5. Chapter 5
Verse 5.1
।। नाकाशं विद्यते किंचित् पूर्वम् आकाशलक्षणात् । अलक्षणं प्रसज्येत स्यात् पूर्वं यदि लक्षणात् ॥ ५.१ ॥
// nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt / alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt (5.1)
Verse 5.2
।। अलक्षणो न कश्चिच् च भावः संविद्यते क्व चित् । असत्य् अलक्षणे भावे क्रमतां कुह लक्षणम् ॥ ५.२ ॥
// alakṣaṇo na kaścic ca bhāvaḥ saṃvidyate kva cit / asaty alakṣaṇe bhāve kramatāṃ kuha lakṣaṇam (5.2)
Verse 5.3
।। नालक्षणे लक्षणस्य प्रवृत्तिर् न सलक्षणे । सलक्षणालक्षणाभ्यां नाप्य् अन्यत्र प्रवर्तते ॥ ५.३ ॥
// nālakṣaṇe lakṣaṇasya pravṛttir na salakṣaṇe / salakṣaṇālakṣaṇābhyāṃ nāpy anyatra pravartate (5.3)
Verse 5.4
।। लक्षणासंप्रवृत्तौ च न लक्ष्यम् उपपद्यते । लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्य् असंभवः ॥ ५.४ ॥
// lakṣaṇāsaṃpravṛttau ca na lakṣyam upapadyate / lakṣyasyānupapattau ca lakṣaṇasyāpy asaṃbhavaḥ (5.4)
Verse 5.5
।। तस्मान् न विद्यते लक्ष्यं लक्षणं नैव विद्यते । लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते ॥ ५.५ ॥
// tasmān na vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate / lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate (5.5)
Verse 5.6
।। अविद्यमाने भावे च कस्याभावो भविष्यति । भावाभावविधर्मा च भावाभावाव् अवैति कः ॥ ५.६ ॥
// avidyamāne bhāve ca kasyābhāvo bhaviṣyati / bhāvābhāvavidharmā ca bhāvābhāvāv avaiti kaḥ (5.6)
Verse 5.7
।। तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् । आकाशम् आकाशसमा धातवः पञ्च ये ऽपरे ॥ ५.७ ॥
// tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam / ākāśam ākāśasamā dhātavaḥ pañca ye 'pare (5.7)
Verse 5.8
।। अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः । भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥ ५.८ ॥
// astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ / bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam (5.8)