Books / Bhaviṣya Purāṇa — Sanskrit Text

3. Bhaviṣya Purāṇa (part 3 of 3)

पर्व ४ (उत्तरपर्व) — Adhyāya 13

भद्रोपवासव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

जातिस्मरत्वं देवेश दुष्प्राप्यमिति मे मतिः ।।

तदहं ज्ञातुमिच्छामि प्राप्यते केन कर्मणा ।। १ ।।

वरप्रदानाद्देवानामृषीणां सेवनेन वा ।।

तीर्थस्नानेन वा देव तपोहोमव्रतेन वा ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

चत्वारि राजन्भद्राणि समुपोष्याणि यत्नतः ।।

तत्प्रभावाद्भवेन्नूनं राजञ्जातिस्मरो नरः ।। ३ ।।

शुभोदयः पुरा वैश्यो बभूव यमुनातटे ।।

तेन व्रतमिदं चीर्णं मृतः कालक्रमादसौ ।। ४ ।।

संजयस्य सुतो जातः स्वर्णष्ठीवीति विश्रुतः ।।

व्रतप्रभावाज्जातिज्ञः स च चौरेर्निपातितः ।। ५ ।।

नारदस्य प्रभावेण पुनरु जीव्यतेऽप्यसौ ।।

सस्मार पूर्ववृत्तांतं सकलं व्रतधर्मतः ।।६।।

।। युधिष्ठिर उवाच ।। ।।

संजयस्य कथं पुत्रः स्वर्णष्ठीवीति वा कथम् ।।

दस्युभिश्च कथं नीतो मृत्युं वै जीवितः कथम् ।। ७ ।।

।। श्रीकृष्ण उवाच ।।. ।।

संजयो नाम राजासीत्कुशावत्यां नराधिप ।।

देवर्षी तस्य मित्रे च सदा नारदपर्वतौ ।। ८।।

एकदा संजयगृहं संप्राप्तौ तौ यदृच्छया ।।

स्वगतासनदानाद्यैरुपचारैरपूजयत् ।। ९ ।।

तेषामथोपविष्टानां पूर्ववृत्तांतभाषिणौ ।।

संजयस्य सुता प्राप्ता तरुणी पितुरंतिकम् ।। 4.13.१० ।।

पर्वतः प्राह राजानं कन्येयं वरवर्णिनी ।।

गुप्तगुल्फा संहतोरूः पीनश्रोणिपयोधरा ।। ११ ।।

पद्मपत्रेक्षणनखा पद्मकिंजल्कसप्रभा ।।

आकुञ्चितमृदुस्निग्धैः केशैरविततैर्घनैः ।। १२ ।।

सविलासा गजगतिः सुनासा कोकिलस्वरा ।।

अहो रूपमहो धैर्यमहो लावण्यमुत्तमम् ।।१३।।

तिलपुष्पस्फुटा नासा रूपं संपरिलक्ष्यते ।।

कस्येयं भद्रिका भद्रा ममातिहृदयंगमा ।। १४ ।।

एवं ब्रुवा णं तं विप्रं विस्मयोत्फुल्ललोचनम् ।।

स राजा प्राह कन्येयं दुहिता मम पर्वत ।। १५ ।।

अथोवाच नृपं धीमान्नारदः क्षुभितेन्द्रियः ।।

राजन्निवेष्टुकामोऽहं कन्येयं मम दीयताम् ।। १६

ईप्सितं तव दास्यामि वरं मर्त्येषु दुर्ल्लभम् ।।

एवमुक्तो नारदेन प्रीतात्मा संजयस्तथा ।। १७ ।।

कृताञ्जलिरुवाचेदं प्रहर्षोत्फुल्ललोचनः ।।

पुत्रो मे दीयतां क्षिप्रमक्षीणकनकाकरः ।। १८ ।।

यस्य मूत्रं पुरीषं वा श्लेष्माणं क्षिपति क्षितौ ।।

जातरूपं हि तत्सर्वं सुवर्णं भवतु स्थिरम् ।। १९ ।।

एवमस्त्विति तं राजन्नारदः प्रत्यभाषत ।।

सुवर्णष्ठीविनं पुत्रं ददामि तव सुव्रत ।। 4.13.२० ।।

एवमुक्त्वा स तां कन्यां सालङ्कारां सुमध्यमाम् ।।

विवाहयामास तया नारदो हृष्टमानसः ।।२१ ।।

तत्तस्य चेष्टितं दृष्ट्वा पर्वतः क्रोधमूर्छितः ।।

उवाच नारदं रोषाद्दीप्ताक्षः स्फुरिताधरः ।। २२ ।।

मयेयं प्रार्थिता पूर्वं त्वया यस्माद्विवाहिता ।।

तस्मान्मया समं स्वर्गं न गंतासि कथंचन ।। २३ ।।

दत्तस्त्वयास्य यः पुत्रो वरदानेन नारद ।।

सोऽपि चौरैरभिहतः पञ्चत्वमुपयास्यति ।। २४ ।।

एवमुक्तः पर्वतेन नारदः प्राह दुर्मनाः ।।

न त्वं धर्मं विजानासि किञ्चिन्मूढोऽसि दुर्मते ।। २५ ।।

सामान्यं सर्वभूतानां कन्या भवति सुव्रत ।।

न तस्या वरणे दुःखं पश्यंतीह बहुश्रुताः ।। २६ ।।

न सेवितास्त्वया वृद्धास्तेन मां शपसे रुषा ।।

पणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे ।। २७ ।।

यस्मादेतदविज्ञाय शपसे मामनागसम् ।।

तस्मात्त्वमप्यहो स्वर्गं न गंतासि मया विना ।। २८ ।।

संजयस्य सुतः शापाद्यदि पञ्चत्वमेष्यति ।।

आनयिष्ये तथाप्येनं यमलोकान्न संशयः ।।२९।।

एवं शप्त्वा तदाऽ न्योन्यं देवर्षी तावुभौ पुनः ।।

पूजितौ संजयेनाथ जग्मतुः स्वाश्रमं प्रति ।। 4.13.३० ।।

अथास्य सप्तमे मासि जातः पुत्रो नृपस्य सः ।।

स्वर्णष्ठीवीति नामास्य यथार्थमकरोत्पिता ।। ३१ ।।

जातिस्मरः स्मरवपुः सुवर्णोत्पत्तिकारणम् ।।

सर्वभूतरुतज्ञोऽभूद्भद्रव्रतफलादिह ।। ३२ ।।

मूत्रश्लेष्मपुरीषादि यत्किञ्चित्क्षिपति क्षितौ ।।

जायते कनकं सर्वं प्रसादान्नारदस्य च ।।३३।।

तेनासौ यजते राजा विधिवद्भूरिदक्षिणैः ।।

राजसूयादिभिर्यज्ञैर्वि विधैर्ब्राह्मणैर्वृतः ।।३४।।

बभार भृत्याननिशं पुपोष स्वजनातिथीन् ।।

चकार देवतागारं सरश्चारामवाटिकाः ।।३५।।

जातस्नेहं तथा पुत्रं ररक्ष रक्षि भिर्वृतः ।।

राशयः कनकस्यास्य बभूवुर्नृपतेः सुतात्।।३६।।

अथास्य दस्यवः केचिच्छ्रुत्वा तं कनकाकरम्।।

धनलोलुपया जघ्नुर्दाक्षिणात्या मदोद्ध ताः।।३७।।

तस्मिन्विनष्टे तन्नष्टं वरदानसमुद्भवम् ।।

कनकं तदपश्यंतो जग्मुरन्योन्यतः क्षयम् ।।३८।।

पातितं दस्युभिः पुत्रं दृष्ट्वा राजा सुदुःखितः।।

विललापाकुलमतिः स मुमोह पपात च ।।३९।।

विलपंतं तु तं दृष्ट्वा नारदः प्राह संजयम् ।।

राजन्विषादं मा कार्षीः शृण्विमां भारतीं मम ।।4.13.४०।।

इत्युक्त्वा स समाचख्यौ चरितानि महौजसाम् ।।

विशिष्टानां नरेन्द्राणां यतीनां दक्षिणावताम् ।। ४१ ।।

श्रुत्वा राजा नरेंद्राणां चरितानि महा त्मनाम् ।।

विनष्टशोकः सहसा प्रकृतिस्थो वभूव सः ।।४२।।

नारदोऽपि नरेंद्रस्य मृतं पुत्रं यमालयात् ।।

आनयामास तरसा तथारूपं यथा हतम् ।। ४३ ।।

दृष्ट्वा स्पृष्ट्वा स पुत्रं तं परितुष्टेन चेतसा ।।

व्रीडितो विस्मितश्चैव कृताञ्जलिरथाव्रवीत् ।। ४४ ।।

किमाश्चर्यं प्रसन्नेन भवता मम नारद ।।

दत्तः पुत्रस्तथाभूतो दस्युभिर्घातितो यथा ।। ४५ ।।

षण्मासांते पुनरसौ जीवितं सर्वमेव तत् ।।

सस्मार पूर्वं वृत्तांतं भद्राणां पारणात्किल ।। ४६ ।।

एतत्ते सर्वमाख्यातं जातिस्मरणकारकम् ।।

व्रतं व्रताधिकं श्रेष्ठं किमन्यत्कथयामि ते ।।४७ ।।

।। श्रीकृष्ण उवाच ।। ।।

ब्राह्मणाश्चैव शूद्राश्च कुले महति जन्म च ।।

दाता क्षमी धनी वाग्मी रूपी स्वैर्भद्रकैर्भवेत् ।।४८।।

चत्वारि राजन्भद्राणि चतुष्पादानि तानि वै ।।

तान्येव बहुविघ्नानि दुष्प्राप्यान्यकृतात्मभिः ।। ४९ ।।

मार्गशीर्षे तु प्रथमं द्वितीयं फाल्गुने तथा ।।

ज्येष्ठे तृतीयं राजेन्द्र ख्यातं भाद्रपदे परम् ।। 4.13.५० ।।

फाल्गुनामलपक्षादौ त्रीन्मासांस्तु नराधिप ।।

तत्त्रिपुष्पमिति ख्यातं तपस्याकरणं परम् ।। ५१ ।।

ज्येष्ठस्य शुक्लपक्षादौ त्रीन्वै मासान्युधिष्ठिर ।।

तत्त्रिराममिति ख्यातं सत्यशौर्यप्रदायकम् ।। ५२ ।।

शुक्ले भाद्रपदस्यादौ त्रीन्मासान्पांडुनंदन ।।

तत्त्रिरंगमिति ख्यातं वहुविद्याप्रदायकम् ।। ५३ ।।

शुक्लमार्गशिरस्यादौ त्रीन्मासांस्तु नराधिप ।।

तद्विष्णुपदमित्युक्तं सर्वधर्मप्रदायकम् ।। ५४ ।।

समासेनैव चोक्तानि भद्राण्येतानि भारत ।।

कर्तव्यानि नरैः स्त्रीभिर्वा ब्रह्मणानुमतेन वा ।। ५५ ।।

।। युधिष्ठिर उवाच ।। ।।

विस्तरेणैव मे ब्रूहि देवदेव जगत्पते ।।

भद्राणां नियमाधानं प्रधाननियमांस्तथा ।। ५६ ।। ।।

।।श्रीभगवानुवाच ।। ।।

शृणु राजन्नवहितो भद्राणां विस्तरं परम् ।।

कथयिष्ये न कथितं कस्यचिद्यन्मयापुरा ।।५७।।

शुक्ले मार्गशिरस्यादौ चत्वारस्तिथयो वराः ।।

द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा ।। ५८ ।।

एकभुक्तासनस्तिष्ठेत्प्रतिपद्यां जितेन्द्रियः ।।

प्रभाते तु द्वितीयायां कृत्वा यत्करणीयकम् ।। ५९ ।।

प्रहरत्रये समधिके गते स्नानं समाचरेत् ।।

मृद्गोमयं च संगृह्य मंत्रैरेभिर्विचक्षणः ।। 4.13.६० ।।

अहं ते तु प्रदिश्यामि मंत्राणां विधिमुत्तमम् ।।

येषां देयो न देयो वा ताञ्छृष्व वदामि ते ।। ६१ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये शुचयोऽमलाः ।।

तेषां मंत्राः प्रदेया वै न तु संकीर्णधर्मिणाम् ।। ६२ ।।

या स्त्री भर्त्रा वियुक्तापि स्वाचारैः संयुता शुभा ।।

सा च मन्त्रान्प्रगृह्णातु सभर्त्री तदनुज्ञया ।।६३।।

स्नानं नद्यां तडागे वा वाप्यां कूपे गृहेपि वा ।।

दशोत्तरं फलं ज्ञेयमधिकं हि समन्त्रकम् ।। ६४ ।।

मृदं मंत्रेण संगृह्य सर्वांगेषु प्रलेपयेत् ।।

त्वं मृत्स्ने वंदिता देवैः समलैर्द्दैत्यघातिभिः ।। ६५ ।।

मयापि वंदिता भक्त्या मामतो विमलं कुरु ।। ६६ ।।

इति मृन्मंत्रः ।।

एवं जपन्मृदं दत्त्वा स्वहस्ताग्रेसमंत्रकम् ।।

जलावगाहनं कुर्यात्कुण्डमालिख्य धर्मवित् ।।

सिद्धार्थकैः कृष्णतिलैर्वचासर्वौषधीः क्रमात् ।। ६७ ।।

त्वमादिः सर्वदेवानां जगतां च जगन्मये ।।

भूतानां वीरुधांचैव रसानांपतये नमः ।। ६८ ।।

गंगासागरजं तोयं पौष्करं नार्मदं तथा ।।

यामुनं सांनिहत्यं च संनिधानमिहास्तु मे ।। ६९ ।।

इति स्नानमंत्रः ।।

शरीरालंभनं पूर्वं कृत्वा मृद्गोमयांबुभिः।।

एवं स्नात्वा समाप्लुत्य आचम्य तटमास्थितः ।।4.13.७०।।

निवस्य वाससी शुभ्रे शुचिः प्रयतमानसः ।।

देवान्पितॄन्मनुष्यांश्च तर्पयेत्सुसमाधिना ।। ७१ ।।

एवं गृहीतनियमो गृहं गच्छेच्छुचिव्रतः ।।

उपविश्य न संजल्पेद्यावच्चन्द्रस्य दर्शनम् ।। ७२ ।।

स्नात्वा चैव ततो नाम तृतीयादि चतुर्दिने ।।

नमः कृष्णाच्युतानंत हृषीकेशेति च क्रमात ।। ।। ७३ ।।

चतुर्दिने द्वितीयादौ देवमभ्यर्चयेऽच्युतम् ।।

प्रथमेह्नि स्मृता पूजा पादयोश्चक्रपाणिनः ।। ७४ ।।

नाभिपूजा द्वितीयेह्नि कर्तव्या विधिवन्नरैः ।।

मुरद्विषस्ततीयेह्नि पूजां वक्षसिविन्यसेत् ।। ७५ ।।

चतुर्थेह्नि जगद्धातुः पूजां शिरसि कल्पयेत् ।।

पुष्पैर्विलेपनैर्धूपैरर्घ्यं दद्युर्वि भूषणैः ।। ७६ ।।

घीवरैर्हरिनैवेद्यैर्दीपदानैश्च भक्तितः ।।

पूजयित्वा विधानेन विष्णुं विश्वेश्वरं व्रती ।। ७७ ।।

ततो दिनावसाने तु मुहूर्ते निर्गते सति ।।

अर्घ्यं प्रदद्यात्सोमाय भक्त्यातद्भावभावितः ।। ७८ ।।

शशिचन्द्रशशांकेन्दुनामानि क्रमशो नरः ।।

तृतीयादिषु चन्द्रस्य संकीर्त्यार्घ्यं निवेदयेत् ।। ७९ ।।

स चार्घ्यो यादृशो देय ऋद्धिमद्भिरथेतरैः ।।

तत्ते सम्यक्प्रवक्ष्यामि युधिष्ठिर निबोध मे ।। 4.13.८० ।।

चन्दनागुरुकर्पूरदधि दूर्वाक्षतादिभिः ।।

रत्नैः समुद्रजैश्चान्यैर्वज्रवैदूर्यमौक्तिकैः ।। ८१ ।।

पुष्पैः फलैः स्वकालोत्थैः खर्जूरैर्न्नालिकेरकैः ।।

वस्त्राच्छादनगोवा जिभूमिहेमगजान्वितैः ।। ८२ ।।

सत्त्वयुक्तस्य ऋद्धस्य राजन्नेष विधिः स्मृतः ।।

इतरस्य यथाशक्ति फलपुष्पाक्षतोदकैः ।। ८३ ।।

लवणं गुडं घृतं तैलं पयःकुंभास्तिलैः सह ।।

अर्घेष्वेतानि शस्तानि शशिवृद्ध्या विवर्द्धयेत् ।। ८४ ।।

प्रत्यहं वर्द्धयेदर्घ्यं शशि वृद्ध्या नरोत्तम ।।

एवमर्घः प्रदातव्यः शृणु मंत्रविधिक्रमम् ।। ८५ ।।

नवोनवोसि मासांते जायमानः पुनःपुनः ।।

त्रिरग्निसमवेतो वै देवानाप्यायसे हविः ।। ८६ ।।

गगनाङ्गणसद्दीप दुग्धाब्धिमथनोद्भव ।।

भाभासितदिगाभोग रमानुज नमोऽस्तु ते ।। ८७ ।।

दत्त्वार्घ्यं द्विजराजाय तद्विप्राय निवेदयेत् ।।

निर्वर्त्यार्घ्यक्रममिमं ततो भुंजीत वाग्यतः ।। ८८ ।।

भूमिं तु भाजनं कृत्वा पद्मपत्रसमास्तृताम् ।।

पालाशैर्मधुपत्रैर्वा सुरूपैर्वा शिलातले ।। ८९ ।।

समालभ्य धरां देवीं मंत्रेणानेन मंत्रवित् ।।

त्वत्तले भोक्तुकामोऽहं देवि सर्वरसोद्भवे ।। 4.13.९० ।।

मदनुग्रहाय सुस्वादं कुर्वन्नममृतोपमम् ।।

एवं जप्त्वा च भुक्त्वा च शाकं पाकं गुणोत्तरम् ।। ९१ ।।

आचम्य खान्युपालभ्य स्मृत्वा सोमं स्वपेद्भुवि ।।

भोक्तव्यं तु द्रितीयायामक्षारलवणं हविः ।। ९२ ।।

मुन्यन्नं तु तृतीयायां चतुर्थ्यां गोरसोत्तरम् ।।

घृताक्ताः सगुणाः शस्ताः पञ्चम्यां कृशरास्सदा ९३ ।।

शस्ता भद्रेषु सर्वेषु सदा श्यामाकतण्डुलाः ।।

प्रसाधिका घृतं गव्यं वन्यं फलमयाचितम् ।। ९४ ।।

प्रातः स्नानं ततः कृत्वा संतर्ज्य पितृदेवताः ।।

भोजयेद्ब्राह्मणान्भक्त्या दत्तदानान्विसर्जयेत ।।९५।।

भृत्यबन्धुजनैः सार्द्धं पश्चाद्भुञ्जीत कामतः ।।

एवं भद्रेषु सर्वेषु त्रिमासेषु गतेषु यः ।।९६।।

करोत्येतन्नरो भक्त्या वर्षमेकममत्सरी ।।

तस्य श्रीर्विजयश्चैव नित्यं सोमः प्रसीदति ।।९७।।

एतत्करोति या कन्या शुभं प्राप्नोति सा पतिम् ।।

दुर्भगा सुभगा साध्वी भवत्यविधवा सदा ।। ९८ ।।

राज्यार्थी लभते राज्यं धनार्थी लभते धनम् ।।

पुत्रार्थी लभते पुत्रानिति प्राह प्रभाकरः ।। ९९ ।।

योषित्कुलाकुलविवाहमनोरमाणि शय्यान्नयानशयनासनशोभितानि ।।

भद्राण्यवाप्य धनपुत्रकलत्रजानि जातिस्मरो भवति भारत भद्रकर्ता ।। 4.13.१०० ।।

इति श्री भविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भद्रोपवासव्रतनिरूपणं नाम त्रयोदशोऽध्यायः ।। १३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 14

द्वितीयाव्रतमाहात्म्यवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

संत्यन्यास्तिथयः पार्थ द्वितीयाद्याः परिश्रुताः ।।

मासैश्चतुर्भिश्चत्वारः प्रावृट्छुक्लाः क्लमापहाः ।। १ ।।

गोपिताश्च सदा लोके न प्रोक्ताश्च मया क्वचित् ।।

प्रकाशयामि ताः पार्थ शृणु सर्वा मया हि ताः ।। २ ।।

एका तु श्रावणे मासि अन्या भाद्रपदे तथा ।।

अपराश्वयुजे मासि चतुर्थी कार्तिके भवेत् ।। ३ ।।

श्रावणे कलुषा नाम प्रोष्ठपादे च गीर्मला ।।

आश्विने प्रेतसंचारा कार्तिके च यमा स्मृता ।।४।।

।। युधिष्ठिर उवाच ।। ।।

कस्मात्सा कलुषा प्रोक्ता कस्मात्सा गीर्मला मता ।

कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता ।। ५ ।।

।। श्रीकृष्ण उवाच ।। ।।

पुरा वृत्रवधे वृत्ते प्राप्तराज्ये पुरंदरे ।।

ब्रह्महत्यापनोदार्थमश्वमेधे प्रवर्तिते ।। ६ ।।

क्रोधादिन्द्रेण वजेण ब्रह्महत्या निषूदिता ।।

षट्खण्डा च कृता क्षिप्ता वृक्षे तोये महीतले ।। ७ ।।

नार्यां ब्रह्महने वह्नौ संविभज्य यथाक्रमम् ।।

तत्पापं श्रावणे व्यूढं द्वितीयायां दिनोदये ।।८।।

नारीवृक्षनदीभूमिवह्निब्रह्महनेष्वथ ।।

निर्मलीकरणं जातमतोर्थं कलुषा स्मृता ।।९।।

मधुकैटभयो रक्ते पुरा मग्नेति मेदिनी ।।

अष्टांगुला पवित्रा सा नारीणां तु रजो मलम् ।। 4.14.१० ।।

नद्यः पूरमलाः सर्वा वह्नेर्धूमशिखा मलः ।।

कलुषाणि चरंत्यस्यां तेनैषा कलुषा मता ।। ११ ।।

गीर्गिरा भारती वाणी वाचा मेधा सरस्वती ।।

गीर्मलं वहते यस्माद्वितीया गीर्मला मता ।। १२ ।।

देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः ।।

तेषां सा वाग्मलव्यूढा द्वितीया तेन गीर्मला ।। १३ ।।

अनध्यायेषु शास्त्राणि पाठयंति पठंति च ।।

शाब्दिकास्तार्किकाः श्रौतास्तेषां शब्दापशब्दजाः ।। १४ ।।

मला व्यूढा द्वितीयायामतोऽर्थं गीर्मला च सा ।।१४।।

प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः ।।

द्वितीयायां च लोकेषु तेन सा प्रेतसंचरा ।। १५ ।।

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।। १६ ।।

पितृपितामहप्रेतसंचरात्प्रेतसंचरा ।। १६ ।।

पुत्रैः पौत्रैश्च दौहित्रैः स्वधामंत्रैः सुपूजिताः ।।

श्राद्धदानमखैस्तृप्ता यात्यतः प्रेतसंचराः ।। १७ ।।

कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर ।।

यमो यमुनया पूर्वं भोजितः स्वगृहे तदा ।। १८ ।।

द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः ।।

पापेभ्यो विप्रमुक्तास्ते मुक्ताः सर्वे विबंधनाः ।।

भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यदृच्छया ।।१९।।

तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः ।।

ततो यमद्वितीया सा प्रोक्ता लोके युधिष्ठिर ।। 4.14.२० ।।

अस्यां निजगृहे पार्थ न भोक्तव्यमतो बुधैः ।।

स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ।। २१ ।।

दानानि च प्रदेयानि भगिनीभ्यो विधानतः ।।

स्वर्णालंकारवस्त्राद्यैः पूजासत्कारभोजनैः ।। २२ ।।

सर्वा भगिन्यः संपूज्या अभावे प्रतिपत्तिगाः ।।

पितृव्यभगिनी हस्तात्प्रथमायां युधिष्ठिर ।। २३ ।।

मातुलस्य सुताहस्ताद्वितीयायां पुनर्नृप ।।

पितृमातृस्वसारौ ये तृतीयायां तयोः करात् ।। २४ ।।

भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम् ।।

सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम् ।। ।।२५।।

धन्यं यशस्यमायुष्यं धर्मकामार्थवर्द्धनम् ।।

व्याख्यातं सकलं स्नेहात्सरहस्यं मया तव ।।२६।।

यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितो जगति सत्त्वरसौहृदेन ।।

तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तमथ भोज्यमनुत्तमं सः ।। २७ ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमद्वितीयाव्रतमाहात्म्यं नाम चतुर्दशोऽध्यायः ।। १४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 15

अशून्यशयनमाहात्म्यवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

भगवन्भवता प्रोक्तं धर्मार्थादेः सुसाधनम् ।।

गार्हस्थ्यं तच्च भवति दंपत्योः प्रीयमाणयोः ।। १ ।।

पत्नीहीनः पुमान्पत्नी भर्त्रा विरहिता तथा ।।

धर्मकामार्थसंसिद्धी न स्यातां मधुसूदन ।। २।

तद्ब्रूहि देवदेवेश विधवा स्त्री न जायते ।।

व्रतेन येन गोविंद पत्न्याऽविरहितो नरः ।। ३ ।।

।। श्रीकृष्ण उवाच ।। ।।

अशून्यशयनीं नाम द्वितीयां शृणु तां मम ।।

यामुपोष्य न वैधव्यं प्राप्नोति स्त्री युधिष्ठिर ।। ४ ।।

पत्नीविमुक्तश्च नरो न कदाचित्प्रजायते ।।

शेते जगत्पतिर्विष्णुः स्त्रिया सार्द्धं यदा किल ।। ५ ।।

अशून्यशयनं नाम तदा ग्राह्या च सा तिथिः ।।

उपवासेन नक्तेन तथैवायाचितेन च ।। ६ ।।

कृष्णपक्षे द्वितीयायां श्रावणे नृपसत्तम ।।

स्नानं नद्यां तडागे वा गृहे वा नियतात्मवान् ।। ७ ।।

कृत्वा पितॄन्मनुष्यांश्च देवान्सं तर्प्य भक्तिमान् ।।

स्थंडिलं चतुरस्रं तु मृन्मयं कारयेत्ततः ।। ८ ।।

तत्रस्थं श्रीधरं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ।।

नैवेद्यपुष्पधूपाद्यैः फलैः कालोद्भवैः शुभैः ।। ९ ।।

इममुच्चारयेन्मंत्रं प्रणम्य जगतः पतिम् ।।

श्रीवत्सधारिञ्छ्रीकांत श्रीधामञ्छ्रीपतेऽव्यय ।। 4.15.१० ।।

गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ।।

अग्नयो मा प्रणश्यंतु मा प्रणश्यन्तु देवताः ।।

पितरो मा प्रणश्यंतु मत्तो दांपत्यभेदतः ।।११।।

लक्ष्म्या वियुज्यते कृष्ण न कदाचिद्यथा भवान् ।।

तथा कलत्रसम्बन्धो देव मा मे प्रणश्यतु ।। १२ ।।

लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ।।

शय्या ममाप्यशून्यास्तु तथा जन्मनिजन्मनि ।। १३ ।।

एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्या हरेस्तथा ।।

चन्द्रोदये स्नानपूर्वं पञ्चगव्येन संयुतम् ।।

विप्राय दक्षिणां दद्यात्स्व शक्त्या फलसंयुताम् ।। १४ ।।

अनेनविधिना राजन्यावन्मासचतुष्टयम् ।।

कृष्णपक्षे द्वितीयायां प्रागुक्तविधिमाचरेत् ।। १५ ।।

कार्त्तिके चाथ संप्राप्ते शय्यां श्रीकांतसंयुताम् ।।

सोपस्करां सोदकुंभां सान्नां दद्याद्द्विजातये ।। १६ ।।

प्रतिमासं च सोमाय अर्घ्यं दद्यात्समंत्रकम् ।।

दध्यक्षतैर्मूल फलै रत्नैः सौवर्णभाजनैः ।। १७ ।।

गगनांगणसद्दीप दुराब्धिमथनोद्भव ।।

आभासितदिगाभोग रमानुज नमोस्तु ते ।। १८ ।।

एवं करोति यः सम्यङ्नरो मासचतुष्टयम् ।।

तस्य जन्मत्रयं यावद्गृहभङ्गो न जायते ।। १९ ।।

अशून्यशयनश्चैव धर्मकामार्थसाधकः ।।

भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः ।। 4.15.२० ।।

नारी च पार्थ धर्मज्ञा व्रतमेतद्यथाविधि ।।

या करोति न सा शोच्या बन्धुवर्गस्य जायते ।। २१ ।।

वैधव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम ।।

प्राप्नोति जन्मत्रितयं न सा पांडुकुलोद्वह ।। २२ ।।

एषा ह्यशून्यशयना नृपते द्वितीया ख्याता समस्तकलुषापहराऽद्वितीया ।।

एतां समाचरति यः पुरुषोऽथ योषित्प्राप्नोत्यसौ शयनमग्र्यमहार्हभोग्यम् ।। २३ ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे अशून्यशयनव्रतमाहात्म्यं नाम पञ्चदशोऽध्यायः ।। १५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 16

मधूकतृतीयाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

फाल्गुनेऽप्यसिते पक्षे तृतीयायामुपोषिता ।।

प्रातः स्थित्वा ब्रह्मचर्ये जटामुकुटशोभिता ।। १ ।।

गोधारथगतां देवीं रुद्रध्यानपरायणाम् ।।

पूजयेद्गन्धकुसुमैर्दीपालक्तकचंदनैः ।।

केसरैर्मधुरैर्द्रव्यैः स्वर्णमाणिक्यपूजया ।। २ ।।

ॐ भूषिका देवभूषा च भूषिका ललिता उमा ।।

तपोवनरता गौरी सौभाग्यं मे प्रयच्छतु ।। ३ ।।

दौर्भाग्यं मे शमयतु सुप्रसन्नमनाः सदा ।।

अवैधव्यं कुले जन्म ददात्वपरजन्मनि ।। ४ ।।

अङ्गेङ्गे च ममोपाङ्गे पर्वेपवे स्थितामृतम् ।।

सुखदृष्टिस्पर्शरसं गौरी सौभाग्यं यच्छतु ।। ५ ।।

एवमुच्चार्य मंत्रांश्च नारीज्ञानवती सती ।।

पूजयेद्ब्राह्मणोक्तैस्तु मंत्रैर्मुखसुवासिनी ।। ६ ।।

जीरकैः कटुहुण्डैश्च लवणैर्गुडसर्पिषा ।।

हृद्यैरार्द्रैः फलैः स्वर्णैर्मनोज्ञैः पुष्पबन्धनैः ।। ७ ।।

कुसुमैः. कुंकुमैर्गन्धैः कालेयागुरुचन्दनैः ।।

सिन्दूरेणातिरक्तेन वस्त्रैर्नानाविधैः शुभैः ।। ८ ।।

नेत्रैरनेकदेशोत्थैः पूपकैस्तिलतण्डुलैः ।।

अशोकैश्च विगुणकैर्घृतपूर्णैस्तु मोदकैः ।। ९ ।।

इत्येवमादिनैवेद्यैः पूजयित्वा महाद्रुमम् ।।

प्रदक्षिणं ततः कृत्वा दत्त्वा विप्राय दक्षिणाम् ।। 4.16.१० ।।

एतत्करोति या पुत्री तृतीयाव्रतमुत्तमम् ।।

ततः प्राप्स्यति दुष्प्राप्यं त्रैलोक्ये श्रीधरं प्रति ।। ११ ।।

एतद्व्रतं मया ख्यातं यास्यंति शाश्वतीः समा ।।

व्याख्यातं कश्यपेनादौ रुक्मिण्या व्रतमुत्तमम् ।। १२ ।।

याश्चरिष्यंति ताः सर्वा भविष्यंति निरामयाः ।।

अङ्गप्रत्यङ्गसुभगा लोकदृष्टिमनोहराः ।। ।। ११ ।।

स्थित्वा वर्षशतं चान्ते ततो रुद्रपुरं शुभम् ।।

यास्यंति हंसयानेन किंकिणीशब्दनादिना ।। १४ ।।

तत्र त्वारमयिष्यंति स्वभर्तॄन्वत्सरान्बहून् ।।

दिव्यभोगभुजो हृष्टाः सिद्ध्यष्टकसमन्विताः ।। १९ ।।

अर्घं महार्घमणिकुंकुमकेसराढ्यं स्रग्गंधमुग्धमुखरालि कुलोपगीतम् ।।

दत्त्वा फलाक्षतयुतं मधुपादपस्य गौरीव लोकमहिता भवतीह नारी ।। १६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे मधूकतृतीयाव्रतवर्णनं नाम षोडशोऽध्यायः ।। १६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 17

मेघपालीतृतीयाव्रतवर्णनम्

।। युधिष्ठिर उवाच ।।

मेघपालीव्रत कृष्ण कदाचित्क्रियते नृभिः ।।

किं पुण्यं किमनुष्ठानं कीदृग्वल्ली स्मृता तु सा ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

आश्वयुक्कृष्णपक्षे तु तृतीयायां युधिष्ठिर ।।

मेघपाल्यै प्रदातव्यो भक्त्या स्त्रीभिर्नृभिस्तथा ।। २ ।।

अर्घो विरूढैर्गोधूमैः सप्तधान्यसमन्वितैः ।।

तिलतंडुलपिंडैर्वा दातव्यो धर्मलिप्सुभिः ।। ३ ।।

तांबूलसदृशैः पर्वै रक्ता वल्ली समंजरी ।।

वाटीषु ग्राममार्गेषु प्रोत्थिता पर्वतेऽपि च ।।४।।

मेघपाल्यां धान्यतैलगुडकुंकुमहैमनान् ।।

पदानपि च कुर्वंति जना वाणिज्यजीवनाः ।। ५ ।।

पापं सत्यानृतं कृत्वा द्रव्यलुब्धाः फलान्विताः ।।

अर्घ्यं दत्त्वा मेघपाल्ये नाशयंति क्षणादिह ।। ६ ।।

मानोन्मानैर्जन्म मध्ये यत्पापं कुत्रचित्कृतम् ।।

सत्सर्वं नाशमायाति व्रतेनानेन पांडव ।। ७ ।।

मेघपाली शुभे स्थाने शुभे देशे समुत्थिता ।।

पूजनीया वरस्त्रीभिः फलैः पुष्पैस्तथाक्षतैः ।। ८ ।।

खर्जूरैर्नालिकेरैश्च दाडिमैः करवीरकैः ।।

गंधधूपैर्दधिदीपैर्विरूढैर्धान्यसंचयैः ।। ९ ।।

रक्तवस्त्रैः समाच्छाद्य पिष्टातकविभूषिताम् ।।

कृत्वार्घ्यः संप्रदातव्यो मंत्रेणानेन भारत ।। 4.17.१० ।।

वेदोक्तेन द्विजो विद्वांस्तच्च तस्यै निवेदयेत् ।।

इत्येवं पूजयित्वा तां मेघपालीं पुमांस्ततः ।। ११ ।।

नारी वा पुरुषव्याघ्र प्राप्नोति परमां श्रियम् ।।

स्थित्वा वर्षशतं मर्त्ये सुखसौभाग्यगर्विते ।। १२ ।।

विष्णुलोकमवाप्नोति देहांते यानसंस्थितः ।।

कुलानि सप्त नयति स्वर्गं स्वानि रसातलात् ।।

उद्धृत्य नात्र संदेहस्त्वया कार्यो युधिष्ठिर ।। १३ ।।

नरक भीरुतया ददाति योऽर्घ्यं फलाद्यनुयुतं ननु मेघपालेः ।।

उन्मानकूटकपटानि कृतानि यानि पापानि हंति सवितेव तमः प्ररोहान् ।। १४ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मेघपालीतृतीयाव्रतवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 18

रूपरम्भाव्रतवर्णनम्

।। युधिष्ठिर उवाच ।।

स्त्रीणां संपद्यते येन मर्त्यलोके गृहं शुभम् ।।

पतिप्रेम तथात्यंतं तन्मे ब्रूहि व्रतं शुभम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

एकदा पार्वतीशंभू स्थितौ मुनिसुरावृतौ ।।

कैलासशिखरे रम्ये नानाधातुविचित्रिते ।। २ ।।

नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ।।

मुनिकिन्नर संघुष्टे गेयनृत्यसमाकुले ।। ३ ।।

शंकरः पार्वतीं प्राह किं त्वया सद्व्रतं कृतम् ।।

वामारूपेण मेत्यंतं प्रियासि वरवर्णिनि ।। ४ ।।

आगच्छ जानुदेशं तु सुप्रसन्ना तथा प्रिये ।।

ब्रूहि चावितथं सर्वं त्वया पार्वति यत्कृतम् ।। ५ ।।

इत्युक्ता प्रणता भूत्वा गौरी प्राह शिवं शुभा ।।

तृतीयायां मया चीर्णं पुरा रंभाव्रतं शुभम् ।। ६ ।।

तेन मे त्वं मनोहारी भर्ता लब्धोसि शंकर।।

ईश्वरी वाप्यहं स्त्रीणां तव देहार्द्धहारिणी ।। ७ ।।

।। ईश्वर उवाच ।। ।।

कीदृशं तद्व्रतं भद्रे सर्वसौख्यप्रदायकम् ।।

ब्रूहि पार्वति यत्नेन यच्चीर्णं पितुरंतिके ।। ८ ।।

।। गौर्युवाच ।।

पुराहं देव तिष्ठामि कुमारी भवने पितुः ।।

हिमवद्गह्वरे रम्ये सखीगणसमावृता ।। ९ ।।

ततोऽहं मेनया प्रोक्ता स्वपित्रा च हिमाद्रिणा ।।

पुत्रि रभाव्रतं चार्यं वरसौभाग्यवर्धनम् ।। 4.18.१० ।।

येन प्रारब्धमात्रेण सर्वं संपत्स्यते तव ।।

सौभाग्यं स्त्रीगणैश्वर्यं महादेवीपदं तथा ।। ११ ।।

एवं करोमि वै मातर्मम चोक्तं पुरस्त्वया ।।

मनोभिलषितं येन येन प्राप्नोमि शंकरम् ।। १२

।। मेनोवाच ।।

अद्य शुक्लतृतीयायां स्नात्वा नियमतत्परा ।।

कुरु पार्श्वेषु पञ्चाग्नीञ्ज्वालमानान्हुताशनान् ।। १३ ।।

गार्हपत्यं दक्षिणाग्निमन्यं चाहवनीयकम् ।।

पंचमं भास्करं तेज इत्येते पंच वह्नयः ।। १४ ।।

एतेषां मध्यतो भूत्वा तिष्ठ पूर्वमुखा चिरम् ।।

चतुर्भुजां ध्यानपरां पद्द्वयोपरि संस्थिताम् ।। १५ ।।

मृगाजिनच्छन्नकुचां जटावल्कलधारिणीम् ।।

सर्वाभरणसंयुक्तां देवीमभिमुखीं कुरु ।। १६ ।।

महालक्ष्मीर्महाकाली महामाया महामतिः ।।

गङ्गा च यमुना सिंधुः शतदुर्नर्मदा मही ।। १७ ।।

सरस्वती वैतरिणी सैव प्रोक्ता महासती ।।

तस्याश्च प्रेक्षणपरा भव तद्भावभासिता ।। १८ ।।

होमं कुर्युर्यतात्मानो ब्राह्मणाः सर्वतोदिशम् ।।

देव्याः पूजा प्रकर्तव्या पुष्पधूपादिना ततः ।।१९।।

बहुप्रकारनैवेद्यं नैवेद्यं घृतपाचितम् ।।

स्थापयेत्पुरतो देव्याः पृथक्सौभाग्यमेव च ।। 4.18.२० ।।

जीरकं कडुहुंडश्चाप्यपूपान्कुसुमं तथा ।।

निपाचां पावनतरां लवणं शर्करां गुडम् ।। २१ ।।

पुष्पमंडपिका कार्या गंधपुष्पाधिवासिता ।।

पद्मासनेन संतिष्ठेद्यावत्परिणतो रविः ।।

ततः प्रणम्य रुद्राणीं मंत्रमेतमुदीरयेत् ।। २२ ।।

वेदेषु सर्वशास्त्रेषु दिवि भूमौ धरातले ।।

दृष्टः श्रुतश्च बहुशः शंकाविरहितः स्तवः ।। २३ ।।

त्वं शक्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती ।।

पतिं देहि गृहं देहि वसु देहि नमोस्तु ते ।। २४ ।।

एवं संक्षमयेद्देवीं प्रणिपत्य पुनःपुनः ।।

देहि भक्त्या गृहं रम्यं विचित्रं बहुभूमिकम् ।।

आच्छाद्यद्वारकेदारकपोतादिविभूषितम् ।। २५ ।।

कुड्यस्तंभगवाक्षाढ्यं मणिमंडिततोरणम् ।।

पद्मरागमहानीलवज्रवैडूर्यभूषितम् ।। २६ ।।

गृहदानविधानेन ब्राह्मणाय यशस्विने ।।

सपत्नीकाय संपूज्य सर्वोपस्करसंयुतम् ।। २७ ।।

सुवासिनीभ्यस्तद्देयं नैवेद्यं सूर्यसंस्थितम् ।।

निर्वर्त्य विधिनानेन तत्पश्चात्क्षमयेदघम् ।। २८ ।।

दांपत्यानि च भोज्यानि चतुर्थ्यां मधुरै रसैः ।।

इत्युक्तमुमया चीर्णं हर रंभाव्रतं परम् ।। २९ ।।

व्रतांतेगस्त्यमुनये दत्तं गृहवरं शुभम् ।।

लोपामुद्रा प्रिया पत्नी तस्य वेश्मनि पूजिता ।। 4.18.३० ।।

तेन धर्मेण देव त्वं भर्ता लब्धोऽसि शंकरः ।।

अर्द्धांकेऽपि स्थिता तेन याश्चरिष्यंति योषितः ।।३१।।

कौंतेय पुरुषो वापि ख्यातं रंभाव्रतं भुवि ।।

तासां पुत्रा गृहं भोगाः कुलवृद्धिर्भविष्यति ।। ३२ ।।

स्त्रीणां चातुर्यसौभाग्यं गार्हस्थ्यं सर्वकामिकम् ।।

बालावृद्धासुमध्यानां रूपलावण्यबृंहणम् ।।

सपत्नीदर्पदलनं वशीकरणमुत्तमम् ।। ३३ ।।

हिमवद्विंध्ययोर्मध्ये आर्यावर्ते मनोहरे ।।

उत्पत्य शोभने वासे पूर्वोत्पन्नधने कुले ।। ३४ ।।

मृतः शक्रपुरं याति ततो विष्णुपुरं व्रजेत् ।।

ततः शिवपुरं याति व्यासस्य वचनं यथा ।। ३५ ।।

यद्रंभया किल भयापहरं ततश्च गौर्या हिमाद्रिभवनस्थितयापि चीर्णम् ।।

तस्या व्रतं सुविकरोति रता च धर्मे ब्रह्मेशकेशवपतिं सुखदं लभेत ।। ३६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पञ्चाग्निसाधनाख्यं रंभातृतीयाव्रतं नामाष्टादशोऽध्यायः ।। १८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 19

गोपदतृतीयाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पार्थ भाद्रपदे मासि शुक्लपक्षे दिनोदये ।।

तृतीयायां चतुर्थ्यां च शुद्धायां प्रतिवत्सरम् ।। १ ।।

उपवासेन गृह्णीयाद्व्रतं नाम्ना तु गोपदम् ।।

स्नात्वा नरो वा नारी वा पुष्पधूपविलेपनैः ।। २ ।।

दध्यक्षतैश्च मालाभिः पिष्टकैर्वनमालया ।।

अभ्यंजयेद्गवां शृंगं खुरं पुच्छान्तमेव च ।। ३ ।।

दद्याद्गवाह्निकं भक्त्या तासां पूर्वापराह्णयोः ।।

अनग्निपाकं भुञ्जीत तैलक्षारविवर्जितम् ।। ४ ।।

व्रजंतीनां गवां नित्यमायांतीनां च भारत ।।

पुरद्वारेथ वा गोष्ठे मन्त्रेणा नेन मंत्रवित् ।।

अर्घ्यं प्रदद्याद्गृष्ट्यां वा गवां पादेषु पांडव ।। ५ ।।

माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।।

प्रनुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ।। ६ ।।

।। इति गवां मंत्रः ।। ।।

गावो मे अग्रतः सन्तु गावो मे संतु पृष्ठतः ।।

गावो मे हृदये संतु गवां मध्ये वसाम्यहम्।। ७ ।।

इत्थं संपूज्य दत्त्वार्घं ततो गच्छेद्गृहाश्रमम् ।।

पंचम्यां क्रोधरहितो भुञ्जीत गोरसं दधि ।। ८ ।।

शालिपिष्टं फलं शाकं तिलमन्नं च शोभनम्।।

भुक्तावसाने राजेन्द्र संयतस्तां निशां स्वपेत् ।।९।।

प्रभाते गोपदं दत्त्वा ब्राह्मणाय हिरण्मयम् ।।

क्षमयेच्च गवां नाथं गोविंदं गरुडध्वजम् ।। 4.19.१० ।।

अर्च्यंतेऽत्र यथा गावस्तथा गोवर्धनो गिरिः ।।

प्रणम्याच्युतमुद्दिश्य शृणु यत्फलमाप्नुयात् ।।११।।

गोभक्तो गोव्रतं कृत्वा भक्त्या शक्त्या च गोष्पदम् ।।

सौभाग्यं रूपलावण्यं प्राप्नोति पृथिवीतले ।। १२ ।।

गोतर्णकाकुलं गेहं गोकुलं च समासतः ।।

धनधान्यसमोपेत शालीक्षुरसमृद्धिमान् ।।१३।।

संतानं पूजितं लब्ध्वा ततः स्वर्गेऽमरो भवेत् ।।

दिव्यरूपधरः स्रग्वी दिव्यालंकारभूषितः ।।१४।।

गन्धर्वैर्गीतवाद्येन सेव्यमानोऽप्सरोगणैः ।।

दिव्यं युगशतं छित्त्वा ततो विष्णुपुरं व्रजेत् ।। १५ ।।

यो गोपदव्रतमिदं कुरुते त्रिरात्रं गा वै प्रपूजयति गोरसपूजनाच्च ।।

गोविंदमादिपुरुषं प्रणतः सवित्रामालोकमुत्तममुपैति गवां पवित्रम् ।। १६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तृतीयाव्रते गोष्पदतृतीयाव्रतं नामैकोनविंशोऽध्यायः ।। १९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 20

हरिकालीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शुक्ले भाद्र पदस्यैव तृतीयायां समर्चयेत् ।।

सर्वधान्यैस्तां विरूढां भूतां हरितशाड्वलाम् ।।

हरकालीं देवदेवीं गौरीं शंकरवल्लभाम् ।। १ ।।

गन्धैः पुष्पैः फलैर्धूपैर्नैवेद्यैर्मोदकादिभिः ।।

प्रीणयित्वा समाच्छाद्य पद्मरागेन भास्वता ।। २ ।।

घण्टावाद्यादिभिर्गीतैः शुभैर्दिव्यकथानुगैः ।।

कृत्वा जागरणं रात्रौ प्रभाते ह्युद्गते रवौ ।। ३ ।।

सुवासिनीभिः सा नेया मध्ये पुण्यजलाशये ।।

तस्मिन्विसर्जयेत्पार्थ हरकालीं हरिप्रियाम् ।।४।।

।। युधिष्ठिर उवाच ।। ।।

भगवन्हरकालीति का देवी प्रोच्यते भुवि ।।

आर्द्रधान्यैः स्थिता कस्मात्पूज्यते स्त्रीजनेन सा ।।

पूजिता किं ददातीह सर्वं मे ब्रूहि केशव।। ५ ।।

।। श्रीकृष्ण उवाच ।। ।।

सर्वपापहरां दिव्यां मत्तः शृणु कथामिमाम् ।।

आसीद्दक्षस्य दुहिता कालीनाम्नी तु कन्यका ।। ६ ।

वर्णेनापि च सा कृष्णा नवनीलोत्पलप्रभा ।।

सा च दत्ता त्र्यंबकाय महादेवाय शूलिने ।।७।।

विवाहिता विधानेन शंखतूर्यानुनादिना ।।

यत्कुर्यादागतैर्देवैर्ब्राह्मणानां च निस्वनैः ।। ८ ।।

निर्वर्तिते विवाहे तु तया सार्धं त्रिलोचनः ।।

क्रीडते विविधैर्भोगैर्मनसः प्रीतिवर्धनैः ।। ९ ।।

अथ देवसमानस्तु कदाचित्स वृषध्वजः ।।

आस्थानमंडपे रम्ये आस्ते विष्णुसहायवान् ।। 4.20.१० ।।

तत्रस्थश्चाह्वयामास नर्मणा त्रिपुरांतकः ।।

काली नीलोत्पलश्यामां गणमातृगणावृताम् ।। ११ ।।

एह्येहि त्वमितः कासि कृष्णांजनसमन्विते ।।

कालसुंदरि मत्पार्श्वे धवले त्वमुपाविश ।। १२ ।।

एवमुत्क्षिप्तमनसा देवी संकुद्धमानसा ।।

श्वासयामास ताम्राक्षी बाष्पगद्गदया गिरा ।। १३ ।।

रुरोद सस्वरं बाला तत्रस्था स्फुरिताधरा ।।

किंदैवयोगात्ताम्रा गौर्गौरी चेत्यभिधीयते ।। १४ ।।

यस्मान्ममोपमा दत्ता कृष्णवर्णेन शंकर ।।

हरकालीति वाहूता देवर्षिगणसेविता ।। १५ ।।

तस्माद्देहमिमं कृष्णं जुहोमि ज्वलितेऽनले ।।

इत्युक्त्वा वार्यमाणा तु हरकाली रुषान्विता ।। १६ ।।

मुमोच हरितच्छायाकांतिं हरितशाद्वले ।।

चिक्षेप दोषं रागेण ज्वलिते हव्यवाहने ।। १७ ।।

पुनः पर्वतराजस्य गृहे गौरी बभूव सा ।।

महादेवस्य देहार्द्धे स्थिता संपूज्यते सुरैः ।। १८ ।।

एवं सा हरकालीति गौरीशस्य व्यवस्थिता ।।

पूजनीया महादेवी मंत्रेणानेन पांडव ।। १९ ।।

हरकर्मसमुत्पन्ने हरकाये हरप्रिये ।।

मां त्राहीशस्य मूर्तिस्थे प्रणतास्तु नमोनमः ।। 4.20.२० ।।

इत्थं संपूज्य नैवेद्यं दद्याद्विप्राय पांडव ।।

तां च प्रातर्जले रम्ये मंत्रेणैव विसर्जयेत् ।। २१ ।।

अर्चितासि मया भक्त्या गच्छ देवि सुरालयम् ।।

हरकाले शिवे गौरि पुनरागमनाय च ।।२२।।

एवं यः पांडवश्रेष्ठ हरकालीव्रतं चरेत् ।।

वर्षेवर्षे विधानेन नारी नरपते शुभा ।। २३ ।।

सा यत्फलमवाप्नोति तच्छृणुष्व नराधिप ।।

मर्त्यलोके चिरं तिष्ठेत्सर्वरोगविवर्जिता ।। २४ ।।

सर्वभोगसमायुक्ता सौ भाग्यबलगर्विता ।।

पुत्रपौत्रसुहृन्मित्रनप्तृदौहित्रसंकुला ।। २५ ।।

साग्रं वर्षशतं यावद्भोगान्भुक्त्वा महीतले ।।

ततोवसाने देहस्य शिवज्ञाना महामुने ।। २६ ।।

चिरभद्रा महाकालनंदीश्वरविनायकाः ।।

तदाज्ञाकिंकराः सर्वे महादेवप्रसादतः ।। २७ ।।

संपूर्णसूर्यगणसप्तविरूढशस्यां तां वै हिमाद्रितनयां हरकालिकाख्याम् ।।

संपूज्य जागरमनुद्धतगीतवाद्यैर्यच्छंति या इह भवंति पतिप्रियास्ताः ।। २८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हरकालीतृतीयाव्रतं नाम विंशोऽध्यायः ।। २० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 21

ललिताव्रतवर्णनम्

।। युधिष्ठिर उवाच ।।

अथ पृच्छामि भगवन्व्रतं द्वादशमासिकम् ।।

ललिताराधनं नाम मासमासक्रमेण वा ।। १

।। कृष्ण उवाच ।।

शृणु पांडव यत्नेन यथा वृत्तं पुरातनम् ।।

शंकरस्य महादेव्याः संवादं कुरुसत्तम ।। २ ।।

कैलासशिखरे रम्ये बहुपुष्पफलोपगे ।।

सहकारद्रुमच्छन्ने चंपकाशोकभूषिते ।। ३ ।।

कदंबबकुलामोद वशीकृतमधुव्रते ।।

मयूररवसंघुष्टे राजहंसोपशोभिते ।। ४ ।।

मृगर्क्षगजसिंहैश्च शाखामृगगणावृते ।।

गंधर्वयक्षदेवर्षिसिद्धकिन्नरपन्नगैः ।। ५ ।।

तपस्विभिर्महाभागैः सेवमानं समंततः ।।

सुखासीनं महादेवं भूतसंघैः समावृतम् ।। ६ ।।

अप्सरोभिः परिवृतमुमा नत्वाब्रवीदिदम् ।।

उमोवाच ।।

भगवन्देवदेवेश शूलपाणे वृषध्वज ।। ७ ।।

कथयस्व महेशान तृतीयाव्रतमुत्तमम् ।।

सौभाग्यं लभते येन धनं पुत्रान्पशून्सुखम् ।। ८ ।।

नारी स्वर्गं शुभं रूपमारोग्यं श्रियमुत्तमाम् ।।

एवमुक्तो दयितया भार्यया प्रीतिपूर्वकम् ।।

विहस्य शंकरः प्राह किं व्रतेन तव प्रिये ।। ९ ।।

ये कामास्त्रिषु लोकेषु दिव्या भूम्यंतीरक्षजाः ।।

सर्वेपि तेन चायत्ता वश्यस्तेहं यतः पतिः ।। 4.21.१० ।।

उमोवाच ।। सत्यमेतत्सुरेशान त्वयि दृष्टे न दुर्लभम् ।।

किंचित्त्रिभुवनाभोगभूषणे शशिभूषणे ।। ११ ।।

भक्त्या स्त्रियो हि मां देव प्रजपंति शुभाशुभम् ।।

विरूपाः सुलभाः काश्चिदपुत्रा बहुपुत्रकाः ।।१२।।

सुशीलास्तपसा काश्चिच्छ्वश्रुभिः पीडिता भृशम् ।।

शौचाचारसमायुक्ता न रोचन्तेथ कस्यचित् ।। १३ ।।

एवं वहुविधैर्दुःखैः पीड्यमानास्तु दारुणैः ।।

शरणं मां प्रपन्नास्ताः कृपाविष्टा ततो ह्यहम् ।। १४ ।।

येन ताः सुखसंभोगरूपलावण्यसंपदा ।।

पुत्रैः सौभाग्यवित्तौघै र्युक्ताः स्युः सुरसत्तम ।।

तन्मे कथय तत्त्वेन व्रतानामुत्तमं व्रतम् ।। १५ ।।

।। ईश्वर उवाच ।। ।।

माघे मासि सिते पक्षे तृतीयायां यतव्रताः।।

मुखं प्रक्षाल्य हस्तौ च पादौ चैव समाहिताः ।। १६ ।।

उपवासस्य नियमं दंतधावनपूर्वकम् ।।

मध्याह्ने तु ततः स्नानं बिल्वैरामलकैः शुभैः ।।१७।।

स्नात्वा तीर्थजले शुभ्रे वाससी परिधाय च ।।

सुगंधैः सुमनोभिश्च प्रभूतैः कुंकुमादिभिः ।।१८।।

अर्चयंति सदा देवि त्वां भक्त्या भक्तवत्सले ।।

कर्पूराद्यैस्तथा धूपैर्नैवेद्यैः शर्करादिभिः ।। १९ ।।

यदृच्छालाभसंपन्नैर्धूपदीपार्चनादिभिः ।।

नाम्नेशानीं गृहीत्वा तु प्रतीक्षेद्धटिकां ततः ।। 4.21.२० ।।

पात्रे ताम्रमये शुद्धे जलाक्षतविमिश्रिते ।।

सहिरण्यं द्विजं कृत्वा मंत्रपूर्वं समाधिना ।। २१ ।।

शिरसि प्रक्षिपेत्तोयं ध्यायंती मनसेप्सितम् ।।

ब्रह्मावर्तात्समायाता ब्रह्मयोनेर्विनिर्गता ।। २२ ।।

भद्रेश्वरा ततो देवी ललिता शंकरप्रिया ।।

गंगाद्वाराद्धरं प्राप्ता गङ्गाजलपवित्रिता ।। २३ ।।

सौभाग्यारोग्यपुत्रार्थमर्थार्थं हरवल्लभे ।।

आयाता घटिकां भद्रे प्रतीक्षस्व नमोनमः ।। २४ ।।

दत्त्वा हिरण्यं तत्तस्मै प्राश्नीयाच्च कुशोदकम् ।।

आचम्य प्रयतो भूत्वा भूभिस्था क्षपयेत्क्षपाम् ।। २५ ।।

ध्यायमाना उमां दैवीं हरिते यवसंस्तरे ।।

द्वितीयेह्नि ततः स्नात्वा तथैवाभ्यर्च्य पार्वतीम् ।। २६ ।।

यथाशक्ति द्विजान्पूज्य ततो भुञ्जीत वाग्यता ।।

एवं तु प्रथमे मासि पूजनीयासि कालिके ।। २७ ।।

द्वितीये पार्वतीनाम तृतीये शंकरप्रिया ।।

भवान्यथ चतुर्थे त्वं स्कदमाताथ पञ्चमे ।। २८ ।।

दक्षस्य दुहिता षष्ठे मैनाकी सप्तमे स्मृता ।।

कात्यायन्यष्टमे मासि नवमे तु हिमाद्रिजा ।।२९।।

दशमे मासि विख्याता देवि सौभाग्यदायिनी ।।

उमा त्वेकादशे मासि गौरी तु द्वादशे परा ।। ।।4.21.३०।।

कुशोदकं पयः सर्प्पिर्गोमूत्रं गोमय फलम् ।।

निंबपत्रं कंटकारी गवां शृंगोदकं दधि ।।३१।।

पञ्चगव्यं तथा शाकः प्राशनानि क्रमादमी ।।

मासिमासि स्थिता ह्येवमुपवासपरायणा ।।३२।।

ददाति श्रद्धयैतानि वाचके ब्राह्मणोत्तमे ।।

कुसुंभमाज्यं लवणं जीरकं गुडमेव च ।।३३।।

दत्तैरेभिः सूर्यस्था त्वं सूर्यस्था तुष्यसि प्रिये ।।

मासिमासि भवेन्मन्त्रो गकारो द्वादशाक्षरः ।। ३४ ।।

ओङ्कारपूर्वको देवि नमस्कारांत ईरितः ।।

एभिस्त्वं पूजिता मंत्रैस्तुष्यसि व्रततः प्रिये ।। ३५ ।।

तुष्टा त्वभीप्सितान्कामान्ददासि प्रीतिपूर्वकम् ।।

समाप्ते तु व्रते तस्मिन्ब्राह्मणं वेदपारगम् ।। ३६ ।।

सहितं भार्ययाभ्यर्च्य गंधपुष्पादिभिः शुभैः ।।

द्विजं महेश्वरं कृत्वा उमां भार्यां तथैव च ।। ३७ ।।

अन्नं सदक्षिणं दद्यात्तथा शुक्ले च वाससी ।।

रक्तं वासोयुगं दद्यात्त्वामुद्दिश्य हरप्रिये ।। ३८ ।।

ब्राह्मणे श्रद्धया युक्तस्तस्यां फलमिदं शृणु ।।

दशवर्षसहस्राणि लोकान्प्राप्य परापरान् ।। ३९ ।।

मोदते भर्तृसहिता यथेंद्रेण शची तथा ।।

मानुषत्वं पुनः प्राप्य स्वेन भर्त्रा सहैव सा ।। 4.21.४०।।

पुण्ये कुले श्रिया युक्ता नीरोगा सुखमश्नुते ।।

सप्त जन्मानि यावच्च न वैधव्यमवाप्नुयात् ।।४१।।

पुत्रान्भोगांस्तथा रूपं सौभाग्यारोग्यमेव च ।।

एकपत्नी तथा भर्तुः प्राणेभ्योऽप्यधिका भवेत्।।४२।।

शृणुयाद्वाच्यमानं तु भक्त्या या ललिताव्रतम् ।।

मया स्नेहेन कथितं सापि तत्फलभागिनी ।। ४३ ।।

संपूज्य लक्षललितां ललितांगयष्टिं गंधोदकामृतघटीं शिरसि क्षिपेद्यः।।

सा स्वर्गमेत्य ललितासु ललामभूता भूपाधिपं पतिमवाप्य भुवं भुनक्ति ।। ४४ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ललितातृतीयाव्रतमाहात्म्यं नामैकविंशतितमोऽध्यायः ।। २१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 22

अवियोगतृतीयाव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

इहापि योगमासाद्य भर्तृबंधुजनैः सह ।।

वद नारी नरश्रेष्ठ व्रजेद्येन शिवालयम् ।। ५ ।।

विधवा च परे लोके भूयोऽपि न वियुज्यते ।।

सुखसंदोहसौभाग्ययुक्ता भवति भामिनी ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

उभयाचरितं यत्नाद्भववाग्ललितामृतम् ।।

लब्ध्वा हि भवतो जन्म दक्षकोपाद्वियुक्तया ।। ३ ।।

महासौभाग्यसंदोहं दृष्ट्वा देव्या महात्मना ।।

अरुंधत्या वशिष्ठेन पृष्टेन कथितं शृणु ।। ४ ।।

मासि मार्गशिरे प्राप्ते चंद्रवृद्धौ शुचिस्मिता ।।

द्वितीयायां समासाद्य नक्तं भुंजीत पायसम् ।। ५ ।।

आचम्य च शुचिर्भूत्वा दंडवच्छंकरं नमेत् ।।

मुदान्विता नमस्कृत्य विज्ञाप्य परमेश्वरम् ।। ६ ।।

औदुम्बरमृजुं गृह्य भक्षयेद्दंतधावनम् ।।

उत्तराशागतं साग्रं सत्वचं निर्व्रणं शुभम् ।। ७ ।।

द्वितीयायां परे वाह्नि गौरीं शंभुं च पूजयेत् ।।

शालिपिष्टमये कृत्वा रूपे स्त्रीपुंसयोः शुभे ।।

पात्रे संस्थाप्य संपूज्य जागरं निशि कल्पयेत् ।। ८ ।।

विधिवत्पूजयित्वा तु शंकरं कीर्तयत्स्वपेत् ।।

प्रभाते ते गृहीत्वा तु आचार्याय निवेदयेत् ।। ९।।

भोजयेन्मृष्टमन्नाद्यं शिवभक्त्या द्विजोत्तमान् ।।

दांपत्यानि च तत्रैव शक्त्या तान्यपि भोजयेत् ।। 4.22.१० ।।

प्रतिमासं प्रकुर्वीत विधिना तेन संयता ।।

कार्तिकांते ततो मासि मार्गशीर्षे समुद्यमेत् ।। ११ ।।

नामानि च प्रवक्ष्यामि प्रतिमासं क्रमाच्छणु ।।

पूजाजाप्यनिमित्तं च सिद्ध्यर्थं चेति तस्य च ।। १२ ।।

एवं पौषे तु संप्राप्ते गिरिशं पार्वतीं तथा ।।

समभ्यर्च्य चतुर्थ्यां तु पंचगव्यं पिबेत्सुधीः ।। १३ ।।

एतत्पारणमुद्दिष्टं मार्गादौ मार्गगोचरम् ।।

न चान्यत्पञ्चगव्यादि पावनं परमं स्मृतम् ।।१४।।

भवं चैव भवानीं च मासि माघे प्रपूजयेत् ।।

फाल्गुने तु महादेवमुमया सहितं मतम् ।। १५ ।।

ललितां शंकरं देवं चैत्रे संपूजयेत्ततः ।।

स्थाणुं वैशाखमासे तु लोलनेत्रायुतं यजेत् ।। १६ ।।

ज्येष्ठे वीरेश्वरं देवमेकवीरासमन्वितम् ।।

आषाढे पशुनाथं च शक्त्या सार्द्धं त्रिलोचनम् ।। १७ ।।

श्रीकंठं श्रावणे देवं सुतान्वितमथार्चयेत् ।।

भीमं भाद्रपदे मासि दुर्गया सहितं यजेत् ।।

ईशानं कार्त्तिके मासि शिवादेवीयुतं यजेत् ।। १८ ।।

जप्यध्यानार्चनायैव नामान्येतानि सुव्रत ।।

स्मृतानि विधिना राजन्व्रतसिद्धिर्भवेद् धुवम् ।।१९।।

प्रतिमासं तु पुष्पाणि यानि पूजासु योजयेत् ।।

तानि क्रमात्प्रवक्ष्यामि सद्यः प्रीतिकराणि वै ।। 4.22.२० ।।

आदौ नीलोत्पलं योज्यं तदभावेऽपराण्यपि ।।

पवित्राणि सुगंधीनि योजयेद्भक्तितोऽर्चने ।। २१ ।।

करवीरं बिल्वपत्रं किंशुकं कुब्जमल्लिका ।।

पाटलाब्जकदंबं च तगरं द्रोणमालती ।। २२ ।।

एतान्युक्तक्रमेणैव मासेषु द्वादशस्वपि ।।

भक्त्या योज्यानि राजेन्द्र शिवयोस्तुष्टिहेतवे ।। २३ ।।

वत्सरांते वितानं च धूपोत्क्षेपं सघंटिकम् ।।

ध्वजं दीपं वस्त्रयुगं शङ्कराय निवेदयेत्।।२४।।

स्नापयित्वा च लिप्त्वा च सौवर्णं मूर्ध्नि पङ्कजम् ।।

पूपयुग्मं च पुरतः शालिपिष्टमयं न्यसेत् ।। २५ ।।

नैवेद्यं शक्तितो दत्वा नत्त्वा च विधिवच्छिवम् ।।

कुर्यान्नीराजनं शम्भोस्ततो गच्छेत्स्वकं गृहम् ।। २६ ।।

तत्र गत्वा त्रिकोणश्च चतुरस्रं च कारयेत् ।।

त्रिकोणे ब्राह्मणी भोज्या चतुरस्रे द्विजोत्तमाः ।। २७ ।।

व्रतिनो भोजयेत्पश्चाद्वादशैव द्विजोत्तमान् ।।

मिथुनानि च तावंति शक्त्या भक्त्या च पाण्डव ।। २८ ।।

उमामहेश्वरं हैमं कारयित्वा सुशोभनम् ।।

मौक्तिकानि चतुःषष्टिस्तावतोऽपि प्रवालकाः ।।

तावंति पुष्परागाणि ताम्रपात्रोपरि न्यसेत् ।। २५।।

वस्त्रेण वेष्टयित्वा च गन्धैर्धूपैस्तथार्चयेत् ।।

एतत्संभारसंयुक्तमाचार्याय निवेदयेत् ।। 4.22.३० ।।

व्रतिनां ब्राह्मणानां च दम्पतीनां च भारत ।।

दत्त्वा हिरण्यवासांसि क्षमयेत्प्रणिपत्य च ।। ३१ ।।

चत्वारिंशत्तथाष्टौ च कुम्भांच्छत्रमुपानहौ ।।

सहिरण्याक्षतान्सर्वान्दद्यात्पुष्पोदकान्वितान् ।। ।। ३२ ।।

दीनान्धदुःखितानां च तद्दिने वा निवारितम् ।।

कल्पयेदन्नदानं चालोचयञ्छक्तिमात्मनः ।। ३३ ।।

न्यूनाधिकं च कर्तव्यं स्ववित्तपरि माणतः ।।

संपूरयेत्कल्पनया वित्तशाठ्यं न कारयेत् ।।३४।।

अवियोगकरं चैतद्रूपसौभाग्यवित्तदम् ।।

आयुःपुत्रप्रदं स्वर्ग्यं शिवलोकप्रदायकम् ।। ।।। ३५ ।।

सम्यक्पुराणपतितं व्रतचर्यमेतत्तत्त्वं चराचरगुरोर्हृदयंगमायाः।।

पूजां विधाय विधिवन्न वियोगमेति साध्वीस्वभर्तृसुतबन्धुजनैर्धनैश्च।।३६।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि अवियोगतृतीयाव्रतं नाम द्वाविंशतितमोऽध्यायः ।। २२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 23

उमामहेश्वरव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

केन धर्मेण नारीणां व्रतेन नियमेन च ।।

सौभाग्यं जायतेऽतीव पुत्राश्च बहवः शुभाः ।। १ ।।

धनं धान्यं सुवर्णं च वस्त्राणि विविधानि च ।।

अवियोगं च सततं लभते पुत्रपौत्रयोः ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु पार्थ प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् ।।

यत्कृत्वा सुभगा नारी बह्वपत्या च जायते ।। ३ ।।

धनं धान्यं हिरण्यं च दासीदासादिकं वहु ।।

उत्पद्यते गृहे येन तद्वत कथयामि ते ।। ४ ।।

उमामहेश्वरं नाम अप्सरोभिः पुरा कृतम् ।।

विद्याधरैः किन्नरैश्च ऋषिकन्याभिरेव च ।।५।।

रूपिण्या रंभया चैव सीतयाऽहल्यया तथा।।

रोहिण्या दमयंत्या च तप्तया चानसूयया ।। ।।६।।

एताभिश्चरितं पार्थ व्रतं सर्वव्रतोत्तमम् ।।

सौभाग्यारोग्यफलदं दारिद्र्यव्याधिनाशनम् ।। ७ ।।

मर्त्यलोके स्त्रियो याश्च दुर्भगारूपवर्जिताः ।।

अपुत्रा निर्धनाश्चैव सर्वभोगविवर्जिताः ।। ८ ।।

तासां हितार्थं पार्वत्या उमामहेश्वरं व्रतम् ।।

अवतारितं पुरा पार्थ न जानंत्यधमाः स्त्रियः ।।९।।

पूर्वं मार्गशिरे मासि नारी धर्मपरायणा ।।

शुक्लपक्षे तृतीयायां सोपवासा जितेन्द्रिया ।। 4.23.१० ।।

स्नात्वा संपूज्य ललितां हरकायार्धवासिनीम् ।।

पुनः प्रभातसमये स्नानं चाकृत्रिमे जले ।।

कृत्वा देवीस्तर्पयित्वा इदं वाक्यमुदीरयेत् ।। ११ ।।

नमो नमस्ते देवेश उमादेहार्द्धधारक ।।

महादेवि नमस्तेऽस्तु हरकायार्द्धवासिनि ।। १२ ।।

हृदि कृत्वा शिवं देवीं जपेद्यावद्गृहं गता ।।

पूजयेद्देवमीशानं पुष्पैः कालोद्भवैस्ततः ।। १३ ।।

वामपार्श्वे उमां देवीं दक्षिणे तु महेश्वरम् ।।

धूपं वा गुग्गुलुं वापि दहेत्पश्चात्सुभाविता ।।

नैवेद्यं तु यथाशक्ति घृतपक्वं निवेदयेत् ।। १४ ।।

कारयेद्वैश्वदेवं तु तिलाज्येन सुसंस्कृतम् ।।

पञ्चगव्यं ततः प्राश्य आत्मकायविशोधनम् ।। १५ ।।

एवं द्वादशमासांस्तु पूजयित्वा महेश्वरम् ।।

उद्यापनं ततः कुर्यात्प्रहृष्टेनान्तरात्मना ।। १६ ।।

शिवं रूप्यमयं कृत्वा उमां हैममयीं तथा ।।

आरूढौ वृषभे रौप्ये सर्वालंकारभूषितौ ।। १७ ।।

चन्दनेन शिवं चर्च्य कुंकुमेन च पार्वतीम् ।।

अर्चयेत्कुसुमैः पश्चात्सुगन्धैः सुमनोहरैः ।। १८ ।।

वेष्टयेच्छुक्लवस्त्रेण शिवं रक्तेन पार्वतीम् ।।

पश्चाद्धूपं दहेन्नारी भक्तिभावेन भाविता ।। १९ ।।

भोजयेच्छिवभक्तांश्च ब्राह्मणान्वेदपारगान् ।।

भक्तेभ्यो दक्षिणा देया भक्त्या शाठ्यविवर्जिता ।। 4.23.२० ।।

ततः प्रदक्षिणीकृत्य इदमुच्चारयेद्बुधः ।।

उमामहेश्वरौ देवौ सर्वलोकपितामहौ ।।

व्रतेनानेन सुप्रीतौ भवेतां मम सर्वदा ।। २१ ।।

एवमुक्त्वा जितक्रोधे ब्राह्मणे वेदपारगे ।।

व्रतं निवेदयेद्भक्त्या वाचके वा गुणान्विते ।। २२ ।।

इदं कृत्वा व्रतं नारी महेशार्पितमानसा ।।

प्रयाति परमं स्थानं यत्र देवो महेश्वरः ।। २३ ।।

शिवलोके वसेत्तावद्यावदिन्द्राश्चतुर्द्दश ।।

अप्सरोभिः परिवृता किन्नरीभिस्तथैव च ।। २४ ।।

यदा मानुष्यमायाति जायते विमले कुले ।।

रूपयौवनसंपन्ना बहुपुत्रा पतिव्रता ।। २५ ।।

धनधान्यसमायुक्ते सुवर्णमणिमंडिते ।।

यावज्जीवं गृहे रम्ये तिष्ठत्यव्याहतेन्द्रिया ।। २६ ।।

वियोगं नैव सा पश्येद्भर्तृमित्रसुतादिकैः ।।

मृता शिवपुरं याति शिवगौरीप्रसादतः ।। २७ ।।

हैमीमुमां रजतपिण्डमयं महेशं रौप्ये सुरूपवृषभे च समास्थितौ तौ ।।

सम्पूज्य रक्तसितवस्त्रयुगावगूढौ नारी भवत्यविधवा सुतसौख्ययुक्ता ।। २८ ।।

इति श्रीभविष्ये महापुराणे उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उमामहेश्वरव्रतं नाम त्रयोविंशतितमोऽध्यायः ।। २३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 24

रम्भातृतीयाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

रंभातृतीयां वक्ष्यामि सर्वपापप्रणाशिनीम् ।।

पुत्रसौभाग्यफलदां सर्वामयनिवारिणीम् ।। १ ।।

सर्वदुष्टहरां पुण्यां सर्वसौख्यप्रदां तथा ।।

सपत्नीदर्पदलनां तथैश्वर्यं करीं शिवाम् ।। २ ।।

शंकरेण पुरा प्रोक्ता पार्वत्याः प्रियकाम्यया ।।

तामिमां शृणु भूपाल सर्वभूतहिताय वै ।। ३ ।।

मार्गशीर्षे शुभे मासि तृती यायां नराधिप ।।

शुक्लायां प्रातरुत्थाय दंतधावनपूर्वकम् ।।

उपवासस्य नियमं गृह्णीयाद्भक्तिभाविता ।। ४ ।।

देवि संवत्सरं यावत्तृतीयायामुपो षिता ।।

प्रतिमासं करिष्यामि पारणं चापरेऽहनि ।।

तदविघ्नेन मे यातु प्रसादात्तव पार्वति ।। ५ ।।

एवं संकल्प्य विधिवत्कौंतेय कृतनिश्चयः ।।

भक्त्या नरो वा नारी वा स्नानं कुर्यादतंद्रितः ।।६।।

नद्यां तडागे वाप्यां वा गृहे वा नियतात्मवान् ।।

पूजयेत्पार्वतीं नाम रात्रौ प्राश्य कुशोदकम्।। ।। ७ ।।

प्रभाते भोजयेद्विद्वाञ्छिवभक्तान्विशेषतः ।।

हिरण्यं लवणं चैव तेषां दद्यात्तु दक्षिणाम् ।।

गौरीश्वरं यथाशक्ति भोजयेत्प्रयता सती ।। ८ ।।

अनेन विधिना राजन्यः कुर्यान्मासि पौषके ।।

गोमूत्रं प्राशयेद्रात्रौ प्रभाते भोजयेद्द्विजान् ।। ९ ।।

हिरण्यं जीरकं चैव स्वशक्त्या दापयेत्ततः ।।

कडुहुंडं च कनकं तेभ्यो दत्त्वा विसर्जयेत् ।। 4.24.१० ।।

वाजपेयातिरात्राभ्यां फलं प्राप्नोत्यसंशयः ।।

शक्रलोके वसेत्कल्पं ततः शिवपुरं व्रजेत् ।। ११ ।।

माघे मासि तृतीयायां सुदेवीं नाम पूजयेत् ।।

गोमयं प्राशयेद्रात्रौ ततश्चैकाकिनी स्वपेत् ।। १२ ।।

प्रातः कुसुंभं कनकं दद्या च्छक्त्या द्विजातिषु ।।

विष्णुलोके चिरं स्थित्वा प्राप्नोति शिवसाम्यताम् ।। १३ ।।

गौरीति फाल्गुने नाम गोक्षीरं प्राशयेन्निशि ।।

प्रभाते भोजयेद्विद्वाञ्छिवभक्तान्सुवासिनीः ।। १४ ।।

कडुहुंडं सकनकं तेभ्यो दत्त्वा विसर्जयेत् ।।

वाजपेयातिरात्राभ्यां फलं प्राप्नोत्यसंशयः ।।१५।।

चैत्रे मासि विशालाक्षीं पूजयेद्भक्तितत्परा ।।

दधि प्राश्य स्वपेत्प्रातर्दद्याद्धेम सकुंकुमम् ।।

सौभाग्यं महदाप्नोति विशालाक्ष्याः प्रसादतः ।। १६ ।।

वैशाखस्य तृतीयायां श्रीमुखीं नाम पूजयेत् ।।

घृतं च प्राशयेद्रात्रौ ततश्चैकाकिनी स्वपेत् ।। १७ ।।

शिवभक्तान्द्विजान्प्रातर्भोजयित्वा यथेप्सितम् ।।

तांबूल लवणं दत्त्वा प्रणिपत्य विसर्जयेत् ।।

अनेन विधिना दत्त्वा पुत्रानाप्नोति शोभनान् ।। १८ ।।

आषाढे माधवीं नत्वा प्राश्नीयाच्च तिलोदकम् ।।

प्रभाते भोजयेद्विप्रान्दक्षिणायां गुडः स्मृतः ।।

सकांचनः शुभांल्लोकान्प्राप्नोति हि न संशयः ।। १९ ।।

श्रावणे तु श्रियं पूज्य पिबेद्गोशृंगजं जलम् ।।

शिवभक्तांश्च संपूज्य दयाद्धेमफलैः सह ।।

सर्वलोकेश्वरो भूत्वा सर्वकामानवाप्नुयात् ।। 4.24.२० ।।

भाद्रे चैव तृतीयायां हरतालीति पूज येत् ।।

माहिषं च पिबेद्दुग्धं सौभाग्यमतुलं लभेत् ।।

इह लोके सुखं भुक्त्वा चांते शिवपुरं ब्रजेत् ।। २१ ।।

आश्विने तु तृतीयायां गिरिपुत्रीति पूजयेत् ।।

संप्राश्य तण्डुलजलं प्रातर्विप्रांश्च पूजयेत् ।।२२।।

दक्षिणा चापि निर्दिष्टा कनकं च सचन्दनम् ।।

सर्वयज्ञफलं प्राप्य गौरीलोके मही यते ।। २३ ।।

पद्मोद्भवा कार्तिके च पञ्चगव्यं पिबेत्ततः ।।

रात्रौ प्रजागरं कुर्यात्प्रभाते भोजयेद्द्विजान् ।। २४ ।।

सपत्नीकाञ्छुभाचारान्माल्यवस्त्र विभूषणैः ।।

पूजयेच्छिवभक्तांश्च कुमारीश्चैव भोजयेत् ।। २५ ।।

उमामहेश्वरं हैमं समाप्ते कारयेन्नृप ।।

यथाविभवसारेण वितानं पञ्चवर्णकम् ।। ।। २६ ।।

अशनं च शुभं दद्याच्छ्वेतच्छत्रं कमंडलुम् ।।

पादुकोपानहौ दिव्यैर्वस्त्रयुग्मैश्च पांडव ।। २७ ।।

पीतयज्ञोपवीतैश्च दीपनेत्रैः समुज्ज्वलैः ।।

शंखशुक्तिसमोपेतैर्द्दर्पणैश्च सुशोभितैः ।।२८।।

उमामहेश्वरं स्थाप्य पूजयित्वा यथाविधि ।।

नानाविधैः सुगन्धैश्च पत्रैः पुष्पैः फलैस्तथा ।। २९ ।।

घृतपक्वैश्च नैवेद्यैर्दीपमालाभिरेव च ।।

शर्करानालिकेरैश्च दाडिमैर्बीजपूरकैः ।। 4.24.३० ।।

जीरकैर्लवणैश्चैव कुसुम्भैः कुंकुमैस्तथा ।।

सताम्रभाजनैर्दिव्योदकै रससंयुतैः ।।

पूजयेद्देवदेवेशं क्षमयेत्तदनंतरम् ।। ३१ ।।

शंखवादित्रनिर्घोषैर्वेदध्वनिसमन्वितैः ।।

एवं कृते फलं यत्स्यात्तन्न शक्यं मयोदितुम् ।। ३२ ।।

पूर्वोक्तफलभागी स्यात्सर्वदेवैश्च पूज्यते ।।

कल्पकोटिशतं यावत्सर्वकामानवाप्नुयात् ।। ३३ ।।

तदंते शिवसायुज्यं प्राप्नोतीह न संशयः ।।

पुरैतद्रंभया चीर्णं तेन रंभाव्रतं स्मृतम् ।। ३४ ।।

योऽहं सा च स्मृता गौरी या गौरी स महेश्वरः ।।

इति मत्वा महाराज शरणं व्रज पार्वतीम् ।। ३५।।

एषा हिमाद्रिदुहितुर्दयिता तृतीया रंभाविधानमलभद्भुवि तत्कृतेति।। सत्प्राशितैरुदितनामयुतामुपोष्य प्राप्नोति वांछितफलान्यबला बहूनि ।।३६।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रंभातृतीयाव्रतं नाम चतुर्विंशतितमोऽध्यायः ।।२४।।

पर्व ४ (उत्तरपर्व) — Adhyāya 25

सौभाग्याष्टकवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम् ।।

सौभाग्यशयनं नाम यत्पुराणविदो विदुः ।। १ ।।

पुरा दग्धेषु लोकेषु भूर्भुवःस्वर्महादिषु ।।

सौभाग्यं सर्वलोकानामेकस्थमभवत्तदा ।। २ ।।

तच्च वैकुण्ठमासाद्य विष्णोर्वक्षस्थले स्थितम् ।।

ततः कालेन महता पुनः सर्गविधौ नृप ।। ३ ।।

अहंकारावृते लोके प्रधानपुरुषान्विते ।।

स्पर्द्धायां च प्रवृत्तायां कमलासनकृष्णयोः ।। ४ ।।

पिंगाकारा समुद्भूता ज्वाला वक्षस्थली तदा ।।

तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम् ।। ५ ।।

यद्वक्षस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम् ।।

रसरूपतया तावत्प्राप्नोति वसुधातलम् ।। ६ ।।

उत्क्षिप्तमन्तरिक्षस्थं ब्रह्मपुत्रेण धीमता ।।

दक्षेण पीतमात्रं तु रूपलावण्यकारणम् ।। ७ ।।

बलं तेजो महज्जातं दक्षस्य परमेष्ठिनः ।।

शेषं यदपतद्भूमावष्टधा तदजायत ।। ८ ।।

इक्षवस्तवराजं च निष्पावाजाजिधान्यकम् ।।

विकारवच्च गोक्षीरं कुसुम्भं कुंकुमं तथा ।।

लवणं चाष्टमं तत्र सौभाग्याष्टकमुच्यते ।। ९ ।।

पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा तथा ।।

दुहितास्याभवत्तस्माद्या सतीत्यभिधीयते ।।

लोकानतीत्य लालित्याल्ललिता तेन चोच्यते ।। 4.25.१० ।।

त्रैलोक्यसुंदरीमेनामुपयेमे पिनाकधृक् ।।

त्रिविश्वसौभाग्यमयी भुक्ति मुक्तिफलप्रदा ।। ११ ।।

आराध्य तामुमां भक्त्या स्त्री राजन्किन्न विन्दति ।। १२ ।।

।। युधिष्ठिर उवाच ।। ।।

कथमाराधनं तस्या जगद्धात्र्या जनार्दन ।।

यद्विधानं च तत्सर्वं जगन्नाथ वदस्व मे ।। १३ ।।

।। श्रीकृष्ण उवाच ।। ।।

वसंतमासमासाद्य तृतीयायां युधिष्ठिर ।।

शुक्लपक्षस्य पूर्वाह्ने तिलैः स्नानं समाचरेत् ।। १४ ।।

तस्मिन्नहनि सा देवी किल विश्वात्मना सती ।।

पाणिग्रहणकैर्मन्त्रैरुद्वाह्या वरवर्णिनी।।१५।।

तथा सहैव देवेशं तृतीयायामथार्चयेत् ।।

फलैर्नानाविधैर्धूपदीपनैवेद्यसंयुतैः ।। १६ ।।

पञ्चगव्येनानुमासं तथा गंधोदकेन च ।।

स्नपयित्वा र्चयेद्गौरीमिन्दुशेखरसंयुताम् ।। १७ ।।

पाटलां शंभुसहितां पादयोस्तु प्रपूजयेत् ।।

त्रियुगां शिवसंयुक्तां गुल्फयोरुभयोरपि ।। १८ ।।

भद्रेश्वरेण सहितां विजयां जानुनोर्युगे ।।

ईशानीं हरिकेशं च कट्यां संपूजयेद्बुधः ।। १९ ।।

कोटनीं शूलिनं कुक्षौ मंगलां शर्वसंयुताम् ।।

उदरे पूजयेद्राज न्नुमां रुद्रं कुचद्वये ।। 4.25.२० ।।

अनंतां त्रिपुरघ्रं च पूजयेत्करसंपुटे ।।

कंठे भवं भवानीं च मुखे गौरीं हरं तथा ।। २१ ।।

सर्वात्मना च सहितां ललितां मस्तकोपरि ।।

ओंकारपूर्वकैरेतैर्न्नमस्कारांतयोजितैः ।।

पूजयेद्भक्तिसहितो गन्धमाल्यानुलेपनैः ।। २२ ।।

एवमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः ।।

स्थापयेत्स्विन्ननिष्पावान्कुसुंभं क्षीरजीरकम् ।। २३ ।।

तवराजेक्षुलवणं कुंकुमं च तथाष्टमम् ।।

दत्तं सौभाग्यकं यस्मात्सौभाग्याष्ट कमुच्यते ।। २४ ।।

एवं निवेद्य तत्सर्वं शिवयोः प्रीयतामिति ।।

चैत्रे शृंगोदकं प्राश्य स्वप्याद्भूमावरिंदम ।।२५ ।।

ततः प्रातः समुत्थाय कृतप्राण जयः शुचिः ।।

संपूज्य द्विजदांपत्यं माल्यवस्त्रविभूषणैः ।।

सौभाग्याष्टकसंयुक्तं सौवर्णचरणद्वयम् ।। २६ ।।

प्रीयतामत्र ललिता ब्राह्मणाय निवे दयेत्।।

एवं संवत्सरं यावत्तृतीयायां सदा नृप ।। २७ ।।

प्राशने नाममंत्रे च विशेषोऽयं निबोध मे ।।

गोशृंगोदकमाद्ये स्याद्वैशाखे गोमयं पुनः ।। २८ ।।

ज्येष्ठे मंदारपुष्पं च बिल्वपत्रं शुचौ स्मृंतम् ।।

श्रावणे दधि संप्राश्यं नभस्ये च कुशोदकम् ।। २९ ।।

क्षीरमाश्वयुजे तद्वत्कार्तिके पृष दाज्यकम् ।।

मृगोत्तमांगे गोमूत्रं पौषे संप्राशयेद्घृतम् ।।4.25.३०।।

माघे कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुने ।।

ललिता विजया भद्रा भवानी कुमुदा श्रिता ।।३१।।

वासुदेवी तथा गौरी मङ्गला कमला सती ।।

उमा च दानकाले तु प्रीयतामिति कीर्तयेत् ।।३२।।

मल्लिकाशोककमलकदंबोत्पलमालति ।।

कुड्मलं करवीरं च बाणमम्लानकुंकुमम् ।।

सिंदुवारं च मासेषु सर्वेषु क्रमशः स्मृतम् ।। ३३ ।।

जपाकुसुंभकुसुमं मालती शतपत्रिका ।।

यथालाभं प्रदेयानि करवीरं च सर्वदा ।। ३४ ।।

एवं संवत्सरं यावदुपोष्य विधिवन्नरः ।।

स्त्री नक्ते तु कुमारी वा शिवामभ्यर्च्य शक्तितः ।।

व्रतांते शयनं दद्यात्सर्वोपस्करसंयुतम् ।। ३५ ।।

उमामहेश्वरं हैमं वृषभं च गवा सह ।।

स्थापयित्वा तु शयने ब्राह्मणाय निवेदयेत् ।। ३६।।

अन्यान्यपि यथाशक्ति मिधुनान्यंबरादिभिः ।।

धान्यालंकरणैर्दानैरन्यैश्च धनसंचयैः ।।

वित्तशाठ्येन रहितः पूजयेद्गतविस्मयः ।। ३७ ।।

एवं करोति यः सम्यक्सौभाम्यशयनव्रतम् ।।

सर्वान्कामानवाप्नोति पदं चानन्त्यमश्नुते ।। ३८ ।।

सौभाग्यारोग्यरूपायुर्वस्त्रालंकारभूषणैः ।।

न वियुक्तो भवेद्राजन्वर्षायुतशतत्रयम् ।। ३९ ।।

यस्तु द्वादश वर्षाणि सौभाग्यशयनं व्रतम् ।।

करोति सप्त चाष्टौ वा श्रीकण्ठभुवनेश्वरैः ।।

पूज्यमानो भवेत्सम्य ग्यावत्कल्पायुतत्रयम् ।। 4.25.४० ।।

नारी वा कुरुते या तु कुमारी वा नरेश्वर ।।

सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ।। ४१ ।।

शृणुयादपि यश्चैतत्प्रदद्यादथ वा मतिम् ।।

सोऽपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत् ।। ४२ ।।

इदमिह मदनेन पूर्वमिष्टं चरितमिदं शशबिंदुना व्रतं वै ।।

सुरपतिधनदेशवायुसोमैश्चरितदिदं करुणेन बंदिना च ।। ४३ ।।

यानीह दत्तानि पुरा नरेंद्रैर्दानानि धर्मार्थयशस्कराणि ।।

निर्माल्यवंति प्रतिमानि तानि स नाम साधुः पुनराददानः ।। ४४ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि सौभाग्याष्टकतृतीयाव्रतं नाम पचविंशतितमोऽ ध्यायः ।। २५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 26

रसकल्याणिनीव्रतवर्णनम्

युधिष्ठिर उवाच ।।

सौभाग्यारोग्यफलदं विपक्षक्षयकारकम् ।।

भुक्तिमुक्तिप्रदं किञ्चिद्व्रतं ब्रूहि जनार्दन ।। १ ।। ।।

।। श्रीकृष्ण उवाच ।। ।।

यदुमायै पुरा देव उवाचासुरसूदनः ।।

कथासु संप्रवृत्तासु ललिताराधनं प्रति ।। २ ।।

तदिदानीं प्रवक्ष्यामि भुक्तिमुक्ति फलप्रदम् ।।

नराणामथ नारीणामाराधनमनुत्तमम् ।। ३ ।।

शृणुष्वावहितो भूत्वा सर्वपापप्रणाशनम् ।।

नभस्ये वाथ वैशाखे पुनर्मार्गशिरेऽथ वा ।। ४ ।।

शुक्लपक्षतृतीयायां स्नातः सद्गौरसर्षपैः ।।

गोरोचनसुगोमूत्रमुस्तागोशकृतं तथा ।।

दधिचंदनसंमिश्रं ललाटे तिलकं न्यसेत् ।। ५ ।।

सौभाग्यारोग्यकृद्यत्स्यात्सदा च ललिताप्रियम् ।।

प्रतिपक्षं तृतीयायां बद्ध्वा वा पीतवाससी ।। ६ ।।

धारयेदथ वा रक्तपीतानि कुसुमानि च ।।

विधवाप्यनुरक्तानि कुमारी शुक्लवाससी ।। ७ ।।

देव्यर्चां पंचगव्येन ततः क्षीरेण केवलम् ।।

स्नपयेन्मधुना तद्वत्पुष्पगन्धोदकेन च ।। ८ ।।

पूजयेच्छुक्लपुष्पैश्च फलैर्नानाविधैरपि ।।

धान्यकाजाजिलवणगुडक्षीरघृतादिभिः ।। ९ ।।

शुक्लाक्षतैस्तिलैरर्च्यां ललितां यः सदार्चयेत् ।।

आपादाद्यर्चनं कुर्याद्गौर्याः सम्यक्समासतः ।। 4.26.१० ।।

वरदायै नमः पादौ तथा गुल्फौ श्रिये नमः ।।

अशोकायै नमो जंघे भवान्यै जानुनी तथा ।। १ १।।

ऊरू मांगल्यकारिण्यै कामदेव्यै तथा कटिम् ।।

पद्मोद्भवायै जठरमुरः कामप्रिये नमः ।। १२ ।।

करौ सौभाग्यवासिन्यै बाहू शशिमुखश्रियै ।।

मुखं कंदर्पवासिन्यै पार्वत्यै तु स्मितं तथा ।। १३ ।।

गौर्य्यै नमस्तथा नासां सुनेत्रायै च लोचने ।।

तुष्ट्यै ललाटफलकं कात्यायन्यै शिरस्तथा ।। ।। १४ ।।

नमो गौर्यै नमः सृष्ट्यै नमः कांत्यै नमः श्रियै ।।

रंभायै ललितायै च वासुदेव्यै नमोनमः ।। १५ ।।

एवं संपूज्य विधिवदग्रतः पद्म मालिखेत् ।।

पत्रैर्द्वादशभिर्युक्तं कुंकुमेन सकर्णिकम् ।। १६ ।।

पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम् ।।

भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम् ।। १७ ।।

विन्यसेत्पश्चिमे सौम्यां ततो मदनवासिनीम्।।

वायव्यां पाटलावासामुत्तरेण ततो ह्युमाम्।। १८।।

लक्ष्मीं स्वाहां स्वधां तुष्टिं मंगलां कुमुदां सतीम्।।

रुद्राणीं मध्यतः स्थाप्य ललितां कर्णिकोपरि।।

कुसुमैरक्षतैः शुभ्रैर्नमस्कारेण विन्यसेत्।।१९।।

गीतमंगलघोषं च कारयित्वा सुवासिनीः ।।

पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः ।। 4.26.२० ।।

सिंदूरं स्नानचूर्णं च तासां शिरसि पातयेत् ।।

सिंदूरं कुंकुमं स्नानमिष्टं सत्याः सदा यतः ।। २१ ।।

नभस्ये पूजयेद्गौरीमुत्पलैरसितैस्तथा ।।

बन्धुजीवैराश्वयुजे कार्तिके शतपत्रकैः ।। २२ ।।

कुन्दपुष्पैर्मार्गशिरे पौषे वै कुंकुमेन च ।।

माघे तु पूजयेद्देवीं सिंदुवारेण भक्तितः ।। २३ ।।

जात्या तु फाल्गुने पूज्या पार्वती पांडुनंदन ।।

चैत्रे च मल्लिकाशोकैर्वैशाखे गंध पाटलैः ।। २४ ।।

ज्येष्ठे कमलमंदारैराषाढे चंपकांबुजैः ।।

कदंबैरथ मालत्या श्रावणे पूजयेदुमाम् ।। २५ ।।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशो दकम् ।।

बिल्वपत्रार्कपुष्पं च गवां शृंगोदक तथा ।।

पंचगव्यं तथा बिल्वं प्राशयेत्क्रमशः सदा ।।२६।।

एतद्भाद्रपदाद्यं तु प्राशनं समुदाहृतम् ।।

प्रतिपक्षं द्वितीयायां मया प्रोक्तं वरानने ।। २७ ।।

ब्राह्मणं ब्राह्मणीं चैव शिवं गौरीं प्रकल्प्य च ।।

भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः ।।

पुंसे पीतांबरे दत्त्वा स्त्रियै कौसुंभवाससी ।। २८ ।।

निष्पावाजाजिलवणमिक्षुदंडं गुणान्वितम् ।।

स्त्रियै दद्यात्फलं पुंसे सुवर्णोत्पलसंयुतम् ।। ।। २९ ।।

यथा न देवदेवेशस्त्वां परित्यज्य गच्छति ।।

तथा मां संपरित्यज्य पतिर्नान्यत्र गच्छतु ।। 4.26.३० ।।

कुमुदा विमलानंता भवानी वसुधा शिवा ।।

ललिता कमला गौरी सती रंभाथ पार्वती ।। ३१ ।।

नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत् ।।

व्रतांते शयनं दद्यात्सुवर्णं कमलान्वितम् ।। ३२ ।।

मिथुनानि चतुर्विंशत्तदर्द्धं सकृदर्च्चयेत् ।।

अष्टावष्टावथ पुनश्चातुर्मास्ये समर्चयेत् ।। ३३ ।।

तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम् ।।

न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः ।। ३४ ।।

उक्तानंततृतीयैषा सदानंतफलप्रदा ।।

सर्वपापहरा देवी सौभाग्यारोग्य वर्धिनी ।। ३५ ।।

न चैनां वित्तशाठ्येन कदाचिदपि लंघयेत् ।।

नरो वा यदि वा नारी वित्तशाठ्यात्पतत्यधः ।। ३६ ।।

गर्भिणी सूतिका नक्तं कुमारी चाथ रोगयुक् ।।

यदा श्रद्धा तदान्येन क्रियमाणं तु कारयेत् ।। ३७ ।।

इमामनंतफलदां तृतीयां यः समाचरेत् ।।

कल्पकोटि शतं साग्रं शिवलोके स पूज्यते ।। ३८ ।।

वित्तहीनोऽपि कुर्वीत वर्षत्रयमुपोषणैः ।।

पुष्पपत्रविधानेन सोपि तत्फलमाप्नुयात् ।। ३९ ।।

नारी वा कुरुते या तु कुमारी विधवा तथा ।।

साऽपि तत्फलमाप्नोति गौर्यनुग्रहभाविता ।।4.26.४०।।

इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिंदुलोकसंस्थः ।।

मतिमपि च ददाति सोऽपि देवैरमरवधूजनकिंनरैश्च पूज्यः ।। ४१ ।। ।।

( इति अनंततृतीयाव्रतम्)

।। श्रीकृष्ण उवाच ।। ।।

अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम् ।।

रसकल्याणिनीं नाम पुरा कल्पविदो विदुः ।।४२।।

माघमासे तु संप्राप्य तृतीयां शुक्लपाक्षिकीम्।।

प्रातर्गव्येन पयसा तिलैः स्नानं समाचरेत् ।। ४३ ।।

स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च ।।

पुनः पूजा प्रकर्तव्या जात्या वा कुंकुमेन वा ।।४४।।

दक्षिणांगानि संपूज्य ततो वामानि पूजयेत् ।।

ललितायै नमः पादौ गुल्फं तद्वदथार्चयेत् ।। ४५ ।।

जंघे जानू तथा सत्यै तथोरश्च श्रियै नमः ।।

मदनालसायै तु कटिं मदनायै तथोदरम् ।।४६।।

स्तनौ मदनवासिन्यै कुमुदायै च कंधरम्।।

भुजान्भुजाग्रं माधव्यै कमलायै ह्युपस्थकम् ।।४७।।

भ्रूललाटे च रुद्राण्यै शंकरायै तथालकान् ।।

मुकुटं विश्ववासिन्यै पुनः कांत्यै तथालकान्।।४८।।

नेत्रं चक्रावधारिण्यै पुष्ट्यै च वदनं पुनः ।।

उत्कंठिन्यै नमः कंठमनंतायै तु कंधराम् ।। ४९ ।।

रंभायै वामबाहुं च विशोकायै नमः परम् ।।

हृदयं मन्मथादित्यै पाटलायै नमोनमः ।। 4.26.५० ।।

एवं संपूज्य विधिवद्द्विजदांपत्यमर्चयेत् ।।

भोजयित्वान्नदानेन मधुरेण विमत्सरः ।। ५१ ।।

सलड्डुकं वारिकुंभं शुक्लांबरयुगं ततम् ।।

दत्त्वा सुवर्णकलशं गंधमाल्यैरथार्चयेत् ।। ५२ ।।

प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम् ।।

अनेन विधिना देवीं मासिमासि समर्चयेत् ।। ५३ ।।

लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः ।।

तवराजं तथा चैत्रे वर्ज्यं च मधु माधवे ।। ५४ ।।

यारकं ज्येष्ठमासे तु आषाढे जीरकं तथा ।।

श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा ।। ५५ ।।

घृतमश्वयुजे तद्वद्वर्जयेद्या च मज्जिका ।।

धान्यकं मार्गशीर्षे तु पौषे वर्ज्या तु शर्करा ।। ५६ ।।

व्रतांते करका पूर्णा एतेषां मासिमासि च ।।

दयाद्विकालवेलायां भक्षपात्रेण संयुतान् ।। ५७ ।।

तंडुलाञ्छ्वेतवर्णांश्च संयावमधुपूरिकाः ।।

घारिका घृतपूरांश्च मंड कान्क्षीरशाककम् ।। ५८ ।।

दध्यन्नं षड्विधं चैव भिंडयः शाकवर्तिकाः ।।

माघादौ क्रमशो दद्यादेतानि करकोपरि ।। ५९ ।।

कुमुदा माधवी गौरी रंभा भद्रा जया शिवा ।।

उमा शची सती तद्वन्मंगला रतिलालसा ।। 4.26.६० ।।

क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत् ।।

चर्वंतं पंचगव्यं च प्राशनं समुदाहृतम् ।। ६१ ।।

उपवासी भवेन्नित्यमशक्तो दक्षिणे करे ।।

पुनर्माघे तु संप्राप्य शर्करां करकोपरि।। ६२ ।।

कृत्वा तु कांचनीं गोधां पंचरत्नसमन्विताम् ।।

उमामंगुष्ठमात्रां च सुधासूत्रे कमंडलुम् ।। ६३ ।।

तद्वद्गोमिथुनं सर्वं सुवर्णास्यं सितं परम् ।।

सवस्त्रभाजनं दत्त्वा भवानी प्रीयतामिति ।। ६४ ।।

अनेन विधिना यश्च रसकल्याणिनीव्रतम् ।।

कुर्यात्स सर्वपापेभ्यस्तत्क्षणादेव मुच्यते ।। ६५ ।।

भवार्बुदसहस्रं तु न दुःखी जायते क्वचित् ।।

अग्निष्टोमसहस्रेण यत्फलं तदवाप्नुयात् ।। ६६ ।।

नारी वा कुरुते या तु कुमारी वा युधिष्ठिर ।।

विधवा वा वराकी वा सापि तत्फलभागिनी ।।

सौभाग्यारोग्यसंपन्ना गौरीलोके महीयते ।। ६७ ।।

इति पठति य इत्थं यः शृणोति प्रसंगात्सकलकलुषमुक्तः पार्वतीलोकमेति ।। मतिमपि च नराणां यो ददाति प्रियार्थं विपुलमतिजनानां नायकः स्यादमोघम् ।। ६८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रसकल्याणिनीव्रतवर्णनं नाम षड्विंशतितमोऽध्यायः ।। २६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 27

आर्द्रानन्दकरीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

तथा चान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम् ।।

लोकेषु नाम्ना विख्यातामार्द्रानंदकरीमिमाम् ।। १ ।।

यदा शुक्लतृतीयायामाषाढर्क्षं भवेत्क्वचित् ।।

ब्रह्मर्क्षं चाथ मार्गं वा व्रतं ग्राह्यं तदा शुभम् ।। २ ।।

दर्भगंधोदकैः स्नानं तदा सम्यक्समाचरेत् ।।

शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनः ।। ३ ।।

भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगंधिभिः ।।

महादेवेन सहितामुपविष्टां वरासने ।।४।।

वासुदेव्यै नमः पादौ शंकराय नमो हरेः ।।

जंघे शोकविनाशिन्यायानन्दाय नमः प्रभो।। ।। ५ ।।

रंभायै पूजयेदूरू शिवाय च पिनाकिनः ।।

आदित्यै च कटिं पूज्या शूलिनः शूलपाणये ।। ६ ।।

माधव्यै च तथा नाभिमथ शंभोर्भवाय वै ।।

स्तनावानंदकारिण्यै शंकरायेंदुधारिणे ।। ७ ।।

उत्कंठिन्यै नमः कंठं नीलकंठाय वै हरेः ।।

करावुत्पलधारिण्यै रुद्राय जगतीपतेः ।।८।।

बाहुं च परिरंभिण्यै नृत्यशीलाय वै हरेः ।। ९ ।।

देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः ।।

स्मितं सस्मरशीलायै विश्ववक्त्राय वै विभोः ।। ।। 4.27.१० ।।

नेत्रं मदनवासिन्यै विश्वधाम्ने त्रिशूलिने ।।

भ्रुवौ रतिप्रियायै च तांडवेशाय वै विभोः ।। ११ ।।

देव्यै ललाटमिंद्राण्यै हव्यवाहाय वै विभोः ।।

स्वाहायै मुकुटं देव्या विभोः पञ्चशराय वै ।। १२ ।।

विश्वकायै विश्वमुख्यै विश्वपादकरौ शिवौ ।।

प्रसन्नवदनौ वंदे पार्वतीपरमेश्वरौ ।। ।। १३ ।।

एवं संपूज्य विधिवदग्रतः शिवयोः पुनः ।।

पद्मोत्पलानि च तथा नानावर्णानि कारयेत् ।। १४ ।।

शङ्खचक्रे सकटके स्वस्तिकं वर्द्ध मानकम् ।।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।। १५ ।।

शृंगोदकं बिल्वपत्रं वारि कुंभान्वितं तथा ।।

उशीरनीरं तद्वच्च यवचूर्णोदकं ततः ।। १६ ।।

तिलोदकं च संप्राप्य स्वप्यान्मार्गशिरादिषु ।।

प्रतिपक्षद्वितीयायां प्राशनं समुदाहृतम् ।। १७ ।।

सर्वत्र शुक्लपुष्पाणि प्रशस्तानि शिवार्चने ।।

दानकालेषु सर्वेषु मंत्रमेतमुदीरयेत् ।। १८ ।।

गौरी मे प्रीयतां नित्यमघनाशाय मंगला ।।

सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये ।। १९ ।।

संवत्सरांते लवणं गुडकुंभं समर्जितम् ।।

चन्दनं नेत्रपट्टं च सितवस्त्रयुगान्वितम् ।।

उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम् ।। 4.27.२० ।।

प्रस्तरावरणं शय्यां सविश्रामां निवेदयेत् ।।

सपत्नीकाय विप्राय गौरी मे प्रीयतामिति ।। २१ ।।

आर्द्रानन्दकरी नाम तृतीयैषा सनातनी ।।

यामुपोष्य नरो याति शंभोस्तत्परमं पदम् ।। २२ ।।

इह लोके यमानंदं प्राप्नोति धनसंचयात् ।।

आयुरारोग्यसंपन्नो न किञ्चिच्छोकमाप्नुयात् ।। २३ ।।

नारी वा कुरुते या तु कुमारी विधवा तथा ।।

सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ।। २४ ।।

प्रतिपक्षमुपोष्यैवं मंत्रार्चनविधानतः ।।

रुद्राणीलोकमाप्नोति पुनरावृत्तिवर्जितम् ।। २५ ।।

य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः ।।

शक्रलोके सगंधर्वैः पूज्यतेऽब्दशतत्रयम् ।। २६ ।।

आनंददां सकलदुःखहरां तृतीयां या स्त्री करोति विधिवत्सधवाधवा च ।।

सा स्वे गृहे सुखशतान्यनुभूय भूयो गौरीपुरं सदयिता मुदिता प्रयाति ।। २७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे आर्द्रानन्दकरीतृतीयाव्रतं नाम सप्तविंशतितमोऽध्यायः ।। २७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 28

चैत्रभाद्रपदमाघवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

चैत्रे भाद्रपदे माघे रूपसौभाग्य पुत्रदम् ।।

तृतीयात्रयमेतन्मे कृष्ण कस्मान्न कीर्तितम् ।। १ ।।

किमहं भक्तिरहितस्त्रयीमार्गातिगो नरः ।।

सुप्रसिद्धं जगत्येतद्गोपितं केन हेतुना ।। २ ।।

भवान्सर्वार्थानुकूलः सर्वज्ञ इति मे मतिः ।।

श्रीकृष्ण उवाच ।।

व्रतं चैतज्जगत्ख्यातं नाख्यातं तेन ते मया ।।३।।

यद्यस्ति श्रवणे बुद्धिः श्रूयतां पाण्डुनन्दन ।।

कोऽन्यः श्रोता जगत्यस्मिन्भवता सदृशो भुवि ।। ४ ।।

जया च विजया चैव उमायाः परिचारिके ।।

आगत्य मुनिकन्याभिः पृष्टेभीष्टफलेच्छया ।। ५ ।।

भवत्यौ सर्वदा देव्याश्चित्तवृत्तिविदौ किल ।।

केन व्रतोपचारेण कस्मिन्नहनि पार्वती ।।

पूजिता तुष्टिमभ्येति मंत्रै कैश्च वरानने ।। ६ ।।

तासां तद्वचनं श्रुत्वा जया प्रोवाच सादरम् ।।

श्रूयतामभिधास्यामि सर्वकामफलप्रदम् ।।

व्रतमुत्सवसंयुक्तं नरनारी मनोरमम् ।। ७ ।।

चैत्रे सिततृतीयायां दन्तधावनपूर्वकम् ।।

उपवासस्य नियमं गृह्णीयाद्भक्तिभावितम् ।। ८ ।।

सकुंकुमं सतांबूलं सिन्दूरं रक्तवाससी ।।

विधवा सोपवासाप्यवैधव्यकरणं परम् ।। ९ ।।

विधवा याति मार्गेण कुमारी तु यदृच्छया ।।

कुर्यादभ्यर्चनविधिं श्रूयतां मंत्रविक्रमः ।। 4.28.१० ।।

नेत्रपट्टपटीवस्त्रैर्वस्त्रमण्डपिकां शुभाम् ।।

कारयेत्कुसुमामोददिव्याभरणभूषिताम् ।। ११ ।।

प्रवाललंबितव्रातामंतर्दिव्यवितानिकाम् ।।

विन्यस्तपूर्णकलशां सत्पीठस्थापितद्विजाम् ।। १२ ।।

पुरतः कारयेत्कुण्डं हस्तमात्रं समेखलम् ।।

ततः स्नातानुलिप्तां च परिधाय सुवाससी ।। १३ ।।

देवान्पितॄन्समभ्यर्च्य ततो देवीगृहं व्रजेत् ।।

नामाष्टकेन संपूज्या गौरी गोपतिवल्लभा ।। १४ ।।

तत्कालप्रभवैः पुष्पैर्गन्धालि बकुलाकुलैः ।।

कुंकुमेन समालभ्य कर्पूरागुरुचन्दनैः ।। १५ ।।

एवं संपूज्य विधिवत्सद्धूपेनाधिवासयेत् ।।

पार्वती ललिता गौरी गांधारी शाङ्करी शिवा ।।

उमा सती समुद्दिष्टं नामाष्टकमिदं मया ।। १६ ।।

लड्डुकैः खण्डवेष्टैश्च गुडकैः सिंहकेसरैः ।।

सोमालकैः कोकसरैः खण्डखाद्यकरंबकैः ।। १७ ।।

घृतपक्वैर्बहुविधैः सुपक्वफलकल्पितैः ।।

दृष्टिप्राणहरैर्हृद्यैर्न्नैवेद्यैः प्रीणयेदुमाम् ।। १. ।।

कटुखंडं जीरकं च कुंकुमं लवणार्द्रकम् ।।

इक्षुदंडानैक्षवं च हरिद्रार्द्रान्पुरो न्यसेत् ।। १९ ।।

नारिकेलानामलकान्मातुलुंगान्सदाडिमान् ।।

कूष्माण्डकर्कटीवृंतनारङ्गपनसादिकान् ।। 4.28.२० ।।

कालोद्भवानि चान्यानि फलानि विनिवेदयेत् ।।

गृहाद्युलूखलशिलाशूर्पान्प्रणतिभिः सह ।। २१ ।।

नेत्रांजनशलाकाश्च नखरे चनकानि च ।।

दर्पणं वंशपात्राणि भवान्यै विनिवेदयेत् ।। २२ ।।

शंखतूर्यनिनादेन गीतमङ्गलनिस्वनैः ।।

भक्त्या संपूजयेद्देवीं स्वशक्त्या शिववल्लभाम् ।। २३ ।।

ततोऽस्तसमये भानोः कुमार्यः करकैर्नवैः ।।

स्नानं कुर्युर्मुदा युक्ताः सौभाग्यारोग्यवृद्धये ।। २४ ।।

यामेयामे गते स्नानं देवीपूजनमेव च ।।

तैरेव नामभिर्होमस्तिलाज्येन प्रशस्यते ।। २५ ।।

पद्मासनस्थिता साध्वी तेनैवार्द्रेण वाससा ।।

गौरीमुखेक्षणपरा तां रात्रिमतिवाहयेत् ।। २६ ।।

काश्चिद्वाद्यंति संहृष्टाः काश्चिन्नृत्यंति हर्षिताः ।।

कथयंति कथाः काश्चिद्देव्यास्तत्र महोत्सवे ।। २७ ।।

गीततालानु संबद्धमनुद्धतमनाकुलम् ।।

नृत्यंति स्म पुरे देव्याः काश्चिदुल्लसितभ्रुवः ।। २८ ।।

नृत्येन हृष्यति हरो गौरी गीतेन तुष्यति ।।

सद्भावेनाथ वा सर्वे गच्छंति परमां मुदम् ।। २९ ।।

सुवासिनीभ्यस्तांबूलं कुंकुमं कुसुमानि च ।।

प्रदेयं जागरवत्या चान्येषामपि किंचन ।। 4.28.३० ।।

नटैर्विटैर्भटैश्चैव तथा प्रेक्षणकोत्सवैः ।।

सखिभिः सहिता रात्रिं गायनृत्यन्हितां नयेत् ।। ३१ ।।

एवं प्रभातसमये स्नात्वा संपूज्य पार्वतीम् ।।

ततो वै सा समारोहेद्वस्त्रालंकृततोरणम् ।। ३२ ।।

तोलयेत्सा तथासीनं गुडेन लवणेन च ।।

कुंकुमेनाथ वा शक्त्या कर्पूरागरुचंदनैः ।। ३३ ।।

पर्वतानामपिच्छेदैः केचिदिच्छंति सूरयः ।।

कुंडमंडपसंभारैर्मंत्रैस्तत्रैव शोभयेत् ।। ३४ ।।

लवणेन सहात्मा हि तोल्यते च गुडेन वा ।।

कयापि भक्तिपरया सौभाग्यमतुलीकृतम् ।। ३५ ।।

एवं देवीं प्रणम्यार्यां क्षमाप्य गृहमाविशेत् ।।

आमंत्र्य शास्त्रकुशलानाचारविधिपारगान् ।। ।। ३६ ।।

अन्नं च मधुरप्रायं भोजयित्वा सुवासिनीः ।।

स्वयं भुंजीत सहसा ज्ञातीजनबुधैः स्वकैः ।। ३७ ।।

यच्च देव्याः पुरो दत्तं नैवे द्यादि तदिच्छया ।।

गृहं प्रतिनयेत्सर्वं विभज्याभ्रांतिमानसा ।। ३८ ।।

ततो दद्याद्गृहस्थेभ्यः कृतकृत्या भवेत्तदा ।।

विधिर्भाद्रपदेऽप्येष सुसौन्दर्यप्रदायकः ।। ३९ ।।

सप्तधान्यस्वरूपां च शूर्पे संपूजयेदुमाम् ।।

गोमूत्रप्राशनं ह्यत्र तेन गोमूत्रसंज्ञिता ।। 4.28.४० ।।

माघमासतृतीयायां विशेषः श्रूयतामिति ।।

पूर्वोक्तं सकलं कृत्वा प्रभाते यवसंस्तरम् ।।

तोलयित्वा कुंदपुष्पैः पूजयेत्तत्सुतामिति ।। ४१ ।।

एतेन कारणेनोक्ता चतुर्थी कुन्दसंज्ञया ।।

तृतीयाख्यं मयैतत्ते कथितं सर्वकारणम् ।।

जयया मुनिकन्यानां यत्पुरा समुदाहृतम् ।। ४२ ।।

श्रीकृष्ण उवाच ।।

आसीद्विदर्भनगरे वेश्या सर्वांगसुंदरी ।।

तया ब्राह्मणवाक्येन सर्वमेतत्कृतं पुरा ।। ४३ ।।

भुक्त्वा भोगान्महीपृष्ठे दत्त्वा दानं यथेप्सया ।। ४४ ।।

कालेन समनुप्राप्ता मरणं मनुजेश्वर ।।

अचिन्त्या राजदुहिता सा बभूवातिशोभना ।।

अवंतिसुन्दरी नाम देवानामपि सुन्दरी ।। ४५ ।।

यदि वक्त्रसहस्राणां सहस्रं स्यात्कथंचन ।।

तथापि निर्वर्णयितुमशक्या सा सुलोचना ।। ४६ ।।

चैत्रतृतीयामाहात्म्यात्सा बभूव प्रभावती ।।

मातापित्रोरतिप्रेष्ठा शिष्टा न्यजनवल्लभा ।। ४७ ।।

लब्धाब्धिसंभवा यद्वत्कृष्णेनाक्लिष्टकर्मणा ।।

ततः सा बुभुजे भोगान्भर्त्रा सार्द्धं मुदा सती ।। ४८ ।।

यददाद्ब्राह्मणेभ्यः सा भूषणं कटकादिकम् ।।

तत्प्रभावेण सा लेभे सौभाग्यं किं ततः परम् ।। ४९ ।।

पुत्रांश्च जनयामास विष्णुशक्रपराक्रमान् ।।

सर्वास्त्रशस्त्रकुशला न्वेदोक्तविधिपारगान् ।। 4.28.५० ।।

एवं रूपं महत्प्राप्य सौभाग्यं पुत्रसंपदम् ।।

भर्त्रा सहैव मरणमंते प्राप्य पतिव्रता ।। ५१ ।।

शक्रादिलोकपा लानां भवनेषु यथाक्रमम् ।।

आक्रम्य ब्रह्मलोकं च जगाम शिवसात्मताम् ।। ५२ ।।

एवं यान्यापि कुरुते नारी व्रतमिदं शुभम् ।।

सा रूपसौभाग्यसुतान्प्राप्य स्वर्गे महीयते ।। ५३ ।।

न दुर्भगा कुले तस्याः काचिद्भवति कन्यका ।।

न दुर्विनीतश्च सुतो न भृत्योऽप्रियकृद्भवेत् ।। ५४ ।।

न दारिद्र्यं गृहे तस्मिन्न व्याधिरुपजायते ।।

यत्र सा रमते साध्वी ध्मातचामीकरप्रभा ।। ५५

अन्याश्च याश्चरिष्यंति ब्राह्मणानुमते व्रतम् ।।

संपूज्य वाचकं भक्त्या भूषणाच्छादनादिभिः ।। ५६ ।।

ताः सर्वसुखसंपन्ना अविपन्नमनोरथाः ।।

भविष्यंति कुरुश्रेष्ठ तस्यै देवि नमोस्तु ते ।। ५७ ।।

माघे महार्घ्यमणिमंडितपादपीठां चैत्रे विचित्रकुसुमोत्करचर्चितांगीम् ।।

शूर्पप्ररूढनवसस्यमयीं नभस्ये संपूज्य शंभुदयितां प्रभवंति नार्यः ।। ।। ५८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चैत्रभाद्रपदमाघतृतीयाव्रतवर्णनं नामाष्टविंशतितमोऽध्यायः ।। २८ ।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 29

अनन्तरतृतीयाव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

शुक्लपक्षतृतीयास्तु बहवः समुदाहृताः ।।

आनन्तर्यव्रतं ब्रूहि तृतीयोभयसंयुतम् ।। १ ।।

हिताय सर्वभूतानां ललनानां विशेषतः ।।

नाम प्राशननैवेद्यैर्मासिमासि पृथक्पृथक ।। २ ।।

श्रीकृष्ण उवाच ।। ।।

ब्रह्मविष्णुमहेशाद्यैर्यथोक्तं सुरसत्तमैः ।।

अपूर्वं सर्वमंत्राणामानंतर्यव्रतं शृणु ।। ३ ।।

आदौ मार्गशिरे मासि व्रतमेतत्समाचरेत् ।।

नक्तं कुर्याद्द्वितीयायां तृतीयायामुपोषिता ।। ४ ।।

उमां देवीं समभ्यर्च्य पुष्पगंधादिभिः क्रमात् ।।

शर्करापुत्रिकां शक्त्या प्रणिपत्य निवेदयेत् ।। ५ ।।

संप्राश्य दधि रात्रौ च स्वप्याद्विगतमत्सरा ।।

प्रभाते विधिवद्भक्त्या मिथुनं भोजयेत्सुधीः ।।६।।

अश्वमेधमवाप्नोति समग्रं नात्र संशयः ।।

तथा कृष्णतृतीयायां सोपवासा जितेन्द्रिया ।। ७ ।।

जपेत्कात्यायनीं नाम नालि केरं निवेदयेत् ।।

स्वप्यात्प्राश्य पयो रात्रौ कामक्रोधविवर्जिता ।।

दांपत्यं सुभगं भोज्यं गोमेधफलमाप्नुयात् ।। ८ ।।

पौषस्यादितृतीयायां सोपवासा जितेन्द्रिया ।।

गौरीं नाम तु संपूज्य लड्डुकान्विनिवेदयेत् ।। ९ ।।

स्वप्यात्प्राश्य घृतं रात्रौ त्यक्त्वा कामं तदग्रतः।।

प्रभाते मिथुनं भोज्यं नरमेधफलं भवेत् ।। 4.29.१० ।।

एवं कृष्णतृतीयायां पार्वतीमिति पूजयेत् ।।

निवेदयान्नं शष्कुल्यो गोमयं प्राशयेन्निशि ।।

दांपत्यं विविधं भोज्यम श्वमेधफलं लभेत् ।। ११ ।।

माघस्य शुक्लपक्षे तु तृतीयायामुपोषितः ।।

सुरनायिकां च संपूज्य खण्डबिल्वं निवेदयेत् ।। १२ ।।

ततः कुशोदकं प्राश्य स्वप्याद्भूमौ जितेन्द्रिया ।।

प्रभाते मधुरान्नेन मिथुनं भोज्य भक्तितः ।।

क्षमाप्यांते नमस्कृत्य इति स्वर्णफलं लभेत् ।। १३ ।।

पुनरेतत्ततो माघे कृष्णपक्षे शुचिव्रता ।।

आर्यां नाम्ना प्रपूज्याथ खाद्यकानि निवेदयेत् ।। १४ ।।

मधु प्राश्य स्वपेद्रात्रौ कामक्रोधविवर्जिता ।।

मिथुनं भोजयित्वा तु वाजपेयफलं लभेत् ।। १५ ।।

एवं वै फाल्गुने मासि सोपवासा शुचिव्रता ।।

भद्रीं नाम प्रपूज्याथ कासारं विनिवेदयेत् ।। १६ ।।

सुप्राश्य शर्करां चाथ स्वप्याद्रात्रौ विमत्सरा ।।

प्रभाते मिथुनं भोज्यं सौत्रामणिफलं लभेत ।। १७ ।।

पुनः कृष्णतृतीयायां फाल्गुनस्यैव भारत।।

विशालाक्षीं समभ्यर्च्य पूरिका विनिवेदयेत् ।। १८ ।।

सोदकांस्तंडुलान्दत्त्वा स्वप्याद्भूमौ मनस्विनी ।।

भोजयेन्मिथुनं प्रातरग्निष्टोमफलं लभेत् ।। १९ ।।

चैत्रस्यादितृतीयायां शुचिर्भूता जितेन्द्रिया ।।

श्रियं देवीं यजेद्भक्त्या वटकान्विनिवेदयेत् ।। 4.29.२० ।।

बिल्वपत्रं ततः प्राश्य स्वप्याद्ध्यान परायणा ।।

प्रातरुत्थाय मद्भक्त्या मिथुनं पूजयेत्सुधीः ।।

प्रणिपत्य क्षमाप्यैवं राजसूयफलं लभेत् ।। २१ ।।

पुनः कृष्णतृतीयायां चैत्रे सम्यगुपोषितः ।।

कालीं नाम समभ्यर्च्य पिष्टं प्राश्य स्वपेन्निशि ।। २२ ।।

पूपकानि निवेद्याथ कुर्याद्रात्रौ प्रजागरम् ।।

मिथुनानि च संभोज्य अतिरात्रफलं भवेत् ।। २३ ।।

एवं वैशाखमासे तु सोपवासा जितेन्द्रिया ।।

पूजयेच्चण्डिकां देवीं मधुकानि निवेदयेत् ।। २४ ।।

श्रीखंडं चंदनं लिप्त्वा स्वप्याद्देव्यग्रतो भुवि ।।

भोजयित्वा च दांपत्यं चांद्रायणफलं लभेत् ।। २५ ।।

तथा कृष्णतृतीयायां सोपवासा विमत्सरा ।।

पूजयेत्कालरात्रिं तु गन्धपुष्पैः सदीपकैः ।। २६ ।।

सुराज्यं यावकं दत्त्वा तिलान्भुंजन्स्वपेन्निशि ।।

प्रभाते मिथुनं भोज्यम तिकृच्छ्रफलं लभेत् ।। २७ ।।

ज्येष्ठे सिततृतीयायां ह्युपवासकृतां वरा ।।

शुभां देवीं समभ्यर्च्य आम्राणि विनिवेदयेत् ।।

संप्राश्यामलकं रात्रौ गौरीं ध्यात्वा सुखं स्वपेत् ।। २८ ।।

ततः प्रातः समुत्थाय दंपती रूपशालिनौ ।।

भोजयित्वा विधानेन तीर्थयात्राफलं लभेत् ।। २९ ।।

पुनः कृष्णतृतीयायां सोपवासा सुवासिनी ।।

स्कन्दमातेति संपूज्य इडायै विनिवेदयेत् ।। 4.29.३० ।।

प्राशयेत्पंचगव्यञ्च स्वप्याद्देव्यग्रतस्ततः ।।

प्रभाते मिथुनं भोज्यं कन्यादानफलं लभेत् ।। ३१ ।।

आषाढमासे संप्राप्ते पूजयेच्च यशोधनम् ।।

करंजकं च नैवेद्यं गोशृंगांभः पिबेन्निशि ।।

प्रभाते मिथुनं भोज्यं कन्यादानफलं लभेत् ।। ३२ ।।

तथा कृष्णतृतीयायां कूष्मांडीं शक्तितो यजेत् ।।

सक्तून्गुडाज्यसंमुक्तान्पुरतो विनिवेदयेत् ।। ३३ ।।

कुशोदकं च संप्राश्य स्वप्याद्रात्रौ जितेन्द्रिया ।।

प्रभाते मिथुनं भोज्यं गोसहस्रफलं लभेत् ।। ३४ ।।

श्रावणे सोपवासा च चंडां घण्टां प्रपूजयेत् ।।

कुल्माषास्तत्र नैवेद्यं पिबेत्पुष्पोदकं पुनः ।। ३५ ।।

प्रभाते शक्तितो दद्याद्भोजनं मिथुनस्य तु ।।

प्राप्नोत्यभयदानस्य फलं नैवात्र संशयः ।। ३६ ।।

तद्वत्कृष्णतृतीयायां रुद्राणीं नामभिर्यजेत् ।।

सिद्धपिंडानि दिव्यानि नैवेद्यं दापयेत्तथा ।। ३७ ।।

पिण्याकं प्राश यित्वा तु स्वप्याद्रात्रौ विमत्सरा ।।

संपूज्य द्विजदांपत्यमिष्टापूर्तफलं लभेत् ।। ३८ ।।

भाद्रे शुक्लतृतीयायां पूजयेत हिमाद्रिजाम् ।।

गोधूमान्नं निवेद्यैव प्राशयेच्चन्दनं सितम् ।। ३९ ।।

गन्धोदकं ततः प्राश्य सखीभिः सहिता स्वपेत् ।।

प्रभाते मिथुनं भोज्यं मार्गपालीशतं लभेत् ।। 4.29.४० ।।

तद्वत्कृष्णतृतीयायां दुर्गां दैवीं समर्चयेत् ।।

दद्यात्पिष्टफलान्दिव्यान्गुडाज्यपरिपूरितान् ।। ४१ ।।

प्राशयित्वा तु गोमूत्रं स्वप्याच्छांतेन चेतसा ।।

प्रातस्तु मिथुनं भोज्यं सदासत्रफलं लभेत् ।।४२।।

मासि चाश्वयुजे भक्त्या देवीं नारायणीं यजेत् ।।

सोपवासा खण्डपूपान्नैवेद्यं परिकल्पयेत् ।। ।। ४३ ।।

प्राशयेच्चंदनं रक्तं स्वप्याच्च गतमत्सरा ।।

प्रभाते भोज्यं दांपत्यमग्निहोत्रफलं लभेत् ।। ४४ ।।

तथा कृष्णतृतीयायां स्वस्ति नाम प्रपूज येत् ।।

शाल्योदनं गुडोपेतं नैवेद्यं निर्वपेत्ततः ।। ४५ ।।

कुसुंभबीजान्संप्राश्य त्यक्त्वा कामं स्वपेन्निशि ।।

संभोज्य मिथुनं प्रातर्गवाह्निकफलं लभेत् ।। ४६ ।।

कार्तिकस्य तृतीयायां स्वाहानाम्नीं प्रपूजयेत् ।।

क्षीरं खण्डघृतोपेतं नैवेद्यं दापयेच्च ताम् ।। ४७ ।।

स्वप्याद्रात्रौ जितक्रोधा प्राश्य कुंकुमकेशरान् ।।

प्रभाते मिथुनं भोज्यमेकभक्तफलं लभेत् ।।४८ ।।

तथा कृष्णतृतीयायां स्वधानाम्नीं प्रपूजयेत् ।।

मुद्गौदनं निवेद्याथ घृतं प्राश्य स्वपेन्निशि ।।४९।।

प्रातः संभोज्य मिथुनं नक्तव्रतफलं लभेत् ।।

एवं संवत्सरं कृत्वा मुक्तपापा शुचिर्भवेत् ।।4.29.५०।।

शुक्लपक्षे तृतीयायां सोपवासा निरामया ।।

विज्ञाय च द्रुतं भक्त्या उमां शास्त्रार्थबोधकैः ।। ५१ ।।

मंडलं च ततो लिख्य नवनाभं वरप्रदम् ।।

सौवर्णं कारयेद्देवमुमया सहितं प्रभुम् ।। ५२ ।।

ताभ्यां नेत्रेषु दातव्यं मौक्तिकं नीलमेव च ।।

प्रवालमोष्ठयोर्दद्यात्कर्णयो रत्नकुण्डले ।। ५३ ।।

उपवीतं तु देवस्य देव्या हारं तथो रसि ।।

रक्तवस्त्रधरां देवीं सितवस्त्रं महेश्वरम् ।। ५४ ।।

चतुःसमेन वालभ्य पुष्पैर्धूपैरथार्च्चयेत् ।।

मंडले पूजयित्वा च होमं कुर्यात्ततोऽगुरोः ।।५५।।

ततोऽपराजितां नाम देवीं तत्रैव पुजयेत् ।।

मृत्स्नां संप्राशयित्वा च रात्रौ कुर्यात्प्रजागरम् ।। ५६ ।।

गीतवाद्योत्सवैर्हृद्यैर्वीणामंगलपाठकैः ।।

रात्रिमेव जपेद्भक्त्या यावदुद्गच्छते रविः ।। ५७ ।।

तूलीगंडकसंयुक्ते पर्यंकेत्यंतशोभिते ।।

उद्धृत्य मण्डलाद्देवं पर्यंकोपरि विन्यसेत् ।। ५८ ।।

वितानध्वजमालालिकिंकिणीदर्प्पणान्वितम् ।।

पुष्पमण्डपिकाच्छन्नं धूपगुग्गुलुवासितम् ।। ५९ ।।

तस्याग्रे भोजयेद्भक्त्या स्वशक्त्या मिथुनानि च ।।

प्रीणयेद्भक्ष्यभोज्यैश्च पक्वान्नैर्मधुरैः शुभैः ।। 4.29.६० ।।

ततो दत्त्वाऽक्षतान्हस्ते तांबूलं विनिवेदयेत् ।।

प्रीयतां मे उमाकांतः पार्वत्या सहितः शिवः ।। ६१ ।।

उच्छिष्टं शोधयित्वा तु पुनः प्रोक्ष्य समन्ततः ।।

रक्तवर्णां सुशीलां च सुरूपां सुपयस्विनीम् ।। ६२ ।।

शृंगाभ्यां दत्तकनकां राजतखुरसंयुताम् ।।

कांस्यदोहनकोपेतां रक्तवस्त्रावगुंठिताम् ।। ६३ ।।

घण्टाभरणशोभाढ्यां देवदेव्यग्रसंस्थिताम् ।।

पादुकोपानहच्छत्रभोज्यभाजनसंयुताम् ।।

त्रिधा प्रदक्षिणीकृत्य गुरोः सर्वं निवेदयेत् ।। ६४ ।।

उमामहेश्वरं देवमवियोगं सुरार्चितम् ।।

अव्यवच्छेदभूतं च सुप्रीतं तदिहास्तु मे ।। ६५ ।।

प्रणम्य शिरसा भूमौ क्षमस्वेति गुरुं वदेत् ।।

एवं समाप्यते देव्यां आनंतर्यव्रतोद्यमम् ।।

यः प्रकुर्यात्पुमान्स्त्री वा तस्य पुण्यफलं शृणु ।। ६६ ।।

गन्धर्वयक्षलोकांश्च विद्याधरमहोरगान् ।।

ऋषिसिद्धामरं ब्राह्मं विष्णुलोकं सनातनम् ।।६७।।

भुक्त्वा भोगानशेषांश्च एकविंशत्कुलान्वितः ।।

रत्नयाने समारूढो गुह्याप्सरससंवृतः ।। ६८ ।।।

देवविद्याधरैर्यक्षैर्वृतो याति शिवालयम्।।

तत्र भुक्त्वा महाभोगान्स भुंक्ते शिववद्बहून् ।। ६९ ।।

भुक्त्वा भोगान्यदा भूतः कदाचित्तपसः क्षयात ।।

पृथिव्यां तु समागम्य भवेत्सकलभूमिपः ।। 4.29.७० ।।

स्त्री वा समाचरेद्या तु महादेवी तु जायते ।।

आनंतर्यव्यवच्छिन्नान्भोगान्देवी उमा यथा ।।

त्रैलोक्यपतिरुद्रेणसा भुंक्ते सहिता तथा।।७१।।

मनुर्द्देव्या यथामह्या शच्या शक्रो यथासुखम् ।।

नैरंतर्यं यथा सौख्यं सा भुंक्ते पतिना सह ।। ७२ ।।

मुनेररुंधती यद्वद्विष्णोर्लक्ष्मीर्हृदि स्थिता ।।

तथा तयोर्महत्सौख्यं नैरंतर्यं हि जायते ।। १३ ।।

सावित्री ब्रह्मणो यद्वद्गंगा तोयनिधेर्यथा ।।

अव्यवच्छिन्नयोः प्रीतिस्तथा जन्मनिजन्मनि ।। ७४ ।।

अथ जन्मन्यहोन्यस्मिन्व्रतमेतत्कृतं भवेत् ।।

तेनैव पतिना सार्द्धं न वियोगमुपैति सा ।।

योजनायुतसाहस्रे सुरूपा मण्डले भवेत् ।।

अर्घाढ्या सुभगा साध्वी पुत्रपौत्रैरलंकृता ।। ७५ ।।

एत्तते निखिलं प्रोक्तमानंतर्यव्रतं मया ।।

भक्ताय सुविनीताय कथितव्यं न चान्यथा ।। ७६ ।।

एषा विशेषविहिताभिहिता तृतीया यानंतरीत्य विधवाभिरुदीरितोच्चैः ।।

एतामुपोष्य विधिवत्प्रतिपक्षयोगान्नैवांतरं सुतसुहृत्स्वजनैरुपैति ।। ७७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर संवादे अनंतरतृतीयाव्रतवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः ।। २९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 30

अक्षयतृतीयाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

बहुनात्र किमुक्तेन किं बह्वक्षरमालया ।।

वैशाखस्य सितामेकां तृतीयां शृणु पाण्डव ।। १ ।।

स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ।।

यदस्यां क्रियते किञ्चित्सर्वं स्यात्तदिहाक्ष यम् ।। २ ।।

आदौ कृतयुगस्येयं युगादिस्तेन कथ्यते ।।

सर्वपापप्रशमनी सर्वसौख्यप्रदायिनी ।। ३ ।।

शाकले नगरे कश्चिद्धर्मनामाभवद्वणिक् ।।

प्रियंवदः सत्यरतो देवब्राह्मणपूजकः ।। ४ ।।

तेन श्रुतं वाच्यमानं तृतीया रोहिणी पुरा ।।

यदा स्याद्बुधसंयुक्ता तदा साच महाफला ।। ५ ।।

तस्यां यद्दीयते किंञ्चित्तत्सर्वं चाक्षयं भवेत् ।।

इति श्रुत्वा स गंगायां सन्तर्प्य पितृदेवताः ।। ६ ।।

गृहमागत्य करकान्सान्नानुदकसंयुतान् ।।

अंबुपूर्णान्गृहे कुंभान्क्रमान्निःशेषतस्तदा ।। ७ ।।

यवगोधूमचणकसक्तुदध्यौदनं तथा ।।

इक्षुक्षीरविकारांश्च सहिरण्यांश्च शक्तितः ।। ८ ।।

शुचिः शुद्धेन मनसा ब्राह्मणेभ्यो ददौ वणिक् ।।

भार्यया वार्यमाणोपि कुटुंबासक्तचिंतया ।। ९ ।।

तावत्स च स्थितः सत्त्वे मत्वा सर्वं विनश्वरम् ।।

धर्मार्थकाम शक्तस्तु कालेन बहुना ततः ।। 4.30.१० ।।

जगाम पञ्चत्वमसौ वासुदेवं स्मरन्मुहुः ।।

ततः स क्षत्रियो जातः कुशावत्यां नरेश्वरः ।। ११ ।।

बभूव चा क्षया तस्य समृद्धिर्धर्मनिर्जिता ।।

इयाज स महायज्ञैः समाप्तवरदक्षिणैः ।। १२ ।।

ददौ गोभूहिरण्यादि दानान्यस्यामहर्निशम् ।।

बुभुजे कामतो भोगान्दीनार्तांस्तर्पयञ्जनान् ।। १३ ।।

तथाप्यक्षयमेवास्य क्षयं याति न तद्धनम् ।।

श्रद्धापूर्वं तृतीयायां यद्दत्तं विभवं विना ।। १४ ।।

एतद्व्रतं मयाख्यातं श्रूयतामत्र यो विधिः ।।

उदकुंभान्सकरकात्स्नानसर्वरसैर्युतान् ।। १५ ।।

ग्रैष्मिकं सर्वमेवात्र सस्यदानं प्रशस्यते ।।

छत्रोपानत्प्रदानं च गोभूकांचनवाससाम् ।। १६ ।।

यद्यदिष्टतमं चान्यत्तद्देयमविशंकया ।।

एतत्ते सर्वमाख्यातं किमन्यच्छ्रोतुमिच्छसि ।। १७ ।।

अनाख्येयं न मे किञ्चिदस्ति स्वस्त्यस्तु तेऽनघ ।। १८ ।।

अस्यां तिथौ क्षयमुपैति हुतं न दत्तं तेनाक्षया च मुनिभिः कथिता तृतीया ।।

उद्दिश्य यत्सुरपितॄन्क्रियते मनुष्यैस्तच्चाक्षयं भवति भारत सर्वमेव ।। १९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽक्षय्यतृती याव्रतवर्णनं नाम त्रिंशत्तमोऽध्यायः ।। ३० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 31

अङ्गारकचतुर्थीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

रूपसौभाग्यसुखदं नरनारीजनप्रियम् ।।

पापापहं बहुफलं सुकरं सूपवासकम् ।।१।।

ऋद्धिबुद्धिकरं स्वर्ग्यं यशस्यं सर्वकामदम् ।।

तन्मे वद व्रतं किञ्चिद्यदि तुष्टोऽसि माधव ।।२।।

।। श्रीकृष्ण उवाच ।।

शृणु पार्थ परं गुह्यं यन्मया कथितं न च ।।

पुरा तव वनस्थस्य तदद्य प्रवदाम्यहम् ।।३।।

शिवयोरतिसंहर्षाद्रक्तबिंदुश्च्युतः क्षितौ ।।

मेदिन्या स प्रयत्नेन विधृतो धृतियुक्तया ।। ४ ।।

तस्माज्जातः कुमारोऽसौ रक्तो रक्तसमुद्भवः ।।

अंगं प्रसिद्धमेवेहांगारको वेग उच्यते ।। ५ ।।

शिवांगाद्रभसा जात स्तेनांगारक उच्यते ।।

अगस्थोंऽगारकांतिश्च अंगप्रत्यङ्गसंभवः ।। ६ ।।

सौभाग्यारोग्यकृद्यस्मात्तस्मादंगारकः स्मृतः ।।

भक्त्या चतुर्थ्यां नक्तेन यस्तु श्रद्धासमन्वितः ।। ७ ।।

तं पूजयति यत्नेन नारी वाऽनन्यमानसा ।।

तस्य तुष्टः प्रयच्छेत्स यत्त्वया समुदाहृतम् ।।

रूपं सौभाग्यसंपन्नं नरनारीमनोहरम् ।। ८ ।।

युधिष्ठिर उवाच ।।

एतन्मे वद देवेश अंगारकविधिं शुभम् ।।

सहोममंत्रसंस्थानं साधिवासविधानतः ।। ९ ।।

श्रीकृष्ण उवाच ।।

पूर्वं तु कृतसंकल्पः स्नानं कृत्वा बहिर्जले ।।

स्नानार्थं मृत्तिकां मंत्रैर्गृह्णीयादंभसि स्थितः ।।4.31.१ ०।।

त्वं मृदे वंदिता पूर्वं कृष्णेनोद्धरता किल।।

तेन मे दह पापौघं यन्मया पूर्वसंचितम् ।। १ १।।

इमं मंत्रं पठन्पार्थ आदित्याय प्रदर्शयेत् ।।

आदित्यरश्मिसंतप्तां गंगाजलकणोक्षिताम् ।।१२।।

तां मृदं शिरसि प्रार्थ्य पूर्वं दत्त्वांगसंधिषु ।।

ततः स्नानं प्रकुर्वीत मंत्रेणान्तर्जले पुनः ।। १३ ।।

त्वमापो योनिः सर्वेषां दैत्यदानवरक्षसाम् ।।

स्वेदजोद्भिज्जयोनीनां रसानां पतये नमः ।।१४।।

स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च ।।

नदीषु देवखातेषु स्नानं तेषु च मे भवेत्।।१५।।

ध्यायन्ध्वनिमिमं मंत्रं ततः स्नानं समाचरेत् ।।

ततः स्नात्वा शुचिर्भूत्वा गृहमागत्य न स्पृशेत् ।।

न जल्पेच्च न वीक्षेत क्वचित्पापिष्ठमेव हि ।। १६ ।।

दूर्वाश्वत्थौ शमीं स्पृष्ट्वा मां च मंत्रेण मंत्रवित् ।।

दूर्वामप्यस्य मंत्रेण युतेन समुपस्थिताम् ।।१७।।

त्वं दूर्वेऽमृतजन्मासि सर्वदेवैश्च वंदिता ।।

वंदिता दह तत्सर्वं यन्मया दुष्कृतं कृतम् ।।१८।। ( इति दूर्वामंत्रः ।।)

पवित्राणां पवित्रं त्वं काश्यपी पठ्यसे श्रुतौ।।

शमी शमय तत्पापं यन्मया दुरनुष्ठि तम् ।। १९ ।। ( इति शमीमंत्रः)

अश्वत्थमंगं लभते मंत्रमेतं निबोध मे ।।

अक्षिस्पंदं भुजस्पंदं दुःस्वप्नं दुर्विचिंतितम् ।।

शत्रूणां च समुत्थानमश्वत्थ शमयस्व मे ।। 4.31.२० ।। ( इत्यश्वत्थमंत्रः)

गां दद्यात्तु ततो देवीं सवत्सां सप्रदक्षिणाम् ।।

समालभ्य तु मंत्रेण मंत्रमेतमुदीरयेत् ।। २१ ।।

सर्वदेवमये देवि दैवतैस्त्वं सुपूजिता ।।

तस्मात्स्पृशामि वंदामि वंदिता पापहा भव ।।२२।। ( इति गोमंत्रः)

एवं मंत्रं पठन्पार्थ भक्तिभावेन भावितः ।।

प्रदक्षिणां यः कुरुते गां दृष्ट्वा वरवर्णिनीम् ।। २३ ।।

प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ।।

एवं मौनेन चागत्य वंद्यान्वंद्य गृहं व्रजेत् ।। २४ ।।

प्रक्षाल्य च मृदा पादौ आहिताऽग्निगृहं विशेत् ।।

होमं तत्र प्रकुर्वीत एभिर्मंत्रैः पदैर्वरैः ।। २५ ।।

शर्वाय शर्वपुत्राय पार्वत्या गोः सुताय च ।।

कुजाय लोहितांगाय ग्रहेशांगारकाय च ।।

भूयोभूयोयमाहुत्या हुत्वाहुत्वा जुहोति वै ।। २६ ।।

ओंकारपूर्वकैर्मंत्रैः स्वाहाकारांतयोजितैः ।।

अष्टोत्तर शतं पार्थ अर्द्धमर्धार्धमेव च ।।२७।।

एभिमंत्रपदैर्भक्त्या शक्त्या वा काममेव वा ।।

समिद्भिः खादिरीभिश्च घृतदुग्धैस्तिलैर्यवैः ।।२८।।

भक्ष्यैर्नानाविधैरन्यैः शक्त्या वा मंत्रविद्वशी ।।

हुत्वाहुतीस्ततः पार्थ देवं संस्थापयेत्क्षितौ ।। २९ ।।

स्नपनं केचिदिच्छंति सगुडे ताम्रभाजने ।।

सौवर्णं रक्तवर्णं च शक्त्या दारुमयं तथा ।। 4.31.३० ।।

कृष्णागरुमयं चैव श्रीखण्डघटितं पुनः ।।

सौवर्णपात्रे रौप्ये वा अर्च्यं कुंकुमकेसरैः ।। ३१ ।।

अन्यैरालोहितैः पार्थ पुष्पैर्वस्त्रैः फलैः शुभैः ।।

राजन्रत्नैश्च विविधैरर्थवान्भक्तितोऽर्चयेत् ।। ३२ ।।

यावद्धि शक्यते चित्तं वित्तवान्भक्तिभावितः ।।

तावद्धि वर्धते पुण्यं दातुः शतसहस्रिकम् ।। ३३ ।।

किञ्चित्ताम्रमये पात्रे वंशजे मृन्मयेपि वा ।।

पूजयंति नरा रक्तैः पुष्पैः कुंकुमकेशरैः ।। ३४ ।।

( ॐ अंगारकाय नमः शिरसि ।।

ॐकुजाय नमः वदने ।।

ॐ भौमाय नमः स्कंधयोः ।।

ॐ मंगलाय नमः बाह्वोः ।।

ॐ रक्ताय नमः उरसि ।।

ॐ लोहितांगाय नमः कट्याम् ।।

ॐ आराय नमः जंघयोः ।।

ॐ महीधराय नमः पादयोः ।।

एषाष्टपुष्पिका ।।

पुरुषाकृतिं कृतः पात्रे कुजं मंत्रैः समर्चयेत् ।।

गुग्गुलं घृतसंयुक्तं कृष्णागरुसमन्वितम् ।।

धूपं सद्रव्यजं वापि दद्यात्तत्र समाधिना ।। ३५ ।।

होमं कुर्वीत पूर्वोक्तैर्मंत्रैर्मंगलसं ज्ञितैः ।।

एवं प्रणम्य देवेशं ब्राह्मणाय निवेदयेत् ।।३६।।

निष्पावकं भोजनं वा दद्याच्छक्त्या सदक्षिणम् ।।

वित्तशाठ्यं हि कुर्वाणो न मुख्यफलभाग्भवेत् ।। ३७ ।।

पश्चाद्भुञ्जीत मौनेन भूमिं कृत्वा तु भाजनम् ।।

मन्त्रेणानेन चालभ्य तन्निबोध मयोदितम् ।। ३८ ।।

सर्वौषधिरसावासे सर्वदा सर्व दायिनि ।।

त्वत्तले भोक्तुकामोऽहं तद्भुक्तममृतं भवेत् ।। ३९ ।।

युधिष्ठिर उवाच ।।

अंगारकेण संयुक्ता चतुर्थी नक्तभोजनैः ।।

उपोष्या कतिमात्रा सा किमेका वद यादव ।। 4.31.४० ।। ।।

श्रीकृष्ण उवाच ।।

चतुर्थी च चतुर्थी च यदांगारकसंयुता ।।

उपोष्या तत्रतत्रैव प्रदेयो विधिना कुजः ।।

वित्तहीनाः प्रतीक्षंते यावद्वित्तोपलंभनम् ।।४१।।

चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु पाण्डव ।।

सौवर्णपात्रे कृत्वा तु अंगारकमकृत्रिमम् ।।

दश सौवर्णिकं मुख्यं दशार्द्धार्द्धमथापि वा ।।४२।।

विंशत्पलानि पात्राणि विंशत्यर्द्धपलानि च ।।

विंशत्कर्षाणि वा पार्थ अतो न्यूनं न कारयेत् ।।४३।।

प्रतिष्ठाप्य कुजं मंत्रैर्वस्त्रैः संपरिवेष्टितम् ।।

पुष्पमंडपिकां कृत्वा दिव्यां सद्धूपधूपिताम् ।।४४।।

तत्र संपूजयेद्देवं पूर्वमंत्रैर्विधानतः ।।

भक्त्या भोज्यैरनेकैश्च फलैरत्नैश्च सागरैः ।। ४५ ।।

वस्त्रैः प्रावरणैर्यानैः शय्योपानद्वरासनैः ।।

छत्रैः पुष्पैर्गन्धवरैः शक्त्या वित्तानुसारतः ।। ४६ ।।

ततो विप्र परीक्षेत व्रतशौचसमन्वितम् ।।

वेदाध्ययनसंपन्नं शास्त्रज्ञं निरहंकृतिम्।। ४७ ।।

अंगारकविधिं यश्च सम्यग्जानाति शास्त्रतः।।

आह्वानविधि मंत्रांश्च होमार्चनविसर्जनम् ।। ४८ ।।

संपूज्य वस्त्राभरणैस्तस्मै देयः कुजोत्तमः ।।

यथा श्रुतो यथा ज्ञातस्तथा भक्त्या ह्युपोषितः ।। ४९ ।।

वित्तसारेण तुष्य त्वं मम भौम भवोद्भव ।।

पठन्निमं मंत्रवरं ब्राह्मणाय निवेदयेत् ।।

ब्राह्मणश्चाप्यसौ विद्वान्मंत्रमेतमुदाहरेत् ।। 4.31.५० ।।

मंगलं प्रति गृह्णामि उभयोरस्तु मंगलम् ।।

दातृप्रतिग्राहकयोः क्षेमारोग्यं भवत्विति ।। ५१ ।। प्रतिग्राहकमंत्रः ।।

एवं चतुर्थे संप्राप्ते धनप्राप्तिर्न विद्यते ।।

तदा मंत्रार्चनपरः पुनरेतां समाचरेत् ।। ५२ ।।

आशरीरनिपाताद्वा यथोक्तफलभाग्भवेत् ।।

अल्पवित्तो यथा शक्त्या सर्वमेतत्समाचरेत् ।। ।। ५३ ।।

अंगारकेण संयुक्तां वास्रां(वस्त्रां) तिलशराविकाम् ।।

अनेन विधिना दत्त्वा यथोक्तफलभाग्भवेत् ।। ५४ ।।

एवं चतुर्थीं यो भक्त्या कुजयुक्ता मुपोषयेत्।।

तस्य पुण्यफलं यच्च तन्निबोध युधिष्ठिर ।। ५५ ।।

इह स्थित्वा चिरं कालं पुत्रपौत्रश्रिया वृतः ।।

देहावसाने दिव्यौजा दिव्यगन्धानु लेपनः ।। ५६ ।।

दिव्यनारीगणवृतो विमानवरमास्थितः ।।

याति देवपुरं हृष्टो देवैः सहाभिनंदितः ।। ५७ ।।

स तत्र रमते कालं देवैः सह सुरेशवत्।।

चतुर्युगानि षट्त्रिंशत्ततः कालांतरे पुनः ।। ५८ ।।

इह चागत्य राजासौ कुले महति जायते ।।

रूपवान्धनवान्वाग्मी दानशीलो दयापरः।। ।। ५९ ।।

नारी च रूपसंपन्ना सुभगा जातिसंयुता ।।

पु्त्रपौत्रैः परिवृता भर्त्रा सह रमेच्चिरम् ।।4.31.६०।।

रमित्वा सुचिरं कालं पुनः स्वर्गगतिं लभेत् ।।

एष ते कथितो राजन्सरहस्यो विधिस्तथा ।।

दुर्ल्लभो यो मनुष्याणां देवानां भद्रमस्तु ते ।। ६१ ।।

अंगारकेण सहिता तु सिता चतुर्थी शस्ता सुरार्च्चनविधौ पितृपिण्डदाने ।।

तस्यां कुजं कुरुकुलोद्वह येऽर्चयंति भूमौ भवंति बहुमंगलभाजनास्ते ।। ६२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चतुर्थीव्रते अंगारकचतुर्थीव्रतवर्णनं नामैकत्रिंशत्तमोऽध्यायः ।। ३१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 32

विनायकस्नपनचतुर्थीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

यन्न सिद्ध्यन्ति कर्माणि प्रारब्धानि नरोत्तमैः ।।

तत्केन कारणेनैतत्पृष्टो मे ब्रूहि माधव ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

विनायकोर्थसिद्ध्यर्थं लोकस्य विनियोजितः ।।

गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ।। २ ।।

तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।।

स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।। ३ ।।

काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ।।

अंत्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ।। ४ ।।

व्रजमानस्तथात्मानं मन्यते तु गतं परैः ।।

विमना विफलारंभः ससीदत्यनिमित्ततः ।। ५ ।।

पातकी विहीनच्छायो म्लानत्वहेतुलक्षणः ।।

करभारूढमात्मानं महिषखरगं तथा ।।६।।

यातुधानाश्रितं यानं श्मशानस्यांतिकं नृप ।।

वीक्षेत कुरुशार्दूल स्वप्नांते नात्र संशयः ।।

तैलार्द्रमात्रं स्वं देहं करवीरविभूषितम्।।७।।

तेनोपसृष्टो लभते न राज्यं राजनंदनः ।।

कुमारी न च भर्तारमपत्यं गर्भमंगना ।। ८ ।।

आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा।।

वणिग्लाभं न चाप्नोति कृषिं चैव कृषीवलः ।। ९ ।।

स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।।

गौरसर्षपकल्केन वस्त्रेणाच्छादितस्य तु ।। 4.32.१० ।।

सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।।

शुक्लपक्षे चतुर्थ्यां तु वारे वा धिषणस्य तु ।। ११ ।।

पुष्ये च वीरनक्षत्रे तस्यैव पुरतो नृप ।।

भद्रासनोपविष्टस्य स्वस्तिर्वाच्या द्विजैः शुभैः ।। १२ ।।

चत्वार ऋग्यजुः सामाथर्वणप्रवणास्ततः ।।

व्योमकेशं तु संपूज्य पार्वतीं भूमिजं तथा ।। ।। १३ ।।

कृष्णस्य पितरं चाथ अवतारं सितं तथा ।।

धिषणं क्लेदपुत्रं च कोणं लक्ष्मीं च भारत ।।

विधुंतुदं बाहुलेयं नंदकस्य च धारिणम् ।। ।। १४।।

अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात् ।।

मृत्तिकां रोचनां रत्नं गुग्गुलुं चाप्सु निक्षिपेत् ।। १५ ।।

यदाहृतं ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ।।

चर्मण्यानडुहे रक्ते स्थाप्य भद्रासनं तथा ।। १६ ।।

सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।।

तेन त्वामभिषिंचामि पाव मान्यः पुनंतु मे ।। १७ ।।

ॐ भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।।

भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।। १८ ।।

यत्ते केशेषु दौर्भाग्यं सीमंते यच्च मूर्द्धनि ।।

ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नंतु सर्वदा ।। १९ ।।

स्नातस्य सार्षपं तैलं स्रुवेणौदुंबरेण तु ।।

जुहुयान्मूर्ध्नि शकलान्सव्येन प्रतिगृह्य च ।। 4.32.२० ।।

मितश्च सम्मितश्चैव तथा शालकटंकटो ।।

कूष्माण्डो राजपुत्रश्चेत्यंते स्वाहासमन्वितैः ।। २१ ।।

नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।।

दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ।। २२ ।।

कृताकृतांस्तंडुलांश्च पल लौदनमेव च ।।

मत्स्यान्ह्यपक्वांश्च तथा मांसमेतावदेव तु ।। २३ ।।

पुष्पान्वितं सुगन्धं च सुरां च त्रिविधामपि ।।

मूलकं पूरिका पूपांस्तथैवोंडेरकस्रजः ।। २४ ।।

दध्यन्नं पायसं चैव गुडवेष्टितमोदकम् ।।

विनायकस्य जननीमुपतिष्ठेत्ततोंबिकाम् ।।

दूर्वासर्षप पुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम् ।। २५ ।।

रूपंदेहि जयं देहि भगं भवति देहि मे ।।

पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ।। ।। २६ ।।

प्रबलं कुरु मे देवि बलविख्यातिसम्भवम् ।।

शुक्लमाल्यांबरधरः शुक्लगन्धानुलेपनः ।।

भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ।। २७ ।।

एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।।

कर्मणां फलमाप्नोति श्रियं प्राप्नोत्यनुत्तमाम् ।। २८ ।।

आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।।

महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ।। २९ ।।

वैनायकं विनयसत्त्ववतां नराणां स्नानं प्रशस्तमिह विघ्नविनाशकारि ।।

कुर्वंति ये विधिवदत्र भवंति तेषां कार्याण्यभीष्टफलदानि न संशयोऽत्र ।। 4.32.३० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकस्नपनचतुर्थीव्रतं नाम द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 33

विनायकचतुर्थीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथाविघ्नकरं राजन्कथयामि व्रतं तव ।।

येन सम्यकृतेनेह न विघ्नमुपजायते ।। १ ।।

चतुर्थ्यां फाल्गुने मासि गृहीतव्यं व्रतं त्विदम् ।।

नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ।। २ ।।

तदेव वह्नौ होतव्यं ब्राह्मणाय च तद्भवेत् ।। ३ ।।

शूराय वीराय गजाननाय लंबोदरायैकरदाय चैव ।।

एवं तु संपूज्य पुनश्च होमं कुर्याद्व्रती विघ्नविनाशहेतोः ।। ४ ।।

चातुर्मास्यां व्रतं चैव कृत्वेत्थं पञ्चमे तथा ।।

सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ।। ५ ।।

ताम्रपात्रैः पायसभृतैश्चतुर्भिः सहितं नृप ।।

पञ्चमेन तिलैः सार्द्धं गणेशाधिष्ठितेन च ।। ६ ।।

मृन्मयान्यपि पात्राणि वित्तहीनस्तु कारयेत् ।।

हेरंबं राजतं तद्वद्विधिनानेन दापयेत् ।।

इत्थं व्रतमिदं कृत्वा सर्वविप्रैः प्रमुच्यते ।। ७ ।।

हयमेधस्य विघ्ने तु संजाते सगरः पुरा ।।

एतदेव व्रतं चीर्त्वा पुनरश्वं प्रलब्धवान् ।। ८ ।।

तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा ।।

एतदेव कृतं यस्मात्त्रिपुरस्तेन घातितः ।। ९ ।।

मया समुद्रं विशतां एतदेव व्रतं कृतम् ।।

तेनाद्रिद्रुमसंयुक्ता पृथिवी पुनरुद्धृता ।। 4.33.१० ।।

अन्यैरपि महीपालैरेतदेव कृतं पुरा ।।

तपोऽर्थिभिर्यज्ञ सिद्ध्यै निर्विघ्नं स्यात्परंतप ।। ११ ।।

अनेन कृतमात्रेण सर्वविप्रैः प्रमुच्यते ।।

मृतो रुद्रपुरं याति वराहवचनं यथा ।। १२ ।।

विघ्नानि तस्य न भवंति गृहे कदाचिद्धर्मार्थकामसुखसिद्धिविघातकानि ।।

यः सप्तमीन्दुशकलाकृतिकां तदंतं विघ्नेशमर्चयति नक्तकृती चतुर्थ्याम् ।। १३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकचतुर्थीव्रतं नाम त्रयस्त्रिंशतमोऽध्यायः ।। ३३ ।।

इति चतुर्थीकल्पः समाप्तः ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 34

शान्तिव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शांतिव्रतं प्रवक्ष्यामि शृणुष्वेकमनाधुना ।।

येन चीर्णेन शांतिः स्यात्सर्वदा गृहमेधिनाम् ।। १ ।।

पञ्चम्यां शुक्लपक्षस्य कार्तिके मासि पार्थिव ।।

आरभ्य वर्षमेकं तु ह्यश्नीयादम्लवर्जितम् ।। २ ।।

नक्तं देवं च संपूज्य हरिं शेषोपरिस्थितम् ।।

अनंतायेति पादौ तु धृतराष्ट्राय वै कटिम् ।। ३ ।।

उदरं तक्षकायेति उरः कर्कोटकाय च ।।

पद्माय कर्णौ संपूज्य महापद्माय दोर्युगम् ।। ४ ।।

शंखपालाय वक्षस्तु कुलिकायेति वै शिरः ।।

एवं विष्णुं सर्वगतं पृथगेव प्रपूजयेत् ।। ५ ।।

क्षीरेण स्नपनं कुर्याद्धरिमुद्दिश्य वाग्यतः ।।

तदग्रे होमयेत्क्षीरं तिलैः सह विचक्षणः ।। ६ ।।

एवं संवत्सरस्यांते कुर्याद्ब्राह्मणभोजनम् ।।

अच्युतं कांचनं कृत्वा सुवर्णं तु विचक्षणः ।। ७ ।।

गां सवत्सां वस्त्रयुगं कांस्यपात्रं सपायसम् ।।

हिरण्यं च यथाशक्ति ब्राह्मणायोपपादयेत् ।। ८ ।।

एवं यः कुरुते भक्त्या व्रतमेतन्नराधिप ।।

तस्य शांतिर्भवेन्नित्यं नागानामभयं तथा ।। ९ ।।

शेषाहिभोगशयनस्थमयोगसूतिं संपूज्य यज्ञपुरुषं पतगेंद्रनाथम्।।

ये पूजयंति मधुरैः सितपञ्चमीषु तेषां न नागजनितं भयमभ्युपैति ।। 4.34.१० ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शांतिव्रतं नाम चतुस्त्रिंशत्तमोऽध्यायः ।।३४।।

पर्व ४ (उत्तरपर्व) — Adhyāya 35

सारस्वतव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

मधुरा भारती केन व्रतेन मधुसूदन ।।

तथैव जनसौभाग्यमतिविद्यासु कौशलम् ।।१।।

अभेदश्चापि दंपत्योस्तथा बंधुजनेन च ।।

आयुश्च विपुलं पुंसां जायते केन केशव ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

सम्यक्पृष्टस्त्वया राजञ्छृणु सारस्वतं व्रतम् ।।

यस्य संकीर्तनादेव तुष्यतीह सरस्वती ।। ३ ।।

योऽयं भक्तः पुमान्कुर्यादेतद्व्रतमनुत्तमम् ।।

तद्वत्सरादौ संपूज्य विप्रेण तं समाचरेत् ।। ४ ।।

अथ चादित्यवारेण ग्रहताराबलेन च ।।

पायसं भोजयित्वा च कुर्याद्ब्राह्मणवाचनम् ।। ५ ।।

शुक्लवस्त्राणि दद्याच्च सहिरण्यानि शक्तितः ।।

गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः ।।

एभिर्मंत्रपदैः पश्चात्पूर्वं कृत्वा कृताञ्जलिः ।। ६ ।।

यथा तु देवि भगवान्ब्रह्मा लोकपिता महः।।

त्वां परित्यज्य नो तिष्ठेत्तथा भव वरप्रदा ।। ७ ।।

वेदशास्त्राणि सर्वाणि नृत्यगीतादिकं च यत् ।।

वाहितं यत्त्वया देवि तथा मे संतु सिद्धयः ।। ८ ।।

लक्ष्मीर्मेधा वरारिष्टिर्गोरी तुष्टिः प्रभा मतिः ।।

एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति ।। ९ ।।

एवं संपूज्य गायत्रीं वीणाक्षमणिधारिणीम् ।।

शुक्लपक्षेऽक्षतैर्भक्त्या सकमंडलुपुस्तकाम् ।। 4.35.१० ।।

मौनव्रतेन भुञ्जीत सायं प्रातश्च धर्मवित् ।।

पञ्चम्यां प्रतिपक्षे च पूजयित्वा सुवासिनीः ।। ११ ।।

तिलैश्च तंडुलप्रस्थं घृतपात्रेण संयुतम् ।।

क्षीरं तथा हिरण्यं च गायत्री प्रीयतामिति ।। १२ ।।

संध्यायां च ततो मौनं तद्व्रत तु समाचरेत् ।।

नांतरा भोजनं कुर्याद्यावन्मासास्त्रयोदश ।। १३ ।।

समाप्ते तु व्रते दद्याद्भोजनं शुक्लतंडुलैः ।।

पूर्णं सुवस्त्रयुग्मं च गां च विप्राय भोजनम् ।। १४ ।।

देव्यै वितानं घंटां च सितनेत्रं पटान्वितम् ।।

चन्दनं वस्त्रयुग्मं च दध्यन्नं शिखरैर्युतम् ।। १५ ।।

तथोपदेष्टारमपि भक्त्या संपूजयेद्गुरुम् ।।

वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ।। १६ ।।

अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् ।।

विद्यावानर्थयुक्तश्च रक्तकंठश्च जायते ।। १७ ।।

सरस्वत्याः प्रसादेन व्यासवत्तु कविर्भवेत् ।।

नारी वा कुरुते या तु सापि तत्फलभागिनी ।।

ब्रह्मलोके वसेत्तावद्यावत्कल्पायुतत्रयम् ।। १८ ।।

सारस्वतं व्रतं यस्तु शृणुयादपि यः पठेत् ।।

विद्याधरपुरे सोऽपि वसेत्कल्पायुतत्रयम् ।। १९ ।।

संवत्सरं व्रतवरेण सरस्वतीं ये संपूजयंति जगतो जननीं जनित्रीम् ।।

मधुरस्वरास्ते रूपान्विता वहुकलाकुशला भवंति ।।4.35.२०।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सारस्वतव्रतनिरूपणं नाम पंचत्रिंशत्तमोऽध्यायः ।। ३५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 36

नागपञ्चमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पंचमी दयिता राजन्नागानंदविवर्द्धनी ।।

पञ्चम्यां किल नागानां भवतीत्युत्सवो महान् ।। १ ।।

वासुकिस्तक्षकश्चैव कालिको माणिभद्रकः।।

धृतराष्ट्रो रैवतश्च कर्कोटकधनंजयौ ।।

एते प्रयच्छंत्यभयं प्राणिनां प्राणजीविनाम् ।। २ ।।

पञ्चम्यां स्नपयंतीह नागान्क्षी रेण ये नराः ।।

तेषां कुले प्रयच्छंति अभयं प्राणिनां सदा ।। ३ ।।

शप्ता नागा यदा मात्रा दह्यमाना दिवानिशम् ।।

निर्वापिता गवां क्षीरैस्ततः प्रभृति वल्लभाः ।। ४ ।।

।। युधिष्ठिर उवाच ।। ।।

मात्रा शप्ताः कथं नागाः किमुद्दिश्य च कारणम् ।।

कथं वा तस्य शापस्य विनाशोऽ भूज्जनार्दन ।। ५ ।।

।। श्रीकृष्ण उवाच ।। ।।

उच्चैःश्रवाश्वराजश्च श्वेतवर्णोऽमृतोद्भवः ।।

तं दृष्ट्वा चाब्रवीत्कद्रूर्नागानां जननी स्वसाम् ।। ।। ६ ।।

अश्वरत्नमिदं श्वेतं पश्यपश्यामृतोद्भवम् ।।

कृष्णांश्च वीक्ष्यसे बालान्सर्वश्वेतानुताद्य वै ।। ७ ।।

।। विनतोवाच ।। ।।

सर्वश्वेतो हयवरो नायं कृष्णो न लोहितः ।।

कथं त्वं वीक्षसे कृष्णं विनतोवाच तां स्वसाम् ।। ८ ।।

।। कद्रूरुवाच ।। ।

वीक्षेऽहमेकनयना कृष्णबाल समन्वितम् ।।

द्विनेत्रा च त्वं विनते न पश्यसि पणं कुरु ।। ९ ।।

।। विनतोवाच ।। ।।

अहं दासी भवित्री ते कृष्णकेशे प्रदर्शिते ।।

न चेद्दर्शयसे कद्रु मम दासी भविष्यसि ।। 4.36.१० ।।

एवं ते विपणं कृत्वा गते क्रोधसमन्विते ।।

सुषुप्ते प्राज्यदोषे तु कद्रूर्जिह्ममचिंतयत् ।। ११ ।।

आहूय पुत्रान् प्रोवाच बाला भूत्वा हयोत्तमे ।।

तिष्ठध्वं विपणौ जेष्ये विनतां जयगृद्धिनीम् ।। १२ ।।

प्रोचुस्ते जिह्मबुद्धिं तां नागाः कद्रूं विगृह्य च ।।

अधर्म एष तु महान्करिष्यामो न ते वचः ।।

अशपद्रुषिता कद्रूः पावको वः प्रधक्ष्यति ।। १३ ।।

गते बहुतिथे काले पांडवो जनमेजयः ।।

सर्पसत्रं स कर्ता वै भूमावन्यैः सुदुष्करम् ।।१४।।

तस्मिन्सत्रे च तिग्मांशुः पावको भक्षयिष्यति ।।

एवं शप्त्वा तदा कद्रूः प्रत्युवाच न किंचन ।।१५।।

मात्रा शप्तस्तदा नागः कर्तव्यं नान्वपद्यत ।।

वासुकिर्दुःखसंतप्तः पपात भुवि मूर्च्छितः ।। १६ ।।

वासुकिं दुःखितं दृष्ट्वा ब्रह्मा प्रोवाच सांत्वयन्।।

मा शुचो वासुकेऽत्यर्थं शृणु मद्वचनं परम्।। १७।।

यायावरकुले जातो जरत्कारुरिति द्विजः।।

भविष्यति महातेजास्तस्मिन्काले तपोनिधिः ।।१८।।

भगिनीं च जरत्कारुं तस्य त्वं प्रतिदास्यसि ।।

भविता तस्य पुत्रोऽसावस्तीक इति विश्रुतः ।। १९ ।।

स तत्सत्रं प्रवृद्धं वै नागानां भयदं महत् ।।

निषेधयिष्यति मुनिर्वाग्भिः संपूज्य पार्थिवम् ।। 4.36.२० ।।

तदियं भगिनी नाग रूपौदार्यगुणान्विता ।।

जरत्कारुर्जरत्कारोः प्रदेया ह्यवि चारतः ।। २१ ।।

यदासौ प्रार्थ्यतेऽरण्ये यत्किञ्चित्प्रवदिष्यति ।।

तत्कर्तव्यमशेषेण इच्छेच्छ्रेयस्तथात्मनः ।। २२ ।।

पितामहवचः श्रुत्वा वासुकिं प्रणिपत्य च ।।

तथाकरोद्यथा चोक्तं यत्नं परममास्थितः ।। २३ ।।

तच्छ्रुत्वा पन्नगाः सर्वे प्रहर्षोत्फुल्ललोचनाः ।।

पुनर्जातमिवात्मानं मेनिरे भुजगोत्तमाः ।। २४ ।।

अप्लवे तु निमग्नानां घोरे यज्ञाग्निसागरे ।।

आस्तीकस्तत्र भविता प्लवभूतोऽभयप्रदः ।। २५ ।।

श्रुत्वा स चाग्निराजानमृत्विजस्तदनंतरम् ।।

निवर्तयिष्यति यागं नागानां मोहनं परम् ।। २६ ।।

पञ्चम्यां तच्च भविता ब्रह्मा प्रोवाच लेलिहान् ।।

तस्मादियं महाराज पञ्चमी दयिता शुभा ।। २७ ।।

नागानां हर्षजननी दत्ता वै ब्रह्मणा पुरा ।।

दत्त्वा तु भोजनं पूर्वं ब्राह्मणानां तु कामतः ।। २८ ।।

विसृज्य नागाः प्रीयंतां ये केचित्पृथिवीतले ।।

हिमाचले ये वसन्ति येंऽतरिक्षे दिविस्थिताः ।।

ये नदीषु महानागा ये सरःस्वभिगामिनः ।।२९।।

ये वापीषु तडागेषु तेषु सर्वेषु वै नमः ।।4.36.३०।।

नागान्विप्रांश्च संपूज्य विसृज्य च यथार्थतः ।।

ततः पश्चाच्च भुञ्जीयात्सह भृत्यैर्न्नराधिप ।।३१।।

पूर्वं मधुरमश्नीयात्स्वेच्छया तदनंत रम् ।।

एवं नियमयुक्तस्य यत्फलं तन्निबोध मे ।।३२।।

मृतो नागपुरं याति पूज्यमानोऽप्सरोगणैः ।।

विमानवरमारूढो रमते कालमीप्सितम् ।।३३।।

इह चागत्य राजासौ सर्वराजवरो भवेत् ।।

सर्वरत्नसमृद्धश्च वाहनाढ्यश्च जायते ।। ३४ ।।

पञ्चजन्मन्यसौ राजा द्वापरेद्वापरे भवेत् ।।

आधिव्याधिविनिर्मुक्तः पत्नीपुत्रसहायवान् ।।

तस्मात्पूज्याश्च नागाश्च घृतक्षीरादिना सदा ।। ३५ ।।

।। युधिष्ठिर उवाच ।। ।।

दशंति यं नरं कृष्ण नागाः क्रोधसमन्विताः ।।

भवेत्किं तस्य दष्टस्य विस्तराद्ब्रूहि मां हरे ।। ३६ ।।

।। श्रीकृष्ण उवाच ।। ।।

नागदष्टो नरो राजन्प्राप्य मृत्युं व्रजत्यधः ।।

अधो गत्वा भवेत्सर्पो निर्विषो नात्र संशयः ।। ३७ ।।

।। युधिष्ठिर उवाच ।। ।।

नागदष्टः पिता यस्य भ्राता माता सुहृत्सुतः ।।

स्वसा वा दुहिता भार्या किं कर्तव्यं वदस्व मे ।। ३८ ।।

मोक्षाय तस्य गोविन्द दानं व्रतमुपोषितम् ।।

ब्रूहि मे यदुशार्दूल येन स्वर्गतिमाप्नुयात्।। ।। ३९ ।।

।। श्रीकृष्ण उवाच ।। ।।

उपोष्या पञ्चमी राजन्नागानां पुष्टिवर्द्धिनी ।।

वर्षमेकं तु राजेन्द्र विधानं शृणु यादृशम् ।। 4.36.४० ।।

मासे भाद्रपदे या तु शुक्लपक्षे महीपते ।।

सा च पुण्यतमा प्रोक्ता ग्राह्या सद्गतिकाम्यया ।। ४१ ।।

ज्ञेया द्वादश वर्षांते पञ्चम्यो भरतर्षभ ।।

चतुर्थ्यामेकभक्तं तु तस्यां नक्तं प्रकीर्तितम् ।। ४२ ।।

भूरिचन्द्रमयं नागमथवा कलधौतजम् ।।

कृत्वा दारुमयं चापि उताहो मृन्मयं नृप ।। ४३ ।।

पञ्चम्यामर्चयेद्भक्त्या नागं पञ्चफणं शृणु ।।

करवीरैस्तथा पद्मैर्जातीपुष्पैः सुशोभनैः ।। ४४ ।।

गन्धपुष्पैः सनैवेद्यैः पूज्य पन्नगसत्तमम् ।।

ब्राह्मणान्भोजयेत्पश्चाद् घृतपायसमोदकैः ।। ४५ ।।

नारायणबलिः कार्यः सर्पदष्टस्य देहिनः ।।

दाने पिंडप्रदाने च ब्राह्मणानां च तर्पयेत् ।। ४६ ।।

वृषोत्सर्गस्तु कर्तव्यो गते संवत्सरे नृप ।।

स्नानं कृत्वोदकं दद्यात्कृष्णोऽत्र प्रीयतामिति ।। ४७ ।।

अनंतो वासुकिः शेषः पद्मः कम्बल एव च ।।

तथा तक्षक नागश्च नागश्चाश्वतरो नृप ।। ४८

धृतराष्ट्रः शंखपालः कालियस्तक्षकस्तथा ।।

पिंगलश्च महानागो मासिमासि प्रकीर्तिताः ।।

वत्सरांते पारणं स्यान्महाब्राह्मणभोजनम् ।। ४९ ।।

इतिहासविदे नागः कांचनेन कृतो नृप ।।

तथार्जुनी प्रदातव्या सवत्सा कांस्यदोहना ।। 4.36.५० ।।

एष पारणके पार्थ विधिः प्रोक्तो विचक्षणैः ।।

कृते व्रतवरे तस्मिन्सद्गतिं यांति बान्धवाः ।। ५१ ।।

ये दन्दशूकरदनैर्दष्टाः प्राप्ता ह्यधोगतिम् ।।

वर्षमेकं चरि ष्यंति भक्त्या ये व्रतमुत्तमम् ।।

दांष्ट्रिकं मोक्ष्यते तेषां शुभं स्थानमवाप्स्यति ।। ५२ ।।

यश्चेदं शृणुयान्नित्यं पठेद्भक्त्या समन्वितः ।।

न वै कुटुम्बे नागेभ्यो भयं भवति कुत्रचित् ।। ५३ ।।

।। श्रीकृष्ण उवाच ।। ।।

तद्वद्भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः ।।

यस्त्वालिख्य नरो नागान्कृ ष्णवर्णादिवर्णकैः ।।

पूजयेद्गन्धपुष्पैस्तु सर्पिर्ग्गुग्गुलुपायसैः ।। ५४ ।।

तस्य तुष्टिं समायांति पन्नगास्तक्षकादयः ।।

आसप्तमात्कुलात्तस्य न भयं नागतो भवेत् ।। ५५ ।।

तस्मात्सर्वप्रयत्नेन नागान्संपूजयेद्बुधः ।।

तथा चाश्वयुजे मासि पञ्चम्यां कुरुनंदन ।। ५६ ।।

कृत्वा कुशमयान्नागानिंद्राण्या सह पूजयेत् ।।

घृतोदकाभ्यां पयसा स्नपयित्वा विशांपते ।। ५७ ।।

गोधूमैः पयसा स्विन्नैर्भक्ष्यैश्च विविधैस्तथा ।।

यस्त्वस्यां विविधान्नागाञ्छुचिर्भक्त्या समन्वितः ।। ५८ ।।

पूजयेत्कुरुशार्दूल तस्य शेषादयो नृप ।।

नागाः प्रीता भवन्तीह शांतिं प्राप्नोति शोभनाम् ।।

स शांतिलोकमासाद्य मोदते शाश्वतीः समाः ।। ५९ ।।

इत्येतत्कथितं वीर पञ्चमीव्रतमुत्तमम् ।।

तत्रायमुच्यते मंत्रः सर्वदोषनिषेधकः ।। 4.36.६० ।।

( ॐ कुरुकुल्ले हुं फट्स्वाहा )

भक्तेन भक्तिसहिताः शतपञ्चमीषु ये पूजयंति भुजगान्कुसुमोपहारैः।।

तेषां गृहेष्वभयदा हि सदैव सर्पाः शश्वत्प्रमोदपरमा रुचयो भवंति ।। ६१ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नागपंचमीव्रतवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ।। ३६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 37

श्रीपञ्चमीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

कथमासाद्यते लक्ष्मीर्दुर्ल्लभा भुवनत्रये ।।

दानेन तपसा वापि व्रतेन नियमेन वा ।। १ ।।

जपहोमनमस्कारैः संस्कारैर्वा पृथग्विधैः ।।

एतद्वद यदुश्रेष्ठ सर्ववित्त्वं मतो मम ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

भृगोः ख्यात्यां समुत्पन्ना पूर्वं श्रीः श्रूयते शुभा ।।

वासुदेवाय सा दत्ता मुनिना मानवृद्धये ।। ३ ।।

वासुदेवोऽपि तां प्राप्य पीनोन्नतपयोधराम् ।।

पद्मपत्रविशालाक्षीं पूर्णचन्द्रनिभान नाम् ।। ४ ।।

भाभासितदिगाभोगां साक्षाद्भानोः प्रभामिव ।।

नितंबाडंबरवतीं मत्तमातंगगामिनीम् ।।

रेमे सह तया राजन्बिभ्रमोद्भ्रांतचित्तया ।। ५ ।।

सा च विष्णुं जगज्जिष्णुं पतिं त्रिजगतां पतिम् ।।

प्राप्य कृतार्थमात्मानं मेने मानयशोधना ।। ६ ।।

हृष्टं पुष्टं जगत्सर्वमभवद्भा वितं तया ।।

लक्ष्म्या निरीक्षितं चैव सानंदं हि महीतलम् ।। ७ ।।

क्षेमं सुभिक्षमारोग्यमनाक्रन्दमनाकुलम् ।।

जगदासीदनुद्भ्रान्तं प्रशांतोपद्रवं तथा ।। ८ ।।

दिवि देवा मुमुदिरे दानवा दैत्यमागताः ।।

विस्फारितफणाभोगा नागाश्चैव रसातले ।। ९ ।।

हृदये ब्राह्मणैर्वह्नौ भुज्यते त्रिदिवैर्हविः ।।

चातुर्वर्ण्यमसंकीर्णं पाल्यते पार्थ पार्थिवैः ।।4.37.१ ०।।

विरोचनप्रभृतिभिर्दृष्ट्वैवं दैत्यसत्तमैः ।।

तपस्तप्तुमथारब्धमग्निमाश्रित्य संयतैः ।। ।। ११ ।।

सोमसंस्थाहविःसंस्थापाकसंख्यादिभिर्मखैः ।।

सदाचारैः समारब्धमिष्टं स्वेष्टाभिलाषिभिः ।। १२ ।।

एवं धर्मप्रधानैस्तैर्वेदवादरतात्मभि।।

जगदासीत्समाक्रांतं विक्रमेण क्रमेण तु ।।१३।।

लक्ष्मीविलासप्रभवो देवानामभवन्मदः ।।

मदाच्छीलं च शौचं च सत्यं सद्यो व्यनीनशन् ।। ।। १४ ।।

सत्यशौचविहीनांस्तान्देवान्संत्यज्य चञ्चलान् ।।

जगाम दानवकुलं कुलदेवानुरागतः ।।१५।।

लक्ष्म्या भावितदेहैस्तैः पुनरुद्धतमानसैः।।

व्यवहर्तुं समारब्धमन्यायेन मदोद्धतैः ।। १६ ।।

वयं वेदा वयं यज्ञा वयं विद्या वय जगत् ।।

ब्रह्मविष्णुशंकराद्या वयं सर्वे दिवौकसः ।। १७ ।।

अहंकारविमूढांस्ताञ्ज्ञात्वा दानवसत्तमान् ।।

सागरं सा विवेशाथ भ्रांतचित्ता भृगोः सुता ।। १८ ।।

क्षीराब्धिमध्यगतया लक्ष्म्या क्षीणार्थसंचयम् ।।

निरानन्दगतश्रीकमभवद्भुवनत्रयम् ।। १९ ।।

गतश्रीकमथात्मानं मत्वा शंबरसूदनः ।।

पपच्छांगिरसं विप्रं ब्रूहि किञ्चिद्व्रतं मम ।। 4.37.२० ।।

येन संप्राप्यते लक्ष्मीर्लब्धा न चलते पुनः ।।

निश्चलापि सुहृन्मित्रैर्भोग्या भवति सा मुने ।। २१ ।।

न सा श्रीत्यभिमन्तव्या कन्या सा पाल्यते गृहे ।।

परार्थं या सुहृन्मित्रभृत्यैर्नैवोपभुज्यते ।। २२ ।।

शक्रस्यैतद्वचः श्रुत्वा बृहस्पतिरुदारधीः ।।

कथयामास संचिंत्य शुभं श्रीपञ्चमीव्रतम् ।। २३ ।।

यत्पुरा कस्यचित्प्रोक्तं व्रतानामुत्तमं व्रतम् ।।

तदस्मै कथयामास सरहस्यमशेषतः ।। २४ ।।

तच्छ्रुत्वा कर्तुमारब्धं सुरेशेन सुरैस्तथा ।।

दैत्यदानवगंधर्वैर्यक्षैः प्रक्षीणकल्मषैः ।। २५ ।।

सिद्धैः प्रसिद्धचरितैर्विष्णुना प्रभविष्णुना ।।

ब्राह्मणैर्ब्रह्मतत्त्वज्ञैः समर्थैः पार्थिवैः सह ।। २६ ।।

कैश्चित्सात्त्विकभावेन राजसेनापरैरपि ।।

तामसेन तथा कैश्चित्कृतं व्रतमिदं तथा ।। २७ ।।

व्रते समाप्ते भूयिष्ठे निष्ठया परया प्रभो ।।

देवानां दानवानां च युद्धमासीदथोद्धतम् ।। २८ ।।

निर्मथ्य भुजवीर्येण सागरं सरितां पतिम्।।

समाहरामो ह्यमृतं हिताय त्रिदिवौकसाम् ।। २९ ।।

इत्येवं समयं कृत्वा ममंथुर्वरुणालयम् ।।

मंथानं मंदरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।। 4.37.३० ।।

मथ्यमानजलाज्जातश्चन्द्रः शीतांशुरुज्ज्वलः ।।

अनंतरं समुत्पन्ना लक्ष्मीः क्षीराब्धिमध्यतः ।। ३१ ।।

तया विलोकिताः सर्वे दैत्यदानवसत्तमाः ।।

आलोक्य सा जगामाशु विष्णोर्वक्षःस्थलं शुभम् ।। ३२ ।।

विधिना विष्णुना चीर्णं व्रतं तेनाब्धिसंभवा ।।

शरीरस्था बभूवास्य विभ्रमोद्भ्रांतलोचना ।। ३३ ।।

किं च राजसभावेन शक्रेणैतत्कृतं यतः ।।

ततस्त्रिभुवनैश्वर्यं प्राप्तं तेन महर्द्धिकम् ।। ३४ ।।

तमसावृतचित्तैस्तु संचीर्णं दैत्यदानवैः ।।

तेन तेषामथैश्वर्यं दृष्टनष्टमभूत्किल ।।३५।।

एवं सश्रीकमभवत्सदेवासुरमानुषम् ।।

जरच्च जगतां श्रेष्ठ व्रतस्यास्य प्रभावतः ।। ३६ ।।

।। युधिष्ठिर उवाच ।। ।।

कथमेतद्व्रतं कृष्ण क्रियते मनुजैः कदा ।।

प्रारभ्यते पार्यते च सर्वं वद यदूत्तम ।। ३७ ।।

।। श्रीकृष्ण उवाच ।। ।।

मार्गशीर्षे सिते पक्षे पंचम्यां पतगोदये ।।

उपवासस्य नियमं कुर्यादाशु सुहृद्धृदि ।। ३८ ।।

स्वर्णरौप्यारकूटोत्था ताम्रमृत्काष्ठजाथ वा ।।

चित्रपट्टगतां देवीं लक्ष्मीं क्ष्मापाल कारयेत् ।। ३९ ।।

पद्महस्तां पद्मवर्णां पद्मां पद्मदलेक्षणाम् ।।

दिग्गजेन्द्रैः स्नाप्यमानां कांचनैः कलशोत्तमैः ।। 4.37.४० ।।

ततो यामत्रये जाते निम्नगायां गृहेऽथ वा ।।

स्नानं कुर्यादसंभ्रातं शक्रवदुपचारतः ।। ४१ ।।

देवान्पितॄंश्च संतर्प्य ततो देवगृहं व्रजेत् ।।

तत्रस्थां पूजयेद्देवीं पुष्पै स्तत्कालसंभवैः ।। ४२ ।।

चपलायै नमः पादौ चंचलायै च जानुनी ।।

कटिं कमलवासिन्यै नाभिं ख्यात्यै नमोनमः ।। ४३ ।।

स्तनौ मन्मथवासिन्यै ललितायै भुजद्वयम् ।।

उत्कंठितायै कण्ठं च माधव्यै मुखमण्डलम् ।। ४४ ।।

नमः श्रियै शिरः पूज्य दद्यान्नैवेद्यमादरात् ।।

फलानि च यथालाभं विरूढान्धान्यसंचयान् ।। ४५ ।।

ततः सुवासिनी पूज्या कुसुमैः कुंकुमेन च ।।

भोजयेन्मधुरान्नेन प्रणिपत्य विसर्जयेत् ।। ४६ ।।

ततस्तु तंडुलप्रस्थं घृतपात्रेण संयुतम् ।।

ब्राह्मणाय प्रदातव्यं श्रीशः संप्रीयतामिति ।। ४७ ।।

निर्वर्त्य तदशेषेण ततो भुञ्जीत वाग्यतः ।।

मासानुमासं कर्तव्यं विधिनानेन भारत ।। ४८ ।।

श्रीर्लक्ष्मीः कमला संपदुमा नारायणी तदा ।।

पद्मा धृतिः स्थितिः पुष्टिर्ऋद्धिः सिद्धिर्यथाक्रमम् ।।

मासानुमास राजेन्द्र प्रीयतामिति कीर्तयेत् ।। ४९ ।।

ततश्च द्वादशे मासि संप्राप्ते पंचमे दिने ।।

वस्त्रमंडपिकां कृत्वा पुष्पगन्धाधिवासिताम् ।। ।। 4.37.५० ।।

शय्यायां स्थापयेल्लक्ष्मीं सर्वोपस्करसंयुताम् ।।

मौक्तिकाष्टकसंयुक्तां नेत्रपट्टावृतस्तनीम् ।। ५१ ।।

सप्तधान्यसमोपेतां रसधातुसमन्विताम्।।

पादुकोपानहच्छत्रभाजनासनसत्कृताम्।।५२।।

दद्यात्संपूज्य विधिवद्ब्राह्मणाय कुटुम्बिने।।

व्यासाय वेदविदुषे यस्य वा रोचते स्वयम्।।

सोपस्करां सवत्सां च धेनुं दत्त्वा क्षमापयेत्।।५३।।

क्षीराब्धिमथनोद्भूते विष्णोर्वक्षःस्थलालये ।।

सर्वकामप्रदे देवि ऋद्धिं यच्छ नमोऽस्तु ते ।।५४।।

ततः सुवासिनीः पूज्य वस्त्रैराभरणैः शुभैः ।।

भोजयित्वा स्वयं पश्चाद्भुञ्जीत सह बन्धुभिः ।। ५५ ।।

एवं यः कुरुते पार्थ भक्त्या श्रीपञ्चमीव्रतम्।।

तस्य श्रीर्भवने भाति कुलानामेकविंशतिः ।। ५६ ।।

नारी वा कुरुते या तु प्राप्यानुज्ञां स्वभर्तृतः ।।

सुभगा दर्शनीया च बहुपुत्रा च जायते ।।५७।।

श्रीपञ्चमीव्रतमिदं दयितं मुरारेर्भक्त्या समाचरति पूज्यभृगोस्तनूजाम् ।।

राज्यं निजं स भुवि भव्यजनोपभोगान्भुक्त्वा प्रयाति भुवनं मधुसूदनस्य।।५८।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पञ्चमीव्रतकल्पे श्रीपञ्चमीव्रतनिरूपणं नाम सप्तत्रिंशत्तमोऽध्यायः ।।३७।।

