Books / Lalitavistara

17. Chapter 17

Verse 17.1

।। ।। इति श्रीललितविस्तरे बिम्बिसारोपसंक्रमणपरिवर्तो नाम षोडशमो ऽध्यायः ।। स्तर्त् परिवर्त १७ दुष्करचर्यापरिवर्तः सप्तदशः । तेन खलु पुनर्भिक्षवः समयेन रुद्रको नाम रामपुत्रो राजगृहं नाम महानगरमुपनिसृत्य विहरति स्म महता शिष्यगणेन सार्धं सप्तभिः शिष्यशतैः । स तेभ्यो नैवसंज्ञानासंज्ञायतनसहव्रतायै धर्मं देशयति स्म । अद्राक्षीत् खल्वपि भिक्षवो बोधिसत्त्वो रुद्रकं रामपुत्रं संघेगणिनं गणाचार्यं ज्ञातमभीप्सितं बहुजनपूजितं पण्डितसंमतम् । दृष्ट्वा चास्यैतदभूत् - अयं खल्वपि रुद्रको रामपुत्रः संघेगणी गणाचार्यः ज्ञातो ऽभीप्सितो बहुजनपूजितः पण्डितसंमतः । सचेदहमस्यान्तिकमुपसंक्रम्य व्रततपमारभेयम्, नैष ममान्तिके विशिष्टसंज्ञो भवेन्नापि प्रत्यक्षज्ञानेन ज्ञातो भवेन्नापि संस्कृतानां साश्रवानां सोपादानानां ध्यानसमाधिसमापत्तीनां दोषो दत्तो भवेत् । यन्न्वहं तथारुपमुपायमुपसंदर्शयेयं येनैते च प्रत्यक्षा भवेयुः । ध्यानगोचराणां च समापत्त्यारम्बणानां लौकिकसमाधीनामनिःसरणता दर्शिता भवेत् । यन्न्वहं रुद्रकस्य रामपुत्रस्य सकाशमुपसंक्रम्य स्वसमाधिगुणविशेषोद्भावनार्थं शिष्यत्वमभ्युपगम्य संस्कृतसमाधीनामसारतामुपदर्शयेयमिति ।। अथ खलु भिक्षवो बोधिसत्त्व इदमर्थवशमधिकृत्य येन रुद्रको रामपुत्रस्तेनोपसंक्रामत् । उपसंक्रम्य रुद्रकं रामपुत्रमेतदवोचत् - कस्ते मार्ष शास्ता, कस्य वा धर्मं देशितमाजानासि? इत्येवमुक्ते रुद्रको रामपुत्रो बोधिसत्त्वमेवमाह - न मे मार्ष कश्चिच्छास्ता । अपि तु खलु पुनः स्वयमेव मयेदं सम्यगधिगतमिति । बोधिसत्त्व आह - किं भवताधिगतम्? आह - नैवसंज्ञानासंज्ञायतनसमापत्तेर्मार्गः । बोधिसत्त्व आह - लभेमहि वयं भवतः सकाशादववादानुशासनीयस्य समाधेर्मार्गम्? आह - वाढमस्त्विति । यावद्दत्तो ऽववादो ऽभूत् ।। ततो बोधिसत्त्व एकान्तं गत्वा पर्यङ्कमाभुज्योपविशति स्म । समनन्तरोपविष्टस्य च बोधिसत्त्वस्य पुण्यविशेषेण च ज्ञानविशेषेण च पूर्वसुचरितचर्याफलविशेषेण च सर्वसमाधिपरिचयविशेषेण च ध्यानप्रमुखानि सर्वाणि लौकिकानि लोकोत्तराणि समापत्तिशतान्यामुखीभवन्ति स्म साकाराणि सोद्देशानि यथापि तच्चित्तवशवर्तित्वात् । अथ च बोधिसत्त्वः स्मृतः संप्रजानन् उत्थायासनाद्येन रुद्रको रामपुत्रस्तेनोपसंक्रामत् । उपसंक्रम्य रुद्रकं रामपुत्रमेवमाह अस्त्यन्यो ऽपि मार्ष कश्चिदुत्तरे नैवसंज्ञानासंज्ञायतनसमापत्तेर्मार्गः? सो ऽब्रवीत् - नास्तीति ।। ततो बोधिसत्त्वस्यैतदभवत् - न खलु रुद्रकस्यैवास्ति श्रद्धा वीर्यं स्मृतिः प्रज्ञा । ममाप्यस्ति श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा । अथ बोधिसत्त्वो रुद्रकं रामपुत्रमेवमाह - मयाप्येष मार्ष धर्मो ऽधिगतो यत्र त्वं निर्यातः । सो ऽवोचत् - तेन ह्यागच्छ, त्वं चाहं चेमं गणं परिहराव इति । समानार्थे च बोधिसत्त्वं (वैद्य १८१) स्थापयति स्म आचार्यस्थाने च । बोधिसत्त्व आह - नैष मार्ष मार्गो निर्वृतये न विरागाय न निरोधाय नोपशमाय नाभिज्ञायै न संबोधये न श्रामणाय न ब्राह्मणाय न निर्वाणाय संवर्तते ।। इति हि भिक्षवो बोधिसत्त्वो रुद्रकस्य रामपुत्रस्य सशिष्यस्यावर्जनीकृत्व यावदलमिति कृत्वा प्रक्रामत् - अलं ममानेनेति ।। तेन खलु पुनः समयेन पञ्चका भद्रवर्गीया रुद्रके रामपुत्रे ब्रह्मचर्यं चरन्ति स्म । तेषामेतदभूत् - यस्य खलु वयमर्थाय दीर्घरात्रं घटामहे उद्युज्यामहे, न च शक्नुमो ऽन्तं वा पर्यन्तं चाधिगन्तुम्, तच्छ्रमणेन गौतमेनाल्पककृच्छणाधिगन्तुं साक्षात्कृतम् । तच्चास्य न रोचते । तथा चोत्तरि पर्येषते । निःसंशयमेष शास्ता लोके भविष्यति । यच्चैष साक्षात्करिष्यति, तदस्मभ्यं संविभक्ष्यतीति । एवं विमृष्य पञ्चका भद्रवर्गीया रुद्रकरामपुत्रसकाशादपक्रम्य बोधिसत्त्वमन्वबध्नन् ।। इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं राजगृहे विहृत्य मगधेषु चारिकां प्रक्रामत् सार्धं पञ्चकैर्भद्रवर्गीयैः ।। तेन खलु पुनः समयेनान्तराच्च राजगृहस्य अन्तराच्च गयाया यो ऽन्यतमो गण उत्सवं करोति स्म, तेन च गणेन बोधिसत्त्वो ऽभिनिमन्त्रितो ऽभूत् वासेन भक्तेन च सार्धं पञ्चकैर्भद्रवर्गीयैः ।। अथ खलु भिक्षवो बोधिसत्त्वो मगधेषु चर्यां चरन् येन मागधकानां गया तामनुसृत्य तामनुप्राप्तो ऽभूत् । तत्र खल्वपि भिक्षवो बोधिसत्त्वः प्रहाणार्थी विहरति स्म गयाशीर्षे पर्वते । तत्रास्य विहरतस्तिस्र उपमाः प्रतिभान्ति स्म अश्रुतपूर्वा अनभिज्ञातपूर्वाः । कतमास्तिस्रः? ये केचित्ते खल्वपि श्रमणब्राह्मणाः कामेभ्यो ऽनवकृष्टकाया विहरन्ति स्म । कामेभ्यो ऽनवकृष्टचित्ताश्च विहरन्ति स्म । यापि चैषां कामेषु नन्दिः कामेषु रागः कामेषु छन्दः कामेषु तृष्णा कामेषु पिपासा कामेषु मूर्छा कामेषु परिदाहः कामेष्वध्यवसानता, साप्यनुपशान्ता । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ते । अथ तर्हि अभव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । तद्यथापि नाम पुरुषो ऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिं पर्येषमाणः स आर्द्रं काष्ठमादाय आर्द्रां चोत्तरारणीमुदके प्रक्षिप्य मथ्नीयात्, अभव्यो ऽसावग्निमुत्पादयितुं तेजः प्रादुष्कर्तुम् । एवमेव य इमे श्रमणब्राह्मणाः कामेभ्यो ऽनवकृष्टकाया अनवकृष्टचित्ताश्च विहरन्ति, याप्येषां कामेषु नन्दिः कामेषु रागः कामेषु छन्दः कामेषु तृष्णा कामेषु पिपासा कामेषु मूर्छा कामेषु परिदाहः कामेष्वध्यवसानं तदप्यनुपशान्तम् । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते । अथ तर्हि अभव्या एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं बोधिसत्त्वस्य प्रथमा उपमा प्रतिभाति स्म ।। भूयश्चास्यैतदभूत् - य इमे श्रमणब्राह्मणाः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दीति सर्वं कर्तव्यं यावज्ज्योतिं पर्येषत इति । स आर्द्रं काष्ठमादाय स्थले स्थापयित्वा आर्द्रां चोत्तरारणिं मथ्नीयात्, अभव्यो ऽसावग्निमुत्पादयितुम् । एवमेव ये इमे श्रमणब्राह्मणा इति सर्वं पूर्ववत्कार्यं यावदभव्या उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं द्वितीया उपमा प्रतिभाति स्म पूर्वमश्रुता चाविज्ञाता च ।। पुनरपरं य इमे श्रमणब्राह्मणा भवन्तः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दिः । इति सर्वं पेयालम् । तदप्येषामुपशान्तम् । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते । अथ खलु पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । तद्यथापि नाम इह स्यात्पुरुषो ऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिः पर्येषमाणः, स शुष्कं काष्ठमादाय शुष्कां चोत्तरारणिं स्थले प्रतिष्ठाप्य मथ्नीयात्, स भव्यो ऽग्निमभिनिर्वर्तयितुं तेजः प्रादुष्कर्तुम् । एवमेव य इमे भवन्तः श्रमणब्राह्मणा इति सर्वं यावद्वेदनां वेदयन्त इति । अथ च पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं तृतीया उपमा प्रतिभाति स्म अश्रुतपूर्वा च अविज्ञातपूर्वा च ।। अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत् - अहं खल्वेतर्हि कामेभ्यो व्यपकृष्टकायो विहरामि व्यपकृष्टचित्तश्च । यापि मे कामेषु नन्दीति सर्वं यावत्तदपि मे उपशान्तम् । किं चापि अहमात्मोपक्रमिकां शरीरोपतापिकां दुःखामिति पेयालं यावद्वेदनां वेद्मि । अथ खल्वहं भव्य एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् ।। इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं गयायां विहृत्य गयाशीर्षे पर्वते जङ्गाविहारमनुचंक्रम्यमाणो येनोरुबिल्वा सेनापतिग्रामकस्तदनुसृतस्तदनुप्राप्तो ऽभूत् । तत्राद्राक्षीन्नदीं नैरञ्जनामच्छोदकां सूपतीर्थां प्रासादिकैश्च द्रुमगुल्मैरलंकृतां समन्ततश्च गोचरग्रामाम् । तत्र खल्वपि बोधिसत्त्वस्य मनो ऽतीव प्रसन्नमभूत् - समो बतायं भूमिप्रदेशो रमणीयः प्रतिसंलयनानुरूपः । पर्याप्तमिदं प्रहाणार्थिककुलपुत्रस्य । अहं च प्रहाणार्थी । यन्न्वहमिहैव तिष्ठेयम् ।। इति हि भिक्षवो बोधिसत्त्वस्यैतदभूत् - पञ्चकषायकाले ऽहमिह जम्बुद्वीपे ऽवतीर्णो हीनाधिमुक्तिकेषु सत्त्वेष्वाकीर्णतीर्थ्यवर्गेषु नानादृष्टिप्रस्कन्नेषु कायपिण्डग्राहाभिनिविष्टेषु नानाविधैश्चातापनपरितापनैः कायशुद्धिं पर्येषन्ते, प्रज्ञापयन्ति च संमूढाः । तद्यथा - मन्त्रविचारकैर्हस्तप्रलेहकैर्नयाचनकैरनामन्त्रणकैरनेकमूलिकैरमत्स्यमांसकैरवार्षिकैः सुरातुषोदकर्वजनैरेकत्रिपञ्चसप्तकुलभिक्षाग्रहणैर्मूलफलशैवालककुशपत्रगोमयगोमूत्रपायसदधिसर्पिः फाणितामपिष्टकमभक्षणपानैः सारसिकापोतकसंदंशिकोत्सृष्टसंप्रक्षालकैः । ग्राम्यारण्याभिश्च वृत्तिभिः । गोव्रतमृगश्ववराहवानरहस्तिव्रतैश्च स्थानमौनवीरासनैश्च एकालापकैर्यावत्सप्तालापकैः । एकभक्ता एकाहोरात्रचातुर्थ्यपञ्चषट्कालान्तराश्च (वैद्य १८३) पक्षक्षपणमासक्षपणचान्द्रायणैश्च गृध्रोलूकपक्षधारणैश्च फलमुञ्जासनवल्कलदर्भबल्बजोष्ट्रकम्बलाजकम्बलकेशकम्बलचर्मनिवेशनैश्च आर्द्रपटास्तोपकजालशयनैश्च भस्मशर्करापाषाणफलककण्टकतृणमुसलशयनावाक्छिरोत्कुटुकस्थण्डिलशयनैश्च एकवासद्वित्रिचतुष्पञ्चषट्सप्तबहुवासोभिर्नग्नभावैश्च स्थानास्थानविधिभिश्च दीर्घकेशनखश्मश्रुजटामकुटधारणैश्च एककोलतिलतण्डुलाहारैश्च भस्ममसिनिर्माल्योद्धृततमोरजपांशुपङ्कपरिम्रक्षणैश्च लोममुञ्जकेशनखचीवरपञ्जरकरङ्कधारणैश्च उष्णोदकतण्डुलोदकपरिस्रावितकाम्बलिकस्थालीपानीयपानैश्च अङ्गारधातुकषायत्रिदण्डमुण्डिककुण्डिककपालखट्वाङ्गधारणैश्च शुद्धिं प्रत्यवगच्छन्ति संमूढाः । धूमपानाग्निपानादित्यनिरीक्षणपञ्चतपैकपादोर्ध्वबाहुस्थानैकचरणैश्च तपः संचिन्वन्ति । तुषाद्यङ्गारदाहनिकुम्भसाधनपक्वशिलापचनाग्निजलप्रवेशनमरुतीर्थगमनमरणैश्चेष्टां गतिं मृगयन्ते । ओंकारवषट्कारस्वधाकारस्वाहाकाराशीर्वचनस्तुतिचयनावाहनजप्यमन्त्राध्ययनधारणकरणैश्च शुद्धिं प्रत्यवगच्छन्ति । शुद्धं चात्मानं मन्यमाना इमानाश्रयन्ते । तद्यथा - ब्रह्मेन्द्ररुद्रविष्णुदेवीकुमारमातृकात्यायनीचन्द्रादित्यवैश्रवणवरुणवासवाश्विनौनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराक्षसप्रेतभूतकुम्भाण्डपार्षदगणपतिपिशाचांश्च देवर्षिराजर्षिब्रह्मर्षीश्च नमस्यन्ति, तेषु च सारसंज्ञिनो भवन्ति । पृथिव्यप्तेजोवाय्वाकाशं चाश्रयन्ते । गिरीनदीनद्युत्ससरोह्रदतडागसागरसरःपल्वलपुष्करिणीकूपवृक्षगुल्मलतातृणस्थाणुगोष्ठश्मशान - चत्वरशृङ्गाटकान्तरापणमुखानि चाश्रयन्ते । गृहस्तम्भोपलमुसलासिधनुपरशुशरशक्तित्रिशूलांश्च नमस्यन्ति । दधिघृतसर्षपयवप्रतिसरादूर्वामणिकनकरजतादिभिश्च मङ्गलं प्रत्यवगच्छन्ति । एवंविधानि इमे तीर्थ्याः कुर्वन्ते, आश्रयन्ते च संसारभयभीताः ।। इह च केचित्परत्र मन्यन्ते स्वर्गापवर्गावस्माकमेतेभ्यो निर्वर्त्स्येत इति मिथ्यामार्गप्रयाता अशरणे शरणसंज्ञिनो ऽमङ्गल्ये मङ्गलसंज्ञिनो ऽशुद्ध्या शुद्धिं मन्यतोयन्न्वहं तादृशं व्रततपोविशेषमालभेयं यथा सर्वपरप्रवादिनश्च निगृहीताः स्युः, कर्मक्रियाप्रणष्टानां च सत्त्वानां कर्मक्रियाविप्रणाशमादर्शयेयम् । ध्यानगोचराणां च रूपावचराणां च देवानां ध्यानविशेषोपदर्शनादावर्जनं कुर्यामिति ।। इति हि भिक्षवो बोधिसत्त्व एवं चिन्तयित्वा षड्वर्षिकं महाघोरं व्रततपःसुदुष्करात्सुदुष्करां दुष्करचर्यामालभते स्म । केन कारणेनोच्यते दुष्करचर्येति? दुष्करकारिकैषा, तेनोच्यते दुष्करचर्येति । न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते मनुष्यो वा अमनुष्यो वा, यः समर्थस्तथारूपं दुष्करं चरितुम्, अन्यत्र चरमभविकाद्बोधिसत्त्वात्, य आस्फानकध्यानं समापद्यते स्म । केन कारणेनोच्यते आस्फानकमिति? स चतुर्थध्यानमादित एव समापद्यमान आश्वासप्रश्वासानुपरोधयति संनिरोधयति । अकल्पं तद् ध्यानमविकल्पमनिञ्जनमपनीतमस्पन्दनं सर्वत्रानुगतं च सर्वत्र चानिश्रितम् । न च तद् ध्यानं जातु केनचित्समापन्नं पूर्वं शैष्येण वा अशैष्येण वा प्रत्येकबुद्धेन (वैद्य १८४) वा चर्याप्रतिपन्नेन वा बोधिसत्त्वेन । अतश्चास्फानकं नामोच्यते । आकाशमस्फरणमकरणमविकरणं तच्च सर्वं स्फरतीति ह्याकाशसमं तद् ध्यानम् । तेनोच्यते आस्फानकमिति ।। अथ खलु भिक्षवो बोधिसत्त्वो लोकस्याश्चर्यसंदर्शनार्थं तीर्थिकानां च दर्पनिर्घातनार्थं परप्रवादिनां च निग्रहार्थं देवानां चावर्जनार्थमुच्छेदशाश्वतवादिनां च सत्त्वानां क्रर्मक्रियाप्रणष्टानां कर्मक्रियावतारणार्थं पुण्यफलोद्भावनार्थं ज्ञानफलसंदर्शनार्थं ध्यानाङ्गविभजनार्थ कायबलस्थामसंदर्शनार्थं चित्तशौर्यसंजननार्थं च असंस्कृतायां पृथिव्यां पर्यङ्कमाभुज्य निषीदति स्म । निषद्य च स्वकायं चेतसा निगृह्णीते स्म, निष्पीडयति स्म ।। ततो मे भिक्षवो हैमन्तिकास्वष्टकरात्रिषु तथा कायं निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूमौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः । तद्यथापि नाम बलवान् पुरुषो दुर्बलतरं पुरुषं ग्रीवायां गृहीत्वा निष्पीडयेत्, एवमेव भिक्षव इमं कायं चेतसा निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूभौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः ।। तस्य मे भिक्षव एतदभूत् - यन्न्वहमास्फानकं ध्यानं ध्यायेयम् । ततो मे भिक्षव आस्फानकं ध्यानं ध्यायतो मुखतो नासिकातश्चाश्वासप्रश्वासा उपनिरुद्धावभूताम् । कर्णछिद्राभ्यामुच्चशब्दा महाशब्दा निश्चरन्ति स्म । तद्यथापि नाम कर्मारगगया मथ्यमानायामुच्चशब्दो महाशब्दो निश्चरति, एवमेव मे भिक्षवो मुखनासिकाभ्यामाश्वासप्रश्वासावुपरुद्धावभूतां श्रोतछिद्राभ्यामुच्चशब्दो महाशब्दो निश्चरति स्म ।। तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूय आस्फानकं ध्यानं ध्यायेयमिति । ततो मे भिक्षवो मुखनासिकाश्रोत्राण्युपरुद्धानि चाभूवन् । तेषूपरुद्धेषु वायुरुर्ध्वं शिरःकपालमुपनिहन्ति स्म । तद्यथापि नाम भिक्षवः पुरुषः कुण्डया शक्त्या शिरःकपालमुपहन्याद्, एवमेव मे भिक्षवो मुखनासिकाश्रोत्रेषूपरुद्धेषु आश्वासप्रश्वासा उर्ध्वं शिरःकपालमुपनिघ्नन्ति स्म ।। तां चावस्थां दृष्ट्वा बोधिसत्त्वस्य तत्र केचिद्देवा एवमाहु - कष्टं भोः कालगतो बतायं सिद्धार्थः कुमारः । अपरे एवमाहुः - नायं कालगतः । अपि तुध्यानविहार एषो ऽर्हतामेवंविध इति । तस्यां च वेलायमिमां गाथामभाषन्त - मा खल्वयं शाक्यनरेन्द्रगर्भो ह्यपूर्णसंकल्प इहैव रण्ये । कृत्वा त्रिलोकं दुखितं ह्यनाथं कालं करिष्यत्यकृतार्थ एव ॥ १७.१ ॥

