Books / Lalitavistara

26. Chapter 26

Verse 26.1

।। इति ।। ।। इति श्रीललितविस्तरे ऽध्येषणापरिवर्तो नाम पञ्चविंशतितमो ऽध्यायः ।। स्तर्त् परिवर्त २६ धर्मचक्रप्रवर्तनपरिवर्तः षड्विंशः ।। अथ खलु भिक्षवस्तथागतः कृतकृत्यः कृतकरणीयः सर्वबन्धनसमुच्छिन्नः सर्वक्लेशोद्धृतो निर्वान्तमलक्लेशो निहतमारप्रत्यर्थिकः सर्वबुद्धधर्मनयानुप्रविष्टः सर्वज्ञः सर्वदर्शी दशबलसमन्वागतश्चतुर्वैशारद्यप्राप्तो ऽष्टादशावेणिकबुद्धधर्मप्रतिपूर्णः पञ्चचक्षुःसमन्वागतो ऽनावरणेन बुद्धचक्षुषा सर्वावन्तं लोकमवलोक्यैवं चिन्तयति स्म - कस्मा अयमहं सर्वप्रथमं धर्मं देशयेयम्? कतमः सत्त्वः शुद्धः स्वाकारः सुविनेयः सुविज्ञापकः सुविशोधको मन्दरागदोषमोहो ऽपरोक्षविज्ञानो यो ऽश्रुतवान् धर्मस्य परिहीयते? तस्मायहं सर्वप्रथमं धर्मं देशयेयम्, यश्च मे धर्मं देशितमाजानीयान्न च मां स विहेठयेत् ।। अथ खलु भिक्षवस्तथागतस्यैतदभूत् - रुद्रकः खलु रामपुत्रः शुद्धः स्वाकारः सुविज्ञापकः सुविशोधको मन्दरागमोहो ऽपरोक्षविज्ञानः । सो ऽश्रवणाद्धर्मस्य परिहीयते । श्रावकेभ्यो नैवसंज्ञानासंज्ञायतनसहव्रतायै धर्मं देशयति । कुत्रासावेतर्हि प्रतिवसतीत्याज्ञासीत् । अद्य सप्ताहकालगत इति । देवता अपि तथागतस्य चरणयोर्निपत्यैवमाहुः - एवमेतद्भगवन्, एवमेतत्सुगत, अद्य सप्ताहकालगतो रुद्रको रामपुत्रः । तस्य मे भिक्षव एतदभूत् - महाहानिर्वर्तते रुद्रकस्य रामपुत्रस्य, य इममेव सुप्रणीतं धर्ममश्रुत्वा कालगतः । सचेदसाविमं धर्ममश्रोष्यदाज्ञास्यत् । तस्मै चाहं प्रथमं धर्म देशयिष्यम्, न च मां स व्यहेठयिष्यत् ।। पुनरपि भिक्षवस्तथागतस्यैतदभूत् - को ऽन्यः सत्त्वः शुद्धः सुविनेयः पूर्ववद्यावन्न च धर्मदेशनां विहेठयेदिति । ततो भिक्षवस्तथागतस्यैतदभवत् - अयं खल्वप्याराडः कालापः शुद्धो यावन्न च मे धर्मदेशनां विहेठयेदिति । समन्वाहरति स्म भिक्षवस्तथागतः कुत्रासावेतर्हीति । समन्वाहरंश्चाज्ञासीदद्य त्रीण्यहानि कालगतस्येति । शुद्धावासकायिका अपि च देवता एनमर्थं तथागतस्यारोचयन्ति स्म - एवमेतद्भगवन्, एवमेतत्सुगत । अद्य त्र्यहं कालगतस्याराडस्य कालापस्य । ततस्तथागतस्यैतदभवत् - महाहानिर्वर्तते अराडस्य कालापस्य, य इममेवं सुप्रणीतं धर्ममश्रुत्वा कालगत इति ।। पुनरपि भिक्षवस्तथागतस्यैतदभूत् - कः खल्वन्यः सत्त्वः शुद्धः स्वाकारो यावन्न च मे धर्मदेशनां विहेठयेदिति ।। अथ खलु भिक्षवस्तथागतस्यैतदभवत् - ते खलु पञ्चका भद्रवर्गीयाः शुद्धाः स्वाकाराः सुविज्ञापकाः सुविशोधका मन्दरागदोषमोहा अपरोक्षविज्ञानाः । ते ऽश्रवणाद्धर्मस्य परिहीयन्ते । तैश्चाहं दुष्करचर्यां चरन्नुपस्थितो ऽभूवम् । ते मया धर्मं देशितमाज्ञास्यन्ति, न च मे ह विहेठयिष्यन्ति ।। अथ खलु भिक्षवस्तथागतस्यैतदभवत् - यन्न्वहं पञ्चकेभ्यो भद्रवर्गीयेभ्यः प्रथमं धर्मं देशयेयम् ।। अथ खलु भिक्षवस्तथागतस्य पुनरेतदभवत् - कस्मिन्नेतर्हि पञ्चका भद्रवर्गीयाः प्रतिवसन्ति? अथ तथागतः सर्वावन्तं लोकं बुद्धचक्षुषा व्यवलोकयन् पश्यति स्म । अद्राक्षीत्पञ्चकान् भद्रवर्गीयान् वाराणस्यां विहरत ऋषिपतने मृगदावे । दृष्ट्वा च तथागतस्यैतदभवत् - यन्न्वहं पञ्चकेभ्यो भद्रवर्गीयेभ्यः सर्वप्रथमं धर्मं देशयेयम् । ते हि मम सर्वप्रथमं धर्मं देशितमाज्ञास्यन्ति । तत्कस्य हेतोः? चरिताविनो हि ते भिक्षवः सुपरिपण्डितशुक्लधर्माणो मोक्षमार्गाभिमुखा निबन्धापनीताः ।। अथ खलु भिक्षवस्तथागत एवमनुविचिन्त्य बोधिमण्डादुत्थाय त्रिसाहस्रमहासाहस्रं लोकधातुं संप्रकम्प्यानुपूर्वेण मगधेषु चर्यां चरन् काशिषु जनपदेषु चारिकां प्रक्रामत् । अथ गयायां बोधिमण्डस्य चान्तरादन्यतम आजीवको ऽद्राक्षीत्तथागतं दूरत एवागच्छन्तम् । दृष्ट्वा च पुनर्येन तथागतस्तेनोपजगाम । उपेत्यैकान्ते ऽस्थात् । एकान्ते स्थितश्च भिक्षव आजीवकस्तथागतेन सार्धं विविधां संमोदनीं कथां कृत्वा एवमाह - विप्रसन्नानि ते आयुष्मन् गौतम इन्द्रियाणि । परिशुद्धः पर्यवदातः पीतनिर्भासश्च ते छविवर्णः तद्यथापि नाम शारदं कालं पाण्डुरवर्णं प्रभास्वरं पीतनिर्भासं भवति, एवमेव भवतो गौतमस्य परिशुद्धानीन्द्रियाणि परिशुद्धं मुखमण्डलं पर्यवदातम् । तद्यथापि नाम तालफलस्य पक्वस्य समनन्तरवृन्तच्युतस्य बन्धनाश्रयः पीतनिर्भासो भवति परिशुद्धः पर्यवदातः, एवमेव भवतो गौतमस्य परिशुद्धानीन्द्रियाणि परिशुद्धं मुखमण्डलं पर्यवदातम् । तद्यथापि नाम जाम्बूनदवर्णनिष्कः उल्कामुखप्रकृष्टो दक्षिणकर्मारपुत्रेण सुपरिकर्मकृतः पाण्डुकम्बलोपनिक्षिप्तो वर्णवान् भवति परिशुद्धः पर्यवदातः पीतनिर्भासो ऽतीव प्रभास्वरः, एवमेव भवतो गौतमस्य विप्रसन्नानीन्द्रियाणि, परिशुद्धस्त्वग्वर्णः, पर्यवदातं मुखमण्डलम् । कस्मिन्नायुष्मन् गौतम ब्रह्मचर्यमुष्यते? एवमुक्ते भिक्षवस्तथागतस्तमाजीवकं गाथया प्रत्यभाषत - आचार्यो न हि मे कश्चित्सदृशो मे न विद्यते । एको ऽहमस्मि संबुद्धः शीतीभूतो निराश्रवः ॥ २६.१ ॥

// iti // // iti śrīlalitavistare 'dhyeṣaṇāparivarto nāma pañcaviṃśatitamo 'dhyāyaḥ // start parivarta 26 dharmacakrapravartanaparivartaḥ ṣaḍviṃśaḥ // atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ sarvabandhanasamucchinnaḥ sarvakleśoddhṛto nirvāntamalakleśo nihatamārapratyarthikaḥ sarvabuddhadharmanayānupraviṣṭaḥ sarvajñaḥ sarvadarśī daśabalasamanvāgataścaturvaiśāradyaprāpto 'ṣṭādaśāveṇikabuddhadharmapratipūrṇaḥ pañcacakṣuḥsamanvāgato 'nāvaraṇena buddhacakṣuṣā sarvāvantaṃ lokamavalokyaivaṃ cintayati sma - kasmā ayamahaṃ sarvaprathamaṃ dharmaṃ deśayeyam? katamaḥ sattvaḥ śuddhaḥ svākāraḥ suvineyaḥ suvijñāpakaḥ suviśodhako mandarāgadoṣamoho 'parokṣavijñāno yo 'śrutavān dharmasya parihīyate? tasmāyahaṃ sarvaprathamaṃ dharmaṃ deśayeyam, yaśca me dharmaṃ deśitamājānīyānna ca māṃ sa viheṭhayet // atha khalu bhikṣavastathāgatasyaitadabhūt - rudrakaḥ khalu rāmaputraḥ śuddhaḥ svākāraḥ suvijñāpakaḥ suviśodhako mandarāgamoho 'parokṣavijñānaḥ / so 'śravaṇāddharmasya parihīyate / śrāvakebhyo naivasaṃjñānāsaṃjñāyatanasahavratāyai dharmaṃ deśayati / kutrāsāvetarhi prativasatītyājñāsīt / adya saptāhakālagata iti / devatā api tathāgatasya caraṇayornipatyaivamāhuḥ - evametadbhagavan, evametatsugata, adya saptāhakālagato rudrako rāmaputraḥ / tasya me bhikṣava etadabhūt - mahāhānirvartate rudrakasya rāmaputrasya, ya imameva supraṇītaṃ dharmamaśrutvā kālagataḥ / sacedasāvimaṃ dharmamaśroṣyadājñāsyat / tasmai cāhaṃ prathamaṃ dharma deśayiṣyam, na ca māṃ sa vyaheṭhayiṣyat // punarapi bhikṣavastathāgatasyaitadabhūt - ko 'nyaḥ sattvaḥ śuddhaḥ suvineyaḥ pūrvavadyāvanna ca dharmadeśanāṃ viheṭhayediti / tato bhikṣavastathāgatasyaitadabhavat - ayaṃ khalvapyārāḍaḥ kālāpaḥ śuddho yāvanna ca me dharmadeśanāṃ viheṭhayediti / samanvāharati sma bhikṣavastathāgataḥ kutrāsāvetarhīti / samanvāharaṃścājñāsīdadya trīṇyahāni kālagatasyeti / śuddhāvāsakāyikā api ca devatā enamarthaṃ tathāgatasyārocayanti sma - evametadbhagavan, evametatsugata / adya tryahaṃ kālagatasyārāḍasya kālāpasya / tatastathāgatasyaitadabhavat - mahāhānirvartate arāḍasya kālāpasya, ya imamevaṃ supraṇītaṃ dharmamaśrutvā kālagata iti // punarapi bhikṣavastathāgatasyaitadabhūt - kaḥ khalvanyaḥ sattvaḥ śuddhaḥ svākāro yāvanna ca me dharmadeśanāṃ viheṭhayediti // atha khalu bhikṣavastathāgatasyaitadabhavat - te khalu pañcakā bhadravargīyāḥ śuddhāḥ svākārāḥ suvijñāpakāḥ suviśodhakā mandarāgadoṣamohā aparokṣavijñānāḥ / te 'śravaṇāddharmasya parihīyante / taiścāhaṃ duṣkaracaryāṃ carannupasthito 'bhūvam / te mayā dharmaṃ deśitamājñāsyanti, na ca me ha viheṭhayiṣyanti // atha khalu bhikṣavastathāgatasyaitadabhavat - yannvahaṃ pañcakebhyo bhadravargīyebhyaḥ prathamaṃ dharmaṃ deśayeyam // atha khalu bhikṣavastathāgatasya punaretadabhavat - kasminnetarhi pañcakā bhadravargīyāḥ prativasanti? atha tathāgataḥ sarvāvantaṃ lokaṃ buddhacakṣuṣā vyavalokayan paśyati sma / adrākṣītpañcakān bhadravargīyān vārāṇasyāṃ viharata ṛṣipatane mṛgadāve / dṛṣṭvā ca tathāgatasyaitadabhavat - yannvahaṃ pañcakebhyo bhadravargīyebhyaḥ sarvaprathamaṃ dharmaṃ deśayeyam / te hi mama sarvaprathamaṃ dharmaṃ deśitamājñāsyanti / tatkasya hetoḥ? caritāvino hi te bhikṣavaḥ suparipaṇḍitaśukladharmāṇo mokṣamārgābhimukhā nibandhāpanītāḥ // atha khalu bhikṣavastathāgata evamanuvicintya bodhimaṇḍādutthāya trisāhasramahāsāhasraṃ lokadhātuṃ saṃprakampyānupūrveṇa magadheṣu caryāṃ caran kāśiṣu janapadeṣu cārikāṃ prakrāmat / atha gayāyāṃ bodhimaṇḍasya cāntarādanyatama ājīvako 'drākṣīttathāgataṃ dūrata evāgacchantam / dṛṣṭvā ca punaryena tathāgatastenopajagāma / upetyaikānte 'sthāt / ekānte sthitaśca bhikṣava ājīvakastathāgatena sārdhaṃ vividhāṃ saṃmodanīṃ kathāṃ kṛtvā evamāha - viprasannāni te āyuṣman gautama indriyāṇi / pariśuddhaḥ paryavadātaḥ pītanirbhāsaśca te chavivarṇaḥ tadyathāpi nāma śāradaṃ kālaṃ pāṇḍuravarṇaṃ prabhāsvaraṃ pītanirbhāsaṃ bhavati, evameva bhavato gautamasya pariśuddhānīndriyāṇi pariśuddhaṃ mukhamaṇḍalaṃ paryavadātam / tadyathāpi nāma tālaphalasya pakvasya samanantaravṛntacyutasya bandhanāśrayaḥ pītanirbhāso bhavati pariśuddhaḥ paryavadātaḥ, evameva bhavato gautamasya pariśuddhānīndriyāṇi pariśuddhaṃ mukhamaṇḍalaṃ paryavadātam / tadyathāpi nāma jāmbūnadavarṇaniṣkaḥ ulkāmukhaprakṛṣṭo dakṣiṇakarmāraputreṇa suparikarmakṛtaḥ pāṇḍukambalopanikṣipto varṇavān bhavati pariśuddhaḥ paryavadātaḥ pītanirbhāso 'tīva prabhāsvaraḥ, evameva bhavato gautamasya viprasannānīndriyāṇi, pariśuddhastvagvarṇaḥ, paryavadātaṃ mukhamaṇḍalam / kasminnāyuṣman gautama brahmacaryamuṣyate? evamukte bhikṣavastathāgatastamājīvakaṃ gāthayā pratyabhāṣata - ācāryo na hi me kaścitsadṛśo me na vidyate / eko 'hamasmi saṃbuddhaḥ śītībhūto nirāśravaḥ (26.1)

Verse 26.2

।। सो ऽवोचत् - अर्हं खलु गौतममात्मानं प्रातिजानीषे । तथागतो ऽवोचत् - अहमेवारहं लोके शास्ता ह्यहमनुत्तरः । सदेवासुरगन्धर्वे नास्ति मे प्रतिपुद्गलः ॥ २६.२ ॥

// so 'vocat - arhaṃ khalu gautamamātmānaṃ prātijānīṣe / tathāgato 'vocat - ahamevārahaṃ loke śāstā hyahamanuttaraḥ / sadevāsuragandharve nāsti me pratipudgalaḥ (26.2)

Verse 26.3

।। सो ऽवोचत् - जिनं खलु गौतम मात्मानं प्रतिजानीषे । तथागतो ऽवोचत् - जिना हि मादृशा ज्ञेया ये प्राप्ता आश्रवक्षयम् । जिता मे पापका धर्मास्तेनोपग जिनो ह्यहम् ॥ २६.३ ॥

// so 'vocat - jinaṃ khalu gautama mātmānaṃ pratijānīṣe / tathāgato 'vocat - jinā hi mādṛśā jñeyā ye prāptā āśravakṣayam / jitā me pāpakā dharmāstenopaga jino hyaham (26.3)

Verse 26.4

।। सो ऽवोचत् - क्व तर्ह्यायुष्मन् गौतम गमिष्यसि? तथागतो ऽवोचत् - वाराणसीं गमिष्यामि गत्वा वै काशिनां पुरीम् । अन्धभूतस्य लोकस्य कर्तास्म्यसदृशां प्रभाम् ॥ २६.४ ॥

// so 'vocat - kva tarhyāyuṣman gautama gamiṣyasi? tathāgato 'vocat - vārāṇasīṃ gamiṣyāmi gatvā vai kāśināṃ purīm / andhabhūtasya lokasya kartāsmyasadṛśāṃ prabhām (26.4)

Verse 26.5

।। वाराणसीं गमिष्यमि गत्वा वै काशिनां पुरीम् । शब्दहीनस्य लोकस्य ताडयिष्ये ऽमृतदुन्दुभिम् ॥ २६.५ ॥

// vārāṇasīṃ gamiṣyami gatvā vai kāśināṃ purīm / śabdahīnasya lokasya tāḍayiṣye 'mṛtadundubhim (26.5)

Verse 26.6

।। वाराणसीं गमिष्यामि गत्वा वै काशिनां पुरीम् । धर्मचक्रं प्रवर्तिष्ये लोकेष्वप्रतिवर्तितम् ॥ २६.६ ॥

// vārāṇasīṃ gamiṣyāmi gatvā vai kāśināṃ purīm / dharmacakraṃ pravartiṣye lokeṣvaprativartitam (26.6)