पर्व ४ (उत्तरपर्व) — Adhyāya 38

विशोकषष्ठीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

षष्ठीविधानमधुना कथयस्व जनार्दन ।।

सर्वव्याधिप्रशमनं सर्वकर्मफलप्रदम् ।। ।। १ ।।

श्रुतं मया पूज्यमानो भानुः सर्वं प्रयच्छति ।।

दिवाकराराधनं मे तस्मात्कथय केशव ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

विशोक षष्ठीमतुलां वक्ष्यामि मनुजोत्तम। ।।

यामुपोष्य नरः शोकं न कदाचिदिह जायते।। ३ ।।

माघे कृष्णतिलैः स्नातः पञ्चम्यां शुक्लपक्षतः।।

कृताहारः कृशस्या दंतधावनपूर्वकम्।।

उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि।।

ततः प्रभाते चोत्थाय कृतस्नानस्ततः शुचिः।।५।।

कृत्वा तु काञ्चनं पद्ममर्कोऽयमिति पूजयेत् ।।

करवीरेण रक्तेन रक्तवस्त्रयुगेन च ।। ६ ।।

यथा विशोकं भवनं त्वयैवादित्यसर्वदा ।।

तथा विशोकतां मे स्यात्त्वद्भक्तिर्जन्मजन्मनि ।। ७ ।।

एवं संपूज्य षष्ठ्यां तु शक्त्या संपूजयेद्द्विजान् ।।

सुप्त्वा संप्राश्य गोमूत्रमुत्थाय कृतनिश्चयः ।। ८ ।।

संपूज्य विप्रमंत्रेण गुडपात्रसमन्वितः ।।

सुसूक्ष्मवस्त्रयुगलं ब्राह्मणाय निवेदयेत् ।। ९ ।।

अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः ।।

ततः पुराणश्रवणं कर्तव्यं भूतिमिच्छता ।। 4.38.१० ।।

अनेन विधिना सर्वमुभयोरपि पक्षयोः ।।

कुर्याद्यावत्पुनर्माघशुक्लपक्षस्य सप्तमी ।। ११ ।।

व्रतांते कलशं दद्यात्सुवर्णकमलान्वितम् ।।

शय्यां सोपस्करां तद्वत्कपिलां च पयस्विनीम् ।। १२ ।।

अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः ।।

विशोकषष्ठीं कुरुते स याति परमां गतिम् ।। १३ ।।

यावज्जन्मसहस्राणां साग्रकोटिशतं भवेत् ।।

तावन्न शोकमभ्येति रोगदौर्गत्यवर्जितः ।। १४ ।।

यंयं प्रार्थयते कामं तंतं प्राप्नोति पुष्कलम् ।।

निष्कामं कुरुते यस्तु स परं ब्रह्म गच्छति. ।। १५. ।।

यः पठेच्छृणुयाद्वापि षष्ठीं शोकविनाशिनीम्।।

सोपींद्रलोकमाप्नोति न दुःखी जायते क्वचित् ।। १६ ।।

ये भास्करं दिनकरं करवीरपुष्पैः संपूजयंत्यभिनमंति कृतोपवासा ।।

ते दुःखशोकरहिताः सहिताः सुहृद्भिर्भूमौ विहृत्य रविलोकमवाप्नुवंति ।। १७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकषष्ठीव्रतं नामा ष्टत्रिंशत्तमोऽध्यायः ।।३८।।

पर्व ४ (उत्तरपर्व) — Adhyāya 39

कमलषष्ठीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अन्यामपि प्रवक्ष्यामि पद्मषष्ठी शुभां तथा।।

यामुपोष्य नरः पापविमुक्तः स्वर्गभाग्भवेत् ।। १ ।।

मार्गशीर्षे शुभे मासि पञ्चम्यां नियतव्रतः ।।

षष्ठीमुपोष्य कमलं कारयित्वा सुकाञ्चनम् ।। २ ।।

शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुंबिने ।।

रूपं च कांचनं कृत्वा फलस्यैकस्य धर्मवित् ।। ३ ।।

दद्यात्प्रातः कृतस्नानो भानुर्मे प्रीयतामिति ।।

भक्त्या तु विप्रान्संपूज्य सप्तम्यां क्षीरभोजनम् ।। ४ ।।

कृत्वा कुर्यात्फलत्यागं या च स्यात्कृष्णसप्तमी ।।

एतामुपोष्य विधिवदनेनैव क्रमेण तु।। ५ ।।

तद्वै हैमं फलं दत्त्वा सुवर्ण कमलान्वितम्।।

शर्करापात्रसंयुक्तं वस्त्रमालासमन्वितम् ।। ६ ।।

षष्ठ्योरुभयोर्महाराज यावत्संवत्सरं ततः ।।

उपोष्य दद्यात्क्रमशः सूर्यमंत्रानुदीरयेत् ।। ७ ।।

भानुरर्को रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः ।।

श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति ।। ८ ।।

प्रतिमासं च सप्तम्यामेकैकं नाम कीर्तयेत् ।।

प्रतिपक्षं फलत्यागमेतत्कुर्वन्समाचरेत् ।। ९ ।।

व्रतांते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः ।।

शर्कराकलशं दद्याद्धैमपद्मफलान्वितम् ।। 4.39.१० ।।

यथा फलकरो मासस्त्वद्भक्तानां सदा रवे ।।

तथानंतफलावाप्तिरस्तु जन्मनिजन्मनि ।।११।।

इमामनंतफलदां फलषष्ठीं करोति यः ।।

स सर्वपापनिर्मुक्तः सूर्यलोके महीयते ।।१२।।

सुरापानादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।।

तत्सर्वं नाशमायाति सूर्यलोकं स गच्छति ।।१३।।

भूतान्भव्यांश्च पुरुषांस्तारयेदेकविंशतिम् ।।

शृणुयाद्यः पठेद्वापि सोपि कल्याणभाग्भवेत्।।१४।।

हैमं फलं सकमलं कलशं सिताया षष्ठीमुपोष्य विधिवद्द्विजपुंगवाय ।।

दद्यात्सुरासुरशिरोमणिघृष्टपादं भानुं प्रणम्य फलसिद्धिमुपैति मर्त्यः ।।१५।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कमलषष्ठीव्रतं नामैकोनचत्वारिंशत्तमोऽध्यायः ।। ३९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 40

मंदारषष्ठीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि सर्वपापप्रणाशिनीम् ।।

सर्वकामप्रदां पुण्यां षष्ठीं मन्दारसंज्ञिताम् ।। १ ।।

माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः ।।

दंतकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः ।।

विप्रान्संपूज्य विधिवन्मंदारं प्राशयेन्निशि।।२।।

ततः प्रभाते चोत्थाय कृतस्नानः पुनर्द्विजान्।।

भोजयेच्छक्तितः कृत्वा मंदारकुसुमाष्टकम्।।३।।

सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनम् ।।

पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेऽष्टपत्रकम् ।। ४ ।।

पूज्य मंदारकुसुमैर्भास्करायेति पूर्वतः ।।

नमस्कारेण तद्वच्च सूर्यायेत्यनले दले ।। ।।५।।

दक्षिणे तद्वदर्काय तथार्यम्णे च नैर्ऋते।।

पश्चिमे वसुधात्रे च वायव्ये चण्डभानवे ।।६।।

पूष्णे ह्युत्तरतः पूज्य आनंदायेत्यतः परम्।।

कर्णिकायां तु पुरुषः पूज्यः सर्वात्मनेति च ।। ७ ।।

शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः ।।

एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः ।।

भुंजीतातैललवणं वाग्यतः प्राङ्मुखो गृही ।। ८ ।।

अनेन विधिना सर्वं सप्तम्यां मासिमासि च ।।

कुर्यात्संवत्सरं यावद्वित्तशाठ्यविवर्जितः ।। ९ ।।

एतदेव व्रतांते तु निधाय कलशोपरि ।।

गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता ।। 4.40.१० ।।

नमो मंदारनाथाय मंदारभवनाय च ।।

त्वं च वै तारयस्वास्मानस्मात्संसारकर्दमात् ।। ११ ।।

अनेन विधिना यस्तु कुर्यान्मंदारकं व्रतम् ।।

विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते ।। १२ ।।

इमामघौघपटलध्वांतसद्वर्तिदीपिकाम् ।।

गच्छन्प्रगृह्य संसारशर्वर्यां न स्खलेन्नरः ।। १३ ।।

मंदारषष्ठीं विख्यातामीप्सितार्थफलप्रदाम् ।।

यः पठेच्छृणुयाद्वापि सोपि पापैः प्रमुच्यते ।। १४ ।।

षष्ठीमुपोष्य तिलपङ्कजकर्णिकायां संपूज्य भास्करमहो सुरवृक्षपुष्पैः ।।

यत्प्राप्नुवंति पुरुषा न हि तत्कदाचिद्गोभूहिरण्यतिलदाः पदमाप्नुवन्ति ।। १५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मंदारषष्ठीव्रतनिरूपणनाम चत्वारिंशोऽध्यायः ।। ४० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 41

ललिताषष्ठीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

भद्र भाद्रपदे मासि शुक्लषष्ठ्यां युधिष्ठिर ।।

योषित्सुवेषा सुभगा सर्वलोकमनोहरा ।। १ ।।

प्रातः स्नानं महानद्यां कृत्वा संगृह्य वालुकाम् ।।

नवे वंशमये पात्रे यायाद्गृहमतंद्रिता ।। २ ।।

सोपवासा प्रयत्नेन देवीं तत्र प्रपूजयेत् ।।

कृत्वा वस्त्रगृहं रम्यं दीपनेत्रपटावृतम् ।। ३ ।।

तत्र संस्थाप्य तां देवीं पुष्पैः संपूजयेन्नवैः ।।

ध्यात्वा ललितिकां गौरीं तपोवननिवासिनीम् ।। ४ ।।

मंत्रेणानेन कुसुमैश्चंपकस्य सुशोभनैः ।।

चंपकं करवीरं च नेमालिं मालतीं तथा ।।

नीलोत्पलं केतकीं च संगृह्य तगरं तथा ।। ५ ।।

एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा ।।

अक्षतैः कलिका ग्राह्यास्तैस्तु देवीं समर्चयेत् ।। ६ ।।

गंगाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।।

स्नात्वा कनखले तीर्थे हरं लब्धवती व्रजेत् ।। ७ ।।

ललिते ललिते देवि सौख्यसौभाग्यदायिनि ।।

या सौभाग्यसमुत्पन्ना तस्यै देव्यै नमोनमः ।।

एवमभ्यर्च्य विधिना नैवेद्यं पुरतो न्यसेत् ।। ८ ।।

कूष्मांडैः कर्कटीवृंतैः कर्कोटैः कारवेल्लकैः ।।

वृतांकैरक्षतैरङ्गैर्दीपधूपाद्यलक्तकैः ।। ९ ।।

सार्द्धं सगुडकैर्धूपैः सोहालककरंबकैः ।।

गुडपुष्पैः कर्णवेष्टैर्मोदकैर्मुखमोदकैः ।। 4.41.१० ।।

एवमभ्यर्च्य विधिवद्रात्रौ जागरणं ततः ।।

गीतवाद्यनटच्छत्रप्रेक्षणीयैः सुशोभनैः ।।

सखीभिः सहिता साध्वी तां रात्रीं प्रशमन्नयेत् ।। ११ ।।

न च सम्मीलयेन्नेत्रे नारी यामचतुष्टयम् ।।

दुर्भगा दुर्गता वंध्या नेत्रसंमीलनाद्भ वेत् ।। १२ ।।

एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत् ।।

गन्धपुष्पैरथाभ्यर्च्य गीतवाद्यपुरःसरम् ।। १३ ।।

तच्च दद्याद्द्विजेंद्राय नैवद्यादि नरोत्तम ।।

स्नात्वा गृहमुपागम्य हुत्वा वैश्वानरं क्रमात् ।।

देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीम् ।। १४ ।।

कुमारिका भोजनीया ब्राह्मणा दशपंच च ।।

भक्ष्यभोज्यैर्बहुविधैर्देया तेभ्यः सुदक्षिणा ।।

ललिता प्रीतियुक्ताऽस्तु इत्युक्त्वा तान्विसर्जयेत् ।। १५ ।।

यः कश्चिदाचरेदेतद्भक्त्या ललितिकाव्रतम् ।।

नरो वा यदि वा नारी तस्य पुण्यफलं शृणु ।। १६ ।।

तन्नास्ति मानुषे लोके तस्य यन्नोपपद्यते ।।

सुखसौभाग्यसंयुक्ता गौरीलोकमवाप्नुयात् ।। १७ ।।

षष्ठ्यां जलांतरगता वरवंशपात्रे संगृह्य पूजयति या सिकताः क्रमेण ।।

नक्तं च जागरमनुद्धतगीतनृत्यैः कृत्वा ह्यसौ त्रिभुवने ललितेव भाति ।।१८।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ललिताषष्ठीव्रतवर्णनं नामैकचत्वारिंशोऽध्यायः ।।४१।।

पर्व ४ (उत्तरपर्व) — Adhyāya 42

कार्तिकेयपूजावर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

येयं मार्गशिरे मासि षष्ठी भरतसत्तम ।।

पुण्या पापहरा धन्या शिवा शान्ता गृहप्रिया ।। १ ।।

निहत्य तारकं षष्ठ्यां गुहस्तारकराजवत् ।।

रराज तेन दयिता कार्त्तिकेशस्य सा तिथिः ।।

स्नानदानादिकं कर्म तस्यामक्षयमुच्यते ।।२।।

यस्यां पश्यंति गांगेयं दक्षिणापथमाश्रितम् ।।

ब्रह्महत्यादिपापैस्ते मुच्यंते नात्र संशय. ।। ३ ।।

तस्मादस्यां सोपवासः कुमारं स्वर्णसंभवम्।।

राजतं वा महाराज मृन्मयं वापि कारयेत् ।। ४ ।।

अपराह्णे ततः स्नात्वा समाचम्य यतव्रती ।।

पद्मासनस्थो गाङ्गेयं ध्यायंस्तिष्ठेत्समाधिना ।। ५ ।।

ब्राह्मणस्तु ततो विद्वान्गृहीत्वा करकं नवम् ।।

पातयेत्तस्य शिरसि धारां वै दक्षिणामुखः ।। ६ ।।

चन्द्रमण्डलभूतानां भवभूतिपवित्रिता ।।

गंगाकुमारधारेयं पतिता तव मस्तके।।७।।

एवं स्नात्वा समभ्यर्च्य भास्करं भुवनाधिप ।।

पुष्पधूपादिना पश्चात्पूजयेत्कृत्तिकासुतम् ।। ८ ।।

देव सेनापते स्कन्द कार्त्तिकेय भवोद्भव ।।

कुमार गुह गांगेय शक्तिहस्त नमोऽस्तु ते ।। ९ ।।

एभिर्न्नामपदैः पूज्य नैवेद्यं विनिवेदयेत् ।।

फलानि दक्षिणान्नानि चन्दनं मलयोद्भवम्।। ।।4.42.१ ०।।

पार्श्वस्थौ पूजयेच्छागकुक्कुटौ स्वामिवल्लभौ।।

सकलापं मयूरं च प्रत्यक्षां हिमजां तथा ।।११।।

कृत्तिकाकटकं पार्श्वे संपूज्य स्कन्दवल्लभम्।।

तेनैव नामभिर्होमः कार्यः साज्यैस्तिलैस्तथा ।। १२ ।।

एवं निर्वर्त्य विधिवत्फलमेवं युधिष्ठिर ।।

भक्षयित्वा स्वपेद्भूमौ स्वास्तृते दर्भसंस्तरे ।। ।। १३ ।।

नालिकेरं मातुलुंगं नारिंगं पनसं तथा ।।

जंबीरं दाडिमं द्राक्षां हृद्यान्याम्रफलानि च ।। १४ ।।

श्रीफलामलकं तद्वत्त्रपुसं कदलीफलम् ।।

क्रमेण भक्षयेद्राजन्संयतो नियतव्रती ।।

अलाभे कलकालौघफलमद्यादतंद्रितः ।। १५ ।।

प्रत्यक्षो हेमघटितश्छागो वा कुक्कुटोऽथवा।।

प्रातर्दद्याद्द्विजायैतत्सेनानीः प्रीयतामिति ।। १६ ।।

सेनायां स च संभूतः क्रौञ्चारिः षण्मुखो गुहः ।।

गांगेयः कार्त्तिकेयश्च स्वामी बालग्रहाग्रणीः ।। १७ ।।

छागप्रियश्शक्तिधरो द्वारो द्वादशमः स्मृतः ।।

प्रीयतामिति सर्वेषु क्रमान्मासेषु कीर्तयेत् ।। १८ ।।

ब्राह्मणान्भोजयित्वादौ पश्चाद्भुञ्जीत वाग्यतः ।।

एवं संवत्सरस्यान्ते कार्त्तिके मासि शोभने ।।१९।।

कार्त्तिकेयं समभ्यर्च्य वासोभिर्भूषणैः सह ।।

गांगेयः कार्तिकेयश्च सकृदेवैवमाचरेत् ।।4.42.२०।।

संवत्सरविधिं कृत्वा जपं होमपुरस्कृतम् ।।

दद्याद्विप्राय राजेन्द्र वाचकाय विशेषतः ।।२१।।

एते विप्राः स्मृता दिव्या भौमास्त्वन्ये द्विजातयः ।।

पालितेऽस्मिन्व्रते पार्थ तीर्णः स्याद्भवसागरात् ।।२२।।

एवं यः कुरुते भक्त्या नरो योषिदथापि वा।।

स प्राप्येह शुभं कामं गच्छतीन्द्रसलोकताम्।। ।।२३।।

सदैव पूजनीयस्तु कार्तिकेयो महीपते।।

कार्त्तिकेयादृते नान्यो राज्ञां पूज्यः प्रवक्ष्यते ।।२४।।

संग्रामं गच्छमानो यः पूजयेत्कृत्तिकासुतम्।।

स सर्वं जयते वीरो यथेन्द्रो दानवान्रणे ।।२५।।

तस्मात्सर्वप्रयत्नेन पूजयेच्छंकरात्मजम्।।

पूज्यमानस्तु सद्भक्त्या सर्वान्कामान्प्रयच्छति ।।२६।।

यस्तु षष्ठ्यां नरो नक्तं कुर्याद्भारतसत्तम ।।

सर्वपापविनिर्मुक्तो गांगेयस्य सदा व्रजेत् ।।२७।।

श्रुत्वैवं दक्षिणां मासं गत्वा श्रद्धासमन्वितः।

पूजयेद् देवदेवेशं स गत्वा शिवमंदिरम् ।। २८ ।।

स्कन्दं गुहं शरवणोद्भवमादिदेवं शम्भोः सुतं सदयितं गिरिराजपुत्र्याः ।।

स्वर्गे निरर्गलसुखान्यनुभूयते न सेनापतिर्भवति राज्यधुरंधुरोऽसौ ।। २९ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तारकवधकार्त्तिकेयपूजाषष्ठी व्रतवर्णनं नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 43

विजयसप्तमीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

सप्तमी च यदा देव केन कालेन पूज्यते ।।

किंफला नियमः कश्चिद्वद देवकिनन्दन ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

शुक्लपक्षे तु सप्तम्यां यदादित्यदिनं भवेत् ।।

सप्तमी विजया नाम तत्र दत्तं महा फलम् ।। २ ।।

स्नानं दानं जपो होम उपवासस्तथैव च ।।

सर्वं विजयसप्तम्यां महापातकनाशनम् ।। ३ ।।

प्रदक्षिणां यः कुरुते फलैः पुष्पै र्दिवाकरम् ।।

स सर्वगुणसंपन्नं पुत्रं प्रानोत्यनुत्तमम् ।। ४ ।।

प्रथमा नालिकेरैस्तु द्वितीया रक्तनागरैः ।।

तृतीया मातुलुंगैश्च चतुर्थी कदलीफलैः ।। ।। ५ ।।

पञ्चमी वरकूष्माण्डैः षष्ठी पक्वैस्तु तेंदुकैः ।।

वृन्ताकैः सप्तमी देया अष्टोत्तरशतेन च ।। ६ ।।

मौक्तिकैः पद्मरागैश्च नीलैः कर्केतनैस्तथा ।।

गोमेदैर्वज्रवैडूर्यैः शतेनाष्टाधिकेन तु ।। ७ ।।

अक्षोटैर्बदरैर्बिल्वैः करमर्दैः सबर्बरैः ।।

आम्राम्रातकजंबीरैर्जंबुकर्कोटिकाफलैः ।।८।।

पुष्पैर्धूपैः फलैः पत्रैर्मोदकैर्गुणकैः शुभैः ।।

एभिर्विजयसप्तम्यां भानोः कुर्यात्प्रदक्षिणाम् ।। ९ ।।

अन्यैः फलैश्च काम्यैश्च ऐक्षवैर्ग्रंथिवर्जितैः ।।

रवेः प्रदक्षिणा देया फलेन फलमादिशेत् ।। 4.43.१० ।।

न विशेन्न च संजल्पेन्न च कश्चिद्वदेदपि ।।

एकचित्ततया भानुश्चिन्तनाय प्रयच्छति ।। ११।।

वसोर्धाराप्रदातव्या भानोर्गव्येन सर्पिषा ।।

चन्द्रातपत्रं बध्नीयाज्जयं किंकिणिकायुतम् ।।१२।।

कुंकुमेन समालभ्य पुष्पधूपैश्च पूजयेत् ।।

शुभं निवेद्य नैवेद्यं ततः पश्चात्क्षमापयेत् ।।१३।।

भानो भ्रास्करमार्तण्ड चण्डरश्मे दिवाकर ।।

आरोग्यमायुर्विजयं पुत्रं देहि नमोऽस्तु ते ।। १४ ।।

उपवासेन नक्तेन तथैवायाचितेन च ।।

कृता नियमयुक्तेन या त्वियं जयसप्तमी ।। १५ ।।

रोगी विमुच्यते रोगाद्दरिद्रः श्रियमाप्नुयात् ।।

अपुत्रो लभते पुत्रं विद्या विद्यार्थिनो भवेत् ।। १६ ।।

शुक्लपक्षे यदा पार्थ सादित्यसप्तमी भवेत् ।।

तदा नक्तेन मुद्गाशी क्षपयेत्सप्त सप्तमी ।। १७ ।।

भूमौ पलाशपत्रेषु स्नात्वा हुत्वा यथाविधि ।।

समाप्ते तु व्रते दद्यात्सौवर्णं मुद्गमिश्रितम् ।। १८ ।।

मुद्गं श्रेष्ठाय विप्राय वाचकाय विशेषतः।।

सप्तम्यां सप्तिसंयुक्त आदित्येन नरोत्तम ।। १९ ।।

उपोष्य विधिनानेन मन्त्रप्राशनपूजनेः ।।

षडक्षरेण मन्त्रेण सर्वं कार्यं विजानता ।। 4.43.२० ।।

अर्चनं वह्निकार्यं च शतमष्टोत्तरं नरः ।।

समाप्ते तु व्रते पश्चात्सुवर्णेन घटापितम् ।। २१ ।।

सौवर्णं भास्करं पार्थ रुक्मपात्रगतं शुभम् ।।

रक्तांबरं च काषायं गन्धं दद्यात्सदक्षिणम् ।। २२ ।।

मन्त्रेणानेन विप्राय कर्मसिद्ध्यै द्विजातये ।।

ॐ भास्कराय सुदेवाय नमस्तुभ्य यशस्कर ।। २३ ।।

ममाद्य समीहितार्थप्रदो भव नमोनमः ।।

दानानि च प्रदेयानि गृहाणि शयनानि च ।। २४ ।।

श्राद्धानि पितृदेवानां शाश्वतीं तृप्तिमिच्छता ।।

यात्रा प्रशस्ता यातॄणां राज्ञां च जयमिच्छताम् ।।२५।।

विजयो जायतेऽवश्यं यतीनां च नृणां तदा ।।

अतोर्थं विश्रुता लोके सदा विजयसप्तमी ।। २६ ।।

एवमेषा तिथिः पार्थ इह कामप्रदा नृणाम् ।।

परत्र सुखदा सौम्या सूर्यलोकप्रदायिनी ।। २७ ।।

दाता भोगी च चतुरो दीर्घायुर्नीरुजः सुखी ।।

इहागत्य भवेद्राजा हस्त्यश्वधनरत्नवान् ।। २८ ।।

नारी वा कुरुते या तु सापि तत्पुण्यभागिनी ।।

भवत्यत्र न संदेहः कार्यः पार्थ त्वया क्वचित्।। ।। २९ ।।

स्वर्ग्या समीहितसुखार्थफलप्रदा च या मृग्यते मुनिवरैः प्रवरा तिथीनाम् ।।

सा भानुपादकमलार्चनचिंतकानां पुंसां सदैव विजया विजयं ददाति ।।4.43.३०।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयसप्तमीव्रतकथनं नाम त्रिचत्वारिंशोऽध्यायः ।।४३।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 44

आदित्यमण्डलविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथान्यदपि ते वच्मि दानं श्रेयस्करं परम् ।।

आदित्यमंडलं नाम सर्वाशुभविनाशनम् ।। १ ।।

यवचूर्णेन शुभ्रेण कुर्याद्गोधूमजेन वा ।।

सुपक्वं भानुबिंबाभं गुडगव्याज्यपूरितम् ।। २ ।।

संपूज्य भास्करं भक्त्या तदग्रे मंडलं शुभम् ।।

रक्तचन्दनजं कुर्यात्कुंकुमं वा विशेषतः ।। ३ ।।

मण्डलं तत्र संस्थाप्य रक्तवस्त्रैः सुपूजितम् ।।

ब्राह्मणाय प्रदातव्यं मंत्रेणानेन पांडव ।। ४ ।।

आदित्यतेजसोत्पन्नं राजतं विधिनिर्मितम् ।।

श्रेयसे मम विप्र त्वं प्रतिगृह्णेदमुत्तमम् ।। ५ ।। (इति दानमंत्रः)

कामदं धनदं धर्म्यं पुत्रदं सुखदं तव ।।

आदित्यप्रीतये दत्तं प्रतिगृह्णामि मंडलम् ।। ६ ।। ( इति प्रतिग्रहमंत्र)

एवं दत्त्वा नरो राजन्सूर्यवद्दिवि राजते ।।

सर्वकामसमृद्धार्थो मंडलाधिपतिर्भवेत् ।। ७ ।।

दातव्यं जयसप्तम्यां तदारभ्य दिनेदिने ।।

भास्करस्य महाराज शक्त्या भावेन भावितः ।। ८ ।।

गोधूमचूर्णजनितं यवचूर्णजं वा आदित्यमंडलमखण्डगुडाद्यपूर्णम् ।।

कृत्वा द्विजाय विधिवत्प्रतिपादयेद्यो भूमौ भवत्यमितमंडलमंडितोऽसौ ।। ९ ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे आदित्यमंडलविधिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 45

त्रयोदशवर्ज्यसप्तमीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

यामुपोष्य नरः कामान्प्राप्नोति मनसेप्सितान् ।।

तामेकां वद मे देव सप्तमीं धनसौख्यदाम् ।। १ ।।

श्रीकृष्ण उवाच ।। ।।

भानोर्दिने सिते पक्षे अतीते चोत्तरायणे ।।

पुन्नामाह्वय नक्षत्रे गृह्णीयात्सप्तमीव्रतम् ।। २ ।।

सव्रीहिकान्यवतिलान्सह माषमुद्गैर्गोधूममांसमधुमैथुनकांस्यपात्रम् ।।

अभ्यंजनांजन शिलातलचूर्णितानि षष्ठ्यां परं परिहरेदहनि प्रसिद्ध्यै ।। ३ ।।

देवान्मुनीन्पितृगणान्सजलाञ्जलीभिः संतर्प्य पूज्य गगनांगणहस्तभुक्तान् ।।

हुत्वानले तिलयवान्बहुशो घृताक्तान्भूमौ स्वपेद्धृदि निधाय हि तं सवित्रम् ।। ४ ।।

यानि त्रयोदश जनैरिह वर्जितानि द्रव्याणि तानि परिहृत्य परिद्विषष्ट्या ।।

संप्राश्य वर्षमेकं प्राप्नोति भारत सुखं मनसेप्सितं च ।। ५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे त्रयोदशवर्ज्यसप्तमीव्रतं नाम पंचचत्वारिंशोऽध्यायः ।। ४५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 46

कुक्कुटीमर्कटीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

लोमशो नाम विप्रर्षिर्मथुरायां गतः पुरा ।।

सोर्चितो वसुदेवेन देवक्या च युधिष्ठिर ।। १ ।।

उपविष्टः कथाः पुण्याः कथयित्वा मनोहराः ।।

ततः कथयितुं भूयः कथामेतां प्रच क्रमे ।।२।।

कंसे हते मृताः पुत्राः पुत्रा जाताः पुन. पुनः ।।

मृतवत्सा देवकि त्वं पुत्रदुःखेन दुःखिता।।३।।

यथा चन्द्रमुखी दीप्तिर्बभूव मृतपुत्रिका ।।

पश्चाच्चीर्णव्रता सैव बभूवाक्षतवत्सका ।।

त्वमेव देवकि तथा भविष्यसि न संशयः ।।४।।

।। देवक्युवाच ।। ।।

का सा चन्द्रमुखी ब्रह्मन्बभूव बहु पुत्रिका ।। ५ ।।

चरितं किं व्रतवरं बहुसंततिकारकम् ।।

सतां सदर्थकरणं सौभाग्यारोग्यवर्द्धनम् ।। ६ ।।

।। लोमश उवाच ।। ।।

अयोध्यायां पुरा राजा नुहुषो नाम विश्रुतः ।।

तस्य राज्ञो महादेवी नाम्ना चन्द्रमुखी पुरा ।। ७ ।।

पुरोहितस्य तस्यैव पत्न्यासीन्मानमानिका ।।

तयोरासीद्दृढा प्रीतिः स्पृहणीया परस्परम् ।। ८ ।।

अथापि तेपि मित्रिण्यौ स्नानार्थं सरयूजले ।।

प्राप्ते प्राप्ताश्च तत्रैव बह्व्यश्च नगराङ्गनाः ।। ९ ।।

स्नात्वा तु मंडल चक्रुः स्वपतेर्व्यक्तरूपिणः ।।

लेखयित्वा शिवं शांतमुमया सह शंकरम् ।। 4.46.१० ।।

गन्धपुष्पाक्षतैर्भक्त्या पूजयित्वा यथाविधि ।।

प्रणम्य गंतुकामास्ताः पृष्टास्ताभ्यां नरस्त्रियः ।। ११ ।।

ता ऊचुः शङ्करोऽस्माभिः पार्वत्या सह पूजितः ।।

स्वर्णसूत्रमयस्तंतुः शिवायात्मा निवे दितः ।। १२ ।।

धारामयमिदं तावद्यावत्प्राणावधारणम् ।।

तासां तु वचनं श्रुत्वा मित्रिण्यौ तेऽपि भारत ।। १३ ।।

तस्यैव समयं तत्र बद्ध्वा दोर्भ्यां तु दोरकैः ।।

ततस्ताः स्वगृहाञ्जग्मुः स्वसखीभिः समावृताः ।। १४ ।।

कालेन महता यातं तस्या वै तद्व्रत नृप ।।

चंद्रवत्याः प्रमत्ताया विस्मृतः स तु दोरकः ।। १५ ।।

मृता कैश्चिदहोरात्रैः सा बभूव प्लवङ्गमी ।।

मानी च कुक्कुटी जाता प्रायः संनिकटञ्चरे ।। ।। १६ ।।

तथैव जाते मित्रिण्यौ पूर्वजातिस्मरे तथा ।।

संभूय भूपसमयं प्राग्भूतं चक्रतुः पुनः ।। १७ ।।

तद्दिने तत्र संप्राप्ते पुनः काले न ते मृते ।।

तत्रैव मात्रके देशे जाते गोकुलसंयुते ।। १८ ।।

राज्ञो जाया बभूवाथ पृध्वीनाथस्य वा पुनः ।।

ईश्वरी नाम विख्याता राज्ञी राजेंद्रवल्लभा ।। १९ ।।

अग्निमीला द्विजस्याभूद्भार्या भूषणनामिका ।।

पुरोहितस्य कालेन कुक्कुटी बहुपुत्रिणी ।। 4.46.२० ।।

जातिस्मरा पद्महस्ता अष्टपुत्रा मृतप्रजा ।।

पुनर्निरन्तरा प्रीतिर्बभूवाथ तयोर्नृप ।। २१ ।।

तत्रेश्वरी पुत्रमेकं प्रसूता चैव रोगिणम् ।।

नववर्षस्तु पञ्चत्वमगात्स च युधिष्ठिर ।। २२ ।।

ततस्तां भूषणां द्रष्टुमथैषा पुत्रदुःखिता ।।

सखीभावादतिस्नेहात्सर्वपुत्रसमन्विता ।।

अमुक्ताभरणा नित्यं स्वभावेनैव भूषिता ।। २३ ।।

तां दृष्ट्वा पुत्रिणीं भव्यां प्रजज्वालेश्वरी रुषा ।।

ततो गृहं प्रेष्य च तां सखीं वै तीव्रमत्सरा ।। २४ ।।

चिन्तयामास सा रात्र्यां तस्याः पुत्रवधं प्रति ।।

हताहताश्च तत्पुत्रा पुनर्जीवन्त्यनामयाः ।। २५ ।।

कदाचिदाहूय सखीं भूषणां पुरतः स्थिताम् ।।

ईश्वरी प्राह किमिदं सखि पुण्यं त्वया कृतम् ।। २६ ।।

येन ते निहताः पुत्राः पुनर्जीवन्ति नो भयम् ।।

बहुपुत्रा जीववत्सा अमुक्ताभरणा कथम् ।।

शोभसेऽभ्यधिकं भद्रे विद्युत्सौदामिनीव हि ।। २७ ।।

।। भूषणोवाच ।। ।।

भद्रे भाद्रपदे मासि सप्तम्यां सलिलाशये ।।

स्नात्वा शिवमंडलके लेखयित्वा सहांबिकम् ।। २८ ।।

भक्त्या संपूज्य समयं कुर्याद्बद्ध्वा करे गुणम् ।।

यावज्जीवं मया तावच्छिवस्यात्मा निवेदितः ।। २९ ।।

इत्येवं समयं कृत्वा ततःप्रभृति दोरकम् ।।

स्वर्णरौप्यमयं वापि करशाखासु धारयेत् ।। 4.46.३० ।।

मंडकं वेष्टिकां दयाच्छ्वश्रूपक्षे द्विजे तु वा ।।

स्वयं च ता न भोक्तव्या व्रतभंगभयात्सखि ।। ३१ ।।

परितो मुद्रिका रौप्या सौवर्णीं च युधिष्ठिर ।।

ताम्रपात्रोपरि स्थाप्य ब्राह्मणाय निवेदयेत् ।। ३२ ।।

सोहालकानि कांसारं दद्याद्भुञ्जीत च स्वयम् ।।

मण्डलं सद्म वित्तं च शिवं शक्तिसमन्वितम् ।। ३३ ।।

सम्पूज्य सखि दुष्प्राप्यं त्रैलोक्येऽपि न विद्यते ।।

तदेवं समयः पूर्वं त्वया सह मया कृतः ।। ३४ ।।

स मया पालितो भक्त्या ततोऽहं सुस्थिता सखि ।।

त्वया स भग्नः समयो दर्पात्त्यक्तः शरीरयोः ।। ३५ ।।

तेन सन्ततिविच्छिन्ना राज्येपि सति दुःखिता ।।

एष प्रभावः कथितो व्रतस्यास्य मया तव ।। ३६ ।।

अर्द्धं तव प्रदास्यामि तस्य धर्मस्य सुव्रते ।।

सखीभावात्प्रतीच्छ त्वं नात्र कार्या विचारणा ।। ३७ ।।

इत्युक्त्वा प्रतिजग्राह व्रतदानफलं ततः ।।

बभूव सुप्रजाः साध्वी मोक्षं प्राप सुरेश्वरी ।। ३८ ।।

व्रतस्यास्य प्रभावेण सपुत्रा त्वं च देवकि ।।

भविष्यसि त्रिलोकेशं पुत्रं च जनयिष्यसि ।। ३९ ।।

इत्येवं कथयित्वास्यै लोमशो मुनिपुंगवः ।।

जगाम नभसा पार्थ मयाऽप्येतत्तवोदितम्।। 4.46.४० ।।

ये चरिष्यंति मनुजा व्रतमेतद्युधिष्ठिर ।।

कृकवाकुप्रसङ्गाख्यं देवक्या चरितं शुभम् ।। ४१ ।।

तेषां सन्ततिविच्छेदो न कदाचिद्भविष्यति ।।

स्त्रियश्च याश्चरिष्यंति व्रतमेतत्सुतप्रदम् ।।

मर्त्यलोके सुखं स्थित्वा यास्यंति शिवमंदिरम् ।। ४२ ।।

यः कुक्कुटीव्रतवरं प्लवगीसमेतं चक्रे चराचरगुरुं हृदये निधाय ।।

तद्व्याकरोति कलुषौघविघातरक्षां सा स्त्री युवां भवति शोभनगीतवत्सा ।। ४३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कुक्कुटीमर्कटीव्रतवर्णनं नाम षट्चत्वारिंशोऽध्यायः ।। ४६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 47

उभयसप्तमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अत ऊर्ध्वं प्रवक्ष्यामि सप्तमीकल्पमुत्तमम् ।।

माघमासात्समारभ्य शुक्लपक्षे युधिष्ठिर ।।१।।

सप्तम्यां कुरु संकल्पमहोरात्रे व्रते नृप ।।

वरुणेत्यर्चयित्वा तु ब्रह्मकूर्चं तु कारयेत् ।। २ ।।

अष्टम्यां भोजयेद्विप्रांस्तिलपिष्टं गुडौदनम् ।।

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।। ३ ।।

सप्तम्यां फाल्गुने मासि सूर्यमित्यभिपूजयेत् ।।

वाजपेयस्य यज्ञस्य यथोक्तं लभते फलम् ।। ४ ।।

सप्तम्यां चैत्रमासे तु वेदांशुमभिपूजयेत् ।।

उक्थाध्वरसमं पुण्यं नरः प्राप्नोति भक्तिमान् ।। ५ ।।

वैशाखस्य तु सप्तम्यां धातारमभिपूजयेत् ।।

पशुबंध्वध्वरे पुण्यं सम्यक्प्राप्नोति मानवः ।। ६ ।।

सप्तम्यां ज्येष्ठमासस्य इन्द्र इत्यभिपूजयेत् ।।

वाजपेयस्य यज्ञस्य फलं प्राप्नोति दुर्ल्लभम्।।७।।

आषाढमासे सप्तम्यां पूजयित्वा दिवाकरम् ।।

बहुवर्णस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ।। ८ ।।

सप्तम्यां श्रावणे मासि मातापि नाम पूजयेत्।।

सौत्रामणिफलं सम्यक्प्राप्नोति पुरुषः शुभम् ।। ९ ।।

रविं प्रौष्ठपदे मासे सप्तम्यामर्चयेच्छुचिः ।।

तुलापुरुषदानस्य फलं प्राप्नोति मानवः ।। ।।। 4.47.१० ।।

आश्वयुक्छुक्लसप्तम्यां सवितारं प्रपूज्य च ।।

गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः ।। ११ ।।

कार्तिके शुक्लसप्तम्यां दिनेशं सप्तवाह नम्।।

योऽभ्यर्चयति पुण्यात्मा पौंडरीकं स विन्दति ।। १२ ।।

भानुं मार्गसिते पक्षे पूजयित्वा विधानतः ।।

राजसूयस्य यज्ञस्य फलं दशगुणं भजेत् ।। १३ ।।

भास्करं पौषमासे तु पूजयित्वा यथाविधि ।।

नरमेघस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ।। १४ ।।

तदेव कृष्णसप्तम्यां नाम संपूजयेद्बुधः ।।

सोपवासः प्रयत्नेन वर्षमेकं युधिष्ठिर ।।

पश्चात्समाप्ते नियमे सूर्ययागं समाचरेत् ।। १५ ।।

शुचिर्भूमौ समे देशे लेपयेद्रक्तच न्दनैः ।।

एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा ।। १६ ।।

सिंदूरगैरिकाभ्यां च सूर्यमण्डलमालिखेत् ।।

रक्तपुष्पैः सपद्मैश्च धूपैः कुन्दुरकादिभिः ।।

सम्पूज्य दद्यान्नैवेद्यं विचित्रं घृतपाचितम् ।। १७ ।।

पुरतः स्थापयेत्कुम्भान्सहिण्यान्नसंयुतान् ।।

अग्निकार्यं ततः कुर्यात्समभ्युक्ष्य हुताशनम् ।। १८ ।।

आकृष्णेनेति मंत्रेण समिद्भिश्चार्कसंभवैः ।।

तिलैराज्यगुडोपेतेर्दद्याद्दशशताहुतीः ।। १९ ।।

ततस्तु दक्षिणा देया ब्राह्मणानां युधिष्ठिर ।।

भोजयित्वा रक्तवस्त्रैः शुक्लान्यपि पिधापयेत्।। 4.47.२० ।।

द्वादशात्र प्रशंसंति गावो वस्त्रान्विताः शुभाः।।

छत्रोपानहयुग्मं च एकैकाय प्रदापयेत् ।।

एवं विसृज्य तान्विप्रान्स्वयं भुञ्जीत वाग्यतः ।। २१ ।।

य एवं कुरुते पार्थ सप्तमीव्रतमुत्तमम् ।।

नीरुजो रूपवान्वाग्ग्मी दीर्घायुश्चैव जायते ।। २२ ।।

सप्तम्यां सोपवासस्तु भानोः पश्यंति ये मुखम् ।।

सर्वपापविनिर्मुक्ताः सूर्यलोकमवाप्नुयुः ।। २३ ।।

व्रतमेतन्महाराज सर्वाशुभविनाशनम् ।।

सर्वदुष्टप्रशमनं शरीरारोग्यकारकम् ।।

सूर्यलोकप्रदं चांते प्राहैवं नारदो मुनिः ।। २४ ।।

ये सप्तमीमुपवसंति सितासितां च नामाक्षरैरहिमदीधितिमर्चयंति ।।

ते सर्वरोगरहिताः सुखिनः सदैव भूत्वा रवेरनुचराः सुचिरं भवंति ।। २५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उभयसप्तमीव्रतवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 48

कल्याणसप्तमीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।।

भगवन्दुर्गसंसारसागरोत्तारकारकम् ।।

किञ्चिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

यदा तु शुक्लसप्तम्यामादि त्यस्य दिनं भवेत् ।।

तदा सा तु महापुण्या विजया तु निगद्यते ।।२।।

प्रातर्गव्येन पयसा स्नानमस्यां समाचरेत् ।।

शुक्लांबरधरः पद्ममक्षतैः परिक ल्पयेत् ।।३।।

प्राङ्मुखोष्टदलं मध्ये तद्विचित्रां च कर्णिकाम् ।।

सर्वेष्वपि दलेष्वेव विन्यसेत्पूर्वतः क्रमात् ।।४।।

पूर्वेण तपनायेति मार्तण्डायेति वै नमः ।।

याम्ये दिवाकरायेति विधात्रे नैर्ऋतेन च ।।५।।

पश्चिमे वरुणायेति भास्करायेति वानिले ।।

सौम्ये च वरुणायेति रवयेत्यऽष्टमे दले ।।६।।

आदावंते च तन्मध्ये नमोऽस्तु परमात्मने ।।

मंत्रैरेवं समभ्यर्च्य नमस्कारांतदीपितैः ।।७।।

शुक्लवस्त्रफलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः ।।

स्थंडिले पूजयेद्भक्त्या गुडेन लवणेन च ।।८।।

ततो व्याहृतिहोमेन विभज्य द्विजपुङ्गवान् ।।

शक्तितस्तर्पयेद्भक्त्या गुडक्षीरघृतादिभिः ।।९।।

तिलपात्रं हिरण्यं च गुरवे च निवेदयेत् ।।

एवं नियमकृत्स्नात्वा प्रातरुत्थाय मानवः ।।4.48.१०।।

कृतस्नानजपो विप्रैः सहैव घृतपायसम् ।।

भुक्त्वा च वेदविद्वद्भिर्बैडालव्रतव र्जितैः ।। ११ ।।

एवं संवत्सरस्यांते कृत्वैतदखिलं नृप ।।

उद्यापयेद्यथाशक्ति भास्करं संस्मरन्हृदि ।। १२ ।।

घृतपात्रं सकरकं सोदकुम्भं निवेद येत् ।।

वस्त्रालंकारसंयुक्तां सुवर्णास्यां पयस्विनीम् ।। १३ ।।

एकामपि प्रदद्याद्गां वित्तहीनो विमत्सरः ।।

वित्तशाठ्यं न कुर्वीत ततो मोहात्पत त्यधः ।। १४ ।।

अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीम् ।।

शृणुयाद्वा पठेद्वापि सोऽपि पापैः प्रमुच्यते ।। १५ ।।

यश्चाष्टपत्रकमलोदरकर्णिकायां संपूजयेत्कुसुमधूपविलेपनायैः ।।

षष्ठ्याः परेहनि नवार्तिहरं दिनेशं कल्याणभाजनमसौ भवते हि जंतुः ।। १६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्याणसप्तमीव्रतवर्णनं नामाष्टचत्वारिंशोऽध्यायः ।। ४८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 49

शर्करासप्तमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शर्करासप्तमीं वक्ष्ये सर्वकल्मषनाशिनीम् ।।

आयुरारोग्यमैश्वर्यं ययानंतं प्रजायते ।। १ ।।

माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः ।।

प्रातः स्नात्वा तिलैः शुद्धैः शुक्लमाल्यानुलेपनैः ।। २ ।।

स्थंडिले पद्ममालिख्य कुंकुमेन सकर्णिकम् ।।

तस्मिन्नमः सवित्रेति गन्धपुष्पं निवेदयेत्।।३।।

स्थापयेदुदकुंभं च शर्करापात्रसंयुतम् ।।

रक्तवस्त्रैः स्वलंकृत्य शुक्लमाल्यानुलेपनैः ।। ४ ।।

सुवर्णाश्वसमायुक्तं मंत्रेणानेन पूजयेत् ।।

विश्वेदेवमयो यस्माद्वेदवादीति पठ्यते ।। ५ ।।

त्वमेवामृतसर्वस्वमतः पाहि सनातन ।।

सौरसूक्तं जपंस्तिष्ठेत्पुराणश्रवणेन वा ।। ६ ।।

अहोरात्रे गते पश्चादष्टम्यां कृतनित्यकः ।।

सर्वं च वेदविदुषे ब्राह्मणायोपपादयेत् ।।७।।

भोजयेच्छक्तितो विप्राञ्छर्कराघृतपायसैः ।।

भुञ्जीत तैललवणं स्वयमप्यथ वाग्यतः ।। ।। ८ ।।

अनेन विधिना सर्वं मासिमासि समाचरेत् ।।

वत्सरांते पुनर्दद्याद्ब्राह्मणाय समाहितः ।। ९ ।।

शयनं वस्त्रसंवीतं शर्कराकलशान्वितम् ।। ।

सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् ।। 4.49.१० ।।

गृहं च शक्तितो दद्यात्समस्तोपस्करान्वितम् ।।

सहस्रेणापि निष्काणां कृत्वा दद्याच्छतेन वा ।।। ११ ।।

दशभिर्द्वित्रिभिर्निष्कैस्तदर्धेनापि भक्तितः ।।

सुवर्णाश्वः प्रदातव्यः पूर्ववन्मंत्रवाचनम् ।। १२ ।।

वित्तशाठ्यं न कुर्वीत कुर्वन्दोषान्स मश्नुते ।।

अमृतं पिबतो वक्त्रात्सूर्यस्यामृतबिन्दवः।।१३।।

निपेतुरेत उत्थाय शालिमुद्गेक्षवः स्मृताः ।।

शर्करा च परं तस्मादिक्षुरसोद्भवा मता।।१४।। ।

इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ।।

शर्करासप्तमी चैषा वाजिमेधफलप्रदा ।। १५ ।।

सर्वे ह्युपशमं यांति पुनः संततिवर्द्धिनी ।।

यः कुर्यात्परया भक्त्या स परं ब्रह्म गच्छति ।। १६ ।।

कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम् ।। १७ ।।

इदमनघ शृणोति यः स्मरेद्वा परिपठतीह सुरेश्वरस्य लोके ।।

मतिमपि च ददाति यो जनानाममरवधूजनकिन्नरैः स पूज्यः ।। १८ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे शर्करासप्तमीव्रतवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ।। ४९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 50

कमलासप्तमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अतःपरं प्रवक्ष्यामि तद्वत्कमलसप्तमीम् ।।

यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः ।। १ ।।

वसंतेऽमलसप्तम्यां स्नातः सन्गौरसर्षपैः ।।

तिलपात्रे च सौवर्णं निधाय कमलं शुभम् ।। २ ।।

वस्त्रयुग्मवृतं कृत्वा गंधपुष्पैरथार्चयेत्।।

नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे।।३।।

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ।।

ततो द्विकालवेलायामुदकुंभसमन्वितम् ।। ४ ।।

विप्राय दद्यात्संपूज्य वस्त्रमाल्यविभूषणैः ।।

अहोरात्रे गते पश्चादष्टम्यां भोजयेद्द्विजान्।। ५।।

यथाशक्त्याथ भुञ्जीत विमांसं तैलवर्जितम् ।।

अनेन विधिना शुक्लसप्तम्यां मासिमासि च ।। ६ ।।

सर्वं समाचरेद्भक्त्या वित्त शाठ्यविवर्जितः ।।

व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम् ।।७।।

गावं स दद्याच्छक्त्या तु सुवर्णाढ्यां पयस्विनीम्।।

भाजनासनदीपादीन्दद्यादिष्टानुपस्करान् ।। ८ ।।

अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम् ।।

लक्ष्मीमनन्तामभ्येत्य सूर्यलोके च मोदते ।। ९ ।।

कल्पेकल्पे तथा लोकान्सप्त गत्वा पृथक्पृथक् ।।

अप्सरोभिः परिवृतस्ततो याति पराङ्गतिम् ।। 4.50.१० ।।

यः पश्यतीदं शृणुयान्मुहूर्तं पठेच्च भक्त्या सुमतिं ददाति ।।

सोऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरलोकमेति ।। ११ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कमलासप्तमीव्रत वर्णनं नाम पंचाशत्तमोऽध्यायः ।। ५० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 51

शुभसप्तमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अन्यामपि प्रवक्ष्यामि शोभनां शुभसप्तमीम् ।।

यामुपोष्य नरो रोगाच्छोकदुःखात्प्रमुच्यते ।। १ ।।

पुण्य आश्वयुजे मासि कृतस्नानः पयः शुचिः ।।

वाचयेत ततो विप्रानारभेच्छुभसप्तमीम् ।। २ ।।

कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः ।।

नमामि सूर्यसंभूतामशेषभुवनालयाम् ।। ३ ।।

त्वामहं शुभकल्याणशरीरां सर्वसिद्धये ।।

अथाहृत्य तिलप्रस्थं ताम्रपात्रेण संयुतम् ।। ४ ।।

काञ्चनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितम् ।।

दद्याद्विकालवेलायामर्यमा प्रीयतामिति ।। ५ ।।

पञ्चगव्यं च संप्राश्य स्वप्याद्भूमौ विमत्सरः ।।

ततः प्रभाते संजाते भक्त्या संतर्पयेद्द्विजान् ।। ६ ।।

अनेन विधिना दद्यान्मासिमासि सदा नरः ।।

वाससी वृषभं हैमं तद्वद्धेनोस्तु पूजनम् ।। ७ ।।

संवत्सरांते शयनमिक्षुदण्डगुडान्वितम् ।।

सोपधानकविश्रामं भाजनासनसंयुतम् ।। ८ ।।

ताम्रपात्रं तिलप्रस्थं सौवर्णवृषसंयुतम् ।।

दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति ।। ९ ।।

अनेन विधिना राजन्कुर्याद्यः शुभसप्तमीम् ।।

तस्य श्रीर्विमला कीर्तिर्भ वेजन्मनिजन्मनि ।। 4.51.१० ।।

अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये ।।

वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम् ।। ११ ।।

स कल्पादवतीर्णस्तु सप्तद्वीपाधिपो भवेत्।।

ब्रह्महत्यासहस्रस्य भ्रूणहत्याशतस्य च ।। १२ ।।

नाशङ्करोति पुण्येयं कृता वै शुभसप्तमी ।। १३ ।।

इमां पठेद्यः शृणुया न्मुहूर्तं वीक्षेत संगादपि दीयमानम् ।।

सोऽप्यत्र संबाध्य विमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम् ।।१८ ।। ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुभसप्तमीव्रतनिरूपणं नामैकपंचाशत्तमोऽध्यायः ।। ५१।।

पर्व ४ (उत्तरपर्व) — Adhyāya 52

स्नपनसप्तमीव्रतवर्णनम्

युधिष्ठिर उवाच ।।

किमुद्वेगाद्भवेत्कृत्यमलक्ष्मीः केन हन्यते ।।

मृतवत्सादिकार्येषु दुःस्वप्ने च किमिष्यते ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

पुरा कृतानि पापानि फलंत्यत्र युधिष्ठिर।।

रोगर्दौर्गत्यरूपेण तथैवेष्टविघातनैः ।। २ ।।

तद्विघाताय वक्ष्यामि सदा कल्याणसप्तमीम् ।।

सप्तमीस्नपनं नाम व्याधिपीडाविनाशनम् ।। ३ ।।

बालानां मरणं यत्र क्षीरपानं प्रशस्यते ।।

तद्वद्वृद्धातुराणां च यौवने वापि वर्तताम् ।।४।।

शान्तये तत्र वक्ष्यामि मृतवत्सादिके च यत् ।।

एतदेवाद्भुतोद्वेगचिंताविभ्रममानसम् ।।५।।

वराहकल्पे संप्राप्ते मनोर्वैवस्वतेंऽतरे।।

कृते युगे महाराज हैहयो रूपवर्द्धनः ।।६।।

आसीन्नृपोत्तमः पूर्वं कृतवीर्यः प्रतापवान् ।।

स सप्तद्वीपमखिलं पालयामास भूतलम् ।।७।।

यावद्वर्षसहस्राणि सप्तसप्तति भारत।।

जातमात्रं च तस्याथ शुभं पुत्रशतं किल ।।८।।

यवनस्य तु शापेन विनाशमगमत्पुरा ।।

कृतवीर्यः समाराध्य सहस्रांशुं दिवाकरम् ।।९।।

उपवासव्रतैर्दिव्यैर्वेदसूक्तैश्च भारत ।।

दर्शयामास चात्मानं कृतवीर्यस्य भानुमत् ।।4.52.१ ०।।

कृतवीर्येण वै पृष्टः प्रोवाचेदं बृहस्पतिः ।।

अतिक्लेशेन महता पुत्रस्तव नराधिप ।।११।।

भविष्यति चिरंजीवी किं तु कल्मषनाशनम् ।।

सप्तमीस्नपनं वाप्यां कुरु पापविनष्टये ।। १२ ।।

जातस्य मृतवत्सायाः सप्तमे मासि भूपते ।।

गृहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् ।।१३।।

बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः ।।

सद्वृद्धातुरगाणां तु कृतं स्यादिति तेषु च ।।१४।।

गोमयेनोपलिप्तायां भूमावेकाग्रचित्तवान् ।।

तंडुलै रक्तशालेयैर्वरुणाक्षीरसंयुतम् ।।१५।।

निर्वपेत्सूर्यमुद्गाभ्यां मातृभ्योपि विधानतः ।।

कीर्तयेत्सूर्यदैवत्यं सप्तार्चिषि घृताहुतीः ।।१६।।

जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय भारत ।।

होतव्याः समिधश्चात्र तत्र वार्कपलाशजाः ।।१७।।

यवकृष्णतिलैर्होमः कर्तव्योष्टशतं पुनः ।।

हुत्वा स्नानं च कर्तव्यं मध्ये गांगेन धीमता ।। १८ ।।

विप्रेण वेदविदुषा विधिवद्दर्भपाणिना ।।

स्थापयित्वा चतुष्कोणे चतुष्कुंभान्प्रशोभनान् ।। १९ ।।

पञ्चमं च पुनर्मध्ये चाक्षतेन विभूषितम् ।।

स्थापयेद्दर्पणाक्रांतं सप्तर्षिणाभिमंत्रितम् ।। 4.52.२० ।।

सौरेण तीर्थतोयेन पूर्णचन्द्रमलान्वितम् ।।

सर्वान्सर्वौषधियुतान्पञ्चभंगजलान्वितान् ।। २१ ।।

पंचरत्नफलैर्युक्ताञ्छाखाभिरपि वेष्टितान् ।।

गजाश्वरथ्याराजद्वार्वल्मीकाद्ध्रदगोकुलात् ।। २२ ।।

सुशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत् ।।

चतुर्ष्वपि च कुंभेषु रत्नगर्भेषु मध्यमम् ।। २३ ।।

गृहीत्वा ब्राह्मणं चात्र सौरान्मन्त्रानुदीरयेत् ।।

नारीभिः सप्तसंख्याभी रथाङ्गाङाभिरत्र च ।। २४ ।।

भोजिताभिर्यथाशक्ति माल्यवस्त्रविभूषणैः ।।

सविप्राभिश्च कर्तव्यं मृतवत्साभिषेचनम्।। २५ ।।

दीर्घायुरस्तु बालोऽयं जीवपुत्रा च भाविनी ।।

आदित्यचन्द्रमासार्धं ग्रहनक्षत्रमण्डलम् ।। २६ ।।

शक्रः सलोकपालो वै ब्रह्मा विष्णुर्महेश्वरः ।।

एते चान्ये च वै देवाः सदा पांतु कुमारकम् ।। २७ ।।

माशनिर्मा स हुतभुङ्मा च बालग्रहा क्वचित् ।।

पीडां कुर्वंतु बालस्य मा मातृजनकस्य वै ।। ।। २८ ।।

ततः शुक्लाम्बरधराः कुमारं पतिसंयुताः ।।

सप्तकं पूजयेद्भक्त्या पुष्पैर्गन्धैः फलैः शुभैः ।। २९ ।।

काञ्चनीं च ततः कृत्वा तिलपात्रोपरि स्थिताम् ।।

प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत् ।। 4.52.३० ।।

वस्त्रकाञ्चनरत्नौघैर्भक्ष्यैः सघृतपायसैः ।।

पूजयेद्ब्राह्मणास्तद्वद्वित्तशाठ्यं विवर्जयेत् ।।

भुक्त्वा च गुरुणा चेयमुच्चार्या मंत्रसंततिः ।। ३१ ।।

दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं सुखी ।।

यत्किञ्चिदस्य दुरितं तत्क्षिप्तं वड वामुखे ।। ३२ ।।

ब्रह्मा रुद्रो विष्णुः स्कन्दो वायुः शक्रो हुताशनः ।।

रक्षंतु सर्वे दुष्टेभ्यो वरदा यांतु सर्वदा ।।३३।।

एवमादीनि चान्यानि वदतः पूजयेद्गुरून् ।।

शक्तितः कपिलां दत्त्वा प्रणिपत्य विसर्जयेत् ।।३४।।

चरुं च पुत्रसहिता प्रणम्य रविशंकरौ ।।

हुतशेषं तदानीयादादित्याय नमोऽस्तु ते ।। ३५ ।।

अयमेवाद्भुतं योगो ह्यद्भुतेषु च शस्यते ।।

कर्तुर्जन्मनि वृक्षाणां देवान्त्संपूजयेत्तदा ।।

शांत्यर्थं शुक्लसप्तम्यामेतत्कुर्वन्न सीदति ।। ३६ ।।

पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः ।।

कथयित्वा नरश्रेष्ठ तत्रैवांतरधीयत ।। ३७ ।।

स चानेन विधानेन कार्तवीर्योऽर्जुनो नृपः ।।

संवत्सराणामयुतं शशास पृथिवीमिमाम् ।।३८।।

आरोग्यं भास्कारादिच्छेद्धनमिच्छेद्धुताशनात् ।।

शंकराज्ज्ञानमिच्छेत्तु गतिमिच्छेज्जनार्दनात् ।। ।। ३९ ।।

एतन्महापातकनाशनं स्यादप्यक्षयं वेदविदः पठंति ।।

शृणोति यश्चैनमनन्यचेतास्तस्यापि सिद्धिं मुनयो वदंति ।। 4.52.४० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे स्नपनसप्तमीव्रतवर्णनं नाम द्विपंचाशत्तमोऽध्यायः ।।५२।।

पर्व ४ (उत्तरपर्व) — Adhyāya 53

अचलासप्तमीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।।

अध्रुवेण शरीरेण सुपक्वेनापि किं फलम् ।।

माघस्नानविहीनेन यत्त्यक्तं यदुनन्दन ।। १ ।।

प्रातःस्नानासमर्थानां शरीरं पश्य देहिनाम् ।।

किं तेन वद कर्तव्यं माघे संसारभीरुणा ।। २ ।।

कायक्लेशसहा नार्यो न भवंति यदूत्तम ।।

सौकुमार्यं शरीरस्य अचलत्वात्तथैव च ।। ३ ।।

कथं च ताः सुरूपाः स्युः सुभगाः सुप्रजास्तथा ।।

सुकृतस्येह पुण्यस्य सर्वमेतत्फलं यतः ।। ४ ।।

अल्पायासेन सुमहद्येन पुण्यमवाप्यते ।।

स्त्रीभिर्माघे मम ब्रूहि स्नानं तत्त्वं रमाधव ।।५।।

।। श्रीकृष्ण उवाच ।। ।।

श्रूयतां पांडवश्रेष्ठ रहस्यमृषिभाषितम्।।

यन्मया कस्यचिन्नोक्तमचलासप्तमीव्रतम् ।। ।। ६ ।।

वेश्या चेन्दुमती नाम रूपौदार्यगुणान्विता ।।

आसीत्कुरुकुलश्रेष्ठ मगधस्य विलासिनी ।। ७ ।।

तनुमध्या सुजघना पीनोन्नतपयोधरा ।।

सम्यग्विभक्तावयवा पूर्णचन्द्रनिभानना ।। ८ ।।

सौंदर्यं सौकुमार्यं च तस्याः कामेन गीयते ।।

यस्याः संदर्शनादेव कामः कामातुरो भवेत् ।।९।।

मूर्तिः शशधरस्येव नयनानन्दकारिणी ।।

वशीकरणविद्येव सर्वलोकमनोहरा ।। 4.53.१० ।।

एकस्मिन्दिवसे प्रातः सुमुखस्थितया तया ।।

चिंतिता हृदये राजन्त्संसारस्यानवस्थितिः ।। ११ ।।

सन्निमज्य जगदिदं विषये कायसागरे ।।

जन्ममृत्युजराग्राहं न कश्चिदवबुद्ध्यते ।। १३ ।।

अपाको भूतभाण्डानां धातृशिल्पिविनिर्मितम् ।।

स्वकर्मेंधनसंवीतं पच्यते बालवह्निना ।। १३ ।।

ये यांति दिवसाः पुंसां धर्मकामार्थवर्जिताः ।।

न ते पुनरिहायांति हरभक्ता नरा यथा ।। १४ ।।

स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।।

यस्मिन्दिने न क्रियते वृथा स दिवसो नृणाम् ।। ।। १५ ।।

पुत्राणां दारगृहकसमासक्तं हि मानसम्।।

वृकीवोरणमासाद्य मृत्युर्द्वाराय गच्छति ।। १६ ।।

इत्येवं चिंतयित्वा तु वेश्या चेन्दुमती ततः।।

वशिष्ठस्याश्रमं पुण्यं जगाम गजगामिनी ।। १७ ।।

वशिष्ठमृषिमासीनं प्रणम्य विनयात्ततः ।।

कृताञ्जलिपुटा भूत्वा इदं वचनमब्रवीत् ।। १- ।।

।। इन्दुमत्युवाच ।।

दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ।।

दशध्वजसमा वेश्या दशवेश्यासमो नृपः ।।१९।।

मया न दत्तं न हुतं नोपवासो व्रतं कृतम् ।।

भक्त्या न पूजितः शम्भुः श्रितो नैको धनी नरः ।। 4.53.२० ।।

सांप्रतं वर्तमानाया व्रतं किंचिद्वदस्व मे ।।

येन दुःखांबुपापौघादुत्तरामि भवार्णवात् ।। २१ ।।

एतदस्याः सुबहुशः श्रुत्वा धर्मं परंतपः ।।

वशिष्ठः कथयामास महाकारुणिको मुनिः ।। २२ ।।

।। वशिष्ठ उवाच ।। ।।

माघस्य सितसप्तम्यां सर्वकामफलप्रदम् ।।

तपःसौभाग्यजननं स्नानं तव वरानने ।।२३।।

कृत्वा षष्ठ्यामेकभक्तं सप्तम्यां निश्चलं जलम् ।।

रात्र्यंते चालयेथास्त्वं दत्त्वा शिरसि दीपकम्।। २४ ।।

माघस्य सितसप्तम्यामचलं चालितं मया ।।

जलामलानां सर्वेषां कृतं न चलनं तथा ।। २५ ।।

वशिष्ठवचनं श्रुत्वा तस्मिन्नहनि भूपते ।।

सर्वं चकारेन्दुमती स्नानं दानं यथाविधि ।। २६ ।।

त्र्यहस्नानप्रभावेण भुक्त्वा भोग्यान्यथेप्सितान् ।।

इन्द्रलोकेप्सरःसंघे नायिकात्वमवाप सा ।। २७।।

अचलासप्तमीस्नानं कथितं च विशांपते ।।

सर्वपापप्रशमनं सुखसौभाग्यवर्द्धनम् ।। २८ ।।

।। युधिष्ठिर उवाच ।।

सप्तमीस्नानमाहात्म्यं श्रुतं न च विशेषतः ।।

सांप्रतं श्रोतुमिच्छामि विधिमंत्रसमन्वितम् ।।२९।।

।। श्रीकृष्ण उवाच ।। ।।

एकभक्तेन संतिष्ठेत्षष्ठ्यां संपूज्य भास्करम् ।।

सप्तम्यां तु व्रजेत्प्रातः सुगंभीरं जलाशयम् ।। 4.53.३० ।।

सरित्संगं तडागं च देवखातमथापि वा ।।

सुखावगाहसलिलं दुष्टसत्त्वैरदूषितम् ।। ३१।।

पशुभिः पक्षिभिश्चैव जलजैर्मत्स्यकच्छपैः ।।

न जलं चाल्यते यावत्तावत्स्नानं समाचरेत् ।।३२।।

नमस्ते रुद्ररूपाय रसानां पतये नमः ।।

वरुणाय नमस्तेऽस्तु हरिवास नमोऽस्तु ते ।। ३३ ।।

यावज्जन्म कृतं पापं मया जन्मसु सप्तसु ।।

तन्मे रोगं च शोकं च माकरी हंतु सप्तमी ।। ३४ ।।

जननी सर्वभूतानां सप्तमी सप्तसप्तिके ।।

सर्वव्याधिहरे देवि नमस्ते रविमंडले ।। ३५ ।।

जलोपरितरं दीपं स्नात्वा संतर्प्य देवताः ।।

चंदनेन लिखेत्पद्ममष्टपत्रं सकर्णिकम् ।।३६।।

मध्ये शर्वं सपत्नीकं प्रणवेन तु पूजयेत् ।।

भानुं शक्रे दले पूज्य रविं वैश्वानरे दले।।३७।।

याम्ये विवस्वान्नैर्ऋत्ये भास्करस्येति पूजयेत् ।।

पश्चिमे सविता पूज्यः पूज्योर्को वायुना जले ।।३८।।

सौम्ये सहस्रकिरणः शेषे सर्वात्मनेति च ।।

पूज्याः प्रणवपूर्वास्तु नमस्कारांतयोजिताः ।।३९।।

पुष्पैः सुगन्धधूपैश्च वस्त्रेणाच्छाद्य भास्करम्।।

विसर्जयेत्ततः पश्चात्स्वस्थानं गम्यतामिति ।। 4.53.४० ।।

ताम्रपात्रे सुविस्तीर्णे मृन्मये वा युधिष्ठिर ।।

स्थापयेत्तिलचूर्णं च सघृतं सगुडं तथा ।। ४१ ।।

काञ्चनं तालकं कृत्वा ह्यसिक्तस्तिलचूर्णकम् ।।

संस्थाप्य रक्तवस्त्रैस्तु पुष्पैर्धूपैस्तथार्चयेत् ।। ४२ ।।

ततस्तं ब्राह्मणे दद्याद्दत्त्वा मंत्रेण तालकम् ।।

आदित्यस्य प्रसादेन प्रातः स्नानफलं भजेत् ।। ४३ ।।

दुष्टदौर्भाग्यदुःखेभ्यो मया दत्तं तु तालकम् ।।

ततस्तत्तालकं कृत्वा ब्राह्मणायोपपादयेत्।। ४४ ।।

सपुत्रपशुभृत्याय मेऽर्कोयं प्रीयतामिति ।।

ततो व्रतोपदेष्टारं पूजयेद्वस्त्रगोतिलैः ।। ४५ ।।

विप्रानन्यान्यथाशक्त्या पूजयित्वा गृहं व्रजेत् ।।

एतत्ते कथितं कार्यं रूपसौभाग्यकारकम् ।। ४६ ।।

अचलासप्तमीस्नानं सर्वकामफलप्रदम् ।। ४७ ।।

इति पठति य इत्थं यः शृणोति प्रसंगात्कलिकलुषहरं वै सप्त मीस्नानमेतत् ।।

मतिमपि नयनानां यो ददाति प्रसंगात्सुरभवनगतोऽसौ पूज्यते देवसंघैः ।। ४८ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽचलासप्तमीव्रतविधिवर्णनं नाम त्रिपंचाशत्तमोऽध्यायः ।। ५३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 54

बुधाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

बुधाष्टमीव्रतं भूयो ब्रवीमि शृणु पांडव ।।

येन चीर्णेन नरकं नरः पश्यति न क्वचित् ।। १ ।।

पुरा कृतयुगस्यादौ इलो राजा बभूव ह ।।

बहुभृत्यसुहृन्मित्रमंत्रिभिः परिवारितः ।। २ ।।

जगाम हिमवत्पार्श्वे महादेवेन वारितः ।।

योऽन्यः प्रविशते भूमौ सा स्त्री भवति निश्चितम् ।। ३ ।।

स राजा मृगसंगेन प्राविशत्तदुमावने ।।

एकाकी तुरगोपेतः क्षणात्स्त्रीत्वं जगाम ह ।। ४ ।।

सा बभ्राम वने शून्ये पीनोन्नतपयोधरा ।।

कुतोऽहमागतेत्येवं न त्वबुध्यत किंचन ।। ५ ।।

तां ददर्श बुधः सौम्यां रूपौदार्यगुणान्विताम् ।।

अष्टम्यां बुधवारेण तस्यास्तुष्टो बुधो ग्रहः ।। ६ ।।

दधौ गर्भं तदुदरे इलाया रूपतोषितः ।।

पुत्रमुत्पादयामास योऽसौ ख्यातः पुरूरवाः ।। ७ ।।

चंद्रवंशकरो राजा आद्यः सर्वमहीक्षिताम्।।

ततः प्रभृति पूज्येयमष्टमी बुधसंयुता ।। ८ ।।

सर्वपापप्रशमनी सर्वोपद्रवनाशिनी ।।

अथान्यदपि ते वच्मि धर्मराज कथानकम् ।। ९ ।।

आसीद्राजा विदेहानां मिथिलायां स वैरिभिः ।।

संग्रामे निहतो वीरस्तस्य भार्या दरिद्रिणी ।। 4.54.१० ।।

ऊर्मिला नाम बभ्राम महीं बालकसंयुता ।।

अवंती विषयं प्राप्ता ब्राह्मणस्य निवेशने ।। ११ ।।

चकारोदरपूर्त्यर्थं नित्यं कंडनपेषणे ।।

हृत्वा सा स्तोकगोधूमान्ददौ बालकयोस्तदा ।। १२ ।।

कारुण्यान्मातृवात्सल्यात्क्षुधासंपीड्यमानयोः ।।

कालेन बहुना साध्वी पञ्चत्वमगमच्छुभा ।।१३।।

पुत्रस्तस्या विदेहायां गत्वा स्वपितुरासने ।।

उपविष्टः सत्त्वयोगाद्बुभुजे गामनाकुलः ।। १४ ।।

अन्विष्य धर्मराज्ञो वै सा कन्या मिथिवंशजा ।।

विवाहिता हिता भर्तुः सा महानायिकाऽभवत् ।। १५ ।।

श्यामला नाम चार्वंगी प्रसिद्धा श्रूयते श्रुतौ ।।

तामुवाच वरारोहां धर्मराजः स्वयं प्रियाम् ।। १६ ।।

वहस्व सर्वव्यापारं श्यामले त्वं गृहे मम ।।

कुरु स्वजनभृत्यानां दानक्षेपं यथेप्सितम् ।। १७ ।।

किं त्वेते पंजराः सप्त कीलकैरतियंत्रिताः ।।

कदाचिदपि नोद्धाट्यास्त्वया वैदेहनंदिनि ।। १८ ।।

एवमस्त्विति साप्युक्ता निजं कर्म चकार ह ।।

कदाचिद्व्याकुलीभूते धर्मराजे विदेहजा ।।

उद्धाटयित्वा प्रथमं ददर्श जननीं स्वकाम्।। १९।।

सा पच्यमाना क्रंदंती भीषणैर्यमकिंकरैः ।।

हेलया क्षिप्यते बद्ध्वा तप्ततैले पुनःपुनः ।। 4.54.२० ।।

तथैव तालकं दत्त्वा व्रीडिता सा मनस्विनी ।।

द्वितीये पंजरे तद्वत्सा तामेवं ददर्श ह ।। २१ ।।

सुधावल्लिप्यमानां तां शिलातल्पेष्टकेन तु ।।

तृतीयपञ्जरे तद्वत्तां ददर्श स्वमातरम् ।।

क्रकचैः पाट्यते मूर्ध्नि घण्टायुक्तैः करोल्बणैः ।। २२ ।।

चतुर्थे पञ्जरे स्थाने भीषणैर्दारुणाननैः ।।

भक्ष्यमाणां श्वापदैश्च क्रंदंतीं तां पुनः पुनः.।। २३ ।।

पञ्चमे निहिता भूमौ कण्ठे पादेन पीडिता ।।

संदंशैर्वनघातैश्च विदीर्णा क्रियते रुषा ।। २४ ।।

षष्ठे चेक्षुयन्त्रगतां मस्तके मुद्गराहताम् ।।

संपीड्यमानामनिशं सुदृढामिक्षुखंडवत् ।। २५ ।।

सप्तमे पञ्जरे चीर्णस्वनां पूतिकगंधिनीम् ।।

दृष्ट्वा तथा गतां तां तु मातरं दुःखकर्षिता ।।

श्यामला म्लानवदना किंचिन्नोवाच भामिनी ।। २६ ।।

अथागतं यमं प्राह सरोषा श्यामला पतिम् ।।

किं तवापहृतं राजन्मम मात्रा सुदारुणम् ।।

येनेयं विविधैर्घातैर्वध्यते बहुधा त्वया ।। २७ ।।

यमः प्राह प्रियां दृष्ट्वा भद्रे ह्युद्घाटितास्त्वया ।।

एते पञ्जरकाः सप्त निषिद्धा त्वं मया पुरा ।। २८ ।।

तव मात्रा सुतस्नेहाद्गोधूमा ये हृताः किल ।।

किं न जानासि तद्भद्रे येन रुष्टा ममोपरि ।। २९ ।।

ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम्।।

तदेव चौर्यरूपेण दहत्याचंद्रतारकम् ।। 4.54.३० ।।

गोधूमास्त इमे भूताः कृमिरूपाः सुदारुणाः ।।

ये पुरा ब्राह्मणगृहे हृतास्तव कृतेऽनया ।।३१।।

।। श्यामलोवाच ।। ।।

जानामि तदहं सर्वं यन्मे मात्रा कृतं पुरा ।।

तथापि त्वां समासाद्य सा च जामातरं शुभम् ।।

मुच्यते कृमिराशित्वाद्यथा तदधुना कुरु ।। ३२ ।।

तच्छ्रुत्वा चिन्तयाविष्टश्चिरं स्थित्वा जगाद ताम् ।।

धर्मराजः सहासीनां प्रियां प्राणधनेश्वरीम् ।। ३३ ।।

इतश्च सप्तमेऽतीते जन्मनि ब्राह्मणी शुभा ।।

आसीस्तस्मिंस्त्वया संगात्सखीनां पर्युपासिता ।।

बुधाष्टमी सुसंपूर्णा यथोक्तफलदायिनी ।। ३४ ।।

तत्फलं यद्ददास्यस्यै सत्यं कृत्वा ममाग्रतः ।।

तेन मुच्येत ते माता नरकात्पापसंकटात् ।। ३५ ।।

तच्छ्रुत्वा त्वरितं स्नात्वा ददौ पुण्यं स्वकं कृतम् ।।

स्वमातुः श्यामला तुष्टा तेन मोक्षं जगाम सा ।। ३५ ।।

ऊर्मिला रूपसंपन्ना दिव्यदेहधरा शुभा ।।

विमानवरमारूढा दिव्यमाल्यांबरावृता ।। ३६ ।।

भर्तुः समीपे स्वर्गस्था दृश्यतेऽद्यापि सा जनैः ।।

बुधस्य पार्श्वे नभसि मिथिराजसमीपतः ।।

विस्फुरंती महाराज बुधाष्टम्याः प्रभावतः ।। ३७ ।।

।। युधिष्ठिर उवाच ।। ।।

यद्येवं प्रवरा कृष्ण सा तिथिर्वै बुधाष्टमी ।।

तस्या एव विधिं ब्रूहि यदि तुष्टोसि मे प्रभो ।। ३८ ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु पांडव यत्नेन बुधाष्टम्या विधिं शुभम् ।।

यदायदा सिताष्टम्यां बुधवारो भवेद्यदि ।।

तदातदा च सा ग्राह्या एकभक्ताशनैर्नृभिः ।। ३९ ।।

स्नात्वा नद्यां तु पूर्वाह्ने गृहीत्वा कलशं नवम् ।।

जलपूर्णं तु सद्रव्यं पूर्णपात्रसमन्वितम् ।। 4.54.४० ।।

अष्टवारान्प्रकर्तव्या विधानैस्तु पृथक्पृथक् ।।

प्रथमा मोदकैः कार्या द्वितीया फेणकैस्तथा ।। ४१ ।।

तृतीया घृतपूपैश्च चतुर्थी वटकैर्नृप ।।

पञ्चमी शुभ्रकारैश्च षष्ठी सोहालकैस्तथा ।।४२।।

अशोकवर्तिभिः शुभ्रैः सप्तमी खंडसंयुतैः।।

अष्टमी फलपुष्पैश्च केवलाखण्डफेणिकैः ।।

एवं क्रमेण कर्तव्या सुहृत्स्वजनबांधवैः ।।४३।।

सह कृत्वा स्थितैर्भोज्यं भोक्तव्यं स्वस्थमानसैः ।।

उपोष्याणामिदं श्रेष्ठं कथयद्भिः शनैःशनैः ।।४४।।

श्रुत्वाष्टमी बुधस्यापि माहात्म्यं भोजनं त्यजेत् ।।

तावदेव न भोक्तव्यं कथा यावत्समाप्यते ।। ४५ ।।

तथा भुक्त्वा बुधस्याग्रे आचम्य च पुनःपुनः ।।

विप्राय वेदविदुषे तं ब्रुवन्प्रतिपादयेत् ।। ४६ ।।

साक्षतं सहिरण्यं च जातरूपमयं शुभम् ।।

अर्चितं विविधैः पुष्पैर्धूपदीपैः सुगंधिभिः ।।४७ ।।

पीतवस्त्रैः समाच्छन्नं बुधं सोमात्मजाकृतिम् ।।

माषकेण सुवर्णेन तदर्धार्धेन वा पुनः ।।४८।।

ॐ बुधाय नमः ।।

ॐ सोमात्मजाय नमः ।।

ॐ दुर्बुद्धिनाशनाय नमः ।।

ॐ सुबुद्धिप्रदाय नमः ।।

ॐ ताराजाताय नमः ।।

ॐ सौम्यग्रहाय नमः ।।

ॐ सर्वसौख्यप्रदाय नमः ।। एते पूजामन्त्राः ।।

अष्टमी तु यदा पूर्णा तदा राजर्षिसत्तम ।।

ब्राह्मणान्भोजयेदष्टौ गां दद्याच्च सवत्सिकाम् ।।४९।।

वस्त्रालंकरणैः सर्वैर्भूषणैर्विविधैरपि ।।

सपत्नीकं समभ्यर्च्य कर्णमात्रांगुलीयकैः ।।

मन्त्रेणानेन कौंतेय दद्यादेवं समाचरन् ।। 4.54.५० ।।

बुधोऽयं प्रतिगृह्णातु द्रव्यस्थोऽयं बुधः स्वयम् ।।

दीयते बुधराजाय तुष्यतां च बुधो मम ।। ५१ ।। ।। (इति दानमंत्र ।) ।। ।।

बुधः सौम्यस्तारकेयो राजपुत्र इलापतिः ।।

कुमारो द्विजराजस्य यः पुरूरवसः पिता ।। ५२ ।। ।। ( इति प्रतिग्रहणमंत्रः ।) ।।

दुर्बुद्धिबाधजनितं नाशयित्वा च मे बुधः ।।

सौख्यं च सौमनस्यं च करोतु शशिनंदनः ।। ५३ ।।

इत्युच्चार्य गृहीत्वा तु दद्यान्मंत्रपुरःसरम् ।।

सप्तजन्मनि राजेन्द्र जातो जातिस्मरो भवेत् ।।५४।।

धनधान्यसमायुक्तः. पुत्रपौत्रप्रवर्द्धनः ।।

दीर्षायुर्विपुलान्भोगान्भुक्त्वा चैव महीतलं ।। ५५ ।।

ततः सुतीर्थे मरणं ध्यात्वा नारायणं विभुम् ।।

मृतोऽसौ स्वर्गमाप्नोति पुरन्दरसमो नरः ।। ५६ ।।

वसते यावदासृष्टेः पुनराभूतसंप्लवम् ।।

एवमेतन्मया ख्यातं व्रतानामुत्तमं व्रतम् ।। ५७ ।।

एषैवं च मयाख्याता गुह्या पार्थ बुधाष्टमी ।।

यां श्रुत्वा ब्रह्महा गोघ्नः सर्वपापैः प्रमुच्यते ।। ५८ ।।

यश्चाष्टमीं बुधयुतां समवाप्य भक्त्या सम्पूजयेद्विधुसुतं कनपृष्ठसं स्थम् ।।

पक्वान्नपात्रसहितैः सहिण्यवस्त्रैः पश्येदसौ यमपुरं न कदाचिदेव ।। ५९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसं वादे बुधाष्टमीव्रतवर्णनं नाम चतुष्पञ्चाशत्तमोऽध्यायः ।। ५४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 55

जन्माष्टमीवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

जन्माष्टमीव्रतं ब्रूहि विस्तरेण ममाच्युत ।।

कस्मिन्काले समुत्पन्नं किं पुण्यं को विधिः स्मृतः ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

हते कंसासुरे दुष्टे मथुरायां युधिष्ठिर ।।

देवकी मां परिष्वज्य कृत्वोत्संगे रुरोद ह ।। २ ।।

तत्रैव रंगवाढेन मंचारूढजनोत्सवे ।।

मल्लयुद्धे पुरावृत्ते समेते कुकुराऽन्धके ।। ३ ।।

स्वजनैर्बंधुभिः स्निग्धैः सस्त्रीभिः समावृते ।।

वसुदेवोऽपि तत्रैव वात्सल्यात्प्ररुरोद ह ।। ४ ।।

समाकृष्य परिष्वज्य पुत्रपुत्रेत्युवाच ह ।।

सगद्गदस्वरो दीनो वाष्पपर्याकुलेक्षणः ।। ५ ।।

बलभद्रं च मां चैव परिष्वज्य मुदा पुनः ।।

अद्य मे सफलं जन्म जीवितं यत्सुजीवितम् ।। ६ ।।

यदुभाभ्यां सुपु त्राभ्यां समुद्भूतः समागमः ।।

एवं वर्षेण दांपत्ये हृष्टं पुष्टं तथा ह्यभूत् ।। ७ ।।

प्रणिपत्य जनाः सर्वे बभूवुस्ते प्रहर्षिताः ।।

एवं महोत्सवं दृष्ट्वा मामाह सकलो जनः ।। ८ ।।

प्रसादः क्रियतां नाथ लोकस्यास्य प्रसादतः ।।

यस्मिन्दिने जगन्नाथ देवकी त्वामजीजनत् ।। ९ ।।

तद्दिने देहि वैकुंठं कुर्मस्तेत्र नमोनमः ।।

सम्यग्भक्तिप्रपन्नानां प्रसादं कुरु केशव ।। 4.55.१० ।।

एवमुक्ते जनौघेन वसुदेवोऽतिविस्मितः ।।

विलोक्य बलभद्रं च मां च कृत्वा रुरोद ह ।।

एवमस्त्विति लोकानां कथयस्व यथा तथा ।।११।।

ततश्च पितुरादेशात्तथा जन्माष्टमीव्रतम् ।।

मथुरायां जनौघाग्रे पार्थ सम्यक्प्रकाशितम् ।। १२ ।।

पौरजना जन्मदिनं वर्षेवर्षे ममोदितम् ।।

पुनर्जन्माष्टमीं लोके कुर्वंतु ब्राह्मणादयः ।।

क्षत्रिया वैश्यजातीयाः शूद्रा येन्येऽपि धार्मिकाः ।। १३ ।।

सिंहराशिगते सूर्ये गगने जलदाकुले ।।

मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्धरात्रके ।।

वृषराशिस्थिते चन्द्रे नक्षत्रे रोहिणीयुते ।। १४ ।।

वसुदेवेन देवक्यामहं जातो जनाः स्वयम् ।।

एवमेतत्समाख्यातं लोके जन्माष्टमीव्रतम् ।। १५ ।।

भगवत्पार्श्वतो राजन्बहुरूपं महोत्सवम् ।।

मथुरायास्ततः पश्चाल्लोके ख्यातिं गमिष्यति ।।

शांतिरस्तु सुखं चास्तु लोकाः सन्तु निरामयाः ।। १६ ।।

।। युधिष्ठिर उवाच ।। ।।

तत्कीदृशं व्रतं देव लोकैः सर्वैरनुष्ठितम् ।।

जन्माष्टमीव्रतं नाम पवित्रं पुरुषोत्तम ।। १७ ।।

येन त्वं तुष्टिमायासि लोकानां प्रभुर व्ययः ।।

एतन्मे भगवन्ब्रूहि प्रसादान्मधुसूदन ।। १८ ।।

।। श्रीकृष्ण उवाच ।। ।।

पार्थ तद्दिवसे प्राप्ते दंतधावनपूर्वकम् ।।

उपवासस्य नियमं गृह्णीयाद्भक्तिभावितः ।। १९ ।।

एकेनैवोपवासेन कृतेन कुरुनंदन ।।

सर्वजन्मकृतैः पापैर्मुच्यते नात्र संशयः ।। 4.55.२० ।।

उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ।।

उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।। २१ ।।

ततः स्नात्वा च मध्याह्ने नद्यादौ विमले जले ।।

देव्याः सुशोभनं कुर्याद्देवक्याः सूतिकागृहम् ।। २२ ।।

पद्मरागैः पत्रनेत्रैर्मंडितं चर्चितं शुभैः ।।

रम्यं तु वनमालाभी रक्षामणिविभूषितम् ।। २३ ।।

सर्वं गोकुलवत्कार्यं गोपीजनसमाकुलम् ।।

घण्टामर्दलसङ्गीतमाङ्गल्यकलशान्वितम् ।। २४ ।।

यवार्धं स्वस्तिका कुड्यैः शंखवादित्रसंकुलम् ।।

वद्ध्वासुरा लोहखड्गैः प्रियच्छागसमन्वितम् ।। २५ ।।

धान्ये विन्यस्य मुसलं रक्षितं रक्षपालकैः ।।

षष्ठ्या देव्या च संपूर्णैर्नैवेद्यैर्विविधैः कृतैः ।। २६ ।।

एवमादि यथाशेषं कर्तव्यं सूतिकागृहम् ।।

एतन्मध्ये प्रतिष्ठाप्या सा चाप्यष्टविधा स्मृता ।। २७ ।।

कांचनी राजती ताम्री पैत्तली मृन्मयी तथा ।।

दार्वी मणिमयी चैव कर्णिका लिखिताथ वा ।। २८ ।।

सर्वलक्षणसम्पन्ना पर्यंके चार्द्धसुप्तिका ।।

प्रतप्तकांचनाभासा मया सह तपस्विनी ।। २९ ।।

प्रस्तुता च प्रसूता च तत्क्षणाच्च प्रहर्षिता ।।

मां चापि बालकं सुप्तं पर्यंके स्तनपायिनम् ।। 4.55.३० ।।

श्रीवत्सवक्षसं पूर्णं नीलोत्पलदल च्छविम् ।।

यशोदा चापि तत्रैव प्रसूता वरकन्यकाम् ।। ३१ ।।

तत्र देवगृहं नागा यक्षविद्याधरा नराः ।।

प्रणताः पुष्पमालाग्रव्यग्रहस्ताः सुरासुराः ।। ३२ ।।

संचरंत इवाकाशे प्राकारैरुदितोदितैः ।।

वसुदेवोऽपि तत्रैव खड्गचर्मधरः स्थितः ।। ३३ ।।

कश्यपो वसुदेवोयमदिति श्चापि देवकी ।।

बलभद्रः शेषनागो यशोदादित्यजायत ।। ३४ ।।

नन्दः प्रजापतिर्दक्षो गर्गश्चापि चतुर्मुखः ।।

एषोवतारो राजेन्द्र कंसोऽयं कालनेमिजः ।। ३५ ।।

तत्र कंसनियुक्ता ये दानवा विविधायुधाः ।।

ते च प्राहारिकाः सर्वे सुप्ता निद्राविमोहिताः ।। ३६ ।।

गोधेनुकुञ्जराश्चास्य दानवाः शस्त्रपाणयः ।।

नृत्यंत्यप्सरसो हृष्टा गंधर्वा गीततत्पराः ।। ३७ ।।

लेखनीयश्च तत्रैव कालियो यमुनाह्रदे ।।

रम्यमेवं विधिं कृत्वा देवकीं नवसूतिकाम् ।। ३८ ।।

तां पार्थ पूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः ।।

कूष्माण्डैर्नालिकेरैश्च खर्जूरैर्दाडिमीफलैः ।। ३९ ।।

बीजपूरैः पूगफलैर्ल्लकुचैस्त्रपुसैस्तथा ।।

कालदेशोद्भवैर्मुष्टैः पुष्पैश्चापि युधिष्ठिर ।। 4.55.४० ।।

ध्यात्वावतारं प्रागुक्तं मंत्रेणानेन पूजयेत् ।। ४१ ।।

गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणानिनादैर्भृङ्गारादर्शकुम्भप्रमरकृतकरैः सेव्यमाना मुनीन्द्रैः ।।

पर्यंके स्वास्तृते या मुदिततरमनाः पुत्रिणी सम्यगास्ते सा देवी देवमाता जयति सुवदना देवकी कांतरूपा ।। ४२ ।।

पादावभ्यंजयंतीं श्रीर्देवक्याश्चरणांतिके ।।

निषण्णा पङ्कजे पूज्या नमो देव्यै च मंत्रतः ।।४३।।

ॐ देवक्यै नमः ।। ॐ वसुदेवाय नमः ।।

ॐ बलभद्राय नमः ।। ॐ श्रीकृष्णाय नमः ।।

ॐ सुभद्रायै नमः ।। ॐ नन्दाय नमः।। ॐ यशोदायै नमः ।।

एवमादीनि नामानि समुच्चार्य पृथक्पृथक् ।।

पूजयेयुर्द्विजाः सर्वे स्त्रीशूद्राणाममंत्रकम् ।। ४४।।

विध्यंतरमपीच्छंति केचिदत्र द्विजोत्तमाः ।।

चन्द्रोदये शशाङ्काय अर्घ्यं दद्याद्धरिं स्मरेत् ।। ४५ ।।

अनघं वामनं शौरिं वैकुंठं पुरुषोत्तमम् ।।

वासुदेवं हृषीकेशं माधवं मधुसूदनम् ।। ४६ ।।

वाराहं पुण्डरीकाक्षं नृसिंहं ब्राह्मणप्रियम् ।।

दामोदरं पद्मनाभं केशवं गरुडध्वजम् ।। ४७ ।।

गोविन्दमच्युतं कृष्णमनंतमपराजितम् ।।

अधोक्षजं जगद्बीजं सर्गस्थित्यंतकारणम् ।। ४८ ।।

अनादिनिधनं विष्णुं त्रैलोक्येशं त्रिविक्रमम् ।।

नारायणं चतुर्बाहुं शंख चक्रगदाधरम् ।। ४९ ।।

पीतांबरधरं नित्यं वनमालाविभूषितम् ।।

श्रीवत्साङ्कं जगत्सेतुं श्रीधरं श्रीपतिं हरिम् ।। 4.55.५० ।।

योगेश्वराय योगेशभवाय योगपतये गोविन्दाय नमोनमः ।। (इति स्नान मंत्रः ।।)

यज्ञेश्वराय यज्ञसंभवाय यज्ञपतये गोविन्दाय नमोनमः ।। ५१ ।।

इत्यनुलेपनार्घ्याद्यर्चनधूपमंत्रः ।।

विश्वाय विश्वेश्वराय विश्वसंभवाय विश्वपतये गोविन्दाय नमोनमः ।। ५२ ।। ( इति नैवेद्यमंत्रः ।।)

धर्मेश्वराय धर्मपतये धर्मसंभवाय गोविन्दाय नमोनमः ।। ५३ ।। (इति दीपासनमंत्रः ।।)

क्षीरोदार्णवसंभूत अत्रिनेत्रसमुद्भव ।।

गृहाणार्घ्यं शशांकेन्दो रोहिण्या सहितो मम ।। ५४ ।।

स्थंडिले स्थापयेद्देवं सचन्द्रां रोहिणीं तथा ।।

देवकीं वसुदेवं च यशोदां नन्दमेव च ।। ५५ ।।

बलदेवं तथा पूज्य सर्वपापैः प्रमुच्यते ।।

अर्द्धरात्रे वसोर्द्धारां पातयेद्गुडसर्पिषा ।।५६।।

ततो वर्द्धापनं षष्ठीनामादिकरणं मम ।।

कर्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने ।।५७।।

यथा मम तथा कार्यो भगवत्या महोत्सवः ।।

ब्राह्मणान्भोजयेच्छक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।। ५८ ।।

हिरण्यं काञ्चनं गावो वासांसि कुसुमानि च ।।

यद्यदिष्टतमं तत्तत्कृष्णो मे प्रीयतामिति ।। ५९ ।।

यमेवं देवकी देवी वसुदेवादजीजनत् ।।

भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।। 4.55.६० ।।

सुजन्मवासुदेवाय गोब्राह्मणहिताय च ।।

शान्तिरस्तु शिवं चास्तु इत्युक्त्वा तु विसर्जयेत् ।। ६१ ।।

एवं यः कुरुते देव्या देवक्याः सुमहोत्सवम् ।।

वर्षेवर्षे भगवतो मद्भक्तो धर्मनन्दन ।। ६२ ।।

नरो वा यदि वा नारी यथोक्तफलमाप्नुयात्।। ६३ ।।

पुत्रसंतानमारोग्यं धनधान्यादिसद्गृहम् ।।

शालीक्षुयवसंपूर्णमण्डलं सुमनोहरम् ।। ६४ ।।

तस्मिन्राष्ट्रे प्रभुर्भुंक्ते दीर्घायुर्मनसेप्सितान् ।।

परचक्रभयं नास्ति तस्मि न्राज्येऽपि पाण्डव ।। ६५ ।।

पर्जन्यः कामवर्षी स्यादीतिभ्यो न भयं भवेत् ।।

यस्मिन्गृहे पांडुपुत्र क्रियते देवकीव्रतम् ।। ६६ ।।

न तत्र मृत निष्क्रांतिर्न गर्भपतनं तथा ।।

न च व्याधिभयं तत्र भवेदिति मतिर्मम ।। ६७ ।।

न वैद्यजनसंयोगो न चापि कलहो गृहे ।।

संपर्केणापि यः कश्चित्कुर्याज्जन्माष्टमीव्रतम् ।।

विष्णुलोकमवाप्नोति सोऽपि पार्थ न संशयः ।। ६८ ।।

जन्माष्टमी जनमनोनयनाभिरामा पापापहा सपदि नंदितनंदगोपा ।।

यो देवकीं सदयितां यजतीह तस्यां पुत्रानवाप्य समुपैति पदं स विष्णोः ।। ६९ ।।

इति श्रीभविष्पे महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे जन्माष्टमीव्रतवर्णनं नाम पंचपंचाशत्तमोऽध्यायः ।। ५५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 56

दूर्वाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शुक्ले भाद्रपदस्यैव पक्षेऽष्टम्यां युधिष्ठिर ।।

दूर्वाष्टमीव्रतं पुण्यं यः कुर्याच्छ्रद्धयान्वितः ।। १ ।।

न तस्य क्षयमाप्नोति संतानं सप्तषौरुषम् ।।

नंदते वर्द्धते नित्यं यथा पूर्वं तथा कुलम् ।। २ ।।

।। युधिष्ठिर उवाच ।। ।।

कुत एषा समुत्पन्ना दूर्वा कस्माच्चिरायुषा ।।

कस्माच्च सा पवित्रा च लोकनाथ ब्रवीहि मे।।३।।

।। श्रीकृष्ण उवाच ।।

क्षीरोदसागरे पूर्वं मथ्यमानेऽमृतार्थिना ।।

विष्णुना बाहुजंघाभ्यां यद्धृतो मन्दरो गिरिः ।। ४ ।।

भ्रमितो वै स वेगेन रोमण्युद्धर्षितानि वै ।।

तान्येतानि जलोर्मीभिरुत्क्षिप्तानि तदर्णवात् ।। ५ ।।

अजायत शुभा दूर्वा रम्या हरितशाद्वला ।।

एवमेषा समुत्पन्ना दूर्वा विधु तनूरुहा ।। ६ ।।

तस्याश्चोपरि विन्यस्तं मथितामृतमुत्तमम् ।।

देवदानवगन्धर्वैर्यक्षविद्याधरैस्तथा ।। ७ ।।

तत्राप्यमृतकुंभस्य पेतुर्न्निष्यंदबिंदवः ।।

तैरियं स्पृष्टमात्राभूद्दूर्वा रस्याऽजराऽमरा ।। ८ ।।

वंद्या पवित्रा देवैस्तु वंदिताभ्यर्चिता पुरा ।।

अष्टम्यां फलपुष्पैस्तु खर्जूरैर्न्नालिकेरकैः ।। ९ ।।

द्राक्षाक्षोटकपित्थैश्च बर्बरैर्लकुचैस्तथा ।।

नारिंगैर्जंबुकैराम्रैर्बीजपूरैश्च दाडिमैः ।। 4.56.१० ।।

दध्यक्षतैः सुपुष्पैश्च धूपनैवेद्यदीपकैः ।।

मंत्रेणानेन राजेन्द्र शृणु ष्वावहितेन च ।। ११ ।।

त्वं दूर्वेऽमृतजन्मासि वंदिता च सुरासुरैः ।।

सौभाग्यं संततिं कृत्वा सर्वकार्यकरी भव ।। १२ ।।

यथा शाखाप्रशाखाभिर्विस्तृतासि महीतले ।।

तथा ममापि संतानं देहि त्वमजरामरे ।। १३ ।।

एवमेषा पुरा पार्थ पूजिता त्रिदशोत्तमैः ।।

तेषां पत्नीवधूभिश्च भगिनीभि स्तथैव च ।। १४ ।।

पूजिताभ्यर्हिता वाचा गौर्या राजञ्छ्रिया तथा ।।

मर्त्यलोके वेदवत्या दमयंत्यापि सीतया ।। १५ ।।

सुकेश्या च घृताच्या च रंभया च सुकेशया ।।

सहन्या कामकंदन्या मेनकोर्वशिकादिभिः ।। १६ ।।

स्त्रीभिरेवार्चिता दूर्वा सौभाग्यसुखदायिनी ।।

स्नाताभिः शुचि वस्त्राभिः सखीभिः ससुहृज्जनैः ।। १७ ।।

दत्त्वा दानानि विप्रेभ्यः फलं दत्त्वार्चयेत्प्रभोः ।।

तिलपिष्टकगोधूमसप्तधान्यानि पांडव ।। १८ ।।

भक्षयित्वा सुहृन्मित्रसंबंधिस्वजने तथा ।।

या नार्यो विचरिष्यंति व्रतमेतत्पुरातनम् ।। १९ ।।

दूर्वाष्टमीति विख्यातं पुण्यं संतानकारकम् ।।

ताः सर्वाः सुखसौभाग्यपुत्रपौत्रादिभिस्तथा ।। 4.56.२० ।।

मर्त्ये लोके चिरं स्थित्वा ततः स्वर्गं गताः पुनः ।।

देवैरानंदितास्तत्र भर्तृभिः सह बांधवैः ।। २१ ।।।

वसंति रममाणस्ता यावदाभूतसंप्लवम् ।। २२ ।।

मेघावृतेंबरतले हरिते वनांते या साष्टमी शुभफला सफला नभस्ये ।।

दूर्वाफलाक्षततिलैः प्रतिपूज्य योषिद्दूर्वेव वृद्धिमुपयाति सुतैः सुहृद्भिः ।। २३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिररसंवादे दूर्वाष्टमीव्रतवर्णनं नाम षट्पंचाशत्तमोऽध्यायः ।। ५६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 57

कृष्णाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

कृष्णाष्टमीव्रतं पार्थ शृणु पापभयापहम् ।।

धर्मसंजननं लोके रुद्रप्रीतिकरं परम् ।। १ ।।

मासि मार्गशिरे प्राप्ते दंतधावनपूर्वकम् ।।

उपवासस्य नियमं कुर्यान्नक्तस्य वा पुनः ।। २ ।।

अशक्तशक्तभेदेन गृहान्निष्क्रम्य बाह्यतः ।।

कृष्णाष्टम्यां वर्षमेकं गुरुं पृष्ट्वा विचक्षणः ।। ३ ।।

ब्रह्मचारी जितक्रोधः शिवार्चनजपे रतः ।।

ततोऽपराह्णसमये स्नात्वा नद्यां विशुद्धधीः ।। ।। ४ ।।

शिवलिङ्गं समभ्यर्च्य सुमनोभिः सुगंधिभिः ।।

गुग्गुलुं च शुभं दग्ध्वा दद्यान्नैवेद्यमुत्तमम् ।। ५ ।।

ततो देवस्य पुरतो होमं कुर्यात्तिलै र्गुरु ।।

मार्गशीर्षे शुभे मासि शंकरायेति पूजयेत् ।। ६ ।।

गोमूत्रप्राशनं कृत्वा स्वप्याद्भूमौ ततो निशि ।।

अतिरात्रस्य यज्ञस्य फलमाप्नोति मानवः ।। ७ ।।

एवं पुष्येपि संपूज्य शंभुं नाम महेश्वरम् ।।

कृष्णाष्टम्यां घृतं प्राश्य वाजपेयफलं भजेत् ।। ८ ।।

माघे माहेश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत् ।।

निशि पीत्वा गवां क्षीरं गोमेधाष्टकमाप्नुयात ।। ९ ।।

फाल्गुने च महादेवं संपूज्य प्राशयेत्तिलान् ।।

राजसूयस्य यज्ञस्य फलमष्टगुणं भजेत् ।। 5.57.१० ।।

चैत्रे च स्थाणुनामानं कृष्णाष्टम्यां शिवं यजेत् ।।

यवाहारोश्वमेधस्य यज्ञस्य फलमाप्नुयात् ।। ११ ।।

वैशाखे शिवनामानमिष्ट्वा रात्रौ कुशोदकम् ।।

पीत्वा पुरुषमेधस्य फलं दशगुणं भजेत् ।। १२ ।।

ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत् ।।

गवां लक्षप्रदानस्य नरः फलमवाप्नुयात् ।। १३ ।।

आषाढे चोग्रनामानमिष्ट्वा संप्राश्य गोमयम् ।।

वर्षाणां नियुतं साग्रं रुद्रलोके महीयते ।।१४।।

श्रावणे शर्वनामानमिष्ट्वार्कं निशि भक्षयेत् ।।

बहुस्वर्णस्य यज्ञस्य नरः फलमवाप्नुयात् ।। १५ ।।

मासि भाद्रपदेऽष्टम्यां त्र्यंबकं नाम पूजयेत् ।।

बिल्वपत्रं निशि प्राश्य अन्नदीक्षाफलं भजेत् ।। १६ ।।

भवनामाश्विने पूज्यः प्राशयेत्तंडुलोदकम् ।।

पौण्डरीकस्य यज्ञस्य फलं शतगुणं भजेत् ।। १७ ।।

कार्तिके रुद्रनामानं संपूज्य प्राशयेद्दधि ।।

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।। १८ ।।

अब्दांते भोजयेद्विप्राञ्छिवभक्तिपरायणान् ।।

पायसं मधु संयुक्तं घृतेन समभिप्लुतम् ।।

शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् ।।१९।।

सतिला कृष्णकलशा भक्ष्यभोज्येन संयुताः ।।

द्वादशात्र प्रदातव्याश्छत्रोपानद्युगान्विता ।।

निवेदयति रुद्राणां गां च कृष्णां पयस्विनीम् ।। 5.57.२० ।।

वर्षमेकं चरेदेवं नैरन्तर्य्येण यो नरः ।।

कृष्णाष्टमीव्रतं भक्त्या तस्य पुण्यफलं शृणु ।। २१ ।।

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।।

मोदते भूपवन्नित्यं मर्त्यलोके शतं समाः ।। २२ ।।

अनेन विधिना देवाः सर्वे देवत्वमागताः ।।

देवी देवीत्वमापन्ना गुहः स्कंदत्वमागतः ।। २३ ।।

ब्रह्मा ब्रह्मत्वमापन्नो ह्यहं विष्णुत्वमागतः ।।

इन्द्रश्च देवराजत्वं गाणपत्यं गणो गतः ।। २४ ।।

नारी वा पुरुषो वापि कृत्वा कृष्णाष्टमीव्रतम् ।।

अखंडितं महाराज पुण्यं प्राप्नोत्यनुत्तमम् ।। २५ ।।

सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः ।।

रुद्रकन्यासमाकीर्णैर्हंससारससंयुतैः ।। २६ ।।

नृत्यवादित्रसंयुक्तैरुत्कृष्टध्वनिनादितैः ।।

दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः ।। २७ ।।

त्रिनेत्रः शूलपाणिश्च शिवैश्वर्यसमन्वितः ।।

आस्ते शिवपुरे तावद्यावत्कल्पेषु चाष्टकम् ।। २८ ।।

इत्येतत्ते समाख्यातं पार्थ कृष्णाष्टमीव्रतम् ।।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। २९ ।।

कृष्णाष्टमीव्रतमिदं शिवभावितात्मा सत्याशनैरुदितनामयुतैरुपोष्य ।।

कृष्णान्ददाति कलशान्सतिलान्नयुक्तान्योसौ प्रयाति पदमुत्तममिन्दुमौलेः ।। 5.57.३० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कृष्णाष्टमीव्रतवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ।। ५७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 58

अनघाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

ब्रह्मपुत्रो महातेजा अत्रिर्नाम महानृषिः ।।

तस्य पत्नी महाभाग अनसूया पतिव्रता ।। १ ।।

तयोः कालेन महता जातः पुत्रो महा तपाः ।।

दत्तो नाम महायोगी विष्णोरंशो महीतले ।। २ ।।

द्वितीयो नाम लोकेस्मिन्ननघश्चेति विश्रुतः ।।

तस्य भार्या नदी नाम बभूव सहचारिणी ।। ३ ।।

अष्टपुत्रा जीववत्सा सर्वब्राह्मगुणैर्वृता ।।

अनयोर्विष्णुरूपेण लक्ष्मीश्चैव नदी स्मृता ।। ४ ।।

एवं तस्य सभार्यस्य योगाभ्यासरतस्य वा ।।

आजग्मुः शरणं देवाः शुंभदैत्येन पीडिताः ।। ५ ।।

ब्रह्मलब्धप्रसादेन द्रुतं गत्वामरावतीम् ।।

संरुद्धां जंभदैत्येन दिव्यवर्षशतं नृप ।। ६ ।।

दैत्यदानवसंयोगे पातालादेत्य भारत ।।

तस्य सैन्यमसंख्येयं दैत्यदानवराक्षसैः ।। ७ ।।

तेन निर्णाशिता देवाः सेंद्रचंद्रमरुद्गणाः ।।

त्याजिताः स्वानि धिष्ण्यानि त्यक्त्वा जग्मुर्दिशो दश ।। ८ ।।

अग्रतः प्रलयं यांतः सेन्द्रा देवा भयार्दिताः ।।

पृष्ठतोनु व्रजंति स्म दैत्या जंभपुरःसराः ।। ९ ।।

युध्यंतः शरसंघातैर्गदामुसलमुद्गरैः ।।

नर्दन्तो वृषभारूढाः केचिन्महिषवाहनाः ।। 4.58.१० ।।

शरभैर्गंडकैर्व्याघ्रैर्वानरै रभसैर्द्रुताः ।।

मुञ्चन्तो यांति पाषाणाच्छतघ्नीस्तोमराञ्छरान् ।। ११ ।।

यावद्विन्ध्यगिरिं प्राप्तास्तत्तस्याश्रममण्डलम् ।।

अनघश्चानदी चैव दांपत्यं यत्र तिष्ठति ।। १२ ।।

तयोः समीपं संप्राप्तास्ते नराः शरणार्थिनः ।।

अनघोऽपि च तान्देवाँल्लीलयैव सवासवान् ।। १३ ।।

अभ्यंतरे प्रविश्याथ तिष्ठध्वं विगतज्वराः ।।

तथेति नाम ते कृत्वा सर्वे तुष्टिं समास्थिताः ।। १४ ।।

दैत्या अपि द्रुतं प्राप्ता घ्नंतः प्रहरणैररीन् ।।

इत्यूचुरुल्बणा घोरा गृह्णीध्वं ब्राह्मणीं मुनेः ।। १५ ।।

द्रुतं द्रुमानाक्षिपध्वं पुष्पोपगफलोपगान् ।।

अथारोप्यानघं मूर्ध्नि दैत्या जग्मुस्तदाश्रमान् ।। १६ ।।

तत्क्षणाच्चापि दैत्यानां श्रीर्बभूव शिरोगता ।।

दत्तकेनापि ते दृष्टा नष्टा ध्यानाग्निना क्षणात् ।।

निस्तेजसो बभूवुर्हिः निःश्रीका मदपंडिताः ।।१७।।

देवैरपि गृहीतास्ते दैत्याश्च हरणे रणे ।।

रुदंती निस्तनंतश्च निश्चेष्टा ब्रह्मकंटकाः ।।१८।।

ऋष्टिभिः करणैः शूलैस्त्रिशूलैः परिघैर्घनैः ।।

एवं ते प्रलयं जग्मुस्तत्प्रभावान्मुनेस्तदा ।। १९ ।।

असुरा देवशस्त्रौघैर्जिता इन्द्रेण घातिताः ।।

देवा अपि स्वराष्ट्रेषु तस्थुः सर्वे यथा पुरा ।।

सुरैरपि मुनेस्तस्य देवर्षेर्महिमाऽभवत् ।। 4.58.२० ।।

ततः स सर्वलोकानां भवाय सततोत्थितः ।।

कर्मणा मनसा वाचा शुभान्येव समाचरत् ।। २१ ।।

काष्ठकुडयशिलाभूत ऊर्ध्वबाहुर्महातपाः ।।

ब्रह्मोत्तरं नाम तपस्तेपे सुनियतवतः ।। २२ ।।

नेत्रे ह्यनिमिषे कृत्वा भ्रुवोर्मध्ये विलोकयन् ।।

त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ।। २३ ।।

तथोर्द्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य हि ।।

योगाभ्यासप्रयत्नस्य माहिष्मत्याः पतिः प्रभुः ।। २४ ।।

एकाहाद्द्रुतमभ्येत्य कार्तवीर्योर्जुनो नृपः ।।

शुश्रूषां विनयं चक्रे दिवारात्रमतंद्रितः ।। २५ ।।

गात्रसंवाहनं पूजां मनसा चिंतितं तथा ।।

सम्पूर्णे नियमे वृत्ते दृढतुष्ट्या समन्वितः ।। २६ ।।

तस्यै ददौ वरान्पुष्टांश्चतुरो भूरितेजसः ।।

पूर्वं बाहुसहस्रं तु स वव्रे प्रथमं वरम् ।। २७ ।।

अधर्माद्धीयमानस्य सद्भिस्तस्मान्निवारणम् ।।

धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम् ।। २८ ।।

संग्रामान्सुबहूञ्जित्वा हत्वा वीरान्सहस्रशः ।।

संग्रामे युध्यमानस्य वधो मे स्याद्धरेः करात् ।। २९ ।।

तेन दत्तेन लोकेऽस्मिन्दत्तं राज्यं महीतले ।।

कार्तवीर्याय कौंतेय योगाभ्यासः सविस्तरः १।।

चक्रवर्तिपदं चैव अष्टसिद्धिसमन्वितम् ।। 4.58.३० ।।

तेनापि पृथिवी कृत्स्ना सप्तद्वीपा सपर्वता ।।

ससमुद्राकरवती धर्मेण विधिना जिता ।। ३१ ।।

तस्य बाहुसहस्रं तु प्रभावात्किल धीमतः ।।

यागाद्रथो ध्वजश्चैव प्रादुर्भवति मायया ।। ३२ ।।

दशयज्ञसहस्राणि तेषु द्वीपेषु सप्तसु ।।

निरर्गलानि वृत्तानि स्वयं वै तस्य पांडव ।। ३३ ।।

सर्वे यज्ञा महाबाहो प्रसन्ना भूरिदक्षिणाः ।।

सर्वे काञ्चनवेदिक्याः सर्वे यूपैश्च काञ्चनैः ।। ३४ ।।।

सर्वदेवैर्महाभागैर्विमानस्थैरलंकृताः ।।

गंधर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ।। ३५ ।।

तस्य यज्ञे जगुर्गाथां गंधर्वा नारदस्तथा ।।

चरितं राजसिंहस्य महिमानं निरीक्ष्य ते ।। ३६ ।।

न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।।

यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन च ।। ३७ ।।

द्वीपेषु सप्तसु स वै खड्गचर्मशरासनी ।।

व्यचरच्छ्येनवद्यो वै दूरादारादवैक्षत ।। ३८ ।।

अनष्टद्रव्यता चास्य न शोको न च वै क्लमः ।।

प्रभावेण महीराजोरक्षद्धर्मेण च प्रजाः ।। ३९ ।।

पञ्चाशीतिसहस्राणि वर्षाणां वै नराधिप ।।

समुद्रवसनायां स चक्रवर्ती बभूव ह ।। 4.58.४० ।।

स एव पशुपालोभूत्क्षेत्रपालः स एव च ।।

स एव वृष्ट्यां पर्जन्यो योगित्वादर्जुनोऽभवत् ।। ४१ ।।

स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ।।

वाति रश्मिसहस्रेण क्षोभ्यमाणे महोदधौ ।। ४२ ।।

न हि नागमनुष्यैस्तु माहिप्मत्यां महाद्युतिः ।।

कर्कोटाहेः सुताञ्जित्वा पुरि तत्र न्यवेशयत् ।। ४३ ।।

स वै पत्नीं समुद्रस्य प्रावृट्कालेंबुजेक्षणाम् ।।

क्रीडते च मदोन्मत्तः प्रतिस्रोतश्चकार ह ।। ।। ४४ ।।

ललितं क्रीडता तेन फलनिष्पन्दमालिनी ।।

ऊर्मीभ्रुकुटिमत्येव शंकितास्येति नर्मदा ।। ४५ ।।

तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ ।।

भवंत्यालीननिश्चेष्टाः पातालस्था महासुराः ।। ४६ ।।

तूष्णीकृतो महाभाग लीनाहीनमहामतिः ।।

चकारोत्तुङ्गक्षुब्धोर्मि दोःसहस्रेण सागरम् ।। ४७ ।।

क्रांता निश्चलमूर्द्धानो बभूवुश्च महोरगाः ।।

सायाह्ने कदलीखण्डान्निर्धा(र्घा)तनिहता इव ।।

जिता धनुर्धराः सर्वे सुत्यक्तैः पञ्चभिः शरैः ।। ४८ ।।

लङ्काधिपं मोहयित्वा सबलं रावणं बलात् ।।

निर्जित्य वशमानीय माहिष्मत्यां बबंध च ।। ४९ ।।

ततोभ्येत्य पुलस्त्यस्तु अर्जुनं संप्रसादयन् ।।

मुमोच रक्षः पौलस्त्यं पौलस्त्येनानुगामिना ।।

तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ।। 4.58.५० ।।

क्षुधितेन कदाचित्स प्रार्थितश्चित्रभानुना ।।

सप्तद्वीपां चित्रभानोः प्रादाद्भिक्षां महीमिमाम् ।। ५१ ।।

कुंडेशयस्ततोऽद्यापि दृश्यते भगवान्हरिः ।।

निंबादित्यश्च प्रत्यक्षो जाग्रत्संस्तस्य वेश्मनि ।।

बभूव दुहितुर्हेतोः शरदोऽद्यापि तिष्ठति ।। ५२ ।।

स एवं गुणसंयुक्तो राजाभूदर्जुनो भुवि ।।

अनघस्य प्रसादेन योगाचा र्यस्य पांडव ।। ५३ ।।

तेनेयं वरलब्धेन कार्तवीर्येण योगिना ।।

प्रवर्तिता मर्त्यलोके प्रसिद्धा ह्यनघाष्टमी ।। ५४ ।।

अघं पापं स्मृतं लोके तच्चापि त्रिविधं भवेत् ।।

यस्मादघं नाशयति तेनासावनघा स्मृता ।। ५५ ।।

तस्याष्टगुणमैश्वर्यं विनोदार्थं विभाव्यते ।।

अणिमा महिमा प्राप्तिः प्राकाम्ये लघिमा तथा ।। ५६ ।।

ईशित्वं च वशित्वं च सर्वकामावसायिता ।।

इत्यष्टौ योगसिद्धस्य सिद्धयो मोक्षलक्षणाः ।। ५७ ।।

समुत्पन्ना दत्तकस्य लोके प्रत्ययकारकाः ।।

यात्रासमाप्तौ संगृह्य यदघानि तथैव वा ।। ५८ ।।

जगत्समस्तमनघं कुर्यादस्मादतोऽनघा ।।

मदंशो मद्गतप्राणो लोके स्मिन्नृतको द्विजः ।। ५९ ।।

।। युधिष्ठिर उवाच ।। ।।

कीदृशं पुण्डरीकाक्ष स वै राजार्जुनो व्रतम् ।।

चक्रे वा त्रिषु लोकेषु कैर्मन्त्रैः समयैश्च कैः ।।

कस्मिन्काले तिथौ कस्यामेतन्मे वद केशव ।। 4.58.६० ।।

।। श्रीकृष्ण उवाच ।। ।।

कृष्णाष्टम्यां मार्गशीर्षे दंपती दर्भनिर्मितौ ।।

अनघं चानघां चैव बहुपुत्रैः समन्विताम् ।। ६१ ।।

पुरा कृतीकृतौ शांतौ भूमिभागे स्थितौ शुभौ ।।

स्नात्वैवमर्चयेत्पुष्पैः ससुगन्धैर्युधिष्ठिर ।। ६२ ।।

ऋग्वेदोक्तऋचा विप्रो विष्णुं ध्यात्वा ममांशजम् ।।

अनघं वासुदेवेनानघां लक्ष्मीं व्रजां तनुम् ।।

प्रद्युम्नादिपुत्रवर्गं हरिवंशे यथोदितम् ।। ६३

ॐ अतो देवा अवंतु नो यतो विष्णुर्विचक्रमे ।।

पृथिव्याः सप्तधामभिः ।।

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।।

समूळ्हमस्यपांसुरे ।।

त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ।।

अतो धर्माणि धारयन् ।।

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।।

इंद्रस्य युज्यः सखा ।।

तद्विष्णोः परमं पदं सदा पश्यंति सूरयः ।।

दिवीव चक्षुराततम्।।

तद्विप्रासो विपन्यवो जागृवांसः समिंधते ।।

विष्णोर्यत्परमं पदम् ।।

लोकोद्भवैः फलैः कन्दैः शृंगारैर्बदरैः शुभैः ।।

वित्तैश्च धान्यैः पुष्पैश्च गंधधूपैः सदीपकैः ।। ६४ ।।

यः पूजयेद्भक्तियुक्तः सर्वपापैः प्रमुच्यते ।।

ततो द्विजान्भोजयेच्च सुहृत्संबंधिबांधवान् ।। ६५ ।।

व्रतावसाने गृह्णीयात्कश्चिदेको नरो व्रतम् ।।

तेषां मध्ये दृढाश्चक्रुरनघव्रतपारगाः ।। ६६ ।।

इदं जीवनघाती चेत्सत्यं तु समयोषितम् ।।

वर्षमेकं ततः स्वेच्छा इदं तवानघव्रतम् ।। ६७ ।।

तत्रोपेक्षणकं कार्यं नटनर्तकगायकैः ।।

प्रभाते तु नवम्यां तं तोयमध्ये विसर्जयेत् ।। ६८ ।।

एवं यः कुरुते यात्रां वर्षेवर्षे च हर्षितः ।।

भक्तियुक्तः श्रद्धया च सर्वपापैः प्रमुच्यते ।। ६९ ।।

कुटुंबं वर्द्धते तस्य यस्य विष्णुः प्रसीदति ।।

आरोग्यं सप्त जन्मानि ततो यांति परां गतिम् ।। 4.58.७० ।।

एतामघौघशमनामनघाष्टमीं च कौंतेय संप्रति मया कथिता हिताय ।।

कुर्वंत्यनन्यमनसः स्वयशोभिवृद्ध्यै ऋद्धिं प्रयांति कृतवीर्यसुतानुरूपाम् ।। ७१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अनघाष्टमीव्रतं नामाष्टपंचाशत्तमोऽध्यायः ।। ५८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 59

सोमाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथान्यत्संप्रवक्ष्यामि व्रतं श्रेयस्करं परम्।।

शिवलोकप्रदं पुण्यं विधिवन्मे निबोधताम्।।१।।

वारे सोमे सिताष्टम्यां पक्षे सोमं समर्चयेत्।।

विधिना चन्द्रचूडालं प्राप्यमेतत्स चन्द्रकम् । । २

दक्षिणार्धे हरिं ध्यात्वा मध्ये तु परितः प्रभुम् ।

पञ्चामृतादिना देवं स्थापयित्वा यतव्रती । । ३

चन्दनेनेन्दुयुक्तेन दक्षिणार्धं विलेपयेत् ।

हरभागं नीलरक्तं शिवस्योपरि मौक्तिकम् । । ४

पश्चात्पुष्पैः समभ्यर्च्य सितं रक्तैरनुत्तमैः ।

नीराजनं पुनः कुर्यात्पञ्चविंशतिदीपकैः । ।

अथ सिद्धैः शुभैर्भक्ष्यैनेवद्यं विनिवेदयेत् । । ५

एवंकृतोपवासस्तु प्रभाते पूर्ववच्छिवम् ।

सम्पूज्याज्यं तिलैर्मिश्रं जुहुयाज्जातवेदसि । । ६

व्रतिनो ब्राह्मणान्पश्चाद्भोजयित्वा विधानतः ।

मिथुनानि तु सम्भोज्य यथाशक्त्यनुपूजयेत् । । ७

आवर्त्य पितरावर्च्य विधिना तेन सुव्रत ।।

संवत्सरांते कर्तव्यं यत्तत्सर्वं निबोध मे ।। ८ ।।

प्रागुक्वविधिना पूज्या सितपीतयुगद्वयम् ।।

दद्याद्वितानकं चैव पताकां घटकीं तथा ।। ९ ।।

धूपगंधारसी चापि दीपवृक्षं सुशोभनम् ।।

एवमादीनि योज्यानि पूर्ववद्भोज्यमाचरेत् ।। 4.59.१० ।।

चतुरस्रं त्रिकोणं च मण्डलं कारयेत्ततः ।।

त्रिकोणे पार्वतीं ध्यायेच्चतुरस्रे महेश्वरम् ।। ११ ।।

संकल्प्य द्विजदांपत्यं वासोभिर्भूषणैस्तथा ।।

पूजयित्वा यथाशक्त्या कुर्यान्नीराजनं शुभैः ।।

दीपकैः पञ्चविंशद्भिर्भोजयित्वा विसर्जयेत् ।। १२ ।।

अब्दपञ्चकमेकं वा एवं यः कुरुते नरः ।।

उभाभ्यां लोकमासाद्य पदं यास्यत्यनामयम् ।। १३ ।।

आ देहपतनाद्यस्तु नित्यमेतत्समाचरेत् ।।

इहैव स हरिः साक्षान्नररूपो विभाव्यते ।। १४ ।।

न स्पृशंत्यापदस्तस्य न दुःखी भवति क्वचित् ।।

ज्वरग्रहादिभिर्नैव पीड्यतेऽसौ कदाचन ।। १५ ।।

।। श्रीकृष्ण उवाच ।। ।।

अथ वा तेन मार्गेण तामवेहि सिताष्टमीम् ।।

संप्राप्यादित्ययोगेन प्राग्विधानेन चाभ्यसेत् ।। १६ ।।

किंतु दक्षिणतंत्रस्थं भास्करं वार्चयेद्बुधः ।।

पद्मरागेण दिव्येन सुवर्णेन च पार्वतीम् ।। १७ ।।

कुंकुमेन समालभ्य चन्दनेन शिवं तथा ।।

अभावे सर्वरत्नानां हेम सर्वत्र योजयेत् ।। १८ ।।

रुद्रबीजं परं पूतं प्रियं रुद्रस्य सर्वदा ।।

रक्तमाल्यांबरधरं नैवेद्यं घृतपाचितम् ।। १९ ।।

शेषः पूर्वविधानेन कर्तव्यो विधिविस्तरः ।।

तिथौ पूर्णे च कुर्वीत गव्येनानघ पारणम् ।। ।। 4.59.२० ।।

एतत्प्राक्च विधायाब्दं पञ्चाब्दानेवमेव च ।।

कृत्वा सूर्यादिलोकेषु भुक्त्वा भोगान्व्रजेत्परम् ।। २१ ।।

पतंगवत्प्रतापी स्याददीनश्च जन प्रियः ।।

अस्मिन्रोगो न बाधेत धनवान्पुत्रवान्भवेत् ।। २२ ।।

यद्यष्टमी भवति सोमयुता कदाचिदर्केण वा कुरुकुलोद्वह तामुपोष्य ।।

पूज्यो मया सह हरं हरिणांकचिह्नं भक्त्यायुषां पदमुपैति पदं पुरारेः ।। २३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सोमाष्टमीव्रतवर्णनं नामैकोनषष्टितमोऽध्यायः ।। ५९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 60

श्रीवृक्षनवमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

समुत्पन्नेषु रत्नेषु क्षीरोदमथने पुरा ।।

दैत्यानां मोहनार्थाय योषिद्भूते जनार्दने ।। १ ।।

बिल्वे वृक्षे क्षणं श्रांता विश्रांता कमलालया ।।

यामेवमिति वान्योन्यं युयुधुर्देवदानवाः ।। २ ।।

जिताः सर्वे पुरा पार्थ युद्धे कृष्णेन चक्रिणा ।।

पातालं गमिता दैत्याः सश्रीकः स्वयमाययौ ।। ३ ।।

श्रीः समावासिता यस्माच्छ्रीवृक्षस्तु ततः स्मृतः ।।

तस्माद्भाद्रपदस्यैव शुक्लपक्षे कुरूत्तम ।। ४ ।।

नवम्यामर्चयेद्भक्त्या ईषत्सूर्योदये नगम् ।।

श्रीवृक्षं विविधैः पुष्पैरनग्निपाचितैः फलैः ।। ५ ।।

तिलपिष्टान्नगोधूमैर्धूपगन्धस्रगंबरैः ।।

ईषद्भानुकराताम्रताम्रीकृतनभस्तले ।। ६ ।।

मंत्रेणानेन राजेन्द्र कृत्वा ब्राह्मणभोजनम् ।।

ततो भुञ्जीत मौनेन तैलक्षारविवर्जितः ।।

अनग्निपाकं भूपात्रे दधिपुष्पफलैः शुभम् ।। ७ ।।

एवं यः कुरुते पार्थ श्रीवृक्षस्यार्चनं नरः ।।

नारी वा दुःखशोकाभ्यां मुच्यते नात्र संशयः ।। ८ ।।

सप्तजन्मांतरं यावत्सुखसौभाग्यसंयुता ।।

श्रीमती फलिनी धन्या मर्त्यलोके महीयते।।। ९ ।।

श्रीवृक्षमक्षतफलं वसितं नवम्यां नैवेद्यपुष्पफलवस्त्रविचित्रधान्यैः ।।

पूज्यः प्रभातसमये पुरुषोत्तमेष्टः संप्राप्नुवंति पुरुषाः पुरुषेन्द्रवन्द्याम् ।। 4.60.१० ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रीवृक्षनवमीव्रतवर्णनं नाम षष्टितमोऽध्यायः ।। ६० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 61

ध्वजनवमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

महिषासुरे विनिहते भगवत्या महासुरैः ।।

पूर्ववैरमनुस्मृत्य संग्रामा बहवः कृताः ।। १ ।।

नानारूपधरा देवी अवतीर्य पुनःपुनः ।।

धर्मसंस्थापनार्थाय निजघ्ने दैत्यसत्तमान् ।। २ ।।

अथ रक्तासुरो नाम महिषस्य सुतो महान् ।।

आसीत्तेन तपस्तप्तं वर्षाणां नियुतानि षट् ।।

तस्मै ददौ चतुर्वक्त्रो राज्यं त्रैलोक्यमण्डले ।। ३ ।।

तेन लब्धं वरेणाथ मेलयित्वा दनोः सुतान् ।।

प्रारब्धं सह शक्रेण युद्धं गत्वाऽमरावतीम् ।। ४ ।।

तद्दृष्ट्वा दानवबलं सन्नद्धात्युद्धतध्वजम् ।।

युयुधे दानवैः सार्द्धं सुरैः शक्रपुरस्सरैः ।। ५ ।।

तत्र प्रावर्तत नदी शोणितौघतरंगिणी ।।

खड्गमत्स्यगदाग्राहवसुनंदककच्छपा ।।

वहंती पितृलोकाय सुरासुरभयानका ।। ६ ।।

अथ रक्तासुरो रोषाद्युयुधे विबुधैः सह ।।

ते हन्यमाना विबुधा रक्ताक्षेण महारणे ।। ७ ।।

भ्रष्टाः स्वर्गं परित्यज्य त्यक्तप्रहरणा द्रुतम् ।।

करच्छत्रां पुरीं प्राप्ता यत्रास्ते भववल्लभा ।। ८ ।।

दुर्गा चामुण्डया सार्धं नवदुर्गासमन्विता ।।

आद्या तावन्महालक्ष्मीर्नंदा क्षेमकरी तथा ।। ९ ।।

शिवदूती महारुण्डा भ्रामरी रुद्रमंगला ।।

रेवती हरसिद्धिस्तु नवैताः परिकीर्तिताः ।।

एतासां ते स्तुतिं चक्रुस्त्रिदशाः प्रणताननाः ।। 4.61.१० ।।

अमरपतिमुकुटचुम्बितचरणांबुजसकलभुवनसुखजननी ।।

जयति जगदीशवंदिता सकलामलनिष्कला दुर्गा ।। ११ ।।

विकृतनखदशनभूषणरुधिरवशाच्छुरितक्षतखड्गहस्ता ।।

जयति नरमुंडमुंडितपिशित सुराहारकृच्चण्डी ।। १२ ।।

प्रच्छादितशिखिगणोद्बलविकटजटाबद्धचन्द्रमणिशोभा ।।

जयति दिगंबरभूषा सिद्धवटेशा महालक्ष्मीः ।। १३ ।।

करकमलजनितशोभा पद्मासनबद्धपद्मवदना च ।।

जयति कमण्डलुहस्ता नंदा देवी नतार्तिहरा ।। १४ ।।

दिग्वसना विकृतमुखा फेत्कारोद्दाम पूरितदिशौघा ।।

जयति विकरालदेहा क्षेमंकरी रौद्रभावस्था ।। १५ ।।

क्रोशितब्रह्मांडोदरसुरवरमुखरहुंकृतनिनादा ।।

जयति मदातिमिहस्ता शिवदूती प्रथमशिवशक्तिः ।। १६ ।।

मुक्ताट्टहासभैरवदुःसहतरचकितसकलदिक्चक्रा ।।

जयति भुजगेन्द्रमणिशोभितकर्णा महातुण्डा ।। १७ ।।

पटुपटहमुरजमर्दलझल्लरिझङ्कारनर्तितावयवा ।।

जयति मधुव्रतरूपा दैत्यहरी भ्रामरी देवी ।। १८ ।।

शांता प्रशांतवदना सिंहवरा ध्यानयोगत न्निष्ठा ।।

जयति चतुर्भुजदेहा चन्द्रकला चन्द्रमण्डला देवी ।। १९ ।।

पक्षपुटचंचुघातैः संचूर्णितविविधशत्रुसंघाता ।।

जयति शितशूलहस्ता बहुरूपा रेवती भद्रा ।।4.61.२०।।

पर्यटति जगति हष्टा पितृवननिलयेषु योगिनीसहिता।।

जयति हरसिद्धिनाम्नी हरसिद्धिर्वंदिता सिद्धैः ।।२१।।

इति नवदुर्गासंस्तवमनुपममार्याभिरपरराट् कृत्वा ।।

इदमूचे सह देवैस्त्राह्यस्मान्सर्वभीतिभ्यः ।। २२ ।।

पुनःपुनः प्रणम्योचुर्भवानीं सिंहवाहिनीम् ।।

अस्माकं भयभीतानां शरण्ये शरणं भव ।। २३ ।।

देवानां तद्वचः श्रुत्वा दत्त्वा तेभ्योऽभयं ततः ।।

सिंहारूढा विनिर्गत्य दुर्गाभिः सहिता पुरा ।। २४ ।।

युयुधे दानवैस्सार्धं महासमरदुर्दिनम् ।।

कुमारी विंशतिभुजा घनविद्युल्लतोपमा ।। २५ ।।

तेऽपि तत्रासुराः प्राप्ताः प्रचंडा रुद्ररूपिणः ।।

सर्वे लब्धवराः शूराः सुतप्ततपसस्तथा ।। २६ ।।

महाग्राहपराक्रांता दुष्टमायाविनष्टये ।।

अब्राह्मण्याद्धृद्यमिषा नामतश्च निजोद्यतात् ।। २७ ।।

इन्द्रमारी असत्क्लेशः प्रलंबो नरकः सुतः ।।

कुष्ठः पुलोमा शरभ शंबरो दुंदुभिः खरः ।। २८ ।।

इल्वलो नमुचिर्भौमो वातापि धेनुकः कलिः ।।

मायावृतौ बलौ बन्धुर्मधुकैटभकालजित् ।। २९ ।।

रहः पौंडूादिदैत्येन्द्राः प्राधान्येन प्रकीर्तिताः ।।

फनगोभिर्जनाः सर्वे सन्नद्धाः स्वाग्रतो ध्वजः ।। 4.61.३० ।।

रूपतो वर्णिताश्चैव ध्वजास्तेषां पृथक्पृथक् ।।

प्रत्यदृश्यंत राजेन्द्र ज्वलिता इव पावकाः ।। ३१ ।।

काञ्चनाः काञ्चना पीडाः काञ्चनस्रगलंकृताः ।।

पताका विविधैर्वालैरुच्छ्रिता लक्षणान्विताः ।। ३२ ।।

नील्यः पीताः सिता रक्ताः कृष्णास्राः पञ्चवर्णकाः ।।

तत्र पट्टपटीसौत्राः कृतबुद्बुदकर्बुराः ।। ३३ ।।

पताकाकान्तिरनला नर्तक्य इव शोभनाः ।। ३४ ।।

ततो हलहलारावं चक्रुस्ते दानवोत्तमाः ।।

प्रास्फालयंत पणवभेरीझर्झरगोमुखान् ।।

न्यवादयंतानकान्ये शंखाडंबरडिंडिमान् ।। ३५ ।।

एवं ते समयुध्यंत भवानीं दैत्यदानवाः ।।

समाजघ्नुः शरैः शूलैः परिघैः शक्तितोमरैः ।।

कर्णकैरीषणैः कुन्तैः शतघ्नीकूटमुद्गरैः ।। ३६ ।।

आहत्य मानरोषेण जज्वलुः समरेऽधिकम् ।।

सिंहारूढा द्रुतं देवी रणमध्ये प्रधाविता ।। ३७ ।।

आच्छिद्याच्छिद्य चिह्नानि ध्वजान्नानाविधांस्तथा ।।

बलात्कारेण दैत्यानामनाथसमरे रुषा ।। ३८ ।।

चिह्नकानि ददौ तुष्टा देवेभ्यः शीघ्रचारिणी ।।

सुरैरपि गृहीतानि जय देवीति वादिभिः ।।३९।।

अंबिका तु भृशं तुष्टा तेषां चक्रे क्षणात्क्षयम् ।।

कालरात्री दानवानां मारीव निपपात सा ।।

जीवितानि च जग्राह दैत्यानां देवनंदिनी ।।4.61.४०।।

अथ रक्तासुरं कंठे गृहीत्वापात्य भूतले ।।

देवी जघान तीक्ष्णेन त्रिशूलेन भृशं दिवि ।। ४१ ।।

स भिन्नहृदयः पश्चाद्भूमौ तत्र प्रपोथितः ।।

तथापि देव्या निहतः पपात च ममार च ।। ४२ ।।

देवास्तानसुराञ्जित्वा गत्वा शत्रुपुरं जितम् ।।

ददृशुस्ते रणप्रांते लंबमानान्महाध्वजान्।।

यात्रां चक्रुः संप्रहृष्टा नवम्यां ध्वजचिह्निताम् ।। ४३ ।।

अतोद्यापीह भूपालैर्जयलब्धीच्छयादृतैः ।।

उपोष्यते नरैर्भक्तैर्नारीभिश्चैव पांडव ।। ४४ ।।

।। युधिष्ठिर उवाच ।। ।।

कीदृग्विधानं तस्यास्तु नवम्या ब्रूहि मे प्रभो ।।

सरहस्यं समंत्रं च येन तुष्यति चंडिका ।। ४५ ।।

।। श्रीकृष्ण उवाच ।। ।।

पौषस्य शुक्लपक्षे या नवमी संपरिश्रुता ।।

तस्यां स्नात्वा शुभैः पुष्पैरर्चनीया हरेः स्वसा ।। ४६ ।।

कुमारी सुभगा देवी सिंहस्यंन्दनगामिनी ।।

ध्वजान्नानाविधान्कृत्वा पुरस्तस्याश्च पूजयेत् ।।

मालतीकुसुमैर्द्दीपैर्गन्धधूपविलेपनैः ।। ४७ ।।

बलिभिः पशुभिर्मेध्यैः सुरामांसासृगम्बरैः ।।

दधिचन्दनचूर्णैश्च भग्नैश्चानग्निपाचितैः ।।

मंत्रेणानेन कौंतेय ब्रह्मणोप्यथवा ननु ।। ४८ ।।

भद्रां भगवतीं कृष्णां विश्वस्य जगतो हिताम् ।।

संवेशिनीं संयमनीं ग्रहनक्षत्र मालिनीम् ।। ४९ ।।

प्रपन्नोहं शिवां रात्री भद्रे पारय मे व्रतम् ।।

सर्वभूतपिशाचेभ्यः सर्वसत्वसरीसृपैः ।।

देवेभ्यो मानुषेभ्यश्च भयेभ्यो रक्ष मां सदा ।। 4.61.५० ।।

ततश्चारोपयेद्राजा देवीनां भवने तथा ।।

भोजयेत कुमारीं च प्रणिपत्य क्षमापयेत् ।। ५१ ।।

उपवासेन कुर्वीत एकभक्तेन वा पुनः ।।

भक्त्या भूपालपञ्चास्य भक्तिस्तस्या गरीयसी ।। ५२ ।।

एवं ये पूजयिष्यंति ध्वजैर्भगवतीं नराः ।।

तेषां दुर्गा दुर्गमार्गे चोरव्यालाग्नि संकटे ।।५३।।

रणे राजकुले गेहे युद्धमध्ये जले स्थिते ।।

रक्षां करोति सततं भवानी सर्वमंगला।।५४।।

अस्यां बभूव विजयो नवम्यां पांडुनंदन ।।

भगवत्यास्तु तेनैषा नवमी सततं प्रिया ।। ५५ ।।

धन्या पुण्या पापहरा सर्वोपद्रवनाशनी ।।

अनुष्ठेया प्रयत्नेन सर्वान्कामानभीप्सुभिः ।।५६।।

देव्यर्चनाहितमतिर्मनुजो नवम्यां हेमस्रजं ध्वजवरं स हि रोपयेद्यः ।।

भोगानवाप्य मनसोभिमतान्प्रकामं देहं विहाय समुपैति स वीरलोकम् ।। ५७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ध्वजनवमीव्रतवर्णनं नामैकषष्टितमोऽध्यायः ।। ६१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 62

उल्कानवमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।

उल्काख्यं नवमीं राजन्कथयामि निबोध ताम् ।।

या काश्यपेन कथिता तारकस्यार्तिनाशिनी ।।१।।

अश्वयुक्छुक्लपक्षे या नवमी लोकविश्रुता ।।

नद्यां स्नात्वा समभ्यर्च्य पितृदेवीं यथाविधि ।। २ ।।

पश्चात्संपूजयेद्देवीं चामुण्डां भैरवप्रियाम् ।।

पुष्पैर्धूपैस्सनैवेद्यैर्मांसमत्स्यसुरासवैः ।। ३ ।।

पूजयित्वा स्तवं कुर्यान्मन्त्रेणानेन मानवः ।।

समारोप्याञ्जलिं मूर्ध्नि जानुभ्यामवनीं गतः ।। ४ ।।

महिषघ्नि महामाये चामुण्डे मुण्डमालिनि ।।

द्रव्यमारोग्यविजयौ देहि देवि नमोऽस्तु ते ।। ५ ।।

कुमारीर्भोजयेत्पश्चान्नवनीलसुकंचुकैः।।

परिधानैर्भूषणैश्च भूषयित्वा क्षमापयेत् ।। ६ ।।

सप्त पञ्चाप्यथैकां वा चित्तवित्तानुरूपतः ।।

श्रद्धया तुष्यते देवी इति वीरानुशासनम् ।। ७ ।।

अभ्युक्ष्य मण्डलं कृत्वा गोमयेन शुचिस्मितः ।।

दत्तासने चोपविशेत्पात्रं च पुरतो न्यसेत् ।। ८ ।।

ततः सुसिद्धमन्नं यत्तत्सर्वं परिवेषयेत् ।।

सघृतं पायसं चापि स्थापयेत्पात्रस न्निधौ ।। ९ ।।

तृणानि षष्टिमादाय चादाय धमनीं तथा ।।

प्रज्वालयेत्तत्तो भोज्यं यावज्ज्वलति पावकः ।। 4.62.१० ।।

प्रशांते भोजनं त्यक्त्वा समाचम्य प्रसन्नधीः ।।

चामुंडां हृदये ध्यात्वा गृहकृत्यपरो भवेत् ।। ११ ।।

अनेन विधिना सर्वं मासिमासि समाचरेत् ।।

ततः संवत्सरस्यांते भोज यित्वा कुमारिकाः ।। १२ ।।

वस्त्रैराभरणैः पूज्य प्रणिपत्य क्षमापयेत्।।

सुवर्णं शक्तितो दद्याद्गां च विप्राय शोभनाम् ।। १३ ।।

य एवं कुरुते पार्थ पुरुषो नवमीव्रतम् ।।

न तस्य शत्रवो नार्तिः स राजा नष्टतस्करः ।। १४ ।।

भूताः प्रेताः पिशाचा नो जनयंति भयं गृहे ।।

समुद्यतेषु शस्त्रेषु हंता तस्य न विद्यते ।। १५ ।।

तं रक्षति सदोद्युक्ता सर्वास्वापत्सु चंडिका ।।

नरो वा यदि वा नारी व्रतमेतत्समाचरेत् ।।

उल्कावत्स सपत्नानां ज्वलन्नास्ते सदा हृदि ।। १६ ।।

तां शुष्ककोहरमुखीं प्रकटोरुदंष्ट्रां कापालिनीं समवलंबितमुण्डमालाम् ।।

उक्तव्रतेषु पुरुषो नवमीषु चण्डीं संपूज्य कस्य हृदये न च शं करोति।। १७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद उल्कानवमी व्रतवर्णनं नाम द्विषष्टितमोऽध्यायः ।। ६२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 63

दशावतारचरित्रव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पूर्वं कृतयुगस्यादौ भृगोर्भार्या महासती ।।

दिव्यारामाश्रमे रम्या गृहकार्यैकतत्परा ।। १ ।।

बभूव सा भृगोर्नित्यं हृदयेप्सितकारिणी ।।

तस्यां मुनिर्महातेजा अग्निहोत्रं निधाय च ।। २ ।।

विष्णोस्त्रासाद्दानवानां कुलत्राणसमाकुलम् ।।

मुक्त्वा युद्धस्थितं पार्श्वे समर्प्य मुनिपुङ्गवः ।। ३ ।।

दत्त्वा निक्षेपकं सर्वं दिव्यायै सुमहातपाः ।।।

जगाम हिमवत्पार्श्वे हरं तोषयितुं रहः ।। ४ ।।

संजीवनीकृते नित्यं कणैर्धूममधोमुखः ।।

पपौ दानवराजस्य विजयाय पुरोहितः ।। ५ ।।

आजगाम गते तस्मिन्गरुडेनाश्रितो हरिः ।।

अभ्येत्य जल्पनं चक्रे चक्रणोत्कृत्तकंधरम् ।। ६ ।।

गलद्रुधिरसंपन्नं लोहितार्णववसंनिभम् ।।

दृष्ट्वासुरबलं सर्वं निहतं विष्णुना तदा ।।

दिव्या संशप्तुकामाभूद्विष्णुं सास्राविलेक्षणा ।। ७ ।।

यावन्नोच्चरते वाचं चक्रेण कृत्तकंधरम् ।।

तावन्निपातयामास शिरस्तस्याः सकुण्डलम् ।। ८ ।।

प्राप्य संजीवनीं विद्यां यावदायात्यसौ मुनिः ।।

तावत्स दैत्यान्नापश्यत्पश्यति स्म निपातितम् ।। ९ ।।

रोषाच्छशाप च हरिं भ्रुकुटीकुटिलाननः ।।

अवश्यभावभावित्वाद्विश्वस्य हितकारणात् ।। 4.63.१० ।।

यस्मात्त्वया हता दैत्या ब्रह्मणो मत्परिग्रहाः ।।

तस्मात्त्वं मानुषे लोके दश वारान्गमिष्यसि ।। ११ ।।

अतोऽर्थं मानुषे लोके रक्षार्थं च महीक्षिताम्।।

अवतारं चकाराहं भूयोभूयः पृथग्विधम् ।। १२ ।।।।।

पूर्वोक्तैः कारणैः पार्थ अवतीर्णं महीतले ।।

मां नरा येऽर्चयिष्यंति तेषां वासस्त्रिविष्टपे ।। १३ ।।

।। युधिष्ठिर उवाच ।। ।।

व्रतं दशावताराख्यं कृष्ण ब्रूहि सविस्तरम् ।।

समंत्रं सरहस्यं च सर्वपापप्रणाशनम् ।। १४ ।।

श्रीकृष्ण उवाच ।। ।।

प्रोष्ठपदे सिते पक्षे दशम्यां नियतः शुचिः ।।

स्नात्वा जलाशये स्वच्छे पितृदेवादितर्पणम्।। १५ ।।

कृत्वा कुरुकुलश्रेष्ठ गृहमागत्य मानवः ।।

गृह्णीयाद्धान्यचूर्णस्य द्विहस्तप्रसृति त्रयम् ।। १६ ।।

क्रमेण पावयेत्तां तु पुंसंज्ञं घृतसंश्रितम् ।।

वर्षे वर्षे दिने तस्मिन्यावद्वर्षाणि वै दश ।। १७ ।।

प्रथमे पूरिकान्वर्षे द्वितीये घृतपूरकान् ।।

तृतीये शुक्लकासारं चतुर्थे मोदकाञ्छुभान् ।। १८ ।।

सोहालकान्पञ्चमेऽब्दे षष्ठेऽब्दे खण्डवेष्टकान् ।।

सप्तमेऽब्दे कोकरसानपूपांश्च तथाष्टमे ।। १९ ।।

नवमे कर्णवेष्टांस्तु दशमे खण्डकाञ्छुभान् ।।

दश धेनूर्दशहरे दशविप्राय दापयेत् ।। 4.63.२० ।।

क्रमेण भक्षयित्वा च यथोक्तं भरतर्षभ ।।

अर्द्धार्द्धं पिष्टयेदेवमर्द्धार्द्धं वा द्विजातये ।।

स्वत एवार्धमश्नीयाद्गत्वा रम्ये जलाशये ।। २१ ।।

दशावतारानभ्यर्च्य पुष्पधूपविलेपनैः ।।

मंत्रेणानेन मेधावी हरिमभ्युक्ष्य वारिणा ।। २२ ।।

मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् ।।

श्रीरामं राम कृष्णौ च बुद्धं चैव सकल्किनम् ।। २३ ।।

गतोऽस्मि शरणं देवं हरिं नारायणं प्रभुम् ।।

प्रणतोऽस्मि जगन्नाथं स मे विष्णुः प्रसीदतु ।। २४ ।।

छिनत्तु वैष्णवीं मायां भक्त्या जातो जनर्दनः ।।

श्वेतद्वीपं नयस्यस्मान्समात्मनि निवेदयेत् ।। २५ ।।

एवं यः कुरुते पार्थ विधिनानेन सुव्रत ।।

दशावतारनामाख्यं तस्य पुण्यफलं शृणु ।। २६ ।।

श्रूयते यास्त्विमालोच्य पुरुषाणां दशा दश ।।

ताश्छिनत्ति न संदेहः शक्रप्रहरणैर्हरिः ।। ।। २७ ।।

संसारसागरे घोरे मज्जत तत्र मां हरिः ।।

श्वेतद्वीपं नयत्वाशु व्रतेनानेन तोषितः ।। २८ ।।

किं तस्य न भवेल्लोके यस्य तुष्टो जनार्दनः ।।

सोऽहं जनार्दनो राजन्कालरूपी धरासुतः ।।

मर्त्यलोके स्वयं पार्थ भूभारोत्तारकारणम् ।। २९ ।।

या स्त्री व्रतमिदं पार्थ चरिष्यति मयोदितम् ।।

सा लक्ष्म्याऽचलया युक्ता भर्तृपुत्रसमन्विता ।। 4.63.३० ।।

मर्त्यलोके चिरं स्थित्वा विष्णुलोके महीयते ।।

विष्णुलोकाद्रुद्रलोकं ततो याति परं पदम् ।। ३१ ।।

ये पूजयंति पुरुषाः पुरुषोत्तमस्य मत्स्यादिकांस्तु दशमीषु दशावतारान् ।।

मर्त्या दशस्वपि दशासु सुखं विहृत्य ते यांति यानमधिरुह्य सुरेशलोकान् ।। ३२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दशावतारचरित्रव्रतं नाम त्रिषष्टित मोऽध्यायः ।। ६३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 64

आशादशमीवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पार्थ पार्थिववृन्दानां मुखपङ्कजसद्रवे ।।

शृणुष्वावहितो वच्मि तवाशादशमीव्रतम् ।। ।। १।।

नलनामाभवत्पूर्वं निषधेषु महीपते ।।

स भ्रात्रा निर्जितो राज्ये पुष्करेणेति नः श्रुतम् ।। २ ।।

अक्षैर्द्यूतेन राजेन्द्र निर्ययौ भार्यया सह ।।

वनं प्रतिभयं शून्यं झिल्लीकगणनादितम् ।। ३ ।।

स गत्वा प्रत्यहोरात्रं जलमात्रेण वर्तयन् ।।

ददर्श वनमध्यस्थाञ्छकुनीन्कांचनच्छवीन् ।। ४ ।।

ग्रहीतुमिच्छंस्तान्राजन्समाच्छाद्य स्ववाससा ।।

खमापेतुः खगास्तूर्णं गृहीत्वा वसनं शुभम् ।।५।।

आससाद समाः काश्चिद्धृतवासाः सुदुःखितः।।

दमयंतीं समाप्राप्य निद्रयापहृतां तदा ।।

दुःखादुत्सृज्य गतवान्भाग्यतः प्राग्धनेश्वरम् ।। ५ ।।

गते तु नैषधे भैमी प्रबुद्धै वाञ्चितानना।।

अपश्यंती नलं वीरं वीर भीमसुता वने ।।

इतश्चेतश्च बभ्राम हाहेति रुदती मुहुः ।। ७ ।।

दुःखशोकसमाक्रांता नलदर्शनलालसा ।।

आससाद दिने कैश्चित्सा चैद्यपुरमंजसा ।। ८ ।।

उन्मत्तवत्परिवृता शिशुभिः कौतुकाकुलैः ।।

सा दृष्टा चेदिराजस्य जनन्या जनवेष्टिता ।।९।।

चन्द्रलेखेव पतिता भूमौ भासितदिङ्मुखा ।।

आरोप्य सा स्वभवनं पृष्टा का त्वं वरानने ।। 4.64.१० ।।

उवाच भैमी सव्रीडं सैरंध्रीं मां निबोधताम् ।।

न धावयेयं चरणौ नोच्छिष्टं भक्षयाम्यहम् ।। ११ ।।

यदि प्रार्थयते कश्चिद्दंड्यस्ते सांप्रतं भवेत् ।।

प्रतिज्ञयानया देवि तिष्ठेयं तव वेश्मनि ।।

एवमस्त्वनवद्यांगि राज माताप्युवाच ताम् ।। १२ ।।

एवंविधा तद्भवने कंचित्कालमनिंदिता ।।

उवास वसनार्द्धेन प्रवृत्तांते किल द्विजः ।।

आनयामास मुदितो दमयंतीं गृहं पितुः ।। १३ ।।

मात्रा पित्रा समायुक्ता सुतैर्भ्रातृभिरेव च ।।

दमयंती तथाप्यास्ते दुःखं नैषधवर्जिता ।। १४ ।।

प्रोवाच विमनाहूय व्रतं दानमथापि वा ।।

कथयध्वं यथा मे स्यादिष्टेन सह संगमः ।। १५ ।।

तत्रेतिहासकुशलो विप्रः प्रोवाच बुद्धिमान् ।।

भद्रे त्वमाशादशमीं कुरुष्वेप्सितसिद्धिदाम् ।। १६ ।।

चकार सर्वं तन्वंगी यत्पुराणविदा तदा ।।

ख्यातमाख्यानविदुषा दमनेन पुरोधसा ।। १७ ।।

व्रतस्यास्य प्रभावेण दमयंत्या नरोत्तम ।।

संजातः सुखदोऽत्यर्थं भर्त्त्रा सह समागमः ।। १८ ।।

।। युधिष्ठिर उवाच ।। ।।

कथमाशादशम्येषा गोविन्द क्रियते कदा ।।

सर्वमेतत्समाचक्ष्व मां सर्वज्ञोसि यादव ।। १९ ।।

।। श्रीकृष्ण उवाच ।। ।।

राज्याशया राजपुत्रः कृष्यर्थं तु कृषीवलः ।।

भार्यार्थं तु वणिक्पुत्रः पुत्रार्थे गुर्विणी तथा ।। 4.64.२० ।।

धर्मार्थकामसंसिद्धयै लोककन्या वरार्थिनी ।।

यष्टुकामो द्विजवरो रोगी रोगापनुत्तये ।। २१ ।।

चिरप्रवासिते कांते कालेन धृतिपंडिता ।।

एतेष्वन्येषु कर्तव्यमाशाव्रतमिदं सदा ।। २२ ।।

यदा यस्य भवेदार्तं कार्यते हि तदा व्रतम् ।।

शुक्लपक्षे दशम्यां तु स्नात्वा संपूज्य देवताः ।।२३।।

नक्तं तदाशाः संपूज्याः पुष्पालक्तकचन्दनैः ।।

गृहाङ्गणे लेखयित्वा यवैः पिष्टातकेन वा ।।

दत्त्वा घृताक्तं नैवेद्यं पुनः कार्यं निवेदयेत् ।।२४।।

आशाश्चाशाः सदा संतु विद्यंतां च मनोरथाः।।

भवतीनां प्रसादेन सदा कल्याणमस्त्विति ।।२५।।

एवं संपूज्य भुञ्जीत दत्त्वा विप्राय दक्षिणाम्।।

अनेन क्रमयोगेन मासिमासि समाचरेत्।।२६।।

यावन्मनोरथः पूर्णस्ततः पश्चात्समुद्यमात् ।।

मासि पूर्णे च षण्मासे वर्षे वर्षद्वये गते।।२७।।

सौवर्णाः कारयेदाशा रौप्यपिष्टातकेन वा।।

ज्ञातिबंधुजनैः सार्द्धं स्नातः सम्यगलंकृतः ।।२८।।

पूजयेन्मंत्रसंदर्भैरेभिर्ध्यात्वा गृहांगणे।।।

तव संनिहितः शक्रः सुरासुरनमस्कृतः ।।

पूर्वा चन्द्रेण सहिता ऐन्द्रीदिग्देवते नमः ।। २९ ।।

अग्नेः परिग्रहादार्ये त्वमाग्नेयीति पठ्यसे ।।

तेजोमयी परा शक्तिराग्नेयी वरदा भव ।। 4.64.३० ।।

देवराजं समासाद्य लोकः संयमयत्यसौ ।।

तेन संयमनी यासि याम्ये कामप्रदा भव ।। ३१ ।।

खड्गंसहातिविकृता नैर्ऋतिस्त्वमुपाभृता ।।

तेन नैर्ऋतनाम्नीत्वं कृतवान्मघवा सदा ।। ३२ ।।

त्वय्यास्ते भवनाधारवरुणो यादसां पतिः ।।

इष्टकामार्थसिद्ध्यर्थं वारुणिप्रभवा भव ।। ३३ ।।

अधिश्रितासि यस्मात्त्वं वायुना जगदायुना।।

वायव्ये त्वमतः शान्तिं नित्यं यच्छ नमोनमः ।। ३४ ।।

कुबेरवासतः सौम्या प्रख्याता त्वमथोत्तरा ।।

ऐशानी जगदीशेन शंभुना त्वमलंकृता ।।

अतस्त्वं शिवसान्निध्यं देवि देहि शिवे नमः ।। ३५ ।।

सर्पाष्टककुलेन त्वं सेवितासि तथाप्यधः ।।

नागांगनाभिः सहिता हिता नः सर्वदा भव ।। ३६ ।।

सप्तलोकैः परिगता सर्वदा त्वं शिवा यतः ।।

सनकाद्यैः परिवृता ब्राह्मी जिह्मानपाकुरु ।। ३७ ।।

नक्षत्राणि च सर्वाणि ग्रहास्ताराग्रहास्तथा ।।

नक्षत्रमातरो ये च भूतप्रेतविनायकाः ।।

सर्वे ममेष्टसिद्ध्यर्थे भवंतु प्रणताः सदा ।। ३८ ।।

एभिर्मंत्रैः समभ्यर्च्य पुष्पधूपादिना ततः ।।

वासोभिरभिसंस्थाप्य फलानि विनिवेदयेत्।। ३९ ।।

तत्तूर्यध्वनिघोषेण गतिमङ्गलनिःस्वनैः ।।

नृत्यतीभिर्वरस्त्रीभिस्तां रात्रिमतिवाहयेत् ।। 4.64.४० ।।

कुंकुमक्षोदतीव्रेण दानमानादिभिः सुखम् ।।

प्रभाते वेदविदुषे सर्वं तत्प्रतिपादयेत् ।। ४१ ।।

अनेन विधिना सर्वं क्षमयन्प्रणिपत्य च ।।

भुञ्जीत मित्रसहितः सुहृद्बंधुजनैरपि ।। ४२ ।।

य एवं कुरुते पार्थ दशमीव्रतमादरात् ।।

स सर्वकाममाप्नोति मनसाभीप्सितं नरः ।। ४३ ।।

स्त्रीभिर्विशेषतः कार्यं व्रतमेतद्युधिष्ठिर ।।

लघुचित्ता यतो नार्यः सदा कामपरायणाः ।। ४४ ।।

धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ।।

कथितं ते महाराज मया व्रतमनुत्तमम् ।। ४५ ।।

ये मानवा मनुजपुङ्गव कामकामाः संपूजयंति दशमीषु सदा दशाशाः ।।

तेषां विशेषनिहिता हृदये प्रकाममाशाः फलंत्यलमलं बहुनोदितेन ।। ४६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आशादशमीव्रतं नाम चतुष्पष्टितमोऽध्यायः ।। ६४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 65

तारकद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

अहं त्वागस्करः पापः पृथिवीक्षयकारकः ।।

परिपृच्छामि गोविन्द त्वां नमस्कृत्य पादयोः ।। १ ।।

गुह्याद्गुह्यतरं ब्रूहि व्रतं किंचिदनुत्तमम्।।

तरामि येन पापौघं भीष्मद्रोणवधार्णवम् ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

आसीत्पुरोत्तरो नाम्ना विदर्भायां कुशध्वजः ।।

सांतःपुरसुतो यश्च चक्रे राज्यमतंद्रितः ।। ३ ।।

जघान तापसं सोऽथ प्रमादान्मृगयां गतः ।।

मृगं मत्वा महारण्ये ब्राह्मणं दैवमोहितः ।। ४ ।।

तेन कर्मविपाकेन देहांते नरकं गतः ।।

तत्रासौ यातना घोरा अनुभूयातिपीडितः ।। ५ ।।

तस्मादिहागतो मर्त्ये रौद्रो विषधरोऽभवत्।।

अदशत्सोऽपि राजेन्द्र ब्राह्मणं चरणे रुषा ।। ६ ।।

लब्ध्वा सह च पंचत्वं जगाम द्विजसंयुतः ।।

विपन्नस्तु ततः सिंहो द्वितीयेऽभूत्सुदारुणः ।। ७ ।।

विदारितमुखो हिंस्रो नानासत्त्वभयंकरः ।।

जघानासौ पुनः श्रेष्ठं राजन्यं मृगया गतम् ।। ८ ।।

ततोऽपि बहुभिः शस्त्रै राजलोकैर्निपातितः ।।

पुनर्व्याघ्रो बभूवासौ तृतीयेऽपि भवांतरे ।। ९ ।।

तीक्ष्णपादनखाघातव्यापादितमृगान्वयः ।।

तेनापि वैश्यो निधनं नीतः किञ्चिद्वनांतरम् ।। 4.65.१० ।।

स नीतः कृमिराशित्वं लोकैः खातनिपातनात् ।।

संजातस्तु महानृक्षो नखराहतजंतुरुक् ।। ११ ।।

जघान बालं चण्डालादसौ मृत्युमवाप्नुयात् ।।

पञ्चमे मकरो जातः समुद्रेऽ तिभयंकरः ।। १२ ।।

स्त्रियं जघान तरुणीं स्नातुकामामथागताम् ।।

प्रभाते शङ्करस्याग्रे शशाङ्कग्रहणे निशि ।। १३ ।।

तत्रापि बडिशं दत्त्वा जनैः प्राणैर्वियोजितः ।।

पुनः षष्ठे भवे जातः पिशाचः पिशिताशनः ।। १४ ।।

क्रूरश्छिद्रपरः क्षुद्रो नरप्राणवियोजकः ।।

सोऽवतीर्णो नरस्यांगं कर्षयामास कस्यचित् ।। १५ ।।

मंत्रेणाहूय सिद्धेन वातिकेन व्यसुः कृतः ।।

सप्तमे स पुनर्जातो दुर्निरीक्ष्यवपुर्भृशम्।। १६ ।।

क्रूरदंष्द्रः करालास्यो मांसशोणितभोजनः ।।

दिग्वासा मरुभूमीषु वाशिष्ठो ब्रह्मराक्षसः ।।१७।।

स राष्ट्रं जर्जरं शून्यं सर्वं चक्रे विषादिषु ।।

आक्रम्य भीमदासेन राज्ञा राक्षसशत्रुणा ।। १८।।

समारोप्य धनुः संख्ये ब्रह्मास्त्रेण निपातितः ।।

भूयोऽभवद्व्याघ्रसमः स्वजन्मन्यष्टमे भुवि ।।१९।।

वनेचराणां क्रुद्धाङ्गो ब्राह्मणान्निधनं गतः ।।

ततो हस्ती च भल्लूको मातंगेन धनुष्मता ।। 4.65.२० ।।

एकादशेऽपि पाञ्चालो भवमध्येऽपि भीषणः ।।

ऊर्ध्वकेशोति रक्ताक्षो जातो ह्रस्वतनुर्दृढः ।। २१ ।।

पापो धर्मध्वजो रक्षो देवतोज्झितमाल्यधृक ।।

स दण्डपाशिकेनैव वृक्षाग्रे ह्यवलंबितः ।। २२ ।।

द्वादशे स पुनर्जातः पुष्कलक्लेशभाजनः ।।

भक्ष्यलोभाद्बिलगतो व्याधेन विनिपातितः ।। २३ ।।

तेन चासीत्कृतं पूर्वं तारकद्वादशीव्रतम् ।।

तस्य प्रभावाजातोऽपि दुष्टयोनौ पुनःपुनः ।। २४ ।।

अवाप शीघ्रं पंचत्वं संसारभवसागरे ।।

पुनरेवाभवद्राजा विदर्भायां सुधार्मिकः ।। २५ ।।

भूयश्चोपोषिता तेन तारकद्वादशी शुभा ।।

दृश्यतां व्रतमाहात्म्यं जातोजातः पुनःपुनः ।। २६ ।।

व्रतप्रभावाद्भुवने भुक्त्वा राज्यमकण्टकम् ।।

प्राप विष्णुपुरे स्थानं यावदाभूतसंप्लवम् ।। २७ ।।

।। युधिष्ठिर उवाच ।। ।।

कथमेतद्व्रतं कृष्ण कर्तव्यं पुरुषोत्तमैः ।।

स्त्रीभिर्वा भर्तृवाक्येन स्नानदानजपादिकम् ।। २८ ।।

।। श्रीकृष्ण उवाच ।। ।।

मार्गशीर्षे सिते पक्षे गृहीत्वा द्वादशीव्रतम् ।।

अकृत्रिमे जले स्नानमपराह्णे समाचरेत् ।। ।। २९ ।।

प्रणम्य भास्करायाथ कृत्वा देवार्चनं तथा ।।

होमश्च तावत्स्थातव्यो यावदस्तमितो रविः ।। 4.65.३० ।।

ततो भुक्त्वा फलैः पुष्पैर्गन्धधूप विलेपनैः ।।

सजलं साक्षतं कृत्वा सहिरण्यं शुभैः फलैः ।। ३१ ।।

रम्ये ताम्रमये पात्रे जानुभ्यां धरणीं गतः ।।

पूर्वामुखः प्रदोषाग्रे मूर्ध्नि कृत्वार्घ्यभाजनम् ।। ३२ ।।

भूमौ तु मंडलं कृत्वा गोमयेन सतारकम् ।।

चंदनेन समालिख्य ध्रुवं हि गगनोन्मुखः ।। ३३ ।।

सहस्रशीर्षामंत्रेण भूमौ शक्त्या शनैः स्वयम् ।।

तारकाणां कुरुश्रेष्ठ दद्यादर्घ्यमतंद्रितः ।।३४।।

पर्युक्ष्य धूममुत्क्षिप्य दद्याद्विप्राय दक्षिणाम् ।।

क्रमेण सर्वं निर्वर्त्य भोज्यं भोज्यं निशागमे ।।३५।।

मार्गशीर्षे खंडखाद्यं पौषे सोहालकं तथा ।।

तिलतंडुलकं माघे गुडापूपं च फाल्गुने ।।३६।।

मोदकांश्चैत्रमासे तु वैशाखे खंडवेष्टकम् ।।

ज्येष्ठे सक्तुभृतैः पात्रैराषाढे गुडपूरिकैः ।। ३७ ।।

श्रावणे मधुशीर्षेण नभस्ये पायसेन च ।।

घृतपर्णैश्चाश्वयुजे कांसारैः कार्त्तिके क्रमान् ।। ३८ ।।

एभिर्द्वादशभिर्वर्षैर्भोजयित्वा द्विजान्स्वयम् ।।

भुञ्जीत भक्त्या राजेन्द्र पश्चाद्देवं क्षमापयेत् ।। ३९ ।।

समाप्ते तु व्रते कृत्वा राजतं तारकागणम् ।।

दृष्ट्वा वा पूर्वविधिना पूजयित्वा क्षमापयेत् ।। 4.65.४० ।।

कुम्भा द्वादश दातव्याः सोदका मोदकाश्रिताः ।।

ब्राह्मण्यां परिधानं च पद्मरागः सकुंचकः ।। ४१ ।।

ब्राह्मणे वल्गुलल्लाटं लक्षपुष्पोपशोभितम् ।।

चालकेनोपवीतं च पुष्पं दत्त्वा क्षमापयेत् ।। ४२ ।।

अनेन विधिना राजन्यः करोति व्रतं नरः ।।

नारी वा भरतश्रेष्ठ भक्तिभावपुरःसरा ।। ४३ ।।

नक्षत्रलोकं व्रजति विमानेनार्कवर्चसा ।।

अप्सरोगणगन्धर्वयक्षविद्याधरामरैः ।। ४४ ।।

सहस्रभर्त्ता स्वर्लोके पूज्यमानो दिवाकरैः।।

वसेत्कल्पायुतं यावत्पुनर्विष्णुपुरं व्रजेत् ।। ४५ ।।

एतद्व्रतं पुरा चीर्णं शच्या राज्ञ्या श्रियोमया ।।

सीतया दमयंत्या च रुक्मिण्या सत्यभामया ।। ४६ ।।

मेनया रंभया स्वर्गे उर्वश्या देवदत्तया ।।

अन्याभिरपि नारीभिः पुरुषैश्च पृथग्विधैः ।। ४७ ।।

चीर्णमेतद्व्रतं पार्थ सर्वपापभयापहम् ।। ४८ ।।

जन्मांतरेष्वपि कृतानि हरत्यघानि या संदहत्यहरहः सुकृतोपयोगात् ।।

सा द्वादशी जगति तारकनामधेया तन्नास्ति यन्न विदधाति कृता मनुष्यैः ।। ४९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तारकद्वादशीव्रतं नाम पञ्चषष्ठितमोऽध्यायः ।। ६५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 66

अरण्यद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

भगवन्ब्रूहि मे सम्यगरण्यद्वादशीव्रतम् ।।

सप्राशनं सोपवासं सरहस्यं समन्त्रकम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

कौंतेय यत्पुरा चीर्णं सीतया वनसंस्थया ।।

व्रतं राघववाक्येन प्रशस्तं दोषवर्जितम् ।। २ ।।

लोपामु्द्रालये साध्व्यो मुनिपत्न्यो बहुप्रजाः ।।

भोजितास्तर्पिताः सर्वैराहारैः सर्वकामिकैः ।। ३ ।।

पद्मिनीपत्रविस्तीर्णे सोपदंशै र्यथा नवैः ।।

भक्ष्यभोज्यैस्तथा लेह्यैश्चोष्यैश्चापि यदृच्छया ।। ४ ।।

तामिहैकमनाः पार्थः शृणुष्वारण्यद्वादशीम् ।।

मार्गशीर्षे सिते पक्षे एकादश्यां दिनोदये ।। ५ ।।

स्नात्वा नरः सोपवासः कृत्वा पूजां जनार्दने ।।

गंधपुष्पाक्षतैर्धूपैर्दीपैर्जागरणैर्निशाम् ।।६।।

नीत्वा प्रभाते गत्वा च वने वेदाङ्गपारगान् ।।

भोजयित्वा फलप्रायं स्वयं भुञ्जीत वाग्यतः ।। ७ ।।

पञ्चगव्यं प्राशयित्वा पूर्वमेवाथ तद्दिने ।।

वर्षमेकं शुभं पूर्ण पारयित्वा युधिष्ठिर।।८।।

श्रावणे कार्त्तिके माघे चैत्रे वाथ समर्चिते ।।

सोपदंशैः पत्रशाकैस्तिलशष्कुलिकादिभिः ।। ९ ।।

अपूपैः खण्डवेष्टैश्च मरीचैः सिंहकेसरैः ।।

धूलीमुखै रमृतफलैः स्वादुकोकरसैः शुभैः ।। 4.66.१० ।।

शीतलैस्तर्पयेद्विद्वानर्कपुष्पैः सुमालकैः ।।

दधिक्षीराज्यपाणिज्यैश्चातुर्जातकरंजितैः ।। ११ ।।

कर्पूरनख विद्धैश्च मधुरैः पनसोत्तमैः ।।

बहुवृक्षं वनं गत्वा सुस्वादुसलिलं शिवम् ।।१२।।

सुखासनोपविष्टांश्च प्रागुदङ्मुखवच्छुचीन् ।।

भोजयेद्दश च द्वौ वा मुनीनारण्यवासिनः ।। १३ ।।

एकदंडीस्त्रिदंडीश्च गृहस्थांश्चापि सुव्रतान् ।।

ब्राह्मणीर्विविधाः सप्त एकपत्नीः पतिव्रताः ।। १४ ।।

चार्वंग्यश्चार्चिताः स्नाताः सर्वावयमशोभनाः ।।

सुवस्त्राः कुकुमाक्ताङ्गाः सुगंधकुसुमांचिताः ।। १५ ।।

अंगैर्वा भोजनीयास्तास्ताश्चादित्यस्य देवताः ।।

वासुदेवजनार्दनदामोदरमधुसूदनाः ।। १६ ।।

पद्मनाभकृष्णविष्णुगोवर्द्धनत्रिविक्रमाः ।।

श्रीधरश्च हृषीकेशः पुण्डरीकाक्ष आदिवाराहाः ।। १७ ।।

एभिर्द्वादशभिर्मन्त्रैर्नमस्कारांतयोजितैः ।।

गंधचन्दनसंवस्त्रं धूपं दत्त्वा पृथक्पृथक् ।। १८ ।।

भोजयित्वा शुभान्नानि दद्यात्ताभ्यः सुदक्षिणाम् ।।

प्रणम्य प्रार्थयेद्भक्त्या विष्णुर्मे प्रीयतामिति ।। १९ ।।

ततो भुञ्जीत सहितो भृत्यैः प्रेष्यजनेन च ।।

आगताभ्यागतैर्लोकैः सुहृत्संबंधिबंधुभिः ।। ।। 4.66.२० ।।

एवं कौंतेय कुरुते योऽरण्यद्वादशीं नरः ।।

स देहांते विमानस्थो दिव्यकन्यासमावृतः ।।

याति ज्ञातिसमायुक्तः श्वेतद्वीपं हरेः पुरम् ।। ।। २१ ।।

यत्र लोकाः पीतवस्त्राः श्यामदेहाश्चतुर्भुजाः ।।

शंखचक्रगदापद्मचारुहस्ताः सकौस्तुभाः ।। २२ ।।

गरुडासनाः साभरणा मुकुटोत्कट कुंडलाः ।।

नीलोत्पलोद्दामपद्ममालयालंकृतोरसः ।।२३।।

लक्ष्मीधरा मेघवर्णाः कूर्पराङ्गदभूषणाः ।।

तिष्ठंति विष्णुसामान्ये यावदाभूतसंप्लवम् ।। ।। २४ ।।

तस्मादेत्य महातेजाः पृथिव्यां नृपपूजिताः ।।

मर्त्यलोके कीर्तिमंतः संभवंति नरोत्तमाः ।। २५ ।।

ततो यांति परं स्थानं मोक्षमार्गं शिवं शुभम् ।।

यत्र गत्वा न शोचंति न संसारे भ्रमंति च ।। २६ ।।

ये द्वादशीमुपवसंति सितामरण्यनाम्नीं वने द्विजवरानथ भोजयंति ।।

साध्व्यः स्त्रियः सुचरिताभरणाश्च तासां विष्णुः प्रसादमुपयाति ददाति मोक्षम् ।। २७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर संवादेरण्यद्वादशीव्रतं नाम षट्षष्टितमोऽध्यायः ।। ६६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 67

रोहिणीचन्द्रव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

घनावृते वरे देवे वर्षाकाले ह्युपस्थिते ।।

मयूरकेकाकुलिते दर्दुरारावपूरिते ।। १ ।।

कुलस्त्रियः प्रयच्छंति कस्यान्नं काऽत्र देवता ।।

किं व्रतं कृष्ण विख्यातमन्नं कस्यां तिथौ भवेत् ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

प्रवृत्ते श्रावणे मासि कृष्णपक्षे ह्युपस्थिते ।।

एकादश्यां शुचिर्भूत्वा सर्वौषधिजलैः शुभैः ।। ३ ।।

माषचूर्णेन राजेन्द्र कुर्यादिंदुरिकाशनम् ।।

मोदकांश्च तथा पंच घृतपक्वान्सुनिर्मलान् ।। ४ ।।

नरमेकैकमुद्दिश्य ततो गत्वा जलाशयम् ।।

दुष्टयादोविरहितं सतोयं जलजैर्युतम् ।। ५ ।।

तस्यैव पुलिने रम्ये जुष्टान्ने गोमयादिना ।।

कृत्वा मंडलकं वृत्तं पिष्टकादिभिरर्चितम् ।। ६ ।।

चर्चितं गंधकुसुमैर्धूप दीपाक्षतोज्ज्वलम् ।।

तत्र चंद्रं लिखेदेव रोहिण्या सहितं विभुम्।।

अर्चयेच्च सभार्यो वै मन्त्रेणानेन भावितः ।।७ ।।

सोमराज नमस्तुभ्यं रोहिण्यै ते नमोनमः ।।

महासति महादेवि संपादय ममेप्सितम् ।। ८ ।।

एवं संपूज्य तस्याग्रे नैवेद्यं देयमर्चितम् ।।

तत्रैव ब्राह्मणे दद्यात्सोमो मे प्रीयता मिति ।।

प्रीयतामिति मे देवी रोहिणी सहितप्रिया ।। ९ ।।

एवमुच्चार्य दत्त्वा च ततोंऽतर्जलमाविशेत् ।।

कंठांतं कटिमात्रं वा गुल्फांतं वा जला शये ।। 4.67.१० ।।

ध्यायेच्च मनसा सोमं रोहिणीसहितं तदा ।।

यावत्समस्तं तद्भुक्तं भुक्त्वा चांतस्तटे स्थितः ।। ११ ।।

नियम्य वसतां चान्ये ततो विप्राय भोजनम् ।।

दक्षिणासहितं देयं निश्चयं वाचि कल्पयेत् ।।

भक्त्या शक्त्या यथाचित्तं यथावित्तं तथा तथा ।। १२ ।।

यः करोति नरो राजन्नारी वाथ कुमारिका ।।

वर्षेवर्षे विधानेन पार्थेदं रोहिणीव्रतम् ।। १३ ।।

इह लोके चिरं स्थित्वा धनधान्यसमाकुले ।।

गृहाश्रमे शुभां लब्ध्वा पुत्रपौत्रादिसंततिम् ।। १४ ।।

ततः सुतीर्थे मरणं ततो ब्रह्मपुरं व्रजेत् ।।

तस्माद्विष्णुपुरं पार्थ ततो रुद्रपुरं शुभम् ।।१५।।

खे रोहिणी शशधराभिमता हिता च किं कारणं शृणु नरेन्द्र निवेदयामि ।।

संपिष्टमाषरचितेंदुरिकाशितुं यद्भुक्तं जले गुडघृतेन फलं तदेतत् ।।१६।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रोहिणीचन्द्रव्रतं नाम सप्तषष्टितमोध्यायः ।। ६७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 68

अवियोगव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

अवियोगव्रतं ब्रूहि मम यादवनंदन ।।

विधानं तस्य कीदृक्च किं पुण्यं काऽत्र देवता ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु पांडव यत्नेन कथ्यमानं यथाखिलम् ।।

अवियोगव्रतं नाम व्रतानामुत्तमोत्तमम् ।। २ ।।

प्रौष्ठपदे शुक्लपक्षे द्वादश्यां प्रातरुत्थितः ।।

यस्तु शुक्लांबरधरः स्नात्वा पूर्वं जलाशये ।। ३ ।।

हृद्ये रम्ये सौधतटे हरिं लिख्येत मण्डले ।।

गोधूमचूर्णपिष्टेन लक्ष्मी तत्पार्श्ववर्तिनीम् ।। ४ ।।

तत्रैव च हरं गौरीं सावित्रीं ब्रह्मणा सह ।।

राज्ञीसहितं च रविं त्रैलोक्योद्योतकारकम् ।। ५ ।।

गंधैः पुष्पैश्च धूपैर्नैवेद्यैरर्चयेद्यथाशक्त्या ।।

अवियोगव्रतचारी मंत्रेणानेन राजेन्द्र।।६।।

नारी वा पुरुषो वा अवियोगमतिं दृढां कृत्वा ।।

भक्त्या ध्यानी मौनी दांपत्यं पूजयेद्देवम् ।। ७ ।।

सहस्रमूर्द्धा पुरुषः पद्मनाभो जनार्दनः ।।

व्यासोऽपि कपिलाचार्यो भगवान्पुरुषोत्तमः ।।८।।

नारायणो मधुलिहो विष्णुर्दामोहरो हरिः ।।

महावराहो गोविंदः केशवो गरुडध्वजः ।। ९ ।।

श्रीधरः पुंडरीकाक्षो विश्वरूपस्त्रिविक्रमः ।।

उपेन्द्रो वामनो रामो वैकुंठो माधवो ध्रुवः ।। 4.68.१० ।।

वासुदेवो हृषीकेशः कृष्णः सकर्षणोऽच्युतः ।।

अनिरुद्धो महायोगी प्रद्युम्नो नंद एव च ।। ११ ।।

नित्यं स मे शुभः प्रीतः सश्रीकः केशशूलिनः ।।

उमापतिनीलकंठः स्थाणुः शंभुर्भगाक्षिहा ।। ।। १२ ।।

ईशानो भैरवः शूली त्र्यंबकस्त्रिपुरांतकः ।।

कपर्दीशो महालिंगी महाकालो वृषध्वजः ।।१३।।

शिवः शर्वो महादेवो रुद्रो भूतमहेश्वरः ।।

ममास्तु सह पार्वत्या शंकरः शंकरश्चिरम् ।। १४ ।।

ब्रह्मा शंभुः प्रभुः स्रष्टा पुष्करी प्रपितामहः ।।

हिरण्यगर्भो वेदज्ञः परमेष्ठी प्रजापतिः ।।१५ ।।

चतुर्मुखः सृष्टिकर्ता स्वयंभूः कमलासनः ।।

विरञ्चिः पद्मयोनिश्च ममास्तु वरदः सदा।।१६।।

आदित्यो भास्करो भानुः सूर्योर्कः सविता रविः ।।

मार्तंडो मंडलज्येतिरग्निरश्मिर्जनेश्वरः ।। १७ ।।

प्रभाकरः सप्तसप्तिस्तरणिः सरणिः खगः ।।

दिवाकरो दिनकरः सहस्रांशुर्मरीचिमान् ।। १८ ।।।

पद्मप्रबोधनः पूषा किरणी मेरुभूषणः ।।

निकुंभोः वर्णभो देवः सुप्रीतोऽस्तु सदा मम ।।१९।।

लक्ष्मीः श्रीः संपदा पद्मा मा विभूतिर्हरिप्रिया ।।

पार्वती ललिता गौरी उमा शंकरवल्लभा ।। 4.68.२० ।।

गायत्री प्रकृतिः सृष्टिः सावित्री वेधसो मता ।।

राज्ञी भानुमती संज्ञा नित्यभा भास्करप्रिया। ।। २१ ।।

इति पद्मनाभशंकरपितामहार्क्कादीन्सप्रियान्पूज्य ।।

दत्त्वादत्त्वा दानं भुक्त्वा चांते व्रजेद्वेश्म ।। २२ ।।

द्वादश्यां चरति नरो व्रतमेतद्भक्तिभावितो लोके ।।

भवति यशोधनभागी संततिमान्विगतसंतापः ।। २३ ।।

हरिहरहिरण्यगर्भप्रभाकराणां क्रमेण लोकेषु ।।

भुक्त्वा भोगान्विपुलानथ योगी निर्वृतो भवति ।। २४ ।।

स्त्रीपुंसोर्यदि युग्मं पुरुषो वा यदि समाचरति कश्चित् ।।

नारी वा व्रतमेतच्चीर्त्वा यात्यालयं विष्णोः।।२५।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हरिहरहिरण्यगर्भप्रभाकराणामवियोगव्रतं नामाष्टषष्टितमोऽध्यायः ।। ६८ ।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 69

