस्मै महात्मने ।। २२५ ।।

तेषां सैन्याः षष्टिलक्षाः क्रमाद्वीर त्वया हताः ।।

वरं ब्रूहि महा भाग यत्ते मनसि वर्तते ।। २२६ ।।

इति श्रुत्वा स आह्लादो वचनं प्राह निर्भयः ।।

मम कीर्तिस्त्वया देव कर्तव्या च जने जने ।। २२७ ।।

पुनस्ते कार्यमतुलं करिष्यामि शृणुष्व भोः ।।

महीराजश्च धर्मात्मा शिवभक्तिपरायणः ।।

तस्य नेत्रे मया शुद्धे कर्तव्ये नीलरूपके ।। २२८ ।।

तव प्रियः सदा नीलस्तथैव च मम प्रियः ।।

देवानां दुःखदो देव दैत्यानां हर्षवर्द्धनः ।। २२९ ।।

इत्युक्त्वा स तु रामांशो गजमारुह्य वेगतः ।।

महीराजमुपागम्य महद्युद्धं चकार ह ।। 3.3.32.२३० ।।

रुद्रदत्तो गजस्तूर्णं पंचशब्दमुपस्थितः ।।

पद्मदंतान्समारुह्य युयुधाते परस्परम्।। २३१ ।।

अन्योन्येन तथा हत्वा गजौ स्वर्गमुपेयतुः ।। २३२ ।।

तदा भयातुरो राजा त्यक्त्वा युद्धं भयंकरम्।।

स तु दुद्राव वेगेन रामांशोऽनुययौ ततः ।। २३३ ।।

केशेषु च महीराजं गृहीत्वा तरसा बली ।।

कलिदत्तं महानीलं नेत्रयोस्तेन तत्कृतम् ।। २३४ ।।

तदाप्रभृति वै शम्भुरशुद्धं नृपतिं प्रियम् ।।

मत्वा त्यक्त्वा ययौ स्थाने कैलासे गुह्यकालये ।। २३५ ।।

आह्लादः कलिना सार्द्धं कदलीवनमुत्तमम्।।

गत्वा योगं चकाराशु पर्वते गंधमादने ।। २३६ ।।

तथाभूतं च रामांशं कलिर्दृष्ट्वा मुदान्वितः ।।

बलिपार्श्वमुपागम्य वर्णयामास सर्वशः ।। २३७ ।।

स वै बलिर्दैत्यराजोऽयुतैः सह विनिर्गतः ।।

गौर देशमुपागम्य सहोड्डीनमुवाच ह ।। २३८ ।।

गच्छ वीर बलैस्सार्द्धं निशायां रक्षितो मया ।।

हत्वा भूपं महीराजं विद्युन्मालां गृहाण भोः ।।२३९।।

इति श्रुत्वा वचस्तस्य षोडशाब्दांतरे गते ।।

सपादलक्षैश्च बलैः कुरुक्षेत्रमुपाययौ ।। 3.3.32.२४० ।।

महीराजसुताञ्जित्वा समाहूय महावतीम् ।।

महीपतिं प्रेषयित्वा लुण्ठयित्वा च तद्वसु ।।२४१।।

लिंगार्थं कृतवान्यत्नं स नृपः कीर्तिसागरे ।।

न प्राप्तस्स नृपस्तं वै स्वगेहाय तदा ययौ ।।२४२।।

लक्षचंडीं कारयित्वा परमानंदमाप्तवान्।।

जयचंद्रस्तु तच्छ्रुत्वा पुत्रशोकसमन्वितः ।। २४३ ।।

निराहारो यतिर्भूत्वा मृतः स्वर्गपुरं ययौ ।।

सहोड्डीनेन स नृपः कृत्वा युद्धं भयंकरम् ।। २४४ ।।

सप्ताहोरात्रमात्रेण म्लेच्छराजवशं गतः ।।

मारितो बहुयत्नेन महीराजो न वै मृतः ।। २४५ ।।

तदा म्लेच्छस्सहोड्डीनो निर्बंधनमथाकरोत् ।।

ज्योतिरूपस्थितं तत्र चंद्रभट्टो नृपाज्ञया ।।

क्षुरप्रेण च बाणेन हत्वा वह्नौ ददाह वै ।। २४६ ।।

विद्युन्मालां स च म्लेच्छो गृहीत्वा च धनं बहु ।।

तत्रास्थाप्य स्वदासं च कुतुकोड्डीनमागतः ।। २४७ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वात्रिंशोऽध्यायः।। ३२ ।।

इति तृतीयखण्डं समाप्तम् ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 1

।। श्रीगणेशाय नमः ।।

।। श्रीराधावल्लभो जयति ।।

।। वेदव्यास उवाच ।। ।।

एवं द्वापरसंध्याया अन्ते सूतेन वर्णितम् ।।

सूर्यचंद्रान्वयाख्यानं तन्मया कथितं तव ।।१।।

विशालायां पुनर्गत्वा वैतालेन विनिर्मितम् ।।

कथयिष्यति सूतस्तमितिहाससमुच्चयम् ।।२।।

तन्मया कथितं सर्वं हृषीकोत्तमपुण्यदम्।।

पुनर्विक्रमभूपेन भविष्यति समाह्वयः ।। ३ ।।

नैमिषारण्यमासाद्य श्रावयिष्यति वै कथाम्।।

पुनरुक्तानि यान्येव पुराणाष्टादशानि वै ।। ४ ।।

तानि चोपपुराणानि भविष्यंति कलौ युगे ।।

तेषां चोपपुराणानां द्वादशाध्यायमुत्तमम् ।। ५ ।।

सारभूतश्च कथितं इतिहाससमुच्चयः ।।

यस्ते मया च कथितो हृषीकोत्तम ते मुदा ।। ६ ।।

विक्रमाख्यानकालांतेऽवतारः कलया हरेः ।।

स च शक्त्यावतारो हि राधाकृष्णस्य भूतले ।। ७ ।।

तत्कथां भगवान्सूतो नैमिषारण्यमास्थितः ।।

अष्टाशीतिसहस्राणि श्रावयिष्यति वै मुनीम् ।। ८ ।।

यत्तन्मया च कथितं हषीकोत्तम ते मुदा ।।

पुनस्ते शौनकाद्याश्च कृत्वा स्नानादिकाः क्रियाः ।। ९ ।।

सूतपार्श्वं गमिष्यंति नैमिषारण्यवासिनः ।।

तत्पृष्टेनैव सूतेन यदुक्तं तच्छृणुष्व भोः ।। 3.4.1.१० ।।

।। ऋषय ऊचुः ।। ।।

श्रुतं कृष्णस्य चरितं भगवन्भवतोदितम् ।।

इदानीं श्रोतुमिच्छामि राज्ञां तेषां क्रमात्कुलम् ।। ।।११ ।।

चतुर्णां वह्निजातानां परं कौतूहलं हि नः ।।

स हरिस्त्रियुगी प्रोक्तः कथं जातः कलौ युगे ।। १२ ।।

।। सूत उवाच ।। ।।

कथयामि मुनिश्रेष्ठा युष्माकं प्रश्नमुत्तमम् ।।

अग्निवंशनृपाणां च चरित्रं शृणु विस्तरात् ।। १३ ।।

प्रमरश्च महीपालो दक्षिणां दिशमास्थितः ।।

अम्बया रचितां दिव्यां प्रमराय पुरीं शुभाम् ।। १४ ।।

निवासं कृतवान्राजा सामवेदपरो बली ।।

षड्वर्षाणि कृतं राज्यं तस्माज्जातो महामरः ।। १५ ।।

त्रिवर्षं च कृतं राज्यं देवापिस्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं देवदूतस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं शृणु तत्कारणं मुने ।। १६ ।।

अशोके निहते तस्मिन्बौद्धभूपे महाबले ।।

कलिर्भास्करमाराध्य तपसा ध्यानतत्परः ।। १७ ।।

पंचवर्षान्तरे सूर्यस्तस्मै च कलये मुदा ।।

शकाख्यं नाम पुरुषं ददौ तद्भक्तितोषितः ।। १८ ।।

तदा प्रसन्नः स कलिः शकाय च महात्मने ।।

तैत्तिरं नगरं प्रेम्णा ददौ हर्षितमानसः ।।१९।।

तत्र गोपान्दस्युगणान्वशीकृत्य महाबली ।।

आर्यदेशविनाशाय कृत्वोवोद्योगं पुनःपुनः ।।

हतवान्भूपतीन्बाणैस्तस्मात्ते स्वल्पजीविनः ।। 3.4.1.२० ।।

गंधर्वसेनश्च नृपो देवदूतात्मजो बली ।।

शतार्द्धाब्दं पदं कृत्वा तपसे पुनरागतः ।। २१ ।।

शिवाज्ञया च नृपतिर्विक्रमस्तनयस्ततः ।।

शतवर्षकृतं राज्यं देवभक्तस्ततोऽभवत् ।।

दशवर्षं कृतं राज्यं शकैर्दुष्टैर्लयं गतः ।। २२ ।।

शालिवाहन एवापि देवभक्तस्य चात्मजः ।।

जित्वा शकान्स षष्ट्यब्दं राज्यं कृत्वा दिवं गतः ।। २३ ।।

शालिहोत्रस्तस्य सुतो राज्यं कृत्वा शतार्द्धकम् ।।

स्वर्गलोकं ततः प्राप्तस्तत्सुतः शालिवर्द्धनः ।।२४।।

पितुस्तुल्यं कृतं राज्यं शकहन्ता ततोऽभवत्।।

पितुस्तुल्यं कृतं राज्यं सुहोत्रस्तनयोऽभवत् ।। २५ ।।

पितुस्तुल्यं कृतं राज्यं हविर्होत्रस्ततोऽभवत्।।

पितुस्तुल्यं कृतं राज्यमिंद्रपालस्ततोऽभवत् ।। २६ ।।

पुरीमिंद्रावतीं कृत्वा तत्र राज्यमकारयत् ।।

पितुस्तुल्यं कृतं राज्यं माल्यवान्नाम तत्सुतः ।।

पुरीं माल्यवतीं कृत्वा पितुस्तुल्यं कृतं पदम् ।। २७ ।।

अनावृष्टिस्ततश्चासीन्महती चतुरब्दिका ।।

ततः क्षुधातुरो राजा श्वविष्ठाधान्यगर्हितम् ।। २८ ।।

संस्कृत्य मंदिरे राजा शालग्रामाय चार्पयत् ।।

तदा प्रसन्नो भगवान्वचनं नभसेरितम् ।। २९ ।।

कृत्वा ददौ वरं तस्मै शृणु तन्मुनिसत्तम।।

कुले यावन्नृपा भाव्यास्तव भूपतिसत्तम।।

अनावृष्टिर्न भविता तावत्ते राष्ट्र उत्तमे।।3.4.1.३०।।

सुतो माल्यवतश्चासीच्छंभुदत्तो हरप्रियः।।

पितुस्तुल्यं कृतं राज्यं भौमराजस्ततोऽभवत्।।३१।।

पितुस्तुल्यं कृतं राज्यं वत्सराजस्ततोऽभवत्।।

पितुस्तुल्यं कृतं राज्यं भोजराजस्ततोऽभवत्।।३२।।

पितुस्तुल्यं कृतं राज्यं शंभुदत्तस्ततोऽभवत्।।

दशहीनं कृतं राज्यं भोजराजपितुस्समम्।।३३ ।।

शंभुदत्तस्य तनयो बिंदुपालस्ततोऽभवत् ।।

बिंदुखण्डं च राष्ट्रं वै कृत्वा स सुखितोऽभवत् ।।

तेन राज्यं पितुस्तुल्यं कृतं वेदविदा मुने ।। ३४ ।।

बिंदुपालस्य तनयो राजपालस्ततोऽभवत्।।

पितुस्तुल्यकृतं राज्यं तस्माज्जातो महीनरः ।। ३५ ।।

पितुस्तुल्यं कृतं राज्यं सोमवर्मा नृपोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं कामवर्मा सुतोऽभवत् ।। ३६ ।।

पितुस्तुल्यं कृतं राज्यं भूमिपालस्ततोऽभवत् ।।

भूसरस्तेन खनितं पुरं तत्र शुभं कृतम् ।। ३७ ।।

पितुस्तुल्यं कृतं राज्यं रंगपालस्ततोऽभवत् ।।

भूमिपालस्तु नृपतिर्जित्वा भूपाननेकशः ।। ३८ ।।

वीरसिंहस्ततो नाम्ना विख्यातोऽभून्महीतले ।।

स्वराज्ये रंगपालं स चाभिषिच्य वनं ययौ ।।

तपः कृत्वा दिवं यातो देवदेवप्रसादतः ।। ३९ ।।

कल्पसिंहस्ततो जातो रंगपालान्नृपोत्तमात् ।।

अनपत्यो हि नृपतिः पितुस्तुल्यं कृतं पदम् ।। 3.4.1.४० ।।

एकदा जाह्नवीतोये स्नानार्थं मुदितो ययौ ।।

दानं दत्त्वा द्विजातिभ्यः कल्पक्षेत्रमवाप्तवान् ।। ४१ ।।

पुण्यभूमिं समालोक्य शून्यभूतां स्थलीमपि ।।

नगरं कारयामास तत्र स्थाने मुदान्वितः ।। ४२ ।।

कलापनगरं नाम्ना प्रसिद्धमभवद्भुवि ।।

तत्र राज्यं कृतं तेन गंगासिंहस्ततोऽभवत् ।। ४३ ।।

नवत्यब्दवपुर्भूत्वा सोऽनपत्यो रणं गतः ।।

त्यक्त्वा प्राणान्कुरुक्षेत्रे स्वर्गलोकमवाप्तवान् ।।

समाप्तिमगमद्विप्र प्रमरस्य कुलं शुभम् ।। ४४ ।।

तदन्वये च ये शेषाः क्षत्रियास्तदनंतरम् ।।

तन्नारीष्वमितोविप्र बभूव वर्णसंकरः ।। ४५ ।।

वैश्यवृत्तिकराः सर्वे म्लेच्छतुल्या महीतले ।।

इति ते कथितं विप्र कुलं दक्षिणभूपतेः ।। ४६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये प्रमरवंशवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 2

।। सूत उवाच ।। ।।

वयहानिर्महीपालो मध्यदेशे स्वकं पदम् ।।

गृहीत्वा ब्रह्मरचितमजमेरमवासयत् ।। १ ।।

अजस्य ब्रह्मणो मा च लक्ष्मीस्तत्र रमा गता ।।

तया च नगरं रम्यमजमेरमजं स्मृतम् ।। २ ।।

दशवर्षं कृतं राज्यं तोमरस्तत्सुतोऽभवत् ।।

पार्थिवैः पूजयामास वर्षमात्रं महेश्वरम् ।। ३ ।।

इंद्रप्रस्थं ददौ तस्मै प्रसन्नो नगरं शिवः ।।

तदन्वये च ये जातास्तोमराः क्षत्रियाः स्मृताः ।। ४ ।।

तोमरावरजश्चैव चयहानिसुतः शुभः ।।

नाम्ना सामलदेवश्च प्रश्रितोऽभून्महीतले ।। ५ ।।

सप्तवर्षं कृतं राज्यं महादेवस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यमजयश्च ततो भवत् ।। ६ ।।

पितुस्तुल्यं कृतं राज्यं वीरसिंहस्ततोऽभवत् ।।

शतार्द्धाब्दं कृतं राज्यं ततो बिंदुसुरोऽभवत् ।। ७ ।।

पितुरर्द्धं कृतं राज्यं मध्यदेशे महात्मना ।।

तस्माच्च मिथुनं जातं वीरा वीरविहात्तकः ।। ८ ।।

विक्रमाय ददौ वीरां पिता वेदविधानतः ।।

स्वपुत्राय स्वकं राज्यं मध्यदेशान्तरं मुदा ।। ९ ।।

पितुस्तुल्यं कृतं राज्यं माणिक्यस्तत्सुतोभवत् ।।

शतार्द्धाब्दं कृतं राज्यं महासिंहस्ततोऽभवत् ।। 3.4.2.१० ।।

पितुस्तुल्यं कृतं राज्यं चंद्रगुप्तस्ततोऽभवत्।।

पितुर्द्धं कृतं राज्यं तत्सुतश्च प्रतापवान् ।। ११ ।।

पितुस्तुल्यं कृतं राज्यं मोहनस्तत्सुतोऽभवत् ।।

त्रिंशदब्दं कृतं राज्यं श्वेतरायस्ततोऽभवत् ।।१२।।

पितुस्तुल्यं कृतं राज्यं नागवाहस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं लोहधारऽस्ततोभवत् ।। ।। १३ ।।

पितुस्तुल्यं कृतं राज्यं वीरसिंहस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं विबुधस्तत्सुतोऽभवत् ।। १४ ।।

शतार्द्धाब्दं कृतं राज्यं चंद्रराय स्ततोभवत् ।।

पितुस्तुल्यं कृतं राज्यं ततो हरिहरोऽभवत् ।।१५।।

पितुस्तुल्यं कृतं राज्यं वसंतस्तस्य चात्मजः ।।

पितुस्तुल्यं कृतं राज्यं बलांग स्तनयोऽभवत् ।। १६ ।।

पितुस्तुल्यं कृतं राज्यं प्रमथस्तत्सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यमंगरायस्ततोऽभवत् ।। १७ ।।

पितुस्तुल्यं कृतं राज्यं विशालस्तस्य चात्मजः ।।

पितुस्तुल्यं कृतं राज्यं शार्ङ्गदेवस्ततोऽभवत् ।। १८ ।।

पितुस्तुल्यं कृतं राज्यं मंत्रदेवस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं जयसिंहस्ततोऽभवत् ।।१९।।

आर्यदेशाश्च सकला जितास्तेन महात्मना ।।

तद्धनैः कारयामास यज्ञं बहुफलप्रदम् ।। 3.4.2.२० ।।

ततश्चानंद देवो हि जातः पुत्रः शुभाननः ।।

शतार्द्धाब्दं कृतं राज्यं जयसिंहेन धीमता ।। २१ ।।

तत्सुतेन पितुस्तुल्यं कृतं राज्यं महीतले ।।

सोमेश्वरस्तस्य सुतो महाशूरो बभूव ह ।। २२ ।।

अनंगपालस्य सुतो ज्येष्ठां वै कीर्तिमालिनीम् ।।

तामुद्वाह्य विधानेन तस्यां पुत्रानजीजनत् ।। २३ ।।

धुंधुकारश्च वै ज्येष्ठो मथुराराष्ट्रसंस्थितः ।।

मध्यः कुमाराख्यसुतः पितुः पदसमास्थितः ।।२४।।

महीराजस्तु बलवांस्तृतीयो देहलीपतिः ।।

सहोद्दीनस्य नृपतेर्वशमाप्य मृतिं गतः ।। २५ ।।

चपहानेश्च स कुलं छाययित्वा दिवं ययौ ।।

तस्य वंशे तु राजन्यास्तेषां पत्न्यः पिशाचकैः ।।२६।।

म्लेच्छैश्च भुक्तवत्यस्ता बभूबुर्वर्णसंकराः ।।

न वै आर्या न वै म्लेच्छा जट्टा जात्या च मेहनाः ।। २७ ।।

मेहना म्लेच्छजातीया जट्टा आर्यमयाः स्मृताः ।।

क्वचित्कचिच्च ये शेषाः क्षत्रियाश्चपहानिजाः ।। २८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि कलियुगीयेतिहास समुच्चये प्रमरवंशवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 3

।। सूत उवाच ।। ।।

शुक्लवंशं प्रवक्ष्यामि शृणु विप्रवरादितः ।।

यदा कृष्णः स्वयं ब्रह्म त्यक्त्वा भूमिं स्वकं पदम् ।। १ ।।

दिव्यं वृन्दावनं रम्यं प्रययौ भूतले तदा ।।

कलेरागमनं ज्ञात्वा म्लेच्छपा द्वीपमध्यगे ।। २ ।।

स्थिता द्वीपेषु वै नाना मनुजा वेदतत्पराः ।।

कलिना मित्रधर्मेण दूषितास्ते बभूविरे ।। ३ ।।

अष्टषष्टिसहस्राणां वर्षाणां मुनिसत्तम ।।

अद्यप्रभृति वै जातः कालः कलिसमागमे ।। ४ ।।

षष्टिवर्षसहस्राणि द्वीपराज्यमचीकरत् ।।

स कलिर्म्लेच्छया सार्धं सूर्यपूजनतत्परः ।। ५ ।।

तत्पश्चाद्भारते वर्षे म्लेच्छया कलिराययौ ।।

दृष्ट्वा तद्भारतं वर्षं लोकपालैश्च पालितम् ।। ६ ।।

भयभीतस्त्वराविष्टो गन्धर्वाणां यशस्करः ।।

स कलिः सूर्यमाराध्य समाधिस्थो बभूव ह ।।७।।

ततो वर्षशताब्दांते संतुष्टो रविरागतः ।।

सोंशुभिर्लोकमातप्य महावृष्टिमकारयत् ।। ८ ।।

चतुर्वर्षसहस्राणि चतुर्वर्षशतानि च ।।

व्यतीतानि मुनिश्रेष्ठ चाद्य प्रभृति संलपे ।।९।।

संपन्नं भारतं वर्षं तदा जातं समंततः ।।

न्यूहाख्यो यवनो नाम तेन वै पूरितं जगत् ।।। ।।। 3.4.3.१० ।।

सहस्राब्दकलौ प्राप्ते महेन्द्रो देवराट् स्वयम् ।।

काश्यपं प्रेषयामास ब्रह्मावर्ते महोत्तमे ।। ११ ।।

आर्यावती देवशक्तिस्तत्करं चाग्रहीन्मुदा ।।

दशपुत्रान्समुत्पाद्य स द्विजो मिश्रमागमत् ।। १२ ।।

मिश्रदेशोद्भवान्म्लेच्छान्वशीकृत्यायुतं मुदा ।।

स्वदेशं पुनरागत्य शिष्यांस्तान्स चकार ह ।। १३ ।।

नष्टायां सप्तपुर्यां च ब्रह्मावर्तं महोत्तमम्।।

सरस्वतीदृषद्वत्योर्मध्यगं तत्र चावसत् ।। १४ ।।

स्वपुत्रं शुक्लमाहूय द्विजश्रेष्ठं तपोधनम् ।।

आज्ञाय रैवतं शृंगं तपसे तु पुनः स्वयम् ।। १५ ।।

नवपुत्राँस्तथा शिष्यान्मनुधर्मं सनातनम् ।।

श्रावयामास धर्मात्मा स राजा मनुधर्मगः ।। १६ ।।

शुक्लोपि रैवतं प्राप्य सच्चिदानंदविग्रहम् ।।

वासुदेवं जगन्नाथं तपसा समतोषयत् ।। १७ ।।

तदा प्रसन्नो भगवान्द्वार कानायको बली ।।

करे गृहीत्वा तं विप्रं समुद्रांतमुपाययौ ।। १८ ।।

द्वारकां दर्शयामास दिव्यशोभासमन्विताम् ।।

व्यतीते द्विसहस्राब्दे किञ्चिज्जाते भृगूत्तम ।। १९ ।।

अग्निद्वारेण प्रययौ स शुक्लोऽर्बुदपर्वते ।।

जित्वा बौद्धान्द्विजैः सार्धं त्रिभिरन्यैश्च बंधुभिः ।। 3.4.3.२० ।।

द्वारकां कारयामास हरेश्च कृपया हि सः ।।

तत्रोष्य मुदितो राजा कृष्णध्यानपरोभवत् ।। २१ ।।

पश्चिमे भारते वर्षे दशाब्दं कृतवान्पदम् ।।

नारायणस्य कृपया विष्वक्सेनः सुतोऽभवत् ।। २२ ।।

विंशदब्दं कृतं राज्यं जयसेनस्ततोऽभवत् ।।

त्रिंशदब्दं कृतं राज्यं विसेनस्तस्य चात्मजः ।।। ।। २३ ।।

शतार्धाब्दं कृतं राज्यं मिथुनं तस्य चाभवत् ।।

प्रमोदो मोदसिंहश्च विक्रमाय निजां सुताम् ।। २४ ।।

विसेनश्च ददौ प्रीत्या राष्ट्रं पुत्राय चोत्तमम् ।।

पितुस्तुल्यं कृतं राज्यं सिंधुवर्मा सुतोऽभवत् ।। २५ ।।

सिंधुकूले कृतं राज्यं त्यक्त्वा तत्पैतृकं पदम् ।।

सिंधुदेशस्ततो नाम्ना प्रसिद्धोभून्महीतले ।। २६ ।।

पितुस्तुल्यं कृतं राज्यं राज्ञा वै सिंधुवर्मणा ।।

सिंधुद्वीपस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। २७ ।।

श्रीपतिस्तस्य तनयो गौतमान्वयसंभवाम् ।।

काच्छपीं महिषीं प्राप्य कच्छदेशमुपाययौ ।। २८ ।।

पुलिन्दान्यवनाञ्जित्वा तत्र देशमकारयत् ।।

देशो वै श्रीपतिर्नाम्ना सिंधुकूले बभूव ह ।। २९ ।।

पितुस्तुल्यं कृतं राज्यं भुजवर्मा ततोऽभवत् ।।

जित्वा स शबरान्भिल्लांस्तत्र राष्ट्रमकारयत् ।। ।। 3.4.3.३० ।।

भुजदेशस्ततो जातः प्रसिद्धोऽभून्महीतले ।।

पितुस्तुल्यं कृतं राज्यं रणवर्मा सुतोऽभवत् ।। ३१ ।।

पितुस्तुल्यं कृतं राज्यं चित्रवर्मा सुतोऽभवत् ।।

कृत्वा स चित्रनगरीं वनमध्ये नृपोत्तमः ।। ३२ ।।

पितुस्तुल्यं कृतं राज्यं धर्मवर्मा सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं कृष्ण वर्मा सुतोऽभवत् ।। ३३ ।।

पितुस्तुल्यं कृतं राज्यमुदयस्तत्सुतोऽभवत् ।।

कृत्वोदयपुरं रम्यं वनमध्ये नृपोत्तमः ।। ३४ ।।

पितुस्तुल्यं कृतं राज्यं वाप्यकर्मा सुतोऽभवत् ।।

वापीकूपतडागानि नानाहर्म्याणि तेन वै ।। ३५ ।।

धर्मार्थे कारयामास धर्मात्मा स च वै पुरम् ।।

एतस्मिन्नन्तरे प्राप्तो बलदो नाम भूपतिः ।। ३६ ।।

लक्षसैन्ययुतो वीरो महामदमते स्थितः ।।

तेन सार्धमभूयुद्धं राज्ञो वै वाप्यकर्मणः ।। ३७ ।।

जित्वा पैशाचकान्म्लेच्छान्कृष्णोत्सवमकारयत् ।।

पितुस्तुल्यं कृतं राज्यं गुहिलस्तत्सुतोऽभवत् ।। ३८ ।।

पितुस्तुल्यं कृतं राज्यं कालभोजः सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं राष्ट्रपालस्ततोऽभवत् ।। ३९ ।।

स त्यक्त्वा पैतृकं स्थानं वैष्णवीं शक्तिमागमत् ।।

तपसाराधयामास शारदां सर्वमंगलाम् ।। ।। 3.4.3.४० ।।

प्रसन्ना सा तदा देवी कारयामास वै पुरीम् ।।

महावतीं महारम्यां मणिदेवेन रक्षिताम् ।। ४१ ।।

तत्रोष्य नृपतिर्धीमान्दशाब्दं राज्यमाप्तवान् ।।

तस्योभौ तनयौ जातौ विजयः प्रजयस्तथा ।। ४२ ।।

प्रजयः पितरौ त्यक्त्वा गंगाकूलमुपाययौ ।।

द्वादशाब्दं च तपसा पूजयामास शारदाम् ।। ४३ ।।

कन्या मूर्तिमयी देवी वेणुवादनतत्परा ।।

हयमारुह्य संप्राप्ता विहस्याह महीपतिम् ।। ४४।।

किन्निमित्तं भूपसुत त्वया चाराधिता शिवा ।।

तत्फलं त्वं हि तपसा मत्तः शीघ्रमवाप्स्यसि ।। ४५ ।।

इति श्रुत्वा स होवाच कुमारि मधुरस्वरे ।।

नवीनं नगरं मह्यं कुरु देवि नमोस्तु ते ।। ४६ ।।

इति श्रुत्वा तु सा देवी ददौ तस्मै हयं शुभम् ।।

पुरो भूत्वा वाद्यकरी दक्षिणां दिशमागता ।। ४७ ।।

स भूपो हयमारुह्य नेत्र आच्छाद्य चाययौ ।।

पुनः स भूपतिः पश्चात्पश्चिमां दिशमागता ।। ४८ ।।

ततोनुप्रययौ पूर्वमर्कणो यत्र पक्षिराट् ।।

भयभीतो नृपस्तेन समुन्मील्य स चक्षुषी ।। ४९ ।।

ददर्श नगरं रम्यं कन्याया रचितं शुभम् ।।

उत्तरे तस्य वै गंगा दक्षिणेनास पाण्डुरा ।। 3.4.3.५० ।।

पश्चिमे ईशसरिता पूर्वे पक्षी स मर्कणः ।।

कुब्जभूतमभूद्ग्रामं कान्यकुब्ज इति स्मृतः ।। ५१ ।।

दशवर्षं च तेनैव जयपालेन वै पदम् ।।

कृतं तस्य सुतो जातो वेणुवाद्याच्च वेणुकः ।। ५२ ।।

स वेणुश्च महीपालो देवीदत्तां मनोहराम् ।।

पत्नीं कन्यावतीं नाम्ना समुद्वाह्य रराज ह ।। ५३ ।।

तस्यां सप्त सुता जाता मातॄणां मंगलाः कलाः ।।

शीतला पार्वती कन्या तथा पुष्पवती स्मृता ।। ५४ ।।

गोवर्धनी च सिंदूरा काली नाम्ना प्रकीर्तिता ।।

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।। ५५ ।।

वाराही च तथेन्द्राणी चामुण्डाः क्रमतोऽभवन्।।

एकदा भूपतेः पत्नी तंतुना मृत्तिकाघटम् ।। ।। ५६ ।।

कूपे कृतवती प्रेम्णा यथा पूर्वं तथाद्य सा ।।

ददर्श बहुला नारीर्नानाभूषणभूषिताः ।। ५७ ।।

स्वयमेकैव वसना मनोग्लानिमुपाययौ ।।

तदैव स घटो भूमौ न प्राप्तः सप्रवृत्तिकाम् ।। ५८ ।।

दृष्ट्वा कन्यावती देवी घटहीना गृहं ययौ ।।

तदा तु सप्तकन्याश्च शिलाभूता गृहे स्थिताः ।। ५९ ।।

श्रुत्वा वेणुस्तदागत्य भर्त्सयित्वा स्वकां प्रियाम् ।।

ब्रह्मचर्यव्रतं त्यक्त्वा रमयामास योषितम् ।। 3.4.3.६० ।।

नृपाद्वै वीरवत्यां च यशोविग्रह आत्मजः ।।

बभूव बलवान्धर्मी चार्यदेशपतिः स्वयम् ।। ६१ ।।

विंशद्वर्षं कृतं राज्यं तेन राज्ञा महीतले ।।

महीचंद्रस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६२ ।।

चंद्रदेवस्तस्य सुतो राज्यं तेन पितुः समम् ।।

कृतं तस्मात्सुतो जातो मंदपालो महीपतिः ।। ६३ ।।

तस्य भूपस्य समये सर्वे भूपाः समन्ततः ।।

त्यक्त्वा तं मंदपालं च तद्दत्ते संस्थिता गृहे ।। ६४ ।।

पितुरर्द्धं कृतं राज्यं कुम्भपालस्ततो ऽभवत् ।।

राजनीया च नगरी पिशाचविषये स्थिता ।। ६५ ।।

तत्पतिश्च महामोदो म्लेच्छपैशाचधर्मगः ।।

स जित्वा बहुधा देशाँल्लुंठयित्वा धनं बहु ।। ६६ ।।

म्लेच्छधर्मकरः प्राप्तः कुम्भपालो यतः स्थितः ।।

कुम्भपालस्तु तं दृष्ट्वा कलिना निर्मितं नृप ।। ६७ ।।

महामोदं समागम्य प्रणनाम स बुद्धिमान् ।।

तदा म्लेच्छपतिः शूरो दत्त्वा तस्मै धनं बहु ।। ६८ ।।

राजनीयां च नगरीं प्राप्तवान्मूर्तिखंडकम् ।।

विंशदब्दं कृतं राज्यं कुंभपालेन धीमता ।। ६९ ।।

तत्पुत्रो देवपालश्चानंगभूपस्य कन्यकाम् ।।

समुद्वाह्य विधानेन चंद्रकांतिं तया सह ।। 3.4.3.७० ।।।

कान्यकुब्जगृहं प्राप्य जित्वा भूपाननेकशः ।।

पितुस्तुल्यं कृतं राज्यं तस्योभौ तनयौ स्मृतौ ।। ७१।।

जयचंद्रो रत्नभानुर्दिशं पूर्वां तथोत्तराम् ।।

आर्यदेशस्य वै जित्वा वैष्णवो राज्यमाप्तवान्।।७२।।

रत्नभानोश्च तनयो लक्षणो नाम विश्रुतः ।।

कुरुक्षेत्रे रणं प्राप्य त्यक्त्वा प्राणान्दिवं गतः।।७३।।

समाप्तिमगमद्वंशो वैश्यपालस्य धीमतः ।।

कुंभपालस्य शौक्लस्य वैश्यानां रक्षकस्य च ।।७४।।

विष्वक्सेनान्वये जाता विष्वक्सेना(विश्वक्नेना?) नृपाः स्मृताः।।

विसेनस्य कुले जाता विसेनाः क्षत्रियाः स्मृताः ।। ७५ ।।

गुहिलस्य कुले जाता गौहिलाः क्षत्रिया हि ते ।।

राष्ट्रपालान्वये जाता राष्ट्रपाला नृपाः स्मृताः ।। ७६ ।।

वैश्यपालस्य वै वंशे कुंभपालस्य धीमतः ।।

वैश्यपालाश्च राजन्या बभूबुर्बहुधा हि ते ।। ७७ ।।

लक्षणे मरणं प्राप्ते शुक्ल वंशधुरंधुरे ।।

सर्वे ते क्षत्रिया मुख्याः कुरुक्षेत्रे लयं गताः ।। ७८ ।।

शेषास्तु क्षुद्रभूपाला वर्णसंकरसंभवाः ।।

म्लेच्छैश्च दूषिता जाता म्लेच्छराज्ये भयानके ।। ७९ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये प्रमरवंशवर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 4

।।सूत उवाच ।। ।।

भृगुवर्य शृणु त्वं वै वंशं परिहरस्य च ।।

जित्वा बौद्धान्परिहरोऽथर्ववेदपरायणः ।। १ ।।

शक्तिं सर्वमयीं नित्यां ध्यात्वा प्रेमपरोऽभवत् ।।

प्रसन्ना सा तदा देवी सार्धयोजनमायतम् ।। २ ।।

नगरं चित्रकूटाद्रौ चकार कलिनिर्जरम् ।।

कलिर्यत्र भवेद्बद्धो नगरेऽस्मिन्सुरप्रिये ।। ३ ।।

अतः कलिंजरो नाम्ना प्रसिद्धोऽभून्महीतले ।।

द्वादशाब्दं कृतं राज्यं तेन पूर्वप्रदेशके ।। ४ ।।

गौरवर्मा तस्य सुतः कृतं राज्यं पितुः समम् ।।

स्वानुजं घोरवर्माणं तत्रास्थाप्य मुदान्वितः ।। ५ ।।

गौडदेशं समागम्य तत्र राज्यमकारयत् ।।

सुपर्णो नाम नृपतिस्ततोऽभूद्गौरवर्मणः ।। ६ ।।

पितुस्तुल्यं कृतं राज्यं रूपणस्तत्सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं कारवर्मा सुतोऽभवत् ।।७।।

शको नाम ततो राजा महालक्ष्मीं सनातनीम् ।।

त्रिवर्षांते च सा देवी कामाक्षीरूपधारिणी ।। ८ ।।

स्वभक्तपालना चैव तत्र वासमकारयत् ।।

शतार्द्धाब्दं कृतं राज्यं तेन वै कामवर्मणा ।। ९ ।।

मिथुनं जनयामास भोगो भोगवती हि सा ।।

विक्रमायैव नृपतिः सुतां भोगवतीं ददौ ।। ।। 3.4.4.१० ।।

स्वराज्यं च स्वपुत्राय प्रददौ भोगवर्मणे ।।

पितुस्तुल्यं कृतं राज्यं कालिवर्मा सुतोऽवत् ।। ११ ।।

महोत्सवं महाकाल्याः कृतवान्स च भूपतिः ।।

तस्मै प्रसन्ना वरदा काली भूत्वा स्वयं स्थिता ।। १२।।

कलिका बहुपुष्पाणां सा चकार स्वहर्षतः ।।

ताभिर्भवं च नगरं संजातं च मनोहरम् ।। १३ ।।

कलिकाता पुरी नाम्ना प्रसिद्धाभून्महीतले ।।

कौशिकस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।। १४ ।।

कात्यायनस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।

तस्य पुत्रो हेमवतः पितुस्तुल्यं कृतं पदम् ।। १५ ।।

शिववर्मा च तत्पुत्रः पितुस्तुल्यं कृतं पदम् ।।

भववर्मा च तत्पुत्रः पितुस्तुल्यं कृतं पदम् ।। १६ ।।

रुद्रवर्मा च तत्पुत्रः कृतं राज्यं पितुः समम् ।।

भोजवर्मा च तत्पुत्रस्त्यक्त्वा वै पैतृकं पदम् ।। १७ ।।

भोजराष्ट्रं वनोद्देशे कारयामास वीर्यवान् ।।

पितुस्तुल्यं कृतं राज्यं गववर्मा नृपोभवत् ।।१८।।

पितुस्तुल्यं कृतं राज्यं विंध्यवर्मा नृपोऽभवत् ।।

स्वानुजाय स्वकं राज्यं दत्त्वा वंगमुपाययौ ।। १९ ।।

पितुस्तुल्यं कृतं राज्यं सुखसेनस्ततोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं बलाकस्तस्य चात्मजः ।। 3.4.4.२० ।।

दशवर्षं कृतं राज्यं लक्ष्मणस्तत्सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं माधवस्तत्सुतोऽभवत् ।। २१ ।।

पितुस्तुल्यं कृतं राज्यं वेशवस्तत्सुतोऽ भवत् ।।

पितुस्तुल्यं कृतं राज्यं सुरसेनस्ततोऽभवत् ।। २२ ।।

पितुस्तुल्यं कृतं राज्यं ततो नारायणोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं शांतिवर्मा सुतोभवत् ।। २३ ।।

गंगाकूले शांतिपुरं रचितं तेन धीमता ।।

निवासं कृतवान्भूपः पितुस्तुल्यं कृतं पदम् ।। २४ ।।

नदीवर्मा तस्य सुतो गंगादत्तवरो बली ।।

चकार नगरीं रम्यां नदीहां गौडराष्ट्रगाम् ।। २५ ।।

गंगया च तदाहूतोभिज्ञो विद्याधरः स्वयम्।।

तेनैव रक्षिता चासीत्पुरी वेदपरायणा ।। २६ ।।

विंशद्वर्षं कृतं राज्यं तेन राज्ञा महात्मना ।।

गंगावंशस्ततो जातो विश्रुतोऽभून्महीतले ।। २७ ।।

शार्ङ्गदेवस्तस्य सुतो बलवान्हरिपूजकः ।।

गौडदेशमुपागम्य हरिध्यानपरोभवत् ।। २८ ।।

दशवर्षं कृतं राज्यं गंगादेवस्तु तत्सुतः ।।

विंशद्वर्षं कृतं राज्यं चानंगस्तस्य भूपतिः ।। २९ ।।

तनयो बलवांश्चासीद्गौडदेशमहीपतिः ।।

पितुस्तुल्यं कृतं राज्य ततो राजेश्वरोऽभवत् ।। 3.4.4.३० ।।

पितुस्तुल्यं कृतं राज्यं नृसिंह स्तनयोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं कलिवर्मा सुतोऽभवत् ।। ३१ ।।

राष्ट्रदेशमुपागम्य जित्वा तस्य नृपं बली ।।

महावतीं पुरीं रम्यामध्यास्य सुखितोऽभवत् ।। ३२ ।।

पितुस्तुल्यं कृतं राज्यं धृतिवर्मा सुतोऽभवत् ।।

पितुस्तुल्यं कृतं राज्यं तस्य पुत्रो महीपतिः ।। ३३ ।।

जयचंद्राज्ञया भूप उर्वीमायामिति स्मृताम् ।।

नगरीं कारयामास तत्र वासमकारयत् ।। ३४ ।।

कुरुक्षेत्रे हताः सर्वे क्षत्रियाश्चंद्रवंशिनः ।।

तदा महीपती राजा महावत्यधिपोऽभवत् ।। ३५ ।।

विंशद्वर्षं कृतं राज्यं सहोद्दीनेन वै ततः ।।

कुरुक्षेत्रे मृतिं प्राप्ताः सुयोधनकलांशकाः ।। ३६ ।।

घोरवर्मा तु नृपतिः सुतः परिहरस्य वै।।

कलिंजरे कृतं राज्यं शार्दूलस्तत्सुतोऽभवत्।। ३७ ।।

तदन्वये च ये भूपाः शार्दूलीयाः प्रकीर्तिताः ।।

भूपानां बहुधा राष्ट्रं शार्दूलान्वयसंभवम्।।३८।।

बभूव सर्वतो भूमौ महामायाप्रसादतः ।।

इति ते कथितं विप्र पावकीयमहीभुजाम्।।३९।।

कुलं सकलपापघ्नं यथैव शशिसूर्ययोः ।।

पुनरन्यत्प्रवक्ष्यामि यथा जातः स्वयं हरिः ।।3.4.4.४०।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये चतुर्थोऽध्यायः ।। ४ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 5

।। सूत उवाच ।। ।।

मध्याह्नकाले संप्राप्ते ब्रह्मणोऽव्यक्तजन्मनः ।।

चाक्षुषांतरमेवापि महावायुर्बभूव ह ।। १ ।।

तत्प्रभावेन हेमाद्रिः कंपमानः पुनःपुनः।।

यथा वृक्षस्तथैवासौ तत्कंपादेव मंडलः ।।२।।

नभसो भूतले प्राप्तस्तदा भूमिः प्रकंपिता ।।

बभूव मुनिशार्दूल सर्वलोकविनाशिनी ।। ३।।

सप्तद्वीपाः समुद्राश्च जलभूता बभूविरे ।।

लोकालोकस्तदा शेषोऽभवत्सोत्तरपर्वतः ।। ४ ।।

शेषा भूमिर्लयं प्राप्ता मन्वंतरे लये ।।

सहस्राब्दांतरे भूमिर्बभूव जलमध्यगा।। ।। ५ ।।

तदा स भगवान्विष्णुर्भवेन विधिना सह ।।

शैशुमारं शुभं चक्रं चकार नभसि स्थितम् ।। ६ ।।

गृहीत्वा सकलास्तारा ग्रहान्सर्वान्यथाविधि ।।

स्थापयामास भगवान्यथायोग्यं पितामहः ।।७।।

पुनर्वै ज्योतिषां चक्रैः शोषिता सकला मही ।।

स्थलीभूयायुताब्दान्ते दृश्यमाना बभूव ह ।। ८ ।।

तदा स भगवान्ब्रह्मा मुखात्सोमं चकार ह ।।

द्विजराजं महाप्राज्ञं सर्ववेदविशारदम् ।। ९ ।।

भुजाभ्यां भगवान्ब्रह्मा क्षत्रराजं महाबलम् ।।

सूर्यं च जनयामास राजनीतिपरायणम् ।। 3.4.5.१० ।।

ऊरुभ्यां वैश्यराजं च समुद्रं सरितां पतिम्।।

रत्नाकरं च कृतवान्परमेष्ठी पितामहः ।।११।।

पद्भ्यां च जनयामास विश्वकर्माणमुत्तमम् ।।

दक्षं नाम कलाभिज्ञं शूद्रराजं सुकृत्यकम् ।।१२।।

सोमाद्वै ब्राह्मणा जाताः सूर्याद्राजन्यवंशजाः ।।

समुद्रात्सकला वैश्या दक्षाच्छूद्रा बभूविरे ।।१३।।

सूर्यमंडलतो जातो मनुर्वैवस्वतः स्वयम् ।।

तस्य राज्यमभूत्सर्वं प्राणिनां लोकवासिनाम् ।।१४।।

दिव्यानां च युगानां च तज्ज्ञेयं चैकसप्ततिः ।।

तदा स भगवान्विष्णुर्विश्वरूपाऽवतारकः ।। १५ ।।

विष्णुः पूर्वार्द्धतो जातः परार्द्धाद्वामनः स्वयम् ।।

बालः सत्ययुगे देवो विश्वरूपः सनातनः ।।१६।।

चतुश्शतानि वर्षाणि परमायुर्नृणां तदा ।।

त्रेतायां यौवनं प्राप्तः पूर्वार्द्धात्संभवो हरेः ।। १७ ।।

वर्षाणां त्रिशतानां च नृणामायुः प्रकीर्तितम् ।।

द्वापरे वार्द्धिको देवो नृणामायुः शतद्वयम् ।। १८ ।।

कलौ तु मरणं प्राप्तो विश्वरूपो हरिः स्वयम् ।।

नृणामायुः शताब्दं च केषांचिद्धर्मशालिनाम् ।। १९ ।।

परार्द्धाद्वामनो देवो महेन्द्रावरजो हरिः ।।

चतुर्भुजो महाश्यामो गरुडोपरि संस्थितः ।। 3.4.5.२० ।।

विश्वरूपहितार्थाय त्रियुगी संबभूव ह ।।

वामनार्द्धाच्च त्रियुगी जातो नारायणः स्वयम्।।२१।।

श्वेतरूपो हरिः सत्ये हंसाख्यो भगवान्स्वयम् ।।

त्रेतायां रक्तरूपश्च यज्ञाख्यो भगवान्स्वयम् ।।

द्वापरे पीतरूपश्च स्वर्णगर्भो हरिः स्वयम् ।।२२।।

कलिकाले तु संप्राप्ते संध्यायां द्वापरे युगे ।।

कला तु सकला विष्णोर्वामनस्य तथा कला ।।

एकीभूता च देवक्यां जातो विष्णुस्तदा स्वयम् ।। २३ ।।

वसुदेवगृहे रम्ये मथुरायां च देवताः ।।

ब्रह्माद्यास्तुष्टुवुर्देवं परं ब्रह्म सनातनम् ।। २४ ।।

तदा प्रसन्नो भगवान्देवानाह शुभं वचः ।।

देवानां च हितार्थाय दैत्यानां निधनाय च ।।

अहं कलौ च बहुधा भवामि सुरसत्तमाः ।। २५ ।।

दिव्यं वृंदावनं रम्यं सूक्ष्मं भूतलसंस्थितम् ।।

तत्राहं च रहःक्रीडां करिष्यामि कलौ युगे ।। २६ ।।

सर्वे वेदाः कलौ घोरे गोपीभूताः समंततः ।।

रंस्यन्ते हि मया सार्द्धं त्यक्त्वा भूमंडलं तदा ।। २७ ।।

राधया प्रार्थितोऽहं वै यदा कलियुगांतके ।।

समाप्य च रहःक्रीडां कल्की च भवितास्म्यहम् ।। २८ ।।

युगांतप्रलयं कृत्वा पुनर्भूत्वा द्विधातनुः ।।

सत्यधर्मं करिष्यामि सत्ये प्राप्ते सुरोत्तमाः ।। २९ ।।

इति श्रुत्वा तु ते देवास्तत्रैवान्तर्लयं गताः ।।

एवं युगेयुगे क्रीडा हरेरद्भुतकर्मणः ।। 3.4.5.३० ।।

ये तु वै विष्णुभक्ताश्च ते हि जानंति विश्वगम् ।।

यथैव नृपतेर्दासाः स्वराज्ञः कार्यगौरवम् ।।

जानंति नापरे विप्र तथा दासा हरेः स्वयम् ।।३१।।

विष्णुवांछानुसारेण विष्णुमाया सनातनी ।।

रचित्वा विविधाँल्लोकान्महाकाली बभूव ह ।।३२।।

कृत्वा कालमयं सर्वं जगदेच्चराचरम् ।।

पश्चात्तु भक्षयित्वा तान्महागौरी भविष्यति ।।३३।।

नमस्तस्यै महाकाल्यै विष्णुमाये नमोनमः ।।

महागौरि नमस्तुभ्यमस्मान्पाहि भयान्वितान् ।।३४।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये पंचमोऽध्यायः ।। ५ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 6

।। ऋषिरुवाच ।। ।।

महीराजान्मुनिश्रेष्ठ के राजानो बभूविरे ।।

तान्नो वद महाभाग सर्वज्ञोऽस्ति भवान्सदा ।।१।।

।। सूत उवाच ।। ।।

पैशाचः कुतुकोद्दीनो देहलीराज्यमास्थितः ।।

वलीगढं महारम्यं यादवै रक्षितं पुरम् ।।

ययौ तत्र स पैशाचः शूरायुतसमन्वितः ।।२।।

वीरसेनस्य वै पौत्रं भूपसेनं नृपोत्तमम् ।।

स जित्वा कुतुकोद्दीनो देहलीग्रामसंस्थितः ।। ३ ।।

एतस्मिन्नंतरे भूपा नानादेश्याः समागताः ।।

जित्वा स कुतुकोद्दीनः स्वदेशात्तैर्निराकृतः ।। ४ ।।

सहोद्दीनस्तु तच्छ्रुत्वा पुनरागत्य देहलीम् ।।

जित्वा भूपान्दैत्यवरो मूर्तिखंडमथाकरोत् ।। ५ ।।

तत्पश्चाद्बहुधा म्लेच्छा इहागत्य समन्ततः ।।

पंचषट्सप्तवर्षाणि कृत्वा राज्यं लयं गताः ।। ६ ।।

अद्यप्रभृति देशेऽस्मिञ्छतवर्षान्तरे हि ते ।।

भूत्वा चाल्पायुषो मन्दा देवतीर्थविनाशकाः ।। ७ ।।

म्लेच्छभूपा मुनिश्रेष्ठास्तस्माद्यूयं मया सह ।।

गंतुमर्हथ वै शीघ्रं विशालां नगरीं शुभाम् ।। ८ ।।

इति श्रुत्वा तु वचनं दुःखात्संत्यज्य नैमिषम् ।।

ययुः सर्वे विशालायां हिमाद्रौ गिरिसत्तमे ।। ९ ।।

तत्र सर्वे समाधिस्था ध्यात्वा सर्वमयं हरिम् ।।

शतवर्षान्तरे सर्वे ध्यानाद्ब्रह्मगृहं ययुः ।।3.4.6.१ ०।।

व्यास उवाच ।।

इत्येवं सकलं भाव्यं योगाभ्यासवशाद्द्रुतम् ।।

वर्णितं च मया तुभ्यं किमन्यच्छ्रोतुमिच्छसि । ।। ११ ।।

।। मनुरुवाच ।। ।।

भगवन्वेदतत्त्वज्ञ सर्वलोकशिवंकरः ।।

अहं मायाभवो जातो भवान्वेदभवो भुवि ।। १२ ।।

अविद्यया च सकलं मम ज्ञानं समाहृतम् ।।

अतोऽहं विविधा योनीर्गृहीत्वा लोकमागतः ।।१३।।

परं ब्रह्मैव कृपया दृष्ट्वा मां मंदभागिनम् ।।

व्यासरूपं स्वयं कृत्वा समुद्धर्तुमुपागतः ।। १४ ।।

नमस्तस्मै मुनींद्राय वेदव्यासाय साक्षिणे ।।

अविद्यामोहभावेभ्यो रक्षणाय नमोनमः ।। १५ ।।

पुनरन्यच्च मे ब्रूहि सूताद्यैः किं कृतं मुने ।।

तत्सर्वं कृपया स्वामिन्वक्तुमर्हसि सांप्रतम् ।। १६ ।।

।। व्यास उवाच ।। ।।

ब्रह्मांडे ये स्थिता लोकास्ते सर्वेस्मिन्कलेवरे ।।

अहंकारो हि जीवात्मा सर्वः स्यात्कोटिहीनकः ।। १७ ।।

पुराणोऽणोरणीयांश्च षोडशात्मा सनातनः ।।

इन्द्रियाणि मनश्चैव पञ्च चेन्द्रियगोचराः ।। १८ ।।

ज्ञेयो जीवः शरीरेऽस्मिन्स ईशगुणबंधितः ।।

ईशो ह्यष्टादशात्मा वै शंकरो जीवशंकरः ।। १९ ।।

बुद्धिर्मनश्च विषया इंद्रियाणि तथैव च ।।

अहंकारस्य चेशो वै महादेवः सनातनः ।। 3.4.6.२० ।।

जीवो नारायणस्साक्षाच्छंकरेण विमोहितः ।।

स बद्धस्त्रिगुणैः पाशैरेकश्च बहुधाभवत् ।। ।। २१ ।।

कालात्मा भगवानीशो महाकल्पस्वरूपकः ।।

शिवकल्पो ब्रह्मकल्पो विष्णुकल्पस्तृतीयकः ।।

ईशनेत्राणि तान्येव बन्धकल्पश्चतुर्थकः ।। २२ ।।

वायुकल्पो वह्निकल्पो ब्रह्मांडो लिंगकल्पकः ।।

ईशवक्त्राणि पञ्चैव तत्त्वज्ञैः कथितानि वै ।। २३ ।।

भविष्यकल्पश्च तथा तथा गरुडक ल्पकः ।।

कल्पो भागवतश्चैव मार्कण्डेयश्च कल्पकः ।।२४।।

वामनश्च नृसिंहश्च वराहो मत्स्यकूर्मकौ ।।

ज्ञानात्मनो महेशस्य ज्ञेया दश भुजा बुधैः ।। २५ ।।

अष्टादशदिनेष्वेव ब्रह्मणोऽव्यक्तजन्मनः ।।

कल्पाश्चाष्टादशास्सर्वे बुधैर्ज्ञेया विलोमतः ।। २६ ।।

कूर्मकल्पश्च तत्राद्यो मत्स्यकल्पो द्वितीयकः ।।

तृतीयः श्वेतवाराहः कल्पो ज्ञेयः पुरातनैः ।। २७ ।।

द्विधा च भगवान्ब्रह्मा सूक्ष्मः स्थूलोऽगुणो गुणी ।।

सगुणः स विराण्नाम्ना विष्णु नाभिसमुद्भवः ।। २८ ।।

निर्गुणोव्ययरूपश्चाव्यक्तजन्मा स्वभूः स्वयम् ।।

ब्रह्मणः सगुणस्यैव शतायुः कालनिर्मितम् ।। २९ ।।

ऊनविंशसहस्राणि लक्षैको मानुषाब्दकैः ।।

एभिर्वर्षैर्दिनं ज्ञेयं विराजो ब्रह्मणः स्वयम् ।। 3.4.6.३० ।।

निर्गुणोऽव्यक्तजन्मा च कालात्सर्वेश्वरः परः ।।

अव्यक्तं प्रकृतिर्ज्ञेया द्वादशांगानि वै ततः ।। ३१ ।।

इन्द्रियाणि मनो बुद्धिरव्यक्तस्य स्मृतानि वै ।।

अव्यक्ताच्च परं ब्रह्म सूक्ष्मज्योतिस्तदव्ययम् ।। ३२ ।।

यदा व्यक्ते स्वयं प्राप्तोऽव्यक्तजन्मा हि संस्मृतः ।।

शतवर्षसमाधिस्थो यस्तिष्ठेच्च निरंतरम् ।। ३३ ।।

सूक्ष्मो मनोनिलो भूत्वा गच्छेद्वै ब्रह्मणः पदम् ।।

सत्य लोकमिति ज्ञेयं योगगम्यं सनातनम् ।।३४।।

तत्र स्थाने तु मुनयो गताः सर्वे समाधिना ।।

तत्रोषित्वा च लक्षाब्दं भूर्लोकात्क्षणमात्रकम् ।।३५।।

सच्चिदानंदघनकं ततः प्राप्ताः कलेवरे ।।

नेत्राणि च समुन्मील्य संप्राप्ते द्वितयाह्निके ।। ३६ ।।

ददृशुर्मनुजान्सर्वान्पशुतुल्यान्हि सूक्ष्मकान्।।

षष्ट्यब्दायुर्युतान्घोरान्सार्द्धकिष्कुद्वयोन्नतान् ।।३७।।

क्वचित्क्वचित्स्थिता वर्णा वर्णसंकरसन्निभाः ।।

सर्वे म्लेच्छाश्च पाषंडा बहुरूपमतो स्थिताः ।।३८।।

तीर्थानि सकला वेदास्त्यक्त्वा भूमंडलं तदा ।।

गोप्यो भूत्वा च हरिणा सार्द्धं चक्रुर्महोत्सवम् ३९ ।।

पाषंडा बहुजातीया नानामार्गप्रदर्शकाः ।।

कलिना निर्मितान्वर्णान्वंचयित्वा स्थिता भुवि ।। 3.4.6.४० ।।

इति दृष्ट्वा तु मुनयो रोमहर्षणमंतिके ।।

गत्वा तत्र भविष्यंति ततः प्रांजलयो हि ते ।। ४१ ।।

तैश्च तत्र स्तुतः सूतो योगनिद्रां सनातनीम् ।।

कथयिष्यति संत्यज्य कल्पाख्यानं मुनीन्प्रति ।।

तच्छृणुष्व नृपश्रेष्ठ यथा सूतेन वर्णितम् ।। ४२ ।।

।। सूत उवाच ।। ।।

कल्पाख्यानं प्रवक्ष्यामि यद्दृष्टं योगनिद्रया ।।

तच्छृणुध्वं मुनिश्रेष्ठा लक्षाब्दांते यथाभवत् ।।४३।।

मुकुलान्वयसंभूतो म्लेच्छभूपः पिशाचकः ।।

नाम्ना तिमिरलिंगश्च मध्यदेशमुपाययौ ।। ४४ ।।

आर्यान्म्लेच्छांस्तदा भूपाञ्जित्वा कालस्वरूपकः ।।

देहलीनगरीमध्ये महावधमकारयत् ।। ४५ ।।

आहूय सकलान्विप्रानार्यदेशनिवासिनः ।।

उवाच वचनं धीमान्यूयं मूर्तिप्रपूजकाः ।। ४६ ।।

निर्मिता येन वा मूर्तिस्तस्य पुत्रीसमा स्मृता ।।

तस्याः किं पूजनं शुद्धं शालग्रामशिलामयम् ।।

विष्णुदेवश्च युष्माभिः प्रोक्तः स तु न वै हरिः ।। ४७ ।।

अतो वः सकला वेदाः शास्त्राणि विविधानि च ।।

वृथा कृतानि मुनिभिर्लोकवञ्चनहेतवे ।।

इत्युक्त्वा तान्बलाद्गृह्य ज्वलदग्नौ समाक्षिपत् ।।४८।।

शालग्रामशिलाः सर्वा बलात्तेषां सुपूज्यकाः ।।

गृहीत्वा चोष्ट्रपृष्ठेषु समारोप्य गृहं ययौ ।।४९।।

तैत्तिरं देशमागम्य दुर्गं तत्र चकार सः ।।

शालग्रामशिलानां च स्वासनारोहणं कृतम् ।। 3.4.6.५० ।।

तदा तु सकला देवा दुःखिता वासवं प्रभुम् ।।

समूचुर्बहुधालप्य देवदेवं शचीपतिम् ।।५१।।

वयं तु भगवन्सर्वे शालग्रामशिलास्थिताः ।।

त्यक्त्वा मूर्तीश्च सकलाः कृष्णांशेन प्रबोधिताः ।।

शालग्रामशिलामध्ये वसामो मुदिता वयम् ।।५२ ।।

शिलास्सर्वाश्च नो देव शालदेशसमुद्भवाः ।।

ताश्च वै म्लेच्छराजेन स्वपदारोहणीकृताः ।।५३।।

इति श्रुत्वा तु वचनं देवानां भगवान्स्वराट्।।

ज्ञात्वा बलिकृतं सर्वं देवपूजानिराकृतम् ।। ५४ ।।

चुकोप भगवानिन्द्रो दैत्यान्प्रत्यभ्रवाहनः ।।

गृहीत्वा वज्रमतुलं स्वायुधं दैत्यनाशनम् ।।

तैत्तिरे प्रेषयामास देशे म्लेच्छनिवासके ।। ५५ ।।

तस्य शब्देन सकला देशाश्च बहुभिन्नकाः ।।

स म्लेच्छो मरणं प्राप्तस्तदा सर्वसभाजनैः ।।५६।।

शालग्रामशिलाः सर्वा गृहीत्वा विबुधास्तदा ।।

गंडक्यां च समाक्षिप्य स्वर्गलोकमुपाययुः ।।५७।।

महेन्द्रस्तु सुरैः सार्द्धं देवपूज्यमुवाच ह ।।

महीतले कलौ प्राप्ते भगवन्दानवोत्तमाः ।।५८।।

वेदधर्मं समुल्लंघ्य मम नाशनतत्पराः ।।

अतो मां रक्ष भगवन्देवैः सार्द्धं कलौ युगे ।।५९।।

।।जीव उवाच ।। ।।

महेन्द्र तव या पत्नी शची नाम्ना महोत्तमा ।।

ददौ तस्यै वरं विष्णुर्भवितास्मि सुतः कलौ ।।3.4.6.६०।।

त्वदाज्ञया च सा देवी पुरीं शांतिमयीं शुभाम्।।

गौडदेशे च गंगायाः कूले लोकनिवासिनीम् ।।६१।।

प्रत्यागत्य द्विजो भूत्वा कार्यसिद्धिं करिष्यति ।।

भवान्वै ब्राह्मणो भूत्वा देवकार्यं प्रसाधय ।। ।। ६२ ।।

इति श्रुत्वा गुरोर्वाक्यं रुद्रैरेकादशैः सह ।।

अष्टभिर्वसुभिः सार्धमश्विभ्यां स च वासवः ।। ६३ ।।

तीर्थराजमुपागम्य प्रयागं च रविप्रियम्।।

माघे तु मकरे सूर्ये सूर्यदेवमतोषयत्।। ६४ ।।

बृहस्पतिस्तदागत्य सूर्यमाहात्म्यमुत्तमम्।।

इन्द्रादीन्कथयामास द्वादशाध्यायमापठन्।।६५।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये प्रमरवंशवर्णनो नाम षष्ठोऽध्यायः ।। ६ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 7

