27. Chapter 27
Verse 27.1
।। इति ।। इति श्रीललितविस्तरे धर्मचक्रप्रवर्तनपरिवर्तो नाम षड्विंशतितमो ऽध्यायः ।। स्तर्त् परिवर्त २७ निगमपरिवर्तः सप्तविंशः । अथ खलु देवपुत्रा यैस्तथागतो ऽधीष्टो ऽभूदस्य धर्मपर्यायस्य संप्रकाशनाय सह महेश्वरनन्दसुनन्दचन्दनमहितशान्तप्रशान्तविनीतेश्वरप्रमुखा अष्टादशः शुद्धावासकायिका देवपुत्रसहस्राणि ये तथागतस्य धर्मचक्रप्रवर्तने ऽपि संनिपतिता अभूवन् । तत्र भगवांस्तान् महेश्वरदेवपुत्रप्रमुखान् शुद्धावासकायिकान् देवपुत्रानामन्त्रयते स्म - अयं स मार्षा ललितविस्तरो नाम धर्मपर्यायसूत्रान्तो महावैपुल्यबोधिसत्त्वविक्रीडितः बुद्धविषये ललितप्रवेश आत्मोपनायिकस्तथागतेन भाषितः । तं यूयमुद्गृह्णीध्वं धारयत वाचयत च । एवमियं धर्मनेत्री वैस्तारिकी भविष्यति । बोधिसत्त्वयानिकाश्च पुद्गला इमं धर्मपर्यायं श्रुत्वा दृढतरं वीर्यमालप्स्यन्ते । अनुत्तरायां सम्यक्संबोधावुदाराधिमुक्तिकाश्च सत्त्वा महाधर्मवर्षवेगं संजानयिष्यन्ति । मारपक्षश्च निगृहीतो भविष्यति । सर्वपरप्रवादिनश्चावतारं न लप्स्यन्ते । युष्माकं च तद्धर्मदेशनाध्येषणा कुशलमूलं महार्थिकं भविष्यति महाफलं महानुशंसम् ।। यः कश्चिन्मार्षा अस्य ललितविस्तरस्य धर्मपर्यायस्याञ्जलिं संप्रगृहीतं करिष्यति, सो ऽष्टावुत्कृष्टान् धर्मान् प्रतिलप्स्यते । कतमानष्टौ? तद्यथा - उत्कृष्ट रूपं प्रतिलप्स्यते । उत्कृष्टबलं प्रतिलप्स्यते । उत्कृष्टपरिवारं प्रतिलप्स्यते । उत्कृष्टप्रतिभानं प्रतिलप्स्यते । उत्कृष्टनैष्क्रम्यं प्रतिलप्स्यते । उत्कृष्टचित्तपरिशुद्धिं प्रतिलप्स्यते । उत्कृष्टसमाधिपदं प्रतिलप्स्यते । उत्कृष्टप्रज्ञावभासं प्रतिलप्स्यते । इमान्यष्टावुत्कृष्टान् धर्मान् प्रतिलप्स्यते ।। यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं भाषितुकामस्य धर्मभाणकस्य धर्मासनं प्रज्ञापयिष्यति, तस्याष्टावासनप्रतिलम्भाः प्रतिकाङ्क्षितव्याः सहप्रज्ञप्ते आसने । कतमे ऽष्टौ? तद्यथा - श्रेष्ठ्यासनप्रतिलम्भः । गृहपत्यासनप्रतिलम्भः । चक्रवर्त्यासनप्रतिलम्भः । लोकपालासनप्रतिलम्भः । शक्रासनप्रतिलम्भः । वशवर्त्यासनप्रतिलम्भः । ब्रह्मासनप्रतिलम्भः । बोधिमण्डवराग्रगतस्य बोधिसत्त्वभूतस्याप्रत्युदावर्त्यनिहतमारप्रत्यर्थिकसिंहासनप्रतिलम्भः । अनुत्तरासम्यक्संबोधिमभिसंबुद्धस्य अतो ऽनुत्तरधर्मचक्रप्रवर्तनासनप्रतिलम्भश्च प्रतिकाङ्क्षितव्यः । इमे ऽष्टावासनप्रतिलम्भाः प्रतिकाङ्क्षितव्याः ।। य कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं भाषमाणाय साधुकारं दास्यति, सो ऽष्टौ वाक्परिशुद्धीः प्रतिलप्स्यते । कतमा अष्टौ? तद्यथा - यथावादितथाकारितां सत्यानुपरिवर्तिवाक्कर्मपरिशुद्ध्या । आदेयवचनतां पर्षदभिभवनतया । ग्राह्यवचनतां अनुद्धुरतया । श्लक्ष्णमधुरवचनतां