1. Padma Purāṇa (part 1 of 5)
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 1
श्रीविष्णवे नमः
स्वच्छं चंद्रावदातं करिकरमकरक्षोभसंजातफेनं।
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
कारालंकृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं।
संभोगाभोगरम्यं जलमशुभहरं पौष्करं वः पुनातु१।
सूतमेकांतमासीनं व्यासशिष्यं महामतिः।
लोमहर्षणनामा वा उग्रश्रवसमाह तत्२।
ऋषीणामाश्रमांस्तात गत्वा धर्मान्समासतः।
पृच्छतां विस्तराद्ब्रूहि यन्मत्तः श्रुतवानसि३।
वेदव्यासान्मया पुत्र पुराणान्यखिलानि च।
तवाख्यातानि प्राप्तानि मुनिभ्यो वद विस्तरात्४।
प्रयागे मुनिवर्यैश्च यथापृष्टः स्वयं प्रभुः।
पृष्टेन चानुशिष्टास्ते मुनयो धर्मकांक्षिणः५।
देशं पुण्यमभीप्संतो विभुना च हितैषिणा।
सुनाभं दिव्यरूपं च सत्यगं शुभविक्रमं६।
अनौपम्यमिदं चक्रं वर्तमानमतंद्रिताः।
पृष्टतो यातनियमात्पदं प्राप्स्यथ यद्धितम्७।
गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते।
पुण्यः स देशो मंतव्य इत्युवाच स्वयं प्रभुः८।
उक्त्वा चैवमृषीन्सर्वानदृश्यत्वमगात्पुनः।
गंगावर्तसमाहारो नेमिर्यत्र व्यशीर्यत९।
ईजिरे दीर्घसत्रेण ऋषयो नैमिषे तदा।
तत्र गत्वा तु तान्ब्रूहि पृच्छतो धर्मसंशयान्१०।
उग्रश्रवास्ततो गत्वा ज्ञानविन्मुनिपुंगवान्।
अभिगम्योपसंगृह्य नमस्कृत्वा कृतांजलिः११।
तोषयामास मेधावी प्रणिपातेन तानृषीन्।
ते चापि सत्रिणः प्रीताः ससदस्या महात्मने१२।
तस्मै समेत्य पूजां च यथावत्प्रतिपेदिरे।
ऋषय ऊचुः।
कुतस्त्वमागतः सूत कस्माद्देशादिहागतः१३।
कारणं चागमे ब्रूहि वृंदारकसमद्युते।
सूत उवाच।
पित्राहं तु समादिष्टो व्यासशिष्येण धीमता१४।
शुश्रूषस्व मुनीन्गत्वा यत्ते पृच्छंति तद्वद।
वदंतु भगवंतो मां कथयामि कथां तु यां१५।
पुराणं चेतिहासं वा धर्मानथ पृथग्विधान्।
तां गिरं मधुरां तस्य शुश्रुवुर्ऋषिसत्तमाः१६।
अथ तेषां पुराणस्य शुश्रूषा समपद्यत।
दृष्ट्वा तमतिविश्वस्तं विद्वांसं लौमहर्षणिं१७।
तस्मिन्सत्रे कुलपतिस्सर्वशास्त्राविशारदः।
शौनको नाम मेधावी विज्ञानारण्यके गुरुः१८।
इत्थं तद्भावमालंब्य धर्माञ्छुश्रूषुराह तम्।
त्वया सूत महाबुद्धे भगवान्ब्रह्मवित्तमः१९।
इतिहासपुराणार्थं व्यासः सम्यगुपासितः।
दुदोहिथमतिं तस्य त्वं पुराणाश्रयां शुभां२०।
अमीषां विप्रमुख्यानां पुराणं प्रति सम्प्रति।
शुश्रूषाऽस्ते महाबुद्धे तछ्रावयितुमर्हसि२१।
सर्वे हीमे महात्मानो नानागोत्राः समागताः।
स्वान्स्वानंशान्पुराणोक्ताञ्छृण्वन्तु ब्रह्मवादिनः२२।
संपूर्णे दीर्घसत्रेस्मिंस्तांस्त्वं श्रावय वै मुनीन्।
पाद्मं पुराणं सर्वेषां कथयस्व महामते२३।
कथं पद्मं समुद्भूतं ब्रह्म तत्र कथं न्वभूत्।
प्रोद्भूतेन कथं सृष्टिः कृता तां तु तथा वद२४।
एवं पृष्टस्ततस्तांस्तु प्रत्युवाच शुभां गिरम्।
सूक्ष्मं च न्यायसंयुक्तं प्राब्रवीद्रौमहर्षणिः२५।
प्रीतोस्म्यनुगृहीतोस्मि भवद्भिरिह चोदनात्।
पुराणार्थं पुराणज्ञैः सर्वधर्मपरायणैः२६।
यथाश्रुतं सुविख्यातं तत्सर्वं कथयामि वः।
धर्म एष तु सूतस्य सद्भिर्दृष्टः सनातनः२७।
देवतानामृषीणां च राज्ञां चामिततेजसाम्।
वंशानां धारणं कार्यं स्तुतीनां च महात्मनाम्२८।
इतिहासपुराणेषु दृष्टा ये ब्रह्मवादिनः।
न हि वेदेष्वधीकारः कश्चित्सूतस्य दृश्यते२९।
वैन्यस्य हि पृथोर्यज्ञे वर्त्तमाने महात्मनः।
मागधश्चैव सूतश्च तमस्तौतां नरेश्वरम्३०।
तुष्टेनाथ तयोर्द्दत्तो वरो राज्ञा महात्मना।
सूताय सूतविषयो मगधो मागधाय च३१।
तत्र सूत्यां समुत्पन्नः सूतो नामेह जायते।
ऐन्द्रे सत्रे प्रवृत्ते तु ग्रहयुक्ते बृहस्पतौ३२।
तमेवेंद्रं बार्हस्पत्ये तत्र सूतो व्यजायत।
शिष्यहस्तेन यत्पृक्तमभिभूतं गुरोर्हविः३३।
अधरोत्तरधारेण जज्ञे तद्वर्णसंकरम्।
येत्र क्षत्रात्समभवन्ब्राह्मण्याश्चैव योनितः३४।
पूर्वेणैव तु साधर्म्याद्वैधर्मास्ते प्रकीर्तिताः।
मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीविनः३५।
पुराणेष्वधिकारो मे विहितो ब्राह्मणैरिह।
दृष्ट्वा धर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः३६।
तस्मात्सम्यग्भुवि ब्रूयां पुराणमृषिपूजितम्।
पितॄणां मानसी कन्या वासवं समपद्यत३७।
अपध्याता च पितृभिर्मत्स्यगर्भे बभूव सा।
अरणीव हुताशस्य निमित्तं पुण्यजन्मनः३८।
तस्यां बभूव पूतात्मा महर्षिस्तु पराशरात्।
तस्मै भगवते कृत्वा नमः सत्याय वेधसे३९।
पुरुषाय पुराणाय ब्रह्मवाक्यानुवर्तिने।
मानवच्छद्मरूपाय विष्णवे शंसितात्मने४०।
जातमात्रं च यं वेद उपतस्थे ससंग्रहः।
मतिमंथानमाविध्य येनासौ श्रुतिसागरात्४१।
प्रकाशो जनितो लोके महाभारत चंद्रमाः।
भारतं भानुमान्विष्णुर्यदि न स्युरमी त्रयः४२।
ततोऽज्ञानतमोंधस्य कावस्था जगतो भवेत्।
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्४३।
को ह्यन्यः पुंडरीकाक्षान्महाभारतकृद्भवेत्।
तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः४४।
सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः।
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्४५।
उत्तमं सर्वलोकानां सर्वज्ञानोपपादकम्।
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्४६।
निःशेषेषु च लोकेषु वाजिरूपेण केशवः।
ब्रह्मणस्तु समादेशाद्वेदानाहृतवानसौ४७।
अंगानि चतुरो वेदान्पुराणन्यायविस्तरम्।
असुरेणाखिलं शास्त्रमपहृत्यात्मसात्कृतम्४८।
मत्स्यरूपेणाजहार कल्पादावुदकार्णवे।
अशेषमेतदवददुदकांतर्गतो विभुः४९।
श्रुत्वा जगाद च मुनीन्प्रतिवेदांश्चतुर्मुखः।
प्रवृत्तिस्सर्वशास्त्राणां पुराणस्याभवत्तदा५० 1.1.50।
कालेनाग्रहणं दृष्ट्वा पुराणस्य तदा विभुः।
व्यासरूपस्तदा ब्रह्मा संग्रहार्थं युगे युगे५१।
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे जगौ।
तदाष्टादशधा कृत्वा भूलोकेस्मिन्प्रकाशितं५२।
अद्यापि देवलोकेषु शतकोटिप्रविस्तरम्।
तदेवात्र चतुर्लक्षं संक्षेपेण निवेशितम्५३।
प्रवक्ष्यामि महापुण्यं पुराणं पाद्मसञ्ज्ञितम्।
सहस्रं पञ्चपञ्चाशत्पंचखण्डैस्समन्वितम्५४।
तत्रादौ सृष्टिखण्डं स्याद्भूमिखण्डं ततः परम्।
स्वर्गखण्डं ततः पश्चात्ततः पातालखण्डकम्५५।
पञ्चमं च ततः ख्यातमुत्तरं खण्डमुत्तमम्।
एतदेव महापद्ममुद्भूतं यन्मयं जगत्५६।
तद्वृत्तान्ताश्रयं यस्मात्पाद्ममित्युच्यते ततः।
एतत्पुराणममलं विष्णुमाहात्म्यनिर्मलम्५७।
देवदेवो हरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा।
ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये५८।
एतदेव च वै ब्रह्मा पाद्मं लोके जगाद वै।
सर्वभूताश्रयं तच्च पाद्ममित्युच्यते बुधैः५९।
पाद्मं तत्पंचपंचाशत्सहस्राणीह पठ्यते।
पंचभिः पर्वभिः प्रोक्तं संक्षेपाद्व्यासकारितात्६०।
पौष्करं प्रथमं पर्व यत्रोत्पन्नः स्वयं विराट्।
द्वितीयं तीर्थपर्व स्यात्सर्वग्रहगणाश्रयम्६१।
तृतीयपर्वग्रहणा राजानो भूरिदक्षिणाः।
वंशानुचरितं चैव चतुर्थे परिकीर्तितम्६२।
पंचमे मोक्षतत्वं च सर्वतत्वं निगद्यते।
पौष्करे नवधा सृष्टिः सर्वेषां ब्रह्मकारिता६३।
देवतानां मुनीनां च पितृसर्गस्तथापरः।
द्वितीये पर्वताश्चैव द्वीपाः सप्त ससागराः६४।
तृतीये रुद्रसर्गस्तु दक्षशापस्तथैव च।
चतुर्थे संभवो राज्ञां सर्ववंशानुकीर्त्तनम्६५।
अन्त्येपवर्गसंस्थानं मोक्षशास्त्रानुकीर्त्तनम्।
सर्वमेतत्पुराणेऽस्मित्कथयिष्यामि वो द्विजाः६६।
इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात् इदं च देवस्य सुखाय नित्यमिदं महापातकभिच्च पुंसाम्६७।
इति श्री पद्मपुराणे प्रथमे सृष्टिखंडे पुराणावतारे प्रथमोऽध्यायः१।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 2
सूत उवाच।
नमस्ये सर्वलोकानां विश्वस्य जगतः पतिम्।
य इमं कुरुते भावं सृष्टिरूपं प्रधानवित्१।
लोककृल्लोकतत्वज्ञो योगमास्थाय योगवित्।
असृजत्सर्वभूतानि स्थावराणि चराणि च२।
तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम्।
पुराणाख्यानजिज्ञासुर्व्रजामि शरणं विभुम्३।
ब्रह्मविष्णुगिरीशेभ्यो नमस्कृत्वा समाहितः।
इंद्राय लोकपालेभ्यः सवित्रे च समाधिना४।
मुनीनां च वरिष्ठाय वसिष्ठाय महात्मने।
तद्वक्त्रेभाततपसे जातूकर्ण्याय चाक्षुषे५।
तस्मै भगवते नत्वा वेदव्यासाय वेधसे।
पुरुषाय पुराणाय भृगुवाक्यानुवर्तिने६।
तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः।
सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः७।
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्।
महदादिविशेषांतं सृजतीति विनिश्चयः८।
अण्डे हिरण्मये पूर्वं ब्रह्मणः सूतिरुत्तमा।
अंडस्यावरणं चाद्भिरपामपि च तेजसा९।
वायुना तस्य वायोः खात्तद्भूतादित आवृतम्।
भूतादिर्महता चापि अव्यक्तेनावृतो महान्१०।
प्रादुर्भावश्च लोकानामंड एवोपवर्णितः।
नदीनां पर्वतानां च प्रादुर्भावोनुवर्ण्यते११।
मन्वंतराणां संक्षेपात्कल्पानां चोपवर्णनम्।
ब्रह्मवृक्षलय ब्रह्मप्रजासर्गोपवर्णनम्१२।
कल्पानां संचरश्चैव जगतः स्थापनं तथा।
शयनं च हरेरप्सु पृथिव्युद्धरणं पुनः१३।
दशधा जन्मसंचारो भृगुशापेन केशवे।
सन्निवेशो युगादीनां सर्वाश्रमविभाजनम्१४।
स्वर्गस्थानविभागश्च मर्त्यानां स्वर्गचारिणां।
पशूनां पक्षिणां चैव संभवः परिकीर्त्तितः१५।
तथा निर्वचनं कल्पं स्वाध्यायस्य परिग्रहः।
प्रतिसर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः१६।
त्रयोन्येऽबुद्धिपूर्वास्ते तथा लोकानकल्पयत्।
ब्रह्मणो वदनेभ्यश्च भृग्वादीनां समुद्भवः१७।
कल्पयोरंतरं प्रोक्तं प्रतिसंधिश्च सर्गयोः।
भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम्१८।
वसिष्ठस्य च ब्रह्मर्षेर्ब्रह्मत्त्वं परिकीर्त्तितम्।
स्वायंभुवस्य च मनोस्ततश्चाप्यनुकीर्तनम्१९।
उक्तो नाभेर्विसर्गश्च रजसश्च महात्मनः।
द्वीपानां च समुद्राणां पर्वतानां च कीर्तनम्२०।
द्वीपभेदसमुद्राणामन्तर्भावश्च सप्तसु।
कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः२१।
तदीयानि च वर्षाणि नदीभिः पर्वतैः सह।
जंबूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः२२।
अंडस्यांतस्त्विमेलोकाः सप्तद्वीपा च मेदिनी।
सूर्याचंद्रमसोश्चारो ग्रहाणां ज्योतिषां तथा२३।
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम्।
ब्रह्मणा निर्मितः सौरः स्यंदनोर्थवशात्स्वयम्२४।
कल्पितो भगवांस्तेन प्रसर्पति दिवाकरः।
सूर्यादीनां स्यंदनानां ध्रुवादेव प्रवर्त्तनं२५।
कल्पितः शिंशुमारश्च यस्य पुच्छे ध्रुवः स्थितः।
संभवांते च संहारः संहारांते च संभवः२६।
देवतानामृषीणां च मनोः पितृगणस्य च।
न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः२७।
अतीतानागतानां वै समं स्वायंभुवेन तु।
मन्वंतरेषु देवानां प्रजेशानां च कीर्तनम्२८।
नैमित्तिकः प्राकृतिकस्तथैवात्यंतिकः स्मृतः।
त्रिविधः सर्वभूतानां कल्पितः प्रतिसंचरः२९।
अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकानलः।
मेघाश्चैकार्णवा ये तु तथा रात्रिर्महात्मनः३०।
संध्यालक्षणमुद्दिष्टं तथा ब्राह्मं विशेषतः।
भूतानां चापि लोकानां सप्तानामनुवर्णनम्३१।
संकीर्त्यं ते मया चात्र पापानां रौरवादयः।
सर्वेषामेव सत्वानां परिणामविनिर्णयः३२।
ब्रह्मणः प्रतिसर्गश्च सर्वसंहारवर्णनम्।
कल्पेकल्पे च भूतानां महतामपि संक्षयः३३।
सुसंख्याय च बुद्ध्वा वै ब्रह्मणश्चाप्यनित्यताम्।
दौरात्म्यं चैव भोगानां संसारस्य च कष्टताम्३४।
दुर्ल्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम्।
व्यक्ताव्यक्तं परित्यज्य सत्वं ब्रह्मणि संस्थितम्३५।
नानात्व दर्शनात्सुस्थस्ततस्तदभिवर्त्तते।
ततस्तापत्रयातीतो विरूपाख्यो निरंजनः३६।
आनंदं ब्रह्मणः प्राप्तो न बिभेति कुतश्चन।
इति कृत्य समुद्देशः प्रमाणस्योपवर्णितः३७।
कीर्त्यंते जगतो यत्र सर्गप्रलयविक्रियाः।
प्रवृत्तिश्चापि भूतानां निवृत्तीनां फलानि च३८।
प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च।
सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च३९।
पराशरस्य चोत्पत्तिरदृश्यन्त्यां यथा विभोः।
जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः४०।
शुकस्य च यथा जन्म पुत्रस्य सह धीमतः।
पराशरस्य विद्वेषो विश्वामित्रकृतो यथा४१।
वसिष्ठसंभृतश्चाग्निर्विश्वामित्रजिघांसया।
संधानहेतोर्विभुना जीर्णः कण्वेन धीमता४२।
देवेन विप्रा विप्राणां विश्वामित्रहितैषिणा।
एकं वेदं चतुःपादं चतुर्धा पुनरीश्वरः४३।
यथा बिभेद भगवान् व्यासः सर्वेष्वनुग्रहात्।
तस्य शिष्यप्रशिष्यैश्च शाखाभेदाः पुनः कृताः४४।
प्रयागे मुनिवर्यैश्च यथा पृष्टः स्वयं प्रभुः।
कृष्णेन चानुशिष्टास्ते मुनयो धर्मकांक्षिणः४५।
एतत्सर्वं यथातत्वमाख्यातं द्विजसत्तमाः।
मुनीनां धर्मनित्यानां लोकतंत्रमनुत्तमम्४६।
ब्रह्मणा यत्पुरा प्रोक्तं पुलस्त्याय महात्मने।
पुलस्त्येनाथ भीष्माय गंगाद्वारे प्रभाषितम्४७।
धन्यं यशस्यमायुष्यं सर्व्वपापप्रणाशनम्।
कीर्तनं श्रवणं चास्य धारणं च विशेषतः४८।
सूतेनानुक्रमेणेदं पुराणं संप्रकाशितम्।
ब्राह्मणेषु पुरा यच्च ब्रह्मणोक्तं सविस्तरम्४९।
पादमस्य विदन्सम्यग्योधीयीत जितेंद्रियः।
तेनाधीतं पुराणं स्यात्सर्वं नास्त्यत्र संशयः५० 1.2.50।
यो विद्याच्चतुरो वेदान्सांगोपनिषदो द्विजः।
पुराणं च विजानाति यः स तस्माद्विचक्षणः५१।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति५२।
अधीत्य चैकमध्यायं स्वयं प्रोक्तं स्वयंभुवा।
आपदः प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्गतिम्५३।
पुरा परंपरां वक्ति पुराणं तेन वै स्मृतम्।
निरुक्तिमस्य यो वेद सर्वपापैः प्रमुच्यते५४।
ऋषयोह्यब्रुवन्सूतं कथं भीष्मेण सङ्गतः।
ब्रह्मणो मानसः पुत्रः पुलस्त्यो भगवानृषिः५५।
दुर्लभं दर्शनं यस्य नरैः पापसमन्वितैः।
अत्याश्चर्यमिदं सूत क्षत्रियेण कथं मुनिः५६।
आराधितो बृहद्भूतस्तन्नो वद महामते।
कीदृशं वा तपस्तेन को वान्यो नियमः कृतः५७।
येन तुष्टो मुनिर्ब्राह्मस्तथा तेन प्रभाषितः।
पर्वं वाप्यथ पर्वार्धं समग्रं वा प्रभाषितम्५८।
यस्मिन्स्थाने यथादृष्टः पुलस्त्यो भगवानृषिः।
तन्नो वद महाभाग कल्याः स्म श्रवणे वयम्५९।
सूत उवाच।
यत्र गंगा महाभागा साधूनां हितकारिणी।
विभिद्य पर्वतं वेगान्निःसृता लोकपावनी६०।
गंगाद्वारे महातीर्थे भीष्मः पितृपरायणः।
शुश्रूषुः सुचिरं कालं महतां नियमे स्थितः६१।
यावद्वर्षशतं साग्रं परमेण समाधिना।
ध्यायमानः परं ब्रह्म त्रिकालं स्नानमाचरत्६२।
पितॄन्देवांस्तर्पयतः स्वाध्यायेन महात्मनः।
आत्मानं कर्षतश्चास्य तुष्टो देवः पितामहः६३।
उवाच तनयं ब्रह्मा पुलस्त्यमृषिसत्तमम्।
स त्वं देवव्रतं भीष्मं वीरं कुरुकुलोद्भवम्६४।
तपसः संनिवर्त्तस्व कारणं चास्य कीर्त्तय।
पितॄन्भक्त्या महाभागो ध्यायमानस्समास्थितः६५।
यो ह्यस्य मनसः कामस्तं संपादयमाचिरम्।
पितामहवचः श्रुत्वा पुलस्त्यो मुनिसत्तमः६६।
गंगाद्वारमथागत्य भीष्मं वचनमब्रवीत्।
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते६७।
तुष्टस्ते तपसा वीर साक्षाद्देवः पितामहः।
ब्रह्मणा प्रेषितस्तेहं वरान्दास्यामि कांक्षितान्६८।
भीष्मोपि तद्वचः श्रुत्वा मनःश्रोत्रसुखावहम्।
उन्मील्य नयने दृष्ट्वा पुलस्त्यं पुरतः स्थितम्६९।
अष्टांगप्रणिपातेन नत्वा तं मुनिसत्तमम्।
उवाच प्रणतो भूत्वा सर्वांगालिंगितावनिः७०।
अद्य मे सफलं जन्म दिनं चेदं सुशोभनम्।
भवतश्चरणौ दृष्टौ जगद्वंद्यौ मया त्विह७१।
तपसश्च फलं प्राप्तं यद्दृष्टोभगवान्मया।
वरप्रदो विशेषेण संप्राप्तश्च नदीतटे७२।
इयं ब्रसी मया क्लप्ता आस्यतां सुखदा कृता।
अर्घ्यपात्रे तु पालाशे दूर्वाक्षतसुमैः कुशैः७३।
सर्षपैश्च दधिक्षौद्रैर्यवैश्च पयसा सह।
अष्टांगो ह्येष निर्द्दिष्टो ह्यर्घो हि मुनिभिः पुरा७४।
श्रुत्वैतद्वचनं तस्य भीष्मस्यामिततेजसः।
उपविष्टो ब्रह्मसुतः पुलस्त्यो भगवानृषिः७५।
विष्टरं सहपाद्येन अर्घपात्रं मुदान्वितः।
जुजोष भगवान्प्रीतः सदाचारेण तेन तु७६।
पुलस्त्य उवाच।
सत्यवान्दानशीलोसि सत्यसंधिर्नरेश्वरः।
ह्रीमान्मैत्रः क्षमाशीलो विक्रांतः शत्रुशासने७७।
धर्मज्ञस्त्वं कृतज्ञस्त्वं दयावान्प्रियभाषिता।
मान्यमानयिता विज्ञो ब्रह्मण्यः साधुवत्सलः७८।
तुष्टस्तेहं सदा वत्स प्रणिपातपरस्य वै।
प्रब्रूहि त्वं महाभाग कथनं ते वदाम्यहम्७९।
भीष्म उवाच।
भगवन्भगवान्ब्रह्मा कस्मिन्काले स्थितो विभुः।
सृष्टिं चकार वै पूर्वं देवादीनां वदस्व मे८०।
स्थितिं वा भगवान्विष्णुः कथं रुद्रस्तु निर्मितः।
कथं वा ऋषयो देवास्सृष्टास्तेन महात्मना८१।
कथं पृथ्वी कथं व्योम कथं चेमे तु सागराः।
कथं द्वीपाः पर्वताश्च ग्रामारण्यपुराणि च८२।
मुनीन्प्रजापतींश्चैव सप्तर्षीन्प्रवरानपि।
वर्णान्वायुं पुरास्थानं गंधर्वान्यक्षराक्षसान्८३।
तीर्थानि सरितो वाथ सूर्यादीन्ग्रहतारकान्।
यथा ससर्ज भगवांस्तथा मे त्वं वदस्व ह८४।
पुलस्त्य उवाच।
परः पराणां परमः परमात्मा पितामहः।
रूपवर्णादिरहितो विशेषण विवर्जितः८५।
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः।
गुणैर्विवर्जितः सर्वैः स भातीति हि केवलम्८६।
सर्वत्रासौ समश्चापि वसन्ननुपमो मतः।
भावयन्ब्रह्मरूपेण विद्वद्भिः परिपठ्यते८७।
तं गुह्यं परमं नित्यमजमक्षयमव्ययम्।
तथा पुरुषरूपेण कालरूपेण संस्थितम्८८।
तं नत्वाहं प्रवक्ष्यामि यथा सृष्टिं चकार ह।
पूर्वं तु पद्मशयनादुत्थाय जगतःप्रभुः८९।
गुणव्यंजनसंभूतः सर्गकाले नराधिप।
सात्विको राजसश्चैव तामसश्च त्रिधा महान्९०।
प्रधानतत्वेन समं तथा बीजादिभिर्वृतः।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः९१।
त्रिविधोयमहंकारो महत्तत्त्वादजायत।
भूतेंद्रियाणां पंचानां तथा कर्मेन्द्रियैः सह९२।
पृथिव्यापस्तथातेजो वायुराकाशमेव च।
एकैकशः स्वरूपेण कथयामि यथोत्तरम्९३।
शब्दमात्रमथाकाशं भूतादिः खं समावृणोत्।
अथाकाशं विकुर्वाणं स्पर्शमात्रं ससर्ज ह९४।
बलवानेष वै वायुस्तस्य स्पर्शो गुणो मतः।
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्९५।
ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह।
ज्योतीरूपन्तु तद्वायुस्तद्रूपगुणमुच्यते९६।
स्पर्शरूपस्तु वै वायू रूपमात्रं समावृणोत्।
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह९७।
संभवंति ततोंभांसि रूपमात्रं समावृणोत्।
विकुर्वाणानि चांभांसि गंधमात्रं ससर्जिरे९८।
संघातो जायते तस्मात्तस्य गंधो मतो गुणः।
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश९९।
एकादशम्मनश्चात्र देवा वैकारिकाः स्मृताः।
त्वक्चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पंचमम्१०० 1.2.100।
एतेषां तु मतं कृत्यं शब्दादि ग्रहणं पुनः।
वाक्पाणिपादपायूनि चोपस्थं तत्र पञ्चमम्१०१।
विसर्गशिल्पगत्युक्तिर्गुणा एषां विपर्ययात्।
आकाश वायु तेजांसि सलिलं पृथिवी तथा१०२।
शब्दादिभिर्गुणैर्वीर युक्तानीत्युत्तरोत्तरैः।
शांता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः१०३।
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना।
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः१०४।
समेत्यान्योन्यसंयोगात्परस्परसमाश्रयात्।
एकसंघातलक्षाश्च संप्राप्यैक्यमशेषतः१०५।
पुरुषाधिष्ठितत्वाच्च व्यक्तानुग्रहणे तथा।
महदादयो विशेषांता ह्यंडमुत्पादयंति वै१०६।
तत्क्रमेण विवृत्तं तु जलबुद्बुदवत्समम्।
तत्राव्यक्तस्वरूपोसौ व्यक्तरूपी जनार्दनः१०७।
ब्रह्माब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः।
मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः१०८।
गर्भोदकं समुद्राश्च तस्यासंश्च महात्मनः।
तत्र द्वीपास्समुद्राश्च सज्योतिर्लोकसंग्रहः१०९।
तस्मिन्नंडेऽभवन्वीर सदेवासुरमानुषाः।
वारि वह्न्यनिलाकाशैर्वृतैर्भूतादिना बहिः११०।
वृतं दशगुणैरंडं भूतादिर्महता तथा।
अव्यक्तेनावृतो राजंस्तैः सर्वैः सहितो महान्१११।
एभिरावरणैः सर्वैः सर्वभूतैश्च संयुतम्।
नारिकेलफलं यद्वद्बीजं बाह्यदलैरिव११२।
ब्रह्मा स्वयं च जगतो विसृष्टौ संप्रवर्त्तते।
सृष्टिं च पात्यनुयुगं यावत्कल्पविकल्पना११३।
स संज्ञां याति भगवानेक एव जनार्दनः।
सत्वभुग्गुणवान्देवो ह्यप्रमेय पराक्रमः११४।
तमोद्रेकं च कल्पांते रूपं रौद्रं करोति च।
राजेंद्राखिलभूतानि भक्षयत्यतिभीषणः११५।
भक्षयित्वा च भूतानि जगत्येकार्णवीकृते।
नागपर्यंकशयने शेते सर्वस्वरूपधृक्११६।
प्रबुद्धश्च पुनः सृष्टिं प्रकरोति च रूपधृक्।
सृष्टिस्थित्यंतकरणाद्ब्रह्मविष्णुशिवात्मकः११७।
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च।
उपसंह्रियते चापि संहर्त्ता च स्वयं प्रभुः११८।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च।
स एव सर्वभूतेशो विश्वरूपो यतोव्ययः११९।
सर्गादिकं ततोस्यैव भूतस्थमुपकारकम्।
स एव सृज्यः स च सर्गकर्त्ता स एव पाल्यं प्रतिपाल्यते यतः।
ब्रह्माद्यवस्थाभिरशेषमूर्त्तिर्ब्रह्मा वरिष्ठो वरदो वरेण्यः१२०।
।
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे पुराणावतारे द्वितीयोऽध्यायः२।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 3
भीष्म उवाच।
निर्गुणस्याप्रमेयस्य शुद्धस्याथ महात्मनः।
कथं सर्गादिकर्त्तृत्वं ब्रह्मणो ह्युपपद्यते १।
पुलस्त्य उवाच।
शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः।
यत्ततो ब्रह्मणस्तास्तुसर्गाद्या भावशक्तयः २।
उत्पन्नः प्रोच्यते विद्वान्नित्य एवोपचारतः।
निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् ३।
तत्पराख्यं परार्द्धं च तदर्द्धं परिकीर्त्तितम्।
काष्ठा पंचदशाख्या ता निमेषा नृपसत्तम ४।
काष्ठा स्त्रिंशत्कला त्रिंशत्कला मौहूर्त्तिको विधिः।
तावत्संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम् ५।
अहोरात्राणि तावंति मासः पक्षद्वयात्मकः।
तैष्षड्भिरयनं वर्षमयने दक्षिणोत्तरे ६।
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम्।
दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् ७।
चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे।
चत्वारि त्रीणिद्वे चैकं कृतादिषु यथाक्रमम् ८।
दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः।
तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते ९।
संध्यांशकश्च तत्तुल्यो युगस्यानंतरो हि यः।
संध्यासंध्यांशयोरंतः कालो यो नृपसत्तम १०।
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः।
कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम् ११।
प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिवसं नृप।
ब्रह्मणो दिवसे राजन्मनवश्च चतुर्दश १२।
भवंति परिमाणं च तेषां कालकृतं शृणु।
सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृप १३।
एककाले हि सृज्यंते संह्रियंते च पूर्ववत्।
चतर्युगानां संख्याता साधिका ह्येकसप्ततिः १४।
मन्वंतरं मनोः कालः सुरादीनां च पार्थिव।
अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतः १५।
द्विपंचाशत्तथान्यानि सहस्राण्यधिकानि च।
त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया नृप १६।
सप्तषष्टिस्तथान्यानि नियुतानि महामते।
विंशतिश्च सहस्राणि कालोयमधिकं विना १७।
मन्वंतरस्य संख्येयं मानुषैरिह वत्सरैः।
चतुर्द्दशगुणो ह्येष कालो ब्राह्ममहः स्मृतम् १८।
ब्राह्मो नैमित्तिको नाम तस्यांते प्रतिसंचरः।
तदाहि दह्यते सर्वं त्रैलोक्यं भूर्भुवादिकम् १९।
जनं प्रयांति तापार्त्ता महर्लोकनिवासिनः।
एकार्णवे तु त्रैलोक्ये ब्रह्मा ब्रह्मविदां वरः २०।
भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः।
जनस्थैर्योगिभिर्द्देवश्चिंत्यमानो जगद्विभुः २१।
तत्प्रमाणां हि तां रात्रिं तदंते सृजते पुनः।
एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च तत् २२।
शतं हि तस्य वर्षाणां परमायुर्महात्मनः।
एकमस्य व्यतीतं तु परार्धं ब्रह्मणोनघ २३।
तस्यान्तेभून्महाकल्पः पाद्म इत्यभिविश्रुतः।
द्वितीयस्य परार्धस्य वर्तमानस्य वै नृप २४।
वाराह इति कल्पोयं प्रथमः परिकल्पितः।
ब्रह्मा नारायणाख्योसौ कल्पादौ भगवान्यथा २५।
ससर्ज सर्वभूतानि तदाचक्ष्व महामुने।
पुलस्त्य उवाच।
प्रजाः ससर्ज भगवाननादिस्सर्वसंभवः २६।
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः।
सत्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत २७।
तोयान्तस्स महीं ज्ञात्वा निमग्नां वारिसंप्लवे।
प्रविचिंत्य तदुद्धारं कर्तुकामः प्रजापतिः २८।
विष्णुरूपं तदा ज्ञात्वा पृथ्वीं वोढुं स्वतेजसा।
मत्स्यकूर्मादिकां चान्यां वाराहीं तनुमाविशत् २९।
वेदयज्ञमयं रूपमाश्रित्य जगतः स्थितौ।
स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ३०।
प्रविवेशे तदा तोयं तोयाधारे धराधरः।
निरीक्ष्य तं तदा देवी पातालतलमागतम् ३१।
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुंधरा।
पृथिव्युवाच।
नमस्ते सर्वभूताय नमस्ते परमात्मने ३२।
मामुद्धरास्मादद्य त्वं त्वत्तोहं पूर्वमुत्थिता।
परमात्मन्नमस्तेस्तु पुरुषात्मन्नमोस्तु ते ३३।
प्रधानव्यक्तरूपाय कालभूताय ते नमः।
त्वं कर्त्तासर्वभूतानां त्वं पाता त्वं विनाशकृत् ३४।
सर्गादौ यः परोब्रह्मा विष्णुरुद्रात्मरूपधृक्।
भक्षयित्वा च सकलं जगत्येकार्णवीकृते ३५।
शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः।
भवतो यत्परं रूपं तन्न जानाति कश्चन ३६।
अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः।
त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः ३७।
वासुदेवमनाराध्य को हि मोक्षमवाप्स्यति।
यद्रूपं मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः ३८।
बुद्ध्या च यत्परिछेद्यं तद्रूपमखिलं तव।
त्वन्मय्यहं त्वदाधारात्वत्सृष्टा त्वामुपाश्रिता ३९।
माधवीमिति लोकोयमभिधत्ते ततो हि माम्।
एवं संस्तूयमानस्तु पृथिव्या पृथिवीधरः ४०।
सामस्वरध्वनिः श्रीमान्जगर्ज परिघर्घरम्।
ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः।
रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान् ४१।
उत्तिष्ठता तेन मुखानिलाहतं तदाप्लवांभो जनलोक संश्रयान्।
सनंदनादीनपकल्मषान्मुनींश्चकार भूयोपि पवित्रतास्पदम् ४२।
प्रयांति तोयानि खुराग्रविक्षते रसातलेऽधकृतशब्दसंततिः।
बलाहकानां च तति स्तुतस्य श्वासानिलास्ता परितः प्रयाति ४३।
उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विदार्य।
विधून्वतो वेदमयं श(शि?)रीरं रोमांतरस्था मुनयो जुषंति ४४।
जनेश्वराणां परमेश केशव प्रभुर्गदा शंखदरासिचक्रधृक्।
प्रभूति नाश स्थिति हेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम् ४५।
पादेषु वेदास्तव यूपदंष्ट्रा दंतेषु यज्ञाः श्रुतयश्च वक्त्रे।
हुताश जिह्वोसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ४६।
द्यावापृथिव्योरतुलप्रभाव यदंतरं तद्वपुषा तवैव।
व्याप्तं जगद्वापि समस्तमेतद्धिताय विश्वस्य विभो भवत्वम् ४७।
परमात्मा त्वमेवैको नान्योस्ति जगतः पते ४८।
तवैष महिमा येन व्याप्तमेतच्चराचरं।
ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ४९।
अर्थस्वरूपं पश्यंतो भ्राम्यंते तमसः प्लवे।
ये तु ज्ञानविदश्शुद्धचेतसस्तेऽखिलं जगत् ५० 1.3.50।
ज्ञानात्मकं प्रपश्यंति त्वद्रूपं परमेश्वर।
प्रसीद सर्वभूतात्मन्भवाय जगतस्त्विमाम् ५१।
उद्धरोर्वीममेयात्मन्निमग्नामब्जलोचन।
सत्वोद्रिक्तोसि भगवन्गोविंद पृथिवीमिमाम् ५२।
समुद्धर भवायेश कुरु सर्वजगद्धितं।
एवं संस्तूयमानश्च परमात्मा महीधरः ५३।
उज्जहार क्षितिं क्षिप्रं न्यस्तवान्स महार्णवे।
तस्योपरि जलौघेस्य महती नौरिवस्थिता ५४।
ततः क्षितिं समां कृत्वा पृथिव्यामचिनोद्गिरीन्।
यथाविभागं भगवाननादिः पुरुषोत्तमः ५५।
भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथं।
भूताद्यांश्चतुरोलोकान्पूर्ववत्समकल्पयत् ५६।
ब्रह्मणे विष्णुना पूर्वमेतदेव प्रदर्शितं।
तुष्टेन देवदेवेन त्वं देवः पुरुषोत्तमः ५७।
त्वया मया जगच्चेदं धार्यं पाल्यं च यत्नतः।
येषां त्वसुरमुख्यानां वरो दत्तो मयाधुना ५८।
देवानां हितकामेन हंतव्यास्ते त्वया विभो।
अहं सृष्टिं करिष्यामि सा च पाल्या त्वया विभो ५९।
एवमुक्तो गतो विष्णुर्देवादीनसृजद्विभुः।
अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः ६०।
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञकः।
पंचधावस्थितः सर्गो ध्यायतस्तु महात्मनः ६१।
बहिरंतश्चाप्रकाशः संवृतात्मा नगात्मकः।
मुख्यानागायतश्चोक्ता मुख्यसर्गस्ततस्त्वयं ६२।
तं दृष्ट्वा साधकं सर्गममन्यदपरं प्रभुः।
तस्याभिध्यायतस्सर्गस्तिर्यक्स्रोतोभ्यवर्तत ६३।
यस्मात्तिर्यक्प्रवृत्तिः स्यात्तिर्यक्स्रोतस्ततः स्मृतः।
पश्वादयस्ते विख्यातास्तमः प्राया ह्यवेदिनः ६४।
उत्पथग्राहिणश्चैव ते ज्ञाने ज्ञानमानिनः।
अहंकृतास्त्वहंमाना अष्टाविंशद्विधात्मकाः।
अंतःप्रकाशास्ते सर्व आवृतास्ते परस्परम् ६५।
तमप्यसाधकं मत्वा ध्यायतोन्यस्ततोभवत्।
ऊर्द्ध्वस्रोतस्तृतीयस्तु सात्विकोर्ध्वमवर्तत ६६।
ते सुखप्रीतिबहुला बहिरंतरनावृताः।
प्रकाशा बहिरंतश्च ऊर्द्ध्वस्रोतास्ततः स्मृताः ६७।
तुष्टात्मनस्तृतीयस्तु देवसर्गस्तु संस्मृतः।
तस्मिन्सर्गे भवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तदा ६८।
ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम्।
असाधकांस्तुतान्ज्ञात्वा मुख्यसर्गादिसंभवान् ६९।
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः।
प्रादुर्भूतस्तदाव्यक्तादर्वाक्स्रोतस्तु साधकः ७०।
यस्मादर्वाक्प्रवर्तंते ततोऽवाक्स्रोतसस्तु ते।
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ७१।
तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः।
प्रकाशा बहिरंतश्च मनुष्याः साधकाश्च ते ७२।
पंचमोनुग्रहः सर्गः स चतुर्द्धा व्यवस्थितः।
विपर्ययेण सिद्ध्या च शक्त्या तुष्ट्या तथैव च ७३ (तुलनीय - ब्रह्माण्ड पुराणम् १.१.५.६१, लिङ्ग पुराणम् १.७०.१५८)।
विवृत्तं वर्त्तमानं च ते न जानंति वै पुनः।
भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते ७४।
ते परिग्राहिणः सर्वे सविभागतरास्तु ते।
चोदना जाप्यशीलाश्च ज्ञेया भूतादिकास्तु ते ७५।
इत्येते कथिताः सर्गाः षडत्र नृपसत्तम।
प्रथमो महतस्सर्गो द्वितीयो ब्रह्मणस्तु यः ७६।
तन्मात्राणां द्वितीयस्तु भूतसर्गोहि स स्मृतः।
वैकारिकस्तृतीयस्तु सर्गश्चैंद्रियकः स्मृतः ७७।
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ७८।
तिर्यक्स्रोतश्च यः प्रोक्तस्तिर्यग्योन्यस्स उच्यते।
ततोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ७९।
ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः।
अष्टमोनुग्रहः सर्गः सात्विकस्तामसस्तु सः ८०।
पंचैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः।
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ८१।
एते तव समाख्याता नवसर्गाः प्रजापतेः।
प्राकृता वैकृताश्चैव जगतो मूलहेतवः ८२।
सृजतो जगदीशस्य किमन्यच्छ्रोतुमर्हसि।
भीष्म उवाच।
संक्षेपात्कथिताः सर्गा देवादीनां गुरोस्तथा ८३।
विस्तराच्छ्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम।
पुलस्त्य उवाच।
कर्मभिर्भाविताः सर्वेकुशलाकुशलैस्तु ते ८४।
ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः।
स्थावरान्तास्सुराद्यास्तु प्रजा राजंश्चतुर्विधाः ८५।
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः स्मृताः।
ततो देवासुरपितॄन्मानुषांस्तु चतुष्टयं ८६।
सिसृक्षुरंभांस्येतानि स्वमात्मानमयूयुजत्।
मुक्तात्मनस्ततो जाता दुरात्मानः प्रजापतेः ८७।
सिसृक्षोर्जघनात्पूर्वं जज्ञिरे त्वसुरास्ततः।
तत्याज तां ततो दुष्टान्तमोमात्रात्मिकां तनुं ८८।
सा तु त्यक्ता तनुस्तेन राजेंद्राभूद्विभावरी।
सिसृक्षुरन्यदेहस्थः प्रीतिमापुस्ततः सुराः ८९।
सत्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो नृप।
त्यक्ता सापि तनुस्तेन सत्वप्रायमभूद्दिनं ९०।
ततो हि बलिनो रात्रावसुरा देवतादि वा।
सत्वमात्रात्मिकां चैव ततोन्यां जगृहे तनुम् ९१।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे।
उत्ससर्ज पितॄन्कृत्वा ततस्तामपि स प्रभुः ९२।
सा चोत्सृष्टा भवत्संध्या दिननक्तांतरा स्थितिः।
रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः ९३।
रजोमात्रोत्कटा जाता मनुष्याः कुरुसत्तम।
तामप्याशु स तत्याज तनुमाद्यां प्रजापतिः ९४।
ज्योत्स्ना समभवच्चापि प्राक्संध्या याभिधीयते।
ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस्तथा ९५।
राजेंद्र संध्यासमये तस्मात्ते प्रभवंति वै।
ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्येतानि वै विभोः ९६।
ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि च।
रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुं ९७।
ततः क्षुद्ब्रह्मणोजाता जज्ञे कोपस्तया कृतः।
क्षुत्क्षामो ह्यंधकारे तु सोसृजद्भगवांस्ततः ९८।
विरूपा अत्तुकामास्ते समधावंत तं प्रभुम्।
रक्षतामेष यैरुक्तं राक्षसास्ते ततोभवन् ९९।
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु तेभवन्।
अतिभीतस्य तान्दृष्ट्वा केशाः शीर्यन्ति वेधसः १०० 1.3.100।
हीनाश्च शिरसो भूयः समारोहंति ते शिरः।
सर्पणात्तेभवन्सर्पा हीनत्वादहयः स्मृताः १०१।
ततः क्रुद्धेन वै स्रष्ट्रा क्रोधात्मानो विनिर्मिताः।
वर्णेन कपिशेनोग्रा भूतास्ते पिशिताशिनः १०२।
धयतो गां समुद्भूता गंधर्वास्तस्य तत्क्षणात्।
पिबंतो जज्ञिरे वाचं गंधर्वास्तेन तेऽभवन् १०३।
एतानि सृष्ट्वा भगवान्ब्रह्मा तच्छक्तिचोदितः।
ततः स्वच्छंदतोऽन्यानि वयांसि वयसोऽसृजत् १०४।
अवयो वक्षसश्चक्रे मुखतोजांश्च सृष्टवान्।
सृष्टवानुदराद्गाश्च महिषांश्च प्रजापतिः १०५।
पद्भ्यां चाश्वान्स मातंगान्रासभान्गवयान्मृगान्।
उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः १०६।
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे।
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ नृपोत्तम १०७।
सृष्ट्वा पश्वोषधीस्सम्यक्युयोज स तदाध्वरे।
गामजं महिषम्मेषमश्वाश्वतरगर्दभान् १०८।
एतान्ग्राम्यपशूनाहुरारण्यांश्च निबोधमे।
श्वापदो द्विखुरो हस्ती वानरः पञ्चमः खगः १०९।
उष्ट्रकाः पशवष्षष्ठास्सप्तमास्तु सरीसृपाः।
गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम् ११०।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्।
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा १११।
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात्।
सामानि जगतीच्छन्दः स्तोमं सप्तदशं तथा ११२।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्।
एकविंशमथर्वाणमप्तोर्यामाणमेव च ११३।
आनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ११४।
सुरासुरपितॄन्सृष्ट्वा मनुष्यांश्च प्रजापतिः।
ततः पुनः ससर्जासौ स कल्पादौ पितामहः ११५।
यक्षान्पिशाचान्गंधर्वांस्तथैवाप्सरसां गणान्।
सिद्धकिन्नररक्षांसि सिंहान्पक्षिमृगोरगान् ११६।
अव्ययं च व्ययं चैव यदिदं स्थाणुजंगमम्।
तत्ससर्ज तदा ब्रह्मा भगवानादिकृद्विभुः ११७।
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे।
तान्येव प्रतिपद्यंते सृज्यमानाः पुनः पुनः ११८।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते।
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ११९।
इंद्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः।
नानात्त्वं विनियोगं च धातैव व्यसृजत्स्वयं १२०।
नामरूपं च भूतानां कृत्यानां च प्रपंचनम्।
वेदशब्देभ्य एवादौ देवादीनां चकार सः १२१।
ऋषीणां नामधेयानि यथा वेदे श्रुतानि वै।
यथानियोगं योग्यानि अन्येषामपि सोकरोत् १२२।
यथर्तावृतुलिंगानि नानारूपाणि पर्यये।
दृश्यंते तानितान्येव तथा भावा युगादिषु १२३।
करोत्येवंविधां सृष्टिं कल्पादौ स पुनःपुनः।
सिसृक्षुश्शक्तियुक्तोसौ सृज्य शक्तिप्रचोदितः १२४।
भीष्म उवाच।
अर्वाक्स्रोतास्तु कथितो भवता यस्तु मानुषः।
ब्रह्मन्विस्तरतो ब्रूहि ब्रह्मा तमसृजद्यथा १२५।
यथा सवर्णानसृजद्गुणांश्च स महामुने।
यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम् १२६।
पुलस्त्य उवाच।
सत्वाभिध्यायिनः पूर्वं सिसृक्षोर्ब्रह्मणः प्रजाः।
अजायंत कुरुश्रेष्ठ सत्वोद्रिक्ता मुखात्प्रजाः १२७।
वक्षसो रजसोद्रिक्तास्तथान्या ब्रह्मणोभवन्।
रजसस्तमसश्चैव समुद्रिक्तास्तथोरुतः १२८।
पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज कुरुसत्तम।
तमःप्रधानास्ताः सर्वाश्चातुर्वर्ण्यमिदं ततः १२९।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम।
पादोरुवक्षस्थलतो मुखतश्च समुद्गताः १३०।
यज्ञनिष्पत्तये सर्वमेतद्ब्रह्मा चकार ह।
चातुर्वर्ण्यं महाराज यज्ञसाधनमुत्तमम् १३१।
यज्ञेनाप्यायिता देवा वृष्ट्युत्सर्गेण मानवाः।
आप्यायंते धर्मयज्ञा यतः कल्याणहेतवः १३२।
निष्पद्यंते नरैस्ते तु सुकर्मनिरतैः सदा।
विरुद्धाचरणापेतैः सद्भिः सन्मार्गगामिभिः १३३।
स्वर्गापवर्गं मानुष्यात्प्राप्नुवंति नरा नृप।
यच्चाभिरुचितं स्थानं तद्यांति मनुजा विभो १३४।
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थितौ।
सम्यक्शुद्धाः समाचारा चरणा नृपसत्तम १३५।
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः।
शुद्धांतःकरणाः शुद्धा धर्मानुष्ठाननिर्मलाः १३६।
शुद्धे च तासां मनसि शुद्धांतःसंस्थिते हरौ।
शुद्धज्ञानं प्रपश्यंति ब्रह्माख्यं येन तत्पदं १३७।
ततः कालात्मको योसौ विरिंचा वा स उच्यते।
संसारपातमत्यर्थं घोरमल्पाल्पसारवत् १३८।
अधर्मबीजभूतं तत्तमोलोभसमुद्गतम्।
प्रजासु तासु राजेंद्र रागादिक्रमसाधनम् १३९।
ततः सा सहजासिद्धिस्तेषां नातीव जायते।
राजन्वश्यादयश्चान्याः सिद्धयोष्टौ भवंति याः १४०।
तासु क्षीणास्वशेषासु वर्द्धमाने च पातके।
द्वंद्वाभिभवदुःखार्तास्ता भवंति ततः प्रजाः १४१।
ततो दुर्गाणि ताश्चक्रुर्वार्क्षं पार्वतमौदकम्।
धान्वनं च तथा दुर्गं पुरं खार्वटकादि यत् १४२।
गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु।
शीततापादिबाधानां प्रशमाय महामते १४३।
प्रतिहारमिमं कृत्वा शीतादेस्ताः प्रजाः पुनः।
वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् १४४।
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः।
प्रियंगुकोविदाराश्च कोरदूषाः सचीनकाः १४५।
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः।
अढकाश्चणकाश्चैव शणास्सप्तदश स्मृताः १४६।
इत्येता ओषधीनां तु ग्राम्याणां जातयो नृप।
ओषध्यो यज्ञियाश्चैव ग्राम्यावन्याश्चतुर्दश १४७।
व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः।
प्रियंगुसप्तमा ह्येता अष्टमास्तु कुलुत्थकाः १४८।
श्यामाकस्त्वथ नीवारो वर्तुलस्स गवेधुकः।
अथ वेणुयवाः प्रोक्तास्तद्वन्मर्कटका नृप १४९।
ग्राम्या वन्याः स्मृता ह्येता ओषध्यश्च चतुर्दश।
यज्ञनिष्पत्तये तद्वत्तथासां हेतुरुत्तमः १५० 1.3.150।
एताश्च सहयज्ञेन प्रजानां कारणं परम्।
परापरविदः प्राज्ञास्ततो यज्ञान्वितन्वते १५१।
अहन्यहन्यनुष्ठानं यज्ञानां पार्थिवोत्तम।
उपकारकरं पुंसां क्रियमाणं फलार्थिनाम् १५२।
येषां चकालसृष्टोसौ पपा(?)बिंदुर्महामते।
मर्यादां स्थापयामास यथास्थानं यथागुणम् १५३।
वर्णानामाश्रमाणां च धर्मान्धर्मभृतांवर।
लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् १५४।
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं तु पार्थिव।
स्थानमैंद्रं क्षत्रियाणां सङ्ग्रामेष्वनिवर्तिनाम् १५५।
वैश्यानाम्मारुतं स्थानं स्वधर्ममनुवर्तिनाम्।
गान्धर्वं शूद्रजातीनां परिचर्या सुवर्तिनाम् १५६।
अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम्।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् १५७।
सप्तर्षीणां च यत्स्थानं स्मृतं तद्वै वनौकसाम्।
प्राजापत्यं गृहस्थानां न्यासिनां ब्राह्मसंज्ञितम् १५८।
योगिनाममृतं स्थानं ब्रह्मणः परमं पदं।
एकांतिनः सदोद्युक्ता ध्यायिनो योगिनो हि ये१५९।
तेषां तत्परमं स्थानं यत्तत्पश्यंति सूरयः।
गतागतानि वर्त्तंते चंद्रादित्यादयो ग्रहाः १६०।
अद्यापि न निवर्तंते नारायणपरायणाः।
तामिस्रमंधतामिस्रं महारौरव रौरवम् १६१।
असिपत्रवनं घोरं कालसूत्रमवीचिमत्।
विनिंदकानां वेदस्य यज्ञव्याघातकारिणाम् १६२।
स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये।
ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः १६३।
तच्छरीरसमुत्पन्नैः कायस्थैः करणैः सह।
क्षेत्रज्ञाः समवर्त्तंत गात्रेभ्यस्तस्य धीमतः १६४।
ते सर्वे समवर्तंत ये मया प्रागुदाहृताः।
देवाद्याः स्थावरां ताश्च त्रैगुण्यविषयेस्थिताः १६५।
एवं भूतानि सृष्टानि स्थावराणि चराणि च।
यदास्य ताः प्रजाः सर्वानव्यवर्द्धंतधीमतः १६६।
अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत्।
भृगुं मां पुलहं चैव क्रतुमंगिरसं तथा १६७।
मरीचिं दक्षमत्रिं चवसिष्ठंचैवमानसान्।
नवब्रह्माण इत्येतेपुराणे निश्चयं गताः १६८।
सनंदनादयो ये च पूर्वं सृष्टास्तु वेधसा।
न ते लोकेष्वसज्जंत निरपेक्षाः प्रजासुते १६९।
सर्वे ह्यागतविज्ञाना वीतरागा विमत्सराः।
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः १७०।
ब्रह्मणोभून्महान्क्रोधस्त्रैलोक्यदहन क्षमः।
तस्य क्रोधात्समुद्भूतं ज्वालामालावदीपितम् १७१।
ब्रह्मणस्तु तदा ज्योतिस्त्रैलोक्यमखिलं दहत्।
भ्रकुटी कुटिलात्तस्य ललाटात्क्रोधदीपितात् १७२।
समुत्पन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः।
अर्द्धनारीनरवपुः प्रचण्डोति शरीरवान् १७३।
विभजात्मानमित्युक्त्वा तं ब्रह्मांतर्दधेः ततः।
तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् १७४।
बिभेद पुरुषत्वं च दशधा चैकधा च सः।
सौम्यासौम्यैस्तथा रूपैः शांतैः स्त्रीत्वं च स प्रभुः १७५।
बिभेद बहुधा चैव स्वरूपैरसितैः सितैः।
ततो ब्रह्मा स्वयंभूतं पूर्वं स्वायंभुवं प्रभुम् १७६।
आत्मानमेव कृतवान्प्रजापत्ये मनुं नृप।
शतरूपां च तां नारीं तपोनिर्द्धूतकल्मषाम् १७७।
स्वायंभुवो मनुर्नाम पत्नीत्वे जगृहे प्रभुः।
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत १७८।
प्रियव्रतोत्तातनपाद प्रसूत्याकूति संज्ञितम्।
ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा १७९।
प्रजापतिः स जग्राह तयोर्जज्ञे स दक्षिणः।
पुत्रो यज्ञो महाभाग दंपत्योर्मिथुनं ततः १८०।
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे।
यामा इति समाख्याता देवाः स्वायंभुवे मनौ १८१।
प्रसूत्यां च तथा दक्षश्चतस्रो विंशतिं तथा।
ससर्ज कन्यास्तासां तु सम्यङ्नामानि मे शृणु १८२।
श्रद्धा लक्ष्सीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा।
बुद्धिर्लज्जावपुः शांतिर्ऋद्धिः कीर्तिस्त्रयोदशी १८३।
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायिणीः प्रभुः।
ताभ्यः शिष्टा यवीयस्य(स्प?) एकादश सुलोचनाः १८४।
ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा।
सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा १८५।
भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः।
अहं च पुलहश्चैव क्रतुर्मुनिवरस्तथा १८६।
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम्।
ख्यात्याद्या जगृहुः कन्या मुनयो राजसत्तम १८७।
श्रद्धा कामं बलं लक्ष्मीर्नियमं धृतिरात्मजम्।
संतोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत १८८।
मेधा श्रुतं क्रिया दण्डं नयं विनयमवे च।
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् १८९।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत।
सुखमृद्धिर्यशः कीर्तिरित्येते धर्मसूनवः १९०।
कामान्नंदी सुतं हर्षं धर्मपौत्रमसूयत।
हिंसा भार्यात्वधर्मस्य तस्य जज्ञे तदानृतं १९१।
कन्या च निकृतिस्ताभ्यां भयं नरक एव च।
माया च वेदना चैव मिथुनं द्वंद्वमेव च १९२।
तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम्।
वेदनायास्ततश्चापि दुःखं जज्ञेथ रौरवात् १९३।
मृत्योर्व्याधिजराशोक तृष्णाक्रोधाश्च जज्ञिरे।
दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः १९४।
नैषां भार्यास्ति पुत्रो वा ते सर्वे ह्यूर्द्ध्वरेतसः।
रौद्राण्येतानि रूपाणि ब्रह्मणो नृवरात्मज १९५।
नित्यं प्रलयहेतुत्वं जगतोस्य प्रयांति वै।
रुद्रसर्गं प्रवक्ष्यामि यथा ब्रह्मा चकार हा(?) १९६।
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः।
प्रादुरासीत्प्रभोरंके कुमारो नीललोहितः १९७।
रुदन्वै सुस्वरं सोथ द्रवंश्च नृपसत्तम।
किं रोदिषीति तं देवो रुदंतं प्रत्युवाच ह १९८।
नामधेहीति तं सोथ प्रत्युवाच प्रजापतिम्।
रोदनाद्रुद्रनामासि मा रोदीर्धैर्यमावह १९९।
एवमुक्तः पुनस्सोथ सप्तकृत्वो रुरोद ह।
ततोन्यानि ददौ तस्मै सप्तनामानि वै प्रभुः २०० 1.3.200।
मूर्त्तीनां चैवमष्टानां स्थानान्यष्टौ चकार ह।
भवं शर्वमथेशानं तथा पशुपतिं नृप २०१।
भीममुग्रं महादेवमुवाच स पितामहः।
सूर्यो जलं मही वह्निर्वायुराकाशमेव च २०२।
दीक्षितो ब्राह्मणः सोम इत्येते तनवः कमात्।
एवं प्रकारो रुद्रोसौ सतीं भार्यामविंदत २०३।
दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम्।
हिमवद्दुहिता साभून्मेनायां नृपसत्तम २०४।
उपयेमे पुनश्चैव याचित्वा भगवान्भवः।
दाक्षी धातृविधातारौ भृगोः ख्यातिरसूयत २०५।
श्रियं च देवदेवस्य पत्नी नारायणस्य या २०६।
।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तृतीयोध्यायः ३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तृतीयोध्यायः ३
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 4
।
भीष्म उवाच।
क्षीराब्धौ तु तथा लक्ष्मीः किलोत्पन्ना मया श्रुता।
ख्यात्यां भृगोः समुत्पन्ना एतदाह कथं भवान्१।
कथं च दक्षदुहिता देहं त्यक्तवती शुभा।
मेनायां गर्भसंभूतिमुमाया जन्म एव च२।
किमर्थं देवदेवेन पत्नी हैमवती कृता।
विरोधं चाथ दक्षेण भगवांस्तु ब्रवीतु मे३।
पुलस्त्य उवाच।
इदं च शृणु भूपाल यत्पृष्टोहमिह त्वया।
श्रीसंबंधो मयाप्येष श्रुत आसीत्पितामहात्४।
अत्रिपुत्रस्तु दुर्वासाः परिभ्राम्यन्महीमिमाम्।
विद्याधरीकरेमालां दृष्ट्वा सौगन्धिकीं शुभाम्५।
याचयामास मे देहि जटाजूटे करोम्यहम्।
इति विद्याधरी तेन पृष्टा सा ऋषिणा तथा६।
ददौ तस्मै मुदायुक्ता तां मालां स तदा नृप।
गृहीत्वा सुचिरं कालं शिरोमालां बबंध ह७।
उन्मत्त प्रेतवद्विप्रः शोभमानोब्रवीदिदम्।
इयं विद्याधरी कन्या पीनोन्नत पयोधरा८।
शोभालंकारसौभाग्यैर्युक्ता दृष्टा ततो मनः।
क्षोभमायाति मे चाद्य नाहं कामे विचक्षणः९।
व्रजामि तावदन्यत्र सौभाग्यं स्वं प्रदर्शयन्।
एवमुक्त्वा स राजेंद्र परिबभ्राम मेदिनीम्१०।
ऐरावतं समारूढं राजानं त्रिदिवौकसाम्।
त्रैलोक्याधिपतिं शक्रं भ्राजमानं शचीपतिम्११।
तामात्मशिरसो मालां भ्रमदुन्मत्तषट्पदाम्।
आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः१२।
गृहीत्वा देवराजेन माला सा गजमूर्द्धनि।
मुक्ता रराज सा माला कैलासे जाह्नवी यथा१३।
मदांधकारिताक्षोसौ गंधाघ्राणेन वारणः।
करेणादाय चिक्षेप तां मालां पृथिवीतले१४।
ततश्चुक्रोध भगवान्दुर्वासा मुनिपुंगवः।
राजेंद्रदेवराजानं क्रुद्धश्चेदमुवाच ह१५।
ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव।
श्रियोधामस्रजं यस्मान्मद्दत्तान्नाभिनंदसि१६।
त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति।
मद्दत्ता भवता माला क्षिप्ता यस्मान्महीतले१७।
तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति।
यस्य संजातकोपस्य भयमेति चराचरम्१८।
तं मां त्वमतिगर्वेण देवराजावमन्यसे।
महेंद्रो वारणस्कंधादवतीर्य त्वरान्वितः१९।
प्रसादयामास मुनिं दुर्वाससमकल्मषम्।
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम्२०।
नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो।
इत्युक्त्वा प्रययौ विप्रो देवराजोपि तं पुनः२१।
आरुह्यैरावतं नागं प्रययावमरावतीम्।
ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम्२२।
न यज्ञाः संप्रवर्तंते न तपस्यंति तापसाः।
न च दानानि दीयंते नष्टप्रायमभूज्जगत्२३।
एवमत्यंतनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते।
देवान्प्रतिबलोद्योगं चक्रुर्दैतेयदानवाः२४।
विजितास्त्रिदशा दैत्यैरिंद्राद्याः शरणं ययुः।
पितामहं महाभागं हुताशनपुरोगमाः२५।
यथावत्कथिते देवैर्ब्रह्मा प्राह तथा सुरान्।
क्षीरोदस्योत्तरं कूलं जगाम सहितः सुरैः२६।
गत्वा जगाद भगवान्वासुदेवं पितामहः।
उत्तिष्ठ विष्णो शीघ्रं त्वं देवतानां हितं कुरु२७।
त्वया विना दानवैस्तु जिताः सर्वे पुनःपुनः।
इत्युक्तः पुंडरीकाक्षः पुरुषः पुरुषोत्तमः२८।
अपूर्वरूपसंस्थानान्दृष्ट्वा देवानुवाच ह।
तेजसो भवतां देवाः करिष्याम्युपबृंहणम्२९।
वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः।
आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः३०।
मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्।
मथ्यताममृतं देवाः सहाये मय्यवस्थिते३१।
सामपूर्वं च दैतेयांस्तत्र सम्भाष्य कर्मणि।
समानफलभोक्तारो यूंय चात्र भविष्यथ३२।
मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम्।
तत्पानाद्बलिनो यूयममराः संभविष्यथ३३।
तथैवाहं करिष्यामि यथा त्रिदशविद्विषः।
न प्राप्स्यंत्यमृतं देवाः केवलं क्लेशभागिनः३४।
इत्युक्ता देवदेवेन सर्व एव ततः सुराः।
संधानमसुरैः कृत्वा यत्नवंतोऽमृतेभवन्३५।
सर्वौषधीः समानीय देवदैतेयदानवाः।
क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि३६।
मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्।
ततो मथितुमारब्धा राजेंद्र तरसामृतम्३७।
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।
विष्णुना वासुकेर्द्दैत्याः पूर्वकाये निवेशिताः३८।
ते तस्य प्राणवातेन वह्निना च हतत्त्विषः।
निस्तेजसोऽसुराः सर्वे बभूवुरमरद्युते३९।
तेनैव मुखनिःश्वासवायुनाथ बलाहकैः।
पुच्छप्रदेशे वर्षद्भिस्तदा चाप्पयिताः सुराः४०।
क्षीरोदमध्ये भगवान्ब्रह्मा ब्रह्मविदां वरः।
महादेवो महातेजा विष्णुपृष्ठनिवासिनौ४१।
बाहुभ्यां मंदरं गृह्य पद्मवत्स परंतपः।
शृंखले च तदा कृत्वा गृहीत्वा मंदराचलम्४२।
देवानां दानवानां च बलमध्ये व्यवस्थितः।
क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः४३।
अन्येन तेजसा देवानुपबृंहितवान्हरिः।
मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः४४।
हविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिता।
जग्मुर्मुदं तदा देवा दानवाश्च महामते४५।
व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमितेक्षणाः।
किमेतदिति सिद्धानां दिवि चिंतयतां तदा४६।
बभूव वारुणी देवी मदाघूर्णितलोचना।
कृतावर्त्ता ततस्तस्मात्प्रस्खलंती पदे पदे४७।
एकवस्त्रा मुक्तकेशी रक्तांतस्तब्धलोचना।
अहं बलप्रदा देवी मां वा गृह्णन्तु दानवाः४८।
अशुचिं वारुणीं मत्वा त्यक्तवंतस्तदा सुराः।
जगृहुस्तां तदा दैत्या ग्रहणान्तेसुराभवत्४९।
मंथने पारिजातोभूद्देव श्रीनंदनो द्रुमः।
रूपौदार्य्यगुणोपेतास्ततश्चाप्सरसां गणाः५० 1.4.50।
षष्टिकोट्यस्तदा जातास्सामान्या देव दानवैः।
सर्वास्ताः कृतपूर्वास्तु सामान्याः पुण्यकर्मणा५१।
ततः शीतांशुरभवद्देवानां प्रीतिदायकः।
ययाचे शंकरो देवो जटाभूषणकृन्मम५२।
भविष्यति न संदेहो गृहीतोयं मया शशी।
अनुमेने च तं ब्रह्मा भूषणाय हरस्य तु५३।
ततो विषं समुत्पन्नं कालकूटं भयावहं।
तेन चैवार्दितास्सर्वे दानवाः सह दैवतैः५४।
महादेवेन तत्पीतं विषं गृह्य यदृच्छया।
तस्य पानान्नीलकंठस्तदा जातो महेश्वरः५५।
पीतावशेषं नागास्तु क्षीराब्धेस्तु समुत्थितम्।
ततो धन्वंतरिर्जातः श्वेतांबरधरः स्वयम्५६।
बिभ्रत्कमंडलुं पूर्णममृतस्य समुत्थितः।
ततः स्वस्थमनस्कास्ते वैद्यराजस्य दर्शनात्५७।
ततश्चाश्वः समुत्पन्नो नागश्चैरावतस्तथा।
तत स्फुरत्कांतीमतिविकासि कमलेस्थिता५८।
श्रीर्द्देवी पयसस्तस्मादुत्थिता धृतपंकजा।
तां तुष्टवुर्मुदायुक्ताः श्रीसूक्तेन महर्षयः५९।
विश्वावसुमुखास्तस्या गंधर्वाः पुरतो जगुः।
घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः६०।
गंगाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे।
दिग्गजा हेमपात्रस्थमादाय विमलं जलम्६१।
स्नापयांचक्रिरे देवीं सर्वलोकमहेश्वरीम्।
क्षीरोदस्तु स्वयं तस्यै मालामम्लानपंकजाम्६२।
ददौ विभूषणान्यंगे विश्वकर्मा चकार ह।
दिव्यमाल्यांबरधरां स्नातां भूषणभूषिताम्६३।
इंद्राद्याश्चामरगणा विद्याधरमहोरगाः।
दानवाश्च महादैत्या राक्षसाः सह गुह्यकैः६४।
कन्यामभिलषन्ति स्म ततो ब्रह्मा उवाच ह।
वासुदेव त्वमेवैनां मया दत्तां गृहाण वै६५।
देवाश्च दानवाश्चैव प्रतिषिद्धा मया त्विह।
तुष्टोहं भवतस्तावदलौल्येनेह कर्मणा६६।
सा तु श्रीर्ब्रह्मणा प्रोक्ता देवि गछस्व केशवं।
मया दत्तं पतिं प्राप्य मोदस्व शाश्वतीः समाः६७।
पश्यतां सर्वदेवानां गता वक्षस्थलं हरेः।
ततो वक्षस्थलं प्राप्य देवं वचनमब्रवीत्६८।
नाहं त्याज्या सदा देव सदैवादेशकारिणी।
वक्षस्थले निवत्स्यामि सर्वस्य जगतः प्रिय६९।
ततोवलोकिता देवा विष्णुवक्षस्थलस्थया।
लक्ष्म्या राजेंद्र सहसा परां निर्वृतिमागताः७०।
उद्वेगं च परं जग्मुर्द्दैत्या विष्णुपराङ्मुखाः।
त्यक्तास्तु दानवा लक्ष्म्या विप्रचित्तिपुरोगमाः७१।
ततस्ते जगृहुर्दैत्या धन्वंतरिकरस्थितम्।
अमृतं तन्महावीर्य्या दैत्याः पापसमन्विताः७२।
मायया लोभयित्वा तु विष्णुः स्त्रीरूपसंश्रयः।
आगत्य दानवान्प्राह दीयतां मे कमंडलुः७३।
युष्माकं वशगा भूत्वा स्थास्यामि भवतां गृहे।
तां दृष्ट्वा रूपसंपन्नां नारीं त्रैलोक्यसुंदरीम्७४।
प्रार्थयानास्सुवपुषं लोभोपहतचेतसः।
दत्त्वामृतं तदा तस्यै ततोपश्यन्त तेग्रतः७५।
दानवेभ्यस्तदादाय देवेभ्यः प्रददेमृतं।
ततः पपुः सुरगणाः शक्राद्यास्तत्तदामृतम्७६।
उद्यतायुधनिस्त्रिंशा दैत्यास्तांस्ते समभ्ययुः।
पीतेमृते च बलिभिर्जिता दैत्यचमूस्ततः७७।
वध्यमाना दिशो भेजुः पातालं विविशुश्च ते।
ततो देवा मुदायुक्ताः शंखचक्रगदाधरम्७८।
प्रणिपत्य यथापूर्वं प्रययुस्ते त्रिविष्टपम्।
ततःप्रभृति ते भीष्म स्त्रीलोला दानवाभवन्७९।
अपध्यातास्तु कृष्णेन गतास्ते तु रसातलम्।
ततः सूर्यः प्रसन्नाभः प्रययौ स्वेन वर्त्मना८०।
जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्हुताशनः।
धर्मे च सर्वभूतानां तदा मतिरजायत८१।
श्रियायुक्तं च त्रैलोक्यं विष्णुना प्रतिपालितं।
देवास्तु ते तदा प्रोक्ता ब्रह्मणा लोकधारिणा८२।
भवतां रक्षणार्थाय मया विष्णुर्नियोजितः।
उमापतिश्च देवेशो योगक्षेमं करिष्यतः८३।
उपास्यमानौ सततं युष्मत्क्षेमकरौ यतः।
ततः क्षेम्यौ सदा चैतौ भविष्येते वरप्रदौ८४।
एवमुक्त्वा तु भगवान्जगाम गतिमात्मनः।
अदर्शनं गते देवे सर्वलोकपितामहे८५।
देवलोकं गते शक्रे स्वं लोकं हरिशंकरौ।
प्राप्तौ तु तत्क्षणाद्देवौ स्थानं कैलासमेव च८६।
ततस्तु देवराजेन पालितं भुवनत्रयम्।
एवं लक्ष्मीर्महाभागा उत्पन्ना क्षीरसागरात्८७।
पुनः ख्यात्यां समुत्पन्ना भृगोरेषा सनातनी।
श्रिया सह समुत्पन्ना भृगुणा च महर्षिणा८८।
स्वनाम्ना नगरी चैव कृता पूर्वं सरित्तटे।
नर्मदायां महाराज ब्रह्मणा चानुमोदिता८९।
लक्ष्मीः पुरं स्वपित्रे स्वं सह कुञ्चिकयाऽप्य च।
आगता देवलोकं साऽयाचतागत्य वै पुनः९०।
लोभान्न दत्तं तु पुरं प्रार्थयाना यदा पुनः।
भृगोः सकाशान्नावाप तदा चैवाह केशवम्९१।
परिभूता तु पित्राहं गृहीतं नगरं मम।
तस्य हस्तात्त्वमाक्षिप्य पुरं तच्चानय स्वयम्९२।
तं गत्वा पुंडरीकाक्षो देवश्चक्रगदाधरः।
भृगुं सानुनयं प्राह कन्यायै पुरमर्पय९३।
कुञ्चिकातालिके चोभे दीयेतां च प्रसादतः।
भृगुस्तं कुपितः प्राह नार्पयिष्याम्यहं पुरम्९४।
न लक्ष्म्यास्तत्पुरं देव मया चेदं स्वयं कृतम्।
भगवन्नैव दास्यामि त्यजाक्षेपं तु केशव९५।
तं प्राह देवो भूयोपि लक्ष्म्यास्तत्पुरमर्पय।
सर्वथा तु त्वया त्याज्यं वचनान्मे महामुने९६।
ततः कोपसमाविष्टो भृगुरप्याह केशवम्।
पक्षपातेन मां साधो भार्याया बाधसेधुना९७।
नृलोके दशजन्मानि लप्स्यसे मधुसूदन।
भार्यायास्ते वियोगेन दुःखान्यनुभविष्यसि९८।
एवं शापं ददौ तस्मै भृगुः परमकोपनः।
विष्णुना च पुनस्तस्य दत्तः शापो महात्मना९९।
न चापत्यकृतां प्रीतिं प्राप्स्यसे मुनिपुंगव।
शापं दत्त्वा ऋषेस्तस्य ब्रह्मलोकं जगाम ह१०० 1.4.100।
पद्मजन्मानमाहेदं दृष्ट्वा देवस्तु केशवः।
भगवंस्तव पुत्रोसौ भृगुः परमकोपनः१०१।
निष्कारणं च तेनाहं शप्तो जन्मानि मानुषे।
लप्स्यसे दशधा त्वं हि ततो दुःखान्यनेकशः१०२।
भार्यावियोगजा पीडा बलपौरुषनाशिनी।
त्यत्क्वा चाहमिमं लोकं शयिष्ये च महोदधौ१०३।
देवकार्येषु सर्वेषु पुनश्चावाहनं क्रियाः।
तथा ब्रुवंतं तं देवं ब्रह्मा लोकगुरुस्तदा१०४।
प्रसादनार्थं विष्णोस्तु स्तुतिमेतां चकार ह।
त्वया सृष्टं जगदिदं पद्मं नाभौ विनिःसृतम्।
तत्र चाहं समुत्पन्नस्तव वश्यश्च केशव१०५।
त्वं त्राता सर्वलोकानां स्रष्टा त्वं जगतः प्रभो।
त्रैलोक्यं न त्वया त्याज्यमेष एव वरो मम१०६।
दशजन्ममनुष्येषु लोकानां हितकाम्यया।
स्वयं कर्त्ता न ते शक्तः शापदानाय कोपि वा१०७।
कोयं भृगुः कथं तेन शक्यं शप्तुं जनार्दन।
मानयस्व सदा विप्रान्ब्राह्मणास्ते तनुस्स्वयम्१०८।
योगनिद्रामुपास्व त्वं क्षीराब्धौ स्वपि हीश्वर।
कार्यकाले पुनस्त्वां तु बोधयिष्यामि माधव१०९।
भगवन्नेष तावत्तु त्वच्छक्त्या चोपबृंहितः।
सर्वकार्यकरः शक्रस्तवैवांशेन शत्रुहा११०।
त्रैलोक्यं पालयन्नेव त्वदाज्ञां स करिष्यति।
एवं स्तुतस्तदा विष्णुर्ब्रह्माणमिदमुक्तवान्१११।
सर्वमेतत्करिष्यामि यन्मां ज्ञापयसे प्रभो।
अदर्शनं गतो देवो ब्रह्मा तं नाभिजज्ञिवान्११२।
गते देवे तदा विष्णौ ब्रह्मा लोकपितामहः।
भूयश्चकार वै सृष्टिं लोकानां प्रभवः प्रभुः११३।
तं दृष्ट्वा नारदः प्राह वाक्यं वाक्यविदां वरः।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
सर्वव्यापी भुवः स्पर्शादध्यतिष्ठद्दशांगुलम्११४।
यद्भूतं यच्च वै भाव्यं सर्वमेव भवान्यतः।
ततो विश्वमिदं तात त्वत्तो भूतं भविष्यति११५।
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा।
ऋचस्त्वत्तोथ सामानि त्वत्त एवाभिजज्ञिरे११६।
त्वत्तो यज्ञास्त्वजायंत त्वत्तो श्वाश्चैव दंतिनः।
गावस्त्वत्तः समुद्भूताः त्वत्तो जातावयोमृगाः११७।
त्वन्मुखाद्ब्राह्मणा जातास्त्वत्तः क्षत्रमजायत।
वैश्यास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः११८।
अक्ष्णोः सूर्योनिलः श्रोत्राच्चंद्रमा मनसस्तव।
प्राणोंतः सुषिराज्जातो मुखादग्निरजायत११९।
नाभितो गगनं द्यौश्च शिरसः समवर्त्तत।
दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदम्१२०।
न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः।
ससर्ज्ज विश्वमखिलं बीजभूते तथा त्वयि१२१।
बीजांकुरसमुद्भूतो न्यग्रोधः समुपस्थितः।
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत्१२२।
यथा हि कदली नान्या त्वक्पत्रेभ्योऽभिदृश्यते।
एवं विश्वमिदं नान्यत्त्वत्स्थमीश्वर दृश्यते१२३।
ह्लादिनी त्वयि शक्तिस्सा त्वय्येका सहभाविनी।
ह्लादतापकरीमिश्रा त्वयि नो गुणवर्जिते१२४।
पृथग्भूतैकभूताय सर्वभूताय ते नमः।
व्यक्तं प्रधानं पुरुषो विराट्सम्राट्तथा भवान्१२५।
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक्।
सर्वं त्वत्तः समुद्भूतं नमः सर्वात्मने ततः१२६।
सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः।
कथयामि ततः किं ते सर्वं वेत्सि हृदिस्थितं१२७।
यो मे मनोरथो देव सफलः स त्वया कृतः।
तप्तं सुतप्तं सफलं यद्दृष्टोसि जगत्पते१२८।
ब्रह्मोवाच।
तपसस्तत्फलं पुत्र यद्दृष्टोहं त्वयाधुना।
मद्दर्शनं हि विफलं नारदेह न जायते१२९।
वरं वरय तस्मात्त्वं यथाभिमतमात्मनः।
सर्वं संपद्यते तात मयि दृष्टिपथं गते१३०।
नारद उवाच।
भगवन्सर्वभूतेश सर्वस्यास्ते भवान्हृदि।
किमज्ञातं तव स्वामिन्मनसा यन्मयेप्सितम्१३१।
कृता त्वया यथा सृष्टिर्मया दृष्टा तथा विभो।
तेन मे कौतुकं जातं दृष्ट्वा देवर्षिदानवान्१३२।
पुलस्त्य उवाच।
नारदस्य पिता तुष्टो ब्रह्मा देवो दिवस्पतिः।
नारदाय वरं प्रादादृषीणामुत्तमो भवान्१३३।
भविता मत्प्रसादेन कलिकेलिकथाप्रियः।
गतिश्च तेऽप्रतिहता दिवि भूमौ रसातले१३४।
यज्ञोपवीतसूत्रेण योगपट्टावलंबिका।
छत्रिका च तथा वीणा अलंकाराय तेनघ१३५।
विष्णोः समीपे रुद्रस्य तथा शक्रस्य नारद।
द्वीपेषु पार्थिवानां तु सदा प्रीतिं च लप्स्यसे१३६।
वर्णानां तु भवान्शास्तावरोदत्तोमयातव।
तिष्ठ पुत्र यथाकामं सेव्यमानः सुरैर्द्दिवि१३७।
।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे लक्ष्म्युत्पत्तिर्नाम चतुर्थोऽध्यायः४।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 5
भीष्म उवाच।
कथं सती दक्षसुता देहं त्यक्तवती शुभा।
दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना१।
एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः।
जगामाथ क्रोधवशं त्रिपुरारिर्महायशाः२।
पुलस्त्य उवाच।
गंगाद्वारे पुरा भीष्म दक्षो यज्ञमथारभत्।
तत्र देवासुरगणाः पितरोथ महर्षयः३।
समाजग्मुर्मुदायुक्ताः सर्वे देवाः सवासवाः।
नागा यक्षाः सुपर्णाश्च वीरुदोषधयस्तथा४।
कश्यपो भगवानत्रिः पुलस्त्यः पुलहः क्रतुः।
प्रचेतसोंगिराश्चैव वसिष्ठश्च महातपाः५।
तत्र वेदीं समां कृत्वा चातुर्होत्रं न्यवेशयत्।
होता वसिष्ठस्तत्रासीदंगिराध्वर्युसत्तमः६।
बृहस्पतिरथोद्गाता ब्रह्मा वै नारदस्तथा।
यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु७।
आगता वसवः सर्व आदित्या द्वादशैव तु।
अश्विनौ मरुतश्चैव मनवश्च चतुर्दश८।
एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु।
विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम्९।
आलोक्य सर्वतो भूमिं समंताद्दशयोजनम्।
महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः१०।
सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा।
तदासानुनयं वाक्यं प्रजापतिमभाषत११।
सत्युवाच।
ऐरावतं समारूढो देवराजः शतक्रतुः।
पत्न्या शच्या सहायातः कृतावासः शतक्रतुः१२।
पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः।
पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते१३।
यादसां च पतिर्द्देवो वरुणो लोकभावनः।
गौर्य्या पत्न्या सहायातः प्रचेता मंडपे त्विह१४।
सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः।
पत्न्या त्विह समायातः सह देव्या धनाधिपः१५।
मुखं यः सर्वदेवानां जंतूनामुदरे स्थितः।
वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः१६।
निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः।
स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह१७।
आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा।
प्राणोपानोव्यानउदानस्समानाह्वयस्तथा१८।
एकोनपंचाशत्केन गणेन परिवारितः।
यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः१९।
द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह।
पाति वै भुवनं सर्वं देवानां यः परायणः२०।
आयुषश्च वनानां च दिवसानां पतिर्हि यः।
संज्ञा पतिरिहायातो भास्करो लोकपावनः२१।
अत्रिवंशसमुद्भूतो द्विजराजो महायशाः।
नयनानंदजननो लोकनाथो धरातले२२।
ओषधीनां पतिश्चापि वीरुधामपि सर्वशः।
उडुनाथः सपत्नीक इहायातः शशी तव२३।
वसवोष्टौ समायाता अश्विनौ च समागतौ।
वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः२४।
विद्याधरा भूतसंघा वेताला यक्षराक्षसाः।
पिशाचाश्चोग्रकर्माणस्तथान्ये जीवहारकाः२५।
नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः।
ग्राम्यारण्याश्च पशवो यदिङ्गं यच्च नेङ्गति२६।
कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह।
पुलस्त्यः पुलहश्चैव सनकाद्या महर्षयः२७।
पुण्या राजर्षयश्चैव पृथिव्यां ये च पार्थिवाः।
वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः२८।
किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता।
भगिन्यो भागिनेयाश्च भगिनीपतयस्त्विमे२९।
स्वभार्यासहिताः सर्वे सपुत्रास्सह बांधवाः।
त्वया समर्चिताः सर्वे दानमानपरिग्रहैः३०।
आमंत्रणा मंत्रितानां सर्वेषां मानना कृता।
एक एवात्र भगवान्पतिर्मे न समागतः३१।
विना तेन त्विदं सर्वं शून्यवत्प्रतिभाति मे।
मन्ये चाहं तु भवता पतिर्मे न निमंत्रितः३२।
विस्मृतस्ते भवेन्नूनं सर्वं शंसतु मे भवान्।
पुलस्य उवाच।
तस्यास्तदुक्तं वचनं श्रुत्वा दक्षः प्रजापतिः३३।
पतिस्नेह समायुक्तां प्राणेभ्योपि गरीयसीम्।
अंकमारोप्य तां बालां साध्वीं पतिपरायणाम्३४।
पतिव्रतां महाभागां पतिप्रियहितैषिणीम्।
प्राह गंभीरभावेन शृणु वत्से यथातथम्३५।
येनाद्य कारणेनेह पतिस्ते न निमंत्रितः।
कपालपात्रधृक्चर्मी भस्मावृत तनुस्तथा३६।
शूली मुण्डी च नग्नश्च श्मशाने रमते सदा।
विभूत्याङ्गानि सर्वाणि परिमार्ष्टि च नित्यशः३७।
व्याघ्रचर्मपरीधानो हस्तिचर्मपरिच्छदः।
कपालमालं शिरसि खट्वागं च करे स्थितं३८।
कट्यां वै गोनसं बध्वा लिंगेऽस्थ्नां वलयं तथा।
पन्नगानां तु राजानमुपवीतं च वासुकिम्३९।
कृत्वा भ्रमति चानेन रूपेण सततं क्षितौ।
नग्ना गणाः पिशाचाश्च भूतसंघा ह्यनेकशः४०।
त्रिनेत्रश्च त्रिशूली च गीतनृत्यरतस्सदा।
कुत्सितानि तथान्यानि सदा ते कुरुते पतिः४१।
त्रपाकरो भवेन्मह्यं देवानां संनिधिः कथं।
कीदृक्च वसनं तस्य केतनं प्रति नार्हति४२।
एतैर्दोषैर्मया वत्से लोकानां चैव लज्जया।
नाह्वानं तु कृतं तस्य कारणेन मया सुते४३।
यज्ञस्यास्य समाप्तौ तु पूजां कृत्वा त्वया सह।
आनीय तव भर्त्तारं त्वया सह त्रिलोचनम्४४।
त्रैलोक्यस्याधिकां पूजां करिष्यामि च सत्कृतैः।
एतत्ते सर्वमाख्यातं त्रपायाः कारणं महत्४५।
नात्र मन्युस्त्वया कार्यः सर्वः स्वं भागमर्हति।
अन्यजन्मनि यैर्यादृक्कृतं कर्म शुभाशुभम्४६।
इह जन्मनि ते तादृक्पुत्रिके भुंजते फलम्।
परितापं मा कृथास्त्वं फलं भुंक्ष्व पुराकृतम्४७।
श्रियं परगतां दृष्ट्वा रूपसौभाग्यशोभनाम्।
रूपं च कांतिसौभाग्यं रम्याण्याभरणानि च४८।
कुलेमहतिवैजन्मवपुश्चातीवसुंदरम्।
पूर्वभाग्यैस्तु लभ्यंते नरैरेतानि सुव्रते४९।
मात्मानं परिनिंदेथामाच भाग्यानि सुव्रते।
फलं चैवं विधिकृतं दातुं कस्य तु कः क्षमः५० 1.5.50।
नास्ति वै बलवान्कश्चिन्नमूढो न च पंडितः।
पांडित्यं च बलं चैव जायते पूर्वकर्मणः५१।
एते देवा दिवं प्राप्ताः शोभमानाः स्थिताश्चिरम्।
पुण्येन तपसा चैव क्षेत्रेषुविविधेषुच५२।
यदेभिरार्जितं पुण्यं तस्यैते फलभागिनः।
एवमुक्ता ततः सा तु सती भीष्मरुषान्विता५३।
विनिंदमाना पितरं क्रोधेनारुणितेक्षणा।
एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः५४।
सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं।
पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः५५।
तदयं जगतामीशः सर्वेषामुत्तमोत्तमः।
स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता५६।
ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः।
न शक्ता ख्यापने तस्य देवस्य परमेष्ठिनः५७।
भस्मास्थि च कपालानि श्मशाने वसतिस्तथा।
गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः५८।
भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा।
एष धाता विधाता च एष पालयिता दिशः५९।
प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरंदरः।
यदि रुद्रेस्ति देवत्वं यदि सर्वगतः शिवः६०।
सत्येन तेन ते यज्ञं विध्वंसयतु शंकरः।
यद्यस्ति मे तपः किंचित्कश्चिद्धर्मोथवा कृतः६१।
फलेन तस्य धर्मस्य यज्ञस्ते नाशमर्हति।
प्रियाहं यदि देवस्य यदि मां तारयिष्यति६२।
तेन सत्येन ते गर्वः समाप्तिमभिगच्छतु।
इत्युक्त्वा योगमास्थाय स्वदेहस्थेन तेजसा६३।
निर्ददाह तदात्मानं सदेवासुरपन्नगैः।
किंकिमेतदिति प्रोक्ते गंधर्वगणगुह्यकैः६४।
गंगाकूले तदा मुक्तो देहो वै क्रुद्धया तया।
सौनकं नाम तत्तीर्थं गंगायाः पश्चिमे तटे६५।
श्रुत्वा रुद्रस्तु तद्वार्त्तां पत्न्यानाश सुदुःखितः।
हंतुं यज्ञं धीरभवत्देवानामिह पश्यताम्६६।
गणकोटिः समादिष्टा ग्रहा वैनायकास्तथा।
भूतप्रेतपिशाचाश्च दक्षयज्ञ विनाशने६७।
तैर्गत्वा विबुधास्सर्वे यज्ञे निर्जित्य नाशिताः।
हते यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः६८।
उपगम्याब्रवीत्त्रस्तो देवदेवं पिनाकिनम्।
न ज्ञातोसि मया देव देवानां प्रभुरीश्वरः६९।
त्वमस्य जगतोधीशः सुरास्सर्वे त्वया जिताः।
कृपां कुरु महेशान गणान्सर्वान्निवर्त्तय७०।
गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः।
नानावदनदंतौष्ठैर्नाना प्रहरणोद्यतैः७१।
नाना नागेंद्रसंदष्ट जटाभारोपशोभितैः।
सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिघातिभिः७२।
कामरूपैरकांतैश्च सर्वकामसमन्वितैः।
अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः७३।
व्यालोलकेसरजटैर्दंष्ट्रोत्कटहसन्मुखैः।
करींद्रकरटाटोप पाटवैः सिंहदेहिभिः७४।
केचित्परमदाघ्राण घूर्णद्दीपसमप्रभैः।
विचित्रचित्रवसनैर्द्धीरधीरवारदिभिः७५।
मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः।
भुजंगहारवलयकृतयज्ञोपवीतकैः७६।
शूलासिपट्टिशधरैः परशुप्रासहस्तकैः।
वज्रक्रकचकोदंडकालदंडास्त्रपाणिभिः७७।
गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव।
देवदेवमहादेव नष्टो यज्ञो दिवं गतः७८।
मृगरूपधरो भूत्वा भयभीतस्तु शंकर।
नमः शङ्खाभदेवाय सगणाय सनंदिने७९।
वृषासनाय सोमाय क्रतुकालांतकाय च।
नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे८०।
ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायामिताय च।
गिरीशाय सुरेशाय ईशानाय नमोनमः८१।
रुद्राय प्रतिवज्राय शिवाय क्रथनाय च।
सुरासुराधिपतये यतीनां पतये नमः८२।
धूम्रोग्राय विरूपाय यज्वने घोररूपिणे।
विरूपाक्षाशुभाक्षाय सहस्राक्षाय वै नमः८३।
मुंडाय चंडमुण्डाय वरखट्वाङ्गधारिणे।
कव्यरूपाय हव्याय सर्वसंहारिणे नमः८४।
भक्तानुकंपिनेत्यर्थं रुद्रजाप्यस्तुताय च।
विरूपाय सुरूपाय रूपाणां शतकारिणे८५।
पंचास्याय शुभास्याय चंद्रास्याय नमो नमः।
वरदाय वरार्हाय कूर्माय च मृगाय च८६।
लीलालकशिखंडाय कमंडलुधराय च।
विश्वनाम्नेथ विश्वाय विश्वेशाय नमोनमः८७।
त्रिनेत्रत्राणमस्माकं त्रिपुरघ्नविधीयतां।
वाङ्मनः कायभावैस्तु प्रपन्नस्य महेश्वर८८।
एवं स्तुतस्तदा देवो दक्षेणापन्नदेहिना।
दिव्येनानेन स्तोत्रेण भृशमाराधितस्तदा८९।
समग्रं ते यज्ञफलं मया दत्तं प्रजापते।
सर्वकामप्रसिर्द्ध्य्थंफलंप्राप्स्यस्यनुत्तमम्९०।
एवमुक्तो भगवता प्रणम्याथ सुरेश्वरम्।
जगाम स्वनिकेतं तु गणानामेव पश्यताम्९१।
पत्न्याः शोकेन वै देवो गंगाद्वारे तदास्थितः।
तां सतीं चिंतयानस्तु क्व नु सामेप्रियागता९२।
तस्य शोकाभिभूतस्य नारदो भवसंन्निधौ।
सा ते सती या देवेश भार्या प्राणसमामृता९३।
हिमवद्दुहिता सा च मेनागर्भसमुद्भवा।
जग्राह देहमन्यं सा वेदवेदार्थवेदिनी९४।
श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत।
कृतकृत्यमथात्मानं कृत्वा देवस्तदास्थितः९५।
संप्राप्तयौवना देवी पुनरेव विवाहिता।
एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा९६।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे दक्षयज्ञविध्वंसोनाम पञ्चमोऽध्यायः५।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 6
भीष्म उवाच।
देवानां दानवानां च गंधर्वोरगरक्षसाम्।
उत्पत्तिं विस्तरेणेमां गुरो ब्रूहि यथाविधि१।
पुलस्त्य उवाच।
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते।
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसंभवा२।
यथा ससर्ज चैवासौ तथैव शृणु कौरव।
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्३।
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः।
दक्षः पुत्रसहस्राणि तदासिक्न्यामजीजनत्४।
तांस्तु दृष्ट्वा महाभागान्सिसृक्षून्विविधाः प्रजाः।
नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान्५।
भुवः प्रमाणं सर्वं तु ज्ञात्वोर्द्धमध एव वा।
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः६।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्।
अद्यापि न निवर्त्तंते समुद्रादिव सिंधवः७।
हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः।
वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः८।
शबलाश्वा नाम ते च समेताः सृष्टिकर्मणि।
नारदोनुगतान्प्राह पुनस्तान्पूर्ववन्मुनिः९।
भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄनथो पुनः।
आगत्य च पुनः सृष्टिं करिष्यथ विशेषतः१०।
तेपि तेनैव मार्गेण जग्मुर्भ्रात्रनुगास्तदा।
ततः प्रभृति न भ्रातुः कनीयान्मार्गमिच्छति११।
अन्वेष्टा दुःखमाप्नोति तेन तत्परिवर्जयेत्।
ततस्तेष्वपि नष्टेषु(यु) षष्टिं कन्याः प्रजापतिः१२।
वीरिण्यां जनयामास दक्षः प्राचेतसस्तदा।
प्रादात्स दश धर्माय कश्यपाय त्रयोदश१३।
विंशतिसप्त सोमाय चतस्रोरिष्टनेमिने।
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते१४।
द्वे चैवांगिरसे प्रादात्तासां नामानि विस्तरात्।
शृणु त्वं देवमातॄणां प्रजाविस्तारमादितः१५।
अरुंधती वसुर्जामिर्लम्बा भानुर्मरुत्वती।
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी१६।
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोध मे।
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत्१७।
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा।
भानोस्तु भानवो जाता मूहूर्त्ताया मुहूर्तजाः१८।
लंबायां घोषनामानो नागवीथी तु जामिजा।
पृथिवीतलसंभूतमरुंधत्यामजायत१९।
संकल्पायास्तु संकल्पा वसु सृष्टिं निधारय।
ज्योतिष्मतंश्च ये देवा व्यापकाः सर्वतोदिशम्२०।
वसवस्ते समाख्यातास्तेषां नामानि मे शृणु।
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोनलः२१।
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः।
आपस्य पुत्राश्चत्वारः श्रांतो वैतण्ड एव च२२।
अपि शांतो मुनिर्वभ्रुर्यज्ञरक्षाधिकारिणः।
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत२३।
द्रविणो हव्यवाहश्च धर पुत्राविमौ स्मृतौ।
कल्पांतस्थस्ततः प्राणो रमणः शिशिरोपि च२४।
मनोहरो धवश्चाथ शिवो वाथ हरेः सुताः।
शिवो मनोजवं पुत्रमविज्ञातगतिप्रदम्२५।
अवाप चानलः पुत्रानग्निप्रायगुणांस्ततः।
तत्र शाखो विशाखश्च निगमेषु स्वयंभुवः२६।
अपत्यं कृत्तिकानां च कार्तिकेयस्ततः स्मृतः।
प्रत्यूषस्य ऋभुः पुत्रो मुनिर्नामाथ देवलः२७।
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः।
प्रासादभवनोद्यान प्रतिमा भूषणादिषु२८।
तटाकारामकूपेषु त्रिदशानां च वर्द्धकिः।
अजैकपादहिर्बुध्न्यो विरूपाक्षोथ रैवतः२९।
हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः।
सावित्त्रश्च जयंतश्च पिनाकी चापराजितः३०।
एते रुद्रास्समाख्याता एकादश गणेश्वराः।
एतेषां मानसानां तु त्रिशूलवरधारिणाम्३१।
कोट्यश्चतुरशीतिस्तु तत्पुत्राश्चाक्षया मताः।
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः३२।
एते वै पुत्रपौत्राश्च सुरभीगर्भसंभवाः।
कश्यपस्य प्रवक्ष्यामि पुत्रपौत्रादि पत्निषु३३।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा।
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा३४।
कद्रू खसा मुनिस्तद्वत्तासु पुत्रान्निबोध मे।
तुषिता नाम ये देवाश्चाक्षुषस्यांतरे मनोः३५।
वैवस्वतेंतरे चैव आदित्या द्वादश स्मृताः।
इन्द्रो धाता भगस्त्वष्टा मित्त्रोऽथ वरुणोऽर्यमा३६।
विवस्वान्सविता पूषा अंशुमान्विष्णुरेव च।
एते सहस्रकिरणा आदित्या दाद्वश स्मृताः३७।
मारीचात्कश्यपाज्जाताः पुत्त्रास्तेऽदितिनंदनाः।
कृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः३८।
एते देवगणास्तात प्रतिमन्वंतरेषु च।
उत्पद्यंते विलीयंते कल्पेकल्पे तथैव च३९।
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्।
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च४०।
हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम्।
प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च४१।
प्रह्लादपुत्रा आयुष्मान्शिबिर्बाष्कलिरेव च।
विरोचनश्चतुर्थस्तु स बलिं पुत्रमाप्तवान्४२।
बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो नृप।
धृतराष्ट्रस्तथासूर्य्यो विवस्वानंशुतापनः४३।
निकुम्भनामा गुर्वक्षः कुक्षिर्भौमोथ भीषणः।
एवमन्ये तु बहवो बाणोज्येष्ठो गुणाधिकः४४।
बाणस्सहस्रबाहुस्तु सर्वास्त्रगुणसंयुतः।
तपसा तोषितो यस्य पुरे वसति शूलधृत्४५।
महाकालत्वमगमत्सार्थ्यं यस्य पिनाकिनः।
हिरण्याक्षस्य पुत्रोभूदंधको नामनामतः४६।
भूतसंतापनश्चैव महानागस्तथैव च।
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः४७।
महाबला महाकाया नानारूपा महौजसः।
दनुः पुत्रशतं लेभे कश्यपाद्वरदर्पितम्४८।
विप्रचित्तिः प्रधानोभूदेषां मध्ये महाबलः।
द्विरष्टमूर्द्धा शकुनिस्तथा शंकुशिरोधरः४९।
अयोमुखः शंबरश्च कपिलो वामनस्तथा।
मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा५० 1.6.50।
निद्राधरश्च केतुश्च केतुवीर्यः शतक्रतुः।
इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च५१।
एकवस्त्रो महाबाहुर्वज्राक्षस्तारकस्तथा।
असिलोमा पुलोमा च विकुर्वाणो महासुरः५२।
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोस्सुताः।
स्वर्भानोः सुप्रभा कन्या शची चैव पुलोमजा५३।
उपदानवी मयस्यासीत्तथा मंदोदरी कुहूः।
शर्मिष्ठा सुंदरी चैव चंडा च वृषपर्वणः५४।
पुलोमा कालका चैव वैश्वनरसुते उभे।
बह्वपत्यो महासत्वो मारीचस्य परिग्रहः५५।
तयोः षष्टिसहस्राणि दानवानां पुराभवन्।
पौलोमान्कालखंजांश्च मारीचोजनयत्पुरा५६।
अवध्या ये नराणां वै हिरण्यपुरवासिनः।
चतुर्मुखाल्लब्धवरा ये हता विजयेन तु५७।
विप्रचित्तिः सिंहिकायां नव पुत्रानजीजनत्।
हिरण्यकशिपोर्येवै भागिनेयास्त्रयोदश५८।
कंसः शंखश्च राजेन्द्र नलो वातापिरेव च।
इल्वलो नमुचिश्चैव खसृमश्चांजनस्तथा५९।
नरकः कालनाभश्च परमाणुस्तथैव च।
कल्पवीर्यश्च विख्यातो दनुवंशविवर्द्धनः६०।
संह्लादस्य तु दैत्यस्य निवातकवचाः कुले।
अवध्याः सर्वदेवानां गंधर्वोरगराक्षसाम्६१।
ये हता बलमाश्रित्य अर्जुनेन रणाजिरे।
षट्कन्या जनयामास ताम्रा मारीचवीर्यतः६२।
शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिम्।
शुकी शुकानुलूकांश्च जनयामास धर्मतः६३।
श्येनी श्येनांश्च भासी च कुररानप्यजीजनत्।
गृध्री गृध्रान्सुगृध्री च पारावतविहंगमान्६४।
हंस सारस कारंड प्लवान्शुचिरजीजनत्।
एते ताम्रासुताः प्रोक्ता विनताया निशामय६५।
गरुडः पतगश्रेष्ठोऽरुणश्चेशः पतत्रिणाम्।
सौदामिनी तथा कन्या येयं नभसि विश्रुता६६।
संपातिश्च जटायुश्च अरुणस्य सुतावुभौ।
संपातिपुत्रो बभ्रुश्च शीघ्रगश्चातिविश्रुतः६७।
जटायोः कर्णिकारश्च शतगामी च विश्रुतौ।
तेषामसंख्यमभवत्पक्षिणां पुत्रपौत्रकम्६८।
सुरसायां सहस्रं तु सर्पाणामभवत्पुरा।
सहस्रशिरसां कद्रूः सहस्रं प्राप सुव्रता६९।
प्रधानास्तेषु विख्याता ष्षड्विंशतिररिन्दम।
शेषवासुकिकर्कोट शंखैरावतकंबलाः७०।
धनंजय महानील पद्माश्वतर तक्षकाः।
एलापत्र महापद्म धृतराष्ट्र बलाहकाः७१।
शंखपाल महाशंख पुष्पदंष्ट्रं शुभाननाः।
शंखरोमा च नहुषो रमणः पणिनस्तथा७२।
कपिलो दुर्मुखश्चापि पतंजलिमुखास्तथा।
एषामनंतमभवत्सर्वेषां पुत्रपौत्रकम्७३।
प्रायशो यत्पुरादग्धं जनमेजयमंदिरे।
रक्षोगणं क्रोधवशा सुनामानमजीजनत्७४।
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम्।
दंष्ट्रि गोमायु काकादीन्महिषीर्गोवराङ्गनाः७५।
सुरभिर्जनयामास कश्यपात्त्त्रितयं पुरा।
मुनिर्मुनीनां च गणं गणमप्सरसां तथा७६।
तथा किन्नरगंधर्वानरिष्टा जनयद्बहून्।
तृणवृक्षलता गुल्ममिरा सर्वमजीजनतत्७७।
खसा तु यक्षरक्षांसि जनयामास कोटिशः।
एते कश्यपदायादाः शतशोथ सहस्रशः७८।
एष मन्वंतरे भीष्म सर्गः स्वारोचिषे स्मृतः।
ततस्त्वेकोनपंचाशन्मरुतः कश्यपाद्दितिः।
जनयामास धर्मज्ञ सर्वानमरवल्लभान्७९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे षष्ठोध्यायः६।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 7
भीष्म उवाच।
दितेः पुत्राः कथं जाता मरुतो देववल्लभाः।
देवैर्जग्मुश्च सापत्नैः कस्मात्सख्यमनुत्तमम्१।
पुलस्त्य उवाच।
पुरा दैवासुरे युद्धे हतेषु हरिणा सुरैः।
पुत्रपौत्रेषु शोकार्ता गता भूलोकमुत्तमम्२।
पुष्करेषु महातीर्थे सरस्वत्यास्तटे शुभे।
भर्त्तुराराधनपरा तप उग्रं चचार ह३।
दितिर्वै दैत्यमाता तु ऋषिकार्येण सुव्रता।
फलाहारा तपस्तेपे कृच्छ्रचांद्रायणादिभिः४।
यावद्वर्षशतं साग्रं जराशोकसमाकुला।
ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत५।
कथयंतु भवंतो मे पुत्रशोकविनाशनम्।
व्रतं सौभाग्यफलदमिहलोके परत्र च६।
ऊचुर्वसिष्ठप्रमुखा ज्येष्ठस्य पूर्णिमाव्रतम्।
यस्य प्रसादादभवत्सुतशोकविवर्जिता७।
भीष्म उवाच।
श्रोतुमिच्छाम्यहं ब्रह्मन्ज्येष्ठस्य पूर्णिमाव्रतम्।
सुतानेकोनपंचाशद्येन लेभे पुनर्दितिः८।
पुलस्त्य उवाच।
यद्वसिष्ठादिभिः पूर्वं दित्यै संकथितं व्रतम्।
विस्तरेण तदेवेदं मत्सकाशान्निशामय९।
ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां यतव्रता।
स्थापयेदव्रणं कुंभं सिततण्डुलपूरितम्१०।
नानाफलयुतं तद्वदिक्षुदंडसमन्वितम्।
सितवस्त्रयुगच्छन्नंसितचंदनचर्चितम्११।
नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः।
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत्१२।
तस्मादुपरि ब्रह्माणं सौवर्णं पद्मकोटरे।
कुर्यात्शर्करयोपेतां सावित्रीं तस्य वामतः१३।
गंधंधूपं तयोर्दद्याद्गीतं वाद्यं च कारयेत्।
तदभावे कथं कुर्याद्यथा पद्मे पितामहः१४।
ब्रह्माह्वयां च प्रतिमां कृत्वा गुडमयीं शुभाम्।
शुक्लपुष्पाक्षततिलैरर्चयेत्पद्मसंभवम्१५।
ब्राह्माय पादौ संपूज्य जंघे सौभाग्यदाय च।
विरिंचायोरुयुग्मं च मन्मथायेति वै कटिम्१६।
स्वच्छोदरायेत्युदरमतंद्रायेत्युरो विधेः।
मुखं पद्ममुखायेति बाहू वै वेदपाणये१७।
नमः सर्वात्मने मौलिमर्च्चयेच्चापि पंकजम्।
ततः प्रभाते तत्कुंभं ब्राह्मणाय निवेदयेत्१८।
ब्राह्मणं भोजयेद्भक्त्या स्वयं तु लवणं विना।
भक्त्या प्रदक्षिणं दद्यादिमं मंत्रमुदीरयेत्१९।
प्रीयतामत्र भगवान्सर्वलोकपितामहः।
हृदये सर्वलोकानां यस्त्वानंदोभिधीयते२०।
अनेन विधिना सर्वं मासिमासि समाचरेत्।
उपवासी पौर्णमास्यामर्चयेद्ब्राह्ममव्ययम्२१।
फलमेकं च संप्राश्य शर्वर्यां भूतले स्वपेत्।
ततस्त्रयोदशे मासि घृतधेनुसमन्विताम्२२।
शय्यां दद्याद्विरिंचाय सर्वोपस्करसंयुताम्।
ब्रह्माणं कांचनं कृत्वा सावित्रीं रजतैस्तथा२३।
पद्मात्मकः सृष्टिकर्त्ता सावित्रीमुपलभ्यतु।
वस्त्रैर्द्विजं सपत्नीकं पूज्य भक्त्या विभूषणैः२४।
शक्त्या गवादिकं दद्यात्प्रीयतामित्युदीरयेत्।
होमं शुक्लैस्तिलैः कुर्याद्ब्रह्मनामानि कीर्तयेत्२५।
गव्येन सर्पिषा तद्वत्पायसेन च धर्मवित्।
विप्रेभ्योथ धनं दद्यात्पुष्पमालां च शक्तितः२६।
यः कुर्याद्विधिनानेन पौर्णमास्यां स्त्रियोपि वा।
सर्वपापविनिर्मुक्तः प्राप्नोति ब्रह्मसात्म्यताम्२७।
इहलोके वरान्पुत्रान्सौभाग्यं ध्रुवमश्नुते।
यो ब्रह्मा स स्मृतो विष्णुरानंदात्मा महेश्वरः२८।
सुखार्थी कामरूपेण स्मरेद्देवं पितामहम्।
एवं श्रुत्वा चकारासौ दितिः सर्वमशेषतः२९।
कश्यपो व्रतमाहात्म्यादागत्य परया मुदा।
चकार कर्कशां भूयो रूपलावण्यसंयुताम्३०।
वरैराछंदयामास सा तु वव्रे वरंवरम्।
पुत्रं शक्रवधार्थाय समर्थं च महौजसम्३१।
वरयामि महात्मानं सर्वामरनिषूदनम्।
उवाच कश्यपो वाक्यमिंद्रहंतारमूर्जितम्३२।
प्रदास्याम्यहमेतेन किन्त्वेतत्क्रियतां शुभे।
आपस्तंबीं तु कृत्वेष्टिं पुत्रीयामद्य सुस्तनि३३।
विधास्यामि ततो गर्भं स्पृष्ट्वाहं ते स्तनौ शुभे।
भविष्यति शुभो गर्भो देवि शक्रनिषूदनः३४।
आपस्तंबीं ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम्।
इंद्रशत्रोभवस्वेति जुहाव च हविस्त्वरन्३५।
देवाश्च मुमुर्हुर्दैत्या विमुखाश्चैव दानवाः।
दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः३६।
मुखं ते चंद्रप्रतिमं स्तनौ बिल्वफलोपमौ।
अधरौ विद्रुमाकारौ वर्णश्चातीव शोभनः३७।
त्वां दृष्ट्वाहं विशालाक्षि विस्मरामि स्विकां तनुम्।
तदेवं गर्भः सुश्रोणि हस्तेनोप्तस्तनौ तव३८।
त्वया यत्ने विधातव्यो ह्यस्मिन्गर्भे वरानने।
संवत्सरशतं त्वेकमस्मिन्नेव तपोवने३९।
संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि।
न स्थातव्यं न गंतव्यं वृक्षमूलेषु सर्वदा४०।
नोपस्करेषु निविशेन्मुसलोलूखलादिषु।
जलं च नावगाहेत शून्यागारं च वर्जयेत्४१।
वल्मीकेषु न तिष्ठेत न चोद्विग्नमना भवेत्।
न नखेन लिखेद्भूमौ नांगारे न च भस्मनि४२।
न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत्।
न तुषांगारभस्मास्थि कपालेषु समाविशेत्४३।
वर्जयेत्कलहं लोके गात्राभ्यंगं तथैव च।
न मुक्तकेशी तिष्ठेत नाशुचिः स्यात्कथंचन४४।
न शयीतोत्तरशिराः न चैवाधः शिराः क्वचित्।
न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती४५।
नामंगल्यां वदेद्वाचं न च हास्याधिकाभवेत्।
कुर्याच्च गुरुभिर्नित्यं पूजां मांगल्यतत्परा४६।
सर्वौषधीभिः सृष्टेन वारिणा स्नानमाचरेत्।
तिष्ठेत्प्रसन्नवदना भर्तृप्रियहिते रता।
न गर्हयेच्च भर्तारं सर्वावस्थमपि क्वचित्४८।
कृशाहं दुर्बला चैव वार्द्धक्यं मम चागतम्।
स्तनौ मे चलितौ स्थानान्मुखं च वलिभंगुरम्४९।
एवंविधा त्वया चाहं कृतेति न वदेत्क्वचित्।
स्वस्त्यस्तुते गमिष्यामि तथेत्युक्तस्तया पुनः५० 1.7.50।
पश्यतां सर्वभूतानां तत्रैवांतरधीयत।
ततः सा भर्तृवाचोक्तविधिना समतिष्ठत५१।
अथ ज्ञात्वा तथेंद्रोपि दितेः पार्श्वमुपागतः।
विहाय देवसदनं तां शुश्रूषुरवस्थितः५२।
दितेश्छिद्रांतरप्रेप्सुरभवत्पाकशासनः।
विपरीतोंतरव्यग्रः प्रसन्नवदतो बहिः५३।
अजानन्निव तत्त्कार्यमात्मनश्शुभमाचरन्।
ततो वर्षशतांते सा न्यूने तु दिवसैस्त्रिभिः५४।
मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा।
अकृत्वा पादयोः शौचं शयाना मुक्तमूर्धजा५५।
निद्राभरसमाक्रांता दिवा परशिराः क्वचित्।
ततस्तदंतरं लब्ध्वा प्रविश्यांतः शचीपतिः५६।
वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः।
ततः सप्त च ते जाताः कुमाराः सूर्यवर्चसः५७।
रुदंतः सप्त ते बाला निषिद्धा दानवारिणा।
भूयोपि रुदमानांस्तानेकैकान्सप्तधा हरिः५८।
चिच्छेद वज्रहस्तो वै पुनः स्तूदरसंस्थितान्।
एवमेकोनपंचाशद्भूत्वा ते रुरुदुर्भृशम्५९।
इंद्रो निवारयामास मा रुदध्वं पुनःपुनः।
ततः स चिंतयामास वितर्कमिति वृत्रहा६०।
कर्मणः कस्य माहात्म्यात्पुनः संजीवितास्त्वमी।
विदित्वा पुण्ययोगेन पौर्णमासीफलं त्विदम्६१।
नूनमेतत्परिणतमथवा ब्रह्मपूजनात्।
वज्रेणाभिहताः संतो न विनाशमुपाययुः६२।
एकोप्यनेकतामाप यस्मादुदरगोपनम्।
अवध्या नूनमेते वै तस्माद्देवा भवंत्विति६३।
यस्मान्मा रुद इत्युक्ता रुदंतो गर्भसंभवाः।
मरुतो नाम ते नाम्ना भवंतु सुखभागिनः६४।
ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः।
अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम्६५।
कृत्वा मरुद्गणं देवैः समानममराधिपः।
दितिं विमानमारोप्य ससुतामगमद्दिवम्६६।
यज्ञभागभुजः सर्वे मरुतस्ते ततोभवन्।
न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः६७।
भीष्म उवाच।
आदिसर्गस्त्वया ब्रह्मन्कथितो विस्तरेण मे।
प्रतिसर्गश्च यो येषामधिपांस्तान्वदस्व मे६८।
पुलस्त्य उवाच।
यदाभिषिक्तः सकलेपि राज्ये पृथुर्द्धरित्र्यामधिपो बभूव।
तथौषधीनामधिपं चकार यज्ञव्रतानां तपसां च सोमम्६९।
नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भम्।
अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत्७०।
विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिं चकार।
प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम्७१।
दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम्।
पिशाचरक्षःपशुभूतयक्षवेतालराजं ह्यथ शूलपाणिम्७२।
प्रालेयशैलं च पतिं गिरीणामीशं समुद्रं सरितामधीशम्।
गंधर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार७३।
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश।
दिग्वारणानामधिपं चकार गजेंद्रमैरावणनामधेयम्७४।
सुपर्णमीशं पततामथार्वतां राजानमुच्चैःश्रवसं चकार।
सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम्७५।
पितामहः पूर्वमथाभ्यषिंचदेतान्पुनः सर्वदिशाधिनाथान्।
पूर्वेश दिक्पालमथाभ्यषिंचन्नाम्ना सुवर्माणमरातिकेतुं७६।
ततोधिपं दक्षिणतश्चकार सर्वेश्वरं शंखपदाभिधानम्।
सकेतुमंतं दिगधीशमीशं चकार पश्चाद्भुवनांडगर्भः७७।
हिरण्यरोमाणमुदग्दिगीशं प्रजापतिं मेघसुतं चकार।
अद्यापि कुर्वंति दिशामधीशाः सदा वहंतस्तु भुवोभिरक्षाम्७८।
चतुर्भिरेतैः पृथुनामधेयो नृपोभिषिक्तः प्रथमः पृथिव्याम्।
गतेंतरे चाक्षुषनामधेये वैवस्वतं चक्रुरिमं पृथिव्यां७९।
गतेंतरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते।
प्रजापतिः सोस्य चराचरस्य बभूव सूर्यान्वयजः सचिह्नः८०।
पुलस्त्य उवाच।
मन्वंतराणि सर्वाणि मनूनां चरितानि यत्।
प्रमाणं चैव कल्पस्य तत्सृष्टिं च समासतः८१।
एकचित्तः प्रसन्नात्मा शृणु कौरवनंदन।
यामा नाम पुरा देवा आसन्स्वायंभुवांतरे८२।
सप्तैव ऋषयः पूर्वं ये मरीच्यादयः स्मृताः।
आग्नीध्रश्चाग्निबाहुश्च विभुः सवन एव च८३।
ज्योतिष्मान्द्युतिमान्भव्यो मेधा मेधातिथिर्वसुः।
स्वायंभुवस्यास्य मनोर्दशैते वंशवर्द्धनाः८४।
प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम्।
एवं स्वायंभुवं प्रोक्तं स्वारोचिषमतः परम्८५।
स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः।
नभोनभस्य प्रभृतिर्भावनः कीर्तिवर्द्धनः८६।
दत्तोग्निश्च्यवनस्तंभः प्राणः कश्यप एव च।
अर्वा बृहस्पतिश्चैव सप्त सप्तर्षयोभवन्८७।
तदा देवाश्च तुषिताः स्मृता स्वारोचिषेंतरे।
हवींद्रसुःकृतो मूर्तिरापो ज्योतिरथः स्मृतः८८।
वसिष्ठस्य सुताः सप्त ये प्रजापतयस्तदा।
द्वितीयमेतत्कथितं मन्वंतरमतः परं८९।
अन्यच्चैव प्रवक्ष्यामि तथा मन्वंतरं शुभं।
मनुर्नामौत्तमिस्तत्र दश पुत्रानजीजनत्९०।
इषऊर्जस्तनूजश्च शुचिः शुक्रस्तथैव च।
मधुश्च माधवश्चैव नभस्योथ नभस्तथा९१।
सहः सहस्य एतेषामुत्तमः कीर्तिवर्द्धनः।
भानवस्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः९२।
कौकभिण्डिः कुतुण्डश्च दाल्भ्यः शंखः प्रवाहितः।
मितिश्च संमितिश्चैव सप्तैते योगवर्द्धनाः९३।
मन्वंतरं चतुर्थं तु तामसं नाम विश्रुतं।
कपिः पृथुस्तथैवाग्निरकपिः कविरेव च९४।
तथैव जन्यधामानौ मुनयः सप्त नामतः।
साध्या देवगणा ये च कथितास्तामसेंतरे९५।
अकल्मषस्तपोधन्वी तपोमूलस्तपोधनः।
तपोराशिस्तपस्यश्च सुतपस्यः परंतपः९६।
तामसस्य सुताः सर्वे दशवंशविवर्द्धनाः।
पंचमस्य मनोस्तद्वद्रैवतस्यांतरं शृणु९७।
देवबाहुः सुबाहुश्च पर्ज्यन्यः समयोमुनिः।
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः९८।
देवाश्च भूतरजसस्तथा प्रकृतयः स्मृताः।
अवशस्तत्वदर्शी च वीतिमान्हव्यपः कपिः९९।
मुक्तो निरुत्सुकः सत्वो निर्मोहोथ प्रकाशकः।
धर्मवीर्यबलोपेता दशैते रेवतात्मजाः१०० 1.7.100।
भृगुः सुधामा विरजः सहिष्णुर्नारदस्तथा।
विवस्वान्कृतिनामा च सप्त सप्तर्षयोपरे१०१।
चाक्षुषस्यांतरे देवा लेखानामपरिश्रुताः।
विभवोथ पृथक्चानु कीर्तितास्त्रिदिवौकसः१०२।
चाक्षुषस्यांतरे प्राप्ते देवानां पंचमो जनः।
रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश१०३।
प्रोक्ताः स्वायंभुवे वंशे ये मया पूर्वमेव ते।
अन्तरं चाक्षुषं चैव मया ते परिकीर्तितं१०४।
सप्तमं च प्रवक्ष्यामि यद्वैवस्वतमुच्यते।
अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा१०५।
भारद्वाजस्तथा योगी विश्वामित्रः प्रतापवान्।
जमदग्निश्च सप्तैते सांप्रतं ते महर्षयः१०६।
कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदं।
सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथांतरं१०७।
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा।
शतानंदः काश्यपश्च रामश्च ऋषय स्मृताः१०८।
धृतिर्वरीयान्यवसुः सुवर्णो धृतिरेव च।
वरिष्णुवीर्यः सुमतिर्वसुश्शुक्रश्च वीर्यवान्१०९।
भविष्यस्यार्कसावर्णेर्मनोः पुत्राः प्रकीर्तिताः।
रौच्यादयस्तथान्येपि मनवः संप्रकीर्तिताः११०।
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति।
मनुर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति१११।
ततस्तु मेरुसावर्णिर्ब्रह्मसुनुर्मनुः स्मृतः।
ऋभुश्च ॠतुधामा च विष्वक्सेनो मनुस्तथा११२।
अतीतानागताश्चैव मनवः परिकीर्तिताः।
वर्षाणां युगसाहस्रमेभिर्व्याप्तं नराधिप११३।
स्वेस्वेन्तरे सर्वमिदं समुत्पाद्य चराचरं।
कल्पक्षये निवृत्ते तु मुच्यंते ब्रह्मणा सह११४।
अमीयुगसहस्रान्ते विनश्यन्ति पुनःपुनः।
ब्रह्माद्या विष्णुसायुज्यं ततो यास्यंति वै नृप११५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मन्वंतरवर्णनंनाम सप्तमोध्यायः७।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 8
भीष्म उवाच।
बहुभिर्द्धरणी भुक्ता भूपालैः श्रूयते पुरा।
पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः१।
किमर्थं च कृता संज्ञा भूमेस्सा पारिभाषिकी।
गौरितीयं च संज्ञा वा भुवः कस्माद्ब्रवीहि मे२।
पुलस्त्य उवाच।
पुरा कृतयुगस्यासीदंगो नाम प्रजापतिः।
मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी३।
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा।
अधर्मनिरतः कामी बलवान्वसुधाधिपः४।
लोकस्याधर्मकृच्चापि परभार्यापहारकः।
अथ तस्य प्रसिद्यर्थं जगदर्थं महर्षिभिः५।
अनुनीतोपि न ददावशुद्धात्माऽभयं ततः।
शापेन मारयित्वैनमराजकभयार्दिताः६।
ममंथुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः।
तत्कायान्मथ्यमानात्तु जनिता म्लेच्छजातयः७।
शरीरे मातुरंशेन कृष्णांजनसमप्रभाः।
पितुरंशस्य संगेन धार्मिको धर्मकारकः८।
उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी।
दिव्यतेजोमयः पुत्रस्सरत्नकवचांगदः९।
पृथुरेवाभवन्नाम्ना स च विष्णुरजायत।
स विप्रैरभिषिक्तः संस्तपः कृत्वा सुदुष्करं१०।
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुः।
निःस्वाध्यायवषट्कारं निर्द्धर्मं वीक्ष्य भूतलं११।
वेद्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः।
ततो गोरूपमास्थाय भूः पलायितुमुद्यता१२।
पृष्ठे त्वन्वगमत्तस्याः पृथुः सेषुशरासनः।
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्१३।
पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते।
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च१४।
तथेति चाब्रवीद्भूमिर्दुदोह स नराधिपः।
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायंभुवं मनुं१५।
तदन्नमभवद्दुग्धं प्रजा जीवंति येन तु।
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्१६।
दोग्धा वाचस्पतिरभूत्पात्रं वेदस्तपो रसः।
देवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत्१७।
इन्द्रो वत्सः समभवत्क्षीरमूर्ज्जस्वलं बलं।
देवानां कांचनं पात्रं पितृणां राजतं तथा१८।
अंतकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः।
बिलं च पात्रं नागानां तक्षको वत्सकोभवत्१९।
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोभवत्पुनः।
असुरैरपि दुग्धेयं आयसे शत्रुपीडनम्२०।
पात्रे मायामभूद्वत्सःप्राल्हादिस्तुविरोचनः।
दोग्धा त्रिमूर्द्धा तत्रासीन्माया येन प्रवर्तिता२१।
यक्षैश्च वसुधा दुग्धा पुरांतर्द्धानमीप्सुभिः।
कृत्वा विश्वावसुं वत्सं मणिमंतं महीपते२२।
प्रेतरक्षोगणैर्दुग्धा वसा रुधिरमुल्बणं।
रौप्यनाभोभवद्दोग्धा सुमाली वत्स एव च२३।
गंधर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैः।
वत्सं चित्ररथं कृत्वा गंधान्पद्मदले तथा२४।
दोग्धावसुरुचिर्नामाथर्ववेदस्य पारगः।
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च२५।
औषधानि च दिव्यानि दोग्धा मेरुर्महीधरः।
वत्सोभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः२६।
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणं।
पालाशपात्रे दोग्धा तु सालः पुष्पवनाकुलः२७।
प्लक्षोभवत्ततो वत्सः सर्ववृक्षवनाधिपः।
एवमन्यैश्च वसुधा तथा दुग्धा यथेच्छतः२८।
आयुर्द्धनानि सौख्यं च पृथौ राज्यं प्रशासति।
न दारिद्र्यं तथा रोगी नाधनोनचपापकृत्२९।
नोपसर्गा न चाघातः पृथौ राज्यं प्रशासति।
नित्यंप्रमुदितालोका दुःखशोकविवर्जिताः३०।
धनुः कोट्या च शैलेंद्रानुत्सार्य स महाबलः।
भूमंडलं समं चक्रे लोकानां हितकाम्यया३१।
न पुरग्रामदुर्गाणि न चायुधधरा नराः।
म्रियंते यत्र दुःखं च नार्थशास्त्रस्य चादरः३२।
धर्मैकतानाः पुरुषाः पृथौ राज्यं प्रशासति।
कथितानि च पात्राणि यत्क्षीरं च यथा तव३३।
येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानता।
यज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितं३४।
दुहितृत्वं गता यस्मात्पृथोः पृथ्वी महामते।
तस्यानुसारयोगाच्च पृथिवी विश्रुता बुधैः३५।
भीष्म उवाच।
आदित्यवंशमखिलं वद ब्रह्मन्यथाक्रमं।
सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि३६।
पुलस्त्य उवाच।
विवस्वान्कश्यपात्पूर्वमदित्यामभवत्पुरा।
तस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा३७।
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतं।
प्रभा प्रभातं सुषुवे त्वाष्ट्रं संज्ञा तथा मनुं३८।
यमश्च यमुना चैव यमलौ च बभूवतुः।
ततस्तेजोमयं रूपमसहंती विवस्वतः३९।
नारीमुत्पादयामास स्वशरीरादनिंदितां।
त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी४०।
किंकरोमीति पुरतः संस्थितां तामभाषत।
छाये त्वं भज भर्तारं मदीयं तं वरानने४१।
अपत्यानि मदीयानि मातृस्नेहेन पालय।
तथेत्युक्त्वा च सा देवमगात्कामाय सुव्रता४२।
कामयामास देवोपि संज्ञेयमिति चादरात्।
जनयामास सावर्णिं मनुं मनुस्वरूपिणम्४३।
सवर्णत्वाच्च सावर्णेर्मनोर्वैवस्वतस्य तु।
ततः सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु४४।
छायायां जनयामास संज्ञेयमिति भास्करः।
छाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा४५।
न चक्षमे मनुः पूर्वस्तद्यमः क्रोधमूर्छितः।
संतर्जयामास तदा पादमुत्क्षिप्य दक्षिणं४६।
शशाप च यमं छाया भवतु क्रिमिसंयुतः।
पादोयमेको भविता पूयशोणितविस्रवः४७।
निवेदयामास पितुर्यमः शापेन धर्षितः।
निःकारणमहं शप्तो मात्रा देव सकोपया४८।
बालभावान्मया किंचिदुद्यतश्चरणः सकृत्।
मनुना वार्यमाणापि मम शापमदाद्विभो४९।
प्रायो न माता सास्माकमसमा स्नेहतो यतः।
देवोप्याह यमं भूयः किं करोमि महामते५० 1.8.50।
सौख्यात्कस्य न दुःखं स्यादथवा कर्मसंततिः।
अनिवार्या भवस्यापि का कथान्येषु जंतुषु५१।
कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यति।
खंजं च रुचिरं चैव पादमेतद्भविष्यति५२।
एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार ह।
वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः५३।
पितामहं समाराध्य यावद्वर्षायुतं पुनः।
तपःप्रभावाद्देवेशः संतुष्टः पद्मसंभवः५४।
वव्रे स लोकपालत्वं पितृलोकं तथाक्षयं।
धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम्५५।
एवं स लोकपालत्वमगमत्पद्मसंभवात्।
पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ५६।
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितं।
त्वष्टुः समीपमगमदाचचक्षे सरोषवान्५७।
तमुवाच ततस्त्वष्टा सांत्वपूर्वमिदं वचः।
तवासहंती भगवंस्तेजस्तीव्रं तमोनुद५८।
बडवारूपमास्थाय मत्सकाशमिहागता।
निवारिता मया सा च त्वद्भयेन दिवस्पते५९।
यस्मादविज्ञातमना मत्सकाशमिहागता।
तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति६०।
एवमुक्ता जगामाशु मरुदेशमनिंदिता।
बडवारूपमास्थाय भूतले संप्रतिष्ठिता६१।
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्।
अपनेष्यामि ते तेजः कृत्वा यंत्रे दिवाकरम्६२।
रूपं तव करिष्यामि लोकानंदकरं प्रभो।
तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं६३।
पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्।
त्रिशूलं चापि रुद्रस्य वज्रमिंद्रस्य चापरं६४।
दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं।
रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्६५।
न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः।
अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित्६६।
यः करोति स पापिष्ठो गतिमाप्नोति निंदितां।
कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसंज्ञितं६७।
तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च।
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः६८।
ततः स भगवान्गत्वा भूर्लोकममराधिपः।
कामयामास कामार्तो मुख एव दिवाकरः६९।
अश्वरूपेण महता तेजसा च समन्वितः।
संज्ञा च मनसा क्षोभमगमद्भयविह्वला७०।
नासापुटाभ्यामुत्सृष्टं परोयमिति शंकया।
तस्याथ रेतसो जातावश्विनाविति नः श्रुतम्७१।
दस्रौ श्रुतित्वात्संजातौ नासत्यौ नासिकाग्रतः।
ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परं७२।
विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः।
सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः७३।
शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः।
यमुना तपती चैव पुनर्नद्यौ बभूवतुः७४।
विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता।
मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः७५।
इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः।
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च७६।
नरिष्यंतः करूषश्च शर्यातिश्च महाबलः।
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः७७।
अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्।
जगाम तपसे भूयः पुष्करं स तपोवनं७८।
अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः।
वरं वरय भद्रं ते मानवेय यथेप्सितं७९।
उवाच स तदा देवं पद्माक्षं पद्मजं विभुं।
वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः८०।
भवेयुरीश्वराः स्वामिन्प्रसादात्तव कंजज।
तथेत्युक्त्वा तु देवेशस्तत्रैवांतरधीयत८१।
ततोयोध्यां समागत्य समतिष्ठद्यथा पुरा।
अथैकदा रथारूढ इलो निज सुतो मनोः८२।
निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमां।
भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः संप्रसाधयन्८३।
जगामोपवनं शंभोरथाकृष्टः प्रतापवान्।
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्८४।
रमते यत्र देवेशः सोमः सोमार्द्धशेखरः।
उमया समयस्तत्र पुरा शरवणे कृतः८५।
पुंनामसंज्ञं यत्किंचिदागमिष्यति नो वनं।
स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमंडले८६।
अज्ञातसमयो राजा इलः शरवणं गतः।
स्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात्८७।
पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः।
इलेति साभवन्नारी पीनोन्नतघनस्तनी८८।
उन्नतश्रोणिजघना पद्मपत्रायतेक्षणा।
पूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा८९।
पीनोन्नतायतभुजा नीलकुंचितमूर्द्धजा।
तनुलोमा सुवदना मृदुगद्गदभाषिणी९०।
श्यामागौरेण वर्णेन तनुताम्रनखांकुरा।
कार्मुकभ्रूयुगोपेता हंसावरणगामिनी९१।
भ्रममाणा वने तस्मिन्चिंतयामास भामिनी।
को मे पिता वा भ्राता वा को मे त्राता भवेदिह९२।
कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतले।
चिंतयंती च ददृशे सोमपुत्रेण साङ्गना९३।
इलारूप समाक्षिप्त मनसा वरवर्णिनी।
बुधस्तदाप्तये यत्नमकरोत्कामपीडितः९४।
विशिष्टाकारवान्मुंडी स कमंडलुपुस्तकः।
वेणुदंडकृतावेशः पवित्रक खनित्रकः९५।
द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुंडली।
वटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः९६।
कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम्।
बहिर्वनस्यांतरितः किल पादपमंडपे९७।
ससंभ्रममकस्माच्च सोपालंभमिवाभवत्।
त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मंदिरान्मम९८।
इयं विहारवेला ते अतिक्रामति सांप्रतम्।
एह्येहि पृथुसुश्रोणि संभ्रांता केन हेतुना९९।
इयं सायंतनी वेला विहारस्येह वर्त्तते।
कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम१०० 1.8.100।
साब्रवीद्विस्मृताहं च सर्वमेव तपोधन।
आत्मानं त्वां च भर्त्तारं कुलं च वद मेनघ१०१।
बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनी।
अहं च कामुको नाम बहुविद्यो बुधः स्मृतः१०२।
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः।
इति सा तस्यवचनात्प्रविष्टा बुधमंदिरम्१०३।
रत्नस्तंभसमाकीर्णं दिव्यमायाविनिर्मितम्।
इला कृतार्थमात्मानं मेने तद्भवने स्थिता१०४।
अहो वृत्तमहोरूपमहो धनमहोकुलम्।
मम चास्य च भर्त्तुर्वा अहो लावण्यमुत्तमम्१०५।
रेमे च सा तेन सममतिकालमिला वने।
सर्वभोगमये गेहे यथेंद्रभवने तथा१०६।
अथान्विष्यंतो राजानं भ्रातरस्तस्य मानवाः।
इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणांतिकम्१०७।
ततस्ते ददृशुः सर्वे वडवामग्रतः स्थिताम्।
रत्नपर्यंतकिरणदीप्यमानामनुत्तमाम्१०८।
संप्राप्य प्रत्यभिज्ञानात्सर्वे विस्मयमागताः।
अयं चंद्रप्रभो नाम वाजी तस्य महात्मनः१०९।
अगमद्वडवारूपमुत्तमं केन हेतुना।
ततस्तु मैत्रावरुणिं पप्रच्छुः स्वपुरोहितम्११०।
किमेतदित्यभूच्चित्रं वद योगविदां वर।
वसिष्ठोप्यब्रवीत्सर्वं दृष्ट्वा तं ध्यानचक्षुषा१११।
समयः शंभुदयिता कृतः शरवणे पुरा।
यः पुमान्प्रविशेच्चात्र स नारीत्वमवाप्स्यति११२।
अयमश्वोपि नारीत्वमगाद्राज्ञा सहैव तु।
इलः पुरुषतामेति यथासौ धनदोपमः११३।
तथैव यत्नः कर्त्तव्य आराध्य च पिनाकिनम्।
ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः११४।
तुष्टवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ।
तावूचतुरलं चैष समयः किं नु सांप्रतं११५।
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः।
दत्वा किंपुरुषो वीरः स भविष्यत्यसंशयम्११६।
तथेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वतात्मजाः।
इष्ट्वाश्वमेधेन तत इला किंपुरुषोभवत्११७।
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः।
बुधस्य भवने तिष्ठन्निलो गर्भधरोभवत्११८।
अजीजनत्पुत्रमेकमनेकगुणसंयुतम्।
बुध उत्पाद्य तं पूरुं स स्वर्गमगमत्पुनः११९।
इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा।
सोमार्कवंशजो राजा इलोभूद्वंशवर्द्धनः१२०।
एवं पुरूरवाः पूरोरभवद्वंशवर्द्धनः।
इक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः१२१।
इलः किंपुरुषत्वे च सुद्युम्न इति चोच्यते।
पुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम्१२२।
उत्कलोथ गयस्तद्वद्धरिताश्वश्च वीर्यवान्।
उत्कलस्योत्कला नाम गयस्य तु गयापुरी१२३।
हरिताश्वस्य दिग्याम्या संज्ञाता कुरुभिः सह।
प्रतिष्ठानेभिषिच्याथ स पुरूरवसं सुतम्१२४।
जगामेलावृतं भोक्तुं दिव्यं वर्षं फलाशनः।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्१२५।
नरिष्यंतस्य पुत्रोभूच्छुको नाम महाबलः।
नाभागादंबरीषस्तु धृष्टस्य तु सुतत्रयम्१२६।
धृष्टकेतुः स्वधर्माथो रणधृष्टश्च वीर्यवान्।
आनर्तो नाम शर्यातेः सुकन्या चैव दारिका१२७।
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्।
आनर्तो नाम देशोभून्नगरी च कुशस्थली१२८।
रोचमानस्य रेवोभूद्रेवाद्रैवत एव च।
ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च१२९।
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता।
करूषाच्चैव कारूषा बहवः प्रथिता भुवि१३०।
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत।
इक्ष्वाकुपुत्रा नाम्नाथ विकुक्षि निमिदंडकाः१३१।
श्रेष्ठाः पुत्रशतस्यासन्पंचाशच्चाथ तत्सुताः।
मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः१३२।
चत्वारिंशत्तथाष्टान्ये शतमध्ये च येभवन्।
मेरोर्दक्षिणतश्चैव राजानस्ते प्रकीर्तिताः१३३।
ज्येष्ठात्ककुत्स्थनामाभूत्सुतस्तस्य सुयोधनः।
तस्य पुत्रः पृथृर्नाम विश्वस्तस्य पृथोः सुतः१३४।
आर्द्रस्तस्य च पुत्रोभूद्युवनाश्वस्ततोभवत्।
युवनाश्वस्य पुत्रोभूच्छावस्तो नाम वीर्यवान्१३५।
निर्मिता येन शावस्ती ह्यंगदेशे नराधिप।
शावस्ताद्बृहदश्वो भूत्कुवलाश्वस्ततोभवत्१३६।
धुंधुमारत्वमगमद्धुंधुं हत्वाऽसुरं पुरा।
तस्य पुत्रास्त्रयो जाता दृढाश्वो घृणिरेव च१३७।
कपिलाश्वश्च विख्यातो धौंधुमारिः प्रतापवान्।
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः१३८।
हर्यश्वस्य निकुंभोभूत्संहताश्वस्ततोभवत्।
अकृताश्वो रणाश्वश्च संहताश्व सुतावुभौ१३९।
युवनाश्वो रणाश्वस्य मांधाता च ततोभवत्।
मांधातुः पुरुकुत्सोभूद्धर्मसेतुश्च पार्थिवः१४०।
मुचुकुन्दश्च विख्यातश्शक्रमित्रः प्रतापवान्।
पुरुकुत्सस्य पुत्रोभूद्दुस्सहो नर्मदापतिः१४१।
संभूतिस्तस्य पुत्रोभूत्त्रिधन्वा च ततोभवत्।
त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः१४२।
तस्य सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः।
तस्य पुत्रो हरिश्चन्द्रो हरिश्चंद्राच्च रोहितः१४३।
रोहताच्च वृको जातो वृकाद्बाहुरजायत।
सगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः१४४।
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा।
ताभ्यामाराधितः पूर्वमौर्वाग्निः पुत्रकाम्यया१४५।
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्।
एका षष्टिसहस्राणि सुतमेकं तथापरा१४६।
अगृह्णाद्वंशकर्तारं प्रभाऽगृह्णाद्बहून्सुतान्।
एकं भानुमती पुत्रमगृह्णादसमंजसं१४७।
ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा।
खनंतः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे१४८।
असमंजस्तु तनयो ह्यंशुमान्नाम विश्रुतः।
तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः१४९।
येन भागीरथी गङ्गा तपः कृत्वावतारिता।
भगीरथस्य तनयो नाभाग इति विश्रुतः१५० 1.8.150।
नाभागस्यांबरीषोभूत्सिंधुद्वीपस्ततोभवत्।
तस्यायुतायुः पुत्रोभूदृतुपर्णस्ततोभवत्१५१।
तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः।
तस्यानरण्यः पुत्रोभून्निघ्नस्तस्य सुतोभवत्१५२।
निघ्नपुत्रावुभौ जातावनमित्र रघूत्तमौ।
अनमित्रो वनमगादरिनाशकृते नृप१५३।
रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजस्तथा।
दीर्घबाहुरजाज्जातः प्रजापालस्ततोभवत्१५४।
ततो दशरथो जातस्तस्य पुत्रचतुष्टयं।
नारायणात्मकाः सर्वे रामस्तस्याग्रजोभवत्१५५।
रावणांतकरस्तद्वद्रघूणां वंशवर्द्धनः।
वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः१५६।
तस्य पुत्रः कुशो नाम इक्ष्वाकुकुलवर्द्धनः।
अतिथिस्तु कुशाज्जातो निषधस्तस्य चात्मजः१५७।
नलस्तु निषधाज्जातो नभास्तस्मादजायत।
नभसः पुंडरीकोभूत्क्षेमधन्वा ततः परम्१५८।
तस्यपुत्रोभवद्वीरो देवानीकः प्रतापवान्।
अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः१५९।
ततश्चंद्रावलोकस्तु तारापीडस्ततोभवत्।
तस्यात्मजश्चन्द्रगिरिश्चंद्रस्तस्य सुतोभवत्१६०।
श्रुतायुरभवत्तस्माद्भारते यो निपातितः।
नलौ द्वावेव विख्यातौ वंशे यस्य विशेषतः१६१।
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः।
एते विवस्वतो वंशे राजानो भूरिदक्षिणाः१६२।
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः१६३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे आदित्यवंशकथनंनामाष्टमोध्यायः८।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 9
भीष्म उवाच।
भगवन्श्रोतुमिच्छामि पितॄणां वंशमुत्तमम्।
रवेश्च श्राद्धदेवस्य सोमस्य च विशेषतः१।
पुलस्त्य उवाच।
हंत ते कथयिष्यामि पितॄणां वंशमुत्तमम्।
स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्तयः२।
मूर्तिमंतोथ चत्वारः सर्वेषाममितौजसां।
अमूर्त्तयः पितृगणा वैराजस्य प्रजापतेः३।
यजन्ति यान्देवगणा वैराजा इति विश्रुताः।
ये वै ते योगविभ्रष्टाः प्रापुर्लोकान्सनातनान्४।
पुनर्ब्रह्मदिनांते तु जायंते ब्रह्मवादिनः।
संप्राप्य तां स्मृतिं भूयो योगं सांख्यमनुत्तमम्५।
सिद्धिं प्रयांति योगेन पुनरावृत्तिदुर्ल्लभाम्।
योगिनामेव देयानि तस्माच्छाद्धानि दातृभिः६।
एतेषां मानसी कन्या पत्नी हिमवतो मता।
मैनाकस्तस्य दायादः क्रौचस्तस्य सुतोभवत्७।
क्रौंचद्वीपः स्मृतो येन चतुर्थो धृतसंयुतः।
मेना तु सुषवे तिस्रः कन्या योगवतीस्ततः८।
उमैकपर्णा पर्णा च तीव्रव्रतपरायणाः।
रुद्रस्यैका भृगोश्चैका जैगीषव्यस्य चापरा९।
दत्ता हिमवता बालाः सर्वलोकतपोधिकाः।
पितॄणां लोकसंगीतं कथयामि शृणुष्व तत्१०।
लोकाः सोमपथा नाम यत्र मारीचनंदनाः।
वर्त्तंते येन पितरो यान्देवा भावयन्त्यलम्११।
अग्निष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः।
अच्छोदा नाम तेषां तु कन्याभूद्वरवर्णिनी१२।
अच्छोदं च सरस्तत्र पितृभिर्निर्मितं पुरा।
अच्छोदाथ तपश्चक्रे दिव्यं वर्षसहस्रकम्१३।
आजग्मुः पितरस्तुष्टा दास्यन्तः किल ते वरम्।
दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः१४।
सर्वे प्रधाना बलिनः कुसुमायुधसन्निभाः।
तन्मध्येमावसुं नाम पितरं वीक्ष्य सांगना१५।
वव्रे वरार्थिनी संगं कुसुमायुधपीडिता।
योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी१६।
धरान्न स्पृशते पूर्वं प्रयाताथ भुवस्तले।
तथैवामावसुर्योयमिच्छां चक्रे न तां प्रति१७।
धैर्येण तस्य सा लोके अमावास्येति विश्रुता।
पितॄणां वल्लभा यस्माद्दत्तस्याक्षयकारिका१८।
अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात्।
सा पितॄन्प्रार्थयामास पुनरात्मसमृद्धये१९।
विलज्जमाना पितृभिरिदमुक्ता तपस्विनी।
भविष्यमथ चालोक्य देवकार्यं च ते तदा२०।
इदमूचुर्महाभागाः प्रसाद शुभयागिरा।
दिवि दिव्यशरीरेण यत्किंचित्क्रियते बुधैः२१।
तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी।
सद्यः फलंति कर्माणि देवत्वे प्रेत्यमानुषे२२।
तस्मात्त्वं सुकृतं कृत्वा प्राप्स्यसे प्रेत्य यत्फलम्।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा२३।
व्यतिक्रमात्पितॄणां तु कष्टं कुलमवाप्स्यसि।
तस्माद्राज्ञो वसोः कन्या त्वमवश्यं भविष्यसि२४।
कन्यात्वे देवलोकांस्तान्पुनः प्राप्स्यसि दुर्ल्लभान्।
पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि२५।
द्वीपे तु बदरीप्राये बादरायणमप्युत।
स वेदमेकं बहुधा विभजिष्यति ते सुतः२६।
पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोः।
विचित्रवीर्यस्तनयस्तथा चित्रांगदो नृपः२७।
इमावुत्पाद्य तनयौ क्षेत्रजौ तस्य धीमतः।
प्रौष्ठपद्यष्टकाभूयः पितृलोके भविष्यसि२८।
नाम्ना सत्यवती लोके पितृलोके तथाष्टका।
आयुरारोग्यदा नित्यं सर्वकामफलप्रदा२९।
भविष्यसि परे लोके नदी त्वं च गमिष्यसि।
पुण्यतोया सरिच्छ्रेष्ठा लोकेष्वच्छोदनामिका३०।
इत्युक्ता सा गणैस्तैस्तु तत्रैवांतरधीयत।
साप्यापचारित्रफलं मया यदुदितं पुरा३१।
विभ्राजो नाम ये चान्ये दिवि संति सुवर्चसः।
लोका बर्हिषदो यत्र पितरः संति सुव्रताः३२।
यत्र बर्हिषि युक्तानि विमानानि सहस्रशः।
संकल्पपादपा यत्र तिष्ठंति फलदायिनः३३।
यदभ्युदयशालासु मोदंते श्राद्धदायिनः।
ये दानवासुरगणा गंधर्वाप्सरसां गणाः३४।
यक्षरक्षोगणास्ते च यजंति दिवि देवताः।
पुलस्त्यपुत्राः शतशस्तपोयोगबलान्विताः३५।
महात्मानो महाभागा भक्तानामभयंकराः।
एतेषां पीवरी कन्या मानसी दिवि विश्रुता३६।
योगिनी योगमाता च तपश्चक्रे सुदारुणं।
प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा ततः३७।
योगवंतं सुरूपं च भर्तारं विजितेंद्रियम्।
देहि देव प्रसन्नस्त्वं यदि ते वदतां वर३८।
उवाच देवो भविता व्यासपुत्रो यदा शुकः।
भवित्री तस्य भार्या त्वं योगाचार्यस्य सुव्रता३९।
भविष्यति च ते कन्या कृत्तीनामाथ योगिनी।
पांचालपतये देया सात्वताय तु सा तदा४०।
जननी ब्रह्मदत्तस्य योगसिद्धांतगा स्मृता।
कृष्ण गौरश्च शंभुश्च भविष्यंति च ते सुताः४१।
सर्वकामसमृद्धेषु विमानेष्वपि पावनाः।
किं पुनः श्राद्धदा विप्रा भक्तिमंतः क्रियान्विताः४२।
गौर्नाम कन्या येषां तु मानसी दिवि राजते।
सुकन्या दयिता पत्नी साध्यानां कीर्तिवर्द्धिनी४३।
मरीचिगर्भनामानो लोके मार्तंडमंडले।
पितरो यत्र तिष्ठंति हविष्मंतोंगिरः सुताः४४।
तीर्थश्राद्धप्रदा यांति यत्र क्षत्रियसत्तमाः।
राज्ञां तु पितरस्ते वै स्वर्गभोगफलप्रदाः४५।
एतेषां मानसी कन्या यशोदा नाम विश्रुता।
पत्नी यांशुमतः श्रेष्ठा स्नुषा पंचजनस्य च४६।
जनन्यथ दिलीपस्य भगीरथपितामही।
लोकाः कामदुघा नाम कामभोगफलप्रदाः४७।
सुस्वधा नाम पितरो यत्र तिष्ठन्ति ते सुताः।
आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः४८।
पुलहाग्रजदायादा वैश्यास्तान्भावयंति ह।
यत्र श्राद्धकृतः सर्वे पश्यंति युगपद्गताः४९।
मातृभ्रातृपितृस्वसॄः सखिसंबंधिबांधवान्।
अपिजन्मायुतैर्दृष्टाननुभूतान्सहस्रशः५० 1.9.50।
एतेषां मानसी कन्या विरजा नाम विश्रुता।
सा पत्नी नहुषस्यासीद्ययातेर्जननी तथा५१।
एषाष्टकाभवत्पश्चाद्ब्रह्मलोकगता सती।
त्रय एते गणाः प्रोक्ताश्चतुर्थं तु वदाम्यहम्५२।
लोकाः सुमनसो नाम ब्रह्मलोकोपरिस्थिताः।
सोमपा नाम पितरो यत्र तिष्ठंति शाश्वतं५३।
धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताः।
उत्पन्नाः प्रलयांते तु ब्रह्मत्वं प्राप्य योगिनः५४।
कृत्वा सृष्ट्यादिकं सर्वे मानसे सांप्रतं स्थिताः।
नर्मदा नाम तेषां तु कन्या तोयवहा सरित्५५।
भूतानि पुनती या तु पश्चिमोदधिगामिनी।
तेभ्यः सर्वत्र मनुजाः प्रजासर्गे च निर्मितम्५६।
ज्ञात्वा श्राद्धानि कुर्वंति धर्मभावेन सर्वदा।
सर्वदा तेभ्य एवास्य प्रसादाद्योगसंततिः५७।
पितॄणामादिसर्गे तु श्राद्धमेवं विनिर्मितम्।
सर्वेषां राजतं पात्रमथवा राजतान्वितम्५८।
दत्तं स्वधां पुरोधाय पितॄन्प्रीणाति सर्वदा।
आग्नीध्रसोमपाभ्यां तु कार्यमाप्यायनं बुधैः५९।
अग्न्यभावे तु विप्रस्य पाणौ वाथ जलेपि वा।
अजाकर्णेश्वकर्णे वा गोष्ठे वाथ शिवांतिके६०।
पितॄणाममलं स्थानं दक्षिणादिक्प्रशस्यते।
प्राचीनावीतमुदकं तिलसंत्यागमेव च६१।
खड्गिगनामामिषं चैवमन्नं श्यामाकशालयः।
यवनीवारमुद्गेक्षु शुक्लपुष्प फलानि च६२।
वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा।
दर्भा माषष्षष्टिकान्नं गोक्षीरं मधुसर्पिषी६३।
शस्त्राणि च प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि च।
मसूर शण निष्पावा राजमाषाः कुलुत्थकाः६४।
पद्म बिल्वार्कादुत्तूर पारिभद्राटरूषकाः।
न देयाः पितृकार्येषु पयश्चाजाविकं तथा६५।
कोद्रवोदारवरटकपित्थं मधुकातसी।
एतान्यपि न देयानि पितॄभ्यः श्रियमिच्छता६६।
पितृन्प्रीणाति यो भक्त्या ते पुनः प्रीणयंति तं।
यच्छंति पितरः पुष्टिं स्वांगारोग्यं प्रजाफलम्६७।
देवकार्यादपि पुनः पितृकार्यं विशिष्यते।
देवताभ्यः पितॄणां तु पूर्वमाप्यायनं स्मृतम्६८।
शीघ्रप्रसादास्त्वक्रोधा निस्संगाः स्थिर सौहृदाः।
शांतात्मानः शौचपराः सततं प्रियवादिनः६९।
भक्तानुरक्ताः सुखदाः पितरः पर्वदेवताः।
हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः७०।
एतद्धि सर्वमाख्यातं पितृवंशानुकीर्त्तनम्।
पुण्यं पवित्रमारोग्यं कीर्त्तनीयं नृभिः सदा७१।
भीष्म उवाच।
श्रुत्वैतदखिलं भूयः पराभक्तिरुपस्थिता।
श्राद्धकालं विधिं चैव श्राद्धमेव तथैव च ७२।
श्राद्धेषु भोजनीया ये श्राद्धवर्ज्या द्विजातयः।
कस्मिन्वासरभागे तु पितृभ्यः श्राद्धमारभेत्७३।
अन्नं दत्तं कथं याति श्राद्धे वै ब्रह्मवित्तम।
विधिना केन कर्त्तव्यं कथं प्रीणाति तान्पितॄन्७४।
पुलस्त्य उवाच।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्७५।
नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते।
नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम्७६।
अदैवतं विजानीयात्पार्वणं पर्व सुस्मृतम्।
पार्वणं त्रिविधं प्रोक्तं शृणु यत्नान्महीपते७७।
पार्वणेय नियोज्यास्तु तान्शृणुष्व नराधिप।
पंचाग्निः स्नातकश्चैव त्रिसौपर्णः षडंगवित्७८।
श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः।
सर्वज्ञो वेदवान्मंत्री ज्ञानवंशकुलान्वितः७९।
त्रिणाचिकेतस्त्रिमधुः श्रुतेष्वन्येषु संस्थितः।
पुराणवेत्ता ब्रह्मज्ञः स्वाध्यायी जपतत्परः८०।
ब्रह्मभक्तः पितृपरः सूर्यभक्तोथ वैष्णवः।
ब्राह्मणो योगनिष्ठात्मा विजितात्मा सुशीलवान्८१।
एते तोष्याः प्रयत्नेन वर्जनीयानिमान्शृणु।
पतितस्तत्सुतः क्लीबः पिशुनो व्यंगरोगितः८२।
सर्वे ते श्राद्धकाले तु त्याज्या वै धर्मदर्शिभिः।
पूर्वेद्युरपरेद्युर्वा विनीतांश्च निमंत्रयेत्८३।
निमंत्रितांश्च पितर उपतिष्ठंति तान्द्विजान्।
वायुभूतानि गच्छंति तथासीनानुपासते८४।
दक्षिणं जानुचालभ्य वामं पात्यनिमंत्रयेत्।
अक्रोधनैः शौचपरैः सुस्नातैर्ब्रह्मवादिभिः८५।
भवितव्यं भवद्भिस्तु मया च श्राद्धकर्मणि।
पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु योग्निमान्८६।
पिंडान्वाहार्यकं कुर्याच्छ्राद्धमिंदुक्षये तथा।
गोमयेनानुलिप्ते तु दक्षिणाप्लवनस्थले८७।
श्राद्धं समारभेद्भक्त्या गोष्ठे वा जलसन्निधौ।
अग्निमान्निर्वपेत्पित्र्यं चरुं वा सक्तुमुष्टिभिः८८।
पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत्।
अभिघार्य ततः कुर्यान्निर्वापत्रयमग्रतः८९।
ते वितस्त्यायताः कार्याश्चतुरङ्गुलविस्तृताः।
दर्वीत्रयं च कुर्वीत खादिरं रजतान्वितम्९०।
रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम्।
उदपात्राणि कांस्यस्य मेक्षणं च समित्कुशम्९१।
तिलपात्राणि सद्वासो गंधधूपानुलेपनम्।
आहरेदपसव्यं च सर्वं दक्षिणतः शनैः९२।
एवमासाद्य तत्सर्वं भवनस्योत्तरेंतरे।
गोमयेनानुलिप्तायां गोमूत्रेण च मंडलम्९३।
साक्षताभिः सपुष्पाभिरद्भिः सव्यापसव्यवत्।
विप्राणां क्षालयेत्पादावभिवंद्य पुनःपुनः९४।
आसनेषूपविष्टेषु दर्भवत्सु विधानतः।
उपस्पृष्टोदकान्विप्रानुपवेश्यानुमंत्रयेत्९५।
द्वौ दैवे पितृकृत्ये त्रीनेकैकं चोभयत्र वा।
भोजयेदीश्वरोपीह न कुर्याद्विस्तरं बुधः ९६।
दैवपूर्वं निवेद्याथ विप्रानर्घादिना बुधैः।
अग्नौ कुर्यादनुज्ञातो विप्रैर्विप्रो यथाविधि ९७।
स्वगृह्योक्तेन विधिना काले कृत्वा समंततः।
अग्नीषोममयाभ्यां तु कुर्यादाप्यायनं बुधः९८।
दक्षिणाग्नौ प्रणीतेन स एवाग्निर्द्विजोत्तमः।
यज्ञोपवीतान्निर्वर्त्य ततः पर्युक्षणादिकम्९९।
प्राचीनावीतिना कार्यमेतत्सर्वं विजानता।
लब्ध्वा तस्माद्विशेषेण पिंडान्कुर्वीत चोदकं१०० 1.9.100।
दद्यादुदकपात्रैस्तु सलिलं सव्यपाणिना।
दद्यात्सर्वं प्रयत्नेन दमयुक्तो विमत्सरः१०१।
विधाय रेखां यत्नेन निर्वपेदवनेजनं।
दक्षिणाभिमुखः कुर्यात्ततो दर्भान्निधाय वै१०२।
निधाय पिंडमेकैकं सर्वं दर्भोपरिक्रमात्।
निर्वपेदथ दर्भेषु नामगोत्रानुकीर्तनैः१०३।
तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनां।
तथैव च जपं कुर्यात्पुनः प्रत्यवनेजनम्१०४।
जलयुक्तं नमस्कृत्य गंधधूपार्चनादिभिः।
एवमावाह्य तत्सर्वं वेदमंत्रैर्यथोदितैः१०५।
एकाग्नरेकएवाद्भिर्निर्वपेद्दर्विकां तथा।
ततः कृत्वा नरो दद्यात्पितृभ्यस्तु कुशान्बुधः१०६।
ततः पिंडादिकं कुर्यादावाहनविसर्जनम्।
ततो गृहीत्वा पिंडेभ्यो मात्राः सर्वाः क्रमेण तु१०७।
तानेव विप्रान्प्रथममाशयित्वा च मानवः।
वर्णयन्भोजयेदन्नमिष्टं पूर्तं च सर्वदा१०८।
वर्जयेत्क्रोधपरतां स्मरन्नारायणं हरिम्।
तृप्तान्ज्ञात्वा पुनः कुर्याद्विकिरं सार्ववर्णिकं१०९।
विधृत्य सोदकं त्वन्नं सतिलं प्रक्षिपेद्भुवि।
आचांतेषु पुनर्दद्याज्जलं पुष्पाक्षतोदकम्११०।
स्वधावाचनकं सर्वं पिंडोपरि समाचरेत्।
देवाद्यंतं प्रकुर्वीत श्राद्धनाशोन्यथा भवेत्१११।
विसृज्य विप्रान्प्रणतस्तेषां कृत्वा प्रदक्षिणम्।
दक्षिणांदिशमाकांक्षन्पितॄनुद्दिश्य मानवः११२।
दातारो नोभिवर्द्धंतां वेदाः सन्ततिरेव च।
श्रद्धा च नो मा व्यगमद्बहुदेयं च नोस्त्विति११३।
अन्नं च नो बहुभवेदतिथींश्च लभेमहि।
याचितारश्च नः संतु मा च याचिष्म कंचन११४।
एतदग्निमतः प्रोक्तमन्वाहार्यं तु पार्वणं।
यथेंदुसंक्षये तद्वदन्यत्रापि निगद्यते११५।
पिंडांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेपि वा।
वप्रांते वाथ विकिरेदापोभिरथ वापयेत्११६।
पत्नीं तु मध्यमं पिंडं प्राशयेद्विनयान्विताम्।
आधत्त पितरो गर्भं पुत्रसंतानवर्द्धनं११७।
तावन्निर्वापणं तिष्ठेद्यावद्विप्रा विसर्जिताः।
वैश्वदेवं ततः कुर्यान्निवृत्तः पितृकर्मणः११८।
इष्टैः सह ततः शांतो भुंजीत पितृसेवितम्।
पुनर्भोजनमध्वानं यानमायासमैथुनम्११९।
श्राद्धकृच्छ्राद्धभुग्यो वा सर्वमेतद्विवर्जयेत्।
स्वाध्यायं कलहं चैव दिवास्वप्नं च सर्वदा१२०।
अनेन विधिना श्राद्धं त्रिवर्गस्येह निर्वपेत्।
कन्या कुंभ वृषस्थेर्के कृष्णपक्षेषु सर्वदा१२१।
यत्रयत्र प्रदातव्यं सपिंडीकरणात्मकम्।
तत्रानेन विधानेन देयमग्निमता सदा१२२।
अतः परं प्रवक्ष्यामि ब्रह्मणा यदुदीरितम्।
श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम्१२३।
अयने विषुवे चैव अमावस्यार्कसंक्रमे।
अमावस्याष्टका कृष्णपक्ष पंचदशीषु च१२४।
आर्द्रा मघा रोहिणीषु द्रव्यब्राह्मणसंगमे।
गजच्छायाव्यतीपाते विष्टिवैधृतिवासरे१२५।
वैशाखस्य तृतीयायां नवमीकार्तिकस्य च।
पंचदशी तु माघस्य नभस्ये च त्रयोदशी१२६।
युगादयः स्मृता ह्येताः पितॄपक्षोपकारिकाः।
तथा मन्वंतरादौ च देयं श्राद्धं विजानता१२७।
अश्वयुङ्नवमी चैव द्वादशी कार्तिके तथा।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च१२८।
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा।
आषाढस्यापि दशमी माघमासस्य सप्तमी१२९।
श्रावणे चाष्टमी कृष्णा तथाषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैवा ज्येष्ठे पंचदशी सिता१३०।
मन्वंतरादयस्त्वेता दत्तस्याक्षयकारिकाः।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः१३१।
श्राद्धं कृतं तेन समास्सहस्रं रहस्यमेतत्पितरो वदंति।
वैशाख्यामुपवासेषु तथोत्सवमहालये१३२।
तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु च।
विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता१३३।
विप्रान्पूर्वेपरेचाह्नि विनीतात्मानि मंत्रयेत्।
शीलवृत्तगुणोपेतान्वयोरूपसमन्वितान्१३४।
द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा।
भोजयेत्सुसमृद्धोपि न प्रकुर्वीत विस्तरम्१३५।
विश्वेदेवान्यवैः पुष्पैरभ्यर्च्यासनपूर्वकं।
पूरयेत्पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके१३६।
शन्नोदेवीत्यपः कुर्याद्यवोसीति यवानपि।
गंधपुष्पैस्तु संपूज्य विश्वान्देवान्प्रतिन्यसेत्१३७।
विश्वेदेवास इत्याभ्यामावाह्य विकिरेद्यवान्।
यवोसि धान्यराजस्त्वं वारुणो मधुमिश्रितः१३८।
निर्णुदः सर्वपापानां पवित्र ऋषिसंस्तुतः।
गंधपुष्पैरलंकृत्य या दिव्येत्यर्घमुत्सृजेत्३९।
अभ्यर्च्य गंधाद्युत्सृज्य पितृयज्ञं समारभेत्।
दर्भासनादि कृत्वादौ त्रीणि पात्राणि चार्चयेत्१४०।
सपवित्राणि कृत्वादौ शन्नोदेवीत्यपः क्षिपेत्।
तिलोसीति तिलान्कुर्याद्गन्धपुष्पादिकं पुनः१४१।
पात्रं वनस्पतिमयं तथा पर्णमयं पुनः।
राजतं वा प्रकुर्वीत तथा सागरसंभवम्१४२।
सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते।
रजतस्य कथा वापि दर्शनं दानमेव च१४३।
राजतैर्भाजनैरेषां पितॄणां रजतान्वितैः।
वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते१४४।
अद्यापि पितृपात्रेषु पितॄणां राजतान्वितम्।
शिवनेत्रोद्भवं यस्मादुत्तमं पितृवल्लभम्१४५।
एवं पात्राणि संकल्प्य यथालाभं विमत्सरः।
या दिव्येति पितुर्नाम गोत्रे दर्भान्करे न्यसेत्१४६।
पितॄनावाहयिष्यामि तथेत्युक्तः स तैः पुनः।
उशंतस्त्वा तथायन्तु ऋग्म्यामावाहयेत्पितॄन्१४७।
या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गंधादिकं ततः।
वस्त्रोत्तरं दर्भपूर्वं दत्वा संश्रयमादितः१४८।
पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत्।
पितृभ्यः स्थानमसीति निधाय परिवेषयेत्१४९।
तत्रापि पूर्वतः कुर्यादग्निकार्यं विमत्सरः।
उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्१५० 1.9.150।
उशन्तस्त्वेति तं दर्भं पाणिभक्तं विशेषतः।
गुणान्वितैश्च शाकाद्यैर्नानाभक्ष्यैस्तथैव च१५१।
अन्नं च सदधिक्षीरं गोघृतं शर्करान्वितं।
मासं प्रीणाति वै सर्वान्पितॄनित्याह पद्मजः१५२।
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु।
औरभ्रेणाथ चतुरः शाकुनेनाथ पंच वै१५३।
वाराहस्य तु मांसेन षण्मासं तृप्तिरुत्तमा।
सप्तलोहस्य मांसेन तथाष्टावाजकेन तु१५४।
पृषतस्य तु मांसेन तृप्तिर्मासान्नवैव तु।
दशमासांश्च तृप्यंते वराहमहिषामिषैः१५५।
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु।
संवत्सरं तु गव्येन पयसा पायसेन वा१५६।
सौकरेण तु तृप्यंते मासान्पंचदशैव तु।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी१५७।
कालशाकेन चानंत्यं खड्गमांसेन चैव हि।
यत्किंचिन्मधुना मिश्रं गोक्षीरं दधिपायसम्१५८।
दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः।
स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च१५९।
ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च।
इंद्रेशसोमसूक्तानि पावमानीश्च शक्तितः१६०।
बृहद्रथंतरं तत्र ज्येष्ठसामाथ रौरवं।
तथैव शांतिकाध्यायं मधुब्राह्मणमेव च१६१।
मण्डलब्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः।
विप्राणामात्मनश्चापि तत्सर्वं समुदीरयेत्१६२।
भारताध्ययनं कार्यं पितॄणां परमप्रियं।
भुक्तवत्सु च विप्रेषु भोज्यतोयादिकं नृप१६३।
सार्ववर्णिकमन्नाद्यमानयेत्सावधारणं।
समुत्सृजेद्भुक्तवतामग्रतो विकिरान्भुवि१६४।
अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले मम।
भूमौ दत्तेन तृप्यंतु तृप्ता यांतु परां गतिं१६५।
येषां न माता न पिता न बंधुर्न चापि मित्रं न तथान्नमस्ति।
तत्तॄप्तयेन्नं भुवि दत्तमेतत्पयातु योगाय यतो यतस्ते१६६।
असंस्कृतप्रमीतानां त्यागिनां कुलभागिनां।
उछिष्टभागधेयानां दर्भेषु विकिरासनं१६७।
तृप्तान्ज्ञात्वोदकं दद्यात्सकृद्विकिरणे तथा।
विप्रलिप्तमहीपृष्टे गोशकृन्मूत्रवारिणा१६८।
निधाय दर्भान्विधिवद्दक्षिणाग्रान्प्रयत्नतः।
सर्ववर्णविधानेन पिंडांश्च पितृयज्ञवत्१६९।
अवनेजनपूर्वं तु नामगोत्रं तु मानवः।
उक्त्वा पुष्पादिकं दत्वा कृत्वा प्रत्यवनेजनं१७०।
ज्ञात्वापसव्यं सव्येन पाणिना त्रिः प्रदक्षिणं।
पितृवन्मातृकं कार्यं विधिवद्दर्भपाणिना१७१।
दीपप्रज्वालनं तद्वत्कुर्यात्पुष्पार्चनं बुधः।
तथा चांतेषु चाचम्य दद्याच्चापः सकृत्सकृत्१७२।
तथा पुष्पाक्षतान्पश्चादक्षय्योदकमेव च।
सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम्१७३।
गोभूहिरण्यवासांसि भव्यानि शयनानि च।
दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च१७४।
वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहेत्।
ततः स्वधावाचनकं विश्वेदेवेषु चोदकं१७५।
दत्वाशीः प्रतिगृह्णीयाद्द्विजेभ्योपि यथा बुधः।
अघोराः पितरः संतु संत्वित्युक्तः पुनर्द्विजैः१७६।
गोत्रं तथा वर्द्धतां तु तथेत्युक्तश्च तैः पुनः।
स्वस्तिवाचनकं कुर्यात्पिंडानुद्धृत्य भक्तितः१७७।
उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रविसर्जनम्।
ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः१७८।
उच्छेषणं भूमिगतमजिह्मस्याशठस्य च।
दासवर्गस्य तत्पिंडं भागधेयं प्रचक्षते१७९।
पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदा।
अव्रतानामपुत्राणां स्त्रीणामपि नराधिप१८०।
ततः स्थानाग्रतः स्थित्वा प्रतिगृह्यांबुपात्रिकां।
वाजेवाजेति च जपन्कुशाग्रेण विसर्जयेत्१८१।
बहिः प्रदक्षिणं कुर्यात्पदान्यष्टावनुव्रजेत्।
बंधुवर्गेण सहितः पुत्रभार्यासमन्वितः१८२।
निवृत्य प्रणिपत्याथ प्रयुज्याग्निं स मंत्रवित्।
वैश्वदेवं प्रकुर्वीत नैत्यिकं बलिमेव च१८३।
ततस्तु वैश्वदेवांते सभृत्यसुतबांधवः।
भुंजीतातिथिसंयुक्तः सर्वं पितृनिषेवितं१८४।
एतच्चानुपनीतोपि कुर्यात्सर्वेषु पर्वसु।
श्राद्धं साधारणं नाम सर्वकामफलप्रदम्।
भार्याविरहितोप्येतत्प्रवासस्थोपि भक्तिमान्१८५।
शूद्रोप्यमंत्रकं कुर्यादनेन विधिना नृप।
तृतीयमाभ्युदयिकं वृद्धिश्राद्धं विधीयते१८६।
उत्सवानंदसंस्कारे यज्ञोद्वाहादिमंगले।
मातरः प्रथमं पूज्याः पितरस्तदनंतरं१८७।
ततो मातामहा राजन्विश्वेदवास्तथैव च।
प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः१८८।
प्राङ्मुखो निर्वपेत्पिंण्डान्पूर्वांश्चैव पुरातनान्।
संपन्नमित्यभ्युदये दद्यादर्घं द्वयोर्द्वयोः१८९।
युग्मा द्विजातयः पूज्या वस्त्राकल्पांबरादिभिः।
तिलकार्यं यवैः कार्यं तच्च सर्वानुपूर्वकं१९०।
मंगल्यानि च सर्वाणि वाचयेद्द्विजपुंगवान्।
एवं शूद्रोपि सामान्यं वृद्धिश्राद्धं च सर्वदा१९१।
नमस्कारेण मंत्रेण कुर्याद्दानानि वै बुधः।
दानं प्रधानं शूद्रस्य इत्याह भगवान्प्रभुः।
दानेन सर्वकामाप्तिस्तस्य संजायते यतः१९२।
।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे साधारणाभ्युदयकीर्तनं नाम नवमोध्यायः९।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 10
पुलस्त्य उवाच।
एकोद्दिष्टं ततो वक्ष्ये यदुक्तं ब्रह्मणा पुरा।
मृते पुत्रैर्यथाकार्यमाशौचं च पितुर्यदि१।
दशाहं शावमाशौचं ब्राह्मणस्य विधीयते।
क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि२।
शूद्रेषु मासमाशौचं सपिंडेषु विधीयते।
नैशमाचूडमाशौचं त्रिरात्रं परतः स्मृतम्३।
जननेप्येवमेव स्यात्सर्ववर्णेषु सर्वदा।
अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते४।
प्रेताय पिंडदानं तु द्वादशाहं समाचरेत्।
पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत्५।
यस्मात्प्रेतपुरं प्रेतो द्वादशाहेन नीयते।
गृहे पुत्रकलत्रं च द्वादशाहं प्रपश्यति६।
तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा।
सर्वदाहोपशांत्यर्थमध्वश्रमविनाशनम्७।
ततस्त्वेकादशाहेपि द्विजानेकादशैव तु।
गोत्रादिसूतकांते च भोजयेन्मनुजो द्विजान्८।
द्वितीयेह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत्।
नावाहनाग्नौकरणं दैवहीनं विधानतः९।
एकं पवित्रमेकोर्घ एकः पिंडो विधीयते।
उपतिष्ठतामिति वदेद्देयं पश्चात्तिलोदकं१०।
स्वास्ति ब्रूयाद्विप्रकरे विसर्गे चाभिरम्यताम्।
शेषं पूर्ववदत्रापि कार्यं वेदविदो विदुः११।
अनेन विधिना सर्वमनुमासं समाचरेत्।
सूतकांते द्वितीयेह्नि शय्यां दद्याद्विलक्षणाम्१२।
कांचनं पुरुषं तद्वत्फलवस्त्रसमन्वितम्।
प्रपूज्य द्विजदांपत्यं नानाभरणभूषितम्१३।
उपवेश्य तु शय्यायां मधुपर्कं ततो ददेत्।
रजतस्य तु पात्रेण दधिदुग्धसमन्वितम्१४।
अस्थिलालाटिकं गृह्य सूक्ष्मं कृत्वा विमिश्रयेत्।
पाययेदिद्वजदांपत्यं पितृभक्त्या समन्वितः१५।
एष एव विधिर्दृष्टः पार्वतीयैर्द्विजोतमैः।
तेन दुष्टा तु सा शय्या न ग्राह्या द्विजसत्तमैः१६।
गृहीतायां तु तस्यां हि पुनः संस्कारमर्हति।
वेदे चैव पुराणे च शय्या सर्वत्र गर्हिता१७।
ग्रहीतारस्तु जायन्ते सर्वे नरकगामिनः।
ग्रथितां वसुजालेन शय्यां दांपत्यसेविताम्१८।
ये स्पृशंति न जानंतः सर्वे नरकगामिनः।
नवश्राद्धेन भोक्तव्यं भुक्त्वा चांद्रायणं चरेत्१९।
पितृभक्त्या तु पुत्राणां कार्यमेव सदा भवेत्।
वृषोत्सर्गं च कुर्वीत देया च कपिला शुभा२०।
उदकुंभश्च दातव्यो भक्ष्यभोज्यफलान्वितः।
यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम्२१।
ततः संवत्सरे पूर्णे सपिंडीकरणं भवेत्।
सपिंडीकरणादूर्द्ध्वं प्रेतः पार्वणभुग्यतः२२।
वृद्धिपूर्वेषु कार्येषु गृहस्थस्य भवेत्ततः।
सपिंडीकरणं श्राद्धं देवपूर्वं नियोजयेत्२३।
पितॄनावाहयेत्तत्र पृथक्प्रेतं विनिर्दिशेत्।
गंधोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्२४।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्।
तद्वत्संकल्प्य चतुरः पिंडान्पितृपरस्तदा२५।
ये समाना इति द्वाभ्यामन्नं तु विभजेत्त्रिधा।
अनेन विधिना चार्घ्यं पूर्वमेव प्रदापयेत्२६।
ततः पितृत्वमापन्नस्स चतुर्थस्तदा त्वनु।
अग्निष्वात्तादि मध्ये तु प्राप्नोत्यमृतमुत्तमम्२७।
सपिण्डीकरणादूर्ध्वं पृथक्तस्मै न दीयते।
पितृष्वेव च दातव्यं तत्पिंडं येषु संस्थितम्२८।
ततः प्रभृति संक्रान्तावुपरागादि पर्वसु।
त्रिपिंडमाचरेच्छ्राद्धमेकोद्दिष्टं मृतेहनि२९।
एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत्।
स दैवं पितृहा स स्यात्तथा भ्रातृविनाशकः३०।
मृताहे पार्वणं कुर्वन्नधो याति स मानवः।
संपृक्ते स्वर्गती भावे प्रेतमोक्षो यतो भवेत्३१।
आमश्राद्धं तदा कुर्याद्विधिज्ञः श्राद्धदस्ततः।
तेनाग्नौकरणं कुर्यात्पिंडांस्तेनैव निर्वपेत्३२।
त्रिभिः सपिंडीकरणं मासैक्ये त्रितये तथा।
यदा प्राप्स्यति कालेन तदा मुच्येत बंधनात्३३।
मुक्तोपि लेपभागित्वं प्राप्नोति कुशमार्जनात्।
लेपभाजश्चतुर्थाद्यास्त्रयः स्युः पिंडभागिनः३४।
पिण्डदः सप्तमस्तेषां सपिंडाः सप्तपूरुषाः।
भीष्म उवाच।
कथं हव्यानि देयानि कव्यानि च जनैरिह३५।
गृह्णंति पितृलोके वा प्रायः के कैर्निगद्यते।
यदि मर्त्ये द्विजो भुंक्ते हूयते यदि वानले३६।
शुभाशुभात्मकाः प्रेतास्तदन्नं भुंजते कथम्।
पुलस्त्य उवाच।
वसुस्वरूपाः पितरो रुद्राश्चैव पितामहाः३७।
प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः।
नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः३८।
श्राद्धस्य मन्त्रतस्तत्वमुपलभ्येत भक्तितः।
अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः३९।
नामगोत्रास्तदा देशा भवंत्युद्भवतामपि।
प्राणिनः प्रीणयत्येतदर्हणं समुपागतं४०।
दिव्यो यदि पिता माता गुरुः कर्मानुयोगतः।
तस्यान्नममृतं भूत्वा दिव्यत्त्वेप्यनुगच्छति४१।
दैत्यत्वे भोगरूपेण पशुत्वेपि तृणं भवेत्।
श्राद्धान्नं वायुरूपेण नागत्वेप्युपतिष्ठति४२।
पानं भवति यक्षत्वे राक्षसत्वे तथामिषं।
दानवत्वे तथा पानं प्रेतत्वे रुधिरोदकम्४३।
मनुष्यत्वेन्नपानादि नानाभोगवतां भवेत्।
रतिशक्तिस्त्रियः कान्तेऽन्येषां भोजनशक्तिता४४।
दानशक्तिः स विभवा रूपमारोग्यमेव च।
श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः४५।
आयुः पुत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च।
प्रयच्छन्ति तथा राज्यं प्रीताः पितृगणा नृप४६।
श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः।
पंचभिर्जन्मसंबंधैः प्राप्ता ब्रह्मपरं पदम्४७।
भीष्म उवाच।
कथं कौशिकदायादाः प्राप्ता योगमनुत्तमम्।
पंचभिर्जन्मसंबन्धैः कथं कर्मक्षयो भवेत्४८।
पुलस्त्य उवाच।
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः।
नामतः कर्मतस्तस्य पुत्राणां तन्निबोध मे४९।
स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च।
वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्५० 1.10.50।
पितर्युपरते तेषामभूद्दुर्भिक्षमुल्बणं।
अनावृष्टिश्च महती सर्वलोकभयंकरी५१।
गर्गादेशाद्वने दोग्ध्रीं रक्षंति च तपोधनाः।
खादामः कपिलामेतां वयं क्षुत्पीडिता भृशं५२।
इति चिंतयतां पापं लघुः प्राह तदानुजः।
यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यतां५३।
श्राद्धे नियोज्यमानायां पापं नश्यति नो ध्रुवं।
एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः५४।
चक्रे समाहितः श्राद्धमुपयुज्याथ तां पुनः।
द्वौ दैवे भ्रातरो कृत्वा पित्र्ये त्रींश्चापरान्क्रमात्५५।
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु।
चकार मंत्रवच्छ्राद्धं स्मरन्पितृपरायणः५६।
तदा गत्वा विशंकास्ते गुरवे च न्यवेदयन्।
व्याघ्रेण निहता धेनुर्वत्सोयं प्रतिगृह्यतां५७।
एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः।
वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः५८।
ततः काले प्रणष्टास्ते व्याधा दश पुरेभवन्।
जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः५९।
तत्र विज्ञाय वैराग्यं प्राणानुत्सृज्य धर्मतः।
लोकैरवीक्ष्यमाणास्ते तीर्थांतेनशनेन तु६०।
संजाता मृगरूपास्ते सप्त कालंजरे गिरौ।
प्राप्तविज्ञानयोगास्ते तत्यजुस्तां निजां तनुम्६१।
मम्रुः प्रपतनेनाथ जातवैराग्यमानसाः।
मानसे चक्रव्राकास्ते संजाताः सप्तयोगिनः६२।
नामतः कर्मतः सर्वे सुमनाः कुसुमोवसुः।
चित्तदर्शी सुदर्शी च ज्ञाता ज्ञानस्य पारगः६३।
ज्येष्ठानुरक्ताः श्रेष्ठास्ते सप्तैते योगपावनाः।
योगभ्रष्टास्त्रयस्तेषां बभूवुश्चलचेतसः६४।
दृष्ट्वा विभ्राजमानं तमणुहं स्त्रीभिरन्वितम्।
क्रीडंतं विविधैर्भोगैर्महाबलपराक्रमम्६५।
पञ्चालान्वयसंभूतं प्रभूतबलवाहनम्।
राज्यकामोभवत्त्वेकस्तेषां मध्ये जलौकसाम्६६।
पितृवर्ती च यो विप्रः श्राद्धकृत्पितृवत्सलः।
अपरौ मंत्रिणौ दृष्ट्वा प्रभूतबलवाहनौ६७।
मंत्रित्वे चक्रतुश्चेच्छामस्मिन्मर्त्यौ द्विजोत्तमौ।
विभ्राजपुत्रस्त्वेकोभूद्ब्रह्मदत्त इति स्मृतः६८।
मंत्रिपुत्रौ तथा चैव पुंडरीकसुबालकौ।
ब्रह्मदत्तोभिषिक्तस्तु कांपिल्ये नगरोत्तमे६९।
पंचालराजो विक्रांतः श्राद्धकृत्पितृवत्सलः।
योगवित्सर्वजंतूनां चित्तवेत्ताभवत्तदा७०।
तस्य राज्ञोभवद्भार्या सुदेवस्यात्मजा तदा।
सन्नतिर्नाम विख्याता कपिलायाभवत्पुरा७१।
पितृकार्ये नियुक्तत्वादभवद्ब्रह्मवादिनी।
तया चकार सहितः स राज्यं राजनंदनः७२।
कदाचिद्गतउद्यानं तया सह स पार्थिवः।
ददर्श कीटमिथुनमनंगकलहान्वितम्७३।
पिपीलिकामधोवक्त्रां पुरतः कीटकामुकः।
पंचबाणाभितप्तांगः सगद्गदमुवाच ह७४।
न त्वया सदृशी लोके कामिनी विद्यते क्वचित्।
मध्ये क्षीणातिजघना बृहद्वक्त्रातिगामिनी७५।
सुवर्णवर्णसदृशी सद्वक्त्रा चारुहासिनी।
आलक्ष्यते च वदनं गुडशर्करवत्सलं७६।
भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि।
प्रोषिते मयि दीना त्वं क्रुद्धे च भयचंचला७७।