// // iti śrīlalitavistare bimbisāropasaṃkramaṇaparivarto nāma ṣoḍaśamo 'dhyāyaḥ // start parivarta 17 duṣkaracaryāparivartaḥ saptadaśaḥ / tena khalu punarbhikṣavaḥ samayena rudrako nāma rāmaputro rājagṛhaṃ nāma mahānagaramupanisṛtya viharati sma mahatā śiṣyagaṇena sārdhaṃ saptabhiḥ śiṣyaśataiḥ / sa tebhyo naivasaṃjñānāsaṃjñāyatanasahavratāyai dharmaṃ deśayati sma / adrākṣīt khalvapi bhikṣavo bodhisattvo rudrakaṃ rāmaputraṃ saṃghegaṇinaṃ gaṇācāryaṃ jñātamabhīpsitaṃ bahujanapūjitaṃ paṇḍitasaṃmatam / dṛṣṭvā cāsyaitadabhūt - ayaṃ khalvapi rudrako rāmaputraḥ saṃghegaṇī gaṇācāryaḥ jñāto 'bhīpsito bahujanapūjitaḥ paṇḍitasaṃmataḥ / sacedahamasyāntikamupasaṃkramya vratatapamārabheyam, naiṣa mamāntike viśiṣṭasaṃjño bhavennāpi pratyakṣajñānena jñāto bhavennāpi saṃskṛtānāṃ sāśravānāṃ sopādānānāṃ dhyānasamādhisamāpattīnāṃ doṣo datto bhavet / yannvahaṃ tathārupamupāyamupasaṃdarśayeyaṃ yenaite ca pratyakṣā bhaveyuḥ / dhyānagocarāṇāṃ ca samāpattyārambaṇānāṃ laukikasamādhīnāmaniḥsaraṇatā darśitā bhavet / yannvahaṃ rudrakasya rāmaputrasya sakāśamupasaṃkramya svasamādhiguṇaviśeṣodbhāvanārthaṃ śiṣyatvamabhyupagamya saṃskṛtasamādhīnāmasāratāmupadarśayeyamiti // atha khalu bhikṣavo bodhisattva idamarthavaśamadhikṛtya yena rudrako rāmaputrastenopasaṃkrāmat / upasaṃkramya rudrakaṃ rāmaputrametadavocat - kaste mārṣa śāstā, kasya vā dharmaṃ deśitamājānāsi? ityevamukte rudrako rāmaputro bodhisattvamevamāha - na me mārṣa kaścicchāstā / api tu khalu punaḥ svayameva mayedaṃ samyagadhigatamiti / bodhisattva āha - kiṃ bhavatādhigatam? āha - naivasaṃjñānāsaṃjñāyatanasamāpattermārgaḥ / bodhisattva āha - labhemahi vayaṃ bhavataḥ sakāśādavavādānuśāsanīyasya samādhermārgam? āha - vāḍhamastviti / yāvaddatto 'vavādo 'bhūt // tato bodhisattva ekāntaṃ gatvā paryaṅkamābhujyopaviśati sma / samanantaropaviṣṭasya ca bodhisattvasya puṇyaviśeṣeṇa ca jñānaviśeṣeṇa ca pūrvasucaritacaryāphalaviśeṣeṇa ca sarvasamādhiparicayaviśeṣeṇa ca dhyānapramukhāni sarvāṇi laukikāni lokottarāṇi samāpattiśatānyāmukhībhavanti sma sākārāṇi soddeśāni yathāpi taccittavaśavartitvāt / atha ca bodhisattvaḥ smṛtaḥ saṃprajānan utthāyāsanādyena rudrako rāmaputrastenopasaṃkrāmat / upasaṃkramya rudrakaṃ rāmaputramevamāha astyanyo 'pi mārṣa kaściduttare naivasaṃjñānāsaṃjñāyatanasamāpattermārgaḥ? so 'bravīt - nāstīti // tato bodhisattvasyaitadabhavat - na khalu rudrakasyaivāsti śraddhā vīryaṃ smṛtiḥ prajñā / mamāpyasti śraddhā vīryaṃ smṛtiḥ samādhiḥ prajñā / atha bodhisattvo rudrakaṃ rāmaputramevamāha - mayāpyeṣa mārṣa dharmo 'dhigato yatra tvaṃ niryātaḥ / so 'vocat - tena hyāgaccha, tvaṃ cāhaṃ cemaṃ gaṇaṃ pariharāva iti / samānārthe ca bodhisattvaṃ (vaidya 181) sthāpayati sma ācāryasthāne ca / bodhisattva āha - naiṣa mārṣa mārgo nirvṛtaye na virāgāya na nirodhāya nopaśamāya nābhijñāyai na saṃbodhaye na śrāmaṇāya na brāhmaṇāya na nirvāṇāya saṃvartate // iti hi bhikṣavo bodhisattvo rudrakasya rāmaputrasya saśiṣyasyāvarjanīkṛtva yāvadalamiti kṛtvā prakrāmat - alaṃ mamāneneti // tena khalu punaḥ samayena pañcakā bhadravargīyā rudrake rāmaputre brahmacaryaṃ caranti sma / teṣāmetadabhūt - yasya khalu vayamarthāya dīrgharātraṃ ghaṭāmahe udyujyāmahe, na ca śaknumo 'ntaṃ vā paryantaṃ cādhigantum, tacchramaṇena gautamenālpakakṛcchaṇādhigantuṃ sākṣātkṛtam / taccāsya na rocate / tathā cottari paryeṣate / niḥsaṃśayameṣa śāstā loke bhaviṣyati / yaccaiṣa sākṣātkariṣyati, tadasmabhyaṃ saṃvibhakṣyatīti / evaṃ vimṛṣya pañcakā bhadravargīyā rudrakarāmaputrasakāśādapakramya bodhisattvamanvabadhnan // iti hi bhikṣavo bodhisattvo yathābhipretaṃ rājagṛhe vihṛtya magadheṣu cārikāṃ prakrāmat sārdhaṃ pañcakairbhadravargīyaiḥ // tena khalu punaḥ samayenāntarācca rājagṛhasya antarācca gayāyā yo 'nyatamo gaṇa utsavaṃ karoti sma, tena ca gaṇena bodhisattvo 'bhinimantrito 'bhūt vāsena bhaktena ca sārdhaṃ pañcakairbhadravargīyaiḥ // atha khalu bhikṣavo bodhisattvo magadheṣu caryāṃ caran yena māgadhakānāṃ gayā tāmanusṛtya tāmanuprāpto 'bhūt / tatra khalvapi bhikṣavo bodhisattvaḥ prahāṇārthī viharati sma gayāśīrṣe parvate / tatrāsya viharatastisra upamāḥ pratibhānti sma aśrutapūrvā anabhijñātapūrvāḥ / katamāstisraḥ? ye kecitte khalvapi śramaṇabrāhmaṇāḥ kāmebhyo 'navakṛṣṭakāyā viharanti sma / kāmebhyo 'navakṛṣṭacittāśca viharanti sma / yāpi caiṣāṃ kāmeṣu nandiḥ kāmeṣu rāgaḥ kāmeṣu chandaḥ kāmeṣu tṛṣṇā kāmeṣu pipāsā kāmeṣu mūrchā kāmeṣu paridāhaḥ kāmeṣvadhyavasānatā, sāpyanupaśāntā / kiṃ cāpi te ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayante / atha tarhi abhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / tadyathāpi nāma puruṣo 'gnyarthī jyotirgaveṣī jyotiṃ paryeṣamāṇaḥ sa ārdraṃ kāṣṭhamādāya ārdrāṃ cottarāraṇīmudake prakṣipya mathnīyāt, abhavyo 'sāvagnimutpādayituṃ tejaḥ prāduṣkartum / evameva ya ime śramaṇabrāhmaṇāḥ kāmebhyo 'navakṛṣṭakāyā anavakṛṣṭacittāśca viharanti, yāpyeṣāṃ kāmeṣu nandiḥ kāmeṣu rāgaḥ kāmeṣu chandaḥ kāmeṣu tṛṣṇā kāmeṣu pipāsā kāmeṣu mūrchā kāmeṣu paridāhaḥ kāmeṣvadhyavasānaṃ tadapyanupaśāntam / kiṃ cāpi te ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante / atha tarhi abhavyā evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / iyaṃ bodhisattvasya prathamā upamā pratibhāti sma // bhūyaścāsyaitadabhūt - ya ime śramaṇabrāhmaṇāḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṃ kāmeṣu nandīti sarvaṃ kartavyaṃ yāvajjyotiṃ paryeṣata iti / sa ārdraṃ kāṣṭhamādāya sthale sthāpayitvā ārdrāṃ cottarāraṇiṃ mathnīyāt, abhavyo 'sāvagnimutpādayitum / evameva ye ime śramaṇabrāhmaṇā iti sarvaṃ pūrvavatkāryaṃ yāvadabhavyā uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / iyaṃ dvitīyā upamā pratibhāti sma pūrvamaśrutā cāvijñātā ca // punaraparaṃ ya ime śramaṇabrāhmaṇā bhavantaḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṃ kāmeṣu nandiḥ / iti sarvaṃ peyālam / tadapyeṣāmupaśāntam / kiṃ cāpi te ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayante / atha khalu punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / tadyathāpi nāma iha syātpuruṣo 'gnyarthī jyotirgaveṣī jyotiḥ paryeṣamāṇaḥ, sa śuṣkaṃ kāṣṭhamādāya śuṣkāṃ cottarāraṇiṃ sthale pratiṣṭhāpya mathnīyāt, sa bhavyo 'gnimabhinirvartayituṃ tejaḥ prāduṣkartum / evameva ya ime bhavantaḥ śramaṇabrāhmaṇā iti sarvaṃ yāvadvedanāṃ vedayanta iti / atha ca punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / iyaṃ tṛtīyā upamā pratibhāti sma aśrutapūrvā ca avijñātapūrvā ca // atha khalu bhikṣavo bodhisattvasyaitadabhūt - ahaṃ khalvetarhi kāmebhyo vyapakṛṣṭakāyo viharāmi vyapakṛṣṭacittaśca / yāpi me kāmeṣu nandīti sarvaṃ yāvattadapi me upaśāntam / kiṃ cāpi ahamātmopakramikāṃ śarīropatāpikāṃ duḥkhāmiti peyālaṃ yāvadvedanāṃ vedmi / atha khalvahaṃ bhavya evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum // iti hi bhikṣavo bodhisattvo yathābhipretaṃ gayāyāṃ vihṛtya gayāśīrṣe parvate jaṅgāvihāramanucaṃkramyamāṇo yenorubilvā senāpatigrāmakastadanusṛtastadanuprāpto 'bhūt / tatrādrākṣīnnadīṃ nairañjanāmacchodakāṃ sūpatīrthāṃ prāsādikaiśca drumagulmairalaṃkṛtāṃ samantataśca gocaragrāmām / tatra khalvapi bodhisattvasya mano 'tīva prasannamabhūt - samo batāyaṃ bhūmipradeśo ramaṇīyaḥ pratisaṃlayanānurūpaḥ / paryāptamidaṃ prahāṇārthikakulaputrasya / ahaṃ ca prahāṇārthī / yannvahamihaiva tiṣṭheyam // iti hi bhikṣavo bodhisattvasyaitadabhūt - pañcakaṣāyakāle 'hamiha jambudvīpe 'vatīrṇo hīnādhimuktikeṣu sattveṣvākīrṇatīrthyavargeṣu nānādṛṣṭipraskanneṣu kāyapiṇḍagrāhābhiniviṣṭeṣu nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante, prajñāpayanti ca saṃmūḍhāḥ / tadyathā - mantravicārakairhastapralehakairnayācanakairanāmantraṇakairanekamūlikairamatsyamāṃsakairavārṣikaiḥ surātuṣodakarvajanairekatripañcasaptakulabhikṣāgrahaṇairmūlaphalaśaivālakakuśapatragomayagomūtrapāyasadadhisarpiḥ phāṇitāmapiṣṭakamabhakṣaṇapānaiḥ sārasikāpotakasaṃdaṃśikotsṛṣṭasaṃprakṣālakaiḥ / grāmyāraṇyābhiśca vṛttibhiḥ / govratamṛgaśvavarāhavānarahastivrataiśca sthānamaunavīrāsanaiśca ekālāpakairyāvatsaptālāpakaiḥ / ekabhaktā ekāhorātracāturthyapañcaṣaṭkālāntarāśca (vaidya 183) pakṣakṣapaṇamāsakṣapaṇacāndrāyaṇaiśca gṛdhrolūkapakṣadhāraṇaiśca phalamuñjāsanavalkaladarbhabalbajoṣṭrakambalājakambalakeśakambalacarmaniveśanaiśca ārdrapaṭāstopakajālaśayanaiśca bhasmaśarkarāpāṣāṇaphalakakaṇṭakatṛṇamusalaśayanāvākchirotkuṭukasthaṇḍilaśayanaiśca ekavāsadvitricatuṣpañcaṣaṭsaptabahuvāsobhirnagnabhāvaiśca sthānāsthānavidhibhiśca dīrghakeśanakhaśmaśrujaṭāmakuṭadhāraṇaiśca ekakolatilataṇḍulāhāraiśca bhasmamasinirmālyoddhṛtatamorajapāṃśupaṅkaparimrakṣaṇaiśca lomamuñjakeśanakhacīvarapañjarakaraṅkadhāraṇaiśca uṣṇodakataṇḍulodakaparisrāvitakāmbalikasthālīpānīyapānaiśca aṅgāradhātukaṣāyatridaṇḍamuṇḍikakuṇḍikakapālakhaṭvāṅgadhāraṇaiśca śuddhiṃ pratyavagacchanti saṃmūḍhāḥ / dhūmapānāgnipānādityanirīkṣaṇapañcatapaikapādordhvabāhusthānaikacaraṇaiśca tapaḥ saṃcinvanti / tuṣādyaṅgāradāhanikumbhasādhanapakvaśilāpacanāgnijalapraveśanamarutīrthagamanamaraṇaiśceṣṭāṃ gatiṃ mṛgayante / oṃkāravaṣaṭkārasvadhākārasvāhākārāśīrvacanastuticayanāvāhanajapyamantrādhyayanadhāraṇakaraṇaiśca śuddhiṃ pratyavagacchanti / śuddhaṃ cātmānaṃ manyamānā imānāśrayante / tadyathā - brahmendrarudraviṣṇudevīkumāramātṛkātyāyanīcandrādityavaiśravaṇavaruṇavāsavāśvinaunāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasapretabhūtakumbhāṇḍapārṣadagaṇapatipiśācāṃśca devarṣirājarṣibrahmarṣīśca namasyanti, teṣu ca sārasaṃjñino bhavanti / pṛthivyaptejovāyvākāśaṃ cāśrayante / girīnadīnadyutsasarohradataḍāgasāgarasaraḥpalvalapuṣkariṇīkūpavṛkṣagulmalatātṛṇasthāṇugoṣṭhaśmaśāna - catvaraśṛṅgāṭakāntarāpaṇamukhāni cāśrayante / gṛhastambhopalamusalāsidhanuparaśuśaraśaktitriśūlāṃśca namasyanti / dadhighṛtasarṣapayavapratisarādūrvāmaṇikanakarajatādibhiśca maṅgalaṃ pratyavagacchanti / evaṃvidhāni ime tīrthyāḥ kurvante, āśrayante ca saṃsārabhayabhītāḥ // iha ca kecitparatra manyante svargāpavargāvasmākametebhyo nirvartsyeta iti mithyāmārgaprayātā aśaraṇe śaraṇasaṃjñino 'maṅgalye maṅgalasaṃjñino 'śuddhyā śuddhiṃ manyatoyannvahaṃ tādṛśaṃ vratatapoviśeṣamālabheyaṃ yathā sarvaparapravādinaśca nigṛhītāḥ syuḥ, karmakriyāpraṇaṣṭānāṃ ca sattvānāṃ karmakriyāvipraṇāśamādarśayeyam / dhyānagocarāṇāṃ ca rūpāvacarāṇāṃ ca devānāṃ dhyānaviśeṣopadarśanādāvarjanaṃ kuryāmiti // iti hi bhikṣavo bodhisattva evaṃ cintayitvā ṣaḍvarṣikaṃ mahāghoraṃ vratatapaḥsuduṣkarātsuduṣkarāṃ duṣkaracaryāmālabhate sma / kena kāraṇenocyate duṣkaracaryeti? duṣkarakārikaiṣā, tenocyate duṣkaracaryeti / na sa kaścitsattvaḥ sattvanikāye saṃvidyate manuṣyo vā amanuṣyo vā, yaḥ samarthastathārūpaṃ duṣkaraṃ caritum, anyatra caramabhavikādbodhisattvāt, ya āsphānakadhyānaṃ samāpadyate sma / kena kāraṇenocyate āsphānakamiti? sa caturthadhyānamādita eva samāpadyamāna āśvāsapraśvāsānuparodhayati saṃnirodhayati / akalpaṃ tad dhyānamavikalpamaniñjanamapanītamaspandanaṃ sarvatrānugataṃ ca sarvatra cāniśritam / na ca tad dhyānaṃ jātu kenacitsamāpannaṃ pūrvaṃ śaiṣyeṇa vā aśaiṣyeṇa vā pratyekabuddhena (vaidya 184) vā caryāpratipannena vā bodhisattvena / ataścāsphānakaṃ nāmocyate / ākāśamaspharaṇamakaraṇamavikaraṇaṃ tacca sarvaṃ spharatīti hyākāśasamaṃ tad dhyānam / tenocyate āsphānakamiti // atha khalu bhikṣavo bodhisattvo lokasyāścaryasaṃdarśanārthaṃ tīrthikānāṃ ca darpanirghātanārthaṃ parapravādināṃ ca nigrahārthaṃ devānāṃ cāvarjanārthamucchedaśāśvatavādināṃ ca sattvānāṃ krarmakriyāpraṇaṣṭānāṃ karmakriyāvatāraṇārthaṃ puṇyaphalodbhāvanārthaṃ jñānaphalasaṃdarśanārthaṃ dhyānāṅgavibhajanārtha kāyabalasthāmasaṃdarśanārthaṃ cittaśauryasaṃjananārthaṃ ca asaṃskṛtāyāṃ pṛthivyāṃ paryaṅkamābhujya niṣīdati sma / niṣadya ca svakāyaṃ cetasā nigṛhṇīte sma, niṣpīḍayati sma // tato me bhikṣavo haimantikāsvaṣṭakarātriṣu tathā kāyaṃ nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma / lalāṭādapi svedāḥ praśravanti sma / bhūmau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ / tadyathāpi nāma balavān puruṣo durbalataraṃ puruṣaṃ grīvāyāṃ gṛhītvā niṣpīḍayet, evameva bhikṣava imaṃ kāyaṃ cetasā nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma / lalāṭādapi svedāḥ praśravanti sma / bhūbhau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ // tasya me bhikṣava etadabhūt - yannvahamāsphānakaṃ dhyānaṃ dhyāyeyam / tato me bhikṣava āsphānakaṃ dhyānaṃ dhyāyato mukhato nāsikātaścāśvāsapraśvāsā upaniruddhāvabhūtām / karṇachidrābhyāmuccaśabdā mahāśabdā niścaranti sma / tadyathāpi nāma karmāragagayā mathyamānāyāmuccaśabdo mahāśabdo niścarati, evameva me bhikṣavo mukhanāsikābhyāmāśvāsapraśvāsāvuparuddhāvabhūtāṃ śrotachidrābhyāmuccaśabdo mahāśabdo niścarati sma // tasya me bhikṣava etadabhūt - yannvahaṃ bhūya āsphānakaṃ dhyānaṃ dhyāyeyamiti / tato me bhikṣavo mukhanāsikāśrotrāṇyuparuddhāni cābhūvan / teṣūparuddheṣu vāyururdhvaṃ śiraḥkapālamupanihanti sma / tadyathāpi nāma bhikṣavaḥ puruṣaḥ kuṇḍayā śaktyā śiraḥkapālamupahanyād, evameva me bhikṣavo mukhanāsikāśrotreṣūparuddheṣu āśvāsapraśvāsā urdhvaṃ śiraḥkapālamupanighnanti sma // tāṃ cāvasthāṃ dṛṣṭvā bodhisattvasya tatra keciddevā evamāhu - kaṣṭaṃ bhoḥ kālagato batāyaṃ siddhārthaḥ kumāraḥ / apare evamāhuḥ - nāyaṃ kālagataḥ / api tudhyānavihāra eṣo 'rhatāmevaṃvidha iti / tasyāṃ ca velāyamimāṃ gāthāmabhāṣanta - mā khalvayaṃ śākyanarendragarbho hyapūrṇasaṃkalpa ihaiva raṇye / kṛtvā trilokaṃ dukhitaṃ hyanāthaṃ kālaṃ kariṣyatyakṛtārtha eva (17.1)