Verse 26.7

।। तद्भविष्यसि गौतम इत्युक्त्वा स आजीवको दक्षिणामुखः प्राक्रामत् । तथागतो ऽप्युत्तरामुखः प्राक्रामत् ।। इति हि भिक्षवस्तथागतो गयायां सुदर्शनेन नागराजेन निमन्त्रितो ऽभुत् वासेन भक्तेन च । ततस्तथागतो रोहितवस्तुमगमत्, तस्मादुरुबिल्वाकल्पं तस्मादणालमगमत्, ततः सारथिपुरम् । एषु च सर्वेषु भिक्षवस्तथागतो गृहपतिभिर्भक्तेन वासेन चोपनिमन्त्र्यमाणो ऽनुपूर्वेण गङ्गाया नद्यास्तीरमुपागमत् ।। तेन खलु पुनर्भिक्षवः समयेन गङ्गा महानदी सुपरिपूर्णा समतीर्थका वहति स्म ।। अथ खलु भिक्षवस्तथागतो नाविकसमीपमुपागमत्पारसंतरणाय । स प्राह - प्रयच्छ गौतम तरपण्यम् । न मे ऽस्ति मार्ष तरपण्यमित्युक्त्वा तथागतो विहायसा पथा तीरात्परं तीरमगमत् । ततः स नाविकस्तं दृष्ट्वातीव विप्रतिसार्यभूत् - एवंविधो दक्षिणीयो मया न तारित इति । हा कष्टमिति कृत्वा मूर्छितः पृथिव्यां पतितः । तत एनां प्रकृतिं नाविको राज्ञे बिम्बिसाराय आरोचयामास - श्रमणः स्वामि गौतमस्तरपण्यं याचमानो नास्ति तरपण्यमित्युक्त्वा विहायसा अतस्तीरात्परं तीरं गत इति । तच्छ्रुत्वा तदग्रेण राज्ञा बिम्बिसारेण सर्वप्रव्रजितानां तरपण्यमुत्सृष्टमभवत् ।। इति हि भिक्षवस्तथागतो ऽनुपूर्वेण जनपदचर्यां चरन् येन वाराणसी महानगरी तेनोपसंक्रामत् । उपसंक्रम्य काल्यमेव निवास्य पात्रचीवरमादाय वाराणसीं महानगरीं पिण्डाय प्राविक्षत् । तस्यां पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रप्रतिक्रान्तः येन ऋषिपतनो मृगदावो येन च पञ्चका भद्रवर्गीयास्तेनोपसंक्रामति स्म । अद्राक्षुः खलु पुनः पञ्चका भद्रवर्गीयास्तथागतं दूरत एवागच्छन्तम् । दृष्ट्वा च क्रियाबन्धमकार्षुः - एष स आयुष्मन्तः श्रमणो गौतम आगच्छति स्म शैथिलिको बाहुलिकः प्रधानविभ्रष्टः । अनेन खल्वपि तयापि तावत्पूर्विकया दुष्करचर्यया न शकितं किंचिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । किं पुनरेतर्हि औदारिकमाहारमाहरन् सुखल्लिकायोगमनुयुक्तो विहरन् । अभव्यः खल्वेष शैथिलिको बाहुलिकः । नास्य केनचित्प्रत्युद्गन्तव्यं न प्रत्युत्थातव्यम् । न पात्रचीवरं प्रतिग्रहीतव्यं नाशनं दातव्यं न पानीयं परिभोग्यं न पादप्रतिष्ठानं स्थापयित्वातिरिक्तान्यासनानि । वक्तव्यं च - (वैद्य २९८) संविद्यन्त इमान्यायुष्मन् गौतम अतिरिक्तान्यासनानि । सचेदाकाङ्क्षसि निषीदेति । आयुष्मांस्त्वाज्ञानकौण्डिन्यश्चित्तेनाधिवासयति स्म । वाचा च न प्रतिक्षिपति स्म । यथा यथा च भिक्षवस्तथागतो येन पञ्चका भद्रवर्गीयास्तेनोपसंक्रामति स्म, तथा तथा ते स्वकस्वकेष्वासनेषु न रमन्ते स्म, उत्थातुकामा अभूवन् । तद्यथापि नाम पक्षी शकुनिः पञ्जरगतः स्यात्, तस्य च पञ्जरगतस्याधो ऽग्निर्दग्धो भवेत् । सो ऽग्निसंतप्तस्त्वरितमूर्ध्वमुत्पतितुकामो भवेत् प्रत्रेतुकामश्च, एवमेव यथा यथा तथागतः पञ्चकानां भद्रवर्गीयाणां सकाशमुपसंक्रामति स्म, तथा तथा पञ्चका भद्रवर्गीयाः स्वकस्वकेष्वासनेषु न रमन्ते स्म, उत्थातुकामा अभूवन् । तत्कस्मात्? न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते यस्तथागतं दृष्ट्वा आसनान्न प्रत्युत्तिष्ठेत् । यथा यथा च तथागतः पञ्चकान् भद्रवर्गीयानुपसंक्रामति स्म, तथा तथा पञ्चका भद्रवर्गीयास्तथागतस्य श्रियं तेजश्चासहमाना आसनेभ्यः प्रकम्प्यमानाः सर्वे क्रियाकारं भित्त्वा चोत्थायासनेभ्यः, कश्चित्प्रत्युद्गच्छति स्म, कश्चित्प्रत्युद्गम्य पात्रचीवरं प्रतिगृह्णाति स्म । कश्चिदासनमुपनामयति स्म । कश्चित्पादप्रतिष्ठापनं कश्चित्पादप्रक्षालनोदकमुपस्थापयति स्म । एवं चावोचत् - स्वागतं ते आयुष्मन् गौतम, स्वागतं ते आयुष्मन् गौतम् । निषीदेदमासनं प्रज्ञप्तम् । न्यषीदत्खल्वपि भिक्षवस्तथागतः प्रज्ञप्त एवासने । पञ्चका पि भद्रवर्गीयास्ते तथागतेन सार्धं विविधां संमोदनीं संरञ्जनीं कथां कृत्वैकान्ते निषेदुः । एकान्ते निषण्णाश्च ते पञ्चका भद्रवर्गीयास्तथागतमेतदवोचन् - विप्रसन्नानि ते आयुष्मन् गौतमेन्द्रियाणि, परिशुद्धश्छविवर्ण इति हि सर्वं पूर्ववत् । तदस्ति ते आयुष्मन् गौतम कश्चिदुत्तरिमनुष्यधर्मांदलमार्यज्ञानदर्शनविशेषः साक्षात्कृतः? एवमुक्ते भिक्षवस्तथागतः पञ्चकान् भद्रवर्गीयानेवमाह - मा यूयं भिक्षवस्तथागतमायुष्मद्वादेन समुदाचरिष्ट । मा वो भूद्दीर्घरात्रमर्थाय हिताय सुखाय । अमृतं मया भिक्षवः साक्षात्कृतो ऽमृतगामी च मार्गः । बुद्धो ऽहमस्मि भिक्षवः सर्वज्ञः सर्वदर्शी शीतीभूतो ऽनाश्रवः । वशी सर्वधर्मेषु । धर्ममहं भिक्षवो देशयिष्यामि, आशु गच्छत शृणुत प्रतिपद्यध्वम् । श्रोतमवदधत अहमववदाम्यनुशास्मि । यथा मया सम्यगववदिताः सम्यगनुशिष्टा यूयमप्याश्रवाणां चेतोविमुक्तं प्रज्ञाविमुक्तिं च दृष्ट एव धर्मे साक्षात्कृत्वोपसंपद्य प्रवेदयिष्यथ - क्षीणा नो जातिरुषितं च ब्रह्मचर्यम्, कृतं करणीयम्, नापरमित्यतो ऽन्यद्भवं प्रजानाम इति । ननु च युष्माकं भिक्षव एतदभूत् - अयं खल्वायुष्मन्त आगच्छति श्रमणो गौतमः शैथिलिको बाहुलिकः प्रधानविभ्रष्ट इति पूर्ववत् । सचेदाकाङ्क्षसि निषीदेति । तेषां च एहि भिक्षव इत्युक्ते यत्किंचित्तीर्थिकलिङ्गं तीर्थिकध्वजः, सर्वो ऽसौ तत्क्षणमेवान्तरघात् । त्रिचीवरं पात्रं च प्रादुरभूत्, तदनु छिन्नाश्च केशाः । तद्यथापि नाम वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथः संवृत्तो ऽभुत् । सैव च तेषां प्रव्रज्याभूत्सैवोपसंपद्भिक्षुभावः ।। अथ खलु भिक्षवस्तस्यां वेलायां पञ्चका भद्रवर्गीया भिक्षवस्तथागतस्य चरणयोर्निपत्यात्ययं देशयन्ति स्म । तथागतस्यान्तिके शास्तृसंज्ञां प्रेमं च प्रसादं च गौरवं चोत्पादयन्ति स्म । गौरवजाताश्च बहुविचित्रपुष्करिण्यां तथागतस्य स्नानपरिकर्म कुर्वन्ति स्म । स्नानप्रत्युत्तीर्णस्य (वैद्य २९९) च भिक्षवस्तथागतस्यैतदभवत् - कस्मिन् खलु पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्निषद्य धर्मचक्रं प्रवर्तितम्? यस्मिंश्च भिक्षवः पृथिवीप्रदेशे पूर्वकैस्तथागतैरर्हद्भिर्धर्मचक्रं प्रवर्तितमभूत्, अथ तस्मिन् पृथिवीप्रदेशे सप्तरत्नमयमासनसहस्रं प्रादुरभूत् ।। अथ तथागतः पूर्वकाणां तथागतानां गौरवेण त्रीण्यासनानि प्रदक्षिणीकृत्य सिंह इव निर्भीश्चतुर्थ आसने पर्यङ्कमाभुज्य निषीदति स्म । पञ्चका अपि भिक्षवस्तथागतस्य पादौ शिरोभिरभिवन्द्य तथागतस्य पुरतो निषेदुः ।। अथ खलु भिक्षवस्तस्यां वेलायां तथारूपां कायात्प्रभां तथागतः प्रामुञ्चद्यया प्रभया अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्महतावभासेन स्फुटो ऽभूत् । तेन चावभासेन या अपि लोकान्तरिका अघा अघस्फुटा अन्धकारतमिस्रा यत्रेमौ चन्द्रसूर्यौ एवंमहर्द्धिकावेवं महानुभावावेवं महेशाख्यौ आभया आभां वर्णेनं वर्णं तेजसा तेजो नाभितपतो नाभिविरोचतः । तत्र ये सत्त्वा उपपन्नास्ते स्वकस्वकमपि बाहुं प्रसारितं न पश्यन्ति स्म, तत्रापि तस्मिन् समये महत उदारस्यावभासस्य लोके प्रादुर्भावो ऽभुत् । ये च तत्र सत्त्वा उपपन्नास्ते तेनावभासेन परिस्फुटाः समाना अन्योन्यं पश्यन्ति स्म । अन्योन्यं संजानन्ते स्म । एवं चाहुः - अन्ये ऽपि किल भोः सत्त्वा इहोपपन्नाः, अन्ये ऽपि किल भोः सत्त्वा इहोपपन्नाः इति । अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमष्टादशमहानिमित्तमभूत् - अकम्पत् प्राकम्पत् संप्राकम्पत् । अवेधत् प्रावेधत् संप्रावेधत् । अचलत् प्राचलत् संप्राचलत् । अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत् । अरणत् प्रारणत् संप्रारणत् । अगर्जत् प्रागर्जत् संप्रागर्जत् । अन्ते ऽवनमति स्म, मध्ये उन्नमति स्म । मध्ये ऽवनमति स्म अन्ते उन्नमति स्म । पूर्वस्यां दिश्यवनमति स्म, पश्चिमायां दिश्युन्नमति स्म । पश्चिमायां दिश्यवनमति स्म, पूर्वस्यां दिश्युन्नमति स्म । दक्षिणस्यां दिश्यवनमति स्म, उत्तरस्यां दिश्युन्नमति स्म । उत्तरस्यां दिश्यवनमति स्म, दक्षिणस्यां दिश्युन्नमति स्म । तस्मिंश्च समये हर्षणीयास्तोषणीयाः प्रेमणीयाः प्रसादनीया अवलोकनीयाः प्रह्लादनीया निर्वर्णनीया अप्रतिवर्णनीया असेचनीया अप्रतिकूला अनुत्त्रासकराः शब्दाः श्रूयन्ते स्म । न च कस्यचित्सत्त्वस्य तस्मिन् क्षणे विहेठा वा त्रासो वा भयं वा स्तम्भितत्वं वाभूत् । न च भूयः सूर्यचन्द्रमसोर्न शक्रब्रह्मलोकपालानां तस्मिन् क्षणे प्रभाः प्रज्ञायन्ते स्म । सर्वनरकतिर्यग्योनियमलोकोपपन्नाश्च सत्त्वास्तस्मिन् क्षणे विगतदुःखा अभुवन् सर्वसुखसमर्पिताः । न च कस्यचित्सत्त्वस्य रागो बाधते स्म, द्वेषो वा मोहो वा ईर्ष्या वा मात्सर्यं वा मानो वा म्रक्षो वा मदो वा क्रोधो वा व्यापादो वा परिदाहो वा । सर्वसत्त्वास्तस्मिन् क्षणे मैत्रचित्ताः हितचित्ताः परस्परं मातापितृसंज्ञिनो ऽभूवन् । ततश्च प्रभाव्यूहादिमा गाथा निश्चरन्ति स्म - यो ऽसौ तुषितालयाच्च्युत्वा ओक्रान्तु मातुकुक्षौ हि । जातश्च लुम्बिनिवने प्रतिगृहीतः शचीपतिना ॥ २६.७ ॥

// tadbhaviṣyasi gautama ityuktvā sa ājīvako dakṣiṇāmukhaḥ prākrāmat / tathāgato 'pyuttarāmukhaḥ prākrāmat // iti hi bhikṣavastathāgato gayāyāṃ sudarśanena nāgarājena nimantrito 'bhut vāsena bhaktena ca / tatastathāgato rohitavastumagamat, tasmādurubilvākalpaṃ tasmādaṇālamagamat, tataḥ sārathipuram / eṣu ca sarveṣu bhikṣavastathāgato gṛhapatibhirbhaktena vāsena copanimantryamāṇo 'nupūrveṇa gaṅgāyā nadyāstīramupāgamat // tena khalu punarbhikṣavaḥ samayena gaṅgā mahānadī suparipūrṇā samatīrthakā vahati sma // atha khalu bhikṣavastathāgato nāvikasamīpamupāgamatpārasaṃtaraṇāya / sa prāha - prayaccha gautama tarapaṇyam / na me 'sti mārṣa tarapaṇyamityuktvā tathāgato vihāyasā pathā tīrātparaṃ tīramagamat / tataḥ sa nāvikastaṃ dṛṣṭvātīva vipratisāryabhūt - evaṃvidho dakṣiṇīyo mayā na tārita iti / hā kaṣṭamiti kṛtvā mūrchitaḥ pṛthivyāṃ patitaḥ / tata enāṃ prakṛtiṃ nāviko rājñe bimbisārāya ārocayāmāsa - śramaṇaḥ svāmi gautamastarapaṇyaṃ yācamāno nāsti tarapaṇyamityuktvā vihāyasā atastīrātparaṃ tīraṃ gata iti / tacchrutvā tadagreṇa rājñā bimbisāreṇa sarvapravrajitānāṃ tarapaṇyamutsṛṣṭamabhavat // iti hi bhikṣavastathāgato 'nupūrveṇa janapadacaryāṃ caran yena vārāṇasī mahānagarī tenopasaṃkrāmat / upasaṃkramya kālyameva nivāsya pātracīvaramādāya vārāṇasīṃ mahānagarīṃ piṇḍāya prāvikṣat / tasyāṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātrapratikrāntaḥ yena ṛṣipatano mṛgadāvo yena ca pañcakā bhadravargīyāstenopasaṃkrāmati sma / adrākṣuḥ khalu punaḥ pañcakā bhadravargīyāstathāgataṃ dūrata evāgacchantam / dṛṣṭvā ca kriyābandhamakārṣuḥ - eṣa sa āyuṣmantaḥ śramaṇo gautama āgacchati sma śaithiliko bāhulikaḥ pradhānavibhraṣṭaḥ / anena khalvapi tayāpi tāvatpūrvikayā duṣkaracaryayā na śakitaṃ kiṃciduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / kiṃ punaretarhi audārikamāhāramāharan sukhallikāyogamanuyukto viharan / abhavyaḥ khalveṣa śaithiliko bāhulikaḥ / nāsya kenacitpratyudgantavyaṃ na pratyutthātavyam / na pātracīvaraṃ pratigrahītavyaṃ nāśanaṃ dātavyaṃ na pānīyaṃ paribhogyaṃ na pādapratiṣṭhānaṃ sthāpayitvātiriktānyāsanāni / vaktavyaṃ ca - (vaidya 298) saṃvidyanta imānyāyuṣman gautama atiriktānyāsanāni / sacedākāṅkṣasi niṣīdeti / āyuṣmāṃstvājñānakauṇḍinyaścittenādhivāsayati sma / vācā ca na pratikṣipati sma / yathā yathā ca bhikṣavastathāgato yena pañcakā bhadravargīyāstenopasaṃkrāmati sma, tathā tathā te svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan / tadyathāpi nāma pakṣī śakuniḥ pañjaragataḥ syāt, tasya ca pañjaragatasyādho 'gnirdagdho bhavet / so 'gnisaṃtaptastvaritamūrdhvamutpatitukāmo bhavet pratretukāmaśca, evameva yathā yathā tathāgataḥ pañcakānāṃ bhadravargīyāṇāṃ sakāśamupasaṃkrāmati sma, tathā tathā pañcakā bhadravargīyāḥ svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan / tatkasmāt? na sa kaścitsattvaḥ sattvanikāye saṃvidyate yastathāgataṃ dṛṣṭvā āsanānna pratyuttiṣṭhet / yathā yathā ca tathāgataḥ pañcakān bhadravargīyānupasaṃkrāmati sma, tathā tathā pañcakā bhadravargīyāstathāgatasya śriyaṃ tejaścāsahamānā āsanebhyaḥ prakampyamānāḥ sarve kriyākāraṃ bhittvā cotthāyāsanebhyaḥ, kaścitpratyudgacchati sma, kaścitpratyudgamya pātracīvaraṃ pratigṛhṇāti sma / kaścidāsanamupanāmayati sma / kaścitpādapratiṣṭhāpanaṃ kaścitpādaprakṣālanodakamupasthāpayati sma / evaṃ cāvocat - svāgataṃ te āyuṣman gautama, svāgataṃ te āyuṣman gautam / niṣīdedamāsanaṃ prajñaptam / nyaṣīdatkhalvapi bhikṣavastathāgataḥ prajñapta evāsane / pañcakā pi bhadravargīyāste tathāgatena sārdhaṃ vividhāṃ saṃmodanīṃ saṃrañjanīṃ kathāṃ kṛtvaikānte niṣeduḥ / ekānte niṣaṇṇāśca te pañcakā bhadravargīyāstathāgatametadavocan - viprasannāni te āyuṣman gautamendriyāṇi, pariśuddhaśchavivarṇa iti hi sarvaṃ pūrvavat / tadasti te āyuṣman gautama kaściduttarimanuṣyadharmāṃdalamāryajñānadarśanaviśeṣaḥ sākṣātkṛtaḥ? evamukte bhikṣavastathāgataḥ pañcakān bhadravargīyānevamāha - mā yūyaṃ bhikṣavastathāgatamāyuṣmadvādena samudācariṣṭa / mā vo bhūddīrgharātramarthāya hitāya sukhāya / amṛtaṃ mayā bhikṣavaḥ sākṣātkṛto 'mṛtagāmī ca mārgaḥ / buddho 'hamasmi bhikṣavaḥ sarvajñaḥ sarvadarśī śītībhūto 'nāśravaḥ / vaśī sarvadharmeṣu / dharmamahaṃ bhikṣavo deśayiṣyāmi, āśu gacchata śṛṇuta pratipadyadhvam / śrotamavadadhata ahamavavadāmyanuśāsmi / yathā mayā samyagavavaditāḥ samyaganuśiṣṭā yūyamapyāśravāṇāṃ cetovimuktaṃ prajñāvimuktiṃ ca dṛṣṭa eva dharme sākṣātkṛtvopasaṃpadya pravedayiṣyatha - kṣīṇā no jātiruṣitaṃ ca brahmacaryam, kṛtaṃ karaṇīyam, nāparamityato 'nyadbhavaṃ prajānāma iti / nanu ca yuṣmākaṃ bhikṣava etadabhūt - ayaṃ khalvāyuṣmanta āgacchati śramaṇo gautamaḥ śaithiliko bāhulikaḥ pradhānavibhraṣṭa iti pūrvavat / sacedākāṅkṣasi niṣīdeti / teṣāṃ ca ehi bhikṣava ityukte yatkiṃcittīrthikaliṅgaṃ tīrthikadhvajaḥ, sarvo 'sau tatkṣaṇamevāntaraghāt / tricīvaraṃ pātraṃ ca prādurabhūt, tadanu chinnāśca keśāḥ / tadyathāpi nāma varṣaśatopasaṃpannasya bhikṣorīryāpathaḥ saṃvṛtto 'bhut / saiva ca teṣāṃ pravrajyābhūtsaivopasaṃpadbhikṣubhāvaḥ // atha khalu bhikṣavastasyāṃ velāyāṃ pañcakā bhadravargīyā bhikṣavastathāgatasya caraṇayornipatyātyayaṃ deśayanti sma / tathāgatasyāntike śāstṛsaṃjñāṃ premaṃ ca prasādaṃ ca gauravaṃ cotpādayanti sma / gauravajātāśca bahuvicitrapuṣkariṇyāṃ tathāgatasya snānaparikarma kurvanti sma / snānapratyuttīrṇasya (vaidya 299) ca bhikṣavastathāgatasyaitadabhavat - kasmin khalu pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairniṣadya dharmacakraṃ pravartitam? yasmiṃśca bhikṣavaḥ pṛthivīpradeśe pūrvakaistathāgatairarhadbhirdharmacakraṃ pravartitamabhūt, atha tasmin pṛthivīpradeśe saptaratnamayamāsanasahasraṃ prādurabhūt // atha tathāgataḥ pūrvakāṇāṃ tathāgatānāṃ gauraveṇa trīṇyāsanāni pradakṣiṇīkṛtya siṃha iva nirbhīścaturtha āsane paryaṅkamābhujya niṣīdati sma / pañcakā api bhikṣavastathāgatasya pādau śirobhirabhivandya tathāgatasya purato niṣeduḥ // atha khalu bhikṣavastasyāṃ velāyāṃ tathārūpāṃ kāyātprabhāṃ tathāgataḥ prāmuñcadyayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo 'bhūt / tena cāvabhāsena yā api lokāntarikā aghā aghasphuṭā andhakāratamisrā yatremau candrasūryau evaṃmaharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇenaṃ varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ / tatra ye sattvā upapannāste svakasvakamapi bāhuṃ prasāritaṃ na paśyanti sma, tatrāpi tasmin samaye mahata udārasyāvabhāsasya loke prādurbhāvo 'bhut / ye ca tatra sattvā upapannāste tenāvabhāsena parisphuṭāḥ samānā anyonyaṃ paśyanti sma / anyonyaṃ saṃjānante sma / evaṃ cāhuḥ - anye 'pi kila bhoḥ sattvā ihopapannāḥ, anye 'pi kila bhoḥ sattvā ihopapannāḥ iti / ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt - akampat prākampat saṃprākampat / avedhat prāvedhat saṃprāvedhat / acalat prācalat saṃprācalat / akṣubhyat prākṣubhyat saṃprākṣubhyat / araṇat prāraṇat saṃprāraṇat / agarjat prāgarjat saṃprāgarjat / ante 'vanamati sma, madhye unnamati sma / madhye 'vanamati sma ante unnamati sma / pūrvasyāṃ diśyavanamati sma, paścimāyāṃ diśyunnamati sma / paścimāyāṃ diśyavanamati sma, pūrvasyāṃ diśyunnamati sma / dakṣiṇasyāṃ diśyavanamati sma, uttarasyāṃ diśyunnamati sma / uttarasyāṃ diśyavanamati sma, dakṣiṇasyāṃ diśyunnamati sma / tasmiṃśca samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā aprativarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma / na ca kasyacitsattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt / na ca bhūyaḥ sūryacandramasorna śakrabrahmalokapālānāṃ tasmin kṣaṇe prabhāḥ prajñāyante sma / sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhuvan sarvasukhasamarpitāḥ / na ca kasyacitsattvasya rāgo bādhate sma, dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā / sarvasattvāstasmin kṣaṇe maitracittāḥ hitacittāḥ parasparaṃ mātāpitṛsaṃjñino 'bhūvan / tataśca prabhāvyūhādimā gāthā niścaranti sma - yo 'sau tuṣitālayāccyutvā okrāntu mātukukṣau hi / jātaśca lumbinivane pratigṛhītaḥ śacīpatinā (26.7)