ऋषय ऊचुः ।। ।।

बृहस्पतिस्तु भगवान्मुनिर्देवान्समास्थितान् ।।

किं प्रोवाच च माहात्म्यं मंडलस्थस्य वै रवेः ।।१।।

तत्सर्वं कृपया ब्रह्मन्ब्रूहि नस्तत्समुत्सुकान् ।।

इति श्रुत्वा वचस्तेषां सूतो वचनमब्रवीत् ।।२।।

बृहस्पतिं समासीनं जीवरूपं गुणालयम् ।।

प्रयागस्थो महेन्द्रश्च सुरैः सार्द्धमुवाच ह।।३।।

कथयस्व महाभाग सूर्यमाहात्म्यमुत्तमम्।।

यच्छ्रुतेन रविः साक्षात्प्रसन्नोद्य भवेत्प्रभुः।।४।।

बृहस्पतिरुवाच।।

धातृशर्मा द्विजः कश्चिदपत्यार्थे प्रजापतिम्।।

तपसा तोषयामास बर्हिष्मतिपुरे स्थितः।।५।।

पंचमाब्दे तु भगवान्संतुष्टश्च प्रजापतिः।।

सुतं कन्यां पुनः पुत्रं त्रीण्यपत्यानि संददौ ।।६।।

वर्षांतरे जनयित्वा त्र्यपत्य स द्विजोत्तमः ।।

धातृशर्मा परं हर्षमाप्तवान्पुत्रलालनैः ।। ७ ।।

विवाहाश्च कथं तेषां भवितव्या महोत्तमाः ।।

इति चिन्तान्वितो विप्रो गंधर्वेशं च तुम्बुरुम् ।। ८ ।।

हवनैस्तोषयामास वर्षमात्रविधानतः ।।

तुम्बुरुश्च तदागत्य तं चकार मनोरथम् ।। ९ ।।

प्रसन्नस्तु तदा विप्रो वधूर्जामातरं मुदा ।।

दृष्ट्वा तेषां विहारं च पुनश्चिंतां चकार ह ।। 3.4.7.१० ।।

भूषणानि च वासांसि धनानि विविधानि च ।।

तेषां कथं भविष्यंति निर्धनानां ममाशुच ।। ११ ।।

षष्टिवर्षमयो भूत्वा चंदनाद्यैर्धनाधिपम् ।।

विधिवत्पूजयामास वर्षमात्रं तु तत्परः ।। १२ ।।

तदा प्रसन्नो भगवान्ददौ तस्मै धनं बहु ।।

विद्यां यक्षमयीं रम्यां पंचस्वर्णप्रदां मुदा ।। १३ ।।

सहस्रजापी संपूज्य हवनं तद्दशांशकम् ।।

तर्पणं मार्जनं चैव कृत्वा वांछामवाप्तवान् ।।१४।।

इत्येवं वर्तमानस्य गतः कालो महान्स्वयम् ।।

मृत्योरागमनं तस्य जातं रोगसमन्वितम् ।। १५ ।।

पीडितस्तु रुजा विप्रः शंकरं लोकशंकरम् ।।

स्तुतिभिः श्रुतिरूपाभिस्तुष्टाव बलवर्जितः ।।

मासमात्रेण भगवान्ददौ ज्ञानं स्वयं हरः ।। १६ ।।

धातृशर्मा तु तत्प्राप्य भास्करं मोहनाशनम् ।।

सूर्यवारव्रतैस्तत्र तोषयामास नम्रधीः ।। १७ ।।

पंचाब्दे भगवान्सूर्यो भक्तिभावेन वत्सलः ।।

चैत्र्यां तमाह वचनं वरं ब्रूहि पुनः पुनः ।। १८ ।।

धातृशर्मा तु तच्छ्रुत्वा भास्करं मोहनाशनम् ।।

प्रश्रयावनतो भूत्वा तुष्टाव परया गिरा।। १९ ।।

।। धातृशर्मोवाच ।। ।।

प्रवृत्तिश्च निवृत्तिश्च मनसोस्य तनौ प्रिया ।।

रात्रिरूपा प्रवृत्तिश्च निवृत्तिर्दिनरूपिणी।।

भवतस्तेजसा जाते लोकबंधनहेतवे।।3.4.7.२०।।

अव्यक्ते तु स्थितं तेजो भवतो दिव्यसूक्ष्मकम्।।

त्रिधाभूतं तु विश्वाय तस्मै तेजात्मने नमः ।। २१ ।।

राजसी या स्मृता बुद्धिस्तत्पतिर्भगवान्विधिः।।

भवतस्तेजसा जातस्तस्मै ते विधये नमः।।२२।।

सात्त्विकी या तनौ बुद्धिस्तत्पतिर्भगवान्हरिः।।

भवता निर्मितस्सत्त्वात्तस्मै ते हरये नमः ।। २३ ।।

तामसी मोहना बुद्धिस्तत्पतिश्च स्वयं शिवः ।।

तमोभूतेन भवता जातस्तस्मै नमोनमः ।।

देहि मे भगवन्मोक्षं संज्ञाकांत नमोनमः ।। २४ ।।

।। बृहस्पतिरुवाच ।। ।।

इत्येवं संस्तुतस्तेन भगवान्धातृशर्मणा ।।

महेन्द्रवचनं प्राह तं द्विजं ज्ञानकोविदम् ।। २५ ।।

मोक्षश्चतुर्विधो विप्र सालोक्यं तपसोद्भवम् ।।

सामीप्यं भक्तितो जातं सारूप्यं ध्यानसंभवम् ।। ।। २६ ।।

सायुज्यं ज्ञानतो ज्ञेयं तेषां स्वामी परः पुमान् ।।

सगुणो विगुणो ज्ञेय आनन्दो मोक्षिणां क्रमात् ।। २७ ।।

देवानां चैव देहेषु ये मोक्षाः पुनरागताः ।।

यद्गत्वा न निवर्तंते तद्विष्णोः परमं पदम् ।। २८ ।।

यत्प्रसन्नेन विप्रेन्द्र सायुज्यं मे भवेत्तव ।।

मनुमात्रश्च यः कालस्तावत्ते मोक्ष आस्थितः ।।

इत्युक्त्वांतर्दधे देवस्तेन मोक्षीकृतो द्विजः ।। २९ ।।

।। सूत उवाच ।। ।।

इत्युक्तवंतं वागीशं चैत्रमासे दिवाकरः ।।

स्वरूपं दर्शयामास देवदेवः सनातनः ।। 3.4.7.३० ।।

शृणुध्वं सकला देवा यन्निमिताः समागताः ।।

वंगीये स्वांशमुत्पाद्य देवकार्यं करोम्यहम् ।। ३१ ।।

इत्युक्त्वा स्वमुखात्तेजः समुत्पाद्य दिवाकरः ।।

स्वभक्तायै सुकन्यायै द्विजपत्न्यै ददौ हि तत् ।। ३२ ।।

धातृशर्मा द्विजो यो वै सूर्ये मोक्षमुपागतः ।।

स वै तत्तेजसा जातः काव्यकारस्य मंदिरे ।। ३३ ।।

ईश्वरो नाम विख्यातः पुरीशद्वान्त आत्मवान् ।।

जित्वा विप्रान्वेदपरान्महतीं कीर्तिमाप्तवान्।।३४।।

इति ते कथितं विप्र यथा जीवनभाषितम् ।।

पुनः शृणु कथां रम्यां देवभ्यो जीवनिर्मिताम् ।। ३५ ।।

।। बृहस्पतिरुवाच।। ।।

मायावत्यां द्विजः कश्चिन्मित्रशर्मेति विश्रुतः ।।

काव्यविद्यापरो नित्यं रसिकः कामिनीप्रियः ।। ३६ ।।

कुंभराशिं मयि प्राप्ते गंगाद्वारे महोत्सवः ।।

बभूव बहु लैर्भूपेः कारितस्तीर्थतत्परैः ।। ३७ ।।

तत्रोत्सवे नरा नार्य्यो बहुभूषणभूषिताः ।।

समाययुर्दर्शनार्थे परमानन्दनिर्भराः ।। ३८ ।।

मित्रशर्मा तु स प्राप्य कामसेनस्य वै सुताम् ।।

काव्यकेलिकलायुक्तां द्वादशाब्दमयीं शुभाम्।। ३९ ।।

दाक्षिणात्यस्य भूपस्य तनयां मधुराननाम् ।।

दृष्ट्वा तां मृगशावाक्षीं तद्वशित्वमुपागतः ।। 3.4.7.४० ।।

सा तु तं चित्रिणी नाम्ना मित्रशर्माणमुत्तमम् ।।

दृष्ट्वा तु मूर्च्छिता चासीद्विप्रमूर्तिर्हदि स्थिता ।। ४१ ।।

स्वगेहं पुनरागत्य चित्रिणी भास्करं प्रभुम् ।।

प्रत्यहं पूजयामास बहुमानपुरस्सरा ।। ४२ ।।

मित्रशर्मा तु तत्स्थाने गंगाकूले मनोहरे ।।

प्रातः स्नात्वा शुचिर्भूत्वा वैशाखे जलमध्यगः ।। ४३ ।।

स्तोत्रमादित्यहृदयमजपत्सूर्यतत्परः ।।

प्रत्यहं द्वादशावर्तैस्तोषयामास भास्करम् ।। ४४ ।।

मासान्ते भगवान्सूर्यो ददौ तस्मै हि तं वरम् ।।

स तु लब्धवरो विप्रः स्वगेहं पुनरागतः ।। ४५ ।।

चित्रिणी तु वरं प्राप्ता वांछितं लोकभास्करात् ।।

पुनस्तौ पितरौ स्वप्ने भास्करेण प्रबोधितौ ।। ४६ ।।

मित्रशर्माणमाहूय वरयामासतुः सुताम् ।।

स्वान्ते निवासयामास कामसेनश्च दंपती।।४७।।

तौ तु चक्रं मुदाविष्टौ प्रत्यहं सूर्यदेवतम् ।।

ताम्रपात्रे च तद्यंत्रं लेखयित्वा विधानतः ।। ४८ ।।

ईजतू रक्तकुसुमैर्व्रतं कृत्वा रविप्रियम् ।। ४९ ।।

शताब्दवपुषौ चोभौ निर्जरौ श्रमवर्जितौ ।।

आरोग्यौ मरणं प्राप्य सामीप्यं च रवेर्गतौ ।। 3.4.7.५० ।।

इति श्रुत्वा रवेर्गाथां वैशाख्यां देवराट् स्वयम् ।।

प्रत्यक्षं भास्करं देवं ददर्श सहितं सुरैः ।। ५१ ।।

भक्तिनम्रान्सुरान्दृष्ट्वा भगवांस्तिमिरापहः ।।

उवाच वचनं रम्यं देवकार्यपरं शुभम् ।।

ममांशात्तनयो भूमौ भविष्यति सुरोत्तम ।। ५२ ।।

।। सूत उवाच ।। ।।

इत्युक्त्वा स्वस्य बिंबस्य तेजोराशिं समन्ततः ।।

समुत्पाद्य कृतः काश्यां रामानंदस्ततोभवत् ।। ५३ ।।

देवलस्य च विप्रस्य कान्यकुब्जस्य वै सुतः ।।

बाल्यात्प्रभृति स ज्ञानी रामनामपरायणः ।।

पित्रा मात्रा परित्यक्तो राघवं शरणं गतः ।। ५४ ।।

तदा तु भगवान्साक्षाच्चतुर्दशकलो हरिः ।।

सीतापतिस्तद्धृदये निवासं कृतवान्मुदा ।। ५५ ।।

इति ते कथितं विप्र मित्रदेवांशतो यथा ।।

रामानंदस्तु बलवान्हरिभक्तेश्च संभवः ।। ५६ ।।

।। बृहस्पतिरुवाच ।। ।।

शृणु शक्र कथां रम्यां ज्येष्ठमासस्य वै रवेः।।

अर्यमा नाम वै विप्रः पुरा सत्ययुगे ह्यभूत् ।।

वेदवेदांगतत्त्वज्ञो धर्मशास्त्रपरायणः ।। ५७ ।।

तस्य पत्नी पितृमती श्राद्धयज्ञस्य भूपतेः ।।

तनया च महासाध्वी सप्त पुत्रानकल्मषान् ।।

अर्यम्णो जनयामास धर्मशास्त्रपरायणन्।। ५८ ।।

एकदा स द्विजो धीमान्विचार्य्य बहुधा हृदि।।

धनार्थी भास्करं देवं तुष्टाव बहुपूजनैः ।। ५९ ।।

प्रभाते श्वेतकुसुमैश्चन्दनादिभिरर्चनैः ।।

मध्याह्ने रक्तकुसुमैः पीतपुष्पैः पितृप्रसौ ।। 3.4.7.६० ।।

मासमात्रं तु विधिना पूजयामास भास्करम् ।।

ज्येष्ठे वै भगवान्सूर्यो ददौ तस्मै मणिं शुभम् ।। ६१ ।।

तन्मणेश्च प्रभावेण प्रस्थमात्रं च कांचनम् ।।

प्रत्यहं जनयामास तेन धर्मः समर्जितः ।। ६२ ।।

वापीकूपतडागान्हि तथा हर्म्याणि भूतले ।।

कारयामास धर्मार्थी सूर्यदेवप्रसादतः ।। ६३ ।।

सहस्राब्द वपुर्भूत्वा निर्जरो निरुपद्रवः ।।

त्यक्त्वा कलेवरं रम्यं सूर्यलोकमुपाययौ ।।

उषित्वा तत्र लक्षाब्दं सूर्यरूपो बभूव ह ।। ६४ ।।

इत्येवं भास्करस्यैव माहात्म्यं कथितं मया ।।

तस्माच्छक्र सुरैः सार्द्धं भज मंडलगं रविम् ।। ६५ ।।

इति श्रुत्वा तु ते देवाः पद्यैः सूर्यकथा मयैः ।।

तोषयांचक्रिरे प्रेम्णा ज्येष्ठमासि रविस्त्वसौ ।।

प्रत्यक्षमभवत्तत्र देवानाह प्रसन्नधीः ।। ६६ ।।

सुदर्शनो द्वापरान्ते कृष्णाज्ञप्तो जनिष्यति ।। ६७ ।।

निम्बादित्य इति ख्यातो धर्मग्लानिं हरिष्यति ।।

।। सूत उवाच ।। ।।

शृणुष्व चरितं तस्य निम्बार्कस्य महात्मनः ।। ६८ ।।

यमाह भगवान्कृष्णः कुरु कार्यं ममाज्ञया ।।

मेरोश्च दक्षिणे पार्श्वे नर्मदायास्तटे शुभे ।। ६९ ।।

देशे तैलंगके रम्ये देवर्षिवरसेविते ।।

तत्रावतीर्य सद्धर्मान्नारदाद्देवदर्शनात् ।। 3.4.7.७० ।।

लब्ध्वा भूमौ वर्तयस्व नष्टप्रायान्ममाज्ञया ।।

माथुरे नैमिषारण्ये द्वारवत्यां ममाश्रमे ।। ७१ ।।

सुदर्शनाश्रमादौ च स्थितिः कार्या त्वयानघ ।।

ओमित्यादेशमादाय भगवाञ्श्रीसुदर्शनः ।। ७२ ।।

भक्ताभीष्टप्रदः साक्षादवतीर्णो महीतले ।।

देशे तैलंगके पुण्ये द्विजवर्यो महामना ।। ७३ ।।

सुदर्शनाश्रमे पुण्ये भृगुवंशसमुद्भवः ।।

नाम्नाऽऽरुण इति ख्यातो वेदवेदांगपारगः ।। ७४ ।।

ऋषिरूपधरश्चासीज्जयंत्या भार्यया सह ।।

समाहितं तेन तेजो विष्णुचक्रसमुद्भवम् ।। ७५ ।।

दधार मनसा देवी जयन्ती पतिदेवता ।।

तेजसा शुशुभे तेन चन्द्रेणेव दिशामला ।। ७६ ।।

अथ सर्वगुणोपेते काले परमशोभने ।।

कार्त्तिकस्य सिते पक्षे पूर्णिमायां वृषे विधौ ।। ७७ ।।

कृत्तिकाभे महारम्ये उच्चस्थे ग्रहपं चक्रे ।।

सूर्यावसानसमये मेषलग्ने निशामुखे ।। ७८ ।।

जयन्त्यां जयरूपिण्यां जजान जगदीश्वरः ।।

येन सर्वमिदं विश्वं वेदधर्मे नियोजितम्।। ।। ७९ ।।

विरिञ्चिरेकदा तस्मिन्निम्बार्कस्याश्रमे शुभे ।।

समागत्याह भो ब्रह्मन्प्राप्तोऽहं क्षुधयान्वितः ।। 3.4.7.८० ।।

यावत्सूर्यः स्थितो व्योम्नि तावन्मां भोजय द्विज ।।

इति श्रुत्वा तथेत्युक्त्वा ददौ तस्मै च भोजनम् ।। ८१ ।।

तदा तु भगवान्सूर्यो ह्यस्ताचलमुपागतः ।।

मुनिना ऋषिणा तेन निम्ब वृक्षे तदा शुभे ।। ८२ ।।

स्थापितं तेजसा स्वेन तेजस्तत्त्वं सुदर्शनम् ।।

तत्तेजः सूर्यसंकाशं दृष्ट्वा वेधाः स्मयान्वितः ।। ८३ ।।

भिक्षुवेषधरं बालं मुनिं सूर्यमिवापरम् ।।

ननाम दंडवद्भूमौ तपसा तस्य तोषितः ।।८४।।

उवाच वचनं रम्यं साधु साध्विति पूजयन्।।

निम्बादित्य इति ख्यातो वसुधायां भविष्यसि ।। ८५ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये रामानंदनिंबार्कसमुत्पात्तिवर्णनं नाम सप्तमोऽध्यायः ॥ ७॥

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 8

॥ बृहस्पतिरुवाच ॥ ॥

पुरा त्रेतायुगे शक्र शक्रशर्मा द्विजो ह्यभूत् ।

अयोध्यायां महाभागो देवपूजनतत्परः ॥ १ ॥

अश्विनौ च तथा रुद्वान्वसून्सूर्यान्पृथक्पृथक् ॥

यजुर्वेदमयैर्मंत्रैरर्चयित्वा प्रसन्नधीः ॥

हव्यैश्च तर्पयामास देवाँस्तान्प्रत्यहं द्विजः ॥ २ ॥

तद्भावतस्त्रयस्त्रिंशद्देवाः क्षुद्रगणैर्युताः ॥

दुदुर्मनोरथं तस्मै दुर्लभं सुलभीकृतम् ॥ ३ ।

दशवर्षसहस्राणि निर्जरो निरुपद्रवः ॥

पश्चात्कलेवरं त्यक्त्वा पश्चात्सूर्यो बभूव सः ।। ४ ।

लक्षाब्दं मण्डले तस्मिन्नधिकारः कृतस्ततः ।।

ब्रह्मलोकं ययौ विप्रः सर्वदेवप्रसादतः॥ ५॥

अष्टवर्षसहस्राणि दिव्यानि पदमुत्तमम् ॥

विलोक्य मंडले प्राप्तं तं सूर्यं जपपूजनैः ।। ६॥

इति श्रुत्वा तु वचनं महेन्द्रः सुरसंयुतः ॥

आषाढे भास्करं देवं पूजयामास नम्रधीः ॥ ७ ॥

आषाढपूर्णिमायां च स देवो जगतीतले॥

प्रत्यक्षमगमत्तत्र सुरानाह शृणुष्व तत् ॥८॥

वृन्दावने महारम्ये जनयिष्ये कलौ भये ॥

स द्विजः सूर्यरूपश्च देवकार्यं करिष्यति ॥ ९ ॥

माधवस्य द्विजस्यैव तनयः स भविष्यति ॥

मधुर्नाम महाभागो वेदमार्गपरायणः ॥3.4.8.१०॥

॥ सूत उवाच ॥ ॥

इत्युक्त्वा भगवान्सूर्यो देवकार्यार्थमुद्यतः॥

स्वांगात्तु तेज उत्पाद्य वृंदावनमप्रे(पे?)षयत् ॥ ११॥

विमुखान्मधुरालापैर्वशीकृत्य समन्ततः ॥

तेभ्यश्च वैष्णवीं शक्तिं प्रददौ भुक्तिमुक्तिदाम् ।

मध्वाचार्य इति ख्यातः प्रसिद्धोऽभून्महीतले।॥ १२॥

जीव उवाच ॥ ॥

द्वापरे च द्विजश्रेष्ठो मेघशर्मा बभूव ह ॥

ज्ञानवान्मतिमान्धर्मी वेदमार्गपरायणः॥ १३॥

कृषिकृत्यपरो नित्यं तद्धनैश्च दशांशकैः ॥

प्रत्यहं सकलान्देवानर्चयामास भक्तिमान् ॥१४॥

एकदा पञ्चवर्षाब्दे शन्तनौ च महीपतौ ॥

संप्राप्ते तस्य वै देशे ह्यनावृष्टिर्बभूव ह॥१५॥

क्रोशमात्रं हि तत्क्षेत्रं पर्जन्येनैव सेचितम् ॥

धान्यानां द्रोणमानश्च भावोऽभूदेकमुद्रया॥१६॥

मेघशर्मा तदा तत्र धनधान्ययुतोऽभवत्।

अन्ये तु पीडिता लोका राजानं शरण ययुः।।१७।।

तदा तु दुःखितो राजा मेघशर्माणमाह्वयत् ।।

द्विजश्रेष्ठ नमस्तुभ्यं गुरुर्भव मम प्रियः ।। १८ ।।

अनावृष्टिर्यथा न स्यात्तथा विप्र समादिश ।।१९।।

इत्येवंवादिनं भूपं मेघशर्मा वचोऽब्रवीत् ।।

श्रावणे मासि संप्राप्ते विप्रान्वेदपरायणान्।। 3.4.8.२०।।

द्वादशैव समाहूय लक्षमात्रं रवेः स्वयम्।।

जापयित्वा सुमनसा पूर्णिमायां तु तद्व्रती ।।

सूर्यमन्त्राहुतीर्वह्नौ तद्दशांशं हि तद्द्विजैः ।। २१ ।।

कारयित्वा विधानेन कृतकृत्यः सुखी भव ।।

इति श्रुत्वा तथा कृत्वा भोजयामास वेदगान्।।२२।।

प्रसन्नस्तु तदा सूर्यः पर्जन्यात्मा समन्ततः।।

भूमिमाच्छाद्य स दिशं प्रभुर्वृष्टिमकारयत्।।२३।।

शन्तनुस्तु तदा राजा सूर्यव्रतपरायणः ।।

तद्व्रतेन महापुण्यो बभूव नृपसत्तमः ।। २४।।

यं यं करेण स्पृशति वृद्धो भवति वै युवा ।।

सूर्यदेवप्रभावेन मेघशर्मा तथा ह्यभूत्।। २५ ।।

स वै पंचशतायुश्च निर्जरो निरुपद्रवः ।।

त्यक्त्वा प्राणान्रविर्भूत्वा सूर्यलोकमुपागमत्।।

लक्षाब्द भुवमासाद्य ब्रह्मलोकं गमिष्यति ।।२६।।

इत्येवंवादिनं जीवं पर्जन्यो भगवान्रविः ।।

स्वरूपं दर्शयामास प्रयागं प्रति चागतः ।। २७ ।।

मुरा नाह प्रसन्नात्मा म्लेच्छराज्ये कलौ युगे ।।

वृन्दावने समागम्य देवकार्यं करोम्यहम् ।। २८ ।।

।। सूत उवाच ।। ।।

इत्युक्त्वा भगवान्सूर्यो गत्वा वृन्दावनं शुभम् ।।

श्रीधरो नाम विख्यातः पुत्रोभूद्वेदशर्मणः ।। २९ ।।

श्रीमद्भागवतं शास्त्रं समालोक्य विशारदः ।।

चकार विदुषामर्थे प्रदीप्तं श्रीधरः शुभम् ।।

श्रीमद्भागवतं शास्त्रं पुराणोपरि तत्कृतम् ।। 3.4.8.३० ।।

।। जीव उवाच ।। ।।

पुरा कलौ युगे प्राप्ते प्रांशुशर्मा द्विजोऽभवत्।।

वेदशास्त्रपरो नित्यं देवतातिथिपूजकः ।। ३१ ।।

सत्यवादी महासाधुः स्तेयहिंसाविवर्जितः ।।

भिक्षावृत्तिपरो नित्यं पुत्रदारप्रपोषकः ।। ३२ ।।

एकदा पथि भिक्षार्थं गच्छतस्तस्य भूपतेः ।।

मायाकृत्यकरो धूर्तः कलिस्तत्राक्षिगोचरः ।। ३३ ।।

बभूव वाटिकां कृत्वा कलिर्दानमनोहराम् ।।

तमुवाच द्विजो भूत्वा प्रांशुशर्मन्वचः शृणु ।। ३४ ।।

ममेयं वाटिका रम्या तत्र गच्छ सुखी भव ।।

इति विप्रवचः श्रुत्वा वाटिकां तां समागतः ।। ३५ ।।

कलिस्तु वाटिकामध्ये गत्वा रम्यफलानि च ।।

त्रोटयित्वा ददौ तस्मै भोजनार्थं महाखलः ।। ३६ ।।

प्रांजलिः प्रणतो भूत्वा प्रांशुशर्माणमब्रवीत् ।।

भुंक्ष्व विप्र मया सार्द्धं कलिंदस्य फलं शुभम् ।। ३७ ।।

इत्युक्तः स तु तं प्राह विहस्य मधुर स्वरम् ।।

वृक्षे बिभीतके चैव कलिंदस्य फले तथा ।।

कलिः प्राप्तः स्मृतः प्राज्ञैस्तस्माद्गृह्णाम्यहं न हि ।। ३८ ।।

यदि दत्तं फलं भक्त्या त्वयाद्य द्विजसेविना ।।

शालग्रामाय वै दत्त्वा प्रसादं तद्भजाम्यहम् ।।

शालग्रामः स्वयं ब्रह्म सच्चिदानन्दविग्रहः ।। ३९ ।।

दर्शनात्तस्य चाभक्ष्यो भक्ष्यो भवति निश्चितः ।।

इति श्रुत्वा कलिस्तत्र लज्जितोऽभून्निराशकः ।।

द्विजस्तु तत्फलं गृह्य भूमिग्राममुपाययौ ।।3.4.8.४०।।

नृपतिस्तत्र चागत्य द्विजमाह प्रसन्नधीः ।।

किं गृहीतं त्वया विप्र दर्शयाशु प्रियं कुरु ।। ४१ ।।

इति श्रुत्वा प्रांशुशर्मा तत्फलं वत्समुंडवत् ।।

गृहीत्वा प्रददौ राज्ञे विस्मितो द्विजसत्तमः ।। ४२ ।।

तदा तु स कलिर्भूपस्तं विप्रं ताड्य वेतसैः ।।

कारागारे लोहमये कृतवान्न्यायमित्रकः ।। ।। ४३ ।।

प्रातःकाले रवौ प्राप्ते प्रांशुशर्मा सुदुःखितः ।।

तुष्टाव भास्करं देवं स्तोत्रैर्ऋग्वेदसंभवैः ।। ४४ ।।

तदा प्रसन्नो भगवान्रविः साक्षात्सनातनः ।।

विप्रस्य कर्णयोर्वाक्यमुवाच नभसेरितम् ।। ४५ ।।

शृणु विप्र महाभाग कालरूपो हरिः स्वयम् ।।

चतुर्युगं तेन कृतं विश्वपालादिहेतवे ।। ४६ ।।

कलिर्विश्वसमूहानां मृत्यवे रचितस्तथा ।।

अतो घोरे कलौ प्राप्ते विष्णुमायाविनिर्मितम् ।।

कलिञ्जरं च नगरं तत्रोष्य मुदितो भव ।। ४७ ।।

इत्युक्त्वा रक्षणं कृत्वा तस्य विप्रस्य भास्करः ।।

कलिञ्जरे च नगरे प्रेषयामास तं द्विजम् ।। ।। ४८ ।।

सपादशतवर्षं च द्विजस्तत्र वसन्रविम् ।।

आराध्य पुत्रपत्नीको रविलोकमुपाययौ ।। ४९ ।।

स वै भाद्रपदे मासि सूर्यो भूत्वायुताब्दकम्।।

पश्चाद्ब्रह्मपुरं प्राप्य परमानन्दमाप्तवान् ।।

इति ते कथितं विप्र यथा जीवस्तमब्रवीत् ।। 3.4.8.५० ।।

आगत्य भास्करो देवः पूर्णिमायां तु भाद्रके ।।

अष्टाविंशे कलौ प्राप्ते स्वयं जातः कलिञ्जरे ।। ५१ ।।

शिवदत्तस्य तनयो विष्णुशर्मेति विश्रुतः ।।

वेदशास्त्रकलाभिज्ञो वैष्णवो देव पूजकः ।। ५२ ।।

चतुर्वर्णान्नरान्विप्र समाहूय हरेर्गृहे ।।

वचनं प्राह धर्मात्मा विष्णुः सर्वेश्वरो हरिः ।। ५३ ।।

शृणु तत्कारणं शिष्य विश्वकारण कारकः ।।

भगवान्सच्चिदानन्दश्चतुर्विशतितत्त्ववान् ।।

देवान्ससर्ज लोकार्थे तस्मात्सर्वेश्वरोऽभवत् ।। ५४ ।।

पूर्वं हि सकलान्देवान्पूजयित्वा नरः शुचिः ।।

पश्चाच्च पूजयेद्विष्णुं यथा भृत्या नृपं पुनः ।। ५५ ।।

इति श्रुत्वा तु ते सर्वे प्रशस्य बहुधा हि तम् ।।

विष्णुस्वामीति तं नाम्ना कथां चक्रुश्च हर्षिताः ।।५६।।

इति ते कथितं विप्र विष्णुस्वामी यथाभवत् ।।

पुनः शृणु कथां रम्यां बृहस्पतिमुखेरिताम् ।।५७।।

।। जीव उवाच ।। ।।

पुरा चैत्ररथे देशे भगशर्मा द्विजोऽभवत् ।।

स्वर्वेश्या मंजुघोषायां मुनिमेधाविना भुवि ।। ५८ ।।

पितृमातृपरित्यक्तः स बालः श्रद्धयान्वितः ।।

सूर्यमाराधयामास तपसा शतवार्षिकम् ।। ९९ ।।

सूर्यमण्डलमध्यस्था सावित्री नाम देवता ।।

सर्वसूर्यस्य जननी कन्या तन्मण्डलस्य वै ।। 3.4.8.६०।।

प्रसन्ना तपसा तस्य प्रादुर्भूता सनातनी ।।

आश्विने मासि राजानं द्विजं चक्रे च मण्डले ।। ६१ ।।

लक्षवर्षसहस्राणि मासि मासि तथाश्विने ।।

प्रकाशं कृतवान्विप्रः पूजितो लोकवासिभिः ।। ६२ ।।

त्वं सूर्यं भज देवेन्द्र स ते कार्यं करिष्यति ।।

इति श्रुत्वाश्विने मासि स रविर्देवपूजनात् ।। ६३ ।।

प्रत्यक्षमगमत्तत्र वचः प्राह सुरान्प्रति ।।

कान्यकुब्जे शुभे देशे वाणीभूषण इत्यहम् ।।

भवामि सत्यदेवस्य विप्रस्य तनयः शुभः ।। ६४ ।।

।। सूत उवाच ।। ।।

इत्युक्त्वा भगवान्सूर्यो जातः कान्यपुरे शुभे ।।

जित्वा पाखंडिनो विप्रान्मांसभक्षणतत्परान् ।।

छंदोग्रंथं स्वनाम्ना वै कृतवान्दैवतप्रियः ।। ६५ ।।

मत्स्यमांसाशना विप्रा मृगमेषाजकाशनाः ।।

एकीभूय समागम्य चक्रुः शास्त्रार्थमुल्बणम् ।।६६।।

कलिनाऽधर्ममित्रेण रक्षितास्ते द्विजातयः ।।

तं द्विजं च पराजित्य मत्स्यकेतुं च तद्गृहे ।। ६७ ।।

बलाच्च स्तंभनं चक्रुस्तदा विष्णुप्रियो द्विजः ।।

वैष्णवीं शक्तिमागम्य स्वमुखान्मीनखादितान् ।। ६८ ।।

संजीव्य दर्शयामास ते दृष्ट्वा विस्मितास्तदा ।।

शिष्यभूताश्च ते तस्य वैष्णवं मतमा गमन् ।। ६९ ।।

।। जीव उवाच ।। ।।

कदाचित्सरयूतीरे देवयाजी द्विजोऽभवत् ।।

सर्वदेवपरो नित्यं वेदपाठपरायणः ।। 3.4.8.७० ।।

तत्सुतस्तु मृतिं प्राप्तो जन्ममात्रे हि दारुणे ।।

तदा तु स द्विजः श्रुत्वा सूर्यदेवमतोषयत् ।। ७१ ।।

जिजीव तत्प्रसादेन विवस्वान्नाम चाभवत् ।।

षोडशाब्द वपुर्भूत्वा सर्वविद्याविशारदः ।। ७२ ।।

अपत्यवान्धर्मपरः सूर्यवतपरायणः ।।

शिवरात्रिदिने प्राप्ते तत्पत्नी भूषणप्रिया ।। ७३ ।।

सुशीला नाम विख्याता पतिसेवार्थमागता ।।

स व्रती रुद्रदेवस्य दृष्ट्वा तां मधुराननाम् ।। ७४ ।।

बलाद्गृहीत्वा तु निशि बुभुजे स्मरविह्वलः ।।

मैथुनस्यैव दोषेण तस्य कुष्ठो महानभूत् ।। ७५ ।।

लिंगेद्रियं च पतितं गुदभ्रष्टो महांगरुक् ।।

केन चिदुपदेशेन रविवारस्य वै व्रतम् ।। ७६ ।।

स चक्रे द्वादशं प्रेम्णा निराहारो यतेन्द्रियः ।।

तेन व्रतप्रभावेण सर्वपीडा लयं गताः ।। ७७ ।।

तदा श्रद्धा रवौ प्राप्ता प्रत्यहं स द्विजोत्तमः ।।

आदित्य हृदयं जप्त्वा कामरूपो द्विजोऽभवत् ।। ७८ ।।

नारीभिर्भर्त्सितः पूर्वं सोथ कामिनीयाचितः ।।

ब्रह्मचर्यव्रतं कृत्वा ब्रह्मध्यानपरोऽभवत् ।। ७९ ।।

शतायुर्ब्राह्मणो भूत्वा ज्ञानवान्रोगवर्जितः ।।

त्यक्त्वा प्राणान्रविर्भूत्वा सूर्यमण्डलमध्यगात् ।। 3.4.8.८० ।।

कार्तिके मासि लक्षाब्दं प्रकाशं कृतवान्नभः ।।

तं च सूर्यं महेन्द्रस्त्वं पूजयाशु सुरैः सह ।। ८१ ।।

।। सूत उवाच ।। ।।

इति श्रुत्वा महेन्द्रस्तु मासमात्रं हि भास्करम् ।।

पूजयित्वा विधानेन पूर्णिमायां ददर्श ह ।। ८२ ।।

उवाच शक्रं स रविर्देवकार्यं करोम्यहम् ।।

भट्टैर्विद्यामयैर्धूर्तैः सूत्रपाठश्च खंडितः ।। ८३ ।।

धातुपाठो न्यपठितो भ्रंशार्थः स्वरवर्णकः ।।

जित्वा तान्भट्टपाषंडान्वेदमुद्धारयामि भोः ।। ८४ ।।

इत्युक्त्वा स गतः काश्यां गेहे वै वेदशर्मणः ।।

दीक्षितान्वयभूतस्य नाम्ना कार्यगुणोऽभवत् ।। ८५ ।।

द्वादशाब्दवपुर्भूत्वा सर्वशास्त्रविशारदः ।।

शिवमाराधयामास विश्वनाथं शिवाप्रियम् ।। ८६ ।।

त्रिवर्षान्ते च भगवांस्तस्मै ज्ञानं महद्ददौ ।।

तस्य ज्ञानप्रभावेण व्यक्तमव्यक्तमुत्तमम् ।। ८७ ।।

ज्ञातं कार्यगुणेनैव दीक्षितेन तदा हृदि ।।

अव्यक्ते यदा बुद्धिः सा विद्या द्वादशांगिनी ।। ८८ ।।

व्यक्तेऽहंकारभूते च बुद्धिर्ज्ञेया बुधैरजा ।।

अविद्या नाम विख्याता षोडशांगस्वरूपिणी ।। ८९ ।।

अव्यक्तं तु परं ब्रह्म व्यक्तं शब्दमयं स्मृतम् ।।

अहंकारो लोककरो हि व्यक्तोऽष्टदशांगकः ।।3.4.8.९०।।

वृषरूपधरो मुख्यो नन्दियानः स्मृतो बुधैः ।।

शृङ्गाणि तस्य चत्वारि त्रिपादो द्विशिरा वृषः।।९१।।

सप्तहस्तस्त्रिधा बद्धो नित्यशुद्धो मुखे स्थितः।।

सुवन्तश्च तिङन्तश्च कृदंतश्चाव्ययस्तथा।।९२।।

द्वौद्वौ शृंगौ च शिरसोर्नंदियानस्य वै स्मृतौ ।।

भूतं भव्यं भवच्चैव त्रयः पादा हि तस्य वै ।। ९३ ।।

रूढिश्च योगरूढिश्च शब्दौ तस्य शिरोद्वयम् ।।

कर्ता कर्म च करणं संप्रदानं विभागतः ।। ९४ ।।

संवंधश्चाधिकारश्च भुजास्तस्य वृषस्य वै ।।

वाक्यं स्वरान्वितं ज्ञेयं विभत्त्यंतं पदं स्मृतम् ।। ९५ ।।

ताभ्यां बद्धश्च स वृषो नन्दियानाथ ते नमः ।।

तस्योपरिस्थितं नित्यमव्यक्तं लिंगरूपि यत् ।। ९६ ।।

जातश्च वृषलिंगाभ्यां सोऽहंकारो हरिः स्वयम्।।

नारायणः षोडशात्मा बहुमूर्तिरमूर्तिकः ।। ९७ ।।

इति ज्ञानं हृदि प्राप्य तदा सिद्धान्तकौमुदीम् ।।

जित्वा भट्टांश्चकाराशु भट्टोजिः प्रश्रुतोऽभवत् ।।९८।।

।। जीव उवाच ।। ।।

पुरा कांचीपुरे रम्ये गणको ब्राह्मणोत्तमः।।

पुरोधाः सत्यदत्तस्य राज्ञो वेदपरस्य वै ।। ९९ ।।

एकदा गणको धीमान्सत्यदत्तमुवाच ह ।।

मुहूर्तोऽभिजिदाख्योयं पुष्यनक्षत्रसंयुतः ।।

हाटं कुरु महाराज सांप्रतं बहुवृत्तिदम् ।। 3.4.8.१०० ।।

इति श्रुत्वा तथा कृत्वा डिंडिमध्वनिना पुरे ।।

नरानाज्ञापयामास तच्छृणुष्व सुरोत्तम ।। १०१ ।।

अक्रीतं यस्य वै वस्तु हाटेऽस्मिन्वैश्यकोविदैः ।।

मया क्रीतं च तज्ज्ञेयं सत्यमेतद्वचो मम ।। १०२ ।।

इति श्रुत्वा शूद्रजनाश्चक्रुर्नानाविधं वसु ।।

वैश्यैस्सर्वं तदा क्रीतं महान्हाटो हि सोऽभवत् ।। १०३ ।।

एकदा लोहकारश्च दारिद्रं लोहरूपिणम् ।।

कृत्वा हाटमुपागम्य शतमुद्रामयाचत ।। १०४ ।।

अक्रीतं पुरुषं राजा ज्ञात्वा लोहदरिद्रकम् ।।

क्रीतं तं शतमुद्राभिर्गृहीत्वा गेहमागमत् ।।

कोशागारे तदा राज्ञा स्थापितोभूद्दरिद्रकः ।। १०५ ।।

निशीथे तम उद्भूते कर्म धर्मश्च मा तथा ।।

भूपगेहात्समागत्य पश्यतस्तस्य निर्गताः ।। १०६ ।।

तत्पश्चात्सत्यपुरुषो राजानमिदमब्रवीत् ।।

दरिद्रो यत्र भूपाल तत्र कर्मपरो न हि ।।

कर्मणा रहितो धर्मो भूतले न स्थिरो भवेत् ।। १०७ ।।

धर्मेण रहिता लक्ष्मीर्न शोभेत कदाचन ।।

अहं लक्ष्म्या विहीनश्च न तिष्ठामि कदाचन ।। १०८ ।।

इत्युक्त्वा गन्तुमिच्छंतं गृहीत्वा करयोर्नृपः ।।

नम्रीभूतो वचः प्राह शृणु सत्यं मम प्रियम् ।। १०९ ।।

न त्याज्यो हि मया देव भवान्किङ्गन्तुमर्हति ।।

इति श्रुत्वा तु वचनं सत्यदेवो गृहेगमत् ।। 3.4.8.११० ।।

तत्पश्चाच्च स्वयं लक्ष्मीस्तद्गेहे गंतुमुद्यता ।।

तामाह भूपतिर्धीरो देवि त्वं चंचला सदा ।। १११ ।।

अचला भव भो मातस्तर्हि मन्मदिरं व्रज ।।

इति श्रुत्वा वरं दत्त्वा नृपगेहं ययौ तदा ।। ११२ ।।

पुरोधसं तं गणकं समाहूय नृपोत्तमः ।।

लक्षस्वर्णं ददौ तस्मै कथित्वा सर्वकारणम् ।। ११३ ।।

पुत्रजन्मनि काले तु संप्राप्तं तेन वै धनम् ।।

व्ययं कृत्वा धनं सर्वं पोषयामास बालकम् ।। ११४ ।।

पूषा नाम ततो जातं मार्गशीर्षे शुभे दिने ।।

स तु सूर्यं समाराध्य ज्योतिःशास्त्रपरः सुतः ।। ११५ ।।

सूर्ये तु मोक्षमगमद्देवदेवप्रसादतः ।।

तस्मात्त्वं मार्गमासे वै रविं देवेन्द्र पूजय ।।११६।।

।। सूत उवाच ।। ।।

देवेन्द्रपूजनात्सूर्यस्समागम्य तदा स्वयम् ।।

पूषा नाम वचो देवानुवाच मधुरस्वरम् ।।११७।।

उज्जयिन्यामहं देवा यास्ये रुद्रपशोर्गृहे ।।

नाम्ना च मिहिराचार्यो ज्योतिश्शास्त्रप्रवर्त्तकः ।। ११८ ।।

इत्युक्त्वा भगवान्पूषा पुत्रो जातो द्विजस्य वै ।।

मूलगडान्तविषयेऽभिजिद्योगे शुभंकरे ।। ११९ ।।

जातमात्रं च तं पुत्रं पिता काष्ठकटाहके ।।

धृत्वा क्षिप्त्वा नदीमध्ये निशीथे समवाहयत् ।। 3.4.8.१२० ।।

समुद्रमगमत्पुत्रो राक्षसीभिश्च रक्षितः ।।

लंकामागम्य तत्रैव ज्योतिःशास्त्रमधीत वान्।। १२१ ।।

जातकं फलितं चैव मूकप्रश्नं तथादितः ।।

पठित्वा राक्षसेंद्रं च विभीषणमुपागतम् ।। १२२ ।।

भक्तराज नमस्तुभ्यं विभीषण हरि प्रिय ।।

आहृतो राक्षसीभिश्च त्वामहं शरणं गतः ।। १२३ ।।

इति श्रुत्वा च स नृपो वैष्णवं द्विजमुत्तमम् ।।

मत्वा संप्रेषयामस यत्र तज्जन्मभूमिका ।। १२४ ।।

म्लेच्छैर्विनाशितं यत्तु वेदांगं ज्योतिषां गतिः ।।

पुनरुद्धारितं तेन त्रिधाभूतं सनातनम् ।। १२५ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये मध्वाचार्यश्रीधराचार्यविष्णुस्वामि वाणीभूषणभट्टोजिदीक्षितवराहमिहिराचार्योत्पत्तिवर्णनो नामाऽष्टमोऽध्यायः ।।८।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 9

सूत उवाच ।।

इत्युक्त्वा भगवाञ्जीवस्सूर्यमाहात्म्यमुत्तमम्।।

प्रयागे तु पुनर्देवानुवाच वचसां पतिः ।।१।।

प्रतिष्ठानपुरे रम्ये सूर्यो जातो हराज्ञया ।।

पुरा त्रेतायुगांते च तच्छृणुष्व सुरोत्तम ।। २ ।।

त्रेतान्ते सिंहलद्वीपे परीक्षितनृपोऽभवत् ।।

वेदधर्मपरो नित्यं देवतातिथिपूजकः ।।३।।

कन्या भानुमती तस्य सूर्यव्रतपरायणा ।।

भक्तिभावेन सविता प्रत्यहं तद्गृहे स्वयम् ।। ४ ।।

तया कृतं शुभं भक्ष्यं मध्याह्ने भुक्तवान्प्रभुः।।

रविवारे कदाचित्सा नलिनी सागरं प्रति ।।५।।

स्नानार्थमागता कन्या तदा नारद आगतः।।

दृष्ट्वा मनोरमां बालामेकाकीं जलमध्यगाम्।।६।।

गृहीत्वा वसनं तस्या वचनं प्राह निर्भयः।।

पाणिं गृहाण मे सुभ्रूस्त्वद्दृष्ट्या वशमागतः ।। ७ ।।

इत्युक्तवंतं तु मुनिं कुमारी नम्रकन्धरा ।।

उवाच शृणु देवर्षे कन्याहं त्वं सुतप्रदः ।। ८।।

भवान्देवाङ्गनाभिश्च प्रार्थितः स्वर्गमण्डले ।।

क्व च वै मेनका रंभा क्वाहं मनुजयोनिजा ।। ।।९।।

नवद्वारेषु देहेस्मिन्दुर्गन्धाः संस्थिताः सदा ।।

नैव देवाङ्गनाङ्गे वै तस्मात्तुभ्यं नमोनमः।।3.4.9.१०

इति श्रुत्वा वचस्तस्या लज्जितो नारदस्तदा।।

महादेवमुपागम्य चोक्तवान्सर्वकारणम् ।। ११ ।।

कुष्ठीभूतं मुनिं दृष्ट्वा शंकरो लोकशंकरः ।।

तुष्टाव भास्करं देवं तदा प्रादुरभूत्प्रभुः ।। १२ ।।

नारदस्य शुभं देहं कृत्वा शिवमुवाच ह ।।

आज्ञां देहि महादेव तवाशां पूरयाम्यहम् ।। १३ ।।

इत्युक्तं तं शिवः प्राह द्विजो भूत्वा भवान्भुवि ।।

गृहाण नृपतेः कन्यां रविणा तु तथा कृतम् ।। १४ ।।

सविता भानुमत्या च सार्द्धं कृत्वा तपोन्वहम् ।।

सूर्यलोकं पुनः प्राप्तस्स पौषे च प्रकाश कृत्।।

तं भजाशु महेन्द्र त्वं देवकार्यं प्रसाधय।।१५।।

।। सूत उवाच ।। ।।

इति श्रुत्वा गुरोर्वाक्यं महेन्द्रश्च सुरैस्सह ।।

सवितारं पौषमासे तुष्टाव शुभ पूजनैः ।। १६ ।।

तदा प्रसन्नो भगवान्देवानाह शुभं वचः ।।

अहं काश्यां भवाम्यद्य नाम्ना धन्वतरिः स्वयम् ।। १७ ।।

रोगैश्च पीडिताँल्लोकान्कलिना निर्मितैर्भुवि ।।

शमयिष्यामि तत्रोष्य देवकार्यं भविष्यति ।। १८ ।।

इत्युक्त्वा भगवान्सूर्यः काशीनगरमागतः ।।

कल्पदत्तस्य विप्रस्य पुत्रो भूत्वा महीतले ।। १९ ।।

सुश्रुतं राजपुत्रं च विप्रवृद्धसमन्वितम् ।।

शिष्यं कृत्वा प्रसन्नात्मा कल्पवेदमचीकरत् ।। 3.4.9.२० ।।

रोगैश्च क्षयितं देहं काल्पमेतत्स्मृतं बुधैः ।।

तस्य ज्ञानं च तंत्रेऽस्मिकल्पवेदोह्यतः स्मृतः ।। २१ ।।

धन्वतरिस्स भगवान्प्रसिद्धोभूत्कलौ युगे ।।

यस्य दर्शनमात्रेण रोगा नश्यंति तत्क्षणात् ।। २२ ।।

सुश्रुतः कल्पवेदं तं धन्वत्तरिविनिर्मितम् ।।

पठित्वा च शताध्यायं सौऽश्रुतं तंत्रमाकरोत् ।।२३।।

।। बृहस्पतिरुवाच ।। ।।

पुरा पंपापुरे रम्ये हेली नाम्ना द्विजोऽभवत् ।।

चतुष्षष्टिकलाभिज्ञो रविपूजनतत्परः ।।२४।।

त्यक्त्वा प्रतिग्रहं वृत्तिं कारुवृत्तिं गृहीतवान् ।।

कृत्वा वस्त्रकलं लौहं तथा चित्रकलं पुनः ।।२५।।

धातुमूर्तिकलं चैव सर्वकारुकलं तथा ।।

पञ्चसहस्रमुद्राभिराक्रीणन्कारुकोऽभवत् ।।२६।।

कलएको मासमात्रे काले तेनैव निर्मितः ।।

तद्धनेन रविं देवं यज्ञैर्माघे हि सोऽर्चयत्।।

विश्वकर्मा रविः साक्षान्माघमासे प्रकाशकः ।।२७।।

हेलिनो बहुलैर्यज्ञैस्सन्तुष्टः प्रत्यहं प्रभुः ।।

पंपासरोवरे रम्ये निर्मितः स्तंभ उत्तमः ।।२८।।

ज्योतीरूपो महारम्यस्तत्र प्राप्तो रविः स्वयम्।।

मध्याह्ने हेलिना दत्तं भोजन दैवतप्रियम् ।।२९।।

भुक्त्वा स प्रत्यहं स्वामी मासिमासि दिवाकरः ।।

त्रैलोक्यं भावयांचक्रे सर्वदेवमयो हरिः ।।3.4.9.३०।।

सहस्रायुर्द्विजो भूत्वा त्यक्त्वा प्राणान्रविः स्वयम् ।।

भूत्वा मण्डलमध्यास्य माघमासमतोषयत् ।।

तं सूर्यं भज देवेन्द्र स ते कार्यं करिष्यति ।। ३१ ।।

।। सूत उवाच ।। ।।

इति श्रुत्वा गुरोर्वाक्यं वासवो दैवतैस्सह।।

सूर्यमाराधयामास विश्वकर्माणमुत्तमम्।।३२।।

तदा प्रसन्नो भगवांस्त्वष्टा तुष्टिकरोजनान्।।

सुरानाह वचो रम्यं शृणुध्वं सुरसत्तमाः ।।३३।।

बिल्ग्रामे वंगदेशे संभवामि निरुक्तकृत् ।।

जयदेव इति ख्यातः कवीनां हि शिरोमणिः ।। ३४ ।।

इत्युक्त्वा भगवान्सूर्यो वंगदेशमुपाययौ ।।

गेहे कंदुकिनो जातो ब्राह्मणस्य महीतले ।। ३५ ।।

स पंचाब्दवपुर्भूत्वा पितृमातृपरायणः ।।

द्वादशाब्दं महासेवा तत्र तेन तयोः कृता ।। ३६ ।।

मृतिमंतौ च पितरौ प्रेतकृत्येन तर्पितौ ।।

जयदेवेन तौ नाकं गयाश्राद्धे हि जग्मतुः ।। ३७ ।।

जयदेवस्तदा विप्रो भूत्वा वैराग्यवान्भुवि ।।

तत्रस्थाने महारम्ये वने वासमकारयत् ।। ३८ ।।

त्रिविंशाब्दे ततः प्राप्ते केनचिन्मधुरानना ।।

ब्राह्मणेन शुभा कन्या जगन्नाथाय चार्पिता ।। ३९ ।।

अर्चावसाने भगवाननिरुद्धस्सनातनः ।।

दारुब्रह्ममयः साक्षादाह तं स्वेन वै वचः ।। 3.4.9.४० ।।

शृणु त्वं भोः सत्यव्रत जयदेवो वपुर्मम ।।

पद्मावतीं सुतां तस्मै निवेदय ममाज्ञया ।। ४१ ।।

इत्युक्तस्स द्विजस्तूर्णं दृष्ट्वा वैरागरूपिणम् ।।

तत्र स्थाप्य निजां कन्यां स्वगेहाय मुदा ययौ ।। ४२ ।।

सा तु पद्मावती कन्या मत्वा तं सुंदरं पतिम् ।।

तत्सेवां सा मुदा युक्ता चकार बहुवार्षिकम् ।। ४३ ।।

निरुक्तं वैदिकं चांगं कृतवान्स समाधिना ।।

वर्णागमो गवेंद्रादौ सिंहे वर्णविपर्ययः ।।

षोडशादौ विकारश्च वर्णनाशः पृषोदरे ।। ४४ ।।

वर्णविकारनाशाभ्यां धातोरतिशयेन यः ।।

योगस्तदुच्यते प्राज्ञैर्मयूरभ्रमरादिषु ।। ४९ ।।

एवं पंचविधान्येव निरुक्तानि स्मृतानि वै ।।

शूद्रैश्च नागवंशीयैर्भ्रंशितानि कलौ युगे ।। ४६ ।।

जित्वा प्राकृतभाषायाः कर्तॄन्मूढान्कलिप्रियान् ।।

शुद्धं हि पाणिनिः शास्त्रं चकार सुरहेतवे ।। ४७ ।।

एकदा तु कलिर्धूर्तो हृदिस्थश्चौरकर्मणाम् ।।

नृपदत्तं द्विजस्यैव लुंठयित्वा धनं बहु ।। ४८ ।।

पद्मावतीं सतीं मत्वा त्यक्त्वा तद्वै गतो गृहम् ।।

हस्तौ पादौ द्विजस्यैव कलिश्चोरैः समाच्छिनत् ।। ४९ ।।

तदा तु दुःखिता देवी गर्तमध्ये स्थितं पतिम् ।।

निष्कास्य बहुधालप्यापीड्य हस्तेन चाहरत् ।। 3.4.9.५० ।।

एकस्मिन्दिवसे राजा मृगयार्थमुपागतः।।

अहस्तपादं च मुनिं जयदेवं ददर्श ह ।।

स पृष्टस्तेन तत्रैव कृतं केन तवेदृशम् ।। ५१ ।।

स होवाच महाराज हस्तपादविहीनकः ।।

कर्मणाहमिह प्राप्तो न केनापि कृतं खलु ।। ५२ ।।

इति श्रुत्वा धर्मपालो नृपतिस्तं द्विजोत्तमम् ।।

सपत्नीकं च शिबिकामारोप्य स्वगृहं ययौ ।। ५३ ।।

तस्य दीक्षां नृपः प्राप्य धर्मशालामकारय त् ।।

कदाचिद्वैष्णवा भूता ते चौराः कलिनिर्मिताः ।।

धर्मपालगृहं प्राप्य राजानमिदमब्रुवन् ।। ५४ ।।

वयं हि शास्त्रनिपुणास्तव गेहमुपागताः।।

अस्माभिर्निर्मितं भोज्यं स्वयं विष्णुः शिलामयः ।।

संभुंक्ते प्रत्यहं प्रीत्या तत्पश्य नृपसत्तम ।। ५५ ।।

इत्युक्त्वा कलिभक्तास्ते विष्णुरूपं चतुर्भुजम् ।।

नृपाय दर्शयामासुर्भुक्तवंतं स्वमायया ।। ५६ ।।

विस्मितो धर्मपालश्च जयदेवमुवाच ह ।।

गुरो मद्भवने प्राप्ता वैष्णवा विष्णुतत्पराः।।

अदीदृशन्हरिं साक्षात्तस्मात्त्वं शीघ्रमाव्रज ।।५७।।

इति श्रुत्वा द्विजः प्राप्तो विस्मितोऽभूत्तथा नृपः ।।

तदा तु तं हि पाखंडा भूपमूचुर्विहस्य ते ।। ।। ५८ ।।

असौ विप्रश्च नृपते गौडदेशे निवासिनः ।।

सूदो भक्ष्यकरस्तस्मै कदाचिद्धनलोभतः ।। ५९ ।।

गरलं मिश्रितं भक्ष्ये तेन पाखंडरूपिणा ।।

ज्ञात्वा राजा तु तं विप्रं शूलमध्ये ह्यरोपयत् ।। 3.4.9.६० ।।

एतस्मिन्नंतरे राजन्वयं तत्र समागताः ।।

आगस्कृतं द्विजं मत्वा दत्त्वा ज्ञानान्य नेकशः ।।

शूलात्तं हि समुत्तार्य हस्तौ पादौ नृपोऽच्छिनत् ।। ६१ ।।

अस्माकं शिष्यभूतो हि राजास्माभिः प्रबोधितः ।।

इत्युक्तमात्रे वचने दुःखिताभूच्च दारिता ।। ६२ ।।

चौराँस्तान्सा हि पाताले चकार सुररक्षितान् ।।

जयदेवस्तथा भूतान्दृष्ट्वा चौरान्रुरोद ह ।। ६३ ।।

क्रंदमाने द्विजे तस्मिन्हस्तांघ्री प्रकृतिं गतौ ।।

विस्मितं नृपतिं तत्र सर्वं हेतुमवर्णयत् ।। ६४ ।।

श्रुत्वा राजा प्रसन्नात्मा जयदेवमुखोद्भवम् ।।

गीतगोविंदमेवाशु पठित्वा मोक्षमागमत् ।। ६५ ।।

इति ते कथितं विप्र जयदेवो यथाभवत् ।।

कृष्णचैतन्यचरितं यथा जातं शृणुश्व तत् ।। ६६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये धन्वंतरिसुश्रुतजयदेवसमुत्पत्तिवर्णनो नाम नवमो ऽध्यायः ।। ९ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 10

।। जीव उवाच ।। ।।

विष्णुशर्मा पुरा कश्चिद्विप्रोभूद्वेदपारगः ।।

सर्वदेवमयं विष्णुं पूजयित्वा प्रसन्नधीः ।।१।।

अन्यैस्सुरैश्च संपूज्यो बभूव हरिपूजनात् ।।

भिक्षावृत्तिपरो नित्यं पत्नीमान्पुत्रवर्जितः ।। २ ।।

कदाचित्तस्य गेहे वै व्रती कश्चित्समागतः ।।

द्विजपत्नीं तदैकाकीं भक्तिनम्रां दरिद्रिणीम् ।।

दृष्ट्वोवाच महाभागः स स्पर्शाढ्यो दयापरः ।। ३ ।।

अनेन स्पर्शमणिना लोहधातुश्च कांचनम् ।।

भवेत्तस्मान्महासाध्वि त्रिदिनांतं गृहाण तम् ।। ४ ।।

स्नात्वा तावत्सरय्वां चायास्यामि तेंतिकं मुदा ।।

इत्युक्त्वा स ययौ विप्रो ब्राह्मणी बहु कांचनम् ।।

कृत्वा लक्ष्मीं समाप्यासीद्विष्णुशर्मा तदागमत् ।। ५ ।।

बहुस्वर्णयुतां पत्नीं दृष्ट्वोवाच हरिप्रियः ।।

गच्छ नारि मदाघूर्णे यत्र वै रसिको जनः ।। ।। ६ ।।

अहं विष्णुपरो दीनश्चौरभीतः सदैव हि ।।

मधुमत्तां कथं त्वां वै गृहीतुं भुवि च क्षमः ।।७।।

इति श्रुत्वा वचो घोरं पतिभीता पतिव्रता ।।

सस्वर्णं स्पर्शकं तस्मै दत्त्वा सेवापराभवत् ।। ८ ।।

द्विजोऽपि घर्घरामध्ये तद्द्रव्यं बलतोऽक्षिपत् ।।

त्रिदिनान्ते च स यतिस्तत्रागत्य मुदान्वितः ।।

उवाच ब्राह्मणीं दीनां स्वर्णं किं न कृतं त्वया ।। ९ ।।

साह भो मत्पतिश्शुद्धो गृहीत्वा स्पर्शकं रुषा ।।

घर्घरे च निचिक्षेप ततोहं वह्निपाकिनी ।।

निर्लोहो वर्तते विप्रस्ततः प्रभृति हे गुरो ।। 3.4.10.१० ।।

इति श्रुत्वा तु वचनं स यतिर्विस्मयान्वितः ।।

स्थित्वा दिनान्ते तं विप्रमुवाच बहु भर्त्सयन् ।। ११ ।।

दरिद्रो भिक्षुकश्चास्ति भवान्दैवेन मोहितः ।।

देहि मे स्पर्शकं शीघ्रं नो चेत्प्राणांस्त्यजाम्यहम्।। १२ ।।

इत्युक्तवंतं यतिनं विष्णु शर्मा तदाब्रवीत् ।।

गच्छ त्वं घर्घराकूले तत्र वै स्पर्शकस्तव ।।१३।।

इत्युक्त्वा यतिना सार्द्धं गृहीत्वा कंटकान्बहून् ।।

यतिने दर्शयामास स्पर्शकानिव कंटकान् ।। १४ ।।

तदा तु स यती विप्रं नत्वा प्रोवाच नम्रधीः ।।

मया वै द्वादशाब्दांतं सम्यगाराधितः शिवः ।।

ततः प्राप्तं शुभं रत्नं तत्तु तद्दर्शनेन वै ।। १५ ।।

स्पर्शको बहुधा प्राप्तो मया लोभात्मना द्विज ।।

इत्याभाष्य शुभं ज्ञानं प्राप्तो मोक्षमवाप्तवान् ।। १६ ।।

विष्णुशर्मा सहस्राब्दमुषित्वा जगतीतले ।।

सूर्यमाराध्य विधिवद्विष्णोर्मोक्षमवाप्तवान्।।१७।।

स द्विजो वैष्णवं तेजो धृत्वा वै मासि फाल्गुने।।

त्रैलोक्यमतपत्स्वामी देवकार्यपरायणः ।। १८ ।।

सूत उवाच ।।

इत्युक्त्वा भगवाञ्जीवः पुनः प्राह शचीपतिम् ।।

फाल्गुने मासि तं सूर्यं समाराध्य सुखी भव ।। ।। १९ ।।

इत्युक्तो गुरुणा देवो ध्यात्वा सर्वमयं हरिम् ।।

पूजनैर्बहुधाकारैर्देवदेवमपूजयत् ।। 3.4.10.२० ।।

तदा प्रसन्नो भगवान्समभूत्सूर्यमण्डलात् ।।

चतुर्भुजो हि रक्तांगो यथा यक्षस्तथैव सः ।।

पश्यतां सर्वदेवानां शक्रदेहमुपागमत् ।। २१ ।।

तत्तेजसा तदा शक्रः स्वान्तर्लीय स्वकं वपुः ।। ।

अयोनिस्स द्विजो भूत्वा शची देवी तथैव सा ।। २२ ।।

तदा तौ मिथुनीभूतौ वैष्णवाग्निप्रपीडितौ ।।

रेमाते वर्षपर्यन्तं गंगाकूले महावने।। ।।। २३ ।।

अधाद्गर्भं तदा देवी शची तु द्विजरूपिणी ।।

भाद्रशुक्ले गुरौ वारे द्वादश्यां ब्राह्ममण्डले ।। २४ ।।

प्रादुरासीत्स्वयं विष्णुर्धृत्वा सर्व कलां हरिः ।।

चतुर्भुजश्च रक्ताङ्गो रविकुंभसमप्रभः ।। २५ ।।

तदा रुद्राश्च वसवो विश्वेदेवा मरुद्गणाः ।।

साध्याश्च भास्कराः सिद्धास्तुष्टुवुस्तं सनातनम् ।। २६ ।।

।। देवा ऊचुः ।। ।।

कुलिशध्वजपद्मगदांकुशाभं चरणं तव नाथ महाभरणम् ।।

रमणं मुनिभिर्विधिशंभुयुतं प्रणमाम वयं भवभीतिहरम् ।। २७ ।।

दरचक्रगदाम्बुजमानधरः सुरशत्रुकठोरशरीरहरः ।।

सचराचरलोकभरश्चपलः खलनाशकरस्सुरकार्य करः ।। २८ ।।

नमस्ते शचीनंदनानन्दकारिन्महापापसन्तापदुर्लापहारिन् ।।

सुरारीन्निहत्याशु लोकाधिधारिन्स्वभक्त्याघजाताङ्गकोटि प्रहारिन् ।। २९ ।।

त्वया हंसरूपेण सत्यं प्रपाल्यं त्वया यज्ञरूपेण वेदः प्ररक्ष्य ।।

स वै यज्ञरूपो भवाँल्लोकधारी शचीनन्दनः शक्रशर्मप्रसक्तः ।। 3.4.10.३० ।।

अनर्पितचरोचिरात्करुणयावतीर्णः कलौ समर्पयितुमुन्नतोज्वलरसां स्वभक्तिश्रियम् ।।

हरेः पुनरसुन्दरद्युतिकदंबसन्दीपितः सदा स्फुरतु नो हृदयकन्दरे शचीनंदनः ।। ३१।।

विसर्जति नरान्भवान्करुणया प्रपाल्य क्षितौ निवेदयितुमुद्भवः परात्परं स्वकीयं पदम् ।।

कलौ दितिजसंभवाधिव्यथाब्धिसुरमग्नगान्समुद्धर महाप्रभो कृष्णचैतन्य शचीसुत ।। ३२ ।।

माधुर्य्यैर्मधुभिस्सुगंधवदनः स्वर्णांबुजानां वनं कारुण्या मृतनिर्झरैरुपचितः सत्प्रेमहेमाचलः ।।

भक्तांभोधरधारिणी विजयिनी निष्कंपसप्तावली देवो न: कुलदेवतं विजयते चैतन्यकृष्णो हरिः ।। ३३ ।।

देवारातिजनैरधर्मजनितैस्सपीडितेयं मही संकुच्याशु कलौ कलेवरमिदं बीजाय हा वर्तते ।।

त्वन्नाम्नैव सुरारयो विदलिताः पातालगाः पीडिता म्लेच्छा धर्मपराः सुरेशनमनास्तस्मै नमो व्यापिने ।। ३४ ।।

।। सूत उवाच ।। ।।

इत्यभिष्टूय पुरुषं यज्ञेशं च शचीपतिम् ।।

बृहस्पतिमुपागम्य देवा वचनमब्रुवन् ।। ३५ ।।

वयं रुद्रा महाभाग इमे च वसवोऽश्विनौ ।।

केन केनांशकेनैव जनिष्यामो महीतले ।।

तत्सर्वं कृपया देव वक्तु मर्हति नो भवान् ।। ३६ ।।

।। बृहस्पतिरुवाच ।। ।।

अहं वः कथयिष्यामि शृणुध्वं सुरसत्तमाः ।।

पुरा पूर्वभवे चासीन्मृगव्याधो द्विजाधमः ।।

धनुर्बाणधरो नित्यं मार्गे विप्रविहिंसकः ।।३७।।

हत्वा द्विजान्महामूढस्तेषां यज्ञोपवीतकम् ।।

गृहीत्वा हेलया दुष्टो महाक्रोशस्तु तत्कृतः ।। ३८ ।।

ब्राह्मणस्य च यद्द्रव्यं सुधोपममनुत्तमम् ।।

मधुरं क्षत्रियस्यैव वैश्यस्यान्नसमं स्मृतम् ।। ३९ ।।

शूद्रस्य वस्तु रुधिरमिति ज्ञात्वा द्विजा धमः ।।

स जघान त्रिवर्णांश्च ब्राह्मणान्बहुलान्खलः ।। 3.4.10.४० ।।

द्विजनाशात्सुरास्सर्वे भयभीतास्समंततः ।।

परमेष्ठिनमागम्य कथांश्चकुश्च कारणम्।। ।। ४१ ।।

श्रुत्वा च दुःखितो ब्रह्मा सप्तर्षीन्प्राह लोकगान् ।।

उद्देशं कुरु तत्रैव गत्वा तस्य द्विजोत्तम ।। ४२ ।।

इति श्रुत्वा मरीचिस्तु वशिष्ठादिभिरन्वितः ।।

तत्र गत्वा स्थितास्सर्वे मृगव्याधस्य वै वने ।। ४३

मृगव्याधस्तु तान्दृष्ट्वा धनुर्बाणधरो बली ।।

उवाच वचनं घोरं हनिष्येहं च वोद्य वै ।। ४४ ।।

मरीचाद्या विहस्याहुः किमर्थं हंतुमुद्यतः ।।

कुलार्थं वात्मनोऽर्थं वा शीघ्रं वद महाबल ।। ४५ ।।

इत्युक्तस्तान्द्विजः प्राह कुलार्थं चात्मनो हिते ।।

हन्मि युष्मान्धनैर्युक्तान्ब्राह्मणाँश्च विशेषतः ।। ४६ ।।

श्रुत्वा तमाहुस्ते विप्रा गच्छ शीघ्रं धनुर्धर ।।

विप्रहत्याकृतं पापं भुञ्जीयात्को विचारय ।।४७।।

इति श्रुत्वा तु घोरात्मा तेषां दृष्ट्या सुनिर्मलः ।।

गत्वा वंशजनानाह भूरि पापं मयार्जितम् ।।४८।।

तत्पापकं भवद्भिश्च ग्रहणीयं धनं यथा ।।

ते तु श्रुत्वा द्विजं प्राहुर्न वयं पापभोगिनः ।। ४९ ।।

साक्षीयं भूमिरचला साक्षी सूर्योऽयमुत्तमः ।।

इति श्रुत्वा मृगव्याधो मुनीनाह कृतांजलिः ।। 3.4.10.५० ।।

यथा पापं क्षयं याति तथा माज्ञातुमर्हथ ।।

इत्युक्तास्तेन ते प्राहुः शृणु त्वं मंत्रमुत्तमम् ।। ५१ ।।

राम नाम हि तज्ज्ञेयं सर्वाघौघविनाशनम् ।।

यावत्त्वत्पार्श्वमायामस्तावत्त्वं जप चोत्तमम् ।। ५२ ।।

इत्युक्त्वा ते गता विप्रास्तीर्थात्तीर्थान्तरं प्रति ।।

मरामरामरेत्येवं सहस्राब्दं जजाप ह ।। ५३ ।।

जपप्रभावादभवद्वनमुत्पलसंकुलम् ।।

तत्स्थानमुत्पलारण्यं प्रसिद्धमभवद्भुवि।। ५४ ।।

ततः सप्तर्षयः प्राप्ता वल्मीकात्तं निराकृतम् ।।

दृष्ट्वा शुद्धं तदा विप्रमूचुस्ते विस्मयान्विताः ।। ५५ ।।

वल्मीकान्निस्सृतो यस्मात्तस्माद्वाल्मीकिरुत्तमम् ।।

तव नाम भवेद्विप्र त्रिकालज्ञ महामते ।। ५६ ।।

एवमुक्त्वा ययुर्लोकं स तु रामायणं मुनिः ।।

कल्पाष्टादशयुक्तं हि शतकोटिप्रविस्तरम् ।।५७।।

चकार निर्मलं पद्यैः सर्वाघौघविनाशनम् ।।

तत्पश्चात्स शिवो भूत्वा तत्र वासमकारयत् ।। ५८ ।।

अद्यापि संस्थितः स्वामी मृगव्याधः सनातनः ।।

शृणुध्वं च सुराः सर्वे तच्चरित्रं हरप्रियम् ।। ५९ ।।

वैवस्वतेऽन्तरे प्राप्ते चाद्ये सत्ययुगे शुभे ।।

ब्रह्मागत्योत्पलारण्यं तत्र यज्ञं चकार ह ।। 3.4.10.६० ।।

तदा सरस्वती देवी नदी भूत्वा समागता ।।

तद्दर्शनात्स्वयं ब्रह्मा मुखतो ब्राह्मणं शुभम्।। ६१ ।।

बाहुभ्यां क्षत्रियं चैव चोरुभ्यां वैश्यमुत्तमम् ।।

पद्भ्यां शूद्रं शुभाचारं जनयामास वीर्यवान् ।। ६२ ।।

द्विजराजस्तथा सोमश्चंद्रमा नामतो द्विजः ।।

लोके सर्वातपः सूर्यः कश्यं वीर्यं हि पाति यः ।। ६३ ।।

कश्यपो हि द्वितीयोऽसौ मरीचिस्तु ततोऽभवत् ।।

रत्नानामाकरो यो वै स हि रत्नाकरः स्मृतः ।। ६४।।

लोकान्धरति यो द्रव्यैः स तु धर्मो हि नामतः ।।

गंभीरश्चास्ति सदृशः कोशो यस्य सरित्पतिः ।। ६५ ।।

लोकान्दक्षति यः कृत्यैः स तु दक्षः प्रजापतिः ।।

ब्रह्मणोंगाच्च ते जातास्तस्माद्वै ब्राह्मणाः स्मृताः ।। ६६ ।।

वर्णधर्मेण ते सर्वे वर्णात्मानश्च वै क्रमात् ।।

दक्षस्य मनसो जाताः कन्याः पंचशतं ततः ।।

विष्णु मायाप्रभावेन कलाभूताः स्थिता भुवि ।।६७।।

तदा तु भगवान्ब्रह्मा सोमायाश्विनिमण्डलम् ।।

सप्तविंशद्गणं श्रेष्ठं ददौ लोकविवृद्धये ।।६८।।

कश्यपायादितिगणं क्षत्ररूपं त्रयोदशम् ।।

धर्माय कीर्तिप्रभृतीर्ददौ स च महामुनिः ।। ६९ ।।

नानाविधानि सृष्टानि चासन्वैवस्वतेऽन्तरे ।।

तेषां पतिस्त्वयं दक्षोऽभूद्विधेराज्ञया भुवि ।। 3.4.10.७० ।।

तत्र वासं स्वयं दक्षः कृतवान्यज्ञतत्परः ।।

सर्वे देवगणा दक्षं नमस्कृत्य चरंति हि ।।७१।।

भूतनाथो महादेवो न ननाम कदाचन ।।

तदा क्रुद्धः स्वयं दक्षः शिवभागं न दत्तवान् ।। ७२ ।।

मृगव्याधः शिवः क्रुद्धो वीरभद्रो बभूव ह ।।

त्रिशिराश्च त्रिनेत्रश्च त्रिपदस्तत्र चागतः ।। ७३ ।।

तेनैव पीडिता देवा मुनयः पितरोऽभवन् ।।

तदा वै यज्ञपुरुषो भयभीतः समंततः ।। ७४ ।।

मृगभूतो ययौ तूर्णं दृष्ट्वा व्याधः शिवोभवत् ।।

रुद्रव्याधेन स मृगो विभिन्नाङ्गो बभूव ह ।। ७५ ।।

तदा तु भगवान्ब्रह्मा तुष्टाव मधुरस्वरैः ।।

संतुष्टश्च मृगव्याधो यज्ञं पूर्णमकारयत् ।। ७६ ।।

तुलाराशिस्थिते भानौ तं रुद्रं चन्द्रमण्डले ।।

स्थापयित्वा स्वयं ब्रह्मा सप्तविंशद्दिनात्मके ।।

प्रययौ सप्तलोकं वै स रुद्रश्चंद्ररूपवान् ।। ७७ ।।

इति श्रुत्वा वीरभद्रो रुद्रः संहृष्टमानसः ।।

स्वांशं देहात्समुत्पाद्य द्विजगेहमचोदयत् ।। ७८ ।।

विप्र भैरवदत्तस्य गेहं गत्वा स वै शिवः ।।

तत्पुत्रोऽभूत्कलौ घोरे शंकरो नाम विश्रुतः ।।७९।।

स बालश्च गुणी वेत्ता ब्रह्मचारी बभूव ह ।।

कृत्वा शंकरभाष्यं च शैवमार्गमदर्शयत् ।। 3.4.10.८० ।।

त्रिपुण्ड्रश्चाक्षमाला च मंत्रः पंचाक्षरः शुभः ।।

शैवानां मंगलकरः शंकराचार्यनिर्मितः ।। ८१ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णचैतन्यशंकराचार्यसमुत्पत्तिवर्णनं नाम दशमोऽध्यायः ।। १० ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 11