अपारुष्यसत्त्वसंग्रहणतया । कलविङ्करुतस्वरतां कायचित्तोद्बिल्यकरणतया । तदुक्तवचनतां सर्वसत्त्वैरनभिभवनतया । ब्रह्मस्वरतां सर्वस्वराभिभवनतया । सिंहघोषाभिगर्जितस्वरतां सर्वपरप्रवादिभिरनभिभवनतया । (वैद्य ३१७) बुद्धस्वरतां सर्वसत्त्वेन्द्रियपरितोषणतया । इमा अष्टौ वाक्कर्मपरिशुद्धीः प्रतिलप्स्यते ।। यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं पुस्तकलिखितं कृत्वा धारयिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, अमात्सर्यचित्ततया चतुर्दिशमस्य धर्मपर्यायस्य वर्णनां भाषिष्यते वर्णनां चोच्चारयिष्यति - आगच्छतेमं धर्मपर्यायं लिखितं धारयत वाचयत चिन्तयत स्वाध्यायतेति, सो अष्टौ महानिधानानि प्रतिलप्स्यते । कतमान्यष्टौ महानिधानानि? यदुत स्मृतिनिधानं असंमोषणतया । मतिनिधानं बुद्धिप्रभेदनतया । गतिनिधानं सर्वसूत्रान्तार्थगत्यनुरागतया । धारणीनिधानं सर्वश्रुताधारणतया । प्रतिभाननिधानं प्रतिलभते सर्वसत्त्वसुभाषितसंभाषणतया । धर्मनिधानं प्रतिलभते सद्धर्मप्रतिलक्षणतया । बोधिचित्तनिधानं त्रिरत्नवंशानुपच्छेदनतया । प्रतिपत्तिनिधानं चानुत्पत्तिकधर्मक्षान्तिप्रतिलम्भतया । इमान्यष्टौ निधानानि प्रतिलप्स्यते ।। यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं सुप्रवर्तितं कृत्वा धारयिष्यति, सो ऽष्टौ संभारान् परिपुरयिष्यति । कतमानष्टौ? तद्यथा - यदुत दानसंभारं परिपूरयिष्यति अमात्सर्यचित्ततया । शीलसंभारं परिपूरयिष्यति सर्वकल्याणाभिप्रायपरिपूरणतया । श्रुतसंभारं परिपूरयिष्यति असङ्गप्रज्ञासमुदानयनतया । शमथसंभारं परिपूरयिष्यति सर्वसमाधिसमापत्त्यामुखीकरणतया । विदर्शनासंभारं परिपूरयिष्यति त्रैविद्यविद्याप्रतिपूर्या । पुण्यसंभारं परिपूरयिष्यति लक्षणानुव्यञ्जनबुद्धक्षेत्रालंकारविशुद्ध्या । ज्ञानसंभारं परिपूरयिष्यति सर्वसत्त्वयथाधिमुक्तिसंतोषणतया । महाकरुणा संभारं परिपूरयिष्यति सर्वसत्त्वपरिपाचनापरिखेदतया । इमानष्टौ संभारान् परिपूरयिष्यति ।। यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, एवंचित्तो यदुत कथममी सत्त्वा एषामेवरूपाणां धर्माणां लाभिनो भवेयुरिति, स तेन कुशलमूलेनाष्टौ महापुण्यताः प्रतिलप्स्यते । कतमा अष्टौ? तद्यथा - राजा भवति चक्रवर्ती, इयं प्रथमा महापुण्यता । चतुर्महाराजकायिकानां देवानामाधिपत्यं कारयिष्यति, इयं द्वितीया महापुण्यता । शक्रो भविष्यति देवेन्द्रः इयं तृतीया महापुण्यता । सुयामो भविष्यति देवपुत्रः, इयं चतुर्थी महापुण्यता संतुषितो भविष्यति, इयं पञ्चमी महापुण्यता । सुनिर्मितो भविष्यति, इयं षष्ठी महापुण्यता । वशवर्ती भविष्यति देवराजः, इयं सप्तमी महापुण्यता । ब्रह्मा भविष्यति महाब्रह्मा, इयं अष्टमी महापुण्यता । अन्ते च तथागतो भविष्यति अर्हन् सम्यक्संबुद्धः सर्वाकुशलधर्मप्रहीनः