गोवत्सद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

अक्षौहिण्यो दशाष्टौ च मद्राज्यार्थे क्षयं गताः ।।

तेन पापेन मे चित्ते जुगुप्सातीव वर्तते ।। १ ।।

तत्र ब्राह्मणराजन्यवैश्यशूद्रादयो हताः ।।

भीष्मद्रोणकलिंगादिकर्णशल्यसुयोधनाः ।। २ ।।

तेषां वधेन यत्पापं तन्मे मर्माणि कृंतति ।।

पापप्रक्षालनं कञ्चिद्धर्मं ब्रूहि जगत्पते ।। ३ ।।

।। श्रीकृष्ण उवाच ।। ।।

सुमहत्पुण्यजननं गोवत्सद्वादशीव्रतम् ।।

अस्ति पार्थ महाबाहो पांडवानां धुरंधर ।। ४ ।। ।।

।। युधिष्ठिर उवाच ।। ।।

केयं गोद्वादशी नाम विधानं तत्र कीदृशम् ।।

कथमेषा समुत्पन्ना कस्मिन्काले जनार्दन ।। ५ ।।

एतत्सर्वं हरे ब्रूहि पाहि मां नरकार्णवात्।।६।।

श्रीकृष्ण उवाच।।

पुरा कृतयुगे पार्थ मुनिकोटिः समागता।।

तपश्चचार विपुलं नामव्रतधरा गिरौ।।७।।

हर्षेण महताविष्टा दैवदर्शनकांक्षया।।

जंबूमार्गे महापुण्ये नामतीर्थविभूषिते।।८।।

पारियात्रे सिद्धपात्रे रम्ये तंदुलिकाश्रमे।।

टंटाविरिति विख्याते उत्तमे शिखरे नृप ।। ९ ।।

तापसारण्यमतुलं दिव्यकाननमंडितम् ।।

वशिष्ठशुक्रांगिरसक्रतुदक्षादिभिर्वृतम् ।। 4.69.१० ।।

वल्कलाजिनसंवीतेर्भृगोराश्रममंडलम् ।।

नानामृगगणैर्जुष्टं शाखामृगगणैर्युतम् ।।११।।

प्रशांतसिंहहरिणं सर्ववस्तुगतद्रुमम् ।।

गहनं निर्ऋतं रम्यं लतासंतानसंकुलम् ।। १२ ।।

सिंहव्याघ्रगजैर्भिन्नं हरिणैः शबरैः शशैः ।।

वराहैरुरुभिश्चित्रैः समंतादुपशोभितम् ।। १३ ।।

तपस्यता तत्र तेषां मुनीनां दर्शनार्थिनाम् ।।

व्याजं चक्रे महीनाथ द्वादशार्धार्धलोचनः ।। १४ ।।

बभूव ब्राह्मणो वृद्धो जरापांडुरमूर्द्धजः ।।

श्लथच्चर्मतनुः कुब्जो यष्टिपाणिः सवेपथुः ।।

उमापि चक्रे गोरूपं शृणु तत्पार्थ यादृशम् ।। १५ ।।

क्षीरोदतोयसंभूता याः पुरामृतमंथने ।।

पञ्च गावः शुभाः पार्थ पञ्चलोकस्य मातरः ।। १६ ।।

नन्दा सुभद्रा सुरभी सुशीला बहुला इति ।।

एता लोकोपकाराय देवानां तर्पणाय च ।।१७।।

जमदग्निभारद्वाजवशिष्ठासितगौतमाः ।।

जगृहुः कामदाः पञ्च गावो दत्ताः सुरैस्ततः ।। १८ ।।

गोमयं रोचना मूत्रं क्षीरं दधि घृतं गवाम् ।।

षडंगानि पवित्राणि संशुद्धिकरणानि च ।। १९ ।।

गोमयादुत्थितः श्रीमान्बिल्ववृक्षः शिवप्रियः ।।

तत्रास्ते पद्महस्ता श्रीः श्रीवृक्षस्तेन स स्मृतः ।।

बीजान्युत्पलपद्मानां पुनर्जातानि गोमयात् ।। 4.69.२० ।।

गोरोचना च मांगल्या पवित्रा सर्वसाधिका ।।

गोमूत्राद्गुग्गुलुर्जातः सुगंधिः प्रियदर्शनः ।।

आहारः सर्वदेवानां शिवस्य च विशेषतः ।। २१ ।।

यद्बीजं जगतः किञ्चित्तज्ज्ञेयं क्षीरसंभवम् ।।

दधुः सर्वाणि जातानि मङ्गलान्यर्थसिद्धये ।।

घृतादमृतमुत्पन्नं देवानां तृप्तिकारणम् ।। २२ ।।

ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् ।।

एकत्र मन्त्रास्तिष्ठंति हविरन्यत्र तिष्ठति ।।२३।।

गोषु यज्ञाः प्रवर्तंते गोषु देवाः प्रतिष्ठिताः।।

गोषु वेदाः समुत्कीर्णाः सष डंगपदक्रमाः ।। २४ ।।

शृङ्गमूले गवां नित्यं ब्रह्मा विष्णुश्च संस्थितौ ।।

शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।। २५ ।।

शिवो मध्ये महादेवः सर्वकारणकारणम् ।।

सलाटे संस्थिता गौरी नासावंशे च षण्मुखः ।।२६।।

कंबलाश्वतरौ नागौ नासापुटसमाश्रितौ।।

कर्णयोरश्विनौ देवौ चक्षुर्भ्यां शशिभास्करौ ।। २७ ।।

दंतेषु वसवः सर्वे जिह्वायां वरुणः स्थितः ।।

सरस्वती च कुहरे यमयक्षौ च गण्डयोः ।। २८ ।।

संध्याद्वयं तथेष्टाभ्यां ग्रीवायां च पुरंदरः ।।

रक्षांसि ककुदे द्यौश्च पार्ष्णिकाये व्यवस्थिता ।। २९ ।।

चतुष्पात्सकलो धर्मो नित्यं जंघासु तिष्ठति ।।

खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ।। 4.69.३० ।।

खुराणां पश्चिमे भागे राक्षसाः संप्रतिष्ठिताः ।।

रुद्रा एकादश पृष्ठे वरुणः सर्वसन्धिषु ।। ३१ ।।

श्रोणीतटस्थाः पितरः कपोलेषु च मानवाः ।।

श्रीरपाने गवां नित्यं स्वाहालंकारमाश्रिताः ।। ३२ ।।

आदित्या रश्मयो वालाः पिण्डीभूता व्यवस्थिताः।।

साक्षाद्गंगा च गोमूत्रे गोमये यमुना स्थिता ।। ३३ ।।

त्रयस्त्रिंशद्देवकोट्यो रोमकूपे व्यवस्थिताः ।।

उदरे पृथिवी सर्वा सशैलवनकानना ।। ३४ ।।

चत्वारः सागराः प्रोक्ता गवां ये तु पयोधराः ।।

पर्जन्यः क्षीरधारासु मेघा बिंदुव्यवस्थिताः ।।३५।।

जठरे गार्हपत्योऽग्निर्दक्षिणाग्निर्हृदिस्थितः ।।।

कण्ठे आहवनीयोऽग्निः सभ्योऽग्निस्तालुनि स्थितः ।। ३६ ।।

अस्थिव्यवस्थिताः शैला मज्जासु क्रतवः स्थिताः ।।

ऋग्वेदोऽथर्ववेदश्च सामवेदो यजु स्तथा ।। ३७ ।।

सुरक्तपीतकृष्णादौ गवां वर्णे व्यवस्थिताः ।।

तासां रूपमुमा स्मृत्वा सुरभीणां युधिष्ठिर ।। ३८ ।।

संस्मृत्य तत्क्षणाद्गौरी इयेष सदृशीं तनुम् ।।

आत्मानं विदधे देवी धर्मराज शृणुष्व ताम् ।। ३९ ।।

षडुन्नतां पञ्चनिम्नां मंडूकाक्षीं सुवालधिम् ।।

ताम्रस्तनीं रौप्यकटिं सुखुरीं सुमुखी सिताम् ।। 4.69.४० ।।

सुशीलां च सुतस्नेहां सुक्षीरां सुपयोधराम् ।।

गोरूपिणीमुमां स्पृष्ट्वा स्वामिनीं तां सवत्सिकाम् ।। ४१ ।।

चर्यया प्रतरन्हृष्टो महादेवः स्वचेतसि ।।

शनैःशनैर्ययौ पार्थ विप्ररूपी महाश्रमम् ।। ४२ ।।

दत्त्वा कुलपतेः पार्श्वं भृगोस्तां गां न्यवेदयत् ।।

तपस्विनां महातेजास्तां च सर्वेषु पांडव ।। ४३ ।।

न्यासरूपां ददौ धेनुं रक्षित्वा तां दिनद्वयम् ।।

यावत्स्नात्वा इतस्तीर्त्वा जंबूमार्गं वियाम्यहम् ।। ४४ ।।।

रक्षिष्यामः प्रतिज्ञाते मुनिभिः सुरभीमिमाम् ।।

अन्तर्द्धिमगमद्देवः पुनर्व्याघ्रो बभूव ह ।। ४५ ।।

वज्रचक्रनखो देवीं ज्वलत्पिंगललोचनः ।।

जिह्वा करालवदनो जिह्वालांगूलदारुणः ।। ४६ ।।

संप्रायादाश्रमपदं तां च धेनुं सवत्सिकाम् ।।

त्रासयामास तां देव मुनीनां दिक्ष्ववस्थितः ।। ४७ ।।।

ऋषयोऽपि समाक्रांता आर्तनादं प्रचक्रिरे ।।

हाहेत्युच्चैः केचिदूचुर्हुंहुंकारैस्तथापरे ।। ४८ ।।

तालास्फोटान्ददुः केचिद्व्याघ्रं दृष्ट्वातिभैरवम् ।।

सापि हंभारवांश्चक्रे गौरुत्प्लुत्य सवत्सिका ।। ४९ ।।

तस्या व्याघ्रभयार्तायाः कपिलाया युधिष्ठिर ।।

पलायंत्या शिलामध्ये क्षणं खुरचतुष्टयम् ।।4.69.५०।।

व्याघ्रवत्सकयोस्तत्र वंदितं सुरकिन्नरैः ।।

दृश्यतेऽतीव सुव्यक्तं तदद्यापि चतुष्टयम् ।। ५१ ।।

सजलं शिवलिंगं च शम्भोस्तीर्थं तदुत्तमम् ।।

यस्संस्पृशति राजेन्द्र स गोवध्यां व्यपोहति ।। ५२ ।।

तत्र स्नात्वा महातीर्थे जंबूमार्गे नराधिप ।।

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।। ।। ५३ ।।

ततस्ते मुनयः क्रुद्धा ब्रह्मदत्तां महास्वनाम् ।।

जघ्नुर्घंटां सुरैर्दत्तां गिरिकन्दरपूरणीम् ।। ५४ ।।

शब्देन तेन व्याघ्रोऽपि मुक्त्वा गावं सव त्सिकाम् ।।

विप्रैस्तत्र कृतं नाम ढुण्ढागिरिरिति श्रुतिः ।।

तं प्रपश्यंति ये पार्थ ते रुद्रा नात्र संशयः ।। ५५ ।।

अथ प्रत्यक्षतां श्रेष्ठस्तेषां देवो महेश्वरः ।।

शूलपाणिस्त्रिपुरहा कामघ्नो वृषभे स्थितः ।। ५६ ।।

उमासहायो वरदः सस्वामी सविनायकः ।।

सनंदिः समहाकालः सशृङ्गी समनो हरः ।। ५७ ।।

वीरभद्रा च चामुंडा घंटाकर्णादिभिर्वृता ।।

मातृभिर्भूतसंघातैर्यक्षराक्षसगुह्यकैः ।।

देवदानवगन्धर्वमुनिविद्याधरोरगैः ।। ५८ ।।

प्रणम्य देवदेवाय पत्नीभिः सहितैरुमा ।।

गोरूपिणी सवत्सा च पूजिता ब्रह्मचारिभिः ।।५९।।

कार्तिके शुक्लपक्षे तु द्वादश्यां नंदिनीव्रतम् ।।

ततः प्रभृति राजेन्द्र अवतीर्णं महीतले ।। 4.69.६० ।।

उत्तानपादेन तथा व्रतं चीर्णमिदं शृणु ।।

उत्तानपादनामासीत्क्षत्रियः पृथिवीपते ।।६१।।

तस्य भार्या द्वयं चासीद्रुचिशुघ्नीति विश्रुतम् ।।

शुघ्नीजातो ध्रुवः पुत्रो वामपादधरोऽलसः ।। ६२ ।।

रुच्याः समर्पितः शुघ्न्या ध्रुवोऽयं रक्ष्यतां सखि ।।

अहं करिष्ये शुश्रूषां भर्तुस्तावत्सदा स्वयम् ।। ६३ ।।

रुची रसवतीं नित्यं प्रत्यहं कुरुते गृहे ।।

अकरोद्भर्तृशुश्रूषां शुघ्नी नित्यं पतिव्रता ।।६४।।

कदाचित्क्रोधमात्सर्यात्सापत्न्यं दर्शितं तया ।।

स्वयं रुच्या निहत्यासौ शिशुः खंडलशः कृतः ।। ६५ ।।

तापिकायां तथा स्थाल्यां पक्वसिद्धः सुसं स्कृतः ।।

अन्नभोजनवेलायां ददाति नृपभाजने ।। ६६ ।।

तं वै भक्षयितुं दुष्टा सामिषं भोजनं किल ।।

अथ भोजनवेलायां वव्रे जीवितमाप्तवान् ।। ६७ ।।

तथैव प्रहसन्बालो मातुरुत्संगजोऽभवत् ।।

तं दृष्ट्वा महदाश्चर्यं रुची पप्रच्छ विस्मिता ।। ६८ ।।

किमेतद्ब्रूहि वृत्तांतं कस्येयं व्युष्टिरुत्तमा ।।

किं त्वयाचरितं किञ्चिद्व्रतं दत्तं हुतं तथा ।। ६९ ।।

सत्यंसत्यं पुनः सत्यं येन जीवति ते सुतः।।

ममायं सप्त वारांस्तु विशल्यशकली कृतः।।4.69.७०।।

पक्वः स्वयं कृतः स्थाल्यां व्यञ्जनैः सह भोजनैः।।

परिविष्यमाणः स पुनः कथं जीवितमाप्तवान्।।७१।।

किं ते सिद्धा महाविद्या मृतसञ्जीवनी शुभा।।

रत्नं मणिर्महारत्नं योगाञ्जनमहौषधम्।।७२।।

कथयस्व महाभागे सत्यंसत्यं भगिन्यसि ।।

एवमुक्ते रुचिस्तस्यै व्याचख्यौ वत्सगोव्रतम् ।। ७३ ।।

कार्त्तिके चैव द्वादश्यां यथा चानुष्ठितं पुरा ।।

व्रतस्यास्य प्रभावेण पुनर्जीवति मे सुतः ।। ७४ ।

वत्सो मे वत्सवेलायां मृतोऽर्थं लभते पुनः ।।

समागमश्च भवति व्रतैः प्रवसितैरपि ।। ७५ ।।

यथार्थमेतद्व्याख्यातं ते च गोद्वादशीव्रतम् ।।

तवापि रुचि तत्सर्वं भविष्यति शुभं प्रियम् ।। ७६ ।।

एवमुक्तं व्रतं चीर्णं रुच्या पुत्राः सुखं धनम् ।।

संप्राप्ता जीवितांते च ध्रुवस्थाने निवेशिताः ।। ७७ ।।

ब्रह्मणा सृष्टिकारेण रुचिर्भर्त्रा सहासिता ।।

दशनक्षत्रसंयुक्तो ध्रुवः सोद्यापि दृश्यते ।।

धुवर्क्षे च यदा दृष्टे लोकः पापैः प्रमुच्यते ।। ७८ ।।

।। युधिष्ठिर उवाच ।। ।।

कीदृशं तद्विधानं च तन्मे ब्रूहि जनार्दन।।

यत्कृतं शुघ्निवचनाद्रुच्या यदुकुलोद्भव ।। ७९ ।।

।। श्रीकृष्ण उवाच ।।

संप्राप्ते कार्तिके मासि शुक्लपक्षे कुरूत्तम।।

द्वादश्यां स्नात्वा पुण्ये जलाशये ।।

नरो वा यदि वा नारी एकभक्तं प्रकल्पयेत् ।।4.69.८०।।

ततो मध्याह्नसमये दृष्ट्वा धेनुं सवत्सिकाम्।।

सुशीलां वत्सलां श्वेतां कपिलां रक्तरूपिणीम् ।।८१।।

ब्राह्मणक्षत्रियविशां शूद्राणां स्त्रीजनेश्वर ।।

यथाक्रमेण पूज्यैनां गंधपुप्पजलाक्षतैः ।। ८२।।

कुंकुमालक्तकैर्दीपैर्माषान्नवटकैः शुभैः ।।

कुसुमैर्वत्सकं चापि मंत्रेणानेन पांडव ।।८३।।

ॐ माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।।

प्रनुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट नमो नमः स्वाहा ।। ८४ ।।

इत्थं संपूज्य गां पृष्ट्वा पश्चात्तां च क्षमापयेत् ।।

ॐ सर्वदेवमये देवि लोकानां शुभनंदिनि ।।

मातर्ममाभिलषितं सफलं कुरु नंदिनि ।। ८५ ।।

एवमभ्यर्चयेदेकां गामेतद्धि गवाह्निकम् ।।

पर्युक्ष्य वारिणा भक्त्या प्रणम्य सुरभीं ततः ।। ८६ ।।

तद्दिने तापिकापक्वं स्थालीपाकं च वर्जयेत् ।।

भूमौ स्वयं ब्रह्मचारी शयीत फलमाप्नुयात्।। ८७ ।।

यावंति गात्रे रोमाणि गवां कौरवनंदन ।।

तावत्कालं स वसति गोलोके नात्र संशयः ।। ८८ ।।

मेरोः पुर्यष्टकं रम्यमिंद्राग्नियमरक्षसाम् ।।

वरुणानिलयक्षाणां रुद्रस्य च युधिष्ठिर ।।

तासामुपरि गोलोकस्तत्र याति स गोव्रती ।। ८९ ।।

ऊर्जे सिते द्विदशमेऽहनि गां सवत्सां याः पूजयंति कुसुमैर्वटकैश्च हृद्यैः ।।

ताः सर्वकामसुखभोगविभूतिभाजो मर्त्ये वसंति सुचिरं बहुजीववत्साः ।। 4.69.९० ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोवत्सद्वादशीव्रतं नामैकोनसप्ततितमोऽध्यायः ।। ६९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 70

देवशयनोत्थापनद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शृणु पार्थ प्रवक्ष्यामि गोविन्दशयनं व्रतम् ।।

कटदानं समुत्थानं चातुर्मास्यव्रतक्रमम् ।। १ ।।

।। युधिष्ठिर उवाच ।। ।।

किं देवशयनं नाम देवस्स्वपिति चाप्यसौ ।।

देवः किमर्थं स्वपिति किं विधानं सदा वद ।। २ ।।

के मंत्राः के च नियमा व्रतान्यथ क्रिया च का ।।

किं ग्राह्यं किं च भोक्तव्यं सुप्ते देवे जनार्दने ।। ३ ।।

।। श्रीकृष्ण उवाच ।। ।।

मिथुनस्थे सहस्रांशौ स्थापयेन्मधुसूदनम् ।।

तुलाराशिगते तस्मिन्पुनरुत्थापयेद्व्रतम् ।। ४ ।।

अधिमासे च पतिते एष एव विधिक्रमः ।।

नान्यथा स्थापयेद्देवं न चैवोत्थापयेद्धरिम् ।। ५ ।।

आषाढस्य सिते पक्षे एकादश्यामुपोषितः ।।

स्थापयेद्भक्तिमान्विष्णुं शंखचक्रगदाधरम् ।। ६ ।।

पीतांबरधरं सौम्यं पर्यंके स्वास्तृते शुभे ।।

शुक्लवस्त्रसमाच्छन्ने सोपधाने युधिष्ठिर ।। ७ ।।

इतिहासपुराणज्ञो विष्णुभक्तोपि यः पुमान् ।।

स्नापयित्वा दधिक्षीरघृतक्षौद्रजलैस्तथा ।। ८ ।।

समालभ्य शुभैर्गंधैर्धूपैर्व स्त्रैरलंकृतम् ।।

पूजयित्वा कुंकुमाद्यैर्मंत्रेणानेन पाण्डव ।। ९ ।।

सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् ।।

विबुद्धे त्वयि बुध्येत जगत्सर्वं चराचरम् ।। 4.70.१० ।।

एवं तां प्रतिमां विष्णोः स्थापयित्वा युधिष्ठिर ।।

तस्यैवाग्रे स्वयं वाचं गृह्णीयान्नियमांस्ततः ।। ११ ।।

चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि ।।

स्त्री वा नरो वा मद्भक्तो धर्मार्थं सुदृढव्रतः ।।१२।।

गृह्णीयान्नियमानेतान्दंतधावनपूर्वकम् ।।

तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक्पृथक् ।। १३ ।।

मधुरस्वरो भवेद्राजा पुरुषो गुडवर्जनात् ।।

तैलस्य वर्जनात्पार्थ सुन्दरांगः प्रजायते ।। १४ ।।

कटुतैलपरित्यागाच्छत्रुक्षयमवाप्नुयात् ।।

मधूकतैलत्यागेन सौभाग्यमतुलं भवेत् ।। १५ ।।

पुष्पादिभोगत्यागेन स्वर्गे विद्याधरो भवेत् ।।

योगाभ्यासी भवेद्यस्तु स ब्रह्मपदमाप्नुयात् ।। १६ ।।

कटुकाम्लतिक्तमधुरक्षारकाषायमेव च ।।

यो वर्जयेत्स वैरूप्यं दौर्गत्यं नाप्नुयात्क्वचित् ।। १७ ।।

तांबूलवर्जनाद्भोगी रक्तकण्ठश्च जायते ।।

घृतत्यागात्सुलावण्यं सर्वसिद्धिः पुनर्भवेत् ।। १८ ।।

फलत्यागाच्च मतिमान्बहुपुत्रश्च जायते ।।

शाकपत्राशनाद्रोगी अपक्वादोऽमलो भवेत् ।। १९ ।।

पादाभ्यंगपरित्यागाच्छिरोभ्यंगाच्च पार्थिव ।।

दीप्तिमान् दीप्तकरणो यक्षो द्रव्यपतिर्भवेत् ।। 4.70.२० ।।

दधिदुग्ध तक्रनियमाद्गोलोकं लभते नरः ।।

इन्द्रातिथित्वमाप्नोति स्थालीपाकविवर्जितात् ।। २१ ।।

लभेत संततिं दीर्घां तापपक्वस्य भक्षणात् ।।

भूमावस्तरशायी च विष्णोरनुचरो भवेत् ।। २२ ।।

सदा मुनिः सदा योगी मधुमांसस्य वर्जनात् ।।

निर्व्याधिर्नीरुजौजस्वी सुरामद्यविवर्जनात् ।। ।। २३ ।।

एवमादिपरित्यागाद्धर्मः स्याद्धर्मनन्दन ।।

एकांतरोपवासेन ब्रह्मलोके महीयते ।। २४ ।।

धारणं नखरोमाणां गंगास्नानं दिनेदिने ।।

मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् ।। २५ ।।

भूमौ भुंक्ते सदा यस्तु स पृथिव्याः पतिर्भवेत् ।।

नमो नारायणायेति जपतोनशनं फलम् ।। २६ ।।

पादाभिवंदनाद्विष्णोर्लभेद्गोदानजं फलम् ।।

विष्णुपादांबुसंस्पर्शात्कृतकृत्यो भवेन्नरः ।। २७ ।।

विष्णुदेवकुले कुर्यादुपलेपनमर्चनम् ।।

कल्पस्थायी भवेद्राजा स नरो नात्र संशयः ।। २८ ।।

प्रदक्षिणाशतं यस्तु करोति स्तुतिपाठकः ।।

हंसयुक्तविमानेन स च विष्णु पुरं व्रजेत् ।। २९ ।।

गीतवाद्यकरो विष्णोर्गांधर्वं लोकमाप्नुयात् ।।

नित्यं शास्त्रविनोदेन लोकान्यस्तु प्रबोधति ।। 4.70.३० ।।

स व्यासरूपी भगवानंते विष्णुपुरं व्रजेत् ।।

पुष्पमालादिभिः पूजां कृत्वा विष्णुपुरं व्रजेत् ।। ३१ ।।

नित्यस्नायी नरो यस्तु नरकं स न पश्यति ।।

भोजनं च जयेद्यस्तु स स्नानं पौष्करं लभेत् ।। ३२ ।।

कृत्वा प्रेक्षणकं दिव्यं राज्यं सोऽप्सरसां लभेत् ।।

अयाचितेन प्राप्नोति वापीकूपे यथा फलम् ।। ३३ ।।

षष्ठकालेन्नभोज्येन स्थायी स्वर्गे नरो भवेत् ।।

पर्णेषु यो नरो भुंक्ते कुरुक्षेत्रफलं लभेत् ।।३४।।

शिलायां भोजनान्नित्यं स्नानं प्रयागजं भवेत् ।।

यामद्वये जलत्यागान्न रोगैः परिभूयते ।। ३५ ।।

एवमादिव्रते पार्थ तुष्टिमायाति हेतुतः ।।

सुप्ते सति जगन्नाथे केशवे गरुडध्वजे ।। ३६ ।।

निवर्तते क्रियाः सर्वाश्चातुर्वण्यस्य भारत ।।

विवाहव्रतबंधादिभूतसंस्कारदीक्षणम् ।। ३७ ।।

यज्ञाश्च गृहवेशादि गोदानाच्च प्रतिष्ठितम् ।।

पूज्यानि यानि कर्माणि तानि सर्वाणि वर्जयेत् ।। ३८ ।।

असंक्रांतं तु मासं वै दैवे पित्र्ये च वर्जयेत् ।।

मलिम्लुचमशौचं च सूर्यसंक्रांतिवर्जितम् ।। ३९ ।।

प्राप्ते भाद्रपदे मासि एकादश्यां दिने हरेः ।।

कटदानं भवेद्विष्णोर्महापूजा प्रवर्तयेत् ।। 4.70.४० ।।

य एतदेव शयनं तत्रेदं कारणं शृणु ।।

पुरा तपःप्रभावेन तोषयित्वा हरिं विभुम् ।। ४१ ।।

ममापि मानयत्यङ्गं प्रार्थितो योगनिद्रया ।।

निरीक्ष्य चात्मनो देवा रुद्धं लक्ष्म्या उरःस्थलम् ।। ४२ ।।

शंखचक्रासिमार्गाद्यैर्बाहवोप्यथ वक्षसा ।।

अधो नाभेर्विरुद्धं मे वैनतेयेन पक्षिणा ।। ४३ ।।

मुकटेन शिरो रुद्धं कुंडलाभ्यां च कर्णकौ ।।

ततो ददावहं तुष्टो नेत्रयोः स्थानमादरात् ।। ४४ ।।

चतुरो वार्षिकान्मासान्माऽऽश्रिता सा भविष्यति ।।

योगनिद्रापि माहात्म्यं श्रुत्वा पौरातनं शुभम् ।। ४५ ।।

चकार लोचनावासमतोऽर्थं मे युधिष्ठिर ।।

अहं च तां भावयित्वा मानयामि मनस्विनीम् ।। ४६ ।।

योगनिद्रा महानिद्रा शेषाभिशयने स्थितः ।।

क्षीरोदधौ च विंध्यग्रे धौतपादः समाहितः ।। ४७ ।।

लक्ष्मीकरांबुजैरच्छैर्मृद्यमानपदद्वयः ।।

तस्मिन्कालेऽपि मद्भक्तौ यो मासांश्चतुरः क्षिपेत् ।। ४८ ।।

व्रतैरनेकैनियमैः पांडवश्रेष्ठ मानवः ।।

कल्पस्थायी विष्णुलोकं स व्रजेन्नात्र संशयः ।। ४९ ।।

ततोऽवबुध्यते देवः श्रीमाञ्छङ्खगदाधरः ।।

कार्तिके शुक्लपक्षस्य एकादश्यां पृथक्छृणु ।। 4.70.५० ।।

मन्त्रेणानेन राजेन्द्र देवमुत्थापयेद्द्विजः ।।

इदं विष्णुर्विचक्रमे स्वासने च तदा नृप ।। ५१ ।।

समुत्थिते तदा विष्णो क्रियाः सर्वाः प्रवर्तयेत् ।।

महातूर्यरवे रात्रौ भ्रामयेत्स्यंदने स्थितम् ।।५२।।

उत्थिते देवदेवेशे नगरे पार्थिवः स्वयम् ।।

दीपोद्रेककरे मार्गे नृत्यगीतजनाकुले ।। ५३ ।।

यंयं दामोदरः पश्येदुत्थितो धरणीधरः ।।

तंतं प्रदेयं राजेन्द्र सर्वं स्वर्गाय कल्पते ।। ५४ ।।

रात्रौ प्रजागरे देवमेकादश्यां सुरालये ।।

प्रभाते विमले स्नात्वा द्वादश्यां विष्णुमर्चयेत् ।। ५५ ।।

होमयेद्धव्यवाहं च हव्यद्रव्यैर्घृतादिभिः ।।

ततो विप्राञ्छुभान्स्नात्वा भोजयेदन्नविस्तरैः ।। ५६ ।।

घृतदधिक्षौद्रकाद्यैर्गुडधूपैः समोदकैः ।।

यजमानोऽपि संतुष्टस्त्वरा हास्यविवर्जितः ।। ५७ ।।

एकादश दशाष्टौ वा पंच द्वौ वा कुरूत्तम ।।

अर्चयेच्चन्दनैर्धूपैः पुष्पैर्गन्धैर्द्विजोत्तमान् ।। ५८ ।।

श्रद्धोक्तविधिना पार्थ भोजयेद्भाग्यवान्यतीन् ।।

आचांतेभ्यस्ततो दद्यात्त्यागं यत्किञ्चिदेव हि ।। ५९ ।।

स्ववाचा स्वमनोभीष्टपत्रपुष्पफलादिकम् ।।

चतुरो वार्षिकान्मासान्नियमो यस्य यः कृतः ।। 4.70.६० ।।

कथयित्वा द्विजेभ्यस्तं दद्याद्भक्त्या सदक्षिणाम् ।।

दत्त्वा विसर्जयेद्विप्रांस्ततो भुञ्जीत च स्वयम् ।। ६१ ।।

यत्त्यक्तं चतुरो मासान्प्रवृत्तिन्तस्य चाचरेत् ।।

एवं य आचरेत्पार्थ सोऽनन्तं धर्ममाप्नुयात् ।। ६२ ।।

अवसाने तु राजेन्द्र वासुदेवपुरीं व्रजेत् ।।

यस्याविघ्नैः समाप्येत चातुर्मास्यव्रतं नृप ।। ६३ ।।

स भवेत्कृतकृत्यस्तु न पुनर्मातृको भवेत् ।।

यो देवशयनं पार्थ मासंमासं समाचरेत ।। ६४ ।।

उत्थानं चापि कृष्णस्य स हरेर्लोकमाप्नुयात् ।।

शृणोति ध्यायति स्तौति जुहोत्याख्याति यो नरः ।।

विष्णोर्भक्तिं परां पार्थ स गच्छेद्वैष्णवं पदम् ।। ६५ ।।

दुग्धाब्धिभोगशयने भगवाननन्तो यस्मिन्दिने स्वपिति यत्र विबुध्यते वा ।।

तस्मिन्ननन्यमनसामुपवासभाजां पुंसां ददाति सुगतिं गरुडांगसंगी ।। ६६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे देवशयनोत्थापनद्द्वादशी व्रतवर्णनं नाम सप्ततितमोऽध्यायः ।। ७० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 71

नीराजनद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पुरा बभूव राजर्षिरजपाल इति श्रुतः ।।

प्रार्थितः स प्रजाभिस्तु सर्वदुःखापनुत्तये ।। १ ।।

दुःखापनोदं कुरु भो व्याधितानां नरेश्वर ।।

एवमुक्तश्चिरं ध्यात्वा कृत्वा व्याधीन्प्रजागणान् ।। २ ।।

पालयामास हृष्टोऽसावजपालस्ततोऽभवत् ।।

तेनैषा निर्मिता शांतिर्नाम्ना नीराजता जने ।। ३ ।।

तस्यास्तु पांडवश्रेष्ठ लक्षणं वच्मि ते शृणु ।।

राज्ञा पुरोहितैः सार्द्धमनुष्ठेया विधानतः ।। ४ ।।

तस्मिन्काले वभूवाथ रावणो राक्षसेश्वरः ।।

लंकास्थितः सुरगणान्नियुनक्ति स्वकर्मसु ।। ५ ।।

अखण्डमण्डलं चन्द्रमातपत्रं चकार ह ।।

इन्द्रं सेनापतिं चक्रे वायुं पांसुप्रमार्जकम् ।। ६ ।।

वरुणं बद्धकर्मस्थं धनदं धनरक्षकम् ।।

यमं संयमनेऽरीणां युयुजे मंत्रणे मनुम् ।। ७ ।।

मेघाश्छादन्ति नृपतिं द्रुमपुष्पादिपंक्तिषु ।।

सप्तर्षयः शांतिपरा ब्रह्मणा सह संस्थिताः ।। ८ ।।

यामिका मध्यकक्षायां गन्धर्वा गीततत्पराः ।।

प्रेक्षणीयेऽप्सरोवृंदं बाह्ये विद्याधरा वृताः ।। ९ ।।

गंगाद्याः सरितः पाने गार्हपत्ये हुताशनः ।।

विश्वकर्मान्नसंस्कारे यमः शिल्पिप्रयोजने।।4.71.१ ०।।

तिष्ठंति पार्थिवाः सर्वे पुरःसेवाविधायिनः ।।

दृश्यंते भासुरै रत्नैः प्रभावंतो विभूषणैः ।। ११ ।।

संदृश्य रावणः प्राह प्रशस्तं प्रतिहारकम् ।।

सेवां कर्तुं मम स्थाने ब्रूहि कोऽत्र समागतः ।। १२ ।।

स उवाच प्रणम्याग्रे दंडपाणिर्निशाचरः ।।

एष ककुत्स्थो मांधाता धुंधुमारो नलोर्जुनः ।। १३ ।।

ययातिर्नहुषो भीमो राघवोयं विदूरथः ।।

एते चान्ये च बहवो राजान इति आसते ।। १४ ।।

मेघाकारास्तव स्थाने नाजपाल इहागतः ।।

रावणः कुपितः प्राह शीघ्रं दूतं व्यसर्जयत्।।१५।।

इत्युक्ते प्रहितो दूतो धूम्राक्षो नाम राक्षसः ।।

धूम्राक्ष गच्छ ब्रूहि त्वमजपालं ममाज्ञया ।। १६ ।।

सेवां कुरु समागच्छ कबन्धो यस्य पार्थिवः ।।

अन्यथा चन्द्रहासेन त्वां करिष्ये विकंधरम् ।। ७७ ।।

रावणेनैवमुक्तस्तु धूम्राक्षो गरुडो यथा ।।

संप्राप्य तां पुरीं रम्यां तच्च राजकुलं गतः ।। ।। १८ ।।

ददर्श यं तमेकं स अजपालमजावृतम् ।।

मुक्तकेशं मुक्तकक्षं नैकमुक्तक्रमद्वयम् ।। १९ ।।

यष्टिस्कन्धं रेणुभृतं व्याधिभिः परिवारितम् ।।

निहतामित्रशार्दूलं सर्वोपद्रवनाशनम् ।। 4.71.२० ।।

मह्यामालिख्य नामानि विनिघ्नितं द्विषां गणम् ।।

स्नातं भुक्तं शुभे स्थाने कृतकृत्यं मुनिं यथा ।। २१ ।।

दृष्ट्वा हृष्टमनाः प्राह धूम्राक्षो रावणोदितम् ।।

साक्षेपमजपालोऽपि प्रत्युक्त्वा कारणांतरम् ।। २२ ।।

प्रेषयामास धूम्राक्षं ततः कृत्यं समादधे ।।

ज्वरमाकारयित्वा तु प्रोवाचेदं महीपतिः ।। २३ ।।

गच्छ लंकाधिपस्थानमाचरस्व यथोचितम् ।।

नियुक्तस्त्वजपालेन ज्वरो राजञ्जगाम ह ।। २४ ।।

गत्वा च कंपयामास सगणं राक्षसेश्वरम् ।।

रावणस्तं विदित्वा तु ज्वरं परमदारुणम् ।। २५ ।।

प्रोवाच तिष्ठतु नृपस्तेन मे न प्रयोजनम् ।।

ततः सविज्वरो राजा बभूव धनदानुजः ।। २६ ।।

तेनैषा निर्मिता शांतिरजपालेन धीमता ।।

सर्वरोगप्रशमनी सर्वोपद्रवनाशिनी ।। २७ ।।

कार्तिके शुक्लपक्षस्य द्वादश्यां रजनीमुखे ।।

समुत्थिते विनिद्रे तु देवे दामोदरे तदा ।। २८ ।।

वेद्यंते रत्नमालाभी रम्ये मालानुरंजिते ।।

जनयित्वा नवं विष्णुं हुत्वा मंत्रैर्द्विजोत्तमैः ।। २९ ।।

वर्द्धमानतरूत्थाभिर्दीपिकाभिर्हुताशनम् ।।

कृत्वा महाजनः सर्वैर्हरिं नीराजयेच्छनैः ।। 4.71.३० ।।

पुष्पैरभ्यर्चितं देवं समालब्धं च चन्दनैः ।।

बदरैः कर्बुरैश्चैव त्रपुसैरिक्षुभिस्तथा ।। ३१ ।।

गन्धैः पुष्पैरंलकारैर्वस्त्रै रत्नैश्च पूजितैः ।।

तस्यैवानुमता लक्ष्मीं ब्रह्माणं चंडिकां तथा।। ३२ ।।

आदित्यं शंकरं गौरीं यक्षं गणपतिं ग्रहान् ।।

मातरं पितरं नागान्सर्वान्नीराजयेत्ततः ।। ३३ ।।

गवां नीराजनं कुर्यान्महिष्यादेश्च मंडलम् ।।

भ्रामयेत्त्रासयेच्छर्दिघंटावादनछादनैः ।। ३४ ।।

ता गावः प्रसुता यांति स्वापीडास्तबकांगदाः ।।

सिन्दूरकृतशृंगाग्राः संभारवशवत्सकाः ।। ३५ ।।

अनुयांति सगोपालाः कालयंतो धनानि ते ।।

छेदानुलिप्तरक्ताङ्गा रक्तपीतसितांबराः ।। ३६ ।।

एवं कोलाहले वृत्ते गवां नीराजनोत्सवे ।।

तुरगाँल्लक्षणैर्युक्तान्द्विरदांश्च सुपूजितान् ।। ३७ ।।

राजचिह्नानि सर्वाणि उद्धृत्य स्वगृहांगणे ।।

राजा पुरोहितैः सार्द्धं मंत्रिभृत्यपुरःसरः ।। ३८ ।।

सिंहासनोपविष्टश्च शंखतूर्यादिनिस्वनैः ।।

पूजयेद्गन्धकुसुमैर्वस्त्रदीपविलेपनैः ।। ३९ ।।

ततः स्त्रीलक्षणैर्युक्ता वेश्या वाथ कुलाङ्गना ।।

शीर्षोपरि नरेन्द्रस्य भ्राभयेद्दारुपात्रिकाम् ।। 4.71.४० ।।

शांतिरस्तु समृद्धिश्च द्विजैश्च स्वजनेन च ।।

ततो नीराजयेत्सौम्यं हस्त्यश्वरथसंकुलम् ।। ४१ ।।

एवमेषा महाशांतिः ख्याता नीराजने जने ।।

येषां राष्ट्रे पुरे ग्रामे क्रियते पांडुनन्दन ।। ४२ ।।

तेषां रोगाः क्षयं यांति सुभिक्षं वर्द्धते तदा ।।

शांतिनीराजनाल्लोके सर्वान्रोगान्व्यपोहति ।। ४३ ।।

लोकानावर्द्धयित्वा तु अजपालवरो यथा ।।

एषां रोगादिपीडासु जंतूनां हितमिच्छता ।। ४४ ।।

वर्षेवर्षे प्रयोक्तव्या शांतिर्नीराजना इति ।। ४५ ।।

नीराजयंति नवमेघनिभं हरिं ये गोब्राह्मणान्रथगजांश्च नरेशचिह्नान्।।

ते सर्वरोगरहिताश्च नुता नरेन्द्रैरिंद्रप्रभा भुवि भवंत्यजपालवाक्यात् ।। ४६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नीराजनद्वादशीव्रतवर्णनं नामैकसप्ततितमोऽध्यायः ।। ७१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 72

भीष्मपञ्चकव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

यदेतदतुलं पुण्यं व्रतानामुत्तमं व्रतम् ।।

कर्तव्यं कार्त्तिके मासि प्रयत्नाद्भीष्मपञ्चकम् ।। १ ।।

विधानं कीदृशं तस्य फलं च यदुसत्तम ।।

कथयस्व प्रसादान्मे मुनीनां हितमिच्छताम् ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

प्रवक्ष्यामि व्रतं पुण्यं व्रतानामुत्तमं व्रतम् ।।

यथाविधि च कर्तव्यं फलं चास्य यथोदितम् ।। ३ ।।

मयापि भृगवे प्रोक्तं भृगुश्चोशनसे ददौ ।।

उशनापि हि विप्रेभ्यः प्रह्लादाय च धीमते ।। ४ ।।

तेजस्विनां यथा वह्निः पवनः शीघ्रगामिनाम् ।।

विप्रो यथा च पूज्यानां दानानां काञ्चनं यथा ।। ५ ।।

भूलोकः सर्वलोकानां तीर्थानां जाह्नवी यथा ।।

यथाश्वमेधो यज्ञानां मथुरा मुक्तिकांक्षिणाम्।। ६ ।।

वेदो यथैव शास्त्राणां देवानामच्युतो यथा ।।

तथा सर्वव्रतानां तु वरोक्तं भीष्मपञ्चकम् ।। ७ ।।

दुष्करं भीष्ममित्याहुर्न शक्यं तदिहोच्यते ।।

यस्तत्करोति राजेन्द्र तेन सर्वं कृतं भवेत् ।। ८ ।।

वशिष्ठभृगुभर्गाद्यैश्चीर्णं कृतयुगादिषु ।।

नाभागांगांबरीषाद्यैश्चीर्णं त्रेतायुगादिषु ।। ९ ।।

सीरभद्रादिभिर्वैश्यैः शूद्रैरन्यैः कलौ युगे ।।

दिनानि पंच पूज्यानि चीर्णमेतन्महाव्रतम् ।। 4.72.१० ।।

ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः ।।

क्षत्रियैश्च तथा शक्त्या शौचव्रतपरायणैः ।। ११ ।।

पराधिः परिहर्तव्यो ब्रह्मचर्येण निष्ठया ।।

मद्यं मांसं परित्यज्य मैथुनं पापभाषणम् ।। १२ ।।

शाकाहारपरैश्चैव कृष्णार्चनपरैर्नरैः ।।

स्त्रीभिर्वा भर्तृवाक्येन कर्तव्यं सुखवर्द्धनम् ।। १३ ।।

विधवाभिश्च कर्तव्यं पुत्रपौत्रादिब्रुद्धये ।।

सर्वकामसमृद्ध्यर्थं मोक्षार्थमपि पांडव ।। १४ ।।

नित्यं स्नानेन दानेन कार्त्तिकी यावदेव तु ।।

प्रातः स्नात्वा विधानेन मध्याह्ने च तथा व्रती ।। १५ ।।

नद्य निर्झरगर्ते वा समालभ्य च गोमयम् ।।

यवव्रीहितिलैः सम्यक्तर्पयेच्च प्रयत्नतः ।। १६ ।।

देवानृषीन्पितॄंश्चैव ततोन्यान्कामचारिणः ।।

स्नानं मौनं नरः कृत्वा धौतवासा दृढव्रतः ।। १७ ।।

ततोऽनुपूजयेद्देवं सर्वपापहरं हरिम् ।।

स्नापयेच्चाच्युतं भक्त्या मधुक्षीरघृतेन च ।। १८ ।।

तत्रैव पञ्चगव्येन गंधचंदनवारिणा ।।

चन्दनेन सुगंधेन कुंकुमेनाथ केशवम् ।। १९ ।।

कर्पूरोशीर मिश्रेण लेपयेद्गरुडध्वजम् ।।

अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः ।। 4.72.२० ।।

गुग्गुलुं घृतसंयुक्तं दहेत्कृष्णाय भक्तितः ।।

दीपकं च दिवा रात्रौ दद्यात्पंचदिनानि तु ।। २१ ।।

नैवेद्यं देवदेवस्य परमान्नं निवेदयेत् ।।

ॐ नमो वासुदेवायेति जपेदष्टोत्तरं शतम् ।। २२ ।।

जुहुयाच्च घृताक्तांश्च तिलव्रीहींस्ततो व्रती ।।

षडक्षरेण मंत्रेण स्वाहाकारान्वितेन च ।। २३ ।।

उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम् ।।

जपित्वा पूर्ववन्मंत्रं क्षितिशायी भवेन्नरः ।। २४ ।।

सर्वमेतद्विधानं च कार्यं पंचदिनेषु हि ।।

संविशेत्कंबले चास्मिन्पदपूर्वं शृणुष्व मे ।। २५ ।।

प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्नरः ।।

द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ।। २६ ।।

पूजयेच्च तृतीयेऽह्नि नाभिं भृङ्गरसेन च ।।

मध्ये बिल्वजयाभिश्च ततः स्कंधौ प्रपूजयेत् ।। २७ ।।

ततोऽनुपूजयेच्छीर्षं मालत्याः कुसुमैर्नवैः ।।

कार्त्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ।। २८ ।।

अर्चयित्वा हृषीकेशमेकादश्यां समाहितः ।।

संप्राश्य गोमयं सम्यङ् मंत्रवत्समुपावसेत् ।। २९ ।।

गोमूत्रं मंत्रवत्कृत्वा द्वादश्यां प्राशयेद्व्रती ।।

क्षीरं तत्र त्रयोदश्यां चतुर्दश्यां तथा दधि ।। 4.72.३० ।।

संप्राश्य कायशुद्ध्यर्थं लंघयेत चतुर्दिनम् ।।

पंचमे तु दिने स्नात्वा विधिवत्पूज्य केशवम् ।। ३१ ।।

भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।।

तथोपदेष्टारमपि पूजयेद्वस्त्रभूषणैः ।। ३२ ।।

ततो नक्तं समश्नीयात्पञ्चगव्यपुरःसरम् ।।

एवं समापयेत्सम्यग्यथोक्तं व्रतमुत्तमम् ।। ३३ ।।

सर्वपापहरं पुण्यं प्रख्यातं भीष्मपञ्चकम् ।।

मद्यपो यस्त्यजेन्मद्यं जन्मनो मरणांतिकम् ।। ३४ ।।

तद्भीष्मपञ्चकं त्यक्त्वा प्राप्नोत्भ्ययधिकं फलम् ।।

ब्रह्मचर्यं नरश्चीर्त्वा सुघोरं नैष्ठिकं व्रतम् ।।३५।।

यत्प्राप्नोति महत्पुण्यं तत्कृत्वा भीष्मपंचकम् ।।

गात्रा भ्यंगं शिरोऽभ्यंगं मधु मांसं च मैथुनम् ।। ३६ ।।

ब्रह्मलोकमवाप्नोति त्यक्त्वैकं भीष्मपञ्चकम् ।।

संवत्सरेण यत्पुण्यं कार्त्तिकेन च यद्भवेत् ।।३७।।

यत्फलं कार्त्तिकेनोक्तं भवेत्तद्भीष्मपञ्चके ।।

व्रतमेतत्सुरैः सिद्धैः किन्नरैर्नागगुह्यकैः ।।३८।।

फलं समीहितं प्राप्य कृत्वाभ्यर्च्य जनार्दनम् ।।

पापस्य प्रतिमा कार्या रौद्रवक्त्रातिभीषणा ।। ३९ ।।

खड्गहस्तातिविकृता सर्वलोकमयी नृप ।।

तिलप्रस्थोपरि स्थाप्या कृष्णवस्त्राभिवेष्टिता ।। 4.72.४० ।।।

करवीरकुसुमापीडा चलत्काञ्चनकुंडला ।।

ब्राह्मणाय प्रदातव्या कृष्णो मे प्रीयतामिति ।। ४१ ।।

अन्येषामपि दातव्यं यत्कृत्वा वसु वांछितम् ।।

कृतकृत्यः स्थिरो भूत्वा विरक्तः संयतो भवेत् ।। ४२ ।।

शांतचेता निराबाधः परं पदमवाप्नुयात् ।।

नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ।। ४३ ।।ऽ

अष्टषष्ठैकनयनः शंकुकर्णो महास्वनः।।

जटी द्विजिह्वस्तामस्यो मृगराजतनुच्छदः ।। ४४ ।।

चिंतनीयो महादेवो यस्य रूपं न विद्यते ।।

इदं भीष्मेण कथितं शरतल्पगतेन मे ।। ४५ ।।

तदेव ते समाख्यातं दुष्करं भीष्मपंचकम् ।।

व्रतं च राजशार्दूल प्रवरं भीष्मपञ्चकम् ।। ४६ ।।

यस्तस्मिंस्तोषयेद्भक्त्या तस्मै मुक्तिप्रदोऽच्युतः ।।

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ।। ४७ ।।

प्राप्नोति वैष्णवं स्थानं सत्कृत्वा भीष्मपञ्चकम् ।।

ब्रह्महा मद्यपः स्तेयी गुरुगामी सदाकृती ।। ४८ ।।

मुच्यते पातकात्सम्यक्कृत्वैकं भीष्मपञ्चकम् ।।

नास्माद्व्रतात्पुण्यतमं वैष्णवेभ्यो यतो व्रतम् ।। ४९ ।।

अथास्मिंस्तोषितो विष्णुर्नृणां मुक्तिप्रदो भवेत् ।।

श्रुत्वैतत्पठ्यमानं तु पवित्रं भीष्मपंचकम् ।। 4.72.५० ।।

मुच्यते पातकेभ्यो वा पाठको विष्णुलोकभाक् ।।

धन्यं पुण्यं पापहरं युधिष्ठिर महाव्रतम् ।। ५१ ।।

यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृतिपञ्चदशीनिरुद्धम् ।।

अन्नस्य भोजननिवृत्तिवशादमुष्मिन्निष्टं फलं दिशति पांडव शार्ङ्गधन्वा ।। ५२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भीष्म पंचकव्रतवर्णनं नाम द्विसप्ततितमोऽध्यायः ।।७२।।

पर्व ४ (उत्तरपर्व) — Adhyāya 73

मल्लद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

शङ्खचक्रगदापाणे श्रीवत्स गरुडासन ।।

ब्रूहि मे मल्लद्वादश्या विधानं देवकीसुत ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

यदा भांडीरन्यग्रोधे वसामि यमुनातटे ।।

गोपालमध्ये गोवत्सैरष्टवर्षोस्मि लीलया ।। ।। २ ।।

कंसासुरवधार्थाय मथुरोपवने तदा ।।

आबालो बालरूपेण गोपमल्लैर्बलोत्कटैः ।। ३ ।।

समेत्य मल्लगोपस्य बलेन सह कानने ।।

आस्फोटयंति नृत्यंति त्रिदशे त्रिदशा इव ।। ४ ।।

सुरभद्रो मंडलीकयोगवर्द्धनयोगदाः।।

यक्षेंद्रभद्र इत्यादि तेषां नामानि गोकुले ।। ५ ।।

गोपीनामपि नामानि प्राधान्येन निबोध मे ।।

गोपाली पालिका धन्या विशाखा ध्याननिष्ठिका।। ६ ।।

इल्वानुगन्धा सुभगा तारका दशमी तथा ।।

इत्येवमादिभिरहं सूपविष्टो वरासने ।। ७ ।।

पूजितोऽस्मि सुरैः पुष्पैर्दधिदुग्धाक्षतैस्तथा ।।

शतानि त्रीणि षष्टिश्च मल्लानां पूजयंति माम् ।। ८ ।।

मल्लिन्यश्च सुरामांसैरंगजागरनर्त्तनैः ।।

मल्लयुद्धैर्बहुविधैर्बाह्यैर्मल्लभटैः स्फुटैः ।। ९ ।।

भक्ष्यैर्भोज्यैस्तथा पानैर्दधिदुग्धघृतासवैः ।।

गोदानैर्वृषदानैश्च श्रद्धया विप्रपूजनैः ।। 4.73.१० ।।

गोष्ठीप्रभूतैर्वधूनां स्नेहसंभाषणैर्मिथः ।।

एवं द्वादश द्वादश्यो ग्रहीतव्या यथेच्छया ।। ११ ।।

संबंधिभिः क्रमेणैव मल्लानां च पृथक्पृथक् ।।

पूजयंति क्रमेणैव मासिमासि तनुं मम ।। १२ ।।

मासादिकार्तिकांतं च भक्त्या द्वादशनामभिः ।।

पारणेपारणे दद्यान्मल्लकानि द्विजातये ।। १३ ।।

केशवनारायणमाधवगोविन्दविष्णुमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेशपद्मनाभदामोदराणां नमोनम इति ।। ।। १४ ।।

गन्धैः पुष्पैस्तथा धूपैर्दीपैर्जागरणैर्निशि ।।

गीतवाद्यैश्च नृत्यैश्च मल्लक्ष्वेडांगयुद्धकैः । १५ ।।

घृतदानैः क्षीरदानैः कृष्णो मे प्रीयता मिति ।।

एवमेष विधिः प्रोक्तो मासैर्द्वादशभिर्नृप ।। १६ ।।

द्वादशी या ममाद्यापि मनसः प्रीतिवर्द्धनी ।।

मल्लैः प्रवर्तिता यस्मादतोऽर्थं मल्लद्वादशी ।। १७ ।।

तेषां परममल्लानां तेषां ज्ञान युधिष्ठिर ।।

गोष्ठे बभूव सुप्राज्यं गोमहिष्याद्यजाविकम् ।। १६ ।।

मत्प्रसादाद्धर्मपुत्र बलं कीर्तिर्यशो धनम् ।।

एवमन्येऽपि पुरुषा ह्यबला मल्लद्वादशीम् ।। १९ ।।

ये करिष्यंति मद्भक्तास्तेषां दास्यामि हृद्गतम् ।।

आरोग्यं बलमैश्वर्य विष्णुलोकं च शाश्वतम् ।। 4.73.२० ।।

भांडीरपादपतले मिलितैर्महद्भिर्मल्लैरनाकुलितबाहुबलैर्बलिष्ठैः ।।

संपूजितः सपदि यत्र तिथौ ततश्च सा द्वादशी सुविदिता व्रत मल्ल संज्ञा ।। २१ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मल्लद्वादशीव्रतवर्णनं नाम त्रिसप्ततितमोऽध्यायः।। ७३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 74

भीमद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

विदर्भाधिपतिः श्रीमानासीत्पूर्वं सुधार्मिकः ।।

दमयंत्याः पिता पूर्वं नलस्य श्वशुरो भुवि ।। १ ।।

सत्यवादनशीलश्च प्रजापालनतत्परः ।।

क्षत्रधर्मरतः श्रीमान्संग्रामेष्वपराजितः ।। २ ।।

तस्यापि कुर्वतो राज्यं शास्त्रदृष्टेन कर्मणा ।।

आजगाम महाभागः पुलस्त्यो ब्रह्मणः सुतः ।। ३ ।।

सर्वज्ञाननिधिः श्रीमांस्तीर्थयात्राप्रसंगतः ।।

तमागतमथो दृष्ट्वा ब्रह्मयोनिमकल्मषम् ।। ४ ।।

उत्थाय प्रददौ राजा स्वमासनमभीप्सितम् ।।

अर्घं पाद्यं च यत्किञ्चित्तत्तस्मै प्रददौ स्वयम् ।। ५ ।।

राज्यं चैवात्मना सार्द्धं निवेद्य स कृतांजलिः ।।

तेन चैवाभ्यनुज्ञातो निषसाद वरासने ।। ६ ।।

पप्रच्छ कुशलप्रश्नं तपस्यध्ययने तथा ।।

तथेति चोक्त्वा स मुनिस्तं राजानमभाषत ।। ७ ।।

।। पुलस्त्य उवाच ।। ।।

कच्चित्ते कुशलं राजन्कोशे जनपदे पुरे ।।

धर्मे च ते मतिर्नित्यं कच्चित्पार्थिव वर्तते ।। ८ ।।

।। भीम उवाच ।। ।।

सर्वत्र कुशलं ब्रह्मन्येषां कुशलमिच्छसि ।।

तव चागमनेनाहं पावितः संगवारिणा ।। ९ ।।

एवं तौ संविदं कृत्वा संभाष्याथ परस्परम् ।।

रेमाते पूर्ववृत्तांतैः कथाभिरितरेतरम् ।। 4.74.१० ।।

ततः कथांते राजेन्द्र पुलस्त्यं जातविस्मयः ।।

पप्रच्छ सर्वलोकस्य हिताय जगतः पतिः ।। ११ ।।

भगवन्प्राणिनः सर्वे संसारार्णवमध्यगाः ।।

दृश्यंते विविधैर्दुःखैः पीड्यमाना दिवानिशम् ।। १२ ।।

नरके गर्भवासे च व्याधिभिर्जन्मना तथा ।।

तथा कष्टवियोगा दिदुःखैर्दौर्गत्यसंभवैः ।।१३।।

लालप्यमाना बहवः परपीडोपजीविनः ।।

एवं विधान्यनेकानि दुःखानि मुनिपुङ्गव ।।१४।।

दृष्ट्वैव तानि तान्येव भृशं मे व्याधितं मनः ।।

तेषां दुःखानि भूतानां प्राणिनां भुवि मानद ।। १५ ।।

उपकारकरं ब्रूहि ममानुग्रहकाम्यया ।।

स्वल्पायासेन भगवञ्जायते सुमहत्फलम् ।। १६ ।।

।। पुलस्त्य उवाच ।। ।।

शृणु राजन्प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् ।।

यदुपोष्य न दुःखानां भाजनो जायते जनः ।। १७ ।।

माघमासे सिते पक्षे द्वादशी पावनी स्मृता ।।

तस्यां जलार्द्रवसन उपोष्य सुखभाग्भवेत् ।। १८ ।।

।। भीम उवाच ।। ।।

कथं सा मुनिशार्दूल उपोष्या द्वादशी भवेत् ।।

विधिना केन विप्रेन्द्र तन्मे ब्रूहि यथाक्रमम् ।। १९ ।।

।। पुलस्त्य उवाच ।। ।।

शृणु राजन्नवहितो व्रतं पापप्रणाशनम् ।।

तव शुश्रूषणाद्वाच्यं ममाप्येतन्न संशयः ।। 4.74.२० ।।

अदीक्षिताय नो देया नाशिष्याय कदाचन ।।

विष्णुभक्ताय शांताय धर्मनिष्ठाय चैव हि ।। २१ ।।

वाच्यमेतन्महाराज भवतान्यस्य न क्वचित् ।।

ब्रह्महा गुरुघाती च बालस्त्रीघातकस्तथा ।। २२ ।।

कृतघ्नो मित्रध्रुक्चौरः क्षुद्रो भग्नव्रतस्तथा ।।

मुच्यते पातकैः सर्वैर्व्रतेनानेन भूपते ।। २३ ।।

शुद्धे तिथौ मुहूर्ते च मंडपं कारयेत्ततः ।।

दशहस्तप्रमाणेन दशपूर्वोत्तरे प्लवे ।। २४ ।।

तन्मध्ये पञ्चहस्तां तु वेदिकां परिकल्पयेत् ।।

शुक्लां सुकुट्टिमां भूमिं वेद्यां कृत्वा प्रयत्नतः ।। २५ ।।

विलिखेन्मंडलं तत्र पंचवर्णैर्विधानतः ।।

ब्राह्मणो वेदसंपन्नो विष्णुभक्तो जितेन्द्रियः ।। २६ ।।

पञ्चविंशतितत्त्वज्ञः स्वाचाराभिरतस्तथा ।।

कुंडानि कल्पयेत्तत्र अष्टौ चत्वारि वा पुनः ।।२७।।

ब्राह्मणांस्तेषु युंजीत चातुश्चरणिकाञ्छुभान् ।।

मध्ये च मंडलस्याथ कर्णिकायां जनार्दनम् ।।२८ ।।

प्रत्यङ्मुखं न्यसेद्देवं चतुर्बाहुमरिंदम ।।

पूजयेत्तं विधानेन शास्त्रोक्तेन विचक्षणः ।। २९ ।।

गन्धैः पुष्पैस्तथा धूपैर्नैवेद्यैर्विविधैरपि ।।

एवं संपूज्य देवेशं ब्राह्मणैः सह देशिकः ।। 4.74.३० ।।

न्यसेत्स्तंभद्वयं पश्चात्तिष्ठन्काष्ठसमन्वितम् ।।

देवस्याभिमुखं तत्र पीठं तु परिकल्पयेत् ।। ३१ ।।

षट्त्रिंशदंगुलं श्रेष्ठं चतुरस्रं समंततः ।।

तत्र शिक्यं समालंब्य सुवृत्तं सुदृढं नवम् ।। ३२ ।।

आरोपयेद्धटं तत्र यादृशं तच्छृणुष्व मे ।।

कलधौतं तथा रौप्यं ताम्रं वाप्यथ मृन्मयम् ।। ३३ ।।

सर्वलक्षणसंयुक्तं दृढं व्यंगविवर्जितम् ।।

तत्सहस्रं शतं कुर्यादेकच्छिद्रमथापि वा ।। ३४ ।।

कुशलत्वानुरूपेण पाशैकच्छिद्रमेव वा ।।

सन्निधाने ततः कुर्यात्सलिलं वस्त्रपावनम् ।। ३५ ।।

होमार्थं कल्पयेच्चापि पालाश्यः समिधः शुभाः ।।

तिला घृतं तथा क्षीरं शमीपत्राणि चैव हि ।। ३६ ।।

वेद्याः पूर्वोत्तरे भागे ग्रहपीठं प्रकल्पयेत् ।।

तत्र पूज्या ग्रहाः सर्वे ग्रह यज्ञविधानतः ।। ३७ ।।

पूर्वस्यां दिशि शक्रस्य पूजां कुर्वीत यत्नतः ।।

दक्षिणस्यां यमस्याथ प्रतीच्यां वरुणस्य च ।। ३८

कुबेरस्य तथोदीच्यां बलिं कुर्यात्फलाक्षतैः ।।

एवं संभृत्य संभारं शुक्लांबरधरस्तथा ।। ३९ ।।

समालभ्य शुभैर्गंधैर्द्दर्भपाणिरतंद्रितः ।।

पीठमारोपयेयुस्ते यजमानं द्विजोत्तमाः ।।4.74.४० ।।

यजमानोऽपि देवस्य संमुखः प्रयतः शुचिः ।।

उपविश्य पठेन्मंत्रं पुराणोक्तमिदं शृणु ।। ४१ ।।

नमस्ते देवदेवेश नमस्ते भुवने श्वर ।।

व्रतेनानेन मां पाहि परमात्मन्नमोस्तु ते ।। ४२ ।।

ततोदकस्य धारास्ताः प्रत्यंगषु समन्विताः ।।

शिरसा धारयेत्तूष्णीं तद्गतेनांतरात्मना ।। ।। ४३ ।।

होमं कुर्युस्ततो विप्रा दिक्षु सर्वासु तत्पराः ।।

पठेयुः शांतिकाध्यायं विष्णुसंज्ञानि यानि वै ।। ४४ ।।

वादित्रैस्ताड्यमानैश्च शंखगेय स्वनैस्तथा ।।

पुण्याहजयशब्दैश्च वेदस्वनविमिश्रितैः ।। ४५ ।।

मंगलैः स्तुतिसंयुक्तैः कारयेत्तन्महोत्सवम् ।।

देवदेवस्य चरितं केशवस्य महाच्मनः।।४६।।

हरिवंशादिकं सर्वं श्रावयेद्ब्राह्मणो वरः ।।

सोपर्णिकमथाख्यानं भारताख्यानमेव च ।। ४७ ।।

व्याख्यानकुशलाः केचिच्छ्रावयेयुरतंद्रिताः ।।

अनेन विधिना सर्वां तां रात्रिं प्रीतिवर्द्धिनीम् ।। ४८ ।।

यजमानो नयेद्धीमान्यावत्सूर्योदयो भवेत् ।।

ब्राह्मणाश्चापि तां रात्रीं जुह्वतो जातवेदसम् ।। ४९ ।।

मंत्रैस्तु वैष्णवैर्दिव्यैः क्षपयेयुर्महीपते ।।

वासुदेवस्य शिरसि वसोर्द्धारां प्रपातयेत् ।। 4.74.५० ।।

क्षीरेणाज्येन वा राजन्सर्वसिद्धि प्रदायिनीम् ।।

ततः प्रभातसमये यजमानो द्विजैः सह ।।५१।।

स्नानं कुर्यान्नृपश्रेष्ठ नद्यां सरसि वा पुनः ।।

अथ वा शक्तिहीनस्तु यजमानोष्ण वारिणा ।। ५२ ।।

ततः शुक्लानि वस्त्राणि परिधाय यतव्रतः ।।

अर्घ्यं दत्त्वा भास्कराय सविधानं प्रसन्नधीः ।। ५३ ।।

पुष्पैर्धूपैः सनैवेद्यैः पूजयेत्पु रुषोत्तमम् ।।

हुत्वा हुताशनं भक्त्या दत्त्वा पूर्णहुतिं ततः ।। ५४ ।।

पूजयेद्ब्राह्मणान्सर्वान्होतारो यज्ञकल्पिताः ।।

शय्याभोजनगोदानैर्वस्त्रैराभरणैस्तथा ।। ५५ ।।

आचार्यः पूजनीयोऽत्र सर्वस्वेनापि भारत ।।

येन वा तस्य संतुष्टिर्देवतुल्यो गुरुर्यतः ।। ५६ ।।

वित्तशाठ्यविहीनस्तु भक्तिशक्तिसमन्वितः ।।

दीनानाथविशिष्टाश्च बंदिनश्च समागताः ।। ५७ ।।

तेषामन्नं हिरण्यं च दद्याच्छुद्धेन चेतसा ।।

एवं संपूज्य विप्राय भोजयित्वा यथेप्सितम् ।। ५८ ।।

यथाविभवसारेण पश्चाद्भुंजीत वाग्यतः ।।

हविष्यमन्नं यज्ञेन हविष्या सतिलास्तथा ।। ५९ ।।

एवं यज्ञो महाराजश्चोक्तस्ते संप्रकीर्तितः ।।

पापिष्ठाः सर्वपापेभ्यो मुच्यंते नात्र संशयः ।। 4.74.६० ।।

वाजपेयातिरात्राभ्यां ये यजंति शतं समाः ।।

सर्वे ते विष्णुयागस्य कलां नार्हंति षोडशीम् ।। ६१ ।।

सप्त जन्मानि सौभाग्यमायुरारोग्यसंपदः ।।

प्राप्नोति द्वादशीमेतां तामुपोष्य विधानतः ।। ६२ ।।

मृतो विष्णुपुरं याति विष्णुना सह मोदते ।।

चतुर्युगानि द्वात्रिंशद्विष्णुरूपधरः स्थितः ।।६३।।

रुद्रलोके तथा राजन्युगानि द्वादशैव तु ।।

ब्रह्मलोके तथा त्रीणि सूर्यलोके युगानि च ।। ६४ ।।

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।

पृथिव्यधिपतिः श्रीमान्विजितारिः प्रतापवान् ।। ६५ ।।

व्रतमेतत्पुरा चीर्णं सगरेण महात्मना ।।

अजेन धुंधुमारेण दिलीपेन ययातिना ।। ६६ ।।

अन्यैश्च पृथिवीपालैः पालिताशेषभूतलैः।।

स्त्रीभिर्वैश्यैस्तथा शूद्रैर्धर्मकामैः सदा नृप ।। ६७ ।।

भृग्वाद्यैर्मुनिभिः सर्वैर्ब्राह्मणैर्वेदपारगैः ।।

त्वया च पृष्टेन मया कथितं ते नराधिप ।। ६८ ।।

अद्यप्रभृति चैवेयं ख्यातिं यास्यति भूतले ।।

भीमाख्या द्वादशी चेति कृतकृत्या च भारत ।। ६९ ।।

एषा पुलस्त्यमुनिना कथिता कुरुनंदन ।।

यश्चैनां कथितां ध्यात्वा कुर्याद्वा भक्तिभावतः ।। 4.74.७० ।।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।।

दरिद्रश्चापि भोः पार्थ वित्तशाठ्यं विवर्जयेत् ।।

विष्णुभक्तेन कर्तव्या संसारभयभीरुणा ।। ७१ ।।

भीमेन या किल पुरा समुपोषिता च रात्रौ घटस्थिरसुशतिलवारिधारा ।।

तां द्वादशी दशमु खारिमुखाच्छ्रुतां च सम्यग्व्रती चरति याति स विष्णुलोके ।। ७२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भीमद्वादशीव्रतवर्णनं नाम चतुःसप्ततितमोऽध्यायः ।। ७४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 75

श्रवणद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

उपवासासमर्थानां सदैव पुरुषोत्तम ।।

एका या द्वादशी पुण्या तां वदस्व ममानघ ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता ।।

सर्वकामप्रदा पुण्या चोपवासे महाफला ।। २ ।।

संगमे सरितां स्नात्वा द्वादश्यां समुपोषितः ।।

अयत्नात्समवाप्नोति द्वादशद्वादशीफलम् ।। ३ ।।

बुधश्रवणद्वादश्यामेवं वै संयतो भवेत् ।।

अतीव महती तस्यां कृतं सर्वमथाक्षयम् ।। ४ ।।

द्वादशी श्रवणोपेता यदा भवति भारत ।।

संगमे सरितां स्नात्वा गंगादिस्नानजं फलम्।।

सोपवासः समाप्नोति नात्र कार्या विचारणा ।। ५ ।।

जलपूर्णे तथा कुंभे स्थापयित्वा विचक्षणः ।।

पंचरत्नसमोपेतं सोपवीतं सुपूजि तम् ।। ६ ।।

तस्य स्कंधे सुघटितं स्थापयित्वा जनार्दनम् ।।

यथाशक्ति स्वर्णमयं शंखशार्ङ्गविभूषितम् ।। ७ ।।

स्नापयित्वा विधानेन सितचंदन चर्चितम् ।।

सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ।। ८ ।।

ॐ नमो वासुदेवायेति शिरः संपूजयद्धरेः ।।

श्रीधराय मुखं तद्वत्कंठ कृष्णाय वै पुनः ।। ९ ।।

ॐ नमः श्रीमते वक्षो भुजौ सर्वास्त्रधारिणे ।।

व्यापकाय नमः कुक्षी केशवायोदरं नमः ।। 4.75.१० ।।

त्रैलोक्यजनकायेति एवं संपूजयेद्धरिम् ।।

सर्वाधिपतये जंघे पादौ सर्वात्मने नमः ।। ११ ।।

अनेन विधिना राजन्पुष्पैर्धूपैः समर्चयेत् ।।

ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम् ।। १२ ।।

सोदकांश्च नवान्कुंभाञ्छक्त्या दद्याद्विचक्षणः ।।

एवं संपूज्य गोर्विदं जागरं तत्र कारयेत् ।। १३ ।।

प्रभाते विमले स्नात्वा संपूज्य गरुडध्वजम् ।।

पुष्पधूपादिनैवेद्यैः फलैर्वस्त्रैः सुशोभनैः ।।

ततः पुष्पांजलिं बद्ध्वा मंत्रमेतमुदीरयेत् ।। १४ ।।

नमो नमस्ते गोविन्द बुधश्रवण संज्ञक ।।

अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ।। १५ ।।

एवं संपूज्य गोविंद ब्राह्मणं पूजयेत्ततः ।।

अनंतरं ब्राह्मणे वै वेदवेदांतपारगे ।।

पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत् ।। १६ ।।

द्वादश्यां श्रवणे युक्ते अशेषाहस्करान्विते ।।

करकं संगमे स्नात्वा प्रीयतां मे जनार्दनः।। १७ ।। ।।

।। श्रीकृष्ण उवाच ।। ।।

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।

महत्यरण्ये यद्वृत्तं भूमिपाल शृणुष्व तत् ।।१८।।

देशो दशार्णको नाम तस्य भागे तु पश्चिमे ।।

अस्ति कश्चिन्मरुदेशः सर्वसत्त्वभयंकरः ।। १९ ।।

सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः।।

अल्पच्छायद्रुमाकीर्णो मृतप्राणि समाकुलः ।।4.75.२० ।।

शमीखदिरपालाशकरीरैः पीलुभिः सह ।।

तत्र भीमा द्रुमाः पार्थ कंटकैः शबला दृढैः ।।२१।।

दग्धप्राणिगणाकीर्णा यत्र भूर्द्दृश्यते क्वचित्।।

अन्नोदकं नो लभंते राजंस्तत्र बलाहकाः ।।२२।।

कदाचिदपि दृश्यंते भ्राम्यन्तो हि विहगमाः।।

वृक्षांतरगतैर्नित्यं शिशुभिस्तृषितैः समम् ।।

उत्कृत्तजीविता राजन्दृश्यंते विहगोत्तमाः ।।२३।।

तृषातुराश्च सहसा मृगाः सैकतमागताः।।

सैकतेष्वेव नश्यंति जलं सैकतसेतुवत्।।२४।।

तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक् ।।

निजसार्थपरिभ्रष्टः प्रविष्टो मरुजांगले ।। २५ ।।

पिशाचान्मलिनांस्तीक्ष्णान्निर्मांसान्भीमदर्शनान् ।।

इतस्ततः संचरतो ददर्श वणिगुत्तमः ।। २६ ।।

बभ्रामोद्भ्रांतहृदयः क्षुत्तृषाभ्रमकर्षितः ।।

क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध सः ।।२७।।

अथ प्रेतान्ददर्शासौ तृष्णाव्याकुलितेंद्रियान् ।।

स्नायुबद्धास्थिचरणान्प्रेक्षमाणानितस्ततः ।। २८ ।।

प्रेतस्कंधसमारूढमेकं प्रेतं ददर्श ह ।।

अपश्यद्बहुभिः प्रेतैः समंतात्परिवारितम् ।। २९ ।।

आगच्छन्तं तमव्यग्रं स्रुतुशब्दपुरःसरम् ।।

प्रेतस्कंधान्महीं गत्वा तस्यांतिकमुपागमत् ।। 4.75.३० ।।

स दृष्ट्वाथ वणिक्छ्रेष्ठमिदं वचनमब्रवीत् ।।

अस्मिन्वै निर्जले देशे गमनं भवतः कथम् ।।३१।।

तमुवाच वणिग्धीमान्सार्थभ्रष्टस्य चैव मे ।।

प्रवेशो दैवयोगेन पूर्वकर्मकृतेन तु ।।३२।।

तृष्णा मां बाधतेऽत्यर्थं क्षुद्दुनोति भृशं तथा ।।

प्राणाः कंठमनुप्राप्ता वचनं नश्यतीव मे ।।

अत्रोपायं न पश्यामि जीवेयं येन केनचित् ।।३३।।

।। कृष्ण उवाच ।। ।।

इत्येवमुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत् ।।

पुंनागमिममाश्रित्य प्रतीक्षस्व मुहूर्तकम् ।।३४।।

कृतातिथ्यो यथालाभं गमिष्यसि यथासुखम् ।।

एवमुक्तस्तथा चक्रे स वणिक्तृष्णयार्दितः ।। ३५ ।।

मध्याह्नसमये प्राप्ते ततस्तं देशमागतः ।।

पुन्नागवृक्षात्करको वारिधारामनोरमः ।।

दध्योदनसमायुक्तो वर्धमानेन संयुतः ।। ३६ ।।

आगते करके तस्मिन्प्रादादतिथये तदा ।।

भुक्त्वान्नं च जलं पीत्वा वणिक्तुष्टिमुपागतः ।।

वितृष्णो विज्वरश्चैव क्षणेन समपद्यत ।। ३७ ।।

ततस्तु प्रेतसंघस्य भोक्तुकामस्य वै ददौ ।।

दध्योददनं सपानीयं प्रेतास्तृप्तिं परां गताः ।। ३८ ।।

अतिथिं तर्पयित्वा च प्रेतलोकं च सर्वशः ।।

ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम् ।। ३९ ।।

तस्य भुक्तवतश्चान्नं पानीयं च क्षयं ययौ ।।

प्रेताधिपं ततस्तृप्तो वणिग्वचनमब्रवीत् ।। 4.75.४० ।।

आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ।।

अन्नपानस्य सम्प्राप्तिः परमस्य कुतस्तव ।। ४१ ।।

स्तोकेन च तथान्नेन बिभर्षि सुबहून्पृथक् ।।

तृप्ताः परं कथं त्वेते निर्मांसा भिन्नकु क्षयः ।। ४२ ।।

अपरं च कथं चेह मम पापपरिक्षयः ।।

हस्तावलंबनकस्त्वं सम्प्राप्तो निर्जने वने ।।

तृप्तश्चासि कथं ग्रासमात्रेण च शुभव्रत ।। ।। ४३ ।।

कस्त्वमस्यां सुघोरायामटव्यां तु कृतालयः ।।

तमेतं संशयं छिंधि परं कौतूहलं मम ।। ४४ ।।

एवमुक्तः स वाणिज्या प्रेतो वचनमब्रवीत ।।

शृणु भद्र प्रवक्ष्यामि दुष्कृतं कर्म चात्मनः ।। ४५ ।।

शाकले नगरे रम्ये अहमासं सुदुर्मतिः ।।

वाणिज्यासक्तितः पूर्वं कालो नीतो मयानघ ।। ४६ ।।

धनलोभान्मया तत्र कदाचिच्च प्रमादिना ।।

न दत्ता भिक्षवे भिक्षा तृष्णया पीडिताय च ।। ४७ ।।

प्रतिवेशे च तत्रासीद्ब्राह्मणो गुणवान्मम ।।

श्रवणद्वादशीयोगे मासि भाद्रपदे तथा ।। ४८ ।।

स कदाचिन्मया सार्धं तोषां नाम नदीं ययौ ।।

तस्याश्च संगमः पुण्यो यत्रासीच्चन्द्रभागया ।। ४९ ।।

चंद्रभागा सोमसुता तोषा चैवार्कनंदिनी ।।

तयोः शीतोष्णसलिलसंगमः सुमनोहरः ।। 4.75.५० ।।

तत्तीर्थवरमासाद्य प्रातिवेश्यः स च द्विजः ।।

श्रवणद्वादशीयोगे स्नातश्चैवमुपोषितः ।। ५१ ।।

चंद्रभागातोषयोश्च वारिधान्यैर्नवैर्दृढैः ।।

दध्योदनयुतैः सार्धं सम्पूर्णैर्वर्धमानकैः ।। ५२ ।।

छत्रोपानद्युगं वस्त्रं प्रतिमां विधिवद्धरेः ।।

चंद्रभागाजीवनेन दध्योदनयुतं तदा ।। ५३ ।।

एतत्कृत्वा गृहं प्राप्तस्ततः कालेन केनचित् ।।

पञ्चत्वमहमासाद्य नास्तिक्यात्प्रेततां गतः ।।

अस्यामटव्यां घोरायां यथा दृष्टस्त्वयानघ ।। ५४ ।।

ब्रह्मस्वहारिणस्त्वेते पापाः प्रेतत्वमागताः ।।

परदाररताः केचित्स्वामिद्रोहरताः परे ।। ५५ ।।

मित्रद्रोहरताः केचिद्देशेऽस्मिंस्तु सुदारुणे ।।

ममैते भृत्यतां याता अन्नपानकृतेन च ।। ।।५६।।

अक्षय्यो भगवान्कृष्णः परमात्मा सनातनः ।।

यद्दीयते तमुद्दिश्य अक्षय्यं तत्प्रकीर्तितम् ।।५७।।

मया विहीनाः किं त्वेते वनेऽस्मिन्भृशदारुणे।।

पीडामनुभविष्यंति दारुणां कर्मयोनिजाम् ।।५८।।

एतेषां त्वं महाभाग ममानुग्रहकाम्यया ।।

अनेकनामगोत्राणि गृहाण लेखनेन च ।।५९।।

अस्तु कक्षागता चैव तव संपुटिका शुभा ।।

हिमवत्यां तथासाद्य तत्र त्वं लप्स्यसे निधिम् ।। 4.75.६० ।।

गयाशीर्षे ततो गत्वा श्राद्धं कुरु महामते ।।

एकमेकमथोद्दिश्य प्रेतंप्रेतं यथासुखम् ।। ६१ ।।

एवं सम्भाषमाणोऽसौ तप्तजांबूनदप्रभः ।।

विमानवरमारुह्य स्वर्गलोकमितो गतः ।।६२।।

स्वर्गते प्रेतनाथे तु प्रभावात्स वणिक्पुमान् ।।

नामगोत्राणि संगृह्य प्रयातः स हिमाचलम् ।। ६३ ।।

तत्र प्राप्य निधिं गत्वा विनिक्षिप्य स्वके गृहे ।।

धनभागमुपादाय गयाशीर्षवटं ययौ ।।

प्रेतानां क्रमशस्तत्र चक्रे श्राद्धं दिनेदिने ।। ६४ ।।

यस्ययस्य गयाश्राद्धं स करोति दिने वणिक् ।।

स च तस्य सदा स्वप्ने दर्शयत्यात्मनस्तनुम् ।। ६५ ।।

ब्रवीति च महाभाग प्रसादेन तवानघ ।।

प्रेतभावो मया त्यक्तः प्राप्तोस्मि परमां गतिम् ।।६६।।

स कृत्वा धनलोभाच्च प्रेतानां सत्कृतिं वणिक् ।।

जगाम स्वगृहं तत्र मासि भाद्रपदे तथा ।। ६७ ।।

श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम् ।।

दानं च दत्त्वा विप्रेभ्यः सोपवासो जितेन्द्रियः ।। ६८ ।।

महानदीसंगमेषु प्रतिवर्षं युधिष्ठिर ।।

चकार विधिवद्दानं ततो दिष्टांतमागतः ।। ६९ ।।

अवाप परमं स्थानं दुर्लभं चात्र मानवैः ।।

यत्र कामफला वृक्षा नद्यः पायसकर्दमाः ।।

शीतलामलपानीयाः पुष्करिण्यो मनोहराः ।। 4.75.७० ।।

तं देशमासाद्य वणिङ् महात्मा सुतप्तजांबूनदभूषितांगः ।।

कल्पं समग्रं सह सुन्दरीभिः स्वर्गे स रेमे मुदितः सदैव ।। ७१ ।।

इति श्रीभविष्ये महा पुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रवणद्वादशीव्रतवर्णनं नाम पञ्चसप्ततितमोऽध्यायः ।। ७५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 76

विजयश्रवणद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

द्वादश्यास्ते विधिः प्रोक्तः श्रावणे यो युधिष्ठिर ।।

सर्वपापप्रशमनः सर्वसौख्यप्रदायकः ।। १ ।।

एकादशी यदा सा स्याच्छ्रवणेन समन्विता ।।

विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ।। २ ।।

बलवानजितो दैत्यो बलिर्नामा महाबलः ।।

तेन देवगणाः सर्वे त्याजिताः सुरमंदिरम् ।।

ततो देवा महाविष्णुं गत्वा वचनमूचिरे ।।

त्वं गतिः सर्वदेवानां शीघ्रं कष्टात्समुद्धर ।। ४ ।।

जहि दैत्यं महाबाहो बलिं बलनिषूदन ।।

श्रुत्वा विष्णुस्तदा वाक्यं देवानां करुणोदयम् ।। ५ ।।

उवाच वाक्यं कालज्ञो देवानां हितकाम्यया ।।

जाने वैरोचनिं दैत्यं बलिं त्रैलोक्यकण्टकम् ।। ६ ।।

तपसा भावितात्मानं शान्तं दान्तं जितेन्द्रियम् ।।

मद्भक्तं मद्गतप्राणं सत्यसन्धं महाबलम् ।।

तपसोन्तः सुबहुना काले नास्य भविष्यति ।। ७ ।।

यदा विनयसम्पन्नं ज्ञास्ये कालेन केनचित् ।।

समाहृत्य प्रियं तस्य तदा दास्ये दिवौकसाम् ।। ८ ।।

अदितिर्मां प्रपन्ना वै पुत्रार्थे पुत्रलोभिनी ।।

तस्यामतिहितं देवाः करिष्ये नात्र संशयः ।। ९ ।।

तद्देवानां हितं सर्वे चाहितं तु सुरद्विषाम् ।।

तद्गच्छध्वं निरुद्विग्नाः कालः कश्चित्प्रतीक्ष्यताम् ।। 4.76.१० ।।

एवमुक्ता गता देवाः कार्यं विष्णुरचिंतयत् ।।

सा चिन्तयित्वा सुचिरं देव्या गर्भावतारणम् ।।

अदितिर्वरयामास वांछितं मे भविष्यति ।। ११ ।।

अथ काले बहुतिथे गते सा गर्भिणी ह्यभूत् ।।

सुषुवे नवमे मासि पुत्रं सा वामनं हरिम् ।। १२ ।।

ह्रस्वपादं ह्रस्वकायं महच्छिरसमर्भकम् ।।

पाणिपादोदरकृशं स्वयं नारायणं हरिम् ।। १३ ।।

दृष्ट्वा तु वामनं जातं यदि सा वक्तुमुद्यता ।।

निरुद्धवाक्या ह्यभवद्वक्तुं किंचिन्न पारितम् ।। १४ ।।

एकादश्यां भाद्रपदे श्रवणेन नरोत्तम ।।

संचचाल मही जाते वामने तु त्रिविक्रमे ।। १५ ।।

भयं बभूव दैत्यानां देवानां तोष आभवत् ।।

जातकर्मादिकांस्तस्य संस्कारान्स्वयमेव हि ।। १६ ।।

चकार कश्यपो धीमान्प्रजापतिरनुद्यतः ।।

आबद्धमेखलो दंडी धृत्वा यज्ञोपवीतकम् ।। १७ ।।

कुशस्वच्छोदकधरः कमंडलुविभूषितः ।।

बलेर्बलवतो यज्ञं जगाम बहुविस्तरम् ।। १८ ।।

दृष्ट्वा बलिमथोवाच वामनोऽभ्येत्य तत्क्षणम् ।।

अथ चाह यज्ञपते दीयतां मम मेदिनी ।। १९ ।।

पादत्रयप्रमाणेन पठनार्थे स्थितो ह्यसि ।।

दत्तादत्ता तव मया बलिः प्राह द्विजोत्तमम् ।। 4.76.२० ।।

ततो वर्द्धितुमारब्धो वामनोऽनंतविक्रमः ।।

पादौ भूमौ प्रतिष्ठाप्य शिरसावृत्य रोदसी ।। २१ ।।

ताभ्यामिंद्रादिकाँल्लोकाँल्ललाटे ब्रह्मणः पदम् ।।

न तृतीय पदं लेभे ततो नेदुर्दिवौकसः ।। २२ ।।

तद्दृष्ट्वा महदाश्चर्यं सिद्धा देवर्षयस्तथा ।।

साधुसाध्विति देवेशं प्रशशंसुर्मुदान्विताः ।।२३।।

ततो दैत्यगणान्सर्वाञ्जित्वा त्रिभुवनं वशी ।।

बलिमाह ततो गच्छ सुतलं स्वबलानुगः ।। २४ ।।

तत्र त्वमीप्सितान्भोगान्भुक्त्वा मद्बाहुपालितः ।।

अस्येंद्रस्यावसाने तु त्वमेवेन्द्रो भविष्यसि ।। २५ ।।।।।

एवमुक्तो बलिः प्रायान्नमस्कृत्य नरोत्तमम् ।।

विसृज्येमं बलिं देवान्सकलान्स उवाच ह ।। २६ ।।

स्वानि धिष्ण्यानि गच्छध्वं तिष्ठध्वं विगत ज्वराः ।।

देवेनोक्ता गता देवा हृष्टाः संपूज्य वामनम् ।। २७ ।।

देवः कृत्वा जगत्कार्यं तत्रैवांतर्द्धिमागमत् ।।

एतत्सर्वं समभवदेकादश्यां नराधिप।।।

तेनेष्टा देवदेवस्य सर्वदा विजया तिथिः ।। २८ ।।

एषा वै फाल्गुने मासि पुष्येण सहिता नृप ।।

विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा ।।२९।।

एकादश्यां सोपवासो रात्रौ संपूजयेद्धरिम् ।।

रौप्ये सौवर्णपात्रे वा दारुवंशमयेऽपि वा ।। 4.76.३० ।।

कुंडिकां स्थापयेत्पार्श्वे छत्रं वै पादुके तथा ।।

शुभां च वैष्णवीं यष्टिं तथा सूत्रकमडलू ।। ३१ ।।

आच्छाद्य पात्रं वासोभिः फलैश्चापि सुशोभनैः ।।

मार्गचार्मणगन्धैश्च भक्त्या वा मृगचर्मणा ।। ३२ ।।

तिलाढकेन वित्ताढ्यः प्रस्थेन कुडवेन वा ।।

व्रीहिभिर्वाथ गोधूमैः फलैः शुक्लतिलैर्भवेत् ।। ३३ ।।

पुष्पैर्गंधैर्धूपदीपैः पक्वान्नै रर्चयेद्धरिम् ।।

नानाविधैश्च नैवेद्यैर्भक्ष्यभोज्यैर्गुडौदनैः ।। ३४ ।।

स्वस्ववित्तानुसारेण सहिरण्यं च कारयेत् ।।

मंत्रैः शतगुणं चैव भक्त्या लक्ष गुणोत्तरम् ।।

भक्तिमांश्च गुणोपेतं कोटिकोटिगुणोत्तरम् ।। ३५ ।।

एभिर्मंत्रपदैस्तत्र पूजयेद्गरुडध्वजम् ।।

उपहारैर्नरश्रेष्ठ शुचिर्भूत्वा समाहितः ।। ।। ३६ ।।

ॐ जलजोपमदेहाय जलजास्याय शंखिने ।।

जलराशिस्वरूपाय नमस्ते पुरुषोत्तम ।। ३७ ।।

नमः कमलनाभाय नमस्ते जल शायिने ।।

नमस्ते केशवानंत वासुदेव नमोऽस्तु ते ।। ३८ ।। इति स्नानमंत्रः ।।

मलयेषु समुत्पन्नं गन्धाढयं सुमनोहरम् ।।

मया निवेदितं तुभ्यं गृहाण परमेश्वर ।। ३९ ।। इति चन्दनमंत्रः ।।

वनस्पतिसमुत्पन्नं गन्धाढ्यं सुमनोहरम् ।।

मया निवेदितं पुष्पं गृहाण पुरुषोत्तम ।। 4.76.४० ।। इति पुष्पमन्त्रः ।।

नमः कमलकिंजल्कपीतनिर्मलवाससे ।।

मनोहरवपुःस्कन्धधृतचक्राय शार्ङ्गिणे ।। ४१ ।। इति पूजामंत्रः ।।

मत्स्यः कूर्मो वरा हश्च नारसिंहश्च वामनः ।।

रामो रामश्च कृष्णश्च नामभिर्वामनाय ते ।।

पादाद्यैकैकांगस्य पूजनं शीर्षगं ततः ।। ४२ ।। इति सर्वांगपूजा ।।

धूपोऽयं देवदेवेश शंखचक्रगदाधर ।।

अच्युतानंत गोविन्द वासुदेव नमोऽस्तु ते ।। ४३ ।। इति धूपमंत्रः ।।

त्वमेव पृथिवी ज्योतिर्वायुराकाशमेव च ।।

त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।। ४४ ।। इति दीपमंत्रः ।।

अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।।

भक्ष्यभोज्यसमायुक्तं प्रसीद परमेश्वर ।। ४५ ।।

अन्नं प्रजापतिर्विष्णू रुद्रेंद्रशशिभास्कराः ।।

अन्नं त्वष्टा यमोऽग्निश्च पापं हरतु मेऽव्ययः ।। ४६ ।। इति नैवेद्यमंत्रः ।।

जगदादिर्जगदूपमनादिर्जगदंतकृत् ।।

जलाशयो जगद्योनिः प्रीयतां मे जनार्दनः ।। ४७ ।। इति प्रीणनमंत्रः ।।

अनेककर्मनिर्बंधध्वंसिनं जल शायिनम्।।

नतोऽस्मि मथुरावासं माधवं मधुसूदनम् ।। ४८ ।।

नमो वामनरूपाय नमस्तेऽस्तु त्रिविक्रम ।।

नमस्ते मणिबन्धाय वासुदेव नमोऽस्तु ते ।। ४९ ।। इति नमस्कारमंत्रः ।।

नमो नमस्ते गोविन्द वामनेश त्रिविक्रम ।। 4.76.५० ।।

अघौघसंक्षयं कृत्वा सर्वकामप्रदो भव ।।५१।। इति प्रार्थनामंत्रः ।।

सर्वगः सर्वदेवेशः श्रीधरः श्रीनिकेतनः ।।

विश्वेश्वरश्च विष्णुश्च श्रीशायी च नमोनमः ।।५२।। इति शयनमंत्रः ।।

एवं संपूज्य यो रात्रावेकादश्यां नृपोत्तम ।।

जागरं तत्र कुर्वीत गीतवादित्रनिस्वनैः ।। ५३ ।।

या च श्रवणसंयुक्ता द्वादशी परमा तिथिः ।।

तस्यां च संगमे स्नात्वा सर्वपापैः प्रमुच्यते ।। ५४ ।।

एवं संपूज्य यत्नेन प्रभाते विमले सति ।।

प्रदेयं शास्त्रविदुषे ब्राह्मणाय च मंत्रतः ।। ५५ ।।

ब्राह्मणश्चापि मन्त्रेण प्रतिगृह्णीत मंत्रवत् ।।

वामनोऽस्य प्रतिग्राही वामनाय नमोनमः ।। ५६ ।।

( ॐ गुह्ये । ॐ शिरसि । ॐ पादयोः । ॐ नाभौ ।। ॐ भुजयोः । ॐ सर्वांगे । सर्वात्मने नमः ।।)

पुष्पं फलं च नैवेद्यं सर्वमेतद्यथाविधि ।।

नरो दद्यादुपोष्यैवमेकादश्यां समंत्रकम् ।। ५७ ।।

पूर्वोक्तविधिना प्रातर्भोजनं पृषदाज्यकम् ।।

पूर्वं दत्त्वा ब्राह्मणेभ्यः पश्चाद्भुञ्जीत वाग्यतः ।। ५८ ।।

भूयोभूयोऽपि राजेंद्र सर्वत्रैवं विधिः स्मृतः ।।

समाप्ते तु व्रते राजन्यत्पुण्यं तन्निबोध मे ।। ५९ ।।

चतुर्युगानि राजेंद्र एकसप्ततिसंख्यया ।।

प्राप्य विष्णुपुरे राजन्क्रीडते कालमक्षयम् ।। 4.76.६० ।।

इहागत्य भवेद्राजा प्रतिपक्षक्षयंकरः ।।

हस्त्यश्वरथपत्तीनां दाता भोक्ता विमत्सरी ।। ६१ ।।

रूपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत् ।।

पुत्रैः परिवृतो जीवो जीवेच्च शरदः शतम् ।। ६२ ।।

एतस्याः फलमाख्यातमेकादश्या मया तव ।।

पूर्वमेव समाख्याता द्वादशी श्रवणान्विता ।। ६३ ।।

उपोष्यैकादशीं पश्चाद्द्वादशीमप्युपोषयेत् ।।

न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ।। ६४ ।।

(एकादशीद्वादश्योरन्यतरस्यां श्रवणयुक्तायां श्रवणयुक्तोपवासेनैव बतद्वयसिद्धिः ।।

एकस्मिन्व्रते पूर्वमन्यां तिथिमुपोष्य पश्चादपारयित्वैवान्योपोष्यत इति यो विधिलोपः स एकदेवताकत्वेन न भवतीत्यर्थः) ।।

बुधश्रवणसंयुक्ता द्वादशी संगमोदकम् ।।

दानं दध्योदनं सत्यमुपवासः परो विधिः ।। ६५ ।।

सगरेण ककुत्स्थेन धुंधुमारेण गाधिना ।।

एतैश्चान्यैश्च राजेंद्र कृतं वै द्वादशीव्रतम् ।। ६६ ।।

सा द्वादशी बुधयुता श्रवणेन साकं स्याद्वै जयाय कथिता ऋषिभिर्नभस्ये ।।

तामादरेण समुपोष्य नरोऽमरत्वं प्राप्नोति पार्थ अणिमादिगुणोपपन्नम् ।। ६७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयश्रवणद्वादशीव्रतवर्णनं नाम षट्सप्ततितमोऽध्यायः ।। ७६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 77

सम्प्राप्तिद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

कृष्णपक्षे तु पौषस्य संप्राप्तं द्वादशीव्रतम् ।।

पौषादिपारणं मासैः षड्भिर्ज्येष्ठांतिकं स्मृतम् ।। १ ।।

प्रथमं पुंडरीकाक्षं नाम कृष्णस्य गीयते ।।

द्वितीयं माधवाख्यं तु विश्वरूपं तु फाल्गुने ।। २ ।।

पुरुषोत्तमाख्यं तु ततः पंचमेऽच्युतसंज्ञकम् ।।

षष्ठे जयेति देवेश गुह्यनाम प्रकीर्तितम् ।। ३ ।।

पूर्वोक्तेषु च मासेषु स्नानप्राशन योस्तिलाः ।।

आषाढादिषु मासेषु पंचगव्यमुदाहृतम् ।।४।।

स्नानं च प्राशनं चैव पंचगव्यं सदेष्यते।।

पूजयेत्पुंडरीकाक्षं तेस्तैरेव च नामभिः।।।

प्रतिमासं च देवेश कृत्वा पूजां यथाविधि ।।

विप्राय दक्षिणां दद्याच्छ्रद्दधानश्च भक्तितः ।। ६ ।।

पारणं चैव देवेश प्रीणनं भक्तिपूर्वकम् ।।

कुर्वीत भक्त्या गोविंदसद्भावेनार्चनं यतः ।। ७ ।।

नक्तं भुंजीत सततं तैलक्षारविवर्जितम् ।।

एकादश्यामुपोष्यैवं द्वादश्यामथ वा दिने ।। ८ ।।

एवं संवत्सरस्यांते यदभिप्रेतमात्मनः ।।

धनं वसु हिरण्यं च धान्यं भाजनमासनम् ।।

शय्यां वा ब्राह्मणे दद्यात्केशवः प्रतिगृह्यताम् ।। ९ ।।

एतामुपोष्य विधिना विष्णुप्रीतौ च तत्परः ।।

सर्वान्कामानवाप्नोति यद्यदिच्छति चेतसा ।।

ततो लोकेषु विख्यातं संप्राप्तं द्वादशीति वै ।। 4.77.१० ।।

कृताभिलषिता दृष्टा प्रारब्धा धर्मतत्परैः।।

पूरयेदखिलान्कामान्संस्मृता वा दिनेदिने ।। ११ ।।

संप्राप्तिकामुपवसंति समीहितार्था ये मानवा मनु जपुंगव विष्णुभक्ताः ।।

तेषां समीहितफलानि ददाति शश्वद्वासः सुरेशभवने भगवत्प्रसादात् ।। १२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संप्राप्तिद्वादशीव्रतं नाम सप्तसप्ततितमोऽध्यायः ।। ७७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 78

गोविन्दद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

तथान्यामपि ते वच्मि गोविंद द्वादशीं शृणु ।।

तस्याः सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम् ।। १ ।।

पौषे मासे सिते पक्षे द्वादश्यां समुपोषितः ।।

सम्यक्संपूज्य गोविन्दं नाम्ना देवमधोक्षजम् ।। २ ।।

धूपपुष्पोपचारैश्च नैवेद्यैश्च समाहितः ।।

गोविंदेति जपेन्नाम पुनस्तद्गतमानसः ।। ३ ।।

विप्राय दक्षिणां दद्याद्यथाशक्त्या नराधिप ।।

स्वयं विबुद्धस्तुलितो गोविंदेति च कीर्तयेत् ।। ४ ।।

पाखंडिभिर्विकर्मस्थैरालापांश्च विवर्जयेत् ।।

गोमूत्रं गोमयं वापि दधि क्षीरम थापि वा ।। ५ ।।

गोदोहतः समुद्भूतं प्राश्नीयादात्मशुद्धये ।।

द्वितीयेऽह्नि पुनः स्नानं तथैवाभ्यर्च्य केशवम् ।। ६ ।।

तेनैव नाम्ना संपूज्य दत्त्वा विप्राय दक्षिणाम् ।।

ततो भुञ्जीत गोदोहं संभूतेन समुद्भवम् ।। ७ ।।

एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः ।।

दद्याद्गवाह्निकं विद्वान्प्रतिमासं तु शक्तितः ।। ८ ।।

पारिते च पुनर्वषे गोविन्दं पद्मया सह ।।

गोविन्दः प्रीतिमायातु व्रतेनानेन मे सदा ।। ९ ।।

विशेषतः पुनर्दद्यात्तस्मिन्नह्नि गवाह्निकम् ।।

भक्त्या परमया राजञ्छृणु यत्फलमाप्नुयात् ।। 4.78.१० ।।

स्वर्णशृंगं रौप्यखुरं गोशतैर्वृषभं वरम् ।।

इति मासं द्विजातिभ्यो दत्त्वा यत्फलमश्नुते ।। ११ ।।

तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः ।।

तं च लोकमवाप्नोति गोविन्दो यत्र तिष्ठति ।।१२।।

गोविन्दद्वादशीमेतां समुपोष्य विधानतः ।।

विद्योतमाना दृश्यंते लोकेद्यापि शशांकवत् ।। १३ ।।

गोविन्दमर्चयति गोरसभोजनस्तु गा वै विनोदयति तद्वद्गवाह्निकश्च ।।

यो द्वादशीषु कुरुराज कृतोपवासः प्राप्नोत्यसौ सुरभिलोकमपेतशोकम् ।। १४ ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोविन्दद्वादशीव्रतवर्णनं नामाष्टसप्ततितमोऽध्यायः ।। ७८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 79

अखण्डद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

उपवासव्रतानां तु वैकल्यं यन्महामते ।।

दानधर्मे कृतं यस्य विपाकं वद यादृशः ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

यज्ञानामुपवासानां व्रतानां च नरेश्वर ।।

वैकल्यात्फलवैकल्यं यादृश तच्छृणुष्व मे ।। २ ।।

उपवासान्विना खण्डं प्राप्नुवंत्येव ताञ्छृणु ।।

भ्रष्टैश्वर्या निर्द्धनाश्च वसंति पुरुषाः पुनः ।। ३ ।।

रूपं तथोत्तरं प्राप्य व्रतवैकल्यदोषतः ।।

काणाः कुब्जाश्च षण्डाश्च भवंत्यंधाश्च मानवाः ।। ४ ।।

उपवासी नरः पत्नीं नारीं प्राप्य तथा पतिम् ।।

वियोगं व्रतवैकल्ये दुर्भगत्वमवाप्नुयात् ।। ५ ।।

ये द्रव्ये सत्यदातारस्तथान्ने सत्यनग्नयः ।।

कुले वसंति दुःशीला दुष्कुलाः शीलनिश्चये ।। ६ ।।

वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः ।।

विरूपरूपाश्च तथा प्रसाधकगुणान्विताः ।। ७ ।।

ते सर्वे व्रतवैकल्यात्फल वैकल्यमागताः ।।

तस्मात्तद्व्रतवैकल्यं यज्ञवैकल्यमेव च ।।

उपवासेन कर्तव्यं वैकल्याद्विकलं फलम् ।।८।।

।।युधिष्ठिर उवाच ।। ।।

कथंचिद्यदि वैकल्यमुपवासादिके भवेत् ।।

किं तत्र वद कर्तव्यमच्छिद्रं येन जायते ।। ९ ।।

।। श्रीकृष्ण उवाच ।। ।।

अखंडद्वादशी ह्येषा समस्तेष्वेव कर्मसु।। ।।4.79.१ ०।।

वैकल्यं प्रशमं याति शृणुष्व गदतो मम ।।

मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः ।।

कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् ।। ११ ।।

स्नातो नारायणं ब्रूयाद्भुञ्जन्नारायणं तथा ।।

गच्छन्नारायणं देवं स्वपन्नारायणं पुनः ।। १२ ।।

पञ्चगव्यजलस्नातो विशुद्धात्मा जितेन्द्रियः ।।

यवव्रीहिमयं पात्रं दत्त्वा विप्राय भक्तितः ।।

इदमुच्चारयेत्पश्चाद्देवस्य पुरतो हरेः ।। १३ ।।

सप्तजन्मनि यत्किञ्चिन्मया खण्डव्रतं कृतम् ।।

भगवंस्त्वत्प्रसादेन तदखंडमिहास्तु मे ।। १४ ।।

यथाखंडं जगत्सर्वं त्वमेव पुरुषोत्तम ।।

तथाखिलान्यखंडानि व्रतानि मम संतु वै ।। १५ ।।

चतुर्भिरपि मासैस्तु पारणं प्रथमं स्मृतम् ।।

प्रीणनं च हरेः कुर्यात्पारिते पारणे ततः ।। १६ ।।

चैत्रादिषु च मासेषु चतुर्गुण्यं तु पारणम् ।।

तत्रापि सक्तुपात्राणि दद्याच्छ्रद्धासमन्वितः ।। १७ ।।

श्रावणादिषु मासेषु कार्त्तिकांतेषु पारणम् ।।

तत्रापि घृतपात्राणि दद्याद्विप्राय दक्षिणाः ।। ।। १८ ।।

सौवर्णं रौप्यं ताम्रं च मृन्मयं पात्रमिष्यते ।।

स्वशक्त्यपेक्षया राजन्पालाशं वापि कारयेत् ।। १९ ।।

एवं संवत्सरस्यांते ब्राह्मणान्स जितेन्द्रियः ।।

द्वादशामन्त्र्य विप्रांश्च भोजयेद्धृतपायसैः ।। 4.79.२० ।।

वस्त्राभरणदानैश्च प्रणिपत्य क्षमापयेत् ।।

उपदेष्टारमप्यत्र पूजयेद्विधिवद्गुरुम् ।। २१ ।।

एवं सम्यग्यथान्याय्यमखंडद्वादशीं नरः ।।

समुपोष्य अखंडस्य व्रतस्य फलमश्नुते ।। २२ ।।

सप्तजन्मसु वैकल्यं यद्व्रतस्य क्वचित्कृतम् ।।

करोत्यविकलं सर्वमखंडद्वादशी तु तत् ।। २३ ।।

तस्मादेषा प्रयत्नेन नरैः स्त्रीभिश्च सुव्रत ।।

अखंडद्वादशी सम्यगुपोष्या फलकांक्षया ।।२४ ।।

ये द्वादशीव्रतमखंडमिति प्रसिद्धं मार्गोत्तमाङ्गमधिकृत्य कृतेन येन ।।

खंडव्रतानि पुरुषैः सुकृतानि यानि संपूर्णतां समुपयान्ति हरेः प्रसादात् ।। २५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽखंडद्वादशीव्रतवर्णनं नामैकोनाशीतितमोऽध्यायः ।। ७९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 80

मनोरथद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

फाल्गुनेमलपक्षस्य एकादश्यामुपोषितः ।।

नरो वा यदि वा नारी समभ्यर्च्य जगत्पतिम् ।। १ ।।

हरेर्नाम वदन्भक्त्या भावयुक्तो युधिष्ठिर ।।

उत्तिष्ठन्प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् ।। २ ।।

ततोन्यस्मिन्दिने प्राप्ते द्रादश्यां नियतो हरिम् ।।

स्नात्वा सम्यक्समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम् ।। ३ ।।

हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः ।।

प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत ।। ४ ।।

पातालसंस्थां वसुधां यां प्रसाद्य मनोरथा।।

अवाप वासुदेवोसौ प्रदद्यात्तु मनोरथान् ।।५।।

यमभ्यर्च्य दिवि प्राप्तः सकलांश्च मनोरथान् ।।

भ्रष्टराज्यश्च देवेन्द्रो यमभ्यर्च्य जगत्पतिम् ।। ६ ।।

मनोरथानभिनवान्प्राप्तवांश्च मनोहरान् ।।

एवमभ्यर्च्य पूजां च निष्पाद्य च हरेस्ततः ।।

भुञ्जीत प्रयतः सम्यग्हविष्यं पांडुनन्दन ।। ७ ।।

फाल्गुने चैत्रे वैशाखे ज्येष्ठे मासि च सत्तम ।।

चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् ।। ८ ।।

रक्तपुष्पैश्च चतुरो मासा न्कुर्वीत चार्चनम् ।।

दहेत्तु गुग्गुलुं प्राश्य गोशृंगक्षालनं जलम् ।।९।।

हविष्यान्नं च नैवेद्यमात्मनश्चापि भोजनम् ।।

ततश्च श्रूयतां पार्थ आषाढादौ तु या क्रिया ।।4.80.१ ०।।

जातीपुष्पाणि धूपश्च शस्तः सार्जरसो नृप ।।

प्राश्य दर्भोदकं चास्य शाल्यन्नं च निवेदनम् ।।११।।

स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् ।।

कार्तिकादिषु मासेषु गोमूत्रं कायशोधनम् ।।१२।।

सुगंधिश्चेच्छया धूपं पूजा भृंगारकेन च ।।

कांसारं चात्र नैवेद्यमश्नीयात्तच्च वै स्वयम् ।।१३।।

प्रतिमासं च विप्राय दातव्या दक्षिणा तथा ।।

पारणं चेच्छया विष्णोः पारणे पावने मते ।। १४ ।।

यथाशक्त्या यथाप्रीत्या वित्तशाठ्यं विवर्जयेत् ।।

सद्भावेनैव गोविंदः पूजितः प्रीयते यतः ।।१५।।

पारणांते यथाशक्ति स्नापितः पूजितो हरिः ।।

प्रीणितश्चेप्सितान्कामांस्तान्ददात्यव्ययान् नृप ।।१६।।

वर्षांते प्रतिमामिष्टां कारयित्वा सुशोभनाम्।।

स्वर्णकेन यथा शक्त्या शंखशार्ङ्गविभूषिताम् ।। १७ ।।

पुष्पवस्त्रयुगच्छन्नां ब्राह्मणाय निवेदयेत् ।।

द्वादश ब्राह्मणांस्तत्र भोजयित्वा क्षमापयेत् ।।१८।।

द्वादशात्र प्रदातव्याः कुंभाः सान्नजलाक्षताः ।।

छत्रोपानद्युगैः सार्द्धं दक्षिणाभिश्च भारत ।। १९ ।।

एषा पुण्या पापहरा द्वादशी फलमिच्छताम् ।।

यथाभिलषितान्कामान्ददाति नृपसत्तम ।।4.80.२०।।

पूरयत्यखिलान्भक्त्या यतश्चैषां मनोरथान् ।।

मनोरथा द्वादशीयं ततो लोकेषु विश्रुता ।।२१।।

उपोष्यैतां त्रिभुवनं लब्धमिन्द्रेण वै पुरा ।।

आदित्याश्चेष्टिताः पुत्रा धनमौशनसा तथा ।। २२ ।।

धौम्येनाध्ययनं प्राप्तमन्यैश्चाभिमतं फलम् ।।

राजर्षिभिस्तथा विप्रैः स्त्रीविट्शूद्रैश्च भूतले ।। २३ ।।

यंयं काममभिध्याय व्रतमेतदुपोषितम् ।।

तत्तदाप्नोत्यसंदिग्धं विष्णोराराधनोद्यतः ।। २४ ।।

अपुत्रो लभते पुत्रमधनो लभते धनम् ।।

रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् ।। २५ ।।

समागमं प्रवसनैरुपोष्यैतामवाप्यते ।।

सर्वान्कामानवाप्नोति मृतः स्वर्गे च मोदते ।। २६ ।।

नापुत्रो नाधनो ज्येष्ठो वियोगी न च निर्गुणः ।।

उपोष्यैतद्व्रतं मर्त्यः स्त्रीशूद्रो वापि जायते ।। २७ ।।

स्वर्गलोके सहस्राणि वर्षाणामयुतानि च ।।

भोगानभिमतान्भुक्त्वा तत्रतत्र यथेच्छया ।। २८ ।।

इह पुण्यवतां नॄणां धनिनां लघुशालिनाम् ।।

गृहे प्रजायते राजन्सर्वव्याधिविवर्जितः ।। २९ ।।

न द्वादशीमुपवसन्ति मनोरथाख्यां नैवार्चयंति पुरुषोत्तममादिदेवम् ।।

गोब्राह्मणांश्च न नमंति न पूजयंति ये ते मनोभिलषितं कथमाप्नुवंति ।। 4.80.३० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मनोरथद्वादशीव्रतवर्णनं नामाशीतितमोऽध्यायः ।। ८० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 81

उल्कानवमीव्रतवर्णनम्

।।युधिष्ठिर उवाच ।। ।।

अल्पायासेन भगवन्धनेनाल्पेन वा विभो ।।

पापं प्रशममायाति येन तद्वक्तुमर्हसि ।। ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु पार्थ परां पुण्यां द्वादशीं पापनाशिनीम् ।।

यामुपोष्य परं पुण्यमाप्नुयाच्छ्रद्धयान्वितः ।। २ ।।

माघमासे च संप्राप्ते आषाढर्क्षं भवेद्यदि ।।

मूलं वा कृष्णपक्षस्य द्वादश्यां नियतव्रतः ।। ३ ।।

गृह्णीयात्पुण्यफलदं विधानं तस्य मे शृणु ।।

देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ।। ४ ।।

कृष्णनाम्ना च संपूज्य एकादश्यां महामते ।।

उपोषितो द्वितीयेह्नि पुनः संपूज्य केशवम् ।। ५ ।।

संस्तूय नाम्ना तेनैव कृष्णाख्येन पुनःपुनः ।।

दद्यात्तिलांश्च विप्राय कृष्णो मे प्रीयतामिति ।। ६ ।।

ततश्च प्राशयेच्छस्तांस्तथा कृष्णतिलान्नृप ।।

विष्णुप्रीणनमंत्रोक्ते समाप्ते वर्षपारणे ।। ७ ।।

कृष्णकुंभांस्तिलैः सार्द्धं पक्वान्नेन च संयुताः ।।

छत्रोपानद्युगैर्वस्त्रैः सहिता अन्नगर्भिणः ।।

ब्राह्मणेभ्यः प्रदेयास्ते यथावन्माससंख्यया ।। ८ ।।

तिलप्ररोहाज्जायंते यावत्संख्यास्तिला नृप ।।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।

अरोगो जायते नित्यं नरो जन्मनिजन्मनि ।। ९ ।।

अंधो न बधिरश्चैव न कुष्ठी न च कुत्सितः ।।

भवत्येतामुषित्वा तु तिलाख्यां द्वादशीं नरः ।। 4.81.१० ।।

अनेन पार्थ विधिना तिलदाता न संशयः ।।

मुच्यते पातकैः सर्वैरनायासेन मानवः ।। ११ ।।

दानं विधिस्तथा श्राद्धं सर्वपातकशांतये ।।

नार्थः प्रभूतो नायासः शरीरे नृपसत्तम ।। १२ ।।

सर्वोपभोगनिरतोह्नि परे दशम्यां स्नानं तिलैस्तिलनिवेदनकृत्तिलाशी ।।

दत्त्वा तिलान्द्विजवराय विराजकेतु संपूज्य विष्णुपदवीं समुपैति मर्त्यः ।। १३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उल्कानवमीव्रतवर्णनं नामैकाशीतितमोऽध्यायः ।। ८१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 82

सुकृतद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

यन्न तापाय वै पुंसां भवत्यामुष्मिकं कृतम् ।।

तदपापाय भवति तदाचक्ष्व यदूत्तम ।। १ ।।

उपवासप्रभावं वै कृष्णाराधनकांक्षिणाम् ।।

कथयेह महाबाहो नैव तृप्यामि जल्पतः ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

श्रूयतां पार्थ यत्पृष्टाः कौतुकाद्भवता वयम् ।।

आमुष्मिकं न तापाय प्रतापाय च जायते ।। ३ ।।

उपोषितप्रभावं च कृष्णाराधनकांक्षिणाम् ।।

कथयामि यथावृत्तं पूर्वमेव नरोत्तम ।। ४ ।।

वैदिशं नाम नगरं प्रख्यातं नृपसत्तम ।।

तत्र वैश्योऽभवत्पूर्वं सीरभद्र इति श्रुतः ।। ५ ।।

भार्यया मातृदुहिता पुत्रपौत्रैः समन्वितः ।।

प्रभूत भृत्यवर्गश्च बहुव्यापारकारकः ।। ६ ।।

पुत्रपौत्रादिभरणे व्यासक्तिर्मतिरेव च ।।

परलोकं प्रति मतिस्तस्य नासीत्कदाचन ।। ७ ।।

चकारानुदिनं सोऽथ न्यायान्यायैर्द्धनार्जनम् ।।

सर्वत्रान्यत्र निःस्नेहः पुत्रस्नेहपरिप्लुतः ।। ८ ।।

न जुहोत्युदिते काले न ददात्यतितृष्णया ।।

बभूव चोद्यमस्तस्य पुत्रादिभरणे परः ।। ९ ।।

नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणा ।।

तृष्णाभिभूतो राजेन्द्र स्ववर्गभरणोज्झितः ।। 4.82.१० ।।

कालेनागच्छतासोऽथ मृतो विंध्याटवीतटे ।।

यातनादेहभृत्प्रेतो ग्रीष्मकालेऽभवन्नृप ।। ११ ।।

तं ददर्श महाभागो दिव्ययानसमन्वितः ।।

वेदवेदाङ्गविद्वेषी विपीतो नाम वै द्विजः ।।

भास्करस्याशुभिर्द्दीप्तैर्दहंतमतिदारुणैः ।। १२ ।।

प्रतप्तवालुकामध्ये तृषार्तं चातिपीडितम् ।।

क्षुत्क्षामकंठं शुष्कास्यं तथोद्वृत्तविलोचनम् ।।

निष्क्रांतजिह्वमंगेषु विस्फोटैः सर्वतश्चितम् ।। १३ ।।

निश्वासायासखेदेन विह्वलं पीडितोदरम् ।।

निजेन कर्मणा बद्धमसमर्थं प्रसर्पणे ।। १४ ।।

तथादृशमथो दृष्ट्वा गर्दभेयो महानृषिः ।।

विपीतः प्राह राजेन्द्र कारुण्यभरितं वचः ।। १५ ।।

जानन्नपि यथाप्राप्तं तस्यानुष्ठानजं फलम् ।।

जंतोस्तस्योपकाराय सर्वतो ह्लादयन्निव ।। १६ ।।

।। विपीत उवाच ।। ।।

अधः सूर्यांशुभिस्तप्तैर्बहुभिः पथि पांशुभिः ।।

उपर्यर्ककरैस्तीक्ष्णैस्तृषावातनिपीडितम् ।। १७ ।।

अन्यस्तत्राणकैर्घोरैरविषह्यैः सुदारुणैः ।।

कथयेह यथातत्त्वमेकाकी दह्यसे कथम् ।। १८ ।।

तस्यैतद्वचनं श्रुत्वा विपीतस्य सवेदनः ।।

वेदनार्त उवाचेदं कृच्छ्रादुच्छुस्य मंदकम् ।। १९ ।।

।। सीरभद्र उवाच ।। ।।

ब्रह्मन्नालोचितं पूर्वं कथमंते भविष्यति ।।

अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः ।। 4.82.२० ।।

इदं करिष्याम्यपरं त्विदं कृत्वा त्विदं पुनः ।।

इतीच्छा शतमारूढस्तेन दह्यामि दुर्मतिः ।। २१ ।।

शीतोष्णवर्षादिभवं लोभात्सोढं मयाऽशुभम् ।।

तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिः ।। २२ ।।

पितृदेवमनुप्याणामदत्त्वा यापिता हि ये ।।

ते गता नापि वर्तंत दह्याम्येकोऽत्र दुर्मतिः ।।२३।।

पुत्रक्षेत्रकलत्रेषु ममत्वाहृतचेतसा ।।

बह्वसाधु कृतं कर्म तेन दह्यामि दुर्मतिः ।। २४ ।।

मृते मयि धने तस्मिन्नन्यायोपार्जिते सदा ।।

रूपवंतोऽभिवर्तंते दह्याम्येकोत्र दुर्मतिः ।। २५ ।।

न मया पूजिता गेहान्निर्गता द्विजसत्तमाः ।।

स्ववर्गमिह कामेन तेन दह्याम्यहंमतिः ।। २६ ।।

यन्मे न पूजिता देवाः कुटुंबं पोषितं परम् ।।

एकाकी तत्र दह्यामि ये सुतास्तेऽन्यतो गताः ।।२७।।

नित्यं नैमित्तिकं कर्म पूर्वेषां चैव नो कृतम् ।।

एकाकी तेन दह्यामि गतस्ते फलभोगिनः ।। २८ ।।

दाराः पुत्राश्च भृत्याश्च पापबुद्ध्या मया भृताः ।।

एकाकी तेन दह्यामि गतास्ते फलभोगिनः ।। २९ ।।

दाराः पुत्राश्च भृत्यार्थे मया न्यायार्थसंचयः ।।

कृतस्तेनात्र दह्यामि ये भुक्तास्तेऽन्यतो गताः ।। 4.82.३० ।।

क्षतपापं मया भुक्तमन्यैस्तत्कर्म संचितम् ।।

दह्याम्येकोऽहमत्यंतं गतास्ते फलभोगिनः ।। ।। ३१ ।।

यन्ममत्वाभिभूतेन मया पापमुपार्जितम् ।।

न तदन्यस्य कस्यापि केवलं मम दुष्कतम् ।। ३२ ।।

अंतर्दुःखेन दग्धोऽहं बहिर्दह्यामि भावयन् ।।

तावद्दुःखं नवाभं तु पापमेकं द्विधास्थितम् ।। ३३ ।।

कुरु तस्मात्समुद्धारं पश्यस्यमृतसागरम् ।।

तव येनाहमाह्लादं प्राप्नुयां मुनिसत्तम ।। ।। ३४ ।।

।। विपीत उवाच ।। ।।

अल्पकालिक उद्धारे तव पश्यामि संशयम् ।।

प्रक्षीणं पापमेतावत्सुवृत्तं चास्ति ते परम् ।। ३५ ।।

प्रतीते दशमे जन्मन्यच्युताराधनेच्छया ।।

सुकर्मजयदा भद्रद्वादशीं समुपोषितः ।।

न च तस्याः प्रसादेन पापमत्यन्तदुर्जयम् ।। ३६ ।।

अल्पैरहोभिः संक्षीणमामपात्रे यथा जलम् ।।

गतं पापमयं ह्यस्याः प्रभावोऽत्यन्तदुर्ल्लभः ।। ३७ ।।

नाशं पापस्य कुरुते जयं सुकृतकर्मणः ।।

सकृत्कर्मप्रदा ह्येषा ततो वै द्वादशी स्मृता ।। ३८ ।।

यथैतद्वदतार्तेन भवता परिदेवितम् ।।

तमुवाचात्र संदेहो मम तापाय देव किम् ।। ३९ ।।

पापमत्र कृतं प्रेत्य भद्र तापाय जायते ।।

आह्लादाय तथा पुण्यमिह पुण्यकृतां नृणाम् ।। 4.82.४० ।।

सीरभद्रं समाश्वास्य ययावित्थं महामुनिः ।।

सोप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् ।। ४१ ।।

उपवासप्रभावश्च कथितस्ते नरोत्तम ।।

येनाल्पैरेव दिवसैर्भूरि पापं क्षयं गतम् ।। ४२ ।।

तस्मान्नरेण पुण्याय यतितव्यं न पातकम् ।।

उपवासाश्च कर्तव्याः सदैवात्महितैषिणा ।। ४३ ।।

।। युधिष्ठिर उवाच ।। ।।

अथैतत्कष्टपापानां विपाको नरकस्थितैः ।।

पुरुषैर्भुज्यते शश्वत्तं मोक्षं वद सत्तम ।। ४४ ।।

।। श्रीकृष्ण उवाच ।। ।।

जयासमेताः पुरुषाः सदा सुकृतकर्मणः ।।

जया सा द्वादशी शस्ता नृणां सुकृतकर्मणाम् ।। ४५ ।।

फाल्गुनामलपक्षस्य एकादश्यामुपोषितः ।।

द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ।। ४६ ।।

एकादश्यां समुत्तिष्ठन्विष्णोर्नामानुकीर्तयन् ।।

पूजायां वासुदेवस्य भुञ्जीत सुसमाहितः ।। ४७ ।।

कामं क्रोधं च लोभं च मदं मोहं च वर्जयेत् ।।

द्रोहादीन्वर्जयेद्दोषान्सर्वान्धनमदोद्भवान् ।। ४८-।।

भाययेद्विष्णुभक्तश्च संसारेऽसारतां तथा ।।

एवं भावितचित्तेन प्राणिनां हितमिच्छता ।। ।।४९।।

नमो नारायणायेति वक्तव्यं स्वपता निशि ।।

तथैव कुर्याद्द्वादश्यां नाम्ना क्षुत्पारणं नृप ।।4.82.५०।।

सौवर्णताम्रपात्राणि मृन्मयान्यपि पांडव ।।

यवपात्राणि पूर्वं तु दद्यान्मासचतुष्टयम्।।५१।।

आषाढादिद्वितीयं तु पारयेच्च महामते ।।

तत्रापि घृतपात्राणि दद्याच्छ्रद्धासमन्वितः ।।५२।।

कार्त्तिकादिषु मासेषु माघांतेषु तथा तिलान्।।

विप्राय दद्यात्पात्रं तु प्रतिमासमुपोषितः ।।५३।।

नामत्रयमशेषेण मासिमासि दिनद्वयम्।।

तथैवोच्चारयन्दद्यान्मासिमासि यवादिकम् ।।

प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत् ।।५४।।

विष्णो नमस्ते जगती प्रसोत्रे श्रीवासुदेवाय नमो नमस्ते ।।

नारायणाख्यः प्रणतैर्विचिंत्यः करोतु मां शाश्वतपुण्यराशिम्।।५५।।

प्रसीद पुण्यं जयमेति विष्णो श्रीवासुदेवर्द्धिमुपैतु पुण्यम्।।

प्रयातु वाशेषमथो विनाशं मा तेंऽघ्रिपद्मादितरत्र मे मतिः।।५६।।

विष्णो पुण्योद्भवो मेस्तु वासुदेवास्तु मे शुभम् ।।

नारायणोस्तु धर्मो जहि पापमशेषतः ।।५७।।

अनेक जन्मजनितं बाल्ययौवनवार्द्धके।।

पुण्यं विवृद्धिमायातु यातु पापं च संक्षयम् ।।५८।।

आकाशादिषु शब्दादौ श्रोत्रादौ महदादिषु।।

प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः।।५९।।

यथैक एव धर्मात्मा वासुदेवो व्यवस्थितः।।

तेन सत्येन पापं मे नरकार्तिप्रदं क्षयम् ।।4.82.६०।।

प्रयातु सुकृतस्यास्तु ममानुदिवसञ्जयः।।

पापस्य हानिः पुण्यस्य वृद्धिर्मेस्तूत्तमोत्तमा।।६१।।

एवमुच्चार्य विप्राय दद्याद्यत्कथितं तव।।

भुञ्जीत कृतकृत्यस्तु पारणेपारणे गते।।६२।।

पारणांते तु देवेश प्रीणनं शक्तितो नृप ।।

कुर्वीताखिलपाखण्डैरालापं च विवर्जयेत् ।। ६३ ।।

एवं संवत्सरस्यांते कांचनीं प्रतिमां हरेः।।

पूजयित्वा वस्त्रपुष्पैर्घृतपात्रेण संयुतैः ।। ६४ ।।

गां सवत्सां च विप्राय दद्याच्छ्रद्धासमन्वितः ।।

विलंबितं च यत्पूर्वं देवानन्यान्भजेद्यदि ।। ६५ ।।

तस्मिन्नहनि दातव्यं भोजने चानिवारितम् ।।

इत्येषा कथिता पुण्या सुकृतस्य जयावहा ।।

द्वादशी नरकं पार्थ यामुपोष्य न पश्यति ।।६६।।

नाग्नयो न च शस्त्राणि न च लोहमुखाः खगाः ।।

नारकास्तं प्रबाधन्ते मतिर्यस्य जनार्दने ।। ६७ ।।

नामोच्चारणमात्रेण विष्णोः क्षीणाघसंचयः ।।

भवत्यघ विनाशश्च नरके पतनं कुतः ।। ६८ ।।

नमो नारायण हरे वासुदेवेति कीर्तयन् ।।

न याति नरकं मर्त्यः संक्षीणाशेषपातकः ।। ६९ ।।

तस्मात्पाखंडिसंसर्गमकुर्वन्द्वादशीमिमाम् ।।

उपोष्य पुण्योपचये न याति नरकं नरः ।। 4.82.७० ।।

पापं क्षिणोति सुकृतस्य करोति वृद्धिं वृद्धिं प्रयच्छति नियच्छति सर्वदोषान् ।।

यद्द्वादशीह सुकृतातिहिता च लोके कस्मान्न तामुपवसंति विमूढचित्ताः ।।७१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सुकृतद्वादशीव्रतवर्णनं नाम द्व्यशीतितमोऽध्यायः ।। ८२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 83

धरणीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

यदेतत्परमं गुह्यं सर्ववेदेषु पठ्यते ।।

स देवः पुण्डरीकाक्षः स्वयं नारायणो हरिः ।। १ ।।

स यज्ञैर्विविधैरिष्टैर्व्रतैश्च यदुसत्तम ।।

प्राप्यते परमो देवः सनातनः कथञ्चन।।। २।।

बहुवित्तेन भगवन्नृत्विग्भिर्वेदपारगैः ।।

प्राप्यन्ते सुसहायैश्च क्वचित्त्यक्ताः सुदुष्कराः ।। ३ ।।

वित्तेन च विना दानं दातुं कृष्ण न शक्यते ।।

विद्यमानेऽपि न मतिः कुटुंबासक्तचेतसः ।। ४ ।।

तस्य मोक्षः कथं कृष्ण सर्वथा दुर्ल्लभो हरिः ।।

अल्पायासेन लभते येन देवः सनातनः ।।

तन्मे सामान्यतो ब्रूहि सर्ववर्णेषु यद्भवेत् ।।५।।

।। श्रीकृष्ण उवाच ।। ।।

कथयामि परं गुह्यं रहस्यं देवनिर्मितम् ।।

धरण्या यत्कृतं पूर्वं मज्जन्त्या वसुधातले ।। ६ ।।

पृथिव्याः पार्थिव पुरा संजातः संगमोऽम्बुभिः ।।

तस्मिन्सलिलसंलग्ने मही प्रायाद्रसातलम्।। ७ ।।

सा भूतधात्री धरणी रसातलगता शुभा ।।

आराधयामास विभुं देवं नारायणं परम् ।। ८ ।।

उपवासव्रतैर्देवी नियमैश्च पृथग्विधैः ।।

कालेन महता तस्याः प्रसन्नो गरुडध्वजः ।।

उज्जहार स्थितौ चेमां स्थापयामास चाच्युतः ।। ९ ।।

प्राप्ते मार्गशिरे मासे दशम्यां नियतात्मवान् ।।

स्नात्वा देवार्चनं कृत्वा अग्निकार्यं यथाविधि ।। 4.83.१० ।।

शुचिवासाः प्रसन्नात्मा ह्यत्यल्पान्न सुसंस्कृतम् ।।

भुक्त्वा पञ्चपदं कृत्वा पुनः शौचं च पादयोः ।। ११ ।।

कृत्वाष्टांगुलमात्रं तु क्षीरवृक्षसमुद्भवम् ।।

भक्षयेद्दन्तकाष्ठं तु ततश्चाचम्य यत्नतः ।। १२ ।।

स्पृष्ट्वा न्यस्यान्यकर्माणि चिरं ध्यात्वा जनार्दनम् ।।।

शंखचक्रगदापाणिं पीताम्बरसमावृतम् ।। १३ ।।

एवमुच्चारयेद्वाचं तस्मिन्काले महाद्युते ।।

एकादश्यां निराहारः स्थित्वाहमपरेहनि ।।

संभोक्ष्ये पुण्डरीकाक्ष शरणं मे भवाच्युत ।। १४ ।।

एवमुक्त्वा ततो देव देवदेवस्य सन्निधौ ।।

जपेन्नारायणायेति रूपे तत्र विधानतः ।। १५ ।।

ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् ।।

इतरां वा तडागं वा गृहे वा नियतात्मवान् ।। १६ ।।

आनीय मृत्तिकां शुद्धां मंत्रेणानेन मानवः ।।

धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ।।

तेन सत्त्वेन मां पाहि पापान्मोचय सुव्रते ।। १७ ।। ।। इति मृत्तिकामन्त्रः ।।

ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः ।।

भवंति भूतानि सतां मृत्तिकामालभेत्पुनः ।। १८ ।। इत्यदित्यादर्शनमन्त्रः ।।

एवं मृदं रवेरग्रे कृत्वाथात्मानमा लभेत् ।।

त्रिःकृत्वाशेषमृदया कुण्डमालिख्य वै जले ।। १९ ।।

ततः स्नात्वा नरः सम्यक्चक्रवर्त्युपचारकः ।।

आचम्यावश्यकं कृत्वा पुनर्देव गृहं व्रजेत् ।। 4.83.२० ।।

तमाराध्य महायोगं देवं नारायणं प्रभुम् ।।

केशवाय नमः पादौ कटिं दामोदराय च ।। २१ ।।

ऊरुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे ।।

कण्ठं कौस्तुभनाथाय वक्षः श्रीपतये तथा ।। २२ ।।

त्रैलोक्यविजयायेति बाहु सर्वात्मने शिरः ।।

रथांगधारिणे चक्रं शंकरायेति चांबुजम् ।। २३ ।।

गम्भीरायेति च गदामभयं शांतमूर्तये ।।

एवमभ्यर्च्य देवेशं देवं नारायणं प्रभुम् ।। २४ ।।

पुनस्तस्याग्रतः कुम्भांश्चतुरः स्थापयेद्बुधः ।।

जलपूर्णान्समाल्यांश्च सितचन्दनचर्चितान् ।। २५ ।।

चतुर्भिस्तिलपात्रैश्च स्थगितान्रत्नसंयुतान् ।।

चत्वारस्ते समुद्रास्तु कलशाः परिकीर्तिताः ।। २६ ।।

तेषां मध्ये तु संपीठं स्थापयेद्वस्त्रसंवृतम् ।।

तस्मिन्सौवर्णं रौप्यं वा ताम्रं वा दारवं तथा ।।

पात्रं तोयभृतं कृत्वा तस्य मध्ये ततो न्यसेत् ।। २७ ।।

सौवर्णं मात्स्यरूपेण कृत्वा देवं जनार्दनम् ।।

वेदवेदांगसंयुक्तं श्रुतिस्मृति विभूषितम् ।। २८ ।।

भक्ष्यैर्बहुविधै राजन्फलैः पुष्पैश्च शोभितम् ।।

गन्धैर्धूपैर्मंत्रवरैरर्चयित्वा यथाविधि ।। २९ ।।

रसातलगता वेदा यथा देव त्वयाहृताः ।।

मत्स्यरूपेण तद्वन्मां भवादुद्धर केशव ।। 4.83.३० ।।

एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत् ।।

यथाविभवसारेण प्रभा तेऽपि पुनःपुनः ।।

चतुर्णां ब्राह्मणानां तु चतुरो दापयेद्धटान् ।। ३१ ।।

पूर्वं तु बह्वृचे दयाच्छंदोगे दक्षिणं तथा ।।

यजुःशाखान्विते दद्यात्पश्चिमं घटमुत्तमम् ।। ३२ ।।

उत्तरं कामतो दद्याद्देश एव विधिक्रमात् ।।

ऋग्वेदः प्रीयतां पूर्वं सामवेदश्च दक्षिणः ।। ३३ ।।

यजुषः पश्चिमो नाम्ना आथर्वायोत्तरं तथा ।।

पूर्णपात्रैस्तु सतिलैः स्थगितान्कारयेद्धटान् ।। ३४ ।।

ततस्तं जलपात्रस्थं ब्राह्मणाय कुटुंबिने ।।

दद्यादेवं महाभाग ततः पश्चात्तु भोजयेत् ।। ३५ ।।

ब्राह्मणान्पायसान्नेन ततः पश्चात्स्वयं गृही ।।

भुञ्जीत भृत्यसहितो वाग्यतः संयतेन्द्रियः ।। ३६ ।।

अनेन विधिना यस्तु द्वादशीं क्षपयेन्नरः ।।

तस्य पुण्यफलं राजञ्छृणु सत्यवतां वर ।। ३७ ।।

यदि वक्त्रसहस्राणि भवंति हि युगेयुगे ।।

आयुश्च ब्रह्मणस्तुल्यं भवेद्यदि महामते ।।

तदस्य फलसंख्यानं कर्तुं शक्यं न धारयेत् ।। ३८ ।।

यः कृष्णद्वादशीमेतामनेन विधिना नृप ।।

करोति ब्रह्मलोकं स समाप्नोति न संशयः ।। ३९ ।।

ब्रह्महत्यादिपापानि जन्मांतरकृतान्यपि ।।

अकामतः कामतो वा प्रणश्यंति न संशयः ।। 4.83.४० ।।

तथैव पौषमासेन अमृतं मथितं सुरैः ।।

तच्च कूर्मोभवद्देवः स्वयमेव जनार्दनः ।। ४१ ।।

तस्येयं तिथिरुद्दिष्टा हरेर्वै कूर्मरूपिणः ।।

पौषमासं समासाद्य द्वादशीं शुक्लसंयुताम् ।। ४२ ।।

तस्यां प्राग्वत्संकल्पः प्रातःस्नानादिकाः क्रियाः ।।

निर्वर्त्याराधयेद्रात्र्यामेकादश्यां जनार्दनम् ।।

प्रीयमंत्रैर्नृपश्रेष्ठ देवदेवं जगद्गुरुम् ।। ४३ ।।

कूर्माय पादौ प्रथमं सुपूज्य नाराणायेति कटिं हरेस्तु ।।

सङ्कर्षणायेत्युदरं विशोधेत्पुरोभवायेति च कंठपीठम् ।। ४४ ।।

सुबाहवेत्येव भुजौ शिरश्च सर्वात्मने पांडव पूजनीयौ ।।

स्वनाममंत्रेण च शंखचक्रे गदां नमस्कारपरेण चैव ।। ४५ ।।

एभिर्मन्त्रैः पुष्पसुगन्धधूपैर्नैवे द्यदीपैर्विविधैः फलैश्च ।।

अभ्यर्च्य देवं कलशं तदग्रे संस्थापयेन्माल्यविलेपनाद्यम् ।। ४६ ।।

तं रत्नगर्भं सुसुगंधतोयं कृत्वा ततो हेममयं स्वश क्त्या ।।

समंदरं कूर्मतनुं सुरेशं संस्थापयेच्चात्र शुभे च पात्रे ।।४७।।

घृतैश्च पूर्णे कलशाऽग्रसंस्थं संपूजयेज्जागरनृत्यगीतैः।।

संपूज्य विप्रान्घृतपायसेन निवेद्य पूर्वं द्विजपुङ्गवाय ।।

निर्वर्त्य सर्वं विधिवत्ततश्च भुञ्जीत संतुष्टमनाः सभृत्यः ।। ४८ ।।

एवं कृते कल्पयुगांतराणि स्वर्गे वसेत्सर्वसमृद्धकामः ।।४९।।

संसारचक्रं स विहाय शीघ्रमाप्नोति लोके तु हरेः पुराणे ।।

प्रयांति पापानि विनाशमाशु श्रिया युतो जायति सत्यधर्म ।।4.83.५०।।

अनेकजन्मार्जितसंयुतानि नश्यंति पापानि नरस्य भक्त्या ।।

प्रागुक्तरूपं च फलं लभेत नारायणं वस्तुमुपैति सद्यः ।। ५१ ।।

एवं माघे सिते पक्षे द्वादशीं धरणीधर ।।

वराहस्य शृणुष्वान्यां राजन्परमधार्मिक ।। ५२ ।।

प्रागुक्तेन विधानेन स्नानं संकल्पमेव च ।।

कृत्वा देवं समभ्यर्च्य एकादश्यां समाहितः ।। ५३ ।।

धूपनैवेद्यगंधैस्तु अर्चयित्वा पुनर्नरः ।।

पश्चात्तस्याग्रतः कुंभं जलपूर्णं तु विन्यसेत् ।। ५४ ।।

वराहायेति पादौ तु माधवायेति वै कटिम् ।।

क्षेत्रज्ञायेति जठरं विश्वरूपेत्युरो हरेः ।।५५।।

पूर्वत्रायेति कंठं तु प्रजानां पतये शिरः ।।

प्रद्युम्नायेति च भुजौ दिव्यास्त्रा य सुदर्शनम् ।।५६।।

अमृतोद्भवाय शंखं तु गदिने च गदां तथा ।।

एवमभ्यर्च्य मेधावी तस्मिन्कुंभेऽपि विन्यसेत् ।।५७।।

सौवर्णं रूप्यं ताम्रं वा पात्रं विभवशक्तितः ।।

सर्वबीजैस्तु संपूर्णं स्थापयित्वा विचक्षणः ।। ५८ ।।

तत्र शक्त्या च सौवर्णं वाराहं कारयेत्ततः ।।

दंष्ट्राग्रेणोद्धरन्पृथ्वीं सपर्वतवनद्रुमाम् ।। ५९ ।।

माधवं मधुहंतारं वाराहं रूपमास्थितम् ।।

सर्वबीजभृतैः पात्रै रत्नगर्भघटोपरि ।। 4.83.६० ।।

स्थापयेत्परमं देवं जातरूपमयं हरिम् ।।

सितवस्त्रयुगच्छन्नं ताम्राभावे तु वैणवे ।। ६१ ।।

स्थाप्यार्चयेद्गन्धपुष्पैर्नैवेद्यैर्विविधैः फलैः ।।

पुष्पमंडपिकां कृत्वा जागरं तत्र कारयेत् ।। ६२ ।।

प्रादुर्भावं हरेर्दिव्यं वाचयेद्गापयेद्बुधः ।।

एवं सनियमस्यास्य प्रभाते उदिते रवौ ।। ६३ ।।

वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते ।।

विष्णुभक्ताय राजेन्द्र विशेषेण प्रदापयेत् ।। ६४ ।।

एवं सकुंभं दत्त्वा च हरिं वाराहरूपिणम् ।।

ब्राह्मणाय भवेद्यद्वत्फलं तन्मे निशामय ।। ६५ ।।

इह जन्मनि सौभाग्यं श्रीकान्ती पुष्टिमेव च ।।

प्राप्नोति पुरुषो राजन्यद्यदिच्छति किंचन ।। ६६ ।।

एकाऽपि विधिनोपास्ता ददात्यमृतमुत्तमम् ।।

किंपुनर्वर्षमेकं च करोति कुरुनंदन ।। ६७ ।।

एषा च फाल्गुने मासि शुक्लपक्षे तु द्वादशी ।।

उपोष्या पूर्वविधिना हरिमाराधयेत्सुधीः ।। ६८ ।।

नरसिंहाय पादौ तु गोविंदायोदरं तथा ।।

कटिं विश्वसृजे पूज्य अनिरुद्धेत्युरो हरेः ।। ६९ ।।

कंठं तु शितिकंठाय वैनतेयाय वै शिरः .।।

असुरध्वंसनायेति वक्त्रं तोयात्मने नमः ।। 4.83.७० ।।

शंखमित्येव संपूज्य गंधपुष्पैः फलैस्तथा ।।

तदग्रे तु घटं स्थाप्य सितवस्त्रयुगान्वितम् ।। ७१ ।।

तस्योपरि नृसिंहं तु सौवर्णं ताम्रभाजने ।।

हैमे च शक्तितः कृत्वा दारुवंशमयेऽपि वा ।। ७२ ।।

रत्नगर्भमये स्थाप्य भक्त्या संपूज्य मानवः ।।

द्वादश्यां वेदविदुषे ब्राह्मणाय निवेदयेत् ।। ७३ ।।

एषा वंद्या पापहरा द्वादशी भवते मया ।।

कथिता च प्रयत्नेन श्रुता च भवतेप्सिता ।। ७४ ।।

एवमेनां नरव्याघ्र चैत्रे संकल्प्य द्वादशीम् ।।

उपोष्याराधयेत्पश्चाद्देवदेवं जनार्दनम् ।। ७५ ।।

कुण्डिकां स्थापयेत्पार्श्वे छत्रिकां पादुके तथा ।।

अमलं वामनं स्थाप्य बृसीं कांसपरिच्छदाम् ।। ७६ ।।

फलैः पुष्पैः सुगन्धैश्च प्रभाते सद्द्विजातये ।।

दापयेत्प्रीयतां विष्णुर्ह्रस्वरूपीत्युदीरयेत् ।। ।। ७७ ।।

मासनाम्नात्र संयुक्तं प्रादुर्भावं विधानतः ।।

प्रीयतामिति सर्वत्र विधिरेव प्रकीर्तितः ।। ७८ ।।

अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।।

भ्रष्टराज्यो लभेद्राज्यं मृतो विष्णुपुरं व्रजेत् ।। ७९ ।।

क्रीडित्वा सुचिरं कालमिह मर्त्यमुपागतः ।।

चक्रवर्ती भवेद्धीमान्ययातिरिति नाहुषः।।4.83.८०।।

वैशाखेऽप्येवमेवं तु संकल्प्य विधिवन्नरः ।।

तद्वत्स्नानं मृदा तद्वत्ततो देवालयं व्रजेत् ।। ८१ ।।

तत्राराध्य हरिं भक्त्या एभिर्मन्त्रैर्विचक्षणः ।।

जामदग्न्याय पादौ तु उदरं सर्वधारिणे ।। ८२ ।।

मधुसूदनायेति कटिमुरः श्रीवत्सधारिणे ।।

क्षत्रांतकाय च भुजौ मणिकण्ठाय कण्ठकम् ।। ८३ ।।

पूजयेन्नियतो भूत्वा सुरूपायेति वै मुखम् ।।

स्वनाम्ना शंखचक्रे च शिरो ब्रह्मांडधारिणे ।। ८४ ।।

एवमभ्यर्च्य मेधावी प्राग्वंशस्याग्रतो घटम् ।।

विन्यस्येत्पुष्पवस्त्राढ्यं सितचन्दनचर्चितम् ।। ८५ ।।

वैणवेऽभिनवे पात्रे स्थापयेन्मधुसूदनम् ।।

जामदग्न्येन रूपेण कृत्वा सौवर्णमग्रतः ।। ८६ ।।

दक्षिणे परशुं हस्ते तस्य देवस्य कारयेत् ।।

सर्वगन्धैस्तु संपूज्य पुष्पैर्नानाविधैः शुभैः ।।८७।।

ततस्तस्याग्रतः कुर्याज्जागरं भक्तिमान्नरः ।।

प्रभाते विमले सूर्ये ब्राह्मणाय निवेदयेत् ।। ८८ ।।

एवं नियमयुक्तस्य यत्फलं तन्निबोध मे ।।

काश्यपे ब्रह्मणो लोके चोषित्वाप्सरसां गणैः ।।

स्थित्वा भौते च सृष्टौ च चक्रवर्ती भवेद्ध्रुवम् ।। ८९ ।।

ज्येष्ठे मासेऽप्येवमेव संकल्प्य विधिवन्नरः ।।

अर्चयेत्परमं देवं पुष्पैर्नानाविधैः शुभैः ।।4.83.९०।।

नमो दामोदरायेति पादौ पूर्वं समर्चयेत् ।।

त्रिविक्रमायेति कटिं धृतविश्वाय चोदरम् ।।९१।।

उरः संवर्तकायेति कण्ठं संवत्सराय च ।।

सर्वासुधारिणे बाहुं स्वनाम्नाब्जरथांगके ।। ९२ ।।

सहस्रशिरसेऽभ्यर्च्य शिरस्तस्य महात्मनः ।।

एवमभ्यर्च्य विधिवत्प्रागुक्तविधिवन्न्यसेत् ।। ९३ ।।

प्राग्वद्वस्त्रसुगन्धैश्च सौवर्णौ रामलक्ष्मणौ ।।

अर्चयित्वा विधानेन प्रभाते ब्राह्मणाय तौ ।।

दातव्यौ मनसा काममीहता पुरुषेण तु ।। ९४ ।।

अपुत्रेण पुरा पृष्टो राज्ञा दशरथेन तु ।।

पुत्रकामेन यजता वशिष्ठः परमार्चितः ।। ९५ ।।

इदमेव विधानं तु कथयामास वै द्विजः ।।

सरहस्यं विदित्वात्र स राजा कृतवानि दम् ।। ९६ ।।

तस्य पुत्रः स्वयं जज्ञे रामो नाम महाबलः ।।

चतुर्द्धा सोऽव्ययो विष्णुः परितोषादजायत ।।

एतदेवं मयाख्यातं परलोके सुखप्र दम् ।। ९७ ।।

।। श्रीकृष्ण उवाच ।। ।।

आषाढेऽप्येवमेव तु संकल्प्य विधिना नरः ।।

अर्चयेत्परमं देवं गंधपुष्पैः समाहितः ।। ९८ ।।

वासुदेवाय पादौ तु कटिं संकर्षणाय च ।।

प्रद्युम्नायेति जठरमनिरुद्धाय वै नमः ।। ९९ ।।

चक्रपाणिं भुजौ कंठं मुखं भूपतये तथा ।।

स्वनाम्ना शंखचक्रे तु पुरुषायेति वै शिरः ।। 4.83.१०० ।।

एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् ।।

विन्यस्य वस्त्रसंयुक्तं तस्योपरि ततो न्यसेत् ।।

कांचनं वासुदेवेति चक्रबाहुं सनातनम् ।। १०१ ।।

तमभ्यर्च्य विधानेन गंधपुष्पादिभिः क्रमात् ।।

प्राग्वत्तद्ब्राह्मणे दद्याद्वेदवादिनि सुव्रते ।। १०२ ।।

एषा ह्युपोषिता राजन्विद्यां विप्रे प्रयच्छति ।।

राज्यं च भ्रष्टराज्यानामपुत्राणां सुतान्बहून् ।।१ ०३।।

मृतो विष्णुपुरे रम्ये क्रीडते कालमक्षयम्।।१ ०४।।

मन्वंतराणि षट्त्रिंशत्ततः कालात्यये पुनः ।।

इह लोके भवेद्राजा सप्तजन्मनि मानवः ।।

दाता यशःक्षमायुक्तस्ततो निर्वाणमाप्नुयात् ।। १०५ ।। ।।

।। श्रीकृष्ण उवाच ।। ।।

एवमेवं श्रावणे तु मासि संकल्प्य द्वादशीम् ।।

अर्चयेत्परमं देवं गंधपुष्पनिवेदनैः ।। १०६ ।।

बुधाय पादौ संपूज्य श्रीधरायेति वै कटिम् ।।

पद्मोद्भवाय जठरमुरः संवत्सराय च ।। १०७ ।।

सुग्रीवायेति वै कण्ठं भुजौ वै चित्रबाहवे ।।

प्राग्वदस्त्राणि संपूज्य ब्राह्म णाय निवेदयेत् ।। १०८ ।।

अनेन विधिना सर्वां द्वादशीं समुपोषितः ।।

शुदौदनेन तस्याभूत्स्वयं पुत्रो जनार्दनः ।। १०९ ।।

महतीं च श्रियं प्राप्य पुत्रपौत्रसमन्वितः ।।

भुक्त्वा राज्यश्रियं सोथ गतः परमिकां गतिम् ।। 4.83.११० ।।

एष ते विधिरुद्दिष्टः श्रावणे मासि सत्तम।।

एकैकोपोषिताप्यस्तु राज्यमेकैव यच्छति ।।

किं पुनर्द्वादशैवात्र दद्युरैन्द्रं महत्पदम् ।। १११ ।।

तद्वद्भाद्रपदे मासि शुक्लपक्षे तु द्वादशीम् ।।

संकल्प्य विधिना देवमर्चयेत्परमेश्वरम् ।। ११२ ।।

नमोऽस्तु कल्किने पादौ हृषीकेशाय वै कटिम् ।।

म्लेच्छप्रध्वंसनायेति जगन्मूर्ते तथोदरम् ।। ११३ ।।

शितिकण्ठाय कण्ठं तु खड्गपाणीति वै भुजौ ।।

शंखचक्रे स्वनाम्नात्र विश्वमूर्ते तथासितः ।। ११४ ।।

एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् ।।

विन्यस्य कल्किनं देवं सौवर्णं तत्र कारयेत् ।। ११५ ।।

सितवस्त्रयुगच्छन्नं गंधपुष्पोपशोभितम् ।।

कृत्वा प्रभाते विप्राय प्रदेयः शास्त्रवित्तमे ।। ।। ११६ ।।

एवं कृते भवेद्यत्तु तन्निबोध नृपोत्तम ।।

दशावतारदानेन पूजने चैव तत्फलम् ।। ११७ ।।

पूज्यते मत्स्यरूपेण सर्वज्ञत्वमभीप्सुभिः ।।

स्ववंशभरणायाथ कूर्मरूपी तु पूज्यते ।। ११८ ।।

भवोदधिनिमग्नैस्तु वाराहः पूज्यते हरिः ।।

नृसिंहनवरूपेण तद्वत्पापभयान्नरः ।। ११९ ।।

वामनं मोहनाशाय वित्तार्थे जमदग्निजम् ।।

क्रूरशत्रुविनाशाय यजेद्दाशरथिं बुधः ।। 4.83.१२० ।।

बलकृष्णौ यजेद्धीमान्पुत्रकामो न संशयः ।।

रूपकामो यजेद्बुद्धं कल्किनं शत्रुघातने ।।

सर्वां दत्त्वा विधानेन पूजां प्राप्नोति वांछितम् ।। १२१ ।।

।। श्रीकृष्ण उवाच ।। ।।

तद्वदाश्वयुजे मासि शुक्लपक्षे तु द्वादशीम् ।।

संकल्प्याभ्यर्चयेद्देवं पद्मनाभं सनातनम् ।। १२२ ।।

पद्मनाभाय पादौ तु कटिं वै पद्मयोनये ।।

उदरं सर्वदेवाय पुष्कराक्षाय वा उरः ।।

अव्ययाय तथा शीर्षं प्राग्वदस्त्राणि पूजयेत् ।। १२३ ।।

ततस्तस्याग्रतः कुंभं माल्यवस्त्रसमन्वितम् ।।

यथाशक्त्या काञ्चनेन पद्मनाभेति भूषितम् ।। १२४ ।।

रात्रौ तु जागरं कृत्वा प्रभाते विमले ततः ।।

ब्राह्मणे तत्प्रदातव्यं संसारभयभीरुणा ।। १२५ ।।

एवं कृते तु यत्पुण्यं तद्वक्तुं शक्यते कथम् ।।

ब्रह्महत्यादिपापानि किं तु पंचैव भारत ।।

नश्यंति कृतपुण्यस्य विष्णोर्नामानुकीर्तनात् ।। १२६ ।। ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु राजन्महाबाहो कार्तिके मासि द्वादशीम् ।।

उपोष्य विधिना येन यथास्याः प्राप्यते फलम्।। १२७ ।।

प्राग्विधानेन संकल्प्य वासुदेवं प्रपूजयेत् ।।

अनुलोमेन देवेशं पूजयित्वा विचक्षणः ।।

नमो दामोदरायेति सर्वाङ्गं पूजयेद्धरिम् ।। १२८ ।।

एवं संपूज्य विधिना तस्याश्च चतुरो घटान् ।।

स्थापयेद्रत्नगर्भाश्च सितचन्दनचर्चितान् ।। १२९ ।।

स्रग्दामालंबितग्रीवान्सितवस्त्रैश्च गुण्ठितान् ।।

स्थगितांस्ताम्रपात्रे तु तिलपूर्णैः सकांचनैः ।। 4.83.१३० ।।

चत्वारः सागरास्ते च कथिता राजसत्तम ।।

तन्मध्ये प्राग्विधानेन सौवर्णं स्थापयेद्धरिम्।।१३१।।

योगेश्वरमंगनिधिं विरक्तं पीतवाससम् ।।

तद्वद्देयं च संपूज्य जागरं तत्र कारयेत् ।। १३२ ।।

कृत्वा तु वैष्णवं योगं यजेद्योगेश्वरं हरिम् ।।

षोडशे वै रथांगेषु रजोभिर्बहुभिः कृते ।। १३३ ।।

एवं कृत्वा प्रभाते तु ब्राह्मणान्पञ्च भोजयेत् ।।

चत्वारः कलशा देयाश्चतुर्णां पञ्चमस्य हि ।। १३४ ।।

योगेश्वरं च सौवर्णं दापयेत्प्रयतः शुचिः ।।

ब्राह्मणाय समं दत्तं द्विगुणं वेदवादिने ।।१३५।।

वेदवेदांगविदुषे सहस्रगुणितं भवेत् ।।

पंचमस्य रहस्यं तु ससमं चोपपादयेत् ।।१३६।।

विधानं तस्य पंचैव दत्त्वा कोटिगुणोत्तरम् ।।

इतिहासपुराणज्ञे दत्तं चैवाक्षयं भवेत् ।। १३७ ।।

पञ्चदत्त्वा विधानेन द्वादश्यां विष्णुमर्च्य च ।।

विप्राणां भोजनं दयाद्यथाशक्त्या सदक्षिणम् ।।

दीनानाथादिकान्सर्वान्पूजयेच्छक्तितो नृप ।।१३८।।

धरणीव्रतमेतत्तु पुरा कृत्वा प्रजापतिः ।।

प्रजां लेभे ततो मुक्तिर्ब्रह्मणा विष्णवे शुभे ।। १३९ ।।

युवनाश्वो हि राजर्षिरनेन विधिना पुरा ।।

मान्धातारं सुतं लेभे परं ब्रह्म च शाश्वतम् ।। 4.83.१४० ।।

तथा हैहयदायादः कृतवीर्यो नराधिपः ।।

चक्रवर्तिसुतं लेभे सहस्रार्जुनमूर्जितम् ।।१४१।।

शकुंतलाप्येवमेव व्रतं चीर्त्वा नरोत्तमम् ।।

लेभे शाकुन्तलं पुत्रं दुष्यंतश्चक्रवर्तिनम् ।। १४२ ।।

तथा पुराणराजानो वेदोक्ताश्चक्रवर्तिनः ।।

अनेन विधिना प्राप्ताश्चक्रवर्तित्वमुत्तमम् ।। १४३ ।।

धरण्या अपि पाताले मग्नयाचरितं पुरा ।।

व्रतमेतत्ततो नाम्रा धरणीव्रतमुच्यते ।। १४४ ।।

समाप्तेऽस्मिंस्तदा देवी हरिणा क्रोडरूपिणा ।।

उद्धृता दशनाग्रेण स्थापिता नौरिवांभसि ।। १४५ ।।

धरणीव्रतमेतत्ते कथितं पांडुनन्दन ।।

य इदं शृणुयाद्भक्त्या यश्च कुर्यान्नरोत्तम ।।

सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाव्रजेत् ।। १४६ ।।

चीर्णं रसातलतले गतया धरण्या तेन प्रसिद्धिमगमद्धरणीव्रतेति ।।

सद्यः समाचरति धर्मरतिर्द्धरित्र्यामुद्धृत्य सप्त पुरुषान्स परं प्रयाति ।। १४७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे धरणीव्रतं नाम त्र्यशीतितमोऽध्यायः ।। ८३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 84

विशोकद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

किमभीष्टवियोगशोकसंघाल्लघु इह समुपोषतां व्रतं वा।।

विभवोद्भवकारि भूतलेऽस्मिन्भवति विभो भयसूदनं च पुंसाम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्ल्लभं महत्त्वात् ।।

तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरदानवेषु गुह्यम् ।।२।।

पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम् ।।

दशम्यां लघुभुग्विद्वानारभेन्नियमेन तु ।। ३ ।।

उदङ्मुखः प्राङ्मुखो वा दंतधावनपूर्वकम् ।।

एकादश्यां निराहारः सम्यगभ्यर्च्य केशवम् ।। ४ ।।

विधिवत्त्वां समभ्यर्च्य भोक्ष्यामि अपरेऽहनि ।।

एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः ।। ५ ।।

स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु ।।

शुक्लमाल्यांबरस्तद्वत्पूजयेच्छ्रीशमुत्पलैः ।। ६ ।।

विशोकाय नमः पादौ जंघे च वरदाय वै ।।

श्रीशाय जानुनी तद्वदूरू च जलशायिने ।। ७ ।।

कंदर्पाय नमो गुह्ये माधवाय नमः कटिम् ।।

दामोदरायेत्युदरं पार्श्वे च विपुलाय वै ।। ८ ।।

नाभिं च पद्मनाभाय हृदयं मन्मथाय वै ।।

श्रीधराय विभोर्वक्षः करौ मधुभिदे नमः ।। ९ ।।

चक्रिणे नाम बाहुं च दक्षिणं गदिने नमः ।।

वैकुण्ठाय नमः कण्ठमास्यं यज्ञमुखाय वै ।। 4.84.१० ।।

नासामशोकनिधये वासुदेवाय चाक्षिणी ।।

ललाटं वामनायेति किरीटं विश्वरूपिणे ।। ११ ।।

नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत् ।।

एवं संपूज्य गोविंदं फलमाल्यानुलेपनैः ।। १२ ।।

ततस्तस्याग्रतो भव्यं स्थंडिलं कारयेन्मृदा ।।

चतुरस्रं समंताच्चारत्निमात्रमुदग्भवम् ।। १३ ।।

नदीवालुकया पूर्णं लक्ष्म्याकृतिं कृती न्यसेत् ।।

स्थंडिले सूर्यमारोप्य लक्ष्मीमित्यर्चयेद्बुधः ।। १४ ।।

नमो देव्यै नमः शांत्यै नमो लक्ष्म्यै नमः श्रिये ।।

नमः पुष्ट्यै नमस्तुष्ट्यै नमो दृष्ट्यै नमोनमः ।। १५ ।।

विशोका दुःखनाशाय विशोका वरदास्तु मे ।।

विशोका वास्तु संतत्यै विशोका सर्वसिद्धये ।।१६।।

ततः शुक्लांबरधरो शूर्पं संवेष्ट्य पूजयेत् ।।

भक्ष्यैर्नानाविधैस्तद्वत्सुवर्णकमलेन च ।। १७ ।।

रजनीषु च सर्वासु पिबेद्दर्भोदकं व्रती ।।

ततस्तु नृत्यगीतादि कारयेत्सर्वरात्रकम् ।। १८ ।।

यामत्रये व्यतीते तु सुप्त्वा स्वस्थोपमानसः ।।

अभिगम्य च विप्राणां मिथुनानि सदार्चयेत् ।। १९ ।।

शक्तितस्त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः ।।

शयनास्थानि पूज्यानि नमोऽस्तु जलशायिने ।। 4.84.२० ।।

ततस्तु गीतवाद्याद्यै रात्रौ जागरणे कृते ।।

प्रभाते विमले स्नानं कृत्वा दांपत्यमर्चयेत् ।। २१ ।।

भोजनं च यथाशक्त्या वित्तशाठ्यविवर्जितः ।।

भुक्त्वा श्रुत्वा पुराणानि तद्दिनं त्वतिवाहयेत् ।। २२ ।।

अनेन विधिना सर्वं मासिमासि समाचरेत् ।।

व्रतांते शयनं दद्याद्गुडधेनुसमन्वितम् ।।

सोपधानकविश्राममास्तरावरणं शुभम् ।। २३ ।।

यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति ।।

तथा कुरु यथायोग्यमशोकं चास्तु मे सदा ।।२४।।

यथा देवेन रहिता न लक्ष्यीर्जायते क्वचित्।।

तथा विशोकता मेऽस्तु भक्ति रम्या च केशवे ।। ।। २५ ।।

मंत्रेणानेन ध्यात्वा तु गुडधेनुसमन्वितम् ।।

शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता ।। २६ ।।

उत्पातं करवीरं च बाणमम्लान कुंडलम् ।।

केसरं सिंदुवारं च मल्लिकागंधपाटलम् ।।

कादंबैः कुंकुमैर्जात्या तथान्यैरपि पूजयेत् ।। २७ ।।

।। युधिष्ठिर उवाच ।। ।।

गुडधेनुविधानं मे त्वमाचक्ष्व जगत्पते ।।

किंरूपा केन मंत्रेण दातव्या तदिहोच्यताम् ।।२८।।

।। श्रीकृष्ण उवाच ।। ।।

गुडधेनुविधानं च यद्रूमिह यत्फलम् ।।

तदिदानीं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।। २९ ।।

कृष्णाजिनं चतुर्हस्तं प्रागेवं विन्यसेद्भुवि ।।

गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ।। ।। 4.84.३० ।।

लब्धेन कांचनं तद्वद्वत्सं च परिकल्पयेत् ।।

प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सिकाम् ।। ३१ ।।

उत्तमा गुडधेनुः स्यात्सदा भार चतुष्टया ।।

वत्सं भारेण कुर्वीत द्वाभ्यां वै मध्यमा स्मृता ।। ३२.।।

अर्द्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु ।।

चतुर्थांशेन वत्सः स्याद्गृहवित्ता नुसारतः ।। ३३ ।।

धेनुवत्सौ कृतावेतौ सितसूक्ष्मांबरावृतौ ।।

शुक्तिकर्णाविक्षुपादौ शुक्तिमुक्ताफलेक्षणौ ।। ३४ ।।

सितसूत्रशिरालौ तु सितकंबल कंबलौ ।।

ताम्रगल्लकपृष्टौ तौ सितचामररोमकौ ।। ३५ ।।

विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ ।।

क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ।। ।।३६।।

सुवर्णशृंगाभरणौ राजतखुरसंयुतौ ।।

नानाफलसमायुक्तौ घ्राणगंधकरंडकौ ।।

इत्येवं रचयित्वा तु धूपदीपैरथार्चयेत् ।। ३७ ।।

या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता ।।

धेनुरूपेण सा देवी मम पापं व्यपोहतु ।। ३८ ।।

विष्णोर्वक्षसि या लक्ष्मीः स्वाहायां च विभावसौ ।।

चंद्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये ।। ३९ ।।

चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ।।

या लक्ष्मीर्लोकपालानां सा धेनुर्वरदास्तु मे ।। ।। 4.84.४० ।।

स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां पुनः ।।

सर्वपापहरे धेनो तस्माद्भूतिं प्रयच्छ मे ।। ४१ ।।

एवमामंत्र्य तां धेनुं ब्राह्मणाय निवे दयेत् ।।

विधानमेतद्धेनूनां सर्वासामिह पठ्यते ।। ४२ ।।

यास्तु पापविनाशिन्यः श्रूयते दश धेनवः ।।

तासां स्वरूपं वक्ष्यामि नामानि च नरा धिप ।। ४३ ।।

प्रथमा गुडधेनुः स्याद् घृतधेनुरथापरा ।।

तिलधेनुस्तृतीया स्याच्चतुर्थी मधुधेनुका ।। ४४ ।।

जलधेनुः पंचमी तु षष्ठी तु क्षीरसंभवा ।।

सप्तमी शर्कराधेनुर्दधिधेनुरथाष्टमी ।।

रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः ।। ४५ ।।

कुंभा स्युर्दशधेनूनामितरासां तु राशयः ।।

सुवर्णधेनुमप्यत्र केचिदिच्छंति मानवाः ।। ४६ ।।

नवनीतेन रत्नैश्च तथाप्यन्ये महर्षयः ।।

एतदेव विधानं स्यात्त एवोपस्कराः स्मृताः ।। ७ ।।

मंत्रावाहनसंयुक्तां सदा पर्वणिपर्वणि ।।

यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदा ।। ४८ ।।

गुडधेनुप्रसंगेन सर्वास्तव मयोदिताः ।।

अशेषयज्ञ फलदाः सर्वपापहराः शुभाः ।। ४९ ।।

व्रतानामुत्तमं यत्स्याद्विशोकद्वादशीव्रतम् ।।

तदंगत्वेन चैवैषा गुडधेनुः प्रशस्यते ।। 4.84.५० ।।

अयने विषुवे पुण्ये व्यतीपातेऽथ वा पुनः ।।

गुडधेन्वादयो देया उपरागादिपर्वसु ।। ५१ ।।

विशोकद्वादशी चैषा सर्वपापहरा शुभा ।।

यामुपोष्य नरो याति तद्विष्णोः परमं पदम् ।। ५२ ।।

इह लोके तु सौभाग्यमायुरारोग्यमेव च ।।

वैष्णवं पदमाप्नोति मरणे सद्गतिर्भवेत् ।। ५३ ।।

भवार्बुदसहस्राणि दश चाष्टौ च धर्मवित् ।।

न शोकदुःखदौर्गत्यं तस्य संजायते नृप ।। ५४ ।।

नारी वा कुरुते या तु विशोकद्वादशीमि माम् ।।

नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात् ।। ५५ ।।

इति पठति य इत्थं यः शृणोतीह सम्यङ् मधुपुरनरकारेरर्चनं यश्च पश्येत् ।।

मतिमपि च जनानां यो ददातीन्द्रलोके वसति स विबुधाद्यैः पूज्यमानः सदैव ।। ५६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकद्वादशीव्रतं नाम चतुरशीतितमोऽध्यायः ।। ८४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 85

विभूतिद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शृणु भूपाल वक्ष्यामि विष्णुव्रतमनुत्तमम् ।।

विभूतिद्वादशीं नाम सर्वामरनमस्कृतम् ।। १ ।।

कार्त्तिके वाथ वैशाखे मार्गशीर्षे च फाल्गुने ।।

आषाढे वा दशम्यां च शुक्लायां लघुभुङ्नरः ।। २ ।।

कृत्वा सायंतनीं संध्यां गृह्णीयान्नियमं बुधः ।।

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।। ३ ।।

द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो ।।

तदविघ्नेन मे यातु साफल्यं मधूसूदन ।। ४ ।।

ततः प्रभात उत्थाय कृतस्नानजपः शुचिः ।।

पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ।। ५ ।।

भूतिदाय नमः पादौ विशोकाय च जानुनी ।।

नमः शिवायेत्यूरू च विश्वमूर्ते नमः कटिम् ।। ६ ।।

कंदर्पाय नमो मेढ्रमादित्याय नमः करौ ।।

दामोदरायेत्युदरं वासुदेवाय च स्तनौ ।। ७ ।।

माधवायेति हृदयं कंठं वैकुंठिने नमः ।।

श्रीधराय मुखं केशान्केशवायेति पांडव ।। ८ ।।

पृष्ठं शार्ङ्गधरायेति श्रवणौ वरदाय वै ।।

स्वनाम्ना शंखचक्रासिगदापरशुपाणये ।। ९ ।।

सर्वात्मने शिरो राजन्नम इत्यभिपूजयेत् ।।

दशावताररूपाणि प्रतिमासं क्रमान्नृप ।। 4.85.१० ।।

दत्तात्रेयं यथा व्यासमुत्पलेन समन्वितम् ।।

दद्यादनेन विधिना पाखंडानपि वर्जयेत् ।। ११ ।।

समाप्यैवं यथाशक्त्या द्वादश द्वादशीर्नरः ।।

संवत्सरांते लवणपर्वतेन सह प्रभो ।।

शय्यां दद्यान्मुनिश्रेष्ठ गुरवे रससंयुताम् ।। ।। १२ ।।

ग्रामं च शक्तिमान्दद्यात्क्षेत्रं वा भवनान्वितम् ।।

गुरुं संपूज्य विधिवद्वद्वस्त्रालंकारभूषणैः ।। १३ ।।

अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान्।।

तर्पयेद्वस्त्रगोदानैरन्यत्र धनसंचयात् ।। १४ ।।

अल्पवित्तो यथाशक्त्या स्तोकंस्तोकं समाचरेत् ।।

यश्चातिनिःस्वः पुरुषो भक्तिमान्माधवं प्रति ।।

पुप्पार्चनविधानेन स कुर्याद्वत्सरत्रयम् ।।१५ ।।

अनेन विधिना यस्तु विभूतिद्वादशीव्रतम् ।।

कुर्यात्स पापनिर्मुक्तः पितॄणां तारयेच्छतम् ।। १६ ।।

जन्मनां शतसाहस्रं न शोकफलभाग्भवेत् ।।

न च व्याधिर्भवेत्तस्य न दारिद्यं न बन्धनम् ।। १७ ।।

वैष्णवो वाथ शैवो वा भवेजन्मनिजन्मनि ।।

यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् ।।

तावत्स्वर्गे वसेद्राजन्भूपतिश्च पुनर्भवेत् ।। १८ ।।

पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः ।।

नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः ।। १९ ।।

तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत ।।

कमलं काञ्चनं दत्तं यथाकामगतिः सदा।।।।4.85.२० ।।

समस्तभृत्यसहितः सांतःपुरपरिस्थितः ।।

द्वीपानि सुरलोकं च यथेष्टं विचरत्यसौ ।। २१ ।।

कल्पादौ सप्तमे द्वीपे तेन पुष्करवासिनः ।।

लोके संपूजिता यस्मात्पुष्करद्वीप उच्यते ।। २२ ।।

तदैव ब्रह्मणा दत्तं यानमस्य यतो नृप ।।

पुष्पवाहनमित्याहुस्तस्मात्तं देवदानवाः ।। २३ ।।

नागस्य तस्यास्य जगत्त्रयेपि ब्रह्मांबुजस्थस्य तपोऽनुभावात् ।।

पत्नी च तस्याप्रतिमा नरेन्द्र नारीसहस्रैरभितोऽभिनंद्या।।२४।।

नाम्ना च लावण्यवती बभूव या पार्वतीवेष्टतमा भवस्य ।।

तस्यात्मजानामयुतं बभूव धर्मात्मनामग्र्यधनुर्द्धराणाम् ।। २५ ।।

तदात्मनः सर्वमवेक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद ।।

सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाचमिमां बभाषे ।। २६ ।।

कस्माद्विभूतिरमला मम मर्त्यपूज्या जाया च सर्वविजितामरसुन्दरी या ।।

भार्या त्वनल्पतपसा वसुतोषितेन दत्तं ममांबुजगृहं परमप्रसादात् ।। २७ ।।

यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुजरनराश्वघनावृतानाम् ।।

नालक्ष्य सम्बाधतया हि बाधस्तारागणैरपि सुरासुरलोकपालैः ।। २८ ।।

तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगं स्यात् ।।

सम्यङ्मयाथ तनयैरनया महर्षे माहार्यया तदखिलं कथय प्रचेतः ।।२९।।

तस्य तद्वचनं श्रुत्वा ध्यानेना वेक्ष्य चाखिलम् ।।

प्रचेतास्तमुवाचाथ शृणु भूप पुरातनम् ।। 4.85.३० ।।

लुब्धकस्त्वं पुरा राजन्सर्वसत्त्वभयंकरः ।।

आसीदसाधुचरितः सुहृन्मित्रवि वर्जितः ।। ३१ ।।

यतमध्यो ह्रस्वकेशः कृष्णांगो रक्तलोचनः ।।

धनुष्पाणिर्वनगतः कृतांतकसमो भवान् ।।३२।।

अभूदनावृष्टिरतीव रौद्रा कदाचि दाहारनिमित्तरोषः ।।

पद्मान्यथादाय ततो बहूनि गतं पुरं वैदिशनामधेयम् ।। ३३ ।।

उन्मूल्य लोभाच्च पुरं समस्तं भ्रांतं त्वयाशेषमहत्तदा सीत् ।।

क्रेता न कश्चित्कमलेषु जातस्तोके भृशं क्षुत्परिपीडितश्च ।। ३४ ।।

उपविष्टस्त्वमेकस्मिन्सभार्यो भवनांगणे ।।

अथ मंगलशब्दस्तु त्वया रात्रौ तथा श्रुतः ।। ३५ ।।

समाप्य माघमासस्य द्वादश्यां लवणाचलम् ।।

निवेदयंती गुरवे शय्यां चोपस्करान्विताम् ।। ३६ ।।

अलंकृत्य हृषीकेशं सीवर्णं परमं पदम् ।।

साथ दृष्टा ततस्ताभ्यामिदं चित्तेवधारितम्।।३७।।

किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः।।

इति भक्तिस्तदा जाता दाम्पत्यस्य नरेश्वर ।। ३८ ।।

तत्प्रसंगात्समभ्यर्च्य केशवं लवणाचलम्।।

शय्या च पुष्पप्रकरैः पूजिताभूच्च सर्वदा ।। ३९ ।।

अथानंगवती तुष्टा तयोर्होनशतत्रयम् ।।

प्रादाद्गृहीतं ताभ्यां च न तत्सर्वावलंबनात् ।। 4.85.४० ।।

अनंगवती च पुनस्तयोरन्नं चतुर्विधम्।।

आनाय्योपहृतं कृत्वा भुज्यतामिति भूपते।। ।।४१।।

ताभ्यां तु तदपि त्यक्तं भोज्यावः श्वो वरानने ।।

प्रसंगाच्चोपवासेन तवाद्यास्तु सुखावहः ।। ४२ ।।

जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते।।

सत्प्रसंगाद्धनुर्मध्ये धर्मलाभस्तु चावयोः ।। ४३ ।।

इति जागरणं ताभ्यां प्रसंगात्तदनुष्ठितम् ।।

प्रभाते च तया दत्ता शय्या सलवणाचला ।। ४४ ।।

ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव हि ।।

वस्त्रालंकारयुक्तांगा गावश्च कनकांचिताः ।। ४५ ।।

भोजनं च सुहृन्मित्रदीनांधकृपणैः समम् ।।

तत्तु लुब्धकदांपत्यं पूजयित्वा विसर्जितम् ।।४६।।

भवाँस्तु लुब्धको जातः सपत्नीको नरेश्वरः ।।

पुष्पाणां प्रकरे तस्मात्केशवस्य प्रपूजनम् ।।४७।।

प्राप्तं सुदुर्ल्लभं वीर त्वया पुष्करमन्दिरम् ।।

तस्य सर्वस्य माहात्म्यादलं न तपसा नृप ।। ४८ ।।

यथा कामगतं दक्षं पद्मयोनिं विरिंचिना ।।

संतुष्टस्तस्य राजेन्द्र ब्रह्मरूपी जनार्दनः ।।४९ ।।

शय्यानंगवती वेश्या कामदेशस्य सांप्रतम् ।।

पत्नी सपत्नी संजाता रत्या प्रीतिरिति श्रुता ।। 4.85.५० ।।

लोकेष्वानंदजननी सकलामरपूजिता ।।

तदप्युत्सृज्य राजेन्द्र निर्वाणं समवाप्स्यसि ।। ५१ ।।

इत्युक्त्वा स मुनिः सर्वं तत्रैवांतर्हितोभवत् ।।

राजा यथोक्तं च पुनः स चक्रे पुष्पवाहनः ।। ५२ ।।

इमामाचरतो ब्रह्मन्नखण्डव्रतमाचरेत् ।।

यथाकथंचित्कालेन द्वादश द्वादशीर्मुने ।।

कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणा नृप ।। ५३ ।।

इति कलुषविदारणं जनानामिति पठति शृणोति चातिभक्त्या ।।

मतिमपि च ददाति देवलोके वसति स परःशतानि वत्सराणाम् ।। ५४ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विभूतिद्वादशीव्रतवर्णनं नाम पंचाशीतितमोऽध्यायः ।। ८५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 86

मदनद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

श्रोतुमिच्छामि भगवन्मदनद्वादशीव्रतम् ।।

सुतानेकोनपंचाशद्येन लेभे दितिः पुरा ।। १ ।।

।। श्रीकृष्ण उवाच।। ।।

तद्वशिष्ठादिभिः प्रोक्तमित्येका तिथिरुत्तमा ।।

विस्तरेण तदेवेदं मत्सकाशान्निवोधत ।। २ ।।

चैत्रे मासे सिते पक्षे द्वादश्यां नियतव्रतः ।।

स्थापयेदव्रणं कुंभं सिततंडुलपूरितम्।। ३ ।।

नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् ।।

सितवस्त्रयुगच्छन्नं सितचन्दन चर्चितम् ।। ४ ।।

नानाभक्ष्यसमोपेतं सहिरण्यं च शक्तितः ।।

ताम्रपात्रं गुडोपेतं तस्योपरि निवेदयेत ।। ५ ।।

तस्योपरि तथा कामं कदलीदल संस्थितम् ।।

कुर्याच्छर्करयोपेतमिति तस्य समीपतः ।। ६ ।।

गंधं पुष्पं तथा दद्याद्गीतं वाद्यं च कारयेत्।।

तदलाभे कथां कुर्यात्कामकेशवयो र्नरः ।। ७ ।।

कामं नाम्ना हरेरर्चां स्नापयेद्गंधवारिणा ।।

शुक्लपुष्पाक्षततिलैरर्चयेन्मधुसूदनम् ।। ८ ।।

कामाय पादौ संपूज्य जंघे सौभाग्यदाय च ।।

मन्मथाय तथा मेढ्रं माधवाय कटिं नमः ।। ९ ।।

शांतोदरायेत्युदरमनंगायेत्युरो हरेः ।।

मुखं पद्ममुखायेति बाहुं पञ्चशराय वै ।। 4.86.१० ।।

नमः सर्वात्मने मौलिमर्चयेदिति केशवम् ।।

ततः प्रभाते कुंभं च ब्राह्मणाय निवेदयेत ।। ११ ।।

ब्राह्मणान्भोजयेद्भक्त्या स्वयं च लवणादृते ।।

भक्त्याथ दक्षिणां दद्यादिमं मंत्रमुदीरयेत् ।। १२ ।।

प्रीयतामत्र भगवान्कामरूपी जनार्दनः ।।

हृदये सर्वभूतानां यथा वेदोऽभिधीयते ।। १३ ।।

अनेन विधिना सर्वं मासिमासि समाचरेत् ।।

फलमामलकं प्राश्य द्वादश्यां भूतले स्वपेत् ।। १४ ।।

ततस्त्रयोदशे मासि घृतधेनुसमन्विताम् ।।

शय्यां दद्याद्द्विजेन्द्राय सर्वोपस्करसंयुताम् ।। १५ ।।

काञ्चनं कामदेवं च शुक्लां गां च पयस्विनीम् ।।

वासोभिर्द्विजदांपत्यं पूज्य शक्त्या विभूषणैः।।१६।।

होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत् ।।

गव्येन सर्पिषा तत्र पायसेन च धर्मवित् ।। १७ ।।

विप्रेभ्यो भोजनं दद्याद्वित्त शाठ्यंविवर्जयेत् ।।

इक्षुदंडान्नरो दद्यात्पुष्पमालां च शक्तितः ।। १८ ।।

यः कुर्याद्विधिनानेन मदनद्वादशीमिमाम् ।।

सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ।। १९ ।।

इह लोके वरान्पुत्रान्सौभाग्यं सुखमश्नुते ।।

कश्यपो व्रतमाहात्म्यादागत्य परया मुदा ।। 4.86.२० ।।

चकाराकर्कशां भूयो रूपलावण्यसंयुताम् ।।

वरेण च्छन्दयामास या च वव्रे वरं वरम् ।।

पुत्रं शत्रुवधार्थाय समर्थममितौजसम् ।। २१ ।।

प्रार्थयामि महाभाग्यं सर्वामरनिषूदनम् ।।

कश्यपः प्राह तां भद्रे एवमस्तु सुशोभने ।। २२ ।।

संवत्सरशतं त्वेकं गर्भो धार्यः सुखेप्सया ।।

संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ।। २३ ।।

न स्थातव्यं न गंतव्यं वृक्षमूलेषु सर्वदा ।।

नोपस्करे भुवि विशेन्मुसलोलूखलादिषु ।। २४ ।।

जलं न चावगाहेत शून्यागारं विवर्जयेत् ।।

वर्जयेत्कलहं गेहे गात्रभंगं तथैव च ।।२५।।

मुक्तकेशी न तिष्ठेत नाशुचिः स्यात्कथंचन ।।

न शयीतोन्नतशिरा न चाप्यार्द्रशिराः क्वचित् ।। २६ ।।

न वस्तुहीना नोद्विग्ना नार्द्रपादा न भूतले ।।

नामंगल्यां वदेद्वाचं न च हास्यपरा भवेत् ।। २७ ।।

कुर्याच्च गुरुशुश्रूषां नित्यं मंगलतत्परा ।।

सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ।। २८ ।।

कुस्त्रियो नाभिभाषेत वस्त्रवातं विवर्जयेत् ।।

मृतवत्सादि संसर्गं परगेहे च सुंदरि ।। २९ ।।

न शीघ्रं मार्गमाक्रामेल्लंघयेन्न महानदीम् ।।

न च बीभत्सकं किंचिन्न च वीक्षेद्भयानकम् ।। 4.86.३० ।।

गुरु वातुलमाहारमजीर्णं न समाचरेत् ।।

संपूर्णगर्भिण्यायामं व्यायामं वा विवर्जयेत् ।। ३१ ।।

गर्भो रक्ष्यः सदौषध्या हृदि धार्यो न मत्सरः ।।

अनेन विधिना साध्वि शोभनं पुत्रमाप्नुयात् ।। ३२ ।।

अन्यथा गर्भपतनं स्तंभनं वा प्रवर्तते ।।

तस्मात्त्वमनया वृत्त्या गर्भेस्मिंश्च समाचरेः ।।

भविष्यति शुभः पुत्रः सर्वावयवसुंदरः ।। ३३ ।।

स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया च सः ।।

पश्यतां सर्वभूतानां तत्रैवांतर्हितोभवत् ।। ।। ३४ ।।

ततः सा कश्यपोक्तेन विधिना समतिष्ठत ।।

अथाप पुत्रान्पंचाशदेकोनान्पांडुनंदन ।। ३५ ।।

एवमन्यापि या नारी मदनद्वादशीमि माम् ।।

करोति पुत्रानाप्नोति सह भर्त्रा सुखी भवेत्।। ३६ ।।

एकोनमर्द्धशतमाप दितिः सुतानां येन व्रतेन बलवीर्यसमन्वितानाम् ।।

मर्त्यः समाचरति पुत्रधनाभिलाषी तत्सर्वमत्र सफलं भवतीह पुंसः ।। ३७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मदनद्वाद शीव्रतवर्णनं नाम षडशीतमोऽध्यायः ।। ८६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 87

अबाधकव्रतवर्णनम्

।। युधिष्ठिर उवाच: ।। ।।

कांतारवनदुर्गेषु सुप्रसन्नाटवीषु च ।।

समुद्रतरणे दाने संग्रामे तस्करार्दने ।। १ ।।

कां देवतां स्मरेत्कृष्ण परित्राणकरीमिह ।।

कथं च देवः पुरुषः परित्राणं स्मृतो जनैः ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

सर्वमंगलमांगल्यां दुर्गां भगवतीमिमाम् ।।

नाप्नोति दुःखं पुरुषः संस्मरन्सर्वमङ्गलाम् ।।३।।

अलक्ष्यां लक्ष्यभूतानां संस्मरन्सर्वमंगलाम् ।।४

भयं समवाप्नोति पुरुषः पार्थ कुत्रचित् ।। ४ ।।

यदा तां प्रतिजिज्ञासुरवंत्यामहमागतः ।।

पुरा संदीपनिः पार्थ बलेन सह भारत ।। ५ ।।

प्राप्तविद्येन च मया प्रतिज्ञातास्य दक्षिणा ।।

दिव्यं स्तवं विदित्वा मे तेनाहं याचितः प्रभो ।। ६ ।।

प्रभासतीर्थे पुत्रो मे गतः केनाप्यसौ हतः ।।

तमानय महाबाहो सत्यं कुरु वचो मम ।। ७ ।।

उपाध्यायस्य वचनाद्वैवस्वतपुरे मया ।।

प्राप्तः संदीपनेः पुत्रः समानीतः क्षणादसौ ।। ८ ।।

दक्षिणां तामुदाहृत्य प्रस्थितौ पुनरागतौ ।।

स्थानमेतत्स्वपादांकं कृत्वावां गृहमागतौ ।।९।।

ततःप्रभृति पुत्रार्थाः पूजयंति जनाः सदा ।।

मां चैव बलभद्रं च मध्यस्थां सर्वमंगलाम् ।। 4.87.१० ।।

वामे नारायणो हंस एवमेव च के भवेत् ।।

अबाधकं योर्चयते तृतीयं कुंतिनदन ।। ११ ।।

त्रयोदश्यां सिते पक्षे मासिमासि यतव्रतः ।।

नक्तेनैवोपवासेन एकभक्तेन वा पुनः ।। १२ ।।

गन्धपुष्पैश्च मधुभिः सीधुभिश्च सुरासवैः ।।

मृन्मयीं कांचनीं वापि कृत्वा प्रतिकृतिं तु यः ।। १३ ।।

यक्षगन्धबलिक्षेपैः पललौदनसंसृजैः ।।

योऽभ्भ्यर्चयति राजेन्द्र सर्वपापैः प्रमुच्यते ।। १४ ।।

भर्तृसहिता स्वर्गलोके महीयते ।। १५ ।।

अंबांबिके द्विदशमेऽह्नि सिते सदैव यः पूजयेत्कुसुममांससुरोपहारैः ।।

नश्यंति तस्य भवनेष्वतिभीषणानि चौराग्निराजनितानि भयानि सद्यः ।। १६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अबाधकव्रतवर्णनं नाम सप्ताशीतमोऽध्यायः।।८७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 88

मन्दारकनिम्बार्कव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

ब्रूहि मे यदुशार्दूल व्रतं गन्धविनाशनम् ।।

कटुतिक्ताम्लदेहोत्थदौर्भाग्यशमनं तथा।।१।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

इमं प्रश्नं पुरा पार्थ जातूकर्ण्यो महामुनिः ।।

पृष्टो राज्ञ्या विष्णुभक्त्या कालनंदनजातया ।। २ ।।

कथयामास संपृष्टा सूपविष्टा शृणोति सा ।।

देवी कृताञ्जलिपुटा जातूकर्ण्योवदद्व्रतम् ।। ३ ।।

ज्येष्ठे मासि सिते पक्षे त्रयोदश्यां युधिष्ठिर ।।

स्नात्वा पुण्यनदीतोये पूजयेच्छुभदेशजम् ।।४।।

श्वेतमंदारमर्कं वा करवीरं च रक्तकम् ।।

निंबं च सूर्यदेवस्य वल्लभं दुर्लभं तथा ।।५।।

पुष्पैर्नैवेद्यधूपाद्यैर्मंत्रेणानेन पांडव ।।

निरीक्ष्य गगने सूर्यं ध्यात्वा हृदि समुच्चरेत् ।।६।।

सूर्यं श्वेतारमंदारश्वेतार्कास्यसंशयम् ।।

करवीर नमस्तुभ्यं निंबवृक्ष नमोऽस्तु ते ।। ७ ।।

इत्थं योर्कपतेर्भक्त्या वर्षेवर्षे पृथङ् नरः ।।

मूलमंत्रेण नृश्रेष्ठ नारी वा भक्तिसंयुता ।।

तस्याः शरीरदौर्गन्ध्यं दौर्भाग्यं वा अजाविकम् ।।६।।

निंबं नवार्ककरवीरलतां सुपुष्पां याः पूजयंति कुसुमाक्षतधूपदीपैः ।।

ताः सर्वकामसुखभोगसमृद्धिभाजो दौर्भाग्यदोषरहिताः सुभगा भवंति ।।९।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मन्दारनिम्बार्ककरवीरव्रतवर्णनं नामाष्टाशीतितमोऽध्यायः ।। ८८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 89

त्रयोदशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

यमस्याराधनं ब्रूहि श्रीवत्स पुरुषोत्तम ।।

कथं न गम्यते कृष्ण नरकं नरकेसरिन् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

द्वारवत्यां पुरा पार्थ स्नातोऽहं लवणाम्भसि ।।

दृष्टवान्मुनिमायांतं मुद्गलं नाम पार्थिव ।। २ ।।

प्रज्वलंतमिवादित्यं तपसा द्योतितान्तरम् ।।

तं प्रणम्यार्घ्यसत्कारैः पप्रच्छाहं युधिष्ठिर ।। ३ ।।

यमादर्शननामैतद्व्रतं जन्तुभयापहम् ।।

कथयामास सकलं मुद्गलो विस्मयान्वितः ।। ४ ।।

।। मुद्गल उवाच ।। ।।

अकस्मात्कृष्ण मूर्च्छा मे पतितोऽस्मि धरातले ।।

पश्यामि दंडपुरुषैर्मद्देहात्प्रज्वलन्निव ।। ५ ।।

अंगुष्ठमात्रः पुरुषो बलदाकृष्य रोषितः ।।

बद्धो यमभटैर्गाढं नीयते वेदवादिभिः ।। ६ ।।

क्षणात्सभायां पश्यामि यमं पिंगललोचनम् ।।

कृष्णावदातं रौद्रास्यं मृत्युं व्याधिशतान्वितम् ।। ७ ।।

वातपित्तमहाश्लेष्मैर्मूर्तिमद्भिरुपासितम् ।।

कासशोफज्वरातंकस्फोटिकालूतमारिभिः ।। ८ ।।

ज्वरगर्दभशीर्षादिभगंदरमलक्षयैः ।।

गंडमालाक्षिरोगैश्च मूत्रकृच्छ्ररहोव्रणैः ।। ९ ।।

वेदनाभिः प्रमेहैश्च पिटकैर्गंडबुद्बुदैः ।।

विषूचिकागलग्राहदरिद्राभूततस्करैः ।। 4.89.१० ।।

इत्थं बहुविधै रौद्रैर्नानारूपभयंकरैः ।।

करालशस्त्रहस्तैश्च संग्रामैर्नरकैस्तथा ।। ११ ।।

राक्षसैर्दानवैरुग्रैरुपविष्टैः पुरःस्थितैः ।।

धर्माधिकरणस्थैश्च चित्रगुप्तादिलेखकैः ।। १२ ।।

सिंहैर्व्याघ्रैर्वराहैश्च तरक्षैश्चानुजंतुकैः ।।

वृश्चिकैर्दंश मशकैः शिवासर्पैः सडुंडुभैः ।। १३ ।।

गृध्रैरुलूकैर्बहुभिर्मत्कुणैर्डाकिनीग्रहैः ।।

अपस्मारस्मरोन्मादवृद्धिकारेवतीग्रहैः ।। १४ ।।

पिशाचैर्यक्षकूष्मांडैः पाशखड्गधनुर्द्धरैः ।।

मुक्तकेशैस्त्रासकरैर्भृकुटीकुटिलाननैः ।। १५ ।।

बृहत्कायैर्नारकीयैः पापिष्ठानां नियामकैः ।।

असिपत्रवनांगारैः क्षारगर्ताण्डदायकैः ।। १६ ।।

असिभंगामिषच्छेदरुधिरस्रावकादिभिः ।।

आस्थाने संभृतो भाति यमो मृत्यूपमोपमः ।। २७ ।।

स आह किंकरान्सर्वान्धर्मराजो जनार्दन ।।

किमयं मुनिरानीतो युष्माभिर्भ्रांतनामभिः ।। १८ ।।

मुद्गलो नाम कौडिन्ये नगरे भीष्मकात्मजः।।

क्षत्रियोऽस्ति स आनेयः क्षीणायुस्त्यज्यतां मुनिः ।। १९ ।।

इत्युक्तास्ते गतास्तस्मादायाताः पुनरेव ते ।।

ऊचुर्यमभटाः प्रह्वा धर्मराजं सविस्मयाः ।।4.89.२० ।।

अस्माभिस्तत्र क्षीणायुर्न देही लक्षितो गतैः ।।

न जानीमो भानुसूनो कथंचिद्भ्रांतमानसाः ।। २१ ।।

।। यमराज उवाच ।। ।।

प्रायेण ते न दृश्यंते पुरुषैर्यमकिंकरैः ।।

कृता त्रयोदशी यैस्तु नरकार्तिविनाशिनी ।। २२ ।।

उज्जयिन्यां प्रयागे वा भैरवे वाथ ये मृताः ।।

तिलान्नगोहिरण्यादि दत्तं यैश्च गवाह्निकम् ।। २३ ।।

।। दूत उवाच ।। ।।

दृशं तद्व्रतं स्वामिञ्छंस नो भास्करात्मज ।।

किं तत्र वद कर्तव्यं पुरुषैस्तव तुष्टिदम् ।। २४ ।।

।। यम उवाच ।। ।।

पूर्वाह्ने मार्गशीर्षादौ वर्षमेकं निरन्तरम् ।।

त्रयोदश्यां सौम्यदिने सूर्यांगारकवर्जितः ।। २५ ।।

मम नाम्ना द्विजानष्टौ पंच चैव समाह्वयेत् ।।

वेदांतगाञ्जातिशुद्धाञ्छांतचित्तान्सुशोभनान् ।। २६ ।।

वाचकश्चापि तन्मध्ये सदा भास्करवल्लभान् ।।

दिनस्य प्रथमे यामे शुचौ देशे समास्थितान् ।। २७ ।।

अंतर्वासोवृतान्भक्तान्सौपदिष्टदिगुन्मुखान् ।।

अभ्यंगयेच्छिरोदेशात्तिलतैलेन मर्द्दयेत् ।। २८ ।।

स्नापयेद्गन्धकाषायैः सुखोष्णांबुभिरेव च ।।

पृथक्पृथक्स्नापयित्वा सर्वानेव द्विजोत्तमान् ।। २९ ।।

शुचिर्भूत्वा तथाचांतो व्रती भक्तिपरायणः ।।

स्वयं संभृत्य शुश्रुषां तेषां कृत्वा नरोत्तम ।। 4.89.३० ।।

प्राङ्मुखानुपविष्टांश्च त्रयोदश पृथक्पृथक् ।।

भोजयेच्छालिमुद्गाद्यं गुडपूपान्सुखोचितान्।। ३१ ।।

सुव्यञ्जनं सुपक्वान्नं भूयोभूयो निवेदयेत् ।।

शुचिर्भूत्वा तथाचांतो ह्यर्चयेत्तिलतंडुलैः ।।३२।।

प्रस्थमात्रैरथैकैकं ताम्रपात्रसमन्वितैः ।।

सदक्षिणैः सच्छत्रैश्च जलकुम्भैः पवित्रकैः ।।३३।।

चर्मप्रावरणैः श्रेष्ठैस्तेषां दत्त्वा विसर्जयेत् ।।

मंत्रेणानेन राजेन्द्र अर्चयेत्तान्पृथक्सुधीः ।।

ब्राह्मणान्वाचकं वापि पंक्तिभेदं न कारयेत् ।। ३४ ।।

ॐ नमः शनैश्चरो मृत्युर्दंडहस्तो विनाशकः ।।

अभावः प्रलयः सौरिर्दुःखघ्नः शमनोंऽतकः ।। ३५ ।।

लोकपालो ह्यतिक्रूरो रौद्रो घोराननः शिवः ।।

यमः प्रसन्नमानस्को दद्यान्मेऽभयदक्षिणाम् ।। (स्वाहा) ।। ३६ ।।

इत्युक्त्वा संप्रयच्छेच्च देयं दत्त्वा व्रती पुनः ।।

द्विजांश्चानुव्रजेतृप्तान्गृहांश्चार्चितचर्चितान् ।। ३७ ।।

एवं यः पुरुषः कश्चित्सकृद्व्रतमिदं चरेत् ।।

स मृतोऽपि नरो मर्त्यो नायाति मम मंदिरम्।। ३८ ।।

अदृष्टो मम मायाभिर्विमानेनार्कमंडलम् ।।

स चायाति पुरीं विष्णोस्ततः शिवपुरं व्रजेत् ।। ३९ ।।

कृतं चीर्णं व्रतं तेन मुद्गलेन ममोदितम् ।।

तेन नायात्यसौ लोके मम क्षत्रियपुङ्गवः ।। 4.89.४० ।।

इति कालवचः श्रुत्वा तेऽपि दूता गतास्तु मे ।।

अहं पुनः समापन्नस्तूर्णं कालैर्विसर्जितः ।।

स्वशरीरं पुनः प्राप्य नीरोगः पुनरुत्थितः ।। ४१ ।।

त्वां द्रष्टुमागतः प्रोक्तमेतद्वृत्तं मया तव ।।

इत्युक्त्वा मुद्गलो राजन्प्रयातः स्वगृहं प्रति ।। ।। ४२ ।।

इदं कुरुष्व कौंतेय त्वमप्यत्र महीतले ।।

ततो यास्यस्यसंदिग्धं वंचयित्वा यमं मृतः ।। ४३ ।।

एवं येन्येऽपि पुरुषाः स्त्रियो वापि युधि ष्ठिर ।।

त्रयोदश्यां त्रयोदश्यां ये चरिष्यंति भूतले ।। ४४ ।।

एकभक्तेन नक्तेन उपवासेन वा पुनः ।।

यमदर्शनमाख्यातं गतं सर्वव्रतोत्तमम् ।।४५।।

सर्वपापविनिर्मुक्ता दिव्ययानं समाश्रिताः ।।

यास्यन्तीन्द्रपुरं हृष्टा अप्सरोगणसंवृताः ।। ४६ ।।

दोधूयमानाश्चमरैः स्तूयमानाः सुरासुरैः ।।

गन्धर्वतूर्यनादेन च्छत्रपंक्तिविराजिताः ।। ४७ ।।

अदृष्टो घोररूपास्यैर्यमदूतैर्युधिष्ठिर ।।

अनर्दितो व्याधिगणैरदृष्टो यमकिङ्करैः ।। ४८ ।।

अदारितो महारौद्रैर्नानाप्रहरणोत्तमैः।।

यमदृष्टिपथान्मुक्ताः सर्वसौख्यसमन्विताः ।।४९।।

सर्वसौख्यसमायुक्ताः शिववत्सौम्यदर्शनाः ।।

स्वर्गे वसंति सुचिरं भाविताः स्वेन कर्मणा ।। 4.89.५० ।।

स्नाप्य त्रयोदश मुनीन्घृतपायसेन संपूज्य पूज्यतिलतण्डुलवस्त्रदानैः ।।

कुर्वंति ये व्रतमिदं त्रिदशेह्नि पूताः पश्यंति ते यममुखं न कदाचिदेव ।। ५१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमदर्शनत्रयोदशी व्रतवर्णनं नामैकोननवतितमोऽध्यायः ।। ८९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 90

