18. Chapter 18
Verse 18.1
।। ।। इति श्रीललितविस्तरे दुष्करचर्यापरिवर्तो नाम सप्तदशमो ऽध्यायः ।। स्तर्त् परिवर्त १८ नैरञ्जनापरिवर्तो ऽष्टादशः । मारश्च भिक्षवः पापीयान् बोधिसत्त्वस्य षड्वर्षाणि दुष्करचर्यां चरतः पृष्ठतः समनुबद्धो ऽभूत् अवतारप्रेक्षी अवतारगवेषी । न च कदाचित्किंचिदवतारमध्यगच्छत् । सो ऽवतारमनधिगच्छन्निर्विण्णो विप्रतिसारी प्राक्रामत् ।। तत्रेदमुच्यते - रमणीयान्यरण्यानि वनगुल्माश्च वीरुधाः । प्राचीनमुरुबिल्वायां यत्र नैरञ्जना नदी ॥ १८.१ ॥
// // iti śrīlalitavistare duṣkaracaryāparivarto nāma saptadaśamo 'dhyāyaḥ // start parivarta 18 nairañjanāparivarto 'ṣṭādaśaḥ / māraśca bhikṣavaḥ pāpīyān bodhisattvasya ṣaḍvarṣāṇi duṣkaracaryāṃ carataḥ pṛṣṭhataḥ samanubaddho 'bhūt avatāraprekṣī avatāragaveṣī / na ca kadācitkiṃcidavatāramadhyagacchat / so 'vatāramanadhigacchannirviṇṇo vipratisārī prākrāmat // tatredamucyate - ramaṇīyānyaraṇyāni vanagulmāśca vīrudhāḥ / prācīnamurubilvāyāṃ yatra nairañjanā nadī (18.1)
Verse 18.2
।। प्रहाणायोद्यतं तत्र सततं दृढविक्रमम् । पराक्रमन्तं वीर्येण योगक्षेमस्य प्राप्तये ॥ १८.२ ॥
// prahāṇāyodyataṃ tatra satataṃ dṛḍhavikramam / parākramantaṃ vīryeṇa yogakṣemasya prāptaye (18.2)
Verse 18.3
।। नमुचिर्मधुरां वाचं भाषमाणो उपागमत् । शाक्यपुत्रा समुत्तिष्ठ कायखेदेन किं तव ॥ १८.३ ॥
// namucirmadhurāṃ vācaṃ bhāṣamāṇo upāgamat / śākyaputrā samuttiṣṭha kāyakhedena kiṃ tava (18.3)
Verse 18.4
।। जीवतो जीवितं श्रेयो जीवन् धर्मं चरिष्यसि । जीवं हि तानि कुरुते यानि कृत्वा न शोचति ॥ १८.४ ॥
// jīvato jīvitaṃ śreyo jīvan dharmaṃ cariṣyasi / jīvaṃ hi tāni kurute yāni kṛtvā na śocati (18.4)
Verse 18.5
।। कृशो विवर्णो दीनस्त्वं अन्तिके मरणं तव । सहस्रभागे मरणं एकभागे च जीवितम् ॥ १८.५ ॥
// kṛśo vivarṇo dīnastvaṃ antike maraṇaṃ tava / sahasrabhāge maraṇaṃ ekabhāge ca jīvitam (18.5)
Verse 18.6
।। ददतः सततं दानं अग्निहोत्रं च जुह्वतः । भविष्यति महत्पुण्यं किं प्रहाणे करिष्यसि ॥ १८.६ ॥
// dadataḥ satataṃ dānaṃ agnihotraṃ ca juhvataḥ / bhaviṣyati mahatpuṇyaṃ kiṃ prahāṇe kariṣyasi (18.6)
Verse 18.7
।। दुःखं मार्गं प्रहाणस्य दुष्करं चित्तनिग्रहम् । इमां वाचं तदा मारो बोधिसत्त्वमथाब्रवीत् ॥ १८.७ ॥
// duḥkhaṃ mārgaṃ prahāṇasya duṣkaraṃ cittanigraham / imāṃ vācaṃ tadā māro bodhisattvamathābravīt (18.7)
Verse 18.8
।। तं तथावादिनं मारं बोधिसत्त्वस्ततो ऽब्रवीत् । प्रमत्तबन्धो पापीय स्वेनार्थेन त्वमागतः ॥ १८.८ ॥
// taṃ tathāvādinaṃ māraṃ bodhisattvastato 'bravīt / pramattabandho pāpīya svenārthena tvamāgataḥ (18.8)
Verse 18.9
।। अणुमात्रं हि मे पुण्यैरर्थो मार न विद्यते । अर्थो येषां तु पुण्येन तानेवं वक्तुमर्हसि ॥ १८.९ ॥
// aṇumātraṃ hi me puṇyairartho māra na vidyate / artho yeṣāṃ tu puṇyena tānevaṃ vaktumarhasi (18.9)
Verse 18.10
।। नैवाहं मरणं मन्ये मरणान्तं हि जीवितम् । अनिवर्ती भविष्यामि ब्रह्मचर्यपरायणः ॥ १८.१० ॥
// naivāhaṃ maraṇaṃ manye maraṇāntaṃ hi jīvitam / anivartī bhaviṣyāmi brahmacaryaparāyaṇaḥ (18.10)
Verse 18.11
।। स्रोतांस्यपि नदीनां हि वायुरेष विशोषयेत् । किं पुनः शोषयेत्कायं शोणितं प्रहितात्मनाम् ॥ १८.११ ॥
// srotāṃsyapi nadīnāṃ hi vāyureṣa viśoṣayet / kiṃ punaḥ śoṣayetkāyaṃ śoṇitaṃ prahitātmanām (18.11)
Verse 18.12
।। शोणिते तु विशुष्के वै ततो मांसं विशुष्यति । मांसेषु क्षीयमाणेषु भूयश्चित्तं प्रसीदति । भूयश्छन्दश्च वीर्यं च समाधिश्चावतिष्ठते ॥ १८.१२ ॥
// śoṇite tu viśuṣke vai tato māṃsaṃ viśuṣyati / māṃseṣu kṣīyamāṇeṣu bhūyaścittaṃ prasīdati / bhūyaśchandaśca vīryaṃ ca samādhiścāvatiṣṭhate (18.12)
Verse 18.13
।। तस्यैव मे विहरतः प्राप्तस्योत्तमचेतनाम् । चित्तं नावेक्षते कायं पश्य सत्त्वस्य शुद्धताम् ॥ १८.१३ ॥
// tasyaiva me viharataḥ prāptasyottamacetanām / cittaṃ nāvekṣate kāyaṃ paśya sattvasya śuddhatām (18.13)
Verse 18.14
।। अस्ति छन्दं तथा वीर्यं प्रज्ञापि मम विद्यते । तं न पश्याम्यहं लोके वीर्याद्यो मां विचालयेत् ॥ १८.१४ ॥