Verse 17.2

।। हा सत्त्वसारा सदृढप्रतिज्ञा सद्धर्मयज्ञेन निमन्त्रिताभूत् । वयं पुरा ते तुषितेषु नाथा क्व सा प्रतिज्ञा तव शुद्धसत्त्व ॥ १७.२ ॥

// hā sattvasārā sadṛḍhapratijñā saddharmayajñena nimantritābhūt / vayaṃ purā te tuṣiteṣu nāthā kva sā pratijñā tava śuddhasattva (17.2)

Verse 17.3

।। अथ ते देवपुत्रास्त्रायत्रिंशेषु देवेषु गत्वा मायादेव्या एवमर्थं श्रावयन्ति - कालगतः कुमारः । अथ मायादेवी अप्सरागणपरिवृता अर्धरात्रसमये नैरञ्जनायास्तीरे येन बोधिसत्त्वस्तेनोपसंक्रान्ता । सा पश्यति स्म बोधिसत्त्वं शुष्कगात्रम् । कालगतमिव दृष्ट्वा बाष्पगद्गदकण्ठा रोदितुमारब्धा । तस्यां च वेलायामिमां गाथामभाषत - यदा जातो ऽसि मे पुत्र वने लुम्बिनिसाह्वये । सिंहवच्चागृहीतस्त्वं प्रक्रान्तः सप्त पदा स्वयम् ॥ १७.३ ॥

// atha te devaputrāstrāyatriṃśeṣu deveṣu gatvā māyādevyā evamarthaṃ śrāvayanti - kālagataḥ kumāraḥ / atha māyādevī apsarāgaṇaparivṛtā ardharātrasamaye nairañjanāyāstīre yena bodhisattvastenopasaṃkrāntā / sā paśyati sma bodhisattvaṃ śuṣkagātram / kālagatamiva dṛṣṭvā bāṣpagadgadakaṇṭhā roditumārabdhā / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata - yadā jāto 'si me putra vane lumbinisāhvaye / siṃhavaccāgṛhītastvaṃ prakrāntaḥ sapta padā svayam (17.3)

Verse 17.4

।। दिशां चालोक्य चतुरे वाचा ते प्रव्याहृता शुभा । इयं मे पश्चिमा जातिः सा ते न परिपूरिता ॥ १७.४ ॥

// diśāṃ cālokya cature vācā te pravyāhṛtā śubhā / iyaṃ me paścimā jātiḥ sā te na paripūritā (17.4)

Verse 17.5

।। असितेनाभिनिर्दिष्टो बुद्धो लोके भविष्यसि । क्षुण्णं व्याकरणं तस्य न दृष्टा तेन नित्यता ॥ १७.५ ॥

// asitenābhinirdiṣṭo buddho loke bhaviṣyasi / kṣuṇṇaṃ vyākaraṇaṃ tasya na dṛṣṭā tena nityatā (17.5)

Verse 17.6

।। चक्रवर्तिश्रियं पुत्र नपि भुक्ता मनोरमा । न च बोधिमनुप्राप्तो यातो ऽसि निधनं वने ॥ १७.६ ॥

// cakravartiśriyaṃ putra napi bhuktā manoramā / na ca bodhimanuprāpto yāto 'si nidhanaṃ vane (17.6)

Verse 17.7

।। पुत्रार्थे कं प्रपद्यामि कं व क्रन्दामि दुःखिता । को मे दद्येकपुत्रस्य किंचित्प्राणस्य जीवितम् ॥ १७.७ ॥

// putrārthe kaṃ prapadyāmi kaṃ va krandāmi duḥkhitā / ko me dadyekaputrasya kiṃcitprāṇasya jīvitam (17.7)

Verse 17.8

।। बोधिसत्त्व आह - कैषा अति त्वां करुणं रुदासि प्रकीर्णकेशा विनिवृत्तशोभा । पुत्रं ह्यतीवा परिदेवयन्ती विचेष्टमाना धरणीतलस्था ॥ १७.८ ॥

// bodhisattva āha - kaiṣā ati tvāṃ karuṇaṃ rudāsi prakīrṇakeśā vinivṛttaśobhā / putraṃ hyatīvā paridevayantī viceṣṭamānā dharaṇītalasthā (17.8)

Verse 17.9

।। मायादेवी आह - मया तु दशमासां वै कुक्षौ वज्र इवा धृतः । सा ते ऽहं पुत्रका माता विलपामि सुदुःखिता ॥ १७.९ ॥

// māyādevī āha - mayā tu daśamāsāṃ vai kukṣau vajra ivā dhṛtaḥ / sā te 'haṃ putrakā mātā vilapāmi suduḥkhitā (17.9)

Verse 17.10

।। अथ बोधिसत्त्व आश्वासयन्नुवाच - न भेतव्यं पुत्रलालसे, श्रमं ते सफलं करिष्यसि । अमोघं बुद्धपरित्यागम् । असितनिर्देशं च व्यक्तं करिष्यामि । दीपंकरस्य व्याकरणं व्यक्तीकरिष्यामि च । अपि शतधा वसुधा विकीर्येत मेरुः प्लवे चाम्भसि रत्नशृङ्गः । चन्द्रार्कतारागण भू पतेत पृथजनो नैव अहं म्रियेयम् । यस्मान्न शोको त्वयि अत्र कार्यो न वै चिराद् द्रक्ष्यसि बुद्धबोधिम् ॥ १७.१० ॥

// atha bodhisattva āśvāsayannuvāca - na bhetavyaṃ putralālase, śramaṃ te saphalaṃ kariṣyasi / amoghaṃ buddhaparityāgam / asitanirdeśaṃ ca vyaktaṃ kariṣyāmi / dīpaṃkarasya vyākaraṇaṃ vyaktīkariṣyāmi ca / api śatadhā vasudhā vikīryeta meruḥ plave cāmbhasi ratnaśṛṅgaḥ / candrārkatārāgaṇa bhū pateta pṛthajano naiva ahaṃ mriyeyam / yasmānna śoko tvayi atra kāryo na vai cirād drakṣyasi buddhabodhim (17.10)