सर्वकुशलधर्मसमन्वागतः । इमा अष्टौ महापुण्यताः प्रतिलप्स्यते ।। यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं भाष्यमाणमवहितश्रोतः श्रोष्यति, सो ऽष्टौ चित्तनिर्मलताः प्रतिलप्स्यते । कतमा अष्टौ? तद्यथा - यदुत मैत्रीं प्रतिलप्स्यते सर्वदोषनिर्घाताय । करुणां प्रतिलप्स्यते सर्वविहिंसोत्सर्गाय । मुदितां प्रतिलप्स्यते सर्वारत्यपकर्षणतायै । उपेक्षां प्रतिलप्स्यते अनुनयप्रतिघोत्सर्गाय । चत्वारि ध्यानानि प्रतिलप्स्यते सर्वरूपधातुवशवर्तितायै । चतस्र (वैद्य ३१८) आरूप्यसमापत्तीः प्रतिलप्स्यते चित्तवशवर्तितायै । पञ्चाभिज्ञाः प्रतिलप्स्यते अन्यबुद्धक्षेत्रगमनतायै । सर्ववासनानुसंधिसमुद्धारं प्रतिलप्स्यते शूरंगमसमाधिप्रतिलम्भाय । इमा अष्टौ चित्तनिर्मलताः प्रतिलप्स्यते ।। यस्मिंश्च मार्षा ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वा चंक्रमे वा विहारे वा अयं ललितविस्तरो धर्मपर्यायः प्रचरिष्यति, तत्राष्टौ भयानि न प्रभविष्यन्ति स्थापयित्वा पूर्वकर्मविपाकम् । कतमान्यष्टौ? तद्यथा - यदुत राजसंक्षोभभयं न भविष्यति । चौरसंक्षोभभयं न भविष्यति । व्यालसंक्षोभभयं न भविष्यति । दुर्भिक्षकान्तारसंक्षोभभयं न भविष्यति । अन्योन्यकलहविवादविग्रहसंक्षोभभयं न भविष्यति । देवसंक्षोभभयं न भविष्यति । नागसंक्षोभभयं न भविष्यति । यक्षसंक्षोभभयं न भविष्यति । सर्वोपद्रवसंक्षोभभयं न भविष्यति । इमानि मार्षास्तत्राष्टौ भयानि न भविष्यन्ति (स्थापयित्वा पूर्वकर्मविपाकम्) ।। संक्षेपान्मार्षा यदि तथागतः कल्पस्थितिकेनायुष्प्रमाणेन रात्रिंदिवमधिष्ठमानो ऽस्य धर्मपर्यायस्य वर्णं भाषते, नैवास्य धर्मपर्यायस्य वर्णपर्यन्तो भवेन्न च तथागतप्रतिभानस्य क्षयो भवेत् । अपि तु खलु पुनर्मार्षा यथैव तथागतस्य शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनमप्रमाणमपर्यन्तम्, एवमेव मार्षा य इमं धर्मपर्यायमुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति लिखिष्यति लेखयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति, पर्षन्मध्ये च विस्तरेण संप्रकाशयिष्यति - अनेन चित्तेन कथममी सत्त्वा एवमुदारस्य धर्मस्य लाभिनः स्युरिति, तेषामपि नास्ति पुण्यपर्यन्तः ।। ततः खलु भगवानायुष्मन्तं महाकाश्यपमामन्त्रयते स्म आयुष्मन्तं चानन्दं मैत्रेयं च बोधिसत्त्वं महासत्त्वम् - इमामहं मार्षा असंख्येयकल्पकोटिनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिदाम्यनुपरिन्दामि परमया परिन्दनया, स्वयं चैवमिमं धर्मपर्यायं धारयत, परेभ्यश्च विस्तरेण संप्रकाशयत ।। इत्युक्त्वा च भगवानस्यैव धर्मपर्यायस्य भूयस्या मात्रयानुपरिन्दनार्थं तस्यां वेलायामिमां गाथामभाषत - सत्त्वा दृष्टा ये मया बुद्धदृष्ट्या स्युस्ते ऽर्हन्तः शरिपुत्रेण तुल्याः । तांश्चेत्कश्चित्पूजयेत्कल्पकोटी तुल्यां गङ्गावालिकाभियथैव ॥ २७.१ ॥