अथैकादशोऽध्यायः

आनन्दगिरिवनशर्मपुरीशर्मउत्पत्तिवर्णनम्

बृहस्पतिरुवाच

पुरा तु नैमिषारण्ये विप्रश्चाजगरोऽभवत्।

वेदान्तशास्त्रनिपुणो ज्ञानवाञ्छम्भुपूजकः।।१।।

द्वादशाब्दान्तरे रुद्रस्तुष्टोऽभूत्पार्थिवार्चनात् ।

तदागत्य ददौ ज्ञानं जीवन्मोक्षत्वमागतः । । २

सङ्कर्षणं समाराध्य तज्ज्ञानेन द्विजोत्तमः ।

तुष्टाव पुष्कलाभिश्च स्तुतिभिः परमेश्वरम् । । ३

अजगर उवाच

सदैव्यं प्रधानं परं ज्योतिरूपं निराकारमव्यक्तमानन्दनित्यम् ।

त्रिधा तत्तु जातं त्रिलिङ्गैक्यभिन्नं पुमान्सत्त्वरूपो रजोरूपनारी । ।

तयोर्यत्तु शेषं तमोरूपमेव ततश्शेषनाम्ने नमस्तेनमस्ते । । ४

रजश्चादिभूतो गुणस्यैव माया तथा मध्यभूतो नरस्सत्त्वरूपम् ।

तथैवान्तभूतो नपुंस्कं तमोवत्सदैवाद्य नागेश तुभ्यं नमस्ते । । ५

नराधाररूपो भवान्कालकर्ता नराकर्षणस्त्वं हि सङ्कर्षणश्च ।

रमन्ते मुनीशास्त्वयि ब्रह्मधाम्नि नमस्तेनमस्ते पुनस्ते नमोऽस्तु । ।

नराङ्गेषु चाधारभूता शिवा या स्मृता योगनिद्रा हि शक्तिस्त्वदीया । । ६

जीव उवाच

एवं हि संस्तुतो देवो द्विजं चाजगरं प्रभुः ।

सायुज्यं कृतवान्स्वाङ्गे रुद्रः सर्पो हि सोऽभवत् । । ७

फणासहस्रसहितो गौराङ्गो गौरविग्रहः ।

क्षीराब्धौ मन्दिरं यस्य बभूव च गुणाकरम् । । ८

तं सर्पाख्यं महारुद्रं प्रत्यागत्यात्मभूः स्वयम् ।

कर्कराशिस्थिते सूर्ये चन्द्रे भगणमण्डले । । ९

तं रुद्रं स्थापयामास चन्द्रमाः स तु चाभवत् ।

इति श्रुत्वा शेषनागो रुद्रः श्रीगुरुभाषितम् । । 3.4.11.१०

वचनं स प्रसन्नात्मा तेज उत्पाद्य वै मुखात् ।

विन्ध्याद्रौ जनयामास देवदत्तद्विजालये । । ११

गिरिशर्मा स वै विप्रो विजित्य विदुषां गणान् ।

काशीपुरीं समायातः शिष्योभूच्छङ्करस्य वै । । १२

इति ते कथितं विप्र यथा रुद्रो बभूव ह ।

पुनः शृणु कथां विप्र यथा जीवेन भाषिताम् । । १३

जीव उवाच

प्रयागे च पुरा ह्यासीद्ब्राह्मणो हरिसेवकः ।

दारिद्र्यार्त्तो मन्दभाग्यो नैर्ऋतो नाम विश्रुतः । । १४

महाकष्टेन तस्यैव भिक्षा प्राप्ता दिनान्तके ।

नैर्ऋतः पुत्रपत्नीको दारिद्र्यार्तो दिनेदिने । । १५

एकदा नारदो योगी सम्प्राप्तो वैष्णवप्रियः ।

पूजितस्तेन विप्रेण विष्णुलोकमुपाययौ । । १६

दृष्ट्वा नारायणं देवं नमस्कृत्य पुनःपुनः ।

वचनं प्राह नम्रात्मा सदैव भगवत्प्रियः । । १७

भगवन्ये सुराः सर्वे सदा त्वत्पूजने रताः ।

तेषां भक्ताश्च ये भूमौ धनधान्यसमन्विताः । । १८

त्वद्भक्ताश्च मया दृष्टा दारिद्यार्ताः सदा भुवि ।

किमर्थं ब्रूहि मे स्वामिञ्जनार्दन नमोऽस्तु ते । । १९

इत्युक्तो नारदेनैव भगवान्भक्तवत्सलः ।

तमाह वचनं रम्यं तच्छृणु त्वं सुरोत्तम । । 3.4.11.२०

मद्भक्तो भगवान्ब्रह्मा दृष्ट्वा नारायणप्रियान् ।

जनाँश्च स्ववशीकृत्य लोककार्यं करोति हि । । २१

धर्मोऽधर्मस्तेन कृतो धर्मो वेदमयः स्मृतः ।

सप्त लोकाश्च धर्मस्य निर्मितास्तेन धीमता । । २२

भूर्भुवः स्वो महश्चैव जनश्चैव तपस्तथा ।

सत्यं तथैव क्रमतो नृणां द्विगुणदं सुखम् । । २३

अधर्मो वेदरहितो भुवि शब्दान्यकर्तृकः ।

ये शब्दाश्च महावाण्या दूषितास्ते हि लोकगाः । । २४

वेदेतर पापमया दैत्यवृद्धिकराः सदा ।

अधर्मः स तु विज्ञेयः सप्तलोकाश्च तस्य वै । । २५

भूमिगर्तेषु विधिना निर्मिताः सुखदायकाः ।

अतलं वितलं चैव सुतलं च तलातलम् । ।

महातलं रसा चैव पातालं चान्यधर्मजम् । । २६

अन्यधर्मो ह्यधर्मश्च देवास्त्वन्ये हि तेऽसुराः ।

धर्मपक्षाः सुरा ज्ञेया असुराश्चान्यधर्मजाः । । २७

तयोर्विहीनो यो धर्मो देवैर्देत्यैश्च दूषितः ।

विधर्मः स नु विज्ञेयस्तत्र लोका व्यथाकुलाः । । २८

तामिस्रमन्धतामिस्रं कुम्भीपाकश्च रौरवम् ।

महारौरवमेवापि तथामूर्तिरयस्तथा । । २९

इक्षुयन्त्रं शाल्मलं च ह्यसिपत्रवनं तथा ।

ज्ञेयमित्येव रचितं विधिना चैकविंशतिः । । 3.4.11.३०

ब्रह्माण्डोऽयं लोकमयः परं तस्माच्च मत्पदम् ।

मद्भक्ता भूतले ये वै ते गच्छन्ति परं पदम् । । ३१

देवभक्ताश्च ये लोकाः सप्त लोकान्व्रजन्ति ते ।

ये तु वै तामसा लोका दैत्यपूजनतत्पराः । ।

ते गच्छन्ति भहीलोकानतलादिमयाँस्तथा । । ३२

पातालाद्योजनं लक्षमधोलोकः प्रकीर्तितः ।

विधर्मतत्परा लोकास्ते गच्छन्ति ह्यधोगतिम् । ।

अतो वै विधिना भ्रष्टा मद्भक्ताश्च दरिद्रगाः । । ३३

ये मद्भक्ताः सुरान्पूर्वं पूजयित्वा भजन्ति माम् ।

लक्ष्मीवन्तश्च ते ज्ञेया भुक्तिमुक्तिपरायणाः । । ३४

प्रयागे नैर्ऋतो विप्रस्त्यक्त्वा देवान्मम प्रियान् ।

भजत्यनन्यभावेन तस्मात्स हि दरिद्रवान् । । ३५

देवैर्दत्तं हि यद्द्रव्यं भोक्तव्यं सर्वदा जनैः ।

मया दत्तं हि यद्वस्तु ब्रह्माण्डे नास्ति नारद । ।

अतो मदाज्ञया विप्र देहि तस्मै वरं शुभम् । । ३६

इत्युक्तो नारदो योगी हरिणा विश्वकारिणा ।

द्विजपत्नी स्थिता गेहे तत्र प्राप्य वचोऽब्रवीत् । । ३७

वरं वरय हे साध्वि त्वया यद्वाञ्छितं हृदि ।

साह देहि वरं स्वामिन्भूपराज्ञी भवाम्यहम् । । ३८

इत्युक्त्वा वचनं तत्र दिव्यरूपा बभूव सा ।

आगतस्तत्र नृपतिर्गृहीत्वा गेहमाययौ । । ३९

सायङ्काले तु सम्प्राप्ते द्विजस्तत्र समागतः ।

नारदस्तं वचः प्राह शृणु विप्र हरिप्रिय । । 3.4.11.४०

वरदानाच्च ते पत्नी भूपराज्ञी हि वर्तते ।

त्वया किं वाञ्छितं वस्तु मत्तः प्राप्य सुखी भव । । ४१

इति श्रुत्वा दैववशो वचः प्राह रुषान्वितः ।

क्रोष्ट्री भवेच्च मत्पत्नी देहि विप्र वरं मम । । ४२

इत्युक्त्वा वचनात्क्रोष्ट्री सा बभूव द्विजप्रिया ।

एकस्मिन्नन्तरे प्रास्तस्तत्पुत्रो गुरुपूजकः । । ४३

श्रुत्वा तत्कारणं सर्वं नारदं स वचोऽब्रवीत् ।

मम माता यथा स्वामिंस्तथा शीघ्रं वराद्भवेत् । । ४४

एतत्त्रिभिर्वरैः प्राप्तं दैवमायाविमोहितैः ।

तदा तु नारदो दुःखी नैर्ऋतं प्राह वै वचः । । ४५

ब्रह्माण्डोऽयं देवमयो भवस्तस्य महेश्वरः ।

अतो भवं भजाशु त्वं स ते कार्यं करिष्यति । । ४६

इत्युक्तवचनो विप्रो भवं तं पार्थिवार्चनैः ।

तुष्टाव परया भक्त्या वर्षमात्रं हि नैर्ऋतः । । ४७

तदा प्रसन्नो भगवान्महेशो भक्तवत्सलः ।

कुबेरसदृशं दिव्यं ददौ तस्मै महद्धनम् । । ४८

तद्धनेन स वै विप्रो धर्मकार्यं चकार ह ।

प्रसिद्धोऽभून्महीपृष्ठे नाम्ना पुण्यजनो धनैः । । ४९

शिवभक्तिप्रभावेण प्राप्य द्रव्यमकण्टकम् ।

सहस्राब्दवपुर्भूत्वा त्यक्त्वा प्राणान्दिवं ययौ । । 3.4.11.५०

वृषराशिस्थिते सूर्ये राजा चन्द्रस्य सोमवत् ।

नैर्ऋतो नाम विख्यातो रुद्रः सर्वजनप्रियः । । ५१

इति श्रुत्वा नैर्ऋतस्तु भृगुवर्य गुरूदितम् ।

स्वांशाद्भूतलमागम्य गिरिनालगिरौ वने । । ५२

योगिनः सिद्धसाङ्ख्यस्य पुत्रोऽभूद्वनवासिनः ।

वनशर्मेति विख्यातो वेदशास्त्रपरायणः । । ५३

द्वादशाब्दवपुर्भूत्वा जित्वा विद्वज्जनान्बहून् ।

काशीमागम्य तत्त्वार्थी शङ्कराचार्यमुत्तमम् । ।

प्रणम्य तस्य शिष्योऽभूद्वनशर्मा विशारदः । । ५४

बृहस्पतिरुवाच

वसुशर्मा द्विजः कश्चिन्माहिष्मत्यां पुराभवत् ।

शिवव्रतपरो नित्यं पुत्रार्थी पार्थिवार्चक. । । ५५

चतुर्विंशतिवर्षाणि पूजतस्तस्य धीमत ।

व्यतीतानि सुरास्तत्र न प्रसन्नोऽभवच्छिवः । । ५६

तदा तु दुःखितो विप्रो वह्निं प्रज्वाल्य भैरवम् ।

जुहाव स्वाङ्गमांसानि मुखतश्चरणान्तकम् । । ५७

न प्रसन्नोभवद्रुद्रस्तदा विप्रः शुचान्वितः ।

गृहीत्वा चोत्तमं मेषं संस्कारं कृतवाञ्छुचिः । ।

तेन मेषेण सहितो ज्वलदग्नौ समाययौ । । ५८

प्रसन्नो भगवान्रुद्रस्तत्रागत्य गणैर्युतः ।

स्वरूपं दर्शयामास शुद्धस्फटिकसुन्दरम् । ।

वरं ब्रूहि वचः प्राह वसुशर्माणमुत्तमम् । । ५९

तच्छ्रुत्वा स प्रसन्नात्मा नत्वा पार्वतिवल्लभम् ।

प्रश्रयावनतो भूत्वा वचनं प्राह शङ्करम् । । 3.4.11.६०

देहि मे तनयं स्वामिञ्छरणागतवत्सल ।

इत्युक्तश्शङ्करस्तेन विहस्योवाच तं द्विजम् । । ६१

पुत्रदाता स्वयं ब्रह्मा भाग्यकर्त्ता परात्परः ।

तुभ्यं च शतजन्मान्तं तेन पुत्रो न निर्मितः । ।

तस्मादहं सुतं स्वांशात्तव विप्र ददामि भोः । । ६२

इत्युक्त्वा स्वमुखात्तेजो निराकृत्य महेश्वरः ।

तत्पत्न्यां जनयामास सकाशाद्वसुवर्मणः । । ६३

दशमासान्तरे जातः सुपुत्रो मधुराननः ।

अजस्येव पदश्चैको द्वितीयो नरवत्ततः । ।

अजैकपाद इति स प्रसिद्धोऽभून्महीतले । । ६४

चतुश्शताब्दवपुषि प्राप्ते तस्मिन्सुते प्रिये ।

सम्प्राप्तो भगवान्मृत्युस्तदा रोगगणैर्युतः । । ६५

तस्य तैरभवद्युद्धमजैकचरणस्य वै । । ६६

वर्षमात्रेण तान्सर्वाञ्जित्वा मल्लरणोत्कटः ।

मृत्युञ्जयः स वै नाम्ना प्रसिद्धोऽभून्महीतले । । ६७

दुःखितो भगवान्मृत्युस्तेन विप्रेण निर्जितः ।

परमेष्ठिनमागम्य कथयामास कारणम् । । ६८

तदा तु भगवान्ब्रह्मा सर्वदेवगणैर्युतः ।

कुम्भगे द्युमणौ देवे चन्द्रमण्डलगं नृपम् । ।

तं द्विजं च चकाराशु रुद्ररूपं भयापहम् । । ६९

सूत उवाच

इति श्रुत्वा महादेवः स विप्रश्च तदाजपाद् ।

पुरीं माहिष्मतीं प्राप्तः कलिशुद्धिकरः प्रभुः । ।

पुरीशर्मेति विख्यातो यतिदत्तस्य वै सुतः । । 3.4.11.७०

षोडशाब्दवपुर्भूत्वा जित्वा वेद परायणान् ।

शङ्कराचार्यमागम्य तस्य शिष्यो बभूव ह । ।

इति ते कथितं विप्र यथा मृत्युञ्जयोभवत् । । ७

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये आनन्दगिरिवनशर्मपुरीशर्मउत्पत्तिवर्णनं नामैकादशोऽध्यायः । ११

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 13

अथ त्रयोदशोऽध्यायः

अघोरपथभैरवहनुमज्जन्मरुद्रमाहात्म्यबालशर्मसमुत्पत्तिवर्णनम्

बृहस्पतिरुवाच

षोडशाब्दे च सम्प्राप्ते ब्रह्मणोऽव्यक्तजन्मनः ।

स उषित्वा च कमले स्थितः सृष्ट्यर्थमुद्यतः । । १

एतस्मिन्नन्तरे वक्त्रात्समुद्भूता च शारदा ।

द्विव्याङ्गं सुन्दरं तस्या दृष्ट्वा ब्रह्मा स्मरातुरः । । २

बलाद् गृहीत्वा तां कन्यामुवाच स्मरपीडितः ।

रतिं देहि मदाघूर्णे रक्ष मां कामविह्वलम् । । ३

इति श्रुत्वा तु सा माता रुषा प्राह पितामहम् ।

पञ्चवक्त्रोऽयमशुभो न योग्यस्तव कन्धरे । । ४

चतुर्वक्त्रो वेदमयो योग्यस्सर्वेश्वरे त्वयि ।

इत्युक्त्वान्तर्दधे माता ब्रह्मा क्रोधान्वितोऽभवत् । । ५

तस्य कोपाग्निना तोयं शुष्कभूतमभूद्भुवि ।

शान्तिभूते च तत्कोपे रुद्रो जातो भयङ्करः । । ६

भैरवो नाम विख्यातः कालात्मा सप्तवाहनः ।

स्वनखैश्च नृसिंहाभैः क्षिप्त्वा तत्पञ्चमं शिरः । । ७

जगर्ज बलवान्रुद्रः शङ्करो लोकशङ्करः ।

भयभीतस्तदा ब्रह्मा भैरवं शरणं ययौ । । ८

नाथ नः पापभूतानां धियो योऽसौ प्रचोदयात् ।

इति श्रुत्वा स भगवान्भैरवो लोकविश्रुतः । । ९

ब्रह्मभूतमहं स्वामिन्वरेण्यं त्वामुपागतः ।

सवितुस्तद्वरेण्यं यद्भर्गो देवस्य धीमहि । । 3.4.13.१०

गाढमुच्चै रुरोदाशु खात्पेतुश्चाश्रुबिन्दवः ।

ततो वृक्षास्समुद्भूता रुद्राक्षाणां पृथक्पृथक् । । ११

शिवो ब्रह्मवधाद्भीतस्तत्कपालं गृहीतवान् ।

कपाली नाम विख्यातं भैरवस्य तदा ह्यभूत् । । १२

सर्वलोकेषु पूतानि यानि चायतनानि च ।

तानि तान्येव गत्वाशु शुद्धो नाभूच्छिवङ्करः । । १३

एकदा तेषु वृक्षेषु संस्थितो भगवान्हरः ।

तदा ब्रह्मवधे दोषं त्यक्त्वा दूरमुपागतः । । १४

ततः प्रभृति वै शम्भुर्धृत्वा रुद्राक्षमुत्तमम् ।

पुरीं काशीं समायातः कपालस्तेन मोचितः । । १५

कपालमोचनं नाम तीर्थं जातमघापहम् ।

एतस्मिन्नन्तरे ब्रह्मा सर्वदेवसमन्वितः । । १६

समागत्य महादेवं तुष्टाव स्तुतिजैस्तवैः ।

मकरस्थे दिवानाथे शशिनश्चेश्वरं शुभम् । ।

कपालिनं महारुद्रं चकार भगवान्विधिः । । १७

सूत उवाच

इति श्रुत्वा गुरोर्वाक्यं कपाली भैरवः शिवः ।

स्वमुखात्स्वांशमुत्पाद्य काश्यां जातो ह्ययोनिजः । । १८

कपालमोचनात्कुण्डात्समागम्य महीतले ।

यतिरूपो वेदनिधिर्भैरवो नाम विश्रुतः । ।

अघोरं कठिनं मार्गं स्वशिष्यान्समचोदय । । १९

शङ्कराचार्यमागम्य शिष्योभूत्वा स भैरवः ।

डामरं नाम वै तन्त्रं मन्त्रभूतं चकार ह । ।

कीलिता ये तु वै मन्त्रास्तेन चोत्कीलितीकृताः । । 3.4.13.२०

बृहस्पतिरुवाच

मन्दोदरी मयसुता त्रिपुराधिपतेः स्वसा ।

त्रिपुरे तु तदा नष्टे महाविष्णुं सनातनम् । ।

भक्त्या तुष्टाव सा देवी प्रत्यहं गुप्तभाविनी । । २१

भक्तिभावात्ततो योगं हरौ प्राप्य महोत्तमम् ।

विन्ध्याद्रिकन्धरे घोरे तत्रैवान्तरधीयत । । २२

चतुर्युगं च द्विशतं तस्या जातं समाधितः ।

वैवस्वतेऽन्तरे प्राप्ते द्वादशे चैव कृद्युगे । । २३

पुलस्त्यो ब्रह्मणः पुत्रो विश्रवा रोषतोऽभवत् ।

शताब्दं च तपस्तप्त्वा विश्रवा नाम यो मुनिः । । २४

सुमालिनोऽथ दैत्यस्य सुतां वै कैकसीं मुदा ।

समुद्वाह्य विधानेन पुलस्त्यस्स च विश्रवाः । । २५

कदलीविपिने रम्ये गन्धमादनपर्वते ।

स रेमे च तया सार्द्धं विश्रवा भगवानृषिः । । २६

रावणः कुम्भकर्णश्च तयोर्जातो हि राक्षसौ ।

रावणो मातृभक्तश्च पितृभक्तस्ततोऽनुजः । । २७

सहस्राब्दं तपो घोरं चक्रतुस्तौ वरार्थिनौ ।

तदा प्रसन्नो भगवान्परमेष्ठी पितामहः । । २८

ददौ ताभ्यां वरं रम्यमजेयं देवदानवैः ।

तौ तु लब्धवरौ क्रुद्धौ पुष्पकं यानमुत्तमम् । ।

गृहीत्वा च बलाद्वीरौ युयुधाते परस्परम् । । २९

ताभ्यां विनिर्जिता देवास्त्यक्त्वा स्वर्गं सुखप्रदम् ।

पार्थिवैः पूजयामासुः शिवं कैलाससंस्थिताः । । 3.4.13.३०

एकादशाब्दमाराध्य ते देवा गिरिजापतिम् ।

शङ्कराच्च वरं प्राप्ता निर्भयाश्च तदाभवन् । । ३१

शिवोऽपि च स्वपूर्वार्द्धाज्जातो वै मानसोत्तरे ।

गिरौ यत्र स्थिता देवी गौतमस्य तनूद्भवा । ।

अञ्जना नाम विख्याता कीशकेसरिभोगिनी । । ३२

रौद्रं तेजस्तदा घोरं मुखे केसरिणो ययौ ।

स्मरातुरः कपीन्द्रस्तु बुभुजे तां शुभाननाम् । । ३३

एतस्मिन्नन्तरे वायुः कपीन्द्रस्य तनौ गतः ।

वाञ्छितामञ्जनां शुभ्रां रमयामास वै बलात् । । ३४

द्वादशाब्दमतो जातं दम्पत्योर्मैथुनस्थयोः ।

तदनु भ्रूणमासाद्य वर्षमात्रं हि सा दधत् । । ३५

पुत्रो जातस्स रागात्मा स रुद्रो वानराननः ।

कुरूपाच्च ततो मात्रा प्रक्षिप्तोऽभूद्गिरेरधः । । ३६

बलादागत्य बलवान्दृष्ट्वा सूर्यमुपस्थितम् ।

विलिख्य भगवान्रुद्रो देवस्तत्र समागतः । । ३७

वज्रसन्ताडितो वापि न तत्याज तदा रविम् ।

भयभीतस्तदा प्रांशुस्सूर्यं त्राहीति जल्पितः । । ३८

श्रुत्वा तदार्तवचनं रावणो लोकरावणः ।

पुच्छे गृहीत्वा तं कीशं मुष्टियुद्धमचीकरत् । । ३९

तदा तु केसरिसुतो रविं त्यक्त्वा रुषान्वितः ।

वर्षमात्रं महाघोरं मल्लयुद्धं चकार ह । । 3.4.13.४०

श्रमितो रावणस्तत्र भयभीतस्समन्ततः ।

पलायनपरो भूतः कीशरुद्रेण ताडितः । । ४१

एतस्मिन्नन्तरे प्राप्तो विश्रवा भगवानृषिः ।

स्तोत्रैर्वेदमयैर्देवं तुष्टाव परया गिरा । ।४ २

प्रसन्नस्तु तदा रुद्रो रावणं लोकरावणम् ।

त्यक्त्वा पम्पासरस्तीरे निवासं कृतवान्बली । ।

स्थाणुभूतः स्थितस्तत्र स्थाणुर्नाम ततोऽभवत् । । ४३

निघ्नन्तं च सुरान्मुख्यान्रावणं लोकरावणम् । । ४४

निहन्ति मुष्टिभिर्यो न हनुमानिति विश्रुतः । । ४५

तपसा तस्य कीशस्य प्रसन्नो भगवान्विधिः ।

नम्रधीर्वचनं प्राह शृणु रुद्र तपोनिधे । । ४६

वैवस्वतेऽन्तरे प्राप्ते चाष्टाविंशत्तमे युगे ।

त्रेतायाः पूर्वचरणे रामस्साक्षाद्भविष्यति । ।

तस्य भक्तिं च सम्प्राप्य कृतकृत्यो भविष्यसि । । ४७

इति चोक्त्वा ददौ तस्मै चन्द्रं भाद्रप्रकाशकम् ।

रावणाय प्रियां रम्यां ददौ मन्दोदरी विधिः । । ४८

नैर्ऋतस्यैव दिक्पालस्स बभूव च रावणः ।

अल्पायुर्मरणं प्राप्तो रामेण हरिरूपिणा । । ४९

सूत उवाच

इति श्रुत्वा स हनुमानयोनिः कदलीवने ।

देहभूतो महीं प्राप्तो बालशर्मेति विश्रुतः । । 3.4.13.५०

पुरीं काशीं समायातो यत्र वै मणिकर्णिका ।

रामपक्षे बालशर्मा शिवपक्षे तु शङ्करः । । ५१

मासमात्रं च शास्त्रार्थस्तयोश्चासीन्महोत्तमः ।

शङ्कराचार्ययतिना बालशर्मा पराजितः । । ५२

शिष्यो भूत्वा च तत्रैव गुरुसेवापरोऽभवत् ।

यश्चकार तन्त्रमन्त्रं सर्व जातिकथामयम् । । ५३

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये अघोरपथभैरवहनुमज्जन्म रुद्रमाहात्म्यबालशर्मसमुत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः । १३

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 14

रुद्रमाहात्म्यवर्णनम्

बृहस्पतिरुवाच

इदं दृश्यं यदा नासीत्सदसदात्सकं च यत् ।

तदाक्षरमयं तेजो व्याप्तरूपमचिन्त्यकम् । । १

न च स्थूलं न च सूक्ष्णं शीतं नोष्णं च तत्परम् ।

आदिमध्यान्तरहितं मनागाकारवर्जितम् । । २

योगिदृश्यं परं नित्यं शून्यभूतं परात्परम् ।

एका वै प्रकृतिर्माया रेखा या तदधः स्मृता । । ३

महत्तत्वमयी ज्ञेया तदधश्चोर्ध्वरेखिकाः ।

राजस्सत्त्वतमोभूता ओमित्येवसुलक्षणम् । । ४

तत्सद्ब्रह्म परं ज्ञेयं यत्र प्राप्य पुनर्भवः ।

कियता चैव कालेन तस्येच्छा समपद्यत । । ५

अहङ्कारस्ततो जातस्ततस्तन्मात्रिकाः पराः ।

पञ्चभूतान्यतोप्यासञ्ज्ञानविज्ञानकान्यतः । । ६

द्वाविंशज्जडभूतांश्च दृष्ट्वा स्वेच्छामयो विभुः ।

द्वन्द्वभूतश्च सगुणो बुद्धिर्जीवस्समागतः । । ७

पूर्वार्द्धात्सगुणः सोसौ निर्गुणश्च परार्द्धतः ।

ताभ्यां गृहीतं तत्सर्वं चैतन्यमभवत्ततः । । ८

सविराडितिसंज्ञो वै जीवो जातस्सनातनः ।

विराडो नाभितो जातं पद्मं तच्छतयोजनम् । । ९

पद्माच्च कुसुमं जातं योजनायाममुत्तमम् ।

तत्पद्मकुसुमाज्जातो विरञ्चिः कमलासनः । । 3.4.14.१०

द्विभुजस्स चतुर्वक्त्रो द्विपादो भगवान्विधिः ।

ज्ञेयः सप्तवितत्यङ्गो महाचिन्तामवाप्तवान् । । ११

कोऽहं कस्मात्कुत आयातः का मे जननी को मे तातः ।

इत्यधिचिन्तय तं हृदि देवं शब्दमहत्त्वमयेन स आह । । १२

तपश्चैव तु कर्तव्यं संशयस्यापनुत्तये ।

तदाकर्ण्य विधिस्साक्षात्तपस्तेपे महत्तरम् । । १३

सहस्राब्दं प्रयत्नेन ध्यात्वा विष्णुं सनातनम् ।

चतुर्भुजं योगगम्यं निर्गुणं गुणविस्तरम् । । १४

समाधिनिष्ठो भगवान्बभूव कमलासनः ।

एतस्मिन्नन्तरे विष्णुर्बालो भूत्वा चतुर्भुजः । । १५

श्यामाङ्गो बलवानस्त्री दिव्यभूषणभूषितः ।

ब्रह्मणोऽङ्के हरिस्तस्थौ यथा बालः पितुः स्वयम् । । १६

तदा प्रबुद्धश्च विधिस्तं दृष्ट्वा मोहमागतः ।

वत्सवत्सेति वचनं विधिः प्राह प्रसन्नधीः । । १७

विहस्याह तदा विष्णुरहं ब्रह्मन्पिता तव ।

तयोर्विवदतोरेवं रुद्रो जातस्तमोमयः । । १८

ज्योतिर्लिङ्गश्च भयदो योजनानन्तविस्तरः ।

हंसरूपं तदा ब्रह्मा वराहो भगवान्प्रभु । । १९

शताब्दं तौ प्रयत्नेन जातौ चोर्ध्वमधः क्रमात् ।

लज्जितौ पुनरागत्य तदा तुष्टुवतुर्मुदा । । 3.4.14.२०

ताभ्यां स्तुतो हरः साक्षाद्भवो नाम्ना समागतः ।

कैलासनिलयं कृत्वा समाधिस्थो बभूव ह । । २१

जातं पञ्चयुगं तत्र दिव्यं रुद्रस्य योगिनः ।

एतस्मिन्नन्तरे घोरो दानवस्तारकासुरः । । २२

सहस्राब्दं तपः कृत्वा ब्रह्मणो वरमाप्तवान् ।

भववीर्योद्भवः पुत्रः स ते मृत्युं करिष्यति । । २३

इति मत्वा सुराञ्जित्वा महेन्द्रश्च तदाभवत् ।

ते सुराश्चैव कैलासं गत्वा रुद्रं प्रतुष्टुवुः । । २४

वरं ब्रूहीति वचनं सुरान्प्राह तदा शिवः ।

ते तु श्रुत्वा प्रणम्योचुर्वचनं नम्रकन्धराः । । २५

भगवन्ब्रह्मणा दत्तो वरो वै तारकाय च ।

शिववीर्योद्भवः पुत्र स ते मृत्युर्भविष्यति । ।

अतोऽस्मान्रक्ष भगवन्विवाहं कुरु शङ्कर । । २६

स्वायम्भुवेऽन्तरे पूर्वं दक्षश्चासीत्प्रजापतिः ।

षष्टिकन्यास्ततो जातास्तासां मध्ये सती वरा । । २७

वर्षमात्रं भवन्तं सा पार्थिवैः समपूजयत् ।

तस्यै त्वया वरो दत्तः सा बभूव तव प्रिया । । २८

तत्पित्रा या कृता निन्दा भवतोऽज्ञानचक्षुषा ।

तस्य दोषात्सती देवी तत्याज स्वं कलेवरम् । । २९

सतीतेजस्तदा दिव्यं हिमाद्रौ घोरमागमत् ।

पीडितस्तेन गिरिराड् बभूव स्मरविह्वलः । । 3.4.14.३०

पित्रीश्वरं स तुष्टाव कामव्याकुलचेतनः ।

अर्यमा तु तदा तुष्टो ददौ तस्मै सुता निजाम् । ।

मेनां मनोहरां शुद्धां स दृष्ट्वा हर्षितोऽभवत् । । ३१

नररूपं शुभं कृत्वा देवतुल्यं च तत्प्रियम् ।

स रेमे च तया सार्द्धं चिरं कालं महावने । । ३२

गर्भो जातस्तदा रम्यो नववर्षान्तमुत्तमः ।

कन्या जाता तदा सुभ्रूर्गौरी गौरमयी सती । । ३३

जातमात्रा च सा कन्या बभूव नवहायिनी ।

तुष्टाव शङ्करं देवं भवन्तं तपसा चिरम् । । ३४

शताब्दं च जले मग्ना शताब्दवह्निसंस्थिता ।

शताब्दे च स्थिता वायौ शताब्दं नभसि स्थिता । । ३५

शताब्दं च स्थिता चन्द्रे शताब्दं रविमण्डले ।

शताब्दं गर्भभूम्यां च स्थिता सा गिरिजा सती । । ३६

शताब्दं च महत्तत्वे गत्वा योगबलेन सा ।

भवन्तं शङ्करं शुद्धं तत्र दृष्ट्वा स्थिताद्य वै । । ३७

त्रिशताब्दमतो जातं तस्मात्त्वं पार्वतीं शिवाम् १ ।

वरं देहि प्रसन्नात्मा महादेव नमोऽस्तु ते । । ३८

इति श्रुत्वा वचो रम्यं शङ्करो लोकशङ्करः ।

देवानाह तदा वाक्यमयोग्यं वचनं हि वः । । ३९

मत्तो ज्येष्ठाश्च ये रुद्राः कुमारव्रतधारिणः ।

मृगव्याधादयो मुख्या दशज्योतिस्समुद्भवाः । । 3.4.14.४०

अहं तेषामवरजो भवो नामैव योगराट् ।

मायारूपां शुभां नारीं कथं गृह्णामि लोकदाम् । । ४१

नारी भगवती साक्षात्तया सर्वमिदं ततम् ।

मातृरूपा तु सा ज्ञेया योगिनां लोकवासिनाम् । । ४२

अहं योगी कथं नारीं मातरं वारितुं क्षमः ।

तस्मादहं भवदर्थे स्ववीर्यमाददाम्यहम् । । ४३

तद्वीर्यं भगवान्वह्निः प्राप्य कार्यं करिष्यति ।

इत्युक्त्वा वह्नये देवो ददौ वीर्यमनुत्तमम् । ।

स्वयं तत्र समाधिस्थो बभूव भगवान्हरः । । ४४

तदा शक्रादयो देवा वह्निना सह निर्ययुः ।

सत्यलोकं समागत्याब्रुवन्सर्वं प्रजापतिम् । । ४५

श्रुत्वा तत्कारणं सर्वं स्वयम्भूश्चतुराननः ।

नमस्कृत्य परं ब्रह्म कृष्णध्यानपरोऽभवत् । । ४६

ध्यानमार्गेण भगवान्गत्वा ब्रह्मा परं पदम् ।

हेतुं तद्वर्णयामास यथा शङ्करभाषितम् । । ४७

श्रुत्वा विहस्य भगवान्स्वमुखात्तेज उत्तमम् ।

समुत्पाद्य ततो जातः पुरुषो रुचिराननः । । ४८

ब्रह्माण्डस्य च्छविर्या वै स्थिता तस्य कलेवरे ।

प्रद्युम्नो नाम विख्यातं तस्य जातं महात्मनः । । ४९

तेन सार्द्धं तदा ब्रह्मा सम्प्राप्य स्वं कलेवरम् ।

ददौ तेभ्यस्स पुरुषं प्रद्युम्नं शम्बरार्तिदम् । । 3.4.14.५०

तेजसा तस्य देवस्य नरा नार्यस्समन्ततः ।

एकीभूतास्त्रिलोकेषु बभूवुः स्मरपीडिताः । । ५१

स्थावराः सौम्यभूता वै ते तु कामाग्निपीडिताः ।

सरिद्भिश्च लताभिश्च मिलितास्सम्बभूविरे । । ५२

ब्रह्माण्डेशः शिवः साक्षाद्रुद्रः कालाग्निसन्निभः ।

१त्रिनेत्रात्तेज उत्पाद्य शमयामास तद्व्यथाम् । । ५३

तदा क्रुद्धः स कृष्णाङ्गो गृहीत्वा कौसुमं धनुः ।

दिव्यान्पञ्च शरान्घोरान्महादेवाय बन्धवे । । ५४

उच्चाटनेन बाणेन गन्ताभूल्लोकशङ्करः ।

वशीकरणबाणेन नारीवश्यः शिवोऽभवत् । । ५५

स्तम्भनेन महादेवः शिवापार्श्वे स्थिरोऽभवत् ।

आकर्षणेन भगवाच्छिवाकर्षणतत्परः । ।

मारणेनैव बाणेन मूर्छितोऽभून्महेश्वरः । । ५६

एतस्मिन्नन्तरे देवी महत्तत्वे स्थिता शिवा ।

मूर्छितं शिवमालोक्य तत्रैवान्तर्द्धिमागमत् । । ५७

तदोत्थाय महादेवो विललाप भृशं मुहुः ।

हा प्रिये चन्द्रवदने हा शिवे च घटस्तनि । । ५८

हा उमे सुन्दराभे च पाहि मां स्मरविह्वलम् ।

दर्शनं देहि रम्भोरु दासभूतोऽस्मि साम्प्रतम् । । ५९

एवं विलपमानं तं गिरिजा योगिनी स्वयम् ।

समागत्य वचः प्राह नत्वा तं शङ्करः प्रियम् । । 3.4.14.६०

कन्याहं भगवन्देव मातृपित्रानुसारिणी ।

तयोस्सकाशाद्भगवन्मम पाणिं गृहाण भोः । । ६१

तथेति मत्वा स शिवः प्रद्युम्नशरपीडितः ।

सप्तर्षीन्प्रेषयामास ते तु गत्वा हिमाचलम् । ।

सम्बोध्य च विवाहस्य विधिं चक्रुर्मुदान्विताः । । ६२

ब्रह्माण्डे ये स्थिता देवास्तेषां स्वामी महेश्वरः ।

विवाहे तस्य सम्प्राप्ते सर्वे देवास्समाययुः । । ६३

अनन्तश्च गणाँश्चैव सुरान्दृष्ट्वा हिमाचलः ।

गिरिजां शरणं प्राप्य तस्थौ पर्वतराट् स्वयम् । । ६४

तदा तु पार्वती देवी निधीन्सिद्धीः समन्ततः ।

चकार कोटिशस्तत्र बहुरूपा सनातनी । । ६५

दृष्ट्वा तद्विस्मिता देवा ब्रह्मणा सह हर्षिताः ।

तुष्टुवुः पार्वतीं देवीं नारीरत्नं सनातनीम् । । ६६

देवा ऊचुः

उ वितर्के च मा लक्ष्मीर्बहुरूपा विदृश्यते ।

उमा तस्माच्च ते नाम नमस्तस्यै नमो नमः । । ६७

कतिचिदयनान्येव ब्रह्माण्डेऽस्मिच्छिवे तव ।

कात्यायनी हि विज्ञेया नमस्तस्यै नमो नमः । । ६८

गौरवर्णाच्च वै गौरी श्यामवर्णाच्च कालिका ।

रक्तवर्णाद्धैमवती नमस्तस्यै नमो नमः । । ६९

भवस्य दयिता त्वं वै भवानी रुद्रसंयुता ।

दुर्गा त्वं योगि दुष्प्राप्या नमस्तस्यै नमोनमः । । 3.4.14.७०

नान्तं जग्मुर्वयं ३ ते वै चण्डिका नाम विश्रुता ।

अम्बा त्वं मातृभूता नो नमस्तस्यै नमोनमः । । ७१

इति श्रुत्वा स्तवं तेषां वरदा सर्वमङ्गला ।

देवानुवाच मुदिता दैत्यभीतिं हरामि वः । । ७२

स्तोत्रेणानेन सम्प्रीता भवामि जगतीतले । । ७३

इत्युक्त्वा शम्भुसहिता कैलासं गुह्यकालयम् ।

गुहायां मिथुनीभूय सहस्राब्दं मुमोद वै । । ७४

एतस्मिन्नन्तरे देवा भीरुका लोकनाशनात् ।

ब्रह्माणं च पुरस्कृत्य तुष्टुवुर्गिरिजापतिम् । । ७५

लज्जितौ तौ तदा तत्र पश्चात्तापं हि चक्रतुः ।

महान्क्रोधस्तयोश्चासीत्तेन वै दुद्रुवुः सुराः । । ७६

प्रद्युम्नो बलवांस्तत्र सन्तस्थे गौरिवाचलः ।

रुद्रकोपाग्निना दग्धो बभूव बलवत्तरः । । ७७

प्रद्युम्नः स्थलरूपं च त्यक्त्वा भस्ममयं तदा ।

सूक्ष्मदेहमुपागम्य विश्रुतोऽभूदनङ्गकः । ।

यथा पूर्वं तथैवासीत्कायं कृत्वा स्मरो विभुः । । ७८

स्थूलरूपा रतिर्देवी शताब्दं शङ्करं परम् ।

ध्यानेनाराधयामास गिरिजावल्लभं व्रतैः । ।

तदा ददौ वरं देवस्तस्य रत्यै सनातनः । । ७९

रतिदेवि शृणु त्वं वै लोकानां हृत्सु जायसे ।

यौवने वयसि प्राप्ते नृणां देहैः पतिं स्वकम् । ।

भजिष्यसि मदर्धेन प्रद्युम्नं कृष्णसम्भवम् । । 3.4.14.८०

स्वारोचिषान्तरः कालो वर्तते चाऽद्यसुप्रियः ।

वैवस्वतेऽन्तरे प्राप्ते ह्यष्टाविंशतमे युगे । ।

द्वापरान्ते च भगवान् कृष्णः साक्षाज्जनिष्यति । । ८१

तदा तस्य सुतं देवं प्रद्युम्नं मेरुमूर्द्धनि ।

भजिष्यसि सुखं रम्ये विपिने नन्दने चिरम् । । ८२

अन्येषु द्वापरान्तेषु स्वर्णगर्भो हि तत्पतिः ।

जन्मवान्वर्तते भूमौ यथा कृष्णस्तथैव सः । । ८३

मध्याह्ने चैव सन्ध्यायां ब्रह्मणोऽव्यक्तजन्मनः ।

कल्पेकल्पे हरिस्साक्षात्करोति जनमङ्गलम् । । ८४

इत्युक्त्वा भगवाञ्छम्भुस्तत्रैवान्तर्द्धिमागमत् ।

राजा बभूव रुद्राणी गिरिजावल्लभो भवः । । ८५

सूत उवाच

इति श्रुत्वा भवः साक्षात्स्वमुखात्स्वांशमुत्तमम् ।

समुत्पाद्य तदा भूमौ गोदावर्यां बभूव ह । । ८६

आचार्यशर्मणो गेहे पुत्रो जातो भवांशकः ।

रामानुजस्स वै नाम्नानुजोऽभूद्रामशर्मणः । । ८७

एकदा रामशर्मा वै पतञ्जलिमते स्थितः ।

तीर्थात्तीर्थान्तरं प्राप्तः पुरीं काशीं शिवप्रियाम् । । ८८

शङ्कराचार्यमागम्य शतशिष्यसमन्वितः ।

शास्त्रार्थं कृतवान्रम्यं कृष्णपक्षो हरिप्रियः । । ८९

शङ्कराचार्यविजितो लज्जितो निशि भीरुकः ।

स्वगेहं पुनरायातः शाङ्करैर्वा शरैर्हतः । । 3.4.14.९०

रामानुजस्तु तच्छ्रुत्वा सर्वशास्त्रविशारदः ।

भ्रातृशिष्यैश्च सहितः पुरीं काशीं समाययौ । । ९१

वादो वेदान्तशास्त्रे च तयोश्चासीन्महात्मनोः ।

शङ्करः शिवपक्षश्च कृष्णपक्षस्स वै द्विजः । । ९२

मासमात्रेण वेदान्ते दर्शितस्तेन वै हरिः ।

वासुदेवस्स वै नाम सच्चिदानन्दविग्रहः । । ९३

वासुदेवस्स वै ज्ञेयो वसुष्वंशेन दीव्यति ।

वसुदेवस्स वै ब्रह्मा तस्य सारो हि यः स्मृतः । । ९४

वासुदेवो हरिस्साक्षाच्छिवपूज्यः सनातनः ।

शङ्करो लज्जितस्तत्र भाष्यशास्त्रे समागतः । । ९५

पक्षमात्रं शिवैस्सूत्रैर्वर्णयामास वै शिवस् ।

रामानुजेन तत्रैव भाष्ये सन्दर्शितो हरिः । । ९६

गोविन्दो नाम विख्यातो वैय्याकरणदेवता ।

गां परां विन्दते यस्माद्गोविन्दो नाम वै हरिः । । ९७

गिरीशस्तु न गोविन्दो गिरीणामीश्वरो हि सः ।

गोपालस्तु न वै रुद्रो गवारूढः प्रकीर्तितः । । ९८

ज्ञेयः पशुपतिः शम्भुर्गोपतिर्नैव विश्रुतः ।

लज्जितः शङ्कराचार्यो मीमांसाशास्त्रमागतः । । ९९

तयोर्दशदिनं शास्त्रे विवादस्सुमहानभूत् ।

यस्तु वै यज्ञपुरुषो रामानुजमतप्रियः । । 3.4.14.१००

विच्छिन्नः शङ्करेणैव मृगभूतः पराजितः ।

आचारप्रभवो धर्मो यज्ञदेवेन निर्मितः । । १०१

भ्रष्टाचारस्तदा जातो यज्ञे दक्षप्रजापतेः ।

इति रामानुजः श्रुत्वा वचनं प्राह नम्रधीः । । १०२

कर्मणे जनितो यज्ञो विश्वपालनहेतवे ।

कर्मब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । । १०३

अक्षरोऽयं शिवः साक्षाच्छब्दब्रह्मणि संस्थितः ।

पुराणपुरुषो यज्ञो ज्ञेयोऽक्षरकरो भुवि । ।

अक्षरात्स तु वै श्रेष्ठः परमात्मा सनातनः । । १०४

अक्षरेण न वै तृप्तात्तृप्तोऽभूद्यज्ञकर्मणि ।

नाम्ना स यज्ञपुरुषो वेदे लोके हि विश्रुतः । । १०५

प्रपौत्रस्य तदा वृद्धिं दृष्ट्वा स्पर्द्धातुरः शिवः ।

मृगभूतश्च रुद्रोऽसौ दिव्यबाणैरतर्पयत् । । १०६

समर्थो यज्ञपुरुषो ज्ञात्वा गुरुमयं शिवम् ।

पलायनपरो भूतो धर्मस्तेन महान्कृतः । । १०७

लज्जितः शङ्कराचार्यो न्यायशास्त्रे समागतः ।

भवतीति भवो ज्ञेयो मृडतीति स वै मृडः । । १०८

लोकान्भरति यो देवः स कर्ता भर्ग एव हि ।

हरतीति हरो ज्ञेयः स रुद्रः पापरावणः । । १०९

स्वयं कर्ता स्वयं भर्त्ता स्वयं हर्ता शिवः स्वयम् ।

शिवाद्विष्णुर्महीं यातो विष्णोर्ब्रह्मा च पद्मभूः । । 3.4.14.११०

इति श्रुत्वा तु वचनं प्राह रामानुजस्तदा ।

धन्योऽयं भगवाच्छम्भुर्यस्यायं महिमा परः । । १११

सत्यं सत्यं ममाज्ञेयं कर्ता कारयिता शिवः ।

रामनाम परं नित्यं कथं शम्भुर्जपेद्धरिम् । । ११२

अनन्ता सृष्टयः सर्वा उद्भूता यस्य तेजसा ।

अनन्तः शेषतः शेषा १रमन्ते योगिनो हि तम् । । ११३

स च वै मत्प्रभोर्धाम सच्चिदानन्दविग्रहः ।

इति श्रुत्वा तदा वाक्यं लज्जितः शङ्करोऽभवत् । । ११४

योगशास्त्र परो देवः कृष्णस्तेनैव दर्शितः ।

कालात्मा भगवान्कृष्णो योगेशो योगतत्परः । । ११५

साङ्ख्यशास्त्रे च कपिलस्तस्मै तेनैव दर्शितः ।

कं वीर्यं पाति यो वै स कपिस्तं चैव लाति यः । ।

कपिलस्स तु विज्ञेयः कपी रुद्रः प्रकीर्तितः । । ११६

कपिलो भगवान्विष्णुः सर्वज्ञः सर्वरूपवान् ।

तदा तु शङ्कराचार्यो लज्जितो नम्रकन्धरः । । ११७

शुक्लाम्बरधरो भूत्वा गोविन्दो नाम निर्मलम् ।

जजाप हृदि शुद्धात्मा शिष्यो रामानुजस्य वै । । ११८

इति ते रुद्रमाहात्म्यं प्रसङ्गेनापि वर्णितम् ।

धनवान्पुत्रवान्वाग्मी भवेद्यः शृणुयादिदम् । । ११९

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये

रुद्रमाहात्म्यवर्णनोत्तररामानुजोत्पत्तिवर्णनं नाम चतुर्दशोऽध्यायः । १४

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 15

वसुमाहात्म्ये त्रिलोचनवैश्योत्पत्तिवर्णनम्

सूत उवाच

भृगुवर्य महाभाग शृणु त्वं जीववर्णितम् ।

पवित्रं वसुमाहात्म्यं सर्ववस्तुसुखप्रदम् । । १

बृहस्पतिरुवाच

वैवस्वतेऽन्तरे प्राप्ते चाद्ये सत्ययुगे शुभे ।

इल्वला तामसी शक्तिः प्रिया विश्रवसो मुनेः । ।

शिवमाराधयामास सती सा पार्थिवार्चनैः । । २

एतस्मिन्नन्तरे जातो दीक्षितान्वयसम्भवः ।

यक्षशर्मा महाधूर्तो यक्षिणीपूजने रतः । । ३

तस्य मित्रस्नुषा सुभ्रू रमिता तेन पापिना ।

तेन दोषेण विप्रोऽसौ कुष्ठभूतस्तदाभवत् । । ४

कुष्ठभूतं द्विजं त्यक्त्वा यक्षिणी मन्त्रवत्सला ।

शिवलोकं ययौ देवी कैलासं गुह्यकालयम् । । ५

क्षुधातुरो यक्षशर्मा शिवरात्रे महोत्तमे ।

दर्शितं पूजनं तेन योषिद्भ्यश्चोपदेशतः । । ६

प्रभाते समनुप्राप्ते पारणां कृतवान्द्विजः ।

मरणं प्राप्तवान्कुष्ठी तत्रैव शिवमन्दिरे । । ७

तेन पुण्यप्रभावेन राजासीत्करणाटके ।

राजराज इति ख्यातो मण्डलीको नृपोऽभवत् । । ८

शिवार्चनं मङ्गलदं गेहे गेहे दिने दिने ।

ब्राह्मणैः कारयामास राजराजो महाबलः । । ९

शताब्दं भूतले राज्यं कृतं तेन महात्मना ।

राज्याधिकारं श्रेष्ठस्य सुतस्य प्रददौ नृपः । ।

ततः काशीपुरीं प्राप्य शिवं तुष्टाव पूजनैः । । 3.4.15.१०

त्रिवर्षान्ते महादेवो ज्योतिर्लिङ्गो बभूव ह ।

राजराजेश्वरो नाम प्रसिद्धोऽभूच्छिवः स्वयम् । । ११

स नृपः पावितस्तेन त्यक्त्वा प्राणांस्तदा स्वयम् ।

इल्वलागर्भमागम्य पुत्रोऽभूच्छुभलक्षणः । । १२

जातः कुत्सितवेलायां रात्रौ घोरतमोवृते ।

कुबेर इति तन्नाम प्रसिद्धमभवद्भुवि । । १३

तपसा तोषयामास स बालः परमेष्ठिनम् ।

तस्मै ब्रह्मा तदागत्य लङ्कां नाम पुरीं शुभाम् । ।

सुवर्णरचितां रम्यां कारयित्वा ददौ प्रभुः । । १४

तिस्रः कोट्यः स्मृता यक्षा लोककार्यपरायणाः ।

तेषां स्वामी स वै चासीद्यक्षराडिति विश्रुतः । । १५

किन्नरा बहुरूपाश्च तदादेशनिवासिनः ।

बलिभिः पूजयामासुः किन्नरेशस्तदा स्वयम् । । १६

गुह्यका नरभावस्था दिव्यमूल्यप्रकारिणः ।

तेषां स्वामी स वै चासीत्कुबेरो भगवान्स्वयम् । । १७

गिरिभ्यो बहुरत्नानि गृहीत्वा लोकहेतवे ।

रक्षोभिः प्रेषयामास गेहे गेहे जने जने । । १८

धर्मकार्यकरा ये तु नरा वेदपरायणाः ।

तेषां कोशाश्च तेनैव पूरिता नरधर्मिणा । । १९

ये तु लोभपरा धूर्ता नराः सञ्चयकारिणः ।

तेषां राजा स भगवान्द्रव्यदो राक्षसेश्वरः । । 3.4.15.२०

शवभूता नरा ये वै दाहिता वह्निकर्मणि ।

अग्निद्वारेण तन्मांसं भुञ्जते राक्षसाः सदा । । २१

आभिर्विभूतिभिर्युक्तं दृष्ट्वा तं रावणो बली ।

जित्वा निष्कास्य लङ्कायाः स्वयं राजा बभूव ह । । २२

कुबेरो दुःखितस्तत्र शङ्करः दुःखनाशनम् ।

शरण्यं शरणं प्राप्तस्तदा तु भगवान्हरः । ।

तेन मैत्री कृता रम्या कुबेरेण समं दधौ । । २३

अलकावती नाम पुरी रचिता विश्वकर्मणा ।

स तां मङ्गलदामाप्य कुबेरो हर्षमाप्तवान् । । २४

इति श्रुत्वा तदनुजो रावणो लोकरावणः ।

कैलासं गिरिमागम्य नलकूबरभोगिनीम् । । २५

दृष्ट्वा पुलस्त्यतनयः पस्पर्श मधुराननाम् ।

तदा पतिव्रता देवी सुप्रभा प्राह तं रुषा । । २६

स्नुषेव तव पापात्मन्वर्तेऽहं लोकरावण ।

कुष्ठो भवेत्तव तनौ तेन दोषेण दारुणः । । २७

त्वया हृतं विमानं यज्ज्येष्ठबन्धोश्च पुष्पकम् ।

निष्फलत्वमवाप्नोतु यथा चौरैर्हृतं धनम् । । २८

इति शापान्वितो वीरस्तथाभूतः सुदुःखितः ।

शिवमाराधयामास कैलासे पार्थिवार्चनैः । । २९

द्वादशाब्दमतो जातं पूजनं तस्य कुर्वतः ।

स रुद्रो न प्रसन्नोऽभूत्तदा दुःखी स रावणः । । 3.4.15.३०

जुहाव वह्नौ क्रमतः शिरांसि पुरुषादनः ।

स्थूलदेहं च सकलं स रुद्राय तदार्पयत् । । ३१

भस्मभूतस्तदा रक्षो न मृतो ब्रह्मणो वरात् ।

पावकादुद्भवं चान्यं देहं प्राप्य मनोहरम् । । ३२

शिवाय वायुरूपाय ददौ स्वाङ्गं पुनर्बली ।

पिशाचैर्वायुरूपैश्च भक्षितः स च रावणः । । ३३

न ममार वराद्घोरो वायोर्जातं कलेवरम् ।

गृहीत्वा स च रुद्राय नभोभूताय चार्पयत् । । ३४

तदा मातृगणैर्घोरैर्भक्षितोऽभूत्स रावणः ।

ब्रह्मणो वरदानेन न पञ्चत्वमवाप्तवान् । । ३५

नभसश्चोद्भवं देहं शून्यभूतं स रावणः ।

पुनः प्राप्य शिवायैव सोऽहं भूताय चार्पयत् । । ३६

तदा प्रसन्नो भगवान्रुद्रोऽहङ्कारदेवता ।

कुबेरस्य यथा मित्रं रावणस्य तथाभवत् । । ३७

एकैकेनैव शिरसा कोटिकोटिशिरोऽभवत् ।

वज्रभूतोऽभवद्देहो देवदेवप्रसादतः । ।

एवं स रावणो घोरो बभूव वरदर्पितः । । ३८

देवदैत्यमनुष्याणां पन्नगानां च योषितः ।

नवोढा रमिताश्चासन्ब्रह्माण्डे तेन रक्षसा । । ३९

पतिव्रतामतो रम्यो वेदधर्मः सनातनः ।

भग्नीभूतोऽभवत्सर्वः सर्वलोकेषु रक्षसा । । 3.4.15.४०

क्षुत्तृड्भ्यां वर्जितो नित्यं शङ्करेणैव तर्पितः ।

अन्ये सुरा विना यज्ञैः क्षुधिताः सम्बभूविरे । । ४१

ब्रह्माणं च पुरस्कृत्य क्षीराब्धौ प्राप्य दुःखिताः ।

एकीभूय सुरास्सर्वे तुष्टुवुः परमेश्वरम् । । ४२

तदा प्रसन्नो भगवान्सगुणो निर्गुणो हरिः ।

उवाच सकलान्देवान्भक्तिनम्रान्यतेन्द्रियान् । । ४३

कल्पाख्ये श्वेतवाराहे नेदृशः कोऽपि दानवः ।

बभूव च यथैवासौ रावणो लोकरावणः । । ४४

पुरा मार्कण्डकल्पे च निशुम्भः शुम्भ एव हि ।

यथा जातौ तथा घोरौ कुम्भकर्णश्च रावणः । । ४५

रावणा बहवश्चासन्हीदृशो नैव रावणः ।

अहं ब्रह्मा तथा रुद्रो यतो जातास्सनातनाः । ।

सा तु वै प्रकृतिर्माया कोटिविश्वविधायिनी । । ४६

देवसङ्कटघोरेषु समर्थो देवराट् स्वयन् ।

शक्रविघ्ने समुद्भूते समर्थो भगवान्हरः । । ४७

रुद्राणां सङ्कटे घोरे समर्थोऽहं सदा भुवि ।

मयि सङ्कटसम्प्रास्ते समर्थो भगवान्हरः । ।४८

ब्रह्मणः परमे दुःखे समर्था प्रकृतिः परा ।

मधुकैटभौ पुरा जातौ दानवौ लोकविश्रुतौ । ।४ ९

ताभ्यां दुखमयो ब्रह्मा तुष्टाव जगदम्बिकाम् ।

तदा तस्या बलेनाहं जघान मधुकैटभौ । । 3.4.15.५०

अतो मदाज्ञया सर्वे विष्णुमायां सनातनीम् ।

शरण्यां शरणं प्राप्य कुर्वतां जगतो हितम् । । ५१

इति श्रुत्वा तु ते देवास्तुष्टुवुः प्रकृतिं पराम् ।

प्रसन्ना च तदा देवी ब्रह्मज्योतिर्मयी शिवा । । ५२

द्विधाभूता महीं प्राप्ता सीतारामौ परापरौ ।

त्रिलिङ्गजननी सीता तया तदपरं द्विधा । ।

कृतं तौ च द्विधा जातौ शब्दार्थौ रामलक्ष्मणौ । । ५३

शब्दमात्रसमूहानां स्वामी रामस्सनातनः ।

अर्थमात्रसमूहानामीशः क्लीबस्स लक्ष्मणः । । ५४

यस्य वज्रमयं वीर्यं ब्रह्मचर्यं दृढं तथा ।

स क्लीबश्च ततोऽन्ये वै क्लीबभूता हि वानराः । । ५५

परा तु प्रकृतिस्सीता तयोर्मङ्गःलदायिनी ।

भूमिमध्यात्समुद्भूता ह्ययोनिर्योनिकारिणी । । ५६

सहस्रं रामरामेति जपितं येन धीमता ।

सीतानाम्ना च तस्यैव फलं ज्ञेयं च तत्समम् । । ५७

योनिभूतौ च तौ देवौ राधेयस्य गृहं गतौ ।

इदं दृश्यं यदा नासीत्तामसी प्रकृतिस्तदा । ।

अक्षराशेषभूता च स्वयं जाता त्रिधेच्छया । । ५८

पूर्वं शेषस्स वै रामो मध्ये क्लीबस्य लक्ष्मणः ।

अपरौ पूर्वतो जातौ पुंक्लीबौ च परेश्वरौ । ।

परो भागस्तु सा देवी योगनिद्रा सनातनी । । ५९

अन्यकल्पेषु हे देवाः क्षीरशायी हरिः स्वयम् ।

रामो ज्ञेयस्तथा शेषो रुद्ररूपस्स लक्ष्मणः । । 3.4.15.६०

सीता भगवती लक्ष्मीर्जाता जनकनन्दिनी ।

सुदर्शनश्च भरतो हरेः शङ्खस्ततोऽनुजः । । ६१

कल्पाख्ये श्वेतवाराहे रामो जातः परात्परः ।

प्रद्युम्नो भरतो ज्ञेयोऽनिरुद्धः शत्रुहा प्रभुः । ।

तैश्च सर्वे विदलिता राक्षसा रावणादयः । । ६२

कीर्तिं स्वकीयां लोकेषु संस्थाप्य पावनीं प्रभुः ।

पुष्पकं च कुबेराय विमानं च तदा ददौ । ।

रुद्रसङ्ख्या सहस्राब्दं राज्यं कृत्वा परं ययौ । । ६३

सूत उवाच

इति श्रुत्वा कुबेरस्तु प्रथमो वसुदेवता ।

स्वमुखात्स्वांशमुत्पाद्य वैश्ययोनौ बभूव ह । । ६४

धरदत्तस्य वैश्यस्य पुत्रो भूत्वा महीतले ।

त्रिलोचनस्स वै नाम मथुरायां बभूव ह । । ६५

सर्वद्रव्यव्ययं कृत्वा नानातीर्थेषु हर्षितः ।

पुरीं काशीं समागम्य रामानन्दं च वैष्णवम् । ।

नत्वा तद्वश्यमभजच्छिष्यो भूत्वा त्रिलोचनः । । ६६

स्वगेहं पुनरागत्य स वैश्यश्चाज्ञया गुरोः ।

रामभक्तिपरश्चासीत्साधुसेवापरायणः । । ६७

तदा तु भगवान्रामो दासभूतश्च तद्गृहे ।

स्थितस्त्रयोदशे मासि सर्ववाच्छितदायकः । । ६८

मणिरत्नहिरण्यानि वासांसि विविधानि च ।

नाना व्यञ्जनयोग्यानि ब्राह्मणेभ्यः स्वयं ददौ । । ६९

वैष्णवेभ्यो यतिभ्यश्च मनोवाच्छितदायकः ।

ततस्त्रिलोचनं प्राह भगवान्रावणार्तिहा । । 3.4.15.७०

अहं रामो न वै दासस्तव भक्तिविमोहितः ।

निवासं कृतवान्गेहे तव प्रियहिते रतः । । ७१

अद्यप्रभृति भो वैश्य वसामि हृदये तव ।

इत्युक्त्वान्तर्हितो देवः स वैश्यो हर्षमागतः । । ७२

त्यक्त्वा कलत्रं पुत्रं च प्राप्य वैराग्यमुत्कटम् ।

उषित्वा सरयूतीरे रामध्यानपरोभवत् । । ७३

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये

कलियुगीयेतिहाससमुच्चये वसुमाहात्म्ये त्रिलोचनवैश्योत्पत्तिवर्णनं नाम पञ्चदशोऽध्यायः । १५

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 16

रङ्कणवैश्योत्पत्तिवर्णनम्

बृहस्पतिरुवाच

स्वायम्भुवेऽन्तरे पूर्वं ध्रुववंशसमुद्भवः ।

राजा प्राचीनबर्हिश्च बभूव मखकारकः । । १

नारदस्योपदेशेन त्यक्त्वा हिंसामयं मखम् ।

ज्ञानवान् वैष्णवो भूत्वा दशपुत्रानजीजनत् । । २

प्रचेतानाम तेषां वै जातं ते चैकरूपिणः ।

पितुराज्ञां पुरस्कृत्य जलमध्ये तपोऽर्थिनः । ।

रत्नाकरस्य सिन्धोश्च मग्नभूता बभूविरे । । ३

तेषां तु तपसा तुष्टः स्वयम्भूश्चतुराननः ।

सप्ताब्धिषु स तान्सप्त सुतान्संस्थाप्य लोकराट् । । ४

रत्नाकरेऽष्टमं पुत्रं नवमं मानसोत्तरे ।

दशमं मेरुशाखायां सुतं कृत्वा मुमोद ह । । ५

आपो वहति यो लोके स आपव इति स्मृतः ।

द्वितीयो वरुणो नाम यादसां पतिरप्पतिः । । ६

ददौ पाशं तदा ब्रह्मा दैत्यबन्धनहेतवे ।

पाशी नाम ततो जातं वरुणस्य महात्मनः । । ७

स तु पूर्वभवे चासीद्ब्राह्मणः शक्तिपूजकः. ।

आपवो नाम विख्यातो वारुणीपानतत्परः । । ८

भद्रकाल्याः प्रियो भक्तो नित्यं पूजनतत्परः ।

नानारक्तमयैः पुष्पैर्गुण्ठितां रक्तमालिकाम् । । ९

रक्तचन्दनसंयुक्तां गृहीत्वा मन्त्रसंयुतः ।

भद्रकाल्यै निवेद्याशु नवार्णवपरोऽभवत् । । 3.4.16.१०

धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैर्ऋतुजैः फलैः ।

पूजयित्वा महालक्ष्मीं भद्रकालीं सनातनीम् । । ११

तिलैः शर्करया युक्तं मधुना च हविः स्वयम् ।

वह्निद्वारेण संहृत्य तुष्टाव जगदम्बिकाम् । । १२

चरित्रं मध्यमं देव्या विष्णुदेवेन निर्मितम् ।

नवार्णवेन तेनैव प्रत्यहं जाप्यतत्परः । । १३

एवं वर्षत्रयं जातं तस्य पूजां प्रकुर्वतः ।

प्रसन्नाभूत्तदा देवी वरदा सर्वमङ्गला । ।

वरं ब्रूहीति वचनं तमाह द्विजसत्तमम् । । १४

इति वाक्यं प्रियं श्रुत्वा द्विज आपव नम्रधीः ।

तुष्टाव दण्डवद् भूत्वा भद्रकालीं सनातनीम् । । १५

आपव उवाच

विष्णुकल्पे पुरा चासीद्दानवो महिषासुरः ।

कोटिकोटिसहस्रैस्तु रथैर्वाजिगजैर्युतः । । १६

त्रैलोक्यं स्ववशे कृत्वा महेन्द्रस्स तदाभवत् ।

स्वारोचिषान्तरः कालो गतो राज्यं प्रकुर्वतः । । १७

ततस्स भगवान्विष्णुस्सर्वदेवसमन्वितः ।

समुत्पाद्य मुखात्तेजो ज्वालामाली बभूव ह । । १८

ज्योतिर्लिङ्गात्तदा देवी भवती स्वेच्छया भुवि ।

सम्भूय महिषं हन्त्री तस्यै देव्यै नमोनमः । । १९

रूद्रकल्पे पुरा चासीद्रुदच्छम्भुमुखाद्दिवि ।

रावणश्च सहस्रास्यो जातो ब्रह्माण्डरावणः । । 3.4.16.२०

राक्षसो बलवान्घोरो लोकालोकगिरेरधः ।

न्यवसद्देवदैत्यानां मनुष्याणां च भक्षकः । ।

षष्ठे मन्वन्तरे तेन ब्रह्माण्डं राज्यसात्कृतम् । । २१

ततो वैवस्वते प्राप्ते त्रेताष्टाविंशके प्रभुः ।

स जातो राघवगृहे रामस्सङ्कर्षणः स्वयम् । । २२

षोडशाब्दवपुर्भूत्वा स गतो जनकालये ।

धनुश्चाजगवं घोरं प्रभग्नं तेन धीमता । । २३

तदा ब्रह्मादयो देवा ज्ञात्वा रामं सनातनम् ।

सहस्रवदनस्यैव वर्णयामास कारणम् । । २४

तच्छुत्वा हंसयानं च समारुह्य स सीतया ।

लोकालोकगिरौ प्राप्य घोरयुद्धमचीकरत् । । २५

हंसयानपताकायां संस्थितो हनुमान्कपिः ।

वेदाश्च वाजिनस्तत्र नेता ब्रह्मा सनातनः । । २६

दिव्यवर्षमभूद्घोरः सङ्ग्रामस्तेन रक्षसा ।

रावणस्स तदा क्रुद्धो द्विसहस्रैश्च बाहुभिः । । २७

अपरौ मूर्छयित्वा तौ भ्रातरौ रामलक्ष्मणौ ।

जगर्ज बलवान्घोरस्स च ब्रह्माण्डरावणः । । २८

ब्राह्मणा संस्तुता माता भवती ब्रह्मरूपिणी ।

सीता शान्तिमयी नित्या तया ब्रह्माण्डरावणः । ।

विनाशितो नमस्तस्यै नमस्तस्यै नमो नमः । । २९

ब्रह्मकल्पे पुरा चासीत्तालजंघान्वयोद्भवः ।

मुरो नाम महादैत्यो ब्रह्मणो बलदर्पितः । । 3.4.16.३०

ब्रह्माण्डेशं महारुद्रं महेन्द्रादिसमन्वितम् ।

स बभूव पराजित्याधिकारी रौद्र आसने । । ३१

देवैस्सार्द्धं महादेवो माधवं क्षीरशायिनम् ।

गत्वा निवेदयामास स विष्णुः क्रोधसंयुतः । । ३२

जगाम गरुडारूढो यत्र दैत्यो मुरः स्थितः ।

तेन सार्द्धमभूद्युद्धं तस्य देवस्य दारुणम् । ३३

सहस्राब्दमतो जातं दृष्ट्वा ब्रह्मा भयान्वितः ।

परां तु प्रकृतिं नित्यां तुष्टाव श्लक्ष्णया गिरा । । ३४

प्रसन्ना सा तदा देवी कुमारी सप्तहायिनी ।

चतुर्भुजास्त्रसहिता भूत्वा दैत्यमुवाच ह । । ३५

पराजितोऽयं भगवान्दैत्यराजेन वै त्वया ।

विजया नाम मे रम्या कैश्चिन्नाहं पराजिता । । ३६

उन्मीलिनी विञ्चुली च त्रिस्पृशा पक्षवर्द्धिनी ।

जया जयन्ती विजया वर्षेवर्षे क्रमादहम् । । ३७

एकादशशुभाचारा विष्णवस्तनया मम ।

एकादशीति विख्याता वेदमध्ये सदा ह्यहम् । । ३८

अतो मां बलवाञ्जित्वा विजयां विष्णुमातरम् ।

पाणिं ग्रहाण मे रम्यं सर्वपूज्यो भवान्भवेत् । । ३९

इति श्रुत्वा मुरो दैत्यस्तस्या रूपेण मोहितः ।

युयुधे स तया सार्द्धं क्षणार्द्धेन लयङ्गतः । । 3.4.16.४०

तं मुरं निहतं दृष्ट्वानुजस्तन्नरकासुरः ।

दैत्यमायां महाघोरां चकार सुरनाशिनीम् । । ४१

एकादशी स्वयं माया हुङ्कारेणैव तं तदा ।

नरकेण समं हत्वा जगर्ज जगदम्बिका । । ४२

तयोस्तेजो महाघोरमन्नमध्येषु चागमत् ।

दुष्टभूतममूदन्नं नृणां रोगभयप्रदम् । । ४३

दृष्ट्वा चैकादशी नाम्ना रविशुक्रावुवाच ह ।

कुरुतां शुद्धमेवान्तर्भवन्तौ लोकविश्रुतौ । । ४४

तदाज्ञया तथा कृत्वा देव पूज्यौ बभूवतुः ।

एवं मातस्त्वया सर्वं कृतं तस्यै नमो नमः । । ४५

इति श्रुत्वा भद्रकाली स्तोत्रं दिव्यं कथामयम् ।

आपवं प्राह सा देवी ब्राह्मणं वेदकोविदम् । । ४६

प्रलये च तदा प्राप्ते नष्टे स्थावरजङ्गमे ।

एकार्णवे पुरा त्वं वै मत्प्रसादात्सुखी भव । । ४७

स्तोत्रेणानेन सुप्रीता वरदाहं सदा नरान् १ ।

इत्युक्त्यान्तर्हिता देवी स विप्रो वरुणोऽभवत् । । ४८

सूत उवाच

इति श्रुत्वा गुरोर्वाक्यं भगवान्द्वितियो२ वसुः ।

वरुणः स्वमुखात्तेजो जनयामास भूतले । । ४९

देहल्यां स तु वै जातो धर्मभक्तस्य वै गृहे ।

विधवा तस्य या कन्या गर्भं धत्ते हरेः स्वयम् । । 3.4.16.५०

इति ज्ञात्वा धर्मभक्तो मुमुदे सुतजन्मनि ।

नामदेव इति ख्यातः साङ्ख्ययोगपरायणः । । ५१

आब्रह्मस्तम्बपर्यन्तं सर्वं विष्णुमयं जगत् ।

ज्ञात्वा दृष्ट्वा गतः काश्यां रामानन्दं हरिप्रियम् । । ५२

नत्वा तच्छिष्यतां प्राप्य तत्र वासमकारयत् ।

सिकन्दरो म्लेच्छपतिर्देहलीराज्यमास्थितः । । ५३

नामदेवं समाहूय सम्परीक्ष्य तदा सुखी ।

अर्धकोटिमितं द्रव्यं ददौ तस्मै कलिप्रियः । । ५४

नामदेवस्तु तद्द्रव्यैर्गङ्गारोहणमुत्तमम् ।

कारयामास वै काश्यां शुभ्रं सर्वं शिलामयम् । । ५५

दशविप्रान्पञ्च नृपान्पञ्च वैश्याञ्छतं गवाम् ।

पुनरुज्जीवयामास शवभूतान्स योगवान् । । ५६

बृहस्पतिरुवाच

विश्वानरः पुरा चासीद्ब्राह्मणो वेदकोविदः ।

अनपत्यो विधातारं तुष्टाव बहुपूजनैः । । ५७

वर्षमात्रेण भगवान्परमेष्ठी प्रजापतिः ।

समागत्य वचः प्राह वरं ब्रूहि द्विजोत्तम । । ५८

इति श्रुत्वा स होवाच भगवँस्ते नमो नमः ।

प्रकृतेश्च परः पुत्रो भूयान्मम वरात्तव । । ५९

इति श्रुत्वा तदा ब्रह्मा विस्मितः प्राह तं द्विजम् ।

एका वै प्रकृतिर्माया त्रिलिङ्गजननी स्वयम् । । 3.4.16.६०

तया दृश्यं जगत्सर्वं समुत्पादितमात्मना ।

प्रकृतेश्च परो यो वै परमात्मा स चाव्ययः । । ६१

अबुद्धिर्बोधनिरतो ह्यश्रुतिश्च शृणोति वै ।

अदेहः स स्पृशत्येतदचक्षुः पश्यति स्वयम् । । ६२

अजिह्वोन्नं स गृह्णाति स जिघ्रति न सा विना ।

अमुखो वेदवक्ता च कर्मकारः करं विना । । ६३

अपदो गच्छति ह्येतदलिङ्गो नारिभोगवान् ।

अगुह्यो हि करोत्येतां सतत्त्वां गुह्यभूतिनीम् । । ६४

शब्दब्रह्म स्पर्शमयं रूपब्रह्म रसात्मकम् ।

गन्धब्रह्म परं ज्ञेय तस्मै तद्ब्रह्मणे नमः । । ६५

प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि ।

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् । । ६६

एकार्थौ तौ च शब्दैकौ रूपैकौ नित्यविग्रहौ ।

आदिमध्यान्तरहितौ नित्यशुद्धौ सनातनौ । । ६७

पुंस्त्रीनपुंस्कजननी ज्ञेया सा प्रकृतिः परा ।

पुरुषश्च कविः सूक्ष्मः कूटस्थो ज्ञानवान्परः ।। ६८ ।।

अजन्मा जन्म चाप्नोति मया जातः स जन्मवान् ।।

कथं स पुरुषो नित्यस्तव पुत्रो भविष्यति ।। ६९ ।।

अतो विश्वानर मुने मायाभूतो हरिः स्वयम् ।।

तव पुत्रत्वमाप्नोति वरान्मम जनार्दनः ।। 3.4.16.७० ।।

इत्युक्त्वान्तर्दधे देवः पावकस्तद्वरादभूत् ।।

अष्टानां च वसूनां च पावको हि पतिस्त्वयम् ।। ७१ ।।

वैश्वानर इति ख्यातोऽभवत्स्वाहापतिः प्रभुः ।।

स तु पूर्वभवे देवः पुरा कल्पेऽनलोभवत् ।। ७२ ।।

नैषधो ब्राह्मणो धीमान्यथा राजा नलस्तथा ।।

संकटायां गते भूपे दमयन्ती पतिव्रता ।। ७३ ।।

स्वपितुर्गेहमासाद्यान्वेषयामास भूपतिम् ।।

तदा नलो द्विजं प्राप्तो दमयंतीपतिः प्रभुः ।। ७४ ।।

दृष्ट्वा तं मोहमापन्ना दमयंती शुभानना ।।

एतस्मिन्नंतरे तत्र वागुवाचाशरीरिणी ।। ७५ ।।

नायं नलस्तव पतिर्ब्राह्मणोयं सुमोहितः ।।

अनलो नाम विख्यातो देववाक्यात्स चाभवत् ।। ७६ ।।

महासरस्वतीं देवीं तुष्टाव स तु मोहितः ।।

तस्य पुण्यप्रभावेन विश्वानरसुतोऽभवत् ।। ७७ ।।

।। सूत उवाच ।। ।।

इति श्रुत्वा गुरोर्वाक्यं पावको भगवान्प्रभुः ।।

स्वमुखात्स्वांशमुत्पाद्य संजातस्तु ततो वसुः ।। ७८ ।।

रंकणो नाम विख्यातो लक्ष्मीदत्तस्य वै सुतः ।।

नगरे कांचनपुरे वैश्यजातिसमुद्भवः ।। ७९ ।।

यंकणा नाम तत्पत्नी बभूव च पतिव्रता ।।

सर्वद्रव्यव्ययं कृत्वा धर्मकार्येषु दंपती ।। 3.4.16.८० ।।

काष्ठमानीय विक्रीय बुभुजाते परस्परम् ।।

रामानंदस्तस्य गुरू रंकणस्य महात्मनः ।। ८१ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये वसुमाहात्म्ये रंकण वैश्योत्पत्तिवर्णनो नाम षोडशोऽध्यायः ।। १६ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 17