// asti chandaṃ tathā vīryaṃ prajñāpi mama vidyate / taṃ na paśyāmyahaṃ loke vīryādyo māṃ vicālayet (18.14)
Verse 18.15
।। वरं मृत्युः प्राणहरो धिग्ग्राम्यं नोपजीवितम् । संग्रामे मरणं श्रेयो यच्च जीवेत्पराजितः ॥ १८.१५ ॥
// varaṃ mṛtyuḥ prāṇaharo dhiggrāmyaṃ nopajīvitam / saṃgrāme maraṇaṃ śreyo yacca jīvetparājitaḥ (18.15)
Verse 18.16
।। नाशूरो जयते सेनां जित्वा चैनां न मन्यते । शूरस्तु जयते सेनां लघु मार जयामि ते ॥ १८.१६ ॥
// nāśūro jayate senāṃ jitvā caināṃ na manyate / śūrastu jayate senāṃ laghu māra jayāmi te (18.16)
Verse 18.17
।। कामास्ते प्रथमा सेना द्वितीया अरतिस्तथा । तृतीया क्षुत्पिपासा ते तृष्णा सेना चतुर्थिका ॥ १८.१७ ॥
// kāmāste prathamā senā dvitīyā aratistathā / tṛtīyā kṣutpipāsā te tṛṣṇā senā caturthikā (18.17)
Verse 18.18
।। पञ्चमी स्त्यानमिद्धं ते भयं षष्टी निरुच्यते । सप्तमी विचिकित्सा ते क्रोधम्रक्षौ तथाष्टमी ॥ १८.१८ ॥
// pañcamī styānamiddhaṃ te bhayaṃ ṣaṣṭī nirucyate / saptamī vicikitsā te krodhamrakṣau tathāṣṭamī (18.18)
Verse 18.19
।। लोभश्लोकौ च संस्कारौ मिथ्यालब्धं च यद्यशः । आत्मानं यश्च उत्कर्षेद्यश्च वै ध्वंसयेत्परां ॥ १८.१९ ॥
// lobhaślokau ca saṃskārau mithyālabdhaṃ ca yadyaśaḥ / ātmānaṃ yaśca utkarṣedyaśca vai dhvaṃsayetparāṃ (18.19)
Verse 18.20
।। एषा हि नमुचेः सेना कृष्णबन्धोः प्रतापिनः । अत्रावगाढा दृश्यन्ते एते श्रमणब्राह्मणाः ॥ १८.२० ॥
// eṣā hi namuceḥ senā kṛṣṇabandhoḥ pratāpinaḥ / atrāvagāḍhā dṛśyante ete śramaṇabrāhmaṇāḥ (18.20)
Verse 18.21
।। या ते सेना धर्षयति लोकमेनं सदेवकम् । भेत्स्यामि प्रज्ञया तां ते आमपात्रमिवाम्बुना ॥ १८.२१ ॥
// yā te senā dharṣayati lokamenaṃ sadevakam / bhetsyāmi prajñayā tāṃ te āmapātramivāmbunā (18.21)
Verse 18.22
।। स्मृतिं सूपस्थितां कृत्वा प्रज्ञां चैव सुभाविताम् । संप्रजानं चरिष्यामि किं करिष्यसि दुर्मते ॥ १८.२२ ॥
// smṛtiṃ sūpasthitāṃ kṛtvā prajñāṃ caiva subhāvitām / saṃprajānaṃ cariṣyāmi kiṃ kariṣyasi durmate (18.22)
Verse 18.23
।। एवमुक्ते मारः पापीयान् दुःखी दुर्मना अनात्तमना विप्रतिसारी तत्रैवान्तरधात् ।। अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत् - ये केचिच्छ्रमणा ब्राह्मणा वा अतीतानागतप्रत्युत्पन्नेष्वध्वस्वात्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति एतावत्परमं ते दुःखमनुभवन्ति ।। तस्य मे भिक्षव एतदभूत् - अनयापि खलु मया चर्यया अनयापि प्रतिपदा न कश्चिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषः साक्षात्कृतः । नायं मार्गो बोधेः । नायं मार्ग आयत्यां जातिजरामरणसंभवानामस्तंगमाय । स्यात्तदन्यो मार्गो बोधेरायत्यां जातिजरामरणदुःखसमुदयानामस्तंगमायेति ।। तस्य मे भिक्षव एतदभवत् - यदहं पितुरुद्याने जम्बुच्छायायां निषण्णो विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य व्याहार्षं यावच्चतुर्थध्यानमुपसंपद्य व्याहार्षम्, स्यात्स मार्गो बोधेर्जातिजरामरणदुःखसमुदायानामसंभवायास्तंगमायेति । तदनुसारि च मे विज्ञानमभूत् । स मार्गो बोधेरिति ।। तस्य ममैतदभूत् - नासौ मार्गः शक्यः एवं दौर्बल्यप्राप्तेनाभिसंबोद्धुम् । सचेत्पुनरहमभिज्ञाज्ञानबलेनैव लूहं दुर्बलकाय एव बोधिमण्डमुपसंक्रमेयम्, न मे पश्चिमा जनता अनुकम्पिता स्यात् । न चैष मार्गो बोधेः । यन्न्वहमौदारिकमाहारमाहृत्य कायबलस्थामं संजनय्य पश्चाद्बोधिमण्डमुपसंक्रमेयम् ।। तत्र भिक्षवो ये ते लूहाधिमुक्ता देवपुत्रास्ते मम चेतसश्चेतसैव परिवितर्कमाज्ञाय येनाहं तेनोपसंक्रम्य मामेवमाहुः - मा स्म त्वं सत्पुरुष औदारिकमाहारमाहरेः । वयं ते रोमकूपैरोजः प्रक्षेप्स्याम इति ।। तस्य मे भिक्षव एतदभूत् - अहं खल्वनशन इत्यात्मानं प्रतिजाने, सामन्ताश्च मे गोचरग्रामवासिनो जना एवं संजानन्ते स्म यथानशनः श्रमणो गौतमः । इतीव मे खलु लूहाधिमुक्ता देवपुत्रा रोमकूपैरोजः प्रक्षिपन्ति । स मम परमो मृषावादः स्यात् । ततो बोधिसत्त्वो मृषावादपरिहारार्थं तान् देवपुत्रान् प्रतिक्षिप्यौदारिकमाहारमाहर्तु चित्तं नामयति स्म ।। इति हि भिक्षवः षड्वर्षव्रततपःसमुत्तीर्णो बोधिसत्त्वो ऽस्मादासनादुत्थायौदारिकमाहारमाहरिष्यामीति वाचं निश्चारयति स्म । तद्यथा फाणीकृतं मुद्गयूषं हरेणुकयूषं मथ्योदनकुल्माषमिति ।। अथ खलु