अनङ्गत्रयोदशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

भगवन्भूतभव्येश संसारार्णवतारक ।।

व्रतं कथय किञ्चिन्मे रूपसौभाग्यदायकम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

किं कृतैर्बहुभिः पार्थ व्रतैरुन्मत्तचेष्टितैः ।।

कायक्लेशकरैः क्रूरैरसारैः फल साधनैः ।। २ ।।

वरमेकापि वरदा कृतानंगत्रयोदशी ।।

प्रसिद्धिं समनुप्राप्ता मर्त्ये कामप्रदायिनी ।। ३ ।।

सौभाग्यारोग्यजयदा सर्वातंकनिवारिणी ।।

सर्वदुष्टोपशमनी सर्वमंगलवर्धनी ।। ४ ।।

शृणुष्व तां महाबाहो कथयामि सविस्तरम् ।।

पुरा दग्धेन कामेन त्रिनेत्रनयनाग्निना ।। ५ ।।

भस्मीभूतेन लोकानां संकल्पिता पुरानघ ।।

अनंगेन कथा ह्येषा तेनानंगत्रयोदशी ।। ६ ।।

हेमंते समनुप्राप्ते मासि मार्गशिरे शुभे ।।

शुक्लपक्षे त्रयोदश्यां सोपवासो जितेन्द्रियः ।। ७ ।।

स्नानं नद्यां तडागे च गृहे वा नियतात्मवान् ।।

कृत्वा समभ्यर्च्य विभुं विधिना शशिशेखरम् ।।८।।

धूपदीपैः सनैवेद्यैः पुष्पैः कालोद्भवैस्तथा ।।

शंभुनामान्यथोच्चार्य होमः कार्यस्तिलाक्षतैः ।। ९ ।।

अनंगनाम्ना संपूज्य मधु प्राश्य स्वपेन्निशि ।।

नैवेद्यैर्मधुरैर्दिव्यैः सुस्वादैर्घृतपाचितैः ।। 4.90.१० ।।

धूपं सुगंधिं दद्याच्च रक्तपुष्पैस्तु पूजनम् ।।

रंभातुल्या भवेत्सा तु रूपयौवनशालिनी ।। ११ ।।

मधुवत्स्यात्समधुरः कामरूपधरस्तथा ।।

दशानामश्वमेधानां फलं प्राप्नोति मानवः ।। १२ ।।

पुष्यमासस्य चैवोक्तं चंदनं प्राशयन्निशि ।।

योगेश्वरं तु संपूज्य मालतीकुसुमैः शुभैः ।। १३ ।।

नैवेद्यं घृतपूराश्च दमशान्तास्तु ताः स्त्रियः ।।

सौम्यशीतसुगन्धाश्च चन्दनप्राशनोद्भवैः ।। १४ ।।

राजसूयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।।

माघे नटेश्वरं नाम पूजयेत्पंकजेन तु ।। १५ ।।

नैवेद्यं क्षीरखण्डाद्यैर्मौक्तिकं प्राशयेन्निशि ।।

बहुपुत्रा भवेत्सा तु धनं सौभाग्यमुत्तमम् ।। १६ ।।

मुक्ताचूर्णनिभैर्नेत्रैर्यद्वा स्यात्तद्वदेव हि ।।

गौरीतुल्या भवेत्सा तु कोमलांगी प्रजायते ।। १७ ।।

तप्त जांबूनदाभासो भवेद्दिव्यतनुर्महान् ।।

गोमेधस्य सहस्रस्य फलं प्राप्नोति मानवः ।। १८ ।।

फाल्गुने मासि संपूज्य देवदेवं हरेश्वरम् ।।

कर्णिकारस्य पुष्पाणि नैवेद्ये बीजपूरकम् ।। १९ ।।

कंकोलं प्राशयेद्रात्रौ सौंदर्यमतुलं लभेत् ।।

चैत्रे सुरूपकं नाम पूजयेद्दमनेन तु ।। 4.90.२० ।।

नैवेद्यं धूपकं दद्याद्घृतखण्डविपाचितम् ।।

कर्पूरं प्राशयेद्रात्रौ सौभाग्यं महदाप्नुयात् ।। २१ ।।

चन्द्रश्च चन्द्रकांतिश्च चन्द्रवर्त्यहरावृते ।।

नरमेधस्य यज्ञस्य फलं प्राप्नोति शोभनम् ।। २२ ।।

वैशाखे च महारूपं पुष्पैर्नौमालिकार्चनम् ।।

कारंबकैस्तु नैवेद्यं दातव्यं चातिशोभनम् ।। २३ ।।

जातीफलं तु संप्राश्य जातिमाप्नोत्यनुत्तमाम् ।।

सफलास्तस्य सर्वाशा भवंति भुवि भारत ।। २४ ।।

गोसहस्रफलं प्राप्य ब्रह्मलोके महीयते ।।

ज्येष्ठे मासे तु प्रद्युम्नं पूजयेन्मल्लिकासुमैः ।। २५ ।।

नैवेद्यं खण्डवर्तिं च लवंगं प्राशयेन्निशि ।।

ज्येष्ठं पदमवाप्नोति तथा लक्ष्मीं जनार्दनात् ।। २६ ।।

सर्व सौख्यसमोपेतः स्थित्वा भुवि शतं समाः ।।

वाजपेयस्य यज्ञस्य शतमष्टगुणोत्तरम् ।। २७ ।।

आषाढे चैव संप्राप्ते उमाभर्तारमर्चयेत् ।।

पुष्प धूपादिनैवेद्यैः प्राश्नीयाच्च तिलोदकम् ।। २८ ।।

तिलोत्तमा रूपधरा सुखी स्याच्छरदः शतम् ।।

श्रावणे उमापतिं नाम तिलपुष्पैस्तु पूजयेत् ।। ।। २९ ।।

नैवेद्यं लड्डुकान्दद्यात्कृष्णांश्च प्राशयेत्तिलान् ।।

पौंडरीकस्य यज्ञस्य फलं प्राप्नोत्यनाकुलम् ।। 4.90.३० ।।

तदंते राजराजः स्याच्छत्रुपक्ष क्षयंकरः ।।

सद्योजातं भाद्रपदे पूज्य कुंकुमकेशरैः ।। ३१ ।।

नैवेद्यं सोलिकां दद्यात्प्राशयेदगुरुं निशि ।।

अगुरुं प्राशयित्वा तु गुरुर्भवति भूतले।। ।। ३२ ।।

पुत्रपौत्रैः परिवृतो भुक्त्वा भोगान्मनोऽनुगान् ।।

उक्तयज्ञफलं प्राप्य विष्णुलोके महीयते ।। ३३ ।।

त्रिदशाधिपतिमश्वयुजि पूज्य सिन्दूरकव्रजैः ।।

स्वर्णादिकं तु संप्राश्य स्वर्णवर्णः प्रजायते ।।३४।।

रूपवान्सुभगो वाग्मी भुक्त्वा भोगान्महीतले ।।

सुवर्णकोटिदानस्य फलं प्राप्नोति मानवः ।। ३५ ।।

विश्वेश्वरं कार्त्तिके तु सर्वपुष्पैस्तु पूजयेत् ।।

दमनस्य फलं प्राश्य दमनेन पुमान्भवेत् ।। ३६ ।।

दमनोन्मादकर्ता च सर्वस्य जगतः प्रभुः ।।

भवेद्भुजबलोपेतस्ततः शिवपुरं व्रजेत् ।। ३७ ।।

एवं संवत्सरस्यांते पारितेऽस्मिन्व्रतोत्तमे ।।

यत्कर्तव्यं तदधुना श्रूयतां कुरुनंदन ।। ३८ ।।

व्रते विध्नो यदा च स्यादशक्त्या सूतकेन वा ।।

उपोष्यमेवोपवसेत्तदा द्रुमपुरः पुनः ।। ३९ ।।

पूर्वोक्तमेवं निर्वर्त्य सौवर्णं कारयेच्छिवम् ।।

ताम्रपात्रे तु संस्थाप्य कलशोपरि विन्यसेत् ।। 4.90.४० ।।

शुक्लवस्त्रेण संछाद्य पुष्पनैवेद्यपूजितम् ।।

ब्राह्मणाय प्रदातव्यं शिवभक्ताय सुव्रत ।। ।। ४१ ।।

शक्तिमाञ्छयनं दद्याद्गां सवत्सां पयस्विनीम् ।।

छत्रोपानत्प्रदातव्यं कलशाः सोदकास्तथा ।। ४२ ।।

शांताश्च केचिदिच्छंति शक्त्या दद्याच्च दक्षिणाम् ।।

पञ्चामृतेन स्नानं च तस्मिन्नहनि कारयेत् ।। ४३ ।।

देवदेवस्य राजेन्द्र पुष्पदीपान्नसंयुतम् ।।

भोजनं च यथा शक्त्या षड्रसं मधुरोत्तरम् ।। ४४ ।।

प्रदद्याच्छिवभक्तेभ्यो विशुद्धेनांतरात्मना ।।

एवं निर्वर्त्य विधिवत्कृतकृत्यः पुमान्भवेत् ।। ४५ ।।

नारी वा भरतश्रेष्ठ कुमारी वा यतव्रता ।।

पारिते तु व्रते पश्चात्कुर्याच्च सुमहोत्सवम् ।। ४६ ।।

अनेन विधिना कुर्याद्यस्त्वनंगत्रयोदशीम् ।।

स राज्यं निहतामित्रं कीर्तिमायुर्यशो बलम् ।। ४७ ।।

सौभाग्यं महदाप्नोति यावज्जन्मशतं नृप ।।

ततो निर्वाणमायाति शिवलोकं च गच्छति ।। ४८ ।।

कामेन या किल पुरा समुपोषितासीच्छुभ्रा तिथिस्त्रिदशमी सुशुभांगहेतोः ।।

तां प्राशनैरुदितनामयुतैरुपेता कृत्वा प्रयाति परमं पदमिंदुमौलेः ।। ।। ४९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वण्यनंगत्रयोदशीव्रतवर्णनं नाम नवतितमोऽध्यायः ।। ९० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 91

पालीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

अम्बुपूर्णतडागेषु महातोयाशयेषु च ।।

कस्यार्थं सम्प्रयच्छंति कृष्णैताः कुलयोषितः ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।

मासि भाद्रपदे प्राप्ते शुक्ले भूततिथौ नृप ।।

तडागपाल्यां दातव्यं वरुणायार्घ्यमुत्तमम् ।। २ ।।

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथैव च ।।

तस्मिन्दिने भक्तिनम्रैर्देयादर्घ्यं युधिष्ठिर ।। ३ ।।

पुष्पैः फलैस्तथा वस्त्रैर्दीपालक्तकचन्दनैः ।।

अनग्निपाकोसिद्धान्नैस्तिलतण्डुलमिश्रकैः ।। ४ ।।

खर्जूरैर्नालिकेरैश्च बीजपूर्णारकैस्तथा ।।

द्राक्षादाडिमपूगैश्च त्रपुसैश्चापि पूजयेत् ।। ५ ।।

आलिख्य मण्डले देवं वरुणं वारुणीयुतम् ।।

मंत्रेणानेन राजेन्द्र पूजयेद्भक्तिभावतः ।। ।। ६ ।।

वरुणाय नमस्तुभ्यं नमस्ते यादसांपते ।।

अपांपते नमस्तेऽस्तु रसानांपतये नमः ।। ७ ।।

मा क्लेदं मा च दौर्गंध्यं विरस्यं मा मुखेऽस्तु मे ।।

वरुणो वारुणीभर्ता वरदोऽस्तु सदा मम ( स्वाहा) ।। ८ ।।

एवं यः पूजयेद्भक्त्या वरुणं वरुणालयम् ।।

मध्याह्ने सरसि स्नात्वा नग्निपाकी व्रती नृप ।। ९ ।।

चातुर्वर्ण्यथ वै नारी व्रतेनानेन पांडव ।।

नैवेद्यं ब्राह्मणे देयं यन्नैवेद्ये प्रकल्पितम् ।। 4.91.१० ।।

एवं यः कुरुते पार्थ पालीव्रतमुत्तमम् ।।

तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ११ ।।

संरुद्धशुद्धसलिलातिबलां विशालां पालीमुपेत्य बहुभिस्तरुभिः कृतालीम् ।।

ये पूजयंति वरुणं सहितं समुद्रैस्तेषां गृहे भवति भूतिरलब्धनाशा ।। १२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पालीव्रतवर्णनं नामैकनवतितमोऽध्यायः ।। ९१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 92

रम्भाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अस्मिन्नेव दिने पार्थ शृणु ब्रह्मसभातले ।।

देवलेन पुरा गीतं देवर्षिगणसन्निधौ ।। १ ।।

अप्सरोगणगंधर्वैर्देवैः सर्वैः समर्चितम् ।।

संसारासारतां दृष्ट्वा तत्रस्थकदलीद्रुमे ।।

शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे नृप ।। २ ।।

दत्तमर्घ्यं वरस्त्रीभिः फलैर्नानाविधैः शुभैः ।।

विरूढैः सप्तधान्यैश्च दीपालक्तकचन्दनैः ।। ३ ।।

दधिदूर्वाक्षतैर्वस्त्रैर्नैवेद्यैर्घृतपाचितैः ।।

जातीफलैर्लवङ्गैश्च तथैलालवलीफलैः ।। ४ ।।

कदलैः कन्दरभटैर्मोचा सात्र निगद्यते ।।

तस्मिन्नहनि दातव्यं स्त्रीभिः सर्वाभिरप्यलम् ।। ५ ।।

मंत्रे णानेन चैवार्घ्यं शृणुष्व च नराधिप ।।

चित्या त्वं कन्दलदलैः कदले कामदायिनि ।।

शरीरारोग्यलावण्यं देहि देवि नमोऽस्तु ते ।। ६ ।।

इत्थं यः पूजयेद्राजा पुरुषो भक्तिमान्नृप ।।

नारी वानग्निपाकांता चातुर्वर्ण्या युधिष्ठिर ।। ७ ।।

तस्याः कुले न भवति क्वचिन्नारी कुलाटनी ।।

दुर्गता दुर्भगा वंध्या स्वैरिणी पापकारिणी ।। ८ ।।

विलासिनी वा वृषली पुनर्भूः पुनरेतसी ।।

गणिका स्वैरिणी वोढा मूल्यकर्मकरी खला ।। ९ ।।

भर्तृ व्रतात्प्रचलिता न कदाचित्प्रजायते ।।

भवेत्सौभाग्यसौख्याढ्या पुत्रपौत्रैस्तथावृता ।।

आयुष्मती कीर्तिमती रमेद्वर्षशतैर्भुवि ।। 4.92.१० ।।

एकं रंभा व्रतं चीर्णं गायत्र्या स्वर्गसंस्थया ।।

तथा गौर्या च कैलास इन्द्राण्या नंदने वने ।। ११ ।।

श्वेतद्वीपे तथा लक्ष्म्या राज्ञ्या च रविमंडले ।।

अरुन्धत्या दारुवने स्वाहया मेरुपर्वते ।। १२ ।।

सीतादेव्या त्वयोध्यायां वेदवत्या हिमाचले ।।

भानुमत्या नागपुरे व्रतमेतदनुष्ठितम्।। १३ ।।

एतद्व्रतं पार्थिवेन्द्र मासि भाद्रपदे सिते ।।

या करोति न सा दुःखैः कदाचिदपि पीड्यते ।।१४।।

संभिन्नकन्दकदली च मनोज्ञरूपां याः पूजयंति कुसुमाक्षतधूपदीपैः ।।

तासां गृहेषु न भवंति कदाचिदेव नार्यस्त्वनार्यचरिता विधवा विरूपाः ।।१५।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रम्भाव्रतं नाम द्विनवतितमोऽध्यायः ।। ९२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 93

आग्नेयीचतुर्दशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

चतुर्दशी महाराज हुतभुग्दयिता शुभा ।।

नष्टस्तदा हव्यवाहः पुनरस्तित्वमाप्तवान् ।। १ ।।

।। युधिष्ठिर उवाच ।। ।।

कथमग्निः पुरा नष्टो देवकार्येप्युपस्थितः ।।

केनाग्नित्वं कृतं तत्र कथं हि विदितोऽनलः ।।

एतद्वदस्व देवेश सर्वं हि विदितं तव ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

पुरा सुरा महाराज तारकेण पराजिताः ।।

अपृच्छन्विश्वकर्तारं तारकं को वधिष्यति ।। ३ ।।

उवाचासौ चिरं ध्यात्वा रुद्रोमाशुक्रसम्भवः ।।

गंगास्वाहाग्नितेजोजः शिशुर्दैत्यं वधिष्यति ।। ।। ४ ।।

एवं श्रुत्वा गता देवा यत्र शम्भुः सहोमया ।।

प्रणम्य ते तमूचुर्हि यदुक्तं ब्रह्मणा तदा ।। ५ ।।

प्रतिपन्नं च रुद्रेण उमया सहितेन तत् ।।

प्रयत्नमकरोत्तं च य उक्तोमरसत्तमैः ।। ६ ।।

दिव्यं वर्षशतं साग्रं गतः कालोऽथ मैथुने ।।

न चाप्युपरमस्तत्र तयोरासीत्कथञ्चन ।।

भयं च सुमहत्तेषां देवानां समजायत ।। ७ ।।

स रुद्रसम्भवो यो वै भविष्यति महाबलः ।।

स दैत्यान्दानवगणान्वधिष्यति न संशयः ।। ८ ।।

केन कालेन भवति रतेर्विरतिरेतयोः ।।

एतद्विचिन्त्य प्रहितौ देवैस्तत्रानिलानलौ ।। ९ ।।

गतौ तौ चोमया दृष्टौ समस्थौ विषमस्थया ।।

शशाप च रुषा देवी देवान्गर्भविवर्जिता ।। 4.93.१० ।।

यस्मात्तैर्जनितो विघ्नो मेऽपत्यार्थे दिवौकसाम् ।।

तस्मात्ते स्वेषु दारेषु जनयिष्यन्ति न प्रजाः ।।११।।

अथोवाच तदा देवो देवान्सर्वगणाञ्छनैः।।

अग्निर्गृह्णातु वीर्यं मे संभृतं सुचिरं हि यत् ।।१२।।

एवमुक्तोऽथ रुद्रेण नष्टोऽग्निर्देवसंकुलात् ।।

न स्वस्थो न भुविस्थो वा न सूर्यस्थो न भूतले ।।१३।।

देवा अन्वेषणे यत्नमकुर्वन्नग्निदर्शने ।।

कृमिकीटपतंगाश्च अष्टौ च त्रिदिवौकसः ।। १४ ।।

हंसाः केकाः शुका वह्निः शीघ्रं शरवणं गताः ।।

शशापाग्निर्गजा जिह्वा द्विगुणो वा भविष्यति ।। १५ ।।

दृष्ट्वाथ विबुधाः सर्वे पक्षिणं पक्षिणां वरम्।।

जीवं जीवकनामानं भोभोः सत्यं वदस्व नः।।१६।।

कच्चिदृष्टस्त्वया वह्निर्वनेऽस्मिन्नटता सदा।।

नाभद्रं नापि भद्रं वा किञ्चिदेव वचोऽब्रवीत् ।।१७।।

भूयोभूयस्तु पृष्टोऽपि न गामुच्चारयेच्चिरम्।।

तुष्टस्तस्याब्रवीद्वह्निर्जीवं जीव वदामि ते ।।१८।।

यस्मान्न किञ्चिदुक्तं ते तस्माच्चित्र तनूरुहाः ।।

जीव जीव पुनर्जीव यावदिच्छा तथायुषः ।। १९ ।।

द्वितीयं ते वरं दद्मो जीवजीवक शोभनम् ।।

व्यक्ता ते मानुषी वाचा स्पष्टार्था च भविष्यति ।। 4.93.२० ।।

कश्चिद्यदि तवाधस्थाद्बुधः स्नानं करिष्यति ।।

वंध्या वा षोडशाब्दीया क्षणाद्बालो भविष्यति ।। २१ ।।

मासं यश्च तृतीयं वै भक्षयिष्यत्यनिंदितम् ।।

अजरः सोऽमरश्चैव सर्वकालं भविष्यति ।। २२ ।।

इदं दत्त्वा वरांस्तस्य वह्नित्वमथ आप्तवान् ।।

विबुधा अपि तत्रैव तमदृश्यंत वंशगम् ।। २३ ।।

ऊष्मया जातकल्माषं ज्ञात्वा संहृष्टमानसः ।।

तुष्टा वंशमथोचुस्ते देवास्त्रिभुवनेश्वराः ।। २४ ।।

ऊष्मया कल्मषीभूय ह्यग्निर्गर्भं धरिष्यति ।।

यो गृही वैणवीं यष्टिं ब्रह्मचारी च नैष्ठिकः ।। २५ ।।

पंडाग्निपालने पुण्यं यद्दृष्टं ब्रह्मवादिभिः ।।

वदंतं कल्मषीयष्टिस्तं प्राप्नोति द्विजोत्तमम् ।। २६ ।।

वंशस्यानुग्रहं कृत्वा देव्याहृतिमथाब्रुवन् ।।

गृह्णीत शुक्रं भद्रस्य तव पुत्रो भविष्यति ।। २७ ।।

।। युधिष्ठिर उवाच ।। ।।

यदाग्निर्नष्टो देवानां केनाग्नित्वं तदा कृतम् ।।

भूयोऽपि केन कालेन अग्निरग्नित्वमाप्तवान् ।। २८ ।।

।। कृष्ण उवाच ।। ।।

शृणु राजन्प्रनष्टेऽग्नौ येनाग्नित्वं कदाचन ।।

यस्मिन्काले तिथी यस्या पुनरग्नित्वमाप्तवान् ।। २९ ।।

उतथ्याङ्गिरसोः पूर्वमासीद्व्यतिकरो महान् ।।

अहं विद्यातपोभ्यां वै तव ज्यायाञ्छ्रुतेन च ।।

उतथ्येनैवमुक्तस्तु अङ्गिराः प्राह तं मुनिम् ।।4.93.३०।।

गच्छावो ब्रह्मसदनं मरीचिप्रमुखैर्द्विजैः ।।

उपेतं चान्यमुनिभिर्ब्रह्मराजर्षिसत्तमैः ।।

उतथ्यः प्राह सद्ब्रह्मनृषींस्तान्स्तब्धमानसः ।। ३१ ।।

ज्यायान्वा कतमोस्माकमिति नः कथ्यतां स्फुटम् ।। ३२ ।।

अथोवाच मुनिर्ब्रह्मा तावुभौ कुद्धमानसौ ।।

आनयध्वं द्रुतं गत्वा विबुधान्भुवनेश्वरान् ।।३३।।

ततो विवादं पश्यामि भवतां तैः समेत्य च ।।

ततस्तौ सहितौ नत्वाऽऽनिन्यतुश्च ऋषींस्तदा ।।३४।।

लोकपालान्महेंद्रादीन्सयमान्वारुणानिलान्।।

साध्यान्मरुद्गणान्विष्वानृषीन्भृग्वग्निनारदान् ।। ।। ३५।।

गंधर्वान्वित्तरक्षोघ्नान्राक्षसान्दैत्यदानवान् ।।

नायातस्तत्र तिग्मांशुः सर्वे चान्ये समागताः ।। ३६ ।।

दृष्ट्वा तु विबुधान्सर्वान्ब्रह्मा प्रोवाच तानृषीन् ।।

आनयध्वमितः सूर्यं साम्ना दंडेन वा पुनः ।। ३७ ।।

एवमुक्तो गतस्तावदुतथ्यः सूर्यमंडलम् ।।

स गत्वा प्राह मार्तण्डं शीघ्रमेह्येव संविदम् ।। ३८ ।।

स उतथ्यमथोवाच कथं ब्रह्मन्व्रजाम्यहम् ।।

एवमुक्त्वा गतः सूर्यो भुवने मयि निर्गते ।। ३९ ।।

एवमुक्तो मुनिः प्रायात्सर्व देवसमागमम् ।।

आचचक्षे च यत्प्रोक्तं भास्वता तपनं प्रति ।। 4.93.४० ।।

उवाचाङ्गिरसं ब्रह्मा शीघ्रमेनं त्वमानय ।।

स तथोक्तो गतस्तत्र यत्रासौ तपते रविः ।। ४१ ।।

एह्येहि भगवन्सूर्य तप्यते भवतान्वहम् ।।

एवमुक्तो गतः सूर्यो यत्र देवाः समागताः ।। ४२ ।।

स्थित्वा मुहूर्तं प्रोवाच किं वा कार्यमुपस्थितम् ।।

पृच्छन्तमेव मार्तंर्डं ब्रह्मा प्रोवाच सादरम् ।। ४३ ।।

गच्छ शीघ्रं न दहते भुवनं यावदंगिराः ।।

लब्धप्रायं तु गोलोकं वर्तते कृष्णपिंगलम् ।। ४४ ।।

पाटलो हरितः शोणः श्वेतो वर्णः प्रणाशितः ।।

शाकद्वीपं कुशद्वीपं क्रौञ्चद्वीपं सपन्नगम् ।।

दग्धमङ्गिरसा सर्वं भूयोऽपि प्रदहिष्यति ।।४५।।

यावच्च दहते सर्वं भुवनं तपसांगिराः ।।

गच्छ तावदितः शीघ्रं स्वस्थाने तप भास्कर ।। ४६ ।।

एवमुक्तः स विभुना स्वस्थानमधिरूढवान् ।।

विसृष्टवानंगिरसं सकाशममृताशिनाम् ।। ४७ ।।

गत्वाङ्गिरा उवाचेदं गतः किं करवाण्यहम् ।।

देवा अंगिरसं प्राहुस्तपोराशिमकल्मषम् ।। ४८ ।।

संप्रशस्योचुरग्नित्वं कुरु तावन्महीतले ।।

पूर्वं यथाग्निः कृतवांस्तथा त्वमपि सत्तम ।। ४९ ।।

यावदग्निं प्रपश्यामः क्वासौ नष्टः क्व तिष्ठति ।।

एवमुक्तः स देवैस्तु अग्नित्वं कृतवांस्तदा ।। 4.93.५० ।।

देवैर्दृष्टो यथा ह्यग्निस्तत्ते सर्वं निवेदितम् ।।

देवकार्ये कृते तस्मिन्देवा वह्नि मथाब्रुवन् ।। ५१ ।।

अग्नेऽग्नित्वं कुरुष्व त्वमंगिरास्तु यथा पुरा ।।

एवमुक्तः सुरैर्वह्निश्चिन्तयामास दुःखितः ।। ५२ ।।

को मेऽपहृतं तेजः केनाग्नित्वं कृतं त्विह ।।

दृष्ट्वाथाग्निरङ्गिरसं तेजोराशिमकल्मषम् ।। ५३ ।।

उवाच मुञ्च मत्स्थानं वचस्तोषकरं शृणु ।।

अहं ते तनयश्चेष्टो भविष्ये प्रथमे शुभे ।। ५४ ।।

बृहस्पतीति नामा वै तथान्ये बहवः सुताः ।।

एवमुक्तो मुनिस्तुष्टो बहूंश्चाजनयत्सुतान् ।। ५५ ।।

वह्निं संजनयामास पुत्रान्पौत्रांस्तदांगिराः ।।

अवाप पुनरग्नित्वमग्निस्तस्यां तिथौ नृप ।। ५६ ।।

सर्वमेव चतुर्दश्यां संजातं हव्यवाहनम् ।।

हव्यवाहन देवानां भूतानां गुह्यचारितम् ।। ५७ ।।

ततोऽष्टपतिपत्वे च रुद्रेण प्रतिपादितम् ।।

पूजितेयं तिथिर्देवैर्दिविस्थैश्च नृपैरपि ।। ५८ ।।

पैलजाबालिमन्वाद्यैरन्यैश्च नहुषादिभिः ।।

विषशस्त्रहतानां च संग्रामेन्यत्र ते क्वचित् ।। ५९ ।।

अज्ञातावृषपापैश्च व्यालैर्ये व्याप्य हिंसिताः ।।

नदीप्रवाह पतितः समुद्रे पर्वतेऽध्वनि ।। 4.93.६० ।।

पतिताः पर्वतेभ्यश्च तोयाग्निदहने मृताः ।।

उदध्या पातिता ये च ये के चात्महनो जनाः ।।

तेषां शस्तं चतुर्दश्यां श्राद्धं स्वर्गसुखप्रदम् ।।६१ ।।

श्राद्धानि चैव दत्तानि दानानि सुलघून्यपि ।।

प्रसूनफलभोज्यानि उपतिष्ठंति तान्नरान् ।। ६२ ।।

एवं तिथिरियं राजन्नाग्नेयी प्रोच्यते जनैः ।।

रौद्रीं च केचिदित्याहू रुद्रोग्निः स च पठ्यते ।। ६३ ।।

यस्यां मनोरथं यंयं समुद्दिश्य ह्युपोषति ।।

ददाति तस्य तद्वह्निः साग्रे संवत्सरे गते ।। ६४ ।।

चतुर्दश्यां निराहारः समभ्यर्च्य त्रिलोचनम् ।।

पुष्पधूपादिनैवेद्यै रात्रौ जागरणान्नरः ।।

पञ्चगव्यं निशि प्राश्य स्वप्याद्भूमौ विमत्सरः ।। ६५ ।।

श्यामाकमथ वा भुक्त्वा तैलक्षारविवर्जितम् ।।

होमः कृष्णतिलैः कार्यः शतमष्टोत्तरं नृप ।। ।। ६६ ।।

अग्नये हव्यवाहनाय सोमायांगिरसे नमः ।।

ततः प्रभाते विमले स्नाप्य पंचामृतैः शिवम् ।। ६७ ।।

पूजयित्वा विधानेन होमं कृत्वा तथैव च ।।

उदीरयेन्मन्त्रमेतं कृत्वा शिरसि चांजलिम् ।। ६८ ।।

नमस्त्रिमूर्तये तुभ्यं नमः सूर्याग्निरूपिणे ।।

पुत्रान्यच्छ सुखं यच्छ मोक्षं यच्छ नमोऽस्तु ते ।। ६९ ।।

नीराजनं ततः कृत्वा पश्चाद्भुंजीत वाग्यतः ।।

एवं संवत्सरस्यांते कृत्वा सर्वं यथोदितम् ।। 4.93.७० ।।

सौवर्णं कारयेद्देवं त्रिनेत्रं शूलपाणिनम् ।।

वृषस्कंधगतं सौम्यं सितवस्त्रयुगान्वितम् ।। ७१ ।।

चन्दनेनानुलिप्ताङ्गं सितमाल्योपशोभितम् ।।

स्थापयित्वा ताम्रपात्रे ब्राह्मणाय निवेदयेत् ।।

सर्वकालिकमेतत्ते कथितं व्रतमुत्तमम् ।। ७२ ।।

संवत्सरं समाप्तं हि व्रतस्य तु यदा भवेत् ।।

काले गते बहुतिथे तीर्थस्य शरणं भवेत् ।।

मृतस्य देहो दिव्यस्थो दिव्यालंकारभूषितः ।।७३।।

दिव्यनारीगणवृतो विमानवरमास्थितः।।

देवदैवैः समः शंभोः क्रीडति त्रिपुरे चिरम् ।। ।। ७४ ।।

इह चागत्य कालांते जातः स च नृपो भवेत् ।।

दाता यज्वा धनी दक्षो ब्राह्मणो ब्राह्मणप्रियः ।। ७५ ।।

श्रीमान्वाग्मी कृती धीमान्पुत्रपौत्रसमन्वितः ।।

पत्नीगणसम्रायुक्तश्चिरं भद्राणि पश्यति ।। ७६।।

ये दुर्ल्लभा भुवि सुरोरगमानवानां कामा ह्यनुत्तमगुणेन युताः सदैव ।।

ताना प्नुवंति सितभूततिथौ सुरेशं संपूज्य सोमतिलकं विधिवन्मनुष्याः ।। ७७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृ्ष्णयुधिष्ठिरसंवादे आग्नेयीचतुर्दशीव्रतवर्णनं नाम त्रिनवतितमोऽध्यायः ।। ९३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 94

।। श्रीकृष्ण उवाच ।। ।।

अनंतव्रतमस्त्यन्यत्सर्वपापहरं शिवम् ।।

सर्वकामप्रदं नृणां स्त्रीणां चैव युधिष्ठिर ।। १ ।।

शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे शुभे ।।

तस्यानुष्ठानमात्रेण सर्वपापैः प्रमुच्यते ।। २ ।।

।। युधिष्ठिर उवाच ।। ।।

कृष्ण कोऽयं त्वयाख्यातो ह्यनंत इति विश्रुतः ।।

किं शेषनाग आहोस्विदनंतस्तक्षकः स्मृतः ।। ३ ।।

परमात्माथ वानंत उताहो ब्रह्म उच्यते ।।

क एषोऽनंतसंज्ञो वै तथ्यं ब्रूहि केशव ।। ४ ।।

।। श्रीकृष्ण उवाच ।। ।।

अनंत इत्यहं पार्थ मम नाम निबोधय ।।

आदित्यादिषु वारेषु यः काल उपपद्यते ।। ५ ।।

कलाकाष्ठामुहूर्तादि दिनरात्रिशरीरवान् ।।

पक्षमासर्तुवर्षादि युगकल्पव्यवस्थया ।। ६ ।।

योऽयं कालो मयाख्यातस्तव धर्मभृतां वर ।।

सोऽहं कालोऽवतीर्णोऽत्र भुवो भारावतारणात् ।। ७ ।।

दानवानां विनाशाय वसुदेवकुलोद्भवम् ।।

मां विद्ध्यनंतं पार्थ त्वं विष्णुं जिष्णुं हरं शिवम्।। ८ ।।

ब्रह्माणं भास्करं शेषं सर्वव्यापिनमीश्वरम् ।।

विश्वरूपं महात्मानं सृष्टिसंहारकारकम् ।। ९ ।।

प्रत्ययार्थं मयाख्यातं सोऽहं पार्थ न संशयः ।।

।। युधिष्ठिर उवाच ।। ।।

अनन्तव्रतमाहात्म्यविधिं वद विदां वर ।। १० ।।

किं पुण्यं किं फलं चास्य ह्यनुष्ठानवतां नृणाम्।।

केन वादौ पुरा चीर्णं मर्त्ये केन प्रकाशितम् ।। ११ ।।

एवं समस्तं विस्तार्य ब्रूह्यनंतव्रतं हरे ।।

।। श्रीकृष्ण उवाच ।। ।।

आसीत्पुरा कृतयुगे सुमंतो नाम वै द्विजः ।।१२।।

वशिष्ठगोत्रे चोत्पन्नः सुरूपश्च भृगोः सुताम् ।।

दीक्षां नामोपयेमे तां वेदोक्तविधिना ततः ।।१३।।

तस्याः कालेन संजाता दुहितानंतलक्षणा ।।

शीला नाम सुशीला सा वर्धते पितृसद्मनि ।। १४ ।।

माता च तस्याः कालेन हरदाहेन पीडिता ।।

विननाश नदीतीरे मृता स्वर्गपुरं ययौ।।१५।।

सुमंतोपि ततोन्यां वै धर्मपुंसः सुतां पुनः ।।

उपयेमे विधानेन कर्कशां नाम नामतः।।१६।।

दुःशीलां कर्कशां चंडीं नित्यं कलहकारिणीम् ।।

सापि शीला पितुर्गेहे गृहार्चनरता विभो ।। १७ ।।

कुड्यस्तंभतुलाधारदेहलीतोरणादिषु ।।

चातुर्वर्णकरं वैश्यनीलपीतसितासितैः ।।१८।।

स्वस्तिकैः शंखपद्मैश्च अर्चयन्ती पुनःपुनः ।।

पित्रा दृष्टा सुमन्तेन स्त्रीचिह्ना यौवने स्थिता ।।१९।।

कस्मै देया मया शीला विचार्यैवं सुदुःखितः ।।

पिता ददौ मुनीन्द्राय कौंडिन्याय शुभे दिने ।। २० ।।

स्मृत्युक्तशास्त्रविधिना विवाहमकरोत्तदा ।।

निवर्त्योद्वाहिकं सर्वं प्रोक्तवान्कर्कशां द्विजः ।। २१ ।।

किञ्चिदायादिकं देयं जामातुः पारितोषिकम् ।।

तच्छ्रुत्वा कर्कशा क्रुद्धा प्रोद्धृत्य गृहमण्डपम्।।२२।।

कपाटे सुस्थिरं कृत्वा गम्यतामित्युवाच ह ।।

भोज्यावशिष्टचूर्णेन पाथेयं च चकार सा ।।२३।।

कौंडिन्योपि विवाह्यैनां पथि गच्छञ्छनैःशनैः।।

शीलां सुशीलामादाय नवोढां गोरथेन हि ।। २४ ।।

मध्याह्ने भोज्यवेलायां समुत्तीर्य सरित्तटे ।।

ददर्श शीला सा स्त्रीणां समूहं रक्तवाससाम्।। ।। २५ ।।

चतुर्दश्यामर्चयन्तं भक्त्या देवं पृथक्पृथक् ।।

उपगम्य शनैः शीला पप्रच्छ स्त्रीकदंबकम्।। २६ ।।

नार्यः किमेतन्मे ब्रूत किंनाम व्रतमीदृशम् ।।

ता ऊचुर्योषितः सर्वा अनन्तो नाम विश्रुतः ।। २७ ।।

साब्रवीदहमप्येवं करिष्ये व्रतमुत्तमम् ।।

विधानं कीदृशं तत्र किं दानं कस्य पूजनम् ।। २८ ।।

।। स्त्रिय ऊचुः ।। ।।

शीले पक्वान्नप्रस्थस्य पुन्नाम्नः सुकृतस्य तु ।।

अर्द्धं विप्राय दातव्यमर्द्धमात्मनि भोजनम् ।। २९ ।।

कर्तव्यं तु सरित्तीरे कथां श्रुत्वा हरेरिमाम् ।।

अनंतानंतमभ्यर्च्य मंडले गंधदीपकैः ।। ३० ।।

धूपैः पुष्पैः सनैवेद्यैः पीतालक्तैश्चतुःशतैः ।।

तस्याग्रतो दृढं सूत्रं कुंकुमाक्तं सुदोरकम् ।। ३१ ।।

चतुर्दशग्रंथियुतं वामे स्त्री दक्षिणे पुमान् ।।

मंत्रेणानेन राजेन्द्र यावद्वर्षं समाप्यते ।। ३२ ।।

अनंत संसारमहासमुद्रे मग्नान्समभ्युद्धर वासुदेव ।।

अनंतरूपे विनियोजितात्मा ह्यनंतरूपाय नमोनमस्ते ।। ३३ ।।

अनेन दोरकं बद्ध्वा भोक्तव्यं स्वस्थमानसैः ।।

ध्यात्वा नारायणं देवमनंतं विश्वरूपिणम् ।। ३४ ।।

भुक्त्वा चांते व्रजेद्वेश्म हीदं प्रोक्तं व्रतं तव ।।

सापि श्रुत्वा व्रतं चक्रे शीला बद्ध्वा सुदोरकम् ।। ३५ ।।

भर्ता तस्याः समागत्य तां ददर्श महाधनाम् ।।

पाथेयशेषं विप्राय दत्त्वा भुक्त्वा तथैव च ।। ३६ ।।

पुनर्जगाम सा हृष्टा गोरथेन स्वमाश्रमम् ।।

भर्त्रा सहैव शनकैः प्रत्यक्षं तत्क्षणादभूत् ।।

तेनानंतप्रभावेण शुभगोधनसंकुलः ।। ३७ ।।

गृहाश्रमः श्रिया युक्तो धनधान्यसमायुतः ।।

आकुलो व्याकुलो रम्यः सर्वत्रातिथिपूजनः ।। ३८ ।।

सापि माणिक्यकाञ्चीभिर्मुक्ताहारविभूषिता ।।

दिव्यांगवस्त्रसंछन्ना सावित्रीप्रतिमाभवत् ।। ३९ ।।

कदाचिदुपविष्टेन दृष्टं बद्धं सुदोरकम् ।।

शीलाया हस्तमूले तु साक्षेपं त्रोटितं रुषा ।। ४० ।।

तेन कर्मविपाकेण तस्य सा श्रीः क्षयं गता ।।

गोधनं तस्करैर्नीतं गृहं चाग्निविदाहितम् ।। ४१ ।।

यद्यदेवागतं गेहे तत्र तत्रैव नश्यति ।।

स्वजनैः कलहो मित्रैर्वचनं न जनैस्तथा ।। ४२ ।।

अनंताक्षेपदोषेण दारिद्र्यं पतितं गृहे ।।

न कश्चिद्वदते लोकस्तेन सार्द्धं युधिष्ठिर ।। ४३ ।।

ततो जगाम कौंडिन्यो निर्वेदाद्वनगह्वरम् ।।

मनसा ध्यायतेनंतं कदा द्रक्ष्यामि केशवम् ।। ४४ ।।

व्रतं निरशनं गृह्य ब्रह्मचर्यं जपन्हरिम् ।।

विह्वलः प्रययौ पार्थ अरण्यं जनवर्जितम्।।४५।।

तत्रापश्यन्महावृक्षं फलितं पुष्पितं तथा ।।

तमपृच्छत्त्वयानंतः कच्चिदृष्टो महाद्रुम ।।

तद्ब्रूहि सोप्युवाचेदं नानंतं वेद्म्यहं द्विज ।। ४६ ।।

एवं निरीक्षितस्तेन गां ददर्श सवत्सकाम् ।।

तृणमध्ये प्रधावन्तीमितश्चेतश्च पांडव ।।४७।।

सोब्रवीद्धेनुके ब्रूहि यद्यनंतस्त्वयेक्षितः ।।

गौरुवाचाथ कौंडिन्य नानंतं वेद्म्यहं विभो ।। ४८ ।।

ततो जगामाथ वने गोवृषं शाद्वले स्थितम् ।।

दृष्ट्वा पप्रच्छ गोस्वामिन्ननंतो लक्षितस्त्वया ।। ४९ ।।

गोवृषस्तमुवाचाथ नानन्तो वीक्षितो मया ।।

ततो व्रजन्ददर्शाग्रे रम्यं पुष्करिणीद्वयम् ।। ५० ।।

अन्योन्यजलकल्लोलवीचिभिः परिशोभितम् ।।

छन्नं कुमुदकह्लारैः कुमुदोत्पलमंडितम् ।। ५१ ।।

सेवितं भ्रमरैर्हंसैश्चक्रैः कारंडवैर्बकैः ।।

ते अपृच्छं द्विजोनन्तो भवद्भ्यां नोपलक्षितः ।। ५२ ।।

ऊचतुः पुष्करिण्यौ तं नानंतं विद्वहे द्विज ।।

ततो ब्रह्मन्ददर्शाग्रे गर्दभं कुञ्जरं तथा ।। ५३ ।।

तावप्युक्तौ सुमंतेन तस्यापि विनिवेदितम् ।।

नावाभ्यां वीक्षितोनंतस्तच्छ्रुत्वा निषसाद ह ।। ५४ ।।

तस्मिन्क्षणे मुनिवरे कौंडिन्ये ब्राह्मणोत्तमे ।।

कृपयानंतदेवोपि प्रत्यक्षः समजायत ।। ।। ५५ ।।

वृद्धब्राह्मणरूपेण इत एहीत्युवाच तम् ।।

प्रवेशयित्वा स्वगृहं गृहीत्वा दक्षिणे करे ।। ५६ ।।

तां पुरीं दर्शयामास दिव्यनारीनरैर्युताम् ।।

तस्यां निविष्टमात्मानं वरसिंहासने नृप ।। ५७ ।।

पार्श्वस्थशंखचक्रासिगदागरुडशोभितम् ।।

दर्शयामास विप्राय पूर्वोक्तं विश्वरूपिणम्।। ५८ ।।

विभूतिभेदैश्चानन्तमनन्तं परमेश्वरम् ।।

तं दृष्ट्वा तु द्विजोनन्तमुवाच परया मुदा ।। ५९ ।।

पापोहं पापकर्माहं पापात्मा पापसम्भवः ।।

पाहि मां पुण्डरीकाक्ष सर्वपापहरो भव ।।६०।।

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।।

चूतवृक्षो वृषः कस्तु का गौः पुष्करिणीद्वयम् ।।

गर्दभं कुञ्जरं चैव देव मे ब्रूहि तत्त्वतः ।। ६१ ।।

।। अनंत उवाच ।। ।।

चूतवृक्षो हि विप्रोसौ विद्वान्यो वेदगर्वितः ।।

विद्यादानं नोपकुर्वञ्छिष्येभ्यस्तरुतां गतः ।। ६२ ।।

सा गौर्वसुन्धरा दृष्टा निष्फला या त्वयेक्षिता ।।

स हर्षो वृषभो दृष्टो लाभार्थं यस्त्वया वृतः ।। ६३ ।।

धर्माधर्मव्यवस्थानं तच्च पुष्करिणीद्वयम् ।।

खरः क्रोधस्त्वया दृष्टः कुंजरो धर्मदूषकः ।।

ब्राह्मणोसावनंतोहं गुहासंसारगह्वरे ।। ६४ ।।

इत्युक्तं ते मया सर्वं विप्र गच्छ पुनर्गृहम् ।। ६५ ।।

चरानंतव्रतं तत्त्वं नव वर्षाणि पंच च ।।

ततस्तुष्टः प्रदास्यामि नक्षत्रस्थानमुत्तमम् ।। ६६ ।।

भुक्त्वा च विपुलान्भोगान्सर्वान्कामान्यथेप्सितान् ।।

पुत्रपौत्रैः परिवृतस्ततो मोक्षमवाप्स्यसि।।६७।।

इति दत्त्वा वरं देवस्तत्रैवांतर्हितोऽभवत्।।

कौंडिन्योप्यागतो गेहं चचारानंतसद्व्रतम् ।। ६८ ।।

शीलया सह धर्मात्मा भुक्त्वा भोगान्मनोरमान्।।

अंते जगाम च स्वर्गं नक्षत्रं च पुनर्वसुम् ।।

कल्पस्थानी च संभूतो दृश्यतेद्यापि स ज्वलन्। ।।

अनंतव्रतधर्मेण सम्यक्चीणेंन कौरव ।। ७० ।।

एतत्ते कथितं पार्थ व्रतानामुत्तमं व्रतम् ।।

यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ७१ ।।

ये च शृण्वंति सततं वाच्यमानं नरोत्तम ।।

ते सर्वे पापनिर्मुक्ता यास्यंति परमां गतिम् ।। ७२ ।।

संसारसागरगुहां सुसुखं विहर्तुं वांछंति ये कुरुकुलोद्भव शुद्धसत्त्वाः ।।

संपूज्य ते त्रिभुवनेशमनंतदेवं बध्नंति दक्षिणकरे वरदोरकं मे ।। ७३ ।।

इति श्रीभविष्ये महाऽपुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽअनंतचतुर्दशीव्रतवर्णनं नाम चतुर्नवतितमोऽध्यायः ।। ९४ ।। छ ।।

शब्दकल्पद्रुम ---

अरण्यवासमुषितो युधिष्ठिरनृपो वशी ।

प्राप्तस्त्रैलोक्यनाथेन कृष्णेन परमात्मना ।।

कथोपकथनं जातं तयोस्तत्र प्रियाप्रियं ।

विशेषेण च गोविन्दं पप्रच्छ च युधिष्ठिरः ।।

युधिष्ठिर उवाच ।

केन व्रतेन देवेश वाञ्छितं प्राप्यते फलं ।

निष्पापाः सकला लोकाः भवन्ति जन्मजन्मनि ।।

श्रीकृष्ण उवाच ।

अस्ति व्रतमनन्ताख्यं यत्कृतं सुरसद्मनि ।

इन्द्राद्यैर्लोकपालैश्च तन्म कथयतः शृणु ।

शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे तथा ।

तस्यानुष्ठानमात्रेण सर्व्वपापं प्रणश्यति ।।

।। युधिष्ठिर उवाच ।

कृष्ण कोऽयं त्वयाख्यातो योऽनन्त इति संज्ञितः

कोऽयं शेषश्च नागश्च अनन्तस्तक्षकः स्मृतः ।।

परमञ्चोत्तमं वापि उताहो ब्रह्म उच्यते ।

क एषोऽनन्तसंज्ञो वै तन्मे ब्रूहि जनार्द्दन ।।

श्रीकृष्ण उवाच ।

अनन्त इत्यहं पार्थ मम रूपं निबोध तत् ।

आदित्यगतिरूपेश यः काल उपपद्यते ।।

कलाकाष्ठामुहूर्त्तादि दिनरात्रिव्यवस्थया ।

पक्षो मास ऋतुर्व्वर्षं युगकल्पव्यवस्थया ।।

सोऽहं कालोऽवतीर्णोऽस्मि भुवो भारावतारणात् ।

दानवानां विनाशाय वसुदेवतनूद्भवं ।!

अनन्तं विद्धि मां पार्थ कृष्णं विष्णुं हरिं शिवं

ब्रह्माणं भास्करं शेषं सर्व्वव्यापिनमीश्वरं ।

प्रत्ययार्थं मया पार्थ विश्वरूपं निबोथ तत् ।

पूर्वमेव महाबाहो योगिध्येयमनुत्तमं ।। ।।

युधिष्ठिर उवाच ।

अनन्तव्रतमाहात्म्यं विधिं विधिविदां वर ।

किं पुण्यं किं फलं तस्य अनुष्ठानञ्च तस्य किं ।।

केन वा तत्कृतं पूर्व्वं लोके केन प्रकाशितं ।

तत्सर्व्वं बहु' विस्तार्य्य ब्रूहि नारायण प्रभो ।।

।। श्रीकृष्ण उवाच ।

आसीत्पुरा कृतयुगे सुमन्तुर्नाम वै द्विजः ।

वशिष्ठगोत्रजो विद्वान् शीलवान् विजितेन्द्रियः ।।

पत्नी तस्याभवद्दीक्षा सती सत्यव्रते स्थिता ।

चारित्रशीलसम्पन्ना सुरूपा भृगुवंशजा ।।

तस्याः कालेन संजाता दुहिता सर्व्वलक्षणा ।

शीला नाम्ना सुशीला सा वर्द्धते पितृवेश्मनि ।।

माता तस्यास्तु कालेन ज्वरदाहप्रपीडिता ।

समागत्य नदीतोये मृता स्वर्गपुरं ययौ ।।

कृतं सुमन्तुना तस्याः कर्म्म यत् पारलौकिकं ।

ततः सुमन्तुः संत्यज्य दुःखं शोकं क्रमात् पुनः

नापत्नीको गृही धर्म्मं कर्त्तुमर्हति वै क्वचित् ।

इति सञ्चिन्त्य मनसा विवाहोत्सुकमानसः ।।

देवलस्य मुनेः कन्यां कर्कशां परिणीतवान् ।

सा कर्कशातिदुःशीला सदा निष्ठुरभाषिणी ।।

कोपना प्रतिकूला च निर्लज्जा कलहप्रिया ।

अदक्षा गृहृकृत्येषु दक्षा भोजनकर्म्मणि ।।

कलहेन तु सन्तुष्टा रुष्टा बन्धुजनान् प्रति ।

सा तु शीला पितुर्गेहे वर्द्धिता च दिने दिने ।।

करोति सखिभिः सार्द्धं शिशुक्रीडामनुत्तमां ।

गृहान्तरस्थलद्वारदेहलीतोरणादिषु ।

चतुरङ्गकवर्णैश्च रक्तपीतसितासितैः ।

स्वस्तिकं पद्मशङ्खौ च मण्डयन्ती पुनः पुनः ।।

कुर्व्वन्ती प्रत्यहं बाला देवतातिथिपूजनं ।

गृहकृत्ये सदा दक्षा पितुरत्यन्तवल्लभा ।।

कालेन कियता विप्रस्तां दृष्ट्वा यौवनोद्गतां ।

कस्मै देया मया कन्या इति चिन्तान्वितोऽभवत्।।

ततो देववशात्तत्र कौण्डिन्यः समुपागतः ।

मुनिश्रेष्ठो महाभागः कुलीनो धर्मतत्परः ।।

मनसा चिन्तयामास सुमन्तुः सुतपाः सुधीः ।

अस्मै भाग्यवशाच्छीला प्रतिपाद्या प्रयत्नतः ।।

इति कृत्वा मतिं विप्रो ददौ कन्यां शुभे दिने ।

कन्यामलङ्कृतां साध्वीं शीलां चन्द्रनिभाननां ।।

गृह्योक्तवेदविधिना विवाहमकरोत्तदा ।

ततो होमादिकं कर्म्म समाप्य समये मुनिः ।।

सुमन्तुः कर्कशां प्राह जामात्रे देहि दक्षिणां

सफलं कुरु मे दानं प्रिये मुनिकुलोद्भवे ।

दक्षिणारहितं कर्म्म निष्फलं जायते यतः ।

सा तु तद्वचनं श्रुत्वा कर्कशा कुपिताभवत् ।

सुमन्तुं भर्त्सयामास कर्कशैर्व्वचनैः पतिं ।

अलङ्कारं समानीय स्वकीयञ्चापि बन्धनं ।।

निक्षिप्य निभृते स्थाने कर्कशान्यगृहं ययौ ।

सुमन्तुश्चातिदीनात्मा लज्जितश्चाभवत्तदा ।।

यत्किञ्चिदर्थयोग्यञ्च द्रव्यमानीय यौतुकं ।

जामात्रे प्रददौ विप्रः परिचार्य्य पुनः पुनः ।।

ततो विवाहं निर्व्वर्त्य कौण्डिन्योऽपि निजाश्रमं ।

गोयाने तां समारोप्य शीलामादाय वै ययौ

ततः सा पथि गच्छन्ती शीला चन्द्रनिभानना

मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे ।।

ददर्श शीला नारीणां समूहं व्रतचारिणां ।

पुंसां वृन्दञ्च तत्रेव रक्तपीताम्बरासनं ।।

चतुर्द्दश्यामर्चयन्तं भक्त्यानन्तं पृथक् पृथक् ।

दृष्ट्वा समूहं नारीणां सती पप्रच्छ सादरं ।।

विनयावनता साध्वी प्रणिपत्य सुरेश्वरं ।

किमिदं क्रियते कार्य्यं भवतीभिस्तदुच्यतां ।।

स्त्रिय ऊचुः ।

भाद्रे मासि सिते पक्षे उत्थिते वासवध्वजे ।

आराधिते महेन्द्रे च ध्वजाकारासु यष्टिषु ।।

नत्वा सरसि यः स्नात्वा अनन्तार्च्चनमारभेत् ।

कृत्वा दर्भमयं देवं वारिवाजसमन्वितं ।।

अनन्तं देवदेवेशं चतुर्ब्बाहुं किरीटिनं ।

अतसीपुष्पसंकाशं काञ्चनाङ्गदभूषणं ।।

शङ्खचक्रगदाशार्ङ्गं विविधायुधधारिणं ।

एह्येहि भगवन् कृष्ण तव यज्ञः प्रवर्त्तते ।।

वारिधान्यां तथानन्तं भगवन्तं नियोजयेत् ।

मण्डले पुष्पनेवेद्यं धूपवस्त्रानुलेपनं ।।

दत्त्वा च पूजयेद्भक्त्या अनन्तं विश्वरूपिणं ।

पिष्टकार्थं व्रीहिचूर्णं यवगोधूमयोश्च वा ।।

एतेषां प्राप्यते यत्तु तद्ग्राह्यं प्रस्थसंज्ञितं ।

अर्द्धं विप्राय दातव्यमर्द्धमात्मनि योजयेत् ।।

पूजयित्वा तथा देवं गन्धपुष्पैर्यथाक्रमं ।

श्रुत्वा कथां ततस्तस्य कुङ्कमाक्तं सुडोरकं ।।

चतुर्दशग्रन्थियुक्तं नारी वामकरे न्यसेत् ।

पुमांस्तु दक्षिणे बाहौ तदानन्तं प्रपूजयेत् ।।

निर्व्वर्त्त्य पूजां देवस्य पूपं भुक्त्वा यथासुखं ।

विसृज्य दक्षिणां दत्त्वा प्रणम्य च यथासुखं ।।

शीला श्रुत्वा वचस्तासां यथा ताभिरुदाहृतं ।

व्रतं चकार सा बाहौ वद्धा डोरकमुत्तमं ।

पूपप्रस्थञ्च सा कृत्वा भुक्त्वा चैव तथैव च ।

पुनर्जगाम तेनैव गोरथेन समन्विता ।।

तेनानन्तप्रसादेन गृहं गोधनसङ्कुलं ।

तदाश्रमं श्रिया युक्तं धनधान्यसमन्वितं ।।

विविधातिथिसम्पूर्णं नानारत्नैर्विभूषितं ।

वराश्वमत्तमातङ्गमहिषैर्गोधनान्वितं ।।

शीला च मणिकाञ्चीभिर्मुक्ताभरणभूषिता ।

दिव्याङ्गी शीलसम्पन्ना सावित्रीप्रतिमा यथा ।।

कदाचिदुपविष्टा सा वह्निकुण्डं समागता ।

कौण्डिन्योऽपि विशेद्रोषात् दृष्ट्वा डोरमनन्तकं ।

शीलायाः करमूले च बद्धमेव प्रयत्नतः ।

पप्रच्छ क्रोधवचसा भृकुटीकुटिलं मुखं ।।

किमिदं डोरकं हस्ते बद्ध्वा भार्य्येऽत्र तिष्ठसि ।

प्रमेयः कस्य देवस्य दुर्ब्बुद्धे ब्रूहि सत्वरं ।५।।

शीलोवाच ।

अनन्तं देवदेवस्य प्रमेयं डोरकं शुभं ।

करे बद्धं विधानेन शृणु मे वचनं प्रभो ।।

प्रसादाद् यस्य देवस्य भुङ्क्ते सुविपुलं धनं ।

न जानासि कथं नाथ तदेवं जगदीश्वरं ।।

शीलावाक्यं ततः श्रुत्वा कौण्डिन्यः कुपितोऽभवत् ।

कोऽसावनन्तसंज्ञो वै न श्रुतोऽपि वरानने ।

इत्युत्वाकृष्य कुपितो भुजाड्डोरमनन्तकं ।

क्षिप्तं ज्वालाकुले वह्नौ निर्भर्त्स्य बहुधा प्रियां ।।

ततः सा संभ्रमात् शीला हाहा कृत्वा प्रधाविता

वह्नेः सूत्रं समादाय क्षीरमध्ये ततोऽक्षिपत् ।।

ततस्तया करे वामे पुनर्बद्धं सुडोरकं ।

अनन्ताक्षेपदोषेण दारिद्र्यं पतितं गृहे ।।

न कैश्चित् वर्ण्यते लोकैः सोऽपि विप्रो युधिष्ठिर ।

गात्रे मलिनता प्राप्ता चक्षुर्निद्रां तथैव च ।।

शून्यानि गृहरूपाणि दग्धानि वह्निना क्वचित् ।

निरीक्ष्य स्वपुरं विप्रश्चिन्तयामास चेतसा ।।

अथ शीला विवर्णा सा दुःखिता पतिदोषतः।

विचचार पुरीं सर्व्वां शून्यागारसमन्वितां ।।

अथ कौण्डिन्यविप्रस्य संजाता बुद्धिरुत्तमा ।

ममापि दुष्कृतं कर्म्म कृतं वा मे विगर्हितं ।।

अनन्ताक्षेपदोषेण ममापि गतिरीदृशी ।

अनन्तं यत्र पश्यामि तत्र यास्यामि दुर्मतिः ।।

ततो जगाम कौण्डिन्यो वनं व्याघ्रादिसङ्कुलं ।

व्रतस्यान्वेषणं कर्त्तुं पादौ द्रष्टुं तथा हरेः ।।

विह्वलः स ययौ मार्गे जनजन्तुविवर्ज्जिते ।

तत्रापश्यच्च तं वृक्षं फलपुष्पसमन्वितं ।।

वर्जितं पक्षिसङ्घातैः कीटैश्चैव विशेषतः ।

तमपृच्छत् त्वयानन्तः क्वचिद्दृष्टो महाद्रुम ।।

स चोवाच महावृक्षो नानन्तं वेद्मि भो द्विज

ततो गच्छन् ददर्शाग्रे तृणमध्ये सवत्सिकां ।।

तृणमध्ये प्रधावन्तो न खादति न जिघ्रति ।

हे महाधेनुके ब्रूहि किमनन्तस्त्वयेक्षितः ।।

सवत्सा तमुवाचाथ नानन्तं वेद्मि हे द्विज ।

ततो गच्छन् ददर्शाग्रे वृषश्रेष्ठं वने स्थितं ।।

तमपृच्छदयं विप्रः अनन्तो वीक्षितस्त्वया ।

वृषभस्तमुवाचेदं विषण्णं ब्राह्मणं प्रति ।।

यद्यनन्तमहं जाने तदा मे गतिरीदृशी ।

ततो व्रजन् ददर्शाग्रे गर्दभं कुञ्जरं तथा ।।

नानामायाप्रचरन्तं मदगर्ज्जनदर्पितं ।

स तं दृष्ट्वा द्विजोऽपृच्छदनन्तं दृष्टवान् किमु ।

प्रत्युत्तरमुवाचेदं नानन्तं वेद्मि हे द्विज ।

ततो व्रजन् ददर्शाग्रे रम्यं पुष्करिणीद्वयं ।।

अन्योन्यजलसंघातैर्व्वीचिभिरुपशोभितं ।

शुभैः कुमुदकह्लारैः कमलोत्पलशोभितं ।

भ्रमरैश्चक्रवाकैश्च हंसकारण्डवैर्युतं ।

तमपृच्छत् द्विजोऽनन्तो भवतीभ्यञ्च लक्षितः ।।

पुष्करिण्यावूचतुस्तं न जानीवो हरिं क्वचित् ।

निपपात ततो विप्रो हाहा कृत्वा रुदन् भुवि ।।

किं करोमि क्व गच्छामि कथं पश्यामि तं विभुं ।

ततः कृपालु हृदयो देवेशो देवपूजितः ।।

तत्क्षणाद्भगवान् विष्णुर्द्विजप्रत्यक्षमागतः ।

वृद्धब्राह्मणरूपेण प्रोवाच वचनं द्विजं ।।

उत्तिष्ठोत्तिष्ठ विप्रेन्द्र त्यज दुःखं सुखी भव ।

अनन्तं दर्शयिष्यामि कृष्णं विष्णुं हरिं शिवं ।।

ब्राह्मणं तं समादाय पातालवर्त्मना पुरीं ।

तां पुरीं दर्शयामास ततश्चान्तर्दधे द्विजः ।

स तां ददर्श कौण्डिन्यः पुरीं त्रैलोक्यदुर्ल्लभां

दिव्यनारीनरैर्युक्तां मणिरत्नविभूषितां ।।

सुवर्णरचितां सर्व्वां वेष्टितां तक्षकादिभिः ।

तत्रापश्यत् स कौण्डिन्यो देवदेवमनन्तकं ।।

विश्वरूपं जगन्नाथं चतुर्ब्बाहुं किरीटिनं ।

शङ्खचक्रगदापद्मधारिणं गरुडध्वजं ।।

दक्षिणे विलसल्लक्ष्मीं वामे क्रीडत्सरस्वतीं ।

सप्तफणासमायुक्तं दिव्यसिंहासनेस्थितं ।

एवं रूपं जगन्नाथं दृष्ट्वा भक्त्या स्तुतिः कृता ।

जगाम भूमौ शिरसा अनन्तस्य समीपतः ।।

नमोऽस्त्वनन्ताय सहस्रमूर्त्तये सहस्रपादाक्षिशिरोरुबाहवे ।

सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ।।

अज्ञानेन मया देव यत् कृतं पापकर्मणा ।

तत्सर्व्वं कृपया शंस क्षमस्व मधुसूदन ।। ।।

अथ कौण्डिन्यविप्रस्य स्तुतिं श्रुत्वा जनार्द्दनः ।

प्रसन्नो भगवान्देवश्चानन्तोऽनन्तरूपधृक् ।।

कथं मे प्रियमाख्यातमिहागच्छेति भूसुर ।।७ ।।

अनन्त उवाच ।

तुष्टोऽहं ब्राह्मणश्रेष्ठ भक्त्या तव विशेषतः ।

वरं गृहाण विप्रेन्द्र तुष्टोऽस्मि त्यज विस्मयं ।।

। कौण्डिन्य उवाच ।

स्वकर्म्मफलभोगेन यां यां योनिं व्रजाम्यहं ।

तस्यां तस्यां हृषीकेश हरिभक्तिर्दृढास्तु मे ।।

अतिप्रमादान्मोहाद्वा यन्मया दुष्कृतं कृतं ।

तदागः क्षम्यतां नाथ प्रणमामि पुनः पुनः ।।

श्रुत्वानन्तस्तु तद्वाक्यं ददौ तस्मै वरत्रयं ।

दारिद्रनाशनं धर्म्मं विष्णुलोकं तथाक्षयं ।०।।

कौण्डिन्य उवाच ।

पूर्णो मनोरथो देव मम चाद्य विशेषतः ।

किचित् पृच्छामि देवेश तन्मे ब्रूहि जगत्पते ।।

कश्चूतः को वृषः का गौः किन्तत् पुष्करिणीद्वयं ।

कः खरः कुञ्जरः को वा को वा वृद्धद्विजोत्तमः ।

कृपया कथयस्वाद्य पथि दृष्टो मया विभो ।

श्रीअनन्त उवाच ।

यश्चाम्रवृक्षो दृष्टो हि विप्रो विद्यासु गर्व्वितः ।

उपस्थिताय शिष्याय विद्यां यस्मान्न दत्तवान् ।

तेन कर्म्मविपाकेन वृक्षत्वं प्राप्य तिष्ठति ।

वृषभो यस्त्वया दृष्टो लोभकर्म्मकृतः पुरा ।।

दत्तं पर्य्युषितं द्रव्यं स्वादु भुक्तं स्वयं यतः ।

वृषभत्वं समासाद्य ततस्तिष्ठति निर्ज्जने ।।

विप्राय वसुधां दत्त्वा निष्फलां शस्यवर्ज्जितां ।

तेनासौ गोत्वमासाद्य तृणमध्ये प्रधावति ।।

धर्म्माधर्म्मौ विजानीयाद्यत्तत् पुष्करिणीद्वयं ।

गर्दभोऽज्ञानसम्पन्नः कुञ्जरो मदगर्वितः ।।

ब्राह्मणोऽसावनन्तोऽहं यस्त्वया दर्शितो मुने ।

एतत्ते कथितं सर्व्वं गच्छ विप्र निजाश्रमं ।।

पुनः समृद्धिस्ते विप्र भविष्यति न संशयः ।

भुक्त्वा भोगांश्च विपुलान् संप्राप्स्यसि महत् पदं ।।

इति दत्त्वा वरं तस्मै तत्रैवान्तरधीयत ।

कौण्डिन्योऽयि गृहं गत्वा करोति व्रतमुत्तमं ।।

अनन्ताख्यं महापुण्यं वर्षाणाञ्च चतुर्दशं ।

शीलया सह धर्म्मात्मा सुखं भुक्त्वा मनोरथान् ।।

विष्णुरोकं समासाद्य रराज शीलया सह ।

अनन्ताख्यव्रतेनेह समाप्तेनैव पार्थिव ।।

सर्व्वपापविनिर्म्मुक्ता यास्यन्ति परमां गतिं ।

एवमेव हि नियमात् स्त्रियोऽनन्तव्रतान्नृप ।।

पु्त्रपौत्रधनैर्युक्ता भुक्त्वा भोगान् मनोरथान् ।

विष्णुलोकमाप्नुवन्ति यावच्चन्द्रदिवाकरौ ।।

इति भविष्यपुराणे अनन्तव्रतं समाप्तं ।

पर्व ४ (उत्तरपर्व) — Adhyāya 95

श्रवणिकाव्रतम्

।। युधिष्ठिर उवाच ।। ।।

लोके प्रसिद्धाः श्रूयंते श्रावण्यो नाम देवताः ।।

एताः काः किं च कुर्वंति धर्मं चासां ब्रवीहि मे ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

विद्यंते देवताः पुण्याः श्रावण्यो नाम पांडव ।।

ब्रह्मणा प्रथमं सृष्टा नियोगश्च जने कृतः ।। २ ।।

यो यद्वदति लोकेस्मिञ्छुभं वाप्यथ वाऽशुभम् ।।

श्रावयंति हि तच्छीघ्रं ब्राह्मण्यः कर्मगोचरम् ।।३।।

जातास्त्रिलोके पूज्यास्तु नियमेन प्रजापते ।।

दूराच्छ्रवणविज्ञानं दूराद्दर्शनगोचरम् ।।४।।

तासामस्तीह सा शक्तिरचिन्त्या तर्कहेतुभिः ।।

नरैस्तुष्टैश्च यत्प्रोक्तं कार्याकार्यस्य कारणात् ।।५।।

तच्छृण्वंति यतः पार्थ नैका श्रावणिका मताः ।।

यथा देवा यथा दैत्या यथा विद्याधरा नराः।।६।।

यथा हि सिद्धगंधर्वा नागाः किंपुरुषाः खगाः।।

राक्षसाश्च पिशाचाश्च देवानामष्टयोनयः।।

तथैताः पुण्यनामानो वंद्याः श्रावणिकाः स्मृताः।।७।।

ता समुद्दिश्य कर्तव्यस्तं नारीनरैरिह ।।

किं तु तासां महोग्रं तु व्रतं संयमनं तदा ।।८।।

आघ्राय धूपं पक्वान्नं जलं चागन्ध मेव च ।।

दातव्या पुनरन्यासां नारीणां भोज्यपारणा ।।९।।

अदत्त्वा यदि मृत्युः स्यादंतरालेपि पांडव ।।

तदा लग्नग्रहैर्ग्रस्ता लग्ना ह्युपरिकारटम् ।।

सफेनिलैर्मुखै रौद्रैर्भ्रियंते नीचदुःखिताः ।। 4.95.१० ।।

श्रूयंते हि पुरा पार्थ पृथिव्यां नहुषो नृपः ।।

तस्य भार्या महादेवी जयश्रीर्नाम भारत ।। ११ ।।

प्रत्यक्षरूपसंपन्ना दर्शनीयतरा शुभा ।।

पीवरोरुस्तना श्यामा मृदुकुञ्चितमूर्द्धजा ।। १२ ।।

शब्दगद्गदसंभाषा मत्तमातंगगामिनी ।।

यथारूपा तथा शीला सती चेष्टा महीतले ।। १३ ।।

सा कदाचिद्गता स्नातुं गंगायां चाश्रमे मुनेः ।।

वशिष्ठस्य ददर्शाथ सतीं भार्यामरुंधतीम् ।। १४ ।।

भोजयंती मुनीनां तु पत्नीर्नानान्नभोजनैः ।।

तया च प्रणिपत्याथ पृष्टा देव्या महासती ।। १५ ।।

पूज्यं भगवति ब्रूहि किमेतद्व्रतमुच्यते ।। १६ ।। ।।

।। अरुन्धत्युवाच ।। ।।

जयश्रिये शृणुष्व त्वं नाम्ना श्रावणिकाव्रतम्।।

एतद्भर्त्रा समाख्यातं वशिष्ठेन महर्षिणा।।१७।।

गूढं बह्मर्षिसर्वस्वं सुपतिव्रतकं शुभम् ।।

गच्छ वा तिष्ठ वा राज्ञि तवातिध्यं करोम्यहम्।।१८।।

एवमुक्ता जयश्रीस्तु भोज्ये तस्मिन्यदृच्छया ।।

बुभुजे सापि तत्रैव अरुंधत्या कृता दरा ।। १९ ।।

भुक्त्वाचम्य जगामाथ स्वपुरं परमेश्वरम् ।।

कालेन विस्मृतं तस्यास्तद्व्रतं तस्य भोजनम् ।। 4.95.२० ।।

ततस्तु समये पूर्णे म्रियमाणा महासती ।।

जयश्रीर्घर्घरं गंतुं कुर्वाणा कंठगद्गदम् ।। २१ ।।

फेनं लालाविलाद्वक्त्रादुद्गिरंती मुहुर्मुहुः ।।

स्थिता पंचदशाहानि बीभत्सा दारुणानना ।। २२ ।।

ततः षोडशके प्राप्ते दिने स्वयमरुंधती ।।

प्रविश्याभ्यंतरं पूर्णं तां राज्ञीमवलोक्य च ।।

नहुषाय समाचख्यौ यदुक्तं श्रावणी व्रते ।। २३ ।।

तच्छुत्वा नहुषो राजा द्रुतं भोज्यं प्रचक्रमे ।।

यथोक्तं तदरुंधत्या यच्च यावदभीप्सितम् ।। २४ ।।

दत्वा च करकानष्टौ तामुद्दिश्य जयश्रियम् ।।

क्षणाज्जगाम पञ्चत्वं करकाणां प्रदानतः ।। २५ ।।

जगाम शक्रलोकं सा विमानेनार्कवर्चसा ।।

दोधूयमाना चमरैः स्तूयमाना सुरा सुरैः ।। २६ ।।

।। श्रीकृष्ण उवाच ।। ।।

मार्गशीर्षादिमासेषु द्वादशस्वपि पांडव ।।

द्रव्यप्राप्तिश्च भक्तिश्च दानकाले प्रशस्यते ।। २७ ।।

भुक्त्वा यज्ञे चतुर्दश्यामष्टम्यां वा युधिष्ठिर ।।

व्रती स्नात्वा तु पूर्वाह्णे नद्यादौ विमले जले ।। २८ ।।

आमंत्रयेद्दशैकैका नारीर्गौरीस्वरूपिणीः ।।

यताचाराः सुवेषाश्च ब्राह्मणीर्वा स्वगोत्रजाः ।। २९ ।।

द्वादश ब्राह्मणांस्तत्र वेदवेदांगपारगान् ।।

मंत्रज्ञानितिहासज्ञानुपशांताञ्जितेन्द्रियान् ।। 4.95.३० ।।

सर्वं दद्याद्विधानेन पादक्षालनपूर्वकम् ।।

चंदनेन सुगन्धेन पुष्पधूपादिना तथा ।। ३१ ।।

ग्रीवासूत्रकसिंदूरकुंकुमेन च भूषयेत् ।।

तासामग्रे प्रदातव्या वर्द्धन्यो द्वादशैव तु ।। ३२ ।।

अच्छिद्रा जलपूर्णास्तु सुवृत्ताः सूत्रवेष्टिताः ।।

सोहालकादिभिश्च्छन्नाः पुष्पमालाविभूषिताः ।। ३३ ।।

चंदनेन समालब्धाः सहिरण्याः पृथक्पृथक् ।।

तन्मध्ये वर्द्धनीं चैकां स्वके शीर्षे निवेशयेत् ।। ३४ ।।

स्थित्वा मण्डलके मध्ये यजमानः स्वयं तदा ।।

यद्बाल्ये यच्च कौमारे वार्द्धके वापि यत्कृतम् ।।

तत्सर्वं नाशमायातु पितृदेवर्षिणां नृणाम् ।। ३५ ।।

इमा मे समयं स्वर्णं तारयस्व भवार्णवात् ।।

अद्याहं गन्तुमिच्छामि विष्णोः पदमनुत्तमम् ।।

एवमस्त्विति ता ब्रूयुः स्त्रियः सर्वा युधिष्ठिर ।। ३६ ।।

ततो ब्राह्मणमाहूय यजमान इदं वदेत् ।।

ब्रूहि ब्राह्मण यन्मे त्वमघं येन क्षयं व्रजेत् ।। ३७ ।।

उत्तीर्य श्रावणं मासं समुत्तारय सांप्रतम् ।।

उत्तारयेत मंत्रेण ब्राह्मणो वर्धनी च ताम् ।। ३८ ।।

उपोष्य शिरसो देव्याः समुत्तीर्य रुहद्रुमान् ।।

कटुकं निंबवृक्षं वा ततो मधुकमारुह ।।

ततो गच्छ महादेवं श्रवणे श्रवणोत्तमे ।। ३९ ।। इति वर्धनिकोत्तारणमन्त्रः ।।

एवं ताः समयं प्रोच्य दत्त्वाशीर्वचनानि च ।।4.95.४०।।

तां वर्द्धनिकामेकान्ते विप्राय प्रतिपादयेत् ।।

गृहीत्वा करकान्नार्य्यो व्रजेयुः स्वेषु वेश्मसु ।। ४१ ।।

यजमानोऽपि यातासु यथेष्टं काममाचरेत् ।।

एवमाचरते पार्थ श्रावणीव्रत मादरात् ।।४२।।

तस्य काले तु संप्राप्ते सुखं मृत्युः प्रजायते ।।

निर्व्याधिर्नीरुजो भोगी स्थित्वास्थित्वा शतं सुखम् ।। ४३ ।।

पुत्रपौत्रसमृद्ध्यादौ भुक्त्वा मर्त्यसुखानि च ।।

रुद्रलोकमवाप्नोति सोमलोकं स गच्छति ।। ४४ ।।

स्त्रीणां तुल्यं स हीनोऽपि व्रती व्रतफलं व्रजेत् ।।

गौरीभोज्येषु दत्तेषु एकादशसु यत्फलम् ।। ४५ ।।

तदेकेनापि लभते पार्थ श्रावणिकाव्रते ।।

भक्त्या गच्छंति ते लोकान्विहृत्य सुखमादरात् ।। ४६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रवणिकाव्रतं नाम पञ्चनवतितमोऽध्यायः ।। ९५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 96

श्रीकृष्णयुधिष्ठिरसंवादवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथ नक्तोपवासस्य विधानं शृणु पांडव ।।

येन विज्ञातमात्रेण नरो मोक्षमवाप्नुयात् ।। १ ।।

येषु तेषु च मासेषु शुक्लपक्षे चतुर्दशीम् ।।

ब्राह्मणं भोजयित्वा तु प्रारभेत ततो व्रतम् ।। २ ।।

मासिमासि भवंति द्वावष्टम्यौ च चतुर्दशी ।।

शिवार्चनरतो भूत्वा शिवध्यानैकमानसः ।।

वसुधाभाजनं कृत्वा भुञ्जीयान्नक्तभोजनम् ।। ३ ।।

उपवासात्परं भैक्ष्यं भैक्ष्यात्परमयाचितम् ।।

अयाचितात्परं नक्तं तस्मान्नक्तेन भोजयेत् ।। ४ ।।

देवैश्च भुक्तं पूर्वाह्णे मध्याह्ने मुनिभिस्तथा ।।

अपराह्णे च पितृभिः सन्ध्यायां गुह्यकादिभिः ।। ५ ।।

सर्वलोकानतिक्रम्य नक्तभोजी सदा भवेत् ।।

हविष्य भोजनं स्नानं सत्यमाहारलाघवम् ।। ६ ।।

अग्निकार्यो ह्यधःशय्यो नक्तभोजी सदा भवेत् ।।

एवं संवत्सरस्यांते व्रतपूर्णस्य सर्पिषा ।।

पूर्णकुम्भोपरिस्थाप्य पूजयेच्च सुशोभने ।। ७ ।।

कपिलापञ्चगव्येन स्थापयेन्मृन्मयं शिवम् ।।

फलं पुष्पं यवक्षीरं दधि दूर्वांकुरांस्तथा ।।८ ।।

तत्कुम्भानां जलोन्मिश्रमर्घमष्टांगमुच्यते ।।

शिरसा धारयित्वा तु जानू कृत्वा महीतले ।। ९ ।।

महादेवाय दातव्यं गन्धपुष्पं यथाक्रमम् ।।

भक्ष्योदेनैर्बलिं कृत्वा प्रणम्य परमेश्वरीम् ।। 4.96.१० ।।

धेनुं वा दक्षिणां दद्याद्वृषं वापि धुरंधरम् ।।

श्रोत्रियाय दरिद्राय कल्पव्रतविदाय च ।।

यो ददाति शिवे भक्त्या तस्य पुण्यफलं शृणु ।। ११ ।।

विमानमर्कप्रतिमं हंसयुक्तमलंकृतम्।।

आरूढोऽप्सरसां गीतैर्याति रुद्रालये सुखम् ।। १२ ।।

स्थित्वा रुद्रस्य भवने वर्षकोटिशतत्रयम् ।।

इह लोके नृपश्रेष्ठ ग्रामलक्षेश्वरो भवेत् ।। १३ ।।

यश्चाष्टमीषु च शिवासु चतुर्दशीषु नक्तं समाचरति शास्त्रविधान दृष्टम् ।।

स्वर्गांगनाकलरवाकुलितं विमानमारुह्य याति स सुखेन सुरेशलोकम् ।। १४ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे षण्णवतितमोऽध्यायः ।। ९६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 97

शिवचतुर्दशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शृणुष्वावहितो राजन्वक्ष्ये माहेश्वरं व्रतम् ।।

त्रिषु लोकेषु विख्यातं नाम्ना शिवचतुर्दशी ।। १ ।।

मार्गशीर्षत्रयोदश्यां सितायामेकभुङ्नरः ।।

मासेष्वन्येषु वा राजन्पार्थ एवं न कारयेत् ।। २ ।।

चतुर्दश्यां निराहारः समभ्यर्च्य महेश्वरम् ।।

सौवर्णं वृषभं दत्त्वा भक्ष्यामि च परेऽहनि।। ३ ।।

एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः ।।

कृतस्नानजपः पश्चादुमया सह शंकरम् ।।

पूजयेत्कुसुमैः शुक्लैर्गंधधूपानुलेपनैः ।। ४ ।।

पादौ नमः शिवायेति शिरः सर्वात्मने नमः ।।

ललाटं तु त्रिनेत्राय नेत्राणि हरये नमः ।। ५ ।।

मुखमिन्दुमुखायेति तथेशानाय चोदरम् ।।

पार्श्वे चानंतधर्माय ज्ञानरूपाय वै कटिम् ।। ६ ।।

ऊरू चानन्त्यवैराग्यं जानुनी चार्चयेद्बुधः ।।

प्रधानाय नमो जंघे गुल्फौ व्योमात्मने नमः ।। ७ ।।

व्योमव्योमात्मरूपाय पृष्ठमभ्यर्चयेन्नरः ।।

नमः सृष्ट्यै नमस्तुष्ट्यै पार्वतीं चापि पूजयेत् ।। ८ ।।

ततश्च वृषभं हैममुदकुम्भसमन्वितम् ।।

शुक्लमाल्यांबरयुतं पञ्चरत्नविभूषितम् ।। ९ ।।

भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् ।।

प्रीयतां देवदेवोऽत्र सद्योजातः पिनाकधृक्।। 4.97.१० ।।

पृषदाज्यं च संप्राश्य स्वप्याद्भूमावुदङ्मुखः ।।

पञ्चदश्यां ततः प्रातः सर्वमेतत्समाचरेत् ।। ११ ।।

तर्पयित्वा ततोन्नेन ब्राह्मणाञ्छक्तितः शुभान् ।।

सुहृत्पदातिसहितः पश्चाद्भुञ्जीत वाग्यतः ।। १२ ।।

ततः कृष्णचतुर्दश्यामेतत्सर्वं समाचरेत् ।।

चतुर्दशीषु सर्वासु कुर्यात्पूर्ववदर्चनम् ।। १३ ।।

ये च मासे विशेषाः स्युस्तान्निबोध क्रमादिह ।।

मार्गशीर्षादिमासेषु स्वपन्नेतानुदीरयेत् ।। १४ ।।

शंकराय नमस्तुभ्यं नमस्ते करवीरक ।।

त्र्यंबकाय नमस्तुभ्यं महेश्वरमतः परम् ।। १५ ।।

नमस्तेऽस्तु महादेव स्थाणवे च ततः परम् ।।

नमः पशुपते नाथ नमस्ते शंभवे नमः ।। १६ ।।

नमस्ते परमानंद नमः सोमार्द्धधारिणे ।।

नमो भीमाय चोग्राय त्वामहं शरणं गतः ।। १७ ।।

गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।।

पंचगव्यं तथा बिल्वं यवागूक्षीरवारिजम् ।। १८ ।।

तिलांश्च कृष्णान्विधिवत्प्राश्नीयात्समुदाहृतान् ।।

प्रतिमासं चतुर्दश्यामेकैकं प्राशनं स्मृतम् ।। १९ ।।

मंदारैर्मालतीभिश्च तथा धत्तूकैरपि ।।

सिंदुवारैरशोकैश्च मल्लिकाकुब्जपाटलैः ।। 4.97.२० ।।

अर्कपुष्पैः कदंबैश्च शतपत्रैस्तथोत्पलैः ।।

करवीरैश्च राजेन्द्र तथा पूज्यो महेश्वरः ।। २१ ।।

एकैकेन चतुर्दश्यामर्चयेत्पार्वतीपतिम् ।।

पुनश्च कार्त्तिके मासि संप्राप्ते तर्पयेद्द्विजान् ।। २२ ।।

अन्नैर्नानाविधैर्भक्ष्यैर्वस्त्रैर्माल्यविभूषणैः ।।

कृत्वा नीलं वृषोत्सर्गं श्रुत्युक्तविधिना नरः।।२३।।

उमामहेश्वरं हैमं वृषभं च गवा सह।।

मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम्।।२४।।

सर्वोपस्करयुक्तायां शय्यायां विनिवेदयेत्।।

उदकुंभयुतं तद्वच्छालितंदुलसंयुतम्।।२५।।

स्थाप्य विप्राय शांताय वेदव्रतपराय च।।

ज्येष्ठसामविदे देयं न च कुर्वंति ते क्वचित्।।२६।।

अव्यंगाय च सौम्याय सदाकल्याणकारिणे ।।

सपत्नीकाय संपूज्य माल्यवस्त्रविभूषणैः ।।

न वित्तशाठ्यं कुर्वीत कुर्वंल्लोभात्पतत्यधः ।। २७ ।।

अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम् ।।

सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।। २८ ।।

ब्रह्महत्यादिकं पापं यदत्रामुत्र वा कृतम्।।

पितृभिर्मातृभिर्वापि तत्सर्वं नाशमाप्नुयात् ।। २९ ।।

दीर्घायुरारोग्यकुलाभिवृद्धिरत्राक्षयान्यत्र चतुर्भुजत्वम् ।।

गणाधिपत्यं दिवि कल्पकोटी स्वर्गे उषित्वा पदमेति शंभोः ।। 4.97.३० ।।

न बृहस्पतिरप्यत्मन्नरस्य फलमिंद्रो न पितामहोऽपि वक्तुम् ।।

न च सिद्धगुणोरऽप्यलं न वाहं यदि जिह्वायुतकोट्यपीह वक्त्रे ।। ३१ ।।

भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोत्यपि विमत्सरः सकलपापनिर्मोचनीम् ।।

इमां शिवचतुर्दशीममरकामिनीकोटयः स्तुवंति दिवि नंदिता किमु समाचरेद्यः सदा ।। ३२ ।।

या पार्थ नारी कुरुतेऽतिभक्त्या भर्त्तारमापृच्छ्य शुभं गुरुं वा ।।

सापि प्रसादात्परमेश्वरस्य परं पदं याति पिनाकपाणेः ।। ३३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद शिवचतुर्दशीव्रतवर्णनं नाम सप्तनवतितमोऽध्यायः ।। ९७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 98

फलत्यागचतुर्दशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

तथा सर्वफलत्यागमाहात्म्यं शृणु भारत ।।

यदक्षयं परे लोके सर्वकामफलप्रदम् ।। १ ।।

मार्गशीर्षे शुभे मासि चतुर्दश्यां धृतव्रतः ।।

आरंभे शुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ।। २ ।।

अन्येष्वपि तु मासेषु अष्टम्यां नरसत्तम ।।

सदक्षिणापायसेन शक्तितः पूजयेद्द्विजान्।।३।।

अष्टादशानां धान्यानामन्यत्र फलमूलकम् ।।

वर्जयेदब्दमेकं तु विधिनौषधकारकम् ।। ।। ४ ।।

ततः संवत्सरस्यांते चतुर्दश्यष्टमीषु च ।।

अशक्तश्च व्रतं कर्तुं सहसैव प्रमुच्यते ।।५।।

सौवर्णं कारयेद्रुद्रं धर्मराजं तथैव च ।।

कूष्माण्डं मातुलुंगं च वृंताकं पनसं तथा ।।६।।

आम्राम्रातकपित्थं च कलिंगं सेर्ववारुकम्? ।।

श्रीफलं सवटाश्वत्थं जंबीरं कदलीफलम् ।।७।।

बदरं दाडिमं शक्त्या कार्याण्येतानि षोडश ।।

मूलकामलकं जंबूपुष्करं करमर्दकम् ।। ८ ।।

उदुंबरं नालिकेरं द्राक्षा च बृहतीद्वयम् ।।

कंकाली काकतुंडीरं करीरकुटजं शमी ।। ९ ।।

रौप्याणि कारयेच्छक्त्या फलानीमानि षोडश ।।

ताम्रं तालफलं कुर्यादगस्त्यफलमेव वा ।। 4.98.१० ।।

पिंडीरकं च खर्जूरं तथा सूरण कंदकम् ।।

पनसं लकुचं चैव कर्कटं तिंतिडिं तथा ।। ११ ।।

चित्रावल्लीफलं तद्वत्कूटशाल्मलिकाफलम् ।।

मधूकं कारवेल्लं च वल्लीं गुदपटोल कम् ।।१२।।

कारयेच्छक्तितो धीमान्फलान्येतानि षोडश ।।

उदकुंभद्वयं कुर्यादान्योपरि सवाससम् ।।

पक्षपात्रद्वयोपेतं यमरुद्रसमन्वितम्।।१३।।

धेन्वा सहैव शांताय विप्रायाथ कुटुंबिने ।।

सपत्नीकाय संपूज्य पुण्येहनि निवेदयेत् ।। १४ ।।

यथा फलेषु सर्वेषु वसंत्यमरकोटयः ।।

तथा सर्वफलत्यागाच्छिवे भक्तिः सदास्तु मे ।। १५ ।।

यथा शिवश्च धर्मश्च सदानन्तफलप्रदौ ।।

तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ ।। १६ ।।

यथा फलानां कामस्य शिवभक्तस्य सर्वदा ।।

यथानंतफलावाप्तिरस्तु जन्मनिजन्मनि ।। १७ ।।

यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजाम् ।।

तथा ममास्तु विश्वात्मा शङ्करः शंकरः सदा ।। १८ ।।

इत्युच्चार्य च तत्सर्वमलंकृत्य विभूषणैः ।।

शक्तश्चेच्छयनं दद्यात्सर्वोपस्करसंयुतम् ।।

अशक्तस्तु फलान्येव यथोक्तानि विधानतः ।। १९ ।।

तथोदकुंभसहितौ शिवधर्मौ च कांचनौ ।।

विप्राय दत्त्वा भुञ्जीत तैलक्षारविवर्जितम् ।।

अन्यानपि यथा शक्त्या भोजयेद्द्विजपुङ्गवान् ।। 4.98.२० ।।

न शक्नोति विहातुं चेत्सर्वाण्यपि फलान्युत ।।

एकमेव परित्यज्य तदित्थं प्रतिपादयेत् ।। २१ ।।

एतत्त्यागव्रतानां तु गवे वैष्णवयोगिनाम् ।।

शस्तं सर्वफलत्यागं व्रतं वेदविदो विदुः ।।

नारीभिश्च यथाशक्त्या कर्तव्यं राजसत्तम ।। २२ ।।

नैतस्मादपरं किञ्चिदिह लोके परत्र च ।।

व्रतमस्ति मुनिश्रेष्ठ यदन्नं तत्फलप्रदम् ।।२३।।

सौवर्णरौप्यताम्रेषु यावंतः परमाणवः।।

भवंति चूर्यमाणेषु फलेषु नृपसत्तम ।।

तावद्युगसहस्राणि रुद्रलोके महीयते ।। २४ ।।

एतत्समस्तकलुषापहरं जनानामाजीवनाय मनुजेश्वर सर्वदा स्यात् ।।

जन्मान्तरेष्वपि न पुत्रकलत्रदुःखमाप्नोति धाम स पुरंदरजुष्टमेव ।। २५ ।।

यो वा शृणोति पुरुषोल्पधनो नरो वा यो ब्राह्मणस्तु भवनेषु च धार्मिकाणाम्।।

पापैर्विमुक्तश्च परत्र पुरं मुरारेरानंदकृत्परमुपैति नरेन्द्र सोपि ।।२६।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे फलत्याग चतुर्दशीव्रतवर्णनं नामाष्टनवतितमोऽध्यायः ।। ९८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 99

पौर्णमासीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पौर्णमासी महाराज सोमस्य दयिता तिथिः ।।

पूर्णमासो भवेद्यस्यां पौर्णमासी ततः स्मृता ।। १ ।।

पौर्णमास्यां च संजातः संग्रामो जयलक्षणः ।।

सोमस्यारिबुधैः सार्द्धं सर्वसत्त्वभयंकरम् ।। ।। २ ।।

तारायां चन्द्रमाः सक्तस्तस्या भर्ता बृहस्पतिः ।।

तयोरभून्महायुद्धं भार्याकृत्येषु वै पुरा ।। ३ ।।

।। युधिष्ठिर उवाच ।।

तारा कस्य सुता कस्मात्स क्रुद्धः ससुरारिहा ।।

सोमेन सह संग्रामं चक्रे चक्रगदाधर ।। ४ ।।

।। श्रीकृष्ण उवाच ।। ।।

प्रजापतेरभूत्कन्या तारा वृत्रस्य चानुजा ।।

तां बृहस्पतये प्रादात्पृथिव्यामेकसुंदरीम् ।। ५ ।।

देवाचार्याय सा भार्या त्वनिर्देश्या तथाविधा ।।

रूपेणाभ्यां रूपवती सा निर्धूय व्यवस्थिता ।। ६ ।।

बृहस्पतिं पर्यचरद्यथा चान्याः स्त्रियः क्वचित् ।।

तां ददर्शायतापांगीं तन्वंगीं चारुहासिनीम् ।। ७ ।।

शीतांशुर्दर्शनादेव कामस्य वशमीयिवान् ।।

आबभाषे च मधुरं तारे एह्येहि मा चिरम् ।। ८ ।।

इंगिताकारकुशला तारा सोमस्य चेष्टितम् ।।

बुद्ध्वा शुद्धिमथो तन्वी प्राहेदं मधुराक्षरम् ।। ९ ।।

मुनेरंगिरसः पुत्रस्त्वं च सौम्योऽसि सोमराट् ।।

अंगिरसो मुनेर्वीर स्नुषाहमुचितं न ते ।।

सह सौम्येन यो योगस्तव सिद्धोऽ द्भुतो महान् ।। 4.99.१० ।।

अंगिरास्त्वां किल पुरा ससुरासुरराक्षसैः ।।

राजत्वे स्थापयामास नैतत्स्मरसि किं विधो ।। ११ ।।

कथमद्य निशानाथ ह्यनंगेनासि पीडितः ।।

तस्माद्ब्रवीमि सिद्धिं ते रोचये घटितं कुरु ।।

परवत्यस्मि भद्रं ते न गम्यास्मि बुधोत्तम ।। १२ ।।

एवमुक्तस्तथा चासौ न चैतत्कृतवांस्ततः ।।

गृहीत्वाकर्षयामास सोमोऽनंगवशीकृतः ।। १३ ।।

बृहस्पतिस्तु तां ज्ञात्वा स तं सोममगर्हयत् ।।

प्रेषयिष्यति मे भार्यां स्वयमेव ममांतिकम् ।। १४ ।।

एवं चिरेण विज्ञाय बृहस्पतिरुदारधीः ।।

नाससाद स्वकां भार्यां रोषात्प्रस्फुरिताधरः ।। १५ ।।

आचख्यौ सर्वमिन्द्राय सोमस्येदं विचेष्टितम् ।।

इंद्रः समाह्वयामास देवानृषिगणांस्तथा ।। १६ ।।

न सोमो गणयामास ततोऽबुध्यत देवराट् ।।

आकार्यं त्रिदशान्सर्वानाचख्यौ चन्द्रचेष्टितम् ।। १७ ।।

तच्छ्रुत्वा देवगंधर्वाः क्रोधान्धाः क्षुब्धमानसाः ।।

प्रगृहीतप्रहरणा रथानारुरुहुः स्वकान्।। १८ ।।

सोमोऽपि देवान्सोद्योगाञ्ज्ञात्वा सुकृतनिश्चयान् ।।

दैत्यदानवरक्षांसि समानीय व्यवस्थितः ।। १९ ।।

आरुह्य च रथश्रेष्ठं युद्धायैव मनो दधे ।।

प्रवृत्तं सुमहद्युद्धं शरतोमरकंपनैः ।। 4.99.२० ।।

कौणपैः क्ष्मासुरैः शूलैर्देवदानवदारणम् ।।

स तेषां सुमहद्युद्धं दत्त्वा तारागणाधिपः।।।

बभंज देवान्सेन्द्रांश्च हेमवृष्ट्या क्षपाकरः ।। २१ ।।

स जित्वा देवगन्धर्वान्सोमो राजन्यसत्तम ।।

श्रिया परमया युक्तो यथा नान्यो हविर्भुजाम् ।। ।। २२ ।।

देवाश्च निर्जितास्तेन सोमेनामिततेजसा ।।

आजग्मुः शरणं देवं शरण्यं स्वर्गवासिनाम् ।। २३ ।।

इन्द्रः सर्वं समाचख्यौ सोमस्येदृग्विचेष्टितम् ।।

श्रुत्वा क्रुद्धो हृषीकेश आरुह्य गरुडं रुषा ।।

गृहीत्वा चायुधं श्रेष्ठं युद्धायैव मनो दधे ।। २४ ।।

प्रकर्तुं सुमहद्युद्धं चक्रशार्ङ्गगदा धरः ।।

जगाम विबुधैः सार्धं सोमस्योपरि रोषितः ।। २५ ।।

विष्णुं विदित्वा संप्राप्तं सोमो दैत्यगणैः सह ।।

युद्धाय समरामर्षी स्थितः प्रध्माय वारिजम् ।। २६ ।।

स जित्वा देवसंघातं सेंद्रं वायुपुरस्सरम् ।।

विष्णुना सह संयुक्तः शस्त्रास्त्रैरसुभोजनैः ।। २७ ।।

यदा नासावुपरमेद्युद्धाय सह विष्णुना ।।

तदाऽऽददे रुषा विष्णुश्चकं क्रोधसमन्वितः ।। २८ ।।

अथाह ब्रह्मा देवेशमजितं विष्णुमव्ययम् ।।

योऽसौ मेघप्रपुष्टांगं यत्त्वां वच्मि निबोध तत् ।। २९ ।।

नास्ति वध्यं त्रिभुवने चक्रस्यास्य तवानघ ।।

सोमो द्विजाधिपत्ये च मया समभिषेचितः ।। 4.99.३० ।।

तस्माद्यद्युज्यते देवकार्येऽस्मिंस्तद्विधीयताम् ।।

अथाह भगवान्विष्णुः सुरब्रह्मर्षिसन्निधौ ।। ३१ ।।

सिनीवाली कुहूर्नाम तस्यां नष्टः क्षपाकरः ।।

विनष्टोऽपि पुनर्जन्म प्राप्स्यतीति न संशयः ।। ३२ ।।

राकां चानुमतिं प्राप्य वृद्धिरस्य भविष्यति ।।

आप्यायितश्च श्रुत्युक्तैः पितृपिण्डैः समंत्रकैः ।।

ब्राह्मणैर्हव्यकव्यानि देवेभ्यः प्रापयिष्यति ।। ३३।।

वृद्धिः कृष्णेन चैवास्य न च जातस्य भूयसी ।।

एवमेव विधिर्दृष्टस्तस्याप्याय नमेव मे ।। ३४ ।।

अमोघस्य न मोघत्वं भविष्यति कदाचन ।।

शप्तश्च सोमो दक्षेण स चावश्यं भविष्यति ।। ३५ ।।

सुदर्शनस्य च प्रीतिरेवमेव भविष्यति ।।

एवमस्त्विति देवेश यद्भवान्प्रब्रवीति वै ।। ३६ ।।

ब्रह्मा प्रोवाच सोमं तु विनीतवदुपस्थितम् ।।

अर्पयस्व गुरोर्भार्यां न कार्यं पुनरीदृशम् ।। ३७ ।।

स तथोक्तः समानीय ददौ तारां बृहस्पतेः ।।

पुनरूचे शशी स्पष्टं शृण्वतां त्रिदिवौकसाम् ।।३८ ।।

अस्यां गर्भो मदीयोऽयं यदपत्यं ममैव तत् ।।

बृहस्पतिरथोवाच मया गर्भः समाहितः ।। ३९ ।।

क्षेत्रे मदीये चोत्पन्नस्तस्मात्स मम पुत्रकः।।

उक्तं च वेदशास्त्रज्ञैर्षिभिर्द्धर्मदर्शिभिः ।। 4.99.४० ।।

उप्तं वाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।।

क्षेत्रिणस्तस्य तद्बीजं न बीजी फलभाग्भवेत् ।। ४१ ।।

सम्यगुक्तं न भवता शशांकः प्राह तत्त्ववित् ।।

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।।

इति पौराणिकाः प्राहुर्मुनयो नयचक्षुषः ।। ४२ ।।

विवदंतौ निवार्याथ ब्रह्मा प्रोवाच तां वधूम् ।।

शनैरेकांतमानीय गर्भोयं कस्य शंस मे ।। ४३ ।।

एवमुक्ता तु सा तारा ह्रिया नोवाच किंचन ।।

उत्ससर्ज क्षणाद्गर्भं भाभासितसुरालयम् ।। ४४ ।।

तमुवाच ततो ब्रह्मा पुत्र कस्य सुतो भवान् ।।

सोमस्याहं सुतो ब्रह्मन्निति तथ्यं मयोदितम् ।। ।। ४५ ।।

बुधोऽयं विबुधाः प्राहुः सर्वज्ञानविदां वरः ।।

गृहीत्वा पुत्रकं सोमो जगाम स्वं निवेशनम् ।। ४६ ।।

गुरुर्गृहीत्वा स्वां भार्यां जगाम भवनं शनैः ।।

सोमोऽपि तनयं लब्ध्वा हर्षव्याकुलमानसः ।। ४७ ।।

पौर्णमासी समाख्याता प्राप्तपूर्णमनोरथा ।।

प्राप्तः पुत्रो मया ह्यस्यां लब्धश्च वि जयस्तथा ।।४८।।

तस्मादेनामुपासिष्ये विधिना व्रततत्परः।।

एवमन्योऽपि पूर्णार्थः पूर्णांशः पूर्णलक्षणः ।।४९।।

यो मामक्यां तिथौ भक्त्या विधिवत्पूजयिष्यति ।।

तस्य प्रसादाभिमुखः सर्वकामप्रदो ह्यहम् ।। 4.99.५० ।।

एवमेषा तिथिः पार्थ सोमस्य दयिता शुभा ।।

पौर्णमासी समाख्याता पूर्णो मासो भवेद्यथा ।। ५१ ।।

तदस्यां स्रोतसि स्नात्वा संतर्प्य पितृदेवताः ।।

आलिख्य मंडले सोमं नक्षत्रैः सहितं विभुम् ।। ५२ ।।

पूजयेत्कुसुमैर्हृद्यैर्नैवेद्यैर्घृतपाचितैः ।।

शुक्लाक्षतैः शुक्लवस्त्रैः पूजयित्वा क्षमापयेत्।।

शाकाहरणमुन्यन्नैर्नक्तं भुञ्जीत वाग्यतः ।। ५३ ।।

वसंतबांधव विधो शीतांशो स्वस्ति नः कुरु ।।

गगनार्णवमाणिक्य चन्द्र दाक्षायणीपते ।। ५४ ।।

पक्षेपक्षे पौर्णमास्यां विधिरेष प्रकीर्तितः ।।

कृष्णपक्षेऽपि यः कश्चिच्छ्रद्धावान्वै व्रती भवेत् ।। ५५।।

तस्याप्येष विधिः प्रोक्तः सर्वसौख्यप्रदायकः ।।

आमावास्या तिथिरियं पितॄणां दयिता सदा ।।

अस्यां दत्तं तपस्तप्तं पितॄणामक्षयं भवेत् ।। ५६ ।।

अमावास्या महाराज प्रयत्नैर्यैरुपोषिता ।।

तैरक्षय्यं भवेद्दत्तं पितृभ्यस्तीर्थमुत्तमम् ।। ५७ ।।

यः कश्चित्कुरुते तस्मिन्पितृपिण्डोदकक्रियाम् ।।

स तारयति पुण्यात्मा पुरुषानेकविंशतिम् ।। ५८ ।।

भवेयुरक्षयास्तस्य लोकाः पितृनिषेविताः ।।

यदा तु इह कालांते तस्यात्रागमनं भवेत् ।। ५९ ।।

ब्राह्मणः पितृभक्तश्च सर्वविद्याविशारदः ।।

एवं जन्मनि राजेन्द्र भवेद्धनसमन्वितः ।। 4.99.६० ।।

एवं संवत्सरस्यांते हैमं कृत्वा सुशोभनम् ।।

सोमं नक्षत्रसहितं विप्राय प्रतिपादयेत् ।। ६१ ।।

उपदेशं प्रयच्छेद्यस्तस्मै व्रतकृते नरः ।।

संपूज्य वस्त्राभरणैर्मंत्रेणेत्थं निवेदयेत् ।।

मासेमासे विधिरयं व्रतस्यास्य नराधिप ।। ६२ ।।

यो न शक्नोति वा कर्तुं पक्षं वाथ निरंतरम् ।।

स एकामप्युपोष्यैव कुर्यादुद्यापनं सुधीः ।। ६३ ।।

यश्चैतत्कुरुते पार्थ पौर्णमासीव्रतं नरः ।।

सर्वपापविनिर्मुक्तश्चन्द्रवद्दिवि राजते ।। ६४ ।।

पुत्रपौत्रधनोपेतो यज्वा दाता प्रियंवदः ।।

संततिं विपुलां प्राप्य प्रयागे मरणं भजेत् ।। ६५ ।।

ततश्चैवाक्षयाँल्लोकान्प्राप्नोति सुरसेवितान् ।।

सेव्यमानः स गन्धर्वैः स्तूयमानः सुरासुरैः ।।

आस्ते संपूर्णसर्वांगो यावत्कल्पायुतत्रयम् ।। ६६ ।।

अभ्यर्चयंति सितपञ्चदशीषु सोमं कृष्णासु ये पितृगणं जलपिंडदानैः ।।

तेषां गृहाणि धन धान्यसुतादिसंपत्पूर्णानि पार्थिव भवंति विधेर्विधानात् ।। ६७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयपौर्ण मासीव्रतवर्णनं नाम नवनवतितमोऽध्यायः ।। ९९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 100

वैशाखीकार्त्तिकीमाघीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

संवत्सरे च याः काश्चित्तिथयः पुण्यलक्षणाः ।।

ता मे वद यदुश्रेष्ठ स्नाने दाने महाफलाः ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

वैशाखी कार्तिकी माघी तिथयोऽतीव पूजिताः ।।

स्नानदानविहीनैस्ता न नेयाः पांडुनन्दन ।। २ ।।

तीर्थस्नानं तदा शस्तं दानं वित्तानुरूपतः ।।

वैशाख्यां पांडवश्रेष्ठ श्रेष्ठा द्योतनिका मता ।। ३ ।।

कार्त्तिक्यां पुष्करारण्यं माघ्यां वाराणसी स्मृता ।।

स्नानेनोदकदानेन तारयत्यपि दुष्कृतीन् ।।४।।

कुंभान्स्वछांभसः पूर्णान्सहिरण्यान्नसंयुतान्।।

वैशाख्यां ब्राह्मणो दत्त्वा न शोचति कृते व्रते ।। ५ ।।

मधुरान्नरसैः पूर्णान्भाजनान्कनकोज्ज्वलान् ।।

गोभूहिरण्यवासांसि विधिवत्प्रतिपादयेत् ।। ।। ६ ।।

माघ्यां मघासु च तथा संतर्प्य पितृदेवताः ।।

तिलपात्राणि देयानि तिलांश्च पललौदनम् ।। ७ ।।

कार्पासदानमत्रैव तिलदानं च शस्यते ।।

कंबलाजिनरत्नानि मोचकौ पापमोचकौ ।।८।।

उपानद्दानमत्रैव कथितं सर्वकामदम् ।।

यत्र वा तत्र वा स्नानं दानं वित्तानुरूपतः ।।९।।

कलिकालोद्भवं सर्वं शस्यते पांडुनन्दन ।।

कार्तिक्यां तु वृषोत्सर्गो विवाहः पुण्यलक्षणः ।।

कार्यं कुरुकुलश्रेष्ठ हरेर्नीराजनं तथा ।। 4.100.१० ।।

गजाश्वरथदानं च घृतधेन्वादयस्तथा ।।

प्रदेयाः पुण्यकृद्भिश्च तास्ताः संकल्प्य देवताः ।। ११ ।।

फलानि यानि विद्यंते सुगन्धिमधुराणि च ।।

जातीफलं च कंकोलं लवंगं लवलीफलम् ।। १२ ।।

खर्जूरीं नालिकेरांश्च कदल्याश्च फलानि च ।।

दाडिमान्मातुलुंगांश्च कर्कोटांस्त्रपुसांस्तथा ।। ।। १३ ।।

वृंताकान्कारवेल्लांश्च बिंबान्कूष्मांडकर्बुरान् ।।

अप्रदानेन येषां तु तिथयो यांति भारत ।।

ते व्याधिता दरिद्राश्च जायंते भुवि मानवाः ।। ।। १४ ।।

न केवलं ब्राह्मणानां दानं सर्वस्य शस्यते ।।

भगिनीभागिनेयानां मातुलानां पितृष्वसुः ।।

दरिद्राणां च बंधूनां दानं कोटिगुणोत्त रम् ।। १५ ।।

मित्रं कुलीनश्चापन्नो वधुर्दारिद्र्यदुःखितः ।।

आशयाभ्यागतो दूरात्सोतिथिः स्वर्गसंक्रमः ।।१६।।

वनं प्रस्थापिते रामे ससीते सह लक्ष्मणे ।।

मातामहकुलादेत्य विशुद्धेनांतरात्मना ।।

सा सर्वेः श्रावितानेकैः कोशल्या भरतेन वै ।। १७ ।।

यदा न प्रत्ययं याति कथंचित्कोशलात्मजा ।।

तदा विशुद्धभावेन तिथयः श्राविताः पुनः ।। १८ ।।

वैशाखी कार्तिकी माघी तिथयोमरपूजिताः ।।

अप्रदानवतो यांति यस्यार्य्योनुमते गतः ।। १९ ।।

एतच्छ्रुत्वा तु कौशल्या सहसा प्रत्ययं गता ।।

अंकमानीय भरतं सांत्वयामास दुःखितम् ।। 4.100.२० ।।

एतत्तिथीनां माहात्म्यमाख्यातं बहुविस्तरम् ।।

भूयस्तु किं प्रवक्ष्यामि तव राजन्महामते ।। २१ ।।

वैशाखकार्तिकमघासहिताथ माघे या पूर्णिमा भवति पूर्णशशांकचिह्ना ।।

तस्यां जलान्नकनकांबरमातपत्रं दत्त्वा प्रयाति पुरुषः पुरुहूतलोकम् ।। २२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वैशाखीकार्तिकीमाघीव्रतवर्णनं नाम शततमोऽध्यायः ।। १००।।

पर्व ४ (उत्तरपर्व) — Adhyāya 101

युगादितिथिव्रतमाहात्म्यवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

पुनर्मे ब्रूहि देवेश त्वद्भक्त्या भावितात्मनः ।।

कथ्यमानमिहेच्छामि शुभधर्मपदं महत् ।। १ ।।

यत्राण्वपि नरैर्द्दत्तं जप्तं वा सुमहद्भवेत् ।। २ ।। ।।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु पांडव ते वच्मि रहस्यं देवनिर्मितम्।।

यन्मया कस्यचिन्नोक्तं सुप्रियस्यापि भारत ।। ३ ।।

वैशाखमासस्य तु या तृतीया नवम्यसौ कार्तिकशुक्लपक्षे।।

नभस्य मासस्य तु कृष्णपक्षे त्रयोदशीं पञ्चदशीं च माघे ।।४।।

वैशाखस्य तृतीया तु समा कृतयुतेन तु।।

नवमी कार्तिके या तु त्रेतायुगसमागता ।। ५ ।।

त्रयोदशी नभस्ये तु द्वापरेण समागता ।।

माघे पञ्चदशी राजन्कलिकालादिरुच्यते।। ६ ।।

एताश्चतस्रो राजेन्द्र युगानां प्रभवाद्यथा ।।

युगादयश्च कथ्यंते तथैता सर्वसूरिभिः ।। ७ ।।

उपवासस्तपो दानं जपहोमक्रियास्तथा ।।

यद्यत्तु क्रियते किंचित्सर्वंकोटिगुणं भवेत् ।। ८ ।।

वैशाखस्य तृतीयायां श्रीसमेतं जगद्गुरुम् ।।

नारायणं पूजयेथाः पुष्पधूपविलेपनैः ।।

वस्त्रालंकारसंभारैनैवेद्यै र्विविधैस्तथा ।। ९ ।।

ततस्तस्याग्रतो धेनुर्लवणस्याढकेन तु ।।

कार्या कुरुकुलश्रेष्ठ चतुर्भागेण वत्सकः ।। 4.101.१० ।।

अविचर्मोपरि स्थाप्य कल्पयित्वा विधानतः ।।

शास्त्रोक्तक्रमयोगेन ब्राह्मणायोपपादयेत् ।। ११ ।।

श्रीधरः श्रीपतिः श्रीमाञ्छ्रीशः संप्रीयतामिति ।।

अनेन विधिना दत्त्वा धेनुं विप्राय भारत ।।

गोसहस्रं दशगुणं प्राप्नोतीह न संशयः ।। १२ ।।

तथैव कार्तिके मासि नवम्यां नक्तभुङ्नरः ।।

स्नात्वा नदीतडागेषु देवखातेषु वा पुनः ।। १३ ।।

उमासहायं वरदं नीलकंठमथार्चयेत् ।।

पुष्पधूपादिनैवेद्यैरनिंद्यैः शंकरं शिवम् ।। १४ ।।

धेनुं तिलमयीं दद्यात्पुराणो क्तविधानतः ।।

अष्टमूर्तिर्नीलकंठः प्रीयतामिति चिंतयेत् ।। १५ ।।

यदत्र प्राप्यते पुण्यं पार्थ तत्केन वर्ण्यते ।।

दत्त्वा तिलमयीं धेनुं शिवलोकमवाप्नुयात् ।। १६ ।।

त्रयोदशी नभसि या कृष्णमस्यां समर्चयेत् ।।

पितॄन्पायसदानेन मधुना च घृतेन तु ।।

भोजयेद्ब्राह्मणान्भक्त्या वेदवेदाङ्गपारगान्। १७ ।।

पितॄनुद्दिश्य दातव्या सवत्सा कांस्यदोहनी ।।

प्रत्यक्षा गौर्महाराज तरुणी सुपयस्विनी ।। १८ ।।

पिता पितामहश्चैव तथैव प्रपितामहः ।।

प्रीयतां गोप्रदानेन इति दत्त्वा विसर्जयेत् ।। १९ ।।

कृतेनानेन राजेन्द्र यत्पुण्यं प्राप्यते नृभिः ।।

तत्केन वर्णितुं याति वर्षकोटिशतैरपि ।। 4.101.२० ।।

पुत्रान्पौत्रान्प्रपौत्रांश्च धनं च महदीप्सितम् ।।

इह चाप्नोति पुरुषः परत्र च शुभां गतिम् ।। २१ ।।

पञ्चदश्यां च माघस्य पूजयित्वा पितामहम् ।।

गायत्र्या सहितं देवं वेदवेदाङ्गभूषितम् ।। २२ ।।

नवनीतमयीं धेनुं फलैर्नानाविधैर्युताम् ।।

सहिरण्यां सवत्सां च ब्राह्मणाय निवेदयेत् ।।

कीर्तयेत्प्रीयतामत्र पद्मयोनिः पितामहः ।।२३।।

यत्स्वर्गे यच्च पाताले यच्च मर्त्ये सुदुर्लभम् ।।

तदवाप्नोत्यसंदिग्धं पद्मयोनि प्रसादतः ।। २४ ।।

यानि चान्यानि दानानि दत्तानि सुबहून्यपि ।।

युगादिषु महाराज अक्षयानि भवंति हि ।। २५ ।।

अल्पमल्पं हि यः कश्चित्प्रदद्यान्निर्द्धनोपि सन् ।।

तदक्षयं भवेत्सर्वं युगादिषु न संशयः ।। २६ ।।

वित्तानुसारं स्वं ज्ञात्वा वित्तवान्पार्थिवोपि वा ।।

अनुसारेण वित्तस्य असाध्येन समाधिना ।। २७ ।।

भूर्हिरण्यं गृहं वासः शयनान्यासनानि च ।।

छत्रोपानत्सुयुग्मानि प्रदेयानि द्विजातिषु ।। २८ ।।

एवं दत्त्वा यथाशक्त्या भोजयित्वा द्विजानपि ।।

पश्चाद्भुञ्जीत सुमना वाग्यतः स्वजनैः सह ।। २९ ।।

यत्किञ्चिन्मानसं पापं कायिकं वाचिकं तथा ।।

तत्सर्वं नाशमायाति युगादितिथिपूजनात् ।। 4.101.३० ।।

उद्गीयमानो गन्धर्वैः स्तूयमानः सुरासुरैः ।।

रमते चाक्षयं कालं स्वर्गलोके न संशयः ।।३१।।

यद्दीयते किमपि कोटिगुणं तदाहुः स्नानं जपोनियममक्षयमेव सर्वम् ।।

स्यादक्षयासु युगपूर्वतिथीषु राजन्व्यासादयो मुनिवराः समुदाहरंति।।३२।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे युगादितिथिव्रतमाहात्म्यवर्णनं नामैकाधिकशततमोऽध्यायः ।। १०१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 102

वटसावित्रीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

स्मरयामि हृषीकेश यन्नोक्तं भवता क्वचित् ।।

तत्सावित्रीव्रतं ब्रूहि ममोपरि दयां कुरु ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

कथयामि कुलस्त्रीणां महाभाग्यं युधिष्ठिर ।।

यथा चीर्णं व्रतवरं सावित्र्या राजकन्यया ।। २ ।।

आसीन्मद्रेषु धर्मात्मा सर्वभूतहिते रतः ।।

पार्थिवोश्वपतिर्नाम पौरजानपदप्रियः ।। ३ ।।

क्षमावांश्च क्षितिपतिः सत्यवांश्च जितेन्द्रियः ।।

स सभार्यो व्रतमिदं चचार नृपतिः स्वयम् ।। ४ ।।

सावित्रीव्रतसिद्धं तत्सर्वकामप्रदायकम् ।।

तस्य तुष्टाभवद्राजन्सावित्री ब्रह्मणः प्रिया ।। ५ ।।

भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता ।।

कमंडलुधरा देवी प्रसन्नवदनेक्षणा ।। ६ ।।

उवाच दुहिता ह्येका तव राजन्भविष्यति ।।

इत्येवमुक्त्वा सावित्री जगामादर्शनं पुनः ।। ७ ।।

कालेन सा तथा राजन्दुहिता देवरूपिणी ।।

सावित्र्या प्रीतया दत्ता सावित्र्या जप्तया तदा ।।८।।

सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ।।

सा गृहवती सश्रीर्व्यवर्द्धत नृपात्मजा ।।

सावित्री सुकुमाराङ्गी यौवनस्था बभूव ह ।। ९ ।।

तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव ।।

प्राप्तेव देवकन्येति दृष्ट्वा तामितरे जनाः ।। 4.102.१० ।।

सा तु पद्मपलाशाक्षी प्रज्वलंतीव तेजसा ।।

चचार सा च सावित्रीव्रतं यद्भृगुणोदितम् ।। ११ ।।

अथोपोष्य शिरःस्नाता देवतामभिगम्य सा ।।

हुत्वाग्निं विधिवद्विप्रान्वाचयित्वेंदुपर्वणि ।। १२ ।।

तेभ्यः सुमनसः शेषाः प्रतिगृह्य नृपात्मजा ।।

साध्वी पतिव्रताभ्येत्य देवश्रीरिव रूपिणी ।। १३ ।।

सोभिवाद्य पितुः पादौ शेषान्पूर्वं निवेद्य च ।।

कृतांजलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ।। १४ ।।

तां दृष्ट्वा यौवनं प्राप्तां स्वच्छां तां देवरूपिणीम् ।।

उवाच राजा संमंत्र्य स्मृत्यर्थं सह मंत्रिभिः ।।१५।।

युक्तः प्रदानकालोऽस्यास्तेन कश्चिद्वृणोत्विमाम्।।

विचारयित्वा पश्यामि वरं तुल्यं महात्मनः।।१६।।

देवादीनां यथा वाच्यो न लब्धेयं तथा कुरु ।।

बोद्धयमाना मया पुत्रि धर्मशास्त्रेषु गच्छ तम् ।। १७ ।।

पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता ।।

ब्रह्महत्या पितुस्तत्र सा कन्या वृषली स्मृता ।। १८ ।।

अतोर्थं प्रेषयामीति कुरु पुत्रि स्वयंवरम् ।।

वृद्धैरमात्यैः सहिता शीघ्रं गच्छ विधारय ।। १९ ।।

एवमस्त्विति सावित्री प्रोक्ता तस्माद्विनिर्ययौ ।।

तपोवनानि रम्याणि राजर्षीणां जगाम सा ।। 4.102.२० ।।

मान्यानामत्र वृद्धानां कृत्वा पादाभिषेचनम् ।।

ततोभिगम्य तीर्थानि सर्वाण्येवाश्रयाणि च ।।२१।।

आजगाम पुनर्वेश्म सावित्री सह मंत्रिभिः।।

तत्रापश्यच्च देवर्षिं नारदं पुरतः पितुः ।।२२।।

आसीनमासने विप्रं प्रणम्य स्मितभाषिणी ।।

कथयामास तत्सर्वं यथा वृतं वनेऽभवत् ।। २३ ।।

।। सावित्र्युवाच ।। ।।

आसीत्साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ।।

द्युमत्सेन इति ख्यातो देवदत्तो बभूव सः ।।२४।।

।। नारद उवाच ।।

अहो बत महत्कष्टं सावित्र्या नृपतेः कृतम् ।।

बाल्यभावाद्यदनया न कृतः सत्यवान्नृपः ।। २५ ।।

सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ।।

उपेतोऽस्ति गुणैः सर्वैर्द्युमत्सेनसुतो बली ।।२६।।

एको दोषोऽस्ति नान्योऽस्य सोऽद्यप्रभृति सत्यवाक् ।।

संवत्सरेण हीनायुर्देह त्यागं करिष्यति।।२७।।

नारदस्य वचः श्रुत्वा तनयां प्राह पार्थिवः ।।

पुत्रि सावित्रि गच्छ त्वमन्यं वरय सत्पतिम्।।

संवत्सरेण सोल्पायुर्देहत्यागं करिष्यति ।।२८।।

।। सावित्र्युवाच ।। ।।

सकृज्जल्पंति राजानः सकृज्जल्पंति पंडिताः ।।

सकृत्प्रदीयते कन्या त्रीण्येतानि सकृत्सकृत् ।।२९।।

दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा ।।

सकृद्वृतोमया भर्ता न द्वितीयं वृणोम्यहम्।।4.102.३०।।

मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते।।

क्रियते कर्मणा पश्चात्प्रमाणं मे मनः सदा।।३१।।

।।नारद उवाच ।। ।।

यद्येतदिष्टं दुहितुस्ततः शीघ्रं विधीयताम् ।।

अविघ्नमग्रे सावित्र्याः प्रदाने दुहितुस्तव।।३२।।

एवमुक्त्वा समुत्पत्य नारदस्त्रिदिवं गतः ।।

राजा च दुहितुः सर्वं वैवाहिकमथाकरोत् ।।

शुभे मुहूर्ते पार्श्वस्थैर्ब्राह्मणैर्वेदपारगैः ।। ३३ ।।

सावित्र्यपि वरं लब्ध्वा भर्तारं मनसेप्सितम् ।।

मुमुदेऽतीव तन्वंगी स्वर्गं प्राप्येव पुण्यकृत् ।।३४।।

एवं तत्राश्रमे तेषां वसतां प्रीतिपूर्वकम् ।।

कालस्तपस्यतां कश्चिदतिचक्राम भारत ।।३५।।

सावित्र्यास्तप्यमानायास्तिष्ठंत्याश्च दिवानिशम्।।

नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ।।३६।।

ततः काले बहुतिथे व्यतिक्रांते कदाचन।।

सप्राप्तकालो म्रियेत इति संचिंत्य भामिनी।।

प्रोष्ठपदे सिते पक्षे द्वादश्यां रजनीमुखे ।। ३७ ।।

गणयन्ती च सावित्री नारदोक्तं वचो हृदि ।।

व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं विनाभवत् ।। ३८ ।।

ततस्त्रिरात्रं निर्वर्त्य स्नात्वा संतर्प्य देवताः ।।

चतुर्थेऽहनि मर्तव्यमिति संचिंत्य भामिनी ।।

श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी ।। ३९ ।।

अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् ।।

सावित्र्यपि च भर्तारं गच्छतः पृष्ठतोऽन्वगात् ।। 4.102.४० ।।

ततोऽवदत्स भर्ता तां पृच्छस्व श्वशुरौ निजौ ।।

तथेत्युक्त्वा हि पप्रच्छ नत्वा श्वश्रूपदानि सा ।। ४१ ।।

श्वशुराववदतां च न गंतव्यं त्वयानघे ।।

बाले त्वं परमं भीरुः कथं गच्छसि काननम् ।। ४२।।

भूयो भावेन सा प्रोचे द्रष्टव्यं काननं मया ।।

गच्छेति तां तदोचाते श्वशुरौ चारुहासिनीम् ।। ४३ ।।

ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान् ।।

यथा शुष्काणि वादाय काष्ठभारमकल्पयत् ।। ४४ ।।

अथ पाटयतः काष्ठं जाता शिरसि वेदना ।।

व्यथा मां बाधते बाले स्वप्तुमिच्छामि सुंदरि ।। ४९ ।।

विश्रमस्व महाबाहो सावित्री प्राह दुःखिता ।।

पश्चादुपगमिष्यामि स्वाश्रमं श्रमनाशनम् ।। ४६ ।।

यावदुत्संगके कृत्वा शिर आस्ते महीतले ।।

तावद्ददर्श सावित्री पुरुषं कृष्णपिंगलम् ।।

किरीटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम् ।। ४७ ।।

तमुवाचाथ सावित्री प्रणम्य मधुपिंगलम् ।।

कस्त्वं देवोऽथ वा दैत्यो मां धर्षयितुमागतः ।। ।। ४८ ।।

न चाहं केनचिच्छक्या स्वधर्मादवरोपितुम् ।।

स्प्रष्टुं वा पुरुषश्रेष्ठ दीप्ता वह्निशिखा यथा ।।४९।।

।। यम उवाच ।। ।।

यमः संयमनश्चास्मि सर्वलोकभयंकरः ।।

क्षीणायुरेष ते भर्ता तं नयामि पतिव्रते ।।

न शक्यः किंकरैर्नेतुमतोऽहं स्वयमागतः ।। 4.102.५० ।।

एवमुक्त्वा सत्यवतः शरीरात्पाशसंचयैः ।।

अंगुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ।।

अथ प्रयातुमारेभे पंथानं पितृसेवितम् ।। ५१ ।।

सावित्र्यपि वरारोहा पृष्ठतोऽ नुजगाम ह ।।

पतिव्रतां तथा श्रांतां तामुवाच यमस्तदा ।। ५२ ।।

निवर्त गच्छ सावित्रि स्वगृहे त्वमिहागता ।।

एष मार्गो विशालाक्षि न केनाप्यनुगम्यते ।। ५३ ।।

।। सावित्र्युवाच ।। ।।

न श्रमो न च मे ग्लानिः कदाचिदपि जायते ।।

भर्तारमनुगच्छंति यास्तासां न श्रमादयः ।।५४।।

सतां संतो गतिर्नान्या स्त्रीणां भर्ता सदा गतिः ।।

वेदो वर्णाश्रमाणां च शिष्याणां च गतिर्गुरुः ।। ५५ ।।

सर्वेषामेव जंतूनां स्थानमस्ति महीतलम् ।।

भर्तार एव मनुजस्त्रीणां नान्यः समाश्रयः ।। ५६ ।।

एवमन्यैश्च विविधैर्वाक्यैर्द्धर्मार्थसंहितैः ।।

तुतोष सूर्यतनयः सावित्रीं चेद मब्रवीत्।। ५७ ।।

तुष्टोऽस्मि तव भद्रं ते वरं वरय भामिनि ।।

सावित्र्यपि वरान्वव्रे विनयावनतानना ।। ५८ ।।

चक्षुःप्राप्तिस्तथा राज्यं श्वसु रस्य महात्मनः ।।

पितुः पुत्रशतं चैव पुत्राणां शतमात्मनः ।। ५९ ।।

जीवितं च तथा भर्तुधर्मसिद्धिश्च शाश्वती ।।

धर्मराजो वरान्दत्त्वा प्रेषयामास तां ततः ।। 4.102.६० ।।

अथ भर्तारमासाद्य सावित्री हृष्टमानसा ।।

जगाम साश्रमपदं सह भर्त्रा निराकुला ।। ६१ ।।

भाद्रस्य पौर्णमास्यां तु यथा चीर्णं व्रतं त्विदम् ।।

माहात्म्यमस्य नृपते कथितं सकलं मया ।। ६२ ।।

।। युधिष्ठिर उवाच ।। ।।

कीदृशं तद्व्रतं देव सावित्र्या यदनुष्ठितम् ।।

तस्मिन्भाद्रपदे मासि सिद्धान्नं तस्य कीदृशम् ।। ६३ ।।

का देवता व्रते तस्मिन्ब्रूहि कामं प्रति प्रभो ।।

सविस्तरं हृषीकेश ब्रूहि धर्मं सनातनम् ।। ६४ ।।

।। श्रीकृष्ण उवाच ।। ।

श्रूयतां पांडवश्रेष्ठ सावित्रीव्रतमादरात् ।।

कथयामि कथं चीर्णं तया सत्या युधिष्ठिर ।। ६५ ।।

त्रयोदश्यां भाद्रपदे दंतधावनपूर्वकम् ।।

त्रिरात्रं नियमः कार्यं उपवासस्य भारत ।। ६६ ।।

अशक्त्या तु त्रयोदश्यां नक्तं कुर्याज्जितेन्द्रियः ।।

अयाचितं चतुर्दश्यामुपवासेन पूर्णिमाम् ।। ६७ ।।

नित्यं स्नात्वा महानद्यां तडागे चाथ निर्झरे ।।

विशेषः पौर्णमास्यां तु स्नानं सर्षपमृज्जलैः ।। ६८ ।।

गृहीत्वा तिलकान्पात्रे प्रस्थमात्रं युधिष्ठिर ।।

अथ वा धान्यमादाय यवशालितिलादिकम् ।। ६९ ।।

ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टयेत् ।।

सावित्रीप्रतिमां कृत्वा सर्वावयवशोभनाम् ।। 4.102.७० ।।

सौवर्णी मृन्मयीं वापि स्वशक्त्या रौप्यनिर्मिताम् ।।

रक्तवस्त्रयुगं दद्यात्सावित्र्यै ब्रह्मणे तथा ।। ७१ ।।

सावित्रीं ब्रह्मणा सार्द्धमेवं भक्त्या प्रपूजयेत् ।।

गंधैः सुगंधिपुष्पैश्च धूपनैवेद्यदीपकैः ।। ७२।।

पूर्णैः कोशातकैर्भक्ष्यैः कूष्मांडैः कर्कटीफलैः ।।

नालिकेरैश्च खर्जूरैः कपिस्थैर्दाडिमीफलैः ।। ७३ ।।

जंबूजंबीरनारंगैः कर्कटैः पनसैस्तथा ।।

जीरकैः कटुखंडैश्च गुडेन लवणेन च ।। ७४ ।।

विरूढैः सप्तधान्यैश्च वंशपात्रे प्रकल्पितैः ।।

राजन्या सूत्रकंटैश्च शुभैः कुंकुमकेशरैः ।। ७५ ।।

अवतारवतीत्येवं सावित्री ब्रह्मणः प्रिया ।।

तामर्चयेत मंत्रेण सावित्रीं ब्राह्मणः स्वयम् ।।

इतरेषां पुराणोक्तमंत्रोऽत्र समुदाहृतः ।। ७६ ।।

ॐकारपूर्वके देवि वीणापुस्तक धारिणि ।।

वेदमातर्नमस्तुभ्यमवैधव्यं प्रयच्छ मे ।। ७७ ।।

एवं संपूज्य विधिवज्जागरं कारयेत्ततः ।।

गीतवादित्रशब्देन ह्यष्टतारीकदंबकैः ।। ७८ ।।

नृत्यहासैर्नयेद्रात्रिं पृष्ठतश्च कथानकैः ।।

सावित्र्याख्यानकं वापि वाचयेद्द्विजसत्तमम् ।।

यावत्प्रभातसमयं गीत्या भावरसैः समम् ।। ७९ ।।

ततः प्रभाते विमल उषःकाले ह्युपस्थिते ।।

ब्राह्मणे वेदविदुषि सावित्रीं विनिवेदयेत् ।। 4.102.८० ।।

यथा सावित्रकल्पज्ञे सावित्र्याख्यानवाचके ।।

दैवज्ञ उंच्छवृत्तौ च दरिद्रे चाग्निहोत्रिणि ।। ८१ ।।

मंत्रेणानेन कौंतेय प्रणम्य विधिपूर्वकम् ।।

दर्भाक्षततिलैर्मिश्रा पूर्वाशाभिमुखास्थिता ।।

सुधी विप्रवरो विप्र ॐकारस्वस्तिपूर्वके ।। ८२ ।।

सावित्रीयं मया दत्ता सहिरण्या महासती ।।

ब्रह्मणः प्रीणनार्थाय ब्राह्मण प्रतिगृह्यताम् ।। ८३ ।।

एवं दत्त्वा द्विजेंद्राय सावित्रीं तां युधिष्ठिर ।।

नैवेद्यादि च तत्सर्वं ब्राह्मणं स्वगृहं नयेत् ।।

स्वयं दशपदं गच्छेत्स्ववेश्म पुनराविशेत् ।। ८४ ।।

तत्र भुक्त्वा हविष्यान्नं ब्राह्मणैर्बांधवैः सह ।।

विसर्जयेत्ततो विप्रान्सावित्री प्रीयतामिति ।। ८५ ।।

पंचदश्यां तथा ज्येष्ठे वटके च महासती ।।

त्रिरात्रोपोषिता नारी विधिनानेन पूजयेत् ।। ८६ ।।

सार्द्धं सत्यवता साध्वी फलनैवेद्यदीपकैः ।।

पट्टावलंबनं कृत्वा काष्ठभारं युधिष्ठिर ।। ८७ ।।

रात्रौ जागरणं कृत्वा नृत्यगीतपुरस्सरैः ।।

प्रभाते विधिना पूर्वं पूर्वोक्तेन नरोत्तमः ।।

तत्सर्वं ब्राह्मणे दद्यात्प्रणिपत्य क्षमापयेत् ।। ८८ ।।

एतत्तु ते व्रतमिदं कथितं विधिवन्मया ।।

याश्चरिष्यंति लोकेस्मिन्पुत्रपौत्रसमन्विताः ।।

भुक्त्वा भोगांश्चिरं भूमौ यास्यंति ब्रह्मणः पदम् ।। ८९ ।।

एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।।

जपतां शृण्वतां चैव सावित्रीव्रतमादरात् ।। 4.102.९० ।।

स्मृत्यर्थवेदजननीं सहशंभुजायां संपूजयेदिह त्रिरात्रकृतोपवासा ।।

सावित्रिवत्पितृकुलं च तथा स्वभर्तुरुद्धारयेच्च विभुनक्ति चिरं सुखानि ।। ९१ ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वटसावित्रीव्रतवर्णनं नाम द्व्यधिकशततमोऽध्यायः ।। १०२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 103

कार्तिककृत्तिकाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पूर्वमासीत्कृतयुगे क्षत्रिणी बहुपुत्रिणी ।।

नाम्ना कलिंगभद्रेति रूपलावण्यसंयुता ।। १ ।।

तुंगस्तनी पद्मनेत्रा हंसनागेन्द्रगामिनी ।।

सौभाग्यगुणसंपूर्णा चंद्रबिंबनिभानना ।। २ ।।

धनरत्नैश्च संपूर्णा मध्यदेशे वृषस्थले ।।

राज्ञः पत्नी तु सा देवी दिलीपस्य महात्मनः ।।

कलिङ्गभद्रा ललिता महादेवी गुणान्विता ।। ३ ।।

महाप्रसादं मन्वाना बहुमानपुरस्सरम् ।।

ब्राह्मणेभ्यश्च दानानि प्रयच्छति महासती ।। ४ ।।

त्यागसंभोगसौभाग्ये द्वितीया नैव तादृशी ।।

नारीणां तु नरश्रेष्ठ दिलीपस्य यथा विधा ।। ५ ।।

यथा च कार्त्तिके मासि गृहीतं क्षत्त्रयाव्रतम् ।।

षण्मासेन व्रतं यावदिदं संचिन्त्य चेतसि ।।

पारितं च तया सर्वं किंचिन्मात्रं तु वर्तते ।। ६ ।।

पारणेपारणे वापि पुराणज्ञे द्विजोत्तमे ।।

उद्यापनं प्रयच्छंती कालं नयति सुन्दरी ।। ७ ।।

कदाचिदर्धरात्रे तु सुप्ता भर्त्रा सहैव सा ।।

दष्टा सर्पेण रौद्रेण जगाम निधनं क्षणात् ।। ८ ।।

तेन दोषेण सा बाला अजायोनौ ह्यजायत ।।

वनेचरी धर्मपरा पूर्वजातिस्मरा दृढा।।९।।

पूर्वाभ्यासेन तेनैव गृहीतं कृत्तिकाव्रतम् ।।

व्यस्ता यूथपरिभ्रष्टा उपवासपरिस्थिता ।। 4.103.१० ।।

परक्षेत्रेण गच्छंती अजा सस्यावमर्द्दनी ।।

कार्त्तिक्यां गलके बद्ध्वा ग्राम्यकेण चिरागता ।। ११ ।।

दृष्टात्रिणा महाभागा पूर्वजातिस्मरेण सा ।।

कारणं बुध्य तां बुद्ध्वा सहकालिंदभद्रिकाम् ।। ।। १२ ।।

मोक्षिता बदरीबद्धा चरंती कृत्तिकाव्रतम् ।।

गोपालबंधनात्साध्वी अनिर्वेदपरा तु सा ।। १३ ।।

संप्राप्य बदरीपत्रं पीत्वा पुष्करिणी पयः ।।

ममेत्युक्त्वा ह्यसंभ्रांता पारयामास तद्व्रतम् ।।

तस्यै योगं ततो दत्त्वा जगामात्रिस्तपोवनम् ।। १४ ।।

सापि योगेश्वरी भूत्वा निंदित्वा जन्म चात्मनः ।।

तत्याज योगात्स्वान्प्राणान्प्रस्थिता गौतमस्य हि ।।

ऋषेर्बभूव दुहिता ह्यहल्यागर्भसुन्दरी ।। १५ ।।

योगलक्ष्मीति नाम्ना सा कन्या गुणगणैर्युता ।।

विद्येव दत्ता सा पित्रा शांडिल्याय महर्षये ।।

तपोधनाय दांताय नित्यं सहचरी बभौ ।। १६ ।।

ब्राह्मलक्ष्म्या दीप्यमाना साक्षाद्वेदस्मृतिर्यथा ।।

सरस्वती च स्वाहा च शची चारुन्धती यथा ।। १७ ।।

गौरी राज्ञी तथा लक्ष्मीर्गायत्री चोत्तमा सती ।।

महालक्ष्मीस्तथा राजञ्छाण्डिल्यस्य गृहे बभौ ।। १८ ।।

पितृदेवमनुष्याणां नित्यं शुश्रूषणे रता ।।

अथ तेनात्रिणा दृष्टा पुनर्गर्भवती गृहे ।। १९ ।।

भक्त्या भिक्षां प्रयच्छंती ब्राह्मणानामनिंदिता ।।

योगाद्विदित्वा तामूचे भगवान्पूर्ववच्छनैः ।। 4.103.२० ।।

योगलक्ष्मि महाभागे वर्तंते कति कृत्तिकाः ।।

सापि जातिस्मरा प्राह भगवंतं महासती ।।

षड्वर्तंते महायोगिन्नेका परवशे स्थिता ।। २१ ।।

तच्छ्रुत्वास्यै भगवता सकारुण्येन चेतसा ।।

दत्तं व्रतं तथा मन्त्रो येन स्वर्गं जगाम सा ।। २२ ।।

इह भुक्त्वा चिरं भोगान्पुत्रपौत्रश्रिया वृता ।।

ततः सा तत्पदं प्राप्ता पुनरावृत्तिदुर्लभम् ।। २३ ।। ।।

।। युधिष्ठिर उवाच ।। ।।

कीदृशं तद्व्रतं कृष्ण मंत्रश्चापि जनार्दन ।।

विधानं कृत्तिकानां च तं च कालं वदस्व मे ।। २४ ।।

।। श्रीकृष्ण उवाच ।। ।।

कृत्तिकासु स्वयं सोमः कृत्तिकासु बृहस्पतिः ।।

यदा स्यात्सोमवारेण सा महाकार्तिकी स्मृता ।। २५ ।।

ईदृशी बहुभिर्वर्षैर्बहुपुण्यैश्च लभ्यते ।।

तथा सा न वृथा नेया यदीच्छेच्छ्रेय आत्मनः ।। २६ ।।

अन्यापि कार्तिकी पार्थ समुपोष्य विधानतः ।।

तस्या विधानं राजेन्द्र शृणुष्वैकमना भव ।। २७ ।।

कार्त्तिके शुक्लपक्षस्य पूर्णमास्यां दिनोदये ।।

नक्ताय नियमं कुर्याद्दन्तधावनपूर्वकम् ।। २८ ।।

उपवासस्य वा शक्त्या ततः स्नात्वा जलाशये ।।

कुरुक्षेत्रे प्रयागे वा पुष्करे नैमिषे तथा ।। २९ ।।

शालग्रामे कुशावर्ते मूलस्थाने सकुन्तले ।।

गोकर्णे वार्बुदे पुण्येऽथ वाप्यमरकंटके ।। 4.103.३० ।।

पुरे वा नगरे वापि ग्रामे घोषेऽथ पत्तने ।।

यत्र वा तत्र वा स्नायान्नरो योषिदथापि वा ।।

देवर्षिपितृपूजां च कृत्वा होमं युधिष्ठिर ।। ३१ ।।

ततोऽस्तसमये प्राप्ते पात्रं गव्यस्य सर्पिषः ।।

क्षीरस्य वा सुसंपूर्णं कृत्वा गुडफलान्वितम् ।।

षट्प्रमाणं यथा व्योम्नि कृत्तिकाशकटं न्यसेत्।। ३२ ।।

षट्कृत्तिकानां बिंबानि स्वर्णरौप्यमयानि च ।।

रत्नगर्भाणि कुर्याच्च स्वशक्त्या पाण्डुनन्दन ३३ ।।

प्रथमा स्वर्णनिष्पन्ना द्वितीया रौप्यकीकृता ।।

तृतीया रत्नघटिता चतुर्थी नवनीतजा ।। ३४ ।।

पञ्चमी कणिकान्यूना षष्ठी पिष्टमयी कृता।।

षट् कृत्तिकाः कृतबिंबाः कृत्वालक्तकसूत्रिकाः ।। ३५ ।।

रत्नगर्भाः कुंकुमाक्ताः पृष्ठतः स्तबकान्विताः ।।

सिंदूरचन्दनाभ्यक्ता जातीपुष्पै सुपूजिताः ।।

मंत्रेणानेन राजेन्द्र द्विजाय प्रतिपादयेत् ।। ३६ ।।

ॐ सप्तर्षिदारा ह्यनलस्य वल्लभा या ब्रह्मणा रक्षितयेति युक्ताः ।।

तुष्टाः कुमारस्य यथार्थमातरो ममापि सुप्रीततरा भवंतु-स्वाहा ।। ३७ ।।

एवमुच्चार्य विप्राय प्रदेयाः कृत्तिका नृप ।।

ब्राह्मणोपि प्रतीच्छेत मंत्रेणानेव पांडव ।। ३८ ।।

धर्मदाः कामकाः संतु इमा नक्षत्रमातरः ।।

कृत्तिका दुर्गसंसारात्तारयंत्वावयोः कुलम् ।। ३९ ।।

अनेन विधिना दत्त्वा दृष्ट्वा चैवांबरे स्थिताः ।।

विसृज्य ब्राह्मणान्भक्त्या चानुव्रज्य पदानि षट् ।।

निवर्त्य च कथार्थं तु शृणुयात्फलमाप्नुयात् ।। 4.103.४० ।।

विमानेनार्कवर्णेन गत्वा नक्षत्रमंडलम् ।।

दिव्येन वपुषा युक्तः स्रक्चंदनविभूषितः ।। ४१ ।।

दिव्यनारीगणवृतः सुखं भुंक्ते ह्यनामयम् ।।

दोधूयमानश्चमरै रत्नपंक्त्या विराजितः ।। ४२ ।।

पारिजातकमंदारपुष्पभारोपशोभितः ।।

कृतार्थः परिपूर्णाशस्तिष्ठेदाभूतसंप्लवम् ।। ४३ ।।

ताराः ' कृत्वा व्रतांते वा गत्वा स्वर्गं सभर्तृका ।।

रमते निर्भया साध्वी सर्वभोगसमन्विता ।। ४४ ।।

यश्चैतच्कृणुयात्पार्थ भक्तियुक्तः समाधिना ।।

नारी वा पुरुषो वापि मुच्यते सर्वकिल्बिषैः ।। ४५ ।।

सौवर्णरौप्यमणिगोनवनीतसिद्धाः षट् कृत्तिकाः कणिकपिष्टमयीश्च कृत्वा ।।

पात्रे निधाय कुसुमाक्षतधूपदीपैः संपूज्य जन्मगहनं न विशंति मर्त्याः ।। ४६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कार्तिक्यां कृत्तिकाव्रतवर्णनं नाम त्र्यधिकशततमोऽध्यायः ।। १०३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 104

पूर्णमनोरथव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पञ्चदश्यां शुक्लपक्षे फाल्गुनस्य नरोत्तम ।।

पाखंडान्पतितांश्चैव तथैवान्त्यावसायिनः ।। १ ।।

नास्तिकान्भिन्नवृत्तांश्च पापिनो नैव चालपेत् ।।

नारायणे गतमनाः पुरुषो हि जितेन्द्रियः ।।२ ।।

तिष्ठन्व्रजन्प्रस्खलन्वा भुंजानोपि जनार्दनम् ।।

कीर्तयेच्च क्रियाकाले सप्तकृत्वो महीपते ।। ३ ।।

लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम् ।।

संध्याद्युपरमे चन्द्रस्वरूपं हरिमीश्वरम् ।।

रात्रौ च लक्ष्मीं संचिन्त्य सम्यगर्घेण पूजयेत ।। ४ ।।

श्रीनिशाकररूपस्त्वं वासुदेव जगत्पते ।।

मनोभिलषितं देव पूरयस्व नमोनमः ।। ५ ।।

मंत्रेणानेन दत्त्वार्घं देवदेवस्य भक्तितः ।।

नक्तं भुञ्जीत न स्वैरं तैलक्षारविवर्जितम् ।। ६ ।।

तथैव चैत्रे वैशाखे ज्येष्ठे च नृपसत्तम ।।

अर्चयेच्च यथाप्रोक्तं मासिमासि च तद्दिने ।। ७ ।।

निष्पादितं भवेदेकं पारणं पार्थ शक्तितः ।।

द्वितीयं चापि वक्ष्यामि पारणं ते नरोत्तम।। ८ ।।

आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा ।।

तथैवाश्वयुजेभ्यर्च्य श्रीधरं प्रियया सह ।।

अर्घं चन्द्रमसे दत्त्वा भुञ्जाताथ यथाविधि। ।। ९ ।।

द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ।।

कार्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् ।।

भूत्या समन्वितं दद्याच्छशांकाय तथा निशि ।।। ।। 4.104.१० ।।

भुञ्जीत च यथाख्यातं तृतीयं पारणं शृणु ।।

प्रतिपूज्य ततो दद्याद्ब्राह्मणेभ्यश्च दक्षिणाम् ।।

प्रतिमासं च वक्ष्यामि प्राशनं कायशुद्धये ।। ।। ११ ।।

चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम् ।।

कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम् ।। १२ ।।

सूर्यांशुतप्तं तद्वच्च जलं कायविशोधनम् ।।

गीतवाद्यादिकं रात्रौ तथा कृष्णकथां शुभाम् ।।

कारयेच्चैव देवस्य पारणेपारणे गते ।। १३ ।।

जनार्दनं सपत्नीकमर्चयेत्प्रथमं ततः ।।

सश्रीकं श्रीधरं तद्वत्तृतीये भूतिकेशवौ ।। १४ ।।

प्रतिमासं तु नामानि कृष्णस्यैतानि भारत ।।

कृतोपवासः सुस्नातः पूजयित्वा जनार्दनम् ।।

उच्चारयन्नरो याति यथालोकं यथासुखम् ।। १५ ।।

ततो विप्राय वै दद्यादुदकुंभं सदक्षिणम् ।।

उपानद्वस्त्रयुग्मं च च्छत्रं कनकमेव च ।। १६ ।।

यद्वै मासगतं नाम प्रीयतामिति कीर्तयेत् ।।

केशवं मार्गशीर्षे तु पौषे नारायणं तथा ।। १७ ।।

माधवं माघमासे तु गोविन्दमपि फाल्गुने ।।

चैत्रमासे तथा विष्णुं वैशाखे मधुसूदनम् ।। १८ ।।

ज्येष्ठे त्रिविक्रमो ज्ञेयस्तथाषाढे च वामनः ।।

श्रीधरः श्रावणे तद्वद्धृषीकेशेति चापरम् ।। १९ ।।

रामो भाद्रपदे मासि गीयते पुण्यकांक्षिभिः ।।

पद्मनाभमाश्वयुजि दामोदरमतः परम् ।। 4.104.२० ।।

कार्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् ।।

एवं संवत्सरस्यांते प्रतिमासे क्रमोदितम्।।

यदि दातुं न शक्नोति दद्याच्चैवैकहेलया ।।२१।।

विशेषश्चात्र कथितश्चन्द्रं कृत्वा हिरण्मयम्।।

पूजयित्वा फलैर्वस्त्रैर्ब्राह्मणाय निवेदयेत्।।२२।।

स्तुवन्नेवं विधानेन पारणेऽभ्यर्चयेत्प्रभुम्।।

तावंति जन्मान्यसुखं नाप्नोतीष्टवियोगजम् ।।२३।।

इहैव स्वस्थतां प्राप्य मरणे स्मरणं ततः।।

स्थानं तु मम संप्राप्य स्वर्गलोके महीयते ।। २४ ।।

ततो मानुष्यमासाद्य निरातंको गतज्वरः ।।

धनधान्यवति स्फीते जन्म साधुकुलेर्हति ।।२५।।

श्रीशर्वरी मधुनि हा भगवाञ्छशांकः संकल्प्य चन्दनतिलाक्षतपुष्पमिश्रम् ।।

यच्छंति येऽर्घमनया नृप पूर्णिमायां नूनं भवंति परिपूर्णमनोरथास्ते ।। २६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पूर्णमनोरथव्रतं नाम चतुरधिकशततमोऽध्यायः ।। १०४ ।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 105

विशोकपूर्णिमाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अशोकपूर्णिमां चान्यां शृणुष्व गदतो मम ।।

यामुपोष्य नराः शोकं नाप्नुवंति कदाचन ।। १ ।।

फाल्गुनामलपक्षस्य पौर्णमास्यां नरोत्तम ।।

मृज्जलेन नरः स्नात्वा दत्त्वा शिरसि वै मृदम् ।।

मृत्प्राशनं ततः कृत्वा कृत्वा च स्थंडिलं मृदा ।। २ ।।

पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नाम नामतः ।।

धरणीं च तथा देवीमशोकेत्यभिकीर्तयेत् ।। ३ ।।

यथा विशोकां धरणे कृतवांस्त्वां जनार्दनः ।।

तथा मां सर्वशोकेभ्यो मोचयाशेषधारिणि ।।४ ।।

यथा समस्तभूतानामाधारत्त्वं व्यवस्थिता ।।

तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः ।। ५ ।।

ध्यानमात्रे यथा विष्णोः स्वास्थ्यं जानासि मेदिनि ।।

तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि ।। ६ ।।

एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च।।

उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् ।। ७ ।।

अनेनैव प्रकारेण चत्वारः फाल्गुनादयः ।।

उपोष्या नृपते मासाः प्रथमं पारणं स्मृतम् ।। ।। ८ ।।

आषाढादिषु मासेषु तद्वत्स्नानं मृदंबुना ।।

तथैव प्राशनं पूजा तद्वदिंदोस्तथार्हणम् ।। ९ ।।

चतुर्ष्वन्येषु चैवोक्तं कार्तिकादिषु पारणम्।।

पारणत्रितये चैव चातुर्मासिकमुच्यते ।। 4.105.१० ।।

विशेषपूजा दानं च तथा जागरणं निशि ।।

विशेषेणैव कर्तव्यं पारणेपारणे गते ।। ११ ।।

प्रथमे धरणी नाम तुभ्यं मासचतुष्टयम् ।।

द्वितीये मेदिनी वाच्या तृतीये च वसुन्धरा ।। १२ ।।

पारणेपारणे पार्थ युग्मानेवार्च्चयेद्द्विजान् ।।

धरणीं देव देवं च तत्तत्स्थानेन केशवम् । । १३ ।।

वस्त्राभावे च सूत्रेण पूजयेद्धरणीं तथा ।।

घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः । ।. १४ । ।

एवं संवत्सरस्यांते गौः सवत्सा द्विजातये ।।

प्रदेया धरणी देवी वस्त्रालंकारसंयुता ।। १५ ।।

पातालसंस्थया देव्या चीर्णमेतन्महाव्रतम् । ।

धरण्या केशव प्रीत्यै ततः प्राप्ता समुन्नतिः ।। १६ ।।

देवेन चोक्ता धरणी वराहवपुषा पुरा ।।

उपवासव्रतपरा समुद्धृत्य रसातलात् ।। १७ । ।

व्रतेनानेन कल्याणि त्वयाहं परितोषितः ।।

तस्मात्प्रसादमतुलं करोमि तव सुवते ।। १८ ।।

यथैव कुरुषे भक्त्या पूजां मम सुशोभनाम् । ।

तथैव तव कल्याणि प्रणतो यः करिष्यति । । १ ९। ।

व्रतमेतदुपाश्रित्य पारणं च यथाविधि । ।

सर्वबाधाविनिर्मुक्तो जन्मजन्मांतराण्यपि ।।

विशोकः सर्वकल्याणभाजनं स्यान्न संशयः ।। 4.105.२० ।।

यथा त्वमेव वसुधे संप्राप्ता निर्वृतेः पदम् । ।

तथा स परमँल्लोके सुखं प्राप्स्यति मानवः । । २१ ।।

एवमेतन्महापुण्यं सर्वपापप्रशांतिदम् । ।

विशोकाख्यं व्रतवरं तत्कुरुष्व महाव्रतम् ।। २२ ।।

सम्यग्विशोककरणी नृपपूर्णिमा ते ख्याता मया मनुमहेन्द्रसमानकीर्ते ।।

एवं करोति कुरुपुंगव यः प्रयत्नाच्छोको न तस्य भवतीह कुलेपि पुंसः ।। २३ । ।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकपूर्णिमाव्रतं नाम पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 106

अनन्तव्रतवर्णनम्

।। युधिष्ठिर उवाच । । ।।

सर्वकामानवाप्नोति समाराध्य जनार्दनम् ।।

प्रकारैर्बहुभिः कृष्ण यान्यानिच्छति चेतसा ।। १ ।।

नृणां स्त्रीणां च सर्वेषां नान्यच्छोकस्य कारणम् ।।

अपत्यादधिकं किंचिद्विद्यते ह्यत्र जन्मनि।। ।। २ ।।

अपुत्रता महादुःखमतिदुःखं कुपुत्रता ।।

सुपुत्रः सर्वसौख्यानां हेतुभूतो मतो मम ।। ३ ।।

धन्यास्ते ये सुतं प्राप्ताः सर्वदुःखविवर्जितम् । ।

शक्तं प्रशांतं बलिनं परां निर्वृतिमागतम् ।।४।।

स्वकर्माभिरतं नित्यं देवद्विजपरायणम्।।

शास्त्रज्ञं सर्वधर्मज्ञं दीनानाथानुकंपिनम् ।। ५ ।। ।

विनिर्जितारिसर्वस्वं मनोहृदयनन्दनम् ।।

देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ।।६।।

मित्रस्वजनसन्मानलब्धं निर्वाणमुत्तमम् ।।

यः प्राप्नोति सुतं तस्मान्नान्यो धन्यतरो भुवि ।। ७ ।।

सोऽहमेवंविधं श्रोतुं कर्मेच्छामि महामते ।।

येनेदृग्लक्षणः पुत्रः प्राप्यते भुवि मानवैः ।। ८ ।।

।। श्रीकृष्ण उवाच ।। ।।

एवमेतन्महाभाग पुत्रापुत्रसमुद्भवम् ।।

दुःखं प्रयात्युपशमं तनयान्नेह केनचित् ।। ९ ।।

अत्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने ।।

उत्पत्तौ कार्तवीर्यस्य हैहयस्य महात्मनः ।। 4.106.१० ।।

कृतवीर्यो महीपालो हैहयो नाम वै पुरा ।।

तस्य शीलधना नाम बभूव वरवर्णिनी ।। ११ ।।

पत्नी सहस्रप्रवरा महिषी शीलमण्डना ।।

सा त्वपुत्रा महाभागा मैत्रेयीं पर्यपृच्छत ।। १२ ।।

गुणवत्पुत्रलाभाय कृतासनपरिग्रहम् ।।

तया पृष्टाथ सा सम्यङ्मैत्रेयी ब्रह्मवादिनी ।। १३ ।।

कथयामास परमं नाम्नानन्तव्रतं महत् ।।

सर्वकामफलावाप्तिकारणं पापनाशनम् ।।

तस्याः सुपुत्रलाभाय राजपुत्र्यास्तपस्विनी ।। १४ ।।

।। मैत्रेय्युवाच ।। ।।

यो यमिच्छेन्नरः कामं नारी वा वरवर्णिनी ।। १५ ।।

स तं समाराध्य विभुं समाप्नोति जनार्दनात् ।।

मार्गशीर्षे मृगशिरो भीमो यस्मिन्दिनेऽभवत् ।।१६।।

तस्मिन्संप्राश्य गोमूत्रं स्नातो नियतमानसः ।।

पुष्पैर्धूपैस्तथा गन्धैरुपवासैश्च भक्तितः ।।

वामपादमनंतस्य पूजयेद्वरवर्णिनि ।। १७ ।।

अनंतः सर्वकामानामनंतं भगवान्फलम् ।।

ददात्वनन्तं च पुनस्तदेवान्यत्र जन्मनि ।। १८ ।।

अनंतपुण्योपचयमनन्तं तु महाव्रतम् ।।

यथाभिलषितावाप्तिं कुरु मे पुरुषोत्तम ।। १९ ।।

इत्युच्चार्याभिपूज्यैनं यथावद्विधिना नरः ।।

समाहितमना भूत्वा प्रणिपातपुरस्सरम्।। 4.106.२० ।।

विप्राय दक्षिणां दद्यादनंतः प्रीयतामिति ।।

समुच्चार्य ततो नक्तं भुञ्जीततैलवर्जितम् ।। २१ ।।

ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम् ।।

वामामभ्यर्च्चयेद्भक्त्या गोमूत्रप्राशनं ततः ।।२२।।

अनंतः सर्वकामाना मिति चोच्चारयेत्पुनः।।

भोजयेत तथा विप्रान्वाचयित्वा यथाविधि ।।२३।।

माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत् ।।

स्कन्धौ च मम फाल्गुन्योः फाल्गुने मासि भामिनि ।। २४ ।।

चतुर्ष्वेतेषु गोमूत्रं प्राशयेन्नृपनंदिनि ।।

ब्राह्मणाय तथा दद्यात्तिलान्कनकमेव च ।। २५ ।।

देवस्य दक्षिणं स्कन्धं चैत्रे चित्रासु पूजयेत् ।।

तथैव प्राशनं चात्र पञ्चगव्यमुदाहृतम् ।।

विप्रे प्रवाचके दद्याद्यवान्मासचतुष्टयम् ।। २६ ।।

वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम्।।

तथैवोक्तान्यवान्दद्यान्नक्तं कुर्याद्भुजिक्रियाम् ।। २७ ।।

ज्येष्ठासु कटिपूजां च ज्येष्ठमासि शुभव्रते ।।

आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे ।। २८ ।।

पादद्वयं तु श्रवणे श्रावणे मासि पूजयेत् ।।

घृतं विप्राय दातव्यं प्राशनीयं यथाविधि ।। २९ ।।

श्रावणादिषु मासेषु प्राशनं दानमेव च ।।

एतदेवं समाख्यातं देवांस्तद्वच्च पूजयेत् ।। 4.106.३० ।।

गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत् ।।

तद्वदाश्वयुजे पूज्यं हृदयं चाश्विनीषु च ।। ३१ ।।

कुर्यात्समाहितमनाः स्नानं प्राशनमर्चनम् ।।

अनन्तशिरसः पूजां कार्त्तिके कृत्तिकासु च ।। ३२ ।।

यस्मिन्यस्मिन्दिने पूजा तत्रतत्र तदा दिने ।।

नामानंतस्य जप्तव्यं क्षुतप्रस्खलितादिषु ।।३३।।

घृतेनानंतमुद्दिश्य पूर्वं मासचतुष्टयम् ।।

कुर्वीत होमं चैत्रादौ शालिना कुलनंदिनि ।। ३४ ।।

क्षीरेण श्रावणादौ च होमो मासचतुष्टयम् ।।

प्रशस्तं सर्वमासेषु हविष्यान्नेन भोजनम् ।। ३५ ।।

एवं द्वादशभिर्मासैः पारणात्रितयं शुभे ।।

व्रतावसाने चानन्तं सौवर्णं कारयेच्छुभम् ।। ३६ ।।

राजतं मुसलं चैव हलं पार्श्वेषु विन्यसेत् ।।

पुष्पधूपादिनैवेद्यैः पूजा कार्या यथाविधि ।। ३७ ।।

ताम्रपीठोपरि हरेर्मन्त्रैरेभिर्यथाक्रमम् ।।

नमोऽस्त्वनंताय शिरः पादौ सर्वात्मने नमः ।। ३८ ।।

शेषाय जानुयुगलं कामायेति कटिं नमः ।।

नमोस्तु वासुदेवाय पार्श्वं संपूजयेद्धरेः ।। ३९ ।।

संकर्षणायेत्युदरं भुजं सर्वासुधारिणे ।।

कण्ठं श्रीकण्ठनाथाय मुखमिंदुमुखाय च ।। 4.106.४० ।।

हलं च मुसलं चैव स्वनाम्ना पूजयेद्बुधः ।।

एवं सम्पूज्य गोविन्दं सितवस्त्रविभूषितम् ।। ४१ ।।

छत्रोपानत्सुसंयुक्तं स्रग्दामालंकृतं तथा ।।

नक्षत्रदेवताः पूज्या नक्षत्राणि च सर्वशः ।। ४२ ।।

सोमो नक्षत्रराजश्च मासः संवत्सरं तथा ।।

द्वादशात्र घटान्कुर्यात्स तोयांश्चान्नसंयुतान् ।। ४३ ।।

एवं संपूज्य विधिवद्देवदेवं जनार्दनम् ।।

ब्राह्मणं पूजयित्वा च वस्त्रैराभरणैस्तथा ।। ४४ ।।

कर्णांगुलैः पवित्रैश्च शांतं दांतं जितेन्द्रियम् ।।

पुराणज्ञं धर्मनित्यमव्यंगं सुप्रियंवदम् ।। ४५ ।।

तस्मै देयं समस्तं तदनन्तः प्रीयतामिति ।।

अन्येषां ब्राह्मणानां च देयं शक्त्या यथेप्सितम् ।। ४६ ।।

अनेन विधिना पार्थ व्रतं चैतत्समाप्यते ।।

पारिते च समाप्नोति सर्वानेव मनोरथान् ।। ४७ ।।

पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः ।।

प्रार्थयद्भिश्च मर्त्येऽस्मिन्नारोग्यफलसम्पदः ।। ४८ ।।

एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम् ।।

अनंतव्रतसंज्ञं वै सर्व पापप्रणाशनम् ।। ४९ ।।

तत्कुरुष्वैव देवि त्वं व्रतं शीलधने परम् ।।

वरिष्ठं सर्वलोकस्य यदि पुत्रमभीप्ससि ।। 4.106.५० ।।

।। श्रीकृष्ण उवाच ।। ।।

इति शीलधना श्रुत्वा मैत्रेयीवचनं शुभम् ।।

चकारैतद्व्रतवरं सा विष्ण्वाहितमानसा ।। ५१ ।।

पुत्रार्थिन्यास्ततस्तस्माद्व्रतेनानेन सुव्रत ।।

विष्णुस्तुतोष तुष्टे च विष्णौ सा सुषुवे सुतम् ।। ५२ ।।

तस्य वै जातमात्रस्य प्रववौ चानिलः शुभम् ।।

नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत्।।५३।।

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ।।

प्रजगुर्देवगंधर्वा ननृतुश्चाप्सरोगणाः ।।५४।।

धर्मे मनः समस्तस्य पार्थ लोकस्य चाभवत् ।।

तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै ।।५५ ।।

कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः ।।

तेनापि भगवान्विष्णुर्दत्तात्रेयस्वरूपवान् ।।

आराधितोऽतिमहता तपसा पार्थ भूभृता ।।५६।।

तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम् ।।

ददौ शौर्यधने चापि सकलान्यायुधानि च ।।

स वव्रे च वधो देव मम त्वत्तो भवेदिति ।।५७।।

परं तु स्मरणं ज्ञानं भीतानामार्तिनाशनम् ।।

स्मरणादुपकारित्त्वं जगतोऽस्य जगत्पते ।।५८।।

तमाह देवदेवेशः पुण्डरीकनिभेक्षणः ।।

सर्वमेतन्महाभाग तव भूयो भविष्यति ।। ५९ ।।

यश्च प्रभाते रात्रौ च त्वां नरः कीर्तयिष्यति ।।

नमोऽस्तु कार्तवीर्यायेत्यभिधास्यति चैव यः ।।

तिलप्रस्थप्रदानस्य नरः पुण्यमवाप्स्यति ।। 4.106.६० ।।

अनष्टद्रव्यता चैव तव नामानुकीर्तने।।

भविष्यति महीपालेत्युक्त्वा तं प्रययौ हरिः।।६१।।

स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात् ।।

पालयामास भूपालः सप्तद्वीपां वसुंधराम् ।। ६२ ।।

तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः ।।

जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः ।। ६३ ।।

अनंतव्रतमाहात्म्यादासाद्य तनयं च तम् ।।

पितुः पुत्रोद्भवं दुःखं नासीत्स्वल्पमपि प्रभो ।। ।। ६४ ।।

एवमेतत्समाख्यातमनंताख्यं व्रतं तव ।।

यत्कृत्वा राजपत्नी सा कार्तवीर्यमसूयत ।। ६५ ।।

यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः ।।

स्त्री वा दुःखमपत्योत्थं सप्तजन्मसु नाश्नुते ।। ६६ ।।

ऐश्वर्यमप्रतिहतं परमं विवेकं पुत्रानमित्रहृदयार्तिकरान्बहूंश्च ।।

कृत्वा त्वनंत इति यद्व्रत नामधेयं प्राप्नोत्यनंतविभवस्य विभोः प्रसादात् ।। ६७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद अनंतव्रतवर्णनं नाम षडधिकशततमोऽध्यायः ।। १०६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 107

सांभरायणीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

अप्राप्तैर्न तथा दुःखमैश्वर्याद्यैर्नरोत्तम ।।

यथा मनोरथैः स्वैः स्वैर्नानादुःखं भवेन्नृणाम् ।। १ ।।

यथा मनोरथैर्लब्धैर्न स्याद्दुःखभयं नृणाम् ।।

ऐश्वर्याद्विच्युतो वापि संततेर्देवलोकतः ।। २ ।।

अभीष्टादन्यतो वापि यदाघेन विनिष्कृतिम् ।।

प्राप्नोति पुरुषो वाथ नारी वा पुण्यसंचयात् ।।

तन्ममाचक्ष्व भगवन्येन नाभ्येति विच्युतिम् ।। ३ ।। ।।

।। श्रीकृष्ण उवाच ।। ।।

सत्यमेतन्महाभाग दुःखं प्राप्नोत्यसंशयः ।। ४ ।।

ऐश्वर्योदयचित्तस्य बंधुवर्गसुखस्य च ।।

तदेतच्छ्रूयतां पार्थ यथा नेष्टात्परिच्युतिः ।। ५ ।।

स्वर्गादेर्जायते सम्यगुपवासवतां सताम् ।।

द्वादशर्क्षाणि राजेन्द्र प्रतिमासं तु यानि वै ।। ६ ।।

तन्नाम्ना चाच्युतं तेषु सम्यक्संपूजयेन्नृप ।।

पुष्पैर्धूपैस्तथांभोभिरभीष्टैरपरैरपि ।। ७ ।।

आदितः कृत्तिकां कृत्वा कार्त्तिके नृपसत्तम ।।

कृशरामत्र नैवेद्यं पूर्वं मास चतुष्टयम् ।।८।।

निवेदयेत्फाल्गुनादि संयावं च ततः परम् ।।

आषाढादिषु देवाय पायसं विनिवेदयेत् ।। ९ ।।

तेनैवान्नेन राजेन्द्र ब्राह्मणान्भोजयेद्बुधः ।।

पञ्चगव्यजलस्नानं तस्यैव प्राशनाच्छुचिः ।। 4.107.१० ।।

सम्यक्संपूज्य राजेन्द्र तमेव पुरुषोत्तमम् ।।

प्रणम्य प्रार्थयेद्विष्णुं शुचिः स्नातो यथाविधि ।।११।।

नमोनमस्तेऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यम् ।।

ऐश्वर्यवित्तादि तथाऽक्षयं मेक्षयं च मा संततिरभ्युपैतु ।। १२ ।।

यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतः परतः परात्मा ।।

तथाच्युतं मे कुरु वांछितं त्वं हरस्व पापं च तथाप्रमेय ।। १३ ।।

अच्युतानंत गोविन्द प्रसीद यदभीप्सितम् ।।

तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ।। १४ ।।

एवमेवं समभ्यर्च्य प्रार्थयित्वा तथा शिवम् ।।

नैवेद्यं स्वयमश्नीयान्नक्तं संपूजितेच्युते ।। १५ ।।

ततः संवत्सरस्यांते सुखसुप्तोत्थितेऽच्युते ।।

घृतपूर्णं ताम्रपात्रं ब्राह्मणाय निवेदयेत् ।।१६।।

शक्तितो दक्षिणां दद्यादच्युतः प्रीयतामिति ।।

ततस्तु सप्तमे वर्षे कुर्यादुद्यापनं बुधः ।। १७ ।।

कार्या चैवाच्युतस्यार्चा शक्त्या स्वर्णमयी नृप ।।

तदग्रे ब्राह्मणी स्थाप्या स्थविरा सांभरायणी ।। १८ ।।

महासती रौप्यमयी समानार्हा सदेवता ।।

ततस्तौ पूजयित्वा च माल्यवस्त्रविलेपनैः ।। १९ ।।

मंत्रेणानेन राजेन्द्र प्रणिपत्य विधानतः ।।

प्रतिवर्षं च दत्तं चेत्ताम्रं पात्रं द्विजातये ।। 4.107.२० ।।

तदेवहेलया दद्यात्सहिरण्याश्वसंयुतम् ।।

गाश्च प्रदद्यात्सं पूज्य सवत्साः कांस्यदोहनाः ।। २१ ।।

एकां वा शक्तितो दद्याद्भक्त्या तुष्यति केशवः ।।

घटाः सत्पात्रनिर्दिष्टाः सान्नाः पूर्णजलोज्ज्वलाः ।।२२।।

छत्रोपानद्युगैः सार्धमेवं दत्त्वा विसर्जयेत् ।।

शय्यां सतूलिकां दद्याद्गृहं चोपस्करैः सह ।। २३ ।।

श्रिया च सह विष्णुं च पूजयेद्भूषयेत्प्रभुम् ।।

वस्त्रैराभरणैश्चैव प्रणिपत्य क्षमापयेत् ।। २४ ।।

कृतेनानेन राजेन्द्र च्युतिं नाप्नोति मानवः ।।

संततेः स्वर्गवित्तादेरैश्वर्यस्य तथैव च ।।

यद्वाभिमतमन्यच्च ततो न च्यवते नरः ।। २५ ।।

तस्मात्सर्वप्रयत्नेन मासनक्षत्रपूजनैः ।।

यजेताक्षयकामस्तु सदैव पुरुषोत्तमम् ।। २६ ।।

।। श्रीकृष्ण उवाच ।। ।।

अत्रापि श्रूयते काचित्सिद्धा स्वर्गे महाव्रता ।।

नारी तपोधना भूत्वा प्रख्याता सांभरायणी ।।

समस्तसंदेहहरा सदास्वर्गौ कसां हि सा ।। २७ ।।

कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः ।।

पूर्वेन्द्रचरितं राजन्पप्रच्छेदं बृहस्पतिम् ।। २८ ।।

पूर्वेन्द्रात्परतः पूर्वे ये बभूवुः सुरेश्वराः ।।

तेषां चरितमिच्छामि श्रोतुमंगिरसां वर ।। २९ ।।

एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः ।।

प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः ।। 4.107.३० ।।

नाहं चिरंतनान्वेद्मि देवराज सुरेश्वरान् ।।

आत्मनः समकालीनमवेहि च सुरेश्वर ।। ३१ ।।

ततः पप्रच्छ देवेन्द्रः कोस्माभिर्मुनिपुंगवः ।।

प्रष्टव्योऽत्र महाभाग कृतादिवसतिर्दिवि ।। ३२ ।।

बृहस्पतिश्चिरं ध्यात्वा ततः प्राह शचीपतिम् ।।

तपस्विनीं महाभागां पृच्छैतां सांभरायणीम् ।। ३३ ।।

इत्युक्तस्तेन देवेन्द्रः कौतूहलसमन्वितः ।।

ययौ यत्र महाभागा सम्यगास्ते तपस्विनी ।। ३४ ।।

सा तौ दृष्ट्वा समायांतौ देवराजबृहस्पती ।।

सम्यगर्घ्येण संपूज्य प्रणिपत्याह सुव्रता ।। ३५ ।।।

नमोऽस्तु देवराजाय तथैवाङ्गिरसे नमः ।।

यद्वां कार्यं महाभागौ सकलं तदिहोच्यताम्।।३६।।

यदि कर्तुं मया शक्यं तत्करिष्ये विमृश्य च ।।३७।।। ।।

।। बृहस्पतिरुवाच।। ।।

आवामभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम् ।।

यच्च कार्यं महाभागे पृष्टं तत्कथयस्व नः ।।३८।।

यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि वै ।।

तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलम् ।। ३९ ।।

।। सांभरायण्युवाच ।। ।।

यो वै पूर्वं सुरेंद्रस्य ततश्च प्रथमो हि यः।।

तस्मात्पूर्वतरो यस्य तस्यापि प्रथमश्च यः ।। 4.107.४० ।।

तेषां पूर्वतरा ये च वेद्मि तानखिलानहम् ।।

तेषां च चरितं कृत्स्नं जानाम्यगिरसां वर ।।४१।।

मन्वंतराण्यनेकानि सृष्टीश्च त्रिदिवौकसाम् ।।

सप्तर्षीन्सुबहून्वेद्मि मनूनां च सुतान्नृपान् ।। ४२ ।।

एवमुक्त्वा ततस्ताभ्यां सुहृष्टा सांभरायणी ।।

यथावदाचष्ट तयोः पूर्वेन्द्रचरितं महत् ।। ४३ ।।

स्वायंभुवे यस्तु मनौ मनौ स्वारोचिषे च यः ।।

उत्तमे तामसे चैव रैवते चाक्षुषे तथा ।। ४४ ।।

ये बभूवुर्हि देवेन्द्रास्तस्य तस्य तपस्विनी ।।

तदा जगाद चरितं यथावत्सांभरायणी ।। ४५ ।।

कथयामास चाश्चर्यं तच्चापि कथयामि ते ।।४६ ।।

शंकुकर्णस्तदा दैत्यो बभूवात्यंतदुर्जयः ।।

स लोकपालान्समरे विजित्य सह दैवतैः ।।

इन्द्रस्यासाद्य भवनं प्रविवेश सुनिर्भयः ।। ४७ ।।

तं दृष्ट्वा सहसा प्राप्तं शक्रः शय्यातलेऽलुठत् ।।

जुगोप सहसात्मानं शंकुकर्णभयार्दितः ।।४८।।

दानवः शक्रशयने तस्मिन्नुपविवेश ह ।।

इन्द्राण्यपि तथा भीता गता वाचस्पतेर्गृहम् ।। ४९ ।।

अथ देवाः समाजग्मुर्भयाद्द्रष्टुं सुरद्विषम् ।।

आसीनं शक्रशयने प्रणिपातपुरस्सराः ।। 4.107.५० ।।

वासुदेवोऽपि तत्रागात्तं द्रष्टुं देवकंटकम् ।।

दृष्ट्वा कृष्णमनुप्राप्तं दानवः प्राह हर्षितः ।। ५१ ।।

धन्योऽहं कृतकृत्योहं यस्य मे गरुडध्वजः ।।

शक्रशय्यासनस्थस्य द्रष्टुमभ्येति केशवः ।। ५२ ।।

ततः करे समालंब्य शयनाभ्याशमानयत् ।।

चकार कंठग्रहणं बांधवस्येव हर्षित ।। ५३ ।।

ततः कृष्णस्तु सहसा गृह्य दोर्भ्यां शनैः शनैः ।।

पीडयामास विहसन्नदंतं भैरवान्रवान् ।।

ममार दानवेन्द्रोऽसौ बलाद्भग्नास्थिपञ्जरः ।। ५४ ।।

निर्जगाम ततः शक्रः शय्यामूलादवाक्छिराः ।।

तुष्टाव हरिमासीनं शंखचक्रगदाधरम् ।। ५९ ।।

एतद्दृष्टं मया शक्र वसंत्या सुरसद्मनि ।। ५६ ।।

ततः कुतूहलपरो देवराट् तां तपस्विनीम् ।।

उवाच जानासि कथं त्वमेतान्सांभरायणि ।।५७।।

।। सांभरायण्युवाच ।। ।।

सर्व एव हि देवेन्द्राः स्वर्गस्था येमरेश्वराः।।

बभूवुरेते चरितमेतेषां वेद्मि तेन वै ।।

चरितं च मया तेषां श्रुतं दृष्टं तथैव च ।।५८।।

।। इन्द्र उवाच ।। ।।

किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया ।।

स्वर्लोके वसतिः प्राप्ता यथा नान्येन केनचित् ।। ५९ ।।

अहो सर्वव्रतानां तु ह्युपोषितमथाद्भुतम् ।।

प्रधानतरमत्यंतं स्वर्गवासप्रदं मतम् ।। 4.107.६० ।।

एवमुक्ता ततस्तेन देवेन्द्रेण तपस्विनीं ।।

प्रत्युवाच महाभागा यथावत्सांभरायणी ।। ६१ ।।

मासर्क्षे ह्यच्युतो देवः प्रतिमासं सुरेश्वर ।।

यथोक्तव्रतया सम्यक्सप्तवर्षाणि पूजितः ।। ६२।।

तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे ।।

देवलोकादभिमता देवराजपदच्युतिः ।। ६३ ।।

स्वर्गेन्द्रविभवैश्वर्यं संततिं याति चाच्युतिम् ।।

नरो वाञ्छति तेनेत्थं तोषणीयस्ततः प्रभुः ।। ६४ ।।

एतत्ते पूर्वदेवेन्द्रचरितं सकलं मया ।।

स्वर्गवासाक्षयत्वं च मासर्क्षाच्युतपूजनात् ।।

यथावत्कथितं देव पृच्छतस्त्रिदशेश्वर ।। ६५ ।।

धर्मार्थकाममोक्षाश्च वाञ्छिता विबुधाधिप ।।

विष्णोराराधनादन्यत्परमं सिद्धिकारणम् ।। ६६ ।।

तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती ।।

तत्तथेत्यूचतुः साध्वीं चेरतुश्चापि तद्व्रतम् ।। ६७ ।।

तस्मात्पार्थ प्रयत्नेन प्रतिमासं समाहितः ।।

मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा ।।६८।।

ये सांभरायणिकथाचरितव्रतेस्मिन्वर्षाणि सप्त विधिना सुधियो नयंति ।।

ते स्वगर्लोकमभिगम्य कृताधिवासाः कल्पायुतायुतशतैरपि न च्यवंते ।। ६९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे सांभरायणीव्रतवर्णनं नाम सप्ताधिकशततमोऽध्यायः ।। १०७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 108

नक्षत्रपुरुषव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

सुरूपता मनुष्याणां स्त्रीणां च यदुसत्तम ।।

कर्मणा जायते केन तन्ममाख्यातुमर्हसि ।। १ ।।

सुरूपाणां सुगात्राणां सुवेषाणां तथैव च ।।

न्यूनं तथाधिकं चापि यथा नाङ्गं प्रजायते ।।२।।

समस्तैः शोभनैरंगैर्नराः केचिद्यदूत्तम ।।

काणाः कुब्जांश्च जायंते त्रुटितश्रवणास्तथा ।।३।।

नराणां योषितां चैव समस्ताङ्गः सुरूपता ।।

कर्मणा येन भवति तत्पूर्वं कथयामल ।। ४ ।।

लावण्यगतिवाक्यानि सति रूपे महामते ।।

कुर्वंत्यभ्यधिकां शोभां समस्ताः परमा गुणाः ।। ५ ।।

वाक्यलावण्यसंस्कारविलासललिता गतिः ।।

विडंबना कुरूपाणां केवला सा हि जायते ।। ६ ।।

रूपकारणभूताय कर्मणा प्रयतो भवेत् ।।

तस्मात्तन्मे समाचक्ष्व कर्म यच्चारु रूपदम् ।।७।।

।। श्रीकृष्ण उवाच ।। ।।

सम्यक्पृष्टं त्वया हीदमुपवासाश्रितं नृप ।।

कथयामि यथाप्रोक्तं वरिष्ठेन महात्मना ।। ८ ।।

वशिष्ठमृषिमासीनं सप्तर्षिप्रवरं द्विजम् ।।

पप्रच्छारुन्धती पृष्टा यदेतद्भवता वयम् ।।९।।

तस्यास्तु परिपृच्छन्त्या जगाद मुनिसत्तमः ।।

यत्तच्छृणुष्व कौंतेय ममेदं वदतोऽखिलम् ।। 4.108.१० ।।

।। वशिष्ठ उवाच ।। ।।

श्रूयतां यदहं पृष्टस्त्वयैतद्वरवर्णिनि ।।

सुरूपता नृणां येन योषितां चोपजायते ।। ११ ।।

अनभ्यर्च्य तु गोविंदमनाराध्य च केशवम् ।।

रूपादिका गुणाः केन प्राप्यंतेऽन्येन कर्मणा ।। १२ ।।

तस्मादाराधनीयोऽग्रे विष्णुरेव यशस्विनि ।।

पारत्र्यं प्राप्तुकामेन रूपसंपत्सुतादिकम् ।। १३ ।।

यस्तु वाञ्छति धर्मज्ञे रूपं सर्वांगसुन्दरम् ।।

नक्षत्रपुरुषं भद्रे जितक्रोधो जितेंद्रियः ।। १४ ।।

सुस्नातः प्रयताहारः संपूजयति योऽच्युतम् ।।

भक्त्या योषिन्नरो वापि सुरूपांगः प्रजायते ।। १५ ।।

योषिता हि परं रूपमिच्छन्त्या जगतः पतिः ।।

स एवाराधनीयोऽग्रे नक्षत्रांगो जनार्दनः ।। १६ ।।

।। अरुन्धत्युवाच ।। ।।

नक्षत्ररूपी भगवान्पूज्यते पुरुषोत्तमः ।।

मुने येन विधानेन तन्ममाख्यातुमर्हसि ।। १७ ।।

।। वशिष्ठ उवाच ।। ।।

चैत्रमासात्समारभ्य विष्णोः पादाभिपूजनम् ।।

यथा कुर्वीत रूपार्थं तन्निशामय तत्त्वतः ।। १८ ।।

नक्षत्रमेकमेकं वै स्नातः सम्यगुपोषितः ।।

नक्षत्रपुरुषस्यांगं पूजयेच्च विचक्षणः ।। १९ ।।

मूले पादौ तथा जंघे रोहिण्यामर्चयेच्छुभे ।।

जानुनी चाश्विनीयोगे आषाढे चोरुसंज्ञिते ।। 4.108.२० ।।

फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम् ।।

पार्श्वे भाद्रपदा गुल्फे द्वे कुक्षी रेवतीषु च ।। २१ ।।

अनुराधासूरः पृष्ठं धनिष्ठास्वभिपूजयेत् ।।

भुजयुग्मं विशाखासु हस्ते चैव करद्वयम् ।। २२ ।।

पुनर्वसावंगुलीश्च आश्लेषासु तथा नखान् ।।

ज्येष्ठायां पूजयेद्ग्रीवां श्रवणे श्रवणे तथा ।। २३ ।।

पुष्ये मुखं तथा स्वातौ दशनानभिपूजयेत् ।।

आस्यं शतभिषग्योगे मघायोगे च नासिकाम् ।। २४ ।।

मृगोत्तमांगे नयने पूजयेद्भक्तितः शुभे ।।

चित्रायोगे ललाटं च भरणीषु तथा शिरः ।। २५ ।।

संपूजनीया विद्वद्भिरार्द्रायां च शिरोरुहाः ।।

उपोषितो नरो भद्रे स्नानमभ्यंगपूर्वकम् ।। २६ ।।

वर्जनीयं प्रयत्नेन रूपघ्नं तद्विनिर्दिशेत् ।।

पूजयेत्तच्च नक्षत्रं नक्षत्रस्य च दैवतम् ।। २७ ।।

सोमं नक्षत्रराजानं स्वमन्त्रैरर्चयेद्बुधः ।।

प्रतिनक्षत्रयोगे च भोजनीया द्विजोत्तमाः ।। २८ ।।

नक्षत्रज्ञाय विप्राय दानं दद्याच्च शक्तितः ।।

अन्तराये समुत्पन्ने सूतकाशौचकारिते ।। २९ ।।

उपोष्य वाचोप विशेन्नक्षत्रमपरं पुनः ।।

एवं माघावसाने तु व्रतपारः समाप्यते ।। 4.108.३० ।।

समाप्ते तु व्रते दद्याच्छक्त्या सोपस्करान्वितम् ।।

नक्षत्रपुरुषं हैमं पूजये त्तत्र शक्तितः ।। ३१ ।।

ब्राह्मणं ब्राह्मणीं चैव वस्त्रालंकारभूषणैः ।।

शय्यायां तु समासन्नं गन्धमाल्यानुलेपनैः ।। ३२ ।।

सप्तधान्यं यथालाभं गां सवत्सां पयस्विनीम् ।।

छत्रोपानद्युगं चैव घृतपात्रं तथैव च।।३३।।

मंत्रेणानेन विप्राय सुशीलाय निवेदयेत् ।।

यथा न विष्णुभक्तानां वृजिनं जायते क्वचित ।।

तथा सुरूपतारोग्य सुखसंपदिहास्तु मे ।। ३४ ।।

यथा न लक्ष्म्या शयनं तव शून्यं जनार्दन ।।

शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि ।। ३५ ।।

एवं निवेद्य तत्सर्वं प्रणिपत्य क्षमापयेत् ।।

शक्तिहीनस्तु गां दद्याद् घृतपात्रसमन्विताम् ।। ३६ ।।

नक्षत्रपुरुषाख्योऽयं यथावत्कथितस्तव ।।

पापापनोदं कुरुते सम्यक्छ्रद्धावतां सताम् ।। ३७ ।।

अङ्गोपाङ्गानि चैवास्य पादादीनि यशस्विनि ।।

सुरूपाण्यभिजायंते सदा जन्मान्तराणि वे ।। ३८ ।।

गात्राणि चैव भद्राणि शरीरारोग्यमुत्तमम् ।।

संततिं मनसः प्रीतिं रूपं चातीव शोभनम् ।। ३९ ।।

वाङ्माधुर्यं तथा कांतिं यच्चान्यदपि वांछितम् ।।

ददाति नक्षत्रपुमान्पूजितश्च जनार्दनः ।। 4.108.४० ।।

वशिष्ठेन यथाख्यातं सर्वं तत्ते निवेदितम् ।।

नक्षत्रपुरुषं नाम व्रतानामुत्तमोत्तमम् ।। ४१ ।।

हृद्बाहुजानुनयनोरुनितंबभागं दक्षैः प्रकल्प्य सुतनुं पुरुषोत्तमस्य ।।

ये पूजयंति जितकोपमनोविकाराः कौंतेय ते ननु भवंति सुरूपदेहा ।। ४२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रपुरुषव्रतवर्णनं नामाष्टाधिक शततमोऽध्यायः ।। १०८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 109