।। बृहस्पतिरुवाच ।। ।।

दितिपुत्रौ महाघोरौ विष्णुना प्रभविष्णुना ।।

संहतौ तु दितिर्ज्ञात्वा कश्यपं समपूजयत्।। १ ।।

द्वादशाब्दांतरे स्वामी कश्यपो भगवानृषिः ।।

उवाच पत्नीं स हि तां वरं ब्रूहि वरानने ।।

सा तु श्रुत्वा नमस्कृत्य वचनं प्राह हर्षिता ।। २ ।।

अदितिर्मम या देवी सपत्नी पुत्रसंयुता ।।

द्वादशतनयास्तस्या मम द्वौ तनयौ स्मृतौ ।। ३ ।।

तदवर्यसुते नैव विष्णुना सुरपालिना ।।

विनाशितौ सुतौ घोरौ ततोऽहं भृशदुःखिता ।। ४ ।।

देहि मे तनयं स्वामिन्द्वादशादित्यनाशनम् ।।

इति श्रुत्वा वचो घोरं दितिं प्राह सुदुःखितः ।। ५ ।।

ब्रह्मणा निर्मितौ लोके धर्माधर्मौ परापरौ ।।

धर्मपक्षास्तु ये लोके नरास्ते ब्रह्मणः प्रियाः ।। ६ ।।

अधर्मपक्षास्तु नरा वैरिणस्तस्य धीमतः ।।

अधर्मपक्षौ तनयौ तस्मान्मृत्युमुपागतौ ।। ७ ।।

अतो धर्मप्रिये शुद्धं कुरु तस्मान्महाबलः ।।

भविष्यति सुतो धीमाँश्चिरजीवी तव प्रियः।। ८ ।।

इति श्रुत्वा दितिर्देवी कश्यपाद्गर्भमुत्तमम् ।।

संप्राप्य सा शुभाचारा बभूव व्रतधारिणी ।। ९ ।।

तस्या गर्भगते पुत्रे महेन्द्रश्च भयान्वितः ।।

दासभूतः स्थितो गेहे स दितेराज्ञया गुरोः ।। 3.4.17.१० ।।

सप्तमासि स्थिते गर्भे शक्रमायाविमोहिता ।।

अशुचिश्च दितिर्देवी सुष्वाप निजमंदिरे ।। ११ ।।

अंगुष्ठमात्रो भगवान्महेन्द्रो वज्रसंयुतः ।।

कुक्षिमध्ये समागम्य चक्रे गर्भं स सप्तधा ।। १२ ।।

जीवभूतानतिबलान्दृष्ट्वा सप्त महारिपून्।।

एकैकः सप्तधा तेन महेन्द्रेण तदा कृतः ।। १३ ।।

नम्रीभूतश्च तान्दृष्ट्वा महेन्द्रस्तैः समन्वितः ।।

योनि द्वारेण चागम्य प्रणनाम तदा दितिम् ।। १४ ।।

प्रसन्ना सा दितिर्देवान्महेन्द्राय च तान्ददौ ।।

मरुद्गणाश्च ते सर्वे विख्याताः शक्रसेवकाः ।।१५।।।

स तु पूर्वभवे जातो ब्राह्मणो लोकविश्रुतः ।।

इलो नाम स वेदज्ञो यथेलो नृपतिस्तदा ।। १६ ।।

एकदा बलवान्राजा मनुपुत्र इलः स्वयम्।।

एकाकी हयमारुह्य मेरोर्विपिनमाययौ ।। १७ ।।

मेरोरधः स्थितः खण्डः स्वर्णगर्भो हरिप्रियः ।।

निवासं कृतवाँस्तत्र कृत्वा राष्ट्रं महोत्तमम् ।। ।। १८ ।।

इलेनावृतमेवापि कृतं तत्र स्थले सुराः ।।

इलावृतमिति ख्यातः खण्डोऽभूद्विबुधप्रियः ।। १९ ।।

भारते ये स्थिता लोका इलावृतमुपागताः ।।

मेरुर्गिरिर्वृक्षमयो विधात्रा निर्मितो हि सः ।। 3.4.17.२० ।।

आरोहणं नरैस्तस्मित्कृतं स्वर्णमयं शुभम् ।।

तमारुह्य क्रमाल्लोकः स्वर्गलोकमुपागतः ।।२१ ।।

तान्दृष्ट्वा मनुजान्प्राप्तान्सदेहान्स्वर्गमण्डले ।।

विस्मिताश्च सुरास्सर्वे महेशं शरणं ययुः ।। २२ ।।

ज्ञात्वा स भगवान्रुद्रो भवान्या सह शंकरः ।।

इलावृतवने रम्ये स रेमे च तया सह ।। २३ ।।

एतस्मिन्नन्तरे प्राप्तो वैवस्वतसुतो महान् ।।

इलोनाम महाप्राज्ञो मृगयार्थी सदाशिवम् ।। २४ ।।

नग्नभूतं समालोक्य नेत्रे संमील्य संस्थितः ।।

लज्जितां गिरिजां दृष्ट्वा शशाप भग वान्हरः ।। २५ ।।

अस्मिन्खण्डे सदा नार्यो भविष्यंति च मां विना ।।

इत्युक्ता वचनं तस्मिन्नार्यस्सर्वा बभूविरे ।। २६ ।।

इला बभूव नृपते कन्या जनमनोहरा ।।

बहुकालं मेरुशृंगे महत्तपमचीकरत् ।। २७ ।।

इलासमाधिभूतायाः सप्तविंशच्चतुर्युगम् ।।

जातं तत इला कन्या त्रेतामध्ये तु चन्द्रजम् ।।

बुधं देवं पतिं कृत्वा चंद्रवंशमजीजनत् ।। २८ ।।

अयोध्याधिपतिः श्रीमान्यदेलावृतमागतः ।।

तस्य राज्ञी मदवती नाम्ना तुष्टाव पार्वतीम् ।। २९ ।।

तदा प्राप्त इलो विप्रस्तस्या रूपेण मोहितः ।।

पस्पर्श तां मदवतीं राज्ञीं कामविमोहितः ।। 3.4.17.३० ।।

एतस्मिन्नंतरे तत्र वागुवा चाशरीरिणी ।।

इलो नायं द्विजश्चायं तव रूपविमोहितः ।। ३१ ।।

अनिलो नाम तत्रैव विख्यातोऽभूद्द्विजस्य वै ।।

कामाग्निपीडितो विप्रस्स तुष्टाव च पावकम् ।। ३२ ।।

छित्त्वाछित्त्वा शिरो रम्यं तस्मै जातं पुनः पुनः ।।

दत्त्वा तुष्टाव तं देवं प्रसन्नोऽभूद्धनंजयः ।। ३३ ।।

प्राह त्वमूनपंचा शद्विभेदाञ्जनयिष्यसि ।।

तथाहं मित्रवान्भूत्वा तत्संख्यस्तव कामदः ।। ३४ ।।

यथा कुबेरो भगवान्षड्विंशद्वरुणप्रियः ।।

तथाहमूनपंचाशद्विभेदस्तव वै सखा ।।३५।।

इत्युक्ते वचने तस्मिन्दितिकुक्षौ द्विजोत्तमः ।।

वायुर्नाम स वै जातः पावकस्य प्रियस्सखा ।।३६।।

।। सूत उवाच ।। ।।

इति श्रुत्वा गुरोर्वाक्यं वैश्यजात्यां समुद्भवः ।।

धान्यपालस्य वै गेहे मृलगंडान्तजः सुतः ।।

पितृमातृपरित्यक्तः काश्यां विंध्यवने तदा ।। ३७ ।।

अलिको नाम वै म्लेच्छस्तत्र स्थाने समागतः ।। ३८ ।।

अनपत्यो वस्त्रकारी सुतं प्राप्य गृहं ययौ ।।

कबीर इति विख्यातः स पुत्रो मधुराननः ।। ।। ३९ ।।

स सप्ताब्दवपुर्भूत्वा गोदुग्धपानतत्परः ।।

रामानंदं गुरुं मत्वा रामध्यानपरोऽभवत् ।।3.4.17.४०।।

स्वहस्तेनैव संस्कृत्य भोजनं हरयेऽपर्यत् ।।

तत्प्रियार्थं हरिस्साक्षात्सर्वकामप्रदोऽभवत् ।। ४१ ।।

।। बृहस्पतिरुवाच ।। ।।

उत्तानपादतनयो धुवोभूत्क्षत्रियः पुरा ।।

पितृमातृपरित्यक्तः स बालः पंचहायनः ।। ४२ ।।

गोवर्द्धनगिरौ प्राप्य नारदस्योपदेशतः ।।

स चक्रे भगवद्ध्यानं मासान्षट् च महाव्रती ।। ४३ ।।

तदा प्रसन्नो भगवान्विष्णुर्नारायणः प्रभुः ।।

खमंडले पदं तस्मै ददौ प्रीत्या नभोमयम् ।। ४४ ।।

दृष्ट्वा तद्वदनं रम्यं मायाशक्त्या दिशो दश ।।

स्वामिनं च ध्रुवं मत्वा भक्तिनम्रा बभूविरे ।। ४५ ।।

धुवोऽपि भगवान्साक्षात्सर्वपूज्यो बभूव ह ।।

दिक्पतिः स तु विज्ञेयो भगणानां पतिः स्वयम् ।। ४६ ।।

नभःपतिः कालकरः शिशुमारपतिस्स वै ।।

पंचतत्त्वा हि वै माया प्रकृतिस्तत्पतिः स्वयम् ।। ४७ ।।

तस्माद्धरायां संभूतो भौमो नाम महाग्रहः ।।

जलदेव्यास्ततो जातः शुक्रो नाम महाग्रहः ।। ४८ ।।

वह्निदेव्या ततो जातश्चाहं तत्र महाग्रहः ।।

वासुदेव्यां ध्रुवाज्जातः केतुर्नाम महाग्रहः।।४९।।

ग्रहभूतः स्थितस्तत्र नभोदेव्यां तदुद्भवः ।।

राहुर्नाम तथा घोरो महाग्रह उपग्रहः ।। 3.4.17.५० ।।

thumb|400px|दिग्गज1

पूर्वस्यां दिशि वै तस्माज्जातश्चैरावतो गजः ।।

आग्नेय्यां दिशि वै तस्मात्पुंडरीको गजोऽभवत् ।। ५१।

वामनः कुमुदश्चैव पुष्पदंतः क्रमाद्गजाः ।।

सार्वभौमः सुप्रतीको नभोदिक्षु तु तत्सुताः ।५२।।

अभ्रमुः कपिला चैव पिंगलाख्या इमाः क्रमात् ।।

ताम्रकर्णी शुभ्रदंती चांगना चांजनावती ।।५३।।

भूमिदिक्षु करिण्यश्च जातास्तस्मात्तु तत्प्रियाः ।।।

भगिनी च तथा माता सुता चैव स्नुषा तथा ।। ५४ ।।

पशुयोन्युद्भवानां च नृणां ता योषितस्सदा ।।

देवयोन्युद्भवानां च नृणां पत्नी स्मृता स्वसा ।। ५५ ।।

मनुवंशोद्भवानां च नृणां चान्योद्भवाः स्त्रियः ।।

इति धर्मो विधात्रोक्तो मया प्रोक्तः सुरा हि वः ।। ५६ ।।

द्विधा धुवस्स विज्ञेयो भूमेरूर्द्ध्वमधस्तथा ।।

सद्गुणः स दिवारूपो रात्रिरूपस्तमोगुणः ।। ५७ ।।

अधोध्रुवे सदा रात्रिर्नारकास्तत्र वै स्थिताः ।।

ऊर्ध्वध्रुवे दिवा नित्यं तपोमध्ये निशा दिवा ।। ५८ ।।

महो जनस्तपस्सत्यं तेषु नित्यं दिनं स्मृतम् ।।

रौरवश्चांधकूपश्च तामिस्रं च तमोमयम् ।।

तेषु नित्यं स्मृता रात्रिः कल्पमानं च कोविदैः ।। ५९ ।।

स तु पूर्वभवे चासीद्ब्राह्मणो माधवप्रियः ।।

षष्ट्यब्दं सर्वतीर्थेषु प्रातःस्नानं चकार ह ।। 3.4.17.६० ।।

तीर्थ पुण्यात्स वै विप्रो माधवो माधवप्रियः ।।

सुनीत्यां गर्भमासाद्य ध्रुवो भूत्वा रराज ह ।।

षट्त्रिंशच्च सहस्राब्दं राज्यं कृत्वा ध्रुवोऽभवत् ।। ६१ ।। ।।

।। सूत उवाच ।। ।।

इति श्रुत्वा गुरोर्वाक्यं स ध्रुवः पंचमो वसुः ।।

गुर्जरे देश आगम्य वैश्यजात्यां समुद्भवः ।।

नरश्रीर्नाम विख्यातो गुणवैश्यस्य वै सुतः ।। ६२ ।।

कुसीदगुणगुप्तश्च नरश्रीः पुत्रवत्सलः ।।

त्यक्त्वा प्राणान्ययौ स्वर्गं स वैश्यतनयो ध्रुवः ।। ६३ ।।

प्रत्यहं स हरेः क्रीडां वृन्दावनमहोत्तमे ।।

शिवप्रसादात्प्रत्यक्षां दृष्ट्वा हर्षमवाप्तवान् ।। ६४ ।।

यस्य पुत्रविवाहे च भगवान्भक्तवत्सलः ।।

यादवैस्सह संप्राप्तस्तस्य वांछितदायकः ।। ६५ ।।

पुरीं काशीं समागम्य नरश्रीभर्क्तराट् स्वयम् ।।

रामानन्दस्य शिष्योऽभूद्विष्णुधर्म विशारदः ।। ६६ ।।

।। बृहस्पतिरुवाच ।। ।।

कदाचिद्भगवानत्रिर्गंगाकूलेऽनसूयया ।।

सार्द्धं तपो महत्कुर्वन्ब्रह्मध्यानपरोऽभवत् ।। ।। ६७ ।।

तदा ब्रह्मा हरिश्शंभुः स्वस्ववाहनमास्थिताः ।।

वरं ब्रूहीति वचनं तमाहुस्ते सनातनाः ।। ६८ ।।

इति श्रुत्वा वच स्तेषां स्वयंभूतनयो मुनिः ।।

नैव किञ्चिद्वचः प्राह संस्थितः परमात्मनि ।। ६९ ।।

तस्य भावं समालोक्य त्रयो देवाः सनातनाः ।।

अनसूयां तस्य पत्नीं समागम्य वचोऽब्रुवन् ।।3.4.17.७०।।

लिंगहस्तः स्वयं रुद्रो विष्णुस्तद्रसवर्द्धनः ।।

ब्रह्मा कामब्रह्मलोपः स्थितस्तस्या वशं गतः ।।

रतिं देहि मदाघूर्णे नो चेत्प्राणांस्त्यजाम्यहम् ।। ७१ ।।

पतिव्रताऽनसूया च श्रुत्वा तेषां वचोऽशुभम् ।।

नैव किंचिद्वचः प्राह कोप भीता सुरान्प्रति ।। ७२ ।।

मोहितास्तत्र ते देवा गृहीत्वा तां बलात्तदा ।।

मैथुनाय समुद्योगं चक्रुर्मायाविमोहिताः ।। ७३ ।।

तदा क्रुद्धा सती सा वै ताञ्छशाप मुनिप्रिया ।।

मम पुत्रा भविष्यंति यूयं कामविमोहिताः ।। ७४ ।।

महादेवस्य वै लिंगं ब्रह्मणोऽस्य महाशिरः ।।

चरणौ वासुदेवस्य पूजनीया नरैस्सदा ।।

भविष्यंति सुरश्रेष्ठा उपहासोऽयमुत्तमः ।। ७५ ।।

इति श्रुत्वा वचो घोरं नमस्कृत्य मुनिप्रियाम् ।।

तुष्टुवुर्भक्तिनम्राश्च देवपाठैश्च ऋङ्मयैः ।।७६।।

अनसूया तदा प्राह भवन्तो मम पुत्रकाः ।।

भूत्वा शापं मदीयं च त्यक्त्वा तृप्तिमवाप्स्यथ ।।७७।।

इत्युक्ते वचने ब्रह्मा चंद्रमाश्च तदा ह्यभूत् ।।

दत्तात्रेयो हरिः साक्षाद्दुर्वासा भगवान्हरः ।।

तत्पापपरिहारार्थं योगवन्तो बभूविरे ।। ७८ ।।

एतस्मिन्नंतरे देवी प्रकृतिस्सर्व धर्मिणी ।।

विधिं विष्णुं हरं चान्यं चक्रे सा गुणरूपिणी ।। ७९ ।।

मन्वंतरमतो जातं तेषां योगं प्रकुर्वताम् ।।

हृषिताश्च त्रयो देवास्समागम्य च तान्प्रति ।। 3.4.17.८० ।।

उवाच वचनं रम्यं तेषां मंगलहेतवे ।।

चन्द्रमाश्च भवेत्सोमो वसुः षष्ठः सुरप्रियः ।। ८१ ।।

रुद्रांशश्चैव दुर्वासाः प्रत्यूषः सप्तमो वसुः ।।

दत्तात्रेयमयो योगी प्रभासश्चाष्टमो वसुः ।।

तेषां वाक्यं समाकर्ण्य वसवस्ते त्रयोऽभवन् ।।८२।।

।। सूत उवाच ।। ।।

इति श्रुत्वा गुरोर्वाक्यं वसवो हर्षितास्त्रयः ।।

स्वांशेन भूतलं जग्मुः कलिशुद्धाय दारुणे ।।

दाक्षिणात्ये राजगृहे वैश्यजात्यां समुद्भवः ।। ८३ ।।

पीपा नाम सुतः सोमः सुदेवस्य तदा ह्यभूत् ।।

कृतं राज्यपदं तेन यथा भूपेन तत्पुरे ।। ८४।।

रामानन्दस्य शिष्योऽभूद्द्वारकां स समागतः ।।

हरेर्मुद्रां स्वर्णमयीं प्राप्य कृष्णात्स वै नृपः ।।

वैष्णवेभ्यो ददौ तत्र प्रेततत्त्वविनाशिनीम् ।। ८५ ।।

प्रत्यूषश्चैव पांचाले वैश्यजात्यां समुद्भवः ।।

मार्गपालस्य तनयो नानको नाम विश्रुतः ।। ८६ ।।

रामानन्दं समागम्य शिष्यो भूत्वा स नानकः ।।

स वै म्लेच्छान्वशीकृत्य सूक्ष्ममार्गमदर्शयत् ।। ८७ ।।

प्रभासो वै शांतिपुरे ब्रह्मजात्यां समुद्भवः ।।

शुक्लदत्तस्य तनयो नित्यानंद इति स्मृतः ।।

इति ते वसुमाहात्म्यं मया शौनक वर्णितम् ।। ८८ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये वसुमाहात्म्ये कबीरनरश्रीपीपानानकनित्यानन्दसमु त्पत्तिवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।।

अत्रि शब्दोपरि टिप्पणी

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 18

।। सूत उवाच ।। ।।

इत्युक्त्वा तान्सुरान्देवो भगवान्बृहतांपतिः ।।

अश्विनौ च समालोक्य तयोर्गाथामवर्णयत् ।। १ ।।

वैवस्वतेऽन्तरे पूर्वं विश्वकर्मा विचित्रकृत् ।।

चित्रगुप्तश्रियं दृष्ट्वा चित्रलेखाविनिर्मिताम् ।।

स्पर्द्धाभूतो महामायां तुष्टाव बहुपूजनैः ।। २ ।।

प्रसन्ना सा तदा देवी चित्रायां तस्य योषिति ।।

स्वांशाज्जाता स्मृता संज्ञा सर्वज्ञानकरी स्वयम् ।। ३ ।।

षोडशाब्दे वयः प्राप्ते संज्ञायास्तत्पिता सुखी ।।

विवाहार्थी सुरान्सर्वानाह्वयन्मेरुमूर्द्धनि ।। ४ ।।

यक्षाधीशाश्च षड्विंशत्कुबेराद्यास्समागताः ।।

यादसां पतयः प्राप्ता दश तत्रैव कामुकाः ।। ५ ।।

पावका ऊनपंचाशद्वायवश्च तथा स्मृताः ।।

ध्रुवौ द्वौ च स्वयं प्राप्तौ सोमास्तत्रैव षोडश ।।६।।

त्रयोदश च प्रत्यूषाः प्राप्ता विश्वप्ररक्षकाः ।।

षष्ट्युत्तरं च त्रिशतं प्रभासा दिनरक्षकाः ।।७ ।।

भवाद्याश्च तदाः रुद्राः शशिमण्डलरक्षकाः ।।

आदित्याश्च स्थितास्सर्वे संज्ञायाश्च स्वयंवरे ।। ८ ।।

दानवा विप्रचित्त्याद्याश्चतुराशीतिराययुः ।।

प्रह्लादाद्यास्तदा दैत्या वासुक्याद्याश्च पन्नगाः ।। ९ ।।

शेषाद्याश्च तदा नागास्तार्क्ष्याद्या गरुडाः स्मृताः ।।

सर्वे स्वयंवरे प्राप्ता महाकोलाहलोह्यभूत् ।। 3.4.18.१० ।।

एतस्मिन्नंतरे देवी देवकन्यासमन्विता ।।

संज्ञा देवान्प्रति तदा प्रत्यक्षमभवद्दिवि ।। ११ ।।

तां समालोक्य बलवान्बलिः कामविमोहितः ।।

करे गृहीत्वा प्रययौ पश्यतां सर्वधन्विनाम् ।। १२ ।।

तदा क्रोधातुरा देवा रुरुधुर्दैत्यसत्तमम् ।।

शस्त्रास्त्रैस्तर्पयित्वा तं महद्युद्धमकारयन् ।। १३ ।।

दानवाश्च तदा दैत्या नानावाहनसंस्थिताः ।।

देवैः सार्द्धं महद्युद्धं तुमुलं चक्रिरे मुदा ।। १४ ।।

दानवैश्च हता देवाः सुरैर्दैत्या विनाशिताः ।।

शवभूतैरिलावर्तेऽभूदगम्या वसुंधरा ।। १५ ।।

पक्षमात्र मभूद्युद्धं दिव्यं दानवदेवयोः ।।

पांचजन्यस्तथा धाता हयग्रीवश्च मित्रकः ।। १६ ।।

अघासुरोऽर्यमा चैव बलः शक्रस्तथैव च ।।

बकासुरश्च वरुणः शकटः प्रांशुरेव च ।। १७ ।।

वत्सासुरो भगश्चैव विवस्वांश्च बलिः स्वयम् ।।

प्रलंबश्च तथा पूषा गर्दभः सविता युधि ।।१८।।

विश्वकर्मा मयश्चैव कालनेमिर्हरिः स्वयम् ।।

कांक्षमाणौ च विजयं युयुधाते परस्परम् ।।

पराजिताश्च ते दैत्या युद्धं त्यक्त्वा प्रदुद्रुवुः ।। १९ ।।

विवस्वाँश्च तदा संज्ञां गृहीत्वा रथसंस्थिताम् ।।

विश्वकर्माणमागम्य ददौ तस्मै प्रसन्नधीः ।। 3.4.18.२० ।।

विवस्वंतं सुरश्रेष्ठं दृष्ट्वा संज्ञा वचोऽब्रवीत् ।।

मत्पतिश्च भवान्देवो भवेत्कार्यकरस्सदा ।। २१ ।।

त्वया जिताहं भगवन्बलेर्विप्रियकारिणः ।।

भ्रातृजाग्रहणे दोषो न भवेत्स कदाचन ।। २२ ।।

वीरभुक्ता सदा नारी स्त्रीरत्नं मुनिभिः स्मृतम् ।।

चतुर्द्धा प्रकृतिर्देवी गुणभिन्ना गुणैकिका ।।

एका सा प्रकृतिर्माता गुणसाम्यात्सनातनी ।। २३ ।।

सत्त्वभूता च भगि नी रजोभूता च गेहिनी ।।

तमोभूता च सा कन्या तस्यै देव्यै नमोनमः ।। २४ ।।

बहवः पुरुषा ये वै निर्गुणाश्चैकरूपिणः ।।

चैतन्याऽज्ञानवंतश्च लोके प्रकृतिसंभवाः ।। २५ ।।

अलोके पापजास्सर्वे देवब्रह्मसमुद्भवाः ।।

या तु ज्ञानमयी नारी वृणेद्यं पुरुषं शुभम् ।।

कोऽपि पुत्रः पिता भ्राता स च तस्याः पतिर्भवेत् ।। २६ ।।

स्वकीयां च सुतां ब्रह्मा विष्णुदेवः स्वमातरम् ।।

भगिनीं भगवाञ्छंभुर्गृहीत्वा श्रेष्ठतामगात् ।। २७ ।।

इति श्रुत्वा वेदमयं वाक्यं चादितिसंभवः ।।

विवस्वान्भ्रातृजां संज्ञां गृहीत्वा श्रेष्ठवानभूत् ।। २८ ।।

सुताः कन्यास्तयोर्जाता मनुर्वैवस्वतस्तथा ।।

यमश्च यमुना चैव दिव्यतेजोभिरन्विताः ।। २९ ।।

तदा संज्ञा सती साक्षात्तेजोभूतं पतिं स्वकम् ।।

ज्ञात्वा छायां समुत्पाद्य तपसे वनमा गता ।। 3.4.18.३० ।।

सावर्णिश्च मनुस्तस्यां शनिश्च तपती तथा ।।

छायायां च समुद्भूताः कूरदृष्ट्या विवस्वतः ।। ३१ ।।

पुत्रभेदेन तां नारीं मत्वा मायां रुषान्वितः ।।

चकार भस्मभूतां तां विवस्वान्भगवान्रविः ।। ३२ ।।

तदा शनिश्च सावर्णिर्विवस्वतं रुषान्वितम् ।।

ज्ञात्वा च क्रोधताम्राक्षौ युयुधाते परस्परम् ।। ३३ ।।

कियतो चैव कालेन भग्नभूतौ विवस्वता ।।

हिमाचले गिरौ प्राप्य तेपतुः परमं तपः ।। ३४ ।।

त्रिवर्षान्ते च सा देवी महाकाली समागता।।

अर्चितं च वरं ताभ्यां ददौ तद्भक्तिवत्सला ।।३५।।

पुनस्तौ च समागम्य युयुधाते विवस्वता।।

विवस्वान्भयभीतश्च त्यक्त्वा युद्धं पराभवत् ।। ३६ ।।

तत्र स्थिता प्रिया संज्ञा वडवारूपधरिणी ।।

कुरुखंडे महारम्ये तपंती तप उल्बणम् ।। ३७ ।।

गत्वा ददर्श भगवान्सज्ञां संबोधकारिणीम् ।।

कामातुरो हयो भूत्वा तत्र रेमे तया सह ।। ३८ ।।

पंचवर्षान्तरे संज्ञा गर्भं तस्माद्दधौ स्वयम् ।।

तनयौ च समुद्भूतौ दिव्य रूपपराक्रमौ ।। ३९ ।।

पितुर्दुःखं समालोक्य जग्मतू रविमण्डलम् ।।

जित्वा बंधू दुराचारौ क्रूरदृष्ट्या तदा स्वयम् ।। 3.4.18.४० ।।

बद्ध्वा तौ स्वपितुः पार्श्वम संप्राप्तौ वडवासुतौ ।।

दृष्ट्वा विवस्वान्भगवान्वैरिणौ समुपागतौ ।। ४१ ।।

संपीड्य ताडयामास लोहदंडैर्भयानकैः ।।

पंगुभूतौ पुनस्त्यक्त्वा छायापुत्रौ दिवाकरः ।। ४२ ।।

आश्विनेयौ समालोक्य वचनं प्राह तौ मुदा ।।

जीव ईशो यथा मित्रे नरनारायणौ यथा।।

एकनाम्ना युवां प्रीतौ नासत्यौ च भविष्यथः ।। ४३ ।।

सोमशक्तिरिडादेवी ज्येष्ठपत्नी भविष्यति ।।

पिंगला सूर्यशक्तिश्च लघुपत्नी भविष्यति ।। ४४ ।।

इडापतिस्स वै नाम द्वितीयः पिंगलापतिः ।।

द्वादशस्स नृणां राशेः क्रूरदृष्टिः शनैश्चरः ।।

तस्य शान्तिकरो ज्येष्ठो भविष्यति महीतले ।। ४५ ।।

द्वितीयश्च नृणां राशेः सावर्णिर्भ्रमकारकः ।।

तस्य शान्तिकरो भूमौ भविता पिंगलापतिः ।। ४६।।

जन्मराशिस्थिता देवी तपती ता पकारिणी ।।

इडा च पिंगला तस्याः शान्तिकर्त्र्यौ भविष्यतः ।। ४७ ।।

इति श्रुत्वा वचस्तस्य सुरवैद्यौ बभूवतुः ।।

सावर्णिश्च शनी राहुः केतुः स्वर्गप्रतापनः ।।

तेषां तु परिहारार्थौ दस्रौ चाश्विनिसंभवौ ।। ४८ ।।

सूत उवाच ।।

इति श्रुत्वा गुरोर्वाक्यं प्रसन्नौ सुरसत्तमौ ।।

स्वांशान्महीतले जातौ शूद्रयोन्यां रवेस्तुतौ ।। ४९ ।।

चाण्डालस्य गृहे जातश्छागहंतुरिडापतिः ।।

सधनो नाम विख्यातः पितृमातृपरायणः ।। 3.4.18.५० ।।

शालिग्रामशिलातुल्यं छागमांसं विचिक्रिये ।।

कबीरं समुपागम्य शिष्यो भूत्वा रराज वै।। ५१ ।।

स तु सत्यनिधिः पूर्वं ब्रह्मणस्तप आस्थितः।।

भयभीतां च गां तत्र चाण्डालाय ह्यदर्शयत् ।।

राजगेहे करस्तस्मात्सधनस्य लयं गतः ।। ५२ ।।

चर्मकारगृहे जातो द्वितीयः पिंगलापतिः ।।

मानदा सस्य तनयो रैदास इति विश्रुतः ।। ५३ ।।

पुरीं काशीं समागम्य कबीरं रामतत्परम् ।।

जित्वा मतविवादेन शंकराचार्यमागतः ।।५४ ।।

तयोर्विवादो सभवदहोरात्रं मतान्तरे ।।

पराजितस्स रैदासो नत्वा तं द्विजसत्तमम् ।।

रामानन्दमुपागम्य तस्य शिष्यत्वमागतः ।। ५५ ।।

इति ते कथितं विप्र सुरांशाश्च यथाभवन् ।।

कलिशुद्धिकरी लीला तेषां मार्गप्रदर्शिनाम् ।। ५६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये अश्विनीकुमारावतारे सधनरैदाससमुत्पत्तिवर्णनं नामाऽष्टादशोऽध्यायः ।। १८ ।।

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 19

विष्णुस्वामीमध्वाचार्यवर्णनम्

सूत उवाच

इत्युक्त्वा भगवाञ्जीवो देवमाहात्म्यमुत्तमम् ।

स्वमुखात्स्वांशमुत्पाद्य ब्रह्मयोनौ बभूव ह । । १

इष्टिका नगरी रम्या गुरुदत्तस्य वै सुतः ।

रोपणो नाम विख्यातो ब्रह्ममार्गप्रदर्शकः । । २

सूत्रग्रन्थमयीं मालां तिलकं जलनिर्मितम् ।

वासुदेवेति तन्मन्त्रे कलौ कृत्वा जनेजने । । ३

कृष्णचैतन्यमागम्य कम्बलं च तदाज्ञया ।

गृहीत्वा स्वपुरीं प्राप्य कृष्णध्यानपरोभवत् । । ४

अतः परं शृणु मुने चरित्रं च हरेर्मुदा ।

यच्छ्रुत्वा च कलौ घोरे जनो नैव भयं व्रजेत् । । ५

पञ्चाब्दे कृष्णचैतन्ये यज्ञांशे यज्ञकारिणि ।

वङ्गदेशभवो विप्र ईश्वरः शारदाप्रियः । । ६

प्राप्तः शान्तिपुरे ग्रामे वाग्देवीवरदर्पितः ।

सतां दिग्विजयं कृत्वा सर्वशास्त्रविशारदः । । ७

गङ्गाकूले स्तवं दिव्यं रचित्वा १ सोऽपठद्द्विजः ।

एतस्मिन्नन्तरे तत्र यज्ञांशस्समुपागतः । ।

उवाच वचनं रम्यमीश्वरं स्तुतिकारिणम् । । ८

सुकृतं पूर्तमर्णं च श्रुतीनां सारमेव हि ।

इत्युक्तं भवता स्तोत्रे दूषणं भूषणं वद । । ९

तथाह चेश्वरो धीमान्दूषणं नैव दृश्यते ।

इत्युक्त्या प्राह भगवान्भूषणं नैव दृश्यते । । 3.4.19.१०

सुकृतं च स्मृतं धर्मः पूर्तं चैतन्यमुच्यते ।

अर्णं वीर्यमिति ज्ञेयं श्रुतिसारमतस्त्रयम् । ।

गङ्गाजले दूषणोऽयं भूषणोऽयं कलेवरे ११

इति श्रुत्वा स वै भिक्षुर्विस्मितोऽभूच्च गीः प्रियः ।

लज्जितं स्वजनं दृष्ट्वा शारदा सर्वमङ्गला । ।

विहस्येश्वरमित्याह कृष्णश्चैतन्यसंज्ञकः । । १२

इति श्रुत्वा तु तच्छिष्यः कृष्णमन्त्रउपासकः ।

बभूव वैष्णवश्रेष्ठः कृष्णचैतन्यसेवकः । । १३

सूत उवाच

श्रीधरो नाम विख्यातो ब्राह्मणः शिवपूजकः ।

पत्तने नगरे रम्ये तस्य सप्ताहमुत्तमम् । । १४

राज्ञा भागवतं तत्र कारितं सधनं बहु ।

गृहीत्वा श्रीधरो विप्रो जगाम श्वशुरालये । । १५

तत्रोष्य मासमात्रं च स्वपत्न्या सह वै द्विजः ।

स्वगेहमगमन्मार्गे चौराः सप्त तु तं प्रति ।

शपथं रामदेवस्य कृत्वा सार्द्धमुपाययुः । । १६

समाप्ते विपिने रम्ये हत्वा ते श्रीधरं द्विजम् ।

गोरथं सधनं तत्र सभार्यं जगृहुस्तदा । । १७

एतस्मिन्नन्तरे रामः सच्चिदानन्दविग्रहः ।

सप्त तांश्च शरैर्हत्वा पुनरुज्जीव्य तं द्विजम् । । १८

प्रेषयामास भगवांस्तदा वृन्दावने प्रभुः ।

तदा प्रभृति वै विप्रः श्रीधरो वैष्णवोऽभवत् । । १९

सप्ताब्दे चैव यज्ञांशे गत्वा शान्तिपुरीं शुभाम् ।

ब्रह्मज्ञानमुपागम्य यज्ञांशाच्छिष्यतां गतः । ।

टीका भागवतस्यैव कृता तेन महात्मना । । 3.4.19.२०

सूत उवाच

रामशर्मा स्थितः काश्यां शङ्करार्चनतत्परः ।

शिवरात्रे द्विजो धीमानविमुक्तेश्वरस्थले । ।

एकाकी जागरन्ध्यानी जप्त्वा पञ्चाक्षरं शुभम् । । २१

तदा प्रसन्नो भगवाञ्छङ्करो लोकशङ्करः ।

वरं ब्रूहीति वचनं तमाह द्विजसत्तमम् । । २२

रामशर्मा शिवं नत्वा वचनं प्राह नम्रधीः ।

भवान्यस्य समाधिस्थो ध्याने यस्य परो भवान् । । २३

स देवो हृदये मह्यं वसेत्तव वरात्प्रभो ।

इत्युक्तवचने तस्मिन्विहस्याह महेश्वरः । । २४

एका वै प्रकृतिर्माया त्रिधा ब्रह्मस्वरूपिणी ।

शून्यभूताव्यवस्यैव पुरुषस्यार्द्धतैजसम् । ।

गृहीत्वा लोकजननी पुंक्लीबौ सुषुवे सुतौ । । २५

पुमान्नारायणः साक्षाद्गौरश्चाष्टभुजैर्युतः ।

त्रिधा बभूव भगवान्स्वेच्छया विश्वरक्षकः । । २६

अर्धतेजास्स वै विष्णुर्वनमाली चतुर्भुजः ।

क्षीरशायी स आदित्यः स्वयं सद्गुणदेवता । । २७

अर्धतेजा द्विधा सैव नरनारायणावृषी ।

जिष्णुर्विष्णुः स वै ज्ञेयो पर्वते गन्धमादने । । २८

क्लीबः सङ्कर्षणः साक्षाद्ब्रह्मरूपं त्रिधाभवत् ।

पूर्वार्द्धाद्गौरशेषश्च परार्धाद्रामलक्ष्मणौ । । २९

गौरशेषो द्वापरान्ते बलभद्रः स वै स्वयम् ।

रामलक्ष्मणयोर्ध्यानं बलभद्रस्य पूजनम् । ।

सदा मया च कर्तव्यं तत्प्राप्य त्वं सुखी भव । । 3.4.19.३०

इत्युक्त्वान्तर्दधे देवो रामानन्दस्य चाभवत् ।

कृष्णचैतन्यमागम्य द्वादशाब्दवयोवृतम् । । ३१

शिष्यो भूत्वा स्थितस्तत्र कृष्णचैतन्यपूजकः ।

कृतं तदाज्ञया तेनाध्यात्मरामायणं शुभम् । । ३२

सूत उवाच

जीवानन्दस्स वै विप्रो रूपानन्दसमन्वितः ।

श्रुत्वा चैतन्यचरितं पुरीं शान्तिमयीं गतः । । ३३

चैतन्ये षोडशाब्दे च नत्वा तं तौ समास्थितौ ।

ऊचतुः कृष्णचैतन्यं भवता किं मतं स्मृतम् । । ३४

विहस्याह स चैतन्यः शाक्तोऽहं शक्तिपूजकः ।

शैवोऽहं वै द्विजौ १ नित्यं लोकार्थे शङ्करव्रती । ।

वैष्णवोऽहं ध्यानपरो देवदेवस्य भक्तिमान् । । ३५

अहं भक्तिमदं पीत्वा पापपुंसो बलिं शुभम् ।

शक्त्यै समर्प्य होमान्ते ज्ञानाग्नौ यज्ञतत्परः । । ३६

इति श्रुत्वा द्विजौ तौ तु तस्य शिष्यत्वमागतौ ।

आचारमार्गमागम्य सर्वपूज्यौ बभूवतुः । । ३७

तदाज्ञया षट्सन्दर्भं जीवानन्दश्चकार वै ।

उवास तत्र मतिमान्कृष्णचैतन्यसेवकः । । ३८

रूपानन्दो गुरोराज्ञां पुरस्कृत्य महामुनिः ।

कृष्णखण्डं पुराणाङ्गं चक्रे दशसहस्रकम् । ।

तत्रोष्य गुरुसेवाढ्यो राधाकृष्ण प्रपूजकः । । ३९

सूत उवाच

विष्णुस्वामी स वै विप्रो गतः शान्तिपुरीं शुभाम् ।

यज्ञांश ऊनविंशाब्दे नत्वा तं प्राह स द्विजः । । 3.4.19.४०

को देवः सर्वदेवानां पूज्यो ब्रह्माण्डगोचरे ।

इति श्रुत्वा स भगवानुवाच द्विजसत्तमम् । । ४१

सर्वपूज्यो महादेवो भक्तानुग्रहकारकः ।

विष्ण्वीश्वरश्च रुद्रेशो ब्रह्मेशो भगवान्हरः । । ४२

विना तत्पूजकेनैव पदार्था निष्फला हि ते ।

ये तु वै विष्णुभक्ताश्च शङ्करार्चनतत्पराः । । ४३

शिवप्रसादात्सुलभा वैष्णवी भक्तिरुत्तमा ।

वैष्णवः पुरुषो भूत्वा शङ्करं लोकशङ्करम् । । ४४

कर्मभूम्यां समागम्य न पूजयति नारकः ।

विष्णुस्वामीति तच्छ्रुत्वा शिष्यो भूत्वा च तद्गुणैः । । ४५

कृष्णमन्त्रमुपासित्वा १ स बभूव शिवार्चकः । । ४६

वैष्णवी संहिता तेन निर्मिता च तदाज्ञया ।

तत्रोष्य विष्णुभक्तश्च कृष्णचैतन्यपूजकः । । ४७

सूत उवाच

मध्वाचार्यः कृष्णपरो ज्ञात्वा यज्ञांशमुत्तमम् ।

गत्वा शान्तिपुरीं रम्यां नत्वा तं प्राह स द्विजः । । ४८

कृष्णोऽयं भगवान्साक्षात्तदन्ये विश्वकारकाः ।

देवा धात्रादयो ज्ञेयास्तर्हि तत्पूजनेन किम् । । ४९

शक्तिमार्गपरा विप्रा वृथा हिंसामयैर्मखैः ।

अश्वमेधादिभिर्देवान्पूजयन्ति महीतले । 3.4.19.५०

इति श्रुत्वा विहस्याह यज्ञांशश्च शचीसुतः ।

न कृष्णो भगवान्साक्षात्तामसोऽयं च शक्तिजः । । ५१

चौरोऽयं सर्वभोगी च हिंसको मांसभक्षकः ।

परस्त्रियं भजेद्यो वै स गच्छेद्यममन्दिरम् । । ५२

चौरो यमालयं गच्छेज्जीवहन्ता विशेषतः ।

एभिश्च लक्षणैर्हीनो भगवान्प्रकृतेः परः । । ५३

यस्य बुद्धिः स वै ब्रह्माऽहङ्कारो यस्य वै शिवः ।

शब्दमात्रा गणेशश्च स्पर्शमात्रा यमः स्वयम् । । ५४

रूपमात्रा कुमारो वै रसमात्रा च यक्षराट् ।

गन्धमात्रा विश्वकर्मा श्रवणं भगवाञ्छनिः । । ५५

यस्य त्वक्स बुधो ज्ञेयश्चक्षुस्सूर्यः सनातनः ।

यज्जित्वा भगवाञ्छुक्रो घ्राणस्तस्याश्विनीसुतौ । । ५६

यन्मुखं भगवाञ्जीवो यस्य हस्तस्तु देवराट् ।

कृष्णोऽयं तस्य चरणौ लिङ्गं दक्षः प्रजापतिः । ।

गुदं तद्भगवान्मृत्युस्तस्मै भगवते नमः । । ५७

हिंसायज्ञैश्च भगवान्स च तृप्तिमवाप्नुयात् ।

स च यज्ञपशुर्वह्नौ ब्रह्मभूयाय कल्पते । ।

तस्य मोक्षप्रभावेन महत्पुण्यमवाप्नुयात् । । ५८

विधिहीनो नरः पापी हिंसायज्ञं करोति यः ।

अन्धतामिस्रनरकं तद्दोषेण वसेच्चिरम् । । ५९

महत्पुण्यं महत्पापं हिंसायज्ञेषु वर्तते ।

अतस्तु भगवान्कृष्णो हिंसायज्ञं कलौ युगे । । 3.4.19.६०

समाप्य कार्तिके मासि प्रतिपच्छुक्लपक्षके ।

अन्नकूटमयं यज्ञं स्थापयामास भूतले । । ६१

देवराजस्तदा क्रुद्धो ह्यनुजं प्रति दुःखितः ।

वज्रं सप्लावयामास तदा कृष्णः सनातनीम् । ।

प्रकृतिं स च तुष्टाव लोकमङ्गलहेतवे । । ६२

तदा सा प्रकृतिर्माता स्वपूर्वाद्दिव्यविग्रहम् ।

राधारूपं महत्कृत्वा हदि कृष्णस्य चागता । । ६३

तच्छक्त्या भगवान्कृष्णो धृत्वा गोवर्धनं गिरिम् ।

नाम्ना गिरिधरो देवः सर्वपूज्यो बभूव ह । । ६४

राधाकृष्णस्स भगवान्पूर्णब्रह्म सनातनः ।

अतः कृष्णो न भगवान्राधाकृष्णः परः प्रभुः । । ६५

इति श्रुत्वा वचस्तस्य मध्वाचार्यो हरिप्रियः ।

शिष्यो भूत्वा स्थितस्तत्र कृष्णचैतन्यपूजकः । । ६६

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णचैतन्ययज्ञांशशिष्यबलभद्रविष्णुस्वामिमध्वाचार्यादिवृत्तान्तवर्णनं नामैकोनविंशोऽध्यायः । १९

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 20

जगन्नाथमाहात्म्यवर्णनम्

सूत उवाच

भट्टोजिस्स च शुद्धात्मा शिवभक्तिपरायणः ।

कृष्णचैतन्यमागम्य नमस्कृत्य वचोऽब्रवीत् । । १

महादेवो गुरुः स वै शिव आत्मा शरीरिणाम् ।

विष्णुर्ब्रह्मा च तद्दासौ तर्हि तत्पूजनेन किम् । । २

इति श्रुत्वा स यज्ञांशो विंशदब्दवयोवृतः ।

विहस्याह स भट्टोजिं नायं शम्भुर्महेश्वरः । । ३

समर्थो भगवाञ्छम्भुः कर्ता किन्न शरीरिणाम् ।

न भर्ता च विना विष्णुं संहर्तायं सदा शिवः । । ४

एकमूर्तिस्त्रिधा जाता ब्रह्मा विष्णुर्महेश्वरः ।

शाक्तमार्गेण भगवान्ब्रह्मा मोक्षप्रदायकः । । ५

विष्णुर्वैष्णवमार्गेण जीवानां मोक्षदायकः ।

शम्भुर्वै शैवमार्गेण मोक्षदाता शरीरिणाम् । । ६

शाक्तः सदाश्रमो गेही यज्ञभुक्पितृदेवगः ।

वानप्रस्थाश्रमी यो वै वैष्णवः कन्दमूलभुक् । । ७

यत्याश्रमः सदा रौद्रौ निर्गुणः शुद्धविग्रहः ।

ब्रह्मचर्याश्रमस्तेषामनुगामी महाश्रमः । । ८

इति श्रुत्वा गुरोर्वाक्यं शिष्यो भूत्वा स वै द्विजः ।

तृतीयाङ्गं च वेदानां व्याचख्यौ पाणिनिकृतम् । । ९

तदाज्ञया च सिद्धान्तकौमुद्यास्स चकार ह ।

तत्रोष्य दीक्षितो धीमान्कृष्णचैतन्यसेवकः । । 3.4.20.१०

सूत उवाच

वराहमिहिरो धीमान्स च सूर्यपरायणः ।

द्वाविंशाब्दे च यज्ञांशे तमागत्य वचोऽब्रवीत् । । ११

सूर्योऽयं भगवात्साक्षात्त्रयो देवा यतोऽभवन् ।

प्रातर्ब्रह्मा च मध्याह्ने विष्णुः सायं सदाशिवः । । १२

अतो रवेः शुभा पूजा त्रिदेवयजनेन किम् ।

इति श्रुत्वा स यज्ञांशो विहस्याह शुभं वचः । । १३

द्विधा बभूव प्रकृतिरपरा च परा तथा ।

नाममात्रा तथा पुष्पमात्रा तन्मात्रिका तथा । । १४

शब्दमात्रा स्पर्शमात्रा रूपमात्रा रसा तथा ।

गंधमात्रा तथा ज्ञेया परा प्रकृतिरष्टधा । । १५

अपरायां जीवभूता नित्यशुद्धा जगन्मयी ।

भूमिरापोऽनलो वायुः खं मनोबुद्धिरेव च । ।

अहङ्कार इति ज्ञेया प्रकृतिश्चापराष्टधा । । १६

विष्णुर्ब्रह्मा महादेवो गणेशो यमराड् गुहः ।

कुबेरो विश्वकर्मा च परा प्रकृतिदेवता । । १७

सुमेरुर्वरुणो वह्निर्वायुश्चैव ध्रुवस्तथा ।

सोमो रविस्तथा शेषोऽपरा प्रकृतिदेवता । । १८

अतः सोमपती रुद्रो रविः स्वामी विधिः स्वयम् ।

शेषस्वामी हरिः साक्षान्नमस्तेभ्यो नमो नमः । । १९

इति श्रुत्वा तदा विप्रः शिष्यो भूत्वा च तद्गुरोः ।

तदाज्ञया चतुर्थाङ्गं ज्योतिःशास्त्रं चकार ह । । 3.4.20.२०

वराहसंहिता नाम बृहज्जातकमेव हि ।

क्षुद्रतन्त्रांस्तथान्यान्वै कृत्वा तत्र स चावसत् । । २१

सूत उवाच

वाणीभूषण एवापि शिवभक्तिपरायणः ।

कृष्णचैतन्यमागम्य वचः प्राह विनम्रधीः । । २२

विष्णुमाया जगद्धात्री सैका प्रकृतिरुत्कृता ।

तया जातमिदं विश्वं विश्वाद्देवसमुद्भवः । । २३

विश्वेदेवस्स पुरुषश्शक्तिजो बहुधाभवत् ।

ब्रह्मा विष्णुर्हरश्चैव देवाः प्रकृतिसम्भवाः । ।

अतो भगवती पूज्या तर्हि तत्पूजनेन किम् । । २४

इति श्रुत्वा स यज्ञांशो विहस्याह द्विजोत्तमम् ।

न वै भगवती श्रेष्ठा जडरूपा गुणात्मिका । । २५

एका सा प्रकृतिर्माया रचितुर्जगतां क्षमा ।

पुरुषस्य सहायेन योषितेव नरस्य च । । २६

देवीभागवते शास्त्रे प्रसिद्धेयं कथा द्विज ।

कदाचित्प्रकृतिर्देवी स्वेच्छयेदं जगत्खलु । । २७

निर्मितं जडभूतं तद्बहुधा बोधितं तदा ।

न चैतन्यमभूद्विप्रा विस्मिता प्रकृतिस्तदा । । २८

शून्यभूतं च पुरुषं चैतन्यं समतोषयत् ।

प्रविष्टो भगवान्देवीमायाजनितगोलके । । २९

स्वप्नवद्वा स्वयं जातश्चैतन्यमभवज्जगत् ।

अतः श्रेष्ठः स भगवान्पुरुषो निर्गुणः परः । । 3.4.20.३०

प्रकृत्यां स्वेच्छया जातो लिङ्गरूपस्तदाऽभवत् ।

पुँल्लिङ्गप्रकृतौ जातः पुँल्लिङ्गोऽयं सनातनः । । ३१

स्त्रील्लिङ्गप्रकृतौ जातः स्त्रील्लिङ्गोऽयं सनातनः ।

नपुंस्कप्रकृतौ जातः क्लीबरूपः स वै प्रभुः । । ३२

अव्ययप्रकृतौ जातौ निर्गुणोऽयमधोक्षजः ।

नमस्तस्मै भगवते शून्यरूपाय साक्षिणे । । ३३

इति श्रुत्वा तु तद्वाक्यं शिष्यो भूत्वा स वै द्विजः ।

त्रिविंशाब्दे च यज्ञांशे तत्र वासमकारयत् । । ३ ४

छन्दोग्रन्थं तु वेदाङ्गं स्वनाम्ना तेन निर्मितम् ।

राधाकृष्णपरं नाम जप्त्वा हर्षमवाप्तवान् । । ३५

सूत उवाच

धन्वन्तरिर्द्विजो नाम ब्रह्मभक्तिपरायणः ।

कृष्णचैतन्यमागम्य नत्वा वचनमब्रवीत् । । ३६

भवांस्तु पुरुषः श्रेष्ठो नित्यशुद्धस्सनातनः ।

जडभूता च तन्माया समर्थो भगवान्स्वयम् । । ३७

नित्योऽव्यक्तः परः सूक्ष्मस्तस्मात्प्रकृतिरुद्भवः ।

अतः पूज्यस्स भगवान्प्रकृत्याः पूजनेन किम् । । ३८

इति श्रुत्वा विहस्याह यज्ञांशस्सर्वशास्त्रगः ।

नायं श्रेष्ठस्स पुरुषो न क्षमः प्रकृतिं विना । । ३९

पुराणे चैव वाराहे प्रसिद्धेयं कथा शुभा ।

कदाचित्पुरुषो नित्यो नाममात्रः स्वकेच्छया । ।

बभूव बहुधा तत्र यथा प्रेतस्तथा स्वयम् । । 3.4.20.४०

असमर्थो विरचितुं जगन्ति पुरुषः परः ।

तुष्टाव प्रकृतिं देवीं चिरकालं सनातनीम् । । ४१

तदा देवी च तं प्राप्य महत्तत्वं चकार ह ।

सोऽहङ्कारश्च महतो जातस्तन्मात्रिकास्ततः । । ४२

महाभूतान्यतोऽप्यासंस्तैः सञ्जातमिदं जगत् । । ४३

अतस्सनातनौ चोभौ पुरुषात्प्रकृतिः परा ।

प्रकृतेः पुरुषश्चैव तस्मात्ताभ्यां नमो नमः । । ४४

इति धन्वन्तरिः श्रुत्वा शिष्यो भूत्वा च तद्गुरोः ।

तत्रोष्य चैव वेदाङ्गं कल्पवेदं चकार ह । ।

सुश्रुतादपरे चापि शिष्या धन्वन्तरेः स्मृतः । । ४५

सूत उवाच

जयदेवस्स वै विप्रो बौद्धमार्गपरायणः ।

कृष्णचैतन्यमागम्य पञ्चविंशवयोवृतम् । ।

नत्वोवाच वचो रम्यं स च श्रेष्ठ उषापतिः । । ४६

यस्य नाभेरभूत्पद्मं ब्रह्मणा सह निर्गतम् ।

अतस्स ब्रह्मसूर्नाम सामवेदेषु गीयते । । ४७

विश्वो नारायणस्साक्षाद्यस्य केतौ समास्थितः ।

विश्व केतुरतो नाम न निरुद्धोऽनिरुद्धकः । । ४८

ब्रह्मवेला च तत्पत्नी नित्या चोषा महोत्तमा ।

स वै लोकहितार्थाय स्वयमर्चावतारकः । । ४९

इति श्रुत्वा विहस्याह यज्ञांशस्तं द्विजोत्तमम् ।

वेदो नारायणः साक्षात्पूजनीयो नरः सदा । । 3.4.20.५०

ततः कालस्ततः कर्म ततो धर्मः प्रवर्तते ।

धर्मात्मकामः समुद्भूतः कामपत्नी रतिः स्वयम् । । ५१

रत्यां कामात्समुद्भूतोऽनिरुद्धो नामदेवता ।

उषा सा तस्य भगिनी तेन सार्द्धं समुद्भवा । । ५२

कालो नाम स वै कृष्णो राधा तस्य सहोदरा ।

कर्मरूपः स वै ब्रह्मा नियतिस्तत्सहोदरा । । ५३

धर्मरूपो महादेवः श्रद्धा तस्य सहोदरा ।

अनिरुद्धः कथं चेशो भवतोक्तः सनातनः । । ५४

त्रिधा सृष्टिश्च ब्रह्माण्डे स्थूला सूक्ष्मा च कारणा ।

स्थूलसृष्ट्यै समुद्भूतो देवो नारायणः स्वयम् । । ५५

नारायणी च तच्छक्तिस्तयोर्जलसमुद्भवः ।

जलाज्जातस्स वै शेषस्तस्योपरि समास्थितौ । । ५६

सुप्ते नारायणे देवे नाभेः पङ्कजमुत्तमम् ।

अनन्तयोजनायाममुदभूच्च ततो विधिः । । ५७

विधेः स्थूलमयी सृष्टिर्देवतिर्य्यङ्नरादिका ।

सूक्ष्मसृष्ट्यै समुद्भूतः सोऽनिरुद्ध उषापतिः । । ५८

ततो वीर्यमयं तोयं जातं ब्रह्माण्डमस्तके ।

वीर्याज्जातस्स वै शेषस्तस्योपरि स चास्थितः । । ५९

तस्य नाभेस्समुद्भूतो ब्रह्मा लोकपितामहः ।

सूक्ष्मसृष्टिस्ततो जाता यथा स्वप्नेऽपि दृश्यते । । 3.4.20.६०

हेतुसृष्ट्यै समुद्भूतो वेदा नारायणः स्वयम् ।

वेदात्कालस्ततः कर्म ततो धर्मादयः स्मृताः । । ६१

त्वद्गुरुश्च जगन्नाथ उड्रदेशनिवासकः ।

मया तत्रैव गन्तव्यं सशिष्येणाद्य भो द्विजाः । । ६२

इति श्रुत्वा तु वचनं कृष्णचैतन्यकिङ्कराः ।

स्वान्स्वाञ्छिष्यान्समाहूय तत्पश्चात्प्रययुश्च ते । । ६३

शाङ्करा द्वादशगणा रामानुजमुपाययुः ।

नामदेवादयस्तत्र गणास्सप्त समागताः । । ६४

रामानन्दं नमस्कृत्य संस्थितास्तस्य सेवका ।

रोपणश्च तदागत्य स्वशिष्यैर्बहुभिर्वृतः । । ६५

कृष्णचैतन्यमागम्य नमस्कृत्य स्थितः स्वयम् ।

जगन्नाथपुरीं ते वै प्रययुर्भक्तितत्पराः । । ६६

निधयः सिद्धयस्तत्र तेषां सेवार्थमागताः ।

सर्वे च दशसाहस्रा वैष्णवाः शैवशाक्तकैः । । ६७

यज्ञांशं च पुरस्कृत्य जगन्नाथपुरीं ययुः ।

अर्चावतारो भगवाननिरुद्ध उषापतिः । । ६८

तदागमनमालोक्य द्विजरूपधरो मुनिः ।

जगन्नाथः स्वयं प्राप्तो यत्र यज्ञांशकादयः । । ६९

यज्ञांशस्तं समालोक्य नत्वा वचनमब्रवीत् ।

किं मतं भवता ज्ञातं कलौ प्राप्ते भयानके । । 3.4.20.७०

तत्सर्वं कृपया ब्रूहि श्रोतुमिच्छामि तत्त्वतः ।

इति श्रुत्वा तु वचनं जगन्नाथो हरिः स्वयम् । ।

उवाच वचनं रम्यं लोकमङ्गलहेतवे । । ७१

मिश्रदेशोद्भवा म्लेच्छाः काश्यपेनैव शासिताः ।

संस्कृता शूद्रवर्णेन ब्रह्मवर्णमुपागताः । । ७२

शिखासूत्रं समाधाय पठित्वा वेदमुत्तमम् ।

यज्ञैश्च पूजयामासुर्देवदेवं शचीपतिम् । । ७३

दुःखितो भगवानिन्द्रः श्वेतद्वीपमुपागतः ।

स्तुत्या मां बोधयामास देवमङ्गलहेतवे । । ७४

प्रबुद्धं मां वचः प्राह शृणु देव दयानिधे ।

शूद्रसंस्कृतमन्नं च खादितुं न द्विजोऽर्हति । । ७५

तथा च शूद्रजनितैर्यज्ञैस्तृप्तिं न चाप्नुयाम् ।

काश्यपे स्वर्गते प्राप्ते मागधे राज्ञि शासति । । ७६

मम शत्रुर्बलिर्दैत्यः कलिपक्षमुपागतः ।

निस्तेजाश्च यथाऽहं स्यां तथा वै कर्तुमुद्यतः । । ७७

मिश्रदेशोद्भवे म्लेच्छे सांस्कृती तेन संस्कृता ।

भाषा देवविनाशाय दैत्यानां वर्द्धनाय च । । ७८

आर्य्येषु प्राकृती भाषा दूषिता तेन वै कृता ।

अतो मां रक्ष भगवन्भवन्तं शरणागतम् । । ७९

इति श्रुत्वा तदाहं वै देवराजमुवाच ह ।

भवन्तो द्वादशादित्या गन्तुमर्हन्ति भूतले । । 3.4.20.८०

अहं लोकहितार्थाय जनिष्यामि कलौ युगे ।

प्रवीणो निपुणोऽभिज्ञः कुशलश्च कृती सुखी । । ८१

निष्णातः शिक्षितश्चैव सर्वज्ञः सुगतस्तथा ।

प्रबुद्धश्च तथा बुद्ध आदित्याः क्रमतो भवाः १ । । ८२

धाता मित्रोऽर्यमा शक्रो मेघः प्रांशुर्भगस्तथा ।

विवस्वांश्च तथा पूषा सविता त्वाष्ट्रविष्णुकौ । ।

कीकटे देश आगत्य ते सुरा जज्ञिरे क्रमात् । । ८३

वेदनिन्दां पुरस्कृत्य बौद्धशास्त्रमचीकरन् ।

तेभ्यो वेदान्समादाय मुनिभ्यः प्रददुस्सुराः । । ८४

वेदनिन्दाप्रभावेण ते सुराः कुष्ठिनोऽभवन् ।

विष्णुदेवमुपागम्य तुष्टुवुर्बौद्धरूपिणम् । । ८५

हरिर्योगबलेनैव तेषां कुष्ठमनाशयत् ।

तद्दोषान्नग्नभूतश्च बौद्धस्स तेजसाऽभवत् । । ८६

पूर्वार्द्धान्नेमिनाथश्च परार्द्धाद्बौद्ध एव च ।

बौद्धराज्यविनाशाय दारुपाषाणरूपवान् । । ८७

अहं सिन्धुतटे जातो लोकमङ्गलहेतवे ।

इन्द्रद्युम्नश्च नृपतिः स्वर्गलोकादुपागतः । ।

मन्दिरं रचितं तेन तत्राहं समुपागतः । । ८८

अत्र स्थितश्च यज्ञांशप्रसादमहिमा महान् ।

सर्ववाञ्छितदं लोके स्थापयामास मोक्षदम् । । ८९

वर्णधर्मश्च नैवात्र वेदधर्मस्तथा न हि ।

व्रतं चात्र न यज्ञांशमण्डले योजनान्तरे । । 3.4.20.९०

येनोक्ता यावनी भाषा येन बौद्धो विलोकितः ।

तस्य प्राप्तं महत्पापं स्थितोऽहं तदघापहः । ।

मां विलोक्य नरः शुद्धः कलिकाले भविष्यति । । ९१

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णचैतन्यचरित्रे जगन्नाथमाहात्म्यवर्णनं नाम विंशोऽध्यायः । २०

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 21

कृष्णचैतन्यवर्णनम्

सूत उवाच

इति श्रुत्वा वचस्तस्य जगन्नाथस्य धीमतः ।

कृष्णचैतन्य एवापि तमुवाच प्रसन्नधीः । । १

भगवन्प्राणिनां श्रेयो यदुक्तं भवता मुने ।

विस्तरात्तत्कथां ब्रूहि यथा बौद्धसमुद्भवः । । २

जगन्नाथ उवाच

सहस्राब्दे कलौ प्राप्ते कर्मभूम्यां च भारते ।

कण्वो नाम मुनिश्रेष्ठस्सम्प्राप्तः कश्यपात्मजः । । ३

आर्यावती देवकन्या कण्वस्य दयिता प्रिया ।

शक्राज्ञया च सम्प्राप्तौ दम्पती शारदातटे । । ४

सरस्वतीं नदीरूपां कुरुक्षेत्रनिवासिनीम् ।

चतुर्वेदमयैः स्तोत्रैः कण्वस्तुष्टाव नम्रधीः । । ५

वर्षमात्रान्तरे देवी प्रसन्ना समुपागता ।

आर्यसृष्टिसमृद्धौ सा ददौ तस्मै वरं शुभम् । । ६

दशपुत्रास्तयोर्जाता आर्यबुद्धिकरा हि ते ।

उपाध्यायो दीक्षितश्च पाठकः शुक्लमिश्रकौ । । ७

अग्रिहोत्री द्विवेदी च त्रिवेदी पाण्ड एव च ।

चतुर्वेदीति कथिता यथा नाम तथा गुणाः । । ८

ते वै सरस्वतीं देवीं तुष्टुवुर्नम्रकन्धराः ।

द्वादशाब्दवयोभ्यश्च तेभ्यो देवी स्वशक्तितः । ।

कृत्वा कन्यां ददौ माता शारदा भक्तिवत्सला । । ९

उपाध्यायी दीक्षिता च पाठकी शुक्लिका क्रमात् ।

मिश्राणी च तथा ज्ञेया षष्ठी सा चा(च?)ग्निहोत्रिणी । । 3.4.21.१०

द्विवेदिनी तथा ज्ञेया चाष्टमी च त्रिवेदिनी ।

पाण्डायनी च नवमी दशमी तुर्यवेदिनी । । ११

तासां च स्वपतिभ्यो वै सुताः षोडश षोडश ।

ते तु गोत्रकरा ज्ञेयास्तेषां नामानि मे शृणु । । १२

कश्यपश्च भरद्वाजो विश्वामित्रोऽथ गौतमः ।

जमदग्निर्वशिष्ठश्च वत्सो गौतम एव च । । १३

पराशरस्तथा गर्गोऽत्रिर्भृगुश्चाङ्गिरास्तथा ।

शृङ्गी कात्यायनश्चैव याज्ञवल्क्यः क्रमात्सुताः । ।

इति नाम्ना सुतास्सर्वे ज्ञेयाः षोडश षोडश । । १४

सरस्वत्याज्ञया कण्वो मिश्रदेशमुपाययौ ।

म्लेच्छान्संस्कृतमाभाष्य तदा दशसहस्रकान् । ।

वशीकृत्य स्वयम्प्राप्तो ब्रह्मावर्ते महोत्तमे । । १५

ते सर्वे तपसा देवीं तुष्टुवुश्च सरस्वतीम् ।

पञ्चवर्षान्तरे देवी प्रादुर्भूता सरस्वती । ।

सपत्नीकाँश्च तान्म्लेच्छाञ्छूद्रवर्णाय चाकरोत् । । १६

कारुवृत्तिकरास्सर्वे बभूवुर्बहुपुत्रकाः ।

द्विसहस्रास्तदा तेषां मध्ये वैश्या बभूविरे । । १७

तन्मध्ये चाचार्यपृथुर्नाम्ना कश्यपसेवकः ।

तपसा स च तुष्टाव द्वादशाब्दं महामुनिम् । । १८

तदा प्रसन्नो भगवान्कण्वो देववराद्वरः ।

तेषां चकार राजानं राजपुत्रपुरं ददौ । । १९

राजन्या नाम तत्पत्नी मागधं सुषुवे तदा ।

तस्मै कण्वो ददौ ग्रामं पूर्वस्यां दिशि मागधम् । । 3.4.21.२०

स्वर्गलोकं पुनः प्राप्तः स मुनिः कश्यपात्मजः ।

स्वर्गते काश्यपे विप्रे ते म्लेच्छाः शूद्रवर्णकाः । । २१

यज्ञैस्समर्चयामासुर्देवदेवं शचीपतिम् ।

दुःखितो भगवानिन्द्रस्सबन्धुर्जगतीतले । । २२

वेदानाहर्तुमिच्छन्तो ब्रह्मयोनौ बभूविरे ।

जिनो नाम द्विजः कश्चित्तत्पत्नी जयनी स्मृता । । २३

कश्यपाददितेरंशाज्जातौ तौ कीकटस्थले ।

तयोस्सकाशात्सञ्जाता आदित्या लोकहेतवे । । २४

कर्मनाशानदीतीरे पुरी बोधगया स्मृता ।

तत्रोष्य बौद्धशास्त्राढ्याश्चक्रुः शास्त्रार्थमुत्तमम् । । २५

वेदाञ्छूद्रेभ्य आहृत्य विशालां प्रययुः पुरीम् ।

समाधिस्थान्मुनीन्सर्वान्समुत्थाप्य ददुः स्वयम् । । २६

गतास्सर्वे सुरास्स्वर्गे ततः प्रभृतिभूतले ।

म्लेच्छा बभूविरे बौद्धास्तदन्ये वेदतत्पराः । । २७

सरस्वत्याः प्रभावेण त आर्या बहवोऽभवन् ।

तैश्च देवपितृभ्यश्च हव्यं कव्यं समर्पितम् । । २८

तृप्तिमन्तः सुराश्चासंस्त आर्याणां सहस्रकाः ।

सप्तविंशच्छते भूमौ कलौ संवत्सरे गते । । २९

बलिना प्रेषितो भूमौ मयः प्राप्तो महासुरः ।

शाक्यसिंहगुरुर्गेयो बहुमायाप्रवर्तकः । । 3.4.21.३०

स नाम्ना गौतमाचार्यो दैत्यपक्षविवर्द्धकः ।

सर्वतीर्थेषु तेनैव यन्त्राणि स्थापितानि वै । । ३१

तेषामधो गता ये तु बौद्धाश्चासन्समन्ततः ।

शिखासूत्रविहीनाश्च बभूबुर्वर्णसङ्कराः । । ३२

दश कोट्यः स्मृता आर्या बभूवुर्बौद्धमार्गिणः ।

पञ्चलक्षास्तदा शेषाः प्रययुर्गिरिमूर्द्धनि । । ३३

चतुर्वेदप्रभावेण राजन्या वह्निवंशजाः ।

चत्वारिंशभवा योधास्तैश्च बौद्धास्समुज्झिताः । । ३४

आर्यांस्तांस्ते तु संस्कृत्य विन्ध्याद्रेर्दक्षिणे कृतान् ।

तत्रैव स्थापयामासुर्वर्णरूपान्समन्ततः । । ।

आर्यावर्तः पुण्यभूमिस्तत्रस्थाः पञ्चलक्षकाः । । ३५

सूत उवाच

इति श्रुत्वा वचस्तस्य यज्ञांशो भगवान्हरिः । । ३६

जगन्नाथस्य शिष्योभूद्वेदमार्गपरायणः ।

शुक्लदत्तस्य तनयो नित्यानन्दो द्विजोत्तमः । । ३७

जगन्नाथपदं नत्वा शिष्यो भूत्वा रराज ह ।

तदा प्रसन्नो भगवाननिरुद्ध उषापतिः । । ३८

अभिषेकन्तयोर्भाले महत्तत्वे चकार ह ।

महत्त्वपदवी जाता तदा प्रभृतिभूतले । । ३९

गुरुबन्धू प्रसन्नौ तौ स्वशिष्यान्प्रोचतुर्मुदा ।

जगन्नाथस्य वदनं पद्मनाभेरुषापतेः । ।

दृष्ट्वा यश्चात्र सम्प्राप्य स वै स्वर्गमवाप्नुयात् । । 3.4.21.४०

प्रसादं यश्च भुञ्जीयात्तस्य देवस्य सादरम् ।

कोटिजन्म भवेद्विप्रो वेदपात्रो महाधनी । । ४१

मार्कण्डेय वटे कृष्णं दृष्टवा स्नात्वा महोदधौ ।

इन्द्रद्युम्नसरस्येव पुनर्जन्म न विन्दते । । ४२

इमां गाथां शृणोद्यो वै श्रद्धाभक्तिसमन्वितः ।

यत्पुरीगमने पुण्यं फलं तच्छीघ्रमाप्नुयात् । ।४३

इति यज्ञांशवचनं श्रुत्वा स ह्यवतारकः ।

वैष्णवैश्च तथेत्युक्त्वा तत्रैवान्तरधीयत । । ४४

एतस्मिन्नन्तरे विप्र कलिना प्रार्थितो बलिः ।

मयदैत्यं समाहूय वचनं प्राह दुःखितः । । ४५

सुकन्दरो म्लेच्छपतिः सदा मद्वर्द्धने रतः ।

सहायं तस्य दैत्येन्द्र कुरु शीघ्रं ममाज्ञया । । ४६

इति श्रुत्वा बलेर्वाक्यं शतदैत्यसमन्वितः ।

कर्मभूम्यां मयः प्राप्तः कलविद्याविशारदः । । ४७

म्लेच्छजातीन्नरान्दुष्टान्रेखागणितमुत्तमम् ।

एकविंशतिमध्यायं कलवेदमशिक्षयत् । । ४८

तदा कलान्विता म्लेच्छाः कलाविद्याविशारदाः ।

यन्त्राणि कारयामासुः सप्तस्वेव पुरीषु च । । ४९

तदधो ये गतालोकास्ते सर्वे म्लेच्छतां गताः ।

महत्कोलाहलं जातमार्याणां शोककारिणाम् । । 3.4.21.५०

श्रुत्वा ते वैष्णवाः सर्वे कृष्णचैतन्यसेवकाः ।

दिव्यमन्त्रं गुरोश्चैव पठित्वा प्रययुः पुरीम् । । ५१

रामानन्दस्य शिष्यो वै चायोध्यायामुपागतः ।

कृत्वा विलोमं तं मन्त्रं वैष्णवांस्तानकारयत् । । ५२

भाले त्रिशूलचिह्नं च श्वेतरक्तं तदाभवत् ।

कण्ठे च तुलसी माला जिह्वा राममयी कृता । । ५३

म्लेच्छास्ते वैष्णवाश्चासन्रामानन्दप्रभावतः ।

संयोगिनश्च ते ज्ञेया रामानन्दमते स्थिताः । । ५४

आर्याश्च वैष्णवा मुख्या अयोध्यायां बभूविरे ।

निम्बादित्यो गतो धीमान्सशिष्यः काञ्चिकां पुरीम् । ।

म्लेच्छयन्त्रं राजमार्गे स्थितं तत्र ददर्श ह । । ५५

विलोमं स्वगुरोर्मन्त्रं कृत्वा तत्र स चावसत् ।

वंशपत्रसमा रेखा ललाटे कण्ठमालिका । । ५६

गोपीवल्लभमन्त्रो हि मुखे तेषां रराज ह ।

तदधो ये गता लोका वैष्णवाश्च बभूविरे । । ५७

म्लेच्छाः संयोगिनो ज्ञेया आर्यास्तन्मार्गवैष्णवाः ।

विष्णुस्वामी हरिद्वारे जगाम स्वगणैर्वृतः । । ५८

तत्र स्थितं महायन्त्रं विलोमं तच्चकार ह ।

तदधो ये गता लोका आसन्सर्वे च वैष्णवाः । । ५९

ऊर्ध्वपुण्ड्रं द्विरेखाभं तन्मध्ये बिन्दुरुत्तमः ।

ललाटे च स्थितस्तेषां कण्ठे तुलसिगोलकम् । । 3.4.21.६०

मुखे साधवमन्त्रश्च बभूव हितदायकः ।

मथुरायां समायातो मध्वाचार्यो हरिप्रियः । । ६१

राजमार्गे स्थितं यन्त्रं विलोमं स चकार ह ।

तदधो ये गता लोका वैष्णवास्तस्य पक्षगाः । । ६२

करवीरपत्रसदृशं ललाटे तिलकं शुभम् ।

स्थितम् नासार्द्धभागान्ते कण्ठे तुलसि मालिका । ।

राधाकृष्णशुभं नाम मुखे तेषां बभूव ह । । ६३

शङ्कराचार्य एवापि शैवमार्गपरायणः ।

रामानुजाज्ञया प्राप्तः पुरीं काशीं गणैर्युतः । । ६४

कृत्वा विलोमं तद्यन्त्रं शैवाश्च तदधोऽभवन् ।

त्रिपुण्ड्रं च स्थितं भाले कण्ठे रुद्राक्षमालिका । ।

गोविन्दमन्त्रश्च मुखे तेषां तत्र बभूव ह । । ६५

तोतादर्यां च सम्प्राप्तस्तदा रामानुजः सुखी ।

ऊर्ध्वरेखाद्वयोर्मध्ये सूक्ष्मरेखा च पीतिका । ।

ललाटे तु तथा कण्ठे माला तुलसिका शुभा । । ६६

उज्जयिन्यां च सम्प्राप्तो बराहमिहिरो गुणी ।

तद्यन्त्रं निष्फलं कृत्वा नराञ्छैवांश्चकार ह । । ६७

चिताभस्मस्थितं भाले कण्ठे रुद्राक्षमालिका ।

शिवेति मङ्गलं नाम तेषां तत्र बभूव ह । । ६८

कान्यकुब्जे स्वयं प्राप्तो वाणीभूषण एव हि ।

अर्द्धचन्द्राकृतिं पुण्ड्रं रक्तचन्दनमालिका । ।

देव्याश्च निर्मलं नाम तेषां तत्र बभूव ह । । ६९

धन्वन्तरिः प्रयागे च गत्वा तद्यन्त्रमुत्तमम् ।

विलोमं कृतवांस्तत्र तदधो ये गता नराः । । 3.4.21.७०

अर्द्धपुण्ड्रं स्मृतं रक्तं सबिन्दु च ललाटके ।

रक्तचन्दनजा माला कण्ठे तेषां बभूव ह । । ७१

भट्टोजिः स गतो धीमानुत्पलारण्यमुत्तमम् ।

त्रिपुण्ड्रं च तथा रक्तं कण्ठे रुद्राक्षमालिका । ।

विश्वनाथेतितन्मन्त्रं तेषां तत्र बभूव ह । । ७२

रोपणश्चैष्टिकां प्राप्तस्तद्यन्त्रं चैव निष्फलम् ।

कृत्वा जने जने तत्र ब्रह्म मार्गम् ददर्श ह । । ७३

जयदेव स्वयं प्राप्तो द्वारकां विष्णुभक्तिमान् ।

तद्यन्त्रं निष्फलं यातं तदधो ये गता नराः । । ७४

रक्तरेखा स्थिता भाले चैका कण्ठे तु मालिका ।

पद्माक्षा मन्त्रगोविन्दस्तत्र तेषां बभूव ह । ।

एवं ते वैष्णवाः शैवाः शाक्तका बहुधाऽभवन् । । ७५

निर्गुणाः शाक्तका ज्ञेयाः सगुणा वैष्णवाः स्मृताः ।

निर्गुणाः सगुणा ये तु शैवा ज्ञेया बुधैस्तदा । । ७६

समाधिस्थास्त्रयस्त्रिंशद्देवाः पुण्या बभूविरे ।

नित्यानन्दः शान्तिपुरे नदीहापत्तने हरिः । । ७७

कबीरो मागधे देशे रैदासस्तु कलिञ्जरे ।

सधनो नैमिषारण्ये समाधिस्थो बभूव ह । । ७८

अद्यापि संस्थितो विप्र वैष्णवानां गणो महान् ।

यज्ञभागमहावृद्धिः सञ्जाता मेरुमूर्द्धनि । । ७९

इति ते कथितं विप्र यज्ञांशचरितं शुभम् ।

यच्छ्रुत्वा च नरा नार्यो महत्पुण्यमवाप्नुयुः । ।

मयाद्या निष्फला दैत्या बलिपार्श्वमुपागताः । । 3.4.21.८०

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णचैतन्यचरित्रं नामैकविंशोऽध्यायः । २१

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 22

गुरुण्डमौनराज्यवर्णनम्

सूत उवाच

इति श्रुत्वा बलिर्दैत्यो देवानां विजयं महत् ।

रोषणं नाम दैत्येन्द्रं समाहूय वचोऽब्रवीत् । । १

सुतस्तिमिरलिङ्गस्य सरुषो नाम विश्रुतः ।

त्वं हि तत्र समागम्य दैत्यकार्यं महत्कुरु । । २

इति श्रुत्वा स वै दैत्यो हृदि विप्राप्तरोषणः ।

ननाश वेदमार्गस्थान्देहलीदेशमास्थितः । । ३

पञ्चवर्षं कृतं राज्यं तत्सुतो बाबरोभवत् ।

विंशदब्दं कृत राज्यं होमायुस्तत्सुतोऽभवत् । । ४

होमायुषा मदान्धेन देवताश्च निराकृताः ।

ते सुराः कृष्णचैतन्यं नदीहोपवने स्थितम् । । ५

तुष्टुवुर्बहुधा तत्र श्रुत्वा क्रुद्धो हरिः स्वयम् ।

स्वतेजसा च तद्राज्यं विघ्नभूतं चकार ह । । ६

तत्सैन्यजनितैर्लोकैर्होमायुश्च निराकृतः ।

महाराष्ट्रैस्तदा तत्र शेषशाकः समास्थितः । । ७

देहलीनगरे रम्ये म्लेच्छो राज्यं चकार ह ।

धर्मकार्यं कृतं तेन तद्राज्यं पञ्चहायनम् । । ८

ब्रह्मचारी मुकुन्दश्च शङ्कराचार्यगोत्रजः ।

प्रयागे च तपः कुर्वन्विंशच्छिष्यैर्युतः स्थितः । । ९

बाबरेण च धूर्तेन म्लेच्छराजेन देवताः ।

भ्रंशिता स तदा ज्ञात्वा वह्नौ देहं जुहाव वै । । 3.4.22.१०

तस्य शिष्या गता वह्नौ म्लेच्छनाशनहेतुना ।

गोदुग्धे च स्थितं रोमं पीत्वा स पयसा मुनिः । । ११

मुकुन्दस्तस्य दोषेण म्लेच्छयोनौ बभूव ह ।

होमायुषश्च काश्मीरे संस्थितस्यैव पुत्रकः । । १२

जातमात्रे सुते तस्मिन्वागुवाचा शरीरिणी ।

अकस्माच्च वरो जातः पुत्रोऽयं सर्वभाग्यवान् । । १३

पैशाचे दारुणे मार्गे न भूतो न भविष्यति ।

अतः सोऽकबरो नाम होमायुस्तनयस्तव । । १४

श्रीधरः श्रीपतिः शम्भुर्वरेण्यश्च मधुव्रती ।

विमलो देववान्सोमो वर्द्धनो वर्तको रुचिः । । १५

मान्धाता मानकारी च केशवो माधवो मधुः ।

देवापिः सोमपाः शूरो मदनो यस्य शिष्यकाः । । १६

स मुकुन्दो द्विजः श्रीमान्दैवात्त्वद्गेहमागतः ।

इत्याकाशवचः श्रुत्वा होमायुश्च प्रसन्नधीः । । १७

ददौ दानं क्षुधार्तेभ्यः प्रेम्णा पुत्रमपालयत् ।

दशाब्दे तनये जाते देहलीदेशमागतः । । १८

शेषशाङ्कं पराजित्य स च राजा बभूव ह ।

अब्दं तेन कृतं राज्यं तत्पुत्रश्च नृपोऽभवत् । । १९

सम्प्राप्तेऽकबरे राज्यं सप्तशिष्याश्च तत्प्रियाः ।

पूर्वजन्मनि ये मुख्यास्ते प्राप्ता भूपतिं प्रति । । 3.4.22.२०

केशवो गानसेनश्च वैजवाक्स तु माधवः ।

म्लेच्छास्ते च स्मृतास्तत्र हरिदासो मधुस्तथा । । २१

मध्वाचार्यकुले जातो वैष्णवः सर्वरागवित् ।

पूर्वजन्मनि देवापिः स च वीरबलोऽभवत् । । २२

ब्राह्मणः पाश्चिमात्यो वै वाग्देवीवरदर्पितः ।

सोमपा मानसिंहश्च गौतमान्वयसम्भवः । । २३

सेनापतिश्च नृपतेरार्यभूपशिरोमणेः ।

सूरश्चैव द्विजो जातो दक्षिणश्चैव पण्डितः । । २४

बिल्वमङ्गल एवापि नाम्ना तन्नृपतेः सखा ।

नायिकाभेदनिपुणो वेश्यानां स च पारगः । । २५

मदनो ब्राह्मणो जातः पौर्वात्यः स च नर्तकः ।

चन्दलो नाम विख्यातो रहः क्रीडाविशारदः । । २६

अन्यदेशे गताः शिष्यास्तेषां पूर्वास्त्रयोदश ।

अनपस्य सुतो जातः श्रीधरः शत्रुवेदितः । । २७

विख्यातस्तुलसीशर्मा पुराणनिपुणः कविः ।

नारीशिक्षां समादाय राघवानन्दमागतः । । २८

शिष्यो भूत्वा स्थितः काश्यां रामानन्दमते स्थितः ।

श्रीपतिः स बभूवान्धो मध्वाचार्यमते स्थितः । । २९

सूरदास इति ज्ञेयः कृष्णलीलाकरः कविः ।

शम्भुर्वै चन्द्रभट्टस्य कुले जातो हरिप्रियः । । 3.4.22.३०

रामानन्दमते संस्थो भक्तकीर्तिपरायणः ।

वरेण्यः सोग्रभुङ्नामा रामानन्दमते स्थितः । । ३१

ज्ञानध्यानपरो नित्यं भाषाछन्दकरः कविः ।

मधुव्रती स वै जातो कीलको नाम विश्रुतः । । ३२

रामलीलाकरो धीमान्रामानन्दमते स्थितः ।

विमलश्च स वै जातः स नाम्नैव दिवाकरः । । ३३

सीतालीलाकरो धीमान्रामानन्दमते स्थितः ।

देववान्केशवो जातो विष्णुस्वामिमते स्थितः । । ३४

कविप्रियादिरचनां कृत्वा प्रेतत्वमागतः ।

रामज्योत्स्नामयं ग्रन्थं कृत्वा स्वर्गमुपाययौ । । ३५

सोमो जातः स वै व्यासो निम्बादित्यमते स्थितः ।

रहः क्रीडामयं ग्रन्थं कृत्वा स्वर्गमुपाययौ । । ३६

वर्द्धनश्च स वै जातो नाम्ना चरणदासकः ।

ज्ञानमालामयं कृत्वा ग्रन्थं रैदासमार्गगः । । ३७

वर्तकः स च वै जातो रोपणस्य मते स्थितः ।

रत्नभानुरिति ज्ञेयो भाषाकर्ता च जैमिनेः । । ३८

रुचिश्च रोचनो जातो मध्वाचार्यमते स्थितः ।

नानागानमयीं लीलां कृत्वा स्वर्गमुपाययौ । । ३९

मान्धाता भूपतिर्नाम कायस्थः स बभूव ह ।

मध्वाचार्यो भागवतं चक्रे भाषामयं शुभम् । । 3.4.22.४०

मानकारो नारिभावान्नारीदेहमुपागतः ।

मीरानामेति विख्याता भूपतेस्तनया शुभा । । ४१

मा शोभा च तनौ यस्या गतिर्गजसमा किल ।

सा मीरा च बुधैः प्रोक्ता मध्वाचार्यमते स्थिता । । ४२

एवं ते कथितं विप्र भाषाग्रन्थप्रकारणम् ।

प्रबन्धं मङ्गलकरं कलिकाले भयङ्करे । । ४३

स भूपोऽकबरो नाम कृत्वा राज्यमकण्टकम् ।

शतार्द्धेन च शिष्यैश्च वैकुण्ठभवनं ययौ । । ४४

सलोमा तनयस्तस्य कृतं राज्यं पितुः समम् ।

खुर्दकस्तनयस्तस्य दशाब्दं च कृतं पदम् । । ४५

चत्वारस्तनयास्तस्य नवरङ्गो हि मध्यमः ।

पितरं च तथा भ्रातॄञ्जित्वा राज्यमचीकरत् । । ४६

पूर्वजन्मनि दैत्योऽयमन्धको नाम विश्रुतः ।

कर्मभूम्यां तदंशेन दैत्यराजाज्ञया ययौ । । ४७

तेनैव बहुधा मूर्तीर्भ्रंशिताश्च समन्ततः ।

दृष्ट्वा देवास्तदागत्य कृष्णचैतन्यमब्रुवन् । । ४८

भगवन्दैत्यराजांशः स जातश्च महीपतिः ।

भ्रंशयित्वा सुरान्वेदान्दैत्यपक्षं विवर्द्धते । । ४९

इति श्रुत्वा स यज्ञांशो नदीहोपवने स्थितः ।

शशाप तं दुराचारं यथा वंशक्षयो भवेत् । । 3.4.22.५०

राज्यमेकोनपञ्चाशत्कृतं तेन दुरात्मना ।

सेवाजयो नाम नृपो देवपक्षविवर्द्धनः । । ५१

महाराष्ट्रद्विजस्तस्य युद्धविद्याविशारदः ।

हत्वा तं च दुराचारं तत्पुत्राय च तत्पदम् । । ५२

दत्वा ययौ दाक्षिणात्ये देशे देवविवर्द्धनः ।

अलोमा नाम तनयः पञ्चाब्दं तत्पदं कृतम् । । ५३

तत्पश्चान्मरणं प्राप्तो विद्रधेन रुजा मुने ।

विक्रमस्य गते राज्ये सप्तत्युत्तरकं शतम् । । ५४

ज्ञेयं सप्त दशं विप्र यदालोमा मृतिं गतः ।

तालनस्य कुले जातो म्लेच्छः फलरुषो बली । । ५५

मुकुलस्य कुलं हत्वा स्वयं राज्यं चकार ह ।

दशाब्दं च कृतं राज्यं तेन भूपेन भूतले । । ५६

शत्रुभिर्मरणं प्राप्तो दैत्यलोकमुपागमत् ।

महामदस्तत्तनयो विंशत्यब्दं कृतं पदम् । । ५७

तद्राष्ट्रे नादरो नाम दैत्यो देश उपागमत् ।

हत्वार्यांश्च सुराञ्जित्वा देशं खुरजमाययौ । । ५८

महामत्स्यो हि मदस्य तनयस्तत्पितुः पदम् ।

गृहीत्वा पञ्चवर्षान्तं स च राज्यं चकार ह । । ५९

महाराष्ट्रैर्हतो दुष्टस्तालनान्वयसम्भवः ।

देहलीनगरे राज्यं दशाब्दं माधवेन वै । । 3.4.22.६०

कृतं तत्र तदा म्लेच्छ आलोमा राज्यमाप्तवान् ।

तद्राष्ट्रे बहवो जाता राजानो निजदेशजाः । । ६१

ग्रामपा बहवो भूपा देशे देशे बभूविरे ।

मण्डलीकपदं तत्राक्षयं जातं महीतले । । ६२

त्रिंशदब्दमतो जातं ग्रामे ग्रामे नृपे नृपे ।

तदा तु सकला देवाः कृष्णचैतन्यमाययुः । । ६३

यज्ञांशश्च हरिः साक्षाज्ज्ञात्वा दुःखं महीतले ।

मुहूर्तं ध्यानमागम्य देवान्वचनमब्रवीत् । । ६४

पुरा तु राघवो धीमाञ्जित्वा रावणराक्षसम् ।

कपीनुज्जीवयामास सुधावर्षैस्समन्ततः । । ६५

विकटो वृजिलो जालो वरलीनो हि सिंहलः ।

जवस्सुमात्रश्च तथा नाम्ना ते क्षुद्रवानराः । । ६६

रामचन्द्रं वचः प्राहुर्देहि नो वाच्छितं प्रभो ।

रामो दाशरथिः श्रीमाञ्ज्ञात्वा तेषां मनोरथम् । । ६७

देवाङ्गनोद्भवाः कन्या रावणाल्लोकरावणात् ।

दत्त्वा तेभ्यो हरिस्साक्षाद्वचनं प्राह हर्षितः । । ६८

भवन्नाम्ना च ये द्वीपा जालन्धरविनिर्मिताः ।

तेषु राज्ञो भविष्यन्ति भवन्तो हितकारिणः । । ६९

नन्दिन्या गोश्च रुण्डाद्वै जाता म्लेच्छा भयानकाः ।

गुरुण्डा जातयस्तेषां तास्तु तेषु सदा स्थिताः । । 3.4.22.७०

जित्वा तांश्च गुरुण्डान्वै कुरुध्वं राज्यमुत्तमम् ।

इति श्रुत्वा हरिं नत्वा द्वीपेषु प्रययुर्मुदा । । ७१

विकटान्वयसम्भूता गुरुण्डा वानराननाः ।

वाणिज्यार्थमिहायाता गौरुण्डा बौद्धमार्गिणः । । ७२

ईशपुत्रमते संस्थास्तेषां हृदयमुत्तमम् ।

सत्यव्रतं कामजितमक्रोधं सूर्यतत्परम् । । ७३

यूयं तत्रोष्य कार्यं च नृणां कुरुत मा चिरम् ।

इति श्रुत्वा तु ते देवाः कुर्युरार्चिकमादरात् । । ७४

नगर्य्या कलिकातायां स्थापयामासुरुद्यताः ।

विकटे पश्चिमे द्वीपे तत्पत्नी विकटावती । । ७५

अष्टकौशलमार्गेण राजमन्त्रं चकार ह ।

तत्पतिस्तु पुलोमार्चिः कलिकातां पुरीं स्थितः । । ७६

विक्रमस्य गते राज्ये शतमष्टादशं कलौ ।

चत्वारिंशं तथाब्दं च तदा राजा बभूव ह । । ७७

तदन्वये सप्तनृपा गुरुण्डाश्च बभूविरे ।

चतुष्षष्टिमितं वर्षं राज्यं कृत्वा लयं गताः । । ७८

गुरुण्डे चाष्टमे भूपे प्राप्ते न्यायेन शासति ।

कलिपक्षो बलिर्दैत्यो मुरं नाम महासुरम् । । ७९

आरुह्य प्रेषयामास देवदेशे महोत्तमे ।

स मुरो वार्डिलं भूपं वशीकृत्य हृदि स्थितः । । 3.4.22.८०

आर्यधर्मविनाशाय तस्य बुद्धिं चकार ह ।

मूर्तिसंस्थास्तदा देवा गत्वा यज्ञांशयोगिनम् । । ८१

नमस्कृत्याब्रुवन्सर्वे यथा प्राप्तो मुरोऽसुरः ।

ज्ञात्वा शशाप कृष्णांशो गुरुण्डान्बौद्धमार्गिणः । । ८२

क्षयं यास्यन्ति ते सर्वे ये मुरस्य वशं गताः ।

इत्युक्ते वचने तस्मिन्गुरुण्डा कालनोदिताः । । ८३

स्वसैन्यैश्च क्षयं जग्मुर्वर्षमात्रान्तरे खलाः ।

सर्वे त्रिंशत्सहस्राश्च प्रययुर्यममन्दिरे । । ८४

वाग्दण्डैस्स च भूपालो वार्डिलो नाशमाप्तवान् ।

गुरुण्डो नवमः प्राप्तो भेकलो नाम वीर्यवान् । । ८५

न्यायेन कृतवान्राज्य द्वादशाब्दं प्रयत्नतः ।

आर्यदेशे च तद्राज्यं बभूव न्यायशासति । । ८६

लडिलो नाम विख्यातो गुरुण्डो दशमोहितः ।

द्वात्रिंशाब्दं च तद्राज्यं कृतं तेनैव धर्मिणा । । ८७

लडिले स्वर्गते प्राप्ते मकरन्दकुलोद्भवाः ।

आर्याः प्राप्तास्तदा मौना हिमतुङ्गनिवासिनः । । ८८

बभ्रुवर्णाः सूक्ष्मनसो वर्तुला दीर्घमस्तकाः ।

एवं लक्षाश्च सम्प्राप्ता देहल्यां बौद्धमागिणः । । ८९

आर्जिको नाम वै राजा तेषां तत्र बभूव ह ।

तस्य पुत्रो देवकणो गङ्गोत्रगिरिमूर्द्धनि । । 3.4.22.९०

द्वादशाब्दं तपो घोरं तेपे राज्यविवृद्धये ।

तदा भगवती गङ्गा तपसा तस्य धीमतः । । ९१

स्वरूपं स्वेच्छया प्राप्य ब्रह्मलोकं जगाम ह ।

कुबेरश्च तदागत्य दत्त्वा तस्मै महत्पदम् । । ९२

आर्याणां मण्डलीकं च तत्रैवान्तरधीयत ।

मण्डलीको देवकर्णो बभूव जनपालकः । । ९३

षष्ट्यब्दं च कृतं राज्यं तेन राज्ञा महीतले ।

तदन्वयेऽष्टभूपाश्च बभूवुर्देवपूजकाः । । ९४

द्विशताब्दं पदं कृत्वा स्वर्गलोकमुपाययुः ।

एकादशश्च यो मौनः पन्नगारिरिति श्रुतः । । ९५

चत्वारिंशच्च वर्षाणि राज्यं कृत्वा प्रयत्नतः ।

स्वर्गलोकं गतो राजा पन्नगैर्मरणं गतः । । ९६

एवं च मौर्यजातीयैः कृतं राज्यं महीतले । । ९७

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये गुरुण्डमौनराज्यवर्णनं नाम द्वाविंशोऽध्यायः । २२

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 23

कलियुगीयेतिहाससमुच्चयवर्णनम्

सूत उवाच

वैक्रमे राज्यविगते चतुष्षष्ट्युत्तरं मुने ।

द्वाविंशदब्दशतकं भूतनन्दिस्तदा नृपः । । १

कुबेरयक्षकान्मौनान्धनधान्यसमन्वितान् ।

सार्द्धलक्षान्कलैर्घोरैर्जित्वा तान्युद्धकारिणः । । २

किल्किलायां स्वयं राज्यं नागवंशैश्चकार ह ।

आग्नेय्यां दिशि विख्याता पुण्डरीकेण निर्मिता । । ३

पुरी किलकिला नाम तत्र राजा बभूव ह ।

पुण्डरीकादयो नागास्तस्मिन्राज्यं प्रशासति । । ४

गेहे गेहे जनैस्सर्वैः पूजनीया बभूविरे ।

स्वाहा स्वधा वषट्कारो देवपूजा महीतले । । ५

त्यक्त्वा देवानुपागम्य संस्थिता मेरुमूर्द्धनि ।

शक्राज्ञया कुबेरस्तु शूकधान्यं समन्ततः । । ६

यक्षैः षडंशानादाय देवेभ्यः प्रददौ प्रभुः ।

मणिस्वर्णादिवस्तूनि मौनराज्येषु यानि वै । । ७

दत्तानि तानि कोशेषु पुनर्देवश्चकार ह ।

मण्डलीकं पदं तेन सत्कृतं भूतनन्दिना । । ८

शतार्द्धं तु ततो राजा शिशुनन्दिर्बभूव ह ।

नागपूजां पुरस्कृत्य तिरस्कृत्य सुरान्भुवि । । ९

चकार राज्यं विशाब्दं यशोनन्दिस्ततोऽनुजः ।

भ्रात्रासनं स्वयं प्राप्तो नागपूजापरायणः । । 3.4.23.१०

पञ्चविंशतिवर्षाणि स च राज्यमचीकरत् ।

ततस्तत्तनयो राजा स बभूव प्रवीरकः । । ११

एकादशाब्दं तद्राज्यं कर्मभूम्यां प्रकीर्तितम् ।

कदाचित्स च बाह्लीके सेनया सार्द्धमागतः । । १२

तत्र तैरभवद्युद्धं पैशाचैर्म्लेच्छदारुणैः ।

मासमात्रान्तरे म्लेच्छा लक्षसंख्या मृतिं गताः । । १३

तथा षष्टिसहस्राश्च नागभक्ता लयं गताः ।

बादलो नाम तद्राजा रोमजस्थो महाबलः । । १४

यशोनन्दिनमाहूय ददौ जालवतीं सुताम् ।

गृहीत्वा म्लेच्छराजस्य सुतां गेहमुपागतः । । १५

गर्भो जातस्ततस्तस्यां बभूव तनयो बली ।

बाह्लीको नाम विख्यातो नागपूजनतत्परः । । १६

तदन्वये नृपा जाता बाह्लीकाश्च त्रयोदश ।

चतुश्शतानि वर्षाणि कृत्वा राज्यं मृतिं गताः । । १७

अयोमुखे च बाह्लीके राज्यमत्र प्रशासति ।

तदा पितृगणास्सर्वे कृष्णचैतन्यमाययुः । । १८

नत्वोचुर्वचनं तत्र भगवञ्छृणु मे वचः ।

वयं पितृगणा भूपैर्नागवंश्यैर्निराकृताः । । १९

श्राद्धतर्पणकर्माणि तैर्वयं वर्द्धितास्सदा ।

पितृवृद्धात्सोमवृद्धिस्ततो देवाश्च वर्द्धनाः । । 3.4.23.२०

देववृद्धाल्लोकवृद्धिस्तस्माद्ब्रह्मा प्रजापतिः ।

ब्रह्मवृद्धात्परं हर्षं गेहे गेहे जने जने । । २१

अतोऽस्मान्रक्ष भगवन्प्रजाः पाहि सनातनीः ।

इति श्रुत्वा वचस्तेषां यज्ञांशो भगवान्हरिः । । २२

पुष्यमित्रं धर्मपरमार्यवशविवर्द्धनम् । । २३

जातमात्रः स वै बालः षोडशार्द्धवयोऽभवत् ।

अयोनिर्योनिभूतांस्तानयोमुख पुरस्सरान् । । २४

जित्वा देशान्निराकृत्य स्वयं राज्यं गृहीतवान् ।

यथा शिवांशतो जातो विक्रमो नाम भूपतिः । । २५

शकान्गन्धर्वपक्षीयाञ्जित्वा पूज्यो बभूव ह ।

नागपक्षांस्तथा भूपान्गोलकास्यान्भयङ्करान् । । २६

पुष्यमित्रस्तदा जित्वा सर्वपूज्योऽभवद्भुवि ।

सप्तविंशच्छतं वर्षं द्विसप्तत्युत्तरं तथा । । २७

राज्यं विक्रमतो जातं समाप्तिमगमत्तदा ।

पुष्यमित्रे राज्यपदं प्राप्ते समभवत्तदा । । २८

शतवर्षं राज्यपदं तेन धर्मात्मना धृतम् ।

अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । । २९

पुरी द्वारवती तेन राज्ञा च पुनरुद्धृताः ।

कुरुसूकरपद्मानि क्षेत्राणि विविधानि च । । 3.4.23.३०

नैमिषोत्पलवृन्दानां वनक्षेत्राणि भूतले ।

नानातीर्थानि तेनैव स्थापितानि समन्ततः । । ३१

तदा कलिः स गन्धर्वो देवतापितृदूषकः ।

ब्राह्मणं वपुरास्थाय पुष्यमित्रमुपागमत् । । ३२

नत्वोवाच प्रियं वाक्यं शृणु भूप दयापर ।

आर्यदेशे पितृगणाः पूजार्हाः श्राद्धतर्पणैः । । ३३

अज्ञानमिति तज्ज्ञेय भुवि यत्पितृपूजनम् ।

मृता ये तु नरा भूमौ पूर्वकर्मवशानुगाः । । ३४

भवन्ति देहवन्तस्ते चतुराशीतिलक्षधा ।

छद्मना मयदेवेन पितृपूजा विनिर्मिता । । ३५

वृथा श्रमं वृथा कर्म नृणां च पितृपूजनम् ।

इति श्रुत्वा वचो घोरं विहस्याह महीपतिः । । ३६

भवान्मूर्खो महामूढो न जानीष परं फलम् ।

भुवर्लोके न ये दृष्टाः शून्यभूताश्च भास्वराः । । ३७

ये तु ते वै पितृगणाः पिण्डरूपविमानगाः ।

सत्पुत्रैश्च विधानेन पिण्डदानं च यत्कृतम् । । ३८

तद्विमानं नभोजातं सर्वानन्दप्रदायकम् ।

अब्दमात्रं स्थितिस्तेषां पिण्डपायसरूपिणाम् । । ३९

गीताष्टादशकाध्यायैः सप्तशत्याश्चरित्रकैः ।

पावितं यत्तु वै पिण्डं त्रिशताब्दं च तत्स्थितिः । । 3.4.23.४०

श्राद्धतर्पणहीना ये दृश्यन्ते मानवा भुवि ।

ते सर्वे नारका ज्ञेयाः कुलमेकोत्तरं शतम् । । ४१

श्राद्धकर्म महान्धर्मः श्राद्धोऽयं सर्वकारणम् ।

इति श्रुत्वा स गन्धर्वः कलीराजोऽत्र देहिनाम् । । ४२

नत्वोवाच नृपश्रेष्ठं प्रसन्नवदनो हि सः ।

सदा भव ममाशु त्वं तवाहं नृप किङ्करः । । ४३

कलिमित्रः पुष्यमित्रो भवान्भुवि भवेत्सदा ।

यथा विक्रमराजस्य वैतालस्य च वै सखा ।।४४

सर्वकार्यकरोऽहं वै तथा तव न संशयः ।

इत्युक्त्या च नृपं धीरं समादाय स वै कलिः ।।४५

सप्तद्वीपांस्तथा खण्डान्नभोमार्गाननेकशः ।

स्वपृष्ठस्थाय राज्ञे च दर्शयामास वीर्यवान् ।।४६

आर्यधर्मं कलौ स्थाप्य नष्टभूतं स वै नृपः ।

त्यक्त्वा प्राणांश्च यज्ञांशे तेजस्तस्य समागमत् ।।४७

आन्ध्रदेशोद्भवो राजा सुगदो नाम वीर्यवान् ।

विना भूपं च तं देशं दृष्ट्वा राज्यमचीकरत् ।।४८

विंशदब्दं पदं तेन कर्मभूम्यां च सत्कृतम् ।

तदन्वये षष्टिनृपा बभूवुर्बहुमार्गिणः ।।४९

पुष्यमित्रगते राज्ये दशोत्तरशतत्रयम् ।

तस्मिन्काले लयं जग्मुश्चान्ध्रदेशनिवासिनः ।।3.4.23.५०

शतार्द्धाब्दं ततो भूमिर्विना राज्ञा बभूव ह ।

तदा क्षुद्रा नरा लुब्धा लुण्ठिताश्चौरदारुणैः ।।५ १

दारिद्रमगमन्घोरं विना स्वर्णं च भूरभूत् ।

पुनर्देवश्च भगवान्प्रार्थितस्तानुवाच ह ।।५२

देशे कौशलके जातः सूर्य्यांशाच्य महीपतिः ।

राक्षसारिरिति ख्यातो देवमार्गपरायणः ।।५३

ममाज्ञया स वै राजा भविष्यति महीतले ।

इत्युक्त्वान्तर्दधे विष्णुर्देवलोकानुपागमत् ।।५४

राक्षसारिमयोध्यायां स्थापयामासुरेव तम् ।

आन्ध्रराष्ट्रे च यद्द्रव्यं राक्षसैश्च समाहृतम् ।।५५

तद्द्रव्यं राक्षसाञ्जित्वा ग्रामे ग्रामे चकार सः ।

तारधातोरष्टमूल्यं सुवर्णं भुवि तत्कृतम् ।।५६

आरधा(ध?)तोः शतं मूल्यं राजतं तेन वै कृतम् ।

ताम्रधातोः पञ्चमूल्यमारधातोश्च तत्कृतम् ।।५७

नागधातोः पञ्चमूल्यं भुवि तेनैव निर्मितम् ।

ताम्रं पवित्रमधिकं नागो वङ्गस्तथोत्तमः । । ५८

लौहधातोः शतं मूल्यं वङ्गोऽसौ तेन सत्कृतः ।

शतार्द्धाब्दं महीं भुक्त्वा सूर्यलोकमुपाययौ । । ५९

तदन्वये षष्टिनृपा जाता वेदपरायणाः ।

पुष्यमित्रगते राज्ये चाब्दे सप्तशते गते । । 3.4.23.६०

कौशलान्वयसम्भूता भूपाः स्वर्गमुपाययुः ।

शतार्द्धाब्दं ततो भूमिर्मण्डलीकं नृपं विना । । ६१

क्षुद्रभूपाश्च बुभुजे देशे देशे च भार्गवः ।

ततो बैदरदेशीयो नाम्ना भूपो विशारदः । । ६२

आर्यदेशमुपागम्य लक्षसैन्यसमन्वितः ।

क्षुद्रभूपान्वशीकृत्य मण्डलीको बभूव ह । । ६३

नानाकलैश्च कर्माणि विचित्राणि महीतले ।

ग्रामे ग्रामे नराश्चकुर्वर्णसङ्करकारकाः । । ६४

ब्रह्मक्षत्रमयो वर्णो नाममात्रेण दृश्यते ।

वैश्यप्राया नरा आर्याः शूद्रप्रायाश्च कारिणः । । ६५

तद्राष्ट्रे मनुजाश्चासन्नाममात्रं सुरार्चकाः ।

षष्टिवर्षं पदं तेन कर्मभूम्यां च सत्कृतम् । । ६६

ततो नृपा महीं प्राप्ताः षट्सङ्ख्यास्तु तदन्वयाः ।

पुष्यमित्रगते राष्ट्रे शतषोडशहायनी । । ६७

वैदूरा निधनं जग्मुः कलिकाले भयानके ।

चतुश्शतानि वर्षाणि क्षुद्ररूपा च भूरभूत् । । ६८

तत्पश्चान्नैषधे राष्ट्रं कालमाली नृपोऽभवत् ।

क्षुद्रभूपान्वशीकृत्य स्वयं राजा बभूव वै । । ६९

यमाभूया भुवि त्वष्ट्रा नगरी यमुनातटे ।

निर्मिता योजनायातु कालकालेति विश्रुता । । 3.4.23.७०

तत्रार्यदेश भूपानां पूज्यो राजा स चाभवत् ।

देवान्पितॄंस्तिरस्कृत्य प्रेतपूजां जने जने । । ७१

कालमाली च कृतवान्देशनैषधसंस्थितः ।

द्वात्रिंशद्वर्षराज्यं तद्बभूव जनपीडनम् । । ७२

तदन्वये षष्टिनृपा बभूवुः प्रेतपूजकाः ।

शताब्दांतमभूद्राज्यं तेषां नैषधदेशिनाम् । । ७३

सहस्राब्दं तु तत्पश्चात्क्षुद्रभूपा मही ह्यभूत् ।

सुरार्चनं वेदमार्गः श्रुतमात्रश्च दृश्यते । । ७४

पुष्यमित्रगते राज्ये चैकत्रिंशच्छते कलौ ।

द्वात्रिंशदुत्तरे चैव तदा देवाश्च दुःखिताः । । ७५

कृष्णचैतन्यमागम्य नत्वोचुर्वचनं प्रियम् ।

भगवन्कलिकालेऽद्य वर्णाश्चत्वारिभूतले १ । । ७६

भ्रष्टाचाराः प्रेतमयाः शतार्द्धाब्दप्रजीविनः ।

देवान्पितॄंस्तिरस्कृत्य पिशाचान्पूजयन्ति वै । । ७७

ग्रामे ग्रामे च कुघ्नानि पूजितानि नरैर्भुवि ।

दृश्यन्तेऽस्माभिरद्यैव दुःखिताश्च नरा भृशम् । । ७८

भूतप्रेतपिशाचाश्च डाकिनीशाकिनीगणाः ।

स्वपूजाभिर्मदान्धाश्च निन्दयन्ति सुरान्पितॄन् । । ७९

अतोऽस्मान्दुर्बलान्विद्धि सबलान्भूतनायकान् ।

कृपया पाहि नः स्वामिञ्छरणागतवत्सल । । 3.4.23.८०

इति श्रुत्वा स यज्ञांशो नदीहोपवने स्थितः ।

नम्रभूतान्सुरान्प्राह मागधे तु महीपतिः । । ८१

पुरञ्जयो ब्रह्मपरस्तस्य पत्नी पुरञ्जनी ।

मदाज्ञया तयोः पुत्रो भविष्यति महाबलः । । ८२

विश्वस्फूर्जिरिति ख्यातो ब्रह्ममार्गपरो गुणी ।

इत्युक्तवचने तस्मिन्गर्भं धत्ते पुरञ्जनी । । ८३

दशमासान्तरे जातो विश्वस्फूर्जिर्महाबलः ।

जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी । । ८४

पुष्यमित्रो यथा चासीद्वर्णधर्मप्रवर्तकः ।

तथायं बालको जातो ब्रह्ममार्गपरो बली । । ८५

करिष्यति परो वर्णान्कलिन्दयदुमद्रकान् ।

प्रजाश्च ब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । । ८६

वीर्यवान्क्षत्रमुत्साद्य पद्मवत्याः स वै पुरम् ।

इत्याकाशवचः श्रुत्वा स नृपस्तु पुरञ्जयः । । ८७

ददौ दानं क्षुधार्तेभ्योऽतिथिभ्यस्सपरिच्छदः ।

अष्टौ वर्षसहस्राणि चाष्टवर्षशतानि च । । ८८

कर्मभूम्यां कलौ प्राप्ते व्यतीतानि तदा मुने ।

विश्वस्फूर्जिर्नृपश्चासीन्महाबुद्धो महाबलः । । ८९

क्षुद्रभूपान्वशीकृत्य सर्ववर्णान्नरांस्तदा ।

स्थापयामास वै ब्रह्मे वर्णे ब्रह्मपरायणे । । 3.4.23.९०

क्षत्रविट्च्छूद्रका वर्णाः पिशाचा वर्णसङ्कराः ।

गुरुण्डाद्यास्तथा म्लेच्छा ब्राह्मणास्ते बभूविरे । । ९१

सन्ध्यातर्पणदेवानां पूजादिविविधाः क्रियाः ।

चक्रुस्ते वेदविधिना तुल्यभोजनशीलिनः । । ९२

षष्टिवर्षं कृतं राज्यं तेन सम्यक्कृता मुने ।

तदन्वये नृपाश्चासन्सहस्रा भुवि विश्रुताः । । ९३

अयुताब्दान्तरे जाता ब्रह्ममार्गपरायणाः ।

तैश्च दत्तानि भागानि यज्ञमध्ये विधानतः । । ९४

दैत्येभ्यश्च सुरेभ्यश्च तुल्यरूपाणि चागमन् ।

विस्मिताश्च सुरास्सर्वे यज्ञांशं शरणं ययुः । । ९५

तदुक्तं कारणं ज्ञात्वा शक्रपुत्र उवाच तान् ।

वेदो नारायणः साक्षाद्विवेकी हंसरूपवान् । । ९६

नृणां च युगभेदेन वर्णभेदं चकार ह ।

तद्गुणो ब्राह्मणो वर्णः क्षत्रियस्तु रजोगुणः । । ९७

तमोगुणस्तथा वैश्यो गुणसाम्यात्तु शूद्रकः ।

तृप्तिं यान्ति पितुर्वृन्दा ब्राह्मणैः क्षत्रियैः सुराः । । ९८

वैश्यैश्च यक्षरक्षांसि क्षुद्रैर्दैत्याश्च दानवाः ।

एकवर्णे च चत्वारो वर्णाः कायस्थ एव सः । । ९९

भूतप्रेतपिशाचाद्याः कायस्थैस्तर्पितास्सदा ।

ब्रह्मवर्णे तु वर्णाश्च स्थिताश्चत्वारि साम्प्रतम् । । 3.4.23.१००

ब्रह्मशङ्करवर्णोऽयं तेभ्यः पूर्वं हि दानवाः ।

अर्द्धतृप्ता भविष्यन्ति तत्पश्चात्स्वर्गवासिनः ।। १०१

अतोऽहं च कलौ घोरे युष्मदर्थे महीतले ।

सौराष्टनृपतेर्गेहं स्वांशाद्यास्यामि भोः सुराः ।। १०२

इत्युक्त्वा स च यज्ञांशः सोमनाथः कलैकया ।

नाम्ना बभूव तद्गेहे सौराष्ट्रनगरीस्थितः ।। १०३

जित्वा भूपान्स्वयं राज्यं चकाराब्धितटे मुदा ।

क्षत्रवर्णमयी भूमिस्तदा जाता कलौ युगे ।। १०४

सोमनाथः स वै यज्ञैः सुरान्सर्वानतर्पयत् ।

शताब्दं च कृतं राज्यं तेन देवप्रसादतः ।। १०५

तस्य राज्यमयं संवदभवल्लोकविश्रुतम् ।

तदन्वये सार्द्धशतं भूपाश्चासन्सुरप्रियाः ।। १०६

अयुताब्दान्तरे किञ्चिदधिके च सुखप्रदाः ।

कर्मभूम्यां कलौ प्राप्ते हायना अयुतत्रयम् ।। १०७

व्यतीतं च ततो दैत्या दुःखिताः कलिमब्रुवन् ।

पुरास्समाभिः शताब्दं च तपसा वै महेश्वरः ।। १०८

तुष्टीकृतस्तदास्मभ्यं भवान्दत्तो हितेन वै ।

अर्धभागं वज्रमयमर्धभागं च कोमलम् ।। १०९

तवाङ्गं सुन्दरं देव कलेऽस्मान्रक्ष दुःखितान् ।

इति श्रुत्वा च स कलिर्देत्यपक्षविवर्द्धनः ।। 3.4.23.११०

स्वांशाज्जन्म कलौ प्राप्य गुर्जरे देशदारुणे ।

आभीरी सिंहिका नाम सिहमांसाशना खला ।। १११

तस्या योनौ समागम्य राहुर्नाम स चाभवत् ।

यथा राहुर्नभोमार्गे दारुणो हि विधुन्तुदः ।। ११२

तथा राहुः कलेरंशो भुवि जातः सुरन्तुदः ।

जातमात्रे सुते तस्मिन्भूमिकम्पो महानभूत् ।। ११३

विपरीता ग्रहाः सर्वे जनयन्ति महद्भयम् ।

तद्भयात्सकला देवास्त्यक्त्वा मूर्तीः समन्ततः ।। ११४

महेन्द्रं शरणं जग्मुः सुमेरुगिरिमूर्द्धनि ।

तदर्थे भगवाञ्छक्रस्तुष्टाव जगदम्बिकाम् । । ११५

कन्यामूर्तिमयी देवी सुरान्प्राह शिवङ्करी ।

ममाङ्गदर्शनाद्देवाः क्षुत्तृड्भ्यां च विना सदा । । ११६

भवध्वं च ततो यूयं मद्विलोकनतत्पराः ।

इति श्रुत्वा तु ते देवा हर्षिताः सम्बमूविरे । । ११७

आभीरीतनयो राहुः कृत्वा राज्यं शतं समाः ।

त्यक्त्वा प्राणान्कलौ लीनो बभूव मुनिसत्तम । । ११८

तदन्वये सार्द्धशतमयुताब्दान्तरेभवत् ।

महामदमतं घोरं चिरकालाद्विनाशितम् । । ११९

तैः पुनश्चोद्धृतं भूमौ सर्वे म्लेच्छा बभूविरे ।

न वेदाश्च न देवाश्च न वर्णाश्च कलौ युगे । । 3.4.23.१२०

दृश्यन्ते न च मर्यादा कलिकाले तदन्वये ।

द्विजशेषाः सहस्राश्च पुनरर्बुदमूर्द्धनि । । १२१

द्वादशाहं प्रयत्नेन देवानाराधितुं क्षमा ।

अर्बुदाच्च समुद्भूतो राजन्यः खड्गचर्मधृक् । । १२२

महेन्द्रं शरणं जग्मुः सुमेरुगिरिमूर्द्धनि ।

तदर्थे भगवाञ्छक्रस्तुष्टाव जगदम्बिकाम् । । ११५

कन्यामूर्तिमयी देवी सुरान्प्राह शिवङ्करी ।

ममाङ्गदर्शनाद्देवाः क्षुत्तृड्भ्यां च विना सदा । । ११६

भवध्वं च ततो यूयं मद्विलोकनतत्पराः ।

इति श्रुत्वा तु ते देवा हर्षिताः सम्बमूविरे । । ११७

आभीरीतनयो राहुः कृत्वा राज्यं शतं समाः ।

त्यक्त्वा प्राणान्कलौ लीनो बभूव मुनिसत्तम । । ११८

तदन्वये सार्द्धशतमयुताब्दान्तरेभवत् ।

महामदमतं घोरं चिरकालाद्विनाशितम् । । ११९

तैः पुनश्चोद्धृतं भूमौ सर्वे म्लेच्छा बभूविरे ।

न वेदाश्च न देवाश्च न वर्णाश्च कलौ युगे । । १२०

दृश्यन्ते न च मर्यादा कलिकाले तदन्वये ।

द्विजशेषाः सहस्राश्च पुनरर्बुदमूर्द्धनि । । १२१

द्वादशाहं प्रयत्नेन देवानाराधितुं क्षमा ।

अर्बुदाच्च समुद्भूतो राजन्यः खड्गचर्मधृक् । । १२२

जित्वा म्लेच्छान्दुराधर्षान्नाम्ना चार्वबली ह्यभूत् ।

पञ्चयोजनमाना स भूमिरात्मविवृद्धये । । १२३

निर्मिता तेन शुद्धेन नाम्ना चार्वपुरी स्मृता ।

शनैः शनैरार्यकुलं पुनस्तत्र ववर्द्ध ह । । १२४

शतार्द्धाब्दं प्रयत्नेन तेन राज्यं महत्कृतम् ।

तदन्वये सार्द्धशतं नृपाश्चासंस्तदा मुने । । १२५

अयुताब्दान्तरे वीरा म्लेच्छमित्राश्च सङ्कराः ।

म्लेच्छकन्योद्वहा घोरा नाममात्रार्य्यमार्गगाः । । १२६

तदा मलयदेशस्थैर्म्लेच्छैर्लक्षप्रमाणकैः ।

आर्वुदार्यैः समं युद्धमभवल्लोमहर्षणम् । । १२७

वर्षमात्रान्तरे जित्वा मालवस्था महाबलाः ।

मण्डलीकपदातैश्च मुक्तमार्यैः समन्ततः । । १२८

चत्वारिंशत्सहस्राणि वर्षाणि जगतीतले ।

म्लेच्छभूपाश्च शतशो बभूवुः स्वल्पजीविनः । । १२९

पंचविंशत्सहस्राणि तेषां संख्या च भूभुजाम् ।

ये तु पुण्या महीपालाः पूर्वजन्मतपोद्भवाः । । 3.4.23.१३०

तेषां लीला च मुनिभिः पुराणेषु प्रकीर्तिता ।

नानासंवत्कराः सर्वे पैशाचा धर्मदूषकाः । । १३१

नवत्यब्दसहस्राणि व्यतीतानि कलौ युगे ।

जाता म्लेच्छमयी भूमिरलक्ष्मीस्तु जनेजने । । १३२

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये

कलियुगीयेतिहाससमुच्चयवर्णनं नाम त्रयोविंशोऽध्यायः । २३

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 24

कलियुगीयेतिहाससमुच्चयवर्णनम्

सूत उवाच

ततस्ते सकला दैत्याः कलिना च पुरस्कृताः ।

कृत्वा च जलयानानि हरिखण्डमुपाययुः । । १

मनुजा हरिखण्डे च देवतुल्या महाबलाः ।

अयुध्यंस्तान्महाशस्त्रैरयुताब्दप्रजीविनः । । २

दशवर्षान्तरे सर्वे मायायुद्धैः पराजिताः ।

महेन्द्रं शरणं जग्मुर्हरिखण्डनिवासिनः । । ३

तदा तु भगवाञ्छक्रो विश्वकर्माणमब्रवीत् ।

भ्रमिश्च नामयन्त्रोऽयं संस्थितः सप्तसिन्धुषु । । ४

त्वया विरचितस्तात तत्प्रभावान्नरा भुवि ।

अन्यखण्डे न गच्छन्ति स च यन्त्रस्तु मायिना । । ५

मयेन भ्रंशितो भ्रात्रा म्लेच्छैः सार्द्धं समन्ततः ।

सप्तद्वीपेषु यास्यन्ति मनुजा मम वैरिणः । । ६

अतो नः पाहि मर्यादां भूमध्ये भवता कृताम् ।

इति श्रुत्वा विश्वकर्मा दिव्ययन्त्रमचीकरत् । । ७

तेन यन्त्रप्रभावेन भ्रमितास्ते बभूविरे ।

भ्रमियन्त्रान्महावायुर्ज्जातो म्लेच्छविनाशकः । । ८

तद्वायोरभवत्पुत्रो वात्यो वात्यासमुद्भवः ।

दैत्ययक्षाँश्च पैशाचाञ्जित्वा ज्ञानमयो बली । । ९

ब्राह्मणाः क्षत्रिया वैश्यास्त्रिवर्णास्तेन सत्कृताः ।

बलान्म्लेच्छान्वर्णमयान्कृत्वा वात्यो महाबलः । । 3.4.24.१०

शतार्द्धाब्दं मण्डलीकं पदं भुवि गृहीतवान् ।

तदन्वये सहस्राश्च नृपाश्चासन्कलौ युगे । । ११

वायुपक्षास्त्रिवर्णाढ्याः षोडशाब्दसहस्रके ।

वायोर्जातः स्वयं ब्रह्मा वायोर्जातः स वै हरिः । । १२

वायोर्जातो महादेवः सर्वं वायुमयं जगत् ।

विना वायुं मृताः सर्वे वायुना भुवि जीविनः । । १३

इति मत्वा तु ते लोका वायुं च समतर्पयन् ।

पुनस्तदा कलिर्घोरो दैत्यराजं बलिं प्रभुम् । । १४

नत्वा निवेदयामास दुःखितोऽभूत्तदा बलिः ।

वामनान्तिकमागम्य कलिमित्रेण संयुतः । । १५

नत्वोवाच स वै राजा देवदेवं जनार्दनम् ।

त्वया कलिः कृतो मह्यं प्रसन्नेन सुरोत्तम । । १६

वात्यैर्द्विजैः कर्मभूमेः कलिस्तु स निराकृतः ।

एकपादो व्यतीतोऽयं किञ्चिदूनं कलेः प्रभोः । । १७

मया सम्यक्तु वै भुक्ता भूमिर्देवेन्द्रमायया ।

सहस्राब्दं कलौ प्राप्ते मया भुक्तं महीतलम् । । १८

ततः सार्द्धं सहस्राब्दं देवैर्भुक्तं सुरस्थलम् ।

ततः पंचशतं वर्षं किञ्चिदधिकमेव च । । १९

मया भुक्ता कर्मभूमिः सर्वलोकस्य कारणात् ।

ततः सार्द्धं सहस्राब्दं देवैर्भुक्तेयमुत्तमा । । 3.4.24.२०

ततः सार्द्धसहस्राब्दं किञ्चिदूनं मया धृता ।

सार्द्धत्रिंशत्सहस्राब्दं देवैर्देत्यैस्तथा मही । । २१

भुक्ता दैत्यैः पुनर्देवैः तथा देवैश्च दानवैः । । २२

त्वया दत्तो हि मे देव कलिः कलिविनाशन ।

नाधिकारं कृतं नाथ सत्यं सत्यप्रियक्षम । । २३

इति श्रुत्वा बलेर्वाक्यं भगवान्वामनो हरिः ।

स्वांशान्महीतले प्राप्तो दैत्यपक्षविवर्धनः । । २४

कामशर्मा तदा विप्रो यमुनातटसंस्थितः ।

हरिं तुष्टाव मनसा द्वादशाब्दं प्रयत्नतः । । २५

तदा तु वामनः श्रीमान्वचः प्राह द्विजोत्तमम् ।

वरं ब्रूहि द्विजश्रेष्ठ यत्ते मनसि संस्थितम् । ।

इति श्रुत्वा कामशर्मा तुष्टाव श्लक्ष्णया गिरा । । २६

कामशर्मोवाच

नमो देवाय महते सर्वपूज्याय ते नमः । । २७

धर्मप्रियाय धर्माय देवदैत्यकराय च ।

दैवाधीननृणां भर्त्रे कर्मकर्त्रे नमो नमः । । २८

दैवाधीनाश्च ते देवा दैवोल्लङ्घाश्च दानवाः ।

तेषां भर्त्ता क्रमाद्धर्ता तस्मै देवाय ते नमः । । २९

पुत्रो भव हरे स्वामिन्सफलं वाञ्छितं कुरु ।

इति श्रुत्वा हरिः साक्षाद्वामनो बलिरक्षकः । । 3.4.24.३०

स्वपूर्वार्द्धाद्देवहूत्यां तत्पत्न्यां च समुद्भवः ।

द्विधा भूत्वा मही जातौ दिव्याङ्गौ दिव्यविग्रहौ । । ३१

भोगसिहः केलिसिंह देवपो दैत्यपो हरिः ।

जित्वा वात्योद्भवान्भूपात्कल्पक्षेत्रमुपस्थितः । । ३२

रहः क्रीडावती नाम नगरी मयनिर्मिता ।

तत्रोष्य बलवन्तौ तौ दधतुश्च कलेर्धुरम् । । ३३

पत्नीयं सर्वधर्माणां सारभूता सनातनी ।

पतिव्रतायां ये जाता नरा आर्याः सुरप्रियाः । । ३४

दूषितायां नरा जातास्ते सर्वे वर्णसङ्कराः ।

इति सञ्चिन्त्य भगवान्कृत्वा काममयं वपुः । । ३५

दिने दिने सहस्राणि योषितो बुभुजे हरिः ।

ताः सर्वा गर्भमाधाय यमौ सुषुविरे मुदा । । ३६

नार्या तया सहोदर्या रेमिरे ते सहोदराः ।

एवं च बहुधा सृष्टिस्तेषां जाता कलौ युगे । । ३७

पूर्वजातास्त्रिवर्णाश्च भक्षयित्वा दिनेदिने ।

कर्मभूम्यां ववृधिरे पक्षिणश्च यथा द्रुमे । । ३८

उभयाब्दसहस्रान्ते तैरन्नाः पूर्वमानवाः ।

तदा कलेश्च चरणो द्वितीयो भुवि चागमत् । । ३९

साम्प्रतं वर्तते वार्ता किन्नराणां च भूतले ।

द्विकिष्कुमात्राश्च नराः सार्द्धा दैत्यमयाः स्मृताः । । 3.4.24.४०

यथा खगाः कर्महीनाश्चत्वारिंशाब्दजीविनः ।

भूमिगाश्च तथा ते वै भेदं तेष्वेषु नैव भोः । । ४१

दृश्यन्ते चाद्य युष्माभिर्भूतले किन्नरा नराः ।

द्वितीयचरणान्ते च भविष्यन्त्येवमेव हि । ।४ २

न विवाहो न भूपश्च नोद्यमो न हि कर्मकृत् ।

भविता च तदा तेषां द्वितीयचरणान्तिके । ।४ ३

सपादलक्षाब्दमितमद्यप्रभृति भो द्विजाः ।

भोगकेल्यन्वयोद्भूता भविष्यन्ति महीतले । । ४४

अतो मया च सहिता भवन्तो मुनिसत्तमाः ।

कृष्णचैतन्यमागम्य गमिष्यामस्तदाज्ञया । । ४५

व्यास उवाच

इति श्रुत्वा तु मुनयो विशालापूर्निवासिनः ।

भो नमस्ते गमिष्यन्ति यज्ञांशं प्रति हर्षिताः । ।४६

नत्वा सर्वे मुनिश्रेष्ठा यज्ञांशं यज्ञरूपिणम् ।

वचनं च वदिष्यन्ति देह्याज्ञां भगवन्प्रभो । । ४७

इन्द्रलोके गमिष्यामो नाकमध्यं मनोहरम् ।

इति श्रुत्वा तु यज्ञांशः सर्वशिष्यसमन्वितः । ।४८

तैः सर्वैः सह स्वर्लोकं गमिष्यति सुरप्रियः ।

तदा कलिः समं दैत्यैर्भजिष्यति महीतलम् । ।

किमन्यच्छ्रोतुमिच्छा ते हृषीकोत्तम तद्वद । ।४९

मनुरुवाच

भगवन्विस्तराद्ब्रूहि भोगकेलिचरित्रकम् ।

कलौ यथा भविष्यन्ति मनुजास्तत्तथा प्रभो । । 3.4.24.५०

व्यास उवाच

भोगसिंहे केलिसिंहे वामनांशसमुद्भवे । । ५१

जित्वा दैत्यान्नरमयान्नरान्वात्योद्भवान्भुवि ।

वामनांशमुपागम्य हर्षिताः सम्बभूविरे । । ५२

तदा तु दुःखिता देवास्त्यक्त्वा मूर्तीः समन्ततः ।

कृष्णचैतन्यमागम्य नत्वोचुर्नतकन्धराः । । ५३

भगवंस्त्वत्प्रसादेन चरणं प्रथमं कलेः ।

भुक्ता तथा मही स्वामिञ्जित्वा वै दैत्यप्रपूजकान् । । ५४

किं कर्तव्यं च यज्ञांश नमस्ते करुणाकर ।

इति श्रुत्वा हरिः प्राह तदा शृणुध्वं सुरसत्तमाः । । ५५

अहं स्वर्गं गमिष्यामि भवद्भिः सह हर्षितः ।

अतो यूयं सुराः सर्वे देववंशान्नरान्सदा । । ५६

उत्थाप्य शीघ्रमागम्य गच्छध्वं च त्रिविष्टपम् ।

इति सूतेन कथिते मुनीन्प्रति सुमण्डलम् । । ५७

देवा विमानमादाय तत्र यास्यन्ति भो मनः ।

सूतादींश्च मुनीन्सर्वान्समारुह्य सुरास्तदा । । ५८

यज्ञांशं च गमिष्यन्ति नदीहोपवने तदा ।

अह्लादश्च तदा योगी गोरखाद्यास्तथैव च । । ५९

शङ्कराद्याश्च रुद्रांशा नृपो भर्तृहरिस्तदा ।

अन्ये तु योगनिष्ठाश्च गमिष्यन्ति हितप्रदाः । । 3.4.24.६०

तैः सार्द्धं कृष्णचैतन्यो देवलोकं गमिष्यति ।

तदा तौ वामनांशौ च द्वितीयचरणे कलौ । । ६१

योगनिष्ठां समाधाय कल्पक्षेत्रे वसिष्यतः ।

तदैव सकला दैत्या हर्षितास्तैर्नृभिर्मुहुः । । ६२

विवरान्वर्द्धयिष्यन्ति पातालाद्यान्समन्ततः ।

कलेस्तुतीयचरणे सम्प्राप्ते किन्नराश्च ते । । ६३

शनैःशनैः क्षयं भूमौ गमिष्यन्ति समन्ततः ।

षड्विंशाब्दसहस्रे च तृतीयचरणे गते । । ६४

रुद्राज्ञया भृङ्गऋषिर्भूतपक्षो गमिष्यति ।

सौरभी नाम तत्पत्नी जनिष्यति महाबलान् । । ६५

कौलकल्पान्नरान्घोरान्सर्वकिन्नरभक्षकान् ।

षड्विंशाब्दवयस्तेषां भविष्यति तदा कलौ । । ६६

शरणं वामनांशं च गमिष्यन्ति सकिन्नराः ।

भोगसिहः केलिसिंहस्तैश्च सार्द्धं महद्रणम् । । ६७

करिष्यति दशाब्दं च पुनस्तैश्च पराजितौ ।

दैत्यैः सार्द्धं च पातालं वामनांशो गमिष्यतः । । ६८

भृङ्गसृष्टिर्महाघोरा भविष्यति तदा कलौ ।

मातृ: स्वसुः सुतास्ते वै नराश्च पशुरूपिणः । । ६९

भुक्त्वा प्रीत्या च कामान्धा जनिष्यन्ति सुतान्बहून् ।

कलेस्तृतीयचरणे समाप्ते तास्तु सृष्टयः । । 3.4.24.७०

तिर्य्यग्योनिधरा घोराः क्षयिष्यन्ति कलौ युगे ।

कलेश्चतुर्थचरणे सम्प्राप्ते तु तदा नराः । । ७१

विंशदब्दवयस्काश्च मरिष्यन्ति च नारकाः ।

यथा जलमनुष्याश्च यथैव वनजा नराः । । ७२

कन्दमूलफलाहारा भविष्यन्ति कलौ तदा ।

आलोका ये तु विख्यातास्तामिस्राद्या भयानकाः । । ७३

ते सर्वे पूर्णमेष्यन्ति कर्मभूमिभवैर्नरैः ।

यथा सत्यस्य प्रथमे चरणे सत्यलोककः । । ७४

द्वितीये च तपोलोके जनलोकस्तृतीयकः ।

चतुर्थे स्वर्गलोकश्च पूरितः कर्मभूमिजैः । । ७५

त्रेतायुगाद्यचरणे भुवर्लोकं भुवास्पदम् ।

स्वर्गलोकं यथा तैश्च मनुजैः पूरितं स्मृतम् । । ७६

द्वितीये ऋषिलोकं च तृतीये ग्रहविष्टपम् ।

चतुर्थे च भुवर्लोकं पूरितं कर्मजैर्नरैः । । ७७

द्वापराद्यपदे पूर्णे भवेद्द्वीपः स पुष्कर ।

द्वितीये शाल्मलः क्रौञ्चस्तृतीये द्वीपशेषकः । । ७८

जम्बूद्वीपश्चतुर्थे च चरणे मुनिभिः स्मृतः ।

कलेश्च चरणे चाद्येधश्चोर्ध्वं पूरितं जगत् । । ७९

द्वितीये सप्तपातालस्तृतीये भूतविष्टपम् ।

पूरितं मनुजैस्तत्र कर्मभूमिसमुद्भवैः । । 3.4.24.८०

तदाद्यनारकास्सर्वे पूर्णमेष्यन्ति तैर्नरैः ।

इति ते कथितं सर्वं यत्पृष्टोऽहं मनो त्वया । । ८१

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये

कलियुगीयेतिहाससमुच्चयो नाम चतुर्विंशोऽध्यायः । २४

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 25

कलियुगीयेतिहाससमुच्चयवर्णनम्

व्यास उवाच

चतुर्थचरणे जातैर्मनुजैरेकविंशतिः ।

अजीर्णभूता नरका यास्यन्ति च यमालयम् । । १

नमस्ते धर्मराजाय नश्च तृप्तिकराय च ।

वचनं शृणु सर्वज्ञ नश्च जातमजीर्णकम् । । २

यथा भजाम प्रकृतिं तथा कुरु सुरोत्तम ।

इति श्रुत्वा धर्मराजश्चित्रगुप्तेन संयुतः । । ३

ब्रह्माणं च गमिष्यन्ति सन्ध्यायां च कलौ युगे ।

चतुरश्च यमान्दृष्ट्वा परमेष्ठी पितामहः । । ४

तदीरितं स्वयं ज्ञात्वा क्षीराब्धिं प्रति यास्यति ।

पूजयित्या जगन्नाथं देवदेवं वृषाकपिम् । । ५

साङ्ख्यशास्त्रमयैः स्तोत्रैः संस्तोष्यति परम् प्रभुम् । । ६

जय जय जय निर्गुण गुणधारिन्रगजगजीवतत्त्वशुभकारिन् ।

सारभूतसद्गुणमय तत्त्वैर्देवान्रचयति पाति गुणसत्त्वैः । ।

तस्मै नमो नमो गुणराशे देववृन्दहृदि कृष्णविकाशे । । ७

रजोभूततत्त्वेभ्य उताशु विरचति भुवि च नरान्स्वयमाशु ।

पाति हन्ति यो देव उदारस्तस्य शिरसि संस्थितजगभारः । ।

पाहि नाथ नो दैत्यविनाशिन्कालजनितलीलागुणभासिन् । । ८

तेषामिति वचनं प्रभुः श्रुत्वा ह्यवनिमिवाशु ।

यथा जनिष्यति स प्रभुस्तच्छृणु वै मन आशु । । ९ ?

