4. Chapter 4
Verse 4.1
।। रूपकारणनिर्मुक्तं न रूपम् उपलभ्यते । रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् ॥ ४.१ ॥
// rūpakāraṇanirmuktaṃ na rūpam upalabhyate / rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam (4.1)
Verse 4.2
।। रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते । आहेतुकं न चास्त्य् अर्थः कश्चिद् आहेतुकः क्व चित् ॥ ४.२ ॥
// rūpakāraṇanirmukte rūpe rūpaṃ prasajyate / āhetukaṃ na cāsty arthaḥ kaścid āhetukaḥ kva cit (4.2)
Verse 4.3
।। रूपेण तु विनिर्मुक्तं यदि स्याद् रूपकारणम् । अकार्यकं कारणं स्याद् नास्त्य् अकार्यं च कारणम् ॥ ४.३ ॥
// rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam / akāryakaṃ kāraṇaṃ syād nāsty akāryaṃ ca kāraṇam (4.3)
Verse 4.4
।। रूपे सत्य् एव रूपस्य कारणं नोपपद्यते । रूपे ऽसत्य् एव रूपस्य कारणं नोपपद्यते ॥ ४.४ ॥
// rūpe saty eva rūpasya kāraṇaṃ nopapadyate / rūpe 'saty eva rūpasya kāraṇaṃ nopapadyate (4.4)
Verse 4.5
।। निष्कारणं पुना रूपं नैव नैवोपपद्यते । तस्माद् रूपगतान् कांश्चिन् न विकल्पान् विकल्पयेत् ॥ ४.५ ॥
// niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate / tasmād rūpagatān kāṃścin na vikalpān vikalpayet (4.5)
Verse 4.6
।। न कारणस्य सदृशं कार्यम् इत्य् उपपद्यते । न कारणस्यासदृशं कार्यम् इत्य् उपपद्यते ॥ ४.६ ॥
// na kāraṇasya sadṛśaṃ kāryam ity upapadyate / na kāraṇasyāsadṛśaṃ kāryam ity upapadyate (4.6)
Verse 4.7
।। वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः । सर्वेषाम् एव भावानां रूपेणैव समः क्रमः ॥ ४.७ ॥
// vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ / sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ (4.7)
Verse 4.8
।। विग्रहे यः परीहारं कृते शून्यतया वदेत् । सर्वं तस्यापरिहृतं समं साध्येन जायते ॥ ४.८ ॥
// vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet / sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate (4.8)
Verse 4.9
।। व्याख्याने य उपालम्भं कृते शून्यतया वदेत् । सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥ ४.९ ॥
// vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet / sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate (4.9)