// iti // iti śrīlalitavistare dharmacakrapravartanaparivarto nāma ṣaḍviṃśatitamo 'dhyāyaḥ // start parivarta 27 nigamaparivartaḥ saptaviṃśaḥ / atha khalu devaputrā yaistathāgato 'dhīṣṭo 'bhūdasya dharmaparyāyasya saṃprakāśanāya saha maheśvaranandasunandacandanamahitaśāntapraśāntavinīteśvarapramukhā aṣṭādaśaḥ śuddhāvāsakāyikā devaputrasahasrāṇi ye tathāgatasya dharmacakrapravartane 'pi saṃnipatitā abhūvan / tatra bhagavāṃstān maheśvaradevaputrapramukhān śuddhāvāsakāyikān devaputrānāmantrayate sma - ayaṃ sa mārṣā lalitavistaro nāma dharmaparyāyasūtrānto mahāvaipulyabodhisattvavikrīḍitaḥ buddhaviṣaye lalitapraveśa ātmopanāyikastathāgatena bhāṣitaḥ / taṃ yūyamudgṛhṇīdhvaṃ dhārayata vācayata ca / evamiyaṃ dharmanetrī vaistārikī bhaviṣyati / bodhisattvayānikāśca pudgalā imaṃ dharmaparyāyaṃ śrutvā dṛḍhataraṃ vīryamālapsyante / anuttarāyāṃ samyaksaṃbodhāvudārādhimuktikāśca sattvā mahādharmavarṣavegaṃ saṃjānayiṣyanti / mārapakṣaśca nigṛhīto bhaviṣyati / sarvaparapravādinaścāvatāraṃ na lapsyante / yuṣmākaṃ ca taddharmadeśanādhyeṣaṇā kuśalamūlaṃ mahārthikaṃ bhaviṣyati mahāphalaṃ mahānuśaṃsam // yaḥ kaścinmārṣā asya lalitavistarasya dharmaparyāyasyāñjaliṃ saṃpragṛhītaṃ kariṣyati, so 'ṣṭāvutkṛṣṭān dharmān pratilapsyate / katamānaṣṭau? tadyathā - utkṛṣṭa rūpaṃ pratilapsyate / utkṛṣṭabalaṃ pratilapsyate / utkṛṣṭaparivāraṃ pratilapsyate / utkṛṣṭapratibhānaṃ pratilapsyate / utkṛṣṭanaiṣkramyaṃ pratilapsyate / utkṛṣṭacittapariśuddhiṃ pratilapsyate / utkṛṣṭasamādhipadaṃ pratilapsyate / utkṛṣṭaprajñāvabhāsaṃ pratilapsyate / imānyaṣṭāvutkṛṣṭān dharmān pratilapsyate // yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ bhāṣitukāmasya dharmabhāṇakasya dharmāsanaṃ prajñāpayiṣyati, tasyāṣṭāvāsanapratilambhāḥ pratikāṅkṣitavyāḥ sahaprajñapte āsane / katame 'ṣṭau? tadyathā - śreṣṭhyāsanapratilambhaḥ / gṛhapatyāsanapratilambhaḥ / cakravartyāsanapratilambhaḥ / lokapālāsanapratilambhaḥ / śakrāsanapratilambhaḥ / vaśavartyāsanapratilambhaḥ / brahmāsanapratilambhaḥ / bodhimaṇḍavarāgragatasya bodhisattvabhūtasyāpratyudāvartyanihatamārapratyarthikasiṃhāsanapratilambhaḥ / anuttarāsamyaksaṃbodhimabhisaṃbuddhasya ato 'nuttaradharmacakrapravartanāsanapratilambhaśca pratikāṅkṣitavyaḥ / ime 'ṣṭāvāsanapratilambhāḥ pratikāṅkṣitavyāḥ // ya kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ bhāṣamāṇāya sādhukāraṃ dāsyati, so 'ṣṭau vākpariśuddhīḥ pratilapsyate / katamā aṣṭau? tadyathā - yathāvāditathākāritāṃ satyānuparivartivākkarmapariśuddhyā / ādeyavacanatāṃ parṣadabhibhavanatayā / grāhyavacanatāṃ anuddhuratayā / ślakṣṇamadhuravacanatāṃ apāruṣyasattvasaṃgrahaṇatayā / kalaviṅkarutasvaratāṃ kāyacittodbilyakaraṇatayā / taduktavacanatāṃ sarvasattvairanabhibhavanatayā / brahmasvaratāṃ sarvasvarābhibhavanatayā / siṃhaghoṣābhigarjitasvaratāṃ sarvaparapravādibhiranabhibhavanatayā / (vaidya 317) buddhasvaratāṃ sarvasattvendriyaparitoṣaṇatayā / imā aṣṭau vākkarmapariśuddhīḥ pratilapsyate // yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ pustakalikhitaṃ kṛtvā dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, amātsaryacittatayā caturdiśamasya dharmaparyāyasya varṇanāṃ bhāṣiṣyate varṇanāṃ coccārayiṣyati - āgacchatemaṃ dharmaparyāyaṃ likhitaṃ dhārayata vācayata cintayata svādhyāyateti, so aṣṭau mahānidhānāni pratilapsyate / katamānyaṣṭau mahānidhānāni? yaduta smṛtinidhānaṃ asaṃmoṣaṇatayā / matinidhānaṃ buddhiprabhedanatayā / gatinidhānaṃ sarvasūtrāntārthagatyanurāgatayā / dhāraṇīnidhānaṃ sarvaśrutādhāraṇatayā / pratibhānanidhānaṃ pratilabhate sarvasattvasubhāṣitasaṃbhāṣaṇatayā / dharmanidhānaṃ pratilabhate saddharmapratilakṣaṇatayā / bodhicittanidhānaṃ triratnavaṃśānupacchedanatayā / pratipattinidhānaṃ cānutpattikadharmakṣāntipratilambhatayā / imānyaṣṭau nidhānāni pratilapsyate // yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ supravartitaṃ kṛtvā dhārayiṣyati, so 'ṣṭau saṃbhārān paripurayiṣyati / katamānaṣṭau? tadyathā - yaduta dānasaṃbhāraṃ paripūrayiṣyati amātsaryacittatayā / śīlasaṃbhāraṃ paripūrayiṣyati sarvakalyāṇābhiprāyaparipūraṇatayā / śrutasaṃbhāraṃ paripūrayiṣyati asaṅgaprajñāsamudānayanatayā / śamathasaṃbhāraṃ paripūrayiṣyati sarvasamādhisamāpattyāmukhīkaraṇatayā / vidarśanāsaṃbhāraṃ paripūrayiṣyati traividyavidyāpratipūryā / puṇyasaṃbhāraṃ paripūrayiṣyati lakṣaṇānuvyañjanabuddhakṣetrālaṃkāraviśuddhyā / jñānasaṃbhāraṃ paripūrayiṣyati sarvasattvayathādhimuktisaṃtoṣaṇatayā / mahākaruṇā saṃbhāraṃ paripūrayiṣyati sarvasattvaparipācanāparikhedatayā / imānaṣṭau saṃbhārān paripūrayiṣyati // yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ parebhyaśca vistareṇa saṃprakāśayiṣyati, evaṃcitto yaduta kathamamī sattvā