नक्षत्राख्यव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

उपवासेष्वशक्तस्य तदैव फलमिच्छतः ।।

अनभ्यासेन योगाद्वा किमिष्टं व्रतमुच्यते ।। १ ।।

शिवस्योपरि यस्य स्याद्भक्तिः सूर्यस्य संभवेत् ।।

नक्षत्राख्यं व्रतं तेन कथं कार्यं वदस्व मे ।। २।।

।। श्रीकृष्ण उवाच ।। ।।

उपवासेष्वशक्तानां नक्तं भोजनमिष्यते ।।

अस्मिन्व्रते तदप्यत्र श्रूयतामक्षयं महत् ।। ३ ।।

शिवनक्षत्रपुरुषं शिवभक्तिप्रदायकम् ।।

यस्मिन्नक्षत्रयोगे तु पुराणज्ञाः प्रचक्षते ।। ४ ।।

फाल्गुनस्यामले पक्षे यदा हस्तः प्रजायते ।।

तदा ग्राह्यं व्रतं चैव नक्तेन शिवपूजनम् ।। ५ ।।

शिवा येति च हस्तेन पादौ पूज्यतमौ स्मृतौ ।।

शंकराय नमो गुल्फौ पूज्यौ चित्रासु पांडव ।। ६ ।।

भीमायेति च स्वातीषु पूजयेत्पुरुषर्षभ ।।

ऊरु द्द्वयं विशाखासु त्रिनेत्रायति पूजयेत् ।। ७ ।।

मेढ्रं चैवानुराधासु अनङ्गाङ्गहराय च ।।

कटिं ज्येष्ठासु च तथा सुरज्येष्ठेति चार्चयेत् ।। ।। ८ ।।

दानाख्याय नमो नाभिः पूज्या मूलेन शूलिनः ।।

पूर्वोत्तराषाढयुगे पार्श्वे वै पार्वतीपतिः ।। ९ ।।

श्रवणेन तथा कुक्षी पूज्ये कपालिनेति च ।।

वक्षःस्थलं धनिष्ठासु सद्योजातेति नाम च ।। 4.109.१० ।।

वामेति पूजयेत्पार्थ हृदयं शतभिषासु च ।।

पूर्वोत्तरायुगे बाहू नमः खट्वांगधारिणे ।। ११ ।।

पूज्यं रुद्राय च तथा रेवतीषु करद्वयम् ।।

नखः पूज्योऽश्विनीयोगे नमः खण्डेन्दुधारिणे ।। १२ ।।

भरणीषु ततः पृष्ठं वृषांकाय नमोऽस्तु ते ।।

कृत्तिवासाय च तथा कृत्तिकासु कृकाटिकाम् ।। १३ ।।

वाक्पूज्या रोहिणीयोगे नमो वाचस्पतेति च ।।

मृगोत्तमांगे दशनान्भैरवायेति वै नमः ।। १४ ।।

आर्द्रासु पूज्यावधरौ स्थाणवेति युधिष्ठिर ।।

नासा पुनर्वसौ पूज्या पूषदंतविनाशिने ।। ।। १५ ।।

पुष्ये नेत्रत्रयं पूज्यं नमस्ते सर्वदर्शिने ।।

आश्लेषायां ललाटं च त्र्यम्बकाय नमोनमः ।। १६ ।।

मघासु च जटाजूटं पूजयेदंधकारये ।।

पूर्वाफाल्गुनिकायुग्मे श्रवणे सोमधारिणे ।। १७ ।।

नमोऽस्तु पाशांकुशपद्मशूलकपालसर्पेन्दुधनुर्द्धराय ।।

गजासुरानंगधुरांधकादिविनाशमूलाय नमः शिवाय ।। १८ ।।

शिरः सम्पूजयेद्दद्यात्ततो धूपविलेपनम् ।।

ततस्तु रात्रौ भोक्तव्यं तैलक्षारविवर्जितम् ।। १९ ।।

शालितण्डुलकप्रस्थं घृतपात्रेण संयुतम् ।।

दद्यात्सर्वेषु नक्तेषु ब्राह्मणाय नृपोत्तम ।। 4.109.२० ।।

शक्त्यभावे न दोषः स्यादधिके चाधिकं फलम् ।।

नक्षत्रयुगले प्राप्ते नक्तयुग्मं समाचरेत् ।। २१ ।।

सूतकाशौचदोषे तु पुनरन्यदुपोषयेत् ।।

एवं क्रमेण संप्राप्ते पारणे पांडवादिके ।। २२ ।।

ब्राह्मणान्भोजयेद्भक्त्या गुडक्षीर घृतादिभिः।।

कांचनं कारयेद्देवमुमया सह शंकरम् ।। २३ ।।

शय्यां सुलक्षणां कृत्वा विरुद्धग्रंथिवर्जिताम् ।।

सोपधानकविश्रामां स्वास्तरावरणां शुभाम् ।। २४ ।।

भाजनोपानहच्छत्रचामरासनदर्पणैः ।।

भूषणैरपि संयुक्तां फलवस्त्रानुलेपनैः ।। २५ ।।

तस्यां निधाय तं देवमलंकृत्य गुणान्वितम् ।।

कपिलां वस्त्रसंवीतां शुचिशीलां पयस्विनीम् ।। २६ ।।

सुवर्णशृंगीं रौप्यखुरां सवत्सां कांस्यदोहनाम् ।।

दद्यान्मंत्रेण पूर्वाह्ने न कालमभिलंघयेत् ।। २७ ।।

यथा न देवशयनं तव पर्वतजातया ।।

शून्यं वृत्त्याथ संतत्या तथा मे संतु सिद्धयः ।। २८ ।।

यथा देव न श्रेयोऽर्थस्त्वदन्यो विद्यते क्वचित् ।।

तथा मामुद्धराशेषदुःखसंसारसागरात् ।। २९ ।।

ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् ।।

शय्यागवादितत्सर्वं द्विजस्य भवनं नयेत् ।। 4.109.३० ।।

नैतद्विशीलाय न दांभिकाय कुतर्कदुष्टाय विनिंदकाय ।।

प्रकाशनीयं व्रतमिन्दुमौलेर्यश्चापि लोभोपहतांतरात्मा ।। ३१ ।।

भक्ताय दांताय गुणान्विताय प्रदेयमेतच्छिवभक्तियुक्तैः ।।

इदं महापातककृन्नराणामप्यक्षयं वेदविदो वदंति ।। ३२ ।।

या वाथ नारी कुरुतेऽतिभक्त्या भर्तारमाश्रित्य शुभं गुरुं वा ।।

न बंधुपुत्रैर्न धनैर्वियोगमाप्नोति दुःखं न सुहृत्समुत्थम् ।। ३३ ।।

इदं वशिष्ठेन पुराऽर्जुनेन कृतं कुबेरेण पुरंदरेण ।।

यत्कीर्तनादप्यखिलान्यघानि विघ्नं समायांति न संशयोत्र ।। ३४ ।।

इति पठति शृणोति वा य इत्थं शिवपुरुषं पुरुहूतवल्लभः स्यात् ।।

अपि नरकगतान्पितॄनशेषाञ्च्छिवभवनं नयतीह यः करोति ।। ३५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शिवनक्षत्रपुरुषव्रतवर्णनं नाम नवोत्तरशततमोऽध्यायः ।। १०९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 110

सम्पूर्णव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

यदि कर्तुं न शक्नोति व्रतं नक्षत्रपौरुषम् ।।

गृहीतं रभसा कृष्ण ह्यन्यद्वा व्रतमुत्तमम् ।। १ ।।

संपूर्णं जायते येन यदचीर्णं पुरा स्थितम् ।।

कुरु प्रसादं गुह्यार्थमेतन्मे वक्तुमर्हसि ।। । २ ।।

।। श्रीकृष्ण उवाच ।। ।।

साधुसाधु महाबाहो कुरुराज युधिष्ठिर ।।

रहस्यानां रहस्यं ते कथयामि व्रतोत्तमम् ।। ३ ।।

सम्पूर्णं नाम तच्चापि व्रतं सम्यक्फलप्रदम् ।।

यच्चीर्णं नरनारीभिर्भवेत्संपूर्णकारकम् ।। ४ ।।

अवश्यं तच्च कर्तव्यमक्षीणफलकांक्षिभिः ।।

किञ्चिद्भग्नं प्रमादेन यद्गतं व्रतिनां स्थितम् ।।

तत्संपूर्णं भवेत्सर्वं व्रतेनानेन पाण्डव ।। ५ ।।

उपद्रवैर्बहुविधैर्मदान्मोहाच्च पार्थिव ।।

यद्भग्नं किञ्चिदेव स्याद्व्रतं विप्रविनायकैः ।।

तत्संपूर्णं भवेत्पार्थ सत्यंसत्यं न संशयः ।। ६ ।।

कांचनं रौप्यकं रूपं शिल्पिना तद्धटापयेत् ।।

भग्नव्रते तु यो देवस्तत्स्वरूपं सुनिर्मितम् ।। ७ ।।

रूपं स्त्रीपुंसयोर्वापि प्रारब्धं यद्व्रते किल ।।

नवनिष्पादितं किञ्चिद्दैवात्सर्वं तथोत्थितम् ।। ८ ।।

द्विभुजं पङ्कजारूढं सौम्यप्रहसिताननम् ।।

निष्पादितं शिल्पभावात्तस्मिन्नेव दिनेदिने ।। ९ ।।

तन्मासे च पुनः प्राप्ते ब्राह्मणो विधिना गृहे ।।

स्नापयेत्पयसा दध्ना घृतक्षीररसांबुभिः ।। 4.110.१० ।।

गंधचंदनपुष्पैश्च चर्चयेत्कुंकुमादिना ।।

तोयपूर्णस्य कुम्भस्य पृथ्व्यां विन्यस्य चंदनैः ।। ११ ।।

धूपदीपाक्षतैर्वस्त्रै रत्नैरप्युपहारकैः ।।

अर्घ्यं दद्याच्च तन्नाम्ना मंत्रेणानेन पांडव ।। १२ ।।

उपसन्नस्य दीनस्य प्रायश्चित्तकृताञ्जलेः ।।

शरणं च प्रपन्नस्य कुरुष्वाद्य दयां प्रभो ।। १३ ।।

परत्र भयभीतस्य भग्नखण्डव्रतस्य च ।।

कुरु प्रसादं संपूर्णं व्रतं संपूर्णमस्तु मे ।। १४ ।।

तपश्छिद्रं व्रतच्छिद्रं यच्छिद्रं भग्नके व्रते ।।

तव प्रसादाद्देवेश सर्वमच्छिद्रमस्तु नः ।। स्वाहा ।। १५ ।। (अमुकदेवाय नमः ।।)

पूर्वतो दक्षिणतः पश्चिमत उत्तरतः ।।

विदिक्षु चोपर्य्यधस्ताद्दिक्पालेभ्यो नमोनमः ।। १६ ।।

इदमर्घ्यमिदं पाद्यं नैवेद्यं ते नमोनमः ।।

एवं प्रोच्य ततः पादौ जानुनी कटिशीर्षके ।। १७ ।।

वक्षःकुक्षिदृष्टिपृष्ठबाह्वंसांकशिरोरुहान् ।।

पूजयेत्तस्य देवस्य ततः पश्चात्क्षमापयेत् ।। १८ ।।

पूजितस्त्वं यथाशक्त्या नमस्तेऽस्तु सुरोत्तम ।।

ऐहिकामुष्मिकीं नाथ कार्यसिद्धिं दिशस्व मे ।। १९ ।।

एवं क्षमापयित्वा तु देवरूपं विधानतः ।।

ततो द्विजस्य कौन्तेय विधिज्ञस्योपपादयेत् ।। 4.110.२० ।।

स्थित्वा पूर्वमुखो विप्रो गृह्णीयाद्दर्भपाणिना ।।

विप्रस्य हस्ते यच्छेच्च दाता वै चोत्तरामुखः ।।

मंत्रेणानेन कौंतेय सोपवासः प्रयत्नतः २१ ।।

इदं व्रतं मया खंडं कृतमासीत्पुरा द्विज ।।

भगवंस्त्वप्रसादेन संपूर्णं तदिहास्तु मे ।। २२ ।।

ब्राह्मणोऽपि प्रतीच्छेत्तु मंत्रेणानेन तद्व्रतम् ।।

वाक्संपूर्णं मनःपूर्णं पूर्णं कायव्रतेन ते।।

संपूर्णस्य प्रसादेन भव पूर्णमनोरथः ।।२३।।

ब्राह्मणा यत्प्रभाषंते ह्यनुमोदंति देवताः ।।

सर्वदेवमया विप्रा नैतद्वचनमन्यथा ।। २४ ।।

जलधिः क्षारतां नीतः पावकः सर्वभक्षताम् ।।

सहस्रनेत्रः शक्रोऽपि कृतो विप्रैर्महात्मभिः ।। २५ ।।

ब्राह्मणानां तु वचनाद्ब्रह्महत्या प्रणश्यति ।।

अश्वमेधफलं साग्रं प्राप्यते नात्र संशयः ।। २६ ।।

व्यासवाल्मीकिवचनाद्ब्राह्मणवचनाच्च गर्गगौतम पराशरधौम्यांगिरसवाष्ठिनारदादिमुनिवचनात्संपूर्णं भवतु ते व्रतम् ।। २७ ।।

एवंविधविधानेन गृहीत्वा ब्राह्मणो व्रजेत् ।।

तद्दानं प्रेषयेत्स ब्राह्मणस्य गृहे स्वयम् ।।

ततः पंच महायज्ञान्निर्वपेद्भोजनादि च ।। २८ ।।

एवं यः कुरुते भक्त्या व्रतमेतत्सकृत्तथा ।।

तस्य संपूर्णतां याति तद्व्रतं यत्पुरा स्थितम् ।। २९

खंडं संपूर्णतां याति प्रसन्ने व्रतदैवते ।।

संपूर्णं च ततः कृत्वा संपूर्णांगो भवेद्व्रती ।। 4.110.३० ।।

भोगी भव्यो लसत्कीर्तिः स्व संपूर्णमनोरथः ।।

स्थित्वा वर्षशतं मर्त्ये ततः स्वर्गेऽमरो भवेत्।। ३१ ।।

यथेष्टचेष्टाचारी च ब्रह्मविष्ण्विन्द्रपूजितः ।।

स्वर्गलोके चिरं स्थित्वा पुनर्मोक्षमवाप्नुयात् ।। ३२ ।।

प्रायश्चित्तमिदं प्रोक्तं पुरा गर्गेण मे प्रभो ।।

गोकुले गोकुलाकीर्णे मया बाल्येऽप्युपोषितम् ।। ३३ ।।

एवं त्वमपि कौंतेय चर संपूर्णकं व्रतम् ।। ३४ ।।

भग्नानि यानि मदमोहवशाद्गृहीत्वा जन्मान्तरेष्वपि नरेण समत्सरेण ।।

संपूर्णपूजनपरस्य पुरो भवंति सर्वव्रतानि परिपूर्णफलप्रदानि ।। ३५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संपूर्णव्रतवर्णनं नाम दशोत्तर शततमोऽध्यायः ।। ११० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 111

कामदानवेश्याव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः ।।

पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्त्वतः ।। १ ।।

का ह्यासां देवता कृष्ण किं व्रतं किमुपोषितम् ।।

केन धर्मेण चैवेताः स्वर्गमाप्स्यंत्यनुत्तमम् ।। २ ।।

।। श्रीकृष्ण उवाच ।।

मम पत्नीसहस्राणि संति पांडव षोडश ।।

रूपौदार्यगुणोपेता मन्मथायतनाः शुभाः ।। ३ ।।

ताभिर्वसंतसमये कोकिलालिकुलाकुले ।।

पुष्पितोपवनोत्फुल्लकह्लारसरसस्तटे ।।

निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृते ।। ४ ।।

कुरंगनयनः श्रीमान्मालतीकृतशेखरः ।।

गच्छन्समीपे मार्गेण सांबः परपुरंजयः ।। ५ ।।

साक्षात्कंदर्परूपेण सर्वाभरणभूषितः ।।

अनंगशरतप्ताभिः साभिलाषमवेक्षितः ।। ६ ।।

प्रवृद्धो मन्मथस्तासां सर्वाङ्गक्षोभदायकः ।।

निरीक्ष्य तमहं सर्वं विकारं ज्ञानचक्षुषा ।। ७ ।।

अशेषे रुषितः सर्वा हरिष्यंतीह दस्यवः ।।

मयि स्वर्गमनुप्राप्ते भवतीः काममोहिताः ।। ८ ।।

एतद्वाक्यमुपश्रुत्य बाष्पर्याकुलेक्षणाः ।।

मामूचुर्वद गोविन्द कथमेतद्भविष्यति ।। ९ ।।

भर्तारं जगतामीशं भवंतमपरा जितम्।।

दिव्यानुभावां च पुरीं रत्नवंति गृहाणि च ।। 4.111.१० ।।

द्वारिकावासिनः सर्वान्देवरूपान्कुमारकान् ।।

भगवन्सर्वलोकस्य कथं भोग्या भवामहे ।। ११ ।।

दासभावमनुप्राप्य भविष्यामः कथं पुनः ।।

को धर्मः कः समाचारः कथं वृत्तिर्भविष्यति ।। १२ ।।

तथा लालप्यमानास्ता वाष्पपर्याकुलेक्षणाः ।।

मया प्रोक्ता युवत्यस्ताः संतापस्त्यज्यतामयम् ।। १३ ।।

जलक्रीडाविहारेषु पुरा सरसि मानसे ।।

भवतीनां सगर्वाणां नारदोऽभ्याशमागतः ।। १४ ।।

हुताशनसुताः सर्वा भवत्योऽप्सरसः पुरा ।।

अप्रणम्यावलेपेन परिपृष्टः स योगवित् ।। १५ ।।

कथं नारा यणोऽस्माकं भर्ता स्यादित्युपादिश ।।

तस्माद्व्रतप्रदानं च शापदानमभूत्पुरा ।। १६ ।।

शय्याद्वयप्रदानेन मधुमाधवमासयोः ।।

सुवर्णोपस्करोत्सर्गाद्द्वादश्यां शुक्लपक्षतः ।।

भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि।। १७ ।।

न कृतो यत्प्रणामो मे रूपसौभाग्यमत्सरात् ।।

परं पृष्टोऽस्मि तेनाशु वियोगो वो भविष्यति ।।

चौरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ ।। १८ ।।

एवं नारदशापेन मच्छापेन च सांप्रतम्।।

न कार्यः संभ्रमः कश्चिद्दासीत्वं वो भविष्यति ।। १९ ।।

इदानीमपि यद्वक्ष्ये तच्छ्रणुध्वं वराननाः ।।

पुरा देवासुरे युद्धे हतेषु शतशः पुनः ।।

दानवासुरसैन्येषु राक्षसेषु ततस्ततः ।। 4.111.२० ।।

तेषां नारीसहस्राणि शतशोऽथ सहस्रशः ।।

परिणीतानि यानि स्युर्बलाद्भुक्तानि यानि वै ।। २१ ।।

तानि सर्वाणि देवेशः प्रोवाच वदतां वरः ।।

वेश्याधर्मेण वर्तध्वमधुना नृपमंदिरे ।। .२२ ।।

भक्तिमत्यो वरारोहास्तदा देवकुलेषु च ।।

राजानः स्वामिनः स्तुत्या ब्राह्मणाश्च बहुश्रुताः ।। २३ ।।

तेषां गृहेषु तिष्ठध्वं सूतकं चापि तत्समम् ।।

भविष्यति च सौभाग्यं सर्वासामपि शक्तितः ।।२४।।।

न चैकस्मिन्रतिः कार्या पुरुषे धनवर्जिते ।।

अनुमान्यः प्रसाद्यश्च शुल्कदो देववत्सदा ।। २५ ।।

सुरूपो वा विरूपो वा द्रव्यं तत्र प्रयोजनम् ।।

न तद्व्यतिक्रमः कार्यो ब्रह्महत्यामवाप्नुयात् ।।

न चापि मद्यपाभिश्च भाव्यं कौटिल्यबुद्धिभिः ।।२६।।

यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा ।।

निश्छद्मनैवापहार्यं तत्सर्वं दंभवर्जितम् ।। २७ ।।

व्यभिचारो न कर्तव्यः स्वामिना सह कर्हिचित्।।

रूपयौवनदर्पेण धनलोभेन वा पुनः ।२८।।

दासी भूत्वा च या काचिद्व्यभिचारं करोति च ।।

पतिना सह पापिष्ठा पापिष्ठां यात्यधोगतिम्।।२९।।

देवतानां पितॄणां च पुण्येऽह्नि समुपस्थिते ।।

गोभूहिरण्यधान्यानि प्रदेयानि च शक्तितः।।4.111.३०।।

ब्राह्मणेभ्यो वरारोहाः कार्याणि वचनानि च ।।

यच्चाप्यन्यद्व्रतं सम्यगुपदेक्ष्यामि तत्त्वतः. ३१ ।।

अविचारेण सर्वाभिरनुष्ठेयं च तत्पुनः ।।

संसारोत्तारणायालमेतद्वेदविदो विदुः ।। ३२ ।।

यदा सूर्यदिने प्राप्ते पुष्यो वा स पुनर्वसुः ।।३१।।

भवेत्सर्वौषधिस्नानं सम्यङ्नारी समाचरेत् ।। ३३ ।।

तदा पञ्चशरस्यापि संनिधातृत्वमेष्यति ।।

अर्चयेत्पुण्डरीकाक्षमनङ्गस्यापि कीर्तनम्।।३४।।।

कामाय पादौ संपूज्य जंघे वै मोहकारिणे।।

मेढ्रं कदर्पनिधये कटिं प्रीतियुजे नमः ।। ३५ ।।

नाभिं सौख्यसमुद्राय वामनाय तथोदरम्।।

हृदयं हृदयेशाय स्तनावाह्लादकारिणे ।। ३६ ।।

उत्कंठायेति वै कंठमास्यमानन्दजाय च।।

वामांसं पुष्पचापाय पुष्पबाणाय दक्षिणम् ।। ३७ ।।

नमोऽनन्ताय वै मौलिं विलोलायेति च ध्वजम्।।

सर्वात्मने शिरस्तद्वद्देवस्य पूजयेत्।।३८।।

नमः श्रीपतये तार्क्ष्यध्वजांकुशधराय च।।

गदिने पीतवस्त्राय शंखिने चक्रिणे नमः।।

नमो नारायणायेति कामदेवात्मने नमः ।।३९।।

नमः शांत्यै नमः प्रीत्यै नमो रत्यै नमः श्रिये ।।

नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थदाय च ।। 4.111.४० ।।

एवं संपूज्य गोविन्दमनंगात्मकमीश्वरम् ।।

गंधैर्माल्यैस्तथा धूपैर्नैवेद्यैश्चैव भामिनी ।। ४१ ।।

अत्र चाहूय धर्मज्ञं ब्राह्मणं वेदपारगम् ।।

अव्यंगावयवं पूज्य गंधपुष्पादिभिस्तथा ।। ४२ ।।

शालेयतंडुलप्रस्थं घृतपात्रेण संयुतम् ।।

तस्मै विप्राय सा दद्यान् माधवः प्रीयतामिति ।। ४३ ।।

यथेष्टाहारभुक्तं च तमेव द्विजसत्तमम् ।।

रत्यर्थं कामदेवोऽयमिति चित्तेऽवधार्य च ।। ४४ ।।

यद्यदिच्छति विप्रेन्द्रस्तत्तत्कुर्याद्विलासिनी ।।

सर्वभावेन चात्मानमर्पयेत्स्मितभाषिणी ।। ४५ ।।

एवमादित्यवारेण सदा तद्व्रतमाचरेत् ।।

तंडुलप्रस्थदानं च यावन्मासांस्तु द्वादश ।। ४६ ।।

ततस्त्रयोदशे मासि संप्राप्ते तस्य भामिनी ।।

विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विलक्षणाम् ।। ४७ ।।

सोपधानकविश्रामां स्वास्तरावरणां शुभाम् ।।

दीपिकोपानहच्छत्रपादुकासनसंयुताम् ।। ४८ ।।

सपत्नीकमलंकृत्य हेमसूत्राङ्गुलीयकैः ।।

सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलेपनैः ।। ४९ ।।

कामदेवं सपत्नीकं गुडकुंभोपरि स्थितम् ।।

ताम्रपात्रासनगतं हैमनेत्रपटावृतम् ।। 4.111.५० ।।

सकांस्यभाजनोपेतमिक्षुदण्डसमन्वितम् ।।

दद्यादेतेन मंत्रेण तथैकां गां पयस्विनीम् ।। ५१ ।।

यथांतरं न पश्यामि कामकेशवयोः सदा ।।

तथैव सर्वकामाप्तिरस्तु विष्णो सदा मम ।। ५२ ।।

यथा न कामिनीदेहात्प्रयाति तव केशव ।।

तथापि मम देवेश शरीरस्थं पतिं कुरु ।।

तथैव काञ्चनं देवं प्रति गृह्णन्द्विजोत्तमः ।। ५३ ।।

क इदं कोऽदात्कस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामँ समुद्रमाविशमैतत्त-इति वैदिकमन्त्रमीरयेत्' ।।

कोऽदादिति पठेन्मन्त्रं ध्यायंश्चेतसि माधवम् ।।

ततः प्रदक्षिणीकृत्य विसृजेद्द्विजपुङ्गवम् ।।

शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत् ।। ५४ ।।

ततःप्रभृति योऽन्योपि रत्यर्थं गृहमागतः ।।

स सम्यक्सूर्यवारेण समं पूज्यो यथेच्छया ।। ५५ ।।

एवमेकं द्विजं शांतं पुराणज्ञं विचक्षणम् ।।

तमर्चयेत च सदा अपरं वा तदाज्ञया ।। ५६ ।।

न प्राप्नोति तदा विघ्नं गर्भसूतकजं क्वचित् ।।

दैवं वा मानुषं वा स्यादुपरागेण वा ततः ।। ५७ ।।

साधारनष्टपशुवद्यथाशक्त्या समापयेत् ।।

एतद्वः कथितं सर्वं वेश्याधर्ममशेषतः ।। ५८ ।।

पुरुहूतेन यत्प्रोक्तं दानुवीषु ततो मया ।।

तदिदं च व्रतं सर्वं भवतीषु प्रकाशितम् ।। ५९ ।।

सर्वपापप्रशमनमनंतफलदायकम् ।।

कल्याणिनीनां कथितं कुरुध्वं तद्वराननाः ।। 4.111.६० ।।

एतत्पार्थ मया पूर्वं गोपीनां तु प्रकाशितम् ।।

पुराणं धर्मसर्वस्वं वेश्याजनसुखप्रदम् ।। ६१ ।।

करोति याऽशेषमखण्डमेतत्कल्याणिनी माधवलोकसंस्था ।।

सा पूजिता देवगणैरशेषैरानन्दकृत्स्थानमुपैति विष्णोः ।। ६२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कामदानवेश्याव्रतवर्णनं नामैकादशोत्तरशततमोऽध्यायः ।। १११ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 112

वृन्ताकव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातो वृंताकविधिं व्याख्यास्यामः ।।

संवत्सरं च षण्मासांस्त्रीन्मासान्वा न भक्षयेत् ।।

अथ भरण्यां मघायां वा एकरात्रोपवासं कृत्वा स्थंडिले देवानाहूय गंधधूपपुष्पनैवेद्यदीपादिना पूजयेत् ।।

दर्भपाणिर्गंधोदकेनावाहयेत् ।।

यमराजानमावाहयामि ।। कालमावाहयामि ।। नीलमावाहयामि ।। चित्रगुप्तमावाहयामि ।। वैवस्वतमावाहयामि ।। मृत्युमावाहयामि ।। परमेष्ठिनमावाहयामीति ।। ततोग्निमुपसमाधाय तिलाज्ये जुहुयात् ।।

यमराजाय स्वाहा ।। कालाय स्वाहा ।। नीलाय स्वाहा ।। चित्रगुप्ताय स्वाहा ।। वैवस्वताय स्वाहा ।। मृत्यवे स्वाहा ।। परमेष्ठिने स्वाहेति ।। अग्निर्मूर्धेत्याहुतीस्त्वष्टशतं हुत्वा स्विष्टकृतिं कृत्वा प्रायश्चित्तं हुत्वा ब्राह्मणः स्वयमेव करोति ।। इतरेषामाचार्यः।।

अथ सौवर्णं वृंताकं ब्राह्मणाय निवेदयेत् ।।

कृष्णवृषभं गां च दद्यात् ।।

कर्णवेष्टांगुलीयके च्छत्रोपानहौ कृष्णयुगं कृष्णकंबलं च दद्यात्।।

ब्राह्मणान्भोजयित्वा आशिषो वाचयेत् ।।

पौंडरीकाश्वमेधफलमवाप्नोति ।।

सप्तकोटिसहस्राणि नाकपृष्ठे महीयते ।।

सप्तजन्मांतरं यावद्यमलोकं न पश्यतीत्याह भगवान्बौधायनः ।।

वृंताकमप्रतिहतान्तरहेमसिद्धं दद्याद्द्विजाय घृततक्रसमन्वितं यः।।

कृत्वा व्रतं वत्सरमासमेकं याम्यं न पश्यति पुरं पुरुषः कदाचित् ।। १ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृंताकव्रतविधिवर्णनं नाम द्वादशोत्तरशततमोऽ ध्यायः ।। ११२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 113

ग्रहनक्षत्रव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि रहस्यं ह्येतदुत्तमम् ।।

येन लक्ष्मीनिर्वृतिस्तु पुष्टिश्चैवोपजायते ।। १ ।।

सर्वे ग्रहाः सदा सौम्या जायंते येन पांडव ।।

आदित्यवारे हस्तेन पूर्वं गृह्य विचक्षणः ।। २ ।।

नक्तोक्तविधिना सर्वं कुर्यात्पूजां तथा रवेः ।।

प्रत्यक्षं सप्त नक्तानि कृत्वा भक्तिपरो नरः ।। ३ ।।

ततस्तु सप्तमे प्राप्ते कुर्याद्ब्राह्मणवाचनम् ।।

भास्करं सर्वसौवर्णं कृत्वा यत्नेन मानवः ।। ४ ।।

ताम्रपात्रे स्थापयित्वा रक्तपुष्पैः प्रपूज्य च ।।

रक्तवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ।। ५ ।।

घृतेन स्नपनं कृत्वा लड्डुकान्विनिवेद्य च ।।

मंत्रेणानेन विदुषे ब्राह्मणायोपपादयेत् ।। ६ ।।

आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकर ।।

त्वं रवे तारयस्वास्मानऽस्मात्संसारसागरात् ।। ७ ।।

कृतेनानेन राजेन्द्र भवेदारोग्यमुत्तमम् ।।

द्रव्यसंपत्सुतप्राप्तिरिति पौराणिका विदुः ।। ८ ।।

अविसंवादिनी चेयं शान्तिपुष्टिप्रदा नृणाम्।।

तद्वच्चित्रासु संगृह्य सोमवारं विचक्षणः ।। ९ ।।

सप्तमे च ततः प्राप्ते दत्त्वा ब्राह्मणभोजनम् ।।

कांस्यभाजनसंस्थं वा राजतं राजतेऽथ वा ।। 4.113.१० ।।

पात्रे कृत्वा सोमराजं श्वेतवस्त्रावगुंठितम् ।।

पादुकोपानहच्छत्रभाजनासनसंयुतम् ।। ११ ।।

दध्यन्नशिखरं दत्त्वा ब्राह्मणाय निवेदयेत् ।।

मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते ।। १२ ।।

श्रीमहादेवजावल्ली पुष्पगोक्षीरपांडुर ।।

सोम सौम्यो भवास्माकं सर्वदा ह्युत्तमोत्तम ।। ।। १३ ।।

एवं कृते महाराज सोमस्तुष्टिप्रदो भवेत् ।।

भवंति तुष्टेऽत्रिसुते सर्वे सानुग्रहा ग्रहाः ।। १४ ।।

स्वात्यामंगारकं गृह्य क्षपयेन्नक्तभोजनः ।।

सप्तमे त्वथ संप्राप्ते स्थापितं ताम्रभाजने ।। १९ ।।

रक्तवस्त्रयुगच्छन्नं कुंकुमेनानुलेपनम् ।।

नैवेद्यं हंतकारं च पूज्य धूपाक्षतादिभिः ।। १६ ।।

मंत्रेणानेन तं दद्याद्ब्राह्मणाय कुटुंबिने ।।

कुजन्मप्रभवोऽपि त्वं मंगलः पठ्यसे बुधैः ।।

अमंगलं निहत्याशु सर्वदा यच्छ मंगलम् ।। १७ ।।

विशाखासु बुधं गृह्य सप्त नक्तान्यथाचरेत् ।।

बुधं हेममयं कृत्वा स्थापितं कांस्यभाजने ।। १८ ।।

शुक्लवस्त्रयुगच्छन्नं शुक्लमाल्यानुलेपनैः ।।

गुडौदनोपहारं तु ब्राह्मणाय निवेदयेत् ।। १९ ।।

बुधः सद्बुद्धिजननो बोधदः सर्वदा नृणाम् ।।

तत्त्वावबोधं कुरु मे राजपुत्र नमोनमः ।। 4.113.२० ।।

अनुराधास्वथाचार्यं देवानां पूज्य भक्तितः ।।

पूर्वोक्तक्रमयोगेन सप्त नक्तान्यथाचरेत् ।। २१ ।।

हैमं हेममये पात्रे स्थापयित्वा बृहस्पतिम् ।।

पीतांबरयुगच्छन्नं पीतयज्ञोपवीतिनम् ।। २२ ।।

पादुकाच्छत्रसहितं सदंडं सकमण्डलुम् ।।

संपूज्य पुष्पनिकरैर्दीपधूपाक्षतादिभिः ।। २३ ।।

खण्डखाद्योपहारैश्च द्विजाय प्रतिपादयेत् ।।

धर्मशास्त्रार्थशास्त्रज्ञ ज्ञानविज्ञानपारग ।।

अगाधबुद्धिगांभीर्य देवाचार्य नमोऽस्तु ते ।। २४ ।।

शुक्रं ज्येष्ठासु संगृह्य क्षपयेन्नक्तभोजनैः ।।

पूर्वोक्तक्रमयोगेन द्विजसंतर्पणेन च ।। २५ ।।

सप्तमे त्वथ संप्राप्ते सौवर्णं कारयेच्छुभम् ।।

रौप्ये वा वंशपात्रे वा स्थापयित्वा भृगोः सुतम् ।। २६ ।।

संपूज्य परया भक्त्या श्वेतवस्त्रविलेपनैः ।।

अग्रे तस्य प्रदातव्यं पायसं घृत संयुतम् ।। २७ ।।

दद्यादनेन मंत्रेण ब्राह्मणाय विचक्षणः ।।

भार्गवो भृगुपुत्रोऽसि शुक्र क्रमविशारद ।। २८ ।।

हत्वा ग्रहकृतान्दोषानायुरारोग्यदो भव ।।

मूलेन सूर्यतनयं गृहीत्वा भरतर्षभ ।। २९ ।।

तस्मिन्दिने पूजनीयं ग्रहत्रितयमादरात् ।।

शनैश्चरश्च राहुश्च केतुश्चेति क्रमान्नृप ।। 4.113.३० ।।

होमं तिलघृतैः कुर्याद्गृहनाम्ना तु मंत्रवित् ।।

अर्कः पलाशखदिरौ ह्यपामार्गोथ पिप्पलः ।। ३१ ।।

उदुंबरशमीदूर्वाकुशाश्च समिधः क्रमात् ।।

एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा ।। ३२ ।।

होतव्यं मधुसर्पिभ्यां दध्ना वा पायसेन वा ।।

सप्तमे त्वथ संप्राप्ते नक्तं सूर्यसुतस्य तु ।। ३३ ।।

ग्रहास्त्रयोऽपि कर्तव्या राजँल्लोहमयाः शुभाः ।।

व्रतांते सर्वतश्चैतान्सौवर्णान्वाथ कारयेत् ।। ३४ ।।

कृष्णवस्त्रयुगं दद्यादेकैकस्य क्रमान्नृप ।।

मृगनाभ्या समालभ्य कृशरान्विनिवेद्य च ।। ३५ ।।

होमावसाने सर्वं तद्ब्राह्मणायोपपादयेत् ।।

शनैश्चर नमस्तेऽस्तु नमोऽस्तु राहवे तथा ।। ३६ ।।

केतवे च नमस्तुभ्यं सर्वशांतिप्रदो भव ।।

एवं कृते भवेद्यस्तु तन्निबोध नरेश्वर ।। ३७ ।।

यदि भौमो रविसुतो भास्करो राहुणा सह ।।

केतुश्च मूर्ध्नि तिष्ठंति सर्वे पीडाकरा ग्रहाः ।। ३८ ।।

अनेन कृतमात्रेण सर्वे शाम्यंत्युपद्रवाः ।। ३९ ।।

एवं यः कुरुते राजन्सदाभक्तिसमन्वितः ।।

तस्य सानुग्रहा सर्वे यच्छन्ति विजयं सुखम् ।।4.113.४०।।

यश्चैतच्छ्रणुयात्कल्पं ग्रहाणां पठतेऽपि वा ।।

तस्य सानुग्रहा सर्वे शांतिं यच्छंति नान्यथा ।।४१।।

शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेत् ।।

कृष्णागरुः स्मृतो धूपो दक्षिणा चात्मशक्तितः ।।४२।।

सूर्यं विधुं कुज बुधौ गुरुशुक्रसौरीन्हस्तादिकर्क्षसहितानुदितक्रमेण।।

संपूज्य हेमघटितान्द्विजपुङ्गवाय दत्त्वा पुमान्ग्रहगणेन न पीड्यतेऽत्र ।।४३।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ग्रहनक्षत्रव्रतवर्णनं नाम त्रयोदशोत्तरशततमोऽध्यायः ।। ११३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 114

शनैश्चरव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।।

पुरा त्रेतायुगे पार्थ नावर्षत्पाकशासनः ।।

कथंचिदनयाद्राज्ञस्तस्य राष्ट्रे समंततः ।। १ ।।

ततो राष्ट्रं क्षुधाविष्टं बभूवातीव दारुणम् ।।

पतंगमूषिकाकीर्णं चोरव्यालभयाकुलम् ।। २ ।।

तस्मिन्घोराकुले काले सपत्नीकः सबालकः ।।

कौशिकः स्वगृहं त्यक्त्वा परराष्ट्रमगाच्छनैः ।। ३ ।।

मार्गेऽथ गच्छता तेन कौशिकेन महर्षिणा ।।

त्यक्तः स बालको ह्येको दुर्भरं च कुटुम्बकम् ।। ४ ।।

तस्मिन्काले विशेषेण क्षीणेन्नौषधि संचये ।।

कृत्वातिनिर्घृणं कर्म गतोऽसौ कौशिको मुनिः ।। ५ ।।

सोऽपि बालो रुदन्दीनो दिशो वीक्ष्य स्थितः पथि ।।

उत्थाय पिप्पलस्याधः फलान्यत्तुं प्रचक्रमे ।। ६ ।।

कूपे जलं पपौ नित्यं तत्रैवाश्रममंडले ।।

कृत्वा सम्यक् स्थितो रौद्रं तेपे च विपुलं तपः ।। ७ ।।

अथाजगाम भगवान्नारदो वेदपारगः ।।

तं दृष्ट्वा दीनवदनं क्षुधार्तं द्विजपोतकम् ।। ८ ।।

दयया तस्य संस्कारं चक्रे मौंज्यादिबंधनम् ।।

वेदानध्यापयामास सरहस्यपदक्रमान् ।।

ददौ च वैष्णवं मंत्रं द्वादशाक्षरमित्युत ।। ९ ।।

वेदाभ्यासरतस्यास्य विष्णुध्यानपरस्य च ।।

प्रत्यहं पिप्पलादस्य विष्णुः प्रत्यक्षतां ययौ ।। 4.114.१० ।।

वैनतेयसमारूढो नीलोत्पलदलच्छविः ।।

चतुर्भुजः पीतवासाः शंखचक्रगदाधरः ।। ११ ।।

स उवाच तदा तुष्टो वरं ब्रूहि यमि च्छसि ।।

तच्छ्रुत्वा नारदमुखं समालोक्य शिशुस्तदा ।।

नारदेनाप्यनुज्ञातो ज्ञानविद्यामयाचत ।। १२ ।।

दत्त्वा ज्ञानं सोपदेशं योगाभ्यासं च निर्मलम् ।।

नागारिगमनो विष्णुस्तत्रैवान्तर्हितोभवत् ।। १३ ।।

ततो राजन्महाज्ञानी महर्षिः स शिशुस्तदा ।।

नारदं परिपप्रच्छ केनाहं पीडितो मुने ।। १४ ।।

ग्रहेणाग्रहभूतेन बालरूपोऽपि दुःखित. ।।

न मे पिता न मे माता जीवितोस्म्यतिपीडया ।। १५ ।।

ब्राह्मण्यं भवता दत्तं दैवान्मम द्विजोत्तम ।।

एतच्छ्रुत्वा शिशोर्वाक्यं कथयामास नारदः ।। १६ ।।

शनैश्चरेण क्रूरेण ग्रहेण त्वं हि पीडितः ।।

पीडितश्च समस्तोऽपि देशोयं मंदचारिणा ।। १७ ।।

तेनैतत्ते फलं प्राप्तं सैषः सौरिः शनैश्चरः ।।

प्रज्वलन्नतिदर्पेण स्फुरतीव नभस्तले ।। १८ ।।

एवमुक्तः शिशुः क्रोधात्प्रजज्वालेव पावकः ।।

आलोक्य गगनाद्भूमौ पातयामास वै शनिम् ।।

पतमानो गिरेः शृंगाद्भग्नः खंजो बभूव ह ।। १९ ।।

धरण्यां पतितं दृष्ट्वा भास्करात्मजमातुरम् ।।

नरीनर्ति भुजक्षेपैर्नारदो हृष्टमानसः ।। 4.114.२० ।।

हर्षाद्देवानथाहूय दर्शयामास तं शनिम् ।। २१ ।।

अथ देवास्तथा प्राप्ता ब्रह्मरुद्रेन्द्रपावकाः ।।

शनैः संशमयासुरूचुश्चेदमृषिं च तम् ।। २२ ।।

स्वस्ति तेऽस्तु महाभाग पिप्पलाद महामुने ।।

भद्रं तेऽत्र कृतं नाम नारदेन महर्षिणा ।।

अन्वर्थयुक्तं विप्रेन्द्र जीवितं पिप्लादनात् ।। २३ ।।

भगवन्पिप्पलान्यत्त्वा जीवितोऽसि यतो मुने ।।

ततश्च पिप्पलादेति ख्यातिं लोके गमिष्यसि ।। २४ ।।

ये च त्वां पूजयिष्यंति स्नात्वा पुष्पैर्महाऋषिम् ।।२५।।

इहाश्रमे समभ्येत्य रूपेस्मिन्भक्तिभाविताः ।।

सप्तजन्मान्तरं यावत्पुत्रपौत्रानुगामिनः।।२६।।

न तेषां बाधिका सत्यं ग्रहपीडा भविष्यति ।।

स्मरिष्यंतीह ये च त्वां पिप्पलादेति नामतः ।।२७।।

तेषां शनैश्चर कृता पीडा न प्रभविष्यति ।।

क्षमस्वास्य महाभाग निर्दोषोऽयं ग्रहाग्रणीः ।। २८ ।।

चरन्वृक्षं शनैरेष शुभाशुभफलप्रदः ।।

हतसाध्या ग्रहाश्चैते न भवंति कदाचन।।२९।।

बलिहोमनमस्कारैः शांतिं यच्छंति पूजिताः ।।

अतोऽर्थमस्य दिवसे स्नानमभ्यंगपूर्वकम् ।।4.114.३०।।

कार्यं देयं च विप्राणां तैलमभ्यंगहेतवे ।।

यस्तु संवत्सरं यावत्प्राप्ते शनिदिने नरः ।।३१।।

तैलं ददाति विप्राणां स्वशक्त्यान्यजनेपि च ।।

ततस्संवत्सरस्यांते प्राप्ते तस्य दिनं पुनः ।। ३२ ।।

लोहैस्संघटितं सौरिं तैलमध्ये विनिक्षिपेत् ।।

लोहभांडकमध्यस्थं कृष्णवस्त्रयुगच्छदम् ।। ३३ ।।

कृष्णगोदक्षिणायुक्तं कृष्णकंबल शायिनम् ।।

तिलतैलेन च स्नानं कृष्णपुष्पैः सुपूजितम् ।।३४।।

कृष्णगंधैः कृष्णधूपैः कृशरान्नैस्तिलौदनैः ।।

पूजयित्वा सूर्यपुत्रं ब्राह्मणाय निवेदयेत् ।। ३५ ।।

मंत्रेणानेन ब्रह्मर्षे शन्नोदेवीति भक्तिमान् ।।

इतरेषां तु वर्णानां शृणु मन्त्रं द्विजोत्तम ।। ३६ ।।

क्रूरावलोकनवशाद्भुवनं नाशयिष्यति यो ग्रहो रुष्टः ।।

तुष्टो धनकनकसुखं ददाति सौरिः शनैश्चरः पातु ।। ३७ ।।

यत्पुरा नष्टराज्याय नलाय प्रददौ किल ।।

स्वप्ने सौरिर्निजं मन्त्रं शृणु कामफलप्रदम् ।। ३८ ।।

क्रोडं नीलाञ्जनप्रख्यं नीलवर्णसमस्रजम ।।

छायामार्तंडसंभूतं नमस्यामि शनैश्चरम् ।। ३९ ।।

नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णांजनमेचकाय ।।

श्रुत्वा रहस्यं भवकामदश्च फलप्रदो मे भव सूर्यपुत्र ।। 4.114.४० ।।

नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः ।।

शनैश्चराय क्रूराय शुद्धबुद्धिप्रदायिने ।। ४१ ।।

य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम् ।।

मदीयं तु भयं तस्य स्वप्नेऽपि न भविष्यति ।।४२।।

एवमूचे शनिः पूर्वमतस्तं ब्राह्मणे ददेत् ।।

एवमेतद्व्रतं विप्र ये चरिष्यंति मानवाः ।। ४३ ।।

स्थावरेस्थावरे प्राप्ते वत्सरं यावदेव तु ।।

तेषां शानैश्चरी पीडा देशेऽपि न भविष्यति ।। ४४ ।।

एवमुक्त्वा सुराः सर्वे प्रतिजग्मुर्यथागतम् ।।

शनैश्चरोऽपि स्वस्थाने ग्रहांते खे प्रतिष्ठितः ।। ४५ ।।

पिप्पलादोऽपि ब्रह्मज्ञो ब्रह्माज्ञां प्रतिपालयन् ।।

शनैश्चरं तु संपूज्य तुष्टाव रचिताञ्जलिः ।। ४६ ।।

कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।।

सौरिः शनैश्चरो मोदः प्रीयतां मे ग्रहोत्तमः ।।४७।।

शनैश्चरमिति स्तुत्वा पिप्पलादो महामुनिः ।।

खे प्रज्वलन्विमानस्थो दृश्यतेऽद्यापि मानवैः ।।४८।।

इदं शनैश्चराख्यानं ये श्रोष्यन्ति समाहिताः ।।

तेषां कुरुवरश्रेष्ठ शनिः पीडां न दास्यति ।। ४९ ।।

कृष्णायसेन घटितां ग्रहराजमूर्तिं लोहे निधाय कलशे तिलतैलपूर्णे ।।

यो ब्राह्मणाय रविजं प्रददाति भक्त्या पीडा शनैश्चरकृता न हि बाधते तम् ।। 4.114.५० ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शनैश्चरव्रतवर्णनंनाम चतुर्दशोत्तरशतमोऽध्यायः ।। ११४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 115

आदित्यदिननक्तविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

यदारोग्यकरं पुंसां यदनंतफलप्रदम् ।।

व्रतं तद्ब्रूहि गोविन्द सर्वपापप्रणाशनम् ।।१।।

।। श्रीकृष्ण उवाच ।। ।।

यत्तद्विश्वात्मनो धाम परं ब्रह्म सनातनम् ।।

सूर्याग्निचन्द्ररूपेण तत्त्रिधा जगति स्थितम् ।। २ ।।

तमाराध्य पुमान्किं न प्राप्नोति कुरुनन्दन ।।

तस्मादादित्यवारेण सदा नक्ताशनो भवेत् ।। ३ ।।

उत्पद्यते यदा भक्तिर्भानोरुपरि शाश्वती ।।

तदारभ्य सदा कार्यं नक्तमादित्यवासरे ।। ४ ।।

पूर्वोक्तविधिना चैव पूजयित्वा द्विजोत्तमान् ।।

ततोऽस्तसमये भानो रक्तचन्दनपङ्कजम् ।। ५ ।।

विलिख्य द्वादशदलं पूज्य सूर्येति पूर्वतः ।।

दिवाकरं तथाग्नेये विवस्वतमतः परम् ।। ६ ।।

भगं तु नैर्ऋते देवं वरुणं पश्चिमे दले ।।

महेन्द्रं मारुतदले आदित्यं तु तथोत्तरे ।। ७ ।।

शांतमीशानभागे तु नमस्कारेण विन्यसेत्।।

कर्णिकापूर्वपत्रे तु सूर्यस्य तुरगान्न्यसेत् ।। ८ ।।

दक्षिणे यमनामानं मार्तंडं पश्चिमे दले ।।

उत्तरेण रविं देवं कर्णिकायां तु भास्करम् ।। ९ ।।

अर्घ्यं दद्यात्ततः पार्थ सतिलारुणचंदनम् ।।

फलाक्षतयुतं तद्वदिमं मंत्रमुदीरयेत् ।। 4.115.१०

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः।।

यस्मादग्नींदुरूपस्त्वमतः पाहि प्रभाकर ।। ११ ।।

अग्निमीले नमस्तुभ्यमिषे त्वोर्जे च भास्करे।।

अग्न आयाहि वरद नमस्ते ज्योतिषां पते।।१२।।

अर्घ्यं दत्त्वा विसर्ज्याथ निशि तैलविवर्जितम् ।।

भुञ्जीत भावितमना भास्करं संस्मरन्मुहुः ।।१३।।

प्राक्तनेऽह्नि शनौ चैव तैलाभ्यंगं विवर्जयेत् ।।

वत्सरांते कारयित्वा काञ्चनं कमलोत्तमम् ।। १४ ।।

पुरुषं च यथाशक्त्या कारयेद्द्विभुजं तथा ।। १५ ।।

सुवर्णशृंगीं कपिलां महार्घ्यां रौप्यखुरां कांस्यदोहां सवत्साम् ।।

पूर्णे गुडस्योपरि ताम्रपात्रे निधाय पद्मं च ततो निदध्यात् ।।९।।

गां कल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतनायकाय ।।

अव्यंगरूपाय जितेन्द्रियाय कुटुंबिने शुद्धमनुद्धताय ।। १७ ।।

नमोऽस्तु ऋक्सामयजुर्विधात्रे पद्मप्रबोधाय जगत्सवित्रे ।।

त्रयीमयाय त्रिगुणात्मने च त्रिलोकनाथाय नमोनमस्ते ।।१८।।

इत्यनेन विधानेन वर्षमेकं तु यो नरः ।।

नक्तमादित्यवारेण कुर्यात्स नीरुजो भवेत् ।।१९।।

धनधान्यसमायुक्तः पुत्रपौत्रसमन्वितः ।।

मर्त्ये स्थित्वा चिरं कालं सूर्यलोकमवाप्नुयात् ।। 4.115.२० ।।

कर्मसंक्षयमवाप्य पार्थिवः शोकदुःखभयरोगवर्जितः ।।

स्यादमित्रकुलकालसंनिभो धर्ममूर्तिरमितौजसा युतः ।। २१ ।।

या च भर्तृगुरुदेवतत्परा वेदमूर्तिदिननक्तमाचरत्।।

सापि लोकममरेशपूजिता याति कौ रव रवेर्न्न संशयः ।। २२ ।।

यः पठेदथ शृणोति वा नरः पश्यतीत्थमथ वानुमोदयेत् ।।

सोऽपि शक्रभवने दिवौकसैः कल्पकोटिशतमेकमीड्यते । ।। २३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आदित्यदिननक्तविधिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः । ।। ११५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 116

संक्रान्त्युद्यापनवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथान्यदपि ते वच्मि संक्रांत्युद्यापने फलम् ।।

यदक्षयं परं लोके पुराणकवयो विदुः ।। १ ।

विषुवे अयने वापि संक्रातिव्रतमारभेत् ।।

पूर्वेद्युरेकभक्तेन दंतधावनपूर्वकम् ।। २ ।।

संक्रांतिवासरे प्राप्ते तिलैः स्नानं विधीयते ।।

अभिसंक्रमणं भूमौ चन्दनेनाष्टपत्रकम् ।। ३ ।।

पद्मं सकर्णिकं कुर्यात्तस्मिन्नावाहयेद्रविम् ।।

कर्णिकायां न्यसेत्सूर्यमादित्यं पूर्वतस्ततः ।। ४ ।।

नमः सप्तार्चिषेऽग्नेये याम्ये रुङ्मण्डलाय च ।।

नमः सवित्रे नैर्ऋत्ये वरुणं वारुणे यजेत् ।। ५ ।।

सप्तसप्तिं च वायव्ये पूजयेद्भास्वतां पतिम् ।।

मार्तंडमुत्तरे विष्णुमीशाने विन्यसेद्दले ।। ६ ।।

गन्धमाल्यफलैर्भक्ष्यैः स्थंडिले पूजयेत्ततः ।।

चन्दनोदकपुष्पैस्तु दत्त्वार्घं विन्यसेद्भुवि ।। ७ ।।

नमस्ते विश्वरूपाय विश्वधात्रे स्वयंभुवे ।।

नमोनमस्ते वरद ऋक्सामयजुषां पते ।। ८ ।।

अनेन विधिना दत्त्वा भानवेऽर्घ्यं नरोत्तम ।।

द्विजाय सोदकं कुम्भं घृतपात्रं हिरण्मयम् ।। ९ ।।

कमलं च यथाशक्त्या कारयित्वा निवेदयेत।।

विधिनानेन कर्तव्यं मासि मासि नरोत्तम ।। 4.116.१० ।।

एकभुक्ताशनैः पुंभिः सर्वमेतद्यथाविधि ।।

एकस्मिन्नह्नि कर्तव्यं वत्सरांतेथ वा पुनः ।। ११ ।।

कौंतेय तस्मिन्घृतपायसेन संपूज्य वह्निं द्विजपुंगवाय ।।

कुम्भान्पुनर्द्वादशधेनुयुक्तान्दौर्गत्ययुक्तः कुशलामथैकाम् ।। १२ ।।

निवेदयेद्ब्राह्मणपुङ्गवाय हैमीं च दद्यात्पृथिवीं ससस्याम् ।।

शक्त्याथ रौप्यामथ वापि ताम्रीं पैष्टीमशक्तो वसुधां विधाय ।। १३ ।।

सौवर्णसूर्येण समं प्रदद्यान्न वित्तशाठ्यं पुरुपोऽत्र कुर्यात् ।।

कुर्वन्नधो याति नरेन्द्रचन्द्रयावन्महेन्द्र प्रमुखाः सुरेशाः ।। १४ ।।

पृथ्वी च यावत्सकुलाचला च यावच्च सूर्यानिलवह्निचन्द्राः ।।

तावत्स गन्धर्वकुलैरशेषैः संपूज्यते भारत नाकपृष्ठे ।। ।। १५ ।।

ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात्सुकुलप्रसूतः ।।

दिव्यैः मुखैर्युक्तवपुः सभार्यः प्रसूतपुत्रान्वयबन्धुवर्गः ।। १६।।

इति पठति शृणोति योऽतिभक्त्या विधिमखिलं रविसंक्रमेषु पुण्यम् ।।

मतिमपि च ददाति सोऽपि देवैरमरपतिप्रमुखैर्मृतस्तु पूज्यः ।। १७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संक्रांत्युद्यापनवर्णनं नाम षोडशोत्तरशततमोऽध्यायः ।। ११६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 117

विष्टिव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

कृष्ण केयं जनैः सर्वैर्विष्टिर्भद्रेति चोच्यते ।।

कस्यात्मजेयं किंरूपा पूज्यते च कथं जनैः।।।।।

।। श्रीकृष्ण उवाच ।। ।।

सुता मार्तंडदेवस्य छायया जनिता पुरा ।।

शनैश्चरस्य सोदर्या भगिन्यतिभयंकरी ।। २ ।।

सा जातमात्रा भुवनं ग्रस्तुं समुपचक्रमे ।।

कृष्णा करालवदना सितदंष्ट्रोर्ध्वमूर्द्धजा ।। ३ ।।

निर्याति यदि कार्येण कश्चित्तस्य पुरः स्थिता ।।

विघ्नं करोति स्वपतो भुञ्जानस्य स्थितस्य वा ।। ४ ।।

यज्ञविघ्नकरी रौद्रा समाजोत्सवनाशिनी ।।

नित्योद्वेगकरी रौद्रा विनाशयति सा जगत् ।। ५ ।।

तां तु दुर्विनयासक्तां दृष्ट्वा देवो दिवाकरः ।।

चिंतयामास कस्यापि यच्छाम्येनां सुमध्यमाम् ।। ६।।

कन्यादुर्विनयाच्चेह पिता दोषेण गृह्यते ।।

युवत्यास्तु ततो भर्ता तस्माद्भर्तृगृहं नयेत् ।।७।।

विचिंत्यैवं सुतां भद्रां यस्ययस्य प्रयच्छति ।।

ते नमंति क्षणेनैव सुरराक्षसकिन्नराः ।। ८ ।।

मण्डपं मण्डपारम्भे भंक्त्वा भीषयते जनम् ।।

विवस्वांश्चिन्तयाविष्टः कस्येयं प्रतिपाद्यताम् ।। ९ ।।

विरूपा दुष्टहृदया स्वेच्छाचारविहारिणी ।।

दत्ताप्येषा न दोषाय भवतीह कथंचन ।।4.117.१ ०।।

वितर्कयन्यावदेवमास्ते देवो दिवस्पतिः ।।

तावत्तया जगत्सर्वं दुष्टया समभिद्रुतम् ।। ११ ।।

अथाजगाम सवितुः पार्श्वे ब्रह्माऽण्डसंभवः ।।

कार्यं निवेदयामास विष्टेर्दौष्ट्यमशेषतः ।। १२ ।।

भास्करस्तमुवाचाथ ब्रह्माणं भुवनेश्वरम् ।।

भवान्कर्ता च हर्ता च कस्मादेवं प्रभाषसे ।। १३ ।।

एवमुक्तस्तदा ब्रह्मा भास्करेणामितद्युतिः ।।

उवाच विष्टिमानाय्य शृषु भद्रे मयोदितुम् ।। १४ ।।

करणैः सह वर्तस्व बवबालवकौलवैः ।।

सप्तमेऽर्धदिने प्राप्ते यदभीष्टं कुरुष्व तत् ।। १५ ।।

यात्राप्रवेशमांगल्यकृषिवाणिज्यकारणात् ।।

भक्षयस्वाभिमुखगान्नरानुन्मार्गगामिनः।। ।। १६ ।।

उद्वेजनीयो नो हि जनो भवत्या दिवसत्रयम् ।।

पूज्या सुरासुराणां त्वं दिवसार्द्धे भविष्यसि ।। १७ ।।

उल्लंघ्य ये प्रवर्तंते भद्रे त्वां निर्भया नराः ।।

तेषां विनाशयाशु त्वं कार्यमार्ये सुखी भव ।। १८ ।।

एवमुक्त्वा गतो ब्रह्मा भद्रापि भुवनत्रयम् ।।

बभ्रामोद्भ्रांतहृदया भीषयन्ती सुरासुरान् ।। १९ ।।

एवमेषा समुत्पन्ना विष्टिरिष्टविनाशिनी ।।

निवेदिता ते कौंतेय तस्मात्तां परिवर्जयेत् ।। 4.117.२० ।।

असितजलदवर्णा दीर्घनासोग्रदंष्ट्रा विपुलहनुकपाला पिंडिकोद्बद्धजंघा ।।

अनलशतसहस्रं चोद्गिरंती समंतात्पतति भुवनमध्ये कार्यनाशाय विष्टिः ।। २१ ।।

भानोः सुता केतुशताग्रजाता कृष्णा कुमूर्तिः सततं कुचेला ।।

देवैर्नियुक्ता करणार्थसंस्था विष्टिस्तु सर्वत्र विवर्जनीया ।। २२ ।।

मुखे तु घटिकाः पञ्च द्वे कंठे तु सदा स्थिते ।।

हृदि चैकादश प्रोक्ताश्चतस्रो नाभिमंडले ।। २३ ।।

कट्यां पञ्चैव विज्ञेयास्तिस्रः पुच्छे जयावहाः ।।

मुखे कार्यविनाशाय ग्रीवायां धननाशिनी।। २४ ।।

हदि प्राणहरा ज्ञेया नाभ्यां तु कलहावहा ।।

कट्यामर्थपरिभ्रंशो विष्टिपुच्छे ध्रुवो जयः ।।२५।।

पृथिव्यां यानि कार्याणि सुशुभान्यशुभानि च ।।

तानि सर्वाणि सिद्ध्यंति विष्टिपुच्छे न संशयः ।।२६ ।।

धन्या दधिमुखी भद्रा महामारी खरानना ।।

कालरात्रिर्महारुद्रा विष्टिश्च कुलपुत्रिका ।। २७ ।।

भैरवी च महाकाली असुराणां क्षयंकरी ।।

द्वादशैव तु नामानि प्रातरुत्थाय यः पठेत ।। २८ ।।

न च व्याधिर्भवेत्तस्य रोगी रोगात्प्रमुच्यते ।।

ग्रहाः सर्वेऽनुकूलाः स्युर्न च विघ्नादि जायते ।। २९ ।।

रणे राजकुले द्यूते सर्वत्र विजयी भवेत् ।।4.117.३० ।।

यश्च पूजयते नित्यं शास्त्रोक्तविधिना नरः ।।

तस्य सर्वार्थसिद्धिस्तु भवतीह न संशयः ।। ३१ ।।

येनोपवासविधिना व्रतेन च यशस्विनी ।।

पूजिता तुष्टिमभ्येति तदेव कथयामि ते ।। ३२।।

यस्मिन्दिने भवेद्भद्रा तस्मिन्नहनि भारत ।।

उपवासस्य नियमं कुर्या न्नारी नरोऽथ वा ।। ३।।

यदि रात्रौ भवेद्विष्टिरेकभुक्तं दिनद्वयम् ।।

कार्यं तेनोपवासः स्यादिति पौराणिकी श्रुतिः ।। ३४ ।।

प्रहरस्योपरि यदा स्याद्विष्टिः प्रहरत्रयम् ।।

तत्रोपवासः कर्तव्य एकभुक्तमतोन्यथा।। ३५ ।।

सर्वौषध्युदकस्नानं सुगंधामलकैरथ ।।

नद्यां तडागेऽथ गृहे स्नानं सर्वत्र शस्यते ।। ३६ ।।

देवान्पितॄन्प्रीणयित्वा ततो दर्भमयीं शुभाम् ।।

विष्टिं कृत्वा पुष्पधूपैर्नैवेद्येन च पूजयेत् ।। ३७ ।।

होमं कृत्वा विष्टिनामैरष्टोत्तरशतं ततः ।।

भुञ्जीत दत्त्वा विप्राय तिलान्पायसमेव च ।।

सतिलां कृशरां भुक्त्वा पश्चाद्भुञ्जीत कामतः।। ३८।।

छायासूर्यसुते देवि विष्टिरिष्टार्थदायिनि ।।

पूजिताऽसि यथाशक्त्या भद्रे भद्रप्रदा भव ।। ३९ ।।

उपोष्प विधिनानेन दश सप्त यथाक्रमम् ।।

उद्यापनं ततः कुर्यात्पूर्वव त्पूज्य भामिनीम् ।। 4.117.४० ।।

स्थापयित्वायसे पीठे कृशरान्नं निवेद्य च ।।

परिधाप्य कृष्णयुगं स्तुत्वा मंत्रेण तां पुनः ।। ४१ ।।

ब्राह्मणाय पुनर्दद्याल्लोहं तैलं तिलांस्तथा ।।

कृष्णां सवत्सां गामेकां तथैकं कालकंबलम् ।।

दक्षिणां च यथाशक्त्या दत्त्वा भद्रां विसर्जयेत् ।। ४२ ।।

य एवं कुरुते पार्थ सम्यग्भद्राव्रतं नरः ।।

विघ्नो न जायते तस्य कार्यारंभे कदाचन ।। ४३ ।।

राक्षसाश्च पिशाचा वा पूतनाशाकिनीग्रहाः ।।

न पीडयन्ति तं मर्त्यं यो भद्राव्रतमाचरेत् ।। ४४ ।।

न चैवेष्टवियोगः स्यान्न हानिस्तस्य जायते ।।

देहांते याति सदनं भास्करस्य न संशयः ।। ४५ ।।

सूर्यात्मजातिदयिता भगिनी शनेर्या मर्त्ये भ्रमत्यतिरथा करणक्रमेण ।।

तां कृष्णभासुरमुखीं समुपोष्य विष्टिमिष्टार्थसिद्धिमबुधोऽपि पुमानुपैति।। ४६।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विष्टिव्रतवर्णनं नाम सप्तदशोत्तरशततमोऽध्यायः ।। ११७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 118

अगस्त्यव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अगस्त्यव्रतमस्त्यन्यत्सर्वपापप्रणाशनम् ।।

तच्छृणुष्व महीपाल कथ्यमानं मयानघ ।। १ ।।

।। युधिष्ठिर उवाच ।। ।।

शृणोमि ब्रूहि मे कृष्ण देवर्षेस्तस्य चेष्टितम् ।।

जन्म चैवार्घदानं च कालमुद्गमनस्य च ।।२।।

।। श्रीकृष्ण उवाच ।। ।।

मित्रश्च वरुणश्चैव पूर्वमेतौ सुरोत्तमौ ।।

मंदरस्य समीपे तु चेरतुर्विपुलं तपः ।। ३ ।।

तयोः संक्षोभणार्थाय वासवेन वराप्सराः ।।

उर्वशी प्रेषिता तत्र रूपोदार्यगुणान्विता ।। ४ ।।

तस्याः संदर्शनादेव क्षुभितौ तौ सुरोत्तमौ ।।

विकारं मनसो बुद्ध्वा कुंभे वीर्यं ससर्जतुः ।। ५ ।।

निमेः शापात्तत्र जातो वशिष्ठो भगवानृषिः ।।

अनंतरमगस्त्यस्तु जातो दिव्यस्तपोधनः ।। ६ ।।

मलयस्यैकदेशे तु वैखानसविधानतः ।।

सभार्यः संवृतो विप्रैस्तपस्तेपे सुदुश्चरम् ।। ७ ।।

आस्तां दैत्यौ पुरा दुष्टावादौ कृतयुगस्य तु ।।

नाम्ना इल्वलवातापी देवब्राह्मणकंटकौ ।। ८ ।।

तयोरेकोऽभवन्मेषो द्वितीयो भोज्यदायकः ।।

श्राद्धक्रमेण तेनैवं बहवो नाशिता द्विजाः ।। ९ ।।

अथान्यस्मिन्दिने दैत्यो ह्यगस्त्यं संन्यमन्त्रयत् ।।

भोज्यार्थं ब्राह्मणैः सार्द्धं भृगुगर्गकुलोद्भवैः ।। 4.118.१० ।।

अगस्त्योप्यभवच्छ्राद्धे धौरेयो रोषदर्पितः ।।

सोऽपि हत्वापचद्वह्नौ वातापिं मेषरूपिणम् ।। ११ ।।

परिविष्यमाणेषु तेषु स्तिमितं प्राह दानवम् ।।

अगस्त्यो भगवान्क्रुद्धः सर्वं मे दीयतामिति ।। १२ ।।

मैषं मांसं ततः प्रादादिल्वलः कुपितस्तदा ।।

भक्षयित्वाऽभवत्स्वस्थो निर्विकारो महामुनिः ।। १३ ।।

शुचिर्बभौ ततः प्राह वातापिमिल्वलः शनैः ।।

निष्क्रमस्व मुनेर्द्देहं भित्त्वा कस्माद्विलंबसे ।। १४ ।।

तच्छ्रुत्वागस्त्यविप्रोऽपि उद्गारं कृतवान्गुरुम् ।।

कुतो निष्क्रमणं प्राह भक्षितः स मया पुनः ।। १५ ।।

जीर्णोऽयं भस्मभूतोऽयं वातापिर्ब्रह्मकंटकः ।।

इल्वलोऽपि स्फुरत्क्रोधः सोऽगस्त्येन निरीक्षितः ।। १६ ।।

भस्मीभूतः क्षणेनैव ततः शांतं जगद्बभौ ।।

तेन वैरेण ते दुष्टा नष्टशेषास्तु दानवाः ।। १७ ।।

संमंत्र्य निश्चयं मेरौ ततोऽगस्त्यमुपागताः ।।

विवर्द्धयिषवस्तेजो मुनेरस्य दिवौकसः ।। १८ ।।

तेऽगस्त्यमाहुर्ब्रह्मर्षे समुद्रं शोषयस्व वै ।।

तच्छ्रुत्वागस्त्यविप्रोऽपि आग्नेयीं धारणां दधत् ।। १९ ।।

तया पीतः समुद्रोऽपि भ्रांतमीनोर्मिकच्छपः ।।

पीते समुद्रतोयेऽपि देवैः क्रुद्धैस्तु दानवाः ।। 4.118.२० ।।

क्षयं नीताः क्षणात्सर्वे क्रन्दमानाः पुनःपुनः ।।

क्षेमं जगत्यभूत्सर्वमगस्त्यर्षेः प्रसादतः ।।२१।।

अथ गंगानदीतोयैः संपूर्णे सागरे पुनः ।।

मंथानं मंदरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।। २२ ।।

ममंथुः सहिताः सर्वे समुद्रं दैत्यदानवाः ।।

अथोत्थितं रत्नसंघे सोमे श्रीकौस्तुभे गजे ।। २३ ।।

अतिलोभान्मथ्यमाने सागरे पयसां निधौ ।।

अथोत्थितं ज्वलद्रौद्रं कालकूटं महाविषम् ।। ।। २४ ।।

येनासौ सुरसंघाते आघूर्णिता इवाभवत् ।।

सागरं संप्रविष्टास्ते रात्रौ रात्रौ विनिर्युयुः ।।२५।।

निर्गम्य च वधं चक्रुर्मुनीनामूर्ध्वरेतसाम्।।

बभंजुर्यज्ञपात्राणि दिवा तोये निलिल्यिरे ।। २६ ।।

समुद्रमध्ये न ज्ञात्वा ब्रह्मा नारायणो हरः ।।

वायुः कुबेरो वसवः सर्वे देवाः सवासवाः ।।। ।। २७ ।।

ततो मन्त्रैः शंकरेण किञ्चित्तत्रैव भक्षितम् ।।

क्षणाद्दग्धः स मंत्रोपि नीलकंठीकृतो हरः ।। २८ ।।

ब्रह्मापि चेतनां प्राप्य अब्रह्मण्यमुवाच ह ।।

नास्ति कश्चिजगत्यस्मिन्विषमापातुमीश्वर ।। २९ ।।

अगस्त्यो दक्षिणाशायां लङ्कामूले महामुनिः ।।

तद्गच्छध्वं महाभागाः शरणं सर्वदा ह्यसौ ।। 4.118.३० ।।

एवमुक्ता गता देवा अगस्त्याश्रमदक्षिणाम् ।।

देवान्वीक्ष्य च तान्हर्षादगस्त्यो मुनिसत्तमः ।। ३१ ।।

ध्यानं चक्रे विषं येन हिमाद्रौ संप्रवेशितम् ।।

कंठीसूत्रं निकुंजेषु हिमपर्वतसानुषु ।। ३२ ।।

तस्मिन्काले विषं लग्नं किञ्चिच्छेषं द्रुमादिषु ।।

उन्मत्तकरवीरार्कस्थलभूमि जलानिले ।। ३३ ।।

तद्विषं चूर्णितं तेन क्षणात्संकोचितं तथा ।।

हिमवातेन दुष्टेन वहमानेन पांडव ।। ३४ ।।

मनुष्याणां तु जायंते रोगा नानाविधा भुवि ।।

ते च मासत्रयं सार्द्धं प्रवहंति विषोल्बणाः ।। ३५ ।।

वृषसंक्रातिमारभ्य सिंहांते शाम्यते विषम् ।।

रोगदोषापनोदश्च भवेत्पार्थ प्रभावतः ।। ३६ ।।

एवं कालेन महता नीरुजे व्याधिवर्जिते ।।

जगत्यस्मिन्पुरा पार्थ घनीभूते प्रजागणे ।। ३७ ।।

निरंतरे मर्त्यलोके ऊर्ध्वबाहु प्रसारिणि ।।

बलवान्धूमनिर्देशान्मृत्युर्भ्राम्यति मूर्तिमान् ।। ३८ ।।

प्रजा व्यापादयन्कालादाजगाम महामुनेः ।।

समीपं मूर्तिमान्क्रुद्धो मृत्युस्तेन निरीक्षितः ।। ३९ ।।

भस्मीबभूव पश्चाच्च ब्रह्मणः सुखकारणात् ।।

व्याधिवृन्दसमोपेतो मृत्युरन्यो विनिर्मितः ।।4.118.४०।।

तथान्यो दंडकारण्ये श्वेतो नाम नृपोत्तमः ।।

स्वमांसमश्नता तेन निर्वेदात्प्रार्थितो मुनिः ।।४१।।

भगवत्सर्वमेवान्यद्दत्तं राज्यमदान्मया ।।

अन्नं जलं वा श्राद्धं वा न दत्तं पापबुद्धिना ।। ४२ ।।

ततोऽगस्त्यः कारुण्या रत्नैः श्राद्धमकल्पयत् ।।

श्राद्धे निवृत्ते सहसा दिव्यदेहः श्रिया वृतः ।। ४३ ।।

प्राप्तश्च परमं स्थानमगस्त्यर्षेः प्रसादतः ।।

अथ विन्ध्यो महाशैलः सूर्यरोषाद्व्यवर्धत ।। ४४ ।।

कस्मान्मेरुमिवासौ मां न करोति प्रदक्षिणम् ।।

वर्द्धमानं तु तं दृष्ट्वा ततो देवाः सवासवाः ।। ४५ ।।

एकीभूयाश्रमं गत्वा स्तुत्वा देवर्षिपुङ्गवम् ।।

अगस्त्यमूचुर्भगवन्सूर्यमार्गनिरोधिनम् ।। ४६ ।।

विंध्यं निवारय स्वैनं स्थितौ स्थापय पर्वतम् ।।

अगस्त्योपि द्रुतं गत्वा प्राहेदं विन्ध्यपर्वतम् ।। ४७ ।।

प्रस्थितं तीर्थयात्रायां विद्धि मामचलोत्तम ।।

स्थितौ च स्थीयतां तावद्यावदागमनं मम ।। ४८ ।।

एवमुक्त्वा संप्रयातो नाद्यापि विनिवर्तते ।।

दृश्यते भ्राजयन्नाशां दक्षिणां गगने ज्वलन् ।। ४९ ।।

त्रैलोक्यवंद्यचरणो लोपामुद्रासहायवान् ।।

लोपामुद्रापि तं प्राह देवर्षिं देवपूजितम् ।। 4.118.५० ।।

तत्राश्रमस्थलिकायामृतुकाले ह्युपस्थिते ।।

भोक्तुमिच्छामि विषयांस्त्वया सह सुखेषिणी।। ९१ ।।

भवेद्यदि गृहं रम्यं सर्वरत्नविभूषितम् ।।

गजै रथैश्च संपूर्णं शयनैः प्रवरासनैः ।। ५२ ।।

दुकूलपट्टनेत्रैश्च विलासैर्ललितैर्मुने ।।

त्वया सह समायोगं यास्येऽहं कुरु चिन्तितम् ।। ५३ ।।

एतच्छुत्वा मुनिहृर्ष्टः प्राह्वयद्धनदं क्षणात् ।।

कारयामास भवनं संपूर्णं रत्नराशिभिः ।। ५४ ।।

तत्र रेमे स भगवानगस्त्यः स्वाश्रमे सुखम् ।।

तस्यैवं चेष्टितस्यर्षेः प्रयच्छार्घ्यं युधिष्ठिर ।। ५५ ।।

आस्तिक्यबुद्ध्या भक्त्या च धनं प्राप्स्यसि पांडव ।।

कन्यायामागते सूर्ये अर्वाग्वै सप्तमे दिने ।। ५६।।

कन्यायां समनुप्राप्ते सूर्ये यः सन्निवर्तते ।।

प्रत्यूषसमये विद्वान्कुर्यावस्योदये निशि।। ५७ ।।

स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्याम्बरो गृही ।।

स्थापयेदव्रणं कुंभं माल्यवस्त्रविभूषितम् ।।५८।।

पञ्चरत्नसमायुक्तं घृतपात्रेण संयुतम् ।।

नानाभक्ष्यसमोपेतं सप्तधान्यसमन्वितम् ।। ५९ ।।

काञ्चनं कारयित्वा तु यथाशक्त्या सुशोभनम् ।।

पुरुषाकृतिं प्रशान्तं च जपमण्डलधारिणम् ।।4.118.६०।।

कमण्डलुकरं शिष्यैर्मृगैश्च परिधारितम् ।।

मृत्युघ्नं विषहन्तारं दर्भाक्षेष्टकरं मुनिम्।।६१।।

तस्मिन्क्रमे समालग्नं चन्दनेन ततो न्यसेत्।।

स्नापितं चानुलिप्तं च चन्दनेन सुगंधिना ।।६२।।

पूजितं चापि कुसुमैर्हृद्यैर्धूपैस्तु धूपितम् ।।

ततश्चार्घं प्रदातव्यो यैर्द्रव्यैस्तानि मे शृणु ।। ६३ ।।

खर्जूरैर्नालिकेरैश्च कूष्मांडैस्त्रपुषैरपि ।।

कर्कोटकारवेल्लैश्च कर्चूरैर्बीजपूरकैः ।।६४।।

वृंताकैर्दाडिमैश्चैव नारंगैः कदलीफलैः ।।

दूर्वांकुरैः कुशैः काशैः पद्मैनीलोत्पलैस्तथा ।। ६५ ।।

नानाप्रकारैर्भक्ष्यैश्च गोभिर्वस्त्रै रसैः शुभैः ।।

विरूढैः सप्तधान्यैश्च वंशपात्रे निधापितैः ।।६६।।

सौवर्णरौप्यपात्रेण ताम्रवंशमयेन च ।।

मूर्ध्नि स्थितेन नम्रेण जानुभ्यां पृथिवीतले ।। ६७ ।।

दक्षिणाभिमुखो भूत्वा ह्यर्घ्यपाद्यादिकं च यत् ।।

शीलेन चेतसा भक्त्या दद्यात्कौरवनन्दन ।। ६८ ।।

काशपुष्पप्रतीकाश अग्निमारुतसंभव ।।

मित्रावरुणयोः पुत्र कुंभयोने नमोऽस्तु ते ।। ६५. ।।

विंध्यवृद्धिक्षयकर मेषतोयविषापह ।।

रक्तो वल्लभदेवर्षे लंकावास नमोऽस्तु ते ।। 4.118.७० ।।

वातापिर्भक्षितो येन समुद्राः शोषिताः पुरा ।।

लोपामुद्रापतिः श्रीमान्योऽसौ तस्मै नमोऽस्तु ते ।। ७१ ।।

येनोदितेन पापानि प्रलयं यांति व्याधयः ।।

तस्मै नमोऽस्त्वगस्त्याय सशिष्याय सुपुत्रिणे ।।

ब्राह्मणो वेदऋचया दद्यादर्घ्यं नमोऽस्तु ते ।। ७२ ।।

अगस्त्यः खनमानश्च नित्यं प्राजापत्यं बलिमिच्छमानः ।।

उभौ वर्णौ वृष्ट्यनुग्रहार्थमुपोष सत्यादेष्वशिखो जगाम ।।'

दत्त्वैवमर्घ्यं कौंतेय प्रतिपूज्य च पुष्पकैः ।।

विसर्जयित्वागस्त्यं तं विप्राय प्रतिपादयेत् ।। ७३ ।।

दैवज्ञव्यासरूपाय वेदवेदांगवादिने ।।

एवं यः कुरुते भक्त्या ह्यगस्त्यप्रतिपूजनम् ।।

फलमेकं तथा धान्यं कोपं वासं परित्यजेत् ।। ७४ ।।

संपूर्णे च ततो वर्षे पुनर न्यदुपक्रमेत् ।।

दत्त्वार्घ्यं सप्तवर्षाणि क्रमेणानेन पांडव ।।

पुमान्फलमवाप्नोति तदेकाग्रमनाः शृणु ।। ७५ ।।

ब्राह्मणश्चतुरो वेदान्सर्वशास्त्रविशारदः ।।

क्षत्रियः पृथिवीं सर्वां प्राप्नोत्यर्णवमेखलाम् ।।७६।।

वैश्योऽप्यायुष्यमाप्नोति गोधनं चापि नंदति।।

शूद्राणां धनमारोग्यं सन्मानश्चाधिको भवेत् ।। ७७ ।।

स्त्रीणां पुत्राः प्रजायंते सौभाग्यं वृद्धिऋद्धिमत् ।।

विधवानां महापुण्यं वर्धते पांडुनन्दन।। ७८ ।।

कन्या भर्तारमाप्नोति व्याधेर्मुच्येत दुःखितः।।७९।।

येषु देशेष्वगस्त्यर्षेः पूजनं क्रियते जनैः ।।

तेषु देशेषु पर्जन्यः कामवर्षी प्रजायते ।।4.118.८०।।

ईतयः प्रशमं यांति नश्यंति व्याध यस्तथा ।।

पठंति ये त्वगस्त्यर्षेः ख्यानं शृण्वंति चापरे ।। ८१ ।।

ते सर्वे पापनिर्मुक्ताश्चिरं स्थित्वा महीतले ।।

हंसयुक्तविमानेन स्वर्गं यांति नरोत्तम।।८२।।

मर्त्यो यदीच्छति गृहं परमर्द्धियुक्तं भोगशरीरमरुजं पशुपुत्रपुष्टिम्।।

तत्सर्ववल्लभमुनेरुदये महार्घ्यं यच्छेन्महार्घफलवस्त्रधनैः सहान्यैः।। ।। ८३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे

ऽगस्त्यार्घ्यविधिव्रतवर्णनं नामाष्टादशोत्तरशततमोऽध्यायः ।। ११८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 119

अभिनवचन्द्रार्घ्यव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पार्थ पार्थिव दिव्यस्त्रीमुखपंकजसेंदवे ।।

शृणुष्वाभिनवस्येंदोरुदयेऽर्घ्यविधिं परम् ।। १ ।।

रविर्द्वादशभिर्भागैर्वारुण्यां दृश्यते यदि ।।

प्रदोषसमये पार्थ अर्घ्यं दद्यात्तदा विभोः ।। २ ।।

द्वितीयायां सिते पक्षे संध्याकाले ह्युपस्थिते ।।

संस्थाप्याभिनवं चन्द्रं स भूम्यां दृश्यते यदि ।। ३ ।।

गोमयं मंडलं कृत्वा चंदनेन सुशोभितम्।।

रोहिण्या सहितं देवं कुमुदामोदसंभवम्।। ४ ।।

पुष्पचन्दनधूपैश्च दीपाक्षतजलैः शुभैः ।।

दूर्वांकुरै रत्नवरैर्दध्ना वस्त्रैश्च पांडुरैः ।। ५ ।।

मंत्रेणानेन राजेन्द्र क्षत्रियः सपुरोहितः ।।

नवोनवोऽसि मासांते जायमानः पुन. पुनः ।।

आप्यायस्व समेत्वेवं सोमराज नमोनमः ।। ६ ।।

अनेनविधिनाचार्यं सर्वकामफलप्रदम् ।।

यः प्रयच्छति कौंतेय मासिमासि समाहितः ।। ७ ।।

स कीर्त्या यशसा कांत्या धन्यश्च भुवि मानवः ।।

पुत्रपौत्रैः परिवृतो गोधान्यधनसंकुलः ।। ८ ।।

स्थित्वा वर्षशतं मर्त्ये ततः सोमपुरं व्रजेत् ।।

तत्रास्ते दिव्यवपुषा भोगान्भुञ्जन्नृपोत्तम ।।

वरस्त्रीभिः सहात्यर्थं यावदाभूतसंप्लवम् ।। ९ ।।

धर्मं समृद्धिमतुलां यदि वाञ्छसि त्वं मासानुमासमिह मद्वचनं कुरुष्व ।।

सोमस्य सोमकुलनंदन धूपपुष्पैरर्घं प्रयच्छ नतजानु नवोदितस्य ।। 4.119.१० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽभिनवचंद्रार्घ्यव्रतवर्णनं नामैकोनविंशोत्तरशततमोऽध्यायः ।। ११९।।

पर्व ४ (उत्तरपर्व) — Adhyāya 120

शुक्रबृहस्पत्यर्घपूजावर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः शृणु भूपाल प्रतिशुक्रप्रशांतये ।।

यात्रारंभे प्रयाणे च तथा शुक्रोदयेष्विह ।। १ ।।

शुक्रपूजा प्रकर्तव्या तां निशामय सारतः ।।

राजते वाऽथ सौवर्णे कांस्यपात्रेऽथ वा पुनः ।। २ ।।

शुक्लपुष्पांबरयुते सिततंडुलपूरिते ।।

निधाय राजतं शुक्रं शुचि मुक्ताफलान्वितम् ।। ३ ।।

सह तेन सवत्साङ्गां ब्राह्मणाय निवेदयेत् ।।

नमस्ते सर्वदेवेश नमस्ते भृगुनन्दन ।।

कवे सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु ते।।४।।

दत्त्वैवमर्घ्यं कौन्तेय प्रणिपत्य विसर्जयेत् ।।५।।

यावच्छुक्रस्य न कृता पूजा सोहालकैः शुभै. ।।

वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि ।।

तावन्न दानं दातव्यं स्त्रीभिः कामार्थसिद्धये ।।६।।

एवं तस्योदये कुर्वन्यात्रादिषु च भारत ।।

सर्वसस्यागमं चैव सर्वान्कामानवाप्नुयात् ।। ७ ।।

तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर ।।

सौवर्णपात्रे सौवर्णममरेशपुरोहितम् ।।

पीतपुष्पांबरयुतं कृत्वा स्नात्वाथ सर्षपैः ।।८।।

पालाशाश्वत्थभंगेन पञ्चगव्यजलेन च।।

पीतांगरागवसनं घृतहोमं तु कारयेत ।। ९ ।।

प्रणम्य च गवा सार्द्धं ब्राह्मणाय निवेदयेत् ।। 4.120.१० ।।

नमस्तेऽङ्गिरसां नाथ वाक्पतेथ बृहस्पते ।।

क्रूरग्रहैः पीडितानाममृताय भवस्व नः ।। ११ ।।

एवं सुरगुरुं पूज्य प्रणिपत्य क्षमापयेत् ।।

संक्रातावुदये चास्ते सर्वान्कामानवाप्नुयात् ।। १२ ।।

अथ वा मौक्तिकान्येव सुवृत्तानि बृहंति च ।।

भार्गवांगिरसौ चिंत्य तान्येव प्रतिपादयेत् ।। १३ ।।

भक्त्या मौक्तिकदानेन दत्तेन कुरुनन्दन ।।

विरूपता दृशोः पुंसां यात्रास्वभ्युदयेषु च ।।

कुर्वन्बृहस्पतेः पूजां न कदाचित्प्रजायते ।। १४ ।।

ये भार्गवोदयमवाप्य सवस्त्रपुष्पां कुर्वंत्यनन्य मनसोऽङ्गिरसे च पूजाम् ।।

तेषां गृहे प्रविशतां प्रतिशुक्रजातं विघ्नं न संभवति भारत पुण्यभाजाम् ।। १५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुक्रबृहस्पत्यर्घपूजाविधानं नाम विंशत्युत्तरशततमोऽध्यायः ।। १२० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 121

व्रतपञ्चाशीतिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शृणु भारत वक्ष्यामि पञ्चाशीतिव्रतानि च ।।

नोक्तानि यानि कस्यापि मुनिभिर्धर्मदर्शिभिः ।। १ ।।

भविष्यमत्स्यमार्तंडपुराणेषु च वर्णितम् ।।

वाराहं चैव संगृह्य कथ्यंते तानि पांडव ।। २ ।।

यदभीष्टं सुमित्राय शिष्याय च सुताय च ।।

न कथ्यते धर्मजातं किं तेनोदरवर्तिना ।। ३ ।।

श्रुतिस्मृतिपुराणेभ्यो यन्मया ह्यवधारितम् ।।

तत्ते वच्मि कुरुश्रेष्ठ कस्यान्यस्योपदिश्यते ।। ४ ।।

स्नात्वा प्रभातसंध्यायामुपगृह्य च पिप्पलम् ।।

तिलपात्राणि यो दद्यान्न स शोचेत तत्कृते ।। ५ ।।

व्रतानामुत्तमं ह्येतत्सर्वपापप्रणाशनम् ।।

पात्रव्रतमिति ख्यातं नाख्यातं कस्यचिन्मया ।। ६ ।।

सुशुद्धस्य सुवर्णस्य सुवर्णं यः प्रयच्छति ।।

पुण्येऽह्नि विप्रकथिते प्रीत्या पीतयुगान्वितम् ।। ७ ।।

व्रतं वाचस्पतेरेतद्बलबुद्धिप्रदायकम् ।।

वृत्रघ्नस्य पुराख्यातं गुरुणा सर्वकामदम् ।। ८ ।।

लवणं कटुतिक्तं च जीरकं मरिचानि च ।।

हिंगुशुंठिसमायुक्तं सर्वं परिचयं तथा ।। ९ ।।

चतुर्थ्या मेकभक्ताशी सकृद्दत्त्वा कुटुंबिने ।।

गृहेषु सप्तसु सदा शिलायुक्तानि भारत ।। 4.121.१० ।।

एतच्छिलाव्रतं नाम लक्ष्मीलोकप्रदायकम् ।।

कर्तव्यमिह यत्नेन मुखपाटवकारकम् ।। ११ ।।

नक्तमन्नं चरित्वा तु गवा सार्द्धं कुटुंबिने ।।

हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी।। १२ ।।

प्रणम्य भक्त्या देवेशौ प्रीयेतां शिवकेशवौ ।।

एतदेवव्रतं नाम महापातकनाशनम् ।।१३।।

कृत्वैकभुक्तं वर्षांते शक्त्या हैमवृषान्विताम् ।।

धेनुं तिलमयीं दद्यात्सर्वो पस्करणैर्युताम् ।। १४ ।।

एतद्रुद्रव्रतं नाम पापशोकप्रणाशनम् ।।

यः करोति पुमान्राजन्स पदं याति शांकरम् ।। १५ ।।

सर्वौषध्युदकस्नातः पञ्चम्यां पूज्य पंचकम् ।।

सप्तोपस्करदानं च यः करोति गृहाश्रमी ।। १६ ।।

गृहाद्युलूखलं शूर्पः शिला स्थाली च पञ्चमी ।।

उदकुंभश्च चुल्ली च एतेषामनुकिञ्चन।। १७ ।।

एतानि गृहिणां गेहे प्रस्थाप्य पुरुषोत्तमम् ।।

उपस्करोति या नारी न सीदति कदाचन ।। १८ ।।

एतद्गृहव्रतं नाम सर्व सौख्यप्रदायकम्।।

अत्रिणा ह्यनसूयायाः कथितं पाण्डुनन्दन ।। १९ ।।

यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् ।।

ददाति श्रद्धयोपेतो ब्राह्मणाय कुटुंबिने ।। 4.121.२० ।।

स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम् ।।

आषाढादिचतुर्मासमभ्यंगं वर्जयेन्नरः ।। २१ ।।

पारिते च पुनर्दद्यात्तिलतैलघटं नवम् ।।

भोजनं पायसाज्यं च स याति भवनं हरेः ।।२२।।

लोकप्रीतिकरं चैतत्प्रीतिव्रतमिहोच्यते ।।

वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् ।। ।। २३ ।।

दद्याद्वस्त्रयुगं सूक्ष्मं रसपात्रैश्च संयुतम् ।।

संपूज्य विप्रमिथुनं गौरी मे प्रीयतामिति ।। २४ ।।

एतद्गौरीव्रतं नाम भवानीलोक दायकम् ।।

पुरुषो यस्त्रयोदश्यां कृत्वा नक्तमथो पुनः ।। २५ ।।

संवत्सरांते तस्मिन्वा दिवसे विघ्नवर्जितम् ।।

अशोककांचनं दद्यात्सद्वस्त्रयुगसंश्रितम् ।। २६ ।।

विप्राय वसुसंयुक्तं प्रद्युम्नः प्रीयतामिति ।।

कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नृप ।। २७ ।।

एतत्कामव्रतंनाम सर्वशोकविनाशनम् ।।

आषाढादिचतुर्मासं वर्जयेन्नखकर्तनम् ।। २८ ।।

वृंताकभक्षणं चैव मधुसर्पिर्घटान्वितम् ।।

कार्तिक्यां तु पुनर्हैमं ब्राह्मणाय निवेदयेत् ।। २९ ।।

रुद्रलोकमवाप्नोति शिवव्रतमिदं स्मृतम् ।।

एवं पञ्चदशीं स्मृत्वा एकभक्तेन मानवः ।। 4.121.३० ।।

संपूज्य पूर्णिमां देवीं लिखित्वा चन्दनादिना ।।

ततः पञ्चघटान्पूर्णान्पयोदधिघृतेन च ।।

मधुना सितखण्डेन ब्राह्मणायोपपादयेत् ।। ३१ ।।

मनोरथान्पूरयस्व संपूर्णान्पूर्णिमा ह्यसि ।।

पञ्चकुम्भप्रदानेन भूतानां तुष्टिरस्तु मे ।।

द्विजानेवं नमस्कृत्य सर्वान्कामानवाप्नुयात् ।। ३२ ।।

एतत्पंचघटं नाम व्रतं पुष्टिप्रदायकम्।।।

वर्जयेद्यस्तु पुष्पाणि हेमंतशिशिराव्रतम् ।। ३३ ।।

पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्याथ काञ्चनम् ।।

दद्याद्वै कालवेलायां प्रीयेतां शिवकेशवौ ।। ।। ३४ ।।

शिरःसौगन्धजननं सदानन्दकरं नृणाम् ।।

कृत्वा परपदं याति सौगन्ध्यव्रतमुत्तमम् ।। ३५ ।।

फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत् ।।

समाप्ते शयनं दयाद्गृहे चोपस्करान्वितम् ।। ३६ ।।

संपूज्य विप्रमिथुनं भवानी प्रीयतामिति ।।

गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुत्त मम् ।। ३७ ।।

संध्यामौनं नरः कृत्वा समाप्ते घृतकुंभदः ।।

वस्त्रयुग्मं च घंटां च ब्राह्मणाय निवेदयेत् ।। ३८ ।।

सारस्वतं पदं याति पुनरावृत्ति दुर्लभम्।।

एतत्सारस्वतं नाम रूपविद्याप्रदायकम् ।। ३९ ।।

लक्ष्मीमध्येऽथ पञ्चम्यामुपवासी भवेन्नरः ।।

समाप्ते हेमकमलं दद्याद्धेनुसमन्वितम् ।। ।। 4.121.४० ।।

स वैष्णवं पदं याति लक्ष्मीः स्याज्जन्मजन्मनि ।।

एतल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनम् ।।४१।।

या तु नारी पिबेत्तोयं जलधारां प्रपातयेत् ।।

समाप्तघृतसंपूर्णां दद्याद्वद्वंतिकां? नवाम् ।।४२ ।।

एतद्धाराव्रतं नाम सर्वरोगहरं परम्।।

कांतिसौभाग्यजननं सपत्नीदर्पनाशनम्।।४३।।

गौरीसमन्वितं रुद्रं लक्ष्म्या सह जनार्दनम् ।।

राज्ञीसमन्वितं सूर्यं प्रतिष्ठाप्य यथाविधि ।। ४४ ।।

धूपाक्षेपेणसहितां सुघंटां पात्रसंयुताम् ।।

यो ददाति द्विजेन्द्राणां पुष्पैरभ्यर्च्य पांडुरैः ।। ४५ ।।

दक्षिणासहितां कृत्वा प्रणम्य च विसर्जयेत् ।।

एतद्देवव्रतं नाम दिव्यदेहप्रदायकम् ।। ४६ ।।

कृत्वोपलेपनं शंभोरग्रतः केशवस्य च ।।

यावद्व्रतं समाप्यैतद्धेनुं च सजलान्विताम् ।। ४७ ।।

जन्मायुतं स राजा स्यात्ततः शिवपुरं वसेत् ।।

एतच्छ्रुत्वा व्रतं नाम बहुकल्याणकारकम् ।। ४८ ।।

अश्वत्थं भास्करं गंगां प्रणम्यैव च वाग्यतः ।।

एकभुक्तं नरः कुर्यादष्ट चैकं विमत्सरः ।। ४९ ।।।

व्रतांते विप्रमिथुनं पूज्य धेनुत्रयान्वितम् ।।

वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत् ।। 4.121.५० ।।

दिवि दिव्यविमानस्थः सेव्यतेऽप्सरसां गणैः।।।

एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ।।५१।।

घृतेन स्नपनं कृत्वा शंभोर्वा केशवस्य च ।।

ब्राह्मणो भास्करस्यापि गौर्या लंबोदरस्य वा।। ५२।।

अक्षतैस्तु समं कुर्यात्पद्मं गोमयमण्डले ।।

समाप्य हेमकमलं तिलधेनुसमन्वितम् ।। ५३ ।।

शुद्धमष्टाङ्गुलं दयाच्छिवलोके महीयते ।।

सामगायनतश्चैतत्सामव्रतमिहोच्यते ।। ५४ ।।

नवम्यामेकभुक्तं तु कृत्वा कन्याश्च शक्तितः ।।

भोजयित्वा समादद्याद्धैमकंचुकवाससी ।। ५५ ।।

हैमं च सिंहं विप्राय दत्त्वा शिवपुरं व्रजेत् ।।

भवार्बुदं सुरूपश्च शत्रुभिश्चापराजितः ।। ५६ ।।

एतद्वीरव्रतं नाम नारीणां च सुखप्रदम् ।।

यावत्समारभेद्यस्तु पञ्चदश्यां पयोव्रतः ।। ५७ ।।

समाप्ते श्रद्धया दयद्गाश्च पञ्च पयस्विनीः ।।

वासांसि च पिशंगानि जलकुंभयुतानि च ।। ५८ ।।

स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्।।

कल्पांते राजराजः स्यात्पितृव्रतमिदं स्मृतम् ।। ५९ ।।

तांबूलं समये नित्यं गौरीपुत्रं ददाति या।।

पूगचूर्णसमायुक्तं नारी वा पुरुषोऽपि वा ।। 4.121.६० ।।

वर्षस्यांते तु सौवर्णं कारयित्वा फलान्वितम् ।।

मुक्ताफलमयं चूर्णत्रितयं या प्रयच्छति ।। ६१ ।।

न सा प्राप्नोति दौर्भाग्यं न दौर्गन्ध्यं मुखस्य च ।।

एतत्पत्रव्रतं नाम सौगन्ध्यजननं परम् ।। ६२ ।।

चैत्रादिचतुरो मासाञ्जलं कुर्यादयाचितम् ।।

ज्येष्ठाषाढे च वा मासं पक्षं वा पांडुनंदन ।। ६३ ।।

व्रतांते मणिकं दद्यादन्नवस्त्रसमन्वितम् ।।

घृतेन सहितं तद्वत्सप्तधान्यसमन्वितम् ।। ६४ ।।

तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते ।।

कल्पांते राजराजः स्याद्वारिव्रतमिहोच्यते ।। ६५ ।।

पञ्चामृतेन स्नपनं कृत्वा विष्णोः शिवस्य च ।।

वत्सरांते पुनर्दद्याद्धेनुं पञ्चामृतैर्युताम् ।। ६६ ।।

विप्राय कनकं शंखं स पदं याति शांकरम् ।।

राजा भवति कल्पांते वृत्तिव्रतमिहोच्यते ।। ६७ ।।

यो हिंसां वर्जयित्वा तु मासं संवत्सरं तथा ।।

व्रतांते हेमहरिणं कृत्वा शक्त्या विचक्षणः ।। ६८ ।।

तद्वत्सवत्सां गां दद्यात्सोऽश्वमेधफलं लभेत् ।।

अहिंसाव्रतमित्येतत्सर्वशांतिप्रदं नृणाम् ।। ६९ ।।

माघमास्युषसि स्नानं कृत्वा दांपत्यमर्चयेत् ।।

भोजयित्वा यथाशक्त्या माल्यवस्त्रविभूषणैः ।। 4.121.७० ।।

सौभाग्यं महदाप्नोति शरीरारोग्यमुत्तमम्।।

सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम् ।।७१।।

आषाढादिचतुर्मासं प्रातःस्नायी भवेन्नरः ।।

विप्राय भोजनं दद्यात्कार्तिक्यां गोप्रदो भवेत् ।। ७२ ।।

घृतकुंभं ततो दत्त्वा सर्वान्कामानवाप्नुयात् ।।

वैष्णवव्रतमित्युक्तं विष्णुलोकमवाप्नुयात् ।। ७३ ।।

अयनादयनं यावद्वर्जयेन्मधुसर्पिषी ।।

तदंते पुण्यदानानि घृतधेन्वा सहैव तु ।। ७४ ।।

दत्त्वा शिवपदं याति दत्त्वा तु घृतपायसम् ।।

एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम् ।। ७५ ।।

संध्यादीपप्रदो यस्तु मांसं तैलं विवर्जयेत् ।।

समाप्ते दीपकं दद्याच्चक्रशूले च काञ्चने ।। ७६ ।।

वस्त्रयुग्मं च विप्राय स तेजस्वी भवेद्दृढम् ।।

एतद्दीपव्रतं नाम सदा कांतिप्रदायकम् ।। ७७ ।।

एकभक्तेन सप्ताहं गौरीं वा यस्तु पूजयेत् ।।

संपूज्य पार्वतीं भक्त्या गन्धपुष्पविलेपनैः ।। ७८ ।।

ततः सुवासिनीभ्यां तु कुंकुमेन विलेपयेत् ।।

पुष्पैर्विलेपयेच्चैनां कर्पूरागरुचन्दनैः ।। ७९ ।।

तांबूलं शोभनं दत्त्वा नारिकेलफलं तथा ।।

प्रीयतां कुमुदा देवी प्रणिपत्य विसर्जयेत् ।। 4.121.८० ।।

एकैकां पूजयेद्देवीं सप्ताहं यावदेव तु ।।

पुनस्तु सप्तमे पूर्णे ताः सप्तैव निमंत्रयेत् ।। ८१ ।।

षड्रसं भोजयित्वा तु यथाशक्त्या विभूषणैः ।।

भूषयित्वा माल्यवस्त्रैः कर्णवेष्टांगुलीयकैः ।। ८२ ।।

कुमुदा माधवी गौरी भवानी पार्वती उमा ।।

काली च दर्पणं हस्ते प्रत्येकं विनिवेदयेत् ।। ८३ ।।

ब्राह्मणं पृजयित्वैकं वाच्यः संपमन्नमस्तु ते।।

सप्तसुन्दरकं नाम व्रतं चैतद्युधिष्ठिर ।। ८४ ।।

करोति सुन्दरं देहं सौभाग्यं यच्छते परम् ।।

वर्जयेच्चैव मासे तु यस्तु गन्धानुलेपनम् ।। ८५ ।।

शुक्तिं गंधभृतां दत्त्वा विप्राय सितवाससी ।।

शक्त्या च दक्षिणां दद्यात्सर्वान्कामान्समश्नुते ।। ८६ ।।

वारुणं च पदं याति तदेतद्वरुणव्रतम् ।।

वैशाखमासे लवणं वर्जयित्वा यतव्रतः ।। ८७ ।।

मासांतेऽथ ततो दद्यात्सवत्सां गां द्विजातये ।।

स्थित्वा विष्णुपदे कल्पं ततो राजा भवेदिह।८८।।

एतत्कांतिव्रतं नाम कांतिकीर्तिप्रदायकम् ।।

ब्रह्माण्डं कांचनं कृत्वा तिलद्रोणोपरि स्थितम् ।। ८९ ।।

त्र्यहं तिलव्रती भूत्वा वह्निं संतर्पयेद्द्विजम् ।।

संपूज्य विप्रदांपत्यं माल्यवस्त्रविभूषणैः ।। 4.121.९० ।।

शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति ।।

पुण्येऽह्नि दद्यात्स परं ब्रह्म यात्यपुनर्भवम् ।।९१।।

एतद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम् ।। ९२ ।।

यश्चोभयमुखीं दद्यात्प्रभूतकनकान्विताम् ।।

दिनं पयोव्रतं तिष्ठेत्स याति परमं पदम् ।। ९३ ।।

त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम् ।।

पलादूर्ध्वं यथा शक्त्या तंडुलं रूपसंयुतम् ।। ९४ ।।

छादितं वरवासोभिः पुष्पमालाविभूषितम् ।।।।।

दत्त्वा स्वर्गे वसेत्कल्पं कल्पव्रतमिदं स्मृतम् ।। ९५ ।।

यस्तु वत्सतरीं भव्यां कण्ठाभरणभूषिताम् ।।

सुपर्याणां सुखस्पृष्टां खलीनालंकृता ननाम् ।। ९६ ।।

मोदकोदकपात्रेण तांबूलेन समन्विताम् ।।

स्थगितां स्थापयेत्पृष्ठे शृंगाग्रेषु हिमान्विताम् ।। ९७ ।।

ईदृग्विधां व्यतीपाते ग्रहणे चायनद्वये ।।

अयाचितेन च स्थित्वा ततो दद्याद्द्विजातये ।। ९८ ।।

एतद्वारव्रतं नाम मार्गखेदविनाशनम् ।।

परलोकार्द्धगमने क्लांतिश्रमहरं परम् ।। ९९ ।।

नक्ताशी त्वष्टमीषु स्याद्वत्सरांतेऽष्टगोप्रदः ।।

पौरंदरं पदं याति सुगतिव्रतमुच्यते ।। 4.121.१०० ।।

यश्चेन्धनप्रदो राजन्हेमंतशिशिर व्रतम् ।।

घृतधेनुं प्रयच्छेत परं ब्रह्म स गच्छति ।।। १०१।।

शरीरारोग्यजननं द्युतिकांतिप्रदायकम् ।।

वैश्वानरव्रतं नाम सर्वपापप्रणाशनम् ।।१०२।।

एकादश्यां तु नक्ताशी यश्चक्रं विनिवेदयेत् ।।

तद्वच्छंखं तु सौवर्णं चैत्रे चित्रासु पांडव ।। १०३ ।।

य एतत्कुरुते भक्त्या स विष्णोः पदमाप्नुयात् ।।

एतद्विष्णुव्रतं नाम कल्पादौ राज्यलाभकृत् ।। १०४ ।।

पयोव्रतस्तु पञ्चम्यां व्रतांते गोयुगप्रदः ।।

लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतम् ।। १०५ ।।

सप्तम्यां नक्तभुग्दद्यात्समाप्ते गां पयस्विनीम् ।।

सोऽर्कलोकमवाप्नोति भानुव्रतमिहोच्यते ।। १०६ ।।

चतुर्थ्यां नक्तभुग्दद्यादष्ट गा होमचारणम् ।।

व्रतं वैनायकं नाम सर्वविघ्नविनाशनम् ।। १०७ ।।

महाफलानि यस्त्यक्त्वा चातुर्मासं द्विजातये ।।

हैमानि कार्त्तिके दद्याद्गोयुगेन समं नरः ।। १०८ ।।

सितं वस्त्रयुगं नाम संपूर्णाद्यघटानि च ।।

एतत्फलव्रतं नाम फलावाप्तिकरं सदा ।।१ ०९।।

यश्चोपवासी सप्तम्यां समांते हेमपङ्कजम् ।।

धेनूश्च शक्तितो दद्यात्सवत्साः कांस्यदोहनाः ।। 4.121.११० ।।

भक्त्या राजेन्द्र विप्राय वाचकाय निवेदयेत् ।।

एतत्सौरव्रतं नाम सूर्यलोकप्रदायकम् ।। १११ ।।

द्वादश द्वादशीर्यस्तु नाम प्राशनसंयुतः ।।

समुपोष्य समांते तु सवस्त्राः सोदका घटाः ।। ११२ ।।

द्वादशात्र प्रदेयाश्च सर्वकामप्रसिद्धये ।।

गोविन्दव्रतमित्येतद्गोविन्दपददायकम् ।। ११३ ।।

कार्त्तिक्यां यो वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ।।

स गोलोकमवाप्नोति वृषव्रतमिदं स्मृतम् ।। ११४ ।।

व्रतांते गौः प्रदातव्या भोजनं शक्तितः परम् ।।

विप्राणामत्र कथितं प्राजापत्यमिदं व्रतम्।। ११५ ।।

चतुर्दश्यां तु नक्ताशी समांते गोयुगप्रदः ।।

शैवं पदमवाप्नोति ज्ञेयं च त्र्यंबकव्रतम् ।। ११६ ।।

सप्तरात्रोषितो दद्याद्घृतकुंभं द्विजातये ।।

ब्रह्मव्रतमिदं प्राहुर्ब्रह्मलोकप्रदायकम् ।। ११७ ।।

मासांते च स गां दद्याद्धेनुमंते पयस्विनीम् ।।

शक्रलोके वसेत्कल्पं शक्रव्रतमिदं स्मृतम् ।। ११८ ।।।

कार्त्तिकस्य सिते पक्षे चतुर्दश्यां नराधिप ।।

सोपवासः पञ्चगव्यं पिबेद्रात्रौ विचक्षणः ।। ११९ ।।

कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा ।।

सितधेन्वास्तथा क्षीरं रक्तायास्तु तथा दधि ।। 4.121.१२० ।।

गृहीत्वा कर्बुरायास्तु घृतमेकत्र मेलयेत् ।।

वेदोक्तमन्त्रै राजेन्द्र कुशोदकसमन्वितम् ।। ।।१२१।।

ततः प्रभातसमये स्नात्वा संतर्प्य देवताः।।

ब्राह्मणान्वाचयित्वा तु भुञ्जीयाद्वाग्यतः शुचिः।।१२२।।

ब्रह्मकूर्चव्रतं ह्येतत्सर्वपापप्रणाशनम् ।।

यद्बाल्ये यच्च कौमारे वार्धक्ये चापि यत्कृतम् ।।

ब्रह्मकूर्चोपवासेन तत्सर्वं नश्यति क्षणात् ।।१२३।।

अनग्निपक्वमश्नाति तृतीयायां तु यो नरः ।।

गां दत्त्वा शिवमभ्येति पुनरावृत्तिवर्जितम् ।। १२४ ।।

एतद्दृषिव्रतं नाम सर्वमाङ्गल्यकारकम् ।।

हैमं पलद्वयादूर्ध्वं रथमश्वयुगान्वितम् ।। १२५।।

तिलप्रस्थोपरि गतं सितमाल्ययुगान्वितम् ।।

दत्त्वा कृतोपवासस्तु दिवि कल्पशतं वसेत्।।

तदंते राजराजः स्यादग्निव्रतमिदं स्मृतम् ।। ।। १२६ ।।

कृत्वा पलद्वयादूर्ध्वं शय्याभ्यां संयुतं नरः ।।

हैमं रथवरं श्रेष्ठं सर्वोपस्करसंयुतम् ।। १२७ ।।

सत्यलोके वसेत्कल्पं सहस्रमथ भूपतिः ।।

भवेदुपोषितो दत्त्वा करिव्रतमिदं शुभम् ।। १२८ ।।

मुखवासं परित्यज्य समांते गोप्रदो भवेत् ।।

यक्षाधिपं समाप्नोति सुमुख व्रतमुच्यते ।। १२९ ।।

निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् ।।

रुणं लोकमाप्नोति वरुणव्रतमुच्यते ।। 4.121.१३० ।।

चान्द्रायणं च यः कुर्याद्धैमं चन्द्रं निवेदयेत् ।।

चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकप्रदायकम् ।। १३१ ।।

ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् ।।

अथाष्टमीचतुर्दश्यौ रुद्रव्रतमिदं स्मृतम् ।। १३२ ।।

अनुलेपनं यः कुर्यात्तृतीयायां शिवालये ।।

स स्वर्गं धेनुदो याति भवानी व्रतमुच्यते ।। १३३ ।।

माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत ।।

दिवि कल्पं वसित्वेह राजा स्यात्तापनं व्रतम् ।। १३४ ।।

दत्त्वा कृतोपवासस्तु दिवि कल्पशतं वसेत् ।।

तदंते राजराजः स्यादश्वव्रतमिदं स्मृतम् ।।१३५।।

तद्वत्कल्पद्वयादूर्ध्वं करिभ्यां संयुतं नरः ।।

हैमं रथं नरश्रेष्ठ सर्वोपस्करणान्वितम् ।। १३६ ।।

त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम् ।।

आदित्यलोकमाप्नोति पूजितः स सुरासुरैः ।। १३७ ।।

सुरलोकमवाप्नोति धाम व्रतसमन्वितम् ।।

त्रिसंध्यं पूज्य दांपत्यमुपवासी विभूषणैः ।। १३८ ।।

पौर्णमास्यामवाप्नोति मोक्षमिन्दुव्रतादिह।।१३९।।

दत्त्वा सितद्वितीयायामिंदोर्लवणभोजनम् ।।

कांस्यं सवस्त्रं राजेन्द्र दक्षिणासहितं तथा ।। 4.121.१४० ।।

समांते गोप्रदो याति विप्राय शिवमंदिरम् ।।

कल्पांते राजराजः स्यात्सोमव्रतमिदं स्मृतम् ।। १४१ ।।

प्रतिपद्येकभक्ताशी समांते कपिलाप्रदः ।।

वैश्वानरपुरं याति आग्नेयव्रतमुच्यते ।।१४२।।

एकादश्यां माघमासे चतुर्दश्यष्टमीषु च ।।

एकभक्तेन यो दद्याद्बालकान्यजिनानि च ।। १४३ ।।

उपानहौ कंबलांश्च चैत्रे छत्रादिकं ततः ।।

करपत्रादिकं चापि यथा शक्त्या विचक्षणः ।। १४४ ।।

ब्राह्मणानां महाराज सोऽश्वमेधफलं लभेत् ।।

एतत्सौख्यव्रतं नाम सर्वसौख्यप्रदायकम् ।। ।। १४५ ।।

दशम्यामेकभक्ताशी समांते दशधेनुदः ।।

दिशश्च काञ्चनीर्दद्यान्नारीरूपा युधिष्ठिर ।।१४६।।

तिलद्रोणोपरिगतो ब्रह्मांडाधिपतिर्भवेत्।।

एतद्विश्वव्रतं नाम महापातकनाशनम् ।। १४७ ।।

संपूज्य सितसप्तम्यां भानुधान्यानि सप्त यः ।।

ददाति नक्तभुग्राजँल्लवणेन समं द्विजे ।। १४८ ।।

स तारयति सप्ताष्टौ कुलान्यात्मानमेव च ।।

एतद्धान्यव्रतं नाम धनधान्यप्रदायकम् ।। १४९ ।।

मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम् ।।

स वैष्णवं पदं याति भीमव्रतमिदं स्मृतम् ।। 4.121.१५० ।।

पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम् ।।

स ब्रह्मलोकमाप्नोति पूजितः सुरसत्तमैः ।। ।। १५१ ।।

दद्यात्त्रिंशत्पलादूर्ध्वं महीं कृत्वा तु कांचनीम् ।।

कुलाचलाद्रिसहितां तिलवस्त्रसमन्विताम् ।। १५२ ।।

तिलद्रोणोपरि गतां ब्राह्मणाय कुटुंबिने ।।

दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते ।। १५३ ।।

एतन्महीव्रतं प्रोक्तं सप्तकल्पानुवर्तकम् ।।

माघमासेऽथ चैत्रे वा गुडधेनुप्रदो भवेत् ।। ।। १५४ ।।

गुडव्रतस्तृतीयायां सर्वोपस्करणैर्युतः ।।

गौरीलोकमवाप्नोति पूज्यतेऽप्सरसां गणैः ।। १५५ ।।

उमाव्रतमिदं प्रोक्तं सततानन्ददायकम्।।

वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुंभदः ।। १५६ ।।

शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम् ।।

कार्त्तिकादितृतीयायां प्राश्य गोमूत्रयावकम् ।। ।। १५७ ।।

गौरीलोके वसेत्कल्पं ततो राजा भवेदिह ।।

एतद्रुद्रव्रतं नाम महाकल्याणकारकम् ।। १५८ ।।

चैत्री त्रिरात्रं नक्ताशी नद्यां स्नात्वा ददाति यः ।।

अजाः पयस्विनीः पञ्च ब्राह्मणाय कुटुंबिने ।। १५९ ।।

न जायते पुनरसौ जीवलोके कदाचन ।।

एतद्बस्तव्रतं प्रोक्तं सर्वव्याधिविनाशनम् ।। 4.121.१६० ।।

कन्यादानं तु यः कुर्यादुद्वाहं कारयेच्च यः ।।

एकविंशतिकुलोपेतो ब्रह्मलोकं स गच्छति ।। १६१ ।।

कन्यादानात्परं दानं न चास्त्यभ्यधिकं क्वचित् ।।

ये करिष्यंति नृपते तेषां लोकोऽक्षयो दिवि ।। १६२ ।।

तिलपिष्टमयं कृत्वा गजं हेमविभूषितम् ।।

कुर्यात्कुशमयं तद्वदारोहकसमन्वितम् ।। १६३ ।।

नक्षत्रमालासहितं चामरापीडधारिणम् ।।

दशनाप्रबद्धनेत्ररक्तवस्त्रयुगान्वितम् ।। १६४ ।।

ताम्रपात्र्यां कुण्डकं वा कृतं दत्त्वाग्रमोदकम् ।।

प्रदद्याद्द्विजदांपत्यं पूज्य माल्यविभूषणैः ।। १६५ ।।

कंठप्रमाणमाविश्य जलं मलविवर्जितः ।।

कांतारकारिणा ह्येतत्कथितं तु युधिष्ठिर ।। १६६ ।।

कांतारकारिदुर्गेषु वारयत्यपि दुष्कृतीन्।।

इह लोके परे चैव नात्र कार्या विचारणा ।। १६७ ।।

ये कुर्वंति दिने पुण्ये व्रतं पौरंदरं नराः ।।

तेषां पौरंदरो लोको भवेदाभूतसंप्लवम् ।। १६८ ।।

पयोव्रतस्तु पञ्चम्यां दत्त्वा नागं द्विजातये ।।

सौवर्णं सर्पजनितं भयं तेभ्यो न जायते ।। १६९ ।।

सिताष्टम्यां सोपवासो वृषभं यः प्रयच्छति ।।

सितवस्त्रसमाच्छन्नं घण्टाभरणभूषितम् ।। 4.121.१७० ।।

शिवलोके वसेत्कल्पं ततो राजा भवेदिह ।।

वृषव्रतमिदं प्रोक्तं सर्वधर्मप्रदायकम् ।।१७१।।

उत्तरे त्वयने प्राप्ते घृतप्रस्थेन यो हरिम् ।।

स्नापयित्वा ब्राह्मणाय वडवां यः प्रयच्छति।।१७२।।

स सर्वकामसंयुक्तः पुत्रभ्रातृसमन्वितः।।

सूर्यलोके वसेद्राजन्राज्ञीव्रतमिहोच्यते ।।१७३।।

सकृन्नवम्यां भक्तेन पूजयेद्विन्ध्यवासिनीम्।।

पुष्पर्धूपैस्ततो दद्यात्पञ्जरं शुकशोभितम् ।।१७४।।

हैमं विप्राय शांताय स वाग्मी जायते नरः ।।

एतदाग्नेयमित्युक्तं व्रतमग्निपदप्रदम् ।। १७५ ।।

द्वादश्यां गुह्यकानां च पललैक्षवसंयुतम् ।।

विप्राय भोजनं दत्त्वा यः स याति हरेः पदम् ।। १७६ ।।

विष्कम्भादिषु योगेषु एकमुक्तरतो नरः ।।

एतदाग्नेयमित्युक्तं व्रतमग्निपदप्रदम् ।। १७७ ।।

यो ददाति क्रमादेषु घृततैलफलैक्षवम् ।।

यवगोधूमचणकान्निष्पावाञ्छालितंडुलान् ।। १७८ ।।

लवणं दधि दुग्धं च वस्त्रं कनकमेव च ।।

कंबलं गां वृषं छत्रमुपानद्युगलं तथा ।। १७९ ।।

कर्पूरं कुंकुमं चैव चंदनं कुसुमानि च ।।

लोहं कनक ताम्रं च रौप्यं चेति युधिष्ठिर ।। 4.121.१८० ।।

स्नातः स्वशक्त्या विधिवत्सर्वपापैः प्रमुच्यते ।।

न वियोगमवाप्नोति योगव्रतमिदं स्मृतम् ।। १८१ ।।

कार्तिक्यां नक्तभुग्दद्यान्मेषं मार्गशिरे वृषम् ।।

पौषमाघादिमासेषु सौवर्णीः सर्व एव हि।।१८२।।

क्रमेण राशयः सर्वा वस्त्रमाल्यैर्विभूषिताः।।

पौर्णमास्यां पौर्णमास्यां कौंतेय बहुदक्षिणाम् ।। १८३ ।।

एतद्राशिव्रतं नाम सर्वोपद्रवनाशनम् ।।

सर्वाशापूरकं तद्वत्सोमलोकप्रदायकम् ।। १८४ ।।

पञ्चाशीतिर्व्रतानां ते कथिता पांडुनंदन ।।

यां श्रुत्वा ब्रह्महा गोघ्नः पितृहा मातृहा तथा ।। १८५ ।।

मुच्यते तत्क्षणादेव पातकैः सोपपातकैः ।। १८६ ।।

पंचाधिका तव मया कथिता व्रतानां राजन्नशीतिरतिसौख्यधनप्रदानाम्।।

एतां समाचरति यः शृणुयात्पठेद्वा हस्ताग्र लग्न इव तस्य सुरेशलोकः ।। १८७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे व्रतपञ्चाशीतिवर्णनं नामैकविंशत्युत्तरशततमोऽध्यायः ।। १२१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 122

माघस्नानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

कृतं ब्रह्मयुगं प्रोक्तं त्रेता तु क्षत्रियं युगम् ।।

वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ।। १ ।।

कलौ राजन्मनुष्याणां शैथिल्यं स्नानकर्मणि ।।

तथापि माघव्याजेन कथयिष्यामि ते शृणु ।। २ ।।

यस्य हस्तौ च पादौ च वाङ्मनस्तु सुसंयतम् ।।

विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।। ३ ।।

अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ।।

हेतुनिष्ठाश्च पञ्चैते न तीर्थफलभागिनः ।।४।।

प्रयागं पुष्करं प्राप्य कुरुक्षेत्रमथापि वा ।।

यत्र वा तत्र वा स्नायान्माघे नित्यमिति श्रुतिः।।५।।

त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः ।।

समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ।।६।।

उषःसमीपे यः स्नानं संध्यायामुदिते रवौ ।।

प्राजापत्येन तत्तुल्यं महापातकनाशनम् ।। ७ ।।

प्रातरुत्थाय यो विप्रः प्रातःस्नायी सदा भवेत् ।।

स सर्वपापनिर्मुक्तः परं ब्रह्माधिगच्छति ।। ८ ।।

वृथा चोष्णोदकस्नानं वृथा जाप्यमवैदिकम् ।।

अश्रोत्रिये वृथा श्राद्धं वृथा भुक्तमसाक्षिकम् ।। ९ ।।

स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिर्युधिष्ठिर ।।

वायव्यं वारुणं ब्राह्मं दिव्यं चेति पृथक्शृणु । 4.122.१० ।।।

वायव्यं गोरजः स्नानं वारुणं सागरादिषु।।

ब्राह्मं ब्राह्मणमंत्रोक्तं दिव्यं मेघांबुभास्करम्।।

सर्वेषामेव स्नानां विशिष्टं तत्र वारुणम्।।११।।

ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः।।

एते सर्वे प्रशंसंति सर्वदा माघमज्जनम्।।१२।।

बालास्तरुणका वृद्धा नरनारीनपुंसकाः।।

स्नात्वा माघे शुभे तीर्थे प्राप्नुवंतीप्सितं फलम्।।१३।।

ब्रह्मक्षत्रविशां चैव मन्त्रवत्स्नानमिष्यते ।।

तूष्णीमेव हि शूद्रस्य स्त्रीणां च कुरुनंदन ।। १४ ।।

माघमासे रटंत्यापः किञ्चिदभ्युदिते रवौ ।।

ब्रह्मघ्रं वा सुरापं वा कंपं तंतं पुनीमहे ।। १५ ।।

प्रासादा यत्र सौवर्णाः स्त्रियश्चाप्सरसोपमाः ।।

दधिकुल्यवहा यत्र नद्यः पायसकर्दमाः ।।

तत्र ते यांति मज्जंति ये माघे भास्करोदये ।।१६।।

यतिवत्पथि गच्छेत मौनी पैशुन्यवर्जितः ।।

यदीच्छेद्विपुलान्भोगांश्चन्द्रसूर्योपमान्गृहान् ।। १ ७।।

पौषफाल्गुनयोर्मध्ये प्रातःस्नायी भवेन्नरः ।।

पौर्णमास्या ह्यमावास्याः प्रारभ्य स्नानमाचरेत् ।। १८ ।।

त्रिंशद्दिनानि पुण्याणि मकरस्थे दिवाकरे ।।

तत्र उत्थाय नियमं गृह्णीयाद्विधिपूर्वकम् ।। १९ ।।

माघमासमिमं पूर्णं स्थाप्येहं देवमाधवम् ।।

तीर्थं शीतजले नित्यमिति संकल्प्य चेतसा ।। 4.122.२० ।।

अप्रावृतशरीरस्तु यः कष्टं स्नानमाचरेत्।।

पदेपदेऽश्वमेधस्य फलं प्राप्तोति मा नवः ।।२१ ।।

तत्र स्नात्वा शुभे तीर्थे दत्त्वा शिरसि वै मृदम् ।।

वेदोक्तविधिना राजन्सूर्यस्यार्घं निवेदयेत् ।। २२ ।।

पितॄन्संतर्प्य तत्रस्थो ह्यवतीर्य ततो जलात् ।।

इष्टदेवं नमस्कृत्य पूजयेत्पुरुषोत्तमम् ।।२३ ।।

शङ्खचक्रधरं देवं माधवं नाम पूजयेत् ।।

वह्निं हुत्वा विधानेन ततस्त्वेकाशनो भवेत्।। ।। २४ ।।

भूशय्याब्रह्मचर्येण शक्तः स्नानं समाचरेत् ।।

अशक्तस्य धनाढ्यस्य स्वेच्छा सा तत्र कथ्यते ।। २५ ।।

अवश्यमपि कर्तव्यं माघे स्नानमिति श्रुतिः ।।

ईश्वरेण यथाकामं बलं धर्मोऽनुवर्तते ।। २६ ।।

तिलस्नायी तिलोद्वर्ती तिलभोक्ता तिलोदकी ।।

तिलहोता च दाता च षट्तिलो नावसीदति ।।२७।।

तैलस्यामलकानां च तीर्थे देयानि नित्यशः ।।

तथा प्रज्वालयेद्वह्निं निवातार्थं द्विजन्मनाम् ।।२८।।

एवं स्नानावसाने तु भोज्यं देयमवारितम् ।।

भोजयेद्द्विजदांपत्यं भूषयेद्वस्त्रभूषणैः ।। २९ ।।

कंबलाजिनरत्नानि वासांसि विविधानि च ।।

चोलकानि च दिव्यानि प्रच्छादनपटीस्तथा ।। ।। 4.122.३० ।।

उपानहौ तथा गुप्तं मोदकैः पापमोचकैः ।।

अनेन विधिना दद्यान्माधवः प्रीयतामिति ।। ३१ ।।

अगम्यागमनस्तेयपापेभ्यश्च परिग्रहात् ।।

रहस्याचरिताद्वापि मुच्यते स्नानमाचरेत् ।। ३२ ।।

पितृभिः पितामहैः सार्द्धं तथैव प्रपितामहैः ।।

मातामातामहैः सार्द्धं वृद्धमातामहैस्तथा ।। ३३ ।।

एकविंशकुलैः सार्द्धं भोगान्भुक्त्वा यथेप्सितान् ।।

माघमास्युषसि स्नात्वा विष्णुलोकं स गच्छति ।। ३४ ।।

यो माघमास्युषसि सूर्य्यकराभिताम्रे स्नानं समाचरति चारुनदीप्रवाहे ।।

उद्धृत्य सप्तपुरुषान्पितृमातृतश्च स्वर्गं प्रयात्यमलदेहधरो नरोऽसौ ।। ३५ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे माघस्नानविधिवर्णनं नाम द्वाविंशत्युत्तरशततमोऽध्यायः ।। १२२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 123

नित्यस्नानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

नैर्मल्यं भावशुद्धिश्च विना स्नानं न युज्यते ।।

तस्मात्कायविशुद्ध्यर्थं स्नानमादौ विधीयते ।। १ ।।

अनुद्धतैरुद्धतैर्वा जलैः स्नानं समाचरेत् ।।

तीर्थं प्रकल्पयेद्विद्वान्मूलमंत्रेण मंत्रवित् ।। २ ।।

नमो नारायणायेति मूलमन्त्र उदाहृतः ।।

दर्भपाणिस्तु विधिना स्वाचान्तः प्रयतः सुधीः ।। ३ ।।

चतुर्हस्तसमायुक्तं चतुरस्रं समंततः ।।

प्रकल्प्यावाहयेद्गङ्गामेभिर्मंत्रैर्विचक्षणः ।। ४ ।।

ॐ विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता।।

पाहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात् ।। ५ ।।

तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् ।।

दिवि भुव्यंतरिक्षे च तानि ते सन्ति जाह्नवि ।। ६ ।।

नंदिनीत्येव ते नाम देवेषु नलिनीति च ।।

क्षमा पृथ्वी च विहगा विश्वकाया शिवा स्मृता ।। ७ ।।

विद्याधरा सुप्रसन्ना तथा लोक प्रसादिनी ।।

क्षेम्या तथा जाह्नवी च शांता शांतिप्रदायिनी ।। ८ ।।

एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ।।

भवेत्संनिहिता तत्र गङ्गा त्रिपथगामिनी ।। ९ ।।

सप्तवाराभिजप्तेन करसंपुटयोजितम् ।।

( ३) मूार्ध्नि कुर्याज्जलं भूप त्रिचतुःपञ्चसप्तधा ।। 4.123.१० ।।

स्नानं कुर्यान्मृदा तद्वदा मंत्र्य च विधानतः ।। ११ ।।

अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ।।

मृत्तिके हर मे सर्वं यन्मया दुष्कृतं कृतम् ।। १२ ।।

उद्धृतासि वराहेण कृष्णेन शतबाहुना ।।

नमस्ते सर्वलोकानामसुधारिणि सुव्रते ।। १३ ।।

एवं स्नात्वा ततः पश्चादाचम्य च विधानतः ।।

उत्थाय वाससी शुक्ले सूक्ष्मे तु परिधाय वै ।। १४ ।।

ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय तु ।।

देवा यक्षास्तथा नागा गन्धर्वाप्सरसां गणाः ।।

क्रूराः सर्वाः सुपर्णाश्च तरक्षा विहगाः खगाः ।। १५ ।। ।।

विद्याधरा जलधरास्तथैवाकाशगामिनः ।।

निराधाराश्च ये जीवाः पापकर्मरताश्च ये ।। १६ ।।

तेषामाप्यायनायैतद्दीयते सलिलं मया ।।

कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः ।। १७ ।।

मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा ।।

सनकश्च सनन्दश्च तृतीयश्च सनातनः ।। ।।। १८ ।।

कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ।।

सर्वे ते तृप्तिमायांतु मद्दत्तेनांबुना सदा ।। १९ ।।

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।।

प्रचेतसं वशिष्ठं च भृगुं नारदमेव च ।। 4.123.२० ।।

देवब्रह्मऋषीन्सर्वांस्तर्पयेताक्षतोदकैः ।।

अपसव्यं ततः कृत्वा सव्यं जानु च भूतले ।। २१ ।।

अग्निष्वात्ता बर्हिषदो हविष्मंतस्तथोष्मपाः ।।

सुकलितास्तथा भौमा आज्यपाः सोमपास्तथा ।। २२ ।।

तर्पयेच्च पितॄन्भक्त्या सतिलोदकचन्दनैः ।।

दर्भपाणिस्तु विधिवत्तर्पयेन्नामगोत्रतः ।। २३ ।।

पित्रादीन्नामगोत्रेण तथा मातामहानपि ।।

संतर्प्य विधिवद्भक्त्या इमं मंत्रमुदीरयेत् ।। २४ ।।।

येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।।

ते तृप्तिमखिला यांतु यश्चास्मत्तोऽभिवाञ्छति ।।२५।।

ततश्चाचम्य विधिवदालिखेत्पद्ममग्रतः।।

अक्षतैः सह पुष्पञ्च सतिलारुणचन्दनैः ।। २६ ।।

अर्घं दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः ।।

नमस्ते विश्वरूपाय नमो विष्णुसखाय वै ।।।२७ ।। ।

सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे ।।

नमस्ते सर्ववपुषे नमस्ते सर्वशक्तये ।। २८ ।।

जगत्स्वामिन्नमस्तेऽस्तु दिव्यचंदनभूषित ।।

पद्मनाभ नमस्तेऽस्तु कुण्डलांगदधारिणे ।। २९ ।।

नमस्ते सर्वलोकेश सर्वासुरनमस्कृत ।।

सुकृतं दुष्कृतं चैव सम्यग्जानासि सर्वदा ।। 4.123.३० ।।

सत्यदेव नमस्तेस्तु सर्वदेव नमोऽस्तु ते ।।

दिवाकर नमस्तेऽस्तु त्रयीमय नमोऽस्तु ते ।। ३१ ।।

एवं सूर्यं नमस्कृत्य त्रिःकृत्वा च प्रदक्षिणाम् ।।

द्विजं गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं व्रजेत् ।। ३२ ।।

स्नानं खलु प्रतिदिनं कथितं मुनीन्द्रैः पापापहं मलहरं सुखदं सदैव ।।

तस्मान्नदीष्वथ गृहेष्वथ वा तडागे कर्तव्यमेतदिह धर्मधिया नरेण ।। ३३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नित्यस्नानविधिवर्णनं नाम त्रयोर्विशत्युत्तरशततमोऽध्यायः ।। १२३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 124

रुद्रस्नानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

रुद्रस्नानविधानं मे कथयस्व जनार्दन ।।

सर्वदुष्टोपशमनं सर्वशांतिप्रदं नृणाम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

देवसेनापतिं स्कन्दं रुद्रपुत्रं दुरासदम् ।।

अगस्त्यो मुनिशार्दूलः सुखासीनमुवाच ह ।। २ ।।

सर्वज्ञोऽसि कुमार त्वं प्रसादाच्छङ्करस्य वै ।।

स्नानं रुद्रविधानेन ब्रूहि कस्य कथं भवेत् ।। ३ ।।

।। रुद्र उवाच ।। ।।

मृतप्रजा तु या नारी दुर्भगा सुतवर्जिता ।।

या सुते दुहितां वंध्या स्नानमासां विधीयते ।। ४ ।।

अष्टम्यां वा चतुर्दश्यामुपवासपरायणा ।।

ऋतौ शुद्धे चतुर्थेह्नि प्राप्ते सूर्यदिनेऽथ वा ।। ५ ।।

नद्योस्तु सङ्गमे कुर्यान्महानद्योर्विशेषतः ।।

शिवालयेऽथ वा गोष्ठे विविक्ते वा गृहाङ्गणे ।। ६ ।।

आहिताग्निं द्विजं शांतं धर्मज्ञं सत्यशीलिनम् ।।

स्नानार्थं प्रार्थयेद्देवं निपुणं रौद्रकर्मणि ।। ७ ।।

ततस्तु मंडपं कुर्याच्चतुरस्रमुदग्गतम् ।।

बद्धचन्दनमालं तु गोमये नोपलेपितम् ।। ८ ।।

तन्मध्ये श्वेतरजसा संपूर्णं पद्ममालिखेत् ।।

मध्ये तस्य महादेवं स्थापयेत्कर्णिकोपरि ।। ९ ।।

दद्याद्दलेषु शक्त्यादींश्चतुर्थविधिपूर्वकम् ।।

इन्द्रादिलोकपालांश्च दलेष्वन्येषु विन्यसेत् ।। 4.124.१० ।।

देवीं विनायकं चैव स्थापयेत्तस्य पार्श्वतः ।।

दत्त्वार्घं गन्धपुष्पं च धूपदीपं गुडौदनम् ।। ११ ।।

भक्ष्यान्नानाविधान्दद्यात्फलानि विविधानि च ।।

चतुष्कोणेषु भृंगारमश्वत्थदलभूषितम् ।। १२ ।।

एकैकं विन्यसेद्ब्रह्मन्सर्वौषधिसमन्वितम् ।।

चतुर्दिशं मंडपस्य दद्याद्भूतबलिं ततः ।। १३ ।।

आग्नेय्यां दिशि कर्तव्यं मंडपस्य समीपतः ।।

अग्निकार्यं शुभे कुण्डे पुष्पपत्रैरलंकृते ।। १४ ।।

लवणं सर्षपैर्युक्तं घृतेन मधुना सह ।।

मानस्तोकेन जुहुयात्कृतहोमे नवग्रहे ।।१५।।

द्वितीयमग्निकार्यस्य कर्तारं ब्राह्मणं कुरु ।।

रुद्रजापकमाचार्यं सितचन्दनचर्चितम् ।। १६ ।।

सितवस्त्रपरीधानं सितमालाधरं शुभम् ।।

शोभितं कंकणैः कंठ्यैः कर्णवेष्टांगुलीयकैः ।। १७ ।।

मंडल स्य समीपस्थो जपेद्रुद्रान्विमत्सरः ।।

यावदेकादश गताः पुनरेव जपेत्तु तान् ।। १८ ।।

देवमंडलवत्कार्यं द्वितीयं मंडलं शुभम् ।।

तस्य मध्ये तु सा नारी श्वेतपुष्पैरलंकृता।। १९।।

श्वेतवस्त्रैश्च संछन्ना श्वेतगंधानुलेपिता।।

सुखासनोपविष्टायामाचार्यो रुद्रचिंतकः।।4.124.२०।।

अभिषिंचेत्ततश्चैव नामर्कपत्रपुटांबुना ।।

चतुःषष्टिविधेनैव रुद्रेणैकादशेन तु ।। २१ ।।

शतानि सप्तपर्णानां चतुर्भिरधिकानि तु ।।

अच्छिद्राणां मनूनां च स्नानार्थं विनियोजयेत् ।। २२ ।।

अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात् ।।

वेश्यागणाद्राजगृहाद्गोष्ठादानीय वै मृदः ।। २३ ।।

सर्वौषधिं रोचनां च नदीतीर्थोदकानि च ।।

एतान्संक्षिप्य कलशे शिवसंज्ञे सुपूजिते ।। २४ ।।

आपादतलकेशं च कुक्षी चैव विशेषतः ।।

सर्वांगं लेपयेन्नार्याः सुशीला काचिदङ्गना ।। २५ ।।

रुद्राभिजप्तेन ततः स्नापयेत्कलशेन ताम् ।।

तोयपूर्णाष्टकलशैरश्वत्थदलपूरितैः ।। २६ ।।

सर्वतोदिक्स्थितैः पश्चात्स्नापयेत्सफलाक्षतैः ।।

एवं स्नाता स्नापकाय दद्याद्गां कांचनं तथा ।। २७ ।।

हेतुरप्यत्र निर्दिष्टा दक्षिणा गौः पयस्विनी ।।

ब्राह्मणानामथान्येषां स्वशक्त्या पांडुनंदन ।। २८ ।।

गोवत्सकाञ्चनादीनि दत्त्वा सर्वं क्षमापयेत् ।।

कृतेनानेन राजेन्द्र रुद्रस्नानेन भामिनी ।। २९ ।।

सुभगा सुखसंयुक्ता बहुपुत्रा च जायते ।।

सर्वेष्वपि हि मासेषु ब्राह्मणाभिमते शुभम् ।। 4.124.३० ।।

तस्मादवश्यं कर्तव्यं पुत्रश्रीसुखमिच्छता ।। ३१ ।।

या स्नानमाचरति रुद्रमिति प्रसिद्धं श्रद्धान्विता द्विजवरानुमताऽऽनताङ्गी ।।

दोषान्निहत्य सकलान्स्वशरीरभागाद्भर्तुः प्रिया भवति भारत जीववत्सा ।। ३२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रुद्रस्नानविधिवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ।। १२४ ।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 125

चन्द्रादित्यग्रहणस्नानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

चन्द्रादित्योपरागेषु यत्स्नानमभिधीयते ।।

तदहं श्रोतुमिच्छामि द्रव्यमन्नं प्रधानतः ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

यस्य राशिं समासाद्य भवेद्ग्रहणसंप्लवः ।।

तस्य स्नानं प्रवक्ष्यामि मंत्रौषधिसमन्वितम् ।। २ ।।

चन्द्रोपरागं संप्राप्य कृत्वा ब्राह्मणवाचनम्।।

संपूज्य चतुरो विप्रान्गन्धमाल्यानुलेपनैः ।। ३ ।।

पूर्वमेवोपरागस्य समानीयौषधादिकम् ।।

स्थापयेच्चतुरः कुम्भानग्रतः सागरानिति ।। ४ ।।

गजाश्वरथ्यावल्मीकसङ्गमाद्ध्रदगोकुलात् ।।

राजद्वारप्रदेशात्तु मृदमानीय प्रक्षिपेत् ।। ५ ।।

पंचगव्यं च कुंभेषु पंचरत्नानि चैव हि ।।

रोचना पद्मशंखौ च पञ्चभङ्गसमन्वितौ ।। ६ ।।

स्फटिकं चन्दनं श्वेतं तीर्थवारिससर्षपम् ।।

गजदंतं कुंकुमं च तथैवोशीरगुग्गुलम् ।।

एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत्सुरान् ।। ७ ।।

सर्वे समुद्राः सरितस्तीर्थानि जलदा ह्रदाः ।।

आयांतु यजमानस्य दुरितक्षयकारकाः ।। ८ ।।

योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ।।

सहस्रनयनश्चेन्द्रः पीडां मेऽत्र व्यपोहतु ।। ९ ।।

रक्षोगणाधिपः साक्षात्प्रलयानिलसप्रभः ।।

खड्गव्यग्रोऽति भीमश्च रक्षःपीडां व्यपोहतु ।। 4.125.१० ।।

योऽसौ बिन्दुकरो बिन्दुः पिनाकी वृषवाहनः ।।

चन्द्रोपरागपापानि स नाशयतु शङ्करः ।। ११ ।।

त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।।

ब्रह्मार्कविष्णुयुक्तानि तानि पापं दहंतु वै ।। १२ ।।

एवमामंत्रितैः कुम्भैरंभोयुक्तैर्युगान्वितैः ।।

ऋग्यजुः साममंत्रैश्च शुक्लमाल्यानुलेपनैः ।।

पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः ।। १३ ।।

एतानेव ततो मंत्रान्संलिख्य कनकान्वितान् ।

यजमानस्य शिरसि उद्धार्यास्ते नरोत्तम ।। १४ ।।

कलशान्द्रव्यसंयुक्तान्प्राप्ते ग्रहणपर्वणि ।।

चन्द्रग्रहे निवृत्ते तु कृतगोदानमङ्गलः । ।। १५ ।।

कृतस्नानः श्वेतपट्टं ब्राह्मणाय निवेदयेत् ।।

अनेन विधिना यस्तु सग्रहं स्नानमाचरेत् ।। १६ ।।

न तस्य ग्रहपीडा स्यान्न च बंधुजनक्षयः ।।

परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ।। १७ ।।

सूर्यग्रहे सूर्यनाम सदा मंत्रेषु कीर्तयेत् ।।

द्रव्यैस्तैरेव कथितं स्नानं कुरुकुलोद्वह ।। १८

य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः ।।

सर्वपापविनिर्मुक्तः शक्रलोके महीयते ।। १९ ।।

चन्द्रग्रहे नृप रविग्रहणे जपन्मां मंत्रैरिमैः समभिमंत्र्य शुभोदकुंभात् ।।

स्नानं करोति नियमेन नरश्च यश्च पीडा न तं ग्रहकृता च पुनर्दुनोति ।। 4.125.२० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चन्द्रादित्यग्रहणस्नान विधिवर्णनं नाम पंचविंशत्युत्तरशततमोऽध्यायः ।। १२५ ।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 126

सांभरायणीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

गृहस्थो मरणे प्राप्ते कथं त्यजति जीवितम्।।

एतन्मे ब्रूहि गोविन्द परं कौतूहलं हि मे।।१।।

।। श्रीकृष्ण उवाच।।

नान्यदुष्कृष्टमुद्दिष्टं तज्ज्ञैरनशनात्परम् ।।

तस्याहं लक्षणं वक्ष्ये यज्जप्यं च मुमूर्षता ।। २

यादृग्रूपश्च भगवांश्चिंतनीयो जनार्दनः ।।

आसन्नमात्मनः कालं ज्ञात्वा प्राज्ञो युधिष्ठिर ।। ३ ।।

निर्धूतमलदोषश्च स्नातो नियतमानसः ।।

समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ।। ४ ।।

प्रणिपातैः स्तवैः पुण्यैर्गंधैर्धूपैस्तु पूजयेत् ।।

दत्त्वा दानं च विप्रेभ्यो विकलादिभ्य एव च ।।

समर्प्य ब्राह्मणेभ्यश्च देवार्चाद्युपयोगि च ।। ५ ।।

बंधु पुत्रकलत्रेषु क्षेत्रधान्यधनादिषु ।।

मित्रवर्गे च राजेन्द्र ममत्वं विनिवर्तयेत् ।। ६ ।।

मित्राण्यमित्रान्मध्यस्थान्परान्स्वांश्च पुनः पुनः ।।

अत्यर्थमपकारेण नोपकारेण चिन्तयेत् ।। ७ ।।

ततश्च प्रयतः कुर्यादुत्सर्गं सर्वकर्मणाम् ।।

शुभाशुभानां राजेन्द्र वाक्यं चेदमुदीरयेत् ।। ८ ।।

परित्यजाम्यहं भोगांस्त्यजामि सुहृदोऽखिलान् ।।

भोजनं हि मयोत्सृष्टमुत्सृष्टमनुलेपनम् ।। ९ ।।

स्रग्भूषणादिकं गेयं दानमासनमेव च ।।

होमादयः परार्था ये ये च नित्यक्रमागताः ।। 4.126.१० ।।

नैमित्तिकास्तथा काम्याः श्राद्धधर्मादयोज्झिताः ।।

त्यक्ताश्चाश्रमिका धर्मा वर्णधर्मास्तथोज्झिताः ।।११।।

पद्भ्यां कराभ्यां विहरन्कुर्वाणः कर्म चोद्वहन् ।।

न पापं कस्यचिन्न्याय्याः प्राणिनः संतु निर्भयाः ।। १२ ।।

नभसि प्राणिनो ये च ये जले ये च भूतले ।।

क्षितेर्विवरगा ये च ये च पाषाणसंपुटे ।। १३ ।।

धान्यादिषु च वस्त्रेषु शयनेष्वासनेषु च ।।

ते स्वयं तु विबुध्यंते दत्तं तेभ्योऽभयं मया ।। १४ ।।

न मेऽस्ति बांधवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् ।।

मित्रपक्षे च मे विष्णुरधश्चोर्ध्वं तथा पुनः ।। १५ ।।

पार्श्वतो मूर्ध्नि हृदये बाहुभ्यां चैव चक्षुषोः ।।

श्रोत्रादिषु च सर्वेषु मम विष्णुः प्रतिष्ठितः ।। १६ ।।

इति सर्वं समुत्सृज्य धृत्वा सर्वेशमच्युतम् ।।

वासुदेवेत्यविरतं नाम देवस्य कीर्तयेत् ।। १७ ।।

दक्षिणाग्रेषु दर्भेषु शेते वै प्राक्छिरास्तथा ।।

उदक्छिरा वा राजेंद्र चिंतयञ्जगतः पतिम् ।। १८ ।।

विष्णुं जिष्णुं हृषीकेशं केशवं मधुसूदनम् ।।

नारायणं नरं शौरिं वासुदेवं जनार्दनम् ।। १९ ।।

वाराहं यज्ञपुरुषं पुंडरीकाक्षमच्युतम् ।।

वामनं श्रीधरं कृष्णं नृसिंहमपराजितम् ।। 4.126.२० ।।

पद्मनाभमजं श्रीशं दामोदरमधोक्षजम् ।।

सर्वेश्वरेश्वरं शुद्धमनंतं विश्वरूपिणम् ।। २१ ।।

चक्रिणं गदिनं शांतं शंखिनं गरुडध्वजम् ।।

किरीटकौस्तुभधरं प्रणमाम्यहमव्ययम् ।। २२ ।।

अहमस्मि जगन्नाथ मयि वासं कुरु द्रुतम् ।।

आवयोरंतरं मास्तु समीराकाशयोरिव ।। २३ ।।

अयं विष्णुरयं शौरिरयं कृष्णः पुरो मम ।।

नीलोत्पलदलश्यामः पद्मपत्रायतेक्षणः ।। २४ ।।

एष पश्यतु मामीशः पश्याम्यहमधोक्षजम् ।।

इत्थं जपेदेकमनाः स्मरन्सर्वेश्वरं हरिम् ।। २५ ।।

आसीत सुखदुःखेषु समो मित्राहितेषु च ।।

ॐ नमो वासुदेवाय ' इत्येतत्सततं जपेत् ।। २६ ।।

यथायथा भवेत्कामस्तथा तन्नामकीर्तयेत् ।।

ध्यायेच्च देवदेवेशं विष्णो रूपं मनोरमम् ।। २७ ।।

प्रसन्ननेत्रभ्रूचक्रशंखचक्रगदाधरम् ।।

श्रीवक्षसं सुमनसं चतुर्वक्त्रं किरीटिनम् ।। २८ ।।

पीतांबरधरं कृष्णं चारुकेयूरधारिणम् ।।

चिंतयेत्तु सदारूपं मनः कृत्वैकनिश्चयम्।।२९।।

यादृशे वा मनः स्थैर्यं रूपे बध्नाति चक्रिणः ।।

तदेव चिंतयेद्रूपं वासुदेवेति कीर्तयेत् ।। 4.126.३० ।।

इत्थं जपन्स्मरन्नित्यं स्वरूपं परमात्मनः ।।

अप्राणपरमोदारस्तच्चित्तस्तत्परायणः ।। ३१ ।।

सर्वपातकयुक्तोऽपि पुरुषः पुरुषर्षभ ।।

प्रयाति देवदेवेशे लयमीड्यतमेच्युते ।। ३२ ।।

यथाग्निस्तृण जातानि दहत्यनिलसंगतः ।।

तथानशनसंकल्पः पुंसां पापमसंशयम् ।। ३३ ।।

।। युधिष्ठिर उवाच ।। ।।

उत्क्रांतिकाले भूतानां मुह्यंति चित्तवृत्तयः ।।

जराव्याधिविहीनानां किमुत व्याधिदोषिणाम् ।। ३४ ।।

अत्यंतवयसा दग्धो व्याधिना चोपपीडितः ।।

यदि स्थातुं न शक्नोति क्षितिस्थो दर्भसंस्तरे ।। ३५ ।।

किमप्यन्योप्युपायोऽस्ति न वानशनकर्मणि ।।

वैकल्यं येन नाप्नोति तन्मे ब्रूहि जनार्दन।।३६।।

त्वयोक्तं भगवन्ध्यानं तद्ब्रूहि मम तत्त्वतः ।।

ध्यानस्वरूपमखिलं कथयस्व जनार्दन ।।३७।।

।। श्रीकृष्ण उवाच।। ।।

नात्र भूमिर्न च कुशाः स्वास्तराश्च न कारणम्।।

चित्तस्यालं वनीभूतो विष्णुरेवात्र कारणम् ।। ३८ ।।

तिष्ठन्भुञ्जन्स्वपन्गच्छंस्तथा धावन्नितस्ततः ।।

उत्क्रांतिकाले गोविन्दं संस्मरंस्तन्मयो भवेत् ।। ३९ ।।

यं यञ्चापि स्मरन्भावं त्यजन्यन्ते कलेवरम् ।।

तं तमेवैति कौन्तेय सदा तद्भावभावितः ।।4.126.४०।।

तस्मात्प्रधानमंत्रोक्तं वासुदेवस्य चिन्तनम् ।।

यद्यत्पृष्टं त्वया ध्यानं तदेव कथयामि ते ।।४१।।

पुरा मे कथितं पार्थ मार्कंडेयेन धीमता ।।४२।।

राज्योपभोगशयनासनवाहनेषु स्त्रीगंधमाल्यमणिवस्त्रविभूषणेषु ।।

इच्छाभिलाषमतिमात्रमुदेति मोहाद्ध्यानं तदात्तमिति संप्रवदंति तज्ज्ञाः ।।४३।।

संछेदनैर्दहनताडनपीडनैश्च गात्रप्रहारदमनैर्विनिकर्तनैश्च।।

यस्येह चेतसि हि याति न चानुकंपा ध्यानं तु रौद्रमिति तत्प्रवदंति तज्ज्ञाः ।। ४४ ।।

सूत्रार्थमार्गणमहाव्रतभावनाभिर्बंधप्रमोक्षगतिरागतिहेतु चिन्ता ।।

पञ्चेन्द्रियाद्युपशमश्च शमश्च भूतेर्ध्यानं तु धर्म्यमिति तत्प्रवदंति संतः ।। ४५ ।।

यस्येन्द्रियाणि विषयैर्न विवर्जितानि सङ्कल्पनात्मज विकल्पविकारयोगैः ।।

तत्वेकनिष्ठहृदयो निभृतांतरात्मा ध्यानं तु शुक्लमिति तत्प्रवदंति सिद्धाः ।। ४६ ।।

आद्ये तिर्यगधोगतिश्च नियतं ध्याने तु रौद्रे सदा धर्म्ये देवगतिः शुभं फलमहोशुक्ले च जन्मक्षयः ।।

तस्माज्जन्मरुजापहे हिततरे संसारनिर्वाहके ध्याने शुक्लतरे रजःप्रमथने कुर्यात्प्रयत्नं बुधः ।। ४७ ।।

समाः सहस्राणि तु सप्त वै जले दशैकमग्नौ पवने च षोडश ।।

गवां गृहे षष्टिरशीतिराहवे अनाशने भारत चाक्षया गतिः।। ।। ४८ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सांभरायणीव्रतवर्णनं नाम षड्विंशत्युत्तरशततमोऽध्यायः ।। १२६ ।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 127

वापीकूपतडागोत्सर्गविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

तडागोत्सर्जने देव विधिं विधिविदां वर ।।

कथयस्व महाभाग मम देवकिनंदन ।। १ ।।

वापीकूपोदकानाञ्च के मंत्राः परिकीर्तिताः ।।

के ऋत्विजोत्र के यूपाः कर्तव्याः कुण्डमण्डपे ।। २ ।।

दानं किमत्र निर्दिष्टं बलयः के प्रकीर्तिताः ।।

कस्मिन्काले कथं कुर्यादित्येतत्सकलं वद ।। ३ ।।

।। श्रीकृष्ण उवाच ।। ।।

साधुसाधु महाबाहो यन्मां त्वं परिपृच्छसि ।।

तडागवापीकूपानामुत्सर्गं कथयामि ते ।। ।। ४ ।।

निष्पन्ने बद्धपालीके सर्वोद्भेदविवर्जिते ।।

सोपानपंक्तिसहिते पाषाणैः सर्वतश्चिते ।। ५ ।।

तस्मिन्सलिलसंपूर्णे कार्तिके वा विशेषतः ।।

तडागस्य विधिः कार्यः स्थिरनक्षत्रयोगतः ।। ६ ।।

मुनयः केचिदिच्छंति व्यतीते चोत्तरायणे ।।

न कालनियमो ह्यत्र प्रमाणं सलिलं यतः ।।७ ।।

तडागपालशीर्षे तु मंडलं कारयेच्छुभम् ।।

दशद्वादशहस्तं च चतुर्द्वारं सुविस्तृतम् ।। ८ ।।

तोरणानि तु चत्वारि चतुर्दिक्षु विचक्षणैः ।।

अश्वत्थोदुंबरप्लक्षवटशाखामयानि च ।। ९ ।।

नानावर्णास्तु परितः पताकाः परिकल्पयेत् ।।

मध्ये महाध्वजः कार्यः पञ्चवर्णः सुशोभनः ।। 4.127.१० ।।

चतुर्हस्ता भवेद्वेदी मध्ये पञ्चकराथ वा ।।

यजमानप्रमाणेन मध्ये यूपेन शोभिता ।।११।।

कदंबाश्वत्थपालाशवैकंकतमयः शुभः ।।

ब्राह्मणस्यास्य निर्दिष्टो यूपः श्रुतिविचक्षणैः ।। १२ ।।

न्यग्रोधबिल्वजः प्रोक्तः क्षत्रियाणां च खादिरः ।।

वैश्यस्योदुंबरमयो मध्वर्जुनसमुद्भवः ।। १३।।

बिभीतकोदुंबरजः शाकशाल्मलिसंभवः ।।

शूद्रस्य यूपो निर्दिष्टः सारदारुमयोऽथ वा ।।१४।।

लोकपालाष्टकं तत्र रजसा च विलेखयेत् ।।

ब्रह्माविष्णुश्च रुद्रश्च कमला चाम्बिका तथा ।। १५ ।।

सावित्री सहिता कार्या पुष्पधूपैरथार्चयेत् ।।

कुर्यात्कुंडानि चत्वारि चतुर्दिक्षु विचक्षणः ।। १६ ।।

मेखलात्रययुक्तानि हस्तमात्राणि सर्वतः ।।

हेमालंकारिणः कार्या होतारः षोडशाष्ट वा ।। १७ ।।

अहतांबरसंवीताः स्रक्चन्दनविभूषिताः ।।

स्थापकाश्चात्र विहिता वेदवेदाङ्गपारगाः ।। १८ ।।

इतिहासपुराणज्ञाः प्रियवाचोऽनसूयकाः ।।

मृन्मयानि च पात्राणि ताम्राणि स्रुक्स्रुवं तथा ।। १९ ।।

व्यंजनानि च कार्याणि होमार्थं समिधस्तिलाः ।।

ग्रहयज्ञविधानेन होमः कार्यो विजानता ।। 4.127.२० ।।

वेद्याधिवासितानां च सुराणां होम इष्यते ।।

वारुणैस्तु तथा मंत्रैर्होतव्यं पुष्टिवर्द्धनम् ।। २१ ।।

इन्द्रादिलोकपालानां पूर्वादिक्रमयोगतः ।।

बलिं दद्याच्च तल्लिङ्गैर्मन्त्रैस्सर्वार्थसिद्धये ।। २२ ।।

द्वारेषु कलशान्दद्यात्सहिरण्यान्सपल्लवान् ।।

अश्वत्थपल्लवैः कार्याः शुभाश्चन्दनमालिकाः ।। २३ ।।

सौवर्णं कारयेत्कूर्मं ताम्रेण मकरं तथा ।।

रजतेन तथा मत्स्यं त्रपुणा दर्दुरं तथा ।। २४ ।।

शिशुमारजलौकाञ्च रजतेनैव कारयेत् ।।

सर्वानपि यथास्थानं ताम्रपात्र्यां निधापयेत् ।। २५ ।।

एषा प्रतिष्ठा नामेति मन्त्रेणामंत्रयेच्च तान् ।।

यूपप्रतिष्ठा कर्तव्या वेदोक्तविधिना ततः ।। २६ ।।

कुंकुमेन समालभ्य पुष्पैर्धूपैः समर्चयेत् ।।

वस्त्रयुग्मेन संपूज्य नैवेद्यादि यथाक्रमम् ।। २७ ।।

ततो द्विजातिप्रवरः श्रपयित्वा चरुं नवम् ।।

ततश्चाग्न्याहुतीर्दद्याद्भूर्भुवःस्वरिति क्रमात् ।। २८ ।।

ततश्चावाहयेद्देवं वरुणं सरितां पतिम् ।।

वादित्रघोषैगीतैश्च गन्धमाल्यानुलेपनैः ।। २९ ।।

श्वेतेनैव तु वस्त्रेण शिरोवेष्टं तु कारयेत् ।।

आदाय ताम्रपात्रीं तु ब्रह्मघोषपुरःसरः ।। 4.127.३० ।।

अप्रमाणं जलं गत्वा वरुणाय निवेदयेत् ।।

त्वं वरुण इति मंत्रेण जल मध्ये प्रवाहयेत् ।। ३१ ।।

यच्चान्यद्वस्त्रबीजानि तत्सर्वं मज्जयेज्जले ।।

तारयेच्च ततो धेनुं दक्षिणाया उदग्व्रजेत् ।। ३२ ।।

गोशिरोवेष्टनं कुर्यात्सति वस्त्रे तु बुद्धिमान् ।।

लांगलस्याग्रमादाय अवतीर्य ततो जलम् ।। ३३ ।।

ज्ञातिभिः सहितः कर्ता सभार्यश्चावगाहयेत् ।।

ततोऽवतीर्य सलिलाद्दत्त्वा गां ब्राह्मणाय ताम् ।।

शक्त्या च दक्षिणां दद्यादेवं विप्रान्विसर्जयेत् ।। ३४ ।।

सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम् ।।

एवं जलाञ्जलिं क्षिप्त्वा पूजयेज्जलमातरः ।। ३५ ।।

तोष्याः कर्मकराः सर्वे कुद्दालानि च पूजयेत् ।।

अवारितं तु दातव्यं मन्त्रपूर्वं दिनत्रयम् ।। ३६ ।।

एकाहं च यथाशक्त्या वित्तशाठ्यं न कारयेत् ।।

गोसहस्रं तदर्धं वा तस्यार्धमथवापि वा ।। ३७ ।।

शतमर्धशतं वापि पञ्चविंशतिमेव च ।।

तासामभावे गां दद्यात्सवत्सां कांस्यदोहनाम् ।। ३८ ।।

एष राजंस्तडागस्य विधिस्ते परिकीर्तितः ।।

वापीकूपविधानं च कथयामि तथा परम् ।। ३९ ।।

कुण्डमण्डपसंभारभूषणाच्छादनादिकम् ।।

तडागविधिवत्कुर्याद्यूपगोतरणादिकम् ।। 4.127.४० ।।

अकालमूलान्कलशान्वापीकोणेषु दापयेत् ।।

तीर्थोदकसमायुक्तान्सितचन्दनचर्चितान् ।। ४१ ।।

सितवासोयुगच्छन्नान्समाल्यान्रत्नगर्भिणः ।।

श्रपयित्वा चरुं तत्र यावन्मात्रो यथाविधि ।। ४२ ।।

चतस्र आहुतीर्दद्याद्भूर्भुवः स्वरिति क्रमात् ।।

ग्रहहोमं प्रकुर्वीत शांतिपुष्टिविवर्द्धनम् ।। ४३ ।।

वरुणाय बलिं दद्याल्लोकपालेभ्य एव च ।।

वारुणानि च सूक्तानि पठेयुर्द्धिजसत्तमाः ।। ४४ ।।

वेदीमध्ये मंडलं च पद्ममत्र प्रशस्यते ।।

तन्मध्ये पूजये च्छंभुं ब्रह्माणं केशवं तथा ।। ४५ ।।

मत्स्यकमठमण्डूकान्वेद्या मध्येऽधिवासयेत् ।।

मित्रमित्रोऽसि भूतानां धनदो धनकांक्षिणाम् ।। ४६ ।।

वैद्यो रोगाभिभूतानां शरण्यः शरणार्थिनाम् ।।

अनेनैव हि मंत्रेण वरुणाय विसर्जयेत् ।। ४७ ।।

आदौ चावाहयेद्देवमनेनैव विशेषतः ।।

नमस्ते विश्वगुप्ताय नमो विष्णो अपांपते ।। ४८ ।।

सान्निध्यं कुरु देवेश समुद्रे यद्वदत्र वै ।।

ततस्तु दक्षिणा देया ब्राह्मणानां नराधिप ।। ४९ ।।

गौः स्थापकाय दातव्या भोजनं चानिवारितम् ।।

सर्वेषामेव दातव्यमेष पौराणिको विधिः ।। 4.127.५० ।।

शराया आगतं तोयं सामुद्रं प्रथमं स्मृतम् ।।

निपाने वा तडागे वा संस्थितं तद्भवेच्छुचि ।। ५१ ।।

वापीकूपतडागे वा स्थितं तु प्रथमं जलम् ।।

अपेयं तु भवेत्सर्वं तज्जलं सूतिकासमम् ।। ५२ ।।

समुद्रोऽपि हि कौंतेय देवयोनिरपांपतिः ।।

कुशाग्रेणापि रभसा न स्पृष्टव्यस्त्वसंस्कृतः ।। ५३ ।।

अग्निश्च तेजो मृडयाथ देहे रेतोधा विष्णुरमृतस्य नाभिः ।।

एवं ब्रुवन्पांडव सत्यवाक्यं ततोवगाहेत पतिं नदीनाम् ।। ५४ ।।

वैष्णवे मासि संप्राप्ते नक्षत्रे वारुणे तथा ।।

अर्घ्यं प्रदद्याद्भक्त्या तु तस्मिन्काले महोदधेः ।। ५५ ।।

स्नात्वा तु विधिवन्मंत्रैः सागरे तु समाहितः ।।

फलमूलाक्षतैर्भक्ष्यैस्तथार्घ्यं संप्रकल्पयेत् ।। ५६ ।।

अपि जन्मसहस्रं तु यत्पापं कुरुते नरः ।।

मुच्यते सर्वपापेभ्यः स्नात्वा तु लवणांभसि ।। ५७ ।।

विधिज्ञेन तु कर्तव्यं ब्राह्मणेन यथाविधि ।।

कर्ता कारयिता चैव उभौ तु स्वर्गगामिनौ ।। ५८ ।।

विधिं त्वेनमजानानो यः कुर्यादर्थमोहितः ।।

कर्ता कारयिता चैव उभौ नरकगामिनौ ।। ५९ ।।।

यो न कारयते शांतिं तडागाद्येषु कर्मसु ।।

तस्य तन्निष्फलं सर्वमुप्तं बीजमिवोषरे ।। 4.127.६० ।।

सर्वरत्नमयं दिव्यं चन्द्रार्कसदृशप्रभम् ।।

विमानं तेजसा युक्तमारोहेत्पुण्यकर्मकृत् ।। ६१ ।।

कश्चित्पिबति तत्तोयं निपानस्थं ततोऽञ्जलिम् ।।

ब्राह्मणो वा यतिर्गौर्वा येन कर्ता न सीदति ।।६२।।।

उत्सृष्टे कृतकृत्यस्तु सुहृत्कुर्यान्महोत्सवम् ।।

महाभोज्यं महोत्सर्गं यजमानो दिनाष्टकम् ।। ६३ ।।

कारकाः कर्मणो वापि सूत्रधारादयो नराः ।।

इष्टापूर्तेन धर्मेण तेऽपि स्वर्गं प्रयांति हि ।। ६४ ।।

खन्यमाने महीभागे प्राणिनो ये क्षयं गताः ।।

चित्रे वा देवकूटार्थे ते सर्वे त्रिदिवं गताः ।। ।। ६५ ।।

धेनोस्तु रोमकूपाणि यावन्तीह नरोत्तम ।।

तावद्वर्षसहस्राणि वर्षकोटिशतानि च ।। ६६ ।।

कोटिर्युगसहस्राणां स्वर्गे तिष्ठेत्तडागकृत् ।।

चेत्तस्यपितरः केचिन्नरकं समुपागताः ।। ६७ ।।

तांस्तु तारयते सर्वानात्मानं च महीपते ।।

आस्फोटयंति पितरो वल्गंति प्रपितामहाः ।। ६८ ।।

अपि नः स कुले जातो यस्तडागं करिष्यति ।।

सर्वस्वेनापि कौंतेय भूमिष्ठमुदकं कुरु ।।६९।।

कुलानि तारयेत्सप्त यत्र गौर्वितृषी भवेत् ।।

एवं वर्षशतेनापि कृत्तिका विहरीवने।।4.127.७०।।

मासं चेतागृहे कोटिक्षणध्वंसिधनस्य हि।।

तडागं देवभवनं वापीवृक्षोघनच्छदः।।७१।।

चतुर्थकं फलं प्राप्तं कारितेऽस्मिंश्चतुष्टये।।

यथा मातुः समाचष्टे पुत्रः शीलं स्वकैर्गुणैः।।७२।।

तथा स्वादेन च जलं कर्तुः सर्वं शुभाशुभम्।।

अतः शुभागतं द्रव्यं तडागादिषु लापयेत् ।।७३।।

धन्यस्य पांथाः संप्राप्य तडागं वृक्षमंडितम् ।।

पीत्वापः पादपतले विश्रमंति रमंति च ।।७४ ।।

मारुतोद्भूतवीच्यग्रैः करैः कमलमंडितम् ।।

अभ्यागताय सुधिया तडागाद्यं प्रकल्पितम् ।। ७५ ।।

सामान्यं सर्वभूतेभ्यो येन भूमिगतं जलम् ।।

तारितं कारितं तेन सुपुत्रेण कुलद्वयम् ।। ७६ ।।

मूर्तं स्वभावतः सिद्धमिष्टं मन्त्रप्रदर्शितम् ।।

इष्टापूर्ते कृते राजन्कृतकृत्यः पुमान्भवेत् ।। ७७ ।।

उन्नता वाथ निम्ना वा कीर्तिर्येन प्रकाशिता ।।

तेन त्रैलोक्य चन्द्रेण जननी पार्थ पुत्रिणी ।।७८।।

त्रितयं निघ्नतां नेयं त्रितयं चोन्नतिं पराम् ।।

तडागमथ यो भूमौ देव देवालयंकृती ।।७९।।

यः कारयति लोकेऽस्मिन्कीर्तिस्तस्यामला भवेत् ।।

स जीवति स एवैकः स भवेदजरामरः ।। 4.127.८० ।।

उपेतानामपि दिवं स निबन्धविधायिनाम् ।।

आस्त एव निरातंकं तस्य कीर्तिमयं वपुः ।। ८१ ।।

तावत्स्वर्गे स रमते यावत्कीर्तिरनश्वरा ।।

तावत्त्विलायामध्यास्ते सुकृती वैबुधं पदम् ।। ८२ ।।

हंसास्यक्षिप्तनील्यग्रं पद्मिनीखण्डमण्डितम् ।।

पीयमानं महाग्रामैर्धन्याः पश्यंति स्वं सरः ।। ८३ ।।

घटैरञ्जलिभिर्वक्त्रैर्यस्य वाटीपुटैर्जलम् ।।

पिबंति जंतवः सर्वे किमन्यत्तस्य वर्ण्यते।। ८४ ।।

तडागं नगरोपांते धन्यस्य किल जायते ।।

उभयोरर्थसंसिद्धिर्दृष्टा कर्तुर्जनस्य च ।। ८५ ।।

येषां देवकुलं तत्तु निष्पद्येत सरस्तटे ।।

अभीष्टदेवतायुक्तं तेषां पार्थ किमुच्यते ।। ८६ ।।

न भवंतीष्टिका यावद्द्रोणी वा भूमिसन्निभा ।।

स्वर्गे महीयते तावत्कारको देववेश्मनः ।। ८७ ।।

भोग्यस्थाने कृतः कूपः सुस्वादुसलिलस्तथा ।।

दृढरज्जुसमायुक्तः पुनात्यासप्तमं कुलम् ।। ८८ ।।

यस्य स्वादुजलं कूपे पिबंति सततं जनाः ।।

किं तेन न कृतं पुण्यं सवसत्त्वोपकारिणा ।।८९।।

यः प्रासादान्रचयति शुभान्देवतानां तडागे कीर्तिस्तस्य भ्रमति विपुला वंशमार्गानुयाता ।।

दिव्यान्भोगान्भजति च सदा कारकश्चाप्रमेयान्भुक्त्वा सौख्यं पुनरपि च भवेच्चक्रवर्ती पृथिव्याम् ।। 4.127.९० ।।

तेषां तडागानि बहूदकानि कूपाश्च यूपाश्च प्रतिश्रयाश्च ।।

अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचनी भवंति ।। ९१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वापीकूपतडागोत्सर्गविधिवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ।। १२७ ।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 128

वृक्षोद्यापनविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

वृक्षारोपणमाहात्म्यं वद देवकिनन्दन ।।

उद्यापनविधिं चैव सरहस्यं समासतः ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

वरं भूमिरुहाः पञ्च नगकाष्ठरुहा दश ।।

पत्रैः पुष्पैः फलैर्मूलैः कुर्वंति पितृतर्पणम् ।। २ ।।

बहुभिर्मृतकिञ्जातैः पुत्रैर्धर्मार्थवर्जितैः ।।

वरमेके पथितरुर्यत्र विश्रमते जनः ।।३।।

प्राणिनः प्रीणयंति स्म च्छायावल्कलपल्लवैः ।।

घनच्छदाः सुतरवः पुष्पैर्देवान्फलैः पितॄन् ।।४।।

पुष्पपत्रफलच्छायामूलवल्कलदारुभिः ।।

धन्या महीरुहा येषां विफला यांति नार्थिनः ।। ५ ।।

पुत्राः संवत्सरस्यांते श्राद्धं कुर्वंति वा न वा ।।

प्रत्यहं पादपाः पुष्टिं श्रेयोऽर्थं जनयंति हि ।। ६ ।।

न तत्करोत्यग्निहोत्रं सुखं यद्योषितः सुतः ।।

यत्करोति घनच्छायः पादपः पथि रोपितः ।। ७ ।।

सच्छाया च सपुष्पा च सफला वृक्षवाटिका ।।

कुलयोषेव भवति भर्तृलोकद्वयानुगा ।। ८ ।।

अशोकफलावकरा तिलकालंकृतानना ।।

सर्वोपभोग वेश्येव वाटिका रसिका सदा ।। ९ ।।

सदा स तीर्थी भवति सदा दानं प्रयच्छति ।।

सदा यज्ञं स यजते यो रोपयति पादपम् ।। ।। 4.128.१० ।।

अश्वत्थमेकं पिचुमंदमेकं न्यग्रोधमेकं दश चिञ्चिणीकान्।।

कपित्थबिल्वामलकीत्रयं च पञ्चाम्रवापी नरकं न पश्येत् ।। ११ ।।

पुष्पोपगंधाढ्यफलोपगन्धं यः पादपं स्पर्शयते द्विजाय ।।

स स्त्रीसमृद्धं वहुरत्नपूर्णं लभेद्विमानप्रतिमं गृहं वै ।। १२ ।।

प्रतिश्रयाश्रान्त समाश्रयत्वात्समीहितं तत्र फलं बुभुक्षोः ।।

अपत्यमेकं परलोकहेतोर्विमृश्यतां किं तरवो न रोपिताः ।। १३ ।।

न खानिताः पुष्करिण्यो रोपिता न महीरुहाः ।।

मातुर्यौवनचौरेण तेन जातेन किं कृतम् ।। १४ ।।

छायामन्यस्य कुर्वंति तिष्ठंति स्वयमातपे ।।

फलंति च परार्थेषु न स्वार्थेषु महाद्रुमाः ।। १५ ।।

अतः परं प्रवक्ष्यामि वृक्षस्योद्यापने विधिम् ।।

सर्वपापप्रशमनं सर्वकीर्तिविवर्द्धनम् ।। १६ ।।

अपुत्रया पुरा पार्थ पार्वत्या मन्दराचले ।।

अशोकः शोकशमनः पुत्रत्वे परिकल्पितः ।। १७ ।।

जातकर्मादिकास्तस्य याः क्रियाः किल बुद्धिमन् ।।

चरकात्रिपुराणोक्तास्ताः शृणुष्व युधिष्ठिर ।। १८ ।।

ततो मूले घनदलो वल्गुच्छायांगपल्लवः ।।

शीतवातातपसहः संस्कार्यस्तरुणस्तरुः ।। १९।।

स्त्रीनामकंटकीकुब्जकीटवृश्चिककोटरः ।।

नोद्याप्यः पादपः पार्थ शिष्टानां यो न संमतः ।। 4.128.२० ।।

आलवाले सुविहिते शुभे बद्धचतुष्किके ।।

शोधयित्वा तमुद्देशं सुगुप्तं कारयेत्ततः ।। २१ ।।

सदैवोद्यापनं पार्थ पादपानां प्रशस्यते ।।

शुभेऽह्नि विप्रकथिते ग्रहनक्षत्रसंयुते ।। २२ ।।

पताकालंकृतं वृक्षं पूर्वेद्युरधिवासयेत् ।।

रक्तवस्त्रैः समाच्छाद्य रक्तसूत्रेण वेष्टयेत् ।।२३।।

पिष्टातकेनावकिरेत्सर्वौषध्या च पादपम् ।।

स्थापयेत्पूर्णकलशांश्चतुर्दिक्षु विचक्षणः ।। २४ ।।

पल्लवालंकृतमुखान्सितचन्दनचर्चितान् ।।

सितवासोयुगच्छन्नान्सकलान्रत्नगर्भिणः ।। २५ ।।

पताकालंकृताः सर्वे कार्यास्तत्सन्निधौ द्रुमाः ।।

मूलविन्यस्तकलशा रक्तसूत्रावगुण्ठिताः ।। २६ ।।

रक्तपीतसिताच्छादैश्चर्चिताः सुमनोहरैः ।।

कलधौतमयान्यत्र फलानि दश पंच वा ।। २७ ।।

ताम्रपात्र्यां सबीजानि सरलान्यधिवासयेत् ।।

तूर्यमङ्गलघोषेण चतुर्दिक्षु क्षिपेद्बलिम् ।। २८ ।।

इन्द्रादिलोकपालेभ्यो भूतेभ्यो मंत्रविद्गुरुः ।।

ततः प्रभाते विमले कुंडं कृत्वा समेखलम् ।। २९ ।।

ग्रहयज्ञविधानेन शांतिकर्म समारभेत् ।।

सुवर्णालंकृतान्कृत्वा ब्राह्मणान्वेदपारगान् ।। 4.128.३० ।।

चतुरोऽष्टौ यथाशक्त्या वासोभिरभिपूजयेत् ।।

तिलाज्येन च होमः स्यात्तुष्टिपुष्टिकरः सदा ।। ३१ ।।

मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः ।।

श्रपयित्वा चरुं सम्यक्पायसाद्यपरिप्लुतम् ।। ३२ ।।

होमादौ जातकर्मादि गोदानं यावदेव तु ।।

पादपं स्नापयित्वा तु समंत्रैस्तीर्थवारिभिः।।३३।।

जातकं नामकरणमन्नप्राशनमेव च ।।

सुवर्णसूच्या कुर्वीत कर्णवेधं विधानवित् ।। ३४ ।।

जातरूपक्षुरेणात्र चूडाकार्या यथाक्रमम् ।।

बध्नीयान्मेखलां मौञ्जीं वासश्च परिधापयेत् ।। ३५ ।।

यजमानस्ततः स्नातः शुक्लांबरधरः शुचिः ।।

पुष्पाञ्जलिः समभ्येत्य मंत्रमेतमुदीरयेत् ।। ३६ ।।

ये शाखिनः शिखरिणां शिरसा विभूषा ये नन्दनादिषु वनेषु कृतप्रतिष्ठाः ।।

ये कामदाः सुरनरोरगकिन्नराणां ते मे नतस्य दुरितार्तिहरा भवंतु ।।। ३७ ।।

एतैर्द्विजैर्विधिवरप्रहुतो हुताशः पश्यत्यसावहिमदीधितिरंबरस्थः ।।

त्वं वृक्ष पुत्रपरिकल्पनया वृतोऽसि कार्यं सदैव भवता मम पुत्रकार्यम् ।। ३८ ।।

इत्येवमुक्त्वा तं वृक्षं लालयित्वा पुनःपुनः ।।

घृतपात्रे स्ववदनं दृष्ट्वाशिषमुदीरयेत् ।। ३९ ।।

अङ्गादङ्गात्संभवसि हृदयादभिजायसे ।।

आत्मा वै पुत्रनामासि स जीव शरदः शतम् ।। 4.128.४० ।।

ब्राह्मणानां ततो देया दक्षिणा हृष्टमानसैः ।।

स्थापकाय शुभां धेनुं दत्त्वा कुर्यान्महोत्सवम् ।। ४१ ।।

दीनानाथजनानां च भोजनं चानिवारितम् ।।

इतरेषां प्रदातव्यं संतुष्टेन सुरासवम् ।। ४२ ।।

ज्ञातिबन्धुजनैः सार्द्धं स्वयं भुञ्जीत कामतः ।।

प्रेष्याः कर्मकराः सर्वे पूजनीयाः स्वशक्तितः ।। ४३ ।।

य एवं कुरुते पार्थ वृक्षाणां महदुत्सवम् ।।

सर्वकामानवाप्नोति इहलोके परत्र च ।। ४४ ।।

पुत्रैर्विना शुभगतिर्न भवेन्नराणां दुष्पुत्रकैरिति तथोभयलोकनाशः ।।

एतद्विचार्य सुधिया परिपाल्य वृक्षान्पुत्राः पुराणविधिना परिकल्पनीया ।। ४५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृक्षोद्यापनविधिवर्णनं नामाष्टाविंशत्युत्तरशततमोऽ ध्यायः ।। १२८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 129

देवपूजाविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

ये मानवास्त्रिदशमूर्तिनिकेतनानि कुर्वंति साधुजनदृष्टिमनोहराणि ।।

तेषां मृतेऽथ परमार्थमये शरीरे लोके परिभ्रमति कीर्तिमयं शरीरम् ।। १ ।।

यः कारयेद्द्वारसिताभ्रगौरमुत्तुंगसौधधवलायतनं सुराणाम् ।।

चंद्रावदातभवने दिवि लब्धसौख्यो राज्यश्रियं स भुवि बोधयुतामुपैति ।। २ ।।

ये कारयंति सुरसद्मसु देवतानामर्चाः सुवर्णरजतायसशैलताम्राः ।।

सामंतमौलिमणिरश्मिसममर्चितास्ते सिंहासनेऽङ्गदकिरीटभृतोऽवभांति ।। ३ ।।

ये मेरुमौलिसुरसंघकृताभिषेकाः पञ्चामृतैः सुरवरानभिषेचयंति ।।

ते दिव्यकल्पमभिधार्य सुरेश्वरत्वं राज्याभिषेकमतुलं पुनराप्नुवंति ।। ४ ।।

ये शैलराजमलयोद्भवचंदनेन सत्कुंकुमेन च सुराननुलेपयंति ।।

ते दिव्यगन्धपटवाससुगंधिदेहा नंदंति नंदनवनेषु सहाप्सरोभिः ।। ५ ।।

गंधाढ्यजातिकमलोत्पलदिव्यपुष्पैर्देवान्नवैरनुदिनं ननु येऽर्चयंति ।।

पुष्पोत्तमैर्नरपतित्वमवाप्य तेऽपि यास्यंति कुंदधवलामचिरेण सिद्धिम् ।। ६ ।।

आमोदिभिर्हिमतुरुष्कसुगन्धधूपैर्ये मानवाः सुरवरानपि धूपयंति ।।

कर्पूरधारनिभगन्धवरा भिरामे स्वर्गे विमानवति ते भवने रमंते ।। ७ ।।

दोधूयते कनकदंडविराजितैश्च सच्चामरैर्धवलकुण्डलसुन्दरीभिः ।।

दिव्यांबरस्रगनुलेपनभूषि ताङ्गां कृत्वा सुरेशभवनांबरवस्त्रपूजाम् ।।८।।

देदीप्यते दिनकरोज्ज्वलपद्मरागरत्नप्रभाच्छुरितहेममये विमाने ।।

दिव्यांगनापरिवृतो नयनाभिरामः प्रज्वाल्य दीपममलं भवने सुराणाम् ।। ९ ।।

यो जागरं सुरवराभिमतो ददाति चैत्रोत्सवादिदिवसेष्वपि तूर्यनादैः ।।

वीणासुवेणुमधुरस्वरभाषि णीभिः संगीयते च स कृशोदरकिन्नरीभिः ।। 4.129.१० ।।

कुर्वति ये सदुपलेनधातुरागसंमार्जनं सुरवरायतनेऽनुरक्ताः ।।

मुक्ताकलापमपि कांचनभक्ति चित्रैर्वैडूर्यकृट्टिमतले दिवि ते वसंति ।। ११ ।।

दद्याच्च यः परमभक्तियुतः सुराणां घण्टावितानवरचामरमातपत्रम् ।।

केयूरहारमणिकुण्डलभूषि तोसौ रत्नाधिपो वसति भूतलचक्रवर्ती ।। १२ ।।

अभ्यर्चयेत्प्रतिवचः कुसुमैर्विचित्रैर्देवाधिदेवपरिसंस्तुतपादपद्मान् ।।

भक्त्या प्रहृष्टमनसः प्रणमंति देवांस्ते भूर्भुवः स्वर्महिमाप्तफला भवंति ।। १३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे देवपूजाविधिवर्णनं नामैकोनत्रिंशदुत्तरशतत मोऽध्यायः ।। १२९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 130

दीपदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

भगवन्केन तपसा व्रतेन नियमेन वा ।।

दानेन केन वा लोके प्रोज्ज्वल्त्वं प्रजायते ।। १ ।।

अतितेजो महद्दीप्तं दीप्तांशुकिरणोज्ज्वलम् ।।

शरीरं जायते येन तन्मे वक्तुमथार्हसि ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

मथुरायां पुरा पार्थ पिङ्गलो नाम तापसः ।।

आगतः स च मे पत्न्या जाम्बवत्या प्रपूजितः ।। ३ ।।

प्रष्टश्च प्रश्रमेवैतं स चावोचद्यथातथम् ।।

तयापि मे समाख्यातं तत्सर्वं ते वदाम्यहम् ।। ४ ।।

यदायदा नृपश्रेष्ठ पुण्यकालः प्रपद्यते ।।

संक्रातौ सूर्यग्रहणे चन्द्रपर्वणि वैधृतौ ।। ५ ।।

उत्तरे त्वयने प्राप्ते दक्षिणे विषुवे तथा ।।

एकादश्यां शुक्लपक्षे चतुर्दश्यां दिनक्षये ।। ६ ।।

सप्तम्यामथ वाष्टम्यां स्नात्वा व्रतपरो नरः ।।

नारी वा भूमिदेवेभ्यः प्रयच्छेत्प्रयतांगणे ।।

घृतकुंभेन दीपेन प्रज्वलंतं प्रदीपकम् ।। ७ ।।

।। युधिष्टिर् उवाच ।। ।।

भूमिदेवा इति प्रोक्तं यत्त्वया मधुसूदन ।।

किमेतत्कौतुकं मेऽस्ति संशयं छेत्तुमर्हसि ।। ८ ।।

।। श्रीकृष्ण उवाच ।। ।।

पुरा कृतयुगस्यादौ त्रिशंकुर्नाम पार्थिवः ।।

स स्वर्गं गन्तुकामोऽभूच्छरीरेण नरोत्तम ।।

ततश्चण्डालतां नीतो वशिष्ठेन महात्मना ।। ९ ।।

त्रिशंकुः सर्वमाचख्यौ विश्वामित्राय धीमते ।।

सोऽपि मन्युवशाद्यज्ञं चकाराहूय देवताः ।। 4.130.१० ।।

न ता हविः प्रत्यगृह्णंस्ततः क्रुद्धः कुशात्मजः ।।

विश्वामित्रस्तु कोपेन चकारान्यान्सुरोत्तमान् ।। ११ ।।

शृंगाटका न्नालिकेरान्पचनानानजौडकान् ।।

मेधारथदवार्ताकतारिकूष्मण्डकोद्रवान्।। १२ ।।

उष्ट्रान्मनुजदेवांश्च क्रोधान्मुनिरवासृजत् ।।

चकारान्यान्सप्त ऋषीन्प्रतिमासं सुरोत्तमान् ।। १३ ।।

ततः शक्रः समागम्य विश्वामित्रं प्रसाद्य वै ।।

सृष्टिं निवारयामास ये सृष्टास्ते तथापि च ।। १४ ।।

मर्त्य लोके च ते सर्वे देवा देवकुलेष्वथ ।।

मंत्रैर्निबद्धाः पिण्डीषु स्थिता मूर्तिभृतो यथा ।।१५।।

ब्रह्मा विष्णुस्तथा रुद्रो ये चान्ये देवतागणाः ।।

लोकानामुपकाराय मर्त्यलोकमुपागताः ।। १६ ।।

प्रतिमासु स्थिताः शश्वद्भोगान्भुञ्जति शाश्वतान् ।।

वरप्रदाश्च भक्तानामिति ते गुह्यमीरितम् ।। १७ ।।।

तेभ्यः पुरस्ताद्दातव्यो दीप्यमानः प्रदीपकः ।।

सूर्याय रक्तवस्त्रेण पूर्णवर्तिं घृतैर्युताम् ।।

चतुःप्रस्थैः प्रज्वलन्तीं मंत्रेणानेन दापयेत् ।। १८ ।।

तद्वि ष्णोः परमं पदं सदा पश्यंति सूरयः ।।

दिवीव चक्षुराततम् ।। १९ ।।

पीतवस्त्रेण कृष्णाय श्वेतवस्त्रेण शूलिने ।।

कौसुंभवस्त्रेणाढ्येन गौरीमुद्दिश्य दापयेत् ।।4.130.२० ।। वर्ति

लाक्षारक्तेन दुर्गायै पूर्णवर्ति प्रबोधयेत् ।।

नीलवस्त्रेण कामाय गणनाथाय खादिरैः ।।२१।।

नागेभ्यः कृष्णवस्त्रेण ग्रहेभ्य इषिका युधाम् ।।

देवांगना पितृभ्यस्तु पितृवर्तिं प्रबोधयेत् ।।२२।।

विशेषं शृणु सूर्याय पूर्णवर्तिर्निगद्यते ।।

शिवायेश्वरवर्तीति भोगवर्तिर्जनार्दने ।। २३ ।।

पद्मवर्तिर्विरिंचाय गौर्य्यै सौभाग्यवर्तिका ।।

नागेभ्यो नागवर्तीति ग्रहवर्तिर्युधिष्ठिर ।। २४ ।।

नेत्रपट्टेन मधुना घृतेन मधुकुंडके ।।

अर्चिते चर्चिते चैव ललितायै प्रबोधयेत् ।। २५ ।।

मंत्रेणानेन राजेन्द्र तन्निशामय वैदिकम् ।। २६ ।।

अग्रे त्वां काम्यया गिरा तुभ्यं ता गिरसस्तु विश्वाः ।।

सुक्षितयः पृथक्पृथक् ।। २७ ।।

अग्ने कामाय जेगिरे अग्निप्रियेषु धामसु ।।

कामो भूतस्य भव्यस्य सम्राडेको विराजति ताभ्यां नाम स्वाहा ।। ।। २८ ।।

एवमेतेन विधिना यः प्रयच्छति दीपकम् ।।

विस्तीर्णे विपुले पात्रे घृतकुम्भे नियोजितम् ।। २९ ।।

यांति ते ब्रह्मसदनं विमानेनार्कवर्चसा ।।

तिष्ठंति द्योतमानास्ते यावदाभूतसंप्लवम् ।। 4.130.३० ।।

सदीपे तु यथा देशे चक्षूंषि बलवन्ति हि ।।

तथा दीपस्य दातारो भवंति सफलेक्षणाः।। ।। ३१ ।।

यथैवोर्ध्वं गतिर्नित्यं राजन्दीपशिखासु वै ।।

दीपदातुस्तथैवोर्ध्वं गतिर्भवति शोभना ।। ३२ ।।

घृतेन दीपो दातव्यो राजंस्तैलेन वा पुनः ।।

वसामज्जादिभिर्देयो न तु दीपः कथञ्चन ।। ३३ ।।

दीपस्तैलेन कर्तव्यो न तु कर्म विजानता ।।

निर्वापणं च दीपस्य हिंसनं च विगर्हितम् ।। ३४ ।।

यः कुर्यात्कर्मणा तेन स्यादसौ पुष्पितेक्षणः ।।

दीपहर्ता भवत्यंधः काणो निर्वापको भवेत् ।। ३५ ।।

पद्मसूत्रोद्भवां वर्तिं गंधतैलेन दीपिताम् ।।

विरोगः सुभगश्चैव दत्त्वा भवति मानवः ।। ३६ ।।

प्रज्वाल्य देवदेवस्य कर्पूरेण तु दीपकम् ।।

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्।। ३७ ।।

एतन्मयोक्तं तव दीपदानफलं समग्रं कुरुवंशचन्द्र ।।

श्रुत्वा यथावत्सततं हि देया दीपास्त्वया विप्रसुरालयेषु ।। ३८ ।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।

दीपदानाल्ललितया यदवाप्तं पुराऽनघ ।। ३९ ।।

आसीच्चित्ररथोनाम विदर्भेषु महीपतिः ।।

तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ।। 4.130.४० ।।

एकैव कन्या तस्यासील्ललिता नाम नामतः ।।

सर्वलक्षणसम्पन्ना रूपेणाप्रतिमा भुवि ।। ४१ ।।

तां ददौ काशिराजाय चार्वंगीं चारुधर्मणे ।।

शतान्यन्यानि भार्याणां त्रीण्यासंश्चारुधर्मणः ।। ४२ ।।

तासां मध्येऽग्रमहिषी ललिता साप्यथाभवत् ।। ४३ ।।

विष्णोरायतने सा तु सहस्रं परिदीपकान् ।।

प्रज्वालयन्त्यनुदिनं दिवारात्रमनिर्वृतम्।। ४४ ।।

तामिस्रमाश्वयुक्पक्षं शुक्लपक्षं च कार्त्तिकम् ।।

तस्याः प्रज्वलितो दीप उच्चस्थानकृतः शुभः ।। ४५ ।।

तस्मिन्काले तथा नित्यं ब्राह्मणावसथे च सा ।।

व्यग्रा भवति सायाह्ने दीपप्रेषणतत्परा ।। ४६ ।।

चतुष्पथेषु रथ्यासु देवतायतनेषु च ।।

चैत्यवृक्षेषु गोष्ठेषु पर्वतानां च मूर्द्धसु ।। ४७ ।।

पुलिनेषु नदीनां च कूपमूलेषु पांडव ।।

तां सपत्न्योऽथ संगम्य पप्रच्छुरिदमादृताः ।। ४८।।

ललिते वद भद्रं ते ललितं वचनं तथा ।।

न तथा बलिपुष्पेषु न तथा द्विजपूजने ।। ४९ ।।

भवत्याः सुमहान्यत्नो दीपप्रज्वालने यथा ।।

तदेतत्कथयास्माकं ललिते कौतुकं परम् ।। 4.130.५० ।।

मन्यामहे त्वयावश्यं दीपदानफलं श्रुतम्।।

।। ललितोवाच ।। ।।

नाहं मत्सरिणी भद्रा न च रागादिदूषिता ।। ५१ ।।

एकपत्याश्रिताः साध्व्यो भवत्यो मम मानदाः ।।

अपृथग्धर्मचरणाः शृण्वन्तु गदितं मम ।। ५२ ।।

मयैतद्दीपदानस्य यथेष्टं भुज्यते फलम् ।।

हिरण्यदयिता भार्या शैलराजसुता वरा ।। ५३ ।।

उमादेवीति मद्रेषु देविका सा सरिद्वरा ।।

नराणामनुकम्पार्थं ब्रह्मणा ह्यवतारिता ।।

श्रुता किं भवतीभिः सा देविका पापनाशिनी ।। ५४ ।।

तस्यां स्नात्वा सकृन्नद्यां गाणपत्यमवाप्नुयात्।।

तस्यामथ नृसिंहाख्यं तीर्थं कल्मषनाशनम् ।।

हरिणा नृसिंहवपुषा यत्र स्नानं कृतं पुरा ।। ५५।।

सौवीरराजस्य पुरा मैत्रेयोभूत्पुरोहितः ।।

तेन चायतनं विष्णोः कारितं देविकातटे ।। ५६ ।।

अहन्यहनि शुश्रूषां पुष्पधूपानुलेपनैः ।।

दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः ।। ५७ ।।

कार्त्तिक्यां दीपकस्तत्र प्रदत्तस्तेन चैकदा ।।

आसीन्निर्वाणभूयिष्ठो देवार्चासु रतो निशि ।। ५८ ।।

देवतायतनेऽवात्सं तत्राहमपि मूषिका ।।

प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः ।। ५९ ।।

गृहीताथ मया वर्तिर्वृकदंशो ररास च ।।

नष्टा चाहं ततस्तस्य मार्जारस्य भयातुरा ।। 4.130.६० ।।

वक्त्रप्रांतेन पश्यंत्या स दीपः प्रेरितो मया ।।

जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः ।। ६१ ।।

मृताहं च पुनर्जाता वैदर्भे राजकन्यका ।।

जातिस्मरा महीपस्य महिषी चारुधर्मणः ।। ६२ ।।

एष प्रभावो दीपस्य कार्त्तिके मासि शोभनः ।।

दत्तस्यायतने विष्णो र्यस्येयं व्युष्टिरुत्तमा ।। ६३ ।।

असंकल्पितमध्यस्य प्रेरणं यन्मया कृतम् ।।

केशवे बालदीपस्य तस्येदं भुज्यते फलम् ।। ६४ ।।

एतस्मात्कार णाद्दीपानहमेतानहर्निशम् ।।

प्रयच्छामि हरेर्गेहे जातमस्य महाफलम् ।। ६५।।

एवमुक्त्वा सपत्नीः सा दीपदानपरायणा ।।

बभूव देवदेवस्य केशव स्य गृहे सदा ।। ६६ ।।

ततः कालेन महता सह राज्ञा महात्मना ।।

विष्णुलोकमनुप्राप्ता पंचत्वं प्राय मानदा ।। ६७ ।।

तं लोकमासाद्य नृपेण सार्द्धं सा राजपत्नी कमलाभनेत्रा ।।

रेमे महीपालमुदा समेता दीपप्रदानात्सकलार्तिहीना ।। ६८ ।।

दीपप्रदानमपि पुण्यतरं वदंति विप्राग्निगोसुरकुलैकगृहांगणेषु ।।

तद्दानदीप्तवपुषाथ पथोंधकारे गच्छन्नरः पतति न स्खलते कदाचित् ।। ६९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दीपदानविधिवर्णनं नाम त्रिंशदुत्तरशततमोऽध्यायः ।। १३० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 131

वृषोत्सर्गविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

कार्त्तिक्यामथ वा माघ्यामयमेव युधिष्ठिर ।। १ ।।

चैत्र्यामथ तृतीयायां वैशाख्यां द्वादशेऽह्नि वा ।।

खंडनीलं शंखपादं सपौंड्रं धौतपुष्पकम् ।। २ ।।

गोभिश्चतुर्भिः सहितं सृजेच्चैव विधिं शृणु ।।

यदुवाच पुरा गर्गो गोकुलेऽनघ पांडव ।। ३ ।।

तत्तेहं च प्रवक्ष्यामि विधिं गर्गप्रचोदितम् ।। .

मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः ।। ४ ।।

मातृश्राद्धं ततः कुर्यात्सदाभ्युदयकारकम् ।।

अकालमूलं कलशमश्वत्थदलशोभितम् ।। ५ ।।

तत्र विद्वाञ्जपित्वा तु स्थापयेद्रुद्रदेवताम् ।।

सुसमिद्धं ततः कृत्वा वह्निमंत्रपुरःसरम् ।। ६ ।।

अथैनं जुहुयात्षड्भिः पृथगाहुतिसंज्ञितैः ।।

पौष्यामंत्रैस्ततः पश्चाद्धुत्वा वह्निं यथाविधि ।। ७ ।।

एकवर्णं द्विवर्णं वा रोहितं श्वेतमेव वा ।।

जीवद्वत्सपयस्विन्याः ऽन्नं सर्वांगसुन्दरम् ।। ८ ।।

चतस्रो वत्सतर्यश्च ताभिः सार्ध मलंकृतम्।।

तासां कर्णे जपेद्विप्रः पतिं वो बलिनं शुभम् ।। ९ ।।

समितास्तेन सहिताः क्रीडध्वं हृष्टमानसाः ।।

ततो वामे त्रिशूलं च दक्षिणे चक्रमालिखेत्।। 4.131.१० ।।

अंकितं शंखचक्राभ्यां वर्षितं कुसुमादिना।।

पुष्पमालाकृतग्रीवं सितवस्त्रैश्च च्छादितम् ।। ११ ।।

विमुंचेद्वत्सकाभिश्च नीलाभिर्बलिनं वृषम् ।।

देवालये गोकुले वा नदीनां संगमेऽथ वा ।। १२ ।।

इत्युक्ते गर्गमुनिना विधानं वृषमोक्षणे ।।

स्वेच्छाविहारिणं दृप्तं गर्जंतं सुन्दरं गवाम् ।। १३ ।।

ककुद्मिनं पतिं या धन्ये विमुञ्चन्ति गोवृषम् ।।

फलं च तस्य वक्ष्यामि ब्रुवतां मे निबोध तत् ।। १४ ।।

वृषोत्सर्गे पुनात्येव दशातीतान्दशापरान् ।।

यत्किंचित्स्पृशते तोयं समुत्तीर्य जलान्महीम् ।। १५ ।।

वृषोत्सृष्टं पितॄणां तु तदक्षयमुदाहृतम् ।।

यैश्च यैश्च स्पृशेत्तोयं लांगूलादिभिरंततः ।। १६ ।।

सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ।।

शृङ्गैः खुरैर्वा यद्भूमिमुल्लिखत्यनिशं वृषः ।। १७ ।।

मधुकुल्याः पितुस्तस्य अक्षयास्ता भवंति वै ।।

सहस्रतलमात्रेण तडागो न यथाश्रुति ।। १८ ।।

पितॄणां या भवेत्तृप्तिस्तां वृषस्त्वतिरिच्यते ।।

यो ददाति तिलैर्मिश्रांस्तिलान्वा श्राद्धकर्मणि।।

मधु वा नीलखंडं वा अक्षयं सर्वमेव तत्।।१९।।

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।।

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्।।4.131.२०।।

न करोति वृषोत्सर्गं सुतीर्थे वा जलाञ्जलिम्।।

न प्रयच्छति यः पुत्रः पितुरुच्चार एव सः।।२१।।

यद्भूमिमालिखति शृङ्गखुरैः प्रहृष्टो यद्वा करोति प्रतिमल्लवृषान्निरीक्ष्य।

खण्डं समस्तमपि तस्य विवाहकर्तुः संतोषमावहति शक्रसभागतस्य।।२२।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषोत्सर्गविधिवर्णनं नामैकत्रिंशदुत्तरशततमोऽध्यायः ।। १३१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 132

फाल्गुनपूर्णिमाव्रतवर्णनम्

।।युधिष्ठिर उवाच ।। ।।

किमर्थं फाल्गुनस्यांते पौर्णमास्यां जनार्दन ।।

उत्सवो जायते लोके ग्रामेग्रामे पुरे पुरे।। १ ।।

किमर्थं शिशवस्तस्यां गेहेगेहेऽतिवादिनः ।।

होलिका दीप्यते कस्मात्फाल्गुनांते किमुच्यते ।। २ ।।

अडाडेति च का संज्ञा शीतोष्णेति किमुच्यते ।।

को ह्यस्यां पूज्यते देवः केनेयमवतारिता ।।

किमस्यां क्रियते कृष्ण एतद्विस्तरतो वद ।। ३ ।। ।।

।। श्रीकृष्ण उवाच ।। ।।

आसीत्कृतयुगे पार्थ रघुर्नाम नराधिपः ।।

शूरः सर्वगुणोपतः प्रियवादी बहुश्रुतः ।। ४ ।।

स सर्वां पृथिवीं जित्वा वशीकृत्य नराधिपान् ।।

धर्मतः पालयामास प्रजाः पुत्रानिवौरसान् ।। ५ ।।

न दुर्भिक्षं न च व्याधिर्नाकालमरणं तथा ।।

नाधर्मरुचयः पौरास्तस्मिञ्छासति पार्थिव ।। ६ ।।

तस्यैवं शासतो राज्यं क्षात्रधर्मरतस्य वै ।।

पौराः सर्वे समागम्य पाहिपाहीत्यथाब्रुवन्।। ७ ।।

।। पौरा ऊचुः ।।

अस्माकं हि गृहे काचिढ्ढौंढा नामेति राक्षसी ।।

दिवा रात्रौ समागम्य बालान्पीडयते बलात् ।।८।।

रक्षया कंडकेनापि भेषजैर्वा नराधिप ।।

मंत्रज्ञैः परमाचार्यैः सा नियंतुं न शक्यते ।। ९ ।।

पौराणां वचनं श्रुत्वा रघुर्विस्मयमागतः ।।

विस्मयाविष्टहृदयः पुरोहितमथाब्रवीत्।।4.132.१०।

।। रघुरुवाच ।। ।।

ढौंढेति राक्षसी केयं किंप्रभावा द्विजोत्तम ।।

कथमेषा नियंतव्या मया दुष्कृतकारिणी ।। ११ ।।

रक्षणात्प्रोच्यते राजा पृथिवीपालनात्पतिः ।।

अरक्षमाणः पृथिवीं राजा भवति किल्बिषी ।। १२ ।।

वशिष्ठ उवाच ।।

शृणु राजन्परं गुह्यं यन्नाख्यातं मया क्वचित् ।।

ढौंढा नामेति विख्याता राक्षसी मालिनः सुता ।। १३ ।।

तया चाराधितः शंभुरुग्रेण तपसा पुरा ।।

प्रीतस्तामाह भगवान्वरं वरय सुव्रते ।। १४ ।।

यत्ते मनोभिलषितं तद्ददाम्यविचारितम् ।।

ढौंढा प्राह महादेवं यदि तुष्टः स्वयं मम ।। १५ ।।

न च वध्यां सुरादीनां मनुजानां च शंकर ।।

मां कुरु त्वं त्रिलोकेश शस्त्रास्त्राणां तथैव च ।। १६ ।।

शीतोष्णवर्षासमये दिवा रात्रौ बहिर्गृहे ।।

अभयं सर्वदा मे स्यात्त्वत्प्रसादान्महेश्वर ।। १७ ।।

शंकर उवाच ।।

एवमस्त्वित्यथोक्त्वा तां पुनः प्रोवाच शूलभृत् ।।

उन्मत्तेभ्यः शिशुभ्यश्च भयं ते संभविष्यति ।।

ऋतावृतौ महाभागे मा व्यथां हृदये कृथाः ।। १८ ।।

एवं दत्वा वरं तस्यै भगवान्भगनेत्रहा ।।

स्वप्ने लब्धो यथार्थार्थस्तत्रैवांतर्हितोऽभवत् ।। १९ ।।

एवं लब्धवरा सा तु राक्षसी कामरूपिणी ।।

नित्यं पीडयते बालान्संस्मृत्य हरभाषितम् ।।4.132.२०।।

अडाडयेति गृह्णाति सिद्धमंत्रं कुटुंबिनी ।।

गृहेषु तेन सा लोके ह्यडाडेत्यभिधीयते ।। २१ ।।

एतत्ते सर्वमाख्यातं ढौंढायाश्चरितं मया ।।

सांप्रतं कथयिष्यामि येनोपायेन हन्यते ।।२२।।

अद्य पञ्चदशी शुक्ला फाल्गुनस्य नराधिप ।।

शीतकालो विनिष्क्रांतः प्रातर्ग्रीष्मो भविष्यति ।। २३ ।।

अभयप्रदानं लोकानां दीयतां पुरुषोत्तम ।।

यथाद्याशंकिता लोका रमंति च हसंति च ।। २४ ।।

दारुजानि च खंडानि गृहीत्वा समरोत्सुकाः ।।

योधा इव विनिर्यांतु शिशवः संप्रहर्षिताः ।। २५ ।।

संचयं शुष्ककाष्ठानामुपलानां च कारयेत् ।।

तत्राग्निं विधिवद्धुत्वा रक्षोघ्नैर्मन्त्रविस्तरैः ।। २६ ।।

ततः किलकिलाशब्दैस्तालशब्दैर्मनोहरैः ।।

तमग्निं त्रिः परिक्रम्य गायंतु च हसंतु च ।।

जल्पंतु स्वेच्छया लोका निःशंका यस्य यन्मतम् ।। २७ ।।

तेन शब्देन सा पापा होमेन च निरा कृता ।।

अदृष्टघातैर्डिंभानां राक्षसी क्षयमेष्यति ।।२८।।

श्रीकृष्ण उवाच ।।

तस्यर्षेर्वचनं श्रुत्वा स नृपः पांडुनदन।।

सर्वं चकार विधिवदुक्तं तेन च धीमता ।।२९।।

गता सा राक्षसी नाशं तेन चोग्रेण कर्मणा ।।

ततः प्रभृति लोकेऽस्मिन्नडाडा ख्यातिमागता।।4.132.३०।

सर्वदुष्टापहो होमः सर्वरोगोपशांतिदः ।।

क्रियतेऽस्यां द्विजैः पार्थ तेन सा होलिका मता ।। ३१ ।।

सर्वसारातिविश्वेयं पूर्वमासीद्युधिष्ठिर ।।

सारत्वात्फल्गुरित्येषा परमानंददायिनी ।। ३२।।

अस्यां निशागमे पार्थ संरक्ष्याः शिशवो गृहे ।।

गोमयेनोपसंलिप्ते सचतुष्के गृहांगणे ।। ३३ ।।

आकारयेच्छिशुप्रायान्खड्गव्यग्र करान्नरान् ।।

ते काष्ठखण्डैः संस्पृश्य गीतैर्हास्यकरैः शिशून् ।।

रक्षंति तेषां दातव्यं गुडं पक्वान्नमेव च ।।३४।।

एवं ढौंढितमात्रस्य स दोषः प्रशमं व्रजेत् ।।

बालानां रक्षणं कार्यं तस्यात्तस्मिन्निशागमे ।। ३५ ।।

।। युधिष्ठिर उवाच ।। ।।

प्रभाते किञ्जनैर्देव कर्तव्यं सुखमीप्सुभिः ।।

प्रवृत्ते माधवे मासि प्रतिपद्भास्करोदये ।। ३६ ।।

।। श्रीकृष्ण उवाच ।। ।।

कृत्वा चावश्यकार्याणि संतर्प्य पितृदेवताः ।।

वंदयेद्धोलिकाभूतिं सर्वदुष्टोपशांतये ।। ३७ ।।

मंडिते चर्चिते चैव उपलिप्ते गृहाजिरे ।।

चतुष्कं कारयेच्छ्रेष्ठं वर्णकैश्चाक्षतैः शुभैः ।। ३८ ।।

तन्मध्ये स्थापयेत्पीठं शुक्लवस्त्रोत्तर च्छदम् ।।

अग्रतः पूर्णकलशं स्थापयेत्पल्लवैर्युतम्।। ३९ ।।

साक्षतं सहिरण्यं च सितचन्दनचर्चितम्।।

कलशस्याग्रतो देया उपानहवरांशुकाः।।4.132.४०।।

आसने चोपविष्टस्य ब्रह्मघोषेण भारत ।।

चर्चयेच्चन्दनं नारी अव्यंगांगा सुलक्षणा ।। ४१ ।।

पद्मरागोत्तरपटा श्रेष्ठांशुकविभूषिता ।।

वसुधारां शिरोग्रे च दधिदूर्वाक्षतान्विताम्।। ४२ ।।

चर्चापयित्वा श्रीखंडमायुरारोग्यवृद्धये ।।

पश्चाच्च प्राशयेद्विद्वांश्चूतपुष्पं सचंदनम्।। ४३ ।।

मनोभवस्य सा पूजा ऋषिभिः संप्रदर्शिता ।।

ये पिबंति वसंतादौ चूतपुष्पं सचन्दनम् ।। ४४ ।।

सत्यं हृदिस्थकामस्य तत्पूर्तिर्जायतेञ्जसा ।।

अनंतरं द्विजेन्द्राणां सूतमागधबंदिनाम् ।। ४५ ।।

दद्याद्दानं यथाशक्त्या कामो मे प्रीयतामिति ।।

ततो भोजनवेलायां शृतं यत्प्राक्तनेऽहनि ।। ४६ ।।

प्राश्नीयात्प्रथमं चान्नं ततो भुञ्जीत कामतः ।।

य एवं कुरुते पार्थ शास्त्रोक्तं फाल्गुनोत्सवम् ।। ४७ ।।

अनायासेन सिध्यंति तस्य सर्वे मनोरथाः ।।

आधयो व्याधयश्चैव यांति नाशं न संशयः ।।४८।।

पुत्रपौत्रसमायुक्तः सुखं तिष्ठति मानवः ।। ४९ ।।

पुण्या पवित्रा जयदा सर्वविघ्रविनाशिनी ।।

एषा ते कथिता पार्थ तिथीनामुत्तमा तिथिः ।। 4.132.५० ।।

वृत्ते तुषारसमये सितपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च ।।

संप्राश्य चूतकुसुमं सह चन्दनेन सत्यं हि पार्थ पुरुषः स सुखी समास्ते ।। ५१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे फाल्गुनपूर्णिमो त्सववर्णनं नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ।। १३२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 133

आन्दोलकविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

संत्यज्यालिकुलालीढकुसुमानि मृदून्यपि ।।

दमनेन कथं लोकैः पूज्यंते नाकनायकाः ।। १ ।।

दोलांदोलनमाहात्म्यं रथयात्रामहोत्सवम् ।।

कथयस्वामलं प्राज्ञ यादवांभोजभास्कर ।। २ ।।। ।।

।। श्रीकृष्ण उवाच ।। ।।

पार्थार्थिजनसद्वृक्ष क्षांतिधाम धरापते ।।

यदेतद्भवता पृष्टं तच्छृणुष्व वदामि ते ।। ३४

पुरा सुराणामावासे मंदरे चारुकंदरे ।।

गन्धाधारी कुलालीढो जातो दमनकस्तरुः ।। ४ ।।

तस्य गंधमनाघ्रेयमाघ्राय सुरयोषितः ।।

मदनोन्मादवशगा गायंति च हसंति च ।।५।।

ऋषयो नियमांस्त्यक्त्वा प्राद्रवंत गृहान्प्रति ।।

न वेदाध्ययने ध्याने रतिस्तेषां बभूव ह ।६।।

अपराधाद्विघटितं यद्बभूव प्रिये परम्।।

मानसं मानिनीनां तु पुनर्गंधेन संधितम् ।। ७ ।।

गंधेनाकुलितं लोकं दृष्ट्वा ब्रह्मा तमब्रवीत् ।।

शमनिर्मितया वाचा रोषात्प्रस्फुरिताधरः ।। ८ ।। ।।

।। ब्रह्मोवाच ।। ।।

जातस्त्वं लोकदमनान्नूनं दमनको मया ।।

जगद्वा घूर्णसे कस्मात्कर्म नैतत्तवोचितम् ।। ९ ।।

यत्संतस्त्वनुमन्यंते सर्वा तिशयवर्जितम् ।।

तत्सेवेत नरः कर्म यत्रोद्वेगो न धीमताम् ।। 4.133.१० ।।

एकस्याप्यपकारं यः करोति स नराधमः ।।

बहूनामपकाराय सप्रवृतः किमुच्यते ।। ११ ।।

दृष्टार्थबाधकं कर्म न कर्तव्यं कथंचन ।।

अदृष्टं प्रति संदेहः सोस्माभिरनुमीयते ।। १२ ।।

ततः स्वयं प्रभजति दैवे पित्र्ये च कर्मणि ।।

भोगार्थे च त्रिभुवननिरादेयो भविष्यति ।। १३ ।।

।। दमनक उवाच ।। ।।

पुरुषादेवमारब्धं न क्रोधान्नार्थकार णात् ।।

स्वभाव एष मे ब्रह्मंस्त्वया सृष्टः पुरा विभो ।। १४ ।।

या यस्य जंतोः प्रकृतिः शुभा वा यदि वेतरा ।।

स तस्यामेव रमते दुष्कृते सुकृते तथा ।। १५ ।।

तत्स्वभावप्रवृत्तस्य यदि शापस्त्वया मम ।।

प्रदत्तः किं करोम्येतन्न कृत्यमपराध्यति ।ऽ। १६ ।।

युक्तियुक्तं वचः श्रुत्वा दमनेन समी रितम् ।।

प्रीतात्मा पद्मजः प्राह करोमि तव सत्प्रियम् ।। १७ ।।

वसंते सहकारोत्थमंजरीपिंजरे जने ।।

पुष्पिताशोकशोभाढ्ये वने पुंस्कोकिला कुले ।। १८ ।।

तस्मिन्काले सुरेशानां शिरांस्याक्रम्य लीलया ।।

स्थास्यसि त्वं दिनं चैकं यद्यस्य विहितं हितम् ।। १९ ।।

ये त्वामारोपयिष्यंति दानमानपुरस्सराः ।।

सुराणां ते भविष्यंति सदैव सुखिनो नराः ।। 4.133.२० ।।

सर्वदैव शिवस्येष्टा पुण्या पापभयापहा ।।

प्रसिद्धिं यास्यति मधौ दमनाख्या चतुर्दशी ।। २१ ।।

एवमुक्त्वा ययौ ब्रह्मा दमनो मंदरे गिरौ ।।

उवास वासिताशेषभुवनो गंधसम्पदा ।। २२ ।।

दिव्ये गिरौ गिरिसु तादयिताधिवासे रत्नांशुकच्छुरितकाञ्चनभूमिभागे ।।

शापं वरं च हृदये विनिवेश्य शंभोस्तत्रास्थितो दमनको दमितांतरात्मा ।। २३ ।।

।। श्रीकृष्ण उवाच ।। ।।

धर्मराज निबोधेदमांदोलकमहोत्सवम् ।।

प्रवृत्तनरनारीकं पञ्चमोच्चारसुन्दरम्।।२४।।

सानंदं नंदनवने आर्द्रया सहितो यथा ।।

विस्मयस्मेरनयनो बभ्रामोद्वांतसौरभः ।। २५ ।।

उन्मादयन्वने पुण्ये विद्याधरगणान्बहून् ।।

वसंतर्तौ नृत्यमानान्मुरासुरशतार्चितः ।। ।। २६ ।।

संतानपारिजातोत्थां बद्ध्वा स माधवीलताम् ।।

कश्चिदांदोलनं चक्रे समालिंग्य घनस्तनीम् ।। २७ ।।

गीतमांदोलकारूढस्तद्गायंत्यमर स्त्रियः ।।

येन चोत्पादयंति स्म मन्मथस्यापि मन्मथम् ।। २८ ।।

तं दृष्ट्वाष्टापदनिभा भवानी प्राह शंकरम् ।।

कौतुकं मे समुत्पन्नं पश्येमाः शंकर प्रभो ।। २९ ।।

आदोलकं मम कृते कारयस्व स्वलंकृतम् ।।

त्वया सहांदोलयेयं यथा चैते त्रिलोचन।।4.133.३०।।

तद्गौरीवचनं रम्यं श्रुत्वा गोवृषभध्वजः ।।

सद्दोलां कारयामास समाहूय महासुरान् ।।३१।।

स्तंभद्वयं रोपयित्वा इष्टापूर्तमयं दृढम् ।।

सत्यं चैवोपरिततं श्रेष्ठं काष्ठमकल्पयत् ।। ।।३२।।

वासुकिं दंडकस्थाने बद्ध्वा तांतवसप्रभम् ।।

तत्फणामंतरापीठं कृतवान्मणिमंडितम् ।। ३३ ।।

कृमिकार्पासकौशेयवस्त्रैः संवेष्टितं नवैः ।।

स्रग्दामालंबितप्रांतमणिमौक्तिकशेखरम्।।३४।।

रचयित्वा विचित्रां तां दोलां चैलाजिनोत्तराम् ।।

स सिद्धां सिद्धगुरवे गौरवेण न्यवेदयत् ।।३५।।

तत्रारूढस्तु यावत्स सौम्यसोमविभूषणः ।।

मंदरं दोलयामास पार्श्वस्थैः पार्षदैः सह ।।३६।।

वामपार्श्वे तु विजया दक्षिणेन जया भवेत् ।।

चामराक्रांतबाहू ते तेनाश्लिष्टे न्यवीजताम् ।। ३७ ।।

आदोलयंत्या पार्वत्या सहितं स गदाक्षरम् ।।

येन देवासुरस्त्रैणमासीदानंदनिर्भरम् ।। ३८ ।।

जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ।।

उच्छलत्तालवाद्यानि वादयंति स्म चारणाः ।। ३९ ।।

चेलुः कुलाचलाः सर्वे चुक्षुभुः सप्त सागराः ।।

ववुर्वाताः सनिर्घाता देवे दोलां समास्थिते ।। 4.133.४० ।।

आलोक्य व्याकुलं लोकं देवाः शक्रपुरोगमाः ।।

उपेत्य प्रणिपत्योचुः सर्वपापहरं परम् ।। ४१ ।।

उपारमस्व भगवन्भवतः क्रीडयानया ।।

जगद्व्यापद्यते देवे चलितः सागरश्च यत् ।। ४२ ।।

गीर्वाणगीर्भिः संहृष्टः शंकरो लोकशंकरः ।।

समुत्पपात दोलातः प्रहर्षोत्फुल्ललोचनः ।। ४३ ।।

उवाच वचनं पार्थ सुरसार्थस्य पश्यतः ।।

सानुकंपं सुललितं विस्फुटार्थपदाक्षरम् ।। ४४ ।।

श्रीमहादेव उवाच ।।

अद्य प्रभृति ये दोलाक्रीडां पुष्करिणीतटे ।।

वसंते कारयिष्यंति मंडिते त्रिदशांगणे ।। ४५ ।।

नेत्रपट्टापटच्छन्नां पद्मरागविभूषि ताम् ।।

आतपत्रेण संयुक्तां विन्यस्तकनकांडकाम् ।। ४६ ।।

विचित्राभरणाभाभिराभासितदिगंतराम् ।।

तारकाशांतचित्रांगपुष्पमालामनोर माम् ।। ४७ ।।

मालां विद्याधराक्रातां प्रांतरोपितदर्पणाम् ।।

छत्रचामरसंछन्नां यथा शक्त्याप्यलंकृताम् ।। ४८ ।।

अग्निकार्यं ततः कृत्वा क्षिप्त्वा चैव दिशां बलिम् ।।

तस्यामारोपयेद्देवमिष्टहृष्टजनावृतः ।। ४९ ।।

मूलमंत्रेण देवानां प्रोक्तं दोलाधिरोहणम् ।।

पार्श्वस्थो ब्राह्मणो विद्वान्पठेद्वा मंत्रमुत्तमम् ।। 4.133.५० ।।

गंभीरांतरनिर्घोषैर्ललनानां च निस्वनैः ।।

स्तुतिमंगलशब्दैश्च पुष्पधूपाधिवासिताम् ।। ५१ ।।

एतस्मिन्नन्तरे नारीं दोहनाय निकुट्टकाम् ।।

प्रवेशयेत्कुंकुमाढ्यां क्रीडावर्णप्रियैः सह ।। ५२ ।।

सुवर्णशृंगिणा प्रोक्तं स्मितदंतांशुकर्बुरम् ।।

लगमानं जलं चांगे कस्य न स्यात्सुखप्रदम् ।। ५३ ।।

जलसंक्लिन्नवसनो रशनादाममंडितः ।।

कम्बुग्रीवोल्लसन्सर्वो बभूव गणिकागणः ।। ५४ ।।

कुंकुमक्षोदतांबूलपुष्प मालाकुलो जनः ।।

तां विहाय जलक्रीडां नान्यस्यां विदधे मनः ।। ५५ ।।

पीतशीतजलाघात ताडितोऽपि जनः सुखम् ।।

मन्यते नियतः कोपि प्रभावोऽयमनंगजः ।। ५६ ।।

एवं ये तु गमिष्यंति नरा वर्त्मतया गतम् ।।

नीरुजस्ते भविष्यंति सुखिताः शरदां शतम् ।। ५७ ।।

पुत्रपौत्रसमा युक्ता धनधान्यसमायुताः ।।

विहृत्य सुखसंपत्तौ ततो यास्यंति मत्पुरम् ।। ५८ ।।

प्राप्ते वसंतसमये सुरसत्तमानामान्दोलनं सुरवराननुकुर्वते ये ।।

ते प्राप्नुवंति भुवि जन्मतरोः फलानि दुःखार्णवात्कुलशतान्यपि तारयंति ।। ५९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठि रसंवाद आन्दोलकविधिवर्णनं नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ।। १३३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 134

दमनकांदोलकरथयात्रामहोत्सववर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

रथयात्राविधानं ते कथ यामि युधिष्ठिर ।।

स्थिरो भूत्वा निबोधेदं त्वं हि मूर्तविदां वरः ।। १ ।।

चैत्रे त्रिनेत्रसंभूतमलयाख्यमहागिरौ ।।

प्रवहत्पवनध्वानप्रेंखोलितलताचये ।। २ ।।

एतस्मिन्नेव काले तु भ्रममाणो यदृच्छया ।।

नारदः शारदाकांताच्छिवलोके समाययौ ।। ३ ।।

दृष्ट्वापूर्वं शिवं शांतं सुरेशैः सर्वतो वृतम् ।।

प्रणम्योपाविशद्विप्रः पुरतः केशवेशयोः ।। ४ ।।

तमुपासीनमालक्ष्य भगवान्भगनेत्रहा ।।

पप्रच्छाच्छादितमनाः कुतश्चागम्यते पुनः ।। ५ ।।

।। श्रीनारद उवाच ।। ।।

शिव कामं च तं विद्धि दग्धं मा विबुधोत्तम ।।

वसंतो नाम कोऽप्येष कामस्य दयितः सखा ।। ६ ।।

मलयानिलयुक्तेन तेन विश्वं वशीकृतम् ।।

सहकारकरीन्द्रस्थं कृत्वा कोकिलडिंडिमम् ।। ७ ।।

पोषयामास विजयं मन्मथस्य पुरेपुरे ।।

शशांकशेखरः कोऽयं कोयं शंखगदाधरः ।। ८ ।।

कोयं च डिम्बो वा ब्रह्मा कामस्त्रिजगतां प्रभुः ।।

प्रायः क्रीडारतिर्लोको वसंतवचनात्पुनः ।। ९ ।।

ऊर्ध्वबाहुस्तु नर्नर्ति तालदत्तपदक्रमः ।।

व्यवसायं न गच्छंति ये संहृत्य वनांतरम् ।। 4.134.१० ।।

गायंतश्च परीहृष्टास्ते चाप्यायांति यांति च ।।

गोप्यसीमांतरगताः क्षेत्रस्थानस्य रक्षिणः ।। ११ ।।

तेऽपि गायंति नृत्यंति हसंति स्मरतारकाः ।।

करस्य ताडनेऽत्यर्थं मुरजो धुर्धरायते ।। १२ ।।

विटं पश्यंति कुलटाः प्रारब्धोचितपण्डिताः ।।

सुमनांसि सुसंगीतनृत्यवाद्यसुवादितम् ।। १३ ।।

एवमेतत्त्रिलोकेऽस्मिन्निति व्यवसितो जनः ।।

ललल्लम्बस्तनीं दृष्ट्वा जरा योषापि नृत्यति ।। १४ ।।

वसंतस्य प्रभावोऽयं कोऽप्यपूर्वो विजृंभते ।।

सरांस्यद्भुतपद्मानि प्रफुल्ला पुष्पवाटिकाः ।। १५ ।।

वृक्षाः पक्षिशताकीर्णा विजिघ्राणमुखाः सुराः ।।

विकंपवसनावालः पवनस्त्रिगुणात्मकः ।।१६।।

कृतः प्रत्यक्षसुमहान्वसंतो न जगत्त्रये ।।

अवजल्पमुखा बाला वृद्धास्तु विकलद्विजाः ।। १७ ।।

उभावपि प्रतप्येते पश्येदं कामचेष्टितम् ।।

पक्षिणां पक्षनिक्षेपैर्नद्यस्तुंगतरंगकैः ।। १८ ।।

पादपाः पल्लवशतैर्नृत्यंते च प्रहर्षिणः ।।

एतच्छ्रुत्वा तु वचनं नारदस्येन्दुशेखरः ।। १९ ।।

कौतुकाकुलितः शीघ्रमारुरोह रथं स्वकम् ।।

रथेन काञ्चनांगेन पतत्रिवरकेतनः ।। 4.134.२० ।।

प्रययौ पुण्डरीकाक्षः शंखचक्रगदाधरः ।।

पारावतप्रतीकाशं चतुर्वेदमयं रथम् ।। २१ ।।

आस्थाय प्रययौ हृष्टो ब्रह्मा ब्राह्मणसंस्तुतः ।।

मुनिभिश्चाप्सरोभिश्च यक्षरक्षोमहोरगैः ।। २२ ।।

वृतो रथेन प्रययौ भास्करो वारितस्करः ।।

शैलजोरुपताकेन रथेनादित्यवर्चसा ।। २३ ।।

कात्यायनी प्रचलिता पञ्चवक्त्रेण केतुना ।।

लंबोदरः करशतगृहीतकनकोत्पलः ।। २४ ।।

प्रयातः स्वरथारूढः कृतकर्णकुलाकुलः ।।

एवं देवः परिवृतो भगवान्गोवृषध्वजः ।। २५ ।।

रथारूढैरमूढात्मा मर्त्यलोकमवातरत् ।।

यावत्पश्यति देवेशस्तावत्सर्वं तदक्षरम् ।। २६ ।।

नारदेन यथैवोक्तस्तावत्सर्वं तदक्षरम् ।।

नारदेन यथैवोक्तं जगदानन्दनिर्भरम् ।। २७ ।।

देवैः सार्द्धं पशुपतिर्यावत्पश्यति विस्मितः ।।

तावत्तस्यैव हि गणाः परब्रह्मसमंजसम् ।। २८ ।।

गायंति केचित्सोत्कंठं लुठंत्यन्ये प्रहर्षिताः ।।

वादयंत्यपरे तुष्टा जहसुः केचिदुल्बणम् ।। २९ ।।

वादयंत्यन्यथा वाद्यं गायंत्यन्येन्यथा गणाः ।।

अन्येन्यथा प्रनृत्यंति चित्रं चैत्रस्य चेष्टितम् ।। 4.134.३० ।।

नीलोत्पलाभनयनैर्विलसत्प्रांततारकैः ।।

क्रीडारतिभिरारब्धमालापैश्च सुरैरपि ।। ३१ ।।

सुराणां क्षोभमालक्ष्य भगवान्गोवृषध्वजः ।।

चिन्तयामास सुमहान्कार्ययोगो ह्युपस्थितः ।। ३२ ।।

अनर्थमुत्थितं तद्वत्तद्विघाताय ये जनाः ।।

नयंते येऽतिमूर्खत्वादापदोऽभिभवंति तान् ।। ३३ ।।

वसंतः स्वामिभक्तत्वान्मान्यपुष्पाकरं यदा ।।

उन्मादाढ्यजनो रक्ष्यः कार्यं कार्यद्वयं मम ।। ३४ ।।

संचिंत्यैवं समानाय्य वसंतं प्राह शंकरः ।।

समानीतो मासमेकं स्थातव्यं भवता त्विह ।। ३५ ।।

सितपक्षः सहायोऽयं सर्वभूतसुखप्रदः ।।

भवत्यतिमहानन्दो विशेषेण दिवौकसाम् ।। ३६ ।।

यो यथा रथमारूढः समायातः समीक्षितुम् ।।

वर्षेवर्षे स तेनैव संस्थानेनागमिष्यति ।। ३७ ।।

कारयिष्यन्ति ये मर्त्या रथयात्रामहोत्सवम् ।।

ते दिव्यभोगभोक्तारो भविष्यन्ति निरामयाः ।। ३८ ।।

एवमाभाष्य भगवान्वसंतं च ततः सुरैः ।।

संस्तुतोऽथ नतश्चापि स्वस्थानमगमत्ततः ।। ३९ ।।

।। युधिष्ठिर उवाच ।। ।।

रथः किमात्मकः कार्यः कार्या यात्रा कथं भवेत् ।।

आरोपयेत्कथं देवान्रथे वद जगत्पते ।। 4.134.४० ।।

।। श्रीकृष्ण उवाच ।। ।।

सुविचित्रं चित्रतनुं श्रेष्ठकाष्ठमयं रथम् ।।

सुदृढाक्षं दृढाबंधं सुचक्ररथकूबरम् ।। ४१ ।।

अथ वा वंशविहितं नेत्रपट्टपटावृतम् ।।

तारकाशतचित्रांशं पुष्पमालाविभूषितम् ।। ४२ ।।

सितगोयुगसंयुक्तं पञ्चबाणपताकिनम् ।।

छत्रचामरशोभाढ्यं स्थापयेद्भवनाङ्गणे ।। ४३ ।।

वैश्वदेवं ततः कुर्याद्ग्रहयज्ञविधानतः ।।

चतुश्चरणकैर्मंत्रैर्विप्र शान्तिकपौष्टिकैः ।। ४४ ।।

आरोपयेद्रथे देवं मूलमंत्रेण मंत्रवित् ।।

वेदोक्तैरथपौराणैर्गंधधूपाधिवासिते ।। ४५ ।।

रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।।

अभीषूणां महिमानं पनायत मनुः पश्चादनुयच्छन्ति रश्मयः।।

शंखदुंदुभिनिर्घोषैः काहलानां च निःस्वनैः।।

हस्तदीपैः प्रज्वलितैस्तालकोलाहा लेन च ।। ४७ ।।

दोषासुखेन रमितं प्रेषणीयपुरःसरम् ।।

महतोत्सवभारेण भ्रामयेत्परितो रथम्।।४८।।

तांबूलानि रथे दद्यात्पुष्पमालायुतानि च ।।

रथवोढ्रं प्रदद्यात्तु प्रेक्षकेभ्योऽप्यवारितम् ।। ४९ ।।

यस्ययस्य गृहेभ्येति प्रेरितो रथिना रथः।।

तस्य तस्य भवेत्पूज्यः पुष्पधूपाक्षतादिभिः ।।। ।। 4.134.५० ।।

इतरोऽपि भवेत्पूज्यः संप्राप्ते गृहिणां गृहे ।।

किं पुनर्जगतां भर्ता सर्वलोकमहेश्वरः ।। ५१ ।।

कदाचिदक्षभङ्गः स्याद्ध्वजभंगोऽथ वा भवेत्।।

भज्येत वा युगमध्ये नहनं त्रुट्यते यदि ।। ५२ ।।

ब्राह्मणांस्तत्र संपूज्य होमः कार्यो विजानता ।।

तिलैराज्येन पयसा येन संपद्यते सुखम् ।। ।। ५३ ।।

प्रेरणीप्रेक्षणीयैश्च भ्रामयित्वा रथोत्तमम् ।।

स्थापयेन्नगरस्यांतस्तत्र कुर्यान्महोत्सवम् ।। ५४ ।।

दोलाग्राहैश्चक्रदोलाभ्रमैर्डमरकैस्तथा ।।

विद्याधरीणां चरितमितराभिः प्रकाश्यते ।। ५५ ।।

एवं यः कुरुते पार्थ सुखदं तु रथोत्सवम् ।।

तथैव पूजयेत्पार्थ उपवासपरो नरः ।। ५६ ।।।

सर्वव्याधिविहीनश्च सुखी स्याच्छरदां शतम् ।।

यः कारयित्वा सौवर्णं रौप्यं वा रथमुत्तमम् ।। ५७ ।।

वर्णकैश्चित्रितं दिव्यं दारुजं वा सुशोभनम्।।

स्वहस्तरचितं यश्च भास्कराय निवेदयेत् ।। ५८ ।।

स मर्त्यलोके सुचिरात्सुखानि च समश्नुते ।।

पूर्वोक्तविधिना भानुं भ्रामयित्वा रथे स्थितम् ।। ।। ५९ ।।

स्थापयेत्सर्वभागे तु गेयं वाद्यपुरःसरम् ।।

दक्षिणे तु दिशो भागे द्वितीयेऽह्नि नयेद्रथम् ।। 4.134.६० ।।

तत्रापि जागरं कुर्याद्वाद्यगीतसुमं गलैः ।।

अपरायां तृतीयेऽह्नि स्थापयेद्रथमुत्तमम् ।। ६१ ।।

प्रेक्षणीयविनोदेन तां रात्रिमतिवाहयेत् ।।

स्थापयेदुत्तरस्यां तु चतुर्थे दिवसे रथम् ।। ।।६२ ।।

महायात्रां प्रकुर्वीत तत्राप्यद्भुतचेष्टितम् ।।

पंचमे दिवसे प्राप्ते नगरांतस्थितं रविम् ।। ६३

पूजयित्वा विधानेन षष्ठेऽह्नि भवनं नयेत् ।।

रथयात्राप्रसंगेन कथिता रथसप्तमी ।। ६४ ।।

सर्वपापहरा पुण्या किञ्चिदन्यन्निबोध मे ।।

गौरी पूज्या तृतीयायां चतुर्थ्यां विघ्ननायकः ।। ६५ ।।

पञ्चम्यां पंकजकरां पूजयेद्वा सरस्वतीम् ।।

षष्ठ्यां शक्तिधरं स्कन्दं सप्तम्यां तु दिवाकरम् ।। ६६ ।।

अष्टम्यां च चतुर्दश्यां सम्पूज्यः शशिशेखरः ।।

नवम्यां पूजयेच्चण्डीं चामुण्डां मुण्डमालिनीम् ।। ६७ ।।

दशम्यामृषयः शांताः सर्वे व्यासपुरस्सराः ।।

एकादश्यां चक्रपाणिं द्वादश्यां वा समर्चयेत्।।६८।।

त्रयोदश्यां त्रिनेत्रोत्थवह्निना शांतविग्रहम्।।

साधारणी तु सर्वेषां पौर्णमासी तिथिः स्मृता।।६९।।

आंदोलके मदनके रथयात्रासु चैव हि।।

व्युत्क्रमेणापि कर्तव्या तिथीनां कार्यगौरवात्।।

यात्रा वासंतिकी चेयं चित्तस्वास्थ्यकरी परा।।4.134.७०।।

सम्यक्सुधाधवलिते भवने सुराणामंतस्सुवस्त्रमणिमौक्तिकदानचित्रे ।।

तांबूलकक्रमुकवारविलासिनीभिर्यात्रां विधाय भवतीह स भारतेशः ।। ।। ७१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दमनकांदोलकरथयात्रामहोत्सववर्णनं नाम चतुस्त्रिंशदुत्तरशततमो ऽध्यायः ।। १३४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 135

मदनमहोत्सववर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

गौरीं विवाह्य जग्राह हरः पाशुपतं व्रतम् ।।

उमापतिः पशुपतिर्ध्यानासक्तो बभूव ह ।। १ ।।

ब्रह्मादिभिः समामंत्र्य विबुधैः पुत्रलब्धये ।।

गौर्या मनोभिलषितपूरणाय प्रहर्षितैः ।। २ ।।

प्रहितः क्षोभणार्थाय समर्थ इति मन्मथः।।

ततो मारः स्मरः कामोप्याजगाम तमाश्रमम् ।। ३ ।।

रतिप्रीतिमदोन्मादवसंतश्रीसहायवान् ।।

निधानवारुणीदर्पशृंगारैः परिवारितः ।। ४ ।।

आम्राशोकवनोत्तंसो मालतीकृतशेखरः ।।

वीणामृदंगसंगीतकोकिलाशृंगदूतकः ।।५।।

झल्लरीवाद्यसंघुष्टभांडागारिकलेखकः ।।

पानमत्ताङ्गनारूढो हिन्दोलाश्चर्यमंत्रिमान् ।। ६ ।।

दक्षिणानिलगंधाढ्यः कटाक्षेक्षितवर्षवान् ।।

महाराजाधिराजो वा स्मरः प्राप्तो हरांतिकम् ।। ७ ।।

स पुष्पचापमाकृष्य मदनोन्मादनं शरम् ।।

चिक्षेप त्रिपुरघ्नाय समाधेर्भंगहेतवे ।। ८ ।।

बुद्ध्वा तं तस्य संकल्पं रुद्रः क्रोधाज्ज्वलन्रुषा ।।

ललाटाद्वह्निमसृजत्तृतीय नयनाद्धरः ।। ९ ।।

कामो विलोकितस्तेन भस्मीभूतश्च तत्क्षणात् ।।

दग्धं दृष्ट्वा स्मरं शोकाद्रतिप्रीती स्थिते सदा ।। 4.135.१० ।।

करुणं विलपंत्यौ ते सर्वमन्यद्दिशं गतम् ।।

ततः शोकार्तहृदया गौरी रुद्रमुवाच ह ।। ११ ।।

भगवन्नस्मदर्थे तं कामं निर्दग्धवानसि ।।

तेनैते पश्य नार्यौ ते कामस्य रुदितः कथम् ।। १२ ।।

कुरु प्रसादं देवेश रतिप्रीत्ये वृषध्वज ।।

संजीवय स्मरं शंभो मूर्तिमंतं पुनः कुरु ।। १३ ।।

तच्छ्रुत्वा तु महादेवो हृष्टः प्रोवाच पार्वतीम् ।।

उपप्लुतं जगत्सर्वं मन्मथेन शरीरिणा ।। १४ ।।

मया दग्धस्य कामस्य पुनरागमनं कुतः ।।

किं तु ते मानयन्वाक्यं करोमि सफलं प्रिये।।१५ ।।

अस्मिन्वसंतसमये शुक्लपक्षे त्रयोदशी ।।

अस्यां मनोभवो देवि भविष्यति शरीरवान् ।। १६ ।।

एतेन बीजभूतेन जगद्वर्णिष्यतेऽखिलम् ।।

एवं वरमिमं दत्त्वा मन्मथाय युधिष्ठिर ।।१७।।

जगाम हिमवच्छृंगं कैलासं पार्वतीप्रियः ।।

तदेतत्सर्वमाख्यातं स्मरस्य चरितं नृप ।। १८ ।।

पूजाविधानमपरं कथयामि शृणुण्व तत् ।।

अस्यां स्नात्वा त्रयोदश्यामशोकाख्यं नगं लिखेत् ।। १९ ।।

सिन्दूरजनितैरंगैरतिप्रीति समन्वितम् ।

कामदेवं वसंतं च वाजिवक्त्रं झषध्वजम् ।। 4.135.२० ।।

सौवर्णं वा महाराज वार्क्षं चित्रमथापि वा ।।

लीलाविलासगमनं गर्वितं साप्स रोगणम् ।।२१।।

गन्धर्वगीतवादित्रप्रेक्षणीयसमाकुलम् ।।

नंद्यावर्तिरतिक्रीडाप्रीतिविद्याधरैर्युतम् ।।२२।।

मध्याह्ने भोजयेद्भक्त्या भक्ष्यैर्धूपैःस्रगंबरैः।।

मंत्रेणानेन कौंतेय नरो नार्या समन्वितः ।। २३ ।।

नमो वामाय कामाय देवदेवाय मूर्तये ।।

ब्रह्मविष्णुशिवेन्द्राणां मनःक्षोभकराय वै ।। २४ ।।

कृत्वैवमर्चयित्वा तु देवदेवमनोभवम् ।।

ततस्तस्याग्रतो देया मोदका मुखमोदकाः ।। २५ ।।

नानाप्रकारान्भक्ष्यांश्च कामो मे प्रीयतामिति ।।

ततो विसर्जयेद्विप्रान्दत्त्वा युग्मं सदक्षिणम् ।। २६ ।।

स्वपतिं पूजयेन्नारी वस्त्रमालाविभूषणैः ।।

कामोऽयमिति संचिंत्य प्रहृष्टेनांतरात्मना ।।२७।।

मन्मथायतने तस्मिन्यजमानः सुहृद्वृतः ।।

रात्रौ जागरणं कुर्यात्सुखरात्रिर्यथा भवेत् ।। २८ ।।

कर्पूरकुंकुमक्षोदगंधतांबूलसर्जनैः ।।

नानाप्रकारैर्भक्ष्यैश्च कुर्याद्रात्रौ महोत्सवम् ।। २९ ।।

दीपप्रज्वालनैर्नृत्यैः प्रेक्षणैः प्रेक्षणोत्सवैः ।।

एवं यः कुरुते पार्थ वर्षेवर्षे महोत्सवम् ।। 4.135.३० ।।

वसंतसमये प्राप्ते हृष्टस्तुष्टो नृपः पुरे ।।

तस्य संवत्सरं यावल्लोको रोगैर्विमुच्यते ।। ३१ ।।

सुभिक्षं क्षेममारोग्यं यशः श्रीः सौख्यमुत्तमम् ।।

कामवर्षी च पर्जन्यस्तस्मिन्राष्ट्रे प्रजायते ।। ३२ ।।

तुष्यते तु भृशं देवो द्वादशार्द्धार्द्धलोचनः ।।

तथा कामश्च विष्णुश्च वसंतश्च प्रजापतिः ।। ३३।।

चन्द्रसूर्यादिका सर्वे ग्रहा ब्रह्मर्षयस्तथा ।।

सर्वेऽपि तस्य तुष्यंति यक्षगंधर्वदानवाः ।। ३४ ।।

असुरा यातुधानाश्च सुपर्णाः पतगा नगाः ।।

तुष्टाः प्रयच्छंति सुखं तस्य कर्तुर्न संशयः ।। ३५ ।।

चैत्रोत्सवे सकललोकमनोनिवासं कामं वसंतमलयाद्रिमरुत्सहायम् ।।

रत्या सहार्च्य पुरुषः प्रवरा च योषित्सौभाग्यरूपसुतसौख्ययुता सदा स्यात् ।। ३६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर रसंवादे मदनमहोत्सववर्णनं नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः ।। १३५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 136

भूतमात्र्युत्सववर्णनम्

।। युधिष्ठिर उवाच ।। ।।

भूतमातेति संहृष्टे ग्रामेग्रामे पुरेपुरे ।।

गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति ।। १ ।।

उन्मत्तवत्प्रलपति क्षितौ पतति मत्तवत् ।।

क्रुद्धवद्धावति पुरान्मत्तवत्कर्षते बहिः ।। २ ।।

मुखांगभंगान्कुरुते लोके वातगृहीतवत् ।।

भूतवद्भस्मगात्रं तु कर्दमानवगाहते ।। ३ ।।

किमेष शास्त्रनिर्दिष्टो मार्गः किमुत लौकिकः ।।

मुह्यते मे मनः कृष्ण त्वं तु वक्तुमिहार्हसि ।। ४ ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु पार्थ प्रवक्ष्यामि यत्ते किञ्चिन्मनोगतम् ।।

आस्तिकः श्रद्दधानश्च भवतीति मतिर्मम ।। ५ ।।

पार्वत्या सहितः पार्थ मन्दरे चारुकन्दरे ।।

क्रीडन्नास्ते मुदा युक्तो दिव्यक्रीडनकैर्हरः ।। ६ ।।

हंसोन्नतगतिं चारुकुम्भभ्राजिकुचद्वयम् ।।

सिञ्जत्सद्रशनां हृष्टां दृष्ट्वा गौरीं जगद्गुरुः ।। ७ ।।

दग्धकामोऽपि च हरः संदीप्तमदनोऽभवत् ।।

निःसृतां कामयामास महार्हशयने शिवः ।। ८ ।।

रतस्थयोस्तयोर्जातं दिव्यवर्षशतं यदा ।।

तदा देवीसमुच्छ्रायनिरोधान्निर्गता बहिः।।९।।

मूत्रोदकात्समुत्तस्थौ नारी निर्दारितोदरा ।।

कृष्णा करालवदना पिंगाक्षा मुक्तमूर्द्धजा ।। 4.136.१० ।।

कपालमालाभरणा बद्धपिंडोर्ध्वपिंडिका ।।

खट्वाङ्गकं कालधरा मुद्राङ्कितकरा शिवा ।। ११ ।।

व्याघ्रचर्मांबरधरा रणत्किंकिणिमेखला ।।

डमड्डमड्डमरुका फूत्कारापूरितांबरा ।। १२ ।।।

तस्याः पार्श्वानुजाश्चान्या गीतवाद्यलयानुगाः ।।

उत्तालतालमबला नृत्यंति च हसंति च ।। १३ ।।

कपालखट्वाङ्गधरा गजचर्मावगुण्ठिताः ।।

तथैव शंकराज्जातस्तद्रूपाभरणः पुमान् ।। १४ ।।

अनुगम्यमानो बहुभिर्भूतैरतिभयंकरैः ।।

सिंहशार्दूलवदनै रदनोल्लिखितांबरैः ।। १५ ।।

एकीभूतैः क्षणेनैव तौ भवानीभवोद्भवौ ।।

दृष्ट्वा हृष्टमना देवः प्राह देवीं सुविस्मिताम् ।। १६ ।।

कल्याणि पश्य पश्यैतौ मत्त्वदङ्गसमुद्भवौ ।।

बीभत्साद्भुतशृंगारवरायुधविधारिणौ ।। १७ ।।

भ्रातृभांडौ यथा देवि तद्वदेतौ मतौ मम ।।

नृनार्योरंतरं किञ्चित्सादृश्यात्प्रतिभासयेत् ।। १८ ।।

भ्रातृभांडा भूतमाता तथैवोदकसेविका ।।

संज्ञात्रयं तयोः कृत्वा ततः प्रादाद्वरं हरः ।। १९ ।।

भुक्त्वार्होपगतां चैतां जरत्तरुतले स्थिताम् ।।

सेवयिष्यंति ये भक्त्या जलसंपूर्णकंडुकैः ।। 4.136.२० ।।

चन्दनेन समालभ्य पुष्पधूपैरथार्च्य ताम् ।।

भोजयेत्क्षिप्रया चैव कृशरापूपपायसैः ।। २१ ।।

य एवं कुरुते देवि भक्तिभावेन भावितः ।।

स पुत्रपशुवृद्धिं च शरीरारोग्यमाप्नुयात् ।। २२ ।।

न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ।।

पीडां कुर्वंति शिशवो यांति वृद्धिं निरामयाः ।। २३ ।।

।। युधिष्ठिर उवाच ।। ।।

कदा पूजा प्रकर्तव्या भूतमातुः सुखार्थिभिः ।।

पुरुषैः पुरुषव्याघ्र यत्तन्मे वक्तुमर्हसि ।। २४ ।।

।। श्रीकृष्ण उवाच ।। ।।

सर्वत्रैषा भगवती बालानां हितकारिणी ।।

नामभेदैः क्रियाभेदैः कालभेदैश्च पूज्यते ।। २५ ।।

प्रतिपत्प्रभृति ज्येष्ठे यावत्पंचदशी तिथिः ।।

तावत्पूजा प्रकर्तव्या प्रेरणैः प्रेक्षणीयकैः ।। २६ ।।

विकर्मफलनिर्देशः पांडवानां विडंबनम्।।

प्रदृश्यंते हास्यपरैर्नरैरद्भुतचेष्टितैः ।। २७ ।।

विश्वास्यधनलोभेन संध्यायां निहतः पथि ।।

आरोहणं च शूलाग्रे न पश्यंतं हि पश्यति ।। २८ ।।

दृष्टो भवद्भिः संहृष्टः परपारावमर्शकः ।।

छित्त्वा स्वहस्तैर्यद्दत्तो विभुना मुख्यमोदकः ।। २९ ।।

शीर्णसूक्ष्मेण पत्रेण बाला मालानुमोदिताः ।।

मुष्कभुग्रासमारूढो मुखं कृत्वा च पश्चिमे ।। 4.136.३० ।।

हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम् ।।

करपत्रैर्विदार्यंतमुच्छलच्छोणितच्छटम्।।३१।।

चरैः किलासैः संप्राप्तः सर्वोद्वेगकरः परम् ।।

दंडप्रहाराभिहतो नीयते दंडपाशिकैः ।। ३२ ।।

प्रेक्षकैर्वेष्टितः स्तेनो रटत्येष विमोहितः ।।

संयम्य नीयतेयं तु मूर्खः क्रौर्याविलेक्षणः ।। ३३ ।।

सितकेशं सितश्मश्रुसितांबरधरं द्विजम् ।।

वटचेष्टाचपेटाभिर्हन्यमानं न पश्यत ।। ३४ ।।

गृहान्निष्क्रम्यतां रंडा वृद्धो भूत्वाप्यसौ स्त्रियाः ।।

स्वस्या असौ न कुरुते मूढो भरणपोषणम् ।। ३५ ।।

भैरवाभरणोत्ताला व्यालयज्ञोपवीतिनः ।।

प्रदत्त्वाताण्डवपदान्पश्यध्वं ध्वांतदीपकान् ।। ३६ ।।

निर्वेदकोऽस्य हृदये न किंचिदपि तिष्ठति ।।

गृहीतं यदनेनेदं बालेनापि महाव्रतम् ।। ३७ ।।

रक्तदृक्काककृष्णांगं शबरं किं न पश्यत ।।

तरुकोटरांतरगतांश्छित्वा च शुकशावकान् ।। ३८ ।।

बहुभिः कोष्ठकीकृत्य शरौघैः शकलीकृतम् ।।

विमुक्तढक्काहंकारसुप्रहारं निरीक्षत ।। ३९ ।।

इमां कृष्णार्द्धवदनां गृहीतां सिंदुरार्चिताम् ।।

विमुक्तकेशां नृत्यंतीं पश्यध्वं योगिनीमिव ।। 4.136.४० ।।

गंभीरतूर्यध्वनिना प्रबुद्धां वृत्ततांडवाम् ।।

एवं प्रेक्षणकं कृत्वा नयेत्वृक्षतले च ताम् ।।४१।।

एवं कृते न दारिद्र्यं न च दुःखं भवेन्नृणाम् ।। ४२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भूतमात्रुत्सववर्णनं नाम षटत्रिंशदुत्तरशततमोऽध्यायः ।। १३६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 137

रक्षाबन्धनवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि बलिरक्षाविधिं नृप ।।

तं शृण्वेकाग्रमनसा समासाद्गदितं मया ।। १ ।।

पुरा देवासुरे युद्धे दानवा सुरनिर्जिताः ।।

शुक्रं बलिं पुरः कृत्वा ययुः शुक्र उवाच तम् ।।२।।

।। शक्र उवाच ।। ।।

न विषादस्त्वया कार्यः कार्याणां गतिरीदृशी।।

दैवाद्भवंति भूतानां काले जयपराजयाः।। ३ ।।

संधानं सह शक्रेण क्रियतामयनद्वयम ।।

अजेयः सर्वशत्रूणां कृतः शच्या शचीपतिः।। ४ ।।

रक्षाबंधप्रभावेन दानवेन्द्रो जितो महान् ।।

वर्षमेकं प्रतीक्षस्व ततः श्रेयो भविष्यति ।। ५ ।।

भार्गवेणैवमुक्तास्ते दानवा विगतज्वराः ।।

तस्थुः कालं प्रतीक्षन्तो यथोक्तं गुरुणा तथा ।।६।।

एष प्रभावो रक्षायाः कथितस्ते युधिष्ठिर ।।

जयदः सुखदश्चैव पुत्रारोग्यधनप्रदः ।।७।।

।। युधिष्ठिर उवाच ।। ।।

क्रियते केन विधिना रक्षाबंधः सुरोत्तम ।।

कस्यां तिथौ कदा देव एतन्मे वक्तुमर्हसि ।। ८ ।।

यथा यथा हि भगवान्विचित्राणि प्रभाषते ।।

तथा तथा न मे तृप्तिर्बह्वर्थाः शृण्वतः कथाः ।। ९ ।।

।। श्रीकृष्ण उवाच ।। ।।

घनावृतेऽम्बरे पार्थ शाद्वले धरणीतले ।।

संप्राप्ते श्रावणे चैव पौर्णमास्यां दिनोदये ।। 4.137.१० ।।

स्नानं कुर्वीत मतिमाञ्श्रुतिस्मृतिविधानत ।।

ततो देवान्पितॄंश्चैव तर्पयेत्परमांभसा ।। ११ ।।

उपाकर्मादिवेदोक्तमृषीणां चैव तर्पणम् ।।

कुर्युश्च ब्राह्मणाः श्राद्धं देवमुद्दिश्य शक्तितः ।। १२ ।।

शूद्राणां मंत्रसहितं स्नानं दानं च शस्यते ।। १३ ।।

ततोपराह्नसमये रक्षापोटलिकाः शुभाः ।।

कारयेच्चाक्षतैः शस्तैः सिद्धार्थैर्हेमभूषिताः ।। १४ ।।

वस्त्रैर्विचित्रैः कार्पासैः क्षौमैर्वा मलवर्जितैः ।।

विचित्रतरैर्ग्रथिताः स्थापयेद्भा जनोपरि ।। १५ ।।

कार्या गृहस्य रक्षा गोमयरहितैः सुवृत्तकुंडूकैः ।।

दूर्वावर्णकसहितैः सकलदुष्कृतोपशांतये ।। १६ ।।

उपलिप्तगृहमध्ये चतुष्कोपरि न्यसेच्छुभं पीठम् ।।

तत्रोपविशेद्राजा सामात्यः सपुरोहितः ससुहृत् ।। १७ ।।

वेश्याजनेनसहितो मंगलशब्दैः सुहसितैश्चिह्नैः।।

रक्षाबंधः कार्यः शांतिध्वनिना नरेन्द्रस्य।।१८।।

देवद्विजातिशस्ता सुस्त्रीरर्घ्यैः समर्चयेत्प्रथमम्।।

तदनु पुरोधा नृपतिं रक्षां बध्नीत मंत्रेण।।१९।।

येन बद्धो बली राजा दानवेन्द्रो महाबलः ।

तेन त्वामभिबध्नामि रक्षे मा चल मा चल । । 4.137.२०

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मानवैः ।

कर्तव्यो रक्षिकाबन्धो द्विजान्सम्पूज्य भक्तितः । । २१

अनेन विधिना यस्तु रक्षिकाबन्धमाचरेत् ।

स सर्वदोषरहितः सुखी सम्वत्सरं भवेत् । । २२

यः श्रावणे स्रवति शीतजले नरेन्द्र रक्षाविधानविधिमाचरते मनुष्यः ।

आस्ते सुखेन परमेण च सर्वमेकः पुत्रप्रपौत्रसहितः ससुहृद्वृतश्च । । २३

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे

श्रावणपूर्णिमारक्षाबन्धनविधिवर्णनं नाम सप्तत्रिंशदधिकशततमोऽध्यायः । १३७

पर्व ४ (उत्तरपर्व) — Adhyāya 138

महानवमीव्रतवर्णनम्

श्रीकृष्ण उवाच

पुण्या महानवम्यस्ति तिथीनां प्रवरा तिथिः ।

सानुष्ठेया सुरैः सर्वैः प्रजापालैर्विशेषतः । । १

भवानुत्थापयेत्पार्थ सम्वत्सरसुखाय वै ।

भूतप्रेतपिशाचानां प्रीत्यर्थं चोत्सवाय वा । । २

युधिष्ठिर उवाच

कस्मात्कालात्प्रवृत्तेयं नवमी महशब्दयुक् ।

किमादावुपपन्नोऽस्ति भगवन्नवमीविधिः । । ३

यशोदागर्भसम्भूतेरुत यात्रा प्रवर्तते ।

उताहो पूर्वमेवासीत्कृतत्रेतायुगादिषु । । ४

यदस्यां प्राणिनः केचिन्मन्यन्ते घातयन्ति च ।

हतानां प्राणिनां तेषां का गतिः पारलौकिकी । । ५

स्वयं घ्नतां घातयतामनुमोदयतां तथा ।

एतन्मे संशयं पूर्वं वक्तुमर्हसि केशव । । ६

श्रीकृष्ण उवाच

पार्थ या परमा शक्तिरनन्ता लोकविश्रुता ।

आद्या सर्वगता शुद्धा भावगम्या मनोहरा । । ७

आद्याष्टमी कलाकाली द्वितीया सर्वमङ्गला ।

माया कात्यायनी दुर्गा चामुण्डा शङ्करप्रिया । । ८

ध्यायन्ति यां योगरतां सा देवी परमेश्वरी ।

रूपभेदैर्नामभेदैर्भवानी पूज्यते शिवा । । ९

अष्टम्यां तु नवम्यां तु देवदानवराक्षसैः ।

गन्धर्वैरुरगैर्यज्ञैः पूज्यते किन्नरैर्नरैः । । 4.138.१०

अन्येष्वपि युगेष्वादौ सृष्टेः पूर्वं प्रदर्शिता ।

पूज्यतेयं पुरा देवी तेभ्यः पूर्वतरैः शुभैः । । ११

आश्वयुक्छुक्लपक्षे च याष्टमी मूलसंयुता ।

सा महानवमी नाम त्रैलोक्येऽपि सुदुर्लभा । । १२

कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या ।

मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता । । १३

अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् ।

पूजयित्याऽऽश्विने मासि विशोको जयति द्विषः । । १४

सन्तर्जयन्ती हुंकारैः खड्गादिभिरहर्निशम् ।

नवम्यां पूजिता देवी ददाति नवमं फलम् । । १५

सा पुण्या सा पवित्रा च सा धर्मसुखदायिनी ।

तस्मात्सदा पूजनीया चामुण्डामुण्डमालिनी । । १६

तस्यां यद्युपयुज्यन्ते प्राणिनो महिषादयः ।

सर्वे ते स्वर्गतिं यान्ति घ्नतां पापं न विद्यते । । १७

न तथा बलिदानेन पुष्पधूपविलेपनैः ।

यथा संतुष्यते लोके महिषैर्विन्ध्यवासिनी । । १८

उद्दिश्य दुर्गां हन्यन्ते विधानाद्येऽत्र जन्तवः ।

स्वर्गं ते यान्ति कौन्तेय घातयन्तोऽपि भक्तितः । । १९

भवानीप्राङ्गणे प्राणा येषां याता युधिष्ठिर ।

तेषां स्वर्गे ध्रुवं वासो वरास्तेऽप्सरसां प्रियाः । । 4.138.२०

मन्वन्तरेषु सर्वेषु कल्पेषु कुरुनन्दन ।

तेषु सर्वेषु चैवासीन्नवमीयं पुरार्चिता ।। २१ ।।

प्रसिद्धानादिनिधना वर्षेवर्षे युधिष्ठिर ।।

भूयोभूयोऽवतारैश्च भवानी पूज्यते सुरैः ।। २२ ।।

अवतीर्णा भुवि सदा नित्यं दैत्यनिबर्हिणी ।।

स्वर्गपातालमर्त्येषु करोति स्थितिपालनम् ।। २३ ।।

पुनश्चैषा महादेवी यशोदा गर्भसंभवा ।।

कंसासुरस्योत्तमाङ्गे पादं दत्त्वा गतायुषः ।। २४ ।।

ततः प्रभृति लोकेषु यशोदानंददायिनीम् ।।

विंध्याचले स्थापयित्वा पुनः पूजा प्रवर्तिता ।। २५ ।।

पूर्वप्रवृद्धोऽपि पुनर्भगिन्या महिमा कृतः ।।

भुवि सर्वोपकाराय सर्वोपद्रवशांतये ।। २६ ।।

एवं विंध्योपवासिन्या नवरात्रोपवासिनः ।।

एकरात्रेण नक्तेन स्वशक्त्याऽयाचितेन वा ।। २७ ।।

यजनैर्याजनैर्देवाः स्थानेस्थाने पुरेपुरे ।।

गृहेगृहे भक्तिपरे ग्रामेग्रामे वनेवने ।। २८ ।।

स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः ।।

वैश्यैः शूद्रैर्भक्तिचित्रैर्म्लेच्छैरन्यैश्च मानवैः ।। २९ ।।

स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृणु ।।

जयाभिलाषी नृपतिः प्रतिपत्प्रभृतिक्रमात् ।। 4.138.३० ।।

लोहाभिहारिकं कर्म कारयेद्यावदष्टमि ।।

प्रागुदक्प्रवणे देशे पताकाभिरलंकृतम् ।। ३१ ।।

मण्डपं कारयेद्दिव्यं नवसप्तकरं वरम्।।

आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् ।। ३२ ।।

मेखलात्रयसं युक्तं योन्यश्वत्थदलाभया ।।

राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च ।। ३३ ।।

आनीय मण्डपे तानि सर्वाण्येवाधिवासयेत् ।।

ततस्तु ब्राह्मणः स्नातः शुक्लांबरधरः शुचिः ।। ३४ ।।

ॐकाररपूर्वकैर्मन्त्रैस्तल्लिंगैर्जुहुयाद् घृतम्।।

लोहनामाभवत्पूर्वं दानवस्तु महाबलः ।। ३५ ।।

स देवैः समरे क्रुद्धैर्बहुधा शकलीकृतः ।।

तदंगसम्भवं लोहं यत्सर्वं दृश्यते क्षितौ ।। ३६ ।।

शस्त्रास्त्रमन्त्रैर्होतव्यं पायसं घृतसंयुतम् ।।

हुतशेषं तुरंगाणां गजानामुपहारयेत् ।। ३७ ।।

लोहाभिहारिकं कर्म तेनैतदृषिभिः स्मृतम् ।।

बद्धप्रतिशरव्यं च गजाश्वसमलंकृतम् ।। ३८ ।।

भ्रामयेन्नगरे नित्यं नंदिघोषपुरस्सरम् ।।

प्रत्यहं नृपतिः स्नात्वा संपूज्य पितृदेवताः ।। ३९ ।।

पूजयेद्राजचिह्नानि फलमाल्यानुलेपनैः ।।

हुतशेषं प्रदातव्यमौपनायनिके द्विजे ।। 4.138.४० ।।

तस्याभिहरणाद्राज्ञो विजयः समुदाहृतः ।।

पूजामंत्रान्प्रवक्ष्यामि पुराणोक्तानहं तव ।। ४१ ।।

यैः पूजिताः प्रयच्छन्ति कीर्तिमायुर् यशोबलम् ।।

यथांबुदश्छादयति शिवायेमां वसुन्धराम् ।। ४२ ।।

तथाच्छादय राजानं विजयारोग्यवृद्धये ।। (इति छत्रमन्त्रः) ।।

गन्धर्व कुलजातस्त्वं मा भूयाः कुलदूषकः ।। ४३ ।।

ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।।

प्रभावाच्च हुताशस्य वर्द्धस्व त्वं तुरंगम ।। ४४ ।।

तेजसा चैव सूर्यस्य मुनीनां तपसा यथा ।।

रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च।। ४५ ।।

स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ।।

यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ।। ४६ ।।

भूम्यर्थेनृतवादी च क्षत्रियश्च पराङ्मुखः ।।

सूर्याचन्द्रमसौ वायुः पावकश्च न यत्र वै ।। ४७ ।।

व्रजेच्च तां गतिं क्षिप्रं तच्च पापं भवेत्किल ।।

विकृतिं यदि गच्छेस्त्वं युद्धेध्वनि तुरंगम ।।

रिपून्विजित्य समरे सह भर्त्रा सुखी भव ।। ४८ ।। ।। ( इत्यश्वमंत्रः) ।। ।।

शक्रकेतो महावीर्य सुपर्णस्त्वय्युपस्थितः ।।

पतत्रिराड्वैनतेयस्तथा नारायणध्वजः ।। ४९ ।।

काश्यपेयोऽमृतो ज्ञेयो नागारिर्विष्णुवाहनः ।।

अप्रमेयो दुराधर्षो देवशत्रुनिषूदनः ।। 4.138.५० ।।

गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः ।।

शस्त्रवर्मायुधान्योधान्रक्षा स्मांश्च रिपून्दह ।। ५१ ।। ।। (इति ध्वजमंत्रः) ।। ।।

कुमुदैरावणौ पद्मः पुष्पदंतोऽथ वामनः ।।

सुप्रतीकोञ्जनो नील एतेऽष्टौ देवयोनयः ।।। ।। ५२ ।।

एतेषां पुत्रपौत्राश्च बलान्यष्टौ समाश्रिताः ।।

भद्रो मन्द्रो मृगश्चैव गजः संकीर्ण एव च ।।

वनेवने प्रसूतास्ते करियोनिं महागजाः।।५३।।

पांतु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ।।

भर्तारं रक्ष नागेन्द्र समयं प्रतिपालयन् ।। ५४ ।।

अवापुर्हि जयं युद्धे गमने स्वस्ति नो व्रज ।।

श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोनिलात्।।

स्थैर्यं मेरोर्जयं रुद्राद्यशो देवात्पुरंदरात् ।। ५५ ।।

युद्धे रक्षंतु नागास्त्वां दिशश्च सह दैवतैः ।।

अश्विनौ सह गंधर्वैः पांतु त्वां सर्वतः सदा ।। ५६ ।। ( इति हस्तिमंत्रः ।।)

हुतभुग्वसवो रुद्रा वायुः सोमो महर्षयः ।।

नागकिन्नरगन्धर्वयक्ष भूतगणाग्रहाः ।। ५७ ।।

प्रमथाश्च सहादित्यैर्भूतेशो मातृभिः सह ।।

शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ।। ५८ ।।

प्रदहंतु रिपून्सर्वान्राजा विजयमृच्छतु ।।

यानि प्रयुक्तान्यरिभिर्दूषणानि समंततः ।। ५९ ।।

एतानि परशत्रूणां हतानि तव तेजसा ।।

कालनेमिवधे युद्धे युद्धे त्रिपुर घातने ।। 4.138.६० ।।

हिरण्यकशिपोर्युद्धे युद्धे देवासुरे तथा ।।

शोभितासि तथैवाद्य शोभमानास्तु भूपतेः ।। ६१ ।।

नीलां श्वेतामिमां दृष्ट्वा नश्यंत्वद्य नृपारयः ।।

व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ।। ६२ ।।

सद्यः स्वस्था भवंति स्म त्वद्वातेनापमार्जिताः ।। ६३ ।।

पूतना रेवती नाम्ना कालरात्रीति या स्मृता ।।

दहंत्वाशु रिपून्सर्वान्पताके त्वामुपागताः ।। ६४ ।। (इति पताकामन्त्रः ।।)

असिश्च रिपुहा खड्गस्तीक्ष्णकर्मा दुरासदः ।।

श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ।। ६५ ।।

इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।।

नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।। ६६ ।।

हिरण्यं च शरीरं ते धाता देवो जनार्दनः ।।

पिता पितामहो देवस्त्वं मां पालय सर्वदा ।। ६७ ।। (इति खड्गमन्त्रः ।।)

शर्मप्रदस्त्वं समरे वर्म सर्वायसो ह्यसि ।।

रक्ष मां रक्षणीयोऽहं तव वर्मन्नमोऽस्तु ते ।। ६८ ।। ( इति वर्ममन्त्रः ।।) ।।

दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पन ।।

भव भूमिप सैन्यानां तथा विजयवर्द्धनः ।। ६९ ।।

यथा जीमूतघोषेण हृष्यंति वरवारणाः ।।

तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः ।।4.138.७०।।

यथा जीमूतशब्देन स्त्रीणां त्रासोऽभिजायते ।।

तथा च तव शब्देन त्रस्यंत्वस्मद्द्विषो रणे।।७१।। ( इति दुंदुभिमंत्रः ।। )

सर्वायुध महामात्र सर्वदेवारिसूदन ।।

चाप मां सर्वदा रक्ष साकं सायकसत्तमैः ।। ७२।। ( इति चापमन्त्रः।।)

पुण्यस्त्वं शङ्ख पुष्पाणां मङ्गलानां च मङ्गलम् ।।

विष्णुना विधृतो नित्यं मनःशांतिप्रदो भव ।। ७३ ।। ( इति शङ्खमन्त्रः ।।)

शशांककरसंकाश हिमडिंडीरपांडुर ।।

प्रोत्सारयाशु दुरितं चामरामरवल्लभ ।। ७४ ।। ( इति चामरमंत्रः ।।)

सर्वायुधानां प्रथमा निर्मिताऽसि पिनाकिना ।।

शूलायुधाद्विनिष्कृष्य कृत्वा मुष्टिपरिग्रहम् ।। ७५ ।।

चंडिकायाः प्रदत्तासि सर्वदुष्टनिबर्हिणि ।।

तथा विस्तारिता चासि देवानां प्रतिपादिता ।। ७६ ।।

सर्व सत्त्वांगभूतासि सर्वाशुभनिवारिणि ।।

छुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोऽस्तु ते ।। ७७ ।। ( इतिच्छुरिकामंत्रः ।।)

प्रोत्सारणाय दुष्टानां माधुसंग्रहणाय च ।।

ब्रह्मणा निर्मितश्चासि व्यवहारप्रसिद्धये ।।७८।।

यशो देहि सुखं देहि जयदो भव भूपतेः ।।

ताडयाशु रिपून्सर्वान्हेमदंड नमोस्तु ते ।। ७९ ।। ( इति कनकदण्डमन्त्रः ।।)

विजयो जयदो जेता रिपुघाती प्रियंकरः ।।

दुःखहा धर्मदः शांतः सर्वारिष्टविनाशनः ।।4.138.८०।।

एतेऽष्टौ संनिधौ यस्मात्तव सिंहा महाबला।।।।

तेन सिंहासनेति त्वं विप्रैर्वेदेषु गीयसे ।।८१।।

त्वयि स्थितः शिवः साक्षात्त्वयि शक्रसुरेश्वरः।।

त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः ।। ८२ ।।

नमस्ते सर्वतोभद्र भद्रदो भव भूपतेः ।।

त्रैलोक्यजयसर्वस्व सिंहासन नमोऽस्तु ते ।। ८३ ।। ( इति सिंहासनमंत्र ।।)

लोहाभिहारिकं कर्म कृत्वेदं मंत्रपूर्वकम्।।

फलनैवेद्यकुसुमैर्धूपदीपविलेपनैः ।।८४।।

अष्टम्यां धावनं कृत्वा पूर्वाह्ने स्नानमाचरेत्।। ।। ८५ ।।

( अथ गद्यम्)

दुर्गां कांचनमूर्तिं रौप्यां वा पैत्तलीं वार्क्षी चैत्रीं ताम्रीं वाधिभवतः कृत्वा दारुविचित्रतोरणविन्यस्तां शोभने स्थाने पुरतो विन्यस्तदृष्टां विचित्रगृहमध्यगां स्नातां कुंकुमचंदनगंधैश्चतुःसमैश्चीरपट्टैश्चर्चितगात्रां देवीं कुसुमैरभ्यर्च्य तां बहुभिः पुष्यमाणकीर्तिस्तैर्द्वि जननैर्जनितपरितोषैर्दिवान्वितो नरेद्रः स्वयं प्रयच्छेत्पुरोहितैः सार्धं बिल्वपत्रेणार्चनेन मंत्रेणानेन भगवत्यै ।। ( इति गद्यं सम्पूर्णं) ।।

जयंती मंगला काली भद्रकाली कपालिनी ।।

दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तु ते ।। ८६ ।।

अमृतोद्भवः श्रीवृक्षो महादेवीप्रियः सदा ।।

बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ।। ८७ ।।

दुर्गा संपूजनीया च तद्दिनाद्द्रोणपुष्पया ।।

सा चाभीष्टा सुरेशान्यास्तथा रूढव्रणायुतः ।।८८।।

ततः खड्गं नमस्कृत्य शत्रूणां मानमर्द्दनम्।।

इच्छेत्स्वविजयं राज्यं सुभिक्षं चात्मनो नृप ।। ८९ ।।

पुनः पुनः प्रणम्याथ ध्यायेच्च हृदये शिवाम् ।।

महिषघ्नीं बहुभुजां कुमारीं सिंहवाहिनीम् ।। 4.138.९० ।।

दानवांस्तर्जयती च खड्गोद्धतकरां शुभाम् ।।

घंटाक्षस्रग्धरां दुर्गां रणारंभे व्यवस्थिताम् ।। ९१ ।।

ततो जयजयाकारैः स्तवं कुर्यादिमं ततः ।। ९२।।

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।।

शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ।। ९३ ।।

कुंकुमेन समालब्धे चन्दनेन विलेपिते ।।

बिल्वपत्रकृतामाले दुर्गेऽहं शरणं गतः ।।९४।।

कृत्वैवमर्च्चां कौरव्य अष्टम्यां जागरं निशि ।।

नटनर्तनगीतैश्च कारयेत्तु महोत्सवम् ।।९५।।

एवं हृष्टैर्निशां नीत्वा प्रभाते चारुणोदये ।।

पातयेन्महिषान्मेषानग्रतो नतकन्धरान् ।।९६।।

शतं चापि शतार्धं वा तदर्द्धं वा यथेच्छया ।।

सुरासवभृतैः कुंभैस्तर्पयेत्परमेश्वरीम् ।। ९७ ।।

कापालिकेभ्यस्तद्देयं दासीदासजनैस्तथा ।।

विभज्य सर्वं कौंतेय सुहृत्संबंधिबंधुषु ।।९८।।

ततोपराह्णसमये नवम्यां स्यंदने स्थिताम् ।।

भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा ससैन्यवान् ।।९९।।

सहस्रैः पुरुषैर्वापि रथयुक्तैः सुशिक्षितैः ।।

शनैः शनैरधिकया दीप्त्या प्रज्वलदीपकैः ।।4.138.१००।।

आकृष्टखड्गैर्वीरैश्च धातुरक्तैर्गजैस्तथा ।।

नदद्भिः शंखपटहैर्नृत्यद्भि र्वारयौवतैः ।।

अलंकृताभिर्नारीभिर्बालकैः सुविभूषितैः ।।१०१।।

भूतेभ्यस्तु बलिं दद्यान्मंत्रेणानेन सामिषम् ।।

सरक्तं सजलं सान्नं गन्धपुष्पाक्ष तैर्युतम् ।।१ ०२।।

त्रींस्त्रीन्वारांस्त्रिशूलेन दिग्विदिक्षु क्षिपेद्बलिम् ।।

बलिं गृह्णन्त्विमं देवा आदित्या वसवस्तथा ।। १०३ ।।

मरुतोऽथाश्विनौ रुद्राः सुपर्णा पन्नगा ग्रहाः ।।

असुरा यातुधानाश्च मातरश्च पिशाचकाः ।। १०४

शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ।।

जृंभकाः सिद्धगन्धर्वा व्याला विद्याधरा धराः।।१०५।।

दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ।।

जगतां शांतिकर्तारो ब्रह्माद्याश्च महर्षयः ।।१ ०६।।

सविघ्नं मम पापं ते शाम्यंतु परिपन्थिनः।

सौम्या भवंतु तृप्ताश्च भूताः प्रेताः सुखावहाः ।।१ ०७।।

इत्येवं भ्रामयेद्राष्ट्रे दुर्गां देवी रथे स्थिताम्।।

नरयानेन वा पार्थ ततोऽविघ्नं समापयेत् ।।१ ०८।।

अथोत्पन्नेषु विप्रेषु भूतशांतिं समाचरेत् ।।

येन विघ्ना न जायंते यात्रा संपूर्णतां व्रजेत्।।१ ०९।।

एवं ये कुर्वते यात्रां राजानोऽन्येऽपि मानवाः।।

महानवम्यां नंदायां पुत्रका हृष्टमानसाः ।।4.138.११ ०।।

ते सर्वे पापनिर्मुक्ता यांति भागवतीं पुरीम् ।।१ ११।।

न तेषां शावको नाग्निर्न चौरा न विनायकाः ।।

विघ्नं कुर्वन्ति राजेन्द्र येषां तुष्टा महेश्वरी ।। ११२ ।।

नीरुजः सुखिनो भोगभोक्तारो भयवर्जिताः।।

भवंति भक्ताः पुरुषाः भगवत्याः किमुच्यते ।। ११३ ।।

इत्येष ते समाख्यातो दुर्गादेव्या महोत्सवः ।।

पठतां शृण्वतां चैव सर्वाशुभविनाशनः ।। ११४ ।।

शूलाग्रभिन्नमहिषासुरपृष्ठविष्टामृत्खातखड्गरुचिरांगदबाहुदण्डाम् ।।

अभ्यर्च्य पंचवदनानुगतां नवम्यां दुर्गां सुदुर्गगहनानि तरंति मर्त्याः ।। ११५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महानवमीव्रतवर्णनंनामाष्टत्रिंशदुत्तरशततमोऽध्यायः।।१३८।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 139

महेन्द्रध्वजमहोत्सववर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पुरा देवासुरे युद्धे ब्रह्माद्यैरमरैर्नृप ।।

विजयार्थं महेन्द्रस्य ध्वजयष्टिः प्रतिष्ठिता ।। १ ।।

मेरोरुपरि संस्थाप्य सिद्धविद्याधरोरगैः ।।

सा देवी ह्यर्चिता नित्यं भूषणैर्भूषिता स्वकैः ।। २ ।।

स्वच्छत्रघंटापिटकैः किंकिणीबद्धबुद्बुदैः ।।

तां दृष्ट्वा दानवा नष्टा भयादेव रणे हताः ।।

गता रसातलं दैत्या देवाश्चापि दिवि स्थिताः ।। ३ ।।

ततः प्रभृति तां दिव्यामिंद्रयष्टिं यजंति ते ।।

देवाः सर्वे गणाः सर्वे हृष्टास्तुष्टा युधिष्ठिर ।। ४ ।।

अतः स्वर्गं गतो राजा भूरिपुण्यवशाद्वसुः ।।

इन्द्रलोके महाभागो वसुदेवैः सुपूजितः ।। ५ ।।

तस्मै दता महेन्द्रेण वसुयष्टिः प्रगृह्यताम् ।।

पूजयित्वा महाभाग सर्वदैत्यापनुत्तये ।। ६ ।।

अवतार्य वर्षासमये सर्वैर्नृपतिभिः सह ।।

मह्यां संपूजयामास चक्रे चेंद्रमहं वसुः ।। ७।।

महेन मघवा प्रीतो ददौ पुण्यं वसोर्वरम् ।। ८ ।।

येषु देशेषु मनुजा भक्तिभावपुरःसराः ।।

पूजयिष्यंति वर्षान्ते मया दत्तं महाध्वजम् ।। ९ ।।

तेषु देशेषु मुदिताः प्रजा रोगविवर्जिताः ।।

प्रभूतान्ना धर्मयुक्ता वृषमेधा महोत्सवाः ।। 4.139.१० ।।

भविष्यंति सुवेषाश्च सुभाषाश्च सुभूषणाः ।। ११ ।।

श्रुत्वैतद्वचनं राजा वसुर्वसुमतां वरः ।।

विशेषेण ततश्चक्रे वर्षेवर्षे महोत्सवम् ।। १२ ।।

श्रवणे स्थापयेद्यष्टिं स्नानवस्त्रैः प्रपूजिताम् ।।

दैर्घ्येण विंशतिकरां सारदारुमयीं शुभाम् ।। १३ ।।

इन्द्रस्थाने पुरोद्दिष्टे इन्द्रमातृकसंज्ञके ।।

तस्मिन्यष्टिं नृपो भोक्ता स्वयं यत्नेन योजयेत् ।। १४ ।।

वस्त्रैर्विचित्रैः संवीतां पिटिकालंकृतां तथा ।।

पिटिकानां महाराज क्रमं च कथयामि ते ।। १५ ।।

प्रथमं लोकपालाख्यं चतुरस्रं सकर्णिकम् ।।

यमेन्द्रधनदैर्युक्तं वरुणेन समं ततः ।। १६ ।।

वृत्तं खंडास्रकं रम्यं द्वितीयं रक्तचूर्णितम् ।।

तृतीयं श्वेतकं चित्रमष्टास्र पिटकं शुभम् ।। १७ ।।

चतुर्थमिन्द्रगोपालवृत्तं मातृसमावृतम् ।।

पञ्चमं चाष्टकोणं तु शुक्लं धातुविचित्रितम् ।। १८ ।।

कृष्णकर्णिकया षष्ठं वृत्तं बुद्बुद शोभितम् ।।

सप्तमं चाष्टकोणं तु शुद्धं विद्याधरैर्युतम् ।। १९ ।।

अष्टमं पिटकं वृत्तं वरत्रासूत्रवेष्टितम् ।।

नवग्रहयुतं दीप्तं नवमं च सचंडिकम् ।। ।। 4.139.२० ।।

ब्रह्मविष्ण्वीशसहितं दशमं शिवसंस्थितम् ।।

कृष्णमेकादशं वृत्तं यमयुक्तं युधिष्ठिर ।। २१ ।।

छात्रं द्वादशमं शुक्लं ध्वजदीर्घं त्रयोदशम् ।।

सकुशं पुष्पस्रग्दामघंटाचामरचर्चितम् ।। २२ ।।

बन्धयित्वा चन्द्रपादै रज्जुभिः स्थूणिकां नरैः ।।

शनैरुत्थापयेत्पार्थ हुत्वा वैश्वानरं द्विजान् ।। २३ ।।

दक्षिणाभिश्च संपूज्य गुडपायसपूपकैः ।।

कुर्यान्महोत्सवं राजा दिनानि नव सप्त वा ।। २४ ।।

प्रेक्षणीयैर्महादानैर्नटैगीतैः कथानकैः ।।

चक्रदोलाधरोत्सर्गैः कर्केटैर्मल्लयोधनैः ।। २५ ।।

वेश्यांगनानरैर्हृष्टैर्द्यूतक्रीडामहोत्सवैः ।।

कर्पूरवस्त्रदानैश्च संमानैश्च परस्परम्।।। २६ ।।

रात्रौ प्रजागरः कार्यो रक्षणाय प्रयत्नतः ।।

काकोलूककपोतानां येन पातो न विद्यते ।। २७ ।।

काकाद्भवति दुर्भिक्षं कौशिकान्म्रियते नृपः ।।

कपोताच्च प्रजानाशस्ततो रक्षेत्सदोद्यतः ।। २८ ।।

शैथिल्याद्गिरिभिच्छक्रः प्रमादान्नीयते यदि ।।

तस्मिन्देशे समुत्थानमिन्द्रकेतोर्न कारयेत् ।। ।। २९ ।।

यावत्तु नीयते स्थानादन्यस्मादैंद्रतो ध्वजः ।। 4.139.३० ।।

इंद्रध्वजसमुत्थानं प्रमादान्न कृतं यदि ।।

ततो द्वादशमे वर्षे कर्तव्यं नांतरे पुनः ।। ३१ ।।

कथंचिद्यदि विघ्नः स्याद्विपाकं मे निबोध वै ।।

छत्रभंगे च्छत्रभंगो ध्वजे राष्ट्रं विनश्यति ।। ३२ ।।

मस्तके मन्त्रविच्छेदो मुखे मुख्यबलक्षयः ।।

बाहुदंडे वदेत्पीडां जठरे जाठरं भयम् ।। ३३ ।।

वरत्रायां मित्रनाशः स्थूणिकासु पदातयः ।।

क्षयं गच्छंति राजेन्द्र तस्माद्यत्नात्पुरंदरम् ।। ३४ ।।

उत्थाप्य पूजयेद्भक्त्या दिवारात्रमतंद्रितः ।।

प्रमादात्पतिते भग्ने गते चेन्द्रध्वजे द्विधा ।। ३५ ।।

सौवर्णं रौप्यकं कृत्वा पूर्णमुत्थापयेद्ध्वजम् ।।

शांतिकं पौष्टिकं कृत्वा द्विजेभ्योन्नं प्रदापयेत् ।। ३६ ।।

त्रपुसैः कर्कटीभिश्च नालिकेरैः कपित्थकैः ।।

बीजपूरैः सनारंगैर्भक्ष्यान्नैर्विविधैस्तथा ।। ३७ ।।

नैवेद्यादिभिरभ्यर्च्य मंत्रेणानेन तोषयेत् ।।

वज्रहस्त सुरारिघ्न बहुनेत्र पुरंदर ।।

क्षेमार्थं सर्वलोकस्य पूजेयं प्रतिगृह्यताम् ।। ३८ ।।

श्रवणाद्भरणीं यावत्पूजां कृत्वा विधानतः ।।

रात्रौ विसर्जयेच्छक्रं मंत्रेणानेन पांडव ।। ३९ ।।

सार्थं सुरासुरगणैः पुरंदरशतक्रतो ।।

उपहारं गृहीत्वैनं महेन्द्रध्वज गम्यताम्।। 4.139.४० ।।

एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर ।।

पर्जन्यः कामवर्षी स्यात्तस्मिन्राष्ट्रे न संशयः ।। ४१ ।।

ईतयो न प्रवर्तंते तस्मान्मृत्युकृतं भयम् ।।

विजित्य शत्रून्समरे वशे कृत्वा महीतलम् ।।

भुक्त्वा राज्यं चिरंकालमिन्द्रलोके महीयते ।।४२।।

राष्ट्रे पुरे च नगरे सुरराजकेतोर्यत्रोत्सवो नृपजनैः क्रियते समेत्य।।

दुष्टोपसर्गजनितं परचक्रजं वा तस्मिन्भयं भवति पार्थ न किञ्चिदेव ।। ४३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महेन्द्रध्वजमहोत्सववर्णनं नामैकोनचत्वारिंशदुतरशततमोऽध्यायः ।। १३९ ।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 140

दीपालिकोत्सववर्णनम्

श्रीकृष्ण उवाच ।। ।।

पुरा वामनरूपेण याचयित्वा धरामिमाम् ।।

बलियज्ञे हरिः सर्वं क्रांतवान्विक्रमैस्त्रिभिः ।। ।। १ ।।

इन्द्राय दत्तवान्राज्यं बलिं पातालवासिनम् ।।

कृत्वा दैत्यपतेर्वासमहोरात्रं पुनर्नृप ।। २ ।।

एकमेव हि भोगार्थं बलिराज्येतिचिह्नितम् ।।

सरहस्यं तदेतत्ते कथयामि नरोत्तम ।। ३ ।।

कार्त्तिके कृष्णपक्षस्य पञ्चदश्यां निशागमे ।।

यथेष्टचेष्टा दैत्यानां राज्यं तेषां महीतले ।। ४ ।। ।।

युधिष्ठिर उवाच ।। ।।

निश्शेषेण हृषीकेश कौमुदीं ब्रूहि मे प्रभो ।।

किमर्थं दीयते दानं तस्यां का देवता भवेत् ।। ५ ।।

किंस्वित्तस्यै भवेद्देयं केभ्यो देवं जनार्दन ।।

प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कात्र प्रकीर्तिता ।। ६ ।।

श्रीकृष्ण उवाच ।। ।।

कार्त्तिके कृष्णपक्षे च चतुर्दश्यां दिनोदये ।।

अवश्यमेव कर्तव्यं स्नानं नरकभीरुभिः ।। ७ ।।

अपामार्गपल्लवान्वा भ्राभयेन्मस्तकोपरि ।।

सीतालोष्टसमायुक्तसकंटकदलान्वितान् ।। ८ ।।

हर पापमपामार्ग भ्राम्यमाणं पुनःपुनः ।।

आपदं किल्बिषं चापि ममापहर सर्वशः ।।

अपामार्ग नमस्तेस्तु शरीरं मम शोधय ।। ९ ।। ( इत्यपामार्ग भ्रमण मन्त्रः)

ततश्च तर्पणं कार्यं धर्मराजस्य नामभिः ।।

यमाय धर्मराजाय मृत्यवे चांतकाय च ।।

वैवस्वताय कालाय सर्वभूतक्षयाय च ।।4.140.१ ०।।

नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।।

ततः प्रदोषसमये दीपान्दद्यान्मनोरमान् ।। ११ ।।

ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च ।।

कूटागारेषु चैत्येषु सभासु च नदीषु च ।। १२ ।।

प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च ।।

सिद्धार्हबुद्धचामुंडाभैरवायतनेषु च ।।

मंदुरासु विविक्तासु हस्तिशालासु चैव हि ।। १३ ।।

एवं प्रभातसमयेऽमावास्यायां नराधिप ।।

स्नात्वा देवान्पितॄन्भक्त्या संपूज्याथ प्रणम्य च ।। १४ ।।

कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः ।।

भोज्यैर्नानाविधैर्विप्रान्भोजयित्वा क्षमाप्य च ।। १५ ।।

ततोऽपराह्णसमये घोषयेन्नगरे नृपः ।।

अद्य राज्यं बलेर्लोका यथेष्टं मोद्यतामिति ।। १६ ।।

लोकश्चापि परे हृष्येत्सुधाधवलिताजिरे ।।

वृक्षचन्दनमालाढ्यैश्चर्चिते च गृहेगृहे ।। १७ ।।

द्यूतपानरतोदृप्तनरनारीमनोहरे ।।

नृत्यवादित्रसंघुष्टे सम्प्रज्वलितदीपके ।। १८ .।।

अन्योन्यप्रीतिसंहृष्टदत्तलाभेन वै जने ।।

तांबूलहृष्ट वदने कुङ्कुमक्षोदचर्चिते ।। १९ ।।

दुकूलपट्टनेपथ्ये स्वर्णमाणिक्यभूषिते ।।

अद्भुतोद्भटशृंगारप्रदर्शितकुतूहले ।। 4.140.२० ।।

युवतीजनसंकीर्णवस्त्रोज्ज्वलविहारिणि ।।

दीपमालाकुले रम्ये विध्वस्तध्वांतसञ्चये ।।

प्रदोषे दोषरहिते शस्तदोषागमे शुभे ।। २१ ।।

शशिपूर्णमुखाभिश्च कन्याभिः क्षिप्ततण्डुलम् ।।

नीराजनं प्रकर्तव्यं वृक्षशाखासु दीपकैः ।। २२ ।।

भ्राम्यमाणो नतो मूर्घ्नि मनुजानां जनाधिपः ।।

वृक्षशाखांतदीपानां निरस्ताद्दर्शनाद्व्रजेत् ।।

नीराजनं तु तेनेह प्रोच्यते विजयप्रदम् ।। २३ ।।

तस्माज्जनेन कर्तव्यं रक्षोदोषभयापहम् ।।

यात्राविहारसञ्चारे जयजीवेति वादिना ।। २४ ।।

क्षुद्रोपसर्गरहिते राजचौरभयोज्झिते ।।

मित्रस्वजनसम्बन्धिसुहत्प्रेमानुरंजिते ।। २५ ।।

ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम् ।।

अवलोकयितुं रम्यं पद्भ्यामेव शनैःशनैः ।। २६ ।।

महता तूर्यघोषेण ज्वलद्भिर्हस्तदीपकैः ।।

कृतशोभां पुरीं पश्येत्कृतरक्षां स्वकैर्नरैः ।। २७ ।।

तं दृष्ट्वा महदाश्चर्यमृद्धिं चैवात्मनः शुभाम् ।।

बलिराज्यप्रमोदं च ततः स्वगृहमाव्रजेत् ।। २८ ।।

एवं गते निशार्धे तु जने निद्रार्द्रलोचने ।।

तावन्नगरनारीभिः शूर्पडिंडिमवादनैः ।।

निष्क्राम्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहांगणात् ।। २९ ।।

ततः प्रबुद्धे सकले जने जातमहोत्सवे ।।

माल्यदीपकहस्ते च स्नेहनिर्भरलोचने ।। 4.140.३० ।।

वेश्या विलासिनी सार्धं स्वस्ति मंगलकारिणी ।।

गृहाद्गृहं व्रजन्ती च पादाभ्यंगप्रदायिनी ।। ३१ ।।

पिष्टकोद्वर्तनपरे गुरुशुश्रूषणाकुले ।।

द्विजाभिवादनपरे सुखराज्याभिवीक्षणे ।। ३२ ।।

सुवासिनीभ्यो दाने च दीयमाने यदृच्छया ।।

यथाप्रभातसमये राजार्हमानयेज्जनम् ।। ३३ ।।

सद्भावेनैव सन्तोष्या देवाः सत्पुरुषा द्विजाः ।।

इतरे चान्नपानेन वाक्प्रदानेन पंडिताः ।। ३४ ।।

वस्त्रैस्तांबूलदानैश्च पुष्पकर्पूरकुंकुमैः ।।

भक्ष्यैरुच्चावचैर्भोज्यैरन्तःपुरविलासिनीः ।। ३५ ।।

ग्रामैर्विषयदानैश्च सामंतनृपतीन्धनैः ।।

पदातीनङ्गसंलग्नान्ग्रैवेयकटकैः स्वकान् ।। ३६ ।।

स्वयं राजा तोषयेत्स जनान्भृत्यान्पृथक्पृथक् ।।

यथार्हं तोषयित्वा तु ततो मल्लनटान्भटान् ।।३७।।

वृषभान्महिषांश्चैव युध्यमानान्परैः सह ।।

गजानश्वांश्च योधांश्च पदातीन्समलंकृतान् ।।।३८।।

मंचारूढः स्वयं पश्येन्नटनर्तकचारणान् ।।

क्रुद्धापयेदानयेच्च गोमहिष्यादिकं ततः ।। ३९ ।।

दिष्ट्या कार्यं पयोज्योतिरुक्तिप्रत्युक्तिका वदेत् ।।

ततोपराह्नसमये पूर्वस्यां दिशि भारत ।। 4.140.४० ।।

मार्गपालीं प्रबध्नीयात्तुंगस्तंभेऽथ पादपे ।।

कुशकाशमयीं दिव्यां संभवे बहुभिर्वृताम् ।। ४१ ।।

पूजयित्वा गजान्वाजीन्सार्धे यामत्रये गते ।।

गावो वृषाः समहिषा मंडिता घटिकोत्कटाः ।। ४२ ।।

कृते होमे द्विजेन्द्रैस्तु गृह्णीयान्मार्गपालिकाम् ।।

राष्ट्रभोज्येन धाराभिः सहस्रेण शतेन वा ।।४३।।

स्वशक्त्यपेक्षया वापि गृह्णीयाद्वामभोजनैः ।।

मातुः कुलं पितृकुलमात्मानं सहबंधुभिः ।। ४४।।

संतारयेत्स सकलं मार्गपालीं ददाति यः ।।

नीराजनं च तत्रैव कार्यं राज्ञे जयप्रदम् ।।४५।।

मार्गपालीतलेनेत्थं हया गावो गजा वृषाः ।।

राजानो राजपुत्राश्च ब्राह्मणा शूद्रजातयः ।। ४६ ।।

मार्गपालीं समुल्लंघ्य नीरुजः स्यात्सुखी सदा ।।

कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः ।। ।। ४७ ।।

पूजां कुर्यान्नरः साक्षाद्भूमौ मंडलके कृते ।।

बलिमालिख्य दैत्येन्द्रं वर्णकैः पंचरंगकैः ।। ४८ ।।

सर्वाभरणसंपूर्णं विंध्यावल्या सहासितम्।।

कूष्मांडबाणजंघोरुमुरदानवसंवृतम् ।। ४९ ।।

संपूर्णहृष्टवदनं किरीटोत्कटकुण्डलम् ।।

द्विभुजं दैत्यराजानं कारयित्वा नृपः स्वयम्।।4.140.५०।।

गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् ।।

भ्रातृमंत्रिजनैः सार्द्धं संतुष्टो वंदिभिः स्तुतः ।। ५१ ।।

कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः ।।

गन्धधूपान्ननैवेद्यैरक्षतैर्गुडपूपकैः ।।५२।।

मद्यमांससुरालेह्यदीपवर्त्युपहारकैः ।।

मंत्रेणानेन राजेन्द्र समंत्री सपुरोहितः ।। ५३ ।।

बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।।

भविष्येन्द्रसुराराते पूजेयं प्रतिगृह्यताम् ।। ५४ ।।

एवं पूजां नृपः कृत्वा रात्रौ जागरणं ततः ।।

कारयेत्प्रेक्षणीयादि नटक्षत्रकथानकैः ।। ५५ ।।

लोकश्चापि गृहस्यांते शय्यायां शुक्लतंडुलैः ।।

संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ।। ५६ ।।

बलिमुद्दिश्य दीयंते दानानि कुरुनन्दन ।।

यानि तान्यक्षयाण्याहुर्मयैवं संप्रदर्शितम् ।। ५७ ।।

यदस्यां दीयते दानं स्वल्पं वा यदि वा बहु ।।

तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं परम् ।। ५८ ।।

विष्णुना वसुधा लब्धा प्रीतेन बलये पुनः ।।

उपकारकरो दत्तश्चासुराणां महोत्सवः ।। ५९ ।।

ततः प्रभृति राजेन्द्र प्रवृत्ता कौमुदी पुनः ।।

सर्वोपद्रवविद्रावि सर्वविघ्नविनाशिनी ।।4.140.६०।।

लोकशोकहरी काम्या धनपुष्टिसुखावहा ।।

कुशब्देन मही ज्ञेया मुदी हर्षे ततः परम् ।। ६१ ।।

धातुज्ञैर्नैगमज्ञैश्च तेनैषा कौमुदी स्मृता ।।

कौ मोदन्ते जना यस्यां नानाभावैः परस्परा ।। ६२ ।।

हृष्टास्तुष्टाः सुखायत्तास्तेनैषा कौमुदी स्मृता ।।

कुमुदानि बलेर्यस्माद्दीयन्तेऽस्यां युधिष्ठिर ।। ६३ ।।

अर्थार्थे पार्थ भूमौ च तेनैषा कौमुदी स्मृता ।।

एकमेवमहोरात्रं वर्षे वर्षे विशांपते ।। ६४ ।।

दत्तं दानवराजस्य आदर्शमिव भूतले ।।

यः करोति नृपो राष्ट्रं तस्य व्याधिभयं कुतः ।। ६५ ।।

कुत ईति भयं तत्र नास्ति मृत्युकृतं भयम् ।।

सुभिक्षं क्षेममारोग्यं सर्वसम्पद उत्तमाः ।। ६६ ।।

नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः ।।

कौमुदीकरणाद्राजन्भवतीह महीतले ।। ६७ ।।

यो यादृशेन भावेन तिष्ठत्यस्यां युधिष्ठिर ।।

हर्षदैन्यादिरूपेण तस्य वर्षं प्रयाति हि ।। ६८ ।।

रुदिते रोदिति वर्षं हृष्टो वर्षं प्रहृष्यति ।।

भुक्तौ भोक्ता भवेद्वर्षं स्वस्थः स्वस्थो भवेदिति ।। ६९ ।।

तस्मात्प्रहृष्टैस्तुष्टैश्च कर्तव्या कौमुदी नरैः ।।

वैष्णवी दानवी चेयं तिथिः पैत्री युधिष्ठिर ।। 4.140.७० ।।

उपशमितमेघनादं प्रज्वलितदशाननं रमितरामम् ।।

रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ।। ७१ ।।

कूष्माण्डादानरम्यं कुवलयखण्डैश्च धातुकाभद्रम् ।।

शरदिव हरिगतनिद्रं दीपदिनं हरतु वो दुरितम् ।।७२।।

दीपोत्सवे जनितसर्वजनप्रमोदां कुर्वंति ये सुमनसो बलिराजपूजाम् ।।

दानोपभोगसुखवृद्धिशताकुलानां हर्षेण वर्षमिह पार्थिव याति तेषाम् ।।७३।।

इति श्रीभविष्ये महापुराण उत्तरप र्वणि श्रीकृष्णयुधिष्ठिरसंवादे दीपालिकोत्सववर्णनं नाम चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 141

नवग्रहलक्षहोमविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

कथयस्व महाभाग सर्वज्ञो ह्यसि यादव ।।

सर्वकामाप्तये कृत्यं कथं शांतिकपौष्टिकम् ।।१।।

।। श्रीकृष्ण उवाच।। ।।

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।।

दृष्ट्यायुः पुष्टिकामो वा तथैवाभिचरन्पुनः ।। २ ।।

सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम् ।।

ग्रहशांतिं प्रवक्ष्यामि पुराणश्रुतिभाषिताम् ।।३।।

पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ।।

ग्रहान्ग्रहाधिदेवांश्च स्थाप्य होमं समारभेत् ।। ४ ।।

ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः ।।

प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् ।। ५ ।।

तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः ।।

अयुतेनाहुतीनां च नवग्रहमखः स्मृतः ।।६।।

तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम् ।।

गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ।। ७ ।।

कुर्याद्विधानतो वेदिं वितस्त्युच्छ्रयसंयुताम् ।।

संस्थापनाय देवानां चतुरस्रामुदक्प्लवाम् ।। ८ ।।

अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान् ।।

देवानां तत्र संस्थाप्या विंशतिर्द्वादशाधिका ।। ९ ।।

सूर्यः सोमो महीपुत्रो बुधो जीवः सितोर्कजः ।।

राहुः केतुरिति प्रोक्ता ग्रहालोकहितावहाः ।। 4.141.१० ।।

ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णजावुभौ ।।

रजतादायसाच्चैव ग्रहाः कार्याः क्रमादमी ।। ११ ।।

मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ।।

उत्तरेण गुरुं विद्याद्बुधं पूर्वोत्तरेण तु ।। १२ ।।

पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके ।।

पश्चिमोत्तरतः केतुं स्थापयेच्छुक्लतंडुलैः ।। १३ ।।

राजामात्यान्महाराज तंडुलैः स्थापयेदथ ।।

भास्करस्येश्वरं विद्यादुमां च शशिनस्तथा ।। १४ ।।

स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम् ।।

ब्रह्माणं च गुरोर्विद्याच्छुक्रस्यापि शचीपतिम् ।। ।। १५ ।।

शनैश्चरस्य तु यमं राहोः कालं तथैव च ।।

केतोस्तु चित्रगुप्तं तु सर्वेषामेव देवताः ।। १६ ।।

अग्निरापः क्षितिर्विष्णुरिन्द्रः सौवर्णदेवताः ।।

प्रजापतिश्च सूर्यश्च ब्रह्मा प्रत्यधिदेवताः ।।१७।।

विनायकं तथा दुर्गां वायुमाकाशमेव च ।।

सावित्रीं च तथा लक्ष्मीमुमां च सहभर्तृकाम् ।। ।। १८ ।।

आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ ।।

संस्मरेद्रक्तमादित्यमंगारकसमन्वितम् ।। १९ ।।

सोमशुक्रौ यथाश्वेतौ बुधजीवौ च पिङ्ग लौ ।।

मंदराहू तथा कृष्णौ धूम्रं केतुगुणं विदुः ।। 4.141.२० ।।

ग्रहवर्णानि देयानि वासांसि कुसुमानि च ।।

गंधाश्च बलयश्चैव धूपा गुग्गुलपूर्वकाः ।। ।। २१ ।।

गुडौदनं रवेर्दद्यात्सोमाय घृतपायसम् ।।

अंगारकाय संयावं बुधाय क्षीरषष्टिकम् ।। २२ ।।

दध्यन्नं गुरवे दद्याच्छक्राय तु घृतौदनम् ।।

शनैश्चराय कृशरं मेषमांसं तु राहवे ।। २३ ।।

चित्रौदनं केतवे च सर्वान्भक्ष्यैरथार्चयेत् ।।

प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम् ।। २४ ।।

चूत पल्लवसंपन्नं फलवस्त्रयुगान्वितम् ।।

पञ्चरत्नसमायुक्तं पञ्चभंगयुतं तथा ।। २५ ।।

स्थापयेदव्रणं कुंभं वरुणं तत्र विन्यसेत् ।।

गंगायाः सरितः सर्वाः समुद्राश्च सरांसि च ।। २६ ।।

गजाश्वरथ्यावल्मीकात्संगमाद्धृदगोकुलात् ।।

मृदमानीय राजेन्द्र सर्वौषधिजलान्विताम् ।। २७ ।।

स्नानार्थं विन्यसेत्तत्र यजमानस्य धर्मवित् ।।

सर्वे समुद्राः सरितः सरः प्रस्रवणानि च ।। २८ ।।

आयांतु यजमानस्य दुरितक्षयकारकाः ।।

एवमावाहयित्वा तान्सर्वान्नृपतिसत्तम ।। २९ ।।

होमं समारभेत्सर्पिर्यवव्रीहितिलादिना ।।

अर्कः पलाशखदिरौ ह्यपामार्गोऽथ पिप्पलः ।। 4.141.३० ।।

उदुंबर शमीदूर्वाकुशाश्च समिधः क्रमात् ।।

एकैकस्य चाष्टशतमष्टाविंशति वा पुनः ।। ३१ ।।

होतव्या मधुसर्पिभ्यां दध्ना वा पायसेन वा ।।

प्रादेशमात्रा ऋजवो विशाखा विफलाः शुभाः ।। ३२ ।।

कल्प्यंते समिधः प्राज्ञैः सर्वकर्मसु सर्वदा ।।

देवानामपि सर्वेषामुपांशु परमार्थवित् ।। ३३ ।।ऽ

स्वेन स्वेनैव मंत्रेण होतव्याः समिधः पृथक् ।।

आकृष्णेन इमं देवा अग्निर्मूर्द्धा दिवः क्रमात् ।। ३४ ।।

उद्बुध्यस्वेति बोध्यश्च यथासंख्यमुदाहृताः ।।

बृहस्पते अतियदस्तथैवान्नात्परिसुतः ।। ३५ ।।

शन्नोदेवीति च कया केतुं कृण्वन्नितीति च ।।

होतव्यं यद्वदाज्यं चरुं भक्ष्याणि वा पुनः ।। ३६ ।।

मंत्रैर्दशाहुतीर्दत्त्वा होमो व्याहृतिभिस्ततः ।।

उदङ्मुखाः प्राङ्मुखाश्च कुर्युर्ब्राह्मणपुंगवाः ।। ३७ ।।

मंत्रवंतस्तु कर्तव्याश्चरवः प्रतिदैवतम् ।।

अपो राजेति रुद्रस्य बलिहोमं समारभेत् ।। ३८ ।।

आपो हिष्टेत्युमायास्तु श्येनेति स्वामिनस्तथा ।।

विष्णोरिदं विष्णुरिति स्वमिच्छेति स्वयंभुवः ।। ।। ३९ ।।

इन्द्रादिदेवतानां तु इन्द्राय जुहुयात्पुनः ।।

नवा यमस्यायं गौश्चेत्येवं होमः प्रकीर्तितः ।। 4.141.४० ।।

कालस्य ब्रह्मजज्ञानमिति मंत्रः प्रशस्यते ।।

चित्रगुप्तस्य वा जात पौराणिका विदुर्बुधाः ।। ४१ ।।

अग्निं दूतं वृणीमहे इति वह्नेरुदाहृतः ।।

इंद्रं यमं वरुणमित्ययं मंत्रः प्रकीर्तितः ।। ।। ४२ ।।

भूमेः पृथिव्यंतरिक्षमिति वेदेषु पठ्यते ।।

सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः ।। ४३ ।।

वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।।

ब्रह्मणा सहितः शेषो दिक्पालाः पातु ते सदा ।। ४४ ।।

कीर्तिर्लक्ष्मीर्धृतिर्मेधाः पुष्टिः श्रद्धा क्रिया मतिः ।।

बुद्धिर्लज्जा शांतिपुष्टी कांतिस्तुष्टिश्च मातरः ।।४५।।

एतास्त्वामभिषिंचंतु धर्मपत्न्यः समागताः ।।

आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ।।४६।।

ग्रहास्त्वामभिषिंचंतु राहुः केतुश्च तर्पिताः ।।

देवदानवगंधर्वा यक्षराक्षसपन्नगाः ।। ४७ ।।

ऋषयो मनवो गावो देवमातर एव च ।।

देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ।। ।। ४८ ।।

अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।।

औषधानि च रत्नानि कालस्यावयवाश्च ये ।। ४९ ।।

सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।।

एते त्वामभिषिंचंतु सर्वकामार्थसिद्धये ।। 4.141.५० ।।

ततः शुक्लांबरधरः शुक्लगन्धानुलेपनः ।।

सर्वगन्धसमायुक्तः स्नातः श्रद्धासमन्वितः ।।५१।।

यजमानः सपत्नीकान्सिद्धिदांस्तान्समाहितान् ।।

दक्षिणाभिः प्रयत्नेन पूजयेद्गतविस्मयः ।। ५२ ।।

सूर्याय कपिलां धेनुं दद्याच्छंखं तथेन्दवे ।।

रक्तं धुरंधरं दद्याद्भौमाय ककुदाधिकम् ।। ५३ ।।

बुधाय जातरूपं च गुरवे पीतवाससी ।।

श्वेताश्वं दैत्यगुरवे कृष्णांगामर्कसूनवे ।। ५४ ।।

आयसं राहवे दद्यात्केतवे च्छागमुत्तमम् ।।

सुवर्णेन समा कार्या यजमानेन दक्षिणा ।। ५५।।

सर्वेषामथवा दद्याद्गुरुर्वा येन तुष्यति ।।

सुमंत्रेण प्रदातव्याः सर्वाः सर्वार्थदक्षिणाः ।। ५६ ।।

कपिले सर्वदेवानां पूजनीयासि रोहिणी ।।

तीर्थदेवमयी यस्मादतः शांतिं प्रयच्छ मे ।। ५७ ।।

पुण्यस्त्वं शंख पुण्यानां मङ्गलानां च मंगलम् ।।

विष्णुना विधृतो नित्यमतः शांतिं प्रयच्छ मे ।। ५८ ।।

धर्म त्वं वृषरूपेण जगदानन्दकारकः ।।

अष्टमूर्तेरधिष्ठानमतः शांतिं प्रयच्छ मे ।। ५९ ।।

हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः ।।

अनन्तपुण्यफलदमतः शांतिं प्रयच्छ मे ।। 4.141.६० ।।

पीतवस्त्रयुगं दद्याद्वासुदेवस्य वल्लभम् ।।

प्रदानात्तस्य मे विष्णुरतः शांतिं प्रयच्छतु ।। ६१ ।।

कपिलस्त्वश्वरूपेण यस्मादमृतसम्भवः ।।

चन्द्रार्कवाहनो नित्यमतः शांतिं प्रयच्छ मे ।। ६२ ।।

यस्मात्त्वं पृथिवी सर्वा धेनो वै कृष्णसंज्ञिता ।।

सर्वपापहरा नित्यमतः शांतिं प्रयच्छ मे ।। ६३ ।।

यस्मादायस कर्माणि तवाधीनानि सर्वदा ।।

लांगलान्यायुधादीनि तस्माच्छांतिं प्रयच्छ मे ।। ६४ ।।

यस्मात्त्वं छाग यज्ञानामंगत्वेन व्यवस्थितः ।।

योनिर्विभावसोर्नित्यमतः शांतिं प्रयच्छ मे ।। ६५ ।।

गवामंगेषु तिष्ठंति भुवनानि चतुर्दश ।।

यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ।। ।। ६६ ।।

यस्मादशून्यं शयनं केशवस्य शिवस्य च ।।

शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि ।। ६७ ।।

यथा रत्नेषु सर्वेषु सर्वे देवा व्यवस्थिताः ।।

तथा शांतिं प्रयच्छंतु रत्नदानेन मे सुराः ।। ६८ ।।

यथा भूमिप्रदानस्य कलां नार्हंति षोडशीम् ।।

दानान्यन्यानि मे शांतिं भूमि दानाद्भवत्यपि ।। ६९ ।।

एवं संपूजयेद्भक्त्या वित्तशाठ्यविवर्जितः ।।

वस्त्रकाञ्चनरत्नौघैर्माल्यगंधानुलेपनैः ।। 4.141.७० ।।

ग्रहस्वरूपमतुलं कथ्यमानं निबोध मे ।।

भक्तिभावप्रपन्नस्य कथ्यमानं विराजते ।।

पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।।

सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः ।। ।। ७१ ।।

श्वेतः श्वेतांबरधरो दशाश्वः श्वेतभूषणः ।।

गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ।। ७२ ।।

रक्तमाल्यांबरधरः कर्णिकारसमंद्युतिः ।।

खड्गचर्मगदापाणिर्विधेयो भूमिनंदनः ।। ७३ ।।

पीतमाल्यांबरधरः पीतगंधानुलेपनः ।।

कांचने च रथे दिव्ये शोभमानो बुधः सदा ।। ७४ ।।

देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ ।।

दंडिनौ वरदौ कार्यौ साक्षसूत्रकमडलू ।। ७५ ।।

इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।।

बाणबाणासनधरः कर्तव्योऽर्कसुतः सदा ।। ७६ ।।

शार्दूलवदनः खड्गी वर्मी शूली वरप्रदः ।।

नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते ।। ७७ ।।

धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।।

गृध्रासनरता नित्यं केतवः स्युर्वरप्रदाः ।। ७८ ।।

सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।।

स्वांगुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं तदा ।। ७९ ।।

ग्रहस्वरूपमेतत्ते व्याख्यातं पांडुनन्दन ।।

एतज्ज्ञात्वा प्रयत्नेन पूजा कार्या विचक्षणैः ।। 4.141.८० ।।

विधिना ग्रहपूजां योनेन त्वारभते नरः ।।

सर्वान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ।। ८१ ।।

यस्तु पीडाकरो नित्यं माल्यवित्तस्य वा ग्रहः ।।

तं तु यत्नेन संपूज्य शेषानप्यर्चयेद्बुधः ।। ८२ ।।

ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः ।।

पूजिताः पूजयंत्येते निर्दहंत्यवमानिताः ।। ८३ ।।

तस्मान्न दक्षिणाहीनं कर्तव्यं भूतिमिच्छता ।।

संपूर्णायां दक्षिणायां यस्मादेकोऽपि तुष्यति ।। ८४ ।।

सदैवाऽयुतहोमोऽयं नवग्रहमखः स्मृतः ।। ८५ ।।

विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु ।।

निर्विघ्नार्थं महाराज तथोद्वेगाद्भुतेषु च ।। ८६ ।।

कथितोऽयुतहोमोऽयं लक्षहोममतः शृणु ।।

सर्वकामाप्तये यस्माल्लक्ष होमं विदुर्बुधाः ।। ८७ ।।

पितॄणां वल्लभो यस्माद्भुक्तिमुक्तिफलप्रदः ।।

ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् ।। ८८ ।।

गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः ।।

रुद्रायतनभूमौ वा चतुरस्रमुदङ्मुखम् ।। ८९ ।।

दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः ।।

प्रागुदक्प्रवणां भूमिं कारयेद्यत्नतो नरः ।। 4.141.९० ।।

प्रागुत्तरं समासाद्य प्रदेशं मंडपस्य तु ।।

शोभनं कारयेत्कुण्डं यथावल्लक्षणान्वितम् ।। ९१ ।।

मानहीनं चाप्रशस्तमनेकभयदं भवेत् ।।

यस्मात्तस्मात्सुसंपूर्णं शांतिकुंडं विधीयते ।। ९२ ।।

अस्माद्दशगुणः प्रोक्तो लक्षहोमे स्वयंभुवा ।।

आहुतिभिः प्रयत्नेन दक्षिणाभिस्तथैव च ।। ९३ ।।

द्विहस्तविस्तृतं तद्वच्चतुर्हस्तायतं पुनः ।।

लक्षहोमे भवेत्कुण्डं योनिवक्त्रं त्रिमेखलम् ।। ९४ ।।

संस्थापनाय देवानां वप्रत्रयसमावृतम् ।।

द्विरंगुलोच्छ्रितो वप्रः प्रथमः समुदाहृतः ।। ९५ ।।

अंगुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरि ।।

द्व्यङ्गुलस्तत्र विस्तारः सर्वेषां कथ्यते बुधैः ।। ९६ ।।

दशांगुलोच्छ्रिता भित्तिः स्थंडिलस्य तथोपरि ।।

तस्मिन्नावाहयेद्देवान्पूर्ववत्पुष्पतण्डुलैः ।। ९७ ।।

आदित्याभिमुखाः सर्वाः स्थाप्याः प्रत्यधिदेवताः ।।

स्थापनीया मुनिश्रेष्ठा नांतरेण पराङ्मुखाः ।। ९८ ।।

गरुत्मानधिकस्तत्र संपूज्यः श्रियमिच्छता ।।

समपीनशरीरस्तु वाहनं परमेष्ठिनः ।।९९।।

विषपापहरो नित्यमतः शांतिं प्रयच्छ मे ।।

पूर्ववत्कुंभमामंत्र्य तद्वद्धोमं समाचरेत् ।।4.141.१ ००।।

सहस्राणां शतं हुत्वा समित्संख्यादिकं पुनः ।।

औदुम्बरीमथार्द्रां च वक्रकोटरवर्जिताम् ।। १०१ ।।

बाहुमात्रां स्रुचं कृत्वा ततः स्तंभद्वयोपरि ।।

घृतधारां तथा सम्यगग्नेरुपरि पातयेत् ।।१ ०२।।

पाठयेत्सूक्तमाग्नेयं वैष्णवं रौद्रमैंदवम् ।।

महावैश्वानरं साम ज्येष्ठसाम च पाठयेत् ।।१०३।।

स्नानं तु यजमानस्य पूर्ववन्मन्त्रवाचनम् ।।

दातव्या यजमानेन पूर्ववद्दक्षिणा पृथक् ।। १०४ ।।

कामक्रोधविहीनेन ऋत्विग्भ्यः शांतचेतसः ।।

नवग्रह मखे विप्राश्चत्वारो वेदवेदिनः ।। १०५ ।।

अथ वा ऋत्विजौ शांतौ द्वावेव त्वतिकोविदौ ।।

कार्यावयुतहोमे तु न प्रसज्येत विस्तरे ।। १०६ ।।

तद्वच्च दश चाष्टौ वा लक्षहोमेऽपि ऋत्विजः।।

कर्तव्याः शक्तितस्तद्वच्चत्वारो वा विमत्सराः ।।१ ०७।।

नवग्रहमखे सर्वं लक्षहोमे दशोत्तरम्।।

दद्याच्च पांडवश्रेष्ठ भूषणान्यपि शक्तितः ।। १०८ ।।

शयनानि च वस्त्राणि हैमानि कटकानि च ।।

कर्णांगुलीपवित्राणि भक्तिमान्प्रतिपादयेत् ।।१ ०९।।

न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः ।।

अददल्लोभमोहाभ्यां कुलक्षयमवाप्नुयात् ।। 4.141.११० ।।

अन्नदानं यथा शक्त्या दातव्यं भूतिमिच्छता ।।

अन्नहीनं व्रतं यस्माद्दुर्भिक्षफलदं भवेत् ।। १११ ।।

राष्ट्रं हन्यादंगहीनो मंत्रहीनस्तु ऋत्विजः ।।

अदक्षिणो यजमानं नास्ति यज्ञसमो रिपुः ।। ११२ ।।

न चाप्यल्पधनः कुर्याल्लक्षहोमं नरः क्वचित् ।।

तस्मात्पीडाकरो नित्यं य एव भवति ग्रहः ।। ११३ ।।

तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्वा यथाविधि ।।

एकमप्यर्चयेद्भक्त्या ब्राह्मणं वेद पारगम् ।।११४ ।।

दक्षिणाभिः प्रयत्नेन बहू्न्वा बहुवित्तवान् ।।

लक्षहोमस्तु कर्तव्यो यदि वित्तं गृहे गृहे ।। ११५ ।।

यतः सर्वानवाप्नोति कुर्वन्कामान्विधानतः ।।

पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः ।। ११६ ।।

यावत्कल्पशतान्यष्टावथ मोक्षमवाप्नुयात्।।

सकामो यस्त्विमं कुर्याल्लक्षहोमं यथाविधि ।।११७।।

स तं काममवाप्नोति पदं चानंत्यमश्नुते।।

पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।।११८।।

भार्यार्थी शोभनां भार्यां कुमारी च शुभं पतिम् ।।

भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् ।। ११९ ।।

यं यं प्रार्थयते कामं तं तमाप्नोति पुष्कलम् ।।

निष्कामः कुरुते यस्तु परं ब्रह्म स गच्छति ।। 4.141.१२० ।।

शांतिं नवग्रहमयीं दुरितोपशांतिं राजन्करोति बहुना विधिवद्द्विजेन्द्रैः ।।

क्षेमं सुभिक्षमतुलं कुलवृद्धिसंपत्तत्रास्ति यत्र कुरुते बत लक्षहोमम् ।।१२१।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयु धिष्ठिरसंवादे नवग्रहलक्षहोमविधिवर्णनं नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ।।१४१।।

पर्व ४ (उत्तरपर्व) — Adhyāya 142

कोटिहोमविधिवर्णनम्

श्रीकृष्ण उवाच ।। ।।

राजा संवरणः पूर्वं प्रतिष्ठाने पुरोत्तमे ।।

बभूव स महाभागः शास्त्रार्थकुशलो बली ।।१।।

ब्रह्मण्यः पितृभक्तश्च देवब्राह्मणपूजकः ।।

तस्याथ कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ।।२।।

आजगाम महायोगी सनको ब्रह्मणः सुतः।।

दत्त्वा तस्यासनं राजा प्रणम्य शिरसा तथा ।।३।।

पूजयित्वार्घ्यपाद्याद्यैरात्मानं विनिवेद्य च ।।

इतिहासपुराणोक्ताश्चकार विविधाः कथाः ।।४।।

राजर्षीणां पुराणां च चरितानि यथार्थवित् ।।

ततः कथांतरे राजा कार्यं मनसि संस्थितम् ।।५।।

हिताय पृथिवीशानां जगतश्चात्मनस्तथा ।।

पप्रच्छ विनयोपेतो योगाचार्यं महामतिः ।। ६ ।।

।। संवरण उवाच ।। ।।

भगवन्महदुत्पातसंभवे भूप्रकंपने ।।

निर्घाते पांशुवर्षे च गृहभंगे तथैव च ।। ७ ।।

जन्मनक्षत्रपीडासु अनावृष्टिभयेषु च ।।

ज्वरेषु ग्रहपीडासु दुर्भिक्षे राष्ट्रविग्रहे ।। ।। ८ ।।

व्याधीनां संभवे जाते शरीरे चातिपीडिते ।।

क्लेशे महति चोत्पन्ने किं कर्तव्यं नरोत्तमैः ।। ९ ।।

स्वर्गस्य साधनं यच्च कीर्तिदं धनदं तथा ।।

प्रब्रूहि मे द्विजश्रेष्ठ तथारोग्यप्रदं नृणाम् ।। 4.142.१० ।।

।। सनत्कुमार उवाच ।। ।।

शृणुराजन्प्रवक्ष्यामि शांतिकर्म ह्यनुत्तमम् ।।

कोटिहोमाख्यमतुलं सर्वकामफलप्रदम् ।। ११ ।।

ब्रह्महत्यादिपापानि येन नश्यंति तत्क्षणात् ।।

उत्पाता प्रशमं यांति महत्संपद्यते सुखम् ।। १२ ।।

विधानं तस्य वक्ष्यामि शृणुष्वैकमना भव ।।

देवागारे नदीतीरे वने वा भवनेऽपि वा ।। १३ ।।

पर्वते वापि कुर्वीत य इच्छेत्क्षेममात्मनः ।।

शुभनक्षत्रयोगे च वारे पूर्वगुणान्विते ।। १४ ।।

यजमानस्यानुकूल्ये कोटिहोमं समाचरेत् ।।

पूजयित्वा प्रयत्नेन ब्राह्मणं वेदपारगम् ।। १५ ।।

वस्त्रैर्विभूषणैश्चैव गंधमाल्यानुलेपनैः ।।

प्रणम्य विधिवत्तस्मै आत्मानं विनिवेदयेत् ।। १६ ।।

त्वं नो गतिः पिता माता त्वं गतिस्त्वं परायणः ।।

त्वत्प्रसादेन विप्रर्षे सर्वं मे स्यान्मनोगतम् ।। १७ ।।

आपद्विमोक्षाय च मे कुरु यज्ञमनुत्तमम्।।

कोटिहोमार्थमतुलं शांत्यर्थं सार्वकामिकम् ।। १८ ।।

पुरोहितस्ततः प्राज्ञः शुक्लांबरधरः शुचिः ।।

ब्राह्मणैर्वेदसंवृत्तैः पुण्यैर्युक्तः समाहितैः ।। १९ ।।

भूमिभागे समे शुद्धे प्रागुदक्प्रवणे तथा ।।

पुण्याहं वाचयेत्पूर्वं कृत्वा विप्रान्सुपूजितान् ।। 4.142.२० ।।

ततस्तु महितैर्विप्रः सूत्रयेन्मण्डपं शुभम् ।।

उत्तमं शतहस्तं तु तदर्धेन तु मध्यमम् ।।

जघन्यं तु तदर्धेन शक्तिकालाद्यपेक्षया ।।२१।।

मध्ये तु मण्डपस्यापि कुंडं कुर्याद्विचक्षणः ।।

अष्टहस्तप्रमाणेन आयामेन तथैव च ।। २२ ।।

मेखलात्रितयं तस्य द्वादशांगुलविस्ततम् ।।

तत्प्रमाणां तथा योनिं कुर्वीत सुसमाहितः ।। २३ ।।

कुंडस्य पूर्वभागे तु वेदिं कुर्याद्विचक्षणः ।।

चतुर्हस्तां समां चैव हस्तमात्रोच्छ्रितः नृप ।। २४ ।।

स्थानं तत्सर्वभूतानां कुर्याद्यत्नेन बुद्धिमान् ।। २५ ।।

उदलिप्य ततो भूमिं मंडपस्य समीपतः ।।

विन्यसेत्कलशांस्तत्र जलपूर्णांश्चतुर्दश ।। २६ ।।

अश्वत्थप्लक्षचूताद्यैः पल्लवैरुपशोभितान्।।

वितानमुपरिष्टाच्च मंडपस्य प्रकल्पयेत् ।। २७ ।।

स्थापयेद्दिक्षु सर्वासु तोरणानि विचक्षणः ।।

एवं संभृतसंभारैः पुरोधाः सुसमाहितः ।। २८ ।।

पुण्याहजयघोषेण होमकर्म समारभेत् ।।

स्थापयित्वा सुरान्वेद्यां वक्ष्यमाणानरिंदम ।। २९ ।।

ब्राह्मणं पूर्वभागे तु मध्ये देवं जनार्दनम्।।

पश्चिमे तु तथा रुद्रं वसूनुत्तरतस्तथा ।। 4.142.३० ।।

ऐशान्यां च ग्रहान्सर्वानाग्नेय्यां मरुतस्तथा ।।

वायुं सौम्यां तथैशान्यां लोकपालान्क्रमेण तु ।। ३१ ।।

एवं संस्थाप्य विबुधान्यथास्थानं नृपोत्तम ।।

पूजयेद्विधिवद्वस्त्रगन्धमाल्यानुलेपनैः ।। ३२ ।।

वेदोक्तमंत्रैस्तल्लिङ्गैः पुराणोक्तैः पृथक्पृथक् ।। ।।

आदित्या वसवो रुद्रा लोकपालास्तथा ग्रहाः ।। ३३ ।।

ब्रह्मा जनार्दनश्चैव शूलपाणिर्भगाक्षिहा ।।

अत्र संनिहिताः सर्वे भवंतु सुखभागिनः ।। ३४ ।।

पूजां गृह्णंतु सर्वेत्र मया भक्त्योपपादिताम् ।।

कुर्वंतु च शुभं सर्वे यज्ञकर्म समाहिताः ।। ३५ ।।

एवं संपूजयित्वा तान्देवान्यत्नेन शुद्धधीः।।

नैवेद्यैर्विविधैर्भक्ष्यैः फलैः पत्रैस्तथैव च ।। ३६ ।।

ततस्तु तैर्द्विजैः सार्द्धं कुंडस्य विधिपूर्वकम् ।।

कुर्यात्संस्कारकरणं यथोक्तं वेदचिन्तकैः ।। ३७ ।।

ततः समाह्वयेद्वह्निं नाम्ना ख्यातं घृतार्चिषम् ।।

नियोजयेद्द्विजांस्तत्र शतसंख्यान्नृपोत्तम ।।

अलाभे तु बहूना च यथालाभं नियोजयेत् ।। ३८ ।।

विद्यावृद्धान्वयोवृद्धान्गृहस्थान्संयतेन्द्रियान्।।

स्वकर्मनियताञ्ज्ञानशीलाञ्छान्तान्द्विजोत्तमान् ।। ३९ ।।

चिंतयेत्तत्र देवेशं पंचास्यं नृप पावकम् ।।

मुखानि तस्य चत्वारि सप्त जिह्वाश्च पार्थिव ।। 4.142.४० ।।

एकजिह्वमथैकं तु तत्स्मृतं सर्वकामदम् ।।

धूमायमाने मन वृथा होतव्यं ज्वलिते नले ।। ४१ ।।

ऋग्भिः पूर्वामुखैर्होमो यजुर्भिश्चोत्तरामुखैः।

सामभिः पश्चिमे कार्योऽथर्वभिर्दक्षिणामुखैः ।। ४२ ।।

आघारावाज्य भागौ तु पूर्वं हुत्वा विचक्षणः ।।

परितोथ परिस्तीर्णे कल्पितै च तथासने ।। ४३ ।।

ब्रह्माणं पूर्वमप्येतत्सर्वं पश्चात्समाचरेत् ।।

होमो व्याहृतिभिश्चैव सर्वस्तत्र विधीयते ।। ४४ ।।

प्रणवादिभिस्तल्लिंगैः स्वाहाकारांतयोजितैः।।

जुहुयात्सर्वदेवानां वेद्यां ये चोपकल्पिताः ।।४५।।

एवं प्रकल्पये द्यज्ञं कोटिहोमाख्यमुत्तमम् ।।

तिलाः कृष्णा घृताभ्यक्ताः किञ्चिद्यवसमन्विताः ।। ४६ ।।

होतव्याः कोटिहोमे तु समिधश्च पलाशजाः ।।

पूर्णे पूर्णेसहस्रे तु दद्यात्पूर्णाहुतिं शुभाम् ।।

पञ्चमे तन्मुखे राजन्सर्वकामार्थसिद्धये ।। ४७।।

पूर्णाहुत्यः समाख्याताः कोटिहोमे नराधिप ।।

सहस्राणि नृपश्रेष्ठ दश शास्त्रविशारदैः ।। ४८ ।।

प्रारंभदिनमारभ्य ब्राह्मणैर्ब्रह्मवादिभिः ।।

भाव्यं सयजमानैस्तु अथवा सपुरोहितैः ।। ४९ ।।

क्रोधलोभादयो दोषा वर्जनीयाः प्रयत्नतः ।।

यजमानेन राजेन्द्र सवर्गकामानभीप्सिता ।। 4.142.५० ।।

।। संवरण उवाच ।। ।।

बहुत्वात्कर्मणो ब्रह्मन्कोटि होमः सुदुष्करः ।।

कालेन महता चैव शक्यः प्राप्तुं कथंचन ।। ५१ ।।

नियमाद्ब्रह्मचर्याद्वा दुष्करो हीति मे मतिः ।।

निरोधोऽत्र ब्राह्मणानां भृशय्यादिषु दुष्करः ।।५२।।

कार्याद्गुरुतया यस्मात्पर्वकालाद्यपेक्षया ।।

एतद्विज्ञायते ब्रह्मन्यदि शास्त्रेषु कथ्यते ।।

कोटिहोमस्य संक्षेपं वद मे ब्रह्म संभव ।। ५३ ।।

।। सनत्कुमार उवाच ।। ।।

शताननो दशमुखो द्विमुखैकमुखस्तथा ।।

चतुर्विधो महाराज कोटिहोमो विधीयते ।। ५४ ।।

कार्यस्य गुरुतां ज्ञात्वा नैव कुर्यादपर्वणि ।।

यथा संक्षेपतः कार्यः कोटिहोमस्तथा शृणु ।। ५५ ।।

कृत्वा कुंडशतं दिव्यं यथोक्तं हस्त संमितम् ।।

एकैकस्मिंस्ततः कुंडे शतं विप्रान्नियोजयेत् ।। ५६ ।।

सद्यः पक्षे तु विप्राणां सहस्रं परिकीर्तितम् ।।

एकस्थानप्रणीतेग्नौ सर्वतः परिभाविते ।। ५७ ।।

होमं कुर्युर्द्विजाः सर्वे कुण्डे कुण्डे यथोदितम् ।।

यथा कुंडबहुत्वेऽपि राजसूये महाक्रतौ ।। ५८ ।।

न च वह्निबहुत्वं स्यात्तत्र यज्ञे विधीयते ।।

तथा कुंडशतेऽप्यत्र घृतार्चिषि वितानिते ।। ५९ ।।

एक एव भवेद्यज्ञः कोटिहोमो न संशयः ।।

एवं यत्क्रियते क्षिप्रं व्याकुलैः कार्यगौरवात् ।।

शताननः स विज्ञेयः कोटिहोमो न संशयः ।। 4.142.६० ।।

स्वल्पैरहोभिः कार्यः स्याद्वर्षाकालादिकेऽपि वा ।।

तदा दशगुणः कार्यः कोटिहोमो विजानता ।। ६१ ।।

विप्राणां द्वे शते तत्र सुविभज्य नियोजयेत् ।।

तेऽपि विज्ञानशीलाः स्युर्व्रतवंतो जितेन्द्रियाः ।। ६२ ।।

भूप कुंडद्वयं कृत्वा विभज्य च विभावसुम् ।।

होमं कुर्युर्द्विजा भूयः संस्कृत्य विधिपूर्वकम् ।। ६३ ।।

शतं तत्र नियोज्यं स्याद्विप्राणां प्रविभज्य वै ।।

मासे वाथ द्विमासे वा यथाकाले ह्युपस्थिते ।। ६४ ।।

एवं च द्विमुखं कार्यः कोटिहोमो विचक्षणैः ।। ६५ ।।

यदा तु स्वेच्छया यज्ञं यजमानः समापयेत् ।।

कालेन बहुधा राजंस्तदा चैकमुखो भवेत् ।। ६६ ।।

एककुंडस्थितो वह्निरेकचित्तैः समाहितैः ।।

यथालाभ स्थितैर्विप्रैर्ज्ञानशीलैर्विचक्षणैः ।।६७।।

न संख्यानियमश्चात्र ब्राह्मणानां नरोत्तम ।।

न कालनियमश्चैव स्वेच्छायज्ञः स उच्यते ।। ६८ ।।

आवृत्त्या सर्वकामस्य चातुर्मास्यानुकर्मवत् ।।

तदप्रसक्तौ कर्तव्यो यज्ञोऽयं सार्वकालिकः ।। ६९ ।।

अयमेकमुखो राजन्कालेन बहुना भवेत् ।।

बहुविघ्नश्च कालेन तस्मात्संक्षेपमाचरेत् ।। 4.142.७० ।।

यतो हि चित्तवित्ताद्यमायुश्चैवास्थिरं सदा ।।

अतः संक्षेपतः कार्यं धर्मकार्यं प्रशस्यते ।। ७१ ।।

ततः समाप्ते यज्ञे तु कारयेत्सुमहोत्सवम् ।।

शंखतूर्यनिनादेन ब्रह्मघोषस्वनेन च ।। ७२ ।।

ततस्तु दीक्षयेद्विन्प्रान्होतॄंश्च श्रद्धयान्वितः ।।

निष्कैश्च कंकणैश्चैव कुण्डलैर्विविधैर्नृप ।। ७३ ।।

गोशतं चैव दातव्यमश्वानां च शतं तदा ।।

सहस्रं च सुवर्णस्य सर्वेषामपि दापयेत् ।। ७४ ।।

ग्रामैर्गजै रथैरश्वैः पूजयेच्च पुरोहितम् ।।

दीनान्धकृपणान्सर्वान्वस्त्राद्यैश्चापि पूजयेत् ।। ७९ ।।

ततश्चावभृथं स्नायात्तैर्घटैः पूर्वकल्पितैः ।।

लक्षहोमोक्तमंत्रेण सदा विजयकारिणा ।। ७६ ।।

एवं समापयेद्यस्तु कोटिहोममखं शुभम् ।।

तस्यारोग्यं वित्तपुत्रराष्ट्रवृद्धिस्तथैव च ।। ७७ ।।

सर्वपापक्षयश्चैव जायते नृपसत्तम ।।

अनावृष्टिभयं चैव उत्पातभयमेव च ।। ७८ ।।

दुर्भिक्षं ग्रहपीडा च प्रशमं याति भूतले ।।

एतत्पुण्यं पापहरं सर्वकामफलप्रदम् ।।

सनत्कुमारमुनिना पार्थिवाय निवेदितुम् ।। ७९ ।।

सर्वोपसर्गशमनं भवने वने वा ये कारयन्ति मनुजा नृपकोटिहोमम् ।।

भोगानवाप्य मनसोभिमतान्प्रकामं ते यांति शक्रसदनं सुविशुद्धसत्त्वाः ।। 4.142.८० ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कोटिहोम विधिवर्णनं नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 143

महाशान्तिविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

महाशांतिं प्रवक्ष्यामि महादेवेन भाषिताम्।।

पार्थिवानां हितार्थाय महादुस्तरतारिणीम्।। १ ।।

नृपाभिषेके सा कार्या यात्राकाले नृपस्य तु ।।

दुःस्वप्ने दुर्निमित्ते च ग्रहवैगुण्यसंभवे ।। ।। २ ।।

विद्युदुल्कानिपाते च जन्मर्क्षे ग्रहदैवते ।।

केतूदयेऽथ संजाते निर्घाते क्षितिकम्पने ।। ३ ।।

प्रसूतौ मूलगण्डान्ते यमलस्य तु संभवे ।।

छत्राणां च ध्वजानां च स्वस्थानात्पतने भुवि ।।

काकोलूककपोतानां प्रवेशे वेश्मनस्तथा ।। ४ ।।

क्रूरग्रहाणां वक्रत्वे जन्मादिषु विशेषतः ।।

जन्मनि द्वादशे चैव चतुर्थे वाष्टमे तथा ।। ५ ।।

यदा स्युर्गुरुमन्दाऽऽराः सूर्यश्चैव विशेषतः ।।

युद्धे ग्रहाणां सर्वेषां सूर्यशीतांशुकीलके ।। ६ ।।

वस्त्रायुधगवाश्वेषु मणिकेशविनाशने ।।

यद्यग्रे परिदृश्येत रात्राविंद्रधनुस्तथा ।। ७ ।।

वेश्मनश्च तुलाभंगे गर्भेष्वश्वतरीषु च।।

रवीन्द्वोरुपरागेषु महाशांतिः प्रशस्यते ।। ८ ।।

सर्वाणि दुर्निमित्तानि प्रशमं यान्ति सर्वथा ।।

तां कुर्युर्ब्राह्मणाः पंच कुलशीलसमन्विताः ।। ९ ।।

चतुर्वेदास्त्रिवेदाश्च द्विवेदाश्चापि पांडव ।।

आथर्वणा विशेषेण बह्वृचा यजुसंयुताः ।। 4.143.१० ।।

शुचयः श्रुतसंपन्ना जपहोमपरायणाः ।।

कृच्छ्रपाराकनक्ताद्यैः कृतकाय विशोधनाः ।। ११ ।।

पूर्वमाराध्य मंत्रैस्तु प्रारभेत क्रियां ततः ।।

दशद्वादशहस्तं वा मंडपं कारयेच्छुभम् ।। १२ ।।

तन्मध्ये वेदिकां कुर्याच्चतुर्हस्त प्रमाणतः ।।

आग्नेय्यां कारयेत्कुंडं हस्तमात्रं सुशोभनम् ।। १३ ।।

मेखलात्रयसंयुक्तं योन्या चापि विभूषितम् ।।

बद्धचन्दनमालं च तोरणालंकृतं तथा ।। १४ ।।

गोमयेनोपलिप्ते च मंडपे तु द्विजातयः ।।

शुक्लाम्बरधरः स्नाताः शुक्लमाल्यानुलेपनाः ।। १५ ।।

ततश्च पञ्च कलशांस्तस्यां वेद्यां नियोजयेत् ।।

आग्नेयादिषु कोणेषु पञ्चमं मध्यतस्तथा ।। १६ ।।

अष्टास्रालंकृते पद्मे चूतपल्लवशोभिते ।।

ब्रह्मकूर्चविधानेन पंचगव्यं तु कारयेत् ।। १७ ।।

औषधीः पञ्चरत्नानि रोचनां चन्दनं तथा ।।

सिद्धार्थकाञ्छमीदूर्वाः कुशान्व्रीहिर्यवांस्तथा ।। १८ ।।

अपामार्गं फलवतीं न्यग्रोधोदुंबरौ तथा ।।

प्लक्षाश्वत्थकपित्थांश्च प्रियंगुचूतपल्लवान् ।। १९ ।।

हस्तिदंतमृदं चैव कोणकुम्भेषु निक्षिपेत् ।।

पुण्यतीर्थोदकान्नं च धान्यं गव्यं च मध्यमे ।। 4.143.२० ।।

कूर्चं वाचमितीदं च वह्निकुम्भाभिमन्त्रणम् ।।

आशुः शिशानो मन्त्रेण मन्त्रणं वायुगोचरे।। ।। २१ ।।

ईशावास्यं चतुर्थस्य कुम्भस्य चाभिमंत्रणम् ।।

मध्यमे जपितव्यास्तु रुद्रकुम्भे भवोद्भवाः ।।२२।।

गंधपुष्पाक्षतैर्वस्त्रैर्नैवैद्यैर्घृतपाचितैः।।

फलैश्च नारिकेलाद्यैर्दीपकैः कुंभपूजनम् ।। २३ ।।

स्वस्तिवाचनकं चैव कारयेत्तदनंतरम् ।।

क्रमेणानेन शनकैरग्निकार्यं प्रयोजयेत्।। २४ ।।

अग्निं दूतमिति ह्यग्निं पूर्वमेव निधापयेत् ।।

हिरण्यगर्भः समिति ब्रह्मासननियोजनम् ।। २५ ।।

कपोतसुप्रणीतेन मंत्रेण विनिशेषयेत् ।।

कृत्वा चावरणं वह्नेराज्यसंस्कारमेव च ।। २६ ।।

अथ चासादयेद्द्रव्यं यथावत्सप्रयोजनम् ।।

ततः पुरुषसूक्तेन पायसश्रपणं भवेत् ।। २७ ।।

अभिघार्याथ संसिद्धं तथा संस्थापयेद्भुवि ।।

अष्टादशप्रमाणेध्मान्दद्यादथ शमीमयान् ।। २८ ।।

पालाशी समिधः सप्त तथा सप्तेति दापयेत् ।।

आघारावाज्यभागौ तु हुत्वा पूर्वक्रमेण तु ।। २९ ।।

जुहुयादाहुतीः सप्त जातवेदस इत्यृचा ।।

स्थालीपाकस्य जुहुयात्पुनर्वै जातवेदसा ।। 4.143.३० ।।

तरत्समंदी सूक्तेन चतस्रो जुहुयात्ततः ।।

यमायेति च सप्तान्याः स्वाहांता जुहुयात्ततः ।। ३१ ।।

इदं विष्णुस्ततः सप्त जुहुयादाहुतीर्नृप ।।

नक्षत्रेभ्यस्ततः स्वाहा सप्तविंशद थाहुतीः ।। ३२ ।।

यत्कर्मणैति जुहुयात्ततः स्विष्टकृतं पुनः ।।

ग्रहहोमस्ततः कार्यस्तिलैराज्यपरिप्लुतैः ।। ३३ ।।

प्रायश्चित्तं ततो हुत्वा होमकर्म समापयेत् ।।

ततस्तु तूर्यनिर्घोषैः काहलाशंखनिःस्वनैः ।। ३४ ।।

यजमानस्य कर्तव्यो ह्यभिषेको द्विजोत्तमैः ।।

काश्मर्यवृक्षसंभूते भद्रे भद्रासने स्थितम् ।। ३५ ।।

वेदिमध्यगतं कृत्वा दुर्निमित्तप्रशांतये ।।

पंचभिः कलशैः पूर्णैर्मंत्रैरेभिर्यथाक्रमम् ।। ३६ ।।

सहस्राक्षेण प्रथमं ततश्चैव शता युषा ।।

सजोषसा च इन्द्रेति विश्वानीत्यृग्भिरेव च ।। ३७ ।।

ऋतमस्त्विति च ततः स्नापयेयुः समाहिताः ।।

ततो दिशां बलिं दद्याद्विचित्रान्न समायुतम् ।। ३८ ।।

नमोस्तु सर्वभूतेभ्य इति मन्त्रमुदाहरन् ।।

स्नातस्य ब्राह्मणाः सर्वे पठेयुः शांतिमुत्तमाम् ।। ३९ ।।

शांतितोयेन धारां च पातयित्वा संमततः ।।

पुण्याहवाचनं कृत्वा शांतिकर्म समापयेत् ।। 4.143.४० ।।

क्षितिं हिरण्यं वासांसि शयनान्यासनानि च ।।

विप्रेभ्यो दक्षिणां दद्याद्यथा शक्त्या विमत्सरः ।। ४१ ।।

दीनानाथविशिष्टेभ्यः श्रोत्रियेभ्यश्च दापयेत् ।।

भोजनं शोभनं दत्त्वा ततः सर्वं प्रसिद्ध्यति ।। ४२ ।।

आयुश्च लभते दीर्घं शत्रून्विजयते क्षणात् ।।

दुर्गाणि चास्य सिद्यन्ति पुत्रांश्च लभते शुभान् ।। ४३ ।।

यथाशस्त्रप्रहाराणां कवचं वारणं भवेत्।।

तथा दैवोपघातानां शान्तिर्भवति वारणम् ।। ४४ ।।

अहिंसकस्य दांतस्य धर्मार्जितधनस्य च ।।

दयादाक्षिण्ययुक्तस्य सर्वे सानुग्रहा ग्रहाः।। ४५।।

अर्थान्समर्थयति वर्द्धयते च धर्मं कामं प्रसाधयति तस्य पिनष्टि पापम् ।।

यः कारयेत्सकलदोषहरीं समर्थां शांतिं प्रशांतहृदयः पुरुषः सदैव ।। ।। ४६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महाशांतिविधिवर्णनं नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ।।१४३।।

पर्व ४ (उत्तरपर्व) — Adhyāya 144

गणनाथशान्तिवर्णनम्

।। ।। युधिष्ठिर उवाच ।। ।।

शांतिं कथय देवेश गणनाथस्य मे विभो ।।

यां कृत्वा सर्वदुर्गाणि तरते मानवोऽखिलः ।। १ ।। ।। ।।

।। श्रीकृष्ण उवाच ।। ।।

शांतिं वक्ष्यामि राजेन्द्र गणनाथप्रियां पराम् ।।

यस्या आचरणेनैव सर्वारिष्टक्षयो भवेत् ।। २ ।।

विनायकं कर्माविघ्नसिद्ध्यर्थं विनिबोधत ।।

स्वप्नेऽवगाहतेऽत्यर्थं जलं मुंडांश्च पश्यति ।। ३ ।।

काषायवाससश्चैव क्रव्यादानधिरोहति ।।

अपमूर्धैः शवे रुद्रैः सहैकत्र च तिष्ठति ।। ४ ।।

व्रजन्नपि तथात्मानं मन्यतेनुगतं परैः ।।

विमना विफलारंभः संसीदत्यनिमित्ततः ।। ५ ।।

तेनोपसृष्टो लभते न राज्यं राजनंदनः ।।

कुमारी न च भर्तारमपत्यं गर्भिणी तथा ।। ६ ।।

आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्यापनं तथा ।।

वणिग्लाभं न चाप्नोति न कृषिं च कृषीवलः ।। ७ ।।

स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।।

गौरसर्षपकल्केन साज्येनोत्सादितस्य तु ।। ८ ।।

सुगन्धकुंकुमालिप्तशरीरशिरसस्तथा ।।

भद्रासनोपविष्टस्य स्वस्ति वाच्य द्विजाञ्छुभान् ।। ९ ।।

अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ध्रदात् ।।

मृत्तिकां रोचनां गंधान्गुग्गुलं चाप्सु निक्षिपेत् ।। 4.144.१० ।।

यदा हृता ह्येकवणैर्मनुभिः कलशैर्ह्रदात् ।।

चर्मण्यानडुहे रक्ते स्थाप्य भद्रासनं तथा ।। ।।१ १।।

सहस्राक्षं शतधारमृषिणा वचनं कृतम् ।।

तेन त्वामभिषिंचामि पावमान्यः पुनंतु ते ।।१२।।

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।।

भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ।। १३ ।।

यत्ते केशेषु दौर्भाग्यं सीमंते यच्च मूर्द्धनि ।।

ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु ते सदा ।। १४ ।।

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण च ।।

जुहुयान्मूर्द्धनि कुशान्सव्येन परिगृह्य च ।। १५ ।।

मितश्च समितश्चैव तथा सालकटंकटौ ।।

कूष्मांडो राजपुत्रश्च अंते स्वाहासमन्वितैः ।। १६ ।।

नामभिर्बलिमंत्रैश्च नमस्कारसमन्वितैः ।।

दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वशः ।। १७ ।।

कृता कृतांस्तंडुलांश्च पललौदनमेव च ।।

मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेव तु ।। १८ ।।

पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।।

मूलकं पूरि कापूपं तथैवोंडेरकस्रजम् ।। १९ ।।

दूर्वां सर्वप्रपुष्पाणां दत्त्वार्घ्यं पूर्णमडलाम् ।।

विनायकस्य जननीमुपतिष्ठेत्ततोंऽबिकाम् ।। 4.144.२० ।।

रूपं देहि यशो देहि भगं भवति देहि मे ।।

पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ।। २१ ।।

ततः शुक्लांबरधरः शुक्लमाल्यानुलेपनः ।।

भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ।। २२ ।।

एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।।

कर्मणां फलमाप्नोति श्रियमाप्नोति चोत्तमाम् ।। २३ ।।

आदित्यस्य तथा पूजां तिलकं स्वामिनस्तथा ।।

महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ।। २४ ।।

श्वेतार्कस्य तु यो मूले महागणपतिः कृतः ।।

सर्वलक्षणसंपूर्णः सोऽपि सिद्धिकरः स्मृतः ।। २५ ।।

संजप्यते शुचौ देशे विघ्नं नात्र हि देहिनः ।।

परमं पूजयेन्नित्यं गन्धमाल्यस्रगादिभिः ।। २६ ।।

क्षीणभाग्योऽपि पुरुषः पूजितश्च नरेश्वरः ।।

सर्वसिद्धिमवाप्नोति जयी भवति सर्वदा ।। .२७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे गणनाथशांतिवर्णनं नाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 145

नक्षत्रहोमविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अग्निहोत्रे सुखासीनं गर्गः पृच्छति कौशिकम् ।।

बंधने संनिरोधेङ्गा व्याधीनां संप्रपीडने ।। १ ।।

कथं मोक्षो भवेत्तस्य साध्यासाध्यं ब्रवीहि मे ।।

गर्गेण कौशिकः पृष्ट इदं वचनमब्रवीत् ।।२।।

आधाने जन्मनक्षत्रे नैधनप्रत्ययेषु च ।।

व्याधिरुत्पद्यते यस्य क्लेशाय मरणाय च ।।३।।

कृत्तिकासु यदा कश्चिद्व्याधिं संप्रतिपद्यते ।।

नवरात्रं भवेत्पीडा त्रिरात्रं रोहिणीषु च ।।४।।

मृगशीर्षे पञ्चरात्रमार्द्रा प्राणवियोजिनी ।।

पुनर्वसौ च पुष्ये च सप्तरात्रं विधीयते ।। ।। ५ ।।

नवरात्रं तथाश्लेषा श्मशानांतं मघासु च ।।

द्वौ मासौ फाल्गुनी चैव उत्तरासु त्रिपक्षकम् ।। ६ ।।

हस्ते च तनु दृश्येत चित्रायां त्वर्द्धमास कम् ।।७।।

मासद्वयं तथा स्वातौ विशाखा विंशतिर्दिनाः ।।

मैत्रे चैव दशाहं तु ज्येष्ठा चैवार्द्धमासिका ।।८।।

मूलेन जायते मोक्षश्चाषाढासु त्रिपञ्चकम् ।।

उत्तरादिनविंशत्या द्वौ मासौ श्रवणेन तु ।। ९ ।।

धनिष्ठायामर्द्धमासं वारुणे तु दशाहकैः ।।

नव भाद्रपदाऋक्ष उत्तरासु त्रिपंचकम् ।। 4.145.१० ।।

रेवती दशरात्रं तु अहोरात्रं तथाश्विनी ।।

प्राणैर्वियोजयेन्नित्यं गर्ग नास्त्यत्र संशयः ।। ११ ।।

कौशिकेन समादिष्टो नक्षत्रव्याधिसंभवः ।।

दैवज्ञेनापि ज्ञातव्यं नक्षत्रमथ जन्मना ।। १२ ।।

क्षीरवृक्षस्य समिधो जुहुयादश्वदैवते ।।

तिलान्मधुप्लुतान्याम्ये यवमेवाग्निदैवते ।। १३ ।।

प्राजापत्ये तु जुहुयाद्भोग्यबीजकरं बकम् ।।

सौम्ये प्रियंगवो रौद्रे सर्पिर्मांससमन्वितम् ।। १४ ।।

आदित्ये च प्रयत्नेन घृताक्ताः सिततंडुलाः ।।

पयसा सर्पिषा साकं बृहस्पत्यधिदैवते ।। १५ ।।

ग्राम्योषधैर्वटपत्रैः सर्पिः सर्पाधिदैवते ।।

होमः प्रोक्तः प्रियंगूनां नक्षत्रे यामदैवते ।। १६ ।।

सावित्रे दधिहोमोत्र त्वाष्ट्रं चित्रौदनं हविः ।। १७ ।।

यवान्सहाज्येन हुनेद्रौद्रेऽग्नौ तु पयोदनम् ।।

मैत्रेणाथ तु मंत्रेण मैत्रे कटकमिश्रितम् ।। १८ ।।

नैर्ऋत्ये तिलहोमः स्यादव्यक्ते च हुताशने ।।

अब्दैवत्ये शालिबीजैर्वैश्वदेवं तु कारयेत् ।। १९ ।।

रक्ताश्च तंडुलाश्चैव होतव्या विष्णुदैवते ।।

वारुणे पारिजातानां पुष्पाणां होम इष्यते ।। 4.145.२० ।।

अजैकपादे नक्षत्रे प्राजापत्येन तत्समम् ।।

आहिर्बुध्न्ये तु नक्षत्रे वैश्वदेवं तु कारयेत् ।। २१ ।।

रक्ताश्च तण्डुलाश्चैव होतव्या विष्णुदैवते ।।

पौषे फलान्यखंडानि जुहुयादष्टोत्तरं शतम् ।। २२ ।।

सावित्री होममेकं तु ब्रह्माभिहितवान्पुरा ।।

सर्वज्वरप्रशमनं सद्यो ज्वरहरं परम् ।। २३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रहोमविधिवर्णनं नाम पंच चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 146

अपराधशतव्रतवर्णनम्

।। श्रीवसिष्ठ उवाच ।। ।।

अथान्यदपि ते वच्मि व्रतं राजन्महाफलम् ।।

अपराधशतं येन क्षयं याति शृणुष्व तत् ।। १ ।।

।। इक्ष्वाकुरुवाच ।। ।।

किं व्रतं तन्ममाचक्ष्व कोऽपराधस्तु तं वद ।।

कः पूज्यते च वै तस्मिन्कदा वा क्रियते नरैः ।। २ ।।

।। श्रीवसिष्ठ उवाच ।।

शृणु राजन्महाबाहो अपराधशतव्रतम्।।

येनानुष्ठितमात्रेण काममोक्षौ लभेत ना ।। ३ ।।

प्रायश्चित्तान्यशेषाणि सर्वपापापनुत्तये ।।

कृतान्यप्यकृतानि स्युरिति होवाच पद्मजः ।। ४ ।।

पापं गुरुतरं चापि दह्यते तूलराशिवत् ।।

अपराधशतं राजञ्शृणुष्व गदतो मम ।। ५ ।।

न करोति नरो मोहाद्व्रतमेतद्दिनेदिने।।

अनाश्रमित्वं प्रथमोऽनग्निता व्रतहीनता ।। ६ ।।

अदातृत्वमशौचं च निर्दयत्वं स्पृहालुता ।।

अक्षांतिर्जनपीडा च मायित्वमप्यमंगलम् ।। ७ ।।

क्षतव्रतत्वं नास्तिक्यं वेदनिंदा कठोरता ।।

असत्यता हिंसकत्वं स्तैन्यमि न्द्रियविप्लवः ।। ८ ।।

मनसोऽनिग्रहश्चैव क्रोध ईर्ष्याथ मत्सरः ।।

दंभः शाठ्यं च धौर्त्यं च कटुकोक्तिः प्रमादता ।। ९ ।।

भार्यामातृसुतादीनां त्यागश्चापूज्य पूजनम् ।।

श्राद्धहानिर्जपत्यागः पंचयज्ञविवर्जनम् ।। 4.146.१० ।।

संध्यातर्पणहोमानां हानिरग्नेः प्रणाशनम् ।।

अनृतौ मैथुनं पार्थ पर्वण्यपि च मैथुनम् ।। ११ ।।

पैशुन्यं परदारेषु दानं वेश्याभिगामिता ।।

अपात्रदानं चाल्पं च मूलिकाकुलिभक्षणम् ।। १२ ।।

अंत्यजागमनं मातृत्यागः पितृविवर्जनम् ।।

पित्रोरभक्तिर्वादश्च पुराणस्मृतिवर्जनम् ।। १३ ।।

अभक्ष्यभोजनं चापि पतिद्रोहोऽविचारता ।।

कृषिकर्मक्रियावाहं भार्यासंग्रहकारिता ।। १४ ।।

इंद्रियाजयमायित्वं विद्याविस्मरणं तथा ।।

शास्त्रत्याग ऋणं चित्रकर्म चानंगधावनम् ।। १५ ।।

भार्यापुत्रसुतादीनां विक्रयः पशुमैथुनम्।।

इन्धनार्थं द्रुमच्छेदो बिले वार्यादिपूरणम् ।। १६ ।।

तडागागमने वृत्तं विद्याविक्रयकारिता ।।

वृत्तिलोपो महीपाल याचकत्वं कुमित्रता ।। १७ ।।

स्त्रीवधो गोवधश्चैव पौरोहित्यं सुहृद्वधः ।।

भ्रूणहत्या परान्नं च शूद्रान्नस्य निषेवणम् ।। १८ ।।

शूद्रस्य चाग्निकर्मत्वमविधित्वं कुपुत्रता ।।

विद्वद्भ्यो याचकत्वं हि वाचाटत्वं प्रतिग्रहः ।। १९ ।।

श्रौतसंस्कार दीनत्वमार्तत्राणविवर्जनम् ।।

ब्रह्महत्यासुरापानरुक्मस्तैन्यमतः परम् ।। 4.146.२० ।।

गुरुदाराभिगामित्वं संयोगश्चापि तैः सह ।।

अपराधशतं त्वेतत्कथितं ते मयानघ ।। २१ ।।

अन्येऽपि विविधाः संति प्रोक्ताः प्राधान्यतस्त्वमी ।।

यदि वक्त्रसहस्राणि वक्त्रे जिह्वाशतानि च ।। २२ ।।

तथाप्येते न शक्यंते वक्तुं यस्मादनंतकाः ।।

अपराधसहस्राणि लक्षकोटिशतानि च ।। २३ ।।

नश्यंति तत्क्षणान्नूनं सत्येशस्यानुपूजनात् ।।

पूज्ये भगवानत्र कृतकृत्ये पराजिते ।। २४ ।।

ध्वजे सत्ये स्थितश्चायं लक्ष्म्या सह जगत्पतिः ।।

वामदेवस्ततः पूर्वं नृसिंहो दक्षिणे स्थितः ।।२५ ।।

कपिलः पश्चिमास्ये तु वाराहश्चोत्तरे स्थितः।।

ऊर्ध्ववक्त्रोऽच्युतो ज्ञेय एतद्वै ब्रह्मपंचकम् ।। २६ ।।

तं सत्येशं स्थितं राजन्पूजयेच्च सदैव हि ।।

क्षीरोदयार्धचन्द्रस्थपद्मकर्णिकसंस्थितम् ।। २७ ।।

पद्मकौमोदकीशंखचक्रायुधविधारणम् ।।

वामे चाधस्तथा दक्षे ऊर्ध्वे पश्चादधो नृप ।। २८ ।।

पादाधस्ताद्विनिष्क्रांता गंगा पूता सदा नृभिः ।।

शक्त्यष्टकं तथा चान्यत्तन्नामानि च मे शृणु ।। २९ ।।

जया च विजया चैव जयंती पापनाशिनी।।

उन्मीलिनी वंजुली च त्रिस्पृशाथ विवर्द्धना ।।4.146.३०।।

एताभिः शक्तिभिर्युक्तं लोकदिक्पालवर्जितम् ।।

शुक्लांबरधरं सौम्यं प्रहृष्टवदनं शिवम् ।। ।। ३१ ।।

सर्वाभरणशोभाढ्यं भुक्तिमुक्तिप्रदं हरिम् ।।

पूजयेच्च प्रयत्नेन विधिना येन तं शृणु ।। ३२ ।।

मार्गशीर्षादिमासेषु द्वादशस्वपि सर्वदा ।।

द्वादश्यामप्यमायां वा अष्टम्यां च सितासिते ।। ३३ ।।

कृतोपवासः शुद्धात्मा कुर्याद्व्रतमतंद्रितः ।।

पक्षयोरुभयोरेवं पूजयेऽहं जनार्दनम् ।। ३४ ।।

एवं तु नियमं कृत्वा दंतधावनपूर्वकम् ।।

गच्छेत्ततस्तडागे वा पुष्करिण्यां गृहेऽपि वा ।। ३५ ।।

स्नात्वा तु नैत्यकं कर्म कृत्वा नैमित्तिकं ततः ।।

कुर्यात्सर्वं प्रयत्नेन यथावदनुपूर्वशः ।। ३६ ।।

सौवर्णं कारयेद्देवं पूर्वोक्तं सत्यरूपिणम् ।।

शक्त्यष्टकयुतं लक्ष्म्या युक्तं पद्मासनस्थया ।। ३७ ।।

सुवर्णपलमानेन कार्यमेतत्सविस्तरम् ।।

दुग्धकुंभोपरिष्टात्तु स्वर्णपद्मं प्रकल्पयेत् ।। ३८ ।।

तत्कर्णिकागतं देवं शक्तिवृन्दसमन्वितम् ।।

पूजयेद्विधिवत्पश्चाद्गुरुमंत्रप्रचोदितः ।। ३९ ।।

शुद्धशुक्लांबरधरो मंत्रसंभारसंस्थितः ।।

देवक्षीरसमुद्रेऽस्मिन्वृत्ते चन्द्रे च पुष्करे ।।

तत्र त्वं सत्यया सार्द्धं सत्येश भव सन्निधौ ।। 4.146.४० ।।

ॐ क्षीरसागरकल्लोले स्नाहि पापनिषूदन ।।

अनेन भूतभव्येन दत्तेन जलबिन्दुना ।। ४१ ।।

हरस्व सर्वं दुरितं मम नाथ जनार्दन ।।

वस्त्रदानेन शुभ्रेण सत्येश कुरु मे शुभम् ।। ४२ ।।

यज्ञे योगे तथा सांख्ये पवित्रस्त्वं सदोच्यसे ।।

यज्ञोपवीतदानेन कुरु मां सर्वपावनम् ।। ४३ ।।

विलिप्तं कर्मणा सर्वं सत्यं सत्यं न केनचित् ।।

मम चन्दनलिप्तांगः सर्वलेपापहो भव ।। ४४ ।।

सत्यनाथ नमस्तुभ्यं मूर्तामूर्तस्वरूपिणे ।।

वासुदेव नृसिंहाख्य कपिलादिव्यभूधर ।। ४५ ।।

वाराहाच्युत यज्ञेश लक्ष्मीकांत नृपेश्वर ।।

पशुं पुत्रं च मे देहि पापशत्रो निरंजन ।। ४६ ।।

संकर्षण महावीर्य सर्वेशामितविक्रम ।।

अनिरुद्धेन्द्र गोविन्द धृतचक्र नमोऽस्तु ते ।। ४७ ।। (इति पूजामंत्रः)

कृष्णकृष्ण प्रभो रामराम कृष्ण विभो हरे ।।

त्राहि मां सर्वदुःखेभ्यो रमया सह माधव ।। ४८ ।।

पूजा चेयं मया दत्ता पितामहजगद्गुरो ।।

गृहाण जगदीशान नारायण नमोऽस्तु ते ।। ४९ ।।

धनं गुप्तं महीपाल सर्वपापापनुत्तये ।।

एकस्यैव तु विप्रस्य यावद्वर्षं समर्पयेत् ।। 4.146.५० ।।

दानं दद्यान्महाराज ह्यशक्तौ तदभावतः ।।

पक्षेपक्षे प्रकर्तव्यं व्रतमेतन्महत्तरम् ।। ५१ ।।

संवत्सरे ततः पूर्णे कुर्यादुद्यापनं बुधः ।।

पूर्ववत्पूजयेदेवं बहुसंभारवि स्तरैः ।। ५२ ।।

अनुज्ञां प्रार्थयेद्विप्रान्पापघ्वंसो ममास्तु वै ।।

पापध्वंसोऽस्तु सततं तवेति च द्विजो वदेत् ।। ५३ ।।

ततः सर्वं ब्राह्मणाय समर्प्य च क्षमापयेत् ।।

अस्मिन्व्रते कृते राजन्भवेद्बहुफलोदयः ।। ५४ ।।

यत्फलं सर्ववेदेषु सर्वतीर्थेषु यत्फलम् ।।

तत्फलं कोटिगुणितं व्रतस्यास्य निषेवणात् ।। ५५ ।।

इहलोके धनं धान्यं पुत्रमित्रसुखादिकम् ।।

प्राप्नोति पुरुषः सम्यग्विद्यारोग्यकलायुधम् ।। ५६ ।।

धर्ममथ च कामं च मोक्षं च नृपसत्तम ।।

लभते नात्र संदेहो ब्रह्मणो वचनं यथा ।। ५७ ।।

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।।

यः कुर्यात्पुनरेतद्धि सोऽनन्तफलभाग्भवेत् ।। ५८ ।।

अशक्तस्तु तथा शक्तो वित्तशाठ्यविवर्जितः ।।

व्रतं कुर्वन्नरो भक्त्या लभते शाश्वतं पदम् ।। ५९ ।।

कृते वै क्रियमाणे तु कर्ता फलमवाप्नुयात् ।।

अपराधशताघौघं व्रतेनानेन नाशयेत् ।। 4.146.६० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अपराधशतव्रतवर्णनं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 147

काञ्चनव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

श्वेतद्वीपे सुखासीनं देवदेवं जगत्प्रभुम् ।।

वासुदेवं जगन्नाथं स्थितिसंयमकारकम् ।। १ ।।

परावराणां स्रष्टारं पुराणं परमव्ययम् ।।

आदिदेवं जगन्नाथं जगतः कारणात्म कम्।। २ ।।

प्रणिपत्य महादेवं चराचरगुरुं हरिम् ।।

लक्ष्मीः प्रोवाच राजेन्द्र पादसंवाहने स्थिता ।। ३ ।।

भगवन्देवदेवेश भक्तानामनुकम्पक ।।

प्रष्टव्यं किञ्चिदिच्छामि प्रष्टुं प्रश्नविदां वर ।। ४ ।।

प्रकुरुष्व महाभाग दयां कृत्वा ममोपरि ।।

व्रतं किञ्चित्कथय मे रूपसौभाग्यदायकम् ।। ५ ।।

उत्तमं सर्ववर्णानां व्रतानामपि चोत्तमम्।।

कृतेन येन देवेश सर्वतीर्थफलं भवेत् ।। ६ ।।

।। विष्णुरुवाच ।। ।।

गृहस्थश्चाश्रमाणां च वर्णानां ब्राह्मणो यथा ।।

यथा नदीषु सर्वासु जाह्नवी लोकविश्रुता ।। ७ ।।

ह्रदानामुदधिः श्रेष्ठो देवानां विष्णुरुत्तमः ।।

स्त्रीणां देवा यथा लक्ष्मीस्तथेदं व्रतमुत्तमम्।। ८ ।।

न गङ्गा न कुरुक्षेत्रं न काशी न च पुष्करम् ।।

पावनानि महाभागे यथेदं व्रतमुत्तमम् ।। ९ ।।

गौर्या देव्या कृतं पूर्वं शंकरेण महात्मना ।।

रामेण सीतया सार्द्धं राज्यं प्राप्य कृतं पुरा ।। 4.147.१० ।।

दमयन्तीवियोगेन नलेन तु तथा कृतम् ।।

कृष्णया सहितैः पार्थ पांडवैर्वन वासिभिः ।। ११ ।।

कृतमेतद्व्रतं भद्रे स्वर्गमोक्षप्रदायकम् ।।

रंभया मेनया वापि पौलोम्या सत्यभामया ।। १२ ।।

शांडिल्या चाप्यरुन्धत्या उर्वश्या देवदत्तया ।।

कृतं व्रतमिदं भद्रं सौभाग्यसुखकाम्यया ।। १३ ।।

पाताले नागकन्याभिः कृतमेतत्सुशोभनम् ।।

गायत्र्या च सरस्वत्या सावित्र्या ब्रह्मभार्यया ।। १४ ।।

अन्याभिः सर्वनारीभिः सर्वकामफलेप्सुभिः ।।

तस्मात्तेऽहं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।। १५ ।।

वसुप्रीतिकरं रम्यं व्रतानां परमं शृणु ।।

ब्रह्महा मुच्यते पापात्सुरापो वसुहारकः ।। १६ ।।

गुरुभार्याभिगामी च ह्येतेषां संगमी च यः ।।

मानकूटं तुलाकूटं कन्यावृत्तिर्गवां व्रती ।। १७ ।।

अगम्यागमनो यस्तु मांसाशी वृषलीपतिः ।।

कुण्डाग्निभोजी यस्तु स्याद्भूभिहर्ता तथैव च ।। १८ ।।

एभिः सर्वैर्महापापैर्मुच्यते नात्र संशयः ।।

एभिः स्यान्नरनारीभिः कर्तव्यं व्रतमुत्तमम् ।।१९।।

अतस्तेऽहं विधिं वक्ष्ये विधानमवधारय ।।

काञ्चनाख्या पुरी नाम व्रतं त्रैलोक्यविश्रुतम् ।। 4.147.२० ।।

यः करोति नरो देवि नारी वा भक्तिसंयुता ।।

तस्य पुत्राश्च पौत्राश्च जायते विपुलं धनम् ।। २१ ।।

तस्मिन्मासे च कर्तव्यं व्रतमेतच्च सुन्दरि ।।

तस्मिन्मासे च कर्तव्या काञ्चनाख्या पुरी शुभा ।। २२ ।।

शुक्लकृष्णतृतीयायामेकादश्यां च पूर्णिमा ।।

संक्रांतिर्वा महाभागे कुहूर्वा चाष्टमी तिथिः ।। २३ ।।

पर्वस्वन्येषु सर्वेषु दातव्या काञ्चनी पुरी ।।

व्रती स्नात्वा तु पूर्वाह्णे नद्यादौ विमले जले ।। २४ ।।

मृत्तिकालंभनं कार्यं मंत्रेणानेन सुव्रते ।।

उद्धृतासि यथापूर्वं विष्णुना क्रोडरूपिणा ।।२५।।

लोकानामुपकारार्थं वन्दनात्सिद्धिकामदा ।।

तस्मात्त्वं वंदिता पापं हर मेऽनेकजन्मजम् ।। २६ ।। ( इति मृत्तिकामंत्रः ।।) ।।

आपस्तु विश्वयोनिर्हि विष्णुना निर्मिताः स्वयम् ।।

सान्निध्यं तीर्थसहितं कर्तव्यं मम सांप्रतम् ।। २७ ।। ( इत्यम्मंत्रः ।।) ।।

अनेन विधिना स्नात्वा यजमानः समाहितः ।।

गृहमागम्य शुद्धात्मा नालपन्पिशुनांस्त्व रात् ।। २८ ।।

पाखंडिनो विकर्मस्थान्धूर्तांश्च कितवाच्छठान् ।।

प्रक्षाल्य पाणिवदनं कुर्यात्त्वाचमनं ततः ।। २९ ।।

उपवासस्य नियमं कुर्यान्नक्तस्य वा पुनः ।।

शंखप्रवरमादाय हेमयुक्तं जलैर्भृतम् ।। 4.147.३० ।।

द्वादशाक्षरमंत्रेण तज्जलं चाभिमंत्रयेत् ।।

पिबेत्तोऽयं गृहे गत्वा हरिरित्यक्षरं जपेत् ।। ३१ ।।

शमीवृक्षमया वेदी चतुःस्तंभसमन्विता ।।

चतुर्हस्तप्रमाणेन कार्य्या चैव सुशोभना ।। ३२ ।।

वस्त्रेणावेष्टिताः स्तम्भा वितानवर मण्डिताः ।।

पुष्पमालान्विताः कार्या दिव्यधूपाधिवासिताः ।। ३३ ।।

मध्ये तु मंडलं कार्यं पद्माख्यं वर्णकैः शुभैः ।।

येन दृष्टेन देवेशि सर्वपाप क्षयो भवेत् ।।

मंडलस्य तु मध्ये वै भद्रपीठं सुशोभनम् ।। ३४ ।।

आसनं तत्र विन्यस्य कोमलं वस्त्रवेष्टितम् ।।

तस्योपरि न्यसेद्देवं लक्ष्म्या युक्तं जनार्दनम् ।। ३५ ।।

अग्रे तु कलशः कार्यो जलपूर्णः सुशोभनः ।।

क्षीरसागरनामा स कल्पितव्यः प्रयत्नतः ।। ३६ ।।

पञ्चरत्नसमायुक्तं वस्त्रेणावे ष्टयेद्धनम् ।।

कुम्भं प्रपूर्णमुदकैस्तस्योपरि न्यसेद्बुधः ।। ३७ ।।

तस्योपरिष्टात्संस्थाप्य कांचनाख्यां पुरीं शुभाम्।।

चतुष्पला ह्युत्तमा स्याद्द्विपला मध्यमा स्मृता ।। ३८ ।।

सामान्यैकपला कार्या कलशैस्तु समन्विता ।।

मोदकान्स्थापयेद्दिव्यान्समंतात्सुंदराकृतीन् ।। ३९ ।।

तदग्रे कदलीस्तम्भैस्तोरणं परिकल्पयेत् ।।

चातुश्चरणिकांस्तत्र विप्रानावाह्य सुंदरि ।। 4.147.४० ।।

प्रतिष्ठां कारयेत्तस्य वेदमन्त्रैः सुशोभनैः ।।

तस्या मध्ये न्यसेद्विष्णुं हैमं लक्ष्म्या समन्वितम् ।। ४१ ।।

नेत्रे रत्नमये कार्ये दशना वज्रभूषिताः ।।

मुक्ताफलमयं तस्य भूषणं परिकल्पयेत् ।। ४२ ।।

अंगं स्वर्णमयं कार्यं शंखचक्रगदायुधम् ।।

पञ्चामृतेन देवेशं स्नाप्य नारायणं विभुम् ।। ४३ ।।

तमेव गंधपुष्पाद्यैर्मंत्रमुच्चार्य पूजयेत् ।।

ब्राह्मणो वैदिकैर्मन्त्रैः पूजयेन्मधुसूदनम् ।। ४४ ।।

शेषा वर्णाः पुराणोक्तैस्ताञ्छृणुष्व मम प्रिये ।।

वासुदेवाय पादौ तु गुल्फौ संकर्षणाय च ।। ४५ ।।

त्रैलोक्यजनकायेति जानुनी पूजयेद्धरेः ।।

त्रैलोक्यनाथाय गुह्ये ज्ञानमयाय वै कटिम् ।। ४६ ।।

दामोदरायेत्युदरं हृदयं विश्वरूपिणे ।।

नित्यं हि पूजयेद्देवि उरः श्रीवत्सधारिणे ।। ४७ ।।

कण्ठं कौस्तुभनाथाय आस्यं यज्ञमुखाय च ।।

दैत्यांतकारिणे बाहू स्वैर्नामैरायुधानि च ।। ४८ ।।

शिरः सर्वात्मने देवि देवदेवस्य पूजयेत् ।।

श्रियं प्रपूजयेद्देवीं देव्या मंत्रैः पृथग्विधैः ।। ४९ ।।

इन्द्रादिलोकपालानां पूजा कार्या यथाक्रमम् ।।

नवग्रहाणां होमश्च कर्तव्यो विघ्ननाशनः ।।4.147.५०।।

पूजा गणपतेः कार्या तथा होमो विधानतः ।।

अग्रे नैवद्यमतुलं दापयेद्धृतपाचितम् ।। ५१ ।।

पायसं घृतपूरांश्च मोदकान्पूरिकास्तथा ।।

सोहालिकादिनैवेद्यं फेणिकाः शर्करास्तथा ।। ५२ ।।

देशकालोद्भवान्येव फलानि विनिवेदयेत् ।।

दीपान्दश दिशो दद्यात्पार्थिवान्रक्तवर्तिकान्।।५३।।

एतेन तु विशालाक्षि मूलमन्त्रेण दापयेत् ।।

पुष्पमालान्वितान्कृत्वा चंदनेन विभूषितान् ।।५४।।

अभिमंत्र्य प्रयत्नेन विष्णुस्तबकवाचकैः ।।

सहस्रशीर्षादिभिर्मंत्रैर्जपद्भिर्ब्राह्मणोत्तमैः ।। ५५ ।।

षोडशाथ सपत्नीकान्पूजयेच्च यथाविधि ।।

भूषयेच्च शुभैर्वस्त्रैस्तथालंकारणादिभिः ।। ५६ ।।

विष्णुं मत्वा द्विजः पूज्यो लक्ष्मीं मत्वा च ब्राह्मणीम् ।।

छत्रं चोपानहौ चैव अंगुल्याभरणं तथा ।।५७।।

फलानि सप्त धान्यानि भोजनं च यदीप्सितम् ।।

दातव्यं च सभार्याय कृष्णो मे प्रीयतामिति ।। ५८ ।।

शय्यां सोपस्करां चैव वस्त्रेणाच्छाद्य यत्नतः ।।

तथा प्रकल्पयेद्वित्तशक्त्या च सुंदरी यथा ।। ५९ ।।

व्रते पूर्णे च गौर्देया सर्वोपस्करसंयुता ।।

पुरीं घटापयेत्पूर्वं वस्त्रेणाच्छाद्ययस्तः ।।

यथा कुर्यात्प्रयासेन यथा कर्ता न पश्यति ।। 4.147.६० ।।

दीपांस्तु दीपितांस्तत्र आनयेद्यज्ञमण्डपम् ।।

श्वेतवस्त्रेण नेत्रे तु यजमानस्य च प्रिये।।६१।।

श्रुतवाञ्छास्त्रवित्प्राज्ञः कृतसर्वाघसंक्षयः ।।

आबध्य नेत्रे सुप्राज्ञ आचार्यस्तमिदं वदेत् ।।६२।।

सर्वकामप्रदां पश्य कांचनाख्यां पुरीमिमाम्।।

वरवस्त्रयुतां रम्यां दुःखदौर्भाग्यनाशिनीम्।। ६३ ।।

एवमुक्तो महाभाग पटमुन्मुच्य नेत्रयोः ।।

पुष्पाञ्जलिं गुरौ क्षिप्त्वा स पश्येत्तां पुरीं शुभाम्।।६४।।

दृष्ट्वा तां नगरीं देवि यजमानः समाहितः ।।

सौवर्णं पात्रमादाय रौप्यं ताम्रमथापि वा ।। ६५ ।।

अथ वा शंखमादाय पात्रालाभे तु सुन्दरि ।।

पञ्चरत्नं क्षिपेत्पात्रे जलं गाङ्गं तथा फलम् ।। ६६ ।।

सिद्धार्थमक्षताः पूर्वं रोचना दधि वा पुनः ।।

ततश्चार्ध्यं प्रदातव्यं कृष्णाय प्रभविष्णवे ।। ६७ ।।

लक्ष्मीनारायणौ देवौ सर्वकामफलप्रदौ ।।

रुक्मपुर्याः प्रदानेन यच्छैतां वांछितं मम ।। ६८ ।।

नारायण हृषीकेश ज्ञानज्ञेय निरंजन।।

लक्ष्मीकांत जगन्नाथ गृहाणार्घ्यं नमोस्तु ते।।६९।। ( इत्यर्घमंत्रः) ।।

एवमर्घ्यं ततो दत्त्वा विष्णवे प्रभविष्णवे।।

देव्यास्त्वर्घ्यं प्रदातव्यं भक्तियुक्ते न चेतसा।।4.147.७०।।

जानुभ्यामवनिं गत्वा मंत्रमेतमुदीरयेत् ।।

ब्रह्मणा पूजिता देवी विष्णुना शंकरेण च ।।७१।।

पार्वत्या पूजिता लक्ष्मीः स्कंदवैश्रवणेन च।।

मया च पूजिता देवि धर्मस्य विजिगीषया ।।७२।।

सौभाग्यं देहि मे पुत्रान्धनं पौत्रांश्च पूजितान् ।।

गृहाणार्घ्यं मया दत्तं देवि सौख्यं प्रयच्छ मे ।।७३।।

य एवं पुरतो दत्त्वा पूर्वोक्तविधिना तव ।।

रात्रौ जागरणं कुर्याद्भक्तियुक्तेन चेतसा ।।७४।।

गीतनृत्यविनोदेन उपाख्यानैश्च वैष्णवैः।।

येन केन विनोदेन निद्रा नैव प्रजायते ।।७५।।

उन्निद्रो जागृयाद्यस्तु शतयज्ञफलं लभेत् ।।

प्रभाते विमले स्नात्वा संपूज्य पितृदेवताः ।।७६।।

ब्राह्मणांश्च सपत्नीकान्परिधाप्यानुभोजयेत् ।।

दक्षिणाश्च यथाशक्त्या प्रदाय च क्षमापयेत् ।। ७७ ।।

दीनांधबधिरान्पंगून्सर्वांस्तान्परितोषयेत् ।।

पश्चात्पारणकं कार्यमुपवासी भवेद्यदि ।। ७८ ।।

मधुरं पयसा युक्तं सुहृद्भिर्बांधवैः सह ।।

एवमेतद्व्रतं कार्यमेकादश्यां शुचिस्मिते ।। ७९ ।।

शुक्लायामथ कृष्णायां तृतीयायां तथा तिथौ।।

संक्रांतिवासरे वापि व्यतीपाते च वैधृतौ ।।4.147.८०।।

यदा वा जायते वित्तं चित्तं च वरवर्णिनि ।।

गौरानीय प्रदातव्या कृष्णो मे प्रीयतामिति ।। ८१ ।।

एवं कृते च यत्पुण्यं तन्न शक्यं निवेदितुम् ।।

अपि वर्षसहस्रेण कुललक्षशतैरपि ।। ८२ ।।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च।।

ब्रह्मलोकं समासाद्य ब्रह्मणा प्रतिमोद्यते ।। ८३ ।।

ब्रह्मकाद्रुद्रलोकं तत्परं विष्णुसंनिधौ ।।

इन्द्रादिलोकपालानां व्रती लोकमवाप्नुयात् ।। ८४ ।।

ततो भुक्त्वा शुचिः श्रीमान्भोगांस्त्रैलोक्यसुंदरि ।।

चक्रवर्ती भवेद्भूमौ ब्रह्मण्यो वैष्णवस्तथा ।।८५।।

य इदं शृणुयान्नित्यं वाचयमानं समंततः ।।

कुलसप्तकमुद्धृत्य वैष्णवं लोकमाप्नुयात् ।।८६।।

त्वया कांचनपुर्याख्यं व्रतमेतत्कृतं पुरा ।।

तेन पुण्येन लब्धोऽहं भर्ता त्रैलोक्यपूजितः ।। ८७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीलक्ष्मीविष्णुसंवादे कांचनपुरीव्रतवर्णनं नाम सप्तचत्वारिंशदुत्तर शततमोऽध्यायः ।। १४७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 148

कन्याप्रदानवर्णनम् ( अथ कन्यादानम्)