Verse 26.8

।। यः सिंहविक्रमगतिः सप्तपदा विक्रमी असंमूढः । ब्रह्मस्वरामथ गिरं प्रमुमोच जगत्यहं श्रेष्ठः ॥ २६.८ ॥

// yaḥ siṃhavikramagatiḥ saptapadā vikramī asaṃmūḍhaḥ / brahmasvarāmatha giraṃ pramumoca jagatyahaṃ śreṣṭhaḥ (26.8)

Verse 26.9

।। चतुरो द्वीपांस्त्यक्त्वा प्रव्रजितः सर्वसत्त्वहितहेतोः । दुष्करतपश्चरित्वा उपागमद्येन महिमण्डः ॥ २६.९ ॥

// caturo dvīpāṃstyaktvā pravrajitaḥ sarvasattvahitahetoḥ / duṣkaratapaścaritvā upāgamadyena mahimaṇḍaḥ (26.9)

Verse 26.10

।। सबलं निहत्य मारं बोधिप्राप्तो हिताय लोकस्य । वाराणसीमुपगतो धर्मचक्रं प्रवर्तयिता ॥ २६.१० ॥

// sabalaṃ nihatya māraṃ bodhiprāpto hitāya lokasya / vārāṇasīmupagato dharmacakraṃ pravartayitā (26.10)

Verse 26.11

।। सब्रह्मणा सह सुरैरध्येष्टो वर्तयस्व शमचक्रम् । अधिवासितं च मुनिना लोके कारुण्यमुत्पाद्य ॥ २६.११ ॥

// sabrahmaṇā saha surairadhyeṣṭo vartayasva śamacakram / adhivāsitaṃ ca muninā loke kāruṇyamutpādya (26.11)

Verse 26.12

।। सो ऽयं दृढप्रतिज्ञो वाराणसिमुपगतो मृगदावम् । चक्रं ह्यनुत्तरमसौ प्रवर्तयितात्यद्भुतं श्रीमान् ॥ २६.१२ ॥

// so 'yaṃ dṛḍhapratijño vārāṇasimupagato mṛgadāvam / cakraṃ hyanuttaramasau pravartayitātyadbhutaṃ śrīmān (26.12)

Verse 26.13

।। यः श्रोतुकामु धर्मं यः कल्पनयुतैः समार्जितु जिनेन । शीघ्रमसौ त्वरमाणो आगच्छतु धर्मश्रवणाय ॥ २६.१३ ॥

// yaḥ śrotukāmu dharmaṃ yaḥ kalpanayutaiḥ samārjitu jinena / śīghramasau tvaramāṇo āgacchatu dharmaśravaṇāya (26.13)

Verse 26.14

।। दुरवाप्यं मानुष्यं बुद्धोत्पादः सुदुर्लभा श्रद्धा । श्रेष्ठं च धर्मश्रवणं अष्टाक्षणविवर्जन दुरापाः ॥ २६.१४ ॥

// duravāpyaṃ mānuṣyaṃ buddhotpādaḥ sudurlabhā śraddhā / śreṣṭhaṃ ca dharmaśravaṇaṃ aṣṭākṣaṇavivarjana durāpāḥ (26.14)

Verse 26.15

।। प्राप्ताश्च ते ऽद्य सर्वे बुद्धोत्पादः क्षणस्तथा श्रद्धा । धर्मश्रवणश्च वरः प्रमादमखिलं विवर्जयत ॥ २६.१५ ॥

// prāptāśca te 'dya sarve buddhotpādaḥ kṣaṇastathā śraddhā / dharmaśravaṇaśca varaḥ pramādamakhilaṃ vivarjayata (26.15)

Verse 26.16

।। भवति कदाचिदवस्था यः कल्पनयुतैर्न श्रूयते धर्मः । संप्राप्तः स च वाद्य प्रमादमखिलं विवर्जयत ॥ २६.१६ ॥

// bhavati kadācidavasthā yaḥ kalpanayutairna śrūyate dharmaḥ / saṃprāptaḥ sa ca vādya pramādamakhilaṃ vivarjayata (26.16)

Verse 26.17

।। भौमादीन् देवगणान् संचोदयती च ब्रह्मपर्यन्ताम् । आयात लघुं सर्वे वर्तयिता नायको ह्यमृतचक्रम् ॥ २६.१७ ॥

// bhaumādīn devagaṇān saṃcodayatī ca brahmaparyantām / āyāta laghuṃ sarve vartayitā nāyako hyamṛtacakram (26.17)

Verse 26.18

।। संचोदिताश्च महता देवघोषेण तत्क्षणं सर्वे । त्यक्त्वा देवसमृद्धिं प्राप्ता बुद्धस्य ते पार्श्वे ॥ २६.१८ ॥

// saṃcoditāśca mahatā devaghoṣeṇa tatkṣaṇaṃ sarve / tyaktvā devasamṛddhiṃ prāptā buddhasya te pārśve (26.18)

Verse 26.19

।। इति हि भिक्षवो भौमैदेवैर्वाराणस्यां ऋपिपतने मृगदावे धर्मचक्रप्रवर्तनार्थं तथागतस्य महामण्डलमात्रो ऽधिष्ठितो ऽभूत् चित्रो दर्शनीयो विपुलो विस्तीर्णः सप्तयोजनशतान्यायामो विस्तारेण । उपरिष्टाश्च देवैश्छत्रध्वजपताकावितानसमलंकृतं गगनतलं समलंकृतमभूत् । कामावचरै रूपावचरैश्च देवपुत्रैश्चतुरशीतिसिंहासनशतसहस्राणि तथागतायोपनामितान्यभूवन् - इह निषद्य भगवान् धर्मचक्रं प्रवर्तयतु अस्माकमनुकम्पामुपादायेति ।। अथ खलु भिक्षवस्तस्मिन् समये पूर्वदक्षिणपश्चिमोत्तराभ्यो दिग्भ्य ऊर्ध्वमधः समन्ताद्दशभ्यो दिग्भ्यो बहवो बोधिसत्त्वकोट्यः पूर्वप्रणिधानसमन्वागता आगत्य तथागतस्य चरणयोर्निपत्य धर्मचक्रप्रवर्तनायाध्येषन्ते स्म । ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ शक्रो वा ब्रह्मा वा लोकपाला (वैद्य ३०१) वा तदन्ये वा महेशाख्यमहेशाख्या देवपुत्रास्ते ऽपि सर्वे तथागतस्य चरणयोः शिरोभिः प्रणिपत्य तथागतमध्येषन्ते स्म धर्मचक्रप्रवर्तनाय - प्रवर्तयतु भगवान् धर्मचक्रम्, प्रवर्तयतु सुगतो धर्मचक्रं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । यजस्व भगवन् धर्मयज्ञम्, प्रवर्ष महाधर्मवर्षम्, उच्छ्रेपय महाधर्मध्वजम्, प्रपूरय महाधर्मशङ्खम्, प्रताडय महाधर्मदुन्दुभिम् ।। तत्रेदमुच्यते । त्रिसहस्र इतो बहु ब्रह्म सुरेश्वर पाल तथा उपगम्य जिनस्य क्रमेभि निपत्य उदाहरिषु । स्मर पूर्वप्रतिज्ञां महामुनि या त्वय वाच कृता अहु ज्येष्ठु विशिष्टु प्रजाय करिष्ये दुखस्य क्षयम् ॥ २६.१९ ॥

// iti hi bhikṣavo bhaumaidevairvārāṇasyāṃ ṛpipatane mṛgadāve dharmacakrapravartanārthaṃ tathāgatasya mahāmaṇḍalamātro 'dhiṣṭhito 'bhūt citro darśanīyo vipulo vistīrṇaḥ saptayojanaśatānyāyāmo vistāreṇa / upariṣṭāśca devaiśchatradhvajapatākāvitānasamalaṃkṛtaṃ gaganatalaṃ samalaṃkṛtamabhūt / kāmāvacarai rūpāvacaraiśca devaputraiścaturaśītisiṃhāsanaśatasahasrāṇi tathāgatāyopanāmitānyabhūvan - iha niṣadya bhagavān dharmacakraṃ pravartayatu asmākamanukampāmupādāyeti // atha khalu bhikṣavastasmin samaye pūrvadakṣiṇapaścimottarābhyo digbhya ūrdhvamadhaḥ samantāddaśabhyo digbhyo bahavo bodhisattvakoṭyaḥ pūrvapraṇidhānasamanvāgatā āgatya tathāgatasya caraṇayornipatya dharmacakrapravartanāyādhyeṣante sma / ye ceha trisāhasramahāsāhasre lokadhātau śakro vā brahmā vā lokapālā (vaidya 301) vā tadanye vā maheśākhyamaheśākhyā devaputrāste 'pi sarve tathāgatasya caraṇayoḥ śirobhiḥ praṇipatya tathāgatamadhyeṣante sma dharmacakrapravartanāya - pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / yajasva bhagavan dharmayajñam, pravarṣa mahādharmavarṣam, ucchrepaya mahādharmadhvajam, prapūraya mahādharmaśaṅkham, pratāḍaya mahādharmadundubhim // tatredamucyate / trisahasra ito bahu brahma sureśvara pāla tathā upagamya jinasya kramebhi nipatya udāhariṣu / smara pūrvapratijñāṃ mahāmuni yā tvaya vāca kṛtā ahu jyeṣṭhu viśiṣṭu prajāya kariṣye dukhasya kṣayam (26.19)

Verse 26.20

।। त्वय धर्षितु मारू ससैन्यु द्रुमेन्द्रि स्थिहित्व मुने वरबोधि विबुद्ध सुशान्ति निपातित क्लेशद्रुमाः । अभिप्रायु प्रपूर्ण अशेष य चिन्तित कल्पशता जनतां प्रसमीक्ष्य अनायिक वर्तय चक्रवरम् ॥ २६.२० ॥

// tvaya dharṣitu mārū sasainyu drumendri sthihitva mune varabodhi vibuddha suśānti nipātita kleśadrumāḥ / abhiprāyu prapūrṇa aśeṣa ya cintita kalpaśatā janatāṃ prasamīkṣya anāyika vartaya cakravaram (26.20)

Verse 26.21

।। सुगतस्य प्रभाय प्रभासित क्षेत्रसहस्रशता बहवः शतबुद्धसुताश्च उपागत ऋद्धिबलैः । विविधां सुगतस्य करित्वन पूज महानिचयां स्तवयिंसु तथागतु भूतगुणेभि अध्येषितु कारुणिकम् ॥ २६.२१ ॥

// sugatasya prabhāya prabhāsita kṣetrasahasraśatā bahavaḥ śatabuddhasutāśca upāgata ṛddhibalaiḥ / vividhāṃ sugatasya karitvana pūja mahānicayāṃ stavayiṃsu tathāgatu bhūtaguṇebhi adhyeṣitu kāruṇikam (26.21)

Verse 26.22

।। करुणाघन विद्युतप्रज्ञ विपश्यन वायुसमा अभिगर्जितु कल्पसहस्र निमन्त्रितु सर्वजगत् । अष्टाङ्गिकमार्गजलो धर वर्ष समेहि जगस्य तृषां बलैन्द्रियध्यानविमोक्ष विवर्धय सस्यधनम् ॥ २६.२२ ॥

// karuṇāghana vidyutaprajña vipaśyana vāyusamā abhigarjitu kalpasahasra nimantritu sarvajagat / aṣṭāṅgikamārgajalo dhara varṣa samehi jagasya tṛṣāṃ balaindriyadhyānavimokṣa vivardhaya sasyadhanam (26.22)

Verse 26.23

।। बहुकल्पसहस्र सुशिक्षितु शून्यतत्त्व स्थिता समुदानितु धर्मजु भेषजु जानितु सत्त्वचरी । जनता इय व्याधिशतेभि उपद्रुत क्लेशगणैः जिनवैद्य प्रमोचय वर्तय धर्मचक्रवरम् ॥ २६.२३ ॥

// bahukalpasahasra suśikṣitu śūnyatattva sthitā samudānitu dharmaju bheṣaju jānitu sattvacarī / janatā iya vyādhiśatebhi upadruta kleśagaṇaiḥ jinavaidya pramocaya vartaya dharmacakravaram (26.23)

Verse 26.24

।। षडि पारमिते चिररात्रु विवर्धितु कोशु त्वया असमं तु अचाल्यु प्रणीतु सुसंचितु धर्मधनम् । प्रज सर्व अनाथ दरिद्र अनायिक दृष्ट्व इमां विचरं धन सप्त विनायक चक्र प्रवर्तयही ॥ २६.२४ ॥

// ṣaḍi pāramite cirarātru vivardhitu kośu tvayā asamaṃ tu acālyu praṇītu susaṃcitu dharmadhanam / praja sarva anātha daridra anāyika dṛṣṭva imāṃ vicaraṃ dhana sapta vināyaka cakra pravartayahī (26.24)

Verse 26.25

।। धनधान्य हिरण्यसुवर्ण तथैव च वस्त्र शुभा वर पुष्प विलेपन धूपन चूर्ण गृहाश्च वराः । अन्तःपुर राज्य प्रियात्मज त्यक्त प्रहर्षयतो जिन बोधि गवेषत सातिविबुद्ध प्रवर्तय चक्रवरम् ॥ २६.२५ ॥

// dhanadhānya hiraṇyasuvarṇa tathaiva ca vastra śubhā vara puṣpa vilepana dhūpana cūrṇa gṛhāśca varāḥ / antaḥpura rājya priyātmaja tyakta praharṣayato jina bodhi gaveṣata sātivibuddha pravartaya cakravaram (26.25)

Verse 26.26

।। तथ शीलु अखण्डु अकल्मषु रक्षितु कल्पशतां सद क्षान्ति सुभावित वीर्य अलीनु अभूषि तव । वर ध्यान अभिज्ञ विपश्यन प्रज्ञ उपेक्ष मुने परिपूर्ण मनोरथ निर्ज्वर वर्तय चक्रवरम् ॥ २६.२६ ॥

// tatha śīlu akhaṇḍu akalmaṣu rakṣitu kalpaśatāṃ sada kṣānti subhāvita vīrya alīnu abhūṣi tava / vara dhyāna abhijña vipaśyana prajña upekṣa mune paripūrṇa manoratha nirjvara vartaya cakravaram (26.26)

Verse 26.27

।। अथ खलु भिक्षवः सहचित्तोत्पादधर्मचक्रप्रवर्ती नाम बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां चक्रं सर्वरत्नप्रत्युप्तं सर्वरत्नप्रशोभितं नानारत्नालंकारव्यूहविभूषितं सहस्रारं सहस्ररश्मि सनाभिकं सनेमिकं सपुष्पदामं सहेमजालं सकिङ्किणीजालं सगन्धहस्तं सपूर्णकुम्भं सनन्दिकावर्तं सस्वस्तिकालंकृतं नानारङ्गरक्तदिव्यवस्त्रोपशोभितं दिव्यपुष्पगन्धमाल्यविलेपनानुलिप्तं सर्वाकारवरोपेतं तथागताय धर्मचक्रप्रवर्तनाय पूर्वप्रणिधानाभिनिर्हृतं बोधिसत्त्वाशयविशोधितं तथागतपूजार्हं सर्वतथागतसमन्वाहृतं सर्वबुद्धाधिष्ठानाविलोपितं पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः प्रत्येषितं प्रवर्तितपूर्वं च धर्मचक्रमुपनामयति स्म । उपनाम्य च कृताञ्जलिपुटस्तथागतमाभिर्गाथाभिरभ्यष्टावीत् - दीपंकरेण यद व्याकृतु शुद्धसत्त्वो बुद्धो भविष्यसि हि त्वं नरसिंहसिंहः । तस्मिं समासि प्रणिधी इयमेवरूपा संबोधिप्राप्तु अहु धर्म अध्येषयेयम् ॥ २६.२७ ॥

// atha khalu bhikṣavaḥ sahacittotpādadharmacakrapravartī nāma bodhisattvo mahāsattvastasyāṃ velāyāṃ cakraṃ sarvaratnapratyuptaṃ sarvaratnapraśobhitaṃ nānāratnālaṃkāravyūhavibhūṣitaṃ sahasrāraṃ sahasraraśmi sanābhikaṃ sanemikaṃ sapuṣpadāmaṃ sahemajālaṃ sakiṅkiṇījālaṃ sagandhahastaṃ sapūrṇakumbhaṃ sanandikāvartaṃ sasvastikālaṃkṛtaṃ nānāraṅgaraktadivyavastropaśobhitaṃ divyapuṣpagandhamālyavilepanānuliptaṃ sarvākāravaropetaṃ tathāgatāya dharmacakrapravartanāya pūrvapraṇidhānābhinirhṛtaṃ bodhisattvāśayaviśodhitaṃ tathāgatapūjārhaṃ sarvatathāgatasamanvāhṛtaṃ sarvabuddhādhiṣṭhānāvilopitaṃ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratyeṣitaṃ pravartitapūrvaṃ ca dharmacakramupanāmayati sma / upanāmya ca kṛtāñjalipuṭastathāgatamābhirgāthābhirabhyaṣṭāvīt - dīpaṃkareṇa yada vyākṛtu śuddhasattvo buddho bhaviṣyasi hi tvaṃ narasiṃhasiṃhaḥ / tasmiṃ samāsi praṇidhī iyamevarūpā saṃbodhiprāptu ahu dharma adhyeṣayeyam (26.27)

Verse 26.28

।। न च शक्य सर्वि गणनाय अनुप्रवेष्टुं ये आगता दशदिशेभिरिहाग्रसत्त्वाः । अध्येषि शाक्यकुलनन्दन धर्मचक्रे प्रह्वा कृताञ्जलिपुटाश्चरणौ निपत्य ॥ २६.२८ ॥

// na ca śakya sarvi gaṇanāya anupraveṣṭuṃ ye āgatā daśadiśebhirihāgrasattvāḥ / adhyeṣi śākyakulanandana dharmacakre prahvā kṛtāñjalipuṭāścaraṇau nipatya (26.28)

Verse 26.29

।। या बोधिमण्डि प्रकृता च सुरैर्वियूहा या वा वियूह कृत सर्वजिनात्मजेभिः । सा सर्व संस्थित वियूह ति धर्मचक्रे परिपूर्णकल्प भणमानु क्षयं न गच्छेत् ॥ २६.२९ ॥

// yā bodhimaṇḍi prakṛtā ca surairviyūhā yā vā viyūha kṛta sarvajinātmajebhiḥ / sā sarva saṃsthita viyūha ti dharmacakre paripūrṇakalpa bhaṇamānu kṣayaṃ na gacchet (26.29)

Verse 26.30

।। त्रिसहस्रि लोकि गगनं स्फुट देवसंघैः धरणीतलं असुरकिन्नरमानुषैश्च । उत्कासशब्दु नपि श्रूयति तन्मुहूर्तं सर्वि प्रसन्नमनसो जिनमभ्युदीक्षन् ॥ २६.३० ॥

// trisahasri loki gaganaṃ sphuṭa devasaṃghaiḥ dharaṇītalaṃ asurakinnaramānuṣaiśca / utkāsaśabdu napi śrūyati tanmuhūrtaṃ sarvi prasannamanaso jinamabhyudīkṣan (26.30)