भिक्षवः पञ्चानां भद्रवर्गीयानामेतदभूत् - तयापि तावच्चर्यया तयापि तावत्प्रतिपदा श्रमणेन गौतमेन न शकितं किंचिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम्, किं पुनरेतर्हि औदारिकमाहारमाहरन् सुखल्लिकानुयोगमनुयुक्तो विहरन् । अव्यक्तो बालो ऽयमिति च मन्यमाना बोधिसत्त्वस्यान्तिकात्प्रक्रामन् । ते वाराणसीं गत्वा ऋषिपतने मृगदावे व्याहार्षुः ।। तत्र बोधिसत्त्वमादित एव दुष्करचर्यां चरन्तं दश ग्रामिकदुहितरः कुमार्य उपगच्छन् दर्शनाय वन्दनाय पर्युपासनाय च । तैरपि पञ्चकैर्भद्रवर्गीयैरुपस्थितो ऽभूत् । एककोलतिलतण्डुलप्रदानेन (वैद्य १९४) च प्रतिपादितो ऽभूत् । बला च नाम दारिका बलगुप्ता च सुप्रिया च विजयसेना च अतिमुक्तकमला च सुन्दरी च कुम्भकारी च उलुविल्लिका च जटिलिका च सुजाता च नाम ग्रामिकदुहिताः । आभिः कुमारिकाभिर्बोधिसत्त्वाय सर्वास्ता यूषविधाः कृत्वोपनामिता अभूवन् । ताश्चाभ्यवहृत्य बोधिसत्त्वः क्रमेण गोचरग्रामे पिण्डाय चरन् वर्णरूपबलवानभूत् । तदग्रेण बोधिसत्त्वः सुन्दरः श्रमणो महाश्रमण इत्याचक्षते ।। तत्र च भिक्षवः सुजाता ग्रामिकदुहिता बोधिसत्त्वस्य दुष्करचर्यां चरतः आदित एव बोधिसत्त्वस्य व्रततपःसमुत्तारणार्थं शरीरस्याप्यायनहेतोश्च प्रतिदिवसमष्टशतं ब्राह्मणानां भोजयति स्म । एवं च प्रणिदधाति स्म - मम भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येतेति ।। तस्य मे भिक्षवः षड्वर्षव्यतिवृत्तस्य काषायाणि वस्त्राणि परिजीर्णान्यभूवन् । तस्य मे भिक्षव एतदभूत् - सचेदहं कौपीनप्रच्छादनं लभेयम्, शोभनं स्यात् ।। तेन खलु पुनर्भिक्षवः समयेन सुजाताया ग्रामिकदुहितुर्दासी राधा नाम कालगताभूत् । सा शाणकैः परिवेष्ट्य श्मशानमपकृष्य परित्यक्ताभुत् । तदहमेवाद्राक्षीत् पांशुकूलम् । ततो ऽहं तत्पांशुकूलं वामेन पादेनाक्रम्य दक्षिणं हस्तं प्रसार्यावनतो ऽभूत्तद्रहीतुम् । अथ भौमा देवा अन्तरीक्षाणां देवानां घोषमनुश्रावयन्ति स्म - आश्चर्यं मार्षा अद्भुतमिदं मार्षाः । यत्र हि नामैवं महाराजकुलप्रसूतस्य चक्रवर्तिराज्यपरित्यागिनः पांशुकूले चित्तं नतमिति । अन्तरीक्षा देवा भौमानां देवानां शब्दं श्रत्वा चातुर्महाराजिकानां देवानां घोषमुदीरयन्ति स्म । चातुर्महाराजिका देवास्त्रायत्रिंशतः । त्रायत्रिंशा यामानाम् । यामास्तुषितानाम् । तुषिता निर्माणरतीनाम् । निर्माणरतयः परनिर्मितवशवर्तिनाम् । परनिर्मितवशवर्तिनो यावद् ब्रह्मकायिकानाम् । इति हि भिक्षवस्तत्क्षणं तल्लवं तन्मुहूर्तं यावदकनिष्ठभुवनादेकघोष एकसंनिर्नादो ऽभ्युद्गतो ऽभूत् आश्चर्यमिदं मार्षा अद्भुतमिदम् । यत्र हि नामैवं महाराजकुलप्रसूतस्य चक्रवर्तिराज्यपरित्यागिनः पांशुकूले चित्तं नतमिति ।। अथ बोधिसत्त्वस्य पुनरप्येतदभवत् - लब्धं मया पांशुकूलम् । सचेदुदकं लभेयम्, शोभनं स्यादिति । ततस्तत्रैव देवता पाणिना महीं पराहन्ति स्म । तत्र पुष्करिणी प्रादुरभूत् । अद्यापि सा पाणिहतेति पुष्करिणी संज्ञायते ।। पुनरपि बोधिसत्त्वस्यैतदभवत् - लब्धं मया पानीयम् । सचेच्छिलां लभेयम्, यत्रेदं पांशुकूलं प्रक्षालयेयम्, शोभनं स्यात् । अथ तत्रैव शक्रेण शिला तत्क्षणमेवोपनिक्षिप्ताभूत् । ततो बोधिसत्त्वस्तत्पांशुकूलं प्रक्षालयति स्म ।। अथ शक्रो देवराजो बोधिसत्त्वमेवमाह - ददस्वेदं सत्पुरुष मह्यम् । अहं प्रक्षालयिष्यामीति । ततो बोधिसत्त्वः स्वयंकारितां प्रव्रज्यायाः संदर्शयितुं तत्पांशुकूलं शक्रस्यादत्वा स्वयमेव प्रक्षालयति स्म । स श्रान्तः क्लान्तकायो ऽवतीर्य पुष्करिणीमुत्तरिष्यामीति । मारेण च पापीयसा (वैद्य १९५) ईर्ष्याधर्मपरीतेन पुष्करिण्या अत्युच्छ्रितानि तटानि निर्मितान्यभूवन् । तस्याश्च पुष्करिण्यास्तीरे महान् कुकुभपादपः । तत्र देवतां बोधिसत्त्वो लोकानुवृत्त्या देवतानुग्रहार्थं चाब्रवीत् - आहर देवते वृक्षशाखामिति । तया वृक्षशाखावनामिताभूत् । तां बोधिसत्त्वो ऽबलम्ब्योत्तरति स्म । उत्तीर्य च तस्य ककुभपादपस्याधस्तात्तत्पांशुकूलं संघाटीकृत्य आसीव्यति स्म । अद्यापि तत् पांशुकूलं सीवनमित्येवं संज्ञायते स्म ।। अथ विमलप्रभो नाम शुद्धावासकायिको देवपुत्रः, स दिव्यानि चीवराणि काषायरङ्गरक्तानि कल्पिकानि श्रमणसारूप्याणि बोधिसत्त्वायोपनामयति स्म । बोधिसत्त्वश्च तानि गृहीत्वा पूर्वाह्णे निवास्य संघाटीप्रावृत्य गोचरग्रामाभिमुखो ऽभुत् ।। तत्र देवताभिरुरुबिल्वासेनापतिग्रामके नन्दिकग्रामिकदुहितुः सुजाताया