।। श्रीकृष्ण उवाच ।। ।।

ब्रह्मदेयां तु यः कन्यामलंकृत्य प्रयच्छति ।।

सप्तपूर्वान्भविष्यांश्च स्वकुले सप्त मानवान्।।१।।

तेन कन्याप्रदानेन स तारयत्यसंशयम् ।।

लोकानाप्नोति च तथा दक्षस्यैव प्रजापतेः।।२।।

प्राजापत्येन विधिना आत्मानं च समुद्धरेत्।।

महत्पुण्यमवाप्नोति स्वर्गलोकं च गच्छति ।।३।।

भूगवाश्वप्रदानानि गजदानं तथैव च ।।

दत्त्वा तु वर्णहीनाय घोरे तमसि मज्जति ।।४।।

बहुवर्षसहस्राणि पुरीषं काकमश्नुते।।

शुल्केन दत्त्वा कन्यां च घोरं नरकमाप्नुयात् ।।५।।

बहून्यब्दसहस्राणि तथा अशुचिभुङ्नरः।।

सवर्णां च सवर्णेभ्यो दद्यात्कन्यां यथाविधि ।।६।।

दत्त्वा चाधिकवर्णाय द्विगुणं निर्गुणं तथा ।।

द्विजपुत्रमनाथं वा संस्कुर्याद्यश्च कर्मभिः ।।७।।

चूडोपनयाद्यैश्च सोऽश्वमेधफलं लभेत् ।।

अनाथां कन्यकां दत्त्वा नाकलोके महीयते ।। ८ ।।

कन्यया सह दत्तं च सुवर्णं वह्निमूलकम् ।।

सकलं द्विगुणं तस्य फलमुक्तं पुरातनैः ।। ९ ।।

कन्यादानादवाप्नोति दक्षलोकं नरोत्तम ।।

विष्णुपूजासमं पुण्यं तत्कन्यापूजया भवेत् ।। 4.148.१० ।।

विमानमाहृत्य मनोभिरामं सुराङ्गनागीतविलासहृद्यम् ।।

प्राप्नोति लोकं त्रिदशोत्तमानां कन्याप्रदानान्न विचारणेति ।। ११ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कन्याप्रदानवर्णनं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 149

ब्राह्मणशुश्रूषाविधिवर्णनम्

।। श्रीकृष्ण उवाच।। ।।

ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ।।

ब्राह्मणेभ्यः परं नास्ति नास्ति भूतं जगत्त्रये ।। १ ।।

अदेवं दैवतं कुर्युः कुर्युर्देवमदैवतम् ।।

ब्राह्मणा हि महाभागाः पूज्यंते सततं द्विजाः ।।२।।

ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति स्मृतिः ।।

ब्राह्मणेभ्यो जगत्सर्वं तस्मात्पूज्यतमा द्विजाः ।। ३ ।।

येषामश्नंति वक्त्रेण देवताः पितरस्तथा ।।

ऋषयश्च तथा नागाः किं भूतमधिकं ततः ।। ४ ।।

यदैव मनुजो भक्त्या ब्राह्मणेभ्यः प्रयच्छति ।।

तदैवाप्नोति धर्मज्ञ बहुजन्मनि जन्मनि ।। ५ ।।

तालवृंतानिलेनैव श्रांतसंवाहनेन च ।।

उत्सादनेन गात्राणां तथा व्यंजनकर्मणा ।। ६ ।।

पादशौचप्रदानेन पादयोः सेचनेन च ।।

परिचर्य यथा काममेकेनैव द्विजोत्तम ।। ७ ।।

अनिष्ट्वापि समाप्नोति स्वर्गलोकं च शाश्वतम् ।।

ब्राह्मणानां शुभं कृत्वा नाकलोके महीयते ।। ८ ।।

यद्ब्राह्मणास्तुष्टिमन्तो वदंति प्रत्यक्षदेवेषु परोक्षदेवाः ।।

तद्वै शुभं तस्य नरस्य नूनं भवेदतस्तान्सततं निषेवेत् ।। ९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ब्राह्मणशुश्रूषाविधिवर्णनं नामैकोनपंचा शदुत्तरशततमोऽध्यायः ।। १४९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 150

वृषदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

युष्मद्वाक्यामृतमिदं ह्यहं शृण्वञ्जनार्दन।।

न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे ।। १ ।।

गोपतिः किल गोविन्दस्त्रिषु लोकेषु विश्रुतः ।।

गोवृषस्य प्रदानेन त्रैलोक्यमभिनंदति ।। २ ।।

तस्माद्गोवृषकल्पस्य विधानं कथयाच्युत ।। ३ ।।

।। श्रीकृष्ण उवाच ।। ।।

वृषदानफलं पुण्यं शृणुष्व कथयामि ते ।।

पवित्रं पावनं चैव सर्वदानोत्तमं तथा ।। ४ ।।

दशधेनुसमोऽनड्वानेकश्चैव धुरंधरः ।।

दशधेनुप्रदानाद्धि स एवैको विशिष्यते ।। ५ ।।

वोढा च चारुपृष्ठांगो ह्यरोगः पांडुनंदन ।।

युवा भद्रः सुशी लश्च सर्वदोषविवर्जितः ।। ६ ।।

धुरंधरः स्थापयते एक एव कुलं महत् ।।

त्राता भवति संसारान्नात्र कार्या विचारणा ।। ७ ।।

अलंकृत्य वृषं शांतं पुण्येह्नि समुपस्थिते ।।

रौप्यलाड्गूलसंयुक्तं ब्राह्मणाय निवेदयेत् ।। ८ ।।

मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते ।।

धर्मस्त्वं वृषरूपेण जग दानंदकारक ।। ९ ।।

अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ।।

दत्वैवं दक्षिणायुक्तं प्रणिपत्य विसर्जयेत् ।। 4.150.१० ।।

सप्तजन्मकृतं पापं वाङ्मनः कायकर्मजम् ।।

तत्सर्वं विलयं याति गोदानसुकृतेन च ।। ११ ।।

यानं वृषभसंयुक्तं दीप्यमानं सुशोभितम् ।।

आरुह्य कामगं दिव्यं स्वर्लोकमधिरोहति ।। १२ ।।

यावंति तस्य रोमाणि गोवृषस्य महीपते ।।

तावद्वर्षसहस्राणि गवां लोके महीयते ।। १३ ।।

गोलोकादवतीर्णस्तु इहलोके द्विजोत्तमः ।।

यज्ञयाजी महातेजाः सर्वब्राह्मणपूजितः ।। १४ ।।

तवोक्तं वै महाराज कस्य देयो वृषोत्तमः ।।

तदप्यहं ते वक्ष्यामि पात्रं त्राणप्रदं नृणाम् ।। १५ ।।

येषां सदा वै श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः ।।

प्रतिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ।।१६ ।।

गात्रे दृढं भारसहं सुपुष्टं सुशृङ्गिणं सर्वगुणोपपन्नम् ।।

दत्त्वर्षभं गोदशकेन तुल्यं सत्यं भवंति भुवि तत्फलभागिनस्ते ।। १७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषदानविधिवर्णनं नाम पंचाशदुत्तरशततमोऽध्यायः ।। १५० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 151

प्रत्यक्षधेनुदानव्रतविधिवर्णनम्( अथ विविधदानानि)

।। युधिष्ठिर उवाच ।। ।।

श्रुतः पुराणविषयस्त्वत्प्रसादान्मयाच्युत ।।

संसारासारतां ज्ञात्वा श्रुतश्च व्रतविस्तरः ।। १ ।।

भूयश्च श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् ।।

किं दीयते कदा कृष्ण केनोपायेन शंस मे ।। २ ।।

नहि दानात्परतरमन्यदस्तीति मे मतिः ।।

धनं धनवतां किञ्चिदहार्यं राजतस्करैः ।। ३ ।।

।। श्रीकृष्ण उवाच ।। ।।

अनिश्चितं निधानं यदप्रयुक्तं च वर्द्धते ।।

अनीतं याति चाध्वानं धनं विप्रकरार्पितम् ।। ४ ।।

किं कायेन सुपुष्टेन बलिना चिरजीविना ।।

यन्नसत्त्वोपकाराय तज्जीवितमनर्थकम् ।। ५ ।।

ग्रासादर्द्धमपि ग्रास मर्थिभ्यः किं न दीयते ।।

इच्छानुरूपो विभवः कदा कस्य भविष्यति ।। ६ ।।

एकस्मिन्नप्यतिक्रांते दिने दानविवर्जिते ।।

दस्युभिर्मुषितश्चैव दिवारात्रौ च शोचति ।। ७ ।।

यस्य त्रिवर्गशून्यानि दिनान्यायांति यांति च ।।

सलोहकारभस्त्रेव श्वसन्नपि न जीवति ।। ८ ।।

यैर्न दत्तं न च हुतं न तीर्थे मरणं कृतम् ।।

हिरण्यमन्नमुदकं ब्राह्मणेभ्यो न चार्पितम् ।। ९ ।।

दीना निरशना रूक्षाः कपालाङ्कितपाणयः ।।

ते दृश्यंते महाराज जायमाना पुनः ।। 4.151.१० ।।

आयासशतलब्धस्य प्राणेभ्योपि गरीयसः ।।

गतिरेकैव वित्तस्य दानमन्या विपत्तयः ।। ११ ।।

नोपभोगैः क्षयं यांति न प्रदानैः समृद्धयः ।।

पूर्वार्जितानामन्यत्र सुकृतानां परिक्षयात् ।। १२ ।।

अदृष्टपरतत्त्वोपि पात्रेभ्यो विसृजेद्धनम् ।।

यस्मान्मृतस्य तन्नास्ति तस्मात्सांशयिकं वरम् ।। १३ ।।

दानानि बहुरूपाणि कथयामि तवानघ ।।

व्यासवाल्मीकिमन्वाद्यैः कथितानि पुरा मम ।। १४ ।।

किञ्चिद्व्रतं यत्क्रियते पूज्यते च त्रिलोचनः ।।

दीयते यच्च विप्रेभ्य एतज्जन्मतरोः फलम् ।। १५ ।।

।। युधिष्ठिर उवाच ।। ।।

ब्राह्मणप्रीणनार्थाय केशवस्य शिवस्य च ।।

यानि दानानि देयानि तान्याचक्ष्य यदूत्तम ।।१६।।

येन चैव विधानेन दानं पुण्यसुखावहम् ।।

एहिकामुष्मिकावाप्तिं करोति नहि हन्यते ।। १७ ।।

।। श्रीकृष्ण उवाच ।। ।।

त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।।

आसप्तमं पुनंत्येते दोहवाहनवेदनैः ।। १८ ।।

गोदानमादौ वक्ष्यामि प्रत्यक्षक्रमयोगतः ।।

येन चैव विधानेन अन्यूनाधिकविस्तरम् ।। १९ ।।

।। युधिष्ठिर उवाच ।।

देयाः किंलक्षणा गावः काश्च राजन्विवर्जिताः ।।

कीदृशाय प्रदातव्या न देयाः कीदृशाय वै ।।4.151.२०।।

।। श्रीकृष्ण उवाच ।। ।।

तरुणी रूपसंपन्ना सुशीला च पयस्विनी ।।

न्यायार्जिता सवत्सा च प्रदेया श्रोत्रियाय गौः ।। २१ ।।

वृद्धा सरोगा हीनांगी वंध्या दुष्टा मृतप्रजा ।।

दूरस्थाऽन्यायलब्धा च देया गौर्न कथंचन ।। २२ ।।

सा दत्तैव हरेत्पापं श्रोत्रियायाहिताग्नये ।।

अतिथिप्रियाय दांताय धेनुं दद्याद्गुणाधिके ।।२३।।

अकुलीनाय मूर्खाय लुब्धाय पिशुनाय च ।।

हव्यकव्यव्यपेताय न देया गौः कथंचन ।। २४ ।।

।। श्रीकृष्ण उवाच ।। ।।

पुण्यं दिनमथासाद्य स्नात्वातर्प्य पितॄंस्तथा ।।

घृतक्षीराभिषेकं च कृत्वा विष्णोः शिवस्य च ।। २५ ।।

समभ्यर्च्य यथान्यायं पुष्पादिभिरनुक्रमात् ।।

उदङ्मुखीं प्राङ्मुखीं वा गृष्टिं कृत्वा पयस्विनीम् ।। २६ ।।

सवत्सां वस्त्रसंवीतां सितयज्ञोपवीतिनीम् ।।

स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनकान्विताम् ।। २७ ।।

शक्तितो दक्षिणायुक्तां ब्राह्मणाय निवेदयेत् ।।

पुच्छे कृष्णाजिनं देयं गां पुच्छे करिणं करे ।। २८ ।।

अश्वं सदा सुकर्णे वा दासीं शिरसि दापयेत् ।।

गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः ।। २९ ।।

गावो मे हृदये संतु गवां मध्ये वसाम्यहम् ।।

प्रदक्षिणां ततः कृत्वा धेनुं द्विजवराय ताम् ।। 4.151.३० ।।

इमां च प्रतिगृह्णीष्व धेनुर्दत्ता मया तव ।।

एवमुच्चार्य तं विप्रं देवेशं परिकल्पयेत् ।। ३१ ।।

अनुव्रजेच्च गच्छंतं पदान्यष्टौ नराधिप ।।

अनेन विधिना धेनुं यो विप्राय प्रयच्छति ।। ३२ ।।

सर्वकामसमृद्धात्मा स्वर्गलोकं स गच्छति ।।

सप्त पूर्वान्सप्त परानात्मानं चैव मानवः ।।३३।।

सप्त जन्मकृतात्पापान्मोचयत्यवनीपते।।

पदे पदेऽश्वमेधस्य गोशतस्य च मानवः ।।३४।।

फलमाप्नोति राजेन्द्र दक्षायैवं जगौ हरिः ।।

सर्वकामप्रदा सा स्यात्सर्वकालेषु पार्थिव ।।३५।।

भवत्यसौ पापहरा यावदिंद्राश्चतुर्दश ।।

सर्वेषामेव पापानां कृतानामपि जानता ।।३६।।

प्रायश्चित्तमिदं प्रोक्तमनुतापोपबृंहितम् ।।

सर्वेषामेव दानानामेकजन्मानुगं फलम् ।। ३७ ।।

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मानवैः ।।

लोकाः कामगमा प्राप्ता दत्त्वैतद्विधिना नृप ।। ३८ ।।

गोभ्योधिकं जगति नापरमस्तिकिञ्चिद्दानं पवित्रमिति शास्त्रविदो वदंति ।।

तत्संपदः सुरसदश्च समीहमानैर्देयाः सदैव विधिना द्विजपुंगवाय ।। ३९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे प्रत्यक्षधेनुदानव्रत विधिवर्णनं नामैकपंचाशदुत्तरशततमोऽध्यायः ।। १५१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 152

धेनुदानव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि धेनूनां कल्पना नृप ।।

विशेषविधिना याश्च देयाः कामानभीप्सुभिः ।। १ ।।

कामं यद्दीयते दानं समग्रं तत्सुखावहम् ।।

असमग्रं तु दोषाय भवतीह परत्र च ।। २ ।।

तस्मान्न दक्षिणाहीनं विधानविकलं तथा ।।

देयं दानं महाराज समग्रफलकाम्यया ।। ३ ।।

अन्यथा दीयमानं तदहंकाराय केवलम् ।।

प्रत्यक्षं चार्थहानिः स्यान्न वा तत्फलदं भवेत् ।। ४ ।।

तिलधेनुं प्रवक्ष्यामि शृणु पार्थिवसत्तम ।।

वाराहेण पुरा प्रोक्तां महापातकनाशिनीम् ।। ५ ।।

यां दत्त्वा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः ।।

अगारदाही गरदः सर्वपापरतोपि वा ।। ६ ।।

महापातकयुक्तश्च संयुक्तश्चोपपातकैः ।।

मुच्यते ह्यखिलैः पापैः स्वर्गलोकं च गच्छति ।। ७ ।।

अनुलिप्ते महीपृष्ठे कृष्णाजिनसमावृते ।।

धेनुं तिलमयीं कृत्वा दर्भानास्तीर्य सर्वतः ।। ८ ।।

तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्रवर्णकाः ।।

तिलानां च विचित्राणां धेनुं सर्वां च कारयेत् ।।९ ।।

द्रोणस्य वत्सकं कुर्याच्चतुराढकिकां च गाम् ।।

स्वर्णशृंगीं रौप्यखुरां गन्धवर्णवतीं तथा ।। 4.152.१० ।।

कार्या शर्करया जिह्वा गुडेनास्यं च कम्बलः ।।

इक्षुपादां ताम्रपृष्ठीं शुक्तिमुक्ताफलेक्षणाम् ।। ११ ।।

प्रशस्तपत्रश्रवणां फलदंतवतीं शुभाम् ।।

स्रग्दामपुच्छां कुर्वीत नव नीतस्तनान्विताम् ।। १२ ।।

सितवस्त्रशिरालम्बां सितसर्षपरोमिकाम् ।।

फलैर्मनोहरैरन्नैर्मणिमुक्ताफलान्विताम् ।। १३ ।।

ईदृक्संस्थानसम्पन्नां कृत्वा श्रद्धासमन्वितः ।।

कांस्योपदोहनां दद्यात्पर्वकाले समागते ।। १४ ।।

या लक्ष्मीः सर्वभूतानां या वै देवेष्ववस्थिता ।।

धेनुरूपेण सा देवी मम पापं व्यपोहतु ।। १५ ।।

ततः प्रदक्षिणां कृत्वा पूजयित्वा प्रणम्य च ।।

सदक्षिणा मया तुभ्यं दत्तेत्युक्त्वा विसर्जयेत् ।। १६ ।।

अनेन विधिना दत्त्वा तिलधेनुं नराधिप ।।

सर्वपापविनिर्मुक्तो परं ब्रह्माधिगच्छति ।। १७ ।।

यश्च गृह्णाति विधिवद्दीयमानां प्रमोदते ।।

दीयमानां प्रशंसंति ये च संहृष्टमानसाः ।। १८ ।।

तेपि दोषविनिर्मुक्ता ब्रह्मलोकं व्रजंति ते ।।

प्रशांताय सुशीलाय वेदव्रतरताय च ।। १९ ।।

धेनुं तिलमयीं दत्त्वा न शोचति कृताकृते ।।

त्रिरात्रं यस्तिलाहारस्तिलधेनुप्रदो भवेत् ।। 4.152.२० ।।

एकाहमथ वा राजन्न युच्छेदन्तरात्मना ।।

दानाद्विशुद्धिः पापस्य तस्य पुण्यवतो नृप ।। २१ ।।

चान्द्रायणादभ्यधिकं कथितं तिलभक्षणम् ।।

बालत्वे चैव यत्पापं यौवने वार्द्धके तथा ।। २२ ।।

वाचा कृतं तु मनसा कर्मणा यच्च संचितम् ।।

उदकष्ठीवने चैव नग्नस्नानेन यद्भवेत् ।। २३ ।।

मुशलेनोद्यते नापि लंबिते ब्राह्मणे तथा ।।

वृषलीगमने चैव गुरुदाराभिगामिनि ।। २४ ।।

सुरापानेन यत्पापमभक्ष्यस्य च भक्षणात् ।।

तत्सर्वं विलयं याति तिलधेनुप्रदायिनाम् ।। २५ ।।

यममार्गे महाघोरे नदी वैतरणी स्मृता ।।

वालुकायाः स्थलं चैव पच्यते यत्र पापिनः ।। २६ ।।

यत्र लोहमुखाः काका यत्र श्वानो भयावहाः ।।

निकृत्य पापिनां मांसं भक्षयंति बुभुक्षिताः ।। २७ ।।

असिपत्रवनं चैव लोहकंटकशाल्मलीम् ।।

एतान्सर्वानतिक्रम्य ततो यमपुरं व्रजेत् ।। २८ ।।

विमाने कांचने दिव्ये मणिरत्नविभूषिते ।।

तत्रारुह्य नरश्रेष्ठो गच्छते परमाङ्गतिम् ।। २९ ।।

गुणहीने न दातव्या न दातव्या धनेश्वरे ।।

कुण्डे गोले च लुब्धे च न च देया कदापि सा ।। 4.152.३० ।।

एका एकस्य दातव्या मुनिभिः कथितं पुरा ।।

अरण्ये नैमिषे पार्थ नारदेन निवेदितम् ।। ३१ ।।

तत्तेहं संप्रवक्ष्यामि सम्यक्फलसहस्रदम् ।।

इदं पुण्यं पवित्रं च माङ्गल्यं कीर्तिवर्धनम् ।। ३२ ।।

विप्राणां श्रावयेच्छ्राद्धे अनन्तफलमश्नुते ।।

बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।। ३३ ।।

विभज्यमानान्येतानि दातारं पातयंत्यधः ।।

सा तु विक्रयमापन्ना दहत्यासप्तमं कुलम् ।। ३४ ।।

अस्या दानप्रभावेन विमानं सर्वकामिकम् ।।

समारुह्य नरो याति यत्र देवो हरिः स्वयम् ।। ३९ ।।

एषा चैव प्रदातव्या प्रयतेनान्तरात्मना ।।

पौर्णमास्यां च माघस्य कार्तिक्यां चैव भारत ।। ३६ ।।

चन्द्रसूर्योपरागे तु विषुवे अयने तथा ।।

षडशीतिमुखे चैव व्यतीपाते तु सर्वदा ।। ३७ ।।

वैशाख्यां मार्गशीर्ष्यां वा गजच्छायासु चैव हि ।।

एषा ते कथिता पार्थ तिलधेनुर्मयानघ ।। ३८ ।।

यावंति धेनो रोमणि गात्रेषु नृपपुङ्गव ।।

तावद्वर्षसहस्राणि तदा स्वर्गे महीयते ।। ३९ ।।

यश्च गृह्णाति विधिवद्दीयमानां च पश्यति ।।

अनुमोदयते चैव ते सर्वे स्वर्गगामिनः ।। 4.152.४० ।।

धेनुं धनाधिपतयो मगधोद्भवेन मानेन ये तिलमयीं चतुराढकेन ।।

कृत्वा यथोक्तरचनां कृतचारुवत्सां यच्छंति ते भुवि भवंति विमुक्तपापाः ।।४१।।

प्रतिगृह्णामि देवि त्वां कुटुंबभरणाय च ।।

कामं देया दयास्मभ्यं धेनो त्वं सर्वदा ह्यसि ।। ४२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिल धेनुदानव्रतविधिवर्णनं नाम द्विपंचाशदुत्तरशततमोऽध्यायः ।। १५२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 153

जलधेनुदानव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।।

देवदेवो हृषीकेशः पूजितः सर्वभावनः ।। १ ।।

जलकुंभं नरव्याघ्र स्थापयित्वा सुपूजितम् ।।

रत्नगर्भं तु तं कृत्वा ग्राम्यैर्धान्यै समन्वितम् ।। २ ।।

सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम् ।।

कुष्ठमांसीपुरोशीरवालकामलकीयुतम् ।। ३ ।।

प्रियङ्गुपत्रसहितं सितयज्ञोपवीतिनम् ।।

सोपानक्तं च सच्छत्रं दर्भविष्टरसंस्थितम् ।। ४ ।।

चतुर्भिः संयुतं रौप्यं तिलपात्रैश्चतुर्दिशम् ।।

स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखम। ।। ५ ।।

सवत्सां च प्रतिष्ठाप्य गोमयेनोपशोभिताम् ।।

स्रग्दामपुच्छीं कुर्वीत ताम्रदोहनकान्विताम् ।। ६ ।।

ततः समभ्यर्च्य विभुं वासुदेवं सनातनम् ।।

पुष्पधूपोपहारैश्च यथाविभवमात्मनः ।। ७ ।।

संकल्प्य जलधेनुं च कुंभं तमभिमंत्र्य च ।।

विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ।।

सोमशक्रार्कशक्तिर्या धेनुरूपेण सास्तु मे ।। ८ ।।

एवमामंत्र्य विधिवत्सफलां वत्सकान्विताम् ।।

भक्त्या संपूज्य गोविंदं जलशायिनमच्युतम् ।। ९ ।।

सितवस्त्रधरः शांतो वीतरागो विमत्सरः ।।

दद्याद्विप्राय राजेन्द्र प्रीत्यर्थं जलशायिनः ।। 4.153.१० ।।

शेषपर्यंकशयनः श्रीमाञ्छार्ङ्गविभूषितः ।।

जलशायी जगद्योनिः प्रीयतां मम केशवः ।। ११ ।।

इत्युच्चार्य जगन्नाथं विप्राय प्रति पाद्य ताम् ।।

तद्दिनं गोव्रतस्तिष्ठेच्छ्रद्धया परया युतः ।। १२ ।।

अनेन विधिना दत्त्वा जलधेनुं जनाधिप ।।

सर्वभोगानवाप्नोति ये दिव्या ये च मानुषाः ।। १३ ।।

शरीरारोग्यमतुलं प्रशमः सर्वकालिकः ।।

नृणां भवंति दत्तायां सर्वे कामा न संशयः ।। १४ ।।

अत्रापि श्रूयते भूप मुद्गले न महात्मना ।।

जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल ।। १५ ।।

स मुद्गलः पुरा विप्रो यमलोकगतो मुनिः ।।

ददर्श यातनानेकाः पापकर्मकृतां नृणाम् ।। १६ ।।

दीप्ताग्नितीक्ष्णयन्त्रस्थाः क्वाथतैलमयास्तथा ।।

उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ ।। १७ ।।

व्रणक्षारनिपातोथ कुम्भीपाकमहालयाः ।।

ता दृष्ट्वा यातना विप्रश्चकार परमां कृपाम् ।। १८ ।।

आह्लादं ते तदा जग्मुः पापास्तदनुकंपया ।।

तं दृष्ट्वा नारकाः केचित्स्थित्वा तदवलोकिनः ।। १९ ।।

तदवस्थं विलोक्याथ मुनिर्नारकमण्डलम् ।।

धर्मराजं स पप्रच्छ तेषां प्रशमकारणम् ।। 4.153.२० ।।

तस्मै चाचष्ट राजेन्द्र तदा वैवस्वतो यमः ।।

आह्लादहेतुमधिकं नारकाणां नरोत्तम ।। २१ ।।

दानानुभावात्सर्वेषां नारकाणां द्विजोत्तम ।।

संप्रवृतोऽयमाह्लादः कारणं तच्छृणु ष्व मे ।। २२ ।।

त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम् ।।

जलधेनुः पुरा दत्ता विधिवद्विजपुङ्गव ।। २३ ।।

तस्मात्वज्जन्मनोऽतीते तृतीये द्विज जन्मनि ।।

तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी ।। २४ ।।

ये त्वां पश्यंति शृण्वंति ये च ध्यायंति मानवाः ।।

शृणोषि यांश्च विप्रेन्द्र यांश्च ध्यायसि पश्यसि ।।२५।।

निवृत्तिः परमा तेषां सर्वाह्लादप्रदायिनी ।।

सद्यो भवति माऽत्र त्वं द्विजाते कुरु विस्मयम् ।। २६ ।।

आह्लादहेतुजननं नास्ति विप्रेन्द्र तादृशम् ।।

जलधेनुर्यथा नृणां जन्मान्येकोनविंशतिम् ।।२७।।

न दोषो न ज्वरो नार्तिर्न क्लमो द्विज जायते ।।

अपि जन्मसहस्रेऽपि जलधेनुप्रदायिनाम् ।। २८ ।।

स त्वं गच्छ गृहीत्वार्धमस्मतो द्विजसत्तम ।।

येषां समाश्रयः कृष्णे न नियम्या हि ते मया ।। २९ ।।

कृष्णस्तु पूजितो यैस्तु ये कृष्णार्थमुपोषिताः ।।

यैश्च नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः ।। 4.153.३० ।।

नमः कृष्णाच्युतानंत वासुदेवेत्युदीरितम् ।।

यैर्भा वभावितैर्विप्र न ते मद्विषयोपगाः ।।३१।।

दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।।

श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः ।। ३२ ।।

स एव नाथः सर्वस्य तन्नियोगकरा वयम् ।।

जनसंयमनश्चाहमस्मत्संयमनो हरिः ।। ३३ ।।

इत्थं निशम्य वचनं यमस्य वदतोऽखिलम् ।।

ऊचुस्ते नारकाः सर्वे वह्निशस्त्रार्कभीरवः ।।३४।।

नमः कृष्णाय हरये विष्णवे जिष्णवे नमः ।।

हृषीकेशाय केशाय जगद्धात्रेऽच्युताय च ।। ३५ ।।

नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।।

जनार्दनाय श्रीशाय श्रीभर्त्रे पीतवाससे ।। ३६ ।।

गोविंदाय नमो नित्यं नमश्चोदधिशायिने ।।

नमः कमलनेत्राय नृसिंहाय निनादिने ।। ३७ ।।

शार्ङ्गिणे शितखड्गाय शंखचक्रगदाभृते ।।

नमो वामनरूपाय क्रांतलोकत्रयाय च ।। ३८ ।।

वराहरूपाय तथा नमो यज्ञाङ्गधारिणे ।।

व्याप्ताशेषदिगंतायानंताय परमात्मने ।।३९।।

वासुदेव नमस्तुभ्यं नमः कैटभसूदिने ।।

केशवाय नमो राम नमस्तेस्तु महीधर ।।4.153.४०।।

नमोऽस्तु वासुदेवाय ह्येवमुच्चारिते च तैः ।।

शस्त्राणि कुंठतां जग्मुरनलश्चापि शीतताम् ।। ४१ ।।

समभज्यंत वस्त्राणि समुत्पेतुरयोमुखाः ।।

संशुष्का क्षारसरितः पतितः शाल्मलिद्रुमः ।। ४२ ।।

प्रकाशस्तमसो जज्ञे नरकाद्भानुभिः सह ।।

ववौ च युंजन्पवनोऽप्यसिपत्रवने ततः ।। ४३ ।।

निरुत्साहा जडधियो बभूवुर्यमकिंकराः ।।

जाता गङ्गाम्बुवाहिन्यः पूयशौणितनिम्नगाः ।।४४।।

दिव्यः सुगंधि पवनो मनःप्रीतिकरस्तथा ।।

वेणुवीणास्वनयुताः शब्दाश्चासन्मनोरमाः ।। ४५ ।।

तं तादृशमथालक्ष्य तदा वैवस्वतो यमः ।।

क्षीणपापत्रयांस्तांस्तु पाद्यार्घ्यैः समपूजयत् ।। ४६ ।।

पूजयित्वा च तानाह कृष्णाय स कृतांजलिः ।।

समाहितमतिर्भूत्वा धर्मराजो नरेश्वर ।। ४७ ।।

विष्णो देव जगद्धातर्जनार्दन जगत्पते ।।

प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः ।। ४८ ।।

अच्युतायाप्रमेयाय मायावामनरूपिणे ।।

प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ।। ४९ ।।

नमस्ते वासुदेवाय धीमते पुण्यकीर्तये ।।

प्रणामं ये च कुर्वंति तेषामपि नमो नमः ।। 4.153.५० ।।

तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।। ५१ ।।

एवं स्तुत्वा हृषीकेशं धर्मराजस्य पश्यतः ।।

विमानवरमारुह्य नारकास्त्रिदिवं ययुः ।। ५२ ।।

मुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप ।।

जातिस्मरो भवद्विप्रः कण्वगोत्रे महामुनिः ।।५३।।

संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च।।

जलधेनोस्तु माहात्म्यं संस्मृत्येदमगायत।।५४।।

अहो सुदुस्तरा विष्णोर्मायेयमतिगह्वरी ।।

यया मोहितचित्तस्तु न वेत्ति परमेश्वरम् ।।५५।।

जीवो गच्छति कीटत्वं यूकामत्कुणयोनिताम्।।

तस्माद्द्रुमलतादीनां योनिं तस्माच्च पक्षिणाम् ।। ५६ ।।

ततश्च पशुतां प्राप्य नरत्वमभिवांछति ।।

ततो मनुष्यतां प्राप्य नरो योनिं कृतात्मनाम् ।।

तां प्राप्य च श्रियं परां नरो मायाविमोहितः ।।५७।।

दुस्तरापि सुसाध्या सा माया कृष्णस्य मोहिनी ।।

विद्यते सा मनोन्यस्ता मुधैव मधुसूदने ।।५८।।

अवाप्यैवं च गार्हस्थ्यमवाप्यैवं च तत्परम् ।।

छिनत्ति वैष्णवीं मायां केशवार्पितमानसः ।। ५९ ।।

अविरोधेन विषयान्भुञ्जन्विष्णुं समाश्रयेत् ।।।

भुक्त्वा नरस्तरत्येनां विष्णोर्मायां सुदुस्तराम् ।। 4.153.६० ।।

ईदृग्बहुफला भक्तिः सर्वधातरि केशवे ।।

मायया तस्य देवस्य तां न कुर्वंति मोहिताः ।। ।। ६१ ।।

मुधैवोक्तं सुधापानं मुधा तद्धि विचेष्टितम् ।।

मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः ।। ६२ ।।

आराधितो हि यः पुंसामैहिकामुष्मिकं फलम् ।।

ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ।। ६३ ।।

संवत्सरास्तथा मासा विफला दिवसाश्च ते ।।

नराणां विषयांधानां यैस्तु नाराधितो हरिः ।। ६४ ।।

यो न वित्तर्द्धिविभवैर्न वासोभिर्न भूषणैः ।।

तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ।। ६५ ।।

जलधेनोस्तु माहात्म्यं निशम्येदृग्विधं नराः।।

नात्र यच्छंति तेषां वै विवेकः कुत्र तिष्ठति ।। ६६ ।।

कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि ।।

स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ।। ६७ ।।

संप्राप्य च न यैर्विष्णुस्तोषितो जलधेनुना ।।

ते जना भ्रष्टजन्मानो वंचितास्तस्य मायया ।। ६८ ।।

ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः ।।

आराधयध्वं गोविन्दं जलधेनुं प्रयच्छत ।। ६९ ।।

दुःसहो नारको वह्निरविषह्या च यातना ।।

ज्ञातं मयैतदालंब्य कृष्णं भवति निश्चलः ।। 4.153.७० ।।

आदेशिको देशिको हि यममार्गे सुदुस्तरे ।।

विचिन्त्य तत्सत्यमेतन्मनः कृष्णे निवेश्यताम् ।। ७१ ।।

इष्टेन किं क्रतुशतेन सुदुष्करेण क्लेशाधिकेन सुकृतैर्नियमैर्व्रतैश्च ।।

दत्ता द्विजाय पितृराजगृहं गतस्य ह्येकाऽपि गौर्जलमयी सुखमातनोति ।।७२।।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे जलधेनुदानव्रतविधिवर्णनंनाम त्रिपंचाशदुत्तरशततमोऽध्यायः ।। १५३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 154

घृतधेनुदानव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

घृतधेनुं प्रवक्ष्यामि तां शृणुष्व नरोत्तम ।।

दीयते येन विधिना यादृग्रूपां च कारयेत् ।। १ ।।

गव्यस्य सर्पिषः कुम्भान्गंधमाल्यविभूषितान् ।।

कांस्योपदोहसंयुक्तान्सितवस्त्रावगुण्ठितान्।। २ ।।

इक्षुयष्टिमयाः पादाः खुरा रौप्यमयास्तथा ।।

सौवर्णे चाक्षिणी कार्ये शृंगे चागुरुकाष्ठके ।। ३ ।।

सप्तधान्यमये पार्श्वे पटोर्णेन च कम्बलम् ।।

कुर्यात्तुरुष्ककर्पूरैर्घ्राणं फलमयान्स्तनान् ।। ४ ।।

तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम् ।।

क्षौमसूत्रेण लांगूलं रोमाणि सितसर्षपैः ।। ५ ।।

ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ।।

ईदृग्रूपां तु संकल्प्य घृतधेनुं नराधिप ।। ६ ।।

तद्वत्कल्पनया धेनोर्वत्सं च परिकल्पयेत् ।।

मंत्रेणानेन राजेन्द्र तां समभ्यर्च्य बुद्धिमान् ।। ७ ।।

आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् ।।

आज्यं सुराणामाहारः सर्वमाज्ये प्रतिष्ठितम्।। ८ ।।

त्वं चैवाज्यमयी देवि कल्पितासि मया किल ।।

सर्वपापापनोदाय सुखाय भव भामिनि ।। ९ ।।

तं च विप्रं महाभाग मनसेव घृतार्चिषा ।।

कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ।। 4.154.१० ।।

दक्षिणासहिता धेनुः कल्पिताज्यमयी शुभा ।।

एतां ममोपकाराय गृहाण त्वं द्विजोत्तम ।।११।।

इत्युदाहृत्य विप्राय तां गां तु प्रतिपादयेत् ।।

दत्त्वैकरात्रं स्थित्वा च घृताहारो यतव्रतः ।। १२ ।।

अनेन च विधानेन नवनीतमयी शुभा ।।

दातव्या नृपते धेनुर्न्यूनाधिकविवर्जिता ।। १३ ।।

शृणु पार्थ महाबाहो प्रदानफलमुत्तमम्।।

घृतक्षीरमहानद्यो यत्र पायसकर्दमाः ।। १४ ।।

घृतधेनुप्रदा यांति तत्र कामैः सुपूरिताः ।।

पितुरूर्ध्वं च ये सप्त पुरुषास्तस्य येऽप्यधः ।। १५ ।।

तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषान्।।

सकामानामियं व्युष्टिः कथिता नृपसत्तम ।। १६ ।।

निष्किल्विषं पदं यांति निष्कामा घृतधेनुदाः ।।

घृतमग्निर्घृतं सोमस्तन्मयाः सर्वदेवताः ।। १७ ।।

घृतं प्रयच्छतां भीता भवंत्यखिलदेवताः ।। १८ ।।

मायाजलं सुतकलत्रमहोर्मिमालं लोभोग्रनक्रविषमं बहुपुण्यभाजः ।।

लग्ना निमग्नवपुषो घृतधेनुपुच्छे संसारसागरमपारमहो तरंति ।। १९ ।। ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे घृतधेनुदानव्रतविधिवर्णनं नाम चतुष्पंचाशदुत्तरशततमोऽध्यायः ।। १५४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 155

लवणधेनुदानव्रतवर्णनम्

।। ।। युधिष्ठिर उवाच ।। ।।

कृष्णकृष्ण महाबाहो सर्वशास्त्रविशारद ।।

कथयस्वेह दानानामुत्तमं यत्प्रकीर्तितम् ।। १ ।।

येन दत्तेन दानानि सर्वाण्येव भवंत्युत ।।

सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत् ।। २ ।।

प्रायश्चित्तविशुद्धिश्च तन्मे कथय सुव्रत ।।

श्रीकृष्ण उवाच ।।

शृणु राजन्प्रवक्ष्यामि दानानामुत्तमोत्तमम् ।। ३ ।।

ख्यातं लवणधेन्वाख्यं सर्वकामप्रदं नृणाम् ।।

यां दत्त्वा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः ।। ।। ४ ।।

विश्वासघाती क्रूरात्मा सर्वपापरतोऽपि वा।।

मुच्यते नात्र संदेहः शिवलोकं स गच्छति ।। ५ ।।

सुभगो धनसंपन्नो दीर्घायुरपराजितः ।।

जायते पुरुषो लोके सर्वकामसमन्वितः ।। ६ ।।

विधिं वक्ष्यामि राजेन्द्र लवणस्येह कल्पनम् ।।

गोमयेनोपलिप्तेन दर्भसंस्तरसंस्थितम् ।। ७ ।।

आविकं चर्म विन्यस्य पूर्वाशाभिमुखं स्थितम् ।।

वस्त्रेणाच्छादितं कृत्वा धेनुं कुर्वीत बुद्धिमान् ।। ८ ।।

आढकेनैव कुर्वीत वहुवित्तोऽल्पवित्तवान् ।।

स्वर्णशृङ्गीं रौप्यखुरामिक्षुपादां फलस्तनीम् ।। ९ ।।

कार्या शर्करया जिह्वा गन्धप्राणवती तथा ।।

समुद्रोदरजे शुक्ती कर्णौ तस्याः प्रकल्पयेत्।। 4.155.१० ।।

कंबलं पट्टसूत्रेण ग्रीवायां घण्टिकां तथा ।।

शृंगे चन्दनकाष्ठाभ्यां मौक्तिके चाक्षिणी उभे ।। ११ ।।

कपोलौ सक्तुपिण्डाभ्यां यवानास्ये प्रदापयेत् ।।

तिलान्पार्श्वे प्रकुर्वीत गोधूमाश्चैव भक्तितः ।।१२।।

एवं वै सप्तधान्यानि यथालाभं प्रकल्पयेत् ।।

पृष्ठे वै ताम्रपात्रं तु अपाने गुड पिंडिकाम् ।।१३।।

लांगूले कंबलं दद्याद्द्राक्षां क्षीरप्रदेशतः ।।

योनिप्रदेशे च मधु सर्ववस्तुफलान्वितम् ।।१४।।

एवं सम्यक्परिस्थाप्य रसरस्यमयीं च गाम् ।।

स्थापयेद्वत्समेकं च चतुर्भागेन मानवः ।। १५ ।।

एवं धेनुं समभ्यर्च्य माल्यवस्त्रविभूषणैः ।।

स्नात्वा देवार्चनं कृत्वा ब्राह्मणानभिपूज्य च ।।

कृत्वा प्रदक्षिणां गां तु पुत्रभार्यासमन्वितः ।। १६ ।।

ब्राह्मणाय सुशीलाय वृत्तयुक्ताय वै नृप ।।

दद्यात्पर्वसु सर्वेषु मन्त्रपूर्वं सुभक्तितः।।१७।।

लवणे वै रसाः सर्वे लवणे सर्वदेवताः ।।

सर्वदेवमये देवि लवणाख्ये नमोऽस्तु ते ।। १८ ।।

एवमुच्चार्य मंत्रां ते विप्राय प्रतिपादयेत् ।।

सम्यक्प्रदक्षिणां कृत्वा दक्षिणासहितां नृप ।। १९ ।।

प्रदक्षिणा मही तेन कृता भवति भारत ।।

सर्वदानानि दत्तानि सर्वक्रतुफलानि च ।। 4.155.२० ।।

सर्वे रसाः सर्वमन्नं सर्वं च सचराचरम् ।।

सौभाग्यं परमा बुद्धिरारोग्यं सर्वसंपदः ।। २१ ।।

भवति दत्त्वा नृणां तु रसधेनुं न संशयः ।।

स्वर्गे च नियता वासो यावदाभूतसंप्लवम् ।। २२ ।।

पर्णौर्णकंबलगलां लवणाढकेन कृत्वा फलस्तनवतीमपि लावणाख्याम् ।।

दत्त्वा द्विजाय विधिवद्रसधेनुमेनां लोकं गवां सकलसौख्ययुतो विशेत्सः ।। २३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे लवणधेनुदानव्रतविधिवर्णनं नाम पंचपंचाशदुत्तरशततमोऽध्यायः ।। १५५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 156

सुवर्णधेनुदानव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अतः परं प्रवक्ष्यामि राजन्काञ्चनधेनुकाम् ।।

यां दत्त्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। १ ।।

सुरापो ब्रह्महा गोघ्नो भीरुर्भग्नव्रतोऽपि वा ।।

गुरुघाती स्वसृगामी परदाररतश्च यः ।। २ ।।

मुच्यते पातकैः सर्वैर्दत्त्वा काञ्चनधेनुकाम् ।।

संशुद्धस्य सुवर्णस्य पंचाशत्पलिकां शुभाम् ।। ३ ।।

अर्द्धेन वा प्रकुर्वीत शक्त्या वा नृपसत्तम ।।

उखां पश्चिमभागे तु दृष्टकुक्षिपयोधराम् ।। ४ ।।

विभक्ताङ्गीं सुजघनां सुमनोहरकर्णिकाम् ।।

सर्वरत्नविचित्राङ्गीं कारयेत्कपिलां शुभाम् ।। ५ ।।

चतुर्थेन तु भागेन वत्सं तस्याः प्रकल्पयेत् ।।

रौप्यघटां च दत्त्वा तु कौशेयपरिवारिताम् ।। ६ ।।

ताम्रशृंगीं तथा कुर्याद्वैडूर्यमयकंबलाम् ।।

मुक्ताफलमये नेत्रे वैद्रुमी रसना तथा ।। ७ ।।

कृष्णाजिने गुडप्रस्थं तत्रस्थां कारयेच्छुभाम्।।

कुंभाष्टकसमोपेतां नाना फलसमन्विताम् ।। ८ ।।

तथाष्टादश धान्यातपत्रोपानद्युगान्विताम् ।।

भाजनं वसनं चैव ताम्रदोहनकं तथा ।। ९ ।।

दीपकान्नादिलवणशर्कराधान्यकान्विताम् ।।

प्रदद्याद्ब्राह्मणं पूज्य वस्त्रैराभरणैः शुभैः ।। 4.156.१० ।।

स्नातः प्रदक्षिणीकृत्य धेनुं सर्वाङ्गसंयुताम् ।।

गुडधेनूक्तमंत्रैश्च आवाह्य प्रतिपूज्य च ।। ११ ।।

त्वं सर्वदेवगणमन्दिरभूषणासि विश्वेश्वरत्रिपथगोदधिपर्वतानाम् ।।

श्रद्धाम्बुतीक्ष्णशकलीकृतपातकौघः प्राप्नोति निर्वृतिमतीव परां नमामि ।।१२।।

लोके यथेप्सितफलार्थविधायिनी त्वामासाद्य को हि भयभाग्भवतीह मर्त्यः ।। (पाठा. भयभाग्यवतीह)

संसारदुःखशमनाय यतस्त्वकामास्त्वां कामधेनुमिति वेदविदो वदंति ।। १३ ।।

एवमामन्त्र्य तां धेनुं विप्राय प्रतिपादयेत् ।।

सदक्षिणोपस्करां च प्रणिपत्य क्षमापयेत् ।। १४ ।।

दानकाले तु ये देवास्तीर्थानि मनवस्तथा ।।

शरीरे निवसंत्यस्यास्ताञ्छृणुष्व नराधिप ।। १५ ।।

नेत्रयोः सूर्यशशिनौ जिह्वायां तु सरस्वती ।।

दंतेषु मरुतो देवाः कर्णयोश्च तथाश्विनौ ।। १६ ।।

शृंगाग्रगौ सदा चास्या देवौ रुद्रपितामहौ ।।

गंधर्वाप्सरसश्चैव ककुद्देशं प्रतिष्ठिताः ।।

कुक्षौ समुद्राश्चत्वारो योनौ त्रिपथगामिनी ।। १७ ।।

ऋषयो रोमकूपेषु अपाने वसुधा स्थिता ।।

अन्त्रेषु नागा विज्ञेयाः पर्वताश्चास्थिषु स्थिताः ।। ।। १८ ।।

धर्मकामार्थमोक्षास्तु पादेषु परिसंस्थिताः ।।

हुंकारे च चतुर्वेदाः कंठे रुद्राः प्रतिष्ठिताः ।। १९ ।।

पृष्ठभागे स्थितो मेरुर्विष्णुः सर्वशरीरगः ।।

एवं सर्वमयी देवी पावनी विश्वरूपिणी ।। 4.156.२० ।।

काञ्चनेन कृता धेनुः सर्वदेवमयी स्मृता ।।

यो दद्यात्तादृशीं धेनुं सर्वदानप्रदो हि सः ।। २१ ।।

कर्मभूमौ हि मर्त्यानां दानमेतत्सुदुर्लभम् ।।

तस्माद्देयमिदं शक्त्या सर्वकल्मषनाशनम् ।।२२।।

पावनं तारणं चैव कीर्तिदं शांतिदं तथा ।।

वर्षकोटिशतं साग्रं स्वर्गलोके गतो नरः ।। २३ ।।

नारी वा पूज्यते देवैर्विमानवरमास्थिता ।।

गंधर्वैगीयमानस्तु पुष्पैर्मालाविभूषितैः ।। २४ ।।

सर्वाभरणसंपन्नः सर्वद्वंद्वविवर्जितः ।।

स्वर्गे स्थित्वा चिरं कालं ततो मर्त्येऽभिजायते ।। २५ ।।

आधि व्याधि विनिर्मुक्तो रूपवान्प्रियदर्शनः ।।

एवं नरो वा नारी वा दत्त्वा दानमिदं भुवि ।।

सर्वान्कामानवाप्नोति जायमानः पुनः पुनः ।। २६ ।।

आमन्त्र्य साधुकुलशीलगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात् ।।

प्राप्नोति सिद्धमुनिकिन्नरदेवजुष्टं कन्याशतैः परिवृतं पदमिन्दुमौलेः।।२७।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सुवर्णधेनुदानव्रतविधिवर्णनं नाम षट्पंचाशदुत्तरशततमोऽध्यायः ।। १५६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 157

रत्नधेनुदानव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि दानमन्यत्सुदुर्ल्लभम् ।।

रत्नधेन्विति विख्यातं गोलोकफलदं नृणाम् ।। १ ।।

पुण्यं दिनमथासाद्य गोमयेनोपलेपनम् ।।

कृत्वा भूमौ महाराज तत्र धेनुं प्रकल्पयेत् ।। २ ।।

धेनुं रत्नमयीं कुर्यात्तत्तत्संकल्पपूर्विकाम् ।।

स्थापयेत्पद्मरागाणामेकाशीतिं मुखे बुधः ।। ३ ।।

पुष्परागशतं धेनोः पादयोः परिकल्पयेत् ।।

ललाटे हेमतिलकं मुक्ताफलशतं दृशोः ।। ४ ।।

भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्वये स्मृते ।।

काञ्चनानि च शृङ्गाणि शिरोवज्रशतात्मकम् ।। ५ ।।

ग्रीवायां नेत्रपुटके गोमेदकशतं तथा ।।

इन्द्रनीलशतं पृष्ठे वैदूर्यशत पार्श्वके ।। ६ ।।

स्फाटिकैरुदरं कार्यं सौगन्धिकशतं कटौ ।।

खुरा हेममया कार्याः पुच्छं मुक्तावलीमयम् ।। ७ ।।

सूर्यकान्तेन्दुकान्तौ च घ्राणे कर्पूरचन्दनैः ।।

कुंकुमेन च रोमाणि रौप्यं नाभिं च कारयेत् ।। ८ ।।

गारुत्मतशतं तद्वदपाने परिकल्पयेत् ।।

तथान्यानि च रत्नानि स्थापयेत्सर्वसंधिषु ।। ९ ।।

कुर्याच्छर्करया जिह्वां गोमयं च गुडात्मकम् ।।

गोमूत्रमाज्येन तथा दधिदुग्धस्वरूपतः ।। 4.157.१० ।।

पुच्छाग्रे चामरं दद्यात्स्तनयोस्ताम्रदोहनम् ।।

कारयेदेवमेवं तु चतुर्थांशेन वत्सकम् ।। ११ ।।

नानाफलानि पार्श्वेषु कृत्वा पूजां प्रयत्नतः ।।

गुडधेनुवदावाह्य इदं चोदाहरेत्ततः ।। १२ ।।

त्वां सर्वदेवगणवासमिति स्तुवंति रुद्रेन्द्रचन्द्रकमलासनवासुदेवाः ।।

तस्मात्समस्तभुवनत्रयदेहयुक्ता मां पाहि देवि भवसागर मग्नमासु ।। १३ ।।

एवमामन्त्र्य तां धेनुं विप्राय प्रतिपादयेत् ।।

संपूज्य वस्त्राभरणैर्विधिज्ञं वेदपारगम् ।। १४ ।।

ततश्च दक्षिणां दत्त्वा प्रणिपत्य क्षमापयेत् ।।

एवं यः कुरुते पार्थ तस्य पुण्यफलं शृणु ।। १५ ।।

कल्पकोटिशतं साग्रं शिवलोके सुखं वसेत् ।।

ततः काले बहुतिथे राजराजो भवेदिह ।। १६ ।।

सर्वकामसमृद्धश्च शत्रुपक्षक्षयंकरः ।। १७ ।।

इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति स विमानं प्राप्य देदीप्यमानम् ।।

सकल कलुषमुक्तो बंधुभिः पुत्रपौत्रैः स हि मदनसरूपः स्थानमभ्येति शंभोः ।। १८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नधेनुदानव्रतविधिवर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः ।। १५७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 158

उभयमुखीगोदानव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

प्रसूयमाना दातव्या धेनुर्ब्राह्मणपुङ्गवे ।।

विधिना केन धर्मज्ञं दाने तस्याश्च किं फलम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

प्रसूयमानातिपुण्यैः प्राप्यते गौर्नृपोत्तम ।।

प्राप्नुवंति नराः केचित्पुण्यसंभारविस्तराः ।।२ ।।

यावत्पादौ योनिगतौ शिरश्चैव प्रदृश्यते ।।

तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुंचति ।। ३ ।।

गौर्यावद्द्विमुखी चैव यदा भवति भारत ।।

तदासौ पृथिवी ज्ञेया सशैलवनकानना ।। ४ ।।

दत्त्वोभयमुखीं राजन्यत्पुण्यं प्राप्यते नृभिः ।।

न तद्वर्णयितुं याति मुखेनैकेन केनचित् ।। ५ ।।

किमिष्टैर्बहुभिर्यज्ञैर्दानैर्दत्तैश्च सत्तम ।।

प्रसूयमानां गामेकां देहि किं बहुना तव ।। ६ ।।

एकैव पाति नरकात्सुखमेकैव कारयेत्।।

एकापि द्विमुखी दत्ता गौर्गौर्भवति भारत ।। ७ ।।

स्वर्णशृंगीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम् ।।

कांस्योपदोहनां राजन्नलंकृत्य द्विजोत्तमे ।।

प्रसूयमानां गां दत्त्वा महत्पुण्यफलं लभेत् ।। ८ ।।

यावंति धेनुरोमाणि वत्सस्यापि नराधिप ।।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। ९ ।।

पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।।

समुद्धरत्यसंदिग्धं नरकाद्भूरिदक्षिणः ।। 4.158.१० ।।

घृतक्षीरवहा नद्यो दधिपायसकर्दमाः ।।

तत्र ते यांति यत्रास्ति द्रुमश्चेप्सितकामदः ।। ११ ।।

यो ददाति सुवर्णेन बहुना सह भाविनीम् ।।

गोलोकः सुलभस्तस्य ब्रह्मलोकश्च पार्थिव ।। १२ ।।

न देया दुर्बला राजन्धेनुर्नैवाल्पदक्षिणा ।।

काम्योऽयं विधिरुद्दिष्टः फलदो विधिना कृतः ।। १३ ।।

स्त्रियश्च त चंद्रसमानवक्त्राः प्रतप्तजांबूनदतुल्यवर्णाः ।।

महानितंबास्तनुवृत्तमध्याः सेवंत्यजस्रं नलिनाभनेत्राः ।। १४ ।।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद उभयमुखीगोदानव्रतविधिवर्णनं नामाष्टपंचाशदुत्तरशततमोऽध्यायः ।। १५८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 159

गोसहस्रप्रदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

गोसहस्रविधानं च कथयस्व जनार्दन ।।

कस्मिन्काले प्रदातव्यं कथं देयं च तद्भवेत् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

गावः पवित्रा लोकानां गाव एव परायणम् ।।

ब्रह्मणा सृजता लोकान्वृत्तिहेतोः प्रजेश्वर ।।

गावः प्रथमतः सृष्टास्त्रैलोक्य हितकाम्यया ।। २ ।।

यासां मूत्रपुरीषेण देवतायतनान्यपि ।।

शुचीनि समजायंत किंभूतमधिकं ततः ।। ३ ।।

मूलं यज्ञस्य काम्यस्य सर्वदेवमयाः शुभाः ।।

गोमये वसते लक्ष्मीः पर्याप्तं तन्निदर्शनम् ।। ४ ।।

ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् ।।

एकत्र मंत्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति ।। ५ ।।

यासां पुत्रैर्धृता लोका धारिताः सर्वदेवताः ।।

तासां दानविधानं च शृणु तत्पृथिवीपते ।। ६ ।।

एकाऽपि गौर्गुणोपेता कृत्स्नं तारयते कुलम् ।।

सुरूपा शीलसंपन्ना युवतिः सुपयस्विनी ।। ७ ।।

सुवत्सा सुदुहा चैव पापरोगविवर्जिता ।।

विधिवत्तादृशा दत्ता कृत्स्नं तारयते कुलम् ।। ८ ।।

किं पुनर्दश यो दद्याच्छतं वा विधिपूर्वकम् ।।

सहस्रं तु पुनर्दद्यात्तस्य वै किमिहोच्यते ।। ९ ।।

गोसहस्रं पुरा दत्तं नहुषेण महीभृता ।।

स गतो ब्रह्मणः स्थानं ययातिश्च महामतिः ।। 4.159.१० ।।

गंगातीरे महद्दत्तमदित्या पुत्रकाम्यया ।।

लेभे पुत्रं त्रिलोकेशं नारायणमकल्मषम् ।। ११ ।।

श्रूयते पितृभिर्गीता गाथास्ताः शृणु भूपते ।। १२ ।।

यदि कश्चित्कुलेऽस्माकं गोसहस्रं प्रदापयेत् ।।

यास्यामः परमां सिद्धिं कारितां पुण्यकर्मणा ।। १३ ।।

दुहिता वा कुले काचिद्गोसहस्रप्रदायिनी ।।

सोपानः सुगतिर्दत्तो भविष्यति न संशयः ।। १४ ।।

अतः परं प्रवक्ष्यामि यज्ञं वै सर्वकामिकम् ।।

गोसहस्रं तदा दद्याच्छास्त्रोक्तविधिवन्नरः ।। १५ ।।

तीर्थे गोष्ठे गृहे वापि मंडपं कारयेच्छुभम् ।।

दशद्वादशहस्तं वा चतुर्वक्त्रं सतोरणम् ।। १६ ।।

तन्मध्ये कारयेद्वेदिं चतुर्हस्तामनूपमाम् ।।

हस्तमात्रप्रमाणेन हस्तेन समलंकृताम् ।।१७।।

पूर्वोत्तरेऽथदिग्भागे ग्रहवेदिं प्रकल्पयेत् ।।

ग्रहयज्ञविधानेन ग्रहांस्तत्र क्रमाद्यजेत् ।। १८ ।।

ब्रह्मा विष्णुश्च रुद्रश्च पूज्याः प्रथममेव हि ।।

ऋत्विजः परिकर्तव्या षोडशाष्टौ च शोभनाः ।। १९ ।।

चत्वारो वा महाराज उपाध्यायश्च पंचमः ।।

सर्वाभरणसंपन्नाः कर्णवेष्टांगुलीयकैः ।। 4.159.२० ।।

शोभिताश्छत्रसंपन्नास्ताम्रपात्रद्वयान्विताः ।।

ग्रहयज्ञोक्तविधिना होमं हव्यं समाचरेत् ।। २१ ।।

वेद्याः पूर्वोत्तरे भागे शिवकुंडं नियोजयेत् ।।

कुंभद्वयं च द्वारेषु पंचरत्नं सपल्लवम् ।। २२ ।।

कार्यं कुरुकुलश्रेष्ठ ततो होमं समारभेत् ।।

लोकपालबलिं दद्यात्तुलापुरुषदानवत् ।। २३ ।।

गोसहस्राद्विनिष्कृष्य सवत्सं दशकं गवाम् ।।

गोसहस्राद्बहिष्कुर्याद्वस्त्रमाल्यविभूषणम् ।।

अतः प्रवेश्य दशकं वस्त्रैर्माल्यैश्च पूजयेत् ।। २४ ।।

सुवर्णघंटिकायुक्तं ताम्रदोहनकान्वितम् ।।

सुवर्णतिलकोपेतं खुरै रौप्यैरलंकृतैः ।।

हेमरत्नमयैः शृंगैश्चामरैश्चोपशोभितम् ।। २५ ।।

मुनयः केचिदिच्छन्ति कांचनं नंदिकेश्वरम् ।।

लवणद्रोणशिखरे भक्त्या तमपि कारयेत् ।। २६ ।।

एका प्रत्यक्षऋषभे केषांचिद्दानमिष्यते ।।

ग्रहान्सुरांश्च संपूज्य माल्यवस्त्रफलाक्षतैः ।। २७ ।।

पताकाभिरलंकृत्य देवतायतनानि च ।।

गोशतेऽपि दशांशेन सर्वमेतत्प्रकल्पयेत् ।। २८ ।।

यदि सर्वा न विद्यन्ते गावः सर्वगुणोत्तमाः।।

दशकं पूज्य यत्नेन इतरः परिकल्पयेत् ।। २९ ।।

पुष्पकालमथो वाद्यगीतमंगलनिस्वनैः ।।

सर्वौषध्युदकस्नातः स्नपितो द्विजपुंग वैः ।।

इममुच्चारयेन्मंत्रं गृहीतकुसुमांजलिः ।। 4.159.३० ।।

नमो वो विश्वमूर्तिभ्यो विश्वमातृभ्य एव च ।।

लोकाधिवासिनीभ्यस्तु रोहिणीभ्यो नमो नमः ।। ३१ ।।

गवामंगेषु तिष्ठन्ति भुवनान्येकविंशतिः ।।

ब्रह्मादयस्तथा देवा रोहिण्यः पांतु मातरः ।। ३२ ।।

गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः ।।

गावो मे सर्वतः संतु गवां मध्ये वसाम्यहम् ।। ३३ ।।

यस्मात्त्वं वृषरूपेण धर्मश्चैव सनातनः ।। (पाठा. सनानतः)

अष्टमूर्त्तेरधिष्ठानमतः पाहि सनातनः ।। ।।३४।।

इत्यामन्त्र्य ततो दयाद्गुरवे नंदिकेश्वरम् ।।

सर्वोपस्करणोपेतं गोयुतं च विशेषतः ।। ३५ ।।

गवां शतमथैकैकं तदर्धं चापि विंशतिः ।।

दश पञ्चशतं दद्याद्बहुभ्यस्तदनुज्ञया ।। ३६ ।।

नैका बहुभ्यो दातव्या दाता दोषकरो भवेत् ।।

बह्व्यस्त्वेकस्य दातव्याः श्रीमदारोग्यवृद्धये ।। ३७ ।।

पयोव्रतस्ततस्तिष्ठेदेकाहं गोसहस्रदः ।।

तथैव ब्रह्मचारी स्याद्य इच्छेद्विपुलां श्रियम् ।। ३८ ।।

न देया दुर्बला धेनुर्नाल्पक्षीरा न रोगिणी ।।

न जीर्णा जीर्णवस्त्रा वा नापत्यगतचेतना ।। ३९ ।।

अनेन विधिना यस्तु गोसहस्रप्रदो भवेत् ।।

सर्वपापविनिर्मुक्तः सिद्धचारणसेवितः ।। ।। 4.159.४० ।।

विमानेनार्कवर्णेन किंकिणीजालमालिना ।।

सर्वेषां लोकपालानां लोके संपूज्यते सुरैः ।। ४१ ।।

सप्तावरान्सप्त परान्सप्त चैव परावरान् ।।

पुरुषानुद्धरेद्दत्त्वा गोसहस्रं विधानतः ।। ४२ ।।

स्वर्गलोकाच्च्युतो वाथ नारी वा सत्परायणा ।।

सप्त जन्मानि राज्ञी स्यात्स्तूयमाना पुनःपुनः ।। ४३ ।।

न त्वेवेदं दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विघिश्च ।।

तस्मादेताः सर्वभूषासमेताः पात्रे काले क्षीरवत्यो विधानात् ।।४४ ।।

एकापि गौर्बहुगुणा गुणिने प्रदत्ता दातुः कुलं त्रिपुरुषं विधिवत्पुनाति ।।

यः श्रद्धया वितरतीह गवां सहस्रं शक्यं फलं न नृपतेऽस्य मयाभिधातुम् ।। ४५ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोसहस्रप्रदानविधिव्रतवर्णनं नामैकोनषष्ट्युत्तरशततमोऽध्यायः ।। १५९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 160

वृषभदानव्रतवर्णनम्

thumb|500px|ओंकारेश्वर क्षेत्रे नन्दिनः प्रतिमानि। प्रतिमा बाह्यमुखी अथवा अन्तर्मुखी अस्ति।

।। युधिष्ठिर उवाच।। ।।

युष्मद्वाक्यामृतमिदं शृण्वानाह जनार्दन ।।

न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे ।। १ ।।

गोपतिः किल गोविन्दस्त्रिषु लोकेषु विश्रुतः ।।

गोवृषस्य प्रदानेन त्रैलोक्यमभिनंदति ।। २ ।।

तद्गोवृषभदानस्य फलं मे कथायाच्युत ।।

।। श्रीकृष्ण उवाच ।। ।।

वृषदानफलं पुण्यं शृणुष्व कथयामि ते ।। ३ ।।

पवित्रं पावनं चैव सर्वदानोत्तमोत्तमम् ।।

दशधेनुसमोऽनड्वानेकश्चैकधुरंधरः ।।

दशधेनुप्रदानाद्धि स एवैको विशिष्यते ।। ४ ।।

यो हृष्टश्चातिपुष्टांगो ह्यरोगः पांडुनन्दन ।।

युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः ।। ५ ।।

धुरंधरः स्थापयते एक एव कुलं महत् ।।

त्राता भवति संसारे नात्र कार्या विचारणा ।।६।।

अलंकृत्य वृषं शांतं पुण्यकाल उपस्थिते ।।

रौप्यलांगूलसंयुक्तं ब्राह्मणाय निवेदयेत् ।। ७ ।।

मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते ।। ८ ।।

धर्मस्त्वं वृषरूपेण जगदानन्दकारकः ।।

अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ।। ९ ।।

दत्त्वैवं दक्षिणायुक्तं प्रणिपत्य विसर्जयेत् ।।

सप्तजन्मकृतं पापं वाङ्मनः कायकर्मणाम् ।।

तत्सर्वं विलयं याति गोदानसुकृतेन च ।। 4.160.१० ।।

यानं वृषभसंयुक्तं दीप्यमानं सुशोभनम् ।।

आरुह्य कामगं दिव्यं स्वलोकमधिरोहति ।।। ११ ।।

यावंति तस्य रोमाणि गोवृषस्य महीपते ।।

तावद्वर्षसहस्राणि गवां लोके महीयते ।।१२।।

गोलोकादवतीर्णस्तु इह लोके द्विजो भवेत् ।।

यज्ञयाजी महातेजाः सर्वब्राह्मणपूजितः ।। १३ ।।

यथोक्तं ते महाराज कस्य देयो वृषोत्तमः ।।

तदहं ते प्रवक्ष्यामि पात्रं त्राणपदं नृणाम् ।। १४ ।।

ये क्षांतदांताः श्रुतिपूर्णकर्णा जितेंद्रियाः प्राणिवधान्निवृत्ताः ।।

प्रतिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ।। १५ ।।

ऊर्जस्विनं भरसहं दृढकंधरं च यच्छंति ये वृषमशेषगुणोपपन्नम् ।।

दत्तेन यद्भवति गोदशकेन पुण्यं सत्यं भवंति भुवि तत्फलभागिनस्ते ।। १६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषभदानव्रतवर्णनं नाम षष्टयुत्तरशततमोऽध्यायः ।। १६० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 161

कपिलादानमाहात्म्यवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

कपिलादानमाहात्म्यं कथयस्व जगत्पते ।।

पुण्यं यत्सर्वदानानां सर्वपातकनाशनम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

तत्तेऽहं संप्रवक्ष्यामि विनताश्वेन यत्पुरा ।।

कथितं कपिलादानं तच्छृणुष्व महामते ।। २ ।।

।। विनताश्व उवाच ।। ।।

अतः परं महाराजोभयमुख्याः समासतः ।।

विधानं यद्वराहेण धरण्यै कथितं पुरा ।। ३ ।।

तदहं संप्रवक्ष्यामि नवपुण्यफलं च यत् ।।

।। धरण्युवाच ।। ।।

यत्त्वया कपिला नाम पूर्वमुत्पाविता प्रभो ।। ४ ।।

होमधेनुः सदा पुण्या धेनुर्यज्ञावतारभूः ।।

सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्दिनेऽपि च ।। ।। ५ ।।

कीदृशाय च विप्राय दातव्या पुण्यलक्षणा ।।

कति वा कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा ।। ६ ।।

तासां प्रयत्नाद्दानेन किं पुण्यं स्याच्च माधव ।।

एतदिच्छाम्यहं श्रोतुं विस्तरान्मधुसूदन ।। ७ ।।

।। वराह उवाच ।। ।।

शृणुष्व भद्रे तत्त्वेन पवित्रं पापनाशनम् ।।

कृत्वा यत्सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ८ ।।

कपिला अग्निहोत्रार्थं यज्ञार्थे च वरानने ।।

उद्धृत्य सर्वतेजांसि ब्रह्मणा निर्मिता पुरा ।। ९ ।।

पवित्राणां पवित्रं च मङ्गलानां च मंगलम् ।।

पुण्यानां परमं पुण्यं कपिला च वरानने ।। 4.161.१० ।।

तपसस्तप एवाग्र्यं व्रतानामुत्तमं व्रतं ।।

दानानामुत्तमं दानं विधिना ह्येतदक्षयम् ।। ११ ।।

पृथिव्यां यानि तीर्थानि गुह्यान्यायतनानि च ।।

पवित्राणि च पुण्यानि सर्वलोके वसुन्धरे ।। १२ ।।

होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ।।

कपिलाया घृतेनेह दश क्षीरेण वा पुनः ।। १३ ।।

यजंते येऽग्निहोत्राणि अन्नैश्च विविधैः सदा ।।

पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः ।। १४ ।।

तेषां त्वादित्यवर्णैश्च विमानैर्जायते गतिः ।।

सूर्यमण्डलमध्ये च ब्रह्मणा निर्मिता पुरा ।। १५ ।।

कपिलायाः शिरो ग्रीवां सर्व तीर्थानि भामिनि ।।

पितामहनियोगाच्च निवसंति हि नित्यशः ।। १६ ।।

प्रातरुत्थाय यो मर्त्यः कपिला गलमस्तकात् ।।

च्युतं तु भक्त्या पानीयं शिरसा धारयेन्नरः ।। १७ ।।

स तेन पुण्येनोपेतस्तत्क्षणाद्गतकिल्विषः ।।

विंशद्वर्षकृतं पापं दहत्यग्निरिवेन्धनम् ।। १८ ।।

कल्य उत्थाय यो मर्त्यः कुर्यात्तासां प्रदक्षिणम् ।।

प्रदक्षिणीकृता तेन पृथिवी स्याद्वसुन्धरे ।। १९ ।।

प्रदक्षिणायां चैकायां कृतायां च वसुन्धरे ।।

दशवर्षकृतं पापं नश्यते नात्र संशयः ।। 4.161.२० ।।

कपिलायास्तु मूत्रेण स्नायाद्वै यः शुचिव्रतः ।।

स गङ्गाद्येषु तीर्थेषु स्नातो भवति मानवः ।। २१ ।।

येन स्नानेन चैकेन भवमुक्तो भवेन्नरः ।।

यावज्जीवकृतात्पापात्तत्क्षणादेव मुच्यते ।। २२ ।।

गोसहस्रं च यो दद्यादेकां वा कपिलां नरः ।।

सममेतत्पुरा प्राह ब्रह्मलोके पितामहः ।। २३ ।।

यश्चैकां कपिलां हन्यान्नरो रज्जुकरो यदि ।।

गोसहस्रं हतं तेन भवतीह न संशयः ।। २४ ।।

गवां स्थितिं कल्पयेत घृतं गव्यं न दूषयेत् ।।

यावद्धि वर्द्धते गव्यं तावत्पापैस्तु पूयते ।। २५ ।।।

गवां कंडूयनं श्रेष्ठं तथा च प्रतिपालनम् ।।

तुल्यं गोघृतदानस्य भयरोगादिपालनम् ।। २६ ।।

तृणादिभक्षणार्थं च गवां दद्याद्धरादिकम् ।।

स्वर्गवासफलं दिव्यं लभते मानवोत्तमः ।। २७ ।।

दशेह कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा ।।

यो दद्याच्छ्रोत्रियस्यैव स्वर्गं गत्वा स मानवः ।। २८ ।।

विमानैर्विविधैर्दिव्यैर्दिव्यकन्याभिरर्चितः ।।

सेव्यमानस्तु गंधर्वैर्दीप्यमाना यथाग्नयः ।। २९ ।।

सुवर्णकपिला पूर्वा द्वितीया गौरपिङ्गला ।।

आशा चैव तृतीया स्यादग्निज्वाला चतुर्थिका ।। 4.161.३० ।।

पंचमी जुहुवर्णा स्यात्षष्ठी तु घृतपिङ्गला ।।

सप्तमी श्वेतपिङ्गा स्यादष्टमी क्षीरपिङ्गला ।। ३१ ।।

नवमी पाटला ज्ञेया दशमी पुष्पपिङ्गला ।।

एता दश समाख्याताः कपिलाश्च वसुंधरे ।। ३२ ।।

सर्वा ह्येता महाभागास्तारयंति न संशयः ।।

संगमेषु प्रशस्ताश्च सर्वपापप्रणाशनाः ।। ३३ ।।

एवमेतास्तु कपिलाः पापघ्न्यश्च वसुन्धरे ।।

आशा चैव तु या प्रोक्ता अग्निगर्भानलप्रभा ।।३४।।

अग्निज्वालोज्ज्वलैः शृंगैः प्रदीप्तांगारलोचना ।।

अग्निपुष्पा अग्निलोमा तथान्या चानलप्रभा ।।३५।।

तामाग्नेय्यां सदा दद्याद्ब्राह्मणायेतरैः सदा ।।

गृहीत्वा कपिलां शूद्रः कामतस्तत्पयः पिबेत् ।।३६।।

पतितश्च भवेन्नित्यं चंडालसदृशः पुमान्।।

तस्मान्न प्रतिगृह्णीयाच्छबलां गां कथंचन ।।३७।।

द्वारांते परिहर्तव्या कपिला गौर्द्विजेतरैः ।।

लोकेषु ते मृढतमाः कपिलाक्षीरभोजनाः ।।३८।।

असंभाष्याश्च पतिताः शूद्रास्ते पापकर्मिणः ।।

पिबंति यावत्कपिलां तावत्तेषां पितामहाः ।।

अमेध्यं भुञ्जतेऽतस्तां नोपजीवेद्द्विजेतरः ।। ३९ ।।

तासां घृतं च क्षीरं वा नवनीतमथापि वा ।।

उपजीवंति ये शूद्रास्ते प्रयांति यमालयम् ।।4.161.४०।।

कपिलाजीविनः शूद्राः सर्वे गच्छंति रौरवम् ।।

रौरवे भुञ्जते दुःखं वर्षकोटि शतोषिताः ।।४१।।

ततो विमुक्ताः कालेन जायंते श्वानयोनिषु ।।

श्वानयोनेर्विमुक्तास्ते विष्ठायां कृमियोनिगाः ।।४२।।

विष्ठास्वेव च पापिष्ठा दुर्गंधेषु च नित्यशः।।

भूयोऽपि जायमानास्ते तत्रोत्तारो न विद्यते ।।४३।।

ब्राह्मणश्चैव यो देवि कुर्यात्तेषां प्रतिग्रहम् ।।

ततः प्रभृत्यमेध्यायां पितरस्तस्य शेरते ।। ४४ ।।

तं विप्रं नानुभाषेत न चाप्येकासने विशेत् ।।

स नित्यं वर्जनीयो वै दूरात्तु ब्राह्मणाधमः ।।४५।।

यस्तेन सह भाषेत प्रायश्चित्ती भवे द्द्विजः ।।

एकस्य गोप्रदानस्य सहस्रांशो न पूर्यते ।।४६।।

किमन्यैर्बहुभिर्दानैः कोटिसंख्यातविस्तरैः।।४७।।

श्रोत्रियाय दरिद्राय सुवृत्तायाहिताग्नये ।।

दत्त्वैकां कपिलां धेनुं सर्वपापैः प्रमुच्यते ।।४८।।

मासे प्रसविनीं धेनुं दानार्थी प्रतिपालयेत् ।।

आत्मार्थे न प्रपाल्या हि सदा नरकभीरुभिः ।।४९।।।

कपिलाऽर्धप्रसूता च दातव्या हि द्विजन्मने ।।

जायमानस्य वत्सस्य मुखं योन्यां प्रदृश्यते ।। 4.161.५० ।।

तावत्सा पृथिवी ज्ञेया यावद्गर्भं न मुंचति ।। ।। ५१ ।।

धेनोर्यावंति रोमाणि सवत्साया वसुन्धरे ।।

भूम्यां तु पांसवो यावद्यावन्नक्षत्रतारकाः ।। ५२ ।।

तावद्वर्षसहस्राणि ब्रह्मेशादिभिरर्चितः ।।

ब्रह्मलोके निवसति यश्चैककपिलाप्रदः ।। ५३ ।।

सुवर्णशृङ्गीं यः कृत्वा खुरै रौप्यैः समर्चिताम् ।।

ब्राह्मणस्य करे दत्त्वा सुवर्णं रौप्यमेव च ।। ५४ ।।

कपिलायास्तदा पुत्रं ब्राह्मणस्य करे न्यसेत् ।।

उदकं च करे दत्त्वा वाचयेत स्वशक्तितः ।। ५५ ।।

सुवर्णैस्तु चतुर्भिश्च त्रिभिर्द्वाभ्यामथापि वा ।।

एकहीना न दातव्या यदीच्छेच्छुभमात्मनः ।। ५६ ।।

स समुद्रवनोपेता सशैलवनकानना ।।

रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ।। ५७ ।।

पृथिवीदानतुल्येन दानेनैतेन वै नरः ।।

तारितो याति पितृभिर्वैष्णवं यत्पदं परम् ।। ५८ ।।

ब्रह्मस्वहरणो गोघ्नो भ्रूणहा ब्रह्मघातकः ।।

पापकृच्चोभयमुखीं दद्यात्सत्कनकान्विताम् ।।

तद्दिनं च पयोभोजी संयतश्चातिवाहयेत् ।। ५९ ।।

गोमयेनोपलिप्याथ मण्डलं विधिपूर्वकम् ।।

स्वशाखोक्तेन मंत्रेण होमयेत्तु विचक्षणः ।। 4.161.६० ।।

व्याहृत्या होमयेत्पूर्वं पंचवारुणकं तथा ।।

इरावती धेनुमती देवस्य त्वेति वा पुनः ।। ६१ ।।

स्योना पृथिवि मंत्रेण गौर्वत्ससहिता नवा ।।

निकामफलदा धेनुः सा स्यात्सुरभिनंदिनी ।। ६२ ।।

या ते सरस्वती देवी विष्णुना च तथा मही ।।

गौरी विष्णुपदं चोक्त्वा शांतिकर्मणि वाचयेत् ।। ६३ ।।

यावद्वत्सस्यद्वौ पादौ शिरश्चैव प्रदृश्यते ।।

तावद्वै पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ।।

तस्मिन्काले प्रदातव्या ब्राह्मणाय वसुंधरे ।। ६४ ।।

सुवर्णशृंगीं रौप्यखुरां कास्यदोहां सताम्रकाम् ।।

सवस्त्रघंटाभरणां गंधपुष्पैरलंकृताम् ।।

वस्त्राक्षतैः समभ्यर्च्य ब्राह्मणाय समर्पयेत् ६५ ।।

सुवर्णस्य सहस्रेण तदर्धेनापि भामिनि ।।

तस्याप्यर्धेन शक्त्याऽथ तस्याप्यर्द्धेन वा पुनः ।। ।। ६६ ।।

यथा शक्त्या प्रदातव्या वित्तशाठ्यविवर्जितैः ।।

करे दत्त्वा सुवर्णं च अथवा रूप्यमेव च ।।

गृहाणेमां महाधेनुं भव भ्राता ममाशु वै ।।

सर्वपापक्षयं कृत्वा सदा स्वस्तिकरो भव ।।६८।।

इरावती धेनुमती जाह्नवी तदनन्तरम् ।।

प्रतिदास्यामि ते धेनुं कुटुम्बार्थे विशेषतः ।।६९।।

भवतात्स्वस्ति मे नित्यं सुखं चानुत्तमं तथा ।।

दत्ता तु पृथिवी देवी त्वयेयं प्रतिगृह्यताम् ।।4.161.७०।।

कोऽदादिति च वै मंत्रो जपितव्यो द्विजेन च ।।।

विसृज्य ब्राह्मणं सोऽपि तां धेनुं स्वगृहं नयेत् ।। ७१ ।।

एवं प्रसूयमानां गां यो ददाति वसुन्धरे ।।

सा समुद्रवनोपेता सशैलवनकानना ।।

रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ।। ७२ ।।

प्रतप्तजांबूनदतुल्यवर्णां महानितंबां तनुवृत्तमध्याम् ।।

अर्द्धप्रसूतां द्विमुखीं सुशीलां सेवन्त्यजस्रं कपिलां हि देवाः ।। ७३ ।।

प्रातरुत्थाय यो भक्त्या धेनुकल्पं नरो भुवि ।।

जितेन्द्रियः शुचिर्भूत्वा पठेद्भक्त्या समन्वितः ।। ७४ ।।

त्रिकालं पठते यस्तु पापं वर्षशतोद्भवम् ।।

नश्यत्येकक्षणादेव वायुना पांसवो यथा ।। ७५ ।।

श्राद्धकाले पठेद्यस्तु इदं पावनमुत्तमम् ।।

तस्यान्नं संस्कृतं तद्वै पितरोऽश्नंति धीमतः ।। ७६ ।।

अमावास्यां च यो विद्वान्द्विजानामग्रतः पठेत् ।।

पितरस्तस्य तुष्यंति वर्षाणां शतमेव च ।। ७७ ।।

यश्चैतत्छृणुयात्पुण्यं तद्गतेनांतरात्मना ।।

संवत्सरकृतात्पापात्तत्क्षणादेव मुच्यते ।। ७८।।

इदं रहस्यं राजेन्द्र वराहमुखनिर्गतम्।।

धरण्यै कथितं पूर्वं सर्वपापप्रणाशनम् ।। ७९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कपिलादानमाहात्म्यवर्णनं नामैकषष्ट्युत्तरशततमोऽध्यायः ।। १६१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 162

महिषीदानव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

महिषीदानमाहात्म्यं कथयामि युधिष्ठिर ।।

पुण्यं पापविनाशं च आयुष्यं सर्वकामदम् ।। १ ।।

चन्द्रसूर्यग्रहे पुण्ये कार्त्तिक्यामयने तथा ।।

शुक्लपक्षे चतुर्दश्यां सूर्यसंक्रान्तिवासरे ।। २ ।।

यदा वा जायते चित्तं वित्तं च कुरुनन्दन ।।

तदैव देया महिषी संसारभयभीरुणा ।। ३ ।।

सुपयोधरशोभाढ्या सुशृंगी सुखुरा तथा ।।

प्रथमप्रसूता तरुणी सुशीला दोषवर्जिता ।। ४ ।।

सुवर्णशृङ्गतिलका घंटाभरणभूषिता ।।

रक्तवस्त्रावृता रम्या कांस्यदोहनकान्विता ।। ५ ।।

पिण्याकपिटिकोपेता सहिरण्या च शक्तितः ।।

सप्तधान्ययुता देया ब्राह्मणे वेदपारगे ।। ६ ।।

पुराणपाठके तद्वज्ज्योतिःशास्त्रविदे तथा ।।

देया न वेदरहिते न च कुव्रतिने क्वचित् ।। ७ ।।

द्रव्यैरेभिः समायुक्तां पुण्येऽह्नि विधिपूर्वकम् ।।

दद्यान्मंत्रेण राजेन्द्र पुराणपठितेन तु ।। ८ ।।

इन्द्रादिलोकपालानां या राजमहिषी शुभा ।।

महिषी दानमाहात्म्यात्सास्तु मे सर्वकामदा ।। ९ ।।

धर्मराजस्य साहाय्ये यस्याः पुत्रः प्रतिष्ठितः ।।

महिषासुरस्य जननी या सास्तु वरदा मम ।।4.162.१०।। (इति दानमंत्रः)

दद्यात्प्रदक्षिणीकृत्य ब्राह्मणे तां पयस्विनीम्।।

प्रतिग्रहः स्मृतस्तस्याः पृष्ठदेशे स्वयंभुवा।।११।।

एवं दत्त्वा विधानेन ब्राह्मणस्य गृहं नयेत् ।।

वस्त्रैराभरणैः पूज्य भक्त्या च कुरुनन्दन ।। १२ ।।

संपादिता मया तुभ्यं संतुष्टो मे भव द्विज ।। १३ ।।

अनेन विधिना दत्त्वा महिषीं द्विजपुङ्गवे ।।

सर्वान्कामानवाप्नोति इह लोके परत्र च ।। १४ ।।

या सा ददाति महिषीं सा राजमहिषी भवेत् ।।

महाराजः पुमान्राजन्व्यासस्य वचनं यथा ।। १५ ।।

यज्ञयाजी भवेद्विप्रः क्षत्रियो विजयी भवेत् ।।

भवेद्वैश्यस्तु धनवाञ्छूद्रः सर्वार्थसंयुतः ।। १६ ।।

तस्मान्नरेण दातव्या महिषी विभवे सति ।।

पुत्रपौत्रप्रपौत्रार्थमात्मनः शुभमिच्छता ।। १७ ।।

दशधेनुसमां राजन्महिषीं नारदोऽब्रवीत् ।।

विंशतिगोसमां व्यासः सर्वदानोत्तमं रविः ।। १८ ।।

सगरेण ककुत्स्थेन धुंधुमारेण गाधिना ।।

दत्ताः संपूज्य विप्रेभ्यो महिष्यः सर्वकामदाः ।। १९ ।।

महिषी दानमाहात्म्यं यः शृणोति सदा नरः ।।

स सर्वपापनिर्मुक्तः शिवलोके महीयते ।। 4.162.२० ।।

दुग्धाधिकां हि महिषीं जलमेघवर्णां सपुष्टपट्टकवतीं जघनाभिरामाम् ।।

दत्त्वा सुवर्णतिलकां द्विजपुंगवाय लोकद्वयं विजयते किमु तत्र चित्रम् ।। २१ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महिषीदानव्रतविधिवर्णनं नाम द्विषष्टयुत्तरशततमोऽध्यायः ।। १६२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 163

अविदानव्रतविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शृणु पार्थ परं दानं सर्वकिल्बिषनाशनम् ।।

यद्दत्त्वा त्रिविधं पापं सद्यो विलयमृच्छति ।। १ ।।

सुवर्णरोमां सौवर्णीं प्रत्यक्षं वा सुशोभनाम् ।।

सुवर्णतिलकोपेतां सर्वालंकारभूषिताम् ।। २ ।।

कौशेयपरिधानां च दिव्यचंदनभूषिताम् ।।

दिव्यपुष्पोपहारां च सर्वधातुरसैर्युताम् ।।

सप्तधान्यसमायुक्तां फलपुष्पवतीं तथा ।। ३ ।।

शतेन कारयेत्तां च सुवर्णस्य प्रयत्नतः ।।

यथा शक्त्याथ वा कुर्याद्वित्तशाठ्यं न कारयेत ।। ४ ।।

अयने विषुवे चैव ग्रहणे शशिसूर्ययोः ।।

दुःस्वप्नदर्शने चैव जन्मर्क्षे पितृसंक्षये ।। ५ ।।

यदा वा जायते वित्तं चित्तं श्रद्धासमन्वितम् ।।

तदैव दानकालः स्याद्यतोऽनित्यं हि जीवितम् ।। ६ ।।

दद्यात्तीर्थे गृहे वापि यत्र वा रमते मनः ।। ७ ।।

तत्र संस्थाप्य देवेशमुमया सह शंकरम् ।।

ब्रह्माणं सह गायत्र्या सश्रीकं श्रीधरं तथा ।। ८ ।।

रत्या सह तथानंगं लोकपालान्ग्रहानपि ।।

संपूज्य च विधानेन गंधपुष्पनिवेदनैः ।। ९ ।।

तदग्रे कारयेद्धोमं तिलाज्येन महीपते ।।

अलंकृत्य द्विजं शांतं वासोभिः प्रतिपूज्य च ।। 4.163.१० ।।

तल्लिङ्गमंत्रैर्होमश्च कर्तव्यो ज्वलितेऽनले ।।

ततस्तां तिलकुंभस्थां लवणान्तमुपस्थिताम् ।। ११ ।।

पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत् ।।

रोमत्वङ्मांसमज्जाद्यैः सर्वोपकरणैः सदा।।

जगतः संप्रवृद्धासि त्वामतः प्रार्थये स्थिताम् ।। १२ ।।

वाङ्मनःकायजनितं यत्किञ्चिन्मम दुष्कृतम्।।

तत्सर्वं विलयं यातु तव दानात्प्रसेवितम् ।। १३ ।।

एवमुच्चार्य तां दद्याद्ब्राह्मणाय कुटुम्बिने ।।

नाभिभाषेत तं दत्त्वा मुखं च नावलोकयेत् ।। १४ ।।

दुष्टप्रतिग्रहहतो विप्रो भवति पातकी ।। १५ ।।

नो दद्याद्दक्षिणाहीनां दातव्या सा विधानतः ।।

दक्षिणाविधिना हीना दुःखशोकावहा भवेत् ।। १६ ।।

पुरा दत्तमिदं दानं गौर्या शंकरकाम्यया ।।

तेन शंभुः पतिर्लब्धः सर्वदेवनमस्कृतः ।। १७ ।।

इन्द्राण्या स्वर्णरोमाणां शतं दत्तं विधानतः ।।

सर्वदेवपतिं प्राप्य पतिं साद्यापि मोदते ।। १५ ।।

नलेन दत्तमेतद्धि राज्यं कृत्वा दिवं गतः ।।

रुक्मिण्याहं पतिर्लब्धः सौभाग्यमतुलं तथा ।। १९ ।।

दानस्यास्य प्रभावेण पुत्रा बहुबलान्विताः ।।

अपुत्रो लभते पुत्रमधनो लभते धनम्।।4.163.२०।।

दत्त्वा दानं शुभां कांतिं विपुलां च तथा श्रियम् ।।

य इमं शृणुयान्नित्यं दानकल्पमनुत्तमम्।।

अहोरात्रकृतात्पापान्मुच्यते नात्र संशयः ।।२१ ।।

मेषी विशेषकलुषापहरातिशस्ता दाने सदैव रसधातुयुता सधान्या ।।

तामादरेण कुरुनन्दन देहि दत्त्वा येनास्तपापतिमिरः सवितेव भासि ।। २२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽविदानव्रतविधिवर्णनंनाम त्रिषष्ट्युत्तरशततमोऽध्यायः ।। १६३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 164

भूमिदानवर्णनम्

।। श्रीकृष्ण उवाच।। ।।

भूमिदानमतो वक्ष्ये सर्वपापप्रणाशनम् ।।

ये प्रयच्छंति विप्रेभ्यो भूमिदानं सदक्षिणम् ।। १ ।।

श्रोत्रियाय दरिद्राय अग्निहोत्ररताय च ।।

स सर्वकामतृप्तात्मा सर्वरत्नैर्विभूषितः ।। २ ।।

सर्वपापविनिर्मुक्तो दीप्यमानो रविर्यथा ।।

बालसूर्यप्रभाभासैर्वादित्रध्वजशोभितैः ।।३।।

विमानैर्भास्वरैर्दिव्यैर्विष्णुलोकं स गच्छति ।। ४ ।।

तत्र दिव्यांगनाभिश्च सेव्यमानो यथासुखम् ।।

कामगः कामरूपी च क्रीडत्यानंदमक्षयम् ।। ५ ।।

यावद्धारयते लोकान्भूरंकुरसमुद्भवा ।।

तावद्भूमिप्रदः कामं विष्णुलोके महीयते ।। ६ ।।

नहि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते ।।

दिशो दशानुगृह्णाति हर्ता ता दश हंति च ।। ७ ।।

दानान्यन्यानि क्षीयंते कालेन पुरुषर्षभ ।।

भूमिप्रदानपुण्यस्य क्षयो नैवोपपद्यते ।। ८ ।।

सर्वपापानि क्षीयंते कालयोगक्रमेण तु ।।

भूमिहर्तुश्च राजेंद्र दुःखस्यांतो न विद्यते ।। ९ ।।

ब्राह्मणाय सुशीलाय भूमिं दत्त्वा तु यो नरः ।।

न हि तामुपजीवेद्यः स महत्पुण्यमाप्नुयात् ।। 4.164.१० ।।

हलकृष्टां महीं कृत्वा सबीजां सस्यमालिनीम्।।

यावत्सूर्यकृता लोकस्तावत्स्वर्गे महीयते ।। ११ ।।

धनं धान्यं हिरण्यं च रत्नान्याभरणानि च ।।

सर्वदानानि राजेंद्र ददाति वसुधां ददत् ।। १२ ।।

सागरान्सरितः शैलान्समानि विषमाणि च ।।

सर्वगंधरसान्स्नेहान्ददाति वसुधां ददत् ।। १३ ।।

ओषधीः क्षीरसंपन्ना नानापुष्पफलोपगाः ।।

कमलोत्पलखंडांश्च ददाति वसुधां ददत् ।। १४ ।।

अग्निष्टोमादिभिर्यज्ञैर्ये यजंति सदक्षिणैः ।।

प्राप्नुवंति च तत्पुण्यं भूमिदानाद्यदाप्यते ।। १५ ।।

श्रोत्रियाय महीं दत्त्वा ये हरंति न मानवाः ।।

तावत्तेषां भवेत्स्वर्गो यावल्लोका प्रतिष्ठिताः ।। १६।।

सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति ।।

पितरस्तस्य तुष्यंति यावदाभूतसंप्लवम् ।। १७ ।।

यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः ।।

अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ।। १८ ।।

सुवर्णानां सहस्रेण यत्पुण्यं समुदाहृतम्।।

भूमि गोचर्ममात्रेण तत्फलं प्राप्नुयान्नरः ।। १९ ।।

कपिलानां सहस्रेभ्यो यद्दत्तेऽन्नं नरोत्तम ।।

भूमिगोचर्ममात्रेण तत्फलं लभते नरः ।। 4.164.२० ।।

मध्यमस्य मनुष्यस्य व्यासेन परिसंख्यया।।

त्रिंशद्दंडांश्च गोचर्म दत्त्वा स्वर्गे महीयते ।। २१ ।।

बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ।।

यस्य यस्य यदा भूमिस्तस्यतस्य तदा फलम् ।। २२ ।।

किंकरा मृत्युदंडाश्च असिपत्रवनादयः ।।

घोराश्च वारुणाः पाशा नोपसर्पंति भूमिदम्।। २३ ।।

निरया रौरवाद्याश्च कुंभीपाकः सुदुःसहः ।।

तथा च यातनाः कष्टा नोपसर्पंति भूमिदम् ।। २४ ।।

चित्रगुप्तश्च कालश्च कृतांतो मृत्युरेव च ।।

यमश्चापि स्वयं राजा संपूजयति भूमिदम् ।। २५ ।।

रुद्रः प्रजापतिः शक्रो देवासुरगणास्तथा ।।

अहं च परमप्रीत्या पूजयामीह भूमिदम्।। २६ ।।

षट्कर्मकृत्सुवृत्ताय कृशाय च प्रियार्थिने ।।

भूमिर्देया नरव्याघ्र सन्निधिश्चाक्षयो भवेत् ।। २७ ।।

सीदमानकुटुंबाय श्रोत्रियायाहिताग्नये ।।

वृत्तस्थाय दरिद्राय भूमिर्देया नरेश्वर ।। २८ ।।

यथा जनित्री क्षीरेण पुत्रं संवर्द्धयेत्सदा ।।

तथा भूमिप्रदं भूमिः सर्वकामैस्तु तर्पति ।। २९ ।।

यथा गौर्भरते वत्स क्षीरेण क्षीरमुत्सृजेत् ।।

तथा सर्वरसोपेता भूमिर्भरति भूमिदम् ।। 4.164.३० ।।

यथा बीजानि रोहंति जलसिक्तानि भूतले ।।

तथा कामाः प्ररोहंति भूमिदस्य दिनेदिने ।। ३१ ।।

यथोदयन्सहस्रांशुस्तमः सर्वं व्यपोहति ।।

तथा भूमिप्रदानं तु सर्वपापं व्यपोहति ।। ३२ ।।

पर दत्तां तु यो भूमिमुपहिंसेत्कदाचन ।।

स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ।। ३३ ।।

स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ।।

स नरो नरके घोरे क्लिश्यत्याप्रलयांतिकम् ।। ३४ ।।

रुदतां वृत्तिनाशेन ये पतंत्यश्रुबिंदवः ।।

ताद्वर्षसहस्राणि नरके पच्यते तु सः ।। ३५ ।।

ब्राह्मणानां हृते क्षेत्रे हर्तुस्त्रिपुरुषं कुलम् ।।

दत्त्वा भूमिं तु विप्राय उपहिंसेद्यदा पुनः ।।

अधोमुखश्च दुष्टात्मा कुंभीपाके स पच्यते ।।३६।।

दिव्यवर्षसहस्रांते कुंभीपाकाद्विनिःसृतः ।।

इह लोके भवेच्छा वै सप्त जन्मानि पार्थिव।।३७।।

स्वदत्तां परदत्तां वा यत्नाद्रक्षेद्युधिष्ठिर ।।

महीं महीभृतां श्रेष्ठ दानाच्छ्रेयोनुपालनम्।। ३८ ।।

तोयहीनेष्वरण्येषु शुष्ककोटरवासिनः ।।

कृष्णाह्वयोभिजायंते नरा ब्रह्मस्वहारिणः ।।३९।।

एवं दत्त्वा महीं राजन्प्रहृष्टेनांतरात्मना ।।

सर्वान्कामानवाप्नोति मनसा चिंतितान्नरः ।। 4.164.४० ।।

भूमिदानात्परं नास्ति सुखं वामुष्मिकं महत् ।।

न चापि भूमिहरणादन्यत्पातकमुच्यते ।। ४१ ।।

यच्छंति ये द्विजवराय महीं सुकृष्टां ते यांति शक्रसदनं सुविशुद्धदेहाः ।।

ये लोपयंत्यतिबलादथ कामलोभात्ते रौरवातिगहनान्न समुत्तरंति ।। ४२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भूमिदानमाहात्म्यवर्णनंनाम चतुःषष्ट्यु त्तरशततमोऽध्यायः ।। १६४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 165

पृथिवीदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

भूमिदानं क्षत्रियाणां नान्येषामुपपद्यते ।।

ते ह्युपार्जयितुं शक्ता दातुं पालयितुं यथा ।। १ ।।

भूमिदानसमं किंचिदन्यत्कथय यादव ।।

संप्राप्तवित्तैर्यच्छक्यं संसारभयभीरुभिः ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

सौवर्णां विधिवत्कृत्वा साद्रिद्रुमवतीं शुभाम् ।।

महीं प्रयच्छ विप्राणां तत्तुल्या सा निगद्यते ।। ३ ।।

शृणुष्वैकमना भूत्वा महादानं नरोत्तम ।।

सविधानं प्रवक्ष्यामि फलं यत्नेन यद्भवेत् ।। ४ ।।

चंद्रसूर्योपरागे च जन्मर्क्षे विषुवे तथा ।।

युगादिषु च दातव्यमयने च विधानतः ।। ५ ।।

अन्येष्वपि च कालेषु प्रशस्ते धनसंचये ।।

पापक्षयाय दातव्यं यशोऽर्थे वा नरैर्भुवि ।। ६ ।।

हेम्नः पलशतेनोक्ता तदर्धेनापि शक्तितः ।।

कुर्यात्पंचपलादूर्ध्वमसमर्थोऽपि भक्तिमान् ।। ७ ।।

कारयेत्पृथिवीं हैमीं जंबुद्वीपानुकारिणीम् ।।

मर्यादापर्वतवतीं मध्ये मेरुसमन्विताम् ।। ८ ।।

लोकपालाष्टकोपेतां ब्रह्मविश्वेशसंयुताम् ।।

नानापर्वतपूर्णां च रत्नाभरणभूषिताम् ।। ९ ।।

सर्वसस्यविचित्रांगीं सर्वगंधाधिवासिताम् ।।

ईदृशीं तु महीं कृत्वा कारयेन्मंडपं ततः ।। 4.165.१० ।।

दशद्वादशहस्तं च चतुर्वक्त्र सतोरणम् ।।

मध्ये च वेदिकां कुर्याद्धनुर्हस्तां प्रमाणतः ।। ।।११।।

ऐशान्यां सुरसंस्थानमाग्नेय्यां कुंडमेव च ।।

पताकाभिरलंकृत्य देवतायतनान्यथ ।। १२ ।।

लोकपाला ग्रहाश्चैव पूज्या माल्यविलेपनैः ।।

होमं कुर्युर्द्विजाः शांताश्चातुश्चरणिकाः शुभाः ।। १३ ।।

सालंकारा सवस्त्राश्च माल्यचंदनभूषिताः ।।

अग्निसंस्थापनं तत्र कृत्वा पूर्वं ततो महीम्।। १४ ।।

आनयेयुर्द्विजा राजन्ब्रह्मघोषपुरःसरम् ।।

शंखतूर्यनिनादैश्च गेयमंगलनिस्वनैः ।। १५ ।।

तिलैः प्रच्छादितां वेदिं कृत्वा तत्राधिवासयेत् ।।

अथाष्टादशधान्यानि रसांश्च लवणादिकान् ।। १६ ।।

तथाष्टौ पूर्णकलशान्समंतात्स्थापयेच्छुभान् ।।

वितानकं च कौशेयं फलानि विविधानि च ।। १७ ।।

अंशुकानि विचित्राणि श्रीखंडशकलानि च ।।

इत्येवं रचयित्वा तामधिवासनपूर्वकम् ।। १८ ।।

ततो होमावसानेषु निष्पन्ने सर्वशांतिके ।।

शुक्लमाल्यांबरधरो यजमानः स्वयं ततः ।। १९ ।।

कृत्वा प्रदक्षिणं पृथ्वीं गृहीत्वा कुसुमांजलिम् ।।

पुण्यकालमथासाद्य मंत्रानेतानुदीरयेत् ।। 4.165.२० ।।

नमस्ते सर्वदेवानां त्वमेव भवनं यतः ।।

धात्री त्वमसि भूतानामतः पाहि वसुंधरे ।। २१ ।।

वसु धारयसे यस्मात्सर्वसौख्यप्रदायकम् ।।

वसुंधरा ततो जाता तस्मात्पाहि भयादलम् ।। २२ ।।

चतुर्मुखोऽपि नो गच्छेद्यस्मादंतं तवाचले ।।

अनंतायै नमस्तुभ्यं पाहि संसारकर्दमात् ।। २३ ।।

त्वमेव लक्ष्मीर्गोविदे शिवे गौरीति संस्थिता ।।

गायत्री ब्रह्मणः पार्श्वे ज्योत्स्ना चंद्रे रवौ प्रभा ।। २४ ।।

बुद्धिर्बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता ।।

विश्वं प्राप्य स्थिता यस्मात्ततो विश्वंभरा मता ।। २५ ।।

धृतिः क्षितिः क्षमा क्षोणी पृथिवी वसुधा मही ।।

एताभिर्मूर्तिभिः पाहि देवि संसारसागरात् ।। २६ ।।

एवमुच्चार्य तां देवीं ब्राह्मणेभ्यो निवेद येत् ।।

धरार्द्धं वा चतुर्भागं गुरवे प्रतिपादयेत् ।। २७ ।।

अनेन विधिना यस्तु दद्याद्देवीं धरां बुधः ।।

पुण्यकाले च संप्राप्ते स पदं याति वैष्णवम् ।। ।। २८ ।।

यदि कर्तुं न शक्नोति पुण्येह्नि बहुविस्तरम् ।।

संस्थाप्य शोभने स्थाने महीमेव प्रदापयेत् ।। २९ ।।

विमानेनार्कवर्णेन किंकिणीजाल मालिना ।।

नारायणपुरं गत्वा कल्पत्रयमथावसेत् ।। 4.165.३० ।।

क्षीणपुण्य इहाभ्येत्य राजा भवति धार्मिकः ।।

विजयी शत्रुदमनो बहुभृत्यपरिच्छदः ।। ३१ ।।

शतकोट्यधिपः शूरश्चक्रवर्ती महाबलः ।।

सप्त जन्मानि दानस्य माहात्म्याद्राज्यमाप्नुयात् ।। ३२ ।।

द्वीपाविकर्षविषमां विधिवद्विधाय हैमीं महीं सुरमहीमिव विन्ध्यमध्याम् ।।

लोकेशशंभुशिवकेशवसंयुतां च प्रायच्छ पार्थ तव किं बहुनोदितेन ।। ३३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पृथिवीदानविधिवर्णनं नाम पंचषष्ट्युत्तरशततमोऽध्यायः ।। १६५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 166

हलपंक्तिदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अतः परं प्रवक्ष्यामि दानमत्यद्भुतं तव ।।

येन दत्तेन राजेन्द्र सर्वदानप्रदो भवेत् ।। १ ।।

सर्वपापप्रशमनं सर्वसौख्यप्रदायकम् ।।

प्रयुक्तं हलपंक्त्या च सर्वदानफलप्रदम् ।। २ ।।

पंक्तिर्दशहला प्रोक्ता हलं स्यात्तु चतुर्गवम् ।।

सारदारुमयान्याहुर्हलानि दश पंडिताः।।३।।

सौवर्णपट्टसंनद्ध रत्नवंति शुभानि च ।।

यूनश्च बलिनो भव्यान्व्यंगहीनान्स्वलंकृतान् ।। ४ ।।

वस्त्रकांचनपुष्पैश्च चंदनैर्दिग्धमस्तकान् ।।

अभग्नान्योजयेत्तेषु लांगलेषु वृषाञ्छुभान् ।। ५ ।।

योक्त्राणि युगलग्नानि सवृषाणि च कारयेत् ।।

प्रतोदकीलकाबंधसर्वोपकरणान्विताम् ।। ६ ।।

एवंविध हलैः कुर्यात्तं युक्तां हलपंक्तिकाम् ।।

कर्कटं खेटकं चापि ग्रामं वा सस्यमालिनम् ।। ७ ।।

निवर्तनशतं वापि तदर्द्धं वा प्रकल्पयेत् ।।

एवंविधां पर्वकाले दद्यात्प्रयतमानसः ।। ८ ।।

कार्तिक्यां चाथ वैशाख्यामुत्तरे वाऽयने तथा ।।

जन्मर्क्षे ग्रहणे वापि विषुवे वा प्रदापयेत् ।। ९ ।।

ब्राह्मणान्वेदसंपन्नान्व्यंगहीनानलंकृतान् ।।

श्रोत्रियांश्च विनीतांश्च हलसंख्यान्निमंत्रयेत् ।। 4.166.१० ।।

दशहस्तप्रमाणेन मंडपं कारयेद्बुधः ।।

पूर्वे द्विकुडमेकं वा हस्तमात्रं सुशोभनम् ।। ११ ।।

तत्र व्याहृतिभिर्होमं कुर्युस्ते द्विजसत्तमाः ।।

पर्जन्यादित्यरुद्रेभ्यः पायसेन यजेद्बुधः ।। १२ ।।

पालाश्यः समिधस्तत्र साज्यं कृष्णास्तिलास्तथा ।।

अधिवास्य च तां पंक्तिं धान्यमध्यगतां शुभाम् ।। १३ ।।

ततः सर्वसमीपे तु स्नातः शुक्लांबरः शुचिः ।।

हलपंक्तिं योजयित्वा यजमानः समाहितः ।। १४ ।।

तूर्यशंखनिनादैश्च ब्रह्मघोषैः सुपुष्कलैः ।।

इममुच्चारयेन्मंत्रं गृहीतकुसुमांजलिः ।। १५ ।।

यस्माद्देवगणाः सर्वे हले तिष्ठंति सर्वदा ।।

वृषस्कंधे संनिहितास्तस्माद्भक्तिः शिवेस्तु मे ।। १६ ।।

यस्माच्च भूमिदानस्य कलां नार्हंति षोडशीम् ।।

दानान्यन्यानि मे भक्तिर्धर्मे चास्तु दृढा सदा ।। १७ ।।

एवमुक्ते ततः पंक्तिं प्रेरयेयुर्द्विजोत्तमाः ।।

बीजानि सर्वरत्नानि सुवर्णं रजतं तथा ।। १८ ।।

स्वयं पश्चाद्धले लग्नो विप्रहस्तेषु निर्वपेत् ।।

यायान्निवर्तनं यावत्ततस्तु विरमेद्बुधः ।। १९ ।।

प्रदक्षिणं ततः कृत्वा विप्राणां प्रतिपाद्य च ।।

सदक्षिणां विधानेन प्रणिपत्य विसर्जयेत् ।। 4.166.२० ।।

अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।।

एकविंशत्कुलोपेतः स्वर्गलोके महीयते ।। २१ ।।

सप्तजन्मसु दारिद्र्यं दौर्भाग्यं व्याधयस्तथा ।।

न पश्यति च भूमेस्तु तथैवाधिपतिर्भवेत् ।। २२ ।।

दृष्ट्वा तद्दीयमानं तु दानमेतद्युधिष्ठिर ।।

आजन्मनः कृतात्पापान्मुच्यते नात्र संशयः ।।२३।।

दानमेतत्प्रदत्तं हि दिलीपेन ययातिना ।।

शिबिना निमिना चैव भरतेन च धीमता ।। २४ ।।

तेऽद्यापि दिवि मोदंते दानस्यास्य प्रभावतः ।।

तस्मात्सर्वप्रयत्नेन दानमेतन्नृपोत्तम ।। २५ ।।

दातव्यं भक्तियुक्तेन स्त्रिया वा पुरुषेण वा ।।

यदि पंक्तिर्न विद्येत पंच वा चतुरोऽथ वा।। २६ ।।

एकमप्युक्तविधिना हलं देयं विचक्षणैः ।। २७ ।।

ये संति लांगलमुखोत्थरजोविकारा यावंति तद्गतधुरंधर रोमकाणि ।।

तावंति शंकरपुरे त्रियुगानि तिष्ठेत्पंक्तिप्रदानमिह यत्कुरुते मनुष्यः ।। २८ ।।

युक्तां वृषैरतिबलैर्हलपंक्तिमेतां पुण्येह्नि भक्तिसहितान्द्विजपुंगवेभ्यः ।।

यच्छंति ये सुकृतिनो वसुधासमेतां ते भूभुजो भुवमुपेत्य भवंति भव्याः ।। २९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे हलपंक्तिदानविधिवर्णनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः।।१६६।।

पर्व ४ (उत्तरपर्व) — Adhyāya 167

आपाकदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

तन्मे कथय देवेश येन दत्तेन मानवः ।।

बहुपुत्रो बहुधनो बहुभृत्यश्च जायते ।।१।।

।। श्रीकृष्ण उवाच ।। ।।

पुरा भारत वंशेस्मिन्राजासीद्धव्यवाहनः।। (हव्यवाहनः)

पितृपैतामहं तेन प्राप्तं राज्य मकंटकम् ।।२।।

न तस्य राज्ये विध्वंसो न वैरिजनितं भयम् ।।

शरीरोत्थमहाव्याधिर्न चैवांतरदायकः ।।३।।

तस्यैवं कुर्वतो राज्यं पूर्वकर्मार्जिताशुभात् ।।

नास्ति भृत्यो भारसहः सर्वराज्यधुरंधरः ।।४।।

न पुत्रः प्रियकृत्कश्चिन्न मंत्री मधुराक्षरः ।।

न मित्रं कार्यकरणे समर्थो न सुहृत्तथा।। ५ ।।

न भोज्यसमये प्राप्ते भोजनं सार्वकामिकम् ।।

न पूगफलसंयुक्तं तांबूलं वसनं न च ।। ६ ।।

न धनं जनसंबन्धकारको रत्नसंचयः ।।

तस्यैवं कुर्वतो राज्यमव्याहतमचेष्टितम् ।। ७ ।।

अथैकस्मिन्दिने विप्रः पिप्पलादोऽतिविश्रुतः ।।

आजगाम महायोगी राज्ञः पार्श्वं महाद्युतिः ।। ८ ।।

तमागतं मुनिं दृष्ट्वा राजपत्नी शुभावती ।।

पाद्यार्घ्यासनदानेन सर्वथा तमपूजयत् ।। ९ ।।

ततः कथांते कस्मिंश्चित्तमुवाच शुभावती ।।

भगवन्राज्यमेतन्नः सर्वबाधाविवर्जितम् ।। 4.167.१० ।।

कस्मान्न भृत्याः पुत्रा वा मंत्रिमित्रादिकं द्विज ।।

भोगावाप्तिर्न च तथा सर्वलोकातिशायिनी ।। ११ ।।

।। पिप्पलाद उवाच ।। ।।

यद्येन पूर्वविहितं तदसौ प्राकृते फलम् ।।

कर्मभूमिरियं राज्ञि नातः शोचितुमर्हसि ।। १२ ।।

न तत्कुर्वंति राजानो न दायादा न शत्रवः ।।

न बांधवा न मित्राणि यद्येन न पुरा कृतम् ।। १३ ।।

तस्माद्भवद्भियर्द्दत्तं प्राप्तं तद्राज्यमुत्तमम् ।।

भृत्यमित्रादिसंबंधो न दत्तः प्राप्यते कुतः ।। १४ ।।

।। शुभावत्युवाच ।। ।।

इदानीमेव विप्रर्षे कस्मात्तन्नोपदिश्यते ।।

येन मे बहवः पुत्रा धनं भृत्या भवंति वै ।। १५ ।।

मंत्रो वा सिद्धयोगो वा व्रतं दानमुपोषितम् ।।

कथयस्वामलमते येन संपद्यते सुखम् ।। १६ ।।

ततः स कथयामास पिप्पलादो द्विजोत्तमः ।।

आपाकाख्यं महादानं सर्वसंपत्प्रदायकम् ।। १७ ।।

श्रद्धया कुरुशार्दूल नारी वाप्यथ वा पुमान् ।।

येन दत्तेन भाग्यानां बहूनां भाजनं भवेत् ।। १८ ।।

तच्छ्रुत्वा स ददौ राजाऽऽपाकाख्यं दानमुत्तमम् ।।

लेभे पुत्रान्पशून्भृत्यान्मंत्रिमित्रसुहृज्जनान्।। १९ ।।

।। श्रीकृष्ण उवाच ।। ।।

आपाकाख्यं महादानं कथयामि युधिष्ठिर ।।

दत्तेन येन कामानां पुमान्भवति भाजनम् ।। 4.167.२० ।।

ग्रहताराबलं लब्ध्वा भार्गवं पूजयेच्छुभम् ।।

वासोभिर्भूषणैश्चैव पुष्पैरगरुचंदनैः ।। २१ ।।

कुर्यात्तथैव सम्मानं यथा तुष्टोऽभिजायते ।।

कुरुष्व त्वं मे भांडानि गुरूणि च लघूनि च ।। २२ ।।

मणिकादीनि शुभ्राणि स्थाल्यश्च सुमनोहराः ।।

घटकाः करकाश्चैव गलंत्यः कुंडलानि च ।। २३ ।।

शरावादीनि पात्राणि भांडमुच्चावचं बहु ।।

संपादय महाभाग विश्वकर्मा त्वमेव हि ।। २४ ।।

भार्गवोऽपि प्रयत्नेन नाना भांडान्वितं शुभम् ।।

आपाकं कल्पयेद्दिव्यं विधिदृष्टेन कर्मणा ।।२९।।

सहस्रमेकं भांडानां स्थापयित्वा विचक्षणः ।।

संध्याकाले ज्वलित्वा तु दद्याच्चापि हुताशनम् ।। २६ ।।

रात्रौ जागरणं कुर्याद्गीतमङ्गलनिस्वनैः ।।

ततः प्रभाते विमले ज्ञात्वा निर्वापितं शनैः ।। २७ ।।

रक्तवस्त्रैः समाच्छाद्य पुष्पमालाभिरर्चयेत् ।।

यजमानस्ततः स्नात्वा शुक्लांबरधरः शुचिः ।। ।। २८ ।।

हेमरौप्याणि भांडानि ताम्रलोहमयानि च ।।

परितः स्थापयित्वा च स्वशक्त्या तानि षोडश ।। २९ ।।

पूजयित्वा प्रयत्नेन कृत्वा चारु प्रदक्षिणाम् ।।

ब्राह्मणान्पूजयित्वा च भार्गवं पूज्य यत्नतः ।। 4.167.३० ।।

नार्यश्चाविधवास्तत्र समानीय प्रपूज्य च ।।

प्रदक्षिणं ततः कृत्वा मंत्रेणानेन पूजयेत् ।। ३१ ।।

आपाकब्रह्मरूपोसि भांडानीमानि जंतवः ।।

प्रदानात्ते प्रजापुष्टिः स्वर्गश्चास्तु ममाक्षयः ।। ३२ ।।

भांडरूपाणि यान्यत्र कल्पितानि मया किल ।।

भूत्वा सत्पात्ररूपाणि उपतिष्ठंतु तानि मे ।। ३३ ।। इति दानमंत्रः ।।

या च यद्भांडमादत्ते तस्यैतद्दापयेत्ततः ।।

स्वेच्छया चैव गृह्णातु न निवार्यास्तु काश्चन ।। ३४ ।।

अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।।

विश्वकर्मा भवेत्तुष्टस्तस्य जन्मत्रयं नृप ।। ३५ ।।

नारी च दत्त्वा सौभाग्यमतुलं प्रतिपद्यते ।।

गृहं सर्वगुणोपेतं भृत्यमित्रजनैर्वृतम् ।। ३६ ।।

अवियोगं सदा भर्त्रा रूपं चानुत्तमं लभेत् ।।

भूदानमेतन्निर्दिष्टं प्रकारेण तवानघ ।।

भिद्यते बहुभिर्भेदैर्भूमिरेषा नरेश्वर ।। ३७ ।।

निष्पाद्य भांडनिचयोच्चतरं प्रयत्नादापाकदानमिह या कुरुते वरस्त्री ।।

सा पुत्रपौत्रपशुवृद्धिमुखानि भुक्त्वा प्रेत्य स्वभर्तृसहिता सुखिनी सदास्ते ।। ३८ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आपाकदानविधिवर्णनं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ।। १६७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 168

गृहदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

सर्वशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ।।

गृहदानस्य माहात्म्यं विधिं वद विदांवर ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

न गार्हस्थयात्परो धर्मो नास्ति दानं गृहात्परम् ।।

नानृतादधिकं पापं न पूज्यो ब्राह्मणात्परः ।। २ ।।

धनधान्यसमायुक्तं कलत्रापत्यसंकुलम् ।। ३ ।।

गोगजाश्वगणाकीर्णं गृहं स्वर्गाद्विशिष्यते ।।

यथा मातरमाश्रित्य सर्वे जीवंति जंतवः ।। ४ ।।

एवं गृहस्थमाश्रित्य वर्तयंतीतराश्रमाः ।।

धर्मश्चार्थश्च कामश्च मित्राणि प्रथितं यशः ।। ५ ।।

प्राप्तकामैर्नरैः पार्थ सदा सेव्यो गृहाश्रमः ।।

न गृहेण विना धर्मो नार्थकामौ सुखं न च ।। ६ ।।

न लोक पंक्तिर्न यशः प्राप्यते त्रिदशैरपि ।।

न तत्स्वर्गे नापवर्गे न तत्केनोपमीयते ।। ७ ।।

प्रसार्य पादौ यद्रात्रौ स्वगृहे स्वपतां सुखम् ।।

दिनानि नास्य गण्यंते नैनमाहुर्महाशनम् ।। ८ ।।

अपि शाकं पचानस्य स्वगृहे परमं सुखम् ।।

इति मत्वा महाराज कारयित्वा सुशोभनम्।। ९ ।।

भवनं ब्राह्मणे देयं भव्यभूतिमभीप्सता ।।

कारयित्वा दृढस्तंभं शुभपक्वेष्टकामयम् ।। 4.168.१० ।।

शुभं कमठपृष्ठाभं भाभासितदिगंतरम् ।।

सुधानुलिप्तं गुप्तं च सुखशालाविराजितम् ।। ११ ।।

दद्यादनंतफलदं शैववैष्णवयोगिनाम् ।।

प्रतिश्रये तु विस्तीर्णे कारिते सजले घने ।। १२ ।।

दीनानाथजलार्थाय कृतं किं न कृतं भवेत् ।।

कारयित्वा गृहान्पश्चादृत्विग्रुद्रार्कसंख्यया ।। १३ ।।

कुढ्यस्तंभगवाक्षाढयान्विचित्रान्बहुभूमिकान्।।

सप्राकारप्रतोलीकान्कपाटार्गलयंत्रितान् ।। १४ ।।

सुधाधवलितान्रम्यान्विस्तीर्णांगणवाटिकान् ।।

प्रवेशनिर्गमयुतान्समासन्नजलाशयान्।। १५ ।।

लोहोपस्करसंपूर्णांस्ता म्रोपस्करसंयुतान् ।।

स्वर्णोपस्करशोभाढ्यान्रौप्योपस्करसंकुलान् ।। १६ ।।

रत्नोपस्करसंयुक्तान्कांस्योपस्करमंडितान् ।।

आरकूटत्रपुसीसदा नोपस्करवर्जितान् ।। १७ ।।

वंशोपस्करसंकीर्णान्काष्ठोपस्कर बृंहितान् ।।

मृन्मयोपस्कराकीर्णान्वस्त्रोपकरणान्वितान् ।। १८ ।।

धर्मोपस्करसंभारशणवल्कलराजितान् ।।

राजितांस्तृणपाषाणैः सर्वोपस्करभूषितान् ।। १९ ।।

सप्तधातुमयं भांडं यत्तद्रत्नसमुद्भवम् ।।

चर्मकाष्ठमहाभांडं नववस्तुमयं तथा ।। 4.168.२० ।।

गोमहिष्यश्ववृषभप्रेष्यवेश्यागणान्वितान् ।।

क्षेत्रारामजलासन्नान्काम्यान्हर्म्यवराञ्छुभान् ।। २१ ।।

संपूर्णान्सर्वधान्यैस्तु घृततैलगुडादिभिः ।।

तिलतंदुलशालीक्षुमुद्गगोधूमसर्षपैः ।। २२ ।।

निष्पावाढक्यचणककुलत्थाणुमसूरकैः ।।

कंगुमाषयवाद्याढ्याञ्छाकवृंताकपूरितान् ।। २३ ।।

लवणार्द्रकखर्जूरद्राक्षाजीरकधान्यकैः ।।

हिंगुकुंकुमकर्पूरस्नानद्रव्यैः सचंदनैः ।। २४ ।।

धूपोपस्करपर्युप्ततूलीगण्डोपधानकैः ।।

चुल्लीच्छेदनमंथानभद्रासनकगुच्छकैः ।। २५ ।।

पिठरोलूखलस्थालीशूर्पदर्पणपत्रकैः ।।

मुशलासिकृपाणीषुदंडकोदंडमुद्गरैः ।। २६ ।।

गृहाटवाटकादर्वीदृषल्लोष्टकहस्तकैः ।।

चात्रकांशुकलोहादि दीप्तमंथनिकादिभिः ।।२७।।

कंडणी पेषणी चुल्ली उदकुम्भी प्रमार्जनी ।।

मंजूषाकोष्ठकासंदी कंबलैस्तनुरांकवैः ।। २८ ।।

इत्येवमादिभिः पूर्णान्गृहान्दद्याद्द्विजातिषु ।।

कर्तुश्चंद्रबलोपेते स्थिरनक्षत्रसंयुते ।। २९ ।।

शुभेऽह्नि विप्रकथिते दानकालः प्रशस्यते ।।

एवं संभृतसंभारो यजमानः स्वयं द्विजान् ।। 4.168.३० ।।

कुलशीलसमायुक्तान्गृहसंख्यान्निमंत्रयेत् ।।

अधीतवेदाञ्छास्त्रज्ञान्पुराणस्मृतिपारगान् ।। ३१ ।।

गृहस्थधर्मनिरताञ्छांतान्दांताञ्जितेंद्रियान् ।।

अलंकृत्य सपत्नीकान्वासोभिरथ पूजयेत् ।। ३२ ।।

सुगंधिस्रग्धरान्कृत्वा शांतिकर्मणि योजयेत् ।।

गृहांगणे कारयित्वा कुंडमेकं समेखलम् ।। ३३ ।।

ग्रहयज्ञः प्रकर्तव्यस्तुष्टिपुष्टिकरः सदा ।।

राक्षोघ्नानि च सूक्तानि पठेयुर्ब्राह्मणास्ततः ।। ३४ ।।

वास्तुपूजा प्रकर्तव्या दिक्षु भूतबलिं क्षिपेत् ।।

ततः पुण्याहघोषेण ब्राह्मणांस्तेषु वेश्मसु ।। ३५।।

प्रवेशयित्वा शय्यासु सभार्यानुपवेशयेत् ।।

यजमानस्ततः प्राज्ञः शुक्लांबरधरः शुचिः ।। ३६ ।।

यद्यस्य विहितं पूर्वं तत्तस्य प्रतिपादयेत् ।।

इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम् ।। ३७ ।।

तव विप्र प्रसादेन ममास्त्वभिमतं फलम् ।।

एवमेकैकशो दत्त्वा प्रणिपत्य क्षमापयेत् ।। ३८ ।।।

स्वस्तीति ब्राह्मणैर्वाच्यं कोदादिति च पूजितैः ।।

गृहोपकरणैस्तुल्या दक्षिणा भवनं विना ।। ३९ ।।

उपदेष्टारमापृच्छेत्तन्मूलत्वान्महर्षयः ।।

स्वयं तान्पूजयित्वा तु ततः स्वभवनं व्रजेत् ।। 4.168.४० ।।

दद्यादनेन विधिना गृहमेकं बहूनपि ।।

न संख्यानियमः कार्यः शक्तिरत्र नियामिका ।। ४१ ।।

शीतवातातपहरं दत्त्वा तृणकुटीरकम् ।।

इष्टान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ।। ४२ ।।

किं पुनर्बहुनोक्तेन सर्वोपस्करभूषिताम् ।।

अत्यंतसुखलुब्धेन दत्त्वा ब्रह्मपुरीं प्रियाम् ।। ४३ ।।

गोभूहिरण्यदानानि यमाः सनियमास्तथा ।।

गृहदानस्य कौंतेय कलां नार्हंति षोडशीम् ।। ४४ ।।

यः कारयेत्सुदृढहर्म्यवती महार्हा सत्सेवितां द्विजपुरीं सुजनोपभोग्याम् ।।

दिव्याप्सरोभिरभि नंदितचित्तवृत्तिः प्राप्नोत्यसावनवमं पदमिंदुमौलेः ।। ४५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गृहदानविधिवर्णनं नामाष्टषष्ट्युत्तरशततमोऽध्यायः ।। १६८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 169

अन्नदानमाहात्म्यवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अन्नदानस्य माहात्म्यं कथयामि तवानघ ।।

यत्प्रोक्तमृषिभिः पूर्वं तदिहैकमनाः शृणु ।। १ ।।

ददस्वान्नं ददस्वान्नं ददस्वान्नं युधिष्ठिर ।।

सद्यस्तुष्टिकरं लोके किं दत्तेन परेण ते ।।२।।

रामेण दशरथिना वनस्थेन निजानुजः ।।

निर्वेदाद्यत्पुरा प्रोक्तस्तदहं प्रब्रवीमि ते ।। ३ ।।

पृथिव्यामन्नपूर्णायां वयमन्नस्य कांक्षिणः ।।

सौमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् ।। ४ ।।

यदुच्यते कर्मबीजं तस्यावश्यं फलं नरैः ।।

प्राप्यते लक्ष्मणास्माभिर्नान्नं विप्रमुखे हुतम् ।। ५ ।।

यत्र प्राप्यं तदप्राप्यं विद्यया पौरुषेण वा ।।

सत्यो लोकप्रवादोऽयं नादत्तमुपतिष्ठति ।। ६ ।।

भक्षोपयोगादन्नस्य दानं श्रेयस्करं परम् ।। ७ ।।

प्रकारांतरभोज्यानि दानान्यन्यानि भारत ।।

अन्नमेव परं दानं सत्यवाक्यं परं पदम् ।। ८ ।।

बुद्धिश्चार्थात्परो लोभः सन्तोषः परमं सुखम् ।।

स्नातानामनुलिप्तानां भूषितानां च भूषणैः ।। ९ ।।

न सुखं न च सन्तोषो भवेदन्नादृते नृणाम् ।।

श्वेतो नाम महीपालः सार्वभौमोऽभवत्पुरा ।। 4.169.१० ।।

तेनेष्टं बहुभिर्यज्ञैः संग्रामा बहवो जिताः ।।

दानानि च प्रदत्तानि धर्मतः पालिता मही ।। ११ ।।

भुक्ता भोगाः सुविपुला शत्रूणां मूर्धनि स्थितम् ।।

वानप्रस्थेन विधिना त्यक्त्वा राजश्रियं नृप ।। १२ ।।

स्वर्गं जगाम भुक्त्वा तु पूज्यमानो मरुद्गणैः ।।

विमानमर्कप्रतिमं प्रतिपेदे मुदा युतः ।। १३ ।।

तत्रास्ते रममाणोऽसौ साकं विद्याधरैः सुखम् ।।

प्रसिद्धैः स्तूयते सिद्धैः सेव्यतेऽप्सरसां गणैः ।। १४ ।।

गंधर्वैर्गीयते हृष्टैः शक्रेणाप्यनुगम्यते ।।

दिव्यमाल्यांबरधरो दिव्याभरणभूषितः ।। १५ ।।

स च नित्यं वितानाग्र्यादवतीर्य महीतलम् ।।

स्वमांसान्यत्ति कौंतेय पूर्वं त्यक्त्वा कलेवरम् ।। १६ ।।

तच्छरीरं तथैवास्ते रक्षितं पूर्वकर्मभिः ।।

स कदाचित्सुरेशानं ब्रह्माणं समुपस्थितः ।। १७ ।।

प्रणम्य प्रांजलिर्भूत्वा निर्वेदादिदमब्रवीत् ।।

भगवंस्त्वत्प्रसादेन प्राप्तं स्वर्गसुखं मया ।। १८ ।।

सर्वेषामपि संपूज्यः सुराणां सुरपुंगव ।।

किं तु क्षुद्बाधतेऽत्यर्थं स्वर्गस्थस्यापि मे प्रभो ।। १९ ।।

यया मांसान्यहं स्वस्य भक्ष्ययाम्यशनं विना ।।

।। ब्रह्मोवाच ।। ।।

श्वेताभिजनसंपन्न श्वेत शृणु वचो मम ।। 4.169.२० ।।

त्वयाधीतं हुतं दत्तं गुरवः परितोषिताः ।।

नाशनं भवता दत्तं यद्द्विजेभ्यो नराधिप ।। २१ ।।

अनन्नदानस्य फलं त्वयेदमुपभुज्यते ।।

तर्ह्यन्नदानतो नान्यच्छरीरारोग्यकारकम् ।। ।। २२ ।।

नान्यदन्नादृते पुंसां किञ्चित्सञ्जीवनौषधम् ।।

महीं गत्वा महाराज कुरुष्व वचनं मम ।। २३ ।।

तपः स्वाध्यायसंपन्ने शास्त्रज्ञे संजितेन्द्रिये ।।

येन संपद्यते तृप्तिरक्षया क्ष्मांपते तव ।। २४ ।।

विरिंचेर्वचनाद्गत्वा त्वरायुक्तो महीतलम् ।।

अगस्त्यं भोजयामास भक्त्या भरतसत्तम ।। ।। २५ ।।

भोजयित्वा ततः प्रादाद्दक्षिणां क्षीणकल्मषः ।।

एकावलिं स्वकात्कण्ठात्समुत्तार्य समुज्ज्वलाम् ।। २६ ।।

ततो दुन्दुभिघोषेण पूजितः सुरसत्तमैः ।।

श्वेतस्तृप्तो गतः स्वर्गं दत्त्वान्नं दक्षिणायुतम् ।। २७ ।।

पौलस्त्ये निहते पश्चाद्देवदानवसंकटे ।।

रामायैकावलिं प्रादादगस्त्यः परया मुदा ।। २८ ।।

एतदन्नस्य माहात्म्यं कथयाम्यपरं च ते ।।

न चान्नादपरं किञ्चित्सत्यं तव मयोदितम् ।। २९ ।।

अन्नं वै प्राणिनां प्राणा अन्नमोजो बलं सुखम् ।।

एतस्मात्कारणात्सद्भिरन्नदः प्राणदः स्मृतः ।। 4.169.३० ।।

सुदूरादाशया यस्य गृहं प्राप्ता बुभुक्षिताः ।।

तृप्ताः प्रतिनिवर्तंते कोऽन्यस्तत्सदृशः पुमान् ।।३१।।

दीक्षितः कपिला सत्री राजा भिक्षुर्महोदधिः ।।

दृष्टमात्रा पुनंत्येते तस्मात्पश्यंति नित्यशः ।। ३२ ।।

एकस्याप्यतिथेरन्नं यः प्रदातुमशक्तिमान्।।

तस्याऽऽरम्भैः परिक्लेशैर्वसतः किं फलं गृहे ।। ३३ ।।

शक्यते दुष्करेऽप्यर्थे चिररात्राय जीवितुम् ।।

न त्वाहारविहीनेन शक्यं वर्तयितुं चिरम् ।। ३४ ।।

भुक्त्वा गृहे गृहस्थस्य मैथुनं यश्च सेवते ।।

यस्यान्नं तस्य ते पुत्रा इति प्राहुर्मनीषिणः ।। ३५ ।।

दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।।

यो यस्यान्नं समश्नाति स तस्याश्नाति दुष्कृतम् ।। ३६ ।।

वनस्पतिगते सोमे परान्नं यस्तु भुंजति ।।

तस्य मासकृतं पुण्यं दातारमुपगच्छति ।। ३७ ।।

कस्मान्न दीयते नित्यं कस्मादन्नं न दीयते ।।

यस्येदृशी फलावाप्तिः कथिता पूर्वसूरिभिः ।। ३८ ।।

भिक्षां वा पुष्कलां वापि हंतकारं द्विजातये ।।

भोजनं वा यथालाभमदत्त्वाश्नाति किल्बिषम् ।। ३९ ।।

येनायुतं सहस्रं वा भोजितं स्याद्द्विजन्मनाम् ।।

तेन ब्रह्मगृहासन्नं नूनं बद्धं कुटीरकम् ।। 4.169.४० ।।

वाराणस्यां पुरा पार्थ वणिगापणजीवनः ।।

धनेश्वर इति ख्यातो देवब्राह्मणपूजकः।। ४१ ।।

तस्यापणैकदेशे तु मुक्त्वांडं पांडुरच्छवि ।।

ससर्प सर्पस्तद्देशाद्वणिग्दृष्ट्वा विशंकितः ।। ४२ ।।

तदंडं वणिजा तेन दृष्टं कारुण्यबुद्धिना ।।

ततः प्रभृत्यनुदिनं ररक्ष च पुषोष च ।। ४३ ।।

निर्जगाम दिनैः कैश्चिद्भित्वांडं सर्पपोतकः ।।

तं वणिक्क्षीरपानाद्यैरुपचारैरवर्धयत् ।। ४४ ।।

लिलिहे घृतभांडानि जिघ्रे च गंधसंचयान् ।।

लुलोठ पांसुप्रकरे चचार वारिमध्यगः ।। ४५ ।।

वणिजा रक्ष्यमाणः स स्नेहाच्चाहरहः पुनः ।।

जगाम सुमहान्कालोऽभवदेष भयंकरः ।। ४६ ।।

अथैकस्मिन्दिने गंगां गतः स्नातुं त्रिलोकगाम् ।।

वणिगापणे पण्यविदं स्थापयित्वा सुतं मतम् ।। ४७ ।।

व्यवहर्तुं समारब्धं वणिक्पुत्रेण धीमता ।।

ददाति प्रतिगृह्णाति घृततैलयवैक्षवम्।। ४८ ।।

व्यवहाराकुलतया पादयोरंतरेण सः ।।

सर्पश्चचाल चापल्याद्वणिग्विक्षेपमभ्यगात् ।। ४९ ।।

जानन्नपि तद्वृत्तांतं निदाने नियतेर्वशात् ।।

त्रासात्संतर्जयामास बलेन पदचारिणम् ।। ।। 4.169.५० ।।

स महीतः समुत्थाय मूर्द्धानमवरुह्य च ।।

उवाच दारुणतरं वचनं पन्नगाधमः ।। ५१ ।।

शरणागतं पोषितं च तव पित्रा प्रियंकरम् ।।

कस्मान्मां हंसि दुष्टात्मन्कथं जीवन्विमोक्ष्यसे ।। ५२ ।।

अनंतरं कलकलः संजातो रोदतां नृणाम् ।।

धनेश्वरसुतो दष्टः सर्पेणापि भृशाकुलः ।। ।। ५३ ।।

अच्युतानंत गोविंद कृष्णकृष्णेत्युदीरयन्।।

धनेश्वरोप्यनुप्राप्तः प्रोवाचाकुलया गिरा ।। ५४ ।।

किं कृतं मम पुत्रेण तव पव्रग विप्रियम् ।।

यदयं भवता मूर्ध्नि स्वभोगेनाभिवेष्टितः ।। ५५ ।।

मूर्ख मित्रं सुसंबंधं हीनजातिजनो हि यः ।।

यः करोत्यबुथोंगारान्स स्वहस्तेन कर्षति ।। ।। ५६ ।।

तमुवाच च सर्पोऽसौ वाष्पगद्गदया गिरा ।।

निरपराधो भवतः पुत्रेणाहं समाहतः ।। ५७ ।।

तदहं पश्यतस्तेऽद्य दशाम्येनं नराधिप ।।

यथा न भूयो भूतानां भवेदस्मात्क्वचिद्भयम् ।। ५८ ।।

।। धनेश्वर उवाच ।। ।।

उपकारं व्रतं भक्त्या स्नेहपारो न यस्य च ।।

सतां मार्गमपाक्रम्य प्रयातः केन वार्यते ।। ५९ ।।

क्षणमात्रं प्रतीक्षस्व यावदेव शिशुर्मम ।।

और्ध्वदेहिककर्माणि करोति स्वयमात्मनः ।। 4.169.६० ।।

एवमुक्ता गृहं गत्वा यतीनां ब्रह्मचारिणाम् ।।

सहस्रं भोजयामास घृतपायसभोजनैः ।।६१ ।।

समुत्थाय ततः सर्वे ब्राह्मणा हृष्टमानसाः ।।

वणिक्पुत्रस्योत्तमांगे चिक्षिपुः कुसुमाक्षतान् ।। ६२ ।।

वणिक्पुत्र चिरं जीव नश्यंतु तव शत्रवः ।।

अभीष्टफलसंसिद्धिरस्तु ते ब्राह्मणाज्ञया ।। ६३ ।।

ततः स दुष्टप्रकृतिर्विप्र वाग्वज्रताडितः ।।

पन्नगो नगसंकाशः पपात च ममार च ।। ६४ ।।

विपन्नं पन्नगं दृष्ट्वा त्रस्तचक्षुर्धनेश्वरः ।।

आः किमेतदिति प्रोच्य विषादमगमत्परम् ।। ६५ ।।

पोषितोऽयं मया बालः पालितो लालितस्तथा ।।

ममापचारात्पंचत्वमापन्नः पवनाशनः ।। ६६ ।।

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।।

अपकारिषु यः साधुः स साधुः सद्भिरिष्यते ।। ६७ ।।

इत्येवमवधार्यासौ दुःखसंतप्तमानसः ।।

बुभुजे नाकुलतया न च सुष्वाप तां निशाम् ।। ६८ ।।

ततः प्रभाते गंगायां स्नात्वा संतर्प्य देवताः ।।

सहस्रं भोजयामास पुनरेव द्विजन्मनाम् ।। ६९ ।।

तैर्भुक्तैरिष्टसंसिद्धैर्ब्राह्मणै रनुमोदितः।।

वणिक्प्राह ममाभीष्टं संजीवत्वेष पन्नगः ।। 4.169.७० ।।

ततो द्विजवरोन्मुक्तैरंबुभिः परिषिंचितः ।।

उदतिष्ठदहीनांगः सहसा हि महाकुलः ।। ।। ७१ ।।

प्रहर्षमतुलं लेभे दृष्ट्वा तं पुरतः स्थितम् ।।

प्रत्यग्रावयवं दृष्ट्वा सृक्किणीपरिलेलिहम् ।। ७२ ।।

साधुवादो महाञ्जातः प्रशशंसुर्धनेश्वरम् ।।

पुरीनिवासिनः सर्वे विस्मयोत्फुल्ललोचनाः ।।७३।।

सहस्रभोज्यमाहात्म्यं कथितं ते युधिष्ठिर ।।

सम्यक्छ्रद्धाप्रयुक्तस्य किमन्यत्कथयामि ते ।।७५।।

यच्छंति येऽनुदिवसं द्विजपुंगवानामन्नं विशुद्धमनसो भृशमागतानाम् ।।

मर्त्ये विहृत्य सुचिरं ससुहृज्जनास्ते प्रेत्य प्रयांति भवनं मुदिता मुरारेः।।७७।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अन्नदानमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः ।। १६९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 170

स्थालीदानवर्णनम्

युधिष्ठिर उवाच ।। ।।

अन्नदानप्रसंगेन ममापि स्मृतिमागतम् ।।

तत्तेऽहं संप्रवक्ष्यामि श्रुतं दृष्टं च यन्मया ।। १ ।।

अक्षद्यूतेन भगवन्धनं राज्यं च नो हृतम् ।।

आहूय निष्कृतिप्राज्ञैः कितवैरक्षकोविदैः ।।२।।

वनं प्रस्थापिताः सर्वे वल्कलाजिनवाससः ।।

द्रौपद्या सहिताः कृष्ण कर्णदुर्यो धनादिभिः ।। ३ ।।

ज्ञात्वा वनगतानस्मान्ब्राह्मणाः संजितेंद्रियाः ।।

द्रष्टुमभ्याययुः सर्वे पौराश्चाप्यनुजग्मिरे ।। ४ ।।

अस्मान्स्नेहात्क्लिश्यमाना दृष्ट्वा ब्राह्मणसत्तमाः ।।

पौरान्कर्मकरांश्चैव निर्वेदादिदमब्रुवन् ।। ५ ।।

जीवतो यस्य जीवंति विप्रा मित्राणि बांधवाः ।।

जीवनं तस्य सफलमात्मार्थे को न जीवति ।। ६ ।।

अभ्यागतं सुहृद्वर्गं कुटुंबमपहाय च ।।

जीवन्नपि मृतः पापः केवलं स्वोदरंभरिः ।। ७ ।।

इत्येवमवधार्याहं तानृषीन्पुनरब्रुवम् ।।

भवंतः सर्व एवात्र त्रिकालज्ञा महर्षयः ।। ८ ।।

समागता मत्प्रियार्थं ज्ञानविज्ञानपारगाः ।।

ब्रूत कंचिदुपायं मे भवंतोभिजनं प्रति ।। ।। ९ ।।

भवद्भिः सहिताः सर्वे भृत्यैर्भ्रातृभिरेव च ।।

निर्गच्छेयं वने शून्ये द्वादशेमाः समा यथा ।।4.170.१ ०।।

मामुवाचाथ मैत्रेयः शृणु कौंतेय मद्वचः ।।

पूर्ववृत्तं प्रवक्ष्यामि दृष्टं दिव्येन चक्षुषा ।। ११ ।।

आसीत्तपोवने काचिद्ब्राह्मणी ब्रह्मचारिणी ।।

दुर्भगा दुर्गता दुःखादाराधयति सा द्विजान् ।। ।। १२ ।।

शौचेन तुष्टा मुनयः प्रश्रयेण दमेन च ।।

प्रोचुर्वद विशालाक्षि किं कुर्मस्तव सुव्रते ।। १३ ।।

सा तानुवाच किं तन्मे व्रतं दानमथापि वा ।।

कथयध्वं भवेयं वै येन श्रीसुखभागिनी ।। १४ ।।

आधारभूता भूतानां बह्वपत्या पतिप्रिया ।।

स्पृहणीया त्रिजगतां त्रिवर्गफलभागिनी ।। ।। १५ ।।

वसिष्ठस्तामुवाचाथ शृणुष्व कथयामि ते ।।

दानं मानकरं पुंसां सर्वकामप्रदायकम् ।। १६ ।।

कृत्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः ।।

अशक्तस्तु तदर्द्धेन चतुर्थांशेन वा पुनः ।। १७ ।।

सर्वशक्तिविहीनस्तु मृन्मयीमपि कारयेत् ।।

सुगंभीरोदरदरीदृढदण्डकुटुंबकाम् ।। । ।। १८ ।।

मुद्गतंदुलनिष्पन्नसुस्विन्नक्षिप्रपूरिताम् ।।

उपदंशोदकयुतां घृतपात्रसमन्विताम् ।। १९ ।।

धौतपार्श्वां धौतकर्णां चर्चितां चन्दनेन च ।।

स्थाप्य मंडलके वस्त्रैः पुष्पधूपैरथार्चयेत् ।।4,170.२०।।

आदित्येऽहनि संक्रांतौ चतुर्दश्यष्टमीषु वा ।।

एकादश्यां तृतीयायां विप्राय प्रतिपादयेत् ।। २१ ।।

ज्वलज्ज्वलनपार्श्वस्थैस्तंडुलैः सजलैरपि ।।

न भवेद्भोज्यसंसिद्धिर्भूतानां पिठरीं विना ।। २२ ।।

त्वं सिद्धिः सिद्धिकामानां त्वं पुष्टिः पुष्टिमिच्छताम् ।।

अतस्त्वां प्रणमाम्याशु सत्यं कुरु वचो मम ।। २३ ।।

ज्ञातिबंधुसुहृद्वर्गे विप्रे प्रेष्यजने तथा ।।

अभुक्तवति नाश्नीयात्तथा भव वरप्रदा ।। ।।२४।।

इत्युच्चार्य प्रदातव्या हंडिका द्विजपुंगवे ।।

तुष्टिपुष्टिप्रदा पुंसां सर्वान्कामानभीप्सता ।। २५ ।।

वसिष्ठवचनं श्रुत्वा सा चकार तथैव तु ।।

प्रादात्स्थालीं ब्राह्मणाय बहूनां बहुदक्षिणाम् ।। २६ ।।

सा चैषा द्रौपदी पार्थ भवद्भार्याऽभवत्प्रिया ।।

तेन दानप्रभावेण भविताऽशून्यपाणिका ।। ।। २७ ।।

एषा सती शची स्वाहा सावित्री भूररुंधती ।।

श्रीरेषा यत्र वसति न किंचित्तत्र दुर्लभम् ।। २८ ।।

अनया या भृता स्थाली तया सर्वमिदं जगत् ।।

भोजयिष्यसि कौंतेय किमतो ब्राह्मणा अमी ।। २९ ।।

मैत्रेयात्तदुपश्रुत्य तत्र संहृष्टमानसः ।।

पूर्वं भोजितवानस्मि बहुविप्रजना वने ।। 4.170.३० ।।

अन्नदानप्रसंगेन स्थालीदानमिदं मया ।।

कथितं पुण्डरीकाक्ष क्षंतव्यमनसूयया ।। ३१ ।।

स्थालीं विशालवदनां च सतंडुलां च यच्छंति ये मधुरशुल्बमयीं द्विजेभ्यः ।।

तेषां सुहृत्स्वजनविप्रजनेन भोज्यं संभुज्यमानमपि कृष्ण न याति नाशम् ।।३२।।

इति श्रीभविष्ये महा पुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे स्थालीदानविधिवर्णनं नाम सप्तत्युत्तरशततमोऽध्यायः ।। १७० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 171

दासीदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

दासीदानमहं तेऽद्य प्रवक्ष्याम्यरिसूदन ।।

भक्त्या स्नेहाच्च भवतो यत्रोक्तं केनचित्क्वचित् ।। १ ।।

चतुर्णामाश्रमाणां हि गृहस्थः श्रेष्ठ उच्यते ।।

गृहस्थाच्च गृहं श्रेष्ठं गृहाच्छ्रेष्ठा वराः स्त्रियः ।। २ ।।

पूर्णेंदुबिंबवदनाः पीनोन्नतपयोधराः ।।

तद्गृहं यत्र दृश्यंते योषितः शीलमंडनाः ।। ३ ।।

जामयो यत्र पूज्यंते रमन्ते तत्र देवताः ।।

यत्रैतास्तु न पूज्यंते विनंक्ष्यत्याशु तद्गृहम् ।। ४ ।।

जामयो यानि गेहानि शपंत्यप्रतिपूजिताः ।।

तानि कृत्याहतानीव सद्यो यांति पराभवम् ।। ५ ।।

अमृतस्येव कुण्डानि सुखानामिव राशयः ।।

रतेरिव निधानानि योषितः केन निर्मिताः ।। ।। ६ ।।

श्यामा मंथरगामिन्यः पीनोन्नतपयोधराः ।।

महिष्यो वरनार्यश्च न भवंति गृहेगृहे ।। ७।।

अहिरण्यमदासीकमल्पान्नाज्यमगोरसम् ।।

गृहं कृपणवृत्तीनां नरकस्यापरो विधिः ।। ८ ।।

अदण्डपाशिकं ग्राममदासीकं च यद्गृहम् ।।

अनाज्यं भोजनं यच्च वृथा तदिति मे मतिः ।।९।।

विभवाभरणा दास्यो यद्गृहं समुपासते।।

तत्रास्ते पंकजकरा लक्ष्मीः क्षीरोदवासिनी ।।4.171.१०।।

न यत्रास्ति गृहे शौचं न सुखं व्यवहारजम्।।

यत्र वा नास्ति दास्येका तत्सदैवानवस्थितम्।।११।।

यत्र कर्मकरी नास्ति सर्वकर्मकरी सदा।।

न तच्छतं किंकराणां करोति शुभतामपि।।१२।।

यदेका कुरुते दासी गृहस्थेन भृता हि सा।।

बहुलोकाकुलो ग्रामो दासीदासाकुलं गृहम् ।। १३ ।।

बुद्धिर्धर्माकुला यस्य तस्य चेतः किमाकुलम् ।।

यत्र भार्यागृहे दक्षा दास्यकर्मण्यनुव्रताः ।।१४।।

भृत्याः सदोद्यमपरास्त्रिवर्गस्तत्र दृश्यते।।

यद्यदिष्टतमं लोके तत्तद्देयमिति श्रुतिः ।। १५ ।।

एतद्विचार्य हृदये देया दासी द्विजातये ।।

स्थिरनक्षत्रसंयुक्ते सोमे सौम्यग्रहान्विते ।। १ ६।।

दानकालं प्रशंसंति संतः पर्वणि वा पुनः ।।

अलंकृत्य यथाशक्त्या वासोभिर्भूषणैस्तथा ।। १७।।

ब्राह्मणाय प्रदातव्या मंत्रेणानेन कौरव ।।

इयं दासी मया तुभ्यं भगवन्प्रतिपादिता ।। १८ ।।

कर्मोपयोज्या भोज्या वा यथेष्टं भद्रमस्तु ते ।।

दत्त्वा क्षमापयेत्पश्चाद्ब्राह्मणं कांचनेन तम्।।१९।।

अनुव्रज्य गृहद्वारं यावत्पश्चाद्विसर्जयेत्।।

अनेन विधिना दद्यादंकयित्वा सुरालये।।4.171.२०।।

मखे चापि महाराज प्रसिद्धे वा प्रतिश्रये ।।

सर्वकर्मकरी दत्त्वा तरुणीं रूपशालिनीम् ।।२१।।

प्राप्यते यत्फलं पुंभिः पार्थ तत्केन वर्ण्यते ।। २२ ।।

दासीं समीक्ष्य बहुशो गृहकर्मदक्षां यो ब्रह्मणाय कुलशीलवते ददाति ।।

विद्याधराधिपशतैरपि पूजितोऽसौ लोकं त्रिलोकरमयाप्सरसां प्रयाति ।। २३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दासीदानविधिवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ।। १७१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 172

प्रपादानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

प्रपादानस्य माहात्म्यं वद देवकिनंदन ।।

कथं देया कदा देया दाने तस्याश्च किं फलम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

अतीते फाल्गुने मासि प्राप्ते चैत्रे महोत्सवे ।।

पुण्येऽह्नि विप्रकथिते ग्रहचंद्रबलान्विते ।। २ ।।

मंडपं कारयेद्विद्वान्घनच्छायं मनोरमम् ।।

पुरस्य मध्ये पथि वा कांतारे तोयवर्जिते ।। ३ ।।

देवतायतने वापि चैत्यवृक्षतलेऽपि वा ।।

सुशीतलं च रम्यं च विचित्रासनसंयुतम् ।। ४ ।।

कारयेन्मंडपं भव्यं शीतवातसहं दृढम् ।।

तन्मध्ये स्थापयेद्भक्त्या मणीन्कुंभांश्च शोभनान् ।। ५ ।।

अकालमूलान्करकान्वस्त्रैरावेष्टितानथ ।।

ब्राह्मणः शीलसंपन्नो वृत्तिं दत्त्वा यथोचिताम् ।। ६ ।।

प्रपापालः प्रकर्तव्यो बहुपुत्रपरिच्छदः ।।

पानीयपानेनाश्रांतान्यः कारयति मानवान् ।।७।।

एवंविधां प्रपां कृत्वा शुभेऽह्नि विधिपूर्वकम् ।।

यथाशक्त्या नरश्रेष्ठ प्रारंभे भोजयेद्द्विजान् ।। ८ ।।

ततश्चोत्सर्जयेद्विप्रान्मंत्रेणानेन मानवः ।।

प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता ।। ९ ।।

अस्याः प्रदानात्पितरस्तृप्यंतु च पितामहाः ।।

अनिवार्यं ततो देयं जलं मासचतुष्टयम् ।। 4.172.१० ।।

त्रिपक्षं वा महाराज जीवानां जीवनं परम् ।।

गंधाढ्यं सुरसं शीतं शोभने भाजने स्थितम् ।। ११ ।।

प्रदद्यादप्रतिहतं मुखं चानवलोकयन् ।।

प्रत्यहं कारयेत्तस्यां शक्तितो द्विजभोजनम् ।। १२ ।।

अनेन विधिना यस्तु ग्रीष्मोष्मशोषनाशनम् ।।

पानीयमुत्तमं दद्यात्तस्य पुण्यफलं शृणु ।। १३।।

सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ।।

तत्पुण्यफलमाप्नोति सर्वदेवैः सुपूजितः ।। १४ ।।

पूर्णचंद्रप्रतीकाशं विमानं सोधिरुह्य च ।।

याति देवेन्द्रनगरे पूज्यमानोऽप्सरोगणैः ।। १५ ।।

विंशत्कोट्यो हि वर्षाणां यक्षगन्धर्वसेवितः ।।

पुण्यक्षयादिहागत्य चतुर्वेदी द्विजो भवेत् ।। १६ ।।

ततः परं पदं याति पुनरावृत्तिदुर्लभम् ।।

प्रपादानासमर्थेन विशेषाद्धर्ममीप्सता ।। १७४

प्रत्यहं धर्मघटकः कर्पटावेष्टिताननः ।।

ब्राह्मणस्य गृहे नेयः शीतामलजलः शुचिः ।। १८ ।।

तस्यैवोद्यापनं कार्यं मासिमासि नरोत्तम ।।

मंडकावेष्टिकाभिश्च पक्वान्नैः सार्वकामिकैः ।। १९ ।।

उद्दिश्य शंकरं विष्णुं ब्रह्माणं कुरुनन्दन ।।

सलिलं प्रोक्षयित्वा तु मंत्रेणानेन मानवः ।। 4.172.२० ।।

एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।।

अस्य प्रदानात्सफला मम संतु मनोरथाः ।। २३ ।। (इति धर्मघटदानमंत्रः)

अनेन विधिना यस्तु धर्मकुंभं प्रयच्छति ।।

प्रपादानफलं सोऽपि प्राप्नोतीह न संशयः ।। २२ ।।

धर्मकुंभप्रदानेऽपि यद्यशक्तः पुमान्भवेत् ।।

तेनाश्वत्थतरोर्मूलं सेच्यं नित्यं जितात्मना ।। २३ ।।

अश्वत्थरूपी भगवान्प्रीयतां मे जनार्दनः ।।

इत्युच्चार्य नमस्कृत्य प्रत्यहं पापनाशनम् ।।२४।।

यः करोति तरोर्मूले सेकं मासचतुष्टयम् ।।

सोपि तत्फलमाप्नोति श्रुतिरेषा सनातनी।।२५।।

सुस्वादुशीतसलिला क्लमनाशिनी च प्रांते पुरस्य पथि पांथसमाजभूमौ ।।

यस्य प्रपा भवति सर्वजनोपभोग्या धर्मोत्तरः स खलु जीवति जीवलोके ।।२६।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे प्रपादानविधिवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः।। ।।१७२।।

पर्व ४ (उत्तरपर्व) — Adhyāya 173

अग्नीष्टिकादानविधिवर्णनम्

युधिष्ठिर उवाच ।। ।।

अग्नीष्टिका कथं देया शिशिरे शीतभीरुभिः ।।

सर्वसत्त्वोपकाराय करुणीकृतमानसैः।।१।।

।। श्रीकृष्ण उवाच ।। ।।

अग्नीष्टिकामहं पार्थ कथयामि निबोध ताम्।

यथा येन विधानेन सर्वसत्वसुखप्रदाम् ।। २ ।।

आदौ मार्गशिरे मासि शोभने दिवसे शुभाम् ।।

अग्नीष्टिकां कारयित्वा सुखासनवतीं शुभाम् ।। ३ ।।

देवांगणे पथे गेहे विस्तीर्णे चत्वरेथ वा ।।

उभयोः संध्ययोः कृत्वा संशुष्कं काष्ठसंचयम् ।। ४ ।।

ततः प्रज्वालयेदग्निं हुत्वा व्याहृतिभिः क्रमात्।।

अनेन विधिना हुत्वा प्रत्यहं ज्वालयेत्ततः ।। ५ ।।

यदि कश्चित्क्षुधार्थी स्याद्भोज्यं तस्मै प्रकल्पयेत् ।।

सुखासीनो जनस्तत्र विशीतो विज्वरस्तथा ।। ६ ।।

यः करोति कथाः पार्थ न ताः शक्या मयोदितुम् ।।

राजवार्ता जनवार्ता यदि कश्चिन्निजेच्छया ।। ७ ।।

वदेल्लोकः सुखासीनो न केनापि निवार्यते ।।

अनेन विधिना यस्तु दद्यादग्नीष्टिकां नरः ।। ८ ।।

तस्य पुण्यफलं राज न्कथ्यमानं निबोध मे ।।

विमाने चार्कसंकाशे समारूढो महाधने ।। ९ ।।

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।।

हर्षितोऽत्यंतसुखितो ब्रह्मलोके महीयते ।। 4.173.१० ।।

इह लोकेवतीर्णश्च चतुर्वेदो द्विजो भवेत् ।।

नीरुजः सत्रयाजी च अग्निवत्तेजसान्वितः ।। ११ ।।

चैत्ये सुरांगणसभावसथे सुभव्यां येऽग्नीष्टिकां प्रचुरकाष्ठवतीं प्रदद्युः ।।

हेमंतशैशिरऋतौ सुखदा जनानां कायाग्निदीपनमलं पुनराप्नुवंति ।। १२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अग्नीष्टिकादानविधिवर्णनं नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ।।१७३।।

पर्व ४ (उत्तरपर्व) — Adhyāya 174

विद्यादानविधिवर्णनम्

युधिष्ठिर उवाच ।। ।।

बहुप्रदानं गोदानं त्वत्तो विद्वञ्छ्रुतं मया ।।

भूमिदानस्य माहात्म्यं विधिश्चैवावधारितः ।। १ ।।

सांप्रतं यदुशार्दूल विद्यादानस्य यो विधिः ।।

तमहं श्रोतुमिच्छामि कथयस्व जनार्दन ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

विद्यादानविधिं वक्ष्ये याथातथ्येन तेऽधुना ।।

यथा देयं फलं यच्च दत्तेन कुरुनंदन ।। ३ ।।

शुभेऽह्नि विप्रकथिते गोमयेन सुशोभनम् ।।

कारयेन्मंडलं दिव्यं चतुरस्रं समंततः ।। ४ ।।

पुष्पप्रकरसंछन्नं स्वस्तिकादि विभूषितम्।।

पुस्तकं तत्र संस्थाप्य गंधपुष्पैः समर्चयेत् ।। ५ ।।

सौवर्णीं लेखनी कार्या रौप्यं च मषिभाजनम् ।।

लेखकं पूजयित्वा तु आरंभं कारयेत्सुधीः ।। ६ ।।

विनीतश्चाप्रमत्तश्च ततः प्रभृति लेखकः ।।

मात्रानुस्वारसंयुक्तं पदच्छेदसमन्वितम् ।। ७ ।।

समानि समशीर्षाणि वर्तुलानि धनानि च ।।

लेखयेदक्षराणीह तद्गतेनांतरात्मना ।। ८ ।।

निष्पादयित्वा तच्छास्त्रं शैवं वाप्यथ वैष्णवम् ।।

निष्पादिते ततः पूज्यो लेखको वस्त्रभूषणैः ।। ९ ।।

संपूजयित्वा तच्छास्त्रं देयं गुणवते तदा ।।

शास्त्रसद्भावविदुषे वाचके च प्रियंवदे ।। 4.174.१० ।।

वस्त्रयुग्मेन संवीतं पुस्तकं प्रतिपादयेत् ।।

सामान्यं सर्वलोकानां स्थापयेदथ वा मठे ।। ११ ।।

अनेन विधिना दत्त्वा यत्फलं प्राप्नुयान्नरः ।।

तदहं ते प्रवक्ष्यामि युधिष्ठिर निबोध तत् ।। १२ ।।

यत्पुण्यं तीर्थयात्रायां यत्पुण्यं यज्वनां तथा ।।

तत्पुण्यं कोटिगुणितं विद्यादानाल्लभेन्नरः ।। १३ ।।

कपिलानां सहस्रेण सम्यग्दत्तेन यत्फलम् ।।

तत्फलं समवाप्नोति पुस्तकस्य प्रदायकः ।। १४ ।।

पुराणं भारतं वापि रामायणमथापि वा ।।

दत्त्वा यत्फलमाप्नोति पार्थ तत्केन वर्ण्यते ।। १५ ।।

प्रातरुत्थाय यः शिष्यानध्यापयति यत्नतः ।।

वेदशास्त्रं नृत्यगीतं कस्तेन सदृशः कृती ।। १६ ।।

उपाध्यायस्य यो वृत्तिं दत्त्वाऽध्यापयते जनः ।।

किं न दत्तं भवेत्तेन धर्मकामार्थदर्शिना ।। १७ ।।

छात्राणां भोजनाभ्यंगं वस्त्रं भिक्षामथापि वा ।।

दत्त्वा प्राप्नोति पुरुषः सर्वकामान्न संशयः ।। १८ ।।

विवेको जीवितं दीर्घं धर्मकामार्थसंपदः ।।

सर्वं तेन भवेद्दत्तं छात्राणां पोषणे कृते ।। १९ ।।

शास्त्रं शस्त्रकलाशिल्पं यो यदिच्छेदुपार्जितुम् ।।

तस्योपकारकरणे पार्थ कार्यं सदा मनः ।। 4.174.२० ।।

वाजपेयसहस्रस्य सम्यगिष्टस्य यत्फलम् ।।

तत्फलं समवाप्नोति विद्यादानान्न संशयः ।। २१ ।।

शिवालये विष्णुगृहे सूर्यस्य भवनेऽथ वा ।।

यः कारयति धर्मात्मा सदा पुस्तकवाचनम् ।। २२ ।।

गोभूहिरण्यवासांसि शयनान्यासनानि च ।।

प्रत्यहं तेन दत्तानि भवंति भरतर्षभ ।। २३ ।।

धर्माधर्मं न जानाति विद्यया रहितः पुमान् ।।

तस्मात्सदैव धर्मात्मा विद्यादानरतो भवेत् ।। २४ ।।

त्रैलोक्यं चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक् ।।

ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठिताः ।। २५ ।।

चतुर्युगानि राजेंद्र एकसप्ततिसंख्यया ।।

कल्पं विष्णुपुरे तिष्ठेत्पूज्यमानः सुरोत्तमैः ।। २६ ।।

क्षितिं वोपेत्य कालांते राजा भवति धार्मिकः ।।

हस्त्यश्वरथदानाढ्यो दाता भोक्ता विमत्सरी ।। २७ ।।

रूपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत् ।।

पुत्रैः पौत्रे परिवृतो जीवेच्च शरदां शतम् ।। २८ ।।

दानं विशेषफलदं जगतीह नान्याद्विद्यां विहाय वदनाब्जकृताधिवासाम् ।।

गोभूहिरण्यगजवाजिरथादिसर्वं तां यच्छतां किमिह पार्थ भवेन्न दत्तम् ।। २९ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विद्यादानविधिवर्णनं नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ।। १७४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 175

तुलापुरुषदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पुरा प्रियव्रतो राजा पुत्रः स्वायंभुवस्य तु ।।

पालयामास वसुधां प्रजापतिरिवापरः ।। १ ।।

त्रिंशद्वर्षसहस्राणि पालयित्वा महीमिमाम् ।।

सप्तद्वीपान्विभज्यासौ पुत्रेभ्यः प्रददौ विभुः ।। २ ।।

राज्ये निक्षिप्य तनयान्सप्तद्वीपेषु सप्त सः ।।

विषयानुपसंहृत्य जगाम तपसे वनम् ।। ३ ।।

तपोवनगतं श्रुत्वा राजानं परमद्युतिम् ।।

समाजग्मुर्महात्मान ऋषयस्तं दिदृक्षवः ।। ४ ।।

तानागतानृषीन्दृष्ट्वा तपोनिर्धूतकल्मषान् ।।

पूजयामास मेधावी विधिदृष्टेन कर्मणा ।। ५ ।।

पाद्यार्घ्याचमनीयेन प्रियप्रश्नोत्तरेण च ।।

अथ तेषूपविष्टेषु ब्राह्मणेषु महात्मसु ।। ६ ।।

आजगाम महातेजाः पुलस्त्यो ब्रह्मणः सुतः ।।

दीप्यमानो महातेजा द्वितीय इव भास्करः(पावकः) ।। ७ ।।

तं दृष्ट्वा मुनयः सर्वे स च राजा महारथः ।।

उत्तस्थुर्विस्मिताः सर्वे प्रोत्फुल्लन यनास्ततः ।। ८ ।।

कृत्वा तु संविदं तेन यथायोग्यं विधानतः ।।

विष्टरं च ददुस्तस्मै पाद्यार्घ्याचमनादिकम् ।। ९ ।।

ततस्तु मुनयः सर्वे समा सीना यथासुखम् ।।

चक्रुः कथा मुदायुक्ता वेदोक्तविविधाश्रयाः ।। १० ।।

ततः कथांते कस्मिंश्चिन्मुनयस्ते सराजकाः ।।

पप्रच्छुर्ब्रह्मतनयं लोकानां हितकाम्यया ।। ११ ।।

।। ऋषय ऊचुः ।। ।।

भगवन्केन दानेन व्रतेन नियमेन वा ।।

प्राप्यते सद्गतिः पुंभिः स्त्रीभिश्च मुनिसत्तम ।। १२ ।।

इच्छामः श्रोतुमेतत्ते राजा चायं यतव्रतः ।।

।। पुलस्त्य उवाच ।। ।।

शृणुध्वं मुनयः सर्वे रहस्यं पापनारानम् ।। १३ ।।

उत्तमं सर्व दानानां समवायं वदामि वः ।।

यद्दत्त्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।। १४ ।।

कृतघ्नः कूटसाक्षी च मुच्यते पातकान्नरः ।।

सद्यो दिव्य तनुश्चैव जायते स्त्री तथैव च ।। १५ ।।

कृच्छ्रचांद्रायणाद्यैश्च तुलापुरुषसंज्ञितैः ।।

व्रतैश्च पाचयेद्देहमाकांक्षन्ब्रह्मणः पदम् ।। १६ ।।

कृच्छ्रचांद्रायणादीनि व्रतानि मुनिसत्तमाः ।।

ब्राह्मणानां वनस्थानां भिक्षो रंडाजनस्य च ।। १७ ।।

कायक्लेशेन सिध्यंति गृहस्थेषु न तानि वै ।।

महाधनाश्च ये लोका राजानो रत्नभागिनः ।। १८ ।।

न तेषां कृच्छ्रसाध्योऽपि क्वचिद्धर्मः प्रशस्यते ।।

यदेतद्द्रविणं नाम प्राणाश्चैते बहिश्चराः ।। १९ ।।

तस्माद्बहिश्चरैः प्राणैरात्मा योज्यः सदा बुधैः ।।

द्रव्याणामुत्तमं लोके कांचनं सार्वकामिकम् ।। २० ।।

अपत्यं सुरमुख्यस्य ज्येष्ठं चैवं विभावसोः ।।

तेन सार्द्धं य आत्मानं तोलयेत्प्रयतो बुधैः ।। २१ ।।

विधूय सर्वपापानि सद्यो दिव्यतनुर्भवेत् ।।

एतत्पुलस्त्यमुनिना ऋषीणां पार्थिवस्व च ।। २२ ।।

समाख्यातं नृपश्रेष्ठ तेभ्यश्च तन्मया श्रुतम् ।।

।। युधिष्ठिर उवाच ।। ।।

तुलापुरुषदानस्य विधानं परमेश्वर ।। २३ ।।

कथयस्व महाभाग मम भक्तानुकंपया ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणुष्वावहितो राजन्विधानं गदतो मम ।। २४ ।।

तुलापुरुषसंज्ञस्य दानस्येह नृपोत्तम ।।

व्यतीपातेऽयने चैव कार्तिक्यां विषुवे तथा ।। २५ ।।

चन्द्रसूर्यग्रहे यद्वा माघ्यां वा नृपसत्तम ।।

जन्मर्क्षे ग्रहपीडासु तथा दुःस्वप्नदर्शने ।। २६ ।।

यदा वा जायते वित्तं तदा देयमिदं भवेत् ।।

अनित्यं जीवितं यस्माद्वपुश्चातीव चञ्चलम् ।। २७ ।।

केशेषु च गृहीतः सन्मृत्युना धर्ममाचरेत् ।।

तस्माद्यदैव जायेत श्रद्धा दानं प्रति प्रभो ।। २८ ।।

तदैव दानकालः स्यात्कारणं हि यतो मम ।।

तीर्थे वायतने गोष्ठेष्वथ वा भव नांगणे ।।

मण्डपं कारयेद्विद्वांश्चतुर्भद्राननं बुधः ।। २९ ।।

आर्द्रशाखान्वितं दिव्यं प्रागुदक्प्रवणं दृढम् ।।

षोडशारत्निमात्रं च पताकाभिरलंकृ तम् ।। ३० ।।

तन्मध्ये कारयेद्वेदिं हस्तमात्रोच्छ्रितां शुभाम् ।।

चतुरस्रां समंताच्च सप्तहस्तां सुशोभनाम् ।। ३१ ।।

तस्या मध्ये तुलां दिव्यां स्थाप येद्विधिपूर्वकम् ।।

हस्तद्वयं च निखनेच्चतुर्हस्तोच्छ्रितां बुधः ।।३२।।

स्तंभद्वयं महाराज स्थापयेत्सुदृढं नवम् ।।

चंदनः खदिरो बिल्वः शाकश्चैवेंगुद स्तथा ।।३३।।

तिंदुको देवदारुश्च श्रीपर्णश्चाष्टमः स्मृतः ।।३४।।

इत्यष्टौ वृक्षजातीयाः स्तंभास्ते परिकीर्तिताः ।।

अन्यथापि भवेद्वृक्षः सारज्ञो याज्ञिकस्तथा।।३५।।

सुनिश्चलं ततः कृत्वा तिर्यक्काष्ठमथोपरि।।

न्यसेत्तद्वृक्षजातीयं चतुर्हस्तं प्रमाणतः ।।३६।।

समानजातिं तु तुलां तन्मध्ये योजयेद्दृढम्।।

षण्णवत्यंगुला दिव्या समग्रा लोहपाशिका ।। ३७ ।।

कृष्णलोहमयौ तस्यां कर्णौ चापि प्रकल्पयेत् ।।

तुलापुरुषसंज्ञस्तु मध्ये कार्यः पुमान्भ वेत् ।। ३८ ।।

एवंविधां तुलां कृत्वा नानारत्नैर्विभूषिताम्।।

चंदनेनानुलिप्तांगीं वस्त्रालंकारविग्रहाम् ।। ३९ ।।

स्तंभौ च वस्त्रसंयुक्तौ पुष्पमालाव लंबिनौ ।।

चंदनेनानुलिप्तांगौ नानात्नैरलंकृतौ ।। ४० ।।

कुण्डानि चात्र चत्वारि योनियुक्तानि कारयेत् ।।

हस्तमात्रप्रमाणानि मेखलात्रयवंति च ।। ४१ ।।

पूर्वोत्तरे हस्तमिता वेदिः कार्या सुशोभना ।।

लोकपालग्रहाणां च पूजा तत्र विधीयते ।। ४२ ।।

अर्चार्चनं च तत्रैव विरिंच्यच्युतयो र्नृप ।।

शंकरस्य भवेत्कार्यं माल्यवस्त्रफलाक्षतैः ।। ४३ ।।

तोरणानि च कार्याणि क्षीरवृक्षोद्भवानि च ।।

चतुर्द्वारेषु संस्थाप्याः कुम्भाः स्रक्पल्ल वाननाः ।। ४४ ।।

पंचरत्नसमायुक्ताः सप्तधान्योपरिस्थिताः ।।

ऋग्वेदपाठकौ द्वौ च पूर्वकुण्डे नियोजयेत् ।। ४५ ।।

यजुर्वेदविदौ याम्ये पश्चिमे सामवेदिनौ ।।

अथर्वणावुत्तरतो नवमो धर्मदेशकः ।।४६।।

अत्रैव केचिदिच्छंति ऋषयः षोडशर्त्विजः ।।

ताम्रपात्रद्वयं देयमेकैकस्मै तथासनम् ।। ।।४७।।

होमद्रव्याणि सर्वाणि तिलाज्यं समिधस्तथा।।

स्रुवाः स्रुचश्च शस्त्राणि विष्टरः कुसुमानि च ।।४८।।

लोकपालाः सुवर्णास्तु पताकाः परितः शुभाः ।।

महाध्वजं च बध्नीयात्पंचवर्णं वितानकम् ।। ४९ ।।

एतत्सर्वं समाहृत्य पुण्येऽहनि विचक्षणः ।।

वर्द्धकिर्ब्राह्मणैः सार्द्धं सर्वशिल्पविशा रदः ।। ५० ।।

संपूर्णं यजमानाय दर्शयेद्यज्ञमंडपम् ।।

यजमानस्ततः प्राज्ञः शुक्लांबरधरः शुचिः ।। ५१ ।।

शंखतूर्यनिनादेन वेदध्वनिरवेण च ।।

प्रक्षिपेल्लोकपालानामेभिर्मंत्रैः शुभैर्बलिम् ।। ५२ ।।

एह्येहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश ।।

संवीज्यमानोप्सरसां गणेन रक्षाध्वरं नो भगवन्नमस्ते ।। ५३ ।।

( ॐ इंद्राय नमः) ।।

एह्येहि सर्वामरहव्यवाह मुनिप्रवीरेरभिहृष्टमानसः ।।

तेजोवता लोकगणेन सार्द्धं ममाध्वरं रक्ष कवे नमस्ते ।।५४।।

( ॐ अग्नये नमः ।।)

एह्येहि वैवस्वतधर्मराज सर्वामरैरर्चितदिव्यमूर्ते ।।

शुभाशुभानंदकृतामधीश रक्षाध्वरं मे भगवन्नमस्ते ।।५५।।

ॐ यमाय नमः) ।।

एह्येहि रक्षोगणनायकस्त्वं विशालवेतालपिशाचसंघैः ।।

ममाध्वरं पाहि पिशाचनाथ लोकेश्वरस्त्वं भगवन्नमस्ते ।। ५६ ।।

ॐ निर्ऋतये नमः।।)

एह्येहि यादोगणवारिधीनां गणेन पर्जन्य सहाप्सरोभिः ।।

विद्याधरेन्द्रामरगीयमान पाहि त्वमस्मान्भगवन्नमस्ते ।। ५७।।

( ॐ वरुणाय नमः ।।

एह्येहि यज्ञे मम रक्षणाय मृगाधिरूढः सह सिद्धसंघैः ।।

प्राणाधिपः कालकवेः सहायो गृहाण पूजां भगवन्नमस्ते ।। ५८ ।।

( ॐ वायवेय नमः)

एह्येहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम् ।।

सर्वौषधीभिः पितृभिः सहैव गृहाण पूजां भगवन्नमस्ते ।। ५९ ।।

( ॐ सोमाय नमः ।।)

एह्येहि विश्वेश्वर विश्वमूर्ते त्रिशूलखट्वाङ्गधरेण सार्द्धम् ।।

लोकेन भूतेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते ।। ६० ।।

( ईशानाय नमः ।।)

एह्येहि पातालधराधरेन्द्र नागांगनाकिन्नरगीयमान ।।

यक्षोरगेन्द्रामरलोकसंघैरनंत रक्षाध्वरमस्मदीयम् ।।६१।।

( ॐ अनंताय नमः)

एह्येहि विश्वाधिपते मुनींद्र लोकेश सार्द्धं पितृदेवताभिः ।।

विशाध्वरांतः सततं शिवाय पितामहस्त्वं सततं नमस्ते ।। ६२।।

( ॐ ब्रह्मणे नमः)

त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।।

ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वंतु तानि मे ।। ६३ ।।

देवदानवगन्धर्वा यक्ष राक्षसपन्नगाः ।।

ऋषयो मनवो गावो देवमातर एव च ।।६४।।

सर्वे ममाध्वरे रक्षां प्रकुर्वंतु मुदान्विताः ।।

इत्यावाह्य सुरान्दद्यादृत्विग्भ्यः कण्ठ भूषणम् ।। ६५ ।।

कुंडलानि च हैमानि सूत्राणि कटकानि च ।।

तथांगुलिपवित्राणि वासांसि कुसुमानि च ।। ६६ ।।

द्विगुणं गुरवे दद्याद्भूषणा च्छादनादिकम् ।।

आघारावाज्यभागौ तु पूर्वं हुत्वा विचक्षणः ।। ६७ ।।

प्रणवादिस्वनाम्ना च स्वाहांतो होम उच्यते ।।

होमः सुराणां कर्तव्यो ये चैवात्र प्रतिष्ठिताः ।। ६८ ।।

ग्रहाणां लोकपालानां शिवकेशवयोस्तथा ।।

वनस्पतिभ्यो ब्रह्मणे होमः कार्यो यथेच्छया ।। ५९ ।।

ततो मंगलशब्देन स्थापितो वेदमंगलैः ।।

त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः ।। ७० ।।

शुक्लमाल्यांबरो भूत्वा तां तुलामभिमंत्रयेत् ।।

नमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमास्थिता ।। ७१ ।।

साक्षिभूता जगद्धात्रि निर्मिता विश्वयोनिना ।।

एकतः सर्वसत्यानि तथानृतशतानि च ।। ७२ ।।

धर्माधर्मभृतां मध्ये स्थापितासि जगद्धिते ।।

त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता ।। ७३ ।।

मां तोलयंती संसारादुद्धरात्र नमोस्तुते ।।

योऽसौ तत्त्वा धिपो देवः पुरुषः पचविंशकः ।। ७४ ।।

स एकोऽधिष्ठितो देवि त्वयि तस्मान्नमो नमः ।।

नमो नमस्ते गोविंद तुलापुरुषसंज्ञक ।। ७५ ।।

त्वं हरे तारयस्वास्मानस्मात्संसारसागरात् ।।

पुण्यकालमथासाद्य कृत्वैवमधिवासनम् ।। ७६ ।।

प्रणम्य परया भक्त्या तां तुलामारुहेद्बुधः ।।

स सङ्गचर्मकवची सर्वाभरणभूषितः ।। ७७ ।।

धर्मराजमथादाय हेमसूर्येण संयुतम् ।।

कराभ्यां बद्धमुष्टिभ्यामास्ते पश्यन्हरेर्मुखम् ।। ७८ ।।

वामे यमं तथा गृह्य दक्षिणे च रविं तथा ।।

ततोऽपरे तुलाभागे न्यसेयुर्द्विजपुंगवाः ।।

साम्यादभ्यधिकं यावत्कांचनं चातिनिर्मलम् ।। ७९ ।।

पुष्टिकामस्तु कुर्वीत भूमिसंस्थं नरेश्वर ।।

क्षणमात्रं ततः स्थित्वा पुनरेतदुदीरयेत्।। ८० ।।

नमस्ते सर्वभूतानां साक्षिभूते सनातने ।।

पितामहेन देवि त्वं निर्मिता परमेष्ठिना ।। ८१ ।।

त्वयोद्धृतं जगत्सर्वं सह स्थावरजंगमम् ।।

सर्वभूतात्मभूतस्थे नमस्ते विश्वधारिणि ।। ८२ ।।

ततोऽवतीर्य गुरवे सर्वमर्द्धं निवेदयेत्।।

ऋत्विग्भ्योऽपरमर्द्धं च दद्यादुदकपूर्वकम् ।। ८३ ।।

प्राप्य तेषामनुज्ञां वा तथान्येभ्योऽपि दापयेत् ।।

दीनानाथ विशिष्टादीन्पूजयेद्ब्राह्मणैः सह ।। ८४ ।।

न चिरं धारयेद्गेहे हेमसंप्रोक्षितं बुधः ।।

तिष्ठद्भयावहं यस्मात्कष्टव्याधिकरं भवेत् ।। ८५ ।।

रात्रिं परस्वीकर णाच्छ्रियं प्राप्नोत्यनुत्तमाम् ।।

अनेनैव विधानेन केचिद्रौप्यमयं तथा त ८६ ।।

कर्पूरेण तथेच्छंति केचिद्ब्राह्मणपुंगवाः ।।

तथासिततृतीयायां नार्यः सौभाग्यवर्धिताः ।। ८७ ।।

कुंकुमेन प्रयच्छंति लवणेन गुडेन च ।।

तत्र मंत्रा न होमो वा एवमेव प्रदापयेत् ।। ८८ ।।

विधिनानेन यो दद्या द्दानमेतत्समाहितः ।।

तस्य पुण्यफलं राजञ्छृणुष्व गदतो मम ।। ८९ ।।

विमानवरमास्थाय नारी वा पुरुषोऽपि वा ।।

अप्सरोगणसंकीर्णं गंध र्वनगरोपमम् ।। ९० ।।

नानावृक्षाकुलं रम्यं नानागंधाधिवासितम् ।।

अनेकरत्नविद्धांगं मुक्तादामावलंबितम् ।। ९१ ।।

शयनासनसंकीर्णं पताका भिरलंकृतम् ।।

घंटाशतरवोद्धुष्टं चामरव्यजनान्वितम्।। ९२ ।।

सर्वर्तुसुखदं रम्यं सर्वदुःखविवर्जितम् ।।

इत्थं विमानमारुह्य गच्छेत्सूर्यसलो कताम्।। ९३ ।।

मित्वा तत्र राजेंद्र कल्पमेकं निरामयः ।।

विष्णुलोके तथा कल्पं शिवलोके तथैव च ।। ९४ ।।

विश्वेषां चैव देवानां देव राज पुरे तथा ।।

पुरे च धर्मराजस्य वरुणस्य तथैव च ।। ९५ ।।

धनदस्य पुरे स्थित्वा कल्पकोटिशतं नरः ।।

पुनर्मानुषमभ्येत्य राजा भवति धार्मिकः ।। ९६ ।।

यज्वा दानपतिर्धीमाञ्छत्रुपक्षक्षयंकरः ।।

यश्चैतच्छृणुयाद्भक्त्या महादानानुकीर्तनम् ।। ९७ ।।

सोऽपि मुच्येत पापेन त्रिविधेन न संशयः ।। ९८ ।।

ब्रह्मेशकेशवपरोऽस्ति न पूजनीयो नैवाश्वमेधसदृशः क्रतुरस्ति कश्चित् ।।

गंगासमं त्रिभुवनेऽपि न तीर्थमस्ति दानं तुलापुरुषतुल्यमिहास्ति नान्यत्।। ९९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तुलापुरुषदानविधिवर्णनं नाम पंचसप्तत्युत्तरशततमोऽध्यायः ।। १७५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 176

हिरण्यगर्भदानव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

भगवन्सर्वभूतेश सर्वभूतनमस्कृत ।।

अनुग्रहाय लोकानां कथयस्व ममापरम् ।। १ ।।

त्वत्तुल्यो जायते येन आयुषा यशसा श्रिया ।।

तन्मे कथय देवेश दानं व्रतमथापि वा ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु राजन्प्रवक्ष्यामि तव लोकहितेच्छया ।।

येनोपायेन जायंते मत्तुल्या मानवा भुवि ।। ३ ।।

न व्रतैनोपवासैश्च न तीर्थगमनैरपि ।।

महापथादिमरणैर्न यज्ञैर्न श्रुतेन च ।। ४ ।।

प्राप्यते मम लोकोऽयं दुष्प्राप्यस्त्रिदशैरपि ।।

पार्थस्नेहान्महाभाग प्रवक्ष्यामि हितं तव ।। ५ ।।'

गोब्राह्मणार्थे मरणं प्राप्तं येन सुमेधसा ।।

प्रयागेऽनशनं वापि पूजितो वाथ शंकरः ।। ५ ।।

प्रयाति ब्रह्मसालोक्यं श्रुतिरेषा सनातनी ।।

येन मत्समतां याति तत्ते वक्ष्याम्यतः परम् ।। ७ ।।

दानं हिरण्यगर्भाख्यं कथ्यमानं निबोध मे ।।

अग्नेरपत्यं प्रथमं सुवर्णमिह पठ्यते ।। ८ ।।

पवित्रं सर्वभूतानां पावनं परमं महत् ।।

पर्यायनाम तस्योक्तं हिरण्यं सार्वलौकिकम् ।। ९ ।।

तदपां गर्भमाविश्य पुनर्जातं तु भूतले ।।

यश्च तद्ब्राह्मणे दद्यान्मत्तुल्यो जायते हि सः ।। 4.176.१० ।।

।। युधिष्ठिर उवाच ।। ।।

विधानं तस्य देवेश कथयस्व सनातन ।।

यत्प्रमाणं यथाचैतद्दातव्यं परमेश्वर ।। ११ ।।

।। श्रीकृष्ण उवाच ।। ।।

पर्वकाले प्रदातव्यं दानमेतन्महामते ।।

अयने विषुवे चैव ग्रहणे शशिसूर्ययोः ।। १२ ।।

व्यतीपातेऽथ कार्तिक्यां जन्मर्क्षे वा नरोत्तम ।।

दुःस्वप्नदर्शने चैव ग्रहपीडासु चैव हि ।। १३ ।।

प्रयागे नैमिषे चैव कुरुक्षेत्रे तथार्बुदे ।।

गंगायां यमुनायां च सिंधुसागरसंगमे ।। १४ ।।

पुण्यनद्यश्च दानेस्मिन्प्रशस्ताः स्युर्न संशयः ।।

यत्र वा रोचते राजन्गृहे देवकुलेऽथवा ।। १५ ।।

आरामे वा तडागे वा शुचौ देशे विधानतः ।।

तत्र भूशोधनं कुर्यात्प्रागुदक्प्रवणं शुभम् ।। १६ ।।

हस्ता द्वादश कर्तव्यं मंडपं तु सुशोभनम् ।।

स्तंभैर्मनोहरैर्युक्त्यार्द्रशाखाभिरन्वितम् ।। १७ ।।

तन्मध्ये वेदिकां कुर्यात्पंचहस्तामलकृताम् ।।

वितानमुपरिष्टाच्च पुष्पमालावलंबितुम् ।। १८ ।।

हिरण्यगर्भं तन्मध्ये प्रथमेऽहनि कल्पयेत् ।।

तस्य प्रमाणं वक्ष्यामि रूपं वै स्थंडिलोद्भवम् ।। १९ ।।

शिल्पिनं पूजयेत्पूर्वं वासोभिर्भूषणैस्तथा ।।

ब्राह्मणान्वाचयेत्पश्चात्ततः कर्म समारभेत् ।। 4.176.२० ।।

सुवर्णेन संशुद्धेन शक्तितः कारयेद्बुधः ।।

अंगुलानि चतुःषष्टिर्दैर्घ्यं च परिकीर्तितम् ।। २१ ।।

त्रिभागहीनं वदने मूले तस्यार्द्धविस्तरम् ।।

वर्तुलं कर्णिकाकारं चारुग्रंथिविवर्जितम् ।। २२ ।।

पिधानमुपरिष्टाच्च कर्तव्यं चांगुलाधिकम् ।।

अस्त्राणि दश कुर्वीत नालं सूर्यं च कांचनम् ।। २३ ।।

दात्रं सपट्टिकं चैव सर्वोपस्करणान्वितम् ।।

सूचीक्षुरश्च हैमानि तत्सर्वं परिकल्पयेत् ।। २४ ।।

पार्श्वतः स्थापयेत्तस्य हेमदंडकमंडलू ।।

छत्रिकापादुकायुग्मं वज्रवैडूर्यमंडितम् ।। २५ ।।

एवं लक्षणसंयुक्तं कृत्वा गर्भं विचक्षणः ।।

ब्रह्मघोषेण महता शंखतूर्यरवेण च ।। २६ ।।

हस्तिना शकटेनाथ राजन्ब्रह्मरथेन वा ।।

आनयेन्मंडपं कृत्वा प्रदक्षिणमतंद्रितः ।। २७ ।।

तिलद्रोणोपरिगतं वेदीमध्येऽधिवासयेत् ।।

समालभ्य पुनः सर्वं कुंकुमेन सुगंधिना ।। २८ ।।

कौशेयवाससी शुभ्रे ततस्तं परिधापयेत् ।।

समंतात्पुष्पमालाभिः पूजयेद्भक्तितः सुधीः ।।२९।।

धूपैः सुधूपितं कृत्वा मंत्रमेतमुदीरयेत् ।।

भूर्लोकप्रमुखालोकास्तव गर्भे व्यवस्थिताः ।। 4.176.३० ।।

ब्रह्मादयस्तथा देवा नमस्ते भुवनोद्भव ।।

नमस्ते भुवनाधार नमस्ते भुवनेश्वर ।। ३१ ।।

नमो हिरण्यगर्भाय गर्भे यस्य पितामहः ।।

एवं संपूजयित्वा तु तौ रात्रिमधिवासयेत् ।। ३२ ।।

वेद्याश्चतुर्दिशं चैव कुंडानि परिकल्पयेत् ।।

चत्वारि चतुरस्राणि तेषु होमो विधीयते ।। ३३ ।।

चतुश्चारणिकास्तत्र ब्राह्मणा मंत्रपारगाः ।।

होमं कुर्युर्जितात्मानो मौनिनः सर्व एव ते ।।३४।।

सर्वाभरणसंपन्नाः सर्वे चाहतवाससः ।।

ताम्रपात्रद्वयोपेता गंधपुष्पादिपूजिताः ।। ३५ ।।

वेद्याः पूर्वोत्तरे भागे ग्रहवेदिं प्रकल्पयेत् ।।

तत्र ग्रहांल्लोकपालान्ब्रह्मविष्णुमहेश्वरान् ।। ।। ३६ ।।

पूजयेत्स्वर्णघटितान्पुष्पधूपविलेपनैः ।।

पताकाभिरलंकृत्य मंडपं तोरणैस्तथा ।। ३७ ।।

कुंभद्वयं च द्वारेषु स्थापयेद्रत्नसंयुतम् ।।

तुलापुरुषमंत्रैश्च लोकपालबलिं क्षिपेत् ।। ३८ ।।

पालाश्यः समिधस्तत्र प्रशस्ता होमकर्मणि ।।

चरुश्चैवेन्द्रदैवत्यस्तिला गव्यं घृतं तथा ।।३९।।

स्वलिंगैर्होमयेत्पूर्वं मंत्रैर्व्याहृतिभिः पुमान् ।।

अयुते द्वे च होमस्य संख्यामाहुर्मनीषिणः ।। 4.176.४० ।।

यजमानस्ततः स्नात्वा शुक्लांबरधरः शुचिः।।

भक्त्या हिरण्यगर्भं च पर्वकाले समर्चयेत् ।। ४१ ।।

नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः ।।

चराचरस्य जगतो गृहभूताय ते नमः ।। ४२ ।।

मात्राहं जनितः पूर्व मर्त्यधर्मासुरोत्तम ।।

त्वद्गर्भसंभवादद्य दिव्यदेहो भवाम्यहम् ।। ४३ ।।

इत्युच्चार्य स्वयं भक्त्या कृत्वा चैव प्रदक्षिणाम् ।।

क्षीराज्यदधिसंपूर्णं तद्गर्भं प्रविशेद्बुधः ।। ४४ ।।

सौवर्णं धर्मराजं तु सव्ये कृत्वा करे ततः ।।

भास्करं दक्षिणे चैव मुष्टिं बद्ध्वा प्रयत्नतः ।। ४५ ।।

जान्वोरंतरतश्चैव शिरः कृत्वा समाहितः ।।

उच्छ्वासपंचक तिष्ठेच्चेतसा चिंतयञ्छिवम् ।। ४६ ।।

गर्भाधानं पुंसवनं सीमंतोन्नयनं तथा ।।

कुर्युर्हिरण्यगर्भस्य ततस्ते द्विजपुंगवाः ।। ४७ ।।

जातकर्मादिकाः कुर्युः क्रियाः षोडश चापराः ।।

तत उत्थाय निःसृत्य पुनः कुर्यात्प्रदक्षिणाम्।। ४८ ।।

तावन्मुखं न पश्येत कस्यचिन्नृपसत्तम ।।

सौवर्णा पृथिवी यावन्न दृष्टा स्पष्टचक्षुषा ।। ४९ ।।

ततः स्नानं प्रकुर्वीत ब्रह्मघोषपुरःसरम् ।।

अष्टौ द्विजाः सुवर्णांगा सौवर्णैः कलशैः शुभैः ।। 4.176.५० ।।

रौप्यैरौदुंबरैर्वापि मृण्मयैर्वा सुशोभनैः ।।

दध्यक्षतविचित्रांगैराम्रपल्लवशोभितैः ।। ५१ ।।

पुष्पैरावेष्टितग्रीवैरव्रणैः कलशैर्दृढैः ।।

चतुष्कमध्ये संस्थाप्य पीठमव्रणमुत्तमम् ।। ५२ ।।

तत्र स्थाप्य महाभाग यजमानं द्विजोत्तमाः ।।

देवस्य त्वेति मंत्रेण कुर्युरस्याभिषेचनम् ।। ५३ ।।

अद्य जातस्य तेंऽगानि अभिषेक्ष्यामहे वयम् ।।

दिव्येनानेन वपुषा चिरंजीवमुखी भव ।। ५४ ।।

एवं कृताभिषेकस्तु यजमानः समाहितः ।।

दद्याद्धिरण्यगर्भं तं सोदकेनैव पाणिना ।। ५५ ।।

तान्संपूज्य च भावेन बहुभ्यो वा तदाज्ञया ।।

यज्ञोपकरणं सर्वं गुरवे विनिवेदयेत् ।। ५६ ।।

पादुकोपानहौ चैव च्छत्रचामरभाजनम् ।।

अन्येषां चैव विप्राणां ये च तत्र सभासदः ।। ५७ ।।

तेषां चैव प्रदातव्यं दानं चात्र विशेषतः ।।

दीनांधकृपणानां च दातव्यं सार्वकामिकम् ।। ५८ ।।

अन्नसत्रं च कर्तव्यं यावद्दानपरिग्रहः ।।

अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।। ५९ ।।

स कुलं तारयेत्सर्वं देवलोकं स गच्छति ।।

विमानवरमारुह्य पञ्चयोजनविस्तृतम् ।। 4.176.६० ।।

वापीकूपतडागाद्यैर्जलस्थानैरलंकृतम् ।।

उद्यानशतसंस्थानं पद्माकरनिषेवितम् ।। ६१ ।।

प्रासादशतसंकीर्णं वरस्त्रीशतसेवितम् ।।

वीणावेणुमृदंगानां शब्दैरापूरितं महत् ।। ६२ ।।

भूमयो यत्र राजेन्द्र दिव्या मणिमयाः शुभाः ।।

वेदिकाभिर्विचित्राभिः शोभितं भास्करप्रभम्।। ६३ ।।

धृतं स्तम्भसहस्रेण सुकृतं विश्वकर्मणा ।।

पताकाभिर्विचित्राभिर्वज्रैश्च समलंकृतम् ।। ६४ ।।

तदारुह्य विमानाग्र्यं विद्याधरगणैर्युतम् ।।

स याति लोकं शक्रस्य शक्रेण सह मोदते ।। ६५ ।।

मन्वन्तरशते जाते कर्मभूमौ प्रजायते ।।

जंबूद्वीपमशेषं तु भुंक्ते दिव्यपराक्रमः ।। ६६ ।।

धार्मिकः सत्यशीलश्च ब्रह्मण्यो गुरुवत्सलः।।

दश जन्म्रान्यसौ राजा जायते रोगवर्जितः ।। ६७ ।।

यस्त्विदं शृणुयाद्भक्त्या रहस्यं पापनाशनम् ।।

सोऽपि वर्षशतं साग्रं सुरलोके महीयते ।। ६८ ।।

गर्भं हिरण्यरचितं विधिवत्प्रविश्य संस्कारसंस्कृततनुः पुनरेव तस्मात् ।।

निःसृत्य तद्द्विजवराय निवेद्य भक्त्या मार्तण्डवद्दिवि विराजति दिव्यदेहः ।। ६९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्यगर्भदानविधिवर्णनं नाम षट्सप्तत्युत्तरशतत तमोऽध्यायः ।। १७६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 177