Verse 26.31

।। इति हि भिक्षवस्तथागतो रात्र्याः प्रथमे यामे तूष्णीभावेनाधिवासयति स्म । रात्र्या मध्यमे यामे संरञ्जनीयां कथां प्रवर्तयति स्म । रात्र्याः पश्चिमे यामे पञ्चकान् भद्रवर्गीयानामन्त्र्यैतदवोचत् - द्वाविमौ भिक्षवः प्रव्रजितस्यान्तावक्रमौ । यश्च कामेषु कामसुखल्लिका योगो हीनो ग्राम्यः पार्थग्जनिको नालमार्यो ऽनर्थोपसंहितो नायत्यां ब्रह्मचर्याय न निर्विदे न विरागाय न निरोधाय नाभिज्ञाय न संबोधये न निर्वाणाय संवर्तते । या चेयममध्यमा प्रतिपदा आत्मकायक्लमथानुयोगो दुःखो ऽनर्थोपसंहितो दृष्टधर्मदुःखश्चायत्यां च दुःखविपाकः । एतौ च भिक्षवो द्वावन्तावनुपगम्य मध्यमयैव प्रतिपदा तथागतो धर्मं देशयति - यदुत सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिरिति । चत्वारीमानि भिक्षव आर्यसत्यानि । कतमानि चत्वारि? दुःखं दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी प्रतिपत् । तत्र कतमद् दुःखम्? जातिरपि दुःखं जरापि दुःखं व्याधिरपि दुःखं मरणमपि अप्रियसंप्रयोगो ऽपि प्रियविप्रयोगो ऽपि दुःखम् । यदपि इच्छन् पर्येषमाणो न लभते तदपि दुःखम् । संक्षेपात् पञ्चोपादानस्कधा दुःखम् । इदमुच्यते दुःखम् । तत्र कतमो दुःखसमुदयः? येयं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी अयमुच्यते दुःखसमुदयः । तत्र कतमो दुःखनिरोधः? यो ऽस्या एव तृष्णायाः पुनर्भविक्या नन्दीरागसहगतायास्तत्रतत्राभिनन्दिन्या जनिकाया निर्वर्तिकाया अशेषो विरागो निरोधः अयं दुःखनिरोधः । तत्र कतमा दुःखनिरोधगामिनी प्रतिपत्? एष एवार्याष्टाङ्गमार्गः । तद्यथा । सम्यग्दृष्टिर्यावत्सम्यक्समाधिरिति । इदमुच्यते दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति । इमानि भिक्षवश्चत्वार्यार्यसत्यानि । इति दुःखमिति मे भिक्षवः पुर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुत्पन्नं चक्षुरुत्पन्नं विद्योत्पन्ना भूरिरुत्पन्ना मेघोत्पन्ना प्रज्ञोत्पन्ना आलोकः प्रादुर्भूतः । अयं दुःखसमुदय इति मे भिक्षवः पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुत्पन्नं चक्षुरुत्पन्नं विद्योत्पन्ना भूरिरुत्पन्ना मेघोत्पन्ना प्रज्ञोत्पन्ना आलोकः प्रादुर्भूतः । अयं दुःखनिरोध इति मे भिक्षवः सर्वं पूर्ववद्यावदालोकः प्रादुर्भूतः । इयं दुःखनिरोधगामिनी प्रतिपदिति मे भिक्षवः पूर्ववदेव पेयालं यावदालोकः प्रादुर्भूतः । यत्खल्विदं दुःखं परिज्ञेयमिति मे भिक्षवः पूर्ववदेव पेयालं यावदालोकः प्रादुर्भूतः । स खल्वयं दुःखसमुदयः प्रहातव्य इति मे भिक्षवः पूर्वमश्रतेषु धर्मेषु सर्वं यावदालोक इति । स खल्वयं दुःखनिरोधः साक्षात्कर्तव्य इति मे भिक्षवः पूर्ववद्यावदालोक इति । सा खल्वियं दुःखनिरोधगामिनी प्रतिपद्भावयितव्येति पूर्ववद्यावदालोक इति । तत्खल्विदं दुःखं परिज्ञातमिति मे भिक्षवः पूर्वमश्रतेषु इति पेयालम् । स खल्वयं दुःखसमुदयः प्रहीण इति मे भिक्षवः पूर्वमश्रुतेति पेयालम् । स खल्वयं दुःखनिरोधः साक्षात्कृत इति मे भिक्षवः पूर्वमश्रुतेति पेयालम् । सा खल्वियं दुःखनिरोधगामिनी प्रतिपद्भावितेति मे भिक्षवः पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुत्पन्नं चक्षुरुत्पन्नं भूरिरुत्पन्ना विद्योत्पन्ना मेधोत्पन्ना प्रज्ञोत्पन्ना आलोकः प्रादूर्भूतः ।। इति हि भिक्षवो यावदेव मे एषु चतुर्ष्वार्यसत्येषु योनिशो मनसि कुर्वतो एवं त्रिपरिवर्तं द्वादशाकारं ज्ञानदर्शनमुत्पद्यते, न तावदहं भिक्षवो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽस्मि इति प्रतिज्ञासिषम् । न च मे ज्ञानदर्शनमुत्पद्यते । यतश्च मे भिक्षव एषु चतुर्ष्वार्यसत्येष्वेवं त्रिपरिवर्तं द्वादशाकारं ज्ञानदर्शनमुत्पन्नम्, अकोप्या च मे चेतोविमुक्तिः, प्रज्ञाविमुक्तिश्च साक्षात्कृता, ततो ऽहं भिक्षवो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽस्मि इति प्रतिज्ञासिषम् । ज्ञानदर्शनं मे उदपादि । क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरस्माद्भवं प्रजानामि ।। तत्रेदमुच्यते । वाचाय ब्रह्मरुत किन्नरगर्जिताय अंशैः सहस्रनयुतेभि समुद्गताय । बहुकल्पकोटि सद सत्यसुभाविताय कौण्डिन्यमालपति शाक्यमुनिः स्वयंभूः ॥ २६.३१ ॥

// iti hi bhikṣavastathāgato rātryāḥ prathame yāme tūṣṇībhāvenādhivāsayati sma / rātryā madhyame yāme saṃrañjanīyāṃ kathāṃ pravartayati sma / rātryāḥ paścime yāme pañcakān bhadravargīyānāmantryaitadavocat - dvāvimau bhikṣavaḥ pravrajitasyāntāvakramau / yaśca kāmeṣu kāmasukhallikā yogo hīno grāmyaḥ pārthagjaniko nālamāryo 'narthopasaṃhito nāyatyāṃ brahmacaryāya na nirvide na virāgāya na nirodhāya nābhijñāya na saṃbodhaye na nirvāṇāya saṃvartate / yā ceyamamadhyamā pratipadā ātmakāyaklamathānuyogo duḥkho 'narthopasaṃhito dṛṣṭadharmaduḥkhaścāyatyāṃ ca duḥkhavipākaḥ / etau ca bhikṣavo dvāvantāvanupagamya madhyamayaiva pratipadā tathāgato dharmaṃ deśayati - yaduta samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiriti / catvārīmāni bhikṣava āryasatyāni / katamāni catvāri? duḥkhaṃ duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī pratipat / tatra katamad duḥkham? jātirapi duḥkhaṃ jarāpi duḥkhaṃ vyādhirapi duḥkhaṃ maraṇamapi apriyasaṃprayogo 'pi priyaviprayogo 'pi duḥkham / yadapi icchan paryeṣamāṇo na labhate tadapi duḥkham / saṃkṣepāt pañcopādānaskadhā duḥkham / idamucyate duḥkham / tatra katamo duḥkhasamudayaḥ? yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhinandinī ayamucyate duḥkhasamudayaḥ / tatra katamo duḥkhanirodhaḥ? yo 'syā eva tṛṣṇāyāḥ punarbhavikyā nandīrāgasahagatāyāstatratatrābhinandinyā janikāyā nirvartikāyā aśeṣo virāgo nirodhaḥ ayaṃ duḥkhanirodhaḥ / tatra katamā duḥkhanirodhagāminī pratipat? eṣa evāryāṣṭāṅgamārgaḥ / tadyathā / samyagdṛṣṭiryāvatsamyaksamādhiriti / idamucyate duḥkhanirodhagāminī pratipadāryasatyamiti / imāni bhikṣavaścatvāryāryasatyāni / iti duḥkhamiti me bhikṣavaḥ purvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṃ cakṣurutpannaṃ vidyotpannā bhūrirutpannā meghotpannā prajñotpannā ālokaḥ prādurbhūtaḥ / ayaṃ duḥkhasamudaya iti me bhikṣavaḥ pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṃ cakṣurutpannaṃ vidyotpannā bhūrirutpannā meghotpannā prajñotpannā ālokaḥ prādurbhūtaḥ / ayaṃ duḥkhanirodha iti me bhikṣavaḥ sarvaṃ pūrvavadyāvadālokaḥ prādurbhūtaḥ / iyaṃ duḥkhanirodhagāminī pratipaditi me bhikṣavaḥ pūrvavadeva peyālaṃ yāvadālokaḥ prādurbhūtaḥ / yatkhalvidaṃ duḥkhaṃ parijñeyamiti me bhikṣavaḥ pūrvavadeva peyālaṃ yāvadālokaḥ prādurbhūtaḥ / sa khalvayaṃ duḥkhasamudayaḥ prahātavya iti me bhikṣavaḥ pūrvamaśrateṣu dharmeṣu sarvaṃ yāvadāloka iti / sa khalvayaṃ duḥkhanirodhaḥ sākṣātkartavya iti me bhikṣavaḥ pūrvavadyāvadāloka iti / sā khalviyaṃ duḥkhanirodhagāminī pratipadbhāvayitavyeti pūrvavadyāvadāloka iti / tatkhalvidaṃ duḥkhaṃ parijñātamiti me bhikṣavaḥ pūrvamaśrateṣu iti peyālam / sa khalvayaṃ duḥkhasamudayaḥ prahīṇa iti me bhikṣavaḥ pūrvamaśruteti peyālam / sa khalvayaṃ duḥkhanirodhaḥ sākṣātkṛta iti me bhikṣavaḥ pūrvamaśruteti peyālam / sā khalviyaṃ duḥkhanirodhagāminī pratipadbhāviteti me bhikṣavaḥ pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṃ cakṣurutpannaṃ bhūrirutpannā vidyotpannā medhotpannā prajñotpannā ālokaḥ prādūrbhūtaḥ // iti hi bhikṣavo yāvadeva me eṣu caturṣvāryasatyeṣu yoniśo manasi kurvato evaṃ triparivartaṃ dvādaśākāraṃ jñānadarśanamutpadyate, na tāvadahaṃ bhikṣavo 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'smi iti pratijñāsiṣam / na ca me jñānadarśanamutpadyate / yataśca me bhikṣava eṣu caturṣvāryasatyeṣvevaṃ triparivartaṃ dvādaśākāraṃ jñānadarśanamutpannam, akopyā ca me cetovimuktiḥ, prajñāvimuktiśca sākṣātkṛtā, tato 'haṃ bhikṣavo 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'smi iti pratijñāsiṣam / jñānadarśanaṃ me udapādi / kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, kṛtaṃ karaṇīyam, nāparasmādbhavaṃ prajānāmi // tatredamucyate / vācāya brahmaruta kinnaragarjitāya aṃśaiḥ sahasranayutebhi samudgatāya / bahukalpakoṭi sada satyasubhāvitāya kauṇḍinyamālapati śākyamuniḥ svayaṃbhūḥ (26.31)

Verse 26.32

।। चक्षुरनित्यमध्रुवं तथ श्रोत घ्राणं जिह्वा पि काय मन दुःखा अनात्म शून्या । जडास्वभाव तृणकुड्म इवा निरीहा नैवात्र आत्म न नरो न च जीवमस्ति ॥ २६.३२ ॥

// cakṣuranityamadhruvaṃ tatha śrota ghrāṇaṃ jihvā pi kāya mana duḥkhā anātma śūnyā / jaḍāsvabhāva tṛṇakuḍma ivā nirīhā naivātra ātma na naro na ca jīvamasti (26.32)

Verse 26.33

।। हेतुं प्रतीत्य इमि संभुत सर्वधर्मा अत्यन्तदृष्टिविगता गगनप्रकाशा । न च कारको ऽस्ति तथ नैव च वेदको ऽस्ति न च कर्म पश्यति कृतं ह्यशुभं शुभं वा ॥ २६.३३ ॥

// hetuṃ pratītya imi saṃbhuta sarvadharmā atyantadṛṣṭivigatā gaganaprakāśā / na ca kārako 'sti tatha naiva ca vedako 'sti na ca karma paśyati kṛtaṃ hyaśubhaṃ śubhaṃ vā (26.33)

Verse 26.34

।। स्कन्धा प्रतीत्य समुदेति हि दुःखमेवं संभोन्ति तृष्ण सलिलेन विवर्धमाना । मार्गेण धर्मसमताय विपश्यमाना अत्यन्तक्षीण क्षयधर्मतया निरुद्धाः ॥ २६.३४ ॥

// skandhā pratītya samudeti hi duḥkhamevaṃ saṃbhonti tṛṣṇa salilena vivardhamānā / mārgeṇa dharmasamatāya vipaśyamānā atyantakṣīṇa kṣayadharmatayā niruddhāḥ (26.34)

Verse 26.35

।। संकल्पकल्पजनितेन अयोनिशेन भवते अविद्य न पि संभवको ऽस्य कश्चि । संस्कारहेतु ददते न च संक्रमो ऽस्ति विज्ञानमुद्भवति संक्रमणं प्रतीत्य ॥ २६.३५ ॥

// saṃkalpakalpajanitena ayoniśena bhavate avidya na pi saṃbhavako 'sya kaści / saṃskārahetu dadate na ca saṃkramo 'sti vijñānamudbhavati saṃkramaṇaṃ pratītya (26.35)

Verse 26.36

।। विज्ञान नाम तथ च रूप समुत्थितास्ति नामे च रूपि समुदेन्ति षडिन्द्रियाणि । षडिन्दियैर्निपतितो इति स्पर्श उक्तः स्पर्शेन तिस्र अनुवर्तति वेदना च ॥ २६.३६ ॥

// vijñāna nāma tatha ca rūpa samutthitāsti nāme ca rūpi samudenti ṣaḍindriyāṇi / ṣaḍindiyairnipatito iti sparśa uktaḥ sparśena tisra anuvartati vedanā ca (26.36)

Verse 26.37

।। यत्किंचि वेदयितु सर्व सतृष्ण उक्ता तृष्णात सर्व उपजायति दुःखस्कन्धः । उपादानतो भवति सर्व भवप्रवृत्तिः भवप्रत्यया च समुदेति हि जातिरस्य ॥ २६.३७ ॥

// yatkiṃci vedayitu sarva satṛṣṇa uktā tṛṣṇāta sarva upajāyati duḥkhaskandhaḥ / upādānato bhavati sarva bhavapravṛttiḥ bhavapratyayā ca samudeti hi jātirasya (26.37)

Verse 26.38

।। जातीनिदान जरव्याधिदुखानि भोन्ति उपपत्ति नैक विविधा भवपञ्जरे ऽस्मिन् । एवमेष सर्व इति प्रत्ययतो जगस्य न च आत्म पुद्गलु न संक्रमको ऽस्ति कश्चि ॥ २६.३८ ॥

// jātīnidāna jaravyādhidukhāni bhonti upapatti naika vividhā bhavapañjare 'smin / evameṣa sarva iti pratyayato jagasya na ca ātma pudgalu na saṃkramako 'sti kaści (26.38)

Verse 26.39

।। यस्मिन्न कल्पु न विकल्पु योनिमाहुः यद्योनिशो भवति न तत्र अविद्य काचि । यस्मिन्निरोधु भवतीह अविद्यतायाः सर्वे भवाङ्ग क्षयक्षीण क्षयं निरुद्धा ॥ २६.३९ ॥

// yasminna kalpu na vikalpu yonimāhuḥ yadyoniśo bhavati na tatra avidya kāci / yasminnirodhu bhavatīha avidyatāyāḥ sarve bhavāṅga kṣayakṣīṇa kṣayaṃ niruddhā (26.39)

Verse 26.40

।। एवमेष प्रत्ययत बुद्ध तथागतेन तेन स्वयंभु स्वकमात्मनु व्याकरोति । न स्कन्ध आयतन धातु वदेमि बुद्धं नान्यत्र हेत्ववगमाद्भवतीह बुद्धः ॥ २६.४० ॥

// evameṣa pratyayata buddha tathāgatena tena svayaṃbhu svakamātmanu vyākaroti / na skandha āyatana dhātu vademi buddhaṃ nānyatra hetvavagamādbhavatīha buddhaḥ (26.40)

Verse 26.41

।। भूमिर्न चात्र परतीर्थिक निःसृतानां शून्या प्रवादि इह ईदृश धर्मयोगे । ये पूर्वबुद्धचरिता सुविशुद्धसत्त्वाः ते शक्नुवन्ति इमि धर्म विजाननाय ॥ २६.४१ ॥

// bhūmirna cātra paratīrthika niḥsṛtānāṃ śūnyā pravādi iha īdṛśa dharmayoge / ye pūrvabuddhacaritā suviśuddhasattvāḥ te śaknuvanti imi dharma vijānanāya (26.41)

Verse 26.42

।। एवं हि द्वादशाकारं धर्मचक्रं प्रवर्तितम् । कौण्डिन्येन च आज्ञातं निर्वृत्ता रतना त्रयः ॥ २६.४२ ॥

// evaṃ hi dvādaśākāraṃ dharmacakraṃ pravartitam / kauṇḍinyena ca ājñātaṃ nirvṛttā ratanā trayaḥ (26.42)

Verse 26.43

।। बुद्धो धर्मश्च संघश्च इत्येतद्रतनत्रयम् । परस्परां गतः शब्दो यावद् ब्रह्मपुरालयम् ॥ २६.४३ ॥

// buddho dharmaśca saṃghaśca ityetadratanatrayam / parasparāṃ gataḥ śabdo yāvad brahmapurālayam (26.43)

Verse 26.44

।। वर्तितं विरजं चक्रं लोकनाथेन तायिना । उत्पन्ना रतना त्रीणि लोके परमदुर्लभा ॥ २६.४४ ॥

// vartitaṃ virajaṃ cakraṃ lokanāthena tāyinā / utpannā ratanā trīṇi loke paramadurlabhā (26.44)

Verse 26.45

।। कौण्डिन्यं प्रथमं कृत्वा पञ्चकाश्चैव भिक्षवः । षष्टीनां देवकोटीनां धर्मचक्षुर्विशोधितम् ॥ २६.४५ ॥

// kauṇḍinyaṃ prathamaṃ kṛtvā pañcakāścaiva bhikṣavaḥ / ṣaṣṭīnāṃ devakoṭīnāṃ dharmacakṣurviśodhitam (26.45)

Verse 26.46

।। अन्ये चाशीतिकोट्यस्तु रूपधातुकदेवताः । तेषां विशोधितं चक्षु धर्मचक्रप्रवर्तने ॥ २६.४६ ॥

// anye cāśītikoṭyastu rūpadhātukadevatāḥ / teṣāṃ viśodhitaṃ cakṣu dharmacakrapravartane (26.46)

Verse 26.47

।। चतुरशीतिसहस्राणि मनुष्याणां समागता । तेषां विशोधितं चक्षु मुक्ता सर्वेभि दुर्गती ॥ २६.४७ ॥

// caturaśītisahasrāṇi manuṣyāṇāṃ samāgatā / teṣāṃ viśodhitaṃ cakṣu muktā sarvebhi durgatī (26.47)

Verse 26.48

।। दशदिशतु अनन्त बुद्धस्वरो गच्छि तस्मिं क्षणे रुत मधुर मनोज्ञ संश्रूयन्ते चान्तरीक्षे शुभ । एष दशबलेन शाक्यर्षिणा धर्मचक्रोत्तमं ऋषिपतनमुपेत्य वाराणसी वर्तितो नान्यथा ॥ २६.४८ ॥

// daśadiśatu ananta buddhasvaro gacchi tasmiṃ kṣaṇe ruta madhura manojña saṃśrūyante cāntarīkṣe śubha / eṣa daśabalena śākyarṣiṇā dharmacakrottamaṃ ṛṣipatanamupetya vārāṇasī vartito nānyathā (26.48)

Verse 26.49

।। दश दिशित यि केचि बुद्धशता सर्वि तूष्णीभुताः तेष मुनिनये उपस्थायकाः सर्वि पृच्छी जिनां । किमिति दशबलेभि धर्माकथा छिन्न श्रुत्वा रूतं साधु भणत शीघ्र किं कारणं तूष्णीभावेन स्थिताः ॥ २६.४९ ॥

// daśa diśita yi keci buddhaśatā sarvi tūṣṇībhutāḥ teṣa muninaye upasthāyakāḥ sarvi pṛcchī jināṃ / kimiti daśabalebhi dharmākathā chinna śrutvā rūtaṃ sādhu bhaṇata śīghra kiṃ kāraṇaṃ tūṣṇībhāvena sthitāḥ (26.49)

Verse 26.50

।। पुर्वभवशतेभि वीर्याबलै बोधि समुदानिया बहव शतसहस्र पश्चान्मुखा बोधिसत्त्वा कृताः । तेन हितकरेण उत्तप्तता प्राप्त बोधिः शिवा चक्र त्रिपरिवर्त प्रावर्तिता तेन तूष्णीभुताः ॥ २६.५० ॥