नम्रीभूतान्तुरान्विष्णुर्नमोवाक्येन तान्प्रति ।

वदिष्यति वचो रम्यं लोकमङ्गलहेतवे । । 3.4.25.१०

भोः सुराः सम्भलग्रामे कश्यपोऽयं जनिष्यति ।

नाम्ना विष्णुयशाः ख्यातो विष्णुकीर्तिस्तु तत्प्रिया । । ११

कृष्णलीलामयं ग्रन्थं नरांस्ताञ्छ्रावयिष्यति ।

तदा ते नन्दिनो भूत्वा चैकीभूय समन्ततः । । १२

तं द्विजं विष्णुयशसं गृहीत्वा निगडैर्दृढैः ।

बद्ध्वा सर्वे सपत्नीकं कारागारे दृढायसे । । १३

करिष्यन्ति महाधूर्ता नारका इव दारुणाः ।

विष्णुकीर्त्या स भगवान्पूर्णो नारायणो हरिः । । १४

जनिष्यति महाविष्णुः सर्वलोकशिवङ्करः ।

निशीथे तमसोद्भूते मार्गकृष्णाष्टमीदिने । । १५

ब्रह्माण्डं मङ्गलं कुर्वन्सुराः प्रादुर्भविष्यति ।

ब्रह्म विष्णुर्हरश्चैव गणेशो वासवो गुरुः । । १६

वह्निः पितृपतिः पक्षो वरुणः सविभीषणः ।

चित्रो वायु्र्ध्रुवो विश्वे रविः सोमः कुजो बुधः । । १७

गुरुः शुक्रः शनिः राहुः केतुस्तत्र गमिष्यति ।

पद्यैकैकेन ते देवाः स्तोष्यन्ति परमेश्वरम् । । १८

महत्तमा मूर्तिमयी तवाजा तदास्य पूर्वाज्जनितोहऽमादौ ।

मया ततं विश्वमिदं सदैव यतो नमस्तत्पुरुषोत्तमाय । । १९

अजस्य याम्याज्जनितोऽहमादौ विष्णुर्महाकल्पकरोऽधिकारी ।

स्वकीयनाम्ना तु मया ततं तद्विश्वे सदैवं च नमो नमस्ते । । 3.4.25.२०

अव्यक्तपाश्चात्यमुखात्सुजन्मा शिवोऽहमादौ सुरतत्त्वकारी ।

मया महाकल्पकरस्तृतीया त्वदाज्ञया देव नमो नमस्ते । । २१

प्रधानवक्त्रोत्तरतोऽहमादौ जातो गणेशः किल कल्पकर्ता ।

मया ततं विश्वमिदं सदैव तस्मै नमः कारुणिकोत्तमाय । । २२

अजार्द्धवक्त्राज्जनितोऽहमादौ मरुन्महाकल्पकरो महेन्द्रः ।

मया ततं विश्वमिदं स्वकल्पे यदाज्ञया देव नमो नमस्ते । । २३

प्रथानभालाक्षिसमुद्भवोऽहं वह्नेर्महाकल्पकरो गुहाख्यः ।

विनिर्मितं विश्वमिदं मया तद्यदाज्ञया नाथ नमो नमस्ते । । २४

अजामुखात्पूर्वगताच्च जातश्चादौ महाकल्पकरोऽहमग्निः ।

ब्रह्माण्डमेतच्च मया ततं वै ब्रह्माण्डकल्पाय नमो नमस्ते । । २५

अजाभुजाद्दक्षिणतोऽहमादौ जातो महाकल्पककरः सधर्मः ।

मया सदेवै रचितं समग्रं लिङ्गाख्यकल्पाय नमो नमस्ते । । २६

अजाभुजात्पश्चिमतोऽहमादौ जातो महाकल्पकरः स यज्ञः ।

मया ततं विश्वमिदं समग्रं मत्स्याख्यकल्पाय नमो नमस्ते । । २७

प्रधानबाहूत्तरतोऽहमादौ जातो महाकल्पकरः प्रचेताः ।

मया ततं नाथ तवाज्ञयेदं कर्माख्यकल्पाय नमो नमस्ते । । २८

ब्रह्माण्डतमसो जातस्त्वद्दासोऽहं विभीषणः ।

मया ततं त्रिलोकं च नमस्ते मनुरूपिणे । । २९

ब्रह्माण्डसद्गुणाज्जातश्चित्तोऽहं मनुकारकः ।

मया ततं च त्रैलोक्यं स्वायम्भुव नमोऽस्तु ते । । 3.4.25.३०

ब्रह्माण्डरजसो जातो वायुर्मन्वन्तरं ततम् ।

मया स्वारोचिषं स्वामिन्नमस्ते मनुरूपिणे । । ३१

ब्रह्माण्डमनसो जातो ध्रुवोऽहं मनुकारकः ।

मयोत्तमं च रचितं नमस्तेऽस्तु तवाज्ञया । । ३२

ब्रह्माण्डश्रवणाज्जातो विश्वकर्माहमीश्वरः ।

मया ततं रैवतं च नमो देव तवाज्ञया । । ३३

ब्रह्माण्डदेहतो जातस्सूर्योऽहं चाक्षुषप्रदः ।

तवाज्ञया ततं विश्वं मनुरूपाय ते नमः । । ३४

ब्रह्माण्डनेत्रतो जातः सोमोऽहं तु मया ततम् ।

वैवस्वतान्तरं रम्यं नमस्ते मनुरूपिणे । । ३५

ब्रह्माण्डरसनाज्जातो मोहोऽहं मनुकारकः ।

नमस्ते मनुरूपाय मया सावर्णिकं ततम् । । ३६

ब्रह्माण्डघ्राणतो जातो बुधोऽहं नाथ किङ्करः ।

निर्मितं ब्रह्मसावर्णं मया तात नमो नमः । । ३७

ब्रह्माण्डवक्त्रतो जातो जीवोऽहं मनुकारकः ।

मया वै दक्षसावर्णं ततं तत्ते नमो नमः । । ३८

ब्रह्माण्डकरतो जातः शुक्रोहं तव किङ्करः ।

निर्मितं रुद्रसावर्णं मया तुभ्यं नमो नमः । । ३९

ब्रह्माण्डपदतो जातोमन्दोऽहं नाथ तेऽनुगः ।

ततं वै धर्मसावर्णं प्रभातेस्मै नमो नमः । । 3.4.25.४०

ब्रह्माण्डलिङ्गतो जातो राहुश्चाहं तव प्रियः ।

मया भौमं कृतं नाथ नमस्ते मनुरूपिणे । । ४१

ब्रह्माण्डगुह्यतो जातः केतुश्चाहं तवानुगः ।

भौतं मन्वतरं सृष्टं तस्मै देवाय ते नमः । । ४२

व्यास उवाच

इति तेषां स्तवान्स्वामी श्रुत्वा देवान्वदिष्यति ।

वरं ब्रूहीति वचनं ततं प्रति मनुः क्रमात् । ।४ ३

इति कृत्वा तु ते देवा बालरूपं हरिं स्वयम् ।

नमस्कृत्य वदिष्यन्ति वाञ्छितं लोकहेतवे । ।

केयं भवान्ब्रूहि लोकानां कल्पे कल्पे तमुद्भवम् ।

तथा मन्वन्तरे चैव श्रोतुमिच्छामहे वयम् । ।४५

कल्क्युवाच

अष्टादश महाकल्पाः प्रकृतेश्च तनौ स्थिताः ।

आद्यो ब्रह्ममहाकल्पस्तत्र ब्रह्मा परः पुमान् । ।४६

तत्पूर्वार्द्धात्समुद्भूतास्त्रयस्त्रिंशच्च देवताः ।

परार्द्धाद्भगवान्ब्रह्मा योगिध्येयो निरञ्जनः । ।४७

तस्मिन्कल्पे तु या लीला ब्रह्मपौराणिकैः स्मृता ।

शतकोटिप्रविस्तारो ब्रह्मपौराणिकस्य वै । ।४८

पुराणपुरुषस्यान्ते महाकल्पः स्मृतो बुधैः ।

ब्रह्माण्डप्रलये कल्पो युगदैवसहस्रकः । ।४ ९

कल्पाश्चाष्टादश ख्यातास्तेषां नामानि मे शृणु ।

कूर्मकल्पो मत्स्य कल्पः श्वेतवाराहकल्पकः । । 3.4.25.५०

नृसिंहकल्पश्च तथा तथा वामनकल्पकः ।

स्कन्दकल्पो रामकल्पः कल्पो भागवतस्तथा । । ५१

तथा मार्कण्डकल्पश्च तथा भविष्यकल्पकः ।

लिङ्गकल्पस्तथा ज्ञेयस्तथा ब्रह्माण्डकल्पकः । । ५२

अग्निकल्पो वायुकल्पः पद्मकल्पस्तथैव च ।

शिवकल्पो विष्णुकल्पो ब्रह्मकल्पस्तथा क्रमात् । । ५३

द्विसहस्रमितावर्तैरेषां कल्पो महान्स्मृतः ।

सहस्रयुगपर्यन्तं ब्रह्माण्डायुः प्रकीर्तितम् । । ५४

यन्नाम्ना च स्मृतः कल्पस्तस्माज्जातो विराडयम् ।।

चतुर्दशमनूनां च मध्ये कल्पः स कालवान्।। ५५।।

स्वायंभुवांतरे यद्वै जांतंजातं चतुर्युगम्।।

तस्मिंश्चतुर्युगे सर्वे नृणामायुर्हरे शृणु ।।५६।।

लक्षाब्दं वै सत्ययुगे त्रेतायामयुताब्दकम् ।।

द्वापरे च सहस्राब्दं कलौ चायुश्शताब्दकम्।।५७।।

स्वारोचिषेऽन्तरे ऐव जातंजातं चतुर्युगम् ।।

शृणु तत्र नृणामायुस्सत्येशीतिसहस्रकम् ।। ५८ ।।

त्रेतायां च तदर्द्धाब्दं द्वापरे तु तदर्द्धकम् ।।

कलौ द्विक सहस्राब्दं नृणामायुः प्रकीर्तितम् ।। ५९ ।।

औत्तमस्यान्तरे चैव सत्ये षष्टिसहस्रकम् ।।

त्रेतायां च तदर्द्धाब्दं द्वापरे तु तदर्द्धकम् ।।3.4.25.६०।।

कलौ सार्द्धसहस्राब्दं नृणामायुः प्रकीर्तितम् ।।

तामसान्तरके चैव षट्त्रिंशाब्दसहस्रकम् ।। ६१ ।।

नृणामायुः सत्ययुगे त्रेतायां च तदर्द्धकम् ।।

द्वापरे च तदर्द्धाब्दं कलौ वर्षसहस्रकम् ।। ६२ ।।

रैवतान्तरके चैव सत्ये त्रिंशत्सहस्रकम् ।।

त्रेतायां च तदर्द्धाब्दं द्वापरे च तदर्द्धकम् ।। ६३ ।।

कलौ चाष्टशताब्दायुर्नृणां वेदैः प्रकीर्तितम् ।।

चाक्षुषान्तरके चैव सत्ये तुर्यसहस्रकम्।। ६४ ।।

त्रेतायां त्रिसहस्राब्दं द्वापरे द्विसहस्रकम् ।।

कलौ सहस्र वर्षान्तं नृणामायुः प्रकीर्तितम्।। ६५ ।।

वैवस्वतेन्तरे चैव सत्ये तुर्यसहस्रकम् ।।

त्रेतायां त्रिशताब्दं च द्वापरे द्विशताब्दकम् ।। ६६ ।।

कलौ शताब्दकं प्रोक्तमायुर्वेदैस्तथा नृणाम् ।।

सावर्णिकेऽन्तरे देव नृणां विंशत्सहस्रकम् ।। ६७ ।।

आयुः सत्ये तदर्द्धं तु त्रेतायां च प्रकीर्तितम् ।।

द्वापरे च तदर्द्धाब्दं तदर्द्धाब्दं तु वै कलौ ।। ६८ ।।

ब्रह्मसावर्णिके चैव सत्ये दशसहस्रकम् ।।

त्रेतायां च तदर्द्धाब्दं द्वापरे तु तदर्द्धकम् ।। ।। ६९ ।।

कलौ चैव तदर्द्धाब्दं नृणामायुः प्रकीर्तितम्।।

दक्षसावर्णिके चैव तथाब्दायुश्चतुर्युगे ।। 3.4.25.७० ।।

रुद्रसावर्णिके चैव सत्ये चाष्टसहस्रकम् ।।

त्रेतायां तदर्द्धाब्दं द्वापरे च तदर्द्धकम् ।। ७१ ।।

कलौ तदर्द्धकं ज्ञेयं नृणामायुः पुरातने ।।

धर्मसावर्णिके चैव तथाब्दायुश्चतुर्युगे ।। ७२ ।।

भौम मन्वंतरे चैव सत्ये तुर्यसहस्रकम् ।।

त्रेतायां त्रिसहस्राब्दं द्वापरे च तदर्द्धकम् ।। ७३ ।।

कलौ तदर्द्धकं ज्ञेयं नरायुश्चार्षसम्मतम् ।।

भौतमन्वंतरे चैव सत्ये तुर्यशताब्दकम्।। ७४ ।।

त्रेतायां त्रिशताब्दं च द्वापरे तु तदर्द्धकम् ।।

तदर्द्धकं कलौ घोरे नृणामायुः प्रकीर्तितम् ।। ७५ ।।

मन्वंतरे तु यन्नाम्ना भूपाश्चासंश्चतुर्युगे ।।

तन्नाम्ना च नृपा जातास्तेषां लीलाः पृथक्पृथक् ।। ७६ ।।

एवमन्यत्र वै ज्ञेयं युगे तुर्ये मनौ मनौ ।।

यो मनुस्तस्य वंशाश्च दिव्यैकयुगसप्ततौ ।। ७७ ।।

युगांते कर्मभूमेश्च लयः कल्पः स वै स्मृतः ।।

मन्वन्ते सर्वभूमेश्च प्रलयः स च कल्पकः ।। ७८ ।।

पुराण पुरुषस्यैव दिनान्ते प्रलयो हि यः ।।

मुख्यकल्पः स वै ज्ञेयः सर्वलोकविनाशकः ।। ७९ ।।

षड्विंशत्कल्पसाहस्रैर्महाकल्पो हि यः स्मृतः ।।

यदा पुराणपुरुषो मेषराशौ समास्थितः ।।3.4.25.८०।।

तदा ब्रह्मा सुरैः सार्द्धं भूपं स्वायंभुवं गतः ।।

यदा पुराणपुरुषो मकरे च समागतः ।।८१।।

स्वायंभुवमनोर्मध्ये वाराहोऽभूत्स वै भुवि ।।

यदा पुराणपुरुषो गतः सिंहे स्वकेच्छया ।। ८२ ।।

स्वारोचिषमनोरन्ते नृसिंहोऽभूत्स वै भुवि ।।

यदा पुराणपुरुषो वृषराशौ समास्थितः ।। ८३ ।।

तदौत्तममनोर्मध्ये रुद्रोऽभूत्सगणो भुवि ।।

यदा पुराणपुरुषो मीनराशौ समास्थितः ।। ८४ ।।

तामसान्तेऽभवन्मत्स्यः स वै भुवि सनातनः ।।

यदा पुराणपुरुषो युग्मराशौ समास्थितः ।। ८५ ।।

वैवस्वतमनोर्मध्ये कृष्णोभूद्भुवि स प्रभुः ।।

यदा पुराणपुरुषः कर्कराशौ समास्थितः ।। ८६ ।।

रैवतान्तेऽभवत्कूर्मः स वै भुवि सनातनः ।।

यदा पुराणपुरुषः कन्याराशौ समास्थितः ।। ८७ ।।

चाक्षुषान्ते जामदग्न्योऽभवद्रामः स वै भुवि ।।

यदा पुराणपुरुषः प्राप्तोऽलौ च स्वकेच्छया ।। ८८ ।।

वैवस्वतमनोरादौ वामनोऽभूत्स वै भुवि ।।

यदा पुराणपुरुषस्तुलाराशौ समास्थितः ।। ८९ ।।

वैवस्वतमनोर्मध्ये कल्की नाम्नाहमागतः ।।

यदा पुराणपुरुषः कुम्भराशौ समास्थितः ।।3.4.25.९०।।

सावर्णिकादौ भविता बुद्धो नाम्ना स वै भुवि ।।

यदा पुराणपुरुषो धनुराशौ समास्थितः ।। ९१ ।।

वैवस्वतमनोर्मध्ये रामो दाशरथिर्भुवि ।।

यदा पुराणपुरुषो नक्रराशौ समास्थितः ।। ९२ ।।

सर्वपूज्यावतारश्च न भवेद्वै कदाचन ।।

अस्मिंश्चतुर्युगे देवाः पुराणपुरुषस्य हि ।। ९३ ।।

त्रयोऽवताराः कथितास्तथा नान्यच्चतुर्युगे ।।

त्रेतायाः प्रथमे पादे रामो दाशरथिः प्रभुः ।। ९४ ।।

द्वापरस्य तथा कृष्णः शेषेण सह वै भुवि।।

कलेश्शेषे तथाहं वै द्वात्रिंशाब्दसहस्रके ।। ९५ ।।

अतः खंडः पवित्रोऽयं नृणां पातकनाशनः ।।

इमं चतुर्युगं खण्डं यः पठेच्छ्रावयेच्च यः ।। ९६ ।।

जन्म प्रभृति पापानि तस्य नश्यंति नान्यथा ।।

इति वः कथितं देवा महाकल्पचरित्रकम् ।। ९७।।

द्वितीयो यो महाकल्पो विष्णुकल्पः स वै स्मृतः ।।

तत्कथा पठिता देवा विष्णुपौराणिकैर्नरैः ।। ९८ ।।

शतकोटिप्रविस्तारो विष्णुपौराणिकस्य वै ।।

तत्रैव च महाकल्पो विष्णोर्नाभिसमुद्भवः ।। ।। ९९ ।।

पूर्वार्द्धाद्भगवान्ब्रह्मा .सर्वदेवसमन्वितः ।।

परार्द्धाद्भगवान्विष्णुः पुराणपुरुषः स वै ।। 3.4.25.१०० ।।

तृतीयो यो महाकल्पः शिवकल्पः स वै स्मृतः ।।

शिवपूर्वार्द्धतो जातो विष्णुस्तस्माद्विधिः स्वयम् ।। १०१ ।।

शतकोटिप्रविस्तारः शिवपौराणिकैः स्मृतः ।।

चतुर्थो यो महाकल्पः पद्म कल्पः स वै स्मृतः ।। १०२ ।।

गणेशस्तत्र भगवान्पुराणपुरुषासने ।।

गणेशादभवद्रुद्रो रुद्राद्विष्णुः सुरोत्तमः ।। १०३ ।।

विष्णोर्नाभिसमुद्भूतः परमेष्ठी पितामहः ।।

कल्पेकल्पे क्रमादादौ देवाश्चासन्समंततः ।।१०४।।

पंचमो यो महाकल्पो वायुकल्पः स वै स्मृतः ।।

महेंद्रस्तत्र भगवान्पुराण पुरुषासने ।। १०५ ।।

महेन्द्रादभवत्प्राप्तो महेंद्रादिंद्रियाणि च ।।

इन्द्रियेभ्यश्च तद्देवास्तेषां नामानि मे शृणु ।।१०६।।

शनिर्बुधो रविः शुक्रो विश्व कर्मा बृहस्पतिः ।।

इन्द्रो विष्णुस्तथा ब्रह्मा रुद्रः सोमः क्रमात्स्मृताः ।।१०७।।

सृष्टिकर्ता स वै ब्रह्मा लिङ्गेन्द्रियसमुद्भवः ।

सृष्टिपाता स वै विष्णुरवतारिपदोद्भवः । । १०८

चतुर्विंशतितत्त्वेषु कल्पेकल्पे प्रभुर्गतः ।

सनत्कुमारो हंसश्च वाराहो नारदस्तथा । । १०९

नारायणौ च कपिलात्रेयौ यज्ञाश्वकण्टकौ ।

वृषभश्च पृथुर्मत्स्यः कूर्मो धन्वन्तरिस्तथा । । 3.4.25.११०

मोहिनी च नृसिंहश्च वामनो भार्गवस्तथा ।

रामो व्यासो बलः कृष्णो बुद्धः कल्की स्वतत्त्वगः । । १११

गुह्यजन्मा महादेवः सृष्टिदैत्यविनाशकः ।

एवं जातास्त्रयो देवा महाकल्पे च पञ्चमे । । ११२

षष्ठो यस्तु महाकल्पो वह्निकल्पः स वै स्मृतः ।

स्कन्दस्तत्रैव भगवान्पुराणपुरुषासने । । ११३

पुरुषाव्ययतः स्कन्नः स्कन्दस्तस्मान्महार्चिमान् ।

सूर्यरूपा महार्चिर्या तस्यां जातो हरिः स्वयम् । । ११४

वह्निरूपा महार्चिर्या तस्यां जातः पितामहः ।

चन्द्ररूपा महार्चिर्या तस्यां जातः स वै हरः । । ११५

ऋषयो मुनयो वर्णा लोका जाताः पितामहात् ।

आदित्या विश्ववसवस्तुषिता भास्वरानिलाः । । ११६

महाराजिकसाध्याश्च देवा विष्णुसमुद्भवाः ।

यक्षराक्षसगन्धर्वाः पिशाचाः किन्नरादयः । । ११७

दैत्याश्च दानवा भूतास्तामसा रुद्रसम्भवाः ।

कल्पे कल्पे समुद्भूतमेवं ब्रह्माण्डगोचरे । । ११८

सप्तमो यो महाकल्पः स वै ब्रह्माण्डकल्पकः ।

पावकस्तत्र भगवान्पुराणपुरुषासने । । ११९

अचिन्त्यतेजसस्तस्मात्पुरुषाद्वह्निरुद्भवः ।

ततो जातो महाब्धिश्च तस्माज्जातं विराण्मयम् । । 3.4.25.१२०

रोम्णि रोम्णि ततस्तस्य ब्रह्माण्डाः कोटिशोऽभवन् ।

ब्रह्माण्डादभवद्ब्रह्मा सर्वलोकपितामहः । । १२१

तस्माज्जातो विभुर्विष्णुस्तस्माज्जातो हरः स्वयम् ।

शतकोटिप्रविस्तारो ब्रह्माण्डाख्यपुराणके । । १२२

त्रिनेत्रं पञ्चवक्त्रं च दशबाहुर्भवस्य च ।

अष्टादशानां कल्पानां वायुर्वै वैदिकैः स्मृतः । । १२३

महाकल्पेऽभवन्सर्वे द्विसहस्राः क्षयं गताः ।

अष्टमो यो महाकल्पो लिङ्गकल्पः स वै स्मृतः । । १२४

तत्रैव भगवान्धर्मः पुराणपुरुषासने ।

अचिन्त्याव्यक्तरूपश्च जातो धर्मः सनातनः । । १२५

धर्मात्कामः समुद्भूतः कामाल्लिङ्गस्त्रिधाभवत् ।

पुंल्लिङ्गः क्लीबलिङ्गश्च स्त्रीलिङ्गश्च सुरोत्तम । । १२६

पुँल्लिङ्गादभवद्विष्णुः स्त्रीलिङ्गाच्च महेन्दिरा ।

क्लीबलिङ्गात्स वै शेषस्तस्योपरि स च स्थितः । । १२७

त्रिभ्यस्तमोमयेभ्यश्च जातमेकार्णवं जगत् ।

सुप्ते नारायणे देवे नाभेः पङ्कजमुत्तमम् । । १२८

जातं तस्मात्स वै ब्रह्मा तस्माज्जातो विराडयम् ।

शतकोटिप्रविस्तारैर्लिङ्गपौराणिकैः कथा । । १२९

गीता चैव विधेरग्रे तस्य सारोऽयमुत्तमः ।

नवमो यो महाकल्पो मत्स्यकल्पः स वै स्मृतः । । 3.4.25.१३०

कुबेरस्तत्र भगवान्पुराणपुरुषासने ।

अव्ययाच्च समुद्भूतो धूलिवृन्दो महांस्तथा । । १३१

रजोभूताच्च तस्माच्च कुबेरस्य समुद्भवः ।

कुबेरादुद्भवन्मत्स्यो वेदमूर्तिश्च सद्गुणः । । १३२

मत्स्योदरात्समुद्भूतो विष्णुर्नारायणो हरिः ।

विष्णोर्नाभेः समुद्भूतो ब्रह्मा लोकपितामहः । । १३३

ब्रह्मणश्चोद्भवं दैवं दैवाद्देवा बभूविरे ।

चतुर्विंशतितत्त्वानि तैर्देवैर्जनितानि वै । । १३४

कल्पेकल्पे क्रमादेवं कल्पनामान्यकारयत् ।

मत्स्यकल्पे तु मत्स्यश्च महामत्स्यात्समुद्भवः । । १३५

तन्मत्स्याद्भगवान्विष्णुस्ततो ब्रह्मण उद्भवः ।

कूर्मकल्पे महामत्स्यात्कूर्मो जातः स कच्छपः । । १३६

कूर्माच्च भगवान्विष्णुस्ततो ब्रह्मा ततो विराट् ।

श्वेतवाराहकल्पे च वराहाद्विष्णुरुद्भवः । । १३७

विष्णोर्नाभेश्च स ब्रह्मा ततो जातो विराडयम् ।

एवं सर्वे च वै कल्पा ज्ञेयाः सर्वत्र वै बुधैः । । १३८

दशमो यो महाकल्पः कूर्मकल्पः स वै स्मृतः ।

अचेतास्तत्र भगवान्पुराणपुरुषासने । । १३९

प्रकृतेश्च परो यो वै तुरीयोऽव्यय एव च ।

शून्यभूतात्ततो जातः प्रचेता भगवान्स्वयम् । । 3.4.25.१४०

तस्माज्जातो महानब्धिस्तत्र सुष्वाप स प्रभुः ।

नारायण इति ख्यातः स वै जलपतिः स्वयम् । । १४१

तदर्द्धाच्च महाकूर्मस्ततः शेषो महानभूत् ।

त्रिधाऽभवत्स वै शेषो भूमा शेषश्च भौमनी । । १४२

भूमा स वै विराड् ज्ञेयः शेषोपरि स चास्थितः ।

भौमनी च महालक्ष्मीः सा भूम्नो हृदि संस्थिता । । १४३

भूम्नो जातः स वै ब्रह्मा सृष्टिस्थितिविनाशकः ।

त्रिधामूर्तिः स वै ब्रह्मा कल्पेकल्पे क्रमादयम् ।। १४४

पटं सुषुप्तभूतं यत्पुराणपुरुषासनम् ।

यत्र गत्वेन्द्रियाण्येव तृप्तिं प्राप्य क्षयन्ति वै ।। १४५

अहङ्कारस्तदागत्य चैतन्यं मनसि स्थितम् ।

वञ्चयित्वा पुनर्लोकं करोति स्म स्वलीलया ।। १४६

तुरीयशक्तिर्या ज्ञेया महाकाली सनातनी ।

महाकल्पश्च तैः सर्वैस्तदङ्गं श्रुतिभिः स्मृतम् ।। १४७

नमस्तस्यै महाकाल्यै मम मात्रे नमो नमः ।

यतः पुराणपुरुषा भवन्ति च लियन्ति च ।। १४८

दशैव च महाकल्पा व्यतीता इह भोः सुराः ।

साम्प्रतं वर्तते यो वै महाकल्पो भविष्यकः ।। १४९

तदुत्पत्तिं शृणुध्वं भो देवाः सर्पिगणा मम ।

अचिन्त्यमक्षरं यत्तु तुरीयं च सदा स्थितम् ।। 3.4.25.१५०

यद्गत्वा न निवर्तन्ते नरास्तत्रैव तत्पदम् ।

अनेकसृष्टिरचनाः सन्ति तस्यैव लीलया ।। १५१

तस्यान्तं न विदुर्देवाः कथं जानन्ति वै नराः ।

भूतो भूतो महाकल्पो दृष्टो वैदेस्तदीरितः ।। १५२

भाव्या ये तु महाकल्पा न वै जानन्ति ते सदा ।

त्रयस्त्रिंशन्महाकल्पाः कैश्चिद्वेदैरुदीरिताः ।। १५३

अष्टादश महाकल्पाः पृथङ् नाम्नोपवर्णिताः ।

एकादश महाकल्पाः कैश्चित्प्रोक्ताः पुरातनैः ।। १५४

अतोऽहं निश्चयेनाद्य भाव्यकल्पेषु भोः सुराः ।

वेदानां वचनं सत्यं नान्यथा च भवेत्क्वचित् ।। १५५

तदव्ययात्समुद्भूतो राधाकृष्णः सनातनः ।

एकीभूतं द्वयोरङ्गं राधाकृष्णो बुधैः स्मृतः ।। १५६

सहस्रयुगपर्यन्तं यत्तेपे परमं तपः ।

तदा स च द्विधा जातो राधाकृष्णः पृथक्पृथक् ।। १५७

सहस्रयुगपर्यन्तं तेपतुस्तौ परं तपः ।

तयोरङ्गात्समुद्भूता ज्योत्स्ना तमनाशिनी । । १५८

तज्योत्स्नाभिः समुद्भूतं दिव्यं वृन्दावनं शुभम् ।

एकविंशत्प्रकृतयो योजने योजने स्मृताः । । १५९

दिव्यं वृन्दावनं जातं चतुराशीतिसम्मिते ।

क्रोशायामं महारम्यं तल्लिङ्गं शृणु मे प्रभो । । 3.4.25.१६०

इन्द्रियप्रकृतीनां च दशानां ग्रामतद्दश १ ।

गोकुलं वार्ष नान्दं भाण्डीरं माथुरं तथा । । १६१

व्रजं च यामुनं मान्यं श्रेयस्कं गोपिकं क्रमात् ।

मात्राभूतदशभ्यश्च प्रकृतिभ्यः समुद्भवम् । । १६२

तथा दशवनं रम्यं तेषां नामानि मे शृणु ।

वृन्दावनं गोपवनं बहुलावनमेव च । । १६३

मधुशृङ्गं कुञ्जवनं वनं दधिवनं तथा ।

रहः क्रीडावनं रम्यं वेणुपद्मवनं क्रमात् । । १६४

मनसः प्रकृतेर्जातो गिरिर्गोवर्द्धनो महान् ।

दिव्यं वृन्दावनं दृष्ट्वा परमानन्दमाप सः । । १६५

कृष्णादुदभवन्गोपास्तिस्रः कोट्यो गुणात्मकाः ।

श्रीदामाद्याः सात्विकाश्च राजसा अर्जुनादयः । । १६६

कंसाद्यास्तामसा जाता दिव्यलीलाप्रकारिणः ।

राधाङ्गादुद्भवा गोप्यस्तिस्रः कोट्यस्तथा क्रमात् । । १६७

ललिताद्याः सात्त्विकाश्च कुब्जाद्या राजसास्तथा ।

तामसाः पूतनाद्याश्च नानाहेलाचरित्रकाः । । १६८

सहस्रयुगपर्यन्तं तेषां लीला बभूव ह ।

ततस्तौ तान्समाहृत्य तेपतुश्च पुनस्तपः । । १६९

द्विधा जातः स वै कृष्णो राधा देवी तथा द्विधा ।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । । 3.4.25.१७०

पूर्वार्द्धात्स च वै जातः परार्द्धात्कृष्ण एव हि ।

एकशीर्षा त्रिनेत्रा च द्विपदी द्विसहस्रिका । । १७१

पूर्वार्धात्सा तु वै जाता राधा देवी परार्द्धतः ।

पुरुषः प्रकृतिश्चोभौ तेपतुः परमं तपः । । १७२

सहस्रयुगपर्य्यन्तं दिव्ये वृन्दावने शुभे ।

तपसा ववृधाते तौ नाम्नानन्तो ह्यनन्तकः । । १७३

एकीभूतौ तु तत्पश्चात्संस्थितौ मैथुनेच्छया ।

तदङ्करोमकूपेषु ब्रह्माण्डाः कोटिशोऽभवन् । । १७४

कोट्यर्द्धयोजनायामास्ते तु सर्वे पृथक्पृथक् ।

हृदि रोमसमुद्भूतो ब्रह्माण्डोऽयं च भोः सुराः । । १७५

ब्रह्माण्डादुद्भवो ब्रह्मा पद्मपुष्पे समास्थितः ।

स पद्मो योजनायामो भूमिमण्डलसंस्थितः । । १७६

यतो जातं विधेः पद्मं तद्वै पद्मसरोवरम् ।

प्रसिद्धं पुष्करक्षेत्रं तत्पद्मसरसं सुराः । । १७७

विस्मितः स तदा ब्रह्मा नररूपश्चतुर्मुखः ।

नाले नाले गतोसौ वै दिव्यं जातं शतं समाः । । १७८

नान्तं जगाम पद्मस्य पुनर्ब्रह्मा स चागतः ।

मायया मोहितस्तत्र रुरोद बहुधा तदा । । १७९

रोदनाद्रुद्र उत्पन्नः स च तत्क्षेमकारकः ।

किं रोदिषि महाभाग त्वदीशो हृदये तव । । 3.4.25.१८०

इति श्रुत्वा वचस्तस्य ब्रह्मा लोकपितामहः ।

समाधिभूतो हृदये चिरं तेपे स्वकेच्छया । । १८१

दिव्यवर्षशताब्दे तु प्रादुर्भूतो हरिः स्वयम् ।

वचनं प्राह भगवान्मेघगम्भीरया गिरा । । १८२

कर्मभूमिरियं ब्रह्मञ्जीवान्ता जीवकारिणी ।

सहस्रयोजनायां तु विश्वस्मिन्भूमिमण्डले । । १८३

हिमाद्रिरुत्तरे तस्याः पूर्वेऽब्धिश्च महोदधिः ।

रत्नाकरः पश्चिमेऽब्धिर्दक्षिणे वडवाब्धिकः । । १८४

अतः सर्वे भविष्यन्ति लोकाश्चोर्द्ध्वं तथा ह्यधः ।

कर्मभूमेर्मध्यभूतः पुष्करोऽयं सनातनः । । १८५

मत्तो वेदान्भवान्प्राप्य करिष्यति मखं शुभम् ।

यज्ञाद्देवा भविष्यन्ति त्रिधाभूता गुणत्रयात् । । १८६

सिद्धा विद्याधराश्चैव चारणाः सात्त्विकास्त्रिधा ।

गन्धर्वयक्षरक्षांसि राजसा गिरिसंस्थिताः । । १८७

पिशाचगुह्यका भूतास्तामसा गामिनो ह्यधः ।

तथा स्वधामया यज्ञास्त्रिधा पितृगणा विधे । । १८८

भविष्यन्ति सुरै रम्या विमानसदृशाश्च खे ।

खेचरा गौरवर्णाश्च श्यामास्ते सात्त्विकाः स्मृताः । । १८९

गिरिद्वीपमया रम्याः सरोरूपाश्च राजसाः ।

भूचरास्ते भविष्यन्ति त्रिधा पितृगणा विधे । । 3.4.25.१९०

बिलेतलमया ये तु नारका यातनामयाः ।

तामसास्ते भविष्यन्ति पितरोऽधोमहीतले । । १९१

व्ययभूताश्च ते लोका वृद्धा मध्याः क्षयाः क्रमात् ।

इयं भूमिर्महाभागा सर्वदा च सनातनी । । १९२

मेरुर्वै च नमेरुश्च द्वीपाश्चासंस्तथा न हि ।

इलावर्तादिखण्डाश्च सन्ति नैव क्वचित्क्वचित् । । १९३

ये तु तारामया लोका विमानसदृशा विधे ।

स्वेच्छया च करिष्यन्ति रक्षिता यज्ञकर्मणा । । १९४

यज्ञो नास्ति यदा भूमौ तदा ते भगणा विधे ।

विघ्नभूताश्चरिष्यन्ति नित्यवक्रातिचारिणः । १९५

कर्मभूमिश्च गौर्ज्ञेया श्रुतिरूपा जगन्मयी ।

यस्तां पाति च भो ब्रह्मन्स गोप इति विश्रुतः । । १९६

गोपशक्तिः स वै गोपो गोपानामर्चको हरिः ।

कोटिकोटिसहस्राश्च सर्व गोपा हरेः कलाः । । १९७

तावन्तश्चैव ब्रह्माण्डा गोपनाम्ना प्रकीर्तिताः ।

कर्मभूमेस्तथोर्ध्वं च रविर्योजनलक्षकः । । १९८

ततश्शशी तथामानस्ततश्चोर्ध्वं भमण्डलम् ।

द्विलक्षयोजनगतस्ततो भौमस्तथाविधः । । १९९

भौमाद्बुधस्तथा ज्ञेयो बुधाच्च बृहतांपतिः ।

गुरोः शुक्रस्तथामानः शुक्रात्सौरिस्तथागतः । । 3.4.25.२००

शनेराहुस्तथा ज्ञेयो राहोः केतुस्तथोर्ध्वगः ।

सप्तलक्षमितं ज्ञेयं केतोः सप्तर्षिमण्डलम् । । २०१

लक्षैकादशगाः सर्वे ततश्चोर्ध्वं ध्रुवास्पदम् ।

लक्षयोजनगं चैव ततश्चोर्ध्वं महत्पदम् । । २०२

लक्षयोजनगं ज्ञेयं ततश्चोर्ध्वं जनास्पदम् ।

लक्षयोजनगं ज्ञेयं तदूर्ध्वं तपसः स्थलम् । । २०३

एवं च कर्मभूमेश्च तपः कोट्यर्धयोजनम् ।

कर्मभूमेरधश्चैव पातालाः सप्त चान्तराः । । २०४

लक्षयोजनगा ज्ञेयास्ततश्चाधोगताश्च ये ।

नरकाश्च क्रमाज्जेया भूमेः कोट्यर्द्धयोजनाः । । २०५

कर्मभूमेरुत्तरे च खण्डान्यष्टौ ततः परम् ।

लवणाब्धिस्ततो द्वीपस्ततः क्षीराब्धिरेव हि । ।

ततो द्वीपस्ततः सिन्धुस्ततो द्वीपस्ततोऽब्धिकः । । २०६

कोट्यर्द्धलक्षव्यानेन योजनेन विधे स्वयम् । । २०७

कर्मभूमेः स वै ज्ञेयो लोकालोका महाचलः ।

लोकालोको दक्षिणे च पश्चिमे च स वै गिरिः । । २०८

पूर्वे च कर्मभूमेश्च लोकालोकस्तथाविधः ।

एतेषां समुदायानां ब्रह्माण्डोऽयं प्रकीर्तितः । । २०९

त्वत्तो भविष्यति विधे कल्पपर्यन्तमेव हि ।

ओमित्येकाक्षरं ब्रह्म ततो विष्णुस्त्रिधाभवत् । । 3.4.25.२१०

अद्य विष्णुः स वै कृष्ण इह विष्णुः स वै विराट् ।

इति विष्णुः स वै ज्ञेयः पुराणपुरुषोत्तमः । । २११

पुराणपुरुषो ज्ञेय आदिब्रह्मा चिरायुगः ।

दैवे युगसहस्रे द्वेऽहोरात्रं तस्य कीर्तितम् । । २१२

विष्णोस्तु रोमकूपेषु ब्रह्माण्डाः कोटिशोऽभवन् ।

अद्य विष्णुरहं ब्रह्मन्विघ्नहा तव भूतले । । २१३

इत्युक्तवान्तर्दधे विष्णुर्ब्रह्मा सृष्टिमचीकरत् ।

तेन प्रोक्तं यतो भाव्यं महाकल्पो हि स स्मृतः । । २१४

भविष्यो नाम विख्यातो द्विसहस्रभवायुषा ।

पूर्वार्द्धश्च कूपरार्द्धश्च पुराणपुरुषस्य हिः । । २१५

अष्टादशसहस्राणि कल्पाः पूर्वार्द्धके गताः ।

परार्द्धः साम्प्रतं ज्ञेयो जातं तस्य दिनद्वयम् । । २१६

अद्याहं कूर्मकश्चैव वाहने मत्स्यः प्रकीर्तितः ।

तृतीयः श्वेतवाराहो दिवसस्तस्य कल्पवान् । । २१७

तथा मध्याह्नकालो हि साम्प्रतं वर्तते सुराः ।

भविष्याख्ये महाकल्पे कथा भाविष्यकैर्जनैः । । २१८

कथिता ब्रह्मणश्चाग्रे शतकोटिप्रविस्तरैः ।

दशलक्षणसंयुक्तं शतकोटिप्रविस्तरम् । । २१९

महापुराण कथितं पुराणं पञ्चलक्षणम् ।

पद्यत्रिंशत्सहस्रं च कल्पे कल्पे प्रकीर्तितम् । । 3.4.25.२२०

कल्पनाम्ना पुराणं च महादेवेन निर्मितम् ।

अष्टादशपुराणानि निर्मितानि शिवात्मना । । २२१

द्वापरान्ते च भगवान्व्यासः सत्यवतीसुतः ।

तान्येव जनयामास लोकमङ्गलहेतवे । । २२२

व्यास उवाच

इति कल्किवचः श्रुत्वा ते देवा विस्मयान्विताः ।

नमस्कृत्य गमिष्यन्ति स्वं स्वं धाम प्रहर्षिताः । । २२३

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये

कलियुगीयेतिहाससमुच्चयवर्णनं नाम पञ्चविंशोऽध्यायः । २५

पर्व ३ (प्रतिसर्गपर्व) · खण्डः ४ — Adhyāya 26

कलियुगीयेतिहाससमुच्चयवर्णनम्

व्यास उवाच

तदा स भगवान्कल्किः पुराणपुरुषोद्भवः ।

दिव्यं वाजिनमारुह्य खड्गी वर्मी च चर्मधृक् । ।

म्लेच्छांस्तान्दैत्यभूतांश्च हत्वा योगं गमिष्यति । । १

षोडशाब्दसहस्राणि तद्योगाग्निप्रतापिता ।

भस्मभूता कर्मभूमिर्निर्जीवा भविता तदा । । २

ततोऽनुयोगं जनितो मेघो भूत्वा लयङ्करः ।

प्रलयाग्रेण सा भूमिर्जलमध्ये गमिष्यति । । ३

तदा कलियुगो घोरो बलिपार्श्वं गमिष्यति ।

गते कलियुगे घोरे कर्मभूमिं पुनर्हरिः । ।

कृत्वा स्थलमयीं रम्यां यज्ञैर्देवान्यजिष्यति । । ४

यज्ञभागमुपादाय देवास्ते बलसंयुताः ।

वैवस्वतं मनुं गत्वा कथयिष्यन्ति कारणम् । । ५

कल्किनो वदनाज्जातो ब्राह्मणो वर्ण एव हि ।

बाह्वोः क्षत्रं विशो जान्वोः शूद्रो वर्णस्तदङ्घ्रयोः । । ६

गौरो रक्तस्तथा पीतः श्यामस्ते ब्राह्मणादयः ।

देव्याः शक्तिं समादाय जनिष्यन्ति सुतान्बहून् । । ७

एकविंशत्किष्कुमिता मनुजा धर्मरूपिणः ।

जातिधर्ममुपादाय यजिष्यंति सुरान्मुदा । । ८

तदा वैवस्वतो धीमान्नत्वा तं कल्किनं हरिम् ।

अयोध्यायां राजपदं करिष्यति तदाज्ञया । । ९

तच्छिक्षातो भवेत्पुत्रो यः स इक्ष्वाकुरेव हि ।

पितू राज्यं पुरस्कृत्य भूमौ दिव्यं शतं समाः । ।

दिव्यवर्षशतायुश्च त्यक्त्वा देहं गमिष्यति । । 3.4.26.१०

यदा तु भगवान्कल्की ब्रह्मसूत्रं करिष्यति ।

तदा वेदाश्च चत्वारो मूर्तिमन्तश्च साङ्गःकाः । ।

अष्टादशपुराणैश्च तत्रायास्यन्ति हर्षिताः । । ११

स्तोष्यन्ति कल्किनं देवं पुराणपुरुषांशकम् ।

कार्त्तिके शुक्लपक्षे च नवम्यां गुरुवासरे । । १२

यज्ञकुण्डाच्च पुरुषो भविष्यति महोत्तमः ।

नाम्ना सत्ययुगो ज्ञेयः सत्य मार्गप्रदर्शकः । । १३

दृष्टवा तं पुरुषं रम्यं तदा ब्रह्मादयः सुराः ।

तां तिथिं वर्णयिष्यन्ति कर्मक्षयकरीं मनोः । । १४

अस्यां तिथौ च मनुजो धातृवृक्षतटे मुदा ।

योऽर्चयिष्यति यान्देवान्देवास्ते तस्य वश्यगाः । । १५

अक्षया नवमी नाम युगादिनवमी हि सा ।

लोकमङ्गलदात्री च सर्वकिल्विषनाशिनी । । १६

धातृमूलतले चैव मालतीं तुलसीं मुदा ।

संस्थाप्य वेदविधिना शालग्रामं यजन्ति ये । ।

जीवन्मुक्ताश्च ते ज्ञेया पितॄणां तृप्तिकारकाः । । १७

धातृवृक्षतले गत्वा यो वै श्राद्धं करिष्यति ।

गयाश्राद्धसहस्रस्य लप्स्यते च फलं परम् । । १८

यः करोति तथा होमं सहस्रमखसन्निभम् ।

मृतः स स्वर्गमाप्नोति सकुलः सपरिच्छदः । । १९

इत्युक्ते वचने तेषां कल्की देवो मुदान्वितः ।

तथास्त्वित्येव वचनं वदिष्यति सुरान्प्रति । । 3.4.26.२०

इत्युक्त्वा भगवान्कल्की पश्यतां देवरूपिणाम् ।

तत्रैवान्तर्गतो भूत्वा सुषुप्तश्च भविष्यति । । २१

गते तस्मिन्भगवति कर्मभूमिः सुदुःखिता ।

विरहाग्निमती भूत्वा बीजांस्तान्संक्षयिष्यति । । २२

तस्मिन्काले महादैत्याः पातालतलवासिनः ।

प्रह्लादं च पुरस्कृत्य गमिष्यन्ति सुरान्प्रति । । २३

खरोष्ट्रगृद्ध्रमहिषकाककर्कसमास्थिताः ।

सिंहव्याघ्रवृकारूढाः शृगालश्येनवाहनः । । २४

प्रासपट्टिशखड्गांश्च भुशुण्डीपरिघादिकान् ।

गृहीत्वा वेगवन्तस्ते गर्जिष्यन्ति पुनः पुनः । । २५

तदा शक्रादयो देवास्त्रयस्त्रिंशद्गणा मुदा ।

स्वायुधानि गृहीत्वाशु करिष्यन्ति रणं महत् । । २६

दिव्यवर्षमयं घोरं युद्धं तेषां भविष्यति ।

मृतान्मृतान्रणे दैत्यान्भार्गवो जीवयिष्यति । । २७

श्रमभूतास्तथा देवास्त्यक्त्वा युद्धं समन्ततः ।

क्षीराब्धिं च गमिष्यन्ति यत्र साक्षाद्हरिः स्वयम् । । २८

तेषां स्तुत्या स भगवान्देवमङ्गलहेतवे ।

स्वपूर्वार्द्ध स्वरूपं च करिष्यति सनातनः । । २९

स च हंसो हरिः साक्षाच्छतसूर्यसमप्रभः ।

शुक्रं प्रह्लादप्रमुखांस्तेजसा तापयिष्यति । । 3.4.26.३०

तदा पराजिता दैत्यास्त्यक्त्वा गां दुःखिता भृशम् ।

वितले च गमिष्यन्ति महादेवेन रक्षिताः । । ३१

पुनस्ते सकला देवा निर्भया निरुपद्रवाः ।

वैवस्वतस्य तनयं चाभिषेक्ष्यन्ति भूपदे । । ३२

दिव्यवर्षशतायुश्च स इक्ष्वाकुर्भविष्यति ।

वर्षाणां च प्रमाणेन नृणामायुश्चतुश्शतम् । । ३३

इति ते कथितं सर्वं यत्पृष्टोऽहं मनो त्वया ।

चतुर्युगानां चरितं नृपाणां च पृथक् पृथक् । । ३४

चतुष्पादा हि धर्मस्य ज्ञानं ध्यानं शमो दमः ।

आत्मज्ञानं स वै ज्ञानं ध्यानमध्यात्मचिन्तनम् । ।

मनः स्थिरत्वं च शमो दमस्त्विन्द्रियनिग्रहः । । ३५

चतुर्लक्षाब्दकान्येव द्वात्रिंशच्च सहस्रकम् ।

तत्सङ्ख्यया हि धर्मस्य पादश्चैकः प्रकीर्तितः । । ३६

प्राह्णमध्याह्नसायाह्नं त्रिसन्ध्यं च भवेत्सदा ।

एकैकेन पदा तस्य विराजो भुवि वर्तते । । ३७

यदा धर्मो भवेद्वृद्धस्तदायुश्चैव वर्द्धते ।

सप्तश्लोकसहस्राणि खण्डेऽस्मिन्कथितानि हि । ।

अतश्चोत्तरखण्डं हि वर्णयामि मनो शृणु । । ३ ८

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये

कलियुगीयेतिहाससमुच्चयवर्णनं नाम षड्विंशोऽध्यायः । २६

इति श्रीभविष्ये महापुराणे तृतीयं प्रतिसर्गपर्वचतुर्युगखण्डापरपर्यायं समाप्तम् । । ३ । ।

पर्व ३(प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 3

श्रीसूत उवाच।। ।।

शालिवाहनवंशे च राजानो दश चाभवन्।।

राज्यं पंचशताब्दं च कृत्वा लोकान्तरं ययुः।। १।।

मर्य्यादा क्रमतो लीना जाता भूमंडले तदा।।

भूपतिर्दशमो यो वै भोजराज इति स्मृतः ।।

दृष्ट्वा प्रक्षीणमर्य्यादां बली दिग्विजयं ययौ ।। २ ।।

सेनया दशसाहस्र्या कालिदासेन संयुतः ।।

तथान्यैर्ब्राह्मणैः सार्द्धं सिंधुपारमुपाययौ ।। ३ ।।

जित्वा गांधारजान्म्लेच्छान्काश्मीरान्नारवाञ्छठान् ।।

तेषां प्राप्य महाकोशं दंडयोग्यानकारयत् ।।४।।

एतस्मिन्नन्तरे म्लेच्छ आचार्य्येण समन्वितः।।

महामद इति ख्यातः शिष्यशाखासमन्वितः।।५।।

नृपश्चैव महादेवं मरुस्थलनिवासिनम्।।

गंगाजलैश्च संस्नाप्य पंचगव्यसमन्वितैः।।

चंदनादिभिरभ्यर्च्य तुष्टाव मनसा हरम्।।६।।

भोजराज उवाच।।

नमस्ते गिरिजानाथ मरुस्थलनिवासिने ।।

त्रिपुरासुरनाशाय वहुमायाप्रवर्त्तिने ।। ७ ।।

म्लेच्छैर्गुप्ताय शुद्धाय सच्चिदानन्दरूपिणे ।।

त्वं मां हि किंकरं विद्धि शरणार्थमुपागतम्।।८ ।।

।।सूत उवाच ।। ।।

इति श्रुत्वा स्तवं देवः शब्दमाह नृपाय तम् ।।

गंतव्यं भोजराजेन महाकालेश्वरस्थले ।। ९ ।।

म्लेच्छैस्सुदूषिता भूमिर्वाहीका नाम विश्रुता ।।

आर्य्यधर्मो हि नैवात्र वाहीके देशदारुणे ।। 3.3.3.१० ।।

बभूवात्र महामायी योऽसौ दग्धो मया पुरा।।

त्रिपुरो बलिदैत्येन प्रेषितः पुनरागतः ।। ११ ।।

अयोनिः स वरो मत्तः प्राप्तवान्दैत्यवर्द्धनः ।।

महामद इति ख्यातः पैशाचकृतितत्परः ।। १२ ।।

नागन्तव्यं त्वया भूप पैशाचे देशधूर्तके ।।

मत्प्रसादेन भूपाल तव शुद्धिः प्रजायते ।। १३ ।।

इति श्रुत्वा नृपश्चैव स्वदेशान्पुनरागमत्।।

महामदश्च तैः सार्द्धं सिंधुतीरमुपाययौ ।। १४ ।।

उवाच भूपतिं प्रेम्णा मायामदविशारदः ।।

तव देवो महाराज मम दासत्वमागतः ।। १५ ।।

ममोच्छिष्ठं सभुंजीयाद्यथा तत्पश्य भो नृप ।।

इति श्रुत्वा तथा दृष्ट्वा परं विस्मयमागतः ।। १६ ।।

म्लेच्छधर्मे मतिश्चासीत्तस्य भूपस्य दारुणे।।१७।।

तच्छ्रुत्वा कालिदासस्तु रुषा प्राह महामदम् ।।

माया ते निर्मिता धूर्त नृपमोहनहेतवे ।। १८ ।।

हनिष्यामि दुराचारं वाहीकं पुरुषाधमम् ।।।

इत्युक्त्वा स द्विजः श्रीमान्नवार्णजपतत्परः ।। १९ ।।

जप्त्वा दशसहस्रं च तद्दशांशं जुहाव सः ।।

भस्म भूत्वा स मायावी म्लेच्छदेवत्वमागतः।।3.3.3.२०।।।

भयभीतास्तु तच्छिष्या देशं वाहीकमाययुः ।।

गृहीत्वा स्वगुरोर्भस्म मदहीनत्वमागतम् ।। २१ ।।

स्थापितं तैश्च भूमध्ये तत्रोषुर्मदतत्पराः ।।।

मदहीनं पुरं जातं तेषां तीर्थं समं स्मृतम् ।। २२ ।।

रात्रौ स देवरूपश्च बहुमायाविशारदः ।।

पैशाचं देहमास्थाय भोजराजं हि सोऽब्रवीत्।।२३।।

आर्य्यधर्मो हि ते राजन्सर्वधर्मोत्तमः स्मृतः।।

ईशाज्ञया करिष्यामि पैशाचं धर्मदारुणम् ।। २४ ।।

लिंगच्छेदी शिखाहीनः श्मश्रुधारी स दूषकः ।।

उच्चालापी सर्वभक्षी भविष्यति जनो मम ।। २५ ।।

विना कौलं च पशवस्तेषां भक्ष्या मता मम ।।

मुसलेनैव संस्कारः कुशैरिव भविष्यति ।। २६ ।।

तस्मान्मुसलवन्तो हि जातयो धर्मदूषकाः ।।

इति पैशाचधर्मश्च भविष्यति मया कृतः ।। २७ ।।

इत्युक्त्वा प्रययौ देवः स राजा गेहमाययौ ।।

त्रिवर्णे स्थापिता वाणी सांस्कृती स्वर्गदायिनी ।। २८ ।।

शूद्रेषु प्राकृती भाषा स्थापिता तेन धीमता ।।

पंचाशदब्दकालं तु राज्यं कृत्वा दिवं गतः ।। २९ ।।

स्थापिता तेन मर्य्यादा सर्वदेवोपमानिनी ।।

आर्य्यावर्तः पुण्यभूमिर्मध्यं विंध्यहिमालयोः ।। 3.3.3.३० ।।

आर्य्य वर्णाः स्थितास्तत्र विंध्यान्ते वर्णसंकराः ।।

नरा मुसलवन्तश्च स्थापिताः सिंधुपारजाः ।। ३१ ।।

बर्बरे तुषदेशे च द्वीपे नानाविधे तथा ।।

ईशामसीहधर्म्माश्च सुरै राज्ञैव संस्थिताः ।। ३२ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये तृती योऽध्यायः ।। ३ ।।

पर्व ३(प्रतिसर्गपर्व) · खण्डः ३ — Adhyāya 4

।। सूत उवाच ।। ।।

स्वर्गते भोजराजे तु सप्तभूपास्तदन्वये ।।

जाताश्चाल्पायुषो मन्दास्त्रिशताब्दान्तरे मृताः ।। १ ।।

बहुभूपवती भूमिस्तेषां राज्ये बभूव ह ।।

वीरसिंहश्च यो भूपः सप्तमः संप्रकीर्तितः ।। २ ।।

तदन्वये त्रिभूपाश्च द्विशताब्दान्तरे मृताः ।।

गंगासिंहश्च यो भूपो दशमः स प्रकीर्तितः ।। ३ ।।

कल्पक्षेत्रे च राज्यं स्वं कृतवान्धर्मतो नृपः ।।

अन्तर्वेद्यां कान्यकुब्जे जयचन्द्रो महीपतिः ।। ४ ।।

इंद्रप्रस्थेनंगपालस्तोमरान्वयसंभवः ।।

अन्ये च बहवो भूपा बभूवुर्ग्रामराष्ट्रपाः ।। ५ ।।

अग्निवंशस्य विस्तारो बभूव बलवत्तरः ।।

पूर्वे तु कपिल स्थाने वाहीकान्ते तु पश्चिमे ।। ६ ।।

उत्तरे चीनदेशान्ते सेतुबंधे तु दक्षिणे ।।

षष्टिलक्षाश्च भूपाला ग्रामपा बलवत्तराः ।। ७ ।।

अग्निहोत्रस्य कर्तारो गोब्राह्मणहितैषिणः ।।

बभूवुर्द्वापरसमा धर्मकृत्यविशारदाः ।।८।।

द्वापराख्यसमः कालः सर्वत्र परिवर्तते ।।

गेहेगेहे स्थितं द्रव्यं धर्मश्चैव जनेजने ।।९।।

ग्रामेग्रामे स्थितो देवो देशेदेशे स्थितो मखः ।।

आर्यधर्मकरा म्लेच्छा बभूवुः सर्वतोमुखाः ।।3.3.4.१०।।

इति दृष्ट्वा कलिर्घोरो म्लेच्छया सह भीरुकः ।।

नीलाद्रौ प्राप्य मतिमान्हरिं शरणमाययौ ।।११।।

द्वादशाब्दमिते काले ध्यानयोगपरोऽभवत्।।

ध्यानेन सच्चिदानंदं दृष्ट्वा कृष्णं सनातनम्।।१२।।.