eṣāmevarūpāṇāṃ dharmāṇāṃ lābhino bhaveyuriti, sa tena kuśalamūlenāṣṭau mahāpuṇyatāḥ pratilapsyate / katamā aṣṭau? tadyathā - rājā bhavati cakravartī, iyaṃ prathamā mahāpuṇyatā / caturmahārājakāyikānāṃ devānāmādhipatyaṃ kārayiṣyati, iyaṃ dvitīyā mahāpuṇyatā / śakro bhaviṣyati devendraḥ iyaṃ tṛtīyā mahāpuṇyatā / suyāmo bhaviṣyati devaputraḥ, iyaṃ caturthī mahāpuṇyatā saṃtuṣito bhaviṣyati, iyaṃ pañcamī mahāpuṇyatā / sunirmito bhaviṣyati, iyaṃ ṣaṣṭhī mahāpuṇyatā / vaśavartī bhaviṣyati devarājaḥ, iyaṃ saptamī mahāpuṇyatā / brahmā bhaviṣyati mahābrahmā, iyaṃ aṣṭamī mahāpuṇyatā / ante ca tathāgato bhaviṣyati arhan samyaksaṃbuddhaḥ sarvākuśaladharmaprahīnaḥ sarvakuśaladharmasamanvāgataḥ / imā aṣṭau mahāpuṇyatāḥ pratilapsyate // yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ bhāṣyamāṇamavahitaśrotaḥ śroṣyati, so 'ṣṭau cittanirmalatāḥ pratilapsyate / katamā aṣṭau? tadyathā - yaduta maitrīṃ pratilapsyate sarvadoṣanirghātāya / karuṇāṃ pratilapsyate sarvavihiṃsotsargāya / muditāṃ pratilapsyate sarvāratyapakarṣaṇatāyai / upekṣāṃ pratilapsyate anunayapratighotsargāya / catvāri dhyānāni pratilapsyate sarvarūpadhātuvaśavartitāyai / catasra (vaidya 318) ārūpyasamāpattīḥ pratilapsyate cittavaśavartitāyai / pañcābhijñāḥ pratilapsyate anyabuddhakṣetragamanatāyai / sarvavāsanānusaṃdhisamuddhāraṃ pratilapsyate śūraṃgamasamādhipratilambhāya / imā aṣṭau cittanirmalatāḥ pratilapsyate // yasmiṃśca mārṣā grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā caṃkrame vā vihāre vā ayaṃ lalitavistaro dharmaparyāyaḥ pracariṣyati, tatrāṣṭau bhayāni na prabhaviṣyanti sthāpayitvā pūrvakarmavipākam / katamānyaṣṭau? tadyathā - yaduta rājasaṃkṣobhabhayaṃ na bhaviṣyati / caurasaṃkṣobhabhayaṃ na bhaviṣyati / vyālasaṃkṣobhabhayaṃ na bhaviṣyati / durbhikṣakāntārasaṃkṣobhabhayaṃ na bhaviṣyati / anyonyakalahavivādavigrahasaṃkṣobhabhayaṃ na bhaviṣyati / devasaṃkṣobhabhayaṃ na bhaviṣyati / nāgasaṃkṣobhabhayaṃ na bhaviṣyati / yakṣasaṃkṣobhabhayaṃ na bhaviṣyati / sarvopadravasaṃkṣobhabhayaṃ na bhaviṣyati / imāni mārṣāstatrāṣṭau bhayāni na bhaviṣyanti (sthāpayitvā pūrvakarmavipākam) // saṃkṣepānmārṣā yadi tathāgataḥ kalpasthitikenāyuṣpramāṇena rātriṃdivamadhiṣṭhamāno 'sya dharmaparyāyasya varṇaṃ bhāṣate, naivāsya dharmaparyāyasya varṇaparyanto bhavenna ca tathāgatapratibhānasya kṣayo bhavet / api tu khalu punarmārṣā