// purvabhavaśatebhi vīryābalai bodhi samudāniyā bahava śatasahasra paścānmukhā bodhisattvā kṛtāḥ / tena hitakareṇa uttaptatā prāpta bodhiḥ śivā cakra triparivarta prāvartitā tena tūṣṇībhutāḥ (26.50)

Verse 26.51

।। इमु वचन श्रुणित्व तेषां मुनीसत्त्वकोट्यः शता मैत्रबल जनित्व संप्रस्थिता अग्रबोधिं शिवाम् । वयमपि अनुशिक्षि तस्या मुने वीर्यस्थामोद्गतं क्षिप्र भवेम लोकि लोकोत्तमा धर्मचक्षुर्ददाः ॥ २६.५१ ॥

// imu vacana śruṇitva teṣāṃ munīsattvakoṭyaḥ śatā maitrabala janitva saṃprasthitā agrabodhiṃ śivām / vayamapi anuśikṣi tasyā mune vīryasthāmodgataṃ kṣipra bhavema loki lokottamā dharmacakṣurdadāḥ (26.51)

Verse 26.52

।। इति ।। अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - इमे भगवन् दशदिग्लोकधातुसंनिपतिता बोधिसत्त्वा महासत्त्वा भगवतः सकाशाद्धर्मचक्रप्रवर्तनविकुर्वणस्य प्रवेशं श्रोतुकामाः । तत्साधु भगवान् देशयतु तथागतो ऽर्हन् सम्यक्संबुद्धः कियद्रूपं तथागतेन धर्मचक्रं प्रवर्तितम्? भगवानाह - गम्भीरं मैत्रेय धर्मचक्रं ग्राहानुपलब्धित्वात् । दुर्दर्शं तच्चक्रं द्वयविगतत्वात् । दुरनुबोधं तच्चक्रं मनसिकारामनसिकारत्वात् । दुर्विज्ञानं तच्चक्रं ज्ञानविज्ञानसमतानुबद्धत्वात् । अनाविलं तच्चक्रं अनावरणविमोक्षप्रतिलब्धत्वात् । सूक्ष्मं तच्चक्रं अनुपमोपन्यासविगतत्वात् । सारं तच्चक्रं वज्रोपमज्ञानप्रतिलब्धत्वात् । अभेद्यं तच्चक्रं पूर्वान्तसंभवत्वात् । अप्रपञ्चं तच्चक्रं सर्वप्रपञ्चोपारम्भविगतत्वात् । अकोप्यं तच्चक्रं अत्यन्तनिष्ठत्वात् । सर्वत्रानुगतं तच्चक्रं आकाशसदृशत्वात् । तत्खलु पुनर्मैत्रेय धर्मचक्रं सर्वधर्मप्रकृतिस्वभावं संदर्शनविभवचक्रं अनुत्पादानिरोधासंभवचक्रं अनालयचक्रं अकल्पाविकल्पधर्मनयविस्तीरणचक्रं शून्यताचक्रं अनिमित्तचक्रं अप्रणिहितचक्रं अनभिसंस्कारचक्रं विवेकचक्रं विरागचक्रं विरोधचक्रं तथागतानुबोधचक्रं धर्मधात्वसंभेदचक्रम् । भूतकोट्यविकोपनचक्रं असङ्गानावरणचक्रं प्रतीत्यावतारोभयान्तदृष्टिसमतिक्रमणचक्रं अनन्तमध्यधर्मधात्वविकोपनचक्रं अनाभोगबुद्धकार्यप्रतिप्रश्रब्धचक्रं अप्रवृत्यभिनिर्वृत्तिचक्रं अत्यन्तानुपलब्धिचक्रं अनायूहानिर्यूहचक्रं (वैद्य ३०७) अनभिलाप्यचक्रं प्रकृतियथावच्चक्रं एकविषयसर्वधर्मसमतावतारचक्रं अक्षणसत्त्वविनयाधिष्ठानप्रत्युदावर्त्यचक्रं अद्वयसमारोपपरमार्थनयप्रवेशचक्रं धर्मधातुसमवसरणचक्रम् । अप्रेमयं तच्चक्रं सर्वप्रमाणातिक्रान्तम् । असंख्येयं तच्चक्रं सर्वसंख्यापगतम् । अचिन्त्यं तच्चक्रं चित्तपथसमतिक्रान्तम् । अतुल्यं तच्चक्रं तुलापगतम् । अनभिलाप्यं तच्चक्रं सर्वरुतघोषवाक्पथातीतम् । अप्रमाणमनुपममुपमागतमाकाशसमसदृशमनुच्छेदमशाश्वतं प्रतीत्यावताराविरुद्धशान्तमत्यन्तोपशमं तत्त्वं तथावितथानन्यथानन्यथीभावं सर्वसत्त्वरुतचरणम् । निग्रहो माराणां पराजयस्तीर्थिकानां समतिक्रामणं संसारविषयादवतारणं बुद्धविषये परिज्ञातमार्यपुद्गलैरनुबद्धं प्रत्येकबुद्धैः परिगृहीतं बोधिसत्त्वैः स्तुतं सर्वबुद्धैरसंभिन्नं सर्वतथागतैः । एवंरूपं भैत्रेय तथागतेन धर्मचक्रं प्रवर्तितं यस्य प्रवर्तनात्तथागत इत्युच्यते । सम्यक्संबुद्ध इत्युच्यते । स्वयंभूरित्युच्यते । धर्मस्वामीत्युच्यते । नायक इत्युच्यते । विनायक इत्युच्यते । परिणायक इत्युच्यते । सार्थवाह इत्युच्यते । सर्वधर्मवशवर्तीत्युच्यते । धर्मेश्वर इत्युच्यते । धर्मचक्रप्रवर्तीत्युच्यते । धर्मदानपतिरित्युच्यते । यज्ञस्वामीत्युच्यते । सुयष्टयज्ञ इत्युच्यते । सिद्धिव्रत इत्युच्यते । पूर्णाभिप्राय इत्युच्यते । देशिक इत्युच्यते । आश्वासक इत्युच्यते । क्षेमंकर इत्युच्यते । शूर इत्युच्यते । रणंजह इत्युच्यते । विजितसंग्राम इत्युच्यते । उच्छ्रितछत्रध्वजपताक इत्युच्यते । आलोककर इत्युच्यते । प्रभंकर इत्युच्यते । तमोनुद इत्युच्यते । उल्काधारीत्युच्यते । महावैद्यराज इत्युच्यते । भूतचिकित्सक इत्युच्यते । महाशल्यहर्ता इत्युच्यते । वितिमिरज्ञानदर्शन इत्युच्यते । समन्तदर्शीत्युच्यते । समन्तविलोकित इत्युच्यते । समन्तचक्षुरित्युच्यते । समन्तप्रभ इत्युच्यते । समन्तालोक इत्युच्यते । समन्तमुख इत्युच्यते । समन्तप्रभाकर इत्युच्यते । समन्तचन्द्र इत्युच्यते । समन्तप्रासादिक इत्युच्यते । अप्रतिष्ठानायूहानिर्यूह इत्युच्यते । धरणीसम इत्युच्यते अनुन्नतावनतत्वात् । शैलेन्द्रसम इत्युच्यते अप्रकम्प्यत्वात् । सर्वलोकश्रीरित्युच्यते सर्वलोकगुणसमन्वागतत्वात् । अनवलोकितमूर्ध इत्युच्यते सर्वलोकाभ्युद्गतत्वात् । समुद्रकल्प इत्युच्यते गम्भीरदुरवगाहत्वात् । धर्मरत्नाकर इत्युच्यते सर्वबोधिपाक्षिकधर्मरत्नप्रतिपूर्णत्वात् । वायुसम इत्युच्यते अनिकेतत्वात् । असङ्गबुद्धिरित्युच्यते असक्ताबद्धामुक्तचित्तत्वात् । अवैवर्तिकधर्म इत्युच्यते सर्वधर्मनिर्वेधिकज्ञानत्वात् । तेजःसम इत्युच्यते दुरासदसर्वमननाप्रहीणसर्वक्लेशदाहप्रत्युपस्थानत्वात् । अप्सम इत्युच्यते अनाविलसंकल्पनिर्मलकायचित्तवाहितपापत्वात् । आकाशसम इत्युच्यते असङ्गज्ञानविषयानन्तमध्येधर्मधातुगोचरज्ञानाभिज्ञप्राप्तत्वात् । अनावरणज्ञानविमोक्षविहारीत्युच्यते नानावरणीयधर्मसुप्रहीणत्वात् । सर्वधर्मधातुप्रसृतकाय इत्युच्यते गगनसमचक्षुःपथसमतिक्रान्तत्वात् । उत्तमसत्त्व इत्युच्यते सर्वलोकविषयासंक्लिष्टत्वात् । असङ्गसत्त्व इत्युच्यते । अप्रमाणबुद्धिरित्युच्यते । लोकोत्तरधर्मदेशिक इत्युच्यते । लोकाचार्य इत्युच्यते । लोकवैद्य इत्युच्यते । लोकाभ्युद्गत इत्युच्यते । लोकधर्मानुपलिप्त इत्युच्यते । लोकनाथ इत्युच्यते । लोकज्येष्ठ इत्युच्यते । लोकश्रेष्ठ इत्युच्यते । लोकेश्वर इत्युच्यते । लोकमहित इत्युच्यते । लोकपरायण (वैद्य ३०८) इत्युच्यते । लोकपारंगत इत्युच्यते । लोकप्रदीप इत्युच्यते । लोकोत्तर इत्युच्यते । लोकगुरुरित्युच्यते । लोकार्थकर इत्युच्यते । लोकानुवर्तक इत्युच्यते । लोकविदित्युच्यते । लोकाधिपतेयप्राप्त इत्युच्यते । महादक्षिणीय इत्युच्यते । पूजार्ह इत्युच्यते । महापुण्यक्षेत्र इत्युच्यते । महासत्त्व इत्युच्यते । अग्रसत्त्व इत्युच्यते । वरसत्त्व इत्युच्यते । प्रवरसत्त्व इत्युच्यते । उत्तमसत्त्व इत्युच्यते । अनुत्तरसत्त्व इत्युच्यते । असमसत्त्व इत्युच्यते । असदृशसत्त्व इत्युच्यते । सततसमाहित इत्युच्यते । सर्वधर्मसमताविहारीत्युच्यते । मार्गप्राप्त इत्युच्यते । मार्गदर्शक इत्युच्यते । मार्गदेशिक इत्युच्यते । सुप्रतिष्ठितमार्ग इत्युच्यते । मारविषयसमतिक्रान्त इत्युच्यते । मारमण्डलविध्वंसकर इत्युच्यते । अजरामरशीतीभाव इत्युच्यते । विगततमोन्धकार इत्युच्यते । विगतकण्टक इत्युच्यते । विगतकाङ्क्ष इत्युच्यते । विगतक्लेश इत्युच्यते । विनीतसंशय इत्युच्यते । विमतिसमुद्धटित इत्युच्यते । विरक्त इत्युच्यते । विमुक्त इत्युच्यते । विशुद्ध इत्युच्यते । विगतराग इत्युच्यते । विगतदोष इत्युच्यते । विगतमोह इत्युच्यते । क्षीणाश्रव इत्युच्यते । निःक्लेश इत्युच्यते । वशीभूत इत्युच्यते । सुविमुक्तचित्त इत्युच्यते । सुविमुक्तप्रज्ञ इत्युच्यते । आजानेय इत्युच्यते । महानाग इत्युच्यते । कृतकृत्य इत्युच्यते । कृतकरणीय इत्युच्यते । अपहृतभार इत्युच्यते । अनुप्राप्तस्वकार्थ इत्युच्यते । परिक्षीणभवसंयोजन इत्युच्यते । समताज्ञानविमुक्त इत्युच्यते । सर्वचेतोवशिपरमपारमिताप्राप्त इत्युच्यते । दानपारग इत्युच्यते । शीलाभ्युद्गत इत्युच्यते । क्षान्तिपारग इत्युच्यते । वीर्याभ्युद्गत इत्युच्यते । ध्यानाभिज्ञप्राप्त इत्युच्यते । प्रज्ञापारंगत इत्युच्यते । सिद्धप्रणिधान इत्युच्यते । महामैत्रविहारीत्युच्यते । महाकरुणाविहारीत्युच्यते । महामुदिताविहारीत्युच्यते । महोपेक्षाविहारीत्युच्यते । सत्त्वसंग्रहप्रयुक्त इत्युच्यते । अनावरणप्रतिसंवित्प्राप्त इत्युच्यते । प्रतिशरणभूत इत्युच्यते । महापुण्य इत्युच्यते । महाज्ञानीत्युच्यते । स्मृतिमतिगतिबुद्धिसंपन्न इत्युच्यते । स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादेन्द्रियबलबोध्यङ्गसमर्थविदर्शनालोकप्राप्त इत्युच्यते । उत्तीर्णसंसारार्णव इत्युच्यते । पारग इत्युच्यते । स्थलगत इत्युच्यते । क्षेमप्राप्त इत्युच्यते । अभयप्राप्त इत्युच्यते । मर्दितक्लेशकण्टक इत्युच्यते । पुरुष इत्युच्यते । महापुरुष इत्युच्यते । पुरुषसिंह इत्युच्यते । विगतभयलोमहर्षण इत्युच्यते । नाग इत्युच्यते । निर्मल इत्युच्यते । त्रिमलमलप्रहीण इत्युच्यते । वेदक इत्युच्यते । त्रैविद्यानुप्राप्त इत्युच्यते । चतुरोघोत्तीर्ण इत्युच्यते । पारग इत्युच्यते । क्षत्रिय इत्युच्यते । ब्राह्मण इत्युच्यते । एकरत्नछत्रधारीत्युच्यते । वाहितपारधर्म इत्युच्यते । भिक्षुरित्युच्यते । भिन्नाविद्याण्डकोश इत्युच्यते । श्रमण इत्युच्यते । अर्थसङ्गपथसमतिक्रान्त इत्युच्यते । श्रोत्रिय इत्युच्यते । निःसृतक्लेश इत्युच्यते । बलवानित्युच्यते । दशबलधारीत्युच्यते । भगवानित्युच्यते । भावितकाय इत्युच्यते । राजातिराज इत्युच्यते । धर्मराज इत्युच्यते । वरप्रवरधर्मचक्रप्रवर्त्यनुशासक इत्युच्यते । अकोप्यधर्मदेशक इत्युच्यते । सर्वज्ञज्ञानाभिषिक्त इत्युच्यते । असङ्गमहाज्ञानविमलविरुक्तपट्टबद्ध इत्युच्यते । सप्तबोध्यङ्गरत्नसमन्वागत इत्युच्यते । सर्वधर्मविशेषप्राप्त (वैद्य ३०९) इत्युच्यते । सर्वार्यश्रावकामात्यावलोकितमुखमण्डल इत्युच्यते । बोधिसत्त्वमहासत्त्वपुत्रपरिवार इत्युच्यते । सुविनीतविनय इत्युच्यते । सुव्याकृतबोधिसत्त्व इत्युच्यते । वैश्रवणसदृश इत्युच्यते । सप्तार्यधनविश्राणितकोश इत्युच्यते । त्यक्तत्याग इत्युच्यते । सर्वसुखसंपत्तिसमन्वागत इत्युच्यते । सर्वाभिप्रायदातेत्युच्यते । सर्वलोकहितसुखानुपालक इत्युच्यते । इन्द्रसम इत्युच्यते । ज्ञानबलवज्रधारी इत्युच्यते । समन्तनेत्र इत्युच्यते । सर्वधर्मानावरणज्ञानदर्शीत्युच्यते । समन्तज्ञानविकुर्वण इत्युच्यते । विपुलधर्मनाटकदर्शनप्रविष्ट इत्युच्यते । चन्द्रसम इत्युच्यते । सर्वजगदतृप्तदर्शन इत्युच्यते । समन्तविपुलविशुद्धप्रभ इत्युच्यते । प्रीतिप्रामोद्यकरप्रभ इत्युच्यते । सर्वसत्त्वाभिमुखदर्शनाभास इत्युच्यते । सर्वजगच्चित्ताशयभाजनप्रतिभासप्राप्त इत्युच्यते । महाव्यूह इत्युच्यते । शैक्षाशैक्षज्योतिर्गणपरिवार इत्युच्यते । आदित्यमण्डलसम इत्युच्यते । विधूतमोहान्धकार इत्युच्यते । महाकेतुराज इत्युच्यते । अप्रमाणानन्तरश्मिरित्युच्यते । महावभाससंदर्शक इत्युच्यते । सर्वप्रश्नव्याकरणनिर्देशासंमूढ इत्युच्यते । महाविद्यान्धकारविध्वंसनकर इत्युच्यते । महाज्ञानालोकविलोकितबुद्धिनिर्विकल्प इत्युच्यते । महामैत्रीकृपाकरुणासर्वजगत्समरश्मिप्रमुक्तप्रमाणविषय इत्युच्यते । प्रज्ञापारमितागम्भीरदुरासददुर्निरीक्षमण्डल इत्युच्यते । ब्रह्मसम इत्युच्यते । प्रशान्तेर्यापथ इत्युच्यते । सर्वेर्यापथचर्याविशेषसमन्वागत इत्युच्यते । परमरूपधारी इत्युच्यते । असेचनकदर्शन इत्युच्यते । शान्तेन्द्रिय इत्युच्यते । शान्तमानस इत्युच्यते । शमथसंभारपरिपूर्ण इत्युच्यते । उत्तमशमथप्राप्त इत्युच्यते । परमदमशमथप्राप्त इत्युच्यते । शमथविदर्शनापरिपूर्णसंभार इत्युच्यते । गुप्तो जितेन्द्रियो नाग इव सुदान्तो ह्रद इवाच्छो ऽनाविलो विप्रसन्न इत्युच्यते । सर्वक्लेशवासनावरणसुप्रहीण इत्युच्यते । द्वात्रिंशन्महापुरुषलक्षणसमन्वागत इत्युच्यते । परमपुरुष इत्युच्यते । अशीत्यनुव्यञ्जनपरिवारविचित्ररचितगात्र इत्युच्यते । पुरुषर्षभ इत्युच्यते । दशबलसमन्वागत इत्युच्यते । चतुर्वैशारद्यप्राप्तानुत्तरपुरुषदम्यसारथिरित्युच्यते । शास्तेत्युच्यते । अष्टादशावेणिकबुद्धधर्मपरिपूर्ण इत्युच्यते । अनिन्दितकायवाङ्मनस्कर्मान्त इत्युच्यते । सर्वाकारवरोपेतसुपरिशोधितज्ञानदर्शनमण्डलत्वाच्छून्यताविहारीत्युच्यते । प्रतीत्यसमुत्पादसमताभिसंबोधादानिमित्तविहारीत्युच्यते । परमार्थसत्यनयप्रतिवेधादप्रणिहितविहारीत्युच्यते । सर्वप्रस्थानालिप्तत्वादनभिसंस्कारगोचर इत्युच्यते । सर्वसंस्कारप्रतिप्रश्रब्धत्वाद्भूतवादीत्युच्यते । भूतकोट्यविकोपितज्ञानविषयत्वादवितथानन्यथावादीत्युच्यते । तथताधर्मधात्वाकाशलक्षणालक्षणविषयत्वादरण्यधर्मसुप्रतिलब्ध इत्युच्यते । मायामरीचिस्वप्नोदकचन्द्रप्रतिश्रुत्कप्रतिभाससमतासर्वधर्मविहारित्वादमोघदर्शनश्रवण इत्युच्यते । परिनिर्वाणहेतुजनकत्वादमोघपदविक्रमीत्युच्यते । सत्त्वविनयपराक्रमविक्रान्तत्वादुत्क्षिप्तपरिखेद इत्युच्यते । अविद्याभवतृष्णासमुच्छिन्नत्वात्स्थापितसंक्रम इत्युच्यते । नैर्याणिकप्रतिपत्सुदेशकत्वान्निर्जितमारक्लेशप्रत्यर्थिक इत्युच्यते । सर्वमारविषयचर्याननुलिप्तत्वादुत्तीर्णकामपङ्क इत्युच्यते । कामधातुसमतिक्रान्तत्वात्पातितमानध्वज (वैद्य ३१०) इत्युच्यते । रूपधातुसमतिक्रान्तत्वादुच्छ्रितप्रज्ञाध्वज इत्युच्यते । आरुप्यधातुसमतिक्रान्तत्वात्सर्वलोकविषयसमतिक्रान्त इत्युच्यते । धर्मकायज्ञानशरीरत्वान्महाद्रुम इत्युच्यते । अनन्तगुणरत्नज्ञानसंकुसुमितविमुक्तिफलसुसंपन्नत्वादुदुम्बरपुष्पसदृश इत्युच्यते । दुर्लभप्रादुर्भावदर्शनत्वाच्चिन्तामणिरत्नमणिराजसम इत्युच्यते । यथानयनिर्वाणभिप्रायसुप्रतिपूरणत्वात्सुप्रतिष्ठितपाद इत्युच्यते । दीर्घरात्रं