आरोचितमभूदर्धरात्रसमये - यदर्थं त्वं महायज्ञं यजसे तस्माद्व्रतादुत्तीर्णः सः । सुभगमौदारिकमाहारमाहरिष्यति । त्वया च पूर्वे प्रणिधानं कृतम् - मम भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत इति । यत्ते करणीयं तत्कुरुष्वेति ।। अथ खलु भिक्षवः सुजाता नन्दिकग्रामदुहिता तेषां देवतानां तद्वचनं श्रुत्वा शीघ्रं गोसहस्रस्य क्षीरात्सप्तकृत्सारोद्धृतादग्र्यमोजोमण्डं गृह्णीते स्म । गृहीत्वा च सा तत्क्षीर(मभिनवम)भिनवैस्तण्डुलैरभिनवायां स्थाल्यामभिनवां चुल्लीमुपलिप्य तद्भोजनं साधयति स्म । तस्मिंश्च साध्यमाने इमानि पूर्वनिमित्तानि संदृश्यन्ते स्म - तस्मिन् खल्वपि क्षीरे श्रीवत्सस्वस्तिकनन्द्यावर्तपद्मवर्धमानादीनि मङ्गल्यानि संदृश्यन्ते स्म । ततस्तस्या एतदभूत् - यादृशानीमानि पूर्वनिमित्तानि संदृश्यन्ते, निःसंशयमिदं भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिं प्राप्स्यति । सामुद्रज्ञानविधिज्ञश्च नैमित्तिकस्तं प्रदेशं प्राप्तो ऽभूत् । सो ऽपि तथैवामृताधिगमनमेव व्याकृतवान् । ततः सुजाता तं पायसं पक्वं स्थण्डिलमुपलिप्य पुष्पैरवकीर्य गन्धोदकेनाभ्युक्ष्य आसनं प्रज्ञाप्य सत्कृत्योत्तरां नाम चेटीमामन्त्रयते स्म - गच्छोत्तरे ब्राह्मणमानय । अहमिदं मधुपायसमवलोकयामि । साध्वार्य इति प्रतिश्रुत्य उत्तरा पूर्वां दिशमगमत् । सा तत्र बोधिसत्त्वं पश्यति स्म । तथैव दक्षिणाम् । बोधिसत्त्वमेव पश्यति स्म । एवं पश्चिमामुत्तरामेव दिशं गच्छति स्म, तत्र तत्र बोधिसत्त्वमेवाद्राक्षीत् । तेन खलु पुनः समयेन शुद्धावासकायिकैर्देवपुत्रैः सर्वे ऽन्यतीर्थिका निगृहीता अभूवन् । न कश्चित् संदृश्यते स्म । ततः सा आगत्वा स्वामिनीमेवमाह - न खल्वार्ये अन्यः कश्चिद् दृश्यते श्रमणो वा ब्राह्मणो वा, अन्यत्र यतो यत एव गच्छामि, तत्र तत्र श्रमणमेव सुन्दरं पश्यामि । सुजाता आह - गच्छोत्तरे स एव ब्राह्मणः, स एव श्रमणः । तस्यैवार्थे ऽयमारम्भः । तमेवानयेति । साध्वार्ये इत्युत्तरा गत्वा बोधिसत्त्वस्य चरणयोः प्रणिपत्य सुजाताया (वैद्य १९६) नाम्नोपनिमन्त्रयते स्म । ततो भिक्षवो बोधिसत्त्वः सुजाताया ग्रामिकदुहितुर्निवेशनं गत्वा प्रज्ञप्त एवासने न्यषीदत् । अथ खलु भिक्षवः सुजाता ग्रामिकदुहिता सुवर्णमयीं पात्रीं मधुपायसपूर्णां बोधिसत्त्वस्योपनामयति स्म ।। अथ बोधिसत्त्वस्यैतदभवत् - यादृशमिदं सुजातया भोजनमुपनामितम्, निःसंशयमहमद्यैनं भोजनं भुक्त्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते ।। अथ बोधिसत्त्वस्तद्भोजनं प्रतिगृह्य सुजातां ग्रामिकदुहितरमेतदवोचत् - इयं भगिनि सुवर्णपात्री । किं क्रियताम्? सा आह - तवैव भवत्विति । बोधिसत्त्व आह - न ममेदृशेन भाजनेन प्रयोजनम् । सुजाता आह - यथेष्टं क्रियताम् । नाहं विना भाजनेन कस्यचिद्भोजनं प्रयच्छामि ।। अथ बोधिसत्त्वस्तं पिण्डपात्रमादायोरुबिल्वाया निष्क्रम्य नागनदीं पूर्वाह्णकालसमये नदीं नैरञ्जनामुपसंक्रम्य तं पिण्डपात्रं चीवराणि चैकान्ते निक्षिप्य नदीं नैरञ्जनामवतरति स्म गात्राणि शीतलीकर्तुम् ।। बोधिसत्त्वस्य खलु पुनर्भिक्षवः स्नायतो ऽनेकानि देवपुत्रशतसहस्राणि दिव्यागुरुचन्दनचूर्णविलेपनैर्नदीमालोडयन्ति स्म । दिव्यानि च नानावर्णानि कुसुमानि जले क्षिपन्ति स्म यदुत बोधिसत्त्वस्य पूजाकर्मणे ।। तेन खलु पुनः समयेन नैरञ्जना नदी दिव्यैर्गन्धैः पुष्पैश्च समाकुला वहति स्म । येन च गन्धोदकेन बोधिसत्त्वः स्नातो ऽभूत्, तं देवपुत्रकोटीनियुतशतसहस्राण्यभ्युत्क्षिप्य स्वकस्वकानि भवनानि नयन्ति स्म चैत्यार्थं पूजार्थं च ।। यानि च बोधिसत्त्वस्य केशश्मश्रूण्यभूवन्, तानि सर्वाणि सुजाता ग्रामिकदुहिता मङ्गल्यानीति कृत्वा चैत्यार्थं पूजार्थं च परिगृह्णीते स्म ।। नद्युत्तीर्णश्च बोधिसत्त्वः पुलिनं निरीक्षते स्म उपवेष्टुकामः । अथ या नैरञ्जनायां नद्यां नागकन्या सा धरणितलादभ्युद्गभ्य मणिमयं (मनोरमं) भद्रासनं बोधिसत्त्वायोपनामयति स्म । तत्र बोधिसत्त्वो निषद्य यावदर्थं तं मधुपायसं परिभुङ्क्ते स्म सुजाताया ग्रामिकदुहितुरनुकम्पामुपादाय । परिभुज्य च तां सुवर्णपात्रीमनपेक्षो वारिणि प्राक्षिपति स्म । क्षिप्तमात्रां च तां सागरो नागराजश्चित्तिकारबहुमानजातो गृहीत्वा स्वभवनाभिमुखः प्रस्थितो ऽभुत् पूजार्हेति कृत्वा । अथ दशशतनयनः पुरंदरो गरुडरूपमभिनिर्माय वज्रतुण्डो भूत्वा सागरस्य नागराजस्यान्तिकात्तां सुवर्णपात्रीं हर्तुमारब्धः । यदा न