yathaiva tathāgatasya śīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṣā ya imaṃ dharmaparyāyamudgrahīṣyati dhārayiṣyati vācayiṣyati likhiṣyati lekhayiṣyati paryavāpsyati pravartayiṣyati, parṣanmadhye ca vistareṇa saṃprakāśayiṣyati - anena cittena kathamamī sattvā evamudārasya dharmasya lābhinaḥ syuriti, teṣāmapi nāsti puṇyaparyantaḥ // tataḥ khalu bhagavānāyuṣmantaṃ mahākāśyapamāmantrayate sma āyuṣmantaṃ cānandaṃ maitreyaṃ ca bodhisattvaṃ mahāsattvam - imāmahaṃ mārṣā asaṃkhyeyakalpakoṭinayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste paridāmyanuparindāmi paramayā parindanayā, svayaṃ caivamimaṃ dharmaparyāyaṃ dhārayata, parebhyaśca vistareṇa saṃprakāśayata // ityuktvā ca bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayānuparindanārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata - sattvā dṛṣṭā ye mayā buddhadṛṣṭyā syuste 'rhantaḥ śariputreṇa tulyāḥ / tāṃścetkaścitpūjayetkalpakoṭī tulyāṃ gaṅgāvālikābhiyathaiva (27.1)
Verse 27.2
।। प्रत्येकबुद्धाय तु यश्च पूजां कुयादहोरात्रमपि प्रहृष्टः । माल्यैः प्रकारैश्च तथापरैश्च तस्मादयं पुण्यकृतो विशिष्यते ॥ २७.२ ॥
// pratyekabuddhāya tu yaśca pūjāṃ kuyādahorātramapi prahṛṣṭaḥ / mālyaiḥ prakāraiśca tathāparaiśca tasmādayaṃ puṇyakṛto viśiṣyate (27.2)
Verse 27.3
।। स्युः सर्वसत्त्वा यदि प्रत्ययैर्जिना तां पूजयेत्कश्चिदिहाप्रमत्तः । पुष्पैश्च गन्धैश्च विलेपनैश्च कल्पाननेकां सततं हि तत्परम् ॥ २७.३ ॥
// syuḥ sarvasattvā yadi pratyayairjinā tāṃ pūjayetkaścidihāpramattaḥ / puṣpaiśca gandhaiśca vilepanaiśca kalpānanekāṃ satataṃ hi tatparam (27.3)
Verse 27.4
।। एकस्य यश्चैव तथागतस्य कुर्यात्प्रणामं अपि चैकशो ऽपि । प्रसन्नाचित्तो ऽथ वदेन्नमो ऽर्हते तस्मादिदं श्रेष्ठतरं च पुण्यम् ॥ २७.४ ॥
// ekasya yaścaiva tathāgatasya kuryātpraṇāmaṃ api caikaśo 'pi / prasannācitto 'tha vadennamo 'rhate tasmādidaṃ śreṣṭhataraṃ ca puṇyam (27.4)
Verse 27.5
।। बुद्धा भवेयुर्यदि सर्वसत्त्वा तां पूजयेद्यश्च यथैव पूर्वम् । दिव्यैश्च पुष्पैरथ मानुर्षैर्वरैः कल्पाननेकां बहुभिः प्रकारैः ॥ २७.५ ॥
// buddhā bhaveyuryadi sarvasattvā tāṃ pūjayedyaśca yathaiva pūrvam / divyaiśca puṣpairatha mānurṣairvaraiḥ kalpānanekāṃ bahubhiḥ prakāraiḥ (27.5)
Verse 27.6
।। यश्चैव सद्धर्मविलोपकात्ले त्यक्त्वा स्वकाये च तथैव जीवितम् । वद्यादहोरात्रमिदं हि सूत्रं विशिष्यते पुण्यमिदं हि तस्मात् ॥ २७.६ ॥