त्यागशीलतपोव्रतब्रह्मचर्यदृढसमादानाचलाप्रकम्प्यत्वाद्विचित्रस्वस्तिकनन्द्यावर्तसहस्राचक्राङ्कितपादतल इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयधार्मिकरक्षापरिपालनतया शरणागतानां चापरित्यागत्वादायतपार्ष्णिरित्युच्यते । दीर्घरात्रं प्राणातिपातोपरतत्वाद्दीर्घाङ्गुलीत्युच्यते । दीर्घरात्रं प्राणातिपातवैरमण्यंपरसत्त्वसमादायनत्वाद्बहुजनत्रातेत्युच्यते । दीर्घरात्रं प्राणातिपातवैरमण्यंगुणवर्णसंप्रकाशनत्वान्मृदुतरुणहस्तपाद इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयोपस्थानपरिचर्यास्नानानुलेपनसर्पितैलाभ्यङ्गस्वहस्तशरीरपरिकर्मपरिखेदत्वाज्जालाङ्गुलीहस्तपाद इत्युच्यते । दीर्घरात्रं दानप्रियवद्यतार्थक्रियासमानार्थतासंग्रहवस्तुजालेन सत्त्वसंग्रहकौशल्यंसुशिक्षितत्वादुच्छङ्गपाद इत्युच्यते । दीर्घरात्रमुत्तरोत्तरि विशिष्टतरकुशलमूलाध्यालम्बनत्वादूर्ध्वाङ्गदक्षिणावर्तरोमकूप इत्युचते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयतथागतचैत्यप्रदक्षिणीकरणधर्मश्रवणचित्रीकाररोमहर्षणपरसत्त्वसंहर्षणधर्मदेशनाप्रयोगत्वादेणेयजङ्घ इत्युच्यते । दीर्घरात्रं सत्कृत्य धर्मश्रवणग्रहणधारणवाचनविज्ञापनार्थपदनिश्चयनिस्तीरणकौशल्येन जराव्याधिमरणाभिमुखानां च सत्त्वानां शरणगमनानुप्रदानसत्कृत्यधर्मदेशनापरिभवबुद्धित्वात्कोशोपगतबस्तिगुह्य इत्युच्यते । दीर्घरात्रं श्रमणब्राह्मणानां तदन्येषां च ब्रह्मचारिणां ब्रह्मचर्यानुग्रहसर्वपरिस्कारानुप्रदाननग्नबलानुप्रदानपरदारागमनब्रह्मचर्यगुणवर्णसंप्रकाशनह्र्यपत्राप्यानुपालनदृढसमादानत्वात्प्रलम्बबाहुरित्युच्यते । दीर्घरात्रं हस्तसंयतपादसंयतसत्त्वाविहेठनप्रयोगमैत्रकायकर्मवाक्कर्ममनस्कर्मसमन्वागतत्वान्न्यग्रोधपरिमण्डल इत्युच्यते । दीर्घरात्रं भोजनमात्रां ज्ञाता अल्पाहारतोदारसंयमग्लानभैषज्यानुप्रदानहीनजनापरिभवानाथानवमर्दनतथागतचैत्यविशीर्णप्रतिसंस्कारणस्तूपप्रतिष्ठापनत्वाद्भयार्दितेभ्यश्च सत्त्वेभ्यो ऽभयप्रदानत्वान्मृदुतरुणसूक्ष्मच्छविरित्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां स्नानानुलेपनसर्पिस्तैलाभ्यङ्गशीते उष्णोदकमुष्णे शीतोदकच्छायातपऋतुसुखपरिभोगानुप्रदानमृदुतरुणतूलसंस्पर्शसुकुमारवस्त्रास्तीर्णशयनासनानुप्रदानतथागतचैत्यगन्धतैलसेकसूक्ष्मपट्टध्वजपताकागुणप्रदानत्वात्सुवर्णच्छविरित्युच्यते । दीर्घरात्रं सर्वसत्त्वाप्रतिघातमैत्रीभावनायोगक्षान्तिसौरत्येपरसत्त्वसमादापनावैरव्यापादगुणवर्णसंप्रकाशनतया तथागतचैत्यतथागतप्रतिमानां च सुवर्णखचनसुवर्णपुष्पसुवर्णचूर्णाभिकिरणसुवर्णवर्णपट्टपताकाध्वजालंकारसुवर्णभाजनसुवर्णवस्त्रानुप्रदानत्वादेकैकनिचितरोमकूप इत्युच्यते । दीर्घरात्रं पण्डितोपसंक्रमणकिंकुशलाकुशलपरिपृच्छनसावद्यानवद्यसेव्यहीनमध्यप्रणीतधर्मपरिपृच्छनार्थमीमांसनपरितुलनासंमोहतथागतचैत्यकीटलूतालयाञ्जलियानिर्माल्यनानातृणशर्करासमुद्धरणसंप्रयोगत्वात्सप्तोत्सद इत्युच्यते । (वैद्य ३११) दीर्घरात्रं मातापितृज्येष्ठश्रेष्ठपूज्यश्रमणब्राह्मणकृपणवनीपकादिभ्य उपागतेभ्यः सत्कृत्य यथाभिप्रायमन्नपानासनवस्त्रापश्रयप्रदीपकल्पितजीविकपरिस्कारसंप्रदानकूपपुष्करिणीशीतजलपरीपूर्णमहाजनोपभोगानुप्रदानत्वात्सिंहपूर्वार्धकाय इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयावनमनप्रणमनाभिवादनाभयप्रदानदुर्बलापरिभवशरणागतापरित्यागदृढसर्गदानानुत्सर्गत्वाच्चितान्तरांस इत्युच्यते । दीर्घरात्रं स्वदोषपरितुलनप्रस्खलितपरछिद्रादोषदर्शनविवादमूलपरभेदकरमन्त्रपरिवर्जनसुप्रतिनिस्सर्गमन्त्रस्वारक्षितवाक्कर्मान्तत्वात्सुसंवृत्तस्कन्ध इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां प्रत्युत्थानप्रत्युद्रमनाभिवादनकामानां च सर्वशास्त्रवैशारद्येन विवादकामसत्त्वनिग्रहस्वधर्मविनयानुलोमनसम्यक्प्रवृत्तराजामात्यसम्यक्प्रवृत्तकुशलधर्मपथप्रतिष्ठापनप्रभावनतथागतशासनपरिग्रहसंधारणसर्वकुशलचर्यासमादापन पूर्वंगमत्वात्सिंहहनुरित्युच्यते । दीर्घरात्रं सर्ववस्तुपरित्यागयथाभिप्राययाचनकप्रियाभिधानमुपसंक्रान्तानां चाविमाननाजिह्मीकरणाविक्षेपं सर्वेषां यथाभिप्रायपरिपूरणदानपरित्यागदृढसमादानानुत्सर्गत्वाच्चत्वारिंशत्समदन्त इत्युच्यते । दीर्घरात्रं पिशुनवचनपरिवर्जनभेदमन्त्राग्रहणसंधिसामग्रीरोचनसमग्राणां चेदाचित्तेन पिशुनवचनविगर्हणसंधिसामग्रीगुणवर्णप्रकाशनप्रयोगत्वात्सुशुक्लदन्त इत्युच्यते । दीर्घरात्रं कृष्णपक्षपरिवर्जनशुक्लपक्षकुशलोपचयकृष्णकर्मकृष्णविपाकपरिवर्जनशुक्लकर्मशुक्लविपाकसंवर्णनक्षीरभोजनशुक्लवस्त्रप्रदानतथागतचैत्येषु सुधाकृतकक्षीरमिश्रसंप्रदानसुमनावार्षिकीधानुस्कारिमालागुणपुष्पदामशुक्लवर्णकुसुमानुप्रदानत्वादविरलदन्त इत्युच्यते । दीर्घरात्रं हास्योच्चट्यनविवर्जनानन्दकरणवागनुरक्षणानन्दकरणवागुदीरणपरस्खलितापरछिद्रापरिमार्गणसर्वसत्त्वसमचित्तसमादापनसमप्रयोगसमधर्मदेशनदृढसमादानापरित्यागत्वाद्रसरसाग्रवानित्युच्यते । दीर्घरात्रं सर्वसत्त्वाविहेठनाविहिंसनविविधव्याधिस्पृष्टोपस्थानग्लानभैषज्यानुप्रदानत्वात्सर्वरसार्थिकेभ्यश्च सर्वरसप्रदानापरिखेदत्वाद्बह्मस्वर इत्युच्यते । दीर्घरात्रमनृतपरुषकर्कशशाठ्यपरकटुकपराभिषङ्गिन्यप्रियपरमर्भघट्टनवाक्परिवर्जनमैत्रीकरुणाप्रयोगमुदिताप्रामोद्यकरणीस्निग्धममधुरश्लक्ष्णहृदयंगमसर्वेन्द्रियप्रह्लादकरणीसम्यग्वाक्यसम्यक्प्रयोगत्वादभिनीलनेत्र इत्युच्यते । दीर्घरात्रं मातापितृवत्सर्वसत्त्वाप्रतिहतचक्षुप्रयोगैकपुत्रवद्याचनकमैत्रीकारुण्यपूर्वंगमसंप्रेक्षणाजिह्मीकरणप्रसन्नेन्द्रियतथागतचैत्यानिमिषनयनसंप्रेक्षणपरसत्त्वतथागतदर्शनसमादापनदृढसमादानत्वाद्गोपेक्षनेत्र इत्युच्यते । दीर्घरात्रं हीनचेतोविवर्जनोदारविपुलाधिमुक्तिपरिपूरणानुत्तरधर्मछन्दसत्त्वसमादापनभृकुटीमुखविवर्जनस्मितमुखसर्वकल्याणमित्रोपसंक्रमणाभिमुखपूर्वंगमसर्वकुशलोपचयावैवर्तिकत्वाप्रभूतजिह्व इत्युच्यते । दीर्घरात्रं सर्ववाग्दोषविवर्जनसर्वश्रावकप्रत्येकबुद्धधर्मभाणकाप्रमाणगुणवर्णसंप्रकाशनतथागतसूत्रान्तलिखनवाचनपठनविज्ञापनं तेषां च धर्माणामर्थपदप्रभेदपरसत्त्वसंप्रापणकौशल्यत्वादुष्णीषानवलोकितमूर्ध इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां मूर्ध्नां चरणतलप्रणिपतनप्रव्रजितवन्दनाभिवादनकेशावरोपणसुगन्धतैलमूर्ध्निपरिषिञ्चनं सर्वयाचनकेभ्यश्चूर्णमाल्यमालागुणमूर्धाभरणानुप्रदानत्वाद् (वैद्य ३१२) भ्रूमध्ये सुजातप्रदक्षिणावर्तोत्तप्तविशुद्धवर्णाभासोर्ण इत्युच्यते । दीर्घरात्रं निरर्गलसर्वयज्ञयजनसमादपनसर्वकल्याणमित्रानुशासन्यनुद्धरधर्मभाणकानां दौत्यप्रेक्षणे दिग्गमनागमनापरिखेदनसर्वबुद्धबोधिसत्त्वप्रत्त्येकबुद्धार्यश्रावकधर्मभाणकमातापितृगुरुदक्षिणीयतमोन्धकारविधमनतैलधृततृणोल्काप्रदीपनानागन्धतैलप्रदीपसर्वाकारवरोपेतप्रासादिकतथागतप्रतिमाकारणक्षीरप्रतिभासरत्नोत्तीर्णकोशप्रतिमण्डनपरसत्त्वबोधचित्तामुखीकरणकुशलसंभारविशेषत्वान्महास्थामप्राप्त इत्युच्यते । महानारायणबलोपेतत्वान्महानारायण इत्युच्यते । कोटीशतमारधर्षणबलोपेतत्वात्सर्वपरप्रमर्दक इत्युच्यते । दशतथागतबलोपेतत्वाद्दशतथागतबलोपेत इत्युच्यते । स्थानास्थानज्ञानकुशलहीनप्रादेशिकयानविवर्जनमहायानगुणसमुदानयनबलोपेतातृप्तबलप्रयोगत्वात्स्थानज्ञानबलोपेत इत्युच्यते । अतीतानागतप्रत्युत्पन्नकर्मसमादानहेतुशोविपाकशोज्ञानबलोपेतत्वादतीतानागतप्रत्युत्पन्नसर्वकर्मसमादानहेतुविपाकज्ञानबलोपेत इत्युच्यते । सर्वसत्त्वेन्द्रियवीर्यविमात्रताज्ञानबलोपेतत्वात्सर्वसत्त्वेन्द्रियवीर्यविमात्रताज्ञानबलोपेत इत्युच्यते । अनेकधातुनानाधातुलोकप्रवेशज्ञानबलोपेतत्वादनेकधातुनानाधातुलोकप्रवेशज्ञानबलोपेत इत्युच्यते । अनेकाधिमुक्तिनानाधिमुक्तिनिरवशेषाधिमुक्तिविमुक्तिज्ञानबलोपेतत्वादनेकाधिमुक्तिनानाधिमुक्तिसर्वनिरवशेषाधिमुक्तिज्ञानबलोपेत इत्युच्यते । सर्वत्रगामिनीप्रतिपज्ज्ञानबलोपेतत्वात्सर्वत्रगामिनीप्रतिपज्ज्ञानबलोपेत इत्युच्यते । सर्वध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्यवस्थापनज्ञानबलोपेतत्वासर्वध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्यवस्थापनज्ञानबलोपेत इत्युच्यते । अनेकविधपूर्वनिवासानुस्मृत्यासङ्गज्ञानबलोपेतत्वादनेकविधपूर्वनिवासानुस्मृत्यासङ्गज्ञानबलोपेत इत्युच्यते । निरवशेषसर्वरूपानावरणदर्शनदिव्यचक्षुर्ज्ञानबलोपेतत्वान्निरवशेषसर्वरूपानावरणदर्शनदिव्यचक्षुर्ज्ञानबलोपेत इत्युच्यते । सर्वंवासनानुसंधिगतनिरवशेषसर्वाश्रवक्षयज्ञानबलोपेतत्वात्सर्ववासनानुसंधिगतनिरवशेषसर्वाश्रवक्षयज्ञानबलोपेत इत्युच्यते । निरवशेषसर्वधर्माभिसंबुद्धप्रतिज्ञारोहणसदेवलोकानभिभूतप्रतिज्ञावैशारद्यप्राप्तत्वान्निरवशेषसर्वधर्माभिसंप्रबुद्धतिज्ञारोहणसदेवलोके ऽनभिभूतप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते । सर्वसांक्लेशिकान्तरायिकधर्मान्तरायकरणानिर्वाणस्येतितत्प्रतिज्ञारोहणसदेवके लोके ऽनाछेद्यप्रतिज्ञावैशारद्यप्राप्तत्वासर्वसांक्लेशिकान्तरायिकधर्मान्तरायकरणानिर्वाणस्येति तत्प्रतिज्ञारोहणसदेवके लोके ऽनाछेद्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते । नैर्याणिकीं प्रतिपदं प्रतिपद्यमानो निर्वाणमारागयिष्यतीति प्रतिज्ञारोहणसदेवके लोके ऽप्रतिचोद्यप्रतिज्ञावैशारद्यप्राप्तत्वान्नैर्याणिकीं प्रतिपदं प्रतिपद्यमानो निर्वाणमारागयिष्यतीति प्रतिज्ञारोहणसदेवके लोके ऽप्रतिचोद्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते । सवाश्रवक्षयज्ञानप्रहाणज्ञानप्रतिज्ञारोहणसदेवके लोके ऽविवर्त्यप्रतिज्ञावैशारद्यप्राप्तत्वात्सर्वाश्रवक्षयज्ञानप्रहाणज्ञानप्रतिज्ञारोहणसदेवके लोके ऽविवर्त्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते । अस्खलितपदधर्मदेशकत्वादस्खलितपदधर्मदेशक इत्युच्यते । अरुतानभिलाप्यधर्मस्वभावानुबुद्धत्वादरुतानभिलाप्यधर्मस्वभावानुबुद्ध इत्युच्यते । अविरतत्वादविरत इत्युच्यते । सर्वसत्त्वरुताप्रमाणबुद्धधर्मरुतनिर्घोषाधिष्ठानसमर्थत्वात्सर्वसत्त्वरुताप्रमाणबुद्धधर्मरुतनिर्घोषाधिष्ठानसमर्थ इत्युच्यते । (वैद्य ३१३) अमुषितस्मृतित्वादमुषितस्मृतिरित्युच्यते । नानात्वसंज्ञाविगतत्वान्नानात्वसंज्ञाविगत इत्युच्यते । सर्वचित्तसमाहितसुमाहितसत्त्वात्सर्वचित्तसमाहितसुसमाहित इत्युच्यते । अप्रतिसंख्यासमुपेक्षकत्वादप्रतिसंख्यासमुपेक्षक इत्युच्यते । छन्दसंस्कारसमाध्यपरिहीनत्वाच्छन्दसंस्कारसमाध्यपरिहीन इत्युच्यते । वीर्यसंस्कारसमाध्यनाछेद्यापरिहीनवीर्यत्वाद्वीर्यसंस्कारसमाध्यपरिहीनवीर्य इत्युच्यते । स्मृत्यपरिहीनत्वादपरिहीनस्मृतिरित्युच्यते । अपरिहीनप्रज्ञत्वादपरिहीनप्रज्ञ इत्युच्यते । विमुक्त्यपरिहीनत्वादपरिहीनविमुक्तिरित्युच्यते । विमुक्तिज्ञानदर्शनाप्रहीनत्वादपरिहीनविमुक्तिज्ञानदर्शन इत्युच्यते । सर्वकायकर्मवाक्कर्ममनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवर्तिसमन्वागतत्वात्सर्वकायवाङ्भमनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवर्तिज्ञानसमन्वागत इत्युच्यते । अतीतानागतप्रत्युत्पन्नेष्वध्वस्वसङ्गाप्रतिहतज्ञानदर्शनसमन्वागतत्वात् त्र्यध्वासङ्गाप्रतिहतज्ञानदर्शनसमन्वागत इत्युच्यते । अनावरणविमोक्षप्रतिलब्धत्वादनावरणविमोक्षप्रतिलब्ध इत्युच्यते । अधिष्ठितसर्वसत्त्वचरितप्रवेशकौशल्यावस्थितत्वोदधिष्ठितसर्वसत्त्वचरितप्रवेशकौशल्यावस्थित इत्युच्यते । यथाप्रत्यर्हधर्मदेशनाकुशलत्वाद्यथाप्रत्यर्हधर्मदेशनाकुशल इत्युच्यते । सर्वस्वराङ्गमण्डलपरमपारमिताप्राप्तत्वात्सर्वस्वराङ्गमण्डलपरमपारमिताप्राप्त इत्युच्यते । सर्वरुतप्रतिरुतनिश्चारणकौशल्यप्राप्तत्वाद्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुत इत्युच्यते । ब्रह्मस्वररुतरवितनिर्घोष इत्युच्यते । कलविङ्करुतस्वर इत्युच्यते । दुन्दुभिसंगीतिरुतस्वर इत्युच्यते । धरणीतलनिर्नादनिर्घोषस्वर इत्युच्यते । सागरनागेन्द्रमेघस्तनितगर्जितघोषस्वर इत्युच्यते । सिंहवृषभिताभिगर्जितनिर्घोषस्वर इत्युच्यते । सर्वसत्त्वरुतरवितानुचरणसंतोषणस्वर इत्युच्यते । असङ्गानावरणसर्वपर्षन्मण्डलाभिराधनस्वर इत्युच्यते । एकरुतात्सर्वरुतसंप्रापनस्वर इत्युच्यते । ब्रह्मेन्द्रपूजित इत्युच्यते । देवेन्द्रसत्कृत इत्युच्यते । नागेन्द्रनमस्कृत इत्युच्यते । यक्षेन्द्रावलोकितमुखमण्डल इत्युच्यते । गन्धर्वेन्द्रोपगीत इत्युच्यते । राक्षसेन्द्रप्रसन्नेन्द्रियानिनिमिषनयनसंप्रेक्षित इत्युच्यते । असुरेन्द्राभिप्रणत इत्युच्यते । गरुडेन्द्राविहिंसाप्रेक्षित इत्युच्यते । किन्नरेन्द्राभिष्टुत इत्युच्यते । महोरगेन्द्राभिलषितदर्शन इत्युच्यते । मनुजेन्द्राभिसंपूजित इत्युच्यते । अहर्गणसेवित इत्युच्यते । सर्वबोधिसत्त्वसमादायकसमुत्तेजकसंहप्रर्षक इत्युच्यते । निरामिषधर्मदेशक इत्युच्यते । अक्षुण्णपदव्यञ्जनावन्ध्यधर्मदेशक इत्युच्यते । कालानतिक्रमणधर्मदेशक इत्युच्यते । इदं तन्मैत्रेय धर्मचक्रप्रवर्तनं तथागतगुणवर्णप्रदेशस्य यत्किंचिदवतारमात्रं संक्षेपेण निर्देशितः विस्तरेण पुनमैत्रेय तथागतः कल्पं वा कल्पावशेषं वा निर्दिशेत् । न चास्य निर्दिश्यमानस्य पर्यन्तो भवेत् ।। अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत् - गम्भीरं दुर्दृशं सूक्ष्मं धर्मचक्रं प्रवर्तितम् । यत्र मारा न गाहन्ते सर्वे च परतीर्थिकाः ॥ २६.५२ ॥