Verse 17.11

।। सहश्रवणादेव देवी माया संप्रहर्षितरोमकूपजाता बोधिसत्त्वं मान्दारवपुष्पैरभ्यवकिर्य त्रिप्रदक्षिणीकृत्वा दिव्यतूर्यैः संप्रवाद्यमानैर्येन स्वभवनं तेनोपजगाम ।। तस्य मे भिक्षव एतदभूत् - सन्त्येके श्रमणब्राह्मणा ये अल्पाहारतया शुद्धिं मन्यन्ते । यन्न्वहमल्पाहारतया प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेवाद्वितीयं कोलमाहारमाहर्तुम् । स्यात्खलु पुनर्भिक्षवो युष्माकं एषा बुद्धिः - महत्तरं तत्र काले कोलमासीदिति । न खल्वेवं द्रष्टव्यम् । अथ खल्वियदेव तत्र काले कोलमभूत् । तस्य मे भिक्षव एकमेव कोलमाहारमाहरतो ऽद्वितीयं कायो ऽत्यर्थं कर्शितो ऽभूद्दुर्बलः । तद्यथापि नाम भिक्षव आसीतकीपर्वाणि वा कालापर्वाणि वा, एवमेव मे ऽङ्गप्रत्यङ्गान्यभूवन् । तद्यथापि नाम कर्कटपार्शुका, एवमेव मे पार्शुका अभूवन् । तद्यथापि नाम वाहनकारशालायां वा हस्तिशालायां वा जीर्णायामुभयतो विवृतायां गोपानस्यान्तरिकाश्च विराजन्ते व्यवभासन्ते, एवमेव मे पार्शुका अन्तःकाये उभयतो विराजन्ते स्म व्यवभासन्ते स्म । तद्यथापि नाम वर्तन्या वेणी उन्नतावनता भवति समविषमा, एवं मे पृष्ठीकण्टको ऽभूदुन्नतावनतः समविषमः । तद्यथा तिक्तकालाबुस्तरुणो लून आम्लानो भवति संम्लानः समुत्पुटकजातः एवमेव शिर आम्लानमभूत्संम्लानं समुत्पुटकजातम् । तद्यथापि नाम ग्रीष्माणां पश्चिमे मासे कूपतारका दूरगता भवन्ति, कृच्छ्रेण संप्रकाश्यन्ते, एवमेव मे ऽक्षितारकौ दुरगतावभूतां कृच्छ्रेण संप्रकाश्येते स्म । तद्यथापि नामाजपदं वोष्ट्रपदं वा, एवमेव मे कक्षाकुक्षिवक्षादीन्यभूवन् । ततो यदाहं भिक्षवः पाणिना कुक्षिं स्पृशामीति पृष्ठिकण्टकमेवास्प्राक्षम् । उत्तिष्ठामीति चाभिसंस्कुर्वंस्तथैवावकुब्जः प्रयामेण प्रापतम् । ततः कृच्छ्रेणोत्थितो ऽपि पांशुकृतानि गात्राणि पाणिना प्रमृजतो मे पूतिरोमाणि कायाच्छीर्यन्ते स्म । यापि मे ऽभूत्पौराणी शुभवर्णतनुः साप्यन्तरधाद्यथापीदं रूक्षप्रधानं प्रहितात्मनः । सामन्ताश्च मे गोचरग्रामवासिन एवं संजानन्ते स्म - कालको बत भोः श्रमणो गौतमः । श्यामको बत भोः श्रमणो गौतमः । मद्गुरच्छविर्बत भोः श्रमणो गौतमः । याप्यस्याभूत्पौराणी शुभवर्णा निभा, साप्यन्तर्हिता ।। तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूयस्या मात्रयाल्पाहारतया प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेव तण्डुलमद्वितीयमाहारमाहर्तुम् । स्याद्भिक्षवो युष्माकमेवं महत्तरं तण्डुलं तस्मिन् काले ऽभूदिति । न खल्वेवं द्रष्टव्यम् । अथैतावानेव तस्मिन् काले तण्डुलो ऽभूत् । तस्य मे भिक्षव एकं तण्डुलमाहरतः क्षिप्रं कायो ऽभूदिति पूर्ववद्यावन्मद्गुरच्छविर्बत भोः श्रमणो गौतम इति । याप्यस्य साभूत्पौराणी शुभवर्णतनुः साप्यन्तर्हितेति ।। तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूयस्या मात्रयाल्पाहारतायै प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेव तिलमद्वितीयमाहारमाहारयितुम् । पेयालं । यावत्साप्यस्य शुभवर्णतनुरन्तर्हितेति ।। तस्य मे भिक्षव एतदभूत् - सन्त्येके श्रमणब्राह्मणा ये ऽनाहारतया शुद्धिं मन्यन्ते । यन्न्वहं सर्वेण सर्वमनाहारतायै प्रतिपद्येयमिति । ततो ऽहं भिक्षवो ऽनाहारस्थितो ऽभूवन् । तस्य मे भिक्षवो ऽनाहारस्य कायो ऽतीव शुष्को ऽभूत् कृशो दुर्बलः, तद्यथापि नाम आसितकीपर्वाणि वा कालापर्वाणि वा । ततो द्विगुणत्रिगुणचतुर्गुणपञ्चगुणदशगुणं मे कृशान्यङ्गप्रत्यङ्गान्यभूवन् । तद्यथा कर्कटकपार्शुका वाहनशालायां वा गोपानसी (पार्श्वे) द्विपरिवर्तना वेणीवत्पृष्ठीकण्टकः । तिक्तालाबुवच्छिरःकपालम्, कूपतारका इवाक्षितारके । सो ऽहं भिक्षवः साधुकमुत्तिष्ठामीति गात्राण्यभिसंस्कुर्वन्नवकुब्जः प्रापतम् । कृच्छ्रेणापि चोत्थितः पांशुकृतानि मे गात्राणि प्रमृजतः पूतिमूलानि रोमाण्यशीर्यन्त । यापि मे साभूच्छुभवर्णतनुनिभा, साप्यन्तरधात् । तद्यथापि तद्रूक्षप्रधानप्रहितात्मकत्वात् । सामन्ताश्च मे गोचरग्रामवासिनो जना एवं संजानन्ते स्म - कालको बत भोः श्रमणो गौतमः । श्यामको बत भोः श्रमणो गौतमः । मद्गुरच्छविर्बत भोः श्रमणो गौतमः । याप्यस्य साभूत्पौराणी शुभवर्णनिभा साप्यन्तर्हितेति ।। राजापि तदा शुद्धोदनः प्रतिप्रतिदिवसं बोधिसत्त्वस्यान्तिके दूतं प्रेषयति स्म ।। इति हि भिक्षवो बोधिसत्त्वो लोकस्याद्भुतक्रियासंदर्शनार्थं पूर्ववद्यावत्कर्मक्रियाप्रणष्टानां सत्त्वानां कर्मक्रियावतारणार्थं पुण्यसंचयानां चोद्भावनार्थं महाज्ञानस्य च गुणसंदर्शनार्थं ध्यानाङ्गानां च विभजनार्थमेकतिलकोलतण्डुलेन षड्वर्षाणि दुष्करचर्यामनुवर्तयन्तमुपदर्शयति स्म । अदीनमानसः षड्वर्षा बोधिसत्त्वो यथा निषण्ण एवास्थात् पर्यङ्केन । न च ईर्यापथाच्च्यवते स्म । नातपाच्छायामगमन्न छायाया आतपम् । न च वातातपवृष्टिपरित्राणमकरोन्न च दंशमशकसरीसृपानपनयति स्म । न चोच्चारप्रश्रावश्लेष्मसिंहाणकानुत्सृजति स्म । न च समिञ्जनप्रसारणमकरोत् । न च पार्श्वोदरपृष्ठस्थानेनास्थात् । ये ऽपि च ते महामेघा दुर्दिनवर्षाशनिशरद्ग्रीष्महैमन्तिकाः, ते ऽपि बोधिसत्त्वस्य काये निपतन्ति स्म । न चान्ततो बोधिसत्त्वः पाणिनापि प्रच्छादनमकरोत् । न चेन्द्रियाणि पिथयति स्म । न चेन्द्रियार्थान् गृह्णिते स्म । ये च तत्रागमन् ग्रामकुमारका वा ग्रामकुमारिका वा गोपालका वा पशुपालका वा तृणहारिका वा काष्ठहारिका वा गोमयहारिका वा, ते बोधिसत्त्वं पांशुपिशाचमिति मन्यन्ते स्म । तेन च क्रीडन्ति स्म । पांशुभिश्चैनं म्रक्षयन्ति स्म ।। तत्र बोधिसत्त्वस्तैः षड्भिर्वर्षैस्तावल्लूहन्यूनदुर्बलकायः संवृत्तो ऽभूत्, यदस्य कर्णश्रोताभ्यां तृणतूलकं प्रक्षिप्य नासाश्रोताभ्यां निष्कास्यते स्म । नासाश्रोताभ्यां प्रक्षिप्य कर्णश्रोताभ्यां (वैद्य १८८) निष्कास्यते स्म । कर्णश्रोताभ्यां प्रक्षिप्य मुखद्वारेण निष्कास्यते स्म । मुखद्वारेण प्रक्षिप्य कर्णनासिकाश्रोताभ्यो निष्कास्यते स्म । नासायां प्रक्षिप्य कर्णनासिकामुखद्वारेण निष्कास्यते स्म ।। ये च ते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या बोधिसत्त्वस्य गुणेषु प्रत्यक्षाः, ते रात्रिंदिवं समधिष्ठा बोधिसत्त्वस्य पूजां कुर्वन्ति स्म । प्रणिधानानि च कुर्वन्ति स्म ।। तत्र बोधिसत्त्वेन तै षड्भिर्वर्षैर्दुष्करचर्यां संदर्शयता परिपूर्णानि द्वादशनयुतानि देवमनुष्याणां त्रिभिर्यानैः परिपाचितान्यभूवन् ।। तत्रेदमुच्यते - तस्य च गुणान्वितस्य पुराद्विनिष्क्रम्य बोधिसत्त्वस्य । चिन्ता उपाययुक्ता सत्त्वार्थहिताय उत्पन्ना ॥ १७.११ ॥