शक्नोति स्म, तदा स्वरूपेणादरेण याचित्वा त्रायत्रिंशद्भवनं नीतवान् पूजार्थं चैत्यार्थं च । नीत्वा पात्रीयात्रां नाम पर्वणि प्रवर्तितवान् । अद्यापि च त्रायत्रिंशेषु देवेषु प्रतिसंवत्सरं पात्रीमहो वर्तते । तच्च भद्रासनं तयैव नागकन्यया परिगृहीतं चैत्यार्थं पूजार्थं च ।। समन्तपरिभुक्तश्च भिक्षवो बोधिसत्त्वेनौदारिक आहारः । अथ तत्क्षणमेव बोधिसत्त्वस्य पुण्यबलेन प्रज्ञाबलेन पूर्विका काये शुभवर्णपुष्करता प्रादुरभूत् । द्वात्रिंशच्च महापुरुषलक्षणानि अशीतिश्चानुव्यञ्जनानि व्यामप्रभता च । तत्रेदमुच्यते - षड्वर्ष व्रत उत्तरित्व भगवान् एवं मतिं चिन्तयन् सो ऽहं ध्यानअभिज्ञज्ञानबलवानेवं कृशाङ्गो ऽपि सन् । गच्छेयं द्रुमराजमूलविटपं सर्वज्ञतां बुद्धितुं नो मे स्यादनुकम्पिता हि जनता एवं भवेत् पश्चिमा ॥ १८.२३ ॥
// evamukte māraḥ pāpīyān duḥkhī durmanā anāttamanā vipratisārī tatraivāntaradhāt // atha khalu bhikṣavo bodhisattvasyaitadabhūt - ye kecicchramaṇā brāhmaṇā vā atītānāgatapratyutpanneṣvadhvasvātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayanti etāvatparamaṃ te duḥkhamanubhavanti // tasya me bhikṣava etadabhūt - anayāpi khalu mayā caryayā anayāpi pratipadā na kaściduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaḥ sākṣātkṛtaḥ / nāyaṃ mārgo bodheḥ / nāyaṃ mārga āyatyāṃ jātijarāmaraṇasaṃbhavānāmastaṃgamāya / syāttadanyo mārgo bodherāyatyāṃ jātijarāmaraṇaduḥkhasamudayānāmastaṃgamāyeti // tasya me bhikṣava etadabhavat - yadahaṃ piturudyāne jambucchāyāyāṃ niṣaṇṇo viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya vyāhārṣaṃ yāvaccaturthadhyānamupasaṃpadya vyāhārṣam, syātsa mārgo bodherjātijarāmaraṇaduḥkhasamudāyānāmasaṃbhavāyāstaṃgamāyeti / tadanusāri ca me vijñānamabhūt / sa mārgo bodheriti // tasya mamaitadabhūt - nāsau mārgaḥ śakyaḥ evaṃ daurbalyaprāptenābhisaṃboddhum / sacetpunarahamabhijñājñānabalenaiva lūhaṃ durbalakāya eva bodhimaṇḍamupasaṃkrameyam, na me paścimā janatā anukampitā syāt / na caiṣa mārgo bodheḥ / yannvahamaudārikamāhāramāhṛtya kāyabalasthāmaṃ saṃjanayya paścādbodhimaṇḍamupasaṃkrameyam // tatra bhikṣavo ye te lūhādhimuktā devaputrāste mama cetasaścetasaiva parivitarkamājñāya yenāhaṃ tenopasaṃkramya māmevamāhuḥ - mā sma tvaṃ satpuruṣa audārikamāhāramāhareḥ / vayaṃ te romakūpairojaḥ prakṣepsyāma iti // tasya me bhikṣava etadabhūt - ahaṃ khalvanaśana ityātmānaṃ pratijāne, sāmantāśca me gocaragrāmavāsino janā evaṃ saṃjānante sma yathānaśanaḥ śramaṇo gautamaḥ / itīva me khalu lūhādhimuktā devaputrā romakūpairojaḥ prakṣipanti / sa mama paramo mṛṣāvādaḥ syāt / tato bodhisattvo mṛṣāvādaparihārārthaṃ tān devaputrān pratikṣipyaudārikamāhāramāhartu cittaṃ nāmayati sma // iti hi bhikṣavaḥ ṣaḍvarṣavratatapaḥsamuttīrṇo bodhisattvo 'smādāsanādutthāyaudārikamāhāramāhariṣyāmīti vācaṃ niścārayati sma / tadyathā phāṇīkṛtaṃ mudgayūṣaṃ hareṇukayūṣaṃ mathyodanakulmāṣamiti // atha khalu bhikṣavaḥ pañcānāṃ bhadravargīyānāmetadabhūt - tayāpi tāvaccaryayā tayāpi tāvatpratipadā śramaṇena gautamena na śakitaṃ kiṃciduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum, kiṃ punaretarhi audārikamāhāramāharan sukhallikānuyogamanuyukto viharan / avyakto bālo 'yamiti ca manyamānā bodhisattvasyāntikātprakrāman / te vārāṇasīṃ gatvā ṛṣipatane mṛgadāve vyāhārṣuḥ // tatra bodhisattvamādita eva duṣkaracaryāṃ carantaṃ daśa grāmikaduhitaraḥ kumārya upagacchan darśanāya vandanāya paryupāsanāya ca / tairapi pañcakairbhadravargīyairupasthito 'bhūt / ekakolatilataṇḍulapradānena (vaidya 194) ca pratipādito 'bhūt / balā ca nāma dārikā balaguptā ca supriyā ca vijayasenā ca atimuktakamalā ca sundarī ca kumbhakārī ca uluvillikā ca jaṭilikā ca sujātā ca nāma grāmikaduhitāḥ / ābhiḥ kumārikābhirbodhisattvāya sarvāstā yūṣavidhāḥ kṛtvopanāmitā abhūvan / tāścābhyavahṛtya bodhisattvaḥ krameṇa gocaragrāme piṇḍāya