*// iti // atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat - ime bhagavan daśadiglokadhātusaṃnipatitā bodhisattvā mahāsattvā bhagavataḥ sakāśāddharmacakrapravartanavikurvaṇasya praveśaṃ śrotukāmāḥ / tatsādhu bhagavān deśayatu tathāgato 'rhan samyaksaṃbuddhaḥ kiyadrūpaṃ tathāgatena dharmacakraṃ pravartitam? bhagavānāha - gambhīraṃ maitreya dharmacakraṃ grāhānupalabdhitvāt / durdarśaṃ taccakraṃ dvayavigatatvāt / duranubodhaṃ taccakraṃ manasikārāmanasikāratvāt / durvijñānaṃ taccakraṃ jñānavijñānasamatānubaddhatvāt / anāvilaṃ taccakraṃ anāvaraṇavimokṣapratilabdhatvāt / sūkṣmaṃ taccakraṃ anupamopanyāsavigatatvāt / sāraṃ taccakraṃ vajropamajñānapratilabdhatvāt / abhedyaṃ taccakraṃ pūrvāntasaṃbhavatvāt / aprapañcaṃ taccakraṃ sarvaprapañcopārambhavigatatvāt / akopyaṃ taccakraṃ atyantaniṣṭhatvāt / sarvatrānugataṃ taccakraṃ ākāśasadṛśatvāt / tatkhalu punarmaitreya dharmacakraṃ sarvadharmaprakṛtisvabhāvaṃ saṃdarśanavibhavacakraṃ anutpādānirodhāsaṃbhavacakraṃ anālayacakraṃ akalpāvikalpadharmanayavistīraṇacakraṃ śūnyatācakraṃ animittacakraṃ apraṇihitacakraṃ anabhisaṃskāracakraṃ vivekacakraṃ virāgacakraṃ virodhacakraṃ tathāgatānubodhacakraṃ dharmadhātvasaṃbhedacakram / bhūtakoṭyavikopanacakraṃ asaṅgānāvaraṇacakraṃ pratītyāvatārobhayāntadṛṣṭisamatikramaṇacakraṃ anantamadhyadharmadhātvavikopanacakraṃ anābhogabuddhakāryapratipraśrabdhacakraṃ apravṛtyabhinirvṛtticakraṃ atyantānupalabdhicakraṃ anāyūhāniryūhacakraṃ (vaidya 307) anabhilāpyacakraṃ prakṛtiyathāvaccakraṃ ekaviṣayasarvadharmasamatāvatāracakraṃ akṣaṇasattvavinayādhiṣṭhānapratyudāvartyacakraṃ advayasamāropaparamārthanayapraveśacakraṃ dharmadhātusamavasaraṇacakram / apremayaṃ taccakraṃ sarvapramāṇātikrāntam / asaṃkhyeyaṃ taccakraṃ sarvasaṃkhyāpagatam / acintyaṃ taccakraṃ cittapathasamatikrāntam / atulyaṃ taccakraṃ tulāpagatam / anabhilāpyaṃ taccakraṃ sarvarutaghoṣavākpathātītam / apramāṇamanupamamupamāgatamākāśasamasadṛśamanucchedamaśāśvataṃ pratītyāvatārāviruddhaśāntamatyantopaśamaṃ tattvaṃ tathāvitathānanyathānanyathībhāvaṃ sarvasattvarutacaraṇam / nigraho mārāṇāṃ parājayastīrthikānāṃ samatikrāmaṇaṃ saṃsāraviṣayādavatāraṇaṃ buddhaviṣaye parijñātamāryapudgalairanubaddhaṃ pratyekabuddhaiḥ parigṛhītaṃ bodhisattvaiḥ stutaṃ sarvabuddhairasaṃbhinnaṃ sarvatathāgataiḥ / evaṃrūpaṃ bhaitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate / samyaksaṃbuddha ityucyate / svayaṃbhūrityucyate / dharmasvāmītyucyate / nāyaka ityucyate / vināyaka ityucyate / pariṇāyaka ityucyate / sārthavāha ityucyate / sarvadharmavaśavartītyucyate / dharmeśvara ityucyate / dharmacakrapravartītyucyate / dharmadānapatirityucyate / yajñasvāmītyucyate / suyaṣṭayajña ityucyate / siddhivrata ityucyate / pūrṇābhiprāya ityucyate / deśika ityucyate / āśvāsaka ityucyate / kṣemaṃkara ityucyate / śūra ityucyate / raṇaṃjaha ityucyate / vijitasaṃgrāma ityucyate / ucchritachatradhvajapatāka ityucyate / ālokakara ityucyate / prabhaṃkara ityucyate / tamonuda ityucyate / ulkādhārītyucyate / mahāvaidyarāja ityucyate / bhūtacikitsaka ityucyate / mahāśalyahartā ityucyate / vitimirajñānadarśana ityucyate / samantadarśītyucyate / samantavilokita ityucyate / samantacakṣurityucyate / samantaprabha ityucyate / samantāloka ityucyate / samantamukha ityucyate / samantaprabhākara ityucyate / samantacandra ityucyate / samantaprāsādika ityucyate / apratiṣṭhānāyūhāniryūha ityucyate / dharaṇīsama ityucyate anunnatāvanatatvāt / śailendrasama ityucyate aprakampyatvāt / sarvalokaśrīrityucyate sarvalokaguṇasamanvāgatatvāt / anavalokitamūrdha ityucyate sarvalokābhyudgatatvāt / samudrakalpa ityucyate gambhīraduravagāhatvāt / dharmaratnākara ityucyate sarvabodhipākṣikadharmaratnapratipūrṇatvāt / vāyusama ityucyate aniketatvāt / asaṅgabuddhirityucyate asaktābaddhāmuktacittatvāt / avaivartikadharma ityucyate sarvadharmanirvedhikajñānatvāt / tejaḥsama ityucyate durāsadasarvamananāprahīṇasarvakleśadāhapratyupasthānatvāt / apsama ityucyate anāvilasaṃkalpanirmalakāyacittavāhitapāpatvāt / ākāśasama ityucyate asaṅgajñānaviṣayānantamadhyedharmadhātugocarajñānābhijñaprāptatvāt / anāvaraṇajñānavimokṣavihārītyucyate nānāvaraṇīyadharmasuprahīṇatvāt / sarvadharmadhātuprasṛtakāya ityucyate gaganasamacakṣuḥpathasamatikrāntatvāt / uttamasattva ityucyate sarvalokaviṣayāsaṃkliṣṭatvāt / asaṅgasattva ityucyate / apramāṇabuddhirityucyate / lokottaradharmadeśika ityucyate / lokācārya ityucyate / lokavaidya ityucyate / lokābhyudgata ityucyate / lokadharmānupalipta ityucyate / lokanātha ityucyate / lokajyeṣṭha ityucyate / lokaśreṣṭha ityucyate / lokeśvara ityucyate / lokamahita ityucyate / lokaparāyaṇa (vaidya 308) ityucyate / lokapāraṃgata ityucyate / lokapradīpa ityucyate / lokottara ityucyate / lokagururityucyate / lokārthakara ityucyate / lokānuvartaka ityucyate / lokavidityucyate / lokādhipateyaprāpta ityucyate / mahādakṣiṇīya ityucyate / pūjārha ityucyate / mahāpuṇyakṣetra ityucyate / mahāsattva ityucyate / agrasattva ityucyate / varasattva ityucyate / pravarasattva ityucyate / uttamasattva ityucyate / anuttarasattva ityucyate / asamasattva ityucyate / asadṛśasattva ityucyate / satatasamāhita ityucyate / sarvadharmasamatāvihārītyucyate / mārgaprāpta ityucyate / mārgadarśaka ityucyate / mārgadeśika ityucyate / supratiṣṭhitamārga ityucyate / māraviṣayasamatikrānta ityucyate / māramaṇḍalavidhvaṃsakara ityucyate / ajarāmaraśītībhāva ityucyate / vigatatamondhakāra ityucyate / vigatakaṇṭaka ityucyate / vigatakāṅkṣa ityucyate / vigatakleśa ityucyate / vinītasaṃśaya ityucyate / vimatisamuddhaṭita ityucyate / virakta ityucyate / vimukta ityucyate / viśuddha ityucyate / vigatarāga ityucyate / vigatadoṣa ityucyate / vigatamoha ityucyate / kṣīṇāśrava ityucyate / niḥkleśa ityucyate / vaśībhūta ityucyate / suvimuktacitta ityucyate / suvimuktaprajña ityucyate / ājāneya ityucyate / mahānāga ityucyate / kṛtakṛtya ityucyate / kṛtakaraṇīya ityucyate / apahṛtabhāra ityucyate / anuprāptasvakārtha ityucyate / parikṣīṇabhavasaṃyojana ityucyate / samatājñānavimukta ityucyate / sarvacetovaśiparamapāramitāprāpta ityucyate / dānapāraga ityucyate / śīlābhyudgata ityucyate / kṣāntipāraga ityucyate / vīryābhyudgata ityucyate / dhyānābhijñaprāpta ityucyate / prajñāpāraṃgata ityucyate / siddhapraṇidhāna ityucyate / mahāmaitravihārītyucyate / mahākaruṇāvihārītyucyate / mahāmuditāvihārītyucyate / mahopekṣāvihārītyucyate / sattvasaṃgrahaprayukta ityucyate / anāvaraṇapratisaṃvitprāpta ityucyate / pratiśaraṇabhūta ityucyate / mahāpuṇya ityucyate / mahājñānītyucyate / smṛtimatigatibuddhisaṃpanna ityucyate / smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgasamarthavidarśanālokaprāpta ityucyate / uttīrṇasaṃsārārṇava ityucyate / pāraga ityucyate / sthalagata ityucyate / kṣemaprāpta ityucyate / abhayaprāpta ityucyate / marditakleśakaṇṭaka ityucyate / puruṣa ityucyate / mahāpuruṣa ityucyate / puruṣasiṃha ityucyate / vigatabhayalomaharṣaṇa ityucyate / nāga ityucyate / nirmala ityucyate / trimalamalaprahīṇa ityucyate / vedaka ityucyate / traividyānuprāpta ityucyate / caturoghottīrṇa ityucyate / pāraga ityucyate / kṣatriya ityucyate / brāhmaṇa ityucyate / ekaratnachatradhārītyucyate / vāhitapāradharma ityucyate / bhikṣurityucyate / bhinnāvidyāṇḍakośa ityucyate / śramaṇa ityucyate / arthasaṅgapathasamatikrānta ityucyate / śrotriya ityucyate / niḥsṛtakleśa ityucyate / balavānityucyate / daśabaladhārītyucyate / bhagavānityucyate / bhāvitakāya ityucyate / rājātirāja ityucyate / dharmarāja ityucyate / varapravaradharmacakrapravartyanuśāsaka ityucyate / akopyadharmadeśaka ityucyate / sarvajñajñānābhiṣikta ityucyate / asaṅgamahājñānavimalaviruktapaṭṭabaddha ityucyate / saptabodhyaṅgaratnasamanvāgata ityucyate / sarvadharmaviśeṣaprāpta (vaidya 309) ityucyate / sarvāryaśrāvakāmātyāvalokitamukhamaṇḍala ityucyate / bodhisattvamahāsattvaputraparivāra ityucyate / suvinītavinaya ityucyate / suvyākṛtabodhisattva ityucyate / vaiśravaṇasadṛśa ityucyate / saptāryadhanaviśrāṇitakośa ityucyate / tyaktatyāga ityucyate / sarvasukhasaṃpattisamanvāgata ityucyate / sarvābhiprāyadātetyucyate / sarvalokahitasukhānupālaka ityucyate / indrasama ityucyate / jñānabalavajradhārī ityucyate / samantanetra ityucyate / sarvadharmānāvaraṇajñānadarśītyucyate / samantajñānavikurvaṇa ityucyate / vipuladharmanāṭakadarśanapraviṣṭa ityucyate / candrasama ityucyate / sarvajagadatṛptadarśana ityucyate / samantavipulaviśuddhaprabha ityucyate / prītiprāmodyakaraprabha ityucyate / sarvasattvābhimukhadarśanābhāsa ityucyate / sarvajagaccittāśayabhājanapratibhāsaprāpta ityucyate / mahāvyūha ityucyate / śaikṣāśaikṣajyotirgaṇaparivāra ityucyate / ādityamaṇḍalasama ityucyate / vidhūtamohāndhakāra ityucyate / mahāketurāja ityucyate / apramāṇānantaraśmirityucyate / mahāvabhāsasaṃdarśaka ityucyate / sarvapraśnavyākaraṇanirdeśāsaṃmūḍha ityucyate / mahāvidyāndhakāravidhvaṃsanakara ityucyate / mahājñānālokavilokitabuddhinirvikalpa ityucyate / mahāmaitrīkṛpākaruṇāsarvajagatsamaraśmipramuktapramāṇaviṣaya ityucyate / prajñāpāramitāgambhīradurāsadadurnirīkṣamaṇḍala ityucyate / brahmasama ityucyate / praśānteryāpatha ityucyate / sarveryāpathacaryāviśeṣasamanvāgata ityucyate / paramarūpadhārī ityucyate / asecanakadarśana ityucyate / śāntendriya ityucyate / śāntamānasa ityucyate / śamathasaṃbhāraparipūrṇa ityucyate / uttamaśamathaprāpta ityucyate / paramadamaśamathaprāpta ityucyate / śamathavidarśanāparipūrṇasaṃbhāra ityucyate / gupto jitendriyo nāga iva sudānto hrada ivāccho 'nāvilo viprasanna ityucyate / sarvakleśavāsanāvaraṇasuprahīṇa ityucyate / dvātriṃśanmahāpuruṣalakṣaṇasamanvāgata ityucyate / paramapuruṣa ityucyate / aśītyanuvyañjanaparivāravicitraracitagātra ityucyate / puruṣarṣabha ityucyate / daśabalasamanvāgata ityucyate / caturvaiśāradyaprāptānuttarapuruṣadamyasārathirityucyate / śāstetyucyate / aṣṭādaśāveṇikabuddhadharmaparipūrṇa ityucyate / aninditakāyavāṅmanaskarmānta ityucyate / sarvākāravaropetasupariśodhitajñānadarśanamaṇḍalatvācchūnyatāvihārītyucyate / pratītyasamutpādasamatābhisaṃbodhādānimittavihārītyucyate / paramārthasatyanayaprativedhādapraṇihitavihārītyucyate / sarvaprasthānāliptatvādanabhisaṃskāragocara ityucyate / sarvasaṃskārapratipraśrabdhatvādbhūtavādītyucyate / bhūtakoṭyavikopitajñānaviṣayatvādavitathānanyathāvādītyucyate / tathatādharmadhātvākāśalakṣaṇālakṣaṇaviṣayatvādaraṇyadharmasupratilabdha ityucyate / māyāmarīcisvapnodakacandrapratiśrutkapratibhāsasamatāsarvadharmavihāritvādamoghadarśanaśravaṇa ityucyate / parinirvāṇahetujanakatvādamoghapadavikramītyucyate / sattvavinayaparākramavikrāntatvādutkṣiptaparikheda ityucyate / avidyābhavatṛṣṇāsamucchinnatvātsthāpitasaṃkrama ityucyate / nairyāṇikapratipatsudeśakatvānnirjitamārakleśapratyarthika ityucyate / sarvamāraviṣayacaryānanuliptatvāduttīrṇakāmapaṅka ityucyate / kāmadhātusamatikrāntatvātpātitamānadhvaja (vaidya 310) ityucyate / rūpadhātusamatikrāntatvāducchritaprajñādhvaja ityucyate / ārupyadhātusamatikrāntatvātsarvalokaviṣayasamatikrānta ityucyate / dharmakāyajñānaśarīratvānmahādruma ityucyate / anantaguṇaratnajñānasaṃkusumitavimuktiphalasusaṃpannatvādudumbarapuṣpasadṛśa ityucyate / durlabhaprādurbhāvadarśanatvāccintāmaṇiratnamaṇirājasama ityucyate / yathānayanirvāṇabhiprāyasupratipūraṇatvātsupratiṣṭhitapāda ityucyate / dīrgharātraṃ tyāgaśīlatapovratabrahmacaryadṛḍhasamādānācalāprakampyatvādvicitrasvastikanandyāvartasahasrācakrāṅkitapādatala ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyadhārmikarakṣāparipālanatayā śaraṇāgatānāṃ cāparityāgatvādāyatapārṣṇirityucyate / dīrgharātraṃ prāṇātipātoparatatvāddīrghāṅgulītyucyate / dīrgharātraṃ prāṇātipātavairamaṇyaṃparasattvasamādāyanatvādbahujanatrātetyucyate / dīrgharātraṃ prāṇātipātavairamaṇyaṃguṇavarṇasaṃprakāśanatvānmṛdutaruṇahastapāda ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyopasthānaparicaryāsnānānulepanasarpitailābhyaṅgasvahastaśarīraparikarmaparikhedatvājjālāṅgulīhastapāda ityucyate / dīrgharātraṃ dānapriyavadyatārthakriyāsamānārthatāsaṃgrahavastujālena sattvasaṃgrahakauśalyaṃsuśikṣitatvāducchaṅgapāda ityucyate / dīrgharātramuttarottari viśiṣṭatarakuśalamūlādhyālambanatvādūrdhvāṅgadakṣiṇāvartaromakūpa ityucate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyatathāgatacaityapradakṣiṇīkaraṇadharmaśravaṇacitrīkāraromaharṣaṇaparasattvasaṃharṣaṇadharmadeśanāprayogatvādeṇeyajaṅgha ityucyate / dīrgharātraṃ satkṛtya dharmaśravaṇagrahaṇadhāraṇavācanavijñāpanārthapadaniścayanistīraṇakauśalyena jarāvyādhimaraṇābhimukhānāṃ ca sattvānāṃ śaraṇagamanānupradānasatkṛtyadharmadeśanāparibhavabuddhitvātkośopagatabastiguhya ityucyate / dīrgharātraṃ śramaṇabrāhmaṇānāṃ tadanyeṣāṃ ca brahmacāriṇāṃ brahmacaryānugrahasarvapariskārānupradānanagnabalānupradānaparadārāgamanabrahmacaryaguṇavarṇasaṃprakāśanahryapatrāpyānupālanadṛḍhasamādānatvātpralambabāhurityucyate / dīrgharātraṃ hastasaṃyatapādasaṃyatasattvāviheṭhanaprayogamaitrakāyakarmavākkarmamanaskarmasamanvāgatatvānnyagrodhaparimaṇḍala ityucyate / dīrgharātraṃ bhojanamātrāṃ jñātā alpāhāratodārasaṃyamaglānabhaiṣajyānupradānahīnajanāparibhavānāthānavamardanatathāgatacaityaviśīrṇapratisaṃskāraṇastūpapratiṣṭhāpanatvādbhayārditebhyaśca sattvebhyo 'bhayapradānatvānmṛdutaruṇasūkṣmacchavirityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṃ snānānulepanasarpistailābhyaṅgaśīte uṣṇodakamuṣṇe śītodakacchāyātapaṛtusukhaparibhogānupradānamṛdutaruṇatūlasaṃsparśasukumāravastrāstīrṇaśayanāsanānupradānatathāgatacaityagandhatailasekasūkṣmapaṭṭadhvajapatākāguṇapradānatvātsuvarṇacchavirityucyate / dīrgharātraṃ sarvasattvāpratighātamaitrībhāvanāyogakṣāntisauratyeparasattvasamādāpanāvairavyāpādaguṇavarṇasaṃprakāśanatayā tathāgatacaityatathāgatapratimānāṃ ca suvarṇakhacanasuvarṇapuṣpasuvarṇacūrṇābhikiraṇasuvarṇavarṇapaṭṭapatākādhvajālaṃkārasuvarṇabhājanasuvarṇavastrānupradānatvādekaikanicitaromakūpa ityucyate / dīrgharātraṃ paṇḍitopasaṃkramaṇakiṃkuśalākuśalaparipṛcchanasāvadyānavadyasevyahīnamadhyapraṇītadharmaparipṛcchanārthamīmāṃsanaparitulanāsaṃmohatathāgatacaityakīṭalūtālayāñjaliyānirmālyanānātṛṇaśarkarāsamuddharaṇasaṃprayogatvātsaptotsada ityucyate / (vaidya 311) dīrgharātraṃ mātāpitṛjyeṣṭhaśreṣṭhapūjyaśramaṇabrāhmaṇakṛpaṇavanīpakādibhya upāgatebhyaḥ satkṛtya yathābhiprāyamannapānāsanavastrāpaśrayapradīpakalpitajīvikapariskārasaṃpradānakūpapuṣkariṇīśītajalaparīpūrṇamahājanopabhogānupradānatvātsiṃhapūrvārdhakāya ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyāvanamanapraṇamanābhivādanābhayapradānadurbalāparibhavaśaraṇāgatāparityāgadṛḍhasargadānānutsargatvāccitāntarāṃsa ityucyate / dīrgharātraṃ svadoṣaparitulanapraskhalitaparachidrādoṣadarśanavivādamūlaparabhedakaramantraparivarjanasupratinissargamantrasvārakṣitavākkarmāntatvātsusaṃvṛttaskandha ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṃ pratyutthānapratyudramanābhivādanakāmānāṃ ca sarvaśāstravaiśāradyena vivādakāmasattvanigrahasvadharmavinayānulomanasamyakpravṛttarājāmātyasamyakpravṛttakuśaladharmapathapratiṣṭhāpanaprabhāvanatathāgataśāsanaparigrahasaṃdhāraṇasarvakuśalacaryāsamādāpana pūrvaṃgamatvātsiṃhahanurityucyate / dīrgharātraṃ sarvavastuparityāgayathābhiprāyayācanakapriyābhidhānamupasaṃkrāntānāṃ cāvimānanājihmīkaraṇāvikṣepaṃ sarveṣāṃ yathābhiprāyaparipūraṇadānaparityāgadṛḍhasamādānānutsargatvāccatvāriṃśatsamadanta ityucyate / dīrgharātraṃ piśunavacanaparivarjanabhedamantrāgrahaṇasaṃdhisāmagrīrocanasamagrāṇāṃ cedācittena piśunavacanavigarhaṇasaṃdhisāmagrīguṇavarṇaprakāśanaprayogatvātsuśukladanta ityucyate / dīrgharātraṃ kṛṣṇapakṣaparivarjanaśuklapakṣakuśalopacayakṛṣṇakarmakṛṣṇavipākaparivarjanaśuklakarmaśuklavipākasaṃvarṇanakṣīrabhojanaśuklavastrapradānatathāgatacaityeṣu sudhākṛtakakṣīramiśrasaṃpradānasumanāvārṣikīdhānuskārimālāguṇapuṣpadāmaśuklavarṇakusumānupradānatvādaviraladanta ityucyate / dīrgharātraṃ hāsyoccaṭyanavivarjanānandakaraṇavāganurakṣaṇānandakaraṇavāgudīraṇaparaskhalitāparachidrāparimārgaṇasarvasattvasamacittasamādāpanasamaprayogasamadharmadeśanadṛḍhasamādānāparityāgatvādrasarasāgravānityucyate / dīrgharātraṃ sarvasattvāviheṭhanāvihiṃsanavividhavyādhispṛṣṭopasthānaglānabhaiṣajyānupradānatvātsarvarasārthikebhyaśca sarvarasapradānāparikhedatvādbahmasvara ityucyate / dīrgharātramanṛtaparuṣakarkaśaśāṭhyaparakaṭukaparābhiṣaṅginyapriyaparamarbhaghaṭṭanavākparivarjanamaitrīkaruṇāprayogamuditāprāmodyakaraṇīsnigdhamamadhuraślakṣṇahṛdayaṃgamasarvendriyaprahlādakaraṇīsamyagvākyasamyakprayogatvādabhinīlanetra ityucyate / dīrgharātraṃ mātāpitṛvatsarvasattvāpratihatacakṣuprayogaikaputravadyācanakamaitrīkāruṇyapūrvaṃgamasaṃprekṣaṇājihmīkaraṇaprasannendriyatathāgatacaityānimiṣanayanasaṃprekṣaṇaparasattvatathāgatadarśanasamādāpanadṛḍhasamādānatvādgopekṣanetra ityucyate / dīrgharātraṃ hīnacetovivarjanodāravipulādhimuktiparipūraṇānuttaradharmachandasattvasamādāpanabhṛkuṭīmukhavivarjanasmitamukhasarvakalyāṇamitropasaṃkramaṇābhimukhapūrvaṃgamasarvakuśalopacayāvaivartikatvāprabhūtajihva ityucyate / dīrgharātraṃ sarvavāgdoṣavivarjanasarvaśrāvakapratyekabuddhadharmabhāṇakāpramāṇaguṇavarṇasaṃprakāśanatathāgatasūtrāntalikhanavācanapaṭhanavijñāpanaṃ teṣāṃ ca dharmāṇāmarthapadaprabhedaparasattvasaṃprāpaṇakauśalyatvāduṣṇīṣānavalokitamūrdha ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṃ mūrdhnāṃ caraṇatalapraṇipatanapravrajitavandanābhivādanakeśāvaropaṇasugandhatailamūrdhnipariṣiñcanaṃ sarvayācanakebhyaścūrṇamālyamālāguṇamūrdhābharaṇānupradānatvād (vaidya 312) bhrūmadhye sujātapradakṣiṇāvartottaptaviśuddhavarṇābhāsorṇa ityucyate / dīrgharātraṃ nirargalasarvayajñayajanasamādapanasarvakalyāṇamitrānuśāsanyanuddharadharmabhāṇakānāṃ dautyaprekṣaṇe diggamanāgamanāparikhedanasarvabuddhabodhisattvaprattyekabuddhāryaśrāvakadharmabhāṇakamātāpitṛgurudakṣiṇīyatamondhakāravidhamanatailadhṛtatṛṇolkāpradīpanānāgandhatailapradīpasarvākāravaropetaprāsādikatathāgatapratimākāraṇakṣīrapratibhāsaratnottīrṇakośapratimaṇḍanaparasattvabodhacittāmukhīkaraṇakuśalasaṃbhāraviśeṣatvānmahāsthāmaprāpta ityucyate / mahānārāyaṇabalopetatvānmahānārāyaṇa ityucyate / koṭīśatamāradharṣaṇabalopetatvātsarvaparapramardaka ityucyate / daśatathāgatabalopetatvāddaśatathāgatabalopeta ityucyate / sthānāsthānajñānakuśalahīnaprādeśikayānavivarjanamahāyānaguṇasamudānayanabalopetātṛptabalaprayogatvātsthānajñānabalopeta ityucyate / …