तुष्टाव मनसा तत्र राधया सहितं हरिम् ।।

पुराणमजरं नित्यं वृंदावननिवासिनम् ।।१३।।

।। कलिरुवाच ।। ।।

साष्टांगं दंडवत्स्वामिन्गृहाण मम चेश्वर ।।

.पाहि मां शरणं प्राप्तं चरणे ते कृपानिधे ।। १४ ।।

सर्वपापहरस्त्वं वै सर्वकालकरो हरिः ।।

भवान्गौरः सत्ययुगे त्रेतायां रक्तरूपकः ।। ।। १५ ।।

द्वापरे पीतरूपश्च कृष्णत्वं मम दिष्टके ।।

मत्पुत्राश्च स्मृता म्लेच्छा आर्य्यधर्मत्वमागताः।। १६ ।।

चतुर्गेहं च मे स्वामिन्द्यूतं मद्यं सुवर्ण कम् ।।

स्त्री हास्यं चाग्निवंश्यैश्च क्षत्रियैश्च विनाशितम् ।। १७ ।।

त्यक्तदेहस्त्यक्तकुलस्त्यक्तराष्ट्रो जनार्दन ।।

त्वत्पादांबुजमाधाय स्थितोऽहं शरणं त्वयि ।।१८।।

इति श्रुत्वा स भगवान्कृष्णः प्राह विहस्य तम् ।।

भो कले तव रक्षार्थं जनिष्येहं महावतीम् ।।१९।।

ममांशो भूमिमासाद्य क्षयिष्यति महाबलान् ।।

म्लेच्छवंशस्य भूपालान्स्थापयिष्यति भूतले ।। 3.3.4.२० ।।

इत्युक्त्वा भगवान्साक्षात्तत्रैवान्तरधीयत ।।

कलिस्तु म्लेच्छया सार्धं परमा नंदमाप्तवान् ।। २१ ।।

एतस्मिन्नन्तरे विप्र यथा जातं शृणुष्व तत् ।।

आभीरी वाक्सरे ग्रामे व्रतपा नाम विश्रुता ।। २२ ।।

नवदुर्गाव्रतं श्रेष्ठं? नववर्षं चकार ह ।।

प्रसन्ना चंडिका प्राह वरं वरय शोभने ।। २३ ।।

साह तां यदि मे मातर्वरो देयस्त्वयेश्वरि ।।

रामकृष्णसमौ बालौ भवेयाः ममान्वये ।। २४ ।।

तथेत्युक्त्वा तु सा देवी तत्रैवान्तरधीयत ।।

वसुमान्नाम नृपतिस्तस्या रूपेण मोहितः ।। २५ ।।

उद्वाह्य धर्मतो भूपः स्वगेहे तामवासयत् ।।

तस्यां जातौ नृपात्पुत्रौ देशराजस्तु तद्वरः ।। २६ ।।

आवार्यो वत्सराजश्च शतहस्तिसमो बले ।।

जित्वा तौ मागधान्देशान्राज्य वंतौ बभूवतुः ।। २७ ।।

शतयत्तः स्मृतो म्लेच्छः शूरो वनरसाधिपः ।।

तत्पुत्रो भीमसेनांशो वीरणोभूच्छिवाज्ञया ।। २८ ।।

तालवृक्षप्रमाणेन .चोर्ध्ववेगो हि तस्य वै ।।

तालनो नाम विख्यातः शतयत्तेन वै कृतः ।। २९ ।।

ताभ्यां नृपाभ्यां तद्युद्धमभवल्लोमहर्षणम् ।।

युद्धेन हीनतां प्राप्तस्तालनो बलवत्तरः ।। 3.3.4.३० ।।

तदा मैत्री कृता ताभ्यां तालनेन समन्विता ।।

जयचंद्रपरीक्षार्थे त्रयः शूराः समाययुः ।। ३१ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहासमुच्चये चतुर्थोऽध्यायः ।। ४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 1

व्यासागमनवर्णनम्

।। ।। श्रीगणेशाय नमः ।।

।। श्रीसरस्वत्यै नमः ।। ।।

ॐ नमो भगवते वासुदेवाय ।। ।।

कल्याणानि ददातु वो गणपतिर्यस्मिन्नतुष्टे सति क्षोदीयस्यपि कर्मणि प्रभवितुं ब्रह्मापि जिह्मायते ।।

भेजे यच्चरणारविन्दमसकृत्सौभाग्यभाग्योदयैस्तेनैषा जगति प्रसिद्धिमगमद्देवेन्द्रलक्ष्मी रपि ।। १ ।।

शश्वत्पुण्यहिरण्यगर्भरसनासिंहासनाध्यासिनी सेयं वागधिदेवता वितरतु श्रेयांसि भूयांसि वः ।।

यत्पादामलकोमलांगुलिनख ज्योत्स्नाभिरुद्वेल्लितः शब्दब्रह्मसुधांबुधिर्बुधमनस्युच्छ्रंखलं खेलति ।। २ ।।

नमस्तस्मै विश्वोदयविलयरक्षाप्रकृतये शिवाय क्लेशौघच्छिदुरपद् पद्मप्रणतये ।।

अमन्दस्वच्छन्दप्रथितपृथुलीलातनुभृते त्रिवेदीवाचामप्यपथनिजतत्त्वस्थितिकृते ।। ३ ।।

यस्य गण्डतले भाति विमला षट्प दावली ।।

अक्षमालेव विमला स नः पायाद्गणाधिपः ।। ४ ।।

ॐ नमो वासुदेवाय सशार्ङ्गाय सकेतवे ।।

सगदाय सचक्राय सशंखाय नमो नमः ।। ५ ।।

नमः शिवाय सोमाय सगणाय ससूनवे ।।

सवृषाय सशूलाय सकपालाय सेन्दवे ।। ६ ।।

शिवं ध्यात्वा हरिं स्तुत्वा प्रणम्य परमे ष्ठिनम् ।।

चित्रभानुं च भानुं च नत्वा ग्रन्थमुदीरयेत् ।। ७ ।।

छत्राभिषिक्तं धर्मज्ञं धर्मपुत्रं युधिष्ठिरम् ।।

द्रष्टुमभ्यागता हृष्टा व्यासाद्याः परम र्षयः ।। ८ ।।

मार्कण्डेयः समाण्डव्यः शाण्डिल्यः शाकटायनः ।।

गौतमो गालवो गार्ग्यः शातातपपराशरौ ।। ९ ।।

जामदग्न्यो भरद्वाजो भृगु र्भागुरिरेव च ।।

उत्तंकः शंखलिखितौ शौनकः शाकटायनिः ।। 4.1.१० ।।

पुलस्त्यः पुलहो दाल्भ्यो बृहदश्वः सलोमशः ।।

नारदः पर्वतो जहुरपाव सुपरावसू ।। ११ ।।

तानृषीनागतान्दृष्ट्वा वेदवेदाङ्गपारगान् ।।

भक्तिमान्भ्रातृभिः सार्द्धं कृष्णधौम्यपुरःसरः ।। १२ ।।

युधिष्ठिरः संप्रहृष्टः समुत्थायाभिवाद्य च ।।

अर्घ्यमाचमनं पाद्यमासनानि स्वयं ददौ ।। १३ ।।

उपविष्टेषु तेष्वेव तपस्विषु युधिष्ठिरः ।।

विनयावनतो भूत्वा व्यासं वचनमब्रवीत् ।। १४ ।।

भगवंस्त्वत्प्रसादेन प्राप्तं राज्यं महन्मया ।।

विक्रम्य निहतः संख्ये सानुबन्धः सुयोधनः ।। १५ ।।

सरोगस्य यथा भोगः प्राप्तोऽपि न सुखावहः ।।

हत्वा ज्ञातींस्तथा राज्यं न सुखं प्रतिभाति मे ।। १६ ।।

यत्सुखं पावनं प्रीतिर्वनमूलफलाशिनाम् ।।

प्राप्य गां च हतारातिं न तदस्ति पितामह ।। १७ ।।

यो नो बन्धुर्गुरुर्गोप्ता सदा शर्म च वर्म च ।।

स मया राज्यलोभेन भीष्मः पापेन घातितः ।। १८ ।।

अविवेकमहं धास्ये मनो मे पापपङ्किलम् ।।

क्षालयित्वा तव गिरा बहुदर्शितवारिणा ।। १९ ।।

संश्रुतानि पुराणानि वेदास्सांगा मया विभो ।।

ममाद्य धर्मसर्वस्वं प्रज्ञादीपेन दर्शय ।। 4.1.२० ।।

एते सधर्मगोप्तारो मुनयः समुपागताः ।।

पिबतो नेत्रभ्रमरैर्भवतो मुखपंकजम् ।।२१।।

अर्थशास्त्राणि यावंति धर्मशास्त्राणि यानि वै ।।

श्रुतानि सर्वशास्त्राणि भीष्माद्भागीरथीसुतात् ।। २२ ।।

स्वर्गं गते शान्तनवे भवान्कृष्णोऽथ यादवः ।।

सुहृत्त्वाद्बन्धुभावाच्च नान्यः शिक्षयिता मम ।। २३ ।।

सत्यं सत्यवतीसूनुर्धर्मराजाय वक्ष्यति ।।

विशेषधर्मानखिलान्मुनीनामविशेषतः ।। २४ ।।

व्यास उवाच ।। ।।

यदाख्येयं तदाख्यातं मया भीष्मेण तेऽनघ ।।

मार्कण्डेयेन धौम्येन लोमशेन महर्षिणा ।। २५ ।।

धर्मज्ञो ह्यसि मेधावी गुणवान्प्रा ज्ञसत्तमः ।।

न तेऽस्त्यविदितं किञ्चिद्धर्माधर्मविनिश्चये ।। २६ ।।

पार्श्वस्थिते हृषीकेशे केशवे केशिसूदने ।।

कस्यचित्कथने जिह्वा तत्र संपरि वर्तते ।। २७ ।।

कर्ता पालयिता हर्ता जगतां यो जगन्मयः ।।

प्रत्यक्षदर्शी सर्वस्य धर्मान्वक्ष्यत्यसौ तव ।। २८ ।।

समादिश्येति कर्तव्यं भगवान्बादरायणः ।।

पूजितः पाण्डुतनयैर्जगाम स्वतपोवनम् ।। २९ ।।

स्वाभाष्य भारतविधातरि संप्रयाते ते कौतुकाकुलधियो मुनयः प्रशान्ताः ।।

किं पृच्छति क्षपितभारतलोकशोकः किं वक्ष्यतीह भगवान्यदुवंशवीरः ।। 4.1.३० ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि व्यासागमनवर्णनंनाम प्रथमोऽध्यायः ।। १ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 2

ब्रह्माण्डोत्पत्तिवर्णनम्

युधिष्ठिर उवाच ।। ।।

कस्य प्रतिष्ठा निर्दिष्टा को हेतुः किं परायणम् ।।

कस्मिन्नैतल्लयं याति कस्मादु त्पद्यते जगत् ।। १ ।।

कति द्वीपाः समुद्राश्च कियंतो हि कुलाचलाः ।।

कियत्प्रमाणमवनेर्भुवनानि कियंति च ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

पौराणश्चैव विषयो यत्पृष्टोऽहं त्वयानघ ।।

श्रुतोऽनुभूतश्च मया संसारे सरता चिरम् ।। ३ ।।

अजाय विश्वरूपाय निर्गुणाय गुणात्मने ।।

नमस्तस्मै भगवते वासुदेवाय वेधसे ।। ४ ।।

अत्र ते वर्णयिष्यामि शृणु पार्थ पुरातनम् ।।

याज्ञवल्क्येन मुनिना भविष्यं भास्वतांपतिः ।।

पृष्टो यदुत्तरं प्रादादृषिभ्यस्तन्मया श्रुतम् ।। ५ ।।

धन्यं यशस्यमायुष्यं सर्वाशुभविनाशनम् ।।

भविष्योत्तरमेतत्ते कथयामि युधिष्ठिर ।। ६ ।।

एकात्मकं त्रिदैवत्यं चतुःपंचसुलक्षणम् ।।

गुणकालादिभेदेन सदसत्संप्रदर्शितम् ।। ७ ।।

एक एव जगद्योनिः प्रतियोनिषु संस्थितः ।।

एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। ८ ।।

ब्रह्मा विष्णुर्वृषांकश्च त्रयो देवाः सतां मताः ।।

नामभेदैः क्रियाभेदैर्भिद्यंते नात्मना स्वयम्।। ९ ।।

प्रक्रिया चानुषंगश्च उपोद्धातस्तथैव च ।।

उपसंहार इत्येतच्चतुष्पादं प्रकीर्तितम् ।। 4.2.१० ।।

तर्कश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।।

वंशानुचरितं चैव पुराणं पंचलक्षणम् ।। ११ ।।

एष वक्तव्यविषयः सुमहान्प्रतिभाति मे ।।

तथाप्युद्देशतो वच्मि सर्गं प्रति तवानघ ।। १२ ।।

महदादिविशेषान्तं सवैरूप्यं सलक्षणम् ।।

पञ्चप्रमाणं षट्कक्षं पुरुषाधिष्ठितं जगत्।। १३।।

अव्यक्ताज्जायते बुद्धिर्महानिति च सा स्मृता।।

अहंकारस्तु महतस्त्रिगुणः स च पठ्यते ।। १४ ।।

तन्मात्राणि च पञ्चाहुरहङ्काराच्च सात्त्विकात् ।।

जातानि तेभ्यो भूतानि भूतेभ्यः सचराचरम् ।। १५ ।।

जलमूर्तिमये विष्णौ नष्टे स्थावरजंगमे ।।

भूतात्मकमभूदण्डं महत्तदुदकेशयम् ।। १६ ।।

सृष्ट्यां शक्त्या च निर्भिन्नं तदण्डमभवद्द्विधा ।।

भूकपालमथैकं तद्द्वि तीयमभवन्नभः ।। १७ ।।

उल्बं तस्याभवन्मेरुर्जरायुः पर्वताः स्मृताः ।।

नद्यो धमन्यः सञ्जाताः क्लेदः सर्वत्रगं पयः ।। १८ ।।

योजनानां सहस्राणि षोडशाधः प्रतिष्ठित ।।

उत्सेधे चतुराशीतिर्द्वात्रिंशदूर्ध्वविस्तृतः।।

भूमिपंकजविस्तीर्णा कर्णिका मेरुरुच्यते ।। १९ ।।

आदित्यश्चादिदेवत्वात्तत्राभूत्त्रिगुणात्मकः ।।

प्रातः प्रजापतिरसौ मध्याह्ने विष्णुरिष्यते ।।

रुद्रोऽपराह्णसमये स एवैकस्त्रिधामतः ।। 4.2.२० ।।

प्रातः प्रजापतेर्जाता मुनयो नव मानवाः ।।

मरीचिरत्र्यंगिरसौ पुलस्त्यः पुलहः क्रतुः ।।

भृगुर्वशिष्ठ इत्यष्टौ नारदो नवमः स्मृतः ।। २१ ।।

नव ब्रह्माण इत्येष पुराणे निश्चयः स्मृतः ।।

अंगुष्ठाद्दक्षिणाद्दक्षः संजज्ञे कमलोद्भवात् ।। २२ ।।

वामा प्रसूतिरुदगादंगुष्ठात्तौ च दंपती ।।

ताभ्यां जातास्तु तनया हर्यश्वास्ते विनाशिताः ।।

सृष्टिं प्रति समुद्युक्ता नारदेन महात्मना ।।२३।।

दक्षः क्षीणान्सुतान्वीक्ष्य जनयामास कन्यकाः ।।

पञ्चाशद्दश विख्याताः सत्याया नामभिः स्मृताः ।। २४ ।।

ददौ स दश धर्माय कश्यपाय त्रयोदश ।।

कालस्य नयने युक्ताः सप्तर्विशतिमिंदवे ।। २५ ।।

द्वे प्रादाद्बाहुपुत्राय द्वे कृशाश्वाय चैव हि ।।

रूपयौवनशालिन्यश्चतस्रोऽरिष्टनेमिने ।। २६ ।।

एकां भृगोर्भवायैकां प्रादात्तेभ्यश्चराचरः ।।

अभवत्पुरुषव्याघ्र भूतग्रामश्चतुर्विधः ।। २७ ।।

वैराजमथ वैकुण्ठं केलासमिति नामतः ।।

मेरोः शृंगत्रयं मूर्ध्नि ब्रह्मविष्णुशिवालयम् ।। २८ ।।

प्राचीदिक्क्रमयोगेन तेषां पार्श्वे पुरः स्मृताः ।।

इन्द्रादिलोकपालानां दिव्यैः स्वर्ल्लक्षणैर्युताः ।। २९ ।।

हिमवान्हेमकूटश्च निषधो मेरुरेव च ।।

नीलः श्वेतस्तथा शृंगी जम्बूद्वीपे कुलाचलाः ।।

जम्बूद्वीपप्रमाणेन सहस्रगुणितं शतम् ।। 4.2.३० ।।

भिद्यते नवधा सोऽपि वर्षभेदेन भारत ।।

जम्बूशाककुशक्रौञ्चशाल्मगोमेद पुष्कराः ।।

द्वीपाः सप्त समाख्याताः समुद्रे सप्तभिर्वृताः ।। ३१ ।।

क्षारक्षीरेक्षुसुरया दध्ना चैव घृतेन च ।।

स्वादूदकेन च भृतैर्द्विगुणैर्द्विगुणैस्त था ।।३२।।

भूर्लोकोऽथ भुवर्लोकः स्वर्महर्ज्जन इत्यपि ।।

तपः सत्यश्च कथिताः पार्थ सप्त सुरालयाः ।। ३३ ।।

महातलो भूमितलः सुतलो वितल स्ततः ।।

रसातलश्च विज्ञेयः सप्तमश्च तलातलः ।।३४।।

हिरण्याक्षप्रभृतयो दानवेन्द्रा महोरगाः।।

वसंत्येतेषु कौन्तेय सिद्धाश्च ऋषयश्च ये ।।३५।।

स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषोऽभवत् ।।

उत्तमस्तामसश्चैव रैवतश्चाक्षुषेति षट् ।।३६।।

वैवस्वतोऽयमधुना वर्तते मनुरुत्तमः ।।

यस्य पुत्रैः प्रपौत्रैश्च विभक्तेयं वसुन्धरा ।। ३७ ।।

आदित्या वसवो रुद्रा एकादश तथाश्विनौ ।।

उषस्त्रयः समाख्याता देव वैवस्वतेंऽतरे ।। ३८ ।।

विप्रचित्तिहिरण्याख्यौ दैत्यदानवसत्तमौ ।।

तयोर्वंशे तु बहवो दैत्यदानवसत्तमाः ।। ३९ ।।

पञ्चाशद्गुणितकोटियोजनानां महत्तया ।।

सप्तद्वीपसमुद्रायाः प्रमाणमवनेः स्मृतम् ।। 4.2.४० ।।

पिण्डेन च सहस्राणि सप्ततिर्जलमध्यतः ।।

गौरिवैषा सुमहती भ्राजते न च लीयते ।। ४१ ।।

लोका लोकः परतरः पर्वतोऽग्रमहोच्छ्रयः ।।

द्वैतमर्थं स नियतो योऽसौ रविरुचामपि ।। ४२ ।।

नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः ।।।

नित्यश्चतुर्थो विज्ञेयः कालो नित्यापहारकः ।। ४३ ।।

उत्पद्यते स्वयं यस्मात्तत्तस्मिन्नेव लीयते ।।

रक्षति च परे पुंसि भूतानामेव निश्चयः ।। ।। ४४ ।।

यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।।

दृश्यंते तानि तान्येव तथा भावा युगादिषु ।। ४५ ।।

प्रतिलीनेषु भूतेषु विबुद्धः सकलं जगत् ।।

वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ।। ४६ ।।

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।।

ते तं विना प्रपद्यंते पुनस्तेष्वेव कर्म सु ।। ४७ ।।

भूर्दशगुणेन पयसा संवृता तच्च तेजसा ।।

तेजोऽनिलेन नभसा तद्गुणेनानिलो वृतः ।। ४८ ।।

भूतादिना तथाकाशं भूतादिर्महतावृतः।।

महान्परिवृतस्तेन पुरुषेणाविनाशिना ।।४९।।

एवं विधानामण्डानां सहस्राणि शतानि च ।।

उत्पन्नानि विनष्टानि भावितानि महात्मना ।। 4.2.५० ।।

वैकुण्ठकोष्ठगतमेतदशेषतायां ख्यातं जगत्सुरनरोरगसिद्धनद्धम् ।।

पश्यंति शुद्धमुनयो बहिरंतरे च माया चराचरगुरोरपरैव काचित् ।। ५१ ।।

इति श्रीभविष्ये महापुराणे उत्तरे पर्वणि ब्रह्माण्डोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 3

मायादर्शनवर्णनम्

।। युधिष्ठिर उवाच ।।

कीदृशी कृष्ण सा माया विष्णोरमिततेजसः ।।

यया व्यामोहितं यच्च जगदेतच्चराचरम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

येन द्वीपे पुरा विष्णुरास्ते चक्रगदाधरः ।।

वासुदेवः सगरुडः सचक्रश्च श्रिया सह ।। २ ।।

नीलोत्पलदलश्यामः कुंडलाभ्यां विभूषितः ।।

भ्राजते मुकुटोद्द्योतकेयूरवनमालया ।। ३ ।।

तस्य द्रष्टुमथाभ्यागान्नारदो मुनिसत्तमः ।।

प्रणम्य स्तुतिभिर्द्देवं प्राहेदं विस्मयान्वितः ।। ४ ।।

संशयं परिपृच्छामि भगवन्वक्तुमर्हसि ।।

का माया कीदृशी माया किंरूपा च कुतस्तथा ।। ५ ।।

तस्या दर्शय मे रूपं मायायाः पुरुषोत्तम ।।

या च मोहयते सर्वं त्रैलोक्यं सचराचरम् ।। ६ ।।

आब्रह्मस्तंबपर्यंतं सदेवासुरमानुषम् ।।

वैकुंठं वासुदेवं च प्रसादं कर्तुमर्हसि ।। ७ ।।

एवमुक्तस्तु मुनिना देवदेवो जनार्दनः ।।

प्रहस्योवाच देवर्षे न कार्यं मायया त्वया ।। ८ ।।

भूयोऽपि मोहयामास सोमग्राहेण नारदम् ।।

नारदोपि महाराज प्रोवाचेदं पुनः पुनः ।। ९ ।।

मायां दर्शय मे देव नान्यदस्ति प्रयोजनम् ।।

अथासौ विष्णुरुत्थाय श्वेतद्वीपं पुनर्ययौ ।। 4.3.१० ।।

अडुल्यग्रेण संगृह्य नारदं मुनि पुङ्गवम् ।।

ततो मार्गगतश्चक्रे आत्मानं द्विजरूपिणम् ।। ११ ।।

ऋग्वेदसदृशः साक्षाद्विष्णुर्ब्रह्मवदास्थितः ।।

वृद्धद्विजोत्तमवपुः संशयो नाल्पको भवत् ।। १२ ।।

शिखी कमंडलुधृतो मृगचर्मोपवीतकः ।।

यज्ञशर्मेति संज्ञां च चक्रेऽसावात्मनः प्रभुः ।। १३ ।।

कृत्वापि कुशतंत्वग्रपवित्रकृत लक्षणम्।।

आययौ स महीपृष्ठे जम्बूद्वीपं चचार ह ।। १४ ।।

वैदिशं नाम नगरं वेत्रवत्यास्तटे शुभम् ।।

तस्मिन्सदोद्यमपरो धनधान्यस मृद्धिमान् ।। १५ ।।

गोमहिष्यजसंपूर्णं पाशुपाल्येन संस्थितः ।।

हलकर्मवृषासक्तो वैश्यजातिरनिंदितः ।। १६ ।।

गृहकर्मणि तन्निष्ठः सीरभद्र इति स्मृतः ।।

तस्यांतिके हरिः साक्षान्नारदेन सहागतः ।। १७ ।।

तेनाप्यासनसन्मानैः समर्थेन कृतादरौ ।।

प्रोक्तं केनाथ किं तुभ्यं साध्यमन्नं न साध्यते ।। १८ ।।

न वास्मदीयं युष्माकं रोचतेन्नं ततो हरिः ।।

प्रहस्य प्रददौ तस्मै वरं द्विजवरो महत् ।। १९ ।।

उन्नाम्य वक्त्रं चोवाच देवसंस्तुतया गिरा ।।

संतु ते बहवः पुत्राः क्षेत्रव्यापारबुद्धयः ।। 4.3.२० ।।

पशुपाशगृहासक्ताः शतार्द्धबलवाहनाः ।।

तेषां पुत्राश्च पौत्राश्च कृषि वृद्धिप्रवर्द्धकाः ।। २१ ।।

त्वञ्च वृत्तिशतैर्न्नित्यं वर्द्धस्व स्वजनावृतः ।।

इत्युक्त्वा स जगन्नाथो वासुदेवः सनारदः ।। २२ ।।

क्षेत्रे गोस्वामिनामानं द्विजं ददृशतुश्च तौ।।

दरिद्रं हलकर्मार्त्तं मेथ्याद्योपस्करार्दितम् ।। २३ ।।

भागीरथ्यास्तटे रम्ये वेणिकाग्रामसन्निधौ ।।

तृणगुल्मलताच्छन्नक्षेत्रे चिंताकुलो हि सः ।। २४ ।।

ताभ्यां संप्रार्थितो विप्रो भोज्यं प्रादाच्च किंचन ।।

सकाशं तव संप्राप्तौ दूरादतिथिधर्मिणौ ।। २५ ।।

इत्युक्तोऽसौ द्विजश्रेष्ठो हलकर्म विधाय तत् ।।

आजगाम गृहं तूर्णं ताभ्यां सह ससंभ्रमम् ।। २६ ।।

चक्रे चैवादरं भक्त्या स्वयमासनसत्क्रियाम् ।।

पादशौचं तथाभ्यंगं कृत्वात्र च सुसंस्कृतम् ।। २७ ।।

सह पत्न्या सतनयो भोज्यं भुक्तिं चकार सः ।।

भुक्तभोज्यौ च शर्वर्यां सुखं सुप्तौ निशात्यये।।२८।।

प्रयातौ ददतुः श्रेष्ठं वरं तस्मै द्विजातये ।।

मा ते भवतु गोस्वामिन्कदाचिदपि कर्षणम् ।। २९ ।।

मा धान्यं मखसंतान मत्प्रसादाद्विजोत्तम ।।

इत्युक्त्वा जग्मतुस्तूर्णं पुनः पप्रच्छ नारदः।।4.3.३०।।

किमिदं वद देवेश शापरूपो वरस्त्वया ।।

भद्र गोस्वामिने दत्तः किं च वैश्ये तथाविधः।।३१।।

इत्युक्तः प्राह देवेशः शृणु नारद मद्वचः ।।

परमार्थं प्रवक्ष्येऽहं तव संशयकर्तनम् ।। ३२ ।।

संवत्सरेण यत्पापं मत्स्यघाती समाचरेत् ।।

तदह्ने केन कुरुते लांगली नात्र संशयः ।। ३३ ।।

अतोऽर्थं कृषिपाल्येन नरकं याति लांगली ।।

तदभावान्न कल्पः स्यात्तेन मोक्षो मयि ध्रुवम् ।। ३४ ।।

मयि भुक्ते प्रसन्ने वा को विशेषोऽस्य नारद ।।

यदि स्वर्गोऽथ वा मोक्षो न संपद्येत तद्वृथा ।। ३५।।

इदानीं हलकालुष्यैः सीरभद्रो विचेष्टितैः ।।

बहुपापप्रसंगेन घोरं नरकमेष्यति ।। ३६ ।।

सपुत्रपौत्रसंतानो हृतोर्थस्तद्गृहे मया ।।

न भुक्तं न च विश्रान्तं विश्रांतं द्विजवेश्मनि ।। ३७ ।।

सोऽपि द्विजो मुनिश्रेष्ठ संसारादुत्तरिष्यति ।।

इत्येवं संवदंतौ च जग्मतुर्मार्गमुत्तमम् ।। ३८ ।।

कान्यकुब्जस्य सामीप्ये सरः श्रेष्ठमपश्यताम् ।।

हंसकारण्ड वाकीर्णं चक्रवाकोपशोभितम् ।। ३९ ।।

पद्मिनीजलकह्लाररक्तोत्पलसितोत्पलैः ।।

छादितं पद्मिनीपत्रैर्मत्स्यैः कूर्मैर्ज्जलोद्भवैः ।। 4.3.४० ।।

तटै रम्यैर्घनैर्वृक्षैः केतकीखण्डमंडितम्।।

केतकीकुसुमामोदैर्ल्लकुचैस्तटमंडितैः ।। ४१ ।।

दात्यूहशिखिभारुण्डचकोराद्यैश्च संकुलम् ।।

कुरवैश्चातकै रम्यं केकाकुलनिनादितम् ।। ४२ ।।

जलकुक्कुटसंगीतं हंससारसशोभितम् ।।

जीवंजीवकहारीतचकोरैरुपशोभितम् ।। ४३ ।।

वशिष्ठस्य मुनेर्नाम्ना विख्यातं श्रीमहोदयम् ।।

अस्मिन्नद्य प्रवेष्टव्यं महाजनविवेकिनाम् ।। ४४।।

स्थातव्यं पुरतस्तेषां तस्मात्स्नानं समाचरेत् ।।

इत्युक्त्वा केशवः पापं सस्नौ प्रागेव तज्जलैः ।। ४५ ।।

यत्तीर्थलोकं विख्यातं स्नात्वा तीरं समाश्रितः ।।

प्रहरे वासुदेवस्य नारदोऽपि मुदा युतः ।। ४६ ।।

आचम्य सस्नौ तीर्थेन क्षणात्तीर्थमवाप्य च ।।

यावदुत्तिष्ठते तोयात्स्नात्वा ऋषिरुदारधीः ।। ४७ ।।

तावत्स्त्रीत्वं समापन्नो नारदः केन वर्ण्यते ।।

यस्यास्तु विस्तृते नेत्रे वक्त्रं चन्द्रोपमं शुभम् ।। ४८ ।।

स्मरपाशोपमौ कर्णौ कपोलौ कनकोज्ज्वलौ ।।

नासिका तिलसूनेन कामचापोपमे भ्रुवौ ।। ४९ ।।

दशना हीरकैस्तुल्या विद्रुमाभः शुभाधरः ।।

मयूरस्य कलापेन तुल्य कचनिबंधनम् ।। 4.3.५० ।।

शंखरेखात्रयेणैव कंठदेशो विराजते ।।

माधवीलतया तुल्यौ मंजू तस्या भुजौ शुभौ ।। ५१ ।।

युतौ रक्तोत्पलाभासौ पाणी रक्तनखांगुली ।।

पीनावतुंगतनुधृत्कठिनौ कलशोपमौ ।। ५२ ।।

स्तनावविरलौ स्निग्धौ चक्रवाकयुगोपमौ ।।

स्वल्पकं मध्यदेशं तु मुष्टिग्राह्यमसंशयम् ।। ५३ ।।

नाभिमंडलगांभीर्यं लावण्यं केन वर्ण्यते ।।

वलित्रयेण विकृता रोमराजिर्विराजिता ।। ५४ ।।

नयने च पुनस्तस्या मृग्या इव सुशोभने ।।

नितंबो बिंबफलका मन्मथायतनं शुभम् ।। ५५ ।।

रंभायुग्मोपमावूरू स्मरबाणनिबंधनौ ।।

विपरीतरतायासखेदभारसहौ दृढौ ।। ५६ ।।

नवकुन्दलतासारसरलं सनिबंधनम् ।।

जंघायुगं महाराज गूढगुल्फ युगं तथा ।। ५७ ।।

रक्तांगुलीलतातल्पनखचन्द्रकयाचितम् ।।

चरणारविंदयुगलं सरक्तं सुप्रतिष्ठितम् ।। ५८ ।।

सैवंविधा तदा नारी सर्वलक्षणपू जिता ।।

बभूव क्षणमात्रेण जगद्व्यामोहकारिणी ।। ५९ ।।

क्षीरोदमथनोत्तीर्णा लक्ष्मीमन्याभिवोच्छ्रिताम् ।।

दृष्ट्वाप्यदर्शनं प्राप्तो मायया मधुसूदनः ।। 4.3.६० ।।

संप्राप्यते च सा कालसंगराहारिणी यथा ।।

आस्त एकाकिनी मुग्धा कुर्याद्दिगवलोकनम् ।। ६१ ।।

अथाजगाम तं देशं नाम्ना तालध्वजो नृपः ।।

सह सैन्यैः परिवृतः पुरंदर इवामरैः ।। ६२ ।।

गजारूढैर्हयारूढै रथारूढैर्नरोत्तमैः ।।

विमानयानयुग्मस्थैस्तथांतःपुरिकाजनैः ।।६३।।

ध्वजातपत्रकलिलैरनीकैः परिवारितः ।।

तेन सा सहसा दृष्टा नारी कमललोचना ।। ६४ ।।

बभूव क्षणमात्रेण कंदर्पशरपीडितः ।।

केयं कस्य कुतः प्राप्ता किं देवी वाथ मानुषी ।। ६५ ।।

अदृष्टरूपाप्सरसा काचिद्देवी समागता ।।

अहोरूपं सुरूपाया गोचरे परितः पुमान् ।। ६६ ।।

मुमूर्षुर्जायते मोहादनुदिग्धहतो यथा ।।

इति संचिन्त्य हृदये राजा तालध्वजोऽन्तिके ।। ६७ ।।

उवाच नारीं मुग्धां तां शृणु मद्वचनं शुभे ।।

का त्वं कस्य कुतः प्राप्ता देशमेतं शुचिस्मिते ।। ६८ ।।

इत्युक्ते साश्रु चार्वंगी प्राह मां विद्ध्ययोनिजाम् ।।

पित्रा मात्रा विहीनां च तथाद्यापि कुमारिकाम् ।। ६९ ।।

निराश्रयां विदित्वैनां ततो जातः स्मरार्दितः ।।

आरोप्य हयपृष्ठे तां ततो राजागतो गृहम् ।। 4.3.७० ।।

नीत्वा विवाहयामास शास्त्रोक्तविधिना ततः ।।

रेमे प्रासादशृंगाग्रे पर्यंके सितया तया ।। ७१ ।।

उद्यानभव्यभूमीषु नदीनां पुलिनेषु च ।।

पर्वतानां नितंबेषु निर्झरेषु गुहासु च ।। ७२ ।।

पद्मखंडेषु फुल्लेषु शोभितेषु सरस्सु च ।।

प्रयागादिषु तीर्थेषु नदीनामाश्रमेषु च ।। ७३ ।।

दिव्यावसथरम्येषु वेलाकूलेषु पार्थिवः ।।

यावद्द्वादश वर्षाणि एकाहमपि भारत ।।७४।।

ततस्त्रयोदशे वर्षे तस्या गर्भोऽभवन्महान् ।।

एतस्मिन्गर्भसंपूर्णे जातं दीर्घमलाबुकम् ।। ।। ७५ ।।

तद्भेदाहतकुंभेषु बीजप्रारोहणान्नराः ।।

बभूवुर्द्धातुशून्या वै दिव्यदेहबलोत्कटाः ।। ७६ ।।

पंचाशत्संख्यया जाता उपसर्गादिवर्जिताः ।।

आरूढयौवनाः सर्वे सुताः संग्रामकोविदाः ।। ७७ ।।

तेषां पुत्राश्च पौत्राश्च बभूवुः सुरसत्तमाः ।।

युयुधुः शरसंघातैश्चक्रशूलासिपट्टिशैः ।। ७८ ।।

हयैरन्यैर्गजैरन्यैः क्रोधांधाः कौरवा इव ।।

पांडवैः सह संग्रामे युयुधुः क्षयमंजसा ।।७९ ।।

सपदातिगजारोहाः सांतःपुरयुगेच्छया ।।

विनेशुरब्धिमासाद्य सिंधूनां प्रवहा इव।।4.3.८०।।

सासिसबलविस्ताराः सदर्पाः समहोच्छ्रयाः ।।

इन्द्रलोकोपमं सर्वं कुलं नष्टं क्षणं तदा ।।८१।।

संदृश्य नारदीयैषा विनष्टं स्वकुलं रणे ।।

रुरोद स्नेहसंयुक्तै रसैः कलुषया गिरा ।। ८२।।

हा दैव हा विधे पाप हा कृतान्त नमस्कृत ।।

दर्शयित्वा विधानं मे पुनर्नेत्रे हृते त्वया ।। ८३ ।।

इत्युक्त्वा स्वमुरोहस्तैर्जघान भृशदुःखिता ।।

भूमौ मूर्च्छातुरा भूत्वा पुनः प्राप्ता विचेतनम् ।।८४।।

सोऽपि राजा विषण्णोऽसौ निर्विण्णः शोकसागरे।।

भूमौ निपतितो दुःखाद्रुरोद भृशदुःखितः ।।८५।।

विषण्णो मंत्रिभिः सार्धं वृद्धशोकेन संयुतः ।।

एतस्मिन्नंतरे विष्णुराजगाम द्विजैः सह ।।८६।।

द्विजवेषपरिच्छन्न उपविष्टः सुखासने ।।

ततः पुरस्सरो भूत्वा चक्रे धर्मार्थदर्शनम् ।।८७।।

किं रोदनेन बहुना युवयोः क्लेशकारिणा ।।

श्रूयतां विष्णुमायैषा स्वप्नदृष्टधनोपमा ।।८८।।

शोभने यादृशः शोकः कृतः संसारसागरे ।।

सर्वेषामेव भूतानां परिणामोयमीदृशः ।। ।। ८९ ।।

पुरंदरसहस्राणि चक्रवर्तिशतानि च ।।

निर्वापितानि कालेन प्रदीप इव वायुना ।। 4.3.९० ।।

येऽपि शोषयितुं शक्ताः समुद्रं ग्राहसंकुलम्।९९।

कुर्युश्च करयुग्मेन चूर्णं मेरुं महीतले ।। ९१ ।।

ऊद्धर्तुं धरणीसंज्ञां ग्रहीतुं चन्द्रभास्करौ ।।

प्रविष्टास्ते तु कालेन कृतांतवदनं तदा ।। ९२ ।।

दुर्गस्त्रिकूटः परिखाः समुद्रा रक्षांसि योधा धनदाच्च वित्तम् ।।

मंत्रश्च यस्यौशनसा प्रणीतः स रावणो दैववशाद्विषण्णः ।। ९३ ।।

संग्रामे गजतुरगसमाकुलेऽपि वादादग्नौ वा गतविवरे महोदधौ वा ।।

सर्वैर्वा सह वसतामुदीर्णकोपैर्नाभाव्यो भवति कदाचिदेव नाशः ।। ९४ ।।

पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम् ।।

मंत्रौषधिप्रहरणैश्च करोतु रक्षां यद्भावि तद्भवति नाथ विभावितोऽस्मि ।। ९५ ।।

रोदिति कश्चिदथाश्रुधौताननगुरुतरशोकविह्वलः ।।

प्रविकटचरणवानपि नृत्यति कश्चिद्धर्मादिविग्रहः ।। ९६ ।।

गायति हृदयहारि सुखनिर्भरमायतविस्तृताऽधरोऽधिकम् ।।

सार एष रंगोदरगतनटपटहाकाम एवायम् ।। ९७।।

इत्येवं धर्ममुद्दिश्य विष्णुः संसारचेष्टितम् ।।

तूष्णीं बभूवानुपदं ततस्ते द्विजपुङ्गवाः ।। ९८ ।।

उत्तिष्ठ स्नाहि पुत्राणां प्रकुरुष्वौर्ध्वदेहिकम् ।।

मा शोकं विष्णुमायैषा विष्णुना निर्मिता स्वयम् ।। ९९ ।।

इत्युक्ता चारुसर्वांगी स बभूवाचलः पुमान् ।।

स एष सदृशाकारो नारदस्तत्क्षणेऽभवत् ।। 4.3.१०० ।।

सोऽपि राजा ददर्शाथ तं समंत्रिपुरोहितः ।।

सांतःपुरमिदं सर्वमिंद्रजालोपमं क्षणात् ।। १०१ ।।

नारदं मुनिशार्दूलं जटाभारभयानकम् ।।

गौरवर्णं ज्वलंतं च ब्राहम्या लक्ष्म्या विराजितम् ।। १०२ ।।

शिखा कमण्डलुधरं वीणादण्डकरं तथा ।।

ब्रह्मसूत्रेण शुभ्रेण कौपीनाच्छादनेन च ।।

पादुकाभ्यां स्थितं तीरे सरसो ब्राह्मणासने ।। १०३ ।।

संप्रगृह्य कराग्रेण जगामादर्शनं हरिः ।।

अम्बरेण सुरैः सार्द्धं तस्माद्देशाद्युधिष्ठिर ।। १०४ ।।

श्वेतद्वीपमथासाद्य प्राह देवो मुनिं नृप ।।

देवर्षे यत्त्वया पृष्टं पूर्वं मायाकथां प्रति ।। १०५ ।।

माया ययेदृशी माया यत्स्वरूपा यदात्मिका ।।

सा ते माया मया ब्रह्मन्वैष्णवी संप्रदर्शिता ।। १०६ ।।

एवमुक्त्वा मुनिवरं देवदेवो जनार्दनः ।।

बभूवान्तर्हितस्सद्यो देवर्षेस्तस्य पश्यतः ।। १०७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मायादर्शनं नाम तृतीयोऽध्यायः ।। ३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 4

संसारदोषवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

देवत्वं मानुषत्वं च तिर्यक्त्वं केन कर्मणा ।।

प्राप्नोति पुरुषः केन गर्भवासं सुदारुणम् ।। १ ।।

गर्भस्थश्च किमश्नाति कथमुत्पद्यते पुनः ।।

दत्तोत्थानादिकान्दोषान्कथं तरति दुस्तरान् ।। २ ।।

बालभावे कथं पुष्टिः स्याद्युवा केन कर्मणा ।।

कुलीनः केन भवति सुरूपः सुधनः कथम् ।। ३ ।।

कथं दारानवाप्नोति गृहं सर्वगुणैर्युतम् ।।

पंडितः पुत्रवांस्त्यागी स्यादा मयविवर्जितः ।। ४ ।।

कथं सुखेन म्रियते कथं भुंक्ते शुभाशुभम् ।।

सर्वमेवामलमते गहनं प्रतिभाति मे ।। ५ ।।

।। श्रीकृष्ण उवाच ।। ।।

शुभैर्देवत्वमाप्नोति मिश्रैर्मानुषतां व्रजेत् ।।

अशुभैः कर्मभिर्ज्जंतुस्तिर्यग्योनिषु जायते ।। ६ ।।

प्रमाणं श्रुतिरेवात्र धर्माधर्मविनिश्चये ।।

पापं पापेन भवति पुण्यं पुण्येन कर्मणा ।। ७ ।।

ऋतुकाले तदा भुक्तं निर्दोषं येन संस्थितम् ।।

तदा तद्वायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ।।८।।

विसर्गकाले शुक्रस्य जीवः करणसंयुतः ।।

भृत्यः प्रविशते योनिं कर्मभिः स्वैर्न्नियोजितः ।। ९ ।।

तच्छुक्ररक्तमेकस्थमेकाहात्कललं भवेत् ।।

पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत् ।। 4.4.१० ।।

बुद्बुदं सप्तरात्रेण मांसपेशी भवेत्ततः ।।

द्विसप्ताहाद्भवेत्पेशी रक्तमांसदृढांचितः ।। ११ ।।

बीजस्येवांकुराः पेश्याः पञ्चविंश तिरात्रतः ।।

भवंति मासमात्रेण पञ्चधा जायते पुनः ।। १२ ।।

ग्रीवा शिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम् ।।

मासद्वयेन सर्वाणि क्रमशः संभवंति च ।। १३ ।।

त्रिभिर्मासैः प्रजायंते सद्रव्यांकुरसंधयः ।।

मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमम् ।। १४ ।।

मुखं नासा च कर्णौ च जायन्ते पञ्च मासकैः ।।

दंतपंक्तिस्तथा गुह्यं जायंते च नखाः पुनः ।। १५ ।।

कर्णौ च रंध्रसहितौ षण्मासाभ्यंतरेण तु ।।

पायुर्मेढ्रमुपस्थश्च नाभिश्चाप्युप जायते ।। १६ ।।

संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः ।।

अङ्गप्रत्यंगसंपूर्णः शिरः केशसमन्वितः ।। १७ ।।

विभक्तावयवः पुष्टः पुनर्मासाष्टकेन च ।।

पंचात्मकसमायुक्तः परिपक्वः स तिष्ठति ।। १८ ।।

मातुराहारवीर्येण षड्विधेन स तिष्ठति ।।

रसेन प्रत्यहं बालो वर्धते भरतर्षभ ।। १९ ।।

तत्तेऽहं संप्रवक्ष्यामि यथाश्रुतमरिंदम ।।

नाभिसूत्रनिबन्धेन वर्द्धते स दिनेदिने ।। 4.4.२० ।।

ततः स्मृतिं लभेज्जीवः संपूर्णेऽस्मिञ्छरीरके ।।

सुखं दुःखं विजानाति निद्रास्वप्नं पुरा कृतम् ।। २१ ।।

मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।।

नानायोनि सहस्राणि मया दृष्टानि तानि वै ।। २२ ।।

अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च।।

एतच्छ्रेयः करिष्यामि येन गर्भे न संश्रयः ।।२३।।

गर्भस्थश्चिंतये देवमहं गर्भाद्विनिःसृतः ।।

अध्येष्ये चतुरो वेदान्संसारविनिवर्तकान् ।। २४ ।।

एवं स गर्भदुःखेन महता परिपीडितः ।।

जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन् ।। २५ ।।

यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ।।

तथा जरायुणा देही दुःखे तिष्ठति चेष्टितः ।। २६ ।।

पतितः सागरे यद्वद्दुःखैरास्ते समाकुल. ।।

गर्भोदकेन सिक्तांगस्तथास्ते व्याकुलः पुमान् ।। २७ ।।

लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ।।

तथा स पच्यते जंतुर्गर्भस्थः पीडितोदरः ।। २८ ।।

सूचीभिरग्निवर्णाभिर्विभिन्नस्य निरंतरम् ।।

यद्दुःखमुपजायेत तद्गर्भेऽष्टगुणं भवेत् ।। २९ ।।

गर्भवासात्परो वासः कष्टो नैवास्ति कुत्रचित् ।।

देहिनां दुःखवद्राजन्सुघोरो ह्यतिसङ्कटः ।। 4.4.३० ।।

इत्येतद्गर्भदुःख हि प्राणिनां परिकीर्तितम् ।।

चरस्थिराणां सर्वेषात्मामगर्भानुरूपतः ।। ३४ ।।

गर्भात्कोटिगुणं दुःखं योनियंत्रप्रपीडनात् ।।

संमूर्च्छितस्य जायेत जायमानस्य देहिनः ।।३२।।

शरवत्पीड्यमानस्य यंत्रेणेव समंततः ।।

शिरसि ताड्यमानस्य पापमुद्गरकेण च ।। ३३ ।।

गर्भान्निष्कम्पमाणस्य प्रबलैः सूतिमारुतैः ।।

जायते सुमहद्दुःखं परित्राणमविंदतः ।। ३४ ।।

यंत्रेण पीडिता यद्वन्निःसाराः स्युस्तिलेक्षवः ।।

तथा शरीरं निःसारं योनियंत्रप्रपीडितम् ।।३५।।

अस्थिमज्जात्वचामांसस्नायुबंधेन यंत्रितम् ।।

रक्तमांसमृदा युक्तं विण्मूत्रद्रवलेपनम् ।। ३६ ।।

केशलोमतृणाच्छन्नं रोगायतनमातुरम् ।।

वदनैकमहद्द्वारं दंतोष्ठकविभूषितम्।। ३७ ।।

ओष्ठद्वयकपाटं च दन्तजिह्वार्गलान्वितम् ।।

नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ।। ३८ ।।

जराशोकसमाविष्टं कालचक्रानले स्थितम् ।।

कामक्रोधसमाक्रांतं व्यसनैश्चोपमर्दितम् ।। ३९ ।।

भोगतृष्णातुरं मूढं रागद्वेषवशानुगम् ।।

संवर्तितांगप्रत्यंगं जरायुपरिवेष्टितम् ।। 4.4.४० ।।

संकटेनाविविक्तेन योनिद्वारेण निर्गतम् ।।

विण्मूत्ररक्तसिक्तांगं पत्केशाच्च समुद्भवम् ।। ४१ ।।

इति देहगृहं प्रोक्तं नित्यस्यानित्यमा त्मनः ।।

अविशुद्धं विशुद्धस्य कर्मबंधविनिर्मितम् ।। ४२ ।।

शुक्रशोणितसंयोगाद्देहः संजायते यतः ।।

नित्यं विण्मूत्रपूर्णश्च तेनायमशुचिः स्मृतः ।। ४३ ।।

यथांतर्विष्ठया पूर्णः शुचिः स्यान्न बहिर्घटः ।।

यत्नतः शोध्यमानोऽपि देहोऽयमशुचिस्तथा ।। ४४ ।।

संप्राप्यात्र पवित्राणि पंचग व्यहवींषि च ।।

अशुचित्वं क्षणाच्चापि किमन्यद्वस्तुबिंदवः ।। ४५ ।।

देहः संशोध्यमानोऽपि पञ्चगव्यकुशांबुभिः ।।

घृष्यमाण इवांगारो निर्मलत्वं न गच्छति ।। ४६ ।।

स्रोतांसि यस्य सततं प्रवहंति गिरेरिव ।।

कफमूत्रपुरीषाद्यैः स देहः शुद्ध्यते कथम् ।। ४७ ।।

सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ।।

शुचिरेकः प्रदेशोऽपि विट्पूर्णः स्यंदते किल ।। ४८ ।।

कायः सुगंधधूपाद्यैर्यत्नेनापि तु संस्कृतः ।।

न जहाति स्वकं भावं श्वपु च्छमिव नामितम् ।। ४९ ।।

यथा जात्यैव कृष्णो हि न शुक्लः स्यादुपायतः ।।

संशोध्यमानाऽपि तथा भवेन्मूर्तिर्न निर्मला ।। 4.4.५० ।।

जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम् ।।

न विरज्जति लोकोऽयं पीडयन्नपि नासिकाम् ।। ५१ ।।

अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत् ।।

जिघ्रन्पश्यन्स्वकं दोषं कायस्य न विरज्यते ।। ५२ ।।

एवमेतच्छरीरं हि निसर्गादशुचि ध्रुवम् ।।

त्वङ्मात्रसारं निःसारं कदलीसारसंनिभम् ।।५३।।

गर्भस्थस्य स्मृतिर्यासीत्सा जातस्य प्रणश्यति ।।

संमूर्च्छितस्य दुःखेन योनियंत्रप्रपीडनात् ।। ५४ ।।

बाह्येन वायुना चास्य मोहसंज्ञेन देहिनः।।

स्पृष्टमात्रेण घोरेण ज्वरः समुपजायते ।। ५५ ।।

तेन ज्वरेण महता महामोहः प्रजायते ।।

संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ।। ५६ ।।

स्मृतिभ्रंशात्तु तस्येह पूर्वकर्मवशेन च ।।

रतिः संजायते तूर्णं जंतोस्तत्रैव जन्मनि ।। ५७ ।।

रक्तो मूढस्य लोकोऽयमकार्ये संप्रवर्तते ।।

न चात्मानं विजानाति न परं विन्दते च सः ।। ५८ ।।

न श्रूयते परं श्रेयः सति चक्षुषि नेक्षते ।।

समे पथि शनैर्गच्छन्स्खलतीव पदेपदे ।। ५९ ।।

सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ।।

संसारे क्लिश्यते तेन रागलोभवशानुगः ।। 4.4.६० ।।

गर्भस्मृतेरभावेन शास्त्रमुक्तं महर्षिभिः ।।

तद्दुःखमथनार्थाय स्वर्गमोक्षप्रसाधकम् ।। ६१ ।।

ये संत्यस्मिन्परे ज्ञाने सर्वकामार्थसाधके ।।

न कुर्वंत्यात्मनः श्रेयस्तदत्र महद्भुतम् ।। ६२ ।।

अव्यक्तेंद्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ।।

इच्छन्नपि न शक्नोति कर्तुं वक्तुं च सत्क्रियाम् ।। ६३ ।।

दंतोत्थाने महद्दुःखं मौलेन व्याधिना तथा ।।

बालरोगैश्च विविधैः पीडा बालग्रहैरपि ।। ६४ ।।

तृड्बुभुक्षापरीतांगः कश्चित्तिष्ठति रारटन् ।।

विण्मूत्रभक्षणमपि मोहाद्बालः समाचरेत् ।। ६५ ।।

कौमारे कर्णवेधेन मातापित्रोश्च ताडनात् ।।

अक्षराध्ययनात्पुंसां दुःखं स्याद्गुरुशासनात् ।। ६६ ।।

प्रसन्नेंद्रियवृत्तिश्च कामरागप्रपीडनात् ।।

रोगोद्धतस्य सततं कुतः सौख्यं च यौवने ।। ६७ ।।

ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य जायते ।।

नेत्रस्य कुपितस्यैव रागो दुःखाय केवलम् ।।६८।।

न रात्रौ विंदते निद्रां कोपाग्निपरिपीडितः ।।

दिवा वापि कुतः सौख्यमर्थोपार्जनचिंतया ।। ६९ ।।

स्त्रीष्वायासितदेहस्य ये पुंसः शुक्रबिंदवः ।।

न ते सुखाय मंतव्याः स्वेदजा इव बिंदवः ।। 4.4.७० ।।

क्रिमिभिस्तुद्यमानस्य कुष्ठिनः कामिनस्तथा ।।

कण्डूयनाग्नितापेन यद्भवेत्स्त्रीषु तद्धि तत् ।। ।। ७१ ।।

यादृशं विंदते सौख्यं गंडान्वयविनिर्गमे ।।

तादृशं स्त्रीषु मंतव्यं नाधिकं तासु विद्यते ।।७२।।

गंडस्य वेदना यद्वत्स्फुटितस्य निवर्तते ।।

तद्वत्स्त्रीष्वपि मंतव्यं न सौख्यं परमार्थतः ।। ७३ ।।

विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम् ।।

तादृशं तेषु विज्ञेयं मूढैः कल्पितमन्यथा ।। ।।७४।।

नारीष्वशुचिभूतासु सर्वदोषाश्रयासु च ।।

नाणुमात्रकमप्येवं सुखमस्ति विचारतः ।।७५।।

सन्मानमपमानेन वियोगेन सुसंगमः ।।

यौवनं जरया ग्रस्तं किं सौख्यमनुपद्रवम् ।। ७६ ।।

वलीपलितखालित्यैः शिथिलीकृतविग्रहम् ।।

सर्वक्रियास्वशक्तं च जरया जर्जरीकृतम् ।। ७७ ।।

स्त्रीपुंसयोर्न्नवं रूपं तदान्योन्यं प्रियं पुरा ।।

तदेव जरया ग्रस्तमुभयोरपि न प्रियम् ।।७८।।

अपूर्ववत्स्वमात्मानं जरया परिवर्तितः ।।

यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः ।। ७९ ।।

जराभिभूतः पुरुषः पत्नीपुत्रादिबांधवैः ।।

अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ।। 4.4.८० ।।

धर्ममर्थं च कामं च मोक्षं च न जरी यतः ।।

शक्तः साधयितुं तस्माच्छरीरमिदमात्मनः ।। ८१ ।।

वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते ।।

तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः ।। ८२ ।।

वाताद्यव्यतिरिक्तत्वाद्व्याधीनां पञ्जरस्य च ।।

रोगैर्नानाविधैर्यानि देहदुःखान्यनेकधा ।।

तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् ।। ८३ ।।

एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम् ।।

तत्रैकः कालसंयुक्तः शेषाश्चागन्तवः स्मृताः ।। ८४ ।।

ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यंति भेषजैः ।।

जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ।। ८५ ।।

यदि चापि न मृत्युः स्याद्विषमद्यादशंकितः ।।

न संति पुरुषे तस्मादपमृत्युविभीतयः ।। ८६ ।।

विविधा व्याधयः शस्त्रं सर्पाद्याः प्राणिनस्तथा ।।

विषाणि जंगमाद्यानि मृत्योर्द्वाराणि देहिनाम् ।। ।। ८७ ।।

पीडितं सर्वरोगाद्यैरपि धन्वन्तरिः स्वयम् ।।

स्वस्थीकर्तुं न शक्नोति प्राप्तमृत्युं च देहिनम् ।। ८८ ।।

नौषधं न तपो दानं न मंत्रा न च बांधवाः ।।

शक्नुवंति परित्रातुं नरं कालेन पीडितम् ।। ८९ ।।

रसायनतपोजप्यैर्योगसिद्धैर्महात्मभिः ।।

कालमृत्युरपि प्राज्ञैस्तीर्यते नालसैर्न्नरैः ।। 4.4.९० ।।

नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम् ।।

नास्ति मृत्युसमस्त्रासः सर्वेषामेव देहिनाम् ।। ९१ ।।

सद्भार्यापुत्रमित्राणि राज्यैश्वर्यध नानि च ।।

अबद्धानि च वैराणि मृत्युः सर्वाणि कृन्तति ।। ९२ ।।

हे जनाः किं न पश्यध्वं सहस्रस्यापि मध्यतः ।।

जनाः शतायुषः पञ्च भवंति न भवंति च ।। ९३ ।।

अशीतिका विपद्यन्ते केचित्सप्ततिका नराः ।।

परमायुषं स्थितं षष्टिस्तच्चैवानिश्चितं पुनः ।। ९४ ।।

यस्य यावद्भवेदायुर्देहिनां पूर्वकर्मभिः ।।

तस्यार्द्धमायुषो रात्रिर्हरते मृत्युरूपिणी ।। ९५ ।।

बालभावेन मोहेन वार्द्धक्ये जरया तथा ।।

वर्षाणां विंशतिर्यांति धर्मकामार्थवर्जिता ।। ९६ ।।

आगंतुकेर्भयैः पुंसां व्याधिशोकैरनेकधा ।।

भक्ष्यतेऽर्द्धं च तत्रापि यच्छेषं तच्च जीवति ।। ९७ ।।

जीवितांते च मरणं महाघोरमवाप्नुयात् ।।

जायते जन्मकोटीषु मृतः कर्मवशात्पुनः ।। ९८ ।।

देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात् ।।

मरणं तद्विनिर्दिष्टं नान्यथा परमार्थतः ।। ९९ ।।

महातपप्रविष्टस्य च्छिद्यमानेषु मर्मसु ।।

यद्दुःखं मरणे जंतोर्न तस्येहोपमा क्वचित् ।। 4.4.१०० ।।

हा तात मातः कांतेति रुदन्नेवं हि दुःखितः ।।

मंडूक इव सर्पेण ग्रस्यते मृत्युना जनः ।। १०१ ।।

बांधवैः संपरिष्वक्तः प्रियैः स परिवारितः ।।

निःश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यति ।। १०२ ।।

क्रन्दते चैव खट्वायां परिवर्तन्मुहुर्मुहुः ।।

संमूढः क्षिपतेऽत्यर्थं हस्तपादावितस्ततः ।।१०३।।

खट्वातो कांक्षते भूमिं भूमेः खट्वां पुनर्महीम् ।।

विवशस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः ।। १०४ ।।

याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकः ।।

चिंतयानश्च वित्तानि कस्यैतानि मृते मयि ।। १०५ ।।

पञ्चावटान्खन्यमानः कालपाशेन कर्षितः ।।

म्रियते पश्यतामेव जनानां घुर्घुरस्वनः ।। ।। १०६ ।।

जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमात् ।।

संप्राप्योत्तरकालं हि देहं त्यजति पौर्वकम् ।। १०७ ।।

मरणात्प्रार्थनादुःखमधिकं हि विवे किनः ।।

क्षणिकं मरणादुःखमनंतं प्रार्थनाकृतम् ।। १०८ ।।

जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः ।।

अधिकः कोऽपरस्तस्माद्यो न या स्यति लाघवम् ।। १०९ ।।

ज्ञातं मयेदमधुना मतं भवति यद्गुरु ।।

न परं प्रार्थयेद्भूयस्तृष्णा लाघवकारणम् ।। 4.4.११० ।।

आदौ दुःखं तथा मध्ये दुःखमंते च दारुणम् ।।

निसर्गात्सर्वभूतानामिति दुःखपरंपरा ।। १११ ।।

वर्तमानान्यतीतानि दुःखान्येतानि यानि तु ।।

नरा न भावयंत्यज्ञा न विरज्यति तेन ते ।। ११२ ।।

अत्याहारान्महद्दुःखमनाहारान्महत्तमम् ।।

तुलितं जीवितं कष्टं मन्येऽप्येवं कुतः सुखम् ।। ११३ ।।

बुभुक्षा सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ।।

स चान्नौषधिलेपेन क्षणमात्रं प्रशाम्यति ।। ११४ ।।

क्षुद्व्याधिवेदनातुल्या निःशेषबलकर्तनी ।।

तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्न हि ।।१ १५।।

तद्रसोपि हि कामाद्वा जिह्वाग्रे परिवर्तते ।।

तत्क्षणाद्वार्द्धकालेन कंठं प्राप्य निवर्तते ।।११६।।

इति क्षुद्व्याधितप्तानामन्नमौषधवत्स्मृतम् ।।

न तत्सुखाय मन्तव्यं परमार्थेन पंडितैः ।। ११७ ।।

मृतोपमो यश्चेक्षेत सर्वकार्यविवर्जितः ।।

तत्रापि च कुतः सौख्यं तमसाच्छादितात्मनः ।। ११८ ।।

प्रबोधेऽपि कुतः सौख्यं कार्यैरुपहतात्मनः ।।

कृषिगोरक्षवाणिज्यसेवाध्वादिपरिश्रमैः ।।११९।।

प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने तु बुभुक्षया ।।

तृप्ताः कामेन बाध्यन्ते जंतवोऽपि विनिद्रया ।। 4.4.१२० ।।

अर्थस्योपार्जने दुःखमर्जितस्यापि रक्षणे ।।

आये दुःखं व्यये दुःखमर्थेभ्यश्च कुतः सुखम् ।। १२१ ।।

चौरेभ्यः सलिलादग्नेः स्वजनात्पार्थिवादपि ।।

भयमर्थवतां नित्यं मृत्योः प्राणभृता मिव ।। १२२ ।।

खे यातं पक्षिभिर्मांसं भक्ष्यते श्वापदैर्भुवि ।।

जले च भक्ष्यते मत्स्यैस्तथा सर्वत्र वित्तवान् ।। १२३ ।।

विमोहयति संपत्सु तापयंति विपत्तिषु ।।

खेदयंत्यर्जनाकाले कदा ह्यर्थाः सुखावहाः ।। १२४ ।।

यथार्थपतिरुद्विग्नो यश्च सर्वार्थनिःस्पृहः ।।

यतश्चार्थपतिर्दुःखी सुखी सर्वार्थनिःस्पृहः ।। १२५ ।।

शीतेन दुःखं हेमंते ग्रीष्मे तापेन दारुणम् ।।

वर्षासु वातवर्षाभ्यां कालेऽप्येवं कुतः सुखम् ।। १२६ ।।

विवाहविस्तरे दुःखं तद्गर्भोद्वहने पुनः ।।

प्रसवेऽपत्यदोषैश्च दुःखं दुःखादिकर्मभिः ।। १२७ ।।

दन्ताक्षिरौगैः पुत्रस्य हा कष्टं किं करोम्यहम् ।।

गावो नष्टाः कृषिर्भग्ना वृषाः क्वापि पलायिताः ।। १२८ ।।

अमी प्राघूर्णकाः प्राप्ता भक्तच्छेदे च मे गृहे ।।

बालापत्या च मे भार्या कः करिष्यति रंधनम् ।। ।। १२९ ।।

प्रदानकाले कन्यायाः कीदृशश्च वरो भवेत् ।।

इति चिन्ताभिभूतानां कुतः सौख्यं कुटुबिनाम् ।। 4.4.१३० ।।

कुटुंबचिंताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे ।।

अपक्वकुंभे निहिता इवापः प्रयांति देहेन समं विनाशम् ।।१३१।।

राज्येपि च महद्दुःखं संधिविग्रहचिंतया ।।

पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम् ।।१३२।।

सजातीयाद्वधः प्रायः सर्वेषामेव देहिनाम् ।।

एकद्रव्याभिलाषित्वाच्छुनामिव परस्परम् ।। ।। १३३ ।।

नाप्रधृष्यबलः कश्चिन्नृपः ख्यातोस्ति भूतले ।।

निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निर्भयः ।। १३४ ।।

आ जन्मनः प्रभृति दुःख मयं शरीरं कर्मात्मकं तव मया कथितं नरेन्द्र ।।

दानोपवासनियमैश्च कृतैस्तदेव सर्वोपभोगसुखभाग्भवतीह पुंसाम् ।। १३५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संसारदोषाख्यानं नाम चतुर्थोऽध्यायः।। ४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 5

पापभेदाख्यानवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अधोधः पतनं पुंसामधःकर्म प्रकीर्तितम् ।।

नरकार्णवघोरेषु यातना पापमुच्यते ।। १ ।।

अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः ।।

स्थूलाः सूक्ष्माः सुसूक्ष्माश्च कोटि भेदैरनेकधा ।। २ ।।

तत्र ये पापनिचयाः स्थूला नरकहेतवः ।।

ते समासेन कथ्यंते मनोवाक्कायसाधनाः ।। ३ ।।

परस्त्रीष्वथ संकल्पश्चेतसानिष्टचिंतनम् ।।

अकार्याभिनिवेशश्च चतुर्धा कर्म मानसम्।। ४ ।।

अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत् ।।

परापवादपैशुन्यं चतुर्धा कर्म वाचिकम् ।। ५ ।।

अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम् ।।

परस्वानामुपादानं चतुर्द्धा कर्म कायिकम् ।। ६ ।।

इत्येतद्द्वादशविधं कर्म प्रोक्तं ससाधनम् ।।

तेषां भेदं पुनर्वच्मि येषां फलमनंतकम् )। ७ '

ये द्विषंति महादेवं संसारार्णवतारणम् ।।

समस्तपातकोपेतास्ते यान्ति नरकाग्निषु ।।।८।।।

ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।।

महापातकिनश्चैते तत्संसर्गी च पंचमः ।। ९ ।।

क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणं विशसंति ये ।।

प्राणांतिको महादोषो ब्रह्मघ्नास्ते प्रकीर्तिताः।।। 4.5.१०।।

ब्राह्मणं च समाहूय याचमानमकिञ्चनम् ।।

पश्चान्नास्तीति तं ब्रूयात्स चैवं ब्रह्महा स्मृतः ।। ११ ।।

यस्तु विद्याभिमानेन नित्यं जयति वै द्विजान् ।।

समासीनः सभामध्ये ब्रह्महा सोऽपि कीर्तितः।।१२।।

मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षणं बलात्।।

गुरूणां च विरुद्धो यः स चैव ब्रह्महा स्मृतः।।

क्षुत्तृट्संतप्तदेहानां द्विजानां भोक्तुमिच्छताम्।।

समाचरति यो विघ्नं तमाहुर्ब्रह्मघातकम्।।१४।।

पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः ।।

उद्वेगजननः क्रूरः स चैव ब्रह्महा स्मृतः ।। १५ ।।

गवां तृष्णाभिभूतानां जलार्थमुपसर्पताम् ।।

समाचरति यो विघ्नं स चैव ब्रह्महा स्मृतः ।। १६ ।।

परदोषमभिज्ञाय नृपकर्णे करोति यः ।।

पापीयान्पिशुनः क्षुद्रः स चैव ब्रह्महा स्मृतः ।। १७ ।।।

देवद्विजगवां भूमिं पूर्वभुक्ता हरेत्तु यः ।।

प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ।। १८ ।।

द्विजवित्तापहरणे न्यायतः समुपार्जिते ।।

ब्रह्महत्या समं ज्ञेयं पातकं नात्र संशयः ।। १९ ।।

अग्निहोत्रपरित्यागो यस्तु याज्ञिककर्मणाम् ।।

मातापितृपरित्यागः कूटसाक्ष्यं सुहृद्वधः ।। 4.5.२० ।।

गवां मार्गे वने चाग्निं पुरे ग्रामे च दीपयेत् ।।

इति पापानि घोराणि सुरापानसमानि तु ।। २१ ।।

हीनस्वहरणे चापि नरस्त्रीगजवाजिनाम् ।।

गोभूरजतरत्नानामौषधीनां रजस्य च ।। २२ ।।

चंदनागरुकर्पूरकस्तूरीखण्डवाससाम् ।।

हस्ते न्यस्यापहरणं रुक्मस्तेयसमं स्मृतम् ।। २३ ।।

कन्यानां वरयोग्यानामदानं सदृशे वरे ।।

पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ।। २४ ।।

कुमारीसाहसं घोरमन्त्यजस्त्रीनिषेवणम् ।।

अवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ।। २५ ।।

महापातकतुल्यानि पापान्युक्तानि यानि तु ।।

तानि पातकसंज्ञानि तद्वदाम्युपपातकम् ।। २६ ।।

द्विजार्थं च प्रतिज्ञाय न प्रयच्छति यः पुनः ।।

तस्मान्नरपते विघ्नतुल्यं तदुपपातकम् ।। २७ ।।

द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमः ।।

अतिकोपश्च मानश्च दांभिकत्वं कृतघ्नता ।। २८ ।।

अत्यंतविषयासक्तिः कार्पण्यं श्रेष्ठमत्सरः ।।

परदारापहरणं साधुकन्याविदूषणम् ।। २९ ।।

परिवित्तिः परीवेत्ता यया च परिविद्यते ।।

तयोर्द्दानं च कन्यायास्तयोरेव च याजनम् ।। 4.5.३० ।।

पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा ।।

शिष्टानां चैव संन्यासः सहजानां तपस्विनाम् ।। ३१ ।।

भंगश्च धर्मकृत्यानां सहायानां विनाशनम् ।।

पीडामाश्रमसंस्थानान्नाचरेत्त्वल्पिकामपि ।। ३२ ।।

स्वभृत्यपरिवर्गस्य पशुधान्यधनस्य च ।।

कुप्यधान्यपशुस्तेयमयाच्यानां च याचनम् ।। ३३ ।।

गवां क्षत्रियवेश्यानां स्त्रीशूद्राणां विशेषतः ।।

यज्ञारामतडागानां दारापत्यस्य विक्रयः ।।

तीर्थयात्रोपवासानां व्रतायतनकर्मणाम् ।। ३४ ।।

स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः ।।

अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम् ।। ३५ ।।

ऋणानामप्रदानं च धान्यवृद्ध्युपजीविनाम् ।।

निंदिताच्च धनादानमपण्यानां च विक्रयः ।। ३६ ।।

विषमारणमंत्राणां प्रयोगो मूलकर्मणाम् ।।

उच्चाटनाविचारश्च गरविद्वेषणक्रिया ।। ३७ ।।

जिह्वासमुपभोगार्थं यस्यारम्भः स्वकर्मसु ।।

मूल्येनाध्यापयेद्यश्च मूल्येनाधीयते च ये ।। ३८ ।।

व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम् ।।

असद्दाराभिगमनं शुष्कतर्कावलंबनम् ।। ३९ ।।

देवाग्निसाधुसाध्वीनां निंदा गोब्राह्मणस्य च।

प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिकामपि ।।

दुःशीला नास्तिकाः पापाः सर्वशून्यस्य वादिनः ।। 4.5.४० ।।

पर्वकाले दिवा चैव वियोनौ पशुयोनिषु ।।

रजस्वलानां योनौ च मैथुनं च समाचरेत् ।।४१।।

स्त्रीपुत्रमित्रसंप्रीते ग्रासान्नच्छेदकाश्च ये ।।

जनस्या प्रियवक्तारो धूर्ताः समयभेदिनः ।।४२।।

भेत्ता तडागचक्राणां संक्रमाणां रथस्य च ।।

एकपंक्तिस्थितानां च पाकभेदं करोति यः ।।४३।।

इत्येतैस्ते नराः पापैरुपपातकिनः स्मृताः ।।

युक्तास्तदूनकैः क्षुद्रैः पापैः पापतराः स्मृताः ।। ४४ ।।

ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ।।

अंतरं यांति कार्येषु ते नरा नारकाः स्मृताः ।। ४५ ।।

परश्रिया ये तप्यंते ये परद्रव्यसूचकाः ।।

परव्यापारनिरताः परस्त्रीनरदूषकाः ।। ४६ ।।

द्विजाय दुःखं यः कुर्यात्प्रकारैर्बहुभिः सदा ।।

सेवते यो द्विजः शूद्रां सुरां जिघ्रति कामतः ।। ४७ ।।

ये पानाभिरताः क्रूरा ये च हिंसाप्रिया नराः ।।

वित्तार्थं ये च कुर्वंति दानयज्ञादिकां क्रियाम् ।। ४८ ।।

गोष्ठाग्निजलरथ्यासु तरुच्छायामठेषु च ।।

त्यजंत्यमेध्यं पुरुषा आरामायतनेषु च ।। ।। ४९ ।।

मद्यपानरता नित्यं गानवाद्यरता नराः ।।

केलीकलाभुजंगाश्च रंध्रान्वेषणतत्पराः ।। 4.5.५० ।।

वंशेषु काशकाष्ठैश्च शुभैः शंकुभिरेव वा ।।

ये मार्गान्समुपघ्नंति परस्त्रीराहरंति च ।। ५१ ।।

कूटशासनहर्तारः कूटकर्मक्रियारताः ।।

कूटयुद्धाश्च शस्त्रेण कूटसंव्यवहारिणः ।। ५२ ।।

धनुषां शल्यशस्त्राणां यः कर्ता यश्च विक्रयी ।।

निर्दयोऽतीव भृत्येषु पशूनां दमकश्च यः ।। ५३ ।।

मिथ्या प्रवदतो वाक्यमाकर्णयति यः शनैः ।।

स्वामिमित्रगुरुद्रोही मायावी चपलः शठः ।। ५४ ।।

ये भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् ।।

भृत्यानतिथिबन्धूंश्च प्रबाधन्ते बुभुक्षया ।। ५५ ।।

यः स्वयं मिष्टमश्नाति विप्रायान्यत्प्रयच्छति ।।

वृथापाकः स विज्ञेयो ब्रह्मवादिषु गर्हितः ।। ५६ ।।

नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः ।।

प्रव्रज्यावासिनो ये च रहस्यानां च भेदकाः ।। ५७ ।।

ताडयंति च वेगाद्ये शपंति च मुहुर्मुहुः ।।

दुर्बलांश्च न पुष्णंति पुनस्तान्वाहयंति च ।। ५६ ।।

पीडयंत्यतिभारेण सक्षतान्वाहयंति च ।।

सार्द्धयामादुपरितः संयुक्तेषु च भुंजते ।। ५९ ।।

ये भग्नक्षतरोगार्तान्स्वगोरूपान्बुभुक्षया ।।

न पालयंति यत्नेन ते गोप्ता नारका नराः ।। 4.5.६० ।।

वृषाणां वृषणान्येव पापिष्ठा गालयंति ये ।।

वाहयंति च गां वध्यां ते महानारकाः स्मृताः ।। ६१ ।।

आश्रमं समनुप्राप्तं क्षुत्तृष्णाश्रमपीडितम् ।।

येऽतिथिं नाभिमन्यंते ते वै निरयगामिनः।।६२।।

अनाथं विकलं दीनं बालं वृद्धं कृशातुरम्।।

नानुकंपंति ये मूढास्ते यान्ति निरयार्णवम् ।। ६३ ।।

अजाविको माहिषिकः सामुद्रो वृषलीपतिः ।।

शूद्रविट्क्षत्रवृत्तिश्च नारकी स्याद्द्विजाधमः ।। ६४ ।।

शिल्पिनः कारुका वैद्या हेमकारा नटा द्विजाः ।।

कृतकौक्षेय सयुक्तास्तथान्ये नारकाः स्मृताः ।। ६५ ।।

यश्चोदितमतिक्रम्य स्वेच्छया वा हरेत्करम् ।।

नरके तु स पच्येत यश्च दंडरुचिर्भवेत् ।। ६६ ।।

उत्कोचकैरधिकृतैस्तस्करैश्च प्रपीड्यते ।।

यस्य राज्ञः प्रजा रुष्टा पच्यते नरकेषु सः ।। ६७ ।।

ये द्विजाः प्रतिगृह्णंति नृपस्यान्यायवर्तिनः ।।

प्रयांति तेपि घोराणि नरकाणि न संशयः ।।६८।।

पारदारिकचौराणां यत्पापं पार्थिवस्य तत् ।।

भवेदरक्षतस्तस्माद्घोरस्तस्य प्रतिग्रहः ।। ६९ ।।

अचौरं चौरवत्पश्येच्चोरं वाऽचौररूपवत् ।।

अविचार्य नृपस्तस्माद्धातयन्नरकं व्रजेत् ।। 4.5.७० ।।

घृततैलान्नपानानि मधुमांससुरासवम् ।।

गुडेक्षुक्षारशाकानि दधिमूलफलानि च ।। ७१ ।।

तृणं काष्ठं पुष्पपत्रमौषधं कांस्यभाजनम् ।।

उपानच्छत्रशकटमासनं शयनांबरम् ।। ७२ ।।

ताम्रं सीसं त्रपुं काचं शंखाद्यं च जलोद्भवम् ।।

वार्क्षं वा वैणवाद्यं वा गृहेषूपस्कराणि च ।। ७३ ।।

ऊर्णाकार्पासकौशेयभंगपट्टोद्भवानि च ।।

स्थूलसूक्ष्माणि वस्त्राणि ये च लोभाद्धरंति च ।। ७४ ।।

एवमादीनि चान्यानि द्रव्याणि विविधानि च ।।

नरकाणि ध्रुवं यांति नरा वा नात्र संशयः ।। ७५ ।।

यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् ।।

अपहृत्य नरो याति नरकं नात्र संशयः ।। ७६ ।।

एवमाद्यै्र्नरः पापैरुत्क्रांतेः समनंतरम् ।।

शरीरं यातनार्थाय पूर्वाकारमवाप्नुयात् ।। ७७ ।।

यमलोकं व्रजेत्तेन शरीरेण यमाज्ञया ।।

यमदूतैर्महाघोरैर्नीयमानः सुदुःखितः ।। ७८ ।।

तिर्यङ्मानुषदेहानामधर्मनिरतात्मनाम् ।।

धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः ।। ७९ ।।

विनयाचारयुक्तानां प्रमादात्स्खलितात्मनाम् ।।

प्रायश्चित्तेर्गुरुः शास्ता न च तैर्दृश्यते यमः ।। 4.5.८० ।।

पारदारिकचौराणामन्यायव्यवहारिणाम् ।।

नृपतिः शासकस्तेषां प्रच्छन्नानां च धर्मराट् ।। ८१ ।।

तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ।।

नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि ।। ८२ ।।

यः करोति स्वयं कर्म कारयेद्वापि मोद येत् ।।

कायेन मनसा वाचा तस्य चाधोगतिः फलम् ।। ८३ ।।

इति संक्षेपतः प्रोक्ताः पापभेदाः ससाधनाः ।।

कथ्यते गतयश्चित्रा नराणां पापकर्मणाम् ।। ८४ ।।

वाक्कायचित्तजनितैर्बहुभेदभिन्नैः कृत्यैः शुभाशुभफलोदयहेतुभूतैः ।। भास्वत्सुरेशभुवनं नरकाननेकान्संप्राप्नुवंति मनुजा मनुजेंद्रचन्द्र।।८५।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि पापभेदाख्यानं नाम पञ्चमोध्यायः।।५।।