caran varṇarūpabalavānabhūt / tadagreṇa bodhisattvaḥ sundaraḥ śramaṇo mahāśramaṇa ityācakṣate // tatra ca bhikṣavaḥ sujātā grāmikaduhitā bodhisattvasya duṣkaracaryāṃ carataḥ ādita eva bodhisattvasya vratatapaḥsamuttāraṇārthaṃ śarīrasyāpyāyanahetośca pratidivasamaṣṭaśataṃ brāhmaṇānāṃ bhojayati sma / evaṃ ca praṇidadhāti sma - mama bhojanaṃ bhuktvā bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeteti // tasya me bhikṣavaḥ ṣaḍvarṣavyativṛttasya kāṣāyāṇi vastrāṇi parijīrṇānyabhūvan / tasya me bhikṣava etadabhūt - sacedahaṃ kaupīnapracchādanaṃ labheyam, śobhanaṃ syāt // tena khalu punarbhikṣavaḥ samayena sujātāyā grāmikaduhiturdāsī rādhā nāma kālagatābhūt / sā śāṇakaiḥ pariveṣṭya śmaśānamapakṛṣya parityaktābhut / tadahamevādrākṣīt pāṃśukūlam / tato 'haṃ tatpāṃśukūlaṃ vāmena pādenākramya dakṣiṇaṃ hastaṃ prasāryāvanato 'bhūttadrahītum / atha bhaumā devā antarīkṣāṇāṃ devānāṃ ghoṣamanuśrāvayanti sma - āścaryaṃ mārṣā adbhutamidaṃ mārṣāḥ / yatra hi nāmaivaṃ mahārājakulaprasūtasya cakravartirājyaparityāginaḥ pāṃśukūle cittaṃ natamiti / antarīkṣā devā bhaumānāṃ devānāṃ śabdaṃ śratvā cāturmahārājikānāṃ devānāṃ ghoṣamudīrayanti sma / cāturmahārājikā devāstrāyatriṃśataḥ / trāyatriṃśā yāmānām / yāmāstuṣitānām / tuṣitā nirmāṇaratīnām / nirmāṇaratayaḥ paranirmitavaśavartinām / paranirmitavaśavartino yāvad brahmakāyikānām / iti hi bhikṣavastatkṣaṇaṃ tallavaṃ tanmuhūrtaṃ yāvadakaniṣṭhabhuvanādekaghoṣa ekasaṃnirnādo 'bhyudgato 'bhūt āścaryamidaṃ mārṣā adbhutamidam / yatra hi nāmaivaṃ mahārājakulaprasūtasya cakravartirājyaparityāginaḥ pāṃśukūle cittaṃ natamiti // atha bodhisattvasya punarapyetadabhavat - labdhaṃ mayā pāṃśukūlam / sacedudakaṃ labheyam, śobhanaṃ syāditi / tatastatraiva devatā pāṇinā mahīṃ parāhanti sma / tatra puṣkariṇī prādurabhūt / adyāpi sā pāṇihateti puṣkariṇī saṃjñāyate // punarapi bodhisattvasyaitadabhavat - labdhaṃ mayā pānīyam / sacecchilāṃ labheyam, yatredaṃ pāṃśukūlaṃ prakṣālayeyam, śobhanaṃ syāt / atha tatraiva śakreṇa śilā tatkṣaṇamevopanikṣiptābhūt / tato bodhisattvastatpāṃśukūlaṃ prakṣālayati sma // atha śakro devarājo bodhisattvamevamāha - dadasvedaṃ satpuruṣa mahyam / ahaṃ prakṣālayiṣyāmīti / tato bodhisattvaḥ svayaṃkāritāṃ pravrajyāyāḥ saṃdarśayituṃ tatpāṃśukūlaṃ śakrasyādatvā svayameva prakṣālayati sma / sa śrāntaḥ klāntakāyo 'vatīrya puṣkariṇīmuttariṣyāmīti / māreṇa ca pāpīyasā (vaidya 195) īrṣyādharmaparītena puṣkariṇyā atyucchritāni taṭāni nirmitānyabhūvan / tasyāśca puṣkariṇyāstīre mahān kukubhapādapaḥ / tatra devatāṃ bodhisattvo lokānuvṛttyā devatānugrahārthaṃ cābravīt - āhara devate vṛkṣaśākhāmiti / tayā vṛkṣaśākhāvanāmitābhūt / tāṃ bodhisattvo 'balambyottarati sma / uttīrya ca tasya kakubhapādapasyādhastāttatpāṃśukūlaṃ saṃghāṭīkṛtya āsīvyati sma / adyāpi tat pāṃśukūlaṃ sīvanamityevaṃ saṃjñāyate sma // atha vimalaprabho nāma śuddhāvāsakāyiko devaputraḥ, sa divyāni cīvarāṇi kāṣāyaraṅgaraktāni kalpikāni śramaṇasārūpyāṇi bodhisattvāyopanāmayati sma / bodhisattvaśca tāni gṛhītvā pūrvāhṇe nivāsya saṃghāṭīprāvṛtya gocaragrāmābhimukho 'bhut // tatra devatābhirurubilvāsenāpatigrāmake nandikagrāmikaduhituḥ sujātāyā ārocitamabhūdardharātrasamaye - yadarthaṃ tvaṃ mahāyajñaṃ yajase tasmādvratāduttīrṇaḥ saḥ / subhagamaudārikamāhāramāhariṣyati / tvayā ca pūrve praṇidhānaṃ kṛtam - mama bhojanaṃ bhuktvā bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta iti / yatte karaṇīyaṃ tatkuruṣveti // atha khalu bhikṣavaḥ sujātā nandikagrāmaduhitā teṣāṃ devatānāṃ tadvacanaṃ śrutvā śīghraṃ gosahasrasya kṣīrātsaptakṛtsāroddhṛtādagryamojomaṇḍaṃ gṛhṇīte sma / gṛhītvā ca sā tatkṣīra(mabhinavama)bhinavaistaṇḍulairabhinavāyāṃ sthālyāmabhinavāṃ cullīmupalipya tadbhojanaṃ sādhayati sma / tasmiṃśca sādhyamāne imāni pūrvanimittāni saṃdṛśyante sma - tasmin khalvapi kṣīre śrīvatsasvastikanandyāvartapadmavardhamānādīni maṅgalyāni saṃdṛśyante sma / tatastasyā etadabhūt - yādṛśānīmāni pūrvanimittāni saṃdṛśyante, niḥsaṃśayamidaṃ bhojanaṃ bhuktvā bodhisattvo 'nuttarāṃ samyaksaṃbodhiṃ prāpsyati / sāmudrajñānavidhijñaśca naimittikastaṃ pradeśaṃ prāpto 'bhūt / so 'pi tathaivāmṛtādhigamanameva vyākṛtavān / tataḥ sujātā taṃ pāyasaṃ pakvaṃ sthaṇḍilamupalipya puṣpairavakīrya gandhodakenābhyukṣya āsanaṃ prajñāpya satkṛtyottarāṃ nāma ceṭīmāmantrayate sma - gacchottare brāhmaṇamānaya / ahamidaṃ madhupāyasamavalokayāmi / sādhvārya iti pratiśrutya uttarā pūrvāṃ diśamagamat / sā tatra bodhisattvaṃ paśyati sma / tathaiva dakṣiṇām / bodhisattvameva paśyati sma / evaṃ paścimāmuttarāmeva diśaṃ gacchati sma, tatra tatra bodhisattvamevādrākṣīt / tena khalu punaḥ samayena śuddhāvāsakāyikairdevaputraiḥ sarve 'nyatīrthikā nigṛhītā abhūvan / na kaścit saṃdṛśyate sma / tataḥ sā āgatvā svāminīmevamāha - na khalvārye anyaḥ kaścid dṛśyate śramaṇo vā brāhmaṇo vā, anyatra yato yata eva gacchāmi, tatra tatra śramaṇameva sundaraṃ paśyāmi / sujātā āha - gacchottare sa eva brāhmaṇaḥ, sa eva śramaṇaḥ / tasyaivārthe 'yamārambhaḥ / tamevānayeti / sādhvārye ityuttarā gatvā bodhisattvasya caraṇayoḥ praṇipatya sujātāyā (vaidya 196) nāmnopanimantrayate sma / tato bhikṣavo bodhisattvaḥ sujātāyā grāmikaduhiturniveśanaṃ gatvā prajñapta evāsane nyaṣīdat / atha khalu bhikṣavaḥ sujātā grāmikaduhitā suvarṇamayīṃ pātrīṃ madhupāyasapūrṇāṃ bodhisattvasyopanāmayati sma // atha bodhisattvasyaitadabhavat - yādṛśamidaṃ sujātayā bhojanamupanāmitam, niḥsaṃśayamahamadyainaṃ bhojanaṃ bhuktvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate // atha bodhisattvastadbhojanaṃ pratigṛhya sujātāṃ grāmikaduhitarametadavocat - iyaṃ bhagini suvarṇapātrī / kiṃ kriyatām? sā āha - tavaiva bhavatviti / bodhisattva āha - na mamedṛśena bhājanena prayojanam / sujātā āha - yatheṣṭaṃ kriyatām / nāhaṃ vinā bhājanena kasyacidbhojanaṃ prayacchāmi // atha bodhisattvastaṃ piṇḍapātramādāyorubilvāyā niṣkramya nāganadīṃ pūrvāhṇakālasamaye nadīṃ nairañjanāmupasaṃkramya taṃ piṇḍapātraṃ cīvarāṇi caikānte nikṣipya nadīṃ nairañjanāmavatarati sma gātrāṇi śītalīkartum // bodhisattvasya khalu punarbhikṣavaḥ snāyato 'nekāni devaputraśatasahasrāṇi divyāgurucandanacūrṇavilepanairnadīmāloḍayanti sma / divyāni ca nānāvarṇāni kusumāni jale kṣipanti sma yaduta bodhisattvasya pūjākarmaṇe // tena khalu punaḥ samayena nairañjanā nadī divyairgandhaiḥ puṣpaiśca samākulā vahati sma / yena ca gandhodakena bodhisattvaḥ snāto 'bhūt, taṃ devaputrakoṭīniyutaśatasahasrāṇyabhyutkṣipya svakasvakāni bhavanāni nayanti sma caityārthaṃ pūjārthaṃ ca // yāni ca bodhisattvasya keśaśmaśrūṇyabhūvan, tāni sarvāṇi sujātā grāmikaduhitā maṅgalyānīti kṛtvā caityārthaṃ pūjārthaṃ ca parigṛhṇīte sma // nadyuttīrṇaśca bodhisattvaḥ pulinaṃ nirīkṣate sma upaveṣṭukāmaḥ / atha yā nairañjanāyāṃ nadyāṃ nāgakanyā sā dharaṇitalādabhyudgabhya maṇimayaṃ (manoramaṃ) bhadrāsanaṃ bodhisattvāyopanāmayati sma / tatra bodhisattvo niṣadya yāvadarthaṃ taṃ madhupāyasaṃ paribhuṅkte sma sujātāyā grāmikaduhituranukampāmupādāya / paribhujya ca tāṃ suvarṇapātrīmanapekṣo vāriṇi prākṣipati sma / kṣiptamātrāṃ ca tāṃ sāgaro nāgarājaścittikārabahumānajāto gṛhītvā svabhavanābhimukhaḥ prasthito 'bhut pūjārheti kṛtvā / atha daśaśatanayanaḥ puraṃdaro garuḍarūpamabhinirmāya vajratuṇḍo bhūtvā sāgarasya nāgarājasyāntikāttāṃ suvarṇapātrīṃ hartumārabdhaḥ / yadā na śaknoti sma, tadā svarūpeṇādareṇa yācitvā trāyatriṃśadbhavanaṃ nītavān pūjārthaṃ caityārthaṃ ca / nītvā pātrīyātrāṃ nāma parvaṇi pravartitavān / adyāpi ca trāyatriṃśeṣu