Verse 26.52 (cont. 2)

… atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvādatītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopeta ityucyate / sarvasattvendriyavīryavimātratājñānabalopetatvātsarvasattvendriyavīryavimātratājñānabalopeta ityucyate / anekadhātunānādhātulokapraveśajñānabalopetatvādanekadhātunānādhātulokapraveśajñānabalopeta ityucyate / anekādhimuktinānādhimuktiniravaśeṣādhimuktivimuktijñānabalopetatvādanekādhimuktinānādhimuktisarvaniravaśeṣādhimuktijñānabalopeta ityucyate / sarvatragāminīpratipajjñānabalopetatvātsarvatragāminīpratipajjñānabalopeta ityucyate / sarvadhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyavasthāpanajñānabalopetatvāsarvadhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyavasthāpanajñānabalopeta ityucyate / anekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopetatvādanekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopeta ityucyate / niravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopetatvānniravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopeta ityucyate / sarvaṃvāsanānusaṃdhigataniravaśeṣasarvāśravakṣayajñānabalopetatvātsarvavāsanānusaṃdhigataniravaśeṣasarvāśravakṣayajñānabalopeta ityucyate / niravaśeṣasarvadharmābhisaṃbuddhapratijñārohaṇasadevalokānabhibhūtapratijñāvaiśāradyaprāptatvānniravaśeṣasarvadharmābhisaṃprabuddhatijñārohaṇasadevaloke 'nabhibhūtapratijñāvaiśāradyaprāpta ityucyate / sarvasāṃkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyetitatpratijñārohaṇasadevake loke 'nāchedyapratijñāvaiśāradyaprāptatvāsarvasāṃkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyeti tatpratijñārohaṇasadevake loke 'nāchedyapratijñāvaiśāradyaprāpta ityucyate / nairyāṇikīṃ pratipadaṃ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke 'praticodyapratijñāvaiśāradyaprāptatvānnairyāṇikīṃ pratipadaṃ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke 'praticodyapratijñāvaiśāradyaprāpta ityucyate / savāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke 'vivartyapratijñāvaiśāradyaprāptatvātsarvāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke 'vivartyapratijñāvaiśāradyaprāpta ityucyate / askhalitapadadharmadeśakatvādaskhalitapadadharmadeśaka ityucyate / arutānabhilāpyadharmasvabhāvānubuddhatvādarutānabhilāpyadharmasvabhāvānubuddha ityucyate / aviratatvādavirata ityucyate / sarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamarthatvātsarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamartha ityucyate / (vaidya 313) amuṣitasmṛtitvādamuṣitasmṛtirityucyate / nānātvasaṃjñāvigatatvānnānātvasaṃjñāvigata ityucyate / sarvacittasamāhitasumāhitasattvātsarvacittasamāhitasusamāhita ityucyate / apratisaṃkhyāsamupekṣakatvādapratisaṃkhyāsamupekṣaka ityucyate / chandasaṃskārasamādhyaparihīnatvācchandasaṃskārasamādhyaparihīna ityucyate / vīryasaṃskārasamādhyanāchedyāparihīnavīryatvādvīryasaṃskārasamādhyaparihīnavīrya ityucyate / smṛtyaparihīnatvādaparihīnasmṛtirityucyate / aparihīnaprajñatvādaparihīnaprajña ityucyate / vimuktyaparihīnatvādaparihīnavimuktirityucyate / vimuktijñānadarśanāprahīnatvādaparihīnavimuktijñānadarśana ityucyate / sarvakāyakarmavākkarmamanaskarmajñānapūrvaṃgamajñānānuparivartisamanvāgatatvātsarvakāyavāṅbhamanaskarmajñānapūrvaṃgamajñānānuparivartijñānasamanvāgata ityucyate / atītānāgatapratyutpanneṣvadhvasvasaṅgāpratihatajñānadarśanasamanvāgatatvāt tryadhvāsaṅgāpratihatajñānadarśanasamanvāgata ityucyate / anāvaraṇavimokṣapratilabdhatvādanāvaraṇavimokṣapratilabdha ityucyate / adhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthitatvodadhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthita ityucyate / yathāpratyarhadharmadeśanākuśalatvādyathāpratyarhadharmadeśanākuśala ityucyate / sarvasvarāṅgamaṇḍalaparamapāramitāprāptatvātsarvasvarāṅgamaṇḍalaparamapāramitāprāpta ityucyate / sarvarutapratirutaniścāraṇakauśalyaprāptatvāddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaruta ityucyate / brahmasvararutaravitanirghoṣa ityucyate / kalaviṅkarutasvara ityucyate / dundubhisaṃgītirutasvara ityucyate / dharaṇītalanirnādanirghoṣasvara ityucyate / sāgaranāgendrameghastanitagarjitaghoṣasvara ityucyate / siṃhavṛṣabhitābhigarjitanirghoṣasvara ityucyate / sarvasattvarutaravitānucaraṇasaṃtoṣaṇasvara ityucyate / asaṅgānāvaraṇasarvaparṣanmaṇḍalābhirādhanasvara ityucyate / ekarutātsarvarutasaṃprāpanasvara ityucyate / brahmendrapūjita ityucyate / devendrasatkṛta ityucyate / nāgendranamaskṛta ityucyate / yakṣendrāvalokitamukhamaṇḍala ityucyate / gandharvendropagīta ityucyate / rākṣasendraprasannendriyāninimiṣanayanasaṃprekṣita ityucyate / asurendrābhipraṇata ityucyate / garuḍendrāvihiṃsāprekṣita ityucyate / kinnarendrābhiṣṭuta ityucyate / mahoragendrābhilaṣitadarśana ityucyate / manujendrābhisaṃpūjita ityucyate / ahargaṇasevita ityucyate / sarvabodhisattvasamādāyakasamuttejakasaṃhaprarṣaka ityucyate / nirāmiṣadharmadeśaka ityucyate / akṣuṇṇapadavyañjanāvandhyadharmadeśaka ityucyate / kālānatikramaṇadharmadeśaka ityucyate / idaṃ tanmaitreya dharmacakrapravartanaṃ tathāgataguṇavarṇapradeśasya yatkiṃcidavatāramātraṃ saṃkṣepeṇa nirdeśitaḥ vistareṇa punamaitreya tathāgataḥ kalpaṃ vā kalpāvaśeṣaṃ vā nirdiśet / na cāsya nirdiśyamānasya paryanto bhavet // atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣat - gambhīraṃ durdṛśaṃ sūkṣmaṃ dharmacakraṃ pravartitam / yatra mārā na gāhante sarve ca paratīrthikāḥ* (26.52)

Verse 26.53

।। अनालयं निष्प्रपञ्चं अनुत्पादमसंभवम् । विविक्तं प्रकृतीशून्यं धर्मचक्रं प्रवर्तितम् ॥ २६.५३ ॥

// anālayaṃ niṣprapañcaṃ anutpādamasaṃbhavam / viviktaṃ prakṛtīśūnyaṃ dharmacakraṃ pravartitam (26.53)

Verse 26.54

।। अनायूहमनिर्यूहमनिमित्तमलक्षणम् । समताधर्मनिर्देशं चक्रं बुद्धेन वर्णितम् ॥ २६.५४ ॥

// anāyūhamaniryūhamanimittamalakṣaṇam / samatādharmanirdeśaṃ cakraṃ buddhena varṇitam (26.54)

Verse 26.55

।। मायामरीचि स्वप्नं च दकचन्द्र प्रतिश्रुत्का । यथैते तथा तच्चक्रं लोकनाथेन वर्तितम् ॥ २६.५५ ॥

// māyāmarīci svapnaṃ ca dakacandra pratiśrutkā / yathaite tathā taccakraṃ lokanāthena vartitam (26.55)

Verse 26.56

।। प्रतीत्यधर्मओतारमनुच्छेदमशाश्वतम् । सर्वदृष्टिसमुच्छेदो धर्मचक्रमिति स्मृतम् ॥ २६.५६ ॥

// pratītyadharmaotāramanucchedamaśāśvatam / sarvadṛṣṭisamucchedo dharmacakramiti smṛtam (26.56)

Verse 26.57

।। आकाशेन सदा तुल्यं निर्विकल्पं प्रभास्वरम् । अनन्तमध्यनिर्देशं धर्मचक्रमिहोच्यते ॥ २६.५७ ॥

// ākāśena sadā tulyaṃ nirvikalpaṃ prabhāsvaram / anantamadhyanirdeśaṃ dharmacakramihocyate (26.57)

Verse 26.58

।। अस्तिनास्तिविनिर्मुक्तमात्म्यनैरात्म्यवर्जितम् । प्रकृत्याजातिनिर्देशं धर्मचक्रमिहोच्यते ॥ २६.५८ ॥

// astināstivinirmuktamātmyanairātmyavarjitam / prakṛtyājātinirdeśaṃ dharmacakramihocyate (26.58)

Verse 26.59

।। भूतकोटीमकोटीं च तथतायां तथत्वतः । अद्वयो धर्मनिर्देशो धर्मचक्रं निरुच्यते ॥ २६.५९ ॥

// bhūtakoṭīmakoṭīṃ ca tathatāyāṃ tathatvataḥ / advayo dharmanirdeśo dharmacakraṃ nirucyate (26.59)

Verse 26.60

।। चक्षुः स्वभावतः शून्यं श्रोतं घ्राणं तथैव च । जिह्वा कायं च चित्तं च शून्यात्मानो निरीहकः ॥ २६.६० ॥

// cakṣuḥ svabhāvataḥ śūnyaṃ śrotaṃ ghrāṇaṃ tathaiva ca / jihvā kāyaṃ ca cittaṃ ca śūnyātmāno nirīhakaḥ (26.60)

Verse 26.61

।। इदं तदीद्दशं चक्रं धर्मचक्रं प्रवर्तितम् । बोधयत्यबुधान् सत्त्वांस्तेन बुद्धो निरुच्यते ॥ २६.६१ ॥

// idaṃ tadīddaśaṃ cakraṃ dharmacakraṃ pravartitam / bodhayatyabudhān sattvāṃstena buddho nirucyate (26.61)

Verse 26.62

।। स्वयं मयानुबुद्धो ऽयं स्वभावो धर्मलक्षणम् । ऋते परोपदेशेन स्वयंभूस्तथ चक्षुमान् ॥ २६.६२ ॥

// svayaṃ mayānubuddho 'yaṃ svabhāvo dharmalakṣaṇam / ṛte paropadeśena svayaṃbhūstatha cakṣumān (26.62)

Verse 26.63

।। सर्वधर्मवशिप्राप्तो धर्मस्वामी निरुच्यते । नयानयज्ञो धर्मेषु नायकस्तेन चोच्यते ॥ २६.६३ ॥

// sarvadharmavaśiprāpto dharmasvāmī nirucyate / nayānayajño dharmeṣu nāyakastena cocyate (26.63)

Verse 26.64

।। यथा भवन्ति वैनेया विनयाम्यमितां जनां । विनेयपारमिप्राप्तस्तेन प्रोक्तो विनायकः ॥ २६.६४ ॥

// yathā bhavanti vaineyā vinayāmyamitāṃ janāṃ / vineyapāramiprāptastena prokto vināyakaḥ (26.64)

Verse 26.65

।। नष्टमार्गा हि ये सत्त्वा मार्गं देशेमि उत्तमम् । नयामि पारिमं तीरं तस्मादस्मि विनायकः ॥ २६.६५ ॥

// naṣṭamārgā hi ye sattvā mārgaṃ deśemi uttamam / nayāmi pārimaṃ tīraṃ tasmādasmi vināyakaḥ (26.65)

Verse 26.66

।। संग्रहावस्तुज्ञानेन संगृह्य जनतामहम् । संसाराटविनिस्तीर्णः सार्थवाहस्ततो ह्यहम् ॥ २६.६६ ॥

// saṃgrahāvastujñānena saṃgṛhya janatāmaham / saṃsārāṭavinistīrṇaḥ sārthavāhastato hyaham (26.66)

Verse 26.67

।। वशवर्ती सर्वधर्मेषु तेन धर्मेश्वरो जिनः । धर्मचक्रं प्रवर्तित्वा धर्मराजो निरुच्यते ॥ २६.६७ ॥

// vaśavartī sarvadharmeṣu tena dharmeśvaro jinaḥ / dharmacakraṃ pravartitvā dharmarājo nirucyate (26.67)

Verse 26.68

।। धर्मदानपतिः शास्ता धर्मस्वामी निरुत्तरः । सुयष्टयज्ञसिद्धार्थः पूर्णाशः सिद्धमङ्गलः ॥ २६.६८ ॥

// dharmadānapatiḥ śāstā dharmasvāmī niruttaraḥ / suyaṣṭayajñasiddhārthaḥ pūrṇāśaḥ siddhamaṅgalaḥ (26.68)

Verse 26.69

।। आश्वासकः क्षेमदर्शी शूरो महारणंजहः । उत्तीर्णसर्वसंग्रामो मुक्तो मोचयिता प्रजाः ॥ २६.६९ ॥

// āśvāsakaḥ kṣemadarśī śūro mahāraṇaṃjahaḥ / uttīrṇasarvasaṃgrāmo mukto mocayitā prajāḥ (26.69)

Verse 26.70

।। आलोकभूतो लोकस्य प्रज्ञाज्ञानप्रभंकरः । अज्ञानतमसो हन्ता उल्काधारि महाप्रभः ॥ २६.७० ॥

// ālokabhūto lokasya prajñājñānaprabhaṃkaraḥ / ajñānatamaso hantā ulkādhāri mahāprabhaḥ (26.70)

Verse 26.71

।। महावैद्यो महाज्ञानी महाक्लेशचिकित्सकः । सत्त्वानां क्लेशविद्धानां शल्यहर्ता निरुत्तरः ॥ २६.७१ ॥

// mahāvaidyo mahājñānī mahākleśacikitsakaḥ / sattvānāṃ kleśaviddhānāṃ śalyahartā niruttaraḥ (26.71)

Verse 26.72

।। सर्वलक्षणसंपन्नः सर्वव्यञ्जनशोभितः । समन्तभद्रकायेन हीनानां चानुवर्तकः ॥ २६.७२ ॥

// sarvalakṣaṇasaṃpannaḥ sarvavyañjanaśobhitaḥ / samantabhadrakāyena hīnānāṃ cānuvartakaḥ (26.72)

Verse 26.73

।। दशभिर्बलभिर्बलवान् वैशारद्यविशारदः । आवेणिकैरष्टदशै अग्रयानी महामुनिः ॥ २६.७३ ॥

// daśabhirbalabhirbalavān vaiśāradyaviśāradaḥ / āveṇikairaṣṭadaśai agrayānī mahāmuniḥ (26.73)

Verse 26.74

।। एष संक्षेपनिर्देशो धर्मचक्रप्रवर्तने । तथागतगुणवर्णः परीत्तो ऽयं प्रकाशितः ॥ २६.७४ ॥

// eṣa saṃkṣepanirdeśo dharmacakrapravartane / tathāgataguṇavarṇaḥ parītto 'yaṃ prakāśitaḥ (26.74)

Verse 26.75

।। बुद्धज्ञानमनन्तं हि आकाशविपुलं समम् । क्षपयेत्कल्प भाषन्तो न च बुद्धगुणक्षयः ॥ २६.७५ ॥

// buddhajñānamanantaṃ hi ākāśavipulaṃ samam / kṣapayetkalpa bhāṣanto na ca buddhaguṇakṣayaḥ (26.75)