ब्रह्माण्डदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अगस्त्येन पुरा गीतो दानानां विधिरुत्तमः ।।

शृणु त्वं राजशार्दूल कथ्यमानं मयाधुना ।। १ ।।

येन दत्तेन राजेन्द्र सर्वं पापं व्यपोहति ।।

मानसं वाचिकं वापि कायिकं च सुदुस्तरम् ।। २ ।।

मंगल्यं मंगलं पुण्यं सर्वदानेषु चोत्तमम् ।।

धन्यं यशस्यमायुष्यं परलोकभयापहम् ।।

ब्रह्मांडं कांचनं कृत्वा सर्वलक्षणसंयुतम् ।। ३ ।।

देवासुरमनुष्यैश्च गन्धर्वोरगराक्षसैः ।।

संयुक्तं च नदीभिश्च समुद्रैः पर्वतैस्तथा ।।

विमानशतकोटीभिर्भूषितं चाप्सरोवरैः ।। ४ ।।

दिग्गजाष्टकसंयुक्तं मध्यस्थितचतुर्मुखम् ।।

शिवाच्युतार्कशिखरमुमालक्ष्मीसमन्वितम् ।। ५ ।।

तस्यांगे कल्पयेद्राजन्भुवनानि चतुर्दश ।।

वितस्तेरंगुलशतं यावदायामविस्तरम् ।। ६ ।।

कुर्याद्विंशत्पलादूर्ध्वमासहस्राच्च भक्तितः ।।

शकलद्वयसंयुक्तं पुटाकारं सुसंहितम् ।।७ ।।

शिल्पिना विहितं यस्माद्ब्रह्मांडं सर्वकामदम् ।।

अयने विषुवे चैव चंद्रादित्यग्रहे तथा ।। ८ ।।

अन्येष्वपि तु कालेषु श्रद्धावित्तसमन्वितः ।।

पुष्पमंडपिकां कृत्वा तत्र संस्थापयेद्बुधः ।। ९ ।।

तिलद्रोणोपरिगतं कंकुमक्षोदचर्चितम् ।।

वासो युग्मेन संछाद्य पुष्पगन्धाधिवासितम् ।। 4.177.१० ।।

तस्य दिक्षु च सर्वासु पूर्णकुम्भांश्च विन्यसेत् ।।

अष्टादशैव चान्यानि द्रोणमात्राण्यथाहरेत् ।। ११ ।।

गृहे वा मंडपे वापि स्थापयेत्तद्विचक्षणः ।।

पादुकोपानहच्छत्रभाजनासनदर्पणैः ।। १२ ।।

संयुक्तं कारयेत्तत्र पयस्विन्या तथैव च ।।

कारयेत्कुण्डमेकं तु हस्तमात्रं विधानतः ।। १३ ।।

चतुश्चारणिकास्तत्र होमं कुर्युर्द्विजोत्तमाः ।।

सर्वाभरणसम्पन्ना सुस्नाताहतवाससः ।। १४ ।।

प्रचरेयुर्द्विजास्तत्र उपाध्यायसमन्विताः ।।

तथा पुरोहितश्चैव राज्ञा षष्ठो विधीयते ।। १५ ।।

इतरेषां तु पञ्चैव कुर्युर्यज्ञमतंद्रिताः ।।

ग्रहयज्ञविधानेन ग्रहाणां यज्ञ इष्यते ।। १६ ।।

ब्रह्मविष्णुशिवानां च तन्नाम्ना जुहुयात्तिलान् ।।

अयुतं होमयेत्पश्चान्महाव्याहृतिभिर्नृप ।। १७ ।।

रुद्रजापस्तु कर्तव्यस्तस्यैवानंतरं द्विजैः ।।

ततः सर्वसमाप्तौ तु स्नात्वा शुक्लांबरः शुचिः ।। १८ ।।

ब्रह्मांडं पूजयेद्भक्त्या गृहीतकुसुमांजलिः ।।

नमो जगत्प्रतिष्ठाय विश्वधाम्ने नमोऽस्तु ते ।। १९ ।।

वाङ्मयांत निमग्नाय ब्रह्मांड शुभकृद्भव ।।

ब्रह्मांडोदरवर्तीनि यानि सत्त्वानि कानिचित् ।। 4.177.२० ।।

तानि सर्वाणि मे तुष्टिं प्रयच्छत्वतुलां सदा ।।

ब्रह्मा विष्णुश्च रुद्रश्च लोकपालास्तथा ग्रहाः ।। २१ ।।

नक्षत्राणि तथा नागा ऋषयो मरुतस्तथा ।।

सर्वे भवंतु संतुष्टाः सप्तजन्मांतराणि मे ।। २२ ।।

इत्युच्चार्य ततो दद्याद्ब्रह्मांडं सर्वकामदम् ।।

सदक्षिणं च तं कृत्वा वसु संपादयेद्द्विजान् ।।२३।।

अनेन विधिना दत्त्वा यत्पुण्यं स्यान्नरोत्तम ।।

तत्तेऽहं संप्रवक्ष्यामि शृणुष्व गदतो मम ।। २४ ।।

आसीदादियुगे राजा सुद्युम्नो नाम भारत ।।

नागायुतबलः श्रीमान्बहुभृत्यपरिच्छदः ।। २५ ।।।

त्रिंशद्वर्षसहस्राणि कृत्वा राज्यमकंटकम् ।।

ततः संस्थाप्य तनयं राजा राज्ये वनं ययौ ।। २६ ।।

प्रविश्य च वनं घोरं तपस्तीव्रं चचार ह ।।

अध्यात्मगतितत्त्वज्ञः कर्मकांडं विसृज्य च ।। २७ ।।

कालेन महता राजा दिष्टांतमगमत्पुरा ।।

दिव्यं विमानमारुह्य नाना वाद्यरवाकुलम् ।।२८।।

अतीत्य शक्रलोकादीन्ब्रह्मलोकमितो गतः ।।

तस्यासनं दिदेशाथ ब्रह्मासुरगणैर्वृतः ।। २९ ।।

दिव्यं कनकचित्रांगं रत्नालंकृतविग्रहम् ।।

एवं लोकवरे तस्मिन्रममाणो नृपोत्तम ।। 4.177.३० ।।

आस्ते चानुदिनं सोऽथ दिव्यभोगविवर्जितः ।।

वसतस्तस्य राज्ञस्तु शरीरं परितप्यते ।। ३१ ।।

बुभुक्षया नरश्रेष्ठ तथात्यंतपिपासया ।।

स पीड्यमानो ब्रह्माणं कृतांजलिरभाषत ।। ३२ ।।

भगवन्ब्रह्मलोकोऽयं सर्वदोषविवर्जितः ।।

अत्र स्थितं च मां देव क्षुत्तृष्णा च प्रबाधते ।। ३३ ।।

केन कर्म विपाकेन क्षुधा मे नापसर्पति।।

ब्रह्मलोके गतस्यापि संशयं छेत्तुमर्हसि ।।३४।।

।। ब्रह्मोवाच ।। ।।

त्वया हि कुर्वता राज्यं पुष्टान्यंगानि पार्थिव ।।

नैव दत्तं तु बहुलमात्मवादरतेन वै ।। ३५ ।।

दानं बंधात्मकं मत्वा तस्माद्दत्तं त्वया न हि ।।

ज्ञानाद्ब्रह्मपदं प्राप्तमदानात्क्षुत्प्रबाधते ।। ३६ ।।

।। राजोवाच ।। ।।

भगवंस्तृषापनुत्तिः स्यात्कथं मे परमेश्वर ।।

उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ।। ३७ ।।

।। ब्रह्मोवाच ।। ।।

भूयो गत्वा महीं राजन्ब्रह्मांडं सार्वकामिकम् ।।

प्रयच्छ द्विजमुख्यानां तेन तृप्तिमवाप्स्यसि ।। ३८ ।।

इत्युक्तः सम्यगागत्य मर्त्यलोकं महीपतिः ।।

ब्रह्मांडं तु विधानेन ब्राह्मणेभ्यः प्रदत्तवान् ।। ३९ ।।

स जगाम पुनः स्वर्गं लेभे तृप्तिं च शाश्वतीम्।।

एतत्ते सर्वमाख्यातं महादानस्य यत्फलम् ।। 4.177.४० ।।

ब्रह्मांडं यः प्रयच्छेत तेन दत्तं चराचरम् ।।

सप्तावरान्सप्त परान्सप्त चैव परावरान्।। ४१ ।।

तारयेत्कुलजान्दत्त्वा भविष्यांश्च न संशयः ।।

मन्वंतराणि षट्त्रिशद्ब्रह्मलोके महीयते ।। ४२ ।।

पुनर्मानुष्यमभ्येत्य धार्मिको जायते कुले ।।

न दारिद्यं न च व्याधिं वियोगं नैव पश्यति ।। ४३ ।।

नारी वा पुरुषो वापि दानस्यास्य प्रभावतः ।।

यश्चैतच्छृणुयाद्भक्त्या भक्तानां श्रावयेच्च यः ।। ४४ ।।

सोऽपि सद्गतिमाप्नोति किं पुनर्यः प्रयच्छति ।। ४५ ।।

ब्रह्मांडखंडयुगलं सकुलाचलं च दिग्भागसागरसरोवरसिद्धजुष्टम् ।।

दिक्संख्यया गुणवतां द्विजसत्तमानां दत्त्वा पुमान्पदमुपैति पितामहस्य ।। ४६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिसंवादे ब्रह्मांडदानविधिवर्णनं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः ।। १७७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 178

कल्पवृक्षदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

भगवाञ्छंकरः पूर्वं कृतोद्वाहो मया सह ।।

रममाणस्तया सार्द्धं बहुवर्षगणान्स्थितः ।। १ ।।

ततः सुरगणाः सर्वे परं त्रासमुपागताः ।।

तयोरपत्यस्य भयात्तमेव शरणं गताः ।। २ ।।

वैश्वानरमुखा देवा महादेवं त्रिलोचनम् ।।

प्रसन्नश्चाभवत्तेषां विबुधानां त्रिलोचनः ।। ३ ।।

।। ईश्वर उवाच ।। ।।

किं भीतास्त्रिदशाः सर्वे कं वरं च ददामि वः ।।

मयि प्रसन्ने विबुधा दुर्लभं हि न किंचन ।। ४ ।।

।। देवा ऊचुः ।। ।।

भगवंस्तव संयोगात्पार्वत्या सह शंकर ।।

मोघो भवतु देवेश भीताः स्म तनयस्य ते ।।५ ।।

अनपत्यश्च देवेश भव भूतपते सदा ।।

अशक्ताः स्म वयं सर्वे भवदोजो विधारणे ।। ६ ।।

।। श्रीभगवानुवाच ।। ।।

अतः प्रभृत्यहं देवा ऊर्ध्वरेता व्यवस्थितः ।।

स्थाणुवच्च स्थितश्चास्मि नाम चैतद्भविष्यति ।। ७ ।।

ततः क्रुद्धा उमा तेषां देवानां वाक्यमब्रवीत् ।।

वितथं पुत्रजं सौख्यं भवद्भिर्मे कृतं सुराः ।। ८ ।।

यस्मात्तस्माद्भवंतोऽपि न पुत्राञ्जनयिष्यथ ।।

ततः प्रभृति वै देवाः प्रसूयंते न भूपते ।। ९ ।।

दत्त्वा शापं ततो देवी देवानामाह शंकरम् ।।

पुत्रजन्म मया प्राप्तं न तावज्जगतः पते ।। 4.178.१० ।।

अपुत्रस्य गतिर्नास्ति इतीयं श्रूयते श्रुतिः ।।

तदादिश महाभाग लोकद्वयहितं प्रभो ।। ११ ।।

।। भगवानुवाच ।। ।।

अपुत्रः पुरुषो यश्च नारी वा पर्वतात्मजे ।।

सौवर्णस्तेन दातव्यः कल्पवृक्षो गुणान्वितः ।। १२ ।।

कृत्रिमं वापि गृह्णीयाद्वृक्षं वा स्थावरादिकम् ।।

जातपुत्रोऽथ वा पुत्रः पुत्रत्वे परिकल्पयेत्।।१३।।

तेन पुत्रवतां लोका देवि तस्य न संशयः ।।

कल्पवृक्षस्तु कर्तव्यः शुद्धकांचनसंभवः ।। १४ ।।

बहुशाखः सुवर्णांगोप्यनेककुसुमान्वितः ।।

महास्कंधस्वरूपश्च रत्नालंकृतविग्रहः ।। १५ ।।

फलानि तस्य दिव्यानि सौवर्णानि प्रकल्पयेत् ।।

कुर्याविंशत्पलादूर्द्ध्वं शक्त्या वा नृपसत्तम ।। १६ ।।

दानमेतत्प्रदातव्यं राजतं चैवमुत्तमम् ।।

प्रवालांकुरसंछन्नं मुक्तादामावलंबितम् ।। १७ ।।

चतुष्कोणेषु कुर्वीत चतुरः कांचनद्रुमान् ।।

सुवर्णस्य प्रमाणं च कथयामि वरानने ।। १८ ।।

सहस्रेण तदर्द्धेन तस्याप्यर्द्धेन वा पुनः ।।

नद्यास्तीरे गृहे वापि देवतायतने तथा।।१९।।

प्रागुदक्प्रवणे देशे मंडपं तत्र कारयेत् ।।

दशहस्तप्रमाणेन दशहस्ताश्च वेदिकाः ।। 4.178.२० ।।

हस्तमात्रप्रमाणेन कुंडमेकं सुशोभनम् ।।

आग्नेय्यां कारयेद्राजन्मेखलामुपलेपनम् ।। २१ ।।

तत्र वै ब्राह्मणा योज्या ऋग्यजुःसामपाठकाः ।।

उपदेष्टा च तत्रैव तृतीयः पंचमोऽथ वा ।। ।। २२ ।।

सर्वाभरणसंपन्नास्ताम्रपत्रद्वयान्विताः ।।

अनुलिप्ताश्चंदनेन वस्त्रमाल्यादिभूषिताः ।। २३ ।।

गुडप्रस्थोपरिष्टाच्च स्थापयेत्कल्पपादपम् ।।

ब्रह्मविष्णुशिवोपेतं पंचशाखं सभास्करम् ।। २४ ।।

कामदेवमधस्ताच्च सकलत्र प्रयोजयेत् ।।

संतानं सह गायत्र्या पूर्वतो लवणोपरि ।। २५ ।।

मंदारं दक्षिणे पार्श्वे श्रिया सह तथा घृते ।।

पश्चिमे पारिजातं तु उमया सह पादपम् ।। २६ ।।

सुरभीसंयुतं तद्वत्तिलेषु हरिचंदनम् ।।

कौशेयवस्त्रसंयुक्तानिक्षुमाल्यफलान्वितान्।। २७ ।।

तथाष्टौ पूर्णकलशान्समंतात्परिकल्पयेत् ।।

अग्निप्रणयनं कृत्वा अधिवास्य च पादपान् ।। २८ ।।

धान्यानि चैव सर्वाणि समंतात्परिकल्पयेत् ।।

नाना भक्ष्याणि नैवेद्यं सर्वं तत्र नियोजयेत् ।। २९ ।।

दीपमाला विचित्राश्च ज्वालयेत समंततः ।।

मंत्रेण योजयित्वा ता मयोक्तेन वरानने ।। 4.178.३० ।।

कामदस्त्वं हि देवानां कामवृक्षस्ततः स्मृतः ।।

मया संपूजितो भक्त्या पूरयस्व मनोरथान् ।। ।। ३१ ।।

एवं संपूज्य विधिना जागरं तत्र कारयेत् ।।

शंखवादित्रनिर्घोषैर्वेदध्वनिविमिश्रितैः ।। ३२ ।।

होमं च ब्राह्मणाः कुर्युर्मद्गतेनांतरात्मना ।।

आघारावाज्यभागौ तु पूर्वं हुत्वा विचक्षणः ।। ३३ ।।

तल्लिंगैः स्थापितान्देवान्होमेनाप्याययेत्ततः ।।

महाव्याहृतिभिश्चैव होमं कुर्युस्ततः परम् ।। ।। ३४ ।।

अयुतेन भवेत्सिद्धिर्यज्ञस्य वरवर्णिनि ।।

ततः प्रभाते चोत्थाय स्नात्वा शुक्लांबरः शुचिः ।। ३५ ।।

दद्यात्पर्वसमीपे तु कल्पवृक्षं सद क्षिणम् ।।

त्रिःप्रदक्षिणमावृत्य मंत्रमेतमुदीरयेत् ।। ३६ ।।

नमस्ते कल्पवृक्षाय विततार्थप्रदाय च ।।

विश्वंभराय देवाय नमस्ते विश्वमूर्तये ।। ।। ३७ ।।

यस्मात्त्वमेव विश्वात्मा ब्रह्मस्थाणुदिवाकराः ।।

मूर्तामूर्तपरं बीजमतः पाहि सनातन ।।३८।।

एवमामन्त्र्य तं दृष्ट्वा गुरवे कल्पपादपम् ।।

चतुर्भ्यश्चापि ऋत्विग्भ्यः सामंतादीन्प्रकल्पयेत् ।। ३९ ।।

अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।।

तस्य पुण्यफलं देवि शृणुष्व गदतो मम।। ।। 4.178.४० ।।

विमानवरमारुह्य सूर्यतेजःसमप्रभम् ।।

अप्सरोगणसंकीर्णं किंकिणीजालमालितम् ।। ४१ ।।

याति लोकं सुरेशस्य सर्वबाधाविवर्जि तम्।।

पुनः कर्मक्षितावेत्य जायते श्रोत्रिये कुले ।। ४२ ।।

यज्वा शूरोऽपि विद्वांश्च नरो भवति धार्मिकः ।।

पुनरंते प्राप्नुयाद्वै लोकं देवस्य शार्ङ्गिणः ।। ४३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्पवृक्षदानविधिवर्णनं नामाष्टसप्तत्युत्तरशतत मोऽध्यायः .।। १७८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 179

कल्पलतादानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

भगवन्सर्वभूतेश सर्वलोकनमस्कृत ।।

अनुग्रहाय लोकानां कथयस्व ममापरम् ।। १ ।।।

निष्पापो जायते येन आयुषा यशसा श्रिया ।।

तन्मे कथय देवेश दानं व्रतमथापि वा ।। २ ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु राजन्प्रवक्ष्यामि तव लोकहितेप्सया ।।

येनोपायेन जायंते सभाग्या मानवा भुवि ।। ३ ।।

न व्रतैर्नोपवासैश्च न तीर्थगमनैरपि ।।

महापथादिमरणैर्न यज्ञैर्न श्रुतेन च ।। ४ ।।

प्राप्यते मम लोकोऽयं दुष्प्राप्यस्त्रिदशैरपि ।।

पार्थ स्नेहान्महाभाग प्रवक्ष्यामि हितं तव ।। ५ ।।

वक्ष्ये कल्पलतादानं शोभनं विधिपूर्वकम् ।।

सर्वं पूर्वविधानं च तत्र तन्त्रे प्रकल्पयेत् ।। ६ ।।

दिक्पालेभ्यो बलिं तत्र क्षिपेद्वै विधिपूर्वकम् ।।

आघारावाज्यभागौ तु पूर्वं हुत्वा विचक्षणः ।। ७ ।।

ततो ग्रहमखं कुर्याद्धोमं व्याहृतिभिस्ततः ।।

अयुतेनैव होमस्य समाप्तिरिह कथ्यते ।। ८ ।।

ततः सर्वसमीपे तु स्नातः शुक्लांबरः शुचिः ।।

पुष्पधूपैरथाभ्यर्च्य वासोभिः सफलाक्षतैः ।।

ततः प्रदक्षिणीकृत्य मंत्रानेतानुदीरयेत् ।। ९ ।।

नमो नमः पापविनाशिनीभ्यो ब्रह्मांडलोकेश्वरपालनीभ्यः ।।

आशाशताधिक्यफलप्रदाभ्यो दिग्भ्यस्तथा कल्पलतावधूभ्यः ।। 4.179.१० ।।

या यस्य शक्तिः परमा प्रदिष्टा वेदे पुराणे सुरसत्तमस्य ।।

तां पूजयामीह परेण साम्ना सा मे शुभं यच्छतु तां नतोऽस्मि ।। ११ ।।

एवमुच्चार्य ताः सर्वा ब्राह्मणेभ्यो निवेदयेत् ।।

दशाशाः परया भक्त्या तास्ताः संकल्प्य चेतसि ।। १२ ।।

ततः क्षमापयेद्विप्रान्प्रणिपत्य सदक्षिणान् ।।

अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।। १३ ।।

तस्य पुण्यफलं राजन्कथ्यमानं निबोध मे ।।

इह लोके स विजयी धनवान्पुत्रवान्भवेत् ।। १४ ।।

मृतो लोकाधिपपुरे प्रतिमन्वतरं वसेत् ।।

महाशक्तिवृतः पश्चादेत्य राजन्रसातलम् ।। १५ ।।

जितसर्वमहीपालश्चक्रवर्ती भवेद्भुवि ।।

या च नारी महाराज दानमेतत्प्रयच्छति।।१६।।

सा चक्रवर्तिनं पुत्रं सूते शक्तिसमन्वितम् ।।

यश्च पश्येद्दीयमानं दत्तं यश्चानुमोदते ।। १७ ।।

शृणोति वाच्यमानं च सोपि प्रेत्य विमुच्यते।।१८।।

याः शक्रवह्नियमनैर्ऋतपाशहस्ता वातेंदुराजशिवकेशवशंभुशक्त्यः ।।

ता वै प्रपूज्य दशकल्पलता द्विजेभ्यो देहि त्रिलोकविजये यदि तेऽस्ति बुद्धिः ।। १९ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्पलतादानविधिवर्णनं नामैकोनाशीत्युत्तरशततमोऽ ध्यायः ।। १७९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 180

गजरथाश्वरथदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

भगवन्क्षत्रियैः शूरैः स्ववीर्योपात्तसंचयैः ।।

कानि दानानि देयानि पवित्राणि शुभानि च ।। १ ।।

अन्यैर्वा पुरुषैः कृष्ण अधर्मभयभीरुभिः ।।

ग्रहपीडाङिसंतप्तैर्दुःस्वप्नाद्युपतापितैः ।। २ ।।

इह लोके परे चैव विहितं सर्वकामदम् ।।

विशेषविहितं दानं कथयस्व महामते ।। ३ ।।

।। श्रीकृष्ण उवाच ।। ।।

शृणु भूपाल भद्रं ते दानधर्ममनुत्तमम् ।।

विशेषेण महीपानां हिताय च न संशयः ।। ४ ।।

दानानि बहुरूपाणि नानाशास्त्रोदितानि च ।।

गोदानादीनि राजेन्द्र प्रधानानि न संशयः ।। ५ ।।

किं तु प्रधानमेकं ते दानं वक्ष्यामि भारत ।।

वैरोचनाय यत्सर्वं शुक्रः प्रोवाच भारत ।। ६ ।।

।। शुक्र उवाच ।। ।।

शृणु दैत्यपते दानं सर्वपापप्रणाशनम् ।।

आधयो व्याधयश्चैव ग्रहपीडा सुदारुणाः ।। ७ ।।

येन दत्तेन नश्यंति पुण्यमाप्नोति चोत्तमम् ।।

कार्त्तिक्यामयने चैव ग्रहणे शशिसूर्ययोः ।। ।। ८ ।।

दानमेतत्प्रदातव्यं विषुवे सूर्यसंक्रमे ।।

पुण्यं दिनमथासाद्य जितक्रोधो जितेंद्रियः ।। ९ ।।

संस्थाप्य दारुजं दिव्यं हेमपट्टैरलंकृतम् ।।

रथं सुचक्राक्षधरं युगयोक्त्रसमन्वितम् ।। 4.180.१० ।।

सुवर्णध्वजसंयुक्तं सितासितपताकिनम् ।।

पुष्पप्रकरसंकीर्णे प्रागुदक्प्रवणे शुभे ।। ११ ।।

नद्यास्तीरेऽथ वा गोष्ठे विचित्रे वा गृहांगणे ।।

रथस्य पूर्वभागे तु कृत्वा वेदीमनुत्तमाम् ।। १२ ।।

पुराणवेदविद्यावान्विनयाचारसंयुतः ।।

तस्यां संस्थापयेद्देवान्ब्रह्मादीन्कथयामि ते ।। १३ ।।

मध्ये ब्रह्मा प्रतिष्ठाप्यः पूजयेत्प्रणवेन तम् ।।

विष्णुरुत्तरतः स्थाप्यः पौरुषेण तमर्चयेत् ।। १४ ।।

सूक्तेन रुद्रं रौद्रेण दक्षिणस्यां समर्चयेत् ।।

ग्रहान्सूर्यमुखांश्चैव विधिवत्पूजयेत्तथा ।।

पुष्पैर्गंधैः फलैर्भक्ष्यैर्दीपमालाभिरेव च ।। १५ ।।

पूजयेद्गंधकुसुमैः श्वेतवस्त्रैः सचंदनैः ।।

शंखभेरीमृदंगानां शब्दैः सर्वत्रगामिभिः ।। १६ ।।

ब्रह्मघोषविमिश्रैश्च कारयेत महोत्सवम् ।।

कुंडं कृत्वा विधानेन हस्तमात्रप्रमाणतः ।। १७ ।।

आग्नेय्यां दिशि राजेंद्र ब्राह्मणांस्तत्र पूजयेत् ।।

चतुश्चारणिकान्विप्रान्पूजितान्ब्रह्मभूषणैः ।। १८ ।।

चतुरोष्टौ महाराज गुरुरेकोऽथवा भवेत् ।।

होमोपकरणं सर्वं मेलयित्वा तिलान्घृतम् ।। १९ ।।

अग्निकार्यं ततः कुर्याद्यथावद्विधिपूर्वकम् ।।

आघारावाज्यभागौ तु हुत्वा प्राग्वच्च तौ ततः ।। 4.180.२० ।।

विष्णवे शितिकण्ठाय मंत्रैः पूर्वोदितैः शुभैः ।।

ग्रहयज्ञोदितैश्चैव ग्रहाणां होम इष्यते ।। २१ ।।

एवं यज्ञविधिं कृत्वा यजमानो द्विजैः सह ।।

योजयेत रथे दांतौ गजौ लक्षणसंयुतौ ।। २२ ।।

विचित्रतनुसंवीतौ शुभकक्षौ सुघंटिकी ।।

हेमपट्टैः सुतिलकैः शोभितौ शंखचामरैः ।। २३ ।।

दिव्यमुक्तापरिच्छन्नौ दिव्यांकुशसमन्वितौ ।।

महामात्रान्वितौ चैव सर्वाभरणभूषितौ ।। २४ ।।

एवं विधिं ततः कृत्वा रथं तं सगजं नरः ।।

आरोपयेत्ततस्तस्मिन्ब्राह्मणं शंसितव्रतम् ।। २५ ।।

भूषितं कण्ठकटकैः कर्णवेष्टांगुलीयकैः ।।

आगुप्तचोलकच्छत्र वस्त्रायुधसमन्वितम् ।। २६ ।।

बद्धतूणिं धनुष्पाणिं बहुचर्मविभूषितम् ।।

खड्गधेनुकया नद्धं हारालंकृतविग्रहम् ।। २७ ।।

यजमानस्ततः प्राज्ञः शुक्लांबरधरः शुचिः ।।

रथं प्रदक्षिणीकृत्य गृहीतकुसुमांजलिः ।। २८ ।।

इममुच्चारयेन्मन्त्रं सर्वपापप्रणाशनम् ।।

कुमुदैरावणौ पद्मः पुष्पदंतोऽथ वामनः ।।

सुप्रतीकोंजनः सार्वभौमोऽष्टौ देवयोनयः ।। २९ ।।

तेषां वंशप्रसूतौ तु बलरूपसमन्वितौ ।।

तद्युक्तरथदानेन मम स्यातां वरप्रदौ ।।4.180.३०।।।।

रथोऽयं यज्ञपुरुषो ब्राह्मणोत्र शिवः स्वयम् ।।

ममेभरथदानेन प्रीयेतां शिवकेशवौ ।।३१।।

इत्युच्चार्य महाभागे पूजयित्वा पुनःपुनः ।।

आरोपयेत्ततस्तस्मिन्ब्राह्मणं शंसितव्रतम् ।।३२।।

स्वदारनिरतं शांतं वेदवेदांगपारगम् ।।

पञ्चाग्न्यभिमतं चैव अव्यंगं व्याधिवर्जितम् ।। ३३ ।।

पुनः प्रदक्षिणीकृत्य रथस्थं द्विजसत्तमम् ।।

आद्वारमनुगच्छेच्च प्रणिपत्य गृहं विशेत् ।। ३४ ।।

ततो यज्ञावसाने तु दीनांधादीञ्जडान्कृशान् ।।

पूजयेद्विविधैर्दानैर्वस्त्रगोदानभोजनैः ।।३५।।

अनेनैव विधानेन संकल्प्य रथमुत्तमम्।।

कुण्डमंडपसंभारभूषणाच्छादनादिकम् ।।३६।।

तदेव होमद्रव्यं च होममंत्रास्त एव हि ।।

विशेषोऽश्वरथे राजन्कथ्यमानो निबोध्यताम् ।।३७।।

हयौ लक्षणसंयुक्तौ खलीनालंकृताननौ।।

विचित्रवस्तुसंवीतौ कण्ठाभरणभूषितौ।। ।। ३८ ।।

सुप्रग्रहयुतौ योज्यौ दाता तस्मिन्नथोत्तमे ।।

तं प्रदक्षिणमावृत्त्य मंत्रमेतमुदीरयेत् ।। ३९ ।।

नमोस्तु ते वेदतुरंगमाय त्रयीमयाय त्रिगुणात्मकाय ।।

सुदुर्गमार्गे सुखपानपात्रे नमोऽस्तु ते वाजिधराय नित्यम् ।। 4.180.४० ।।

रथोऽयं सविता साक्षाद्वेदाश्चामी तुरंगमाः ।।

अरुणो ब्राह्मणश्चायं प्रयच्छंतु सुखं मम ।। ४१ ।।

इत्युच्चार्य ततस्तस्मिन्रथे ब्राह्मणसत्तमम् ।।

आरोपयेद्गृहाद्द्वारं यावदेतमनुव्रजेत् ।। ४२ ।।

अनेन विधिना यस्तु दद्याद्वाजिरथं बुधः ।।

तस्माद्वाहरथं राज्यं तस्य पुण्यफलं शृणु ।। ४३ ।।

सर्वपापविनिर्मुक्तः सर्वामयविवर्जितः ।।

मन्वंतरशतं यावत्सर्वभोगसमन्वितः ।। ४४ ।।

अप्सरोगणसंकीर्णे विमाने सूर्यवर्चसे ।।

दिव्यभोगान्वितः श्रीमान्कामचारी वसेद्दिवि ।। ४५ ।।

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।

पुत्रपौत्रान्वितश्चैव चिरंजीवी प्रियातिथिः ।।४६।।

गजेनैकेन निर्दिष्टः कश्चिद्गजरथो नृप ।।

एकेनाश्वेनाश्वरथः कथ्यते वेदवादिभिः ।। ४७ ।।

दानमंत्रास्त एवोक्ताः फलं तत्र निगद्यते ।। ४८ ।।

यच्छंति ये रथवरं सुधुराक्षचक्रं विक्रांतवारणयुतं तुरगान्वितं वा ।।

सोपस्करं कनकपट्टविचित्रितागं ते स्यंदनेन सुरराजपुरं प्रयांति ।। ४९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गजरथा श्वरथदानविधिवर्णनं नामाशीत्युत्तरशततमोऽध्यायः ।।१८०।।

पर्व ४ (उत्तरपर्व) — Adhyāya 181

कालपुरुषदानविधिवर्णनम्

युधिष्ठिर उवाच ।। ।।

दानान्यन्यानि मे कृष्ण कथयस्व यदूत्तम ।।

मंगल्यानि पवित्राणि सर्वपापहराणि च ।। १ ।।

संसारसागरोत्तारहेतुभूतोऽसि माधव ।।

धर्माधर्मपरिज्ञाने त्वदन्यो नेह कश्चन ।।२।।

।। श्रीकृष्ण उवाच ।। ।।

दानानि बहुरूपाणि कथितानि मया तव ।।

पुनरेव प्रवक्ष्यामि यद्यस्ति तव कौतुकम् ।। ३ ।।

कथितानि मया तुभ्यं कथयिष्यामि यानि च ।।

महतार्थेन सिध्यंति प्रयच्छंति महत्फलम् ।। ४ ।।

काम्यो दानविधिः पार्थ क्रियमाणः प्रयत्नतः ।।

फलाय मुनिभिः प्रोक्तो विपरीतो भयाय च ।। ५ ।।

ज्ञेयं निष्कशतं सर्वदानेषु विधिरुत्तमः ।।

मध्यमस्तु तदर्धेन तदर्द्धेनावरः स्मृतः ।। ६ ।।

एवं वृक्षरथेंद्राणां धेनोः कृष्णाजिनस्य च ।।

अशक्तस्यापि कृष्टोऽयं पंचसौवर्णिको विधिः ।। ७ ।।

अतोऽन्यूनेन यो दद्यान्महादानं नराधिप ।।

प्रतिगृह्णाति वा तस्य दुःखशोकावहं भवेत् ।। ८ ।।

आदौ तावत्प्रवक्ष्यामि कालाख्यं पुरुषं तव ।।

सप्तसागरदानं च महाभूतघटन्तथा ।। ९ ।।

अर्ध्यप्रदानमंत्रोक्त मात्मप्रतिकृतिस्तथा ।।

सुवर्णाश्वः स्मृतः षष्ठः सुवर्णाश्वरथोऽपरः ।। 4.181.१० ।।

सर्वदानोत्तमं राजन्कृष्णाजिनमथाष्टमम् ।।

विश्वचक्रं च नवमं हैमो गजरथस्तथा ।। ११ ।।

एतत्ते दानदशकं वेद्मि पार्थिवसत्तम ।।

देहि दापय सद्बुदिं दाने नृपनरोत्तम ।। १२ ।।

दानादृते नोपकारो विद्यते धनिनोऽपरः ।।

दीयमानो हि नापैति भूय एवाभिवर्धते ।। १३ ।

कूप उल्लिख्यमानोऽपि भवत्येव बहूदकः ।।

पुण्यं दिनमथासाद्य भूमिभागे समे शुभे ।। १४ ।।

चतुर्थ्यां वा चतुर्दश्यां विष्ट्यां वा पांडुनंदन ।।

पुमान्कृष्णतिलैः कार्यो रौप्यदंतः सुवर्णदृक् ।। १५ ।।

खड्गोद्यतकरो दीर्णो जपा कुसुमकुंडलः ।।

रक्तांबरधरः स्रग्वी शंखमालाविभूषितः ।। १६ ।।

तीक्ष्णासिपत्रधनुषा विस्फारितकटीतटः ।।

उपानद्युगयुक्तो हि कृष्णकंबल पार्श्वगः ।। १७ ।।

गृहीतमांसपिंडश्च वामे करतले तथा ।।

एवं विधं नरं कृत्वा गृहीतकुसुमांजलिः ।। १८ ।।

संपूज्य गंधकुसुमैर्नैवेद्यं विनिवेद्य च ।।

तिलाज्यं जुहुयात्तत्र त्र्यंबकेति च मंत्रतः ।। १९ ।।

स्वगृह्योक्तविधानेन शतमष्टोत्तरं यजेत् ।।

यजमानः प्रसन्नात्मा इमं मंत्रमुदीरयेत् ।।4.181.२०।।।

सर्वं कलयसे यस्मात्कालस्त्वं तेन भण्यसे ।।

ब्रह्मविष्णुशिवादीनां त्वमसाध्योऽसि सुव्रत ।। २१ ।।

पूजितस्त्वं मया भक्त्या प्रार्थितश्च तथा सुखम् ।।

यदुच्यते तव विभो तत्कुरुष्व नमोनमः ।। २२ ।।

एवं संपूजयित्वा तं ब्राह्मणाय निवेदयेत् ।।

ब्रह्माणं प्रथमं पूज्य वासोभिर्भूषणैस्तथा ।। २३ ।।

दक्षिणां शक्तितो दद्यात्प्रणिपत्य विसर्जयेत्।।

अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।। २४ ।।

नापमृत्युभयं तस्य न च व्याधिकृतं भयम् ।।

भवत्यव्याहतैश्वर्यः सर्वबाधाविवर्जितः ।। २५ ।।

देहांते सूर्यभवनं भित्त्वा याति परं पदम् ।।

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।

संतत्या च श्रिया युक्तः पुत्रपौत्रसमन्वितः ।। २६ ।।

संपूज्य कालपुरुषं विधिवद्द्विजाय दत्त्वा शुभाशुभफलोदयहेतुभूतः ।।

रोगांतरे सकलदोषमये च देही नो वध्यभावमुपगच्छति तत्प्रभावात् ।। २७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर संवादे कालपुरुषदानविधिवर्णनं नामैकाशीत्युत्तरशततमोध्यायः ।। १८१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 182

सप्तसागरदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि पार्थदानमनुत्तमम् ।।

सप्तसागरकं नाम सर्वपापप्रणाशनम् ।। १ ।।

पुण्यं दिनमथासाद्य युगादिग्रहणादिकम् ।।

कारयेत्सप्तकुण्डानि कांचनानि विचक्षणः ।। २ ।।

प्रादेशमात्राणि तथा रत्निमात्राणि वा पुनः ।।

कुर्यात्सप्तशतादूर्ध्वमासहस्राच्च शक्तितः ।। ३ ।।

संस्थाप्यानि च सर्वाणि कृष्णाजिनतिलोपरि ।।

प्रथमं पूरयेत्कुंडं लवणेन विचक्षणः ।। ४ ।।

द्वितीयं पयसा तद्वत्तृतीयं सर्पिषा पुनः ।।

चतुर्थं तु गुडेनैव दध्ना पंचममेव च ।। ५ ।।

षष्ठं शर्करया तद्वत्सप्तमं तीर्थवारिणा ।।

स्थापयेल्लवणस्यांते ब्रह्माणं कांचनं शुभम् ।। ६ ।।

केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् ।।

भास्करं गुडमध्ये तु दधिमध्ये सुराधिपम् ।। ७ ।।

शर्करायां न्यसेल्लक्ष्मीं जलमध्ये तु पार्वतीम् ।।

सर्वेषु सर्वरत्नानि धान्यानि च समंततः ।। ८ ।।

स्थापयेत्पुरुषश्रेष्ठ यथालाभं यथासुखम् ।।

ततः पर्वसमीपे तु स्नातः शुक्लांबरो गृही ।। ९ ।।

त्रिःप्रदक्षिणमावृत्य मंत्रानेतानुदीरयेत् ।।

नमो वः सर्वसिंधूनामाधारेभ्यः सनातनाः ।। 4.182.१० ।।

जंतूनां प्राणदेभ्यश्च समुद्रेभ्य नमोनमः ।।

पूर्णाः सर्वे भवंतो वै क्षार क्षीरघृतैक्षवैः ।। ११ ।।

दध्ना शर्करया तद्वत्तीर्थवारिभिरेव च ।।

तस्मादघौघविध्वंसं कुरुध्वं मम मानदाः ।। १२ ।।

अलक्ष्मीः प्रशमं यातु लक्ष्मीश्चास्तु गृहे मम ।।

एवमुच्चार्य तान्दद्याद्ब्राह्मणेभ्यो युधिष्ठिर।। १३ ।।

एकमेवमथाभ्यर्च्य पुष्पवस्त्रविलेपनैः ।।

बहूनामेतदुद्दिष्टं दानमेकस्य वा पुनः ।। १४ ।।

देयं वा सर्वसामान्यं क्रियाविप्रानुरूपतः ।।

दानं सप्तसमुद्राख्यं यः प्रयच्छति पार्थिव ।। १५ ।।

तस्य गृहान्न चलति लक्ष्मीर्यावत्कुलाष्टकम् ।।

पूज्यमानः सुरगणैः सिद्धविद्याधरोरगैः ।। १६ ।।

देवलोकान्न च्यवते सप्तमन्वतराण्यसौ ।।

ततश्च वेदसंस्कारात्परं ब्रह्माधिगच्छति ।। १७ ।।

इति ददाति रसामरसंयुताञ्छुचिरविस्मयदानिह सागरान् ।।

अनलकांचनरत्नमयानसौ पदमुपैति हरे रमया वृतम् ।। ।। १६ ।।

दानं प्रधानतरमेतदतीव विप्रे प्रोक्तं युधिष्ठिर समाधिधिया विचिंत्य ।।

हैमान्विधाय जलधीन्वितरस्व शक्त्या प्राप्नोषि येन सरसानि समीहितानि ।। १९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सप्तसागरदानविधिवर्णनं नाम द्व्यशीत्युत्तरशततमोऽ ध्यायः ।। १८२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 183

महाभूतघटदानवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि दानमन्यत्तवोत्तमम् ।।

महाभूतघटं नाम महापातकनाशनम् ।। १ ।।

पुण्यां तिथिं समासाद्य स्वनुलिप्ते गृहांगणे ।।

कारयेत्कांचनं कुंभं महारत्नान्वितं पुनः ।। २ ।।

प्रादेशादंगुलशतं यावत्कुर्यात्प्रमाणतः ।।

शक्त्या पंचपलादूर्ध्वमाशताच्च नरोत्तम ।। ३ ।।

क्षीराज्यपूरितं कृत्वा कल्पवृक्षसमन्वितम् ।।

पद्मासनगतास्तत्र ब्रह्मविष्णुमहेश्वराः ।। ४ ।।

लोकपाला महेन्द्राश्च स्ववाहनसमास्थिताः ।।

ऋग्वेदः साक्षसूत्रश्च यजुर्वेदः सपंकजः ।। ५ ।।

वीणाधारी सामवेदो ह्यथर्वा स्रक्छुभान्वितः ।।

पुराणवेदो वरदः साक्षसूत्रकमंडलुः ।। ६ ।।

सप्तधान्यानि पुरतः स्थापयेच्छक्तितो बुधः ।।

पादुकोपानहच्छत्रं चामराग्र्यासनायुधान् ।। ७ ।।

एवं प्रकल्प्य विधिवन्महाभूतघटं नरः ।।

गुडसारोपरिगतं माल्यवस्त्रैरथार्चयेत् ।। ८ ।।

अथ पर्वसमीपे तु स्नात्वा नियतमानसः ।।

त्रिः प्रदक्षिणमावृत्य मंत्रमेतमुदीरयेत् ।। ९ ।।

यस्मान्न किंचिदप्यस्ति महाभूतैर्विना कृतम् ।।

महाभूतमयश्चायं तस्माच्छांतिं ददातु मे ।। 4.183.१० ।।

अत्र सन्निहिता देवाः स्थापिता विश्वकर्मणा ।।

ते मे शांतिं प्रयच्छंतु भक्तिभावेन पूजिताः ।। ११ ।।

इत्येवं पूजयित्वा तु महाभूतघटं नरः ।।

ब्राह्मणं पूजयित्वा तु भूषणाच्छादनादिभिः ।। १२ ।।

महाभूतघटं दद्यात्पर्वकाले यतव्रतः ।।

पुनः प्रदक्षिणीकृत्य ब्राह्मणं तं क्षमापयेत्।। १३ ।।

अनेन विधिना यश्च दानमेतत्प्रयच्छति ।।

एकविंशत्कुलोपेतः शिवलोके प्रयात्यसौ ।। १४ ।।

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।

अजेयः शत्रुसंघातैर्महाबल पराक्रमः ।। १५ ।।

क्षत्रधर्मरतो विद्वान्देवब्राह्मणपूजकः ।।१६।।

अष्टापदोत्तमघटं विमलं विधाय ब्रह्मेशकेशवयुतं सहलोकपालैः ।।

क्षीराज्यपूर्णविवरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ।।।१७।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महाभूतघटदान विधिवर्णनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ।। १८३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 184

शय्यादानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

शय्यादानं प्रवक्ष्यामि तव पांडुकुलोद्वह ।।

यद्दत्त्वा सुखभागी स्यादिह लोके परत्र च ।। १ ।।

शय्यादानं प्रयच्छंति सर्वदैव द्विजोत्तमाः ।।

अनित्यं जीवितं यस्मात्कोन्यः पश्चात्प्रदास्यति ।। २ ।।

तावत्स बंधुः स पिता यावज्जीवति भारत ।।

मृतो मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते ।। ३ ।।

तस्मात्स्वयं प्रदातव्यं शय्याभोज्यजलादिकम् ।।

आत्मैव ह्यात्मनो बन्धुरिति संचिंत्य चेतसि ।। ४ ।।

आत्मैव यो हि नात्मानं दानभोगैः समर्चयेत् ।।

कोऽन्यो हिततरस्तस्मात्कः पश्चात्पूजयिष्यति ।। ५ ।।

तस्माच्छय्यां समासाद्य सारदारुमयीं दृढाम् ।।

दंतपत्रचितां रम्यां हिमपट्टैरलंकृताम् ।। ६ ।।

हंसतूलीप्रतिच्छन्नां सुभगां सोपधानिकाम् ।।

प्रच्छादनपटीयुक्तां गंधधूपाधिवासिताम् ।। ७ ।।

तस्यां संस्थापयेद्धैमं हरिं लक्ष्मीसमन्वितम् ।।

उच्छीर्षके धृतं चैव कलशं परिकल्पयेत् ।। ८ ।।

विज्ञेयं पांडव सदा सनिद्राकल्पकं बुधैः ।।

तांबूलं कुंकुमक्षोदकर्पूरागरु चंदनम् ।। ९ ।।

दीपकोपानहच्छत्रचामरासनभोजनम् ।।

पार्श्वेषु स्थापयेच्छक्त्या सप्तधान्यानि चैव हि ।। 4.184.१० ।।

शयनस्थस्य भवति यदन्यदुपकारकम् ।।

भृंगारकाद्यपुष्पाणि पंचवर्णवितानकम् ।। ११ ।।

शय्यामेवंविधां कृत्वा ब्राह्मणायोपदापयेत् ।।

सपत्नीकाय संपूज्य पुण्येऽह्नि विधिपूर्वकम् ।। १२ ।।

नमस्ते सर्वदेवेश शय्यादानं कृतं मया ।।

देहि तस्माच्छांतिफलं नमस्ते पुरुषोत्तम ।। १३ ।।

यथा न कृष्ण शयनं शून्यं सागरजातया ।।

शय्या ममाप्यशून्यास्तु तथा जन्मनिजन्मनि ।। १४ ।।

दत्त्वैवं तल्पममलं प्रणिपत्य विसर्जयेत् ।।

एकादशाहेऽपि तथा विधिरेष प्रकीर्तितः ।। १५ ।।

ददाति यदि धर्मार्थं मानवो बांधवे मृते ।।

विशेषं चात्र राजेंद्र कथ्यमानं निबोध मे ।। १६ ।।

तेनोपभुक्तं यद्वस्तु किंचित्पूर्वं गृहे सता ।।

तद्गात्रलग्नं च तथा वस्त्रवाहनभाजनम् ।। १७ ।।

यदिष्टं च तथास्यासीत्तत्सर्वं परिकल्पयेत् ।।

स एव पुरुषो हैमस्तस्यांतं स्थापयेत्तथा ।। १८ ।।

पूजयित्वा प्रदातव्यो मृतशय्या यथोदिता ।।

स्वर्गे पुरंदरगृहे सूर्यपुत्रालयेथ वा ।। १९ ।।

सुखं वसत्यसौ जंतुः शय्यादानप्रभावतः ।।

पीडयंति न तं याम्याः पुरुषा भीषणाननाः ।। 4.184.२० ।।

न धर्मेण न शीतेन बाध्यते स नरः क्वचित् ।।

अपि पापसमायुक्तः स्वर्गलोके महीयते ।। २१ ।।

विमानवरमारूढः सेव्यमानोप्सरोगणैः ।।

आभूतसंप्लवं यावत्तिष्ठेत्पातकवर्जितः ।। २२ ।।

शय्याप्रदानममलं तव पांडुपुत्रसंकीर्तितं सकलसौख्यानिधानमेतत् ।।

तयो ददाति विधिवत्स्वयमेव नाके तल्पे विकल्परहितः स विभाति सत्यम् ।। २३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शय्यादानविधिवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः ।। १८४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 185

आत्मप्रतिदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

आत्मप्रतिकृतिर्नाम यथोक्तं कस्यचित्पुरा ।।

तत्तेऽहं संप्रवक्ष्यामि दानं मानविवर्धनम् ।। १ ।।

दानकालः सदा तस्य मुनिभिः परिकीर्तितः ।।

पुण्यैः पुण्यदिनं पार्थ प्राप्यते जीवितैर्न च ।। २ ।।

लोहजां प्रकृतिं भव्यां कारयित्वात्मनो नृप ।।

अभीष्टवाहनगतामिष्टालंकारसंयुताम् ।। ३ ।।

अभीष्टलोकसहितां सर्वोपस्करसंयुताम् ।।

ततः पट्टपटीवस्त्रैश्छादितां रत्नभूषिताम् ।। ४ ।।

कुंकुमेनानुलिप्तांगीं कर्पूरागुरुवासिताम् ।।

स्त्री चेद्ददाति शयने शयितां कारयेत्स्वयम् ।। ५ ।।

यद्यदिष्टतमं किंचित्तत्सर्वं पार्श्वतो न्यसेत् ।।

उपकारकरं स्त्रीणां स्वशरीरे च यद्भवेत् ।। ६ ।।

तत्सर्वं स्थापयेत्पार्श्वे स्वयं संचिंत्य चेतसि ।।

एतत्सर्वं मेलयित्वा स्वेस्वे स्थाने निधाय च ।। ७ ।।

पूजयित्वा लोकपालान्गृहान्देवीं विनायकम् ।।

तत शुक्लांबरः स्नात्वा गृहीतकुसुमांजलिः ।। ८ ।।

इममुच्चारयेन्मंत्रं विप्रस्य पुरतो बुधः ।।

आत्मनः प्रतिमा चेयं सर्वोपकरणैर्युता ।। ९ ।।

सर्वरत्नसमायुक्ता तव विप्र निवेदिता ।।

आत्मा शंभुः शिवः शौरिः शक्रः सुरगणैर्वृतः ।। 4.185.१० ।।

तस्मादात्मप्रदानेन ममात्मा सुप्रसीदतु ।।

इत्युच्चार्य ततो दद्याद्ब्राह्मणाय युधिष्ठिर ।। ११ ।।

ब्राह्मणश्चापि गृह्णीयात्कोदादिति च कीर्तयन् ।।

ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् ।। १२ ।।

विधिनानेन राजेन्द्र दानमेतत्प्रयच्छति ।।

यः पुमानथ वा नारी शृणुयात्फलमाप्नुयात् ।। १३ ।।

साग्रं वर्षशतं दिव्यं स्वर्गलोके सुरैर्वृतः ।।

अभीष्टफलदानेन ह्यभीष्टफलभाग्भवेत् ।। १४ ।।

यत्रैवोत्पद्यते जंतुः प्राप्ते कर्मक्षये पुनः ।।

तत्रैव सर्वकामानां फलभाग्भवते नृपः ।। १५ ।।

इष्टबंधुजनैः सार्द्धं न वियोगं कदाचन ।।

प्राप्नोति पुरुषो राजन्स्वर्गे चानंत्यमश्नुते ।। १६ ।।

यश्चात्मनः प्रतिकृतिं वरवाहनस्था हैमीं विधाय धनधान्यसमाकुलां च ।।

सोपस्करं द्विजवराय ददाति भक्त्या चंद्रार्कवत्स दिवि भाति हि राजराजः ।। १७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आत्मप्रतिकृतिदानविधिवर्णनं नाम पञ्चाशीत्युत्तरशततमोऽध्यायः ।। १८५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 186

हिरण्याश्वदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

सांप्रतं संप्रवक्ष्यामि हिरण्याश्वविधिं परम् ।।

यस्य प्रसादात्पुरुषः शाश्वतं फलमश्नुते ।। १ ।।

पुण्यं दिनमथासाद्य पात्रं वापि गुणाधिकम् ।।

शक्तितस्त्रिपलादूर्ध्वमाशताच्च नरोत्तम ।। २ ।।

खलीनालंकृतमुखं कारयेद्धेमवाजिनम् ।।

मुखरं सोन्नतस्कंधं दृढजानुं सवालधिम् ।। ३ ।।

स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि ।।

कौशेयवस्त्रसंवीतं कुंकुमेन विलेपितम् ।। ४ ।।

संपूज्य कुसुमैः श्वेतैश्चणकान्विनिवेद्य च ।।

ततः पर्वसमीपे तु गृहीतकुसुमांजलिः ।। ५ ।।

इममुच्चारयेन्मंत्रं पुराणोक्तं यतव्रतः ।।

नमस्ते सर्वदेवेश वेदाहरणलंपट ।। ६ ।।

वाजिरूपेण मामस्मात्पाहि संसारसागरात् ।।

त्वमेव सप्तधा भूत्वा छंदोरूपेण भास्करम् ।। ७ ।।

यस्माद्धारयसे लोकानतः पाहि सनातन ।।

एवमुच्चार्य तं राजन्विप्राय प्रतिपादयेत् ।। ६ ।।

प्रदक्षिणं ततः कृत्वा प्रणिपत्य विसर्जयेत् ।।

अनेन विधिना राजन्हिरण्याश्वम लंकृतम् ।। ९ ।।

दत्त्वा पापक्षयाद्भानोर्लोकमाप्नोति शाश्वतम् ।।

तस्मिन्नहनि भुंजीत तैलक्षारविवर्जितम् ।। 4.186.१० ।।

पुराणश्रवणं तद्वत्कारयेद्भोजनादनु ।। ११ ।।

इत्थं हिरण्याश्वविधिं करोति यः सुपुण्यमासाद्य दिनं नरेंद्र ।।

विमुक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धैरभिपूजितं यत्।। १२ ।।

इति पठति य इत्थं हैमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वयुक्तेन भूपः ।।

कनकमयविमानेनार्कलोकं प्रयातस्त्रिदशपतिवधूभिः पूज्यते हर्म्यभोगैः ।। १३ ।।

यो वा शृणोति पुरुषोऽप्यथ वा स्मरेद्वा हैमाश्वदानमभिनंदति दीयमानम् ।।

सोऽपि प्रयाति हतकल्मषशुद्धदेहः स्थानं पुरंदरमहे श्वरलोकजुष्टम् ।। १४ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्याश्वदानविधिवर्णनं नाम षडशीत्युत्तरशतत मोऽध्यायः ।। १८६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 187

हिरण्याश्वरथदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि तव पांडुकुलोद्वह ।।

पुण्यं हेमरथं नाम महापातकनाशनम् ।। १ ।।

पुण्येऽह्नि विप्रकथिते स्वनुलिप्ते गृहांगणे ।।

कृष्णाजिनतिलान्कृत्वा कांचनं स्थापयेद्रथम् ।। २ ।।

चतुरस्रं महाभाग चतुश्चक्रं सकूबरम् ।।

ब्रह्माणमग्रतः कृत्वा गृहीतप्रग्रहं शुभम् ।। ३ ।।

इंद्रनीलेन कुंभेन ध्वजरूपेण संयुतम् ।।

लोकपालाष्टकोपेतं पद्मरागदलान्वितम् ।। ४ ।।

चत्वारः पूर्णकलशा धान्यान्यष्टादशैव तु ।।

कौशेयवस्त्रसंवीतमुपरिष्टाद्वितानकम् ।। ५ ।।

मध्ये तु फलसंयुक्तं पुरुषेण समन्वितम् ।।

योगयुक्तः पुमान्कार्यस्तं च तत्राधिवासयेत् ।। ६ ।।

एवंविधं पूजयित्वा माल्यगंधानुलेपनैः ।।

चक्ररक्षावुभौ तस्य कार्यौ विश्वकुमारकौ ।। ७ ।।

पुण्यं कालं ततः प्राप्य स्नातः संपूज्य देवताः ।।

त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः ।। ६ ।।

शुक्लमाल्यांबरधर इमं मंत्रमुदीरयेत् ।। ९ ।।

नमोनमः पापविनाशनाय विश्वात्मने देवतुरंगमाय ।।

धात्रामधीशाय भवाभवाय रथस्य दानान्मम देहि शांतिम् ।। 4.187.१० ।।

वस्वष्टकादित्यमरुद्गणानां त्वमेव धाता परमं निधानम् ।।

यतस्ततो मे हृदयं प्रयातु धर्मैकतानत्वमघौघनाशात् ।। ११ ।।

इति तुरगरथप्रदानमेतद्भवभयसूदनमंत्रं यः करोति ।।

सकलुषपटलैर्विमुक्तदेहः परममुपैति पदं पिनाकपाणेः ।। १२ ।।

देदीप्यमानवपुषा च जितप्रभावमाक्रम्य मडलमखंडलचंडभानोः ।।

सिद्धांगनानयनयुग्मप्रनि पीयमानवक्त्रांबुजेंऽबुजभवेन चिरं सहास्ते ।। १३ ।।

इति पठति शृणोति वा य एतत्कनकतुरंगरथप्रदानमस्मिन् ।।

न स नरकपुरं व्रजेत्कदाचिन्नरकरिपोर्भवनं प्रयाति भूयः ।। १४ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्याश्वरथदानविधिवर्णनं नाम सप्ताशीत्युत्तरशततमोऽध्यायः ।। १८७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 188

कृष्णाजिनदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

कृष्णाजिनप्रदानस्य विधिकालं ममानघ ।।

ब्राह्मणं च समाचक्ष्व तत्र मे संशयो महान् ।। १ ।।

श्रीकृष्ण उवाच ।। ।।

युगादिषूपरागेषु संक्रांतौ दिनसंक्षये ।।

माघ्यां वा ग्रहपीडासु दुःस्वप्नाद्भुतदर्शने ।। २ ।।

देयमेतन्महादानं द्रव्यमात्रागमे तथा ।।

आहिताग्निर्द्विजो यश्च वेदवेदांगपारगः ।। ३ ।।

पुराणाभिरतो दक्षो देयं तस्मै च पार्थिव ।।

यथा येन विधानेन तन्मे निगदतः शृणु ।। ४ ।।

गोमयेनोपलिप्ते तु शुचौ देशे नराधिप ।।

आदावेव समास्तीर्य शोभितं वस्त्रमाविकम् ।। ५ ।।

कर्तव्यं रुक्मशृंगं तद्रौप्यदंतं तथैव च ।।

मुक्तादाम्ना तु लांगूलं तिलच्छन्नं तथैव च ।। ६ ।।

तिलैः कृत्वा शिरो राजन्वाससाच्छादयेद्बुधः ।।

सुवर्णेनाभितः कुर्यादलंकुर्याद्विशेषतः ।। ७ ।।

पुष्पैर्गंधैः फलैश्चैव नैवेद्येन च पूजयेत् ।।

रत्नैरेवं यथाशक्त्या तस्य दिक्षु च विन्यसेत् ।।।। ।। ८ ।।

कांस्यपात्राणि चत्वारि तेषु दद्याद्यथाक्रमम् ।।

घृतं क्षीरं दधि क्षौद्रमेवं दत्त्वा यथाविधि ।। ९ ।।

ततः सर्वसमीपे तु मंत्रमेतमुदीरयेत् ।।

कृष्णः कृष्णमलो देव कृष्णाजिनवरस्तथा ।। 4.188.१० ।।

त्वद्दानापास्तपापस्य प्रीयतां मे नमोनमः ।।

त्रयस्त्रिंशत्सुराणां च आधारे त्वं व्यवस्थितः ।। ११ ।।

कृष्णोऽसि मूर्तिमान्साक्षात्कृष्णाजिन नमोऽस्तु ते ।।

एवं प्रदक्षिणीकृत्य प्रणिपत्य पुनः पुनः ।। १२ ।।

तत्प्रतिग्राहकं विप्रं वेदवेदांगपारगम् ।।

स्नातं वस्त्रयुगाच्छन्नं स्वशक्त्या वाप्यलंकृतम् ।। १३ ।।

प्रतिग्रहश्च तस्योक्तः पुच्छ देशे स्वयंभुवा ।।

प्रतिग्रहप्रदग्धस्य विप्रस्य च स भारत ।। १४ ।।

न पश्येद्वदनं पश्चान्न चैनमभिभाषयेत् ।।

अनेन विधिना दत्त्वा यथावत्कृष्णमार्गणम् ।। १५ ।।

समग्रं भूमिदानस्य फलं प्राप्नोति मानवः ।।

कृष्णाजिनतिलान्कृत्वा हिरण्यं मधुसर्पिषी ।। १६ ।।

ये प्रयच्छंति विप्राय न ते शोच्या भवंति वै ।।

सर्वाँल्लोकांश्चरंत्येव कामचारा वियद्गताः ।। १७ ।।

आभूतसंप्लवं यावत्स्वर्गं प्राप्ता न संशयः ।।

कृष्णाजिनसमं दानं न चास्ति भुवनत्रये ।। १८ ।।

प्रतिग्रहोपि पापीयानिति वेदविदो विदुः ।।

अवस्थात्रितये यच्च त्रिधा यत्समुपार्जितम् ।। १९ ।।

तत्सर्वं नाशमायाति दत्त्वा कृष्णाजिनं क्षणात् ।। 4.188.२० ।।

कृष्णेक्षणं कृष्णमृगस्य चर्म दत्त्वा द्विजेद्राय समाहितात्मा ।।

यथोक्तमेतन्मरणं न शोचेत्प्राप्नोत्यभीष्टं मनसः फलं यत् ।। २१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कृष्णाजिनदानविधिव्रतवर्णनं नामाष्टाशी त्युत्तरशततमोऽध्यायः ।। १८८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 189

हेमहस्तिदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

कथयिष्ये महाराज हेमहस्तिरथं तव ।।

यस्य प्रदानाद्भवनं वैष्णवं याति मानवः ।। १ ।।

पर्वकालं समासाद्य संक्रांतौ ग्रहणेऽपि वा ।।

कुर्याद्देवरथाकारं रथं मणिविभूषितम् ।। २ ।।

वलभीभिर्विचित्राभिश्चतुश्चक्रसमन्वितम्।।

चतुर्भिर्हेममातंगैर्युक्तं हेमविभूषितम् ।। ३ ।।

ध्वजे च गरुडं कुर्यात्कूबराग्रे विनायकम् ।।

लोकपालाष्टकोपेतं ब्रह्मार्कशिवसंयुतम् ।। ४ ।।

मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम् ।।

कृष्णाजिनतिलद्रोणं कृत्वा तं स्थापयेद्रथम् ।। ५ ।।

नानाफलसमायुक्तमुपरिष्टाद्वितानकम्।।

कौशेयवस्त्रसंवीतमम्लानकुसुमार्चितम् ।। ६ ।।

कुर्यात्पंचपलादूर्ध्वमाशताच्च नरोत्तम ।।

ततः स्नात्वा समभ्यर्च्य पितॄन्देवान्यथाविधि ।। ७ ।।

त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः ।।

इममुच्चारयेन्मंत्रं सर्वसौख्यप्रदायकम् ।। ८ ।।

नमोनमः शंकरपद्मजार्कलोकेशविद्याधरवासुदेवैः ।।

त्वं सेव्यसे वेदपुराणयज्ञैस्तेजो हि नः स्यंदन पाहि तस्मात् ।। ९ ।।

यत्तत्पदं परमगुह्यतमं पुराणमानंदहेतुगणरूपविमुक्तबन्धाः ।।

योगैकमानसदृशो मुनयः समाधौ पश्यंति तत्त्वमसि नाथ रथेति रूढः ।। 4.189.१० ।।

यस्मात्त्वमेव भवसागरसंप्लुतानामानंदभांडचितमध्यगपानपात्रम् ।।

तस्मादघौघशमनेन कुरु प्रसादं चामीकरेभरथ माधव संप्रदानात् ।। ११ ।।

इत्थं प्रणम्य कनकेभरथप्रदानं यः कारयेत्सकलपापविमुक्तदेहः ।।

विद्याधरामरमुनींद्रगणाभिजुष्टं प्राप्नोत्यसौ पदमतींद्रियमिंदुमौलेः ।। १२ ।।

कृतदुरितवितानातुष्टिसद्वह्निपालव्यतिकरकृतदेहोद्वेगभानोऽपि बंधून्।।

नयति च पितृपौत्रान्रौरवादप्यशेषात्कृतगजरथदानः शाश्वतं सद्म विष्णोः ।। १३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हेमहस्तिरथदानविधिवर्णनं नामैकोननवत्युत्तरशततमोऽध्यायः ।। १८९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 190

विश्वचक्रदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

पुनरेव प्रवक्ष्यामि दानमत्यद्भुतं तव ।।

विश्वचक्रमिति ख्यातं सर्वपापविनाशनम् ।। १ ।।

तपनीयस्य शुद्धस्य विशुद्धात्माथ कारयेत् ।।

श्रेष्ठं पलसहस्रेण तदर्धेन तु मध्यमम् ।। ।।२।।

तस्याप्यर्द्धं कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् ।।

तथा विंशत्पलादूर्ध्वमशक्तोऽपि निवेदयेत् ।। ३ ।।

षोडशारं ततश्चक्रं भ्रमन्नेम्यष्टकावृतम् ।।

नाभिपद्मेस्थितं विष्णुं योगारूढं चतुर्भुजम् ।। ४ ।।

शंखचक्रेऽस्य पार्श्वस्थे देव्यष्टकसमावृतम् ।।

द्वितीयावरणे तद्वत्पूर्वतो जलशायिनम्।। ५ ।।

अत्रिर्भृगुर्वशिष्ठश्च ब्रह्मा कश्यप एव च ।।

मत्स्यः कूर्मो वराहश्च नारसिंहोथ वामनः ।।६।।

रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।।

तृतीयावरणे गौरी मनुभिर्वसुर्भिर्युता ।। ७ ।।

चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च ।।

पञ्चमे पञ्च भूतानि रुद्राश्चैकादशैव तु ।।८।।

लोकपालाष्टकं षष्ठे दिङ्मातंगास्तथैव च ।।

सप्तमेऽस्त्राणि सर्वाणि मंगलानि च कारयेत् ।। ९ ।।

अन्तरांतरतो देवान्विन्यसेदष्टमे पुनः ।।

दशहस्तं ततः कृत्वा पताकातोरणान्वितम् ।। 4.190.१० ।।

मंडपं कुण्डमेकं च कारयेद्वस्त्रसंयुतम् ।।

चतुर्हस्ता भवेद्वेदी मध्ये तस्यास्ततो न्यसेत् ।। ११ ।।

कृष्णाजिनोपरिगतं विश्वचक्रं विधानतः ।।

तथाष्टादशधान्यानि रसाश्च लवणादयः ।। १२ ।।

पूर्णकुम्भाष्टकं तद्वद्वस्त्रमाल्यविभूषितम् ।।

फलानि दापयेत्पार्श्वे पञ्चवर्णवितानकम् ।। १३ ।।

अधिवास्य ततश्चक्रं पश्चाद्धोमं समाचरेत् ।।

चातुश्चरणिकांस्तत्र ब्राह्मणांश्चतुरोथ वा ।।१४।।

होमं कुर्युर्जितात्मानो वस्त्राभरणभूषिताः ।।

होमद्रव्यसमोपेताः स्रुक्स्रुवैस्ताम्रभाजनैः ।। १५ ।।

चक्रप्रतिष्ठितानां तु सुराणां होम इष्यते ।।.

तल्लिंगैर्जुहुयान्मन्त्रैः सर्वोपद्रवशांतये ।। १६ ।।

ततो मंगलशब्देन स्नातः शुक्लांबरो गृही ।।

होमाधिवासनांते तु गृहीतकुसुमांजलिः ।। १७ ।।

इममुच्चारयन्मंत्रं कृत्वा तत्त्रिःप्रदक्षिणम् ।।

नमो विश्वंभरायेति विश्वचक्रात्मने नमः ।।

परमानंदरूपी त्वं पाहि नः पापकर्दमात् ।। १८ ।।

तेजोमयमिदं यस्मात्सदा पश्यंति सूरयः।।

हृदि तत्र गुणातीतं विश्वचक्रं नमाम्यहम् ।। १९ ।।

वासुदेवे स्थितं चक्रं तस्य मध्ये तु माधवः ।।

अन्योन्याधाररूपेण प्रणमामि स्थिताविह ।। ।। 4.190.२० ।।

विश्वचक्रमिदं यस्मात्सर्वपापहरं हरेः ।।

आयुधं चाधिवासश्च तस्माच्छान्तिं ददातु मे ।। २१ ।।

इत्यामंत्र्य च यो दद्याद्विश्वचक्रं विमत्सरः ।।

विमुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ।। २२ ।।

वैकुण्ठलोकमासाद्य चतुर्बाहुनरावृतम् ।।

सेव्यतेऽप्सरसां संघैस्तिष्ठेत्कल्पशतत्रयम् ।। २३ ।।

प्रणमेद्वाथ यः कृत्वा विश्वचक्रं दिनेदिने ।।

तस्यायुर्वर्द्धते दीर्घं लक्ष्मीस्तु विपुला भवेत् ।। २४ ।।

तस्माच्चक्रं सदा कार्यं धार्यं च स्वगृहे नरैः ।।

कांचनं वाथ रौप्यं वा तदभावेऽथ ताम्रजम् ।। २५ ।।

इति सकलजगत्सुराधिवासं वितरति यस्तपनीयषोडशारम् ।।

हरिभुवनगतः स सिद्धसंघैश्चिरमधिगम्य नमस्यतेऽप्सरोभिः ।। २६ ।।

अथ सुदर्शनतां प्रयाति शत्रोर्मदनसुदर्शनतां च कामिनीभ्यः ।।

स सुदर्शनकेशवानुरूपः कनकसुदर्शनदानदग्धपापः ।। २७ ।।

कृतगुरुदुरितोऽपि षोडशारप्रवितरणात्प्रवराकृतिर्मुरारेः।।

अभिभवति भवोद्भवानि भित्त्वा भवमभितो भवने भवानि भूयः ।। २८ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विश्वचक्रदानविधिवर्णनं नाम नवत्युत्तरशततमोऽध्यायः ।।१९०।।

पर्व ४ (उत्तरपर्व) — Adhyāya 191

भुवनप्रतिष्ठावर्णनम्

।। युधिष्ठिर उवाच ।। ।।

प्रतिष्ठा शाश्वती केन दानेन मधुसूदन ।।

इह लोके परे चैव कीर्तिरत्यद्भुता तथा ।।१।।

सद्गतिं च तथा यांति सर्वे पितृपितामहाः ।।

संततिश्चाक्षया लोके विभवश्चापि पुष्कलः ।।२।।

स्थापनात्सर्वदेवानां कथं स्याद्यदुनंदन ।।

तदाचक्ष्व महाभाग दानेन नियमेन वा ।। ३ ।।

।। श्रीकृष्ण उवाच ।। ।।

साधु पृष्टं त्वया राजँल्लोकानामुपकारकम् ।।

शृणुष्वैकमना भूत्वा गुह्यं परममुत्तमम्।। ।।४।।

भुवनानां समासेन प्रतिष्ठां कथयामि ते ।।

देवासुरास्तथा नागा गंधर्वा यक्षराक्षसाः ।।५।।

प्रेताः पिशाचा भूताश्च स्थापिताः स्युर्न संशयः।।

कारकस्यानुकूले तु मुहूर्ते विजये शुभे ।।६।।

पुण्ये तिथौ शिवक्षेत्रे दिने सौम्यग्रहान्विते ।।

सप्त हस्तं पटं कृत्वा चतुरस्रं सुसंहतम् ।।७।।

अभिन्नांगं दृढं शुद्धं शुद्धस्फटिकवर्चसम् ।।

तस्मिन्सर्वाणि राजेंद्र भुवनानि च लेखयेत् ।। ८ ।।

चातुर्वर्ण्यकमानीय विचित्रं चित्रकर्मणि ।।

युवानं व्याधिरहितं भव्यं चित्रकरं शुभम् ।। ९ ।।

संपूजयित्वा यत्नेन दिव्यवासोविभूषणैः ।।

तस्मिन्कर्मणि युंजीत पठ्यमानैर्द्विजोत्तमैः ।। 4.191.१० ।।

शंखभेरीनिनादैश्च गीतमंगलनिस्वनैः ।।

पुण्याहजयघोषैश्च ब्राह्मणान्पूज्येत्ततः ।। ११ ।।

आचार्यमपि संपूज्य वासोभिर्भूषणैस्तथा ।।

प्रारंभं कारयेद्राजन्पटे तस्मिन्यथोदितम् ।। १२ ।।

मध्ये च लेखयेद्राजञ्जंबूद्वीपं सविस्तरम् ।।

तस्य मध्ये स्थितो मेरुर्मेरोरुपरि देवताः ।।१३।।

दिशासु लोकपालानां पुरोऽष्टौ सुरसंयुताः ।।

सप्तद्वीपवती पृथ्वी सप्त चैव कुलाचलाः ।। १४ ।।

सागराः सप्त चात्रैव नद्यो ह्रदाः सरांसि च ।।

पातालाः सप्त चात्रैव सप्त स्वर्गविभूतयः ।। १५ ।।

ब्रह्मविष्णुशिवादीनां भुवनानि यथाक्रमम् ।।

ध्रुवमार्गस्तथादित्यो ग्रहतारागणैर्युतः ।। १६ ।।

देवदानवगन्धर्वा यक्ष राक्षसपन्नगाः ।।

ऋषयो मुनयो गावो देवमातर एव च ।।१७।।

सुपर्णाद्याश्च विहगा नागाश्चैरावतादयः ।।

दिग्गजाष्टकमत्रैव लेखयेन्मदमंडितम् ।। ।। १८ ।।

एवंविधं पटं राजन्कारयित्वा सुशोभनम् ।।

दशोत्तरेण पयसा एतत्सर्वसमावृतम् ।। १९ ।।

तत्तेजसा वृतं भूयो महतोग्रेण सर्वतः ।।

तेजस्तद्वायुना वायुराकाशेन समावृतः ।। 4.191.२० ।।

भूतादिना तथाकाशं भूतादिर्महता तथा ।।

अव्यक्तेन महांश्चैव व्याप्तो वै शुद्धिलक्षणः ।। २१ ।।

अव्यक्तं तमसा व्याप्तं तमश्च रजसा तथा ।।

रजः सत्त्वेन संव्याप्तं त्रिधा प्रकृतिरुच्यते ।। २२ ।।

एवमावरणोपेतं ब्रह्मांडमखिलं नृप ।।

पुरुषेणावृतं सर्वं सबाह्याभ्यंतरं तथा ।। २३ ।।

एतत्सर्वं पटस्थं तु कृत्वा चित्रमयं सुधीः ।।

कार्तिक्यामयने चैव विषुवे ग्रहणेऽपि वा ।। २४ ।।

पूजयेद्येन विधिना तत्समासेन मे शृणु ।।

पुरतो मंडपं तस्य विचित्रं कारयेद्बुधः ।। २५ ।।

तत्र कुण्डानि चत्वारि चतुरस्राणि कारयेत् ।।

द्वौद्वौ नियोजयेत्तेषु ब्राह्मणौ वेदपारगौ ।। २६ ।।

यज्ञोपकरणोपेतौ वस्त्राभरणभूषितौ ।।

होमं कुर्युर्जितात्मानो मौनिनः सर्व एव ते ।। २७ ।।

पटे स्थितानां देवानां मंत्रैरोंकारपूर्वकैः ।।

यजमानस्ततः स्नातः सर्वालंकारभूषितः ।। २८ ।।

आचार्येणसमं कुर्यात्पूजामग्रे पटस्य तु ।।

पुष्पैर्वस्त्रैः समभ्यर्च्य मंत्रमेतमुदीरयेत् ।। २९ ।।

ब्रह्मांडोदरवर्तीनि भुवनानि चतुर्दश ।।

तानि संनिहितान्यत्र पूजितानि भवंतु मे ।। 4.191.३० ।।

ब्रह्मा विष्णुस्तथा रुद्रो ह्यादित्या वसवस्तथा ।।

पूजिताः सुप्रतिष्ठाश्च भवंतु सततं मम ।। ३१ ।।

एवं पटं तं संपूज्य कृत्वा चैव प्रदक्षिणम् ।।

भक्ष्यान्नानाविधांश्चैव नैवेद्यं तत्र दापयेत् ।। ३२ ।।

शंखतूर्यनिनादैश्च जागरं कारयेत्ततः।।

ब्रह्मघोषैविचित्रैश्च गीतमंगलनिस्वनैः ।। ३३ ।।

पुनः प्रभाते विमले स्नात्वा शुचिरलंकृतः ।।

पूर्वोक्तविधिनानेन पुनः संपूज्य तं पटम् ।। ३४ ।।

ऋत्विक्पूजां ततः कृत्वा गोशतेन विचक्षणः ।।

अथवा गोयुगं दद्यादेकैक स्यात्यलंकृतम् ।। ३५ ।।

उपानहौ तथा छत्रं गृहोपकरणानि च ।।

यद्यदिष्टतमं किंचित्सर्वं दद्याद्विचक्षणः ।। ३६ ।।

ततः प्रकल्पयेद्यानं नागयुक्तमलंकृतम् ।।

अलाभे वाजिसंयुक्तं पताकाध्वजशालिनम् ।।३७।।

सहस्रं दक्षिणां दत्त्वा ततस्त्वारोपयेत्पटम् ।।

ब्राह्मणं वा रथेनाथ नयेद्देवालयं बुधः ।। ३८ ।।

तत्रस्थं स्थापयेन्नीत्वा गन्धैः पुष्पैश्च धूपयेत् ।।

तत्रापि ददयान्नैवेद्यं कुर्याच्चापि महोत्सवम् ।। ३९ ।।

यस्मिन्नायतने तस्य प्रतिष्ठा क्रियते नृप ।।

पूजा तत्रापि महती कर्तव्या भूतिमिच्छता ।। 4.191.४० ।।।

चंद्रातपत्रं घण्टां च ध्वजाद्यं दापयेत्सुधीः ।।

यथाशक्त्या च राजेन्द्र गुरुं गौरवयंत्रितः ।। ४१ ।।

अभ्यर्च्य दक्षिणाभिश्च ब्राह्मणांश्च विसर्जयेत् ।।'

दीनांधकृपणानां च भोजनं चाप्यवारितम् ।। ४२ ।।

तस्मिन्नहनि दातव्यं मित्रस्वजनबंधुषु ।।

अनेन विधिना यस्तु श्रद्दधानो जितेन्द्रियः ।।।। ।। ४३ ।।

कुर्यान्नरो वा नारी वा प्रतिष्ठां सार्वलौकिकीम् ।।

स्थापितं तु भवेत्तेन त्रैलोक्यं सचराचरम् ।। ४४ ।।

कुलं च तारितं तेन सत्पुत्रेण युधिष्ठिर ।।

यावच्च देवतागारे पटस्तिष्ठति पूजितः ।। ४५ ।।

तावदस्याक्षया कीर्तिस्त्रैलोक्ये संप्रसर्पति ।।

दानेन कीर्तिर्यावंति मर्त्यलोकेषु गीयते ।। ४६ ।।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।

गन्धर्वैर्गीयमानस्तु अप्सरोगणसेवितः ।। ४७ ।।

वसेद्धृष्टमनाः स्वर्गे यावदिंद्राश्चतु र्दश ।।

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।। ४८ ।।

पुत्रपौत्रान्वितः श्रीमान्दीर्घायुरतिधार्मिकः ।।

दश जन्मानि राजेन्द्र जायमानः पुनः पुनः ।। ४९ ।।

श्रूयते च पुरा राजा रजिर्नाम महाबलः ।।

चक्रवर्ती दृढमतिर्जितारिर्विजितेंद्रियः ।। 4.191.५० ।।

मही येन पुरा दत्ता देवराजस्य संगरे ।।

जित्वा दैत्यबलं सर्वं दत्तवांस्त्रिदिवं पुनः ।। ५१ ।।

महेन्द्राय महाभाग सर्वं निहतकंटकम् ।।

स कदाचित्सभामध्ये यावदास्ते मही पतिः ।। ५२ ।।

तावत्तत्राजगामाथ पुलस्त्यो ब्रह्मणः सुतः।।

शिष्यैः परिवृतः श्रीमान्वेदवेदांगपारगैः ।। ५३ ।।

दत्तार्घस्तु तदा तेन उपविष्टो वरासने ।। (पाठा. दत्तार्धस्तु)

शुशुभे परया लक्ष्म्या पितामह इवापरः ।। ५४ ।।

अथ तं पूजयित्वाग्रे मधुपर्केण पार्थिवः ।।

पप्रच्छ विनयोपेतः कथामात्मोद्भवां नृपः ।। ५५ ।।

भगवन्केन दानेन तपसा नियमेन वा ।।

श्रीरियं मम धर्मज्ञ तेजश्चाव्याहतं भुवि ।। ५६ ।।

बलं पुष्टिं धनं धान्यं पुत्रपौत्रं तथोत्तमम् ।।

एतन्मे सर्वमाचक्ष्व सर्वज्ञोऽसि द्विजोत्तम ।। ५७ ।।

।। पुलस्त्य उवाच ।। ।।

शृणु राजन्कथामेतामात्मीयां सुमनोहराम् ।।

कथ्यमानां मया सम्यक्सप्तमे तव जन्मनि ।। ५८ ।।

कथेयमभिनिर्वृत्ता शृणुष्वैश्वर्यवर्द्धिनीम् ।।

आसीस्त्वं वैश्यजातीयो वाराणस्यां नरोत्तम ।। ।। ५९ ।।

बहुभृत्यपरीवारो धनधान्यसमन्वितः ।।

धार्मिकः सत्यनिरतो वणिग्धर्मरतः सदा ।। 4.191.६० ।।

तत्र त्वया श्रुता धर्मा धर्माख्यानगतेन वै।।

दानाश्रया बहुविधा व्रतानि विविधानि च ।। ६१ ।।

प्रसंगेन कदाचिच्च प्रतिष्ठा भौवनी त्वया ।।

श्रुता राजेन्द्र विधिवत्कृता च बहुपुण्यदा ।। ।। ६२ ।।

फलेन तेन जातोऽसि सप्त जन्मानि भूपतिः ।।

कीर्तिस्ते प्रथिता लोके वलं चापि महत्तव ।। ६३ ।।

अपराण्यपि जन्मानि सप्त राजा भविष्यसि ।।

पश्चाद्योगिकुले भूत्वा निर्वाणं समवाप्स्यसि ।। ६४ ।।

एतत्ते सर्वमाख्यातं यन्मां परिपृच्छसि ।।

नारी वा पुरुषो वापि प्रतिष्ठां भौवनीं तु यः ।। ६५ ।।

प्रकरोति विधानेन कृतकृत्यो भवेद्बुधः ।।

इत्युक्त्वा स मुनिस्तत्र राजानं शंसितव्रतः ।।६६।।

ययावदर्शनं तत्र सूर्ये वैश्वानरोपमः ।। ६७ ।।

धर्मं विवर्द्धयति कीर्तिं शतानि धत्ते कामं प्रसाधयति पापमपाकरोति ।।

ख्याता मयेयमधुना तव दाननिष्ठा तन्नास्ति यन्न कुरुते भुवनप्रतिष्ठा ।।६८।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भुवनप्रतिष्ठावर्णनं नामैकनवत्युत्तरशततमोऽध्यायः ।। १९१ ।। ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 192

नक्षत्रदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

श्रुतो दानविधिः सर्वः प्रसादात्ते रमाधव ।।

नक्षत्रदानस्येदानी दानकल्पं प्रचक्ष्व मे ।। १ ।।

।। श्रीकृष्ण उवाच ।।

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।

देवक्याश्चैव संवादं देवर्षेर्नारदस्य च ।। २ ।।

द्वारकामनुसंजातं नारदं देवदर्शनम् ।।

पप्रच्छेदं तथा प्रश्नं देवकी धर्मदर्शिनी ।। ३ ।।

तस्याः संपृच्छमानाया देवर्षिर्नारदस्ततः ।।

आचष्ट विधिवत्सर्वं यत्तच्छृणु विशांपते ।। ४ ।।

नक्षत्रयोगं वक्ष्यामि सर्वपातकनाशनम् ।।

कृत्तिकासु महाभाग पायसेन ससर्पिषा ।। ५ ।।

संतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमान् ।।

रोहिण्यां पांडवश्रेष्ठ मांसैरन्नेन सर्पिषा ।। ६ ।।

संतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमान् ।।

पयोऽऽन्नदानं दातव्यमानृण्यार्थं द्विजातये ।। ७ ।।

दोग्ध्नीं सवत्सां तु नरो नक्षत्रे सोमदैवते ।।

दत्त्वा दिव्यविमानस्थः स्वर्गं प्राप्नोत्यनुत्तमम् ।। ८ ।।

आर्द्रायां कृशरां दत्त्वा तिलमिश्रा समाहितः ।।

नरस्तरति दुर्गाणि सर्वाण्येव नरोत्तम ।। ९ ।।

पूषान्पुनर्वसौ दत्त्वा घृतपूर्णान्सुपाचितान् ।।

यशस्वी रूपसंपन्नः सज्जनो जायते कुले ।। 4.192.१० ।।

पुष्ये तु कांचनं दत्त्वा कृतं वाकृतमेव वा ।।

अनालोकेषु लोकेषु सोमवत्स विराजते ।।११।।

आश्लेषासु तथा रौप्यं यः सुरूपं प्रयच्छति ।।

सर्वभयविनिर्मुक्तः शास्त्रवानभिजायते ।। १२ ।।

मघासु तिलपूर्णानि वर्धमानानि मानवः ।।

प्रदाय पशुमांश्चैव पुत्रवांश्च प्रजायते ।।१३।।

फाल्गुनीपूर्वसमये वडवां द्विजपुंगवे ।।

दत्त्वा पुण्यकृतांल्लोकान्प्राप्नोति सुरसेवितान् ।। १४ ।।

उत्तराफाल्गुनीयोगे दत्त्वा सौवर्णपंकजम् ।।

सूर्यलोकमवाप्नोति सर्वबाधाविवर्जितः ।। १५ ।।

हस्ते तु हस्तिनं दत्त्वा कांचनं शक्तितः कृतम् ।।

यात्यसौ शक्रसदनं वरवारणधूर्गतः ।। १६ ।।

चित्रासु वृषभं दत्त्वा पुण्यानां पुण्यमुत्तमम् ।।

चरत्यप्सरसां लोके मोदते नंदनेवने ।। १७ ।।

स्वातीषु च धनं दत्त्वा यदभीष्टमिहात्मनः ।।

प्राप्नोति च शुभांल्लोकानिह लोके महद्यशः ।। १८ ।।

विशाखासु महाराज धुरंधरविभूषितम् ।।

सोपस्करं च शकटं सधान्यं वस्त्रसंवृतम् ।। १९ ।।

दत्त्वा प्रीणाति स पितुः प्रेत्य चानन्त्यमश्नुते ।।

न च दुर्गाण्यवाप्नोति रौरवादीनि मानवः ।। 4.192.२० ।।

दत्त्वा यथेष्टं विप्रेभ्यो गतिमिष्टां स गच्छति ।।

कम्बलान्यनुराधक्षें दत्त्वा प्रावरणानि च ।। २१ ।।

स्वर्गे वर्षशतं साग्रमास्ते सुरगणैर्वृतः ।।

कालशाकं च विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ।। २२ ।।

ज्येष्ठानुज्येष्ठतामेति गतिमिष्टां च गच्छति ।।

मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ।। २३ ।।

पितॄन्प्रीणयते सर्वान्गतिं प्राप्नोत्यनुत्तमाम् ।।

अथ पूर्वास्वषाढासु दधिपात्राणि मानवः ।। २४ ।।

कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ।।

प्रदाय जायते प्रेत्य कुले च बहुभोगवान् ।। २५ ।।

पुत्रपौत्रैः परिवृतः पशुमान्धनवांस्तथा ।।

उदमंथं ससर्पिष्कं प्रभूतमधुफाणितम् ।। २६ ।।

दत्त्वोत्तरास्वषाढासु सर्वान्कामानवाप्नुयात्।।

दुग्धं त्वभिजितो भागे

दत्त्वा घृतमधुप्लुतम् ।। २७ ।।

धर्मनित्यो मनीषिभ्यः स्वर्गे वसति पुण्यभाक् ।।

श्रवणे पुस्तकं श्रेष्ठं प्रददातीह यो नरः ।। २८ ।।

स्वेच्छया याति यानेन सर्वांल्लोकान्न संशयः ।।

गोयुगं च धनिष्ठासु दत्त्वा विप्राय मानवः ।। २९ ।।

सर्वत्र मानमाप्नोति यत्र यत्रेह जायते ।।

तथा शतभिषायोगे दत्त्वा सागरु चंदनम् ।। 4.192.३० ।।

प्राप्नोत्यप्सरसां लोके प्रेत्य गंधांश्च शोभनान् ।।

पूर्वभाद्रपदायोगे राजमाषान्प्रदापयेत् ।। ३१ ।।

सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ।।

रत्नमुत्तरयोगे तु सुवस्त्रं यः प्रयच्छति ।।३२।।

पितॄन्प्रीणाति सकलान्प्रेत्य चानंत्यमश्नुते ।।

कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ।। ३३ ।।

स प्रेत्य कामानादाय दातारमुपगच्छति ।।

रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तम ।। ३४ ।।

हस्त्यश्वरथसंपूर्णे वर्चस्वी जायते कुले ।।

भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै ।। ३५ ।।

गावः प्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ।।

इत्येष दक्षिणोद्देशः प्रोक्तो नक्षत्रयोगतः ।। ३६ ।।

देवक्यै नारदेनैव मया च कथितस्तव ।।

सर्वपापप्रशमनः सर्वोपद्रवनाशनः ।। ३७ ।।

न चात्र कालनियमो नक्षत्रप्रकमस्तथा ।।

वित्तं श्रद्धा च राजेन्द्र कारणं चात्र कथ्यते ।। ३८ ।।

यद्यच्च ते भगवता कमलोद्भवस्य पुत्रेण दानमुदितं प्रसमीक्ष्य वेदान्।।

तद्यो ददाति विभवे सति साधुवृत्ते किं तेन पार्थ न कृतं भवतीह लोके ।। ३९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रदानविधिवर्णनंनाम द्विनवत्युत्तरशततमोऽध्यायः ।। १९२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 193

तिथिदानवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

तिथिदानमिदानीं ते कथयामि युधिष्ठिर ।।

सर्वपापप्रशमनं सर्वविघ्नविनाशनम् ।।१।।

मानसं वाचिकं चापि कर्मजं यदघं भवेत् ।।

सर्वं प्रशममायाति दानेनानेन पांडव ।।२।।

श्रावणे कार्तिके चैत्रे वैशाखे फाल्गुने तथा ।।

सितपक्षात्प्रभृत्येव दातव्यं पुण्यवर्द्धनम् ।। ३ ।।

वित्तं श्रद्धासहायश्च पात्रप्राप्तिस्तथैव च ।।

दानकालः सदैवेह कथितस्तत्त्वदर्शिभिः ।। ४ ।।

तीर्थे देवालये गोष्ठे गृहे वा नियतात्मवान् ।।

यद्ददाति नरश्रेष्ठस्तदानंत्याय कल्पते ।।५।।

प्रतिपत्सु द्विजान्पूज्यप्त पूजयित्वा प्रजापतिम्।।

सौवर्णमरविन्दं च कारयित्वाष्टपत्रकम् ।। ६ ।।

कृत्वा चौदुम्बरे पात्रे सुगन्धवृतपूरिते ।।

पुष्पैर्धूपैः पूजयित्वा विप्राय प्रतिपाद येत् ।।७।।

अनेन विधिना दत्त्वा कमलं कमलालयम् ।।

ईप्सितांल्लभते कामान्निष्कामो ब्रह्मसात्म्यताम् ।।८।।

वह्निं पूज्य द्वितीयायां भूर्भुवःस्वरिति क्रमात् ।।

तिलाज्येन शतं हुत्वा दत्त्वा पूर्णाहुतिं ततः ।।९।।

वैश्वानरं तु सौवर्णं स्थापयेत्ताम्रभाजने ।।

गुडाज्यपूरिते राजंस्तोयपूर्णघटोपरि ।।4.193.१ ०।।

पूजयित्वा वस्त्रमाल्यैर्भक्ष्यभोज्यैरनेकधा ।।

ततस्तं ब्राह्मणे दद्याद्वह्निर्मे प्रीयतामिति ।।१ १।।

यावज्जीवकृतात्पापान्मुच्यते नात्र संशयः ।।

मृतो वह्नि पुरं याति प्राहेदं नारदो मुनिः ।।१२।।

तृतीयायां महाराज राधां स्वर्णमयीं शुभाम् ।।

स्थापयित्वा ताम्रपात्रे लवणोपरि विन्यसेत् ।।१३।।

जीरकं कटुकं चैव गुडं पार्थेषु दापयेत् ।।

रक्तवस्त्रयुगच्छन्नां कुंकुमेन विभूषिताम् ।। १४ ।।

पुष्पधूपैः सनैवेद्यैः पूजयित्वा द्विजातये ।।

दत्त्वा यत्फलमाप्नोति पार्थ तत्केन वर्ण्यते ।। १५ ।।

प्रासादा यत्र सौवर्णा नद्यः पायसकर्दमाः।।

गन्धर्वाप्सरसो यत्र तत्र ते यांति मानवाः ।।१६।।

स्वर्गादिहैत्य संसारे सुरूपः सुभगो भवेत् ।।

दाता भोक्ता बहुधनः पुत्रपौत्रसमन्वितः ।। १७ ।।

नारी वा तद्गुणैर्युक्ता भवतीह न संशयः ।।

चतुर्थ्यां वारणं हैमं पलादूर्द्ध्वं सुशोभनम् ।। १८ ।।

कामयित्वांकुशयुतं तिलद्रोणोपरि न्यसेत् ।।

वस्त्रैः पुष्पैः पूजयित्वा नैवेयं विनिवेद्य च ।। १९ ।।

ततस्तु ब्राह्मणे दद्याद्गणेशः प्रीयतामिति ।।

कार्यारंभेषु सर्वेषु तस्य विघ्नं न जायते ।। 4.193.२० ।।

वारणाः सप्त जन्मानि भवंति मदविह्वलाः ।।

वारणेन्द्रसमारूढस्त्रैलोक्यविजयी भवेत् ।। २१ ।।

पंचम्यां पन्नगं चैव स्वर्णेनैकेन कारयेत् ।।

क्षीराज्यपत्रमध्यस्थं पूजयित्वा प्रदापयेत् ।। २२ ।।

द्विजं संपूज्य वासोभिः प्रणिपत्य क्षमापयेत् ।।

इह लोके परे चैव दानमेतत्सुखावहम् ।। २३ ।।

नागोपद्रवविद्रावि सर्वदुष्टनिबर्हणम् ।।

प्रायश्चित्तं तथा प्रोक्तं नागदष्टस्य शंभुना ।। २४ ।।

षष्ठ्यां शक्तिसमोपेतं कुमारं शिखिवाहनम् ।।

कारयित्वा यथाशक्त्या हेममालाविभूषितम् ।। २५ ।।

तंडुलेनाथ शिखरे वासोभिः पूज्य भक्तितः ।।

षष्ठ्यां स्कंदं यथाशक्ति कृत्वा स्कंदं हिरण्मयम् ।। २६ ।।

पूजयित्वा गंधपुष्पधूपैनैवेद्यतस्तथा ।।

नमस्कृत्य ततो दद्याद्ब्राह्मणाय कुटुंबिने ।। २७ ।।

इह भूतिं परां प्राप्य प्रेत्य स्वर्गे महीयते ।।

शूद्रो ब्राह्मणतामेति ब्राह्मणो ब्रह्मलोकताम् ।। २८ ।।

सप्तम्यां भास्करं पूज्य ब्राह्मणानश्वमुत्तमम् ।।

दद्यादलंकृतग्रीवं सपर्याणं सदक्षिणम् ।। २९ ।।

सूर्यलोकमवाप्नोति सूर्येण सह मोदते ।।

गंधर्वास्तुष्टिमायांति दत्तेऽश्वे समलंकृते ।। 4.193.३० ।।

अष्टम्यां वृषभं श्वेतमव्यंगांगं धुरंधरम् ।।

सितवस्त्रयुगच्छन्नं घंटाभरणभूषितम् ।। ३१ ।।

दद्यात्प्रणम्य विप्राय प्रीयतां वृषभध्वजः ।।

प्रदक्षिणं ततः कृत्वा आद्वारांतमनुव्रजेत् ।। ३२ ।।

दानेनानेन नृपते शिवलोको न दुर्लभः ।।

वृषस्कंधे प्रतिष्ठंति भुवनानि चतुर्दश ।। ३३ ।।

तस्माद्वृषभदानेन दत्ता भवति भारती ।।

नवम्यां कांचनं सिंहं कारयित्वा स्वशक्तितः ।। ३४ ।।

मुक्ताफलाष्टकयुतं नीलवस्त्रावगुण्ठितम् ।।

दद्याद्देवीमनुस्मृत्य दुष्टदैत्यनिबर्हणीम् ।। ३५ ।।

द्विजातिप्रवरायेत्थं सर्वान्कामान्समश्नुते ।।

कांतारवनदुर्गेषु चौरव्याला कुले पथि ।। ३६ ।।

हिंसकास्तं न हिंसंति दानस्यास्य प्रभावतः ।।

मृतो देवीपुरं याति पूज्यमानः सुरासुरैः ।। ३७ ।।

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।

दशम्यां नृपशार्दूल दशाशाः स्वर्णनिर्मिताः ।। ३८ ।।

लवणे च गुडे क्षीरे निष्पावेषु तिलेषु च ।।

गव्यत्रये तंदुलेषु माषाणा सुपरि स्थिताः ।। ३९ ।।

संपूज्य वस्त्रपुष्पाद्यैर्द्विजाय प्रतिपादयेत् ।।

अनेन विधिना यस्तु पुमान्स्त्री वाथ वा पुनः ।। 4.193.४० ।।

निर्वापयति राजेंद्र तस्य पुण्यफलं शृणु ।।

इह लोके भूपतिः स्यात्प्रेत्य स्वर्गे महीयते ।।४१।।

सकलास्तस्य सर्वाशा याः काश्चिन्मनसेच्छिताः ।।

ततः स्वर्गादिहाभ्येत्य कुले महति जायते ।। ४२ ।।

एकादश्यां गरुत्मंतं कारयित्वा हिरण्मयम् ।।

यथाशक्त्या ताम्रपात्रे घृतस्योपरि पूजितम् ।। ४३ ।।

पंचाग्न्यभिरते विप्रे पुराणज्ञे विशेषतः ।।

दत्त्वा किं बहुनोक्तेन विष्णुलोके महीयते ।। ४४ ।।

गां वृषं महिषीं हेमं सप्तधान्यान्यजाविकम् ।।

वडवां गुरडरसान्स र्वांस्तथा बहुफलद्रुमान् ।। ४५ ।।

पुष्पाणि च विचित्राणि गंधांश्चोच्चावचान्बहून् ।।

यथाशक्त्या मेलयित्वा वस्त्रैराच्छादयेन्नवैः ।। ४६ ।।

द्वादश्यां द्वादशैतानि ब्राह्मणेभ्यो निवेदयेत् ।।

एकस्य वा महाराज यत्फलं तन्निशामय ।। ४७ ।।

इह कीर्तिं परां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ।।

ततो विष्णुपुरं याति सेव्यमानोऽप्सरोणणैः ।। ४८ ।।

कर्मक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।

यज्ञयाजी दानपतिर्जीवेच्च शरदां शतम् ।। ४९ ।।

स्नापयेद्ब्राह्मणांश्चात्र त्रयोदश्यां त्रयोदश ।।

तानाच्छाद्य नवैर्वस्त्रैर्गंधपुष्पैरथार्चयेत् ।। ।। 4.193.५० ।।

भोजयीत सुमिष्टान्नं दक्षिणां विनिवेदयेत् ।।

यथाशक्त्या हेमखण्डान्धर्मात्मा प्रीयतामिति ।। ५१ ।।

धर्मराजाय कालाय चित्रगुप्ताय दंडिने ।।

मृत्यवे क्षयरूपाय अंतकाय यमाय च ।। ५२ ।।

प्रेतनाथाय रौद्राय तथा वैवस्वताय च ।।

महिषस्थाय देवाय नामानीह त्रयोदश ।। ५३ ।।

उच्चार्य श्रद्धया युक्तः प्रणिपत्य विसर्जयेत् ।।

यः करोति महाराज पूजामेतां मनोरमाम् ।।५४।।

यमाय स सुखं मर्त्ये स्थित्वा व्याधिविवर्जितः ।।

यममार्गगतः पश्चाद्दुःखं नाप्नोत्यसौ पुमान् ।। ९५ ।।

न पश्यति प्रेतमुखं पितृलोकं स गच्छति ।।

पुण्यक्षयादिहाभ्येत्य स सुखी नीरुजो भवेत् ।। ५६ ।।

महिषं सुशुभं कुंभं चतुर्दश्यां पयोभृतम् ।।

तं कर्षकेण संयुक्तं हेम्नः सद्वस्त्रसंयुतम् ।। ५७ ।।

घंटाभरणशोभाढ्यं वृषभेण समन्वितम् ।।

यो दद्याच्छिवभक्ताय ब्राह्मणाय कुटुंबिने ।। ५८ ।।

वृषं दत्त्वा नरश्रेष्ठ शिवलोके महीयते ।।

तत्र स्थित्वा चिरं कालं क्रमादेत्य महीतलम् ।। ५९ ।।

आरोग्यधनसंयुक्ते कुले महति जायते ।।

सर्वकामसमृद्ध्यर्थं यावजन्मशतत्रयम् ।। ।। 4.193.६० ।।

पौर्णमास्यां वृषोत्सर्गं कारयित्वा विधानतः ।।

चंद्ररजतनिष्पन्नं फलेनैकेन शोभनम् ।। ६१ ।।

पूजयेद्गंधकुसुमैर्नैवेद्यं विनिवेद्य च ।।

दद्याद्विप्राय संकल्प्य वासोलंकारभूषणैः ।। ६२ ।।

मंत्रेणानेन राजेन्द्र तन्निबोध यथोदितम् ।।

क्षीरोदार्णवसंभूत त्रैलोक्यांगणदीपक ।। ६३ ।।

उमा पतेः शिरोरत्नशिवं यच्छ नमोनमः ।।

दानेनानेन नृपते भ्राजते चंद्रवद्दिवि ।। ६४ ।।

अप्सरोभिः परिवृतो यावदाभूतसंप्लवम् ।।६५।।

दानान्यमूनि विधिवत्प्रयतिक्रमेण यच्छंति ये द्विजवराय विशुद्धसत्त्वाः ।।

ते ब्रह्मविष्णुभुवनेषु सुखं विहृत्य यांत्येकतां सह शिवेन न संशयो मे ।। ६६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिथिदानवर्णनं नाम त्रिनवत्युत्तरशततमोऽध्यायः ।। १९३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 194

वराहदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

आदिवाराहदानं त कथयामि युधिष्ठिर ।।

धरण्यै यत्पुरा प्रोक्तं वराहवपुषा मया ।। १ ।।

पुण्यं पवित्रमायुष्यं सर्व दानोत्तमोत्तमम् ।।

महापापादिदोषघ्नं पूजितं धर्मसत्तमैः।। २।।

देयं संक्रमणे भानोर्ग्रहणे द्वादशीष्वथ।।

यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ।।३।।

यदा च जायते वित्तं चित्तं श्रद्धासमन्वितम् ।।

तदैव दानकालः स्यादध्रुवं जीवितं यतः ।। ४ ।।

कुरुक्षेत्रादितीर्थेषु गंगाद्यासु नदीषु च ।।

पुरेषु च पवित्रेषु अरण्येषु वनेषु च ।। ५ ।।

गोष्ठे देवालये वापि रथे वा स्वगृहांगणे ।।

देयं पुराणविधिना ब्राह्मणाय कुटुंबिने।। ६ ।।

कुशैरास्तीर्य तां पार्थ प्रणवाक्षरमंत्रितैः ।।

उपरिष्टात्तिलैस्तेषां वराहं परिकल्पयेत् ।। ७ ।।

द्रौणैश्चतुर्भिः संपूर्णं तदर्धेनाथ वा पुनः ।।

आढकेनाथ कुर्वीत वित्त शाठ्यं न कारयेत् ।। ८ ।।

सुवर्णेन मुखं कार्यं भुजौ चक्रगदान्वितौ ।।

राजतीं कारयेद्दंष्टां पद्मरागविभूषिताम् ।। ९ ।।

शंखं च स्थापयेत्पार्श्वे वनमालां हिरण्मयीम् ।।

पुष्पैर्वा कारयेद्विद्वान्पादौ रूप्यमयौ तथा ।। 4.194.१० ।।

दंष्ट्राग्रलग्नवसुधां सौवर्णीं कारयेच्छुभाम् ।।

सर्वधान्यरसोपेतां वस्त्रालंकृतविग्रहाम् ।। ११ ।।

प्रच्छाद्य वस्त्रैर्देवेशं वराहं सर्वकामदम् ।।

रोमराजिं कुशैः कृत्वा गंधपुष्पैरथार्चयेत् ।। १२ ।।

नवग्रहमखः कार्यो होम श्चात्र तिलैः स्मृतः ।।

एवं संस्थाप्य विधिवत्ततः स्तोत्रमुदीरयेत् ।। १३ ।।

वराहेश प्रदुष्टानि सर्वपापफलानि च ।।

मर्द्दमर्द्द महादंष्ट्र भास्वत्कन ककुंडल ।। १४ ।।

शंखचक्रासिहस्ताय हिरण्याक्षांतकाय च ।।

दंष्ट्रोद्धृतधराभृते त्रयीमूर्तिमते नमः ।। १५ ।।

इत्युच्चार्य नमस्कृत्य प्रदक्षिणमनु व्रजेत् ।।

ततस्तं ब्राह्मणे दद्याद्वस्त्रालंकारभूषितम् ।। ।। १६।।

प्ररिग्रहस्तु तस्योक्तः पादयोः परमर्षिभिः ।।

अनेन विधिना दत्त्वा प्रणिपत्य क्षमा पयेत् ।। १७ ।।

एवं दत्त्वा महीनाथ वराहं सर्वकामदम् ।।

यत्फलं समवाप्नोति पार्थ तत्केन वर्ण्यते ।। १८ ।।

सर्वदानेषु यत्पुण्यं सर्वक्रतुषु यत्फलम्।।

तत्फलं समवाप्नोति दत्त्वा देवं जनार्दनम्।। १९ ।।

यथाशक्त्या समुद्धृता वराहेण वसुंधरा।।

यथाकुलं समुद्धत्य विष्णुलोके महीयते। ।।। 4.194.२० ।।

ब्राह्मणक्षत्रियविशां स्त्रीणां शूद्रजनस्य च ।।

एतत्साधारणं दानं शैववैष्णवयोगिनाम् ।। २१ ।।

विप्राय वेदविदुषे नृवराहरूपं दत्त्वा तिलामलसुवर्णमयं सवस्त्रम् ।।

उद्धृत्य पूर्वपुरुषान्सकलत्रमित्रः प्राप्नोति सिद्धभुवनं सुरसिद्धजुष्टम् ।। २२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृप्णयुधिष्ठिरसंवादे वराहदानविधिवर्णनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ।। १९४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 195

धान्यपर्वतदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।।

भगवञ्छ्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् ।।

यदक्षयं परे लोके देवर्षिगणपूजितम् ।। १ ।।

।। श्रीकृष्ण उवाच ।। ।।

रुद्रेण यत्पुरा प्रोक्तं नारदाय महात्मने ।।

मत्स्येन मनवे तद्वत्तच्छुणुष्व कुरूद्वह ।। २ ।।

मेरोः प्रदानं वक्ष्यामि दशधा पुनरेव ते ।।

यत्प्रदातोत्तराँल्लोकान्प्राप्नोति सुरपूजितान्।। ३ ।।

पुराणेषु च वेदेषु यज्ञेष्वध्ययनेषु च ।।

न तत्फलमधीतेषु कृतेष्विह यदश्नुते ।। ४ ।।

तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात् ।।

प्रथमो धान्यशैलः स्यद्द्वितीयो लवणाचलः ।। ५ ।।

गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः ।।

पञ्चमस्तिलशैलः स्यात्षष्ठः कार्पासपर्वतः ।। ६ ।।

सप्तमो घृतशैलश्च रसशैलस्तथाष्टमः ।।

राजतो नवमस्तद्वद्दशमः शर्कराचलः ।। ।। ७ ।।

वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः ।।

अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।। ८ ।।

शुक्लपक्षे तृतीयायामुपरागे शशिक्षये ।।

विवाहोत्सवयज्ञे वा द्वादश्यामथ वा पुनः ।। ९ ।।

शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा प्रधानतः ।।

धान्यशैलादयो देया यथाशास्त्रं विजानता ।। 4.195.१० ।।

तीर्थे वायतने वापि गोष्ठे वा संगमेऽपि वा ।।

मंडपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् ।। ११ ।।

प्रागुदक्प्रवणं तत्र प्राङ्मुखं वा विधानतः ।।

गोमयेनानुलिप्तायां भूमावास्तीर्य वा कुशान् ।। १२ ।।

तन्मध्ये पर्वतं कुर्याद्विष्कम्भपर्वतान्वितम् ।।

धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः ।। १३ ।।

मध्यमः पंचशतिकः कनिष्ठः स्यात्त्रिभिः शतैः ।। १४ ।।

मेरुर्महाव्रीहिमयस्तु मध्यसुवर्णवृक्षत्रयसंयुतः स्यात् ।।

संपूर्णमुक्ताफलवज्रयुक्तो याम्ये नु गोमेदकपुष्परागैः ।।१५।।

यः स्याच्च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यसरोजरागैः ।।

श्रीखंडखण्डैरभितः प्रवाल लतान्वितः शुद्धशिलातलः स्यात् ।।१६।।

ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात् ।।

तथैकदेशोद्धतकन्धरस्तु घृतोदकप्रस्रवणाश्च दिक्षु ।। १७ ।।

शुक्लांबरोऽन्यश्च सुराचलः स्यात्पूर्वेण कृष्णानि च दक्षिणेन ।।

वासांसि पश्चादथ केसराणि रक्तानि चैवोत्तरतो दलानि ।। १८ ।।

रौप्या महेंद्रप्रमुखास्तथाष्टौ संस्थापयेल्लोकपतीन्क्रमेण ।।

नानाफलाली च समंततः स्यान्मनोरमामाल्यविलेपनाद्या ।। १९ ।।

वितानकञ्चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितं वा ।।

इत्थं निवेश्यामरशैलमप्युन्मनास्तु विष्कम्भगणान्क्रमेण ।। 4.195.२० ।।

तुरीयभागेन चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाद्यान् ।।

पूर्वेण मन्दरमनेकफलोपयुक्तं यत्रोल्लसत्कनकभद्रकदंबचिह्नम् ।। २१ ।।

कामेन कांचनमयेन विराजमानमाकारयेत्कुसुमवस्त्रविलेपनाढ्यम् ।।

क्षीरारुणोदसरसाथ तथा वनेन रौप्येण शक्तिघटितेन विराजमानम् ।।२२।।

याम्येन गंधमदनोत्र निवेशनीयो गोधूमसंचयमयः कलधौतजो वा ।।

हैमेन पक्षिपतिना धृतमानसेन तेनाद्यमेव सकलं किलसंयुतः स्यात् ।। २३ ।।

पश्चात्तिलाचलमनेकसुगन्ध पुष्पसौवर्णपिप्पलहिरण्ययहंसयुक्तम् ।।

आकारयेद्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिशतोदसरस्तथाग्रे ।। २४ ।।

संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवप्रम् ।।

पुष्पैश्च हेमवटपादपशेषरत्नमाकारयेत्कनकधेनुविराजमानम् ।। २५ ।।

माक्षीकभद्रकरसावचयेन तद्वद्रौ प्येण भास्वररसैश्च युतं विधाय ।।

होमश्चतुर्भिरथ वेदपुराणविद्भिर्ह्येतैरनिंद्य वरिताकृतिभिर्द्विजेन्द्रैः ।। २६ ।।

पूर्वेण हस्तमुखमत्र विधाय कुंडं कार्यस्तिलैरथ घृतेन समित्कुशैश्च ।।

रात्रौ च जागरमनुद्धतगीततूर्यैरावाहनं च कथयामि शिलोच्चयानाम् ।। २७ ।।

त्वं सर्वदेवगणधामनिधे च विघ्नमस्मद्गृहेष्वमरपर्वत नाशयाशु ।।

क्षेमं विधत्स्व कुरु शांतिमनुत्तमां नः संपूजितः परमभक्तिमतः प्रदेहि ।। २८ ।।

त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः ।।

मूर्तामूर्तपरं बीजमतः पाहि सनातन ।। २९ ।।

यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मंदिरम् ।।

केशवार्कवसूनां च तस्मा च्छांतिं प्रयच्छ मे ।। 4.195.३० ।।

यस्मादशून्यममरैर्गंधर्वैश्च शिरस्तव ।।

तस्मान्मामुद्धराशेष दुःखसंसारसागरात् ।। ३१ ।।

एवमभ्यर्च्य तं मेरुं मन्दरं चापि पूजयेत् ।।

यस्माच्चैत्ररथेनाथ भद्राश्ववरिषेण च ।। ३२ ।।

शोभसे मन्दरक्षिप्रमतस्तुष्टिकरो भव ।।

यस्माच्चूडामणिर्जंबूद्वीपे त्वं गन्धमादनः ।। ३३ ।।

गन्धर्वैरप्सरोभिश्च गीयमानं यशोऽस्तु मे ।।

यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च ।। ३४ ।।

हिरण्यमयपाषाणस्तस्माच्छांतिं प्रयच्छ मे ।।

उत्तरैः कुरुभिर्यस्मात्सावित्रेण वनेन च ।। ३५ ।।

सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे ।।

एवमामंत्र्य तान्सर्वान्प्रभाते विमले पुनः ।। ३६ ।।

स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमम् ।।

शेषांश्च पंच तान्दद्यादृत्विग्भ्यः क्रमशो नृप ।। ३७ ।।

गावो देयाश्चतुस्त्रिंशदथवा दश भारत।।

शक्तितः सप्त वाष्टौ वा एवं दद्यादशक्तिमान् ।। ३८ ।।

एकापि गुरवे देया कपिला सुपयस्विनी ।।

पर्वतानामशेषाणामेष एव विधिः स्मृतः ।। ३९ ।।

य एव पूजने मंत्रास्त एवोपस्करे तथा ।।

ग्रहाणां लोकपालानां ब्रह्मादीनामगैः सह ।। 4.195.४० ।।

स्वमंत्रेणैव सर्वेषु होमः शैलेषु शस्यते ।।

उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते ।। ४१ ।।

विधानं सर्वशैलानां क्रमशः शृणु भारत ।।

दानकालेषु ये मन्त्राः पर्वतेषु च यत्फलम् ।। ४२ ।।

अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः ।।

अन्नाद्भवंति भूतानि जगदन्नेन वर्द्धते ।। ४३ ।।

अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः ।।

धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम ।। ४४ ।।

अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् ।।

मन्वन्तरशतं साग्रं देवलोके महीयते ।। ४५ ।।

अप्सरोगणगंधर्वैराकीर्णेन विराजता ।।

विमानेन दिवः पृष्ठे स याति ऋषिसेवितः ।। ४६ ।।

पुण्यक्षये राजराज्यमाप्नोतीह न संशयः ।। ४७ ।।

धान्याचलं कनकवृक्षविराजमानं विष्कंभपर्वतयुतं सुरसिद्धजुष्टम् ।।

यच्छंति ये सुमतयः प्रणिपत्य विप्रांस्ते प्राप्नुवंति परमेष्ठिपदाब्जयुग्मम् ।। ४८ ।। ।।

इति श्रीभविष्ये पुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे धान्यपर्वतदानविधिवर्णनं नाम पंचनवत्युत्तरशततमोऽध्यायः।। ।। १९५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 196

लवणपर्वतदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम् ।।

यत्प्रदानान्नरो लोकमाप्नोति शिवसंयुतम् ।।१।।

उत्तमः षोडशद्रोणः कर्तब्यो लवणाचलः ।।

मध्यमः स्यात्तदर्धेन तदर्द्धेनाधमः स्मृतः ।।२।।

वित्तहीनो यथाशक्त्या द्रोणादर्धं तु कारयेत् ।।

चतुर्थांशेन विषयान्पर्वतान्कारयेत्पृथक् ।।३।।

विधानं पूर्ववत्कुर्याद्ब्रह्मादीनां च सर्वदा ।।

तद्वद्धेमतरून्सर्वांल्लोकपालनिवेशनम् ।।४।।

शिरांसि कामदेवादींस्तद्वत्तत्र निवेशयेत् ।।

कुर्याज्जागरमत्रापि दानमंत्रान्निबोध मे ।।५।।

सौभाग्यरससंभूतो यतोऽयं लवणोरसः ।।

दानात्मकत्वेन च मां पाहि पापान्नगोत्तम ।। ६ ।।

तस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना ।।

प्रियं च शिवयोर्नित्यं तस्माक्छांतिप्रदो भव ।।७।।

विष्णुदेह समुद्भूतं यस्मादारोग्यवर्धनम् ।।

यस्मात्पर्वतरूपेण पाहि संसारसागरात् ।। ८ ।।

अनेन विधिना यस्तु दद्याल्लवणपर्वतम् ।।

उमालोके वसेत्कल्पं ततो याति परां गतिम् ।। ९ ।।

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।

पुत्रपौत्रैः परिवृतो जीवेच्च शरदां शतम् ।। 4.196.१० ।।

कुर्वंति ये लवण पर्वतसंप्रदानं संप्राप्नुवंति दिवि ते सुमहद्विमानम् ।।

तत्राप्सरोगणसुरासुरसेव्यमानास्तिष्ठंति हृष्टमनसो दिवि वृद्धमानाः ।। ११ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे लवणपर्वतदानविधिवर्णनं नाम षण्णवत्युत्तरशततमोऽध्यायः ।। १९६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 197

गुडाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् ।।

यत्प्रदानान्नरः स्वर्गं प्राप्नोति सुरपूजितम् ।। १ ।।

उत्तमो दशभिर्भारैः मध्यमः पंचभिस्तथा ।।

त्रिभिर्भारैः कनिष्ठः स्यात्तदर्द्धेनाल्पको मतः ।। २ ।।

तद्वदामंत्रणं पूजां हेमवृक्षसुरार्चनम् ।।

विष्कंभपर्वतास्तत्र सरांसि वनदेवताः ।। ३ ।।

होमं जागरणं तद्वल्लोकपालाधिवासनम् ।।

धान्यपर्वतवत्कुर्यादिमं मंत्रमुदीरयेत् ।। ४ ।।

यथा देवेषु विश्वात्मा प्रवरोयं जनार्दनः ।।

सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ।। ५ ।।

प्रणवः सर्वमंत्राणां नारीणां पार्वती यथा ।।

तथा रसानां प्रवरः सदा चेक्षुरसो मतः ।। ६ ।।

मम तस्मात्परां लक्ष्मीं प्रयच्छ गुडपर्वत ।।

सुरासुराणां सर्वेषां नागयक्षर्क्षयंत्रिणाम् ।। ७ ।।

विनाशश्चापि पार्वत्यास्तस्मान्मां पाहि सर्वदा ।।

अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम् ।। ८ ।।

संपूज्यमानो गंधर्वैर्गौंरीलोके महीयते ।।

पुनः कल्पशतांते तु सप्तद्वीपाधिपो भवेत् ।। ९ ।।

आयुरारोग्यसंपन्नः शत्रुभिश्चापराजितः ।।

आसीद्राज्ञी महाभागा सुलभा नाम सुव्रता ।। 4.197.१० ।।

मरुत्तस्य प्रिया भार्या रूप यौवनशालिनी ।।

तस्य भार्या शतान्यासन्सप्त राज्ञो महात्मनः ।। ११ ।।

ता दास्य इव वाक्यानि कुर्युस्तस्याः सदैव हि ।।

मुखावलोकनकरो राजा तस्य च सा प्रिया ।। १२ ।।

अथ कालेन महता दुर्वासा ऋषिसत्तमः ।।

आजगाम तदभ्याशं भ्रममाणो यदृच्छया ।। १३ ।।

तस्याथ सत्क्रियां कृत्त्वा दत्त्वा चार्घं यथाविधि ।।

पप्रच्छ सुलभा विप्रं दुर्वाससमकल्मषम् ।। १४ ।।

।। सुलभोवाच ।। ।।

केन पुण्येन भगवन्मम राजा प्रियंकरः ।।

मुखावलोकनपरो वशे तिष्ठति सर्वदा ।। १५ ।। ।।

सपत्न्यश्च मम ब्रह्मन्सदा प्रियहिते रताः ।।

एतदाचक्ष्व भगवन्परं कौतूहलं मम ।।१६।।

।। दुर्वासा उवाच ।। ।।

शृणुष्वावहिता सुभ्रूरात्मवृत्तं पुरातनम् ।।

जानामि सर्वं सुभगे तव वृत्तमशेषतः ।। १७ ।।

त्वमासीर्वैश्य महिषी गिरिव्रजपुरे पुरा ।।

धार्मिका सत्यशीला च पतिव्रतपरायणा ।। १८ ।।

तत्र श्रुतस्त्वया वत्से ब्राह्मणानां समीपतः ।।

पुरा दानविधिः कृत्स्नः स्थितया पतिसंनिधौ ।। १९ ।।

विशेषतस्तत्र विप्रैः कथितो गुडपर्वतः ।।

दत्तश्चापि त्वया पुत्रि संभृत्य विधिवत्तदा ।। 4.197.२० ।।

तस्य दानस्य माहात्म्यात्त्वया भुक्तं वरानने ।।

राज्यं जन्मानि चत्वारि निःसपत्नमनाकुलम् ।। २१ ।।

अन्यानि सप्त जन्मानि तव राज्यं भविष्यति ।।

सौभाग्यमतुलं चैव रूपमारोग्यमेव च ।। २२ ।।

भूतं चैवमवश्यं च गुडपर्वतदानजम् ।।

कथा तव वरारोहे यास्ये त्वं भव पु त्रिणी ।। २३ ।।

तस्माद्देयमिदं दानं फलमुत्तममिच्छता ।।

गतिं च शाश्वतीं लेभे सौभाग्यं रूपमेव च ।। २४ ।।

दानमेतत्प्रशंसंति स्त्रीणां राज न्विशेषतः ।।

पूर्वोक्तं च फलं प्राप्य कृतकृत्योऽभिजायते ।। २५ ।।

कृष्णेष्टसुंदरदरीस्रवणाकुलेन गंधर्वसिद्धवनिताशतसेवितेन ।।

दत्तेन भारत विधानवता सदैव गौरी प्रसादमुपयाति गुडाचलेन ।। २६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गुडाचलदानविधिवर्णनं नाम सप्तनवत्युत्तरशततमोऽध्यायः ।। १९७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 198

हेमाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् ।।

यस्य प्रसादाद्भवनं वैरिच्यं याति मानवः ।। १ ।।

उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः ।।

तदर्द्धेनावरस्तद्वदल्पवित्तोऽपि शक्तितः ।। ।। २।।

दद्यादेकपलादूर्ध्वं यथाशक्त्या विचक्षणः ।।

धान्यपर्वतवत्सर्वं विदध्यान्नृपसत्तम ।। ३ ।।

विष्कंभशैलांस्तद्वच्च कृत्वा मंत्रमुदीरयेत् ।।

नमस्ते ब्रह्मबीजाय ब्रह्मगर्भाय वै नमः ।। ४ ।।

यस्मादनंतफलदस्तस्मात्पाहि शिलोच्चय ।।

यस्मादग्नेरपत्यं त्वं यस्मादुल्ब जगत्पतेः ।। ५ ।।

हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम ।।

अनेन विधिना यस्तु दद्यात्कनकपर्वतम् ।। ६ ।।

स याति परमं स्थानं यत्र देवो महेश्वरः ।।

तत्र वर्षशतं तिष्ठेत्ततो याति परां गतिम्।। ७ ।।

हेमाचलात्परं दानं न चान्यद्विद्यते क्वचित् ।। ८ ।।

हैमं महींद्रमणिशृंगशतैरुपेतं लोकाधिपाष्टकयुतं सहितं मुनीन्द्रैः ।।

यः शक्तिमान्वितरतीह गणेशलोके कल्पं कुमारवदसौ कुरुपुंगवाऽऽस्ते ।। ९ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे हेमाचलदानविधिवर्णनं नामाष्टनवत्युत्तरशततमोऽध्यायः ।। १९८ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 199

तिलाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अतः परं प्रवक्ष्यामि तिलशैलं विधानतः ।।

यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम् ।। १ ।।

तिलाः पवित्रमतुलं पवित्राणां च पावनम् ।।

विष्णुदेहसमुद्भूतास्तस्मादुत्तमतां गताः ।। २ ।।

मधुकैटभनामानावास्तां दितिसुतौ पुरा ।।

मधुना सह तत्राभूद्युद्धं विष्णोरनारतम् ।। ३ ।।

सहस्रं किल वर्षाणां न व्यजीवत दानवः ।।

तत्र स्वेदो महानासीत्क्रुद्धस्याथ गदाभृतः ।। ४ ।।

पतितश्च धरापृष्ठे कणशो लवशस्तथा ।।

समुत्तस्थुस्तिला माषाः कुशाश्च कुरुनंदन ।। ५ ।।

हतश्च हरिणा युद्धे स मधुर्बलिनां वरः ।।

मेदसा तस्य वसुधा रंजिता सकला तदा ।। ६ ।।

मेदिनीति ततः संज्ञामवापाचल धारिणी ।।

हतेऽथ दैत्यप्रवरे देवास्तोषं परं ययुः ।। ७ ।।

स्तुतिभिश्च परं स्तुत्वा ऊचुस्त्रिदशपुंगवम् ।।

।। देवा ऊचुः ।। ।।

त्वया धृतं जगद्देव त्वया सृष्टं तथैव च ।। ८ ।।

त्वयीश लीयते सर्वं त्वयैव मधुसूदन ।।

तस्मात्त्वदंगतो जातास्तिलाः संतु जगद्धिताः ।। ९ ।।

पालयंतु च देवेश हव्यकव्यानि सर्वदा ।।

दैवे पित्र्ये च सततं नियोज्यास्तत्परैर्नरैः ।। 4.199.१० ।।

नहि दैत्याः पिशाचा वा विप्रं कुर्वंति भारत ।।

तिला यत्रोपयुज्यंते एतच्छीघ्रं विधीयताम् ।। ११ ।।

श्रुत्वा सुराणां तद्वाक्यं विष्णुस्तानिदमब्रवीत् ।।

तिला भवन्तु रक्षार्थं त्रयाणां जगतामपि ।। १२ ।।

शुक्लपक्षे तु देवानां संप्रदद्यात्तिलोदकम् ।।

कृष्णपक्षे पितॄणां च स्नात्वा श्रद्धासमन्वितः ।। १३ ।।

तिलैः सप्ताष्टभिर्वापि समर्पितजलांजलिः ।।

तस्य देवाः सपितरस्तृप्ता यच्छंति शोभनम् ।। १४ ।।

श्वकाकोपहतं यच्च पतितादिभिरेव च ।।

तिलैरभ्युक्षितं सर्वं पवित्रं स्यान्न संशयः ।। १५ ।।

एतैर्मृतैस्तिलैर्यस्तु कृत्वा पर्वतमुत्तमम् ।।

प्रदद्याद्द्विजमुख्याय दानं तस्याक्षयं भवेत् ।। १६ ।।

उत्तमो दशभिर्द्रोणैर्मध्यमः पंचभिर्मतः ।।

त्रिभिः कनिष्ठो राजेन्द्र तिलशैलः प्रकीर्तितः ।। १७ ।।

पूर्ववच्चापरं सर्वं विष्कंभपर्वतादिकम् ।।

दानमन्नं प्रवक्ष्यामि यथावन्नृपसत्तम ।। १८ ।।

यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्भवाः ।।

तिलाः कुशाश्च माषाश्च तस्माच्छं नो भवत्विह ।। १९ ।।

हव्ये कव्ये च यस्माच्च तिलैरेवाभिमंत्रणम् ।।

भवादुद्धर शैलेंद्र तिलाचल नमोऽस्तु ते ।। 4.199.२० ।।

इत्यामंत्र्य च यो दद्यात्तिलाचलमनुत्तमम् ।।

स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ।। २१ ।।

दीर्घायुष्ट्वमवाप्नोति इह लोके परत्र च ।।

पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् ।। २२ ।।

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।

नारी वा तस्य पत्नी स्याद्रूपसौभाग्यसंयुता ।। २३ ।।

दक्षा कुलोद्भवा चैव पुत्रपौत्रसमन्विता ।।

विधानमिदमाकर्ण्य विधिना श्रद्धयान्वितः ।। २४ ।।

कपिलादानपुण्यस्य समं फलमवाप्नुयात् ।। २५ ।।

दानं तिलाचलसमं यदि चान्यदस्ति तद्भूत शास्त्रनिचयं प्रविचार्य बुद्ध्या ।।

यैर्वर्जिता पितृक्रिया न च होमकर्म तेषां प्रदानमिह किं न करोति शर्म ।। २६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिलाचलदानविधिवर्णनं नामैकोनद्विशततमोऽध्यायः ।। १९९ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 200

कार्पासाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अतः परं प्रवक्ष्यामि कार्पासाचलमुत्तमम् ।।

परमं सर्वदानानां प्रियं सर्वदिवौकसाम् ।। १ ।।

देशकालौ समासाद्य धनं श्रद्धां च यत्नतः ।।

देयमेतन्महादानं कुलोद्धरणहेतवे ।। २ ।।

पूर्वोक्तेन विधानेन कृत्वा सर्वमशेषतः ।।

पर्वतं कल्पयेत्तत्र कार्पासेन विधानतः ।। ३ ।।

विंशद्भारस्तु कर्तव्य उत्तमः पर्वतो बुधैः ।।

दशभिर्मध्यमः प्रोक्तो जघन्यः पंचभिर्मतः ।। ४ ।।

भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः ।।

धान्यपर्वतवत्सर्वमासाद्य नृपपुंगव ।। ५ ।।

तद्वज्जागरणं कुर्यात्तद्वच्चैवाधिवासनम् ।।

प्रभातायां तु शर्वर्यामिमं मन्त्रमुदीरयेत् ।। ६ ।।

त्वमेवावरणं यस्माल्लोकानामिह सर्वदा ।।

कार्पासाचल नस्तस्मादघौघध्वंसनो भव ।। ७ ।।

इति कार्पासशैलेन्द्रं यो दद्यात्पर्वसंनिधौ ।।

रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह ।। ८ ।।

रूपवान्सुभगो वाग्मी श्रीमानतुलविक्रमः ।।

पञ्चजन्मानि नारी वा जायते नात्र संशयः ।। ९ ।।

कार्पासपर्वतमयो जगदेकबंधुर्यस्मान्नतेन रहितो वरवस्त्रयोगः ।।

तस्मादघौधशमनाय सुखाय नित्यं देयो नरेण नरनाथविमत्सरेण ।। 4.200.१० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कार्पासाचलदानविधिवर्णनं नाम द्विशततमोऽध्यायः ।। २०० ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 201

घृताचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम् ।।

तेजोऽमृतमयं दिव्यं महापातकनाशनम् ।। १ ।।

पंचाशद्घृतकुम्भानामुत्तमः स्याद्घृताचलः ।।

मध्यमस्तु तदर्धेन तदर्द्धेनावरः स्मृतः ।। २ ।।

अल्पवित्तस्तु कुर्वीत यथाशक्त्या विधानतः ।।

विष्कंभपर्वतांस्तद्वच्चतुर्भागेन कल्पयेत् ।। ३ ।।

शालेयतंदुलानां च कुंभांश्च परिविन्यसेत् ।।

कारयेत्संहतानुच्चान्यथाशोभं विधानतः ।। ४ ।।

वेष्टयेच्छुक्लवासोभिरिक्षुदंडफलादिकैः ।।

धान्यपर्वतवच्छेषं विधानमिह पठ्यते ।। ५ ।।

अधिवासनपूर्वं च तद्वद्धोमं सुरार्चनम् ।।

प्रभातायां तु शर्वयां गुरवे विनिवेदयेत्।।६।।

विष्कंभपर्वतांस्तद्वदृत्विग्भ्यः शांतमानसः ।।

मंत्रेणानेन कौंतेय तच्छृणुष्व वदामि ते ।।७।।

संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसे ।।

तस्माद्घृताचलश्चास्मात्प्रीयतां मम शंकरः ।।८ ।।

तस्मात्तेजोमयं ब्रह्म घृते नित्यं व्यवस्थितम् ।।

घृतपर्वतरूपेण तस्मान्नः पाहि भूधर ।। ९ ।।

अनेन विधिना दद्याद्घृताचलमनुत्तमम् ।।

महापातकयुक्तोऽपि लोकमायाति शांकरम् ।। 4.201.१० ।।

हंससारससंयुक्ते किंकिणीजालमालिते ।।

विमाने अप्सरोभिश्च सिद्धविद्याधरैर्वृतः ।। ११ ।।

विहरेत्पितृभिः सार्द्धं यावदाभूतसंप्लवम् ।। १२ ।।

आज्याचलं प्रचलकुंडलसुन्दरीभिः संसेव्यमानमिह ये वितरंति मर्त्याः ।।

स्वर्गं सुरेंद्रभवनं भवसंनिधिं वा स्नेहानुबंधमचलं भवतीति सर्वम् ।। १३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे घृताचलदानविधिवर्णनं नामैकाधिकद्विशततमोऽध्यायः ।। २०१ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 202

रत्नाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि रत्नाचलमनुत्तमम् ।।

यत्प्रदानान्नरो याति लोकान्सप्तर्षिसेवितान् ।। १ ।।

मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः ।।

मध्यमः पञ्चशतिकस्त्रिशतेनावरः स्मृतः ।। २ ।।

अल्पवित्तस्तु कुर्वीत मुक्ताफलशतेन च ।।

चतुर्थांशेन विष्कंभपर्वताः स्युः समंततः ।। ३ ।।

पूर्वेणवज्रगोमेदैर्दक्षिणेनेंद्रनीलकैः ।।

पुष्परागयुतः कार्यो विद्वद्भिर्गंधमादनः ।। ४ ।।

वैडूर्यविद्रुमैः पश्चात्सावित्रो विपुलाचलः ।।

पद्मरागं ससौवर्णमुत्तरेणापि विन्यसेत् ।। ५ ।।

धान्यपर्वतवच्छेषमत्रापि परिकल्पयेत् ।।

तद्वदावाहनं कृत्वा वृक्षान्देवांश्च कांचनाम् ।। ६ ।।

पूजयेत्पुष्पनैवेद्यैः प्रभाते तु विसर्जनम् ।।

पूर्ववद्गुरुऋत्विग्भ्यां इमान्मंत्रानुदीरयेत् ।।७।।

यथा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः ।।

त्वं च रत्नमयो नित्यमतः पाहि महाचल ।। ८ ।।

यस्माद्रत्नप्रदानेन तुष्टिमेति जनार्दनः ।।

पूजारत्नप्रदानेन तस्मान्नः पाहि सर्वदा ।। ९ ।।

अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् ।।

स याति वैष्णवं लोकममरेश्वरपूजितम् ।। 4.202.१० ।।

यावत्कल्पशतं साग्रमुषित्वेह नराधिप ।।

रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्।। ।। ११ ।।

ब्रह्महत्यादिकं किंचिदत्र चामुत्र वा कृतम् ।।

तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा ।। १२ ।।

मुक्तामयं कनकविद्रुमभक्तिचित्रं चंचन्महामणिमरीचिचयोपपन्नम् ।।

रत्नाचलं द्विजवराय निवेदयित्वा भास्वत्प्रभामभिभवेत्सुरलोकलोके ।। १३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नाचलदानविधिवर्णनं नाम द्वयधिकद्विशततमोऽध्यायः ।। २०२ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 203

रौप्याचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् ।।

यत्प्रदानान्नरो याति सोमलोकं नरोत्तम ।। १ ।।

सहस्रेण पलानां तु उत्तमो रजताचलः ।।

पंचभिर्मध्यमः प्रोक्तस्तदर्द्धेनावरः स्मृतः।।२।।

अशक्तो विंशतेरूर्ध्वं कारयेद्भक्तितः सदा ।।

विष्कंभपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत् ।।३।।

पूर्ववद्राजतान्कुर्यान्मंदरादीन्विधानतः ।।

कलधौतमयांस्तद्वल्लोकेशान्कारयेन्नृप ।।४।।

ब्रह्मविष्णुशिवादींश्च नितंबोऽत्र हिरण्मयः ।।

राजतं स्याद्यदन्येषां सर्वं तदिह कांचनम् ।। ५ ।।

शेषं च पूर्ववत्कृत्वा होमजागरणादिकम् ।।

दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम् ।। ६ ।।

विष्कंभशैलानृत्विग्भ्यः पूजयेच्च विभूषणैः ।।

इमं मंत्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः ।। ७ ।।

पितॄणां वल्लभं यस्माच्छर्मदं शंकरस्य च ।।

रजतं पाहि तस्मान्नो घोरात्संसारसागरात् ।।८।।

इत्थं निवेश्य यो दद्याद्रजताचलमुत्तमम् ।।

गवामयुतदानस्य फलं प्राप्नोति मानवः ।। ९ ।।

सोमलोके सगंधर्वकिंनराप्सरसां गणैः ।।

पूज्यमानो वसेद्विद्वान्यावदाभूतसंप्लवम् ।। 4.203.१० ।।

राजेश राजतगिरिं कनकोपलालीच्छन्नं प्रसन्नसलिले सहितं सरोभिः ।।

यच्छंति ये सुकृतिनो विरजो वि शोकं गच्छंति ते गतमला नृप सोमलोकम् ।।१ १।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रौप्याचलदानविधिवर्णनं नाम त्र्यधिकद्विशततमोऽध्यायः ।। २०३ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 204

शर्कराचलदानविधिवर्णनम्

।।श्रीकृष्ण उवाच ।। ।।

अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम् ।।

यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यंति सर्वदा ।। १ ।।

अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः ।।

चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः ।। २ ।।

भारेणैवार्द्धभारेण कुर्याद्यश्चाल्पवित्तवान् ।।

विष्कंभपर्वतान्कुर्यात्तुरीयांशेन मानवः ।। ३ ।।

धान्यपर्वतवत्सर्वमासाद्य रससंयुतम् ।।

मेरोरुपरितस्तद्वत्स्थाप्य हेमतरुत्रयम् ।। ४ ।।

मंदारः पारिजातश्च तृतीयः कल्पपादपः।।

एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि निधापयेत् ।।५।।

हरिचंदनसंतानौ पूर्वपश्चिमभागयोः ।।

निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले ।। ६ ।।

मंदरे कामदेवं तु कंदबस्य तले न्यसेत् ।।

जंबूवृक्षतले कार्यो गरुन्मान्गंधमादने ।।७।।

प्राङ्मुखो हेममूर्तिश्च हंसः स्याद्विपुलाचले ।।

हैमी श्रेयोर्थिभिः कार्या सुरभिर्दक्षिणामुखी ।। ८ ।।

धान्यपर्वतवत्सर्वमावाहनमखादिकम् ।।

कृत्वाथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम् ।। ९ ।।

ऋत्विग्भ्यश्चतुरः शैलानिमान्मंत्रानुदीरयेत् ।।

सौभाग्यामृतसारोऽयं परमः शर्करायुतः ।। 4.204.१० ।।

यस्मादानंदकारी त्वं भव शैलेंद्र सर्वदा ।।

अमृतं पिबतां ये तु निष्पेतुर्भुवि शीकराः ।। ११ ।।

देवानां तत्समुत्थोऽसि पाहि नः शर्कराचल ।।

मनोभवधनुर्मध्यादुद्भूता शर्करा यतः ।। १२ ।।

तन्मयोऽसि महाशैल पाहि संसारसागरात् ।।

यो दद्याच्छर्कराशैलमनेन विधिना नरः ।। १३ ।।

सर्वपापविनिर्मुक्तः स याति शिवमंदिरम् ।।

चंद्रादिसार्चिसंकाशमधिरुह्यानुजीविभिः ।। १४ ।।

सहैव यानमातिष्ठेत्स तु विष्णुपदे दिवि ।।

ततः कल्प शतांते तु सप्तद्वीपाधिपो भवेत् ।। १५ ।।

आयुरारोग्यसंपन्नो यावज्जन्मायुतत्रयम् ।।

भोजनं शक्तितो दद्यात्सर्वशैलेष्वमत्सरः ।।

स्वयं वा क्षार लवणमश्नीयात्तदनुज्ञया ।। १६ ।।

पर्वतोपस्करं सर्वं प्रापयेद्ब्राह्मणालयम् ।।

आसीत्पुरा ब्रह्मकल्पे धर्ममूर्तिर्नराधिपः ।। १७ ।।

सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः ।।

सोमसूर्यादयो यस्य तेजसा विगतप्रभाः ।। १८ ।।

भवंति शतशो येन राजानोऽपि पराजिताः ।।

यथेच्छारूपधारी च मनुष्योऽप्यपवारितः ।। १९ ।।

तस्य भानुमतीनाम भार्या त्रैलोक्यसुंदरी ।।

लक्ष्मीरिव च रूपेण निर्जितामरसुंदरी ।। 4.204.२० ।।

राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी ।।

दशनारीसहस्राणां मध्ये श्रीरिव राजते ।। २१ ।।

नृपकोटिसहस्रेण न कदाचित्प्रमुच्यते ।।

स कदाचित्स्थानगतं पप्रच्छ स्वं पुरोहितम् ।। २२ ।।

विस्मयाविष्टहृदयो वसिष्ठमृषिसत्तमम् ।।

भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा ।। २३ ।।

कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम् ।। २४ ।।

।। वशिष्ठ उवाच ।।

पुरा लीलावती नाम वेश्या शिवपरायणा ।।

तया दत्तश्चतुर्दश्यां गुरवे लवणाचलः ।। २५ ।।

हेमवृक्षामरैः सार्द्धं यथावद्विधिपूर्वकः ।।

शूद्रः सुवर्णकारस्तु नाम्ना शौंडोभवत्तदा ।। २६ ।।

भृत्यो लीलावतीगेहे तेन हैमा विनिर्मिताः ।।

तरवोऽमरमुख्याश्च श्रद्धायुक्तेन पार्थिव ।। २७ ।।

अतिरूपेण संपन्नान्घटयित्वा ततो हृदि ।।

धर्मकार्यमतिं ज्ञात्वा नागृहीत कथंचन ।। २८ ।।

उज्ज्वालितास्तु तत्पत्न्या सौवर्णामरपादपाः ।।

लीलावती गृहे पार्श्वे परिचर्या च पार्थिव ।। २९ ।।

कृतं ताभ्यां प्रहर्षेण द्विजशुश्रूषणादिकम् ।।

सा तु लीलावती वेश्या कालेन महता नृप ।। 4.204.३० ।।

सर्वपापविनिर्मुक्ता जगाम शिवमंदिरम् ।।

योऽसौ सुवर्णकारश्च दरिद्रोऽप्यति सत्त्ववान् ।। ३१ ।।

न मूल्यमादाद्वेश्यातः स भवानिह सांप्रतम् ।।

सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः ।। ३२ ।।

यया सुवर्ण रचितास्तरवो हेमदेवताः ।।

सम्यगुज्ज्वलिताः पत्नी सेयं भानुमती तव ।। ३० ।।

उज्ज्वालनादुज्ज्वलरूपमस्याः सुजातमस्मिन्भुवनाधिपत्यम् ।।

तस्मात्कृतं तत्परिकर्म रात्रावनुद्धताभ्यां लवणाचलस्य ।। ३४ ।।

तस्माच्च लोकेष्वपराजितस्त्वमारोग्यसौभाग्ययुता च लक्ष्मीः ।।

तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्दशधा कुरुष्व ।। ३५ ।।

तथेति सम्पूज्य च धर्ममूर्ति वचो वशिष्ठस्य ददौ स सर्वान् ।।

धान्याचलादीन्क्रमशः पुरारेर्लोकं जगामामरपूज्यमानः ।। ३६ ।।

यश्चाधनः पश्यति दीयमानं मेरोः प्रदानमिह धर्मपरो मनुष्यः ।।

शृणोति भक्त्या परयाऽप्रमादी विकल्मषः सोऽपि दिवं प्रयाति ।। ३७ ।।

दुःस्वप्नं प्रशभमुपैति पठ्यमाने शैलेन्द्रे भवभयभेदने नराणाम् ।।

यः कुर्यात्किमु नृपपुंगवेह सम्यक्छांतात्मा हरिहरपुरमेति जंतुः ।। ३८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शर्कराचलदानविधि वर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ।। २०४ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 205

सदाचारधर्मवर्णनम्

।। युधिष्ठिर उवाच ।। ।।

प्रतिपन्क्रमयोगेन तिथीनां विस्तरः श्रुतः ।।

सरहस्यः समंत्रश्च प्रारंभोद्यापनैः सह ।। १ ।।

नवग्रहमखात्सर्वं होमकर्मावधारितम् ।।

स्नानक्रमश्च विदितो विज्ञाताश्चोत्सवा मया ।। २ ।।

दानधर्मस्त्वशेषेण श्रुतः सर्वार्थदर्शितः ।।

तडागोत्सर्जनविधिर्विदितः पादपोत्सवः ।। ३ ।।

एवं गतं मम मनो मुह्यते मधुसूदन ।।

व्रतं कथयता कृष्ण तास्ताः संश्रित्य देवताः ।। ४ ।।

देवानां देवकीपुत्र नानात्वं संप्रदर्शितम् ।।

तिथिक्रमान्कथयता पूजामन्त्रोधिवासनम् ।। ५ ।।

व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः ।।

एक एवात्र निर्दिष्टो देवः सर्वगतोऽव्ययः ।। ६ ।।

वर्णाश्रमाचारधर्मः कस्मान्नात्र प्रदर्शितः ।।

एते महर्षयस्तुष्टाः श्रोतुकामा भवद्वचः ।। ७ ।।

।। श्रीकृष्ण उवाच ।। ।।

व्रतदानैकलेशोयं कथितस्तव पार्थिव ।।

विशेषतश्च शक्नोति वक्तुं यदि सरस्वती ।। ८ ।।

सर्वस्तरति दुर्गाणि सर्वो भद्राणि पश्यति ।।

वर्णाश्रमाणां सामान्य इति धर्मः प्रकीर्तितः ।। ९ ।।

कथितोऽयं व्रतत्वोहो देवानुद्दिश्य यो मया ।।

परमार्थः स एवोक्तो देवस्तमुपधारय ।। 4.205.१० ।।

यो ब्रह्मा स हरिः प्रोक्तो यो हरिः स महेश्वरः ।।

महेश्वरः स्मृतः सूर्यः सूर्यः पावक उच्यते ।। ।। ११ ।।

पावकः कार्तिकेयोसौ कार्तिकेयो विनायकः ।।

गौरी लक्ष्मीश्च सावित्री शक्तिभेदाः प्रकीर्तिताः ।। १२ ।।

देवं देवीं समुद्दिश्य यः करोति व्रतं नरः ।।

न भेदस्तत्र मंतव्यः शिवशक्तिमयं जगत् ।। १३ ।।

बहुप्रकारा वसुधा भेदाः साग्न्यनिलांभसाम् ।।

परमार्थतश्चिंत्यमानो न भेदः प्रतिभासते ।। १४ ।।

कञ्चिद्देवं समाश्रित्य करोति किमपि व्रतम् ।।

त्रयीधर्मानुगं पार्थ एकं तत्रापि कारणम् ।। १५ ।।

यश्चैव ते मया ख्यातो व्रतदानविधिः परः ।।

सफलः स तु विज्ञेयः सदाचारवतां सताम् ।। १६ ।।

आचारहीनं न पुनंति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ।।

छंदांस्येनं मृत्युकाले त्यजंति नीडं शकुन्ता इव जातपक्षाः ।। १७ ।।

कपालस्थं यथा तोयं श्वदृतौ वा यथा पयः ।।

दुष्टं स्यात्स्थानदोषेण वृत्तहीने तथा शुभम् ।। १८ ।।

वृत्तं यत्नेन संरक्षेद्वित्तमेति प्रयाति च ।।

अहीनो वित्ततो हीनो वृत्ततस्तु हतो हतः ।। १९ ।।

एवमाचारधर्मस्य मूलं राजन्कुलस्य च ।।

आचाराद्धि च्युतो जंतुर्न कुलीनो न धार्मिकः ।। 4.205.२०।।

किं कुलेनोपदिष्टेन् विपुलेन दुरात्मनाम् ।।

कृमयः किं न जायंते कुसुमेषु सुगंधिषु ।। २१ ।।

हीनजातिप्रसूतोपि शौचाचारसमन्वितः ।।

सर्वधर्मार्थकुशलः सकुलीनः सतां वरः ।। २२ ।।

न कुलं कुलमित्याहुराचारः कुलमुच्यते ।।

आचारकुशलो राजन्निह चामुत्र नंदते ।। २३ ।।

।। युधिष्ठिर उवाच ।। ।।

सदाचारमहं कृष्ण श्रोतुमिच्छामि शाश्वतम् ।।

सर्वं धर्ममयः कोऽत्र सदाचारः प्रकीर्तितः ।। २४ ।।

।। श्रीकृष्ण उवाच ।। ।।

आचारप्रभवो धर्मः संतश्चाचारलक्षणाः ।।

साधूनां च यथा वृत्तं स सदाचार उच्यते ।। २९ ।।

तस्मात्कुर्यादिहाचारं य इच्छेद्गतिमात्मनः ।।

अपि पापशरीरस्य आचारो हंत्यलक्षणम् ।। २६ ।।

अदृष्टमश्रुतं वेदं पुरुषं धर्मचारिणम् ।।

स्वानि कर्माणि कुर्वाणं तं जनं कुरुते प्रियम् ।। २७ ।।

ये नास्तिका नैष्ठिकाश्च गुरुशास्त्रातिलंघिनः ।।

अधर्मज्ञा दुराचारास्ते भवंति गतायुषः ।। २८ ।।

सर्वलक्षणहीनोपि यः सदाचारवान्नरः ।।

श्रद्दधानोनसूयश्च सर्वान्कामानवाप्नुयात् ।। २९ ।।

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् ।।

ब्राह्मणानलगो सूर्यान्न मेहेत कदाचन ।। 4.205.३० ।।

उदङ्मुखो दिवारात्रावुत्सर्गं दक्षिणामुखः ।।

उत्थायाचम्य तिष्ठेत पूर्वां संध्यां समाहितः ।। ३१ ।।

एवमेवोत्तरां संध्यां समुपासीत वाग्यतः ।।

नेक्षेतादित्यमुद्यन्तं नास्तं यांतं कदाचन ।। ३२ ।।

ऋषयो दीर्घतपसा दीर्घमायुरवाप्नुयुः ।।

उपासते येन पूर्वां द्विजाः संध्यां न पश्चिमाम् ।। ३३ ।।

सर्वांस्तान्धार्मिको राजा शूद्रकर्मणि योजयेत् ।।

आबाधासु यथाकामं कुर्यान्मूत्रपुरीषयोः ।। ३४ ।।

शिरसा प्रावृतेनैव समास्तीर्य तृणैर्महीम् ।।

ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि ।। ३५ ।।

न मूत्रमधितिष्ठेत न कृष्टे न च गोव्रजे ।।

अन्तर्जलादावसथाद्वल्मीकान्मूषकस्थलात् ।। ३६ ।।

कृतशौचावशिष्टाश्च वर्जयेत्पञ्च वै मृदः ।।

देवार्चनादिकार्याणि तथा गुर्वभिवादनम् ।। ३७ ।।

कुर्वीत सम्यगाचम्य तद्वदन्नभुजि क्रियाम् ।।

अफेनशब्दगंधाभिरद्भिरच्छाभिरादरात् ।। ।। ३८ ।।

आचामेत्प्रयतः सम्यक्प्राङ्मुखोदङ्मुखोऽपि वा ।।

त्रिवर्गसाधने यच्च सदा कार्यं विपश्चिता ।। ३९ ।।

तत्सांनिध्ये गृहस्थस्य सिद्धिरत्र परत्र च ।।

पादेन कार्यं पारत्र्यं पादं कुर्याच्च संचये ।। 4.205.४० ।।

अर्धेनाहारचरणनित्यनैमित्तिकांतकम् ।।

अर्थस्योपार्जने यत्नः सदा कार्यो विपश्चितैः ।। ४१ ।।

तत्संसिद्धौ हि सिद्ध्यन्ति धर्मकामादयो नृप ।।

केशप्रसाधनादर्शदर्शनं दंतधावनम् ।। ४२ ।।

पूर्वाह्न एव कार्याणि देवतानां च पूजनम् ।।

दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ।। ४३ ।।

उच्छिष्टोत्सर्जनं दूरात्सदा कार्यं हितैषिणा ।।

लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः ।। ४४ ।।

नित्योच्छिष्टः संकरकृन्नेहायुर्विंदते महत् ।।

नग्नां परस्त्रियं नेक्षेन्न पश्येदात्मनः शकृत् ।। ४५ ।।

उदक्यादर्शनस्पर्शं कुर्यात्संभाषणं न च ।।

नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ।। ४६ ।।

नाधितिष्ठेच्छकृन्मूत्रे केशभस्मकपालिकान् ।।

तुषांगारास्थिशीर्णानि रञ्जुवस्त्रादिकानि च ।। ४७ ।।

धारिणो न नमेद्विद्वान्नासनं चापि दापयेत् ।।

ब्राह्मणान्प्रणमेद्विद्वानासनं चापि दापयेत् ।। ४८ ।।

कृतांजलिरुपासीत गच्छंतं पृष्ठतोन्वियात् ।।

न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् ।। ४९ ।।

नामुक्तकेशैर्भोक्तव्यं न नग्नः स्नानमाचरेत् ।।

स्वप्तव्यं नैव नग्नेन न चोच्छिष्टस्तु संविशेत् ।। 4.205.५० ।।

उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ।।

केशग्रहान्प्रहारांश्च शिरस्येतानि वर्जयेत् ।। ५१ ।।

नान्यत्र पुत्र शिष्याभ्यां शिफया ताडनं स्मृतम् ।।

न पाणिभ्यां संहताभ्यां कंडूयेदात्मनः शिरः ।। ५२ ।।

न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं नरैः ।।

अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् ।। ५३ ।।

न भुक्तोत्तरकालं च न गम्भीरजलाशये ।।

शिरःस्नानं तु तैलेन नांगं किंचिदुपस्पृशेत्।। ।। ५४ ।।

तिलपिष्टं च नाश्नीयात्तथास्यायुर्न हीयते ।।

दुष्कृतं न गुरोर्भूयात्क्रुद्धं चैनं प्रसादयेत् ।।५५।।

परीवादं न शृणुयादन्येषामपि जल्पताम्।।

सदानुपहतस्तिष्ठेत्प्रशस्ताश्च तथौषधीः ।। ५६ ।।

गारुडानि च रत्नानि बिभृयात्प्रयतो नरः ।।

सुस्निग्धामलकेशश्च सुगन्धिश्चारुवेषधृक् ।।५७।।

सिताः सुमनसो हृद्या बिभृयाच्च नरः सदा।।

किंचित्परस्वं न हरेन्नाल्पमप्यप्रियं वदेत्।।५८।।

प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ।।

नान्याश्रितं तथा वैरं रोचयेत्पुरुषेश्वरः।।५९।।

न दुष्टयानमारोहेत्कूलच्छाया न संश्रयेत् ।।

विद्विष्टपतितोन्मत्तबहुवैरादिसंकरैः ।।4.205.६०।।

बंधकीबंधकीभर्तृक्षुद्रानृत कथैः सह ।।

तथातिव्ययशीलैश्च परिवादरतैः शठैः ।।६१।।

बुधो मैत्रीं न कुर्वीत नैकः पंथानमाश्रयेत् ।।

नावगाहेज्जलौघस्य वेगमग्रे नरेश्वरा।६२।।

प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ।।

न हुंकुर्याच्छवं चैव शवगन्धो हि सोमजः ।। ६३ ।।

न कुर्याद्दन्तसंवर्षं न कुर्याच्चलनासिकाम् ।।

नासंस्पृष्टमुखो ब्रूयाच्छ्वासकासौ च वर्जयेत् ।। ६४ ।।

नोच्चैर्हसेत्सशब्दं च न मुञ्चेत्पवनं बुधः ।।

नखान्न वादयेच्छिंद्यान्न नखैश्च महीं लिखेत् ।। ।। ६५ ।।

न श्मश्रु भक्षयेच्चैव न लोष्ठानि च मर्दयेत् ।।

पादेन नाक्रमेत्पादं न पूज्याभिमुखं नयेत ।।६६।।

नोच्चासने समासीत गुरोरग्रे कदाचन ।।

तस्मात्सदाचारपरो भवेत्कामचरो न हि ।। ६७ ।।

लोकद्वये शुभं प्रेप्सुः प्रेत्य स्वर्गे महीयते ।।

चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ।। ६८ ।।

दुष्टस्त्रीसंनिकर्षं च वर्जयेन्निशि सर्वदा ।।

ग्रीष्मवर्षासु चच्छत्री मौनी रात्रौ वनेषु च ।। ६९ ।।

केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा ।।

स्नानार्द्रां धरणीं चैव दूरतः परिवर्जयेत्।।4.205.७०।।

पंथा देयो ब्राह्मणेभ्यो राजभ्यः स्त्रीभ्य एव च ।।

विद्याधिकस्य गुर्विण्या भारार्तस्य महीयसः।।७१।।

मूकांधबधिराणां च मत्तस्योन्मत्तकस्य च ।।

उपानद्वस्त्रमाल्यं च धृतमन्यैर्न धारयेत् ।। ७२ ।।

न हीदृशमनायुष्यं लोके किञ्चन विद्यते ।।

यादृशं पुरुषस्येह परदारोपसेवनम् ।।७३।।

न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याः प्रयत्नतः ।।

अनायुष्या भवेदीर्ष्या तस्मात्तां परिवर्जयेत् ।। ७४ ।।

मूर्खोन्मत्तव्यसनिनो विरूपान्मानिनस्तथा ।।

हीनांगानधिकांगांश्च विद्याहीनांश्च नाक्षिपेत् ।। ७५ ।।

पानीयस्य क्रिया नक्तं तथैव दधिसक्तवः ।।

वर्जनीया महाराज निशीथे भोजनक्रियाः ।। ७६ ।।

नोर्ध्वजानुश्चिरं तिष्ठेन्न रहस्यपरो भवेत् ।।

तद्वन्नोपविशेत्प्राज्ञः पादेनाक्रम्य वासनम् ।।७७।।

न चातिरक्तवासाः स्याच्चित्रासितधरोऽपि वा ।।

न च कुर्याद्विपर्यासं वाससो न विभूषणे ।। ७८ ।।

स्त्रीं कृशां नावजानीयाद्दीर्घमायुर्जिजीविषुः ।।

ब्राह्मणं क्षत्रियं सर्वं सर्वे ह्याशीविषोपमाः ।।७९।।

हन्यादाशीविषः क्रुद्धो यावत्स्पृशति दंष्ट्रया ।।

क्षत्रियोऽपि दहेत्क्रुद्धो यावत्पश्यति तेजसा।।4.205.८०।।

ब्राह्मणः सकुलं हन्याद्ध्याने नावेक्षितेन च ।।

नातिकल्यं नातिसायं न च मध्यं दिने तथा।।८१।।

नाज्ञातैः सह गंतव्यं नैकेन बहुभिः सह ।।

नारुंतुदः स्यान्न परोक्षवादी न सही नतः ।। ८२ ।।

रोहते चाग्निना दग्धं वनं परशुना हतम् ।।

वचो दुरुक्तबीभत्सं न संरोहति चाशतम् ।। ८३ ।।

नास्तिक्यं वेदनिंदा च देवतानां च कुत्सनम् ।।

द्वेषस्तंभादिमानस्य क्लैब्यं च परिवर्जयेत् ।। ८४ ।।

न ब्राह्मणं परिवदेन्न नक्षत्राणि दर्शयेत् ।।

तिथिं पक्षस्य न ब्रूयाद्ययास्यायुर्न रिष्यते ।। ८५ ।।

तेजो निष्ठीव्य वासश्च परिधायाचमेद्बुधः ।।

जितामित्रो नृपो यश्च बलवान्कर्मतत्परः ।।८६ ।।

तत्र नित्यं वसेत्प्राज्ञः कृतकृत्यः पतौ सुखम् ।।

पौराः सुसंहता यत्र सततन्यायवर्तिनः ।। ८७ ।।

यत्र स्त्रियोऽमत्सरिण्यस्तत्र वासः सुखोदयः ।।

यस्मिन्कृषीवला राष्ट्रे प्रायशो नातिभाषिणः ।। ८८ ।।

यत्रौषधान्यशेषाणि वसेत्तत्र विचक्षणः ।।

तत्र राजन्न वस्तव्यं यत्रैतत्त्रितयं सदा ।। ८९ ।।

जिगीषुः पूर्ववैरं च जनश्च विरतोत्सवः ।।

तत्र राजन्न वस्तव्यं यत्र नास्ति चतुष्टयम् ।। 4.205.९० ।।

ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ।।

अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः ।। ९१ ।।

न च रात्रौ महाराज दीर्घराज्यमभीप्सता ।।

हेमकारगृहे चान्नमश्नीयान्न च विश्वसेत्।। ९२ ।।

न च मित्रं प्रकुर्वीत हेमकारं कदाचन ।।

भिन्नभांडं च खट्वां च कुक्कुरं कुक्कुटं तथा ।।९३।।

अप्रशस्तानि चत्वारि ये च वृक्षाः सकंटकाः ।।

भिन्न भांडे बलिः प्रायः खद्वायां चेह निश्चयः ।। ९४ ।।

नाश्नंति पितरस्तस्य यत्र कुक्कुरकुक्कटौ ।।

वृक्षमूले पिशाचानां सर्वेषामेव संस्थितिः ।। ९५ ।।

अतस्तेषां तले भुजन्नश्नुते पूयशोणितम् ।।

असंस्कृतान्नभुङ्मूत्रं बालादिप्रभवं स्वयम् ।। ९६ ।।

सुवासिनीं गुर्विणीं च वृद्धां बालातुरांस्तथा ।।

भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ।। ९७ ।।

अघं स केवलं भुंक्ते बद्धगोवाहनादिकम् ।।

यो भुंक्ते च बहिर्ज्येष्ठप्रेक्षतामप्रदाय च ।। ९८ ।।

वैश्वदेवं ततः कुर्याद्यावदाहुतयः क्रमात् ।।

प्रथमां ब्रह्मणे दद्यात्प्रजानां पतये ततः ।। ९९ ।।

तृतीयां चैव गुह्येभ्यः कश्यपाय तथा पराम् ।।

ततश्चानुमते दद्याद्दत्त्वा गृहबलिं ततः ।। 4.205.१०० ।।

पूर्वाख्यातं मया यत्ते नित्यकर्मक्रियाविधौ ।।

दद्यादथ धरित्रीणां दद्यात्तु मणिकत्रयम् ।। १०१ ।।

प्राच्यादिक्रमयोगेन इंद्रादीनां बलिं क्षिपेत् ।।

ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमम् ।।१०२।।

विश्वेभ्यश्चैव देवेभ्यो विश्वभूतेभ्य एव च ।।

कृत्वापसव्यं वायव्यं यक्ष्मैतत्ते निवेदयेत् ।।१०३।।

ततश्चाग्रं समुद्धृत्य हंतकारोपकल्पितम् ।।

यथाविधि यथान्यायं ब्राह्मणायोपपादयेत् ।।१०४।।

दत्त्वा विधिभ्यो देवेभ्यो गुरुभ्यः सुश्रुताय च ।।

पुण्यगंधांबरधरो माल्यधारी नरेश्वर ।। १०५ ।।

नैकवस्त्रधरोऽश्नीयान्नार्द्रपादो महीपते ।।

विशुद्धवदनः प्रीतो भुंजीत न विदिड्मुखः ।। १०६ ।।

प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः ।।

कुत्सितेन हतं चैव जुगुप्सावदसंस्कृतम् ।।१०७।।

दत्त्वा तु भुंक्ते शिष्टेभ्यः क्षुधितेभ्यस्तथा गृही ।।

प्रशस्तशुद्धपात्रेषु भुञ्जीताकुपितो नृप ।। १०८ ।।

नासंदीसंस्थिते पात्रे नादेशे च नरेश्वर ।।

ना काले नातिसंकीर्णे दत्त्वाग्रं च नरो मही ।। १०९ ।।

अश्नीयात्तन्मयो भूत्वा पूर्वं तु मधुरं रसम् ।।

लवणोग्रौ ततः पश्चात्कटुतीक्ष्णादिकं ततः ।। ।। 4.205.११० ।।

मार्दवं पुरुषोश्नन्वै मध्ये च कठिनाशनम् ।।

अंते पुनर्द्रवाशी च नरो रोगेण मुच्यते ।।१११।।

दिवाधानासु वसति रात्रौ च दधिसक्तुषु ।।

अलक्ष्मीः कोविदारेषु सर्वदैव कृतालया ।। ११२ ।।

अनिंद्यं भक्षयेन्नित्यं वाग्यतोऽन्नमकुत्सयन् ।।

भुक्त्वा सम्यग्यथाचम्य प्राङ्मुखोदङ् मुखोऽपि वा ।। ११३ ।।

यथावत्पुनराचामेत्पाणी प्रक्षाल्य यत्नतः ।।

अभीष्टदेवतानां च कुर्वीत स्मरणं नरः ।। ११४ ।।

प्राणापानसमानानामुदानव्यानयोस्तथा ।।

अन्नपुष्टिकरं चास्तु ममाद्याव्याहतं सुखम् ।। ११५ ।।

अगस्तिरग्निर्वडवानलश्च भुक्तं प्रपात्रं जरयत्वशेषम् ।।

सुखं च मे तत्परिणामसंभव यच्छत्वरोगं खलु वासुदेवः ।। ११६ ।।

इत्युच्चार्य स्वहस्तेन पीरमार्ज्य तथोदरम् ।।

अनायासप्रदायीति कुर्यात्कर्माण्यतंद्रितः।।११७।।

संध्यायां पथिकः कश्चित्समागच्छति भारत ।।

पादशौचासनैः प्रह्वः स्वागतोक्त्या च पूजयेत् ।। ११८ ।।

ततश्चान्नप्रदानेन शयनेन च पार्थिव ।।

दिवा तिथौ च विमुखो यदैकं पातकं भवेत् ।।११९।।

तदेवाष्टगुणं पुंसां सूर्ये हंसमुखे गते ।।

गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप ।। 4.205.१२० ।।

नाविशालां न वा भग्नां नासमां मलिनां न च ।।

न च जंतुमयीं शय्यां समातिष्ठेदनापदि ।। १२१ ।।

प्राच्यां दिशि शिरः शस्तं याम्यायामपि भूपते ।।

सदैव स्वपतां पुंसां विपरीतं तु रोगदम् ।। १२२ ।।

ऋतावुपगमः शस्तः सपत्न्यां ह्यवनीपते ।।

पुण्यर्क्षे च शुभे काले पुत्रा युग्मासु रात्रिषु ।। १२३ ।।

न चास्नातां स्त्रियं गच्छेद्गर्भिणीं न रजस्वलाम् ।।

नानिष्टां वै न कुपितां नाशस्तां न च रोगिणीम् ।। १२४ ।।

नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।।

सुक्षामामत्यभुक्तां च स्वयं चैभिर्गुणैर्युतः ।।१२५।।

स्नातः सुगन्धधृग्धृष्टो न श्रांतः क्षुधितोऽपि वा ।।

सकामः सानुरागश्च व्यवायं पुरुषो व्रजेत् ।। १२६ ।।

चतुर्दश्यां तथाष्टम्यां पंचदश्यां च पर्वसु ।।

तैलाभ्यंगं तथा भोगान्योषितश्च विवर्जयेत् ।। १२७ ।।

क्षुर कर्मणि चांते च स्त्रीसंभोगे च भारत ।।

स्नायीत चैलवान्प्रातः कटभूमिमुपेत्य च ।। १२८ ।।

गुरोः पतिव्रतानां च तथा यज्ञतपस्विनाम् ।।

परिवादं न कुर्वीत परिहासेऽपि भारत ।। १२९ ।।

युगपज्जलमग्निं च बिभृयान्न विचक्षणः ।।

गुरुं देवान्प्रति तथा न च पादौ प्रसारयेत् ।। 4.205.१३० ।।

नाचक्षीत धयंतीं गां जलं नांजलिना पिबेत् ।।

वातातपौ न सेवेत अनुतापं च वर्जयेत् ।।१३१।।

दासं शपेन्न वै क्रुद्धः सर्वबन्धूनमत्सरी ।।

भीताश्वासनकृत्साधुः स्वर्गस्तस्याव्ययं फलम् ।। १३२ ।।

नोर्ध्वं तु पत्तनद्वारं निरीक्ष्य पर्यटेन्नरः।।

युगमात्रं महीपृष्ठे नरो गच्छेद्विलोकयन् ।। १३३ ।।

शेषाहे त्वपि शेषांश्च वश्यात्मा यो निरस्यति ।।

तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ।। १३४ ।।

वृथा मांसं न खादेत पृष्ठमांसं तथैव च ।।

आक्रोशं च विवादं च पैशुन्यं च विवर्जयेत् ।। १३५ ।।

संयावं कृशरं मांसं शष्कुलीपायसं तथा ।।

आत्मार्थे न प्रकर्तव्यं देवतानां प्रकल्पयेत् ।। ।। १३६ ।।

अजाश्च नावकर्षेत ता बहिर्धारयंति च ।।

रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पंडितैः ।। १३७ ।।

वर्जयित्वात्र कमलं तथा कुवलयं विभो ।।

रक्तं शिरसि धार्यं च तथा पानेयमित्यपि ।। १३८ ।।

कांचनीयापि या माला सा न दुष्यति कर्हिचित् ।।

अन्यदेव भवेद्वासः शयनीये नरोत्तम ।। १३९ ।।

अन्यदर्चासु देवानामन्यद्धार्यं सभासु च ।।

पिप्पलं च वटं चैव शीर्णश्लेष्मांतकं तथा ।। 4.205.१४० ।।

उदुबरं न खादेत भवार्थी पुरुषोत्तमः ।।

पतितैश्च कथांते च च्छेदनं च विवर्जयेत् ।। १४१ ।।

पतितः स्यान्नरो राजन्पतितैस्तु सहाचरन् ।।

वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदिह ।। १४२ ।।

गृहे वा संस्थापितास्ते गृहवृद्धिमभीप्सता ।।

गृहे पारावता धन्याः शुकाश्च सहसारिकाः।। १४३ ।।

भवंत्येते तथा पापास्तथा वै तिलपायिकाः ।।

आजोक्षा चंदनं वीणा आदर्शो मधुसर्पिषी ।। १४४ ।।

जलाग्नी चैव बिभृयाद्गृहे नित्यमिति स्थितिः।।

धनुर्वेदे च सततं यत्नः कार्यो नराधिप ।। १४५ ।।

हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव हि।।

यत्नवान्भव राजेन्द्र नयवान्सुखमेधते ।। १४६ ।।

प्रजापालन युक्तश्च न क्षांतिं लभते नृप ।।

यज्ञशास्त्रं च विज्ञाय शब्दशास्त्रं च भारत ।। १४७ ।।

गांधर्वशास्त्रं विज्ञेयं कला ज्ञेयाश्च भारत ।।

पुराणमितिहासं च तथाख्यानानि यानि च ।। १४८ ।।

एष ते लक्षणोद्देश आचारस्य प्रकीर्तितः ।।

शेषाश्च वेद्या वृद्धेभ्यः प्रत्याहार्या नराधिप।। १४९ ।।

आचारो भूतिजनन आचारः कीर्तिवर्धनः ।।

आचाराद्वर्धते ह्यायुराचारो हंत्यलक्षणम् ।। 4.205.१५० ।।

आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यत ।।

आचारः परमो धर्म आचाराद्वर्धते धनम् ।। १५१ ।।

पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।।

सर्ववर्णानुकंपार्थं मयैतत्समुदाहृतम् ।। ।। १५२ ।।

आचार एव नरपुंगव सेव्यमानो धर्मार्थकामफलदो भवतीह पुंसाम् ।।

तस्मात्सदैव विदुषावहितेन राजञ्छास्त्रोदितो ह्यनुदिनं परिपालनीयः ।। १५३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सदाचारधर्मवर्णनं नाम पञ्चाधिकद्विशततमोऽध्यायः ।। २०५ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 206

रोहिणीचन्द्रशयनव्रतविधिवर्णनम्

।। नारद उवाच ।। ।।

दीर्घायुरारोग्यकुलादिवृद्धियुक्तः पुमान्येन गुणान्वितः स्यात् ।।

मुहुर्मुहुर्जन्मनि येन सम्यग्व्रतं मम ब्रूहि तदिंदुमौलेः ।। १ ।।

।। श्रीभगवानुवाच ।। ।।

त्वया पृष्टमिदं सम्यगमुत्राक्षयकारकम् ।।

रहस्यं ते प्रवक्ष्यामि यत्पुराणविदो विदुः ।। २ ।।

रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम् ।।

तस्मिन्नारायणस्यार्च्चामर्च्चयेदिंदुनामभिः ।। ३ ।।

यदा सोमदिनयुक्ता भवेत्पंचदशी क्वचित् ।।

अथ वा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते ।। ४ ।।

तदा स्नानं नरः कुर्यात्पंचगव्यं च सर्षपैः ।।

आप्यायस्वेति च जपेद्विद्वानष्टशतं पुनः ।। ।। ५ ।।

शूद्रोऽपि परया भक्त्या पाखंडालापवर्जितः ।।

सोमाय वरदायाथ विष्णवे च नमोनमः ।। ६ ।।

कृतजप्यः स्वभवनमागत्य मधुसूदनम् ।।

पूजयेत्फलपुष्पैश्च सोमनामानि कीर्तयेत् ।। ७ ।।

सोमाय शांताय नमोऽस्तु पादावनंतनाम्ने ह्यनुजानु जंघे ।।

ऊरुद्वयं चापि वृकोदराय संपूजयेन्मेढ्रमनंगबाहवे ।। ८ ।।

नमोनमः कामसुखप्रदाय कटिः शशांकस्य समर्चनीया ।।

तथोदरं चाप्यमृतोदराय नाभिः सुपूज्या विधिलोचनाय ।। ९ ।।

नमोऽस्तु चन्द्राय मुखं प्रपूज्य हनुर्द्विजानामधिपाय पूज्या ।।

आस्यं नमश्चंद्रमसेभिपूज्यमोष्ठौ कुमुत्खंडवनप्रियाय ।। 4.206.१० ।।

नासा च नाथाय वनौषधीनां ह्यानंन्ददायाथ पुनर्भ्रुवोश्च ।।

नेत्रद्वयं नीलकुमुत्प्रियाय चेंदीवरश्यामकराय चोरः ।। ११ ।।

नमः समस्ताध्वरवंदिताय कर्णद्वयं दैत्यनिषूदनाय ।।

ललाटमिंदोरुदधिप्रियाय केशा सुषुम्णाधिपतेः प्रपूज्याः ।। १२ ।।

शिरः शशांकाय नमोऽसुरारेर्विश्वेश्वरायेति नमः किरीटम् ।।

पद्मप्रिये रोहिणि नाम लक्ष्मि सौभाग्यसौख्यामृततारकायै ।। १३ ।।

देवीं च संपूज्य सुगन्धधूपनेवद्यपुष्पादिभिरिंदुपत्नीम्।।

प्रपूज्य भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः ।।१४।।

देयः प्रभाते स हिरण्यवारिकुंभो मनःपापविनाशनाय।

संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिं च ।। १५ ।।

ग्रासान्पयः सर्पियुतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तम् ।।

कदंबनीलोत्पलकेतकानि जाती सरोजं शतपत्रिका च ।।१६।।

अम्लानकुब्जानथ सिंदुवारपुष्पं पुनर्नारद मल्लिकायाः।।

मुक्तं च विष्णोः करवीरपुष्पं श्रीचंपकं चंद्रमसश्च देयम्।।१७।।।

श्रावणादिषु मासेषु क्रमादेतानि सर्वदा ।।

यस्मिन्मासे व्रतादिः स्यात्पुष्पैरभ्यर्चयेद्धरिम् ।। १८ ।।

एकसंवत्सरं यावदुपोष्य विधिवन्नरः ।।

व्रतांते शयनं दद्याद्दर्पणोपस्करान्वितम् ।। १९ ।।

रोहिणचंद्रमिथुनं कारयित्वा तु कांचनम् ।।

चंद्रः षडंगुलः कार्यो रोहिणी चतुरंगुला ।। 4.206.२० ।।

मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम् ।।

क्षीरकुंभोपरि पुन. कांस्यपात्राक्षतान्वितम् ।। २१ ।।

दद्यान्मंत्रेणे पूर्वाह्ने शालीक्षुफलसंयुतम् ।।

श्वेतामथ सुवर्णास्यां रौप्यखुरसमन्विताम् ।। २२ ।।

सवस्त्रभाजनां धेनुं तथा शंखं च शोभनम् ।।

भूषणैर्द्विजदांपत्यमलंकृत्य गुणान्वितम् ।। २३ ।।

चंद्रोऽयं द्विजरूपेण सभार्य इति कल्पयेत् ।।

यथा न रोहिणी कृष्ण शयनं त्यज्य गच्छति ।। २४ ।।

सोमरूपस्य ते तद्वन्ममाभेदोऽस्तु मूर्तिभिः ।।

यथा त्वमेव सर्वेषां परमानंदमुक्तिदः ।। २५ ।।

भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि यज्ञेऽस्तु मे दृढा ।।

इति संसारभीतस्य मुक्तिकामस्य चानघ ।। २६ ।।

रूपारोग्यायुषामेतद्विधायकमनुत्तमम् ।।

इदमेव पितॄणां च सर्वदा वल्लभं मुने ।। २७ ।।

त्रैलोक्याधिपतिर्भूत्वा शतकल्पशतत्रयम् ।।

चंद्रलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ।। २८ ।।

नारी वा रोहिणी चंद्रशयनं वा समाचरेत् ।।

साऽपि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम् ।। २९ ।।

इति पठति शृणोति वा य इत्थं मधुमथनार्चनमिंदुकीर्तनेन ।।

मतिमपि च ददाति सोऽपि शौरेर्भवनगतः परिपूज्यतेऽमरौघैः ।। 4.206.३० ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नारदमहेश्वरसंवादे रोहिणीचंद्रशयनव्रतविधिवर्णनं नाम पडधिकद्विशततमोऽध्यायः ।। २०६ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 207

श्रीकृष्णस्य द्वारकागमनवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।

व्रतं दानमथो राजंस्तव धर्माः प्रकाशिताः ।।

धर्ममूलं यतश्चेदं तस्माद्धर्मपरो भव ।। १ ।।

जानताऽपि मया पार्थ कामार्थौ न प्रकाशितो ।।

यतः स्वयं प्रवृत्तोत्र लोकः किमनुवर्ण्यते ।। २ ।।

कामिनो वर्णयन्कामाँल्लोभं लुब्धस्य वर्णयन् ।।

नरः किं फलमाप्नोति कूपेंऽधमिव पातयन् ।। ३ ।।

भविष्योत्तरमेतत्ते कथितं पांडुनंदन ।।

सदाचारवतां पुंसां व्रतदानसमुच्चयः ।।४।।

यद्दृष्टमितिहासेषु पुराणेषु च भारत ।।

वेदवेदांगसंबद्धं तत्सर्वमिह दर्शितम् ।।५।।

लोकवेदविरुद्धं यत्कथ्यते मनुजोत्तम ।।

न तत्रास्था प्रकर्तव्या विप्रलापो हि स स्मृतः ।। ६ ।।

अतिस्नेहेन भवतो ममैतत्समुदाहृतम् ।।

ऋषीणां पुरतः पार्थ कुंठा भवति भारती ।। ७ ।।

नैतत्प्रकाशनीयं हि दांभिकाय शठाय वा ।।

नास्तिकायान्यमनसे कुतर्कोपहताय च ।। ८ ।।

साधुवृत्ताय दांताय सत्यार्जवरताय च ।।

एतदाख्यायमानं हि शुभामुत्पादयेद्गतिम् ।।९।।

सामान्यमेतत्सुरसत्तमानां वर्णाश्रमाणां च नरेंद्रचन्द्र ।।

ख्यातं भविष्योत्तरनामधेयं मया पुराणं तव सौहृदेन ।।4.207.१०।।

धर्मः स्वयं पार्थ भवानिह त्वं धर्मार्थविद्दृष्टपरावरश्च ।।

पृष्टोऽस्म्यतो धर्ममहं च वच्मि श्रद्धेयमेतत्सुतरां जनस्य ।। ११ ।।

यास्याम्यहं द्वारवतीं पुनश्च यज्ञं समेष्यामि महोत्सवे च ।।

कालस्य सर्वं हि वशे विदित्वा नैवानुतापो भवतात्र कार्यः ।। १२ ।।

इत्युक्तवान्यातुकामः प्रहृष्टः संपूजितः पांडुसुतैर्महात्मा ।।

पृष्ट्वा सुहृज्ज्ज्ञातिजनं हि सर्वं जगाम विप्रान्प्रणिपत्य कृष्णः ।। १३ ।।

यद्याज्ञवल्क्यमुनिना भगवान्वशिष्ठः पृष्टः किलोत्तरमुवाच बहुप्रकारम् ।।

कृष्णेन पांडुतनयस्य च यत्प्रदिष्टं व्यासेन तत्कृतमहो मुनिपुंगवेन ।। १४ ।।

जयति पराशरसूनुः सत्यवतीहृदयनंदनो व्यासः ।।

यस्यास्यकमलगलित वाङ्मधुपुण्यं जगत्पिबति ।।१५।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे समाप्तिवर्णनं श्रीकृष्णस्य द्वारकां प्रति गमनवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ।। २०७ ।।

पर्व ४ (उत्तरपर्व) — Adhyāya 208

अनुक्रमणिकाकथनम्

( अथ वृत्तांताः ।।)

व्यासानुगमनं पूर्वं ब्रह्मांडस्य समुद्भवः ।।

माया च वैष्णवी यस्मात्संसारे दोषकीर्तनम् ।। १

पापभेदस्ततस्तस्माच्छुभाशुभविनिर्णयः ।।

शकटव्रतमाहात्म्यं तिलकव्रतकीर्तनम् ।। २ ।।

अशोककरवीराख्यं व्रतं तस्माच्च कोकिलम् ।।

बृहत्तपोव्रतं नाम रुद्रोपोषणमेव च ।। ३ ।।

द्वितीयाव्रतमाहात्म्यमशून्य शयनं तथा ।।

कामाख्या तु तृतीया च मेघपालीव्रतं तथा ।। ४ ।।

पंचाग्निसाधना रम्या तृतीयाव्रतमुत्तमम् ।।

त्रिरात्रं गोष्पदं नाम हरकाली व्रतं तथा ।। ५ ।।

ललिताख्या तृतीया च योगाख्या च तथापरा।।

उमामहेश्वरं नाम तथा रंभातृतीयकम् ।। ६ ।।

सौभाग्याख्या तृतीया च आर्द्रानंदकरी था ।।

चैत्रे भाद्रपदे माघे तृतीयाव्रतमुच्यते ।। ७ ।।

अनंतरी तृतीया च गणशांतिव्रतं तथा ।।

सारस्वतव्रतं नाम पंचमीव्रत मुच्यते ।। ८ ।।

तथा श्रीपंचमी नाम षष्ठी शोकप्रणाशिनी ।।

फलषष्ठी च मंदारषष्ठीव्रतमथोच्यते ।। ९ ।।

ललिताव्रतषष्ठी च षष्ठी कार्तिकसंज्ञिता ।।

महत्तपः सप्तमी च विभूषा सप्तमी तथा ।। 4.208.१० ।।

आदित्यमंडपविधिस्त्रयोदशीति सप्तमी ।।

कृकवाकुप्लवङ्गा च तथैवाभयसप्तमी ।। ११ ।।।

कल्याणसप्तमी नाम शर्करासप्तमीव्रतम् ।।

सप्तमी कमलाख्या च तथान्या शुभसप्तमी ।। १२ ।।

स्नपनव्रतसप्तम्यौ तथैवाचल सप्तमी ।।

बुधाष्टमीव्रतं नाम तथा जन्माष्टमीव्रतम् ।। १३ ।।

दूर्वाकृष्णाष्टमी प्रोक्ता अनयाव्रतमष्टमी ।।

अष्टम्यर्काष्टमी चाथ वृक्षनवमीव्रतम्।। ।।। १४ ।।

ध्वजाख्या नवमी चैव उल्काख्या नवमी तथा ।।

दशावतारव्रतकं तथाशादशमीव्रतम् ।। १५ ।।

रोहिणींहरिशंभुब्रह्मसूर्यावियोगकम्।।

गोवत्सद्वादशीनाम व्रतमुक्तं ततः परम् ।। १६ ।।

नीराजनद्वादशी च भीष्मपंचकमेव च ।।

मल्लिकाख्या द्वादशी च भीमा द्वादशिकोत्तमा ।। ।। १७ ।।

श्रवणद्वादशी नाम संप्राप्तिद्वादशीव्रतम् ।।

गोविन्दद्वादशीनाम व्रतमुक्तं ततः परम्।।१८।।

अखंडद्वादशीनाम तिलद्वादश्यतः परम् ।।

सुकृतद्वादशी नाम धरणीव्रतमेव च ।। १९ ।।

विशोकद्वादशी नाम विभूतिद्वादशीव्रतम् ।।

पुष्यर्क्षद्वादशी चैव द्वादशी श्रवणर्क्षगा ।। 4.208.२० ।।

अनंगद्वादशी चैव अङ्गपादव्रतं तथा ।।

निम्बार्ककरवीराथ यमा दर्शत्रयोदशी ।।

अनंगद्वादशी चापि पालिरम्भाव्रते तथा ।। २१ ।।

चतुर्दशीव्रतं प्रोक्तं ततोऽनन्तचतुर्दशी ।।

श्रावणीव्रतनक्तं च चतुर्दश्यष्टमीदिने ।। २२।।

व्रतं शिवचतुर्दश्यां फलत्यागचतुर्दशी ।।

वैशाखी कार्तिकी माघी व्रतमेतदनंतरन् ।। २३ ।।

कार्तिक्यां कृत्तिकायोगे कृत्तिकाव्रतमीरितम् ।।

फाल्गुने पूर्णिमायां तु व्रतं पूर्णमनोरथम् ।। २४ ।।

अशोकपूर्णिमा नाम अनंतव्रतमेव च ।।

व्रतं हि सांभरायिण्यं नक्षत्रपुरुषव्रतम् ।। २५ ।।

शिवनक्षत्रपुरुषं संपूर्णं येन मुच्यते ।।

कामदानव्रतं नाम वृन्ताकविधिरेव च ।। २६ ।।

आदित्यस्य दिने नक्तं संक्रात्युद्यापने फलम् ।।

भद्राव्रतमगस्त्यार्घो नवचन्द्रार्कमेव च ।। २७ ।।

अर्घः शुक्रबृहस्पत्योः पंचाशीति व्रतानि च ।।

माघस्नानं नित्यस्नानं रुद्रस्तानविधिस्तथा ।। २८ ।।

चंद्रार्कग्रहणे स्नानं विधिश्चान्नाशने तथा ।।

वापीकूपतडागानामुत्सर्गो वृक्षयाजनम् ।। २९ ।।

देवपूजादीपदानवृषोत्सर्गविधिस्तथा ।।

फाल्गुन्युत्सवकं नाम तथान्यः सदनोत्सवः ।। 4.208.३० ।।

भूतमाता च श्रावण्यां रक्षाबंधविधिस्तथा ।।

विधिस्तथा नवम्यास्तु तथा चन्द्रमहोत्सवः ।। ३१ ।।

दीपालिकायां तु होमो लक्षहोमविधिस्तथा ।।

कोटिहोमो महाशीतिर्गणनाथस्य शातिका ।। ३२ ।।

तथा नक्षत्रहोमोथ गोदानविधिरेव च ।।

गुडधेनुघृतधेनुतिलधेनुव्रतं तथा ।। ३३ ।।

जलधेनुविधिः प्रोक्तो लवणस्य तथा परा ।।

धेनुः कार्यासमंज्ञात्वा नवनीतस्य चापरा ।।

सुवर्णधेनुश्च तथा देवकार्यं चिकीर्षुभिः ।। ३४ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संक्षिप्तानुक्रमणिकाकथनं नामाष्टोत्तरद्विशततमोऽध्यायः ।। २०८ ।।

।। इति चतुर्थमुत्तरपर्व ।। ४ ।।

समाप्तोऽयं भविष्यपुराणग्रन्थः ।