deveṣu pratisaṃvatsaraṃ pātrīmaho vartate / tacca bhadrāsanaṃ tayaiva nāgakanyayā parigṛhītaṃ caityārthaṃ pūjārthaṃ ca // samantaparibhuktaśca bhikṣavo bodhisattvenaudārika āhāraḥ / atha tatkṣaṇameva bodhisattvasya puṇyabalena prajñābalena pūrvikā kāye śubhavarṇapuṣkaratā prādurabhūt / dvātriṃśacca mahāpuruṣalakṣaṇāni aśītiścānuvyañjanāni vyāmaprabhatā ca / tatredamucyate - ṣaḍvarṣa vrata uttaritva bhagavān evaṃ matiṃ cintayan so 'haṃ dhyānaabhijñajñānabalavānevaṃ kṛśāṅgo 'pi san / gaccheyaṃ drumarājamūlaviṭapaṃ sarvajñatāṃ buddhituṃ no me syādanukampitā hi janatā evaṃ bhavet paścimā (18.23)
Verse 18.24
।। यत्त्वौदारिक भुक्त्व भोजनवरं काये बलं कृत्वना गच्छेयं द्रुमराजमूलविटपं सर्वज्ञतां बुध्यितुम् । मा हैवेत्वरपुण्य देवमनुजा लूहेन ज्ञानेक्षिणो नो शक्ता सिय बुध्यनाय अमृतं कायेन ते दुर्बलाः ॥ १८.२४ ॥
// yattvaudārika bhuktva bhojanavaraṃ kāye balaṃ kṛtvanā gaccheyaṃ drumarājamūlaviṭapaṃ sarvajñatāṃ budhyitum / mā haivetvarapuṇya devamanujā lūhena jñānekṣiṇo no śaktā siya budhyanāya amṛtaṃ kāyena te durbalāḥ (18.24)
Verse 18.25
।। सा च ग्रामिकधीत पूर्वचरिता नाम्ना सुजाता इति यज्ञा नित्यु यजाति एवमनसा सिद्धे व्रतं नायके । सा देवान निशाम्य चोदन तदा गृह्या मधूपायसं उपगम्या नदितीरि हृष्टमनसा नैरञ्जनायाः स्थिता ॥ १८.२५ ॥
// sā ca grāmikadhīta pūrvacaritā nāmnā sujātā iti yajñā nityu yajāti evamanasā siddhe vrataṃ nāyake / sā devāna niśāmya codana tadā gṛhyā madhūpāyasaṃ upagamyā naditīri hṛṣṭamanasā nairañjanāyāḥ sthitā (18.25)
Verse 18.26
।। सो चाकल्पसहस्रचीर्णचरितो शान्तप्रशान्तेन्द्रियो देवैर्नागगणैरृषी परिवृतो आगत्य नैरञ्जनाम् । तीर्णस्तारकु पारसत्त्व मतिमां स्नाने मतिं चिन्तयन् ओरुह्या नदि स्नापि शुद्धविमलो लोकानुकम्पी मुनिः ॥ १८.२६ ॥
// so cākalpasahasracīrṇacarito śāntapraśāntendriyo devairnāgagaṇairṛṣī parivṛto āgatya nairañjanām / tīrṇastāraku pārasattva matimāṃ snāne matiṃ cintayan oruhyā nadi snāpi śuddhavimalo lokānukampī muniḥ (18.26)
Verse 18.27
।। देवा कोटिसहस्र हृष्टमनसा गन्धाम्बु चूर्णानि च ओरुह्या नदि लोडयन्ति सलिलं स्नानार्थ सत्त्वोत्तमे । स्नाना स्नात्वन बोधिसत्त्व विमलस्तीरे स्थितः सूरतः हर्षुर्देवसहस्र स्नानसलिलं पूजार्थ सत्त्वोत्तमे ॥ १८.२७ ॥
// devā koṭisahasra hṛṣṭamanasā gandhāmbu cūrṇāni ca oruhyā nadi loḍayanti salilaṃ snānārtha sattvottame / snānā snātvana bodhisattva vimalastīre sthitaḥ sūrataḥ harṣurdevasahasra snānasalilaṃ pūjārtha sattvottame (18.27)
Verse 18.28
।। काषायानि च वस्त्र निर्मल शुभा ता देवपुत्रो ददे कल्पीयानि च संनिवास्य भगवांस्तीरे हि नद्याः स्थितः । नागाकन्य उदग्र हृष्टमनसा भद्रासनं सा न्यषीत् यत्रासौ निषसाद शान्तमनसो लोकस्य चक्षुष्करः ॥ १८.२८ ॥
// kāṣāyāni ca vastra nirmala śubhā tā devaputro dade kalpīyāni ca saṃnivāsya bhagavāṃstīre hi nadyāḥ sthitaḥ / nāgākanya udagra hṛṣṭamanasā bhadrāsanaṃ sā nyaṣīt yatrāsau niṣasāda śāntamanaso lokasya cakṣuṣkaraḥ (18.28)
Verse 18.29
।। दत्त्वा भोजनु सा सुजात मतिमां स्वर्णामये भाजने वन्दित्वा चरणानि सा प्रमुदिता परिभुङ्क्ष्व मे सारथे । भुक्त्वा भोजनु यावदर्थ मतिमान् पात्रीं जले प्राक्षिपत् तां जग्राह पुरंदरः सुरगुरुः पूजां करिष्याम्यहम् ॥ १८.२९ ॥
// dattvā bhojanu sā sujāta matimāṃ svarṇāmaye bhājane vanditvā caraṇāni sā pramuditā paribhuṅkṣva me sārathe / bhuktvā bhojanu yāvadartha matimān pātrīṃ jale prākṣipat tāṃ jagrāha puraṃdaraḥ suraguruḥ pūjāṃ kariṣyāmyaham (18.29)
Verse 18.30
।। यद भुक्तं च जिनेन भोजनवरं ओदारिकं तत्क्षणे तस्या कायबलं च तेजशिरिया पूर्वं यथा संस्थितम् । धर्मा कृत्व कथा सुजात मरुणां कृत्वा च अर्थं बहुं सिंहो हंसगतिर्गजेन्द्रगमनो बोधिद्रुमं संस्थितः ॥ १८.३० ॥
// yada bhuktaṃ ca jinena bhojanavaraṃ odārikaṃ tatkṣaṇe tasyā kāyabalaṃ ca tejaśiriyā pūrvaṃ yathā saṃsthitam / dharmā kṛtva kathā sujāta maruṇāṃ kṛtvā ca arthaṃ bahuṃ siṃho haṃsagatirgajendragamano bodhidrumaṃ saṃsthitaḥ (18.30)