किमर्थं वद कल्याणि सदाधोवदनास्थिता।
सा तमाह ज्वलत्कोपा किमालपसि रे शठ७८।
त्वया मोदकचूर्णं तु मां विहायापि भक्षितम्।
प्रादास्त्वं तदतिक्रम्य मामन्यस्यै समन्मथः७९।
पिपीलक उवाच।
त्वत्सादृश्यान्मया दत्तमन्यस्यै वरवर्णिनि।
तदेकमपराधं मे क्षंतुमर्हसि भामिनि८०।
नैवं पुनः करिष्यामि त्यज कोपं च सुस्तनि।
स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे८१।
रुष्टायां त्वयि सुश्रोणि मृत्युर्मे पुरतो भवेत्।
तुष्टायां त्वयि वामोरु पूर्णाः सर्वमनोरथाः८२।
पूर्णचंद्रोपमं वक्त्रं स्वादेमृतरसोपमम्।
निर्भरं पिब सुश्रोणि कामासक्तस्य मे सदा८३।
एतन्मत्वा शुभे कार्या सर्वदा तु कृपा मयि।
इति सा वचनं श्रुत्वा प्रसन्ना चाभवत्ततः८४।
आत्मानमर्पयामास मोहनाय पिपीलिका।
ब्रह्मदत्तोपि तत्सर्वं ज्ञात्वा सस्मयमाहसत्८५।
सर्वसत्वरुतज्ञानी प्रभावात्पूर्वकर्मणः।
भीष्म उवाच।
कथं सर्वरुतज्ञोभूद्ब्रह्मदत्तो नराधिपः८६।
तच्चापि चाभवत्कुत्र चक्रवाकचतुष्टयं।
तन्मे कथय सर्वज्ञ कुले कस्य च सुव्रतम्८७।
पुलस्त्य उवाच।
तस्मिन्नेव पुरे जाताश्चक्रवाका अथो नृप८८।
वृद्धद्विजस्य दायादा विप्रा जातिस्मरा बुधाः।
धृतिमांस्तत्त्वदर्शी च विद्यावर्णस्तपोधिकः८९।
नामतः कर्मतश्चैव सुदरिद्रस्य ते सुताः।
तपसे बुद्धिरभवत्तेषां वै द्विजजन्मनां९०।
यास्यामः परमां सिद्धिमूचुस्ते द्विजसत्तमाः।
तत्तेषां वचनं श्रुत्वा सुदरिद्रो महातपाः९१।
उवाच दीनया वाचा किमेतदिति पुत्रकाः।
अधर्म एष वः पुत्रा पिता तानित्युवाच ह९२।
वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनम्।
क्व नु धर्मोत्र भविता मां त्यक्त्वा गतिमेव च९३।
ऊचुस्ते कल्पिता वृत्तिस्तव तात वचश्शृणु।
व्रतमेतत्पुरा राज्ञः स ते दास्यति पुष्कलं९४।
धनं ग्राम सहस्राणि प्रभाते पठतस्तव।
कुरुक्षेत्रे तु ये विप्रा व्याधा दशपुरे तु ये९५।
कालंजरे मृगा भूताश्चक्रवाकास्तु मानसे।
इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः९६।
वृद्धोपि स द्विजो राजन्जगाम स्वार्थसिद्धये।
अणुहो नाम वैभ्राजः पञ्चालाधिपतिः पुरा९७।
पुत्रार्थी देवदेवेशं पद्मयोनिं पितामहम्।
आराधयामास विभुं तीव्रव्रतपरायणः९८।
ततः कालेन महता तुष्टस्तस्य पितामहः।
वरं वरय भद्रं ते हृदयेभीप्सितं नृप९९।
अणुह उवाच।
पुत्रं मे देहि देवेश महाबलपराक्रमम्।
पारगं सर्वविद्यानां धार्मिकं योगिनां वरम्१०० 1.10.100।
सर्वसत्वरुतज्ञं मे देहि योगिनमात्मजम्।
एवमस्त्विति विश्वात्मा तमाह परमेश्वरः१०१।
पश्यतां सर्वभूतानां तत्रैवांतरधीयत।
ततः स तस्य पुत्रोभूद्ब्रह्मदत्तः प्रतापवान्१०२।
सर्वसत्वानुकंपी च सर्वसत्वबलाधिकः।
सर्वसत्वरुतज्ञश्च सर्वसत्वेश्वरेश्वरः१०३।
अथ सत्वेन योगात्मा स पिपीलकमागतः।
यत्र तत्कीटमिथुनं रममाणमवस्थितम्१०४।
ततः सा सन्नतिर्दृष्ट्वा प्रहसंतं सुविस्मितं।
किमप्याशंकमाना सा तमपृच्छन्नरेश्वरम्१०५।
सन्नतिरुवाच।
अकस्मादतिहासोयं किमर्थमभवन्नृप।
हास्यहेतुं न जानामि यदकाले कृतं त्वया१०६।
अवदद्राजपुत्रोसौ तं पिपीलिकभाषितम्।
रागवद्विरसोत्पन्नमेतद्धास्यं वरानने१०७।
न चान्यत्कारणं किंचिद्धास्यहेतुः शुचिस्मिते।
न सामन्यततं देवी प्राहालीकमिदं तव१०८।
अहमेवेह हसिता न जीविष्ये त्वयाधुना।
कथं पिपीलिकालापं मर्त्यो वेत्ति सुरादृते१०९।
तस्मात्त्वयाहमेवाद्य हसिता किमतः परम्।
ततो निरुत्तरो राजा जिज्ञासुस्तद्वचो हरेः११०।
आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः।
स्वप्नान्ते प्राह तं ब्रह्मा प्रभाते पर्यटन्पुरम्१११।
वृद्धद्विजोत्तमाद्वाक्यं सर्वं ज्ञास्यति ते प्रिया।
इत्युक्त्वांतर्दधे ब्रह्मा प्रभाते च नृपः पुरात्११२।
निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः।
गदंतं विप्रमायांतं वृद्धं च स ददर्श ह११३।
ब्राह्मण उवाच।
ये विप्रमुख्याः कुरुजांगलेषु दाशास्तथा दाशपुरे मृगाश्च।
कालंजरे सप्त च चक्रवाका ये मानसे तेत्र वसंति सिद्धाः११४।
इत्याकर्ण्य वचस्तस्य स पपात शुचान्वितः।
जातिस्मरत्वमगमत्तौ च मंत्रिवरात्मजौ११५।
कामशास्त्रप्रणेता तु बाभ्रव्यः स तु बालकः।
पंचाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्११६।
पुंडरीकोपि धर्मात्मा वेदशास्त्रप्रवर्तकः।
भूत्वा जातिस्मरौ शोकात्पतितावग्रतस्तथा११७।
हा वयं कर्मविभ्रष्टाः कामतः कर्मबंधनात्।
एवं विलप्य बहुशस्त्रयस्ते योगपारगाः११८।
विस्मयाच्छ्राद्धमाहाम्यमभिनंद्य पुनः पुनः।
स तु तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम्११९।
विसृज्य ब्राह्मणं तं च वृद्धं धनमदान्वितम्।
आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम्१२०।
विष्वक्सेनाभिधानं च राजाराज्येभ्यषेचयत्।
मानसे सलिले सर्वे ततस्ते योगिनां वराः१२१।
ब्रह्मदत्तादयस्तस्मिन्पितृभक्ता विमत्सराः।
सन्नतिश्चाभवद्धृष्टा मयैव तव दर्शितम्१२२।
राजन्योगफलं सर्वं यदेतदभिलक्ष्यते।
तथेति प्राह राजापि पुरस्तादभिनंदयन्१२३।
त्वत्प्रसादादिदं सर्वं मयैवं प्राप्यते फलम्१२४।
ततस्ते योगमास्थाय सर्व एव वनौकसः।
ब्रह्मरंध्रेण परमं पदमापुस्तपोबलात्१२५।
एवमायुर्धनं विद्यां स्वर्गमोक्षसुखानि च।
प्रयच्छंति सुतं राज्यं नृणां तुष्टाः पितामहाः१२६।
इदं च पितृमाहात्म्यं ब्रह्मदत्तस्य वै नृप।
द्विजेभ्यः श्रावयेद्विद्वान्शृणोति पठतेपि वा।
कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते१२७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पितृमाहात्म्यकथनंनाम दशमोऽध्यायः१०।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 11
भीष्म उवाच।
कस्मिन्वासरभागे तु श्राद्धी श्राद्धं समाचरेत्।
तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं द्विज१।
पुलस्त्य उवाच।
तीर्थं तु पुष्करं नाम यत्तु श्रेष्ठतमं स्मृतम्।
सर्वेषां द्विजमुख्यानां मनोरथमिव स्थितम्२।
तत्र दत्तं हुतं जप्तमनन्तं भवति ध्रुवम्।
पितॄणां वल्लभं नित्यमृषीणां परमं मतम्३।
नंदाथ ललिता तद्वत्तीर्थं मायापुरी शुभा।
तथा मित्रपदं राजंस्ततः केदारमुत्तमम्४।
गंगासागरमित्याहुः सर्वतीर्थमयं शुभम्।
तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिलं शुभम्५।
तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम्।
गंगोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः६।
तथा यज्ञवराहस्तु देवदेवश्च शूलधृक्।
यत्र तत्कांचनं दानमष्टादशभुजो हरः७।
नेमिस्तु धर्मचक्रस्य शीर्णा यत्राभवत्पुरा।
तदेतन्नैमिशारण्यं सर्वतीर्थनिषेवितम्८।
देवदेवस्य तत्रापि वराहस्य च दर्शनम्।
यः प्रयाति स पूतात्मा नारायणपुरं व्रजेत्९।
कोकामुखं परं तीर्थमिन्द्रमार्गोपि लक्ष्यते।
अथापि पितृतीर्थं तु ब्रह्मणोव्यक्तजन्मनः१०।
पुष्करारण्यसंस्थोसौ यत्र देवः पितामहः।
विरिंचिदर्शनं श्रेष्ठमपवर्गफलप्रदम्११।
कृतं नाम महापुण्यं सर्वपापनिषूदनम्।
यत्राद्यो नारसिंहस्तु स्वयमेव जनार्दनः१२।
तीर्थमिक्षुमतीनाम पितॄणां च शुभावहा।
तुष्यन्ति पितरो नित्यं गंगायमुनसंगमे१३।
कुरुक्षेत्रं महापुण्यं यत्र मार्गोपि लक्ष्यते।
अद्यापि पितृतीर्थं तु सर्वकामफलप्रदम्१४।
नीलकण्ठमिति ख्यातं पितृतीर्थं नराधिप।
तथा भद्रसरः पुण्यं सरो मानसमेव च१५।
मंदाकिनी तथाऽच्छोदा विपाशा च सरस्वती।
सर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम्१६।
क्षिप्रा नदी तथा पुण्या तथा कालञ्जरं शुभम्।
तीर्थोद्भेदं हरोद्भेदं गर्भभेदं महालयम्१७।
भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च।
गयापिंडप्रदानेन समान्याहुर्महर्षयः१८।
एतानि पितृतीर्थानि सर्वपापहराणि च।
स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम्१९।
ॐकारं पितृतीर्थं तु कावेरीकपिलोदकम्।
संभेदश्चण्डवेगायां तथैवामरकंटकम्२०।
कुरुक्षेत्राच्चद्विगुणं तस्मिन्स्नानादिकं भवेत्।
शुक्लतीर्थं तु विख्यातं तीर्थं सोमेश्वरं परम्२१।
सर्वव्याधिहरंपुण्यंफलंकोटिगुणाधिकम्।
श्राद्धेदानेतथाहोमेस्वाध्यायेचापिसन्निधौ२२।
कायावारोहणं नाम देवदेवस्य शूलिनः।
अवतारं रोचमानं ब्राह्मणावसथे शुभे२३।
जातं तत्सुमहापुण्यं तथा चर्मण्वती नदी।
शूलतापी पयोष्णी च पयोष्णीसंगमस्तथा२४।
महौषधी चारणा च नागतीर्थप्रवर्त्तिनी।
महावेणा नदी पुण्या महाशालस्तथैव च२५।
गोमती वरुणा तद्वत्तीर्थं हौताशनं परम्।
भैरवं भृगुतुंगं च गौरीतीर्थमनुत्तमम्२६।
तीर्थं वैनायकं नाम वस्त्रेश्वरमनुत्तमम्।
तथा पापहरं नाम पुण्या वेत्रवती नदी२७।
महारुद्रं महालिंगं दशार्णा च महानदी।
शतरुद्रा शताह्वा च तथा पितृपदं पुरम्२८।
अंगारवाहिका तद्वन्नदौ द्वौ शोणघर्घरौ।
कालिका च नदी पुण्या पितरा च नदी शुभा२९।
एतानि पितृतीर्थानि शस्यंते स्नानदानयोः।
श्राद्धमेतेषु यद्दत्तं तदनंतफलं स्मृतम्३०।
शतावटा नदी ज्वाला शरद्वी च नदी तथा।
द्वारका कृष्णतीर्थं च तथा ह्युदक्सरस्वती३१।
नदी मालवती नाम तथा च गिरिकर्णिका।
धूतपापं तथा तीर्थं समुद्रे दक्षिणे तथा३२।
गोकर्णो गजकर्णश्च तथा चक्रनदी शुभा।
श्रीशैलं शाकतीर्थं च नारसिंहमतः परम्३३।
महेंद्रं च तथा पुण्या पुण्या चापि महानदी।
एतेष्वपि सदा श्राद्धमनंतफलदं स्मृतम्३४।
दर्शनादपि पुण्यानि सद्यः पापहराणि वै।
तुंगभद्रा नदी पुण्या तथा चक्ररथीति च३५।
भीमेश्वरं कृष्णवेणा कावेरी चांजना नदी।
नदी गोदावरी पुण्या त्रिसंध्या पूर्णमुत्तमम्३६।
तीर्थं त्रैयंबकं नाम सर्वतीर्थनमस्कृतम्।
यत्रास्ते भगवान्भीमः स्वयमेव त्रिलोचनः३७।
श्राद्धमेतेषु सर्वेषु दत्तं कोटिगुणं भवेत्।
स्मरणादपि पापानि व्रजंति शतधा नृप३८।
श्रीपर्णा च नदी पुण्या व्यासतीर्थमनुत्तमम्।
तथा मत्स्यनदी कारा शिवधारा तथैव च३९।
भवतीर्थं च विख्यातं पुण्यतीर्थं च शाश्वतम्।
पुण्यं रामेश्वरं तद्वद्वेणापुरमलंपुरम्४०।
अंगारकं च विख्यातमात्मदर्शमलंबुषम्।
वत्सव्रातेश्वरं तद्वत्तथागोकामुखं परम्४१।
गोवर्द्धनं हरिश्चंद्रं पुरश्चन्द्रं पृथूदकम्।
सहस्राक्षं हिरण्याक्षं तथा च कदलीनदी४२।
नामधेयानि च तथा तथा सौमित्रिसंगतम्।
इंद्रनीलं महानादं तथा च प्रियमेलकम्४३।
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च।
एतेषु सर्वदेवानां सांनिध्यं पठ्यते यतः४४।
दानमेतेषु सर्वेषु भवेत्कोटिशताधिकम्।
बाहुदा च नदी पुण्या तथा सिद्धवटं शुभम्४५।
तीर्थं पाशुपतं चैव नदी पर्यटिका तथा।
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्४६।
तथैव पंचतीर्थं च यत्र गोदावरी नदी।
युता लिंगसहस्रेण सव्येतर जलावहा४७।
जामदग्न्यस्य तत्तीर्थं मोदायतनमुत्तमम्।
प्रतीकस्य भयात्सिद्धा यत्र गोदावरी नदी४८।
तीर्थं तद्धव्यकव्यानामप्सरोगणसंयुतम्।
श्राद्धाग्नि दानकार्यं च तत्र कोटिशताधिकम्४९।
तथा सहस्रलिंगं च राघवेश्वरमुत्तमम्।
सेन्द्रकाला नदी पुण्या तत्र शक्रो गतः पुरा५० 1.11.50।
निहत्य नमुचिं मित्रं तपसा स्वर्गमाप्तवान्।
तत्र दत्तं नरैः श्राद्धमनंतफलदं भवेत् ५१।
पुष्करं नाम वै तीर्थं शालग्रामं तथैव च।
शोणपातश्च विख्यातो यत्र वैश्वानराशयः ५२।
तीर्थं सारस्वतं चैव स्वामितीर्थं तथैव च।
मलंदरा नदी पुण्या कौशिकी चंद्रका तथा ५३।
विदर्भा चाथ वेगा च पयोष्णी प्राङ्मुखा परा।
कावेरी चोत्तरांगा च तथा जालंधरो गिरिः ५४।
एतेषु श्राद्धतीर्थेषु श्राद्धमानंत्यमश्नुते।
लोहदंडं तथा तीर्थं चित्रकूटस्तथैव च ५५।
दिव्यं सर्वत्र गंगायास्तथा नद्यास्तटं शुभम्।
कुब्जाम्रकं तथा तीर्थमुर्वशीपुलिनं तथा ५६।
संसारमोचनं तीर्थं तथैव ऋणमोचनम्।
एतेषु पितृतीर्थेषु श्राद्धमानंत्यमश्नुते ५७।
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च।
तथा वसिष्ठतीर्थं च भारतं च ततः परम् ५८।
ब्रह्मावर्तं कुशावर्तं हंसतीर्थं तथैव च।
पिंडारकं च विख्यातं शंखोद्धारं तथैव च ५९।
भांडेश्वरं बिल्वकं च नीलपर्वतमेव च।
तथा च बदरीतीर्थं सर्वतीर्थेश्वरेश्वरम् ६०।
वसुधाराह्वयं तीर्थं रामतीर्थं तथैव च।
जयंती विजया चैव शुक्लतीर्थं तथैव च ६१।
एषु श्राद्धप्रदातारः प्रयांति परमं पदम्।
तीर्थं मातृगृहं नाम करवीरपुरं तथा ६२।
सप्तगोदावरीनाम सर्वतीर्थेश्वरेश्वरम्।
तत्र श्राद्धं प्रदातव्यमनंतफलमीप्सुभिः ६३।
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्।
च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ६४।
विषयाराधनं पुण्यं नदी या तु पुनःपुना।
यत्र गाथा विचरति ब्रह्मणा परिकीर्तिता ६५।
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ६६।
एषा गाथा विचरति तीर्थेष्वायतनेषु च।
सर्वे मनुष्या राजेंद्र कीर्त्तयंतः समागताः ६७।
किमस्माकं कुले कश्चिद्गयां यास्यति यः सुतः।
प्रीणयिष्यति तान्गत्वा सप्तपूर्वांस्तथापरान् ६८।
मातामहानामप्येवं श्रुतिरेषा चिरंतनी।
गंगायामस्थिनिचयं गत्वा क्षेप्स्यति यः सुतः ६९।
तिलैः सप्ताष्टभिर्वापि दास्यते च जलांजलिम्।
अरण्यत्रितये वापि पिंडदानं करिष्यति ७०।
प्रथमं पुष्करारण्ये नैमिषे तदनंतरं।
धर्मारण्यं पुनः प्राप्य श्राद्धं भक्त्या प्रदास्यति ७१।
गयायां धर्मपृष्ठे वा सरसि ब्रह्मणस्तथा।
गयाशीर्षवटे चैव पितॄणां दत्तमक्षयम् ७२।
व्रजन्कृत्वा निवापं यस्त्वध्वानं परिसर्पति।
नरकस्थान्पितॄन्सोपि स्वर्गं नयति सत्वरं ७३।
कुले तस्य न राजेंद्र प्रेतो भवति कश्चन।
प्रेतत्वं मोक्षभावं च पिंडदानाच्च गच्छति ७४।
एको मुनिस्ताम्रकराग्रहस्तो ह्याम्रेषु मूले सलिलं ददाति।
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ७५।
गयायां पिण्डदानस्य नान्यद्दानं विशिष्यते।
एकेन पिंडदानेन तृप्तास्ते मोक्षगामिनः ७६।
धान्यप्रदानं प्रवरं वदंति वसुप्रदानं च तथामुनींद्राः।
गया सुतीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं वदंति ७७।
सर्वात्मना सुरुचिना महाचल महानदी।
ये तु पश्यंति तां गत्वा मानसे दक्षिणोत्तरे ७८।
प्रणम्य द्विजमुख्येभ्यः प्राप्तं तैर्जन्मनः फलं।
यद्यदिच्छति वै मर्त्यस्तत्तदाप्नोत्यसंशयम् ७९।
एष तूद्देशतः प्रोक्तस्तीर्थानां सग्रहो मया।
वागीशोपि न शक्नोति विस्तरात्किमु मानुषः ८०।
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः।
वर्णाश्रमाणां गेहेपि तीर्थं शम उदाहृतम् ८१।
येषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते।
गयायां यत्तु वै श्राद्धं तच्छ्राद्धमपवर्गदम् ८२।
यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं विधीयते।
प्रातःकालो मुहूर्तांस्त्रीन्संगवस्तावदेव तु ८३।
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम्।
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ८४।
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु।
अह्नो मुहूर्ता व्याख्याता दशपंच च सर्वदा ८५।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः।
मध्याह्नात्सर्वदा यस्मान्मंदी भवति भास्करः ८६।
तस्मादनंतफलदस्तत्रारंभो विशिष्यते।
खड्गपात्रं च कुतपस्तथा नैपालकंबलम् ८७।
रुक्मं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः।
पापं कुत्सितमित्याहुस्तस्य तत्तापकारिणः ८८।
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः।
ऊर्ध्वं मुहुर्त्तात्कुतपान्महूर्त्तं च चतुष्टयम् ८९।
मुहूर्त्तपंचकं चैव स्वधावाचनमिष्यते।
विष्णुदेहसमुद्भूताः कुशाः कृष्णतिलास्तथा ९०।
श्राद्धस्य लक्षणं कालमिति प्राहुर्मनीषिणः।
तिलोदकांजलिर्देयो जलांते तीर्थवासिभिः ९१।
सदर्भहस्तेनैकेन गृहे श्राद्धं गमिष्यति।
पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् ९२।
ब्रह्मणा चैव कथितं तीर्थश्राद्धानुकीर्तनम्।
शृणोति यः पठेद्वापि श्रीमान्संजायते नरः ९३।
श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः।
सर्वपापोपशांन्त्यर्थमलक्ष्मीनाशनं मतं ९४।
इदं पवित्रं यशसो निधानमिदं महापातकनाशनं च।
ब्रह्मार्करुद्रैरभिपूजितं च श्राद्धस्य माहात्म्यमुशंति तज्ज्ञाः ९५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे श्राद्धप्रकरणंनाम एकादशोऽध्यायः ११।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 12
भीष्म उवाच।
सोमवंशः कथं जातः कथयात्र विशारद।
तद्वंशे केतुराजानो बभूवुः कीर्तिवर्द्धनाः१।
पुलस्त्य उवाच।
आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा।
अनंतरं नाम तपः सृष्ट्यर्थं तप्तवान्विभुः २।
यदानंदकरं ब्रह्म भगवन्क्लेशनाशनं।
ब्रह्मरुद्रेन्द्रसूर्याणामभ्यंतरमतींद्रियं३।
शान्तिं कृत्वात्ममनसा तदत्रिः संयमे स्थितः।
माहात्म्यं तपसो वापि परमानंदकारकं ४।
यस्माद्वंशपतिः सार्द्धं समये तदधिष्ठितः।
तं दृष्ट्वाचष्ट सोमेन तस्मात्सोमोभवद्विभुः ५।
अथ सुस्राव नेत्राभ्यां जलं तत्रात्रिसंभवम्।
द्योतयद्विश्वमखिलं ज्योत्स्नया सचराचरम् ६।
तद्दिशो जगृहुस्तत्र स्त्रीरूपेणासहृच्छयाः।
गर्भो भूत्वोदरे तासां स्थितः सोप्यत्रिसंभवः७।
आशाश्च मुमुचुर्गर्भमशक्ता धारणे ततः।
समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः ८।
युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम्।
स्यंदनेथ सहस्तेन वेदशक्तिमये प्रभुः९।
आरोप्य लोकमनयदात्मीयं स पितामहः।
ततो ब्रह्मर्षिभिः प्रोक्तं ह्यस्मत्स्वामीभवत्वयम्१०।
ऋषिभिर्देवगंधर्वैरप्सरोभिस्तथैव च।
स्तूयमानस्य तस्याभूदधिकं महदंतरम्११।
तेजोवितानादभवद्भुवि दिव्यौषधीगणः।
तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा१२।
तेनौषधीशः सोमोभूद्द्विजेष्वपि हि गण्यते।
वेदधामा रसश्चायं यदिदं मंडलं शुभम्१३।
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा।
विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ१४।
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः।
ततः शक्तिसहस्राणां सहस्राणि दशैव तु१५।
तपश्चकार शीतांशुर्विष्णुध्यानैकतत्परः।
ततस्तुष्टश्च भगवांस्तस्मै नारायणो हरिः१६।
वरं वृणीष्व चोवाच परमात्मा जनार्दनः।
ततो वव्रे वरं सोमः शक्रलोके यजाम्यहम्१७।
प्रत्यक्षमेव भोक्तारो भवंतु मम मंदिरे।
राजसूये सुरगणा ब्रह्माद्या ये चतुर्विधाः१८।
रक्षपालः सुरोस्माकमास्तां शूलधरो हरः।
तथेत्युक्तः समाजह्रे राजसूयं तु विष्णुना१९।
होतात्रिर्भृगुरध्वर्युरुद्गाता च चतुर्मुखः।
ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्२०।
सदस्याः सर्वदेवास्तु राजसूयविधिः स्मृतः।
वसवोध्वर्यवस्तद्वद्विश्वेदेवास्तथैव च२१।
त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादिता।
सोमः प्राप्याथदुष्प्राप्यमैश्वर्यं सृष्टिसत्कृतं२२।
सप्तलोकैकनाथत्वं प्राप्तस्स्वतपसा तदा।
कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणोपशोभाम्२३।
बृहन्नितंबस्तनभारखेदां पुष्पावभंगेप्यतिदुर्बलांगीं।
भार्यां च तां देवगुरोरनंगबाणाभिरामायत चारुनेत्रां२४।
तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ।
सापि स्मरार्ता सहते न रेमे तद्रूपकांत्याहृतमानसैव२५।
चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोपि।
न तृप्तिरासीत्स्वगृहेपि तस्य तारानुरक्तस्य सुखागमेषु२६।
बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्याननिष्ठैकमना बभूव।
शशाक शापं न च दातुमस्मै न मंत्रशस्त्राग्निविषैरनेकैः२७।
तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागधीशः।
स याचयामास ततस्तु देवं सोमं स्वभार्यार्थमनंगतप्तः२८।
स याच्यमानोपि ददौ न भार्यां बृहस्पतेः कामवशेन मोहितः।
महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः२९।
ददौ यदा तां न कथंचिदिंदुस्तदा शिवः क्रोधपरो बभूव।
यो वामदेवप्रथितः पृथिव्यामनेकरुद्रार्चितपादपद्मः३०।
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतेः स्नेहवशानुबद्धः।
धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः३१।
युद्धाय सोमेन विशेषदीप्तस्तृतीयनेत्रानलभीमवक्त्रः।
सहैव जग्मुश्च गणेश्वराणां विंशाधिका षष्टिरथोग्रमूर्तिः३२।
यक्षेश्वराणां सगणैरनेकैर्युतोन्वगात्स्यंदनसंस्थितानां।
वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदानाम्३३।
लक्षैस्त्रिभिर्द्वा दशभी रथानां सोमोप्यगात्तत्र विवृद्धमन्युः।
शनैश्चरांगारकवृद्धतेजा नक्षत्रदैत्यासुरसैन्ययुक्तः३४।
जग्मुर्भयं सप्त तथैव लोका धरावनद्वीपसमुद्रगर्भाः।
ससोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः३५।
अथाभवद्भीषण भीम सोम सैन्यद्वयस्याथ महाहवोसौ।
अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णप्रधानो ज्वलनैकरूपः३६।
शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगामक्षयमुग्रतीक्ष्णैः।
पतंति शस्त्राणि तथोज्वलानि स्वर्भूमिपातालमलं दहंति३७।
रुद्रः क्रोधाद्ब्रह्मशिरो मुमोच सोमोपि सोमास्त्रममोघवीर्यं।
तयोर्निपातेन समुद्रभूम्योरथांतरिक्षस्य च भीतिरासीत्३८।
तदा सुयुद्धं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोपि।
ततः प्रविश्याथ कथंचिदेव निवारयामास सुरैः सहैव३९।
अकारणं किं क्षयकृज्जनानां सोम त्वयापीदमकार्यकार्यं।
यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम्४०।
पापग्रहस्त्वं भविता जनेषु पापोस्यलं वह्निमुखाशिनां त्वं।
भार्यामिमामर्पय वाक्पतेस्त्वं प्रमाणयन्नेव मदीय वाचम्४१।
तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशांतः।
बृहस्पतिस्तामथ गृह्य तारां हृष्टो जगाम स्वगृहं च रुद्रः ४२।
पुलस्त्य उवाच।
ततः संवत्सरस्यांते द्वादशादित्यसन्निभः।
दिव्यपीताम्बरधरो दिव्याभरणभूषितः४३।
तारोदरविनिष्क्रान्तः कुमारस्सूर्यसन्निभः।
सर्वार्थशास्त्रविद्विद्वान्हस्तिशास्त्रप्रवर्त्तकः४४।
नामयद्राजपुत्रोयं विश्रुतो राजवैद्यकः।
राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः४५।
जनानां तु स तेजांसि सर्वाण्येवाक्षिपद्बली।
ब्रह्माद्यास्तत्र चाजग्मुर्देवा देवर्षिभिः सह४६।
बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा।
पप्रच्छुस्ते सुरास्तारां केन जातः कुमारकः४७।
ततः सा लज्जिता तेषां न किंचिदवदत्तदा।
पुनः पुनस्तदा पृष्टा लज्जयंती वरांगना४८।
सोमस्येति चिरादाह ततो गृह्णाद्विधुः सुतं।
बुध इत्यकरोन्नाम प्रादाद्राज्यं च भूतले४९।
अभिषेकं ततः कृत्वा प्रदानमकरोद्विभुः।
ग्रहमध्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिभिर्युतः५० 1.12.50।
पश्यतां सर्वभूतानां तत्रैवांतरधीयत।
इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्५१।
अश्वमेधशतंसाग्रमकरोद्यस्स्वतेजसा।
पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः५२।
हिमवच्छिखरे रम्ये समाराध्य पितामहं।
लोकैश्वर्यमगाद्राजन्सप्तद्वीपपतिस्तदा५३।
केशिप्रभृतयो दैत्यास्तद्भृत्यत्वं समागताः।
उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता५४।
सप्तद्वीपावसुमती सशैलवनकानना।
धर्मेण पालिता तेन सर्वलोकहितैषिणा५५।
चामरग्रहणाकीर्तिः स्वयं चैवांगवाहिका।
ब्रह्मप्रसादाद्देवेंद्रो ददावर्द्धासनं तदा५६।
धर्मार्थकामान्धर्मेण समवेतोभ्यपालयत्।
धर्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकान्विताः५७।
जिज्ञासवस्तच्चरितं कथं पश्यति नः समम्।
भक्त्या चक्रे ततस्तेषामर्घ्यपाद्यादिकं ततः५८।
आसनत्रयमानीय दिव्यं कनकभूषणम्।
निवेश्याथाकरोत्पूजामीषद्धर्मेधिकां पुनः५९।
जग्मतुस्तौ च कामार्थावतिकोपं नृपं प्रति।
अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि६०।
कामोप्याह तवोन्मादो भविता गंधमादने।
कुमारवनमाश्रित्य वियोगाच्चोर्वशीभवात्६१।
धर्मोप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि।
संततिस्तव राजेंद्र यावदाचंद्रतारकम्६२।
शतशो वृद्धिमायाति न नाशं भुवि यास्यति।
षष्टिं वर्षाणि चोन्माद ऊर्वशीकामसंभवः६३।
अचिरादेव भार्यापि वशमेष्यति चाप्सराः।
इत्युक्त्वांतर्दधुः सर्वे राजा राज्यं तदान्वभूत्६४।
अहन्यहनि देवेंद्रं द्रष्टुं याति पुरूरवाः।
कदाचिदारुह्य रथं दक्षिणांबरचारिणा६५।
सार्धं शक्रेण सोऽपश्यन्नीयमानामथांबरे।
केशिना दानवेंद्रेण चित्रलेखामथोर्वशीम्६६।
तं विनिर्जित्य समरे विविधायुधपातनैः।
पुरा शक्रोपि समरे येन वज्री विनिर्जितः६७।
मित्रत्वमगमत्तेन प्रादादिंद्राय चोर्वशीं।
ततःप्रभृति मित्रत्वमगमत्पाकशासनः६८।
सर्वलोकेतिशयितं पुरूरवसमेव तम्।
प्राह वज्री तु संतुष्टो नीयतामियमेव च६९।
सा पुरूरवसः प्रीत्यै चागायच्चरितं महत्।
लक्ष्मीस्वयंवरंनाम भरतेन प्रवर्तितम्७०।
मेनकां चोर्वशीं रंभां नृत्यध्वमिति चादिशत्।
ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी७१।
सा पुरूरवसं दृष्ट्वा नृत्यंती कामपीडिता।
विस्मृताभिनयं सर्वं यत्पुरातनचोदितम्७२।
शशाप भरतः क्रोधाद्वियोगात्तस्य भूतले।
पंचपंचाशदब्दानि लताभूता भविष्यसि७३।
ततस्तमुर्वशी गत्वा भर्त्तारमकरोच्चिरं।
शापानुभवनांते च उर्वशी बुधसूनुना७४।
अजीजनत्सुतानष्टौ नामतस्तान्निबोध मे।
आयुर्दृढायुर्वश्यायुर्बलायुर्धृतिमान्वसुः७५।
दिव्यजायुः शतायुश्च सर्वे दिव्यबलौजसः।
आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च७६।
रजिर्दंडो विशाखश्च वीराः पंचमहारथाः।
रजेः पुत्रशतं जज्ञे राजेया इति विश्रुतं७७।
रजिराराधयामास नारायणमकल्मषं।
तपसा तोषितो विष्णुर्वरं प्रादान्महीपतेः७८।
देवासुरमनुष्याणामभूत्स विजयी तदा।
अथ देवासुरं युद्धमभूद्वर्षशतत्रयम्७९।
प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः।
ततो देवासुरैः पृष्टः पृथग्देवश्चतुर्मुखः८०।
अनयोर्विजयी कः स्याद्रजिर्यत्रेति सोब्रवीत्।
जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः८१।
दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम्।
नासुरैः प्रतिपन्नं तत्प्रतिपन्नं सुरैस्तदा८२।
स्वामी भव त्वमस्माकं बलनाशय विद्विषः।
ततो विनाशिताः सर्वे ये वध्या वज्रपाणिनः८३।
पुत्रत्वमगमत्तुष्टस्तस्येंद्रः कर्मणा ततः।
दत्त्वेंद्राय पुरा राज्यं जगाम तपसे रजिः८४।
रजिपुत्रैस्तदाछिन्नं बलादिंद्रस्य वैयदा।
यज्ञभागश्च राज्यं च तपोबलगुणान्वितैः८५।
राज्यभ्रष्टस्ततः शक्रो रजिपुत्रनिपीडितः।
प्राह वाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः८६।
न यज्ञभागो राज्यं मे पीडितस्य बृहस्पते।
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप८७।
ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम्।
ग्रहशांतिविधानेन पौष्टिकेन च कर्मणा८८।
गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः।
जिनधर्मं समास्थाय वेदबाह्यं स धर्मवित्८९।
वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः।
वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान्९०।
जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान्।
नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्९१।
यतिर्ययातिश्शर्यातिरुत्तरः पर एव च।
अयतिर्वियतिश्चैव सप्तैते वंशवर्द्धनाः९२।
यतिः कुमारभावेपि योगी वैखानसोभवत्।
ययातिरकरोद्राज्यं धर्मैकशरणः सदा९३।
शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः।
भार्गवस्यात्मजा चैव देवयानी च सुव्रता९४।
ययातेः पंचदायादास्तान्प्रवक्ष्यामि नामतः।
देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत्९५।
तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान्।
यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः९६।
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव।
यदोस्तु यादवा जाता यत्र तौ बलकेशवौ९७।
भारावतारणार्थाय पांडवानां हिताय च।
यदोः पुत्रा बभूवुश्च पंच देवसुतोपमाः९८।
सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः।
सहस्रजितो दायादः शतजिन्नाम पार्थिवः९९।
शतजितश्च दायादास्त्रयः परमधार्मिकाः।
हैहयश्च हयश्चैव तथा तालहयश्च यः१०० 1.12.100।
हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः।
धर्मनेत्रस्य कुंतिस्तु संहतस्तस्य चात्मजः१०१।
संहतस्य तु दायादो महिष्मान्नाम पार्थिवः।
आसीन्महिष्मतः पुत्रो भद्रसेनः प्रतापवान्१०२।
वाराणस्यामभूद्राजा कथितः पूर्वमेव हि।
भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः१०३।
दुर्दमस्य सुतो भीमो धनको नाम वीर्यवान्।
धनकस्य सुता ह्यासन्चत्वारो लोकविश्रुताः१०४।
कृताग्निः कृतवीर्यश्च कृतधर्मा तथैव च।
कृतौजाश्च चतुर्थोभूत्कृतवीर्याच्च सोर्जुनः१०५।
जातो बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः।
वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः१०६।
दत्तमाराधयामास कार्त्तवीर्योत्रिसंभवम्।
तस्मै दत्तो वरान्प्रादाच्चतुरः पुरुषोत्तमः१०७।
पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः।
अधर्मं ध्यायमानस्य भीतिश्चापि निवारणम्१०८।
युद्धेन पृथिवीं जित्वा धर्मेणावाप्य वै बलम्।
संग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत्१०९।
एतेनेयं वसुमती सप्तद्वीपा सपत्तना।
सप्तोदधि परिक्षिप्ता क्षात्रेण विधिना जिता११०।
जज्ञे बाहुसहस्रं च इच्छतस्तस्य धीमतः।
सर्वे यज्ञा महाबाहोस्तस्यासन्भूरिदक्षिणाः१११।
सर्वे कांचनयूपास्ते सर्वे कांचनवेदिकाः।
सर्वे देवैश्च संप्राप्ता विमानस्थैरलंकृतैः११२।
गंधर्वैरप्सरोभिश्च नित्यमेवापि सेविताः।
यस्य यज्ञे जगौ गाथा गंधंर्वो नारदस्तथा११३।
कार्त्तवीर्यस्य राजर्षेर्महिमानं निरीक्ष्य सः।
न नूनं कार्त्तवीर्यस्य गतिं यास्यंति पार्थिवाः१४।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च।
सप्तद्वीपाननुचरन्वेगेन पवनोपमः११५।
पंचाशीतिसहस्राणि वर्षाणां च नराधिपः।
सप्तद्वीपपृथिव्याश्च चक्रवर्ती बभूव ह११६।
स एव पशुपालोभूत्क्षेत्रपालः स एव हि।
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोभवत्११७।
योसौ बाहुसहस्रेण ज्याघातकठिनत्वचा।
भाति रश्मिसहस्रेण शारदेनेव भास्करः११८।
एष नाम मनुष्येषु माहिष्मत्यां महाद्युतिः।
एष वेगं समुद्रस्य प्रावृट्काले भजेत वै११९।
क्रीडते स्वसुखा ये विप्रतिस्रोतो महीपतिः।
ललनाः क्रीडता तेन प्रतिबद्धोर्मिमालिनी१२०।
ऊर्मिभ्रुकुटिमाला सा शंकिताभ्येति नर्मदा।
एष एव मनोर्वंशे त्ववगाहेन्महार्णवम्१२१।
करेणोद्धृत्य वेगं तु कामिनीप्रीणनेन तु।
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ१२२।
भवंति लीना निश्चेष्टाः पातालस्था महासुराः।
तदूरुक्षोभचकिता अमृतोत्पादशंकिताः१२३।
नता निश्चलमूर्द्धानो भवंति च महोरगाः।
एष धन्वी च चिक्षेप रावणं प्रति सायकान्१२४।
एष धन्वी धनुर्गृह्य उत्सिक्तं पंचभिः शरैः।
लंकेशं मोहयित्वा तु सबलं रावणं बलात्१२५।
निर्जित्य बद्ध्वा त्वानीय माहिष्मत्याम्बबंध तम्।
ततो गतोहं तस्याग्रे अर्जुनं संप्रसादयन्१२६।
मुमोच राजन्पौत्रं मे सख्यं कृत्वा च पार्थिवः।
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः१२७।
युगांताग्नेः प्रवृत्तस्य यथा ज्यातलनिःस्वनः।
अहो बलं विधेर्वीर्यं भार्गवः स यदाच्छिनत्१२८।
मृधे सहस्रं बाहूनां हेमतालवनं यथा।
यं वसिष्ठस्तु संक्रुद्धो ह्यर्जुनं शप्तवान्विभुः१२९।
यस्माद्वनं प्रदग्धं ते विश्रुतं मम हैहय।
तस्मात्ते दुष्कृतं कर्म कृतमन्यो हनिष्यति१३०।
छित्वा बाहुसहस्रं ते प्रमथ्य तरसा बली।
तपस्वी ब्राह्मणस्त्वां वै वधिष्यति स भार्गवः१३१।
तस्य रामोथ हंतासीन्मुनिशापेन धीमतः।
तस्य पुत्रशतं त्वासीत्पंच तत्र महारथाः१३२।
कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबल।
शूरसेनश्च शूरश्च धृष्टो वै कृष्ण एव च१३३।
जयद्ध्वजः स वै कर्ता अवन्तिश्च रसापतिः।
जयध्वजस्य पुत्रस्तु तालजंघो महाबलः१३४।
तस्य पुत्राश्शतान्येव तालजंघा इति स्मृताः।
तेषां पंचकुलान्यासन्हैहयानां महात्मनाम्१३५।
वीतिहोत्राश्च संजाता भोजाश्चावंतयस्तथा।
तुंडकेराश्च विक्रांतास्तालजंघाः प्रकीर्तिताः१३६।
वीतिहोत्रसुतश्चापि अनंतो नाम वीर्यवान्।
दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्षणः१३७।
सद्भावेन महाराजः प्रजाधर्मेण पालयन्।
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रधृत्१३८।
येन सागरपर्यंता धनुषा निर्जिता मही।
यस्तस्यकीर्तयेन्नाम कल्यमुत्थाय मानवः१३९।
न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः।
कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः।
यथा यष्टा यथा दाता स्वर्गलोके महीयते१४०।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे यदुवंशकीर्तनं नाम द्वादशोऽध्यायः१२।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 13 (part 1)
पुलस्त्य उवाच।
क्रोष्टोः शृणु त्वं राजेंद्र वंशमुत्तमपूरुषम्।
यस्यान्ववाये संभूतो विष्णुर्वृष्णिकुलोद्वहः१।
क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः।
तस्य पुत्रोभवत्स्वातिः कुशंकुस्तत्सुतोभवत्२।
कुशंकोरभवत्पुत्रो नाम्ना चित्ररथोस्य तु।
शशबिंदुरिति ख्यातश्चक्रवर्ती बभूव ह३।
अत्रानुवंशश्लोकोयं गीतस्तस्य पुराभवत्।
शशबिंदोस्तु पुत्राणां शतानामभवच्छतम्४।
धीमतां चारुरूपाणां भूरिद्रविणतेजसाम्।
तेषां शतप्रधानानां पृथुसाह्वा महाबलाः५।
पृथुश्रवाः पृथुयशाः पृथुतेजाः पृथूद्भवः।
पृथुकीर्तिः पृथुमतो राजानः शशबिंदवः६।
शंसंति च पुराणज्ञाः पृथुश्रवसमुत्तमम्।
ततश्चास्याभवन्पुत्राः उशना शत्रुतापनः७।
पुत्रश्चोशनसस्तस्य शिनेयुर्नामसत्तमः।
आसीत्शिनेयोः पुत्रो यः स रुक्मकवचो मतः८।
निहत्य रुक्मकवचो युद्धे युद्धविशारदः।
धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम्९।
अश्वमेधे ऽददाद्राजा ब्राह्मणेभ्यश्च दक्षिणां।
जज्ञे तु रुक्मकवचात्परावृत्परवीरहा१०।
तत्पुत्रा जज्ञिरे पंच महावीर्यपराक्रमाः।
रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः११।
परिघं च हरिं चैव विदेहे स्थापयत्पिता।
रुक्मेषुरभवद्राजा पृथुरुक्मस्तथाश्रयः१२।
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोवसदाश्रमे।
प्रशांतश्चाश्रमस्थस्तु ब्राह्मणेन विबोधितः१३।
जगाम धनुरादाय देशमन्यं ध्वजी रथी।
नर्मदातट एकाकी केवलं वृत्तिकर्शितः१४।
ऋक्षवंतं गिरिं गत्वा मुक्तमन्यैरुपाविशत्।
ज्यामघस्याभवद्भार्या शैब्या परिणता सती१५।
अपुत्रोप्यभवद्राजा भार्यामन्यामचिंतयन्।
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः१६।
भार्यामुवाच संत्रासात्स्नुषेयं ते शुचिस्मिते।
एवमुक्त्वाब्रवीदेनं कस्य केयं स्नुषेति वै१७।
राजोवाच।
यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति।
तस्याः सा तपसोग्रेण कन्यायाः संप्रसूयत१८।
पुत्रं विदर्भं सुभगं शैब्या परिणता सती।
राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ१९।
लोमपादं तृतीयं तु पुत्रं परमधार्मिकम्।
पश्चाद्विदर्भो जनयच्छूरं रणविशारदम्२०।
लोमपादात्मजो बभ्रुर्धृतिस्तस्य तु चात्मजः।
कौशिकस्यात्मजश्चेदिस्तस्माच्चैद्यनृपाः स्मृताः२१।
क्रथो विदर्भपुत्रो यः कुंतिस्तस्यात्मजोभवत्।
कुंतेर्धृष्टस्ततो जज्ञे धृष्टात्सृष्टः प्रतापवान्२२।
सृष्टस्य पुत्रो धर्मात्मा निवृत्तिः परवीरहा।
निवृत्तिपुत्रो दाशार्हो नाम्ना स तु विदूरथः२३।
दाशार्हपुत्रो भीमस्तु भीमाज्जीमूत उच्यते।
जीमूतपुत्रो विकृतिस्तस्यभीमरथः सुतः२४।
अथ भीमरथस्यापि पुत्रो नवरथः किल।
तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः२५।
तस्मात्करंभस्तस्माच्च देवरातो बभूव ह।
देवक्षत्रोभवद्राजा देवरातान्महायशाः२६।
देवगर्भसमो जज्ञे देवक्षत्रस्य नंदनः।
मधुर्नाममहातेजा मधोः कुरुवशः स्मृतः२७।
आसीत्कुरुवशात्पुत्रः पुरुहोत्रः प्रतापवान्।
अंशुर्जज्ञेथ वैदर्भ्यां द्रवंत्यां पुरुहोत्रतः२८।
वेत्रकी त्वभवद्भार्या अंशोस्तस्यां व्यजायत।
सात्वतः सत्वसंपन्नः सात्वतान्कीर्तिवर्द्धनः२९।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः३०।
सात्वतान्सत्वसंपन्ना कौसल्या सुषुवे सुतान्।
तेषां सर्गाश्च चत्वारो विस्तरेणैव तान्शृणु३१।
भजमानस्य सृंजय्यां भाजनामा सुतोभवत्।
सृंजयस्य सुतायां तु भाजकास्तु ततोभवन्३२।
तस्य भाजस्य भार्ये द्वे सुषुवाते सुतान्बहून्।
नेमिं चकृकणं चैव वृष्णिं परपुरंजयं३३।
ते भाजकाः स्मृता यस्माद्भजमानाद्वि जज्ञिरे।
देवावृधः पृथुर्नाम मधूनां मित्रवर्द्धनः३४।
अपुत्रस्त्वभवद्राजा चचार परमं तपः।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्३५।
संयोज्य कृष्णमेवाथ पर्णाशाया जलं स्पृशन्।
सा तोयस्पर्शनात्तस्य सांनिध्यं निम्नगा ह्यगात्३६।
कल्याणं चरतस्तस्य शुशोच निम्नगाततः।
चिंतयाथ परीतात्मा जगामाथ विनिश्चयम्३७।
भूत्वा गच्छाम्यहं नारी यस्यामेवं विधः सुतः।
जायेत तस्मादद्याहं भवाम्यस्य सुतप्रदा३८।
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः।
ज्ञापयामास राजानं तामियेष नृपस्ततः३९।
अथसानवमेमासिसुषुवेसरितांवरा।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधात्परम्४०।
अत्र वंशे पुराणज्ञा ब्रुवंतीति परिश्रुतम्।
गुणान्देवावृधस्याथ कीर्त्तयंतो महात्मनः४१।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः।
षष्टिः शतं च पुत्राणां सहस्राणि च सप्ततिः४२।
एतेमृतत्वं संप्राप्ता बभ्रोर्देवावृधादपि।
यज्ञदानतपोधीमान्ब्रह्मण्यस्सुदृढव्रतः४३।
रूपवांश्च महातेजा भोजोतोमृतकावतीम्।
शरकान्तस्य दुहिता सुषुवे चतुरः सुतान्४४।
कुकुरं भजमानं च श्यामं कंबलबर्हिषम्।
कुकुरस्यात्मजो वृष्टिर्वृष्टेस्तु तनयो धृतिः४५।
कपोतरोमा तस्यापि तित्तिरिस्तस्य चात्मजः।
तस्यासीद्बहुपुत्रस्तु विद्वान्पुत्रो नरिः किल४६।
ख्यायते तस्य नामान्यच्चंदनोदकदुंदुभिः।
अस्यासीदभिजित्पुत्रस्ततो जातः पुनर्वसुः४७।
अपुत्रोह्यभिजित्पूर्वमृषिभिः प्रेरितो मुदा।
अश्वमेधंतुपुत्रार्थमाजुहावनरोत्तमः४८।
तस्य मध्ये विचरतः सभामध्यात्समुत्थितः।
अन्धस्तु विद्वान्धर्मज्ञो यज्ञदाता पुनर्वसुः४९।
तस्यासीत्पुत्रमिथुनं वसोश्चारिजितः किल।
आहुकश्चाहुकी चैव ख्याता मतिमतां वर५० 1.13.50।
इमांश्चोदाहरंत्यत्र श्लोकांश्चातिरसात्मकान्।
सोपासंगानुकर्षाणां तनुत्राणां वरूथिनाम्५१।
रथानां मेघघोषाणां सहस्राणि दशैव तु।
नासत्यवादिनो भोजा नायज्ञा नासहस्रदाः५२।
नाशुचिर्नाप्यविद्वांसो न भोजादधिकोभवत्।
आहुकां तमनुप्राप्त इत्येषोन्वय उच्यते५३।
आहुकश्चाप्यवंतीषु स्वसारं चाहुकीं ददौ।
आहुकस्यैव दुहिता पुत्रौ द्वौ समसूयत५४।
देवकं चोग्रसेनं च देवगर्भसमावुभौ।
देवकस्य सुताश्चैव जज्ञिरे त्रिदशोपमाः५५।
देववानुपदेवश्च सुदेवो देवरक्षितः।
तेषां स्वसारः सप्तैव वसुदेवाय ता ददौ५६।
देवकी श्रुतदेवा च यशोदा च श्रुतिश्रवा।
श्रीदेवा चोपदेवा च सुरूपा चेति सप्तमी५७।
नवोग्रसेनस्य सुताः कंसस्तेषां च पूर्वजः।
न्यग्रोधस्तु सुनामा च कंकः शंकुः सुभूश्च यः५८।
अन्यस्तु राष्ट्रपालश्च बद्धमुष्टिः समुष्टिकः।
तेषां स्वसारः पंचासन्कंसा कंसवती तथा५९।
सुरभी राष्ट्रपाली च कंका चेति वरांगनाः।
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः६०।
भजमानस्य पुत्रोभूद्रथिमुख्यो विदूरथः।
राजाधिदेवः शूरश्च विदूरथसुतोभवत्६१।
राजाधिदेवस्य सुतौ जज्ञाते वीरसंमतौ।
क्षत्रव्रतेतिनिरतौ शोणाश्वः श्वेतवाहनः६२।
शोणाश्वस्य सुताः पंच शूरा रणविशारदाः।
शमी च राजशर्मा च निमूर्त्तः शत्रुजिच्छुचिः६३।
शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः।
प्रतिक्षत्रसुतो भोजो हृदीकस्तस्य चात्मजः।
हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः६४।
कृतवर्माग्रजस्तेषां शतधन्वा च सत्तमः।
देवार्हश्च सुभानुश्च भीषणश्च महाबलः६५।
अजातश्च विजातश्च करकश्च करंधमः।
देवार्हस्य सुतो विद्वान्जज्ञे कंबलबर्हिषः६६।
असमौजास्ततस्तस्य समौजाश्च सुतावुभौ।
अजातपुत्रस्य सुतौ प्रजायेते समौजसौ६७।
समौजः पुत्रा विख्यातास्त्रयः परमधार्मिकाः।
सुदंशश्च सुवंशश्च कृष्ण इत्यनुनामतः६८।
अंधकानामिमं वंशं यः कीर्तयति नित्यशः।
आत्मनो विपुलं वंशं प्रजामाप्नोत्ययं ततः६९।
गांधारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः।
गांधारी जनयामास सुनित्रं मित्रवत्सलम्७०।
माद्री युधाजितं पुत्रं ततो वै देवमीढुषं।
अनमित्रं शिनिं चैव पंचात्र कृतलक्षणाः७१।
अनमित्रसुतो निघ्नो निघ्नस्यापि च द्वौ सुतौ।
प्रसेनश्च महावीर्यः शक्तिसेनश्च तावुभौ७२।
स्यमंतकं प्रसेनस्य मणिरत्नमनुत्तमं।
पृथिव्यां मणिरत्नानां राजेति समुदाहृतम्७३।
हृदि कृत्वा सुबहुशो मणिं तं स व्यराजत।
मणिरत्नं ययाचेथ राजार्थं शौरिरुत्तमम्७४।
गोविंदश्च न तं लेभे शक्तोपि न जहार सः।
कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः७५।
बिले शब्दं स शुश्राव कृतं सत्त्वेन केनचित्।
ततः प्रविश्य स बिलं प्रसेनो ह्यृक्षमासदत्७६।
ऋक्षः प्रसेनं च तथा ऋक्षं चापि प्रसेनजित्।
आसाद्य युयुधाते तौ परस्परजयेच्छया७७।
हत्वा ऋक्षः प्रसेनं च ततस्तं मणिमाददात्।
प्रसेनं तु हतं श्रुत्वा गोविंदः परिशंकितः७८।
सत्राजित्रा तु तद्भ्रात्रा यादवैश्च तथापरैः।
गोविंदेन हतो नूनं प्रसेनो मणिकारणात्७९।
प्रसेनस्तु गतोरण्यं मणिरत्नेन भूषितः।
तं दृष्ट्वा निजघानाथ न त्यजन्तं स्यमंतकम्८०।
जघानैवाप्रदानेन शत्रुभूतं च केशवः।
इति प्रवादस्सर्वत्र ख्यातस्सत्राजिता कृतः८१।
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः।
यदृच्छया च गोविंदो बिलाभ्याशमथागमत्८२।
ततश्शब्दं यथापूर्वं स चक्रे ऋक्षराड्बली।
शब्दं श्रुत्वा तु गोविंदः खङ्गपाणिः प्रविश्य च८३।
अपश्यज्जांबवंतं च ऋक्षराजं महाबलं।
ततस्तूर्णं हृषीकेशस्तमृक्षमतिरंहसा८४।
जांबवंतं स जग्राह क्रोधसंरक्तलोचनः।
दृष्ट्वा चैनं तथा विष्णुं कर्मभिर्वैष्णवीं तनुं८५।
तुष्टाव ऋक्षराजोपि विष्णुसूक्तेन सत्वरं।
ततस्तु भगवांस्तुष्टो वरेण समरोचयत्८६।
जाम्बवानुवाच।
इष्टं चक्रप्रहारेण त्वत्तो मे मरणं शुभम्।
कन्या चेयं मम सुता भर्त्तारं त्वामवाप्नुयात्८७।
योयं मणिः प्रसेनात्तु हत्वा चैवाप्तवानहम्।
स त्वया गृह्यतां नाथ मणिरेषोऽत्र वर्त्तते८८।
इत्युक्तो जांबवंतं वै हत्वा चक्रेण केशवः।
कृतकार्यो महाबाहुः कन्यां चैवाददौ तदा८९।
ततः सत्राजिते चैतन्मणिरत्नं स वै ददौ।
यल्लब्धमृक्षराजाच्च सर्वयादवसन्निधौ९०।
तेन मिथ्याप्रवादेन संतप्तोयं जनार्दनः।
ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्९१।
अस्माकं मनसि ह्यासीत्प्रसेनस्तु त्वया हतः।
एकैकस्यास्तु सुंदर्यो दश सत्राजितः सुताः९२।
सत्योत्पन्नास्सुतास्तस्य शतमेकं च विश्रुताः।
विख्याताश्च महावीर्या भंगकारश्च पूर्वजः९३।
सत्या व्रतवती स्वप्ना भंगकारस्य पूर्वजा।
सुषुवुस्ताः कुमारांश्च शिनीवालः प्रतापवान्९४।
अभंगो युयुधानश्च शिनिस्तस्यात्मजोभवत्।
तस्माद्युगंधरः पुत्राश्शतं तस्य प्रकीर्तिताः९५।
अनमित्राह्वयो यो वै विख्यातो वृष्णिवंशजः।
अनमित्रात्शिनिर्जज्ञे कनिष्ठो वृष्णिनंदनः९६।
अनमित्राच्च संजज्ञे वृष्णिवीरो युधाजितः।
अन्यौ च तनयौ वीरा वृषभश्चित्र एव च९७।
ऋषभः काशिराजस्य सुतां भार्यामनिंदितां।
जयंतश्च जयंतीं च शुभां भार्यामविंदत९८।
जयंतस्य जयंत्यां वै पुत्रः समभवत्ततः।
सदा यज्वातिधीरश्च श्रुतवानतिथिप्रियः९९।
अक्रूरः सुषुवे तस्मात्सुदक्षो भूरिदक्षिणः।
रत्नकन्या च शैब्या च अक्रूरस्तामवाप्तवान्१०० 1.13.100।
पुत्रानुत्पादयामास एकादशमहाबलान्।
उपलंभं सदालंभमुत्कलं चार्य्यशैशवं१०१।
सुधीरं च सदायक्षं शत्रुघ्नं वारिमेजयं।
धर्मदृष्टिं च धर्मं च सृष्टिमौलिं तथैव च१०२।
सर्वे च प्रतिहर्तारो रत्नानां जज्ञिरे च ते।
अक्रूराच्छूरसेनायां सुतौ द्वौ कुलनंदनौ१०३।
देववानुपदेवश्च जज्ञाते देवसंमतौ।
अश्विन्यां त्रिचतुः पुत्राः पृथुर्विपृथुरेव च१०४।
अश्वग्रीवो श्वबाहुश्च सुपार्श्वक गवेषणौ।
रिष्टनेमिः सुवर्चा च सुधर्मा मृदुरेव च१०५।
अभूमिर्बहुभूमिश्च श्रविष्ठा श्रवणे स्त्रियौ।
इमां मिथ्याभिशप्तिं यो वेद कृष्णस्य बुद्धिमान्१०६।
न स मिथ्याभिशापेन अभिगम्यश्च केनचित्।
एक्ष्वाकी सुषुवे पुत्रं शूरमद्भुतमीढुषम्१०७।
मीढुषा जज्ञिरे शूरा भोजायां पुरुषा दश।
वसुदेवो महाबाहुः पूर्वमानकदुंदुभिः१०८।
देवभागस्तथा जज्ञे तथा देवश्रवाः पुनः।
अनावृष्टिं कुनिश्चैव नंदिश्चैव सकृद्यशाः१०९।
श्यामः शमीकः सप्ताख्यः पंच चास्य वरांगनाः।
श्रुतकीर्तिः पृथा चैव श्रुतदेवी श्रुतश्रवाः११०।
राजाधिदेवी च तथा पंचैता वीरमातरः।
वृद्धस्य श्रुतदेवी तु कारूषं सुषुवे नृपम्१११।
कैकेयाच्छ्रुतकीर्तेस्तु जज्ञे संतर्दनो नृपः।
श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत११२।
राजाधिदेव्याः संभूतो धर्माद्भयविवर्जितः।
शूरः सख्येन बद्धोसौ कुंतिभोजे पृथां ददौ११३।
एवं कुंती समाख्या च वसुदेवस्वसा पृथा।
कुंतिभोजोददात्तां तु पांडोर्भार्यामनिंदिताम्११४।
पाण्ड्वर्थेसूत देवी सा देवपुत्रान्महारथान्।
धर्माद्युधिष्ठिरो जज्ञे वाताज्जज्ञे वृकोदरः११५।
इंद्राद्धनंजयश्चैव शक्रतुल्यपराक्रमः।
योऽसौ त्रिपुरुषाज्जातस्त्रिभिरंशैर्महारथः११६।
देवकार्यकरश्चैव सर्वदानवसूदनः।
अवध्याश्चापि शक्रस्य दानवा येन घातिताः११७।
स्थापितस्स तु शक्रेण लब्धवर्चास्त्रिविष्टपे।
माद्रवत्यां तु जनितावश्विनाविति नः श्रुतम्११८।
नकुलः सहदेवश्च रूपसत्वगुणान्वितौ।
रोहिणी पौरवी नाम भार्या चानकदुंदुभेः११९।
लेभे चेष्टं सुतं रामं सारणं च रणप्रियम्।
दुर्धरं दमनं चैव पिंडारकमहाहनुं१२०।
अथ मायात्वमावास्या देवकी या भविष्यति।
तस्यां जज्ञे महाबाहुः पूर्वं तु स प्रजापतिः१२१।
अनुजाताभवत्कृष्णा सुभद्रा भद्रभाषिणी।
विजयो रोचमानस्तु वर्धमानश्च देवलः१२२।
एते सर्वे महात्मान उपदेव्यां प्रजज्ञिरे।
अगावहं महात्मानं बृहद्देवी व्यजायत१२३।
बृहद्देव्यां स्वयं जज्ञे मन्दको नाम नामतः।
सप्तमं देवकी पुत्रं रेमंतं सषुवे सुतम्१२४।
गवेषणं महाभागं संग्रामेष्वपराजितम्।
श्रुतदेव्या विहारे तु वने विचरता पुरा१२५।
वैश्यायां समधाच्छौरिः पुत्रं कौशिकमग्रजम्।
श्रुतंधरा तु राज्ञी तु सौरगंधपरिग्रहः१२६।
पुत्रं च कपिलं चैव वसुदेवात्मजो बली।
जनानां च विषादोभूत्प्रथमः स धनुर्द्धरः१२७।
सौभद्रश्चाभवश्चैव महासत्वौ बभूवतुः।
देवभागसुतश्चापि प्रस्तावः स बुधः स्मृतः१२८।
पण्डितं प्रथमं बाहु देवश्रवसमुत्तमम्।
इक्ष्वाकुकुलतो यस्य मनस्विन्या यशस्विनी१२९।
निवृत्तशत्रुः शत्रुघ्नः श्रद्धा तस्मादजायत।
गंडूषायामपत्यानि कृष्णस्तुष्टः शतं ददौ१३०।
स चंद्रं तु महाभागं वीर्यवंतं महाबलम्।
रंतिपालश्च रंतिश्च नंदनस्य सुतावुभौ१३१।
शमीकपुत्राश्चत्वारो विक्रांताः सुमहाबलाः।
विरजश्च धनुश्चैव व्योमस्तस्य स सृंजयः१३२।
अनपत्योभवद्व्योमः सृंजयस्य धनंजयः।
यो जायमानो भोजत्वं राजर्षित्वमवाप्तवान्१३३।
कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः।
शृणोति वा नरो नित्यं सर्वपापैः प्रमुच्यते१३४।
अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः।
विहारार्थं स देवोसौ मानुषेष्वप्यजायत१३५।
देवक्यां वसुदेवेन तपसा पुष्करेक्षणः।
चतुर्बाहुस्तु संजातो दिव्यरूपो जनाश्रयः१३६।
श्रीवत्सलक्षणं देवं दृष्ट्वा देवैः सलक्षणम्।
उवाच वसुदेवस्तं रूपं संहर वै प्रभो१३७।
भीतोहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते।
मम पुत्रा हतास्तेन श्रेष्ठाः षड्भीमविक्रमाः१३८।
वसुदेववचः श्रुत्वा रूपं संहरदच्युतः।
अनुज्ञाप्य तु तं शौरिर्नन्दगोपगृहेनयत्१३९।
दत्वा तं नंदगोपाय रक्ष्यतामिति चाब्रवीत्।
अतस्तुसर्वकल्याणं यादवानां भविष्यति१४०।
अयं तु गर्भो देवक्या यावत्कंसं हनिष्यति।
तावत्पृथिव्यां भविता क्षेमो भारावहः परम्१४१।
ये वै दुष्टास्तु राजानस्तांस्तु सर्वान्हनिष्यति।
कौरवाणां रणे भूते सर्वक्षत्रसमागमे१४२।
सारथ्यमर्जुनस्यायं स्वयं देवः करिष्यति।
निःक्षत्रियां धरां कृत्वा भोक्ष्यते शेषतां गताम्१४३।
सर्वं यदुकुलं चैव देवलोकं नयिष्यति।
भीष्म उवाच।
क एष वसुदेवस्तु देवकी का यशस्विनी१४४।
नंदगोपश्च कश्चैव यशोदा का महाव्रता।
या विष्णुं पोषितवती यां स मातेत्यभाषत१४५।
या गर्भं जनयामास या चैनं समवर्द्धयत्।
पुलस्त्य उवाच।
पुरुषः कश्यपश्चासावदितिस्तत्प्रिया स्मृता१४६।
कश्यपो ब्रह्मणोंशस्तु पृथिव्या अदितिस्तथा।
नंदो द्रोणस्समाख्यातो यशोदाथ धराभवत्१४७।
अथकामान्महाबाहुर्देवक्याः समपूरयत्।
ये तया कांक्षिताः पूर्वमजात्तस्मान्महात्मनः१४८।
अचिरं स महादेवः प्रविष्टो मानुषीं तनुं।
मोहयन्सर्वभूतानि योगाद्योगी समाययौ१४९।
नष्टे धर्मे तथा यज्ञे विष्णुर्वृष्णिकुले विभुः।
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्१५० 1.13.150।
रुक्मिणी सत्यभामा च सत्या नाग्निजिती तथा।
सुमित्रा च तथा शैब्या गांधारी लक्ष्मणा तथा१५१।
सुभीमा च तथा माद्री कौशल्या विजया तथा।
एवमादीनि देवीनां सहस्राणि च षोडश१५२।
रुक्मिणी जनयामास पुत्रान्शृणु विशारदान्।
चारुदेष्णं रणेशूरं प्रद्युम्नञ्च महाबलम्१५३।
सुचारुं चारुभद्रञ्च सदश्वं ह्रस्वमेव च।
सप्तमञ्चारुगुप्तञ्च चारुभद्रञ्च चारुकं१५४।
चारुहासं कनिष्ठञ्च कन्याञ्चारुमतीं तथा।
जज्ञिरे सत्यभामाया भानुर्भीमरथः क्षणः१५५।
रोहितो दीप्तिमांश्चैव ताम्रबंधो जलंधमः।
चतस्रो जज्ञिरे तेषां स्वसारश्च यवीयसीः१५६।
जांबवत्याः सुतो जज्ञे सांबश्चैवातिशोभनः।
सौरशास्त्रस्य कर्त्ता वै प्रतिमा मंदिरस्य च१५७।
मूलस्थाने निवेशश्च कृतस्तेन महात्मना।
तुष्टेन देवदेवेन कुष्ठरोगो विनाशितः१५८।
सुमित्रं चारुमित्रं च मित्रविंदा व्यजायत।
मित्रबाहुः सुनीथश्च नाग्नजित्यां बभूवतुः१५९।
एवमादीनि पुत्राणांसहस्राणि निशामय।
अशीतिश्च सहस्राणां वासुदेवसुतास्तथा१६०।
प्रद्युम्नस्य च दायादो वैदर्भ्यां बुद्धिसत्तमः।
अनिरुद्धो रणे योद्धा जज्ञेस्य मृगकेतनः१६१।
काम्या सुपार्श्वतनया सांबाल्लेभे तरस्विनम्।
सत्त्वप्रकृतयो देवाः पराः पंच प्रकीर्तिताः१६२।
तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनां।
षष्टिः शतसहस्राणि वीर्यवंतो महाबलाः१६३।
देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः।
दैवासुरे हता ये वा असुरास्तु महाबलाः१६४।
इहोत्पन्ना मनुष्येषु बाधंते सर्वमानवान्।
तेषामुद्धरणार्थाय उत्पन्ना यादवे कुले१६५।
कुलानां शतमेकं च यादवानां महात्मनाम्।
विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः१६६।
निदेशस्थायिनस्तस्य ऋद्ध्यंते सर्वयादवाः।
भीष्म उवाच।
सप्तर्षयः कुबेरश्च यक्षो मणिधरस्तथा१६७।
सात्यकिर्नारदश्चैव शिवो धन्वंतरिस्तथा।
आदिदेवस्तथाविष्णुरेभिस्तु सह दैवतैः१६८।
किमर्थं सहसंभूताः सुरसम्भूतयः क्षितौ।
भविष्याः कति वा चास्य प्रादुर्भावा महात्मनः१६९।
सर्वक्षेत्रेषु सर्वेषु किमर्थमिह जायते।
यदर्थमिह संभूतो विष्णुर्वृष्ण्यंधके कुले१७०।
पुनःपुनर्मनुष्येषु तन्मे त्वं ब्रूहि पृच्छतः।
पुलस्त्य उवाच।
शृणु भूप प्रवक्ष्यामि रहस्यातिरहस्यकम्।
यथा दिव्यतनुर्विष्णुर्मानुषेष्विह जायते१७१।
युगांते तु परावृत्ते काले प्रशिथिले प्रभुः।
देवासुरमनुष्येषु जायते हरिरीश्वरः१७२।
हिरण्यकशिपुर्दैत्यस्त्रैलोक्यस्य प्रशासिता।
बलिनाधिष्ठिते चैव पुनर्लोकत्रये क्रमात्१७३।
सख्यमासीत्परमकं देवानामसुरैः सह।
युगाख्या दश संपूर्णा आसीदव्याकुलं जगत्१७४।
निदेशस्थायिनश्चापि तयोर्देवासुरा स्वयं।
बद्धो बलिर्विमर्दोयं सुसंवृत्तः सुदारुणः१७५।
देवानामसुराणां च घोरः क्षयकरो महान्।
कर्तुं धर्मव्यवस्थां च जायते मानुषेष्विह१७६।
भृगोः शापनिमित्तं तु देवासुरकृते तदा।
भीष्म उवाच।
कथं देवासुरकृते हरिर्देहमवाप्तवान्१७७।
दैवासुरं यथावृत्तं तन्मे कथय सुव्रत।
पुलस्त्य उवाच।
तेषां जयनिमित्तं वै संग्रामा स्युः सुदारुणाः१७८।
अवतारा दशद्वौ च शुद्धा मन्वंतरे स्मृताः।
नामधेयं समासेन शृणु तेषां विवक्षितम्१७९।
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः।
तृतीयस्तु वराहश्च चतुर्थोऽमृतमंथनः१८०।
संग्रामः पंचमश्चैव सुघोरस्तारकामयः।
षष्ठो ह्याडीबकाख्यश्च सप्तमस्त्रैपुरस्तथा१८१।
अष्टमश्चांधकवधो नवमो वृत्रघातनः।
ध्वजश्च दशमस्तेषां हालाहलस्ततः परं१८२।
प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा।
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः१८३।
वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे पुरा।
हिरण्याक्षो हतो द्वंद्वे प्रतिवादे तु दैवतैः१८४।
दंष्ट्रया तु वराहेण समुद्रस्थो द्विधा कृतः।
प्रह्लादो निर्जितो युद्धे इंद्रेणामृतमंथने१८५।
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः।
इंद्रेणैव च विक्रम्य निहतस्तारकामये१८६।
अशक्नुवत्सु देवेषु त्रिपुरं सोढुमासुरम्।
मोहयित्वाऽमृते पीते गोरूपेणासुरारिणा१८७।
नासन्जीवयितुं शक्या भूयो भूयोमृतासुराः।
निहता दानवाः सर्वे त्रैलोक्ये त्र्यंबकेण तु१८८।
असुराश्च पिशाचाश्च दानवाश्चांधके वधे।
हता देवमनुष्यैस्ते पितृभिश्चैव सर्वशः१८९।
संपृक्तो दानवैर्वृत्रो घोरे कोलाहले हतः।
तदा विष्णुसहायेन महेंद्रेण निपातितः१९०।
हतस्ततो महेंद्रेण मायाछन्नस्तु योगवित्।
वज्रेण क्षणमाविश्य विप्रचित्तिः सहानुगः१९१।
दैत्याश्च दानवाश्चैव संयुताः कृत्स्नशस्तु ते।
एते दैवाऽसुरावृत्ताः संग्रामाद्वा दशैव तु१९२।
देवासुरक्षयकराः प्रजानां च हिताय वै।
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ१९३।
द्विसप्ततिं तथान्यानि नियुतान्यधिकानि तु।
अशीति च सहस्राणि त्रैलोक्यैश्वर्यवानभूत्१९४।
पर्यायेण तु राजाभूद्बलिर्वर्षार्बुदं पुनः।
षष्ठिं चैव सहस्राणि नियुतानि च विंशतिं१९५।
बलिराज्याधिकारे तु यावत्कालश्च कीर्तितः।
तावत्कालं तु प्रह्लादो निर्वृतो ह्यसुरैः सह१९६।
जयार्थमेते विज्ञेया असुराणां महौजसः।
त्रैलोक्यमिदमव्यग्रं महेंद्रेणानुपाल्यते१९७।
असम्पन्नमिदं सर्वं यावद्वर्षायुतं पुनः।
पर्यायेणैव सम्प्राप्ते त्रैलोक्यं पाकशासने१९८।
ततोऽसुरान्परित्यज्य यज्ञो देवानगच्छत।
यज्ञे देवानथ गते दितिजाः काव्यमब्रुवन्१९९।
दैत्या ऊचुः-।
हृतं मघवता राज्यं त्यक्त्वा यज्ञः सुरान्गतः।
स्थातुं न शुक्नुमो ह्यत्र प्रविशामो रसातलम्२०० 1.13.200।
एवमुक्तोब्रवीदेतान्विषण्णान्सांत्वयन्गिरा।
मा भैष्ट धारयिष्यामि तेजसा स्वेन वोऽसुराः२०१।
मंत्राश्चौषधयश्चैव धरायां यत्तु वर्तते।
मयि तिष्ठति तत्सर्वं पादमात्रं सुरेषु वै२०२।
तत्सर्वं च प्रदास्यामि युष्मदर्थे धृतं मया।
ततो देवास्तुतान्दृष्ट्वा धृतान्काव्येन धीमता२०३।
अमंत्रयंत देवा वै संविग्नास्तज्जिघृक्षया।
काव्यो ह्येष इदं सर्वं व्यावर्तयति नो बलात्२०४।
साधु गच्छामहे तूर्णं यावन्न च्यावयेत वै।
प्रसह्य जित्वा शिष्टांस्तु पातालं प्रापयामहे२०५।
ततो देवास्तु संरब्धा दानवानुपसृत्य ह।
ततस्ते वध्यमानास्तैः काव्यमेवाभिदुद्रुवुः२०६।
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान्।
रक्षाकार्येण संहृत्य देवेभ्यस्तान्सुरार्दितान्२०७।
काव्यं दृष्ट्वा स्थितं देवा निर्विशंकास्तु ते जहुः।
ततः काव्योनुचिंत्याथ ब्रह्मणो वचनं हितम्२०८।
तानुवाच ततः काव्यः पूर्ववृत्तमनुस्मरन्।
त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः२०९।
बलिर्बद्धो हतो जंभो निहतश्च विरोचनः।
महासुरा द्वादशसु संग्रामेषु सुरैर्हताः२१०।
तैस्तैरुपायैर्भूयिष्ठा निहतास्तु प्रधानतः।
केचिच्छिष्टाश्च यूयं वै युद्धं नास्तीति मे मतम्२११।
नीतयो वो विधातव्या उपासे कालपर्ययात्।
यास्याम्यहं महादेवं मंत्रार्थं विजयावहम्२१२।
अप्रतीपांस्ततो देवान्मंत्रान्प्राप्य महेश्वरात्।
योत्स्यामहे पुनर्देवैस्ततः प्राप्स्यथ वै जयम्२१३।
ततस्ते कृतसंवादा देवानूचुस्तदासुराः।
न्यस्तशस्त्रा वयं सर्वे निःस्सन्नाहा रथैर्विना२१४।
वयं तपश्चरिष्यामः संवृता वल्कलैस्तथा।
देवास्तेषां वचः श्रुत्वा सत्याभिव्याहृतं ततः२१५।
ततोन्यवर्तयन्सर्वे विज्वरा मुदिताश्च ते।
न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः२१६।
ततस्तानब्रवीत्काव्य उपाध्वं तपसि स्थिताः।
निरुत्सिक्तास्तपोयुक्ताः कालं कार्यार्थसाधकम्२१७।
पितुराश्रमसंस्था वै मां प्रतीक्षथ दानवाः।
तानुद्दिश्यासुरान्काव्यो महादेवं प्रपद्यत२१८।
शुक्र उवाच।
मंत्रानिच्छाम्यहं देव येन सन्ति बृहस्पतौ।
पराभवाय देवानामसुराणां जयाय च२१९।
एवमुक्तोब्रवीद्देवो व्रतं त्वं चर भार्गव।
पूर्णं वर्षसहस्रं तु कणधूममधः शिराः२२०।
यदि पास्यसि भद्रं ते ततो मंत्रानवाप्स्यसि।
तथेति समनुज्ञाप्य शुक्रस्तु भृगुनंदनः२२१।
पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः।
व्रतं चराम्यहं देव त्वयादिष्टोद्य वै प्रभो२२२।
आदिष्टो देवदेवेन कृतवान्भार्गवो मुनिः।
तदा तस्मिन्गते शुक्रे असुराणां हिताय वै२२३।
मंत्रार्थे तनुते काव्यो ब्रह्मचर्यं महेश्वरात्।
तद्बुद्ध्वा नीतिपूर्वं वै राजन्यास्तु तदा सुखं२२४।
अस्मिंश्छिद्रे तदामर्षाद्देवास्तानभिदुद्रुवुः।
दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः२२५।
दृष्ट्वा सुरगणा देवान्प्रगृहीतायुधान्पुनः।
उत्पेतुस्सहसा सर्वे संत्रस्तास्तान्वचोब्रुवत्२२६।
दैत्या ऊचुः।
न्यस्तशस्त्रा वयं देवा आचार्ये व्रतमास्थिते।
दत्वा भवंतस्त्वभयं संप्राप्ता नो जिघांसया२२७।
अनमर्षा वयं सर्वे त्यक्तशस्त्राश्च संस्थिताः।
चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः२२८।
रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन।
अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम्२२९।
ज्ञापयामः कृच्छ्रमिदं यावन्नाभ्येति नो गुरुः।
निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः२३०।
एवमुक्त्वा च तेन्योन्यं शरणं काव्यमातरम्।
प्रापद्यंत ततो भीतास्तेभ्योऽदादभयं तु सा२३१।
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः।
मत्सन्निधौ वर्त्ततां वो न भीर्भवितुर्महति२३२।
तयाभिरक्षितांस्तांश्च दृष्ट्वा देवास्तदाऽसुरान्।
अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम्२३३।
ततस्तान्बध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा।
देवी क्रुद्धाब्रवीद्देवान्निद्रया मोहयाम्यहम्२३४।
संभृत्य सर्वसंभारान्निद्रां सा व्यसृजत्तदा।
तस्तंभ देवी च बलाद्योगयुक्ता तपोधना२३५।
ततस्तं स्तभितं दृष्ट्वा इन्द्रं देवाश्च मूढवत्।
प्राद्रवंत ततो भीता इन्द्रं दृष्ट्वा वशीकृतम्२३६।
गतेषु सुरसंघेषु विष्णुरिंद्रमभाषत।
विष्णुरुवाच।
मां त्वं प्रविश भद्रं ते रक्षिष्ये त्वां सुरोत्तम२३७।
एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः।
विष्णुसंरक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽब्रवीत्२३८।
एष त्वां विष्णुना सार्धं दहामि मघवन्बलात्।
मिषतां सर्वभूतानां दृश्यतां मे तपोबलम्२३९।
तयाभिभूतौ तौ देवाविंद्रविष्णू बभूवतुः।
कथं मुच्येय सहितो विष्णुरिंद्रमभाषत२४०।
इंद्रोब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो।
विशेषेणाभिभूतोस्मि जहीमां जहि मा चिरम्२४१।
ततः समीक्ष्य विष्णुस्तांस्त्रीवधे कृच्छ्रमास्थितः।
अभिध्याय ततः शक्रमापन्नं सत्वरं प्रभुः२४२।
ततः स त्वरयायुक्तः शीघ्रकारी भयान्वितः।
ज्ञात्वा विष्णुस्ततस्तस्याः क्रूरं देव्याश्चिकीर्षितम्२४३।
क्रुद्धश्च चक्रमादाय शिरश्चिच्छेद वै भयात्।
तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः२४४।
ततो हि शप्तो भृगुणा विष्णुर्भार्यावधे कृते।
भृगुरुवाच।
यत्त्वया जानता धर्ममवध्या स्त्री निषूदिता२४५।
तस्मात्त्वं सप्तकृत्वो हि मानुषेषूपयास्यसि।
ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः२४६।
लोकस्य च हितार्थाय जायते मानुषेष्विह।
अथ व्याहृत्य विष्णुं स तदादाय शिरः स्वयम्२४७।
समानीय ततः कायं पाणौ गृह्येदमब्रवीत्।
भृगुरुवाच।
एषा त्वं विष्णुना देवि हता संजीवयाम्यहं२४८।
यदि कृत्स्नो मया धर्मो ज्ञायते चरितोपि वा।
तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम्२४९।
ततस्तां प्रोक्ष्य शीताद्भिर्जीवजीवेति सोब्रवीत्।
ततोभिव्याहृते तस्मिन्देवी संजीविता तदा२५० 1.13.250।
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव।
साधुसाध्विति दृष्ट्वैव वचस्तां सर्वतोब्रुवन्२५१।
एवं प्रत्याहृता तेन देवी सा भृगुणा तदा।
मिषतां दैवतानां हि तदद्भुतमिवाभवत्२५२।
असंभ्रांतेन भृगुणा पत्नी संजीविता पुनः।
दृष्ट्वा चेंद्रो नालभत शर्म काव्यभयात्पुनः२५३।
प्रजागरे ततश्चेंद्रो जयंतीमिदमब्रवीत्।
संधिकामोभ्यधाद्वाक्यं स्वां कन्यां पाकशासनः२५४।
इन्द्र उवाच।
एष काव्यो ह्यनिंद्राय व्रतं चरति दारुणम्।
तेनाहं व्याकुलः पुत्रि कृतो मतिमता दृढम्२५५।
तैस्तैर्मनोनुकूलैश्च उपचारैरतंद्रिता।
आराधय तथा पुत्रि यथा तुष्येत स द्विजः२५६।
गच्छ त्वं तस्य दत्तासि प्रयत्नं कुरु मत्कृते।
एवमुक्ता जयंती सा वचः संगृह्य वै पितुः२५७।
अगच्छद्यत्र घोरं स तपो ह्यारभ्य तिष्ठति।
तं दृष्ट्वा च पिबंतं सा कणधूममधोमुखम्२५८।
यक्षेण पात्यमानं च कुंडधारेण पावनम्।
दृष्ट्वा तं यतमानं तु देवी काव्यमवस्थितम्२५९।
शत्रूपघाते श्राम्यंन्तं दुर्बलस्थितिमास्थितम्।
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा२६०।
गीर्भिश्चैवानुकूलाभिः स्तुवंती वल्गुभाषिणी।
गात्रसंवाहनैः काले सेवमाना त्वचः सुखैः२६१।
व्रतचर्यानुकूलाभिरुपास्य बहुलाः समाः।
पूर्णे धूमव्रते तस्मिन्घोरे वर्षसहस्रके२६२।
वरेण छंदयामास शिवः प्रीतोभवत्तदा।
महेश्वर उवाच।
एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित्२६३।
तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च।
तेजसा च सुरान्सर्वांस्त्वमेकोभिभविष्यसि२६४।
यच्च किंचिन्मयि ब्रह्मन्विद्यते भृगुनंदन।
प्रतिदास्यामि तत्सर्वं त्वया वाच्यं न कस्यचित्२६५।
किं भाषितेन बहुना अवध्यस्त्वं भविष्यसि।
तान्दत्वा तु वरांस्तस्मै भार्गवाय पुनः पुनः२६६।
प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ।
एतान्लब्ध्वा वरान्काव्यः संप्रहृष्टतनूरुहः२६७।
एवमाभाष्य देवेशमीश्वरं नीललोहितम्।
प्रज्ञान्वितस्ततस्तस्मै प्राञ्जलि प्रणतो ऽभवत्२६८।
ततः सोंऽतर्हिते देवे जयंतीमिदमब्रवीत्।
कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता२६९।
महता तपसा युक्ता किमर्थं मां जिगीषसि।
अनया संस्थिता भक्त्या प्रश्रयेण दमेन च२७०।
स्नेहेन चैव सुश्रोणि प्रीतोस्मि वरवर्णिनि।
किमिच्छसि वरारोहे कस्ते कामः समुद्यतः२७१।
तं ते संपादयाम्यद्य यद्यपि स्यात्सुदुष्करम्।
एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि२७२।
चिकीर्षितं हि मे ब्रह्मंस्त्वं वै वद यथातथम्।
एवमुक्तोब्रवीदेनं दृष्ट्वा दिव्येन चक्षुषा२७३।
मया सह त्वं सुश्रोणि शतवर्षाणि भामिनि।
सर्वभूतैरदृश्यांतः संप्रयोगमिहेच्छसि२७४।
देवि इंदीवरश्यामे वरार्हे वामलोचने।
एवं वृणोषि कामांस्त्वं ददे वै वल्गुभाषिते२७५।
एवं भवतु गच्छाव गृहं मे मत्तकाशिनि।
ततः स गृहमागम्य जयंत्या सह चोशना२७६।
तया सहावसद्देव्या शतवर्षाणि भार्गवः।
अदृश्यः सर्वभूतानां मायया संशितव्रतः२७७।
कृतार्थमागतं ज्ञात्वा शुक्रं सर्वे दितेस्सुताः।
अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः२७८।
गता यदा न पश्यंति मायया संवृतं गुरुम्।
लक्षणं तस्य चाबुद्ध्वा नाद्यागच्छति नो गुरुः२७९।
एवं ते स्वानि धिष्ण्यानि गताः सर्वे यथागताः।
ततो देवगणास्सर्वे गत्वांगिरसमब्रुवन्२८०।
दानवालये तु भगवान्गत्वा तत्र च तां चमूम्।
मोहयित्वात्मवशगां क्षिप्रमेव तथा कुरु२८१।
धिषणस्तान्सुरानाह एवमेव व्रजाम्यहम्।
तेन गत्वा दानवेंद्रः प्रह्लादो वै वशीकृतः२८२।
शुक्रो भूत्वा स्थितस्तत्र पौरोहित्यं चकार सः।
स्थितो वर्षशतं साग्रमुशना तावदागतः२८३।
दनुपुत्रैस्ततो दृष्टः सभायां तु बृहस्पतिः।
उशना एक एवात्र द्वितीयः किमिहागतः२८४।
सुमहत्कौतुकं चात्र भविता विग्रहो दृढम्।
किं वदिष्यति लोकोयं द्वारि योयं व्यवस्थितः२८५।
सभायामास्थितो योयं गुरुः किं नो वदिष्यति।
एवं प्रजल्पतां तेषां दनूनां कविरागतः२८६।
स्वरूपधारिणं तत्र दृष्ट्वासीनं बृहस्पतिम्।
उवाच वचनं क्रुद्धः किमर्थं त्वमिहागतः२८७।
शिष्यान्मोहयसे मे त्वं युक्तं सुरगुरोस्तव।
मूढास्ते त्वां न जानंति त्वन्मायामोहिता ध्रुवम्२८८।
तन्न युक्तं तव ब्रह्मन्परशिष्यप्रधर्षणम्।
व्रज त्वं देवलोकं स्वं तिष्ठ धर्ममवाप्स्यसि२८९।
शिष्यो हि मे कचः पूर्वं हतो दानवपुंगवैः।
विद्यार्थी तनयो ब्रह्मंस्तवायोग्या गतिस्त्विह२९०।
श्रुत्वा तु तस्य तद्वाक्यं स्मितं कृत्वावदद्गुरुः।
संति चोराः पृथिव्यां येपरद्रव्यापहारिणः२९१।
एवं विधानदृष्टाश्च रूपदेहापहारिणः।
वृत्रघातेन चेंद्रस्य ब्रह्महहत्या पुराभवत्२९२।
लोकायतिक शास्त्रेण भवता सा तिरस्कृता।
जानामि त्वामांगिरसं देवाचार्यं बृहस्पतिम्२९३।
मद्रूपधारिणं प्राप्तं सर्वे पश्यत दानवाः।
एष वो मोहनायालं प्राप्तो विष्णुविचेष्टितैः२९४।
तदेनं शृंखलैर्बद्ध्वा क्षिपेत लवणार्णवे।
पुनरेवाब्रवीच्छुक्रः पुरोधायं दिवौकसाम्२९५।
मोहितानूनमेतेन क्षयं यास्यथ दानवाः।
भो अहं दानवेंद्रेह वंचितोऽस्मि दुरात्मना२९६।
किमर्थं भवता त्यक्तः कृतश्चान्यः पुरोहितः।
देवाचार्यॐगिरःपुत्रएषएवबृहस्पतिः२९७।
वंचितोसि न संदेहो हितार्थं तु दिवौकसाम्।
त्यजस्वैनं महाभाग शत्रुपक्षजयावहम्२९८।
अनुशिष्यभयाद्यातः पूर्वमेवमहं प्रभो।
जलमध्येस्थितः पीतो महादेवेन शंभुना२९९।
उदरस्थस्य मे जातं साग्रं वर्षशतं किल।
उदराच्छुक्ररूपेण शिश्नेनाहं विसर्जितः३०० 1.13.300।
वरदः प्राह मां देवश्शुक्रेष्टं त्वं वरं वृणु।
मयावृतो वरं राजन्देवदेवः पिनाकधृत्३०१।
मनसा चिंतिता ह्यर्था मानसे ये स्थिता वराः।
भवंतु मयि ते सर्वे प्रसादात्तव शंकर३०२।
एवमस्त्विति देवेन प्रेषितोऽस्मि तवांतिकम्।
तावदत्राभवच्चायं पुरोधास्ते बृहस्पतिः३०३।
दृष्टः सत्यं दानवेंद्र मयोक्तं त्वं निशामय।
बृहस्पतिस्तदा वाक्यं प्रह्लादं प्रत्यभाषत३०४।
नाहमेतं प्रजानामि देवं वा दानवं नरम्।
मद्रूपधारिणं राजन्वंचनार्थं तवागतम्३०५।
ततस्ते दानवाः सर्वे साधुसाध्विति वादिनः।
पुरोधाः पौर्विको नोस्तु यो वा को वा भवत्विति३०६।
नानेन कार्यमस्माकं या तु ह्येष यथागतः।
सक्रोधमशपत्काव्यो दानवेंद्रान्समागतान्३०७।
त्यक्तो यथाहं युष्माभिस्तथा सर्वांश्चिरादिव।
गतश्रीकान्गतप्राणान्पश्येयं दुःखजीविकान्३०८।
सुघोरामापदं प्राप्तानचिरादेव सर्वशः।
एवमुक्त्वा गतः काव्यो यदृच्छातस्तपोवनम्३०९।
तस्मिन्गते ततः शुक्रे स्थितस्तत्र बृहस्पतिः।
पालयन्दानवांस्तत्र किंचित्कालमतिष्ठत३१०।
ततो बहुतिथे काले अतिक्रांते नरेश्वर।
संभूय दानवाः सर्वे पर्यपृछंस्तदा गुरुम्३११।
संसारेस्मिन्नसारे तु किंचिज्ज्ञानं प्रयच्छ नः।
येन मोक्षं व्रजामश्च प्रसादात्तव सुव्रत३१२।
ततः सुरगुरुः प्राह काव्यरूपी तदा गुरुः।
ममाप्येषा मतिः पूर्वं या युष्माभिरुदाहृता३१३।
क्षणं कुर्वंतु सहिताश्शुचीभूय समाहिताः।
ज्ञानं वक्ष्यामि वो दैत्या अहं वै मोक्षदायि यत्३१४।
एषा श्रुतिर्वैदिकी या ऋग्यजुःसामसंज्ञिता।
वैश्वानरप्रसादात्तु दुःखदा प्राणिनामिह३१५।
यज्ञश्राद्धं कृतं क्षुद्रैरैहिकस्वार्थतत्परैः।
ये त्वमी वैष्णवा धर्मा ये च रुद्रकृतास्तथा३१६।
कुधर्मा दारसहितैर्हिंसाप्रायाः कृताहितैः।
अर्द्धनारीश्वरो रुद्र कथं मोक्षं गमिष्यति३१७।
वृतो भूतगणैर्भूरिभूषितश्चास्थिभिस्तथा।
न स्वर्गो नैव मोक्षोत्र लोकाः क्लिश्यंति वै तथा३१८।
हिंसायामास्थितो विष्णुः कथं मोक्षं गमिष्यति।
रजोगुणात्मको ब्रह्मा स्वां सृष्टिमुपजीवति३१९।
देवर्षयोथ ये चान्ये वैदिकं पक्षमाश्रिताः।
हिंसाप्रायाः सदा क्रूरा मांसादाः पापकारिणः३२०।
सुरास्तु मद्यपानेन मांसादा ब्राह्मणास्त्वमी।
धर्मेणानेन कः स्वर्गं कथं मोक्षं गमिष्यति३२१।
यच्च यज्ञादिकं कर्म स्मार्तं श्राद्धादिकं तथा।
तत्र नैवापवर्गोस्ति यत्रैषा श्रूयते श्रुतिः३२२।
यज्ञं कृत्वा पशुं हत्वा कृत्वा रुधिरकर्दमम्।
यद्येवं गम्यते स्वर्गो नरकः केन गम्यते३२३।
यदि भुक्तमिहान्येन तृप्तिरन्यस्य जायते।
दद्यात्प्रवसतः श्राद्धं न स भोजनमाहरेत्३२४।
आकाशगामिनो विप्राः पतिता मांसभक्षणात्।
तेषां न विद्यते स्वर्गो मोक्षो नैवेह दानवाः३२५।
जातस्य जीवितं जंतोरिष्टं सर्वस्य जायते।
आत्ममांसोपमं मांसं कथं खादेत पंडितः३२६।
योनिजास्तु कथं योनिं सेवंते जंतवस्त्वमी।
मैथुनेन कथं स्वर्गं यास्यंते दानवेश्वर।
मृद्भस्मना यत्रशुद्धिस्तत्र शुद्धिस्तु का भवेत्३२७।
विपरीततमं लोकं पश्य दानव यादृशम्।
विण्मूत्रस्य कृतोत्सर्गे शिश्नापाने तु शोधनम्३२८ ।
भुक्ते वा भोजने राजन्कथं नापानशिश्नयोः३२९।
क्रियते शोधनं तद्वद्विपरीता स्थितिस्त्वियम्।
यत्र प्रक्षालनं प्रोक्तं तत्र तेनैव कुर्वते३३०।
तारां बृंहस्पतेर्भार्यां हृत्वा सोमः पुरा गतः।
तस्यां जातो बुधः पुत्रो गुरुर्जग्राह तां पुनः३३१।
गौतमस्य मुनेः पत्नीमहल्यां नाम नामतः।
अगृह्णात्तां स्वयं शक्रः पश्य धर्मो यथाविधः३३२।
एतदन्यच्च जगति दृश्यते पापदायकम्।
एवंविधो यत्र धर्मः परमार्थो मतस्तु कः३३३।
वदस्व त्वं दानवेंद्र वद भूयो वदामि ते।
गुरोस्तु गदितं श्रुत्वा परमार्थान्वितं वचः३३४।
जातकौतूहलास्तत्र विविक्तास्तु भवार्णवात्।
दानवा ऊचुः।
दीक्षयस्व गुरो सर्वान्प्रपन्नान्भक्तितः स्थितान्३३५।
येन वै न पुनर्मोहं व्रजामस्तव शासनात्।
सुविरक्ताः स्म संसारे शोकमोहप्रदायिनि३३६।
उद्धरस्व गुरो सर्वान्केशाकर्षेण कूपतः।
कस्य देवस्य शरणं गच्छामो ब्राह्मणोत्तम३३७।
दैवतं च प्रपन्नानां प्रकाशय महामते।
स्मरणेनोपवासेन ध्यानधारणया तथा३३८।
पूजोपहारे च कृते अपवर्गस्तु लभ्यते।
विरक्तास्स्म कुटुंबे तु भूयो नात्र यतामहे३३९।
एवं चैव गुरुश्छन्नस्तैरुक्तो दनुपुंगवैः।
चिंतयामास तत्कार्यं कथमेतत्करोम्यहम्३४०।
कथमेते मया पापाः कर्तव्या नरकौकसः।
विडंबनाच्छ्रुतेर्बाह्यास्त्रैलोक्ये हास्यकारिणः३४१।
इत्युक्त्वा धिषणो राजंश्चिन्तयामास केशवम्।
तस्य तच्चिंतितं ज्ञात्वा मायामोहं जनार्दनः३४२।
समुत्पाद्य ददौ तस्य प्राह चेदं बृहस्पतिम्।
मायामोहोयमखिलांस्तान्दैत्यान्मोहयिष्यति३४३।
भवता सहितः सर्वान्वेदमार्गबहिष्कृतान्।
एवमादिश्य भगवानंतर्द्धानं जगाम ह३४४।
तपस्यभिरतान्सोथ मायामोहो गतोऽसुरान्।
तेषां समीपमागत्य बृहस्पतिरुवाच ह३४५।
अनुग्रहार्थं युष्माकं भक्त्या प्रीतस्त्विहागतः।
योगी दिगम्बरो मुण्डो बर्हिपत्रधरो ह्ययम्३४६।
इत्युक्ते गुरुणा पश्चान्मायामोहोब्रवीद्वचः।
भो भो दैत्याधिपतयः प्रब्रूत तपसि स्थिताः३४७।
एहिकार्थं तु पारक्यं तपसः फलमिच्छथ।
दानवा ऊचुः।
पारक्यधर्मलाभाय तपश्चर्या हि नो मता३४८।
अस्माभिरियमारब्धा किं वा तत्र विवक्षितम्।
दिगंबर उवाच।
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ३४९।
आर्हतं सर्वमेतच्च मुक्तिद्वारमसंवृतम्।
धर्माद्विमुक्तेरर्होयं नैतस्मादपरः परः३५० 1.13.350।
अत्रैवावस्थिताः स्वर्गं मुक्तिं चापि गमिष्यथ।
एवंप्रकारैर्बहुभिर्मुक्तिदर्शनवर्जितैः३५१।
मायामोहेन ते दैत्याः वेदमार्गबहिष्कृताः।
धर्मायैतदधर्माय सदेतदसदित्यपि३५२।
विमुक्तये त्विदं नैतद्विमुक्तिं संप्रयच्छति।
परमार्थोयमत्यर्थं परमार्थो न चाप्ययम्३५३।
कार्यमेतदकार्यं हि नैतदेतत्स्फुटं त्विदम्।
दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम्३५४।
इत्यनेकार्थवादांस्तु मायामोहेन ते यतः।
उक्तास्ततोऽखिला दैत्याः स्वधर्मांस्त्याजिता नृप३५५।
अर्हध्वं मामकं धर्मं मायामोहेन ते यतः।
उक्तास्तमाश्रिता धर्ममार्हतास्तेन तेभवन्३५६।
त्रयीमार्गं समुत्सृज्य मायामोहेन तेसुराः।
कारितास्तन्मया ह्यासंस्तथान्ये तत्प्रबोधिताः३५७।
तैरप्यन्ये परे तैश्च तैरन्योन्यैस्तथापरे।
नमोऽर्हते चेति सर्वे संगमे स्थिरवादिनः३५८।
अल्पैरहोभिः संत्यक्ता तैर्दैत्यैः प्रायशस्त्रयी।
पुनश्च रक्तांबरधृन्मायामोहो जितेक्षणः३५९।
सोन्यानप्यसुरान्गत्वा ऊचेन्यन्मधुराक्षरम्।
स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थाय वा पुनः३६०।
तदलं पशुघातादि दुष्टधर्मैर्निबोधत।
विज्ञानमयमेतद्वै त्वशेषमधिगच्छत३६१।
बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम्।
जगदेतदनाधारं भ्रांतिज्ञानानुतत्परम्३६२।
रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे।
नानाप्रकारं वचनं स तेषां मुक्तियोजितम्३६३।
तथा तथावदद्धर्मं तत्यजुस्ते यथायथा।
केचिद्विनिंदां वेदानां देवानामपरे नृप३६४।
यज्ञकर्मकलापस्य तथा चान्ये द्विजन्मनाम्।
नैतद्युक्तिसहं वाक्यं हिंसा धर्माय जायते३६५।
हवींष्यनलदग्धानि फलान्यर्हंति कोविदाः।
निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते३६६।
स्वपिता यजमानेन किं वा तत्र न हन्यते।
तृप्तये जायते पुंसो भुक्तमन्येन चेद्यदि३६७।
दद्याच्छ्राद्धं प्रवसतो न वहेयुः प्रवासिनः।
यज्ञैरनेकैर्देवत्वमवाप्येंद्रेण भुज्यते३६८।
शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः।
जना श्रद्धेयमित्येतदवगम्य तु तद्वचः३६९।
उपेक्ष्य श्रेयसे वाक्यं रोचतां यन्मयेरितम्।
न ह्याप्तवादा नभसो निपतंति महासुराः३७०।
युक्तिमद्वचनं ग्राह्यं मयान्यैश्च भवद्विधैः।
दानवा ऊचुः।
तत्ववादे वयं सर्वे प्रपन्नास्तव भक्तितः३७१।
कुरुष्वानुग्रहं चाद्य प्रसन्नोसि यदि प्रभो।
संभारानाहरामोद्य दीक्षायोग्यांश्च सर्वशः३७२।
प्रसादात्तव येनाशु मोक्षो हस्तगतो भवेत्।
ततस्तानब्रवीत्सर्वान्मायामोहोसुरांस्तदा३७३।
प्रपन्नः शासनं ह्येष मदीयो गुरुरग्र्यधीः।
दीक्षां दास्यति युष्माकं निदेशान्मम सत्तमः३७४।
एतान्दीक्षय भो ब्रह्मन्वचनान्मम पुत्रकान्।
गते मोहे दानवास्ते भार्गवं वाक्यमब्रुवन्३७५।
देहि दीक्षां महाभाग सर्वसंसारमोचनीम्।
तथेत्याहोशना दैत्यान्गच्छामो नर्मदामनु३७६।
भोभोस्त्यजत वासांसि दीक्षां कारयितास्मि वः।
एवं ते दानवा भीष्म भृगुरूपेण धीमता३७७।
आंगिरसेन ते तत्र कृता दिग्वाससोसुराः।
बर्हिपिच्छध्वजं तेषां गुंजिका चारुमालिकां३७८।
दत्वा चकार तेषां तु शिरसो लुंचनं ततः।
केशस्योत्पाटनं चैव परमं धर्मसाधनम्३७९।
धनानामीश्वरो देवो धनदः केशलुंचनात्।
सिद्धिं परमिकां प्राप्ताः सदा वेषस्य धारणात्३८०।
नित्यत्वं लभ्यते ह्येवं पुरा प्राहार्हतः स्वयम्।
वालोत्पाटेन देवत्वं मानुषैर्लभ्यते त्विह३८१।
किं न कुर्वीत तत्तस्मान्महापुण्यप्रदं यतः।
मनोरथो हि देवानां लोके वै मानुषे कदा३८२।
अस्मिन्स्याद्भारते वर्षे जन्मनः श्रावके कुले।
तपसा युञ्ज्महेस्मान्वै केशोत्पाटनपूर्वकम्३८३।
तीर्थंकराश्चतुर्विंशत्तथा तैस्तु पुरस्कृताः।
छायाकृतं फणींद्रेण ध्यानमार्गप्रदर्शकम्३८४।
स्तुवन्तं मंत्रवादेन स्वर्गो हस्तगतोर्हतं।
मोक्षो वा भविता नूनं विचारः कोत्र कथ्यते३८५।
कदा स्यामर्षयो भूत्वा सूर्याग्निसमतेजसः।
जप्त्वा विरागिणश्चैवमनुपंचांगकं तथा३८६।
तथा तपस्यतां मृत्युं गतानां कालपर्ययात्।
पाषाणेन शिरोभग्नं भवते पुण्यकर्मणाम्३८७।
अरण्ये निर्जने वासःकदा वै भविता हि नः।
कर्णजप्यं श्रावकाश्च करिष्यंति समाहिताः३८८।
भोभो ऋषे न गंतव्यं मोक्षमार्गी यतो भवान्।
लब्धानि यानि स्थानानि भूयोवृत्तिकराणि च३८९।
त्याज्यानि तेन चैतानि सत्यमेव वचो हि नः।
अस्मदीयेन तपसा नियमैर्विविधैस्तथा३९०।
व्रजध्वं चोत्तमं स्थानं मोक्षमार्गं च यं बुधाः।
विंदंति भक्तिभावेन तपोयुक्तास्तपस्विनः३९१।
अक्षेषु निग्रहो यत्र दयाभूतेषु सर्वदा।
तत्तपोधर्ममित्युक्तं सर्वा चान्या विडंबना३९२।
ज्ञात्वैतद्भवता साध्यं गंतव्यं परमं पदम्।
यां वै तीर्थंकरा याता यां गतिं योगिनो गताः३९३।
एवं वै देवताः पूर्वं विद्याधरमहोरगाः।
मनोरथाभिलाषांस्ते चिंतयंतो दिवानिशम्३९४।
यद्येषणा वै युष्माकं संसारविरतौ कृता।
परित्यजध्वं दाराणि स्वर्गमार्गार्गलानि च३९५।
यस्यां योनौ पिता यातस्तां योनिं सेवसे कथम्।
आत्ममांसोपमं मांसं कथं खादंति जंतवः३९६।
ततस्ते दानवा भीष्मा ऊचुः सर्वे गुरुं वचः।
दीक्षस्व नो महाभाग भ्रूणकानग्रतः स्थितान्३९७।
तथा कृत्वा स तानाह समयेन पुरोहितः।
प्रणामो नान्यदेवेषु कर्तव्यो वः कदाचन३९८।
एकस्थाने यदा भक्तं भोक्तव्यं करसंपुटे।
तत्रस्थाने स्थितं तोयं केशकीटविवर्जितम्३९९।
तुल्यं प्रियाप्रियं कार्यं नान्यदृष्टिहतं क्वचित्।
भोक्तव्यमेतेन विभो आचारेण तथा कुरु४०० 1.13.400।
भवध्वं सहिता यूयं ते तथा मोक्षभागिनः।
एवमुक्त्वा स नियमान्कृत्वा तान्दनुपुंगवान्४०१।
जगाम धिषणो राजन्देवलोकं दिवौकसाम्।
आचचक्षे स तत्सर्वं दानवानां च कारितम्४०२।
ततस्ते त्वसुरा जग्मुर्नर्मदामभितो वसन्।
दृष्ट्वा तान्दानवांस्तत्र प्रह्लादेन विना कृतान्४०३।
देवराजस्ततो हृष्टो नमुचिं प्राह वै वचः।
हिरण्याक्षं यज्ञहनं धर्मघ्नं वेदनिंदकम्४०४।
राक्षसं क्रूरकर्माणं प्रघसं विघसं तथा।
मुचिं चैव तथा बाणं विरोचनमथापि वा४०५।
महिषाक्षं बाष्कलं च प्रचंडं चंडकं तथा।
रोचमानं तथात्युग्रं सुषेणं दानवोत्तमम्४०६।
एतान्दृष्ट्वा तथा चान्यान्दानवेंद्रानथाब्रवीत्।
इन्द्र उवाच।
दानवेंद्राः पुरा जाताः कृतं राज्यं त्रिविष्टपे४०७।
इदानीं कथमेवेदं व्रतं वेदविलोपकम्।
भवद्भिः कर्तुमारब्धं नग्नमुंडिकमंडलु४०८।
मयूरध्वजधारित्वं कथं चैवेह तिष्ठथ।
दानवा ऊचुः।
त्यक्तः सर्वासुरभाव ऋषिधर्मे वयं स्थिताः४०९।
धर्मवृद्धिकरं कर्म चरामः सर्वजंतुषु।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 13 (part 2)
त्रैलोक्यराज्यमखिलं भुंक्ष्व शक्र व्रजस्व च४१०।
तथेति चोक्त्वा मघवा पुनर्यातस्त्रिविष्टपम्।
एवं ते मोहिताः सर्वे भीष्म देवपुरोधसा४११।
नर्मदा सरितं प्राप्य स्थिता दानवसत्तमाः।
ज्ञात्वा शुक्रेण ते सर्वे वृत्तांतमनुबोधिताः४१२।
तदा त्रैलोक्यहरणे चक्रुः क्रूरां पुनर्मतिम्४१३।
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे अवतारचरितंनाम त्रयोदशोऽध्यायः१३।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 14
भीष्म उवाच।
कथं त्रिपुरुषाज्जातो ह्यर्जुनः परवीरहा।
कथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते१।
वरं तयोः कथं भूतं निसर्गादेव तद्वद।
बृहत्कौतूहलं मह्यं तद्भवान्वक्तुमर्हति२।
पुलस्त्य उवाच।
छिन्ने वक्त्रे पुरा ब्रह्मा क्रोधेन महता वृतः।
ललाटे स्वेदमुत्पन्नं गृहीत्वा ताडयद्भुवि३।
स्वेदतः कुंडली जज्ञे सधनुष्को महेषुधिः।
सहस्रकवची वीरः किंकरोमीत्युवाच ह४।
तमुवाच विरिंचस्तु दर्शयन्रुद्रमोजसा।
हन्यतामेष दुर्बुद्धिर्जायते न यथा पुनः५।
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः।
संप्रतस्थे महेशस्य बाणहस्तोतिरौद्रदृक्६।
दृष्ट्वा पुरुषमत्युग्रं भीतस्तस्य त्रिलोचनः।
अपक्रांतस्ततो वेगाद्विष्णोराश्रममभ्यगात्७।
त्राहित्राहीति मां विष्णो नरादस्माच्च शत्रुहन्।
ब्रह्मणा निर्मितः पापो म्लेच्छरूपो भयंकरः८।
यथा हन्यान्न मां क्रुद्धस्तथा कुरु जगत्पते।
हुंकारध्वनिना विष्णुर्मोहयित्वा तु तं नरम्९।
अदृश्यः सर्वभूतानां योगात्मा विश्वदृक्प्रभुः।
तत्र प्राप्तं विरूपाक्षं सांत्वयामास केशवः१०।
ततस्स प्रणतो भूमौ दृष्टो देवेन विष्णुना।
विष्णुरुवाच।
पौत्रो हि मे भवान्रुद्र कं ते कामं करोम्यहम्११।
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह।
कपालं दर्शयित्वाग्रे प्रज्वलंस्तेजसोत्कटम्१२।
कपालपाणिं संप्रेक्ष्य रुद्रं विष्णुरचिन्तयत्।
कोन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम्१३।
योग्योऽयमिति संकल्प्य दक्षिणं भुजमर्पयत्।
तद्बिभेदातितीक्ष्णेन शूलेन शशिशेखरः१४।
प्रावर्तत ततो धारा शोणितस्य विभोर्भुजात्।
जांबूनदरसाकारा वह्निज्वालेव निर्मिता१५।
निपपात कपालांतश्शम्भुना सा प्रभिक्षिता।
ऋज्वी वेगवती तीव्रा स्पृशंती त्वांबरं जवात्१६।
पंचाशद्योजना दैर्घ्याद्विस्ताराद्दशयोजना।
दिव्यवर्षसहस्रं सा समुवाह हरेर्भुजात्१७।
इयंतं कालमीशोसौ भिक्षां जग्राह भिक्षुकः।
दत्ता नारायणेनाथ कापाले पात्र उत्तमे१८।
ततो नारायणः प्राह शंभुं परमिदं वचः।
संपूर्णं वा न वा पात्रं ततो वै परमीश्वरः१९।
सतोयांबुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः।
शशिसूर्याग्निनयनः शशिशेखरशोभितः२०।
कपाले दृष्टिमावेश्य त्रिभिर्नेत्रैर्जनार्दनम्।
अंगुल्या घटयन्प्राह कपालं परिपूरितम्२१।
श्रुत्वा शिवस्य तां वाणीं विष्णुर्धारां समाहरत्।
पश्तोऽथ हरेरीशः स्वांगुल्या रुधिरं तदा२२।
दिव्यवर्षसहस्रं च दृष्टिपातैर्ममंथ सः।
मथ्यमाने ततो रक्ते कलिलं बुद्बुदं क्रमात्२३।
बभूव च ततः पश्चात्किरीटी सशरासनः।
बद्धतूणीरयुगलो वृषस्कंधोङ्गुलित्रवान्२४।
पुरुषो वह्निसंकाशः कपाले संप्रदृश्यते।
तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः२५।
कपाले भव को वाऽयं प्रादुर्भूतोऽभवन्नरः।
वचः श्रुत्वा हरेरीशस्तमुवाच विभो शृणु२६।
नरो नामैष पुरुषः परमास्त्रविदां वरः।
भवतोक्तो नर इति नरस्तस्माद्भविष्यति२७।
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः।
संग्रामे देवकार्येषु लोकानां परिपालने२८।
एष नारायणसखो नरस्तस्माद्भविष्यति।
अथासुरवधे साह्यं तव कर्ता महाद्युतिः२९।
मुनिर्ज्ञानपरीक्षायां जेता लोके भविष्यति।
तेजोधिकमिदं दिव्यं ब्रह्मणः पंचमं शिरः३०।
तेजसो ब्रह्मणो दीप्ताद्भुजस्य तव शोणितात्।
मम दृष्टि निपाताच्च त्रीणि तेजांसि यानि तु३१।
तत्संयोगसमुत्पन्नः शत्रुं युद्धे विजेष्यति।
अवध्या ये भविष्यंति दुर्जया अपि चापरे३२।
शक्रस्य चामराणां च तेषामेष भयंकरः।
एवमुक्त्वा स्थितः शंभुर्विस्मितश्च हरिस्तदा३३।
कपालस्थः स तत्रैव तुष्टाव हरकेशवौ।
शिरस्यंजलिमाधाय तदा वीर उदारधीः३४।
किंकरोमीति तौ प्राह इत्युक्त्वा प्रणतः स्थितः।
तमुवाच हरः श्रीमान्ब्रह्मणा स्वेन तेजसा३५।
सृष्टो नरो धनुष्पाणिस्त्वमेनं तु निषूदय।
इत्थमुक्त्वांजलिधरं स्तुवंतं शंकरो नरम्३६।
तथैवांजलिसंबद्धं गृहीत्वा च करद्वयम्।
उद्धृत्याथ कपालात्तं पुनर्वचनमब्रवीत्३७।
स एष पुरुषो रौद्रो यो मया वेदितस्तव।
विष्णुहुंकाररचितमोहनिद्रां प्रवेशितः३८।
विबोधयैनं त्वरितमित्युक्त्वान्तर्दधे हरः।
नारायणस्य प्रत्यक्षं नरेणानेन वै तदा३९।
वामपादहतः सोपि समुत्तस्थौ महाबलः।
ततो युद्धं समभवत्स्वेदरक्तजयोर्महत्४०।
विस्फारितधनुः शब्दं नादिताशेषभूतलम्।
कवचं स्वेदजस्यैकं रक्तजेन त्वपाकृतम्४१।
एवं समेतयोर्युद्धे दिव्यं वर्षद्वयं तयोः।
युध्यतोः समतीतं च स्वेदरक्तजयोर्नृप४२।
रक्तजं द्विभुजं दृष्ट्वा स्वेदजं चैव संगतौ।
विचिन्त्य वासुदेवोगाद्ब्रह्मणः सदनं परम्४३।
ससंभ्रममुवाचेदं ब्रह्माणं मधुसूदनः।
रक्तजेनाद्य भो ब्रह्मन्स्वेदजोयं निपातितः४४।
श्रुत्वैतदाकुलो ब्रह्मा बभाषे मधुसूदनम्।
हरे द्यजन्मनि नरो मदीयो जीवतादयम्४५।
तथा तुष्टोऽब्रवीत्तं च विष्णुरेवं भविष्यति।
गत्वा तयो रणमपि निवार्याऽऽह च तावुभौ४६।
अन्यजन्मनि भविता कलिद्वापरयोर्मिथः।
संधौ महारणे जाते तत्राहं योजयामि वां४७।
विष्णुना तु समाहूय ग्रहेश्वरसुरेश्वरौ।
उक्ताविमौ नरौ भद्रौ पालनीयौ ममाज्ञया४८।
सहस्रांशो स्वेदजोयं स्वकीयोंऽशो धरातले।
द्वापरांतेवतार्योयं देवानां कार्यसिद्धये४९।
यदूनां तु कुले भावी शूरोनाम महाबलः।
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि५० 1.14.50।
उत्पत्स्यति महाभागा देवानां कार्यसिद्धये।
दुर्वासास्तु वरं तस्यै मंत्रग्रामं प्रदास्यति५१।
मंत्रेणानेन यं देवं भक्त्या आवाहयिष्यति।
देवि तस्य प्रसादात्तु तव पुत्रो भविष्यति५२।
सा च त्वामुदये दृष्ट्वा साभिलाषा रजस्वला।
चिंताभिपन्ना तिष्ठंती भजितव्या विभावसो५३।
तस्या गर्भे त्वयं भावी कानीनः कुंतिनंदनः।
भविष्यति सुतो देवदेवकार्यार्थसिद्धये५४।
तथेति चोक्त्वा प्रोवाच तेजोराशिर्दिवाकरः।
पुत्रमुत्पादयिष्यामि कानीनं बलगर्वितम्५५।
यस्य कर्णेति वै नाम लोकः सर्वो वदिष्यति।
मत्प्रसादादस्य विष्णो विप्राणां भावितात्मनः५६।
अदेयं नास्ति वै लोके वस्तु किंचिच्च केशव।
एवं प्रभावं चैवैनं जनये वचनात्तव५७।
एवमुक्त्वा सहस्रांशुर्देवं दानवघातिनम्।
नारायणं महात्मानं तत्रैवांतर्दधे रविः५८।
अदर्शनं गते देवे भास्करे वारितस्करे।
वृद्धश्रवसमप्येवमुवाच प्रीतमानसः५९।
सहस्रनेत्ररक्तोत्थो नरोऽयं मदनुग्रहात्।
स्वांशभूतो द्वापरांते योक्तव्यो भूतले त्वया६०।
यदा पांडुर्महाभागः पृथां भार्यामवाप्स्यति।
माद्रीं चापि महाभाग तदारण्यं गमिष्यति६१।
तस्याप्यरण्यसंस्थस्य मृगः शापं प्रदास्यति।
तेन चोत्पन्नवैराग्यः शतशृगं गमिष्यति६२।
पुत्रानभीप्सन्क्षेत्रोत्थान्भार्यां स प्रवदिष्यति।
अनीप्संती तदा कुंती भर्त्तारं सा वदिष्यति६३।
नाहं मर्त्यस्य वै राजन्पुत्रानिच्छे कथंचन।
दैवतेभ्यः प्रसादाच्च पुत्रानिच्छे नराधिप६४।
प्रार्थयंत्यै त्वया शक्र कुंत्यै देयो नरस्ततः।
वचसा च मदीयेन एवं कुरु शचीपते६५।
अथाब्रवीत्तदा विष्णुं देवेशो दुःखितो वचः।
अस्मिन्मन्वंतरेऽतीते चतुर्विंशतिके युगे६६।
अवतीर्य रघुकुले गृहे दशरथस्य च।
रावणस्य वधार्थाय शांत्यर्थं च दिवौकसाम्६७।
रामरूपेण भवता सीतार्थमटता वने।
मत्पुत्रो हिंसितो देव सूर्यपुत्रहितार्थिना६८।
वालिनाम प्लवंगेंद्रः सुग्रीवार्थे त्वया यतः।
दुःखेनानेन तप्तोहं गृह्णामि न सुतं नरम्६९।
अगृह्णमानं देवेंद्रं कारणांतरवादिनम्।
हरिः प्रोचे शुनासीरं भुवो भारावतारणे७०।
अवतारं करिष्यामि मर्त्यलोके त्वहं प्रभो।
सूर्यपुत्रस्य नाशार्थं जयार्थमात्मजस्य ते७१।
सारथ्यं च करिष्यामि नाशं कुरुकुलस्य च।
ततो हृष्टोभवच्छक्रो विष्णुवाक्येन तेन ह७२।
प्रतिगृह्य नरं हृष्टः सत्यं चास्तु वचस्तव।
एवमुक्त्वा वरं देवः प्रेषयित्वाऽच्युतः स्वयम्७३।
गत्वा तु पुंडरीकाक्षो ब्रह्माणं प्राह वै पुनः।
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्७४।
आवां कार्यस्य करणे सहायौ च तव प्रभो।
स्वयं कृत्वा पुनर्नाशं कर्तुं देव न बुध्यसे७५।
कृतं जुगुप्सितं कर्म शंभुमेतं जिघांसता।
त्वया च देवदेवस्य सृष्टः कोपेन वै पुमान्७६।
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु।
गृह्णन्वह्नित्रयं देव अग्निहोत्रमुपाहर७७।
पुण्यतीर्थे तथा देशे वने वापि पितामह।
स्वपत्न्या सहितो यज्ञं कुरुष्वास्मत्परिग्रहात्७८।
सर्वे देवास्तथादित्या रुद्राश्चापि जगत्पते।
आदेशं ते करिष्यंति यतोस्माकं भवान्प्रभुः७९।
एकोहि गार्हपत्योग्निर्दक्षिणाग्निर्द्वितीयकः।
आहवनीयस्तृतीयस्तु त्रिकुंडेषु प्रकल्पय८०।
वर्तुले त्वर्चयात्मानम्मामथो धनुराकृतौ।
चतुःकोणे हरं देवं ऋग्यजुःसामनामभिः८१।
अग्नीनुत्पाद्य तपसा परामृद्धिमवाप्य च।
दिव्यं वर्षसहस्रं तु हुत्वाग्नीन्शमयिष्यसि८२।
अग्निहोत्रात्परं नान्यत्पवित्रमिह पठ्यते।
सुकृतेनाग्निहोत्रेण प्रशुद्ध्यंति भुवि द्विजाः८३।
पंथानो देवलोकस्य ब्राह्मणैर्दशितास्त्वमी।
एकोग्निः सर्वदा धार्यो गृहस्थेन द्विजन्मना८४।
विनाग्निना द्विजेनेह गार्हस्थ्यन्न तु लभ्यते।
भीष्म उवाच।
योऽसौ कपालादुत्पन्नो नरो नाम धनुर्द्धरः८५।
किमेष माधवाज्जात उताहो स्वेन कर्मणा।
उत रुद्रेण जनितो ह्यथवा बुद्धिपूर्वकम्८६।
ब्रह्मन्हिरण्यगर्भोऽयमंडजातश्चतुर्मुखः।
अद्भुतं पञ्चमं तस्य वक्त्रं तत्कथमुत्थितम्८७।
सत्वे रजो न दृश्येत न सत्वं रजसि क्वचित्।
सत्वस्थो भगवान्ब्रह्मा कथमुद्रेकमादधात्८८।
मूढात्मना नरो येन हंतुं हि प्रहितो हरं।
पुलस्त्य उवाच।
महेश्वरहरी चैतो द्वावेव सत्पथि स्थितौ८९।
तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः।
ब्रह्मणः पंचमं वक्त्रमूर्द्ध्वमासीन्महात्मनः९०।
ततो ब्रह्माभवन्मूढो रजसा चोपबृंहितः।
ततोऽयं तेजसा सृष्टिममन्यत मया कृता९१।
मत्तोऽन्यो नास्ति वै देवो येन सृष्टिः प्रवर्तिता।
सह देवाः सगंधर्वाः पशुपक्षिमृगाकुलाः९२।
एवं मूढः स पंचास्यो विरिंचिरभवत्पुनः।
प्राग्वक्त्रं मुखमेतस्य ऋग्वेदस्य प्रवर्तकम्९३।
द्वितीयं वदनं तस्य यजुर्वेदप्रवर्तकम्।
तृतीयं सामवेदस्य अथर्वार्थं चतुर्थकम्९४।
सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान्।
वेदानधीते वक्त्रेण पंचमेनोर्द्ध्वचक्षुषा९५।
तस्याऽसुरसुराः सर्वे वक्त्रस्याद्भुतवर्चसः।
तेजसा न प्रकाशंते दीपाः सूर्योदये यथा९६।
स्वपुरेष्वपि सोद्वेगा ह्यवर्तंत विचेतसः।
न कंचिद्गणयेच्चान्यं तेजसा क्षिपते परान्९७।
नाभिगंतु न च द्रष्टुं पुरस्तान्नोपसर्पितुम्।
शेकुस्त्रस्ताः सुरास्सर्वे पद्मयोनिं महाप्रभुम्९८।
अभिभूतमिवात्मानं मन्यमाना हतत्विषः।
सर्वे ते मंत्रयामासुर्दैवता हितमात्मनः९९।
गच्छामः शरणं शंभुं निस्तेजसोऽस्य तेजसा।
देवा ऊचुः।
नमस्तेसर्वसत्वेश महेश्वर नमोनमः१०० 1.14.100।
जगद्योने परंब्रह्म भूतानां त्वं सनातनः।
प्रतिष्ठा सर्वजगतां त्वं हेतुर्विष्णुना सह१०१।
एवं संस्तूयमानोसौ देवर्षिपितृदानवैः।
अंतर्हित उवाचेदं देवाः प्रार्थयतेप्सितम्१०२।
देवा ऊचुः।
प्रत्यक्षदर्शनं दत्वा देहि देव यथेप्सितम्।
कृत्वा कारुण्यमस्माकं वरश्चापि प्रदीयताम्१०३।
यदस्माकं महद्वीर्यं तेज ओजः पराक्रमः।
तत्सर्वं ब्रह्मणा ग्रस्तं पंचमास्यस्य तेजसा१०४।
विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो।
जायते तु यथापूर्वं तथा कुरु महेश्वर१०५।
ततः प्रसन्नवदनो देवैश्चापि नमस्कृतः।
जगाम यत्र ब्रह्माऽसौ रजोहंकारमूढधीः१०६।
स्तुवंतो देवदेवेशं परिवार्य समाविशन्।
ब्रह्मा तमागतं रुद्रं न जज्ञे रजसावृतः१०७।
सूर्यकोटिसहस्राणां तेजसा रंजयन्जगत्।
तदादृश्यत विश्वात्मा विश्वसृग्विश्वभावनः१०८।
सपितामहमासीनं सकलं देवमंडलम्।
अभिगम्य ततो रुद्रो ब्रह्माणं परमेष्ठिनम्१०९।
अहोतितेजसा वक्त्रमधिकं देव राजते।
एवमुक्त्वाट्टहासं तु मुमोच शशिशेखरः११०।
वामांगुष्ठनखाग्रेण ब्रह्मणः पंचमं शिरः।
चकर्त कदलीगर्भं नरः कररुहैरिव१११।
विच्छिन्नं तु शिरः पश्चाद्भवहस्ते स्थितं तदा।
ग्रहमंडलमध्यस्थो द्वितीय इव चंद्रमाः११२।
करोत्क्षिप्तकपालेन ननर्त च महेश्वरः।
शिखरस्थेन सूर्येण कैलास इव पर्वतः११३।
छिन्ने वक्त्रे ततो देवा हृष्टास्तं वृषभध्वजम्।
तुष्टुवुर्विविधैस्तोत्रैर्देवदेवं कपर्दिनम्११४।
देवा ऊचुः।
नमः कपालिने नित्यं महाकालस्य कालिने।
ऐश्वर्यज्ञानयुक्ताय सर्वभागप्रदायिने११५।
नमो हर्षविलासाय सर्वदेवमयाय च।
कलौ संहारकर्ता त्वं महाकालः स्मृतो ह्यसि११६।
भक्तानामार्तिनाशस्त्वं दुःखांतस्तेन चोच्यसे।
शंकरोष्याशुभक्तानां तेन त्वं शंकरः स्मृतः११७।
छिन्नं ब्रह्मशिरो यस्मात्त्वं कपालं बिभर्षि च।
तेन देव कपाली त्वं स्तुतो ह्यद्य प्रसीद नः११८।
एवं स्तुतः प्रसन्नात्मा देवान्प्रस्थाप्य शंकरः।
स्वानि धिष्ण्यानि भगवांस्तत्रैवासीन्मुदान्वितः११९।
विज्ञाय ब्रह्मणो भावं ततो वीरस्य जन्म च।
शिरो नीरस्य वाक्यात्तु लोकानां कोपशांतये१२०।
शिरस्यंजलिमाधाय तुष्टावाथ प्रणम्य तम्।
तेजोनिधि परं ब्रह्म ज्ञातुमित्थं प्रजापतिम्१२१।
निरुक्तसूक्तरहस्यैर्ऋग्यजुः सामभाषितैः।
रुद्र उवाच।
अप्रमेय नमस्तेस्तु परमस्य परात्मने१२२।
अद्भुतानां प्रसूतिस्त्वं तेजसां निधिरक्षयः।
विजयाद्विश्वभावस्त्वं सृष्टिकर्ता महाद्युते१२३।
ऊर्द्ध्ववक्त्र नमस्तेस्तु सत्वात्मकधरात्मक।
जलशायिन्जलोत्पन्न जलालय नमोस्तु ते१२४।
जलजोत्फुल्लपत्राक्ष जय देव पितामह।
त्वया ह्युत्पादितः पूर्वं सृष्ट्यर्थमहमीश्वर१२५।
यज्ञाहुतिसदाहार यज्ञांगेश नमोऽस्तु ते।
स्वर्णगर्भ पद्मगर्भ देवगर्भ प्रजापते१२६।
त्वं यज्ञस्त्वं वषट्कारः स्वधा त्वं पद्मसंभव।
वचनेन तु देवानां शिरश्छिन्नं मया प्रभो१२७।
ब्रह्महत्याभिभूतोस्मि मां त्वं पाहि जगत्पते।
इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत्१२८।
ब्रह्मोवाच।
सखा नाराणो देवः स त्वां पूतं करिष्यति।
कीर्तनीयस्त्वया धन्यः स मे पूज्यः स्वयं विभुः१२९।
अनुध्यातोऽसि वै नूनं तेन देवेन विष्णुना।
येन ते भक्तिरुत्पन्ना स्तोतुं मां मतिरुत्थिता१३०।
शिरश्छेदात्कपाली त्वं सोमसिद्धांतकारकः।
कोटीः शतं च विप्राणामुद्धर्तासि महाद्युते१३१।
ब्रह्महत्याव्रतं कुर्या नान्यत्किंचन विद्यते।
अभाष्याः पापिनः क्रूरा ब्रह्मघ्नाः पापकारिणः१३२।
वैतानिका विकर्मस्था न ते भाष्याः कथंचन।
तैस्तु दृष्टैस्तथा कार्यं भास्करस्यावलोकनम्१३३।
अंगस्पर्शे कृते रुद्र सचैलो जलमाविशेत्।
एवं शुद्धिमवाप्नोति पूर्वं दृष्टां मनीषिभिः१३४।
स भवान्ब्रह्महन्तासि शुद्ध्यर्थं व्रतमाचर।
चीर्णे व्रते पुनर्भूयः प्राप्स्यसि त्वं वरान्बहून्१३५।
एवमुक्त्वा गतो ब्रह्मा रुद्रस्तन्नाभिजज्ञिवान्।
अचिंतयत्तदाविष्णुं ध्यानगत्या ततः स्वयं१३६।
लक्ष्मीसहायं वरदं देवदेवं सनातनम्।
अष्टांगप्रणिपातेन देवदेवस्त्रिलोचनः१३७।
तुष्टाव प्रणतो भूत्वा शंखचक्रगदाधरम्।
रुद्र उवाच।
परं पराणाममृतं पुराणं परात्परं विष्णुमनंतवीर्यं१३८।
स्मरामि नित्यं पुरुषं वरेण्यं नारायणं निष्प्रतिमं पुराणम्।
परात्परं पूर्वजमुग्रवेगं गंभीरगंभीरधियां प्रधानम्१३९।
नतोस्मि देवं हरिमीशितारं परात्परं धामपरं च धाम।
परापरं तत्परमं च धाम परापरेशं पुरुषं विशालम्१४०।
नारायणं स्तौमि विशुद्धभावं परापरं सूक्ष्ममिदं ससर्ज।
सदास्थितत्वात्पुरुषप्रधानं शांतं प्रधानं शरणं ममास्तु१४१।
नारायणं वीतमलं पुराणं परात्परं विष्णुमपारपारम्।
पुरातनं नीतिमतां प्रधानं धृतिक्षमाशांतिपरं क्षितीशम्१४२।
शुभं सदा स्तौमि महानुभावं सहस्रमूर्द्धानमनेकपादम्।
अनंतबाहुं शशिसूर्यनेत्रं क्षराक्षरं क्षीरसमुद्रनिद्रम्१४३।
नारायणं स्तौमि परं परेशं परात्परं यत्त्रिदशैरगम्यम्।
त्रिसर्गसंस्थं त्रिहुताशनेत्रं त्रितत्वलक्ष्यं त्रिलयं त्रिनेत्रम्१४४।
नमामि नारायणमप्रमेयं कृते सितं द्वापरतश्च रक्तम्।
कलौ च कृष्णं तमथो नमामि ससर्ज यो वक्त्रत एव विप्रान्१४५।
भुजांतरात्क्षत्रमथोरुयुग्माद्विशः पदाग्राच्च तथैव शूद्रान्।
नमामि तं विश्वतनुं पुराणं परात्परं पारगमप्रमेयम्१४६।
सूक्ष्ममूर्त्तिं महामूर्त्तिं विद्यामूर्त्तिममूर्तिकम्।
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम्१४७।
सहस्रशीर्षं देवेशं सहस्राक्षं महाभुजम्।
जगत्संव्याप्य तिष्ठंतं नमस्ये परमेश्वरम्१४८।
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम्।
नीलमेघप्रतीकाशं नमस्ये शार्ङ्गपाणिनम्१४९।
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम्।
भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम्१५० 1.14.150।
न चात्र किंचित्पश्यामि व्यतिरिक्तं तवाच्युत।
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम्१५१।
एवं तु वदतस्तस्य रुद्रस्य परमेष्ठिनः।
इतीरितेस्तेन सनातन स्वयं परात्परस्तस्य बभूव दर्शने१५२।
रथांगपाणिर्गरुडासनो गिरिं विदीपयन्भास्करवत्समुत्थितः।
वरं वृणीष्वेति सनातनोब्रवीद्वरस्तवाहं वरदः समागतः१५३।
इतीरिते रुद्रवरो जगाद ममातिशुद्धिर्भविता सुरेश।
न चास्य पापस्य हरं हि चान्यत्संदृश्यतेग्र्यं च ऋते भवं तम्१५४।
ब्रह्महत्याभिभूतस्य तनुर्मे कृष्णतां गता।
शवगंधश्च मे गात्रे लोहस्याभरणानि मे१५५।
कथं मे न भवेदेवमेतद्रूपं जनार्दनम्।
किं करोमि महादेव येन मे पूर्विका तनूः१५६।
त्वत्प्रसादेन भविता तन्मे कथय चाच्युत।
विष्णुरुवाच।
ब्रह्मवध्या परा चोग्रा सर्वकष्टप्रदा परा१५७।
मनसापि न कुर्वीत पापस्यास्य तु भावनाम्।
भवता देववाक्येन निष्ठा चैषा निबोधिता१५८।
इदानीं त्वं महाबाहो ब्रह्मणोक्तं समाचर।
भस्मसर्वाणि गात्राणि त्रिकालं घर्षयेस्तनौ१५९।
शिखायां कर्णयोश्चैव करे चास्थीनि धारय।
एवं च कुर्वतो रुद्र कष्टं नैव भविष्यति१६०।
संदिश्यैवं स भगवांस्ततोंऽतर्द्धानमीश्वरः।
लक्ष्मीसहायो गतवान्रुद्रस्तं नाभिजज्ञिवान्१६१।
कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम्।
हिमवंतं समैनाकं मेरुणा च सहैव तु१६२।
कैलासं सकलं विंध्यं नीलं चैव महागिरिम्।
कांचीं काशीं ताम्रलिप्तां मगधामाविलां तथा१६३।
वत्सगुल्मं च गोकर्णं तथा चैवोत्तरान्कुरून्।
भद्राश्वं केतुमालं च वर्षं हैरण्यकं तथा१६४।
कामरूपं प्रभासं च महेंद्रं चैव पर्वतम्।
ब्रह्महत्याभिभूतोसौ भ्रमंस्त्राणं न विंदति१६५।
त्रपान्वितः कपालं तु पश्यन्हस्तगतं सदा।
करौ विधुन्वन्बहुशो विक्षिप्तश्च मुहुर्मुहुः१६६।
यदास्य धुन्वतो हस्तौ कपालं पतते न तु।
तदास्य बुद्धिरुत्पन्ना व्रतं चैतत्करोम्यहम्१६७।
मदीयेनैव मार्गेण द्विजा यास्यंति सर्वतः।
ध्यात्वैवं सुचिरं देवो वसुधां विचचार ह१६८।
पुष्करं तु समासाद्य प्रविष्टोऽरण्यमुत्तमम्।
नानाद्रुमलताकीर्णं नानामृगरवाकुलम्१६९।
द्रुमपुष्पभरामोद वासितं यत्सुवायुना।
बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्१७०।
नानागधंरसैरन्यैः पक्वापक्वैः फलैस्तथा।
विवेश तरुवृंदेन पुष्पामोदाभिनंदितः१७१।
अत्राराधयतो भक्त्या ब्रह्मा दास्यति मे वरम्।
ब्रह्मप्रसादात्संप्राप्तं पौष्करं ज्ञानमीप्सितम्१७२।
पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम्।
एवं वै ध्यायतस्तस्य रुद्रस्यामिततेजसः१७३।
आजगाम ततो ब्रह्मा भक्तिप्रीतोऽथ कंजजः।
उवाच प्रणतं रुद्रमुत्थाप्य च पुनर्गुरुः१७४।
दिव्यव्रतोपचारेण सोहमाराधितस्त्वया।
भवता श्रद्धयात्यर्थं ममदर्शनकांक्षया१७५।
व्रतस्था मां हि पश्यंति मनुष्या देवतास्तथा।
तदिच्छया प्रयच्छामि वरं यत्प्रवरं वरम्१७६।
सर्वकामप्रसिद्ध्यर्थं व्रतं यस्मान्निषेवितम्।
मनोवाक्कायभावैश्च संतुष्टेनांतरात्मना१७७।
कं ददामि च वै कामं वद भोस्ते यथेप्सितम्।
रुद्र उवाच।
एष एवाद्य भगवन्सुपर्याप्तो महा वरः१७८।
यद्दृष्टोसि जगद्वंद्य जगत्कर्तर्नमोस्तुते।
महता यज्ञसाध्येन बहुकालार्जितेन च१७९।
प्राणव्ययकरेण त्वं तपसा देव दृश्यते।
इदं कपालं देवेश न करात्पतितं विभो१८०।
त्रपाकरा ऋषीणां च चर्यैषा कुत्सिता विभो।
त्वत्प्रसादाद्व्रतं चेदं कृतं कापालिकं तु यत्१८१।
सिद्धमेतत्प्रपन्नस्य महाव्रतमिहोच्यताम्।
पुण्यप्रदेशे यस्मिंस्तु क्षिपामीदं वदस्व मे१८२।
पूतो भवामि येनाहं मुनीनां भावितात्मनाम्।
ब्रह्मोवाच।
अविमुक्तं भगवतः स्थानमस्ति पुरातनम्१८३।
कपालमोचनं तीर्थं तव तत्र भविष्यति।
अहं च त्वं स्थितस्तत्र विष्णुश्चापि भविष्यति१८४।
दर्शने भवतस्तत्र महापातकिनोपि ये।
तेपि भोगान्समश्नंति विशुद्धा भवने मम१८५।
वरणापि असीचापि द्वे नद्यौ सुरवल्लभे।
अंतराले तयोः क्षेत्रे वध्या न विशति क्वचित्१८६।
तीर्थानां प्रवरं तीर्थं क्षेत्राणां प्रवरं तव।
आदेहपतनाद्ये तु क्षेत्रं सेवंति मानवाः१८७।
ते मृता हंसयानेन दिवं यांत्यकुतोभयाः।
पंचक्रोशप्रमाणेन क्षेत्रं दत्तं मया तव१८८।
क्षेत्रमध्याद्यदा गंगा गमिष्यति सरित्पतिम्।
तदा सा महती पुण्या पुरी रुद्र भविष्यति१८९।
पुण्या चोदङ्मुखी गंगा प्राची चापि सरस्वती।
उदङ्मुखी योजने द्वे गच्छते जाह्नवी नदी१९०।
तत्र वै विबुधाः सर्वे मया सह सवासवाः।
आगता वासमेष्यंति कपालं तत्र मोचय१९१।
तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै पितॄन्।
श्राद्धैस्तु प्रीणयिष्यंति तेषां लोकोऽक्षयो दिवि१९२।
वाराणस्यां महातीर्थे नरः स्नातो विमुच्यते।
सप्तजन्मकृतात्पापाद्गमनादेव मुच्यते१९३।
तत्तीर्थं सर्वतीर्थानामुत्तमं परिकीर्तितम्।
त्यजंति तत्र ये प्राणान्प्राणिनः प्रणतास्तव१९४।
रुद्रत्वं ते समासाद्य मोदंते भवता सह।
तत्रापि हि तु यद्दत्तं दानं रुद्र यतात्मना१९५।
स्यान्महच्च फलं तस्य भविता भावितात्मनः।
स्वांगस्फुटित संस्कारं तत्र कुर्वंति ये नराः१९६।
ते रुद्रलोकमासाद्य मोदंते सुखिनः सदा।
तत्र पूजा जपो होमः कृतो भवति देहिनां१९७।
अनंतफलदः स्वर्गो रुद्रभक्तियुतात्मनः।
तत्र दीपप्रदाने तु ज्ञानचक्षुर्भवेन्नरः१९८।
अव्यंगं तरुणं सौम्यं रूपवंतं तु गोसुतम्।
योङ्कयित्वा मोचयति स याति परमं पदम्१९९।
पितृभिः सहितो मोक्षं गच्छते नात्र संशयः।
अथ किं बहुनोक्तेन यत्तत्र क्रियते नरैः२०० 1.14.200।
कर्मधर्मं समुद्दिश्य तदनंतफलं भवेत्।
स्वर्गापवर्गयोर्हेतुस्तद्धि तीर्थम्मतं भुवि२०१।
स्नानाज्जपात्तथा होमादनंतफलसाधनम्।
गत्वा वाराणसीतीर्थं भक्त्या रुद्रपरायणाः२०२।
ये तत्र पंचतां प्राप्ता भक्तास्ते नात्र संशयः।
वसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः२०३।
प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः।
त्रिविधः पिंडदानाय विधिरुक्तो मयानघ२०४।
मानुषैः पिंडादानं तु कार्यमत्रागतैस्सदा।
पिंडदानं च तत्रैव स्वपुत्रैः कार्यमादरात्२०५।
सुपुत्रास्ते पितॄणां तु भवंति सुखदायकाः।
प्रोक्तं तीर्थं मया तुभ्यं दर्शनादपि मुक्तिदम्२०६।
स्नात्वा तु सलिले तत्र मुच्यते जन्मबंधनात्।
विमुक्तो ब्रह्महत्यायास्तत्र रुद्र यथासुखम्२०७।
अविमुक्ते मया दत्ते तिष्ठ त्वं भार्यया सह।
रुद्र उवाच।
पृथिव्यां यानि तीर्थानि तेष्वहं विष्णुना सह२०८।
तिष्ठामि भवतोक्तेन वर एष वृतो मया।
अहं देवो महादेव आराध्यो भवता सदा२०९।
वरं दास्यामि ते चाहं संतुष्टेनांतरात्मना।
विष्णोश्चाहं प्रदास्यामि वरांश्च मनसीप्सितान्२१०।
सुराणां चैव सर्वेषां मुनीनां भवितात्मनाम्।
अहं दाता अहं याच्यो नान्यो भाव्यः कथंचन२११।
ब्रह्मोवाच।
एवं करिष्येहं रुद्र यत्वयोक्तं वचः शुभम्।
नारायणश्च ते वाक्यं कर्ता सर्वं न संशयः२१२।
विसृज्यैवं तदा रुद्रं ब्रह्मा चांतरधीयत।
वाराणस्यां महादेवो गत्वा तीर्थं न्यवेशयत्२१३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे रुद्रस्य ब्रह्मवध्यानाशश्चतुर्दशोऽध्यायः१४।
।
।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 15
भीष्म उवाच।
किं कृतं ब्रह्मणा ब्रह्मन्प्रेष्य वाराणसीपुरीम्।
जनार्दनेन किं कर्म शंकरेण च यन्मुने१।
कथं यज्ञः कृतस्तेन कस्मिंस्तीर्थे वदस्व मे।
के सदस्या ऋत्विजश्च सर्वांस्तान्प्रब्रवीहि मे२।
के देवास्तर्पितास्तेन एतन्मे कौतुकं महत्।
पुलस्त्य उवाच।
श्रीनिधानं पुरं मेरोः शिखरे रत्नचित्रितम्३।
अनेकाश्चर्यनिलयंबहुपादपसंकुलम्।
विचित्रधातुभिश्चित्रं स्वच्छस्फटिकनिर्मलम्४।
लतावितानशोभाढ्यं शिखिशब्दविनादितम्।
मृगेन्द्ररववित्रस्त गजयूथसमाकुलम्५।
निर्झरांबुप्रपातोत्थ शीकरासारशीतलम्।
वाताहततरुव्रात प्रसन्नापानचित्रितम्६।
मृगनाभिवरामोद वासिताशेषकाननम्।
लतागृहरतिश्रान्त सुप्तविद्याधराध्वगम्७।
प्रगीतकिन्नरव्रात मधुरध्वनिनादितम्।
तस्मिन्ननेकविन्यास शोभिताशेषभूमिकम्८।
वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः।
तत्र दिव्यांगनोद्गीत मधुरध्वनि नादिता९।
पारिजाततरूत्पन्न मंजरीदाममालिनी।
रत्नरश्मिसमूहोत्थ बहुवर्णविचित्रिता१०।
विन्यस्तस्तंभकोटिस्तु निर्मलादर्शशोभिता।
अप्सरोनृत्यविन्यास विलासोल्लासलासिता११।
बह्वातोद्यसमुत्पन्नसमूहस्वननादिता।
लयतालयुतानेक गीतवादित्र शोभिता१२।
सभा कांतिमती नाम देवानां शर्मदायिका।
ऋषिसंघसमायुक्ता मुनिवृंदनिषेविता१३।
द्विजातिसामशब्देन नादिताऽऽनंददायिनी।
तस्यां निविष्टो देवेशस्संध्यासक्तः पितामहः१४।
ध्यायति स्म परं देवं येनेदं निर्मितं जगत्।
ध्यायतो बुद्धिरुत्पन्ना कथं यज्ञं करोम्यहम्१५।
कस्मिन्स्थाने मया यज्ञः कार्यः कुत्र धरातले।
काशीप्रयागस्तुंगा च नैमिषं शृंखलं तथा१६।
कांची भद्रा देविका च कुरुक्षेत्रं सरस्वती।
प्रभासादीनि तीर्थानि पृथिव्यामिह मध्यतः१७।
क्षेत्राणि पुण्यतीर्थानि संति यानीह सर्वशः।
मदादेशाच्च रुद्रेण कृतान्यन्यानि भूतले१८।
यथाहं सर्वदेवेषु आदिदेवो व्यवस्थितः।
तथा चैकं परं तीर्थमादिभूतं करोम्यहम्१९।
अहं यत्र समुत्पन्नः पद्मं तद्विष्णुनाभिजम्।
पुष्करं प्रोच्यते तीर्थमृषिभिर्वेदपाठकैः२०।
एवं चिंतयतस्तस्य ब्रह्मणस्तु प्रजापतेः।
मतिरेषा समुत्पन्ना व्रजाम्येष धरातले२१।
प्राक्स्थानं स समासाद्य प्रविष्टस्तद्वनोत्तमम्।
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्२२।
नानापक्षिरवाकीर्णं नानामृगगणाकुलम्।
द्रुमपुष्पभरामोदैर्वासयद्यत्सुरासुरान्२३।
बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्।
नानागंधरसैः पक्वापक्वैश्च षडृतूद्भवैः२४।
फलैः सुवर्णरूपाढ्यैर्घ्राणदृष्टिमनोहरैः।
जीर्णं पत्रं तृणं यत्र शुष्ककाष्ठफलानि च२५।
बहिः क्षिपति जातानि मारुतोनुग्रहादिव।
नानापुष्पसमूहानां गंधमादाय मारुतः२६।
शीतलो वाति खं भूमिं दिशो यत्राभिवासयन्।
हरितस्निग्ध निश्छिद्रैरकीटकवनोत्कटैः२७।
वृक्षैरनेकसंज्ञैर्यद्भूषितं शिखरान्वितैः।
अरोगैर्दर्शनीयैश्च सुवृत्तैः कैश्चिदुज्ज्वलैः२८।
कुटुंबमिव विप्राणामृत्विग्भिर्भाति सर्वतः।
शोभंते धातुसंकाशैरंकुरैः प्रावृता द्रुमाः२९।
कुलीनैरिव निश्छिद्रैः स्वगुणैः प्रावृता नराः।
पवनाविद्धशिखरैः स्पृशंतीव परस्परम्३०।
आजिघ्रंती वचाऽन्योन्यं पुष्पशाखावतंसकाः।
नागवृक्षाः क्वचित्पुष्पैर्द्रुमवानीरकेसरैः३१।
नयनैरिव शोभंते चंचलैः कृष्णतारकैः।
पुष्पसंपन्नशिखराः कर्णिकारद्रुमाः क्वचित्३२।
युग्मयुग्माद्विधा चेह शोभन्त इव दंपती।
सुपुष्पप्रभवाटोपैस्सिंदुवार द्रुपंक्तयः३३।
मूर्तिमत्य इवाभांति पूजिता वनदेवताः।
क्वचित्क्वचित्कुंदलताः सपुष्पाभरणोज्वलाः३४।
दिक्षु वृक्षेषु शोभंते बालचंद्रा इवोच्छ्रिताः।
सर्जार्जुनाः क्वचिद्भान्ति वनोद्देशेषु पुष्पिताः३५।
धौतकौशेयवासोभिः प्रावृताः पुरुषा इव।
अतिमुक्तकवल्लीभिः पुष्पिताभिस्तथा द्रुमाः३६।
उपगूढा विराजंते स्वनारीभिरिव प्रियाः।
अपरस्परसंसक्तैः सालाशोकाश्च पल्लवैः३७।
हस्तैर्हस्तान्स्पृशंतीव सुहृदश्चिरसंगताः।
फलपुष्पभरानम्राः पनसाः सरलार्जुनाः३८।
अन्योन्यमर्चयंतीव पुष्पैश्चैव फलैस्तथा।
मारुतावेगसंश्लिष्टैः पादपास्सालबाहुभिः३९।
अभ्याशमागतं लोकं प्रतिभावैरिवोत्थिताः।
पुष्पाणामवरोधेन सुशोभार्थं निवेशिताः४०।
वसंतमहमासाद्य पुरुषान्स्पर्द्धयंति हि।
पुष्पशोभाभरनतैः शिखरैर्वायुकंपितैः४१।
नृत्यंतीव नराः प्रीताः स्रगलंकृतशेखराः।
शृंगाग्रपवनक्षिप्ताः पुष्पावलियुता द्रुमाः४२।
सवल्लीकाः प्रनृत्यंति मानवा इव सप्रियाः।
स्वपुष्पनतवल्लीभिः पादपाः क्वचिदावृताः४३।
भांति तारागणैश्चित्रैः शरदीव नभस्तलम्।
द्रुमाणामथवाग्रेषु पुष्पिता मालती लताः४४।
शेखराइव शोभंते रचिता बुद्धिपूर्वकम्।
हरिताः कांचनच्छायाः फलिताः पुष्पिता द्रुमाः४५।
सौहृदं दर्शयंतीव नराः साधुसमागमे।
पुष्पकिंजल्ककपिला गताः सर्वदिशासु च४६।
कदंबपुष्पस्य जयं घोषयंतीव षट्पदाः।
क्वचित्पुष्पासवक्षीबाः संपतंति ततस्ततः४७।
पुंस्कोकिलगणावृक्ष गहनेष्विव सप्रियाः।
शिरीषपुष्पसंकाशाः शुका मिथुनशः क्वचित्४८।
कीर्तयंति गिरश्चित्राः पूजिता ब्राह्मणा यथा।
सहचारिसुसंयुक्ता मयूराश्चित्रबर्हिणः४९।
वनांतेष्वपि नृत्यंति शोभंत इव नर्त्तकाः।
कूजंतःपक्षिसंघाता नानारुतविराविणः५० 1.15.50।
कुर्वंति रमणीयं वै रमणीयतरं वनम्।
नानामृगगणाकीर्णं नित्यं प्रमुदितांडजम्५१।
तद्वनं नंदनसमं मनोदृष्टिविवर्द्धनम्।
पद्मयोनिस्तु भगवांस्तथा रूपं वनोत्तमम्५२।
ददर्शादर्शवद्दृष्ट्या सौम्ययापा पयन्निव।
ता वृक्षपंक्तयः सर्वा दृष्ट्वा देवं तथागतम्५३।
निवेद्य ब्रह्मणे भक्त्या मुमुचुः पुष्पसंपदः।
पुष्पप्रतिग्रहं कृत्वा पादपानां पितामहः५४।
वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः।
एवमुक्ता भगवता तरवो निरवग्रहाः५५।
ऊचुः प्रांजलयः सर्वे नमस्कृत्वा विरिंचनम्।
वरं ददासि चेद्देव प्रपन्नजनवत्सल५६।
इहैव भगवन्नित्यं वने संनिहितो भव।
एष नः परमः कामः पितामह नमोस्तु ते५७।
त्वं चेद्वससि देवेश वनेस्मिन्विश्वभावन।
सर्वात्मना प्रपन्नानां वांछतामुत्तमं वरम्५८।
वरकोटिभिरन्याभिरलं नो दीयतां वरम्।
सन्निधानेन तीर्थेभ्य इदं स्यात्प्रवरं महत्५९।
ब्रह्मोवाच।
उत्तमं सर्वक्षेत्राणां पुण्यमेतद्भविष्यति।
नित्यं पुष्पफलोपेता नित्यसुस्थिरयौवनाः६०।
कामगाः कामरूपाश्च कामरूपफलप्रदाः।
कामसंदर्शनाः पुंसां तपःसिद्ध्युज्वला नृणाम्६१।
श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ।
एवं स वरदो ब्रह्मा अनुजग्राह पादपान्६२।
स्थित्वा वर्ष सहस्रं तु पुष्करं प्रक्षिपद्भुवि।
क्षितिर्निपतिता तेन व्यकंपत रसातलम्६३।
विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः।
शक्राशनि हतानीव व्याघ्र व्याला वृतानि च६४।
शिखराण्यप्यशीर्यंत पर्वतानां सहस्रशः।
देवसिद्धविमानानि गंधर्वनगराणि च६५।
प्रचेलुर्बभ्रमुः पेतुर्विविशुश्च धरातलम्।
कपोतमेघाः खात्पेतुः पुटसंघातदर्शिनः६६।
ज्योतिर्गणांश्छादयंतो बभूवुस्तीव्र भास्कराः।
महता तस्य शब्देन मूकांधबधिरीकृतम्६७।
बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम्।
सुरासुराणां सर्वेषां शरीराणि मनांसि च६८।
अवसेदुश्च किमिति किमित्येतन्न जज्ञिरे।
धैर्यमालंब्य सर्वेऽथ ब्रह्माणं चाप्यलोकयन्६९।
न च ते तमपश्यंत कुत्र ब्रह्मागतो ह्यभूत्।
किमर्थं कंपिता भूमिर्निमित्तोत्पातदर्शनम्७०।
तावद्विष्णुर्गतस्तत्र यत्र देवा व्यवस्थिताः।
प्रणिपत्य इदं वाक्यमुक्तवंतो दिवौकसः७१।
किमेतद्भगवन्ब्रूहि निमित्तोत्पातदर्शनम्।
त्रैलोक्यं कंपितं येन संयुक्तं कालधर्मणा७२।
जातकल्पावसानं तु भिन्नमर्यादसागरम्।
चत्वारो दिग्गजाः किं तु बभूवुरचलाश्चलाः७३।
समावृता धरा कस्मात्सप्तसागरवारिणा।
उत्पत्तिर्नास्ति शब्दस्य भगवन्निः प्रयोजना७४।
यादृशो वा स्मृतः शब्दो न भूतो न भविष्यति।
त्रैलोक्यमाकुलं येन चक्रे रौद्रेण चोद्यता७५।
शुभोऽशुभो वा शब्दोरेयं त्रैलोक्यस्य दिवौकसाम्।
भगवन्यदि जानासि किमेतत्कथयस्व नः७६।
एवमुक्तोऽब्रवीद्विष्णुः परमेणानुभावितः।
मा भैष्ट मरुतः सर्वे शृणुध्वं चात्र कारणम्७७।
निश्चयेनानुविज्ञाय वक्ष्याम्येष यथाविधम्।
पद्महस्तो हि भगवान्ब्रह्मा लोकपितामहः७८।
भूप्रदेशे पुण्यराशौ यज्ञं कर्तुं व्यवस्थितः।
अवरोहे पर्वतानां वने चातीवशोभने७९।
कमलं तस्य हस्तात्तु पतितं धरणीतले।
तस्य शब्दो महानेष येन यूयं प्रकंपिताः८०।
तत्रासौ तरुवृंदेन पुष्पामोदाभिनंदितः।
अनुगृह्याथ भगवान्वनं तत्समृगांडजम्८१।
जगतोऽनुग्रहार्थाय वासं तत्रान्वरोचयत्।
पुष्करं नाम तत्तीर्थं क्षेत्रं वृषभमेव च८२।
जनितं तद्भगवता लोकानां हितकारिणा।
ब्रह्माणं तत्र वै गत्वा तोषयध्वं मया सह८३।
आराध्यमानो भगवान्प्रदास्यति वरान्वरान्।
इत्युक्त्वा भगवान्विष्णुः सह तैर्देवदानवैः८४।
जगाम तद्वनोद्देशं यत्रास्ते स तु कंजजः।
प्रहृष्टास्तुष्टमनसः कोकिलालापलापिताः८५।
पुष्पोच्चयोज्ज्वलं शस्तं विविशुर्ब्रह्मणो वनम्।
संप्राप्तं सर्वदेवैस्तु वनं नंदनसंमितम्८६।
पद्मिनीमृगपुष्पाढ्यं सुदृढं शुशुभे तदा।
प्रविश्याथ वनं देवाः सर्वपुष्पोपशोभितम्८७।
इह देवोस्तीति देवा बभ्रमुश्च दिदृक्षवः।
मृगयंतस्ततस्ते तु सर्वे देवाः सवासवाः८८।
अद्भुतस्य वनस्यांतं न ते ददृशुराशुगाः।
विचिन्वद्भिस्तदा देवं दैवैर्वायुर्विलोकितः८९।
स तानुवाच ब्रह्माणं न द्रक्ष्यथ तपो विना।
तदा खिन्ना विचिन्वंतस्तस्मिन्पर्वतरोधसि९०।
दक्षिणे चोत्तरे चैव अंतराले पुनः पुनः।
वायूक्तं हृदये कृत्वा वायुस्तानब्रवीत्पुनः९१।
त्रिविधो दर्शनोपायो विरिंचेरस्य सर्वदा।
श्रद्धा ज्ञानेन तपसा योगेन च निगद्यते९२।
सकलं निष्कलं चैव देवं पश्यंति योगिनः।
तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम्९३।
समुत्पन्ने तु विज्ञाने मंदश्रद्धो न पश्यति।
भक्त्या परमया क्षिप्रं ब्रह्म पश्यंति योगिनः९४।
द्रष्टव्यो निर्विकारोऽसौ प्रधानपुरुषेश्वरः।
कर्मणा मनसा वाचा नित्ययुक्ताः पितामहम्९५।
तपश्चरत भद्रं वो ब्रह्माराधनतत्पराः।
ब्राह्मीं दीक्षां प्रपन्नानां भक्तानां च द्विजन्मनाम्९६।
सर्वकालं स जानाति दातव्यं दर्शनं मया।
वायोस्तु वचनं श्रुत्वा हितमेतदवेत्य च९७।
ब्रह्मेच्छाविष्टमतयो वाक्पतिं च ततोऽब्रुवन्।
प्रज्ञानविबुधास्माकं ब्राह्मीं दीक्षां विधत्स्व नः९८।
स दिदीक्षयिषुः क्षिप्रममरान्ब्रह्मदीक्षया।
वेदोक्तेन विधानेन दीक्षयामास तान्गुरुः९९।
विनीतवेषाः प्रणता अंतेवासित्वमाययुः।
ब्रह्मप्रसादं संप्राप्ताः पौष्करं ज्ञानमीरितम्१०० 1.15.100।
यज्ञं चकार विधिना धिषणोध्वर्युसत्तमः।
पद्मं कृत्वा मृणालाढ्यं पद्मदीक्षाप्रयोगतः१०१।
अनुजग्राह देवांस्तान्सुरेच्छा प्रेरितो मुनिः।
तेभ्यो ददौ विवेकिभ्यः स वेदोक्तावधानवित्१०२।
दीक्षां वै विस्मयं त्यक्त्वा बृहस्पतिरुदारधीः।
एकमग्निं च संस्कृत्य महात्मा त्रिदिवौकसाम्१०३।
प्रादादांगिरसस्तुष्टो जाप्यं वेदोदितं तु यत्।
त्रिसुपर्णं त्रिमधु च पावमानीं च पावनीम्१०४।
स हि जाप्यादिकं सर्वमशिक्षयदुदारधीः।
आपो हिष्ठेति यत्स्नानं ब्राह्मं तत्परिपठ्यते१०५।
पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम्।
सिद्धिदं कीर्तिदं चैव कलिकल्मषनाशनम्१०६।
तस्मात्सर्वप्रयत्नेन ब्राह्मस्नानं समाचरेत्।
कुर्वंतो मौनिनो दांता दीक्षिताः क्षपितेंद्रियाः१०७।
सर्वे कमंडलुयुता मुक्तकक्षाक्षमालिनः।
दंडिनश्चीरवस्त्राश्च जटाभिरतिशोभिताः१०८।
स्नानाचारासनरताः प्रयत्नध्यानधारिणः।
मनो ब्रह्मणि संयोज्य नियताहारकांक्षिणः१०९।
अतिष्ठन्दर्शनालापसंगध्यानविवर्जिताः।
एवं व्रतधराः सर्वे त्रिकालं स्नानकारिणः११०।
भक्त्या परमया युक्ता विधिना परमेण च।
कालेन महता ध्यानाद्देवज्ञानमनोगताः१११।
ब्रह्मध्यानाग्निनिर्दग्धा यदा शुद्धैकमानसाः।
अविर्बभूव भगवान्सर्वेषां दृष्टिगोचरः११२।
तेजसाप्यायितास्तस्य बभूवुर्भ्रांतचेतसः।
ततोवलंब्य ते धैर्यमिष्टं देवं यथाविधि११३।
षडंगवेदयोगेन हृष्टचित्तास्तु तत्पराः।
शिरोगतैरंजलिभिः शिरोभिश्च महीं गताः११४।
तुष्टुवुः सृष्टिकर्त्तारं स्थितिकर्तारमीश्वरम्।
देवा ऊचुः।
ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायाऽजिताय च११५।
नमस्कुर्मः सुनियताः क्रतुवेदप्रदायिने।
लोकानुकंपिने देव सृष्टिरूपाय वै नमः११६।
भक्तानुकंपिनेत्यर्थं वेदजाप्यस्तुताय च।
बहुरूपस्वरूपाय रूपाणां शतधारिणे११७।
सावित्रीपतये देव गायत्रीपतये नमः।
पद्मासनाय पद्माय पद्मवक्त्राय ते नमः११८।
वरदाय वरार्हाय कूर्माय च मृगाय च।
जटामकुटयुक्ताय स्रुवस्रुचनिधारिणे११९।
मृगांकमृगधर्माय धर्मनेत्राय ते नमः।
विश्वनाम्नेऽथ विश्वाय विश्वेशाय नमोनमः१२०।
धर्मनेत्रत्राणमस्मादधिकं कर्तुमर्हसि।
वाङ्मनःकायभावैस्त्वां प्रपन्नास्स्मः पितामह१२१।
एवं स्तुतस्तदा देवैर्ब्रह्मा ब्रह्मविदां वरः।
प्रदास्यामि स्मृतो बाढममोघं दर्शनं हि वः१२२।
ब्रुवंतु वांछितं पुत्राः प्रदास्यामि वरान्वरान्।
एवमुक्ता भगवता देवा वचनमब्रुवन्१२३।
एष एवाद्य भगवन्सुपर्याप्तो महान्वरः।
जनितो नः सुशब्दोयं कमलं क्षिपता त्वया१२४।
किमर्थं कंपिता भूमिर्लोकाश्चाकुलिताः कृताः।
नैतन्निरर्थकं देव उच्यतामत्र कारणम्१२५।
ब्रह्मोवाच।
युष्मद्धितार्थमेतद्वै पद्मं विनिहितं मया।
देवतानां च रक्षार्थं श्रूयतामत्र कारणम्१२६।
असुरो वज्रनाभोऽयं बालजीवापहारकः।
अवस्थितस्त्ववष्टभ्य रसातलतलाश्रयम्१२७।
युष्मदागमनं ज्ञात्वा तपस्थान्निहितायुधान्।
हंतुकामो दुराचारः सेंद्रानपि दिवौकसः१२८।
घातः कमलपातेन मया तस्य विनिर्मितः।
स राज्यैश्वर्यदर्पिष्टस्तेनासौ निहतो मया१२९।
लोकेऽस्मिन्समये भक्ता ब्राह्मणा वेदपारगाः।
मैव ते दुर्गतिं यांतु लभंतां सुगतिं पुनः१३०।
देवानां दानवानां च मनुष्योरगरक्षसाम्।
भूतग्रामस्य सर्वस्य समोस्मि त्रिदिवौकसः१३१।
युष्मद्धितार्थं पापोऽसौ मया मंत्रेण घातितः।
प्राप्तः पुण्यकृतान्लोकान्कमलस्यास्य दर्शनात्१३२।
यन्मया पद्ममुक्तं तु तेनेदं पुष्करं भुवि।
ख्यातं भविष्यते तीर्थं पावनं पुण्यदं महत्१३३।
पृथिव्यां सर्वजंतूनां पुण्यदं परिपठ्यते।
कृतो ह्यनुग्रहो देवा भक्तानां भक्तिमिच्छताम्१३४।
वनेस्मिन्नित्यवासेन वृक्षैरभ्यर्थितेन च।
महाकालो वनेऽत्रागादागतस्य ममानघाः१३५।
तपस्यतां च भवतां महज्ज्ञानं प्रदर्शितम्।
कुरुध्वं हृदये देवाः स्वार्थं चैव परार्थकम्१३६।
भवद्भिर्दर्शनीयं तु नानारूपधरैर्भुवि।
द्विषन्वै ज्ञानिनं विप्रं पापेनैवार्दितो नरः१३७।
न विमुच्येत पापेन जन्मकोटिशतैरपि।
वेदांगपारगं विप्रं न हन्यान्न च दूषयेत्१३८।
एकस्मिन्निहते यस्मात्कोटिर्भवति घातिता।
एकं वेदांतगं विप्रं भोजयेच्छ्रद्धयान्वितः१३९।
तस्य भुक्ता भवेत्कोटिर्विप्राणां नात्र संशयः।
यः पात्रपूरणीं भिक्षां यतीनां तु प्रयच्छति१४०।
विमुक्तः सर्वपापेभ्यो नाऽसौ दुर्गतिमाप्नुयात्।
यथाहं सर्वदेवानां ज्येष्ठः श्रेष्ठः पितामहः१४१।
तथा ज्ञानी सदा पूज्यो निर्ममो निः परिग्रहः।
संसारबंधमोक्षार्थं ब्रह्मगुप्तमिदं व्रतम्१४२।
मया प्रणीतं विप्राणामपुनर्भवकारणम्।
अग्निहोत्रमुपादाय यस्त्यजेदजितेंद्रियः१४३।
रौरवं स प्रयात्याशु प्रणीतो यमकिंकरैः।
लोकयात्रावितंडश्च क्षुद्रं कर्म करोति यः१४४।
स रागचित्तः शृंगारी नारीजन धनप्रियः।
एकभोजी सुमिष्टाशी कृषिवाणिज्यसेवकः१४५।
अवेदो वेदनिंदी च परभार्यां च सेवते।
इत्यादिदोषदुष्टो यस्तस्य संभाषणादपि१४६।
नरो नरकगामी स्याद्यश्च सद्व्रतदूषकः।
असंतुष्टं भिन्नचित्तं दुर्मतिं पापकारिणम्१४७।
न स्पृशेदंगसंगेन स्पृष्ट्वा स्नानेन शुद्ध्यति।
एवमुक्त्वा स भगवान्ब्रह्मा तैरमरैः सह१४८।
क्षेत्रं निवेशयामास यथावत्कथयामि ते।
उत्तरे चंद्रनद्यास्तु प्राची यावत्सरस्वती१४९।
पूर्वं तु नंदनात्कृत्स्नं यावत्कल्पं सपुष्करम्।
वेदी ह्येषा कृता यज्ञे ब्रह्मणा लोककारिणा१५० 1.15.150।
ज्येष्ठं तु प्रथमं ज्ञेयं तीर्थं त्रैलोक्यपावनम्।
ख्यातं तद्ब्रह्मदैवत्यं मध्यमं वैष्णवं तथा१५१।
कनिष्ठं रुद्रदैवत्यं ब्रह्मपूर्वमकारयत्।
आद्यमेतत्परं क्षेत्रं गुह्यं वेदेषु पठ्यते१५२।
अरण्यं पुष्कराख्यं तु ब्रह्मा सन्निहितः प्रभुः।
अनुग्रहो भूमिभागे कृतो वै ब्रह्मणा स्वयम्१५३।
अनुग्रहार्थं विप्राणां सर्वेषां भूमिचारिणाम्।
सुवर्णवज्रपर्यंता वेदिकांका मही कृता१५४।
विचित्रकुट्टिमारत्नैः कारिता सर्वशोभना।
रमते तत्र भगवान्ब्रह्मा लोकपितामहः१५५।
विष्णुरुद्रौ तथा देवौ वसवोप्यश्विनावपि ?।
मरुतश्च महेंद्रेण रमंते च दिवौकसः१५६।
एतत्ते तथ्यमाख्यातं लोकानुग्रहकारणम्।
संहितानुक्रमेणात्र मंत्रैश्च विधिपूर्वकम्१५७।
वेदान्पठंति ये विप्रा गुरुशुश्रूषणे रताः।
वसंति ब्रह्मसामीप्ये सर्वे तेनानुभाविताः१५८।
भीष्म उवाच।
भगवन्केन विधिना अरण्ये पुष्करे नरैः।
ब्रह्मलोकमभीप्सद्भिर्वस्तव्यं क्षेत्रवासिभिः१५९।
किं मनुष्यैरुतस्त्रीभिरुत वर्णाश्रमान्वितैः।
वसद्भिः किमनुष्ठेयमेतत्सर्वं ब्रवीहि मे१६०।
पुलस्त्य उवाच।
नरैः स्त्रीभिश्च वस्तव्यं वर्णाश्रमनिवासिभिः।
स्वधर्माचारनिरतैर्दंभमोहविवर्जितैः१६१।
कर्मणा मनसा वाचा ब्रह्मभक्तैर्जितेंद्रियैः।
अनसूयुभिरक्षुद्रैः सर्वभूतहिते रतैः१६२।
भीष्म उवाच।
किं कुर्वाणो नरः कर्म ब्रह्मभक्तस्त्विहोच्यते।
कीदृशा ब्रह्मभक्ताश्च स्मृता नॄणां वदस्व मे१६३।
पुलस्त्य उवाच।
त्रिविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा।
लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा१६४।
ध्यानधारणया बुद्ध्या वेदार्थस्मरणे हि यत्।
ब्रह्मप्रीतिकरी चैषा मानसी भक्तिरुच्यते१६५।
मंत्रवेदनमस्कारैरग्निश्राद्धादिचिंतनैः।
जाप्यैश्चावश्यकैश्चैव वाचिकी भक्तिरिष्यते१६६।
व्रतोपवासनियतैश्चितेंद्रियनिरोधिभिः।
भूषणैर्हेमरत्नाढ्यैस्तथा चांद्रायणादिभिः१६७।
ब्रह्मकृच्छ्रोपवासैश्च तथाचान्यैः शुभव्रतैः।
कायिकीभक्तिराख्याता त्रिविधा तु द्विजन्मनाम्१६८।
गोघृतक्षीरदधिभिः रत्नदीपकुशोदकैः।
गंधैर्माल्यैश्च विविधैर्धातुभिश्चोपपादितैः१६९।
घृतगुग्गुलुधूपैश्च कृष्णागरुसुगंधिभिः।
भूषणैर्हेमरत्नाढ्यैश्चित्राभिः स्रग्भिरेव च१७०।
नृत्यवादित्रगीतैश्च सर्वरत्नोपहारकैः।
भक्ष्यभोज्यान्नपानैश्च या पूजा क्रियते नरैः१७१।
पितामहं समुद्दिश्य भक्तिस्सा लौकिकी मता।
वेदमंत्रहविर्योगैर्भक्तिर्या वैदिकी मता१७२।
दर्शे वा पौर्णमास्यां वा कर्तव्यमग्निहोत्रकम्।
प्रशस्तं दक्षिणादानं पुरोडाशं चरुक्रिया१७३।
इष्टिर्धृतिः सोमपानां यज्ञीयं कर्म सर्वशः।
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च१७४।
क्रियंते विधिमुद्दिश्य सा भक्तिर्वैदिकीष्यते।
अग्नि भूम्यनिलाकाशांबुनिशाकरभास्करम्१७५।
समुद्दिश्य कृतं कर्म तत्सर्वं ब्रह्मदैवतम्।
आध्यात्मिकी तु द्विविधा ब्रह्मभक्तिः स्थिता नृप१७६।
संख्याख्या योगजा चान्या विभागं तत्र मे शृणु।
चतुर्विंशतितत्वानि प्रधानादीनि संख्यया१७७।
अचेतनानि भोग्यानि पुरुषः पंचविंशकः।
चेतनः पुरुषो भोक्ता न कर्ता तस्य कर्मणः१७८।
आत्मा नित्योऽव्ययश्चैव अधिष्ठाता प्रयोजकः।
अव्यक्तः पुरुषो नित्यः कारणं च पितामहः१७९।
तत्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः।
संख्यया परिसंख्याय प्रधानं च गुणात्मकम्१८०।
साधर्म्यमानमैश्वर्यं प्रधानं च विधर्मि च।
कारणत्वं च ब्रह्मत्वं काम्यत्वमिदमुच्यते१८१।
प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते।
सर्वत्रकर्तृस्यद्ब्रह्मपुरुषस्याप्यकर्तृता१८२ ।
चेतनत्वं प्रधाने च साधर्म्यमिदमुच्यते।
तत्वांतरं च तत्वानां कर्मकारणमेव च१८३।
प्रयोजनं च नैयोज्यमैश्वर्यं तत्वसंख्यया।
संख्यास्तीत्युच्यते प्राज्ञैर्विनिश्चित्यार्थचिंतकैः१८४।
इति तत्वस्य संभारं तत्वसंख्या च तत्वतः।
ब्रह्मतत्वाधिकं चापि श्रुत्वा तत्वं विदुर्बुधाः१८५।
सांख्यकृद्भक्तिरेषा च सद्भिराध्यात्मिकी कृता।
योगजामपि भक्तानां शृणु भक्तिं पितामहे१८६।
प्राणायामपरो नित्यं ध्यानवान्नियतेंद्रियः।
भैक्ष्यभक्षी व्रती वापि सर्वप्रत्याहृतेंद्रियः१८७।
धारणं हृदये कुर्याद्ध्यायमानः प्रजेश्वरम्।
हृत्पद्मकर्णिकासीनं रक्तवक्त्रं सुलोचनम्१८८।
परितो द्योतितमुखं ब्रह्मसूत्रकटीतटम्।
चतुर्वक्त्रं चतुर्बाहुं वरदाभयहस्तकम्१८९।
योगजा मानसी सिद्धिर्ब्रह्मभक्तिः परा स्मृता।
य एवं भक्तिमान्देवे ब्रह्मभक्तः स उच्यते१९०।
वृत्तिं च शृणु राजेंद्र या स्मृता क्षेत्रवासिनाम्।
स्वयं देवेन विप्राणां विष्ण्वादीनां समागमे१९१।
कथिता विस्तरात्पूर्वं सर्वेषां तत्र सन्निधौ।
निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः१९२।
बंधुवर्गे च निःस्नेहास्समलोष्टाश्मकांचनाः।
भूतानां कर्मभिर्नित्यैर्विविधैरभयप्रदाः१९३।
प्राणायामपरा नित्यं परध्यानपरायणाः।
याजिनः शुचयो नित्यं यतिधर्मपरायणाः१९४।
सांख्ययोगविधिज्ञाश्च धर्मज्ञाश्छिन्नसंशयाः।
यजंते विधिनानेन ये विप्राः क्षेत्रवासिनः१९५।
अरण्ये पौष्करे तेषां मृतानां सत्फलं शृणु।
व्रजंति ते सुदुष्प्रापं ब्रह्मसायुज्यमक्षयम्१९६।
यत्प्राप्य न पुनर्जन्म लभन्ते मृत्युदायकम्।
पुनरावर्तनं हित्वा ब्राह्मीविद्यां समास्थिताः१९७।
पुनरावृत्तिरन्येषां प्रपंचाश्रमवासिनाम्।
गार्हस्थ्यविधिमाश्रित्य षट्कर्मनिरतः सदा१९८।
जुहोति विधिना सम्यङ्मंत्रैर्यज्ञे निमंत्रितः।
अधिकं फलमाप्नोति सर्वदुःखविवर्जितः१९९।
सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते।
दिव्येनैश्वर्ययोगेन स्वारूढः सपरिग्रहः२०० 1.15.200।
बालसूर्यप्रकाशेन विमानेन सुवर्चसा।
वृतः स्त्रीणां सहस्रैस्तु स्वंच्छदगमनालयः२०१।
विचरत्यनिवार्येण सर्वलोकान्यदृच्छया।
स्पृहणीयतमः पुंसां सर्वधर्मोत्तमो धनी२०२।
स्वर्गच्युतः प्रजायेत कुले महति रूपवान्।
धर्मज्ञो धर्मभक्तश्च सर्वविद्यार्थपारगः२०३।
तथैव ब्रह्मचर्येण गुरुशुश्रूषणेन च।
वेदाध्ययनसंयुक्तो भैक्ष्यवृतिर्जितेन्द्रियः२०४।
नित्यं सत्यव्रते युक्तः स्वधर्मेष्वप्रमादवान्।
सर्वकामसमृद्धेन सर्वकामावलंबिना२०५।
सूर्येणेव द्वितीयेन विमानेनानिवारितः।
गुह्यकानामब्रह्माख्य गणाः परमसंमताः२०६।
अप्रमेयबलैश्वर्या देवदानवपूजिताः।
तेषां स समता याति तुल्यैश्वर्यसमन्वितः२०७।
देवदानवमर्त्येषु भवत्यनियतायुधः।
वर्षकोटिसहस्राणि वर्षकोटिशतानि च२०८।
एवमैश्वर्यसंयुक्तो विष्णुलोके महीयते।
उषित्वाऽसौ विभूत्यैवं यदा प्रच्यवते पुनः२०९।
विष्णुलोकात्स्वकृत्येन स्वर्गस्थानेषु जायते२१०।
पुष्करारण्यमासाद्य ब्रह्मचर्याश्रमे स्थितः।
अभ्यासेन तु वेदानां वसति म्रियतेपि वा२११।
मृतोऽसौ याति दिव्येन विमानेन स्वतेजसा।
पूर्णचंद्रप्रकाशेन शशिवत्प्रियदर्शनः२१२।
रुद्रलोकं समासाद्य गुह्यकैः सह मोदते।
ऐश्वर्यं महदाप्नोति सर्वस्य जगतः प्रभुः२१३।
भुक्त्वा युगसहस्राणि रुद्रलोके महीयते।
प्रच्युतस्तु पुनस्तस्माद्रुद्रलोकात्क्रमेण तु२१४।
नित्यं प्रमुदितस्तत्र भुक्त्वा सुखमनामयम्।
द्विजानां सदने दिव्ये कुले महति जायते२१५।
मानुषेषु स धर्म्मात्मा सुरूपो वाक्पतिर्भवेत्।
स्पृहणीयवपुः स्त्रीणाम्महाभोगपतिर्बली२१६।
वानप्रस्थसमाचारी ग्राम्यौषधिविवर्जितः।
सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते२१७।
शीर्णपर्णफलाहारः पुष्पमूलांबुभोजनः।
कापोतेनाश्मकुट्टेन दंतोलूखलिकेन च२१८।
वृत्युपायेन जीवेत चीरवल्कलवाससा।
जटीत्रिषवणस्नायी त्यक्तदोषस्तु दंडवान्२१९।
कृच्छ्रव्रतपरो यस्तु श्वपचो यदि वा परः।
जलशायी पंचतपा वर्षास्वभ्रावगाहकः२२०।
कीटकंटकपाषाणभूम्यां तु शयनं तथा।
स्थानवीरासनरतः संविभागी दृढव्रतः२२१।
अरण्यौषधिभोक्ता च सर्वभूताभयप्रदः।
नित्यं धर्मार्जनरतो जितक्रोधो जितेंद्रियः२२२।
ब्रह्मभक्तः क्षेत्रवासी पुष्करे वसते मुनिः।
सर्वसंगपरित्यागी स्वारामो विगतस्पृहः२२३।
यश्चात्र वसते भीष्म शृणु तस्यापि या गतिः।
तरुणार्कप्रकाशेन वेदिकास्तंभशोभिना२२४।
ब्रह्मभक्तो विमानेन याति कामप्रचारिणाम्।
विराजमानो नभसि द्वितीय इव चंद्रमाः२२५।
गीतवादित्रनृत्यज्ञैर्गंधर्वाप्सरसांगणैः।
अप्सरोभिः समायुक्तो वर्षकोटिशतान्यसौ२२६।
यस्य कस्यापि देवस्य लोकं यात्यनिवारितः।
ब्रह्मणोऽनुग्रहेणैव तत्रतत्र विराजते२२७।
ब्रह्मलोकाच्च्युतश्चापि विष्णुलोकं स गच्छति।
विष्णुलोकात्परिभ्रष्टो रुद्रलोकं स गच्छति२२८।
तस्मादपि च्युतः स्थानाद्द्वीपेषु स हि जायते।
स्वर्गेषु च तथान्येषु भोगान्भुक्त्वा यथेप्सितान्२२९।
भुक्त्वैश्वर्यं ततस्तेषु पुनर्मर्त्येषु जायते।
राजा वा राजपुत्रो वा जायते धनवान्सुखी२३०।
सुरूपः सुभगः कांतः कीर्तिमान्भक्तिभावितः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः२३१।
स्वधर्मनिरता राजन्सुवृत्ताश्चिरजीविनः।
सर्वात्मना ब्रह्मभक्ता भूतानुग्रहकारिणः२३२।
पुष्करे तु महाक्षेत्रे ये वसंति मुमुक्षवः।
मृतास्ते ब्रह्मभवनं विमानैर्यांति शोभनैः२३३।
अप्सरोगणसंघुष्टैः कामगैः कामरूपिभिः।
अथवा सर्वदीप्ताग्नौ स्वशरीरं जुहोति यः२३४।
ब्रह्मध्यायी महासत्वस्स ब्रह्मभवनं व्रजेत्।
ब्रह्मलोकोऽक्षयस्तस्य शाश्वतो विभवैः सह२३५।
सर्वलोकोत्तमो रम्यो भवतीष्टार्थसाधकः।
पुष्करे तु महापुण्ये प्राणान्ये सलिले त्यजन्२३६।
तेषामप्यक्षयो भीष्म ब्रह्मलोको महात्मनाम्।
साक्षात्पश्यंति ते देवं सर्वदुःखविनाशनम्२३७।
सर्वामरयुतं देवं रुद्रविष्णुगणैर्युतम्।
अनाशके मृताश्शूद्राः पुष्करे तु वने नराः२३८।
हंसयुक्तैस्ततो यांति विमानैरर्कसप्रभैः।
नानारत्नसुवर्णाढ्यैर्दृढैर्गंधाधिवासितैः२३९।
अनौपम्यगुणैरन्यैरप्सरोगीतनादितैः।
पताकाध्वजविन्यस्तैर्नानाघण्टानिनादितैः२४०।
बह्वाश्चर्यसमोपेतैः क्रीडाविज्ञानशालिभिः।
सुप्रभैर्गुणसंपन्नैर्मयूरवरवाहिभिः२४१।
ब्रह्मलोके नरा धीरा रमंते नाशके मृताः।
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथेप्सितान्२४२।
धनी विप्नकुले भोगी जायते मर्त्यमागतः।
कारीषीं साधयेद्यस्तु पुष्करे तु वने नरः२४३।
सर्वलोकान्परित्यज्य ब्रह्मलोकं स गच्छति।
ब्रह्मलोके वसेत्तावद्यावत्कल्पक्षयो भवेत्२४४।
नैव पश्यति मर्त्यं हि क्लिश्यमानं स्वकर्मभिः।
गतिस्तस्याऽप्रतिहता तिर्यगूर्ध्वमधस्तथा२४५।
स पूज्यः सर्वलोकेषु यशो विस्तारयन्वशी।
सदाचारविधिप्रज्ञः सर्वेन्द्रिय मनोहरः२४६।
नृत्यवादित्रगीतज्ञः सुभगः प्रियदर्शनः।
नित्यमम्लानकुसुमो दिव्याभरणभूषितः२४७।
नीलोत्पलदलश्यामो नीलकुंचितमूर्द्धजः।
अजघन्याः सुमध्याश्च सर्वसौभाग्यपूरिताः२४८।
सर्वैश्वर्यगुणोपेता यौवनेनातिगर्विताः।
स्त्रियः सेवंति तत्रस्थाः शयने रमयंति च२४९।
वीणावेणुनिनादैश्च सुप्तः संप्रतिबुध्यते।
महोत्सवसुखं भुंक्ते दुःप्राप्यमकृतात्मभिः२५० 1.15.250।
प्रसादाद्देवदेवस्य ब्रह्मणः शुभकारिणः।
भीष्म उवाच।
आचाराः परमा धर्माः क्षेत्रधर्मपरायणाः२५१।
स्वधर्माचारनिरता जितक्रोधा जितेंद्रियाः।
ब्रह्मलोकं व्रजंतीति नैतच्चित्रं मतं मम२५२।
असंशयं च गच्छंति लोकानन्यानपि द्विजाः।
विना पद्मोपवासेन तथैव नियमेन च२५३।
स्त्रियो म्लेछाश्च शूद्राश्च पक्षिणः पशवो मृगाः।
मूका जडान्धबधिरास्तपो नियमवर्जिताः२५४।
तेषां वद गतिं विप्र पुष्करे ये त्ववस्थिताः।
पुलस्त्य उवाच।
स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः२५५।
पुष्करे तु मृता भीष्म ब्रह्मलोकं व्रजंति ते।
शरीरैर्दिव्यरूपैस्तु विमानै रविसप्रभैः२५६।
दिव्यव्यूहसमायुक्तैः सुवर्णवरकेतनैः।
सुवर्णवज्रसोपानमणिस्तंभविभूषितैः२५७।
सर्वकामोपभोगाढ्यैः कामगैः कामरूपिभिः।
नानारसाढ्यं गच्छंति स्त्रीसहस्रसमाकुलाः२५८।
ब्रह्मलोकं महात्मानो लोकानन्यान्यथेप्सितान्।
ब्रह्मलोकाच्च्युताश्चापि क्रमाद्द्वीपेषु यांति ते२५९।
कुले महति विस्तीर्णे धनी भवति स द्विजः।
तिर्यग्योनि गता ये तु सर्पकीटपिपीलिकाः२६०।
स्थलजा जलजाश्चैव स्वेदांडोद्भिज्जरायुजाः।
सकामा वाप्यकामा वा पुष्करे तु वने मृताः२६१।
सूर्यप्रभविमानस्था ब्रह्मलोकं प्रयांति ते।
कलौ युगे महाघोरे प्रजाः पापसमीरिताः२६२।
नान्येनास्मिन्नुपायेन धर्मः स्वर्गश्च लभ्यते।
वसंति पुष्करे ये तु ब्रह्मार्चनरता नराः२६३।
कलौ युगे कृतार्थास्ते क्लिश्यंत्यन्ये निरर्थकाः।
रात्रौ करोति यत्पापं नरः पंचभिरिंद्रियैः२६४।
कर्मणा मनसा वाचा कामक्रोधवशानुगाः।
प्रातः स जलमासाद्य पुष्करे तु पितामहम्२६५।
अभिगम्य शुचिर्भूत्त्वा तस्मात्पापात्प्रमुच्यते।
उदयेऽर्कस्य चारभ्य यावद्दर्शनमूर्ध्वगम्२६६।
मानसाख्ये प्रसंचिंत्य ब्रह्मयोगे हरेदघम्।
दृष्ट्वा विरिंचिं मध्याह्ने नरः पापात्प्रमुच्यते२६७।
मध्याह्नास्तमयान्तं यदिंद्रियैः पापमाचरेत्।
पितामहस्य संध्यायां दर्शनादेव मुच्यते२६८।
शब्दादीन्विषयान्सर्वान्भुंजानोपि सकामतः।
यः पुष्करे ब्रह्मभक्तो निवसेत्तपसि स्थितः२६९।
पुष्करारण्यमध्यस्थो मिष्टान्नास्वादभोजनः।
त्रिकालमपि भुंजानो वायुभक्षसमो मतः२७०।
वसंति पुष्करे ये तु नराः सुकृतकर्मिणः।
ते लभंते महाभोगान्क्षेत्रस्यास्य प्रभावतः२७१।
यथा महोदधेस्तुल्यो न चान्योऽस्ति जलाशयः।
तथा वै पुष्करस्यापि समं तीर्थं न विद्यते२७२।
पुष्करारण्यसदृशं तीर्थं नास्त्यधिकं गुणैः।
अथ तेऽन्यान्प्रवक्ष्यामि क्षेत्रे येऽस्मिन्व्यवस्थिताः२७३।
विष्णुना सहिताः सर्व इंद्राद्याश्च दिवौकसः।
गजवक्त्रः कुमारश्च रेवंतः सदिवाकरः२७४।
शिवदूती तथा देवी कन्या क्षेमंकरी सदा।
अलं तपोभिर्नियमैः सुक्रियार्चनकारिणाम्२७५।
व्रतोपवासकर्माणि कृत्वान्यत्र महांत्यपि।
ज्येष्ठे तु पुष्करारण्ये यस्तिष्ठति निरुद्यमः२७६।
लभते सर्वकामित्वं योऽत्रैवास्ते द्विजः सदा।
पितामहसमं याति स्थानं परममव्ययम्२७७।
कृते द्वादशभिर्वर्षैस्त्रेतायां हायनेन तु।
मासेन द्वापरे भीष्म अहोरात्रेण तत्कलौ२७८।
फलं संप्राप्यते लोके क्षेत्रेस्मिंस्तीर्थवासिभिः।
इत्येवं देवदेवेन पुरोक्तं ब्रह्मणा मम२७९।
नातः परतरं किंचित्क्षेत्रमस्तीह भूतले।
तस्मात्सर्वप्रयत्नेनारण्यमेतत्समाश्रयेत्२८०।
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
यथोक्तकारिणः सर्वे गच्छंति परमां गतिम्२८१।
एकस्मिन्नाश्रमे धर्मं योऽनुतिष्ठेद्यथाविधि।
अकामद्वेषसंयुक्तः स परत्र महीयते२८२।
चतुष्पथाहि निःश्रेणी ब्रह्मणेह प्रतिष्ठिता।
एतामाश्रित्य निश्रेणीं ब्रह्मलोके महीयते२८३।
आयुषोऽपि चतुर्भागं ब्रह्मचार्यनसूयकः।
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः२८४।
कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता।
दक्षिणानां प्रदापी स्यादाहूतो गुरुमाश्रयेत्२८५।
जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि।
यच्च शिष्येण कर्त्तव्यं कार्यमासेवनादिकम्२८६।
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत्तु पार्श्वतः।
किंकरः सर्वकारी च सर्वकर्मसुकोविदः२८७।
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमथोत्तरम्।
चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेंद्रियः२८८।
नाऽभुक्तवति चाश्नीयादपीतवति नो पिबेत्।
न तिष्ठति तथासीत न सुप्तेनैव संविशेत्२८९।
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्।
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्२९०।
अभिवाद्य गुरुं ब्रूयादभिधां स्वां ब्रुवन्निति।
इदं करिष्ये भगवन्निदं चापि मया कृतम्२९१।
इति सर्वं च विज्ञाप्य निवेद्य गुरवे धनम्।
कुर्यात्कृतं च तत्सर्वमाख्येयं गुरवे पुनः२९२।
यांस्तु गंधान्रसान्वापि ब्रह्मचारी न सेवते।
सेवेत तान्समावृत्य इति धर्मेषु निश्चयः२९३।
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः।
तान्सर्वाननुगृह्णीयाद्भक्तश्शिष्यश्च वै गुरोः२९४।
स एव गुरवे प्रीतिमुपकृत्य यथाबलम्।
अग्राम्येष्वाश्रमेष्वेव शिष्यो वर्तेत कर्मणा२९५।
वेदवेदौ तथा वेदान्वेदार्थांश्च तथा द्विजः।
भिक्षाभुगप्यधःशायी समधीत्य गुरोर्मुखात्२९६।
वेदव्रतोपयोगी च चतुर्थांशेन योगतः।
गुरवे दक्षिणां दत्वा समावर्तेद्यथाविधि२९७।
धर्मान्वितैर्युतो दारैरग्नीनावाह्य पूजयेत्।
द्वितीयमायुषो भागं गृहमेधी समाचरेत्२९८।
गृहस्थवृत्तयः पूर्वं चतस्रो मुनिभिः कृताः।
कुसूलधान्या प्रथमा कुंभीधान्या द्वितीयका२९९।
अश्वस्तनी तृतीयोक्ता कापोत्यथ चतुर्थिका।
तासां परापरा श्रेष्ठा धर्मतो लोकजित्तमा३०० 1.15.300।
षट्कर्मवर्त्तकस्त्वेकस्त्रिभिरन्यः प्रसर्पते।
द्वाभ्यां चैव चतुर्थस्तु द्विजः स ब्रह्मणि स्थितः३०१।
गृहमेधिव्रतादन्यन्महत्तीर्थं न चक्षते।
नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशुम्३०२।
प्राणी वा यदि वाप्राणी संस्काराद्यज्ञमर्हति।
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः३०३।
न भुंजीतांतराकाले नानृतं तु वदेदिह।
न चाप्यश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः३०४।
तथास्यातिथयः पूज्या हव्यकव्यवहाः स्मृताः।
वेदविद्याव्रतस्नाता श्रोत्रिया वेदपारगाः३०५।
स्वकर्मजीविनोदांताः क्रियावंतस्तपस्विनः।
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते३०६।
नश्वरैस्संप्रयातस्य स्वधर्मापगतस्य च।
अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः३०७।
असत्याभिनिवेशस्य नाधिकारोस्ति कर्मणोः।
संविभागोत्र भूतानां सर्वेषामेव शिष्यते३०८।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना।
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः३०९।
अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम्।
संभुक्तशेषं योश्नाति तमाहुर्विघसाशिनम्३१०।
स्वदारनिरतो दांतो दक्षोत्यर्थं जितेंद्रियः।
ऋत्विक्पुरोहिताचार्यमातुलातिथिसंहतैः३११।
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबंधि बांधवैः।
मात्रा पित्रा च जामात्रा भ्रात्रा पुत्रेण भार्यया३१२।
दुहित्रा दासवर्गेण विवादं न समाचरेत्।
एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते३१३।
एतैर्जितैस्तु जयति सर्वलोकान्न संशयः।
आचार्यो ब्रह्मलोकेशः प्राजापत्य प्रभुः पिता३१४।
अतिथिः सर्वलोकेश ऋत्विग्वेदाश्रयः प्रभुः।
जामाताप्सरसांलोके ज्ञातयो वैश्वदेविकाः३१५।
संबंधि बांधवा दिक्षु पृथिव्यां मातृमातुलौ।
वृद्धबालातुराश्चैव आकाशे प्रभविष्णवः३१६।
पुरोधा ऋषिलोकेशः संश्रितास्साध्यलोकपाः।
अश्विलोकपतिर्वैद्यो भ्राता तु वसुलोकपः३१७।
चंद्रलोकेश्वरी भार्या दुहिताप्सरसां गृहे।
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्र स्वकातनुः३१८।
कायस्था दासवर्गाश्च दुहिता कृपणं परम्।
तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः३१९।
गृहधर्मरतो विद्वान्धर्मनिष्ठो जितक्लमः।
नारभेद्बहुकार्याणि धर्मवान्किंचिदारभेत्३२०।
गृहस्थवृत्तयस्तिस्रस्तासां निश्रेयसं परं।
परस्परं तथैवाहुश्चातुराश्रम्यमेव च३२१।
ये चोक्तानि यमास्तेषां सर्वं कार्यं बुभूषुणा।
कुंभधान्यैरुंच्छशिलैः कापोतीं वृत्तिमाश्रितैः३२२।
यस्मिंश्चैते वसंत्यर्थास्तद्राष्ट्रमभिवर्धते।
पूर्वापरान्दशपरान्पुनाति च पितामहान्३२३।
गृहस्थवृत्तिमप्येतां वर्तयेद्यो गतव्यथः।
स चक्रधरलोकानां समानाम्प्राप्नुयाद्गतिम्३२४।
जितेंद्रियाणामथवा गतिरेषा विधीयते।
स्वर्गलोको गृहस्थानां प्रतिष्ठा नियतात्मनां३२५।
ब्रह्मणाभिहता श्रेणी ह्येषा यस्याः प्रमुच्यते।
द्वितीयां क्रमशः प्राप्य स्वर्गलोके महीयते३२६।
तृतीयामपि वक्ष्यामि वानप्रस्थाश्रमं शृणु।
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः३२७।
अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत्।
गृहस्थव्रतखिन्नानां वानप्रस्थाश्रमौकसां३२८।
श्रूयतां भीष्म भद्रं ते सर्वलोकाश्रयात्मनां।
दीक्षापूर्वं निवृत्तानां पुण्यदेशनिवासिनां३२९।
प्रज्ञाबलयुजां पुंसां सत्यशौचक्षमावतां।
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसन्३३०।
तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः।
नियतो नियताहारो विष्णुभक्तिप्रसक्तिमान्३३१।
तदाग्निहोत्रमात्राणि यज्ञांगानि च सर्वशः।
अकृष्टं वै व्रीहियवं नीवारं विघसानि च३३२।
ग्रीष्मे हविष्यं प्रायच्छेत्स माघेष्वपि पंचसु।
वानप्रस्थाश्रमेप्येताश्चतस्रो वृत्तयः स्मृताः३३३।
सद्यः प्रभक्षकाः केचित्केचिन्मासिकसंचयान्।
वार्षिकान्संचयान्केचित्केचिद्द्वादशवार्षिकान्३३४।
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव च।
अभ्रावकाशा वर्षासु हेमंते जलसंश्रयाः३३५।
ग्रीष्मे पंचाग्नितपसः शरद्यमृतभोजनाः।
भूमौ विपरिवर्तंते तिष्ठंति प्रपदैरपि३३६।
स्थानासने च वर्तन्ते वसनेष्वपि संस्थिते।
दंतोलूखलिनः केचिदश्मकुट्टास्तथा परे३३७।
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां क्वचित्।
कृष्णपक्षे पिबंत्येके भुंजते च यथागमम्३३८।
मूलैरेके फलैरेके जलैरेके दृढव्रताः।
वर्त्तयंति यथान्यायं वैखानस धृतव्रताः३३९।
एताश्चान्याश्च विविधा दीक्षास्तेषां मनस्विनां।
चतुर्थश्चौपनिषदो धर्मः साधारणो मतः३४०।
वानप्रस्थो गृहस्थश्च सततोन्यः प्रवर्त्तते।
तस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः३४१।
अगस्त्यश्च सप्तर्षयो मधुच्छंदो गवेषणः।
सांकृतिः सदिवो भांडिर्यवप्रोथो ह्यथर्वणः३४२।
अहोवीर्यस्तथा काम्यः स्थाणुर्मेधातिथिर्बुधः।
मनोवाकः शिनीवाकः शून्यपालो कृतव्रणः३४३।
एते कर्मसु विद्वांसस्ततः स्वर्गमुपागमन्।
एते प्रत्यक्षधर्माणस्तथा यायावरागणाः३४४।
ऋषीणामुग्रतपसां धर्मनैपुण्यदर्शिनाम्।
सुरेश्वरं समाराध्य ब्राह्मणा वनमाश्रिताः३४५।
अपास्योपरता मायां ब्राह्मणा वनमाश्रिताः।
अनक्षत्रास्तथा धृष्या दृश्यन्ते प्रोषिता गणाः३४६।
जरया तु परिद्यूना व्याधिना परिपीडिताः।
चतुर्थं त्वाश्रमं शेषं वानप्रस्थाश्रमाद्ययुः३४७।
सद्यस्कारी सुनिर्वाप्य सर्ववेदसदक्षिणाम्।
आत्मयाजी सौम्यमतिरात्मक्रीडात्मसंश्रयः३४८।
आत्मन्यग्निं समाधाय त्यक्त्वासर्वपरिग्रहम्।
सद्यस्कश्च यजेद्यज्ञानिष्टिं चैवेह सर्वदा३४९।
सदैव याजिनां यज्ञानात्मनीज्या प्रवर्त्तते।
त्रीनेवाग्नींस्त्यजेत्सम्यगात्मन्येवात्मना क्षणात्३५० 1.15.350।
प्राप्नुयाद्येन वा यच्च तत्प्राश्नीयादकुत्सयन्।
केशलोमनखान्न्यस्येद्वानप्रस्थाश्रमे रतः३५१।
आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः।
अभयं सर्वभूतेभ्यो यो दत्वा प्रव्रजेद्द्विजः३५२।
लोकास्तेजोमयास्तस्य प्रेत्य चानंत्यमश्नुते।
सुशीलवृत्तो व्यपनीतकल्मषो न चेह नामुत्र चरन्तुमीहते३५३।
अरोषमोहो गतसंधिविग्रहः स चेदुदासीनवदात्मचिंतया।
यमेषु चैवान्यगतेषु न व्यथः स्वशास्त्रशून्यो हृदिनात्मविभ्रमः३५४।
भवेद्यथेष्टागतिरात्मयाजिनी निस्संशये धर्मपरे जितेन्द्रिये।
अतःपरं श्रेष्ठमतीवसद्गुणैरधिष्ठितं त्रीनतिवर्त्य चाश्रमान्३५५।
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम्।
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्३५६।
यत्कार्यं परमात्मार्थं तत्त्वमेकमनाः शृणु।
काषायं धारयित्वा तु श्रेणीस्थानेषु च त्रिषु३५७।
यो व्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्।
तद्भावनेन संन्यस्य वर्तनं श्रूयतां तथा३५८।
एक एव चरेद्धर्मं सिध्यर्थमसहायवान्।
एकश्चरति यः पश्यन्न जहाति न हीयते३५९।
अनग्निरनिकेतस्तु ग्रामं भिक्षार्थमाश्रयेत्।
अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः३६०।
लघ्वाशी नियताहारः सकृदन्नं निषेवयेत्।
कपालं वृक्षमूलानि कुचेलमसहायता३६१।
उपेक्षा सर्वभूतानामेतावद्भिक्षु लक्षणम्।
यस्मिन्वाचः प्रविशंति कूपे प्राप्ता मृता इव३६२।
न वक्तारं पुनर्यांति स कैवल्याश्रमे वसेत्।
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्३६३।
ब्राह्मणानां विशेषेण नैतद्भूयात्कथंचन।
यद्ब्राह्मणस्यानुकूलं तदेव सततं वदेत्३६४।
तूष्णीमासीत निंदायां कुर्वन्भैषज्यमात्मनः।
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा३६५।
शून्यं येन समाकीर्णं तं देवा ब्राह्मणं विदुः३६६।
येनकेन चिदाछिन्नो येनकेन चिदाशितः।
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः३६७।
अहेरिव जनाद्भीतः सुहृदो नरकादिव।
कृपणादिव नारीभ्यस्तं देवा ब्राह्मणं विदुः३६८।
न हृष्येत विषीदेत मानितो मानितस्तथा।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः३६९।
नाभिनंदेत मरणं नाभिनंदेत जीवितम्।
कालमेव निरीक्षेत निर्देशं कृषको यथा३७०।
अनभ्याहतचित्तश्च दांतश्चाहतधीस्तथा।
विमुक्तः सर्वपापेभ्यो नरो गच्छेत्ततो दिवम्३७१।
अभयं सर्वभूतेभ्यो भूतानामभयं यतः।
तस्य देहविमुक्तस्य भयं नास्ति कुतश्चन३७२।
यथा नागपदेऽन्यानि पदानि पदगामिनाम्।
सर्वाण्येवावलीयंते तथा ज्ञानानि चेतसि३७३।
एवं सर्वमहिंसायां धर्मोऽर्थश्च महीयते।
मृतः स नित्यं भवति यो हिंसां प्रतिपद्यते३७४।
अहिंसकस्ततः सम्यग्धृतिमान्नियतेंद्रियः।
शरण्यस्सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्३७५।
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः।
न मृत्युरधिकोभावः सोमृतत्वं च गच्छति३७६।
विमुक्तः सर्वसंगेभ्यो मुनिराकाशवत्स्थितः।
विष्णुप्रियकरः शांतस्तं देवा ब्राह्मणं विदुः३७७।
जीवितं यस्य धर्मार्थं धर्मोरत्यर्थमेव च।
अहोरात्रादि पुण्यार्थं तं देवा ब्राह्मणं विदुः३७८।
निवारितसमारंभं निर्नमस्कारमस्तुतिम्।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः३७९।
सर्वाणि भूतानि सुखं रमंते सर्वाणि दुःखानि भृशं भवंति।
तेषां भवोत्पादनजातखेदः कुर्यात्तु कर्माणि च श्रद्दधानः३८०।
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह।
तीक्ष्णे तनुं यः प्रथमं जुहोति सोनंतमाप्नोत्यभयं प्रजाभ्यः३८१।
उत्तानमास्येन हविर्जुहोति अनंतमाप्नोत्यभितः प्रतिष्ठाम्।