// sahaśravaṇādeva devī māyā saṃpraharṣitaromakūpajātā bodhisattvaṃ māndāravapuṣpairabhyavakirya tripradakṣiṇīkṛtvā divyatūryaiḥ saṃpravādyamānairyena svabhavanaṃ tenopajagāma // tasya me bhikṣava etadabhūt - santyeke śramaṇabrāhmaṇā ye alpāhāratayā śuddhiṃ manyante / yannvahamalpāhāratayā pratipadyeyamiti / abhijānāmyahaṃ bhikṣava ekamevādvitīyaṃ kolamāhāramāhartum / syātkhalu punarbhikṣavo yuṣmākaṃ eṣā buddhiḥ - mahattaraṃ tatra kāle kolamāsīditi / na khalvevaṃ draṣṭavyam / atha khalviyadeva tatra kāle kolamabhūt / tasya me bhikṣava ekameva kolamāhāramāharato 'dvitīyaṃ kāyo 'tyarthaṃ karśito 'bhūddurbalaḥ / tadyathāpi nāma bhikṣava āsītakīparvāṇi vā kālāparvāṇi vā, evameva me 'ṅgapratyaṅgānyabhūvan / tadyathāpi nāma karkaṭapārśukā, evameva me pārśukā abhūvan / tadyathāpi nāma vāhanakāraśālāyāṃ vā hastiśālāyāṃ vā jīrṇāyāmubhayato vivṛtāyāṃ gopānasyāntarikāśca virājante vyavabhāsante, evameva me pārśukā antaḥkāye ubhayato virājante sma vyavabhāsante sma / tadyathāpi nāma vartanyā veṇī unnatāvanatā bhavati samaviṣamā, evaṃ me pṛṣṭhīkaṇṭako 'bhūdunnatāvanataḥ samaviṣamaḥ / tadyathā tiktakālābustaruṇo lūna āmlāno bhavati saṃmlānaḥ samutpuṭakajātaḥ evameva śira āmlānamabhūtsaṃmlānaṃ samutpuṭakajātam / tadyathāpi nāma grīṣmāṇāṃ paścime māse kūpatārakā dūragatā bhavanti, kṛcchreṇa saṃprakāśyante, evameva me 'kṣitārakau duragatāvabhūtāṃ kṛcchreṇa saṃprakāśyete sma / tadyathāpi nāmājapadaṃ voṣṭrapadaṃ vā, evameva me kakṣākukṣivakṣādīnyabhūvan / tato yadāhaṃ bhikṣavaḥ pāṇinā kukṣiṃ spṛśāmīti pṛṣṭhikaṇṭakamevāsprākṣam / uttiṣṭhāmīti cābhisaṃskurvaṃstathaivāvakubjaḥ prayāmeṇa prāpatam / tataḥ kṛcchreṇotthito 'pi pāṃśukṛtāni gātrāṇi pāṇinā pramṛjato me pūtiromāṇi kāyācchīryante sma / yāpi me 'bhūtpaurāṇī śubhavarṇatanuḥ sāpyantaradhādyathāpīdaṃ rūkṣapradhānaṃ prahitātmanaḥ / sāmantāśca me gocaragrāmavāsina evaṃ saṃjānante sma - kālako bata bhoḥ śramaṇo gautamaḥ / śyāmako bata bhoḥ śramaṇo gautamaḥ / madguracchavirbata bhoḥ śramaṇo gautamaḥ / yāpyasyābhūtpaurāṇī śubhavarṇā nibhā, sāpyantarhitā // tasya me bhikṣava etadabhūt - yannvahaṃ bhūyasyā mātrayālpāhāratayā pratipadyeyamiti / abhijānāmyahaṃ bhikṣava ekameva taṇḍulamadvitīyamāhāramāhartum / syādbhikṣavo yuṣmākamevaṃ mahattaraṃ taṇḍulaṃ tasmin kāle 'bhūditi / na khalvevaṃ draṣṭavyam / athaitāvāneva tasmin kāle taṇḍulo 'bhūt / tasya me bhikṣava ekaṃ taṇḍulamāharataḥ kṣipraṃ kāyo 'bhūditi pūrvavadyāvanmadguracchavirbata bhoḥ śramaṇo gautama iti / yāpyasya sābhūtpaurāṇī śubhavarṇatanuḥ sāpyantarhiteti // tasya me bhikṣava etadabhūt - yannvahaṃ bhūyasyā mātrayālpāhāratāyai pratipadyeyamiti / abhijānāmyahaṃ bhikṣava ekameva tilamadvitīyamāhāramāhārayitum / peyālaṃ / yāvatsāpyasya śubhavarṇatanurantarhiteti // tasya me bhikṣava etadabhūt - santyeke śramaṇabrāhmaṇā ye 'nāhāratayā śuddhiṃ manyante / yannvahaṃ sarveṇa sarvamanāhāratāyai pratipadyeyamiti / tato 'haṃ bhikṣavo 'nāhārasthito 'bhūvan / tasya me bhikṣavo 'nāhārasya kāyo 'tīva śuṣko 'bhūt kṛśo durbalaḥ, tadyathāpi nāma āsitakīparvāṇi vā kālāparvāṇi vā / tato dviguṇatriguṇacaturguṇapañcaguṇadaśaguṇaṃ me kṛśānyaṅgapratyaṅgānyabhūvan / tadyathā karkaṭakapārśukā vāhanaśālāyāṃ vā gopānasī (pārśve) dviparivartanā veṇīvatpṛṣṭhīkaṇṭakaḥ / tiktālābuvacchiraḥkapālam, kūpatārakā ivākṣitārake / so 'haṃ bhikṣavaḥ sādhukamuttiṣṭhāmīti gātrāṇyabhisaṃskurvannavakubjaḥ prāpatam / kṛcchreṇāpi cotthitaḥ pāṃśukṛtāni me gātrāṇi pramṛjataḥ pūtimūlāni romāṇyaśīryanta / yāpi me sābhūcchubhavarṇatanunibhā, sāpyantaradhāt / tadyathāpi tadrūkṣapradhānaprahitātmakatvāt / sāmantāśca me gocaragrāmavāsino janā evaṃ saṃjānante sma - kālako bata bhoḥ śramaṇo gautamaḥ / śyāmako bata bhoḥ śramaṇo gautamaḥ / madguracchavirbata bhoḥ śramaṇo gautamaḥ / yāpyasya sābhūtpaurāṇī śubhavarṇanibhā sāpyantarhiteti // rājāpi tadā śuddhodanaḥ pratipratidivasaṃ bodhisattvasyāntike dūtaṃ preṣayati sma // iti hi bhikṣavo bodhisattvo lokasyādbhutakriyāsaṃdarśanārthaṃ pūrvavadyāvatkarmakriyāpraṇaṣṭānāṃ sattvānāṃ karmakriyāvatāraṇārthaṃ puṇyasaṃcayānāṃ codbhāvanārthaṃ mahājñānasya ca guṇasaṃdarśanārthaṃ dhyānāṅgānāṃ ca vibhajanārthamekatilakolataṇḍulena ṣaḍvarṣāṇi duṣkaracaryāmanuvartayantamupadarśayati sma / adīnamānasaḥ ṣaḍvarṣā bodhisattvo yathā niṣaṇṇa evāsthāt paryaṅkena / na ca īryāpathāccyavate sma / nātapācchāyāmagamanna chāyāyā ātapam / na ca vātātapavṛṣṭiparitrāṇamakaronna ca daṃśamaśakasarīsṛpānapanayati sma / na coccārapraśrāvaśleṣmasiṃhāṇakānutsṛjati sma / na ca samiñjanaprasāraṇamakarot / na ca pārśvodarapṛṣṭhasthānenāsthāt / ye 'pi ca te mahāmeghā durdinavarṣāśaniśaradgrīṣmahaimantikāḥ, te 'pi bodhisattvasya kāye nipatanti sma / na cāntato bodhisattvaḥ pāṇināpi pracchādanamakarot / na cendriyāṇi pithayati sma / na cendriyārthān gṛhṇite sma / ye ca tatrāgaman grāmakumārakā vā grāmakumārikā vā gopālakā vā paśupālakā vā tṛṇahārikā vā kāṣṭhahārikā vā gomayahārikā vā, te bodhisattvaṃ pāṃśupiśācamiti manyante sma / tena ca krīḍanti sma / pāṃśubhiścainaṃ mrakṣayanti sma // tatra bodhisattvastaiḥ ṣaḍbhirvarṣaistāvallūhanyūnadurbalakāyaḥ saṃvṛtto 'bhūt, yadasya karṇaśrotābhyāṃ tṛṇatūlakaṃ prakṣipya nāsāśrotābhyāṃ niṣkāsyate sma / nāsāśrotābhyāṃ prakṣipya karṇaśrotābhyāṃ (vaidya 188) niṣkāsyate sma / karṇaśrotābhyāṃ prakṣipya mukhadvāreṇa niṣkāsyate sma / mukhadvāreṇa prakṣipya karṇanāsikāśrotābhyo niṣkāsyate sma / nāsāyāṃ prakṣipya karṇanāsikāmukhadvāreṇa niṣkāsyate sma // ye ca te devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā bodhisattvasya guṇeṣu pratyakṣāḥ, te rātriṃdivaṃ samadhiṣṭhā bodhisattvasya pūjāṃ kurvanti sma / praṇidhānāni ca kurvanti sma // tatra bodhisattvena tai ṣaḍbhirvarṣairduṣkaracaryāṃ saṃdarśayatā paripūrṇāni dvādaśanayutāni devamanuṣyāṇāṃ tribhiryānaiḥ paripācitānyabhūvan // tatredamucyate - tasya ca guṇānvitasya purādviniṣkramya bodhisattvasya / cintā upāyayuktā sattvārthahitāya utpannā (17.11)

Verse 17.12

।। पञ्चसु कषायकाले हीने ऽधर्माधिमुक्तिके लोके । जातो ऽस्मि जम्बुद्विपे धर्मक्रियौद्धुरे लोके ॥ १७.१२ ॥

// pañcasu kaṣāyakāle hīne 'dharmādhimuktike loke / jāto 'smi jambudvipe dharmakriyauddhure loke (17.12)

Verse 17.13

।। आकीर्ण तीर्थिकगणैः कौतूहलमङ्गलैरिमे युक्ता । कायोपक्रमकरणैर्मन्यन्ते बालिशाः शुद्धिम् ॥ १७.१३ ॥

// ākīrṇa tīrthikagaṇaiḥ kautūhalamaṅgalairime yuktā / kāyopakramakaraṇairmanyante bāliśāḥ śuddhim (17.13)

Verse 17.14

।। अग्निप्रवेशमरुप्रपातपांशुभस्मादिमक्षिता नग्नाः । कायपरितापनार्थं पञ्चातपयोगमनुयुक्ताः ॥ १७.१४ ॥

// agnipraveśamaruprapātapāṃśubhasmādimakṣitā nagnāḥ / kāyaparitāpanārthaṃ pañcātapayogamanuyuktāḥ (17.14)

Verse 17.15

।। मन्त्राविचारकरणा केचिद्धस्तावलेहका अबुधाः । न च कुम्भमुखकरोटान्न धारकुशलान्तराच्च गृह्णन्ति ॥ १७.१५ ॥

// mantrāvicārakaraṇā keciddhastāvalehakā abudhāḥ / na ca kumbhamukhakaroṭānna dhārakuśalāntarācca gṛhṇanti (17.15)

Verse 17.16

।। न च यत्र स्वानुभवती न चाहितं तेन तिष्ठवाक्यस्य । कुलभिक्ष एक गृह्या शुद्धं मन्यन्तिहात्मानम् ॥ १७.१६ ॥

// na ca yatra svānubhavatī na cāhitaṃ tena tiṣṭhavākyasya / kulabhikṣa eka gṛhyā śuddhaṃ manyantihātmānam (17.16)

Verse 17.17

।। वर्जेन्ति सर्पितैलं फाणितदधिदुग्धमत्स्यमांसानि । श्यामाकशाकभक्षा मृणालगर्डुलकणाभक्षाः ॥ १७.१७ ॥

// varjenti sarpitailaṃ phāṇitadadhidugdhamatsyamāṃsāni / śyāmākaśākabhakṣā mṛṇālagarḍulakaṇābhakṣāḥ (17.17)

Verse 17.18

।। मूलफलपत्रभक्षाः कुशचीवरचर्मकम्बलधराश्च । अपरे भ्रमन्ति नग्नाः सत्यमिदं मोहमन्यदिति मूढाः ॥ १७.१८ ॥