// yaścaiva saddharmavilopakātle tyaktvā svakāye ca tathaiva jīvitam / vadyādahorātramidaṃ hi sūtraṃ viśiṣyate puṇyamidaṃ hi tasmāt (27.6)
Verse 27.7
।। यस्येप्सितं पूजयितुं विनायकां प्रत्येकबुद्धांश्च तथैव श्रावकां । दृढं समुत्पाद्य स बोधिचित्त इदं सदा सूत्रवरं दधातु ॥ २७.७ ॥
// yasyepsitaṃ pūjayituṃ vināyakāṃ pratyekabuddhāṃśca tathaiva śrāvakāṃ / dṛḍhaṃ samutpādya sa bodhicitta idaṃ sadā sūtravaraṃ dadhātu (27.7)
Verse 27.8
।। राजा ह्ययं सर्वसुभाषितानां यो ऽभ्युद्गतः सर्वतथागतानाम् । गृहे स्थितस्तस्य तथागतः सदा तिष्ठेदिदं यत्र हि सूत्ररत्नम् ॥ २७.८ ॥
// rājā hyayaṃ sarvasubhāṣitānāṃ yo 'bhyudgataḥ sarvatathāgatānām / gṛhe sthitastasya tathāgataḥ sadā tiṣṭhedidaṃ yatra hi sūtraratnam (27.8)
Verse 27.9
।। प्रतिभां स प्राप्नोति शुभामनन्तां एकं पदं वक्ष्यति कल्पकोटी । न व्यञ्जना भ्रश्यति नापि चार्था दद्याच्च यः सूत्रमिद परेभ्यः ॥ २७.९ ॥
// pratibhāṃ sa prāpnoti śubhāmanantāṃ ekaṃ padaṃ vakṣyati kalpakoṭī / na vyañjanā bhraśyati nāpi cārthā dadyācca yaḥ sūtramida parebhyaḥ (27.9)
Verse 27.10
।। अनुत्तरो ऽसौ नरनायकानां सत्त्वो न कश्चित्सदृशो ऽस्य विद्यते । भवेत्समुद्रेण समश्च सो ऽक्षयः श्रुत्वा हि यो धर्ममिमं प्रपद्यते ॥ २७.१० ॥
// anuttaro 'sau naranāyakānāṃ sattvo na kaścitsadṛśo 'sya vidyate / bhavetsamudreṇa samaśca so 'kṣayaḥ śrutvā hi yo dharmamimaṃ prapadyate (27.10)
Passage 11
।। इति ।। इदमवोचद्भगवानात्तमनाः । ते महेश्वरदेवपुत्रपूर्वंगमाः शुद्धावासकायिका देवपुत्रा मैत्रेयपूर्वंगमाश्च सर्वबोधिसत्त्वा महासत्त्वा महाकाश्यपपूर्वंगमाश्च सर्वमहाश्रावकाः सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन् ।। इति ।। ।। इति श्रीललितविस्तरे निगमपरिवर्तो नाम सप्तविंशतितमो ऽध्यायः ।। समाप्तं चेदं सर्वबोधिसत्त्वचर्याप्रस्थानम् ।। ।। श्रीललितविस्तरो नाम महायानसूत्रं रत्नराजं परिसमाप्तम् ।। * * * * * ये धर्म हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवं वादी महाश्रमणः
// iti // idamavocadbhagavānāttamanāḥ / te maheśvaradevaputrapūrvaṃgamāḥ śuddhāvāsakāyikā devaputrā maitreyapūrvaṃgamāśca sarvabodhisattvā mahāsattvā mahākāśyapapūrvaṃgamāśca sarvamahāśrāvakāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan // iti // // iti śrīlalitavistare nigamaparivarto nāma saptaviṃśatitamo 'dhyāyaḥ // samāptaṃ cedaṃ sarvabodhisattvacaryāprasthānam // // śrīlalitavistaro nāma mahāyānasūtraṃ ratnarājaṃ parisamāptam // * * * * * ye dharma hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat / teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