तस्यांगसंगादभिनिष्कृतं च वैश्वानरं सर्वमिदं प्रपेदे३८२।
प्रादेशमात्रं हृदभिस्रुतं यत्तस्मिन्प्राणेनात्मयाजी जुहोति।
तस्याग्निहोत्रे हुतमात्मसंस्थं सर्वेषु लोकेषु सदैव तेषु३८३।
देवं विधातुं त्रिवृतं सुवर्णं ये वै विदुस्तं परमार्थभूतम्।
ते सर्वभूतेषु महीयमाना देवाः समर्था अमृतं व्रजंति३८४।
वेदांश्च वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च।
सर्वं शरीरात्मनि यः प्रवेद तस्याभिसर्वे प्रचरंति नित्यम्३८५।
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं तं च समंडलांते।
प्रदक्षिणं दक्षिणमंतरिक्षे यो वेदनाप्यात्मनि दीप्तरश्मिः३८६।
आवर्तमानं च विवर्तमानं षण्नेमि यद्द्वादशारं त्रिपर्व।
यस्येदमास्यं परिपाति विश्वं तत्कालचक्रं निहितं गुहायाम्३८७।
यतः प्रसादं जगतः शरीरं सर्वांश्च लोकानधिगच्छतीह।
तस्मिन्हि संतर्पयतीह देवान्स वै विमुक्तो भवतीह नित्यम्३८८।
तेजोमयो नित्यमतः पुराणो लोके भवत्यर्थभयादुपैति।
भूतानि यस्मान्नभयं व्रजंति भूतेभ्यो यो नो द्विजते कदाचित्३८९।
अगर्हणीयो न च गर्हतेन्यान्स वै विप्रः प्रवरं स्वात्मनीक्षेत्।
विनीतमोहोप्यपनीतकल्मषो न चेह नामुत्र च योर्थमृच्छति३९०।
अरोषमोहः समलोष्टकांचनः प्रहीणशोको गतसंधिविग्रहः।
अपेतनिंदास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेव भिक्षुः३९१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे क्षेत्रवासमाहात्म्यं नाम पंचदशोध्यायः१५।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 16
भीष्म उवाच।
यदेतत्कथितं ब्रह्मंस्तीर्थमाहात्म्यमुत्तमम्।
कमलस्याभिपातेन तीर्थं जातं धरातले१।
तत्रस्थेन भगवता विष्णुना शंकरेण च।
यत्कृतं मुनिशार्दूल तत्सर्वं परिकीर्त्तय२।
कथं यज्ञो हि देवेन विभुना तत्र कारितः।
के सदस्या ऋत्विजश्च ब्राह्मणाः के समागताः३।
के भागास्तस्य यज्ञस्य किं द्रव्यं का चदक्षिणा।
का वेदी किं प्रमाणं च कृतं तत्र विरंचिना४।
यो याज्यः सर्वदेवानां वेदैः सर्वत्र पठ्यते।
कं च काममभिध्यायन्वेधा यज्ञं चकार ह५।
यथासौ देवदेवेशो ह्यजरश्चामरश्च ह।
तथा चैवाक्षयः स्वर्गस्तस्य देवस्य दृश्यते६।
अन्येषां चैव देवानां दत्तः स्वर्गो महात्मना।
अग्निहोत्रार्थमुत्पन्ना वेदा ओषधयस्तथा७।
ये चान्ये पशवो भूमौ सर्वे ते यज्ञकारणात्।
सृष्टा भगवतानेन इत्येषा वैदिकी श्रुतिः८।
तदत्र कौतुकं मह्यं श्रुत्वेदं तव भाषितम्।
यं काममधिकृत्यैकं यत्फलं यां च भावनां९।
कृतश्चानेन वै यज्ञः सर्वं शंसितुमर्हसि।
शतरूपा च या नारी सावित्री सा त्विहोच्यते१०।
भार्या सा ब्रह्मणः प्रोक्ताः ऋषीणां जननी च सा।
पुलस्त्याद्यान्मुनीन्सप्त दक्षाद्यांस्तु प्रजापतीन्११।
स्वायंभुवादींश्च मनून्सावित्री समजीजनत्।
धर्मपत्नीं तु तां ब्रह्मा पुत्रिणीं ब्रह्मणः प्रियः१२।
पतिव्रतां महाभागां सुव्रतां चारुहासिनीं।
कथं सतीं परित्यज्य भार्यामन्यामविंदत१३।
किं नाम्नी किं समाचारा कस्य सा तनया विभोः।
क्व सा दृष्टा हि देवेन केन चास्य प्रदर्शिता१४।
किं रूपा सा तु देवेशी दृष्टा चित्तविमोहिनी।
यां तु दृष्ट्वा स देवेशः कामस्य वशमेयिवान्१५।
वर्णतो रूपतश्चैव सावित्र्यास्त्वधिका मुने।
या मोहितवती देवं सर्वलोकेश्वरं विभुम्१६।
यथा गृहीतवान्देवो नारीं तां लोकसुंदरीं।
यथा प्रवृत्तो यज्ञोसौ तथा सर्वं प्रकीर्तय१७।
तां दृष्ट्वा ब्रह्मणः पार्श्वे सावित्री किं चकार ह।
सावित्र्यां तु तदा ब्रह्मा कां तु वृत्तिमवर्त्तत१८।
सन्निधौ कानि वाक्यानि सावित्री ब्रह्मणा तदा।
उक्ताप्युक्तवती भूयः सर्वं शंसितुमर्हसि१९।
किं कृतं तत्र युष्माभिः कोपो वाथ क्षमापि वा।
यत्कृतं तत्र यद्दृष्टं यत्तवोक्तं मया त्विह२०।
विस्तरेणेह सर्वाणि कर्माणि परमेष्ठिनः।
श्रोतुमिच्छाम्यशेषेण विधेर्यज्ञविधिं परं२१।
कर्मणामानुपूर्व्यं च प्रारंभो होत्रमेव च।
होतुर्भक्षो यथाऽचापि प्रथमा कस्य कारिता२२।
कथं च भगवान्विष्णुः साहाय्यं केन कीदृशं।
अमरैर्वा कृतं यच्च तद्भवान्वक्तुमर्हति२३।
देवलोकं परित्यज्य कथं मर्त्यमुपागतः।
गार्हपत्यं च विधिना अन्वाहार्यं च दक्षिणम्२४।
अग्निमाहवनीयं च वेदीं चैव तथा स्रुवम्।
प्रोक्षणीयं स्रुचं चैव आवभृथ्यं तथैव च२५।
अग्नींस्त्रींश्च यथा चक्रे हव्यभागवहान्हि वै।
हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि२६।
भागार्थं यज्ञविधिना ये यज्ञा यज्ञकर्मणि।
यूपान्समित्कुशं सोमं पवित्रं परिधीनपि२७।
यज्ञियानि च द्रव्याणि यथा ब्रह्मा चकार ह।
विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्मणा२८।
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च।
मुहूर्तास्तिथयो मासा दिनं संवत्सरस्तथा२९।
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं पुरा।
आयुः क्षेत्राण्यपचयं लक्षणं रूपसौष्ठवम्३०।
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः।
त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयो गुणाः३१।
सृष्टा लोकाः पराः स्रष्ट्रा ये चान्येनल्पचेतसा।
या गतिर्धर्मयुक्तानां या गतिः पापकर्मणां३२।
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता।
चतुर्विद्यस्य यो वेत्ता चतुराश्रमसंश्रयः३३।
यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः।
यः परं परतः प्राह परं यः परमात्मवान्३४।
सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम्।
वेद्यो यो वेदविदुषां यः प्रभुः प्रभवात्मनाम्३५।
असुभूतश्च भूतानामग्निभूतोग्निवर्चसाम्।
मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम्३६।
विनयो नयवृत्तीनां तेजस्तेजस्विनामपि।
इत्येतत्सर्वमखिलान्सृजन्लोकपितामहः३७।
यज्ञाद्गतिं कामन्वैच्छत्कथं यज्ञे मतिः कृता।
एष मे संशयो ब्रह्मन्नेष मे संशयः परः३८।
आश्चर्यः परमो ब्रह्मा देवैर्दैत्यैश्च पठ्यते।
कर्मणाश्चर्यभूतोपि तत्त्वतः स इहोच्यते३९।
पुलस्त्य उवाच।
प्रश्नभारो महानेष त्वयोक्तो ब्रह्मणश्च यः।
यथाशक्ति तु वक्ष्यामि श्रूयतां तत्परं यशः४०।
सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम्।
सहस्रश्रवणं चैव सहस्रकरमव्ययम्४१।
सहस्रजिह्वं साहस्रं सहस्रपरमं प्रभुं।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम्४२।
हवनं सवनं चैव हव्यं होतारमेव च।
पात्राणि च पवित्राणि वेदीं दीक्षां चरुं स्रुवम्४३।
स्रुक्सोममवभृच्चैव प्रोक्षणीं दक्षिणा धनम्।
अद्ध्वर्युं सामगं विप्रं सदस्यान्सदनं सदः४४।
यूपं समित्कुशं दर्वी चमसोलूखलानि च।
प्राग्वंशं यज्ञभूमिं च होतारं बन्धनं च यत्४५।
ह्रस्वान्यतिप्रमाणानि प्रमाणस्थावराणि च।
प्रायश्चित्तानि वाजाश्च स्थंडिलानि कुशास्तथा४६।
मंत्रं यज्ञं च हवनं वह्निभागं भवं च यं।
अग्रेभुजं होमभुजं शुभार्चिषमुदायुधं४७।
आहुर्वेदविदो विप्रा यो यज्ञः शाश्वतः प्रभुः।
यां पृच्छसि महाराज पुण्यां दिव्यामिमां कथां४८।
यदर्थं भगवान्ब्रह्मा भूमौ यज्ञमथाकरोत्।
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च४९।
ब्रह्माथ कपिलश्चैव परमेष्ठी तथैव च।
देवाः सप्तर्षयश्चैव त्र्यंबकश्च महायशाः५० 1.16.50।
सनत्कुमारश्च महानुभावो मनुर्महात्मा भगवान्प्रजापतिः।
पुराणदेवोथ तथा प्रचक्रे प्रदीप्तवैश्वानरतुल्यतेजाः५१।
पुरा कमलजातस्य स्वपतस्तस्य कोटरे।
पुष्करे यत्र संभूता देवा ऋषिगणास्तथा५२।
एष पौष्करको नाम प्रादुर्भावो महात्मनः।
पुराणं कथ्यते यत्र वेदस्मृतिसुसंहितं५३।
वराहस्तु श्रुतिमुखः प्रादुर्भूतो विरिंचिनः।
सहायार्थं सुरश्रेष्ठो वाराहं रूपमास्थितः५४।
विस्तीर्णं पुष्करे कृत्वा तीर्थं कोकामुखं हि तत्।
वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः५५।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः।
अहोरात्रेक्षणो दिव्यो वेदांगः श्रुतिभूषणः५६।
आज्यनासः स्रुवतुंडः सामघोषस्वनो महान्।
सत्यधर्ममयः श्रीमान्कर्मविक्रमसत्कृतः५७।
प्रायश्चित्तनखो धीरः पशुजानुर्मखाकृतिः।
उद्गात्रांत्रो होमलिंगो फलबीजमहौषधिः५८।
वाय्वंतरात्मा मंत्रास्थिरापस्फिक्सोमशोणितः।
वेदस्कंधो हविर्गंधो हव्यकव्यातिवेगवान्५९।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरर्चितः।
दक्षिणाहृदयो योगी महासत्रमयो महान्६०।
उपाकर्मेष्टिरुचिरः प्रवर्ग्यावर्तभूषणः।
छायापत्नीसहायो वै मणिशृंगमिवोच्छ्रितः६१।
सर्वलोकहितात्मा यो दंष्ट्रयाभ्युज्जहारगाम्।
ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः६२।
ततो जगाम निर्वाणं पृथिवीधारणाद्धरिः।
एवमादिवराहेण धृत्वा ब्रह्महितार्थिना६३।
उद्धृता पुष्करे पृथ्वी सागरांबुगता पुरा।
वृतः शमदमाभ्यां यो दिव्ये कोकामुखे स्थितः६४।
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः६५।
दिग्भिर्विदिग्भिः पृथिवी नदीभिः सह सागरैः।
चराचरगुरुः श्रीमान्ब्रह्मा ब्रह्मविदांवरः६६।
उवाच वचनं कोकामुखं तीर्थं त्वया विभो।
पालनीयं सदा गोप्यं रक्षा कार्या मखे त्विह६७।
एवं करिष्ये भगवंस्तदा ब्रह्माणमुक्तवान्।
उवाच तं पुनर्ब्रह्मा विष्णुं देवं पुरः स्थितम्६८।
त्वं हि मे परमो देवस्त्वं हि मे परमो गुरुः।
त्वं हि मे परमं धाम शक्रादीनां सुरोत्तम६९।
उत्फुल्लामलपद्माक्ष शत्रुपक्ष क्षयावह।
यथा यज्ञेन मे ध्वंसो दानवैश्च विधीयते७०।
तथा त्वया विधातव्यं प्रणतस्य नमोस्तु ते।
विष्णुरुवाच।
भयं त्यजस्व देवेश क्षयं नेष्यामि दानवान्७१।
ये चान्ते विघ्नकर्तारो यातुधानास्तथाऽसुराः।
घातयिष्याम्यहं सर्वान्स्वस्ति तिष्ठ पितामह७२।
एवमुक्त्वा स्थितस्तत्र साहाय्येन कृतक्षणः।
प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश७३।
सुप्रभाणि च ज्योतींषि चंद्रं चक्रुः प्रदक्षिणम्।
न विग्रहं ग्रहाश्चक्रुः प्रसेदुश्चापि सिंधवः७४।
नीरजस्का भूमिरासीत्सकला ह्लाददास्त्वपः।
जग्मुः स्वमार्गं सरितो नापि चुक्षुभुरर्णवाः७५।
आसन्शुभानींद्रियाणि नराणामंतरात्मनाम्।
महर्षयो वीतशोका वेदानुच्चैरवाचयन्७६।
यज्ञे तस्मिन्हविः पाके शिवा आसंश्च पावकाः।
प्रवृत्तधर्मसद्वृत्ता लोका मुदितमानसाः७७।
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधना गिरः।
ततो देवाः समायाता दानवा राक्षसैस्सह७८।
भूतप्रेतपिशाचाश्च सर्वे तत्रागताः क्रमात्।
गंधर्वाप्सरसश्चैव नागा विद्याधरागणाः७९।
वानस्पत्याश्चौषधयो यच्चेहेद्यच्च नेहति।
ब्रह्मादेशान्मारुतेन आनीताः सर्वतो दिशः८०।
यज्ञपर्वतमासाद्य दक्षिणामभितोदिशम्।
सुरा उत्तरतः सर्वे मर्यादापर्वते स्थिताः८१।
गंधर्वाप्सरसश्चैव मुनयो वेदपारगाः।
पश्चिमां दिशमास्थाय स्थितास्तत्र महाक्रतौ८२।
सर्वे देवनिकायाश्च दानवाश्चासुरागणाः।
अमर्षं पृष्ठतः कृत्वा सुप्रीतास्ते परस्परम्८३।
ऋषीन्पर्यचरन्सर्वे शुश्रूषन्ब्राह्मणांस्तथा।
ऋषयो ब्रह्मर्षयश्च द्विजा देवर्षयस्तथा८४।
राजर्षयो मुख्यतमास्समायाताः समंततः।
कतमश्च सुरोप्यत्र क्रतौ याज्यो भविष्यति८५।
पशवः पक्षिणश्चैव तत्र याता दिदृक्षवः।
ब्राह्मणा भोक्तुकामाश्च सर्वे वर्णानुपूर्वशः८६।
स्वयं च वरुणो रत्नं दक्षश्चान्नं स्वयं ददौ।
आगत्यवरुणोलोकात्पक्वंचान्नंस्वतोपचत्८७।
वायुर्भक्षविकारांश्च रसपाची दिवाकरः।
अन्नपाचनकृत्सोमो मतिदाता बृहस्पतिः८८।
धनदानं धनाध्यक्षो वस्त्राणि विविधानि च।
सरस्वती नदाध्यक्षो गंगादेवी सनर्मदा८९।
याश्चान्याः सरितः पुण्याः कूपाश्चैव जलाशयाः।
पल्वलानि तटाकानि कुंडानि विविधानि च९०।
प्रस्रवाणि च मुख्यानि देवखातान्यनेकशः।
जलाशयानि सर्वाणि समुद्राः सप्तसंख्यकाः९१।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्।
सप्तलोकाः सपातालाः सप्तद्वीपाः सपत्तनाः९२।
वृक्षा वल्ल्यः सतृणानि शाकानि च फलानि च।
पृथिवीवायुराकाशमापोज्योतिश्च पंचमम्९३।
सविग्रहाणि भूतानि धर्मशास्त्राणि यानि च।
वेदभाष्याणि सूत्राणि ब्रह्मणा निर्मितं च यत्९४।
अमूर्तं मूर्तमत्यन्तं मूर्तदृश्यं तथाखिलम्।
एवं कृते तथास्मिंस्तु यज्ञे पैतामहे तदा९५।
देवानां संनिधौ तत्र ऋषिभिश्च समागमे।
ब्रह्मणो दक्षिणे पार्श्वे स्थितो विष्णुः सनातनः९६।
वामपार्श्वे स्थितो रुद्रः पिनाकी वरदः प्रभुः।
ऋत्विजां चापि वरणं कृतं तत्र महात्मना९७।
भृगुर्होतावृतस्तत्र पुलस्त्योध्वर्य्युसत्तमः।
तत्रोद्गाता मरीचिस्तु ब्रह्मा वै नारदः कृतः९८।
सनत्कुमारादयो ये सदस्यास्तत्र ते भवन्।
प्रजापतयो दक्षाद्या वर्णा ब्राह्मणपूर्वकाः९९।
ब्रह्मणश्च समीपे तु कृता ऋत्विग्विकल्पना।
वस्त्रैराभरणैर्युक्ताः कृता वैश्रवणेन ते१०० 1.16.100।
अंगुलीयैः सकटकैर्मकुटैर्भूषिता द्विजाः।
चत्वारो द्वौ दशान्ये च त षोडशर्त्विजः१०१।
ब्रह्मणा पूजिताः सर्वे प्रणिपातपुरःसरम्।
अनुग्राह्यो भवद्भिस्तु सर्वैरस्मिन्क्रताविह१०२।
पत्नी ममैषा सावित्री यूयं मे शरणंद्विजाः।
विश्वकर्माणमाहूय ब्रह्मणः शीर्षमुंडनं१०३।
यज्ञे तु विहितं तस्य कारितं द्विजसत्तमैः।
आतसेयानि वस्त्राणि दंपत्यर्थे तथा द्विजैः१०४।
ब्रह्मघोषेण ते विप्रा नादयानास्त्रिविष्टपम्।
पालयंतो जगच्चेदं क्षत्रियाः सायुधाः स्थिताः१०५।
भक्ष्यप्रकारान्विविधिन्वैश्यास्तत्र प्रचक्रिरे।
रसबाहुल्ययुक्तं च भक्ष्यं भोज्यं कृतं ततः१०६।
अश्रुतं प्रागदृष्टं च दृष्ट्वा तुष्टः प्रजापतिः।
प्राग्वाटेति ददौ नाम वैश्यानां सृष्टिकृद्विभुः१०७।
द्विजानां पादशुश्रूषा शूद्रैः कार्या सदा त्विह।
पादप्रक्षालनं भोज्यमुच्छिष्टस्य प्रमार्जनं१०८।
तेपि चक्रुस्तदा तत्र तेभ्यो भूयः पितामहः।
शूश्रूषार्थं मया यूयं तुरीये तु पदे कृताः१०९।
द्विजानां क्षत्रबन्धूनां बन्धूनां च भवद्विधैः।
त्रिभ्यश्शुश्रूषणा कार्येत्युक्त्वा ब्रह्मा तथाऽकरोत्११०।
द्वाराध्यक्षं तथा शक्रं वरुणं रसदायकम्।
वित्तप्रदं वैश्रवणं पवनं गंधदायिनम्१११।
उद्योतकारिणं सूर्यं प्रभुत्वे माधवः स्थितः।
सोमः सोमप्रदस्तेषां वामपक्ष पथाश्रितः११२।
सुसत्कृता च पत्नी सा सवित्री च वरांगना।
अध्वर्युणा समाहूता एहि देवि त्वरान्विता११३।
उत्थिताश्चाग्नयः सर्वे दीक्षाकाल उपागतः।
व्यग्रा सा कार्यकरणे स्त्रीस्वभावेन नागता११४।
इहवै न कृतं किंचिद्द्वारे वै मंडनं मया।
भित्त्यां वैचित्रकर्माणि स्वस्तिकं प्रांगणेन तु११५।
प्रक्षालनं च भांडानां न कृतं किमपि त्विह।
लक्ष्मीरद्यापि नायाता पत्नीनारायणस्य या११६।
अग्नेः पत्नी तथा स्वाहा धूम्रोर्णा तु यमस्य तु।
वारुणी वै तथा गौरी वायोर्वै सुप्रभा तथा११७।
ऋद्धिर्वैश्रवणी भार्या शम्भोर्गौरी जगत्प्रिया।
मेधा श्रद्धा विभूतिश्च अनसूया धृतिः क्षमा११९।
गंगा सरस्वती चैव नाद्या याताश्च कन्यकाः।
इंद्राणी चंद्रपत्नी तु रोहिणी शशिनः प्रियाः१२०।
अरुंधती वसिष्ठस्य सप्तर्षीणां च याः स्त्रियः।
अनसूयात्रिपत्नी च तथान्याः प्रमदा इह१२१।
वध्वो दुहितरश्चैव सख्यो भगिनिकास्तथा।
नाद्यागतास्तु ताः सर्वा अहं तावत्स्थिता चिरं१२२।
नाहमेकाकिनी यास्ये यावन्नायांति ता स्त्रियः।
ब्रूहि गत्वा विरंचिं तु तिष्ठ तावन्मुहूर्तकम्१२३।
सर्वाभिः सहिता चाहमागच्छामि त्वरान्विता।
सर्वैः परिवृतः शोभां देवैः सह महामते१२४।
भवान्प्राप्नोति परमां तथाहं तु न संशयः।
वदमानां तथाध्वर्युस्त्यक्त्वा ब्रह्माणमागतः१२५।
सावित्री व्याकुला देव प्रसक्ता गृहकर्माणि।
सख्यो नाभ्यागता यावत्तावन्नागमनं मम१२६।
एवमुक्तोस्मि वै देव कालश्चाप्यतिवर्त्तते।
यत्तेद्य रुचितं तावत्तत्कुरुष्व पितामह१२७।
एवमुक्तस्तदा ब्रह्मा किंचित्कोपसमन्वितः।
पत्नीं चान्यां मदर्थे वै शीघ्रं शक्र इहानय१२८।
यथा प्रवर्तते यज्ञः कालहीनो न जायते।
तथा शीघ्रं विधित्स्व त्वं नारीं कांचिदुपानय१२९।
यावद्यज्ञसमाप्तिर्मे वर्णे त्वां मा कृथा मनः।
भूयोपि तां प्रमोक्ष्यामि समाप्तौ तु क्रतोरिह१३०।
एवमुक्तस्तदा शक्रो गत्वा सर्वं धरातलं।
स्त्रियो दृष्टाश्च यास्तेन सर्वाः परपरिग्रहाः१३१।
आभीरकन्या रूपाढ्या सुनासा चारुलोचना।
न देवी न च गंधर्वी नासुरी न च पन्नगी१३२।
न चास्ति तादृशी कन्या यादृशी सा वरांगना।
ददर्श तां सुचार्वंगीं श्रियं देवीमिवापराम्१३३।
संक्षिपन्तीं मनोवृत्ति विभवं रूपसंपदा।
यद्यत्तु वस्तुसौंदर्याद्विशिष्टं लभ्यते क्वचित्१३४।
तत्तच्छरीरसंलग्नं तन्वंग्या ददृशे वरम्।
तां दृष्ट्वा चिंतयामास यद्येषा कन्यका भवेत्१३५।
तन्मत्तः कृतपुण्योन्यो न देवो भुवि विद्यते।
योषिद्रत्नमिदं सेयं सद्भाग्यायां पितामहः१३६।
सरागो यदि वा स्यात्तु सफलस्त्वेष मे श्रमः।
नीलाभ्र कनकांभोज विद्रुमाभां ददर्श तां१३७।
त्विषं संबिभ्रतीमंगैः केशगंडे क्षणाधरैः।
मन्मथाशोकवृक्षस्य प्रोद्भिन्नां कलिकामिव१३८।
प्रदग्धहृच्छयेनैव नेत्रवह्निशिखोत्करैः।
धात्रा कथं हि सा सृष्टा प्रतिरूपमपश्यता१३९।
कल्पिता चेत्स्वयं बुध्या नैपुण्यस्य गतिः परा।
उत्तुंगाग्राविमौ सृष्टौ यन्मे संपश्यतः सुखं१४०।
पयोधरौ नातिचित्रं कस्य संजायते हृदि।
रागोपहतदेहोयमधरो यद्यपि स्फुटम्१४१।
तथापि सेवमानस्य निर्वाणं संप्रयच्छति।
वहद्भिरपि कौटिल्यमलकैः सुखमर्प्यते१४२।
दोषोपि गुणवद्भाति भूरिसौंदर्यमाश्रितः।
नेत्रयोर्भूषितावंता वाकर्णाभ्याशमागतौ१४३।
कारणाद्भावचैतन्यं प्रवदंति हि तद्विदः।
कर्णयोर्भूषणे नेत्रे नेत्रयोः श्रवणाविमौ१४४।
कुंडलांजनयोरत्र नावकाशोस्ति कश्चन।
न तद्युक्तं कटाक्षाणां यद्द्विधाकरणं हृदि१४५।
तवसंबंधिनोयेऽत्र कथं ते दुःखभागिनः।
सर्वसुंदरतामेति विकारः प्राकृतैर्गुणैः१४६।
वृद्धे क्षणशतानां तु दृष्टमेषा मया धनम्।
धात्रा कौशल्यसीमेयं रूपोत्पत्तौ सुदर्शिता१४७।
करोत्येषा मनो नॄणां सस्नेहं कृतिविभ्रमैः।
एवं विमृशतस्तस्य तद्रूपापहृतत्विषः१४८।
निरंतरोद्गतैश्छन्नमभवत्पुलकैर्वपुः।
तां वीक्ष्य नवहेमाभां पद्मपत्रायतेक्षणाम्१४९।
देवानामथ यक्षाणां गंधर्वोरगरक्षसाम्।
नाना दृष्टा मया नार्यो नेदृशी रूपसंपदा१५० 1.16.150।
त्रैलोक्यांतर्गतं यद्यद्वस्तुतत्तत्प्रधानतः।
समादाय विधात्रास्याः कृता रूपस्य संस्थितिः१५१।
इंद्र उवाच।
कासि कस्य कुतश्च त्वमागता सुभ्रु कथ्यताम्।
एकाकिनी किमर्थं च वीथीमध्येषु तिष्ठसि१५२।
यान्येतान्यंगसंस्थानि भूषणानि बिभर्षि च।
नैतानि तव भूषायै त्वमेतेषां हि भूषणम्१५३।
न देवी न च गंधर्वी नासुरी न च पन्नगी।
किन्नरी दृष्टपूर्वा वा यादृशी त्वं सुलोचने१५४।
उक्ता मयापि बहुशः कस्माद्दत्से हि नोत्तरम्।
त्रपान्विता तु सा कन्या शक्रं प्रोवाच वेपती१५५।
गोपकन्या त्वहं वीर विक्रीणामीह गोरसम्।
नवनीतमिदं शुद्धं दधि चेदं विमंडकम्१५६।
दध्ना चैवात्र तक्रेण रसेनापि परंतप।
अर्थी येनासि तद्ब्रूहि प्रगृह्णीष्व यथेप्सितम्१५७।
एवमुक्तस्तदा शक्रो गृहीत्वा तां करे दृढम्।
अनयत्तां विशालाक्षीं यत्र ब्रह्मा व्यवस्थितः१५८।
नीयमाना तु सा तेन क्रोशंती पितृमातरौ।
हा तात मातर्हा भ्रातर्नयत्येष नरो बलात्१५९।
यदि वास्ति मया कार्यं पितरं मे प्रयाचय।
स दास्यति हि मां नूनं भवतः सत्यमुच्यते१६०।
का हि नाभिलषेत्कन्या भर्तांरं भक्तिवत्सलम्।
नादेयमपि ते किंचित्पितुर्मे धर्मवत्सल१६१।
प्रसादये तं शिरसा मां स तुष्टः प्रदास्यति।
पितुश्चित्तमविज्ञाय यद्यात्मानं ददामि ते१६२।
धर्मो हि विपुलो नश्येत्तेन त्वां न प्रसादये।
भविष्यामि वशे तुभ्यं यदि तातः प्रदास्यति१६३।
इत्थमाभाष्यमाणस्तु तदा शक्रोऽनयच्च ताम्।
ब्रह्मणः पुरतः स्थाप्य प्राहास्यार्थे मयाऽबले१६४।
आनीतासि विशालाक्षि मा शुचो वरवर्णिनि।
गोपकन्यामसौ दृष्ट्वा गौरवर्णां महाद्युतिम्१६५।
कमलामेव तां मेने पुंडरीकनिभेक्षणाम्।
तप्तकांचनसद्भित्ति सदृशा पीनवक्षसम्१६६।
मत्तेभहस्तवृत्तोरुं रक्तोत्तुंग नखत्विषं।
तं दृष्ट्वाऽमन्यतात्मानं सापि मन्मनथचरम्१६७।
तत्प्राप्तिहेतु क धिया गतचित्तेव लक्ष्यते।
प्रभुत्वमात्मनो दाने गोपकन्याप्यमन्यत१६८।
यद्येष मां सुरूपत्वादिच्छत्यादातुमाग्रहात्।
नास्ति सीमंतिनी काचिन्मत्तो धन्यतरा भुवि१६९।
अनेनाहं समानीता यच्चक्षुर्गोचरं गता।
अस्य त्यागे भवेन्मृत्युरत्यागे जीवितं सुखम्१७०।
भवेयमपमानाच्च धिग्रूपा दुःखदायिनी।
दृश्यते चक्षुषानेन यापि योषित्प्रसादतः१७१।
सापि धन्या न संदेहः किं पुनर्यां परिष्वजेत्।
जगद्रूपमशेषं हि पृथक्संचारमाश्रितम्१७२।
लावण्यं तदिहैकस्थं दर्शितं विश्वयोनिना।
अस्योपमा स्मरः साध्वी मन्मथस्य त्विषोपमा१७३।
तिरस्कृतस्तु शोकोयं पिता माता न कारणम्।
यदि मां नैष आदत्ते स्वल्पं मयि न भाषते१७४।
अस्यानुस्मरणान्मृत्युः प्रभविष्यति शोकजः।
अनागसि च पत्न्यां तु क्षिप्रं यातेयमीदृशी१७५।
कुचयोर्मणिशोभायै शुद्धाम्बुज समद्युतिः।
मुखमस्य प्रपश्यंत्या मनो मे ध्यानमागतम्१७६।
अस्यांगस्पर्शसंयोगान्न चेत्त्वं बहु मन्यसे।
स्पृशन्नटसि तर्हि न त्वं शरीरं वितथं परम्१७७।
अथवास्य न दोषोस्ति यदृच्छाचारको ह्यसि।
मुषितः स्मर नूनं त्वं संरक्ष स्वां प्रियां रतिम्१७८।
त्वत्तोपि दृश्यते येन रूपेणायं स्मराधिकः।
ममानेन मनोरत्न सर्वस्वं च हृतं दृढम्१७९।
शोभा या दृश्यते वक्त्रे सा कुतः शशलक्ष्मणि।
नोपमा सकलं कस्य निष्कलंकेन शस्यते१८०।
समानभावतां याति पंकजं नास्य नेत्रयोः।
कोपमा जलशंखेन प्राप्ता श्रवणशंङ्खयोः१८१।
विद्रुमोप्यधरस्यास्य लभते नोपमां ध्रुवम्।
आत्मस्थममृतं ह्येष संस्रवंश्चेष्टते ध्रुवम्१८२।
यदि किंचिच्छुभं कर्म जन्मांतरशतैः कृतम्।
तत्प्रसादात्पुनर्भर्ता भवत्वेष ममेप्सितः१८३।
एवं चिंतापराधीना यावत्सा गोपकन्यका।
तावद्ब्रह्मा हरिं प्राह यज्ञार्थं सत्वरं वचः१८४।
देवी चैषा महाभागा गायत्री नामतः प्रभो।
एवमुक्ते तदा विष्णुर्ब्रह्माणं प्रोक्तवानिदम्१८५।
तदेनामुद्वहस्वाद्य मया दत्तां जगत्प्रभो।
गांधर्वेण विवाहेन विकल्पं मा कृथाश्चिरम्१८६।
अमुं गृहाण देवाद्य अस्याः पाणिमनाकुलम्।
गांधेर्वेण विवाहेन उपयेमे पितामहः१८७।
तामवाप्य तदा ब्रह्मा जगादाद्ध्वर्युसत्तमम्।
कृता पत्नी मया ह्येषा सदने मे निवेशय१८८।
मृगशृंगधरा बाला क्षौमवस्त्रावगुंठिता।
पत्नीशालां तदा नीता ऋत्विग्भिर्वेदपारगैः१८९।
औदुंबेरण दंडेन प्रावृतो मृगचर्मणा।
महाध्वरे तदा ब्रह्मा धाम्ना स्वेनैव शोभते१९०।
प्रारब्धं च ततो होत्रं ब्राह्मणैर्वेदपारगैः।
भृगुणा सहितैः कर्म वेदोक्तं तैः कृतं तदा।
तथा युगसहस्रं तु स यज्ञः पुष्करेऽभवत्१९१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गायत्रीसंग्रहोनाम षोडशोऽध्यायः१६।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 17
"भीष्म-उवाच।
तस्मिन्यज्ञे किमाश्चर्यं तदासीद्द्विजसत्तम।
कथं रुद्रःस्थितस्तत्र विष्णुश्चापि सुरोत्तमः।१।
आभीर:पुत्री गायत्र्या किं कृतं तत्र पत्नीत्वे स्थितया तया।
आभीरा: किं सुवृत्तज्ञैर्ज्ञात्वा तैश्च कृतं मुने।२।
एतद्वृत्तं समाचक्ष्व यथावृत्तं यथाकृतम्।
आभीरैर्ब्राह्मणाचापि ममैतत्कौतुकं महत्।३।
"पुलस्त्य उवाच।
तस्मिन्यज्ञे यदाश्चर्यं वृत्तमासीन्नराधिप।
कथयिष्यामि तत्सर्वं शृणुष्वैकमना नृप।४।
रुद्रस्तु महदाश्चर्यं कृतवान्वै सदो गतः।
निन्द्यरूपधरो देवस्तत्रायाद्द्विजसन्निधौ।५।
विष्णुना न कृतं किञ्चित्प्राधान्ये स यतःस्थितः।
नाशं तु गोपकन्याया ज्ञात्वा गोपकुमारकाः।६।
गोप्यश्च तास्तथा सर्वा आगता ब्रह्मणोन्तिकम्।
दृष्ट्वा तां मेखलाबद्धां यज्ञसीमव्यस्थिताम्।७।
हा पुत्रीति तदा माता पिता हा पुत्रिकेति च।
स्वसेति बान्धवाः सर्वे सख्यः सख्येन हासखि।८।
केन त्वमिह चानीता अलक्तांका तु सुन्दरी।
शाटीं निवृत्तांकृत्वा तु केन युक्ता च कम्बली।९।
केन चेयं जटा पुत्रि रक्तसूत्रावकल्पिता।
एवंविधानि वाक्यानि श्रुत्वोवाच स्वयंहरिः।१०।
इह चास्माभिरानीता पत्न्यर्थं विनियोजिता।
ब्रह्मणालम्बिता बाला प्रलापं माकृथास्त्विह।११।
पुण्या चैषा सुभाग्या च सर्वेषां कुलनन्दिनी।
पुण्या चेन्न भवत्येषा कथमागच्छते सदः।१२।
एवं ज्ञात्वा महाभागन त्वं शोचितुमर्हसि।
कन्यैषा ते महाभागा प्राप्ता देवं विरिंचनम्।१३।
योगिनो योगयुक्ता ये ब्राह्मणा वेदपारगाः।
न लभन्ते प्रार्थयन्तस्तां गतिं दुहिता गता।१४।
*धर्मवन्तं सदाचारं भवन्तं धर्मवत्सलम्।
मया ज्ञात्वा ततः कन्या दत्ताचैषा विरञ्चये।१५।
अनया-आभीरकन्याया तारितो गच्छ! *दिव्यान्लोकान्महोदयान्।
युष्माकं च कुले चापि देवकार्यार्थसिद्धये।१६।
*अवतारं करिष्येहं सा क्रीडा तु भविष्यति।
यदा नन्दप्रभृतयो ह्यवतारं धरातले।१७।
करिष्यन्ति तदा चाहं वसिष्ये तेषु मध्यतः।
युष्माकं कन्यकाः सर्वा वसिष्यन्ति मया सह।१८।
तत्र दोषो न भविता न द्वेषो न च मत्सरः।
करिष्यन्ति तदा गोपा भयं च न मनुष्यकाः।१९।
न चास्याभविता दोषः कर्मणानेन कर्हिचित्।
श्रुत्वा वाक्यं तदा विष्णोःप्रणिपत्य ययुस्तदा।२०।
एवमेष वरो देव यो दत्तो भविता हि मे।
अवतारः कुलेस्माकं कर्तव्यो धर्मसाधनः।२१।
भवतो दर्शनादेव भवामः स्वर्गवासिनः।
शुभदा कन्यका चैषा तारिणी मे कुलैः सह।२२।
एवं भवतु देवेश वरदानं विभो तव।
अनुनीतास्तदा गोपाः स्वयं देवेन विष्णुना।२३।
ब्रह्मणाप्येवमेवं तु वामहस्तेन भाषितम्।
त्रपान्विता दर्शने तु बन्धूनां वरवर्णिनी।२४।
कैरहं तु समाख्याता येनेमं देशमागताः।
दृष्ट्वा तु तांस्ततः प्राह गायत्री आभीरकन्यका।२५।
वामहस्तेन तान्सर्वान्प्राणिपातपुरःसरम्।
अत्र चाहं स्थिता मातर्ब्रह्माणं समुपागता।२६।
भर्ता लब्धो मया देवः सर्वस्याद्योजगत्पतिः।
नाहंशोच्या भवत्यातु न पित्रा न च बान्धवैः।२७।
सखीगणश्च मे यातु भगिन्यो दारकैः सह।
सर्वेषां कुशलं वाच्यं स्थितास्मि सह दैवतैः।२८।
गतेषु तेषु सर्वेषु गायत्री सा सुमध्यमा।
ब्रह्मणा सहिता रेजे यज्ञवाटं गता सती।२९।
याचितो ब्राह्मणैर्ब्रह्मा वरान्नो देहि चेप्सितान्।
यथेप्सितं वरं तेषां तदाब्रह्माप्ययच्छत।३०।
तया देव्या च गायत्र्या दत्तं तच्चानुमोदितम्।
सा तु यज्ञे स्थिता साध्वीदेवतानां समीपगा।३१।
दिव्यंवर्षशतं साग्रं स यज्ञो ववृधे तदा।
यज्ञवाटं कपर्दीतु भिक्षार्थं समुपागतः।३२।
बृहत्कपालं संगृह्य पञ्चमुण्डैरलंकृतः।
ऋत्विग्भिश्च सदस्यैश्च दूरात्तिष्ठन्जुगुप्सितः।३३।
कथं त्वमिह सम्प्राप्तो निन्दितो वेदवादिभिः।
एवं प्रोत्सार्यमाणोपि निन्द्यमानः स तैर्द्विजैः।३४।
उवाच तान्द्विजान्सर्वान्स्मितं कृत्वा महेश्वरः।
अत्र पैतामहे यज्ञे सर्वेषां तोषदायिनि।३५।
कश्चिदुत्सार्य तेनैव ऋतेमां द्विजसत्तमाः।
उक्तः स तैःकपर्दी तु भुक्त्वा चान्नंततो व्रज।३६।
कपर्दिना च ते उक्ता भुक्त्वा यास्यामि भो द्विजाः।
एवमुक्त्वा निषण्णः सकपालं न्यस्य चाग्रतः।३७।
तेषां निरीक्ष्य तत्कर्म चक्रे कौटिल्यमीश्वरः।
मुक्त्वा कपालं भूमौ तु तान्द्विजानवलोकयन्।३८।
उवाच पुष्करं यामि स्नानार्थं द्विजसत्तमाः।
तूर्णं गच्छेति तैरुक्तः स गतः परमेश्वरः।३९।
वियत्स्थितः कौतुकेन मोहयित्वा दिवौकसः।
स्नानार्थं पुष्करं याते कपर्दिनि द्विजातयः।४०।
कथं होमोत्र क्रियते कपाले सदसि स्थिते।
कपालान्तान्यशौचानि पुरा प्राह प्रजापतिः।४१।
विप्रोभ्यधात्सदस्येकः कपालमुत्क्षिपाम्यहं।
उद्धृतं तु सदस्येन प्रक्षिप्तं पाणिना स्वयम्।४२।
तावदन्यत्स्थितं तत्र पुनरेव समुद्धृतम्।
एवं द्वितीयं तृतीयं विंशतिस्त्रिंशदप्यहो।४३।
पञ्चाशच्च शतं चैव सहस्रमयुतं तथा।
एवं नान्तः कपालानां प्राप्यते द्विजसत्तमैः।४४।
नत्वा कपर्दिनं देवं शरणं समुपागताः।
पुष्करारण्यमासाद्य जप्यैश्च वैदिकैर्भृशम्।४५।
तुष्टुवुः सहिताः सर्वे तावत्तुष्टो हरः स्वयम्।
ततः सदर्शनं प्रादाद्द्विजानां भक्तितः शिवः।४६।
उवाच तांस्ततो देवो भक्तिनम्रान्द्विजोत्तमान्।
पुरोडाशस्य निष्पत्तिः कपालं न विना भवेत्।४७।
कुरुध्वं वचनं विप्राः भागः स्विष्टकृतो मम।
एवं कृते कृतं सर्वं मदीयं शासनं भवेत्।४८।
तथेत्यूचुर्द्विजाश्शम्भुं कुर्मो वै तव शासनम्।
कपालपाणिराहेशो भगवन्तं पितामहम्।४९।
वरं वरय भो ब्रह्मन्हृदि यत्ते प्रियं स्थितम्।
सर्वं तव प्रदास्यामि अदेयं नास्ति मे प्रभो।५० 1.17.50।
"ब्रह्मोवाच।
न ते वरं ग्रहीष्यामि दीक्षितोहं सदःस्थितः।
सर्वकामप्रदश्चाहं यो मां प्रार्थयते त्विह।५१।
एवं वदन्तं वरदं क्रतौ तस्मिन्पितामहम्।
तथेति चोक्त्वा रुद्रः स वरमस्मादयाचत।५२।
ततो मन्वन्तरेतीते पुनरेव प्रभुः स्वयम्।
ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शंभुना।५३।
चतुर्ष्वपि हि वेदेषु परिनिष्ठां गतो हि यः।
तस्मिन्काले तदा देवो नगरस्यावलोकने।५४।
सम्भाषणे द्विजानां तु कौतुकेन सदो गतः।
तेनैवोन्मत्तवेषेण हुतशेषे महेश्वरः।५५।
प्रविष्टो ब्रह्मणः सद्म दृष्टो देवैर्द्विजोत्तमैः।
प्रहसन्ति च केप्येनं केचिन्निर्भर्त्सयंति च।५६।
अपरे पान्सुभिः सिञ्चन्त्युन्मत्तं तं तथा द्विजाः।
लोष्टैश्च लगुडैश्चान्ये शुष्मिणो बलगर्विताः।५७।
प्रहरन्ति स्मोपहासं कुर्वाणा हस्तसंविदम्।
ततोन्ये वटवस्तत्र जटास्वागृह्य चान्तिकम्।५८।
पृच्छन्ति व्रतचर्यां तां केनैषा ते निदर्शिता।
अत्र वामास्त्रियः संति तासामर्थे त्वमागतः।५९।
केनैषा दर्शिता चर्या गुरुणा पापदर्शिना।
येनचोन्मत्तवद्वाक्यं वदन्मध्येप्रधावसि।६०।
शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनः।
उप्यमानमिदं बीजं लोकः क्लिश्नातिचान्यथा।६१।
मयायं जनितः पुत्रो जनितोनेन चाप्यहम्।
महादेवकृते सृष्टिः सृष्टा भार्या हिमालये।६२।
उमादत्ता तु रुद्रस्य कस्य सा तनया वद।
मूढा यूयं न जानीथ वदतां भगवांस्तु वः।६३।
ब्रह्मणा न कृता चर्या दर्शिता नैव विष्णुना।
गिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु।६४।
कथंस्विद्गर्हसे देवं वध्योस्माकं त्वमद्य वै।
एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शंकरः।६५।
स्मितं कृत्वाब्रवीत्सर्वान्ब्राह्मणान्नृपसत्तम।
किं मां न वित्थ भो विप्रा उन्मत्तं नष्टचेतनम्।६६।
यूयं कारुणिकाः सर्वे मित्रभावे व्यवस्थिताः।
वदमानमिदं छद्म ब्रह्मरूपधरं हरम्।६७।
मायया तस्य देवस्य मोहितास्ते द्विजोत्तमाः।
कपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः।६८।
दण्डैश्चापि च कीलैश्च उन्मत्तवेषधारिणम्।
पीड्यमानस्ततस्तैस्तु द्विजैः कोपमथागमत्।६९।
ततो देवेन ते शप्ता यूयं वेदविवर्जिताः।
ऊर्ध्वजटाः क्रतुभ्रष्टाः परदारोपसेविनः।७०।
वेश्यायान्तु रता द्यूते पितृमातृविवर्जिताः।
न पुत्रः पैतृकं वित्तं विद्यां वापि गमिष्यति।७१।
सर्वे च मोहिताः सन्तु सर्वेंद्रियविवर्जिताः।
रौद्रीं भिक्षां समश्नंतु परपिण्डोपजीविनः।७२।
आत्मानं वर्तयन्तश्च निर्ममा धर्मवर्जिताः।
कृपार्पिता तु यैर्विप्रैरुन्मत्ते मयि सांप्रतम्।७३।
तेषां धनं च पुत्राश्च दासीदासमजाविकम्।
कुलोत्पन्नाश्च वै नार्यो मयि तुष्टे भवन्विह।७४।
एवं शापं वरं चैव दत्वान्तर्द्धानमीश्वरः।
गतो द्विजागते देवे मत्वा तं शंकरं प्रभुम्।७५।
अन्विष्यन्तोपि यत्नेन न चापश्यंत ते यदा।
तदा नियमसंपन्नाः पुष्करारण्यमागताः।७६।
स्नात्वा ज्येष्ठसरो विप्रा जेपुस्ते शतरुद्रियम्।
जाप्यावसाने देवस्तानशीररगिराऽब्रवीत्।७७।
अनृतं न मया प्रोक्तं स्वैरेष्वपि कुतःपुनः।
आगते निग्रहे क्षेमं भूयोपि करवाण्यहम्।७८।
शान्ता दांता द्विजा ये तु भक्तिमन्तो मयि स्थिराः।
न तेषां छिद्यते वेदो न धनं नापि सन्ततिः।७९।
अग्निहोत्ररता ये च भक्तिमन्तो जनार्दने।
पूजयन्ति च ब्रह्माणंतेजोराशिं दिवाकरम्।८०।
नाशुभं विद्यते तेषां येषां साम्ये स्थिता मतिः।
एतावदुक्त्वा वचनं तूष्णीं भूतस्तु सोऽभवत्।८१।
लब्ध्वा वरं सप्रसादं देवदेवान्महेश्वरात्।
आजग्मुः सहितास्सर्वे यत्र देवःपितामहः।८२।
विरिञ्चिं संहिताजाप्यैस्तोषयंतोऽग्रतःस्थिताः।
तुष्टस्तानब्रवीद्ब्रह्मा मत्तोपि व्रियतां वरः।८३।
ब्रह्मणस्तेनवाक्येन हृष्टाः सर्वे द्विजोत्तमाः।
को वरो याच्यतां विप्राः परितुष्टे पितामहे।८४।
अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि च।
सान्तानिकाश्च ये लोका वरदानाद्भवंतु नः।८५।
एवं प्रजल्पतां तत्र विप्राणां कोपमाविशत्।
के यूयं केत्र प्रवरा वयं श्रेष्ठास्तथापरे।८६।
नेतिनेति तथा विप्रा द्विजांस्तांस्तत्र संस्थितान्।
ब्रह्मोवाचाभिसंप्रेक्ष्य ब्राह्मणान्क्रोधपूरितान्।८७।
यस्माद्यूयं त्रिभिर्भागैः सभायां बाह्यतः स्थिताः।
तस्मादामूलिको गुल्मो ह्येको भवतु वोद्विजाः।८८।
उदासीनाः स्थिता ये तु उदासीना भवंतु ते।
सायुधाबद्धनिस्त्रिंशा योद्धुकामा व्यवस्थिताः।८९।
कौशिकीति गणो नाम तृतीयो भवतु द्विजाः।
त्रिधाबद्धमिदं स्थानं सर्वं युष्मद्भविष्यति।९०।
बाह्यतो लोकशब्देन प्रोच्यमानाः प्रजास्त्विह।
अविज्ञेयमिदं स्थानं विष्णुः पालयिता ध्रुवम्।९१।
मया दत्तं चिरस्थायि अभंगं चभविष्यति।
एवमुक्त्वा तदा ब्रह्मा समाप्तिंतामवैक्षत।९२।
ब्राह्मणाः सहितास्ते तु क्रोधामर्षसमन्विताः।
अतिथिं भोजयानाश्च वेदाभ्यासरतास्तु ते।९३।
एतच्च परमं क्षेत्रं पुष्करं ब्रह्मसंज्ञितम्।
तत्रस्था ये द्विजाः शांता वसंति क्षेत्रवासिनः।९४।
न तेषां दुर्लभं किंचिद्ब्रह्मलोके भविष्यति।
कोकामुखे कुरुक्षेत्रे नैमिषे ऋषिसंगमे।९५।
वाराणस्यां प्रभासे च तथा बदरिकाश्रमे।
गंगाद्वारे प्रयागे च गंगासागरसंगमे।९६।
रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने।
तीर्थेष्वेतेषु सर्वेषु सिद्धिर्या द्वादशाब्दिका।९७।
प्राप्यते मानवैर्लोके षण्मासाद्राजसत्तम।
पुष्करे तु न संदेहो ब्रह्मचर्यमना यदि।९८।
तीर्थानां परमं तीर्थं क्षेत्राणामपि चोत्तमम्।
सदा तु पूजितं पूज्यैर्भक्तियुक्तैः पितामहे।९९।
अतः परं प्रवक्ष्यामिसावित्र्या ब्रह्मणा सह।
वादो यथानुभूतस्तु परिहासकृतो महान्।१००। 1.17.100।
सावित्रीगमने सर्वा-आगता देवयोषितः।
भृगोःख्यात्यां समुत्पन्नाविष्णुपत्नी यशस्विनी।१०१।
आमन्त्रिता सदा लक्ष्मीस्तत्रायाता त्वरान्विता।
मदिराच महाभागा योगनिद्रा विभूतिदा।१०२।
श्रीः कमलालयाभूतिः कीर्तिः श्रद्धा मनस्विनी।
पुष्टितुष्टिप्रदा या तु देव्या एताः समागताः।१०३।
सती या दक्षतनया उमेति पार्वती शुभा।
त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायिनी।१०४।
जया च विजया चैव मधुच्छन्दामरावती।
सुप्रिया जनकान्ता च सावित्र्या मंदिरे शुभे।१०५।
गौर्या सह समायातास्सुवेषा भरणान्विताः।
पुलोमदुहिता चैव शक्राणी च सहाप्सराः।१०६।
स्वाहा चापि स्वधाऽऽयाता धूमोर्णा च वरानना।
यक्षी तु राक्षसी चैव गौरी चैव महाधना।१०७।
मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया।
देवकन्यास्तथाऽऽयाता दानव्यो दनुवल्लभाः।१०८।
सप्तर्षीणां महापत्न्य ऋषीणां च वरांगनाः।
एवं भगिन्यो दुहिता विद्याधरीगणास्तथा।१०९।
राक्षस्यः पितृकन्याश्च तथान्या लोकमातरः।
वधूभिः सस्नुषाभिश्च सावित्री गन्तुमिच्छति।११०।
अदित्याद्यास्तथा सर्वा दक्षकन्यास्समागताः।
ताभिः परिवृता साध्वी ब्रह्माणी कमलालया।१११।
काचिन्मोदकमादाय काचिच्छूर्पं वरानना।
फलपूरितमादाय प्रयाता ब्रह्मणोंतिकम्।११२।
आढकीः सह निष्पावा गृहीत्वान्यास्तथापरा।
दाडिमानि विचित्राणि मातुलिंगानि शोभना।११३।
करीराणि तथा चान्या गृहीत्वा कमलानि च।
कौसुंभकं जीरकं च खर्जूरमपरा तथा।११४।
उत्तमान्यपरादाय नालिकेराणि सर्वशः।
द्राक्षयापूरितं काचित्पात्रंश्रृँगाटकंतथा।११५।
कर्पूराणि विचित्राणि जंबूकानि शुभानि च।
अक्षोटामलकान्गृह्य जम्बीराणि तथापरा।११६।
बिल्वानि परिपक्वानि चिपिटानि वरानना।
कार्पासतूलिकाश्चान्या वस्त्रं कौसुम्भकं तथा।११७।
एवमाद्यानि चान्यानि कृत्वा शूर्पे वराननाः।
सावित्र्यासहिताःसर्वाः संप्राप्ताःसहसाशुभाः।११८।
सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरन्दरः।
अधोमुखः स्थितोब्रह्मा किमेषा मांवदिष्यति।११९।
त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः।
सभासदस्तथा भीतास्तथा चान्ये दिवौकसः।१२०।
पुत्राःपौत्रा भागिनेया मातुला भ्रातरस्तथा।
ऋभवो नाम ये देवा देवानामपि देवताः।१२१।
वैलक्ष्येवस्थिताः सर्वे सावित्री किं वदिष्यति।
ब्रह्मपार्श्वे स्थिता तत्र किंतु वै गोपकन्यका।१२२।
मौनीभूता तु शृण्वाना सर्वेषां वदतां गिरः।
अद्ध्वर्युणा समाहूता नागता वरवर्णिनी।१२३।
शक्रेणान्याहृता-आभीरादत्ता सा विष्णुनास्वयम्।
अनुमोदिताचरुद्रेणपित्राऽदत्तास्वयं तथा।१२४।
कथं सा भविता यज्ञे समाप्तिं वा व्रजेत्कथम्।
एवं चिंतयतां तेषां प्रविष्टा कमलालया।१२५।
वृतो ब्रह्मासदस्यैस्तु ऋत्विग्भिर्दैवतैस्तथा।
हूयंते चाग्नयस्तत्र ब्राह्मणैर्वैदपारगैः।१२६।
पत्नीशालास्थिता गोपी सैणश्रृँगा समेखला।
क्षौमवस्त्रपरीधाना ध्यायंती परमं पदम्।१२७।
पतिव्रता पतिप्राणा प्राधान्ये च निवेशिता।
रूपान्विता विशालाक्षी तेजसा भास्करोपमा।१२८।
द्योतयन्ती सदस्तत्र सूर्यस्येव यथा प्रभा।
ज्वलमानं तथा वह्निं श्रयन्ते ऋत्विजस्तथा।१२९।
पशूनामिह गृह्णानाभागं स्वस्व चरोर्मुदा।
यज्ञभागार्थिनो देवा विलम्बाद्ब्रुवते तदा।१३०।
कालहीनं न कर्तव्यं कृतं न फलदं यतः।
वेदेष्वेवमधीकारो दृष्टःसर्वैर्मनीषिभिः।१३१।
प्रावर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः।
क्षीरद्वयेन संयुक्त शृतेनाध्वर्युणा तथा।१३२।
उपहूतेनागते नचाहूतेषु द्विजन्मसु।
क्रियमाणे तथाभक्ष्ये दृष्ट्वा देवी रुषान्विता।१३३।
उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम्।
किमेतद्युज्यते देव कर्तुमेतद्विचेष्टितम्।१३४।
मां परित्यज्य यत्कामात्कृतवानसि किल्बिषम्।
नतुल्यापादरजसा ममैषा या शिरः कृता।१३५।
यद्वदन्ति जनास्सर्वे संगताः सदसि स्थिताः।
आज्ञामीश्वरभूतानां तां कुरुष्व यदीच्छसि।१३६।
भवता रूपलोभेन कृतं लोकविगर्हितम्।
पुत्रेषु नकृतालज्जा पौत्रेषुचन ते प्रभो।१३७।
कामकारकृतं मन्य एतत्कर्मविगर्हितम्।
पितामहोसि देवानामृषीणां प्रपितामहः।१३८।
कथं न ते त्रपा जाता आत्मनःपश्यतस्तनुम्।
लोकमध्येकृतं हास्यमहं चापकृता प्रभो।१३९।
यद्येष ते स्थिरो भावस्तिष्ठ देव नमोस्तुते।
अहंकथंसखीनांतु दर्शयिष्यामि वैमुखम्।१४०।
भर्त्रा मे विधृता पत्नी कथमेतदहं वदे।
"ब्रह्मोवाच।
ऋत्विग्भिस्त्वरितश्चाहं दीक्षाकालादनंतरम्।१४१।
पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय।
शक्रेणैषा समानीता दत्तेयं मम विष्णुना।१४२।
गृहीता च मया सुभ्रु क्षमस्वैतं मया कृतम्।
न चापराधं भूयोन्यं करिष्ये तव सुव्रते।१४३।
पादयोः पतितस्तेहं क्षमस्वेह नमोस्तुते।
"पुलस्त्य उवाच।
एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता।१४४।
यदि मेस्ति तपस्तप्तं गुरवो यदि तोषिताः।
सर्वब्रह्मसमूहेषु स्थानेषु विविधेषु च।१४५।
नैव ते ब्राह्मणाः पूजां करिष्यंति कदाचन।
ॠते तु कार्तिकीमेकां पूजां सांवत्सरीं तव।१४६।
करिष्यन्ति द्विजाः सर्वे मर्त्या नान्यत्र भूतले।
एतद्ब्रह्माणमुक्त्वाह शतक्रतुमुपस्थितम्।१४७।
भोभोः! शक्र त्वयानीता आभीरी ब्रह्मणोन्तिकम्।
यस्मात्ते क्षुद्रकंकर्मतस्मात्वं लप्स्यसे फलम्।१४८।
यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि।
तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम्।१४९।
अकिञ्चनो नष्टसत्वः शत्रूणां नगरे स्थितः।
पराभवं महत्प्राप्य न चिरादेव मोक्ष्यसे।१५०।1.17.150।
शक्रं शप्त्वा तदा देवी विष्णुं वाक्यमथाब्रवीत्।
भृगुवाक्येन ते जन्म यदा मर्त्ये भविष्यति।१५१।
भार्यावियोगजं दुःखं तदा त्वं तत्र भोक्ष्यसे।
हृतातेशत्रुणा पत्नी परे पारो महोदधेः।१५२।
न च त्वं ज्ञास्यसे नीतां शोकोपहतचेतनः।
भ्रात्रा सह परं कष्टामापदं प्राप्य दुःखितः।१५३।
यदा यदुकुले जातः•★कृष्णसंज्ञो भविष्यसि।
पशूनां दासतां प्राप्य चिरकालं भ्रमिष्यसि।१५४।
तदाह रुद्रं कुपिता यदा दारुवने स्थितः।
तदा त ॠषयः क्रुद्धाःशापं दास्यन्तिवै हर।१५५।
भोभोः !कापालिक क्षुद्र स्त्रीरस्माकं जिहीर्षसि।
तदेतद्दर्पितं तेद्य भूमौ लिङ्गंपतिष्यति।१५६।
विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः।
गङ्गाद्वारेस्थिता पत्नी सा त्वामाश्वासयिष्यति।१५७।
अग्ने त्वं सर्वभक्षोसि पूर्वं पुत्रेण मे कृतः।
भृगुणा धर्मनित्येन कथं दग्धं दहाम्यहम्।१५८।
जातवेदस्स रुद्रस्त्वां रेतसा प्लावयिष्यति।
अमेध्येषु च तेजिह्वा अधिकं प्रज्वलिष्यति।१५९।
ब्राह्मणानृत्विजः सर्वान्सावित्रीवैशशाप ह।
प्रतिग्रहार्थाग्निहोत्रोवृथाटव्याश्रयास्तथा।१६०।
सदा तीर्थानि क्षेत्राणि लोभादेव भजिष्यथ।
परान्नेषु सदातृप्ता अतृप्तास्स्वगृहेषु च।१६१।
अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम्।
वृथाधनार्जनं कृत्वा व्ययं चैव तथा वृथा।१६२।
प्रेतानां तेन प्रेतत्वं भविष्यति न संशयः।
एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा।१६३।
ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानाशपद्रुषा।
शापं दत्वा तथातेषां निष्क्रांता सदसस्तथा।१६४।
ज्येष्ठं पुष्करमासाद्य तदासा च व्यवस्थिता।
लक्ष्मींप्राह सतीं तां चशक्रभार्यां वराननाम्।१६५।
युवतीस्तास्तथोवाच नात्र स्थास्यामि सन्सदि।
तत्रचाहं गमिष्यामि यत्रश्रोष्ये न च ध्वनिम्।१६६।
ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वनिकेतनम्।
सावित्री कुपिता तासामपि शापाय चोद्यता।१६७।
यस्मान्मां तु परित्यज्य गतास्ता देवयोषितः।
तासामपि तथा शापंप्रदास्येकुपिता भृशम्।१६८।
नैकत्रवासो लक्ष्म्यास्तु भविष्यतिकदाचन।
क्षुद्रा सा चलचित्ता चमूर्खेषु चवसिष्यति।१६९।
म्लेच्छेषु पार्वतीयेषु कुत्सिते कुत्सिते तथा।
मूर्खेषु चावलिप्तेषु अभिशप्ते दुरात्मनि।१७०।
एवंविधे नरे स्यात्ते वसतिःशापकारिता।
शापं दत्वाततस्तस्या इन्द्राणीमशपत्ततदा।१७१।
ब्रह्महत्या गृहीतेंद्रे पत्यौ तेदुःखभागिनि।
नहुषापहृते राज्ये दृष्ट्वा त्वांयाचयिष्यति।१७२।
अहमिन्द्रः कथं चैषा नोपस्थास्यति बालिशा।
सर्वान्देवान्हनिष्यामि न लप्स्येहं शचीं यदि।१७३।
नष्टा त्वं च तदा त्रस्ता वाक्पतेर्दुःखिता गृहे।
वसिष्यसे दुराचारे मम शापेन गर्विते।१७४।
देवभार्यासु सर्वासु तदा शापमयच्छत।
न चापत्यकृतां प्रीतिमेताः सर्वा लभिष्यथ।१७५।
दह्यमाना दिवारात्रौ वंध्याशब्देन दूषिताः।
गौर्य्यप्येवं तदा शप्ता सावित्र्या वरवर्णिनी।१७६।
रुदमाना तु सा दृष्टा विष्णुना च प्रसादिता।
मा रोदीस्त्वंविशालाक्षि एह्यागच्छ सदाशुभे।१७७।
प्रविश्य च सभां देहि मेखलां क्षौमवाससी।
गृहाण दीक्षां ब्रह्माणिपादौ च प्रणमामि ते।१७८।
एवमुक्ताऽब्रवीदेनं न करोमि वचस्तव।
तत्रचाहं गमिष्यामि यत्रश्रोष्ये न वै ध्वनिम्।१७९।
एतावदुक्त्वा सारुह्य तस्मात्स्थानद्गिरौ स्थिता।
विष्णुस्तदग्रतःस्थित्वाबध्वा च करसम्पुटं।१८०।
तुष्टाव प्रणतो भूत्वा भक्त्या परमयास्थितः।
"विष्णुरुवाच।
सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतोद्भुता।१८१।
सदसच्चैव यत्किंचिद्दृश्यं तन्न विना त्वया।
तथापियेषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः।१८२।
स्मर्तव्या भूमिकामैर्वा तत्प्रवक्ष्यामि तेग्रतः।
सावित्री पुष्करेनाम तीर्थानां प्रवरे शुभे।१८३।
वाराणस्यां विशालाक्षी नैमिषे लिंगधारिणी।
प्रयागे ललितादेवी कामुका गन्धमादने।१८४।
मानसे कुमुदा नाम विश्वकाया तथाम्बरे।
गोमन्ते गोमती नाम मन्दरेकामचारिणी।१८५।
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे।
कान्यकुब्जे तथा गौरीरम्भा मलयपर्वते।१८६।
एकाम्रके कीर्तिमती विश्वा विश्वेश्वरी तथा।
कर्णिके पुरुहस्तेति केदारे मार्गदायिका।१८७।
नन्दा हिमवतः पृष्टे गोकर्णे भद्रकालिका।
स्थाण्वीश्वरे भवानी तु बिल्वकेबिल्वपत्रिका।१८८।
श्रीशैले माधवीदेवी भद्राभद्रेश्वरी तथा।
जया वराहशैले तु कमलाकमलालये।१८९।
रुद्रकोट्यां तुरुद्राणी काली कालञ्जरे तथा।
महालिंगे तु कपिला कर्कोटे मंगलेश्वरी।१९०।
शालिग्रामे महादेवी शिवलिंगेजलप्रिया।
मायापुर्यां कुमारीतु सन्तानेललितातथा।१९१।
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला।
गयायां मंगला नाम विमला पुरुषोत्तमे।१९२।
विपाशायाममोघाक्षी पाटला पुण्यवर्द्धने।
नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुंदरी।१९३।
विपुले विपुला नाम कल्याणी मलयाचले।
कोटवी कोटितीर्थे तु सुगंधा माधवीवने।१९४।
कुब्जाम्रके त्रिसन्ध्या तु गंगाद्वारे हरिप्रिया।
शिवकुण्डे शिवानंदा नन्दिनी देविकातटे।१९५।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने तथा।
देवकी मथुरायां तु पाताले परमेश्वरी।१९६।
चित्रकूटे तथा सीता विंध्ये विंध्यनिवासिनी।
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका।१९७।
रमणा रामतीर्थे तु यमुनायां मृगावती।
करवीरे महालक्ष्मी रुमादेवी विनायके।१९८।
अरोगा वैद्यनाथे तु महाकाले महेश्वरी।
अभया पुष्पतीर्थे तु अमृता विंध्यकन्दरे।१९९।
माण्डव्ये माण्डवी देवी स्वाहा माहेश्वरे पुरे।
वेगले तु प्रचण्डाथ चण्डिकामरकण्टके।२००। 1.17.200।
सोमेश्वरे वरारोहा प्रभासे पुष्करावती।
देवमाता सरस्वत्यांपारापारे तटे स्थिता।२०१।
महालये महापद्मापयोष्ण्यां पिंगलेश्वरी।
सिंहिका कृतशौचे तु कार्तिकेये तु शंकरी।२०२।
उत्पलावर्तके लोला सुभद्रा सिन्धुसंगमे।
उमा सिद्धवने लक्ष्मीरनंगा भरताश्रमे।२०३।
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते।
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले।२०४।
भीमा देवी हिमाद्रौ च तुष्टिर्वस्त्रेश्वरे तथा।
कपालमोचने श्रद्धा माता कायावरोहणे।२०५।
शङ्खोद्धारे ध्वनिर्नाम धृतिःपिण्डारके तथा।
काला तु चन्द्रभागायामच्छोदे सिद्धिदायिनी।२०६।
वेणायाममृता देवी वदर्यामूर्वशी तथा।
औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका।२०७।
मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी।
अश्वत्थेवन्दनीया तु निधिर्वै श्रवणालये।२०८।
गायत्री वेदवदने पार्वती शिवसन्निधौ।
देवलोके तथेंद्राणी ब्रह्मास्ये तु सरस्वती।२०९।
सूर्यबिम्बे प्रभानाम मातॄणां वैष्णवी तथा।
अरुन्धती सतीनां तु रामासु च तिलोत्तमा।२१०।
चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणां।
एतद्भक्त्या मया प्रोक्तं नामाष्टशतमुत्तमं।२११।
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतं।
यो जपेच्छ्रुणुयाद्वापि सर्वपापैः प्रमुच्यते।२१२।
येषु तीर्थेषु यः कृत्वा स्नानं पश्येन्नरोत्तमः।
सर्वपापविनिर्मुक्तः कल्पं ब्रह्मपुरे वसेत्।२१३।
नामाष्टकशतं यस्तु श्रावयेद्ब्रह्मसन्निधौ।
पौर्णमास्याममायां वा बहुपुत्रो भवेन्नरः।२१४।
गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः।
देवार्चनविधौ शृण्वन्परं ब्रह्माधिगच्छति।२१५।
एवं स्तुवंतं सावित्री विष्णुं प्रोवाच सुव्रता।
सम्यक्स्तुता त्वया पुत्र त्वमजय्योभविष्यसि।२१६।
अवतारे सदारस्त्वं पितृमातृषु वल्लभः।
इह चागत्य यो मां तु स्तवेनानेन संस्तुयात्।२१७।
सर्वपापविनिर्मुक्तः परं स्थानं गमिष्यति।
गच्छयज्ञं विरिञ्चस्य समाप्तिं नय पुत्रक।२१८।
कुरुक्षेत्रे प्रयागे च भविष्ये चान्नदायिनी।
समीपगा स्थिता भर्त्तुःकरिष्ये तव भाषितम्।२१९।
एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तम्।
गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत्।२२०।
शृण्वन्तु वाक्यमृषयो मदीयं भर्तृसन्निधौ।
यदिदं वच्म्यहं तुष्टा वरदानाय चोद्यता।२२१।
ब्रह्माणं पूजयिष्यंति नरा भक्तिसमन्विताः।
तेषां वस्त्रं धनंधान्यं दाराःसौख्यं धनानि च।२२२।
अविच्छिन्नं तथा सौख्यं गृहे वै पुत्रपौत्रकम्।
भुक्त्वासौ सुचिरं कालमंते मोक्षं गमिष्यति।२२३।
"पुलस्त्य उवाच।
ब्रह्माणं च प्रतिष्ठाप्य सर्वयत्नैर्विधानतः।
यत्पुण्यफलमाप्नोति तदेकाग्रमनाः शृणु।२२४।
सर्वयज्ञ तपो दान तीर्थ वेदेषु यत्फलम्।
तत्फलं कोटिगुणितं लभेतैतत्प्रतिष्ठया।२२५।
पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिप।
अनेन विधिना यस्तु विरिञ्चिं पूजयेन्नरः।२२६।
प्रतिपदि महाबाहो स याति ब्रह्मणः पदम्।
विरिञ्चिं वासुदेवं तु ऋत्विग्भिश्च विशेषतः।२२७।
कार्तिके मासि देवस्य रथयात्रा प्रकीर्तिता।
यांकृत्वावामानवाभक्त्यासंयान्तिब्रह्मलोकताम्।२२८।
कार्तिके मासि राजेंद्र पौर्णमास्यां चतुर्मुखम्।
मार्गेण ब्रह्मणा सार्द्धं सावित्र्या च परंतप।२२९।
भ्रामयेन्नगरं सर्वं नानावाद्यसमन्वितः।
स्नपयेद्भ्रमयित्वा तु सलोकं नगरं नृप।२३०।
ब्राह्मणान्भोजयित्वाग्रे शाण्डिलेयं प्रपूज्य च।
आरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः।२३१।
रथाग्रे शाण्डिलीपुत्रं पूजयित्वा विधानतः।
ब्राह्मणान्वाचयित्वातु कृत्वा पुण्याहमङ्गलम्।२३२।
देवमारोपयित्वा च रथे कुर्यात्प्रजागरं।
नानाविधैः प्रेक्षणिकैर्ब्रह्मघौषैश्च पुष्कलैः।२३३।
कृत्वा प्रजागरं देवं प्रभाते ब्राह्मणान्नृप।
भोजयित्वा यथाशक्ति भक्ष्यभोज्यैरनेकशः।२३४।
पूजयित्वा जनं धीर मंत्रेण विधिवन्नृप।
आज्येन तु महाबाहो पयसा पायसेन च।२३५।
ब्राह्मणान्वाचयित्वा तु स्वस्त्या तु विधिवन्नृप।
कृत्वा पुण्याहशब्दं च तद्रथं भ्रामयेत्पुरे।२३६।
विप्रैश्चतुर्वेदविद्भिर्भ्रामयेद्ब्रह्मणो रथम्।
बह्वृवृचाथर्वणैर्वीरछन्दोगाध्वर्युभिस्तथा।२३७।
भ्रामयेद्देवदेवस्य सुरश्रेष्ठस्य तं रथं।
प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु।२३८।
न वोढव्यो रथो वीर रूद्रेण हितमिच्छता।
न चारोहेद्रथं प्राज्ञो मुक्त्वैकं भोजकं नृपः।२३९।
ब्रह्मणो दक्षिणे पार्श्वे गायत्रीं स्थापयेन्नृप।
भोजकं वामपार्श्वे तुपुरतःपंङ्कजं न्येसेत्।२४०।
एवं तूर्यनिनादैस्तु शङ्ख शब्दैश्च पुष्कलैः।
भ्रामयित्वा रथं वीर पुरं सर्वं प्रदक्षिणम्।२४१।
स्वस्थाने स्थापयेद्देवं दत्वा नीराजनं बुधः।
यएवं कुरुते यात्रां यो वा भक्त्यापिपश्यति।२४२।
रथं वा कर्षयेद्यस्तु स गच्छेद्ब्रह्मणः पदं।
*कार्तिके मास्यमावास्यां यश्च दीपप्रदीपनं।२४३।
शालायां ब्रह्मणः कुर्यात्स गच्छेत्परमं पदम्।
गन्धपुष्पैर्नवैर्वस्त्रैरात्मानं पूजयेत्तु यः।२४४।
तस्यां प्रतिपदायां तु स गच्छेद्ब्रह्मणः पदम्।
महापुण्यातिथिरियं *-बलिराज्यप्रवर्तिनी।२४५।
ब्रह्मणः सुप्रिया नित्यं बालेयी परिकीर्तिता।
ब्रह्माणं पूजयेद्योऽस्यामात्मानं च विशेषतः।२४६।
स याति परमं स्थानं विष्णोरमिततेजसः।
चैत्रे मासि महाबाहो पुण्या प्रतिपदां वरा।२४७।
तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यान्नरोत्तमः।
न तस्य दुरितं किंचिन्नाधयो व्याधयो नृप।२४८।
भवन्ति कुरुशार्दूल तस्मात्स्नानं समाचरेत्।
दिव्यं नीराजनंतद्धि सर्वरोगविनाशनं।२४९।
गोमहिष्यादि यत्किंचित्तत्सर्वं कर्षयेन्नृप।
तेन वस्त्रादिभिः सर्वैस्तोरणंबाह्यतो न्यसेत्।२५०।1.17.250।
ब्राह्मणानां तथा भोज्यं कुर्यात्कुरुकुलोद्वह।
तिस्रो ह्येताः पुरा प्रोक्तास्तिथयः कुरुनन्दन।२५१।
कार्तिकाश्वयुजे मासि चैत्रेमासि तथा नृप।
स्नानं दानं शतगुणं कार्त्तिके या तिथिर्नृप।२५२।
बलिराज्ञस्तु शुभदा पशूनां हितकारिणी।
"गायत्र्युवाच।
यदुक्तं तु तया वाक्यं सावित्र्या कमलोद्भवं।२५३।
न तु ते ब्राह्मणाः पूजां करिष्यन्ति कदाचन।
मदीयं तु वचःश्रुत्वा ये करिष्यन्ति चार्चनं।२५४।
इह भुक्त्वा तु भोगांस्ते परत्र मोक्षभागिनः।
एतां ज्ञात्वा परां दृष्टिं वरं तुष्टः प्रयच्छति।२५५।
शक्राहं ते वरं दास्ये संग्रामे शत्रुनिग्रहे।
तदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम्।२५६।
स्वपुरं लप्स्यसे नष्टं शत्रुनाशात्परां मुदं।
अकंटकं महद्राज्यं त्रैलोक्ये ते भविष्यति।२५७।
मर्त्यलोके यदा विष्णो अवतारं करिष्यसि।
भ्रात्रा सह परं दुःखं स्वभार्याहरणादिजं।२५८।
हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ।
गृहीत्वातां पुनाराज्यं कृत्वा स्वर्गंगमिष्यसि।२५९।
एकादशसहस्राणि वर्षाणां च पुनर्दिवं।
ख्यातिस्ते विपुला लोके अनुरागं जनैस्सह।२६०।
सान्तानिकानाम तेषां लोका स्थास्यन्ति भाविताः।
त्वया ते तारिता देव रामरूपेण मानवाः।२६१।
गायत्री तु तदा रुद्रंवरदा प्रत्यभाषत।
पतितेपिच ते लिंगे पूजां कुर्वंति ये नराः।२६२।
ते पूताः पुण्यकर्माणः स्वर्गलोकस्य भागिनः।
न तां गतिं चाग्निहोत्रे न क्रतौ हुतपावके।२६३।
यां गतिं मनुजा यांति तव लिंगस्य पूजनात्।
गंगातीरे सदा लिंगं बिल्बपत्रेण ये तव।२६४।
पूजयिष्यंति सुप्राता रुद्रलोकस्य भागिनः।
प्राप्यापि शर्वभक्तत्वमग्ने त्वं भव पावनः।२६५।
त्वयि प्रीते सुराः सर्वे प्रीता वै नात्र संशयः।
त्वन्मुखेन हविर्देवैः प्रीताः प्रीते त्वयिध्रुवम्।२६६।
भुञ्जते नात्र सन्देहो वेदोक्तं वचनं यथा।
गायत्री ब्राह्मणांस्तांश्च सर्वांश्चैवाब्रवीदिदं।२६७।
युष्माकं प्रीणनं कृत्वा सर्वतीर्थेषु मानवाः।
पदं सर्वे गमिष्यंति वैराजाख्यं न संशयः।२६८।
अन्नप्रकारान्विविधान्दत्वा दानान्यनेकशः।
श्राद्धेषु प्रीणनं कृत्वा देवदेवा भवन्ति ते।२६९।
ये च वै ब्राह्मणश्रेष्ठास्तेषामास्ये दिवौकसः।
भुञ्जते च हविः क्षिप्रं कव्यं चैवपितामहाः।२७०।
यूयं हि धारणे शक्तास्त्रैलोक्यस्य न संशयः।
प्राणायामेन चैकेन सर्वे पूता भविष्यथ।२७१।
विशेषात्पुष्करे स्नात्वा मां जप्त्वा वेदमातरं।
प्रतिग्रहकृतान्दोषान्न प्राप्स्यथ द्विजोतमाः।२७२।
पुष्करे चान्नदानेन प्रीताः स्युः सर्वदेवताः।
एकस्मिन्भोजिते विप्रेकोट्याः फलमवाप्स्यते।२७३।
ब्रह्महत्यादिपापानि दुष्कृतानि कृतानि च।
करिष्यंति नरास्सर्वे दत्वा युष्मत्करे धनम्।२७४।
मदीयेन तु जाप्येन पूजनीयस्त्रिभिः कृतैः।
ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति।२७५।
दशभिर्जन्मभिर्जातं शतेन च पुरा कृतं।
त्रियुगेन सहस्रेण गायत्री हन्ति किल्बिषं।२७६।
एवं ज्ञात्वा सदा पूता जाप्ये तु मम वै कृते।
भविष्यध्वं न संदेहो नात्र कार्या विचारणा।२७७।
प्रणवेन त्रिमात्रेण सार्द्धंजप्त्वा विशेषतः।
पूताः सर्वे न संदेहो जप्त्वामां शिरसा सह।२७८।
अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्त्विदं।
माताहं सर्ववेदानां पदैः सर्वेरलंकृता।२७९।
जप्त्वा मां भक्तितः सिद्धिं यास्यंति द्विजसत्तमाः।
प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति।२८०।
गायत्रीसारमात्रोपि वरं विप्रः सुसंयतः।
नायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी।२८१।
यस्माद्विप्रेषु सावित्र्या शापो दत्तःसदस्यथ।
अत्र दत्तं हुतं चापि सर्वमक्षयकारकम्।२८२।
दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः।
अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः।२८३।
स्वर्गं ते तु गमिष्यंति सैकविंशतिभिः कुलैः।
एवं शक्रस्य विष्णोश्च रुद्रस्य पावकस्य च।२८४।
ब्रह्मणो ब्राह्मणानां च गायत्रीवरमुत्तमम्।
तस्मिन्वै पुष्करे दत्त्वा ब्रह्मणःपार्श्वगाऽभवत्।२८५।
चारणैस्तु तदाऽऽख्यातं लक्ष्म्या वै शापकारणम्।
युवतीनाञ्च सर्वासां शापाञ्ज्ञात्वापृथक्पृथक्।२८६।
लक्ष्म्याश्चैव वरं प्रादाद्गायत्री ब्रह्मणः प्रिया।
अकुत्सितान्सदा सर्वान्कुर्वन्ती धनशोभना।२८७।
शोभिष्यसे न संदेहः सर्वेभ्यः प्रीतिदायिनी।
ये त्वया वीक्षिताःपुत्रि सर्वेते पुण्यभोजनाः।२८८।
परित्यक्तास्त्वया ये तु सर्वे ते दुःखभागिनः।
तेषां जातिः कुलं शीलं धर्मश्चैव वरानने।२८९।
सभायां ते च शोभंते दृश्यंते चैव पार्थिवैः।
अर्थित्वं चैव तेषां तु करिष्यंति द्विजोत्तमाः।२९०।
सौजन्यं तेषु कुर्वंति त्वं नो भ्राता पिता गुरुः।
बांधवोपि न संदेहो न जीवेयं त्वया विना।२९१।
त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना।
मनः प्रसीदतेत्यर्थं सत्यं सत्यं वदामि ते।२९२।
एवंविधानि वाक्यानि त्वद्दृष्ट्या ये निरीक्षिताः।
सज्जनास्ते तु श्रोष्यंति जनानां प्रीतिदायकाः।२९३।
इन्द्रत्वं नहुषः प्राप्य दृष्ट्वा त्वां याचयिष्यति।
त्वद्दृष्ट्या तु हतःपापो ह्यगस्त्यवचनाद्ध्रुवम्।२९४।
सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं तु सः।
दर्पेणाहं विनष्टोस्मि शरणं मे मुने भव।२९५।
वाक्येन तेन तस्यासौ नृपस्य भगवानृषिः।
कृत्वा मनसि कारुण्यमिदं वाक्यं वदिष्यति।२९६।
उत्पत्स्यते कुले राजा त्वदीये कुलनन्दनः।
सर्परूपधरं दृष्ट्वा स ते शापं हि भेत्स्यति।२९७।
तदा त्वं सर्पतां त्यक्त्वा पुनः स्वर्गं गमिष्यसि।
अश्वमेधकृतेन त्वं भर्त्रा सह पुनर्दिवम्।२९८।
प्राप्स्यसे वरदानेन मदीयेन सुलोचने।
"पुलस्त्य उवाच।
देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः।२९९।
अपत्यैरपि हीनानां नैव दुःखं भविष्यति।
गौरी चैव तु गायत्र्या तदा सापि विबोधिता।३००। 1.17.300।
बृंहिता परितोषेण वरान्दत्त्वा मनस्विनी।
समाप्तिंतस्य यज्ञस्य काञ्क्षन्तीब्रह्मणःप्रिया।३०१।
वरदां तां तथा दृष्ट्वा गायत्रीं वेदमातरम्।
प्रणिपत्य तदा रुद्रः स्तुतिमेतां चकार ह।३०२।
"रुद्र उवाच।
नमोस्तु ते वेदमातरष्टाक्षरविशोधिते।
गायत्री दुर्गतरणी वाणी सप्तविधा तथा।३०३।
सर्वाणि स्तुतिशास्त्राणि गाथाश्च निखिलास्तथा।
अक्षराणि च सर्वाणि लक्षणानि तथैव च।३०४।
भाष्यादि सर्वशास्त्राणि ये चान्ये नियमास्तथा।
अक्षराणि च सर्वाणि त्वं तु देवि नमोस्तुते।३०५।
श्वेता त्वं श्वेतरूपासि शशांकेन समानना।
बिभ्रती विपुलौ बाहू कदलीगर्भकोमलौ।३०६।
एणश्रृँगं करे गृह्य पंकजं च सुनिर्मलम्।
वसाना वसने क्षौमे रक्तेनोत्तरवाससा।३०७।
शशिरश्मिप्रकाशेन हारेणोरसि राजिता।
दिव्यकुंडलपूर्णाभ्यां कर्णाभ्यां सुविभूषिता।३०८।
चंद्रसापत्न्यभूतेन मुखेन त्वं विराजसे।
मकुटेनातिशुद्धेन केशबंधेन शोभिता।३०९।
भुजंगाभोगसदृशौ भुजौ ते भूषणन्दिवः।
स्तनौ ते रुचिरौ देवि वर्तुलौ समचूचुकौ।३१०।
जघनेनातिशुभ्रेण त्रिवलीभंगदर्पिता।
सुमध्यवर्त्तिनी नाभिर्गंभीरा शुभदर्शिनी।३११।
विस्तीर्णजघना देवी सुश्रोणी च वरानने।
सुजातवृत्तोरुयुगा सुजानु चरणा तथा।३१२।
त्रैलोक्यधारिणी सा त्वं भुवि सत्योपयाचना।
भविष्यसि महाभागे वरदा वरवर्णिनी।३१३।
पुष्करे च कृता यात्रा दृष्ट्वा त्वां संभविष्यति।
ज्येष्ठे मासेपौर्णमास्यामग्र्यांपूजां च लप्स्यसे।३१४।
ये च वा त्वत्प्रभावज्ञाः पूजयिष्यंति मानवाः।
न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा।३१५।
कान्तारेषु निमग्नानामटव्यां वा महार्णवे।
दस्युभिर्वानिरुद्धानां त्वं गतिः परमा नृणाम्।३१६।
त्वं सिद्धिःश्रीर्धृतिः कीर्तिर्ह्रीर्विद्या सन्नतिर्मतिः।
संध्या रात्रिःप्रभा निद्रा कालरात्रिस्त्वमेव च।३१७।
अंबा च कमला मातुर्ब्रह्माणी ब्रह्मचारिणी।
जननी सर्वदेवानां गायत्री परमांगना।३१८।
जया च विजया चैव पुष्टिस्त्वं च क्षमा दया।
सावित्र्यवरजा चासि सदा चेष्टा पितामहे।३१९।
बहुरूपा विश्वरूपा सुनेत्रा ब्रह्मचारिणी।
सुरूपा त्वं विशालाक्षी भक्तानां परिरक्षिणी।३२०।
नगरेषु च पुण्येषु आश्रमेषु वरानने।
वासस्तव महादेवि वनेषूपवनेषु च।३२१।
ब्रह्मस्थानेषु सर्वेषु ब्रह्मणो वामतः स्थिता।
दक्षिणेन तु सावित्री मध्ये ब्रह्मा पितामहः।३२२।
अंतर्वेदी च यज्ञानामृत्विजां चापि दक्षिणा।
सिद्धिस्त्वंहि नृपाणांच वेला सागरजा मता।३२३।
ब्रह्मचारिणि या दीक्षा शोभा च परमा मता।
ज्योतिषांच प्रभा देवीलक्ष्मीर्नारायणे स्थिता।३२४।
क्षमा सिद्धिर्मुनीनां च नक्षत्राणां च रोहिणी।
राजद्वारेषु तीर्थेषु नदीनां संगमेषु च।३२५।
पूर्णिमा पूर्णचंद्रे च बुद्धिर्नीत्यां क्षमा धृतिः।
उमादेवी च नारीणां श्रूयसे वरवर्णिनी।३२६।
इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनोपगा।
ॠषीणां धर्मबुद्धिस्त्वं देवानां च परायणा।३२७।
कर्षकाणां च सीता त्वं भूतानां धरणी तथा।
स्त्रीणामवैधव्यकरी धनधान्यप्रदा सदा।३२८।
व्याधिं मृत्युं भयं चैव पूजिता शमयिष्यसि।
तथा तु कार्तिके मासि पौर्णमास्यांसुपूजिता।३२९।
सर्वकामप्रदा देवी भविष्यसि शुभप्रदे।
यश्चेदं पठते स्तोत्रं शृणुयाद्वाप्यभीक्ष्णशः।३३०।
सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः।
"गायत्र्युवाच।
भविष्यत्येवमेवं तु यत्त्वया पुत्र भाषितम्३३१।
विष्णुना सहितः सर्वस्थानेष्वेव भविष्यसि।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे सावित्री विवादगायत्री वरप्रदानं नाम सप्तदशोऽध्यायः।१७।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 18 (part 1)
भीष्मउवाच।
अत्यद्भुतमिदं ब्रह्मन्श्रुतवानस्मि तत्त्वतः।
अभिषेकं तु गायत्र्याः सदस्यत्र तथा कृतम्१।
विरोधं चैव सावित्र्या शापदानं तथा कृतम्।
विष्णुना च यथा देवी सर्वस्थानेषु कीर्तिता२।
गायत्री चापि रुद्रेण स्तुता च वरवर्णिनी।
तं श्रुत्वा प्रतिमात्मानं विस्तरेण पितामहम्३।
प्रहृष्टानि च रोमाणि प्रशांतं च मनो मम।
श्रुत्वा मे परमा प्रीतिः कौतूहलमथैव हि४।
नारायणस्तु भगवान्कृत्वा तां परमां च वै।
ब्रह्मपत्न्याः स्तुतिं भक्त्या न्यस्यतां पर्वतोपरि५।
उवाच वचनं विष्णुस्तुष्टिपुष्टिप्रदायकम्।
श्रीमति ह्रीमती चैव या च देवीश्वरी तथा६।
एतदेव श्रुतं ब्रह्मंस्तव वक्त्राद्विनिःसृतम्।
उत्तरं तत्र यद्भूतं यच्च तस्मिन्स्थले कृतम्७।
आनुपूर्व्या च तत्सर्वं भगवान्वक्तुमर्हति।
श्रुतेन मे देहशुद्धिर्भविष्यति न संशयः८।
पुलस्त्य उवाच।
यजतः पुष्करे तस्य देवस्य परमेष्ठिनः।
शृणुराजन्निदं चित्रं पूर्वमेव यथाकृतम्९।
आदौ कृतयुगे तस्मिन्यजमाने पितामहे।
मरीचिरंगिराश्चैव पुलस्त्यः पुलहः क्रतुः१०।
दक्षः प्रजापतिश्चैव नमस्कारं प्रचक्रिरे।
विद्योतमानाः पुरुषाः सर्वाभरणभूषिताः११।
उपनृत्यंति देवेशं विष्णुमप्सरसां गणाः।
ततो गंधर्वतूर्यैस्तु प्रतिनंद्य विहायसि१२।
बहुभिः सह गंधर्वैः प्रगायति च तुंबरुः।
महाश्रुतिश्चित्रसेन ऊर्णायुरनघस्तथा१३।
गोमायुस्सूर्यवर्चाश्च सोमवर्चाश्च कौरव।
युगपच्च तृणायुश्च नंदिश्चित्ररथस्तथा१४।
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः।
कलिः पंचदशश्चात्र तारकश्चात्र षोडशः१५।
हाहाहूहूश्च गंधर्वो हंसश्चैव महाद्युतिः।
इत्येते देवगंधर्वा उपगायंति ते विभुम्१६।
तथैवाप्सरसो दिव्या उपनृत्यंति तं विभुं।
धातार्यमा च सविता वरुणोंशो भगस्तथा१७।
इंद्रो विवस्वान्पूषा च त्वष्टा पर्जन्य एव च।
इत्येते द्वादशादित्या ज्वलंतो दीप्ततेजसः१८।
चक्रुरस्मिन्सुरेशाश्च नमस्कारं पितामहे।
मृगव्याधश्च शर्वश्च निर्ऋतिश्च महायशाः१९।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः।
भवो विश्वेश्वरश्चैव कपर्दी च विशांपते२०।
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे।
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः२१।
विश्वेदेवाश्च साध्याश्च तस्मै प्रांजलयः स्थिताः।
शेषाद्यास्तु महानागा वासुकिप्रमुखाहयः२२।
काश्यपः कंबलश्चापि तक्षकश्च महाबलः।
एते नागा महात्मानस्तस्मै प्रांजलयः स्थिताः२३।
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः।
वारुणिश्चैवारुणिश्च वैनतेया व्यवस्थिताः२४।
नारायणश्च भगवान्स्वयमागत्य लोकवान्।
प्राह लोकगुरुं श्रीमान्सहसर्वैर्महर्षिभिः२५।
त्वया ततमिदं सर्वं त्वया सृष्टं जगत्पते।
तस्माल्लोकेश्वरश्चासि पद्मयोने नमोस्तु ते२६।
यदत्र ते मया कार्यं कर्तव्यं च तदादिश।
एवं प्रोवाच भगवान्सार्धं देवर्षिभिः प्रभुः२७।
नमस्कृत्य सुरेशाय ब्रह्मणेऽव्यक्तजन्मने।
स च तत्रस्थितो ब्रह्मा तेजसा भासयन्दिशः२८।
श्रीवत्सलोमसंच्छन्नो हेमसूत्रेण राजता।
सुरर्षिप्रतिमः श्रीमान्स्वयंभूर्भूतभावनः२९।
शुचिरोमा महावक्षाः सर्वतेजोमयः प्रभुः।
यो गतिः पुण्यशीलानामगतिः पापकर्मणां३०।
योगसिद्धा महात्मानो यं विदुर्लोकमुत्तमं।
यस्याष्टगुणमैश्वर्यं यमाहुर्देवसत्तमम्३१।
यं प्राप्य शाश्वतं विप्रा नियता मोक्षकांक्षिणः।
जन्मनो मरणाच्चैव मुच्यंते योगभाविताः३२।
यदेतत्तप इत्याहुः सर्वाश्रमनिवासिनः।
सेवंसेवं यताहारा दुश्चरं व्रतमास्थिताः३३।
योनंत इति नागेषु प्रोच्यते सर्वयोगिभिः।
सहस्रमूर्द्धा रक्ताक्षः शेषादिभिरनुत्तमैः३४।
यो यज्ञ इति विप्रेंद्रैरिज्यते स्वर्गलिप्सुभिः।
नानास्थानगतिः श्रीमानेकः कविरनुत्तमः३५।
यं देवं वेत्ति वेत्तारं यज्ञभागप्रदायिनं।
वृषाग्निसूर्यचंद्राक्षं देवमाकाशविग्रहं३६।
तं प्रपद्यामहे देवं भगवन्शरणार्थिनः।
शरण्यं शरणं देवं सर्वदेवभवोद्भवं३७।
ऋषीणां चैव स्रष्टारं लोकानां च सुरेश्वरं।
प्रियार्थं चैव देवानां सर्वस्य जगतः स्थितौ ३८।
कव्यं पितॄणामुचितं सुराणां हव्यमुत्तमं।
येन प्रवर्तितं सर् तं नतास्मस्सुरोत्तमं ३९।
त्रेताग्निना तु यजता देवेन परमेष्ठिना।
यथासृष्टिः कृता पूर्वं यज्ञसृष्टिस्तथा पुनः४०।
तथा ब्रह्माप्यनंतेन लोकानां स्थितिकारिणा।
अन्वास्यमानो भगवान्वृद्धोप्यथ च बुद्धिमान्४१।
यज्ञवाटमचिंत्यात्मा गतस्तत्र पितामहः।
धनाढ्यैर्ऋत्विजैः पूर्णं सदस्यैः परिपालितम्४२।
गृहीतचापेन तदा विष्णुना प्रभविष्णुना।
दैत्यदानवराजानो राक्षसानां गणाः स्थिताः४३।
आत्मानमात्मना चैव चिंतयामास वै द्रुतं।
चिंतयित्वा यथातत्वं यज्ञं यज्ञः सनातनः४४।
वरणं तत्र भगवान्कारयामास ऋत्विजाम्।
भृग्वाद्या ऋत्विजश्चापि यज्ञकर्मविचक्षणाः४५।
चक्रुर्बह्वृचमुख्यैश्च प्रोक्तं पुण्यं यदक्षरं।
शुश्रुवुस्ते मुनिश्रेष्ठा वितते तत्र कर्मणि४६।
यज्ञविद्या वेदविद्या पदक्रमविदां तथा।
घोषेण परमर्षीणां सा बभूव निनादिना४७।
यज्ञसंस्तरविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः।
शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः४८।
मीमांसा हेतुवाक्यज्ञैः कृता नानाविधा मुखे।
तत्र तत्र च राजेंद्र नियतान्संशितव्रतान्४९।
जपहोमपरान्मुख्यान्ददृशुस्तत्रवै द्विजान्।
यज्ञभूमौ स्थितस्तस्यां ब्रह्मा लोकपितामहः५० 1.18.50।
सुरासुरगुरुः श्रीमान्सेव्यमानः सुरासुरैः।
उपासते च तत्रैनं प्रजानां पतयः प्रभुं५१।
दक्षो वसिष्ठः पुलहो मरीचिश्च द्विजोत्तमः।
अंगिरा भृगुरत्रिश्च गौतमो नारदस्तथा५२।
विद्यामानमंतरिक्षं वायुस्तेजो जलं मही।
शब्दः स्पर्शश्च रूपं च रसो गंधस्तथैव च५३।
विकृतश्च विकारश्च यच्चान्यत्कारणं महत्।
ऋग्यजुः सामाथर्वाख्या वेदाश्चत्वार एव च५४।
शब्दः शिक्षा निरुक्तं च कल्पश्च्छंदः समन्विताः।
आयुर्वेद धनुर्वेदौ मीमांसा गणितं तथा५५।
हस्त्यश्वज्ञानसहिता इतिहाससमन्विताः।
एतैरंगैरुपांगैश्च वेदाः सर्वे विभूषिताः५६।
उपासते महात्मानं सहोंकारं पितामहं।
तपश्च क्रतवश्चैव संकल्पः प्राण एव च५७।
एते चान्ये च बहवः पितामहमुपस्थिताः।
अर्थो धर्मश्च कामश्च द्वेषो हर्षश्च सर्वदा५८।
शुक्रो बृहस्पतिश्चैव संवर्तो बुध एव च।
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च५९।
मरुतो विश्वकर्मा च पितरश्चापि भारत।
दिवाकरश्च सोमश्च ब्रह्माणं पर्युपासते६०।
गायत्री दुर्गतरणी वाणी सप्तविधा तथा।
अक्षराणि च सर्वाणि नक्षत्राणि तथैव च६१।
भाष्याणि सर्वशास्त्राणि देहवंति विशांपते।
क्षणा लवा मुहूर्ताश्च दिनं रात्रिस्तथैव च६२।
अर्द्धमासाश्च मासाश्च क्रतवः सर्व एव च।
उपासते महात्मानं ब्रह्माणं दैवतैः सह६३।
अन्याश्च देव्यः प्रवरा ह्रीः कीर्तिर्द्युतिरेव च।
प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या मतिस्तथा६४।
श्रुतिः स्मृतिस्तथा क्षांतिः शांतिः पुष्टिस्तथा क्रिया।
सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः६५।
उपतिष्ठंति ब्रह्माणं सर्वास्ता देवमातरः।
विप्रचित्तिः शिविः शंकुरयःशंकुस्तथैव च६६।
वेगवान्केतुमानुग्रः सोग्रो व्यग्रो महासुरः।
परिघः पुष्करश्चैव सांबोश्वपतिरेव च६७।
प्रह्लादोथ बलि कुंभः संह्रादो गगनप्रियः।
अनुह्रादो हरिहरौ वराहश्च कुशो रजः६८।
योनिभक्षो वृषपर्वा लिंगभक्षोथ वै कुरुः।
निःप्रभः सप्रभः श्रीमांस्तथैव च निरूदरः६९।
एकचक्रो महाचक्रो द्विचक्रः कुलसंभवः।
शरभः शलभश्चैव क्रपथः क्रापथः क्रथः७०।
बृहद्वांतिर्महाजिह्वः शंकुकर्णो महाध्वनिः।
दीर्घजिह्वोर्कनयनो मृडकायो मृडप्रियः७१।
वायुर्गरिष्ठो नमुचिश्शम्बरो विज्वरो विभुः।
विष्वक्सेनश्चंद्रहर्ता क्रोधवर्द्धन एव च७२।
कालकः कलकांतश्च कुंडदः समरप्रियः।
गरिष्ठश्च वरिष्ठश्च प्रलंबो नरकः पृथुः७३।
इंद्रतापन वातापी केतुमान्बलदर्पितः।
असिलोमा सुलोमा च बाष्कलि प्रमदो मदः७४।
सृगालवदनश्चैव केशी च शरदस्तथा।
एकाक्षश्चैव राहुश्च वृत्रः क्रोधविमोक्षणः७५।
एते चान्ये च बहवो दानवा बलवर्द्धनाः।
ब्रह्माणं पर्युपासंत वाक्यं चेदमथोचिरे७६।
त्वया सृष्टाः स्म भगवंस्त्रैलोक्यं भवता हि नः।
दत्तं सुरवरश्रेष्ठ देवेभ्यधिकाः कृताः७७।
भगवन्निह किं कुर्मो यज्ञे तव पितामह।
यद्धितं तद्वदास्माकं समर्थाः कार्यनिर्णये७८।
किमेभिस्ते वराकैश्च अदितेर्गर्भसंभवैः।
दैवतैर्निहतैः सर्वैः पराभूतैश्च सर्वदा७९।
पितामहोसि सर्वेषामस्माकं दैवतैः सह।
तव यज्ञसमाप्तौ च पुनरस्मासु दैवतैः८०।
श्रियं प्रति विरोधश्च भविष्यति न संशयः।
इदानीं प्रेक्षणं कुर्मः सहिताः सर्वदानवैः८१।
पुलस्त्य उवाच।
सगर्वं तु वचस्तेषां श्रुत्वा देवो जनार्दनः।
शक्रेण सहितः शंभुमिदमाह महायशाः८२।
विघ्नं प्रकर्तुं वै रुद्र आयाता दनुपुंगवाः।
ब्रह्मणामंत्रिताश्चेह विघ्नार्थं प्रयतंति ते८३।
अस्माभिस्तु क्षमाकार्या यावद्यज्ञः समाप्यते।
समाप्ते तु क्रतावस्मिन्युद्धं कार्यं दिवौकसां८४।
यथानिर्दानवा भूमिस्तथा कार्यं त्वया विभो।
जयार्थं चेह शक्रस्य भवता च मया सह८५।
द्विजानां परिवेष्टारो मरुतः परिकल्पिताः।
दानवानां धनं यच्च गृहीत्वा तद्यजामहे८६।
अत्रागतेषु विप्रेषु दुःखितेषु जनेष्विह।
व्ययं तस्य करिष्यामो दासभावे निवेशिताः८७।
वदंतमेवं तं विष्णुं ब्रह्मा वचनमब्रवीत्।
एते दनुसुताः क्रुद्धा युष्माकं कोपनेप्सिताः८८।
भवता च क्षमा कार्या रुद्रेण सह दैवतैः।
कृते युगावसाने तु समाप्तिं चक्रतौ गते८९।
मया च प्रेषिता यूयमेते च दनुपुंगवाः।
संधिर्वा विग्रहो वापि सर्वैः कार्यस्तदैव हि९०।
पुलस्त्य उवाच।
पुनस्तान्दानवान्ब्रह्मा वाक्यमाह स्वयंप्रभुः।
दानवैर्न विरोधोत्र यज्ञे मम कथंचन९१।
मैत्रभावस्थिता यूयमस्मत्कार्ये च नित्यशः।
दानवा ऊचुः।
सर्वमेतत्करिष्यामः शासनं ते पितामह९२।
अस्माकमनुजा देवा भयं तेषां न विद्यते।
पुलस्त्य उवाच।
एतच्छुत्वा तदा तेषां परितुष्टः पितामहः९३।
मुहूर्तं तिष्ठतां तेषामृषिकोटिरुपागता।
श्रुत्वा पैतामहं यज्ञं तेषां पूजां तु केशवः९४।
आसनानि ददौ तेषां तदा देवः पिनाकधृत्।
वसिष्ठोर्घं ददौ तेषां ब्रह्मणा परिचोदितः९५।
गामर्घं च ततो दत्वा पृष्ट्वा कुशलमव्ययम्।
निवेशं पुष्करे दत्वा स्थीयतामिति चाब्रवीत्९६।
ततस्ते ऋषयः सर्वे जटाजिनधरास्तथा।
शोभयंतः सरःश्रेष्ठं गङ्गामिव दिवौकसः९७।
मुंडाः काषायिणश्चैके दीर्घश्मश्रुधराः परे।
विरलैर्दशनैः केचिच्चिपिटाक्षास्तथा परे९८।
बृहत्तनूदराः केपि केकराक्षास्तथापरे।
दीर्घकर्णा विकर्णाश्च कर्णैश्च त्रुटितास्तथा९९।
दीर्घफाला विफालाश्च स्नायुचर्मावगुंठिताः।
निर्गतं चोदरं तेषां मुनीनां भावितात्मनां१०० 1.18.100।
दृष्ट्वा तु पुष्करं तीर्थं दीप्यमानं समंततः।
तीर्थलोभान्नरव्याघ्र तस्य तीरे व्यवस्थिताः१०१।
वालखिल्या महात्मानो ह्यश्मकुट्टास्तथापरे।
दंतोलूखलिनश्चान्ये संप्रक्षालास्तथापरे१०२।
वायुभक्षा जलाहाराः पर्णाहारास्तथापरे।
नाना नियमयुक्ताश्च तथा स्थंडिलशायिनः१०३।
सरस्यस्मिन्मुखं दृष्ट्वा सुरूपास्याः क्षणादभुः।
किमेतदिति चिंत्याथ निरीक्ष्य च परस्परम्१०४।
अस्मिंस्तीर्थे दर्शनेन मुखस्येह सुरूपता।
मुखदर्शनमित्येव नाम कृत्वा तु तापसाः१०५।
स्नाता नियमयुक्ताश्च सुरूपास्ते तदाभवन्।
देवपुत्रोपमा जाता अनौपम्य गुणान्विताः१०६।
शोभमाना नरश्रेष्ठ स्थिताः सर्वे वनौकसः।
यज्ञोपवीतमात्रेण व्यभजंस्तीर्थमंजसा१०७।
जुह्वतश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः।
चिंतयंतो हि राजेंद्र तपसा दग्धकिल्बिषाः१०८।
न यास्यामो परं तीर्थं ज्येष्ठभावेत्विदं सरः।
ज्येष्ठपुष्करमित्येव नाम चक्रुर्द्विजातयः१०९।
तत्र कुब्जान्बहून्दृष्ट्वा स्थितांस्तीर्थसमीपतः।
बभूवुर्विस्मितास्तत्र जना ये च समागताः११०।
दत्वा दानं द्विजातिभ्यो भांडानि विविधानि च।
श्रुत्वा सरस्वतीं प्राचीं स्नातुकामा द्विजागताः१११।
सरस्वतीतीर्थवरा नानाद्विजगणैर्युता।
बदरेंगुदकाश्मर्य प्लक्षाश्वत्थविभीतकैः११२।
पौलोमैश्च पलाशैश्च करीरैः पीलुभिस्तथा।
सरस्वतीतीर्थरुहैर्धन्वनैः स्यंदनैस्तथा११३।
कपित्थैः करवीरैश्च बिल्वैराम्लातकैस्तथा।
अतिमुक्तकपंडैश्च पारिजातैश्च शोभिता११४।
कदंबवनभूयिष्ठा सर्वसत्वमनोरमा।
वाय्वंबुफलपर्णादैर्दंतोलूखलिकैरपि११५।
तथाश्मकुट्टमुख्यैश्च वरिष्ठैर्मुनिभिर्वृता।
स्वाध्यायघोषसंघुष्टा मृगयूथशताकुला११६।
अहिंसैर्धर्मपरमैस्तथा चातीव शोभिता।
सुप्रभा कांचनाख्या च प्राची नंदा विशालका११७।
स्रोतोभिः पंचभिस्तत्र वर्तते पुष्करे नदी।
पितामहस्य सदसि वर्त्तमाने महीतले११८।
वितते यज्ञवाटे तु स्वागतेषु द्विजादिषु।
पुण्याहघोषैर्विततैर्देवानां नियमैस्तथा११९।
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तथा।
तत्र चैव महाराज दीक्षिते च पितामहे१२०।
यजतस्तस्य सत्रेण सर्वकामसमृद्धिना।
मनसा चिंतिता ह्यर्था धर्मार्थकुशलास्तथा१२१।
उपतिष्ठंति राजेंद्र द्विजातींस्तत्र तत्र ह।
जगुश्च देवगंधर्वा ननृतुश्चाप्सरोगणाः१२२।
वादित्राणि च दिव्यानि वादयामासुरंजसा।
तस्य यज्ञस्य संपत्या तुतुषुदेर्वता अपि१२३।
विस्मयं परमं जग्मुः किमु मानुषयोनयः।
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे१२४।
अब्रुवन्नृषयो भीष्म तदा तुष्टास्सरस्वतीम्।
सुप्रभां नाम राजेंद्र नाम्ना चैव सरस्वतीम्१२५।
ते दृष्ट्वा मुनयः सर्वे वेगयुक्तां सरस्वतीम्।
पितामहं भासयंतीं क्रतुं ते बहु मेनिरे१२६।
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती।
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम्१२७।
पुण्यस्य पुण्यताकारि पंचस्रोतास्सरस्वती।
सुप्रभा नाम राजेंन्द्र नाम्ना चैव सरस्वती१२८।
यत्र ते मुनयश्शान्ता नानास्वाध्यायवादिनः।
ते समागत्य ऋषयस्सस्मरुर्वै सरस्वतीम्१२९।
साभिध्याता महाभागा ऋषिभिः सत्रयाजिभिः।
समास्थिता दिशं पूर्वां भक्तिप्रीता महानदी१३०।
प्राची पूर्वावहा नाम्ना मुनिवंद्या सरस्वती।
इदमन्यन्महाराज शृण्वाश्चर्यवरं भुवि१३१।
क्षतो मंकणको विप्रः कुशाग्रेणेति नः श्रुतम्।
क्षतात्किल करे तस्य राजन्शाकरसोस्रवत्१३२।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्।
ततस्तस्मिन्प्रनृत्ते तु स्थावरं जंगमं च यत्१३३।
प्रानृत्यत जगत्सर्वं तेजसा तस्य मोहितम्।
शक्रादिभिस्सुरै राजन्नृषिभिश्च तपोधनैः१३४।
विज्ञप्तस्तत्र वै ब्रह्मा नायं नृत्येत्तथा कुरु।
आदिष्टो ब्रह्मणा रुद्र ऋषेरर्थे नराधिप१३५।
नायं नृत्येद्यथा भीम तथा त्वं वक्तुमर्हसि।
गत्वा रुद्रो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि१३६।
भो भो विप्रर्षभ त्वं हि नृत्यसे केन हेतुना।
नृत्यमानेन भवता जगत्सर्वं च नृत्यति१३७।
तेनायं वारितः प्राह नृत्यन्वै मुनिसत्तमः।
मुनिरुवाच।
किं न पश्यसि मे देव कराच्छाकरसोस्रवत्१३८।
तं तु दृष्ट्वाप्र नृत्तोहं हर्षेण महतावृतः।
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्१३९।
अहं न विस्मयं विप्र गच्छामीह प्रपश्य मां।
एवमुक्तो मुनिश्रेष्ठो महादेवेन कौरव१४०।
ध्यायमानस्तदा कोयं प्रतिषिद्धोस्मि येन हि।
अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितस्तथा१४१।
ततो भस्मक्षताद्राजन्निर्गतं हिमपांडुरं।
तद्दृष्ट्वा व्रीडितश्चासौ प्राह तत्पादयोः पतन्१४२।
नान्यद्देवादहं मन्ये रुद्रात्परतरं महत्।
चराचरस्य जगतो गतिस्त्वमसि शूलधृत्१४३।
त्वया सृष्टमिदं सर्वं वदंतीह मनीषिणः।
त्वामेव सर्वं विशति पुनरेव युगक्षये१४४।
देवैरपि न शक्यस्त्वं परिज्ञातुं मया कुतः।
त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोपि ये१४५।
सर्वस्त्वमसि देवानां कर्ता कारयिता च यः।
त्वत्प्रसादात्सुराः सर्वे भवंतीहाकुतोभयाः१४६।
एवं स्तुत्वा महादेवमृषिश्च प्रणतोब्रवीत्।
भगवंस्त्वत्प्रसादेन तपो न क्षीयते त्विह१४७।
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्।
तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा१४८।
प्राचीमेवेह वत्स्यामि त्वया सार्द्धमहं सदा।
सरस्वती महापुण्या क्षेत्रे चास्मिन्विशेषतः१४९।
न तस्य दुर्लर्भं किंचिदिह लोके परत्र च।
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्१५० 1.18.150।
प्राचीतटे जाप्यपरो न चेह म्रियते पुनः।
आप्लुतो वाजिमेधस्य फलमाप्स्यति पुष्कलं१५१।
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः।
जलाहारो वायुभक्षः पर्णाहारश्च तापसः१५२।
तथा स्थंडिलशायी च ये चान्ये नियमाः पृथक्।
करोति यो द्विजश्रेष्ठो नियमांस्तान्व्रतानि च१५३।
स याति शुद्धदेहश्च ब्रह्मणः परमं पदं।
तस्मिंस्तीर्थे तु यैर्दत्तं तिलमात्रं तु कांचनं१५४।
मेरुदानसमं तत्स्यात्पुरा प्राह प्रजापतिः।
तस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंति हि मानवाः१५५।
एकविंशकुलोपेताः स्वर्गं यास्यंति ते नराः।
पितॄणां च शुभं तीर्थं पिंडेनैकेन तर्पिताः१५६।
ब्रह्मलोकं गमिष्यंति स्वपुत्रेणेह तारिताः।
भूयश्चान्नं न चेच्छंति मोक्षमार्गं व्रजंति ते१५७।
प्राचीनत्वं सरस्वत्या यथा भूतं शृणुष्व तत्।
सरस्वती पुरा प्रोक्ता देवैः सर्वैः सवासवैः१५८।
तटं त्वया प्रयातव्यं प्रतीच्यां लवणोदधेः।
वडवाग्निमिमं नीत्वा समुद्रे निक्षिपस्व ह१५९।
एवं कृते सुराः सर्वे भवंति भयवर्जिताः।
अन्यथा वाडवाग्निस्तु दहते स्वेन तेजसा१६०।
तस्माद्रक्षस्व विबुधानेतस्मादचिराद्भयात्।
मातेव भव सुश्रोणि सुराणामभयप्रदा१६१।
एवमुक्ता तु सा देवी विष्णुना प्रभविष्णुना।
आह नाहं स्वतंत्रास्मि पिता मे व्रियतां स्वराट्१६२।
तदाज्ञाकारिणी नित्यं कुमारीह धृतव्रता।
पित्रादेशाद्विना नाहं पदमेकमपि क्वचित्१६३।
गच्छामि तस्मात्कोप्यन्य उपायश्चिंत्यतामहो।
तदाशयं विदित्वाहुस्ते समेत्य पितामहं१६४।
नान्येन शक्यते नेतुं वडवाग्निः पितामह।
अदृष्टदोषाम्मुक्त्वैकां कुमारीं तनयां तव१६५।
सरस्वतीं समानीय कृत्वांके वरवर्णिनीं।
शिरस्याघ्रायसस्नेहमुवाचाथसरस्वतीम्१६६।
मां च देवि सुराः प्राहुः स त्वं ब्रूहि यशस्विनीम्।
नीत्वा विनिक्षिपेदेनं बाडवं लवणांबुनि१६७।
पितुर्वाक्यं हि तच्छ्रुत्वा वियुक्ता कुररी यथा।
पित्रा तदैव सा कन्या रुरुदे दीनमानसा१६८।
शोभते तन्मुखं तस्याः शोकबाष्पाविलेक्षणं।
सितं विकसितं तद्वत्पद्मं तोयकणोक्षितम्१६९।
तत्तथाविधमालोक्य पितामहपुरस्सराः।
विबुधाः शोकभावस्य सर्वे वशमुपागताः१७०।
संस्तभ्य हृदयं तस्याः शोकसंतापितं तदा।
पितामहस्तामुवाच मा रोदीर्नास्ति ते भयम्१७१।
मान लाभश्च भविता तव देवानुभावतः।
नीत्वा क्षारोदमध्ये तु क्षिपस्व ज्वलनं सुते१७२।
एवमुक्ता तु सा बाला बाष्पाकुलितलोचना।
प्रणम्य पद्मजन्मानं गच्छाम्युक्तवती तु सा१७३।
मा भैरुक्ता पुनस्तैस्तु पित्रा चापि तथैव सा।
त्यक्त्वा भयं हृष्टमनाः प्रयातुं समवस्थिता१७४।
तस्याः प्रयाणसमये शंखदुंदुभिनिस्वनैः।
मंगलानां च निर्घोषैर्जगदापूरितं शुभैः१७५।
सितांबरधराधन्या सितचंदनमंडिता।
शरदंबुजसच्छाय तारहारविभूषिता१७६।
संपूर्णचंद्रवदना पद्मपत्रायतेक्षणा।
शुभां कीर्तिं सुरेशस्य पूरयंती दिशो दश१७७।
स्वतेजसा तद्धृदयान्निःसृता भासयज्जगत्।
अनुव्रजन्ती तां गंगा तयोक्ता वरवर्णिनी१७८।
द्रक्ष्यामि त्वां पुनरहं प्रयासि कुत्र मे सखि।
एवमुक्ता तु सा गंगा प्रोवाच मधुरां गिरम्१७९।
यदैवायास्यसि प्राचीं दिशं मां पश्यसे शुभे।
विबुधैस्त्वं परिवृता दर्शनं तव संश्रये१८०।
उदङ्मुखी तदा भूत्वा त्यज शोकं शुचिस्मिते।
अहं चोदङ्मुखी पुण्या त्वं तु प्राची सरस्वति१८१।
तत्र क्रतुशतं पुण्यं स्नानदानेन सुव्रते।
श्राद्धदाने तथा नित्यं पितॄणां दत्तमक्षयम्१८२।
ये करिष्यंति मनुजा विमुक्तास्त्ते ऋणैस्त्रिभिः।
मोक्षमार्गं गमिष्यंति विचारो नात्र विद्यते१८३।
तामुवाच ततो गंगा पुनर्दर्शनमस्तु ते।
गच्छ स्वमालयं भद्रे स्मर्तव्याहं त्वयानघे१८४।
यमुनापि तथैवं सा गायत्री च मनोरमा।
सावित्र्या सहिताः सर्वाः सखीं संप्रैषयंस्तथा१८५।
ततो विसृज्य तान्देवान्नदी भूत्वा सरस्वती।
उत्तंकस्याश्रमपद उद्भूता सा मनस्विनी१८६।
अधस्तात्प्लक्षवृक्षस्य अवरोप्य च तां तनुम्।
अवतीर्णा महाभागा देवानां पश्यतां तदा१८७।
विष्णुरूपस्तरुः सोत्र सर्वदेवैस्तु वंदितः।
संसेव्यश्च द्विजैर्नित्यं फलहेतोर्महोदयः१८८।
अनेकशाखाविततश्चतुर्मुख इवापरः।
तत्कोटरकुटीकोटि प्रविष्टानां द्विजन्मनाम्१८९।
श्रूयंते विविधा वाचः सुराणां रक्तचेतसाम्।
वनस्पतिरपुष्पोपि पुष्पितश्चोपलक्ष्यते१९०।
जातीचंपकवत्पुष्पैः शाखालग्नैः शुकैः शुभैः।
केतकीभिः सुरभिभिरशोभत सरिद्वरा१९१।
कोकिलाभिस्स मालेव फेनकैः पुष्पितेव सा।
हरेणेव यथा गंगा प्लक्षेणैव हि सा तथा१९२।
तत्रांभस्था तदा देवं प्रोवाचाथ जनार्दनम्।
समर्पयस्व तं वह्निं देवादेशं करोम्यहम्९१३।
एवमुक्तेन सा तेन प्रत्युक्ता विष्णुना तदा।
न ते दाहभयं त्याज्यस्त्वयायं वह्निराट्स्वयम्१९४।
पश्चिमं सागरं नेतुं वाडवज्वलनं शुभे।
एवं क्रमेण गच्छंत्या तदापं प्राप्स्यते शुभे१९५।
ततस्तं शातकुंभस्थं कृत्वासौ वडवानलं।
समर्पयत गोविंदः सरस्वत्या महोदरे१९६।
सा तं गृहीत्वा सुश्रोणी प्रतीच्यभिमुखी ययौ।
अंतर्द्धानेन संप्राप्ता पुष्करं सा महानदी१९७।
मर्यादापर्वते तस्मिन्संभूता विमला सरित्।
पुष्करारण्यं विपुलं सुरसिद्धनिषेवितम्१९८।
पितामहेन यत्रासीद्यज्ञसत्रं निषेवितम्।
सिध्यर्थं मुनिमुख्यानामागतासौ महानदी१९९।
येषु तत्र कृतो होमः कुंडेष्वासीद्विरिंचिना।
तानि सर्वाणि संप्लाव्य तोयेनाप्युद्गता हि सा२०० 1.18.200।
तत्र क्षेत्रे महापुण्या पुष्करे सा तथोत्थिता।
तेन तत्पूरणं प्रोक्तं वायुना जगदायुषा२०१।
सापि तत्क्षेत्रमासाद्य पुण्यं पुण्या महानदी।
सरस्वती स्थिता देवी मर्त्यानां पापनाशिनी२०२।
तत्र ये शुभकर्माणः पुष्करस्थां सरस्वतीम्।
पश्यंति ते न पश्यंति सुघोरां तामधोगतिं२०३।
यः पुनस्तत्र भावेन नरः स्नानं समाचरेत्।
स ब्रह्मलोकमासाद्य ब्रह्मणा सह मोदते२०४।
यस्तु दद्यात्तत्र दधि ब्राह्मणाय मनोरमम्।
सोप्यग्निलोकमासाद्य भुंक्ते भोगान्सुशोभनान्२०५।
वरं प्रावरणं योपि भक्त्या दद्याद्द्विजातये।
सोपि सद्वस्त्रदानस्य फलं दशगुणं लभेत्२०६।
ज्येष्ठकुंडे नरः स्नात्वा यः संतर्पयते पितॄन्।
स तानुद्धरते सर्वान्नरकादपि शुद्धधीः२०७।
क्षेत्रे पैतामहे पूते पुण्यां प्राप्य सरस्वतीम्।
नरः किं प्रार्थयेदन्यत्तीर्थं ब्रह्मसुतोब्रवीत्२०८।
तस्मात्सर्वेषु तीर्थेषु स्नातः प्राप्नोति यत्फलम्।
तत्सर्वं प्राप्नुयान्मर्त्यो ज्येष्ठकुंडे सकृत्प्लुतः२०९।
किमत्र बहुनोक्तेन क्षेत्रं तीर्थं गतिश्शुभा।
येनैतत्त्रितयं प्राप्तं प्राप्ता तेन गतिः परा२१०।
काले क्षेत्रे तथा तीर्थे स्नात्वा हुत्वापि तत्र यः।
प्रयच्छते द्विजायार्थं सोनंतं सुखमश्नुते२११।
कार्त्तिके मासि शुक्ले च वैशाखे शशिभूषणे।
चंद्रसूर्योपरागे च काले च कुरुजांगले२१२।
क्षेत्रेष्वेतेषु तीर्थानि यान्युक्तानि मुनीश्वरैः।
तेषां पुण्यतमं तीर्थमिदमाह पितामहः२१३।
कुंडे तु मध्यमे स्नात्वा कार्तिक्यां यः पुमान्द्विजे।
प्रयच्छते चापि द्रव्यं सोश्वमेधमवाप्नुयात्२१४।
एवं कनिष्ठकेप्यत्र कुंडे स्नात्वा समाधिना।
यः प्रयच्छति विप्राय सुरूपामपि शालिकाम्२१५।
स प्रयाति नरः क्षिप्रमग्निलोकं मनोरमम्।
त्रिःसप्तकुलसंयुक्तो भुंक्ते तत्र महाफलम्२१६।
तस्मात्सर्वप्रयत्नेन गमनाय मतिः स्थिरा।
पुरुषेण तु कर्तव्या पुष्करावाप्तये शुभा२१७।
पुष्करारण्यमासाद्य प्राची यत्र सरस्वती।
मतिः स्मृतिः शुभा प्रज्ञा मेधा बुद्धिर्दयापरा२१८।
सरस्वत्यास्तु पर्यायाष्षडेते संप्रकीर्तिताः।
ततः प्रभृति यत्रासौ प्राचीभूता सरस्वती२१९।
तत्रस्थं तज्जलं येपि पश्यंति तटसंस्थिताः।
तेप्यश्वमेधस्यफलं लभंते नात्र संशयः२२०।
योवतीर्य पुनस्तत्र कश्चित्स्नानं समाचरेत्।
नरः समाधियुक्तो वै ब्रह्मणोनुचरो भवेत्२२१।
शाकादिनापि हि पितॄन्यस्तत्रार्चयते नरः।
सोप्येति विपुलान्भोगांस्तेषामेवानुभावतः२२२।
ये पुनर्विधिना तत्र श्राद्धं कुर्वंति मानवाः।
ते नयंति पितॄन्स्वर्गं नरकादपि दुःखदात्२२३।
तृप्यंति पितरस्तस्य यस्तत्र कुशमिश्रितम्।
स्नात्वा प्रयच्छते तोयं पूतं तेषां तिलान्वितम्२२४।
सर्वेषामेव तीर्थानामिदमेवाधिकं स्मृतम्।
आदितीर्थमिदं तस्मात्तीर्थानां भुवि विश्रुतम्२२५।
धर्मापवर्गयोःनक्रीडाननिधिभूतमवस्थितम्।
सरस्वत्यानपुनश्चैवनसमेतंनगुणवत्तरम्२२६।
धर्मार्थकाममोक्षाणां चतुर्णामपि दायकम्।
येप्यत्र मलनाशाय पुमांसो विविशुर्जलम्२२७।
गोप्रदानसमं तेषां सुखेनैव फलं भवेत्।
सुवर्णदानेन सममेवमाहुर्मनीषिणः२२८।
तर्पणात्पिण्डदानाच्च नरकेष्वपि संस्थिताः।
स्वर्गं प्रयान्ति पितरस्तत्र पुत्रेण तारिताः२२९।
पुष्करेपि सरस्वत्यां ये पिबन्ति जलं जनाः।
ते लभन्तेऽक्षयान्लोकान्ब्रह्मविश्वेशवंदितान्२३०।
स्वर्गनिश्रेणिकाभूता पुष्करे च सरस्वती।
सा पुण्यवद्भिस्संप्राप्तुं पुंभिश्शक्या महानदी२३१।
मुनिभर्धर्मतत्त्वज्ञैस्तत्र तत्र निषेविता।
तस्मात्सर्वत्र सा देवी पवित्रा सर्वतस्स्थिता२३२।
पुष्करे तु विशेषेण पूतात्पूततमा हि सा।
नदी सरस्वती पुण्या सुलभा जगति स्थिता२३३।
दुर्लभा सा कुरुक्षेत्रे प्रभासे पुष्करे तथा।
तत्तीर्थं सर्वतीर्थानां प्रवरं विहितं भुवि२३४।
धर्मार्थकाममोक्षाणां चतुर्णामपि साधकम्।
प्राचीं सरस्वतीं प्राप्य योन्यत्तीर्थं हि मार्गते२३५।
स करस्थं समुत्सृज्य ह्यमृतं विषमिच्छति।
ज्येष्ठे ज्येष्ठा प्रयागस्य मध्यमे मध्यमा स्मृता२३६।
प्रदक्षिणं ततो गच्छेत्कनीयांसं विचक्षणः।
त्रिष्वप्येतेषु स्नायीत कुर्याच्चापि प्रदक्षिणम्२३७।
प्रयच्छति पितृभ्यो यस्तोयं तेषां तिलान्वितम्।
तेपि तुष्टाः पुनस्तस्य प्रयच्छंत्यमितं फलम्२३८।
यः स्नात्वा प्रयतो नित्यं ततः पश्येत्पितामहम्।
अनुलोमविलोमाभ्यां तथा व्यस्तसमस्तयोः२३९।
स्नातव्यं पुष्करे नित्यं ब्रह्मलोकमभीप्सिता।
त्रीणि शृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च२४०।
पुष्कराणि प्रसिद्धानि न विद्मस्तत्र कारणं।
कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करं२४१।
शृंगशद्बाभिधानानि शुभप्रस्रवणानि च।
धर्मार्थकाममोक्षाणां संकल्पैरफलं नरः२४२।
यस्तत्र संत्यजेद्देहं मोक्षं प्राप्नोत्यसंशयम्।
प्रयतः संयतस्तस्यां स्नात्वा दद्याद्विजे शुभाम्२४३।
गामेकां मंत्रपूतां च लोकानाप्नोतिमोक्षदान्।
किमत्र बहुनोक्तेन रात्रावपि हि योर्थिने२४४।
अर्थं प्रयच्छते स्नात्वा सोनन्तं सुखमश्नुते।
तत्र दानं प्रशंसंति तिलानां मुनिसत्तमाः२४५।
कृष्णपक्षे चतुर्दश्यां स्नानं च विहितं सदा।
पिण्याकेन गुडेनापि पिंडं योत्र प्रयच्छति२४६।
पितॄणां प्रयतो भूत्वा पितृलोकं स यछति।
पुष्करारण्यमासाद्य पुनस्तस्मात्सरस्वती२४७।
अंतर्द्धानं गता गंतुं प्रवृत्तागपश्चिमामुखी।
नातिदूरे ततस्तस्य पुष्करस्य सुशोभना२४८।
खर्जूरवनमासाद्य फलपुष्पोपशोभितं।
तत्रोषित्वा पुनर्देवी वने मुनिमनोरमे२४९।
सर्वर्तुकुसुमाकीर्णे सिद्धचारणसेविते।
नंदा नाम सरिच्छ्रेष्ठा त्रिषुलोकेषु विश्रुता२५० 1.18.250।
मीननक्रझषोपेता विमलोदकपूरिता।
सूत उवाच।
अथ देवव्रतःप्राह किमन्या सा सरिद्वरा२५१।
एतन्मे कौतुकं ब्रह्मन्नंदा शब्दा सरस्वती।
यथाभूता येन कृता कारणेन सरिद्वरा२५२।
एवमुक्ते पुलस्त्यः स भीष्मायैतत्पुरातनं।
आख्यातुमुपचक्राम नंदा नाम यतस्स्मृतं२५३।
क्षत्रव्रतधरो नित्यमासीद्राजा प्रभंजनः।
प्रवृत्तोसौ मृगान्हंतुं वने तस्मिन्महाबलः२५४।
स ददर्श ततस्तस्मिन्मृगीं गुल्मांतरे स्थितां।
मार्गणेन सुतीक्ष्णेन तां विव्याध पुरोगतां२५५।
सा विलोक्य दिशः सर्वास्तं दृष्ट्वा शरपाणिनं।
आह किं ते कृतं मूढ त्वयैतत्कर्मदुष्करं२५६।
स्तनं तावत्प्रयच्छामि सुतस्याधोमुखी स्थिता।
मांसलोभेन विद्धाहं तरसा ह्यकुतोभया२५७।
पिबंतं गुप्तवत्सं च गूढमैथुनमागतं।
एवंविधं मृगं राजन्न हन्यात्प्राङ्मया श्रुतं२५८।
स्तनं तु तनयस्यास्य प्रयच्छंती त्वया हता।
बाणेनाशनिकल्पेन निर्दोषा वनमागता२५९।
तस्मात्त्वमपि दुर्बुद्धे क्रव्यादत्वमवाप्स्यसि।
वनेस्मिन्कंटकाकीर्णे व्याघ्ररूपं त्वमाप्नुहि२६०।
शापप्रदानं श्रुत्वैवं स राजापुरतः स्थितः।
प्रोवाच प्रांजलिर्भूत्वा तां मृगीं व्यथितेन्द्रियः२६१।
स्तनं तु तनयस्येह प्रयच्छंती न मे मता।
अज्ञानेन हता भद्रे प्रसीद सुसमाधिना२६२।
व्याघ्ररूपमहं त्यक्त्वा प्राप्स्यामि मानुषं कदा।
एवंविधस्य शापस्य विमोक्षं शंस मे मृगि२६३।
एवमुक्ते मृगी तस्य प्रोवाच वचनं शुभम्।
राजन्नब्दशतांते तु शापस्यागतया गवा२६४।
नंदया सह संवादमासाद्यांतो भविष्यति।
मृग्योक्ते वचने राजा व्याघ्र एवाभवत्तदा२६५।
नखदंष्ट्रायुधोपेतो व्याघ्ररूपोति भीषणः।
तत्रासौ भक्षयन्नास्ते मृगान्हत्वा चतुष्पदः२६६।
द्विपदानपि तत्रस्थान्कालेन क्रमयोजितान्।
एवं तत्र वने तस्य संवत्सरशतं गतम्२६७।
आत्मानं निंदमानस्य मृगमांसानि खादतः।
कदाहं मानुषं भावं गमिष्यामीदृशं पुनः२६८।
कुत्सितं न करिष्यामि वियोनिकरणं महत्।
कुर्वता मांसलोभेन मृगयां परिधावता२६९।
आपदासहितं प्राप्तं मानुषाणां भयावहम्।
दर्शनं दुःखदं मह्यं मृगाणां मानुषैः सह२७०।
पापेन पापतां नीतो ह्यपापेऽपि सतां कुले।
उत्पन्नो विकृतिं नीतः पश्य कालस्य पर्ययम्२७१।
तस्मान्मे सुकृतं नास्ति हिंसाप्येका विगर्हिता।
तया तु प्राप्यते दुःखं न च मोक्षो भविष्यति२७२।
कथं मे भविता मोक्षः कथं सत्या मृगी भवेत्।
गते वर्षशते तस्य वसतस्तद्वने तदा२७३।
आयातं गोकुलं काले यवसोदककारणात्।
गोवाटवाटीसंस्थानं तत्तत्र समवस्थितम्२७४।
वनोपकण्ठे मंथानरवेणापूरितं च यत्।
क्षीबैर्गोपैः समाकीर्णं पादपैरपितद्वनम्२७५।
निशिवंशरवोपेतं गोपीनां च शुभप्रदम्।
एवं तु वसतस्तस्य खर्जूरवनसंसदि२७६।
हृष्टा तुष्टा च पुष्टा च नंदा वै नाम नामतः।
गोमंडलस्य सामुख्या हंसवर्णा घटस्रवा२७७।
दीर्घघोणा विभक्तांगी बंधुरांगी तनुत्वचा।
नीलकंठा शुभग्रीवा घंटाली मधुरस्वना२७८।
सा च यूथस्य सर्वस्य पुरश्चरति निर्भया।
घासस्थानं चरेच्छन्नं गत्वैका च यथासुखम्२७९।
यथेष्टकामा सुरभी छन्नं चरति वै तृणम्।
रोहितो नाम तत्रान्यः पर्वतः सरितस्तटे२८०।
अनेककंदरदरी गुहासत्व निषेवितः।
तस्य पूर्वोत्तरेभागे घोरे तृणसमाकुले२८१।
संकटे विषमे दुर्गे भैरवे लोमहर्षणे।
मृगसिंहसमाकीर्णे बहु श्वापद सेविते२८२।
वल्लीवृक्षादिगहने शिवाशत निनादिते।
दुर्गेस्मिन्वसते रौद्रः कामरूपी भयंकरः२८३।
द्वीपी शोणित दिग्धांसो घोरदंष्ट्रानखायुधः।
नंदो नाम स धर्मात्मा स च गोपीहिते रतः२८४।
अच्छिन्नाग्रैस्तृणैर्दीर्घैर्गोधनं परिरक्षति।
तस्य यूथपरिभ्रष्टा सानंदा तृणलिप्सया२८५।
चरंती व्याघ्रपुरतः सा धेनुः प्रत्युपस्थिता।
अभ्यद्रवच्च तां द्वीपी तिष्ठतिष्ठेति चाब्रवीत्२८६।
त्वमद्य विहितो भक्षः स्वयं प्राप्तासि धेनुके।
द्वीपिनश्च वचः श्रुत्वा निष्ठुरं रोमहर्षणं२८७।
शुक्लरूपान्वितं बालं भद्रमिंदुसमप्रभम्।
वत्सं स्मरति सा धेनुः स्नेहाक्ता गद्गदाक्षरम्२८८।
दह्यंती पुत्रशोकेन नंदा सा पुत्रवत्सला।
रुदंती करुणं चैव निराशा पुत्रदर्शने२८९।
द्वीपी दृष्ट्वा तु तां धेनुं क्रंदमानां सुदुःखिताम्।
उवाच वचनं घोरं धेनुके किं प्ररुद्यते२९०।
दैवात्सुखोपपन्नासि भक्षस्त्वं मे यदृच्छया।
रुदंत्या वा हसंत्या वा तवात्तं जीवितं भवेत्२९१।
विहितं भुज्यते लोके स्वयंप्राप्तासि धेनुके।
मृत्युस्ते विहितोद्यैव वृथा किमनुशोचसि२९२।
पप्रच्छ तां पुनर्द्वीपी किमर्थं रुदितं त्वया।
कौतुकं चात्र मे जातं महन्मे कथयस्व वै२९३।
व्याघ्रस्य वचनं श्रुत्वा नंदा वाक्यमथाब्रवीत्।
क्षंतुमर्हसि मे नाथ कामरूपिन्नमोस्तु ते२९४।
त्वां समासाद्य लोकस्य परित्राणं न विद्यते।
जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया२९५।
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।
तस्मादपरिहार्येर्थे न शोचामि मृगाधिप२९६।
देवैरपि यथा सर्वैर्मर्त्तव्यमवशैर्ध्रुवम्।
तस्मात्तु नाहमेवैका व्याघ्र शोचामि जीवितम्२९७।
किंतु स्नेहेन वै साधो दुःखेन रुदितं मया।
अस्ति मे हृदि संतापस्तं च त्वं श्रोतुमर्हसि२९८।
प्रथमे वयसि प्राप्ते प्रसूताहं मृगाधिप।
इष्टः प्रथमजातश्च सुतस्तु मम बालकः२९९।
क्षीरपायी च मे वत्सस्तृणं नाद्यापि जिघ्रति।
स च गोपकुले बद्धः क्षुधार्तो मामवेक्षते३०० 1.18.300।
तमहं चानुशोचामि कथं जीविष्यते सुतः।
तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशं गता३०१।
पाययित्वा स्तनं वत्समवलिह्य च मूर्द्धनि।
सखीनामर्पयित्वा तु संदिश्य च हिताहितम्३०२।
पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि।
स नंदाया वचः श्रुत्वा मृगेंद्रः पुनरब्रवीत्३०३।
किं ते पुत्रेण कर्त्तव्यं मरणं किं न बुध्यसे।
त्रस्यंति सर्वभूतानि म्रियंते मां निरीक्ष्य च३०४।
त्वं पुनः कृपयाविष्टा पुत्रपुत्रेति भाषसे।
न पुत्रा न तपो दानं न माता न पिता गुरुः३०५।
शक्नुवंति परित्रातुं नरं कालप्रपीडितम्।
कथं त्वं गोकुलं गत्वा गोपीजनसमाकुलम्३०६।
वृषभैर्नादितं दिव्यं बालवत्सविभूषितम्।
भूषणं देवलोकस्य स्वर्गतुल्यं न संशयः३०७।
नित्यं प्रमुदितं दिव्यं सर्वदेवप्रपूजितम्।
यत्पवित्रं पवित्राणां मंगलानां च मंगलम्३०८।
यत्तीर्थं सर्वतीर्थानां धन्यानां धन्यमुत्तमम्।
समस्तगुणसंपन्नमीश्वरायतनं महत्३०९।
यत्ख्यातं सर्वतीर्थानां भूमिस्वर्गमनुत्तमम्।
गोपीमंथनशब्देन बालवत्सरवेण च३१०।
गवां हुंकारशब्देन अलक्ष्मीः प्रतिहन्यते।
यत्र वत्साश्च हुंकारं करुणं मातृकांक्षया३११।
यद्गोपैः पालितं शूरैर्बाहुयुद्धकृतश्रमैः।
प्रगीतनृत्यसंलापं नंदितास्फोटनादितम्३१२।
इतस्ततः स्थितैर्वत्सैर्नर्द्यमानं समंततः।
सरोवद्राजते गोष्टं चलद्भिरिव पंकजैः३१३।
तं श्रीनिकेतनं सौम्यं हृष्टपुष्टजनाकुलम्।
गोलोकप्रतिमं दृष्ट्वा कथं प्रत्यागमिष्यसि३१४।
पंचभूतानि मे भद्रे पिबंतु रुधिरं तव।
न निर्विण्णानि भूतानि वाङ्मात्रेण करोम्यहम्३१५।
नंदोवाच।
एवं प्रथमवत्साया मृगेंद्र शृणु मे वचः।
दृष्ट्वा सखीः सुतं बालं गोपांश्च प्रतिपालकान्३१६।
गोपीजनमुपामंत्र्य जननीं च विशेषतः।
शपथैरागमिष्यामि मन्यसे यदि मुंच मां३१७।
यत्पापं ब्रह्मवध्यायां मातृपितृवधेषु च।
तेन पापेन लिप्येहं यद्यहं नागमे पुनः३१८।
यत्पापं लुब्धकानां तु म्लेच्छानां गरदायिनाम्।
तेन पापेन लिप्येहं यद्यहं नागमे पुनः३१९।
गोषु विघ्नांश्च ये कुर्युः स्वपंतीं ताडयंति च।
तेन पापे नलिप्येहं यद्यहं नागमे पुनः३२०।
सकृद्दत्वा तु यः कन्यां द्वितीये दातुमिच्छति।
तस्य पापेन लिप्येहं यद्यहं नागमे पुनः३२१।
यस्त्वनर्हान्बलीवर्दान्विषमे वाहयेत्पुमान्।
कथायां कथ्यमानायां विघ्नं कारयते तु यः३२२।
तेन पापेन लिप्येहं यद्यहं नागमे पुनः।
गृहे यस्यागतं मित्रं निराशं प्रतिगच्छति३२३।
तस्य पापेन लिप्येहं यद्यहं नागमे पुनः।
इत्येतैः पातकैर्घोरैरागमिष्याम्यहं पुनः३२४।
बुध्वा संप्रत्ययं द्वीपी पुनर्वचनमब्रवीत्।
व्याघ्र उवाच।
संजातः प्रत्ययोस्माकं शपथैर्धेनुके तव३२५।
कदाचिन्मन्यसे गत्वा मूर्खोयं वंचितो मया।
अत्रापि केचिद्वक्ष्यंति शपथे नास्ति पातकम्३२६।
कामिनीषु विवाहेषु गवां मुक्तौ तथैव च।
प्राणत्यागे समुत्पन्ने श्रद्धातव्यं न च त्वया३२७।
लोकेस्मिन्नास्तिकाः केचिन्मूर्खाः पंडितमानिनः।
भ्रामयिष्यंति ते चित्तं चक्रारूढमिव क्षणात्३२८।
कुतर्कहेतुवृत्तांतैरज्ञानावृतचेतसः।
मोहयंति नराः क्षुद्रा आगमानविशारदाः३२९।
अतथ्यान्यपि तथ्यानि दर्शयंत्यतिपेशलाः।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः३३०।
प्रायः कृतार्थो लोकोयं मन्यते नोपकारिणम्।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्३३१।
न तं पश्यामि लोकेस्मिन्कृते प्रतिकरोति यः।
सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते३३२।
ऋषिदेवासुरनरैः शपथाः कार्यसिद्धये।
कृताः परस्परं पूर्वं तान्न मन्यामहे वयम्३३३।
सत्येनापि शपेद्यस्तु देवाग्निगुरुसन्निधौ।
तस्य वैवस्वतो राजा धर्मस्यार्द्धं निकृंतति३३४।
मा ते बुद्धिर्भवेदेवं शपथैरेष वंचितः।
त्वयैव दर्शितं सर्वं यथेष्टं कुरु सांप्रतं३३५।
नंदोवाच।
एवमेव महासाधो कस्त्वां वंचयितुं क्षमः।
आत्मैव वंचितस्तेन यः परं वंचयिष्यति३३६।
द्वीप्युवाच।
धेनुके पश्य गच्छ त्वं पुत्रकं पुत्रवत्सले।
पाययित्वा स्तनं वत्समवलिह्य च मूर्द्धनि३३७।
मातरं भ्रातरं दृष्ट्वा सखीस्वजनबांधवान्।
सत्यमेवाग्रतः कृत्वा शीघ्रमागमनं कुरु३३८।
एवं सा शपथं कृत्वा धेनुर्वै सत्यवादिनी।
अनुज्ञाता मृगेंद्रेण प्रयाता पुत्रवत्सला३३९।
अश्रुपूर्णमुखीदीना वेपमाना सुदुःखिता।
हंभारवं प्रमुंचंती पतिता शोकसागरे३४०।
करीव चरणग्राहं गृहीतः सलिलाशये।
अशक्ता स्वपरित्राणे विलपंती मुहुर्मुहुः३४१।
सा तत्र गोकुलं प्राप्ता हरिन्नद्यास्तटे स्थितम्।
श्रुत्वा वत्सं तु क्रोशंतं पर्यधावत संमुखी३४२।
उपसृप्य च तं बालं बाष्पपर्याकुलेक्षणम्।
संप्राप्य मातरं वत्सः शंकितः परिपृच्छति३४३।
न ते पश्याम्यहं स्वास्थ्यं धैर्यं नैवाद्य लक्षये।
उद्विग्ना चापि ते दृष्टिर्भीता चातीव लक्ष्यसे३४४।
नन्दोवाच।
पिब पुत्र स्तनं मेद्य कारणं यदि पृच्छसि।
अशक्ताहं तवाख्यातुं कुरु तृप्तिं यथेप्सिताम्३४५।
अपश्चिमं तु ते पुत्र दुर्लभं मातृदर्शनम्।
एकाहमद्य मे पीत्वा प्रभाते कस्य पास्यसि३४६।
त्वां त्यक्त्वा पुत्र गंतव्यं शपथैरागता ह्यहम्।
क्षुत्क्षामस्य च व्याघ्रस्य दातव्यमात्मजीवितम्३४७।
नंदायाश्च वचः श्रुत्वा वत्सो वचनमब्रवीत्।
वत्स उवाच।
अहं तत्र गमिष्यामि यत्र त्वं गंतुमिच्छसि३४८।
श्लाघ्यं ममापि मरणं त्वया सह न संशयः।
एकाकिनापि मर्तव्यं मयार्तेन त्वया विना३४९।
यदि मां संहितं मातर्वने व्याघ्रो हनिष्यति।
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति३५० 1.18.350।
तस्मादवश्यं यास्यामि त्वया सह न संशयः।
अथवा तिष्ठ मातस्त्वं शपथाः संतु ते मम३५१।
जनन्या च वियुक्तस्य जीविते किं प्रयोजनम्।
अनाथस्य वने नित्यं को मे नाथो भविष्यति३५२।
नास्ति मातृसमो बंधुर्बालानां क्षीरजीविनाम्।
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः३५३।
नास्ति मातृसमः स्नेहो नास्ति मातृसमं मुखम्।
नास्ति मातृसमो देव इहलोके परत्र च३५४।
एवं वै परमो धर्मः प्रजापतिविनिर्मितः।
ये तिष्ठंति सदा पुत्रास्ते यांति परमां गतिम्३५५।
नंदोवाच।
ममैव विहितो मृत्युर्न त्वं पुत्रागमिष्यसि।
न चायमन्यजीवानां मृत्युः स्यादन्यमृत्युना३५६।
अपश्चिममिमं पुत्र मातृसंदेशमुत्तमम्।
अत्रातिष्ठस्व मद्वाक्यात्ततः शुशूषणं पुनः३५७।
जलेस्थले च विचरन्प्रमादं तात मा कुरु।
प्रमादात्सर्वभूतानि विनश्यंति न संशयः३५८।
न च लोभेन चर्तव्यं विषमस्थं तॄणं क्वचित्।
लोभाद्विनाशः सर्वेषामिहलोके परत्र च३५९।
समुद्रमटवीं पुत्र विशंति लोभमोहिताः।
लोभादकार्यमत्युग्रं विद्वानपि समाचरेत्३६०।
लोभात्प्रमादाद्विस्रंभात्त्रिभिर्नाशो भवेन्नॄणाम्।
तस्माल्लोभं न कुर्वीत न प्रमादं न विश्वसेत्३६१।
आत्मा हि सततं पुत्र रक्षितव्यः प्रयत्नः।
सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छचोरादिसंकटात्३६२।
तिरश्चां पापयोनीनामेकत्र वसतामपि।
विपरीतानि चित्तानि विज्ञायंते न पुत्रक३६३।
नखिनां च नदीनां च शृंगिणां शस्त्रधारिणाम्।
न विश्वासस्त्वया कार्यः स्त्रीणां प्रेष्यजनस्य च३६४।
न विश्वसेदविश्वस्ते विश्वस्तेनाति विश्वसेत्।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृंतति३६५।
न विश्वसेत्स्वदेहेपि बलिष्ठे भीतचेतसि।
वक्ष्यंति गूढमत्यर्थं सुप्तं मत्तं प्रमादतः३६६।
गंधः सर्वत्र सततमाघ्रातव्यः प्रयत्नतः।
गावः पश्यंति गंधेन राजानश्चारचक्षुषा३६७।
नैकस्तिष्ठेद्वनेघोरे धर्ममेकं च चिंतयेत्।
नचोद्वेगस्त्वयाकार्यः सर्वस्य मरणं ध्रुवं३६८।
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति।
विश्रम्य च पुनर्याति तद्वद्भूतसमागमः३६९।
पुत्र नित्यं जगत्सर्वं तत्रैकः शोचसे कथं।
तावत्त्वं शोकमुत्सृज्य मद्वाक्यमनुपालय३७०।
शिरस्याघ्राय तं पुत्रमवलिह्य च मूर्द्धनि।
शोकेन महताविष्टा बाष्पव्याकुललोचना३७१।
विनिःश्वसंती नागीव दीर्घमुष्णं मुहुर्मुहुः।
पुत्रहीनं जगच्छून्यं प्रपश्यंतीव साऽभवत्३७२।
महापंकनिमग्नेव तिष्ठंती चावसीदती।
विलप्य नंदिनी पुत्रमुवाचेदं पुनर्वचः३७३।
नास्ति पुत्रसमः स्नेहो नास्तिपुत्रसमं सुखं।
नास्ति पुत्रसमा प्रीतिर्नास्ति पुत्रसमा गतिः३७४।
अपुत्रस्य जगच्छून्यमपुत्रस्य गृहेऽसुखम्।
पुत्रेण लभते लोकमपुत्रो नरकं व्रजेत्३७५।
लोको वदति वाक्यानि चंदनं किल शीतलं।
पुत्रगात्रपरिष्वंगश्चंदनादतिशीतलः३७६।
इति पुत्रगुणानुक्त्वा निरीक्ष्य च पुनःपुनः।
स्वमातरं सखीर्गोपीस्त्वरमाणा च पृच्छति३७७।
यूथस्याग्रे चरंतीं मामाससाद मृगाधिपः।
मुक्ताहं तेन शपथैः पुनर्यास्यामि तत्र वै३७८।
सुतं च मातरं चैव सखीर्द्रष्टुं च गोकुलं।
आगता सत्यवाक्येन पुनर्यास्यामि तत्र वै३७९।
मातः क्षमस्व तत्सर्वं दौःशील्यादि कृतं मम।
बालस्तवायं दौहित्रः किमत्रान्यद्ब्रवीम्यहं३८०।
विपुले चंपके मातर्भद्रे सुरभि मानिनि।
वसुधारे प्रियानंदे महानंदे घटस्रवे३८१।
अज्ञानाज्ज्ञानतो वापि यदुक्तं किंचिदप्रियं।
तत्क्षमध्वं महाभागा यच्चान्यच्च कृतं मया३८२।
सर्वाः सर्वगुणोपेताः सर्वा लोकस्य मातरः।
सर्वाः सर्वप्रदा नित्यं रक्षध्वं मम बालकं३८३।
अनाथं विकलं दीनं रक्षध्वं मम पुत्रकं।
मातृशोकाभिसंतप्तं भगिन्यः पालयिष्यथ३८४।
यस्मादनाथमबलं पुत्रवत्पालयिष्यथ।
क्षमध्वं च महाभागा यास्यामि सत्यसंश्रयात्३८५।
न चिंता महती कार्या सखीभिश्च कथंचन।
प्रथमस्यास्य जातस्य स्थितं मरणमग्रतः३८६।
श्रुत्वा तु नंदावचनं माता सख्यश्च दुःखिताः।
विषादं परमं जग्मुरिदमूचुश्च विस्मिताः३८७।
अहोऽत्र महदाश्चर्यं यद्व्याघ्रवचनं त्वया।
प्रकर्तुमुद्यतं भीमं नंदा त्वं सत्यवादिनी३८८।
शपथैः सत्यवाक्येन वंचयित्वा महाभयं।
नाशनीयं प्रयत्नेन न गंतव्यं कथंचन३८९।
नंदे न चैव गंतव्यमधर्मः क्रियते त्वया।
यद्बालं स्वसुतं त्यक्त्वा सत्यलोभेन गम्यते३९०।
अत्र गाथा पुरा प्रोक्ता ऋषिभिर्ब्रह्मवादिभिः।
प्राणत्यागे समुत्पन्ने शपथैर्नास्ति पातकं३९१।
उक्त्वानृतं भवेद्यत्र प्राणिनां प्राणरक्षणं।
अनृतं तत्र सत्यं स्यात्सत्यमप्यनृतं भवेत्३९२।
कामिनीषु विवाहेषु गवां मुक्तौ तथैव च।
ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकं३९३।
नंदोवाच।
परेषां प्राणरक्षार्थं वदाम्येवानृतं वचः।
नात्मार्थमुत्सहे वक्तुं जीवितार्थे कथंचन३९४।
एकः संश्लिष्यते गर्भे मरणे भरणे तथा।
भुंक्ते चैकः सुखं दुःखमतः सत्यं वदाम्यहम्३९५।
सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः।
उदधिस्सत्यवाक्येन मर्यादां न विलंघते३९६।
विष्णवे पृथिवीं दत्वा बलि पातालमाश्रितः।
छद्मनापि बलिर्बद्धः सत्यवाक्यं न चात्यजत्३९७।
प्रवर्धमानः शैलेंद्रः शतशृंगः समुत्थितः।
सत्येन संस्थितो विंध्यः प्रबन्धं नातिवर्तते३९८।
स्वर्गापवर्गनरकाः सत्यवाचि प्रतिष्ठिताः।
यस्तु लोपयते वाचमशेषं तेन लोपितं३९९।
योऽन्यथा संतमात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा४०० 1.18.400।
यास्यामि नरकं घोरं विलोप्यात्मानमात्मना।
तस्य वैवस्वतो राजा धर्मस्यार्धं निकृंतति४०१।
अगाधे सलिले शुद्धे सत्य तीर्थे क्षमा ह्रदे।
स्नात्वा पापविनिर्मुक्तः प्रयाति परमां गतिं४०२।
अश्वमेधसहस्रं च सत्यं च तुलया धृतं।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते४०३।
सत्यं साधुफलं श्रुतं च परमं क्लेशादिभिर्वर्जितं।
साधूनां निकटं सतां कुलधनं सर्वाश्रमाणां फलं।
यस्मात्तं समवाप्य गच्छति दिवं संत्यज्यतेऽसौ कथं।
लोकैरत्र समागमे प्रतिदिनं सत्यं वदध्वं ध्रुवं४०४।
सख्य ऊचुः।
नंदे सा त्वं नमस्कार्या सर्वैरपि सुरासुरैः।
या त्वं परमसत्वेन प्राणांस्त्यजसि दुस्त्यजान्४०५।
ब्रूमः किं तत्र कल्याणि या त्वं धर्मधुरंधरा।
त्यागेनानेन नाऽप्राप्यं त्रैलोक्ये वस्तु किंचन४०६।
अवियोगं च पश्यामस्त्यागादस्मात्सुतेन हि।
नार्याः कल्याणचित्तायानापदः संति कुत्रचित्४०७।
दृष्ट्वा गोपीजनं सर्वं परिक्रम्य च गोकुलं।
नंदा संप्रस्थिता देवान्वृक्षांश्चापृच्छ्य सा पुनः४०८।
क्षितिं वरुणमग्निं च वायुं चापि निशाकरं।
दशदिग्देवतावृक्षान्नक्षत्राणि ग्रहैः सह४०९।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 18 (part 2)
सर्वान्विज्ञापयामास प्रणिपत्य मुहुर्मुहुः।
ये संश्रिता वने सिद्धाः सर्वाश्च वनदेवताः४१०।
वने चरंतं च तृणं ते रक्षंतु सुतं मम।
चंपकाशोक पुन्नागास्सरलार्जुनकिंशुकाः४११।
शृण्वंतु पादपाः सर्वे संदेशं मम विक्लवं।
वत्समेकाकिनं दीनं चरंतं विषमे वने४१२।
रक्षध्वं वत्सकं बालं स्नेहात्पुत्रमिवौरसं।
मात्रापित्राविहीनं च अनाथं दीनमानसं४१३।
विचरंतमिमां भूमिं क्रंदमानं सुदुःखितं।
तस्येह क्रंदमानस्य मत्पुत्रस्य महावने४१४।
महाशोकाभिभूतस्य क्षुत्पिपासातुरस्य च।
शून्यस्यैकाकिनः सर्वं जगच्छून्यं प्रपश्यतः४१५।
चरमाणस्य कर्तव्यं सानुक्रोशैस्तु रक्षणं।
संदिश्य नंदा प्रीत्यैवं पुत्रस्नेहवशं गता४१६।
शोकाग्निना च सन्दीप्ता विच्छिन्ना पुत्रदर्शने।
वियुक्ता चक्रवाकीव लतेव पतिता तरोः४१७।
अंधेव दृष्टिरहिता प्रस्खलंती पदे पदे।
अगच्छत्सा पुनस्तत्र यत्रासौ पिशिताशनः४१८।
आस्ते विस्फूर्जितमुखस्तीक्ष्णदंष्ट्रो भयावहः।
तावत्तस्याः सुतो वत्स ऊर्द्ध्वपुच्छोतिवेगवान्४१९।
आगत्य मातुरग्रेसौ मृगेंद्रस्याग्रतोऽभवत्।
आगतं तु सुतं दृष्ट्वा मृत्युं तमग्रतः स्थितं४२०।
व्याघ्रं दृष्ट्वा तु सा धेनुरिदं वचनमब्रवीत्।
भोभो मृगेंद्रागताहं सत्यधर्मव्रते स्थिता४२१।
कुरु तृप्तिं यथाकाममस्मन्मांसेन सांप्रतम्।
संतर्पय स्वभूतानि पिब त्वं शोणितं मम४२२।
मृतायां तु मयि त्वं भो भक्षयेमं तु बालकम्।
द्वीप्युवाच।
स्वागतं तव कल्याणि धेनुके सत्यवादिनी४२३।
न हि सत्यवतां किंचिदशुभं भवति क्वचित्।
त्वयोक्तं धेनुके पूर्वं सत्यं प्रत्यागमे पुनः४२४।
तेन मे कौतुकं प्राप्तं प्राप्ता गच्छेत्कथं पुनः।
तव सत्यपरीक्षार्थं प्रेषितासि मया पुनः४२५।
अन्यथा मां समासाद्य जीवंती यास्यसे कथम्।
यच्च नः कौतुकं जातं सत्यमन्वेषणं मम४२६।
तस्मादनेन सत्येन मुक्तासि च मयाऽधुना।
भगिनी भवती मह्यं भागिनेयः सुतस्तव४२७।
दत्तोपदेशस्य शुभे मम पापिष्ठकर्मणः।
सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः४२८।
सत्येन गौः क्षीरधारां प्रमुंचति हविः प्रियाम्।
स वै धन्यतमो गोपो यस्त्वत्क्षीरेण जीवति४२९।
भूमिप्रदेशा धन्यास्ते सतृणा वीरुधः शुभे।
ते धन्याश्च कृतार्थाश्च तैरेव सुकृतं कृतम्४३०।
तैराप्तं जन्मनः सारं ये पिबंति पयस्तव।
मृगेंद्रः प्रत्ययं गत्वा विस्मयं परमं गतः४३१।
प्रत्यादेशोऽयमस्माकं सत्यं देवैः प्रदर्शितः।
सत्यमिष्टं गवां दृष्ट्वा न मे वाञ्छास्ति जीवितुम्४३२।
तत्करिष्याम्यहं कर्म येन मुच्येय किल्बिषात्।
मया जीवसहस्राणि भक्षितानि शतानि च४३३।
गतिं कामिह गच्छामि दृष्ट्वा गोः सत्यमीदृशम्।
अहं पापो दुराचारो नृशंसो जीवघातकः४३४।
कांस्तु लोकान्गमिष्यामि कृत्वा कर्म सुदारुणम्।
गमिष्ये पुण्यतीर्थानि करिष्ये पापशोधनम्४३५।
पतिष्ये गिरिमारुह्य प्रवेक्ष्ये वा हुताशनम्।
धेनोऽद्य यन्मया कार्यं तपः पापाद्विशुद्धये४३६।
तदादिशस्व संक्षेपान्न कालो विस्तरस्य तु।
धेनुरुवाच।
तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च४३७।
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे।
सर्वेषामेव दानानामिदमेवैकमुत्तमम्४३८।
अभयं सर्वभूतानां नास्ति दानमतः परम्।
चराचराणां भूतानामभयं यः प्रयच्छति४३९।
स च सर्वभयान्मुक्तः परं ब्रह्माधिगच्छति।
नास्त्यहिंसा समं दानं नास्त्यहिंसा समं तपः४४०।
यथा हस्तिपदेष्वन्यत्पदं सर्वं प्रलीयते।
सर्वे धर्मास्तथा व्याघ्र प्रलीयंते ह्यहिंसया४४१।
योगवृक्षस्य छाया या तापत्रयविनाशिनी।
धर्मज्ञाने च पुष्पाणि स्वर्गमोक्षौ फलानि च४४२।
दुःखत्रयाभितप्तस्य छाया योगतरोः स्मृता।
न बाध्यते पुनर्दुःखैः प्राप्य निर्वाणमुत्तमम्४४३।
इत्येतत्परमं श्रेयः कीर्तितं ते समासतः।
ज्ञातं चैव त्वया सर्वं केवलं मां तु पृच्छसि४४४।
द्वीप्युवाच।
अहं मृग्या पुरा शप्तो व्याघ्ररूपेण संस्थितः।
ततः प्राणिवधात्सर्वमशेषं मम विस्मृतम्४४५।
त्वत्संपर्कोपदेशाभ्यां संजातं स्मरणं पुनः।
त्वं चाप्यनेन सत्येन गमिष्यसि परां गतिं४४६।
तदहं त्वां पुनः पृच्छे प्रश्नमेकं हृदि स्थितम्।
साग्रं वर्षशतं जातं चिंतयानस्य मे शुभे४४७।
भवत्या भाग्ययोगेन कदाचित्स्वर्गशोभने।
कृतं धर्मस्य संस्थानं सतां मार्गे प्रतिष्ठितम्४४८।
किं तेऽभिधानं कल्याणि ब्रूहि मेऽज्ञस्य सुव्रते।
नंदोवाच।
मम नंदेति संज्ञा तु कृता नंदेन स्वामिना४४९।
सांप्रतं भक्षयामीति ह्यतिष्ठः केन हेतुना।
नंदेति श्रुत्वा तन्नाम मुक्तशापः प्रभंजनः४५० 1.18.450।
पुनर्नृपत्वमापन्नो बलरूपसमन्वितः।
एतस्मिन्नंतरे धर्मस्तां ज्ञात्वा सत्यवादिनीम्४५१।
द्रष्टुं समागतस्तत्र प्राब्रवीच्च पयस्विनीम्।
तव सत्यव्रताद्धृष्टो धर्मोहमिह चागतः४५२।
नंदे वृणीष्व भद्रं ते वरं वरतमं हि यत्।
एवमुक्ता हि सा देवी नंदा तं प्रार्थयद्वरम्४५३।
तवानुभावात्ससुता गच्छामि पदमुत्तमम्।
भवेदिदं शुभं तीर्थं मुनीनां धर्मदायकम्४५४।
मन्नाम्ना च सरिदियं नंदा नाम सरस्वती।
वरप्रदानाद्देवेश तदेतत्प्रार्थितं मया४५५।
पुलस्त्य उवाच।
सा तत्क्षणाद्गता देवी स्थानं सत्यवतां शुभम्।
प्रभंजनोपि तद्राज्यं संप्राप्तः प्रागुपार्जितम्४५६।
नंदा येन गता स्वर्गं नंदां प्राप्य सरस्वतीम्।
तेनाख्यया बुधैस्तस्याः प्रोक्ता नंदा सरस्वती४५७।
सरस्वती पुनस्तस्माद्वनात्खर्जूरसंज्ञितात्।
दक्षिणेन पुनर्याता प्लावयंती धरातलम्४५८।
आगच्छन्नपि यस्तस्या नाम गृह्णाति मानवः।
जीवन्सुखं स आप्नोति मृतो भवति खेचरः४५९।
तत्र ये शुभकर्माणस्त्यजंति स्वां तनुं नराः।
ते विद्याधरराजानो भवंति सुखिनो जनाः४६०।
नराणां स्वर्गनिःश्रेणी स्नानात्पानात्सरस्वती।
तत्र स्नानं प्रकुर्वन्ति येष्टम्यां सुसमाहिताः४६१।
ते मृताः स्वर्गमासाद्य मोदंते सुमनोरमाः।
सरस्वती सदा स्त्रीणां तत्र सौभाग्यदायिका४६२।
उपोषिता तृतीयायामपि सौभाग्यभाजना।
तत्र तद्दर्शनेनापि मुच्यते पापसंचयात्४६३।
स्पृशंति ये नराः केचित्तेपि ज्ञेया मुनीश्वराः।
रजतस्य प्रदानेन रूपवान्जायते नरः४६४।
पुण्या पुण्यजलोपेता नदीयं ब्रह्मणः सुता।
नंदा नामेति विपुला प्रवृत्ता दक्षिणामुखी४६५।
गत्वा ततो नातिदूरं पुनर्याता पराङ्मुखी।
ततः प्रभृति सा देवी प्रसभं प्रकटा स्थिता४६६।
तस्यास्तटेषु पुण्येषु तीर्थान्यायतनानि च।
संसेवितानि मुनिभिः सिद्धैश्चापि समंततः४६७।
तेषु सर्वेषु भवति धर्महेतुस्सरस्वती।
स्नानात्पानात्प्रदानाद्वा हिरण्यस्य महानदी४६८।
हाटकक्षितिगौरीणां नंदातीर्थे महोदयं।
दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलं४६९।
धान्यप्रदानं प्रवदंति शस्तं वसुप्रदानं च तथा मुनींद्राः ।
यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतुः प्रवरं प्रदिष्टम्४७०।
प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तत्र कुर्यात्प्रमदा पुमान्वा।
तीर्थेषु सायुज्यमवाप्य सोऽयं भुङ्क्ते फलं ब्रह्मगृहे यथेष्टं४७१।
तस्योपकंठे तु मृतास्तु ये वै कर्मक्षयात्स्थावरजंगमाश्च।
तैश्चापि सर्वैः सहसा प्रसह्य लभ्येत यज्ञस्य फलं दुरापम्४७२।
ततस्तु सा धर्मफलप्रदा भवेज्जन्मादि दुःखार्दित चेतसां नृणाम्।
सर्वात्मना पुण्यफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी४७३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे नंदाप्राचीमाहात्म्येष्टादशोऽध्यायः१८।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 19
भीष्म उवाच।
पुष्करस्य च नंदायाः श्रुतं माहात्म्यमुत्तमं।
ऋषिकोटिर्यदायाता पुष्करे मुखदर्शनात्१।
सर्वैः सुरूपता लब्धा सर्वमेतन्मया श्रुतं।
यज्ञोपवीतैर्भक्तानि यानि तानि वदस्व मे२।
कथं तीर्थविभागस्तु कृतस्तैस्सु महात्मभिः।
आश्रमे यानि तीर्थानि कृतान्यपि महर्षिभिः३।
पदन्यासः कृतः पूर्वं विष्णुना यज्ञपर्वते।
नागैस्तत्र पंचतीर्थं कृतं तैस्तु महाविषैः४।
पिंडप्रदानवापी च केन पूर्वं विनिर्मिता।
उदङ्मुखी भूमिगता कथं गंगासरस्वती५।
ब्राह्मणैर्वेदविद्वद्भिः कथं यात्रा त्रिपुष्करे।
कर्तव्या यत्फलं तस्या जायते तद्वदस्व मे६।
पुलस्त्य उवाच।
प्रश्नभारो महानेष भवता परिकल्पितः।
तदेकाग्रमना भूत्वा शृणु तीर्थ महाफलं७।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं।
विद्यातपश्च कीर्तिश्च स तीर्थफलमश्नुते८।
प्रतिग्रहादुपावृत्तः संतुष्टो येनकेन चित्।
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते९।
अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते१०।
ऋषीणां परमं गुह्यमिदं भरतसत्तम।
पूर्वं यत्र महाराज सत्रे पैतामहे तथा११।
यतीनामुग्रतपसां येषां कोटिः समागता।
मुखदर्शनमाश्रित्य स्थितास्ते ज्येष्ठपुष्करे१२।
सुरूपतां परां लब्ध्वा प्रीतास्ते मुनिसत्तमाः।
हर्षेण महताविष्टा ब्रह्मदर्शनकांक्षिणः१३।
यज्ञोपवीतैस्ते भूमिं माप्य सर्वे चतुर्द्दिशं।
कृत्वा तीर्थं विभागं च स्थिता भक्तिपरायणाः१४।
आसन्नश्च ततस्तेषां तदा तुष्टः पितामहः।
कोटिं कृत्वा तदा तेषां मानं दृष्ट्वा मनीषिणां१५।
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति।
इहागत्य नरो यो वै यदंगं प्रथमं जले१६।
प्लावविष्यति रूपार्थं रूपिता तीर्थकारिता।
भविष्यति न संदेहो योजनायतमंडले१७।
अर्धयोजनविस्तारं दीर्घं सार्धं हि योजनम्।
एतत्प्रमाणं तीर्थस्य ऋषिकोटिप्रवर्त्तितम्१८।
गमनादेव राजेंद्र पुष्करस्य त्वरिंदम।
राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः१९।
सरस्वती महापुण्या प्रविष्टा ज्येष्ठपुष्करे।
तत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः२०।
अभिगच्छंति राजेंद्र चैत्रशुक्ल चतुर्दशीं।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः२१।
गोमेधं च तदाप्नोति कुलं चैव समुद्धरेत्।
एवं तीर्थविभागस्तु कृतस्तैस्तु महर्षिभिः२२।
पितॄन्देवांश्च सन्तर्प्य विष्णुलोके महीयते।
तत्र स्नात्वा भवेन्मर्त्यो विमलश्चन्द्रमा यथा२३।
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्।
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्२४।
पुष्करं नाम विख्यातं महापातकनाशनम्।
दशकोटिसहस्राणि तीर्थानां वै महीपते२५।
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुलनन्दन।
आदित्या वसवो रुद्रास्साध्याश्च स मरुद्गणाः२६।
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभोः।
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा२७।
दिव्य योगा महाराज पुण्येन महतान्विताः।
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः२८।
पूयन्ते सर्वपापानि नाकपृष्ठे स मोदते।
तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः२९।
उवास परमप्रीतो देवदानवसम्मतः।
पुष्करेषु महाराज देवास्सर्षिपुरोगमाः३०।
सिद्धिं च समनुप्राप्ताः पुण्येन महतान्विताः।
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः३१।
अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः।
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः३२।
अन्नेन तेन संप्रीता कोटिर्भवति पूजिता।
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते३३।
शाकैर्मूलैः फलैर्वापि येन वा वर्त्तयेत्स्वयम्।
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः३४।
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम३५।
पैतामहं सरः पुण्यं पुष्करं नाम नामतः।
वैखानसानां सिद्धानां मुनीनां पुण्यदं हि यत्३६।
सरस्वती पुण्यतमा यस्माद्याता महार्णवम्।
आदिदेवो महायोगी यत्रास्ते मधुसूदनः३७।
ख्यात आदिवराहेति नाम्ना त्रिदशपूजितः।
हीनवर्णाश्च ये वर्णास्तीर्थे पैतामहे गताः३८।
न वियोनिं व्रजंत्येते स्नात्वा तीर्थे महात्मनः।
कार्तिक्यां च विशेषेण योभिगच्छेत्तु पुष्करं३९।
फलं तत्राक्षयं तस्य भवतीत्यनुशुश्रुम।
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि४०।
उपस्पृष्टं भवेत्तेन सर्वतीर्थे तु कौरव।
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा४१।
पुष्करे स्नानमात्रेण सर्वमेतत्प्रणश्यति।
यथासुराणां प्रवरः सर्वेषां तु पितामहः४२।
तथैव पुष्करं तीर्थं तीर्थानामादिरुच्यते।
त द्दृष्ट्वा दशवर्षाणि पुष्करे नियतः शुचिः४३।
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति।
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते४४।
कार्तिकीं वा वसेदेकां पुष्करे सममेव तु।
पुष्करे दुष्करो होमः पुष्करे दुष्करं तपः४५।
पुष्करे दुष्करं दानं वासश्चैव सुदुष्करः।
ब्राह्मणो वेदविद्वांस्तु गत्वा वै ज्येष्ठपुष्करं४६।
स्नानाद्भवेन्मोक्षभागी श्राद्धेन पितृतारकः।
नाममात्रोपि यो विप्रो गत्वा संध्यामुपासते४७।
वर्षाणि द्वादशैवेह तेन संध्या ह्युपासिता।
भवेत्तु नात्र संदेहः पुरा प्रोक्तं स्वयंभुवा४८।
सावित्री कथितो दोषः कुले तस्य न जायते।
या पत्नी ददते भर्तुः संध्योपास्तिं करिष्यतः४९।
करकेण तु ताम्रेण तोयं मुक्ता दिवं व्रजेत्।
ब्रह्मलोकमनुप्राप्य तिष्ठति ब्रह्मणो दिनं५० 1.19.50।
एकाकिना गतेनापि संध्या वंद्या यथाक्रमं।
पौष्करेणाथ तोयेन भृंगारे निहितेन तु५१।
तेनापि द्वादशाब्दानि संध्योपास्ता न संशयः।
भवेत्समीपगा पत्नी कुर्वतः पितृतर्पणं५१।
दक्षिणां दिशमास्थाय गायत्र्या राजसत्तम।
पितॄणां परमा तृप्तिः क्रियते द्वादशाब्दिकी५३।
युगसहस्रं पिण्डेन श्राद्धेनानन्त्यमश्नुते।
एतदर्थं हि विद्वांसः कुर्वंते दारसंग्रहं५४।
तीर्थे गत्त्वा प्रदास्यामः पिंडान्वै श्राद्धपूर्वकं।
तेषां पुत्रा धनं धान्यमविच्छिन्ना च संततिः५५।
भवेद्वै नात्र संदेह एतदाह पितामहः।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्५६।
आश्रमानपि ते वच्मि शृणुष्वैकमना नृप।
अगस्त्येन कृतश्चात्र आश्रमो देवसंमितः५७।
सप्तर्षीणां पुरा चात्र आश्रमो देवसम्मतः।
ब्रह्मर्षीणां तथा चात्र मनूनां परमस्तथा५८।
नागानां च पुरी रम्या यज्ञपर्वतरोधसि।
अगस्त्यस्य महाराज प्रभावममितात्मनः५९।
कथयामि समासेन शृणु त्वं सुसमाहितः।
पूर्वं कृतयुगे भीष्म दानवा युद्धदुर्मदाः६०।
कालेया इति विख्याता गणाः परमदारुणाः।
ते तु वृत्रं समाश्रित्य देवान्हंतुं समुद्यताः६१।
ततो देवाः समुद्विग्ना ब्रह्माणमुपतस्थिरे।
कृतांजलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह६२।
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितं।
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ६३।
दधीचिरिति विख्यातो महानृषिरुदारधीः।
तं गत्वा सहितास्सर्वे वरं च प्रतियाचत६४।
स वो दास्यति धर्मात्मा सुप्रीतेनांतरात्मना।
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकांक्षिभिः६५।
स्वान्यस्थीनि प्रयच्छस्व त्रैलोक्यहितकांक्षया।
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति६६।
तस्यास्थिभिर्महाघोरं वज्रं संक्रियतां दृढं।
महच्छत्रुहनं दिव्यं तदस्त्रमशनिः स्मृतं६७।
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः।
एतद्वः सर्वमाख्यातं तस्मात्सर्वं विधीयतां६८।
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहं।
शतक्रतुं पुरस्कृत्य दधीचेराश्रमं ययुः६९।
सरस्वत्याः परे पारे नानाद्रुमलतावृतं।
षट्पदोद्गीतनिनदैरुद्घुष्टं सामगैरिव७०।
पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्।
महिषैश्च वराहैश्च सृमरैश्चमरैरपि७१।
तत्रतत्रानुचरितैः शार्दूलभयवर्जितैः।
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः७२।
स्वरोद्गारैश्च क्रीडद्भिः समंतादनुनादितं।
सिंहव्याघ्रैर्महानादं नदद्भिरनुनादितं७३।
मयूरैश्चापि संलीनैर्गुहाकंदरवासिभिः।
तेषु तेषु च कुंजेषु नादितं सुमनोरमं७४।
त्रिविष्टपसमप्रख्यं दधीच्याश्रममागमन्।
तत्रापश्यन्दधीचिं तं दिवाकरसमप्रभम्७५।
जाज्वल्यमानं वपुषा यथा लक्ष्म्या चतुर्भुजम्।
तस्य पादौ सुरा राजन्नभिवंद्य प्रणम्य च।
अयाचंत वरं सर्वे यथोक्तं परमेष्ठिना७६।
ततो दधीचिः परमप्रतीतः सुरोत्तमांस्तानिदमित्युवाच।
करोमि यद्वो हितमद्य देवाः स्वं वापि देहं त्वहमुत्सृजामि७७।
तानेवमुक्त्वा द्विपदां वरिष्ठः प्राणांस्ततोऽसौ सहसोत्ससर्ज।
सुरास्तदस्थीनि सवासवास्ते यथोपयोगं जगृहुः स्म तस्य७८।
प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमासाद्य तमर्थमूचुः।
त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्७९।
चकार वज्रं भृशमुग्रवीर्यं कृत्वा च शस्त्रं तमुवाच हृष्टः।
अनेन शस्त्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रं८०।
ततो हतारिः सगणः सुखं त्वं प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः।
त्वष्ट्रा तथोक्तस्तु पुरंदरश्च वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात्८१।
ततः स वज्रेणयुतो दैवतैरभिपूजितः।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी८२।
कालकेयैर्महाकायैस्समंतादभिरक्षितं।
समुद्यत प्रहरणैः सशृंगैरिव पर्वतैः८३।
ततो युद्धं समभवद्देवानां सह दानवैः।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्८४।
उद्यतैः प्रतिसृष्टानां खड्गानां वीरबाहुभिः।
आसीत्सुतुमुलः शब्दः शरीरैरभिपाटितैः८५।
शिरोभिः प्रपतद्भिश्चाप्यंतरिक्षान्महीतलं।
तालैरिव महीपाल वृतं तैरेव दृश्यते८६।
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः।
त्रिदशानभ्यवर्तन्त दावदग्धा इव द्रुमाः८७।
तेषां वेगवतां वेगं सहितानां प्रधावताम्।
न शेकुः सहिताः सोढुं भग्नास्ते प्राद्रवन्भयात्८८।
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः।
वृत्रं च वर्द्धमानं तु कश्मलं महदाविशत्८९।
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः।
स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन्९०।
विष्णुनाप्यायितं शक्रं दृष्ट्वादे वगणास्तदा।
सर्वे तेजस्समादध्युस्तथा ब्रह्मर्षयोऽमलाः९१।
स समाप्यायितः शक्रो विष्णुना दैवतैः सह।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत९२।
ज्ञात्वा बलस्थं त्रिदशाधिपं तं ननाद वृत्रस्सुमहानि नादम्।
तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चेति चचाल सर्वं९३।
ततो महेंद्रः परमाभितप्तः श्रुत्वा रवं घोरतरं महांतम्।
भयेन मग्नस्त्वरितं मुमोच वज्रं महान्तं खलु तस्य शीर्षे९४।
स शक्रवज्राभिहतः पपात महास्वनः कांचनमाल्यधारी।
यथा महाशैलवरः पुरस्तात्स मंदरो विष्णुकरात्प्रमुक्तः९५।
तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुं।
वज्रं च मेने स्वकरात्प्रमुक्तं वृत्रं भयाच्चैव हतं न पश्यति९६।
सर्वे च देवा मुदिताः प्रहृष्टाः सहर्षयश्चैनमथो स्तुवंति।
शेषांश्च दैत्यांस्त्वरितं समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान्९७।
ते वध्यमानास्त्रिदशैस्तदानीं महासुरा वायुसमानवेगाः।
समुद्रमेवाविविशुर्भयार्ताः प्रविश्य चैवोदधिमप्रमेयम्९८।
झषाकुलं रत्नसमाकुलं च तदा स्म मंत्रं सहिताः प्रचक्रुः।
तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायान्परिचिंतयंतः९९।
भयार्दिता देवनिकायतप्तास्त्रैलोक्यनाशाय मतिं प्रचक्रुः।
तेषां तु तत्र क्षयकालयोगाद्घोरामतिश्चिंतयतां बभूव१०० 1.19.100।
ये संति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं च कार्यः।
लोकाश्च सर्वे तपसा ध्रियंते तस्मात्त्वरध्वं तपसः क्षयाय१०१।
ये संति केचिद्धि वसुंधरायां तपस्विनो धर्मविदश्च तज्ज्ञाः।
तेषां वधश्चक्रियतां हि क्षिप्रं तेषु प्रणष्टेषु जगद्विनष्टम्१०२।
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः।
दुर्गंसमाश्रित्य महोर्मिमंतं रत्नाकरं वारुणमालयं स्म१०३।
समुद्रं ते समासाद्य वारुणं त्वंभसां निधिं।
कालेयास्समपद्यंत त्रैलोक्यस्य विनाशने१०४।
ते रात्रौ समभिक्रुद्धा बभक्षुस्तांस्तदा मुनीन्।
आश्रमेषु च ये संति पुण्येष्वायतनेषु च१०५।
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः।
अशीतिः शतमष्टौ च वने चान्ये तपस्विनः१०६।
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्।
फलमूलाशनानां हि मुनीनां भक्षितं शतं१०७।
एवं रात्रौ स्म कुर्वंतो विविशुश्चार्णवं दिवा।
भरद्वाजाश्रमं गत्वा नियता ब्रह्मचारिणः१०८।
वाताहारांबुभक्षाश्च विंशतिश्च निषूदिताः।
एवं क्रमेण भक्षार्थं मुनीनां दानवास्तदा१०९।
निशायां पर्यधावंत शक्ता भुजबलाश्रयात्।
कालेन महता ते वै जघ्नुर्मुनिगणान्बहून्११०।
न चैतानवबुध्यंत मनुजा मनुजाधिप।
निस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्१११।
जगदासीन्निरुत्साहं कालेयभयपीडितं।
एवं प्रक्षीयमाणास्ते मानवा मनुजेश्वर११२।
आत्मत्राणपरा भीताः प्राद्रवंस्तु दिशो दश।
केचिद्गुहां प्रविविशुर्विकीर्णाश्चापरे द्विजाः११३।
अपरे च भयोद्विग्ना भयात्प्राणान्समत्यजन्।
केचित्तत्र महेष्वासाः शूराः परमदर्पिताः११४।
मार्गमाणाः परं यत्नंदानवानांप्रचक्रिरे।
नचैताननुजग्मुस्ते समुद्रं समुपाश्रितान्११५।
शमं न जग्मुः परममाजग्मुः क्षयमेव च।
जगत्प्रशमने जाते नष्टयज्ञोत्सवक्रिये११६।
आजग्मुः परमोद्विग्नास्त्रिदशा मनुजेश्वर।
समेत्य समहेंद्रास्तु भयान्मंत्रं प्रचक्रिरे११७।
नारायणं पुरस्कृत्य वैकुंठमपराजितम्।
ततो देवास्समेतास्ते तदोचुर्मधुसूदनम्११८।
त्वं नः स्रष्टा च गोप्ता च भर्ता च जगतः प्रभो।
त्वया सृष्टं जगत्सर्वं यच्चेंगं यच्च नेङ्गति११९।
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण।
वाराहं रूपमास्थाय जगदर्थे समुद्धृता१२०।
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा।
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम१२१।
अवध्यः सर्वभूतानां बलिश्चापि महासुरः।
वामनं वपुरास्थाय त्रैलोक्याद्भ्रंशितस्त्वया१२२।
असुरः सुमहेष्वासो जंभ इत्यभिविश्रुतः।
यज्ञक्षोभकरः क्रूरस्त्वमरैर्विनिपातितः१२३।
एवमादीनि कर्माणि येषां संख्या न विद्यते।
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन१२४।
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे।
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्१२५।
भवत्प्रसादाद्वर्तंते प्रजास्सर्वाश्चतुर्विधाः।
स्वस्था भवंति मनुजा हव्यकव्यैर्दिवौकसः१२६।
लोका ह्येवं प्रवर्तंते अन्योन्यं च समाश्रिताः।
त्वत्प्रभावान्निरुद्विग्नास्त्वयैव परिरक्षिताः१२७।
इदं च समनुप्राप्तं लोकानां भयमुत्तम्।
जानीमो न च केनैते वध्यंते ब्राह्मणा निशि१२८।
ब्राह्मणेषु च क्षीणेषु पृथिवी क्षयमेष्यति।
त्वत्प्रसादान्महाबाहो लोकास्सर्वे जगत्पते१२९।
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः।
विष्णु उवाच।
विदितं मे सुरास्सर्वं प्रजायाः क्षयकारणम्१३०।
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः।
कालकेया इति ख्याता गणाः परमदारुणाः१३१।
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता।
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्१३२।
ते प्रविश्योदधिं घोरं नानाग्राहसमाकुलम्।
उत्सादनार्थं लोकस्य रात्रौ घ्नंति मुनीनिह१३३।
न तु शक्याः क्षयं नेतुं समुद्रांतर्हिता हि ते।
समुद्रस्य क्षये बुद्धिर्भवद्भिः परिचिंत्यताम्१३४।
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्।
परमेष्ठिनमासाद्य अगस्त्यस्याश्रमं ययुः१३५।
तत्रापश्यन्महात्मानं वारुणं दीप्ततेजसम्।
उपास्यमानमृषिभिर्द्देवैरिव पितामहम्१३६।
तेभिगम्य महात्मानं मैत्रावरुणिमुत्तमम्।
अप्रमत्तं तपोराशिं कर्मभिः स्वैरनुष्ठितैः१३७।
देवा ऊचुः।
नहुषेणाभितप्तानां लोकानां त्वं गतिः पुरा।
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककंटकः१३८।
क्रोधात्प्रवृद्धः स महान्भास्करस्य नगोत्तमः।
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते१३९।
तमसाच्छादिते लोके मृत्युनाभ्यर्दिताः प्रजाः।
त्वामेव नाथमागम्य निर्वृतिं परमां गताः१४०।
अस्माकं भयभीतानां नित्यमेव भवान्गतिः।
ततस्त्वद्य प्रयाचामस्त्वां वरं वरदो ह्यसि१४१।
भीष्म उवाच।
किमर्थं सहसा विंध्यः प्रवृद्धः क्रोधमूर्च्छितः।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने१४२।
पुलस्त्य उवाच।
अद्रिराजं महाशैलं मेरुं कनकपर्वतम्।
उदयेऽस्तमये भानुः प्रदक्षिणमवर्तत१४३।
तं दृष्ट्वा तु तदा विंध्यः शैलः सूर्यमथाब्रवीत्।
यथा हि मेरुर्भवता नित्यशः परिगम्यते१४४।
प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर।
एवमुक्तस्ततः सूर्यः शैलेंद्रं प्रत्यभाषत१४५।
नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणम्।
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत्१४६।
एवमुक्तस्तदा क्रोधात्प्रवृद्धः सहसाचलः।
सूर्याचंद्रमसोर्मार्गं रोद्धुमिच्छन्परंतप१४७।
ततो हि देवाः सहितास्तु सर्वे सेंद्राः समागम्य महाद्रिराजम्।
निवारयामासुरथोत्पतंतं न वै स तेषां वचनं चकार१४८।
ततो हि जग्मुर्मुनिमाश्रमस्थं तपस्विनां धर्मवतां वरिष्ठम्।
अगस्त्यमत्यद्भुतदीप्तवीर्यं तं चार्यमूचुः सहिताः सुरास्ते१४९।
देवा ऊचुः।
सूर्याचंद्रमसोर्मार्गं नक्षत्राणां गतिं तथा।
शैलराडावृणोत्येष विंध्यः क्रोधवशानुगः१५० 1.19.150।
तं निवारयितुं शक्तो नान्यः कश्चिन्मुनीश्वर।
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्१५१।
सोभिगम्याब्रवीद्विंध्यं सादरं समुपस्थितम्।
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम१५२।
दक्षिणामभिगंतास्मि दिशं कार्येण केनचित्।
यावदागमनं मे स्यात्तावत्त्वं प्रतिपालय१५३।
निवृत्ते मयि शैलेंद्र ततो वर्धस्व कामतः।
पुलस्त्य उवाच।
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते१५४।
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते।
अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि१५५।
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः।
अगस्त्यद्वारमासाद्य तन्मे निगदतः शृणु१५६।
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्।
किमर्थं समुपायाता वरं मत्तः किमिच्छथ१५७।
एवमुक्तास्तदा तेन देवास्तं मुनिमब्रुवन्।
इच्छाम एकं वरमद्भुतं वयं पिबार्णवं देवमुने महात्मन्१५८।
एवं त्वयेच्छेम कृते महर्षे महार्णवं पीयमानं समग्रम्।
ततो विहन्याम च सानुबंधं कालेयसंज्ञं सुरविद्विषां बलम्१५९।
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्।
करिष्ये भवतां कामं लोकानां सुखकारकम्१६०।
एवमुक्त्वा ततोऽगच्छत्समुद्रं निधिमंभसाम्।
तपःसिद्धैश्च मुनिभिः सार्धं देवैश्च सुव्रत१६१।
मनुष्योरगगंधर्वा यक्षाः किंपुरुषास्तथा।
अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम्१६२।
ततोऽभ्यपश्यत्सहितः समुद्रं भीमनिःस्वनम्।
नृत्यंतमिव चोर्मीभिर्वल्गंतमिव वायुना१६३।
हसंतमिव फेनौघैः स्खलंतं कंदरेषु च।
नानाग्राहसमाकीर्णं नानाद्विजगणैर्युतम्१६४।
अगस्त्यसहिता देवाः सगंधर्वमहोरगाः।
ऋषयश्च महाभागाः समासेदुर्महोदधिम्१६५।
समुद्रं स समासाद्य वारुणिर्भगवानृषिः।
उवाच सहितान्देवानृषींस्तांस्तु समागतान्१६६।
पातुकामः समुद्रं च अगस्त्य ऋषिसत्तमः।
एष लोकहितार्थाय पिबामि वरुणालयम्१६७।
भवतां यदनुष्ठेयं तच्छीघ्रं संविधीयताम्।
एतावदुक्त्वा वचनं मैत्रावरुणिरग्रतः१६८।
समुद्रमपिबत्क्रुद्धस्सर्वलोकस्य पश्यतः।
पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः१६९।
विस्मयं परमं जग्मुस्स्तुतिभिश्चाप्यपूजयन्।
त्वं नस्त्राता विधाता च लोकानां लोकभावनः।
त्वत्प्रसादात्समुत्सेधमुपगच्छेत्समं जगत्१७०।
संपूज्यमानस्त्रिदशैर्महात्मा गंधर्वमुख्येषु नदत्सु चैव।
दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार१७१।
दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः।
प्रगृह्य दिव्यानि वरायुधानि तान्दानवान्जघ्नुरदीनसत्त्वाः१७२।
ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगयुतैर्नदद्भिः।
न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम्१७३।
ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः।
चक्रुः सुतुमुलं युद्धं मुहूर्त्तमिव भारत१७४।
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः।
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः१७५।
ते हेमनिष्काभरणाः कुंडलांगदधारिणः।
निहता बह्वशोभंत पुष्पिता इव किंशुकाः१७६।
हतशिष्टास्ततः केचित्कालेयदनुजोत्तमाः।
विदार्य वसुधां देवीं पातालतलमाश्रिताः१७७।
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम्।
तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः१७८।
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम्।
त्वत्तेजसा च निहताः कालेया भीमविक्रमाः१७९।
पूरयस्व महाविप्र समुद्रं लोकभावनम्।
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज१८०।
एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवः।
जीर्णं तद्धि मया तोयमुपायोन्यः प्रचिंत्यताम्१८१।
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः।
एवं श्रुत्वा तु वचनं महर्षेर्भावितात्मनः१८२।
विस्मिताश्च विषण्णाश्च बभूवुः सहितास्सुराः।
परस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम्१८३।
प्रजाः सर्वा महाराज विप्रा जग्मुर्यथागतम्।
त्रिदशा विष्णुना सार्द्धमनुजग्मुः पितामहम्१८४।
पूरणार्थं समुद्रस्य मंत्रयंतः परस्परम्।
ऊचुः प्रांजलयः सर्वे सागरस्य हि पूरणम्१८५।
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः।
गच्छध्वं विबुधास्सर्वे यथाकामं यथेप्सितम्१८६।
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः।
ज्ञातींस्तु कारणं कृत्वा महाराजो भगीरथः१८७।
गंगौघेन समुद्रं च पुनः संपूरयिष्यति।
एवं ते ब्रह्मणा देवाः प्रेषिता ऋषिसत्तमाः१८८।
उवाच भगवांस्तुष्टस्त्वगस्त्यमृषिसत्तमम्।
देवकार्यं तु भवता दानवानां विनाशनम्१८९।
यतस्संतारिता देवास्तेन तुष्टोस्मि वै मुने।
अभिप्रेतो वरो यस्ते याचयस्व ददामि तम्१९०।
एवमुक्तस्तदागस्त्यः प्रणिपातपुरःसरम्।
इहस्थेन मया देव देवकार्यमिदं कृतम्१९१।
सर्वाश्रमाणां प्रवरो भवत्वेष ममाश्रमः।
त्वया चोक्तस्तु भगवन्भविता नात्र संशयः१९२।
ब्रह्मोवाच।
यात्रां तु पुष्करे कृत्वा इहागत्य नरास्तु ये।
इह कुंडेषु ये स्नानं तर्पणं पितृदेवयोः१९३।
अर्चनं चैव देवेषु सर्वमक्षयकारकम्।
अर्घ्यं चोच्चावचं गृह्य शष्कुलापूपकांस्ततः१९४।
दास्यंति द्विजमुख्येभ्यस्तेषां वासस्त्रिविष्टपे।
श्राद्धेन पितरस्तृप्ता यावदाभूतसंप्लवम्१९५।
कंदमूलफलैर्वापि तर्पयिष्यति यो मुनिम्।
सप्तर्षिस्थानमासाद्य मोदते शास्वतीः समाः१९६।
यज्ञपर्वतमारूढो दृष्ट्वा गंगाविनिर्गमम्।
उदङ्मुखी देवनदी निर्गता पुष्करं प्रति१९७।
अत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः।
अश्वमेधफलं तस्य भवत्येव न संशयः१९८।
यस्त्वेकं भोजयेद्विप्रं कोटिर्भवति भोजिता।
अक्षयं त्वन्नपानं च अत्र दत्तं मुनीश्वर१९९।
यो यमिच्छति कामं तु सर्वं तस्य भविष्यति।
न वियोनिं व्रजत्यत्र स्नातमात्रो नरो भुवि२०० 1.19.200।
स्थानानां परमं स्थानं तीर्थानां तीर्थमुत्तमम्।
मया दत्तं मुनिश्रेष्ठ भविष्यति न संशयः२०१।
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा।
अत्रैव स्नातमात्रस्य सर्वमेतत्प्रणश्यति२०२।
एवमुक्त्वा तु भगवान्ब्रह्मा लोकपितामहः।
जगामामंत्र्य स मुनिमगस्त्यं मुनिसत्तमम्२०३।
अगस्त्योपि स्थितस्तत्र आश्रमे स्वे परंतप।
अगस्त्यस्याश्रमोत्पत्तिरेषा ते परिकीर्तिता२०४।
सप्तर्षीणामाश्रमांश्च कीर्त्तयिष्ये कुरूद्वह।
अत्रिश्चैव वसिष्ठोथ पुलस्त्यः पुलहः क्रतुः२०५।
अंगिरा गौतमश्चैव सुमतिः सुमुखस्तथा।
विश्वामित्रः स्थूलशिराः संवर्तश्च प्रतर्दनः२०६।
रैभ्यो बृहस्पतिश्चैव च्यवनः कश्यपो भृगुः।
दुर्वासा जमदग्निश्च मार्कण्डेयोथ गालवः२०७।
उशनाथ भरद्वाजो यवक्रीतस्तथा मुनिः।
स्थूलाक्षः सकलाक्षश्च कण्वो मेधातिथिः कृतः२०८।
नारदः पर्वतश्चैव स्वगंधी च्यवनो द्विजः।
तृणाम्बु शबलो धौम्यः शतानंदो कृतव्रणः२०९।
जमदग्निस्तथा रामो ह्यष्टकश्चैवमादयः।
कृष्णद्वैपायनश्चैव पुत्रशिष्यैः समन्वितः२१०।
एते तु पुष्करं प्राप्य सप्तर्षीणामथाश्रमे।
वेष्टिता नियमैश्चापि दयायुक्तास्तपस्विनः२११।
आनृशंस्यं जयो धैर्यं तपः सत्यं क्षमार्जवम्।
दया दानं जपश्चैव सर्वेषां तत्प्रतिष्ठितं२१२।
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते।
ज्ञात्वा तदित्त्थं मुनयः परमार्थपरायणाः२१३।
न तत्र नास्तिका यांति न स्तेना नाजितेंद्रियाः।
न नृशंसा न पिशुना न कृतघ्ना न मानिनः२१४।
सत्य तेजस्विनः शूरा दयावंतः क्षमापराः।
यज्वानो यज्ञशीलाश्च निरीहा निरुपद्रवाः२१५।
निर्ममा निरहंकारास्तत्र गच्छंति पुष्करे।
न रोगो न जरामृत्युर्भवितात्र महात्मनां२१६।
न तत्र मूढा विशंति पुरुषा विषयात्मकाः।
कामलोभमदद्रोह क्रोधमोहैरुपद्रुताः२१७।
तुल्य मानापमानाश्च निर्द्वंद्वास्संयतेंद्रियाः।
ध्यानयोगपराश्चैव ते तु गच्छंति पुष्करं२१८।
आश्रमेषु यथोक्तेषु यथोक्तं वै द्विजातयः।
ये वर्तंते यमं त्रातुं तेषां लोका महोदयाः२१९।
ये न हिंसंति भूतानि कर्मणा मनसा गिरा।
अनृशंसतराः संतः सर्वदा च प्रियंवदाः२२०।
अग्निहोत्ररता नित्यं नित्यं चातिथिपूजकाः।
नित्यं स्वाध्यायवंतश्च नित्यं स्नानपरायणाः२२१।
मातृवत्स्वसृवच्चैव तथा दुहितृवच्च ह।
परदारान्प्रपश्यंति सततं विगतस्पृहाः२२२।
येधिक्षिप्ता न कुप्यंति न हिंसंति च हिंसिताः।
समदुःखसुखाः संतो महात्मानो जितेंद्रियाः२२३।
ते हि सर्वे प्रपश्यंति पुरा चेरुर्महीमिमां।
समाधिना चिंतयंतो ब्रह्मलोकं सनातनं२२४।
अथाभवदनावृष्टिः कदाचिन्महती तदा।
कृच्छ्रप्रायो ह्यभूत्तत्र सर्वलोकः क्षुधार्दितः२२५।
ततो निरन्ने लोकेस्मिंश्चात्मानं ते परीप्सवः।
मृतं कुमारमादाय कृच्छ्रप्रायास्तदापचन्२२६।
अथ पर्यचरत्तत्र क्लिश्यमानान्हि तानृषीन्।
दृष्ट्वा राजा विषादार्त्तः प्रोवाचेदं वचस्तदा२२७।
राजोवाच।
प्रतिग्रहो ब्राह्मणानां दृष्टा वृत्तिरनिंदिता।
तस्मात्प्रतिग्रहान्मत्तो गृह्णीध्वं मुनिसत्तमाः२२८।
वरान्ग्रामान्व्रीहियवान्रसान्रत्नानि कांचनं।
गाश्च धेनूश्च तत्सर्वं मा मांसं पचत द्विजाः२२९।
ऋषय ऊचुः।
राजन्प्रतिग्रहो घोरो मध्वास्वादो विषोपमः।
तज्जानतां नः कस्मात्त्वं कुरुषे सम्प्रलोभनं२३०।
दशसूना समश्चक्री दशचक्रिसमो ध्वजी।
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः२३१।
दशसूना सहस्राणि यो वाहयति शौंडिकः।
तेन तुल्यस्ततो राजा घोरस्तस्य प्रतिग्रहः२३२।
यो राज्ञः प्रतिगृह्णाति ब्राह्मणो लोभमोहितः।
तामिस्रादिषु घोरेषु नरकेषु स पच्यते२३३।
तद्गच्छ कुशलं तेस्तु सह दानेन पार्थिव।
अन्येषां दीयतामेतदित्युक्त्वा ते वनं ययुः२३४।
अथ राज्ञःसमादेशात्तत्र गत्वाथ मंत्रिणः।
उदुंबराणि व्यकिरन्हेमगर्भाणि भूतले२३५।
ततो ह्यन्नं विचिन्वंतो गृह्णंश्चोदुंबराण्यपि।
गुरूणि हि विदित्वा तु न ग्राह्याण्यत्रिरब्रवीत्२३६।
अत्रिरुवाच।
नास्महे मूढविज्ञाना नास्महे मंदबुद्धयः।
हैमानीमानि जानीमः प्रतिबुद्धाः स्म ज्ञानिनः२३७।
इहैवेदं वसुप्रीत्यै प्रेत्य वैकुंठितोदयं।
तस्मान्न ग्राह्यमेवैतत्सुखमानंत्यमिच्छता२३८।
शतेनगुणितं निष्कं सहस्रेण समन्वितम्।
यश्चान्यतः प्रतीच्छेत्स पापिष्टां लभते गतिम्२३९।
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
नूनं नैकस्य पर्याप्तमिति मत्वा शमं व्रजेत्२४०।
वसिष्ठ उवाच।
तपसां संचयो यस्य द्रव्याणां यस्य संचयः।
तपःसंचय एवेह विशिष्टो धनसंचयात्२४१।
त्यजतः संचयान्सर्वान्यांति नाशमुपद्रवाः।
नहि संचयवान्कश्चिद्दृश्यते निरुपद्रवः२४२।
यथायथा न गृह्णाति ब्राह्मणोऽसत्प्रतिग्रहम्।
तथा तस्य हि संतोषाद्ब्राह्मं तेजो विवर्द्धते२४३।
अकिंचनत्वं राज्यं च तुलया समतोलयत्।
अकिंचनत्वमधिकं राज्यादपि हितात्मनः२४४।
कश्यप उवाच।
अनर्थो ब्राह्मणस्यैष यस्त्वर्थनिचयो महान्२४५।
अर्थैश्वर्यविमूढो हि श्रेयसो भ्रश्यते द्विजः।
अर्थसंपद्विमोहाय विमोहो नरकाय च२४६।
तस्मादर्थमनर्थाख्यं श्रेयोर्थी दूरतस्त्यजेत्।
यस्य धर्मार्थमर्थेहा तस्यानीहा गरीयसी२४७।
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरं।
योर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः२४८।
यः परार्थे परित्यागः सोक्षयो मुक्तिलक्षणः।
भरद्वाज उवाच।
जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः२४९।
धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा२५० 1.19.250।
सूच्या सूत्रं यथा वस्त्रे समानयति सूचकः।
तद्वत्संसारसूत्रं हि तृष्णासूच्योपनीयते२५१।
यथा शृंगं रुरोः काये वर्द्धमाने च वर्द्धते।
अनंतपारा दुष्पूरा तृष्णा दुःखशतावहा२५२।
अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्।
गौतम उवाच।
संतुष्टः को न शक्नोति फलैश्चाप्यतिवर्तितुम्२५३।
लुब्धइंद्रियलौल्येन संकटान्यवगाहते।
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसं२५४।
उपानद्गूढपादस्य तस्य चर्मावृतेव भूः।
संतोषामृततृप्तानां यत्सुखं शांतचेतसां२५५।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्।
असंतोषः परं दुःखं संतोषः परमं सुखम्२५६।
सुखार्थी पुरुषस्तस्मात्संतुष्टः संततं भवेत्।
विश्वामित्र उवाच।
कामं कामयमानस्य यदि कामः समृद्ध्यति२५७।
अथैनमपरः कामो भूयो विध्यति बाणवत्।
न जातुकामः कामानामुपभोगेन शाम्यति२५८।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते।
कामानभिलषन्मोहान्न नरः सुखमेधते२५९।
श्येनालयतरुच्छायां व्रजन्निव कपिंजलः।
चतुस्सागरपर्यन्तां यो भुंक्ते पृथिवीमिमाम्२६०।
तुल्याश्मकाञ्चनोयश्च सकृतार्थो न पार्थिवः।
जमदग्निरुवाच।
प्रतिग्रहसमर्थोपि नादत्ते यः प्रतिग्रहम्२६१।
ये लोका दानशीलानां स तानाप्नोति शाश्वतान्।
योर्थानिच्छेन्नृपाद्विप्रः शोचितव्यो महर्षिभिः२६२।
न स पश्यति मूढात्मा नरके यातनाभयम्।
प्रतिग्रहसमर्थोपि न प्रसज्येत्प्रतिग्रहे२६३।
प्रतिग्रहेण विप्राणां ब्राह्मं तेजः प्रशाम्यति।
प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात्२६४।
य एव ददतां लोकास्त एवाप्रतिगृह्णताम्।
अरुन्धत्युवाच।
बिसतंतुर्यथानित्यमंभस्थस्सततं विशेत्२६५।
तृष्णा चैवमनाद्यंता तथा देहगता सदा।
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः२६६।
योसौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखं।
चांडाल उवाच।
उग्रादितो भयाद्यस्माद्बिभ्यती मे महेश्वराः२६७।
बलीयसो दुर्बलवत्तस्माच्चैव बिभेम्यहम्।
पशुसख उवाच।
यदाचरंति विद्वांसः सदा धर्मपरायणाः२६८।
तदेव विदुषा कार्यमात्मनो हितमिच्छता।
इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि वै२६९।
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः।
ततस्ते विचरंतो वै मध्यमं पुष्करं गताः२७०।
ददृशुः सहसा प्राप्तं परिव्राजं शुनःसखं।
तेनेह सहितास्तत्र गत्वा किंचिद्वनांतरं२७१।
सरः परमपश्यंत वृतं पद्मैर्जलाशयम्।
निविष्टाः सरसस्तीरे चिंतयंतो गतिं शुभाम्२७२।
शुनःसखो मुनीन्सर्वानुवाच क्षुधितांस्तदा।
सर्वे वदंतु सहिताः कीदृशी क्षुत्प्रवेदना२७३।
तमूचुः सहितास्ते तु परिव्राजं शुनःसखं।
ऋषय ऊचुः।
शक्तिखड्गगदाभिश्च चक्रतोमरसायकैः२७४।
बाधिते वेदना या तु क्षुधया सापि निर्जिता।
श्वासकुष्ठक्षयाष्ठीली ज्वरापस्मार शूलकैः२७५।
व्याधिभिर्जनिता सापि क्षुधाया नाधिका भवेत्।
हिरण्यांगदकेयूरमकुटोज्ज्वलकुंडलाः२७६।
क्षुधायां न विराजंते तत्र ये संस्थिता नराः।
यथा भूमिगतं तोयं रविरश्मिर्विकर्षति२७७।
तद्वच्छरीरजा नाड्यः शोष्यंते जठराग्निना।
न शृणोति न चाघ्राति चक्षुषा नैव पश्यति२७८।
दह्यते क्षीयते मूढः शुष्यते क्षुधयार्दितः।
न पूर्वां दक्षिणां चापि पश्चिमां नोत्तरामपि२७९।
न चाधो नैव चोर्द्ध्वं च क्षुधाविष्टो हि विंदति।
मूकत्वं बधिरत्वं च जडत्वमथ पंगुता२८०।
भैरवत्वममर्यादं क्षुधायां संप्रवर्द्धते।
जनकं जननीं पुत्रान्भार्यां दुहितरं तथा२८१।
भ्रातरं स्वजनं वापि त्यजति क्षुधयार्दितः।
न पितॄन्पूजयेत्सम्यक्देवं चापि गुरुं तथा२८२।
ऋषीनुपगतांश्चापि क्षुधाविष्टो न विंदति।
एवमन्नविहीनस्य भवंत्येतानि देहिनां२८३।
तदेवं संप्रयच्छेत अन्नं श्रद्धासमन्वितः।
ब्रह्मभूतस्ततः सोथ ब्रह्मणा सह मोदते२८४।
सुसंस्कृतं च योप्यन्नं दद्यादहरहर्द्विजे।
यः पठेदन्नदानं तु श्राद्धे चैव विशेषतः२८५।
एकाग्रमानसो भूत्वा अमावस्येंदुसंक्षये।
भूतोपघातसंपूर्णे श्राद्धे श्रावयते सदा२८६।
पितरस्तस्य तुष्यंति यावज्जीवं न संशयः।
देवद्विजसमीपस्थोन्नस्यदाता विमुच्यते२८७।
प्रबुद्धो वा प्रमत्तो वा प्रसंगादागतोपि वा।
भक्त्या विरहितो वापि शृण्वन्पापाद्विमुच्यते२८८।
दानेन संयुता विप्राः सुखिनो धर्मभागिनः।
यमो दमो वै नियमः प्रोक्तस्तत्वार्थदर्शिभिः२८९।
ब्राह्मणानां विशेषेण दमो धर्मः सनातनः।
दमस्तेजो वर्द्धयति पवित्रो दम उत्तमः२९०।
विपाप्मा चैव तेजस्वी पुरुषो दमतो भवेत्।
ये केचिन्नियमा लोके ये च धर्माश्शुभान्वयाः २९१।
सर्वयज्ञफलं चापि दमस्तेभ्यो विशिष्यते।
तपो यज्ञस्तथा दानं दमादेव प्रवर्तते२९२।
किमरण्येत्वदांतस्य दांतस्यापि किमाश्रमे।
यत्रयत्र वसेद्दांतस्तदरण्यं महाश्रमः२९३।
शीलवृत्तसमेतस्य निगृहीतेंद्रियस्य च।
आर्जवे वर्तमानस्य आश्रमैः किं प्रयोजनम्२९४।
वनेपि दोषाः प्रभवंति रागिणां गृहेपि पंचेंद्रियनिग्रहस्तपः।
अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम्२९५।
सुकर्मधर्मार्जितजीवितानां सदा च संतुष्य गृहे रतानाम्।
जितेंद्रियाणामतिथिप्रियाणां गृहेपि धर्मो नियमस्थितानाम् २९६।
न शब्दशास्त्रे निरतस्य मोक्षो न वर्णसंगे निरतस्य चैव।
न भोजनाच्छादन तत्परस्य न लोकवृत्तग्रहणेरतस्य २९७।
एकांतशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य।
अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य२९८।
सुखं च दांतः स्वपिति सुखेन प्रतिबुध्यते।
समः सर्वेषु भूतेषु मनो यस्य प्रबुध्यते २९९।
न रथेन सुखं याति न हयेन न दंतिना।
यथात्मना विनीतेन सुखं याति महापथे ३०० 1.19.300।
न तु कुर्याद्धरिः स्पृष्टः सर्पो वाप्यतिरोषितः।
अरिर्वा नित्यसंक्रुद्धो यथात्मा दमवर्जितः३०१।
न यमं यममित्याहुरात्मा वै यम उच्यते।
आत्मा वै यमितो येन स यमस्तु विशिष्यते३०२।
यमो यम इति प्रोक्तो वृथा तूद्विजते जनः।
आत्मा वै यमितो येन यमस्तस्य करोति किम्३०३।
क्रव्यादेभ्यश्च भूतेभ्योऽदान्तेभ्यश्च सदा भयम्।
तेषां विप्रतिषेधार्थं दंडः सृष्टः स्वयंभुवा ३०४।
दंडो रक्षति भूतानि दंडः पालयते प्रजाः।
निवारयति पापिष्ठान्दंडो दुर्जय एव वा ३०५।
श्यामो युवा लोहिताक्षः सर्वभूतभयावहः।
दंडः शास्ता मनुष्याणां यस्मिन्धर्मः प्रतिष्ठितः३०६।
अथाश्रमेषु सर्वेषु दम एवोत्तमं व्रतम्।
तानि लिंगानि वक्ष्यामि यैर्दांत इति कीर्त्यते३०७।
अकार्पण्यमपारुष्यं संतोषः सुविधानता।
अनसूया गुरोः पूजा दया भूतेष्वपैशुनम्३०८।
षड्भिरेष दमः प्रोक्त ऋषिभिः शांतबुद्धिभिः।
दयाधीनौ धर्ममोक्षौ तथा स्वर्गश्च पार्थिव३०९।
अपमाने न कुप्येत संमाने न प्रहृष्यति।
समदुःखसुखो धीरः स शांत इति कीर्त्यते३१०।
शेते सुखं हि शांतस्तु सुखं हि प्रतिबुध्यते।
श्रेयस्तरमतस्तिष्ठेदवमन्ता विनश्यति३११।
अपमानितस्तु न ध्यायेत्तस्य पापं कदाचन।
स्वधर्ममपि चावेक्ष्य परधर्मं न दूषयेत्३१२।
आत्मानमपि जानीयात्परं दोषैस्तु नाक्षिपेत्।
मंत्रैर्हीनं क्रियाभिर्वा जन्मनाप्यथवा पुनः३१३।
दमश्छादयते सर्वं हीनमंगं पटो यथा।
अधीयते निरर्थन्ते नाभिजानंति ये दमम्३१४।
श्रुतस्य हि दमो मूलं दमो धर्मः सनातनः।
यो ह्यात्मनस्तुलयते सुवर्णं तुलया दमम्३१५।
स तेन धृतिमान्ख्यातो न तु द्रव्येण मोहितः।
व्रतानामपि सर्वेषां दम एव परायणम्३१६।
यद्यधीते षडंगानि वेदतत्त्वार्थविद्द्विजः।
दमेन तु विहीनश्च पूज्यत्वं नेह गच्छति३१७।
दमेनहीनं न पुनंति वेदा यद्यप्यधीताः सह षड्भिरंगैः।
सांख्यं च योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि३१८।
अमृतस्येव तृप्येत अपमानस्य योगवित्।
विषवच्च जुगुप्सेत संमानस्य सदा द्विजः१९।
अपमानात्तपोवृद्धिः संमानाच्च तपःक्षयः।
अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति३२०।
पुनराप्यायते धेनुः सतृणैः सलिलैर्यथा।
एवं जपैश्च होमैश्च पुनराप्यायते द्विजः३२१।
आक्रोशकसमो लोके सुहृदन्यो न विद्यते।
यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति३२२।
आक्रोशमानान्नाक्रोशेन्मन्युं स्वं विनिवर्तयेत्।
सन्नियम्य तदात्मानममृतेनाभिषिंचति३२३।
कपालं वृक्षमूलानि कुचेलमसहायता।
अनपेक्षा ब्रह्मचर्यं नयन्ति परमां गतिम्३२४।
कामक्रोधौ विनिर्जित्य किमरण्ये करिष्यति।
अभ्यासेन तु वै शास्त्रं कुलं शीलेन धार्यते३२५।
गुणैर्मन्त्रा विधार्यन्ते क्रोधस्सत्त्वेन धार्यते।
यस्तु क्रोधं समुत्पन्नं संधारयति चात्मनः३२६।
अक्रोधेन जयेद्वीरः कस्तेन सदृशो भुवि।
यस्तु क्रोधं समुत्पन्नं संतं संयम्य तिष्ठति३२७।
तं सत्सारतमम्मन्ये नास्मिन्सीदति यः पुमान्।
एष पैतामहो गुह्यो ब्रह्मराशिस्सनातनः३२८।
धर्मस्य नियमो यो हि मया ते कथितो भृशम्।
अन्ये च यज्वनां लोका अन्ये चापि तपस्विनां३२९।
अन्ये दमवतां लोकास्ते वै परमपूजिताः।
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते३३०।
यदिदं क्षमया युक्तमशक्तम्मन्यते जनः।
न चैष दोषो मंतव्यः क्षमा प्रज्ञावतां बलम्३३१।
प्रशमं योभिजानाति इष्टापूर्तं महीयते।
यत्क्रोधयुक्तो जपति जुहोति च यदर्चति३३२।
सर्वं क्षरति तत्तस्य भिन्नकुंभादिवोदकम्।
दमाध्यायमिमं पुण्यं प्रातरुत्थाय यः पठेत्३३३।
स धर्मनावमारुह्य दुर्गाण्यति तरिष्यति।
दमाध्यायमिमं पुण्यं सततं श्रावयेदिद्वजः३३४।
स ब्रह्मलोकमाप्नोति तस्मान्न च्यवते पुनः।
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैतत्प्रधार्यताम्३३५।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
मातृवत्परदारांश्च परद्रव्याणि लोष्ठवत्३३६।
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति।
पचनं वैश्वदेवार्थे परार्थे यच्च जीवितम्३३७।
एतद्भवेच्च सर्वस्वं धातूनामिव कांचनम्।
सर्वभूतहितं राजन्नधीत्यामृतमश्नुते३३८।
एवं वै धर्मसर्वस्वमुक्त्वा ते तु शुनःसखम्।
तेनैव सहिताः सर्वे निविष्टास्सरसस्तटे३३९।
सरोपश्यन्सुविस्तीर्णं पद्मोत्पलजलावृतम्।
तत्रावतारं कृत्वा ते बिसानि च कलापशः३४०।
तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जलक्रियाम्।
अथोत्तीर्य जलात्तस्मात्ते समेत्य परस्परम्३४१।
बिसान्येतान्यपश्यंत इदं वचनमब्रुवन्।
ऋषय ऊचुः।
केन क्षुधाभितप्तानामस्माकं पापकर्मणाम्३४२।
नृशंसेनापनीतानि बिसान्याहारकांक्षिणा।
ते शंकमानास्त्वन्योन्यं पर्यपृच्छन्द्विजोत्तमाः३४३।
चक्रुश्च निश्चयं सर्वे शपथं प्रति पार्थिव।
कश्यप उवाच।
सर्वत्र सर्वं हरतु न्यासलोपं करोतु च३४४।
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः।
दंभेन धर्मं चरतु राजानं चोपसेवताम्३४५।
मधुमांसं समश्नातु बिसस्तैन्यं करोति यः।
अनृतं भाषतु सदा विषयांश्चोपसेवतु३४६।
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति यः।
वसिष्ठ उवाच।
अनृतौ मैथुनं यातु दिवास्वप्नं निषेवतु३४७।
अन्योन्यातिथितामेतु बिसस्तैन्यं करोति यः।
एककूपे वसेद्ग्रामे ब्राह्मणो वृषलीपतिः३४८।
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः।
भरद्वाज उवाच।
नृशंसस्सोऽस्तु सर्वेषु समृध्या चाप्यहंकृतः३४९।
मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः।
प्रत्याक्रोशत्ववाक्रुष्टस्ताडयत्वन्यताडितः३५० 1.19.350।
विक्रीणातु रसांश्चैव बिसस्तैन्यं करोति यः।
गौतम उवाच।
अतिथिं त्वागतं प्राप्य पाकभेदं करोतु सः३५१।
शूद्रान्नं च सदाश्नातु बिसस्तैन्यं करोति यः।
दत्वा दानं कीर्तयतु परभार्यासु तुष्यतु३५२।
एकाकीमिष्टमश्नीयाद्बिसस्तैन्यं करोति यः।
विश्वामित्र उवाच।
नित्यकामपरः सोस्तु दिवसे चैव मैथुनी३५३।
नित्यं तु पातकी चैव बिसस्तैन्यं करोति यः।
परापवादं वदतु परदारांश्च सेवतु३५४।
परनिंदारतश्चास्तु बिसस्तैन्यं करोति यः।
मातरं पितरं चैव सोवमन्यतु दुर्मतिः३५५।
समातर्यन्यबुद्धिस्याद् बिसस्तैन्यं करोति यः।
परपाकं सदाश्नातु परनारीं च सेवतु३५६।
वेदविक्रयकृच्चास्तु बिसस्तैन्यं करोति यः।
जमदग्निरुवाच।
परस्य यातु प्रेष्यत्वं स तु जन्मनि जन्मनि३५७।
सर्वधर्मक्रियाहीनो बिसस्तैन्यं करोति यः।
शुनःसख उवाच।
न्यायेन वेदानध्येतु गृहस्थोस्तु प्रियातिथिः३५८।
सत्यं वदतु वाजस्रं बिसस्तैन्यं करोति यः।
अग्निं जुहोतु विधिवद्यज्ञं यजतु नित्यशः३५९।
ब्रह्मणस्सदनं यातु बिसस्तैन्यं करोति यः।
ऋषय ऊचुः।
इष्टमेव द्विजातीनां यदिदं शपथीकृतं३६०।
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख।
शुनःसख उवाच।
मया ह्यंतर्हितान्यासन्बिसानीमानि वो द्विजाः३६१।
धर्मं च श्रोतुकामेन जानीध्वं मां च वासवम्।
अलोभादक्षयालोका जिता वो मुनिसत्तमाः३६२।
विमानमधितिष्ठध्वं गच्छामस्त्रिदशालयम्।
ततो महर्षयस्ते तु विज्ञायाथ पुरंदरम्३६३।
ऊचुः पुरंदरं चेदं वाक्यं वाक्यविशारदाः।
इहागत्य नरो यस्तु मध्यमं पुष्करं विशेत्३६४।
त्रिरात्रोपोषितो भूत्वा लभेदावश्यकं फलम्।
द्वादशवार्षिकीदीक्षा स्मृता यातु वनौकसां३६५।
तस्याः फलं समग्रं च लभेदिह न संशयः।
नासौ दुर्गतिमाप्नोति स्वगणैः सह मोदते३६६।
विरिञ्चिस्थानमासाद्य तिष्ठेद्वै ब्रह्मणो दिनम्।
पुलस्त्य उवाच।
इंद्रेण सह संप्रीतास्तदा जग्मुस्त्रिविष्टपम्३६७।
एवं विलोभ्यमानास्ते लोभैर्बहुविधैरिह।
नैव लोभं तथा चक्रुस्तेन जग्मुस्त्रिविष्टपम्३६८।
इदं यः शृणुयान्नित्यमृषीणां चरितं शुभम्।
विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते३६९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सप्तर्षिसंवादोनामैकोनविंशोऽध्यायः१९।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 20
भीष्म उवाच।
अत्याश्चर्यवती रम्या कथेयं पापनाशिनी।
विस्तरेण च मे ब्रूहि याथातथ्येन पृच्छतः १।
माहात्म्यं मध्यमस्यापि ऋषिभिः परिकीर्तितम्।
फलं चान्नस्य कथितं माहात्म्यं च दमस्य तु २।
विष्णुना च पदन्यासः कृतो यत्र महामुने।
कनीयसस्तथोत्पत्तिर्यथाभूता वदस्व मे ३।
पुलस्त्य उवाच।
पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः।
नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः ४।
तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत।
कमलं कांचनं दत्तं यथाकामगमं नृप ५।
सप्तद्वीपानि लोकं च यथेष्टं विचरत्सदा।
कल्पादौ तु समं द्वीपं तस्य पुष्करवासिना ६।
लोकेन पूजितं तस्मात्पुष्करद्वीपमुच्यते।
तदेव ब्रह्मणा दत्तं यानमस्य ततोंबुजम् ७।
पुष्पवाहन इत्याहुस्तस्मात्तं देवदानवाः।
नौपम्यमस्तीह जगत्त्रयेपि ब्रह्मांबुजस्थस्य च तस्य राज्ञः ८।
तपोनुभावादथ तस्य राज्ञी नारी सहस्रैरभिवंद्यमाना।
नाम्ना च लावण्यवती बभूव या पार्वतीवेष्टतमा भवस्य ९।
तस्यात्मजानामयुतं बभूव धर्मात्मनामग्र्यधनुर्धराणाम्।
तदात्मजांस्तानभिवीक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद १०।
सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाक्यमिदं बभाषे।
कस्माद्विभूतिरचलामरमर्त्यपूजा जाता कथं कमलजा सदृशी सुराज्ञी ११।
भार्या मयाल्पतपसा परितोषितेन दत्तं ममांबुजगृहं च मुनींद्र धात्रा।
यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुंजररथौघजनावृतानां १२।
नालक्ष्यते क्वगतमम्बरगामिभिश्च तारागणेंदुरविरश्मिभिरप्यगम्यम्।
तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगं यत् १३।
सर्वैर्मयाथ तनयैरथ वानयापि सद्भार्यया तदखिलं कथय प्रचेतः।
सोप्यभ्यधादथ भवांतरितं निरीक्ष्य पृथ्वीपते शृणु तदद्भुतहेतुवृत्तम् १४।
जन्माभवत्तव तु लुब्धकुलेपि घोरं जातस्त्वमप्यनुदिनं किल पापकारी।
वपुरप्यभूत्तव पुनः पुरुषांगसंधिदुर्गंधिसत्त्वकुनखाभरणं समंतात् १५।
न च ते सुहृन्न सुतबंधुजनो न तादृक्नैवस्वसा न जननी च तदाभिशस्ता।
अतिसंमता परमभीष्टतमाभिमुखी जाता मही शतवयोषिदियं सुरूपा १६।
अभूदनावृष्टिरतीव रौद्रा कदाचनाहारनिमित्तमस्यां।
क्षुत्पीडितेन भवता तु यदा न किंचिदासादितं वन्यफलादि भक्ष्यं१७।
अथाभिदृष्टं महदंबुजाढ्यं सरोवरं पंकपरीतरोधः।
पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिश नामधेयं १८।
तन्मूल्यलाभाय पुरं समस्तं भ्रांतं त्वयाशेषमहस्तदासीत्।
क्रेता न कश्चित्कमलेषु जातः क्लांतः परं क्षुत्परिपीडितश्च १९।
उपविष्टस्त्वमेकस्मिन्सभार्यो भवनांगणे।
ततो रात्रौ भवांस्तत्र अश्रौषीन्मंगलध्वनिं २०।
सभार्यस्तत्र गतवान्यत्रासौ मंगलध्वनिः।
तत्र मंडलमध्यस्था विष्णोरर्चाविलोकिता २१।
वेश्यानंगवती नाम बिभ्रती द्वादशीव्रतं।
समाप्य माघमासस्य द्वादश्यां लवणाचलं २२।
न्यवेदयत्तु गुरवे शय्यां चोपस्करान्विताम्।
अलंकृत्य हृषीकेशं सौवर्णं सममादरात् २३।
सा तु दृष्टा ततस्ताभ्यामिदं च परिचिंतितं।
किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः २४।
इति भक्तिस्तदा जाता दंपत्योस्तु नरेश्वर।
तत्प्रसंगात्समभ्यर्च्य केशवं लवणाचलं २५।
शय्या च पुष्पप्रकरैः पूजिताभूच्च सर्वशः।
अथानंगवती तुष्टा तयोर्धान्यशतत्रयम् २६।
दीयतामादिदेशाथ कलधौतपलत्रयं।
न गृहीतं ततस्ताभ्यां महासत्वावलंबनात् २७।
अनंगवत्या च पुनस्तयोरन्नं चतुर्विधं।
आनीय व्याहृतं चान्नं भुज्यतामिति भूपते २८।
ताभ्यां च तदपि त्यक्तं भोक्ष्यावः श्वो वरानने।
प्रसंगादुपवासो नौ तवाद्यास्तु शुभावहः २९।
जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते।
त्वत्प्रसंगाद्भवद्गेहे धर्मलेशोस्तु नाविह ३०।
इति जागरणं ताभ्यां तत्प्रसंगादनुष्ठितं।
प्रभाते च तया दत्ता शय्या सलवणाचला ३१।
ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव तु।
वस्त्रालंकारसंयुक्ता गावश्च कनकान्विताः ३२।
भोजनं च सुहृन्मित्रदीनांधकृपणैः सह।
तच्च लुब्धकदांपत्यं पूजयित्वा विसर्जितम् ३३।
स भवान्लुब्धको जातः सपत्नीको नृपेश्वरः।
पुष्करप्रकरात्तस्मात्केशवस्य तु पूजनात् ३४।
विनष्टाशेषपापस्य तव पुष्करमंदिरं।
तस्य सत्यस्य माहात्म्यादलोभतपसा नृप ३५।
प्रादात्कामगमं यानं लोकनाथश्चतुर्मुखः।
संतुष्टस्तव राजेंद्र पुष्करं त्वं समाश्रय ३६।
कल्पं सत्वं समासाद्य विभूतिद्वादशीव्रतं।
कुरु राजेंद्र निर्वाणमवश्यं समवाप्स्यसि ३७।
एतदुक्त्वा तु स मुनिस्तत्रैवांतरधीयत।
राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः ३८।
इदमाचरतो राजन्नखंडव्रतता भवेत्।
यथाकथंचित्कालेन द्वादशद्वादशीर्नृप ३९।
कर्तव्या शक्तितो देव विप्रेभ्यो दक्षिणा नृप।
ज्येष्ठे गावः प्रदातव्या मध्यमे भूमिरुत्तमा ४०।
कनिष्ठे कांचनं देयमित्येषा दक्षिणा स्मृता।
प्रथमं ब्रह्मदैवत्यं द्वितीयं वैष्णवं तथा ४१।
तृतीयं रुद्रदैवत्यं त्रयो देवास्त्रिषु स्थिताः।
इति कलुषविदारणं जनानां पठति च यस्तु शृणोति चापि भक्त्या ४२।
मतिमपि च स याति देवलोके वसति च रोमसमानि वत्सराणि।
अथातः संप्रवक्ष्यामि व्रतानामुत्तमं व्रतं ४३।
कथितं तेन रुद्रेण महापातकनाशनम्।
नक्तमब्दं चरित्वा तु गवासार्धं कुटुंबिने ४४।
हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी।
एवं यः कुरुते पुण्यं शिवलोके स मोदते४५।
एतदेव व्रतं नाम महापातकनाशनम्।
यस्वेकभक्तेन क्षिपेद्धेनुं वृषसमन्विताम् ४६।
धेनुं तिलमयीं दद्यात्स पदं याति शांकरम्।
एतद्रुद्रव्रतं नाम भयशोकविनाशनम् ४७।
यश्च नीलोत्पलं हैमं शर्करापात्रसंयुतम्।
एकांतरितनक्ताशी समांते वृषसंयुतम् ४८।
वैष्णवं स पदं याति नीलव्रतमिदं स्मृतम्।
आषाढादिचतुर्मासमभ्यंगं वर्जयेन्नरः ४९।
भोजनोपस्करं दद्यात्स याति भवनं हरेः।
जनप्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते ५० 1.20.50।
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्।
दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रेण संयुतम् ५१।
संपूज्य विप्रमिथुनं गौरी मे प्रीयतामिति।
एतद्गौरीव्रतं नाम भवानीलोकदायकम् ५२।
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तमथो पुनः।
अशोकं कांचनं दद्यादिक्षुयुक्तं दशांगुलम् ५३।
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति।
कल्पं विष्णुपुरे स्थित्वा विशोकस्स्यात्पुनर्नृप ५४।
एतत्कामव्रतं नाम सदा शोकविनाशनम्।
आषाढादि व्रते यस्तु वर्जयेद्यः फलाशनम् ५५।
चातुर्मास्ये निवृत्ते तु घटं सर्पिर्गुडान्वितम्।
कार्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत् ५६।
स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम्।
वर्जयेद्यस्तु पुष्पाणि हेमंते शिशिरावृते ५७।
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च कांचनम्।
दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ ५८।
दत्वा परं पदं याति सौम्यव्रतमिदं स्मृतम्।
फाल्गुनादि तृतीयायां लवणं यस्तु वर्जयेत्५९।
समांते शयनं दद्याद्गृहं चोपस्करान्वितम्।
संपूज्य विप्रमिथुनं भवानी प्रीयतामिति ६०।
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते।
संध्यामौनं नरः कृत्वा समांते घृतकुंभकम् ६१।
वस्त्रयुग्मं तिलान्घंटां ब्राह्मणाय निवेदयेत्।
लोकं सारस्वतं याति पुनरावृत्तिदुर्लभम् ६२।
एतत्सारस्वतं नाम रूपविद्याप्रदायकम्।
लक्ष्मीमभ्यर्च्य पंचम्यामुपवासी भवेन्नरः ६३।
समांते हेमकमलं दद्याद्धेनुसमन्वितम्।
स वै विष्णुपदं याति लक्ष्मीः स्याज्जन्मजन्मनि ६४।
एतल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनम्।
कृत्वोपलेपनं शंभोरग्रतः केशवस्य च ६५।
यावदब्दं पुनर्देया धेनुर्जलघटस्तथा।
जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत् ६६।
एतदायुर्व्रतं नाम सर्वकामप्रदायकम्।
अश्वत्थं भास्करं गंगां प्रणम्यैकाग्रमानसः ६७।
एकभक्तं नरः कुर्यादब्दमेकं विमत्सरः।
व्रतांते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम् ६८।
वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत्।
एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ६९।
घृतेन स्नपनं कृत्वा शंभोर्वा केशवस्य वा।
अक्षताभिः सपुष्पाभिः कृत्वा गोमयमंडलम् ७०।
समांते हेमकमलं तिलधेनुसमन्वितम्।
शूलमष्टांगुलं दद्याच्छिवलोके महीयते७१।
सामगायनकं चैव सामव्रतमिहोच्यते।
नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः ७२।
भोजयित्वा समं दद्याद्धेमकंचुकवाससी।
हैमं सिंहं च विप्रा यदद्याच्छिवपदं व्रजेत् ७३।
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः।
एतद्वीरव्रतं नाम नराणां च सुखप्रदम्७४।
चैत्रादि चतुरोमासाञ्जलं दद्याद्दयान्वितः।
व्रतांते मणिकं दद्यादन्नं वस्त्रसमन्वितम्७५।
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते।
कल्पांते भूतिजननमानंदव्रतमुच्यते ७६।
पंचामृतेन स्नपनं कृत्वा संवत्सरं विभोः।
वत्सरांते पुनर्दद्याद्धेनुं पंचामृतान्वितां ७७।
विप्राय दद्याच्छंखं च सपदं याति शांकरम्।
राजा भवति कल्पांते धृतिव्रतमिदं स्मृतम्७८।
वर्जयित्वा पुमान्मांसं व्रतांते गोप्रदो भवेत्।
तद्वद्धेममृगं दद्यात्सोश्वमेधफलं लभेत्७९।
अहिंसाव्रतमित्युक्तं कल्पांते भूपतिर्भवेत्।
कल्यमुत्थाय वै स्नानं कृत्वा दांपत्यमर्चयेत्८०।
भोजयित्वा यथाशक्ति माल्यवस्त्रविभूषणैः।
सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम्८१।
आषाढादि चतुर्मासं प्रातःस्नायी भवेन्नरः।
विप्राय भोजनं दत्वा कार्तिक्यां गोप्रदो भवेत्८२।
स वैष्णवपदं याति विष्णुव्रतमिदं स्मृतम्।
अयनादयनं यावद्वर्जयेत्पुष्पसर्पिषी८३।
तदंते पुष्पमन्नानि घृतधेन्वा सहैव तु।
दत्वा शिवपदं याति विप्राय घृतपायसम्८४।
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम्।
यावत्समं भवेद्यस्तु पंचदश्यां पयोव्रतः८५।
समांते श्राद्धकृद्दद्याद्गाश्च पंच पयस्विनीः।
वासांसि च पिशंगानि जलकुंभयुतानि च८६।
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्८७।
कल्पांते राजराजेंद्र पितृव्रतमिदं स्मृतम्।
संध्यादीप प्रदो यस्तु घृतैस्तैलं विवर्जयेत्८८।
समांते दीपकं दद्याच्चक्रं शूलं च कांचनम्।
वस्त्रयुग्मं च विप्राय स तेजस्वी भवेन्नरः८९।
रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम्।
कार्तिकादि तृतीयायां प्राश्य गोमूत्र यावकम्९०।
नक्तं चरेदब्दमेकमब्दान्ते गोप्रदो भवेत्।
गौरीलोके वसेत्कल्पं ततो राजा भवेदिह९१।
एतद्रुद्रव्रतं नाम सदा कल्याणकारकम्।
वर्जयेच्चतुरो मासान्यस्तु गन्धानुलेपनम्९२।
शुक्तिगन्धाक्षतान्दद्याद्विप्राय सितवाससी।
वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम्९३।
वैशाखे पुष्पलवणं वर्जयेदथ गोप्रदः।
भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह९४।
एतच्छान्तिव्रतं नाम कीर्तिकामफलप्रदम्।
ब्रह्माण्डं काञ्चनं कृत्वा तिलराशि समन्वितम्९५।
घृतेनान्यप्रदो भूत्वा वह्निं संतर्प्य सद्विजम्।
संपूज्य विप्रदांपत्यं माल्यवस्त्रविभूषणैः९६।
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति।
पुण्येऽह्नि दद्यादपरे ब्रह्म यात्यपुनर्भवम्९७।
एतद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम्।
यश्चोभयमुखीं दद्यात्प्रभूतसकलान्विताम्९८।
दिनं पयोव्रतं तिष्ठेत्स याति परमं पदम्।
एतद्वै सुव्रतं नाम पुनरावृत्तिदुर्लभम्९९।
त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम्।
पलादूर्ध्वं यथाशक्ति तण्डुलप्रस्थसंयुतम्१०० 1.20.100।
दत्त्वा ब्रह्मपदं याति भीमव्रतमिदं स्मृतम्।
मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम्१०१।
स वैष्णवपदं याति भीमव्रतमिदं स्मृतम्।
दद्याद्विंशत्पलादूर्ध्वं महीं कृत्वा तु काञ्चनीम्१०२।
दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते।
धनप्रदमिदं प्रोक्तं सप्तकल्पशतानुगम्१०३।
माघेमास्यथ चैत्रे वा गुडधेनुप्रदो भवेत्।
गुडव्रतं तृतीयायां गौरीलोके महीयते१०४।
महाव्रतमिदं नाम परमानन्दकारकम्।
पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम्१०५।
स ब्रह्मलोकमाप्नोति देवासुरसुपूजितः।
कल्पान्ते सर्वराजा स्यात्प्रभाव्रतमिदं स्मृतम्१०६।
वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुंभदः।
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम्७।
नक्ताशी त्वष्टमीषु स्याद्वत्सरांते तु धेनुदः।
पौरंदरं पुरं याति सुगतिव्रतमुच्यते८।
इंधनं यो ददेद्विप्रे वर्षादींश्चतुरस्त्वृतून्।
घृतधेनुप्रदोंते च स परं ब्रह्म गच्छति१०९।
वैश्वानरव्रतं नाम सर्वपापप्रणाशनम्।
एकादश्यां तु नक्ताशी यश्चक्रं विनिवेदयेत्११०।
कृत्वा समांते सौवर्णं विष्णोः पदमवाप्नुयात्।
एतत्कृष्णव्रतं नाम कल्पांते राज्यलाभकृत्१११।
पायसाशी समांते तु दद्याद्विप्राय गोयुगम्।
लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतं११२।
सप्तम्यां नक्तभुग्दद्यात्समाप्ते गां पयस्विनीं।
सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम्११३।
चतुर्थ्यां नक्तभुग्दद्याद्धेमंते गोयुगं तथा।
एतद्वैनायकं नाम शिवलोकफलप्रदम्११४।
महाफलानि यस्त्यक्त्वा चातुर्मास्ये द्विजातये।
हैमानि कार्तिकेदद्याद्धोमान्ते गोयुगं तथा११५।
एतत्सौरव्रतं नाम सूर्यलोकफलप्रदम्।
द्वादशाद्वादशीर्यस्तु समाप्योपोषणे नृप११६।
गोवस्त्रकांचनैर्विप्रान्पूजयेच्छक्तितो नरः।
परं पदमवाप्नोति विष्णुव्रतमिदं स्मृतम्११७।
चतुर्दश्यां तु नक्ताशी समान्ते गोयुगप्रदः।
शैवं पदमवाप्नोति त्रैयंबकमिदं स्मृतम्११८।
सप्तरात्रोषितो दद्याद्घृतकुंभं द्विजातये।
वरव्रतमिदं प्राहुर्ब्रह्मलोकफलप्रदम्११९।
असौ काशीं समासाद्य धेनुं दत्ते पयस्विनीम्।
शक्रलोके वसेत्कल्पमिदं मंत्रव्रतं स्मृतम्१२०।
मुखवासं परित्यज्य समांते गोप्रदो भवेत्।
वारुणं लोकमाप्नोति वारुणव्रतमुच्यते१२१।
चांद्रायणं च यः कुर्याद्धैमं चंद्रं निवेदयेत्।
चंद्रव्रतमिदं प्रोक्तं चंद्रलोकफलप्रदम्१२२।
ज्येष्ठे पंचतपा योंते हेमधेनुप्रदो दिवम्।
यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम्१२३।
सकृद्विधानकं कुर्यात्तृतीयायां शिवालये।
समाप्ते धेनुदो याति भवानीव्रतमुच्यते१२४।
माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत्।
दिविकल्पं वसित्वेह राजा स्यात्पवनव्रतम्१२५।
त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम्।
आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम्१२६।
त्रिसंध्यं पूज्य दांपत्यमुपवासी विभूषणैः।
ददन्मोक्षमवाप्नोति मोक्षव्रतमिदं स्मृतम्१२७।
दत्त्वासितद्वितीयायामिंदौ लवणभाजनम्।
समाप्ते गोप्रदो याति विप्राय शिवमंदिरम्१२८।
कांस्यं सवस्त्रं राजेन्द्र दक्षिणासहितं तथा।
समाप्ते गां च यो दद्यात्स याति शिवमंदिरम्१२९।
कल्पांते राजराजस्स्यात्सोमव्रतमिदं स्मृतम्।
प्रतिपत्स्वेकभक्ताशी समाप्ते च फलप्रदः१३०।
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम्।
हैमं पलद्वयादूर्द्ध्वं रथमश्वयुगान्वितम्१३१।
दद्यात्कृतोपवासः स दिवि कल्पशतं वसेत्।
तदंते राजराजस्स्यादश्वव्रतमिदं स्मृतम्१३२।
तद्वद्धेमरथं दद्यात्करिभ्यां संयुतं पुनः।
सत्यलोके वसेत्कल्पं सहस्रमपि भूमिपः१३३।
भवेदिहागतो भूम्यां करिव्रतमिदं स्मृतम्।
दशम्यामेकभक्ताशी समाप्ते दशधेनुदः१३४।
दीपं च कांचनं दद्याद्ब्रह्माण्डाधिपतिर्भवेत्।
एतद्विश्वव्रतं नाम महापातकनाशनम्१३५।
कन्यादानं तु कार्तिक्यां पुष्करे यः करिष्यति।
एकविंशद्गुणोपेतो ब्रह्मलोकं गमिष्यति१३६।
कन्यादानात्परं दानं नैव चास्त्यधिकं क्वचित्।
पुष्करे तु विशेषेण कार्तिक्यां तु विशेषतः१३७।
विप्राय विधिवद्देयं तेषां लोकोक्षयो भवेत्।
तिलपिष्टमयं कृत्वा गजं रत्नसमन्वितम्१३८।
विप्राय ये प्रयच्छंति जलमध्ये स्थिता नराः।
तेषां चैवाक्षयो लोको भविता भूतसंप्लवम्१३९।
यः पठेच्छृणुयाद्वापि व्रतषष्ठिमनुत्तमाम्।
मन्वंतरशतं सोपि गंधर्वाधिपतिर्भवेत्१४०।
षष्ठिव्रतं भारत पुण्यमेतत्तवोदितं विश्वजनीनमद्य।
श्रोतुं यदीच्छा तवराजराज शृणु द्विजातेः करणीयमेतत्१४१।
नैर्मल्यं भावशुद्धिश्चविनास्नानं न विद्यते।
तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते१४२।
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत्।
तीर्थं प्रकल्पयेद्विद्वान्मूलमंत्रेण मंत्रवित्१४३।
नमो नारायणायेति मूलमंत्र उदाहृतः।
सदर्भपाणिर्विधिना आचांतः प्रयतः शुचिः१४४।
चतुर्हस्तसमायुक्तं चतुरश्रं समंततः।
प्रकल्प्यावाहयेद्गंगामेभिर्मंत्रैर्विचक्षणः१४५।
विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता।
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात्१४६।
तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्।
दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि१४७।
नंदिनीत्येव ते नाम देवेषु नलिनीति च।
दक्षा पृथ्वी च सुभगा विश्वकाया शिवासिता१४८।
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी।
क्षेमा च जाह्नवी चैव शांता शांतिप्रदायिनी१४९।
एतानि पुण्यनामानि स्नानकाले प्रकीर्त्तयेत्।
भवेत्सन्निहिता तत्र गंगा त्रिपथगामिनी१५० 1.20.150।
सप्तवाराभिजप्तेन करसंपुटयोजितम्।
मूर्ध्नि कुर्याज्जलं भूयस्त्रिचतुःपंचसप्तधा१५१।
स्नानं कुर्यान्मृदातद्वदामंत्र्य तु विधानतः।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे१५२।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्।
उद्धृतासि वराहेण कृष्णेन शतबाहुना१५३।
नमस्ते सर्वलोकानां प्रभवोरणि सुव्रते।
एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः१५४।
उत्थाय वाससी शुभ्रे शुद्धे तु परिधाय वै।
ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै१५५।
ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतीन्।
देवायक्षास्तथा नागा गंधर्वाप्सरसां गणाः१५६।
क्रूरास्सर्पाः सुपर्णाश्च तरवो जंभकादयः।
विद्याधरा जलधरास्तथैवाकाशगामिनः१५७।
निराधाराश्च ये जीवा पापधर्मरताश्च ये।
तेषामाप्यायनायैतद्दीयते सलिलं मया१५८।
कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः।
मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा१५९।
सनकश्च सनंदश्च तृतीयश्च सनातनः।
कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा१६०।
सर्वे ते तृप्तिमायांतु मद्दत्तेनांबुना सदा।
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम्१६१।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च।
देवब्रह्मऋषीन्सर्वांस्तर्पयेत्साक्षतोदकैः१६२।
अपसव्यं ततः कृत्वा सव्यं जानु च भूतले।
अग्निष्वात्तांस्तथा सौम्यान्हविष्मंतस्तथोष्मपान्१६३।
सुकालिनो बर्हिषदस्तथा चैवाज्यपान्पुनः।
संतर्पयेत्पितॄन्भक्त्या सतिलोदकचंदनैः१६४।
सदर्भपाणिर्विधिना पितॄंन्स्वांस्तर्पयेतत्तः।
पित्रादीन्नामगोत्रेण तथा मातामहानपि१६५।
संतर्प्य विधिवद्भक्त्या इमं मंत्रमुदीरयेत्।
यो बांधवा बांधवा ये येन्यजन्मनि बांधवाः१६६।
ते तृप्तिमखिलायां तु येप्यस्मत्तोयकांक्षिणः।
आचम्य विधिना सम्यगालिखेत्पद्ममग्रतः१६७।
साक्षताद्भिस्सपुष्पाभिः सतिलारुणचंदनैः।
अर्घ्यं दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः१६८।
नमस्ते विश्वरूपाय नमस्ते विष्णुरूपिणे।
सर्वदेवनमस्तेस्तु प्रसीद मम भास्कर१६९।
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते।
एवं सूर्यं नमस्कृत्य त्रिः कृत्वा च प्रदक्षिणम्१७०।
द्विजं गां कांचनं चैव दृष्ट्वा स्पृष्ट्वा गृहं व्रजेत्।
स्वगेहस्थां ततः पुण्यां प्रतिमां चापि पूजयेत्१७१।
भोजनं च ततः पश्चाद्द्विजपूर्वं च कारयेत्।
अनेन विधिना सर्वॠषयः सिद्धिमागताः१७२।
इति श्री पद्मपुराणे प्रथमे सृष्टिखंडे स्नानविधिर्नाम विंशोऽध्यायः२०।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 21
पुलस्त्य उवाच।।
आसीत्पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः।।
सुहृच्छक्रस्य निहता येन दैत्यास्सहस्रशः१।।
सोमसूर्यादयो यस्य तेजसा विगतप्रभाः।।
भवंति शतशो येन दानवाश्च पराजिताः२।।
यथेच्छरूपधारी च मानुषोप्यपराजितः।।
तस्य भानुमती भार्या सती त्रैलोक्यसुंदरी३।।
लक्ष्मीसदृशरूपेण निर्जितामरसुंदरी।।
राज्ञस्तस्याग्रमहिषी प्राणेभ्योपि गरीयसी४।।
दशनारीसहस्राणां मध्ये श्रीरिव राजते।।
नृपकोटिसहस्रेण न कदाचित्समुच्यते५।।
कदाचिदास्थानगतः पप्रच्छ स्वपुरोहितम्।।
विस्मयेनावृतो नत्वा वसिष्ठमृषिसत्तमम्६।।
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा।।
कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम्७।।
वसिष्ठ उवाच।।
पुरा लीलावती नाम वेश्या शिवपरायणा।।
तया दत्तश्चतुर्दश्यां पुष्करे लवणाचलः८।।
हेमवृक्षामरैः सार्द्धं यथावद्विधिपूर्वकं।।
शूद्रः सुवर्णकारश्च कर्मकृत्सोऽभवत्तदा९।।
भृत्यो लीलावतीगेहे तेन हैमा विनिर्मिताः।।
तरवो हेमपुष्पाश्च श्रद्धायुक्तेन पार्थिव१०।।
अतिरूपेण संपन्ना घटितास्ते सुशोभनाः।।
धर्मकार्यमिति ज्ञात्वा न गृहीतं च वेतनम्११।।
उज्ज्वालिताश्च ते पत्न्या सुवर्णमयपादपाः।।
लीलावतीगृहे चापि परिचर्या च पार्थिव१२।।
कृता ताभ्यामशाठ्येन द्विजशुश्रूषणादिका।।
सा च लीलावती वेश्या कालेन महतानघ१३।।
सर्वपापविनिर्मुक्ता जगाम शिवमंदिरम्।।
योऽसौ सुवर्णकारश्च दरिद्रोप्यतिसत्त्ववान्१४।।
न मूल्यमादाद्वेश्यातः स भवानिह सांप्रतम्।।
सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः१५।।
यया सुवर्णकारस्य तरवो हेमनिर्मिताः।।
सम्यगुज्ज्वलिताः पत्न्या सेयं भानुमती तव१६।।
तस्मान्नृलोकेष्वपराजितस्त्वमारोग्यसौभाग्ययुता च लक्ष्मीः।।
तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्नृपते कुरुष्व१७।।
पुलस्त्य उवाच।।
तथेति संपूज्य सुधर्ममूर्तिर्वचो वसिष्ठस्य ददौ च सर्वान्।।
धान्याचलादीन्विधिनास्मरारेर्लोकं गतोसौ सुरपूज्यमानः१८।।
पश्येद्यदीमानुपनीयमानान्स्पृशेन्मनुष्यैरिह दीयमानान्।।
शृणोति भक्त्याथ मतिं ददाति विकल्मषः सोपि दिवं प्रयाति१९।।
दुःस्वप्नप्रशममुपैति पठ्यमानैः शैलेंद्रैर्भवभयभेदनैर्मनुष्यः।।
यः कुर्यात्किमु नृपपुंगवेह सम्यक्शांतात्मा सकलगिरींद्रसंप्रदानम्२०।।
भीष्म उवाच।।
किमभीष्टवियोगशोकसंधानलमुद्धर्तुमुपोषणं व्रतं वा।।
विभवध्रुवकारिभूतलेस्मिन्भवभीतेरपि सूदनं च पुंसः२१।।
पुलस्त्य उवाच।।
परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात्।।
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिंद्रासुरमानवेषु गुह्यम्२२।।
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम्।।
दशम्यां लघुभुग्विद्वान्प्रारभेत यमेन तु२३।।
उदङ्मुखः प्राङ्मुखो वा दंतधावनपूर्वकम्।।
एकादश्यां निराहारः सम्यगभ्यर्च्य केशवम्२४।।
श्रियं चाभ्यर्च्य विधिवद्भोक्ष्येऽहं चापरेहनि।।
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः२५।।
स्नानं सर्वौषधैः कुर्यात्पंचगव्यजलेन तु।।
शुभ्रमाल्यांबरधरःपूजयेच्छ्रीशमुत्पलैः२६।।
विशोकाय नमः पादौ जंघे च वरदाय वै।।
श्रीशाय जानुनी तद्वदूरू च जलशायिने२७।।
कंदर्पाय नमो गुह्यं माधवाय नमः कटिं।।
दामोदरायेत्युदरं पार्श्वे च विपुलायवै२८।।
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै।।
श्रीधराय विभोर्वक्षः करौ मधुभिदे नमः२९।।
वैकुण्ठाय नमः कंठमास्यं पद्ममुखायवै।।
नासामशोकनिधये वासुदेवाय चाक्षिणी३०।।
ललाटं वामनायेति हरये च पुनर्भ्रुवौ।।
अलकं माधवायेति किरीटं विश्वरूपिणे३१।।
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत्।।
एवं संपूज्य गोविंदं धूपमाल्यानुलेपनैः३२।।
ततस्तु मंडलं कृत्वा स्थंडिलं कारयेन्मृदा।।
चतुरश्रं समंताच्च रत्निमात्रमुदक्प्लवम्३३।।
श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतम्।।
त्रिरंगुलोच्छ्रितावप्रास्तद्विस्तारो द्विरंगुलः३४ (पा. – च्छिता)।।
स्थंडिलस्योपरिष्टात्तु भित्तिरष्टांगुला भवेत्।।
नदी वालुकया सूर्ये लक्ष्म्याः प्रतिकृतिं न्यसेत्३५।।
स्थंडिले सूर्यमध्यस्थ लक्ष्मीमभ्यर्चयेद्बुधः।।
नमो देव्यै नमः शांत्यै नमो लक्ष्म्यै नमः श्रिये३६।।
नमस्तुष्ट्यै नमः पुष्ट्यै सृष्ट्यै दृष्ट्यै नमो नमः।।
विशोका दुःखनाशा यविशोका वरदास्तु ते३७।।
विशोका मेस्तु संपत्त्यै विशोका सर्वसिद्धये।।
ततः शुभ्रांबरैः सूर्यं वेष्ट्य संपूजयेत्फलैः३८।।
भक्ष्यैर्नानाविधैस्तद्वत्सुवर्णकमलेन च।।
राजतीषु च पात्रीषु न्यसेद्दर्भोदकं बुधः३९।।
ततस्तु नृत्यगीतानि कारयेत्सकलां निशाम्।।
यामत्रये व्यतीते तु तत उत्थाय मानवः४०।।
अभिगम्य च विप्राणां मिथुनानि च पूजयेत्।।
शक्तितस्त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः४१।।
शयनस्थानि पूज्यानि नमोस्तु जलशायिने।।
ततस्तु गीतवाद्येन रात्र्यां जागरणे कृते४२।।
प्रभाते च ततः स्नानं कृत्वा दांपत्यमर्चयेत्।।
भोजयेच्च यथाशक्ति वित्तशाठ्येन वर्जितः४३।।
भक्त्याश्रुत्वापुराणानितद्दिनंचातिवाहयेत्।।
अनेन विधिना सर्वं मासिमासि समाचरेत्४४।।
व्रतांते शयनं दद्याद्गुडधेनुसमन्वितं।।
सोपधानं सविश्रामं स्वास्तरावरणं शुभं४५।।
यथालक्ष्मीर्नरेश त्वां न परित्यज्य गच्छति।।
तथा सुरूपतारोग्यमशोकं चास्तु मे सदा४६।।
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित्।।
तथा विशोकता मेऽस्तु भक्तिरग्य्रा च केशवे४७।।
मंत्रेणानेन शयनं गुडधेनुसमन्वितं।।
सूर्यश्च लक्ष्म्या सहितो दातव्यो भूतिमिच्छता४८।।
उत्पलं करवीरं वाप्यम्लानं चैव कुंकुमं।।
केतकं सिंधुवारं च मल्लिकागंधपाटला४९।।
कदंबं कुब्जकं जाती शस्तान्येतानि सर्वदा।।
भीष्म उवाच।।
गुडधेनुविधानं च समाचक्ष्व मुनीश्वर५० 1.21.50।।
किं रूपा केन मंत्रेण दातव्या तदिहोच्यतां।।
पुलस्त्य उवाच।।
गुडधेनुविधानस्य यद्रूपमिह यत्फलम्५१।।
तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम्।।
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि५२।।
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः।।
लघ्वेणकाजिनं तद्वत्वत्सं च परिकल्पयेत्५३।।
प्राङ्मुखीं कल्पयेद्धेनुं मृदा वा गां सवत्सकां।।
उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयं५४।।
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता।।
अर्द्धभारेण वत्सस्स्यात्कनिष्ठा भारकेण तु५५।।
चतुर्थांशे नवत्सः स्याद्गृहवित्तानुसारतः।।
धेनुवत्सौ कृतौ चोभौ सितसूक्ष्मांबरावृतौ५६।।
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ।।
सितसूत्रसिराजालौ सितकंबलकंबलौ५७।।
ताम्रगंडकपृष्ठौ द्वौ सितचामरलोमकौ।।
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ५८।।
काञ्चनाक्षियुगोपेताविन्द्रनीलकनीनिकौ।।
क्षौमपुच्छौ कांस्यदोहौ शुभ्रातिकमनीयकौ५९।।
सुवर्णशृंगाभरणौ राजताढ्य खुरौ च तौ।।
नानाफलसमायुक्तौ घ्राणगंधकरंडकौ६०।।
इत्येवं रचयित्वा तु धूपदीपैस्तथार्चयेत्।।
या लक्ष्मीस्सर्वभूतानां या च देवेष्ववस्थिता६१।।
धेनुरूपेण सा देवी मम पापं व्यपोहतु।।
विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसौ६२।।
चंद्रार्कशक्रशक्तिर्या सा धेनुर्वरदास्तु मे।।
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः६३।।
सर्वपापहरा धेनुस्तस्माद्भूतिं प्रयच्छ मे।।
एवमामंत्र्य तां धेनुं ब्राह्मणाय निवेदयेत्६४।।
विधानमेतद्धेनूनां सर्वासामपि पठ्यते।।
यास्तु पापविनाशिन्यः पठ्यंते दश धेनवः६५।।
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप।।
प्रथमा गुडधेनुः स्याद्घृतधेनुरथापरा६६।।
तिलधेनुस्तृतीया च चतुर्थी जलनामिका।।
क्षीरधेनुः पंचमी च मधुधेनुस्तथापरा६७।।
सप्तमी शर्कराधेनुरष्टमी दधिकल्पिता।।
रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः६८।।
कुंभास्स्यू रसधेनूनामितरासां स्वराशयः।।
सुवर्णधेनुं चाप्यत्र केचिदिच्छंति मानवाः६९।।
नवनीतेन तैलैश्च तथान्येपि महर्षयः।।
एतदेवविधानं स्यात्त एवोपस्करास्स्मृताः७०।।
मंत्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि।।
यथा श्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः७१।।
गुडधेनुप्रसंगेन सर्वास्तव मयोदिताः।।
अशेषयज्ञफलदाः सर्वपापहराः शुभाः७२।।
व्रतानामुत्तमं यस्माद्विशोकद्वादशीव्रतम्।।
तदंगत्वेन चैवात्र गुडधेनुः प्रशस्यते७३।।
अयने विषुवे पुण्ये व्यतीपाते तथा पुनः।।
गुडधेन्वादयो देया उपरागादिपर्वसु७४।।
विशोकद्वादशी चैषा सर्वपापहरा शुभा।।
यामुपोष्य नरो याति तद्विष्णोः परमं पदम्७५।।
इहलोके स सौभाग्यमायुरारोग्यमेव च।।
वैष्णवं पुरमाप्नोति मरणे स्मरणं हरेः७६।।
नवार्बुदसहस्राणि दश चाष्टौ च धर्मवित्।।
न शोकदुःखदौर्गत्यं तस्य संजायते नृप७७।।
नारी वा कुरुते या तु विशोकद्वादशीमिमां।।
नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात्७८।।
यस्मादग्रे हरेर्नृत्यमनन्तं गीतवादनम्।।
इति पठति य इत्थं यः शृणोतीह सम्यक्।।
मधुमुरनरकारेरर्चनं वाथ पश्येत्७९।।
मतिमपि च जनानां यो ददातीन्द्रलोके।।
स वसति विबुधौघैः पूज्यते कल्पमेकम्।।
भीष्म उवाच।।
भगवन्श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्८०।।
यदक्षयं परे लोके देवर्षिगणपूजितम्।।
पुलस्त्य उवाच।।
मेरोः प्रदानं वक्ष्यामि दशधा नृपसत्तम८१।।
यत्प्रदातानंतलोकान्प्राप्नोति सुरपूजितान्।।
पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च८२।।
न तत्फलमधीतेषु कृतेष्विह यदश्नुते।।
तस्माद्दानं प्रवक्ष्यामि पर्वतानामनुक्रमात्८३।।
प्रथमो धान्यशैलः स्यादिद्वतीयो लवणाचलः।।
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः८४।।
पंचमस्तिलशैलस्स्यात्षष्टः कार्प्पासपर्वतः।।
सप्तमो घृतशैलः स्याद्रत्नशैलस्तथाष्टमः८५।।
राजतो नवमस्तद्वद्दशमः शर्कराचलः।।
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः८६।।
अयनो वेपुण्ये व्यतीपाते दिनक्षये।।
शुक्लपक्षे तृतीयायामुपरागेश शिक्षये८७।।
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः।।
शुक्लायां पंचदश्यां वा पुण्यर्क्षे वा विधानतः८८।।
धान्यशैलादयो देयाः कार्तिक्यां ज्येष्ठपुष्करे।।
तीर्थेष्वायतने वापि गोष्ठे वा भवनांगणे८९।।
मंडपं कारयेद्भक्त्या चतुरश्रमुदङ्मुखम्।।
प्रागुदक्प्रवणं पुण्यं प्राङ्मुखं वा विधानतः९०।।
गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान्।।
तन्मध्ये पर्वतं कुयाद्विष्कंभं पर्वतान्वितम्९१।।
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः।।
मध्यमः पंचशतकैः कनिष्ठश्च त्रिभिः शतैः९२।।
मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात्।।
मूर्द्धन्यवस्थानमथांबरेण कार्यं त्वनेकं च पुनर्द्विजाग्र्यैः९३।।
चत्वारि शृंगाणि च राजतानि नितंबभागा अपि राजतास्स्युः।।
पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपद्मरागैः९४।।
पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यकपुष्परागैः।।
श्रीखंडखंडैरभितः प्रवालैर्लतान्वितो मौक्तिकप्रस्तराढ्यः९५।।
ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोप्यत्र हिरण्मयः स्यात्।।
तथेक्षुवंशावृतकंदरस्तु घृतोदकप्रस्रवणो दिशासु९६।।
शुभ्रांबराण्यंबुधरावलिस्यात्पूर्वेण पीतानि च दक्षिणेन।।
वासांसि पश्चादथ कर्बुराणि रक्तानि चैवोत्तरतो घनानि९७।।
रौप्यान्महेंद्रप्रमुखांस्तथाऽष्टौ संस्थाप्य लोकाधिपतीन्क्रमेण।।
नानावनाली च समंततः स्यान्मनोरमम्माल्यविलेपनं च९८।।
वितानकं चोपरि पंचवर्णमम्लानपुष्पाभरणं सितं च।।
इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कंभगिरीन्क्रमेण९९।।
तुरीयभागेन चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाढ्यम्।।
पूर्वेण मंदरमनेकफलैश्चयुक्तं कामेन कांचनमयेन विराजमानम्१०० 1.21.100।।
याम्येन गंधमदनो विनिवेशनीयो गोधूमसंचयमयः कलधौतवांश्च।।
हैमेन यज्ञपतिना घृतमानसेन वस्त्रेणराजतवनैश्च स संयुतः स्यात्१०१।।
पश्चात्तिलाचलमनेकसुगंधपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम्।।
आकारयेद्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे१०२।।
संस्थाप्यतं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सवस्त्रम्।।
पुष्पैश्च हेमवटपादपशेखरं तमाकारयेत्कनककेतुविराजमानम्१०३।।
माक्षीकभद्रसरसा च वनेन तद्वद्रौप्येण भासुरवितानयुतं विधाय।।
होमश्चतुर्भिरथ वेदपुराणविद्भिर्दांतैरनिंद्यचरिताकृतिभिर्द्विजेंद्रैः १०४।।
पूर्वेण हस्तमितमत्र विधाय कुंडं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च।।
रात्रौ च जागरमनुद्धतगीतरूपैरावाहनं च कथयामि शिलोच्चयानाम्१०५।।
त्वं सर्वदेवगणधामनिधे विरुद्धमस्मद्गृहेष्वमरपर्वत नाशयाशु।।
क्षेमं विधत्स्व कुरु शांतिमनुत्तमां च संपूजितः परमभक्तिमता मया हि१०६।।
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः।।
मूर्तामूर्तमयं बीजमतः पाहि सनातन१०७।।
यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मंदिरम्।।
रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे१०८।।
यस्मादशून्यममरैर्नारीभिश्च शिरस्तव।।
तस्मान्मामुद्धरामुष्माद्दुःखसंसारसागरात्१०९।।
एवमभ्यर्च्य तं मेरुं मंदरं चाभिपूजयेत्।।
यस्माच्चैत्ररथेन त्वं भद्राश्वेन च पर्वत११०।।
शोभसे मंदर क्षिप्रमतस्तुष्टिकरो भव।।
यस्माच्चूडामणिर्जंबूद्वीपे त्वं गंधमादन१११।।
गंधर्वगणशोभावांस्ततः कीर्तिर्दृढास्तु मे।।
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च११२।।
हिरण्मयाश्मशोभावांस्तस्मात्पुष्टिर्ध्रुवास्तु मे।।
उत्तरैः कुरुभिर्यस्मात्सावित्रेण वनेन च११३।।
सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे।।
एवमामंत्र्य तान्सर्वान्प्रभाते विमले पुनः११४।।
स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमं।।
विष्कंभपर्वतान्दद्यादृत्विग्भ्यः क्रमशो नृप११५।।
गावो देयाश्चतुर्विंशदथवा दश पार्थिव।।
शक्तितः सप्तचाष्टौ वा पंच दद्यादशक्तिमान्११६।।
एकापि गुरवे देया कपिलाथ पयस्विनी।।
पर्वतानामशेषाणामेष एव विधिः स्मृतः११७।।
त एव पूजने मंत्रास्त एवोपस्कराः स्मृताः।।
ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वतः१८।।
स्वमंत्रेणैव सर्वेषु होमः शैलेषु पठ्यते।।
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते११९।।
विधानं सर्वशैलानां क्रमशः शृणु पार्थिव।।
दानेषु चैव ये मंत्राः पर्वतेषु यथा फलम्१२०।।
अन्नं ब्रह्म यतः प्रोक्तमन्नं प्राणाः प्रकीर्तिताः।।
अन्नाद्भवंति भूतानि जगदन्नेन वर्धते१२१।।
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः।।
धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम१२२।।
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्।।
मन्वंतरशतं साग्रं देवलोके महीयते१२३।।
अप्सरोगणगंधर्वैराकीर्णेन विराजितः।।
विमानेन दिवः पृष्ठमायाति नृपसत्तम१२४।।
कर्मक्षये राजराज्यमाप्नोतीह न संशयः।।
अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम्१२५।।
यत्प्रदानान्नरो लोकमाप्नोति शिवसंयुतम्।।
उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः१२६।।
मध्यमश्च तदर्धेन चतुर्भिरधमस्स्मृतः।।
वित्तहीनो यथाशक्ति द्रोणादूर्द्ध्वं च कारयेत्१२७।।
चतुर्थांशेन विष्कंभपर्वतान्कारयेत्पृथक्।।
विधानं पूर्ववत्कुर्याद्ब्रह्मादीनां च सर्वदा१२८।।
तद्वद्धेममयं सर्वलोकपालनिवेशनम्।।
सरांसि वनवृक्षादि तद्वच्चान्यान्निनिवेशयेत्१२९।।
कुर्याज्जागरमत्रापि दानमंत्रान्निबोधत।।
सौभाग्यरससंयुक्तो यतोयं लवणे रसः१३०।।
तदात्मकत्वेन च मां पाह्यापन्नं नगोत्तम।।
यस्मादन्ये रसाः सर्वे नोत्कटा लवणं विना१३१।।
प्रियश्च शिवयोर्नित्यं तस्माच्छांतिप्रदो भव।।
विष्णुदेहसमुद्भूतो यस्मादारोग्यवर्धनः१३२।।
तस्मात्पर्वतरूपेण पाहि संसारसागरात्।।
अनेन विधिना यस्तु दद्याल्लवणपर्वतम्१३३।।
उमालोके वसेत्कल्पं ततो याति परां गतिम्।।
अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम्१३४।।
यत्प्रदानान्नरः स्वर्गं प्राप्नोति सुरपूजितः।।
उत्तमो दशभिर्भारैर्मध्यमः पंचभिर्मतः१३५।।
त्रिभिर्भारैः कनिष्ठः स्यात्तदर्धेनाल्पवित्तवान्।।
तद्वदामंत्रणं पूजां हैमवृक्षान्सुरार्चनं१३६।।
विष्कंभपर्वतांस्तद्वत्सरांसि वनदेवताः।।
होमं जागरणं तद्वल्लोकपालाधिवासनम्१३७।।
धान्यपर्वतवत्कुर्यादिमं मंत्रमुदीरयेत्।।
यथा देवेषु विश्वात्मा प्रवरोयं जनार्दनः१३८।।
सामवेदस्तु वेदानां महादेवस्तु योगिनां।।
प्रणवः सर्वमंत्राणां नारीणां पार्वती यथा१३९।।
तथा रसानां प्रवरः सदैवेक्षुरसो मतः।।
मम तस्मात्परां लक्ष्मीं ददातु गुडपर्वतः१४०।।
यस्मात्सौभाग्यदायिन्या धाम त्वं गुडपर्वत।।
निर्मितश्चासि पार्वत्या तस्मान्मां पाहि सर्वदा१४१।।
अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम्।।
संपूज्यमानो गंधर्वैर्गौरीलोके महीयते१४२।।
पुनः कल्पशतांते च सप्तद्वीपाधिपो भवेत्।।
आयुरारोग्यसंपन्नः शत्रुभिश्चापराजितः१४३।।
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम्।।
यस्य प्रदानाद्भवनं वैरिंचं यांति मानवाः१४४।।
उत्तमः पलसाहस्रो मध्यमः पंचभिः शतैः।।
तदर्धेनाधमस्तद्वदल्पवित्तोपि मानवः१४५।।
दद्यादेकपलादूर्द्ध्वं यथाशक्ति विमत्सरः।।
धान्यपर्वतवत्सर्वं विदध्याद्राजसत्तम१४६।।
विष्कंभशैलांस्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत्।।
नमस्ते सर्वबीजाय ब्रह्मगर्भाय वै नमः१४७।।
यस्मादनंतफलदस्तस्मात्पाहि शिलोच्चय।।
यस्मादग्नेरपत्यं त्वं यस्मात्पुत्रो जगत्पतेः१४८।।
हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम।।
अनेन विधिना यस्तु दद्यात्कनकपर्वतम्१४९।।
स याति परमं ब्रह्म लोकमानंदकारकम्।।
तत्र कल्पशतं तिष्ठेत्ततो याति परां गतिम्१५० 1.21.150।।
अथातः संप्रवक्ष्यामि तिलशैलं विधानतः।।
यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम्१५१।।
उत्तमो दशभिर्द्रोणैर्मध्यमः पंचभिः स्मृतः।।
त्रिभिः कनिष्ठो राजेंद्र तिलशैलः प्रकीर्तितः१५२।।
पूर्ववच्चापरं सर्वं विष्कंभपर्वतादिकम्।।
दानमंत्रं प्रवक्ष्यामि यथा च नृपपुंगव१५३।।
यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्भवाः।।
तिलाः कुशाश्च माषाश्च तस्माच्छांतिप्रदो भव१५४।।
हव्यकव्येषु यस्माच्च तिला एव हि रक्षणम्।।
लक्ष्मीं च कुरु शैलेंद्र तिलाचल नमोस्तु ते१५५।।
इत्यामंत्र्य च यो दद्यात्तिलाचलमनुत्तमम्।।
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम्१५६।।
कार्पासपर्वतश्चैव विंशद्भारैरिहोत्तमः।।
दशभिर्मध्यमः प्रोक्तः कनिष्ठः पंचभिर्मतः१५७।।
भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः।।
धान्यपर्वतवत्सर्वमासाद्यं राजसत्तम१५८।।
प्रभातायां च शर्वर्यां दद्यादिदमुदीरयेत्।।
त्वमेवावरणं यस्माल्लोकानामिह सर्वदा१५९।।
कार्पासाद्रे नमस्तस्मादघौघ ध्वंसनो भव।।
इति कार्पासशैलेंद्रं यो दद्याच्छर्वसंनिधौ१६०।।
रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह।।
अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम्१६१।।
तेजोमयं घृतं पुण्यंमहापातकनाशनम्।।
विंशत्या घृतकुंभानामुत्तमः स्याद्घृताचलः१६२।।
दशभिर्मध्यमः प्रोक्तः पंचभिस्त्वधमः स्मृतः।।
अल्पवित्तोपि कुर्वीत द्वाभ्यामिह विधानतः१६३।।
विष्कम्भपर्वतांस्तद्वच्चतुर्भागेन कल्पयेत्।।
शालितंडुलपात्राणि कुंभोपरि निवेशयेत्१६४।।
कारयेत्संहतानुच्चान्यथाशोभं विधानतः।।
वेष्टयेच्छुक्लवासोभिरिक्षुदंडफलादिकैः१६५।।
धान्यपर्वतवत्संर्वं विधानमिह पठ्यते।।
अधिवासनपूर्वं हि तद्वद्धोमसुरार्चनम्१६६।।
प्रभातायां च शर्वर्यां गुरवे विनिवेदयेत्।।
विष्कंभपर्वतांस्तद्वदृत्विग्भ्यः शांतमानसः१६७।।
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसि।।
तस्माद्घृतार्चिर्विश्वात्मा प्रीयतामत्र शंकर१६८।।
यस्मात्तेजोमयं ब्रह्म घृते चैव व्यवस्थितम्।।
घृतपर्वतरूपेण तस्मान्नः पाहि भूधर१६९।।
अनेन विधिना दद्याद्घृताचलमनुत्तमम्।।
महापातकयुक्तोपि लोकमायाति शांभवम्१७०।।
हंससारसयुक्तेन किंकिणीजालमालिना।।
विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः१७१।।
विचरेत्पितृभिः सार्धं यावदाभूतसंप्लवम्।।
अथातः संप्रवक्ष्यामि रत्नाचलमनुत्तमम्१७२।।
मुक्ताफलसहस्रेण पर्वतस्स्यादनुत्तमः।।
मध्यमः पंचशतिकस्त्रिशतेनाधमः स्मृतः१७३।।
चतुर्थांशेन विष्कंभ पर्वताः स्युः समन्ततः।।
पूर्वेण वज्रगोमेदैर्दक्षिणेनेंद्रनीलकैः१७४।।
पुष्यरागैर्युतः कार्यो विद्वद्भिर्गंधमादनः।।
वैडूर्यविद्रुमैः पश्चात्संमिश्रो विपुलाचलः१७५।।
पद्मरागैः स सौवर्णैरुत्तरेणापि विन्यसेत्।।
धान्यपर्वतवत्सर्वमत्रापि परिकल्पयेत्१७६।।
तद्वदावाहनं कृत्वा वृक्षान्देवांश्च कांचनान्।।
पूजयेत्पुष्पगन्धाद्यैः प्रभाते स्याद्विसर्जनम्१७७।।
पूर्ववद्गुरुऋत्विग्भ्य इमं मंत्रमुदीरयेत्।।
यथा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः१७८।।
त्वं च रत्नमयो नित्यमतः पाहि महाचल।।
यस्माद्रत्नप्रदानेन तुष्टिमेति जनार्दनः१७९।।
पूजामंत्रप्रसादेन तस्मान्नः पाहि पर्वत।।
अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम्१८०।।
स याति वैष्णवं लोकममरेश्वरपूजितः।।
यावत्कल्पशतं साग्रं वसेत्तत्र नराधिप१८१।।
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्।।
ब्रह्महत्यादिकं किंचिदत्रामुत्राथवा कृतम्१८२।।
तत्सर्वं नाशमायाति गिरिर्वज्राहतो यथा।।
अथातः संप्रवक्ष्यामि रौप्याचलमनुत्तमम्१८३।।
यत्प्रदानान्नरो याति सोमलोकं नरोत्तम।।
दशभिः पलसाहस्रैरुत्तमो रजताचलः१८४।।
पंचभिर्मध्यमः प्रोक्तस्तदर्धेनाधमः स्मृतः।।
अशक्तो विंशतेरूर्द्ध्वं कारयेच्छक्तितः सदा१८५।।
विष्कंभपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत्।।
पूर्ववद्राजतान्कुर्यान्मंदरादीन्विधानतः१८६।।
कलधौतमयांस्तद्वल्लोकेशान्कारयेद्बुधः।।
ब्रह्मविष्ण्वर्कवान्कार्यो नितंबोत्र हिरण्मयः१८७।।
राजतं स्यात्तदन्येषां पर्वतांना च कांचनम्।।
शेषं च पूर्ववत्कुर्याद्धोमजागरणादिकम्१८८।।
दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम्।।
विष्कंभशैलानृत्विग्भ्यः पूज्य वस्त्रविभूषणैः१८९।।
इमं मंत्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः।।
पितॄणां वल्लभं यस्मादिन्दोर्वा शंकरस्य च१९०।।
रजतं पाहि तस्मान्नः शोकसंसारसागरात्।।
इत्थं निवेश्य यो दद्याद्रजताचलमुत्तमम्१९१।।
गवामयुतसाहस्रफलमाप्नोति मानवः।।
सोमलोके सगंधर्वैः किन्नराप्सरसांगणैः१९२।।
पूज्यमानो वसेद्विद्वान्यावदाभूतसंप्लवम्।।
अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम्१९३।।
यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यंति सर्वदा।।
अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः१९४।।
चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः।।
भारेण चार्द्धभारेणकुर्याद्यः स्वल्पवित्तवान्१९५।।
विष्कंभपर्वतान्कुर्यात्तुरीयांशेन मानवः।।
धान्यपर्वतवत्सर्वं हैमांबरसुसंयुतम्१९६।।
मेरोरुपरितः स्थाप्यं हैमं तत्र तरुत्रयम्।।
मंदारः पारिजातश्च तृतीयः कल्पपादपः१९७।।
एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि निवेशयेत्।।
हरिचंदनसंतानौ पूर्वपश्चिमभागयोः१९८।।
निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले।।
मंदरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत्१९९।।
गंधमादनशृंगे तु धनदः स्यादुदङ्मुखः।।
प्राङ्मुखो वेदमूर्त्तिस्तु हंसः स्याद्विपुलाचले२०० 1.21.200।।
हैमी भवेत्सुपार्श्वे तु सुरभी दक्षिणामुखी।।
धान्यपर्वतवत्सर्वमावाहनमखादिकम्२०१।।
कृत्वाथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम्।।
ऋत्विग्भ्यश्चतुरः शैलानिमान्मंत्रानुदीरयेत्२०२।।
सौभाग्यामृतसारोयं परमः शर्कराचलः।।
तस्मादानंदकारी त्वं भवशैलेंद्र सर्वदा२०३।।
अमृतं पिबतां ये तु पतिता भुवि शीकराः।।
देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल२०४।।
मनोभवधनुर्मध्यादुद्भूता शर्करा पुनः।।
तन्मयोसि महाशैल पाहि संसारसागरात्२०५।।
यो दद्याच्छर्कराशैलमनेन विधिना नरः।।
सर्वपापविनिर्मुक्तः प्रयाति ब्रह्ममंदिरम्२०६।।
चंद्रसूर्यप्रतीकाशमधिरुह्यानुजीविभिः।।
सहैव यानमुत्तिष्ठेत्ततो विष्णुप्रभो दिवि२०७।।
ततः कल्पशतांते तु सप्तद्वीपाधिपो भवेत्।।
आयुरारोग्यसंपन्नो यावज्जन्मायुतत्रयम्२०८।।
भोजनं शक्तितः कुर्यात्सर्वशैलेष्वमत्सरः।।
स्वयं चाक्षारलवणमश्नीयात्तदनुज्ञया२०९।।
पर्वतोपस्करान्सर्वान्प्रापयेद्ब्राह्मणालयम्।।
एतत्ते सर्वमाख्यातं शैलदानमनुत्तमम्२१०।।
यदन्यद्रोचते तुभ्यं तन्मां पृच्छस्व पार्थिव।।
भीष्म उवाच।।
भगवन्भवसंसारसागरोत्तारकारकम्२११।।
किंचिद्व्रतं समाचक्ष्व स्वर्गारोग्यफलप्रदम्।।
पुलस्त्य उवाच।।
सौरधर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम्२१२।।
विशोकसप्तमीं तद्वत्तृतीयां फलसप्तमीम्।।
शर्करासप्तमीं कुर्यात्तथा कमलसप्तमीम्२१३।।
मंदारसप्तमीं षष्ठीं सप्तमीं शुभसप्तमीम्।।
सर्वाः पुण्यफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः२१४।।
विधानमासां वक्ष्यामि यथावदनुपूर्वशः।।
यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत्२१५।।
सा तु कल्याणिनी नाम विजया च निगद्यते।।
प्रातर्गव्येन पयसा स्नानं नद्यां समाचरेत्२१६।।
शुक्लांबरधरः पद्ममक्षतैः परिकल्पयेत्।।
प्राङ्मुखोष्टदलं मध्ये तद्वद्वृत्तां च कर्णिकाम्२१७।।
पुष्पाक्षताद्भिर्देवेशं विन्यसेत्सर्वतः क्रमात्।।
पूर्वेण तपनायेति मार्तंडायेति वै ततः२१८।।
याम्ये दिवाकरायेति विधात्र इति नैर्ऋते।।
पश्चिमे वरुणायेति भास्करायेति चानिले२१९।।
सौम्ये विकर्तनायेति देवायेत्यष्टमे दले।।
आदावंते च मध्ये चनमोस्तु परमात्मने२२०।।
मंत्रैरेतैस्समभ्यर्च्य नमस्कारांत दापितैः।।
शुक्लैर्वस्त्रैः फलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः२२१।।
स्थंडिले पूजयेद्भक्त्या गुडेन लवणेन वै।।
ततो व्याहृतिमंत्रेण विसृज्य द्विजपुंगवान्२२२।।
शक्तितस्तर्पयेद्भक्त्या गुडक्षीरघृतादिभिः।।
तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत्२२३।।
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः।।
कृतस्नानजपो विप्रैः सहैव घृतपायसम्२२४।।
भुक्त्वा च वेदविदुषि वैडालव्रतवर्जिते।।
घृतपात्रं सकनकं सोदकुंभं निवेदयेत्२२५।।
प्रीयतामत्र भगवान्परमात्मा दिवाकरः।।
अनेन विधिना सर्वं मासिमासि समाचरेत्२२६।।
ततस्त्रयोदशे मासि गाश्च दद्यात्त्रयोदश।।
वस्त्रालंकारसंयुक्ताः स्वर्णशृंगाः पयस्विनीः२२७।।
एकामपि प्रदद्याच्च वित्तहीनो विमत्सरः।।
न वित्तशाठ्यं कुर्वीत यतो मोहात्पतत्यधः२२८।।
अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीं।।
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते२२९।।
आयुरारोग्यमैश्वर्यमनंतमिह जायते।।
सर्वपापहरा चेयं सर्वदैवतपूजिता२३०।।
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी।।
इमामनंतफलदां यस्तु कल्याणसप्तमीं२३१।।
शृणोति यः पठेद्वापि स च पापैः प्रमुच्यते।।
विशोकसप्तमीं तद्वद्वक्ष्यामि नृपसत्तम२३२।।
यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते।।
माघे कृष्णतिलै स्नातः पंचम्यां शुक्लपक्षतः२३३।।
कृताहारः कृसरया दंतधावनपूर्वकम्।।
उपवासव्रतं कृत्वा ब्रह्मचारी निशि स्वपेत्२३४।।
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः।।
कृत्वा तु कांचनं पद्ममर्कायेति प्रपूजयेत्२३५।।
करवीरेण रक्तेन रक्तवस्त्रयुगेन च।।
यथा विशोकं भुवनं त्वयैवादित्य सर्वदा२३६।।
तथा विशोकता मे स्यात्त्वद्भक्तिः प्रतिजन्म च।।
एवं सपूज्य षष्ठ्यां तु भक्त्या संपूजयेद्द्विजान्२३७।।
स्वयं संप्राश्य गोमूत्रमुत्थाय कृतनैत्यकः।।
संपूज्य विप्रान्यत्नेन गुडपात्रसमन्वितम्२३८।।
सद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत्।।
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः२३९।।
ततः पुराणश्रवणं कर्त्तव्यं भूतिमिच्छता।।
अनेन विधिना सर्वमुभयोरपि पक्षयोः२४०।।
कुर्याद्यावत्पुनर्माघशुक्लपक्षस्य सप्तमी।।
व्रतांते कलशं दद्यात्सुवर्णकमलान्वितम्२४१।।
शय्यां सोपस्करां दद्यात्कपिलां च पयस्विनीं।।
अनेन विधिना यस्तु वित्तशाठ्येन वर्जितः२४२।।
विशोकसप्तमीं कुर्यात्स याति परमां गतिम्।।
यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत्२४३।।
तावन्न शोकमाप्नोति रोगदौर्गत्यवर्जितः।।
यं यं कामयते कामं तं तं प्राप्नोति पुष्कलम्२४४।।
निष्कामं कुरुते यस्तु स परं ब्रह्म गच्छति।।
यः पठेच्छृणुयाद्वापि विशोकाख्यां तु सप्तमीम्२४५।।
सोपींद्रलोकमासाद्य न दुःखी जायते क्वचित्।।
अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम्२४६।।
यामुपोष्य नरः पापैर्विमुक्तः स्वर्गभाग्भवेत्।।
मार्गशीर्षे शुभे मासि पंचम्यां नियतव्रतः२४७।।
षष्ठीमुपोष्य कमलं कारयित्वा तु कांचनम्।।
शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुंबिने२४८।।
रूपं च कांचनं कृत्वा फलस्यैकस्य धर्मवित्।।
दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति२४९।।
शक्त्या तु विप्रान्संपूज्य सप्तम्यां क्षीरभोजनम्।।
कृत्वा कुर्यात्फलत्यागं यावत्स्यात्कृष्णसप्तमी२५० 1.21.250।।
तामुपोष्याथ विधिवदनेनैव क्रमेण तु।।
तद्वद्धेमफलं दत्वा सुवर्णकमलान्वितम्२५१।।
शर्करापात्रसंयुक्तं वस्त्रमालासमन्वितम्।।
संवत्सरमनेनैव विधिनोभयसप्तमीम्२५२।।
उपोष्य दद्यात्क्रमशः सूर्यमंत्रमुदीरयेत्।।
भानुरर्को रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः२५३।।
श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति।।
प्रतिमासं च सप्तम्यामेकैकं नाम कीर्त्तयेत्२५४।।
प्रतिपक्षं फलत्यागमेतत्कुर्वन्समाचरेत्।।
व्रतांते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः२५५।।
शर्कराकलशं दद्याद्धेमपद्मफलान्वितम्।।
यथा न विफलः कामस्त्वद्भक्तानां सदा भवेत्२५६।।
तथानंतफलावाप्तिरस्तु मे जन्मजन्मनि।।
इमामनंतफलदां यः कुर्यात्फलसप्तमीम्२५७।।
भूतभव्यांश्च पुरुषांस्तारयेदेकविंशतिम्।।
यः शृणोति पठेद्वापि सोपि कल्याणभाग्भवेत्२५८।।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते।।
सुरापानादिकं किंञ्चिदत्रामुत्र च वा कृतम्२५९।।
तत्सर्वं नाशमायाति यः कुर्यात्फलसप्तमीम्।।
शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम्२६०।।
आयुरारोग्यमैश्वर्यं ययानंतं प्रजायते।।
माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः२६१।।
प्रातः स्नात्वा तिलैः शुभ्रैः शुद्धमाल्यानुलेपनः।।
स्थंडिले पद्ममालिख्य कुंकुमेन सकर्णिकम्२६२।।
तस्मिन्नमः सवित्रेति गंधपुष्पं निवेदयेत्।।
स्थापयेदुदकुंभं च शर्करापात्रसंयुतम्२६३।।
शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः।।
स्वर्णपुष्पसमायुक्तं मंत्रेणानेन पूजयेत्२६४।।
विश्ववेदमयो यस्मात्त्वं वेदेषु च पठ्यसे।।
त्वमेवामृतसर्वस्वमतः शांतिं प्रयच्छ मे२६५।।
पंचगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ।।
सौरसूक्तं जपन्नास्ते पुराणश्रवणेन च२६६।।
अहोरात्रे गते पश्चादष्टम्यां कृतनैत्यकः।।
तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत्२६७।।
भोजयेच्छक्तितो विप्रान्शर्कराघृतपायसैः।।
भुंजीतातैललवणं स्वयमप्यथ वाग्यतः२६८।।
अनेन विधिना सर्वं मासिमासि समाचरेत्।।
संवत्सरांते शयनं शर्कराकलशान्वितम्२६९।।
सर्वोपस्करसंयुक्तं तथैकांगां पयस्विनीम्।।
गृहं च शक्तिमान्दद्यात्समस्तोपस्करान्वितम्२७०।।
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा।।
दशभिर्वा त्रिभिर्वापि निष्केणैकेन वा पुनः२७१।।
पद्मं स्वशक्तितो दद्यात्पूर्ववन्मंत्रपाठनम्।।
वित्तशाठ्यं न कुर्वीत कुर्वन्दोषान्समश्नुते२७२।।
अमृतं पिबतो वक्त्रात्सूर्यस्यामृतबिंदवः।।
समुत्पेतुर्द्धरण्यां ये शालिमुद्गेक्षवस्तु ते२७३।।
शर्करायारसस्तस्मादिक्षुसारोमृतात्मवान्।।
इष्टारवेरतः पुण्या शर्करा हव्यकव्ययोः२७४।।
शर्करासप्तमी चेयं वाजिमेधफलप्रदा।।
सर्वदुष्टोपशमनी पुत्रपौत्रविवर्धिनी२७५।।
यः कुर्यात्परया भक्त्या स परं ब्रह्म गच्छति।।
कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम्२७६।।
इदमनघ शृणोति यः स्मरेद्वा परिपठतीह सुरेश्वरस्य लोके।।
मतिमपि च ददाति सोपि देवैरमरपुरे परिपूज्यते मुनीन्द्रैः २७७।।
अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम्।।
यस्यास्संकीर्त्तनादेव तुष्यतीह दिवाकरः२७८।।
वसंतामलसप्तम्यां सुस्नातो गौरसर्षपैः।।
तिलपात्रे च सौवर्णं निधाय कमलं शुभम्२७९।।
वस्त्रयुग्मावृतं कृत्वा गंधपुष्पैरथार्चयेत्।।
नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे२८०।।
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तुते।।
ततो द्विकालवेलायामुदकुंभसमन्वितम्२८१।।
विप्राय दद्यात्संपूज्य वस्त्रमाल्यविभूषणैः।।
शक्तितः कपिलां दद्यादलंकृत्य विधानतः२८२।।
अहोरात्रे गते पश्चादष्टम्यां भोजयेद्द्विजान्।।
यथाशक्ति च भुंजीत विमांसं तैलवर्जितं२८३।।
अनेन विधिना शुक्लसप्तम्यां मासि मासि च।।
सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः२८४।।
व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम्२८५।।
गाश्च प्रदद्याच्छक्त्या तु सुवर्णस्य पयस्विनीः।।
भाजनासनदीपादीन्दद्यादिष्टानुपस्करान्२८६।।
अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम्।।
लक्ष्मीमनंतामभ्येति सूर्यलोके च मोदते२८७।।
कल्पेकल्पे ततो लोकान्सप्त गत्वा पृथक्पृथक्।।
अप्सरोभिः परिवृतस्ततो याति परां गतिं२८८।।
पश्येदिमां यः शृणुयान्मुहूर्ते पठेच्च भक्त्याथ मतिं ददाति।।
सोप्यत्र लक्ष्मीममलामवाप्य गंधर्वविद्याधरलोकमेति२८९।।
अतः परं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्।।
सर्वकामप्रदां पुण्यां नाम्ना मंदारसप्तमीं२९०।।
माघस्यामलपक्षे तु पंचम्यां लघुभुङ्नरः।।
दंतकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः२९१।।
विप्रान्संपूजयित्वा तु मंदारं प्रार्थयेन्निशि।।
ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान्२९२।।
भोजयेच्छक्तितः कुर्यान्मंदारकुसुमाष्टकं।।
सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनं२९३।।
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेष्टपत्रकं।।
हेममंदारकुसुमैर्भास्करायेति पूर्वतः२९४।।
नमस्कारेण तद्वच्च सूर्यायेत्यमले दले।।
दक्षिणे तद्वदर्काय तथार्यम्णे च नैर्ऋते२९५।।
पश्चिमे वेदधाम्ने च वायव्ये चंडभानवे।।
पूष्णे चोत्तरतः पूज्य आनंदायेति तत्परम्२९६।।
कर्णिकायां च पुरुषः स्थाप्यः सर्वात्मनेपि च।।
शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः२९७।।
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः।।
भुंजीतातैललवणं वाग्यतः प्राङ्मुखो गृही२९८।।
अनेन विधिना सर्वं सप्तम्यां मासिमासि च।।
कुर्यात्संवत्सरं यावद्वित्तशाठ्यविवर्जितः२९९।।
एतदेव व्रतांते तु निधाय कलशोपरि।।
गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता३०० 1.21.300।।
नमो मंदारनाथाय मंदारभवनाय च।।
त्वं रवे तारयस्वास्मानस्मात्संसारसागरात्३०१।।
अनेन विधिना यस्तु कुर्यान्मंदारसप्तमीम्।।
विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते३०२।।
इमामघौघपटलभीषणध्वांतदीपिकां।।
गच्छन्संगृह्य संसारशर्वर्यां न स्खलेन्नरः३०३।।
मंदारसप्तमीमेतामीप्सितार्थफलप्रदां।।
यः पठेच्छृणुयाद्वापि सोपि पापैः प्रमुच्यते३०४।।
अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीं।।
यामुपोष्य नरो रोगशोकौघात्तु प्रमुच्यते३०५।।
पुण्यमाश्वयुजे मासि कृतस्नानजपः शुचिः।।
वाचयित्वा ततो विप्रानारभेच्छुभसप्तमीं३०६।।
कपिलां पूजयेद्भक्त्या गंधमाल्यानुलेपनैः।।
नमामि सूर्यसंभूतामशेषभुवनालयां३०७।।
त्वामहं शुभकल्याणि स्वशरीरविशुद्धये।।
अथ कृत्वा तिलप्रस्थं ताम्रपात्रेणसंयुतम्३०८।।
कांचनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितं।।
सोपधानं च विश्रामभाजनासनसंयुतम्३०९।।
फलैर्नानाविधैर्भक्ष्यैः घृतपायससंयुतैः।।
दद्याद्द्विकालवेलायामर्यमा प्रीयतामिति३१० विकाल।।
पंचगव्यं च संप्राश्य स्वपेद्भूमावसंस्तरे।।
ततः प्रभाते संजाते भक्त्या संतर्पयेद्द्विजान्३११।।
अनेन विधिना दद्यान्मासिमासि सदा नरः।।
वाससी वृषभं हैमं तद्वद्गां कांचनोद्भवाम्३१२।।
संवत्सरांते शयनमिक्षुदंडगुडान्वितम्।।
ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा३१३।।
दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति।।
अनेन विधिना विद्वान्कुर्याद्यः शुभसप्तमीम्३१४।।
तस्य श्रीर्विमला कीर्त्तिर्भवेज्जन्मनि जन्मनि।।
अप्सरोगणगंधर्वैः पूज्यमानः सुरालये३१५।।
वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम्।।
कल्पादाववतीर्णश्च सप्तद्वीपाधिपो भवेत्३१६।।
भ्रूणहत्यासहस्रस्य ब्रह्महत्याशतस्य च।।
नाशायालमियं पुण्या पठ्यते शुभसप्तमी३१७।।
इमां पठेद्यः शृणुयान्मुहूर्तं पश्येत्प्रसंगादपि दीयमानम्।।
सोप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम्३१८।।
यावत्समास्सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम्।।
स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारेः३१९।।
।।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पुष्करमाहात्म्ये एकविंशोऽध्यायः२१।।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 22
भीष्म उवाच
भूर्लोकोथ भुवर्लोकः स्वर्लोकोथ महर्जनः
तपः सत्यं च सप्तैते देवलोकाः प्रकीर्त्तिताः१
पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत्
इहलोके शुभं रूपमायुरारोग्यमेव च २
लक्ष्मीश्च विपुला ब्रह्मन्कथं स्यात्सुरपूजित
पुलस्त्य उवाच
पुरा हुताशनः सार्द्धं मारुतेन महीतले ३
आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम्
निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः ४
तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः
विरोचनस्तु संह्रादः प्रयातास्ते तदा वसन् ५
अंतःसमुद्रमाविश्य सन्निवेशमकुर्वत
अशक्ता इति तेप्यग्निमारुताभ्यामुपेक्षिताः ६
ततः प्रभृति वै देवान्मानुषान्स भुजंगमान्
संपीड्य च मुनीन्सर्वान्प्रविशंति पुनर्जलम् ७
एवं युगसहस्राणि ते वीराः सप्त पंच च
जलदुर्गबलाद्राजन्पीडयंति जगत्त्रयम् ८
ततः पुनरथो वह्निमारुतावमराधिपः
आदिदेशाचिरादंबु निधिरेष विशोष्यताम्९
यस्मादस्मद्द्विषां चैष शरणं वरुणालयः
तस्माद्भवद्भ्यामद्यैव शोषमेष प्रणीयताम्१०
तावूचतुस्ततः शक्रं मयशम्बरसूदनम्
अधर्म एष देवेंद्र सागरस्य विनाशनम्११
यस्माज्जीवनिकायस्य महतः संक्षयो भवेत्
तस्मादुपायमन्यं तु समाश्रय पुरंदर१२
यस्य योजनमात्रेपि जीवकोटि शतानि च
निवसंति सुरश्रेष्ठ स कथं नाशमर्हति१३
एवमुक्तः सुरेंद्रस्तु क्रोधसंरक्तलोचनः
उवाचेदं वचो रोषादमरावग्निमारुतौ १४
न धर्माधर्मसंयोगं प्राप्नुवंत्यमराः क्वचित्
भवंतौ तु विशेषेण महात्मानौ च तिष्ठतः १५
ममाज्ञा न कृता यस्मान्मारुतेन समं त्वया
मुंनिव्रतपरो भूत्वा परिगृह्य कलेवरम्१६
धर्मार्थशास्त्ररहितां योनिं प्रति विभावसो
तस्मादेकेन वपुषा मुनिरूपेण मानुषे १७
मारुतेन समं लोके तव जन्म भविष्यति
यदा तु मानुषत्वेपि त्वया गंडूषशोषितः १८
भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि
इतींद्रशापात्पतितौ तत्क्षणात्तौ महीतले १९
अवाप्तवंतौ देहे च कुंभाज्जन्म ततोभवत्
मित्रावरुणयोर्वीर्याद्वसिष्ठश्चात्मजोभवत् २०
ततोगस्त्य उग्रतपा बभूव मुनिसत्तमः
अस्माद्भ्रातुः स वै भ्राता वसिष्ठस्यानुजो मुनिः२१
भीष्म उवाच
कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ
जन्म कुंभादगस्त्यस्य यथाभूत्तद्वदाधुना २२
पुलस्त्य उवाच
पुरा पुराणपुरुषः कदाचिद्गंधमादने
भूत्वा धर्मसुतो विष्णुश्चचार विपुलं तपः २३
तपसा चास्य भीतेन विघ्नार्थे प्रेषितावुभौ
शक्रेण माधवानंगावप्सरोगणसंयुतौ २४
यदा च गीतवाद्येन भावहावादिना हरिः
न काममाधवाभ्यां च मोहं नेतुमशक्यत २५
तदा काममधुस्त्रीणां विषादमभजद्गणः
संक्षोभायत तस्तेषामूरुदेशान्नराग्रजः२६
नारीमुत्पादयामास त्रैलोक्यस्यापि मोहिनीम्
संमोहितास्तया देवास्तौ तु चैव सुरावुभौ२७
अप्सराणां समक्षं हि देवानामब्रवीद्धरिः
उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति२८
ततः कामयमानेन मित्रेणाहूयतोर्वशी
प्रोक्ता मां रमयस्वेति बाढमित्यब्रवीच्च सा २९
गच्छंती तु ततः सूर्यलोकमिंदीवरेक्षणा
वरुणेन वृता पश्चाद्वचनं तमभाषत ३०
मित्रेणाहं वृता पूर्वं मम सूर्यः पतिः प्रभो
उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम् ३१
गतायां बाढमित्युक्त्वा मित्रः शापमदादथ
अद्यैव मानुषे लोके गच्छ सोमसुतात्मजम्३२
भजस्वेति यतो मिथ्या धर्म एष त्वया कृतः
जलकुंभे ततो वीर्यं मित्रेण वरुणेन च ३३
प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ
निमिर्नाम नृपः स्त्रीभिः पुरा द्यूतमदीव्यत ३४
तदंतरेभ्याजगाम वसिष्ठो ब्रह्मसंभवः
तस्य पूजामकुर्वाणं शशाप स मुनिर्नृपम् ३५
विदेहस्त्वं भवस्वेति शप्तस्तेनाप्यसौ मुनिः
अन्योन्यशापादुभयोर्विशरीरे तु तेजसी ३६
जग्मतुश्शापनाशाय ब्रह्माणं जगतः पतिम्
अथ ब्रह्मसमादेशाल्लोचनेष्ववसन्निमिः ३७
निमेषाः स्युश्चलोकानां तद्विश्रामाय पार्थिव
वसिष्ठोप्यभवत्तस्मिञ्जलकुंभे च पूर्ववत् ३८
ततो जातश्चतुर्बाहुः साक्षसूत्रकमंडलुः
अगस्त्य इति शांतात्मा बभूव ऋषिसत्तमः३९
मलयस्यैकदेशे तु वैखानस विधानतः
सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुष्करम् ४०
ततः कालेन महता तारकादिनिपीडितम्
जगद्वीक्ष्यसकोपेन पीतवान्वरुणालयम्४१
ततोस्य वरदास्सर्वे बभूवुः शंकरादयः
ब्रह्माविष्णुश्च भगवान्वरदानाय जग्मतुः४२
वरं वृणीश्व भद्रं ते यश्चाभीष्टोत्र वै मुने
अगस्त्य उवाच
यावद्ब्रह्मसहस्राणां पंचविंशतिकोटयः४३
वैमानिको भविष्यामि दक्षिणांबरवर्त्मनि
मद्विमानोदयात्कुर्याद्यः कश्चित्पूजनं मम ४४
स सप्तलोकाधिपतिः पर्यायेण भविष्यति
यस्त्वाश्रमं पुष्करे तु मन्नाम्ना परिकीर्तयेत् ४५
स चैव पुण्यतां यातु वर एष वृतो मया
श्राद्धं येऽत्र करिष्यंति पिंडपूर्वं तु भक्तितः४६
तेषां पितृगणास्सर्वे मया सह दिवि स्थिताः
एतत्कालं वसिष्यंति एष एव वरो मम४७
एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम्
तस्मादर्घः प्रदातव्यो ह्यगस्त्याय सदा बुधैः४८
भीष्म उवाच
कथमर्घप्रदानं च कर्तव्यं तस्य वै मुनेः
विधानं यदगस्त्यस्य पूजने तद्वदस्व मे ४९
पुलस्त्य उवाच
प्रत्यूष समये विद्वान्कुर्यादस्योदये निशि
स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्यांबरो गृही ५० 1.22.50
स्थापयेदव्रणं कुंभं माल्यवस्त्रविभूषितम्
पंचरत्नसमायुक्तं घृतपात्रेणसंयुतम्५१
अंगुष्ठमात्रं पुरुषं तथैव सुवर्णमध्यायतबाहुदंडम्
चतुर्भुजं कुंभमुखे निधाय धान्यानि सप्ताचलसंयुतानि५२
सकांस्यपात्राक्षतशुक्लयुक्तं मंत्रेण दद्याद्द्विजपुंगवाय
उत्क्षिप्य कुंभोपरिदीर्घबाहुमनन्यचेता यमदिङ्मुखस्थम्५३
श्वेतां च दद्याद्यदिशक्तिरस्ति रौप्यैः खुरैर्हेममुखीं सवत्सां
धेनुं नरः क्षीरवतीं प्रणम्य स्रग्वस्त्रघंटाभराणां द्विजाय५४
आसप्तरात्रादुदये नृपास्य दातव्यमेतत्सकलं नरेण
यावत्समास्सप्तदशाथ वा स्युरथोर्द्ध्वमप्यत्र वदंति केचित्५५
काशपुष्पप्रतीकाश अग्निमारुतसंभव
मित्रावरुणयोः पुत्र कुंभयोने नमोस्तु ते५६
प्रत्यब्दं च फलत्यागमेवं कुर्वन्नसीदति
होमं कृत्वा ततः पश्चाद्वर्तयेन्मानवः फलम्५७
अनेनविधिना यस्तु पुमानर्घं निवेदयेत् अर्घ्य
इमं लोकमवाप्नोति रूपारोग्यफलप्रदम्५८
द्वितीयेन भुवर्लोकं स्वर्लोकं च ततः परम्
सप्तैव लोकानाप्नोति सप्तार्घान्यः प्रयच्छति५९
इति पठति शृणोति यो हि सम्यक्चरितमगस्त्यसमर्चनं च पश्येत्
मतिमपि च ददाति सोपि विष्णोर्भवनगतः परिपूज्यतेमरौघैः६०
भीष्म उवाच
सौभाग्यारोग्यफलदममित्रक्षयकारकम्
भुक्तिमुक्तिप्रदं यच्च तन्मे ब्रूहि महामते६१
पुलस्त्य उवाच
यदुमाया पुरा देव उवाचांधकसूदनः
कथासु संप्रवृत्तासु धर्म्यासु ललितासु च६२
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम्
गौर्युवाच
दत्तः शापो हि सावित्र्या मह्यं लक्ष्म्यै सुरेश्वर६३
यथा लक्ष्मीप्रधानत्वमहं यामि तथा वद
शंकर उवाच
शुणुष्वावहिता देवि तथैवान्यत्स्वयंकृतम्६४
नराणामथ नारीणामाराधनमनुत्तमम्
नभस्ये वाथ वैशाखे पुण्ये मार्गशिरस्यथ६५
शुक्लपक्षे तृतीयायां स्नातः स गौरसर्षपैः
गोरोचनं सगोमूत्रं गोदुग्धं च घृतं तथा६६
दधिचंदनसंमिश्रं ललाटे तिलकं न्यसेत्
सौभाग्यारोग्यकृद्यस्मात्सदा च ललिताप्रियम्६७
प्रतिपक्षं तृतीयायां पुमान्वापि सुवासिनी
धारयेद्रक्तवस्त्राणि कुसुमानि सितानि च ६८
विधवा शुक्लवस्त्रं वै त्वेकमेव हि धारयेत्
कुमारी शुक्ल सूक्ष्मे च परिदध्यात्तु वाससी ६९
देवीं च पंचगव्येन ततः क्षीरेण केवलं
स्नापयेन्मधुना तद्वत्पुष्पगंधोदकेन तु७०
पूजयेच्छुक्लपुष्पैस्तु फलैर्नानाविधैरपि
धान्यलाजादिलवणगुडक्षीरघृतान्वितैः७१
शुक्लाक्षततिलैरर्चा कार्या देवि सदा त्वया
पादयोरर्चनं कुर्यात्प्रतिपक्षं वरानने ७२
वरदायै नमः पादौ तथा गुल्फौ श्रियै नमः
अशोकायै नमो जंघे पार्वत्यै जानुनी तथा ७३
ऊरू मांगल्यकारिण्यै वामदेव्यै तथा कटिम्
पद्मोदरायै जठरं नमः कंठे श्रियै नमः७४
करौ सौभाग्यदायिन्यै बाहू च सुमुखश्रियै
मुखं दर्पविनाशिन्यै स्मरदायै स्मितं पुनः७५
गौर्यै नमस्तथानासामुत्पलायै च लोचने
तुष्ट्यै ललाटमलकं कात्यायन्यै नमः शिरः७६
नमो गोर्य्यै नमः पुष्ट्यै नमः कांत्यै नमः श्रियै
रंभायै ललितायै च वामदेव्यै नमो नमः७७
एवं संपूज्य विधिवदग्रतः पद्ममालिखेत्
पत्रैः षोडशभिर्युक्तं क्रमेणैव सकर्णिकम्७८
पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम्
भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम्७९
विन्यसेत्पश्चिमे भागे सौम्यां मदनवासिनीम्
वायव्ये पाटलामुग्रामुत्तरेण तथा उमाम्८०
साध्यां पथ्यां तथा सौम्यां मंगलां कुमदां सतीम्
भद्रां च मध्ये संस्थाप्य ललितां कर्णिकोपरि८१
कुसुमैरक्षताद्भिर्वा नमस्कारेण विन्यसेत्
गीतमंगलघोषं च कारयित्वा सुवासिनीम्८२
पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः
सिंदूरं स्नानचूर्णं च तासां शिरसि पातयेत्८३
सिंदूरं कुंकुमं स्नानमतीवेष्टं यतस्ततः
तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम्८४
न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः
जप्यैश्च पूजयेद्गौरीमुत्पलैरसितैः सदा८५
बंधुजीवैः प्रिये पूज्या कार्तिके मासि यत्नतः
जातीपुष्पैर्मार्गशिरे पौषे पीतैः कुरंटकैः८६
कुंदैः कुमुदपुष्पैश्च देवीं माघेपि पूजयेत्
सिंदुवारेण जात्या वा फाल्गुनेप्यर्चयेन्नरः८७
चैत्रे तु मल्लिकाशोकैर्वैशाखे गंधपाटलैः
ज्येष्ठे कमलमंदारैराषाढे च जलांबुजैः८८
मंदारैरथ मालत्या श्रावणे पूजयेत्सदा
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्८९
बिल्वपत्रार्ककुसुमांबुज गोशृंगवारि च
पंचगव्यं च बिल्वं च प्राशयेत्क्रमशः सदा९०
एतद्भाद्रपदादौ तु प्राशनं समुदाहृतम्
प्रतिपक्षं च मिथुनं तृतीयायां वरानने९१
भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः
पुंसः पीतांबरे दद्यात्स्त्रियाः कौशेयवाससी९२
निष्पाव जीरलवणमिक्षुदंड गुडान्वितम्
स्त्रियै दद्यात्फलं पुंसः सुवर्णोत्पलसंयुतम्९३
यथा न देवि देवस्त्वां संपरित्यज्य गच्छति
तथा मामुद्धराशेष दुःखसंसारसागरात्९४
कुमुदा विमला नंदा भवानी वसुधा शिवा
ललिता कमला गौरी सती रम्भाथ पार्वती९५
नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत्
व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम्९६
मिथुनानि चतुर्विशद्द्वादशाथ समर्चयेत्
अष्टावष्टाथवा भूयश्चतुर्मासेथ वार्चयेत्९७
पूर्वं दत्वाथ गुरवे पश्चादन्यान्समर्चयेत्
उक्तानन्ततृतीयैषा सदानंतफलप्रदा९८
सर्वपापहरा देवी सौभाग्यारोग्यवर्धिनी
न चैनं वित्तशाठ्येन कदाचिदपि लंघयेत्९९
नरो वा यदि वा नारी सोपवासव्रतं चरेत्
गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी१०० 1.22.100
यदाऽशुद्धा तदान्येन कारयेत्प्रयता स्वयम्
इमामनंतफलदां यस्तृतीयां समाचरेत्१०१
कल्पकोटिशतं साग्रं शिवलोके महीयते
वित्तहीनोपि कुर्वीत यावद्वर्षमुपोषणम्१०२
पुष्पमंत्रविधाने सोपि तत्फलमाप्नुयात्
नारी वा कुरुते या तु आत्मनः शुभमिच्छती१०३
जन्मपौरुषमाप्नोति गौर्यनुग्रहकारितम्
इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिंद्रलोकसंस्थः१०४
मतिमपि च ददाति योपि देवैरमरवधूजनकिन्नरैः स पूज्यः
अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम्१०५
रसकल्याणिनीमेतां पुराकल्पभवा विदुः
माघेमासि तु संप्राप्य तृतीयां शुक्लपक्षतः१०६
प्रातर्गंधेन पयसा तिलैः स्नानं समाचरेत्
स्नापयेन्मधुना देवीं तथैवेक्षुरसेन तु१०७
गंधोदकेन च पुनः पूजनं कुंकुमेन तु
दक्षिणांगानि संपूज्य ततो वामानि पूजयेत्१०८
ललितायै पदं देव्यै वामगुल्फौ ततोर्चयेत्
जंघे जानु तथा शांत्यै तथैवोरुं श्रियै नमः१०९
मदालसायै च कटिममलायै तथोदरम्
स्तनौ मदनवासिन्यै कुमुदायै च कंधराम्११०
भुजं भुजाग्रं माधव्यै कमलायै सुखस्मिते
भ्रूललाटं च रुद्राण्यै शंकरायै तथालकं१११
मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौ
नेत्रे चंद्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः११२
उत्कंठिन्यै नमः कंठममृतायै नमस्तनुम्
रंभायै च महाबाहू विशोकायै नमः करौ११३
हृदयं मन्मथाह्वायै पाटलायै तथोदरं
कटिं सुरतवासिन्यै तथोरू पंकजश्रियै११४
जानुजंघे नमो गौर्यै गुल्फौ शांत्यै तथार्चयेत्
धराधरायै पादौ तु विश्वकायै नमः शिरः११५
नमो भवान्यै कामिन्यै वासुदेव्यै जगच्छ्रियै
आनंददायै नंदायै सुभद्रायै नमोनमः११६
एवं संपूज्य विधिवद्द्विजदांपत्यमर्चयेत्
भोजयित्त्वा तथान्नेन मधुरेण विमत्सरः११७
समोदकं वारिकुंभं शुक्लांबरयुगद्वयं
दत्त्वा सुवर्णकमलं गंधमाल्यैरथार्चयेत्११८
प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम्
अनेन विधिना देवीं मासिमासि सदार्चयेत्११९
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः
नवनीतं तथा चैत्रे वर्ज्यं मधु च माधवे१२०
पानीयं ज्येष्ठमासे तु तथाषाढे च जीरकं
श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा१२१
घृतमाश्वयुजे तद्वदूर्जे वर्ज्यं च माक्षिकं
धान्याकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा१२२
व्रतांते करकं पूर्णमेतेषां मासिमासि च
दद्याद्विकालवेलायां भक्ष्यपात्रेण संयुतं१२३ विकाल
लड्डुकास्सेवकाश्चैव संयावमथ पूरिका
नारिका घृतपूर्णाश्च पिष्टपूर्णा च नंदिकी१२४
क्षीरशाकं च दध्यन्नं पिंडशाकं तथैव च
माघादौ क्रमशो दद्यादेतानि करकोपरि१२५
कुमुदा माधवी रंभा सुभद्रा च शिवा जया
ललिता कमलानंगा मंगला रति लालसा१२६
क्रमान्माघादिमासेषु प्रीयतामिति कीर्तयेत्
सर्वत्र पंचगव्यं च प्राशनं समुदाहृतं१२७
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते
कुर्यादेवमिदं नारी रसकल्याणिनी व्रतं१२८
पुनर्माघे च संप्राप्ते शर्करा कलशोपरि
कृत्वा तु कांचनीं गौरीं पंचरत्नसमन्वितां१२९
स्वकीयांगुष्ठमात्रं च साक्षसूत्रकमंडलुं
चतुर्भुजामिंदुयुतां सितनेत्रपटावृतां१३०
तद्वद्गोमिथुनं चैव सुवर्णस्य सितांबरं
सवस्त्रं भाजनं दद्याद्भवानी प्रीयतामिति१३१
अनेनविधिना यस्तु रसकल्याणिनीव्रतं
कुर्याच्च सर्वपापेभ्यस्तत्क्षणादेव मुच्यते१३२
भवानां च सहस्रं तु न दुःखी जायते क्वचित्
अग्निष्टोमसहस्रेण यत्फलं तदवाप्नुयात्१३३
नारी वा कुरुते या तु कुमारी वा वरानने
विधवा च वराकी वा सापि तत्फलभागिनी१३४
सौभाग्यारोग्यसंपन्ना गौरीलोके महीयते
इति पठति य इत्थं यः शृणोति प्रसंगात्
सकलकलुषमुक्तः पार्वतीलोकमेति१३५
मतिमपि च विधत्ते यो नराणां प्रियार्थं
विबुधपतिजनानां लोकगः स्यादमोघः
तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम्१३६
नाम्ना च लोकविख्यातामग्र्यानंदकरीमिमां
यदा शुक्लतृतीयायामषाढर्क्षं भवेत्क्वचित्१३७
ब्रह्मर्क्षं वाथ च मघा हस्तो मूलमथापि वा
दर्भगंधोदकैः स्नानं तदा सम्यक्समाचरेत्१३८
शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनः
भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगंधिभिः१३९
महादेवं च सकलमुपविष्टं महासने
वासुदेव्यै नमः पादौ शंकरायै नमो हरेः१४०
जंघेशोकविनाशिन्यै मानदायै नमः प्रभोः
रंभायै पूजयेदूरू शिवाय च पिनाकिने१४१
आनंदिन्यै कटिं देव्याः शूलिनश्शूलपाणये
माधव्यै च तथा नाभिमथ शंभोर्भवाय वै१४२
स्तनौ चानंदकारिण्यै शंकरस्येंदुधारिणे
उत्कंठिन्यै नमः कंठं नीलकंठाय वै हरेः१४३
करावुत्पलधारिण्यै रुद्राय जगतः प्रभो
बाहू च परिरंभिण्यै नृत्यप्रीताय वै हरेः१४४
देव्या मुखं विलासिन्यै वृषभाय पुनर्विभोः
स्मितं च स्मरणीयायै विश्ववक्त्राय वै विभोः१४५
नेत्रे मंदारवासिन्यै विश्वधाम्ने त्रिशूलिनः
भ्रुवौ नृत्यप्रियायै च शंभोर्वै पाशशूलिने१४६
देव्या ललाटमिंद्राण्यै वृषवाहाय वै विभोः
स्वाहायै मकुटं देव्या विभो गंगाधराय वै१४७
विश्वकायौ विश्वभुजौ विश्वपादमुखौ शिवौ
प्रसन्नवरदौ वंदे पार्वतीपरमेश्वरौ१४८
एवं संपूज्य विधिवदग्रतः शिवयोः पुनः
पद्मोत्पलानि रजसा नानावर्णेन कारयेत्१४९
शंखचक्रे सकटके स्वस्तिकं शुभकारकम्
यावंतः पांसवस्तत्र रजसः पतिता भुवि१५० 1.22.150
तावद्वर्षसहस्राणि शिवलोके महीयते
चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः१५१
दत्वा द्विजाय करकमुदकेन समन्वितम्
प्रतिपक्षं चतुर्मासं यावदेतान्निवेदयेत्१५२
ततस्तु चतुरो मासान्पूर्ववत्करकोपरि
चत्वारि घृतपात्राणि तिलपात्राण्यंनंतरं१५३
गंधोदकं पुष्पवारि चंदनं कुङ्कुमोदकं
अपक्वं दधिदुग्धं च गोशृंगोदकमेव च१५४
अब्दोदकं तथा वारिकुष्ठचूर्णान्वितं पुनः
उशीरसलिलं चैव यवचूर्णोदकं पुनः१५५
तिलोदकं च संप्राश्यस्वपेन्मार्गशिरादिषु
मासेषु पक्षद्वितयं प्राशनं समुदाहृतम्१५६
सर्वत्रशुक्लपुष्पाणिप्रशस्तानिसदार्चने
दानकाले च सर्वत्र मंत्रमेतमुदीरयेत्१५७
गौरी मे प्रीयतां नित्यमघनाशाय मंगला
सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये१५८
संवत्सरांते लवणं गुडकुंकुमसंयुतम्
चंदनेनयुतं कुंभं सहस्वर्णांबुजेन च१५९
उमायाः प्रीतये हैमं तद्विदिक्षुफलैर्युतम्
सास्तरावरणां शय्यां सविश्रामां निवेदयेत्१६०
सपत्नीकाय विप्राय गौरी मे प्रीयतामिति
आत्मानंदकरीं नाम प्राप्नुयात्संपदं नरः१६१
आयुरानंदसंपन्नो न क्वचिच्छोकमाप्नुयात्
नारी वा कुरुते या तु कुमारी विधवा तथा१६२
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
प्रतिपक्षमुपोष्यैवं मंत्रार्चनविधानतः१६३
रुद्राणां लोकमाप्नोति पुनरावृत्तिदुर्लभम्
इमां यः शृणुयान्नित्यं श्रावयेद्वापि भक्तितः१६४
शक्रलोकं स गत्वा तु पूज्यते कल्पसंस्थितः
शंकर उवाच
एवंविधा भवति चेन्नारी व्रतपरायणा१६५
सावित्री तु वराकी सा तस्याः शापस्तु कीदृशः
न काचिद्गणना चास्ति यतस्त्रैलोक्यसुंदरी१६६
सा पूर्वस्यापि वन्द्या च लक्ष्मीर्विष्णुप्रतिग्रहात्
मया पूर्वं तवार्थाय दक्षयज्ञस्तु नाशितः१६७
लक्ष्म्यर्थं विष्णुना चापि वारिधिर्मथितः पुरा
आज्ञाकरौ भवत्योश्च मा कुरुष्व भयं क्वचित्१६८
सावित्र्या मानना कार्या कुपितायाः प्रसादनम्
मया च विष्णुना चैव ब्रह्मणा मानमीप्सुना१६९
गमिष्ये ब्रह्मसदनं त्वं च तिष्ठ वरानने
एवमुक्त्वा गतो रुद्रो गौरी तत्र व्यवस्थिता१७०
कृतं युगं समग्रं च यज्ञे तस्मिन्हुताशनः
वहंस्तु हव्यं देवानां प्रीणयानो जगत्त्रयम्१७१
भोजनं द्विजमुख्येषु भोगान्विद्याधरे गणे
कामावाप्तिं मनुष्येषु सर्वमेव ददौ प्रभुः१७२
रुद्रेणोक्तस्तदा विष्णुर्धर्मांस्ते त्वं प्रकीर्त्तय
गौरीधर्मान्सरस्वत्या व्रतं यत्परिकीर्तितम्१७३
इत्येवमुक्ते रुद्रेण विष्णुः प्रोवाच सादरम्
नाहं धर्मं ख्यापयिष्ये स्वकीयं शंकराधुना१७४
भवानाख्यातु माहात्म्यं मदीयं सुरसत्तम
त्वया वै कथितं पूर्वं कृते वै पापसंक्षयः१७५
भविष्यति न संदेहो भवान्पूतो भविष्यति
भीष्म उवाच
मधुरा गीर्भवेत्केन व्रतेन मुनिसत्तम१७६
तथैव जनसौभाग्यं मतिर्विद्यासु कौशलम्
अभेदश्चापि दांपत्ये संगो बंधुजनेन च१७७
आयुश्च विपुलं पुंसां तन्मे कथय सत्तम
पुलस्त्य उवाच
सम्यक्पृष्टं त्वया राजन्शृणु सारस्वतं व्रतम्१७८
यस्य संकीर्तनादेव देवी तुष्येत्सरस्वती
यावद्भक्तः स्तवं कुर्यादेतद्व्रतमनुत्तमम्१७९
प्राग्वासरादौ संपूज्य दिव्यं स्तवं समारभेत्
अथवा रविवारेण ग्रहताराबलेन च१८०
पायसं भोजयेद्विप्रान्कुर्याद्ब्राह्मणवाचनम्
शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः१८१
गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः
यथा न देवि भगवान्ब्रह्मा लोकपितामहः१८२
त्वां परित्यज्य तिष्ठेच्च तथा भव वरप्रदा
वेदशास्त्राणि धर्माणि नृत्यगीतादिकं च यत्१८३
न विहीनं त्वया देवि तथा मे संतु सिद्धयः
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिर्जया मतिः१८४
एताभिः पाहि चाष्टाभिमूर्तिभिर्मां सरस्वति
एवं संपूज्य गायत्रीं वीणाकमलधारिणीम्१८५
शुक्लपुष्पाक्षतैर्भक्त्या सकमंडलु पुस्तकाम्
मौनव्रतेन भुंजीत सायंप्रातश्च धर्मवित्१८६
पंचम्यां प्रतिपक्षं च गां च विप्राय शोभनाम्
तथैव तंडुलप्रस्थं घृतपात्रेण संयुतम्१८७
क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति
संध्यायां च तथा मौनमेतत्कुर्वन्समाचरेत्१८८
न रात्र्यां भोजनं कुर्याद्यावन्मासास्त्रयोदश
समाप्ते तु व्रते दद्याद्भोजनं शुक्लतंडुलैः१८९
दिव्यां वितानं घंटां च सितनेत्रपटान्विताम्
चंदनं वस्त्रयुग्मं च दध्यन्नं सुरसं पुनः१९०
अथोपदेष्टारमपि भक्त्या संपूजयेद्गुरुम्
वित्तशाठ्येनरहितो वस्त्रमाल्यानुलेपनैः१९१
अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम्
सौभाग्यमतियुक्तस्तु सूक्ष्मकंठश्च जायते१९२
सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते
नारी वा कुरुते या तु सापि तत्फलभागिनी१९३
ब्रह्मलोके वसेद्राजन्यावत्कल्पायुत त्रयम्
सारस्वतं व्रतं यस्तु शृणुयादपि वा पठेत्१९४
विद्याधरपुरे सोऽपि वसेदब्दायुतत्रयम्
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे व्रताध्यायो नाम द्वाविंशोऽध्यायः२२
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 23
भीष्म उवाच
वैष्णवा ये तु वै धर्मा यान्रुद्रः प्रोक्तवानिह
तान्मे कथय विप्रेंद्र कीदृशास्ते फलं तु किम्।१।
पुलस्त्य उवाच
पुरा रथन्तरे कल्पे परिपृष्टो महात्मना
मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम्।२।
कथमारोग्यमैश्वर्यमनंतममरेश्वर
अल्पेन तपसा देव भवेन्मोक्षः सदा नृणां
३।
किं तज्ज्ञानं महादेव त्वत्प्रसादादधोक्षज
अल्पकेनापि तपसा महाफलमिहोच्यते।४।
इति पृष्टस्स विश्वात्मा ब्रह्मणा लोकभावनः
उमापतिरुवाचेदं मनसः प्रीतिकारकम्।५।
ईश्वर उवाच
अस्माद्रथंतरात्कल्पाद्भूयो विञ्शतिमो यदा
वाराहो भविता कल्पस्तदा मन्वन्तरे शुभे।६।
वैवस्वताख्ये सम्प्राप्ते सप्तमे सप्तलोकधृक्
द्वापराख्यंयुगं तस्मिन्सप्तविंशतिमं यदा।७।
तस्यां ते तु महातेजा वासुदेवो जनार्दनः
भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति।८।
द्वैपायन ऋषिस्तत्र रौहिणेयोथ केशवः
कंसारिः केशिमथनः केशवः क्लेशनाशनः९
पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली
दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः।१०।
त्वष्टा तदाज्ञया ब्रह्मन्करिष्यति जगत्पतेः
तस्यां कदाचिदासीनः सभायां सोऽमितद्युतिः।११।
भार्याभिर्वृष्णिविद्वद्भिभूरिभिर्भूरिदक्षिणैः
कुरुभिर्देवगन्धर्वैरन्वितः कैटभार्दनः।१२।
प्रवृत्तासु पुराणासु धर्मसम्बन्धधिनीषु च
कथासु भीमसेनेन परिपृष्टः प्रतापवान्।१३।
त्वया पृष्टस्य धर्मस्य वक्ष्यत्यस्य च भेददृक्
भविता स तदा ब्रह्मन्कर्ता चैव वृकोदरः।१४।
प्रवर्तकोऽस्य धर्मस्य पाण्डुसूनुर्महाबलः
यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः।१५।
सम्भाष्यते स धर्मात्मा तेन चासौ वृकोदरः
अतीव स्वादशीलश्च नागायुत बलो महान्।१६।
धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे
इदं व्रतमशेषाणां व्रतानामधिकं यतः।१७।
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः
अशेषयज्ञफलदमशेषाघविनाशनम्।।१८।
अशेषदुष्टशमनमशेषसुरपूजितम्
पवित्राणां पवित्रं यन्मगलानां च मङ्गलम्
भविष्यं च भविष्याणां पुराणानां पुरातनम्।१९।
वासुदेव उवाच
यद्यष्टमी चतुर्द्दश्योर्द्वादशीषु च भारत
अन्येष्वपि दिनर्क्षेषु नशक्तस्त्वमुपोषितुम्।२०।
ततस्त्वग्र्यामिमां भीम तिथिं पापप्रणाशिनीम्
उपोष्य विधिनानेन गच्छ विष्णोः परं पदं।२१।
माघमासस्य दशमी यदा शुक्ला भवेत्तदा
घृतेनाभ्यंजनं कृत्वा तिलैः स्नानं समाचरेत्।२२।
तथैव विष्णुमभ्यर्चेन्नमो नारायणाय च
कृष्णाय पादौ संपूज्य शिरःकृष्णात्मनेति च।२३।
वैकुण्ठायेति वैकुण्ठमुरः श्रीवत्सधारिणे
शङ्खिने गदिने चैव चक्रिणे वरदाय वै।२४।
सर्वं नारायणन्त्वेवं सम्पूज्यावाहनक्रमात्
दामोदरायेत्युदरं कटिं पञ्चजनाय वै।२५।
ऊरूसौभाग्यनाथाय जानुनी भूतधारिणे
नमो नीलाय वै जङ्घे पादौ विश्वभुजे पुनः।२६।
नमो देव्यै नमः शांत्यै नमो लक्ष्म्यै नमः श्रियै
नमस्तुष्ट्यै नमः पुष्ट्यै धृत्यै व्युष्ट्यै नमो नमः।२७।
नमो विहङ्गनाथाय वायुवेगाय पक्षिणे
विषप्रमथनायेति गरुडं चाभिपूजयेत्।२८।
एवं सम्पूज्य गोविन्दमुमापतिविनायकौ
गन्धैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि।२९।
गव्येन पयसा सिक्तां कृसरामथ पायसम्
सर्पिषा सह भुक्त्वा तु गत्वा स्थानांतरं पुनः।३०।
नैयग्रोधं दन्तकाष्ठमथवा खादिरं बुधः
गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्मुखः।३१।
ब्रूयात्सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ
नमो नारायणायेति त्वामहं शरणं गतः।३२।
एकादश्यां निराहारः समभ्यर्च्य च केशवम्
तां रात्रिं सकलां स्थित्वा शेषपर्यंकशायिनम्।३३।
सर्पिषा विश्वदहनं हुत्वा ब्राह्मणपुङ्गवैः
सहैव पुण्डरीकाक्षं द्वादश्यां क्षीरभोजनम्।३४।
करिष्यामि यथात्मानं निर्विघ्नेनास्तु तच्च मे
एवमुक्त्वा स्वपेद्भूमावितिहासकथां पुनः।३५।
श्रुत्वा प्रभाते सञ्जाते नदीं गत्वा विशाम्पते
स्नानं कृत्वा मुदा तद्वत्पाषण्डानभिवर्जयेत्।३६।
उपास्य सन्ध्यां विधिवत्कृत्वा च पितृतर्पणम्
प्रणम्य च हृषीकेशं शेषपर्यङ्कशायिनम्।३७।
गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः
चतुर्हस्तां शुभां कुर्याद्वेदीमरिनिषूदन।३८।
चतुर्हस्तप्रमाणं तु विन्यसेत्तत्र तोरणम्
मध्ये च कलशं तत्र माषमात्रेण सञ्युतम्।३९।
छिद्रेण जलसम्पूर्णमधः कृष्णाजिने स्थितः
तस्य धारां च शिरसा धारयेत्सकलां निशाम्।४०।
धाराभिर्भूरिभिर्भूरि फलं वेदविदो विदुः
यस्मात्तस्मात्कुरुश्रेष्ठ कारयेत्प्रयतो द्विजः।४१।
दक्षिणे चार्धचन्द्रं तु पश्चिमे वर्तुलं तथा
अश्वत्थपत्राकारं च उत्तरेण तु कारयेत्।४२।
मध्ये तु पद्माकारं च कारयेद्वैष्णवो द्विजः
पूर्वतो वेदिकां स्थो न स्थो न याम्ये च कल्पयेत्।४३।
पानीयधारां शिरसि धारयेद्विष्णुतत्परः
द्वितीया वेदी देवस्य तत्र पद्मं सकर्णिकम्।४४।
तस्य मध्ये स्थितं देवं कुर्याद्वै पुरुषोत्तमम्
हस्तमात्रं च तत्कुण्डं कृत्वा तत्र त्रिमेखलम्४५
योनिवक्त्रं ततस्तस्मिन्ब्राह्मणैर्यवसर्पिषी
तिलाञ्श्च विष्णुदेवत्यैर्मंत्रैरेवानले हुनेत्।४६।
कृत्वा तु वैष्णवं सम्यग्यागं तत्र प्रकल्पयेत्
आज्यधारा मध्यमे तु कुंडे दद्यात्तु यत्नतः।४७।
क्षीरधारां देवदेवे वारिधारात्मनोपरि
निष्पावार्धप्रमाणां वै धारामाज्यस्य पातयेत्।४८।
स्वेच्छया क्षीरजलयोरविच्छिन्नां च शर्वरीं
जलकुम्भान्महावीर्य स्थापयित्वा त्रयोदश।४९।
भक्ष्यैर्नानाविधैर्युक्तान्सितवस्त्रैरलङ्कृतान्
प्रतानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितैः।1.23.५०।
चतुर्भिर्बह्वृचैर्होमः कार्यस्तत्र उदङ्मुखैः
रुद्रजाप्यश्चतुर्भिश्च यजुर्वेदपरायणैः।५१।
वैष्णवानि च सामानि चतुर्भिः सामवेदिभिः
एवं द्वादश वै विप्रान्वस्त्रमाल्यानुलेपनैः।५२।
पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः
वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः।५३।
एवं क्षपातिवाह्या वै गीतमङ्गलनिःस्वनैः
उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु।५४।
ततः प्रभाते विमले समुत्थाय त्रयोदश
गावो देयाः कुरुश्रेष्ठ सौवर्णशृङ्गसंवृताः।५५।
पयस्विन्यः शीलवत्यः कांस्यदोहसमन्विताः
रौप्यखुराः सवत्साश्च चन्दनेनाभिभूषिताः।५६।
तास्तु तेषां ततो दत्वा भक्ष्यभोज्येन तर्पितान्
कृत्वा वै ब्राह्मणान्सर्वान्छत्रैर्नानाविधैस्तथा।५७।
भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत्
अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः।५८।
प्रीयतामत्र देवेशः केशवः क्लेशनाशनः
एवं गुर्वाज्ञया कुम्भान्गाश्चैव शयनानि च।५९।
वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः
अभावे बहुशय्यानामेकामपि सुसंस्कृताम्।६०।
शय्यां दद्याद्गृही भीम सर्वोपस्करसंयुताम्
इतिहासपुराणानि वाचयित्वा तु वाहयेत्।६१।
तद्दिनं कुरुशार्दूल य इच्छेद्विपुलां श्रियम्
तस्मात्त्वं सत्त्वमालंब्य भीमसेन विमत्सरः।६२।
कुरु व्रतमिदं सम्यक्स्नेहाद्गुह्यं मयोदितम्
त्वया कृतमिदं वीर त्वन्नाम्ना च भविष्यति।६३।
सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा
या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते।६४।
त्वं चादिकर्ता भव सौकरेस्मिन्कल्पे महावीर वरप्रधान
यस्याः स्मृतेः कीर्तनतोप्यशेषं पापं प्रणष्टं त्रिदशाधिपस्य।६५।
दृष्ट्वा च तामप्सरसामभीष्टां वेश्याकृतामन्यभवान्तरेषु।
आभीरकन्या हि कुतूहलेन सैवोर्वशी सम्प्रति नाकपृष्ठे।६६।
जाताऽथ सा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी।।
तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा।६७।
कृतं पुरा मंगलमेतदेव द्विजात्मजा वेदवती बभूव।६८।
अस्यां च कल्याणतिथौ विवस्वान्सहस्रधारेण सहस्ररश्मिः
स्नातः पुरा मण्डलमेत्य तद्वत्तेजोमयं खेटपतिर्बभूव।६९।
इदमेवकृतं महेंद्रमुख्यैर्बहुभिर्देवसुरारिकोटिभिश्च
फलमस्येह न शक्यते हि वक्तुं यदि जिह्वायुतकोटयो मुखे स्युः।७०।
कलिकलुषविदारिणीमनन्तामपि कथयिष्यति यादवेंद्रसूनुः
अथ नरकगतान्पितॄनथैषा ह्यलमुद्धर्तुमिहैव यः करोति।७०।
इदमनघशृणोति वक्ति भक्त्या परिपठतीह परोपकारहेतोः
इह पंकजनाभभक्तिमान्भवेदथ शक्रस्य सपूज्यतामुपैति।७१।
कल्याणिनी नाम पुरा विसर्गे या द्वादशी माघसितेभिपूज्या
सा पाण्डुपुत्रेण कृता भविष्यत्यंनतपुण्यानघभीमपूर्वा।७२
ब्रह्मोवाच
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः
सदाचारश्च भगवान्धर्मशास्त्रांगविस्तरैः।७३।
पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्वतः
ईश्वर उवाच
तस्मिन्नेव पुरे ब्रह्मन्सहस्राणि तु षोडश७४
वासुदेवस्य नारीणां भविष्यंत्यंबुजोद्भव
ताभिर्वसंतसमये कोकिलालिकुलाकुले७५
पुष्पितोपवने फुल्लकल्हारसरसस्तटे
निर्भरं सहपत्नीभिः प्रशस्ताभिरलंकृतः७६
रमयिष्यति विश्वात्मा कृष्णो यदुकुलोद्वहः
कुरंगनयनः श्रीमान्मालतीकृतशेखरः७७
गच्छन्समीपमार्गेण सांबो जांबवतीसुतः
साक्षात्कंदर्परूपेण सर्वाभरणभूषितः७८
अनंगशरतप्ताभिः साभिलाषमवेक्षितः
प्रबुद्धो मन्मथस्तासां भविष्यति यदात्मनि७९
तदवेक्ष्य जगन्नाथस्सर्वज्ञो ध्यानचक्षुषा
स्वयंप्रभुर्वक्ष्यति ता वो हरिष्यंति दस्यवः८०
अपरोक्षं यतस्त्वेवं स्निग्धमेतद्विचिंतितम्
ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत्८१
ताभिः शापाभितप्ताभिर्भगवान्भूतभावनः
उत्तराश्रितदाशानामुद्धर्ता ब्राह्मणप्रियः८२
उपदेक्ष्यत्यनंतात्मा भावि कल्याणकारकम्
भवतीनामृषिर्दाल्भ्यो यद्व्रतं कथयिष्यति८३
इत्युक्त्वा ताः परित्यज्य गतोन्तर्धानमीश्वरः
ततः कालेन महता भारावतरणे कृते८४
निवृत्ते मौसले तद्वत्केशवे दिवमागते
शून्ये यदुकुले सर्वे चोरैरपि जितेर्जुने८५
हृतासु कृष्णपत्नीषु दाशभोग्यासु चार्बुदे
तिष्ठंतीषु च दौर्गत्यसंतप्तासु चतुर्मुख८६
आगमिष्यति योगात्मा दाल्भ्योनाम महातपाः
तास्तमर्घ्येण संपूज्य प्रणिपत्य पुनःपुनः८७
लालप्यमाना बहुशो वाष्पपर्याकुलेक्षणाः
स्मरंत्यो विविधान्भोगान्दिव्यमाल्यानुलेपनान्८८
भर्त्तारं जगतामीशमनंतमपराजितम्
दिव्यानुभावां च पुरींनानारत्नगृहाणि च८९
द्वारकावासिनः सर्वान्देवरूपान्कुमारकान्
प्रश्नमेतं करिष्यंति मुनेरभिमुखंस्थिताः९०
दस्युमिर्भगवन्सर्वाः परिभुक्ता वयं बलात्
स्वधर्मश्च्यावितोस्माकमस्मिन्नः शरणं भवान्९१
आदिष्टोसि पुरा ब्रह्मन्केशवेन च धीमता
कस्मादीशेन संयोगं प्राप्य वेश्यात्वमागताः९२
वेश्यानामपि यो धर्मस्तं नो ब्रूहि तपोधन
कथयिष्ये वदत्तासां यद्दाल्भ्यश्चैकितायनः९३
दाल्भ्य उवाच
जलक्रीडाविहारेषु पुरा सरसि मानसे
भवतीनां सगर्वाणां नारदोभ्याशमागतः९४
हुताशनसुताः सर्वा भवत्योप्सरसः पुरा
अप्रणम्यावलेपेन परिपृष्टः स योगवित्९५
कथं नारायणोस्माकं भर्त्ता स्यादित्युपादिश
तस्माद्वरप्रदानं च शापश्चायमभूत्पुरा९६
शय्याद्वयप्रदानेन मधुमाधवमासयोः
सुवर्णोपस्करोत्संगं द्वादश्यां शुक्लपक्षतः९७
भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि
यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात्९८
परिपृष्टोस्मि तेनाशु वियोगो वो भविष्यति
चोरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ९९
एवं नारदशापेन केशवस्य च शापतः
वेश्यात्वमागताः सर्वा भवत्यः काममोहिताः1.23.१००
इदानीमपि यद्वक्ष्ये तच्छ्रणुध्वं वरांगनाः
पुरा दैवासुरे युद्धे हतेषु शतशः सुरैः१०१
दानवासुरदैत्येषु राक्षसेषु ततस्ततः
तेषां दारसहस्राणि शतशोथ सहस्रशः१०२
परिणीतानि यानि स्युर्बलाद्भुक्तानि यानि वै
तानि सर्वाणि देवेशः प्रोवाच वदतां वरः१०३
वेश्याधर्मेण वर्तध्वमधुना नृपमंदिरे
भक्तिमत्यो वरारोहास्तथा देवकुलेषु च१०४
राजतः स्वामिनश्चापि जीविकां च प्रलप्स्यथ
भविष्यति च सौभाग्यं सर्वासामपि शक्तितः१०५
यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा
निश्छद्मनैवोपचर्यः प्रीतिभावैरदांभिकैः१०६
देवतानां पितॄणां च पुण्येह्नि समुपस्थिते
गोभूहिरण्यधान्यानि प्रदेयानि च शक्तितः१०७
यद्व्रतं चोपदेक्ष्यामि तत्कुरुध्वं च सर्वशः
संसारोत्तारणायालमेतद्वेदविदो विदुः१०८
यदा सूर्यदिने हस्तः पुष्यो वाथ पुनर्वसुः
भवेत्सर्वौषधिस्नानं सम्यक्नारी समाचरेत्१०९
तदा पंचशरात्मा तु हरिस्सन्निधिमेष्यति
अर्चयेत्पुंडरीकाक्षमनंगस्यानुकीर्तनैः११०
कामाय पादौ संपूज्य जंघे वै मोहकारिणे
मेढ्रं कंदर्पनिधये कटिं प्रीतिमते नमः१११
नाभिं सौख्यसमुद्राय वामनाय तथोदरम्
हृदयं हृदयेशाय स्तनावाह्लादकारिणे११२
उत्कंठायेति वै कंठमास्यमानंदकारिणे
वामांसं पुष्पचापाय पुष्पबाणाय दक्षिणम्११३
मानसायेति वै मालि विलोलायेति मूर्द्धजम्
सर्वात्मने शिरस्तद्वद्देवदेवस्य पूजयेत्११४
नमः शिवाय शांताय पाशांकुशधराय च
गदिने पीतवस्त्राय शंखचक्रधराय च११५
नमो नारायणायेति कामदेवात्मने नमः
नमः शांत्यै नमः प्रीत्यै नमारेत्यै नमः श्रियै११६
नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसंपदे
एवं संपूज्य गोविंदमनंगात्मकमीश्वरम्११७
गंधमाल्यैस्तथा धूपैर्नैवेद्येन च भामिनी
तत आहूय धर्मज्ञं ब्राह्मणं वेदपारगम्११८
अव्यंगमथ संपूज्य गंधपुष्पार्चनादिभिः
शालेयतंडुलप्रस्थं घृतपात्रेण संयुतम्११९
तस्मै विप्राय वै दद्यान्माधवः प्रीयतामिति
यथेष्टाहारसंभुक्तमेनं द्विजमनुत्तमम्१२०
रत्यर्थं कामदेवोयमिति चित्ते च धारयेत्
यद्यदिच्छति विप्रेंद्रस्तत्तत्कुर्याद्विलासिनी१२१
सर्वभावेन चात्मानमर्पयेत्स्मितभाषिणी
एवमादित्यवारेण सर्वमेतत्समाचरेत्।१२२।
तंडुलप्रस्थदानं च यावन्मासास्त्रयोदश
ततस्त्रयोदशे मासि संप्राप्ते चास्य भामिनी।१२३।
विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विचक्षणा
सोपधानां सविन्यासां स्वास्तरावरणां शुभाम्।१२४।
दीपिकोपानहच्छत्र पादुकासनसंयुताम्
सपत्नीकमलंकृत्य हेमसूत्रांगुलीयकैः१२५
सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलेपनैः
कामदेवं सपत्नीकं गुडकुम्भोपरिस्थितम्।१२६।
ताम्रपात्रासनगतं हेमनेत्रपटावृतम्
सुकांस्यभाजनोपेतमिक्षुदंडसमन्वितम्१२७
दद्यादनेन मन्त्रेण तथैकां गां पयस्विनीम्
यथांतरं न पश्यामि कामकेशवयोः सदा।१२८।
तथैव सर्वकामाप्तिरस्तु विप्र सदा मम
तथा च कांचनं देवं प्रतिगृह्य द्विजोत्तमः।१२९।
कोदात्कामोदादिति वैदिकं मंत्रमुदीरयेत्
ततः प्रदक्षिणीकृत्य विसृज्य द्विजपुंगवम्।१३०।
शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत्
ततः प्रभृति योऽन्योपि रत्यर्थं गेहमागतः।१३१।
सम्मान्य सूर्यवारेण स संपूज्यो भवेत्सदा
एवं त्रयोदशं यावन्मासमेकं द्विजोत्तमम्।१३२।
तर्पयित्वा यथाकामं प्रेषयेच्चैव मंदिरम्
तदनुज्ञया रूपवंतं यावदस्यागमो भवेत्।१३३।
आत्मनोपि यदा विघ्नं गर्भसूतकराजकम्
दैवं वा मानुषं वा स्यादुपरागेण वा ततः।१३४।
सावारा नष्टपंचाशद्यथाशक्ति समर्पयेत्
एतद्धि कथितं सम्यग्भवतीनां विशेषतः।१३५।
स्वधर्मोयं यतो भाव्यो वेश्यानामिह सर्वदा
शय्यया त्यज्यते देव न कदाचिद्यथा भवान्।१३६।
शय्या ममाप्यशून्येयं तथास्तु मधुसूदन
गीतवादित्रनिर्घोषं देवदेवस्य कारयेत्।१३७।
एतद्वः कथितं सर्वं वेश्याधर्ममशेषतः
पुरुहूतेन यत्प्रोक्तं दानवीषु पुरा मया।१३८।
तदिदं सांप्रतं सर्वं भवतीष्वपि युज्यते
सर्वपापप्रशमनमनंतफलदायकम्।१३९।
कल्याणिनीनां कथितं तदेतद्दुश्चरं व्रतम्
करोति याऽशेषमुदग्रमेतत्कल्याणिनी माधवलोकसंस्था।१४०।
सा पूजिता देवगणैरशेषैरानंदकृत्स्थानमुपैति विष्णोः
तपोधनः सोप्यभिधाय चैतदनंगदानव्रतमंगनानाम्।१४१।
स्वस्थानमेष्यंति समस्तमित्थं व्रतं करिष्यंति च देवयोने।१४२।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे वेश्याव्रतकथनं नाम त्रयोविंशोऽध्यायः(२३)
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 24
ब्रह्मोवाच।
भगवन्पुरुषस्येह स्त्रियाश्च वरदायकम्।
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद१।
शंकर उवाच।
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः।
क्षीरार्णवे सपत्नीकः सदा वसति केशवः२।
तस्यां संपूज्य गोविंदं सर्वान्कामानवाप्नुयात्।
गोभूहिरण्यदानादि सप्तकल्पशतानुगम्३।
आवाहनादिकां पूजां पूर्ववत्परिकल्पयेत्।
अशून्यशयना नाम द्वितीयासौ प्रकीर्तिता४।
तस्यां संपूजयेद्विष्णुमेभिर्मंत्रैर्विधानतः।
श्रीवत्सधारिन्श्रीकांत श्रीपते श्रीधराव्यय५।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं।
अग्नयो मा प्रणश्यंतु देवताः पुरुषोत्तम६।
पितरो मा प्रणश्यंतु मम दांपत्यभेदतः।
लक्ष्म्या वियुज्यते देवो न कदाचिद्यथा हरिः७।
तथा कलत्रसंबंधो देव मा मे वियुज्यतां।
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा८।
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन।
गीतवादित्रनिर्घोषान्देवदेवस्य कारयेत्९।
घंटा भवेदशक्तस्य सर्ववाद्यमयो यतः।
एवं संपूज्य गोविंदमश्नीयात्तैलवर्जितम्१०।
नक्तमक्षारलवणं यावत्तु स्याच्चतुष्टयं।
ततः प्रभाते संजाते लक्ष्मीपतिसमन्विताम्११।
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्।
पादुकोपानहच्छत्र चामरासन संयुताम्१२।
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पांबरावृताम्।
अव्यंगाय च विप्राय वैष्णवाय कुटुंबिने१३।
दातव्या वेदविदुषे न वंध्यापतये क्वचित्।
तत्रोपवेश्य दांपत्यमलंकृत्य विधानतः१४।
पत्न्यास्तु भाजनं दद्याद्भक्ष्यभोज्यसमन्वितम्।
ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्१५।
प्रतिमां देवदेवस्य सोदकुंभां निवेदयेत्।
एवं यस्तु पुमान्कुर्यादशून्यशयनं हरेः१६।
वित्तशाठ्येन रहितो नारायणपरायणः।
न तस्य पत्न्या विरहः कदाचिदपि जायते१७।
नारी वा विधवा ब्रह्मन्यावच्चंद्रार्कतारकं।
न विरूपौ न शोकार्तौ दंपती भवतः क्वचित्१८।
न पुत्रपशुरत्नानि क्षयं यांति पितामह।
सप्तकल्पसहस्राणि सप्तकल्पशतानि च१९।
कुर्वन्नशून्यशयनं विष्णुलोके महीयते।
ब्रह्मोवाच।
कथमारोग्यमैश्वर्यं मतिर्धर्मस्थितिस्सदा२०।
अव्यंगाथ परे भक्तिर्विष्णौ चापि भवेत्कथम्।
ईश्वर उवाच।
साधु ब्रह्मंस्त्वया पृष्टमिदानीं कथयामि ते२१।
विरोचनस्य संवादं भार्गवस्य च धीमतः।
प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम्२२।
तस्य रूपमिदं ब्रह्मन्सोहसद्भृगुनंदनः।
साधुसाधु महाबाहो विरोचन शिवं तव२३।
तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः।
ब्रह्मन्किमर्थमेतत्ते हास्यं वै मामकं कृतम्२४।
साधुसाध्विति मामेवमुक्तवांस्त्वं वदस्व मे।
तमेवं वादिनं युक्तमुवाच वदतां वरः२५।
विस्मयाद्व्रतमाहात्म्याद्धास्यमेतत्कृतं मया।
पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः२६।
अपतद्भीमवक्त्रस्य स्वेदबिंदुर्ललाटजः।
भित्वा स सप्तपातालानदहत्सप्तसागरान्२७।
अनेकवक्त्रनयनोज्वलज्ज्वलन भीषणः।
वीरभद्र इति ख्यातः करपादायुतैर्युतः२८।
कृत्वा स यज्ञमथनं पुनर्भूतस्य संप्लवः।
त्रिजगद्दहनाद्भूयः शिवेन विनिवारितः२९।
कृतं त्वया वीरभद्र दक्षयज्ञविनाशनं।
इदानीमलमेतेन लोकदाहेन कर्मणा३०।
शांतिप्रदानात्सर्वेषां ग्रहणां प्रथमो भव।
प्रहृष्टाभिजनाः पूजां करिष्यंति कृतात्मनः३१।
अंगारक इति ख्यातिं गमिष्यसि धरात्मज।
देवलोके द्वितीयं च तव रूपं भविष्यति३२।
ये च त्वां पूजयिष्यंति चतुर्थ्यां तु दिने नराः।
रूपमारोग्यमैश्वर्यं तेष्वनंतं भविष्यति३३।
एवमुक्तस्ततः शांतिमगमत्कामरूपधृत्।
स जातस्तत्क्षणाद्राजन्ग्रहत्वमगमत्पुनः३४।
स कदाचिद्भवांस्तस्य पूजार्घादिकमुत्तमं।
दृष्टवान्क्रियमाणं च शूद्रेण त्वं व्यवस्थितः३५।
तेन त्वं रूपवान्जातो सुरः शत्रुकुलाशनिः।
विविधा च रुचिर्जाता यस्मात्तव विदूरगा३६।
विरोचन इति प्राहुस्तस्मात् त्वां देवदानवाः।
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्३७।
ईदृशी रूपसंपत्तिरिति विस्मितवानहम्।
साधुसाध्विति तेनोक्तमहो माहात्म्यमुत्तमं३८।
पश्यतोपि भवेद्रूपमैश्वर्यं किमु कुर्वतः।
यस्माच्च भक्त्या धरणीसुतस्य विनिंद्यमानेन गवादिदानम्३९।
आलोकितं तेन सुरारिगर्भे संभूतिरेषा तव दैत्य जाता।
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः४०।
प्रह्लादनंदनो वीरः पुनः पप्रच्छ भार्गवम्।
विरोचन उवाच।
भगवंस्तद्व्रतं सम्यक्श्रोतुमिच्छामि तत्वतः४१।
दीयमानं तु यद्दानं मया दृष्टं भवांतरे।
माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि४२।
इति तद्वचनं श्रुत्वा विप्रः प्रोवाच सादरं।
चतुर्थ्यंगारकदिने यदा भवति दानव४३।
मृदास्नानं तदा कुर्यात्पद्मरागविभूषितः।
अग्निर्मूर्द्धादिवो मंत्रं जपेत्स्नात उदङ्मुखः४४।
शूद्रस्तूष्णीं स्मरन्भौममास्तां भोगविवर्जितः।
अथास्तमित आदित्ये गोमयेनानुलेपयेत्४५।
प्रांगणं पुष्पमालाभिरक्षताद्भिः समंततः।
तदभ्यर्च्यालिखेत्पद्मं कुंकुमेनाष्टपत्रकम्४६।
कुंकुमस्याप्यभावेन रक्तचंदनमिष्यते।
चत्वारः करकाः कार्याः भक्ष्यभोज्यसमन्विताः४७।
तंडुलै रक्तशालेयैः पद्मरागैश्च संयुताः।
चतुःकोणेषु तान्कृत्वा फलानि विविधानि च ४८।
गंधमाल्यादिकं सर्वं तथैव विनिवेशयेत्।
सुवर्णशृंगां कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवस्त्राम्४९।
धुरंधरं रक्तखुरं च सौम्यं धान्यानि सप्तांबरसंयुतानि।
अंगुष्ठमात्रं पुरुषं तथैव सौवर्णमप्यायतबाहुदंडम् 1.24.५०।
चतुर्भुजं हेममयं च ताम्रपात्रे गुडस्योपरि सर्पियुक्तम्।
सामस्वरज्ञाय जितेंद्रियाय वाग्रूपशीलान्वयसंयुताय५१।
दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दंभयुक्ते।
भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः५२।
रूपार्थी त्वां प्रपन्नोहं गृहाणार्घ्यं नमोऽस्तु ते।
मंत्रेणानेन दत्वार्घ्यं रक्तचंदनवारिणा५३।
ततोर्चयेद्विप्रवरं रक्तमाल्यांबरादिभिः।
दद्यात्तेनैव मंत्रेण भौमं गोमिथुनान्वितम्५४।
शय्यां च शक्तिमान्दद्यात्सर्वोपस्करसंयुताम्।
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे५५।
तत्तद्गुणवते देयं दत्तस्याक्षयमिच्छता।
ततः प्रदक्षिणं कृत्वा विसृज्य द्विजसत्तमम्५६।
नक्तं क्षीराशनं कुर्यादेवं चांगारकाष्टकम्।
चतुरो वाथ वातस्य यत्पुण्यं तद्वदामि ते५७।
रूपसौभाग्यसंपन्नः पुमान्जन्मनि जन्मनि।
विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्५८।
सप्तकल्पसहस्राणि रुद्रलोके महीयते।
तस्मात्वमपि दैत्येंद्र व्रतमेतत्समाचर५९।
इत्येवमुक्तो भुगुनंदनेन चकार सर्वं व्रतमेव दैत्यः।
त्वं चापि राजन्कुरु सर्वमेतद्यतोक्षयं वेदविदो वदंति६०।
शृणोति यश्चैनमनन्यचेतास्तस्यापि सर्वं भगवान्विधत्ते६१।
।
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे अंगारकचतुर्थीव्रतं नाम चतुर्विंशोऽध्यायः२४।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 25
भीष्म उवाच।
उपवासेष्वशक्तस्य तदेव फलमिच्छतः।
अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुच्यताम्१।
पुलस्त्य उवाच।
उपवासेष्वशक्तानां नक्तं भोजनमिष्यते।
यस्मिन्व्रते तदप्यत्र श्रूयतां वै व्रतं महत्२।
आदित्यशयनं नाम यथावच्छंकरार्चनम्।
येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते३।
यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेत्।
सूर्यस्य चापि संक्रांतिस्तिथिस्सा सार्वकामिकी४।
उमामहेश्वरस्यार्चामर्चयेत्सूर्यनामभिः।
सूर्यार्चां शिवलिगं च उभयं पूजयेद्यतः५।
उमापते रवेश्चापि न भेदः क्वचिदिष्यते।
यस्मात्तस्मान्नृपश्रेष्ठ गृहे भानुं समर्चयेत्६।
हस्तेन सूर्याय नमोस्तुपादावर्काय चित्रासु च गुल्फदेशं।
स्वातीषु जंघे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम्७।
तथानुराधासु नमोभि पूज्यमुरुद्द्वयं चैव सहस्रभानोः।
ज्येष्ठास्वनंगाय नमोस्तु गुह्यमिन्द्रा यभीमाय कटिं च मूले८।
पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्ततुरंगमाय।
तीक्ष्णांशवे श्रवणे चाथ कुक्षिं पृष्ठं धनिष्ठासु विकर्तनाय९।
वक्षस्थलं ध्वांतविनाशनाय जलाधिपर्क्षे प्रतिपूजनीयम्।
पूर्वोत्तरा भाद्रपदद्वये च बाहूत्तमश्चंडकराय पूज्यौ१०।
साम्नामधीशाय करद्वयं च संपूजनीयं नृप रेवतीषु।
नखानि पूज्यानि तथाश्विनीषु नमोस्तु सप्ताश्वधुरंधराय११।
कठोरधाम्ने भरणीषु कंठं दिवाकरायेत्यभिपूजनीयम्।
ग्रीवाग्निपर्क्षे धरसंपुटे तु संपूजयेद्भारत रोहिणीषु१२।
मृगेर्चनीया रसना पुरारे रौद्रे तु दंता हरये नमस्ते।
नमः सवित्रे इति शंकरस्य नासाभि पूज्या च पुनर्वसौ च१३।
ललाटमंभोरुहवल्लभाय पुष्येलकान्वेदशरीरधारिणे।
सार्पे च मौलिविबुधप्रियाय मघासु कर्णाविति पूजनीयौ१४।
पूर्वासु गोब्राह्मणनंदनाय नेत्राणि संपूज्यतमानि शंभोः।
अथोत्तराफाल्गुनि भे भ्रुवौ च विश्वेश्वरायेति च पूजनीये१५।
नमोस्तु पाशांकुशपद्मशूल कपालसर्पेन्दुधनुर्धराय।
गयासुरानङ्गपुरांधकादि विनाशमूलाय नमः शिवाय१६।
इत्यादिकांगानि च पूजयित्वा विश्वेश्वरायेति शिरोभिपूज्यम्।
अत्रापि भोक्तव्यमतैलमन्नममांसमक्षारमभुक्तशेषम्१७।
इत्येवं नृप नक्तानि कृत्वा दद्यात्पुनर्वसौ।
शालेयतंडुलप्रस्थमौदुंबरमथो घृतम्१८।
संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत्।
सप्तमे वस्त्रयुग्मं तु पारणे त्वधिकं भवेत्१९।
चतुर्दशे तु संप्राप्ते पारणे भारतादिके ।
ब्राह्मणं भोजयेद्भक्त्या गुडक्षीरघृतादिभिः२०।
कृत्वा च कांचनं पद्ममष्टपत्रं सकर्णिकम्।
शुद्धमष्टांगुलं तच्च पद्मरागदलान्वितम्२१।
शय्यां सुलक्षणां कृत्वा विरुद्धग्रंथिवर्जिताम्।
सोपधानवितानां च स्वास्तरावरणाश्रयाम्२२।
पादुकोपानहच्छत्र चामरासनदर्पणैः।
भूपणैरपिसंयुक्तां फलवस्त्रानुलेपनैः२३।
तस्यां विधाय तत्पद्ममलंकृत्य गुणान्विताम्।
कपिलां वस्त्रसंयुक्तामतिशीलां पयस्विनीम्२४।
रौप्यखुरां हेमशृंगीं सवत्सां कांस्यदोहनाम्।
दद्यान्मंत्रेण तां धेनुं पूर्वाह्णं नातिलंघयेत्२५।
यथैवादित्य शयनमशून्यं तव सर्वदा।
कांत्या धृत्या श्रिया पुष्ट्या तथा मे संतु वृद्धयः२६।
यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः।
तथा मामुद्धराशेष दुःखसंसारसागरात्२७।
ततः प्रदक्षिणीकृत्य प्रणम्य च विसर्जयेत्।
शय्यां गवादि तत्सर्वं द्विजस्य भवनं नयेत्२८।
नैतद्विशीलाय न दांभिकाय प्रकाशनीयं व्रतमिंदुमौलेः।
गोविप्रदेवर्षिविकर्मयोगिनां यश्चापि निंदामधिकां विधत्ते२९।
भक्ताय दांताय च गुह्यमेतदाख्येयमानंदकरं शिवञ्च।
इदं महापातकिनां नराणां अघक्षयं वेदविदो वदंति३०।
न बंधुपुत्रैर्न धनैर्वियुक्तः पत्नीभिरानंदकरः सुराणां।
नाभ्येति रोगं न च दुःखमोहं या चापि नारी कुरुतेथ भक्त्या३१।
इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरंदरेण।
यत्कीर्तनादप्यखिलानि नाशमायांति पापानि न संशयोत्र३२।
इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात्।
अपि नरकगतान्पितॄनशेषानपि दिवमानयतीह यः करोति३३।
अश्वत्थं च वटं चैवोदुंबरं वृक्षमेव च।
नंदीशं जंबुवृक्षं च बिल्वं प्राहुर्महर्षयः३४।
मार्गशीर्षादिमासाभ्यां द्वाभ्यां द्वाभ्यामथ क्रमात्।
एकैकं दंतधवनं वृक्षेष्वेतेषु कारयेत्३५।
दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम्।
द्विजानामुदकुंभांश्च पंचरत्नसमन्वितान्३६।
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषानवाप्नुयात्३७।
।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे आदित्यशयनव्रतंनाम पंचविंशोऽध्यायः२५।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 26
भीष्म उवाच।
दीर्घायुरारोग्यकुलातिवृद्धिभिर्युक्तः पुमान्रूपकुलान्वितः स्यात्।
मुहुर्मुहुर्जन्मनि येन सम्यक्व्रतं समाचक्ष्व च शीतरश्मेः१।
पुलस्त्य उवाच।
त्वया पृष्टमिदं सम्यगक्षयस्वर्गकारकम्।
रहस्यं तु प्रवक्ष्यामि यत्पुराणविदो विदुः२।
रोहिणीचंद्रशयनं नामव्रतमिहोच्यते।
तस्मिन्नारायणस्यार्चामर्चयेदिंदुनामभिः३।
यदा सोमदिने शुक्ला भवेत्पंचदशी क्वचित्।
अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते४।
तदा स्नानं नरः कुर्यात्पंचगव्येन सर्षपैः।
आप्यायस्वेति च जपेद्विद्वानष्टशतं पुनः५।
शूद्रोपि परया भक्त्या पाषंडालापवर्जितः।
सोमाय शांताय नमोस्तु पादावनंतधाम्नेति च जानुजंघे।
ऊरुद्वयं चापि जलोदराय संपूजयेन्मेढ्रमनंगधाम्ने८।
नमोनमः कामसुखप्रदाय कटिः शशांकस्य सदार्चनीयः।
तथोदरं चाप्यमृतोदराय नाभिः शशांकाय नमोभिपूज्या९।
नमोस्तु चंद्राय मुखं च नित्यं दंता द्विजानामधिपाय पूज्याः।
हास्यं नमश्चंद्रमसेऽभिपूज्यमोष्ठौ तु कौमोदवनप्रियाय१०।
नासा च नाथाय वरौषधीनामानंदबीजाय पुनर्भ्रुवौ च।
नेत्रद्वयं पद्मनिभं तथेंदोरिंदीवरव्यासकराय शौरेः११।
नमः समस्ताध्वरपूजिताय कर्णद्वयं दैत्यनिषूदनाय।
ललाटमिंदोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः१२।
शिरः शशांकाय नमो मुरारेर्विश्वेश्वरायाथ नमः किरीटं।
पद्मप्रिये रोहिणीनाम लक्ष्मि सौभाग्यसौख्यामृतसागराय१३।
दैवीं च संपूज्य सुगंधिपुष्पैर्नैवेद्यधूपादिभिरिंदुपत्नीम्।
सुप्त्वा तु भूमौ पुनरुत्थितो यः स्नात्वा च विप्राय हविष्यभुक्तः१४।
देयः प्रभाते सहिरण्य वारिकुंभो नमः पापविनाशनाय।
संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिं च१५।
ग्रासांश्च त्रीन्सर्पियुतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तं ।
कदंबनीलोत्पलकेतकानि जातिःसरोजं शतपत्रिका च१६।
अम्लानपुष्पाण्यथ सिंदुवारं पुष्पं पुनर्भारतमल्लिकायाः।
शुक्लं च पुष्पं करवीरपुष्पं श्रीचंपकं चंद्रमसे प्रदेयम्१७।
श्रावणादिषु मासेषु क्रमादेतानि सर्वदा।
यस्मिन्मासे व्रतादिः स्यात्तत्पुष्पैरर्चयेद्धरिम्१८।
एवं संवत्सरं यावदुपोष्य विधिवन्नरः।
व्रतांते शयनं दद्याच्छयनोपस्करान्वितम्१९।
रोहिणीचंद्रमिथुनं कारयित्वा तु कांचनम्।
चंद्रः षडंगुलः कार्यो रोहिणी चतुरंगुला२०।
मुक्ताफलाष्टकयुतां सितनेत्रसमन्विताम्।
क्षीरकुंभोपरि पुनः कांस्यपात्राक्षतान्विताम्२१।
दद्यान्मंत्रेण पूर्वाह्णे शालीक्षुफलसंयुताम्।
श्वेतामथ सुवर्णास्यां रौप्यखुरसमन्विताम्२२।
सवस्त्रभाजनां धेनुं तथा शंखं च भाजनम्।
भूषणैर्द्विजदाम्पत्यमलंकृत्य गुणान्वितं२३।
चंद्रोयं विप्ररूपेण सभार्य इति कल्पयेत्।
यथा ते रोहिणी कृष्ण शयनं न त्यजेदपि२४।
सोमरूपस्य वैतद्वन्न मे भेदो विभूतिभिः।
यथा त्वमेव सर्वेषां परमानंदमुक्तिदः२५।
भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चंद्र दृढास्तु मे।
इति संसारभीतस्य मुक्तिकामस्य चानघ२६।
रूपारोग्यायुषामेतद्विधायकमनुत्तमम्।
इदमेव पितॄणां च सर्वदा वल्लभं नृप२७।
त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम्।
चंद्रलोकमवाप्नोति पुनरावृत्तिदुर्लभम्२८।
नारी वा रोहिणीचंद्रशयनं या समाचरेत्।
सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम्२९।
इति पठति शृणोति वा य इत्थं मधुमथनार्चनमिंदुकीर्तनेन।
मतिमपि च ददाति सोपि शौरेर्भवनगतः परिपूज्यतेमरौघैः३०।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे रोहिणीचंद्रशयनव्रतं नाम षड्विंशोऽध्यायः२६।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 27
भीष्म उवाच।
तटाकारामकूपेषु वापीषु नलिनीषु च।
विधिं वदस्व मे ब्रह्मन्देवतायतनेषु च१।
के तत्र ऋत्विजो विप्रा वेदी वा कीदृशी भवेत्।
दक्षिणाबलयः कालः स्थानमाचार्य एव च२।
द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व सुव्रत।
पुलस्त्य उवाच।
शृणु राजन्महाबाहो तटाकादिषु यो विधिः३।
पुराणेष्वितिहासोयं पठ्यते राजसत्तम।
प्राप्य पक्षं शुभं शुक्लं संप्राप्ते चोत्तरायणे४।
पुण्येह्नि विप्रैः कथिते कृत्वा ब्राह्मणवाचनम्।
अशुभैर्वर्जिते देशे तटाकस्य समीपतः५।
चतुर्हस्तां समां वेदीं चतुरश्रां चतुर्मुखीम्।
तथा षोडशहस्तः स्यान्मंडपश्च चतुर्मुखः६।
वेद्यास्तु परितो गर्तारत्निमात्रास्त्रिमेखलाः।
नव सप्ताथ वा पंच ऋजुवक्त्रा नृपात्मज७।
वितस्तिमात्रा योनिः स्यात्षट्सप्तांगुलि विस्तृता।
गर्ताश्च हस्तमात्राः स्युस्त्रिपर्वोच्छ्रितमेखलाः८।
सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः।
अश्वत्थोदुंबरप्लक्षवटशाखाकृतानि तु९।
मंडपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्।
शुभास्तत्राष्टहोतारो द्वारपालास्तथाष्ट वै१०।
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः।
सर्वलक्षणसंपूर्णान्मंत्रज्ञान्विजितेंद्रियान्११।
कुलशीलसमायुक्तान्स्थापयेद्वै द्विजोत्तमान्।
प्रतिगर्तेषु कलशा यज्ञोपकरणानि च१२।
व्यजने चासनं शुभ्रं ताम्रपात्रं सुविस्तरम्।
ततस्त्वनेकवर्णास्युर्बलयः प्रतिदैवतम्१३।
आचार्यः प्रक्षिपेद्भूमावनुमंत्र्य विचक्षणः।
अरत्निमात्रो यूपः स्यात्क्षीरवृक्षविनिर्मितः१४।
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता।
हेमालंकारिणः कार्याः पंचविंशति ऋत्विजः१५।
कुंडलानि च हैमानि केयूरकटकानि च।
तथांगुलिपवित्राणि वासांसि विविधानि च१६।
दद्यात्समानि सर्वेषामाचार्ये द्विगुणं स्मृतम्।
दद्याच्छय(प)नसंयुक्तमात्मनश्चापि यत्प्रियम्१७।
सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ।
ताम्रौ कुंभीरमंडूका वायसः शिंशुमारकः१८।
एवमासाद्य तत्सर्वमादावेव विशांपते।
शुक्लमाल्याम्बरधरः शुक्लंगंधानुलेपनः१९।
सर्वौषध्युदकैः सर्वैः स्नापितो वेदपारगैः।
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः२०।
पश्चिमद्वारमासाद्य प्रविशेद्यागमंडपम्।
ततो मंगलशब्देन भेरीणां निःस्वनेन च२१।
रजसा मंडलं कुर्यात्पंचवर्णेन तत्त्ववित्।
षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम्२२।
चतुरश्रं तु परितो वृत्तं मध्ये सुशोभनम्।
वेद्याश्चोपरितः कृत्वा ग्रहान्लोकपतींस्ततः२३।
संन्यसेन्मंत्रतः सर्वान्प्रतिदिक्षु विचक्षणः।
कलशं स्थापयेन्मध्ये वारुणं मंत्रमाश्रितम्२४।
ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः।
विनायकं च विन्यस्य कमलामंबिकां तथा२५।
शांत्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः।
पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम्२६।
कुंभांश्च रत्नगर्भांस्तान्वासोभिः परिवेष्टयेत्।
पुष्पगंधैरलंकृत्य द्वारपालान्समंततः२७।
यजद्ध्वमिति तान्ब्रूयादाचार्यमभिपूजयेत्।
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ२८।
सामगौ पश्चिमे स्थाप्यावुत्तरेण अथर्वणौ।
उदङ्मुखो दक्षिणतो यजमान उपाविशेत्२९।
यजध्वमिति तान्ब्रूयाद्याजकान्पुनरेव तान्।
उत्कृष्टमंत्रजाप्येन तिष्ठध्वमिति जापकान्३०।
एवमादिश्य तान्सर्वान्संधुक्ष्याग्निं समंत्रवित्।
जुहुयादाहुतीर्मंत्रैराज्यं च समिधस्तथा३१।
ऋत्विग्भिश्चैव होतव्यं वारुणैरेव सर्वतः।
ग्रहेभ्यो विधिवद्धुत्वा तथेंद्रायेश्वराय च३२।
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे।
शान्तिसूक्तं च रौद्रं च पावमानं च मंगलम्३३।
जपेच्च पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक्।
शाक्रं रौद्रं च सौम्यं च कौश्मांडं जातवेदसम्३४।
सौरं सूक्तं जपेयुस्ते दक्षिणेन यजुर्विदः।
वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहितम्३५।
शैशवं पंचनिधनं गायत्रं ज्येष्ठसाम च।
वामदेव्यं बृहत्साम रौरवं च रथंतरम्३६।
गवां व्रतं विकीर्णं च रक्षोघ्नं च यमं तथा।
गायेयुः सामगा राजन्पश्चिमद्वारमाश्रिताः३७।
आथर्वणाश्चोत्तरतः शांतिकं पौष्टिकं तथा।
जपेयुर्मनसा देवमाश्रिता वरुणं प्रभुम्३८।
पूर्वे द्युरभितो रात्रावेवं कृत्वाधिवासनम्।
गजाश्वरथवल्मीक संगमाद्व्रजगोकुलात्३९।
मृदमादाय कुंभेषु प्रक्षिपेदोषधीस्तथा।
रोचनां च ससिद्धार्थां गंधान्गुग्गुलुमेव च४०।
स्नापनं तस्य कर्त्तव्यं पंचगव्यसमन्वितं।
पूर्वं कर्तुर्महामंत्रैरेवं कृत्वा विधानतः४१।
अतिवाह्य क्षपामेवं विधियुक्तेन कर्मणा।
ततः प्रभाते विमले संजाते तु शतं गवां४२।
ब्राह्मणेभ्यः प्रदातव्यमष्टषष्ट्यथवा पुनः।
पंचाशद्वाथ षट्त्रिंशत्पंचविंशति वा पुनः४३।
ततश्चावसरप्राप्ते शुद्धे लग्ने सुशोभने।
वेदशब्दैः सगंधर्वैर्वाद्यैश्च विविधैः पुनः४४।
कनकालंकृतां कृत्वा जले गामवतारयेत्।
सामगाय च सा देया ब्राह्मणाय विशांपते४५।
पात्रीमादाय सौवर्णी पंचरत्नसमन्विताम्।
ततो निक्षिप्य मकरान्मत्स्यादींश्चैव सर्वशः४६।
धृतां चतुर्भिर्विप्रैश्च वेदवेदांगपारगैः।
महानदीजलोपेतां दध्यक्षतविभूषिताम्४७।
उत्तराभिमुखां न्युब्जां जलमध्ये तु कारयेत्।
आथर्वणेन सुस्नातां पुनर्मायां तथैव च४८।
आपोहिष्ठेति मंत्रेण क्षिप्त्वागत्य च मंडपं।
पूजयित्वा सदस्यान्वै बलिं दद्यात्समंततः४९।
पुनर्दिनानि होतव्यं चत्वारि राजसत्तम।
चतुर्थीकर्म कर्त्तव्यं देयं तत्रापि शक्तितः1.27.५०।
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च।
ऋत्विग्भ्यस्तु समं दद्यान्मंडपं विभजेत्पुनः५१।
हेमपात्रीं च शय्यां च विप्राय च निवेदयेत्।
ततः सहस्रं विप्राणामथवाऽष्टशतं तथा५२।
भोजनीयं यथाशक्ति पंचाशद्वाथ विंशतिः।
एवमेष पुराणेषु तटाकविधिरुच्यते५३।
कूपवापीषु सर्वासु तथा पुष्करिणीषु च।
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च५४।
मंत्रतस्तु विशेषः स्यात्प्रासादोद्यानभूमिषु।
अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयंभुवा५५।
स्वल्पेष्वेकाग्निवत्कार्यो वित्तशाठ्यविवर्जितैः।
प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम्५६।
शरत्कालस्थितं यत्स्यात्तदुक्तफलदायकम्।
वाजपेयातिरात्राभ्यां हेमंते शिशिरे स्थितम्५७।
अश्वमेधसमं प्राहुर्वसंतसमये स्थितम्।
ग्रीष्मेपि यत्स्थितं तोयं राजसूयाद्विशिष्यते५८।
एतान्महाराज विशेषधर्मान्करोति चोर्व्यामतिशुद्धबुद्धिः।
स याति ब्रह्मालयमेव शुद्धः कल्पाननेकान्दिवि मोदते च५९।
अनेकलोकान्विचरन्स्वरादीन्भुक्त्वा परार्धद्वयमङ्गनाभिः।
सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्योगबलेन भूयः६०।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तटाकप्रतिष्ठाविधिर्नाम सप्तविंशोऽध्यायः२७।
।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 28
भीष्म उवाच।
पादपानां विधिं ब्रह्मन्यथावद्विस्तराद्वद।
विधिना येन कर्त्तव्यं पादपारोपणं बुधैः१।
ये च लोकाः स्मृता येषां तानिदानीं वदस्व मे।
पुलस्त्य उवाच।
पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु२।
तटाकविधिवत्सर्वं समाप्य जगतीश्वर।
ऋत्विङ्मंडपसंभारमाचार्यं चापि तद्विधं३।
पूजयेद्ब्राह्मणांस्तद्वद्धेमवस्त्रानुलेपनैः।
सर्वौषध्युदकैः सिक्तान्दध्यक्षतविभूषितान्४।
वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत्।
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनं५।
अंजनं चापि दातव्यं तद्वद्धेमशलाकया।
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत्६।
प्रत्येकं सर्ववृक्षाणां वेद्यांतान्यधिवासयेत्।
धूपोत्र गुग्गुलुः श्रेष्ठस्ताम्रपात्रेष्वधिष्ठितान्७।
सप्तधान्यस्थितान्कृत्वा वस्त्रगंधानुलेपनैः।
कुंभान्सर्वेषु वृक्षेषु स्थापयित्वावनीश्वर८।
पूजयित्वा दिनांते च कृत्वा बलिनिवेदनम्।
यथावल्लोकपालानामिंद्रादीनां विधानतः९।
वनस्पतेरधिवास एवं कार्यो द्विजातिभिः।
ततः शुक्लांबरधरान्सौवर्णकृतमेखलान्१०।
सकांस्यदोहां सौवर्णशृंगाभ्यामतिशालिनीं।
पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम्११।
ततोभिषेकमंत्रेण वाद्यमंगलगीतकैः।
ऋग्यजुःसाममंत्रैश्च वारुणैरभितस्तदा१२।
तैरेव कुंभैः स्नपनं कुर्युर्ब्राह्मणपुंगवाः।
स्नातः शुक्लांबरधरो यजमानोभिपूजयेत्१३।
गोभिर्विभवतः सर्वानृत्विजः ससमाहितान्।
हेमसूत्रैः सकटकैरंगुलीयैः पवित्रकैः१४।
वासोभिः शयनीयैश्च तथोपस्करपादुकैः।
क्षीराभिषेचनं कुर्याद्यावद्दिनचतुष्टयम्१५।
होमश्च सर्पिषा कार्यो यवैः कृष्णतिलैरपि।
पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः१६।
दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः।
यद्यदिष्टतमं किचित्तत्तद्दद्यादमत्सरी१७।
आचार्ये द्विगुणं दत्त्वा प्रणिपत्य क्षमापयेत्।
अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः१८।
सर्वान्कामानवाप्नोति पदं चानन्तमश्नुते।
यश्चैवमपि राजेन्द्र वृक्षं संस्थापयेद्बुधः१९।
सोपि स्वर्गे वसेद्राजन्यावदिंद्रायुतत्रयम्।
भूतान्भव्यांश्च मनुजांस्तारयेद्रोमसंमितान्२०।
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्।
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः२१।
सोपि संपूज्यते देवैर्ब्रह्मलोके महीयते।
अपुत्रस्य च पुत्रित्वं पादपा एव कुर्वते२२।
तीर्थेषु पिंडदानादीन्रोपकाणां ददंति ते।
यत्नेनापि च राजेंद्र अश्वत्थारोपणं कुरु२३।
स ते पुत्रसहस्रस्य कृत्यमेकः करिष्यति।
धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः२४।
प्लक्षो यज्ञप्रदः प्रोक्तः क्षीरी चायुःप्रदः स्मृतः।
जंबुकी कन्यकादात्री भार्यादा दाडिमी तथा२५।
अश्वत्थो रोगनाशाय पलाशो ब्रह्मदस्तथा।
प्रेतत्वं जायते पुंसो रोपयेद्यो विभीतकम्२६।
अंकोले कुलवृद्धिस्तु खादिरेणाप्यरोगिता।
निंबप्ररोहकाणां तु नित्यं तुष्येद्दिवाकरः२७।
श्रीवृक्षे शंकरो देवः पाटलायां तु पार्वती।
शिंशपायामप्सरसः कुंदे गंधर्वसत्तमाः२८।
तिंतिडीके दासवर्गा वंजुले दस्यवस्तथा।
पुण्यप्रदः श्रीप्रदश्च चंदनः पनसस्तथा२९।
सौभाग्यदश्चंपकश्च करीरः पारदारिकः।
अपत्यनाशकस्तालो बकुलः कुलवर्द्धनः३०।
बहुभार्या नारिकेला द्राक्षा सर्वांगसुंदरी।
रतिप्रदा तथा कोली केतकी शत्रुनाशिनी३१।
एवमादि नगाश्चान्ये ये नोक्तास्तेपि दायकाः।
प्रतिष्ठां ते गमिष्यंति यैस्तु वृक्षाः प्ररोपिताः३२।
।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे वृक्षारोपणविधिर्नाम अष्टाविंशोध्यायः२८
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 29
।
एकोनत्रिंशोऽध्यायः ।
पुलस्त्यउवाच।
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्।
सौभाग्यशयनंनाम यत्पुराणविदो विदुः१।
पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु।
सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा२।
वैकुंठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितम्।
ततः कालेन कियता पुनः सर्गविधौ नृपः३।
अहंकारवृतेलोके प्रधानपुरुषान्विते।
स्पर्द्धायां च प्रवृद्धायां कमलासनकृष्णयोः४।
पिंगाकारा समुद्भूता वह्निज्वालातिभीषणा।
तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम्५।
यद्वक्षःस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्।
रसरूपं न तद्यावदाप्नोति वसुधातले६।
उत्क्षिप्तमंतरिक्षात्तु ब्रह्मपुत्रेण धीमता।
दक्षेण पीतमात्रं तद्रूपलावण्यकारकम्७।
बलंतेजोमहज्जातं दक्षस्य परमेष्ठिनः।
शेषं यदपतद्भूमावष्टधा तद्व्यजायत८।
ततस्त्वोषधयो जाताः सप्त सौभाग्यदायिकाः।
इक्षवस्तरुराजश्च निष्पवावश्शालिधान्यकम्९।
विकारवच्च गोक्षीरं कुसुंभं कुसुमं तथा।
लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते१०।
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा।
दुहिता साभवत्तस्माद्या सतीत्यभिधीयते११।
लोकानतीत्य लालित्याल्ललिता तेन चोच्यते।
त्रैलोक्यसुंदरीं देवीमुपयेमे पिनाकधृत्१२।
त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदाम्।
तामाराध्य पुमान्भक्त्या नारी वा किं न विंदति१३।
भीष्म उवाच।
कथमाराधनं तस्या ललिताया मुने वद।
यद्विधानं च जगतः शांतये तद्वदस्व मे१४।
पुलस्त्य उवाच।
वसंतमासमासाद्य तृतीयायां जनप्रियः।
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत्१५।
तस्मिन्नहनि सा देवी किल विश्वात्मना सती।
पाणिग्रहणिकैर्मंत्रैरुदूढा वरवर्णिनी१६।
तया सहैव विश्वेशं तृतीयायामथार्चयेत्।
फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः१७।
प्रतिमां पंचगव्येन तथा गंधोदकेन च।
स्नापयित्वार्चयेद्गौरीमिंदुशेखरसंयुताम्१८।
नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च।
शिवायेति च संकीर्त्य जयायै गुल्फयोर्द्वयोः१९।
त्र्यंबकायेति रुद्रस्य भवान्यै जंघयोर्युगम्।
शिरो रुद्रेश्वरायेति विजयायै च जानुनी२०।
संकीर्त्य हरिकेशाय तथोरुवरदे नमः।
ईशायेति कटिं रत्यै शंकरायेति शंकरम्२१।
कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये।
मंगलायै नमस्तुभ्यमुदरं चाभिभूजयेत्२२।
सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्।
शिवं वेदात्मने तद्वद्रुद्राण्यै कंठमर्चयेत्२३।
त्रिपुरघ्नाय विश्वेशमनंतायै करद्वयम्।
त्रिलोचनायेति हरं बाहू कालानलप्रिये२४।
सौभाग्यभवनायेति भूषणानि सदार्चयेत्।
स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम्२५।
अशोकवनवासिन्यै पूज्यावोष्ठौ च भूतिदौ।
स्थाणवे च हरं तद्वदास्यं चंद्रमुखप्रिये२६।
नमोर्धनारीशहरमसितांगीति नासिकाम्।
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ२७।
शर्वाय पुरहर्त्तारं वासुदेव्यै तथालकम्।
नमः श्रीकंठनाथाय शिवकेशांस्तथार्चयेत्२८।
भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः।
हरमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः२९।
स्थापयेत्स्निग्धनिष्पावान्कुसुंभक्षीरजीरकम्।
तरुराजेक्षुलवणं कुस्तुंबुरुमथाष्टमम्३०।
दद्यात्सौभाग्यकृद्यस्मात्सौभाग्याष्टकमित्युत।
एवंनिवेद्य तत्सर्वमग्रतः शिवयोः पुनः३१।
चैत्रे शृंगाटकान्प्राश्य स्वपेद्भूमावरिंदम।
पुनः प्रभाते च तथा कृतस्नानजपः शुचिः३२।
संपूज्य द्विजदांपत्यं माल्यवस्त्रं विभूषणैः।
सौभाग्याष्टकसंयुक्त सौवर्णं प्रतिमाद्वयम्३३।
प्रीयतां मेत्र ललिता ब्राह्मणाय निवेदयेत्।
एवं संवत्सरं यावत्तृतीयायां सदा नृप३४।
प्राशने दानमंत्रे च विशेषोयं निबोध मे।
गोशृंगांबु मधौ प्रोक्तं वैशाखे गोमयं पुनः३५।
ज्येष्ठे मंदारकुसुमं बिल्वपत्रं शुचौ स्मृतम्।
श्रावणे दधिसंप्राश्यं नभस्ये तु कुशोदकम्३६।
क्षीरं चाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्।
मार्गशीर्षे तु गोमूत्रं पौषे संप्राशयेद्घृतम्३७।
माघे कृष्णतिलांस्तद्वत्पंचगव्यं च फाल्गुने।
ललिता विजया भद्रा भवानी कुमुदा शिवा३८।
वासुदेवी तथा गौरी मंगला कमला सती।
उमा च दानकाले तु प्रीयतामिति कीर्त्तयेत्३९।
तस्मिंस्तु द्वादशे मासि द्वादश्यां कृष्णमर्चयेत्।
तथा लक्ष्मीं च तत्रैव भर्त्रा सार्धमथार्चयेत्४०।
पौर्णमास्यामतस्तद्वत्सपत्नीकः पितामहः।
उपासनीयो विदुषा परत्रा भीतिमिच्छता४१।
सौभाग्याष्टकं तद्वच्च दातव्यं भूतिमिच्छता।
मल्लिकाशोककमलं कदंबोत्पलचंपकम्४२।
कुब्जकं करवीरं च बाणमम्लानपंकजम्।
सिंदुवारं च सर्वेषु मासेषु कुसुमं स्मृतम्४३।
जपाकुसुंभकुसुमं मालती शतपत्रिका।
यथालाभं प्रशस्तानि करवीरं च सर्वदा४४।
एवं संवत्सरं यावदुपोष्य विधिवन्नरः।
स्त्री च नक्तं कुमारी च शिवमभ्यर्च्य भक्तितः४५।
व्रतांते शयनं दद्यात्सर्वोपस्करसंयुतम्।
उमामहेश्वरौ हैमौ वृषभं च गवा सह४६।
स्थापयित्वा च शयनं ब्राह्मणाय निवेदयेत्।
द्वादश्यां वत्सरं त्वेकं महालक्ष्म्या च केशवम्४७।
ब्रह्माणं सह सावित्र्या पूजयित्वा नरस्त्विह।
सर्वान्कामानवाप्नोति मनसा समभीप्सितान्४८।
अन्यान्यपि यथाशक्ति मिथुनान्यंबरादिभिः।
धान्यालङ्कारगोदानैरन्यैश्च धनसञ्चयैः४९।
वित्तशाठयेन रहितः पूजयेद्गतविस्मयः।
एवं करोति यः सम्यक्सौभाग्यशयनव्रतम्1.29.५०।
सर्वान्कामानवाप्नोति पदं वा नित्यमश्नुते।
फलस्यैकस्य च त्यागमेतत्कुर्वन्समाचरेत्५१।
यशः कीर्तिमवाप्नोति प्रतिमासं नराधिप।
सौभाग्यारोग्यरूपैश्च वस्त्रालंकारभूषणैः५२।
न वियुक्तो भवेद्राजन्सौभाग्यशयनप्रदः।
यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम्५३।
करोति सप्त चाष्टौ वा ब्रह्मलोके महीयते।
पूज्यमानो वसेत्सम्यक्यावत्कल्पायुतं नरः५४।
विष्णोर्लोकमथासाद्य शिवलोकगतस्तथा।
नारी वा कुरुते या तु कुमारी वा नरेश्वर५५।
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता।
शृणुयादपि यश्चैव प्रदद्यादथवा मतिम्५६।
सोपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्।
इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वत्५७।
कृतमथ पवनेन नंदिना च किमु जननाथमहाद्भुतं न वा स्यात्५८।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे व्रताध्यायोनाम एकोनत्रिंशोऽध्यायः२९।
।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 30
भीष्म उवाच।
यज्ञपवर्तमासाद्य विष्णुना प्रभविष्णुना।
पदानि चेह दत्तानि किमर्थं पदपद्धतिः१।
कृता वै देवदेवेन तन्मे वद महामते।
कतमो दानवस्तेन विष्णुना दमितोत्र वै२।
कृत्वा वै पदविन्यासं तन्मे शंस महामुने।
स्वर्लोके वसतिर्विष्णोर्वैकुंठेऽस्य महात्मनः३।
स कथं मानुषे लोके पदन्यासं चकार ह।
देवलोकेषु वै देव देवाः सेंद्रपुरोगमाः४।
तपसा महता ब्रह्मन्भक्ता ये सततं प्रभुम्।
श्रीवराहस्य वसतिर्महर्ल्लोके प्रकीर्तिता५।
नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः।
त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता६।
लोकानेतान्परित्यज्य कथं भूमौ पदद्वयम्।
क्षेत्रे पैतामहे चास्मिन्पुष्करे यज्ञपर्वते७।
पदानि कृतवान्ब्रह्मन्विस्तरान्मम कीर्तय।
श्रुतेन सर्वपापस्य नाशो वै भविता ध्रुवम्८।
पुलस्त्य उवाच।
सम्यक्पृच्छसि भोस्त्वं यत्संशृणु त्वं समाहितः।
यथापूर्वं पदन्यासः कृतो देवेन विष्णुना९।
यज्ञपर्वतमासाद्य शिलापर्वतरोधसि।
पुरा कृतयुगे भीष्म देवकार्यार्थसिद्धये१०।
विष्णुना च कृतं पूर्वं पृथिव्यर्थे परंतप।
त्रिदिवं सर्वमानीतं दानवैर्बलवत्तरैः११।
त्रैलोक्यं वशमानीय जित्वा देवान्सवासवान्।
दानवा यज्ञभोक्तारस्तत्रासन्बलवत्तराः१२।
कृता बाष्कलिना सर्वे दानवेन बलीयसा।
एवंभूते तदा लोके त्रैलोक्ये सचराचरे१३।
परमार्तिं ययौ शक्रो निराशो जीविते कृतः।
स बाष्कलिर्दानवेंद्रोऽवध्योयं मम संयुगे१४।
ब्रह्मणो वरदानेन सर्वेषां तु दिवौकसाम्।
तदहं ब्रह्मणो लोके वृतः सर्वैर्दिवौकसैः१५।
व्रजामि शरणं देवं गतिरन्या न विद्यते।
एवं विचिंत्य देवेंद्रो वृतः सर्वैर्दिवौकसैः१६।
जगाम त्वरितो भीष्म यत्र देवः पितामहः।
ब्रह्मणः स पदं प्राप्य वृतस्तैश्च दिवौकसैः१७।
अब्रवीज्जगतः कार्यं प्राप्तामापदमुत्तमाम्।
किं न जानासि वै देव यतो नो भयमागतम्१८।
दैत्यैर्यदाहृतं सर्वं वरदानाच्च ते प्रभो।
कथितं वै मया सर्वं बाष्कलेश्च दुरात्मनः१९।
क्रियतां चाविलंबेन पिता त्वं नः पितामहः।
तत्त्वं चिंतय देवेश शांत्यर्थं जगतस्त्विह२०।
तेषां च पश्यतां किंचिच्छ्रौतस्मार्तादिकाः क्रियाः।
न प्रावर्तन्त हानिस्तु तैरस्माकं दिनेदिने२१।
यथा हि प्राकृतः कश्चित्स्वार्थमुद्दिश्य भाषते।
विज्ञाप्यसे तथास्माभिर्निरस्तोपकृतैः सदा२२।
यद्येनोपकृतं यस्य सहस्रगुणितं पुनः।
यो न तस्योपकाराय तत्करोति वृथा मतिः२३।
तस्योपकारदग्धस्य निस्त्रपस्यासतः पुनः।
नरकेष्वपि संवासस्तस्य दुष्कृतकारिणः२४।
नैतावतैव साधुत्वं कृते यातु प्रतिक्रिया।
स्वार्थैकनिष्ठबुद्धीनामेतन्नापि प्रवर्तते२५।
यद्यस्य नाभवत्स्थानं जगतो ह्यत्र दुःखदं।
शतधा हृदयं दीर्णं तन्न तृप्तिमुपागतम्२६।
तत्र वा यत्र गंतास्मि निमग्नानुद्धरस्व नः।
उपायकथनेनास्य येन तेजः प्रवर्तते२७।
यथाख्यातं मया दृष्टं जगत्तत्स्थमवेक्ष्य ताम्।
निःस्वाध्यायवषट्कारं निवृत्तोत्सवमंगलम्२८।
त्यक्ताध्ययनसंयोगं मुक्तवार्ता परिग्रहम्।
दंडनीत्या परित्यक्तं श्वासमात्रावशेषितम्२९।
जगदार्तिमपि प्राप्तं पुनः कष्टतरां दशां।
एतावता हि कालेन वयं ग्लानिमुपागताः३०।
ब्रह्मोवाच।
जानामि बाष्कलिं तं तु वरदानाच्च गर्वितम्।
अजेयं भवतां मन्ये विष्णुसाध्यो भविष्यति३१।
निरुध्य संस्थितो ब्रह्मा भावं तत्वमयं तदा।
समाधिस्थस्य तस्यैव ध्यानमात्राच्चतुर्भुजः३२।
स्तोकेनैव हि कालेन चिंत्यमानः स्वयंभुवा।
आजगाम मुहूर्तेन सर्वेषामेव पश्यताम्३३।
विष्णुरुवाच।
भो भो ब्रह्मन्निवर्त्तस्व ध्यानादस्मान्निवारितः।
यदर्थमिष्यते ध्यानं सोहं त्वां समुपागतः३४।
ब्रह्मोवाच।
महाप्रसाद एषोऽत्र स्वामिनो हि प्रदर्शनम्।
कस्यान्यस्य भवेच्चैषा चिन्ता या जगतः प्रभो३५।
ममैव तावदुत्पत्तिर्जगदर्थे विनिर्मिता।
जगदेतत्त्वदर्थीयं तत्त्वतो नास्ति विस्मयः३६।
भवता पालनं कार्यं संहरेद्रुद्र एव तु।
एवंभूते जगत्यस्मिन्शक्रस्यास्य महात्मनः३७।
हृतं राज्यं बाष्कलिना त्रैलोक्यं सचराचरम्।
भृत्यस्य क्रियतां साह्यं मंत्रदानेन केशव३८।
वासुदेव उवाच।
भवतो वरदानेन अवध्यः स तु सांप्रतम्।
बुद्धिसाध्यः स वै कार्यो बंधनादिह दानवः३९।
वामनोहं भविष्यामि दानवानां विनाशकः।
मया सह व्रजत्वेष बाष्कलेस्तु निवेशनम्४०।
तत्र गत्वा वरं त्वेष मदर्थे याचतामिमम्।
वामनस्यास्य विप्रस्य भूमे राजन्पदत्रयम्४१।
प्रयच्छस्व महाभाग याच्ञैषा तु मया कृता।