// mūlaphalapatrabhakṣāḥ kuśacīvaracarmakambaladharāśca / apare bhramanti nagnāḥ satyamidaṃ mohamanyaditi mūḍhāḥ (17.18)

Verse 17.19

।। धारेन्ति ऊर्ध्वहस्ता उर्ध्वंकेशा जटाश्च धारेन्ति । मार्गानतिप्रनष्टा अमार्गसंस्थाः सुगतिगमनकामाः ॥ १७.१९ ॥

// dhārenti ūrdhvahastā urdhvaṃkeśā jaṭāśca dhārenti / mārgānatipranaṣṭā amārgasaṃsthāḥ sugatigamanakāmāḥ (17.19)

Verse 17.20

।। तृणमुसलभस्मशयनाः कण्टकशयनाश्च उत्कुटध्यायि । स्थित केचिदेकपादे ऊर्ध्वमुखाश्चन्द्रसूर्य पश्यन्तः ॥ १७.२० ॥

// tṛṇamusalabhasmaśayanāḥ kaṇṭakaśayanāśca utkuṭadhyāyi / sthita kecidekapāde ūrdhvamukhāścandrasūrya paśyantaḥ (17.20)

Verse 17.21

।। उत्सां सरसतडागां सागरसरितश्च चन्द्रसूर्यौ च । वृक्षगिरिशैलशिखरां कुम्भं धरणीं नमस्यन्ते ॥ १७.२१ ॥

// utsāṃ sarasataḍāgāṃ sāgarasaritaśca candrasūryau ca / vṛkṣagiriśailaśikharāṃ kumbhaṃ dharaṇīṃ namasyante (17.21)

Verse 17.22

।। विविधैश्च कारणैस्ते कायं परिशोधयन्ति संमूढाः । मिथ्यादृष्टिपरीताः क्षिप्रं प्रपतन्त्यपायेषु ॥ १७.२२ ॥

// vividhaiśca kāraṇaiste kāyaṃ pariśodhayanti saṃmūḍhāḥ / mithyādṛṣṭiparītāḥ kṣipraṃ prapatantyapāyeṣu (17.22)

Verse 17.23

।। यन्नूनमहं व्रततप दुष्करचर्यां समारभे घोराम् । यं दुष्करं न शक्यं चरितुं देवैर्मनुष्यैर्वा ॥ १७.२३ ॥

// yannūnamahaṃ vratatapa duṣkaracaryāṃ samārabhe ghorām / yaṃ duṣkaraṃ na śakyaṃ carituṃ devairmanuṣyairvā (17.23)

Verse 17.24

।। आस्फानकं च ध्यानं ध्यायेयं वज्रकल्पदृढस्थानम् । यं ध्यानं न समर्थाः प्रत्येकजिनापि दर्शयितुम् ॥ १७.२४ ॥

// āsphānakaṃ ca dhyānaṃ dhyāyeyaṃ vajrakalpadṛḍhasthānam / yaṃ dhyānaṃ na samarthāḥ pratyekajināpi darśayitum (17.24)

Verse 17.25

।। सन्तीह देवमनुजाः तीर्थिक लूहव्रतेन हृष्यन्ते । तेष परिपाकहेतो दुष्करव्रततप रभेय सूतीव्रम् ॥ १७.२५ ॥

// santīha devamanujāḥ tīrthika lūhavratena hṛṣyante / teṣa paripākaheto duṣkaravratatapa rabheya sūtīvram (17.25)

Verse 17.26

।। पर्यङ्कमाभुजित्वा उपविष्टो ऽभूत्स्थले असंस्तीर्णे । कोलतिलतण्डुलेना आहारविधिं विदर्शयति ॥ १७.२६ ॥

// paryaṅkamābhujitvā upaviṣṭo 'bhūtsthale asaṃstīrṇe / kolatilataṇḍulenā āhāravidhiṃ vidarśayati (17.26)

Verse 17.27

।। आश्वासविप्रहीनः प्रश्वासवर्जितु न चेञ्जते बालवान् । षड्वर्षाणि प्रवरं ध्यायत्यास्फानकं ध्यानम् ॥ १७.२७ ॥

// āśvāsaviprahīnaḥ praśvāsavarjitu na ceñjate bālavān / ṣaḍvarṣāṇi pravaraṃ dhyāyatyāsphānakaṃ dhyānam (17.27)

Verse 17.28

।। कल्पं नो न विकल्पं न चेञ्जनं नापिमन्येन प्रचारम् । आकाशधातुस्फरणं ध्यायत्यास्फानकं ध्यानम् ॥ १७.२८ ॥

// kalpaṃ no na vikalpaṃ na ceñjanaṃ nāpimanyena pracāram / ākāśadhātuspharaṇaṃ dhyāyatyāsphānakaṃ dhyānam (17.28)

Verse 17.29

।। न च आतपातु छायां छायाया नातपं गतश्चासौ । मेरुरिव निष्प्रकम्प्यो ध्यायत्यास्फानकं ध्यानम् ॥ १७.२९ ॥

// na ca ātapātu chāyāṃ chāyāyā nātapaṃ gataścāsau / meruriva niṣprakampyo dhyāyatyāsphānakaṃ dhyānam (17.29)

Verse 17.30

।। न च वातवृष्टिछदनं न दंशमशकासरीसृपात्राणम् । अविकोपितया चर्या ध्यायत्यास्फानकं ध्यानम् ॥ १७.३० ॥

// na ca vātavṛṣṭichadanaṃ na daṃśamaśakāsarīsṛpātrāṇam / avikopitayā caryā dhyāyatyāsphānakaṃ dhyānam (17.30)

Verse 17.31

।। न च केवलमात्मार्थं ध्यायत्यास्फानकं ध्यानम् । अन्यत्र करुणचित्तो भावी लोकस्य विपुलार्थम् ॥ १७.३१ ॥

// na ca kevalamātmārthaṃ dhyāyatyāsphānakaṃ dhyānam / anyatra karuṇacitto bhāvī lokasya vipulārtham (17.31)

Verse 17.32

।। ये ग्रामदारकाश्च गोपालाः काष्ठहारतृणहाराः । पांशुपिशाचकमिति तं मन्यन्ते पांशुना च म्रक्षन्ति ॥ १७.३२ ॥

// ye grāmadārakāśca gopālāḥ kāṣṭhahāratṛṇahārāḥ / pāṃśupiśācakamiti taṃ manyante pāṃśunā ca mrakṣanti (17.32)

Verse 17.33

।। अशुचीना च किरन्ते विविधास्ते कारणाश्च कारेन्ति । न च इञ्जते भ्रमति वा ध्यायत्यास्फानकं ध्यानम् ॥ १७.३३ ॥

// aśucīnā ca kirante vividhāste kāraṇāśca kārenti / na ca iñjate bhramati vā dhyāyatyāsphānakaṃ dhyānam (17.33)

Verse 17.34

।। न च नमति नो विनमते न कायपरिरक्षणा स्पृशति । किंचिन्नोच्चारप्रस्रवं शब्देषु न संत्रसी न परप्रेक्षी ॥ १७.३४ ॥

// na ca namati no vinamate na kāyaparirakṣaṇā spṛśati / kiṃcinnoccāraprasravaṃ śabdeṣu na saṃtrasī na paraprekṣī (17.34)

Verse 17.35

।। संशुष्कमांसरुधिरं चर्मस्नाय्वस्थिकाश्च अवशिष्टा । उदराच्च पृष्ठिवंशो विदृश्यते वर्तिता यथा वेणी ॥ १७.३५ ॥

// saṃśuṣkamāṃsarudhiraṃ carmasnāyvasthikāśca avaśiṣṭā / udarācca pṛṣṭhivaṃśo vidṛśyate vartitā yathā veṇī (17.35)

Verse 17.36

।। ये ते कृताधिकारा देवाः सुरनागयक्षगन्धर्वाः । प्रत्यक्षगुणधरस्या करोन्ति पूजां दिवारात्रौ ॥ १७.३६ ॥

// ye te kṛtādhikārā devāḥ suranāgayakṣagandharvāḥ / pratyakṣaguṇadharasyā karonti pūjāṃ divārātrau (17.36)

Verse 17.37

।। प्रणिधिं च कुर्वते ते वयमपि तादृश भवामहे क्षिप्रम् । यथ एष गगनचित्तो ध्यायत्यास्फानकं ध्यानम् ॥ १७.३७ ॥

// praṇidhiṃ ca kurvate te vayamapi tādṛśa bhavāmahe kṣipram / yatha eṣa gaganacitto dhyāyatyāsphānakaṃ dhyānam (17.37)

Verse 17.38

।। न च केवलमात्मार्थं न ध्यानस्वादनान्न सुखबुद्ध्या । अन्यत्र करुणबुद्ध्या करिष्यत्यर्थं विपुल लोके ॥ १७.३८ ॥

// na ca kevalamātmārthaṃ na dhyānasvādanānna sukhabuddhyā / anyatra karuṇabuddhyā kariṣyatyarthaṃ vipula loke (17.38)

Verse 17.39

।। निहताः परप्रवादा ध्यामीकृत तीर्थिका मतिविहीनाः । कर्मक्रिया च दर्शित या प्रोक्ता काश्यपे वाचा ॥ १७.३९ ॥

// nihatāḥ parapravādā dhyāmīkṛta tīrthikā mativihīnāḥ / karmakriyā ca darśita yā proktā kāśyape vācā (17.39)

Verse 17.40

।। क्रकुच्छन्दकस्य बोधि बोधिरिह सुदुर्लभा बहुभि कल्पैः । जनताया इत्यर्थं ध्यायत्यास्फानकं ध्यानम् ॥ १७.४० ॥

// krakucchandakasya bodhi bodhiriha sudurlabhā bahubhi kalpaiḥ / janatāyā ityarthaṃ dhyāyatyāsphānakaṃ dhyānam (17.40)

Verse 17.41

।। द्वादशनयुता पूर्णा विनीत मरुमानुषास्त्रिभिर्यानैः । एतदधिकृत्य सुमति ध्यायत्यास्फानकं ध्यानम् ॥ १७.४१ ॥

// dvādaśanayutā pūrṇā vinīta marumānuṣāstribhiryānaiḥ / etadadhikṛtya sumati dhyāyatyāsphānakaṃ dhyānam (17.41)