पर्व ४ (उत्तरपर्व) — Adhyāya 6

शुभाशुभफलनिर्देशवर्णनम्

श्रीकृष्ण उवाच।।

अथैभिः पातकैर्यांति यमलोकं चतुर्विधैः।।

संत्रासजननं घोरं विवशाः सर्वदेहिनः।।१।।

गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः।।

पुंस्त्रीनपुंसकैर्वृद्धैर्ज्ञातव्यं सर्वजंतुभिः ।। २ ।।

शुभाशुभफलं तत्र देहिनां प्रविचार्यते ।।

चित्रगुप्तादिभिः सभ्यैर्मध्यस्थैः सर्वदर्शिभिः ।। ३ ।।

न तेऽत्र प्राणिनः संति ये न यांति यमक्षयम् ।।

अवश्यं हि कृतं कर्म भोक्तव्यं तद्विधारितम्।। ४ ।।

तत्र ये शुभकर्माणः सौम्यचित्ता दयान्विताः ।।।८

ते नरा यांति सौम्येन पथा यमनिकेतनम् ।। ५ ।।

यः प्रदद्याद्द्विजेन्द्राणामुपानत्काष्ठपादुकाम् ।।

स वराश्वेन महता सुखं याति यमालयम् ।।६।।

छत्रदानेन गच्छंति यथा छत्रेण देहिनः ।।

दिव्यवस्त्रपरीधाना यांति वस्त्रप्रदायिनः ।। ७ ।।

शिबिकाश्वप्रदानेन ततस्तेन सुखं व्रजेत् ।।

शय्यासन प्रदानेन सुखं यांति यमाश्रयम् ।। ८ ।।

आरामकर्ता छायासु शीतलासु सुखं व्रजेत् ।।

यांति पुष्पकयानेन पुष्पारामप्रदायिनः ।। ९ ।।

देवायतनकर्ता च यतीनामाश्रमस्य च ।।

अनाथमंडपानां च क्रीडन्याति गृहोत्तमैः ।। 4.6.१० ।।

देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ।।

पूज्यमाना नरा यांति कामिकेन पथा सुखम् ।। ११ ।।

द्योतयंतो दिशः सर्वा यांति दीपप्रदायिनः ।।

प्रतिश्रयप्रदानेन सुखं यांति गृहं स्वयम् ।। १२ ।।

सर्व कामसमृद्धेन पथा गच्छंति गोप्रदाः ।।

ये न पापानि कुर्वंति ते तृप्ता यांति नान्यथा ।।१३।।

आर्तौषधप्रदातारः सुखं यांति निराकुलाः ।।

विश्राम्यमाणा गच्छंति गुरुशुश्रूषणे रताः।।१४।।

पादशौचप्रदानेन शीतलेन पथा व्रजेत् ।।

पादाभ्यंगं च यः कुर्यादश्वपृष्ठेन स व्रजेत्।।१५।।

हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन् ।।

यानवाहनदानेन नरयानेन गच्छति ।। १६ ।।

सर्वकामसमृद्धात्मा भूमिदानेन गच्छति ।।

अन्नपानप्रदानेन पिबन्खादंश्च गच्छति ।। १७ ।।

इत्येवमादिभिर्दानैः सुखं यांति यमक्षयम् ।।

स्वर्गेपि विपुलान्भोगान्प्राप्नुवंति नरोत्तम ।। १८ ।।

सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।।

सद्यः प्रीतिकरं दिव्यं बलबुद्धिविवर्द्धनम् ।। १९ ।।

त्रयाणामपि लोकानां जीवितं ह्युदकं स्मृतम् ।।

पवित्रममृतं दिव्यं शुद्धं सर्वरसायनम् ।। 4.6.२० ।।

अन्नं पानं च गोवस्त्रभूशय्याच्छत्रमासनम् ।।

परलोके प्रशस्तानि दानान्यष्टौ विशेषतः ।। २१ ।।

अन्नदानं विशेषेण धर्म राजपुरे नराः ।।

यस्माद्यांति सुखेनैव तस्माद्धर्मं समाचरेत् ।। २२ ।।

ये पुनः क्रूरकर्माणः पापा दानविवर्जिताः ।।

ते घोरेण पथा यांति दक्षिणेन स्वमालयम् ।। २३ ।।

षडशीतिसहस्राणि योजनानामतीत्य यत् ।।

वैवस्वतपुरं ज्ञेयं नानारूपव्यवस्थितम् ।। २४ ।।

समीपस्थमिवाभाति नराणां शुभकर्मणाम् ।।

पापानामतिदूरस्थं पथा रौद्रेण गच्छताम् ।। २५ ।।

तीव्रकंटकयुक्तेन शर्करानिचितेन च ।।

क्षुरधारानिभैस्तीव्रैः पाषाणैर्निचितेन च ।। २६ ।।

क्वचित्पंकेन महता दुरुत्तारैश्च खातकैः ।।

लोहसूचीनिभैर्दर्भैः संछन्नेन पथा क्वचित् ।। २७ ।।

तटप्रपातविष्टंभैः पर्वतैर्वृक्षसंकुलैः ।।

प्रतप्तांगारयुक्तेन यांति मार्गेण दुःखिताः ।। २८ ।।

क्वचिद्विषमगर्तैश्च क्वचिल्लोष्टैः सुपिच्छिलैः ।।

प्रतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः ।। २९ ।।

अनेकतापैर्विततैर्व्याप्तं वंशवनं क्वचित् ।।

क्वचिद्वालुकया व्याप्तं कष्टेनैव प्रवेशनम् ।। 4.6.३० ।।

क्वचिदुष्णांबुना व्याप्तं क्वचित्कारीषवह्निना ।।

क्वचित्सिंहैर्वृकैर्व्याप्तं दंशैः कीटैश्च दारुणैः ।। ३१ ।।

क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैः पुनः ।।

मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ।। ३२ ।।

मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः ।।

पंथानमुल्लिखद्भिश्च तीक्ष्णशृंगैर्महावृषैः ।। ३३ ।।

महाविषाणैर्महिषैरुष्ट्रैर्मत्तैश्च खादकैः ।।

डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।। ३४ ।।।।

व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति च ।।

महाधूलीविमिश्रेण महाचण्डेन वायुना ।। ३५ ।।

महापाषाणवर्षेण हन्यमाना निराश्रयाः ।।

क्वचिद्विद्युत्प्रपातेन दीर्यमाणा व्रजंति च ।। ३६ ।।

महता बाणवर्षेण विध्यमानाश्च सर्वशः ।।

पतद्भिर्वज्रसंघातैरुल्कापातैश्च दारुणैः ।। ३७ ।।

प्रतप्तागारवर्षेण दह्यमाना व्रजंति च ।।

तप्तेन पांशुवर्षेण पूर्यमाणा रुदंति च ।। ३८ ।।

महामेघरवैर्घोरैर्वित्रास्यंते मुहुर्मुहुः ।।

निशितायुधवर्षेण चूर्यमाणा नरैर्वृताः ।।

महाक्षाराम्बुधाराभिः सिच्यमाना द्रवंति च ।। ३९ ।।

महाशीतेन मरुता तीक्ष्णेन परुषेण च ।।

समंतात्पीड्यमानास्ते शुष्यंते संकुचंति च ।। 4.6.४० ।।

इत्थं मार्गेण रौद्रेण पांथैर्वि रहितेन च ।।

निरालंबेन दुर्गेण निर्जलेन समंततः ।।४१।।

अविश्रामेण महता निर्गतापाश्रयेण च ।।

तमोरूपेण कष्टेन सर्वदुःखाश्रयेण च।।४२।।

नीयंते देहिनः सर्वे ये मूढाः पापकर्मिणः ।।

यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ।।४३।।

एकाकिनः पराधीना मित्रबंधुविवर्जिताः ।।

शोचंतः स्वानि कर्माणि रुदंतश्च मुहुर्मुहुः ।। ४४ ।।

प्रेतभूता विवस्त्राश्च शुष्ककण्ठोष्ठतालुकाः ।।

कृशाङ्गा भीतभीताश्च दह्यमानाः क्षुधाग्निना ।। ४५ ।।

बद्धाः शृंखलया केचिदुत्तानाः पादयोर्नराः ।।

आकृष्यंते घृष्यमाणा यमदूतैर्बलोत्कटैः ।। ४६ ।।

पुनश्चाधोमुखाश्चान्ये घृष्यमाणाः सुदुःखिताः।।

केशपाशनिबद्धाश्च कृष्यंते रज्जुभिर्नराः ।। ४७ ।।

ललाटे चांकुशैस्तीक्ष्णैर्भिन्नाः कृष्यंति देहिनः ।।

उत्ताना रटमानाश्च क्वचिदंगारवर्त्मना।। ४८ ।।

पाश्चाद्बाह्वंसबद्धाश्च जठरे च प्रपीडिताः ।।

पूरिताः शृंखलाभिश्च हस्तयोश्च प्रकीलिताः ।। ४९ ।।

ग्रीवायामर्द्धचन्द्रेण क्षिप्यमाणा इतस्ततः ।।

शिश्ने च वृषणे बद्ध्वा नीयंते चर्मरज्जुना ।। 4.6.५० ।।

विभिन्ना उदरे चान्ये तप्तशृंखलया नराः ।।

कृष्यंते कर्णयोश्चान्ये भिन्नाश्च चिबुकोपरि ।। ।। ५१ ।।

छिन्नाग्रपादहस्ताश्च छिन्नकर्णौष्ठनासिकाः ।।

संछिन्नशिश्नवृषणाश्छिन्नभिन्नांगसंधयः ।। ५२ ।।

प्रतुद्यमानाः कुंतैश्च सायकैश्च ततस्ततः ।।

भिद्यमानाः प्रधावंति क्रन्दमाना निराश्रयाः ।। ५३ ।।

मुद्गरैर्ल्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ।।

कशैश्च विविधैघोरैर्ज्वलिताग्निसमप्रभैः ।। ५४ ।।

भिंदिपालैर्विभिद्यंते स्रवंतः पूयशोणितम् ।।

मांसे क्षताश्च कृमिभिर्नीयंते विवशा नराः ।। ५५ ।।

याचमानाश्च सलिलमन्नं चापि बुभुक्षिताः ।।

छायां प्रार्थयमानाश्च शीतार्ता बहुवायुना ।। ५६ ।।

दानहीनाः प्रयांत्येवं यावंतो विमुखा नराः ।।

गृहीतदानपाथेयाः सुखं यांति यमालयम् ।। ५७ ।।

एवं पथातिकष्टेन प्राप्ता यमपुरं तदा ।।

प्रज्ञापितास्तदा दूतैर्निवेश्यंते यमाग्रतः ।। ५८ ।।

तत्र ये शुभकर्माणस्तांश्च संमानयेद्यमः ।।

स्वागतासनदानेन पाद्यार्घेण प्रियेण च ।। ५९ ।।

धन्या यूयं महात्मान आत्मनो हितकारिणः ।।

येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ।। 4.6.६० ।।

इदं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ।।

स्वर्गं गच्छध्वमतुलं सर्वकामसमन्वितम् ।। ६१ ।।

ततो भुक्त्वा महाभोगानंते पुण्यस्य संक्षयात् ।।

यत्किञ्चिदल्पमशुभं पुनस्तदिह भोक्ष्यथ ।। ६२ ।।

ते चापि धर्मराजानं नराः पुण्यानुभावतः ।।

पश्यंति सौम्यवदनं पितृभूतमिवात्मनः ।। ६३ ।।

ये पुनः पापकर्माणस्ते पश्यंति भयानकम् ।।

पापाविशुद्धनयना विपरीतात्मबुद्धयः ।। ६४ ।।

दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ।।

ऊर्ध्वकेशं महाश्मश्रुप्रस्फुरदधरोत्तरम् ।। ६५ ।।

अष्टादशभुजं क्रुद्धं नीलांजनचयोपमम् ।।

सवार्युधोद्यतकरं ब्रह्मदण्डेन तर्जकम् ।। ६६ ।।

महामहिषमारूढं दीप्ताग्निसमलोचनम् ।।

रक्तमाल्याम्बरधरं महामेरुमिवोच्छ्रितम् ।। ६७ ।।

प्रलयांबुदनिर्घोषं पिबंतमिव सागरम् ।।

ग्रसंतमिव लोकानामुद्गिरंतमिवानलम् ।। ६८ ।।

मृत्युश्च तत्समीपस्थः कालानलसमप्रभः ।।

कालश्चांजनसंकाशः कृतांतश्च भयानकः ।। ६९ ।।

मारी चोग्रा महामारी कालरात्रिः सुदारुणा ।।

विविधा व्याधयः कष्टा नानारूपभयावहाः ।। 4.6.७० ।।

शक्तिशूलांकुशधराः पाशचक्रासिधारिणः ।।

वज्रदण्डधरा रौद्राः क्षुद्रतूणीधनुर्धराः ।। ७१ ।।

असंख्याता महावीर्याः क्रूराश्चाञ्जनसंप्रभाः ।।

सर्वायुधोद्यतकरा यमदूता भयानकाः ।। ७२ ।।

अनेन परिवारेण महाघोरेण संवृतम् ।।

यमं पश्यंति पापिष्ठाश्चित्रगुप्तं च भीषणम् ।।

निर्भर्त्सयतं चात्यन्तं यमं सदुपकारिणम् ।।७३।।

चित्रगुप्तश्च भगवान्धर्मवाक्यैः प्रबोधयन् ।।

भोभो दुष्कृतकर्माणः परद्रव्यापहारिणः ।

गर्विता रूपवीर्येण परदारविमर्दकाः ।।७४।।

यत्स्वयं क्रियते कर्म तत्स्वयं भुज्यते पुनः ।।

तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ।।७५।।

इदानीं किं प्रतप्यध्वं पीड्यमानाः स्वकर्मभिः ।।

भुञ्जध्वं स्वानि कर्माणि नात्र दोषोऽस्ति कस्यचित् ।। ७६ ।।

एते च पृथिवीपालाः संप्राप्ता मत्समीपतः ।।

स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलगर्विताः ।। ७७ ।।

भोभो नृपा दुराचाराः प्रजाविध्वंसकारिणः ।।

अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ।। ७८ ।।

राज्यलोभेन मोहाद्वा बलादन्यायतः प्रजाः ।।

यत्पीडिताः फलं तस्य भुंजध्वमधुना नृपाः ।। ७९ ।।

कृतं राज्यं कलत्रं च यदर्थमशुभं कृतम् ।।

तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः ।। 4.6.८० ।।

पश्याम तद्बलं तुभ्यं येन विध्वंसिताः प्रजाः ।।

यमदूतैस्ताड्यमाना अधुना कीदृशं भवेत्।। ८१ ।।

एवं बहुविधैर्वाक्यैरुपालब्धा यमेन ते ।।

शोचंतः स्वानि कर्माणि तूष्णीं तिष्ठंति पार्थिव ।। ८२ ।।

इति धर्मं समादिश्य नृपाणां धर्मराट् पुनः ।।

तत्पापपंकशुद्ध्यर्थमिदं वचनमब्रवीत् ।। ८३ ।।

भोभोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान् ।।

विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ।।८४।।

ततः शीघ्रं समुत्थाय नृपान्संगृह्य पादयोः ।।

भ्रामयित्वातिवेगेन विक्षिप्योर्ध्वं विगृह्य च ।। ८५ ।।

सर्वप्राणेन महता सुतप्ते तु शिलातले ।।

आ स्फालयंति तरसा वज्रेणेव महाद्रुमम् ।। ८६ ।।

ततः स रक्तस्रोतोभिः स्रवते जर्जरीकृतः ।।

स निःसंज्ञस्तदा देही निश्चेष्टः संप्रजायते ।। ८७ ।।

ततः स वायुना स्पृष्टः शनैरुजीवते पुनः ।।

ततः पापविशुद्ध्यर्थं क्षिप्यते नरकार्णवे ।। ८८ ।।

अष्टाविंशतिरेवाधः क्षितेर्नरककोटयः।।

सप्तमस्य तलस्यांते घोरे तमसि संस्थिताः ।। ८९ ।।

रौरवप्रभृतीनां च नरकाणां शतं स्मृतम् ।।

चत्वारिंशत्समधिकं महानरकमंडलम् ।। 4.6.९० ।।

येषु पापाः प्रपच्यंते नराः कर्मानुरूपतः ।।

यातनाभिर्विचित्राभिराकर्मप्रक्षयाद्भृशम् ।। ९१ ।।

आ मलप्रक्षयाद्यद्वदग्नौ धास्यंति धातवः ।।

तथा पापक्षयात्पापाश्शोध्यंते नरकाग्निषु ।। ९२ ।।

सुगाढहस्तया बाढं तप्तशृंखलया नराः ।।

महावृक्षाग्रशाखायां लंब्यंते यमकिंकरैः ।। ९३ ।। ।

ततस्ते सर्पयंत्रेण क्षिप्ता दोल्यंति किंकरैः ।।

दोल्यंतश्चातिवेगेन निःसंज्ञा यांति योजनम् ।। ९४ ।।

अंतरिक्षस्थितानां च लोहभारशतं ततः ।।

पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ।। ९५ ।।

तेन भारेण महता भृशमातर्द्दिता नराः ।।

ध्यायंतः स्वानि कर्माणि तूष्णीं तिष्ठेति विह्वलाः ।। ।।९६ ।।

ज्वालाभिरग्निवर्णाभिर्ल्लोहदंडैः सकंटकैः।।

हन्यंते किंकरैर्घोरैः समंतात्पापकारिणः ।।९७ ।।

ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ।।

समंततः प्रलिप्यंते क्षतांगा जर्जरीकृताः ।। ९८ ।।

पुनर्विदार्य चांगेषु शिरसःप्रभृति क्रमात् ।।

वृन्ताकवत्प्रपच्यंते तप्ततैलकटाहके ।। ९९ ।।

विष्ठापूर्णे ततः कूपे कृमीणां निचये ततः ।।

मेदस्त्वक्पूयपूर्णायां वाप्यां क्षिप्यंति ते पुनः ।। 4.6.१०० ।।

भक्ष्यंते क्रिमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः ।।

श्वभिर्दंशैर्वृकैर्घोरैर्व्याघ्रैरप्यथ वानरैः ।। १०१ ।।

पच्यंते मांसवच्चापि प्रदीप्तांगारराशिषु ।।

प्रोताः शूलेषु तीक्ष्णेषु नराः पापेन कर्मणा ।। १०२।।

तिलपिंडैरिवाक्रम्य घोरैः कर्मभिरात्मनः ।।

तिलवत्सम्प्रपीडयन्ते चक्राख्ये नरके तथा ।। १०३ ।।

भिद्यंते चापि तल्पेषु लोहभ्राष्ट्रेष्वनेकधा ।।

तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः ।। १०४ ।।

बहुशः पीड्यते जिह्वा याऽसत्यप्रियवादिनी ।।

संदंशेन सुतप्तेन प्रपीड्यन्ते च पादयोः ।। १-५।।

मिथ्यागमप्रवक्तुश्च द्विजिह्वस्य च निर्गता ।।

जिह्वार्द्धक्रोशविस्तीर्णा हलैस्तीक्ष्णैश्च बाध्यते ।। ।। १०६ ।।

निर्भर्त्सयंति ये क्रूरा मातरं पितरं गुरुम् ।।

तेषां वक्ष उलूकाभिर्मुखमापूर्य सेव्यते ।।१०७।।

ततः क्षारेण दीप्तेन ताम्रेण तु पुनःपुनः ।।

हतेनापूर्यतेऽत्यर्थं तप्ततैलैश्च तन्मुखम् ।। १०८ ।।

इतस्ततः पुनर्वक्त्रं भृशमापूर्य हन्यते ।।

विष्ठाभिः कृमिभिश्चापि सुवर्णहरणैर्नरः ।। १०९ ।।

परिष्वजति चात्युग्रां प्रदीप्तां लोहशाल्मलीम् ।।

हन्यते पृष्ठदेशे च पुनस्तीक्ष्णैर्महाघनैः ।। 4.6.११० ।।

दंतुरेणातिकूटेन क्रकचेन बलीयसा ।।

शिरः प्रभृति पादांतं घोरैः कर्मभिरात्मजैः ।।

खाद्यते स्वानि मांसानि पायते शोणितं स्वकम् ।। १११ ।।

अन्नं पानं न दत्तं यैर्मूढैर्नाप्यनुमोदितम्।।

इक्षुवत्ते प्रपीड्यन्ते जर्जरीकृतमस्तकाः ।। ११२ ।।

असितालवने घोरे च्छिद्यंते खंडखंडशः।।

सूचीभिर्भिन्नसर्वांगास्तप्तशूलप्ररोपिताः ।।

संबाध्यमाना विवशाः क्लिश्यंते न म्रियंति वै ।। ११३ ।।

देहादुत्साद्यमांसानि भिद्यंतेऽस्थीनि मुद्गरैः ।।

दृष्टिराकृष्यते तूर्णं यमदूतैर्बलोत्कटैः ।। ११४ ।।

निरस्तास्ते निरुच्छ्वासास्तिष्ठंति नरके ध्रुवम् ।।

उच्छ्वसंति सदा श्वासैर्वालुकावदनावृताः ।। ११५ ।।

रौरवे रोदमानाश्च पीड्यन्ते विविधैः शरैः ।।

महारौरवपीडाभिर्महतीभिस्तदंतिके ।। ११६ ।।

पदोरास्ये गुदे चैव पार्श्वे चोरसि मस्तके ।।

निखन्यंते घनैस्तीक्ष्णैः सुतप्तैर्लोहशंकुभिः ।। ११७ ।।

सुतप्तवालुकायां च प्रलुठ्यन्ते पुनःपुनः ।।

जतुपंके भृशं तप्ते क्षिप्रा क्रन्दंति विस्तरम् ।। ११८ ।।

तेनतेनैव रूपेण हसन्ते पारदारिकम् ।।

गाढमालिङ्ग्यते नारीं ज्वलंतीं लोहनिर्मिताम् ।। ११९ ।।

पूर्वाकारं च पुरुषं प्रज्वलंतं समंततः ।।

दुश्चारिणीः स्त्रियो गाढमालिंगंति वदंति च ।। 4.6.१२० ।।

किं प्रधावसि वेगेन ते न मोक्षोऽस्ति सांप्रतम् ।।

लंघितस्ते यथा भर्ता पापं भुंक्ष्व तथाधुना ।। १२१ ।।

लोहकुम्भे तथा क्षिप्ताः सविधानैः शनैःशनैः ।।

मृद्वग्निनाथ पच्यंते स्वपापैरेव मानवाः ।। १२२ ।।

क्वणंत्युदूखले सास्राः प्रक्षिप्यंते शिलासु च ।।

क्षिप्यंते चांधकूपेषु दश्यंते भ्रमरैर्भृशम् ।। १२३ ।।

कृमिभिर्भिन्नसर्वांगाः शतशो जर्जरीकृताः ।।

सुतीक्ष्णक्षारकूपेपु क्षिप्यंते तदनंतरम्।। १२४ ।।

महाज्वाले च नरके पापाः फूत्कारयंति च ।।

इतस्ततश्च धावंति दह्यमानास्तदर्च्चिषा ।। १२५ ।।

पृष्ठे चानीय जंघे द्वे विन्यस्ते स्कन्धयोः स्थिते ।।

तयोर्मध्येन चाकृष्य बाहुपृष्ठेन गाढतः ।।

बद्ध्वा परस्परं सर्वं सुदृढं गाढरज्जुभि. ।। १२६ ।।

पीडयंति सुसंरब्धा भ्रमरास्तीक्ष्णलोहजाः ।।

मानिनां क्रोधिनां चैव पुरा पापस्य संशयात् ।। १२७ ।।

पापानां नरके पुंसां घृष्यते चंदनं यथा ।।

शरीराभ्यंतरगतं तरुणानां च दारुणम् ।। १२८ ।।

पिंडबंधो स्मृतो याम्यो महाज्वालेषु यातनाः ।।

रज्जुभिर्वेष्टितांगाश्च प्रलिप्ताः कर्दमेन च ।।

करीषरूक्षवह्नौ च पच्यंते न म्रियंति च ।। १२९ ।।

सुतीक्ष्णक्षारतोयेन शर्करासु शिलासु च ।।

आ पापसंक्षयात्पापा घृष्यंते चंदनं यथा ।। 4.6.१३० ।।

शरीराभ्यन्तरगतैः प्रभूतैः कृमिभिर्नराः ।।

भक्ष्यंते तीक्ष्णवदनैरादेहप्रक्षयाट् भृशम् ।। १३१ ।।

कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु ।।

तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यां च पीडिताः ।। १३२ ।।

सुतप्तवज्रलेपेन शरीरमनुलिप्यते ।।

अधोमुखोर्ध्वपादाश्च धृतास्तप्यंति वह्निषु ।। १३३ ।।

वदनांते प्रविन्यस्तं सुतप्तायोमयं गुडम् ।।

ते खादंति पराधीना हन्यमानास्तु मुद्गरैः ।। १३४ ।।

ये शिवायतनारामवापीकूपमठांग णात् ।।

अभिद्रवंति पापिष्ठा नरास्तत्र वसंति च ।। १३५ ।।

व्यायामोद्वर्तनाभ्यंगस्नानमापानभोजनम् ।।

क्रीडनं मैथुनं द्यूतमाच रंति रमंति च ।। १३६ ।।

ते बाधैर्विविधैर्घोरैरिक्षुयन्त्रादिपीडनैः ।।

निरयाग्निषु पच्यंते यावदाचन्द्रतारकम् ।। १३७ ।।

ये शृण्वंति गुरोर्निंदां तेषां कर्णः प्रपूर्य्यते ।।

अग्निवर्णैरयःकीलैस्तप्तताम्रादिभिर्द्रुतैः ।। १३८ ।।

त्रपुसीसारकूटाद्यैः क्षारेण जतुना पुनः ।।

क्रमादापूर्यते कर्णो नरकेषु च यातनाः ।।

अनुक्रमेण सर्वेषु भवंत्येताः समंततः ।। १३९ ।।

सर्वेंद्रियाणामप्येवं क्रमात्पापेन यातनाः ।।

भवंति घोराः प्रत्येकं शरीरे तत्कृतेन च ।। 4.6.१४० ।।

स्पर्शलोभेन ये मूढाः संस्पृशंति परस्त्रियम् ।।

तेषां त्वगग्निवर्णाभिः सूचीभिः पूर्यते भृशम् ।।१४१।।

ततः क्षारादिभिः सर्वैः शरीरमनुलिप्यते ।।

यातना च महाकष्टा सर्वेषु नरकेषु च ।। १४२ ।।

गुरोः कुर्वंति भ्रुकुटिं क्रूरं चक्षुश्च ये नराः ।।

परदारांश्च पश्यंति लुब्धाः स्निग्धेन चक्षुषा ।।१४३।।

सूचीभिरग्निवर्णाभिस्तेषां नेत्रं प्रपूर्यते ।।

क्षाराद्यैश्च क्रमात्सर्वैर्देहे सर्वाश्च यातनाः ।। १४४ ।।।

देवाग्निगुरुविप्राणां येऽनिवेद्य प्रभुंजते ।।

लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं प्रपूर्यते ।। १४५ ।।

ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमात् ।।।

शरीरे च महाघोराश्चित्रा नरकयातनाः ।।१४६।।

ये शिवारामपुष्पाणि लोभात्संगृह्य पाणिना ।।

जिघ्रंति मूढमनसः शिरसा धारयंति च ।।१४७।।।

आपूर्यते शिरस्तेषां सुतप्तैर्लोहशंकुभिः ।।

नासिका चातिबहुशस्ततः क्षारादिभिः पुनः ।। १४८ ।।

ये निंदंति महात्मानमाचार्यं धर्मदेशिकम् ।।

शिवभक्तांश्च ये मूढाः शिवधर्मं च शाश्वतम् ।। १४९ ।।

तेषामुरसि कंठे च जिह्वायां दंतसंधिषु ।।

तालुकोष्ठे च नासायां मूर्ध्नि सर्वांगसं धिषु ।। 4.6.१५० ।।

अग्निवर्णाः सुतप्ताश्च त्रिशिखा लोहशंकवः ।।

आखन्यंते सुबहुशः स्थानेष्वेतेषु मुद्गरैः ।। १५१ ।।

ततः क्षारेण तप्तेन ताम्रेण त्रपुणा पुनः ।।

तप्ततैलादिभिः सर्वैरापूर्यंते समंततः ।। १५२ ।।

क्षारताम्रादिभिर्दीप्तैर्दह्यंते बहुशः पुनः ।।

नरकेषु च सर्वेषु विचित्रा देहया तनाः ।। १५३ ।।

भवंति बहुशः कष्टाः पाणिपादसमुद्भवाः ।।

शिवायतनपर्यंते शिवारामे च कुत्रचित् ।। १५४ ।।

समुत्सृजंति ये पापाः पुरीषं मूत्रमेव वा ।।

तेषां लिंगं सवृषणं चूर्ण्यते लोहमुद्गरैः ।। १५५ ।।

सूचीभिरग्निवर्णाभिस्ततश्चापूर्यते पुनः ।।

लोहदण्डश्च सुमहानग्निवर्णः सकंटकः ।।

आखन्यते गुदे तेषां यावन्मूर्ध्नि विनिर्गतः ।।१५६।।

ततः क्षारेण महता ताम्रेण त्रपुणा पुनः ।।

द्रुतेनापूर्यते गाढं गुदं शिश्नं हि देहिनाम्।।१५७।।

मनः सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्त्तकम् ।।

तस्मादिन्द्रियदुःखेन जायते तत्सुदुःखितम् ।।१५८।।

धने सत्यपि ये दानं न प्रयच्छंति तृष्णया ।।।

अतिथिं चावमन्यंते कालप्राप्तं गृहाश्रमे ।।१५९।।

ते लोहतोरणे बद्धा हस्तपादावताडिताः ।।

विदारितांगाः शुष्यंते तिष्ठंत्यब्दशतं नराः ।।4.6.१६०।।

हस्तपादललाटेषु कीलिता लोहशंकुभिः ।।

नित्यं च नीवृतं वक्त्रं कीलकद्वयनाडितम् ।। १६१ ।।

कृमिभिः प्राणिभिश्चोग्रैर्लोहदंडैश्च वायसैः ।।

उपद्रवैर्बहुविधैः सर्पैर्मुखरकैस्ततः ।। १६२ ।।

आपीड्यंते जिह्वामूले निबध्य शृंखलाः पुनः ।।

तिष्ठंति लंबमानाश्च लोहभारप्रपीडिताः ।।१६३।।

स्निग्धे च वृषणे नद्धे लोहभारद्वयं पुनः ।।

तिष्ठते लंबमानं च बहुभारचतुर्गुणम् ।। १६४ ।।

ततः स्वमांसमुत्कृत्य तिलमात्रप्रमाणतः ।।

भोजनं दीयते तेषां सूच्यग्रेण सशोणितम् ।। १६५ ।।

यदा निर्मांसतां प्राप्ताः कालेन महता पुनः ।।

ततः क्षारेण दीप्तेन वपुस्तेषां प्रलिप्यते ।। १६६ ।।

सिच्यंते वर्षधाराभिः शोष्यंते वायुना पुनः ।।

सिच्यंते तप्ततैलेन प्रतप्तेन समंततः ।। १६७ ।।

पश्चात्ते वह्निना भूयो दूरस्थेन शनैः शनैः ।।

निःशेषयातनाभिश्च पीड्यंते क्रमशः पुनः ।। १६८ ।।

भृशं बुभुक्षया पीडा मूर्च्छयातिपिपासया ।।

अत्युष्णेनातिशीतेन पापानां समरेण च ।। १६९ ।।

एवमादिमहाघोरा यातनाः पापकारिणः ।।

एकैके नरके चैव शतशोथ सहस्रशः ।। 4.6.१७० ।।

प्रत्येकं यातनाश्चित्राः सर्वेषु नरकेषु च ।।

कष्टं वर्षशतेनापि सोढुं सर्वैश्च नारके ।।१७१।।

एते च विविधैर्घोरैर्यात्यमानाश्च कर्मभिः ।।

म्रियन्ते नैव पापिष्ठा विविधाः पापकारिणः ।। ।। १७२ ।।

महाघोराभिघोराख्या कालाग्निसदृशोपमाः ।।

श्रुतैरेतैर्महारौद्रैर्म्रियन्ते मृदुचेतसः ।। १७३ ।।

ततस्तेनात्र कथिताः पापा गच्छंति तान्स्वयम् ।।

पुत्रमित्रकलत्रार्थं यदा पुण्यं त्वपाकृतम् ।। १७४ ।।

एकाकी दह्यते तेन न च पश्यति तानि सः ।।

आत्मना च कृतं पापं भोक्तव्यं ध्रुवमात्मना ।। १७५ ।।

तत्किमन्योपघातार्थं मूढ पापं कृतं त्वया ।।

एवं दूतैरुपालब्धास्ते पृच्छंति ततः पुनः ।। १७६ ।।

कियंतं केन पापेन कालमत्रायते नरः ।।

देवद्रव्यविनाशेन गुरुद्रोहादिकर्मभिः ।।

पापात्सर्वेषु पच्यंते नरकेष्वामहाक्षयात् ।। ३७७ ।।

महापातकिनश्चापि सर्वेषु नरकेष्विह ।।

आचंद्रतारकं यावत्पीड्यंते विविधैर्वधैः ।। १७८ ।।

महापातकिनश्चान्ये नरकार्णवकोटिषु ।।

चतुर्दशसु पच्यंते कलार्धं विविधैर्वधैः ।। १७९ ।।

उपपातकिनश्चापि तदर्थं यांति मानवाः ।।

शेषपापैस्तदर्धं तु कालं चापि तथाविधम् ।। 4.6.१८० ।।

तस्मात्पापं न कुर्वीत चंचले जीविते सति ।।

पापेन हि ध्रुवं यांति नरकेषु नराः स्वयम् ।। १८१ ।।

यः करोति नरः पापं तस्यात्मा ध्रुवमप्रियः ।।

पापस्येह फलं दुःखं तद्भोक्तव्यमिहात्मना ।। १८२ ।।

कथं ते पापनिरता नरा रात्रिषु शेरते ।।

मरणांतरिता येषां नारकी तीव्रयातना ।। १८३ ।।

एवं क्लिष्टविशुद्धाश्च सावशेषेण कर्मणा ।।

ततः क्षितिं समासाद्य जायन्ते देहिनः पुन. ।।

स्थावरा विविधाकारास्तृणगुल्मादिभेदतः ।। ।।। १८४ ।।

तत्रानुभूय दुःखानि जायंते कीटयोनिषु ।।

निष्क्रांताः कीटयोनिभ्यो जायन्ते पक्षिणस्ततः ।। १८५ ।।

संश्लिष्टाः पक्षिभावेन भवंति मृगजादिषु ।।

मार्गं दुःखमतिक्रम्य जायंते पशुयोनिषु ।। १८६ ।।

क्रमाद्गोयोनिमासाद्य जायन्ते मानवाः पुनः ।।

एवं योनिषु सर्वासु परिक्रम्य क्रमेण तु ।।

कालांतरवशाद्यांति मानुष्यमतिदुर्लभम् ।। १८७ ।।

व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगोचरात् ।।

विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात् ।। १८८ ।।

मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसाधकम् ।।

द्वयोर्न साधयत्येकं स मृतस्तप्यते चिरम् ।। ।। १८९ ।।

देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम् ।।

तत्संप्राप्य कथाः कुर्यान्न गच्छेन्नरकं यथा ।। 4.6.१९० ।।

स्वर्गापवर्गलाभाय यदि नास्ति समुद्यतः ।।

स्वर्गस्य मूलं मानुष्यं तद्यत्नादनुपालयेत् ।। १९१ ।।

धर्ममूलेन मानुष्यं लब्ध्वा सर्वार्थसाधकम् ।।

यदि लाभे न यत्नस्ते मूलं रक्षस्व यत्नतः ।। १९२ ।।

मनुष्यत्वे च विप्रत्वं यः संप्राप्यातिदुर्ल्लभम् ।।

न करोत्यात्मनः श्रेयः कोन्यस्तस्मादचेतनः ।। १९३ ।।

सर्वेषामेव देशानां मध्यदेशः परः स्मृतः ।।

अतः स्वर्गश्च मोक्षश्च यशः संप्राप्यते नरैः ।। १९४ ।।

एतस्मिन्भारते पुण्ये प्राप्य मानुष्यमध्रुवम् ।।

यःकुर्यादात्मनः श्रेयस्तेनात्मा रक्षितः स्वयम् ।।

यः कुर्यान्नात्मनः श्रेयस्तेनात्मा वंचितः स्वयम् ।। १९५ ।।

भोगभूमिः स्मृतः स्वर्गः कर्मभूमिरियं मता ।।

इह यत्क्रियते कर्म स्वर्गे तदुपभुज्यते ।। १९६ ।।

यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचर ।।

अस्वस्थश्चातियत्नेन न किञ्चित्कर्तुमुत्स हेत् ।। १९७ ।।

अध्रुवेण शरीरेण ह्यध्रुवं यः प्रसाधयेत् ।।

ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव च ।। १९८ ।।

आयुषः खंडखडानि निपतंति तवा ग्रतः ।।

अहोरात्रापदेशेन किमर्थं नावबुध्यसे ।। १९९ ।।

यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति ।।

आकस्मिके हि मरणे धृतिं विंदेत कस्तदा ।। 4.6.२०० ।।

परित्यज्य यदा सर्वमेकाकी यास्यसि धुवम् ।।

न ददासि तदा कस्मात्पाथेयार्थमिदं धनम् ।। २०१ ।।

गृहीतदानपाथेया सुखं यांति महाध्वनि ।।

अन्यथा क्लिश्यते जंतुः पाथेयरहितः पथि ।। २०२ ।।

येषां द्विजेन्द्रवाहित्री पूर्णभांडा तु गच्छति ।।

स्वर्गदेशस्य पुर तस्तेषां लाभः पदेपदे।।२०३।।

इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ।।

पुण्येन याति देवत्वमपुण्यान्नरकं व्रजेत् २०४।।

ये मनागपि देवेशं प्रपन्नाः शरणं शिवम्।।

तेपि घोरं न पश्यंति यमस्य वदनं नराः।।२०५।।

किं तु पापैर्महाघोरैः किञ्चित्कालं शिवाज्ञया।

।। भवंति प्रेत राजानस्ततो यांति शिवालयम्।। २०६।।

ये पुनः सर्वभावेन प्रतिपन्ना महेश्वरम् ।।

न ते लिप्यंति पापेन पद्मपत्रमिवांभसा ।। २०७ ।।

तस्मा द्विवर्धयेद्भक्तिमीश्वरे सततं बुधः ।।

तन्माहात्म्यविचारेण भवदोषविरागतः ।। २०८ ।।

पापानि पंच परमार्थतयैव पार्थ दुःखप्रदानि सुचिरं पितृ राजलोके ।।

अन्यानि यानि चिरकालभयानकानि वक्तुं न यांति किल तानि परिस्फुटानि ।। २०९ ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुभाशुभफलनिर्देशो नाम षष्ठोऽध्यायः ।। ६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 7

शकटव्रतमाहात्म्यवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

यदेतत्ते समाख्यातं गंभीरं नरकार्णवम।।

व्रतोपवासनियमप्लवेनोत्तीर्यते सुखम् ।। १ ।।

दुर्ल्लभं प्राप्य मानुष्यं विद्युत्पतनचञ्चलम् ।।

तथात्मानं समादध्याद्भ्रश्यते न पुनर्यथा ।। २ ।।

दान व्रतमयी कीर्तिर्यस्य स्यादिह देहिनः ।।

परलोकेऽपि स तया ज्ञायते ज्ञातिवर्द्धनः ।। ३ ।।

ज्ञायते नेह नामुत्र व्रतस्वाध्यायवर्जितः ।।

पुरुषः पुरुषव्याघ्र तस्माद्व्रतपरो भवेत् ।। ४ ।।

अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।।

सिद्धेन सह संवादमवंत्यां ब्राह्मणस्य हि ।। ५ ।।

योगर्द्धिसिद्ध्या संसिद्धः कश्चित्सिद्धो महीतलम् ।।

चचार विकृतं कृत्वा वपुः परमभीषणम् ।। ६ ।।

निगीर्णदंतो लंबोष्ठः पिंगाक्षस्तनुमूर्द्धजः ।।

त्रुटितैक कर्णो दुर्वणः शीर्णवस्त्रो महोदरः ।। ७ ।।

चिपिटाक्षः स्फुटितपाज्जंघाढ्यः कृशकूर्परः ।।

दिशः पश्यति संहृष्टो बभ्रामोद्भ्रांतचित्तवत् ।। ८ ।।

मूलजालिकविप्रेण दृष्टः पृष्टश्च को भवान् ।।

कदा स्वर्गात्समायातः केन कार्येण मे वद ।। ९ ।।

कच्चिद्दृष्टा त्वया रंभा भाभासितदिगंतरा ।।

चित्तसंमोहनकरी देवानामेकसुन्दरी ।। १० ।।

गत्वा मद्वचनाद्वाच्या निर्वाच्या दोषदर्शिभिः ।।

आवंत्यस्त्वां कुशलिनीं पृच्छति स्म द्विजो त्तमः ।। ११ ।।

सिद्धः प्रसिद्धं तं विप्रं प्राहेदं विस्मयान्वितः ।।

कथं त्वयाहं विज्ञातः स्वर्गादभ्यागतः स्फुटम् ।। १२ ।।

ब्राह्मणस्तमथोवाच विज्ञातोऽसि मया यथा ।।

तथा तेऽहं प्रवक्ष्यामि क्षीणाघौघावधारय ।। १३ ।।

गात्रत्रयं विरूपं स्याद्द्वितीयं वा स्वरूपतः।।

दृष्ट्वा सर्वांग वैरूप्यं विज्ञातोऽसि ततो मया ।। १४ ।।

दुर्ल्लंघ्या प्रकृतिः साक्षादनुभूतकरी भवेत् ।।

प्रकृतेरन्यथाभावः सर्वथा लक्ष्यते जनैः ।। १५ ।।

विप्रस्यैवं वचः श्रुत्वा जगामादर्शनं शनैः ।।

पुनः कैश्चिदहोरात्रैराजगाम स तां पुरीम् ।। १६ ।।

मूलजालकविप्रेण पृष्टः प्राहामरावतीम् ।।

गतोऽहं पृष्टवांस्तत्र रंभां विभ्रमकारिणीम् ।। १७ ।।

शक्रस्यावसरे वृत्ते व्रजन्त्याः स्वगृहं मया ।।

त्वत्संदेशः समाख्यातः सावदत्को न वेद्मि तम् ।।१८।।

विद्यया कलया चापि पौरुषेण व्रतेन च ।।

तपसा वा पुमान्मर्त्यो दिवि विज्ञायते चिरम् ।। १९ ।।

ब्राह्मणस्तमथोवाच मुग्धा दग्धाग्निसंभवा ।।

न भक्षयामि शकटं व्रतेनैतेन वेत्ति माम् ।। २० ।।

तस्यैतद्वचनं श्रुत्वा स सिद्धः सुविशुद्धधीः ।।

प्रहस्यामंत्र्य तं विप्रं जगामादर्शनं पुनः ।। २१ ।।

कदाचिच्च रता तेन स्वर्गमार्गं यदृच्छया ।।

दृष्ट्वा रंभां द्विजप्रोक्तं सर्वमेव निवेदितम् ।। २२ ।।

।। रंभोवाच ।। ।।

को न जानामि तं विप्रं शकटव्रतचारिणम् ।।

मूलजालैर्वर्तयंतं महाकालवनाश्रयम् ।। २३ ।।

दर्शनादथ संभाषादुपकारात्सहासनात् ।।

चतुर्धा स्नेहनिर्बंधो नृणां संजायतेऽधिकः ।। २४ ।।

न दर्शनं न संभाषा कदाचित्सह तेन मे ।।

नामश्रवणमात्रेण स्नेहः संदर्शितो महान् ।। २५ ।।

इत्येवमुक्त्वा रंभोरू रंभा जंभारिणोंतिकम् ।।

विस्मयोत्फुल्लनयना जगाम गजगामिनी ।।२६।।

गत्वा निवेदयामास स्नेहव्रतविचेष्टितम् ।।

पुरतो रुद्धहृदया ब्राह्मणस्य च धीमतः ।। २७ ।।

शक्रः प्रोवाच चार्वंगीं गीर्वाणहृदयंगमाम् ।।

किमानयामि तं विप्रं समीपं तव सुव्रतम् ।। २८ ।।

दिव्यमाल्यांबरधरं दिव्यस्रगुनुलेपनम् ।।

विमानवरमारोप्य दर्शयामास तं पुनः ।। २९ ।।

तत्रस्थः स द्विजो भोगीविभुनक्ति सह रंभया ।।

शकटव्रतमाहात्म्यमित्येतत्ते मयोदितम् ।। ३० ।।

राज्यश्रियं जगति सर्वजनोपभोग्यामाप्नोति शक्रशिवकेशवयोर्निवासम्।।

नाप्राप्यमस्ति भुवने सुदृढव्रतानां तस्मात्सदा व्रतपरेण नरेण भाव्यम् ।। ३१ ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शकटव्रतमाहात्म्यकथनंनाम सप्तमोऽध्यायः ।। ७ ।। छ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 8

तिलकव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

ब्रह्मेश केशवादीनां गौर्या गणपतेस्तथा ।।

दुर्गासूर्याग्निसोमानां व्रतानि मधुसूदन ।। १ ।।

शास्त्रांतरेषु दृष्टानि तव बुद्धिगतानि च ।।

तानि सर्वाणि मे देव वद देवकिरनन्दन ।। २ ।।

प्रतिपत्क्रमयोगेन विहिता यस्य या तिथिः ।।

देवस्य तस्यां यत्कार्यं तदशेषेण कीर्तय ।। ३ ।।

।। श्रीकृष्ण उवाच ।। ।।

वसंते किंशुकाशोकशोभने प्रतिपत्तिथिः ।।

शुक्ला तस्यां प्रकुर्वीत स्नानं नियमतत्परः।। ४ ।।

नारी नरो वा राजेन्द्र संतर्प्य पितृदेवताः ।।

नद्यास्तीरे तडागे वा गृहे वा नियतात्मवान्।। ५ ।।

पिष्टातकेन विलिखेद्वत्सरं पुरुषाकृतिम् ।।

ततश्चन्दनचूर्णेन पुष्पधूपादिनार्चयेत् ।।६।

दीपैश्चापि सनैवेद्यैः पूजयेद्वत्सरं तदा ।।

मासर्तुनामभिः पश्चान्नमस्कारांतयोजितैः ।।

पूजयेद्ब्राह्मणान्विद्वान्मंत्रैर्वेदोदितैः शुभैः ।। ७ ।।

संवत्सरोऽसि परिवत्सरोसीडा वत्सरोऽभित्सरोऽसि उषसस्ते कल्पंतामहोरात्रास्ते कल्पंतामर्धमासस्ते कल्पतां मासास्ते कल्पतामृतवस्ते कल्पन्तां संवत्सरस्ते कल्पताम् ।। ।। ८ ।।

एवमभ्यर्च्य वासोभिः पश्चात्तमभिवेष्टयेत् ।।

कालोद्भवैर्मूलफलैनैर्वेद्यैर्मोदकादिभिः ।। ९ ।।

ततस्तं प्रार्थयेत्पश्चात्पुरः स्थित्वा कृतांजलिः।।

भगवंस्त्वत्प्रसादेन वर्ष शुभदमस्तु मे ।। 4.8.१० ।।

एवमुक्त्वा यथाशक्ति दद्याद्विप्राय दक्षिणाम् ।।

ललाटपट्टे तिलकं कुयच्चांदनपङ्कजम् ।।११।।

ततः प्रभृत्यनुदिनं तिलकालंकृतं मुखम् ।।

धार्यं संवत्सरं यावच्छशिनेव नभस्तलम् ।। १२ ।।

एवं नरो वा नारी वा व्रतमेतत्समाचरेत् ।।

सदैव पुरुष व्याघ्र भोगान्भुवि भुनक्त्यसौ ।। १३ ।।

भूताः प्रेताः पिशाचाश्च दुर्वारा वैरिणो ग्रहाः ।।

निरर्थका भवंत्येते तिलकं वीक्ष्य तत्क्षणात् ।। १४ ।।

पूर्वमासीन्महीपालो नाम्ना शत्रुंजयो जयी ।।

चित्रलेखेति तस्याभूद्भार्या चारित्रभूषणा ।। १५ ।।

तया व्रतमिदं चैत्रे गृहीतं द्विजसन्निधौ ।।

संवत्सरं पूजयित्वा धृत्वा हृदि जनार्दनम् १६।।

असूयुः क्षेप्तुकामो वा समागच्छति यः पुरः ।।

प्रयाति प्रियकृत्तस्या दृष्ट्वा मुखमधोमुखः।।१७।।

सपत्नीदर्पापहरा वशीकृतमहीतला ।।

भर्तुरिष्टा प्रहृष्टा च सुखमास्ते निराकुला ।।१८।।

तावत्करेणाभिभूतो भर्ता पुत्रः सवेदनः ।।

शिरोऽर्त्या नाशं प्रयातः सुहृदां दुःखदायकः ।।१९।।

धर्मराजपुरं प्राप्तुं सर्वभूतापहारकः।।

तस्मिन्क्षणे महाराजः धर्मराजस्य किंकराः।।4.8.२०।।

तस्य द्वारमनुप्राप्ताः प्रवेष्टुं गृहमञ्जसा ।।

शत्रुंजयं समानेतुं कालमृत्युपुरःसराः ।।२१।।

पार्श्वस्थितां चित्रलेखां तिलकालंकृताननाम् ।।

दृष्ट्वा प्रनष्टसंकल्पाः परावृत्य गताः पुनः।।२२।।

गतेषु तेषु स नृपः पुत्रेण सह भारत ।।

नीरुजो बुभुजे भोगान्पूर्वकर्मार्जिताञ्छुभान् ।। २३ ।।

एतद्व्रतं महाभाग कीर्तितं ते महोदयम् ।।

शंकरेण समाख्यातं मम पूर्वं युधिष्ठिर ।।२४।।

एतत्त्रिलोकतिलकालकभूषणं ते ख्यातं व्रतं सकलदुःखहरं परं च ।।

इत्थं समाचरति यः स सुखं विहृत्य मर्त्यः प्रयाति पदमापदि पद्मयोनेः ।। २५ ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिलकव्रतकथनं नामाष्टमोऽध्यायः ।। ८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 9

अशोकव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

आश्वयुच्छुक्लपक्षस्य प्रथमेऽह्नि दिनोदये ।।

अशोकं पूजयेद्वृक्षं प्ररूढशुभपल्लवम् ।। १ ।।

विरूढैः सप्तधान्यैश्च गुण कैर्मोदकैः शुभैः ।।

फलैः कालोद्भवैर्दिव्यैर्न्नालिकेरैः सदाडिमैः ।। २ ।।

पुष्पधूपादिना तद्वत्पूजयेत्तद्दिनेऽनघ ।।

अशोकं पांडवश्रेष्ठ शोकं नाप्नोति कुत्रचित् ।। ३ ।।

पितृभ्रातृपतिश्वश्रूश्वशुराणां तथैव च ।।

अशोक शोकशमनो भव सर्वत्र नः कुले ।। ४ ।।

इत्युच्चार्य ततो दद्यादर्घ्यं श्रद्धासमन्वि तम् ।।

पताकाभिरलंकृत्य प्रच्छाद्य शुभवाससा ।। ५ ।।

दमयन्ती यथा स्वाहा यथा वेदवती सती ।।

तथाशोकव्रतादस्माज्जायते पतिवल्लभा ।। ।। ६ ।।

वने व्रजंत्या सद्धर्मः सीतया संप्रदर्शितः ।।

दृष्ट्वाऽशोकं वने पार्थ पल्लवालंकृतांबरम् ।। ७ ।।

कृत्वा समीपे भर्तारं देवरं च तिलाक्षतैः ।।

दीपालंकृतनैवेद्यधूपसूत्रफलार्च्चनैः ।। ८ ।।

अर्चयित्वा ह्यर्थितोऽसौ रक्ताशोको युधिष्ठिर ।।

मैथिल्या प्राञ्जलिर्भूत्वा शृण्वतो राघवस्य च ।। ९ ।।

चिरं जीवतु मे वृद्धः श्वशुरः कोशलेश्वरः ।।

भर्ता मे देवराश्चैव जीवंतु भरतादयः ।।

कौशल्यामपि जीवन्तीं पश्येयमिति मैथिली ।। 4.9.१० ।।

ययाचे तं महाभागा द्रुमं सत्योपयाचनम् ।।

प्रदक्षिणमुपावृत्य ततस्ते प्रययुः पुनः ।। ११ ।।

एवमन्यापि या नारी पूजयेद्भुवि तं नगम् ।।

तिल तंडुलसंमिश्रैर्यवगोधूमसर्षपैः ।। १२ ।।

क्षमाप्य वन्दयेन्मूलं पादपं रक्तपल्लवम् ।।

मन्त्रेणानेन कौंतेय प्रणम्य स्त्री पतिव्रता ।। १३ ।।

महावृक्ष महाशाख मकरध्वजमन्दिर ।।

प्रार्थये त्वां महाभाग वनोपवनभूषण ।। १४ ।।

एवमाभाष्य तं वृक्षं दत्त्वा विप्राय दक्षिणाम् ।।

सखीभिः सहिता साध्वी ततः स्वभवनं व्रजेत् ।। १५ ।।

याः शोकनाशनमशोकतरुं तरुण्यः संपूजयंति कुसुमाक्षतधूपदीपैः ।।

ताः प्राप्य सौख्यमतुलं भुवि भर्तृ जातं गौरीपदं प्रमुदिताः पुनराप्नुवंति ।। १६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अशोकव्रतवर्णनं नाम नवमोऽ ध्यायः ।। ९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 10

करवीरव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

ज्येष्ठे मासि सिते पक्षे प्रथमेऽह्नि दिनोदये ।।

देवोद्यानभवं हृद्यं करवीरं समर्चयेत ।।१।।

रक्ततंतुपरीधानं गन्धधूपविलेपनैः ।।

विरूढैः सप्तधान्यैश्च नारंगैर्बीजपूरकैः ।। २ ।।

गुणकैर्घटकैर्दिव्यैर्नालिकेरैः सुशोभनैः ।।

अभ्युक्ष्याक्षततोयेन मंत्रेणैवं क्षमापयेत् ।। ३ ।।

करवीर विषावास नमस्ते भानुवल्लभ ।।

मौलिमंडनसद्रत्न नमस्ते केशवेशयोः ।। ४ ।।

आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।।

हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् ।। ५ ।।

एवं भक्त्या समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम् ।।

प्रदक्षिणामथो कृत्वा ततः स्वभवनं व्रजेत् ।। ६ ।।

एतद्व्रतं महाभाग सूर्याराधनकाम्यया ।।

अनसूयया च क्षमया सावित्र्या सत्यभामया ।। ७ ।।

दमयन्त्या सरस्वत्या गायत्र्या गंगया तथा ।।

अन्याभिरपि नारीभिर्मर्त्यलोकेऽप्यनुष्ठितम् ।।

करवीव्रतं पार्थ सर्वसौख्यफलप्रदम् ।। ८ ।।

संपूज्य रत्नकुसुमांचितसर्वशाखं नीलैर्दलैस्तततनुं करवीरवृक्षम् ।।

भुक्त्वा मनोऽभिलषितान्भुवि भव्यभोगानंते प्रयाति भवनं भरताग्र्य भानोः।। ।। ९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे करवीरव्रतवर्णनं नाम दशमोऽध्यायः ।। १० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 11

कोकिलाव्रतवर्णनम्

thumb|रक्षाबन्धनम्

thumb|कोकिला Cochlea

।। युधिष्ठिर उवाच ।। ।।

स्वभर्त्रा सह संबद्धमहास्नेहो यथा भवेत् ।।

कुलस्त्रीणां तदाचक्ष्व व्रतं मम सुरोत्तम ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

यमुनायास्तटे पूर्वं मथुरास्ते पुरी शुभा ।।

तस्यां शत्रुघ्ननाम्नाभूद्राजा रामप्रतिष्ठितः ।। २ ।।

तस्य भार्या कीर्तिमाला नाम्नासीत्प्रथिता भुवि ।।

तया प्रणम्य भगवान्वशिष्ठो मुनिपुंगवः ।। ३ ।।

पृष्टः सुखं मुनिश्रेष्ठ कथं समुपजायते ।।

ब्रूहि मे तिलसम्बन्धकारणं व्रतमुत्तमम् ।। ४ ।।

एवमुक्तस्तया ज्ञानी वशिष्ठः कीर्तिमालया ।।

ध्यात्वा मुहूर्तमाचख्यौ कोकिलाव्रतमुत्तमम् ।। ५ ।।

।। श्रीवशिष्ठ उवाच ।। ।।

आषाढपूर्णिमायां तु संध्याकाले ह्युपस्थिते ।।

संकल्पयेन्मासमेकं श्रावणे श्वःप्रभृत्यहम् ।। ६ ।।

स्नानं करिष्ये नियता ब्रह्मचर्यस्थिता सती ।।

भोक्ष्यामि नक्तं भूशय्यां करिष्ये प्राणिनां दयाम् ।। ७ ।।

इति संकल्प्य पुरुषो नारी वा ब्राह्मणांतिके ।।

प्राप्यानुज्ञां ततः प्रातः सर्वसामग्रिसंयुतः ।। ८ ।।

पुरुषः प्रतिपत्कालाद्दन्तधावनपूर्वकम् ।।

नद्यां गत्वा तथा वाप्यां तडागे गिरिनिर्झरे ।। ९ ।।

स्नानं कुर्याद्व्रती पार्थ सुगन्धामलकैस्तिलैः ।।

दिनाष्टकं तथा पश्चात्सर्वौषध्या पुनः पृथक् ।। 4.11.१० ।।

वचयाष्टौ पुनः पिष्ट्वा शिरोरुहविमर्दनम् ।।

स्नात्वा ध्यात्वा रविं चैव वंदित्वा च पितॄनथ ।। ११ ।।

तर्पयित्वा तिलापिष्टैः कोकिलां पक्षिरूपिणीम् ।।

कलकण्ठीं शुभैः पुष्पैः पूजयेच्चंपकोद्भवैः ।। १२ ।।

पत्रैर्वा धूपनैवेद्यदीपालक्तकचंदनैः ।।

तिल तन्दुलदूर्वाग्रैः पूजयित्वा क्षमापयेत् ।।

नित्यं तिलव्रती भक्तो मंत्रेणानेन पांडव ।। १३ ।।

तिलसहे तिलसौख्ये तिलवर्णे तिलप्रिये ।।

सौभाग्यं द्रव्यपुत्रांश्च देहि मे कोकिले नमः ।। १४ ।।

इत्युच्चार्य ततः पश्चाद्गृहमभ्येत्य संयतः ।।

कृत्वाहारं स्वपेत्पार्थ यावन्मासः समाप्नुते ।।१५।।

मासांते ताम्रपात्र्यां तु कोकिलां तिलपिष्टजाम् ।।

रत्ननेत्रां स्वर्णपक्षां ब्राह्मणाय निवेदयेत्।। १६ ।।

वस्त्रैर्द्धनैर्गुडैर्युक्तां श्रावण्यां कुंडलेऽथ वा ।।

श्वश्रूश्वशुरवर्गे वा दैवज्ञे वा पुरोहिते ।।

व्यासे वा संप्रदातव्या व्रतिभिः शुभकाम्यया ।।१७।।

एवं या कुरुते नारी कोकिलाव्रतमादरात् ।।

सप्त जन्मानि सौभाग्यं सा प्राप्नोति सुविस्तरम् ।। १८ ।।

निःसापत्न्यं पतिं भव्यं सस्नेहं प्राप्य भूतले ।।

मृता गौरीपुरं याति विमानेनार्कवर्चसा ।। १९ ।।

एतद्व्रतं वशिष्ठेन मुनिना कथितं पुरा ।।

तथा चानुष्ठितं पार्थ समस्तं कीर्तिमालया ।। 4.11.२० ।।

तस्याश्च सर्वं संपन्नं वशिष्ठवचनादिह ।।

पुत्रसौभाग्यसंमानं शत्रुघ्नस्य प्रसादजम्।। २१ ।।

एवं यान्यापि कौंतेय कोकिलाव्रतमादरात् ।।

करिष्यति ध्रुवं तस्याः सौभाग्यं च भविष्यति ।।२२।।

ये कोकिलां कलरवां कलकंठपीठां यच्छंति साज्यतिलपिष्टमयीं द्विजेभ्यः ।।

ते नंदनादिषु वनेषु विहृत्य कामं मर्त्ये समेत्य मधुरध्वनयो भवंति ।। २३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कोकिलाव्रत नामैकादशोऽध्यायः ।। ११ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 12

बृहत्तपोव्रतवर्णनम्

।। श्रीकृष्ण उवाच।। ।।

अथ पापापहं वक्ष्ये बृहद्व्रतमनुत्तमम् ।।

सुरासुरमुनीनां च दुर्ल्लभं विधिना शृणु ।।१।।

पर्वण्याश्वयुजस्यांते पायसं घृत संयुतम् ।।

नक्तं भुञ्जीत शुद्धात्मा ओदनं वैक्षवान्वितम् ।। २ ।।

आचम्याथ शुचिर्भूत्वा बिल्वजं दंतधावनम् ।।

भक्षयित्वा महादेवं प्रणम्येदमुदीरयेत् ।। ३ ।।

अहं देवव्रतमिदं कर्तुमिच्छामि शाश्वतम् ।।

तवाज्ञया महादेव यथा निर्वहते कुरु ।।४।।

इत्येवं नियमं कृत्वा यावद्वर्षाणि षोडश ।।

तिथयः प्रतिपत्पूर्वां भजिष्यामीत्यनुक्रमात् ।। ५ ।।

ततो मार्गशिरे मासि प्रतिपद्यपरेऽहनि ।।

पृष्ट्वा गुरुं चोपवासं महादेवं स्मरन्मुहुः ।। ६ ।।

स्नात्वा देवं समभ्यर्च्य रात्रौ प्रज्वाल्य दीपकान् ।।

यमुनां च महादेवं नत्वा पश्चान्निमंत्रयेत् ।। ७ ।।

महादेवरतान्विप्रान्सपत्नीकान्यतव्रतान् ।।

षोडशाष्टौ तदर्धं वा एकं वा शक्त्यपेक्षया ।। ८ ।।

आमंत्र्य स्वगृहं गत्वा महादेवं स्मरन्क्षितौ ।।

शुचिवस्त्रास्तृतायां तु निराहारो निशि स्वपेत ।। ९ ।।

भास्करोदयमासाद्य स्नात्वा चादाय दीपकान् ।।

नैवेद्यं स्नपनं पुष्पं धूपं गच्छेष्छिवालये ।।4.12.१०।।

अभ्यंगयित्वा देवेशं कषायैश्च विरूक्षयेत् ।।

स्नपयेत्पञ्चगव्येन पयसा तदनंतरम् ।। ११ ।।

घृतेन मधुना दध्ना रसेन पयसा पुनः ।।

तिलांबुना ततः स्नाप्य स्नापयेदुष्णवा रिणा ।। १२ ।।

लेपयेत्सुघनं पश्चात्कर्पूरागरुचंदनैः ।।

पुष्पैः संपूज्य दातव्यं हैमं शिरसि पंकजम् ।। १३ ।।

वस्त्रयुग्मं पताकां च पञ्चवर्णं वितानकम्।।

धूपं दीपं च घंटाञ्च दद्याद्देवस्य शक्तितः ।।१४।।

पश्चान्निवेद्य नैवेद्यं स्तुत्वा स्वभवनं व्रजेत्।।

सुसमिद्धं ततः कृत्वा पूजयेज्जातवेदसम् ।।१५।।

व्रतिनश्च तथाचार्यं भोजयेन्मिथुनानि च ।।

हेमवस्त्रादिदानेन यथाशक्ति क्षमापयेत् ।। १६ ।।

एवं विसृज्य तान्सर्वान्सार्द्धं बंधुजनैः स्वयम् ।।

आशयित्वा पञ्चगव्यं हृष्टो भुञ्जीत वाग्यतः ।। १७ ।।

एवमेव विधिं कृत्वा प्रारभेताधनो धनी ।।

वित्तसामर्थ्यतश्चैव प्रतिमासं च कृत्स्नशः ।। १८ ।।

वित्तहीनो यथा कश्चिच्छ्रद्धया च पुनःपुनः ।।

पुष्पार्चनविधानेन सर्वमेतत्समाचरेत् ।। १९ ।।

प्रतिमासमुपोष्यैवं प्रति पत्कार्त्तिकावधौ ।।

पारयेत्तं हुतं पार्थ प्रारंभविधिना स्फुटम् ।। 4.12.२० ।।

द्वितीये द्वे पञ्चदश्यां कृत्वा नक्तं नराधिपः ।।

प्रतिपत्स द्वितीया चेत्तस्यामुपवसेत्सुधीः ।। २१ ।।

द्वितीयोपवसेच्छुक्ला ततः प्रभृति वत्सरम् ।।

प्रारंभविधिना चैवं द्वितीयामपि पारयेत् ।। २२ ।।

उपवासद्वयं कृत्वा तृतीयां प्रारभेत्ततः ।।

अनेन क्रमयोगेन यावद्वर्षं समाप्यते ।। २३ ।।

कृत्वैवं षोडशे वर्षे पूर्णमास्यां समुद्यतः ।।

पूर्ववद्देवमभ्यर्च्य कृशानुं वाभितर्प्य च ।। २४ ।।

हेमशृंगीं रौप्यखुरां सघंटां कांस्यदोहनाम् ।।

महादेवाय गां दद्याद्दीक्षिताय द्विजाय वै ।। २५ ।।

शिवभक्तिरतान्विप्रान्विशुद्धांश्चैव षोडश ।।

वस्त्राभरणदानैश्च शक्त्या संपूजयेद्व्रती ।। २६ ।।

ब्राह्मणांश्च यथाशक्त्या भोजयेदपरानपि ।।

अन्येषां च क्षुधार्तानां दद्याद्दानं यथेच्छया ।। २७ ।।

बृहत्तपोव्रतं चैव ब्रह्मघ्नाद्यघशोषणम् ।।

भूर्भुवादिषु लोकेषु भूरिभोगप्रदं नृणाम् ।। २८ ।।

चतुर्णामपि वर्णानां स्वर्गसोपानवत्स्थितम् ।।

न कुर्याद्यो धनं प्राप्य स मुष्टो नष्टचेतनः ।। २९ ।।

धन्यमायुःप्रदं पुण्यं रूपसौभाग्यवर्द्धनम् ।।

स्त्रीपुंसयोश्च निर्दिष्टं व्रतमेतत्पुरातनम् ।। 4.12.३० ।।

विधवयापि कर्तव्यं भूयोऽवैधव्यहेतवे ।।

सधवयापि कर्तव्यमवियोगाय सद्व्रतम् ।। ३१ ।।

उपोष्य प्रतिमासं तु भुंजीत ब्राह्मणैः सह ।।

एकद्वित्रिचतुर्भिर्वा स्वशक्त्या पांडुनंदन ।। ३२ ।।

अंते चांते सुवर्णानां प्रारंभविधिनाचरेत् ।।

पुण्यसंभारमन्विच्छन्गमयित्वा शिवालयम् ।। ३३ ।।

व्रतविघ्ने महाराज जाते दैवात्कथंचन ।।

तावत्यस्तिथयश्चान्याः समुपोष्याः समाप्तये।। ।। ३४ ।।

अथ शीघ्रतरं कश्चिद्व्रतं कर्तुं समुद्यतः ।।

विधिनानेन राजेन्द्र तेन ग्राह्यं तिथिद्वयम् ।। ३५ ।।

अंते चांते च वर्षाणां प्रारंभविधिना च रेत् ।।

अथारब्धे व्रते कश्चिदसमाप्ते म्रियेत चेत् ।। ३६ ।।

सोऽपि तत्फलमाप्नोति सत्यारंभप्रभावतः ।।

वाचकाः श्रावकाश्चैव व्रतस्यास्य युधिष्ठिर।।

भवंति पुत्रसंश्लिष्टाः शिवध्यानानुभावतः ।।३७।।

पुण्यं बृहत्तप इदं व्रतमादराद्ये कुर्वंति षोडशसमा निरताः स्वधर्मे ।।

ते भानुमंडलमभेद्यमचिंत्यमाद्यं भित्त्वा प्रयान्ति शशिशेखरपादमूलम् ।। ३८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृहत्तपोव्रतवर्णनं नाम द्वादशोऽध्यायः ।। १२ ।।