शक्रेणोक्तो दानवेंद्रो दद्यात्स्वमपि जीवितम्४२।
गृह्य प्रतिग्रहं तस्य दानवस्य पितामह।
तं बध्वा च ततो यत्नात्कृत्वा पातालवासिनम्४३।
सौकरं रूपमास्थाय वधार्थं च दुरात्मनः।
भविष्यामि न संदेहो व्रज शक्र त्वरान्वितः४४।
विरराम तमुक्त्वैवमंतर्द्धानं गतश्च वै।
अथ कालांतरे विष्णावदितेर्गर्भतां गते४५।
निमित्तान्यतिघोराणि प्रादुर्भूतान्यनेकशः।
समस्तजगदाधारे विष्णौ गर्भत्वमागते४६।
शोभनं हि तदा जातं निमित्तं चैवमूर्जितम्।
मालतीकुसुमानां तु सुगंधः सुरभिर्ववौ४७।
अथ विहितविधानं कालमासाद्य देवस्त्रिदशगणहितार्थं सर्वभूतानुकंपी।
विमल विरल केशश्चंद्रशंखोदयश्रीरदितितनयभावं देवदेवश्चकार४८।
अवतरति च विष्णौ सिद्धदेवासुराणामनिमिषनयनानां विप्रसेदुर्मुखानि।
अतिविरतरजोभिर्वायुभिः संवहद्भिर्दिनमपि च तदासीज्जन्म विष्णोः सुगर्भे४९।
अदितिरजनगर्भा सापि देवी प्रयांती नतजघनभरार्त्ता मंदसंचाररम्या।
अलसवदनखेदं पांडुभावं वहंती गुरुतरमवगाढं गर्भमेवोद्वहंती1.30.५०।
ततः प्रविष्टे खलु गर्भवासं नारायणे भूतभविष्ययोगात्।
विनापदं प्राप्तमनोरथानि भूतानि सर्वाणि तदा बभूवुः५१।
समीरणो वाति च मंदमंदं पतत्सु वर्षेषु नगोद्भवेषु।
विविक्तमार्गेषु दिगंतरेषु जनेषु वै सत्यमुपागतेषु५२।
विमुच्यमाने गगने रजोभिः शनैश्शनैर्नश्यति चांधकारे।
उदरांतर्गते विष्णौ द्रोहबुद्धिस्तदाभवत्५३।
तां निशामय राजेंद्र देवमातुर्यथाक्रमम्।
किमनुक्रमणेनैव लंघयामि त्रिविष्टपम्५४।
बाष्कलिं दानवेंद्रं तं कुर्यां पातालवासिनम्।
शक्रस्य तु मया दत्तं धनं लावण्यमेव च५५।
दानवानां विनाशाय एकैव प्रभवाम्यहम्।
क्षिपामि शरजालानि चक्रयानान्यनेकशः५६।
गदाव्रातांश्च विविधान्दानवानां विनाशने।
विबुधान्देवलोकस्थानधोभूमेस्तु दानवान्५७।
करोमि कालयोगेन तत्तु कार्यं व्रतेन मे।
निस्सृता सहसा वाणी वक्त्रमेवाभिसंस्थिता५८।
येनेदं चिन्त्यते पूर्वं यन्न दृष्टं न च श्रुतम्।
बंधं वै दनुमुख्यस्य कृतं कोपेन पश्य मे५९।
कश्यपाय पुरा दत्तं धनं लावण्यमेव च।
किमयं विगतोत्साहो वायवोथ समाकुलाः६०।
भ्रमतीव हि मे दृष्टिर्मैतद्रूपं प्रचिंतितम्।
आविष्टा किमहं वच्मि केनाप्यसदृशं वचः६१।
विकल्पवशमापन्नाऽभीक्ष्णं हृदिममर्श सा।
दधार दिव्यं वर्षाणां सहस्रं दिव्यमीश्वरम्६२।
ततः समभवत्तस्यां वामनो भूतवामनः।
जातेन येन चक्षूंषि दानवानां हृतानि वै६३।
जातमात्रे ततस्तस्मिन्देवदेवे जनार्दने।
नद्यः स्वच्छांबुवाहिन्यो ववौ गंधवहोऽनिलः६४।
कश्यपोपि सुखं लेभे तेन पुत्रेण भास्वता।
सर्वेषां मानसोत्साहस्त्रैलोक्यांतरवासिनाम्६५।
संजातमात्रे तु ततो जनाधिपजनार्दने।
स्वर्गलोके दुंदुभयो विनेदुस्तैश्च ताडिताः६६।
अतिप्रहर्षात्तु जगत्त्रयस्य मोहश्च दुःखानि च नाशमीयुः।
जगो च गन्धर्वगणोतिमात्रं भावस्वरैर्भर्तृविमिश्रिताश्च६७।
सुराङ्गनाश्चापि च भावयुक्ता नृत्यंति तत्राप्सरसां समूहाः।
तथैव विद्याधरसिद्धसंघा विमानयानैर्मुदिता भ्रमंति६८।
वदंति सत्यानृतकार्यनिर्णयं तथाभिरंगं प्रतिदर्शयंति।
गायंति गेयं विनिवृत्तरागा मुहुर्मुहुर्दुःखसुखप्रभूताः६९।
नृत्यंति वै स्वर्गगताश्च ते तु धर्मार्जितं स्वर्गमितो व्रजंति।
इति विगतविषादे निर्मले जीवलोके तिमिरनिकरमुक्ता निर्वृतिं प्राप्तुकामाः७०।
तत्रोचुः केचिदुर्व्यां जयजय भगवन्संप्रहृष्टाश्च केचित्।
त्वेवं प्रोक्तप्रणादैरविरल मनसश्चानुवादैस्तथान्यैः।
ध्यायंतेन्ये निगूढं जननभय जरामृत्युविच्छेदहेतो-।
रित्येवं कृत्स्नमासीज्जगदिदमखिलं सर्वतः संपृहृष्टम्७१।
परमासाद्य यं विष्णुं ब्रह्माह जगतः कृते।
जातोयं भवतामर्थे वामनो यदपीश्वरः७२।
एष ब्रह्मा च विष्णुश्च एष एव महेश्वरः।
एष वेदाश्च यज्ञाश्च स्वर्गश्चैष न संशयः७३।
विष्णुव्याप्तमिदं सर्वं जगत्स्थावरजंगमम्।
एकः स तु पृथ्क्त्वेन स्वयंभूरिति विश्रुतः७४।
यथार्थवर्णके स्थाने विचित्रः स्फाटिको मणिः।
ततो गुणवशात्तस्य स्वयंभोरनुवर्त्तनम्७५।
यथा हि गार्हपत्योग्निरन्यसंज्ञां पुनर्व्रजेत्।
लभेत संज्ञां भगवान्ब्राह्मादिषु तथा ह्यसौ७६।
सर्वथा वामनो देवो देवकार्यं करिष्यति।
एवं चिंतयतां तेषां भावितानां दिवौकसाम्७७।
जगाम शक्रसहितो बाष्कलेश्च निवेशनम्।
दूरादेव च तां दृष्ट्वा पुरीं तस्य समावृताम्७८।
पांडुरैः खगमागम्यैः सर्वरत्नोपशोभितैः।
शोभितां भवनैर्मुख्यैस्सुविभक्तमहापथैः७९।
नित्यप्रभिन्नैर्मातंगैरंजनाचलसन्निभैः।
देवनागकुलोत्पन्नैः शतसंख्यैर्विराजिताम्८०।
निर्मांसगात्रैस्तुरगैरल्पकर्णैर्मनोजवैः।
दीर्घग्रीवाक्षिकूटैश्च मनोज्ञैरुपशोभिताम्८१।
पद्मगर्भसुवर्णाभाः पूर्णचंद्रनिभाननाः।
संल्लापोल्लापकुशलास्तत्र वेश्याः सहस्रशः८२।
न तत्पुण्यं न सा विद्या न तच्छिल्पं न सा कला।
बाष्कलेर्न पुरेऽस्याथ निवासं प्रतिगच्छति८३।
उद्यानशतसंबाधं समाजोत्सवमालिनि।
अन्विते दनुमुख्यैश्च सर्वैरंतकवर्जितैः८४।
वीणावेणुमृदंगानां शब्दैः सर्वत्र नादिते।
सदा प्रहृष्टा दनुजा बहुरत्नोपशोभिताः८५।
क्रीडमानाः प्रदृश्यंते मेराविव यथामराः।
ब्रह्मघोषो महांस्तत्र दनुवृद्धैरुदीरितः८६।
साज्यधूमेन चाग्नीनां वायुना नष्टकिल्बिषे।
सुगंधधूपविक्षेप सुरभीकृतमारुते८७।
सुगंधिदनुजाकीर्णे पुरे तस्मिंस्तु बाष्कलि।
त्रैलोक्यं तु वशे कृत्वा सुखेनास्ते स दानवः८८।
तत्रस्थः पालयन्नास्ते त्रैलोक्यं सचराचरं।
धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेंद्रियः८९।
सुदर्शः पूर्वदेवानां नयानयविचक्षणः।
ब्रह्मण्यश्च शरण्यश्च दीनानामनुकंपकः९०।
वेदमंत्रप्रभूत्साह सर्वशक्तिसमन्वितः।
षाड्गुण्यविषयोत्साहः स्मितपूर्वाभिभाषितः९१।
वेदवेदांगतत्वज्ञो यज्ञयाजी तपोरतः।
न च दुःशीलनिरतः स सर्वत्राविहिंसकः९२।
मान्यमानयिता शुद्धः सुमुखः पूज्यपूजकः।
सर्वार्थविदनाधृष्यः सुभगः प्रियदर्शनः९३।
बहुधान्यो बहुधनो बहुयानश्च दानवः।
त्रिवर्गसाधको नित्यं त्रैलोक्ये वरपूरुषः९४।
स्वपुरीनिलयो नित्यं देवदानवदर्पहा।
स चैवं पालयामास त्रैलोक्ये सकलाः प्रजाः९५।
नाधमः कश्चिदप्यास्ते तस्मिन्राजनि दानवे।
दीनो वा व्यधितो वापि अल्पायुर्वाथ दुःखितः९६।
मूर्खो वा मंदरूपो वा दुर्भगो वा निराकृतः।
एवं युतं तं विमलैर्गुणौघैर्दृष्ट्वा च मत्वा च निविष्टबुद्धिं९७।
प्रसादयन्दैत्यवरं महात्मा पुरंदरस्तं तु दनुप्रधानं।
तेजोयुक्तं दानवं तं तपंतमिव भास्करं९८।
त्रैलोक्यधारणे शक्तं विस्मितः सोऽभवत्तदा।
इंद्रं पुरागतं दृष्ट्वा दानवेंद्राय पार्थिव९९।
इदमूचुस्तदागत्वा दानवा युद्धदुर्मदाः।
आश्चर्यमिति वै कृत्वा इंद्रोभ्येति पुरीं तव1.30.१००।
एकाकी द्विजमुख्येन वामनेन सह प्रभो।
अस्माभिर्यदनुष्ठेयं सांप्रतं नो वदस्व राट्१०१।
दानवानब्रवीत्सर्वान्पुरे तिष्ठत संकुलं।
प्रवेश्यतां देवराजः पूज्यः स तु ममाद्य वै१०२।
एतस्मिन्नेव काले तु वामनः स च वासवः।
आगतौ दनुनाथेन प्रेम्णा चैवावलोकितौ१०३।
कृतार्थं मन्यतात्मानं प्रणिपातपुरःसरम्।
उवाच वचनं राजा दानवानां धुरंधरः१०४।
अद्य वै त्रिषु लोकेषु नास्ति धन्यतरो मया।
योहं श्रियावृतः शक्रं पश्यामि गृहमागतम्१०५।
अर्थित्वकाम्यया यस्तु मामयं याचयिष्यति।
गृहागतस्य तस्याहं दास्ये प्राणानपि ध्रुवम्१०६।
दारान्पुत्रांस्तथागारं त्रैलोक्ये का कथा मम।
आगत्य संमुखं तस्य अंकमानीय सादरम्१०७।
परिष्वज्याभिनन्द्यैनं गृहं प्रावेशयत्स्वकम्।
तस्य स्वागतमर्घ्याद्यैः कृत्वा पूजां प्रयत्नतः१०८।
अद्य मे सफलं जन्म पूर्णाः सर्वे मनोरथाः।
यस्त्वां पश्यामि शक्राद्य स्वयमेव गृहागतम्१०९।
ख्याप्योहं दनुमुख्यानां देवराज त्वया कृतः।
आगच्छता मम गृहं पुण्यता तु परा हि मे११०।
अग्निष्टोमादिभिर्यज्ञैस्सम्यगिष्टैस्तु यत्फलम्।
तत्फलं समवाप्येत त्वयि दृष्टे पुरंदर१११।
यत्फलं भूमिदानेन गवां दानेन ऋत्विजे।
ममाद्य तत्फलं भूतमथवा राजसूयकम्११२।
नाल्पेन तपसा लभ्यं दर्शनं तव वासव।
एवं गेहे मया यत्ते प्रियं कार्यं तदुच्यताम्११३।
विकल्पोऽन्यो न भवता हृदि कार्यः कथंचन।
कृतं च तद्विजानीया यद्यदि स्यात्सुदुष्करं११४।
पुण्योहं पुण्यतां प्राप्तो दर्शनात्तव शत्रुहन्।
यत्ते देव वरैर्वंद्यौ वंदितौ चरणौ मया११५।
किमागमनकृत्यं ते वद सर्वं मयि प्रभो।
अत्याश्चर्यमिदं मन्ये तवागमन कारणं११६।
इंद्र उवाच।
जानेहं दनुमुख्यानां प्रधानं त्वां तु बाष्कले।
नात्याश्चर्यमिदं भाति त्वयि दृष्टेऽसुरोत्तम११७।
विमुखा नार्थिनो यांति भवतो गृहमागताः।
अर्थिनां कल्पवृक्षोसि दाता चान्यो न विद्यते११८।
प्रभायां सूर्यतुल्योसि गांभीर्ये सागरोपमः।
सहिष्णुत्वे धरा चैव श्रिया नारायणोपमः११९।
ब्राह्मणः कश्यपकुले जातोयं वामनः शुभे।
प्रार्थितोहमनेनैवं भूमेर्देहि पदत्रयं१२०।
ममाग्निशरणार्थाय यत्र कुर्यां मखं त्वहं।
तदस्य कारणं कृत्वा अर्थितैषा मम प्रभो१२१।
लोकत्रयं मेऽपहृतं त्वया विक्रम्य बाष्कले।
निर्वृत्तिको निर्धनोस्मि यद्दित्से न तदस्ति मे१२२।
भवंतं याचयिष्यामि परार्थेनापि चात्मना।
अर्थित्त्वेन ममाप्यस्य यद्योग्यं तत्समाचर१२३।
जातोसि काश्यपे च त्वं वंशे वंशविवर्द्धनः।
दित्यास्त्वं गर्भसंभूतः पिता त्रैलोकपूजितः१२४।
एवंभूतमहं ज्ञात्वा तेन त्वां याचयाम्यहम्।
अस्याग्निशरणार्थाय दीयतां भू पदत्रयम्१२५।
अतीव ह्रस्वगात्रस्य वामनस्यास्य दानव।
भूमिभागे च पारक्ये दातुं न त्वहमुत्सहे१२६।
एतदेव मया दत्तं यद्भवानर्थितोसि मे।
गुरवो यदि मन्यंते मंत्रिणो वा पदत्रयम्१२७।
अर्थित्वेन मदीयेन स्वकुले बांधवेपि च।
गृहायाते मयि तथा यद्योग्यं तत्समाचर१२८।
यदि ते रुचितं वीर दानवेंद्र महाद्युते।
तदस्मै दीयतां शीघ्रं वामनाय महात्मने१२९।
बाष्कलिरुवाच।
देवेंद्र स्वागतं तेऽस्तु स्वस्ति प्राप्नुहि मा चिरम्।
त्वं समीक्षस्वधात्मानं सर्वेषां च परायणम्१३०।
त्वयि भारं समावेश्य सुखमास्ते पितामहः।
ध्यानधारणयायुक्तश्चिंतयानः परं पदम्१३१।
संग्रामैर्बहुभिः खिन्नो जगच्चिंतामपास्य तु।
क्षीराब्धिद्वीपमाश्रित्य सुखं स्वपिति केशवः१३२।
अन्ये च दानवाः सर्वे बलिनः सायुधास्त्वया।
असहायेनैव शक्र सर्वेपि विनिपातिताः१३३।
आदित्या द्वादशैवेह रुद्रास्त्वेकादशापि वा।
अश्विनौ वसवश्चैव धर्मश्चैव सनातनः१३४।
त्वद्बाहुबलमाश्रित्य त्रिदिवे मखभागिनः।
त्वया क्रतुशतैरिष्टं समाप्तवरदक्षिणैः१३५।
त्वया च घातितो वृत्रो नमुचिः पाकशासन।
त्वदाज्ञाकारिणा पूर्वं विष्णुना प्रभविष्णुना१३६।
हिरण्यकशिपोर्भ्राता हिरण्याक्षोपि घातितः।
हिरण्यकशिपुर्योत्र जङ्घे चारोप्य घातितः१३७।
वज्रपाणिनमायांतमैरावणशिरोगतम्।
संग्रामभूमौ दृष्ट्वा त्वां सर्वे नश्यंति दानवाः१३८।
ये त्वया विजिताः पूर्वं दानवा बलवत्तराः।
सहस्रांशेन तत्तुल्यो न भवामि कथंचन१३९।
एवंविधोऽसि देवेंद्र मम का गणना भवेत्।
मां समुद्धर्तुकामेन त्वयैवागमनं कृतम्१४०।
करिष्यामि न संदेहो दास्ये प्राणानपि ध्रुवम्।
किमर्थं देवराजोक्ता भूमिरेषा त्वया हि मे१४१।
इमे दाराः सुता गावो यच्चान्यद्विद्यते वसु।
त्रैलोक्यराज्यमखिलं विप्रस्यास्य प्रदीयताम्१४२।
अपकीर्तिर्भवेन्मह्यं पूर्वेषां च न संशयः।
गृहायातस्य शक्रस्य दत्तं बाष्कलिना न तु१४३।
अन्योपि योर्थी मे प्राप्तः समे प्रियतरः सदा।
भवानत्र विशेषेण विचारं मा कृथाः क्वचित्१४४।
बृहत्त्रपा मे देवेंद्र यद्भूमेस्तु पदत्रयम्।
ब्राह्मणस्य विशेषेण प्रार्थितं तु त्वया विभो१४५।
दास्ये ग्रामवरानस्य भवतस्तु त्रिविष्टपम्।
अश्वान्गजान्भूमिधनं स्त्रियश्चोद्भिन्नचूचुकाः१४६।
यासां दर्शनमात्रेण वृद्धोपि तरुणायते।
ताः स्त्रियो वसुधां चैतां वामनस्य प्रतिग्रहम्१४७।
प्रतिदास्यामि देवेन्द्र प्रसादः क्रियतां हि मे।
एतावदुक्ते वचने तदा बाष्कलिना नृप१४८।
पुरोधास्तूशना प्राह दानवेंद्रं तदा वचः।
भवान्राजा दानवेंद्र ऐश्वर्येष्टविधे स्थितः१४९।
युक्तायुक्तं न जानासि देयं कस्य मया क्वचित्।
मंत्रिभिः सुसमालोच्य युक्तायुक्तं परीक्ष्य च 1.30.१५०।
प्राप्तं त्रैलोक्यराज्यत्वं जित्वा देवान्सवासवान्।
वाक्यस्यास्यावसानेव भवान्प्राप्स्यति बंधनं१५१।
य एष वामनो राजन्विष्णुरेव सनातनः।
नास्य वै भवता देयं पिता ते घातितः स्वयं१५२।
अयं ते पितृहा प्राप्तो मातृहा बंधुघातकः।
वंशोच्छेदकरस्तुभ्यं भूतश्चैव भविष्यति१५३।
न चैष धर्मं जानाति शक्रादीनां हिते रतः।
मायाविना दानवा ये मायया येन निर्जिताः१५४।
मायया ब्राह्मणं रूपं वामनं च प्रदर्शितम्।
अत्र किं बहुनोक्तेन नास्य देयं तु किंचन१५५।
मक्षिकापादमात्रं तु भूमिरस्य प्रतिग्रहः।
विनाशमेष्यसि क्षिप्रं सत्यंसत्यं मया श्रुतम्१५६।
गुरुणाप्येवमुक्तस्तु भूयो वाक्यमथाब्रवीत्।
धर्मार्थिना मया सर्वं प्रतिज्ञातं गुरो त्विदम्१५७।
प्रतिज्ञापालनं कार्यं सतां धर्मः सनातनः।
यद्येष भगवान्विष्णुर्नास्ति धन्यतरो मया१५८।
गृह्य प्रतिग्रहं मत्तो यदि देवान्बुभूषति।
भूयोपि धन्यतां नीतो देवेनानेन वै गुरो१५९।
यं योगिनो ध्यानयुक्ता ध्यायमाना हि दर्शनम्।
न लभंते तथा विप्रास्सोयं दृष्टो मयाद्य वै१६०।
दानानि ये प्रयच्छंति सकुशोदकपाणिना।
प्रीयतां भगवान्विष्णुः परमात्मा सनातनः१६१।
एवमुक्ते तु वचने अपवर्गस्य भागिनः।
यदत्र कार्यकरणे विकल्पो मे बभूव ह१६२।
उपदिष्टोस्मि भवता बालत्वे चावधारितम्।
शत्रावपि गृहायाते मास्त्वदेयं तु किंचन१६३।
एतदेव विचिंत्याहं प्राणानपि स्वकान्गुरो।
वामनस्य प्रदास्यामि शक्रस्यापि त्रिविष्टपम्१६४।
अपीडाकारि यद्दानं तद्दानमिह दीयते।
पीडाकारि च यद्दानं तद्दानं समलं स्मृतम्१६५।
एतच्छ्रुत्वा गुरुस्तत्र त्रपयाधोमुखः स्थितः।
बाष्कलिरुवाच।
अर्थिता भवतो देव देया सर्वा धरा मया१६६।
त्रपाकरं भवेन्मह्यं यदस्य भूपदत्रयम्।
इंद्र उवाच।
सत्यमेतद्दानवेन्द्र यदुक्तं भवता हि मे१६७।
भूमेः पदत्रयार्थित्वं द्विजेनानेन मे कृतम्।
एतावता त्वयं चार्थी मयाप्यस्य कृते भवान्१६८।
दनुपुत्रो याचितोसि वरमेतत्प्रदीयताम्।
बाष्कलिरुवाच।
पदत्रयं वामनाय देवराज प्रतीच्छ मे१६९।
तत्र त्वं सुचिरं कालं सुखी सुरपते वस।
एवमुक्त्वा बाष्कलिना वामनाय पदत्रयम्१७०।
तोयपूर्वं तदा दत्तं प्रीयतां मे हरिः स्वयम्।
दत्ते तु दानवेंद्रेण त्यक्त्वा रूपं च वामनम्१७१।
हरिराचक्रमे लोकान्देवानां हितकाम्यया।
यज्ञपर्वतमासाद्य गत्वा चैव उदङ्मुखः१७२।
देवस्य वामचरणे निविष्टो दानवालयः।
तत्र क्रमं स प्रथमं ददौ सूर्ये जगत्पतिः१७३।
द्वितीयं च ध्रुवे देवस्तृतीयेन च पार्थिव।
ब्रह्मांडस्ताडितस्तेन देवेनाद्भुतकर्मणा१७४।
अंगुष्ठाग्रेण भिन्नेंडे जलं भूरि विनिःसृतम्।
प्लावयित्वा ब्रह्मलोकान्सर्वान्लोकाननुक्रमात्१७५।
ध्रुवस्थानं सूर्यलोकं प्लाव्य तं यज्ञपर्वतम्।
प्रविष्टा पुष्करं धारा धौत्वा विष्णुपदानि सा१७६।
पदानि यानि जातानि वैष्णवानि धरातले।
तत्राश्रमे तु यो गत्वा स्नानं वाप्यां समाचरेत्१७७।
अश्वमेधफलं तस्य दर्शनादेव जायते।
एकविंशगणोपेतो वैकुंठे वासमाप्नुयात्१७८।
भुक्त्वा तु विपुलान्भोगान्कल्पानां तु शतत्रयम्।
तदंते जायते राजा सार्वभौमः क्षिताविह१७९।
तोयधारा तु सा भीष्म अंगुष्ठाग्राद्विनिःसृता।
नदी सा वैष्णवी प्रोक्ता विष्णुपादसमुद्भवा१८०।
अनेन कारणेनाभूद्गंगा विष्णुपदी नृप।
यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्१८१।
अंगुष्ठाग्रक्षतादंडाद्यत्प्रविष्टं जलं शुभम्।
प्राप्तं देवनदीत्वं तु यातु विष्णुपदी नदी१८२।
देवनद्या तया व्याप्तं ब्रह्मांडं सचराचरम्।
विभूतिभिर्महाभाग सर्वानुग्रहकाम्यया१८३।
स बाष्कलिर्वामनेन उक्तः पूरय मे क्रमान्।
अधोमुखस्तदा जात उत्तरं नास्य विंदति१८४।
मौनीभूतं तु तं दृष्ट्वा पुरोधा वाक्यमब्रवीत्।
स्वाभाविकी दानशक्तिर्न तु स्रष्टुं वयं क्षमाः१८५।
यावतीयं धरा देव सा दत्तानेन ते प्रभो।
उक्तो बाष्कलिना विष्णुर्यावन्मात्रा वसुंधरा१८६।
या सृष्टा भवता पूर्वं सा मया न च गोपिता।
अल्पाभूमिर्भवान्दीर्घो न तु सृष्टेरहं क्षमः१८७।
इच्छाशक्तिः प्रभवति प्रभोस्ते देव सर्वदा।
निरुत्तरस्तदा विष्णुर्मत्वा तं सत्यवादिनम्१८८।
ब्रूहि दानवमुख्य त्वं कं ते कामं करोम्यहम्।
मम हस्तगतं तोयं त्वया दत्तं तु दानव१८९।
तेन त्वं वरयोग्योसि वराणां भाजनं शुभं।
दास्येहं भवतः काममर्थीयेन वृणुष्व ह१९०।
विज्ञप्तो हि तदा तेन देवदेवो जनार्दनः।
भक्तिं वृणोमि देवेश त्वद्धस्तान्मरणं हि मे१९१।
व्रजामि श्वेतद्वीपं ते दुर्लभं तु तपस्विनाम्।
आहैवमुक्ते विष्णुस्तं तिष्ठस्वैव युगांतरम्१९२।
वाराहरूपी यदाहं प्रवेक्ष्यामि धरातलम्।
तदा हनिष्येहं त्वां तु मदग्रे च यदैष्यसि१९३।
उक्तोथ दानवस्तेन अपासर्प्पत्तदग्रतः।
वामनेन समाक्रांताः सर्वे लोकास्तदा नृप१९४।
असुरैस्तैस्तदा त्यक्तं देवानां सत्यभाषणम्।
देवो हृत्वा तु त्रैलोक्यं जगामादर्शनं विभुः१९५।
पातालनिलयश्चापि सुखमास्ते स बाष्कलि।
शक्रोपि पालयामास विपश्चिद्भुवनत्रयम्१९६।
अयं त्रैविक्रमो नाम प्रादुर्भावो जगद्गुरोः।
गंगासंभवसंयुक्तस्सर्वकल्मषनाशनः१९७।
विष्णोः पदानामेषा ते उत्पत्तिः कथिता नृप।
यां श्रुत्वा तु नरो लोके सर्वपापैः प्रमुच्यते१९८।
दुःस्वप्नं दुर्विचिंत्यं च दुःष्करं दुःष्कृतानि च।
क्षिप्रं हि नाशमायांति दृष्टे विष्णुपदत्रये१९९।
युगानुक्रमशो दृष्ट्वा पापिनो जंतवस्तथा।
सूक्ष्मता दर्शिता भीष्म विष्णुना पददर्शने1.30.२००।
यस्त्वारोहति तस्मिंस्तु मौनवान्मानवो भुवि।
कृत्वा त्रिपुष्करी यात्रामश्वमेधफलं व्रजेत्२०१।
मुच्यते सर्वपापैश्च मृतो विष्णुपुरं व्रजेत्२०२।
।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे विष्णुपदोत्पत्तिर्नाम त्रिंशोऽध्यायः३०।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 31
भीष्म उवाच।
भगवन्महदाश्चर्यं बाष्कलेर्बंधनं हि यत्।
कृतं त्रिविक्रमं रूपं यदा संयमितो बलि१।
एतन्मया श्रुतं पूर्वं कथ्यमानं द्विजोत्तमैः।
पाताले वसतेद्यापि वैरोचनसुतो बलि२।
नागतीर्थं यथाभूतं पिशाचानां तु संभवम्।
शिवदूती कथं चात्र केनेयं मंगलीकृता३।
अंतरिक्षे पुष्करं तु केन नीतं महामुने।
एतदाचक्ष्व मे सर्वं यथा बाष्कलिबंधनम्४।
भूमिप्रक्रमणं पूर्वं कृतं देवेन विष्णुना।
द्वितीये कारणं किं च येन देवश्चकार ह५।
तत्त्वतस्त्वं हि तत्सर्वं यथाभूतं तथा वद।
पापक्षयकरं ह्येतच्छ्रोतव्यं भूतिमिच्छता६।
पुलस्त्य उवाच।
प्रश्नभारस्त्वया राजन्कौतुकादेव कीर्तितः।
कथयामि हि तत्सर्वं यथाभूतं नृपोत्तम७।
विष्णोः पदानुषंगेण बंधनं बाष्कलेरिह।
श्रुतं तद्भवता सर्वं मया ते परिकीर्तितं८।
भूयोपि विष्णुना भीष्म प्राप्ते वैवस्वतेंतरे।
त्रैलोक्यं बलिनाक्रांतं विष्णुना प्रभविष्णुना९।
गत्वा त्वेकाकिना यज्ञे तथा संयमितो बलि।
भूयोपि देवदेवेन भूमेः प्रक्रमणं कृतम्१०।
प्रादुर्भावो वामनस्य तथाभूतो नराधिप।
पुनस्त्रिविक्रमो भूत्वा वामनो भूदवामनः११।
उत्पत्तिरेषा ते सर्वा कथिता कुरुनंदन।
नागानां तु यथा तीर्थं तच्छृणुष्व महाव्रत१२।
अनंतो वासुकिश्चैव तक्षकश्च महाबलः।
कर्कोटकश्च नागेंद्रः पद्मश्चान्यः सरीसृपः१३।
महापद्मस्तथा शंखः कुलिकश्चापराजितः।
एते कश्यपदायादा एतैरापूरितं जगत्१४।
एतेषां तु प्रसूत्या तु इदमापूरितं जगत्।
कुटिलाभीमकर्माणस्तीक्ष्णास्याश्च विषोल्बणाः१५।
दष्ट्वा मंदांश्चमनुजान्कुर्युर्भस्मक्षणात्तु ते।
तद्दर्शनाद्भवेन्नाशो मनुष्याणां नराधिप१६।
अहन्यहनि जायेत क्षयः परमदारुणः।
आत्मनस्तु क्षयं दृष्ट्वा प्रजास्सर्वास्समंततः१७।
जग्मुः शरण्यं शरणं ब्रह्माणं परमेश्वरं।
इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते१८।
ऊचुः कमलजं दृष्ट्वा पुराणं ब्रह्मसंज्ञकम्।
प्रजा ऊचुः।
देवदेवेश लोकानां प्रसूते परमेश्वर१९।
त्राहि नस्तीक्ष्णदंष्ट्राणां भुजगानां महात्मनाम्।
दिनेदिने भयं देव पश्यामः कृपणा भृशम्२०।
मनुष्यपशुपक्ष्यादि तत्सर्वं भस्मसाद्भवेत्।
त्वया सृष्टिः कृता देव क्षीयते तु भुजंगमैः२१।
एतज्ज्ञात्वा यदुचितं तत्कुरुष्व पितामह।
ब्रह्मोवाच।
अहं रक्षां विधास्यामि भवतीनां न संशयः२२।
व्रजध्वं स्वनिकेतानि नीरुजो गतसाध्वसाः।
एवमुक्ते प्रजाः सर्वा ब्रह्मणाऽव्यक्तमूर्तिना२३।
आजग्मुः परमप्रीताः स्तुत्वा चैव स्वयंभुवम्।
प्रयातासु प्रजास्वेवं तानाहूय भुजंगमान्२४।
शशाप परमक्रुद्धो वासुकिप्रमुखांस्तदा।
ब्रह्मोवाच।
अहन्यहनि भूतानि भक्ष्यंते वै दुरात्मभिः२५।
नश्यंति तूरगैर्दष्टा मनुष्याः पशवस्तथा।
यस्मान्मत्प्रभवान्नित्यं क्षयं नयथ मानुषान्२६।
अतोन्यस्मिन्भवे भूयान्ममकोपात्सुदारुणात्।
भवतां हि क्षयो घोरो भावि वैवस्वतेंतरे२७।
तथान्यः सोमवंशीयो राजा वै जनमेजयः।
धक्ष्यते सर्पसत्रेण प्रदीप्ते हव्यवाहने२८।
मातृष्वसुश्च तनयांस्तार्क्ष्यो वो भक्षयिष्यति।
एवं वो भविता नाशः सर्वेषां दुष्टचेतसाम्२९।
शप्त्वा कुलसहस्रं तु यावदेकं कुलं स्थितम्।
एवमुक्ते तु वेपंतो ब्रह्मणा भुजगोत्तमाः३०।
निपत्य पादयोस्तस्य इदमूचुर्वचस्तदा।
भगवन्कुटिला जातिरस्माकं भूतभावन३१।
विषोल्बणत्वं क्रूरत्वं दंदशूकत्वमेव च।
संपादितं त्वया देव इदानीं शपसे कथं३२।
ब्रह्मोवाच।
यदि नाम मया सृष्टा भवंतः कुटिलाशयाः।
ततः किं बहुना नित्यं भक्षयध्वं गतव्यथाः३३।
नागा ऊचुः।
मर्यादां कुरु देवेश स्थानं चैव पृथक्पृथक्।
मनुष्याणां तथास्माकं समयं देव कारय३४।
शापो यो भवता दत्तो मनुष्यो जनमेजयः।
नाशं नः सर्पसत्रेण उल्बणं च करिष्यति३५।
ब्रह्मोवाच।
जरत्कारुरिति ख्यातो भविता ब्रह्मवित्तमः।
जरत्कन्या तस्य देया तस्यामुत्पत्स्यते सुतः३६।
रक्षां कर्ता स वो विप्रो भवतां कुलपावनः।
तथा करोमि नागानां समयं मनुजैः सह३७।
तदेकमनसः सर्वे शृणुध्वं मम शासनम्।
सुतलं वितलं चैव तृतीयं च तलातलम्३८।
दत्तं च त्रिप्रकारं वो गृहं तत्र गमिष्यथ।
तत्र भोगान्बहुविधान्भुंजाना मम शासनात्३९।
तिष्ठध्वं सप्तमं यावत्कालं तं तु पुनःपुनः।
ततो वैवस्वतस्यादौ काश्यपेयो भविष्यति४०।
दायादः सर्वदेवानां सुपर्णस्सर्पभक्षकः।
तदा प्रसूतिः सर्पाणां दग्धा वै चित्रभानुना४१।
भवतां चैव सर्वेषां भविष्यति न संशयः।
ये ये क्रूरा भोगिनो दुर्विनीतास्तेषामंतो भाविता नान्यथैतत्४२।
कालव्याप्तं भक्षयध्वं च सत्वं तथापकारे चकृते मनुष्यम्।
मंत्रौषधैर्गारुडैश्चैव तंत्रैर्बंधैर्जुष्टा मानवा ये भवंति४३।
तेभ्यो भीतैर्वर्तितव्यं न चान्यच्चित्ते कार्यं चान्यथा वो विनाशः।
इतीरिते ब्रह्मणा वै भुजंगा जग्मुः स्थानं सुतलाख्यं हि सर्वे४४।
तस्थुर्भोगान्भुंजमानाश्च सर्वे रसातले लीलया संस्थितास्ते।
एवं शापं तुते लब्ध्वाप्रसादं च चतुर्मुखात्४५।
तस्थुः पातालनिलये मुदितेनांतरात्मना।
ततः कालांत रेभूते पुनरेवं व्यचिंतयन्४६।
भविता भरतो राजा पांडवेयो महायशाः।
अस्माकं तु क्षयकरो दैवयोगेन केनचित्४७।
कथं त्रिभुवने नाथः सर्वेषां च पितामहः।
सृष्टिकर्ता जगद्वंद्यः शापमस्मासु दत्तवान्४८।
देवं विरंचिनं त्यक्त्वा गतिरन्या न विद्यते।
वैराजे भवनश्रेष्ठे तत्र देवः स तिष्ठति४९।
स देवः पुष्करस्थो वै यज्ञं यजति सांप्रतम्।
गत्वा प्रसादयामस्तं वरं तुष्टः प्रदास्यति1.31.५०।
एवं विचिंत्य ते सर्वे नागा गत्वा च पुष्करम्।
यज्ञपर्वतमासाद्य शैलभित्तिमुपाश्रिताः५१।
दृष्ट्वा नागांस्तथा श्रान्तान्वारिधाराश्च शीतलाः।
उदङ्मुखा वै निष्क्रांतास्सर्वेषां तु सुखप्रदाः५२।
नागतीर्थं ततो जातं पृथिव्यां भरतर्षभ।
नागकुंडं च वै केचित्सरितं चापरेऽब्रुवन्५३।
पुण्यं तत्सर्वतीर्थानां सर्पाणां विषनाशनम्।
मज्जन्ति तत्र ये मर्त्या अधिश्रावण पंचमि५४।
न तेषां तु कुले सर्पाः पीडां कुर्वन्ति कर्हिचित्।
श्राद्धं पितॄणां ये तत्र करिष्यंति नरा भुवि५५।
ब्रह्मा तेषां परं स्थानं दास्यते नात्र संशयः।
नागानां तु भयं ज्ञात्वा ब्रह्मा लोकपितामहः५६।
पूर्वोक्तं तु पुनर्वाक्यं नागानश्रावयत्तदा।
पंचमी सा तिथिर्धन्या सर्वपापहरा शुभा५७।
यतोऽस्यामेव सुतिथौ नागानां कार्यमुद्धृतम्।
एतस्यां सर्वतो यस्तु कट्वम्लं परिवर्जयेत्५८।
क्षीरेण स्नापयेन्नागांस्तस्य ते यांति मित्रताम्।
भीष्म उवाच।
शिवदूती यथा जाता येन चैव निवेशिता५९।
तन्मे सर्वं यथातत्त्वं भवान्शंसितुर्महति।
पुलस्त्य उवाच।
शिवा नीलगिरिं प्राप्ता तपसे धृतमानसा६०।
रौद्री जटोद्भवा शक्तिस्तस्याः शृणु नृप व्रतम्।
तपः कृत्वा चिरं कालं ग्रसिष्याम्यखिलं जगत्६१।
एवमुद्दिश्य पंचाग्निं साधयामास भामिनी।
तस्याः कालांतरे देव्यास्तपंत्यास्तप उत्तमम्६२।
रुरुर्नाममहातेजा ब्रह्मदत्तवरोऽसुरः।
समुद्रमध्ये रत्नाख्यं पुरमस्ति महाधनम्६३।
तत्रातिष्ठत्स दैत्येंद्रस्सर्वदेवभयंकरः।
अनेक शतसाहस्र कोटिकोटिशतोत्तमैः६४।
असुरैरर्चितः श्रीमान्द्वितीयो नमुचिर्यथा।
कालेन महता सोऽथ लोकपालपुरं ययौ६५।
जिगीषुः सैन्यसंवीतो देवैर्वैरमरोचयत्।
उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृधेति वेगात्६६।
अनेक नाग ग्रह मीनजुष्टमाप्लावयत्पर्वतसानुदेशान्।
अंतःस्थितानेकसुरारिसंघं विचित्रवर्मायुधचित्रशोभम्६७।
भीमं बलं चलितं चारुयोधं विनिर्ययौ सिंधुजलाद्विशालम्।
तत्र द्विपा दैत्यभठाभ्युपेताः सयानघंटाश्च समृद्धियुक्ताः६८।
विनिर्ययुः स्वाकृतिभिर्झषाणां समत्वमुच्चैः खलु दर्शयंतः।
अश्वास्तथा कांचनसूत्रनद्धा रोहीतमत्स्या इव ते जलांते६९।
व्यवस्थितास्तैः सममेव तूर्णं विनिर्ययुर्लक्षशः कोटिशश्च।
तथा रविस्यंदनतुल्यवेगाः सचक्रदंडाक्षतवेणुयुक्ताः७०।
रथाश्च यंत्रोपरिपीडितांगाश्चलत्पताकाः स्वनितं विचक्रुः।
तथैव योधाः स्थगितास्तरीभिस्तितीर्षवस्ते प्रवरास्त्रपाणयः७१।
रणेरणे लब्धजयाः प्रहारिणो विरेजुरुच्चैरसुरानुगा भृशं।
देवेषु वै रणे तेषु विद्रुतेषु विशेषतः७२।
असुरास्सर्वदेवानामन्वधावंस्ततस्ततः।
ततो देवगणाः सर्वे द्रवंतो भयविह्वलाः७३।
नीलं गिरिवरं जग्मुर्यत्र देवी स्वयं स्थिता।
रौद्री तपोन्विता धन्या शांभवी शक्तिरुत्तमा७४।
संहारकारिणी देवी कालरात्रीति यां विदुः।
सा तु दृष्ट्वा तदा देवान्भयत्रस्तान्विचेतसः७५।
पप्रच्छ विस्मयाद्देवी प्रोत्फुल्लांबुजलोचना।
पृष्ठतो वो न पश्यामि भयं किंचिदुपागतम्७६।
कथं तु विद्रुता देवाः सर्वे शक्रपुरःसराः।
देवा ऊचुः।
अयमायाति दैत्येंद्रो रुरुर्भीमपराक्रमः७७।
चतुरंगेण सैन्येन महता परिवारितः।
तस्माद्दीना वयं देवीं भवतीं शरणं गताः७८।
देवानामिति वै श्रुत्वा वाक्यमुच्चैर्जहास सा।
तस्यां हसंत्यां निश्चेरुर्वरांग्यो वदनात्ततः७९।
पाशांकुशधराः सर्वाः पीनोन्नतपयोधराः।
सर्वाश्शूलधरा भीमाः सर्वा दंष्ट्राङ्कुशाननाः८०।
आबद्धमकुटाः सर्वाः संदष्टदशनच्छदाः।
फूत्काररावैरशिवैस्त्रासयंत्यश्चराचरम्८१।
काश्चिच्छुक्लाम्बरधराः काश्चिच्चित्राम्बरास्तथा।
सुनीलवसनाः काश्चिद्रक्तपानातिलालसाः८२।
नानारूपैर्मुखैस्तास्तु नानावेषवपुर्धराः।
ताभिरेवं वृता देवी देवानामभयंकरी८३।
मा भैष्ट देवा भद्रं वो यावद्वदति दानवः।
चतुरंगबलोपेतो रुरुस्तावत्समागतः८४।
तं नीलपर्वतवरं देवानां मार्गमार्गणः।
देवानामग्रतः सैन्यं दृष्ट्वा देवी समाकुलम्८५।
तिष्ठतिष्ठेति जल्पंतो दैत्यास्ते समुपागताः।
ततः प्रववृते युद्धं तासां तेषां महाभयम्८६।
नाराचैर्भिन्नदेहानां दैत्यानां भुवि सर्पतां।
रोषाद्दंडप्रभग्नानां सर्पाणामिव सर्पताम्८७।
शक्तिनिर्भिन्नहृदया गदासंचूर्णितोरसः।
कुठारैर्भिन्नशिरसो मुसलैर्भिन्नमस्तकाः८८।
विद्धोदरास्त्रिशूलाग्रैश्छिन्नग्रीवा वरासिभिः।
क्षताश्वरथमातंगपादाताः पेतुराहवे८९।
रणभूमिं समासाद्य दैत्याः सर्वे रुरुं विना।
ततो बलं हतं दृष्ट्वा रुरुर्मायां तदाददे९०।
तया संमोहिता देव्यो देवाश्चापि रणाजिरे।
तामस्या मायया देव्या सर्वमन्धंतमोभवत्९१।
ततो देवी महाशक्या तं दैत्यं समताडयत्।
तया तु ताडितस्याजौ दैत्यस्य प्रगतं तमः९२।
मायायामथ नष्टायां तामस्यां दानवो रुरुः।
पातालमाविशत्तूर्णं तत्रापि परमेश्वरी९३।
देवीभिः सहिता क्रुद्धा पुरतोभिमुखी स्थिता।
रुरोस्तु दानवेंद्रस्य भीतस्याग्रे गतस्य च९४।
नखाग्रेण शिरश्छित्वा चर्म चादाय वेगिता।
निष्पपाताथ पातालात्पुष्करं च पुनर्गिरिम्९५।
कन्या सैन्येन महता बहुरूपेण भास्वता।
देवैस्तुविस्मितैर्दृष्टा चर्ममुंडधरा रुरोः९६।
स्वकीये तपसः स्थाने निविष्टा परमेश्वरी।
ततो देव्यो महाभागाः परिवार्य व्यवस्थिताः९७।
याचयामासुरव्यग्रास्तां तु देवीं बुभुक्षिताः।
बुभुक्षिता वयं देवि देहि नो भोजनं वरम्९८।
एवमुक्त्वा ततो देवी दध्यौ तासां तु भोजनम्।
नाध्यगच्छत्तदा तासां भोजनं चिन्तितम्महत्९९।
तदा दध्यौ महादेवं रुद्रं पशुपतिं विभुम्।
सोपि ध्यानात्समुत्तस्थौ परमात्मा त्रिलोचनः1.31.१००।
उवाच रुद्रस्तां देवीं किं ते कार्यं विवक्षितम्।
ब्रूहि देवि महामाये यत्ते मनसि वर्तते१०१।
शिवदूत्युवाच।
छागमध्ये तु वै देव छागरूपेण वर्तसे।
एतास्त्वां भक्षयिष्यन्ति भक्ष्यमीप्सितमादरात्१०२।
भक्षार्थमासां देवेश किंचिद्दातुमिहार्हसि।
शूलीकुर्वंति मामेता भक्षार्थिन्यो महाबलाः१०३।
अन्यथा मामपि बलाद्भक्षयेयुर्बुभुक्षिताः।
एवं मां तु समालक्ष्य भक्ष्यं कल्पय सत्वरम्१०४।
रुद्र उवाच।
शिवदूति ब्रवीम्येकं प्रवृत्तं यद्युगांतरे।
गंगाद्वारे दक्षयज्ञो गणैर्विध्वंसितो मम१०५।
तत्र यज्ञो मृगो भूत्वा प्रदुद्राव सुवेगवान्।
मया बाणेन निर्विद्धो रुधिरेण प्रसेचितः१०६।
अजगंधस्तदा भूतो नाम देवैस्तु मे कृतम्।
अजगंधस्त्वमेवेति दास्ये चान्यत्तु भोजनम्१०७।
एतासां शृणु मे देवि भक्ष्यमेकं मयोचितम्।
कथ्यमानं वरारोहे कालरात्रि महाप्रभे१०८।
या स्त्री सगर्भा देवेशि अन्यस्त्रीपरिधानकम्।
परिधत्ते स्पृशेद्वापि पुरुषस्य विशेषतः१०९।
सभागोस्तु वरारोहे कासांचित्पृथिवीतले।
अप्येकवर्षं बालं तु गृहीत्वा तत्र वै बलात्११०।
भुक्त्वा तिष्ठंतु सुप्रीता अपि वर्षशतान्बहून्।
अन्याः सूतिगृहे च्छिद्रं गृह्णीयुस्तु ह्यपूजिताः१११।
निवसिष्यंति देवेशि तथा वै जातहारिकाः।
गृहे क्षेत्रे तटाके च वाप्युद्यानेषु चैव हि११२।
अत्येषु च रुदंत्यो या स्त्रियस्तिष्ठंति नित्यशः।
तासां शरीरगाश्चान्याः काश्चित्तृप्तिमवाप्नुयुः११३।
शिवदूत्य उवाच।
कुत्सितं भवता दत्तं प्रजानां परिपीडनम्।
न च त्वं बुध्यसे दातुं शंकररस्य विशेषतः११४।
त्रपाकरं यद्भवति प्रजानां परिपीडकम्।
न तु तद्युज्यते दातुं तासां भक्ष्यं तु शंकर११५।
रुद्र उवाच।
अवंत्यां तु यदा स्कंदो मया पूर्वं तु भद्रितः।
चूडाकर्मणि वृत्ते तु कुमारस्य तदा शुभे११६।
आगत्य मातरो भक्ष्यमपूर्वं तु प्रचक्रिरे।
देवलोकाद्देवगणा मातॄणां भोक्तुमागताः११७।
तासां गृहे यदा पूर्वं ब्रह्माद्यास्सुरसत्तमाः।
गंधर्वाप्सरसश्चैव यक्षास्सर्वे च गुह्यकाः११८।
मेर्वादयः शिखरिणो गंगाद्याः सरितस्तथा।
सर्वे नागा गजास्सिद्धाः पक्षिणोऽसुरसूदनाः११९।
डाकिन्यः सह वेतालैर्वृताः सर्वैर्ग्रहैस्तदा।
किमुक्तेनामुना देवि यत्सृष्टं ब्रह्मणा त्विह१२०।
तत्सर्वं भोजनं दत्तं स्वेच्छान्नं च नभोगतं।
शिवदूत्युवाच।
आसां कृतं देहि भोज्यं दुर्लभं यत्त्रिविष्टपे१२१।
स्नेहाक्तं सगुडं हृद्यं सुपक्वं परिकल्पितम्।
क्वचिन्नान्येन यद्भुक्तमपूर्वं परमेश्वर१२२।
एवमुक्तस्तदा सोपि देवदेवो महेश्वरः।
भक्ष्यार्थं तास्तदा प्राह पार्वत्याश्चैव सन्निधौ१२३।
मया वै साधितं चान्नं प्रकारैर्बहुभिः कृतं।
तत्सर्वं च व्ययं यातं न चान्यदिह दृश्यते१२४।
भवतीष्वागतास्वद्य किं मया देयमुच्यताम्।
अपूर्वं भवतीनां यन्मया देयं विशेषतः१२५।
अस्वादितं न चान्येन भक्ष्यार्थे च ददाम्यहम्।
अधोभागे च मे नाभेर्वर्तुलौ फलसन्निभौ१२६।
भक्षयध्वं हि सहिता लंबौ मे वृषणाविमौ।
अनेन चापि भोज्येन परा तृप्तिर्भविष्यति१२७।
महाप्रसादं ता लब्ध्वा देव्यस्सर्वास्तदा शिवम्।
प्रणिपत्य स्थिताश्शर्व इदं वचनमब्रवीत्१२८।
करिष्यंति शुभाचारान्विना हास्येन ये नराः।
तेषां धनं पशुः पुत्रा दाराश्चैव गृहादिकम्१२९।
भविष्यति मया दत्तं यच्चान्यन्मनसि स्थितम्।
हास्येन दीर्घदशना दरिद्राश्च भवंति ते१३०।
तस्मान्न निंदा हास्यं च कर्तव्यं हि विजानता।
भवत्यो मातरः ख्याता ह्यस्मिन्लोके भविष्यथ१३१।
उपहारे नरा ये तु करिष्यंति च कौमुदीम्।
चणकान्पूरिकाश्चैव वृषणैः सह पूपकान्१३२।
बंधुभिः स्वजनैश्चैव तेषां वंशो न छिद्यते।
अपुत्रो लभते पुत्रं धनार्थी लभते धनम्१३३।
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः।
हंसयुक्तेन यानेन ब्रह्म लोके महीयते१३४।
शिवदूति मयाप्येवं तासां दत्तं च भक्षणम्।
त्रपाकरं किं भवत्या उक्तोहं तन्निशामय१३५।
जयस्व देवि चामुंडे जय भूतापहारिणि।
जय सर्वगते देवि कालरात्रि नमोस्तु ते१३६।
विश्वमूर्तियुते शुद्धे विरूपाक्षि त्रिलोचने।
भीमरूपे शिवे विद्ये महामाये महोदरे१३७।
मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये।
महामारि विचित्रांगि गीतनृत्यप्रिये शुभे१३८।
विकरालि महाकालि कालिके पापहारिणि।
पाशहस्ते दंडहस्ते भीमहस्ते भयानके१३९।
चामुंडे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले।
शिवयानप्रिये देवि प्रेतासनगते शिवे१४०।
भीमाक्षि भीषणे देवि सर्वभूतभयंकरि।
करालि विकराले च महाकालि करालिनि१४१।
कालिकरालविक्रांते कालरात्रि नमोस्तु ते।
सर्वशस्त्रभृते देवि नमो देवनमस्कृते१४२।
एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना।
तुतोष परमा देवी वाक्यं चैवमुवाच ह१४३।
वरं वृणीष्व देवेश यत्ते मनसि वर्तते।
रुद्र उवाच।
स्तोत्रेणानेन ये देवि स्तोष्यंति त्त्वां वरानने१४४।
तेषां त्वं वरदा देवि भव सर्वगता सती।
इमं पर्वतमारुह्य यः पूजयति भक्तितः१४५।
स पुत्रपौत्रपशुमान्समृद्धिमुपगच्छतु।
यश्चैवं शृणुयाद्भक्त्या स्तवं देवि समुद्भवं१४६।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु।
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः१४७।
अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम।
संवत्सरेण लभतां राज्यं निष्कंटकं पुनः१४८।
एषा ज्ञानान्विता शक्तिः शिवदूतीति चोच्यते।
य एवं शृणुयान्नित्यं भक्त्या परमया नृप१४९।
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात्।
यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले1.31.१५०।
सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते।
यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव१५१।
न तत्राग्निभयं घोरं सर्वचोरादिसंभवं।
यश्चेदं पूजयेद्भक्त्या पुस्तकेपि स्थितं बुधाः१५२।
तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरं।
जायंते बहवः पुत्रा धनं धान्यं वरस्त्रियः१५३।
रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवंति च।
यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत्१५४।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे शिवदूतीचरितं नाम एकत्रिंशोऽध्यायः३१।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 32
भीष्म उवाच।
केन कर्मविपाकेन प्रेतत्वं जायते पुनः।
केन वात्र प्रमुच्येत तन्मे ब्रूहि महामते१।
पुलस्त्य उवाच।
अहं ते कथयिष्यामि सर्वमेतदशेषतः।
यच्छ्रुत्वा न पुनर्मोहं यास्यते नृपसत्तम२।
येन जायेत प्रेतत्वं येन चास्मात्प्रमुच्यते।
प्राप्नोति नरकं घोरं दुस्तरं त्रिदशैरपि३।
सतां संभाषणे चैव पुण्यतीर्थानुकीर्त्तने।
मानवास्तु प्रमुच्यंत आपन्नाः प्रेतयोनिषु४।
श्रूयते हि पुरा भीष्म ब्राह्मणः संशितव्रतः।
पृथुस्सर्वत्र विख्यातः संतोषे च सदा स्थितः५।
स्वाध्याययुक्तो गेहेषु नित्ययोगश्च योगवित्।
जपयज्ञविधानेन युक्तं कालं क्षिपेच्च सः६।
युक्तः क्षमादयाभ्यां च क्षांत्यायुक्तश्च तत्त्ववित्।
अहिंसाहितचित्तश्च मार्द्दवे च तथास्थितः७।
ब्रह्मचर्यसमायुक्तस्तपोयोगसमन्वितः।
युक्तः स पितृकार्येषु युक्तो वैदिककर्मसु८।
परलोकभयेयुक्तो युक्तस्सत्यवचः प्रति।
युक्तो मधुरवाक्येषु युक्तश्चातिथिपूजने९।
इष्टापूर्तसमायुक्तो युक्तो द्वंद्वविवर्जने।
स्वकर्मविधिसंयुक्तो युक्तः स्वाध्यायकर्मसु१०।
एवं कर्माणि कुर्वंतस्संसारविजिगीषया।
बहून्यब्दान्यतीतानि ब्राह्मणस्य गृहे सतः११।
तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति।
पुण्यैस्तीर्थजलैरेतत्क्लिन्नं कुर्यां कलेवरम्१२।
प्रयतः पुष्करे स्नात्वा भास्करस्योदयं प्रति।
कृतजप्यनमस्कारोप्यद्ध्वानं प्रत्यपद्यत१३।
अग्रतः पंचपुरुषानपश्यत्सोति भीषणान्।
वने कंटकवृक्षाढ्ये निर्जने पक्षिवर्जिते१४।
तान्दृष्ट्वा विकृताकारान्सुघोरान्पापदर्शनान्।
ईषत्संत्रस्तहृदयो व्यतिष्ठन्निश्चलाकृतिः१५।
अवलंब्य ततो धैर्य्यं भयमुत्सृज्य दूरतः।
पप्रच्छ मधुराभाषी के यूयं विकृताः कुतः१६।
किं वा चैव कृतं कर्म ये नप्राप्ताश्च वैकृतम्।
कथमेवंविधाः सर्वे प्रस्थिताः कुत्र चाध्वनि१७।
प्रेता ऊचुः।
क्षुत्पिपासान्विता नित्यं महादुःखसमावृताः।
हृतप्रज्ञा वयं सर्वे नष्टसञ्ज्ञाविचेतसः१८।
न जानीमो दिशं चापि प्रदिशं चापि कां च न।
नांतरिक्षं महीं चापि न जानीमो दिवं तथा१९।
यदेतद्दुःखमाख्यातमेतदेव सुखं भवेत्।
प्रभातमिदमाभाति भास्करोदयदर्शनात्२०।
अहं पर्युषितो नाम सूचीमुखस्तथाऽपरः।
शीघ्रगो रोहकश्चैव पंचमो लेखकस्तथा२१।
ब्राह्मण उवाच।
प्रेतानां कर्मजातानां नाम्ना वै संभवः कुतः।
किं तत्कारणमुद्दिश्य यतो यूयं सनामकाः२२।
प्रेता ऊचुः।
अहं स्वादु सदा भुंजे दद्यां पर्युषितं द्विजे।
एतत्कारणमासाद्य नाम पर्युषितो मम२३।
सूचिता बहवोऽनेन विप्राश्चान्नाद्यकांक्षिणः।
एतत्कारणमुद्दिश्य सूचीमुखाभिधो मतः२४।
शीघ्रं गतोऽस्मि विप्रेण याचितः क्षुधितेन च।
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम२५।
गृहोपरि सदा स्वादु भुंक्ते द्विजभयेन हि।
उद्विग्नमानसस्तत्र तेनासौ रोहकः स्मृतः२६।
मौने चापि स्थितो नित्यं याचितो विलिखन्महीम्।
अस्माकमपि पापिष्ठो लेखको नाम नामतः२७।
कृच्छ्रेण लेखको याति रोहकस्तु अवाक्शिराः।
शीघ्रगः पंगुतां प्राप्तः सूची सूचीमुखोऽभवत्२८।
पर्युषितो लम्बग्रीवो लंबोदर उदाहृतः।
बृहद्वृषणलंबोष्ठः पापादस्मादजायत२९।
एतत्ते सर्वमाख्यातमात्मवृत्तं सहेतुकम्।
पृच्छस्व यदि ते श्रद्धा पृष्टाश्च कथयामहे३०।
ब्राह्मण उवाच।
ये जीवा भुवि तिष्ठंति सर्वेप्याहारमूलकाः।
युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः३१।
प्रेता ऊचुः।
शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम्।
यच्छ्रुत्वा निंदसे विप्र भूयोभूयश्च नित्यशः३२।
श्लेष्ममूत्रपुरीषेण योषिदङ्गमलेन च।
गृहाणि त्यक्तशौचानि प्रेता भुंजंति तत्र वै३३।
स्त्रीभिर्दग्धानि कीर्णानि प्रकीर्णोच्छिष्टकानि च।
मलेनापि जुगुप्स्यानि प्रेता भुंजंति तत्र वै३४।
चित्तलज्जाविहीनानि होमहीनानि यानि च।
व्रतैश्चैव विहीनानि प्रेता भुंजंति तत्र वै३५।
गुरवो नैव पूज्यंते स्त्रीजितानि गृहाणि च।
क्रोधलोभगृहीतानि प्रेता भुंजंति तत्र वै३६।
त्रपा मे जायते तात कथ्यमाने स्वभोजने।
अस्मात्परतरं चान्यन्न वक्तुमपि शक्यते३७।
निवृत्तिं प्रेतभावस्य पृच्छामस्त्वां दृढव्रत।
यथा न भवति प्रेतस्तन्मे वद तपोधन३८।
ब्राह्मण उवाच।
एकरात्र द्विरात्रादि कृच्छ्रचांद्रायणदिभिः।
व्रतैरन्यैः कृतैर्नित्यं न प्रेतो जायते नरः३९।
त्रीनग्नीन्पञ्च चैकं वा योऽहन्यहनि सेवते।
स वै भूतदयापन्नो न प्रेतो जायते नरः४०।
तुल्यो मानेऽपमाने च तुल्यः कांचनलोष्टयोः।
तुल्यः शत्रौ च मित्रे च न प्रेतो जायते नरः४१।
देवताऽतिथिपूजासु गुरुपूजासु नित्यशः।
रतो वै पितृपूजासु न प्रेतो जायते नरः४२।
शुक्लांगारकसंयुक्ता चतुर्थी जायते यदा।
श्रद्धया श्राद्धकृत्तस्यां न प्रेतो जायते नरः४३।
जितक्रोधविमर्शोयस्तृष्णासंगविवर्जितः।
क्षमावान्दानशीलश्च न प्रेतो जायते नरः४४।
गोब्राह्मणांश्च तीर्थानि पर्वतांश्च नदीस्तथा।
देवांश्चैव तु यो वन्द्यान्न प्रेतो जायते नरः४५।
प्रेता ऊचुः।
श्रुताश्च विविधा धर्माः पृच्छामो दुःखिता मुने।
येन वै जायते प्रेतस्तन्नो वद महामते४६।
ब्राह्मण उवाच।
शूद्रान्नेन तु भुक्तेन ब्राह्मणेन विशेषतः।
म्रियते ह्युदरस्थेन स वै प्रेतो भवेन्नरः४७।
मातरं पितरं भ्रातॄन्भगिनीं सुतमेव च।
अदृष्टदोषांस्त्यजति स प्रेतो जायते नरः४८।
अयाज्ययाजनाच्चैव याज्यस्य च विवर्जनात्।
रतो वै शूद्रसेवासु स प्रेतो जायते नरः४९।
न्यासापहर्ता मित्रध्रुक्शूद्रपाकरतः सदा।
विस्रंभघाती कूटस्थः स प्रेतो जायते नरः1.32.५०।
ब्रह्महा गोघ्नकः स्तेनः सुरापो गुरुतल्पगः।
भूमिकन्यापहर्त्ता च स प्रेतो जायते नरः५१।
सामान्यां दक्षिणां लब्ध्वा एक एव निगूहति।
नास्तिकीभावनिरतः स वै प्रेतोभिजायते५२।
एवं ब्रुवाणे विप्रेन्द्र आकाशे दुंदुभिस्वनः।
पुष्पवृष्टिः पपातोर्व्यां देवैर्मुक्ता सहस्रशः५३।
प्रेतानां तु विमानानि आगतानि समंततः।
अस्य विप्रस्य संभाषात्पुण्यसंकीर्तनेन च५४।
तस्मात्सर्वप्रयत्नेन सतां संभाषणं कुरु।
यदि ते श्रेयसा कार्यं गंगासुत अतंद्रितः५५।
तिलकं सर्वधर्मस्य पञ्चप्रेतकथामिमाम्।
पठेल्लक्षं योऽस्य कुले न प्रेतो जायते नरः५६।
शृणोति वाप्यभीक्ष्णं वा श्रद्धया परयान्वितः।
भक्त्या समन्वितो वापि न प्रेतो जायते नरः५७।
भीष्म उवाच।
अंतरिक्षे किमर्थं तु पुष्करं परिकीर्त्यते।
मुनिभिर्धर्मशीलैश्च लभ्यते तत्कथं त्विह५८।
येन तल्लभ्यते लब्धं लब्धं चैव फलप्रदम्।
तन्मे सर्वं समाचक्ष्व कौतुकादेव पृच्छतः५९।
पुलस्त्य उवाच।
ऋषिकोटिस्समायाता दक्षिणापथवासिनी।
स्नानार्थं पुष्करे राजन्पुष्करं च वियद्गतम्६०।
मत्वाते मुनयः सर्वे प्राणायामपरायणाः।
ध्यायमानाः परं ब्रह्म स्थिता द्वादशवत्सरान्६१।
ब्रह्मा महर्षयस्तत्र देवास्सेन्द्रास्समागताः।
ऋषयोंतर्हिताः प्रोचुर्नियमांस्ते सुदुष्करान्६२।
आकारणं पुष्करस्य मंत्रेण क्रियतां द्विजाः।
आपोहिष्ठेति तिसृभिर्ऋग्भिः सांनिध्यमेष्यति६३।
अघमर्षणजप्येन भवेद्वै फलदायकम्।
विप्रैर्वाक्यावसाने तु सर्वैस्तैस्तु तथा कृतम्६४।
कृतेन पुण्यतां प्राप्ता ये निदेशाच्च ते द्विजाः।
गर्हिता धर्मशास्त्रेषु ते विप्रा दक्षिणोत्तराः६५।
ये चान्ये पार्वतीयाश्च श्राद्धेनार्हंति केतनम्।
एतस्मात्कारणाद्राजन्वियत्येवं समास्थितम्६६।
कार्तिक्यां पुष्करं स्नानात्पूततामभियच्छति।
ब्रह्मणा सहितं राजन्सर्वेषां पुण्यदायकम्६७।
तत्रागतास्तु ये वर्णाः सर्वे ते पुण्यभाजनाः।
द्विजैस्तुल्या न संदेहो विना मंत्रेण ते नृप६८।
आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित्।
महती सा तिथिर्ज्ञेया स्नाने दाने तथोत्तमा६९।
यदा याम्यं तु भवति ऋक्षं तस्यां तिथौ क्वचित्।
तिथिः सापि महापुण्या यतिभिः परिकीर्तिता७०।
प्राजापत्यं यदा ऋक्षं तिथौ तस्यां नराधिप।
सा महाकार्तिकी प्रोक्ता देवानामपि दुर्लभा७१।
यदा चार्के गुरौ सोमे वारेष्वेतेषु वै त्रिषु।
त्रीण्येतानि च ऋक्षाणि स्वयं प्रोक्तानि ब्रह्मणा७२।
अत्राश्वमेधिकं पुण्यं स्नातस्य भवति ध्रुवम्।
दानमक्षयतां याति पितॄणां तर्पणं तथा७३।
विशाखासु यदा भानुः कृत्तिकासु च चंद्रमाः।
स योगः पुष्करो नाम पुष्करेष्वतिदुर्लभः७४।
अंतरिक्षावतीर्णे तु तीर्थे पैतामहे शुभे।
स्नानं येऽत्र करिष्यंति तेषां लोका महोदयाः७५।
न स्पृहांतेन्यपुण्यस्य कृतस्याप्यकृतस्य च।
करिष्यंति महाराज सत्यमेतदुदाहृतम्७६।
तीर्थानां प्रवरं तीर्थं पृथिव्यामिह पठ्यते।
नास्मात्परं पुण्यतीर्थं लोकेषु नृप पठ्यते७७।
कार्तिक्यां तु विशेषेण पुण्या पापहरा शुभा।
उदुंबरवनात्तस्मादागता च सरस्वती७८।
तया तत्पूरितं तीर्थं पुष्करं मुनिसेवितम्।
दक्षिणे शिखरं भाति पर्वतस्याविदूरतः७९।
नीलांजनचयप्रख्यं वर्णतो नीलशाद्वलम्।
तया तच्छिखरं तस्य खस्थितं पुष्करं यथा८०।
प्रावृट्काले वियत्पूर्णं घनवृंदमिवोच्छ्रितम्।
कदंबपुष्पगंधाढ्यं कुटजार्जुनभूषितम्८१।
रथमार्गमिवारोढुं रवेस्तच्छिखरं स्थितम्।
वृत्तैस्सपुलकैस्स्निग्धैः स्त्रीणामिव पयोधरैः८२।
श्रीफलैः शिखरं भाति समन्तात्सुमनोहरैः।
गुंजद्भिः षट्पदकुलैः समंतादुपशोभितम्८३।
कोकिलारावरुचिरं शिखि केका रवाकुलम्।
शृंगे मनोहरे तस्मिन्नुद्गतासु मनोरमा८४।
पुण्यापुण्यजलोपेता नदीयं ब्रह्मणस्सुता।
वंशस्तंबात्सुविपुला प्रवृत्ता चोत्तरामुखी८५।
गत्वा ततो नातिदूरात्पुनर्याति पराङ्मुखी।
ततः प्रभृति सा देवी प्रसन्ना प्रकटास्थिता८६।
अन्तर्धानं परित्यज्य प्राणिनामनुकम्पया।
कनका सुप्रभा चैव नन्दा प्राची सरस्वती८७।
पंचस्रोताः पुष्करेषु ब्रह्मणा परिभाषिता।
तस्यास्तीरे सुरम्याणि तीर्थान्यायतनानि च८८।
संसेवितानि मुनिभिः सिद्धैश्चापि समंततः।
तेषु सर्वेषु भविता धर्महेतुः सरस्वती८९।
हाटकक्षितिगौरीणां तत्तीर्थेषु महोदयम्।
दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलम्९०।
धान्यप्रदानं प्रवरं वदंति तिलप्रदानं च तथा मुनींद्राः ।
यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतु प्रवरं प्रदिष्टम्९१।
प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तेषु कुर्यात्प्रमदा पुमान्वा।
तीर्थेपि संयोज्य मनोपि चेत्थं भुंक्ते फलं ब्रह्मगृहे यथेष्टम्९२।
तस्योपकंठे म्रियते हि यैस्तु कर्मक्षयात्स्थावरजंगमैश्च।
ते चापि सर्वे सकलं प्रसह्य लभंति यज्ञस्य फलं दुरापम्९३।
ततस्तु सा धर्मफलारणी च जन्मादिदुःखार्दितचेतसां तु।
सर्वात्मना चारुफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी९४।
तत्र ये सलिलं पूतं पिबंति सततं नराः।
न ते मनुष्या देवास्ते जगत्यामिह संस्थिताः९५।
यज्ञैर्दानैस्तपोभिश्च यत्फलं प्राप्यते द्विजैः।
तदत्र स्नानमात्रेण शूद्रैरपि स्वभावजैः९६।
दर्शनात्पुष्करस्यापि महापातकिनोपि ये।
तेपि तत्पापनिर्मुक्ताः स्वर्गं यांति तनुक्षये९७।
तत्रोपवासी यज्ञस्य पुंडरीकस्य यत्फलम्।
तत्प्राप्नोति नरः क्षिप्रमल्पायासेन पुष्करे९८।
माघमासे तिलान्यस्तु प्रयच्छति च स द्द्विजे।
यथाशक्ति च भक्त्या च स विष्णुभवने वसेत्९९।
तत्रोपवासं स्नानं च पंचगव्याशनं तथा।
यः करोति नरः सोपि देहांते स्वर्गमाप्नुयात्1.32.१००।
वसंति तत्समीपस्था येपि तस्करजातयः।
तेपि तस्यानुभावेन स्वर्यांति च न संशयः१०१।
ये पुनः शूद्रवृत्तिस्थास्त्रिरात्रोपोषिता नराः।
प्रयच्छंति द्विजेष्वर्थं ब्रह्मशक्तिसमन्विताः१०२।
ते मृता यानमारूढाः पद्मासनचतुर्भुजाः।
ब्रह्मणा सह सायुज्यं प्राप्नुवंत्यपुनर्भवम्१०३।
गंगोद्भेदं यत्र गंगा संप्राप्ता सरितां वराम्।
सरस्वतीं द्रष्टुकामा सांत्वार्थे प्रोद्गतांऽबरात्१०४।
तत्र गत्वा पयःपूतं सुरसिद्धनिषेवितम्।
सारस्वतं च विमलं विद्याधरगणार्चितम्१०५।
पीतमेकांजलिमितं येनाप्तं तेन तत्परं।
अवलोक्य दिशं पूर्वामाह गंगे सखि त्वया१०६।
एकाकिनी वियुक्तास्मि क्व यास्येहमबांधवा।
तां विज्ञाय ततो गंगा रुदंतीं शोककर्शिताम्१०७।
पूर्वदेशात्समायाता द्रष्टुं तां दीनमानसाम्।
दृष्ट्वा च तां महाभागां परिष्वज्य तु पीडिताम्१०८।
नेत्रे प्रमृज्य चैतस्याः प्राह गंगा वचस्तदा।
मा रोदीस्त्वं महाभागे दुःष्करं ते कृतं सखि१०९।
देवकार्यं यदन्येन कर्तुं शक्येत नैव हि।
एतस्मात्ते महाभागे द्रष्टुं देवाः समागताः११०।
एषां च क्रियतां पूजा वाङ्मनः काय कर्मणा।
सरस्वती सुरेंद्राणां कृत्त्वा पूजा विधिक्रमम्१११।
क्रमेण ब्रह्मजा पश्चात्संगता तु सखीजनम्।
ज्येष्ठमध्यमयोर्मध्ये संगमो लोकविश्रुतः११२।
पश्चान्मुखी ब्रह्मसुता जाह्नवी तु उदङ्मुखी।
ततस्ते विबुधाः सर्वे पुष्करं ये समागताः११३।
विदित्वा दुष्करं कर्म तस्या स्तुतिमकारयन्।
त्वं बुद्धिस्त्वं मतिर्लक्ष्मीस्त्वं विद्या त्वं गतिः परा११४।
त्वं श्रद्धा त्त्वं परा निष्ठा बुद्धिर्मेधा रतिः क्षमा।
त्वं सिद्धिस्त्वं स्वधा स्वाहा त्वं पवित्रं मतं महत्११५।
संध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती।
यज्ञ विद्या महाविद्या गुह्यविद्या च शोभना११६।
आन्वीक्षिकी तु या वार्ता दंडनीतिश्च कथ्यते।
नमोस्तु ते पुण्यजले नमः सागरगामिनि११७।
नमस्ते पापनिर्मोके नमो देवि जगत्प्रिये।
एवं स्तुता हि सा देवी दिव्या स्वार्थपरायणैः११८।
एवं सा प्राङ्मुखी तत्र स्थिता देवी सरस्वती।
सर्वतीर्थमयी देवी सर्वामरसमन्विता११९।
प्राची सेति बुधैर्ज्ञेया ब्रह्मणो वचनं तथा।
तत्र शुद्धावटंनाम तीर्थं पैतामहं स्मृतम्१२०।
दर्शनेनापि वै तस्य महापातकिनोपि ये।
भोगिभोगान्समश्नंति विशुद्धा ब्रह्मणोंतिके१२१।
प्रायोपवेशं ये तत्र प्रकुर्वंति नरोत्तमाः।
ते मृता ब्रह्मयानेन दिवं यांत्यकुतोभयाः१२२।
तत्राल्पमपि यैर्दानं दत्तं ब्रह्मविदात्मनाम्।
जन्मांतरशतं तेषां तैर्दत्तं भावितात्मनाम्१२३।
खण्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः।
ते ब्रह्मलोकमासाद्य मोदन्ते सुखिनस्सदा१२४।
योऽत्र पूजाजपोहोमः कृतो भवति देहिनाम्।
अनन्तं तत्फलं सर्वं ब्रह्मभक्तिरतात्मनाम्१२५।
तत्र दीपप्रदानेन ज्ञानचक्षुरतींद्रियः।
प्राप्नोति धूपदानेन स्थानं ब्रह्मनिषेवितम्१२६।
अथ किं बहुनोक्तेन संगमे यत्प्रदीयते।
तदनंतफलं प्रोक्तं जीवतो वा मृतस्य च१२७।
स्नानाज्जपात्तथा होमादनंतफलसाधकम्।
रामेणागत्य वै तत्र पिंडं दशरथस्य च१२८।
दत्तं श्राद्धं तत्र तेन मार्कंडेयेन दर्शिते।
तत्र वापी चतुःकोणा तत्र पिंडप्रदा नराः१२९।
हंसयुक्तेन यानेन सर्वे यांति त्रिविष्टपम्।
तस्यां वाप्यां तु वै ब्रह्मा पितृमेधं चकार ह१३०।
यज्ञं यज्ञविदां श्रेष्ठः समाप्तवरदक्षिणम्।
वसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः१३१।
आदित्याश्च ततस्तेषां विहिताः प्रपितामहाः।
त्रिविधा अपि आहूय पुनरुक्ता विरिंचिना१३२।
भवद्भिः पिंडदानाद्यं ग्राह्यमत्र स्थितैस्सदा।
यत्कृतं पितृकार्यं च तदनंतफलं भवेत्१३३।
वृत्यर्थं पितरस्तेषां तुष्टाश्चैव पितामहाः।
लभंते तर्पणात्तृप्तिं पिंडदानात्त्रिविष्टपम्१३४।
तस्मात्सर्वं परित्यज्य प्राचीने पिंडदो भवेत्।
दत्वा पुत्रः प्रयत्नेन पितॄन्सर्वांश्च तर्पयेत्१३५।
प्राचीनेश्वरदेवस्य पुरोभूतं प्रतिष्ठितम्।
आदितीर्थं तदित्युक्तं दर्शनादपि मुक्तिदम्१३६।
स्पृष्ट्वा तु सलिलं तत्र मुच्यते जन्मबंधनात्।
अवगाहनाद्ब्रह्मणोऽसौ भवत्यनुचरः सदा१३७।
आदितीर्थे नरः स्नात्वा यः प्रदद्यात्समाधिना।
अन्नमल्पमपि प्रायः प्रायशस्स्वर्गमाप्नुयात्१३८।
यस्तत्र ब्रह्मभक्तानां नरः स्नात्वा ददेद्धनम्।
कृसेरणापि हेम्ना च स स्वर्गे मोदते सुखी१३९।
प्राचीसरस्वती तत्र नरैः किं मृग्यते परम्।
तस्यां स्नानात्फलं तृप्त्यै तपोयज्ञादिलक्षणम्१४०।
ये पिबंति नराः पुण्यां प्राचीं देवीं सरस्वतीम्।
न ते नराः सुरा ज्ञेया मार्कंडेयर्षिरब्रवीत्१४१।
सरस्वती नदीं प्राप्य न स्नाने नियमः क्वचित्।
भुक्ते वा न च वा भुक्ते दिवा वा यदि वा निशि१४२।
तत्तीर्थं सर्वत्तीर्थानां प्राचीनं प्रवरं स्मृतत्।
पापघ्नं पुण्यजननं प्राणिनां परिकीर्तितम्१४३।
ये पुनर्भावितात्मानस्तत्र स्नात्वा जनार्दनम्।
पूजयन्ति यथाशक्ति ते प्रयांति त्रिविष्टपम्१४४।
देवानां प्रवरो विष्णुस्तेन यत्र सरस्वती।
सेविता तत्परं तीर्थं क्षितौ ब्रह्मसुतोऽब्रवीत्१४५।
ततस्तस्मान्महातीर्थं मन्यमाना महोदयम्।
मंदाकिनीमुदीक्षंती स्थिता तत्र सरस्वती१४६।
तत्तीर्थं सर्वतीर्थानां परं स्वायंभुवोऽब्रवीत्।
मंदाकिन्यासमं यत्र प्राप्य पुण्यसमागमम्१४७।
तत्रस्थाने स्थिता देवैः स्तुता देवी सरस्वती।
मत्वा चैकाकिनीं तां तु दीनास्यां दीनमानसां१४८।
सखीं तदाऽसृजद्ब्रह्मा रूपिणीं विमलेक्षणाम्।
हरिणीं हरिरप्याशु जज्ञे कमललोचनाम्१४९।
वज्रिणीमपि देवेशो वज्रपाणिर्विसृष्टवान्।
सुकुरंगरुचिं देवो नीलकंठो वृषध्वजः1.32.१५०।
सखीं संजनयामास सरस्वत्यास्त्रिलोचनः।
विलोक्यमाना सा राजन्सखीभिः सुरसुंदरी१५१।
प्रहृष्टा यातुमारब्धा देवादेशान्महानदी।
ततः सखीभिः सार्द्धं सा प्राचीनागंतुमुद्यता१५२।
सरस्वती समस्तानां तासां श्रेष्ठतमा स्मृता।
प्राचीसरस्वतीतोयं ये पिबंति मृगा भुवि१५३।
तेपि स्वर्गं गमिष्यंति यज्ञैर्द्विजवरा यथा।
चिंतामणिरिवात्रैषा प्राची ज्ञेया सरस्वती१५४।
तथा कामफलस्येयं हेतुभूता महानदी।
दक्षिणां दिशमालोक्य पुनः पश्चान्मुखी गता१५५।
उक्ता तया तथा गंगा दिशं प्राचीं व्रजस्व ह।
विस्मर्तव्या न चाहं ते व्रज देवि यथागतम्१५६।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तीर्थावतारोनाम द्वात्रिंशोऽध्यायः३२।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 33
भीष्म उवाच।
मार्कंडेयेन वै रामः कथमत्र प्रबोधितः।
कथं समागमो भूतः कस्मिन्काले कदा मुने१।
मार्कंडेयः कस्य सुतः कथं जातो महातपाः।
नाम्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने२।
पुलस्त्य उवाच।
अथ ते संप्रवक्ष्यामि मार्कंडेयोद्भवं पुनः।
पुराकल्पे मुनिः पूर्वं मृकंडुर्नाम विश्रुतः३।
भृगोः पुत्रो महाभागः सभार्यस्तप्तवांस्तपः।
तस्य पुत्रस्तदा जातो वसतस्तु वनांतरे४।
सपंचवार्षिको भूतो बाल एव गुणाधिकः।
ज्ञानिना स तदा दृष्टो भ्रमन्बालस्तदांगणे५।
स्थित्वा स सुचिरं कालं भाव्यर्थं प्रत्यबुध्यत।
तस्य पित्रा स वै पृष्टः कियदायुः सुतस्य मे६।
संख्यायाचक्ष्व वर्षाणि तस्याल्पान्यधिकानि वा।
मृकंडुनैवमुक्तस्तु स ज्ञानी वाक्यमब्रवीत्७।
षण्मासमायुः पुत्रस्य धात्रा सृष्टं मुनीश्वर।
नैव शोकस्त्वया कार्यः सत्यमेतदुदाहृतम्८।
स तच्छ्रुत्वा वचो भीष्म ज्ञानिना यदुदाहृतम्।
अथोपनयनं चक्रे बालकस्य पिता तदा९।
आह चैनं पितापुत्रमृषींस्त्वमभिवादय।
एवमुक्तः स वै पित्रा प्रहृष्टश्चाभिवादने१०।
न वर्णा वर्णतां वेत्ति सर्ववर्णाभिवादनः।
पंचमासास्त्वतिक्रांता दिवसाः पंचविंशतिः११।
मार्गेणाथ समायाता ऋषयस्तत्र सप्त वै।
बालेन तेन ते दृष्टाः सर्वे चाप्यभिवादिताः१२।
आयुष्मान्भव तैरुक्तः स बालो दंडमेखली।
उक्त्वैवं ते पुनर्बालमपश्यन्क्षीणजीवितम्१३।
दिनानि पंच तस्यायुर्ज्ञात्वा भीताश्च ते नृप।
तं गृहीत्वा बालकं च गतास्ते ब्रह्मणोंतिकम्१४।
प्रतिमुच्य च तं राजन्प्रणिपेतुः पितामहम्।
अयमावेदितस्तैस्तु तेन ब्रह्माभिवादितः१५।
चिरायुर्ब्रह्मणा बालः प्रोक्तः स ऋषिसन्निधौ।
ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात्१६।
पितामह ऋषीन्दृष्ट्वा प्रोवाच विस्मयान्वितः।
कार्येण येन चायातः कोयं बालो निवेद्यताम्१७।
ततस्त ऋषयो राजन्सर्वं तस्मै न्यवेदयन्।
पुत्रो मृकंडोः क्षीणायुः सायुषं कुरु बालकम्१८।
अल्पायुषस्त्वस्य मुनिर्बध्वेमां चापि मेखलाम्।
यज्ञोपवीतं दंडं च दत्वा चैनमबोधयत्१९।
यं कंचित्पश्यसे बाल भ्रमंतं भूतले जनम्।
तस्याभिवादः कर्तव्य एवमाह पिता वचः२०।
अभिवादनशीलोयं क्षितौ दृष्टः परिभ्रमन्।
तीर्थयात्राप्रसंगेन दैवयोगात्पितामह२१।
चिरायुर्भव पुत्रेति प्रोक्तोसौ तत्र बालकः।
कथं वचो भवेत्सत्यमस्माकं भवता सह२२।
एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः।
ऋतवाक्यादियं भूमिः संस्थिता सर्वतोभया२३।
ब्रह्मोवाच।
मत्समश्चायुषा बालो मार्कंडेयो भविष्यति।
कल्पस्यादौ तथाचांते मतो मे मुनिसत्तमः२४।
एवं ते मुनयो बालं ब्रह्मलोके पितामहात्।
संसाध्य प्रेषयामासुर्भूयोप्येनं धरातलम्२५।
तीर्थयात्रां गता विप्रा मार्कंडेयो निजं गृहम्।
जगाम तेषु यातेषु पितरं स्वमथाब्रवीत्२६।
ब्रह्मलोकमहं नीतो मुनिभिर्ब्रह्मवादिभिः।
दीर्घायुश्च कृतश्चास्मि वरान्दत्वा विसर्जितः२७।
एतदन्यच्च मे दत्तं गतं चिंताकरं तव।
कल्पस्यादौ तथा चांते भविष्ये समनंतरे२८।
लोककर्तुर्ब्रह्मणोहं प्रसादात्तस्य वै पितः।
पुष्करं वै गमिष्यामि तपस्तप्तुं समुद्यतः२९।
तत्राहं देवदेवेशमुपासिष्ये पितामहम्।
सर्वकामावाप्तिकरं सर्वारातिनिबर्हणम्३०।
सर्वसौख्यप्रदं देवमिन्द्रादीनां परायणम्।
ब्रह्माणं तोषयिष्यामि सर्वलोकपितामहम्३१।
मार्कंडेयवचः श्रुत्वा मृकंडुर्मुनिसत्तमः।
जगाम परमं हर्षं क्षणमेकं समुच्छ्वसन्३२।
धैर्यं सुमनसा स्थाय इदं वचनमब्रवीत्।
अद्य मे सफलं जन्म जीवितं च सुजीवितम्३३।
सर्वस्य जगतां स्रष्टा येन दृष्टः पितामहः।
त्वया दायादवानस्मि पुत्रेण वंशधारिणा३४।
त्वं गच्छ पश्य देवेशं पुष्करस्थं पितामहम्।
दृष्टे तस्मिन्जगन्नाथे न जरामृत्युरेव च३५।
नृणां भवति सौख्यानि तथैश्वर्यं तपोऽक्षयम्।
त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च३६।
पुष्कराणि तथा त्रीणि नविद्मस्तत्र कारणम्।
कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करम्३७।
शृंगशब्दाभिधानानि शुभप्रस्रवणानि च।
ब्रह्माविष्णुस्तथा रुद्रो नित्यं सन्निहितास्त्रयः३८।
पुष्करेषु महाराजा नातः पुण्यतमं भुवि।
विरजं विमलं तोयं त्रिषु लोकेषु विश्रुतम्३९।
ब्रह्मलोकस्य पन्थानं धन्याः पश्यंति पुष्करं।
यस्तु वर्षशतं साग्रमग्निहोत्रमुपासते४०।
कार्तिकीं वा वसेदेकां पुष्करे सममेव च।
कर्तुम्मया न शकितं कर्मणा नैव साधितम्४१।
तदयत्नात्त्वया तात मृत्युस्सर्वहरो जितः।
तत्र दृष्टस्स देवेशो ब्रह्मा लोकपितामहः४२।
नान्यो मर्त्यस्त्वया तुल्यो भविता जगतीतले।
अहं वै तोषितो येन पञ्चवार्षिकजन्मना४३।
वरेण त्वं मदीयेन उपमां चिरजीविनाम्।
गमिष्यसि न सन्देहस्तथाशीर्वचनम्मम४४।
एवं वदन्ति ते सर्वे व्रज लोकान्यथेप्सितान्।
एवं लब्धप्रसादेन मृकण्डुतनयेन च४५।
आश्रमःस्थापितस्तेन मार्कण्डाश्रम इत्युत।
तत्र स्नात्वा शुचिर्भूत्वा वाजपेयफलं लभेत्४६।
सर्वपापविशुद्धात्मा चिरायुर्जायते नरः।
पुलस्त्य उवाच।
तथान्यं ते प्रवक्ष्यामि इतिहासं पुरातनम्४७।
यथा रामेण वै तीर्थं पुष्करं तु विनिर्मितम्।
चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च४८।
अत्रेराश्रममासाद्य पप्रच्छ मुनिसत्तमम्।
राम उवाच।
कानि पुण्यानि तीर्थानि किं वा क्षेत्रं महामुने४९।
यत्र गत्वा नरो योगिन्वियोगं सह बंधुभिः।
नैव प्राप्नोति भगवन्तन्ममाचक्ष्व सुव्रत1.33.५०।
अनेन वनवासेन राज्ञस्तु मरणेन च।
भरतस्य वियोगेन परितप्ये ह्यहं त्रिभिः५१।
तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा।
ध्यात्वा च सुचिरं कालमिदं वचनमब्रवीत्५२।
अत्रिरुवाच।
साधु पृष्टं त्वया वीर रघूणां वंशवर्धन।
मम पित्रा कृतं तीर्थं पुष्करं नाम विश्रुतम्५३।
पर्वतौ द्वौ च विख्यातौ मर्यादा यज्ञपर्वतौ।
कुंडत्रयं तयोर्मध्ये ज्येष्ठमध्यकनिष्ठकम्५४।
तेषु गत्वा दशरथं पिंडदानेन तर्पय।
तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम्५५।
अवियोगा च सुरसा वापी रघुकुलोद्वह।
तथा सौभाग्यकूपोन्यः सुजलो रघुनंदन५६।
तेषु पिंडप्रदानेन पितरो मोक्षमाप्नुयुः।
आभूतसंप्लवं कालमेतदाह पितामहः५७।
तत्र राघव गच्छस्व भूयोप्यागमनं क्रियाः।
तथेति चोक्त्वा रामोपि गमनाय मनो दधे५८।
ऋक्षवंतमभिक्रम्य नगरं वैदिशं तथा।
चर्मण्वतीं समुत्तीर्य प्राप्तोसौ यज्ञपर्वतम्५९।
तमतिक्रम्य वेगेन मध्यमे पुष्करे स्थितः।
पितॄन्संतर्पयामास अद्भिर्देवांश्च सर्वशः६०।
स्नानावसाने रामेण मार्कंडो मुनिपुंगवः।
आगच्छन्शिष्यसंयुक्तो दृष्टस्तत्रैव धीमता६१।
गत्वा वै संमुखं तस्य प्रणिपत्य च सादरम्।
पृष्टोऽवियोगदः कूपः कतमस्यां दिशि प्रभो६२।
सुतो दशरथस्याहं रामो नाम जनैः स्मृतः।
सौभाग्यवापीं तां द्रष्टुमहं प्राप्तोत्रिशासनात्६३।
तत्स्थानं तौ च वै कूपौ भगवान्प्रब्रवीतु मे।
एवमुक्तश्च रामेण मार्कंडः प्रत्युवाच ह६४।
मार्कंडेय उवाच।
साधु राघव भद्रं ते सुकृतं भवता कृतम्।
तीर्थयात्राप्रसंगेन यत्प्राप्तोसीह सांप्रतम्६५।
एह्यागच्छस्व पश्य स्ववापीं तामवियोगदाम्।
अवियोगश्च सर्वैश्च कूप एवात्र जायते६६।
आमुष्मिके चैहिके च जीवतोपि मृतस्य वा।
एतद्वाक्यं मुनींद्रस्य श्रुत्वा लक्ष्मणपूर्वजः६७।
सस्मार रामो राजानं तदा दशरथं नृप।
भरतं सह शत्रुघ्न्रंभातॄनन्यांश्चनागरान्६८।
एवंचिंतयतस्तस्य संध्याकालो व्यजायत।
उपास्य पश्चिमां संध्यां मुनिभिःसह राघवः६९।
सुष्वाप तां निशां तत्र भ्रातृभार्यासमन्वितः।
विभावर्यवसाने तु स्वप्नांते रघुनंदनः७०।
पित्रा मात्रा तथा चान्यैरयोध्यायां स्थितः किल।
विवाहमंगले वृत्ते बहुभिर्बांधवैः सह७१।
समासीनः सभार्योऽसावृषिभिः परिवारितः।
लक्ष्मणेनाप्येवमेव दृष्टोऽसौ सीतया तथा७२।
प्रभाते तु मुनीनां तत्सर्वमेव प्रकीर्तितम्।
ऋषिभिश्च तथेत्युक्तः सत्यमेतद्रघूत्तम७३।
मृतस्य दर्शने श्राद्धं कार्यमावश्यकं स्मृतम्।
वृद्धिकामास्तु पितरस्तथा चैवान्नकांक्षिणः७४।
ददंति दर्शनं स्वप्ने भक्तियुक्तस्य राघव।
अवियोगस्तु ते भ्रात्रा पित्रा च भरतेन च७५।
चतुर्दशानां वर्षाणां भविता राघव ध्रुवम्।
कुरु श्राद्धं तथा वीर राज्ञो दशरथस्य च७६।
अमी च ऋषयः सर्वे तव भक्ताः कृतक्षणाः।
अहं च जमदग्निश्च भारद्वाजश्च लोमशः७७।
देवरातः शमीकश्च षडेते वै द्विजोत्तमाः।
श्राद्धे च ते महाबाहो संभारांस्त्वमुपाहर७८।
मुख्यं चेंगुदिपिण्याकं बदरामलकैः सह।
श्रीफलानि च पक्वानि मूलं चोच्चावचं बहु७९।
मार्गेण चाथ मांसेन धान्येन विविधेन च।
तृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत८०।
पुष्करारण्यमासाद्य नियतो नियताशनः।
पितॄंस्तर्पयते यस्तु सोश्वमेधमवाप्नुयात्८१।
स्नानार्थं तु वयं राम गच्छामो ज्येष्ठपुष्करम्।
इत्युक्त्वा ते गताः सर्वे मुनयो राघवं नृप८२।
लक्ष्मणं चाब्रवीद्रामो मेध्यमाहर मे मृगम्।
शुद्धेक्षणं च शशकं कृष्णशाकं तथा मधु८३।
जंबीराणि च मुख्यानि मूलानि विविधानि च।
पक्वानि च कपित्थानि फलान्यन्यानि यानि च८४।
तान्याहरस्व वै श्राद्धे क्षिप्रमेवास्तु लक्ष्मण।
तथा तत्कृतवान्सर्वं रामादेशाच्च राघवः८५।
बदरेङ्गुदिशाकानि मूलानि विविधानि च।
तत्राहृत्य च रामेण कूटाकारः कृतो महान्८६।
परिपक्वं च जानक्या सिद्धं रामे निवेदितम्।
स्नात्वा रामो योगवाप्यां मुनींस्ताननुपालयन्८७।
मध्याह्नाच्चलिते सूर्ये काले कुतपके तथा।
आयाता ऋषयः सर्वे ये रामेणानुमंत्रिताः८८।
तानागतान्मुनीन्दृष्ट्वा वैदेही जनकात्मजा।
रामांतिकं परित्यज्य व्रीडिताऽन्यत्र संस्थिता८९।
विस्मयोत्फुल्लनयना चिंतयाना च वेपती।
ब्राह्मणा नेह जानंति श्राद्धकाले ह्युपस्थिताः९०।
रामेण भोजिता विप्राः स्मृत्युक्तेन यथाविधि।
वैदिक्यश्च कृतास्सर्वाः सत्क्रिया यास्समीरिताः९१।
पुराणोक्तो विधिश्चैव वैश्वदेविकपूर्वकः।
भुक्तवत्सु च विप्रेषु दत्वा पिंडान्यथाक्रमम्९२।
प्रेषितेषु यथाशक्ति दत्वा तेषु च दक्षिणाम्।
गतेषु विप्रमुख्येषु प्रियां रामोऽब्रवीदिदम्९३।
किमर्थं सुभ्रु नष्टासि मुनीन्दृष्ट्वा त्विहागतान्।
तत्सर्वं त्वमिदं तत्वं कारणं वद माचिरम्९४।
भवितव्यं कारणेन तच्च गोप्यं न मे कुरु।
शापितासि मम प्राणैर्लक्ष्मणस्य शुचिस्मिते९५।
एवमुक्ता तदा भर्त्रा त्रपयाऽवाङ्मुखी स्थिता।
विमुंचंती साऽश्रुपातं राघवं वाक्यमब्रवीत्९६।
शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम्।
राम त्वयाऽचिंत्यमानो राजेंद्रस्त्विह चागतः९७।
सर्वाभरणसंयुक्तौ द्वौ चान्यौ च तथाविधौ।
द्विजानां देहसंयुक्तास्त्रयस्ते रघुनंदन९८।
पितरस्तु मया दृष्टा ब्राह्मणांगेषु राघव।
दृष्ट्वा त्रपान्विता चाहमपक्रांता तवांतिकात्९९।
त्वया वै भोजिता विप्राः कृतं श्राद्धं यथाविधि।
वल्कलाजिनसंवीता कथं राज्ञः पुरःसरा1.33.१००।
भवामि रिपुवीरघ्न सत्यमेतदुदाहृतम्।
कौशेयानि च वस्त्राणि कैकेय्यापहृतानि च१०१।
ततः प्रभृति चैवाहं चीरिणी तु वनाश्रयम्।
ज्ञात्वाहं न वदे किंचिन्मा ते दुःखं भवत्विति१०२।
नाहं स्मरामि वै मातुर्न पितुश्च परंतप।
कदा भविष्यतीहांतो वनवासस्य राघव१०३।
एतदेवानिशं राम चिंतयंत्याः पुनः पुनः।
व्रजंति दिवसा नाथ तव पद्भ्यां शपाम्यहम्१०४।
स्वहस्तेन कथं राज्ञो दास्ये वै भोजनं त्विदम्।
दासानामपि यो दासो नोपभुंजीतयत्क्वचित्१०५।
एतादृशी कथं त्वस्मै संप्रदातुं समुत्सहे।
याहं राज्ञा पुरा दृष्टा सर्वालङ्कारभूषिता१०६।
बालव्यजनहस्ता च वीजयंती नराधिपम्।
सा स्वेदमलदिग्धांगी कथं पश्यामि भूमिपम्१०७।
व्यक्तं त्रिविष्टपं प्राप्तस्त्वया पुत्रेण तारितः।
दृष्ट्वा मां दुःखितां बालां वने क्लिष्टामनागसम्१०८।
शोकः स्यात्पार्थिवस्यास्य तेन नष्टास्मि राघव।
भवान्प्राणसमो राम न ते गोप्यं ममत्विह१०९।
सत्येन तेन चैवाथ स्पृशामि चरणौ तव।
तच्छ्रुत्वा राघवः प्रीतः प्रियां तां प्रियवादिनीम्११०।
अंकमानीय सुदृढं परिष्वज्य च सादरम्।
भुक्तौ भोज्यं तदा वीरौ पश्चाद्भुक्ता च जानकी१११।
एवं स्थितौ तदा सा च तां रात्रिं तत्र राघवौ।
उदिते च सहस्रांशौ गमनाय मनो दधुः११२।
प्रत्यङ्मुखं गतः क्रोशं ज्येष्ठं यावच्च पुष्करम्।
पूर्वभागे पुष्करस्य यावत्तिष्ठति राघवः११३।
शुश्राव च ततो वाचं देवदूतेन भाषितम्।
भो भो राघव भद्रं ते तीर्थमेतत्सुदुर्लभम्११४।
अस्मिन्स्थाने स्थितो वीर आत्मनः पुण्यतां कुरु।
देवकार्यं त्वया कार्यं हंतव्या देवशत्रवः११५।
ततो हृष्टमना वीरो ह्यब्रवील्लक्ष्मणं वचः।
सौमित्रेऽनुगृहीतोहं देवदेवेन ब्रह्मणा११६।
अत्राश्रमपदं कृत्वा मासमेकं च लक्ष्मण।
व्रतं चरितुमिच्छामि कायशोधनमुत्तमम्११७।
तथेति लक्ष्मणेनोक्ते व्रतं परिसमाप्यतु।
पिंडदानादिभिर्दानैः श्राद्धैश्चैव पितामहान्११८।
पुष्करे तु तदा रामोऽतर्पयद्विधिवत्तदा।
कनका सुप्रभा चैव नंदा प्राची सरस्वती११९।
पंचस्रोताः पुष्करेषु पितॄणां तुष्टिदायिनी।
दैनंदिनीं पितॄणां तु पूजां तां पितृपूर्विकाम्१२०।
रचयित्वा तदा रामो लक्ष्मणं वाक्यमब्रवीत्।
एहि लक्ष्मण शीघ्रं त्वं पुष्कराज्जलमानय१२१।
पादप्रक्षालनं कृत्वा शयनं कुरु संस्तरे।
विभावर्यां निवृत्तायां यास्यामो दक्षिणां दिशम्१२२।
लक्ष्मणस्त्वब्रवीद्वाक्यं सीतयानीय तां पयः।
नाहं राम सर्वकाले दासभावं करोमि ते१२३।
इयंपुष्टाचसुभृशंपीवरीचममाप्युत।
किं त्वं करिष्यस्यनया भार्यया वद सांप्रतम्१२४।
किं वा मृतस्य वै पृष्ठ इयं यास्यति ते प्रिया।
रक्षसे त्वं सदा कालं सुपुष्टां चैव सर्वदा१२५।
हृष्टा चैषा क्लेशयति सततं मां रघूत्तम।
त्वं च क्लेशयसे राम परत्र जायते क्षतिः१२६।
त्वत्कृते च सदा चाहं पिपासां क्षुधया सह।
संसहामि न संदेहः परत्र च निशामय१२७।
मृतानां पृष्ठतः कश्चिद्गतो नैव च दृश्यते।
भार्य्या पुत्रो धनं चापि एवमाहुर्मनीषिणः१२८।
मृतश्च ते पिता राम त्यक्त्वा राज्यमकंटकम्।
विनिक्षिप्य वने त्वां च कैकेय्याः प्रियकाम्यया१२९।
इहस्थिता सा कैकेयी धनं सर्वे च बांधवाः।
महाराजो दशरथ एक एव गतो गतिम्१३०।
मन्येहं न त्वया सार्धं सीता यास्यति वै ध्रुवम्।
करिष्यसे किमनया वद राघव सांप्रतम्१३१।
श्रुत्वा चाश्रुतपूर्वं हि वाक्यं लक्ष्मणभाषितम्।
विमना राघवस्तस्थौ सीता चापि वरानना१३२।
यदुक्तं लक्ष्मणेनाथ सीता सर्वं चकार ह।
स्नात्वा भुक्त्वा ततो वीरौ पुष्करे पुष्करेक्षणौ१३३।
नीत्वा विभावरीं तत्र गमनाय मनो दधुः।
एह्युत्तिष्ठ च सौमित्रे व्रजामो दक्षिणां दिशम्१३४।
सौमित्रिरब्रवीद्राम नाहं यास्ये कथंचन।
व्रज त्वमनया सार्धं भार्यया कमलेक्षण१३५।
नान्यद्वनं गमिष्यामि नैवायोध्यां च राघव।
अस्मिन्वने वसिष्यामि वर्षाणीह चतुर्दश१३६।
मया विना त्वयोध्यायां यदि त्वं न गमिष्यसि।
अनेन वर्त्मना भूप आगंतव्यं त्वया विभो१३७।
यदि जीवामि तत्कालं पुनर्यास्ये पितुः पुरम्।
तपस्संभावयिष्यामि मया त्वं किं करिष्यसि१३८।
व्रज सौम्य शिवः पंथामा च ते परिपंथिनः।
पश्यामि त्वां पुनः प्राप्तं सभार्यं कमलेक्षणम्१३९।
पितृपैतामहं राज्यमयोध्यायां नराधिप।
शत्रुघ्नभरतौ चोभौ त्वदाज्ञाकरणे स्थितौ१४०।
अहं ते प्रतिकूलस्तु वनवासे विशेषतः।
अनारतं दिवा चाहं रात्रौ चैव परंतप१४१।
कर्मकर्तुं न शक्रोमि व्रज सौम्य यथासुखम्।
एवं ब्रुवाणं सौमित्रिमुवाच रघुनंदनः१४२।
कथं पूर्वमयोध्याया निर्गतोसि मया सह।
वने वत्स्याम्यहं राम नववर्षाणि पंच च१४३।
न तु त्वया विरहितः स्वर्गेपि निवसे क्वचित्।
या गतिस्ते नरव्याघ्र मम सापि भविष्यति१४४।
प्रसादः क्रियतां मह्यं नय मामपि राघव।
इदानीमर्धमार्गे त्वं कथं स्थास्यसि शत्रुहन्१४५।
लक्ष्मणस्त्वब्रवीद्रामं नाहं गंता वने पुनः।
लक्ष्मणं संस्थितं ज्ञात्वा रामो वचनमब्रवीत्१४६।
मामनुव्रज सौमित्र एको यास्यामि काननम्।
द्वितीया मे त्वियं सीता रामेणोक्तस्तु लक्ष्मणः१४७।
गृहीत्वाऽथ समुत्तस्थौ रामवाक्यं स लक्ष्मणः।
मर्यादापर्वतं प्राप्तौ क्षेत्रसीमां परंतपौ१४८।
अजगंधं च देवेशं देवदेवं पिनाकिनम्।
अष्टांगप्रणिपातेन नत्वा रामस्त्रिलोचनम्१४९।
तुष्टाव प्रयतः स्थित्वा शंकरं पार्वतीप्रियम्।
कृतांजलिपुटो भूत्वा रोमांचितशरीरकः1.33.१५०।
सात्विकं भावमापन्नो विनिर्धूतरजस्तमाः।
लोकानां कारणं देवं बुबुधे विबुधाधिपम्१५१।
राम उवाच।
कृत्स्नस्य योऽस्य जगतः स चराचरस्य कर्ता कृतस्य च पुनः सुखदुःखदश्च।
संहारहेतुरपि यः पुनरंतकाले तं शंकरं शरणदं शरणं व्रजामि१५२।
योऽयं सकृद्विमलचारुविलोलतोयां गंगां महोर्मिविषमां गगनात्पतंतीम्।
मूर्ध्ना दधेऽस्रजमिव प्रविलोलपुष्पां तं शंकरं शरणदं शरणं व्रजामि१५३ ।
कैलासशैलशिखरं परिकम्प्यमानं कैलासशृंगसदृशेन दशाननेन।
यत्पादपद्मविधृतं स्थिरतां दधार तं शंकरं शरणदं शरणं व्रजामि१५४।
येनासकृद्दनुसुताः समरे निरस्ता विद्याधरोरगगणाश्च वरैः समग्रैः।
संयोजिता मुनिवराः फलमूलभक्षास्तं शंकरं शरणदं शरणं व्रजामि१५५।
दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमपातयच्च।
तस्तंभयः कुलिशयुक्तमथेंद्रहस्तं तं शंकरं शरणदं शरणं व्रजामि१५६।
एनःकृतोपिविषयेष्वपिसक्तचित्ताज्ञानान्वयश्रुतगुणैरपिनैवयुक्ताः।
यं संश्रिताः सुखभुजः पुरुषा भवंति तं शंकरं शरणदं शरणं व्रजामि१५७।
अत्रिप्रसूतिरविकोटिसमानतेजाः संत्रासनं विबुधदानवसत्तमानाम्।
यः कालकूटमपिबत्प्रसभं सुदीप्तं तं शंकरं शरणदं शरणं व्रजामि१५८।
ब्रह्मेंद्ररुद्रमरुतां च सषण्मुखानां दद्याद्वरं सुबहुशो भगवान्महेशः।
नन्दिं च मृत्युवदनात्पुनरुज्जहार तं शंकरं शरणदं शरणं व्रजामि१५९।
आराधितः सुतपसा हिमवन्निकुंजे धूमव्रतेन मनसापि परैरगम्ये।
संजीवनीमकथयद्भृगवे महात्मा तं शंकरं शरणदं शरणं व्रजामि१६०।
नानाविधैर्गजबिडालसमानवक्त्रैर्दक्षाध्वरप्रमथनैर्बलिभिर्गणैंद्रैः ।
योभ्यर्चितोमरगणैश्च सलोकपालैस्तं शंकरं शरणदं शरणं व्रजामि१६१।
शंखेंदुकुंदधवलं वृषभं प्रवीरमारुह्य यः क्षितिधरेंद्रसुतानुयातः।
यात्यंबरं प्रलयमेघविभूषितं च तं शंकरं शरणदं शरणं व्रजामि१६२।
शांतं मुनिं यमनियोगपरायणैस्तैर्भीमैर्महोग्रपुरुषैः प्रतिनीयमानम्।
भक्त्यानतं स्तुतिपरं प्रसभं ररक्ष तं शंकरं शरणदं शरणं व्रजामि१६३।
यः सव्यपाणि कमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव पुरस्सुराणाम्।
ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त्त तं शंकरं शरणदं शरणं व्रजामि१६४।
यस्य प्रणम्य चरणौ वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरतंद्रितात्मा।
दीप्तस्तमांसि नुदते स्वकरैर्विवस्वांस्तं शंकरं शरणदं शरणं व्रजामि१६५।
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्य।
ऐश्वर्यमाननिगमानुशयेन पश्चात्ते यातनामनुभवंत्यविशुद्धचित्ताः१६६।
तस्यैवं स्तुवतोऽवोचच्छूलपाणिर्वृषध्वजः।
उवाच वचनं हृष्टो राघवं तुष्टमानसः१६७।
रुद्र उवाच।
राम हृष्टोस्मि भद्रं ते जातस्त्वं निर्मले कुले।
त्वं चापि जगतां वंद्यो देवो मानुषरूपधृत्१६८।
त्वया नाथेन वै देवाः सुखिनः शाश्वतीः समा।
सेविष्यंते चिरं कालं गते वर्षे चतुर्दशे१६९।
अयोध्यामागतं त्वां ये द्रक्ष्यंति भुवि मानवाः।
सुखं तेऽत्र भजिष्यंति स्वर्गे वासन्तथाक्षयम्१७०।
देवकार्यं महत्कृत्वा आगच्छेथाः पुनः पुरीम्।
राघवस्तु तथा देवं नत्वा शीघ्रं विनिर्गतः१७१।
इंद्रमार्गां नदीं प्राप्य जटाजूटं नियम्य च।
अब्रवील्लक्ष्मणं राम इदमर्पय मे धनुः१७२।
रामवाक्यं तु तच्छ्रुत्वा सीतां वै लक्ष्मणोऽब्रवीत्।
किमर्थं देवि रामेण त्यक्तोहं कारणं विना१७३।
अपराधं न जानामि कुपितो यन्महाभुजः।
रामेणाहं परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम्१७४।
नैव मे जीवितेनार्थो धिग्धिङ्मां कुलपांसनम्।
आर्यस्य येन वै मन्युर्जनितः पापकारिणा१७५।
कांस्तु लोकान्गमिष्यामि अपध्यातो महात्मना।
उभौ हस्तौ मुखे कृत्वा साश्रुकंठोऽब्रवीदिदम्१७६।
नापराध्यामि रामस्य कर्मणा मनसा गिरा।
स्पृष्टौ ते चरणौ देवि मम नान्या गतिर्भवेत्१७७।
ततः सीताऽब्रवीद्रामं त्यक्तः किमनुजस्त्वया।
वैषम्यं त्यज्यतां बाले लक्ष्मणे लक्ष्मिवर्धने१७८।
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम्।
न कदाचिदपि स्वप्ने लक्ष्मणस्य मतं प्रिये१७९।
श्रुतपूर्वं च सुश्रोणि क्षेत्रस्यास्य विचेष्टितम्।
अत्र क्षेत्रे जनास्सत्यं सर्वे हि स्वार्थतत्पराः१८०।
परस्परं न पश्यंति स्वात्मनश्च हितं वचः।
न शृण्वंति पितुः पुत्राः पुत्राणां पितरस्तथा१८१।
न शिष्या हि गुरोर्वाक्यं शिष्यस्यापि तथा गुरुः।
अर्थानुबंधिनीप्रीतिर्न कश्चित्कस्यचित्प्रियः१८२।
इत्येवं कथयन्नेव प्राप्तो रेवां महानदीम्।
चक्रेभिषेकं काकुत्स्थः सानुजः सह सीतया१८३।
तर्पयित्वा च सलिलैः स्वान्पितॄन्दैवतान्यपि।
उदीक्ष्य च मुहुः सूर्यं देवताश्च समाहितः१८४।
कृताभिषेकस्तु रराज रामः सीता द्वितीयः सह लक्ष्मणेन।
कृताभिषेकः सह शैलपुत्र्या गुहेन सार्धं भगवानिवेशः१८५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मार्कंडेयाश्रमदर्शनं नाम त्र्यस्त्रिंशोऽध्यायः३३।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 34 (part 1)
भीष्म उवाच॥
कस्मिन्काले भगवता ब्रह्मणा लोककारिणा।
यज्ञियैर्यष्टुमारब्धं तद्भवान्वक्तुमर्हति१॥
किं नामान ऋत्विजस्ते ब्रह्मणा ये प्रकल्पिताः।
का च वै दक्षिणा तेषां दत्ता तेन महात्मना२॥
यथाभूतं यथावृत्तं तथा त्वं मे प्रकीर्तय।
सुमहत्कौतुकं जातं यज्ञं पैतामहं प्रति३॥
पुलस्त्य उवाच॥
पूर्वमेव मया ख्यातं यदा स्वायंभुवो मनुः।
सृष्ट्वा प्रजापतीन्सर्वानुक्तः सृष्टिं कुरुष्व वै४॥
स्वयं तु पुष्करं गत्वा यज्ञस्याहृत्य विस्तरम्।
ससंभारान्समानाय्य वह्न्यगारे स्थितोभवत्५॥
गायंति नित्यं गंधर्वा नृत्यंत्यप्सरसां गणाः।
ब्रह्मोद्गाता होताध्वर्युश्चत्वारो यज्ञवाहकाः६॥
एकैकस्य त्रयश्चान्ये परिवाराः स्वयंकृताः।
ब्रह्मा च ब्रह्मणाच्छंसी पोता चाग्नीध्र एव च७॥
आन्वीक्षिकी सर्वविद्या ब्राह्मी ह्येषा चतुष्टयी।
उद्गाता च प्रत्युद्गाता प्रतिहर्ता सुब्रह्मण्यः८॥
चतुष्टयी द्वितीयैषा तूद्गातुश्च प्रकीर्तिता।
होता च मैत्रावरुणस्तथाऽच्छावाक एव च९॥
ग्रावस्तुच्च चतुर्थोत्र तृतीया च चतुष्टयी।
अध्वर्युश्च प्रतिष्ठाता नेष्टोन्नेता तथैव च१०॥
चतुष्टयी चतुर्थ्येषा प्रोक्ता शंतनुनंदन।
एते वै षोडश प्रोक्ता ऋत्विजो वेदचिंतकैः११॥
शतानि त्रीणि षष्टिश्च यज्ञाः सृष्टाः स्वयंभुवा॥
एतांश्चैतेषु सर्वेषु प्रवदंति सदा द्विजान्१२॥
सदस्यं केचिदिच्छंति त्रिसामाध्वर्युमेव च।
ब्रह्माणं नारदं चक्रे ब्राह्मणाच्छंसि गौतमम्१३॥
देवगर्भं च पोतारमाग्नीध्रं चैव देवलम्।
उद्गातांगिरसः प्रत्युद्गाता च पुलहस्तथा१४॥
नारायणः प्रतिहर्ता सुब्रह्मण्योत्रिरुच्यते।
तस्मिन्यज्ञे भृगुर्होता वसिष्ठो मैत्र एव च१५॥
अच्छावाकः क्रतुः प्रोक्तो ग्रावस्तुच्च्यवनस्तथा।
पुलस्त्योद्ध्वर्युरेवासीत्प्रतिष्ठाता च वै शिबिः१६॥
बृहस्पतिस्तत्र नेष्टा उन्नेता शांशपायनः।
धर्मः सदस्यस्तत्रासीत्पुत्रपौत्रसहायवान्१७॥
भरद्वाजः शमीकश्च पुरुकुत्सो युगंधरः।
एनकस्तीर्णकश्चैव केशः कुतप एव च१८॥
गर्गो वेदशिराश्चैव त्रिसामाद्ध्वर्यवः कृताः।
कण्वादयस्तथा चान्ये मार्कंडो गंडिरेव च१९॥
पुत्रपौत्रसमेताश्च सशिष्याः सहबांधवाः।
कर्माणि तत्र कुर्वाणा दिवानिशमतंद्रिताः२०॥
मन्वंतरे व्यतीते तु यज्ञस्यावभृथोभवत्।
दक्षिणा ब्रह्मणे दत्ता प्राची होतुस्तु दक्षिणा२१॥
अद्ध्वर्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा।
त्रैलोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणाम्२२॥
धेनूनां च शतं प्राज्ञैर्दातव्यं यज्ञसिद्धये।
अष्टौ तु यज्ञवाहानां चत्वारिंशाधिकास्तथा२३॥
द्वितीयस्थानिनां चैव चतुर्विंशत्प्रकीर्तिताः।
षोडशैव तृतीयानां देया वै धेनवः शुभाः२४॥
द्वादशैव तथा चान्या आग्नीध्रादिषु दापयेत्।
अनया संख्यया चैव ग्रामान्दासीरजाविकं२५॥
सहस्रभोज्यं दातव्यं स्नात्वा चावभृथे क्रतौ।
यजमानेन सर्वस्वं देयं स्वायंभुवोब्रवीत्२६॥
अद्ध्वर्यूणां सदस्यानां स्वेच्छया दानमिष्यते।
विष्णुं चाहूय वै ब्रह्मा वाक्यमाह मुदान्वितः२७॥
अभिप्रसाद्य सावित्रीं त्वमिहानय सुव्रत।
त्वयि दृष्टे न सा कोपं करिष्यति शुभानना२८॥
स्निग्धैः सानुनयैर्वाक्यैर्हेतुयुक्तैर्विशेषतः।
त्वं सदा मधुराभाषी जिह्वा ते स्रवतेमृतम्२९॥
यः करोति न ते वाक्यं त्रैलोक्ये न स दृश्यते।
गंधर्वैः सहितो गत्वा प्रियां मम समानय३०॥
त्वया प्रसादिता साद्ध्वी तुष्टा सा त्वेष्यति ध्रुवम्।
विलंबो न त्वया कार्यो व्रज माधव माचिरम्३१॥
लक्ष्मीस्ते पुरतो यातु सावित्र्याः सदनं शुभा।
तस्यास्त्वं पदवीं गच्छ सांत्वयस्व प्रियां मम३२॥
न च ते विप्रियं देवि विविक्तं कर्तुमीहते।
मुखं प्रेक्ष्य सदा कालं वर्तते तव सुंदरि३३॥
एवंविधानि वाक्यानि मधुराणि बहूनि च।
देवी श्रावयितव्या सा यथातुष्टाऽचिराद्भवेत्३४॥
एवमुक्तस्तदा विष्णुर्ब्रह्मणा लोककारिणा।
जगाम त्वरितो भूत्वा सावित्री यत्र तिष्ठति३५॥
दूरादेवागच्छमानं पत्न्या सह च केशवम्।
उत्तस्थौ सत्वरा भूत्वा विष्णुना चाभिवंदिता३६॥
नमस्ते देवदेवेशि ब्रह्मपत्नि नमोस्तु ते।
त्वां नमस्कृत्य सर्वो हि जनः पापात्प्रमुच्यते३७॥
पतिव्रता महाभागा ब्रह्मणस्त्वं हृदि स्थिता।
अहर्निशं चिंतयंस्त्वां प्रसादं तेभिकांक्षति३८॥
सखीं चैनां प्रियां पृच्छ लक्ष्मीं भृगुसुतां सतीम्।
यदि च श्रद्दधा नासि वाक्यादस्मात्सुलोचने३९॥
एवमुक्त्वा ततः शौरिः सावित्र्याश्चरणद्वयम्।
उभाभ्यां चैव हस्ताभ्यां क्षम देवि नमोस्तु ते४०॥
जगद्वंद्ये जगन्मातरिति स्पृष्ट्वाऽभ्यवन्दत।
संकोच्य पादौ सा देवी स्वकरेण करौ हरेः४१॥
गृहीत्वोवाच तं विष्णुं सर्वं क्षान्तं मयाच्युत।
इयं लक्ष्मीः सदा वत्स हृदये ते निवत्स्यति४२॥
विना त्वया न चान्यत्र रतिं यास्यति कर्हिचित्।
भृगोः पत्न्यां समुत्पन्ना पत्न्येषा तव सुव्रता४३॥
देवदानवयत्नेन संभूता चोदधौ पुनः।
भगवान्यत्र तत्रैषा अवतारं च कुर्वती४४॥
देवत्वे देवदेहा वै मानुषत्वे च मानुषी।
त्वत्सहाया न संदेहो दांपत्यव्रतिनी चिरम्४५॥
यन्मया चात्र कर्त्तव्यं प्रभोतन्मां वदस्व वै।
विष्णुरुवाच॥
यज्ञावसानं संजातं प्रेषितोहं तवांतिकं४६॥
सावित्रीमानय क्षिप्रं मया स्नानं समाचरेत्।
आगच्छ त्वरिता देवि याहि तत्र मुदान्विता४७॥
पश्यस्व स्वपतिं गत्वा देवैः सर्वैस्समन्वितम्।
लक्ष्मीरुवाच॥
आर्ये उत्तिष्ठ शीघ्रं त्वं याहि यत्र पितामहः४८॥
विना त्वया न यास्यामि स्पृष्टौ पादौ मया तव।
उत्थाप्य साग्रहीद्धस्तं दक्षिणा दक्षिणे करे४९॥
चिरायमाणां सावित्रीं ज्ञात्वा देवः पितामहः।
समीपस्थं महादेवमिदमाह तदा वचः1.34.५०॥
गच्छ त्वमनया सार्द्धं पार्वत्याऽसुरदूषण।
गौरी त्वदग्रतो यातु पश्चात्त्वं गच्छ शंकर५१॥
प्रतिबोध्यानय यथा शीघ्रमायाति तत्कुरु।
एवमुक्तौ तदा तौ तु पार्वतीपरमेश्वरौ५२॥
गत्वादिष्टौ दंपती तां प्रोचतुर्ब्रह्मणः प्रियाम्।
बृहत्कृत्यं त्वया तत्र करणीयं पतिव्रते५३॥
पृच्छस्वेमां वरारोहां गौरीं पर्वतनंदिनीम्।
लक्ष्मीं चैतां विशालाक्षीमिंद्राणीं वा शुभानने५४॥
यासां वा श्रद्धधासि त्वं पृच्छ देवि नमोस्तु ते।
आशीर्वादस्तया दत्तो देवदेवस्य शूलिनः५५॥
शरीरार्धे च ते गौरी सदा स्थास्यति शंकर।
अनया शोभसे देव त्वया त्रैलोक्यसुंदर५६॥
सुखभागि जगत्सर्वं त्वया नाथेन शत्रुहन्।
एवं ब्रुवंती सावित्री गृहीता ब्रह्मणः प्रिया५७॥
गौर्य्या च वामहस्ते तु लक्ष्म्या वै दक्षिणे करे।
अभिवंद्य तु तां देवीं शंकरो वाक्यमब्रवीत्५८॥
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः।
तत्र गच्छ वरारोहे स्त्रीणां भर्ता परागतिः५९॥
बृहदाग्रहणे देवि प्रणयाद्गंतुमर्हसि।
लक्ष्मीश्चैषा पार्वती च स्थिता देवि तवाग्रतः६०॥
एतयोर्वचसा देवि आवयोश्च शुभानने।
मानभंगो न ते कर्तुं यज्यते ब्रह्मणः प्रिये६१॥
अस्मदभ्यर्थिता देवि तत्र याहि मुदान्विता।
गौर्युवाच॥
अहं च ते प्रिया देवि सर्वदा वदसि स्वयम्६२॥
लक्ष्मीश्च ते करे लग्ना दक्षिणे च मया धृता।
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः६३॥
नीता सा तु तदा ताभ्यां देवी सा मध्यतः कृता।
पुरस्सरौ विष्णुरुद्रौ शक्राद्याश्च तथा सुराः६४॥
गंधर्वाप्सरसश्चैव त्रैलोक्यं सचराचम्।
तत्रायाता च सा देवी सावित्री ब्रह्मणः प्रिया६५॥
सावित्रीं सुमुखीं दृष्ट्वा सर्वलोकपितामहः।
गायत्र्या सहितो ब्रह्मा इदं वचनमब्रवीत्६६॥
एषा देवी कर्मकरी अहं ते वशगस्थितः।
समादिश वरारोहे यत्ते कार्यं मया त्विह६७॥
एवमुक्ता च सा देवी स्वयं देवेन ब्रह्मणा।
त्रपयाधोमुखी देवी न च किंचिदवोचत६८॥
पादयोः पतिता देवी गायत्री ब्रह्मचोदिता।
कृतवत्यपराधं ते क्षम देवि नमोस्तु ते६९॥
आलिंग्य सादरं कंठे सा परिष्वज्य पीडितां।
गायत्रीं सांत्वयामास मान्यश्चैष पतिर्मम७०॥
कर्त्तव्यं वचनं तस्य स्त्रीणां प्राणेश्वरः पतिः।
उक्तं भगवता पूर्वं सृष्टिकाले विरिंचिना७१॥
न च स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्।
भर्ता यद्वदते वाक्यं तत्तु कुर्यादकुत्सया७२॥
भर्तृनिंदां या कुरुते स्वसृनिंदां तथैव च।
परिवादं प्रलापं वा नरकं सा तु गच्छति७३॥
पत्यौ जीवति या नारी उपवासव्रतं चरेत्।
आयुष्यं हरते भर्तुर्मृता नरकमिच्छति७४॥
एवं ज्ञात्वा त्वया भर्तुर्न कार्यं विप्रियं सति।
न चास्य दक्षिणं त्वंगं त्वया सेव्यं कथंचन७५॥
सर्वकार्ये त्वहं चास्य दक्षिणं पक्षमाश्रिता।
सव्यं त्वमायेस्साध्वि पार्श्वे नारदपुष्करौ७६॥
ब्रह्मस्थानानि चान्यानि स्थितान्यायतनानि च।
लभे वै शोभमानेह यावत्सृष्टिः प्रजायते७७॥
भवत्या च मया चैव स्थातव्यं च न संशयः।
पुष्करे ब्रह्मणः पार्श्वे वामं च त्वं समाश्रय७८॥
अनेन चोपदेशेन सुखं तिष्ठ मयान्विता।
गायत्र्युवाच॥
एवमेतत्करिष्यामि तव निर्देशकारिका७९॥
तवैवाज्ञा मया कार्या त्वं मे प्राणसमा सखी।
अहं ते त्वनुजा देवि सदा मां पातुमर्हसि८०॥
देवदेवस्तदा ब्रह्मा पुष्करे विष्णुना सह।
स्नानावसाने देवानां सर्वेषां प्रददौ वरान्८१॥
देवानां च पतिं शक्रं ज्योतिषां च दिवाकरं।
नक्षत्राणां तथा सोमं रसानां वरुणं तथा८२॥
प्रजापतीनां दक्षं च नदीनां चैव सागरं।
कुबेरं च धनाध्यक्षं तथा चक्रे च रक्षसां८३॥
भूतानां चैव सर्वेषां गणानां च पिनाकिनम्।
मानवानां मनुं चैव पक्षिणां गरुडं तथा८४॥
ऋषीणां च वसिष्ठं च ग्रहाणां च प्रभाकरं।
एवमादीनि वै दत्वा देवदेवः पितामहः८५॥
विष्णुं च शंकरं चैव ब्रह्मा प्रोवाच सादरम्।
पृथिव्याः सर्वतीर्थेषु भवंतौ पूज्यसत्तमौ८६॥
भवद्भ्यां न विना तीर्थं पुण्यतामेति कर्हिचित्।
लिंगं वा प्रतिमा वापि दृश्यते यत्रकुत्रचित्८७॥
तत्तीर्थं पुण्यतां याति सर्वमेव फलप्रदं।
मानवा ह्युपहारैश्च ये करिष्यंति पूजनं८८॥
युष्माकं मां पुरस्कृत्य तेषां रोगभयं कुतः।
येषु राष्ट्रेषु युष्माकमुत्सवाः पूजनादिकाः८९॥
प्रवर्त्स्यंति क्रियाः सर्वा यत्फलं तेषु तच्छृणु।
नाधयो व्याधयश्चैव नोपसर्गा न क्षुद्भयं९०॥
विप्रयोगो न चापीष्टैरनिष्टैर्नापि संगतिः।
नाक्षिरोगः शिरार्तिर्वा पित्तशूल भगंदराः९१॥
नाभिचारं भयं तत्रापस्मारो न विषूचिका।
वृद्धिर्निकामतस्तस्मिन्सम्यग्बुद्धिरनुत्तमा९२॥
आरोग्यं सर्वतश्चैव दीर्घायुश्च प्रजाधनं।
नाकाले भविता मृत्युर्गावो नाल्पपयोमुचः९३॥
नाकालफलिता वृक्षा नोत्पातभयमण्वपि।
एतच्छ्रुत्वा ततो विष्णुर्ब्रह्माणं स्तोतुमुद्यतः९४॥
विष्णुरुवाच॥
नमोस्त्वनंताय विशुद्धचेतसे स्वरूपरूपाय सहस्रबाहवे।
सहस्ररश्मिप्रभवाय वेधसे विशालदेहाय विशुद्धकर्मणे९५॥
समस्तविश्वार्तिहराय शंभवे समस्तसूर्यानलतिग्मतेजसे।
नमोस्तु विद्यावितताय चक्रिणे समस्तधीस्थानकृते सदा नमः९६॥
अनादिदेवाच्युत शेखरप्रभो भाव्युद्भवद्भूतपते महेश्वर।
महत्पते सर्वपते जगत्पते भुवस्पते भुवनपते सदा नमः९७॥
यज्ञेश नारायण जिष्णु शंकर क्षितीश विश्वेश्वर विश्वलोचन।
शशांकसूर्याच्युतवीरविश्वप्रवृत्तमूर्तेमृतमूर्त अव्यय९८॥
ज्वलद्धुताशार्चि निरुद्धमंडल प्रदेशनारायण विश्वतोमुख।
समस्तदेवार्तिहरामृताव्यय प्रपाहि मां शरणगतं तथा विभो९९॥
वक्त्राण्यनेकानि विभो तवाहं पश्यामि यज्ञस्य गतिं पुराणम्।
ब्रह्माणमीशं जगतां प्रसूतिं नमोस्तु तुभ्यं प्रपितामहाय1.34.१००॥
संसारचक्रक्रमणैरनेकैः क्वचिद्भवान्देववराधिदेवः।
तत्सर्वविज्ञानविशुद्धसत्वैरुपास्यसे किं प्रणमाम्यहं त्वाम्१०१॥
एवं भवंतं प्रकृतेः पुरस्ताद्यो वेत्त्यसौ सर्वविदां वरिष्ठः।
गुणान्वितेषु प्रसभं विवेद्यो विशालमूर्तिस्त्विह सूक्ष्मरूपः१०२॥
वाक्पाणिपादैर्विगतेन्द्रियोपि कथं भवान्वै सुगतिस्सुकर्मा।
संसारबंधे निहितेंद्रियोपि पुनः कथं देववरोसि वेद्यः१०३॥
मूर्त्तादमूर्त्तं न तु लभ्यते परं परं वपुर्देवविशुद्धभावैः।
संसारविच्छित्तिकरैर्यजद्भिरतोवसीयेत चतुर्मुख त्वम्१०४॥
परं न जानंति यतो वपुस्ते देवादयोप्यद्भुतरूपधारिन्।
विभोवतारेग्रतरं पुराणमाराधयेद्यत्कमलासनस्थम्१०५॥
न ते तत्त्वं विश्वसृजोपि योनिमेकांततो वेत्ति विशुद्धभावः।
परं त्वहं वेद्मि कथं पुराणं भवंतमाद्यं तपसा विशुद्धम्१०६॥
पद्मासनो वै जनकः प्रसिद्ध एवं प्रसिद्धिर्ह्यसकृत्पुराणात्।
संचिंत्य ते नाथ विभुं भवंतं जानाति नैवं तपसाविहीनः१०७॥
अस्मादृशैश्च प्रवरैर्विबोध्यं त्वां देवमूर्खाः स्वमतिं विभज्य।
प्रबोद्धुमिच्छन्ति न तेषु बुद्धिरुदारकीर्तिष्वपि वेदहीनाः१०८॥
जन्मांतरैर्वेद विवेकबुद्धिभिर्भवेद्यथा वा यदि वा प्रकाशः।
तल्लाभलुब्धस्य न मानुषत्वं न देवगंधर्वपतिः शिवः स्यात्१०९॥
न विष्णुरूपो भगवान्सुसूक्ष्मः स्थूलोसि देवः कृतकृत्यतायाः।
स्थूलोपि सूक्ष्मः सुलभोसि देव त्वद्बाह्यकृत्या नरकेपतंति११०॥
विमुच्यते वा भवति स्थितेस्मिन्दस्रेन्दुवह्न्यर्कमरुन्महीभिः।
तत्वैः स्वरूपैः समरूपधारिभिरात्मस्वरूपे वितत स्वभावः१११॥
इति स्तुतिं मे भगवन्ह्यनंत जुषस्व भक्तस्य विशेषतश्च।
समाधियुक्तस्य विशुद्धचेतसस्त्वद्भावभावैकमनोनुगस्य११२॥
सदा हृदिस्थो भगवन्नमस्ते नमामि नित्यं भगवन्पुराण।
इति प्रकाशं तव मे तदीशस्तवं मया सर्वगतिप्रबुद्ध११३॥
संसारचक्रे भ्रमणादियुक्ता भीतिं पुनर्नः प्रतिपालयस्व११४॥
ब्रह्मोवाच॥
सर्वज्ञस्त्वं न संदेहो प्रज्ञाराशिश्च केशव।
देवानां प्रथमः पूज्यः सर्वदा त्वं भविष्यसि११५॥
नारायणादनंतरं रुद्रो भक्त्या विरिंचनम्।
तुष्टाव प्रणतो भूत्वा ब्रह्माणं कमलोद्भवम्११६॥
नमः कमलपत्राक्ष नमस्ते पद्मजन्मने।
नमः सुरासुरगुरो कारिणे परमात्मने११७॥
नमस्ते सर्वदेवेश नमो वै मोहनाशन।
विष्णोर्नाभिस्थितवते कमलासन जन्मने११८॥
नमो विद्रुमरक्तांग पाणिपल्लवशोभिने।
शरणं त्वां प्रपन्नोस्मि त्राहि मां भवसंसृतेः११९॥
पूर्वं नीलांबुदाकारं कुड्मलं ते पितामह।
दृष्ट्वा रक्तमुखं भूयः पत्रकेसरसंयुतम्१२०॥
पद्मं चानेकपत्रान्तमसंख्यातं निरंजनम्।
तत्र स्थितेन त्वयैषा सृष्टिश्चैव प्रवर्तिता१२१॥
त्वां मुक्त्वा नान्यतस्त्राणं जगद्वंद्य नमोस्तु ते।
सावित्रीशापदग्धोहं लिंगं मे पतितं क्षितौ१२२॥
इदानीं कुरु मे शांतिं त्राहि मां सह भार्यया।
ब्रह्मा वै पातु मे पादौ जंघे वै कमलासनः१२३॥
विरिंचो मे कटिं पातु सृष्टिकृद्गुह्यमेव च।
नाभिं पद्मनिभः पातु जठरं चतुराननः१२४॥
उरस्तु विश्वसृक्पातु हृदयं पातु पद्मजः।
सावित्रीपतिर्मे कंठं हृषीकेशो मुखं मम१२५॥
पद्मवर्णश्च नयने परमात्मा शिरो मम।
एवं न्यस्य गुरोर्नाम शंकरो नामशंकरः१२६॥
नमस्ते भगवन्ब्रह्मन्नित्युक्त्वा विरराम ह।
ततस्तुष्टो हरं ब्रह्मा वाक्यमेतदुवाच ह१२७॥
कं ते कामं करोम्यद्य पृच्छ मां यद्यदिच्छसि।
रुद्र उवाच॥
यदि प्रसन्नो मे नाथ वरदो यदि वा मम१२८॥
तदेकं मे वद विभो यस्मिन्स्थाने भवान्स्थितः।
केषुकेषु च स्थानेषु त्वां पश्यंति सदा द्विजाः१२९॥
नाम्ना च केन ते स्थानं शोभते धरणीतले।
तन्मे वदस्व सर्वेश तव भक्तिरतस्य च१३०॥
ब्रह्मोवाच॥
पुष्करेहं सुरश्रेष्ठो गयायां च चतुर्मुखः।
कान्यकुब्जे देवगर्भो भृगुकक्षे पितामहः१३१॥
कावेर्य्यां सृष्टिकर्ता च नंदिपुर्य्यां बृहस्पतिः।
प्रभासे पद्मजन्मा च वानर्यां च सुरप्रियः१३२॥
द्वारवत्यां तु ऋग्वेदी वैदिशे भुवनाधिपः।
पौंड्रके पुंडरीकाक्षः पिंगाक्षो हस्तिनापुरे१३३॥
जयंत्यां विजयश्चास्मि जयंतः पुष्करावते।
उग्रेषु पद्महस्तोहं तमोनद्यां तमोनुदः१३४॥
अहिच्छन्ने जया नंदी कांचीपुर्यां जनप्रियः।
ब्रह्माहं पाटलीपुत्रे ऋषिकुंडे मुनिस्तथा१३५॥
महितारे मुकुंदश्च श्रीकंठः श्रीनिवासिते।
कामरूपे शुभाकारो वाराणस्यां शिवप्रियः१३६॥
मल्लिकाक्षे तथा विष्णुर्महेंद्रे भार्गवस्तथा।
गोनर्दे स्थविराकार उज्जयिन्यां पितामहः१३७॥
कौशांब्यां तु महाबोधिरयोध्यायां च राघवः।
मुंनींद्रश्चित्रकूटे तु वाराहो विंध्यपर्वते१३८॥
गंगाद्वारे परमेष्ठी हिमवत्यपि शंकरः।
देविकायां स्रुचाहस्तः स्रुवहस्तश्चतुर्वटे१३९॥
वृंदावने पद्मपाणिः कुशहस्तश्च नैमिषे।
गोप्लक्षे चैव गोपीन्द्रः सचंद्रो यमुनातटे१४०॥
भागीरथ्यां पद्मतनुर्जलानंदो जलंधरे।
कौंकणे चैव मद्राक्षः कांपिल्ये कनकप्रियः१४१॥
वेंकटे चान्नदाता च शंभुश्चैव क्रतुस्थले।
लंकायां च पुलस्त्योहं काश्मीरे हंसवाहनः१४२॥
वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावते।
मेलके श्रुतिदाताहं प्रपाते यादसांपतिः१४३॥
सामवेदस्तथा यज्ञे मधुरे मधुरप्रियः।
अंकोटे यज्ञभोक्ता च ब्रह्मवादे सुरप्रियः१४४॥
नारायणश्च गोमंते मायापुर्यां द्विजप्रियः।
ऋषिवेदे दुराधर्षो देवायां सुरमर्दनः१४५॥
विजयायां महारूपः स्वरूपो राष्ट्रवर्द्धने।
पृथूदरस्तु मालव्यां शाकंभर्यां रसप्रियः१४६॥
पिंडारके तु गोपालः शंखोद्धारेंगवर्द्धनः।
कादंबके प्रजाध्यक्षो देवाध्यक्षः समस्थले१४७॥
गंगाधरो भद्रपीठे जलशाय्यप्यहमर्बुदे।
त्र्यंबके त्रिपुराधीशः श्रीपर्वते त्रिलोचनः१४८॥
महादेवः पद्मपुरे कापाले वैधसस्तथा।
शृंगिबेरपुरे शौरिर्नैमिषे चक्रपाणिकः१४९॥
दंडपुर्यां विरूपाक्षो गौतमो धूतपापके।
हंसनाथो माल्यवति द्विजेंद्रो वलिके तथा1.34.१५०॥
इंद्रपुर्यां देवनाथो द्यूतपायां पुरंदरः।
हंसवाहस्तु लंबायां चंडायां गरुडप्रियः१५१॥
महोदये महायज्ञः सुयज्ञो यज्ञकेतने।
सिद्धिस्मरे पद्मवर्णः विभायां पद्मबोधनः१५२॥
देवदारुवने लिंगं महापत्तौ विनायकः।
त्र्यंबको मातृकास्थाने अलकायां कुलाधिपः१५३॥
त्रिकूटे चैव गोनर्दः पाताले वासुकिस्तथा।
पद्माध्यक्षश्च केदारे कूष्मांडे सुरतप्रियः१५४॥
कुंडवाप्यां शुभांगस्तु सारण्यां तक्षकस्तथा।
अक्षोटे पापहा चैव अंबिकायां सुदर्शनः१५५॥
वरदायां महावीरः कांतारे दुर्गनाशनः।
अनंतश्चैव पर्णाटे प्रकाशायां दिवाकरः१५६॥
विराजायां पद्मनाभः स्वरुद्रश्च वृकस्थले।
मार्कंडो वटके चैव वाहिन्यां मृगकेतनः१५७॥
पद्मावत्यां पद्मगृहो गगने पद्मकेतनः।
अष्टोत्तरं स्थानशतं मया ते परिकीर्तितम्१५८॥
यत्र वै मम सांनिध्यं त्रिसंध्यं त्रिपुरांतक।
एतेषामपि यस्त्वेकं पश्यते भक्तिमान्नरः१५९॥
स्थानं सुविरजं लब्ध्वा मोदते शाश्वतीः समाः।
मानसं वाचिकं चैव कायिकं यच्च दुष्कृतम्१६०॥
तत्सर्वं नाशमायाति नात्र कार्या विचारणा।
यस्त्वेतानि च सर्वाणि गत्वा मां पश्यते नरः१६१॥
भवते मोक्षभागी च यत्राहं तत्र वै स्थितः।
पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः१६२॥
ध्यानेन च स्थिरेणाशु प्राप्यते परमेश्वरः।
तस्य पुण्यफलं चाग्र्यमंते मोक्षफलं तथा१६३॥
स ब्रह्मलोकमासाद्य तत्कालं तत्र तिष्ठति।
पुनः सृष्टौ भवेद्देवो वैराजानां महातपाः१६४॥
ब्रह्महत्यादि पापानि इहलोके कृतान्यपि।
अकामतः कामतो वा तानि नश्यंति तत्क्षणात्१६५॥
इहलोके दरिद्रो यो भ्रष्टराज्योथवा पुनः।
स्थानेष्वेतेषु वै गत्वा मां पश्यति समाधिना१६६॥
कृत्वा पूजोपहारं च स्नानं च पितृतर्पणम्।
कृत्वा पिंडप्रदानं च सोचिराद्दुःखवर्जितः१६७॥
एकच्छत्रो भवेद्राजा सत्यमेतन्न संशयः।
इह राज्यानि सौभाग्यं धनं धान्यं वरस्त्रियः१६८॥
भवंति विविधास्तस्य यैर्यात्रा पुष्करे कृता।
इदं यात्राविधानं यः कुरुते कारयेत वा१६९॥
शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते।
अगम्यागमनं येन कृतं जानाति मानवः१७०॥
ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च।
यात्रां चेमां सकृत्कृत्वा वेदसंस्कारमाप्नुयात्१७१॥
किमत्र बहुनोक्तेन इदमस्तीह शंकर।
अप्राप्यं प्राप्यते तेन पापं चापि विनश्यति१७२॥
सर्वयज्ञफलैस्तुल्यं सर्वतीर्थफलप्रदम्।
सर्वेषां चैव वेदानां समाप्तिस्तेन वै कृता१७३॥
यैः कृत्वा पुष्करे संध्यां सावित्री समुपासिता।
स्वपत्नीहस्तदत्तेन पौष्करेण जलेन तु१७४॥
भृंगारेण वरेणैव मृण्मयेनापि शंकर।
आनीय तज्जलं पुण्यं संध्योपास्तिर्दिनक्षये१७५॥
समाधिना समाधेया सप्राणायामपूर्विका।
तस्यां कृतायां यत्पुण्यं तच्छृणुष्व हराद्य मे१७६॥
तेन द्वादशवर्षाणि भवेत्संध्या सुवंदिता।
अश्वमेधफलं स्नाने दाने दशगुणं तथा१७७॥
उपवासेप्यनंतं च स्वयं प्रोक्तं मयानघ।
सावित्र्याः पुरतो यस्तु दंपत्योर्भोजनं ददेत्१७८॥
तेनाहं भोजितस्तत्र भवामीह न संशयः।
द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः१७९॥
लक्ष्मीसहायो वरदो वरांस्तस्य प्रयच्छति।
उमासहायस्तार्तीये भोजितोसि न संशयः१८०॥
अथवा या कुमारीणां भक्त्या दद्याच्च भोजनम्।
तस्याः कुले भवेद्वंध्या न कदाचिच्च दुर्भगा१८१॥
न कन्या जननी क्वापि न भर्तुर्या न वल्लभा।
तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे तु भोजनम्१८२॥
पारत्रमैहिकं वापि कामयद्भिर्नरैः सदा।
दातव्यं सर्वदा भीष्म कटुतैलविवर्जितम्१८३॥
न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन।
भक्ष्यं पंचप्रकारं च रसैः सर्वैस्सुसंस्कृतम्१८४॥
घृतपूर्यः सुपक्वाश्च बहुक्षीरसमन्विताः।
शिखरिणी तथा पेया दधिक्षीरसमन्विता१८५॥
आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा।
धनधान्यां जनोपेतं नारीणां च शताकुलम्१८६॥
पूपकं शष्कुलं तस्यां जायते नात्र संशयः।
न ज्वरो न च संतापो न दुःखं न वियोगिता१८७॥
असौ तारयते स्वानां कुलानामेकविंशतिं।
बंधुभिश्च सुतैश्चैव दासीदासैरनंतकैः१८८॥
पूरितं च कुलं तस्याः पूरिकां या प्रदास्यति।
एधते च चिरं कालं पुत्रपौत्रसमन्वितम्१८९॥
कुलं च सकलं तस्य शष्कुलं यः प्रयच्छति।
पुत्रिण्यो वै दुहितरो बंधुभिः सहितं कुलम्१९०॥
शिखरिणीप्रदात्रीणां युवतीनां न संशयः।
मोदते तु कुलं तस्याः सर्वसिद्धिप्रपूरितम्१९१॥
मोदकानां प्रदानेन एवमाह प्रजापतिः।
एतदेव तु गौरीणां भोजनं हर शस्यते१९२॥
सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता।
सहस्रभोजिनी शंभो जन्मजन्म भविष्यति१९३॥
पूपानि चैव पुण्यानि कृतानि मधुराणि च।
द्राक्षारसप्रधानं च गुडखंडसमन्वितम्१९४॥
शारदेन तु धान्येन कृत्वा खंडं विमिश्रितत्।
स्त्रीणां चैव तु पेयानि भक्ष्याणि च द्विजन्मनाम्१९५॥
इह चाविकवासांसि वर्षायोग्यानि सर्वशः।
यानियानि च पेयानि तानि योग्यानि दापयेत्१९६॥
प्रतिपूज्य विधानेन वसुदानैः सकंचुकैः।
कुंकुमेनानुलिप्तांग्यः स्रग्दामभिरलंकृताः१९७॥
दत्वा तूपानहावङ्घ्र्योर्नारिकेलं करे तथा।
अक्ष्णोश्चैवांजनं दत्वा सिंदूरं चैव मस्तके१९८॥
गुडं फलानि हृद्यानि वांछितानि मृदूनि च।
हस्ते दत्वा सपात्राणि प्रणिपत्य विसर्जयेत्१९९॥
स्वयं भुंजीत वै पश्चात्सबंधुर्बालकैः सह।
अथवा नैव संपत्तिस्तीर्थे दानं च भाजनम्1.34.२००॥
गृहे गतः प्रदास्यामि हृष्टो देव प्रसीद मे।
एवमेव पितॄणां च आगत्य स्वीय मंदिरे२०१॥
पिंडप्रदानपूर्वं तु श्राद्धं कुर्याद्विधानतः।
पितरस्तस्य वै तृप्ता भवंति ब्रह्मणो दिनम्२०२॥
तीर्थादष्टगुणं पुण्यं स्वगृहे ददतां शिव।
न च पश्यंति वै नीचाः श्राद्धं द्विजातिभिः कृतं२०३॥
एकांते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते।
नीचदृष्ट्या हतं तच्च पितॄन्नैवोपतिष्ठति२०४॥
तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत्।
पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयंभुवा२०५॥
गौरीभक्त्याधिका या तु शस्ता ज्ञातक्रिया तु सा।
राजसी मनसा ज्ञाता जनानां कीर्तिदायिनी२०६॥
गुप्तं दानं सदा देयमात्मनो हितमिच्छता।
पक्वान्नं दृश्यतामेति दीयमानं जनैर्भुवि२०७॥
दृश्यमानं तु तत्तुष्ट्यै दृश्यते नेह कर्हिचित्।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता२०८॥
भवने नात्र संदेहः सत्यं पौराणिकं वचः।
तीर्थे तु ब्राह्मणं नैव परीक्षेत कथंचन२०९॥
अन्नार्थिनमनुप्राप्तं भोज्यं तं मनुरब्रवीत्।
सक्तुभिः पिंडदानं च संयावैः पायसेन वा२१०॥
कर्त्तव्यमृषिभिर्दृष्टं पिण्याकेनैंगुदेन वा।
तिलपिण्याककैर्देयं भक्तिमद्भिर्नरैः सदा२११॥
श्राद्धं तत्र तु कर्तव्यमर्घ्यावाहनवर्जितम्।
स्वधां तु गृध्राः काका वा नैव दृष्ट्या हरन्ति ते२१२॥
श्राद्धं तत्तैर्थिकं प्रोक्तं पितॄणां तृप्तिदं परम्।
कर्तव्यं तत्प्रयत्नेन भक्तिरेवात्र कारणम्२१३॥
भक्त्या तुष्यन्ति पितरस्तुष्टाः कामान्दिशन्ति ते।
पुत्रं पौत्रं धनं धान्यं कामान्यान्मनसेच्छति२१४॥
भक्त्या चाराधितो दद्यान्नृणां प्रीतः पितामहः।
अकालेप्यथ काले वा तीर्थे श्राद्धं सदा नरैः२१५॥
प्राप्तैरेव सदा स्नानं कर्तव्यं पितृतर्पणम्।
पिंडदानं च कर्तव्यं पितॄणां चातिवल्लभम्२१६॥
पितरो हि निरीक्षन्ते गोत्रजं समुपागतम्।
आशया परया युक्ताः कांक्षंतस्सलिलं च ते२१७॥
विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेत्।
अच्छिन्ना सन्ततिस्तेषां सदा कालं भविष्यति२१८॥
पितरः पुत्रदातारं वृद्धिश्राद्धाभिकांक्षिणः।
तेन ते सन्ततिच्छेदं न कुर्वन्ति हि कर्हिचित्२१९॥
अतः श्राद्धं पुरा प्रोक्तं स्वयमेव स्वयंभुवा।
गुणोत्तरंतुयत्कार्यंद्विजैःपितृपरायणैः२२०॥
तीर्थे क्षेत्रे गृहे वापि संक्रांतौ ग्रहणेपि वा।
विषुवे अयने चापि जन्मर्क्षे च प्रपीडिते२२१॥
एतान्वै श्राद्धकालांस्तु पुरा स्वायंभुवोब्रवीत्।
कृते श्राद्धे न वै पुंसां पीडा भवति देहजा२२२॥
तदा पुत्रकृतं वापि सर्वं त्यजति दुष्कृतम्।
यथा न भविता पीडा ग्रहचोरनृपादिकात्२२३॥
दुष्कृतं नश्यते सर्वं परत्र च गतिं शुभाम्।
लभते नात्र सन्देहः प्रजापतिवचो यथा२२४॥
कृते युगे पुष्कराणि त्रेतायां नैमिषं स्मृतम्।
द्वापरे च कुरुक्षेत्रं कलौ गंगां समाश्रयेत्२२५॥
दुष्करः पुष्करे वासो दुष्करं पुष्करे तपः।
यदन्यत्र कृतं पापं तीर्थे तद्याति लाघवम्२२६॥
न तीर्थकृतमन्यत्र क्वचित्पापं व्यपोहति।
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलि२२७॥
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत।
सायंप्रातरुपस्पृश्य पुष्करे नियतेन्द्रियः२२८॥
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति।
द्वादशाब्दं द्वादशाहं मासं मासार्धमेव च२२९॥
यो वसेत्पुष्करे नित्यं स गच्छेत्परमांगतिम्।
सर्वेषामेवलोकानांब्रह्मलोकोपरिस्थितः२३०॥
यइच्छेत्पुष्करंगन्तुंसोनुसेवेतपुष्करम्।
यथा लोमविलोमाभ्यां तथा व्यस्तसमस्तयोः२३१॥
स्नातस्तु पुष्करे सम्यक्कोट्याश्च फलमुश्नुते।
विधिवत्क्रियमाणेषु सर्वतीर्थेषु यत्फलम्२३२॥
पुष्करालोकनादेव नरः प्राप्नोति तत्फलम्।
दशकोटिसहस्राणि तीर्थानां वै महीतले२३३॥
सान्निध्यं पुष्करे तेषां त्रिसंध्यं कुरुनन्दन।
यावत्तिष्ठंति गिरयो यावत्तिष्ठन्तिसागराः२३४॥
तावत्पुष्कर मृत्यूनां ब्रह्मलोको न संशयः।
जन्मान्तरसहस्रैश्च आजन्ममरणांन्तिकम्२३५॥
निर्दहेद्दुष्कृतं सर्वं सकृत्स्नात्वा तु पुष्करे।
पुष्करं दुष्करं क्षेत्रं सर्वपापप्रणाशनम्२३६॥
इदानीं शृणु मे राजन्पञ्चपातकनाशनम्।
यजनं देवदेवस्य ब्रह्मपुत्र वसुप्रदम्२३७॥
इह जन्मनि दारिद्र्य व्याधिकुष्ठादिपीडितः।
अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि२३८॥
तस्य सद्यो भवेल्लक्ष्मीरायुः पूर्णं सुतास्सुखम्।
कृत्वा तु मण्डलगतं लोकपालसमन्वितम्२३९॥
ब्रह्माणं तु परं देवं यः पश्यति विधानतः।
पूजितं नवनाभेन मन्त्रमूर्तिमयो निजम्२४०॥
कार्तिके मासि शुक्लायां पौर्णमास्यां विशेषतः।
सर्वासु वा यजेदेवं पूर्णिमासु विधानतः२४१॥
संक्रान्तौ च महाबाहो चन्द्रसूर्यग्रहेपि वा।
यः पश्यति विभुं देवं पूजितं गुरुणा नृप२४२॥
तस्य सद्यो भवेत्तुष्टिः पापध्वंसश्च जायते।
स मान्यो देवतानां च भवतीह नराधिप२४३॥
ब्राह्मणक्षत्रियविशां भक्तानां तु परीक्षणम्।
संवत्सरं गुरुः कुर्याज्जातिशौचक्रियादिभिः२४४॥
उपपन्नमिति ज्ञात्वा हृदये नावधारयेत्॥
तेपि भक्तियुता ध्यात्वा त्वाचार्यं परमेश्वरम्२४५॥
संवत्सरं गुरौ भक्तिं कुर्युर्विष्णौ यथा तथा।
प्रसादयेयुश्च ततः पूर्णे संवत्सरे गुरुम्२४६॥
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम्।
परब्रह्मोपासनेन विरिंच्याराधनेन च२४७॥
सहस्रशीर्षजप्येन मण्डलब्राह्मणेन च।
ध्यानेन स्यात्तथास्माकमुपदेशः प्रदीयताम्२४८॥
इच्छामो वैदिकीं लक्ष्मीं विशेषेण प्रसीदताम्।
अभ्यर्थितो गुरुस्त्वेवं मेधावी तैस्तदा ततः२४९॥
यथाविधि समभ्यर्चेद्ब्रह्माणं विष्णुमग्रतः।
ते बद्धनेत्राः स्वाप्यास्तु कार्तिकस्य चतुर्दशीम्1.34.२५०॥
ब्राह्मे मुहूर्ते चोत्त्थाय बद्धपद्मासनास्तु ते।
ध्यात्वा गुरुं सहस्रारे श्वेतवस्त्रोपवीतकम्२५१॥
श्वेतमाल्यांबरधरं श्वेतगंधानुलेपनम्।
निर्गम्य च बहिर्नद्यां कुर्युर्नित्यमतन्द्रिताः२५२॥
क्षीरवृक्षोत्थमाचार्यो दापयेद्दन्तधावनम्।
ते च तं भक्षयेयुर्हि नदीं गत्वा समुद्रगाम्२५३॥
इतरद्वा तटाकं वा गृहे वापि विधानतः।
तद्भक्षयेयुर्मंत्रेण मंत्रितं परमेष्ठिनः२५४॥
आपोहिष्ठेति मंत्रेण सप्तकृत्वोभिमंत्रितं।
देवस्य त्वेति वै जप्त्वा युंजानेति करे न्यसेत्२५५॥
इरावत्येति प्रक्षाल्य ब्रह्मोदनेति वै मुखे।
भक्षयित्वा क्षिपेद्दूरं पतितं च निरीक्षयेत्२५६॥
सम्मुखं प्राङ्मुखं वापि विदिशं चापि वा गतम्।
संमुखे देवतालब्धिर्मंत्रसिद्धिश्च जायते२५७॥
पराङ्मुखे दंतकाष्ठे सर्वे देवाः पराङ्मुखाः।
उत्तरेण गते तस्मिन्सिद्धिर्भवति वा न वा२५८॥
दक्षिणेन भवेन्मृत्युर्गुरोस्तस्य न संशयः।
प्रेक्ष्याशुभं स्वपेद्भूमौ देवदेवस्य सन्निधौ२५९॥
स्वप्नान्दृष्ट्वा गुरोरग्रे श्रावयेयुर्विचक्षणाः।
ततः शुभाशुभं तत्र लक्षयेत्परमो गुरुः२६०॥
पौर्णमास्यामथ स्नात्वा ततो देवालयं व्रजेत्।
गुरुश्च मंडलं भूमौ कल्पितायां तु वर्तयेत्२६१॥
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः।
षोडशारं लिखेत्पद्मं नवधारमथापि वा२६२॥
अष्टपत्रमथो वापि लिखित्त्वा दर्शयेद्बुधः।
नेत्रबंधं तु कुर्वीत सितवस्त्रेण यत्नतः२६३॥
वर्णानुक्रमतः शिष्यान्पुष्पहस्तान्प्रवेशयेत्।
नवनाभं यदा कुर्यान्मंडलं वर्णकैर्बुधः२६४॥
इंद्राणीपूर्वकं देवमिंद्रमैंद्र्यां तु पूजयेत्।
लोकपालैः समं तद्वदग्निं संपूजयेन्नृप२६५॥
दिशि वह्नेर्यमं याम्यां नैऋत्यां चैव निर्ऋतिम्।
वरुणं वारुणाशायां वायुं वायव्यगोचरे२६६॥
धनदं चोत्तरे न्यस्य रुद्रमीशानगोचरे।
कमंडलुं पूर्वतो हि स्रुचं वै दक्षिणे तथा२६७॥
हंसं वै पश्चिमायां तु उत्तरायां स्रुवं तथा।
आग्नेय्यां च ब्रसीं दद्यान्नैर्ऋत्यां पादुके तथा२६८॥
वायव्यां योगपट्टं च ऐशान्यां च गलंतिकाम्।
विष्णुस्तु पूर्वतः पूज्यो दक्षिणे चापि शंकरः२६९॥
पश्चिमे तु रविर्देव ऋषयश्चोत्तरे तथा।
मध्ये स्वयं पद्मजन्मा सावित्री दक्षिणे तथा२७०॥
उत्तरे चैव गायत्री देवी पद्मदलेक्षणा।
ऋग्वेदं पूर्वतो न्यस्य यजुर्वेदं च दक्षिणे२७१॥
पश्चिमे सामवेदं च अथर्वं चोत्तरे तथा।
इतिहासपुराणानिच्छंदोज्यौतिषमेवच२७२॥
धर्मशास्त्राणि चान्यानि इंद्रादि दिक्षु विन्यसेत्।
पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे दले२७३॥
पश्चिमे चानिरुद्धं च वासुदेवमथोत्तरे।
पूर्वतो वामदेवं च सद्योजातं तु दक्षिणे२७४॥
ईशानं पश्चिमे स्थाप्य तत्पुरुषं चोत्तरे तथा।
अघोरस्सर्वतः पूज्य एषा पूजा तु मंडले२७५॥
पूर्वतो भास्करं पूज्य दक्षिणेन दिवाकरं।
प्रभाकरं पश्चिमे तु ग्रहराजमथोत्तरे२७६॥
एवं पूज्य विधानेन ब्रह्माणं परमेश्वरम्।
दिङ्मंडले तु विन्यस्य अष्टौ कुंभान्विधानतः२७७॥
ब्राह्मं तु कलशं मध्ये नवमं तत्र कल्पयेत्।
स्नापयेन्मुक्तिकामं तु ब्रह्मणो वै घटेन तु२७८॥
श्रीकामं वैष्णवेनेह कलशेन तु पार्थिव।
राज्यार्थिनं स्नापयेच्च ऐंद्रेण कलशेन तु२७९॥
द्रव्यप्रतापकामं तु आग्नेय घटवारिणा।
मृत्युंजयविधानाय याम्येन स्नापयेन्नरम्२८०॥
दुष्टप्रध्वंसनायालं नैर्ऋतेन विधीयते।
स्नापयेद्वारुणेनाशु पापनाशाय मानवं२८१॥
शरीरारोग्यकामं तु वायव्येनाभिषेचयेत्।
द्रव्यसंपत्तिकामस्य कौबेरेण विधीयते२८२॥
रौद्रेण ज्ञानकामस्य लोकपालघटास्त्विमे।
एकैकेन नरः स्नात्वा सर्वदोषविवर्जितः२८३॥
जायते ब्रह्मसदृशो राजासद्योऽथ वा नरः।
अथवा दिक्षु सर्वासु यथासंख्येन लोकपान्२८४॥
पूजयेत्तु स्वनाम्ना तु कुंभैरेव विधानतः।
एवं संपूज्य देवांस्तु लोकपालान्प्रसन्नधीः२८५॥
पश्चात्परीक्षितान्शिष्यान्बद्धनेत्रान्प्रवेशयेत्।
दग्ध्वाग्नेय्या धारणया वायुना विधुनेत्ततः२८६॥
सोमेनाप्यायितान्कृत्वा श्रावयेत्समयांस्ततः।
न निंद्याद्ब्राह्मणान्देवान्विष्णुं ब्रह्माणमेव च२८७॥
इंद्रमादित्यमग्निं च लोकपालान्ग्रहांस्तथा॥
गुरुं च ब्राह्मणं वापि मुनींद्रं पूर्वदीक्षितम्२८८॥
एवं तु समयान्श्राव्य पश्चाद्धोमं तु कारयेत्।
ऊँ नमो भगवते ब्रह्मणे सर्वरूपिणे हुंफट्स्वाहा२८९॥
षोडशाक्षरमंत्रेण होमयेज्ज्वलितेनले।
गर्भाधानादिकाः सर्वा आहुतीस्संप्रदापयेत्२९०॥
तिसृभिस्तु व्याहृतिभिर्देवदेवस्य सन्निधौ।
होमांते दीक्षितः पश्चाद्दापयेद्गुरुदक्षिणाम्२९१॥
हस्त्यश्वयानशकटहेमधान्यादिकं नृप।
दापयेद्गुरवे प्राज्ञो मध्यमे मध्यमं तथा२९२॥
दापयेदपरे युग्मं सहिरण्यं तु तद्गुरोः।
एवं कृते तु यत्पुण्यं महत्संजायते तथा२९३॥
तन्न शक्यं निगदितुमपि वर्षशतैरपि।
दीक्षितोथ पुरा भूत्वा पाद्मं वै शृणुयाद्यदि२९४॥
तेन वेदाः पुराणानि सर्वमंत्रास्ससंग्रहाः।
जप्तास्स्युः पुष्करे तीर्थे प्रयागे सिंधुसागरे२९५॥
देवह्रदे कुरुक्षेत्रे वाराणस्यां विशेषतः।
ग्रहणे विषुवे चैव यत्फलं जपतां भवेत्२९६॥
फलं शतगुणं तच्च पुष्करस्थं पितामहम्।
दृष्ट्वा प्राप्नोति विविधान्कामान्कामयते यदि२९७॥
पूजां वैधानिकीं कृत्वा दीक्षितो यः शृणोति च।
देवा अपि तपः कृत्वा ध्यायंति च वदन्ति च२९८॥
कदा मे भारते वर्षे जन्म स्यादिति पार्थिव।
दीक्षिताश्च भविष्यामः पाद्मं श्रोष्यामहे कदा२९९॥
पाद्मं तु षोडशात्मानं न्यस्य देहे कदा वयम्।
यास्यामस्तु परं स्थानं यद्गत्वा न पुनर्भवेत्1.34.३००॥
एवं जल्पंति विबुधा मनसा चिंतयंति च।
ब्रह्मयज्ञं च कार्तिक्यां कदा द्रक्ष्यामहे नृप३०१॥
एवं ते विधिरुद्दिष्टो मयायं कुरुसत्तम।
देवगंधर्वयक्षाणां सर्वदा दुर्लभो ह्यसौ३०२॥
एवं यो वेत्ति तत्त्वेन यश्च पश्यति मंडलम्।
यश्चेमं शृणुयाच्चैव सर्वे मुक्ता इति श्रुतिः३०३॥
अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम्।
येन लक्ष्मीर्धृतिस्तुष्टिः पुष्टिश्चापि भवेन्नृणाम्३०४॥
सर्वे ग्रहास्सदा सौम्या जायंते येन पार्थिव।
आदित्यवारं हस्तेन पूर्वमादाय भक्तितः३०५॥
भक्तैकेन क्षिपेत्तावद्यावत्सप्त च संख्यया।
ततस्तु सप्तमे पूर्णे कुर्याद्ब्राह्मणभोजनम्३०६॥
आदित्यं चैव सौवर्णं कृत्वा यत्नेन मानवः।
रक्तवस्त्रयुगच्छन्नं छत्रिकां पादुके तथा३०७॥
उपानहौ च दातव्ये स्थापयेत्ताम्रभाजने।
घृतेन स्नपनं कृत्वा संपूर्णांग द्विजातये३०८॥
दापयेत्कृत्यविदुषे ब्राह्मणाय विशेषतः।
एवं कृतौ फलं तस्य भवेदारोग्यमुत्तमम्३०९॥
द्रव्यसंपत्समग्राप्तिरिति पौराणिकी क्रिया।
अविसंवादिनी चेयं शांति पुष्टिप्रदा नृणाम्३१०॥
तद्वच्चित्रासु संगृह्य सोमवारं विचक्षणः।
रात्रिभक्षः क्षिपेदष्टौ सोमवारान्प्रयत्नतः३११॥
प्रत्येकं ब्राह्मणा भोज्या यथाशक्ति विचक्षणाः।
नवमे तु ततः पूर्णे कुर्याद्ब्राह्मणभोजनम्३१२॥
वस्त्रयुग्मं च दातव्यं ततः सोमं प्रदापयेत्।
कांस्यभाजनसंस्थं तु क्षीरसंपूरितं ततः३१३॥
तद्वच्छत्रं पादुके च तथोपानत्समन्वितम्।
संपूर्णांगाय दातव्यं ब्राह्मणाय विशेषतः३१४॥
स्वात्यामंगारकं पूज्य क्षपयेन्नक्तभोजनैः।
अष्टावेवं च यावच्च कुर्याद्ब्राह्मणभोजनम्३१५॥
अंगारकं च सौवर्णं स्थापितं ताम्रभाजने।
दापयेद्ब्राह्मणायाथ संपूर्णांगाय चैव हि३१६॥
नक्षत्रानुक्रमेणैव क्षिपेन्नक्तानि सप्त वै।
अष्टमे तु क्रमात्खेटान्सौवर्णान्दापयेद्बुधः३१७॥
अग्निकार्यं च कुर्वीत यथादृष्टं विधानतः।
एवं कृते भवेद्यद्वै तन्निबोध नराधिप३१८॥
असौम्याश्च ग्रहास्सर्वे सौम्यरूपा भवंति च॥
सर्वे रोगा विनश्यन्ति तुष्टिमायान्ति देवताः३१९॥
न विरुन्धन्ति तं नागाः पितरस्तर्पितास्तथा।
दुस्स्वप्ननाशो भवति शृण्वतां पठतां तथा३२०॥
यदि भौमो रविसुतो भास्करो राहुणा सह।
केतुश्च मूर्ध्नि तिष्ठंति रौद्राः पीडाकरा ग्रहाः३२१॥
अनेन कृतमात्रेण ससौभाग्या भवंति हि।
य एवं कुरुते राजन्सदाभक्तिसमन्वितः३२२॥
तस्य सानुग्रहाः सर्वे शांतिं यच्छंति नान्यथा।
शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेत्३२३॥
लोहेन कारयेच्चैनान्ब्राह्मणेभ्यश्च दापयेत्।
कृष्णं वस्त्रयुगं देयमेतेषां प्रीणनाय वै३२४॥
सौवर्णां गाश्च दातव्याः शांतिश्रीविजयेप्सुभिः।
व्रतांते सर्व एते हि ग्रहास्सौवर्णका नृप३२५॥
दातव्याः शांतिमिच्छद्भिर्व्रतांते द्विजभोजनम्।
यथाशक्ति दक्षिणा च ग्रहाणां प्रीतये तथा३२६॥
अल्पायासेन राजेंद्र सर्वान्कामानवाप्नुयात्।
शंकराज्ज्ञानमन्विच्छेदारोग्यं भास्करात्तथा३२७ (ज्ञान)॥
हुताशनाद्धनमिच्छेद्गतिमिच्छेज्जनार्दनात् । (गति)॥
ब्राह्म्यं पितामहाच्चैव सर्वजन्तुप्रशांतिदम्३२८॥
भीष्म उवाच॥
यस्त्वया कथितो यज्ञो यज्वनां तु फलं महत्।
तथायुषस्स्वल्पतया अन्यैः प्राप्तुं न शक्यते३२९॥
स्वल्यायासेन यत्पुण्यं संवत्सरमुपोषजम्।
भवेत्तन्मे मुनिश्रेष्ठ कथयस्व महाफलम्३३०॥
पुलस्त्य उवाच॥
इदमर्थं महाराज श्वेतो राजा महायशाः।
वसिष्ठं पृष्टवान्प्रश्नं क्षुधया पीडितो भृशम्३३१॥
आसीदिलावृते वर्षे श्वेतो राजा महाबलः।
स महीं सकलां जिग्ये सप्तद्वीपां सपत्तनाम्३३२॥
ब्रह्मपुत्रो वसिष्ठश्च आसीत्तस्य पुरोहितः।
स कदाचिन्नृपश्रेष्ठो जित्वा परमधार्मिकः३३३॥
पुरोहितमुवाचेदं वसिष्ठं जपतां वरम्।
श्वेत उवाच॥
भगवन्नश्वमेधानां सहस्रं कर्तुमुत्सहे३३४॥
सुवर्णरूप्यरत्नानां दानं कर्तुं द्विजातिषु।
पृथिव्यामन्नदानं तु दातुन्नेच्छामि वै गुरो३३५॥
नान्नेन किंचिद्दत्तेन दत्ते होम्नि द्विजे प्रभो।
न किंचिद्वस्त्विति ज्ञात्वा न दत्तं तत्कदाचन३३६॥
रक्तवस्त्रमलंकारं ग्रामांश्च नगराणि च।
अददाद्ब्राह्मणेभ्योऽसौ श्वेतो राजा महायशाः३३७॥
नान्नं जलं तेन राज्ञा दत्तमासीत्कदाचन।
ततोऽश्वमेधैर्बहुभिर्यज्वासौ नृपसत्तम३३८॥
स्वर्गं गतः पुण्यजितं तपस्तप्त्वार्बुदत्रयम्।
ब्राह्मीं सलोकतां प्राप्तः सर्वालंकारभूषितः३३९॥
नृत्यंत्यप्सरसस्तत्र गायंते सिद्धयोषितः।
तुंबुरुर्नारदस्तत्र द्वावप्यनुगतौ सदा३४०॥
अगायेतां महाप्राज्ञौ मुनयश्च तपोन्विताः।
वेदोक्तमंत्रैः स्तुवन्ति अनेकक्रतुयाजिनम्३४१॥
एवं विभवयुक्तस्य राज्ञस्तस्य महात्मनः।
क्षुधाया पीड्यते देहं तृष्णया च विशेषतः३४२॥
स तया पीड्यमानस्तु क्षुधया राजसत्तमः॥
विमानेनाप्यसौ स्वर्गं त्यक्त्वागादृक्षपर्वतम्३४३॥
यत्रात्ममूर्तिस्तत्रागात्पुरा दग्धा महावने।
तत्रास्थीनि स्वयं गृह्य लिहन्नास्ते स पार्थिवः३४४॥
पुनर्विमानमारुह्य ययौ नाकं नराधिपः।
अथ कालेन महता स राजा संशितव्रतः३४५॥
स्वान्यस्थीनि लिहन्दृष्टो वसिष्ठेन पुरोधसा।
उक्तश्च किन्नु राजेन्द्र स्वास्थिभक्षो नराधिप३४६॥
एवमुक्तस्ततो राजा वसिष्ठेन महर्षिणा।
उवाच वचनं चेदं श्वेतो राजाथ तं मुनिम्३४७॥
भगवंस्तृट्क्षुधार्तोहमन्नदानं पुरा मया।
न दत्तं मुनिशार्दूल तेन मां क्षुत्प्रबाधते३४८॥
एवमुक्तस्तदा राजा वसिष्ठो मुनिपुंगवः।
उवाच तं नृपं भूयो वाक्यमेतन्महामुनिः३४९॥
किं ते करोमि राजेंद्र क्षुधितस्य विशेषतः।
वस्तु कस्यापि किंचिद्धि नाऽदत्तमुपतिष्ठति1.34.३५०॥
रत्नहेमप्रदानेन भोगवान्जायते नरः।
अन्नदानप्रदानेन सर्वकामैः प्रदीपितः३५१॥
तन्न दत्तं त्वया राजन्स्तोकं मत्वा नराधिपः।
श्वेत उवाच॥
अदत्तस्य च संभूतिर्यथा भवति मे गुरो३५२॥
वसिष्ठ त्वत्प्रसादेन तन्ममाचक्ष्व पृच्छतः।
वसिष्ठ उवाच॥
अस्त्येकं कारणं येन जायते नात्र संशयः३५३॥
तच्छृणुष्व नरव्याघ्र कथ्यमानं मया तव।
आसीद्राजा पुरा कल्पे विनीताश्वेति कीर्तितः३५४॥
स चाश्वमेधमारेभे यज्ञं कर्तुं वरं नृपः।
यजनांते द्विजेंद्रेभ्यो दत्तं गोऽश्वादि याचितम्३५५॥
नान्नं दत्तं तेन किंचित्स्वल्पं मत्वा यथा त्वया।
ततः कालेन महता मृतोऽसौ जाह्नवी तटे३५६॥
मायापुर्यां विनीताश्वः सार्वभौमोऽभवन्नृपः।
स्वर्गं च गतवान्सोऽपि यथा राजा भवान्प्रभो३५७॥
असावपि क्षुधाविष्ट एवमेवागतोऽभवत्।
मर्त्यलोके नदीतीरे गंगायां नीलपर्वते३५८॥
विमानेनार्कवर्णेन भास्वता देववन्नृप।
ददर्श तत्स्वकं देहं तथा स्वं च पुरोहितम्३५९॥
होतारं ब्राह्मणं नाम यजंतं जाह्नवी तटे।
तं दृष्ट्वाऽसावपि पुनः पर्यपृच्छदिद्वजोत्तमम्३६०॥
क्षुधायाः कारणं राजन्स होता तमुवाच ह।
तिलधेनुं च वै राजन्घृतधेनुं च सत्तम३६१॥
जलधेनुं च धेनुं च रसधेनुं च पार्थिव।
देहि शीघ्रं येन भवांस्तृट्क्षुधावर्जितो दिवि३६२॥
रमे तयावदादित्यस्तपते दिवि चंद्रमाः।
एवमुक्तस्ततो राजा तं पुनः पृष्टवानिदम्३६३॥
तिलधेनुस्थितिं ब्रूहि तथा कृत्वा ददाम्यहम्।
पुरोहित उवाच॥
विधानं तिलधेनोस्तु तच्छृणुष्व नराधिप३६४॥
धेनुस्स्यात्षोडशाढक्य चतुर्भिर्वत्सको भवेत्।
इक्षुदंडमयाः पादा दन्ताः पुष्पमयाः शुभाः३६५॥
नासा गंधमयी तस्या जिह्वा गुडमयी तथा।
पुच्छे स्रक्कल्पनीयास्याद्घंटाभरणभूषिता३६६॥
ईदृशीं कल्पयित्वा तु स्वर्णशृंगीं तु कल्पयेत्।
रौप्यखुरां कांस्यदोहां पूर्वधेनुविधानतः३६७॥
कृत्वा तां ब्राह्मणायाशु दापयेन्मंत्रतो नृप।
स्थितां कृष्णाजिने धेनुं वासोभिर्गोपितां शुभाम्३६८॥
सूत्रेणासूत्रितां कृत्वा पंचरत्नसमन्विताम्।
सर्वौषधिसमायुक्तां मंत्रपूतां तु दापयेत्३६९॥
अन्नम्मे जायतां सद्यः पानं सर्वरसास्तथा।
कामान्संपादयास्माकं तिलधेनो द्विजेर्पिता३७०॥
गृह्णामि देवि त्वां भक्त्या कुटुम्बार्थे विशेषतः।
देहि कामान्वितान्सर्वांस्तिलधेनो नमोस्तु ते३७१॥
एवं विधानतो दत्ता तिलधेनुर्नृपोत्तम।
सर्वकामसमावाप्तिं कुरुते नात्र संशयः३७२॥
जलधेनुस्तथैवेह कुंभैरेव प्रकल्पिता।
दत्ता तु विधिना कामान्सद्यः सर्वान्प्रयच्छति३७३॥
धेनुशतं तथा दत्तं पूर्णिमा नियमेन हि।
सावित्री इव वै स्वर्गे सर्वकामप्रदा भवेत्३७४॥
घृतधेनुस्तथा दत्ता विधानेन विचक्षणैः।
सर्वकामसमावाप्तिं कुरुते कांतिदा भवेत्३७५॥
रसधेनुस्तथा दत्ता कार्तिके मासि पार्थिव।
सर्वान्कामान्प्रयच्छेत्तु नित्यं सा गतिदा भवेत्३७६॥
एतत्ते सर्वमाख्यातं समासाद्बहुविस्तरम्।
अपारं फलमुद्दिष्टं ब्रह्मणा सर्वकर्मणा३७७॥
तृष्णया क्षुधया यद्वा पीडितो राजसत्तम।
तद्दानं कार्तिके देयं पूर्वं देहि नराधिप३७८॥
ब्रह्मांडं सर्वसंपन्नं भूतरत्नौषधीयुतम्।
देवदानवयक्षैश्च युक्तमेतत्सदा विभो३७९॥
एतत्तु सकलं कृत्वा सर्वतो रजतान्वितम्।
सुरत्नसूर्यचंद्राढ्यं कार्तिके द्वादशी दिने३८०॥
अथवा पंचदश्यां तु कार्तिकस्यैव नान्यतः।
पुरोहिताय गुरवे दापयेद्भक्तिमान्नरः३८१॥
ब्रह्मांडोदरवर्तीनि यानि भूतानि पार्थिव।
तानि दत्तानि वै तेन समासात्कथितं तव३८२॥
यद्यज्ञैर्यजतो राजन्समाप्तवरदक्षिणैः।
सर्वं फलं तत्खंडस्य ब्रह्मांडस्य विशेषतः३८३॥
यः पुनः सकलं चेदं ब्रह्मांडं प्रदिशेन्नरः।
तेन जप्तं हुतं दत्तं पठितं कीर्तितं भवेत्३८४॥
राजोवाच॥
विधिं ब्रह्मांडदानस्य कृत्वा तत्मोक्षभाग्भवेत्।
कालं देशं विप्रतीर्थं सर्वं त्वं वद मेनघ३८५॥
कृतेन येन सर्वस्य फलभागी भवाम्यहम्।
कुत्सितस्यास्य भावस्य मोक्षस्स्यादचिराच्च मे३८६॥
वसिष्ठ उवाच॥
एवं श्रुत्वा ततो राजन्पुरोधास्तस्य स द्विजः।
ब्रह्मांडं कारयामास सौवर्णं सर्वधातुभिः३८७॥
युतं निष्कसहस्रेण पद्मं तत्र ह्यकल्पयत्॥
तत्र ब्रह्मा तस्य मध्येपद्मरागैरलंकृतः३८८॥
सावित्र्या चैव गायत्र्या ऋषिभिर्मुनिभिः सह।
नारदाद्याः सुताः सर्व इन्द्राद्याश्च दिवौकसः३८९॥
सौवर्णविग्रहाः सर्वे ब्रह्मणस्तु पुरःसराः।
वराहरूपी भगवान्लक्ष्म्या सह सनातनः३९०॥
नीलं मरकतं चैव भूषायां तस्य कारयेत्।
गोमेदैस्तस्य वै शोभां कारयेत च बुद्धिमान्३९१॥
मोक्तिकैश्चापि सोमस्य शोभां वज्रैर्दिवाकरे।
ग्रहाणां चैव सर्वेषां सुवर्णानि च दापयेत्३९२॥
स्वर्णात्सप्तगुणं रौप्यं रौप्यात्ताम्रं तथाविधम्।
ततः सप्तगुणं कार्यं कांस्यं सप्तगुणं तथा३९३॥
कांस्यात्सप्तगुणं कार्यं त्रपु चैव नराधिप।
त्रपुसप्तगुणं सीसं सीसाल्लोहं च कारयेत्३९४॥
सप्तद्वीपास्समुद्राश्च सप्त वै कुलपर्वताः।
अनया संख्यया कृत्वा निपुणैः शिल्पिभिस्ततः३९५॥
पादपादीनि भूतानि राजतान्येव कारयेत्।
आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत्३९६॥
वृक्षान्वनस्पतीन्गुल्मतृणपर्णानि वीरुधः।
सर्वं प्रकल्प्य विधिवत्तीर्थे देयं विचक्षणैः३९७॥
कुरुक्षेत्रे गयायां च प्रयागेऽमरकंटके।
द्वारवत्यां प्रभासे च गंगाद्वारे च पुष्करे३९८॥
तीर्थेष्वेतेषु वै देयं ग्रहणे शशिसूर्ययोः।
दिनच्छिद्रेषु सर्वेषु अयने दक्षिणोत्तरे३९९॥
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 34 (part 2)
व्यतीपाते बहुगुणं विषुवे च विशेषतः।
दातव्यमेतद्राजेंद्र विचारं नैव कारयेत्1.34.४००॥
शालाग्निहोत्रिणं कृत्वा सुरूपं च गुणान्वितम्।
सपत्नीकं च संपूज्य भूषयित्वा च भूषणैः४०१॥
पुरोहितं मुख्यतमं कृत्वाऽन्ये च तथा द्विजाः।
चतुर्विंशद्गुणोपेताः सपत्नीका निमंत्रिताः४०२॥
अंगुलीयानि च तथा कर्णवेष्टं च दापयेत्।
एवंविधांस्तु तान्पूज्य तेषामग्रे सुसंस्थितः४०३॥
अष्टांगप्रणिपातेन प्रणम्य च पुनःपुन।ः॥
पुरोहिताय पुरतः कृत्वा वै करसंपुटम्४०४॥
यूयं वै ब्राह्मणाः प्रीता मैत्रत्वेनानुगृह्णत।
सौमुख्येन द्विजश्रेष्ठा भूयः पूततरस्त्वहः४०५॥
भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः।
ब्रह्मांडेन तु दत्तेन तोषं यातु जनार्दनः४०६॥
पिनाकपाणिर्भगवान्शक्रश्च त्रिदशेश्वरः।
एते तोषं समायांतु अनुध्यानाद्द्विजोत्तमाः४०७॥
एवं स्तुत्वा ततो राजा ब्राह्मणान्वेदपारगान्।
ब्रह्माण्डं तु गुरोः प्रादात्सविधानं पुनः क्षणात्४०८॥
सर्वकामैस्ततस्तृप्तो ययौ स्वर्गं नराधिपः।
तेनैव गुरुणा तच्च विभक्तं ब्राह्मणैः सह४०९॥
दत्तं तेनापि चान्येभ्यो ब्रह्मांडं च नराधिप।
ब्रह्मांडे भूमिदाने च ग्राही चैको न वै भवेत्४१०॥
गृह्णन्दोषमवाप्नोति ब्रह्महत्यां न संशयः।
सर्वेषां चैव प्रत्यक्षं दातव्यं परिकीर्त्य वै४११॥
दीयमानं च पश्यंति तेपि पूता भवंति हि।
दर्शनादेव ते मुक्ता भवंन्त्येव न संशयः४१२॥
या भीमद्वादशी प्रोक्ता स्वर्णं तोयं मृगाजिनं।
एतानि कृत्वा पश्यन्तु दृष्टैरेतैः क्रियाफलं४१३॥
अयत्नादेव लभ्येत कर्तुश्चैव सलोकता।
सदा गावः प्रणम्याश्च मंत्रेणानेन पार्थिव४१४॥
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः४१५॥
मंत्रस्य चास्य स्मरणाद्गोदानफलमाप्नुयात्।
तस्मात्त्वमपि राजेंद्र पुष्करे तीर्थ उत्तमे४१६॥
कार्तिक्यां तु विशेषेण गोदानफलमाप्स्यसि।
यत्किंचिद्विद्यते पापं स्त्रियो वा पुरुषस्य वा४१७॥
पुष्करे स्नानमात्रेण तदशेषं प्रणश्यति।
पृथिव्यां यानि तीर्थानि आसमुद्रात्तु भारत४१८॥
पुष्करे तान्युपायांति कार्तिक्यां तु विशेषतः४१९॥
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे ब्रह्मांडदानं नाम चतुस्त्रिंशत्तमोऽध्यायः३४॥
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 35
भीष्म उवाच।
उक्तं भगवता सर्वं पुराणाश्रयसंयुतं।
तथा श्वेतेन ब्रह्मांडं गुरवे प्रतिपादितं१।
श्रुत्वैतत्कौतुकं जातं यथा तेनास्थिलेहनं।
कृतं क्षुधापनोदार्थे अन्नदानाद्विना द्विज२।
तदहं श्रोतुमिच्छामि पृथिव्यां ये च पार्थिवाः।
अन्नदानाद्दिवं प्राप्ताः क्रतवश्चान्नमूलकाः३।
कथं तस्य मतिर्नष्टा श्वेतस्य च महात्मनः।
न दत्तं तेनान्नदानमृषिभिर्वा न दर्शितम्४।
अहो माहात्म्यमन्नस्य इह दत्तस्य यत्फलम्।
परत्र भुज्यते पुंभिः स्वर्गश्चाक्षयतां व्रजेत्५।
अन्नदानं परं विप्राः कीर्तयंति सदोत्थिताः।
अन्नदानात्सुरेद्रेण त्रैलोक्यमिह भुज्यते६।
शतक्रतुरिति प्रोक्तः सर्वैरेव द्विजोत्तमैः।
तेनावस्थां तत्सदृशीं प्राप्तवांस्त्रिदशेश्वरः७।
दानदेवगतः स्वर्गं त्वत्तः सर्वं श्रुतं मया।
अपरं च पुरावृत्तं निवृत्तं यदि कर्हिचित्८।
भूयोपि श्रोतुमिच्छामि तन्मे वद महामते।
पुलस्त्य उवाच।
एतदाख्यानकं पूर्वमगस्त्येन महात्मना९।
रामाय कथितं राजंस्तत्ते वक्ष्यामि सांप्रतम्।
भीष्म उवाच।
कस्मिन्वंशे समुत्पन्नो रामोऽसौ नृपसत्तमः१०।
यस्यागस्त्येन कथितश्चेतिहासः पुरातनः।
पुलस्त्य उवाच।
रघुवंशे समुत्पन्नो रामो नाम महाबलः११।
देवकार्यं कृतं तेन लंकायां रावणो हतः।
पृथिवीं राज्यसंस्थस्य ऋषयोऽभ्यागता गृहे१२।
प्राप्तास्ते तु महात्मानो राघवस्य निवेशनम्।
प्रतीहारस्ततो राममगस्त्यवचनाद्द्रुतम्१३।
आवेदयामास ऋषीन्प्राप्तास्तांश्च त्वरान्वितः।
दृष्ट्वा रामं द्वारपालः पूर्णचंद्रमिवोदितम्१४।
कौसल्यासुत भद्रं ते सुप्रभाताद्य शर्वरी।
द्रष्टुमभ्युदयं तेद्य सम्प्राप्तो रघुनंदन१५।
अगस्त्यो मुनिभिः सार्धं द्वारि तिष्ठति ते नृप।
श्रुत्वा प्राप्तान्मुनीन्रामस्तान्भास्करसमद्युतीन्१६।
प्राह वाक्यं तदा द्वास्थं प्रवेशय त्वरान्वितः।
किमर्थं तु त्वया द्वारि निरुद्धा मुनिसत्तमाः१७।
रामवाक्यान्मुनींस्तांस्तु प्रावेशयद्यथासुखम्।
दृष्ट्वा तु तान्मुनींन्प्राप्तान्प्रत्युवाच कृतांजलि१८।
रामोऽभिवाद्य प्रणत आसनेषु न्यवेशयत्।
ते तु कांचनचित्रेषु स्वास्तीर्णेषु सुखेषु च१९।
कुशोत्तरेषु चासीनाः समंतान्मुनिपुंगवाः।
पाद्यमाचमनीयं च ददौ चार्घ्यं पुरोहितः२०।
रामेण कुशलं पृष्टा ऋषयः सर्व एव ते।
महर्षयो वेदविद इदं वचनमब्रुवन्२१।
कुशलं ते महाबाहो सर्वत्र रघुनंदन।
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतविद्विषम्२२।
हृता सीतातिपापेन रावणेन दुरात्मना।
पत्नी ते रघुशार्दूल तस्या एवौजसा हतः२३।
असहायेन चैकेन त्वया राम रणे हतः।
यादृशं ते कृतं कर्म तस्य कर्ता न विद्यते२४।
इह संभाषितुं प्राप्ता दृष्ट्वा पूताः स्म सांप्रतम्।
दर्शनात्तव राजेंद्र सर्वे जातास्तपस्विनः२५।
रावणस्य वधात्तेद्य कृतमश्रुप्रमार्जनम्।
दत्वा पुण्यामिमां वीर जगत्यभयदक्षिणाम्२६।
दिष्ट्या वर्धसि काकुत्स्थ जयेनामितविक्रम।
दृष्टस्संभाषितश्चासि यास्यामश्चाश्रमान्स्वकान्२७।
अरण्यं ते प्रविष्टस्य मया चेंद्रशरासनम्।
अर्पितं चाक्षयौ तूणौ कवचं च परंतप२८।
भूयोप्यागमनं कार्यमाश्रमे मे रघूद्वह।
एवमुक्त्वा तु ते सर्वे मुनयोंतर्हिताऽभवन्२९।
गतेषु मुनिमुख्येषु रामो धर्मभृतां वरः।
चिंतयामास तत्कार्यं किं स्यान्मे मुनिनोदितम्३०।
भूयोप्यागमनं कार्यमाश्रमे रघुनंदन।
अवश्यमेव गंतव्यं मयाऽगस्त्यस्य सन्निधौ३१।
श्रोतव्यं देवगुह्यं तु कार्यमन्यच्च यद्वदेत्।
एवं चिंतयतस्तस्य रामस्यामिततेजसः३२।
करिष्ये नियतं धर्मं धर्मो हि परमा गतिः।
सुतवर्षसहस्राणि दश राज्यमकारयत्३३।
ददतो जुह्वतश्चैव जग्मुस्तान्येकवर्षवत्।
प्रजाः पालयतस्तस्य राघवस्य महात्मनः३४।
एतस्मिन्नेव दिवसे वृद्धो जानपदो द्विजः।
मृतं पुत्रमुपादाय रामद्वारमुपागतः३५।
उवाच विविधं वाक्यं स्नेहाक्षरसमन्वितम्।
दुष्कृतं किंतु मे पुत्र पूर्वदेहांतरे कृतम्३६।
त्वामेकपुत्रं यदहं पश्यामि निधनं गतम्।
अप्राप्तयौवनं बालं पंचवर्षं गतायुषम्३७।
अकाले कालमापन्नं दुःखाय मम पुत्रक।
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम्३८।
रामस्य दुष्कृतं व्यक्तं येन ते मृत्युरागतः।
बालवध्या ब्रह्मवध्या स्त्रीवध्या चैव राघवम्३९।
प्रवेक्ष्यति न सन्देहः सभार्ये तु मृते मयि।
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्४०।
निवार्य तं द्विजं रामो वसिष्ठं वाक्यमब्रवीत्।
किं मयाद्य च कर्तव्यं कार्यमेवं विधे स्थिते४१।
प्राणानहं जुहोम्यग्नौ पर्वताद्वा पतेह्यहम्।
कथं शुद्धिमहं यामि श्रुत्वा ब्राह्मणभाषितम्४२।
वसिष्ठस्याग्रतः स्थित्वा राज्ञो दीनस्य नारदः।
प्रत्युवाच श्रुतं वाक्यमृषीणां सन्निधौ तदा४३।
शृणु राम यथाकालं प्राप्तो वै बालसंक्षयः।
पुरा कृतयुगे राम सर्वत्र ब्राह्मणोत्तरम्४४।
अब्राह्मणो न वै कश्चित्तपस्तपति राघव।
अमृत्यवस्तदा सर्वे जायंते चिरजीविनः४५।
त्रेतायुगे पुनः प्राप्ते ब्रह्मक्षत्रमनुत्तमम्।
अधर्मो द्वापरे तेषां वैश्यान्शूद्रांस्तथाविशत्४६।
एवं निरंतरं जुष्टमुद्भूतमनृतं पुनः।
अधर्मस्य त्रयः पादा एको धर्मस्य चागतः४७।
ततः पूर्वे भृशं त्रस्ता वर्णा ब्राह्मणपूर्वकाः।
भूयः पादस्तु धर्मस्य द्वितीयः समपद्यत४८।
तस्मिन्द्वापरसंज्ञे तु तपो वैश्यं समाविशत्।
युगत्रयस्य वैधर्म्यं धर्मस्य प्रतितिष्ठति४९।
कलिसंज्ञे ततः प्राप्ते वर्तमाने युगेंतिमे।
अधर्मश्चानृतं चैव ववृधाते नरर्षभ1.35.५०।
भविता शूद्रयोन्यां तु तपश्चर्या कलौ युगे।
स ते विषयपर्यंते राजन्नुग्रतरं तपः५१।
शूद्रस्तपति दुर्बुद्धिस्तेन बालवधः कृतः।
यस्याधर्ममकार्यं वा विषये पार्थिवस्य हि५२।
पुरे वा राजशार्दूल कुरुते दुर्मतिर्नरः।
क्षिप्रं स नरकं याति यावदाभूतसंप्लवम्५३।
चतुर्थं तस्य पापस्य भागमश्नाति पार्थिवः।
सत्त्वं पुरुषशार्दूल गच्छस्व विषयं स्वकम्५४।
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर।
एवं ते धर्मवृद्धिश्च बलस्य वर्धनं तथा५५।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवनम्।
नारदेनैवमुक्तस्तु साश्चर्यो रघुनंदनः५६।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्।
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण५७।
बालस्य च शरीरं त्वं तैलद्रोण्यां निधापय।
गंधैश्च परमोदारैस्तैलैश्चैव सुगंधिभिः५८।
यथा न शीर्यते बालस्तथा सौम्य विधीयताम्।
यथा शरीरं गुप्तं स्याद्बालस्याक्लिष्टकर्मणः५९।
विपत्तिः परिभेदो वा न भवेत्तत्तथा कुरु।
तथा संदिश्य सौमित्रं लक्ष्मणं शुभलक्षणम्६०।
मनसा पुष्पकं दध्यावागच्छेति महायशाः।
इंगितं तत्तु विज्ञाय कामगं हेमभूषितम्६१।
आजगाम मुहूर्तात्तु समीपं राघवस्य हि।
सोब्रवीत्प्राञ्जलिर्वाक्यमहमस्मि नराधिप६२।
अग्रे तव महाबाहो किंकरः समुपस्थितः।
भाषितं सुचिरं श्रुत्वा पुष्पकस्य नराधिप६३।
अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत।
धनुर्गृहीत्वा तूणौ च खड्गं चापि महाप्रभम्६४।
निक्षिप्य नगरे वीरौ सौमित्रि भरतावुभौ।
प्रायात्प्रतीचीं त्वरितो विचिन्वन्सुसमाहितः६५।
उत्तरामगमत्पश्चाद्दिशं हिमवदाश्रिताम्।
पूर्वामपि दिशां गत्वा तथाऽपश्यन्नराधिपः६६।
सर्वां शुद्धसमाचारामादर्शमिव निर्मलाम्।
ततो दिशं समाक्रामद्दक्षिणां रघुनंदनः६७।
शैलस्य उत्तरे पार्श्वे ददर्श सुमहत्सरः।
तस्मिन्सरसि तप्यंतं तापसं सुमहत्तपः६८।
ददर्श राघवो भीमं लंबमानमधोमुखं।
तमुपागम्य काकुत्स्थस्तप्यमानं तु तापसम्६९।
उवाच राघवो वाक्यं धन्यस्त्वममरप्रभ।
कस्यां योनौ तपोवृद्धिर्वर्तते दृढनिश्चय७०।
अहं दाशरथी रामः पृच्छामि त्वां कुतूहलात्।
कोर्थो व्यवसितस्तुभ्यं स्वर्गलोकोथ वेतरः७१।
किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापस।
ब्राह्मणो वासि भद्रं ते क्षत्रियो वाथ दुर्जयः७२।
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यमुच्यताम्।
तपः सत्यात्मकं नित्यं स्वर्गलोकपरिग्रहे७३।
सात्विकं राजसं चैव तच्च सत्यात्मकं तपः।
जगदुपकारहेतुर्हि सृष्टं तद्वै विरिंचिना७४।
रौद्रं क्षत्रियतेजोजं तत्तु राजसमुच्यते।
परस्योत्सादनार्थाय तच्चासुरमुदाहृतम्७५।
अंगानि निह्नुते यो वा असृग्दिग्धानि भागशः।
पंचाग्निंसाधयेद्वापि सिद्धिं वा मृत्युमेव वा७६।
आसुरो ह्येष ते भावो न च मे त्वं द्विजो मतः।
सत्यं ते वदतः सिद्धिरनृते नास्ति जीवितम्७७।
तस्य तद्भाषितं श्रुत्वा रामस्याक्लिष्टकर्मणः।
अवाक्शिरास्तथा भूतो वाक्यमेतदुवाच ह७८।
स्वागतं ते नृपश्रेष्ठ चिराद्दृष्टोसि राघव।
पुत्रभूतोस्मि ते चाहं पितृभूतोसि मेनघ७९।
अथवा नैतदेवं हि सर्वेषां नृपतिः पिता।
सत्वमर्च्योऽसि भो राजन्वयं ते विषये तपः८०।
चरामस्तत्रभागोस्ति पूर्वं सृष्टः स्वयंभुवा।
न धन्याः स्मो वयं राम धन्यस्त्वमसि पार्थिव८१।
यस्य ते विषये ह्येवं सिद्धिमिच्छंति तापसाः।
तपसा त्वं मदीयेन सिद्धिमाप्नुहि राघव८२।
यदेतद्भवता प्रोक्तं योनौ कस्यां तु ते तपः।
शूद्रयोनिप्रसूतोहं तप उग्रं समास्थितः८३।
देवत्वं प्रार्थये राम स्वशरीरेण सुव्रत।
न मिथ्याहं वदे भूप देवलोकजिगीषया८४।
शूद्रं मां विद्धि काकुत्स्थ शंबूकं नाम नामतः।
भाषतस्तस्य काकुत्स्थः खड्गं तु रुचिरप्रभं८५।
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः।
तस्मिन्शूद्रे हते देवाः सेन्द्राश्चाग्निपुरोगमाः८६।
साधुसाध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः।
पुष्पवृष्टिश्च महती देवानां सुसुगंधिनी८७।
आकाशाद्विप्रमुक्ता तु राघवं सर्वतोकिरत्।
सुप्रीताश्चाब्रुवन्देवा रामं वाक्यविदांवरम्८८।
सुरकार्यमिदं सौम्य कृतं ते रघुनंदन।
गृहाण च वरं राम यमिच्छसि महाव्रत८९।
त्वत्कृतेन हि शूद्रोऽयं सशरीरोऽभ्यगाद्दिवं।
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः९०।
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरंदरम्।
यदि देवाः प्रसन्ना मे वरार्हो यदि वाप्यहम्९१।
कर्मणा यदि मे प्रीता द्विजपुत्रः स जीवतु।
वरमेतद्धि भवतां कांक्षितं परमं हि मे९२।
ममापराधाद्बालोऽसौ ब्राह्मणस्यैकपुत्रकः।
अप्राप्तकालः कालेन नीतो वैवस्वत क्षयम्९३।
तं जीवयत भद्रं वो नानृती स्यामहं गुरोः।
द्विजस्य संश्रुतो ह्यर्थो जीवयिष्यामि ते सुतम्९४।
मदीयेनायुषा बालं पादेनार्द्धेन वा सुराः।
जीवेदयं वरो मह्यं वरकोट्यधिको वृतः९५।
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः।
प्रत्यूचुस्ते महात्मानं प्रीताः प्रीतिसमन्विताः९६।
निर्वृतो भव काकुत्स्थ ब्राह्मणस्यैकपुत्रकः।
जीवितं प्राप्तवान्भूयः समेतश्चापि बंधुभिः९७।
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः।
तस्मिन्मुहूर्ते सहसा जीवेन समयुज्यत९८।
स्वस्ति प्राप्नुहि भद्रं ते साधयामः परंतपः।
अगस्त्यस्याश्रमपदे द्रष्टारः स्म महामुनिम्९९।
स तथेति प्रतिज्ञाय देवानां रघुनंदनः।
आरुरोह विमानं तं पुष्पकं हेमभूषितम्१००।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे शूद्रतापसवधोनाम पंचत्रिंशोऽध्यायः३५।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 36
पुलस्त्य उवाच।
ततो देवाः प्रयातास्ते विमानैर्बहुभिस्तदा।
रामोप्यनुजगामाशु कुंभयोनेस्तपोवनम्१।
उक्तं भगवता तेन भूयोप्यागमनं क्रियाः।
पूर्वमेव सभायां च यो मां द्रष्टुं समागतः२।
तदहं देवतादेशात्तत्कार्यार्थे महामुनिं।
पश्यामि तं मुनिं गत्वा देवदानवपूजितम्३।
उपदेशं च मे तुष्टः स्वयं दास्यति सत्तमः।
दुःखी येन पुनर्मर्त्ये न भवामि कदाचन४।
पिता दशरथो मह्यं कौसल्या जननी तथा।
सूर्यवंशे समुत्पन्नस्तथाप्येवं सुदुःखितः५।
राज्यकाले वने वासो भार्यया चानुजेन च।
हरणं चापि भार्याया रावणेन कृतं मम६।
असहायेन तु मया तीर्त्वा सागरमुत्तमम्।
रुद्ध्वा तु तां पुरीं सर्वां कृत्वा तस्य कुलक्षयम्७।
दृष्टा सीता मया त्यक्ता देवानां तु पुरस्तदा।
शुद्धां तां मां तथोचुस्ते मया सीता तथा गृहम्८।
समानीता प्रीतिमता लोकवाक्याद्विसर्जिता।
वने वसति सा देवी पुरे चाहं वसामि वै९।
जातोहमुत्तमे वंशे उत्तमोहं धनुष्मताम्।
उत्तमं दुःखमापन्नो हृदयं नैव भिद्यते१०।
वज्रसारस्य सारेण धात्राहं निर्मितो ध्रुवम्।
इदानीं ब्राह्मणादेशाद्भ्रमामि धरणीतले११।
तपः स्थितस्तु शूद्रोसौ मया पापो निपातितः।
देववाक्यात्तु मे भूयः प्राणो मे हृदि संस्थितः१२।
पश्यामि तं मुनिं वंद्यं जगतोस्य हिते रतम्।
दृष्टेन मे तथा दुःखं नाशमेष्यति सत्वरम्१३।
उदयेन सहस्रांशोर्हिमं यद्वद्विलीयते।
तद्वन्मे दुःखसंप्राप्तिः सर्वथा नाशमेष्यति१४।
दृष्ट्वा च देवान्संप्राप्तानगस्त्यो भगवानृषिः।
अर्घ्यमादाय सुप्रीतः सर्वांस्तानभ्यपूजयत्१५।
ते तु गृह्य ततः पूजां संभाष्य च महामुनिं।
जग्मुस्तेन तदा हृष्टा नाकपृष्ठं सहानुगाः१६।
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च।
अभिवादयितुं प्राप्तः सोगस्त्यमृषिमुत्तमम्१७।
राजोवाच।
सुतो दशरथस्याहं भवंतमभिवादितुम्।
आगतो वै मुनिश्रेष्ठ सौम्येनेक्षस्व चक्षुषा१८।
निर्धूतपापस्त्वां दृष्ट्वा भवामीह न संशयः।
एतावदुक्त्वा स मुनिमभिवाद्य पुनः पुनः१९।
कुशलं भृत्यवर्गस्य मृगाणां तनयस्य च।
भगवद्दर्शनाकांक्षी शूद्रं हत्वा त्विहागतः२०।
अगस्त्य उवाच।
स्वागतं ते रघुश्रेष्ठ जगद्वंद्य सनातन।
दर्शनात्तव काकुत्स्थ पूतोहं मुनिभिः सह२१।
त्वत्कृते रघुशार्दूल गृहाणार्घं महाद्युते।
स्वागतं नरशार्दूल दिष्ट्या प्राप्तोसि शत्रुहन्२२।
त्वं हि नित्यं बहुमतो गुणैर्बहुभिरुत्तमैः।
अतस्त्वं पूजनीयो वै मम नित्यं हृदिस्थितः२३।
सुरा हि कथयंति त्वां शूद्रघातिनमागतं।
ब्राह्मणस्य च धर्मेण त्वया वै जीवितः सुतः२४।
उष्यतां चेह भगवः सकाशे मम राघव।
प्रभाते पुष्पकेणासि गंतायोध्यां महामते२५।
इदं चाभरणं सौम्य सुकृतं विश्वकर्मणा।
दिव्यं दिव्येनवपुषा दीप्यमानं स्वतेजसा२६।
प्रतिगृह्णीष्व राजेन्द्र मत्प्रियं कुरु राघव।
लब्धस्य हि पुनर्द्दाने सुमहत्फलमुच्यते२७।
त्वं हि शक्तः परित्रातुं सेंद्रानपि सुरोत्तमान्।
तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नरर्षभ२८।
अथोवाच महाबाहुरिक्ष्वाकूणां महारथः।
कृतांजलिर्मुनिश्रेष्ठं स्वं च धर्ममनुस्मरन्२९।
प्रतिग्रहो वै भगवंस्तव मेऽत्र विगर्हितः।
क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता३०।
ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि।
सपुत्रो गृहवानस्मि समर्थोस्मि महामुने३१।
आपदा चन चाक्रांतः कथं ग्राह्यः प्रतिग्रहः।
भार्या मे सुचिरं नष्टा न चान्या मम विद्यते३२।
केवलं दोषभागी च भवामीह न संशयः।
कष्टां चैव दशां प्राप्य क्षत्रियोपि प्रतिग्रही३३।
कुर्वन्न दोषमाप्नोति मनुरेवात्र कारणम्।
वृद्धौ च मातापितरौ साध्वी भार्या शिशुः सुतः३४।
अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्।
नाहं प्रतीच्छे विप्रर्षे त्वया दत्तं प्रतिग्रहं३५।
न च मे भवता कोपः कार्यो वै सुरपूजित३६।
अगस्त्य उवाच।
न च प्रतिग्रहे दोषो गृहीते पार्थिवैर्नृप।
भवान्वै तारणे शक्तस्त्रैलोक्यस्यापि राघव३७।
तारय ब्राह्मणं राम विशेषेण तपस्विनं।
तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नराघिप३८।
राम उवाच।
क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता।
ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि३९।
अगस्त्य उवाच।
आसीत्कृतयुगे राम ब्रह्मपूते पुरातने।
अपार्थिवाः प्रजाः सर्वाः सुराणां च शतक्रतुः४०।
ताः प्रजा देवदेवेशं राजार्थं समुपागमन्।
सुराणां विद्यते राजा देवदेवः शतक्रतुः४१।
श्रेयसेस्मासु लोकेश पार्थिवं कुरु सांप्रतं।
यस्मिन्पूजां प्रयुंजानाः पुरुषा भुंजते महीम्४२।
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान्।
समाहूयाब्रवीत्सर्वांस्तेजोभागोऽत्र युज्यताम्४३।
ततो ददुर्लोकपालाश्चतुर्भागं स्वतेजसा।
अक्षयश्च ततो ब्रह्मा यतो जातोऽक्षयो नृपः४४।
तं ब्रह्मा लोकपालानामंशं पुंसामयोजयत्।
ततो नृपस्तदा तासां प्रजानां क्षेमपंडितः४५।
तत्रैंद्रेण तु भागेन सर्वानाज्ञापयेन्नृपः।
वारुणेन च भागेन सर्वान्पुष्णाति देहिनः४६।
कौबेरेण तथांशेन त्वर्थान्दिशति पार्थिवः।
यश्च याम्यो नृपे भागस्तेन शास्ति च वै प्रजाः४७।
तत्र चैंद्रेण भागेन नरेन्द्रोसि रघूत्तम।
प्रतिगृह्णीष्वाभरणं तारणार्थे मम प्रभो४८।
ततो रामः प्रजग्राह मुनेर्हस्तान्महात्मनः।
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करं४९।
प्रतिगृह्य ततोगस्त्याद्राघवः परवीरहा।
निरीक्ष्य सुचिरं कालं विचार्य च पुनः पुनः1.36.५०।
मौक्तिकानि विचित्राणि धात्रीफलसमानि च।
जांबूनदनिबद्धानि वज्रविद्रुमनीलकैः५१।
पद्मरागैः सगोमेधैर्वैडूर्यैः पुष्परागकैः।
सुनिबद्धं सुविभक्तं सुकृतं विश्वकर्मणा५२।
दृष्ट्वा प्रीतिसमायुक्तो भूयश्चेदं व्यचिंतयत्।
नेदृशानि च रत्नानि मया दृष्टानि कानिचित्५३।
उपशोभानि बद्धानि पृथ्वीमूल्यसमानि च।
विभीषणस्य लंकायां न दृष्टानि मया पुरा५४।
इति संचित्य मनसा राघवस्तमृषिं पुनः।
आगमं तस्य दिव्यस्य प्रष्टुं समुपचक्रमे५५।
अत्यद्भुतमिदं ब्रह्मन्न प्राप्यं च महीक्षिताम्।
कथं भगवता प्राप्तं कुतो वा केन निर्मितम्५६।
कुतूहलवशाच्चैव पृच्छामि त्वां महामते।
करतलेस्थिते रत्ने करमध्यं प्रकाशते५७।
अधमं तद्विजानीयात्सर्वशास्त्रेषु गर्हितम्।
दिशः प्रकाशयेद्यत्तन्मध्यमं मुनिसत्तम५८।
ऊर्ध्वगं त्रिशिखं यत्स्यादुत्तमं तदुदाहृतम्।
एतान्युत्तमजातीनि ऋषिभिः कीर्तितानि तु५९।
आश्चर्याणां बहूनां हि दिव्यानां भगवान्निधिः।
एवं वदति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्६०।
अगस्त्य उवाच।
शृणु राम पुरावृत्तं पुरा त्रेतायुगे महत्।
द्वापरे समनुप्राप्ते वने यद्दृष्टवानहम्६१।
आश्चर्यं सुमहाबाहो निबोध रघुनंदन।
पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम्६२।
समंताद्योजनशतं मृगव्याघ्रविवर्जितम्।
तस्मिन्निष्पुरुषेऽरण्ये चिकीर्षुस्तप उत्तमम्६३।
अहमाक्रमितुं सौम्य तदरण्यमुपागतः।
तस्यारण्यस्य मध्यं तु युक्तं मूलफलैः सदा६४।
शाकैर्बहुविधाकारैर्नानारूपैः सुकाननैः।
तस्यारण्यस्य मध्ये तु पंचयोजनमायतम्६५।
हंसकारंडवाकीर्णं चक्रवाकोपशोभितम्।
तत्राश्चर्यं मया दृष्टं सरः परमशोभितम्६६।
विसारिकच्छपाकीर्णं बकपंक्तिगणैर्युतम्।
समीपे तस्य सरसस्तपस्तप्तुं गतः पुरा६७।
देशं पुण्यमुपेत्यैवं सर्वहिंसाविवर्जितम्।
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ६८।
प्रभाते पुरुत्थाय सरस्तदुपचक्रमे।
अथापश्यं शवमहमस्पृष्टजरसं क्वचित्६९।
तिष्ठंतं परया लक्ष्म्या सरसो नातिदूरतः।
तदर्थं चिंतयानोहं मुहूर्तमिव राघव७०।
अस्य तीरे न वै प्राणी को वाप्येष सुरर्षभः।
मुनिर्वा पार्थिवो वापि क्व मुनिः पार्थिवोपि वा७१।
अथवा पार्थिवसुतस्तस्यैवं संभवः कृतः।
अतीतेहनि रात्रौ वा प्रातर्वापि मृतो यदि७२।
अवश्यं तु मया ज्ञेया सरसोस्य विनिष्क्रिया।
यावदेवं स्थितश्चाहं चिंतयानो रघूत्तम७३।
अथापश्यं मूहूर्तात्तु दिव्यमद्भुतदर्शनम्।
विमानं परमोदारं हंसयुक्तं मनोजवम्७४।
पुरस्तत्र सहस्रं तु विमानेप्सरसां नृप।
गंधर्वाश्चैव तत्संख्या रमयंति वरं नरम्७५।
गायंति दिव्यगेयानि वादयंति तथा परे।
अथापश्यं नरं तस्माद्विमानादवरोहितम्७६।
शवमांसं भक्षयन्तं च स्नात्वा रघुकुलोद्वह।
ततो भुक्त्वा यथाकामं स मांसं बहुपीवरम्७७।
अवतीर्य सरः शीघ्रमारुरोह दिवं पुनः।
तमहं देवसंकाशं श्रिया परमयान्वितम्७८।
भो भो स्वर्गिन्महाभाग पृच्छामि त्वां कथं त्विदम्।
जुगुप्सितस्तवाहारो गतिश्चेयं तवोत्तमा७९।
यदि गुह्यं न चैतत्ते कथय त्वद्य मे भवान्।
कामतः श्रोतुमिच्छामि किमेतत्परमं वचः८०।
को भवान्वद संदेहमाहारश्च विगर्हितः।
त्वयेदं भुज्यते सौम्य किमर्थं क्व च वर्तसे८१।
कस्यायमैश्वरोभावः शवत्वेन विनिर्मितः।
आहारं च कथं निंद्यं श्रोतुमिच्छामि तत्त्वतः८२।
श्रुत्वा च भाषितं तत्र मम राम सतां वर।
प्रांजलिः प्रत्युवाचेदं स स्वर्गी रघुनंदन८३।
शृणुष्वाद्य यथावृत्तं ममेदं सुखदुःखजम्।
कामो हि दुरितक्रम्यः शृणु यत्पृच्छसे द्विज८४।
पुरा वैदर्भको राजा पिता मे हि महायशाः।
वासुदेव इति ख्यातस्त्रिषु लोकेषु धार्मिकः८५।
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत।
अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत्८६।
पितर्युपरते तस्मिन्पौरा मामभ्यषेचयन्।
तत्राहंकारयन्राज्यं धर्मे चासं समाहितः८७।
एवं वर्षसहस्राणि बहूनि समुपाव्रजन्।
मम राज्यं कारयतः परिपालयतः प्रजाः८८।
सोहं निमित्ते कस्मिंश्चिद्वैराग्येण द्विजोत्तम।
मरणं हृदये कृत्वा तपोवनमुपागमम्८९।
सोहं वनमिदं रम्यं भृशं पक्षिविवर्जितम्।
प्रविष्टस्तप आस्थातुमस्यैव सरसोंतिके९०।
राज्येऽभिषिच्य सुरथं भ्रातरं तं नराधिपम्।
इदं सरः समासाद्य तपस्तप्तं सुदारुणम्९१।
दशवर्षसहस्राणि तपस्तप्त्वा महावने।
शुभं तु भवनं प्राप्तो ब्रह्मलोकमनामयम्९२।
स्वर्गस्थमपि मां ब्रह्मन्क्षुत्पिपासे द्विजोत्तम।
अबाधेतां भृशं चाहमभवं व्यथितेंद्रियः९३।
ततस्त्रिभुवनश्रेष्ठमवोचं वै पितामहम्।
भगवन्स्वर्गलोकोऽयं क्षुत्पिपासा विवर्जितः९४।
कस्येयं कर्मणः पक्तिः क्षुत्पिपासे यतो हि मे।
आहारः कश्च मे देव ब्रूहि त्वं श्रीपितामह९५।
ततः पितामहः सम्यक्चिरं ध्यात्वा महामुने।
मामुवाच ततो वाक्यं नास्ति भोज्यं स्वदेहजम्९६।
ॠते ते स्वानि मांसानि भक्षय त्वं तु हि नित्यशः।
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्९७।
नादत्तं जायते तात श्वेत पश्य महीतले।
आग्रहाद्भिक्षमाणाय भिक्षापि प्राणिने पुरा९८।
न हि दत्ता गृहे भ्रांत्या मोहादतिथये तदा।
तेन स्वर्गगतस्यापि क्षुत्पिपासे तवाधुना९९।
स त्वं प्रपुष्टमाहारैः स्वशरीरमनुत्तमम्।
भक्षयस्व च राजेंद्र सा ते तृप्तिर्भविष्यति1.36.१००।
एवमुक्तस्ततो देवं ब्रह्माणमहमुक्तवान्।
भक्षिते च स्वके देहे पुनरन्यन्न मे विभो१०१।
क्षुधानिवारणं नैव देहस्यास्य विनौदनं।
खादामि ह्यक्षयं देव प्रियं मे न हि जायते१०२।
ततोब्रवीत्पुनर्ब्रह्मा तव देहोऽक्षयः कृतः।
दिनेदिने ते पुष्टात्मा शवः श्वेत भविष्यति१०३।
यावद्वर्षशतं पूर्णं स्वमांसं खाद भो नृप।
यदागच्छति चागस्त्यः श्वेतारण्यं महातपाः१०४।
भगवानतिदुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यसे।
स हि तारयितुं शक्तः सेंद्रानपि सुरासुरान्१०५।
आहारं कुत्सितं चेमं राजर्षे किं पुनस्तव।
सुरकार्यं महत्तेन सुकृतं तु महात्मना१०६।
उदधिं निर्जलं कृत्वा दानवाश्च निपातिताः।
विंध्यश्चादित्यविद्वेषाद्वर्धमानो निवारितः१०७।
लंबमाना मही चैषा गुरुत्वेनाधिवासिता।
दक्षिणा दिग्दिवं याता त्रैलाक्यं विषमस्थितम्१०८।
मया गत्वा सुरैः सार्द्धं प्रेषितो दक्षिणां दिशम्।
समां कुरु महाभाग गुरुत्वेन जगत्समम्१०९।
एवं च तेन मुनिना स्थित्वा सर्वा धरा समा।
कृता राजेंद्र मुनिना एवमद्यापि दृश्यते११०।
सोहं भगवत श्रुत्वा देवदेवस्य भाषितम्।
भुंजे च कुत्सिताहारं स्वशरीरमनुत्तमम्१११।
पूर्णं वर्षशतं चाद्य भोजनं कुत्सितं च मे।
क्षयं नाभ्येति तद्विप्र तृप्तिश्चापि ममोत्तमा११२।
तं मुनिं कृच्छ्रसन्तप्तश्चिंतयामि दिवानिशम्।
कदा वै दर्शनं मह्यं स मुनिर्दास्यते वने११३।
एवं मे चिंतयानस्य गतं वर्षशतन्त्विह।
सोगस्त्यो हि गतिर्ब्रह्मन्मुनिर्मे भविता ध्रुवं११४।
न गतिर्भविता मह्यं कुंभयोनिमृते द्विजम्।
श्रुत्वेत्थं भाषितं राम दृष्ट्वाहारं च कुत्सितम्११५।
कृपया परया युक्तस्तं नृपं स्वर्गगामिनम्।
करोम्यहं सुधाभोज्यं नाशयामि च कुत्सितम्११६।
चिन्तयन्नित्यवोचं तमगस्त्यः किं करिष्यति।
अहमेतत्कुत्सितं ते नाशयामि महामते११७।
ईप्सितं प्रार्थयस्वास्मान्मनः प्रीतिकरं परम्।
स स्वर्गी मां ततः प्राह कथं ब्रह्मवचोन्यथा११८।
कर्तुं मुने मया शक्यं न चान्यस्तारयिष्यति।
ॠते वै कुंभयोनिं तं मैत्रावरुणसंभवम्११९।
अपृष्टोपि मया ब्रह्मन्नेवमूचे पितामहः।
एवं ब्रुवाणं तं श्वेतमुक्तवानहमस्मि सः१२०।
आगतस्तव भाग्येन दृष्टोहं नात्र संशयः।
ततः स्वर्गी स मां ज्ञात्वा दंडवत्पतितो भुवि१२१।
तमुत्थाप्य ततो रामाब्रवं किं ते करोम्यहम्।
राजोवाच।
आहारात्कुत्सिताद्ब्रह्मंस्तारयस्वाद्य दुष्कृतात्१२२।
येन लोकोऽक्षयः स्वर्गो भविता त्वत्कृतेन मे।
ततः प्रतिग्रहो दत्तो जगद्वंद्य नृपेण हि१२३।
भवान्मामनुगृह्णातु प्रतीच्छस्व प्रतिग्रहम्१२७।
कृता मतिस्तारणाय न लोभाद्रघुनंदन।
गृहीते भूषणे राम मम हस्तगते तदा१२८।
मानुषः पौर्विको देहस्तदा नष्टोस्य भूपते।
प्रणष्टे तु शरीरे च राजर्षिः परया मुदा१२९।
मयोक्तोसौ विमानेन जगाम त्रिदिवं पुनः।
तेन मे शक्रतुल्येन दत्तमाभरणं शुभं१३०।
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतकर्मणा।
श्वेतो वैदर्भको राजा तदाभूद्गतकल्मषः१३१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे रामागस्त्यसंवादोनाम षट्त्रिंशोऽध्यायः३६।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 37
पुलस्त्य उवाच।
तदद्भुततमं वाक्यं श्रुत्वा च रघुनंदनः।
गौरवाद्विस्मयाच्चापि भूयः प्रष्टुं प्रचक्रमे१।
राम उवाच।
भगवंस्तद्वनं घोरं यत्रासौ तप्तवांस्तपः।
श्वेतो वैदर्भको राजा तदद्भुतमभूत्कथं२।
विषमं तद्वनं राजा शून्यं मृगविवर्जितं।
प्रविष्टस्तप आस्थातुं कथं वद महामुने३।
समंताद्योजनशतं निर्मनुष्यमभूत्कथं।
भवान्कथं प्रविष्टस्तद्येन कार्येण तद्वद४।
अगस्त्य उवाच।
पुरा कृतयुगे राजा मनुर्दंडधरः प्रभुः।
तस्य पुत्रोथ नाम्नासीदिक्ष्वाकुरमितद्युतिः५।
तं पुत्रं पूर्वजं राज्ये निक्षिप्य भुविसंमतम्।
पृथिव्यां राजवंशानां भव राजेत्युवाच ह६।
तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव।
ततःपरमसंहृष्टः पुनस्तं प्रत्यभाषत७।
प्रीतोस्मि परमोदार कर्मणा ते न संशयः।
दंडेन च प्रजा रक्ष न च दंडमकारणम्८।
अपराधिषु यो दंडः पात्यते मानवैरिह।
स दंडो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम्९।
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक।
धर्मस्ते परमो लोके कृत एवं भविष्यति१०।
इति तं बहुसंदिश्य मनुः पुत्रं समाधिना।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम्११।
जनयिष्ये कथं पुत्रानिति चिंतापरोऽभवत्।
कर्मभिर्बहुभिस्तैस्तैस्ससुतैस्संयुतोऽभवत्१२।
तोषयामास पुत्रैस्स पितॄन्देवसुतोपमैः।
सर्वेषामुत्तमस्तेषां कनीयान्रघुनंदन१३।
शूरश्च कृतविद्यश्च गुरुश्च जनपूजया।
नाम तस्याथ दंडेति पिता चक्रे स बुद्धिमान्१४।
भविष्यद्दण्डपतनं शरीरे तस्य वीक्ष्य च।
संपश्यमानस्तं दोषं घोरं पुत्रस्य राघव१५।
स विंध्यनीलयोर्मध्ये राज्यमस्य ददौ प्रभुः।
स दंडस्तत्र राजाभूद्रम्ये पर्वतमूर्द्धनि१६।
पुरं चाप्रतिमं तेन निवेशाय तथा कृतम्।
नाम तस्य पुरस्याथ मधुमत्तमिति स्वयम्१७।
तथादेशेन संपन्नः शूरो वासमथाकरोत्।
एवं राजा स तद्राज्यं चकार सपुरोहितः१८।
प्रहृष्ट सुप्रजाकीर्णं देवराजो यथा दिवि।
ततः स दंडः काकुत्स्थ बहुवर्षगणायुतम्१९।
अकारयत्तु धर्मात्मा राज्यं निहतकंटकं।
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम्२०।
रमणीयमुपाक्रामच्चैत्रमासे मनोरमे।
तत्र भार्गवकन्यां तु रूपेणाप्रतिमां भुवि२१।
विचरंतीं वनोद्देशे दंडोऽपश्यदनुत्तमाम्।
उत्तुंगपीवरीं श्यामां चंद्राभवदनां शुभाम्२२।
सुनासां चारुसर्वांगीं पीनोन्नतपयोधराम्।
मध्ये क्षामां च विस्तीर्णां दृष्ट्वा तां कुरुते मुदम्२३।
एकवस्त्रां वने चैकां प्रथमे यौवने स्थिताम्।
स तां दृष्ट्वात्वधर्मेण अनंगशरपीडितः२४।
अभिगम्य सुविश्रांतां कन्यां वचनमब्रवीत्।
कुतस्त्वमसि सुश्रोणि कस्य चासि सुशोभने२५।
पीडतोहमनंगेन पृच्छामि त्वां सुशोभने।
त्वया मेऽपहृतं चित्तं दर्शनादेव सुंदरि२६।
इदं ते वदनं रम्यं मुनीनां चित्तहारकम्।
यद्यहं न लभे भोक्तुं मृतं मामवधारय२७।
त्वया हृता मम प्राणा मां जीवय सुलोचने।
दासोस्मि ते वरारोहे भक्तं मां भज शोभने२८।
तस्यैवं तु ब्रुवाणस्य मदोन्मत्तस्य कामिनः।
भार्गवी प्रत्युवाचेदं वचः सविनयं नृपम्२९।
भार्गवस्य सुतां विद्धि शुक्रस्याक्लिष्टकर्मणः।
अरजां नाम राजेंद्र ज्येष्ठामाश्रमवासिनः३०।
शुक्रः पिता मे राजेंद्र त्वं च शिष्यो महात्मनः।
धर्मतो भगिनी चाहं भवामि नृपनंदन३१।
एवंविधं वचो वक्तुं न त्वमर्हसि पार्थिव।
अन्येभ्योपि सुदुष्टेभ्यो रक्ष्या चाहं सदा त्वया३२।
क्रोधनो मे पिता रौद्रो भस्मत्वं त्वां समानयेत्।
अथवा राजधर्मेणासंबंधं कुरुषे बलात्३३।
पितरं याचयस्व त्वं धर्मदृष्टेन कर्मणा।
वरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम्३४।
अन्यथा विपुलं दुःखं तव घोरं भवेद्ध्रुवम्।
क्रुद्धो हि मे पिता सर्वं त्रैलोक्यमभिनिर्दहेत्३५।
ततोऽशुभं महाघोरं श्रुत्वा दंडः सुदारुणम्।
प्रत्युवाच मदोन्मत्तः शिरसाभिनतः पुनः३६।
प्रसादं कुरु सुश्रोणि कामोन्मत्तस्य कामिनि।
त्वया रुद्धा मम प्राणा विशीर्यंति शुभानने३७।
त्वां प्राप्य वैरं मेऽत्रास्तु वधो वापि महत्तरः।
भक्तं भजस्व मां भीरु त्वयि भक्तिर्हि मे परा३८।
एवमुक्त्वा तु तां कन्यां बलात्संगृह्य बाहुना।
अन्येन राज्ञा हस्तेन विवस्त्रा सा तथा कृता३९।
अंगमंगे समाश्लेष्य मुखे चैव मुखं कृतम्।
विस्फुरंतीं यथाकामं मैथुनायोपचक्रमे४०।
तमनर्थं महाघोरं दंडः कृत्वा सुदारुणम्।
नगरं स्वं जगामाशु मदोन्मत्त इव द्विपः४१।
भार्गवी रुदती दीना आश्रमस्याविदूरतः।
प्रत्यपालयदुद्विग्ना पितरं देवसम्मितम्४२।
स मुहूर्तादुपस्पृश्य देवर्षिरमितद्युतिः।
स्वमाश्रमं शिष्यवृतं क्षुधार्तः सन्यवर्तत४३।
सोपश्यदरजां दीनां रजसा समभिप्लुताम्।
चंद्रस्य घनसंयुक्तां ज्योत्स्नामिव पराजिताम्४४।
तस्य रोषः समभवत्क्षुधार्तस्य महात्मनः।
निर्दहन्निव लोकांस्त्रींस्तान्शिष्यान्समुवाच ह४५।
पश्यध्वं विपरीतस्य दंडस्यादीर्घदर्शिनः।
विपत्तिं घोरसंकाशां दीप्तामग्निशिखामिव४६।
यन्नाशं दुर्गतिं प्राप्तस्सानुगश्च न संशयः।
यस्तु दीप्तहुताशस्य अर्चिः संस्पृष्टवानिह४७।
यस्मात्स कृतवान्पापमीदृशं घोरसंमितम्।
तस्मात्प्राप्स्यति दुर्मेधाः पांसुवर्षमनुत्तमम्४८।
कुराजा देशसंयुक्तः सभृत्यबलवाहनः।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः४९।
समंताद्योजनशतं विषयं चास्य दुर्मतेः।
धुनोतु पांसुवर्षेण महता पाकशासनः1.37.५०।
सर्वसत्वानि यानीह जंगमस्थावराणि वै।
सर्वेषां पांसुवर्षेण क्षयः क्षिप्रं भविष्यति५१।
दंडस्य विषयो यावत्तावत्सवनमाश्रमम्।
पांसुवर्षमिवाकस्मात्सप्तरात्रं भविष्यति५२।
इत्युक्त्वा क्रोधसंतप्तस्तमाश्रमनिवासिनम्।
जनं जनपदस्यांते स्थीयतामित्युवाच ह५३।
उक्तमात्रे उशनसा आश्रमावसथो जनः।
क्षिप्रं तु विषयात्तस्मात्स्थानं चक्रे च बाह्यतः५४।
तं तथोक्त्वा मुनिजनमरजामिदमब्रवीत्।
आश्रमे त्वं सुदुर्मेधे वस चेह समाहिता५५।
इदं योजनपर्यंतमाश्रमं रुचिरप्रभम्।
अरजे विरजास्तिष्ठ कालमत्र समाश्शतम्५६।
श्रुत्वा नियोगं विप्रर्षेररजा भार्गवी तदा।
तथेति पितरं प्राह भार्गवं भृशदुःखिता५७।
इत्युक्त्वा भार्गवो वासं तस्मादन्यमुपाक्रमत्।
सप्ताहे भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना५८।
तस्माद्दंडस्य विषयो विंध्यशैलस्य मानुष।
शप्तो ह्युशनसा राम तदाभूद्धर्षणे कृते५९।
ततःप्रभृति काकुत्स्थ दंडकारण्यमुच्यते।
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव६०।
संध्यामुपासितुं वीर समयो ह्यतिवर्तते।
एते महर्षयो राम पूर्णकुंभाः समंततः६१।
कृतोदका नरव्याघ्र पूजयंति दिवाकरम्।
सर्वैरॄषिभिरभ्यस्तैः स्तोत्रैर्ब्रह्मादिभिः कृतैः६२।
रविरस्तंगतो राम गत्वोदकमुपस्पृश।
ॠषेर्वचनमादाय रामः संध्यामुपासितुम्६३।
उपचक्राम तत्पुण्यं ससरोरघुनंदनः।
अथ तस्मिन्वनोद्देशे रम्ये पादपशोभिते६४।
नदपुण्ये गिरिवरे कोकिलाशतमंडिते।
नानापक्षिरवोद्याने नानामृगसमाकुले६५।
सिंहव्याघ्रसमाकीर्णे नानाद्विजसमावृते।
गृध्रोलूकौ प्रवसितौ बहून्वर्षगणानपि६६।
अथोलूकस्य भवनं गृध्रः पापविनिश्चयः।
ममेदमिति कृत्वाऽसौ कलहं तेन चाकरोत्६७।
राजा सर्वस्य लोकस्य रामो राजीवलोचनः।
तं प्रपद्यावहै शीघ्रं कस्यैतद्भवनं भवेत्६८।
गृध्रोलूकौ प्रपद्येतां जातकोपावमर्षिणौ।
रामं प्रपद्यतौ शीघ्रं कलिव्याकुलचेतसौ६९।
तौ परस्परविद्वेषौ स्पृशतश्चरणौ तथा।
अथ दृष्ट्वा राघवेंद्रं गृध्रो वचनमब्रवीत्७०।
सुराणामसुराणां च त्वं प्रधानो मतो मम।
बृहस्पतेश्च शुक्राच्च त्वं विशिष्टो महामतिः७१।
परावरज्ञो भूतानां मर्त्ये शक्र इवापरः।
दुर्निरीक्षो यथा सूर्यो हिमवानिव गौरवे७२।
सागरश्चासि गांभीर्ये लोकपालो यमो ह्यसि।
क्षांत्या धरण्या तुल्योसि शीघ्रत्वे ह्यनिलोपमः७३।
गुरुस्त्वं सर्वसंपन्नो विष्णुरूपोसि राघव।
अमर्षी दुर्जयो जेता सर्वास्त्रविधिपारगः७४।
शृणु त्वं मम देवेश विज्ञाप्यं नरपुंगव।
ममालयं पूर्वकृतं बाहुवीर्येण वै प्रभो७५।
उलूको हरते राजंस्त्वत्समीपे विशेषतः।
ईदृशोयं दुराचारस्त्वदाज्ञा लंघको नृप७६।
प्राणांतिकेन दंडेन राम शासितुमर्हसि।
एवमुक्ते तु गृध्रेण उलूको वाक्यमब्रवीत्७७।
शृणु देव मम ज्ञाप्यमेकचित्तो नराधिप।
सोमाच्छक्राच्च सूर्याच्च धनदाच्च यमात्तथा७८।
जायते वै नृपो राम किंचिद्भवति मानुषः।
त्वं तु सर्वमयो देवो नारायणपरायणः७९।
प्रोच्यते सोमता राजन्सम्यक्कार्ये विचारिते।
सम्यग्रक्षसि तापेभ्यस्तमोघ्नो हि यतो भवान्८०।
दोषे दंडात्प्रजानां त्वं यतः पापभयापहः।
दाता प्रहर्ता गोप्ता च तेनेंद्र इव नो भवान्८१।
अधृष्यः सर्वभूतेषु तेजसा चानलो मतः।
अभीक्ष्णं तपसे पापांस्तेन त्वं राम भास्करः८२।
साक्षाद्वित्तेशतुल्यस्त्वमथवा धनदाधिकः।
चित्तायत्ता तु पत्नीश्रीर्नित्यं ते राजसत्तम८३।
धनदस्य तु कोशेन धनदस्तेन वैभवान्।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च८४।
शत्रौ मित्रे च ते दृष्टिः समंताद्याति राघव।
धर्मेण शासनं नित्यं व्यवहारविधिक्रमैः८५।
यस्य रुष्यसि वै राम मृत्युस्तस्याभिधीयते।
गीयसे तेन वै राजन्यम इत्यभिविश्रुतः८६।
यश्चासौ मानुषो भावो भवतो नृपसत्तम।
आनृशंस्यपरो राजा सर्वेषु कृपयान्वितः८७।
दुर्बलस्य त्वनाथस्य राजा भवति वै बलम्।
अचक्षुषो भवेच्चक्षुरमतेषु मतिर्भवेत्८८।
अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिक।
भवता तत्र मंतव्यं यथैते किल पक्षिणः८९।
योस्मन्नाथः स पक्षींद्रो भवतो विनियोज्यकः।
अस्वाम्यं देव नास्माकं सन्निधौ भवतः प्रभो९०।
भवतैव कृतं पूर्वं भूतग्रामं चतुर्विधम्।
ममालयप्रविष्टस्तु गृध्रो मां बाधते नृप९१।
भवान्देवमनुष्येषु शास्ता वै नरपुंगव।
एतच्छ्रुत्वा तु वै रामः सचिवानाह्वयत्स्वयम्९२।
विष्टिर्जयंतो विजयः सिद्धार्थो राष्ट्रवर्धनः।
अशोको धर्मपालश्च सुमंत्रश्च महाबलः९३।
एते रामस्य सचिवा राज्ञो दशरथस्य च।
नीतियुक्ता महात्मानः सर्वशास्त्रविशारदाः९४।
सुशांताश्च कुलीनाश्च नये मंत्रे च कोविदाः।
तानाहूय स धर्मात्मा पुष्पकादवरुह्य च९५।
गृध्रोलूकौ विवदंतौ पृच्छति स्म रघूत्तमः।
कति वर्षाणि भो गृध्र तवेदं निलयं कृतं९६।
एतन्मे कौतुकं ब्रूहि यदि जानासि तत्त्वतः।
एतच्छ्रुत्वा वचो गृध्रो बभाषे राघवं स्थितं९७।
इयं वसुमती राम मानुषैर्बहुबाहुभिः।
उच्छ्रितैराचिता सर्वा तदाप्रभृति मद्गृहं९८।
उलूकस्त्वब्रवीद्रामं पादपैरुपशोभिता।
यदैव पृथिवी राजंस्तदाप्रभृति मे गृहं९९।
एतच्छ्रुत्वा तु रामो वै सभासद उवाचह।
न सा सभा यत्र न संति वृद्धा वृद्धा न ते ये न वदंति धर्मं1.37.१००।
नासौ धर्मो यत्र न चास्ति सत्यं न तत्सत्यं यच्छलमभ्युपैति।
ये तु सभ्याः सभां गत्वा तूष्णीं ध्यायंत आसते१०१।
यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनः।
न वक्ति च श्रुतं यश्च कामात्क्रोधात्तथा भयात्१०२।
सहस्रं वारुणाः पाशाः प्रतिमुंचंति तं नरं।
तेषां संवत्सरे पूर्णे पाश एकः प्रमुच्यते१०३।
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमंजसा।
एतच्छ्रुत्वा तु सचिवा राममेवाब्रुवंस्तदा१०४।
उलूकः शोभते राजन्न तु गृध्रो महामते।
त्वं प्रमाणं महाराज राजा हि परमा गतिः१०५।
राजमूलाः प्रजाः सर्वा राजा धर्मः सनातनः।
शास्ता राजा नृणां येषां न ते गच्छंति दुर्गतिम्१०६।
वैवस्वतेन मुक्ताश्च भवंति पुरुषोत्तमाः।
सचिवानां वचः श्रुत्वा रामो वचनमब्रवीत्१०७।
श्रूयतामभिधास्यामि पुराणं यदुदाहृतं।
द्यौः सचंद्रार्कनक्षत्रा सपर्वतमहीद्रुमम्१०८।
सलिलार्णवसंमग्नं त्रैलोक्यं सचराचरं।
एकमेव तदा ह्यासीत्सर्वमेकमिवांबरं१०९।
पुनर्भूः सह लक्ष्म्या च विष्णोर्जठरमाविशत्।
तां निगृह्य महातेजाः प्रविश्य सलिलार्णवं११०।
सुष्वाप हि कृतात्मा स बहुवर्षशतान्यपि।
विष्णौ सुप्ते ततो ब्रह्मा विवेश जठरं ततः१११।
बहुस्रोतं च तं ज्ञात्वा महायोगी समाविशत्।
नाभ्यां विष्णोः समुद्भूतं पद्मं हेमविभूषितं११२।
स तु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुः।
सिसृक्षुः पृथिवीं वायुं पर्वतांश्च महीरुहान्११३।
तदंतराः प्रजाः सर्वा मानुषांश्च सरीसृपान्।
जरायुजाण्डजान्सर्वान्ससर्ज स महातपाः११४।
तस्य गात्रसमुत्पन्नः कैटभो मधुना सह।
दानवौ तौ महावीर्यौ घोरौ लब्धवरौ तदा११५।
दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टावुभौ नृप।
वेगेन महता भोक्तुं स्वयंभुवमधावतां११६।
दृष्ट्वा सत्वानि सर्वाणि निस्सरन्ति पृथक्पृथक्।
ब्रह्मणा संस्तुतो विष्णुर्हत्वा तौ मधुकैटभौ११७।
पृथिवीं वर्धयामास स्थित्यर्थं मेदसा तयोः।
मेदोगंधा तु धरणी मेदिनीत्यभिधां गता११८।
तस्माद्गृध्रस्त्वसत्यो वै पापकर्मापरालयम्।
स्वीयं करोति पापात्मा दण्डनीयो न संशयः११९।
ततोऽशरीरिणीवाणी अंतरिक्षात्प्रभाषते।
मा वधी राम गृध्रं त्वं पूर्वंदग्धं तपोबलात्१२०।
पुरा गौतम दग्धोऽयं प्रजानाथो जनेश्वर।
ब्रह्मदत्तस्तु नामैष शूरः सत्यव्रतः शुचिः१२१।
गृहमागत्य विप्रर्षेर्भोजनं प्रत्ययाचत।
साग्रं वर्षशतं चैव भुक्तवान्नृपसत्तम१२२।
ब्रह्मदत्तस्य वै तस्य पाद्यमर्घ्यं स्वयं ततः।
आत्मनैवाकरोत्सम्यग्भोजनार्थं महाद्युते१२३।
समाविश्य गृहं तस्य आहारे तु महात्मनः।
नारीं पूर्णस्तनीं दृष्ट्वा हस्तेनाथ परामृशत्१२४।
अथ क्रुद्धेन मुनिना शापो दत्तः सुदारुणः।
गृध्रत्वं गच्छ वै मूढ राजा मुनिमथाब्रवीत्१२५।
कृपां कुरु महाभाग शापोद्धारो भविष्यति।
दयालुस्तद्वचः श्रुत्वा पुनराह नराधिप१२६।
उत्पत्स्यते रघुकुले रामो नाम महायशाः।
इक्ष्वाकूणां महाभागो राजा राजीवलोचनः१२७।
तेन दृष्टो विपापस्त्वं भविता नरपुंगव।
दृष्टो रामेण तच्छ्रुत्वा बभूव पृथिवीपतिः१२८।
गृध्रत्वं त्यज्य वै शीघ्रं दिव्यगंधानुलेपनः।
पुरुषो दिव्यरूपोऽसौ बभाषे तं नराधिपं१२९।
साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो।
विमुक्तो नरकाद्घोरादपापस्तु त्वया कृतः१३०।
विसर्जितं मया गार्ध्यं नररूपी महीपतिः।
उलूकं प्राह धर्मज्ञ स्वगृहं विश कौशिक१३१।
अहं संध्यामुपासित्वा गमिष्ये यत्र वै मुनिः।
अथोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमां१३२।
आश्रमं प्राविशद्रामः कुंभयोनेर्महात्मनः।
तस्यागस्त्यो बहुगुणं फलमूलं च सादरं१३३।
रसवंति च शाकानि भोजनार्थमुपाहरत्।
सभुक्तवान्नरव्याघ्रस्तदन्नममृतोपमम्१३४।
प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत्।
प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदम१३५।
ॠषिं समभिचक्राम गमनाय रघूत्तमः।
अभिवाद्याब्रवीद्रामो महर्षिं कुंभसंभवम्१३६।
आपृच्छे साधये ब्रह्मन्ननुज्ञातुं त्वमर्हसि।
धन्योस्म्यनुगृहीतोस्मि दर्शनेन महामुने१३७।
दिष्ट्या चाहं भविष्यामि पावनात्मा महात्मनः।
एवं ब्रुवति काकुत्स्थे वाक्यमद्भुतदर्शनं१३८।
उवाच परमप्रीतो बाष्पनेत्रस्तपोधनः।
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरं१३९।
पावनं सर्वभूतानां त्वयोक्तं रघुनंदन।
मुहूर्तमपि राम त्वां मैत्रेणेक्षंति ये नराः१४०।
पावितास्सर्वसूक्तैस्ते कथ्यंते त्रिदिवौकसः।
ये च त्वां घोरचक्षुर्भिरीक्षंते प्राणिनो भुवि१४१।
ते हता ब्रह्मदंडेन सद्यो नरकगामिनः।
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनां१४२।
कथयंतश्च लोकास्त्वां सिद्धिमेष्यंति राघव।
गच्छस्वानातुरोऽविघ्नं पंथानमकुतोभयः१४३।
प्रशाधि राज्यं धर्मेण गतिस्तु जगतां भवान्।
एवमुक्तस्तु मुनिना प्राञ्जलि प्रग्रहो नृपः१४४।
अभिवादयितुं चक्रे सोऽगस्त्यमृषिसत्तमम्।
अभिवाद्य मुनिश्रेष्ठंस्तांश्च सर्वांस्तपोधिकान्१४५।
अथारोहत्तदाव्यग्रः पुष्पकं हेमभूषितम्।
तं प्रयांतं मुनिगणा आशीर्वादैस्समंततः१४६।
अपूपुजन्नरेंद्रं तं सहस्राक्षमिवामराः।
ततोऽर्धदिवसे प्राप्ते रामः सर्वार्थकोविदः१४७।
अयोध्यां प्राप्य काकुत्स्थः पद्भ्यां कक्षामवातरत्।
ततो विसृज्य रुचिरं पुष्पकं कामवाहितं१४८।
कक्षांतराद्विनिष्क्रम्य द्वास्थान्राजाऽब्रवीदिदं।
लक्ष्मणं भरतं चैव गच्छध्वं लघुविक्रमाः१४९।
ममागमनमाख्याय समानयत मा चिरम्।
श्रुत्वाथ भाषितं द्वास्था रामस्याक्लिष्टकर्मणः1.37.१५०।
गत्वा कुमारावाहूय राघवाय न्यवदेयन्।
द्वास्थैः कुमारावानीतौ राघवस्य निदेशतः१५१।
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ।
समालिंग्य तु रामस्तौ वाक्यं चेदमुवाच ह१५२।
कृतं मया यथातथ्यं द्विजकार्यमनुत्तमं।
धर्महेतुमतो भूयः कर्तुमिच्छामि राघवौ१५३।
भवद्भ्यामात्मभूताभ्यां राजसूयं क्रतूत्तमं।
सहितो यष्टुमिच्छामि यत्र धर्मश्च शाश्वतः१५४।
पुष्करस्थेन वै पूर्वं ब्रह्मणा लोककारिणा।
शतत्रयेण यज्ञानामिष्टं षष्ट्याधिकेन च१५५।
इष्ट्वा हि राजसूयेन सोमो धर्मेण धर्मवित्।
प्राप्तः सर्वेषु लोकेषु कीर्तिस्थानमनुत्तमम्१५६।
इष्ट्वा हि राजसूयेन मित्रः शत्रुनिबर्हणः।
मुहूर्तेन सुशुद्धेन वरुणत्वमुपागतः१५७।
तस्माद्भवंतौ संचिंत्य कार्येस्मिन्वदतं हि तत्।
भरत उवाच।
त्वं धर्मः परमः साधो त्वयि सर्वा वसुंधरा१५८।
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम।
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः१५९।
निरीक्षंते महात्मानो लोकनाथ तथा वयं।
प्रजाश्च पितृवद्राजन्पश्यंति त्वां महामते१६०।
पृथिव्यां गतिभूतोसि प्राणिनामिह राघव।
सत्वमेवंविधं यज्ञं नाहर्त्तासि परंतप१६१।
पृथिव्यां सर्वभूतानां विनाशो दृश्यते यतः।
श्रूयते राजशार्दूल सोमस्य मनुजेश्वर१६२।
ज्योतिषां सुमहद्युद्धं संग्रामे तारकामये।
तारा बृहस्पतेर्भार्या हृता सोमेनकामतः१६३।
तत्र युद्धं महद्वृत्तं देवदानवनाशनम्।
वरुणस्य क्रतौ घोरे संग्रामे मत्स्यकच्छपाः१६४।
निवृत्ते राजशार्दूल सर्वे नष्टा जलेचराः।
हरिश्चंद्रस्य यज्ञांते राजसूयस्य राघव१६५।
आडीबकंमहद्युद्धं सर्वलोकविनाशनम्।
पृथिव्यां यानि सत्वानि तिर्यग्योनिगतानि वै१६६।
दिव्यानां पार्थिवानां च राजसूये क्षयः श्रुतः।
स त्वं पुरुषशार्दूल बुद्ध्या संचिंत्य पार्थिव१६७।
प्राणिनां च हितं सौम्यं पूर्णधर्मं समाचर।
भरतस्य वचः श्रुत्वा राघवः प्राह सादरम्१६८।
प्रीतोस्मि तव धर्मज्ञ वाक्येनानेन शत्रुहन्।
निवर्तिता राजसूयान्मतिर्मे धर्मवत्सल१६९।
पूर्णं धर्मं करिष्यामि कान्यकुब्जे च वामनम्।
स्थापयिष्याम्यहं वीर सा मे ख्यातिर्दिवं गता१७०।
भविष्यति न संदेहो यथा गंगा भगीरथात्१७१।
।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे यज्ञनिवारणंनाम सप्तत्रिंशोऽध्यायः३७।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 38
भीष्म उवाच।
कथं रामेण विप्रर्षे कान्यकुब्जे तु वामनः।
स्थापितः क्व च लब्धोसौ विस्तरान्मम कीर्तय१।
तथा हि मधुरा चैषा या वाणी रामकीर्तने।
कीर्तिता भगवन्मह्यं हृता कर्णसुखावह२।
अनुरागेण तं लोकाः स्नेहात्पश्यंति राघवम्।
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः३।
प्रशास्ति पृथिवीं सर्वां धर्मेण सुसमाहितः।
तस्मिन्शासति वै राज्यं सर्वकामफलाद्रुमाः४।
रसवंतः प्रभूताश्च वासांसि विविधानि च।
अकृष्टपच्या पृथिवी निःसपत्ना महात्मनः५।
देवकार्यं कृतं तेन रावणो लोककंटकः।
सपुत्रोमात्यसहितो लीलयैव निपातितः६।
तस्यबुद्धिस्समुत्पन्ना पूर्णे धर्मे द्विजोत्तम।
तस्याहं चरितं सर्वं श्रोतुमिच्छामि वै मुने७।
पुलस्त्य उवाच।
कस्यचित्त्वथ कालस्य रामो धर्मपथे स्थितः।
यच्चकार महाबाहो शृणुष्वैकमना नृप८।
सस्मार राक्षसेंद्रं तं कथं राजा विभीषणः।
लंकायां संस्थितो राज्यं करिष्यति च राक्षसः९।
गीर्वाणेषु प्रातिकूल्यं विनाशस्य तु लक्षणम्।
मया तस्य तु तद्दत्तं राज्यं चंद्रार्ककालिकम्१०।
तस्याविनाशतः कीर्तिः स्थिरा मे शाश्वती भवेत्।
रावणेन तपस्तप्तं विनाशायात्मनस्त्विह११।
विध्वस्तः स च पापिष्ठो देवकार्ये मयाधुना।
तदिदानीं मयान्वेष्यः स्वयं गत्वा विभीषणः१२।
संदेष्टव्यं हितं तस्य येन तिष्ठेत्स शाश्वतम्।
एवं चिंतयतस्तस्य रामस्यामिततेजसः१३।
आजगामाथ भरतो रामं दृष्ट्वाब्रवीदिदम्।
किं त्वं चिंतयसे देव न रहस्यं वदस्व मे१४।
देवकार्ये धरायां वा स्वकार्ये वा नरोत्तम।
एवं ब्रुवंतं भरतं ध्यायमानमवस्थितम्१५।
अब्रवीद्राघवो वाक्यं रहस्यं तु न वै तव।
भवान्बहिश्चरः प्राणो लक्ष्मणश्च महायशाः१६।
अवेद्यं भवतो नास्ति मम सत्यं विधारय।
एषा मे महती चिंता कथं देवैर्विभीषणः१७।
वर्तते यद्धितार्थं वै दशग्रीवो निपातितः।
गमिष्ये तदहं लंकां यत्र चासौ विभीषणः१८।
तं च दृष्ट्वा पुरीं तां तु कार्यमुक्त्वा च राक्षसम्।
आलोक्य सर्ववसुधां सुग्रीवं वानरेश्वरम्१९।
महाराजं च शत्रुघ्नं भातृपुत्रांश्च सर्वशः।
एवं वदति काकुत्स्थे भरतः पुरतः स्थितः२०।
उवाच राघवं वाक्यं गमिष्ये भवता सह।
एवं कुरु महाबाहो सौमित्रिरिह तिष्ठतु२१।
इत्युक्त्वा भरतं रामः सौमित्रं चाह वै पुरे।
रक्षाकार्या त्वया वीर यावदागमनं हि नौ२२।
एवं लक्ष्मणमादिश्य ध्यात्वा वै पुष्पकं नृप।
आरुरोह स वै यानं कौसल्यानंदवर्धनः२३।
पुष्पकं तु ततः प्राप्तं गांधारविषयो यतः।
भरतस्य सुतौ दृष्ट्वा जगन्नीतिं निरीक्ष्य च२४।
पूर्वां दिशं ततो गत्वा लक्ष्मणस्य सुतौ यतः।
पुरेषु तेषु षड्रात्रमुषित्वा रघुनंदनौ२५।
गतौ तेन विमानेन दक्षिणामभितो दिशम्।
गंगायामुनसंभेदं प्रयागमृषिसेवितम्२६।
अभिवाद्य भरद्वाजमत्रेराश्रममीयतुः।
संभाष्य च मुनींस्तत्र जनस्थानमुपागतौ२७।
राम उवाच।
अत्र पूर्वं हृता सीता रावणेन दुरात्मना।
हत्वा जटायुषं गृध्रं योसौ पितृसखो हि नौ२८।
अत्रास्माकं महद्युद्धं कबंधेन कुबुद्धिना।
हतेन तेन दग्धेन सीतास्ते रावणालये२९।
ॠष्यमूके गिरिवरे सुग्रीवो नाम वानरः।
स ते करिष्यते साह्यं पंपां व्रज सहानुजः३०।
पंपासरः समासाद्य शबरीं गच्छ तापसीम्।
इत्युक्तो दुःखितो वीर निराशो जीविते स्थितः३१।
इयं सा नलिनी वीर यस्यां वै लक्ष्मणोवदत्।
मा कृथाः पुरुषव्याघ्र शोकं शत्रुविनाशन३२।
आज्ञाकारिणि भृत्ये च मयि प्राप्स्यसि मैथिलीम्।
अत्र मे वार्षिका मासा गता वर्षशतोपमाः३३।
अत्रैव निहतो वाली सुग्रीवार्थे परंतप।
एषा सा दृश्यते नूनं किष्किंधा वालिपालिता३४।
यस्यां वै स हि धर्मात्मा सुग्रीवो वानरेश्वरः।
वानरैः सहितो वीर तावदास्ते समाः शतम्३५।
वानरैस्सह सुग्रीवो यावदास्ते सभां गतः।
तावत्तत्रागतौ वीरौ पुर्यां भरतराघवौ३६।
दृष्ट्वा स भ्रातरौ प्राप्तौ प्रणिपत्याब्रवीदिदम्।
क्व युवां प्रस्थितौ वीरौ कार्यं किं नु करिष्यथः३७।
विनिवेश्यासने तौ च ददावर्घ्ये स्वयं तदा।
एवं सभास्थिते तत्र धर्मिष्टे रघुनंदने३८।
अंगदोथ हनूमांश्च नलो नीलश्च पाटलः।
गजो गवाक्षो गवयः पनसश्च महायशाः३९।
पुरोधसो मंत्रिणश्च दैवज्ञो दधिवक्रकः।
नीलश्शतबलिर्मैन्दो द्विविदो गंधमादनः४०।
वीरबाहुस्सुबाहुश्च वीरसेनो विनायकः।
सूर्याभः कुमुदश्चैव सुषेणो हरियूथपः४१।
ॠषभो विनतश्चैव गवाख्यो भीमविक्रमः।
ॠक्षराजश्च धूम्रश्च सहसैन्यैरुपागताः४२।
अंतःपुराणि सर्वाणि रुमा तारा तथैव च।
अवरोधोंगदस्यापि तथान्याः परिचारिकाः४३।
प्रहर्षमतुलं प्राप्य साधुसाध्विति चाब्रुवन्।
वानराश्च महात्मानः सुग्रीवसहितास्तदा४४।
वानर्यश्च महाभागास्ताराद्यास्तत्र राघवम्।
अभिप्रेक्ष्याश्रुकंठ्यश्च प्रणिपत्येदमब्रुवन्४५।
क्व सा देवी त्वया देव या विनिर्जित्यरावणम्।
शुद्धिं कृत्वा हि ते वह्नौ पितुरग्र उमापतेः४६।
त्वयानीता पुरीं राम न तां पश्यामि तेग्रतः।
न विना त्वं तया देव शोभसे रघुनंदन४७।
त्वया विनापि साध्वी सा क्व नु तिष्ठति जानकी।
अन्यां भार्यां न ते वेद्मि भार्याहीनो न शोभसे४८।
क्रौंचयुग्मं मिथो यद्वच्चक्रवाकयुगं यथा।
एवं वदंतीं तां तारां ताराधिपसमाननाम्४९।
प्राह प्रवचसां श्रेष्ठो रामो राजीवलोचनः।
चारुदंष्ट्रे विशालाक्षि कालो हि दुरतिक्रमः1.38.५०।
सर्वं कालकृतं विद्धि जगदेतच्चराचरम्।
विसृज्यताः स्त्रियः सर्वाः सुग्रीवोभिमुखः स्थितः५१।
सुग्रीव उवाच।
भवंतौ येन कार्येण इहायातौ नरेश्वरौ।
तच्चापि कथ्यतां शीघ्रं कृत्यकालो हि वर्तते५२।
ब्रुवाणमेवं सुग्रीवं भरतो रामचोदितः।
आचचक्षे च गमनं लंकायां राघवस्य तु।
तौ चाब्रवीच्च सुग्रीवो भवद्भ्यां सहितः पुरीम्५३।
गमिष्ये राक्षसं देव द्रष्टुं तत्र विभीषणम्।
सुग्रीवेणैवमुक्ते तु गच्छस्वेत्याह राघवः५४।
सुग्रीवो राघवौ तौ च पुष्पके तु स्थितास्त्रयः।
तावत्प्राप्तं विमानं तु समुद्रस्योत्तरं तटम्५५।
अब्रवीद्भरतं रामो ह्यत्र मे राक्षसेश्वरः।
चतुर्भिः सचिवैः सार्धं जीवितार्थे विभीषणः५६।
प्राप्तस्ततो लक्ष्मणेन लंकाराज्येभिषेचितः।
अत्र चाहं समुद्रस्य परेपारे स्थितस्त्र्यहम्५७।
दर्शनं दास्यते मेऽसौ ज्ञातिकार्यं भविष्यति।
तावन्न दर्शनं मह्यं दत्तमेतेन शत्रुहन्५८।
ततः कोपः सुमद्भूतश्चतुर्थेहनि राघव।
धनुरायम्य वेगेन दिव्यमस्त्रं करे धृतम्५९।
दृष्ट्वा मां शरणान्वेषी भीतो लक्ष्मणमाश्रितः।
सुग्रीवेणानुनीतोऽस्मि क्षम्यतां राघव त्वया६०।
ततो मयोत्क्षिप्तशरो मरुदेशे ह्यपाकृतः।
ततस्समुद्रराजेन भृशं विनयशालिना६१।
उक्तोहं सेतुबंधेन लंकां त्वं व्रज राघव।
लंघयित्वा नरव्याघ्र वारिपूर्णं महोदधिम्६२।
एष सेतुर्मया बद्धः समुद्रे वरुणालये।
त्रिभिर्दिनैः समाप्तिं वै नीतो वानरसत्तमैः६३।
प्रथमे दिवसे बद्धो योजनानि चतुर्दश।
द्वितीयेहनि षट्त्रिंशत्तृतीयेर्धशतं तथा६४।
इयं सा दृश्यते लंका स्वर्णप्राकारतोरणा।
अवरोधो महानत्र कृतो वानरसत्तमैः६५।
अत्र युद्धं महद्वृत्तं चैत्राशुक्लचतुर्दशि।
अष्टचत्वारिंशद्दिनं यत्रासौ रावणो हतः६६।
अत्र प्रहस्तो नीलेन हतो राक्षसपुंगवः।
हनूमता च धूम्राक्षो ह्यत्रैव विनिपातितः६७।
महोदरातिकायौ च सुग्रीवेण महात्मना।
अत्रैव मे कुंभकर्णो लक्ष्मणेनेंद्रजित्तथा६८।
मया चात्र दशग्रीवो हतो राक्षसपुंगवः।
अत्र संभाषितुं प्राप्तो ब्रह्मा लोकपितामहः६९।
पार्वत्या सहितो देवः शूलपाणिर्वृषध्वजः।
महेंद्राद्याः सुरगणाः सगंधर्वास्स किंनराः७०।
पिता मे च समायातो महाराजस्त्रिविष्टपात्।
वृतश्चाप्सरसां संघैर्विद्याधरगणैस्तथा७१।
तेषां समक्षं सर्वेषां जानकी शुद्धिमिच्छता।
उक्ता सीता हव्यवाहं प्रविष्टा शुद्धिमागता७२।
लंकाधिपैः सुरैर्दृष्टा गृहीता पितृशासनात्।
अथाप्युक्तोथ राज्ञाहमयोध्यां गच्छ पुत्रकम्७३।
न मे स्वर्गो बहुमतस्त्वया हीनस्य राघव।
तारितोहं त्वया पुत्र प्राप्तोऽस्मीन्द्रसलोकताम्७४।
लक्ष्मणं चाब्रवीद्राजा पुत्र पुण्यं त्वयार्जितम्।
भ्रात्रासममथो दिव्यांल्लोकान्प्राप्स्यसि चोत्तमान्७५।
आहूय जानकीं राजा वाक्यं चेदमुवाच ह।
न च मन्युस्त्वया कार्यो भर्तारं प्रति सुव्रते७६।
ख्यातिर्भविष्यत्येवाग्र्या भर्तुस्ते शुभलोचने।
एवं वदति रामे तु पुष्पके च व्यवस्थिते७७।
तत्र ये राक्षसवरास्ते गत्वाशु विभीषणं।
प्राप्तो रामः ससुग्रीवश्चारा इत्थं तदाऽवदन्७८।
विभीषणस्तु तच्छ्रुत्वा रामागमनमंतिके।
चारांस्तान्पूजयामास सर्वकामधनादिभिः७९।
अलंकृत्य पुरीं तां तु निष्क्रान्तः सचिवैः सह।
दृष्ट्वा रामं विमानस्थं मेराविव दिवाकरं८०।
अष्टांगप्रणिपातेन नत्वा राघवमब्रवीत्।
अद्य मे सफलं जन्म प्राप्ताः सर्वे मनोरथाः८१।
यद्दृष्टौ देवचरणौ जगद्वंद्यावनिंदितौ।
कृतः श्लाघ्योस्म्यहं देव शक्रादीनां दिवौकसां८२।
आत्मानमधिकं मन्ये त्रिदशेशात्पुरंदरात्।
रावणस्य गृहे दीप्ते सर्वरत्नोपशोभिते८३।
उपविष्टे तु काकुत्स्थे अर्घं दत्वा विभीषणः।
उवाच प्रांजलिर्भूत्वा सुग्रीवं भरतं तथा८४।
इहागतस्य रामस्य यद्दास्ये न तदस्ति मे।
इयं च लंका रामेण रिपुं त्रैलोक्यकंटकम्८५।
हत्वा तु पापकर्माणं दत्ता पूर्वं पुरी मम।
इयं पुरी इमे दारा अमी पुत्रास्तथा ह्यहं८६।
सर्वमेतन्मया दत्तं सर्वमक्षयमस्तु ते।
ततः प्रकृतयः सर्वा लंकावासिजनाश्च ये८७।
आजग्मू राघवं द्रष्टुं कौतूहलसमन्विताः।
उक्तो विभीषणस्तैस्तु रामं दर्शय नः प्रभो८८।
विभीषणेन कथिता राघवाय महात्मने।
तेषामुपायनं सर्वं भरतो रामचोदितः८९।
जग्राह वानरेन्द्रश्च धनरत्नौघसंचयं।
एवं तत्र त्र्यहं रामो ह्यवसद्राक्षसालये९०।
चतुर्थेहनि संप्राप्ते रामे चापि सभास्थिते।
केकसी पुत्रमाहेदं रामं द्रक्ष्यामि पुत्रक९१।
दृष्टे तस्मिन्महत्पुण्यं प्राप्यते मुनिसत्तमैः।
विष्णुरेष महाभागश्चतुर्मूर्तिस्सनातनः९२।
सीता लक्ष्मीर्महाभाग न बुद्धा साग्रजेन ते।
पित्रा ते पूर्वमाख्यातं देवानां दिविसंगमे९३।
कुले रघूणां वै विष्णुः पुत्रो दशरथस्य तु।
भविष्यति विनाशाय दशग्रीवस्य रक्षसः९४।
विभीषण उवाच।
एवं कुरुष्व वै मातर्गृहाण नवमं वरम्।
पात्रं चंदनसंयुक्तं दधिक्षौद्राक्षतैः सह९५।
दूर्वयार्घं सह कुरु राजपुत्रस्य दर्शनम्।
सरमामग्रतः कृत्वा याश्चान्या देवकन्यकाः९६।
व्रजस्व राघवाभ्याशं तस्मादग्रे व्रजाम्यहम्।
एवमुक्त्वा गतं रक्षो यत्र रामो व्यवस्थितः९७।
उत्सार्य दानवान्सर्वान्रामं द्रष्टुं समागतान्।
सभां तां विमलां कृत्वा रामं स्वाभिमुखे स्थितम्९८।
विभीषण उवाच।
विज्ञाप्यं शृणु मे देव वदतश्च विशांपते।
दशग्रीवं कुंभकर्णं या च मां चाप्यजीजनत्९९।
इयं सा देवमाता नः पादौ ते द्रष्टुमिच्छति।
तस्यास्तु त्वं कृपां कृत्वा दर्शनं दातु मर्हसि1.38.१००।
राम उवाच।
अहं तस्याः समीपं तु मातृदर्शनकांक्षया।
गमिष्ये राक्षसेंद्र त्वं शीघ्रं याहि ममाग्रतः१०१।
प्रतिज्ञाय तु तं वाक्यमुत्तस्थौ च वरासनात्।
मूर्ध्नि चांजलिमाधाय प्रणाममकरोद्विभुः१०२।
अभिवादयेहं भवतीं माता भवसि धर्मतः।
महता तपसा चापि पुण्येन विविधेन च१०३।
इमौ ते चरणौ देवि मानवो यदि पश्यति।
पूर्णस्स्यात्तदहं प्रीतो दृष्ट्वेमौ पुत्रवत्सले१०४।
कौसल्या मे यथा माता भवती च तथा मम।
केकसी चाब्रवीद्रामं चिरं जीव सुखी भव१०५।
भर्त्रा मे कथितं वीर विष्णुर्मानुषरूपधृत्।
अवतीर्णो रघुकुले हितार्थेत्र दिवौकसाम्१०६।
दशग्रीव विनाशाय भूतिं दातुं विभीषणे।
वालिनो निधनं चैव सेतुबंधं च सागरे१०७।
पुत्रो दशरथस्यैव सर्वं स च करिष्यति।
इदानीं त्वं मया ज्ञातः स्मृत्वा तद्भर्तृभाषितम्१०८।
सीता लक्ष्मीर्भवान्विष्णुर्देवा वै वानरास्तथा।
गृहं पुत्र गमिष्यामि स्थिरकीर्तिमवाप्नुहि१०९।
सरमोवाच।
इहैव वत्सरं पूर्णमशोकवनिकास्थिता।
सेविता जानकी देव सुखं तिष्ठति ते प्रिया११०।
नित्यं स्मरामि वै पादौ सीतायास्तु परंतप।
कदा द्रक्ष्यामि तां देवीं चिंतयाना त्वहर्निशम्१११।
किमर्थं देवदेवेन नानीता जानकी त्विह।
एकाकी नैव शोभेथा योषिता च तया विना११२।
समीपे शोभते सीता त्वं च तस्याः परंतप।
एवं ब्रुवन्त्यां भरतः केयमित्यब्रवीद्वचः११३।
ततश्चेंगितविद्रामो भरतं प्राह सत्वरम्।
विभीषणस्य भार्या वै सरमा नाम नामतः११४।
प्रिया सखी महाभागा सीतायास्सुदृढं मता।
सर्वंकालकृतं पश्य न जाने किं करिष्यति११५।
गच्छ त्वं सुभगे भर्तृगेहं पालय शोभने।
मां त्यक्त्वा हि गता देवी भाग्यहीनं गतिर्यथा११६।
तया विरहितः सुभ्रु रतिं विंदे न कर्हिचित्।
शून्या एव दिशः सर्वाः पश्यामीह पुनर्भ्रमन्११७।
विसृज्यतां च सरमां सीतायास्तु प्रियां सखीम्।
गतायामथ केकस्यां रामः प्राह विभीषणम्११८।
दैवतेभ्यः प्रियं कार्यं नापराध्यास्त्वया सुराः।
आज्ञया राजराजस्य वर्तितव्यं त्वयानघ११९।
लंकायां मानुषो यो वै समागच्छेत्कथंचन।
राक्षसैर्न च हंतव्यो द्रष्टव्योसौ यथा त्वहम्१२०।
विभीषण उवाच।
आज्ञयाहं नरव्याघ्र करिष्ये सर्वमेव तु।
विभीषणे हि वदति वायू राममुवाच ह१२१।
इहास्तिवैष्णवी मूर्तिः पूर्वं बद्धो बलिर्यया।
तां नयस्व महाभाग कान्यकुब्जे प्रतिष्ठय१२२।
विदित्वा तदभिप्रायं वायुना समुदाहृतम्।
विभीषणस्त्वलंकृत्य रत्नैः सर्वैश्च वामनम्१२३।
आनीय चार्पयद्रामे वाक्यं चेदमुवाच ह।
यदा वै निर्जितः शक्रो मेघनादेन राघव१२४।
तदा वै वामनस्त्वेष आनीतो जलजेक्षण।
नयस्व तमिमं देव देवदेवं प्रतिष्ठय१२५।
तथेति राघवः कृत्वा पुष्पकं च समारुहत्।
धनं रत्नमसंख्येयं वामनं च सुरोत्तमम्१२६।
गृह्य सुग्रीवभरतावारूढौ वामनादनु।
व्रजन्नेवांबरे रामस्तिष्ठेत्याह विभीषणम्१२७।
राघवस्य वचः श्रुत्वा भूयोप्याह स राघवम्।
करिष्ये सर्वमेतद्धि यदाज्ञप्तं विभो त्वया१२८।
सेतुनानेन राजेंद्र पृथिव्यां सर्वमानवाः।
आगत्य प्रतिबाधेरन्नाज्ञाभंगो भवेत्तव१२९।
कोत्र मे नियमो देव किन्नु कार्यं मया विभो।
श्रुत्वैतद्राघवो वाक्यं राक्षसोत्तमभाषितम्१३०।
कार्मुकं गृह्य हस्तेन रामः सेतुं द्विधाच्छिनत्।
त्रिर्विभज्य च वेगेन मध्ये वै दशयोजनम्१३१।
छित्वा तु योजनं चैकमेकं खंडत्रयं कृतम्।
वेलावनं समासाद्य रामः पूजां रमापतेः१३२।
कृत्वा रामेश्वरं नाम्ना देवदेवं जनार्दनं।
अभिषिच्याथ संगृह्य वामनं रघुनंदनः१३३।
दक्षिणादुदधेश्चैव निर्जगाम त्वरान्वितः।
अंतरिक्षादभूद्वाणी मेघगंभीरनिःस्वना१३४।
रुद्र उवाच।
भो भो रामास्तु भद्रं ते स्थितोऽहमिह सांप्रतम्।
यावज्जगदिदं राम यावदेषा धरा स्थिता१३५।
तावदेव च ते सेतु तीर्थं स्थास्यति राघव।
श्रुत्वैवं देवदेवस्य गिरं ताममृतोपमाम्१३६।
राम उवाच।
नमस्ते देवदेवेश भक्तानामभयंकर।
गौरीकांत नमस्तुभ्यं दक्षयज्ञविनाशन१३७।
नमो भवाय शर्वाय रुद्राय वरदाय च।
पशूनांपतये नित्यं चोग्राय च कपर्दिने१३८।
महादेवाय भीमाय त्र्यंबकाय दिशांपते।
ईशानाय भगघ्नाय नमोस्त्वंधकघातिने१३९।
नीलग्रीवाय घोराय वेधसे वेधसा स्तुत।
कुमारशत्रुनिघ्नाय कुमारजननाय च१४०।
विलोहिताय धूम्राय शिवाय क्रथनाय च।
नमो नीलशिखंडाय शूलिने दैत्यनाशिने१४१।
उग्राय च त्रिनेत्राय हिरण्यवसुरेतसे।
अनिंद्यायांबिकाभर्त्रे सर्वदेवस्तुताय च१४२।
अभिगम्याय काम्याय सद्योजाताय वै नमः।
वृषध्वजाय मुंडाय जटिने ब्रह्मचारिणे१४३।
तप्यमानाय तप्याय ब्रह्मण्याय जयाय च।
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते१४४।
नमो नमोस्तु दिव्याय प्रपन्नार्तिहराय च।
भक्तानुकंपिने देव विश्वतेजो मनोगते१४५।
पुलस्त्य उवाच।
एवं संस्तूयमानस्तु देवदेवो हरो नृप।
उवाच राघवं वाक्यं भक्तिनम्रं पुरास्थितम्१४६।
रुद्र उवाच।
भो भो राघव भद्रं ते ब्रूहि यत्ते मनोगतम्।
भवान्नारायणो नूनं गूढो मानुषयोनिषु१४७।
अवतीर्णो देवकार्यं कृतं तच्चानघ त्वया।
इदानीं स्वं व्रजस्थानं कृतकार्योसि शत्रुहन्१४८।
त्वया कृतं परं तीर्थं सेत्वाख्यं रघुनंदन।
आगत्य मानवा राजन्पश्येयुरिह सागरे१४९।
महापातकयुक्ता ये तेषां पापं विलीयते।
ब्रह्मवध्यादिपापानि यानि कष्टानि कानिचित्1.38.१५०।
दर्शनादेव नश्यंति नात्र कार्या विचारणा।
गच्छ त्वं वामनं स्थाप्य गंगातीरे रघूत्तम१५१।
पृथिव्यां सर्वशः कृत्वा भागानष्टौ परंतप।
श्वेतद्वीपं स्वकं स्थानं व्रज देव नमोस्तु ते१५२।
प्रणिपत्य ततो रामस्तीर्थं प्राप्तश्च पुष्करम्।
विमानं तु न यात्यूर्ध्वं वेष्टितं तत्तु राघवः१५३।
किमिदं वेष्टितं यानं निरालंबेऽम्बरे स्थितम्।
भवितव्यं कारणेन पश्येत्याह स्म वानरम्१५४।
सुग्रीवो रामवचनादवतीर्य धरातले।
स च पश्यति ब्रह्माणं सुरसिद्धसमन्वितम्१५५।
ब्रह्मर्षिसङ्घसहितं चतुर्वेदसमन्वितम्।
दृष्ट्वाऽऽगत्याब्रवीद्रामं सर्वलोकपितामहः१५६।
सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः।
तं देवं पुष्पकं नैव लंघयेद्धि पितामहम्१५७।
अवतीर्य ततो रामः पुष्पकाद्धेमभूषितात्।
नत्वा विरिंचनं देवं गायत्र्या सह संस्थितम्१५८।
अष्टांगप्रणिपातेन पंचांगालिंगितावनिः।
तुष्टाव प्रणतो भूत्वा देवदेवं विरिंचनम्१५९।
राम उवाच।
नमामि लोककर्तारं प्रजापतिसुरार्चितम्।
देवनाथं लोकनाथं प्रजानाथं जगत्पतिम्१६०।
नमस्ते देवदेवेश सुरासुरनमस्कृत।
भूतभव्यभवन्नाथ हरिपिंगललोचन१६१।
बालस्त्वं वृद्धरूपी च मृगचर्मासनांबरः।
तारणश्चासि देवस्त्वं त्रैलोक्यप्रभुरीश्वरः१६२।
हिरण्यगर्भः पद्मगर्भः वेदगर्भः स्मृतिप्रदः।
महासिद्धो महापद्मी महादंडी च मेखली१६३।
कालश्च कालरूपी च नीलग्रीवो विदांवरः।
वेदकर्तार्भको नित्यः पशूनां पतिरव्ययः१६४।
दर्भपाणिर्हंसकेतुः कर्ता हर्ता हरो हरिः।
जटी मुंडी शिखी दंडी लगुडी च महायशाः१६५।
भूतेश्वरः सुराध्यक्षः सर्वात्मा सर्वभावनः।
सर्वगः सर्वहारी च स्रष्टा च गुरुरव्ययः१६६।
कमंडलुधरो देवः स्रुक्स्रुवादिधरस्तथा।
हवनीयोऽर्चनीयश्च ॐकारो ज्येष्ठसामगः१६७।
मृत्युश्चैवामृतश्चैव पारियात्रश्च सुव्रतः।
ब्रह्मचारी व्रतधरो गुहावासी सुपङ्कजः१६८।
अमरो दर्शनीयश्च बालसूर्यनिभस्तथा।
दक्षिणे वामतश्चापि पत्नीभ्यामुपसेवितः१६९।
भिक्षुश्च भिक्षुरूपश्च त्रिजटी लब्धनिश्चयः।
चित्तवृत्तिकरः कामो मधुर्मधुकरस्तथा१७०।
वानप्रस्थो वनगत आश्रमी पूजितस्तथा।
जगद्धाता च कर्त्ता च पुरुषः शाश्वतो ध्रुवः१७१।
धर्माध्यक्षो विरूपाक्षस्त्रिधर्मो भूतभावनः।
त्रिवेदो बहुरूपश्च सूर्यायुतसमप्रभः१७२।
मोहकोवंधकश्चैवदानवानांविशेषतः।
देवदेवश्च पद्माङ्कस्त्रिनेत्रोऽब्जजटस्तथा१७३।
हरिश्मश्रुर्धनुर्धारी भीमो धर्मपराक्रमः।
एवं स्तुतस्तु रामेण ब्रह्मा ब्रह्मविदांवरः१७४।
उवाच प्रणतं रामं करे गृह्य पितामहः।
विष्णुस्त्वं मानुषे देहेऽवतीर्णो वसुधातले१७५।
कृतं तद्भवता सर्वं देवकार्यं महाविभो।
संस्थाप्य वामनं देवं जाह्नव्या दक्षिणे तटे१७६।
अयोध्यां स्वपुरीं गत्वा सुरलोकं व्रजस्व च।
विसृष्टो ब्रह्मणा रामः प्रणिपत्य पितामहं१७७।
आरूढः पुष्पकं यानं संप्राप्तो मधुरां पुरीम्।
समीक्ष्य पुत्रसहितं शत्रुघ्नं शत्रुघातिनं१७८।
तुतोष राघवः श्रीमान्भरतः स हरीश्वरः।
शत्रुघ्नो भ्रातरौ प्राप्तौ शक्रोपेन्द्राविवागतौ१७९।
प्रणिपत्य ततो मूर्ध्ना पंचांगालिंगितावनिः।
उत्थाप्य चांकमारोप्य रामो भ्रातरमंजसा१८०।
भरतश्च ततः पश्चात्सुग्रीवस्तदनंतरं।
उपविष्टोऽथ रामाय सोऽर्घमादाय सत्वरं१८१।
राज्यं निवेदयामास चाष्टांगं राघवे तदा।
श्रुत्वा प्राप्तं ततो रामं सर्वो वै माथुरो जनः१८२।
वर्णा ब्राह्मणभूयिष्ठा द्रष्टुमेनं समागताः।
संभाष्य प्रकृतीः सर्वा नैगमान्ब्राह्मणैः सह१८३।
दिनानि पंचोषित्वाऽत्र रामो गंतुं मनो दधे।
शत्रुघ्नश्च ततो रामे वाजिनोथ गजांस्तथा१८४।
कृताकृतं च कनकं तत्रोपायनमाहरत्।
रामस्त्वाह ततः प्रीतः सर्वमेतन्मया तव१८५।
दत्तं पुत्रौ तेऽभिषिञ्च राजानौ माथुरे जने।
एवमुक्त्वा ततो रामः प्राप्तो मध्यंदिने रवौ१८६।
महोदयं समासाद्य गंगातीरे स वामनं।
प्रतिष्ठाप्य द्विजानाह भाविनः पार्थिवांस्तथा१८७।
मया कृतोऽयं धर्मस्य सेतुर्भूतिविवर्धनः।
प्राप्ते काले पालनीयो न च लोप्यः कथंचन१८८।
प्रसारितकरेणैवं प्रार्थनैषा मया कृता।
नृपाः कृते मयार्थित्वे यत्क्षेमं क्रियतामिह१८९।
नित्यं दैनंदिनीपूजा कार्या सर्वैरतंद्रितैः।
ग्रामान्दत्वा धनं तच्च लंकाया आहृतं च यत्१९०।
प्रेषयित्वा च किष्किंधां सुग्रीवं वानरेश्वरं।
अयोध्यामागतो रामः पुष्पकं तमथाब्रवीत्१९१।
नागंतव्यं त्वया भूयस्तिष्ठ यत्र धनेश्वरः।
कृतकृत्यस्ततो रामः कर्तव्यं नाप्यमन्यत१९२।
पुलस्त्य उवाच।
एवन्ते भीष्म रामस्य कथायोगेन पार्थिव।
उत्पत्तिर्वामनस्योक्ता किं भूयः श्रोतुमिच्छसि१९३।
कथयामि तु तत्सर्वं यत्र कौतूहलं नृप।
सर्वं ते कीर्त्तयिष्यामि येनार्थी नृपनंदन१९४।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे वामनप्रतिष्ठानामाष्टत्रिंशोऽध्यायः३८।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 39
भीष्म उवाच।
कथितं वामनस्यैव माहात्म्यं विस्तरेण वै।
पुनस्तस्यैव माहात्म्यमन्यद्विष्णोरतो वद१।
पद्मं कथमभूद्देव नाभौ येनाभवज्जगत्।
कथं च वैष्णवी सृष्टिः पद्ममध्येऽभवत्पुरा२।
कथं पाद्मे महाकल्पेऽभवत्पद्ममयं जगत्।
जलार्णवगतस्येह नाभौ जातं जलानुगं३।
प्रभावं पद्मनाभस्य स्वपतः सागरांभसि।
पुष्करे तु कथं जाता देवा ॠषिगणाः पुरा४।
एतदाख्याहि निखिलं योगं योगविदां पते।
कथं निर्मितवांस्तत्र चैतं लोकं सनातनम्५।
कथमेकार्णवे शून्ये नष्टे स्थावरजंगमे।
भूगोलके प्रदग्धे तु प्रणष्टोरगराक्षसे६।
नष्टानलानिलाकाशे नष्टधर्मे महीतले।
केवले गह्वरीभूते महाभूतविपर्यये७।
किं नु विश्वपतिः साक्षान्महातेजा महाद्युतिः।
आस्ते यथाध्याननिष्ठो विधिमास्थाय योगवित्८।
शृण्वतः परया भक्त्या ब्रह्मन्नेतदशेषतः।
वक्तुमर्हसि धर्मज्ञ यशो नारायणात्मकम्९।
श्रद्धिनः सूपविष्टस्य भगवन्वक्तुमर्हसि।
पुलस्त्य उवाच।
नारायणस्य यशसः श्रवणे या तव स्पृहा१०।
सद्वंशान्वयपूतस्य न्याय्यं कुरुकुलोद्वह।
शृणुष्वादिपुराणेषु देवेभ्यश्च यथा श्रुति११।
ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम्।
यथा च तपसा दृष्ट्वा बृहस्पति समद्युतिः१२।
पराशरसुतः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत्।
तत्तेऽहं कथयिष्यामि यथाभक्ति यथाश्रुति१३।
यद्विज्ञातं मया सम्यगृषिमार्गेण सत्तम।
कः समुत्सहते ज्ञातुं परं नारायणात्मकम्१४।
विश्वावितारं ब्रह्मायं न वेदयति तत्वतः।
तत्कर्मविश्वदेवा न तद्रहस्यं महर्षिषु१५।
स इज्यस्सर्वयज्ञानां स तत्त्वं तत्त्वदर्शिनाम्।
अध्यात्ममध्यात्मविदां नरकं च विकर्मिणाम्१६।
अधिदैवं च तद्दैवमधिदैवतसंज्ञितम्।
अधिभूतं च तद्भूतं परं च परमार्थिनाम्१७।
स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुः।
यः कर्त्ता कारको बुद्धिर्यतः क्षेत्रज्ञ एव च१८।
प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते।
प्राणः पंचविधश्चैव ध्रुवमक्षरमेव च१९।
कालः पाकश्च यज्ञश्च यष्टा चाधीतमेव च।
उच्यते विविधैर्भावैः स एवायं तु तत्परम्२०।
स एव भगवान्सर्वं करोति न करोति च।
सोस्मिन्कारयते सर्वं स्थानिनां च कृतिः कृता२१।
यजामहे तमेवाद्यं स एवोत्थाननिर्वृतः।
यो वक्ता यच्च वक्तव्यं यश्चाहं तद्ब्रवीमि ते२२।
श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्पितम्।
या कथायाश्च श्रुतयो यो धर्मी धर्मतत्परः२३।
विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः।
यत्सत्यं यदनृतमादिमध्यभूतं यच्चांत्यं निरवधिकं च यद्भविष्यम्२४।
यत्किंचिच्चरमचरं यदस्ति चान्यत्सर्वं तत्पुरुषवरः प्रधानभूतः।
चत्वार्य्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्२५।
तस्य तावच्छती संध्या द्विगुणा कुरुनंदन।
यत्र धर्मश्चतुष्पादस्त्वधर्मः पादविग्रहः२६।
स्वधर्मनिरताः शांता जायंते यत्र मानवाः।
विप्रा स्थिता धर्मपरा राजवृत्तिस्थिता नृपाः२७।
कृष्यामभिरता वैश्याः शूद्रा शुःश्रूषवस्तथा।
तदा सत्यं च सत्वं च धर्मश्चैव विवर्धते२८।
सद्भिराचरितो धर्मो येन लोकः प्रवर्त्तते।
एतत्कृतयुगे वृत्तं सर्वेषामेव पार्थिव२९।
प्राणिनां धर्मसंज्ञानां नराणां नीचजन्मनाम्।
त्रीणिवर्षसहस्राणि त्रेतायुगमिहोच्यते३०।
तस्य तावच्छती संध्या द्विगुणा परिकीर्तिता।
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः३१।
यत्र सत्यं च सत्वं च क्रिया धर्मो विधीयते।
त्रेतायां विकृतिं यांति वर्णा लोभेन संयुताः३२।
चातुर्वर्ण्यस्य वै कृत्यं क्षांतिर्दौर्बल्यमेव च।
एषा त्रेतायुगगतिर्विचित्रा देवनिर्मिता३३।
द्वापरं द्विसहस्रं तु वर्षाणां कुरुनन्दन।
तस्य तावच्छती सन्ध्या द्विगुणं युगमुच्यते३४।
तत्राप्यतीवार्थपराः प्राणिनो रजसा हताः।
शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुनन्दन३५।
द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः।
विपर्ययशतैर्धर्मः क्षयमेति कलौ युगे३६।
ब्रह्मण्यभावश्च्यवते तथास्तिक्यं विवर्ज्यते।
व्रतोपवासास्त्यज्यंते कलौ वै युगपर्यये३७।
तदा वर्षसहस्रं तु वर्षाणां द्वे शते तथा।
यत्राधर्मश्चतुष्पादो धर्मः पादपरिग्रहः३८।
कामिनस्तापसाः क्षुद्रा जायंते यत्र मानवाः।
न चावसायिकः कश्चिन्न साधुर्न च सत्यवाक्३९।
नास्तिका ब्राह्मणा भक्ता ज्ञायंते तत्र मानवाः।
अहंकारगृहीताश्च प्रक्षीणस्नेहबंधनाः४०।
विप्राः शूद्रसमाचारास्संति सर्वे कलौ युगे।
आश्रमाणां विपर्यासः कलौ संप्रति वर्तते४१।
वर्णानां चैव संदेहो युगांते कुरुनंदन।
एषा द्वादशसाहस्री युगाख्या पूर्वनिर्मिता४२।
सहस्रयुगपर्यंतं तदहर्ब्राह्ममुच्यते।
ततो ह निगते तस्मिन्सर्वेषामेव जीविनाम्४३।
शरीरनिर्वृतिं दृष्ट्वा कालः संहारबुद्धिमान्।
देवतानां च सर्वेषां ब्राह्मणानां महीपते४४।
दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम्।
गंधर्वाणामप्सरसां भुजंगानां च पार्थिव४५।
पर्वतानां नदीनां च पशूनां चैव सत्तम।
तिर्यग्योनिगतानां च क्रिमीणां दंशिनां तथा४६।
सर्वभूतपतिः पंच भूत्वा भूतानि भूतकृत्।
जगत्संहरणार्थाय कुरुते वैशसं महत्४७।
भूत्वा सूर्यश्चक्षुषी आददानो भूत्वा वायुः प्राणिनां प्राणिजातम्।
भूत्वा वह्निर्निर्दहन्सर्वलोकान्भूत्वा मेघो भूय उग्रोऽभ्यवर्षत्४८।
भूत्वा नारायणो योगी सर्वमूर्ति विभावसुः।
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान्४९।
ततः पीत्वार्णवान्सर्वान्नदीकूपांश्च सर्वतः।
पर्वतानां च सलिलं सर्वमादाय योगवित्1.39.५०।
भूत्वा चैव स हस्तार्चिर्महीं भित्वा रसातले।
रमते जलमादाय पिबन्रसमनुत्तमं५१।
मूर्त्तामूर्त्ते तदन्यच्च यदस्ति प्राणिषु ध्रुवं।
तत्सर्वमरविंदाक्ष आदत्ते पुरुषोत्तमः५२।
वायुश्च बलवान्भूत्वा विधुन्वानोऽखिलं जगत्।
प्राणापानं समासाद्य वायुना क्रमते हरिः५३।
ततो देवगणानां च सर्वेषां चैव देहिनाम्।
पंचेंद्रियगुणास्सर्वे भूतान्येव च यानि च५४।
घ्रेयं घ्राणं शरीरं च पृथिवीसंश्रिता गुणाः।
लोकयात्रा भगवता मुहूर्तेन विनाशिता५५।
जिह्वारसश्च स्नेहश्च संश्रिताः सलिले गुणाः।
रूपं चक्षुर्विभागश्च नेत्र ज्योतिः श्रिता गुणाः५६।
स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः।
शब्दः श्रोत्रे च श्रवणं गगनं संश्रिता गुणाः५७।
मनो बुद्धिश्च चित्तं च क्षेत्रज्ञं चेति संश्रिताः।
परेण परमेष्ठी च हृषीकेशमुपाश्रिताः५८।
ततो भगवतस्तस्य रश्मिभिः परिवारिताः।
वायुना परिनुन्नाश्च भूमिशाखामुपाश्रिताः५९।
तेषां संहरणोद्भूतः पावकः शतधा ज्वलन्।
प्रदहन्नखिलं विश्वं वृत्तः संवर्त्तकोऽनलः६०।
सपर्वतद्रुमान्गुल्मान्लतावल्लीस्तृणानि च।
विमानानि च दिव्यानि पुराणि विविधानि च६१।
यानि चाश्रयणीयानि सर्वाण्यप्यदहद्भृशम्।
भस्मीकृत्य तु तान्सर्वांल्लोकान्ल्लोकगुरोर्गुरुः६२।
स भूतिं धारयामास युगांते लोकसंभवाम्।
सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाघनः६३।
दिव्यतोयेन हविषा तर्पयामास मेदिनीं।
ततः क्षीरनिकाशेन स्वादुना परमांभसा६४।
शिशिरेण च पुण्येन महीनिर्वाणमागमत्।
तेन तोयेन संपृक्ता पयस्साधर्म्यतो धरा६५।
एकार्णावजलीभूता सर्वसत्वविवर्जिता।
महासत्वान्यपि विभुं प्रविष्टान्यमितौजसं६६।
नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते।
संशोषमात्मना कृत्वा समुद्राणां च देहिनः६७।
दग्ध्वा संकोच्य च तथा स्वपित्येकः सनातनः।
पौराणं रूपमास्थाय स्वपित्यमितविक्रमः६८।
एकार्णवजलेयायी योगी योगमुपासितः।
अनेकानि सहस्राणि युगान्येकार्णवांभसि६९।
न चैव कश्चिदव्यक्तं व्यक्तो वेदितुमर्हति।
कश्चैष पुरुषो नाम किं योगः कश्च योगवान्७०।
न पृष्ठे नैवमभितो नैव पार्श्वे न चाग्रतः।
कश्चिद्विज्ञायते तस्य दृश्यते देवसत्तमः७१।
नभः क्षितिं पवनमपः प्रकाशनं प्रजापतिं भुवनधरं सुरेश्वरम्।
पितामहं श्रुतिनिलयं मुनिं प्रभुं समापयञ्छयनमरोचयत्प्रभुः७२।
एवमेकार्णवीभूते शेते लोके महाद्युतिः।
प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणाय ते७३।
महतो रजसो मध्ये महार्णवसमस्य वै।
वारिजाक्षो महाबाहुरक्षयं ब्रह्म यद्विदुः७४।
आत्मरूपसरूपेण तमसा संवृतः प्रभुः।
मनः सात्विकमादाय यत्र तत्सत्वमाहितं७५।
यथातथ्यं परं ज्ञानं भूताय ब्रह्मणे ततः।
रहस्यं च तथोद्दिष्टं यथोपनिषदां स्मृतम्७६।
पुरुषो यज्ञ इत्येतत्परमं परिकीर्तितम्।
यश्चान्यः पुरुषाख्यः स्यात्स एव पुरुषोत्तमः७७।
ये च यज्ञकरा विप्रा ये ॠत्विज इति स्मृताः।
अस्मादेव पुरा भूता वक्त्रेभ्यः श्रूयते तथा७८।
ब्रह्माणं प्रथमं वक्त्रादुद्गातारं च सामगं।
होतारं च तथाद्ध्वर्युं बाहुभ्यामसृजत्प्रभुः७९।
ब्रह्माणं ब्राह्माणाच्छंसि स्तोतारौ चैव सर्वशः।
मेढ्राच्च मैत्रावरुणं प्रतिष्ठातारमेव च८०।
उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव।
पाणिभ्यामथ चाग्नीध्रमुन्नेतारं च याजुषम्८१।
अच्छावाकमथोरुभ्यां सुब्रह्मण्यं च सामगम्।
एवमेवं स भगवान्षोडशैतान्जगत्पतिः८२।
स्वयंभूः सर्वयज्ञानामृत्विजोऽसृजदुत्तमान्।
तदा चैष महायोगी पुरुषो यज्ञसंज्ञितः८३।
वेदाश्चैव तथा सर्वे सहांगोपनिषत्क्रियाः।
स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा८४।
श्रूयतां तु तदा विप्रो मार्कंडेयः कुतूहलात्।
गीर्णो भगवता तेन कुक्षावासीन्महामुनिः८५।
बहुवर्षसहस्रायुस्तस्यैव वरतेजसः।
अटंस्तीर्थप्रसंगेन पृथिवीतीर्थगोचरः८६।
आश्रमाणि च पुण्यानि देवतायतनानि च।
देशाद्राष्ट्राणि चित्राणि पुराणि विविधानि च८७।
जपहोमपराः शांतास्तपोभिरमलाः स्मृताः।
मार्कंडेयस्ततस्तस्य शनैर्वक्त्राद्विनिर्गतः८८।
निष्क्रामन्तं न चात्मानं जानीते देवमायया।
निष्क्रम्य तस्य उदरादेकार्णवमथो जगत्८९।
सर्वतस्तमसाछन्नं मार्कंडेयोन्ववैक्षत।
तस्योत्पन्नं भयं तीव्रं व्यत्ययं चात्मजीवितम्९०।
देवदर्शनसंहृष्टो विस्मयं परमं गतः।
सोऽचिंतयदमोघात्मा मार्कंडेयोथ शंकितः९१।
किं नु स्याच्चित्तसंमोहः किं नु स्वप्नोनुभूयते।
व्यक्तमन्यतरो भाव एतयोर्भविता मम९२।
न हि स्वप्नो ह्ययं सत्ययुक्तं यत्सत्यमर्हति।
नष्टचंद्रार्कपवनो नष्टपर्वतभूतलः९३।
कतमः स्यादयं लोक इति शोकमुपागतः।
ददर्श चापि पुरुषं स्वपंतं पर्वतोपमम्९४।
सलिलेऽधमथो मग्नं जीमूतमिव सागरे।
तपंतमिव तेजोभिरामुक्तशशिभास्करम्९५।
गांभीर्यात्सागरमिव भासमानम्मवौजसा।
देवं द्रष्टुमिहायातः को भवानिति विस्मयात्९६।
तथैव च मुनिः कुक्षिं पुनरेव प्रवेशितः।
संप्रविष्टः पुनः कुक्षिं मार्कंडेयः सविस्मयम्९७।
तथैव च पुनर्भूयो विजानन्स्वप्नदर्शनम्।
स तथैव यथापूर्वं पृथिवीमटते वनम्९८।
पुण्यतीर्थजलोपेतं विविधान्याश्रमाणि च।
क्रतुभिर्यजमानांश्च समाप्तगुरुदक्षिणैः९९।
अपश्यद्देवकुक्षिस्थान्यज्ञस्थान्शतशो द्विजान्।
सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः1.39.१००।
चत्वार आश्रमाः सम्यग्यथापूर्वं विलोकिता।
एवं वर्षशतं साग्रं मार्कंडेयेन धीमता१०१।
चरता पृथिवी सर्वा तत्कुक्षौ हि समीक्ष्यते।
ततः कदाचिदथ वै पुनः कुक्षेर्विनिर्गतः१०२।
सुप्तं न्यग्रोधशाखाय ांबालमेकं निरीक्ष्य च।
तथैवैकार्णवजले नीहारेणावृतांतरे१०३।
अव्यक्तक्रीडिते लोके सर्वभूतविवर्जिते।
स मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः१०४।
बालमादित्यसंकाशं न शक्नोत्यभिवीक्षितुम्।
सोप्यचिंतयदेकांते स्थित्वा सलिलसन्निधौ१०५।
पूर्वदृष्टमिदं मेने शंकितो देवमायया।
अगाधे सलिले शेते मार्कंडेयः सविस्मयः१०६।
पूर्ववत्तमथो द्रष्टुमव्रजत्त्रस्तलोचनः।
स तस्मै भगवानाह स्वागतो बाल भो इति१०७।
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः।
मार्कंडेय न भेतव्यमागच्छस्व ममांतिकम्१०८।
मार्कंडेय उवाच।
को नाम्ना कीर्तयति मां कुर्वन्परिभवं मम।
दिव्यवर्षसहस्राख्यं धर्षयंश्चैव मे वयः१०९।
न ह्येष च सदाचारो देवेष्वपि ममोचितः।
मां ब्रह्मापि हि सस्नेहो दीर्घायुरिति भाषते११०।
कस्तपोघोरमासाद्य ममाद्य त्यक्तजीवितः।
मार्कंडेयेति मामुक्त्वा मृत्युमीक्षितुमर्हसि१११।
एवं प्रक्षुभितः क्रोधान्मार्कंडेयो महामुनिः।
तदैनं भगवान्भूयो बभाषे मधुसूदनः११२।
श्रीभगवानुवाच।
अहं ते जनको वत्स हृषीकेशः पिता गुरुः।
आयुः प्रदाता पौराणः किं मां त्वं नोपसर्पसि११३।
मां पुत्रकामः प्रथमं त्वत्पितांगिरसो मुनिः।
पूर्वमाराधयामास तपस्तीव्रं समाश्रितः११४।
तं दृष्ट्वा घोरतपसं त्रिदशोत्तमतेजसम्।
दत्तवांस्त्वामहं पुत्रं महर्षिममितौजसम्११५।
कस्समुत्सहते चान्यो योगिभूतात्मगात्मकम्।
द्रष्टुमेकार्णवगतं क्रीडंतं योगमायया११६।
ततः प्रहृष्टहृदयो विस्मयोत्फुल्ललोचनः।
मूर्ध्नि बद्धांजलिपुटो मार्कंडेयो माहातपाः११७।
नामगोत्रे तु संप्रोच्य दीर्घायुर्लोकपूजितः।
तस्मै भगवते भक्त्या नमस्कारमथाकरोत्११८।
मार्कंडेय उवाच।
इच्छामि तत्त्वतो ज्ञातुमिमां मायां तवानघ।
यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान्११९।
किं संज्ञश्चैव भगवान्लोके विज्ञायसे प्रभो।
तर्कयेहं महात्मानं को ह्यन्यः स्थातुमर्हसि१२०।
श्रीभगवानुवाच।
अहं नारायणो ब्रह्मन्सर्वभूतविनाशनः।
अहं सहस्रशीर्षास्यः सहस्रपदसंयुतः१२१।
आदित्यवर्णः पुरुषो मुखे ब्रह्ममयो ह्यहम्।
अहमग्निर्हव्यवहः सप्तसप्तिभिरन्वितः१२२।
अहमिंद्रपदः शक्र ॠतूनां परिवत्सरः।
अहं योगिषु सांख्याख्यो युगांतावर्त एव च१२३।
अहं सर्वाणि सत्वानि दैवतान्यखिलानि च।
भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम्१२४।
कृतांतः सर्वभूतानां विज्ञेयः कालसंज्ञितः।
अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम्१२५।
अहं दया परोधर्मः क्षीरोदोहं महार्णवः।
यत्सत्यं तत्परं त्वेक अहमेव प्रजापतिः१२६।
अहं सांख्यमहं योगो ह्यहं तत्परमं पदम्।
अहमिज्या क्रिया चाहमहं विद्याधिपः स्मृतः१२७।
अहं ज्योतिरहं वायुरहं भूमिरहं जलम्।
आकाशोहं समुद्राश्च नक्षत्राणि दिशो दश१२८।
अहं वर्षमहं सोमः पर्जन्योहमहं रविः।
अहं पुराणं परमं तथैवाहं परायणम्१२९।
भविष्ये चापि सर्वत्र भविष्यत्सर्वसंग्रहः।
यत्किंचित्पश्यसे विप्र यच्छृणोषि च किंचन१३०।
यच्चानुभवसे लोके तत्सर्वं मामनुस्मर।
विश्वं सृष्टं मया पूर्वं सृजेद्यापि च पश्य माम्१३१।
युगे युगे च रक्षामि मार्कंडेयाखिलं जगत्।
तदेतत्कथितं सर्वं मार्कंडेयावधारय१३२।
शुश्रूषुरपि धर्मेषु कुक्षौ चरसुखं मम।
मम ब्रह्मा शरीरस्थो देवाश्च ॠषिभिः सह१३३।
व्यक्तमव्यक्तयोगं मामवगच्छ मुरद्विषम्।
अहमेकाक्षरो मंत्रस्त्र्यक्षरश्च पितामहः१३४।
परस्त्रिवर्गओंकारः परमात्मप्रदर्शनः।
एवमादिपुराणं च वदतेमां महामते१३५।
वक्त्रं यातो भगवतो मार्कंडेयो महामुनिः।
ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः१३६।
तस्यासम्मुखमेकान्ते शुश्रूषुर्हंसमव्ययम्।
यदक्षयं विविधमुपाश्रितं तु तन्महार्णवे व्यपगतचंद्रभास्करे१३७।
शनैश्चरन्प्रभुरथ हंससंज्ञितः सृजन्जगद्विहरति कालपर्यये।
अथ चैवं शुचिर्भूत्वा वरयामास वै तपः१३८।
छादयित्वात्मनो देहं पयसांबुजसंभवः।
ततो महात्मातिबलो मर्त्यलोकविसर्जने१३९।
महतां चैव भूतानां विश्वो विश्वमचिंतयत्।
तस्य चिंतयमानस्य नियते संस्थितेर्णवे१४०।
निराकाशे तोयमये सूक्ष्मे जगति संक्षये।
ईशः संक्षोभयामास सोर्णवं सलिलं गतः१४१।
अथांतरादपां सूक्ष्ममथ च्छिद्रमभूत्पुरा।
शब्दं प्रति ततो भूतो मारुतश्छिद्रसंभवः१४२।
संलब्ध्वांतरसंक्षोभं व्यवर्धत समीरणः।
नभस्वता बलवता वेगाद्विक्षोभितोर्णवः१४३।
तस्यार्णवस्य क्षुब्धस्य तस्मिन्नंभसि मथ्यतः।
कृष्णवर्त्मा समभवत्प्रभुर्वैश्वानरो महान्१४४।
ततः संशोषयामास पावकः सलिलं बहु।
समस्तजलधिश्छिद्रमभवद्विसृतं नभः१४५।
आत्मतेजोभवाः पुण्या आपोमृतरसोपमाः।
आकाशं छिद्रसंभूतं वायुराकाशसंभवः१४६।
अथ संघर्षसम्भूतं पावकं चास्य संभवम्।
दृष्ट्वा पितामहो देवो महाभूतविभावनः१४७।
दृष्ट्वा भूतानि भगवान्लोकसृष्ट्यर्थमुत्तमम्।
ब्रह्मणो जन्मसहितं बहुरूपो ह्यचिंतयत्१४८।
चतुर्युगानां संख्यातं सहस्रं युगपर्यये।
यत्पृथिव्यां द्विजेंद्राणां तपसा भावितात्मनाम्१४९।
बहुजन्मविशुद्धात्मा ब्रह्मणो हरिरुच्यते।
ज्ञानं दृष्ट्वा तु विश्वात्मा योगिनां याति योग्यताम्1.39.१५०।
तं योगवंतं विज्ञाय संपूर्णैश्वर्यमुत्तमम्।
पदे ब्रह्मणि विश्वस्य न्ययोजयत योगवित्१५१।
ततस्तस्मिन्महातोये महेशो हरिरच्युतः।
जलक्रीडां च विधिवत्स चक्रे सर्वलोककृत्१५२।
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः।
सहस्त्रवर्णं विरजं भास्कराभं हिरण्मयम्१५३।
हुताशनज्वलितशिखोज्जवलप्रभं समुत्थितं शरदमलार्कतेजसम्।
विराजते कमलमुदारवर्चसं महात्मनस्तनुरुह चारुशैवलम्१५४।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पद्मप्रादुर्भावोनामैकोनचत्वारिंशोऽध्यायः३९।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 40
पुलस्त्य उवाच।
अथ योगवतां श्रेष्ठमसृजद्भूरिवर्चसम्।
स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम्१.४०.१।
तस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृते।
सर्वतेजोगुणमये पार्थिवैर्लक्षणैर्वृते१.४०.२।
तच्च पद्मं पुराभूतं पृथिवीरूपमुत्तमम्।
नारायणसमुद्भूतं प्रवदंति महर्षयः१.४०.३।
यत्पद्मं सा रसादेवी पृथिवी परिकथ्यते।
ये पद्मकेसरा मुख्यास्तान्दिव्यान्पर्वतान्विदुः॥१.४०.४।
हिमवंतं च नीलं च मेरुं निषधमेव च।
कैलासं शृंगवंतं च तथाद्रिं गंधमादनम्॥१.४०.५।
पुण्यं त्रिशिखरं चैव कांतं मंदरमेव च।
उदारं पिंजरं चैव विंध्यमस्तं च पर्वतम्॥१.४०.६।
एत एव गणानां च सिद्धानां च महात्मनाम्।
आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः॥१.४०.७।
एतेषामंतरे द्वीपो जंबूद्वीप इति स्मृतः।
जंबुद्वीपस्य संस्थानं याज्ञीया यत्र च क्रियाः॥१.४०.८।
तेभ्यो यद्द्रवते तोयं दिव्यामृतरसोपमम्।
दिव्यतीर्थशताधाराः सरस्यः सर्वतः स्मृताः॥१.४०.९।
यान्येतानीहपद्मस्य केसराणि समंततः।
असंख्येयाः पृथिव्यां ते विविधाश्चैव पर्वताः॥१.४०.१०।
यानि पर्णानि पद्मस्य भूरिपूर्वाणि पार्थिव।
ते दुर्गमाः शैलचिता म्लेच्छदेशाः प्रकीर्तिताः॥१.४०.११।
यान्यधोभागपत्राणि ता निवासास्तु भागशः।
दैत्यानामसुराणां च पन्नगानां च पार्थिव॥१.४०.१२।
तेषां मध्येंतरं यत्तु तद्रसातलसंज्ञितम्।
महापातककर्माणो मज्जंते यत्र मानवाः॥१.४०.१३।
चतुर्दिशासु संख्याताश्चत्वारः सलिलाकराः।
एवं नारायणस्यार्थे मही पुष्कर संभवा॥१.४०.१४।
प्रादुर्भावोप्ययं तस्मान्नाम्ना पुष्करसंज्ञितः।
एतस्मात्कारणाद्यज्ञे पुराणैः परमर्षिभिः॥१.४०.१५।
यज्ञियैर्वेददृष्टांतैर्यज्ञैर्यूपचितिः कृता।
एवं भगवता तेन विश्वव्याप्यधराचिता॥१.४०.१६।
पर्वतानां नदीनां च रचना चैव निर्मिता।
विश्वस्य यश्चाप्रतिमप्रभावः प्रभाकरा भो वरुणोमितद्युतिः॥१.४०.१७।
शनैः स्वयंभूर्व्यसृजत्सुषुप्तं जगन्मयः पद्मनिधिं महार्णवे।
विघ्नस्तपसि संभूतो मधुर्नाम महासुरः॥१.४०.१८।
तेनैव च सहोद्भूतो ह्यसुरो नाम कैटभः।
तौ रजस्तमसोर्भूतौ संभूतौ तामसौ गणौ ॥१.४०.१९।
एकार्णवं जगत्सर्वं क्षोभयेतां महाबलौ।
दिव्यरक्तांबरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ॥१.४०.२०।
किरीटमकुटोदग्रौ केयूरवलयोज्ज्वलौ।
महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ॥१.४०.२१।
महागिरेः संहननौ जंगमाविव पर्वतौ।
नवमेघप्रतीकाशावादित्यप्रतिमाननौ॥१.४०.२२।
विपुलाभोगकेयूर कराभ्यामतिभीषणौ।
पादसंचारविन्यासैर्विक्षिपंताविवार्णवम्॥१.४०.२३।
कंपयंतौ हरिमिव शयानं मधुसूदनम्।
तौ तत्र विचरंतौ तु पुष्करे विश्वतोमुखौ॥१.४०.२४।
योगिनां श्रेष्ठमत्यंतं दीप्तं ददृशतुस्तदा।
नारायणसमाज्ञातं सृजंतमखिलाः प्रजाः॥१.४०.२५।
दैवतानि च विश्वानि मानसांश्च सुतानृषीन्।
ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ॥१.४०.२६।
दुष्टौ युयुत्सू संक्रुद्धौ क्रोधव्याकुलितेक्षणौ।
कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः॥१.४०.२७।
आवामगणयन्मोहादास्से त्वं विगतस्पृहः।
एह्यागच्छावयोर्युद्धं देहि त्वं कमलोद्भव॥१.४०.२८।
आवाभ्यां परमेशाभ्यामशक्तः स्थातुमर्णवे।
तत्र कश्च भवेत्तुभ्यं येन चात्र नियोजितः॥१.४०.२९।
कः स्रष्टा कश्च ते गोप्ता केन नाम्नाभिधीयते।
ब्रह्मोवाच।
ईश्वरः प्रोच्यते लोके विष्णुश्चानंतशक्तिधृत्॥१.४०.३०।
तत्सकाशात्तु जातं मां स्रष्टारमवगच्छतम्।
मधुकैटभा ऊचतुः।
नावयोः परमं लोके किंचिदस्ति महामुने॥१.४०.३१।
आवाभ्यां च्छाद्यते विश्वं तमसा रजसा च वै।
रजस्तमोमयावावामृषीणामतिलंघिनौ॥१.४०.३२।
धर्म शीलं च्छादयन्तौ नाशकौ सर्वदेहिनाम्।
आवाभ्यां युज्यते लोको दुस्तराभ्यां युगे युगे॥१.४०.३३।
आवामर्थश्च कामश्च यज्ञस्सर्वपरिग्रहः।
सुखं यत्र मदो यत्र यत्र श्रीः कीर्तिरेव च॥१.४०.३४।
येषां यत्कांक्षितं किंचित्तत्तदावां विचिंतय।
ब्रह्मोवाच।
आवाभ्यां संहतौ दृष्ट्वा युवां पूर्वं पराजितौ॥१.४०.३५।
तं समाधाय गुणिनं सत्वं चास्मि समाश्रितः।
यः परो योगयुक्तात्मा योक्षरः सत्वमेव च॥१.४०.३६।
रजसस्तमसश्चैव यः स्रष्टा विश्वसंभवः।
ततो भूतानि जायंते सात्विकानीतराणि च॥१.४०.३७।
स एव युवयोर्नाशं वासुदेवः करिष्यति।
स्वपन्नेव ततो देवो बहुयोजनविस्तृतौ॥१.४०.३८।
बाहू नारायणो ब्रह्म कृतवानात्ममायया।
कृष्यमाणौ ततस्तस्य बाहुभ्यां बाहुशालिनौ॥१.४०.३९।
चेरतुस्तौ विगलितौ शकुनाविव पीवरौ।
ततस्तावाहतुर्गत्वा वासुदेवं सनातनम्॥१.४०.४०।
पद्मनाभं हृषीकेशं प्रणिपत्य नतावुभौ।
जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम्॥१.४०.४१।
आवयोश्चैव हेतुं त्वां जानन्तौ बुद्धिकारणम्।
अमोघदर्शनं सत्यं यतस्त्वां विद्व(?)शाश्वतम्॥१.४०.४२।
ततस्त्वामभितो देव कांक्षावः प्रसमीक्षितुम्।
अमोघदर्शनोसि त्वं नमस्ते समितिंजय॥१.४०.४३।
श्रीभगवानुवाच।
किमर्थं मामनुब्रूथ युवामसुरसत्तमौ।
गतायुष्कौ युवां भूयस्त्वहो जीवितुमिच्छथः॥१.४०.४४।
मधुकैटभा ऊचतुः।
यस्मिन्न कश्चिन्मृतवान्देव तस्मिन्वधं प्रभो।
इच्छावः पुत्रतां चैव भवतः सुमहातपः॥१.४०.४५।
श्रीभगवानुवाच।
युवयोर्बाढमेतत्स्याद्भविष्ये कलिसंभवे।
भविष्यथो न संदेहः सत्यमेतद्ब्रवीमि वाम्॥१.४०.४६।
वरं प्रदायाथ महासुराभ्यां सनातनो विश्वधरः सुरोत्तमः।
रजस्तमोजौ तु तदांजनोपमौ ममर्द तावूरुतलेऽमरप्रभुः॥१.४०.४७।
स्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदांवरः।
ऊर्ध्वबाहुर्महातेजास्तपोघोरं समाश्रितः॥१.४०.४८।
प्रज्वलन्निव तेजोभिर्भाभिः स्वाभिस्तमोनुदः।
बभाषे स तु धर्मात्मा सहस्रांशुरिवांशुभिः॥१.४०.४९।
अथान्यद्रूपमास्थाय प्रभुर्नरायणोव्ययः।
आजगाम महातेजा योगाचार्यो महायशाः॥१.४०.५०।
सांख्याचार्यश्च मतिमान्कपिलो ब्रह्मणां वरः।
उभावपि महात्मानौ पूजितौ तत्र तत्परौ॥१.४०.५१।
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम्।
परावरविशेषज्ञौ पूजितौ च महर्षिभिः॥१.४०.५२।
ब्रह्म संपरिवेद्यं ते विशाल जगदास्थितौ।
ग्रामणीस्सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः॥१.४०.५३।
तयोस्तद्वचनं श्रुत्वा विबोध्यगतयोः परम्।
त्रीनिमान्कृतवान्लोकान्यथेयं ब्रह्मणः श्रुतिः॥१.४०.५४।
पुत्रं स्वसंभवं चैकं समुत्पादितवान्भुवम्।
तदाग्रे चागतस्तस्य ब्रह्ममानससंभवः॥१.४०.५५।
उत्पन्नमात्रो ब्रह्माणमुक्तवान्मानसः सुतः।
किं कुर्मस्तव साहाय्यं ब्रवीतु भगवानिति॥१.४०.५६।
ब्रह्मोवाच।
यदेष कपिलो नाम ब्रह्मनारायणस्तथा।
वदतो भवतस्त्वं तु तत्कुरुष्व महामते॥१.४०.५७।
ब्रह्मणा स तथोक्तस्तौ प्राह भूप समुत्थितः।
शुश्रूषुरस्मि युवयोः किं करोमि कृतांजलि॥१.४०.५८।
श्रीभवगवानुवाच।
यत्सत्यमक्षरं ब्रह्म अष्टादशविधं च तत्।
यत्सत्यममृतं तत्तु परं पदमनुस्मर॥१.४०.५९।
एतद्वचो निशम्यैवं स ययौ दिशमुत्तरां।
गत्वा च तत्र स ब्रह्म अगमज्ज्ञानचक्षुषा॥१.४०.६०।
ततो ब्रह्मा भुवर्नाम द्वितीयमसृजत्प्रभुः।
संकल्पयित्वा मनसा तमेव च महामनाः॥१.४०.६१।
ततः सोप्यब्रवीद्वाक्यं किं करोमि पितामह।
पितामहसमा ज्ञातो ब्रह्माणं समुपस्थितः॥१.४०.६२।
ब्राह्मणस्यामृतरसोनुभूतस्तेन वै ततः।
प्राप्तः सपरमंस्थानं स तयोः पार्श्वमागतः॥१.४०.६३।
तस्मिन्नपि गते सोथ तृतीयमसृजत्प्रभुः।
मोक्षप्रवृत्तिकुशलं सुवर्नामयुतः प्रभुः॥१.४०.६४।
सोपि तंधर्ममास्थाय तयोरेवागमद्गतिं।
एवं पुत्रास्त्रयोप्येते गताः शंभोर्महात्मनः॥१.४०.६५।
तान्गृहीत्वा सुतांस्तस्य तौ गतावूर्जितां गतिं।
नारायणश्च भगवान्कपिलश्च यतीश्वरः॥१.४०.६६।
यं कालं ते गता ब्रह्म ब्रह्मा तं कालमेव च।
तपोघोरतरं भूयः संश्रितः परमं पदं॥१.४०.६७।
न च शक्तस्ततो ब्रह्मा प्रभुरेकस्तपश्चरन्।
शरीरार्धात्ततो भार्यामुत्पादयति तच्छुभाम्॥१.४०.६८।
आत्मनः सदृशान्पुत्रानसृजद्वै पितामहः।
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः॥१.४०.६९।
विश्वेशं प्रथमं तावन्महात्मा तपसात्मजम्।
सर्वत्रसंहतं पुण्यं नाम्ना धर्मं स सृष्टवान्॥१.४०.७०।
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं कतुम्।
वसिष्ठं गौतमं चैव भृगुमंगिरसं मुनिं॥१.४०.७१।
अत्यद्भुतास्स्वकृत्येन ज्ञेयास्ते तु महर्षयः।
त्रयोदशगुणारंभा ये वंशास्तु महर्षिणां॥१.४०.७२।
अदितिर्दितिर्दनुः काला अनायुः सिंहिका खसा।
प्राची क्रोधा च सुरसा विनता कद्रुरेव च॥१.४०.७३।
दक्षस्यापत्यमेतद्वै कन्या द्वादश पार्थिव।
नक्षत्राणि च चंद्रस्य विंशतिस्सप्त चोर्जिताः॥१.४०.७४।
मरीचेः कश्यपः पुत्रस्तपसा निर्मितः किल।
तस्मै द्वादशकन्याश्च दक्षस्ताश्चान्वमन्यत॥१.४०.७५।
नक्षत्राणि च सोमाय तथैवं दत्तवानृषिः।
रोहिण्यादीनि सर्वाणि पुण्यानि कुरुनंदन॥१.४०.७६।
लक्ष्मीस्सरस्वती संध्या विश्वेशा च महायशाः।
देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा॥१.४०.७७।
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव।
दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टकर्मणा॥१.४०.७८।
या रूपार्धवती पत्नी ब्रह्मणः कामरूपिणी।
सुरभिः सहसा भूत्वा ब्रह्माणं समुपस्थिता॥१.४०.७९।
ततस्तामगमद्ब्रह्मा मैथुने लोकपूजितः।
लोकसर्जनहेतुज्ञो गवामर्थाय सत्तम॥१.४०.८०।
जज्ञे चैकादशसुतान्विपुलान्धर्मसंज्ञितान्।
रक्तसंध्याभ्रसंकाशान्महतस्तिग्मतेजसः॥१.४०.८१।
ते रुदंतो द्रवंतश्च गतवंतः पितामहम्।
रोदनाद्द्रवणाच्चैव रुद्रा एवेति ते स्मृताः॥१.४०.८२।
निर्हृतिश्चैव संध्यश्च तृतीयश्चाप्ययोनिजः।
मृगव्याधः कपर्दी च महाविश्वेश्वरश्च यः॥१.४०.८३।
अहिर्बुध्न्यश्च भगवान्कपाली चैव पिंगलः।
सेनानीश्च महातेजा रुद्राश्चैकादश स्मृताः॥१.४०.८४।
तस्यामेव सुरभ्यां च गावो जाताः सुराश्च ये।
अजश्चैव तु हंसश्च तथैव नृपसत्तम॥१.४०.८५।
ओषध्यः प्रवरायाश्च सुरभ्यास्तास्समुत्थिताः।
धर्माल्लक्ष्मीस्तथाकामं साध्यान्साध्या व्यजायत॥१.४०.८६।
भवं च प्रभवं चैव कृशाश्वं सुवहं तथा।
अरुणं वरुणं चैव विश्वामित्र चल ध्रुवौ॥१.४०.८७।
हविष्मंतं तनूजं च विधानाभिमतावपि।
वत्सरं चैव भूतिं च सर्वासुरनिषूदनम्॥१.४०.८८।
सुपर्वाणं बृहत्कांतिं साध्या लोकनमस्कृतम्।
वासवानुगता देवी जनयामास वै सुरान्॥१.४०.८९।
धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम्।
विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरं॥१.४०.९०।
ततोनुरूपमायं च यमं तस्मादनंतरम्।
सप्तमं च तथा वायुमष्टमं निर्हृतिं तथा॥१.४०.९१।
धर्मस्यापत्यमेतद्वै सुरभ्यां तदजायत।
विश्वेदेवाश्च विश्वायां धर्माज्जाता इति स्मृताः॥१.४०.९२।
दक्षश्चैव महाबाहुः पुष्करस्तम एव च।
चाक्षुषश्च ततोत्रिश्च तथा भद्रमहोरगौ॥१.४०.९३।
विश्वांतक वसुर्बालो निकुंभश्च महायशाः।
रुरुदश्चातिसिद्धौजा भास्कर प्रमितद्युतिः॥१.४०.९४।
विश्वान्देवान्देवमाता विश्वेषां जनयत्सुतान्।
मरुत्वती मरुत्वतो देवानजनयत्सुतान्॥१.४०.९५।
अग्निश्चक्षू रविर्ज्योतिः सावित्री मित्रमेव च।
अमरं शरवृष्टिं च सुकर्षं च महत्तरम्॥१.४०.९६।
विराजं चैव राजं च विश्वायुं सुमतिं तथा।
अश्वगं चित्ररश्मिं च तथा च निषधं नृपं॥१.४०.९७।
भूय एवं चात्मविधिं चारित्रं पादमात्रगं।
बृहंतं वै बृहद्रूपं तथा चैव सनाभिगं॥१.४०.९८।
मरुत्वती प्रजा जज्ञे ज्येष्ठां तं मरुतांगणं।
अदितिः कश्यपाज्जज्ञे आदित्यान्द्वादशैव हि॥१.४०.९९।
इंद्रो विष्णुर्भगस्त्वष्टा वरुणोंशोर्यमारविः।
पूषा मित्रश्च वरदो धाता पर्जन्य एव हि॥१.४०.१००।
इत्येते द्वादशादित्या वरिष्टास्त्रिदिवौकसां।
आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ॥१.४०.१०१।
तपःश्रेष्ठौ गुणश्रेष्ठौ त्रिदिवस्यातिसंमतौ।
दनुस्तु दानवान्जज्ञे दितिर्दैत्यान्व्यजायत॥१.४०.१०२।
काला तु कालकेयांस्तानसुरान्राक्षसांस्तथा।
अनायुषायास्तनया व्याधयश्च महाबलाः॥१.४०.१०३।
सिंहिका ग्रहमाता च गंधर्वजननी मुनिः।
प्राची त्वप्सरसां माता पुण्यानां भारतेतरा॥१.४०.१०४।
क्रोधा साः सर्वभूतानि पिशाचा सा च पार्थिव।
जज्ञे यक्षगणांश्चैव राक्षसांश्च विशांपते॥१.४०.१०५।
चतुष्पदानि सत्वानि एता गाश्चैव सौरभी।
पुराणपुरुषश्चैव मायां विष्णुर्हरिः प्रभुः॥१.४०.१०६।
कथितस्तेनुपूर्वेण संस्तुतश्च महर्षिभिः।
यश्चेदमग्र्यं शृणुयात्पुराणं सदा नरः पर्वसु चेत्पठेत॥१.४०.१०७।
अवाप्य लोकं स हि वीतरागः परत्र च स्वर्गफलानि भुंक्ते।
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्॥१.४०.१०८।
प्रसादयति यः कृष्णं तस्य कृष्णः प्रसीदति।
राज्यं च लभते राजा निर्धनश्चोत्तमं धनम्॥१.४०.१०९।
क्षीणायुर्लभते चायुः पुत्रकामोथ संततिम्।
यज्ञार्थिनस्तथा कामांस्तपांसि विविधानि च॥१.४०.११०।
यं यं कामयते कामं तं तं लोकेश्वराल्लभेत्।
सर्वं विहाय य इमं पठेद्वै पौष्करं हरेः॥१.४०.१११।
प्रादुर्भावं नरश्रेष्ठ न तस्य ह्यशुभं भवेत्।
एष पौष्करकोनाम प्रादुर्भावो महात्मनः॥१.४०.११२।
कीर्तितस्तु महाराज व्यासश्रुतिनिदर्शनात्।
विष्णुत्वं शृणु मे विष्णोर्हरित्वं च कृतेयुगे॥१.४०.११३।
वैकुंठत्वं च देवेषु कृष्णत्वं मानुषेषु च।
ईश्वरस्य हितस्यैषा कर्मणां गहना गतिः॥१.४०.११४।
सांप्रतं भूतभव्यं च शृणु राजन्यथातथं।
अव्यक्तो व्यक्तलिंगस्थो य एष भगवान्प्रभुः॥१.४०.११५।
नारायणो ह्यनंतात्मा प्रभवाप्यय एव च।
एष नारायणो भूत्वा हरिरासीत्सनातनः॥१.४०.११६।
ब्रह्मा वायुश्च सोमश्च धर्मः शक्रो बृहस्पतिः।
अदितेरपि पुत्रत्वमेत्यजः कुरुनंदन॥१.४०.११७।
एष विष्णुरिति ख्यात इन्द्रस्यावरजो विभुः।
प्रसादनं तस्यविभोरदित्याः पुत्रकारणम्॥१.४०.११८।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम्।
ससर्जाथ सुरान्कल्पे ब्रह्माणं च प्रजापतीन्॥१.४०.११९।
असृजन्मानसांस्तत्र ब्रह्मवंशाननुत्तमान्।
तेभ्योभवन्महात्मभ्यः परंब्रह्म सनातनम्॥१.४०.१२०।
एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तितं।
कीर्त्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे॥१.४०.१२१।
वृत्ते वृत्रवधे भीष्म वर्तमाने कृतेयुगे।
आसीत्त्रैलोक्यविख्यातः संग्रामस्तारकामयः॥१.४०.१२२।
यत्र ते दानवा घोराः सर्वे संग्रामदुर्जयाः।
घ्नंति देवासुरान्सर्वान्सयक्षोरगराक्षसान्॥१.४०.१२३।
ते वध्यमाना विमुखाश्छिन्नप्रहरणा रणे।
त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुम्॥१.४०.१२४।
एतस्मिन्नंतरे मेघा निर्वाणांगारवर्चसः।
सार्कचंद्रग्रहगणं च्छादयंतो नभस्तलम्॥१.४०.१२५।
चंडविद्युद्गणोपेता घोरनिर्ह्रादकारिणः।
अन्योन्यवेगाभिहताः प्रववुः सप्तमारुताः॥१.४०.१२६।
दीप्ततोयाः सनिर्घातैः सह वज्रानलानिलैः।
रवैस्सुघोरैरुत्पातैर्दह्यमानमिवाम्बरम्॥१.४०.१२७।
पेतुरुल्कासहस्राणि निपेतुः खचराण्यपि।
दैवानि च विमानानि प्रपतंत्युत्पतंति च॥१.४०.१२८।
चतुर्युगांतसमये लोकानां यद्भयं भवेत्।
अरूपवति रूपाणि तस्मिन्नुत्पातलक्षणे॥१.४०.१२९।
तस्माद्दुष्प्रथितं सर्वं न प्राज्ञायत किंचन।
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश॥१.४०.१३०।
विवेश रूपिणी काली कालमेघावगुंठिता।
द्यौर्नभात्यभिभूतार्का घोरेण तमसा वृता॥१.४०.१३१।
तां घनौघां सतिमिरां दोर्भ्यामाछिद्य स प्रभुः।
वपुः स्वं दर्शयामास दिव्यं कृष्णवपुर्हरिः॥१.४०.१३२।
बलाहकांजननिभं बलाहकतनूरुहम्।
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम्॥१.४०.१३३।
दीप्तपीतांबरधरं तप्तकांचनभूषणम्।
धूम्रांधकारवपुषं युगांताग्निमिवोत्थितम्॥१.४०.१३४।
वृत्तद्विगुणपीनां संकिरीटाच्छन्नमूर्धजम्।
बभौ चामीकरप्रख्यैरायुधैरुपशोभितम्॥१.४०.१३५।
चंद्रार्ककिरणोद्योतं गिरिकूटमिवोच्छ्रितम्।
नंदकानंदितकरं कौस्तुभोद्भासितोरसम्॥१.४०.१३६।
शक्तिचित्रफलोदग्रं शंखचक्रगदाधरम्।
विष्णुशैलं क्षमाशीलं श्रीवत्सं शार्ङ्गपाणिनम्॥१.४०.१३७।
त्रिदशोदारफलदं स्वर्गस्त्रीचारुवल्लभम्।
सर्वलोकमनःकांतं सर्वसत्वमनोहरम्॥१.४०.१३८।
मायाविशालविटपं तोयदौघसमप्रभम्।
विद्याहंकारमानाढ्य महाभूतप्ररोहणम्॥१.४०.१३९।
विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम्।
दैत्यलोकमहास्कंधं मर्त्यलोकप्रकाशितम्॥१.४०.१४०।
सागराकारनिर्ह्रादं रसातलगलाश्रयम्।
नागेंद्रपाशैर्विततं पक्षिजंतुसमन्वितम्॥१.४०.१४१।
शीलानाहार्यगंधाढ्यं सर्वलोकमहाद्रुमम्।
अव्यक्तानंदसलिलं व्यक्ताहंकारफेनिलम्॥१.४०.१४२।
महाभूतकरौघौघं ग्रहनक्षत्रबुद्बुदम्।
विमानवाहनैर्व्याप्तं तोयदाडम्बराकुलम्॥१.४०.१४३।
जंतुमत्स्यगणाकीर्णं शैलशंखकुलैर्युतम्।
त्रैगुण्यविषयावर्तं सर्वलोकतिमिंगिलम्॥१.४०.१४४।
वीरवृक्षलतागुल्मं भुजगोत्सृष्टशैवलम्।
द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनम्॥१.४०.१४५।
वस्वष्टपर्वतोपेतं त्रैलोक्यांभो महोदधिम्।
संध्यासंध्योर्मिसलिलमापूर्णानिलशोभितम्॥१.४०.१४६।
दैत्ययक्षगणग्रामं रक्षोगणझषाकुलम्।
पितामहमहावीर्यं स्वर्गस्त्रीरत्नसंकुलम्॥१.४०.१४७।
श्री कीर्ति कांतिलक्ष्मीभिर्नदीभिश्च समाकुलम्।
कालयोगमहावर्षप्रलयोत्पत्तिवेगितम्॥१.४०.१४८।
सत्संयोगमहापारं नारायणमहार्णवम्।
देवातिदेवं वरदं भक्तानां भक्तवत्सलम्॥१.४०.१४९।
अनुग्रहकरं देवं प्रशांतिकरणं शुभम्।
हर्यश्वरथसंयुक्त सुपर्णध्वजशोभिते॥१.४०.१५०।
चंद्रार्कचक्ररचित उदाराक्षवृतांतरे।
अनंतरश्मिसंयुक्ते दुर्दर्शे मेरुकूबरे॥१.४०.१५१।
तारकाचित्रकुसुमे ग्रहनक्षत्रबंधुरे।
भयेष्वभयदे व्योम्नि देवदैत्यापराजिते॥१.४०.१५२।
हर्यश्वरथसंयुक्तमुक्ताशोभासमन्वितम्।
ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे॥१.४०.१५३।
ते कृतांजलयः सर्वे देवा इंद्रपुरोगमाः।
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः॥१.४०.१५४।
एतेषां च गिरः श्रुत्वा स विष्णुर्देवदैवतः।
मनश्चक्रे विनाशाय दानवानां महामृधे॥१.४०.१५५।
आकाशे तु स्थितो विष्णुरुत्तमं वपुराश्रितः।
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः॥१.४०.१५६।
शांतिं व्रजत भद्रं वो मा भैष्ट मरुतांगणाः।
जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम्॥१.४०.१५७।
ततोस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः।
देवाः प्रीतिं पराजग्मुः प्राश्यामृतमिवोत्तमम्॥१.४०.१५८।
ततस्तमश्च संहृत्य विनेशुश्च बलाहकाः।
प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश॥१.४०.१५९।
शुद्धप्रायाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणम्।
न विग्रहं ग्रहाश्चक्रुः प्रसन्नाश्चापि सिंधवः॥१.४०.१६०।
विरजा अभवन्मार्गा लोकाः स्वर्गादयस्त्रयः।
यथार्थमूहुस्सरितश्चुक्षुभे न तथार्णवः॥१.४०.१६१।
आसन्छुभानीन्द्रियाणि नराणामंतरात्मसु।
महर्षयो वीतशोका वेदानुच्चैरधीयत॥१.४०.१६२।
यज्ञेषु च हविः पाकं शिवमाप च पावकः।
प्रवृत्तधर्मसंवृत्ता लोका मुदितमानसाः॥१.४०.१६३।
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधना गिरः।
ततो भयं विष्णुमुखाच्छ्रुत्वा दैतेयदानवाः॥१.४०.१६४।
उद्योगं विपुलं चक्रुर्युद्धाय विजयाय च।
मयस्तु कांचनमयं त्रिनल्वांतरमव्ययम्॥१.४०.१६५।
चतुश्चक्रं सुविपुलं सुकल्पितमहायुधम्।
किंकिणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम्॥१.४०.१६६।
रुचिरं रश्मिजालैश्च हैमजालैश्च शोभितम्।
ईहामृगगणाकीर्णं पक्षिसंघविराजितम्॥१.४०.१६७।
दिव्यास्त्रशस्त्ररुचिरं पयोधरनिनादितम्।
स्वक्षं रथवरोदारं सूपस्थं गगनोपमम्॥१.४०.१६८।
गदापरिघसंपूर्णं मूर्तिमंतमिवार्णवम्।
हेमकेयूरवलयं चंद्रमंडलकूबरम्॥१.४०.१६९।
सपताकध्वजोपेतं सादित्यमिव मंदरम्।
गजेंद्राभोगवपुषं क्वचित्केसरवर्चसम्॥१.४०.१७०।
युक्तमृक्षसहस्रेण सुधारांबुदनादितम्।
दीप्तमाकाशगं दिव्यं रथं पररथारुजम्॥१.४०.१७१।
अध्यतिष्ठद्रणाकांक्षी मेरुं दीप्तमिवांशुमान्।
तारस्तु क्रोशविस्तारमायामे च तथाविधम्॥१.४०.१७२।
शैलकूबरसंकाशं नीलांजनचयोपमम्।
काललोहस्य रत्नानां समूहाबद्धकूबरम्॥१.४०.१७३।
तिमिरोद्गारकिरणं गर्जंतमिव तोयदम्।
लोहजालेन महता सगवाक्षेण दंशितम्॥१.४०.१७४।
आयसैः परिघैः पूर्णं क्षेपणीयैश्च मुद्गरैः।
प्रासैः पाशैश्च विततैरसंयुक्तैश्च कण्टकैः॥१.४०.१७५।
शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः।
उद्यतं द्विषतां हेतोर्द्वितीयमिव मंदरम्॥१.४०.१७६।
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम्।
विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः॥१.४०.१७७।
प्रमुखे तस्य सैन्यस्य दीप्तशृंग इवाचलः।
युक्तं हयसहस्रेण हयग्रीवस्तु दानवः॥१.४०.१७८।
व्यूहितं दानवव्यूहं परिचक्राम वीर्यवान्।
विप्रचित्तिसुतः श्वेतः श्वेतकुंडलभूषणः॥१.४०.१७९।
स्यंदनं वाहयामास परानीकस्य मर्दनः।
व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत्॥१.४०.१८०।
स चाहवमुखे तस्थौ सप्ररोह इवाचलः।
खरस्तु विष्किरिन्क्रोधान्नेत्राभ्यां रोपजं जलम्॥१.४०.१८१।
स्फुरद्दंतौष्ठनयनः संग्रामं सोभ्यकांक्षत।
त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः॥१.४०.१८२।
दिव्यव्यूहप्रतीकाशा युद्धायाभिमुखः स्थितः।
अरिष्टो बलिपुत्रश्च वरिष्ठो दुर्धरायुधः॥१.४०.१८३।
युद्धायाभिमुखस्तस्थौ धराधरविकंपनः।
किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः॥१.४०.१८४।
अभवद्दैत्यमध्ये स ग्रहमध्ये यथा रविः।
लंबस्तु नवमेघाभः प्रलंबांबरभूषणः॥१.४०.१८५।
दैत्यव्यूहगतो भाति सनीहार इवांशुमान्।
वसुंधराभस्तदनु दशनौष्ठेक्षणायुधः॥१.४०.१८६।
हसंस्तिष्ठति दैत्यानाम्मध्ये क्रूर महाग्रहः।
अन्ये हयगतास्तत्र मत्तेभेंद्रगताः परे॥१.४०.१८७।
सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे।
केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः॥१.४०.१८८।
पत्तयश्चापरे दैत्या भीषणा विकृताननाः।
एकपादास्त्वपादाश्च ननृतुर्युद्धकांक्षिणः॥१.४०.१८९।
आस्फोटयंतो बहवः स्वनंतश्च तथापरे।
दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः॥१.४०.१९०।
ते गदापरिघैर्घोरैः शिलामुद्गरपाणयः।
बाहुभिः परिघाकारैस्तर्जयंति स्म देवताः॥१.४०.१९१।
प्रासैः खड्गैश्च पाशैश्च तोमरांकुशपट्टिशैः।
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः॥१.४०.१९२।
खड्गशैलैश्च शैलैश्च परिघैश्चोद्यतायुधैः।
युक्तं बलाहकगणैः सर्वतः संवृतं नभः॥१.४०.१९३।
एवं तद्दानवं सैन्यं सर्वसत्वमदोत्कटम्।
देवताभिमुखं तस्थौ मेघानीकमिवोदितम्॥१.४०.१९४।
रेजे च तद्दैत्यसहस्रगाढं वाय्वग्निशैलांबुदतोयकल्पम्।
बलं बलौघाकुलमभ्युदीर्णं युयुत्सयोन्मत्तमिवा बभासे॥१.४०.१९५।
श्रुतस्ते दैत्यसैन्यस्य विस्तारः कुरुनंदन।
सुराणामपि सैन्यस्य विस्तरं वैष्णवं शृणु॥१.४०.१९६।
इति श्री पाद्मपुराणे प्रथमे सृष्टिखंडे दैत्यसेनावर्णनंनाम चत्वारिंशत्तमोऽध्यायः४०।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 41
पुलस्त्य उवाच।
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ।
सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम्१।
पुरुहूतश्च पुरतो लोकपालः सहस्रदृक्।
ग्रामणीः सर्वदेवानामारुरोह वरद्विपम्२।
सव्ये चास्य रथः पार्श्वे पक्षिप्रवरकेतनः।
सुरारुचक्रचरणो हैमच्छत्रपरिष्कृतः३।
देवगंधर्वयक्षौघैरनुयातः सहस्रशः।
दीप्तिमद्भिश्च स्वर्गस्थैर्ब्रह्मर्षिभिरभिष्टुतः४।
वज्रविस्फारितोद्भूतैर्विद्युदिंद्रायुधप्रभैः।
युक्तं बलाहकगणैः पर्वतैरिव कामगैः५।
यमारूढः स भगवान्पर्येति सकलं जगत्।
हविर्दानेषु गायंति विप्रा मखमुखेस्थिताः६।
स्वर्गसंग्रामयातेषु देवतूर्यनिनादिषु।
सेंद्रं तमुपनृत्यंति शतशो ह्यप्सरोगणाः७।
केतुना नागराजेन राजमानो यथा रविः।
युक्तो हयसहस्रेण मनोमारुतरंहसा८।
सम्यग्रथवरो भाति युक्तो मातलिना तदा।
कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा९।
यमस्तु दंडमुद्यम्य कालयुक्तं च मुद्गरं।
तस्थौ सुरगणानीके दैत्यानां चैव दर्शयन्१०।
चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः।
शंखमुक्तांगदधरो बिभ्रत्तोयमयं वपुः११।
कालपाशान्समाविध्य हयैः शशिकरोपमैः।
वाय्वीरितजलाकारैः कुर्वन्लीलाः सहस्रशः१२।
पांडुरोद्धूतवसनः प्रवालरुचिरांगदः।
मणिश्यामोत्तमवपुर्हारकेणार्चितोदरः१३।
वरुणः पाशधृङ्मध्ये देवानीकस्य तस्थिवान्।
युद्धवेलामभिलषन्भिन्नवेल इवार्णवः१४।
यक्षराक्षससैन्येन गुह्यकानां गणैरपि।
युक्तश्च शंखपद्माभ्यां निधीनामधिपः प्रभुः१५।
राजराजेश्वरःश्रीमान्गदापाणिरदृश्यत।
विमानयोधी धनदो विमाने पुष्पके स्थितः१६।
स राजराजः शुशुभे यक्षेशो नरवाहनः।
पूर्वपक्षे सहस्राक्षः पितृराजश्च दक्षिणे१७।
वरुणः पश्चिमे पक्ष उत्तरे नरवाहनः।
चतुःपक्षाश्च चत्त्वारो लोकपाला महाबलाः१८।
आत्मदिक्षुचरंतश्चतस्यदेवबलस्यते।
सूर्यः सप्ताश्वयुक्तेन रथेनानिलगामिना१९।
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः।
उदयास्तमयौ चक्रे मेरुपर्यन्तगामिना२०।
त्रिदिव द्वारचक्रेण तपसा लोकमव्ययम्।
सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा२१।
चचार मध्ये देवानां द्वादशात्मा दिवाकरः।
सोमः श्वेतहयो भाति स्यंदने शीतरश्मिमान्२२।
हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत्।
तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम्२३।
शशच्छायांकिततनुं नैशस्य तमसः क्षयम्।
ज्योतिषामीश्वरं व्योम्नि रसदं प्रभुमव्ययम्२४।
ओषधीनां पवित्राणां निधानममृतस्य च।
जगतः परमं भागं सौम्यं सर्वमयं रसम्२५।
ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम्।
यः प्राणः सर्वभूतानां पंचधा भिद्यते नृषु२६।
सप्तस्कंधगतो लोकांस्त्रीन्दधार चकार च।
यमाहुरग्निकर्त्तारं सर्वप्रभवमीश्वरम्२७।
सप्तस्वरगता यस्य योनिर्गीर्भिरुदीर्यते।
यं वदंति चलं भूतं यं वदंत्यशरीरिणम्२८।
यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम्।
स वायुः सर्वभूतायुरुद्धतः स्वेन तेजसा२९।
ववौ प्रव्यथयन्दैत्यान्प्रतिलोमं सतोयदः।
मारुतो देवगंधर्वैर्विद्याधरगणैः सह३०।
चिक्रीड रश्मिभिश्शुभ्रैर्निर्मुक्तैरिव पन्नगैः।
सृजंतः सर्पपतयस्तीव्रं रोषमयं विषम्३१।
शरभूता विलग्नाश्च चेरुर्व्यात्तानना दिवि।
पर्वताश्च शिलाशृंगैः शतशाखैश्च पादपैः३२।
उपतस्थुः सुरगणान्प्रहर्तुं दानवं बलम्।
यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः३३।
युगांते कृष्णवर्त्मा च विश्वस्य जगतः प्रभुः।
सर्वयोनिः समधुहा हव्यभुक्क्रतुसंस्थितः३४।
भूम्यम्बुव्योमभूतात्मा श्यामः शांतिकरोरिहा।
अविघ्नममरादीनां चक्रे चक्रगदाधरः३५।
सव्येनालभ्य महतीं सर्वायुधविनाशिनीं।
करेण कालीं वपुषा शत्रुकालप्रदां गदां३६।
शेषैर्भुजैः प्रदीप्ताभैर्भुजगारिध्वजः प्रभुः।
दधारायुधजालानि शार्ङ्गादीनि महाबलः३७।
स कश्यपस्यात्मभवं द्विजं भुजगभोजनम्।
भुजगेंद्रेण वदने निविष्टेन विराजितम्३८।
अमृतारंभसंयुक्तं मंदराद्रिमिवोच्छितम्।
देवासुरविमर्देषु बहुशो दृष्टविक्रमम्३९।
महेंद्रेणामृतस्यार्थे वज्रेण कृतलक्षणम्।
विचित्रपत्रवसनं धातुमंतमिवाचलम्४०।
स्फीतक्रोधावलंबेन शीतांशुसमतेजसा।
भोगिभोगावसक्तेन मणिरत्नेन भास्वता४१।
पक्षाभ्यां चारुपत्राभ्यामावृतं दिवि लीलया।
युगांते सेंद्रचापाभ्यां तोयदाभ्यामिवांबरम्४२।
नीललोहितपीताभिः पताकाभिरलंकृतम्।
अरुणावरजं श्रीमानारुह्य समरे प्रभुः४३।
सुवर्णवर्णवपुषं सुपर्णं खेचरोत्तमम्।
तमन्वयुः सुरगणा मुनयश्च समाहिताः४४।
गीर्भिः परममंत्राभिस्तुष्टुवुश्च गदाधरम्।
तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम्४५।
वारिराजपरिक्षिप्तं देवराजविराजितम्।
पवनाबद्धनिर्घोषं संप्रदीप्त हुताशनम्४६।
विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसावृतम्।
बलं बलवदुद्रिक्ते युद्धाय समवर्तत४७।
स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत।
स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे४८।
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तथा।
सुराणामसुराणां च परस्परजयैषिणाम्४९।
दानवा दैवतैः सार्द्धं नानाप्रहरणोद्यमाः।
समीयुर्युध्यमाना वै पर्वता इव पर्वतैः1.41.५०।
तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ।
धर्माधर्मसमायुक्तं दर्पेण विनयेन च५१।
ततो हयैः प्रजवितैर्वारणैश्च प्रचोदितैः।
उत्पतद्भिश्च गगने सासिहस्तैः समंततः५२।
क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः।
चापैर्विस्फार्यमाणैश्च पात्यमानैः सुदारुणैः५३।
तद्युद्धमभवद्घोरं देवदानवसंकुलम्।
जगतस्त्रासजननं युगसंवर्तकोपमम्५४।
स्वहस्तमुक्तैः परिघैर्मुद्गरैश्चैव पर्वतैः।
दानवास्समरे जघ्नुर्देवानिंद्रपुरोगमान्५५।
ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः।
विषण्णवदना देवा जग्मुरार्तिं परां मृधे५६।
ते चास्त्रशूलमथिताः परिघैर्भिन्नमस्तकाः।
भिन्नोरस्का दितिसुतैः स्रवद्रक्ता रणे बहु५७।
सूदिताः शरजालैश्च निर्यत्नाश्च शरैः कृताः।
प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितम्५८।
उत्तंभितमिवाभाति निष्प्राण सदृशाकृति।
बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम्५९।
दैत्यचापच्युतान्घोरांश्छित्वा वज्रेण तान्शरान्।
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः६०।
स दैत्यप्रमुखान्सर्वान्हत्वा दैत्यबलं महत्।
तामसेनास्त्रजालेन तमोभूतमथाकरोत्६१।
तेऽन्योन्यं नान्वबुध्यंत दैत्यानां वाहनानि च।
घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा६२।
मायापाशैर्विमुक्तास्तु यत्नवंतः सुरोत्तमाः।
शिरांसि दैत्यसंघानां तमोभूतान्यपातयन्६३।
अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा।
पेतुस्ते दानवास्सद्यश्छिन्नपक्षा इवाद्रयः६४।
तत्राभिभूतदैत्यैंद्रमंधकारमिवांतरं।
दानवं देहसदनं तमोभूतमिवाभवत्६५।
तथाऽसृजन्महामायां मयस्तां तामसीं दहन्।
युगांतोद्योतजननीं सृष्टा मौर्वेण वह्निना६६।
स ददाह च तां शाक्रीं माया मयविकल्पिता।
दैत्याश्चादित्यवपुषा सद्य उत्तस्थुराहवे६७।
मायां मौर्वीं समासाद्य दह्यमाना दिवौकसः।
भेजिरे चंद्रविषयं शीतांशुसलिलह्रदम्६८।
ते दह्यमाना और्वेण वह्निना नष्टचेतसः।
शशंसुर्वज्रिणं देवाः संतप्ताः शरणैषिणः६९।
संतप्ते मायया सैन्ये हन्यमाने च दानवैः।
चोदितो देवराजेन वरुणो वाक्यमब्रवीत्७०।
पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम्।
उर्वः स पूर्वं तेजस्वी सदृशो ब्रह्मणो गुणैः७१।
तं तपंतमिवादित्यं तपसा जगदव्ययं।
उपतस्थुर्मुनिगणा देवा देवर्षिभिः सह७२।
हिरण्यकशिपुश्चैव दानवो दानवेश्वरः।
ॠषिं विज्ञापयामास पुरा परमतेजसम्७३।
ऊचुर्ब्रह्मर्षयस्ते तु वचनं धर्मसंहितम्।
ॠषिवंशेषु भगवंश्छिन्नमूलमिदं कुलं७४।
एकस्त्वमनपत्यश्च गोत्रा याऽन्यो न विद्यते।
कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे७५।
बहूनि विप्रगोत्राणि मुनीनां भावितात्मनाम्।
एकदेहानि तिष्ठंति विविक्तानि विना प्रजाः७६।
एवंभूतेषु सर्वेषु पुत्रैर्मे नास्ति कारणम्।
भवांश्च तापसश्रेष्ठः प्रजापति समद्युतिः७७।
तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना।
समाधत्स्वोर्जितं तेजो द्वितीयां कुरु वै तनुं७८।
स एवमुक्तो मुनिभिर्मुनिर्मनसि ताडितः।
जगर्ह तानृषिगणान्वचनं चेदमब्रवीत्७९।
यथा हि विहितो धर्मो मुनीनां शाश्वतः पुरा।
आर्षं हि केवलं कर्म वन्यमूलफलाशिनः८०।
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मवर्तिनः।
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत्८१।
जनानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः।
अस्माकं च वने वृत्तिर्वनाश्रमनिवासिनां८२।
अब्भक्षा वायुभक्षाश्च दंतोलूखलिनस्तथा।
अश्मकुट्टादयो यत्र पंचाग्नितपसश्च ये८३।
एते तपसि तिष्ठंतो व्रतैरपि सुदुश्चरैः।
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयंति परां गतिम्८४।
ब्रह्मचर्याद्ब्रह्मणस्य ब्राह्मणत्वं विधीयते।
एवमाहुः परे लोके ब्राह्मचर्यविदो जनाः८५।
ब्रह्मचर्ये स्थितो धर्मो ब्रह्मचर्ये स्थितं तपः।
ये स्थिता ब्रह्मचर्ये तु ब्राह्मणा दिवि ते स्थिताः८६।
नास्ति योगं विना सिद्धिर्नास्ति योगं विना यशः।
नास्ति लोके यशोमूलं ब्रह्मचर्यात्परंतपः८७।
यो निगृह्येंद्रियग्रामं भूतग्रामं च पंचकम्।
ब्रह्मचर्यं समाधत्ते किमतः परमं तपः८८।
अयोगकेशधरणमसंकल्प व्रत क्रिया।
अब्रह्मचर्या चर्या च त्रयं स्याद्दंभसंज्ञितं८९।
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः।
नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा९०।
यद्यस्ति तपसो वीर्यं युष्माकं विजितात्मनाम्।
सृजध्वं मानसान्पुत्रान्प्राजापत्येन कर्मणा९१।
मनसा निर्मिता योनिराधातव्या तपस्विभिः।
नो दारयोगं बीजं च व्रतमुक्तं तपस्विनां९२।
यदिदं लुप्तधर्माख्यं युष्माभिरिह निर्भयैः।
व्याहृतं सद्भिरत्यर्थमसद्भिरिव संमतं९३।
वपुर्दीप्तांतरात्मानमेष कृत्वा मनोमयं।
दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहं९४।
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति।
प्राजापत्येन विधिना दिधक्षंतमिव प्रजाः९५।
वरुण उवाच।
उर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने।
ममंथैकेन दर्भेण पुत्रस्य प्रसवारणिं९६।
तस्योरुं सहसा भित्वा वरोऽसौ ह्यग्निरुत्थितः।
जगतो दहनाकांक्षी पुत्रोग्निस्समपद्यत९७।
उर्वस्योरुं विनिर्भिद्य और्वो नामांतकोऽनलः।
दिधक्षुरिव लोकांस्त्रीन्जज्ञे परमकोपनः९८।
उत्पद्यमानश्चोवाच पितरं दीनया गिरा।
क्षुधा मे बाधते तात जगद्भक्षेत्यजस्व मां९९।
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश।
निर्दहन्सर्वभूतानि ववृधे सोंतकोपमः1.41.१००।
एतस्मिन्नंतरे ब्रह्मा मुनिमुर्वं समागतः।
उवाच वार्यतां पुत्रो जगतस्त्वं दयां कुरु१०१।
अस्यापत्पस्यते विप्र करिष्ये साह्यमुत्तमं।
तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर१०२।
और्व उवाच।
धन्योस्म्यनुगृहीतोस्मि यन्मे त्वं भगवन्शिशोः।
मतिमेतां ददासीह परमात्मन्हिताय वै१०३।
प्रभातकाले संप्राप्ते कांक्षितव्ये समागमे।
भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम्१०४।
कुत्र चास्य निवासः स्याद्भोजनं तु किमात्मकम्।
विधास्यतीह भगवान्वीर्यतुल्यं महौजसः१०५।
ब्रह्मोवाच।
बडवामुखे च वसतिः समुद्रे वै भविष्यति।
ममयोनिर्जलं विप्र तच्चामेयं व्रजत्वयं१०६।
तत्राऽयमास्ते नियतं पिबन्वारिमयं हविः।
तद्वारिविस्तरं विप्र विसृजाम्यालयं च तम्१०७।
ततो युगांते भूतानामेष चाहं च पुत्रक।
सहितो विचरिष्यावो निष्पुराणकराविह१०८।
एषोग्निरंतकाले तु सलिलाशी मया कृतः।
दहनः सर्वभूतानां सदेवासुररक्षसाम्१०९।
एवमस्त्विति तं सोग्निः संवृतज्वालमंडलः।
प्रविवेशार्णवमुखं नत्वोर्वं पितरं प्रभुम्११०।
प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः।
और्वस्याग्नेः प्रभावज्ञाः स्वांस्वां गतिमुपागताः१११।
हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम्।
उर्वं प्रणतसर्वांगो वाक्यमेतदुवाच ह११२।
भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम्।
तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः११३।
अहं तु तव पुत्रस्य तव चैव महाव्रत।
भृत्य इत्यवगंतव्यः श्लाघ्यस्त्वमिह कर्मणा११४।
तन्मां पश्य समापन्नं तवैवाराधने रतम्।
यदि सीदेन्मुनिश्रेष्ठ तवै वस्यात्पराजयः११५।
उर्व उवाच।
धन्योस्म्यनुगृहीतोस्मि यस्य तेऽहं गुरुर्मतः।
नास्ति ते तपसानेन भयं चैवेह सुव्रत११६।
तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम्।
निरिंधिनामग्निमयीं दुःस्पर्शां पावकैरपि११७।
एषा ते स्वस्य वंशस्य वशगारि विनिग्रहे।
रक्षिष्यत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति११८।
वरुण उवाच।
एषा दुर्विषहा माया देवैरपि दुरासदा।
और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना११९।
तस्मिंस्तु व्यथिते दैत्ये निर्वीर्यैषा न संशयः।
शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा१२०।
यद्येषा प्रतिहंतव्या कर्तव्यो भगवान्सुखी।
दीयतां मे सखो शक्र तोययोनिर्निशाकरः१२१।
तेनाहं सहसं गम्य यादोभिश्च समावृतः।
मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः१२२।
एवमस्त्वितिसंहृष्टः शक्रस्त्रिदशवर्धनः।
संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम्१२३।
गच्छ सोम सहायन्त्वं कुरु पाशधरस्य वै।
असुराणां विनाशाय जयार्थं त्रिदिवौकसाम्१२४।
त्वं मतः प्रतिवीर्यश्च ज्योतिषामपि चेश्वरः।
त्वन्मयान्सर्वलोकेषु रसान्वेदविदो विदुः१२५।
त्वया समो न लोकेस्मिन्विद्यते शिशिरायुधः।
क्षयवृद्धीतवाव्यक्तेसागरेचैवचांबरे१२६।
प्रवर्तयस्यहोरात्रात्कालं संमोहयन्जगत्।
लोकच्छायामयं लक्ष्म तवांकः शशविग्रहः१२७।
न विदुः सोम ते मायां ये च नक्षत्रयोनयः।
त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरिस्थितः१२८।
तमः प्रोत्सार्य सहसा भासयस्यखिलं जगत्।
शीतभानुर्हिमतनुर्ज्योतिषामधिपः शशी१२९।
अपि तत्कालयोगात्मा इज्यो यज्ञरथोऽव्ययः।
ओषधीशः क्रियायोनिरपां योनिरनुष्णगुः१३०।
शीतांशुरमृताधारश्चपलः श्वेतवाहनः।
त्वं कांतिः कांतवपुषां त्वं सोमः सोमपायिनाम्१३१।
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट्।
तद्गच्छ त्वं महासेन वरुणेन वरूथिना१३२।
शमयस्वासुरीं मायां यया दह्यामहे रणे।
सोम उवाच।
यन्मां वदसि युद्धार्थं देवराजवरप्रद१३३।
एष वर्षामि शिशिरं दैत्यमायापकर्षणं।
एतान्मे शीतनिर्दग्धान्पश्यस्व हिमवेष्टितान्१३४।
तथा हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः।
वेष्टयंति च तान्दैत्यान्वायुर्मेघगणानिव१३५।
तौ पाशशीतांशुधरौ वरुणेंदू महाबलौ।
जघ्नतुर्हिमपातैश्च पाशपातैश्च दानवान्१३६।
द्वावंबुनाथौ समरे तौ पाशहिमयोधिनौ।
मृधे चेरतुरंभोभिः क्षुब्धाविव महार्णवौ१३७।
ताभ्यामापूरितं सर्वं तद्दानवबलं महत्।
जगत्संवर्त्तकांभोदैः प्रवर्षैरिव संवृतं१३८।
तावुद्यतावंबुनाथौ शशांकवरुणावुभौ।
शमयामासतुस्तां तु मायां दैत्येन्द्रनिर्मितां१३९।
शीतांशुजालनिर्दग्धाः पाशैश्चास्कंदिता रणे।
न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः१४०।
शीतांशु निहतास्ते तु दैत्यास्सर्वे निपातिताः।
हिमप्लावित सर्वांगानिरूष्माण इवाग्नयः१४१।
तेषां तु दिवि दैत्यानां निपतंति शुभानि वै।
विमानानि विचित्राणि निपतंत्युत्पतंति च१४२।
तान्पाशहस्तग्रथितान्छादितान्शीतरश्मिभिः।
मयो ददर्श मायावी दानवान्दिवि दानवः१४३।
सशैलजालां विततां खड्गपट्टसहासिनीम्।
पादपोत्करकूटस्थां कंदराकीर्णकाननां१४४।
सिंहव्याघ्रगणाकीर्णां नदद्भिर्देवयूथपैः।
ईहामृगगणाकीर्णां पवनाघूर्णितद्द्रुमाम्१४५।
निर्मितां स्वेन पुत्रेण कूजंतीं दिविकामगां।
प्रथितां पार्वतीं मायां ससृजे स समंततः१४६।
सासिशब्दैश्शिलावर्षैः संपतद्भिश्च पादपैः।
जघान देवसंघांस्ते दानवानभ्यजीवयत्१४७।
नैशाकरी वारुणी च माये अंतर्हिते तदा।
अभवद्घोरसंचारा पृथिवी पर्वतैरिव१४८।
न चारुद्धो द्रुमगणैर्देवो दृश्यत कश्चन।
तदपध्वस्तधनुषं भग्नप्रहरणाविलम्१४९।
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरं।
स हि युद्धगतः श्रीमानीशो न स्म व्यकंपत1.41.१५०।
सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः।
कालज्ञः कालमेघाभः समीक्षन्कालमाहवे१५१।
देवासुरविमर्दं च द्रष्टुकामस्तदा हरिः।
ततो भगवतादिष्टौ रणे पावकमारुतौ१५२।
चोदितौ विष्णुवाक्येन ततो मायां व्यकर्षतां।
ताभ्यामुद्भ्रांतवेगाभ्यां प्रबुद्धाभ्यां महाहवे१५३।
दग्धा सा पार्वती माया भस्मीभूता ननाश ह।
सोनिलोनलसंयुक्तस्सोनलश्चानिलाकुलः१५४।
दैत्यसेनां ददहतुर्युगांतेष्विव मूर्च्छितौ।
वायुः प्रजवितस्तत्र पश्चादग्निश्च मारुतात्१५५।
चेरतुर्दानवानीके क्रीडंतावनलानिलौ।
भस्मीभूतेषु भूतेषु प्रपतत्सूत्पतत्सु च१५६।
दानवानां विमानेषु निपतत्सु समंततः।
वातस्कंधापविद्धेषु कृतकर्मणि पावके१५७।
मायावधे प्रवृत्ते तु स्तूयमाने गदाधरे।
निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबंधने१५८।
प्रहृष्टेषु च देवेषु साधुसाध्विति जल्पिषु।
जये दशशताक्षस्य दैत्यानां च पराजये१५९।
दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मविस्तरे।
अपावृते चंद्रपथे स्वस्थानस्थे दिवाकरे१६०।
प्रवृत्तिस्थेषु भूतेषु नृषु चारित्रवत्सु च।
अभिन्नबंधने मृत्यौ हूयमाने हुताशने१६१।
यज्ञशोभिषु देवेषु स्वर्गमार्गं दिशत्सु च।
लोकपालेषु सर्वेषु दिक्षु संधानवर्तिषु१६२।
भावे तपसि सिद्धानामभावे पापकर्मणाम्।
देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति१६३।
त्रिपादविग्रहे धर्मेऽधर्मे पादपरिग्रहे।
अपावृत्ते महाद्वारे वर्तमाने च सत्पथे१६४।
लोकेषु धर्मवृत्तेषु प्रवृत्तेष्वाश्रमेषु च।
प्रजारक्षणयुक्तेषु राजमानेषु राजसु१६५।
प्रशांतेषु च लोकेषु शांते तमसि दानवे।
अग्निमारुतयोस्तस्मिन्वृत्ते संग्रामकर्मणि१६६।
तन्मया विमला लोकास्ताभ्यां जयकृतक्रियाः।
तीव्रं दैत्यभयं श्रुत्वा मारुताग्निकृतं महत्१६७।
कालनेमीति विख्यातो दानवः प्रत्यदृश्यत।
भास्कराकारमुकुटः शिंजिताभरणांगदः१६८।
मंदराद्रिप्रतीकाशो महारजतसंवृतः।
शतप्रहरणोदग्रः शतबाहुः शताननः१६९।
शतशीर्षः स्थितः श्रीमान्शतशृंग इवाचलः।
कक्षे महति संवृद्धो निदाघ इव पावकः१७०।
धूम्रकेशो हरिश्मश्रुर्दंतुरो विकटाननः।
त्रैलोक्यांतरविस्तारं धारयन्विपुलं वपुः१७१।
बाहुभिस्तुलयन्व्योम क्षिपन्पद्भ्यां महीधरान्।
ईरयन्मुखनिःश्वासैर्वृष्टिकारान्बलाहकान्१७२।
तिर्यगायतरक्ताक्षं मंदरोदग्रवर्चसाम्।
दिधक्षंतमिवायांतं सर्वान्देवगणान्मृधे१७३।
तर्जयंतं सुरगणांश्छादयंतं दिशो दश।
संवर्तकाले हृषितं दृष्टं मृत्युमिवोत्थितम्१७४।
सुतलेनोच्छ्रयवता विपुलांगुलिपर्वणा।
लंबाभरणपूर्णेन किंचिच्चलितकर्मणा१७५।
उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता।
दानवान्देवनिहतान्ब्रुवन्तं तिष्ठतेति च१७६।
तं कालनेमिं समरे द्विषतां कालनेमिनम्।
वीक्षंते स्म सुराः सर्वे भयविह्वललोचनाः१७७।
तं वीक्षंते स्म भूतानि ग्रसंतं कालनेमिनम्।
त्रिविक्रमं विक्रमं तं नारायणमिवापरम्१७८।
सोभ्युच्छ्रयं पुनः प्राप्तो मारुताघूर्णितांबरः।
प्रक्रामदसुरो योद्धुं त्रासयन्सर्वदेवताः१७९।
समेयिवान्सुरेंद्रेण परिष्वक्तो भ्रमन्रणे।
कालनेमिर्बभौ दैत्यः सविष्णुरिव मंदरः१८०।
अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमाः।
कालनेमिनमायांतं दृष्ट्वा कालमिवापरम्१८१।
दानवाननुपिप्रीषुः कालनेमिर्महासुरः।
व्यवर्धत महातेजास्तपांते जलदो यथा१८२।
तं त्रैलोक्यांतरगतं दृष्ट्वा ते दानवेश्वराः।
उत्तस्थुरपरिश्रांताः पीत्वेवामृतमुत्तमम्१८३।
ते वीतभयसंत्रासा मयतारपुरोगमाः।
तारकामयसंग्रामे सततं जितकाशिनः१८४।
रेजुरायोधनगता दानवा युद्धकांक्षिणः।
मंत्रमभ्यसतां तेषां व्यूहं च परिधावताम्१८५।
प्रेक्षतां चाभवत्प्रीतिर्दानवं कालनेमिनम्।
ये तु तत्र मयस्यासन्मुख्या युद्धपुरस्सराः१८६।
ते तु सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः।
मयस्तारो वराहश्च हयग्रीवश्च दानवः१८७।
विप्रचित्तिसुतः श्वेतः खरलंबावुभावपि।
अरिष्टो बलिपुत्रश्च किशोराख्यस्तथैव च१८८।
सुर्भानुश्चामरप्रख्यश्चक्रयोधी महासुरः।
एतेऽस्त्रवेदिनः सर्वे सर्वे तपसि सुस्थिताः१८९।
दानवाः कृतिनो जग्मुः कालनेमिनमुद्धतम्।
ते गदाभिस्सुगुर्वीभिश्चक्रैरथपरश्वधैः१९०।
कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः।
अश्मभिश्चास्त्रसदृशैस्तथा शैलैश्च दारुणैः१९१।
पट्टिशैर्भिंडिपालैश्च परिघैश्चोत्तमायसैः।
घातिनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च१९२।
युगैर्यंत्रैश्च निर्मुक्तैर्लांगलैरुग्रताडितैः।
दोर्भिरायतमानैश्च पाशैश्च परिघादिभिः१९३।
भुजंगवक्त्रैर्लेलिहानैर्विसर्पद्भिश्च सायकैः।
वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः१९४।
विकोशैरसिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः।
दैत्यैः संदीप्यमानैश्च प्रगृहीतशरासनैः१९५।
ततः पुरस्कृत्य तदा कालनेमिनमाहवे।
सा दीप्तशस्त्रप्रवरा दैत्यानां रुरुचे चमूः१९६।
यैर्निमीलितसर्वांगा वनालीवांबुदागमे।
देवतानामपि चमूर्मुमुदे शक्रपालिता१९७।
उपेता शिशिरोष्णाभ्यां तेजोभ्यां चंद्रसूर्ययोः।
वायुवेगवती सौम्या तारागणपताकिनी१९८।
तोयदा बद्धवसना ग्रहनक्षत्रहासिनी।
यमेंद्रधनदैर्गुप्ता वरुणेन च धीमता१९९।
सा प्रदीप्ताग्निपवना नारायणपरायणा।
सासमुद्रौघसदृशी दीप्यमाना महाचमूः1.41.२००।
रराजास्त्रवती भीमा यक्षगंधर्वशालिनी।
तयोश्चम्वोस्तदानीं तु बभूव स समागमः२०१।
द्यावापृथिव्योस्संयोगो यथा स्याद्युगपर्यये।
तद्युद्धमभवद्घोरं देवदानवसंकुलं२०२।
क्षमापराक्रमपरं सदर्पविनयस्यदं।
निश्चक्रमुर्बलाभ्यां तु भीमाभ्यां च सुराऽसुराः२०३।
पूर्वापराभ्यां संरब्धाः सागराभ्यामिवांबुदाः।
ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः२०४।
वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा नगाः।
समाजघ्नुस्तथा भेरीः शंखान्दध्मुरनेकशः२०५।
ब्रह्मांडं च भुवं चैव दिशश्च समपूरयन्।
ज्याघाततलनिर्घोष धनुषां कूजितानि च२०६।
दुंदुभीनां च निर्ह्रादो दैत्यमंतर्दधुः स्वनम्।
तेऽन्योन्यमभिसंपेतुर्यातयंतः परस्परम्२०७।
बभंजुर्बाहुभिर्बाहु युद्धमन्ये युयुत्सवः।
देवानामशनीर्घोराः परिघांश्चोत्तमायुधान्२०८।
निस्त्रिंशान्ससृजुः संख्ये गदागुर्वीश्च दानवाः।
गदानिपातैर्भग्नांगा बाणैश्च शकलीकृताः२०९।
परिपेतुर्भृशं केचित्पुनः केचित्तु जघ्निरे।
ततो रथैश्च तुरगैर्विमानैश्च पदातिभिः२१०।
समीयुस्तेतिसंरब्धा रोषादन्योन्यमाहवे।
संवर्त्तमानास्समरे संदष्टौष्टपुटाननाः२११।
रथा रथैर्नियुध्यंते पादाताश्च पदातिभिः।
तेषां रथानां तुमुलः सशब्दः शब्दवाहिनाम्२१२।
नभो निदद्ध्वानयथा नभस्ये जलदस्वनैः।
बभंजिरे रथान्केचित्केचित्संमृदिता रथैः२१३।
संबाधमन्ये संप्राप्ता न शेकुश्चलितुं रथाः।
अन्योन्य मध्ये समरे दोर्भ्यामुत्क्षिप्य दंशिताः२१४।
संह्रादमाणास्सबला जघ्नुस्तत्रासि चर्मिणः।
अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हतायुधि२१५।
क्षरज्जलानां सदृशा जलदानां समागताः।
अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ२१६।
एतस्मिन्नंतरे क्रुद्धः कालनेमिस्स दानवः।
अवर्धत समुद्रौघैः पूर्यमाण इवांबुदः२१७।
तस्य विद्युल्लतापीडाः प्रदीप्ताशनिवर्षिणः।
गात्रैर्नगगिरिप्रख्यैर्विनिपेतुर्बलाहकाः२१८।
क्रोधान्निश्वसतस्तस्य भ्रूभेदस्वेदवर्षिणः।
साग्निस्फुलिंगाः प्रतता मुखान्निश्चेरुरर्चिषः२१९।
तिर्यगूर्ध्वं च गगने ववृधुस्तस्य बाहवः।
पर्वतादिव निष्क्रांताः पंचास्या इव पन्नगाः२२०।
सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि।
दिव्यमाकाशमावव्रे पर्वतैरुच्छ्रितैरिव२२१।
सोनिलोद्भूतवसनस्तस्थौ संग्रामलालसः।
संध्यातपग्रस्तशिलः साक्षान्मेरुरिवाचलः२२२।
ऊरुवेगप्रमथितैः शृंगशैलाग्रपादपैः।
अपातयद्देवगणान्वज्रेणेव महागिरीन्२२३।
बाहुभिश्च सनिस्त्रिंशैश्छिन्नभिन्नशिरोरुहाः।
न शेकुश्चलितुं देवाः कालनेमिहता युधि२२४।
मुष्टिभिर्निहताः केचित्केचिच्च द्विदलीकृताः।
यक्षगंधर्वपतगाः समहोरगकिन्नराः२२५।
तेन वित्रासिताः पेतुः समरे कालनेमिना।
न शेकुर्यत्नवंतोपि यत्नं कर्तुं विचेतसः२२६।
तेन शक्रः सहस्राक्षोऽस्पंदितः शरबंधनैः।
निष्प्रयत्नः कृतः संख्ये चलितुं न शशाक ह२२७।
निर्जलांभोदसदृशो निर्जलार्णवसप्रभः।
निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे२२८।
रणे वैश्रवणस्तेन परीतः कालरूपिणा।
विलपन्लोकपालेशस्त्याजितो धनदः क्रियां२२९।
यमः सर्वहरस्तेन मृत्युप्रहरणो रणे।
याम्यामवस्थां संत्यज्य भीतः स्वां दिशमाविशत्२३०।
सलोकपालानुत्सार्य हृत्वा तेषां च कर्म तत्।
दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा२३१।
स नक्षत्रपथं गत्वा दिव्यं स्वर्भानुदर्शितं।
जहार लक्ष्मीं सोमस्य यच्चास्य विषयं महत्२३२।
चालयामास दीप्तांशुं धर्मद्वारा सभास्करं।
शासनं चास्य विषयं जहार दिनकर्म च२३३।
सोग्निं देवमुखं जित्वा चकारात्ममुखाश्रयं।
वायुं च तरसा जित्वा चकारात्मवशानुगं२३४।
स समुद्रात्समानीय समस्ताः सरितो बलात्।
चकाराभिसुखावीर्या देहभूताश्च सिंधवः२३५।
अपः स्ववशगाः कृत्वा दिविजायाश्च भूमिजाः।
छादयामास जगतीं सुगुप्तां धरणीधरैः२३६।
स स्वयंभूरिवाभाति महाभूतपतिर्महान्।
सर्वलोकमयो दैत्यः सर्वलोकभयावहः२३७।
स लोकपालैकवपुश्चंद्रसूर्यग्रहात्मवान्।
पावकानिलसंभूतो रराज युधि दानवः२३८।
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवोपमे।
तं तुष्टुवुर्दैत्यगणा देवा इव पितामहं२३९।
पंच तं नाभ्यवर्तंत विपरीतेन कर्मणा।
वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया२४०।
स तेषामनुपस्थानात्सक्रोधो दानवेश्वरः।
वैष्णवं पदमन्विच्छन्स गतो देवतायतः२४१।
स ददर्श सुपर्णस्थं शंखचक्रगदाधरं।
दानवानां विनाशाय भ्रामयंतं गदां शुभां२४२।
सजलांभोदसदृशं विद्युत्सदृशवाससं।
आरूढं स्वर्णपत्राढ्यं खेचरं काश्यपं खगं२४३।
दुष्टदैत्यविनाशाय दृष्ट्वा खस्थमिवस्थितं।
दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः२४४।
अयं स रिपुरस्माकं पूर्वेषां प्राणनाशनः।
अर्णवावासिनश्चैव मधोश्च कैटभस्य च२४५।
अयं स रिपुरस्माकमसमः किल कथ्यते।
अनेकसंयुगेनेन दानवा बहवो हताः२४६।
अयं स निर्घृणो लोके स्त्रीबालनिरपत्त्रपः।
येन दानवनारीणां सीमंतोद्वरणं कृतम्२४७।
अयं स विष्णुर्देवानां वैकुंठश्च दिवौकसाम्।
अनंतो भोगिनां मध्ये स्वयंभूश्च स्वयंभुवः२४८।
अयं स नाथो देवानामस्माभिर्विप्रकृष्यते।
अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हतः२४९।
अस्यच्छायामुपाश्रित्य देवा मखमुखे स्थिताः।
आज्यं महर्षिभिर्दत्तमश्नुवंति त्रिधा हुतम्1.41.२५०।
अयं स निधने हेतुः सर्वेषाममरद्विषाम्।
अस्य चक्रप्रविष्टानि कुलान्यस्माकमाहवे२५१।
अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः।
स विभुस्तेजसा युक्तं चक्रं क्षिपति शत्रुषु२५२।
अयं स कालो दैत्यानां कालभूते मयि स्थिते।
अतिक्रांतस्य कालस्य फलं प्राप्स्यति केशवः२५३।
दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः।
निष्पिष्टो बहुना संख्ये मय्येव प्रणशिष्यति२५४।
यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे।
इमन्नारायणं हत्वा दानवानां भयावहम्२५५।
क्षिप्रमेव हनिष्यामि रणेऽमरगणानहम्।
जात्यंतरगतोप्येष बाधते दानवान्मृधे२५६।
एषोऽनंतः पुरा भूत्वा पद्मनाभ इति श्रुतः।
जघानैकार्णवे घोरे तावुभौ मधुकैटभौ२५७।
द्विधाभूतं वपुः कृत्वा सिंहस्यार्द्धं नरस्य च।
पितरं मे जघानैको हिरण्यकशिपुं पुरा२५८।
शुभं गर्भमधत्तैनमदितिर्देवतारणिः।
त्रीन्लोकानाजहारैकः क्रममाणस्त्रिभिः क्रमैः२५९।
भूयस्त्विदानीं संप्राप्ते संग्रामे तारकामये।
मया सह समागम्य स देवो विनशिष्यति२६०।
एवमुक्त्वा बहुविधं क्षिप्रं नारायणं रणे।
वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत्२६१।
क्षिप्यमाणोऽसुरेंद्रेण न चुकोप गदाधरः।
क्षमाबलेन महता सस्मितं चेदमब्रवीत्२६२।
अल्पं दर्पबलं दैत्य स्थिरमक्रोधजं बलम्।
हतस्त्वं दर्पजैर्दोषैर्हित्वा यो भाषसे क्षमाम्२६३।
अधमस्त्वं मम मतो धिगेतत्तव वाग्बलम्।
के तत्र पुरुषाः संति यत्र गर्जंति योषितः२६४।
अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम्।
प्रजापतिं कृतं सेतुं त्यक्त्वा कः स्वस्तिमान्भवेत्२६५।
अद्य त्वां नाशयिष्यामि देवव्यापारघातकम्।
स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः२६६।
एवं ब्रुवति वाक्यं तु मृधे श्रीवत्सधारिणि।
जहास दानवः क्रोधाद्धस्तांश्चक्रेण सायुधान्२६७।
स बाहुशतमुद्यम्य सर्वायुधगणान्रणे।
क्रोधाद्विगुणरक्ताक्षो विष्णोर्वक्षस्य पातयत्२६८।
दानवाश्चापि समरे मयतारपुरोगमाः।
उद्यतायुधनिस्त्रिंशा विष्णुमभ्यद्रवन्रणे२६९।
स ताड्यमानोऽतिबलैर्दैत्यैः सर्वायुधोद्यतैः।
न चचाल ततो युद्धे कंप्यमान इवाचलः२७०।
संयुक्तश्च सुपर्णेन कालनेमिर्महासुरः।
सर्वप्राणेन महतीं गदामुद्यम्य बाहुभिः२७१।
घोरां ज्वलंतीं मुमुचे संरब्धो गरुडोपरि।
कर्मणा तेन दैत्यस्य विष्णुर्विस्मयमागमत्२७२।
तदा तेन सुपर्णस्य पातिता मूर्ध्नि सा गदा।
सुपर्णं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः२७३।
क्रोधसंरक्तनयनो वैकुंठश्चक्रमाददे।
व्यवर्द्धत च वेगेन सुपर्णेन समं विभुः२७४।
भुजाश्चास्य व्यवर्धंत व्याप्तवंतो दिशो दश।
विदिशश्चैव खं चापि गां चैव प्रतिपूरयन्२७५।
ववृधे स पुनर्लोकान्क्रांतुकाम इवौजसा।
तं जयाय सुरेंद्राणां वर्द्धमानं नभस्तले२७६।
ॠषयः सह गंधर्वास्तुष्टुवुर्मधुसूदनम्।
सद्यां किरीटेन लिखन्शिरसा भास्वरेण च२७७।
पद्भ्यामाक्रम्यवसुधां दिशः प्रच्छाद्य बाहुभिः।
सहस्रकरतुल्याभं सहस्रारमरिक्षयम्२७८।
दीप्ताग्निसदृशं घोरंदर्शनेन सुदर्शनम्।
सुवर्णरेणुपर्यंतं वज्रनाभं भयावहं२७९।
मेदोस्थिमज्जरुधिरैः सिक्तं दानवसंभवैः।
अद्वितीयं प्रहरणं क्षुरपर्यंतमंडलम्२८०।
स्रग्दाममालानिचितं कामगं कामरूपिणं।
स्वयं स्वयंभुवा सृष्टं भयदं सर्वविद्विषाम्२८१।
दधार रोषेणाविष्टं नित्यमाहवदर्पितं।
क्षेपणाद्यस्य मुह्यंति लोकाः सस्थाणुजंगमाः२८२।
क्रव्यादानि च भूतानि तृप्तिं यांति महामृधे।
तमप्रतिमकर्माणं समानं सूर्यवर्चसा२८३।
चक्रमुद्यम्य समरे कोपदीप्तो गदाधरः।
प्रणष्टं दानवं तेजः कुर्वाणं स्वेन तेजसा२८४।
चिच्छेद बाहूंस्तेनैव समरे कालनेमिनः।
तच्च वक्त्रशतं घोरं साग्निचूर्णाट्टहासि वै२८५।
तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः।
सच्छिन्नबाहुर्विशिरानप्राकंपत दानवः२८६।
कबंधावस्थितः संख्ये विशाखइव पादपः।
तंवितत्य महापक्षौ वायोः कृत्वा समं जवम्२८७।
उरसा ताडयामास गरुडः कालनेमिनं।
स तस्य देहोभिमुखो विबाहुः खात्परिभ्रमन्२८८।
निपपात दिवं त्यक्त्वा क्षोभयन्धरणीतलम्।
तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तथा२८९।
साधुसाध्विति वैकुंठं समेताः प्रत्यपूजयन्।
अपरे ये तु दैत्या वै युद्धे दृष्टपराक्रमाः२९०।
ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे।
कांश्चित्केशेषु जग्राह कांश्चित्कंठेष्वपीडयत्२९१।
चकर्त कस्यचिद्वक्त्रं मध्ये गृह्णात्तथापरम्।
ते गदाचक्रनिर्दग्धा गतसत्वा गतासवः२९२।
गगनाद्भ्रष्टसर्वांगा निपेतुर्धरणीतले।
तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः२९३।
शक्रप्रियं ततः कृत्वा कृतकर्मगदाधरः।
तस्मिन्विमर्दे संवृत्ते संग्रामे तारकामये२९४।
तं च देशं जगामाशु ब्रह्मा लोकपितामहः।
सर्वैर्ब्रह्मर्षिभिः सार्द्धं गंधर्वाप्सरसांगणैः२९५।
देवदेवं हरिं देवः पूजयन्वाक्यमब्रवीत्।
कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम्२९६।
निधनेन च दैत्यानां वयं च परितोषिताः।
योऽयं त्वया हतो विष्णो कालनेमिर्महासुरः२९७।
त्वामेतस्य ॠते ह्यस्मिन्शास्ता कश्चिन्न विद्यते।
एष देवान्परिभवन्लोकांश्च सचराचरान्२९८।
ॠषीणां कदनं कृत्वा मामपि प्रतिगर्जति।
तदनेन त्वदीयेन परितुष्टोस्मि कर्मणा२९९।
यदयं कालकल्पस्ते कालनेमिर्निपातितः।
तदागच्छस्व भद्रं ते गच्छाम दिवमुत्तमाम्1.41.३००।
ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षंते सदो गताः।
कं चाहं तव दास्यामि वरं वरभृतां वर३०१।
स्वस्थानस्थेषु देवेषु तेषां च वरदो भवान्।
निर्यातमेतत्त्रैलोक्यं स्फीतं निहतकंटकम्३०२।
अस्मिन्नेव मृधे विष्णो शक्राय सुमहात्मने।
एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः३०३।
देवान्शक्रमुखान्सर्वानुवाच शुभया गिरा।
विष्णुरुवाच।
श्रूयतां त्रिदशास्सर्वे यावंतोऽत्र समागताः३०४।
सुपर्णसहितैस्तत्र पुरस्कृत्य पुरंदरं।
अस्माभिः समरे सर्वैः कालनेमिमुखा हताः३०५।
दानवा विक्रमोपेताः शक्रादपि महत्तराः।
अस्मिन्महति संग्रामे द्वावेव तु विनिस्सृतौ३०६।
विरोचनस्तु दैतेयः स्वर्भानुश्च महाबलः।
स्वां दिशं भजतां शक्रो दिशं वरुण एव च३०७।
याम्यां यमः पालयतामुत्तरां च धनाधिपः।
ॠक्षैः सह सदा योगं गच्छतां चंद्रमास्तथा३०८।
अयमृतुमुखं सूर्यो भजतामयनैः सह।
आज्यभागाः प्रवर्तंतां सदस्यैरभिपूजिताः३०९।
हूयंतामग्नयो विप्रैर्वेददृष्टेन कर्मणा।
देवाश्च बलिहोमेन स्वाध्यायेन महर्षयः३१०।
श्राद्धेन पितरश्चैव तुष्टिं यांतु यथासुखम्।
वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः३११।
त्रयोवर्णाश्च लोकांस्त्रीस्तपर्पयंत्वात्मजैर्गुणैः।
क्रतवः संप्रवर्तंतां दीक्षणीयैर्द्विजातिभिः३१२।
दक्षिणाश्चोपपद्यंतां याज्ञिकैश्च पृथक्पृथक्।
गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु३१३।
तर्पयन्तः प्रवर्तंतामेते सोम्यैः स्वकर्मभिः।
यथावदनुपूर्वेण महेंद्रमलयोद्भवाः३१४।
त्रैलोक्यमातरः सर्वाः समुद्रं यांतु सिंधवः।
दैत्येभ्यस्त्यज्यतां भीश्च शांतिं व्रजत देवताः३१५।
स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनं।
स्वगृहे स्वर्गलोके वा संग्रामे वा विशेषतः३१६।
विश्वस्तैश्च न गंतव्यं नित्यं क्षुद्रा हि दानवाः।
छिद्रेषु प्रहरंत्येते न तेषां संस्थितिर्ध्रुवा३१७।
सौम्यानां निजभावानां भवतामार्जवे मनः।
एवमुक्त्वा सुरगणान्विष्णुस्सत्यपराक्रमः३१८।
जगाम ब्रह्मणा सार्द्धं ब्रह्मलोकं महायशाः।
देवानां महतीं प्रीतिमुत्पाद्य भगवान्प्रभुः३१९।
एतदाश्चर्यमभवत्संग्रामे तारकामये।
दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि३२०।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पद्मोद्भवदेवासुरयुद्धे नामैकचत्वारिंशत्तमोऽध्यायः४१।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 42
भीष्म उवाच।
श्रुतः पद्मोद्भवो ब्रह्मन्विस्तरेण त्वयेरितः।
समासाद्भवमाहात्म्यमुत्पत्तिं च गुहस्य च१।
श्रोतुमिच्छामि ते ब्रह्मन्यथाभूतः कृतं च यत्।
तारकश्च कथं भूतो दानवो बलवत्तरः२।
कार्त्तिकेयेन स ब्रह्मन्कथं ध्वस्तो महासुरः।
कथं रुद्रेण मुनयः प्रेषिता मंदरं गिरिम्३।
कथं लब्धा उमा तत्र रुद्रेण परमेष्ठिना।
एतदाख्याहि मे सर्वं यथाभूतं महामुने४।
पुलस्त्य उवाच।
कश्यपेन पुरा प्रोक्ता दितिर्दैत्यारणिः शुभा।
वज्रसारमयैश्चांगैः पुत्रो देवि भविष्यति५।
वज्रांगो नाम पुत्रस्तु भविता धर्मवत्सलः।
सा च लब्धवरा देवी सुषुवे वज्रदुश्छिदम्६।
स जातमात्र एवाभूत्सर्वशास्त्रार्थपारगः।
उवाच मातरं भक्त्या मातः किं करवाण्यहम्७।
तस्योवाच ततो हृष्टा दितिर्दैत्याधिपस्य तु।
बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक८।
तेषामपचितिं कर्तुं गच्छ शक्रवधाय तु।
बाढमित्येव तां चोक्त्वा जगाम त्रिदिवं बलात्९।
बध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा।
मातुरंतिकमागच्छद्व्याधः क्षुद्रमृगं यथा१०।
एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः।
आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ११।
दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च।
मुंचैनं पुत्र देवेंद्रं किमनेन प्रयोजनम्१२।
अवमानो वधः प्रोक्तः पुत्र संभावितस्य तु।
अस्मद्वाक्येन यो मुक्तस्त्वद्धस्तान्मृत एव सः१३।
परस्य गौरवान्मुक्तः शत्रूणां शत्रुराहवे।
सजीवन्नेव हि मृतो दिवसे दिवसे पुनः१४।
एतच्छ्रुत्वा तु वज्रांगः प्रणतो वाक्यमब्रवीत्।
न मे कृत्यमनेनास्ति मातुराज्ञा कृता हि मे१५।
त्वं सुरासुरनाथो वै मान्यश्च प्रपितामहः।
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः१६।
तपसेमेरतिर्देवनिर्विघ्नंतच्चमेभवेत्।
त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम ह१७।
तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः।
ब्रह्मोवाच।
तपस्त्वं कुरु मापन्नः सोस्मच्छासनसंस्थितः१८।
अनया चित्तशुद्ध्या हि पर्याप्तं जन्मनः फलम्।
इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम्१९।
तामस्मै प्रददौ देवः पत्न्यर्थे पद्मसंभवः।
वरांगीति च नामास्याः कृत्वा यातः पितापहः२०।
वज्रांगोपि तया सार्द्धं जगाम तपसे वनम्।
ऊर्द्ध्वबाहुस्स दैत्येंद्रो चरद्वर्षसहस्रकम्२१।
कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः।
तावच्चाधोमुखः कालं तावत्पंचाग्निमध्यगः२२।
निराहारो घोरतपास्तपोराशिरजायत।
ततः सोंतर्जले चक्रे वासं वर्षसहस्रकम्२३।
जलांतरं प्रविष्टस्य तस्य पत्नी महाव्रता।
तस्यैव तीरे सरसः स्थिताऽसौ मौनमाश्रिता२४।
निराहारं तपो घोरं प्रविवेश महाद्युतिः।
तस्यां तपसि वर्तंत्यामिंद्रश्चक्रे विभीषिकाम्२५।
गत्वा तु मर्कटाकारस्तदाश्रमपदं महत्।
ब्रसीं चकर्ष बलवान्गंधाद्यर्चाकरंडकम्२६।
ततस्तु सिंहरूपेण भीषयामास भामिनीम्।
ततो भुजंगरूपेणाप्यदशच्चरणद्वयम्२७।
तपोबलवशात्सा तु नवध्यत्वं जगाम ह।
भीषिकाभिरनेकाभिः क्लेशयन्पाकशासनः२८।
विरराम यदा नैव वज्रांगमहिषी तदा।
शैलस्यदुष्टतां मत्वा शापं दातुं समुद्यता२९।
तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषविग्रहः।
उवाच तां वरारोहां वरांगीं भीतलोचनः३०।
शैल उवाच।
नाहं महाव्रते दुष्टः सेव्योहं सर्वदेहिनाम्।
विप्रियं ते करोत्येष रुषितः पाकशासनः३१।
एतस्मिन्नंतरे जातः कालो वर्षसहस्रकः।
तस्मिन्ज्ञात्वा तु भगवान्काले कमलसंभवः३२।
तुष्टः प्रोवाच वज्रांगं तदागत्य जलाशयम्।
ब्रह्मोवाच।
ददामि सर्वकामं त उत्तिष्ठ दितिनंदन३३।
एवमुक्तस्तदोत्थाय स दैत्येंद्रस्तपोनिधिः।
उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्३४।
वज्रांग उवाच।
आसुरो मास्तु मे भावः संतु लोका ममाक्षयाः।
तपस्यभिरतिर्मेऽस्तु शरीरस्यास्य वर्तनम्३५।
एवमस्त्विति तं देवो जगाम स्वकमालयम्।
वज्रांगोपि समाप्ते तु तपसि स्थिरसंयमः३६।
संगंतुमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके।
क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह३७।
आदातुं फलमूलानि स च तस्मिन्व्यलोकयत्।
रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्३८।
तां विलोक्य ततो दैत्यः प्रोवाच परिसांत्वयन्।
वज्रांग उवाच।
केन तेऽपकृतं भद्रे यमलोकं यियासुना३९।
कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि मानिनि।
वरांग्युवाच।
त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च४०।
रौद्रेण देवराजेन नष्टनाथेव भूरिशः।
दुःखस्यांतमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता४१।
पुत्रं मे तारकं देहि तस्माद्दुःखमहार्णवात्।
एवमुक्तस्तु दैत्येंद्रः कोपव्याकुललोचनः४२।
शक्तोपि देवराजस्य प्रतिकर्तुं महासुरः।
तप एव पुनश्चर्तुं व्यवस्यत महाबलः४३।
ज्ञात्वा तस्य तु संकल्पं ब्रह्मा क्रूरतरं पुनः।
आजगाम त्वरायुक्तो यत्रासौ दितिनंदनः४४।
ब्रह्मोवाच।
किमर्थं पुत्र भूयस्त्वं कर्तुं नियममुद्यतः।
तदहं ते पुनर्दद्मि कांक्षितं पुत्रमोजसा४५।
वज्रांग उवाच।
उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया।
त्रासितेंद्रेण मामाह सा वरांगी सुतार्थिनी४६।
पुत्रं मे तारकं देहि तुष्टो मे त्वं पितामह।
ब्रह्मोवाच।
अलं ते तपसा वीर मा क्लेशे दुस्तरे विश४७।
पुत्रस्तु तारको नाम भविष्यति महाबलः।
देवसीमंतिनीनां तु धम्मिल्लक विमोक्षकः४८।
इत्युक्तो दैत्यनाथस्तु प्रणम्य प्रपितामहम्।
गत्वा तां नंदयामास महिषीं कर्शितांतराम्४९।
तौ दंपती कृतार्थौ तु जग्मतुः स्वाश्रमं तदा।
आहितं तु तदा गर्भं वरांगी वरवर्णिनी1.42.५०।
पूर्णं वर्षसहस्रं तु दधारोदर एव हि।
ततो वर्षसहस्रांते वरांगी सा प्रसूयत५१।
जायमाने तु दैत्ये तु तस्मिन्लोकभयंकरे।
चचाल सर्वा पृथिवी प्रोद्भूताश्च महार्णवाः५२।
चेलुर्धराधराश्चापि ववुर्वाताश्च भीषणाः।
जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि५३।
जहौ कांतिश्चंद्रसूर्यौ नीहारच्छादिता दिशः।
जाते महासुरे तस्मिन्सर्वे चापि महासुराः५४।
आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः।
जगुर्हर्षसमाविष्टा ननृतुश्चाप्सरोगणाः५५।
ततो महोत्सवे जाते दानवानां महाद्युते।
विषण्णमनसो देवाः सहेंद्रा अभवंस्तदा५६।
वरांगी तु सुतं दृष्ट्वा हर्षेणापूरिता तदा।
बहुमेने च दैत्येंद्रो विजातं तं तदा तया५७।
जातमात्रस्तु दैत्येंद्रस्तारकश्चोग्रविक्रमः।
अभिषिक्तो सुरैर्मुख्यैः कुजंभमहिषादिभिः५८।
सर्वासुरमहाराज्ये पृथिवीतुलनक्षमे।
स तु प्राप्तमहाराज्यस्तारको नृपसत्तम५९।
उवाच दानवश्रेष्ठो युक्तियुक्तमिदं वचः।
तारक उवाच।
शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः६०।
वंशक्षयकरा देवाः सर्वेषामेव दानवाः।
अस्माकं जातिधर्मेण विरूढं वैरमक्षयम्६१।
वयं तपश्चरिष्यामः सुराणां निग्रहाय तु।
स्वबाहुबलमाश्रित्य सर्व एव न संशयः६२।
तच्छ्रुत्वा संमतं कृत्वा पारियात्रं ययौ गिरिं।
निराहारः पंचतपाः पत्रभुग्वारिभोजनः६३।
शतंशतं समानां तु तपांस्येतान्यथाकरोत्।
एवं तु कर्शिते देहे तपोराशित्वमागते६४।
ब्रह्मागत्याह दैत्येंद्रं वरं वरय सुव्रत।
स वव्रे सर्वभूतेभ्यो न मे मृत्युर्भवेदिति६५।
तमुवाच ततो ब्रह्मा देहिनां मरणं ध्रुवम्।
यतस्ततोपि वरय मृत्युं यस्मान्न शंकसे६६।
ततः संचिंत्य दैत्येंद्रः शिशोर्वै सप्तवासरात्।
वव्रे महासुरो मृत्युं मोहितो ह्यवलेपतः६७।
जगामोमित्युदाहृत्य ब्रह्मा दैत्यो निजं गृहम्।
अथाह मंत्रिणस्तूर्णं बलं मे संप्रयुज्यताम्६८।
यदि वो मत्प्रियं कार्यं निग्राह्याः सुरसत्तमाः।
निगृहीतेषु मे प्रीतिर्जायते चातुलाऽसुराः६९।
तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः।
सेनानीर्दैत्यराजस्य सज्जं चक्रे बलं च तत्७०।
आहत्य भेरीं गंभीरां दैत्यानाहूय सत्वरः।
दशकोटीश्वरा दैत्या दैत्यानां चंडविक्रमाः७१।
तेषामग्रेसरो जंभः कुजंभोनंतरोऽसुरः।
महिषः कुंजरो मेघः कालनेमिर्निमिस्तथा७२।
मंथनो जंभकः शुम्भो दैत्येंद्रा दशनायकाः।
अन्ये च शतशस्तत्र पृथिवीतुलनक्षमाः७३।
गरुडानां सहस्रेण चक्राष्टकविभूषितः।
सकूबरपरीवारश्चतुर्योजनविस्तृतः७४।
स्यंदनस्तारकस्यासीत्व्याघ्रसिंहखरार्वभिः।
युक्ता रथास्तु ग्रसन जंभकौ जंभकुंभिनां७५।
मेघस्य द्वीपिभिर्युक्तः कूष्मांडैः कालनेमिनः।
पर्वताभश्चतुर्दंष्ट्रो निमेश्चैव महागजः७६।
शतहस्ततुरंगस्थो मंथनो नाम दैत्यराट्।
जंभकस्तूष्ट्रमारूढो गिरींद्राभं महाबलः७७।
शुंभो मेषं समारूढोऽन्येप्येवं चित्रवाहनाः।
प्रचंडाश्चित्रवर्माणः कुंडलोष्णीषभूषिताः७८।
तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत।
प्रमत्तमत्तमातंगतुरंगरथसंकुलम्७९।
प्रतस्थेऽमरयुद्धाय बहुपत्तिपताकिकम्।
एतस्मिन्नंतरे वायुर्देवदूतोऽसुरालये८०।
दृष्ट्वा तद्दानवबलं जगामेंद्रस्य शंसितुं।
स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः८१।
शशंस मध्ये देवानां तत्कार्यं समुपस्थितम्।
तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः८२।
बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः।
इंद्र उवाच।
संप्राप्नोति विमर्दोयं देवानां दानवैः सह८३।
कार्यं किमत्र तद्ब्रूहि नीत्युपायोपबृंहितम्।
एतच्छ्रुत्वा तु वचनं महेंद्रस्य गिरां पतिः८४।
इत्युवाच महाभागो बृहस्पतिरुदारधीः।
बृहस्पतिरुवाच।
सामपूर्वा श्रुता नीतिश्चतुरंगा पताकिनी८५।
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी।
सामभेदस्तथा दानं दंडश्चांगचतुष्टयम्८६।
न सांत्वगोचरे लुब्धानभेद्यास्त्वेकधर्मिणः।
न दानमत्त्र संसिद्ध्यै प्रसह्यैवापहारिणाम्८७।
एकोभ्युपायो दंडोऽत्र भवतां यदि रोचते।
एवमुक्तः सहस्राक्ष एवमेतदुवाच ह८८।
कर्त्तव्यतां च संचिंत्य प्रोवाचामरसंसदि।
इंद्र उवाच।
अवधानेन मे वाचं शृणुध्वं नाकवासिनः८९।
भवंतो यज्ञभोक्तारो दिव्यात्मानो हि सान्वयाः।
स्वे महिम्नि स्थिता नित्यं जगतः पालने रताः९०।
क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम।
आह्रियंतां च शस्त्राणि पूज्यंतां शस्त्रदेवताः९१।
वाहनानि विमानानि योजयद्ध्वं ममेश्वराः।
यमं सेनापतिं कृत्वा शीघ्रमेव दिवौकसः९२।
इत्युक्तास्समनह्यंत देवानां ये प्रधानतः।
वाजिनामयुतेनाजौ हेमघंटा परिष्कृतम्९३।
नानाश्चर्यगुणोपेतं संप्राप्तं देवदानवैः।
रथं मातलिना युक्तं देवराजस्य दुर्जयम्९४।
यमो महिषमास्थाय सेनाग्रे समवर्त्तत।
चंडकिंकरवृंदेन सर्वतः परिवारितः९५।
कल्पकालोद्गतज्वाला पूरितोम्बरगोचरः।
हुताशनस्त्वजारूढः शक्तिहस्तो व्यवस्थितः९६।
पवनोऽङकुशहस्तश्च विस्तारित महाजवः।
भुजगेंद्रसमारूढो जलेशो भगवान्स्वयम्९७।
नरयुक्ते रथे देवो राक्षसेशो वियच्चरः।
तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः९८।
महासिंहरथे देवो धनाध्यक्षो गदायुधः।
चंद्रादित्यावश्विनौ च चतुरंगबलान्विताः९९।
सेनान्यो देवराजस्य दुर्जया भुवनत्रये।
कोटयस्तास्त्रयस्त्रिंशद्देवदेवनिकायिनाम्1.42.१००।
हिमाचलाभे सितचारुचामरे सुवर्णपद्मामलसुंदरस्रजि।
कृताभिरामो ज्वलकुंकुमांकुरे कपोललीलालिकदंबसंकुले१०१।
स्थितस्तदैरावणनाम कुंजरे महामनाश्चित्रविभूषणांबरः।
विशालवज्रः सुवितानभूषितः प्रकीर्णकेयूरभुजंगमंडलः१०२।
सहस्रदृग्वंदितपादपल्लवस्त्रिविष्टपे शोभत पाकशासनः।
तुरंग मातंग कुलौघसंकुला सितातपत्त्रद्ध्वजशालिनी च१०३।
बभूव सा दुर्जयपत्तिसंतता विभाति नानायुधयोधदुस्तरा।
ततोश्विनौ च मरुतः ससाध्याः सपुरंदराः१०४।
यक्षराक्षसगंधर्वा दिव्य नानास्त्रपाणयः।
जघ्नुर्दैत्येश्वरं सर्वे संभूय तु महाबलाः१०५।
न चैवास्त्राण्यसज्जंत गात्रे वज्राचलोपमे।
अथो रथादवप्लुत्य तारको दानवाधिपः१०६।
जघान कोटिशो देवान्करपार्ष्णिभिरेव च।
हतशेषाणि सैन्यानि देवानां विप्र दुद्रुवुः१०७।
दिशो भीतानि संत्यज्य रणोपकरणानि च।
दृष्ट्वा तान्विद्रुतान्देवांस्तारको वाक्यमब्रवीत्१०८।
मा वधिष्ठ सुरान्दैत्या वज्रांगाय च मंदिरे।
शीघ्रमानीय दर्श्यंतां बद्धान्पश्यत्वयं सुरान्१०९।
लोकपालांस्ततो दैत्यो बद्ध्वा चेंद्रमुखान्रणे।
सरुद्रान्सुदृढैः पाशैः पशुपालः पशूनिव११०।
स भूयो रथमास्थाय जगाम स्वकमालयं।
सिद्धगंधर्वसंघुष्टं विपुलाचलमस्तकम्१११।
स्तूयमानो दितिसुतैरप्सरोभिः सुसेवितः।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवासुरसंग्रामे तारकजयो नाम द्विचत्वारिंशत्तमोऽध्यायः४२।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 43 (part 1)
पुलस्त्य उवाच-।
प्रादुरासीत्प्रतीहारः शुभ्रचीनांशुकांबरः।
स जानुभ्यां महीं गत्वा पिहितास्यश्च पाणिना१।
उवाचानाविलं वाक्यमल्पाक्षरपरिष्कृतम्।
दैत्येंद्रमर्कवृंदाभं बिभ्रतं भास्वरं वपुः२।
कालनेमिः सुरान्बद्ध्वा प्रादाय द्वारि तिष्ठति।
स विज्ञापयति स्थेयं क्व वंदिनि च यैः प्रभो३।
तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम्।
यथेष्ठं स्थीयतामेभिर्गृहं मे भुवनत्रयं४।
केवलं वासवं त्वेकं मुंडयित्वा विमुच्यताम्।
सितवस्त्रपरिच्छन्नं शुनःपादेन चिह्नितम्५।
एवं कृते ततो देवा दूयमानेन चेतसा।
जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम्६।
विनिर्विण्णास्तमासाद्य शिरोभिर्द्धरणीं गताः।
तुष्टुवुः सुष्ठु वर्णाढ्यैर्वचोभिः कमलासनम्७।
देवा ऊचुः-।
नमस्त्वोंकारांकुरादिप्रसूत्यै विश्वस्थानानंतभेदस्य पूर्वम्।
संभूतस्यानंतरं सत्वमूले संहारेच्छोस्ते नमः सत्वमूर्त्ते८।
व्यक्तीनां त्वामादिभूतं महिम्ना चास्मादस्मानभिधानाद्विचिंत्य।
द्यावापृथ्व्योरूर्द्ध्वलोकांस्तथाधश्चांडादस्मात्त्वं विभागं चकर्थ९।
व्यक्तं मेरुर्यज्जरायुस्तवाभूदेवं विद्मस्त्वत्प्रणीतोवकाशः।
व्यक्तं देवा जज्ञिरे यस्य देहाद्देहस्यांतश्चारिणो देहभाजः१०।
द्यौस्ते मूर्द्धा लोचने चंद्रसूर्यौ व्यालाः केशाः श्रोत्ररंध्रे दिशस्ते।
गात्रं यज्ञः सिंधवः संधयो वै पादौ भूमिस्तूदरं ते समुद्राः ११।
मायाकारः कारणं त्वं प्रसिद्धो वेदैः शांतो ज्योतिरर्कस्त्वमुक्तः।
वेदार्थेन त्वां विवृण्वंति बुद्ध्या हृत्पद्मांतः संनिविष्टं पुराणम्१२।
त्वां चात्मानं लब्धयोगा गृणंति सांख्यैर्याः स्ताः सप्तसूक्ष्माः प्रणीताः।
तासां हेतुर्याष्टमी चापि गीता तास्वंतस्थो जीवभूतस्त्वमेव१३।
दृष्ट्वा मूर्त्तिं स्थूलसूक्ष्मांचकार ये वै भावाः कारणे केचिदुक्ताः।
संभूतास्ते त्वत्त एवादिसर्गे भूयस्तास्त्वां वासनां तेभ्युपेयाः१४।
त्वत्संकेतस्त्वंतरायो निगूढः कालोऽमेयो ध्वस्तसंख्याविकल्पः।
भावाभावाव्यक्तिसंहारहेतुः सोऽनंतस्त्वं तस्य कर्ता निधानम्१५।
स्थूलस्सर्वोऽनर्थभूतस्ततोन्यस्सोऽर्थस्सूक्ष्मो यो हि तेभ्योपिगीतः।
स्थूला भावाश्चावृता यैश्च तेषां तेभ्यः स्थूलस्त्वं पुराणे प्रणीतः१६।
भूतंभूतं भूतिमद्भूतभावं भावेभावे भावितं त्वं युनक्षि।
युक्तंयुक्तं व्यक्तिभावान्निरस्य स्थानेस्थाने व्यक्तिवृत्तिं करोषि१७।
इत्थं देवो व्यक्तिभाजां शरण्यस्त्राता गोप्ता भावितोऽनंतमूर्तिः।
विरेमुरमरास्तु त्वा ब्रह्माणमिति कारणम्१८।
तस्थुर्मनोभिरिष्टार्थसंप्राप्ति प्रार्थनास्ततः।
एवं स्तुतो विरिंचिस्तु प्रसादं परमं गतः१९।
अमरान्वरदोप्याह वामहस्तेन निर्दिशन्।
ब्रह्मोवाच-।
नारी वा भर्तृका कस्माद्धस्तसंत्यक्तभूषणा२०।
न राजसे कुतश्शक्रा म्लानवक्त्रसरोरुहः।
हुताशनवियुक्तोपि धूमेन न विराजसे२१।
तृणौघेन प्रतिच्छन्नो दग्धदावश्चिरोषितः।
यमामयशरीरेण क्लिष्टो नाद्य विराजसे२२।
दंडेनालंबनेनेव कृष्टो येन पदेपदे।
रजनीचरनाथ त्वं किं भीत इव भाषसे२३।
राक्षसेंन्द्रकृतादाने त्वमरातिक्षतो यथा।
तनुस्ते वरुणोच्छुष्कापरीतस्येव वह्निना२४।
विमुक्तरुधिरं चाथ पदं त्वं प्रविलोकय।
वायो भवान्विचेतस्कः खड्गाग्रैरिव निष्कृतः२५।
किं त्वं नतोसि धनद संत्यज्येव कुबेरतां।
रुद्रास्त्रिशूलिनः संतोऽविदध्वं बहुशूरतां२६।
भवतां केन चाक्षिप्ता तीव्रता नस्तदुच्यतां।
एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्मवर्तिना२७।
वाचां प्रधानभूतत्वात्ते मारुतमचोदयन्।
अथ शक्रमुखैर्देवैः पवनः प्रतिचोदितः२८।
प्राह देवं चतुर्वक्त्रं भवान्वेत्ति चराचरं।
पुरहूतमुखाः सबला निमिषा विजिताः प्रसभं किल दैत्यशतैः२९।
क्रतवो विहिता भवता स्थितये जगतां च महाद्भुतचित्रगुणाः।
अपि यज्ञकृतः श्रुतकामफला विहिता ॠषयस्तत एव पुरः३०।
अपि नाकमभूत्किल यज्ञभुजां भवतो विनियोगवशात्सततम्।
अपहृत्यविमानगणं सकृतो दनुजेन महाकरभूमिसमः३१।
कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया।
मखभूषितमंशुमतामवधिं सुरधामगिरिं गगनेपि सदा३२।
अधिवासविहारविधानुचितो दनुजेन परिष्कृतशृंगतटः।
प्रविलम्बितरत्नगुहानिवहो बहुदैत्यसमाश्रयतां गमितः३३।
असुरस्य च तस्य भयेन गतं सविषाद शरीरनिमित्ततया।
उपभोग्यतयाधिकृतं सुचिरं विमलद्युतिपूरितदिग्वदनं३४।
भवतैव विनिर्मितमादियुगे सुरहेतिसमूहवरं कुलिशं।
दितिजस्य शरीरमवाप्यगतं शतधा मतिभेदमिवाल्पविदः३५।
बाणैश्च युधि विद्धांगा द्वारि द्वास्थैर्निदर्शिताः।
लब्धप्रवेशाः कृच्छ्रेण वयं तस्यामरद्विषः३६।
सभायाममरादेव प्रकृष्योपनिवेशिताः।
वेत्रहस्तैरजल्पंतस्तथोपहसिताः परैः३७।
महार्थाः सिद्धसर्वार्था भवंतः स्वल्पभाषिणः।
शास्त्रयुक्तमथ ब्रूत मामरा बहुभाषिणः३८।
सभेयं दैत्यसिंहस्य न शक्रस्य विशृंखला।
वदद्भिरिति दैत्यस्य प्रेष्यैर्विहसिता बहु३९।
ॠतवो मूर्तिमंतश्चाप्यहर्निशमुपासते।
कृतापराधं सत्रासं न त्यजंति कथंचन४०।
तंत्रीलयनयोपेतं सिद्धगंधर्वकिन्नरैः।
सरागमुपधाविष्टं गीयते तस्य वेश्मसु४१।
कृताकृतोपकरणैर्मित्रादि गुरुलाघवः।
शरणागतसंत्यागी त्यक्तसत्यप्रतिश्रयः४२।
इति निश्शेषमथवा निश्शेषं केन शक्यते।
तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम्४३।
इत्युक्त्वा व्यरमद्वायुः शनैर्देवविचेष्टितं।
सुरानुवाच भगवांस्ततः स्मितमुखांबुजः४४।
ब्रह्मोवाच।
अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः।
यस्य वध्यस्स नाद्यापि जातस्त्रिभुवने पुमान्४५।
मया स वरदानेन छंदयित्वा निवारितः।
तपसः सांप्रतं राजा त्रैलोक्यदहनात्मकः४६।
स तु वव्रे वधं दैत्यश्शिशुतः सप्तवासरात्।
स तु सप्तदिनो बालः शंकराद्यो भविष्यति४७।
तारकस्य निहंता स भास्कराभो भविष्यति।
सांप्रतं चाप्यपत्नीकः शंकरो भगवान्प्रभुः४८।
हिमाचलस्य दुहिता या च देवी भविष्यति।
तस्याः सकाशाद्यः सूनुररण्याः पावको यथा४९।
जनयिष्यति तं प्राप्य तारको न भविष्यति।
मयाऽभ्युपायः कथितो यथैष हि भविष्यति1.43.५०।
शेषं चाप्यस्य विभवं विभजध्वमनंतरं।
स्तोककालं प्रतीक्षध्वं निर्विशंकेन चेतसा५१।
इत्युक्तास्त्रिदशास्तेन साक्षात्कमलयोनिना।
जग्मुस्ते प्रणिपत्येशं यथायोगं दिवौकसः५२।
ततो यातेषु देवेषु ब्रह्मा लोकपितामहः।
निशां सस्मार भगवांस्तां देवीं पूर्वसंभवां५३।
ततो भगवती रात्रिरुपतस्थे पितामहं।
तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम्५४।
ब्रह्मोवाच-।
विभावरि महत्कार्यं देवानां समुपस्थितं।
तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयं५५।
तारकोनाम दैत्येंद्रः सुरशत्रुरनिर्जितः।
तस्या भवाय भगवान्जनयिष्यति चेश्वरः५६।
सुतं स भविता तस्य तारकस्यांतकः किल।
शंकरस्याभवत्पत्नी सती दक्षसुता तु या ५७।
सा पितुः कुपिता देवी कस्मिंश्चित्कारणांतरे।
भवित्री हिमशैलस्य दुहिता लोकभाविनी५८।
विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयं।
स तस्य हिमशैलस्य कंदरे सिद्धसेविते५९।
प्रतीक्षमाणस्तज्जन्म किंचित्कालं निवत्स्यति।
तयोः सुतप्ततपसोर्भविता यो महान्सुतः६०।
भविष्यति स दैत्यस्य तारकस्य विनाशकः।
जातमात्रा च सा देवी स्वल्पसंज्ञेव भामिनी६१।
विरहोत्कंठिता गाढं हरसंगमलालसा।
तयोः सुतप्ततपसोः संयोगः स्याच्छुभावहः६२।
ततस्ताभ्यां तु जनितः स्वल्पो वाक्कलहो भवेत्।
ततस्तु संशयो भूयस्तारकस्य च दृश्यते६३।
तयोः संयुक्तयोस्तस्मात्सुरतासक्तिकारणे।
विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु६४।
गर्भस्थमेवतन्मातुः स्वेन रूपेण संज्ञया।
ततो विहस्य शर्वस्तां विषण्णो नर्मपूर्वकं६५।
भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती।
प्रयास्यति तपश्चर्तुं ततः सा तपसा युता६६।
जनयिष्यति तं शर्वादमितद्युतिमंडलं।
संभविष्यति हंतासौ सुरारीणामसंशयम्६७।
त्वयापि दानवा देवि हंतव्या लोकदुर्जयाः।
यावत्सुरेश्वरी देहसंक्रांतगुणसंचया६८।
तत्संगमेन तावत्त्वं दैत्यान्हंतुं न शक्यसे।
एवं कृते तपस्तप्त्वा त्वया सर्वं करिष्यति६९।
समाप्तनियमा देवि यदा चोमा भविष्यति।
तदा स्वमेव सा रूपं शैलजा प्रतिपत्स्यते७०।
तदा त्वयापि सहिता भवानी सा भविष्यति।
रूपांशेन तु संयुक्ता उमायास्त्वं भविष्यसि७१।
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति।
भेदैर्बहुविधाकारैः सर्वगां कामसाधिनीम्७२।
ॐकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः।
आक्रांतैरूर्जिताकारा राजभिश्च महाभुजैः७३।
त्वं भूरिति विशां माता शूद्रैश्शैवेति पूजिता।
क्षांतिर्मुनीनामक्षोभ्या दया नियमिनामपि७४।
त्वं महोपायसंदेहो नीतिर्नयविसर्पिणाम्।
परिचित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया७५।
त्वं मुक्तिस्सर्वभूतानां त्वं गतिः सर्वदेहिनाम्।
रतिस्त्वं रतचित्तानां प्रीतिस्त्वं हृदि देहिनाम्७६।
त्वं कीर्तिः सत्यभूतानां त्वं शांतिर्दुष्टकर्मणाम्।
त्वं भ्रांतिः सर्वभूतानां त्वं गतिः क्रतुयाजिनाम्७७।
जलधीनां महावेला त्वं च लीलाविलासिनी।
प्रियकंठग्रहानंददायिनी त्वं विभावरी७८।
इत्यनेकविधैर्देवी रूपैर्लोके त्वमर्चिता।
ये त्वां स्तोष्यंति वरदे पूजयिष्यंति चापि ये७९।
ते सर्वकामानाप्स्यंति नियता नात्र संशयः।
इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलि८०।
जगाम त्वरिता तूर्णं गृहं हिमगिरेर्महत्।
तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम्८१।
ददर्श मेनामापाण्डुच्छविवक्त्रसरोरुहाम्।
किंचित्क्षामां मुखोदग्रस्तनभारावनामिताम्८२।
महौषधिगणाबद्ध मंत्रराजनिषेविताम्।
उदूढकनकोन्नद्ध जीवरक्षा मनोरमाम्८३।
मणिदीपगणज्योतिर्महालोकप्रकाशिते।
प्रकीर्णबहुसिद्धार्थमनोज्ञपरिचारके८४।
शुद्धचीनांशुकच्छत्र भूशय्यास्तरणोज्ज्वले।
धूपामोदमनोरम्ये सज्ज सर्वोपयोगिके८५।
ततः क्रमेण दिवसे गते दूरं विभावरी।
विजृंभितसुखोदर्के ततो मेना महागृहे८६।
प्रसुप्तप्रायपुरुषे निद्राभूतोपचारके।
स्फुटालोके शशभृति भ्रान्तरात्रिविहंगमे८७।
रजनीचर संचारभूतैरावृत चत्वरे।
गाढकंठग्रहालग्ने शुभगोष्टजने ततः८८।
किंचिदाकुलतां प्राप्ते मेना नेत्रांबुजद्वये।
आविवेश मुखे रात्रिः सुखमद्भुतसंगमा८९।
उन्मादाय जगन्मातुः क्रमेण जठरांतरे।
आविवेशातुलं जन्म मन्यमाना कदा तु वै९०।
अरंजयद्गृहं देव्या गुहारण्ये विभावरी।
ततो जगत्या निर्वाणहेतुर्हिमगिरिप्रिया९१।
ब्राह्मे मुहूर्ते सुभगे प्रासूयत गुहारणिं।
तस्यां तु जायमानायां जंतवः स्थाणुजंगमाः९२।
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः।
नारकाणामपि तदा सुखं स्वर्गसमं महत्९३।
अभवत्क्रूरसत्वानां चेतः शांतं च देहिनाम्।
ज्योतिषामपि तेजस्तु सुतरां चाभवत्तदा९४।
वनाश्रिताश्चोषधयः स्वादवंति फलानि च।
गंधवंति च माल्यानि विमलं च नभोऽभवत्९५।
मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः।
ॠतूद्भूतफलायोग परिपाकगुणोज्ज्वला९६।
अभवत्पृथिवी देवी शालिमालाकुलापि च।
तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम्९७।
तस्मिन्गतानि साफल्यं काले निर्मलचेतसाम्।
विस्मृतानि च शास्त्राणि प्रादुर्भावं प्रपेदिरे९८।
प्रभावस्तीर्थमुख्यानां तदा पुण्यतमस्त्वभूत्।
अंतरिक्षेऽमराश्चासन्विमानेषु सहस्रशः९९।
समहेंद्रजलाधीश वायु वह्नि पुरोगमाः।
पुष्पवृष्टिं प्रमुमुचुस्तस्मिंस्तुहिन भूधरे1.43.१००।
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः।
मेरुप्रभृतयश्चापि मूर्तिमंतो महाचलाः१०१।
तस्मिन्महोत्सवे प्राप्ते दिव्याः प्रसृतपाणयः।
सागरास्सरितश्चैव समाजग्मुश्च सर्वशः१०२।
हिमशैलोऽभवल्लोके तदा सर्वैश्चराचरैः।
संसेव्यश्चाधिगम्यश्च साश्रयश्चाचलोत्तमः१०३।
अनुभूयोत्सवं देवा जग्मुः स्वान्निलयास्तदा।
देवनागेंद्रगंधर्वशैललीलावती गणैः१०४।
हिमशैलसुता देवी त्वहंपूर्विकया ततः।
क्रमेण बुद्धिमानीता विद्याञ्चानलसैर्बुधैः१०५।
क्रमेण रूपसौभाग्यप्रबोधैर्भुवनत्रये।
संपूर्णलक्षणा जाता हिमालयसुता तथा१०६।
एतस्मिन्नंतरे शक्रो नारदं देवसंमतम्।
देवर्षिमथ सस्मार कार्यसाधनतत्परः१०७।
स तु शक्रस्य विज्ञाय कांक्षितं भगवांस्तदा।
आजगाम मुदा युक्तो महेंद्रस्य निवेशनम्१०८।
तं तु दृष्ट्वा सहस्राक्षः समुत्थाय महासनात्।
यथार्हेण तु पाद्येन पूजयामास वासवः१०९।
शक्रप्रणिहितां पूजां प्रतिगृह्य यथाविधि।
नारदः कुशलं देवमपृच्छत्पाकशासनम्११०।
पृष्टे च कुशले शक्रः प्रोवाच वचनं प्रभुः।
इंद्र उवाच-।
कुशलस्यांकुरस्तावत्संवृत्तो भुवनत्रये१११।
तत्फलोद्भवसंपत्तौ त्वं मया विदितो मुने।
वेत्स्येव तत्समस्तं त्वं तथापि परिचोदितः११२।
निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने।
तद्यथाशैलजा देवी योगं यायात्पिनाकिना११३।
शीघ्रं तथोद्यमः सर्वैरस्मत्पक्षैर्विधीयताम्।
अवगम्यार्थमखिलं तत आमंत्र्य नारदः११४।
शीघ्रं जगाम भगवान्हिमशैलनिकेतनम्।
तत्र द्वारे स विप्रेंद्रश्चित्रवेत्रलताकुले११५।
वंदितो हिमशैलेन निर्गतेन पुरो मुनिः।
सह प्रविश्य भवनं भुवो भूषणतां गतम्११६।
निवेदिते स्वयं हैमे हिमशैलेन विस्तृते।
महासने मुनिवरो निषसादातुलद्युतिः११७।
यथार्हमर्घ्यं पाद्यं च शैलस्तस्मै न्यवेदयेत्।
मुनिः स प्रतिजग्राह तमर्घ्यं विधिवत्तदा११८।
गृहीतार्घम्मुनिश्रेष्ठमपृच्छत्श्लक्ष्णया गिरा।
कुशलं तपसः शैलः शनैः फुल्लाननांबुजः११९।
मुनिरप्यद्रिराजानमपृच्छत्कुशलं तदा।
नारद उवाच-।
अहो धर्मोचितस्तेऽस्ति संनिवेशो महागिरे१२०।
पृथुत्वं मनसा तुल्यं कंदराणां तवानघ।
गुरुत्वं ते गुणौघानां स्थावरादतिरिच्यते१२१।
प्रसन्नता च तोयस्य मुनिभ्यश्चाधिका तव।
न लक्षयामः शैलेन्द्र कुत्राविनयिता स्थिता१२२।
नाना तपोभिर्मुनिभिर्ज्वलनार्कसमप्रभैः।
पावनैः पावितो नित्यं त्वं कंदरसमाश्रयैः१२३।
अवमत्य विमानानि स्वर्गवासविरागिणः।
पितुर्गृहइवासीना देवगंधर्वकिन्नराः१२४।
अहो धन्योसि शैलेन्द्र यस्य ते कंदरं हरः।
अध्यास्ते लोकनाथो हि रामध्यानपरायणः१२५।
इत्युक्तवति देवर्षौ नारदे सादरं गिरा।
हिमशैलस्य महिषी मेना मुनिदिदृक्षया१२६।
अनुयाता दुहित्रा तु स्वल्पालिपरिचारिका।
लज्जाप्रणयनम्राङ्गी प्रविवेश निकेतनम्१२७।
यत्र स्थितो मुनिवरः शैलेन सहितो वशी।
तं दृष्ट्वा तेजसो राशिं मुनिं शैलप्रिया तदा१२८।
ववंदे गूढवदना पाणिपद्मकृताञ्जलि।
तां विलोक्य महाभागां देवर्षिरमितद्युतिः१२९।
आशीर्भिरमृतोद्गाररूपाभिस्तां व्यवर्द्धयत्।
ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका१३०।
एक्षिष्ट नारदं देवी मुनिमद्भुतरूपिणम्।
एहि वत्सेति साप्युक्ता ॠषिणा स्निग्धया गिरा१३१।
कंठे गृहीत्वा पितरमङ्के सा तु समाविशत्।
उवाच माता तां देवीमभिवंदय पुत्रिके१३२।
भगवंतं तपोधन्यं पतिमाप्स्यसि संमतम्।
इत्युक्ता तु ततो मात्रा वस्त्रेण पिहितानना१३३।
किंचित्कंपितमूर्द्धा तु वाक्यं नोवाच किंचन।
ततः पुनरुवाचेदं वाक्यं माता सुतां तदा१३४।
वत्से वंदय देवर्षिं ततो दास्यामि ते शुभम्।
रत्नक्रीडनकं रम्यं स्थापितं यच्चिरं मया१३५।
इत्युक्ता सा ततो वेगादुद्गत्य चरणौ तदा।
ववंदे मूर्ध्नि संधाय पाणिपंकजकुड्मलम्१३६।
कृते तु वंदने तस्या माता सखिमुखेन तु।
चोदयामास शनकैस्तस्याः सौभाग्यदर्शिताम्१३७।
शरीरलक्षणानां च परिज्ञानाय कौतुकात्।
स्त्रीस्वभावात्स्वदुहितुश्चिंतां हृदि समुद्वहन्१३८।
ज्ञात्वा तदिंगितं शैलो महिष्याहृदयेन तु।
अनुदीर्णाकृतिर्मेने रम्यमेतदुपस्थितम्१३९।
चोदितः शैलमहिषी सख्या मुनिवरस्ततः।
स्मिताननो महाभागो वाक्यं प्रोवाच नारदः१४०।
न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जितः।
उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः१४१।
सुच्छायास्या भविष्येयं किमन्यद्बहु भाष्यते।
श्रुत्वैतत्संभ्रमाविष्टो ध्वस्तधैर्यो हिमाचलः१४२।
नारदं प्रत्युवाचाथ साश्रुकंठो महागिरिः।
हिमवानुवाच-।
संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः१४३।
सृष्ट्या चावश्यभाविन्या केनाप्यतिशयात्मना।
कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम्१४४।
यो जायते हि यद्बीजाज्जनितुः सोर्थसाधकः।
जनिता चापि जातस्य न कश्चिदिति च स्फुटम्१४५।
स्वकर्मणैव जायंते विवधा भूतजातयः।
अंडजोह्यंडजाज्जातः पुनर्जायेत मानवः१४६।
मानुषोपि सरीसृप्यां मानुषत्वेन जायते।
तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु१४७।
अपुत्रजन्मनः शेषाः प्राणिनः समवस्थिताः।
मनुजास्तत्र सुतरां नयेन सहधर्मिणः१४८।
क्रमेणाश्रमसंप्राप्तिर्ब्रह्मचारिव्रतादनु।
तस्य कर्तुर्नियोगेन संसारो येन वर्धितः१४९।
संसारस्य हि नोत्पत्तिः सर्वे स्युर्यदि निर्गृहाः।
कर्त्रा तु शास्त्रेषु सदा सुतलाभः प्रशंसितः1.43.१५०।
प्राणिनां मोहनार्थाय नरकत्राणकारणात्।
स्त्रिया विरहिता सृष्टिर्जंतूनां नोपपद्यते१५१।
स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभागिनी।
शास्त्रालोचनसामर्थ्याद्दूषितं तासु कर्तृणा१५२।
तस्यां नोपरिभावज्ञा भवेदेति च वेधसा।
शास्त्रेषूक्तमसंदिग्धं बहुवारं महाफलं१५३।
दशपुत्रसमा कन्या यापि स्याच्छीलवर्जिता।
वाक्यमेतत्फलभ्रष्टं पुंसां ग्लानिकरं फलं१५४।
कन्या हि कृपणा शोच्या पितुर्दुःखविवर्द्धिनी।
यापि स्यात्पूर्णसर्वार्था पतिपुत्रसमन्विता१५५।
किं पुनर्दुर्भगा हीना पतिपुत्रधनादिभिः।
त्वं चोक्तवान्सुता या मे शरीरे दोषसंग्रहम्१५६।
अहो मुह्यामि शुष्यामि ग्लामि सीदामि नारद।
अयुक्तमपि वक्तव्यमप्राप्यमपि सांप्रतम्१५७।
अनुग्रहाय मे छिन्धि दुःखं कन्याश्रयं मुने।
परिच्छिन्नेप्यसंदिग्धे मनः परिभवाश्रयात्१५८।
तृष्णा मुष्णाति निष्णातं फललोभाश्रयात्पुनः।
स्त्रीणां हि परमं जन्म कुलानामुभयात्मनाम्१५९।
इहामुत्र सुखायोक्तं सत्पतिप्राप्तिसंज्ञितम्।
दुर्लभत्वात्सतः स्त्रीणां विगुणोपि पतिः किल१६०।
न प्राप्यते विना पुण्यैः पतिर्नार्याः कदाचन।
यतो निस्साधनो धर्मः परिणामोत्थिता रतिः१६१।
धनं जीवितपर्यंतं पत्यौ नार्याः प्रतिष्ठितम्।
निर्द्धनो दुर्मुखो मूर्खः सर्वलक्षणवर्जितः१६२।
दैवतं परमं नार्याः पतिरुक्तः सदैव हि।
त्वया देवर्षिणा प्रोक्तं न जातोऽस्याः पतिः किल१६३।
एतद्दौर्भाग्यमतुलमसंख्यं च दुरुद्वहम्।
चराचरे भूतसर्गे चिंता सा व्यापिनी मुने१६४।
स न जात इति श्रुत्वा ममेदं व्याकुलं मनः।
मनुष्यदेवजातीनां शुभाशुभनिवेदकम्१६५।
लक्षणं हस्तपादाभ्यां लक्षणं विहितं किल।
सेयमुत्तानहस्तेति त्वयोक्ता मुनिपुंगव१६६।
उत्तानहस्तता प्रोक्ता याचतामेव नित्यका।
शुभोदयानां धन्यानां न कदाचित्प्रयच्छताम्१६७।
सुच्छाययास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ।
तत्रापि श्रेयसी ह्याशा मुने न प्रतिभाति नः१६८।
शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः।
इत्युक्त्वा विरते शैले महादुःखविचारिणि१६९।
स्मितपूर्वमुवाचेदं नारदो देवपूजितः।
नारद उवाच-।
हर्षस्थाने च महति त्वया दुःखं निरुच्यते१७०।
अपरिच्छिन्नवाक्यार्थो मोहं यासि महागिरे।
इमां शृणु गिरं मत्तो रहस्यपरिनिष्ठिताम्१७१।
समाहितो महाशैल मयोक्तस्य विचारणाम्।
न जातोस्याः पतिर्देव्या यन्मयोक्तं हिमाचल१७२।
स न जातो महादेवो भूतभव्यभवोद्भवः।
शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः१७३।
ब्रह्मरुद्रेन्द्रमुनयो गर्भजन्मजरार्दिताः।
तस्य ते परमेशस्य सर्वे क्रीडनका गिरे१७४।
ब्रह्मांडतस्तदिच्छातः संभूतो भुवनप्रभुः।
आत्मनो न विनाशोस्ति स्थावरांतेपि भूधर१७५।
संसारे जायमानस्य म्रियमाणस्य देहिनः।
नश्यते देह एवात्र नात्मनो नाश उच्यते१७६।
ब्रह्मादिस्थावरांतोऽयं संसारो यः प्रकीर्तितः।
स जन्ममृत्युदुःखार्तो ह्यनिशं परिवर्तते१७७।
महादेवोऽचलःस्थाणुर्न जातो जनकोऽजरः।
भविष्यति पतिः सोऽस्या जगन्नाथो निरामयः१७८।
यदुक्तं च मया देवी लक्षणैर्वर्जिता तव।
शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम्१७९।
लक्षणं दैविको ह्यंकः शरीरावयवाश्रयः।
स चायुर्धनसौभाग्यपरिणामप्रकाशकः१८०।
अनंतस्याप्रमेयस्य सौभाग्यस्य तु भूधर।
नैवांको लक्षणाकारः शरीरे संविधीयते१८१।
अतोऽस्या लक्षणं गात्रे शैल नास्ति महामते।
यच्चाहमुक्तवानस्या उत्तानकरता सदा१८२।
उत्तानो वरदः पाणिरेष देव्याः सदैव तु।
सुरासुरमुनिव्रातवरदात्री भविष्यति१८३।
यच्च प्रोक्तं मया पादौ सुच्छायौ व्यभिचारिणौ।
मत्तः शृणु त्वमस्यापि व्याख्योक्तिं शैलसत्तम१८४।
चरणौ पद्मसंकाशौ स्वच्छावस्या नखोज्वलौ।
सुरासुराणां नमतां किरीटमणिकांतिभिः१८५।
विचित्रवर्णैः पश्यद्भिः सुच्छायौ प्रतिबिंबितौ।
एषा भार्या जगद्भर्तुर्वृषांकस्य महीधर१८६।
जननी सर्वलोकस्य संभूताभूतभाविनी।
शिवेयं पावनायैव त्वत्क्षेत्रे पावनद्युतिः१८७।
तद्यथाशीघ्रमेवैषा योगं यायात्पिनाकिनः।
तथा विधेयं विधिवत्त्वया शैलेंद्रसत्तम१८८।
अस्त्यत्र हि महत्कार्यं देवानां हिमभूधर।
एवं श्रुत्वा तु शैलेंद्रो नारदात्सर्वमेव हि१८९।
स्वमात्मानं पुनर्जातं मेने मेनापतिस्तदा।
उवाच चापि संहृष्टो नारदं तु हिमाचलः१९०।
दुस्तरान्नरकाद्घोरादुद्धृतोस्मि त्वया विभो।
पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः१९१।
हिमाचलोस्मि विख्यातस्त्वया मुनिवराधुना।
हिमाचलाच्छतगुणां प्रापितोस्मि समुन्नतिं१९२।
आनंदादेव चाहारि हृदयं मे महामुने।
नाध्यवस्यति कृत्यानां विभागप्रविचारणम्१९३।
भवद्विधानां नियतममोघं दर्शनं मुने।
भवद्भिरेव हि प्रोक्तं निवासायात्मरूपिणाम्१९४।
मुनीनां देवतानां च स्वयं कर्तास्मि कल्मषम्।
तथापि वस्तुन्येकस्मिन्नाज्ञा मे संप्रदीयताम्१९५।
इत्युक्तवति शैलेंद्रे स तदा हर्षनिर्भरः।
उवाच नारदो वाक्यं कृतं सर्वमिति प्रभो१९६।
सुरकार्ये स एवार्थस्तवापि सुमहत्तरः।
इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं ततः१९७।
स गत्वा देवभवनं महेंद्रं संददर्श ह।
ततोनुरूपे स मुनिरुपविष्टो महासने१९८।
पृष्टः शक्रेण प्रोवाच गिरिजासंश्रयां कथाम्।
नारद उवाच-।
यन्मह्यमुक्तं कर्तव्यं तन्मया कृतमेव हि१९९।
किंतु पंचशरस्येषु गोचरत्वमपेक्षितम्।
इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना1.43.२००।
चूतांकुरास्त्रं सस्मार भगवान्पाकशासनः।
सस्मृतस्तु तदा क्षिप्रं सहस्राक्षेण धीमता२०१।
उपतस्थे रतियुतः सविलासो झषध्वजः।
प्रादुर्भूतं च तं दृष्ट्वा शक्रः प्रोवाच मन्मथम्२०२।
शक्र उवाच-।
उपदेशेन बहुना किं त्वां प्रति रतिप्रिय।
मनोभवोसि तेन त्वं वेत्सि भूतमनोगतम्२०३।
तद्यथानुक्रमं तु त्वं कुरु नाकसदां प्रियम्।
शंकरं योजय क्षिप्रं गिरिपुत्र्या मनोभव२०४।
संयुक्तो मधुनानेन गच्छ रत्या सहायवान्।
इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये२०५।
प्रोवाच पंचबाणोथ वाक्यं भीतः शतक्रतुम्।
काम उवाच-।
अनया देव सामग्र्या मुनिदानवभीमया२०६।
दुःसाध्यश्शंकरो देवः किं न वेत्सि जगत्प्रभो।
तस्य देवस्य वेत्थ त्वं कारणं पदमव्ययम्२०७।
प्रायः प्रसादे कोपेपि सर्वं हि महतां महत्।
सर्वोपभोगसारं हि सौदर्यं स्वर्गसंभवम्२०८।
विशेषं कांक्षतां शक्र सामान्याद्भ्रंशनं फलात्।
श्रुत्वैतद्वचनं शक्रस्तमुवाचामरैर्युतः२०९।
शक्र उवाच-।
वयं प्रमाणं ते तत्र रतिकांत न संशयः।
संदंशेन विना शक्तिरयस्कारस्य नेष्यते२१०।
कस्यचिच्च क्वचिद्दृष्टं सामर्थ्यं न तु सर्वतः।
इत्युक्तः प्रययौ कामः सखायं मधुमाश्रितः२११।
रतियुक्तो जगामाशु प्रस्थं तुहिनभूभृतः।
स तु प्राप्याकरोच्चिंतां कार्यस्योपायपूर्विकाम्२१२।
महात्मानो हि निष्कंपा मनस्तेषां सुदुर्जयम्।
तदादावेव संक्षोभ्य नेत्थं तस्य जयो भवेत्२१३।
संसिद्धिः प्रायशश्चैव पूर्वं संशोध्य मानसम्।
कथमेवंविधैर्भावैर्द्वेषानुगमनं विना२१४।
क्रोधः क्रूरतरात्संगाद्भीषणेर्ष्या महासखी।
चापल्यान्मूर्ध्नि विध्वस्त धैर्याधारमहाबला२१५।
तामस्य विनियोक्ष्यामि मनसो विकृतिं पुरः।
पिधाय धैर्यद्वाराणि संतोषमपकृष्य च२१६।
अवगंतुं हि मां तत्र न कश्चिदिह पंडितः।
विकल्पमात्रसंस्थानं विरूपाक्षमनोभवम्२१७।
प्रविश्याथ क्रियारंभी गंभीरावर्तदुस्तरः।
भविष्यामि हरस्याहं तपःस्थस्य स्थिरात्मनः२१८।
इंद्रियग्राममावृत्य रम्यसाधनसंविधिः।
चिंतयित्वेति मदनो भूतभर्तुस्तदाश्रमम्२१९।
जगाम जगतीसारं सरलद्रुम वेदिकम्।
शांतसत्वसमाकीर्णमचलं प्राणिसंकुलम्२२०।
नानापुष्पलताजालं सानुसंस्थगणेश्वरम्।
निर्व्यग्रवृषभोद्घुष्टं नीलशाद्वलसानुकम्२२१।
तत्रापश्यत्त्रिनेत्रस्य रम्यंकं चिद्द्वितीयकम्।
वीरकं वीरलोकेशमीशानसदृशद्युतिम्२२२।
पक्वं कुंकुमकिंजल्कपुंजपिंगजटासटम्।
वेत्रपाणितमव्यग्रमुग्रं चाभद्रभूषणम्२२३।
ततो निमीलितोन्निद्र पद्मपत्रांतलोचनम्।
प्रेक्षमाणमृजुस्थानं नासावंशाग्रगोचरम्२२४।
अतीवरम्यसिंहेंद्र चर्मलंबोत्तरीयकम्।
श्रवणाहिफणोन्मुक्त निश्वासानलपिंगलं२२५।
प्रेंखत्कपोलपर्यंत चुंबिलंबिजटाचयम्।
कृतवासुकिपर्यंत नाभिमूलनिवेशितम्२२६।
ब्रह्मांजलिस्थनासाग्र निबद्धोरगभूषणम्।
ददर्श शंकरं कामः क्रमप्राप्तांतिकः शनैः२२७।
ततो भ्रमरझंकारमालंब्य द्रुमसानुगम्।
प्रविष्टः कर्णरंध्रेण भवस्य मदनो मनः२२८।
शंकरस्तमथाकर्ण्य मधुरं मदनाश्रयम्।
सस्मार दक्षतनयां दयितां रंतुमानसः२२९।
ततः शिवस्य शनकैस्तिरोधा याति निर्मला।
समाधिभावना तस्थौ लक्ष्य प्रत्यक्षरूपिणी२३०।
ततस्तन्मयतां यातः प्रत्यूह पिहिताशयः।
विवेश विबुधाधीशो विकृतिं मदनात्मिकाम्२३१।
ईषत्क्रोधसमाविष्टो धैर्यमालंब्य धूर्जटिः।
निरस्यमदनंस्थित्वायोगमायासमावृतः२३२।
स तया माययाविष्टो जज्वाल मदनस्ततः।
इच्छाशरीरो दुर्ज्ञेयो दोषावासो महाशयः२३३।
हृदयान्निर्गतः सोथ वासनाव्यसनात्मकः।
बहिस्थलं समासाद्य उपतस्थे झषध्वजः२३४।
अनुयातो हि साह्येन मित्रेण मधुना सह।
सहकारतरोर्दृष्ट्वा मंदमारुतनिर्धुतं२३५।
स्तबकं मदनो रम्यं हरवक्षसि सत्वरं।
मुमोच मोहनं नाम मार्गणं मकरध्वजः२३६।
स तस्य हृदये शुद्धे नामशाली महाशरः।
पपात परुषः प्रांशुः पुष्पबाणो विमोहनः२३७।
ततः करणसंदोहे विद्धे तु हृदये भवः।
बभूव भूतपो कंप्य धैर्योपि मदनोन्मुखः२३८।
ततः प्रभुत्वाद्भावानामावेशं स्वमपश्यत।
वाक्यं बहु बभाषेथ प्रत्यूहप्रसवात्मकं२३९।
ततः कोपानलोद्भूत घोर हुंकारभीषणे।
बभूव वदने नेत्रं तृतीयमनलाकुलं२४०।
रुद्रस्य रौद्रवपुषो जगत्संहारभैरवम्।
तदंतिकस्थे मदने व्यस्फारयत धूर्जटिः२४१।
तन्नेत्रविस्फुलिंगेन क्रोशतां नाकवासिनाम्।
गमितो भस्मतां तूर्णं कंदर्पः कामदर्पकः२४२।
स तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोनलः।
व्यजृंभत जगद्दग्धुं ज्ञात्वा हुंकारघस्मरं२४३।
ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम्।
सहकारे मधौ चन्द्रे सुमनः स्स्वपरेष्वपि२४४।
भृंगेषु कोकिलास्ये च विभागेन स्मरानलं।
स बाह्याभ्यंतरे विद्धो हरोथ स्मरमार्गणैः२४५।
भागेष्वेतेषु संविष्टं वीक्षती बहुनाशनं।
विभक्तं लोकसंक्षोभकरं दुर्वारजृंभितं२४६।
तत्प्राप्तिस्नेहसंपूर्णकामेन हृदये किल।
ज्वलन्नहर्निशं भीमो दुःखस्य वशगोऽभवत्२४७।
विलोक्य हरहुंकार ज्वालाभस्मीकृतं स्मरं।
विललाप रतिः क्रूरं बंधुना मधुना सह२४८।
ततो विलप्य बहुशो मधुना परिसांत्विता।
जगाम शरणं देवमिंदुमौलित्रिलोचनं२४९।
भृंगानुयातां संगृह्य पुष्पितां सहकारजां।
लतां पत्रद्रुमच्छन्नां जातां परभृतां सखीं 1.43.२५०।
निबध्य तु जटाजूटं कुटिलैरलकै रतिः।
उद्वर्त्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना२५१।
जानुभ्यामवनिं गत्वा प्रोवाचेन्दुविभूषणम्।
रतिरुवाच।
नमः शिवायास्तु मनोमयाय जगन्मयायाद्भुतवर्त्मने नमः२५२।
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय।
नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय२५३।
नमोस्तु मायामदनाश्रयाय नमो निसर्गामलभूषिताय।
नमोस्त्वमेयाय गुणायनाय नमोस्तु सिद्धाय पुरातनाय२५४।
नमः शरण्याय नमो गुणाय नमोस्तु ते भीमगणानुगाय।
नमोस्तु नानाभुवनर्द्धिकर्त्रे नमोस्तु भक्ताभिमतप्रदाय२५५।
नमोथ कर्मप्रसवे नमः सदा अनंतरूपाय सदैव तुभ्यम्।
असह्यकोपाय सदैव तुभ्यं शशांकचिह्नाय नमोस्तु तुभ्यम्२५६।
असीमलीलापरमस्तुताय वृषेंद्रयानाय पुरांतकाय।
नमः प्रसिद्धाय महौषधाय नमोस्तु नानाविधरूपकाय२५७।
नमोस्तु कालाय नमः कलाय नमोस्तु ते कालकलातिगाय।
चराचराचार्यविचार्यवर्यमाचार्यमुत्प्रेक्षितभूतसर्गं२५८।
त्वामिंदुमौलिशरणं प्रपन्ना प्रियाप्तयेहं सहसा महेशं।
प्रयच्छ मे कामयशः समृद्धिं पतिं विना तं भगवन्न जीवे२५९।
प्रियः प्रियायाः पुरुषेश नित्यस्ततो परः को भुवनेष्विहास्ति।
प्रभुः प्रभावी प्रभवः प्रियाणां प्रवीणपर्याय परापरं तपः२६०।
त्वमेव नाथो भुवनस्य गोप्तां दयालुरुन्मूलितभक्तभीतिः।
इत्थं स्तुतः शंकरइंद्रमौलिर्वृषाकपिर्मन्मथकांतया तु२६१।
तुतोष दोषाकरखंडधारी उवाच चैनां मधुरं निरीक्ष्य।
शंकर उवाच।
भविष्यति च कामोयं काले कांते चिरादथ२६२।
अनंग इति लोकेषु स विख्यातिं गमिष्यति।
इत्युक्ता शिरसा वंद्य गिरीशं कामवल्लभा२६३।
जगामोपवनं चान्यद्रतिस्तुहिन पर्वते।
रुरोद चापि बहुशो दीना रम्ये स्थले स्थले२६४।
मरणव्यवसायापि निवृत्ता च शिवाज्ञया।
अथ नारदवाक्येन चोदितो हिमभूधरः२६५।
कृताभरणसंस्कारां कृतकौतुकमंगलां।
स्वर्गपुष्पकृतापीडां शुभ्रचीनांशुकांबराम्२६६।
सखीभ्यां संयुतां शैलो गृहीत्वा स्वसुतां ततः।
जगाम सुभगे योगे तदा संपूर्णमानसः२६७।
सकाननान्युपाक्रम्य वनान्युपवनानि च।
ददर्श रुदतीं नारीमप्रतर्क्यां महौजसम्२६८।
न रूपेणेदृशी लोके रम्येषु वनसानुषु।
कौतुकेन परामृष्टस्तां दृष्ट्वा रुदतीं गिरिः२६९।
उपसृप्य ततस्तस्या निकटं सोप्यपृच्छत।
हिमवानुवाच-।
कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि२७०।
नैतदल्पमहं मन्ये कारणं लोकसुंदरि।
सा तस्य वचनं श्रुत्वा उवाच मधुना सह२७१।
रुदंती शोकवचनं श्वसंती दैन्यवर्धनं।
रतिरुवाच-।
कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत२७२।
गिरावस्मिंश्च भगवान्गिरिशस्तपसि स्थितः।
तेन प्रत्यूहरुष्टेन क्रोधाद्विस्फार्य लोचनं२७३।
विमुच्याग्निशिखाज्वालां कामो भस्मावशेषितः।
अहं तु शरणं याता तं देवं भयविह्वला२७४।
स्तुतवत्यथ संतुष्टस्ततो मां गिरिशोऽब्रवीत्।
तुष्टोहं कामदयिते कामोत्पत्तिर्भविष्यति२७५।
त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः।
लप्स्यते कांक्षितं कामं निवर्तमरणादपि२७६।
प्रतीक्षमाणा तद्वाक्यमाशावेशवशादहं।
शरीरं परिरक्षिष्ये किंचित्कालं महाद्युते२७७।
इत्युक्तस्तु तया रत्या शैलः संभ्रमभीषणः।
पाणावादाय तनयां गंतुमैच्छत्स्वकं पुरं२७८।
भाविनोऽवश्यभावित्वाद्भवित्री भूतभाविनी।
लज्जमाना सखिमुखैरुवाच पितरं गिरिं२७९।
शैलपुत्र्युवाच-।
दुर्भगेन शरीरेण किं ममानेन कारणं।
कथं च तां दशां प्राप्तश्शङ्करो मे पतिर्भवेत्२८०।
तपोभिः प्राप्यतेभीष्टं नासाध्यं तु तपस्यतः।
दुर्भगत्वं वृथा लोके विहिते सति साधने२८१।
तपसि भ्रष्टसंदेहा ततः स्वार्थजिगीषया।
एवं तपः करिष्येहं यामीत्युक्तवतीं सुताम्२८२।
उवाच वाचा शैलेंद्रो गद्गदस्वरवर्णया।
हिमवानुवाच-।
उमेति चापलं पुत्रि न क्षमं तावकं वपुः२८३।
सोढुं क्लेशानुरूपस्य तपसः सौम्यदर्शने।
भावीन्यपि च कार्याणि पदार्थानि सदैव तु२८४।
भाविनोर्था भवंत्येव बहवोऽनिच्छतोपि हि।
तस्मान्न तपसा तेस्ति बाले किंचित्प्रयोजनम्२८५।
भवनं चैव गच्छामि चिंतयिष्यामि तत्र वै।
इत्युक्ता तु यदा नैव गृहमन्वेति शैलजा२८६।
ततोद्रिश्चिंतयाविष्टः स्वसुतां प्रशशंस च।
ततोंतरिक्षे दिव्या च वागभूद्भुवनत्रये२८७।
उमेति चापलं पुत्रि त्वयोक्ता तनया यतः।
उमेति नाम तेनास्या भुवनेषु भविष्यति२८८।
सिद्धिर्मूर्तिमती त्वेषा साधयिष्यति चिंतितम्।
इति श्रुत्वा तु वचनं स तदाकाशमंडले२८९।
अनुज्ञाय सुतां शैलो जगामाशु स्वमंदिरम्।
पुलस्त्य उवाच-।
शैलजापि ययौ शैलमगम्यमपि दैवतैः२९०।
सखीभ्यामनुयाता तु नियता नगराजजा।
शृंगं हिमवतः पुण्यं नानाधातुविभूषितम्२९१।
दिव्यपुष्पलताकीर्णं भ्रमरोद्घुष्टपादपम्।
दिव्यप्रस्रवणोपेतं मनोरथशतोज्ज्वलम्२९२।
नानापक्षिसमायुक्तं चक्रवाकोपशोभितम्।
जलजस्थलजैः पुण्यैः प्रफुल्लैरुपशोभितम्२९३।
चित्रकंदरसंगुह्यं दिव्यगेहसमन्वितम्।
विहंगसंघसंघुष्टं कल्पपादपसंकटम्२९४।
तत्रापश्यन्महाशाखं शाखिनं हरितच्छदम्।
सर्वर्तुकुसुमोपेतं चक्रवाकोपशोभितम्२९५।
नानापुष्पशताकीर्णं नानाविधफलान्वितम्।
त्यक्तं सूर्यस्य रुचिभिर्भिन्नसंहतपल्लवम्२९६।
तत्रांबराणि संत्यज्य भूषणानि च शैलजा।
संवीता वल्कलैर्दिव्यैर्दर्भनिर्मितमेखला२९७।
त्रिःस्नाता पाटलाहारा बभूव शरदां शतम्।
शतमेकेन जीर्णेन पर्णेनावर्त्तयत्तदा२९८।
निराहारा शतं साभूत्समानां तपसो निधिः।
तत उद्वेजिताः सर्वे प्राणिनस्तपसोग्निना२९९।
ततः सस्मार भगवान्मुनीन्सप्त शतक्रतुः।
ते समागम्य मुदिताः सर्वे समुदितास्तथा1.43.३००।
पूजितास्ते महेंद्रेण पप्रच्छुस्तत्प्रयोजनम्।
किमर्थं हि सुरश्रेष्ठ संस्मृतास्तु वयं त्वया३०१।
शक्रः प्रोवाच शृण्वंतु भगवंतः प्रयोजनम्।
हिमाचले तपो घोरं तप्यते भूधरात्मजा३०२।
तस्याभिमतयोगेन भवंतः कर्तुमर्हथ।
तपः समापनं देव्या जगदर्थे त्वरान्विताः३०३।
तथेत्युक्त्वा ततः शैलं सिद्धसंघातसेवितम्।
ऊचुरागम्य मुनयस्तामथो मधुराक्षरम्३०४।
पुत्रि कस्ते व्यवसितः कामः कमललोचने।
तानुवाच ततो देवी सादरं गौरवान्मुनीन्३०५।
देव्युवाच-।
तपस्यंतो महाभागाः प्रोह्य मौनं भवादृशां।
वंदनाय नियुक्ता धीर्याचयत्यविकल्पितम्३०६।
सुप्रसन्नमुखा यूयं गृहीत्वासनमादितः।
उपविष्टाः श्रमं मुक्त्वा ततः प्रक्ष्यथ मामनु३०७।
इत्युक्तास्ते ततश्चक्रुस्तत्रासनपरिग्रहम्।
सा च तान्विधिवत्पूर्वं पूजयित्वा विधानतः३०८।
उवाचादित्यसंकाशान्मुनीन्सप्तॠषीन्शनैः।
त्यक्त्वा व्रतात्मकं मौनं नत्वा च विधिवन्मुनीन्३०९।
भगवंतोपि मौनांते तस्याः सप्तर्षयोप्यथ।
गौरवाधारतां प्राप्तां पप्रच्छुस्तां पुनस्तथा३१०।
सापि गौरवगर्भेण मनसा चारुहासिनी।
मुनीन्सर्वांस्तथालोक्य प्रोवाच प्रोह्य वाग्यमम्३११।
भगवंतो विजानीथ प्राणिनां मनसेप्सितम्।
शरीरादिभिरत्यर्थं कदर्थ्यं ते हि देहिनः३१२।
केचित्तु निपुणास्तत्र घटंते विविधोद्यमैः।
उपायैर्दुर्लभान्भावान्प्राप्नुवंति ह्यतंद्रिताः३१३।
अपरे तु परिच्छिद्य नानाकारानुपक्रमान्।
देहांतरार्थं सारंभमाश्रयंति हि तद्व्रतम्३१४।
ममत्वाकाशसंभूतकुसुमस्रग्विभूषितम्।
विंध्यशृंगं स्प्रष्टुकामो हस्तः प्रसरते मुहुः३१५।
अहं किल भवं देवं पतिं प्राप्तुं समुद्यता।
प्रकृत्यैव दुराराध्यं तपस्यंतं च संप्रति३१६।
सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयं।
सांप्रतं चापि निर्दग्धो मदनो वीतरागिणा३१७।
कथमाराधयेदीशं मादृशी तादृशं शिवम्।
इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः३१८।
ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम्।
मुनय ऊचुः-।
द्विविधन्तु सुखं तावत्पुत्रि लोके विभाव्यते३१९।
शरीरस्यास्य संयोगश्चेतसश्चापि निर्वृतिः।
प्रकृत्या तु स दिग्वासा भीमो भस्मास्थिभूषणः३२०।
कपाली भिक्षुको नग्नो विरूपाक्षोऽस्थिरक्रियः।
प्रमत्तोन्मत्तकाकारो बीभत्सो कृतसंग्रहः३२१।
पत्या न तेन चास्त्यर्थो मूर्तानर्थेन कांक्षितः।
यदि स्वस्य शरीरस्य सुखमिच्छसि शाश्वतम्३२२।
तत्कथं ते महादेवाद्भूतभाजो जुगुप्सितात्।
स्रवन्नरवसासास्थिकपालकृतभूषणात्३२३।
श्वसदुग्रभुजंगेन्द्रकृतभूषणभूषितात्।
श्मशानवासिनो रौद्रप्रमथानुगतादपि३२४।
सुरेन्द्रमकुटव्रातनिघृष्टचरणोऽरिहा।
हरिरस्ति जगद्धाता श्रीकान्तोऽनन्तमूर्तिमान्३२५।
जप्यो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः।
देवतानां निधिश्चास्ति ज्वलनस्सर्वकामधुक्३२६।
वायुरस्ति जगद्धाता यः प्राणस्सर्वदेहिनाम्।
तथा वैश्रवणो राजा सर्वार्थमहिमा प्रभुः३२७।
एभ्य एकतमं कस्मान्न त्वं संप्राप्तुमिच्छसि।
उतान्यस्मादिह प्राप्यं सुखं ते मनसे हितम्३२८।
एवमेतत्तथा पुत्रि प्रभावो लोकसम्पदाम्।
अस्मिन्देहे परे वापि कल्याणप्राप्तये तव३२९।
पितुरेवास्ति ते सर्वं सुरेभ्यो यन्निवेदितम्।
वरस्य प्राप्तये क्लेशस्स चाप्यत्राफलस्तरुः३३०।
प्रायेण प्रार्थितो ह्यर्थस्समर्थो ह्यतिदुर्लभः।
स्वस्थानविनियोगित्वात्पुत्रि तत्रापि लभ्यते३३१।
इत्युक्तवत्सु कुपिता मुनिवर्येषु शैलजा।
उवाच क्रोधरक्ताक्षी विस्फुरद्दशनच्छदा३३२।
देव्युवाच-।
असद्ग्रहस्य का नीतिर्व्यसनस्य क्व यंत्रणा।
विपरीतार्थबोद्धारः सत्पथे केन योजिताः३३३।
एवं मां वित्थ दुष्प्रज्ञामस्थानासद्ग्रहप्रियाम्।
न मां प्रतिविचारोस्ति यदहंकारमानिनी३३४।
प्रजापतिसमाः सर्वे भवंतः सर्वदर्शिनः।
न नूनं वित्थ तं देवं शाश्वतं जगतः प्रभुम्३३५।
अजमीशानमव्यक्तममेयमहिमोदयम्।
आस्तां तत्कर्मसद्भावं संबोधं तावदावृतम्३३६।
विदुस्तं न हरि ब्रह्ममुखा अपि सुरेश्वराः।
यत्तस्यविभवं स्वोत्थं भुवनेषु विजृंभितम्३३७।
प्रकटं सर्वभूतानां तदप्यथ न वित्थ किं।
कस्यैतद्गगनं मूर्तिः कस्याग्निः कस्य मारुतः३३८।
कस्य भूः कस्य वरुणः कश्चंद्रार्कविलोचनः।
कस्यार्चयंति लोकेषु लिंगं भक्त्या सुरासुराः३३९।
यच्च ब्रह्मेश्वरा देवा विष्ण्विन्द्राद्या महर्षयः।
प्रभावं प्रभवं वापि तेषामपि न वित्थ किं३४०।
अदितेः कश्यपाज्जाता देवा नारायणादयः।
मरीचेः कश्यपः पुत्रो ह्यदितिर्दक्षपुत्रिका३४१।
मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल।
ब्रह्मा हिरण्मयादंडादेव सिद्धविभूतिकः३४२।
कस्य प्रादुरभूद्ध्यानात्प्राकृतः प्राकृतांशकः।
अथ नारायणेनैव स्वकीयेच्छा समाश्रयात्३४३।
तत्प्रेरितः प्रयात्वेष जन्म नारायणात्मकम्।
सापि कर्मण एवोक्ता प्रेरणाविवशात्मनाम्३४४।
यथोन्मादादि दुष्टस्य मतिरेव हि साभवेत्।
इष्टानेव पदार्थान्वै विपरीतान्हि मन्यते३४५।
लोकस्य व्यवहारेषु दृष्टेषु हसते सदा।
धर्माधर्मफलप्राप्तौ विष्णुमेव निबोधत३४६।
विदध्वमित्थं मुनयोऽसकृच्च मे गिरं गिरीशश्रुतिभूमिसन्निधौ।
उत्कृष्टकेदार इवावनीतले सुबीजमुष्टिं सुफलाय कर्षकाः३४७।
ते तां श्रुत्वा हि तां रम्यां प्रक्रमात्प्रक्रमक्रियाम्।
वाचंवाचां पतिप्रख्याः प्रोचुश्चस्मितसुंदराः३४८।
मुनय ऊचुः-।
जाते लोकविधाने तु सत्यं तत्कार्यमुत्तमम्।
प्रायः प्रालेयशैलस्य शंका तत्कालरूपिणः३४९।
सत्यमुत्कंठिताः सर्वे ये ये कार्यार्थमुद्यताः।
तेषां त्वरंते चेतांसि किंतु नाममहात्मनाम्1.43.३५०।
लोकयात्रानुगंतव्या विशेषेण विवक्षितैः।
यतस्तद्धर्ममेधंते तत्प्रामाण्यं परे धृताः३५१।
इत्युक्त्वा मुनयो जग्मुस्त्वरितास्तुहिनाचलम्।
तत्र ते पूजितास्तेन हिमशैलेन सादरम्३५२।
ऊचुर्मुनिवराः प्रीताः स्वल्पकं तु त्वरान्विताः।
मुनय ऊचुः-।
देवो दुहितरं साक्षात्पिनाकी तव मार्गते३५३।
तच्छीघ्रं पावयात्मानमाहुत्येवानले हुतम्।
कार्यं हि तच्च देवानां सुचिरं परिवर्तते३५४।
जगदुद्धारणायैष विधातव्यः समुद्यमः।
इत्युक्तस्तु तदा शैलो हर्षावेशवशान्मुनीन्३५५।
असमर्थोभवद्वक्तुमुत्तरं प्रार्थयन्निव।
ततो मेना मुनीन्वंद्य प्रोवाच स्नेहविक्लवा३५६।
दुहितुस्तान्मुनींश्चैव वचनं स्वयमर्थवत्।
मेनोवाच-।
यदर्थं दुहितुर्जन्म चेच्छंत्यपि महाफलं३५७।
तदेवोपस्थितं सर्वं प्रक्रमेणैव सांप्रतम्।
कुलजन्मवयोरूपविभुत्वैस्सहितोपि यः३५८।
वरस्तस्यापि नाहूय सुता देया ह्ययाचतः।
दिग्वासा जटिलः शूली दग्धकामोपि कामदः३५९।
स तु मत्सुतया घोरः कथं नाम उपास्यते।
मुनय ऊचुः-।
ऐश्वर्यमवगच्छस्व शंकरस्य सुरासुराः३६०।
आराध्यमानपादाब्ज युगलाश्च सुनिर्वृताः।
यस्योपयोगि यद्रूपं तेन तत्प्रार्थ्यते चिरम्३६१।
घोरं तपस्यते बाला तेन रूपेण निर्वृता।
यत्सा व्रतानि दिव्यानि नयिष्यति समापनम्३६२।
तदत्रावहिता तावदस्मास्वेव भविष्यति।
इत्युक्त्वा गिरिणा सार्द्धं ययुर्यत्रास्ति शैलजा३६३।
जितार्कज्वलनज्वाला तपस्तेजोमयीह्युमा।
प्रोक्ता सा मुनिभिः स्निग्धं मानिन्याह वचोर्थवत्३६४।
नाहं क्षुद्रात्किलेच्छामि ॠते शर्वात्पिनाकिनः।
स्थितं च तारतम्येन प्राणिनां परमर्द्धिदं३६५।
धीरतैश्वर्यकार्याणि प्रमाणमतुलं महत्।
यस्मान्न किंचिदपरं यच्च यस्मात्प्रवर्तते३६६।
यस्यैश्वर्यमनाद्यंतं तमहं शरणं गता।
समः सव्यवसायश्च दीर्घेण विपरीतकः३६७।
एवं निशम्य ते वाचं देव्या मुनिवरास्तदा।
आनंदाश्रुपरीताक्षाः सस्वजुस्तां तपस्विनीं३६८।
ऊचुश्च परमप्रीताः शैलजां मधुरं वचः।
ॠषय ऊचुः।
अत्यद्भुतमहो पुत्रि ज्ञानमूर्तिरिवामला३६९।
प्रसादयसि नो भावं भवभावप्रतिश्रयात्।
ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम्३७०।
त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः।
अचिरादेव तन्वंगि कामस्त्वेष भविष्यति३७१।
आदित्यस्स प्रभो याति रत्नेभ्यः का द्युतिः पृथक्।
कोऽर्थो वर्णान्स्वकांस्त्यक्त्वा तथा त्वं गिरिशं विना३७२।
यामो नेकाभ्युपायेन तमभ्यर्थयितुं वयम्।
अस्माकमपि चैषोर्थः सुतरां हृदि वर्तते३७३।
अतस्त्वमेव सा बुद्धिर्यतो नीतिस्त्वमेव हि।
अतो निःसंशयं कार्यं शंकरोपि विधास्यति३७४।
इत्युक्त्वा पूजितास्सर्वे मुनयो गिरिकन्यया।
प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत्३७५।
गंगांभः प्लावितात्मानः पिंगाबद्धजटासटाः।
भृंगानुयातपाणिस्थ मंदारकुसुमस्रजः३७६।
संप्राप्य तु गिरेः प्रस्थं ददृशुः शंकराश्रमम्।
प्रशांताशेषसत्वौघं पर्यस्तिमितकाननम्३७७।
निःशब्दक्षोभसलिल प्रयातं सर्वतो दिशम्।
तत्रापश्यंस्ततोद्वारि वीरकं वेत्रपाणिनम्३७८।
तमेते मुनयः पूज्या विनीताः कार्यगौरवात्।
ऊचुर्मधुरभाषाभिस्ते वाचं वाग्मिनां वराः३७९।
द्रष्टुं वयमिहायाताः शंकरं गुणनायकं।
त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः३८०।
त्वमेव नो गतिस्तत्र यथाकालानतिक्रमः।
स्यात्प्रार्थनैषा प्रायेण प्रतीहारमयी प्रभो३८१।
इत्युक्तो मुनिभिः सोथ गौरवात्तानुवाच ह।
सवनस्यापरां संध्यां कर्तुं मंदाकिनीं गतः३८२।
क्षणेन भाविता विप्रास्ततो द्रक्ष्यथ शूलिनम्।
इत्युक्ता मुनयस्तस्थुर्यत्नात्कार्यविचक्षणाः३८३।
गंभीरांबुधरं प्रावृट्तृषिताश्चातका यथा।
तथा क्षणेन निष्पन्न समाचारक्रियाविधिम्३८४।
वीरासनकृतोद्देशं मृगचर्मनियामितम्।
ततो विनीतो जानुभ्यामवलंब्य महीं मुदा३८५।
उवाच वीरको देवं प्रणयैकसमाश्रयम्।
संप्राप्ता मुनयः सप्त द्रष्टुं त्वां दीप्ततेजसं३८६।
विभो समादिश द्रष्टुं ततो ध्यानमिहार्हसि।
इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना३८७।
भ्रूभंगसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा।
मूर्द्धकंपेन तान्सप्त वीरकोपि महामुनीन्३८८।
आजुहाव विदूरस्थान्दर्शनाय पिनाकिनः।
त्वराबद्धजटास्ते च लंबकृष्णानिजांबराः३८९।
विविशुर्वेदिकां दिव्यां गिरीशस्य विभोस्ततः।
बद्धपाणिपुटा क्षिप्त नाकपुष्पोत्त्करास्ततः३९०।
पिनाकिपादयुगलं वंद्य नाकनिवासिनः।
ततः स्निग्धेक्षिताः संतो मुनयः शूलपाणिना३९१।
गिरीशं ते ततो दृष्ट्वा ते समं तुष्टवुर्मुदा३९२।
मुनय ऊचुः-।
अहो कृतार्था वयमेव सांप्रतं सुरेश्वरैर्वंदितपादपल्लवम्।
विलोकयामो गुणगौरवर्द्धिभिः समादिशेः कार्यमशेषरक्षणम्३९३।
ततः प्रहस्य सर्वज्ञ उवाच मुनिसत्तमान्।
भवतां यद्धृदिगतं कार्यं तत्कुरुताधुना३९४।
इत्युक्ता मुनयस्तूर्णं ययुर्यत्र च शैलजा।
बभाषिरे विभागज्ञा गिरिजां गिरिगह्वरे।
रम्यं प्रियमनोहारि मारूपं तपसादह३९५।
प्रीतस्ते शंकरः पाणिमेष प्रतिग्रहीष्यति।
वयमर्थितवंतस्ते पितरं पूर्वमागताः३९६।
पित्रा सह गृहं गच्छ वयं यामः स्वमंदिरं।
इत्युक्ता तपसः सत्यं फलमस्तीति चिंत्य सा३९७।
त्वरमाणा ययौ वेश्म पितुर्दिव्यं सुशोभितं।
सा तत्र रजनीं मेने वर्षायुतसमां सती३९८।
हरदर्शनसंजात समुत्कंठा हिमाद्रिजा।
ततो मुहूर्त्ते ब्राह्मे तु तस्याश्चक्रुः सुहृत्क्रियां३९९।
नानामंगलसंदोहान्यथावत्क्रमपूर्वकम्।
दिव्यमंगलसंयोगान्मंदिरे बहुमंगले 1.43.४००।
उपासत गिरिं मूर्त्ता ॠतवः सर्वकामिकाः।
वायवः सुखदाश्चासन्संमार्जनविधौ गिरेः४०१।
हर्म्येषु श्रीः स्वयं देवी कृतनाना प्रसाधना।
कांतिः सर्वेषु भावेषु ॠद्धिश्च भरणाकुला४०२।
चिंतामणिप्रभृतयो रत्नाश्शैलं समंततः।
उपतस्थुर्लताश्चापि कल्पकाद्या महाद्रुमाः४०३।
ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः।
रसाश्च धातवश्चैव सर्वे शैलस्य किंकराः४०४।
किंकरास्तस्य शैलस्य व्यग्राश्चाश्रमवर्तिनः।
नद्यः समुद्रा निखिलाः स्थावरं जंगमं च यत्४०५।
ते सर्वे हिमशैलस्य महिमानमवर्द्धयन्।
अभवन्मुनयो नागा यक्षा गंधर्वकिन्नराः४०६।
शंकरस्यापि विबुधा गंधमादनपर्वते।
सज्जमंडनसंभारास्तस्थुर्निर्मल मूर्त्तयः४०७।
शर्वस्याथ जटाजूटे चंद्रखंडं पितामहः।
बबंध प्रणयोदार विस्फारितविलोचनः४०८।
कपालमालां विपुलां चामुंडा मूर्ध्नि बध्नती।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 43 (part 2)
उवाच गिरिशं काली पुत्रं जनय शंकर४०९।
यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति।
शौरिर्वतंसिकारत्नं कंठाभरणमुज्वलम्४१०।
भुजंगाभरणं गृह्य सज्जश्शंभोः पुरोऽभवत्।
शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवम्४११।
दध्रे सरभसं स्विद्यद्विस्तीर्ण मुखपंकजम्।
वायवश्च ववुस्तीक्ष्णास्तीक्ष्णं हिमगिरिप्रभम्४१२।
वृषं विभूषयामासुर्हरयानं मनोजवम्।
विरेजुर्नयनान्तस्थाः शंभोः सूर्यानलेंदवः४१३।
स्वां द्युतिं लोकनाथस्य जगतः कर्मसाक्षिणः।
चिताभस्मसमाधत्त कपाले रजतप्रभम्४१४।
मनुजास्थिमयीं मालां निबंबंध च पाणिना।
प्रेताधिपः पुरे दूरे सभयः समवर्तत४१५।
नानाकारमहारत्नभूषणं धनदाहृतम्।
विहायोदीप्तसर्पेंद्र कटकेन स्वपाणिना४१६।
कर्णोत्तंसं चकारेशो ह्यमलं तक्षकं स्वयम्।
निष्पन्नाभरणं चैव प्रसाध्येशं प्रसाधनैः४१७।
तत्राप्येषा नियमतो ह्यभवन्व्यग्रमूर्तयः।
मुमोचाभिनवान्सर्वरम्यशालिरसौषधीन्४१८।
व्यग्रा तु पृथिवी देवी सर्वभावात्मनोरमा।
गृहीत्वा वरुणः साक्षाद्रत्नाढ्याभरणानि च४१९।
पुष्पाणि च विचित्राणि नानारत्नमयानि तु।
तस्थौ साभरणो देवः सर्वज्ञः सर्वदेहिनाम्४२०।
ज्वलनश्चापि दिव्यानि हैमान्याभरणानि च।
जातरूपपवित्राणि प्रयतः समुपस्थितः४२१।
वायुर्ववौ च सुरभिः सुखसंस्पर्शनो विभुम्।
छत्रं चंद्रकरोद्दामं हासितं च शतक्रतुः४२२।
जग्राह मुदितः श्रीमान्बाहुभिर्वज्रभूषणः।
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः४२३।
वादयंतोतिमधुरं जगुर्गंधर्वकिन्नराः।
मुहूर्तादृतवस्तत्र जगुश्च ननृतुश्च वै४२४।
चपलाश्च गणास्तस्थुर्लोडयंतो हिमाचलम्।
उपविष्टः क्रमाद्धाता विश्वकृद्भगनेत्रहा४२५।
चकारौद्वाहिकं कृत्यं पत्न्या सह यथोदितम्।
दत्तार्घ्यो गिरिराजेन सुरवृंदैर्विनोदितः४२६।
अवसत्तां क्षपां तत्र पत्न्या सह पुरांतकः।
ततो गंधर्वगीतेन नृत्येनाप्सरसामपि४२७।
स्तुतिभिर्देवदैत्यानां विबुद्धो विबुधाधिपः।
आमंत्र्य हिमशैलेंद्रं प्रभाते जायया सह४२८।
जगाम मंदरगिरिं वायुवेगेन शृंगिणा।
ततो गते भगवति नीललोहिते सहोमया रतिमनुभूतभूधरः४२९।
सबांधवो भवति हि कस्य नो मनो विशृंखलं जगति हि कन्यका पितुः।
पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च४३०।
सुरक्तहृदयो देव्या विजहार भगाक्षिहा।
ततो बहुतिथे काले पुत्रनाम्ना गिरेः सुता४३१।
सखीभिः सहिता क्रीडां चक्रे कृत्रिम पुत्रकैः।
कदाचिद्गंधतैलेन गात्रमभ्यज्य शैलजा४३२।
चूर्णैरुद्वर्तयामास मलेनापूरितां तनुम्।
तदुद्वर्त्तनकं गृह्य नरं चक्रे गजाननम्४३३।
पुरुषं क्रीडती देवी तच्चाप्यक्षिपदंभसि।
जाह्नव्या शिवया सख्या ततः सोभूद्बृहत्तनुः४३४।
कायेनातिविशालेन जगदापूरयत्तदा।
पुत्रेत्युवाच तं देवी पुत्रेत्यूचे च जाह्नवी४३५।
गांगेय इति देवैस्तु पूजितोऽभूद्गजाननः।
विनायकाधिपत्यं च ददावस्य पितामहः४३६।
पुनः सा क्रीडती चक्रे तरुं च वरवर्णिनी।
मनोज्ञमंकुरं रूढमशोकस्य शुभानना४३७।
वर्द्धयामास तं चापि कृतसंस्कारमंगलम्।
बृहस्पतिमुखैर्विप्रैर्दिवस्पतिपुरोहितैः४३८।
ततो देवैः समुनिभिः प्रोक्ता देवी त्विदं वचः।
अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि४३९।
फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः।
इत्युक्ता हर्षपूर्णांगी प्रोवाचातिशुभां गिरं४४०।
एकं निरुदके ग्रामे यः कूपं कारयेद्बुधः।
बिंदौबिंदौ च तोयस्य स वसेद्वत्सरं दिवि४४१।
दशकूपसमावापी दशवापीसमो ह्रदः।
दशह्रदसमा कन्या दशकन्यासमो द्रुमः४४२।
एषा वै शुभ मर्यादा नियता लोकभाविनी।
इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः४४३।
जग्मुः स्वमंदिराण्येव भवानीं वंद्य मातरं।
गतेषु तेषु देवोपि शंकरः पर्वतात्मजां४४४।
पाणिनालम्ब्यमानेन न स्वमावासमगच्छत।
चित्तप्रसादजननं प्रासादाट्टालगोपुरं४४५।
लंबमौक्तिकदामानं मालिकाकुलवेदिकं।
सुनद्धकलधौतं च क्रीडागृहमनोगतं४४६।
प्रकीर्णकुसुमामोद मत्तालिकुलकूजितम्।
किन्नरोद्गीतसंगीत गृहांतरितभित्तिकम्४४७।
सुगंधिधूपसंघातं मनःप्राप्यमलक्षितं।
क्रीडामयूरनारीभिरभितो रभसार्पितं४४८।
हंससंघातसंदिष्ट स्फटिकस्तभंतोरणं।
अनाविलमसंभ्रांत्या बहुशः किन्नराकुलं४४९।
शुकैर्यत्राभिदृश्यंते पद्मरागविनिर्मिताः।
भित्तयो जातिसंभ्रांत्या प्रतिबिंबितमौक्तिकाः1.43.४५०।
तत्राक्षैः प्रियया देवो विहर्तुमुपचक्रमे।
स्वछेंद्रनीलभूभागे क्रीडंतौ यत्र संस्थितौ४५१।
वपुः सहायतां प्राप्तौ विनोदरसनिर्वृतौ।
एवं प्रक्रीडतोस्तत्र देवीशंकरयोस्तदा४५२।
प्रादुर्भूतो महाशब्दः पतितांबरगोचरः।
तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम्४५३।
पर्यपृच्छत्सुरवरं हरं विस्मितपूर्वकं।
उवाच देवो नैतत्ते दृष्टपूर्वं शुचिस्मिते४५४।
एते गणेशाः क्रीडंते शैलेस्मिन्मत्प्रियाः सदा।
तपसा ब्रह्मचर्येण नामभिः क्षेत्रसेवनैः४५५।
यैरहं तोषितः पूर्वं त एते मनुजोत्तमाः।
मत्समीपमनुप्राप्ता मम हृद्याः शुभानने४५६।
कामरूपा महोत्साहा महारूपगुणान्विताः।
कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम्४५७।
सामरस्यास्य जगतः सृष्टिसंहरणक्षमाः।
ब्रह्मचन्द्रेंद्र गंधर्वैस्सकिन्नरमहोरगैः४५८।
विवर्जितोप्यहं नित्यं नैभिर्विरहितो रमे।
हृद्या मे चारुसर्वाङ्गि त एते क्रीडिता गिरौ४५९।
इत्युक्ता तु तदा देवी त्यक्त्वा तं विस्मयाकुला।
गवाक्षांतरमासाद्य प्रेक्षते चकितानना४६०।
यावंतस्ते कृशा दीर्घा ह्रस्वाः स्थूला महोदराः।
व्याघ्रेभवदनाः केचित्केचिन्मेषाजरूपिणः४६१।
अनेकप्राणिरूपाश्च ज्वालास्याः कृष्णपिंगलाः।
सौम्या भीमाः स्मितमुखाः कृष्णपिंगजटास्सदा४६२।
नानाविहंगवदना नानाविधसुराननाः।
कौशेयचर्मवसना नग्नाश्चान्यो विरूपिणः४६३।
गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः।
बहुपादा बहुभुजा दिव्यनानास्त्रपाणयः४६४।
अनेककुसुमापीडा नानाव्याकुलभीषणाः।
कृतनानायुधधरा नानाकवचभूषणाः४६५।
विचित्रवाहनारूढा दिव्यरूपा वियच्चराः।
वीणावाद्यरवोद्घुष्टा नानास्थानकनर्तकाः४६६।
गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शंकरम्।
देव्युवाच-।
गणेशाः कतिसंख्याताः किंनामानः किमात्मकाः४६७।
एकैकशो मम ब्रूहि निष्ठिता ये पृथक्पृथक्।
शंकर उवाच-।
कोटिकोटिश्च संख्याता नानाविख्यातपौरुषाः४६८।
जगदापूरितं सर्वमेभिर्भीमैर्महाबलैः।
सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु४६९।
दानवानां शरीरेषु बालेषून्मत्तकेषु च।
एते विशंति मुदिता नानाहारविहारिणः४७०।
ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः।
मेदाहारारुधिरपास्सर्वभक्षा ह्यभोजनाः४७१।
देवादास्तापसाहारा नानावाद्यरतिप्रियाः।
न हि वक्तुमनंतत्वाच्छक्यन्ते हि गणाः पृथक्४७२।
देव्युवाच-।
नागत्वगुत्तरासंगः शुद्धांगो मुंजमेखली।
मनःशिलेन कल्केन चपलो रंजिताननः४७३।
भृंगदष्टोत्पलानां च स्रग्दामा मधुराकृतिः।
पाषाणशकलोत्तान कांस्यतालप्रवर्तकः४७४।
असौ गणेश्वरो देव किंनामा किन्नरानुगः।
य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः४७५।
शर्व उवाच-।
स एष वीरको देवि सदा मे हृदयप्रियः।
नानाश्चर्यगुणाधारो गणेश्वर गणार्चितः४७६।
देव्युवाच।
ईदृशस्य सुतस्यास्ति ममोत्कंठा पुरांतक।
कदाहमीदृशं पुत्रं द्रक्ष्याम्यानंददायकं४७७।
शर्व उवाच-।
एष एव सुतस्तेस्तु नयनानंदकारकः।
त्वया मात्रा कृतार्थो हि वीरकोपि सुमध्यमे४७८।
इत्युक्त्वा प्रेषयामास विजयां हर्षणोत्सुकां।
वीरकानयनायाशु दुहिता भूभृतः सखीं४७९।
सावरुह्य त्वरायुक्ता प्रासादादंबरस्पृशः।
गणपं गणमध्यस्थं सूर्यकोटिप्रवर्तनम्४८०।
विजयोवाच-।
एहि वीरक चापल्यात्त्वया देवी प्रतोषिता।
त्वामाह्वयति चेत्युक्तस्त्यक्त्वा पाषाणखंडकम्४८१।
देव्याः सपीपमागच्छद्विजयानुगतः शनैः।
प्रासादशिखरोत्फुल्लरक्तांबुजनिभ द्युतिः४८२।
तं दृष्ट्वा प्रस्थितानल्पस्वादुक्षीरपयोधरा।
गिरिजोवाच-।
पिब क्षीरमिदं वत्स स्रुतं पिब यथेच्छकम्४८३।
उवाच देवी सस्नेहं गिरा मधुरवर्णया।
एहि सद्यो हि जातोसि मे पुत्रको देवदेवेन दत्तोधुना वीरक४८४।
उक्तवत्यंकआधाय पर्यष्वजत्तं कपोले चुचुंबागराण्नंदिनी।
मूर्ध्न्युपाघ्राय संमार्ज्य गात्राणि चाभूषयामास दिव्यैः स्वयंभूषणैः४८५।
किंकिणीमेखलानूपुरैः सन्मणिप्रोतकेयूरहारैरमूल्यैर्गुणैः।
कोमलैः पल्लवैश्चित्रितश्चारुभिर्मंगलैः कंकणैर्दिव्यमंत्रोद्भवैः४८६।
तस्य शुद्धैस्ततोभूरिभिश्चाकरोन्मिश्रसिद्धार्थकैरङ्गरक्षाविधिं।
एवमादाय चोवाच कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभंगोज्ज्वलैः४८७।
वत्सवत्साधुना क्रीड सार्द्धं गणैरप्रमत्तो व्रज श्वभ्रवर्जं शनैः।
व्यालमालाकुलाः शैलसानुद्रुमादंतिभिर्भग्नशाखाः परं भंगिनः४८८।
जाह्नवीमंडलक्षुब्धतोयाकुलं मा विशेथा बहुव्याघ्रजुष्टे वने।
वत्स संख्येषु दुर्गेषु यद्वीरक पुत्र भावायतां स्वच्छचित्तो जनः४८९।
प्रार्थितं भव्यमायातिभाविन्यसौ भाव्यतां सोपि निर्वर्त्यसर्वैर्गुणैः।
एवमुक्तोऽनया वीरको मातरं सस्मयन्नाह लीलावशाविष्टधीः४९०।
एष मात्रा स्वयं मे कृतः कंकणः पत्रकश्चित्रितः पाटलैर्बिंदुभिः।
चारुपुष्पैरियं मालतीभिः कृतामालिका मे शिरस्याहिता कोमला४९१।
तोषयामीश्वरीमित्ययं सत्वरं चिंतयित्वा व्रजद्बाह्यतः क्रीडनम्।
स्वैर्गणैः संयुतो वीरको हर्षितो दक्षिणात्पश्चिमं पश्चिमादुत्तरम्४९२।
उत्तरात्पूर्वमभ्येत्य सख्यायुता प्रेक्षते तं गवाक्षांतराद्वीरकं।
शैलपुत्री बहिः क्रीडितारं जगत्स्नेहतः पुत्रलुब्धायतस्सोत्र कः४९३।
मोहमायाति यः स्वल्पवेत्ता जडो मांसविण्मूत्रसंघातदेहोद्वहः।
द्रष्टुमभ्यंतरं नाकवासेश्वरेष्विन्दुमौलिप्रविष्टेषु कक्षांतरम्४९४।
वाहनान्येवमारोहमाणास्ततो लोकपालास्त्रपूगं मुहूर्त्तावधि।
खड्ग एषो विखड्गाकरो निर्मलः कृंतकः कस्य केनाहृतो ब्रूत नः४९५।
नोभवेद्धस्तदंडेन किं ब्रूमहे भीममूर्त्यं गणे नास्ति कृत्यं गिरौ।
पाश एषोस्ति तेनात्र को बध्यते मा वृथा लोकपालानुगास्तिष्ठत४९६।
एवमेवैतदित्यब्रुवंस्ते तदा वीक्ष्य देवानुगं वीरकं रक्षकं।
प्राह देवी वने पर्वते निर्जराध्यग्निशालामुखे भूतले भूतपाः४९७।
निर्झरांभो निपातेषु नो मज्जतात्पुष्पजालावनद्धेषु धामस्वपि।
प्रोच्चनानाद्रिकुंजावगाहेष्वथो मारुतास्फोटसंरक्षणे कामतः४९८।
कांचनोत्तुंग शृंगावरोहक्षितौ हैमरेणूत्करासंगपिंगद्युतिः।
खेचराणां वने चापि रम्ये बभौ रूपसंपत्प्रकारोगणो वासितुम्४९९।
मंदरेकंदरे चारुवापीतटे कुन्दमंदारपुष्पप्रवालांबुजे।
सिद्धनारीभिरापीतरूपामृतं विस्तृतैर्नेत्रमात्रैरनुन्मेषिभिः1.43.५००।
वीरकं शैलपुत्री निमेषांतरादस्मरत्पुत्रगृध्नुर्विनोदार्थिनी।
सोपि तादृक्क्षणावाप्तपुण्योदयो यो हि जन्मांतरेऽस्यात्मजत्वं ततः५०१।
क्रीडतस्तस्य तृप्तिः कथं जायते योपि भावाज्यग? द्वेधसा तेजसा।
कलिपतःप्रेक्षणं दिव्यगीतक्षणं नृत्यलोलैर्गणैशैः प्रवृत्यक्षणं५०२।
सिंहनादाकुले गंडशैले ज्वलद्रत्नजाले बृहत्सालतालेक्षणम्।
फुल्लनाना तमालालिकालेक्षणं वृक्षमूले विलोलोमरालेक्षणम्५०३।
स्वल्पपंके जले पंकजांकेक्षणं मातुरंके शुभे निष्कलंकेक्षणम्।
परिक्रीडते बाललीलाविसारी गणेशाधिपा देवतानंदकारी५०४।
निकुंजेषु विद्याधरोद्गीतशीलः पिनाकीव लीलाविलासैः सलीलः।
प्रकाश्य भुवनं गोभिस्ततो दिनकरे गते५०५।
देशांतरं तदा पश्चाद्दूरस्थो धरणीधरः।
मित्रत्वमस्य सुदृढं हृदये द्योतयन्निव५०६।
नित्यमाराधितो विप्रैः श्रीमान्विघनसः सुतः।
नाकरोत्सवितुर्मेरुरुपकारं पतिष्यतः५०७।
जनेष्वेषा व्यवस्थेति श्रूयते स्रवलितो ह्यधः।
दिनेनानुगतो भानुः स्वजनं परिपूरयन्५०८।
संध्याबद्धांजलिपुटा मुनयोभिमुखा रविम्।
यावदद्यासते शीघ्रं निवार्योष्णाभिभाविताम्५०९।
व्यजृंभताथ लोकेस्मिन्क्रमाद्वैभावरं तमः।
कुटिलस्येव हृदये कालुष्यं दूषयन्मनः५१०।
ज्वलत्फणिफणारत्नदीपोद्योतित भित्तिके।
शयने शशसंघात रत्नवस्त्रोत्तरच्छदे५११।
नानारत्नद्युतिलसच्छक्रचापविडंबके।
रत्नैः किंकिणिजालेन लसन्मुक्ताकलापके५१२।
कमनीयचलल्लीला वितानाच्छादितांबरे।
मंदरे मंन्दसंचारं गते गिरिसुतायुतः५१३।
तस्थौ गिरिसुता बाहुलता मिलितकंधरः।
शशिमौलिः सितज्योत्स्नास्फारपूरितगोचरः५१४।
गिरिजाप्यसितापांगी नीलोत्पलदलच्छविः।
विभावर्या च संपृक्ता बभूवातीव गोमयी५१५।
तामुवाच ततो देवः क्रीडाकेलिकलायुताम्५१६।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गौरीविवाहवर्णनंनाम त्रिचत्वारिंशोऽध्यायः४३।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 44
शर्व उवाच।
शरीरे मम तन्वंगि सिते भास्यसितद्युतिः।
भुजंगी वा सिता शुभ्रे संश्लिष्टा चंदनेतरौ१।
चंद्रातपेन संपृक्ता रुधिराम्बरसंवृता।
रजनी वा सिते पक्षे दृष्टिदोषं ददासि मे२।
इत्युक्ता गिरिजा तेन मुक्तकंठा पिनाकिनम्।
उवाच कोपरक्ताक्षी भ्रुकुटी विकृतानना३।
देव्युवाच-।
स्वकृतेन जनः सर्वो जाड्येन परिभूयते।
अवश्यमर्थी प्राप्नोति खंडनं शशिमंडन४।
तपोभिर्दीर्घचरितैर्या त्वां प्रार्थितवत्यहं।
तस्या मेनि यतस्त्वेष ह्यवमानः पदे पदे५।
नैवास्मि कुटिला शर्व विषमा न च धूर्जटे।
सविषस्त्वं जगत्ख्यातो व्यक्तदोषाकराश्रयः६।
त्वं हि मुष्णासि दशनान्नेत्रहंता भगस्य च।
आदित्यस्त्वां विजानाति भगवान्द्वादशात्मकः७।
मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन्।
यस्त्वं मामात्थकृष्णेति महाकालोसि विश्रुतः८।
यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम्।
जीवंत्या न मया कृत्यं धूर्तेन परिभूतया९।
कापालिकेन क्षुद्रेण श्मशाने नित्यवासिना।
भूत्या विलिप्त स्वांगेन मातृमध्यस्थ चारिणा१०।
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं हरः।
उवाचानिष्टसंभ्रांतः प्रचलेनेंदुमौलिना११।
शर्व उवाच।
अगात्मजासि गिरिजे नाहं निंदापरस्तव।
चाटूक्तिबुध्या तु मया कृत उन्मादसंश्रयः१२।
विकल्पः स्वस्थचित्ते तु गिरिजे न मम क्रमात्।
यद्येवं कुपिता भीरु तत्तवाहं न वै पुनः१३।
नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते।
शिरसा प्रणतेनैष रचितस्ते मयांजलि१४।
नि हीनो ह्यपमानेन निंदिते नैति विक्रियाम्।
असतां तु सतां न स्यान्मर्मस्पृष्टो नरः किल१५।
अनेकैश्चाटुभिर्देवी देवेन प्रतिबोधिता।
कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता१६।
अवष्टब्धमथाच्छिद्य वासः शंकरपाणिना।
विपर्यस्तालकावेगाद्गन्तुमैच्छच्च शैलजा१७।
तस्या व्रजंत्याः कोपेन पुनराह पुरांतकः।
सत्यं सर्वैरवयवैस्तनोषि सदृशां पितुः१८।
हिमाचलस्य शृंगस्थमेव जालाकुलं मनः।
तथा दुरवगाह्येभ्यो गहनो हि तवाशयः१९।
काठिन्यमश्मसारेभ्यो वनेभ्यो बहुलां गता।
कुटिलत्वं निम्नगाभ्यो दुःसेव्यत्वं हिमादपि२०।
संक्रांतं सर्वमेवैतत्तन्वंगि हिमभूधरात्।
इत्युक्ता सा पुनः प्राह गिरिशं शैलकन्यका२१।
कोपकंपितमूर्द्धा सा प्रस्फुरद्दशनच्छदा।
उमोवाच-।
स्यात्सर्वं दोषदानेन निंदायां गुणिनो बलात्२२।
तवापि दुष्टसंपर्कात्संक्रांतं सर्वमेव हि।
व्यालेभ्योनेकजिह्वत्वं भस्मनोऽस्नेहवृत्तिता२३।
हृत्कालुष्यं शशांकोत्थं दुर्बाधत्वं विषादपि।
किं चात्र बहुनोक्तेन अलं वाचां श्रमेण ते२४।
श्मशानवासान्निर्भीस्त्वं नग्नत्वात्तवनत्रपा।
निर्घृणत्वं कपालित्वाद्दया ते विगता चिरम्२५।
इत्युक्त्वा मंदिरात्तस्मान्निर्जगाम हिमाद्रिजा।
तस्यां व्रजंत्यां देवेश्यां गणैः किलकिलाकृता२६।
क्व मातर्गच्छसीत्युक्त्वा रुदद्भिर्धावितं पुनः।
विष्टभ्य चरणौ देव्या वीरको बाष्पगद्गदः२७।
प्रोवाच मातः किन्न्वेतत्क्व यासि कुपितातुरा।
अहं त्वामनुयास्यामि व्रजंतीं स्नेहवर्जिताम्२८।
नोचेत्पतिष्ये शिखराद्गिरेरस्य त्वयोज्झितः।
उन्नम्यवदनं देवी दक्षिणेन तु पाणिना२९।
उवाच वीरकं माता त्वं शोकं पुत्र मा कृथाः।
शैलाग्रात्पतितुं नैव न च गंतुं मया सह३०।
युक्तं ते पुत्र गच्छामि येन कार्येण तच्छृणु।
कृष्णेत्युक्ता हरेणाहं स्तंभितास्म्यवमानिता३१।
साहं तपः करिष्यामि येन गौरीत्वमाप्नुयाम्।
एष स्त्रीलंपटो देवो यातायां मय्यनंतरम्३२।
द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षणम्।
यथा न काचित्प्रविशेद्योषित्तत्र हरांतिकम्३३।
दृष्ट्वा परस्त्रियं चापि वदेथा मम पुत्रक।
शीघ्रमेव करिष्यामि यथायुक्तमनंतरम्३४।
एवमस्त्विति देवेशीं वीरकोवाच सांप्रतम्।
मातुराज्ञामृताहार प्लावितांगो गतज्वरः३५।
जगाम रक्षां स द्रष्टुं प्रणिपत्य तु मातरम्।
देवी चापश्यदायांतीं सखीं मातुर्विभूषिताम्३६।
कुसुमामोहिनीं नाम तस्य शैलस्य देवताम्।
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा३७।
क्व पुत्रि गच्छसीत्युच्चैरालिग्योवाच देवता।
सा तस्याः सर्वमाचख्यौ शंकरात्कोपकारणम्३८।
पुनश्चोवाचगिरिजा देवतां मातृसंमिताम्।
उमोवाच-।
नित्यं शैलाधिराजस्य देवतात्वमनिंदिते३९।
सर्वतः सन्निधानं ते मनसातीव वत्सला।
अतस्तु ते प्रवक्ष्यामि यद्विधेयं त्वयांबिके४०।
अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः।
सरहस्ये प्रयत्नेन निषेव्यः सततं गिरौ४१।
पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे।
ततोहं संविधास्यामि यत्क्षमं तदनंतरम्४२।
इत्युक्ता तां तथेत्युक्त्त्वा जगाम सा गिरिं शुभा।
उमापि पितुरुद्यानं जगामाद्रिसुताद्भुतम्४३।
अंतरिक्षं समाविश्य मेघमालाविलप्रभम्।
भूषणानि ततो न्यस्य वृक्षवल्कलधारिणी४४।
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता।
वन्याहारा निराहारा शुष्कस्थंडिलशायिनी४५।
एवं साधयती तत्र तपः सा च व्यवस्थिता।
ज्ञात्वा गतां गिरिसुतां दैत्यस्तत्रांतरे बली४६।
अंधकस्य सुतो हृष्टः पितुर्वधमनुस्मरन्।
देवान्सर्वान्विजित्याजौ बकभ्राता रणोत्कटः४७।
आडिर्नामांतरप्रेक्षी सततं चंद्रमौलिनः।
आजगामामररिपुः पुरं त्रिपुरघातिनः४८।
स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम्।
विचिंत्य सोपि च वरं दत्तं कमलयोनिना४९।
हते किलांधके दैत्ये गिरिशेनासुरद्विषा।
आडिश्चकार विपुलं तपः परमदारुणम्1.44.५०।
समागत्याब्रवीद्ब्रह्मा तपसा परितोषितः।
किमाडे दानवश्रेष्ठ तपसा प्राप्तुमिच्छसि५१।
ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे।
ब्रह्मोवाच-।
जातानामिह संसारे विना मृत्युं न युज्यते५२।
यतस्ततोपि दैत्येंद्र मृत्युः प्राप्यश्शरीरिभिः।
इत्युक्तो दैत्यसिंहस्तु प्रोवाचांबुजसंभवम्५३।
रूपस्यपरिवर्तो मे यदा स्यात्पद्मसंभव।
तदा मृत्युर्मम भवेदन्यथा त्वमरोस्म्यहम्५४।
इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः।
यदा द्वितीयो रूपस्य विवर्त्तस्ते भविष्यति५५।
तदा ते भविता मृत्युरन्यथा न भविष्यति।
इत्युक्तोमरतां मेने दैत्यसूनुर्महाबलः५६।
तस्मिन्काले त्वसंस्मृत्य तद्वधोपायमात्मनः।
प्रतिहर्तुर्दृष्टिपथे वीरकस्याभवंस्तदा५७।
भुजंगरूपी रंध्रेण प्रविवेश दृशःपथम्।
परिहृत्य गणेशस्य दानवो रौद्रदुर्जयः५८।
अलक्षितो गणेशेन प्रविश्याथ परां तनुम्।
भुजंगरूपं संत्यज्य जग्राहाथ महासुरः५९।
उमारूपं रमयितुं गिरिशं मूढचेतनः।
कृत्वा मायामयं रूपमप्रतर्क्यं मनोहरम्६०।
सर्वैरवयवैः पूर्णं सर्वाभिज्ञानबृंहितम्।
कृत्वा भगांतरे दंतं दैत्यो वज्रमयं दृढम्६१।
तीक्ष्णाग्रं बुद्धिमोहेन गिरिशं हंतुमुद्यतः।
कृत्वोमारूपसंस्थानं गतो दैत्यो हरांतिकम्६२।
पापो रम्याकृतिश्चित्र भूषणांबरसंयुतः।
तं दृष्ट्वा गिरिशस्तुष्टस्तमालिंग्य महासुरम्६३।
मन्यमानो गिरिसुतां सर्वैरवयवांतरैः।
अपृच्छत्साधुभावं ते गिरिपुत्रि न कृत्रिमम्६४।
या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनी।
त्वया विरहितं शून्यं मम स्थानं जगत्त्रयम्६५।
प्राप्ता प्रसन्नवदने युक्तमेवंविधं त्वयि।
इत्युक्तो दानवेंद्रस्तु तं बभाषे स्मितं शनैः६६।
स चाबुध्यदभिज्ञानैः प्राह त्रिपुरघातिनम्।
दैत्य उवाच।
यातास्मि तपसः कामाद्वरं लब्धुं हिमाचलम्६७।
रतिश्च तत्र मेनाभूत्ततः प्राप्ता त्वदंतिकम्।
इत्युक्तः शंकरः शंकां चित्ते प्राप्तो विचारयन्६८।
हृदयेन समाधाय देवः प्रहसिताननः।
कुपिता कुपितं बुद्ध्वा प्रकृत्या च दृढव्रता६९।
अप्राप्तकामा संप्राप्ता किमेतत्संविजानती।
इति चिंत्य हरस्तस्या अभिज्ञानं विचारयन्७०।
नापश्यद्वामपार्श्वे तु तदंकं पद्मलक्षणम्।
लोम्नामावर्तरचितं ततो देवः पिनाकधृक्७१।
बुद्ध्वा तां दानवीं मायामाकारं गूहयंस्ततः।
मेढ्रदंष्ट्रास्त्रमादाय दानवं तमसादयत्७२।
न चाबुध्यत तद्वृत्तं वीरको द्वाररक्षकः।
कुसुमामोदिनं दृष्ट्वा स्त्रीरूपं दानवेश्वरम्७३।
दूतेन मारुतेनाशु बोधिता हिमशैलजा।
श्रुत्वा वायुमुखाद्देवी क्रोधरक्ताविलेक्षणा७४।
अपश्यद्वीरकं पुत्रं हृदयेनैव दूयता।
देव्युवाच।
मातरं मां परित्यज्य यस्मात्त्वं स्नेहविक्लवाम्७५।
विहितावसरः स्त्रीणां शंकरस्य रहोविधौ।
तस्मात्ते मानुषे रूक्षा जडा हृदयवर्जिता७६।
गणेशाकारसदृशी शिला माता भविष्यति।
निमित्त एष विख्यातो वीरकस्य सुतादरात्७७।
संभवे प्रक्रमे चैव विचित्राख्या न संशयः।
एवमुत्सृष्टशापायां गिरिपुत्र्यामनंतरं७८।
निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः।
स तु सिंहः करालास्यः सटाजटिलकंधरः७९।
ऊर्ध्वप्रोद्भूतलांगूलो दंष्ट्रोत्कटमुखावटः।
व्यादितास्यो लंबजिह्वः क्षामः कुक्षिबलादिषु८०।
अस्यास्ये वर्तितुं देवी व्यवस्थितवती तदा।
ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः८१।
आजगामाश्रमपदं संपदामाश्रयं यतः।
आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा८२।
ब्रह्मोवाच-।
किं पुनः प्राप्तुकामासि किमलभ्यं ददामि ते।
विरम्यतामतिक्लेशात्तपसोस्मान्मदाज्ञया८३।
तच्छ्रुत्वोवाचगिरिजा गुरोर्गौरवयंत्रितं।
वाक्यं वाचाहरोद्गीर्णवर्णनिर्गमवांछितं८४।
देव्युवाच-।
तपसा दुष्करेणाप्तः पतिर्वै शंकरो मया।
समां श्यामलवर्णेति बहुशः प्रोक्तवान्रहः८५।
तस्मादहं कांचनाभवर्णा तन्नामसंयुता।
भर्तुर्भूतपतेरंगमेकतो निर्विषं भवेत्८६।
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जगदीश्वरः।
एवं भव त्वं भूयश्च भर्तुर्देहार्द्धचारिणी८७।
ततस्तत्याजतां कृष्णां फुल्लनीलोत्पलत्वचं।
त्वक्च साप्यभवद्भीमा घंटाहस्तात्रिलोचना८८।
नानाभरणसंपूर्णा पीतकौशेयधारिणी।
तामब्रवीत्ततो ब्रह्मा देवीं नीलांबुजत्विषं८९।
निशे भूधरजा देह संपर्का त्वं मदाज्ञया।
संप्राप्ता कृतकृत्यत्वमेकानंशा पुरो ह्यसि९०।
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने।
स तेस्तु वाहनं देवि केतौ चास्तु महाबलः९१।
गच्छ विंध्याचलं तत्र सुरकार्यं करिष्यसि।
पंचालो नाम यक्षोयं यक्षलक्षपदानुगः९२।
दत्तस्ते किंकरो देवि मया मायाशतैर्युतः।
इत्युक्त्वा कौशिकी देवी विंध्यशैलं जगाम ह९३।
उमापि प्राप्तसंकल्पा जगाम गिरिशांतिकं।
प्रविशंतीं तु तां द्वारादपहृत्य समाहितः९४।
रुरोध वीरको देवीं हेमवेत्रलताधरः।
तामुवाच च कोपेन रूपे तु व्यभिचारिणीं९५।
प्रयोजनं न तेत्रास्ति गच्छ यावन्न भक्ष्यसे।
देव्यारूपधरो दैत्यो देवं वंचितुमागतः९६।
प्रविष्टो न च दृष्टोसौ स च देवेन घातितः।
घातिते चाहमाज्ञप्तो नीलकंठेन कोपिना९७।
द्वारे त्वनवधानं ते यस्मात्पश्यामि वै ततः।
भविष्यसि न मे द्वास्थो वर्षपूगाननेकशः९८।
अतस्ते नात्र दास्यामि प्रवेशं गम्यतां द्रुतम्।
एकां मुक्त्वा गिरिसुतां मातरं स्नेहवत्सलाम्९९।
प्रवेशं लभते नान्या नारी कमललोचने।
इत्युक्त्वा तु तदा देवी चिंतयामास चेतसा1.44.१००।
नारी नैव स दैतेयो वायुर्मे यामभाषत।
वृथैव वीरकश्शप्तो मया क्रोधपरीतया१०१।
अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः।
क्रोधेन नश्यते कीर्तिः क्रोधो हंति स्थितां श्रियम्१०२।
अपरिच्छिन्नतत्वार्था पुत्रं शापितवत्यहं।
विपरीतार्थबुद्धीनां सुलभो विपदागमः१०३।
संचिंत्यैवमुवाचेदं वीरकं प्रति शैलजा।
सज्जलज्जाविकारेण वदनेनाम्बुजत्विषा१०४।
देव्युवाच-।
अहं वीरक ते माता न तेस्तु मनसो भ्रमः।
शंकरस्यास्मि दयिता सुता तुहिनभूभृतः१०५।
मम गात्रच्छविभ्रांत्या मा शंकां पुत्र धारय।
तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना१०६।
मया शप्तोस्यविदिते वृत्तांते दैत्यनिर्मिते।
ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते१०७।
ननिवर्तयितुं शक्यः शापः किंतु ब्रवीमि ते।
शीघ्रमेष्यसि मानुष्यात्सर्वकामसमन्वितः१०८।
शिरसा तु ततो वंद्य मातरं पूर्णमानसः।
उवाच साध्वीं पूर्णेन्दु द्युतिं तुहिनशैलजां१०९।
वीरक उवाच-।
नतसुरासुरमौलिलसन्मणिप्रवरकांतिकरालिनखाङ्घ्रिके।
नगसुते शरणागतवत्सले नवनमोवनतार्त्तिविनाशिनि११०।
तपनमंडलमंडितकंधरे पृथुसुवर्णनगद्युतिहारिके।
विषमभंगविषंगमभीषितो गिरिसुते भवतीमहमाश्रये१११।
जगतिकाप्रणताभिमता ददौ झटिति सिद्धिमृते भवतीं यथा।
जगतिकां प्रणमेच्छशिशेखरो भुवनभृन्मुनयो भवतीं यथा११२।
विमलयोगविनिर्मितदुर्जये सुतनुतुल्यमहेश्वरमंडली।
विदलितांधकबांधवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता११३।
सितसटापटलोद्धतकंधराभवमहामृगराजरयस्थिता।
विमलशक्तिमुखानलपिंगला यतभुजौघनिपिष्टमहासुरा११४।
निगदिता भुवनैरतिचंडिकाजननिशुंभनिशुंभनिषूदिनी।
प्रणतचिंतितदा भवदा नवप्रशमनैकरतिस्तरसा भुवि११५।
वियतिवायुपथे ज्वलनाकुलेवनितले तव देवि च यद्वपुः।
तदजितेप्रतिमे प्रणमाम्यहं भुवनभाविनिते भववल्लभे११६।
जलधयो ललितोद्धतवीचयो हुतवहो द्युतिदग्धचराचरः।
फणसहस्रभृतश्च भुजंगमास्त्वमभिधास्यसि मामभयंकरा११७।
भगवति स्थिरभक्तजनाश्रये प्रतिगतो भवतीचरणाश्रयं।
करणजातमिहास्तु ममाश्रवैतवविलासमुखानुभवास्यदम्११८।
सुप्रसन्ना ततो देवी वीरकस्येति संस्तुता।
प्रविवेश शुभंभर्तुर्भुवनं भूधरात्मजा११९।
द्वास्थोपि वीरको देवान्हरदर्शनकांक्षिणः।
व्यसर्जयत्स्वकानेव गृहानादरपूर्वकं१२०।
नास्त्यत्रावसरो देवा देव्याः सह वृषाकपिः।
निभृतः क्रीडतीत्युक्ता ययुस्ते च यथागतं१२१।
गते वर्षसहस्रे तु देवास्त्वरितमानसाः।
ज्वलनं चोदयामासुर्ज्ञातुं शंकरचेष्टितं१२२।
प्रविश्य पक्षिरंध्रेण शुकरूपी हुताशनः।
ददर्श शयने सर्वं रतौ गिरिजया सह१२३।
ददर्श तं च देवेशो हुताशं शुकरूपिणं।
तमुवाच महादेवः किंचित्कोपसमन्वितः१२४।
शर्व उवाच।
निषिक्तमर्धं देव्यां मे वीर्यं च शुकविग्रह।
लज्जया विरतिश्चास्य त्वमर्धं पिब पावक१२५।
यस्मात्तु त्वत्कृते विघ्नं तस्मात्त्वय्युपपद्यते।
इत्युक्तः प्राञ्जलिर्वह्निरपिबद्वीर्यमाहितं१२६।
तेनाप्लुतास्ततो देवास्तन्मुखा ऋभवो यतः।
विपाट्य जठरं तेषां वीर्यं माहेश्वरं ततः१२७।
निष्क्रांतं तप्तहेमाभं वितते शंकराश्रमे।
तस्मिन्सरो महज्जातं विमलं बहुयोजनं१२८।
प्रोत्फुल्लहेमकमलं नानाविहगनादितम्।
तच्छ्रुत्वा तु सरो देवी जातं हेममहांबुजम्१२९।
जगाम कौतुकाविष्टा तत्सरः कनकांबुजम्।
तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा१३०।
उपविष्टा ततस्तस्य तीरे देवी सखीवृता।
पातुकामा च तत्तोयं स्वादुनिर्मलपंकजम्१३१।
अपश्यत्कृत्तिकास्तास्स षडर्कद्युतिसन्निभाः।
पद्मपत्रे तु तद्वारि गृहीत्वा प्रस्थिता गृहम्१३२।
हर्षात्सोवाच पास्यामि पद्मपत्रे स्थितं पयः।
ततःस्ता ऊचुरखिलाः कृत्तिका हिमशैलजाम्१३३।
कृत्तिका ऊचुः-।
दास्यामो दयिते गर्भे संभूतो यो भविष्यति।
सोस्माकमपि पुत्रः स्यादस्मत्त्राता च वृत्तिमान्१३४।
त्रिषु लोकेषु विख्यातः सर्वेष्वपि शुभानने।
इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवैः१३५।
सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत्।
ततस्तां कृत्तिका ऊचुर्विधास्यामोस्य वै वयम्१३६।
उत्तमान्युत्तमांगानि यद्येवं तु भविष्यति।
उक्ता वै शैलजा प्राह भवत्वेवमनिंदिताः१३७।
ततस्तु हर्षसंपूर्णा पद्मपत्रस्थितं पयः।
तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम्१३८।
पीते तु सलिले चैव तस्मिन्नेव क्षणे वरः।
विपाट्य देव्याश्च ततो दक्षिणं कुक्षिमुद्गतः१३९।
निश्चक्रामाद्भुतो बालो रोगशोकविनाशनः।
प्रभाकरकरव्रात प्रकारप्रकरप्रभुः१४०।
गृहीतनिर्मलोदग्र शक्तिशूलांकुशोनलः।
दीप्तो मारयितुं दैत्यानुत्थितः कनकच्छविः१४१।
एतस्मात्कारणादेव कुमारश्चापि सोभवत्।
वामं विदार्य निष्क्रांतस्ततो देव्याः पुनः शिशुः१४२।
स्कंदोथ वदनाद्वह्नेः शुभ्रात्षड्वदनोरिहा।
कृत्तिकासलिलादेव शाखाभिः सविशेषतः१४३।
शाखाः शिवाः समाख्याताः षट्सुवक्त्रेषु विस्तृताः।
यतस्ततो विशाखोसौ ख्यातो लोकेषु षण्मुखः१४४।
स्कंदो विशाखः षड्वक्त्रः कार्तिकेयश्च विश्रुतः।
पक्षे चैत्रस्य बहुले पंचदश्यां महाबलौ१४५।
संभूतावर्कसदृशौ विशाले शरकानने।
सिते पक्षे तु पंचम्यां तथैतौ पावकानलौ१४६।
बालकाभ्यां चकारैकं संध्यायामेव भूतये।
तस्यामेव ततः षष्ठ्यामभिषिक्तो गुहः प्रभुः१४७।
सर्वैरमरसंघातैर्ब्रह्मोपेंद्रेंद्र भास्करैः।
गंधमाल्यैः शुभैर्धूपैस्तथा क्रीडनकैरपि१४८।
छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः।
अभिषिक्तो विधानेन यथावत्षण्मुखः प्रभुः१४९।
सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम्।
पत्न्यर्थं देवदेवेशो ददौ विष्णुरथायुधम्1.44.१५०।
यक्षाणां दशलक्षाणि ददावस्य धनाधिपः।
ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम्१५१।
ददौ क्रीडनकं त्वष्टा कुक्कुटं कामरूपिणम्।
एवं सुरास्तु ते सर्वे परिवारमनन्तकम्१५२।
।
ददुर्मुदितचेतस्काः स्कंदायादित्यवर्चसे।
जानुभ्यामवनौ स्थित्वा सुरसंघास्तमस्तुवन्१५३।
स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः।
देवा ऊचुः-।
नमः कुमाराय महाप्रभाय स्कंदाय चास्कंदितदानवाय१५४।
नवार्कबिंबप्रतिमप्रभाव नमोस्तु गुह्याय गुहाय तुभ्यम्।
नमोस्तु ते लोकभयापहाय नमोस्तु ते लोककृपापराय१५५।
नमो विशालामललोचनाय नमो विशाखाय महाव्रताय।
नमो नमस्तेस्तु रणोत्कटाय नमो मयूरोज्ज्वलवाहनाय१५६।
नमोस्तु केयूरधराय तुभ्यं नमो धृतोदग्रपताकिने ते।
नमः प्रभावप्रणताय तेस्तु नमोऽस्तु घंटाधरधैर्यशालिने१५७।
कुमार उवाच-।
कं वः कामं प्रयच्छामि भवंतो ब्रूतनिर्वृताः।
यद्यप्य साध्यं कृत्यं नो हृदये चिंतितं चिरम्१५८।
इत्युक्तास्तु सुरास्तेन प्रोचुः प्रणतमौलयः।
सर्व एव महात्मानं गुहं मुदितमानसाः१५९।
दैत्येंद्रस्तारको नाम सर्वामरकुलांतकृत्।
बलवान्दुर्जयस्तीक्ष्णो दुराचारोतिकोपनः१६०।
तमेव जहि दुर्धर्षं दैत्यं सर्वविनाशनम्।
उपस्थितः कृत्यशेषो ह्यस्माकं च भयावहः१६१।
हिरण्यकशिपुश्चोग्रो ह्यवध्यो देवतागणैः।
यज्ञघ्नः पापकर्मा वै येन ब्रह्मापि तापितः१६२।
एतौ हरस्व भद्रं ते तावकं च महाबलम्।
एवमुक्तस्तथेत्युक्त्वा सर्वामरपदानुगः१६३।
जगाम जगतांनाथस्तूयमानोमरेश्वरैः।
तारकस्य वधार्थाय जगतां कंटकस्य च१६४।
ततश्च प्रेषयामास शक्रो गूढसमाश्रयः।
दूतं दानवसिंहस्य परुषाक्षरवादिनम्१६५।
स तु गत्वाब्रवीद्दैत्यमभयो भीमदर्शनम्।
दूत उवाच।
शक्रस्त्वामाह देवेशो दैत्यकेतुं दिवस्पतिः१६६।
तारकासुर तच्छक्त्या घटयस्व यथेच्छया।
यज्जगज्ज्वलनोद्दीप्तं किल्बिषं च त्वया कृतम्१६७।
तस्याहं सादकस्तेद्य राजास्मि भुवनत्रये।
श्रुत्वैतदद्भुतं वाक्यं कोपसंरक्तलोचनः१६८।
उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः।
तारक उवाच-।
दृष्टं ते पौरुषं शक्र शतशोथ महारणे१६९।
निस्त्रपत्वान्न ते शांतिर्विद्यते शक्र दुर्मते।
एवमुक्ते गते दूते चिंतयामास दानवः१७०।
नालब्धसंश्रयः शक्रो वक्तुमेवमिहार्हति।
जातः स्कंदोधुना शक्राज्ज्ञायते समुपाश्रयात्१७१।
निमित्तौघांस्तदा दुष्टान्सोपश्यन्नाशवेदिनः।
पांसुवर्षमसृक्पातं गगनादवनीतले१७२।
वामनेत्रप्रकंपं च वक्त्रशोषं मनोमयम्।
स्वकानां वक्त्रपद्मानां म्लानतां च व्यलोकयत्१७३।
दुष्टांश्च प्राणिनो रौद्रान्सोपश्यद्दुष्टवादिनः।
तदचिंत्यैव दितिजो न्यस्तचित्तोभवत्क्षणात्१७४।
यावद्गजघटाघंटा घनत्काररवोत्कटाम्।
तद्वत्तुरंगसंघातहेषोत्साहविभूषिताम्१७५।
सैन्यैस्सेनान्तरोदग्र ध्वजराजैर्विराजिताम्।
विमानैश्चाद्भुताकारैश्चलितामलचामरैः१७६।
विभूषणपिनद्धां च किन्नरोद्गीतनादिताम्।
नाना नाकतरूत्फुल्ल कुसुमापीडधारिणीम्१७७।
विशोकास्त्रपरिस्फार चर्मनिर्मलदर्शिनीं।
विद्युत्पुष्टद्युतिधरां नानावाद्यविनादिताम्१७८।
सेनां नाकसदां दैत्यः प्रासादस्थो व्यलोकयत्।
सचिंतयामास तदा किंचिद्विभ्रांतमानसः१७९।
अपूर्वः को भवेद्योद्धा यो मया न विनिर्जितः।
ततश्चिंताकुलो दैत्यः शुश्राव कटुकाक्षरम्।
सिद्धवंदिभिरुद्घुष्टमिदं हृदयदारुणम्१८०।
जयातुलशक्तिदीधितिपंजरभुजदंडप्रचंडतर।
रभससुरवदनकुमुदविकासनविलासनेत्र कुमारवर१८१।
जय दितिजकुलमहोदधि बडवानल मधुरमयूररथ सुरमकुट कोटि कुंचित चरण नखांकुर महासेन१८२।
जय चलितललित चूडाकलापनवविमलकमल।
दंडकांत दैत्येशवंश दुःसह दावानल१८३।
जय विशाखविभोजय बालसप्तवासर भुवनालिशोकशमन जय सकललोक दितिसुतधुरंधरनाशक स्कंद१८४।
श्रुत्वैतत्तारकः सर्वमुद्घुष्टं देववंदिभिः।
सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितं१८५।
स्मृत्वा धर्मौघविध्वंसी सदा वीरपदानुगः।
मंदिरान्निर्जगामाशु शोकग्रस्तेन चेतसा१८६।
कालनेमिमुखा दैत्याः संत्रस्ता भ्रांतचेतसः।
स्वेष्वनीकेषु च तदा त्वरा विस्मितचेतसः१८७।
हिरण्यकशिपुः प्राह दानवानां धुरंधरः।
त्रपाकरं भवेन्मह्यं बालस्यास्य पलायनम्१८८।
यद्यहं हंतवे यामि सोपि वै कमलाश्रितः।
हत्वाहं बालकं चैनं दुःस्पर्शः स्यामकारणं१८९।
यात धावत गृह्णीत योजयध्वं वरूथिनीम्।
कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः१९०।
किं बाल योद्धुकामोसि क्रीडकंदुकलीलया।
येनातपो निसृष्टस्ते सत्संगरविभाषक१९१।
बालत्वादथ ते बुद्धिरेवं स्वल्पार्थदर्शिनी।
कुमारोपि तमग्रस्थं बभाषे हर्षवत्तमं१९२।
शृणु तारक शास्त्रार्थ इह नैव निरूप्यते।
शस्त्रैरर्था न दृश्यंते समरे निर्भरं भये१९३।
शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः।
दुष्प्रेक्षो भास्करो बालस्तथाहं दुर्जयः शिशुः१९४।
अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते।
कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरं१९५।
कुमारस्तं निरासोग्रं चक्रेणामोघवर्चसा।
ततश्चिक्षेप दैत्येंद्रो भिंदिपालमयोमयं१९६।
करेण तं च जग्राह कार्तिकेयोमरारिहा।
गदां मुमोच दैत्याय समुत्थाय खरस्वनाम्१९७।
तया हतस्ततो दैत्यश्चकम्पेचलराडिव।
मेने च दुर्जयं दैत्यस्तदाबालं सुदुःसहं१९८।
चिंतयामास बुद्ध्या वै प्राप्तः कालो न संशयः।
कंपितं च समालोक्य कालनेमि पुरोगमाः१९९।
सर्वे देत्यैश्वरा जघ्नुः कुमारं रणदारुणं।
स तैः प्रहारैरस्पृष्टस्तथा क्लैशैर्महाद्युतिः1.44.२००।
स बालो बलिभिर्वेगैरयुध्यद्दानवै रणे।
रणशौण्डाश्च दैत्येंद्रा पुःनर्जघ्नुः शिलीमुखैः२०१।
कुमारं समरे दैत्या बलिनो देवकंटकाः।
कुमारस्य व्यथा नाभूद्दैत्यास्त्रनिहतस्य तु२०२।
प्राणांतकरणं जातं देवानां दानवा हवं।
देवान्निपीडितान्दृष्ट्वा कुमारः कोपमाविशत्२०३।
ततोस्त्रैर्दारयामास दानावानामनीकिनीम्।
तैरस्त्रैर्निष्प्रतीकारैस्ताडितास्सुरकंटकाः२०४।
कालनेमिमुखाः सर्वे रणे ह्यासन्पराङ्मुखाः।
विद्रुतेषु च दैत्येषु प्रहतेषु समंततः२०५।
किन्नरोद्गारगीतैश्च हास्यसन्यस्तचेतनः।
जघ्ने कुमारं गदया निष्टप्तकनकत्विषा२०६।
शरैर्मयूरं चित्रैश्च चकार विमुखं रणे।
दृष्ट्वा पराड्मुखो देवो मुक्तरक्तं स्ववाहनम्२०७।
जग्राह शक्तिं विमलां रणे कनकभूषणाम्।
बाहुना हेमकेयूर रुचिरेण षडाननः२०८।
ततोब्रवीन्महासेनस्तारकं दानवाधिपम्।
तिष्ठतिष्ठ सुदुर्बुद्धे यमलोकं विलोकय२०९।
हतो ह्यसि मया शक्त्या स्मर स्वं दैत्यचेष्टितम्।
इत्युक्त्वा तु ततः शक्तिं मुमोच दितिजं प्रति२१०।
सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा।
बिभेद दैत्यहृदयं वज्रशैलेंद्रकर्कशम्२११।
गतासुः स पपातोर्व्यां प्रलये भूधरो यथा।
विकीर्णमकुटोष्णीषो विस्रस्ताखिलभूषणः२१२।
तस्मिन्विनिहते दैत्ये दानवानां धुरंधरे।
नाभूत्कश्चित्तदा दुःखी नरकेष्वपि पापकृत्२१३।
स्तुवंतः षण्मुखं देवाः प्राक्रीडन्नागतस्मिताः।
जग्मुः स्वानेव भुवनान्निरस्यासंस्तथोत्सुकाः२१४।
ददुश्चापि वरं सर्वे देवाश्च षण्मुखं प्रति।
तुष्टाः संप्राप्तसर्वार्थास्सहसिद्धैस्तपोधनैः२१५।
देवा ऊचुः।
यः पठेत्स्कंदसंबंधां कथामेतां महामतिः।
शृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः२१६।
बह्वायुः सुभगः श्रीमान्कीर्तिमान्शुभदर्शनः।
भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः२१७।
संध्यामुपास्य यः पूर्वां स्कंदस्य चरितं पठेत्।
स युक्तः किन्नरैः सर्वैर्महाधनपतिर्भवेत्२१८।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे कुमारसंभवतारकवधोनाम चतुश्चत्वारिंशत्तमोऽध्यायः४४।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 45
भीष्म उवाच-।
इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधम्।
नरसिंहस्य माहात्म्यं तथा पापविनाशनम्१।
पुलस्त्य उवाच-।
पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुः।
दैत्यानामादिपुरुषश्चकार सुमहत्तपः२।
दशवर्षसहस्राणि दशवर्षशतानि च।
जलवासी समभवत्स्नानमौनधृतव्रतः३।
वृतः शमदमाभ्यां च ब्रह्मचर्येण चैव हि।
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च४।
ततः स्वयंभूर्भगवान्स्वयमागत्य तत्र हि।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता५।
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्सह।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः६।
दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा।
नक्षत्रैश्च मुहूर्तैश्च खचरैश्च महाग्रहैः७।
देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा।
राजर्षिभिः पुण्यकृद्भिर्गंधर्वाप्सरसांगणैः८।
चराचरगुरुः श्रीमान्वृतः सर्वैर्दिवौकसैः।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्९।
प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि१०।
हिरण्यकशिपुरुवाच-।
न देवासुरगंधर्वा न यक्षोरगराक्षसाः।
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम११।
ऋषयो मानवाः शापैर्न शपेयुः पितामह।
यदि मे भगवान्प्रीतो वर एष वृतो मया१२।
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा।
न शुष्केण न चार्द्रेण न स्याच्चान्येन मे वधः१३।
भवेयमहमेवार्कः सोमो वायुर्हुताशनः।
सलिलं चांतरिक्षं च नक्षत्राणि दिशो दश१४।
अहं क्रोधश्च कामश्च वरुणो वासवो यमः।
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः१५।
ब्रह्मोवाच -।
एष दिव्यो वरस्तात मया दत्तस्तवाद्भुतः।
सर्वकामप्रदो वत्स प्राप्स्यसि त्वं न संशयः१६।
एवमुक्त्वा स भगवान्जगामाकाशमेव हि।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्१७।
ततो देवाश्च गंधर्वा ऋषिभिः सह चारणाः।
वरप्रदानं श्रुत्वैवं पितामहमुपस्थिताः१८।
देवा ऊचुः-।
वरप्रदानाद्भगवन्वधिष्यति स नोऽसुरः।
तत्प्रसादश्च भगवन्वधोप्यस्य विचिंत्यताम्१९।
भगवान्सर्वभूतानामादिकर्त्ता स्वयंप्रभुः।
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिः परः२०।
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः।
आश्वासयामास तदा सुशीतैर्वचनांबुभिः२१।
अवश्यं त्रिदशानेन प्राप्तव्यं तपसः फलं।
तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति२२।
तच्छ्रुत्वा विबुधा वाक्यं सर्वे पंकजजाननात्।
स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः२३।
लब्धमात्रे वरे सोथ प्रजास्सर्वा अबाधत।
हिरण्यकशिपुर्दैत्यो वरदानेन गर्वितः२४।
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्।
सत्यधर्मपरान्दान्तान्धर्षयामास दानवः२५।
देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः२६।
यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणा।
यज्ञियानकरोद्दैत्यानयज्ञीयांश्च दैवतान्२७।
तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथा।
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः२८।
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम्।
देवदेवं यज्ञमयं वासुदेवं सनातनम्२९।
देवा ऊचुः-।
नारायण महाभाग देवास्त्वां शरणं गताः।
त्रायस्व जहि दैत्येंद्रं हिरण्यकशिपुं प्रभो३०।
त्वं हि नः परमोदाता त्वं हि नः परमो गुरुः।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः३१।
विष्णुरुवाच-।
भयं त्यजद्ध्वममरा अभयं वो ददाम्यहम्।
तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम्३२।
एनं हि सगणं दैत्यं वरदानेन गर्वितम्।
अवध्यममरेंद्राणां दानवेंद्रं निहन्म्यहम्३३।
एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययः।
हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः३४।
तेजसा भास्काराकारः शशीकांत्येव चापरः।
नरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा३५।
नारसिंहेन वपुषा पाणिं संगृह्य पाणिना।
ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम्३६।
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्।
विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्३७।
वैहायसीं कामगमां पंचयोजनमुच्छ्रिताम्।
जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम्३८।
वेश्मासनवतीं रम्यां ज्वलंतीमिव तेजसा।
अंतःसलिलसंयुक्तां विहितां विश्वकर्मणा३९।
दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्।
नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि४०।
अवदातैस्तथा गुल्मै रक्तमंजरिधारिभिः।
सिताभ्रघनसंकाशां प्लवंतीं च ददर्श सः४१।
रश्मिमती स्वभावेन दिव्यगंधमनोरमा।
सुसुखा न च दुःखा सा न शीता न च घर्मदा४२।
न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवंति ते।
नानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः४३।
अतिचंद्रातिसूर्याति शिखिकान्ति स्वयंप्रभा।
दीप्यते नाकपृष्ठस्था भासयंती विभासुरा४४।
सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाः।
रसवच्च प्रभूतं च भक्ष्यभोज्यान्नमुत्तमं४५।
पुण्यगंधास्रजश्चापि नित्यकालफला द्रुमाः।
उष्णे शीतानि तोयानि शीते चोष्णानि संति वै४६।
पुष्पिताग्रान्महाशाखान्प्रवालांकुरधारिणः।
लतावितानसंछन्नान्कल्पानैक्षिष्ठ स प्रभुः४७।
गंधवंति च पुष्पाणि रसवंति फलानि च।
तानि शीतानि चोष्णानि तत्रतत्र सरांसि च४८।
अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुः।
नलिनैः पुंडरीकैश्च शतपत्रैः सुगंधिभिः४९।
रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथा।
नानाश्चर्यसमोपेतैः पुष्पैरन्यैश्च सुप्रियैः1.45.५०।
कारंडवैश्चक्रवाकैः सारसैः कुररैरपि।
विमलस्फटिकाभानि पांडुरच्छदनैर्द्विजैः५१।
बहुहंसोपगीतानि सारसानां रुतानि च।
गंधयुक्ता लतास्तत्र पुष्पमंजरिधारिणीः५२।
दृष्टवान्भगवान्हृष्टः खदिरान्वेतसार्जुनान्।
चूतानिम्बानागवृक्षाः कदंबा बकुला धवाः५३।
प्रियंगवः पाटलाख्याः शाल्मल्यस्स हरिद्रवाः।
शालास्तालास्तमालाश्च चंपकाश्च मनोरमाः५४।
तथैवान्ये व्यराजंत सभायां पुष्पिता द्रुमाः।
एलाक कुभकंकोल लवली कर्णपूरकाः५५।
मधुकाः कोविदाराश्च बहुतालसमुच्छ्रयाः।
अंजनाशोकपर्णासा बहवश्चित्रका द्रुमाः५६।
वरुणाश्च पलाशाश्चा पनसास्सह चंदनैः।
नीलास्सुमनसश्चैव नीपाश्चाश्वत्थतिंदुकाः५७।
पारिजाताश्च तरवो मल्लिका भद्रदारवः।
अटरूषाः पीलूकाश्च तथा चैवैलवालुकाः५८।
मंदारकाः कुरवका पुन्नागाः कुटजास्तथा।
रक्ताः कुरवकाश्चैव नीलाश्चागरुभिः सह५९।
किंशुकाश्चैव भव्याश्च दाडिमा बीजपूरकाः।
कालेयका दुकूलाश्च हिंगवस्तैलवर्त्तिकाः६०।
खर्जूरा नालिकेराश्च हरीतक मधूककाः।
सप्तपर्णाश्च बिल्वाश्च सयावाश्च शरावताः६१।
असनाश्च तमालाश्च नानागुल्मसमावृताः।
लताश्च विविधाकाराः पुष्पपत्रफलोपगाः६२।
एते चान्ये च बहवस्तत्र काननजा द्रुमाः।
नानापुष्पफलोपेता व्यराजंत समंततः६३।
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः।
पुष्पितान्पुष्पिताग्रांश्च संपतंति महाद्रुमान्६४।
रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः।
परस्परमवैक्षंत प्रहृष्टा जीवजीविकाः६५।
तस्यां सभायां दैत्येंद्रो हिरण्यकशिपुस्तदा।
आसीन आसने चित्रे दशनल्वे प्रमाणतः६६।
दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते।
हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुंडलः६७।
उपचेरुर्महादैत्या हिरण्यकशिपुं तदा।
दिव्यतालानि गीतानि जगुर्गंधर्वसत्तमाः६८।
विश्वाची सहजन्या च प्रम्लोचेति च पूजिता।
दिव्याथ सौरभेयी च समीची पुंजिकस्थला६९।
मिश्रकेशी च रंभा च चित्रभा श्रुतिविभ्रमा।
चारुनेत्रा घृताची च मेनका चोर्वशी तथा७०।
एतास्सहस्रशश्चान्या नृत्यगीतविशारदाः।
उपातिष्ठंत राजानं हिरण्यकशिपुं प्रभुम्७१।
उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा।
बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः७२।
प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः।
सुरहन्ता दुःखकर्ता समनास्सुमतिस्तथा७३।
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा।
विश्वरूपस्वरूपश्च विश्वकायो महाबलः७४।
दशग्रीवश्च वाली च मेघवासा महासुरः।
घटाभो विटरूपश्च ज्वलनश्चेंद्रतापनः७५।
दैत्यदानवसंघास्ते सर्वे ज्वलितकुंडलाः।
स्रग्विणो वर्मिणः सर्वे सर्वे च चरितव्रताः७६।
सर्वे लब्धवराः शूरास्सर्वे विहितमृत्यवः।
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्७७।
उपासते महात्मानं सर्वे दिव्यपरिच्छदाः।
विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः७८।
महेन्द्रवपुषः सर्वे विचित्रांगदबाहवः।
भूषितांगा दितेः पुत्रास्तमुपासत सर्वतः७९।
ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः।
न श्रुतं नैव दृष्टं च कस्यापि भुवनत्रये८०।
रजतकनकचित्रवेदिकायां परिकृतरत्नविचित्रवीथिकायाम्।
स ददर्श मृगाधिपः सभायां सुरुचिर जालगवाक्षशोभितायाम्८१।
कनकवलयहारभूषितांगं दितितनयं स मृगाधिपो ददर्श।
दिवसकरकरप्रभं ज्वलंतं दितिजसहस्रशतैर्निषेव्यमाणम्८२।
ततो दृष्ट्वा महाभागं कालचक्रमिवागतम्।
नारसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम्८३।
हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्।
दिव्येन वपुषा सिंहमपश्यद्देवमागतम्८४।
तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितम्।
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः८५।
प्रह्लाद उवाच-।
महाराज महाबाहो दैत्यानामादिसंभव।
न श्रुतं नैव मे दृष्टं नारसिंहमिदं वपुः८६।
अव्यक्तं परमं दिव्यं किमिदं रूपमागतम्।
दैत्यांतकरणं घोरं शंसतीव मनो मम८७।
अस्य देवाः शरीरस्थाः सागराः सरितस्तथा।
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः८८।
चंद्रमास्सहनक्षत्रैरादित्या रश्मिभिः सह।
धनदो वरुणश्चैव यमः शक्रः शचीपतिः८९।
मरुतो देवगंधर्वा ऋषयश्च तपोधनाः।
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः९०।
ब्रह्मा देवाः पशुपतिर्ललाटस्था भ्रमंति हि।
स्थावराणि च सर्वाणि जंगमानि तथैव च९१।
भवांश्च सहितोस्माभिः सर्वैर्दैत्यगणैर्वृतः।
विमानशतसंकीर्णा सर्वा या भवतः सभा९२।
सर्वं त्रिभुवनं राजन्लोकधर्मश्च शाश्वतः।
दृश्यते नरसिंहेस्मिंस्तथेदं निखिलं जगत्९३।
प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्च।
उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च९४।
सनत्कुमारश्च महानुभावो विश्वे च देवा ॠषयश्च सर्वे।
क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे९५।
प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः।
उवाच दानवान्सर्वान्गणांश्च सगणाधिपः९६।
मृगेंद्रो गृह्यतामेष अपूर्वां तनुमास्थितः।
यदि वा संशयः कश्चिद्वध्यतां वनगोचरः९७।
ते दानवगणास्सर्वे मृगेंद्रं भीमविक्रमम्।
परिक्षिपंतो मुदितास्त्रासयामासुरोजसा९८।
सिंहनादं विमुच्याथ नरसिंहो महाबलः।
बभंज तां सभां सर्वां व्यादितास्य इवांतकः९९।
सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्।
चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः1.45.१००।
सर्वास्त्राणामथ श्रेष्ठं दंडमस्त्रं सुदारुणम्।
कालचक्रं तथा घोरं विष्णुचक्रं तथापरं१०१।
पैतामहं महात्युग्रं त्रैलोक्यनिर्मितं महत्।
विचित्रामशनिं चैव शुष्काद्रं चाशनिद्वयम्१०२।
रौद्रं तथोग्रशूलं च कंकालं मुसलं तथा।
अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च१०३।
नारायणास्त्रमैंद्रं च आग्नेयं शैशिरं तथा।
वायव्यं मथनं चैव कपालमथ किंकरम्१०४।
तथा प्रतिहतां शक्तिं क्रौंचमस्त्रं तथैव च।
मोहनं शोषणं चैव संतापनविलापने१०५।
कंपनं शातनं चैव महास्त्रं चैव रोधनम्।
कालमुद्गरमक्षोभ्यं तापनं च महाबलम्१०६।
संवर्तनं मोहनं च तथा मायाधरं वरम्।
गान्धर्वमस्त्रं दयितमसिरत्नं च नंदकम्१०७।
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम्।
अस्त्रं पाशुपतं चैव यस्या प्रतिहता गतिः१०८।
एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा।
असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम्१०९।
अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमः।
विवस्वान्घर्मसमये हिमवंतमिवांशुभिः११०।
स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः।
क्षणेनाप्लावयत्सर्वं मैनाकमिव सागरः१११।
प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा।
वज्रैरशनिभिश्चैव बहुशाखैर्महाद्रुमैः११२।
मुद्गरैः कूटपाशैश्च शिलोलूखलपर्वतैः।
शतघ्नीभिश्च दीप्ताभिर्दंडैरपि सुदारुणैः११३।
ते दानवाः पाशगृहीतहस्ता महेंद्रतुल्याशनितुल्य वेगाः।
समंततोभ्युद्यतबाहुकायाः स्थिताः सशीर्षा इव नागपोताः११४।
सुवर्णमालाकुलभूषितांगाः सुतीक्ष्णदंष्ट्राकुलवक्त्रगर्ताः।
स्फुरत्प्रभास्ते च सशृंगदेहाश्चीनांशुका भांति यथैव हंसाः११५।
सोसृजद्दानवो मायामग्निं वायुं समीरितम्।
तमिंद्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः११६।
महता तोयवर्षेण शमयमास पावकम्।
तस्यां प्रतिहतायां तु मायायां युधि दानवः११७।
असृजद्घोरसंकाशं तमस्तीव्रं समंततः।
तमसा संवृते लोके दैत्येष्वात्तायुधेषु च११८।
स्वतेजसा परिवृतो दिवाकर इवोद्गतः।
त्रिशिखां भ्रुकुटीमस्य ददृशुर्दानवा रणे११९।
ललाटस्थां त्रिकूटस्थां गंगां त्रिपथगामिव।
ततः सर्वासु मायासु हतासु दितिनंदनाः१२०।
हिरण्यकशिपुं दैत्या विषण्णाश्शरणं ययुः।
ततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा१२१।
तस्मिन्क्रुद्धे तु दैत्येंद्रे तमोभूतमभूज्जगत्।
आवहः प्रवहश्चैव विवहोथ समीरणः१२२।
परावहस्संवहश्च उद्वहश्च महाबलः।
तथा परिवहः श्रीमानुत्पातभयशंसिनः१२३।
इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः।
ये ग्रहास्सर्वलोकस्य क्षये प्रादुर्भवंति हि१२४।
ते सर्वे गगने हृष्टाव्यचरंश्च यथासुखम्।
अयोगतश्चाप्यचरद्योगं निशि निशाचरः१२५।
सग्रहः सह नक्षत्रैस्तारापतिररिंदम।
विवर्णतां च भगवान्गतो दिवि दिवाकरः१२६।
कृष्णः कबंधश्च तदा लक्ष्यते सुमहान्दिवि।
असृजच्चासितां सूर्यो धूमवत्तां विभावसुः१२७।
गगनस्थश्च भगवानभीक्ष्णं परिविष्यते।
सप्तधूमनिभा घोराः सूर्यादि विसमुत्थिताः१२८।
सोमस्य गगनस्थस्य ग्रहास्तिष्ठंति शृंङ्गगाः।
वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती१२९।
शनैश्चरो लोहितांगो लोहितांगसमद्युतिः।
समं समधिरोहंत सर्वे वै गगनेचराः१३०।
शृंगाणि शनकैर्घोरा युगांता वर्त्तन ग्रहाः।
चंद्रमाश्च सनक्षत्रो ग्रहैः सह तमोनुदः१३१।
चराचरविनाशाय रोहिणीं नाभ्यनंदत।
गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते१३२।
उल्काः प्रज्वलिताश्चंद्रे व्यचरंत यथासुखम्।
देवानामधिपो देवः सोप्यवर्षत शोणितम्१३३।
अपतद्गगनादुल्का विद्युद्रूपा महास्वना।
अकाले च द्रुमास्सर्वे पुष्प्यंति च फलंति च१३४।
लताश्च सफलाः सर्वा या आहुर्दैत्यनाशिकाः।
फले फलान्यजायंत पुष्पे पुष्पं तथैव च१३५।
उन्मीलंति निमीलंति हसंति प्ररुदंति च।
विक्रोशंति च गंभीरं धूमायंते ज्वलंति च१३६।
प्रतिमास्सर्वदेवानां कथयंत्यो महद्भयम्।
आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः१३७।
चुक्रुशुर्भैरवं तत्र मृगयुद्ध उपस्थिते।
नद्यश्च प्रतिकूलानि वहंति कलुषोदकाः१३८।
न प्राकाशंत च दिशो रक्तरेणुसमाकुलाः।
वानस्पत्या न पूज्यंते पूजनार्हाः कथंचन१३९।
वायुवेगेन हन्यंते भज्यंते प्रणमंति च।
तथा च सर्वभूतानां छाया न परिवर्त्तते१४०।
अपरेण गते सूर्ये सलोकानां युगक्षये।
तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः१४१।
भांडागारायुधागारे निविष्टमभवन्मधु।
असुराणां विनाशाय सुराणां विजयाय च१४२।
दृश्यंते विविधोत्पाता घोराघोरनिदर्शनाः।
एते चान्ये च बहवो घोररूपाः समुत्थिताः१४३।
दैत्येंद्रस्य विनाशाय दृश्यंते रणशंसिनः।
मेदिन्यां कंपमानायां दैत्येंद्रेण महात्मनः१४४।
महीधरा नागगणा निपेतुरमितौजसः।
विषज्वालाकुलैर्वक्त्रैर्विमुंचंतो हुताशनम्१४५।
चतुःशीर्षाः पंचशीर्षाः सप्तशीर्षाश्च पन्नगाः।
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ१४६।
एलामुखः कालियश्च महापद्मश्च वीर्यवान्।
सहस्रशीर्षश्शुद्धांगो हेमतालध्वजः प्रभुः१४७।
शेषोनंतो महानागो ह्यप्रकंप्यश्च कंपिताः।
दीप्यंतेंतर्जलस्थानि पृथिवीविवराणि वै१४८।
सप्तदैत्येंद्रकोपेन कंपितानि समंततः।
नानातेजोधराश्चापि पातालतलचारिणः१४९।
पाताले सहसा क्षुब्धे दुष्प्रकंप्याः प्रकंपिताः।
हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान्महीम्1.45.१५०।
संदष्टौष्ठपुटः क्रुद्धो वराह इव पूर्वजः।
गंगा भागीरथी चैव कौशिकी सरयूरपि१५१।
यमुना चाथ कावेरी कृष्णवेणी च निम्नगा।
तुंगभद्रा महावेगा नदी गोदावरी तथा१५२।
चर्मण्वती च सिंधुश्च तथा नदनदीपतिः।
मेलकप्रभवश्चैव शोणो मणिनिभोदकः१५३।
नर्मदा च शुभस्रोतास्तथा वेत्रवती नदी।
गोमती गोकुलाकीर्णा तथा पूर्वा सरस्वती१५४।
महाकालमहीचैव तमसा पुष्पवाहिनी।
जंबूद्वीपं रत्नवच्च सर्वरत्नोपशोभितम्१५५।
सुवर्णपुटकं चैव सुवर्णाकरमंडितम्।
महानदश्च लौहित्यश्शैलः कांचनशोभितः१५६।
पत्तनं कोशकाराणां कशं च रजताकरम्।
मगधाश्च महाग्रामाः पुण्ड्रा उग्रास्तथैव च१५७।
स्रुघ्ना मल्ला विदेहाश्च मालवाः काशि कोसलाः।
भवनं वैनतेयस्य दैत्येंद्रेणाभिकंपितम्१५८।
कैलासशिखराकारं यत्कृतं विश्वकर्मणा।
रत्नतोयो महाभीमो लौहित्यो नाम सागरः१५९।
उदयश्च महाशैल उच्छ्रितः शतयोजनम्।
सवर्णवेदिकः श्रीमान्मेघपंक्तिनिषेवितः१६०।
भ्राजमानोर्कसदृशैर्जातरूपमयैर्द्रुमैः।
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः१६१।
अयोमुखश्च विख्यातः सर्वतो धातुमंडितः।
तमालवनगंधश्च पर्वतो मलयः शुभः१६२।
सुराष्ट्राश्च सबाह्लीकाश्शूद्राभीरास्तथैव च।
भोजाः पांड्याश्च वंगाश्च कलिंगास्ताम्रलिप्तकाः१६३।
तथैव पौंड्राः शुभ्राश्च वामचूडास्सकेरलाः।
क्षोभितास्तेन दैत्येन देवाश्चाप्सरसां गणाः१६४।
अगस्त्यभवनं चैव यदगस्त्यकृतं पुरा।
सिद्धचारणसंघैश्च विप्रकीर्णं मनोहरम्१६५।
विचित्रनानाविहगं सपुष्पितमहाद्रुमम्।
जातरूपमयैः शृंगैरप्सरोगणसेवितम्१६६।
गिरिः पुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः।
उत्थितः सागरं भित्वा विश्रामश्चंद्रसूर्ययोः१६७।
रराज स महाशृंगैर्गगनं विलिखन्निव।
चंद्रसूर्यांशुसंकाशैः सागरांबुसमावृतैः१६८।
विद्युत्त्वान्पर्वतः श्रीमानायतः शतयोजनम्।
विद्युतां यत्र संपाता निपात्यंते नगोत्तमे१६९।
ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितः।
कुंजरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम्१७०।
विमलाख्या च दुर्द्धर्षा सर्पाणां मालती पुरी।
तथा भोगवती चापि दैत्येंद्रेणाभिकंपिता१७१।
महासेनगिरिश्चैव पारियात्रश्च पर्वतः।
चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः१७२।
प्राग्ज्योतिषपुरं चापि जातरूपमयं शुभम्।
यस्मिन्नुवास दुष्टात्मा नरको नाम दानवः१७३।
मेघश्च पर्वतश्रेष्ठो मेघगंभीरनिस्स्वनः।
षष्टिस्तत्र सहस्राणि पर्वतानां विशांपते१७४।
तरुणादित्यसंकाशो मेरुश्चैव महान्गिरिः।
यक्षराक्षसगंधर्वैर्नित्यं सेवितकंदरः१७५।
हेमगर्भो महासेनस्तथा मेघसखो गिरिः।
कैलासश्चैव शैलेंद्रो दानवेंद्रेण कंपितः१७६।
हेमपुष्करसञ्छन्नं तेन वैखानसं सरः।
कंपितं मानसं चैव हंसकारंडवाकुलम्१७७।
त्रिशृंगः पर्वतश्रेष्ठः कुमारी च सरिद्वरा।
तुषारचयसंच्छन्नो मंदरश्चापि पर्वतः१७८।
उशीरबीजश्च गिरिर्भद्रप्रस्थस्तथाद्रिराट्।
प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः१७९।
देवाभः पर्वतश्चैव तथा वै वालुकागिरिः।
क्रौंचः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः१८०।
एते चान्ये च गिरयो देशा जनपदास्तथा।
नद्यः ससागराः सर्वाः दानवेनाभिकंपिताः१८१।
कपिलश्च महीपुत्रो व्याघ्रवांश्च प्रकंपितः।
खेचराश्च निशापुत्राः पातालतलवासिनः१८२।
गणस्तथापरो रौद्रो मेघनामांकुशायुधः।
ऊर्द्ध्वगो भीमवेगश्च सर्व एतेभिकंपिताः१८३।
गदी शूली करालश्च हिरण्यकशिपुस्तथा।
जीमूतघननिर्घोषो जीमूत इव वेगवान्१८४।
देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत्।
स तु तेन ततस्तीक्ष्णैर्मृगेंद्रेण महानखैः१८५।
तदोंकारसहायेन विदार्य निहतो युधि।
मही च कालश्च शशीनभश्च ग्रहास्स सूर्याश्च दिशश्च सर्वाः१८६।
नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात्।
ततः प्रमुदिता देवा ऋषयश्च तपोधनाः१८७।
तुष्टुवुर्नामभिर्दिव्यैरादिदेवं सनातनम्।
यत्त्वया विधृतं देव नारसिंहमिदं वपुः१८८।
एतदेवार्चयिष्यंति परापरविदो जनाः।
ब्रह्मोवाच-।
भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः१८९।
भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः।
परां च सिद्धिं च परं च सत्वं परं रहस्यं परमं हविश्च१९०।
परं च धर्मं परमं यशश्च त्वामाहुरग्र्यं परमं पुराणम्।
परं च सत्यं परमं तपश्च परं पवित्रं परमं च मार्गं१९१।
परं च यज्ञं परमं च होत्रं त्वामाहुरग्य्रं परमं पुराणम्।
परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम्१९२।
परं रहस्यं परमां गतिं च त्वामाहुरग्य्रं परमं पुराणम्।
एवमुक्त्वा तु भगवान्सर्वलोकपितामहः१९३।
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः।
ततो नदत्सु तूर्येषु नृत्यंतीष्वप्सरःसु च१९४।
क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः।
नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमान्१९५।
पौराणं रूपमास्थाय प्रययौ गरडध्वजः।
अष्टचक्रेण यानेन भूतियुक्तेन भास्वता१९६।
अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः१९७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे नरसिंहप्रादुर्भावो नाम पंचचत्वारिंशत्तमोऽध्यायः४५।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 46
श्री भीष्म उवाच-।
नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरितं।
तथा भवस्य माहात्म्यं भैरवस्याभिधीयताम्१।
पुलस्त्य उवाच।
तस्यापि देवदेवस्य शृणु त्वं कर्म चोत्तमं।
आसीद्दैत्योंधको नाम भिन्नांजनचयोपमः२।
तपसा महता युक्तो ह्यवध्यस्त्रिदिवौकसाम्।
स कदाचिन्महादेवं पार्वत्या सहितं विभुं३।
क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे।
एतां देवीं हराम्यद्य वियोगे मृत्युमेष्यति४।
ततः स्थिरा भवित्री मे भार्यैषा लोकसुंदरी।
बिबौष्ठं चारुवदनं चारुकांततरं मुखं५।
यद्येषा न भवेद्भार्या जीविते किं प्रयोजनम्।
एतां मतिमथास्थाय मंत्रिभिः सह मंत्र्य च६।
चक्रे योगं ससैन्यस्य सेनापतिमभाषत।
आनयस्व रथं मह्यं जैत्रं देवनिपातनम्७।
जयिष्ये त्रिदशान्सर्वान्विष्णुरुद्रपुरोगमान्।
हरिष्ये पर्वतसुतां तया मेऽपहृतं मनः८।
मंत्रिणा तस्य चाख्यातः कनकस्य वधस्सुरैः।
परभार्यानुरक्तस्य कृतो देवैः सवासवैः९।
ततः कोपपरीतात्मा हन्मि देवान्सशंकरान्।
तं हत्वा दानवं शक्रो भयादंधासुरस्य च१०।
जगाम शरणान्वेषी कैलासं शंकरालयं।
दृष्ट्वा प्रणम्य देवेशं चंद्रार्द्धकृतशेखरं११।
भीतो विज्ञापयामास धृतसाहस्रलोचनः।
अभयं देहि मे देव दानवादंधकादहं१२।
बिभेमि तस्य पुत्रोद्य मया युधि निपातितः।
तद्यावन्न स जानाति हतं पुत्रं महासुरः१३।
तावत्तत्रस्थ एवाशु हन्यतां मद्भयावहः।
स्त्रीलौल्याद्दानवः क्रूरः परभार्यापहारकः१४।
सर्वथा घातनीयस्ते भवता सुरसत्तम।
शक्रस्यैवं वचः श्रुत्वा शरण्यः शंकरस्तदा१५।
ददावभयमेवासौ मा भैरिति शतक्रतोः।
दत्ताभयोथ कैलासादाजगाम कुशस्थलीम्१६।
वृतो भूतगणैरीशो वधार्थमंधकस्य तु।
कृत्वा रूपं महाकायं विश्वरूपं सुभैरवं१७।
सर्पैर्ज्वलद्भिर्धावद्भिर्भीमं भीमभुजंगवत्।
जटासटाभिराकाशं फणिरत्नशिखार्चिषा१८।
दहन्नतीवतेजोभिः कालाग्निरिव संक्षये।
मुखैर्दंष्ट्रांकुरांकैश्च द्वितीयेन्दुकलोज्ज्वलैः१९।
पातालोदररूपाभैर्भैरवारावनादिभिः।
भुजैरनेकसाहस्रैर्बहुशस्त्रकृतग्रहः२०।
बह्वाभरणभूषाढ्यै रणे घोरनिनादिभिः।
सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकं२१।
गजाजिनकृताटोपं पतद्भृंगरवाकुलं।
ईदृग्रूपं विधायेशो दनुदैत्यभयावहं२२।
अवातरन्महीं भीमो दनूनां क्षयकारकः।
अंधासुरोपि दनुजः पुत्रं श्रुत्वा हतं युधि२३।
क्रोधेन तमसाविष्टो रणतूर्याण्यचोदयत्।
संहत्यावहितः प्राप्तो यत्र ते त्रिदशाः स्थिताः२४।
महत्या सेनया सार्द्धं रथवारणयुक्तया।
ते देवा दानवान्वीक्ष्य महाहवकृतादरान्२५।
व्यपयाततनुत्राणाः शंभुं शरणमन्वयुः।
मा भैरिति च तान्देवो देवानुक्त्वा त्रिलोचनः२६।
गृहीत्वा शूलमातिष्ठद्दंष्ट्रारवधरो रुषा।
अंधकेनाथ रुष्टेन शतकोटिशरैर्गणाः२७।
निहताश्चापि देवानां बहूनामेकताकृतां।
सस्फुलिंगार्चिषो वह्नेर्मुंचमानः पिनाकधृक्२८।
शरैः समावृतं चक्रे अंधकं रथगं ततः।
दनुनाथो रथस्थोथ शिथिलः शिथिलायुधः२९।
निमंत्र्य दानवान्सर्वान्स योद्धुमुपचक्रमे।
बहुधा तद्बलं भग्नं विविधायुधयोधिभिः३०।
युधि वीरैर्हतं देवैः स्थाणुना सख्यमाश्रितैः।
दानवश्चांधकः सैन्यं भिन्नं दृष्ट्वा कृतं सुरैः३१।
आत्मानं च महेशेन निरुद्धं बाणकोटिभिः।
विह्वलीभूतदेहोसौ धैर्यमालंब्य केवलम्३२।
पिनाकं चैव रुद्रस्य गृह्य रुद्रमताडयत्।
पिनाकस्याभिघातेन रुद्रो भूमिमथागमत्३३।
भूमौ निपातिते देवे चलितं भुवनत्रयं।
तत्यजुः सागरा वेलां पर्वताः शिखराणि च३४।
नक्षत्राणि वियोगीनि जग्मुर्मुक्तान्यनेकशः।
पतिते भुवि देवेशे अंधको गदया पुनः३५।
जघान रुषितो नागं हत्वा तं पातयद्भुवि।
शिवं त्यक्त्वा नागराजः प्रपलाय्यान्यतो गतः३६।
मुहूर्त्ताच्चेतनां लब्ध्वा उत्थितः परमेश्वरः।
गृहीत्वा परशुं दिव्यं दानवं नैव पश्यति३७।
कृत्वा तु तामसीं मायां मायाशतविशारदः।
तया विमोहिते देवे क्व नु वै दानवो गतः३८।
शंभोर्भयमथो प्राप्य किं नु पापः करिष्यति।
तमसा छादिता यावद्देवा व्याकुलतां गताः३९।
संभ्रांतमानसानीकास्तदोचुः कार्यगौरवात्।
एतस्मिन्नंतरे सूर्यस्तेजोरूपो व्यवस्थितः४०।
उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशः।
नष्टे तमसि हृष्टाङ्गे खद्योते प्रकटे स्थिते४१।
देवा मुदमवापुस्ते स्पष्टाननविलोचनाः।
उद्दीप्तास्तु सुराः सर्वे गणाः स्कंदपुरोगमाः४२।
स्तुवंति विविधैस्तोत्रैः नररूपं दिवाकरम्।
अनौपम्यं जगद्व्यापि ब्रह्मविष्णुशिवात्परम्४३।
स्निग्धविद्रुमसच्छायं सिंदूरारुणसप्रभम्।
प्रभासंतं तदा दृष्ट्वा पंचांगालिंगितावनिः४४।
पुनः प्रणामप्रवणं प्रणिधानपुरःसरम्।
आलोक्य स्निग्धया दृष्ट्या देवदेवं त्रिलोचनः४५।
उवाच स्निग्धगंभीर वाचा देवं शनैर्हरः।
पूरयन्निव तेजोभिर्भगवान्भुवनत्रयम्४६।
दैत्यमायाभिपन्नानां दर्शनाकुलचेतसाम्।
प्राणिनामिदमेवैकमविसंवादि दैवतम्४७।
अयमेव च संसारसागरात्सकलादपि।
सत्त्वानुत्तारयन्देवः कर्णधाराय ते प्रभुः४८।
यजंतो जंतवो भक्त्या यं देवं विविधाः सदा।
निःश्रेयसाय कल्पंते तं नतो भास्करं विभुम्४९।
यस्तूदयाद्रिशिखरे मकुटायमानलीलागभस्तिभिरलं कुसुमप्रकाशैः।
व्याप्य स्वदीधितिगणैः प्रदिशो दिशश्च देदीप्यते स सविता विभवाय लोके1.46.५०।
ब्रह्मेंद्ररुद्रमरुदच्युतवह्निपाथो नाथ प्रयोगनिपुणैश्च ऋषींद्रसंघैः।
श्रेयोर्थिभिः प्रतिदिनं दिवसांगरागैर्दिव्यांगरागपरिलिप्त समस्तदैहैः५१।
पूज्यं वपुस्तव सदा प्रलये हि वेदैर्गीर्भिर्विचित्रपदमंडलमंडिताभिः।
ये त्वां स्तुवंति परसद्मनि सद्महीना नित्यं प्रसारितकरा भुवि ते भवंति५२।
ये दद्रुकुष्ठपिटिकादिभिरर्दितांगाः शीर्णत्वचः कुनखिनश्च्युतकेशनाशाः।
देवेश तेपि तवपादनता भवंति सद्यो द्विरष्टशरदाकृतयो मनुष्याः५३।
सामेति सामगगणा हि मखार्थकं त्वामध्वर्यवस्त्वृगिति बह्वृचमुख्यपूगाः।
त्वामेवमार्यमिति कार्यविदोधिगंतुं नागाश्च वेति पितरोप्यथ सर्वगंधम्५४।
मायेति चोपनिषदर्कषडेव देवा मर्त्यास्तथा वयमिवेह उपासतेऽमी।
गंधर्वकिन्नरगणाः सहचारणैस्तु रूपं तथा च भगवन्प्रतिपद्यसे त्वम्५५।
येनार्चयंति सततं भवतोर्च्यमर्चिस्तेर्चिष्प्रतापितदिगंबरवित्तहीनाः।
क्षुत्क्षामकंठजठराघटखर्परेण भिक्षामटंति परवेश्मसुतेर्थहीनाः५६।
उत्फुल्लकोकनदकोशविशालनेत्रमीषद्विलासलुलिताञ्चितपिंगतारम्।
कामं प्रशस्ततरसुंदरहाररम्यमुत्तुंगपीवरपयोधरभारखिन्नं५७।
रंभोपमोरु पृथुपीननितंबबिंबानद्धक्वणन्मणिरणद्रशनाकलापं।
बृंदं ललाटतटकोटिपटांतलंबि हेमांचलांचितमुखं कुलपालिकानाम्५८।
कांतं गृहेषु कलगद्गदभाषितानां झंकारनूपुररवेणविरावितानाम्।
तेषां कृशानुकरमिन्दुसमानकांतं यैरर्चितोसि भगवन्भवमोचनस्त्वं५९।
ब्रह्मा त्वमेव हरिरस्यनिलोऽनलोसि रुद्रोंऽतकोसि वरुणोऽस्यमराधिपोसि।
सोमोसि वायुरसि भूरसि चेश्वरोसि यज्ञोसि वित्तपतिरस्यपराजितोसि६०।
ते सप्तसप्तिसुरवाहरणेन मुक्ता भूमावथेति तरसोरुतरंतरीताः।
व्योमैतदंतरहितं परितो हि गत्वा गच्छंति न श्रमदं हिमनागपीमे६१।
ध्यानैकयोगनिरताश्च समाधिभावात्ध्यात्वा पदं तव तुरीयमनंतमूर्ते।
मुक्तामयास्तनुभृतो न भियाभियुक्तास्तद्ब्रह्मशाश्वतमचिंत्यमनाद्यनंतं६२।
जन्मादिरोगरहितं परमं पुराणमीशं जरामरणशोकभयातिरिक्तम्।
स्थूलानुभावनगणागणितं विशुद्धं वेदांतवादिभिरलं परिमन्यते यत्६३।
त्वामग्निपुंजवपुषं तपसां निवासं याता दिवं सुचिरकालमुपास्यभक्ताः।
भानो सुरासुरसमूहशिरोनिघृष्ट पादारविंदयुगलामलचारुमूर्त्ते६४।
भूतेशभूतवरदा सकृदव्ययात्मन्व्योमाट्टहाससवितर्भुवनैकदीप।
ऋक्साममंत्रयजुषामधिवास नाम सृष्टिस्थितिप्रलयकारणलोकपाल६५।
दीनस्य देव कृपणस्य भवेभवे मे मग्नस्य चारुदविचार मनोरथानि।
शश्वद्यतीश्वर शशी करकंकघोरोत्पातो जरामरणशोकरुगांतरस्य६६।
यः प्रातः सायमिदं मध्याह्ने वा पठेच्च दीप्तांशोः।
सालोक्यं याति रवेः प्राप्नोति धर्मार्थकामांश्च६७।
नित्यं तस्माच्च सूर्याच्च मनसोभिहितं च यत्।
नमस्ते देवदेवेश भक्तानामभयंकर६८।
सुब्रह्मण्य नमस्ते तु सर्वदेवनमस्कृत।
तिग्मांशो वै नमस्तुभ्यं जगतश्चक्षुषे नमः६९।
प्रभाकर नमस्तेस्तु भानो जय जगत्पते।
अनेन दनुमुख्येन पीडितोहं जगत्पते७०।
किं करोमि कथं चैनं घातयामि दिवाकर।
सूर्य उवाच-।
जय शूलेन पापिष्ठं मायाशतविशारदम्७१।
जयं प्राप्नुहि देवेश हत्वा शूलेन चांधकम्।
गृह्य शूलं ततो दूरमाक्षिप्य हर तेजसा७२।
ततोन्धकस्त्रिशूलेनाताडयत्पापकर्मकृत्।
तस्मिन्युद्धे तथा रुद्रो ह्यन्धकेनाभिपीडितः७३।
मुमोच बाणमुत्युग्रं नाम्ना पाशुपतं हि यत्।
पिनाकमानम्य दोर्भ्यां पिनाकी शंकरः स्वयम्७४।
रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तु।
अंधकाश्च समुत्पन्नाश्शतशोथ सहस्रशः७५।
तेषां विदार्यमाणानां रुधिरादपरे पुनः।
बभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत्७६।
तं तु मायाविनं दृष्ट्वा देवदेवस्तदांधकम्।
पानार्थमंधकस्यास्रं ससृजे मातृकास्तदा७७।
माहेश्वरीं तथा ब्राह्मीं शौरीं वा बाडवीं तथा।
सौपर्णीमथ वायव्यां शंखिनीं तैत्तिरीं तथा७८।
सौरीं सौम्यां शिवदूतीं चामुंडामथ वारुणीं।
वाराहीं नारसिंहीं च वैष्णवीं च विभावरीं७९।
शतानंदां भगानंदां पिच्छिलां भगमालिनीं।
बालामतिबलां रक्तां सुरभीं मुखमंडिताम्८०।
मातृनंदां सुनंदां च बिडानीं शकुनीं तथा।
रेवतीं च महापुण्यां तथैव शिखिपट्टिकां८१।
शूलेन च ततो दैत्यं बिभेद त्रिपुरांतकः।
निर्गतं रुधिरं तस्मात्पपुस्ता मातरस्तदा८२।
नीरक्तो हि तदा दैत्यश्शुष्कतां प्राप भूपते।
शूले प्रोतस्तदा दैत्यो दिव्यवर्षसहस्रकम्८३।
महाबलेन रुद्रेण विधृतोपि मृतो नहि।
स्तुतस्तेन तदा शंभुर्भक्त्या दैत्येन सुव्रत८४।
नमोस्तु शंभो भवनाशहेतो नमोस्तु ते देव वरप्रसीद।
त्वं भू जलाग्नीरनभोर्कसोमयज्वाष्टमूर्तिर्भवभावनोलम्८५।
त्वां वै बाणो बहुवाद्येन तोष्य प्राप्तश्चैश्यं स्वे पुरे तत्स्वरक्ष्यम्।
रक्षोधीशो बाहुभिस्तोल्यशैलं युष्मत्क्रांतक्लिष्टरूपो ह्यनौषीत्८६।
प्राप्तोप्यैश्यं सर्वरक्षोगणानां पुत्रं चापि प्रोर्जितं शक्रबंधम्।
भवभयहर हर परम उदार मम सुखकरण निखिल सुरसार८७।
जितमरुदभिमतवितरणपार तव पदकमलमिहारणसार।
तवेश पादपंकजं करोति यो नरो हृदि सदेशतस्य वांछितं ददासि भक्तिभावितः८८।
मुनीश्वराः पुरा हरं भवंतमेवमादरात्प्रपूज्य लिंगरूपिणं समापिता मनोरथान्।
भवोद्भवैकरूपिणं प्रपंचपंचकाकृतिं विचिंत्यवृक्षकोटरस्थ एष जीवजीवनं८९।
भवेद्भवाङ्घ्रिचिंतनाप्तसर्वकामईश्वर त्वदीय किंकरान्विते पदे पदे समागतः।
मूढोहं नाभिजानामि त्वां स्तोतुं भक्तवत्सल९०।
सदीश्वरेण मनसाप्यनुकंप्यो रणं गतः।
इति स्तुतो महेशस्तु भक्त्या दैत्येन सादरं९१।
गणेशतां ददौ तस्मै नाम भृंगीरिटीति च।
एष ते महिमा भूप हरस्य भवहारिणः९२।
कथितो विघ्नविघ्नाख्यस्तत्पराणां सुखावहः।
भीष्म उवाच।
मनुष्यस्यापि देवत्वं सुखं राज्यं धनं यशः९३।
जयं भोग्यं तथारोग्यमायुर्विद्यां श्रियं सुतं।
बंधुवर्ग शिवं सर्वं ब्रूहि मे विप्रसत्तम९४।
पुलस्त्य उवाच।
एभिर्गुणैर्युतः श्रीमान्सदैवब्राह्मणो भुवि।
त्रैलोक्ये तु सदा मेध्यो विप्रदेवो युगेयुगे९५।
पूजयित्वा द्विजान्देवाः स्वर्गं भुंजंति चाक्षयं।
धरामवंति राजानो लोकावित्तं सुखं शिवं९६।
लोके विप्र समो नास्ति देवानामपि दैवतं।
स च धर्ममयः साक्षाद्भुवि मुक्तिप्रदो भृशं९७।
लोकानां स गुरुः पूज्यस्तीर्थभूतोऽनघो जनः।
सर्वदेवालयः सत्वो निर्मितो ब्रह्मणा पुरा९८।
इममर्थं पुरा पृष्टो नारदेन पितामहः।
कस्मिंस्तु पूजिते ब्रह्मन्प्रसादी माधवो भवेत्९९।
ब्रह्मोवाच -।
यस्य विप्राः प्रसीदंति तस्य विष्णुः प्रसीदति।
तस्माद्ब्राह्मण शुश्रूषुः परं ब्रह्माधिगच्छति1.46.१००।
विष्णुर्ब्राह्मणदेहेषु सदा वसति नान्यथा।
तस्माद्ब्राह्मणपूजायां विष्णुस्तुष्यति तत्क्षणात्१०१।
विप्रान्यः पूजयेन्नित्यं दानमानार्चनादिभिः।
कृतं क्रतुशतं तेन विध्युक्तं प्रियदक्षिणम्१०२।
ब्राह्मणस्य मुखं क्षेत्रमनूषरमकण्टकम्।
वापयेत्सर्वबीजानि सा कृषिस्सार्वकालिकी१०३।
अभिगम्य तु यद्दत्तं यच्च दानं मनोरमं।
विद्यते सागरस्यांतो दानस्यांतो न विद्यते१०४।
मनसापि न हिंसंति भूदेवमाततायिनं।
मनोनुकूलतां यांति देवैरपि च दुर्लभां१०५।
गृहे यस्यागतो विद्वान्नैराश्यं नोपगच्छति।
सर्वपापक्षयस्तस्य चाक्षयं स्वर्गमश्नुते१०६।
काले देशे च पात्रे च विप्रे यच्चार्पयेद्वसु।
तद्धनं चाक्षयं विद्धि जन्मजन्मनि तिष्ठति१०७।
न च दारिद्र्यतामेति नातुरो न च कातरः।
मनोनुकूलां प्रमदामर्चयित्वा द्विजान्लभेत्१०८।
कृत्वा साहसकर्माणि दद्याद्विप्राय पर्वसु।
तद्दानं सुगुणं प्रोक्तमभयं लाभ एव च१०९।
विप्रपादतलोद्घृष्टि क्षती भवति यः करः।
स करः श्रीकरो नाम अन्यः कर्मकरः करः११०।
विप्रपादरजः पूताः पूतास्तज्जलबिन्दुभिः।
विपद्भिश्च सदा पापैर्मुक्ता यांति त्रिविष्टपम्१११।
विप्रपादरजः पूताः शुचयो गृह चत्वराः।
पुण्यक्षेत्रसमास्ते स्युः प्रशस्ता यज्ञकर्मसु११२।
आदौ ब्रह्ममुखाद्विप्रः समुद्भूतः पुरानघः।
वेदास्तत्रैव संजाताः सृष्टिसंस्थिति हेतवः११३।
तस्माद्विप्रमुखे वेदाश्चार्पिताः पुरुषेण हि।
पूजार्थं सर्वलोकानां सर्वयज्ञार्थतो ध्रुवम्११४।
पितृयज्ञे विवाहे च वह्निकार्येषु शांतिषु।
प्रशस्ता ब्राह्मणा नित्यं सर्व स्वस्त्ययनेषु च११५।
देवा भुंजंति हव्यानि बलिप्रेतादयोऽसुराः।
पितरश्चैव कव्यानि विप्रस्यैव मुखाद्र्धुवम्११६।
देवेभ्यश्च पितृभ्यश्च यो दद्याद्यज्ञकर्मसु।
दानं होमं बलिं चैव विना विप्रेण निष्फलम्११७।
भुंजंति चासुरास्तत्र प्रेता दैत्याश्च राक्षसाः।
तस्माद्ब्राह्मणमाहूय तेषु कर्माणि कारयेत्११८।
काले देशे च पात्रे च लक्षकोटिगुणं भवेत्।
श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम्११९।
दीर्घायुस्तस्य वाक्येन चिरंजीवी भवेन्नरः।
अनभिवादनाद्विप्र द्वेषादश्रद्धयापि च१२०।
आयुः क्षीणं भवेत्पुंसां भूतिनाशश्च दुर्गतिः।
आयुर्वृद्धिर्यशोवृद्धिर्वृद्धिर्विद्या धनस्य च१२१।
पूजयित्वा द्विजान्श्रेष्ठो भवेन्नास्त्यत्र संशयः।
न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिघोषितानि१२२।
स्वाहा स्वधा स्वस्तिविवर्जितानि श्मशानतुल्यानि गृहाणि तानि।
नारद उवाच।
कश्च पूज्यतमो विप्रो ह्यपूज्यो वाथ को भवेत्१२३।
विप्रस्य लक्षणं ब्रूहि याथातथ्यं गुरोरपि।
ब्रह्मोवाच-।
पूज्यः श्रोत्रियको नित्यं सदाचारसमन्वितः१२४।
सद्वृत्तः कलुषैर्मुक्तस्तीर्थभूतो जनोऽनघः।
नारद उवाच-।
जातः कः श्रोत्रियस्तात सत्कुले वाप्यसत्कुले१२५।
सदसत्कर्मकर्ता वा कः पूज्यो भुवि बाडवः।
ब्रह्मोवाच-।
सत्श्रोत्रियकुले जातो ह्यक्रियो नैव पूजितः१२६।
असत्क्षेत्रकुले पूज्यो व्यास वैभांडकौ यथा।
क्षत्रियाणां कुले जातो विश्वामित्रोस्ति मत्समः१२७।
वेश्यापुत्रो वसिष्ठश्च अन्ये सिद्धा द्विजादयः।
तस्मात्सच्छोत्रियादीनां शृणु पुत्रक लक्षणम्१२८।
धरायां तीर्थभूतानां सर्वपापहराय च।
जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते१२९ द्विज।
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् विप्र।
विद्यापूतो मंत्रपूतो वेदपूतस्तथैव च१३०।
तीर्थस्नानादिभिर्मेध्यो विप्रः पूज्यतमः स्मृतः।
नारायणे सदा भक्तः शुद्धांतःकरणस्तथा१३१।
जितेंद्रियो जितक्रोधस्समः सर्वजनेषु च।
गुरुदेवातिथेर्भक्तः पित्रोः शुश्रूषणे रतः१३२।
परदारे मनो यस्य कदाचिन्नैव मोदते।
पुराणकथको नित्यं धर्माख्यानस्य संततिः१३३।
अस्यैव दर्शनान्नित्यमश्वमेधादिजं फलम्।
संलापे गतिमेत्यस्य भागीरथ्या प्लवस्य च१३४।
व्रतैश्च विविधैः पूतो नित्यस्नानद्विजार्चनैः।
मित्रामित्रे दयालुः स्यात्समः सर्वजनेषु च१३५।
परस्वं न हरेद्यस्तु तृणमप्यटवीगतम्।
कामक्रोधादिनिर्मुक्त इंद्रियैरजितः पुमान्१३६।
परदारान्न गृह्णाति मनसापि गृहागतान्।
नारद उवाच-।
गायत्र्या लक्षणं किं वा प्रत्येकाक्षरजं गुणम्१३७।
कुक्षिचरणगोत्राणां तस्या ब्रूहि सुनिश्चयम्।
ब्रह्मोवाच-।
छंदो गायत्री गायत्र्याः सविता देवता ध्रुवम्१३८।
शुक्लवर्णात्वग्निमुखा विश्वामित्र ऋषिस्तथा।
ब्रह्मणश्शिरआरूढा शिखा विष्णु हृदि स्थिता१३९।
उपनयने नियोगः स्यात्सांख्यायन सगोत्रजा।
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षि संस्थिता१४०।
चतुर्विंशतिस्थाने च पादादौ मस्तकांतके।
चतुर्विंशत्यक्षरं न्यस्य ब्रह्मलोकं स विंदति१४१।
प्रत्यर्णदेवतां ज्ञात्वा विष्णुसायुज्यमाप्नुयात्।
अपरं च प्रवक्ष्यामि गायत्र्या लक्षणं ध्रुवं१४२।
सप्तपंच तथा ब्रह्म यजुरष्टादशाक्षरम्।
ज्वलनादिहकारांतं जले स्थित्वा शतं जपेत्१४३।
उपपातककोट्या तु तथातिपातकैरपि।
ब्रह्महत्यादिभिः पापैर्मुक्ता यांति ममालयं१४४।
ॐअग्नेर्वाक्पुंसि यजुर्वेदेन जुष्टात्सोमं पिब स्वाहा।
विष्णुमंत्रं महामंत्रं तथा माहेश्वरस्य च१४५।
देवीसूर्यगणेशानां तथा क्रतुभुजां सुत।
यस्य कस्य कुले जातो गुणवानेव तैर्गुणैः१४६।
साक्षाद्ब्रह्ममयो विप्रः पूजनीयः प्रयत्नतः।
दानं दद्याच्च विधिवत्सदा पर्वणि पर्वणि१४७।
अक्षयं लभते दाता जन्मकोटिशतान्प्रति।
स्वाध्यायनिरतो विप्रो यः पठेत्पाठयेत्परान्१४८।
धर्मं च श्रावयेल्लोके सदाचारं श्रुतिं स्मृतिं।
पुराणसंहितां नूनं तथैव धर्मसंहितां१४९।
श्रावयित्वा तु लोकेषु श्रावयित्वा द्विजातिषु।
उर्व्यां विष्णुसमः सोपि पूजनीयो नरैः सुरैः1.46.१५०।
यद्बलं चाक्षयं तस्य तीर्थभूतानघस्य च।
समानमर्चनं कृत्वा नरो यात्यच्युतालयं१५१।
कदाचित्क्रियते पापं विप्रः पापैर्न लिप्यते।
चांडालस्य गृहे निष्ठौ भास्करज्वलनौ यथा१५२।
याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात्।
विप्राणां न भवेद्दोषो ज्वलनार्कसमा द्विजाः१५३।
तान्प्रतिग्रहजान्दोषान्प्राणायाम व्यवस्थिताः।
नाशयंतीह पापानि वायुर्मेघमिवांबरे१५४।
गायत्रीं यो जपेन्नित्यं प्राणायामसमन्वितां।
प्रत्यक्षरामरैर्युक्तां स्वाङ्गे विन्यस्य तामपि१५५।
सर्वपापाद्विनिर्मुक्तो जन्मकोटिकृतादपि।
ब्रह्मणः पदवीं प्राप्य स गच्छेत्प्रकृतेः परम्१५६।
प्राणायामयुतां तस्माद्गायत्रीं जप नारद।
नारद उवाच-।
प्राणायामाः कथं ब्रह्मन्प्रत्येकाक्षरदेवताः१५७।
तेषां न्यासं तथांगेषु वद तात यथाक्रमम्।
ब्रह्मोवाच-।
गुददेशेत्वपानस्याद्धृदि प्राणोस्ति देहिनः१५८।
तस्माद्गुदं समाकुंच्य प्राणेन सह योजयेत्।
पूरकेण तदा पुत्र कृत्वा कुंभकमुत्तमं१५९।
प्राणायामत्रयं कृत्वा गायत्रीं संजपेदिद्वजः।
अनेनैव जपेद्यस्तु महापातकसंचयः१६०।
सकृदुच्चारितेनैव क्षयं यात्युपपातकं।
प्रतिवर्णस्वरं ज्ञात्वा विन्यस्येद्यः कलेवरे१६१।
स जनो ब्रह्मतामेति फलं वक्तुं न शक्नुमः।
प्रत्यक्षरस्य यद्दैवं शृणु पुत्र वदाम्यहं१६२।
यज्जप्त्वा च पुनर्मातुस्तनं न पिबति द्विजः।
आग्नेयं प्रथमं ज्ञेयं वायव्यं तु द्वितीयकम्१६३।
तृतीयं सूर्यदैवत्यं चतुर्थं वैयतं तथा।
पंचमं यमदैवत्यं वारुणं षष्ठमुच्यते१६४।
सप्तमं बार्हस्पत्यं तु पार्जन्यं चाष्टमं विदुः।
ऐन्द्रं च नवमं ज्ञेयं गांधर्वं दशमं तथा१६५।
पौष्णमेकादशं विद्धि मैत्रं द्वादशकं स्मृतं।
त्वाष्ट्रं त्रयोदशं ज्ञेयं वासवं तु चतुर्दशं१६६।
मारुतं पंचदशकं सौम्यं षोडशकं स्मृतं।
आंगिरसं सप्तदशं वैश्वदेवमतः परं१६७।
आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकं।
सर्वदेवमयं ज्ञेयमेकविंशकमक्षरं१६८।
रौद्रं द्वाविंशकं ज्ञेयं ब्राह्मं ज्ञेयमतः परं।
वैष्णवं तु चतुर्विंशमेता अक्षरदेवताः१६९।
जपकाले तु संचिंत्य तासु सायुज्यतां व्रजेत्।
ज्ञात्वा तु देवतास्तस्य वाङ्मयं विदितं भवेत्१७०।
सर्वपापविनिर्मुक्तो ब्रह्मणः पदवीं व्रजेत्।
गायत्रीं विन्यसेत्पूर्वं शरीरे चात्मनो बुधः१७१।
चतुर्विंशति स्थानेषु आपादमस्तकेषु च।
तत्कारं विन्यसेद्योगी पदांगुष्ठे विचक्षणः१७२।
सकारं गुल्फदेशे तु विकारं जंघयोर्न्यसेत्।
तुकारं जानुमध्ये च वकारं चोरुदेशतः१७३।
रेकारं गुह्यदेशे तु णिकारं वृषणे न्यसेत्।
यंकारं कटिदेशे तु भकारं नाभिमण्डले१७४।
गोकारं जठरे न्यस्य देकारं स्तनयोर्न्यसेत्।
वकारं हृदये न्यस्य स्यकारं करदेशतः१७५।
धीकारं वदने न्यस्य मकारं तालुके न्यसेत्।
हिकारं नासिकाग्रे च धिकारं चक्षुषोर्न्यसेत्१७६।
योकारं तु भ्रुवोर्मध्ये योकारं च ललाटके।
नःकारं तु मुखे पूर्वे प्रकारं दक्षिणे मुखे१७७।
चोकारं पश्चिमे न्यस्य दकारं चोत्तरे न्यसेत्।
यात्कारं मूर्ध्नि विन्यस्य सर्वव्यापी व्यवस्थितः१७८।
एतान्विन्यस्य धर्मात्मा ब्रह्मविष्णुशिवात्मकः।
महायोगी महाज्ञानी परं निर्वाणकं व्रजेत्१७९।
संध्याकाले पुनर्न्यासं शृणु त्वं तद्यथार्थतः।
ॐभूरिति हृदये न्यस्य ॐभुवश्शिरसि न्यसेत्१८०।
ॐस्वः शिखायै तत्सवितुर्वरेण्यमिति कलेवरे।
ॐभर्गो देवस्य धीमहीति नेत्रयोः१८१।
ॐधियो यो नः प्रचोदयादिति करयोर्न्यसेत्।
ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्।
इत्युदकस्पर्शमात्रेण पापात्पूतो व्रजेद्धरिं१८२।
ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्।
ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।
ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्।
इति सव्याहृति सप्रणवां द्वादश ॐकारां संध्याकाले कुंभकेन वारत्रयं जप्त्वा।
सूर्योपस्थाने सावित्रीं चतुर्विंशत्यक्षरां जप्त्वा।
महाविद्याधिको भवति ब्रह्मत्वं लभते१८३।
षट्कुक्षिलक्षणां पुत्र गायत्रीं शृणु यत्नतः।
यां ज्ञात्वा तु परं ब्रह्मस्थानं गच्छति वै द्विजः१८४।
ॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्१८५।
अथ गायत्री पंचशीर्षलक्षणम्।
ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्।
ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्१८६।
सव्याहृतिं तु गायत्रीं पुनर्न्यासं तु कारयेत्।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यतां व्रजेत्१८७।
ॐभूः पादाभ्याम् ॐभुवः जानुभ्याम् ॐस्वः कट्याम् ॐमहः नाभौ ॐजनः हृदये न्यसेत् ॐतपः करयोः ॐसत्यं ललाटे।
ॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।
इति शिखायाम्१८८।
एवं विप्रो न जानाति स एव ब्राह्मणाधमः।
न तस्य क्षीयते पाप्मा भवेद्भूरिप्रतिग्रहः१८९।
इमां यो वेत्ति गायत्रीं सर्वबीजसमन्विताम्।
स वेत्ति चतुरो वेदान्योगज्ञानं जपत्रयम्१९०।
य एनां नैव जानाति स शूद्रात्परतः स्मृतः।
तस्यापूतस्य विप्रस्य न देयं पितृपार्वणम्१९१।
न स्नानफलदः कश्चित्सर्वं च निष्फलं भवेत्।
विद्या वित्तं तथा जन्म द्विजत्वं कारणं यतः१९२।
निष्फलं सकलं तस्य मेध्यं पुष्पं यथाऽशुचौ।
चतुर्वेदाश्च गायत्री पुरा वै तुलिता मया१९३।
चतुर्वेदात्परा गुर्वी गायत्री मोक्षदा स्मृता।
दशभिर्जन्मजनितं शतेन च पुरा कृतम्१९४।
त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम्।
गायत्रीमक्षमालायां सायं प्रातश्च यो जपेत्१९५।
चतुर्णामपि वेदानां फलं प्राप्नोत्यसंशयम्।
त्रिसंध्यं यो जपेन्नित्यं गायत्रीं हायनं द्विजः१९६।
तस्य पापं क्षयं याति जन्मकोटिसमुद्भवम्।
गायत्र्युच्चारमात्रेण पापकूटात्पुनाति च१९७।
स्वर्गापवर्गमाप्नोति जप्त्वा नित्यं द्विजोत्तमः।
वासुदेवस्य मंत्राणि जपेद्यस्तु दिनेदिने१९८।
प्रणमेच्च हरेः पादौ स गच्छेदपवर्गिताम्।
वासुदेवस्य स्तोत्राणि मुखे चापि कथोत्तमा१९९।
पंकस्य लवमात्रं तु तस्य देहे न तिष्ठति।
वेदशास्त्रावगाहेन त्रिस्रोतः स्नानजं फलम्1.46.२००।
धर्मपाठकृतां लोके यज्ञकोटिफलं लभेत्।
एवं विप्रगुणान्वक्तुं न शक्नोमि द्विजोत्तम२०१।
विश्वरूपश्च को देही समूर्तो हरिरेव च।
यस्य शापाद्विनाशः स्यादायुर्विद्या यशो धनम्२०२।
वरदानात्समायांति सर्वाः संपत्तयस्तथा।
विष्णुर्ब्रह्मण्यतामेति सदा विप्र प्रसादतः२०३।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविंदाय नमो नमः२०४।
मंत्रेणैवं हरिं यस्तु पूजयेत्सततं नरः।
प्रसादी च हरिस्तस्य विष्णुसायुज्यतां व्रजेत्२०५।
य इदं शृणुयात्पुण्यमाख्यानं धर्मविग्रहम्।
तस्य पापं क्षयं याति जन्मजन्मकृतं च यत्२०६।
यः पठेत्पाठयेद्वापि उपदेष्टा जनस्य च।
न तस्य पुनरावृत्तिः स्वर्गमक्षयमश्नुते२०७।
धनं धान्यं लभेदत्र राज्यभोगानरोगिताम्।
सत्सुतं च शुभां कीर्तिं देववद्रमते दिवि२०८।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे ब्राह्मणसंस्कारोनाम षट्चत्वारिंशत्तमोऽध्यायः४६।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 47
नारद उवाच-।
तव प्रसादतो ज्ञातो विप्रः पुण्यतमश्च यः।
यथा जानामि देवेश क्रियया ब्राह्मणाधमम्१।
ब्रूहि शीघ्रं सुरश्रेष्ठ यदि प्रीतिं मयीच्छसि।
ब्रह्मोवाच-।
स्नानैर्दशविधैर्मुक्तस्तथैव तर्पणादिभिः२।
संध्यासंयमहीनश्च स एव ब्राह्मणाधमः।
देवपूजाव्रतैर्मुक्तो वेदविद्यादिभिस्तथा३।
सत्यशौचादिभिश्चैव योगज्ञानाग्नितर्पणैः।
पंचस्नानानानि विप्राणां कीर्तितानि महर्षिभिः४।
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च।
आग्नेयं भस्मना स्नानमद्भिर्वारुणमुच्यते५।
आपोहिष्ठेति वै ब्राह्मं वायव्यं गोरजः स्मृतम्।
अद्भिरातपवर्षाभिर्दिव्यं स्नानमुदाहृतम्६।
एतैस्तु मंत्रतः स्नानात्तीर्थानां फलमाप्नुयात्।
तुलसीपत्रसंलग्नं सालग्रामशिलांबु च ७।
गवां शृंगोदकं चैव विप्रपादोदकं च यत्।
गुरूणामेव मुख्यानां पूतात्पूतमिति स्मृतिः८।
त्याग तीर्थादिभिर्यज्ञैर्व्रतहोमादिभिस्तथा।
यत्फलं लभते धीरः स्नानैरेतैस्तु तत्फलम्९।
तर्पणैश्च विनिर्मुक्तः पितॄणामेव नित्यशः।
पितृहा नरकं याति संध्याहीनस्तु विप्रहा१०।
मंत्रव्रतविहीनश्च वेदविद्यागुणैरपि।
यज्ञदानादिभिर्मुक्तो ब्राह्मणश्चाधमाधमः११।
यज्ञार्थका देवलका नाक्षत्रा ग्रामयाजकाः।
परदाररता नित्यं पंचैते ब्राह्मणाधमाः१२।
मंत्रसंस्कारहीनाश्च शुचिसंयमवर्जिताः।
मोघाशिनो दुरात्मानो ब्राह्मणाश्चाधमाधमाः१३।
अपि स्तेयरता मूढाः सर्वधर्मविवर्जिताः।
उन्मार्गगामिनो नित्यं ब्राह्मणाश्चाधमाधमाः१४।
श्राद्धादिकर्मरहिता गुरुसेवाविवर्जिताः।
अमंत्रा भिन्नमर्यादा एते सर्वाधमाधमाः१५।
असंभाष्या इमे दुष्टास्सर्वे निरयगामिनः।
अमेध्यास्ते दुराचारा अपूज्याश्च समंततः१६।
खड्गोपजीविकाः प्रेष्या गोवाहनरता द्विजाः।
कारुवृत्युपजीवाश्च गणवार्द्धषिकाश्च ये१७।
बालापण्याभिचाराश्च अंत्यजाश्रयमाश्रिताः।
कृतघ्नाश्च गुरुघ्नाश्च एते सर्वाधमाः स्मृताः१८।
ये चैवान्ये हताचाराः पाषंडा धर्मनिंदकाः।
दूषकादेव भेदानामेते ब्रह्मद्विषो द्विजाः१९।
तथापि ब्राह्मणश्चैव न हंतव्यः कदाचन।
एनं हत्वा द्विजश्रेष्ठ ब्रह्महा पुरुषो भवेत्२०।
अंत्यजातिषु म्लेच्छेषु तथा चांडालजातिषु।
पतितो वान्नयोनिभ्यां न हंतव्यः कथंचन२१।
सर्वजातिस्त्रियं गत्वा सर्वाभक्ष्यस्य भक्षणात्।
द्विजत्वं न विनश्येत पुण्याद्विप्रो भवेत्पुनः२२।
नारद उवाच-।
ईदृशं दुष्कृतं कृत्वा पश्चात्पुण्यं समाचरेत्।
कां गतिं यात्यसौ विप्रः सर्वलोकपितामह२३।
ब्रह्मोवाच-।
कृत्वा सर्वाणि पापानि पश्चाद्यस्तु जितेंद्रियः।
मुच्यते सर्वपापेभ्यः पुनर्ब्रह्मत्वमर्हति२४।
शृणु पुत्र कथां रम्यां विचित्रां च पुरातनीम्।
कस्यचिद्ब्राह्मणस्यापि यौवनाढ्यः सुतोऽभवत्२५।
ततो यौवनसंपत्तेर्मोहाच्च पूर्वकर्मणः।
चांडालीमगमत्सद्यस्तस्याः प्रियतरोऽभवत्२६।
तस्यामुत्पादितास्तेन पुत्रा दुहितरस्तथा।
स्वकुटुंबं परित्यज्य गृहे तस्याश्चिरं स्थितः२७।
अन्या भक्ष्यं न चाश्नाति घृणया च सुरां त्यजेत्।
तमुवाच सदा सा च भक्षयान्यतरां सुराम्२८।
तामुवाच तदा शौचं गदितुं नार्हसि प्रिये।
उत्कारो जायते तस्याः श्रवणात्सततं मम२९।
एकदा स मृगान्वेषात्श्रांतः सुप्तो गृहे दिवा।
गृहीत्वा सा सुरां तस्य हसित्वा च मुखे ददौ३०।
ततो विप्रमुखादग्निः प्रजज्वाल समंततः।
ज्वाला तु सकुटुबांतामदहच्च गृहं वसु३१।
हाहा कृत्वा समुत्थाय विललाप तदा द्विजः।
विलापांते च जिज्ञासा समारब्धा च तेन हि३२।
कुतश्चाग्निः समुद्भूतो गृहे दाहः कथं मम।
ततः खे तमुवाचेदं तेजस्ते ब्राह्मणस्य च३३।
कथिते तद्यथावृत्ते ब्राह्मणो विस्मयं गतः।
विमृश्यार्थमुवाचेदं पुनः खेऽस्य हितं वचः३४।
विप्रणष्टं सुतेजस्ते तस्माद्धर्मचरो भव।
ततो मुनिवरान्गत्वा पप्रच्छात्महितं द्विजः३५।
तमूचुर्मुनयः सर्वे दानधर्मं समाचर।
ऋषय ऊचुः-।
पूयंते सर्वपापेभ्यो ब्राह्मणानि यमैर्व्रतैः३६।
नियमान्शास्त्रदृष्टांश्च पूतत्वार्थमुपाचर।
चांद्रायणांश्च कृच्छ्रांश्च तप्तकृच्छ्रान्पुनः पुनः३७।
प्राजापत्यांश्च दिव्यांश्च दोषशोषाय सत्वरम्।
गच्छ तीर्थानि पूतानि गोविंदाराधनं कुरु३८।
क्षयमेष्यंति पापानि न चिरेण समंततः।
पुण्यतीर्थप्रभावाच्च गोविंदस्य प्रभावतः३९।
क्षयमेष्यंति पापानि ब्रह्मत्वं प्राप्स्यते भवान्।
शृणु तात यथावृत्तं कथयामः पुरातनम्४०।
आहारार्थी पुरा वत्स गरुडो विनतासुतः।
पतंगोपि बहिः साक्षादंडान्निस्सृत्य शावकः४१।
क्षुधार्थी मातरं प्राह भक्ष्यं मे दीयतामिति।
ततः पर्वतसंकाशं गरुडं च महाबलम्४२।
दृष्ट्वा माता महाभागा तनयं हृष्टमानसा।
क्षुधां ते बाधितुं पुत्र न शक्नोमि समंततः४३।
तव तातस्तपस्तेपे लौहित्यस्योत्तरे तटे।
कश्यपो नाम धर्मात्मा साक्षाल्लोकपितामहः४४।
तत्र गच्छस्व पितरं पृच्छ कामं यथा तव।
अस्योपदेशतस्तात क्षुधा ते शममेष्यति४५।
ततो मातुर्वचः श्रुत्वा वैनतेयो महाबलः।
अगमत्पितुरभ्याशं समुहूर्तान्मनोजवः४६।
दृष्ट्वा तातं मुनिश्रेष्ठं ज्वलंतमिव पावकम्।
प्रणम्य शिरसा वाक्यमुवाच पितरं खगः४७।
भक्षार्थी समनुप्राप्तः सुतोहं ते महात्मनः।
क्षुधया पीडितो नाथ भक्ष्यं मे दीयतां प्रभो४८।
ततो ध्यानं समालभ्य ज्ञात्वा तं विनतासुतं।
पुत्रस्नेहाद्वचश्चेदं प्रोवाच मुनिसत्तमः४९।
अनेकशतसाहस्रा निषादाः सरितांपतेः।
तीरे तिष्ठंति पापिष्ठास्तान्संभक्ष्य सुखी भव1.47.५०।
तीर्थमुत्सादयंति स्म तीर्थकाका दुरासदाः।
विना विप्रं निषादेषु भक्षय त्वमलक्षितं५१।
इत्युक्तः प्रययौ पक्षी भक्षयामास तांस्ततः।
अलक्ष्यभावो विप्रोपि गिलितस्तेन पक्षिणा५२।
स तस्य गलके गाढं लालगीति द्विजस्तदा।
वमितुं गिलितुं चापि न शशाक द्विजोत्तमः५३।
गत्वाथ पितरं प्राह किमेतदिति मे पितः।
लग्नं मे गलके सत्वं प्रतिकर्तुं न शक्नुयां५४।
तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह।
मयोक्तं ते पुरा वत्स ब्राह्मणोयं न बुध्यसे५५।
इत्युक्त्वा च मुनिर्धीमान्द्विजं प्राह स धार्मिकः।
आगच्छ त्वं ममासन्नं हितं ते प्रवदाम्यहं५६।
तमुवाच तदा विप्रः कश्यपं मुनिपुंगवम्।
ममैते सुहृदो नित्यं सर्वे संबंधिनः प्रियाः५७।
श्वशुराः स्यालकाश्चाप्तास्सबालाश्च तथापरे।
एतैः सह प्रयास्यामि निरयं चापि वा शिवम्५८।
तस्य तद्वचनं श्रुत्वा विस्मितः कश्यपोऽब्रवीत्।
द्विजानां च कुले जातश्चांडालैः पतितो भवान्५९।
पुरुषास्ते प्रतिष्ठंते घोरे च निरये ध्रुवम्।
चिराय निष्कृतिस्तेषां नैवास्तीह कथंचन६०।
सर्वांश्चैव दुराचारांश्चांडालान्पापकारिणः।
दोषांस्त्यक्त्वा नरः पश्चात्सुखी भवति नान्यथा६१।
अज्ञानाद्यदि वा मोहात्कृत्वा पापं सुदारुणं।
ततो धर्मं चरेद्यस्तु स गच्छेत्परमां गतिं६२।
पापकृन्न चरेद्धर्मं पापे कुर्यान्मतिं पुनः।
शिलानावं यथारूढः सागरे संनिमज्जति६३।
कृत्वा सर्वाणि पापानि तथा दुर्गतिसंचयं।
उपशांतो भवेत्पश्चात्तं दोषं शमयिष्यति६४।
तमुवाच महाप्राज्ञं द्विजं मुनिवरोत्तमम्।
यदिमां न जहातीह खगः सर्वांश्च बांधवान्६५।
ततः प्राणं च त्यक्ष्यामि खगे मर्मावघातिनि।
नोचेत्त्यजतु मे बंधून्प्रतिज्ञा मे दृढात्मनः६६।
ततस्तार्क्ष्यमुवाचेदं मुनि र्ब्रह्मवधे भयात्।
उद्वमैतान्सविप्रांश्च म्लेछानेतान्समंततः६७।
वनेषु पर्वतान्तेषु दिक्षु तान्पतगेश्वर।
उद्ववाम ततः शीघ्रं दोषज्ञः पितुराज्ञया६८।
ततः सर्वेऽभवन्व्यक्ता अकेशाः श्मश्रुवर्जिताः।
यवना भोजनप्रीताः किंचिच्छ्मश्रुयुताश्च ये६९।
अग्नौ च नग्नकाः पापा दक्षिणस्यामवाचकाः।
घोराः प्राणिवधे प्रीता दुरात्मानो गवाशिनः७०।
नैर्ऋते कुवदाः पापा गोब्राह्मणवधोद्यताः।
खर्पराः पश्चिमे पूर्वे निवसंति च दारुणाः७१।
वायव्यां च तुरुष्काश्च श्मश्रुपूर्णा गवाशिनः।
अश्वपृष्ठसमारूढाः प्रयुद्धेष्वनिवर्तिनः७२।
उत्तरस्यां च गिरयो म्लेच्छाः पर्वतवासिनः।
सर्वभक्षा दुराचाराः वधबंधरताः किल७३।
ऐशान्यां निरयास्संति कर्तॄणां वृक्षवासिनः।
एते म्लेच्छा स्थिता दिक्षु घोरास्ते शस्त्रपाणयः७४।
येषां च स्पर्शमात्रेण सचेलो जलमाविशेत्।
एतेषां च कलौ देशेप्यकाले धर्मवर्जिते७५।
संस्पर्शं च प्रकुर्वंति वित्तलोभात्समंततः।
म्लेच्छांस्तान्मोचयित्वा तु क्षुधया परिपीडितः७६।
पुनराह द्विजस्तात क्षुधा मे बाधतेतराम्।
अवदद्गरुडं तत्र कश्यपः कृपया द्रुतम्७७।
तिष्ठंतौ विपुलौ तत्र जिघांसू गजकच्छपौ।
अप्रमेयौ महासत्वौ सागरस्यैकदेशतः७८।
तावप्सु च द्रुतं वत्स क्षुधां ते वारयिष्यतः।
स पितुर्वचनं श्रुत्वा तत्र गत्वाभिपद्य तौ७९।
नखैर्भित्वा कूर्मगजौ महासत्वौ महाजवः।
खमुत्पपात तौ धृत्वा विद्युद्वेगो महाबलः८०।
आधारतां न गच्छंति नगाश्च मंदरादयः।
ततो योजनलक्षे द्वे गत्वा मारुतरंहसा८१।
महत्यां जंबुशाखायां निपपात महाबलः।
भग्ना सा सहसा शाखा तां पतंतीं खगेश्वरः८२।
गोब्राह्मणवधाद्भीतो दधार तरसा बली।
धृत्वा तां रुचिरं वेगाद्द्रवंतं खे महाबलम्८३।
गत्वा विष्णुरुवाचेदं नररूपधरो हरिः।
कस्त्वं भ्रमसि चाकाशे किमर्थं पतगेश्वर८४।
विधृत्य महतीं शाखां महांतौ गजकच्छपौ।
तमुवाच द्विजस्तस्मिन्नररूपधरं हरिम्८५।
गरुडोहं महाबाहो खगरूपः स्वकर्मणा।
कश्यपस्य मुनेस्सूनुर्विनतागर्भसंभवः८६।
पश्यैतौ च महासत्वौ भक्षणार्थं मया धृतौ।
न धरा च ममाधारो न वृक्षा न च पर्वताः८७।
अनेकयोजनान्यूर्ध्वं दृष्ट्वा जंबूमहीरुहम्।
अपतंतस्य शाखायां सहेमौ परिभक्षितुं८८।
भग्ना सा सहसा शाखा तां च धृत्वा भ्रमाम्यहम्।
कोटिकोटिसहस्राणां ब्राह्मणानां गवां वधात्८९।
भयं तत्र विषादो मे सहसा प्राविशद्बुध।
किं करोमि कथं यामि को मे वेगं सहिष्यति९०।
इत्युक्ते पतगश्रेष्ठं प्रोवाचेदं हरिस्तदा।
अस्मद्बाहुं समारुह्य भक्षेमौ गजकच्छपौ९१।
गरुड उवाच-।
ममाधारं न गच्छंति सागराश्च नगोत्तमाः।
अथ चैवं महासत्वं कथं त्वं धारयिष्यसि९२।
ऋते नारायणादन्यः को मां धारयितुं क्षमः।
त्रैलोक्ये कः पुमांस्तिष्ठेद्यो वेगं मे सहिष्यति९३।
हरिरुवाच-।
स्वकार्यमुद्धरेत्प्राज्ञः स्वकार्यं कुरु सांप्रतम्।
कृत्वा कार्यं खगश्रेष्ठ विजानीषे च मां ध्रुवम्९४।
महासत्वं च तं दृष्ट्वा विमृश्य मनसा खगः।
एवमस्त्विति चोक्त्वा स पपात ह महाभुजे९५।
न चचाल भुजस्तस्य सन्निपाते खगेशितुः।
तत्र स्थित्वा स तां शाखां मुमोच पर्वतालये९६।
शाखापतनमात्रेण सचराचरकानना।
चचाल वसुधा चैव सागराः प्रचकंपिरे९७।
ततश्च खादितौ सत्त्वौ सहसा गजकच्छपौ।
तृप्तिं न प्राप्तवान्सोपि क्षुधा तस्य न शाम्यति९८।
एतज्ज्ञात्वा तु गोविंदस्तमुवाच खगेश्वरम्।
भुजस्य मम मांसं तु भक्षयित्वा सुखी भव९९।
इत्युक्ते प्रचुरं मांसं भुजस्य तस्य तेन हि।
खादितं क्षुधया पुत्र व्रणं तस्य न विद्यते1.47.१००।
तमुवाच महाप्राज्ञश्चराचरगुरुं हरिम्।
कस्त्वं किं वा प्रियं तेद्य करिष्यामि च सांप्रतम्१०१।
नारायण उवाच-।
विद्धि नारायणं मां हि त्वत्प्रियार्थं समागतम्।
रूपं स्वं दर्शयामास प्रत्ययार्थं च तस्य वै१०२।
पीतवस्त्रं घनश्यामं चतुर्भुजमनोहरम्।
शंखचक्रगदापद्मधरं सर्वसुरेश्वरम्१०३।
तं च दृष्ट्वा गरुत्मांश्च प्रणम्य शिरसा हरिम्।
प्रियं किं ते करिष्यामि वद नः पुरुषोत्तम१०४।
तमब्रवीन्महातेजा देवदेवेश्वरो हरिः।
भव मे वाहनं शूर सखे त्वं सार्वकालिकम्१०५।
तमुवाच खगश्रेष्ठो धन्योहं विबुधेश्वर।
सफलं जन्म मे नाथ त्वां च दृष्ट्वाद्य मे प्रभो१०६।
प्रार्थयित्वा च पितरावागमिष्यामि तेऽन्तिकम्।
प्रीतो विष्णुरुवाचेदं भव त्वमजरामरः१०७।
अवध्यः सर्वभूतेभ्यः कर्म तेजश्च मत्समम्।
सर्वत्र ते गतिश्चास्तु निखिलं तु सुखं ध्रुवम्१०८।
संमिलतु द्रुतं सर्वं यत्ते मनसि वर्तते।
यथेष्टं प्रीतिमाहारमकष्टेन प्रलप्स्यसे१०९।
व्यसनान्मातरं सद्यो मोचयिष्यसि नान्यथा।
एवमुक्त्वा हरिः सद्यस्तत्रैवांतरधीयत११०।
तार्क्ष्योपि पितरं गत्वा कथयच्चाखिलं ततः।
स तच्छ्रुत्वा प्रहृष्टात्मा तनयं पुनरब्रवीत्१११।
धन्योहं च खगश्रेष्ठ धन्या ते जननी शिवा।
धन्यं क्षेत्रं कुलं चैव यस्य पुत्रस्त्वमीदृशः११२।
यस्य पुत्रः कुले जातो वैष्णवः पुरुषोत्तमः।
कुलकोटिं समुद्धृत्य विष्णुसायुज्यतां व्रजेत्११३।
विष्णुं यः पूजयेन्नित्यं विष्णुं ध्यायेत गायति।
जपेन्मंत्रं सदा विष्णोः स्तोत्रं तस्य पठिष्यति११४।
प्रसादं च भजेन्नित्यमुपवासं हरेर्दिने।
क्षयाच्च सर्वपापानां मुच्यते नात्र संशयः११५।
यस्य तिष्ठति गोविंदो मानसे च सदैव हि।
स एव च लभेद्दास्यं सपुण्यैः पुरुषोत्तमः११६।
जन्मकोटिसहस्रेभ्यः कृत्वा सत्कर्मसंचयम्।
क्षयाच्च सर्वपापानां विष्णोः किंकरतां व्रजेत्११७।
धन्योसौ मानवो लोके विष्णोस्सादृश्यमाव्रजेत्।
नित्यः सुरवरैः पूज्यो लोकनाथोऽच्युतोऽव्ययः११८।
सुप्रसन्नो भवेद्यस्य स एव पुरुषोत्तमः।
तपोभिर्बहुभिर्धर्मैर्मखैर्नानाविधैरपि११९।
विष्णुर्न लभ्यते देवैस्त्वयासौ विप्र लभ्यते।
सपत्नीव्यसनाद्धोरान्मातरं ते प्रमोचय१२०।
ततो यास्यसि देवेशं कृत्वा मातुः प्रतिक्रियाम्।
गृहीत्वा जनकस्याज्ञां लब्ध्वा विष्णोर्वरं महत्१२१।
अंबापार्श्वं गतो हृष्टस्तां प्रणम्याग्रतः स्थितः।
विनतोवाच-।
अभवद्भोजनं तेऽद्य पुत्र दृष्टः पितापि च१२२।
किमर्थं वा विलंबस्ते चिंतया व्यथिता ह्यहम्।
स मातुर्वचनं श्रुत्वा गरुडः प्रहसन्निव१२३।
कथयामास वृत्तांतं सा श्रुत्वा विस्मिताऽभवत्।
कथं च दुःष्करं कर्म शिशुभावात्त्वया कृतम्१२४।
धन्याहं मे कुलं धन्यं यस्त्वं विष्णुसखोऽभवः।
लब्ध्वा वरं महात्मानं दृष्ट्वा मे हृष्यते मनः१२५।
पौरुषेण त्वया वत्स उद्धृतं मे कुलद्वयम्।
सुपर्ण उवाच-।
मातः किं ते करिष्यामि प्रियमेव तदुच्यताम्१२६।
कार्यं कृत्वाथ यास्यामि पार्श्वं नारायणस्य च।
एतच्छ्रुत्वा तु सा प्राह गरुडं विनता सती१२७।
महद्दुःखं च मे चास्ति कुरु तात प्रतिक्रियाम्।
भगिनी मे सपत्नी सा पणितहं तया पुरा१२८।
तस्या दास्यमहं प्राप्ता कस्तारयति मामितः।
कृष्णं कृत्वा विषैरश्वं तस्याः पुत्रैर्महोरगैः१२९।
उषःकालेऽवदत्सा च अश्वोयं कृष्णतां व्रजेत्।
ततोहमवदं तत्र सदा चायं रुचासितः१३०।
मिथ्या ते वचनं मातः प्रतिज्ञां साऽकरोत्तदा।
ततोहमब्रुवं कद्रूं शपथं नागमातरम्१३१।
यदीमं कृष्णताभ्येति हरेरश्वमहं तदा।
कृता भवामि ते दासीत्यहमेतत्तदाऽवदम्१३२।
ततस्तस्मिन्हरेरश्वे कृते कृष्णे च कृत्रिमैः।
तस्याः पुत्रैश्च धूर्तैश्च दासीत्वमगमं तदा१३३।
यस्मिन्काले ह्यभीष्टञ्च तस्या द्रव्यं ददाम्यहम्।
तस्मिन्काले ह्यदासीत्वं यास्यामि कुलनंदन१३४।
गरुड उवाच।
पृच्छ शीघ्रं च मातस्तां करिष्यामि प्रतिक्रियाम्।
भक्षयिष्यामि तान्नागान्प्रतिज्ञामे यथार्थतः१३५।
ततः कद्रूमुवाचेदं विनता दुःखिता सती।
अभीष्टं वद कल्याणि येन मुच्येय कृच्छ्रतः१३६।
अब्रवीत्सा दुराचारा पीयूषं दीयतामिति।
एतच्छ्रुत्वा तु वचनमभवत्सा च निष्प्रभा१३७।
ततः शनैरुपागम्य तनयं प्राह दुःखिता।
अमृतं प्रार्थयत्पापा तात किं वा करिष्यसि१३८।
श्रुत्वा वाक्यं गरुत्मांश्च महाक्रोधसमन्वितः।
अमृतं चानयिष्यामि मातर्मा विमुखी भव१३९।
एवमुक्त्वा तु तरसा स गतः पितुरंतिकम्।
अमृतं चानयिष्यामि मातुरर्थेऽधुनाऽनघ१४०।
स तस्य वचनं श्रुत्वा मुनिः प्राह खगेश्वरम्।
सत्यलोकस्य वै चोर्ध्वे विश्वकर्मविनिर्मिता१४१।
पुरी चास्ति सभा रम्या देवानां हित हेतवे।
वह्निप्राकारदुर्लभ्या दुर्धर्षा चासुरैः सुरैः१४२।
रक्षार्थं निर्मितो देवः सुरैस्तत्र महाबलः।
यं यं पश्यति वीरः स स एव भस्मतां व्रजेत्१४३।
सुपर्ण उवाच।
नारायणाद्वरो लब्धो मया च मुनिसत्तम।
भयं नास्तीह मे तात सुरासुरगणादपि४४।
एममुक्त्वा गरुत्मान्स उद्धृत्य सागराज्जलम्।
जगामाकाशमाविश्य खगश्चोर्ध्वं मनोजवः१४५।
पक्षवातेन तस्यैव रजः समुद्गतं बहु।
तस्यांतिकं न च त्यक्तमगमत्तस्य तच्च यः१४६।
गत्वा चंचूजलेनापि वह्निं निर्वापयद्बली।
रजोभिः परिपूर्णाक्षो न सुरस्तं च पश्यति१४७।
जघान रक्षिवर्गांस्तानमृतं चाहरद्बली।
आनयंतं च पीयूषं खगं गत्वा शतक्रतुः१४८।
ऐरावतं समारूढो वाक्यमेतदुवाच ह।
खगरूपधरः कस्त्वं पीयूषं हरसे बलात्१४९।
अप्रियं सर्वदेवानां कृत्वा जीवे रतिः कथम्।
विशिखैरग्निसंकाशैर्नयामि यममंदिरम्1.47.१५०।
श्रुत्वा वाक्यं हरेः कोपादुवाच स महाबलः।
नयामि तव पीयूषं दर्शयस्व पराक्रमम्१५१।
एतच्छ्रुत्वा महाबाहुर्जघान विशिखैः शितैः।
यथामेरुगिरेः शृंगं तोयवर्षेण तोयदः१५२।
नखैरशनिसंकाशैर्बिभेद गरुडो गजम्।
मातलि च रथं चक्रं तथा देवान्पुरस्सरान्१५३।
व्यथितोसौ महाबाहुर्मातलिर्गजपुंगवः।
विमुखाः पक्षवातेन सर्वे देवगणास्तदा१५४।
ततस्तु कोपितो जिष्णुर्जघानकुलिशेन तम्।
कुलिशस्यावपातेन न च क्षुब्धो महाखगः१५५।
स्वं मोघं भिदुरं दृष्ट्वा हरिर्भीतोऽभवत्तदा।
संनिवृत्य ततो युद्धात्तत्रैवांतरधीयत१५६।
सुतरामपिगच्छंतं वेगाद्भूतलमागतः।
अब्रवीत्स सुरश्रेष्ठः सर्वदेवगणाग्रतः१५७।
शक्र उवाच-।
यदि दास्यसि पीयूषमिदानीं नागमातरि।
भुजगाश्चामराः सर्वे क्रियंते हि ध्रुवं तया१५८।
प्रतिज्ञा ते भवेन्नष्टा न फलं जीवितस्य ते।
तस्मादिदं हरिष्यामि संमतेन तवानघ१५९।
गरुत्मानुवाच-।
यस्मिन्काले ह्यदासी सा माता मे दुःखिता सती।
विदिता सर्वलोकेषु हरेऽमृतं हरिष्यसि१६०।
एवमुक्त्वा महावीर्यो गत्वोवाच प्रसूं तदा।
आनीतममृतं मातस्तस्या एव प्रदीयताम्१६१।
प्रोत्फुल्लहृदया सा च दृष्ट्वा पुत्रं सहामृतम्।
तामाहूयामृतं दत्वा चादासीतां तदा गता१६२।
तृणकाष्ठानि भूतानि पशवश्च सरीसृपाः।
दृष्ट्वा सविस्मयास्सर्वे देवा महर्षयस्तदा१६३।
मोचयित्वा तु तामंबां गरुडः सुष्ठुतां गतः।
एतस्मिन्नंतरे शक्रो जहार सहसा सुधाम्१६४।
निधाय गरलं तत्र तया चानुपलक्षितः।
प्रहृष्टहृदया कद्रूः पुत्रानाहूय संभ्रमात्१६५।
तेषां मुखे ददौ हृष्टा क्ष्वेडं चामृतलक्षणम्।
तानुवाच प्रसूः पुत्रान्युष्माकं च कुले सदा१६६।
मुखे तिष्ठन्त्वमी दैवा बिंदवश्चस्तनिर्वृताः।
महर्षयस्ततो देवाः सिद्धगंधर्वमानुषाः१६७।
ऊचुःस्सन्तु कुले मातरस्माकं च प्रसादतः।
नागैर्विसर्जिता देवाः ससिद्धा मुनयस्तथा१६८।
जग्मुः स्वमालयं हृष्टा नागाः प्रमुदिताः स्थिताः।
एतस्मिन्नंतरे नागांश्चखाद गरुडो बलात्१६९।
दिक्षु पलायिताः शेषाः पर्वतेषु वनेषु च।
सागरेषु च पाताले बिलेषु तरुकोटरे१७०।
निभृतेषु निकुञ्जेषु स्थिताः सर्पाश्च निर्वृताः।
भुजगास्तस्य भक्ष्याश्च सदैव विधिनिर्मिताः१७१।
स खादयित्वा नागांश्च संभाष्य पितरावथ।
विबुधान्पूजयित्वा तु जगाम हरिमव्ययम्१७२।
यः पठेच्छृणुयाद्वापि सुपर्णचरितं शुभम्।
सर्वपापविनिर्मुक्तः सुरलोके महीयते१७३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गरुडोत्पत्तिर्नाम सप्तचत्वारिंशत्तमोऽध्यायः४७।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 48
ब्रह्मोवाच-।
अतः परं तु विप्रर्षे चांडालपतितो द्विजः।
प्रलप्य च बहून्शोकान्जगाम कश्यपं मुनिम्१।
गत्वोवाच मुनिश्रेष्ठ वदास्माकं हितं वचः।
यथा पापाद्विमुच्येहं मुनिश्रेष्ठ तथा कुरु२।
तमुवाच महातेजा ईषद्धास्यः समंततः।
कश्यप उवाच-।
संदर्शनाच्च म्लेच्छानामुपशांतोसि वै स्वयम्३।
गायत्र्याश्च जपैर्होमैर्व्रतैश्चांद्रायणदिभिः।
स्मर नित्यं हरेः पादमुपोष्य हरिवासरम्४।
अहर्निशं हरेर्ध्यानं प्रणामं कुरु तं प्रभुम्।
तीर्थस्नानेन मंत्रेण पंकस्यांतं गमिष्यसि५।
ततः पापक्षयादेव ब्राह्मणत्वं च लप्स्यसे।
व्रतैर्वृषाधिकैर्मोक्षं नाशयन्कल्मषं द्विज६।
मुनेस्तस्य वचः श्रुत्वा कृतकृत्योऽभवत्तदा।
पुण्यं स विविधं कृत्वापुनर्ब्रह्मत्वमाप्तवान्७।
ततस्तप्त्वा तपस्तीव्रंस्वर्लोकं चिरमभ्यगात्।
सद्वृत्तस्याखिलं पापं क्षयं याति दिने दिने८।
असद्वृत्तस्य पुण्यं हि क्षयं यात्यंजनोपमम्।
अनाचाराद्धतो विप्र आचारात्सुरतां व्रजेत्९।
ततः कंठगतैः प्राणैराचारं कुरुते द्विजः।
कर्मणा मनसांगेन सदाचारं सदा कुरु१०।
कश्यपस्योपदेशेन स विनीतोऽभवद्द्विजः।
आचारं तु पुनः कृत्वा तपस्तप्तत्वा दिवं गतः११।
अनाचारी हतो विप्रः स्वर्गलोकेषु गर्हितः।
आचारं तु पुनः कृत्वा सुरलोके महीयते१२।
नारद उवाच-।
प्राप्नुवंति गतिं लोकाः पूजयित्वा द्विजोत्तमान्।
द्विजानां पीडनं कृत्वा गतिं गच्छति कां प्रभो१३।
ब्रह्मोवाच-।
क्षुधा संतप्तदेहानां ब्राह्मणानां महात्मनाम्।
नार्चयेच्छक्तितो भक्त्या स याति नरकं नरः१४।
परुषेण क्रोशयित्वा क्रोधाद्यस्तु विसर्जयेत्।
स याति नरकं घोरं महारौरवकृच्छ्रकम्१५।
सन्निवृत्तस्ततः कीटाद्यन्त्यजातिषु जायते।
ततो रोगी दरिद्रस्तु क्षुधया परिपीडितः१६।
नावमन्येत्ततो विप्रं क्षुधया गृहमागतम्।
न ददामीति यो ब्रूयाद्देवाग्निब्राह्मणेषु सः१७।
तिर्यग्योनिशतं गत्वा चांडाल्यमुपगच्छति।
पादमुद्यम्य यो विप्रं हंति गां पितरौ गुरुम्१८।
रौरवे नियतो वासस्तस्य नास्तीह निष्कृतिः।
यदि पुण्याद्भवेज्जन्म स एव पंगुतां व्रजेत्१९।
अतिदीनो विषादी च दुःखशोकाभिपीडितः।
एवं जन्मत्रयं प्राप्य भवेत्तस्य च निष्कृतिः२०।
मुष्टिचपेटकीलैश्च हन्याद्विप्रं तु यः पुमान्।
तापने रौरवे घोरे कल्पांतं सोपि तिष्ठति२१।
अथ जन्म समासाद्य कुक्कुरः क्रूरचंडकः।
अंत्यजातिषु जातोपि दरिद्रः कुक्षिशूलवान्२२।
पादमुद्यच्छते वा यस्तस्य पादे शिलीपदः।
खंजो वा मंदजंघो वा खण्डपादो भवेन्नरः२३।
पक्षवातेन चांगानि प्रकंपंते सदैव हि।
मातरं पितरं विप्रं स्नातकं च तपस्विनम्२४।
हत्वा गुरुगणं क्रोधात्कुंभीपाके चिरं भवेत्।
उषित्वा चैव जायेत कीटजातिषु तत्परम्२५।
विरुद्धं परुषं वाक्यं यो वदेद्धि द्विजातिषु।
अष्टौ कुष्ठाः प्रजायंते तस्य देहे दृढं सुत२६।
विचर्चिकाथ दद्रूश्च मंडलः शुक्ति सिध्मकौ।
कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः२७।
ततो भिषक्प्रयोगे च पापात्पुण्यं पलायते।
अपुण्याज्जलरेखेव तेनैव निधनं व्रजेत्२८।
एषां मध्ये महाकुष्ठास्त्रय एव प्रकीर्तिताः।
कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः२९।
महापातकभावानां ज्ञानात्संसर्गतोपि वा।
अतिपातकिनामेव त्रयो देहे भवंति वै३०।
संसर्गात्सहसंबंधाद्रोगः संचरते नृणाम्।
दूरात्परित्यजेद्धीरः स्पृष्ट्वा स्नानं समाचरेत्३१।
पतितं कुष्ठसंयुक्तं चांडालं च गवाशिनम्।
श्वानं रजस्वलां भिल्लं स्पृष्ट्वा स्नानं समाचरेत्३२।
दुरितस्यानुरूपेण देहे कुष्ठा व्यवस्थिताः।
इहलोके परत्रैवाप्यत्र नास्ति तु संशयः३३।
न्यायेनोपार्जितां वृत्तिं ब्रह्मस्वं हरते तु यः।
अक्षयं नरकं प्राप्य पुनर्जन्म न विद्यते३४।
पिशुनो यस्तु विप्राणां रंध्रान्वेषणतत्परः।
तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचेलो जलमाविशेत्३५।
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम्।
विक्रमेण तु भुंजानो दशपूर्वान्दशापरान्३६।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते।
विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रकम्३७।
मोहाच्च मातरं गत्वा ब्राह्मणीं च गुरोस्त्रियम्।
पतित्वा रौरवे घोरे पुनरुत्पत्तिदुर्लभः३८।
पतंति पितरस्तस्य कुंभीपाकेथ तापने।
अवीचिकालसूत्रे च महारौरवरौरवे३९।
कदाचिदपि वा तेषां निष्कृतिं नानुमेनिरे।
प्राणं हत्वा द्विजातीनां स्वयं यात्यपुनर्भवम्४०।
पतंति पुरुषास्तस्य रौरवे च सहस्रशः।
नारद उवाच-।
सर्वेषामेव विप्राणां वधे च पातकं समम्४१।
विषमं वा कुतस्तिष्ठेत्तत्त्वतो वक्तुमर्हसि।
ब्रह्मोवाच-।
हत्वा विप्रं ध्रुवं पुत्र पातकं यदुदाहृतम्४२।
लभते ब्रह्महा घोरं वक्तव्यं चापरं शृणु।
लक्षकोटिसहस्राणां ब्राह्मणानां वधं भजेत्४३।
वेदशास्त्रयुतं हत्वा श्रोत्रियं विजितेंद्रियम्।
विप्रं च वैष्णवं हत्वा तस्माद्दशगुणोत्तरम्४४।
स्ववंशान्पातयित्वा तु पुनर्जन्म न विंदते।
त्रिवेदं स्नातकं हत्वा वधस्यांतं न विन्दते४५।
श्रोत्रियं च सदाचारं तीर्थमंत्रप्रपूतकम्।
ईदृशं ब्राह्मणं हन्तुः पापस्यांतो न विद्यते४६।
अपकारं समुद्दिश्य द्विजः प्राणान्परित्यजेत्।
दृश्यते येन चान्येन ब्रह्महा स भवेन्नरः४७।
वचोभिः परुषैर्वृत्तैः पीडितस्ताडितो द्विजः।
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातिनम्४८।
ऋषयो मुनयो देवाः सर्वे ब्रह्मविदस्तथा।
देशानां पार्थिवानां च स च वध्यो भवेदिह४९।
अतो ब्रह्मवधं प्राप्य पितृभिः सह पच्यते।
प्रायोपवेशकं विप्रं बुधः संमानयेद्ध्रुवम्५० 1.48.50।
दोषैश्चापि विनिर्मुक्तमुद्दिश्य प्राणमुत्सृजेत्।
स प्रलिप्तो वधैर्घोरैर्न तु यं परिकीर्तयेत्५१।
आत्मघातं द्रुमारोहं कोटरै रूपजीविनं।
यः कुर्यादात्मनोघातं स्ववंशे ब्रह्महा भवेत्५२।
भ्रूणं च घातयेद्यस्तु शिशुं वा आतुरं गुरुम्।
ब्रह्महा स्वयमेव स्यान्न तु यं परिकीर्तयेत्५३।
मारयेच्च सगोत्रं वा ब्राह्मणं ब्राह्मणाधमः।
तस्यैव तद्भवेत्पापं न तु यं परिकीर्त्तयेत्५४।
पीडयित्वा द्विजं शूद्रः स्वकार्यं चापि साधयेत्।
तत्रापापे च शूद्रस्य पातकं नान्यथा भवेत्५५।
तात्कालिक वधं हत्वा हंतारमाततायिनं।
न च हंता च तत्पापैर्लिप्यते द्विजसत्तम५६।
आततायिनमायांतमपि वेदांतगं रणे।
जिघांसंतं जिघांसेच्च न तेन ब्रह्महा भवेत्५७।
अग्निदो गरदश्चैव धनहारी च सुप्तघः।
क्षेत्रदारापहारी च षडेते ह्याततायिनः५८।
खलो राजवधोद्योगी पितॄणां च वधे रतः।
अनुयायी नृपो राज्ञश्चत्वारश्चाततायिनः५९।
तत्क्षणान्न मृतं विप्रं पुनर्हंतुं न युज्यते।
पुर्नहत्वा वधं घोरं ज्ञानात्प्राप्नोति निश्चितं६०।
लोके विप्रसमो नास्ति पूजनीयो जगद्गुरुः।
हत्वा तं यद्भवेत्पापं तत्परं च न विद्यते६१।
देववत्पूजनीयोसौ देवासुरगणैर्नरैः।
ब्राह्मणस्य समो नास्ति त्रिषु लोकेषु निश्चितं६२।
नारद उवाच-।
कां वृत्तिं समुपाश्रित्य जीवितव्यं द्विजेन हि।
अपानेन सुरश्रेष्ठ तत्वतो वक्तुमर्हसि६३।
ब्रह्मोवाच-।
अयाचिता च या भिक्षा प्रशस्ता सा प्रकीर्तिता।
उञ्छवृत्तिस्ततो भद्रा सुभद्रा सर्ववृत्तिषु६४।
यामाश्रित्य मुनिश्रेष्ठा गच्छंति ब्रह्मणः पदम्।
दक्षिणा यज्ञशेषाणां ग्राह्या यज्ञगतेन हि६५।
पाठनं याजनं कृत्वा ग्रहीतव्यं धनं द्विजैः।
पाठयित्वा पठित्वा च कृत्वा स्वस्त्ययनं शुभं६६।
ब्राह्मणानामिदं जीव्यं शिष्टा वृत्तिः प्रतिग्रहः।
शास्त्रोपजीविनो धन्या धन्या वृक्षोपजीविनः६७।
धन्या वृक्षलताजीव्या वाटीसस्योपजीविनः।
अन्न जंतु वधे पापं तस्य दोषोपशांतये६८।
नवधान्यानि शस्तानि विप्रेभ्यः संप्रदापयेत्।
न चेत्प्राणिवधे ह्यत्र क्षीयंते चायुषो ध्रुवं६९।
तस्माद्दद्यात्सुबहूनि पितृदेवद्विजातिषु।
अभावात्क्षत्त्रियावृत्तिर्ब्राह्मणैरूपजीव्यते७०।
न्याययुद्धेषु योद्धव्यं चरेद्वीरव्रतं शुभम्।
स तया च द्विजो वृत्या यद्धनं लभते नृपात्७१।
पितृयज्ञादिदानेषु मेध्यं तद्धनमुच्यते।
समभ्यसेद्धनुर्विद्यां वेदयुक्तां सदानघः७२।
शक्तिकुंतगदाखड्ग परिघाणां समंततः।
अश्वारोहं गजारोहमैंद्रजालममानकं७३।
रथभूमिगतं युद्धं युक्तं सर्वत्र कारयेत्।
द्विज देव ध्रुवाणां च स्त्रीणां वृत्तं तपस्विनाम्७४।
साधु साध्वी गुरूणां च नृपाणां रक्षणाद्ध्रुवम्।
यत्पुण्यं लभ्यते शूरैः कथं तद्ब्रह्मवादिभिः७५।
सर्वपापक्षयं कृत्वा सोक्षयं स्वर्गमश्नुते।
सम्मुखे न्याययुद्धे च पतंति ब्राह्मणा रणे७६।
ते व्रजंति परं स्थानं न गम्यं ब्रह्मवादिनां।
धर्मयुद्धस्य यद्वृत्तं शृणु पुण्यं यथार्थतः७७।
संमुखेन प्रयुध्यंते न च गच्छंति कातरं।
न भग्नं पृष्ठतो घ्नंति निःशस्त्रं प्रपलायितम्७८।
अयुध्यमानं भीरुं च पतितं गतकल्मषं।
असच्छूद्रं स्तुतिप्रीतमाहवे शरणागतम्७९।
हत्वा च नरकं यांति दुर्वृत्ता जयकांक्षिणः।
एषा च क्षत्त्रिया वृत्तिः सदाचारैस्तु गीयते८०।
यामाश्रित्य दिवं यांति सर्वक्षत्रियकुंजराः।
धर्मयुद्धे शुभो मृत्युः संमुखे क्षत्त्रियस्य च८१।
अत्र पूतो भवेत्सोपि सर्वपापैः प्रमुच्यते।
स तिष्ठेत्स्वर्गलोके च प्रासादे रत्नभूषिते८२।
जांबूनदमयस्तंभे रत्नभूषितभूतले।
इष्टद्रव्यैः सुसंपूर्णे दिव्यवस्त्रोपशोभिते८३।
पुरतः कल्पवृक्षाश्च तिष्ठंति सर्वदायिनः।
वापीकूपतटाकाद्यैरुद्यानैरुपशोभिते८४।
यौवनाढ्याश्च सेवंते तं देवपुरकन्यकाः।
तस्याग्रतो मुदा नित्यं नृत्यंत्यप्सरसां गणाः८५।
गीतं गायंति गंधर्वा देवाश्च स्तुतिपाठकाः।
एवं क्रमेण कल्पांते सार्वभौमो भवेन्नृपः८६।
सर्वभोगैककर्ता च नीरुङ्मन्मथविग्रहः।
तस्य पत्न्यः प्ररूपाढ्याः सदैव यौवनान्विताः८७।
धर्मशीलाः सुताः शुभ्राः समृद्धाः पितृसंमताः।
एवं क्रमेण भुंजंति सप्तजन्मसु क्षत्रियाः८८।
अन्यायेन तु योद्धारस्तिष्ठंति नरके चिरम्।
एवं च क्षत्रिया वृत्तिर्ब्राह्मणैरुपजीव्यते८९।
वैश्यैः शूद्रैस्तथान्यैश्च अंत्यजैर्म्लेच्छजातिभिः।
ये च योधाः प्रयुध्यंते न्याययुद्धेन सर्वदा९०।
तेपि यांति परं स्थानं सर्वे वर्णा द्विजातयः।
न शूरो यो द्विजो भीरुरस्त्रशस्त्रविवर्जितः९१।
विपत्तौ वैश्यवृतिं च कारयेद्द्विजसत्तमः।
वैश्यवृत्तिं वणिग्भावं कृषिं चैव तथापरैः९२।
कारयेत्कृषिवाणिज्यं विप्रकर्म न च त्यजेत्।
वणिग्भावान्मृषात्युक्तौ दुर्गतिं प्राप्नुयाद्द्विजः।
आर्द्रद्रव्यं परित्यज्य ब्राह्मणो लभते शिवम्।
समुत्पाद्य ततो वृत्तिं दद्याद्विप्राय सर्वशः९४।
पितृयज्ञे तथा चाग्नौ जुहुयाद्विधिवद्द्विजः।
तुलेऽसत्यं न कर्त्तव्यं तुलाधर्मप्रतिष्ठिता९५।
छलभावं तुले कृत्वा नरकं प्रतिपद्यते।
अतुलं चापि यद्द्रव्यं तत्र मिथ्या परित्यजेत्९६।
एवं मिथ्या न कर्त्तव्या मृषा पापप्रसूतिका।
नास्ति सत्यात्परोधर्मो नानृतात्पातकं परम्९७।
अतः सर्वेषु कार्येषु सत्यमेव विशिष्यते।
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्९८।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते।
यो वदेत्सर्वकार्येषु सत्यं मिथ्या परित्यजेत्९९।
स निस्तरति दुर्गाणि स्वर्गमक्षयमश्नुते।
वाणिज्यं कारयेद्विप्रो मिथ्याऽवश्यं परित्यजेत्१०० 1.48.100।
वृद्धिं च निक्षिपेत्तीर्थे स्वयं शेषं तु भोजयेत्।
देहक्लेशात्तत्सहस्रगुणं भवति सर्वदा१०१।
अर्थार्जनविधौ मर्त्या विशंति विषमे जले।
कांतारमटवीं चैव श्वापदैः सेवितां तथा१०२।
गिरिं गिरिगुहां दुर्गां म्लेच्छानां शस्त्रपातिनाम्।
गृहं प्रतिभयं स्थानं धनलोभात्समंततः१०३।
सुतदारान्परित्यज्य दूरं गच्छंति लोभिनः।
स्कंधे भारं वहंत्यन्ये तर्यां चक्रे निपातनैः१०४।
क्षेपणीभिर्महादुःखैस्सदा प्राणव्ययेन च।
अर्थस्य संचयः पुत्र प्राणात्प्रियतरो महान्१०५।
एभिर्न्यायार्जितं वित्तं वणिग्भावेन यत्नतः।
पितृदेवद्विजातिभ्यो दत्तं चाक्षयमश्नुते१०६।
एतौ दोषौ महांतौ च वाणिज्ये लाभकर्मणि।
लोभानामपरित्यागो मृषा ग्राह्यश्च विक्रयः१०७।
एतौ दोषो परित्यज्य कुर्यादर्थार्जनं बुधः।
अक्षयं लभते दानाद्वणिग्दोषैर्न लिप्यते१०८।
पुण्यकर्मरतो विप्रः कृषिं हि परिकारयेत्।
वाहयेद्दिवसस्यार्धं बलीवर्दचतुष्टयम्१०९।
अभावात्त्रितयं चैव अविश्रामं न कारयेत्।
चारयेच्च तृणेऽच्छिन्नै चोरव्याघ्रविवर्जिते११०।
दद्याद्घासं यथेष्टं च नित्यमातर्पयेत्स्वयम्।
गोष्ठं च कारयेत्तस्य किंचिद्विघ्नविवर्जितम्१११।
सदा गोमयमूत्राभ्यां विघसैश्च विवर्जितम्।
न मलं निक्षिपेद्गोष्ठे सर्वदेवनिकेतने११२।
आत्मनः शयनीयस्य सदृशं कारयेद्बुधः।
समं निर्वापयेद्यत्नाच्छीतवातरजस्तथा११३।
प्राणस्य सदृशं पश्येद्गां च सामान्यविग्रहम्।
अस्य देहे सुखंदुःखं तथा तस्यैव कल्पते११४।
अनेन विधिना यस्तु कृषिकर्माणि कारयेत्।
स च गोवाहनैर्दोषैर्न लिप्येत धनी भवेत्११५।
दुर्बलं पीडयेद्यस्तु तथैव गदसंयुतम्।
अतिबालातिवृद्धं च स गोहत्यां समालभेत्११६।
विषमं वाहयेद्यस्तु दुर्बलं सबलं तथा।
स गोहत्यासमं पापं प्राप्नोतीह न संशयः११७।
यो वाहयेद्विना सस्यं खादंतं गां निवारयेत्।
मोहात्तृणं जलं वापि स गोहत्यासमं लभेत्११८।
संक्रांत्यां पौर्णमास्यां चामावास्यायां तथैव च।
हलस्य वाहनात्पापं गवामयुतहत्यया११९।
अमूषु पूजयेद्यस्तु सितैश्चित्रादिभिर्नरः।
कज्जलैः कुसुमैस्तैलैः सोक्षयं स्वर्गमश्नुते१२०।
घासमुष्टिं परगवे यो ददाति सदाह्निकम्।
सर्वपापक्षयस्यस्य स्वर्गं चाक्षयमश्नुते१२१।
यथा विप्रस्तथा गौश्च द्वयोः पूजाफलं समम्।
विचारे ब्राह्मणो मुख्यो नृणां गावः पशौ तथा१२२।
नारद उवाच-।
विप्रो ब्रह्ममुखे जातः कथितो मे त्वयानघ।
कथं गोभिः समो नाथ विस्मयो मे विधे ध्रुवम्१२३।
ब्रह्मोवाच-।
शृणु चात्र यथातथ्यं ब्राह्मणानां गवां यथा।
एकपिंडक्रियैक्यं तु पुरुषैर्निर्मितं पुरा१२४।
पुरा ब्रह्ममुखोद्भूतं कूटं तेजोमयं महत्।
चतुर्भागप्रजातं तद्वेदोग्निर्गौर्द्विजस्तथा१२५।
प्राक्तेजः संभवो वेदो वह्निरेव तथैव च।
परतो गौस्तथा विप्रो जातश्चैव पृथक्पृथक्१२६।
तत्र सृष्टा मया चादौ वेदाश्चत्वार एकशः।
स्थित्यर्थं सर्वलोकानां भुवनानां समंततः१२७।
अग्निर्हव्यानि भुंजीत देवहेतोस्तथा द्विजः।
आज्यं गोप्रभवं विद्धि तस्मादेते प्रसूतकाः१२८।
न संति यदि लोकेषु चत्वारोमी महत्तराः।
तदाखिलं च भुवनं नष्टं स्थावरजंगमम्१२९।
एभिर्धृताः सदा लोकाः प्रतिष्ठंति स्वभावतः।
स्वभावो ब्रह्मरूपोसावेते ब्रह्ममयाः स्मृताः१३०।
तस्माद्गौः पूजनीयोसौ विप्र देवासुरैरपि।
उदारः सर्वकार्येषु जातस्तथ्यो गुणाकरः१३१।
सर्वदेवमयः साक्षात्सर्वसत्वानुकंपकः।
अस्य कार्यं मया सृष्टं पुरैव पोषणं प्रति१३२।
अतएव मया दत्तं वरं चातिसुशोभनम्।
एकजन्मनि ते मोक्षस्तवास्त्विति विनिश्चितम्१३३।
अत्रैव ये मृता गावस्त्वागच्छंति ममालयम्।
पापस्य कणमात्रं तु तेषां देहेन तिष्ठति१३४।
देवी गौर्धेनुका देवाश्चादिदेवी त्रिशक्तिका।
प्रसादाद्यस्य यज्ञानां प्रभवो हि विनिश्चितः१३५।
गवां सर्वपवित्राणि पुनंति सकलं जगत्।
मूत्रं गोर्गोमयं क्षीरं दधिसर्पिस्तथैव च१३६।
अमीषां भक्षणे पापं न तिष्ठति कलेवरे।
तस्माद्घृतं दधि क्षीरं नित्यं खादंति धार्मिकाः१३७।
विशिष्टं सर्वद्रव्येषु गव्यमिष्टं परं शुभम्।
यस्यास्ये भोजनं नास्ति तस्य मूर्तिस्तु पूतिका१३८।
अन्नाद्यं पंचरात्रेण सप्तरात्रेण वै पयः।
दधि विंशतिरात्रेण घृतं स्यान्मासमेककम्१३९।
अगव्यैर्यस्तु भुंक्ते वै मासमेकं निरंतरम्।
भोजने तस्य मर्त्यस्य प्रेताः खादंति चैव हि१४०।
परमान्नं परं शुद्धं स्विन्नं चातपतण्डुलैः।
भुक्त्वा तु यत्कृतं पुण्यं कोटिकोटिगुणं भवेत्१४१।
अन्यच्चापि च यद्द्रव्यं हविष्यं शास्त्रनिर्मितम्।
तद्भुक्तवा यत्कृतं कर्म सर्वं लक्षगुणं भवेत्१४२।
निरामिषं च यत्किंचित्तस्माद्यद्यत्फलं लभेत्।
तस्माद्गौः सर्वकार्येषु शस्त एको युगेयुगे१४३।
सर्वदा सर्वकामेषु धर्मकामार्थमोक्षदः।
नारद उवाच-।
केषु किं वा प्रयोगेण परं पुण्यं प्रकीर्तितं१४४।
वद तत्सर्वलोकेश यथा जानामि तत्वतः।
ब्रह्मोवाच।
सकृत्प्रदक्षिणं कृत्वा गोधनं चाभिवंदयेत्१४५।
सर्वपापैर्विनिर्मुक्तः स्वर्गं चाक्षयमश्नुते।
सुराचार्यो यथा वंद्यः पूज्योसौ माधवो यथा१४६।
सप्तप्रदक्षिणं कृत्वा चैश्वर्यात्पाकशासनः।
कल्य उत्थाय गोमध्ये पात्रं गृह्य सहोदकम्१४७।
निषिंचेद्यो गवां शृंगं मस्तकेनैव तज्जलम्।
प्रतीच्छेत निराहारस्तस्य पुण्यं निबोधत१४८।
श्रूयंते यानि तीर्थानि त्रिषु लोकेषु नारद।
सिद्धचारणयुक्तानि सेवितानि महर्षिभिः१४९।
अभिषेकस्समस्तेषां गवां शृंगोदकस्य च।
प्रातरुत्थाय यो मर्त्यः स्पृशेद्गां च घृतं मधु१५० 1.48.150।
सर्षपांश्च प्रियंगूंश्च कल्मषात्प्रतिमुच्यते।
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः१५१।
घृतनद्यो घृतावर्तास्ता मे संतु सदा गृहे।
घृतं मे सर्वगात्रेषु घृतं मे मनसि स्थितम्१५२।
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च।
गावश्च सर्वगात्रेषु गवांमध्ये वसाम्यहम्१५३।
इत्याचम्य जपेन्मंत्रं सायंप्रातरिदं शुचिः।
सर्वपापक्षयस्तस्य स्वर्लोके पूजितो भवेत्१५४।
यथा गौश्च तथा विप्रो यथाविप्रस्तथा हरिः।
हरिर्यथा तथा गंगा एतेन ह्यवृषाः स्मृताः१५५।
गावो बंधुर्मनुष्याणां मनुष्या बांधवा गवाम्।
गौश्च यस्मिन्गृहे नास्ति तद्बंधुरहितं गृहम्१५६।
गोमुखे चाश्रिता वेदाः सषडंगपदक्रमाः।
शृंगयोश्च स्थितौ नित्यं सहैव हरिकेशवौ१५७।
उदरेऽवस्थितः स्कंदः शीर्षे ब्रह्मा स्थितः सदा।
वृषद्ध्वजो ललाटे च शृंगाग्र इंद्र एव च१५८।
कर्णयोरश्विनौ देवौ चक्षुषोश्शशिभास्करौ।
दंतेषु गरुडो देवो जिह्वायां च सरस्वती१५९।
अपाने सर्वतीर्थानि प्रस्रावे चैव जाह्नवी।
ऋषयो रोमकूपेषु मुखतः पृष्ठतो यमः१६०।
धनदो वरुणश्चैव दक्षिणं पार्श्वमाश्रितौ।
वामपार्श्वे स्थिता यक्षास्तेजस्वंतो महाबलाः१६१।
मुखमध्ये च गंधर्वा नासाग्रे पन्नगास्तथा।
खुराणां पश्चिमे पार्श्वेऽप्सरसश्च समाश्रिताः१६२।
गोमये वसते लक्ष्मीर्गोमूत्रे सर्वमंगला।
पादाग्रे खेचरा वेद्या हंभाशब्दे प्रजापतिः१६३।
चत्वारः सागराः पूर्णा धेनूनां च स्तनेषु वै।
गां च स्पृशति यो नित्यं स्नातो भवति नित्यशः१६४।
अतो मर्त्यः प्रपुष्टैस्तु सर्वपापैः प्रमुच्यते।
गवां रजः खुरोद्धूतं शिरसा यस्तु धारयेत्१६५।
स च तीर्थजले स्नातः सर्वपापैः प्रमुच्यते।
नारद उवाच-।
गवां च दशवर्णानां कस्य दाने च किंफलम्१६६।
ब्रूहि तत्त्वं गुरुश्रेष्ठ परमेष्ठिन्प्रियं यदि।
ब्रह्मोवाच-।
श्वेतां गां ब्राह्मणे दत्वा मानवश्चेश्वरो भवेत्१६७।
प्रासादे वसते नित्यं भोगी च सुखमेधते।
धूम्रा तु स्वर्गकांतार संसारे पापमोक्षिणी१६८।
अक्षयं कपिलादानं कृष्णां दत्वा न सीदति।
पांडुरा दुर्लभा लोके गौरी च कुलनंदिनी१६९।
रक्ताक्षी रूपकामस्य धनकामस्य नीलिका।
एकां च कपिलां दत्वा सर्वपापैः प्रमुच्यते१७०।
यत्तु बाल्यकृतं पापं यौवने वार्धके कृतम्।
वाचाकृतं कर्मकृतं मनसा यत्प्रचिंतितं१७१।
अगम्यागमनं चैव मित्रद्रोहे च पातकम्।
मानकूटं तुलाकूटं कन्यानृतं गवानृतम्१७२।
सर्वं च नाशयेत्क्षिप्रं कपिलां यः प्रयच्छति।
दशयोजनविस्तीर्णा महापारा महानदी१७३।
नारा च जलकांतारे प्रसृते चोदकार्णवे।
यावद्वत्सस्य द्वौ पादौ मुखं यावन्न जायते१७४।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुंचति।
सुवर्णशृंगीं वस्त्राढ्यां सर्वालंकारभूषिताम्१७५।
ताम्रपृष्ठीं रौप्यखुरां तथा कांस्योपदोहनाम्।
शोभितां गंधपुष्पैश्च सर्वालंकारभूषितां१७६।
ईदृशीं कपिलां दद्याद्द्विजातौ वेदपारगे।
सर्वपापक्षयस्तस्य विष्णुलोकेऽच्युतो भवेत्१७७।
तस्यां तु दुह्यमानायां भूमौ पतंति बिंदवः।
आरामादि विजायंते बहुपुष्पफलोत्तमाः१७८।
यत्र कामफला वृक्षा नद्यः पायसकर्दमाः।
प्रासादाश्चापि सौवर्णास्तत्र गच्छंति गोप्रदाः१७९।
दशधेनूश्च यो दद्यादेकं चैव धुरंधरं।
समानं तु फलं प्रोक्तं ब्रह्मणा समुदाहृतम्१८०।
एकं च दशभिर्दद्यात्सहस्राणां शतं फलम्।
तस्यानुसारतो वेद्यं फलं नारद यत्नतः१८१।
पितॄनुद्दिश्य यः पुत्रो वृषं च मोक्षयेद्भुवि।
पितरो विष्णुलोकेषु महीयंते यथेप्सितम्१८२।
चतस्रो वत्सतर्यश्च एकस्यैव वृषस्य च।
मोक्ष्यंते सर्वतः पुत्र विधिरेष सनातनः१८३।
यावंति चैव रोमाणि तस्य तासां च सर्वशः।
तावद्वर्षसहस्राणि स्वर्गं भुजंति मानवाः१८४।
लांगूलेन वृषो यच्च जलं चोत्क्षिपति ध्रुवं।
तत्तोयं तु सहस्राब्दं पितॄणाममृतं भवेत्१८५।
खुरेण कर्षयेद्भूमिं ततो लोष्ठं च कर्दमः।
पितृभ्यश्च स्वधा तत्र लक्षकोटिगुणं भवेत्१८६।
विद्यमाने च जनके यदि माता विनश्यति।
चंदनेनांकिता धेनुस्तस्याः स्वर्गाय दीयते१८७।
दाता चैव पितॄणां च ऋणं चैव प्रमुंचति।
अक्षयं लभते स्वर्गं पूजितो मघवा यथा१८८।
सर्वलक्षणसंयुक्ता तरुणा गौः पयस्विनी।
समाप्रसूतिका भद्रा सा च गौः पृथिवी स्मृता१८९।
तस्य दानेन मंत्रस्य पृथ्वीदानसमं फलं।
शतक्रतुसमो मर्त्यः कुलमुद्धरते शतं१९०।
गवां च हरणं कृत्वा मृते गोरथवत्सके।
क्रिमिपूर्णे स कूपे च तिष्ठेदाभूतसंप्लवं१९१।
गवां चैव वधं कृत्वा पितृभिः सह पच्यते।
रौरवे नरके घोरे तावत्कालं प्रतिक्रिया१९२।
गोप्रचारप्रभग्नश्च षंडवाहनबंधनः।
अक्षयं नरकं प्रायान्पुनर्जन्मनि जन्मनि१९३।
सकृच्च श्रावयेद्यस्तु कथां पुण्यतमामिमां।
सर्वपापक्षयस्तस्य देवैश्च सह मोदते१९४।
य इदं शृणुयाद्वापि परं पुण्यतमं महत्।
सप्तजन्मकृतात्पापान्मुच्यते तत्क्षणेन हि१९५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गोमाहात्म्यं नामाष्टचत्वारिंशत्तमोऽध्यायः४८।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 49
एकोनपञ्चाशोऽध्यायः ।
नारद उवाच-
केनाचारेण विप्रस्य ब्रह्मतेजो विवर्धते।
केनाचारेण तस्यैव ब्राह्मं तेजो विनश्यति १।
ब्रह्मोवाच-।
शयनीयात्समुत्थाय रात्र्यंशे द्विजसत्तमः।
देवांश्चैव स्मरेन्नित्यं तथा पुण्यवतो ध्रुवम् २।
गोविंदं माधवं कृष्णं हरिं दामोदरं तथा।
नारायणं जगन्नाथं वासुदेवमजं विभुम् ३।
सरस्वतीं महालक्ष्मीं सावित्रीं वेदमातरम्।
ब्रह्माणं भास्करं चन्द्रं दिक्पालांश्च ग्रहांस्तथा ४।
शङ्करं च शिवं शंभुमीश्वरं च महेश्वरम्।
गणेशं च तथा स्कन्दं गौरीं भागीरथीं शिवाम् ५।
पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः।
पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः ६।
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः।
कृपः परशुरामश्च सप्तैते चीरजीविनः ७।
एतान्यस्तु स्मरेन्नित्यं प्रातरुत्थाय मानवः।
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ८।
सकृदुच्चरिते तात सर्वयज्ञफलं लभेत्।
गवां शतसहस्राणां दानस्य फलमश्नुते ९।
ततश्चापि शुचौ देशे मलमूत्रं परित्यजेत्।
दक्षिणाभिमुखो रात्रौ दिवा कुर्यादुदङ्मुखः १०।
परतो दंतकाष्ठं च तृणैरुदुंबरादिभिः।
अतः परं च संध्यायां संयतश्च द्विजो भवेत् ११।
पूर्वाह्णे रक्तवर्णां तु मध्याह्ने शुक्लवर्णिकाम्।
सायं सरस्वतीं कृष्णां द्विजो ध्यायेद्यथाविधि १२।
ततः समाचरेत्स्नानं यथाज्ञानेन यत्नतः।
अंगं प्रक्षालयित्वा तु मृद्भिः संलेपयेत्ततः१३।
शिरोदेशे ललाटे च नासिकायां हृदि भ्रुवोः।
बाह्वोः पार्श्वे तथा नाभौ जान्वोरङ्घ्रिद्वये तथा १४।
एका लिंगे गुदे तिस्रस्तथा वामकरे दश।
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता १५।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे।
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् १६।
अनेनैव तु मंत्रेण मृत्तिकां यस्तनौ क्षिपेत्।
सर्वपापक्षयस्तस्य शुचिर्भवति मानवः १७।
ततस्तु वेदपूर्वेण स्नानं कुर्याद्विचक्षणः।
नदे नद्यां तथा कूपे पुष्करिण्यां तटाकके १८।
जलराशौ च वप्रे च घटस्नानं तथोत्तरम्।
कारयेद्विधिवन्मर्त्यः सर्वपापक्षयाय च १९।
प्रातःस्नानं महापुण्यं सर्वपापप्रणाशनम्।
यः कुर्यात्सततं विप्रो विष्णुलोके महीयते २०।
प्रातः संध्यासमीपे च यावद्दंडचतुष्टयम्।
तावत्पानीयममृतं पितॄणामुपतिष्ठते २१।
परतो घटिकायुग्मं यावद्यामैकमाह्निकम्।
मधुतुल्यं जलं तस्मिन्पितॄणां प्रीतिवर्धनम् २२।
ततस्तु सार्द्धयामैकं जलं क्षीरमयं स्मृतम्।
क्षीरमिश्रं जलं तावद्यावद्दण्डचतुष्टयम् २३।
अतः परं च पानीयं यावद्धि प्रहरत्रयम्।
तत्परं लोहितं प्रोक्तं यावदस्तंगतो रविः २४।
चतुर्थप्रहरे स्नाने रात्रौ वा तर्पयेत्पितॄन्।
तत्तोयं रक्षसामेव ग्रहणेन विना स्मृतम् २५।
पानीयं सर्वसिर्द्ध्य्थं पुरैव निर्मितं मया।
रक्षार्थं तस्य तोयस्य यक्षाश्चैव धुरंधराः २६।
न प्राप्नुवंति पितरो ये च लोकांतरं गताः।
दुष्प्राप्यं सलिलं तेषामृते स्वान्मर्त्यवासिनः २७।
तस्माच्छिष्यैश्च पुत्रैश्च पौत्रदौहित्रकादिभिः।
बंधुवर्गैस्तथा चान्यैस्तर्पणीयं पितृव्रतैः २८।
नारद उवाच-।
जलस्य दैवतं ब्रूहि तर्पणस्य विधिं मयि।
यथा जानामि देवेश तत्वतो वक्तुमर्हसि २९।
ब्रह्मोवाच-।
जलस्य देवता विष्णुःस र्वलोकेषु गीयते।
जलपूतो भवेद्यस्तु विष्णुस्तच्छंकरो भवेत् ३०।
जलं गंडूषमात्रं तु पीत्वा पूतो भवेन्नरः।
विशेषात्कुशसंसर्गात्पीयूषादधिकं जलम् ३१।
सर्वदेवालयो दर्भो मयायं निर्मितः पुरा।
कुशमूले भवेद्ब्रह्मा कुशमध्ये तु केशवः ३२।
कुशाग्रे शंकरं विद्धि कुश एते प्रतिष्ठिताः।
कुशहस्तः सदा मेध्यः स्तोत्रं मंत्रं पठेद्यदि ३३।
सर्वं शतगुणं प्रोक्तं तीर्थे साहस्रमुच्यते।
कुशाः काशास्तथा दूर्वा यवपत्राणि व्रीहयः ३४।
बल्वजाः पुंडरीकाश्च कुशास्सप्त प्रकीर्तिताः।
आनुपूर्व्येण मेध्याः स्युः कुशा लोके प्रतिष्ठिताः ३५।
विना मंत्रेण यत्स्नानं सर्वं तन्निष्फलं भवेत्।
अमृतात्स्वादुतामेति संस्पर्शाच्च तिलस्य च ३६।
तस्माच्च तर्पयेन्नित्यं पितॄंस्तिलजलैर्बुधः।
दशभिश्च तिलैस्तावत्पितॄणां प्रीतिरुत्तमा ३७।
अग्निस्तंभभयाद्देवा न चेच्छन्त्यतिविस्तरम्।
स्नात्वा यस्तर्पयेन्नित्यं तिलमिश्रोदकैः पितॄन् ३८।
नीलपंडविमोक्षेण त्वमावास्या तिलोदकैः।
वर्षासु दीपदानेन पितॄणामनृणो भवेत् ३९।
वत्सरैकममायां तु तर्पयेद्यस्तिलैः पितृन्।
विनायकत्वमाप्नोति सर्वदेवैः प्रपूज्यते ४०।
युगाद्यासु च सर्वासु यस्तिलैस्तर्पयेत्पितॄन्।
उक्तं यद्वाप्यमायां तु तस्माच्छतगुणाधिकम् ४१।
अयने विषुवे चैव राकामायां तथैव च।
तर्पयित्वा पितृव्यूहं स्वर्गलोके महीयते ४२।
तथा मन्वंतराख्यायामन्यस्यां पुण्यसंस्थितौ।
ग्रहणे चंद्रसूर्यस्य पुण्यतीर्थे गयादिषु ४३।
तर्पयित्वा पितॄन्याति माधवस्य निकेतनम्।
तस्मात्पुण्याहकं प्राप्य तर्पयेत्पितृसंचयम् ४४।
तर्पणं देवतानां च पूर्वं कृत्वा समाहितः।
अधिकारी भवेत्पश्चात्पितॄणां तर्पणे बुधः ४५।
श्राद्धे भोजनकाले च पाणिनैकेन दापयेत्।
उभाभ्यां तर्पणे दद्याद्विधिरेष सनातनः ४६।
दक्षिणाभिमुखो भूत्वा शुचिस्तु तर्पयेत्पितॄन्।
तृप्यतामिति वाक्येन नामगोत्रेण वै पुनः ४७।
अकृष्णैर्यत्तिलैर्मोहात्तर्पयेत्पितृसंचयम्।
भूम्यां ददाति यदपो दाता चैव जले स्थितः ४८।
वृथा तद्दीयते दानं नोपतिष्ठति कस्यचित्।
स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः ४९।
नोपतिष्ठेत्पितॄणां तु सलिलं तन्निरर्थकम्।
आर्द्रवासा जले यस्तु कुर्यादुदकतर्पणम् ५० 1.49.50।
पितरस्तस्य तृप्यंति सहदेवैस्सदानघ।
रजकैः क्षालितं वस्त्रमशुद्धं कवयो विदुः ५१।
हस्तप्रक्षालने चैव पुनर्वस्त्रं तु शुध्यति।
शुष्कवासाः शुचौ देशे स्थाने यत्तर्पयेत्पितॄन् ५२।
ततो दशगुणेनैव तुष्यंति पितरो ध्रुवम्।
स्नानं संध्यां च पाषाणे खड्गे वा ताम्रभाजने ५३।
तर्पणं कुरुते यस्तु प्रत्येकं च शताधिकम्।
रौप्यांगुलीयं तर्जन्यां धृत्वा यत्तर्पयेत्पितॄन् ५४।
सर्वं च शतसाहस्रगुणं भवति नान्यथा।
तथैवानामिकायां तु धृत्वा स्वर्णांगुलीं बुधः ५५।
तर्पयेत्पितृसंदोहं लक्षकोटिगुणं भवेत्।
अंगुष्ठदेशिनी मध्ये सव्यहस्तस्य खड्गकम् ५६।
धृत्वानामिकया रत्नमंजलेरक्षयंफलं।
स्नानार्थमभिगच्छंतं देवाः पितृगणैः सह ५७।
वायुभूतानुगच्छंति तृषार्ताः सलिलार्थिनः।
निराशास्ते निवर्तंते वस्त्रनिष्पीडनेन च ५८।
तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम्।
तिस्रःकोट्योऽर्धकोटी च यानि लोमानि मानुषे ५९।
स्रवंति सर्वतीर्थानि तस्मान्न परिपीडयेत्।
देवाः पिबंति शिरसि श्मश्रुतः पितरस्तथा ६०।
चक्षुषोरपि गंधर्वा अधस्तात्सर्वजंतवः।
देवाः पितृगणाः सर्वे गंधर्वा जंतवस्तथा ६१।
स्नानमात्रेण तुष्यंति स्नानात्पापं न विद्यते।
नित्यस्नानं च यः कुर्यात्स नरः पुरुषोत्तमः ६२।
सर्वपापैर्विनिर्मुक्तो नाकलोकेमहीयते।
स्नानं तर्पणपर्यंतं देवा महर्षयो विदुः ६३।
अतः परं च देवानां पूजनं कारयेद्बुधः।
गणेशं पूजयेद्यस्तु विघ्नस्तस्य न जायते ६४।
आरोग्यार्थं च सूर्यं च धर्ममोक्षाय माधवम्।
शिवं च कृत्यकामार्थं सर्वकामाय चंडिकाम् ६५।
देवांस्तु पूजयित्वा तु वैश्वदेवबलिं चरेत्।
वह्निकार्यं ततः कृत्वा यज्ञं ब्राह्मणतर्पणम् ६६।
देवानां सर्वसत्वानां पुनस्त्रिविष्टपं व्रजेत्।
गतागतं स्थिरं कृत्वा कामान्मोक्षं सुखं दिवम् ६७।
तस्मात्सर्वप्रयत्नेन नित्यं कर्माणि कारयेत्।
नारद उवाच-।
किमर्थं च जलं तात देवाः पितृगणैः सह ६८।
न प्राप्नुवंति सर्वज्ञ लभंते मानवा यथा।
ब्रह्मोवाच।
पुरा सृष्टं मया तोयं सर्वदेवमयामृतम् ६९।
तस्यैव रक्षणार्थं च रक्षा यक्षा धनुर्धराः।
घ्नंति ते पितरं देवमस्मद्वाक्यान्न मानुषम् ७०।
पशवः पक्षिणः कीटा मर्त्यलोके व्यवस्थिताः।
मर्त्यजाताश्च देवा ये तथैव मानुषा ध्रुवम् ७१।
तर्पयित्वा गुरुं नित्यं सुरलोके प्रतिष्ठिताः।
अस्नायी च मलं भुंक्ते अजपी पूयशोणितम् ७२।
अकृत्वा तर्पणं नित्यं पितृहा चोपजायते।
ब्रह्महत्यासमं पापं देवानामप्यपूजने ७३।
सन्ध्याकृत्यमकृत्वा च सूर्यं हंति च पापकृत्।
नारद उवाच-।
ब्राह्मणस्य सदाचारक्रमं ब्रूहि च कर्मणाम् ७४।
इतरेषां च वर्णानां प्रवृत्तमखिलं वद।
ब्रह्मोवाच-।
आचाराल्लभते चायुराचाराल्लभते सुखम् ७५।
आचारात्स्वर्गं मोक्षं च आचारो हंत्यलक्षणम्।
अनाचारो हि पुरुषो लोके भवति निंदितः ७६।
दुःखभागी च सततं व्याधितोल्पायुरेव च।
नरके नियतं वासो ह्यनाचारान्नरस्य च ७७।
आचाराच्च परं लोकमाचारं शृणु तत्त्वतः।
गोमयेन गृहे नित्यं प्रकुर्यादुपलेपनम् ७८।
प्रक्षालयेत्ततः पीठं काष्ठं पात्रं शिलातलम्।
भस्मना कांस्यपात्रं तु ताम्रमम्लेनशुद्ध्यति ७९।
शिलापात्रं तु तैलेन फालंगो वालकेन तु।
स्वर्णरौप्यादिपात्रं तु जलमात्रेण शुध्यति ८०।
अग्निना लोहपात्रं तु पाकप्रक्षालनेन तु।
खननाद्दाहनाच्चैव उपलेपन धावनात् ८१।
पर्जन्यवर्षणाच्चैव भूरमेध्या विशुध्यति।
तैजस्सानां मणीनां च सर्वस्याश्ममयस्य च ८२।
भस्मभिर्मृत्तिकाभिश्च शुद्धिरुक्ता मया पुरा।
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमंडलुः ८३।
आत्मनः कथिताश्शुद्धा न परेषां कदाचन।
न भुंजीतैकवस्त्रेण न स्नायादेकवाससा ८४।
न धारयेत्परस्यैवं स्नानवस्त्रं कदाचन।
संस्कारं केशदंतानां प्रातरेव समाचरेत् ८५।
गुरूणां च नमस्कारं नित्यमेव समाचरेत्।
हस्तपादे मुखे चैव पंचार्द्रो भोजनं चरेत् ८६।
पंचार्द्रकस्तु भुंजानः शतं वर्षाणि जीवति।
देवतानां गुरोराज्ञां स्नातकाचार्ययोरपि ८७।
नाक्रामेत्कामतश्छायां विप्रस्य दीक्षितस्य च।
गोगणं देवतं विप्रं घृतं मधु चतुष्पथम् ८८।
प्रदक्षिणं प्रकुर्वीत प्रख्यातांश्च वनस्पतीन्।
गोविप्रावग्निविप्रौ च विप्रौ द्वौ दंपती तथा ८९।
तयोर्मध्ये न गच्छेत स्वर्गस्थोपि पतेद्ध्रुवम्।
उच्छिष्टो न स्पृशेदग्निं ब्राह्मणं दैवतं गुरुम् ९०।
स्वशीर्षं पुष्पवृक्षं च यज्ञवृक्षमधार्मिकम्।
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन ९१।
सूर्याचंद्रमसावेवं नक्षत्राणि च सर्वशः।
नेक्षेद्विप्रं गुरुं देवं राजानं यतिनां वरम् ९२।
योगिनं देवकर्माणं धर्माणां कथकं द्विजम्।
नदीनां च प्रतीरे च पत्युश्च सरितां तथा ९३।
यज्ञवृक्षस्य मूले च उद्याने पुष्पवाटके।
शरीरस्य मलत्यागं न कुर्याज्जीवने तथा ९४।
विप्रस्यायतने गोष्ठे रम्ये राजपथेषु च।
न क्षौरं कारयेद्धीरः कुजस्याह्नि कदाचन ९५।
मलं न धारयेद्दंते नखं न वदने क्षिपेत्।
तैलाभ्यंगं न कुर्वीत वासरे रविभौमयोः ९६।
स्वगात्रासनयोर्वाद्यं गुरोरेकासनादनम्।
न हरेच्छ्रोत्रियस्वं च देवस्यापि गुरोरपि ९७।
राज्ञस्तपस्विनां चैव पंगोरंधस्य योषितः।
पंथा देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ९८।
रोगिणे भारतप्ताय गुर्विण्यै दुर्बलाय च।
विवादं न च कुर्वीत नृप विप्र चिकित्सकैः ९९।
ब्राह्मणं गुरुपत्नीं च दूरतः परिवर्जयेत्।
पतितं कुष्ठसंयुक्तं चांडालं च गवाशिनम् १०० 1.49.100।
निर्धूतं ज्ञानहीनं च दूरतः परिवर्जयेत्।
स्त्रियं दुष्टां च दुर्वृत्तामपवाद प्रदायिनीम् १०१।
कुकर्मकारिणीं दुष्टां सदैव कलहप्रियाम्।
प्रमत्तामधिकांगीञ्च निर्लज्जां बाह्यचारिणीम् १०२।
व्ययशीलामनाचारां दूरतः परिवर्जयेत्।
मलिनां नाभिवंदेत गुरुपत्नीं कदाचन १०३।
न स्पृशेत्तां च मेधावी स्पृष्ट्वा स्नानेन शुद्ध्यति।
स तया सह केलिं च वर्जयेच्च सदैव हि १०४।
शृणुयाच्च वचो नूनं न पश्येच्च गुरोः स्त्रियम्।
वधूं पुत्रस्य भ्रातुश्च स्वपुत्रीं युवतीं ध्रुवम् १०५।
अन्यां च गुरुपत्नीं च नेक्षेत्स्पर्शं न कारयेत्।
ताभिः सह कथालापं तथा भ्रूभंगदर्शनम् १०६।
कलहं निस्त्रपां वाणीं सदैव परिवर्जयेत्।
न दद्याच्च सदा पादं तुषांगारास्थिभस्मसु १०७।
कार्पासास्थिषु निर्माल्ये चितिकाष्ठे चितौ गुरौ।
शुष्कं मीनं न भक्षेत पूतिगंधिममेध्यकम् १०८।
विघसं चान्यदुच्छिष्टं पाकार्थं च परस्य च।
न स्थातव्यं न गंतव्यं क्षणमप्यसता सह १०९।
न तिष्ठेच्च क्षणं धीरो दीपच्छाये कलिद्रुमे।
अस्पृश्यैस्सह चालापं पतितैः कुपितैः सह ११०।
न कुर्यात्क्षणमात्रं तु कृत्वा गच्छेच्च रौरवम्।
कनिष्ठं नाभिवंदेत पितृव्यं मातुलं तथा १११।
उत्थाय चासनं दद्यात्कृतांजल्यग्रतः स्थितः।
तैलाभ्यक्तं तथोच्छिष्टमार्द्रवस्त्रं च रोगिणम् ११२।
पारावारगतोद्विग्नं वहंतं नाभिवादयेत्।
यज्ञस्यांतर्गतं नष्टं क्रीडंतं स्त्रीजनैः सह ११३।
बालक्रीडागतं चापि पुष्पयुक्तं कुशैर्युतम्।
शिरः प्रावृत्य कर्णौ वा अप्सु मुक्तशिखोपि वा ११४।
अकृत्वा पादयोः पूजां नाचामेद्दक्षिणामुखः।
उपवीतविहीनश्च नग्नको मुक्तकच्छकः ११५।
एकवस्त्रपिधानश्च आचांतो नैव शुध्यति।
मध्यमाभिर्मुखं पूर्वं तिसृभिः समुपस्पृशेत् ११६।
अंगुष्ठदेशिनीभ्यां च नासां च तदनंतरम्।
अंगुष्ठानामिकाभ्यां च चक्षुषी समुपस्पृशेत् ११७।
कनिष्ठांगुष्ठतश्श्रोत्रे नाभिमंगुष्ठकेन तु।
तलेन हृदयं न्यस्य सर्वाभिर्मस्तकोपरि ११८।
बाहूचाग्रेण संस्पृश्य ततः शुद्धो भवेन्नरः।
अनेनाचमनं कृत्वा मानवः प्रयतो भवेत् ११९।
सर्वपापैर्विनिर्मुक्तः स्वर्गं चाक्षयमश्नुते।
प्राणस्त्रिपुटशृंग्या च व्यानोपानश्च मुद्रया १२०।
समानस्तु समस्ताभिरुदानस्तर्जनीं विना।
नागः कूर्मश्च कृकरो देवदत्तो धनंजयः १२१।
उपप्रीणंतु ते प्रीता येभ्यो भूमौ प्रदीयते।
शयनं चार्द्रपादेन शुष्कपादेन भोजनम् १२२।
नांधकारे च शयनं भोजनं नैव कारयेत्।
पश्चिमे दक्षिणे चैव न कुर्याद्दंतधावनम् १२३।
उत्तरे पश्चिमे चैव न स्वपेद्धि कदाचन।
स्वप्नादायुः क्षयं याति ब्रह्महा पुरुषो भवेत् १२४।
न कुर्वीत ततः स्वप्नं शस्तं च पूर्वदक्षिणम्।
आयुष्यं प्राङ्मुखो भुंक्तेऽयशस्यं दक्षिणामुखः १२५।
श्रियं प्रत्यङ्मुखो भुंक्ते यशो भुङ्क्त उदङ्मुखः।
प्राच्यां नरो लभेदायुर्याम्यां प्रेतत्वमश्नुते १२६।
वारुणे च भवेद्रोगी आयुर्वित्तं तथोत्तरे।
देवानामेकभुक्तं तु द्विभुक्तं स्यान्नरस्य च १२७।
त्रिभुक्तं प्रेतदैत्यस्य चतुर्थं कौणपस्य तु।
निरामिषं हविर्देवा मत्स्यमांसादि मानुषाः १२८।
पूतिपर्युषितं दुष्टमन्ये भुंजंत्यनावृताः।
स्वर्गस्थितानामिह जीवलोके चत्वारि तेषां हृदये च संति १२९।
दानं प्रशस्तं मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च।
कार्पण्यवृत्तिस्वजनेषु निंदा कुचेलता नीचजनेषु भक्तिः १३०।
अतीव रोषः कटुका च वाणी नरस्य चिह्नं नरकागतस्य।
नवनीतोपमा वाणी करुणा कोमलं मनः १३१।
धर्मबीजप्रसूतानामेतत्प्रत्यक्ष लक्षणम्।
दयादरिद्रहृदयं वचः क्रकच कर्कशम् १३२।
पापबीजप्रसूतानामेतत्प्रत्यक्ष लक्षणम्।
श्रावयेच्छृणुयाद्वापि सदाचारादिकं नरः १३३।
आचारादेः फलं लब्ध्वा पापात्पूतोऽच्युतो दिवि १३४।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सदाचारवर्णनंनामैकोनपञ्चाशोऽध्यायः४९।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 50
भीष्म उवाच-।
यत्पुण्यमधिकं लोके सर्वदा सर्वसंमतम्।
तद्वदस्वेच्छया विप्र यत्कृतं पूर्वपूर्वकैः१।
पुलस्त्य उवाच-।
एकदा तु द्विजाः सर्वे व्यासशिष्यास्सहादरात्।
व्यासं प्रणम्य पप्रच्छु धर्मं मां च यथा भवान्२।
द्विजा ऊचुः-।
पुण्यात्पुण्यतमं लोके सर्वधर्मेषु चोत्तमम्।
किं कृत्वा मानवा स्वर्गं भुंजते चाक्षयं वद३।
लभ्यं चाकष्टकं शुद्धं वर्णानां मर्त्यवासिनाम्।
गुरूणां च लघूनां च साध्यमेकं क्रतुं वद४।
यद्यत्कृत्वा च देवानां पूज्यो नाके भवेन्नरः।
तत्तद्वद च नो ब्रह्मन्प्रसादी भव धर्मतः५।
व्यास उवाच-।
पंचाख्यानं वदिष्यामि शृणुध्वं तत्र पूर्वतः।
पंचानामेककं कृत्वा विंदेन्मोक्षं दिवं यशः६।
पित्रोरर्चाऽथ पत्युश्च साम्यं सर्वजनेषु च।
मित्राद्रोहो विष्णुभक्तिरेते पंच महामखाः७।
प्राक्पित्रोरर्चया विप्रा यद्धर्मं साधयेन्नरः।
न तत्क्रतुशतैरेव तीर्थयात्रादिभिर्भुवि८।
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः।
पितरि प्रीतिमापन्ने प्रीयंते सर्वदेवताः९।
पितरो यस्य तृप्यंति सेवया च गुणेन च।
तस्य भागीरथी स्नानमहन्यहनि वर्तते१०।
सर्वतीर्थमयी माता सर्वदेवमयः पिता।
मातरं पितरं चैव यस्तु कुर्यात्प्रदक्षिणम्११।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा।
जानुनी च करौ यस्य पित्रोः प्रणमतः शिरः१२।
निपतंति पृथिव्यां च सोक्षयं लभते दिवं।
तयोश्चरणयोर्यावद्रजश्चिह्नानि मस्तके१३।
प्रतीके च विलग्नानि तावत्पूतः सुतस्तयोः।
पादारविंदसलिलं यः पित्रोः पिबते सुतः१४।
तस्य पापक्षयं याति जन्मकोटिशतार्जितं।
धन्योसौ मानवो लोके पूतोसौ सर्वकल्मषात्१५।
विनायकत्वमाप्नोति जन्मनैकेन मानवः।
पितरौ लंघयेद्यस्तु वचोभिः पुरुषाधमः१६।
निरये च वसेत्तावद्यावदाभूतसंप्लवं।
पित्रोरनर्चनं कृत्वा भुंक्ते यस्तु सुताधमः१७।
क्रिमिकूपेथ नरके कल्पांतमुपतिष्ठति।
रोगिणं चापि वृद्धं च पितरं वृत्तिकर्शितम्१८।
विकलं नेत्रकर्णाभ्यां त्यक्त्वा गच्छेच्च रौरवम्।
अंत्यजातिषु म्लेच्छेषु चांडालेष्वपि जायते१९।
पित्रोरपोषणं कृत्वा सर्वपुण्यक्षयो भवेत्।
नाराध्य पितरौ पुत्रस्तीर्थदेवान्भजन्नपि२०।
तयोर्न फलमाप्नोति कीटवद्रमते महीम्।
कथयामि पुरावृत्तं विप्राः शृणुत यत्नतः२१।
यं श्रुत्वा न पुनर्मोहं प्रयास्यथ पुनर्भुवि।
पुरासीच्च द्विजः कश्चिन्नरोत्तम इति स्मृतः२२।
स्वपितरावनादृत्य गतोसौ तीर्थसेवया।
ततः सर्वाणि तीर्थानि गच्छतो ब्राह्मणस्य च२३।
आकाशे स्नानचेलानि प्रशुष्यंति दिने दिने।
अहंकारोऽविशत्तस्य मानसे ब्राह्मणस्य च२४।
मत्समो नास्ति वै कश्चित्पुण्यकर्मा महायशाः।
इत्युक्ते चानने तस्य अहदच्च बकस्तदा२५।
क्रोधाच्चैवेरितस्तस्य स शशाप द्विजो बकम्।
पपात च बकः पृथ्व्यां स भस्मीभूतविग्रहः२६।
भीर्द्विजेंद्रं महामोहः प्राविशच्चांतकर्मणि।
ततः पापाच्च विप्रस्य चेलं खं च न गच्छति२७।
विषादमगमत्सद्यस्ततः खं तमुवाच ह।
गच्छ बाडव चांडालं मूकं परमधार्मिकम्२८।
तत्र धर्मं च जानीषे क्षेमं ते तद्वचो भवेत्।
खाच्च तद्वचनं श्रुत्वा गतोसौ मूकमंदिरम्२९।
शुश्रूषंतं च पितरौ सर्वारंभान्ददर्श सः।
ददतं शीतकाले च सम्यगुष्णं जलं तयोः३०।
तैलतापनतांबूलं तथा तूलवतीं पटीम्।
नित्याशनं च मिष्टान्नं दुग्धखंडं तथैव च३१।
दापयंतं वसंते च मधुमालां सुगंधिकां।
अन्यानि यानि भोग्यानि कृत्यानि विविधानि च३२।
उष्णे चावीजयत्सोपि नित्यं च पितरावपि।
ततस्तयोः प्रचर्यां च कृत्वा भुंक्तेथ सर्वदा३३।
श्रमस्य वारणं कुर्यात्संतापस्य तथैव च।
एभिः पुण्यैः स्थितो विष्णुस्तस्य गेहोदरे चिरम्३४।
अंतरिक्षे च क्रीडंतमाधारस्तंभवर्जिते।
तस्यापि भवने नित्यं स्थितं त्रिभुवनेश्वरं३५।
विप्ररूपधरं कांतं नान्यैर्भूतं च सत्परम्।
तेजोमयं महासत्वं शोभयंतं च मंदिरं३६।
दृष्ट्वा विस्मयमापन्नो विप्रः प्रोवाच मूककम्।
विप्र उवाच-।
आसन्नं च ममागच्छ त्वयैवेच्छामि शाश्वतं३७।
हितं मे सर्वलोकानां तत्वतो वक्तुमर्हसि।
मूक उवाच-।
पित्रोरर्चां करोम्यद्य कथमायामि तेंतिकं३८।
अर्चयित्वा तु पितरौ कृत्यं ते करवाणि वै।
तिष्ठ मे द्वारदेशे च आतिथ्यं ते करोम्यहम्३९।
इत्युक्ते चैव चांडाले चुकोप ब्राह्मणस्तदा।
ब्राह्मणं मां परित्यज्य किं कार्यमधिकं तव४०।
मूक उवाच-।
किं कुप्यसि वृथा विप्र न बकोहं तवाधुना।
कोपस्सिद्ध्यति ते तावद्बकेनान्यत्र किंचन४१।
गगने स्नानशाटी ते न शुष्यति न तिष्ठति।
वचनं खात्ततः श्रुत्वा मद्गृहं चागतो भवान्४२।
तिष्ठ तिष्ठ वदिष्यामि नोचेद्गच्छ पतिव्रतां।
तां च दृष्ट्वा द्विजश्रेष्ठ दयितं ते फलिष्यति४३।
ततस्तस्यगृहाद्विष्णुर्द्विजरूपधरो विभुः।
विनिस्सृत्य द्विजं प्राह गेहं तस्याः प्रयाम्यहं४४।
स विमृश्य द्विजश्रेष्ठस्तेन सार्धं चचाल ह।
गच्छंतं तमुवाचेदं हरिं विप्रेति विस्मितः४५।
किर्थं च त्वया विप्र चांडालस्य गृहोदरे।
सदा संस्थीयते तात योषाजनवृते मुदा४६।
हरिरुवाच-।
इदानीं मानसं शुद्धं न भूतं भवतो ध्रुवम्।
पतिव्रतादिकं दृष्ट्वा पश्चाज्ज्ञास्यसि मां किल४७।
विप्र उवाच-।
पतिव्रता च का तात किं वा तस्याश्श्रुतं महत्।
येनाहं तत्र गच्छामि कारणं वद मे द्विज४८।
हरिरुवाच-।
नदीनां जाह्नवी श्रेष्ठा प्रमदानां पतिव्रता।
मनुष्याणां प्रजापालो देवानां च जनार्दनः४९।
पतिव्रता च या नारि पत्युर्नित्यं हिते रता।
कुलद्वयस्य पुरुषानुद्धरेत्सा शतं शतं५० 1.50.50।
स्वर्गं भुनक्ति तावच्च यावदाभूतसंप्लवं।
स्वर्गाद्भ्रष्टो भवेद्वास्याः सार्वभौमो नृपः पतिः ५१।
अस्यैव महिषी भूत्वा सुखं विंदेदनंतरं।
पुनः पुनः स्वर्गराज्यं तस्य तस्या न संशयः ५२।
एवं जन्मशतं प्राप्य अंते मोक्षो भवेद्ध्रुवम्।
विप्र उवाच-।
पतिव्रता भवेत्कावा तस्याः किं वा च लक्षणं ५३।
ब्रूहि मे द्विजशार्दूल यथा जानामि तत्त्वतः।
हरिरुवाच-।
पुत्राच्छतगुणं स्नेहाद्राजानं च भयादथ ५४।
आराधयेत्पतिं शौरिं या पश्येत्सा पतिव्रता।
कार्ये दासी रतौ वेश्या भोजने जननीसमा ५५।
विपत्सु मंत्रिणी भर्तुः सा च भार्या पतिव्रता।
भर्तुराज्ञां न लंघेद्या मनो वाक्कायकर्मभिः ५६।
भुक्ते पत्यौ सदा चात्ति सा च भार्या पतिव्रता।
यस्यां यस्यांतु शय्यायां पतिः स्वपिति यत्नतः ५७।
तत्र तत्र च साभर्तुरर्चां करोति नित्यशः।
नैव मत्सरमायाति न कार्पण्यं न मानिनी ५८।
मानेऽमाने समानं च या पश्येत्सा पतिव्रता।
सुवेषं या नरं दृष्ट्वा भ्रातरं पितरं सुतं ५९।
मन्यते च परं साध्वी सा च भार्या पतिव्रता।
तां गच्छ द्विजशार्दूल वदकामं यथा तव ६०।
तस्य पत्न्योऽष्ट तिष्ठंति तन्मध्ये वरवर्णिनी।
रूपयौवनसंपन्ना दयायुक्ता यशस्विनी ६१।
शुभा नामेति विख्याता गत्वा तां पृच्छ ते हितं।
एवमुक्त्वा तु भगवांस्तत्रैवांतरधीयत ६२।
तस्यैवादृश्यतां दृष्ट्वा विस्मितोभूद्द्विजस्तदा।
स च साध्वीगृहं गत्वा पप्रच्छाथ पतिव्रतां ६३।
अतिथेर्वचनंश्रुत्वागृहान्निःसृत्यसंभ्रमात्।
दृष्ट्वा द्विजं सती तत्र द्वारदेशे स्थिताभवत् ६४।
तां च दृष्ट्वा द्विजश्रेष्ठ उवाच वचनं मुदा।
प्रियं ममहितं ब्रूहि यथादृष्टं त्वमेव हि ६५।
पतिव्रतोवाच-।
सांप्रतं पत्युरर्चास्ति न चास्माकं स्वतंत्रता।
पश्चात्कार्यं करिष्यामि गृहाणातिथ्यमद्य वै ६६।
विप्र उवाच-।
मम देहे क्षुधा नास्ति पिपासाद्य न च श्रमः।
अभीष्टं वद कल्याणि नोचेच्छापं ददामि ते ६७।
तमुवाच तदा सापि न बकोहं द्विजोत्तम।
गच्छ धर्मतुलाधारं पृच्छ तं ते हितं द्विज ६८।
इत्युक्त्वा सा महाभागा प्रययौ च गृहोदरम्।
तत्रापश्यद्द्विजो विप्रं यथा चांडालवेश्मनि ६९।
विमृश्य विस्मयापन्नस्तेन सार्धं ययौ द्विजः।
तिष्ठंतं च द्विजं तं च सोपश्यद्धृष्टमानसम् ७०।
स चोवाच मुदा विप्रं दृष्ट्वा तं तां सतीं च सः।
देशांतरे च यद्वृत्तं तया च कथितं किल ७१।
कथं जानाति मद्वृत्तं चांडालोपि पतिव्रता।
अतो मे विस्मयस्तात किमाश्चर्यं परं महत् ७२।
हरिउवाच-।
ज्ञायते कारणं तात सर्वेषां भूतभावनैः।
अतिपुण्यात्सदाचाराद्यतस्त्वं विस्मयं गतः ७३।
किमुक्तश्च तया त्वं च वद तत्सांप्रतं मुने।
विप्र उवाच-।
प्रष्टुं धर्मतुलाधारं सा च मां समुपादिशत् ७४।
हरिरुवाच-।
आगच्छ मुनिशार्दूल अहं गच्छामि तं प्रति।
गच्छंतं च हरिं प्राह तुलाधारः क्व तिष्ठति ७५।
हरिरुवाच-।
जनानां निकरो यत्र बहुद्रव्यसुविक्रये।
विक्रीणाति च क्रीणाति तुलाधारस्ततस्ततः ७६।
जनो यवान्रसं स्नेहं कूटमन्नस्य संचयं।
सर्वं तस्य मुखादेव गृह्णाति च ददात्यपि ७७।
सत्यं त्यक्त्वानृतं किंचित्प्राणांते समुपस्थिते।
नोक्तं नरवरश्रेष्ठस्तेनधर्मतुलाधरः ७८।
इत्युक्ते तु तमद्राक्षीद्विक्रीणंतं रसान्बहून्।
मलपंकधरं मर्त्यं दंतकुड्मलपंकिलम् ७९।
तत्र वस्तुधनोत्थां च भाषंतं विविधां गिरम्।
वृतं बहुविधैर्मर्त्यैः स्त्रीभिः पुंभिश्च सर्वतः ८०।
कथं कथमिति प्राह स तं मधुरया गिरा।
धर्मस्य मे समुद्देशं वद प्राप्तोंऽतिकं हि ते ८१।
तुलाधार उवाच-।
यावज्जनाः प्रतिष्ठंति ममैव सन्निधौ द्विज।
तावन्मे स्वस्थता नास्ति यावच्च रात्रियामकः ८२।
तच्चोपदेशमादाय गच्छ धर्माकरं प्रति।
बकस्य मरणे दोषं खे च वस्त्राविशोषणम् ८३।
सर्वं तत्र च जानीषे सज्जनाद्रोहकं व्रज।
तत्र तस्योपदेशेन तव कामः फलिष्यति ८४।
इत्युक्त्वा तुलाधारः करोति क्रयविक्रयौ।
तथा तात गमिष्यामि सज्जनाद्रोहकं प्रति ८५।
तुलाधारसमुद्देशान्न जानामि तदालयम्।
हरिरुवाच-।
एह्यागच्छ गमिष्यामि त्वया सार्द्धं च तद्गृहम् ८६।
अथ वर्त्मनि गच्छंतमुवाच ब्राह्मणो हरिं।
विप्र उवाच-।
तुलाधारे च न स्नानं न देवपितृतर्पणम् ८७।
मलदिग्धं च गात्रं तु सर्वं चेलमलक्षणम्।
कथं जानाति मद्वृत्तं देशांतरसमुद्भवम् ८८।
अतो मे विस्मयस्तात सर्वं त्वं वद कारणम्।
हरिरुवाच-।
सत्येन समभावेन जितं तेन जगत्त्रयम् ८९।
तेनातृप्यंत पितरो देवा मुनिगणैः सह।
भूतभव्य प्रवृत्तं च तेन जानाति धार्मिकः ९०।
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्।
विशेषे समभावस्य पुरुषस्यानघस्य च ९१।
अरौ मित्रेप्युदासीने मनो यस्य समं व्रजेत्।
सर्वपापक्षयस्तस्य विष्णुसायुज्यतां व्रजेत् ९२।
एवं यो वर्तते नित्यं कुलकोटिं समुद्धरेत्।
सत्यं दमः शमश्चैव धैर्यं स्थैर्यमलोभता ९३।
अनाश्चर्यमनालस्यं तस्मिन्सर्वं प्रतिष्ठितम्।
तेन वै देवलोकस्य नरलोकस्य सर्वशः ९४।
वृत्तं जानाति धर्मज्ञस्तस्यदेहे स्थितो हरिः।
लोके तस्य समो नास्ति समः सत्यार्जवेषु च ९५।
स च धर्ममयः साक्षात्तेनैव धारितं जगत्।
द्विज उवाच-।
ज्ञातं मे त्वत्प्रसादाच्च तुलाधारस्य कारणम् ९६।
अद्रोहकस्य यद्वृत्तं तद्ब्रूहि त्वं यदीच्छसि।
हरिरुवाच-।
पुरैव राजपुत्रस्य कुलस्त्रीनवयौवना ९७।
पत्नीव कामदेवस्य शचीव वासवस्य च।
तस्य प्राणसमा भार्या सुन्दरी नाम सुन्दरी ९८।
अकस्मात्पार्थिवस्यैव कार्ये गन्तुं समुद्यतः।
मनसालोचितं तेन प्राणेभ्योपि गरीयसीम् ९९।
कस्मिन्स्थाने स्थापयामि यतो रक्षा भवेद्ध्रुवम्।
इत्यालोच्यैव सहसा त्वागतोस्य गृहं प्रति १०० 1.50.100।
उक्तं च तादृशं वाक्यं श्रुत्वा स विस्मयंगतः।
न तातस्ते न च भ्राता न चाहं तव बान्धवः १०१।
पितृमातृकुलस्यैव तस्या न हि सुहृज्जनः।
कथं च मद्गृहे तात स्थित्या स्वस्थो भविष्यसि १०२।
एतस्मिन्नन्तरे तेन चोक्तं वाक्यं यथोचितम्।
लोके त्वत्सदृशो नास्ति धर्मज्ञो विजितेन्द्रियः १०३।
स चाह तं च सर्वज्ञं वक्तुं नार्हसि दूषणम्।
त्रैलोक्यमोहिनीं भार्यां कः पुमान्रक्षितुं क्षमः १०४।
राजपुत्र उवाच-।
धरण्यां परिविज्ञाय त्वागतोहं तवान्तिकम्।
एषा तिष्ठतु तेऽगारे व्रजामि निजमन्दिरम्१०५।
इत्युक्ते स पुनः प्राह नगरेऽस्मिन्प्रशोभने।
बहुकामुक संपूर्णे कथं रक्षा भवेत्स्त्रियाः१०६।
स चोवाच पुनस्तं च कुरु रक्षां व्रजाम्यहम्।
गृहस्थस्सङ्कटादाह धर्मस्य राजपुत्रकम्१०७।
करोम्यनुचितं कार्यं स्वदास्यमुचितं हितम्।
सदा चैवेदृशी भार्या स्थातव्या मद्गृहे पितः१०८।
अरक्षारक्षणे देव वदाभीष्टं कुरु प्रियम्।
मम तल्पे मया सार्धं शयानं भार्यया सह१०९।
मन्यसे दैवतं स्वं चेत्तिष्ठेन्नोचेत्तु गच्छतु।
क्षणं विमृश्य तं प्राह राजपुत्रः पुनस्तदा११०।
बाढमेतद्वचस्तात यथाभीष्टं तथा कुरु।
ततो भार्यां जगादाथ अस्य वाक्याच्छिवाशिवम्१११।
कर्तव्यं च न ते दोष आज्ञया मम सुंदरि।
एतदुक्त्वा गतः सोपि भूपतेः शासनात्पितुः११२।
अनंतरं क्षपायां च यदुक्तं च तथाकृतम्।
योषितोर्मध्यगः सोपि नित्यं स्वपिति धार्मिकः११३।
धर्मान्न चलते सोपि स्वभार्यापरभार्ययोः।
संस्पर्शात्स्वस्त्रियश्चास्य कामाभिलषितं मनः११४।
तस्याः संसर्गतश्चैव दुहितैव प्रमन्यते।
स्तनौ तस्यास्तु पृष्ठे च लगन्तौ च पुनःपुनः११५।
बालकस्येव पुत्रस्य स्तनौ मातुः समन्यते।
तस्या अंगानि चांगेषु लगंति च पुनःपुनः११६।
ततो मातुस्सुतस्येव सोमन्यत दिने दिने।
तस्य योषासुसंसर्गो निवृत्तस्त्वभवत्ततः११७।
एवं संवत्सरस्यार्द्धे तत्पतिश्चागतः पुरं।
अपृच्छत्तं च लोकेषु तस्या वृत्तमथोदितम्११८।
केचिद्भद्रं बोधयन्तो युवानोपि सुविस्मिताः।
केचिदाहुस्त्वया दत्ता तया सार्द्धं स्वपित्यसौ११९।
स्त्रीपुंसोरेकसंसर्गात्शांतता तु कथं भवेत्।
तस्यां यस्याभिलाषोस्ति न पृष्टस्स वदेद्युवा१२०।
लोकानां कुश्रुतिर्वार्ता तेन पुण्यबलाच्छ्रुता।
जनापवादमोक्षार्थं बुद्धिस्तस्याभवच्छुभा१२१।
दारूणि स्वयमाहृत्याजिज्वलत्स महानलम्।
एतस्मिन्नंतरे तात राजपुत्रः प्रतापवान्१२२।
आगमत्तद्गृहं सद्यः सोपश्यत्तं च योषितम्।
प्रोत्फुल्लवदनां नारीं प्रविषादगतं नरं१२३।
अनयोर्मानसं ज्ञात्वा राजपुत्रोवदद्वचः।
किं न संभाषसे मां च मित्रकं चिरमागतम्१२४।
अब्रवीत्सोपि धर्मात्मा राजपुत्रमनष्टधीः।
यत्कृतं दुष्करं कर्म मया त्वद्धितकारणात्१२५।
सर्वं व्यर्थमहं मन्ये जनानां च प्रवादतः।
अद्य वह्निमहं यास्ये प्रपश्यंतु नरास्सुराः१२६।
इत्युक्त्वा स महाभागः प्रविवेश हुताशनम्।
विशतस्तस्य वह्नौ न कुसुमं चिकुरालये१२७।
नांगमस्यानलोधाक्षीन्न च वस्त्रं न कुंतलम्।
खे च देवा मुदा सर्वेसाधुसाध्विति चाब्रुवन्१२८।
अपतन्पुष्पवर्षाणि तस्य मूर्ध्नि समंततः।
यैर्यैश्च दुष्कृतं वाक्यं गदितं तावुभौ प्रति१२९।
तेषां मुखे प्रजायंते कुष्ठानि विविधानि च।
तत्रागत्य च देवाश्च वह्नेराकृष्यतं मुदा१३०।
अपूजयन्सुपुष्पैश्च मुनयो विस्मयं गताः।
सर्वैर्मुनिवरैरेवं मनुष्यैर्विविधैस्तदा१३१।
अर्च्यते तु महातेजाः स च सर्वानपूजयत्।
सज्जनाद्रोहकं नाम कृतं देवासुरैर्नृभिः१३२।
तस्य पादरजः पूता सस्यपूर्णा धराभवत्।
सुराश्चाहुश्च तं तत्र भार्या ते संप्रगृह्यताम्१३३।
एतस्य सदृशो लोके न भूतो न भविष्यति।
नास्तीति सांप्रतं पृथ्व्यां कामलोभाजितः पुमान्१३४।
देवासुरमनुष्याणां रक्षसां मृगपक्षिणाम्।
कीटादीनां च सर्वेषां काम एष सुदुर्जयः१३५।
कामाल्लोभात्तथाक्रोधान्नित्यं सत्त्वेषु जायते।
संसारबंधकः कामो ह्यकामो न क्वचिद्भवेत्१३६।
अनेनैव जितं सर्वं भुवनानि चतुर्दश।
अमुष्य हृदये नित्यं वासुदेवो मुदास्थितः१३७।
एवं स्पृष्ट्वाथ दृष्ट्वा तं मनुष्याः सर्वकल्मषात्।
पूयंते ह्यनघाश्चैव लभंते चाक्षयां दिवम्१३८।
एवमुक्त्वा गता देवा विमानैश्च दिवं मुदा।
मनुष्याः प्रययुस्तुष्टा दंपती स्वगृहं तथा१३९।
दिव्यं चक्षुस्तदा तस्य चासीद्देवान्स पश्यति।
त्रैलोक्यस्य च वार्त्तां च जानाति लीलया भृशम्१४०।
ततस्तस्य च वीथ्यां च दृष्टस्तेन सहैव सः।
स पप्रच्छ मुदा तं च धर्मोद्देशं हितं वद१४१।
सज्जनाद्रोह उवाच-।
गच्छ बाडव धर्मज्ञ वैष्णवं पुरुषोत्तमम्।
तं च दृष्ट्वा त्वभीष्टं ते सांप्रतं च फलिष्यति१४२।
बकस्य निधनं यद्वा वस्त्रस्याशोषणं तथा।
जानीषे चापरो यश्च कामस्तेऽस्ति हृदिस्थितः१४३।
एतच्छ्रुत्वा तु वचनमागतो वैष्णवं प्रति।
विष्णुरूपद्विजेनैव सार्द्धं तेन मुदा ययौ१४४।
अपश्यत्पुरुषं शुद्धं ज्वलंतं च पुरःस्थितम्।
सर्वलक्षणसंपूर्णं दीप्यमानं स्वतेजसा१४५।
अब्रवीत्स च धर्मात्मा ध्यानस्थं च हरेः प्रियम्।
वदनो यद्यद्वृत्तं वै दूरात्त्वां चागतो ह्यहम्१४६।
वैष्णव उवाच-।
प्रसन्नस्ते सुरश्रेष्ठो दानवारीश्वरः सदा।
दृष्ट्वा त्वां च मनोऽस्माकं हृष्यतीवाधुना द्विज१४७।
कल्याणं चातुलं तेद्य फलिष्यति मनोरथः।
सुरवर्त्मनि ते नित्यं चेलं शुष्यति नान्यथा१४८।
दृष्ट्वा देवं सुरश्रेष्ठं मम गेहे हरिं स्थितम्।
इत्युक्ते वैष्णवेनाथ स तु तं पुनब्रवीत्१४९।
क्वासौ विष्णुः स्थितो नित्यं दर्शयाद्य प्रसादतः।
वैष्णव उवाच-।
अस्मिन्देवगृहे रम्ये प्रविश्य परमेश्वरम्१५० 1.50.150।
तं दृष्ट्वा किल्बिषाद्धोरान्मुच्यसे जन्मबंधानत्।
तस्य तद्वचनं श्रुत्वा प्रविश्य सदनं प्रति१५१।
अपश्यत्तं द्विजं विष्णुं तिष्ठंतं पद्मतल्पके।
शिरसैव प्रवंद्याथ जग्राह चरणौ मुदा१५२।
प्रसादी भव देवेश न ज्ञातस्त्वं पुरा मया।
इहामुत्र च देवेश तवाहं किंकरः प्रभो१५३।
अनुग्रहश्च मे दृष्टो भवतो मधुसूदन।
रूपं ते द्रष्टुमिच्छामि यदि चास्ति कृपा मयि१५४।
विष्णुरुवाच-।
अस्ति मे त्वयि भूदेव प्रियत्वं च सदैव हि।
स्नेहात्पुण्यवतामेव दर्शनं कारितं मया१५५।
दर्शनात्स्पर्शनाद्ध्यानात्कीर्तनाद्भाषणात्तथा।
सकृत्पुण्यवतामेव स्वर्गं चाक्षयमश्नुते१५६।
नित्यमेव तु संसर्गात्सर्वपापक्षयो भवेत्।
भुक्त्वा सुखमनंत च मद्देहे प्रविलीयते१५७।
स्नात्वा च पुण्यतीर्थेषु दृष्ट्वा मां चैव सर्वतः।
दृष्ट्वा पुण्यवतां देशान्मम देहे विलीयते१५८।
कथयित्वा कथां पुण्यां लोकानामग्रतः सदा।
स चैव नरशार्दूल मद्देहे प्रविलीयते१५९।
उपोष्य वासरेस्माकं श्रुत्वा मच्चरितं ध्रुवम्।
रात्रौ जागरणं कृत्वा मद्देहे प्रविलीयते१६०।
अत्यंतघोषणो नृत्यगीतवाद्यादिकैस्सदा।
नामस्मरन्द्विजश्रेष्ठ मद्देहे प्रविलीयते१६१।
मद्भक्तस्तीर्थभूतश्च त्वमेव बकमारणात्।
यत्पापं तस्य मोक्षाय सखे स्थित्वा उवाच ह१६२।
गच्छ मूकं महात्मानं तीर्थं पुण्यवतां वरम्।
मूकस्य दर्शनात्तात सर्वे दृष्टा महाजनाः१६३।
तेषां च दर्शनादेव तथा संभाषणान्मम।
ममसंपर्कभावाच्च मद्गृहं चागतो भवान्१६४।
जन्मकोटिसहस्रेभ्यो यस्य पापक्षयो भवेत्।
स मां पश्यति धर्मज्ञो यथा तेन प्रसन्नता१६५।
ममैवानुग्रहाद्वत्सअहंदृष्टस्त्वयानघ।
तस्माद्वरं गृहाण त्वं यत्ते मनसि वर्तते१६६।
विप्र उवाच-।
अस्माकं सर्वथा नाथ मानसं त्वयि तिष्ठतु।
त्वदृते सर्वलोकेश कदाचिन्न तु रोचताम्१६७।
माधव उवाच-।
यस्मादेतादृशी बुद्धिः स्फुरते ते सदानघ।
तस्मान्मत्सदृशान्भोगान्मद्गेहे संप्रलप्स्यसे१६८।
किंतु ते पितरौ पूजामाप्नुतो न त्वयानघ।
पूजयित्वा तु पितरौ पश्चाद्यास्यसि मत्तनुम्१६९।
तयोर्निश्श्वासवातेन मन्युना च भृशं पुनः।
तपः क्षरति ते नित्यं तस्मात्पूजय तौ द्विज१७०।
मन्युर्निपतते यस्मिन्पुत्रे पित्रोश्च नित्यशः।
तन्निरयं नाबाधेहं न धाता न च शंकरः१७१।
तस्मात्त्वं पितरौ गच्छ कुरु पूजां प्रयत्नतः।
ततस्त्वं हितयोरेव प्रसादान्मत्पदं व्रज१७२।
इत्युक्ते तु द्विजश्रेष्ठः पुनराह जगद्गुरुम्।
प्रसन्नो यदि मे नाथ रूपं स्वं दर्शयाच्युत१७३।
ततो द्विजप्रणयतः प्रसन्नहृदयो वशी।
रूपं स्वं दर्शयामास ब्रह्मण्यो ब्रह्मकर्मणे१७४।
शंखचक्रगदापद्मधारणं पुरुषोत्तमम्।
कारणं सर्वलोकस्य तेजसा पूरयज्जगत्१७५।
प्रणम्य दंडवद्विप्र उवाच पुनरच्युतम्।
अद्य मे सफलं जन्म अद्य मे चक्षुषी शिवे१७६।
अद्य मे च करौ श्लाघ्यौ धन्योहं जगदीश्वर।
अद्य मे पुरुषा यांति ब्रह्मलोकं सनातनम्१७७।
नंदंति बांधवा मेद्य त्वत्प्रसादाज्जनार्दन।
इदानीं च प्रसिद्धा मे सर्वे चैव मनोरथाः१७८।
किंतु मे विस्मयो नाथ मूकादि ज्ञानिनो भृशम्।
कथं जानंति मद्वृत्तं देशांतरमुपस्थितम्१७९।
तस्य गेहोदराकाशे स्थितो विप्रोतिशोभनः।
तथा पतिव्रता गेहे तुलाधारशिरस्यपि१८०।
तथा मित्राद्रोहकस्य त्वं च वैष्णवमंदिरे।
अनुग्रहाच्च मे विप्र तत्त्वतो वक्तुमर्हसि१८१।
श्रीभगवानुवाच-।
पित्रोर्भक्तः सदा मूकः पतिव्रता शुभा च सा।
सत्यवादी तुलाधारः समः सर्वजनेषु च१८२।
लोभकामजिदद्रोहो मद्भक्तो वैष्णवः स्मृतः।
संप्रीतोहं गुणैरेषां तिष्ठाम्यावसथे मुदा१८३।
भारतीकमलाभ्यां च सहितो द्विजसत्तम।
विप्र उवाच-।
महापातकिसंसर्गान्नराश्चैवातिपातकाः१८४।
इति जल्पंति धर्मज्ञाः स्मृतिशास्त्रेषु सर्वदा।
पुराणागमवेदेषु कथं त्वं तिष्ठसे गृहे१८५।
श्रीभगवानुवाच-।
कल्याणानां च सर्वेषां कर्त्ता मूको जगत्त्रये।
वृत्तस्थो योपि चाण्डालस्तं देवा ब्राह्मणं विदुः१८६।
मूकस्य सदृशो नास्ति लोकेषु पुण्यकर्मतः।
पित्रोर्भक्तिपरे नित्यं जितं तेन जगत्त्रयम्१८७।
तयोर्भक्त्या त्वहं तुष्टः सर्वदेवगणैः सह।
तिष्ठामि द्विजरूपेण तस्य गेहोदरे च खे१८८।
तथा पतिव्रता गेहे तुलाधारस्य मंदिरे।
अद्रोहकस्य भवने वैष्णवस्य च वेश्मनि१८९।
सदा तिष्ठामि धर्मज्ञ मुहूर्तं न त्यजाम्यहम्।
तेन पश्यंति मां नित्यं ये त्वन्ये पापकृज्जनाः१९०।
पुण्यत्वाच्च त्वया दृष्टो ममानुग्रहकारणात्।
पित्रोर्भक्तिपरः शुद्धश्चांडालो देवतां गतः१९१।
तस्मात्तेन सह प्रीत्या तिष्ठामि तस्य मंदिरे।
पुनः पुनः कथालापं करोमि द्विजनंदन९१२।
तस्य वै मानसे नित्यं वर्तेऽहतभावनः।
स तज्जानाति त्वद्वृत्तं तथा पतिव्रतादयः१९३।
तेषां वृत्तं वदिष्यामि शृणु त्वं चानुपूर्वशः।
यच्छ्रुत्वा सर्वथा मर्त्यो मुच्यते जन्मबंधनात्१९४।
पितुर्मातुः परं तीर्थं देवदेवेषु नैव हि।
पित्रोरर्चा कृता येन स एव पुरुषोत्तमः१९५।
पित्रोराज्ञा च देवस्य गुरोराज्ञा समं फलं।
आराधनाद्दिवो राज्यं बाधया रौरवं व्रजेत्१९६।
स चास्माकं हृदिस्थोऽपि तस्याहं हृदये स्थितः।
आवयोरंतरं नास्ति परत्रेह च मत्समः१९७।
मदग्रे मत्पुरे रम्ये सर्वैश्च बांधवैः सह।
सभुंजीताक्षयं भोगमंते मयि च लीयते१९८।
अतएव हि मूकोसौ वार्त्तां त्रैलोक्यसंभवाम्।
जानाति नरशार्दूल एष ते विस्मयः कुतः१९९।
द्विज उवाच-।
मोहादज्ञानतो वापि न कृत्वा पितुरर्चनं।
ज्ञात्वा वा किं च कर्तव्यं सदसज्जगदीश्वर२०० 1.50.200।
श्रीभगवानुवाच-।
दिनैकं मासपक्षौ वा पक्षार्धं वाथ वत्सरं।
पित्रोर्भक्तिः कृता येन स च गच्छेन्ममालयं २०१।
कारयित्वा मनः कष्टमवश्यं नरकं व्रजेत्।
न कृता वाकृता वा स्यात्पित्रोरर्चा परं पुरा २०२।
वृषोत्सर्गं नरः कृत्वा पितृभक्ति फलं लभेत्।
अन्नं वस्त्रं तथा गव्यं सामिषं च निरामिषम् २०३।
सर्वं लक्षगुणं प्रोक्तं ज्ञातिभ्यो यत्प्रदीयते।
सर्वस्वेन कृतं श्राद्धं येन पुत्रेण धीमता २०४।
जातिस्मरत्वं प्राप्नोति पितृभक्तिफलं लभेत्।
श्राद्धात्परो महायज्ञस्त्रैलोक्ये तु न विद्यते २०५।
अत्र यद्दीयते किंचित्सर्वं चाक्षयमश्नुते।
अन्यस्मिंश्चायुतं विद्धि ज्ञातिभ्यो लक्षमुच्यते २०६।
पिण्डे कोटिगुणं प्रोक्तं द्विजायानन्तमुच्यते।
गंगाजले गयायां च प्रयागे पुष्करे तथा २०७।
वाराणस्यां सिद्धकुंडे गंगासागर संगमे।
अन्नपिंडं प्रदद्याद्यस्तस्य मुक्तिर्भवेद्ध्रुवम् २०८।
पितरश्चाक्षयं स्वर्गं लभंते जन्मनः फलम्।
भागीरथ्यां विशेषेण यस्तु दद्यात्तिलोदकम् २०९।
मुक्तिमार्गं स चाप्नोति पिंडदाने तु किं पुनः।
नदीतीरेषु साहस्रं नदे त्वयुतमिष्यते २१०।
सामान्यफलसंसर्गाच्छ्राद्धं शतगुणं भवेत्।
अमायां च युगाद्यायां ग्रहणे सूर्यचंद्रयोः २११।
पार्वणं कुरुते यस्तु सोक्षयं लोकमश्नुते।
पितरस्तस्य तुष्यंति सर्वे समायुतं प्रति २१२।
आशिषं दयितं दत्वा भोग्यं चानंतमात्मजे।
ततः पर्वणि पुत्रैश्च कर्त्तव्यं पार्वणं मुदा २१३।
पित्रोर्यज्ञमिमं कृत्वा मुच्यते जन्मबंधनात्।
अहन्यहनि यच्छ्राद्धं नित्यश्राद्धमिति स्मृतम् २१४।
श्रद्धया कारयेद्यस्तु सोऽक्षयं लोकमश्नुते।
तथैवापरपक्षे च काम्यश्राद्धं विधानतः २१५।
कृत्वा कामं स चाप्नोति यद्वा मनसि वर्तते।
आषाढीमवधिं कृत्वा यस्तु पक्षस्तु पंचमः २१६।
तत्र श्राद्धं प्रकुर्वीत कन्यां गच्छतु वा न वा।
कन्यां गते सवितरि यान्यहानि तु षोडश २१७।
क्रतुभिस्तानि तुल्यानि समाप्त वरदक्षिणैः।
काम्यश्राद्धं महापुण्यमिदं तस्यागतं शिवम् २१८।
अभावात्कृष्णपक्षादौ तुलायां कर्तुमर्हति।
अमावृश्चिकमायाति नैराश्यं पितरो गताः २१९।
पुनःस्वभवनं यांति शापं दत्वा सुदारुणम्।
पितृशापेन पुत्रस्य नष्टं सर्वमिति स्मृतम् २२०।
धनं पुत्रा यशः काम्यमभीष्टमायुरेव च।
सर्वाण्येतानि लभ्यंते जन्मजन्मसु मानवैः २२१।
पितॄणां च वरेणैव तस्मान्मैनं परित्यजेत्।
विवाहव्रतयज्ञादौ कृत्वा नांदीमुखं द्विजः २२२।
अक्षयं लभते पुण्यं गोत्रं तस्य प्रवर्द्धते।
एतद्विपर्ययो यस्य स याति नरकं नरः २२३।
कुलक्षयो भवेत्तस्य स जीवो दुःखितो भवेत्।
ततस्तु पूजयेदग्रे गणेशं शंभुनंदनम् २२४।
परं षोडशमातॄश्च तत्पश्चात्पितृसंचयम्।
नांदीमुखेषु सर्वेषु प्रपितामहपूर्वकम् २२५।
नांदीमुखे द्विजान्सर्वान्स्थापयेत्प्राङ्मुखान्सुधीः।
उच्चारयेन्नमोवाक्यं स्वधा चान्यत्र योजयेत् २२६।
ग्रहणे चंद्रसूर्यस्य दत्वा पिंडोदकं नरः।
अक्षयं लभते स्वर्गं पितॄणां पुष्टिवर्द्धनम् २२७।
तत्र स्नानं न कुर्याद्यः शक्त्या पिंडोदकं नरः।
न ददाति पितॄणां तु चांडालत्वं स गच्छति २२८।
सर्वं भूमिसमं दानं सर्वे व्याससमा द्विजाः।
सर्वं गंगासमं तोयं राहुग्रस्ते निशाकरे २२९।
इंदोर्लक्षगुणं प्रोक्तं दशलक्षं तु भास्करे।
गंगातोये तु संप्राप्त इंदोः कोटी रवेर्दश २३०।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्।
तत्फलं जाह्नवीस्नाने राहुग्रस्ते निशाकरे २३१।
चंद्रसूर्यग्रहे चैव अवगाहति जाह्नवीं।
स स्नातस्सर्वतीर्थेषु किमर्थमटते महीम् २३२।
सूर्यग्रहः सूर्यवारे सोमे सोमग्रहस्तथा।
चूडामणिरिति ख्यातस्तत्रानंतफलं स्मृतम् २३३।
समुपोष्य तयोः पूर्वे पुण्यतीर्थे तु यः पुमान्।
दत्वा पिंडोदकं दानं सत्यलोके प्रतिष्ठितः २३४।
द्विज उवाच-।
पितुरेव महायज्ञः श्राद्धं च भवतेरितं।
ताता पश्चिमकालादौ किं कर्त्तव्यं सुतेन हि २३५।
किं कृत्वा च परं श्रेयो जन्मजन्मसु लभ्यते।
पुत्रेण धीमता देव यत्नतो वक्तुमर्हसि २३६।
श्रीभगवानुवाच-।
पूर्वे वयसि संप्राप्ते पिता पुत्र इति स्मृतः।
उत्तरे च सुतस्तातः पालनान्न तु पूजनात् २३७।
देववत्पूजयेत्तातं स्नेहं कुर्याच्च पुत्रवत्।
न लंघयेद्वचस्तस्य मनसापि कदाचन २३८।
आतुरस्य पितुः पुत्रो यस्तु कुर्यात्प्रतिक्रियां।
सोक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते २३९।
मुमूर्षोरपिता तस्य पश्यतो मृत्युलक्षणम्।
कृत्वा च यजनं पुत्रो देवानां तुल्यतां व्रजेत् २४०।
विधिनानशने नैव पितुः स्वर्गं ददाति यः।
पुत्रस्य तस्य धीरस्य शृणु वक्ष्यामि यद्गुणम् २४१।
अश्वमेधसहस्राणि राजसूयशतानि च।
भवेदनशने पुण्यं तीर्थकोटिगुणं तयोः २४२।
भागीरथ्या जले चैव यो मृतः पुरुषोत्तमः।
पयोधररसं मातुर्न पिबेन्मुक्ततां व्रजेत् २४३।
वाराणस्यां त्यजेद्यस्तु प्राणांश्चैव यदृच्छया।
अभीष्टं च फलं भुक्त्वा मद्देहे प्रविलीयते २४४।
या गतिर्योगयुक्तानां मुनीनामूर्द्ध्वरेतसां।
सा गतिस्त्यजतः प्राणान्ब्रह्मपुत्रेषु सप्तसु २४५।
लोहितस्य विशेषेण तीरोत्तरसमाश्रितः।
विधिना यस्त्यजेत्प्राणान्स च मत्समतां व्रजेत् २४६।
तस्यैव चोर्वशीकेशे पुण्यतीर्थे द्विजोत्तम।
मृतोत्पन्नः समाप्नोति सर्वं दोषैर्न लिप्यते २४७।
गृहस्याभ्यंतरे यस्य प्राणत्यागो भवेद्ध्रुवम्।
यावद्ग्रंथिर्गृहे तिष्ठेत्तावद्बंधो भवे तनौ २४८।
हायनेहायने चापि एकैकं परिहीयते।
पश्यतां पुत्रबंधूनां वंधने नास्ति निष्कृतिः २४९।
पर्वते कानने दुर्गे स्थाने वा जलवर्जिते।
मृतो दुर्गतिमाप्नोति कीटादौ जायते पुनः २५० 1.50.250।
संस्कारश्च भवेद्यस्य मृतस्य परवासरे।
षष्टिर्वर्षसहस्राणि कुंभीपाके प्रतिष्ठति २५१।
अस्पृश्यस्पर्शनादेव उच्छिष्टः पतितो मृतः।
सुचिरं नरके स्थित्वा म्लेच्छजातिषु जायते २५२।
तथैव बहुकीटेषु जायते सत्त्वजातिषु।
तस्मान्न चिरकालेषु जानीयात्पुण्यपातकम् २५३।
पुण्यात्पुण्यप्रयोगैश्च सर्वेषां मर्त्यवासिनाम्।
मरणे या गतिः पुंसां गतिर्भवति तादृशी २५४।
पुण्यतीर्थे मृतो यस्तु विष्णोर्नामानि चिंतयन्।
पापात्पूतो व्रजेत्स्वर्गं सर्वदोषैर्न लिप्यते २५५।
पितुर्मृतस्य देहं तु वहेद्यस्तु सुतो बली।
पदेपदेश्वमेधस्य फलं प्राप्नोत्यसंशयम् २५६।
प्राक्चितौ च पितुर्देहे मुखाग्निं कारयेत्सुतः।
विधिना मंत्रपूतेन पश्चाद्देहं दहेत्पुनः २५७।
लोभमोहसमायुक्तं पापपुण्यसमावृतम्।
दहेयं सर्वगात्राणि दिव्यान्लोकान्स गच्छतु २५८।
दग्ध्वा च लंघयेत्पुत्रोप्यस्थिसंचयनं प्रति।
दशाहे समनुप्राप्ते चार्द्रवस्त्रं परित्यजेत् २५९।
छित्वा च लोहितं चेलं वह्नौ चाथ जले क्षिपेत्।
ततश्चैकादशाहे च श्राद्धं कुर्याद्विचक्षणः २६०।
प्रेतस्य देहपुष्ट्यर्थं ब्राह्मणैकं तु भोजयेत्।
दानं दद्याच्च विधिवद्वस्त्रं पीठं च पादुकाम् २६१।
सर्वोपकरणैस्तुल्यं धरादिगजवाजिकम्।
कृष्णां गां च प्रदद्यात्तु सर्वपापविमुक्तये २६२।
चतुर्थाहे त्रिपक्षे च षण्मासे चाब्दिके तथा।
द्वादश प्रतिमास्यानि श्राद्धान्ये तानि षोडश २६३।
यस्यैतानि न संतीह यथाशक्ति च श्रद्धया।
पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि २६४।
अब्दमंबुघटं दद्यादन्नं चामिषसंयुतं।
नित्यानित्यमभावाच्च क्षपन्मासं क्षमापयेत् २६५।
सपिंडीकरणश्राद्धं गते संवत्सरे बुधः।
पार्वणस्य विधानेन कारयेद्द्विजसत्तमः २६६।
पितुरब्दमशौचं स्यान्मातुः षण्मासमेव च।
त्रिमासं तु स्त्रियश्चैव तदर्द्धं भ्रातृपुत्रयोः २६७।
सपिंडानामशौचं स्याद्यावद्गेहे स तिष्ठति।
पुत्रस्य यन्निषिद्धं तु शृणु तात वदाम्यहम् २६८।
ब्रह्मचारी सदाचारी न गच्छेच्च स्त्रियं क्वचित्।
सप्तघट्याः परं चैव नवघट्याश्च पूर्वतः २६९।
स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम्।
श्राद्धे त्रीणि पवित्राणि दौहित्रं कुतपस्तिलाः २७०।
त्रीणि चात्र प्रशंसंति सत्यमक्रोधमत्वराम्।
सायं संध्यां परान्नं च पुनर्भोजनमैथुनम् २७१।
दानं प्रतिग्रहं चैव श्राद्धं कृत्वा विवर्जयेत्।
अकर्तव्यशतं कृत्वा श्राद्धं कुर्याद्विचक्षणः २७२।
तच्च कर्तव्यतामेति स्वयमुक्तं विरिंचिना।
शृणु पुत्र पुरावृत्तं बहूनां च वदाम्यहम् २७३।
गुरोर्गोहननं कृत्वा ददुः श्राद्धं ययुर्दिवम्।
तेषां च कीर्त्तनादेव श्राद्धं भवति चाक्षयम् २७४।
वसिष्ठस्य मुनेः शिष्या ब्राह्मणास्सप्त सुव्रताः।
पितृश्राद्धे समायाते होमधेनुं गुरोः प्रियाम् २७५।
प्रार्थयित्वा गृहं नीत्वा सप्तभिर्भ्रातृभिर्मुदा।
गव्यार्थं पितृयज्ञे तां धेनुं हत्वा विमृश्य च २७६।
ददुर्मांसं च विप्रे च शेषं विप्रांस्त्वभोजयन्।
समाप्य पितृकर्माणि वत्सं संगृह्यते द्विजाः २७७।
गुरौ समर्पयामासुर्धेनुर्व्याघ्रेण भक्षिता।
ततस्तपोर्बलादेव ज्ञात्वा तेषां च कारणम् २७८।
स शशाप ततः शिष्यांश्चाडालाश्च भविष्यथ।
वेपमानास्ततो विप्राः कृतांजलिपुटाः स्थिताः २७९।
धेनोर्मांसंप्रदातारः पितृकृत्ये सदानघ।
अकर्तव्यसहस्राणि महांति पातकानि च २८०।
कुर्वंतः पितृकार्येषु पापात्पूता दिवं गताः।
श्रुतं बहुविधं नाथ मुखात्ते च पुरातनम् २८१।
क्षंतुमर्हसि धर्मज्ञ शापस्यांतो विधीयताम्।
वसिष्ठ उवाच-।
शापो वोथ यथा पाप्मा न तु धर्मविचारणात् २८२।
चांडालादौ समुत्पन्नाः पुरावृत्तं स्मरिष्यथ।
न च वो ज्ञानलोपश्च स्मृतिशास्त्रमनष्टकम् २८३।
पापयोनिं समुत्तीर्य पश्चान्मोक्षं गमिष्यथ।
ततः प्राणान्परित्यज्य गुरुशापात्तु ते द्विजाः २८४।
जाताश्चांडालयोनौ तु सर्वे ज्ञानसमन्विताः।
स्तन्यं तैस्तु न पीतं वै स्मरद्भिः पूर्वजन्म तत् २८५।
मृता जाता मृगाः सर्वे चक्रवाकाः पुनर्वने।
हंसास्तु मानसे तीर्थे शुक्ला जाताः पुनर्द्विजाः २८६।
मुमूर्षवो महाभागा मृतास्ते खेदकारणात्।
तस्मिन्काले महाराजो धर्मकेतुरिति स्मृतः २८७।
ययौ स्नातुं ततस्तीर्थं सदारः सपरिच्छदः।
ततो हंसास्त्रयो मोहाद्राज्यं भोग्यं तु योषितः २८८।
भक्ष्याणि चिंतयंतश्च लोकांतरमयुस्तदा।
ज्ञात्वा वेदं च वेदांगं मोक्षं यास्यामहे वयम् २८९।
चिंतयंतो गता अन्ये ततो लोकांतरं प्रति।
अथ त्रयो नृपा जाताश्चत्वारो विप्रसत्तमाः २९०।
कुरुक्षेत्रे ततो वेदान्वेदांगानि समंततः।
तपोबलाद्विदंति स्म वार्तां चामुत्र चेह च २९१।
त्रयो राजकुले जाता राजानो मदमोहिताः।
ज्ञानलोपात्परं लोकं न जानंति हिताहितम् २९२।
ते च विप्राश्च संदेहादाहूय चेटकं स्वकम्।
राज्ञो गच्छ स्वकार्पण्यात्पत्रं देहि च संभ्रमात् २९३।
सप्त व्याधा दशार्णेषु मृगाः कालंजरे गिरौ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे २९४।
तेपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः।
प्रस्थिता दूतमध्वानं यूयं किमवसीदथ २९५।
गृहीत्वा चेटको लेखं राज्ञस्तु समदर्शयत्।
दृष्ट्वा लेखं तु राजानो राज्यं त्यक्त्वा ययुर्द्विजान् २९६।
श्रुत्वा वाक्यं ततस्तेषां गतास्ते च तपोधनाः।
अचिरेणैव कालेन मोक्षं याताश्च तैस्सह २९७।
य इदं शृणुयाच्छ्राद्धे सप्तव्याधादिकं द्विज।
अक्षयं चान्नपानं च पितॄणामुपतिष्ठति २९८।
द्विज उवाच-।
वित्तहीनस्य विप्रस्य पितृकार्यं कथं भवेत्।
तपस्विनो वनस्थस्य गृहस्थस्य च केशव २९९।
भगवानुवाच-।
तृणकाष्ठार्जनं कृत्वा प्रार्थयित्वा वराटकम्।
करोति पितृकार्याणि ततो लक्षगुणं भवेत् ३०० 1.50.300।
अकर्तव्यं शतं कृत्वा पितृश्राद्धं करोति यः।
सर्वपापक्षयस्तस्य स्वर्गं याति च मानवः ३०१।
सर्वाभावे पितृतिथौ गोभ्यो घासं ददाति यः।
फलं च पिंडदानस्य संप्राप्नोत्यधिकं नरः ३०२।
पुरा वैराटविषये रुरोदातीव दीनकः।
पितृतिथौ स्वयं प्राप्ते सर्वाभावाच्च रोदिति ३०३।
रुदित्वा सुचिरं सोपि पप्रच्छ कोविदं द्विजं।
ब्रह्मन्पितृतिथावद्य किंस्वित्कृत्वा हितं भवेत् ३०४।
वराटकश्च मे नास्ति धनं ब्रह्मविदांवर।
उपदेशं च मे देहि येन धर्मे स्थितो ह्यहम् ३०५।
द्विज उवाच-।
गच्छ शीघ्रं वने तात मुहूर्ते कुतपेऽधुना।
घासं पितरमुद्दिश्य गवे देहीति सत्वरम् ३०६।
ततस्तस्योपदेशेन गृहीत्वा घासपूलकम्।
गवे दत्वा यथाहृष्टः पुष्ट्यर्थं पितुरेव च ३०७।
एतत्पुण्यप्रसादेन गतोसौ सुरमंदिरम्।
स्वर्गं च सुचिरं भुक्त्वा उत्पन्नो धनिनां कुले ३०८।
धनवान्स पुरा पुण्यात्पितृयज्ञस्य कारणात्।
स ददाति पितुः पिंडं सर्वस्वेन धनेन च ३०९।
तत्रैकजन्मनोभ्यासाद्गतोसौ विष्णुमंदिरम्।
भुक्त्वानन्तसुखं तत्र सार्वभौमोभवन्नृपः ३१०।
पितृयज्ञात्परो यस्माद्धर्मो नास्ति कथंचन।
तस्मात्सर्वप्रयत्नेन शक्त्या कुर्यादमत्सरः ३११।
यः पठेद्धर्मसंतानं जनानामग्रतो नरः।
विष्णुपद्या जले स्नानं प्रति लोके च लभ्यते ३१२।
जन्मजन्मकृतो येन महापातकसंचयः।
तत्सर्वं प्रलयं याति सकृदुच्चरिते श्रुते ३१३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्यानोनाम पंचाशत्तमोऽध्यायः ५०।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 51
नरोत्तम उवाच-
त्रिदशानां च देवानामन्येषां जगदीश्वरः।
प्रभुः कर्ता च हर्त्ता च गोप्ता भर्त्ता पिता प्रसूः१।
अस्माकं वाक्श्रमो विष्णोः कथनेनैव युज्यते।
किंतु कौतूहलं मेऽस्ति पिपासा वा क्षुधापि वा२।
कृतं पृच्छति येनैव वक्तव्यं तत्प्रियेण हि।
अतीतं चैव जानाति कथं नाथ पतिव्रता३।
किं वा तस्यां प्रभावं च वक्तुमर्हस्यशेषतः।
भगवानुवाच-
कथितं मे पुरा वत्स पुनः कौतूहलं द्विज४।
कथयिष्यामि तत्सर्वं यत्ते मनसि वर्तते।
पतिव्रता पतिप्राणा सदा पत्युर्हिते रता५।
देवानामपि साऽऽराध्या मुनीनां ब्रह्मवादिनां।
धवस्यैकस्य या नारी लोके पूज्यतमा स्मृता६।
तस्या संमानने गुर्वी निभृता न भविष्यति।
मध्यदेशे पुरा तात नगरी चातिशोभना७।
तस्यां च ब्रह्मजातीया सेव्या नाम्नी पतिव्रता।
तस्या धवोऽभवत्कुष्ठी पूर्वकर्मविरोधतः८।
गलद्व्रणास्य पत्युश्च नित्यं चर्यापरायणा।
यद्यन्मनोरथं तस्य शक्त्या सा कुरुते भृशम्९।
अर्चयेद्देववन्नित्यं स्नेहं कुर्यादमत्सरा।
कदाचित्पथि गच्छंतीं वेश्यां परमसुंदरीम्१०।
दृष्ट्वाऽतीवाभवन्मोहान्मन्मथाविष्टचेतनः।
निश्श्वस्य सुतरां दीर्घं ततस्तु विमनाऽभवत्११।
श्रुत्वा गृहाद्विनिःसृत्य साध्वी पप्रच्छ तं पतिं।
उन्मनास्त्वं कथं नाथ निःश्वासस्ते कथं विभो१२।
ब्रूहि मे यच्च कर्तव्यमकर्तव्यं च यत्प्रियम्।
दयितं ते करिष्यामि त्वमेको मे गुरुः प्रियः१३।
अभीष्टं वद मे नाथ यथाशक्ति करोम्यहम्।
इत्युक्ते तामुवाचेदं वृथा किं भाषसे प्रिये१४।
न शक्ता त्वं न चैवाहं मोघं वक्तुं न युज्यते।
प्रष्टुं नाधिकरोषीति यथा दीर्घतरोः फलम्१५।
भूमौ स्थित्वा तु खर्वात्मा समुद्धर्तुं प्रवांछति।
तथा मे रमणी लोभान्मोहाद्यदभिवांछितम्१६।
दंपत्योरपि दुःसाध्यमपयानं वदाम्यहम्।
पतिव्रतोवाच-
ज्ञात्वा तु त्वन्मनोवृत्तं शक्ताहं कार्यसाधने१७।
आदेशं कुरु मे नाथ कर्तव्यं येन केनचित्।
यदि ते दुर्लभं कार्यं कर्तुं शक्नोमि यत्नतः१८।
तदा मे त्वतिकल्याणं फलिष्यति परे त्विह।
इत्युक्ते परमः प्रीतः स्थितो वचनमब्रवीत्१९।
पापाभ्यासाच्च पाप्मानं पृच्छतीति विनिश्चयः।
पथ्यस्मिन्संप्रगच्छंतीं वेश्यां परमसुंदरीम्२०।
सर्वतश्चानवद्यांगीं दृष्ट्वा मे दह्यते मनः।
यदि तां त्वत्प्रसादाच्च प्राप्नोमि नवयौवनां२१।
तदा मे सफलं जन्म कुरु साध्वि हितं मम।
यदि मां कुष्ठिनं दीनं पूतिगंधं नवव्रणम्२२।
न गच्छति वरारोहा तदा मे निधनं हितम्।
श्रुत्वा तेनेरितं वाक्यं साध्वी वचनमब्रवीत्२३।
यथाशक्ति करिष्यामि स्थिरी भव प्रभोऽधुना।
मनसाथ समालोच्य क्षपांते ह्युषसि द्रुतम्२४।
गोमयं सह शोधन्या गृहीत्वा सा ययौ मुदा।
संप्राप्य गणिकागेहं शोधयित्वा च चत्वरम्२५।
प्रतोलीं वीथिकां चैव गोमयं प्रददौ मुदा।
सा तूर्णमागता गेहे जनस्यालोकने भयात्२६।
एवं क्रमेण सा साध्वी चरति स्म दिनत्रयम्।
अथ सा वारमुख्या च चेटिकाश्चेटकानपि२७।
अपृच्छत्कस्य कर्माणि शोभनानि च चत्वरे।
मया नोक्तेप्युषः काले कस्य मत्प्रियकारणात्२८।
रुच्यकर्मणि दीप्यंते रथ्या चत्त्वर वीथिकाः।
परस्परेण संचिंत्य वारमुख्यां च तेऽब्रुवन्२९।
अस्माभिर्न कृतं भद्रे कर्म चैतत्प्रमार्जनम्।
अथ सा विस्मयं गत्वा संचिंत्य रजनीक्षये३०।
तया च दृश्यते सा च तथैव पुनरागता।
दृष्ट्वा तां महतीं साध्वीं ब्राह्मणीं च पतिव्रताम्३१।
दधार चरणे तस्या हा क्षमस्वेति भाषिणी।
आयुर्देहं च संपत्तिर्यशोर्थः कीर्तिरेव च ३२।
एतासां मे विनाशाय स्फुरसीव पतिव्रते।
यद्यत्प्रार्थयसे साध्वि नित्यं दास्यामि तद्दृढम्३३।
सुवर्णं मणिरत्नं वा चेलं वा यन्मनोरथं।
तामुवाच ततः साध्वी न मे चार्थे प्रयोजनम्३४।
अस्ति कार्यं च ते किञ्चिद्वदामि कुरुषे यदि।
तदा मे हृदि संतोषः कृतं सर्वं त्वयाऽधुना३५।
गणिकोवाच-
सत्यं सत्यं करिष्यामि द्रुतं वद पतिव्रते।
कुरु मे रक्षणं मातर्द्रुतं कृत्यं च मे वद३६।
त्रपया निकृतं वाच्यं तस्यामुक्तं वरं प्रियम्।
क्षणं विमृश्य सा वेश्या कृत्वा क्षांतिमुवाच च३७।
कुष्ठिनः पूतिगंधस्य संपर्के दुःखिता भृशम्।
दिनैकं च करिष्यामि यद्यागच्छति मद्गृहम्३८।
पतिव्रतोवाच-
आगमिष्यामि ते गेहमद्य रात्रौ च सुंदरि।
भुक्तभोग्यं पतिं हृष्टं पुनर्नेष्यामि मद्गृहम्३९।
गणिकोवाच-
गच्छ शीघ्रं महाभागे स्वगृहं च पतिव्रते।
पतिस्ते चार्द्धरात्रे स आगच्छतु च मद्गृहम्४०।
बहवो मे प्रियास्संति राजानस्तत्समाश्च ये।
एकैको मद्गृहे नित्यं तिष्ठतीह निरंतरम्४१।
अद्याहं मे गृहं शून्यं करिष्यामि च त्वद्भयात्।
स चागच्छतु ते भर्त्ता स चास्मान्प्राप्य गच्छतु४२।
एतच्छ्रुत्वा तु सा साध्वी गतासौ स्वगृहे तथा।
पत्यौ निवेदयामास कृत्यं ते फलितं प्रभो४३।
अद्य रात्रौ च तद्गेहं गंतुं ख्यातिं करोति सा।
प्रभूताः पतयस्तस्यास्तव कालो न विद्यते४४।
विप्र उवाच-
कथं यास्यामि तद्गेहं मया गंतुं न शक्यते।
एतज्ज्ञात्वा कुतः क्षांतिः कृतं कार्यं कथं भवेत्४५।
पतिव्रतोवाच-
स्वपृष्ठस्थमहं कृत्वा नेष्यामि तद्गृहं प्रति।
सिद्धे ह्यर्थे नयिष्यामि पुनस्ते नैव वर्त्मना४६।
द्विज उवाच-
कल्याणि त्वत्कृतेनैव सर्वं मे कृत्यमेष्यति।
इदानीं यत्कृतं कर्म स्त्रीजनैरपि दुःसहम्४७।
तस्मिंश्च नगरे रम्ये नित्यं च धनिनो गृहे।
पौरेश्च प्रचुरं वित्तं हृतं राज्ञा श्रुतं तदा४८।
श्रुत्वा सर्वान्निशाचारानाहूय नृपती रुषा।
जीवितुं यदि वो वांछा चोरं मामद्य दास्यथ४९।
गृहीत्वा तु नृपस्याज्ञां यत्तैर्जिघृक्षयाकुलैः।
चारैश्चोरो गृहीतस्तैर्बलाच्चैव नृपाज्ञया५० 1.51.50।
नगरोपांतदेशे च वृक्षमूले घने वने।
समाधिस्थोमहातेजामांडव्योमुनिपुंगवः५१।
व्यातिष्ठद्वह्निसंकाशो योगिनां प्रवरो मुनिः।
अंतर्नाडीगतो वायुः किंचिन्न प्रतिभाति च५२।
तं ब्रह्मतुल्यं तिष्ठन्तं दृष्ट्वा दुष्टा महामुनिम्।
चोरोयमद्भुताकारो धूर्तस्तिष्ठति कानने५३।
एवमुक्त्वा तु तं पापा बबन्धुर्मुनिसत्तमम्।
नोक्ताश्च नेक्षितास्तेन पुरुषा अतिदारुणाः५४।
ततो राजा उवाचेदं संप्राप्तस्तस्करो मया।
उपांते च पथिद्वारे कुरुध्वं घोरदण्डनम्५५।
मांडव्यश्च मुनिस्तत्र पथिशूले च कीलितः।
पायुदेशे च तैर्दत्तं शूलं यावच्च मस्तकम्५६।
व्यथां स च न जानाति शूले विद्धतनुर्यमात्।
अन्यैरपि कृतो दण्डः कृतस्तैस्तु मनोहितः५७।
एतस्मिन्नंतरे रात्रावंधकारे घनोन्नते।
स्वपतिं पृष्ठतः कृत्वा प्रययौ सा पतिव्रता५८।
मांडव्यस्य तनौ सङ्गात्कुष्ठिनो गंध आगतः।
भग्नः समाधिस्तस्यैवं कुष्ठिसंसर्गतो ध्रुवम्५९।
मांडव्य उवाच-
एवं येनाधुना कृच्छ्रं कारितं गात्रवेदनम्।
स एव भस्मतां यातु प्रोदिते च विरोचने६०।
मांडव्येनैवमुक्तस्स पपात धरणीतले।
ततः पतिव्रता चाह ब्रध्नो नोदयतु ध्रुवं६१।
दिनत्रयं गृहं नीत्वा शापाद्वेश्मगता ततः।
शयनीये स्थितं रम्ये धृत्वाऽतिष्ठत्पतिव्रता६२।
शप्त्वा तं च मुनिश्रेष्ठो गतो देशमभीष्टकम्।
सूरो नोदयते लोके यावच्चैव दिनत्रयम्६३।
निखिलं व्यथितं दृष्ट्वा त्रैलोक्यं सचराचरम्।
शतक्रतुं पुरस्कृत्य गता देवाः पितामहम्६४।
वृत्तं न्यवेदयन्सर्वं पद्मयोनौ दिवौकसः।
कारणं च न जानीमस्त्वं तु योग्यं विधेहि नः६५।
ब्रह्मोवाच-
पतिव्रताया यद्वृत्तं मांडव्यस्य मुनेश्च यत्।
यथा नोदयते ब्रध्नो धाता देवेष्ववेदयत्६६।
ततो देवा विमानैश्च पुरस्कृत्य प्रजापतिम्।
गतास्तदंतिकं विप्र तूर्णं सर्वे च भूतलम्६७।
तेषां श्रिया विमानानां मुनीनां किरणैस्तथा।
शतसूर्यमिवाभाति नान्यत्र च गृहोदरे६८।
हा हतास्मि कथं सूरो मद्गृहे समुपस्थितः।
अदृश्यंत तया देवा विमानैर्हंससन्निभैः६९।
एतस्मिन्नंतरे ब्रह्मा तामुवाच पतिव्रताम्।
अखिलानां च देवानां द्विजानां च गवां तथा७०।
यथैव निधनं तेषां कथं ते परिरोचते।
मातः क्रोधं त्यजस्वाद्य सूर्यस्योदयनं प्रति७१।
पतिव्रतोवाच-
सर्वलोकानतिक्रम्य पतिरेको गुरुर्मम।
अस्य मृत्युर्मुनेश्शापादुदिते च विरोचने७२।
तेनैव कारणेनैष मया शप्तो दिवाकरः।
न कोपान्न च मोहाच्च लोभात्कामान्न मत्सरात्७३।
ब्रह्मोवाच-
एकस्य निधनेनैव त्रैलोक्यस्य हितं भवेत्।
ततस्ते चाधिकं पुण्यं मातरेवं भविष्यति७४।
सा चोवाच विधिं तत्र देवानामग्रतः सती।
पतिं त्यक्त्वा च मे सत्यं शिवं मे नानुरोचते७५।
ब्रह्मोवाच-
उदिते च खगे सौम्ये पत्यौ ते भस्मतां गते।
स्वस्थेभूते च त्रैलोक्ये करिष्यामि हितं तव७६।
भस्मनः पुरुषो भाव्यः कामदेवसमप्रभः।
गुणैः सर्वैर्युतो भर्ता रतिवत्त्वं च सर्वदा७७।
यथापूज्यो हरिर्दैवैर्यथा लक्ष्मीश्च पूजिता।
तथैव दंपती स्वर्गे तस्मान्मद्वचनं कुरु७८।
पतिव्रतोवाच-
पत्युर्मे निधने ब्रह्मन्विधवा लोकनिंदिता।
कांस्तु लोकान्गमिष्यामि भग्ना चारामलीमसा७९।
ब्रह्मोवाच-
अतस्ते नास्ति दोषो वै न मृतस्ते धवोऽधुना।
अस्माकं वचनेनैव कुष्ठी मन्मथतां व्रजेत्८०।
वदत्येवंविधौ सा च विमृश्य क्षणमेव च।
बाढमुक्तवती सा च ततस्सूर्योदयोऽभवत्८१।
अभवद्भस्मरूपोऽसौ मुनिशापप्रपीडितः।
भस्मनो मध्यतो जातो द्विजो मन्मथपीडितः८२।
दृष्ट्वा विस्मयपमापन्नाः सर्वे ते पुरवासिनः।
मुदिता देवसंघाश्च जनः स्वस्थतरोऽभवत्८३।
विमानेनार्कवर्णेन स्वर्लोकादागतेन च।
पतिना सह सा साध्वी सुरैः सार्द्धं गता दिवम्८४।
एवं पतिव्रता यस्माच्छुभा चैव तु मत्समा।
तेन वृत्तं च जानाति भूतं भव्यं प्रवर्तनम्८५।
य इदं श्रावयेल्लोके पुण्याख्यानमनुत्तमम्।
तस्य पापं क्षयं याति जन्मजन्मकृतं च यत्८६।
अक्षयं लभते स्वर्गं विबुधैः संप्रयुज्यते।
ब्राह्मणो लभते वेदं जन्मजन्मसु बाडव८७।
सकृच्छृणोति यः पूतो दुष्कृतौघाद्विमुच्यते।
सुरालयमवाप्नोति स्वर्गाद्भ्रष्टो धनी भवेत्८८।
इतिश्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पतिव्रतोपाख्यानंनामैकपंचाशत्तमोऽध्यायः५१।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 52
।
द्विज उवाच-
मांडव्यस्य मुनेर्विष्णोश्शूलाघातः कथं तनौ।
पत्यौ पतिव्रतायाश्च कथं कुष्ठं कलेवरे१।
हरिरुवाच-
शिशुभावाच्च मांडव्यो झिल्लिकायामभानतः।
वस्तिदेशे तृणं दत्वा मोहात्स च मुमोच ताम्२।
तेनापवाददोषेण धर्मस्याज्ञातुरेव च।
अहोरात्रं व्यथा कृच्छ्रा भुक्ता तेन द्विजन्मना३।
किंतु समाधिना तेन न ज्ञातं शूलसंभवम्।
कृच्छ्रं च मुनिना कृत्स्नं योगाभ्यासाद्भृशादपि४।
कुष्ठिनो ब्रह्मणो घातादजितेंद्रियकारणात्।
पूतिगंधं तनौ कुष्ठं संजातं द्विजसत्तम५।
पुरा विप्राय तेनैव दत्तं गौरीचतुष्टयम्।
कन्यकात्रितयं विप्र तेन तस्य पतिव्रता६।
अस्यास्तु कारणादेव स च मत्समतां व्रजेत्।
अत्र ते विस्मयः कुत्र वेदकर्मपुरातनम्७।
द्विज उवाच-
कृत्या नारी न यस्यैव तस्य स्वर्गो भवेद्ध्रुवम्।
यथैतच्चरितं नाथ सर्वेषां शिवमिष्यते८।
हरिरुवाच-
संति कृत्याः स्त्रियः काश्चित्पुंसः सर्वस्वदस्य च।
तत्राप्यरक्षणीयां च मनसापि न धारयेत्९।
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते।
गावस्तृणमिवारण्ये प्रार्थयंति नवंनवम्१०।
पुमांसं वित्तहीनं च विरूपं गुणवर्जितम्।
अकुलीनं च भृत्यं च कामिनी भजते ध्रुवम्११।
भर्तारं च गुणोपेतं कुलीनं च महाधनम्।
सुंदरं रतिदक्षं च त्यक्त्वा नीचं भजेद्वधूः१२।
उमानारदसंवादमाख्यानं विद्धि भूसुर।
येन विद्यास्त्रियाश्चेष्टा विविधाः कृत्स्नशो द्विज१३।
स्वभावान्नारदो विप्र विश्वजिज्ञासको मुनिः।
स्वांते विमृश्याथ गतः कैलासं गिरिमुत्तमम्१४।
वृषकेतुसदाख्यान सप्रतिष्ठे हिमे गिरौ।
प्रणिपत्य महात्मा वै पप्रच्छ पार्वतीं मुनिः१५।
देवि सीमंतिनीनांतु दुश्चेष्टां ज्ञातुमुत्सहे।
कौतुकेन त्वया चर्या वधूनां संप्रयुज्यते१६।
सर्वासामपि नारीणां स्वान्तं जानासि तत्त्वतः।
तन्मां कथय सर्वेषु विनीतमज्ञमत्र च१७।
देव्युवाच-
युवतीनां सदा चित्तं पुंसु तिष्ठत्यसंशयम्।
अस्मिन्योनौ सुसंयोग्ये संगते वाप्यसंगते१८।
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम्।
योनिः क्लिद्यति नारीणां सत्यं सत्यं हि नारद१९।
स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः।
तेन नारद नारीणां सतीत्वमुपजायते२०।
घृतकुंभसमा नारी तप्तांगारसमः पुमान्।
तस्माद्घृतं च वह्निं च नैकस्थाने च धारयेत्२१।
यथैवमत्तमातंगं सृणिमुद्गरयोगतः।
स्ववशं कुरुते यंता तथा स्त्रीणां प्ररक्षकः२२।
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्राश्च स्थाविरे भावे न स्त्री स्वातंत्र्यमर्हति२३।
ततः स्वातंत्र्यभावाच्च स्वेच्छया च वरांगना।
पुरुषेणार्थिता धीरा प्रेरणादिचरी भवेत्२४।
अरक्षणाद्यथा पाकः श्वकाकवशगो भवेत्।
तथैव युवती नारी स्वच्छंदाद्दुष्टतां व्रजेत्२५।
पुनरेव कुलं दुष्टं तस्यास्संसर्गतो भवेत्।
परबीजेन यो जातः स च स्याद्वर्णसंकरः२६।
जारजः संकरः पापो नरके नियतं वसेत्।
कीटजातौ गता जाताः पुनः सर्वे महीतले२७।
ततो म्लेच्छमुपानीतं कुलं स्याद्द्विजनंदन।
कुलक्षयो भवेद्यस्मात्तस्माद्दुष्टां न धारयेत्२८।
ज्ञात्वैव योषितां दोषं क्षमते यो नराधमः।
स तिष्ठेन्निरये घोरे रौरवे पितृभिः सह२९।
काचित्पातयते नारी काचिदुद्धरते कुलम्।
तस्मात्सर्वप्रयत्नेन कुलजामुद्वहेद्बुधः३०।
कुलद्वयं समा नारी समयित्वा तु तिष्ठति।
साध्वी तारयते वंशान्दुष्टा पातयति ध्रुवम्३१।
दारेष्वधीनं स्वर्गं च कुलं पंकं यशोऽयशः।
पुत्रं दुहितरं मित्रं संसारे कथयंति च३२।
तस्मादेकां द्वितीयां वा वामामुद्वाहयेद्बुधः।
संतानार्थात्तु कामाच्च बहुदोषाश्रिता च सा३३।
रजस्वलां च वनितां नावगच्छति यः पतिः।
ब्रह्महा भ्रूणहा सोपि दुर्गतिं चाधिगच्छति३४।
यो मोहाद्दुर्भगां कृत्वा साध्वीं त्यजति पापकृत्।
तस्या वधेन यत्पापं तद्भुक्त्वा नरकं व्रजेत्३५।
वनिताहरणं कृत्वा चांडलकुलतां व्रजेत्।
तथैव वनिताहानात्पतितो जायते नरः३६।
रामां विन्यस्य स्कंधे च चिरं यमपुरे वसेत्।
मलमूत्रं शिरोदेशे नित्यं तस्य च संपतेत्३७।
एवं वर्षसहस्राणि भारं वहति दुर्मतिः।
पुनर्यावन्ति लोमानि तावत्स रौरवं व्रजेत्३८।
पुनः कीटेषु संतीर्णस्तदा मानुषतां व्रजेत्।
ततश्च कलहं शोकं प्राप्नोति पूर्वकल्मषात्३९।
एवं जन्मत्रयं प्राप्य मुच्यते पातकान्नरः।
तत्कालं नरकं भुक्त्वा सा तु काकी तु वञ्चकी४०।
उच्छिष्टनरकं भुक्त्वा मानुषे विधवा भवेत्।
यः पुनश्चांत्यजां गच्छेन्म्लेछां वा पुल्कसां नरः४१।
द्वित्रिचतुर्गुणं भुक्त्वा तत्र संचीर्णवंचकः।
मातरं गुरुभार्यां च ब्राह्मणीं महिषीं तथा४२।
अन्यां वा प्रभुपत्नीं च गत्वा यात्यपुनर्भवं।
भगिनीं तत्पुत्रभार्यां तथा दुहितरं स्नुषाम्४३।
पितृव्यां मातुलानीं तु तथैव च पितृष्वसाम्।
मातृष्वस्रादिकामन्यां गत्वा नास्ति च निष्कृतिः४४।
ब्रह्महा स भवेदंधो वचसा जडतां व्रजेत्।
कर्णयोर्बधिरो जातश्च्यवते नास्ति निष्कृतिः४५।
उक्त्वा अश्लीलमत्यर्थमखिलं स्त्रीकृतेन हि।
द्विज उवाच-
एवं दुष्कृतमासाद्य कथं मोक्षो भवेत्पुनः४६।
तत्समाचक्ष्व भगवन्श्रोतुमिच्छामि तत्त्वतः।
श्रीभगवानुवाच।
तासां च गमनं कृत्वा तप्तां लोहस्य पुत्तलद्यं४७।
समालिंग्य त्यजेत्प्राणं शुचिर्लोकांतरं व्रजेत्।
यो वै गृहाश्रमं त्यक्त्वा मच्चित्तो जायते नरः४८।
नित्यं स्मरति गोविंदं सर्वपापक्षयो भवेत्।
ब्रह्महत्यायुतं तेन कृतं गुर्वंगनागमात्४९।
शतं शतसहस्रं च पैष्टीमद्यस्य भक्षणात्।
स्वर्णादेर्हरणं कृत्वा तेषां संसर्गकं चिरं५० 1.52.50।
एतान्यन्यानि पापानि महान्ति पातकानि च।
अग्निं प्राप्य यथा तूलं तृणं शुष्कं प्रणश्यति५१।
तस्मान्मन्नामगोविंदं स्मृत्वा पूतो भवेन्नरः।
यो वा गृहाश्रमे तिष्ठेन्नित्यं गोविंदघोषणम्५२।
कृत्वा च पूजयित्वा च स पापात्सन्तरो भवेत्।
भागीरथी तटे रम्ये खगस्य ग्रहणे शिवे५३।
गवां कोटिप्रदानेन यत्फलं लभते नरः।
तत्फलं समवाप्नोति सहस्रं चाधिकं च यत्५४।
गोविंदकीर्तने तात मत्पुरे चाक्षयं वसेत्।
कामात्स भवने स्थित्वा सार्वभौमो भवेन्नृपः५५।
पुराणेमत्कथां श्रुत्वा मत्सादृश्यं लभेन्नरः।
कथयित्वा पुराणं च विष्णुसायुज्यतां व्रजेत्५६।
तस्मान्नित्यं च श्रोतव्यं पुराणं धर्मसंचयं।
श्रावितव्यं प्रयत्नेन लोके विष्णुतनुं व्रजेत्५७।
अन्यद्वा स्त्रीकृते दोषे यथायोगं भवेद्ध्रुवं।
निशामय प्रवक्ष्यामि तत्वतो द्विजनंदन५८।
सर्वबीजस्य दानेन सांबुकुंभं महाफलम्।
दद्याद्विप्राय पुण्याहे सद्यःपूतो भवेत्क्षणात्५९।
सर्वं धान्यादिकं बीजं काले दद्याद्द्विजातये।
सर्वपापक्षयं कृत्वा अक्षयं स्वर्गमश्नुते६०।
गुणं वक्ष्यामि विप्रर्षे सतीनां यादृशं दृढम्।
शुद्धवंशो भवेत्तस्या नित्यं लक्ष्मीः प्रवर्तते६१।
उभयोर्वंशयोः स्वर्गो भर्तुरात्मन एव च।
पतिव्रतागुणो विप्र विस्मृतः पृच्छतस्तव६२।
पुनर्वक्ष्यामि योषाणां सर्वलोकहितं शुभम्।
उषित्वा पूर्वकालं च पुण्यापुण्येन योषितः६३।
पश्चात्पतिव्रतायाश्च ताश्च गच्छंति मद्गतिम्।
षण्मासं वाथ वर्षं वा अधिकं च प्रशस्यते६४।
पतिव्रता भवेद्या च यावत्पूता व्रजेद्दिवम्।
सुरापं विप्रहंतारं सर्वपापयुतं पतिम्६५।
पंकात्पूतं नयेत्स्वर्गं भर्त्तांरं यानुगच्छति।
कंदर्पसदृशो भर्ता सा रतीव मनोरमा६६।
जिष्णोरेवचिरं लोके भुंक्तेऽनंतमयं सुखम्।
पतिव्रता बलाद्या च विदूरे स्वामिपातने६७।
चिह्नं लब्ध्वामृता वह्नौ पापादुद्धरते पतिं।
पतिव्रता च या नारी देशांतरमृते पतौ६८।
सा भर्तुश्चिह्नमादाय वह्नौ सुप्त्वा दिवं व्रजेत्।
या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत्६९।
सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत्।
न म्रियेत समं गत्वा ब्राह्मणी ब्रह्मशासनात्७०।
प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी।
नरोत्तम उवाच-
सर्वासामपि जातीनां ब्राह्मणः शस्य इष्यते७१।
पुण्यं च द्विजमुख्येन अत्र किंवा विपर्ययः।
श्रीभगवानुवाच-
ब्राह्मण्यास्साहसं कर्म नैव युक्तं कदाचन७२।
निःशेषेस्या वधं कृत्वा स नरो ब्रह्महा भवेत्।
तस्माद्ब्राह्मणजातीया विप्रया च व्रतं चरेत्७३।
प्रवक्ष्यामि यथातथ्यं शृणु विप्र यथार्थतः।
आपणांतरमामिष्यं भक्षयेन्न कदाचन७४।
अश्वमेधसहस्राणां हायने फलमाप्नुयात्।
अर्हणं चेष्टदेवस्य हरेर्व्रतमनुत्तमम्७५।
स्वामिनोपि जलं पिंडं संप्रदद्यादमत्सरात्।
युगकोटिसहस्राणि युगकोटिशतानि च७६।
पतिना सह सा साध्वी विष्णुलोके युता भवेत्।
ततो महाव्रतं प्राप्य निरये ब्राह्मणी वधूः७७।
उद्धरेदुभयोर्वंशाञ्छतशोथ सहस्रशः।
अतो बंधुजनैरेव पुत्रैर्भ्रात्रादिभिर्बुधैः७८।
विनियम्य सदा तस्या व्रतलोपं न कारयेत्।
हरेश्चेद्वासरं प्राप्य विधवा न व्रतं चरेत्७९।
पुनर्वैधव्यतामेति जन्मजन्मनि दुर्भगा।
भोजनात्मत्स्यमांसस्य व्रतानां विप्रयोगतः८०।
चिरं निरयमासाद्य शुनी भवति निश्चितम्।
दुष्टाया मैथुनं गच्छेद्विधवाकुलनाशिनी८१।
नरकाननुभूयाथ गृध्रिणी दशजन्मसु।
द्विजन्मफेरवा भूत्वा ततो मानुषतां व्रजेत्८२।
तथैव बालवैधव्या दासीत्वमुपगच्छति।
द्विज उवाच-
कन्यादानफलं ब्रूहि वद दास्याः फलं च यत्८३।
विधानं च यथोक्तं च यदि मेनुग्रहः प्रभो।
श्रीभगवानुवाच-।
रूपाढ्ये गुणसंपन्ने कुलीने यौवनान्विते८४।
समृद्धे वित्तसंपूर्णे कन्यादानफलं शृणु।
सर्वाभरणसंयुक्तां कन्यकां यो ददाति च८५।
तेन दत्ता धरा सर्वा सशैलवनकानना।
अर्द्धाभरणदानेन फलं दातुर्भवेद्ध्रुवम्८६।
अनाभरणकन्यायाः पादैकस्य फलं भवेत्।
यः पुनः शुल्कमश्नाति स याति नरके नरः८७।
विक्रीय चात्मजां मूढो नरकान्न निवर्त्तते।
लोभादसदृशे पुंसि कन्यां यस्तु प्रयच्छति८८।
रौरवं नरकं प्राप्य चांडालत्वं च गच्छति।
अतएव हि शुल्कं च जामातुर्न कदाचन८९।
गृह्णाति मनसा प्राज्ञो यद्दत्तं तस्य चाक्षयम्।
भूमिं गां च हिरण्यं च धनं वस्त्रं च धान्यकम्९०।
जामातुर्यौतकं दत्वा सर्वं भवति चाक्षयम्।
विवाहसमये वत्स सगोत्र परगोत्रजैः९१।
यौतकं दीयते किंचित्तत्सर्वं चाक्षयं भवेत्।
दाता न स्मरते दानं प्रतिग्राही न याचते९२।
उभौ तौ नरकं यातश्छिन्नरज्जुर्घटो यथा।
अवश्यं यौतकं दानं दातव्यं सात्विकेन हि९३।
अदत्वा नरकं प्राप्य दासीत्वमुपगच्छति।
अत्यासन्नेतिदूरस्थे चात्याढ्ये चाति दुर्गते९४।
कुलहीने च मूर्खे च षट्सु कन्या न दीयते।
अतिवृद्धे चातिदीने रोगिष्ठे देशवासिनि९५।
अतिक्रुद्धेप्यसन्तुष्टे षट्सु कन्या न दीयते।
एतेभ्यः कन्यकां दत्वा नरकं चाधिगच्छति९६।
लोभात्संमानलाभाच्च कन्यका परिवर्तनात्।
मुनीनां प्रेयसीं नारीं युवतीं रूपशालिनीम्९७।
सालंकारां सशय्यां च दत्वाऽनंतफलं लभेत्।
अनयोश्च फलं तुभ्यं युवती कन्ययोरपि ९८।
एका वराय दातव्या अपरा ब्राह्मणाय तु।
क्रीता देवा यदातव्या धीरेणाकष्टकर्मणा९९।
कल्पकालं भवेत्स्वर्गं नृपो वा कौ महाधनी।
प्रतिजन्म लभेतैष सुपत्नीं वरवर्णिनीम्१०० 1.52.100।
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्।
सर्वपापक्षयस्तस्य सर्वशास्त्रार्थपारगः१०१।
लभेत सोऽक्षयं स्वर्गं नारीणां वल्लभो भवेत्।
क्षत्रियो विजयी चाथ लोकनाथो भवेद्ध्रुवम्१०२।
श्रुतं हरति पापानि जन्मजन्मकृतानि च।
सौभाग्यं लभते लोके तथैव च वरांगना१०३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्याने स्त्रीणामाख्यानंनाम।
द्विपंचाशत्तमोऽध्यायः५२।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 53
द्विज उवाच-
तुलाधारस्य चरितं प्रभावमतुलं प्रभो।
वक्तुमर्हस्यशेषेण यदि मय्यस्त्यनुग्रहः१।
श्रीभगवानुवाच -
सत्यभावादलोभाच्च दद्याद्यो वै त्वमत्सरात्।
नित्यं यज्ञशतं तस्य सुनिष्पन्नं सुदक्षिणम्२।
सत्येनोदयते सूरो वाति वातस्तथैव च।
न लंघयेत्समुद्रस्तु वेलां कूर्मो धरां तथा३।
सत्येन लोकास्तिष्ठंति सर्वे च वसुधाधराः।
सत्याद्भ्रष्टोथ यः सत्वोप्यधोवासी भवेद्ध्रुवम्४।
सत्यवाचिरतोथस्तु सत्यकार्यरतः सदा।
सशरीरेण स्वर्लोकमागत्याच्युततां व्रजेत्५।
सत्येन मुनयः सर्वे मां च गत्वा स्थिरं गताः।
सत्याद्युधिष्ठिरो राजा सशरीरो दिवं गतः६।
सर्वशत्रुगणं जित्वा लोको धर्मेण पालितः।
अकरोच्च मखं शुद्धं राजसूयं सुदुर्लभम्७।
चतुरशीतिसहस्राणि ब्राह्मणानां च नित्यशः।
भोजयेद्रुक्मपात्रेषु राजोपकरणेषु च८।
भोजयित्वोपकरणांस्तेभ्यो दत्वा विसर्जयेत्।
यदभीष्टं द्विजातीनामतोन्यद्दापयेद्धनम्९।
अदरिद्रं ततो ज्ञात्वा द्विजव्यूहं परित्यजेत्।
तथैव स्नातकानां तु सहस्राणि तु षोडश।
नित्यं संभोजयेद्राजा सत्येनैव विमत्सरः१०।
अतिष्ठंत गृहे पूर्वं चिरं तस्य जिगीषया।
जितं तेन जगत्सर्वं प्राणानुग्रहकारणात्११।
सत्येन चासुरो राजा बलिरिंद्रो भविष्यति।
पातालस्थस्य तस्यैव भूयस्तिष्ठामि वेश्मनि१२।
निरंतरं च तिष्ठामि स्वांते पुण्यैककर्मणः।
यद्वा पुरा मया बद्धो दैत्ययोनेर्विमोक्षणात्१३।
तलं चैवामरत्वं हि शक्रत्वं प्रददाम्यहम्।
हरिश्चंद्रो नृपस्सत्यात्सवाहनपरिच्छदः१४।
स्वशरीरेण शुद्धेन सत्यलोके प्रतिष्ठितः।
राजानो बहवश्चान्ये ये च सिद्धा महर्षयः१५।
ज्ञानिनो यतयश्चैव सर्वे सत्येऽच्युताऽभवन्।
तस्मात्सत्यरतो लोके संसारोद्धरणक्षमः१६।
तुलाधारो महात्मा वै सत्यवाक्ये प्रतिष्ठितः।
लोके तत्सदृशो नास्ति सत्यवाक्यस्य कारणात्१७।
अश्वमेधसहस्रेण सत्यं तु तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते१८।
सर्वं सत्याद्भवेत्साध्यं सत्यो हि दुरतिक्रमः।
सत्यवाक्येन सा धेनुर्बहुला स्वर्गगामिनी१९।
सर्वं राष्ट्रं समाधाय पुनरावृत्तिदुर्लभा।
तथायं सर्वदा साक्षी मृषा नास्ति कदाचन२०।
बह्वर्घमल्पमर्घं च क्रयविक्रयणे सुधीः।
सत्यवाक्यं प्रशस्तं च विशेषात्साक्षिणो भवेत्२१।
साक्षिणः सत्यमुक्त्वा च अक्षयं स्वर्गमाययुः।
वावदूकः सभां प्राप्य सत्यं वदति वाक्पतिः२२।
स याति ब्रह्मणो गेहं यज्ञैरन्यैश्च दुर्लभम्।
सभायां यो वदेत्सत्यमश्वमेधफलं लभेत्२३।
लोभाद्द्वेषान्मृषोक्त्वा च रौरवं नरकं व्रजेत्।
सर्वसाक्षी तुलाधारो जनानां शूर एव च२४।
विशेषाल्लोभसंत्यागान्नाके निर्जरतां व्रजेत्।
कश्चिच्छूद्रो महाभागो न लोभे वर्तते क्वचित्२५।
वृत्तिश्शाकेन दुःखेन तथा शिलोंछतो भृशम्।
जर्जरं वस्त्रयुग्मं च करौ पात्रे च सर्वदा२६।
सदापि लाभविरहो न परस्वं गृहीतवान्।
तस्य जिज्ञासयैवाहं गृहीत्वा वस्त्रयुग्मकम्२७।
अवकोटे नदीतीरे स्थितस्संस्थाप्य सादरम्।
स दृष्ट्वा वस्त्रयुग्मं तन्न लोभे कुरते मनः२८।
इतरस्य परिज्ञाय तत्क्षांत्या स्वगृहं ययौ।
ततो विचिंतयित्वा तु हृदा स्वल्पमिति द्विज२९।
उदुंबरं हेमगर्भं मया तत्रैव पातितम्।
किंकरे च नदीतीरे विकोणे जनवर्जिते३०।
तस्य यातस्य देशे तु दृष्टं तेन तदद्भुतम्।
अलं विधानमेतत्तु कृत्रिमं चोपलक्ष्यते३१।
ग्रहणे वाधुना चास्य अलोभं नष्टमेव मे।
अस्यैव रक्षणे कष्टमहंकारपदं त्विदम्३२।
यतो लोभस्ततो लाभो लाभाल्लोभः प्रवर्तते।
लोभग्रस्तस्य पुंसश्च शाश्वतो निरयो भवेत्३३।
यदि नो विगुणं वित्तं यदा वेश्मनि तिष्ठति।
तदा मे दारपुत्राणामुन्मादो ह्युपपद्यते३४।
उन्मादात्कामसंजात विकारान्मतिविभ्रमः।
भ्रमान्मोहोप्यहंकारः क्रोधलोभावतः परं३५।
एषां प्रचुरभावाच्च तपः क्षयं गमिष्यति।
क्षीणे तपसि वर्तंते पंकाश्चित्तप्रमोहकाः३६।
तैश्च शृंखलयोगैश्च बद्धो नैवोद्धृतिं व्रजेत्।
एतद्विमृश्य शूद्रोऽसौ परित्यज्य गृहं गतः३७।
स्वस्था देवा मुदा तत्र साधुसाध्विति चाब्रुवन्।
निर्ग्रंथिरूपमादाय तस्यांतिक गृहं तथा३८।
गत्वाहं दैवसंवादमवदं भूतवर्तनम्।
ततोभ्यासप्रसंगाच्च जनानां च परिप्लवात्३९।
तस्य योषा तदागत्य पप्रच्छ दैवकारणम्।
ततोहमवदं तस्य यद्वा चेतोगतं द्रुतम्४०।
निभृतोथ निनादस्य कारणं कथितं मया।
हृद्गतं पतिना तेद्य विधिना दत्तमज्ञवत्४१।
परित्यक्तं महाभागे पुनर्नास्तीह ते वसु।
यावज्जीवति दौर्विध्यं तस्य भोक्ता न संशयः४२।
गच्छ मातर्गृहं शून्यमलब्धं तत्प्रपृच्छतम्।
श्रुत्वा तद्वै शिवं सा च वचनं पत्युरंतिके४३।
गत्वा प्रोवाच दुर्वृत्तं तच्छ्रुत्वा विस्मयं गतः।
स विचिंत्य तया सार्धमागतोसौ ममांतिकम्४४।
निभृतं मामुवाचेदं क्षपणत्वं च कीर्तय।
क्षपणक उवाच-
चाक्षुषं चिरसंशुद्धं हेलया तृणवत्कथम्४५।
त्वया त्यक्तं यतस्तात नास्ति भाग्यमकंटकम्।
ऐश्वर्यमतुलं शौर्यं शीर्यते भावुकं पुनः४६।
स्वबंधूनां महद्दुःखमाजन्ममरणांतिकम्।
द्रक्ष्यसे चात्मना नित्यं मृतानां या गतिर्ध्रुवम्४७।
तस्मात्तद्गृह्यतां तूर्णं भुंक्ष्व भोग्यमकंटकम्।
ऐश्वर्यमतुलं शौर्यं लोकानां विस्मयं वरम्४८।
शूद्र उवाच-
न मे वित्ते स्पृहा चास्ति धनं संसार वागुरा।
तद्विधौ पतितो मर्त्यो न पुनर्मोक्षकं व्रजेत्४९।
शृणु वित्तस्य यद्दोषमिहलोके परत्र च।
भयं चोराच्च ज्ञातिभ्यो राजभ्यस्तत्करादपि५० 1.53.50।
सर्वे जिघांसवो मर्त्याः पशुमत्स्यविविष्किराः।
तथा धनवतां नित्यं कथमर्थास्सुखावहाः५१।
प्राणस्यांतकरो ह्यर्थस्साधको दुरितस्य च।
कालादीनां प्रियं गेहं निदानं दुर्गतेः परम्५२।
क्षपणक उवाच-
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बांधवाः।
कुलं शीलं च पांडित्यं रूपं भोग्यं यशः सुखम्५३।
धनेन तु विहीनस्य पुत्रदारोज्झितस्य च।
कथं मित्रं कथं धर्मं दीनानां जन्मनः कथं५४।
सत्वादिक्रतुकार्यं च पुष्करिण्युपकारकं।
दानं नाकस्य सोपानं निःस्वस्य च न सिद्ध्यति५५।
व्रतकार्यस्य रक्षा च धर्मादिश्रवणं भृशम्।
पितृयज्ञादितीर्थं च निर्वित्तस्य न सिद्ध्यति५६।
तथा रोगप्रतीकारः पथ्यमौषधसंचयं।
रक्षणं विग्रहश्चैव शत्रूणां विजयो ध्रुवम्५७।
स्त्रीणां च जन्मना वार्ता वसुयोगेन लभ्यते।
भूतभव्यप्रवृत्तानां सुकृतं दुष्कृतं च यत्५८।
तस्माद्बहुधनं यस्य तस्य भोग्यं यदृच्छया।
स्वर्गं वितरणादेव लप्स्यसे ह्यचिरादितः५९।
शूद्र उवाच-
अकामाच्च व्रतं सर्वमक्रोधात्तीर्थसेवनम्।
दया जप्यसमा शुद्धं संतोषो धनमेव च६०।
अहिंसा परमा सिद्धिः शिलोंछवृत्तिरुत्तमा।
शाकाहारः सुधातुल्य उपवासः परंतप६१।
संतोषो मे महाभोग्यं महादानं वराटकम्।
मातृवत्परदाराश्च परद्रव्याणि लोष्ठवत्६२।
परदारा भुजंगाभाः सर्वयज्ञ इदं मम।
तस्मादेनं न गृह्णामि सत्यं सत्यं गुणाकर६३।
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरं।
इत्युक्ते तु नरश्रेष्ठ पुष्पवर्षं पपात ह६४।
मूर्ध्रिदेशे तनौ तस्य सर्वदेवेरितं द्विज।
देवदुंदुभयो नेदुर्नृत्यंत्यप्सरसां गणाः६५।
जगुर्गंधर्वपतयो विमानं चापतद्दिवः।
ऊचुर्देवगणास्तत्र विमानमिदमारुह६६।
सत्यलोकं समासाद्य भुंक्ष्व भोग्यं महेंद्रवत्।
संख्या तेनापि वर्तेत भोग्यकालस्य धार्मिक६७।
इत्युक्तेषु च देवेषु शूद्रो वचनमब्रवीत्।
कथं निर्ग्रंथकस्यास्य ज्ञानं चेष्टास्य भाषणम्६८।
किं वा हरिहरौ ब्रह्मा किं वा शक्रो बृहस्पतिः।
किं वा मच्छलनादेव साक्षाद्धर्म इहागतः६९।
इत्युक्ते क्षपणश्चासौ स्मितो वचनमब्रवीत्।
विज्ञातुं चैव वो धर्ममहं विष्णुरिहागतः७०।
विमानेन दिवं गच्छ सकुटुंबो महामुने।
मत्प्रसादाच्च युष्माकं सदैव नवयौवनम्७१।
भविष्यति महाप्राज्ञ भाग्यानंत्यं प्रलप्स्यथ।
दिव्याभरणसंयुक्ता दिव्यवस्त्रोपशोभिताः७२।
गतास्ते सहसा नाकं सर्वैर्बंधुजनैर्वृताः।
एवं द्विजवरश्रेष्ठ लोभत्यागाद्ययुर्दिवम्७३।
तुलाधारस्तथाधीमान्सत्यधर्म प्रतिष्ठितः।
ये न जानाति तद्वृत्तं देशांतरसमुद्भवम्७४।
तुलाधारसमो नास्ति सुरलोके प्रतिष्ठितः।
तस्मात्त्वमपि भूदेव समं गत्वा दिवं व्रज७५।
य इदं शृणुयान्मर्त्यः सर्वधर्मप्रतिष्ठितः।
जन्मजन्मार्जितं पापं तत्क्षणात्तस्य नश्यति७६।
सकृत्पठनमात्रेण सर्वयज्ञफलं लभेत्।
लोकानां पुरतो विप्र देवानामर्च्यतां व्रजेत्७७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे शूद्रस्यालोभाख्यानं नाम त्रिपंचाशत्तमो-ऽध्यायः५३।
।
।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 54
श्रीभगवानुवाच।
अद्रोहकस्य चाख्यातो महिमा लोकदुःसहः।
एकतल्पगतां वामां क्षांत्वा सर्वजितोऽभवत्१।
ज्ञानिनामपिदुःसाध्यं मुनीनां ब्रह्मचारिणां।
सुरासुरमनुष्याणां विषमं तत्समं गतः२।
स्वभावाद्विषमं कामं जेतुं कः पुरुषः क्षमः।
अद्रोहकमृते विप्र स एव भवजित्पुमान्३।
अहल्याहरणादेव सुरेशस्य भगांकता।
पुनर्देव्याः प्रसादाच्च सहस्राक्षेति विश्रुतः४।
विदितं सर्वलोके च त्रैलोक्ये सचराचरे।
द्विज उवाच-
कथं च देवदेवस्य अहल्याहरणं प्रभो५।
भगांकत्वं च संप्राप सहस्राक्षः सुराधिपः।
न गां कोपि भगांकत्वं संप्राप्तस्सुरराट्कथम्६।
दुःश्रुतं सुरवैकल्यं श्रोतुमिच्छामि तत्वतः।
श्रीभगवानुवाच-
पुरा स्वांतोद्भवां कन्यां लोकेशश्च महामनाः७।
गौतमाय ददौ धाता लोकपालाग्रतो मुदा।
ततस्तु लोकपालानां मन्मथाविष्टचेतसाम्८।
शचीपतेस्तु संमोहो हृदि शल्य इव स्थितः।
लोकपालानतिक्रम्य सुवेषा वरवर्णिनी९।
द्विजाय रत्नभूतैषा दत्ता किंवा करोम्यहम्।
इति संचिंत्य तस्यास्तु वर्तमाने च यौवने१०।
पुनश्च मायया दृष्टं रूपं तस्यास्सुशोभनम्।
पुनश्चिन्तयमानोऽसौ गौतमाध्यासनं गतः११।
पश्चात्तु तस्य गमनाद्यद्वृत्तं तच्छृणुष्व मे।
एकदा गौतमः स्नातुं गतोऽसौ पुष्करं प्रति१२।
साध्वी च गृहशौचे च गृहवस्तुनि तत्परा।
प्रवृत्ता देववास्तूनां बलिकर्तुं च तत्परा१३।
इंधनं वह्निकार्यं च नित्यकर्मानुसंचयम्।
एतस्मिन्नंतरे शक्रो मुनेस्तस्य महात्मनः१४।
रूपमास्थाय गात्रेण प्रविवेशोटजं मुदा।
पतिव्रता पतिं दृष्ट्वा श्रद्धया परया सती१५।
देवस्थाने च वस्तूनां संचयं कर्तुमुद्यता।
ततस्तामब्रवीदार्तो मुनिवेषधरो हरिः१६।
प्रद्युम्नवशगो वामे देहि मे चुंबनादिकम्।
एतस्मिन्नंतरे सा च त्रपायुक्ताऽब्रवीद्वचः१७।
देवकार्यादिकं त्यक्त्वा वक्तुं नार्हसि मे प्रभो।
सर्वं जानासि धर्मज्ञ पुण्यानां निश्चयं मुने१८।
अयमर्थो हि वेलायामधुनैव न युज्यते।
ततस्तां चारुसर्वांगीं दृष्ट्वा मन्मथपीडितः१९।
अलं प्रियेन वक्तव्यं हृच्छयो मे प्रजायते।
कर्तव्यं चाप्यकर्तव्यं पत्युर्वचनसंमतम्२०।
करोति सततं या च सा च नारी पतिव्रता।
लंघयेद्या च तस्याज्ञां सुरते च विशेषतः२१।
पुण्यं तस्या भवेन्नष्टं दुर्गतिं चाधिगच्छति।
साब्रवीद्देववस्तूनि संति देवार्थतो मुने२२।
नित्यकर्माणि चान्यानि किं वा तेषु विपर्ययः।
स चोवाच सतीं तत्र देह्यालिगादिकं मम२३।
मनसा भयमुत्सृज्य मया दत्तानि तानि च।
इत्युक्त्वा तां परिष्वज्य कृतस्तेन मनोरथः२४।
एतस्मिन्नंतरे विप्र मुनेर्हृद्या सकल्मषम्।
ततो ध्यानं समारभ्याजानाद्वृत्तं शचीपतेः२५।
तूर्णमेव द्वारदेशे गत्वा च समुपस्थितः।
शक्रो मुनिं तु संलक्ष्य चौतुदेहं विवेश ह२६।
गच्छतः पृषदंशस्य पद्धतौ प्रचचाल ह।
मुनिस्तत्रावदत्तं वै कस्त्वं मार्जाररूपधृत्२७।
भयात्तस्य मुनेरग्रे शक्रः प्रांजलिराश्रितः।
मघवंतं पुरो दृष्ट्वा चुकोप मुनिपुंगवः२८।
यत्त्वया चेदृशं कर्म भगार्थं छलसाहसम्।
कृतं तस्मात्तवांगेषु सहस्रभगमुत्तमम्२९।
भवत्विह तु पापिष्ठ लिंगं ते निपतिष्यति।
गच्छ मे पुरतो मूढ सुरस्थानं दिवौकसः३०।
पश्यंति मुनिशार्दूला नराः सिद्धास्सहोरगाः।
एवमुक्त्वा मुनिश्रेष्ठो रुदंतीं तां पतिव्रताम्३१।
पप्रच्छ किमिदानीं ते कर्म दारुणमागतम्।
इत्युक्ता वेपमाना सा भीता पतिमुवाच ह३२।
अज्ञानाद्यत्कृतं कर्म क्षंतुमर्हसि वै प्रभो।
मुनिरुवाच-
परेणाभिगतासि त्वममेध्या पापचारिणी३३।
अस्थिचर्मसमाविष्टा निर्मांसा नखवर्जिता।
चिरं स्थास्यसि चैकापि त्वां पश्यंतु जनाः स्त्रियः३४।
दुःखिता तमुवाचेदं शापस्यांतो विधीयताम्।
इत्युक्ते करुणाविष्टो मन्युनापि परिप्लुतः३५।
जगाद गौतमो वाक्यं रामो दाशरथिर्यदा।
वनमभ्यागतो विष्णुः सीतालक्ष्मणसंयुतः३६।
दृष्ट्वा त्वां दुःखितां शुष्कां निर्देहां पथिसंस्थितां।
गदिष्यति च वै रामो वसिष्ठस्याग्रतो हसन्३७।
किमियं शुष्करूपा च प्रतिमास्थिमयी शवा।
न दृष्टं मे पुरा ब्रह्मन्रूपं लोकविपर्ययम्३८।
ततो रामं महाभागं विष्णुं मानुषविग्रहम्।
यद्वृत्तमासीत्पूर्वं तद्वसिष्ठः कथयिष्यति३९।
वसिष्ठवचनं श्रुत्वा रामो वक्ष्यति धर्मवित्।
अस्या दोषो न चैवास्ति दोषोयं पाकशासने४०।
एवमुक्ते तु रामेण त्यक्त्वा रूपं जुगुप्सितं।
दिव्यं रूपं समास्थाय मद्गृहं चागमिष्यसि४१।
शप्त्वा तु गौतमस्तां हि तपस्तप्तुं गतो वनम्।
ततोत्यंतं शुष्करूपा तथैव पथि संस्थिता४२।
रामस्य वचनादेव गौतमं पुनरागता।
गौतमोपि तया सार्द्धमद्यैवं दिवि तिष्ठति४३।
इंद्रोपि त्रपयायुक्तः स्थितश्चांतर्जले चिरम्।
स्थित्वा चांतर्जले देवीमस्तौदिंद्राक्षिसंज्ञिताम्४४।
सुप्रसन्ना ततो देवी स्तोत्रेण परितोषिता।
गत्वोवाच ततः सा च वरोस्मत्तो विगृह्यताम्४५।
ततो देवीमुवाचेदं शक्रः परपुरंजयः।
त्वत्प्रसादाच्च मे देवि वैरूप्यं मुनिशापजम्४६।
संत्यज्य देवराज्यं च लब्ध्वाहं तु पुरा यथा।
तमुवाच ततो देवी पापं तं मुनिशापजम्४।
किंतु बुद्धिं सृजाम्यद्य येन लोकैर्न लक्ष्यते४८।
योनिमध्यगतं दृष्टि सहस्रं ते भविष्यति।
सहस्राक्ष इति ख्यातस्सुरराज्यं करिष्यसि४९।
मेषांडं तव शिश्नं च भविष्यति च मद्वरात्।
इत्युक्त्वा सा जगन्माता तत्रैवांतरधीयत५० 1.54.50।
शक्रो देववरैः पूज्यो ह्यद्यापि दिवि वर्तते।
इंद्रस्यैतादृशी कामादवस्था द्विजसत्तम५१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे अहल्याहरणंनाम चतुष्पंचाशत्तमोऽध्यायः५४।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 55
श्रीभगवानुवाच-
अपरं च प्रवक्ष्यामि कामेनाधिष्ठितस्य च।
पुरा भागीरथी तीरे द्विजः परमहंसकः१।
उपदेष्टा सहस्राणां द्विजानां शांतिदः परः।
एकदंडधरः साक्षात्कूर्मवद्धरणी स्थितः२।
एकाकिनः सतस्तस्य देवागारे विनिष्कृते।
पत्युर्गृहात्परं गेहं गंतुं सायं समुद्यता३।
अकस्माद्युवती नारी मिलिता रूपधारिणी।
दृष्ट्वा तां भगवान्विप्रो मन्मथस्य भयार्दितः४।
अगारजठरे कृत्वा स चैनां प्राक्षिपत्क्षपाम्।
अर्गलं सा दृढं कृत्वा देवागारे सुशोभने५।
कदाचिदपि तं द्वारादागंतुं न ददाति ह।
एवंभूतः समाधिस्थः क्षपां क्षिप्त्वा विलप्य सः६।
चिंतयंस्तां वरारोहां द्वारि किं वा कृतं मम।
एवं संचिंत्यतामाह द्वारं देहीह नः प्रिये७।
पतिश्च वशगः कांते दयितस्ते भविष्यति।
ततस्तं प्राह सा विप्रं वृद्धं कामप्रलालसम्८।
अनन्विता गिरःस्तात वक्तुं त्वं नार्हसि प्रभो।
अथासौ भगवान्प्राह प्रचुरं चास्ति मे वसु९।
तव दास्यामि कल्याणि प्रस्फोटय कपाटिकाम्।
विप्रमाह पुनः सा च त्वं वै मे धर्मतः पिता१०।
मा गच्छ पुत्रिकां मां च परयोषां च धार्मिक।
मनसा स समालोच्य सुषिरेण पथा गृहान्११।
बाहुनोद्धाट्यते नैव गंतुं चैव समुद्यतः।
गच्छतश्चार्द्धमरर उत्तमांगं सुसंकटे१२।
प्रविष्टं न पुनश्चैति पंचत्वमगमत्तदा।
उषःकाले समायाता रक्षिणो ये च किंकराः१३।
अद्भुतं तं शवं दृष्ट्वा तामुचुस्ते च विस्मिताः।
कथं च निधनं त्वस्य संभूतं ब्रूहि सुंदरि१४।
कथयित्वा तु तद्वृत्तमभीष्टं देशमागता।
एवं कामस्य महिमा दुर्निवारो जनेषु च१५।
सर्वेषामपि जंतूनां सुरासुरनृणां भवेत्।
दृष्ट्वाऽमोघां वरारोहां सर्वलोकपितामहः१६।
च्युतबीजोभवत्तत्र लौहित्यसंभवस्मृतः।
पुनाति सकलान्लोकान्सर्वतीर्थमयो हि सः१७।
यमाश्रित्य नरो याति ब्रह्मलोकमनामयम्।
द्विज उवाच-
कथं च ब्रह्मणो मोहो ह्यमोघा का वरांगना१८।
उद्भवं तीर्थराजस्य श्रोतुमिच्छामि तत्त्वतः।
श्रीभगवानुवाच-
मुनिर्देवैः समाराध्यः पद्मयोनिसमप्रभः१९।
शंतनुश्चेति विख्यातः पत्नी तस्य पतिव्रता।
अमोघेति समाख्याता रूपयौवनशालिनी२०।
अस्याश्च पतिमन्वेष्टुं यातो ब्रह्मा च तद्गृहम्।
तस्मिन्काले मुनिश्रेष्ठः पुष्पाद्यर्थं वनं गतः२१।
सा तं दृष्ट्वा सुरश्रेष्ठमर्घ्यपाद्यादिकं ददौ।
दूरेभिवादनं कृत्वा सा गृहं प्रविवेश ह२२।
तां च दृष्ट्वा नवद्यांगीं धाता कामवशं गतः।
स्रष्टात्मानं समाधायाचिंतयत्तां पुरोगताम्२३।
बीजं पपात खट्वायां ब्रह्मणः परमात्मनः।
ततो ब्रह्मा गतस्त्रस्तस्त्वरया परिपीडितः२४।
अथायातो मुनिर्गेहं शुक्रं पीठे ददर्श ह।
तमपृच्छद्वरारोहां कश्चाप्यत्रागतः पुमान्२५।
तमुवाच ततोऽमोघा ब्रह्मा ह्यत्रागतः पते।
त्वामेवान्वेषितुं नाथ मया दत्तोत्र पीठकः२६।
शुक्रस्य कारणं चात्र तपसा ज्ञातुमर्हसि।
ततो ध्यानात्परिज्ञातं तेनैव च द्विजन्मना२७।
ब्रह्मरेतः परं साध्वी पालयस्व ममाज्ञया।
उत्पद्यते सुतस्ते तु सर्वलोकैकपावनः२८।
आवयोः सर्वकल्याणं फलिष्यति मनोगतम्।
ततः पतिव्रता तस्य आज्ञामागृह्य संभवात्२९।
पपौ रेतो महाभागा ब्रह्मणः परमात्मनः।
आवर्त इव संजज्ञे रौद्रगर्भ इति स्फुरन्३०।
प्रसोढुं नैव शक्ता सा शंतनुं चाब्रवीत्ततः।
गर्भं धारयितुं नाथ न शक्नोम्यधुना प्रभो३१।
किं करिष्यामि धर्मज्ञ प्राणो मे संचलत्यपि।
आज्ञापय महाभाग गर्भं त्यक्ष्यामि यत्र च३२।
पत्युराज्ञां समादाय मुक्तो गर्भो युगंधरे।
पयस्तेजोमयं शुद्धं सर्वधर्मप्रतिष्ठितम्३३।
तन्मध्ये पुरुषः शुद्धः किरीटी नीलवाससा।
रत्नदाम्ना च विद्धांगो दुःप्रेक्ष्यो ज्योतिषां गणः३४।
ततो देवगणाः स्वर्गात्पुष्पवर्षमवाकिरन्।
प्रसूतः सर्वतीर्थेषु तीर्थराज इति स्मृतः३५।
ततो राम इति ख्यातः प्रजातोहं भृगोः कुले।
क्षत्रियान्पितृहंतॄंस्तु ससैन्यबलवाहनान्३६।
हत्वा युद्धगतान्भीतान्पंकैः सर्वैर्युतो ह्यहम्।
ब्रह्महत्यासमं घोरं मद्गेहे समुपस्थितम्३७।
पंकयुक्तं कुठारं मे क्षालितं नैव शुद्ध्यति।
ततः खे चाभवद्वाणी राम मद्वचनं कुरु३८।
यत्र तीर्थे कुठारं ते निर्मलं च भवेदिह।
तत्र ते सर्वपापानां जातानां च क्षयो भवेत्३९।
जनानां तत्र सर्वेषां हितार्थं तिष्ठ मानद।
चपलं गच्छ तीर्थानि सर्वाणि सुमहांति च४०।
तेषां मध्ये महातीर्थे पर्शुः शुद्धो भवेद्यदि।
तं च जानीहि तीर्थेषु मुक्तिदं परिकीर्तितम्४१।
तच्छ्रुत्वा जामदग्न्यस्तु तीर्थानि प्रययौ तदा।
गंगां सरस्वतीं शुभ्रां कावेरीं सरयूं तथा४२।
गोदावरीं च यमुनां कद्रूं च वसुदां तथा।
अन्यां च पुण्यदां रम्यां गौरीं पूर्वां स्थितां शुभाम्४३।
गच्छतस्तस्य धीरस्य सदागतिसमस्य च।
क्षालितः सर्वतीर्थेषु न पुनर्निर्मलोऽभवत्४४।
ततो गिरिगुहां दुर्गां महारण्यं च पर्वतम्।
गिरिकूटं च दुर्लभ्यं ययौ तीर्थमसौ हरिः४५।
न च निर्मलतामेति कुठारस्तस्य तेन च।
विषादमगमत्तत्र रामः परपुरंजयः४६।
हाहेति विविधं कृत्वा चोपविश्य धरातले।
प्रचिंतामगमद्वीरस्तमुवाच पुनस्तथा४७।
पूर्वस्यां दिशि देवेश तीर्थं चास्ति गुहोदरे।
तच्छ्रुत्वा नरशार्दूलो गत्वा कुंडं ददर्श सः४८।
प्रदक्षिणं जलावर्तं शुभ्रं पापहरं शुभम्।
तज्जलस्पर्शमात्रेण कुठारः शुद्धतां गतः४९।
ततो रामोभिषेकं तु कृतवान्प्रमुदान्वितः।
शुद्धात्मनस्त्वपापस्य बुद्धिर्जाता प्रपाविनी५० 1.55.50।
स रामः सुचिरं स्थित्वा तीर्थराजं प्रसाद्य तम्।
ततस्ततोऽचलात्प्राप्य पुरं वेगसमन्वितः५१।
ख्यातं कृत्वा ततश्चोर्व्यां गतोसौ लवणार्णवम्।
अयं तीर्थवरः साक्षात्पितामहकृतो भुवि५२।
सुखदः सर्वतः शुद्धो मुक्तिमार्गप्रदः किल।
एवं कामप्रभावं च विद्धि दुर्वारदुःसहम्५३।
कामाज्जातं वृषं पापं पुण्यं पुण्यप्रयोगतः।
स जातश्चैव लौहित्यो विरंचेश्चैव चौरसः५४।
शंतनो क्षेत्र संजातस्त्वमोघागर्भसंभवः।
विरिञ्चिना जितः कामः शांतनोरप्यमत्सरात्५५।
तस्याः पतिव्रतात्वाच्च तीर्थात्तीर्थवरो हि सः।
एवं यस्तु पठेन्नित्यं पुण्याख्यानमिदं शिवम्५६।
शृणुयाद्वा मुदा पृथ्व्यां मुक्तिमार्गं स गच्छति५७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्याने लौहित्योत्पत्तिर्नाम पंचपंचाशत्तमोऽध्यायः५५।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 56
सप्तपञ्चाशत्तमोऽध्यायः।
।
श्रीभगवानुवाच-
पुरा शर्वः स्त्रियो दृष्ट्वा युवती रूपशालिनीः।
गंधर्वकिन्नराणां च मनुष्याणां च सर्वतः१।
मंत्रेण ताः समाकृष्य त्वतिदूरे विहायसि।
तपोव्याजपरो देवस्तासु संगतमानसः२।
अतिरम्यां कुटीं कृत्वा ताभिः सह महेश्वरः।
क्रीडां चकार सहसा मनोभव पराभवः३।
एतस्मिन्नंतरे गौर्याश्चित्तमुद्भ्रांततां गतम्।
अपश्यद्ध्यानयोगेन क्रीडंतं जगदीश्वरम्४।
स्त्रीभिरंतर्गतं ज्ञात्वा रोषस्य वशगाभवत्।
ततः क्षेमंकरी रूपा भूत्वा च प्रविवेश सा५।
व्योमैकांतेतिदूरे च कामदेव समप्रभम्।
वामातिमध्यगं शुभ्रं पुरुषं पुरुषोत्तमम्६।
स्त्रीभिः सह समालिग्य प्रक्रीडंतं मुहुर्मुहुः।
चुंबंतं निर्भरं देवं हरं रागप्रपीडितम्७।
वृत्तं क्षेमंकरी दृष्ट्वा निपपाताग्रतस्तदा।
तासां केशेषु चाकृष्य चकार चरणाहतिम्८।
त्रपया पीडितश्शर्वः पराङ्मुखमवस्थितः।
केशेष्वाकृष्य रोषात्ताः पातयामास भूतले९।
स्त्रियः सर्वाधरां प्राप्य सहसा विकृताननाः।
उमाशापप्रदग्धांगा म्लेच्छानां वशमागताः१०।
ताश्चांडालस्त्रियः ख्याता अधवा धवसंयुताः।
अद्याप्युमाकृतं शापं सर्वास्ताश्च समश्नुयुः११।
अथोमा शतधा रूपं कृत्वेशं संगता तदा।
एवं प्रभावं जानीहि कामस्य सततं द्विज१२।
ततश्चिरात्तया सार्द्धं गतः कैलासमंदिरं।
अतः क्षेमंकरीं दृष्ट्वा येभिनंदंति मानवाः१३।
तेषां वित्तर्द्धि विभवा भवंतीह परत्र च।
कुंकुमारक्तसर्वांगि कुंदेन्दुधवलानने१४।
सर्वमंगलदे देवि क्षेमंकरि नमोस्तु ते।
योगिनीसाम्यं तेनैव संमुखा विमुखापि वा१५।
दृष्ट्वा तां नाभिवंदेद्यस्तस्य युद्धे पराजयः।
राजगृहेषु विद्यायां नमस्काराज्जयो भवेत्१६।
एवं कामस्य माहात्म्यं भवो मोहवशं गतः।
अयं देवासुराणां च क्षमया प्रभुतां गतः१७।
अस्यैव सदृशो लोके न भूतो न भविष्यति।
रामामङ्कस्थितां रम्यां क्षमातल्पगतेन च१८।
त्यक्त्वैव साधिता लोकास्सुरासुरसुदुर्लभाः।
एवं वैष्णवमुख्यश्च सुरासुरगणार्चितः१९।
यो नो ददाति भुक्त्यग्र्यं शेषं च स्वयमश्नुते।
एवमभ्यासधैर्येण दीर्घकाले सुखंगते२०।
प्राक्संगमात्स्वभार्यां च दृष्ट्वा मां प्रददौ मुदा।
द्वादशाब्दं प्रसंकल्प्य प्राग्भोगो मयि वेशितः२१।
तेन तस्य गृहे नित्यं तिष्ठामि गृहरक्षणात्।
तथा धात्रीफलस्यापि सदा स्वर समीहते२२।
तस्मादुक्तो मयान्येषां वैष्णवानां च वैष्णवः।
पुरा ये विप्र मे भक्तास्सुरा मत्पथगामिनः२३।
तैरेव न कृतं यच्च तदनेन कृतं परम्।
तस्माद्वैष्णवसर्वस्वं नाम रम्यं मया कृतम्२४।
अस्य वेश्मनि तिष्ठामि मुहूर्तं न चलाम्यहम्।
अतो ये चैवमद्भक्तास्तेष्वहं सुलभो द्विज२५।
अस्माकं पदवीं तेभ्यो ह्यद्य दद्मि स्वकारणम्।
आवयोर्विप्रसौजन्यं स्वप्नभोज्यादिकं समम्२६।
सायुज्यं च सखित्वं च पश्य भूदेवनांतरम्।
ततो मूकादयः सर्वे स्वागता हरिमीश्वरम्२७।
गंतुकामा दिवं पुण्यास्सदाराः सपरिच्छदाः।
ये च तेषां गृहाभ्याशेप्यात्मनो गृहगोधिकाः२८।
नाना कीटादयो ये च तेषामनुययुः सुराः।
व्यास उवाच-
एतस्मिन्नंतरे देवाः सिद्धाश्च परमर्षयः२९।
प्रचक्रुः पुष्पवर्षाणि साधुसाध्वित्यनादयन्।
देवदुंदुभयो नेदुर्विमानेषु वनेषु च३०।
समारुह्य रथं स्वं स्वं हरिवीथीपुरं ययुः।
तदद्भुतं समालोक्य विप्रोऽवोचज्जनार्दनम्३१।
उपदेशं च देवेश ब्रूहि मे मधुसूदन।
श्रीभगवानुवाच-
गच्छ स्वपितरौ तात शोकविक्लवमानसौ३२।
समाराध्य प्रयत्नेन मद्गृहं प्राप्स्यसेऽचिरात्।
पितृमातृसमा देवा न तिष्ठंति सुरालये३३।
याभ्यां सुगर्हितं देहं शिशुत्वे पालितं सदा।
अज्ञानदोषसहितं प्रपुष्टं चापि वर्धितम्३४।
याभ्यां तयोस्समं नास्ति त्रैलोक्ये सचराचरे।
ततो देवगणास्सर्वे पंचभिस्तैर्मुदान्विताः३५।
माधवं संस्तुवंतश्च गतास्ते हरिमंदिरम्।
खचितां च पुरीं रम्यां विश्वकर्मविनिर्मिताम्३६।
रत्नाढ्यामिष्टसंपूर्णां कल्पवृक्षादिभिर्युताम्।
शातकुम्भमयैर्गेहैस्सर्वरत्नैस्सकर्बुराम्३७।
वज्रवैडूर्यसोपानां स्वर्णदीतोयसंयुताम्।
गीतवाद्यादिसंपूर्णां सर्वदुर्गसमाकुलाम्३८।
कोकिलालापबहुलां सिद्धगंधर्वसेविताम्।
रूपाढ्यैः सुजनैः पूर्णां प्रयांतीमिव खे पुरीम्३९।
ततः स्थित्वाऽच्युताः सर्वे सर्वलोकोर्ध्वतो भृशम्।
द्विजोपि पितरौ गत्वा समाराध्य प्रयत्नतः४०।
अचिरेणैव कालेन सकुटुंबो हरिं ययौ।
पंचाख्यानमिदं पुण्यं मया ते समुदाहृतम्४१।
यः पठेच्छृणुयाद्वापि तस्य नास्तीह दुर्गतिः।
ब्रह्महत्यादिभिः पापैर्न लिप्येत कदाचन४२।
गवां कोटिप्रदानेन यत्फलं लभते नरः।
तत्फलं समवाप्नोति पंचाख्यानावगाहनात्४३।
स्नानेन पुष्करे नित्यं भागीरथ्यां च सर्वदा।
यत्फलं तदवाप्नोति सकृच्छ्रवणगोचरात्४४।
दुःस्वप्नं नाशयेत्क्षिप्रं तथारोग्यं प्रयच्छति।
लक्ष्म्यारोग्यकरं चैव तस्माच्छ्रोतव्यमेव हि४५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्यानंनाम षट्पंचाशत्तमोऽध्यायः५६।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 57
सप्तपञ्चाशत्तमोऽध्यायः।
द्विजा ऊचुः-
कीर्तिर्धर्मोथ लोकेषु सर्वाणि प्रवराणि च।
वद नो मुनिशार्दूल यदि नोऽस्ति त्वनुग्रहः१।
व्यास उवाच-
यस्य खाते वने गावस्तृप्यंति मासमेव च।
यद्वा सप्तदिनात्पूतः सर्वदेवैः स पूजितः२।
पुष्करिण्या विशेषेण पूता या यज्ञकर्मणा।
यत्फलं जलदानेन सर्वमत्रास्यि(?) तच्छृणु३।
हायने हायने चैव कल्पं कल्पं विधीयते।
दानात्स्वर्गमवाप्नोति तोयदः सर्वदो भुवि४।
मेघे वर्षति खाते च जायंते ये तु शीकराः।
तावद्वर्षसहस्राणि दिवमश्नाति मानवः५।
तोयैरन्नादिपाकैश्च प्रसन्नो मानवो भवेत्।
प्राणानां च विनान्नैश्च धारणन्नैव जायते६।
पितॄणां तर्पणं शौचं रूपं वै गंध्यनाशनम्।
बीजं त्विहार्जितं सर्वं सर्वं तोये प्रतिष्ठितम्७।
वस्त्रस्य धावनं रुच्यं भाजनानां तथैव च।
तेनैव सर्वकार्यं च पानीयं मेध्यमेव च८।
तस्मात्सर्वप्रयत्नेन वापीकूपतटाककम्।
कारयेच्च बलैः सर्वैस्तथा सर्वधनेन च९।
ततो विनिर्जले देशो(देशे?) यो ददाति जलाशयम्।
वासरे वासरे तस्य कल्पं स्वर्गं विनिर्दिशेत्१०।
त्रिविष्टपाच्च्युतो विप्रो वेदशास्त्रार्थपारगः।
लोकबंधुः स धर्मात्मा तपस्तप्त्वा दिवं व्रजेत्११।
एवं जन्माष्टकं प्राप्य एकस्याक्षयमिष्यते।
क्षत्त्रियाणां कुले जातः सार्वभौमो भवेन्नृपः१२।
विशोऽक्षयं धनं विद्याज्जन्मजन्मसु यत्प्रियम्।
शूद्रादयोन्त्यजाश्चान्ये लभंते स्वर्गतिं मुहुः१३।
चतुर्हस्तप्रमाणं तु कूपं खनति यः पुमान्।
परोपकारकं नित्यं कल्पं स्वर्गं तु हायने१४।
द्विगुणे द्विगुणं विद्याच्छतं चैव चतुर्गुणे।
विंशत्किष्कुप्रमाणां तु दद्यात्पुष्करिणीं तु यः१५।
विष्णोर्धाम लभेत्सोपि दिव्यभोगं तथैव च।
अनंतरं नृपो जातो धनी वागीश्वरो भवेत्१६।
एवं द्विस्त्रिश्चतुर्वापि गुणतो भोग्यमिष्यते।
विस्तीर्णे प्रचुरं विद्धि सहस्रेणाच्युतो दिवः१७।
सहस्राद्द्विगुणेनैव सुरपूज्यो भवेन्नरः।
जंतवस्तत्र ये संति यावंतो जीवनं ययुः१८।
तत्संख्याका जनास्तस्य किंकराः पृष्टलग्नकाः।
भवंति सततं गेहे पुरे जनपदेषु च१९।
विहाय पितरं भोग्या धने क्षीणे यथा वनम्।
पक्षिणस्सूकरश्चैव महिषी करिणी तथा२०।
उपदेष्टा च कर्त्ता च षडेते स्वर्गगामिनः।
दिव्यं च पक्षिणां चैव शतं स्वर्गं विनिर्दिशेत्२१।
क्रोडो वर्षसहस्रं तु महिष्ययुतहायनम्।
देवरूपं समास्थाय करिण्या लक्षमुच्यते२२।
कोट्येकमुपदेष्टुश्च कर्तुरक्षयमेव च।
पुरा धनिसुतेनैव कृतः ख्यातो जलाशयः२३।
अयुतधनव्ययेनैव प्राणेनैव बलेन च।
सर्वसत्वोपकाराय शिवश्रद्धायुतेन च२४।
कालेन कियता चापि क्षीणवित्तोऽभवत्किल।
कश्चिदर्थी धनी तस्य मूल्यदानाय चोद्यतः२५।
विमृश्य धनिना चोक्तं व्याहारं शृणुताधुना।
दीनारस्यायुतं वा ते दास्याम्यस्याश्च कारणात्२६।
लब्धं ते पुष्करिण्याश्च पुण्यं लाभात्प्रमन्यसे।
शक्त्या दत्वाथ मूल्यं तां स्वीयां कर्तुं व्यवस्थितः२७।
एवमुक्ते स तं प्राह वासरेप्ययुतं पुनः।
फलं भवति वै नित्यं पुण्यं पुण्यविदो विदुः२८।
एतस्मिन्निर्जले देशे शिवं खातं कृतं च मे।
स्नानपानादिकं कर्म सर्वे कुर्वंत्यभीष्टतः२९।
तस्मान्मेप्ययुतार्थस्य नैत्यकं फलमिष्यते।
ततस्तस्याभवद्धास्यं तथैव च सभासदाम्३०।
ह्रिया च पीडितः सोपि वाक्यमेतदुवाच ह।
सत्यमेतद्वचोस्माकं परीक्षां कुरु धर्मतः३१।
मत्सरात्स तु तं प्राह शृणु मे वचनं पितः।
दीनारायुत मे तत्ते दत्वा चानीय प्रस्तरम्३२।
पातयिष्यामि ते खाते यथायोगं प्रमज्जतु।
उन्मज्जति च यत्काले प्रस्तरः संतरत्यपि३३।
क्षयं यास्यति नो वित्तं नोचेन्मे धर्मतो हि सा।
बाढमुक्त्वायुतं तस्य गृहीत्वा स्वगृहं गतः३४।
साक्षिणामग्रतस्तेन प्रस्तरः पातितस्तथा।
पुष्करिण्यां महत्यां च दृष्टं नरसुरासुरैः३५।
ततो धर्मतुलायां तु तुलितं धर्मसाक्षिणा।
दीनारायुतदानस्य पुष्करिण्या जलस्य तु३६।
न समं तु दिनैकं तु जलस्य धर्मतो भृशम्।
धनिनो मानसं दुःखं मोघार्थं च परेऽहनि३७।
शिलोच्चयोऽभवत्तीर्णो द्वीपवच्च जलोपरि।
ततः कोलाहलः शब्दो जनानां समुपस्थितः३८।
तच्छ्रुत्वाद्भुतवाक्यं च मुदा तौ चागतौ ततः।
दृष्ट्वा शैलं तथाभूतं कृतं तेनायुतं तथा३९।
ततः खाताधिपेनैव शैलं दूरे निपातितम्।
पुण्यं खातस्य चोत्खाते प्रलुप्तस्य सुतेन हि४०।
सोपि नाकं समारुह्य जन्मजन्मसु निर्वृतः।
गोत्रमातृगणानां च नृपाणां सुहृदां तथा४१।
सखीनां चोपकर्तॄणां खातं खात्वाऽक्षयं फलम्।
तपस्विनामनाथानां ब्राह्मणानां विशेषतः४२।
खातं तु जनयित्वा तु स्वर्गं चाक्षयमश्नुते।
तस्मात्खातादिकं विप्राः शक्तितो यः करिष्यति४३।
सर्वपापक्षयात्पुण्यं मोक्षं यायान्न संशयः।
य इदं श्रावयेल्लोके धर्माख्यानं महोत्कटम्४४।
सर्वखातप्रदानस्य फलमश्नाति धार्मिकः।
ग्रहणे भास्करस्यैव भागीरथ्यां तटे वरे४५।
गवां कोटिप्रदानस्य फलं श्रुत्वा लभेन्नरः।
न च दारिद्रतामेति न शोकं व्याधिसंचयम्४६।
असंमानं महद्दुःखमुभयोर्नाधिगच्छति।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे खातादिकीर्तनंनाम सप्तपंचाशत्तमोऽध्यायः ५७।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 58
अष्टपञ्चाशत्तमोऽध्यायः।
व्यास उवाच-
शाखिनामेव सर्वेषां फलं वक्ष्यामि यादृशम्।
तच्छृणुध्वं महाभागा रोपणे च पृथक्पृथक्१।
यस्तु रोपयते तीरे पुण्यवृक्षान्समंततः।
तस्य पुण्यफलं ज्ञातुं कथितुं नैव शक्यते२।
अन्यत्र रोपणं कृत्वा शाखिनां यत्फलं लभेत्।
ततो जलसमीपे तु लक्षकोटिगुणं भवेत्३।
स्वयं पुष्करिणी तीरे त्वनंतं फलमश्नुते।
तस्माच्छतगुणं ब्रूमः शाखिनां पुण्यकारिणाम्४।
अश्वत्थरोपणं कृत्वा जलाशयसमीपतः।
यत्फलं लभते मर्त्यो न तत्क्रतुशतैरपि५।
पतंति यानि पत्राणि जले पर्वणि पर्वणि।
तानि पिंडसमानीह पितॄणामक्षयं ययुः६।
खादंति पतगास्तत्र फलानि कामतो ध्रुवम्।
ब्रह्मभक्ष्यसमं तस्य पुण्यं भवति चाक्षयम्७।
अश्वत्थेनैव भक्ष्येण रोपणेनैव यत्फलम्।
तद्वै क्रतुशतैर्नैव पुत्रैरेव शतैरपि८।
उष्णेच्छायां प्रगृह्णंति गावो देवद्विजातयः।
कर्तुः पितृगणानां च स्वर्गो भवति चाक्षयः९।
कर्तुं स्वस्थस्य वै विघ्नमक्षयत्वान्न शक्यते।
तस्मात्सर्वप्रयत्नेन रोपयेद्वृक्षमाधवम्१०।
एकं वृक्षं समारोप्य नरः स्वर्गान्न हीयते।
तस्मादेव महावृक्षं रोपयध्वं द्विजोत्तमाः११।
जलानां निकटे रम्ये रसानां क्रयविक्रये।
मार्गे जलाशये वृक्षान्रोपयेद्यो महाशयः१२।
अश्वत्थादीन्समारोप्य स्वर्गं याति मनोरमम्।
अर्चयित्वा तु यत्पुण्यं प्रवक्ष्यामि द्विजातयः१३।
स्नात्वाश्वत्थं स्पृशेद्यस्तु सर्वपापैः प्रमुच्यते।
अस्नातो यः स्पृशेन्मर्त्यो लभते स्नानजं फलम्१४।
दृष्ट्वा च नाशयेत्पापं स्पृष्ट्वा लक्ष्मीं प्रपद्यते।
प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोस्तु ते१५।
चलद्दलाय वृक्षाय सदा विष्णुस्थिताय च।
बोधिसत्वाय योग्याय सदाश्वत्थ नमोस्तु ते१६।
अश्वत्थाय तु हव्यं तु पयो नैवेद्यमेव च।
पुष्पं धूपं दीपकं च दत्वा स्वर्गान्न हीयते१७।
सपुत्रं चाक्षयं विद्धि धनवृद्धियशस्करम्।
विजयं मानदं भद्रमश्वत्थस्य प्रपूजनम्१८।
यज्जप्तं च हुतं स्तोत्रं यन्त्रमंत्रादिकं च यत्।
सर्वं कोटिगुणं प्रोक्तं मूले चलदलस्य च१९।
यस्य मूले स्थितो विष्णुर्मध्ये तिष्ठति शंकरः।
अग्रभागे स्थितो ब्रह्मा कस्तं जगति नार्चयेत्२०।
सोमवारे त्वमायां च स्नानं यन्मौनिना कृतम्।
दानस्य गोसहस्रस्य फलं चाश्वत्थवंदने२१।
सप्तप्रदक्षिणेनैव गवामयुतजं फलम्।
प्रचुराल्लक्षकोटिश्च तस्मात्कार्या हि सा सदा२२।
यत्किंचिद्दीयते तत्र फलमूलजलादिकम्।
सर्वं तच्चाक्षयफलं जन्मजन्मसु जायते२३।
अहोश्वत्थसमो नास्ति वृक्षरूपी हरिर्भुवि।
यथा पूज्यो द्विजो लोके यथा गावो यथामराः२४।
तथाश्वत्थवृक्षरूपी देवः पूज्यतमः स्मृतः।
रोपणे रक्षणे स्पर्शे पूजाकर्मणि वै सदा२५।
ददाति वित्तं पुत्रांश्च स्वर्गं मोक्षं पुनः क्रमात्।
किंचिच्छेदं तु यः कुर्यादश्वत्थस्य तनौ नरः२६।
कल्पैकं निरयं भुक्त्वा चांडालादौ प्रजायते।
मूलच्छेदेन तस्यैव स च यात्यपुनर्भवम्२७।
पुरुषास्तस्य तिष्ठंति रौरवे घोरदर्शने।
अश्वत्थस्यैकवृक्षस्य रोपणे यत्फलं भवेत्२८।
तथैव चंपकेर्के च त्रयाणां रोपणेपि च।
अष्टौ बिल्वस्य वृक्षाश्च न्यग्रोधाश्चैव सप्त च२९।
निंबस्य दशवृक्षाश्च फलं चैषां समं भवेत्।
एकैकस्य फलं चोक्तं वृक्षाणां रोपणे द्विजाः३०।
एवं बुध्वा तु धर्मात्मा यः कुर्यात्कृत्रिमं वनम्।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च३१।
नाकमेति स चूतस्य समारोप्य सहस्रकम्।
ततो द्वित्रिगुणेनैव न्यूने वा प्रचुरेपि वा३२।
भुंक्ते भुक्त्वा पुनः कुर्यान्नृपो वाथ सदीश्वरः।
स्वर्गं भोग्यं ततो राज्यं कल्याणं मंगलं शुभम्३३।
आरोग्यं शौर्यसंपन्नमारामादेव जायते।
फलानि यस्य खादंति जंतवोथ सहस्रशः३४।
आश्रिता विहगाः कीटाः पतगाः शलभादयः।
छायाश्रिताश्च ये सत्वास्तत्संख्याताः पृथग्जनाः३५।
तस्य किंकरतां यांति शतशो देवतार्चिताः।
ये च वृक्षा महासत्वास्सर्वे ते देवरूपिणः३६।
तदर्चा पितृवत्कार्या शुश्रूषां जलपिंडकम्।
मर्त्यलोके च ते पुत्रास्तस्य जन्मनि जन्मनि३७।
सुरूपाः सुविनीताश्च सदापुण्यक्रिया शुभाः।
एवं गणेशतां यांति जंतवश्चूतलग्नकाः३८।
धात्री हरीतकी चान्ये कटुतिक्ताम्लसंभवाः।
सर्वे चारामतः शुद्धाः फलदाः शिवदाः सदा३९।
प्रासादा यत्र सौवर्णाः सर्वरत्नविभूषिताः।
सर्वाभरणसंयुक्ता विमानाश्चानिलोपमाः४०।
शातकुंभमया वृक्षाः सदैव सर्वदायिनः।
सर्वर्तुसुखदाः सौम्यकन्यका अप्सरस्समाः४१।
गीतनृत्यपराधीरास्तत्र तिष्ठंति वृक्षदाः।
पुष्करिण्यो विशेषेण खातान्यन्यानि यानि च४२।
शुद्धोपलांतरचिता नद्यः पायसकर्द्दमाः।
पुनर्दुग्धसफेनाश्च अन्नादिषड्रसान्विताः४३।
मर्त्यलोके यथा भोग्यं पुनः स्वर्गे पुनर्भुवि।
पुनरेव तदभ्यासात्खातमारामकं पुनः४४।
यथा पुण्यादिकं कृत्वा स्वर्गमर्त्याधिपः पुमान्।
अशक्तस्तु प्रपां कृत्वा पुष्करिण्याः फलं लभेत्४५।
प्रपाया लक्षणं चात्र सर्वपापहरं परं।
सर्वभोगप्रदं शुद्धं स्वर्गापवर्गदं स्थिरं४६।
लक्षणं च प्रवक्ष्यामि प्रपायाः कीर्तिवर्धनम्।
निर्जलेऽध्वनि पृक्ते च स्थाने कृत्वा च मंडपम्४७।
बहुपान्थे समायाते ग्रीष्मवर्षाशरत्स्वपि।
अगरुकादि सौगंध्यं जलं पूगं सचंद्रकम्४८।
आसनं चैव तांबूलं दत्वा स्वर्गान्न हीयते।
एवं वर्षत्रयेणैव पुष्करिण्याः फलं लभेत्४९।
स्वर्गाच्चैवाच्युतो मर्त्यो देवैरपि प्रपूज्यते।
मासमेकं तु यो दद्यात्प्रपां ग्रीष्मेथ निर्जले५० 1.58.50।
कल्पैकं तु वसेत्स्वर्गे स्वर्गाद्भ्रष्टो महीयते।
प्रपादास्तत्र तिष्ठंति यत्र पुष्करिणीप्रदाः५१।
नोचेद्धर्मघटो देयः पुण्यः पापक्षयाय च।
एष धर्मघटो ज्ञेयो ब्रह्मविष्णुशिवात्मकः५२।
तवप्रसादात्सफलाः मम संतु मनोरथाः।
स्वर्णमाषं चतुर्भागं दक्षिणार्थं घटस्य च५३।
एवं वर्षत्रयेणैव प्रपादानफलं लभेत्।
यः पठेच्छ्रावयेद्वापि पुष्करिण्यादिजं फलम्५४।
साक्षात्पापाद्भवेन्मुक्तस्तत्प्रसादात्तु सद्गतिः।
जनेषु श्रावयेद्यस्तु पुण्याख्यानमिदं शुभम्५५।
कल्पकोटिसहस्राणि सुरलोके स तिष्ठति५६।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पुष्करिण्यादिधर्मकीर्तनंनामाष्टपंचाशत्तमो।
ऽध्यायः५८।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 59
एकोनषष्ठित्तमोऽध्यायः।
।
व्यास उवाच-
अतः परं प्रवक्ष्यामि कीर्त्तिधर्मं परं शुभम्।
सेतुबंधफलं पुण्यं ब्रह्मणा भाषितं यथा१।
कांतारे दुस्तरे पंके पुरुशंकुसमाकुलं।
आलिं कृत्वा भवेत्पूतो देवत्वं याति मानवः२।
वितस्तौ तु लभेत्स्वर्गं दिव्यं वर्षशतं समम्।
एवं संख्याविधानेन नरः स्वर्गान्न हीयते३।
कदाचित्पंकयोगाच्च स्वर्गाद्भुवि विजायते।
तदा भट्टारकः श्रीमान्रोगशोकविवर्जितः४।
पंकादौ संक्रमांश्चैव कृत्वा स्वर्गान्न हीयते।
सर्वपापं क्षयं तस्य संप्रयाति दिनेदिने५।
तथालिसंक्रमाणां च फलं तुल्यं प्रकीर्तितम्।
धनप्राणाव्ययेनैव धीमता क्रियते सदा६।
श्रूयतां यत्पुरावृत्तमाख्यानं वृद्धसंमतं।
कश्चिच्चोरो महाभीष्मे स्तेयकर्मणि चोद्यतः७।
कांतारे गोशिरः स्थाप्य क्रांत्वा स्तेयं गतो ह्यसौ।
धनापहरणं कृत्वा गृहस्थस्य च तेन हि८।
गतः स्वमंदिरं तत्र जना गच्छंति वर्त्मनि।
सर्वेषामेकपादस्य सुखं भवति निश्चितं९।
एकपादे ह्रदे दुर्गे तारकं गोशिरः परम्।
चांद्रायणं च तत्तस्य कांतारे संस्थितं शिरः१०।
ततश्चोरस्य निधने चित्रगुप्तप्रणीतके।
धर्मस्य फलमात्रं तु एतस्य च न विद्यते११।
न दैवं पैतृकं कार्यं तीर्थं स्नानं द्विजार्चनं।
दानं गुरुजने मानं ज्ञानं परहितं शुभम्१२।
मनसा न कृतं तेन क्रियया च कथं पुनः।
कृतं साहसिकं स्तेयं परदाराभिमर्शनम्१३।
भूतमिथ्यापवादं च साधुनिंदा परं तथा।
एवं शतसहस्रं तु तथा गोहरणं कृतम्१४।
तत्राह धर्मराजस्तु कालानलसमप्रभः।
नयतैनं फलं शूरा दुर्गतिं चापुनर्भवम्१५।
एतस्मिन्नंतरेऽवोचच्चित्रगुप्तोनुकंपकः।
अस्त्यस्य गोशिरः पुण्यं किचिन्नाथ क्षमाधुना१६।
नृपो द्वादशवार्षिक्यं लभेत्पुण्योदयं क्षितौ।
तथाह धर्मराजस्तं गच्छ मर्त्यं दुरात्मक१७।
अकंटकं च राज्यं च भुंक्ष्व द्वादशवत्सरम्।
यद्धृतं गोशिरो मार्गे मुक्तस्तस्यैव कारणात्१८।
पुनरत्र समागम्य संगंता चापुनर्भवम्।
ततः कृतांजलिर्देवमुवाच दुःखपीडितः१९।
धर्मराजानुकंपा च मय्येवं पापकारिणि।
कुरु नाथ त्वनाथे च जानामि प्रीतिपूर्वकम्२०।
धर्मराजस्तु तं चाह बाढमेवमितो व्रज।
स्मरिष्यसि स्ववृत्तांतं मत्प्रसादात्सुदुःखितः२१।
एतस्मिन्नंतरे चैव मोचितः किंकरेण हि।
तस्य जन्माभवत्कौ च दुर्विधे चातिवाणिके२२।
आजन्मविविधं दुःखं भुक्तं पूर्वविकर्मतः।
भुक्त्वा क्लेशं महांतं च एकविंशतिहायनम्२३।
तस्मिन्राष्ट्रे मृतो भूपः स्वकर्मपरिपीडितः।
एतस्मिन्नंतरेऽमात्यैः समालोक्य सुमंत्रिभिः२४।
अनेक परिमर्शैस्तु पृथिव्यां भ्रमणं कृतम्।
तमावृण्वंश्च ते सद्यः सर्वेषां पुरतो दृढम्२५।
ततो राज्याभिषेकश्च कृतस्तैस्तु विमत्सरैः।
स च राज्यं च संश्रित्य धर्मराजवरेण च२६।
अकरोदालिकं कर्म शिलाबद्धं च मृण्मयम्।
संक्रमं जलदुर्गे च तरणिं च तथापरे२७।
वापीकूपतटाकानि प्रपाराम महीरुहं।
कृतवान्विविधं यज्ञं दानपुण्यमतः परम्२८।
स्मरंश्च पूर्वकर्म्माणि सर्वपापक्षयाय वै।
कृतं बहुविधं धर्मं व्रतानि विविधानि च२९।
सुराणां ब्राह्मणानां च गुरूणां चैव तर्पणात्।
पापात्पूतो ययौ गेहं धर्मराजस्य धीमतः३०।
सयानस्थं ततो दृष्ट्वा क्रोधरक्तेक्षणोऽभवत्।
स च तं प्रांजलिं प्राह भो धर्म कुरु तारणम्३१।
चित्रगुप्तोऽब्रवीद्वाक्यं धर्मराजसमीपतः।
कर्मणा मनसा पूतो विष्णुलोकं स गच्छतु३२।
स तच्छ्रुत्वा पुनश्चाह तस्य विज्ञाय कारणम्।
स्मितः प्रीत्या प्रसन्नात्मा गच्छ गच्छाच्युतालयम्३३।
विमानं सुरलोकाच्च स्वागतं वर्णकर्बुरम्।
समारुह्य गतः स्वर्गं पुनरावृत्तिदुर्लभम्३४।
तस्मात्किष्कुप्रमाणं हि दत्तं येनालिकं पुरा।
स तु राज्यान्वयं स्वर्गं महांतं चानुगच्छति३५।
तथैव गोप्रचारं तु दत्वा स्वर्गान्न हीयते।
या गतिर्गोप्रदस्यैव ध्रुवं तस्य भविष्यति३६।
व्यामैकं गोप्रचारं तु मुक्तं येन सुधीमता।
तस्य स्वर्गं भवेदिष्टं किमन्यैः पुरुभाषितैः३७।
गोप्रचारं यथाशक्ति यो वै त्यजति हेतुना।
दिनेदिने ब्रह्मभोज्यं पुण्यं तस्य शताधिकम्३८।
तस्माद्गवां प्रचारं तु मुक्त्वा स्वर्गान्न हीयते।
यश्छिनत्ति द्रुमं पुण्यं गोप्रचारं छिनत्यपि३९।
तस्यैकविंशपुरुषाः पच्यंते रौरवेषु च।
गोचारघ्नं ग्रामगोपः शक्तो ज्ञात्वा तु दण्डयेत्४०।
छेत्तारं धर्मवृक्षाणां विशेषाद्गोप्रचारघम्।
तस्य दंडे सुखं तस्य तस्मात्तं दंडयेत्तु सः४१।
प्रासादं कुरुते यस्तु विष्णुलिंगस्य मानवः।
त्रिकांडं पंचकाडं च सुशोभं सुघटान्वितम्४२।
इतोऽधिकं तु यो दद्यान्मृन्मयं वा दृषन्मयम्।
वसुवृत्तिसुपूर्णं च सुरम्यं दिव्यभूतलम्४३।
प्रतिष्ठाकर्मसंपन्नं किङ्करादिभिरावृतम्।
सुलिंगमिष्टदेवस्य विष्णोरेव विशेषतः४४।
कृत्वा च विष्णुसायुज्यं समाप्नोति नरोत्तमः।
तथैव प्रतिमां कृत्वा हरेरन्यतरस्य च४५।
कृत्वा देवकुलं रम्यं यत्फलं लभते नरः।
न तन्मखसहस्रैस्तु दानैर्भुवि व्रतादिभिः४६।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च।
प्रासादे रत्नसंयुक्ते संपूर्णद्रव्यसंकुले४७।
स वसेत्कामगे याने सर्वलोकमनोहरे।
स्वर्गाच्च्युतो भवेद्राजा सार्वभौमो गुणैर्वशी४८।
शिवलिंगे तु प्रासादं कारयित्वा स्वशक्तितः।
यदुक्तं विष्णुलिंगे तु तज्ज्ञेयं शिववेश्मनि४९।
भुंक्ते भोगं महाभागो मनःशर्मकरं परम्।
रामाभिरामसंपूर्णं सर्वतः सुखदं दिवि५० 1.59.50।
उर्व्यामक्षयभोग्यानि नृपो वाथ महाधनी।
हरस्य प्रतिमां यश्च कृत्वा देवगृहे नरः५१।
सुलिंगां वा सुरूपां वा कल्पकोटिं वसेद्दिवि।
स्वर्गाद्भ्रष्टो भवेद्राजा धनी पूज्यतमोपि वा५२।
देवीलिंगेषु सर्वेषु कृत्वा देवगृहं नरः।
सुरत्वं प्राप्नुयाल्लोके देव्यास्सर्वसुखोद्भवे५३।
भृशमच्युततामेति सुखमेति निरामयम्।
रत्नसंसृष्टप्रासादे मणिकर्बुरभूतले५४।
रामायुतप्रसंभोग्ये देवीसंसृष्टनिर्भये।
नृत्यगीतपरे रम्ये सर्वेंद्रियमनोरमे५५।
रत्नमर्द्दलतालाढ्ये सर्वदा स्त्रीजनेरिते।
निर्मले सुखदे रम्ये रत्नानां सुशुभे गृहे५६।
तथैव प्रतिमायाश्च देव्याः प्रासादमुत्तमम्।
नियुतं कल्पकोटीनां स्वर्लोकमेति मानवः५७।
स्वर्गाद्भ्रष्टो भवेद्भूपो देवीभक्तिपरायणः।
एवं च जन्मसाहस्रं स्मर एव भवेद्भुवि५८।
प्रासादं गाणपत्यं च देव्या वा प्रीतिमान्नरः।
कृत्वा सुरगणानां च पूजितो दिवि जायते५९।
तथैव राजतामेति भोग्यान्देवीपुरे तथा।
अविघ्नं सर्वकार्येषु सदैव गणपो यथा६०।
आज्ञानस्खलिता तस्य सुरासुरनरेषु च।
तथैव सौरप्रासादे फलमेति नरोत्तमः६१।
अरोगी सुप्रसन्नात्मा कामदेवसमप्रभः।
वरदः सर्वलोकेषु यथा ब्रध्नस्तथा हि सः६२।
सुरस्य प्रतिमायां च गृहं कृत्वा शिलामयम्।
कल्पकोटिशतं भुक्त्वा स्वर्गमुर्वीश्वरो भवेत्६३।
विष्ण्वादि सर्वदेवानामर्चनं यत्पृथक्पृथक्।
प्रत्येकं संप्रवक्ष्यामि नराणां हित हेतवे६४।
घृतप्रदीपं यो दद्यात्मासमेकमहर्निशम्।
दिव्यं वर्षायुतं स्वर्गे पूजितो देवसत्तमैः६५।
घृतस्नानं तथा लिंगे यः कुर्याद्भुवि मानवः।
कल्पकोटिसहस्राणि मासैके लभते नरः६६।
तिलतैलप्रदीपस्य तथान्यस्यार्द्धकं फलम्।
मासैकं जलदानस्य फलेनेश्वरतां व्रजेत्६७।
धूपदानेन गंधर्वं चंदने द्विगुणं भवेत्।
मृगमदागरुसत्वस्य दाने बहुफलं भवेत्६८।
मालापुष्पप्रदानेन नरः स्यात्त्रिदशेश्वरः।
शीते तूलपटीं दत्वा सर्वदुःखात्प्रमुच्यते६९।
जन्मजन्मसु लभ्येत उष्णे च शीतलां पटीम्।
दत्वा च नैवसीदेत शक्त्या वस्त्रं ददाति यः७०।
चतुर्हस्तप्रमाणं च वर्ष्मवेष्टं सुशोभनम्।
पिधानं चरणानां च दत्वा स्वर्गान्न हीयते७१।
शक्त्या स्वर्णप्रदानेन स्वर्गे पूज्यो भवेन्नरः।
दशयोजनविस्तीर्णे मंडपे रूपभाग्भवेत्७२।
सुवर्णं रत्नसंयुक्तं दत्त्वा दशगुणं लभेत्।
वज्रवैडूर्यगारुत्म माणिक्यादीननर्घतः७३।
दत्वा लिंगे विधानाच्च ब्राह्मणे वा यशस्विनि।
शतयोजनविस्तीर्णमंडलेधिपतिर्भवेत्७४।
तथैव भुवि जातोपि सर्वलोकप्ररंजनः।
सुरभिद्रव्यदानेन वावदूकश्च सुंदरः७५।
रक्तामृतसुकंठश्च पूगदानान्नरो भवेत्।
वरदासीप्रदानेन नरः कल्पं वसेद्दिवि७६।
वरदासी प्रदानेन उर्व्यां जातो धनेश्वरः।
तथैव भृत्यदानेन बहुभृत्यो भवेद्दिवि७७।
धरायामक्षयाऋद्धिर्जन्मजन्मसु जायते।
सर्वतूर्यप्रदानेन गुणवान्लोकसंमतः७८।
नृत्यगीतादिशास्त्रेण गंधर्वाणां पतिर्भवेत्।
दासीदासयुतः स्वर्गे धनैः स्त्रीभिर्वरैर्युतः७९।
तथैव गोप्रदानेन तावत्कालं वसेद्दिवि।
लिंगे दुग्धप्रदानाच्च नरः कल्पं वसेद्दिवि८०।
दध्ना स्नानेन द्विगुणं घृतेन तु शताधिकम्।
अन्नं षड्रससंयुक्तं दत्वा क्षितिपतिर्भवेत्८१।
तथैव पायसं दत्वा मुनीनां प्रवरो भुवि।
हविष्यान्नं मुदा दत्वा वेदशास्त्रार्थपारगः८२।
निरामिषप्रदानाच्च ब्रह्मचारी व्रती भवेत्।
मधुदानाच्च सौभाग्यं गुडेन लवणेन च८३।
शर्करादिभिर्लावण्यं सर्वलोकेषु गीयते।
देवानां शंभुलिंगानामर्चां कृत्वा विधानतः८४।
अनुक्रमेण स्वर्गादौ लोकानां स पतिर्भवेत्।
लोकानां च हितार्थाय देवास्तिष्ठंति संमुखाः८५।
सकृत्प्रदक्षिणां कृत्वा शंभुलिंगेषु पंडितः।
दिव्यं वर्षशतं पूर्णं स्वर्गमेति नरोत्तमः८६।
एवमेव क्रमेणैव नमस्कारैः स्वयंभुवः।
लोकवंद्यो व्रजेत्स्वर्गं तस्मान्नित्यं समाचरेत्८७।
लिंगरूपस्य देवस्य यो धनं हरते नरः।
स च रौरवमासाद्य हरणात्कीटतां व्रजेत्८८।
दातुः पूजां च लिंगार्थे हरेश्चाप्याददाति यः।
कुलकोटिसहस्रेण नरकान्न निवर्तते८९।
जलपुष्पादिदीपार्थे वसु चान्यद्गृहीतवान्।
पश्चान्न दीयते लोभादक्षयं नरकं व्रजेत्९०।
दासीं हृत्वा तु लिंगस्य नरकान्न निवर्तते।
कामार्तो मातरं गच्छेन्न गच्छेच्छिवचेटिकाम्९१।
शिवदासीं ततो गत्वा शिवस्व हरणे तथा।
भक्षणादन्नपानानान्नरो दुर्गतिमाप्नुयात्९२।
अतो देवलविप्रो यो नरकान्न निवर्तते।
तस्माद्वेश्याजनानां च दौष्ट्यमेव हितं भवेत्९३।
अतस्तु गणिकां स्पृष्ट्वा नरः स्नानाद्विशुध्यति।
मलिनां दुर्गतिं याति बहुपूरुषसंश्रयात्९४।
वेश्या तपस्विनी या च देवार्चनरता सदा।
पतिव्रतपरा शुद्धा स्वर्गं चाक्षयमश्नुते९५।
गणिकां मातृवद्यस्तु सदासन्नां प्रपश्यति।
देववत्सुरलोकेषु निखिलं भोगमश्नुते९६।
सुरासुरनराणां च वंदनीयो यथा हरिः।
तथार्होयं सर्वलोके सर्वभूतैकपावनः९७।
देवदासः सदा यस्तु देवकृत्येषु लोलुपः।
स च गच्छति लोकेशो देवलोके महीयते९८।
एतेषामेव लिंगानि कारयित्वा च मंडपम्।
शक्त्या यं लभते नाकं कालस्य निश्चयं शृणु९९।
हायनैकं तृणेनैव शरकांडेन तच्छतम्।
अयुतं त्वन्यकाष्ठेन लक्षं खादिरदारुणा१०० 1.59.100।
कोटिकोटि च पाषाणैः सुदृढैर्यत्नसंयुतैः।
तस्मात्सर्वप्रयत्नेन मंडपं कारयेद्बुधः१०१।
यावत्कालं वसेत्स्वर्गे नरो मंडपकारकः।
तावत्कालं च हरणे नरो दुर्गतिमाप्नुयात्१०२।
जनानां निचये रम्ये वस्तूनां क्रयविक्रये।
आश्रये चाध्वगानां च नदीनद समागमे१०३।
देवानां मंडपं कृत्वा यत्फलं लभते नरः।
तत्फलं समवाप्नोति द्विगुणं विप्रमंदिरे१०४।
अनाथस्य च दीनस्य श्रोत्रियस्य विशेषतः।
कारयित्वा गृहं रम्यं नरः स्वर्गान्न हीयते१०५।
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्।
अक्षयं लभते स्वर्गं प्रासादादेः फलं लभेत्१०६।
धनिनां चेश्वराणां च तथा पुण्यवतां पुनः।
पाठयित्वा पठित्वा तु नरः स्वर्गान्न हीयते१०७।
देवानां दासदासीनां सदा देवालयेषु च।
पठेद्यस्तु सदा विप्रो मोक्षमार्गं स गच्छति१०८।
नृपाणामीश्वराणां च धनिनां गुणिनां पुरः।
पठित्वा मोक्षमाप्नोति श्रवणात्तत्फलं लभेत्१०९।
द्विजा ऊचुः-
सामान्येकः परः पुण्यो मर्त्यलोके द्विजोत्तम।
सुलभो मर्त्यपूज्यस्तु मुनीनां च तपस्विनाम्११०।
चातुर्वर्ण्याश्रमाणां च पापपुण्यवतां नृणाम्।
गुणागुणवतां चैव वर्णावर्णवतां तथा१११।
व्यास उवाच-
सर्वेषामेव भूतानां रुद्राक्षेण युतो वरः।
दर्शनाद्यस्य लोकानां पापराशिः प्रलीयते११२।
स्पर्शनाद्दिवमश्नाति धाराणाद्रौद्रतां व्रजेत्।
शिरस्युरसि बाहौ च रुद्राक्षं धारयेत्तु यः११३।
स चेशानसमो लोके मखे सर्वत्र गोचरः।
यत्र तिष्ठत्यसौ विप्रस्स देशः पुण्यवान्भवेत्११४।
तं दृष्ट्वाप्यथवा स्पृष्ट्वा नरः पूयेत कल्मषात्।
यज्जप्यं तर्पणं दानं स्नानमर्चा प्रदक्षिणम्११५।
यत्किंचित्कुरुते पुण्यं निखिलं तदनंतकम्।
तीर्थानां च महत्तीर्थं रुद्राक्षस्य फलं द्विजाः११६।
अस्यैव धारणाद्देही पापात्पूतोऽति पुण्यभाक्।
गृहीत्वा चाक्षमालां च ब्रह्मग्रंथियुतां शिवाम्११७।
यज्जप्तं च कृतं दानं स्तोत्रं मंत्रं सुरार्चनम्।
सर्वं चाक्षयतामेति पापं च क्षयमाव्रजेत्११८।
मालाया लक्षणं ब्रूमः श्रूयतां द्विजसत्तमाः।
तस्यास्तु लक्षणं ज्ञात्वा शैवमार्गं प्रलप्स्यथ११९ तु. वराहपुराणम् १२८.५४(गणान्तिका)।
निर्योनिकीटविद्धं च भग्नलिगं यथाक्रमम्।
अन्योन्यं बीजलग्नं च मालायां परिवर्जयेत्१२०।
स्वयं च ग्रथिता या च श्लथान्योन्य प्रसज्जिता।
शूद्रादिग्रथिताऽशुद्धा दूरात्तां परिवर्जयेत्१२१।
मध्यमालग्नकं बीजं जप्तव्यं च यथाक्रमम्।
हस्तसंभ्रमणेनैव मेर्वामर्शं पुनः पुनः१२२।
संख्यातं यज्जपेन्मंत्रमसंख्यातं च निष्फलम्।
सर्वेषामेव देवानां जपेन्मंत्रं स्वमालया१२३।
प्रयतः सकले तीर्थे कोटिकोटिगुणं भवेत्।
शुद्धायामेव भूम्यां तु मेध्यके वृक्षमूलके१२४।
गोष्ठे चतुष्पथागारे विष्णोर्मंत्रं शिवस्य च।
गणपतेश्च सूरस्य लिंगेनंतफलं लभेत्१२५।
शून्यागारे शवस्याग्रे श्मशाने च चतुष्पथे।
देवीमंत्रं जपेद्यस्तु सद्यस्सिध्यति साधकः१२६।
यावच्चावैदिकं मंत्रं पौराणं चागमोद्भवम्।
सर्वं रुद्राक्षमालायामीप्सितेष्टार्थदायकम्१२७।
रुद्राक्षस्रवजं शुद्धं जलं शिरसि धारयेत्।
सर्वस्मात्कल्मषात्पूतः पुण्यं भवति चाक्षयम्१२८।
रुद्राक्षस्य च प्रत्येकं बीजं प्रत्येक निर्जरं।
धारयेद्यस्तनौ मर्त्यः सुराणां सत्तमो भवेत्१२९।
द्विजा ऊचुः-
रुद्राक्षस्तु कुतो जातः कुतो वा मेध्यतां गतः।
किमर्थं स्थावरो भूमौ केनैव च प्रचारितः१३०।
व्यास उवाच-
पुरा कृतयुगे विप्रास्त्रिपुरो नाम दानवः।
सुराणां च वधं कृत्वा अंतरिक्षपुरे हि सः१३१।
प्रणाशे सर्वलोकानां स्थिरो ब्रह्मवरेण च।
शुश्राव शंकरो भीमं देवैरीशो निवेदितम्१३२।
ततोऽजगवमासज्य बाणमंतकसन्निभम्।
धृत्वा तं च जघानाथ दृष्टं दिव्येन चक्षुषा१३३।
स पपात महीपृष्ठे महोल्केव च्युतो दिवः।
घटनव्याकुलाद्रुद्रात्पतिताः स्वेदबिंदवः१३४।
तत्राश्रुबिंदुतो जातो महारुद्राक्षकः क्षितौ।
अस्यैव च फलं जीवा न जानंत्यतिगुह्यतः१३५।
ततः कैलासशिखरे देवदेवं महेश्वरम्।
प्रणम्य शिरसा भूमौ स्कंदो वचनमब्रवीत्१३६।
रुद्राक्षस्य फलं नाथ ज्ञातुमिच्छामि तत्त्वतः।
जप्येथ धारणे चैव दर्शने स्पर्शनेपि वा१३७।
ईश्वर उवाच-।
लक्षं तु दर्शनात्पुण्यं कोटिर्वै स्पर्शनेन च।
दशकोटिफलं पुण्यं धारणाल्लभते नरः१३८।
लक्षकोटिसहस्राणि लक्षकोटिशतानि च।
जप्त्वास्य लभते पुण्यं नात्र कार्या विचारणा१३९।
उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः।
मुच्यते सर्वपापेभ्यो रुद्राक्षधारणेन वै१४०।
कंठे रुद्राक्षमादाय श्वापदो म्रियते यदि।
सोपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः१४१।
ध्यानधारणहीनोपि रुद्राक्षं यदि धारयेत्।
सर्वपापविनिर्मुक्तः स याति परमां गतिम्१४२।
कार्तिकेय उवाच-।
एकवक्त्रं द्वित्रिचतुःपंचषड्वक्त्रमेव च।
सप्ताष्टनववक्त्रं च दशैकादशवक्त्रकम्१४३।
रुद्राक्षं द्वादशास्यं च त्रयोदशमुखं तथा।
चतुर्दशास्यसंयुक्तं स्वयमुक्तं च शंकरम्१४४।
तेषां च तन्मुखानां च देवताः काश्च तद्वद।
गुणो वा कीदृशस्तेषां दोषो वा जगदीश्वर१४५।
यदि मेनुग्रहोवास्ति कथयस्व यथार्थतः।
ईश्वर उवाच-।
एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति१४६।
तस्मात्तु धारयेद्देहे सर्वपापक्षयाय च।
शिवलोकं स गच्छेच्च शिवेन सह मोदते१४७।
महतापुण्ययोगेन हरानुग्रहकारणात्।
एकवक्त्रं लभेन्मर्त्यो कैलासं च षडानन१४८।
देवदेवो द्विवक्त्रं च यस्तु धारयते नरः।
सर्वपापक्षयं याति यद्गुह्यंगोवधादिकम्१४९।
स्वर्गं चाक्षयमाप्नोति द्विवक्त्रधारणात्ततः।
त्रिवक्त्रमनलस्साक्षाद्यस्यदेहे प्रतिष्ठति१५० 1.59.150।
तस्य जन्मार्जितं पापं दहत्यग्निरिवेंधनम्।
स्त्रीहत्या ब्रह्महत्याभ्यां बहूनां चैव हत्यया१५१।
यत्पापं लभते मर्त्यः सर्वं नश्यति तत्क्षणात्।
यत्फलं वह्निपूजायामग्निकार्ये घृताहुतौ१५२।
तत्फलं लभते धीरः स्वर्गं चानंतमश्नुते।
त्रिवक्त्रं धारयेद्यस्तु स च ब्रह्मसमो भुवि१५३।
निचितं दुष्कृतं सर्वं दहेज्जन्मनि जन्मनि।
न चोदरे भवेद्रोगो न चैवापटुतां व्रजेत्१५४।
पराजयं न लभते नाग्निना दह्यते गृहम्।
एतान्यन्यानि सर्वाणि वज्रादेश्च निवारणम्१५५।
नाशुभं विद्यते किंचित्त्रिवक्त्रस्य तु धारणात्।
चतुर्वक्त्रः स्वयं ब्रह्मा यस्य देहे प्रतिष्ठति१५६।
स भवेत्सर्वशास्त्रज्ञो द्विजो वेदविदां वरः।
सर्वधर्मार्थतत्त्वज्ञः स्मार्तः पौराणिको भवेत्१५७।
यत्पापं नरहत्यायां बहुसत्त्वेषु वेश्मसु।
तत्सर्वं दहते शीघ्रं चतुर्वक्त्रस्य धारणात्१५८।
महेशस्तुष्यते नित्यं भूतानामधिपो भवेत्।
सद्योजातस्तथेशानस्तत्पुरुषोऽघोर एव च१५९।
वामदेव इमे देवा वक्त्रैः पंचभिराश्रिताः।
अतः सर्वत्र भूयिष्ठाः पंचवक्त्रो धरातले१६०।
रुद्रस्यात्मजरूपोयं तस्मात्तं धारयेद्बुधः।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च१६१।
तावत्कालं शिवस्याग्रे पूजनीयः सुरासुरैः।
सार्वभौमो भवेद्भूमौ शर्वतेजाः शिवालये१६२।
तस्मात्सर्वप्रयत्नेन पंचवक्त्रं तु धारयेत्।
षड्वक्त्रं कार्तिकेयं तु धारयन्दक्षिणे भुजे१६३।
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः।
स्कंदस्य सदृशः शूरः कल्पांते समुपस्थिते१६४।
नात्र पराजयं चैति गुणानामाकरो भुवि।
कुमारत्वमवाप्नोति यथा गौरीशनंदनः१६५।
ब्राह्मणो भूपपूज्यश्च क्षत्रियो लभते जयम्।
वैश्याः शूद्रादयो वर्णाः सदैश्वर्यप्रपूरिताः।
तस्यैव वरदा गौरी मातेव सुलभा भवेत्१६६।
ततो भुजबलादेव विश्वतेजा भवेन्नरः।
वाग्मी धीरस्सभायां च नृपवेश्मनि संसदि१६७।
न च कातरतामेति नैव भंगो भवेद्ध्रुवम्१६८।
एतान्यन्यानि सर्वाणि षड्वक्त्रस्यैव धारणात्।
सप्तवक्त्रो महासेनस्त्वनंतो नाम नागराट्१६९।
अस्य प्रत्येक वक्त्रे तु प्रतिनागा व्यवस्थिताः।
अनंतः कर्कटश्चैव पुंडरीकोथ तक्षकः१७०।
विषोल्बणश्च कारीषः शंखचूडश्च सप्तमः।
एते नागा महावीर्याः सप्तवक्त्रे व्यवस्थिताः१७१।
अस्य धारणमात्रे तु विषं न क्रमते तनौ।
हरश्च परमप्रीतो भवेन्नागेश्वरे यथा१७२।
प्रीत्यास्या सर्वपापानि क्षयं यांति दिनेदिने।
ब्रह्महत्या सुरापानं स्तेयादि गुरुतल्पजम्१७३।
यत्पापं लभते मर्त्यः सर्वं नश्यति तत्क्षणात्।
देवस्य सदृशं भोज्यं त्रैलोक्ये निश्चितं लभेत्१७४।
अष्टवक्त्रो महासेनः साक्षाद्देवो विनायकः।
अस्यैव धारणादेव यत्पुण्यं तच्छृणुष्व मे१७५।
जन्मजन्म न मूर्खः स्यान्नातुरो न च नष्टधीः।
अविघ्नं सर्वकार्येषु तस्यैव सततं भवेत्१७६।
नैपुण्यं लिपिकार्येषु महाकार्येषु कौशलम्।
सर्वारंभादिकार्येषु क्षमंतस्य दिने दिने१७७।
अर्धकूटं तुलाकूटं सर्वकूटं तथैव च।
शिश्नोदरकरेणैव संस्पृशेद्वा गुरुस्त्रियम्१७८।
एवमादीनि सर्वाणि हंति पापानि सर्वथा।
अक्षयं त्रिदिवं भुक्त्वा मुक्तो याति परां गतिम्१७९।
गुणान्येतानि सर्वाणि अष्टवक्त्रस्य धारणात्।
नवास्यं भैरवं प्रोक्तं धारयेद्यस्तु बाहुतः१८०।
कपिलं मुक्तिदं धृत्वा ममतुल्य बलो भवेत्।
लक्षकोटिसहस्राणि ब्रह्महत्याः करोति यः१८१।
ताः सर्वा दहते शीघ्रं नववक्त्रस्य धारणात्।
सुरलोके सदा देवैः पूजितो मघवान्यथा१८२।
हरवद्वरवेश्मस्थो गणेशो नात्र संशयः।
पन्नगाश्च विनश्यंति दशवक्त्रस्य धारणात्१८३।
वक्त्रे चैकादशे वत्स रुद्राश्चैकादश स्मृताः।
शिखायां धारयेन्नित्यं तस्य पुण्यफलं शृणु१८४।
अश्वमेधसहस्राणि यज्ञकोटिशतानि च।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्१८५।
तत्फलं शीघ्रमाप्नोति वक्त्रैकादश धारणात्।
हरस्य सदृशो लोके पुनर्जन्म न विद्यते१८६।
रुद्राक्षं द्वादशास्यं यः कंठदेशे तु धारयेत्।
आदित्यस्तुष्यते नित्यं द्वादशास्ये व्यवस्थितः१८७।
गोमेधं नरमेधं च कृत्वा यत्फलमश्नुते।
तत्फलं शीघ्रमाप्नोति वज्रादेश्च निवारणम्१८८।
नैव वह्नेर्भयं चैव न च व्याधिः प्रवर्तते।
अर्थलाभं सुखं भुंक्त ईश्वरो न दरिद्रता१८९।
हस्त्यश्वनरमार्जार मूषकाञ्छशकांस्तथा।
व्यालदंष्ट्रि सृगालादीन्हत्वा व्याघातयत्यपि१९०।
मुच्यते नात्र संदेहो वक्त्रद्वादश धारणात्।
वक्त्र त्रयोदशो रुद्रो रुद्राक्षः प्राप्यते यदि१९१।
शंतमः स तु विज्ञेयः सर्वकामफलप्रदः।
सुधारसायनं चैव धातुवादश्च पादुका१९२।
सिध्यंति तस्य वै सर्वे भाग्ययुक्तस्य षण्मुख।
मातृपितृ स्वसृ भ्रातृ गुरून्वाथ निहत्य च१९३।
मुच्यते सर्वपापेभ्यो त्रयोदशास्य धारणात्।
अक्षयं लभते स्वर्गं यथा देवो महेश्वरः१९४।
चतुर्दशमुखं वत्स रुद्राक्षं यदि धारयेत्।
सततं मूर्ध्नि बाहौ वा शक्तिपिंडं शिवस्य च१९५।
किं पुनर्बहुनोक्तेन वर्णितेन पुनः पुनः।
पूज्यते सततं देवैः प्राप्यते पुण्यगौरवात्१९६।
कार्तिकेय उवाच-।
भगवन्श्रोतुमिच्छामि वक्त्रे वक्त्रे यथाविधि।
न्यसनं केन मंत्रेण धारणं वा कथं वद१९७।
ईश्वर उवाच-।
शृणु षण्मुख तत्त्वेन वक्त्रे वक्त्रे यथाविधि।
अमंत्रोच्चारणादेव गुणा ह्येते प्रकीर्तिताः१९८।
यः पुनर्मंत्रसंयुक्तं धारयेद्भुवि मानवः।
गुणास्तस्य महत्त्वं च कथितुं नैव शक्यते१९९।
इदानीं मंत्रा दिश्यंते ॐ रुद्र एकवक्त्रस्य।
ॐ खं द्विवक्त्रस्य ॐ वुं त्रिवक्त्रस्य।
ॐ ह्रीं चतुर्वक्त्रस्य ॐ ह्रां पंचवक्त्रस्य।
ॐ ह्रूँ षड्वक्त्रस्य ॐ ह्रः सप्तवक्त्रस्य।
ॐ कं अष्टवक्त्रस्य ॐ जूं नववक्त्रस्य।
ॐ क्षं दशवक्त्रस्य ॐ श्रीं एकादशवक्त्रस्य।
ॐ ह्रीं द्वादशवक्त्रस्य ॐ क्षौं त्रयोदशवक्त्रस्य।
ॐ न्रां चतुर्दशवक्त्रस्य।
एवं मंत्रा यथाक्रमं न्यस्तव्याः।
शिरस्युरसि मालां च गृहीत्वा यो व्रजेन्नरः।
पदेपदेश्वमेधस्य फलमाप्नोति नान्यथा२०० 1.59.200।
सर्वेषामपि वक्त्राणां धारणे मत्समो भवेत्।
तस्मात्सर्वप्रयत्नेन रुद्राक्षं पुत्र धारय२०१।
धारयित्वा तु रुद्राक्षं म्रियते यः क्षितौ नरः।
स याति मत्पुरं रम्यं सर्वदेवैः प्रपूजितः२०२।
मरुदेशे पुरा वत्स वाणिज्याय किल स्थले।
गच्छन्वणिक्सुतस्तात तरौ प्रेता प्रपीडितः२०३।
नरीनर्तिततः प्रेता द्विजेन परमैक्षि च।
का त्वं नृत्यसि दीनासि संवृता जीर्णवाससा२०४।
अथ सा च द्विजं प्राह देवदूतान्मया श्रुतम्।
अस्य चारु नरस्यैव वज्रपातेन सांप्रतम्२०५।
निश्चितं निधनं विप्र मद्भर्त्ता तु भविष्यति।
एतस्मिन्नंतरे नाकाद्वज्रं तस्यशिरोपरि२०६।
अपतत्स पपातोर्व्यां रुद्राक्षस्यार्धखंडके।
ततो मम पुरात्पुत्र विमानं चापतद्द्रुतम्२०७।
समारुह्य ततः श्रीमांस्तत्र तिष्ठति संचिरम्।
ममांशकं समासाद्य ईश्वरः कौ धनी भवेत्२०८।
एवं रुद्राक्षखंडे च मृतस्य सुगतिः सुत।
ज्ञानेन धारिणः पुंसः फलं वक्तुं न शक्नुमः२०९।
स शैवो वा भवेच्छाक्तो गाणपत्योथ सौरकः।
यो दधाति मृतो मालामेकं रुद्राक्षकं तु वा२१०।
यः पठेत्पाठयेद्वापि श्रावयेच्छृणुतेपि वा।
सर्वपापात्प्रमुक्तात्मा सुखं स्वर्गं लभेत्क्रमात्२११।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे रुद्राक्षमाहात्म्यंनामैकोनषष्टितमोऽध्यायः५९।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 60
षष्ठितमोऽध्यायः।
स्कंदउवाच-
अपरस्यापि पृच्छामि फलस्य पूततां तरोः।
सर्वलोकहितार्थाय वद नो जगदीश्वर१।
ईश्वर उवाच-
धात्रीफलं परं पूतं सर्वलोकेषु विश्रुतम्।
यस्य रोपान्नरो नारी मुच्यते जन्मबंधनात्२।
पावनं वासुदेवस्य फलं प्रीतिकरं शुभम्।
अस्य भक्षणमात्रेण मुच्यते सर्वकल्मषात्३।
भक्षणे च भवेदायुः पाने वै धर्मसंचयः।
अलक्ष्मीनाशनं स्नाने सर्वैश्वर्यमवाप्नुयात्४।
यस्मिन्गृहे महासेन धात्री तिष्ठति सर्वदा।
तस्मिन्गृहे न गच्छंति प्रेता दैतेय राक्षसाः ५।
न गंगा न गया चैव न काशी न च पुष्करम्।
एकैव हि नृणां धात्री संप्राप्ते हरिवासरे ६।
एकादश्यां पक्षयुगे धात्रीस्नानं करोति यः।
सर्वपापक्षयं यांति विष्णुलोके महीयते ७।
धात्रीफलं सदा सेव्यं भक्षणे स्नान एव च।
नियतं पारणे विष्णोः स्नानमात्रे हरेर्दिने ८।
संयते पारणे चैव धात्र्येकस्पर्शने नरः।
भुक्त्वा तु लंघयेद्यस्तु एकादश्यां सितासिते ९।
एकेनैवोपवासेन कृतेन तु षडानन।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः १०।
अक्षयं लभते स्वर्गं विष्णुसायुज्यमाव्रजेत्।
तस्मात्सर्वप्रयत्नेन धात्रीव्रतं समाचर ११।
धात्रीद्रवेण सततं यस्य केशाः सुरंजिताः।
न पिबेत्स पुनर्मातुः स्तनं कश्चित्षडानन १२।
धात्रीदर्शनसंस्पर्शान्नाम्न उच्चारणेपि वा।
वरदः संमुखो विष्णुः संतुष्टो भवति प्रियः १३।
धात्रीफलं च यत्रास्ते तत्र तिष्ठति केशवः।
तत्र ब्रह्मा स्थिरा पद्मा तस्मात्तां तु गृहे न्यसेत् १४।
अलक्ष्मीर्नश्यते तत्र यत्र धात्री प्रतिष्ठति।
संतुष्टास्सर्वदेवाश्च न त्यजंति क्षणं मुदा१५।
धात्रीफलेन नैवेद्यं यो ददाति महाधनम्।
तस्य तुष्टो भवेद्विष्णुर्नान्यैः क्रतुशतैरपि १६।
स्नात्वा धात्रीद्रवेणैव पूजयेद्यस्तु माधवम्।
सोभीष्टफलमाप्नोति यद्वा मनसि वर्तते १७।
तथैव लक्षणं स्मृत्वा पूजयित्वा फलेन तु।
सुवर्णशतसाहस्रं फलमेति नरोत्तमः १८।
या गतिर्ज्ञानिनां स्कंद मुनीनां योगसेविनाम्।
गतिं तां समवाप्नोति धात्रीसेवा रतो नरः१९।
तीर्थसेवाभिगमने व्रतैश्च विविधैस्तथा।
सा गतिर्लभ्यते पुंसां धात्रीफलसुसेवया२०।
प्रीतिश्च सर्वदेवानां देवीनां नो गणस्य च।
संमुखा वरदा स्नाने धात्रीफलनिषेवणे २१।
ग्रहा दुष्टाश्च ये केचिदुग्राश्च दैत्यराक्षसाः।
सर्वे न दुष्टतां यांतिधात्रीफल सुसेवनात् २२।
सर्वयज्ञेषु कार्येषु शस्तं चामलकीफलम्।
सर्वदेवस्य पूजायां वर्जयित्वा रविं सुत २३।
तस्माद्रविदिने तात सप्तम्यां च विशेषतः।
धात्रीफलानि सततं दूरतः परिवर्जयेत् २४।
यस्तु स्नाति तथाश्नाति धात्रीं च रविवासरे।
आयुर्वित्तं कलत्रं च सर्वं तस्य विनश्यति २५।
संक्रान्तौ च भृगोर्वारे षष्ठ्यां प्रतिपिदि(?) ध्रुवम्।
नवम्यां चाप्यमायां च धात्रीं दूरात्परित्यजेत्२६।
नासिकाकर्णतुंडेषु मृतस्य चिकुरेषु वा।
तिष्ठेद्धात्रीफलं यस्य स याति विष्णुमंदिरम्२७।
धात्रीसंपर्कमात्रेण मृतो यात्यच्युतालयम्।
सर्वपापक्षयस्तस्य स्वर्गं याति रथेन तु२८।
धात्रीद्रवं नरो लिप्त्वा यस्तु स्नानं समाचरेत्।
पदेपदेश्वमेधस्य फलं प्राप्नोति धार्मिकः२९।
अस्य दर्शनमात्रेण ये वै पापिष्ठजंतवः।
सर्वे ते प्रपलायंते ग्रहा दुष्टाश्च दारुणाः३०।
पुरैकः पुल्कसः स्कंद मृगयार्थं वनं गतः।
मृगपक्षिगणान्हत्वा तृषया परिपीडितः३१।
क्षुधयामलकीवृक्षं पुरः पीनफलान्वितम्।
दृष्ट्वा संरुह्य सहसा चखाद फलमुत्तमम्३२।
ततो दैवात्सवृक्षाग्रान्निपपात महीतले।
वेदनागाढसंविद्धः पंचत्वमगमत्तदा३३।
ततः प्रेतगणाः सर्वे रक्षोभूतगणास्तथा।
तनुं वोढुं मुदा सर्वे ये वै शमनसेवकाः३४।
न शक्नुवंति चांडालं मृतं द्रष्टुं महाबलाः।
अन्योन्यं विग्रहस्तेषां ममायमिति भाषताम्३५।
ग्रहीतुं चापि नेतुं च न शक्तास्ते परस्परम्।
ततस्ते तु समालोक्य गता मुनिगणान्प्रति३६।
प्रेता ऊचुः-
किमर्थं मुनयो धीराश्चांडालं पापकारिणम्।
प्रेक्षितुं न वयं शक्ता न चापि यमसेवकाः३७।
म्रियंते पातिता ये च स्थिरैर्युद्धपराङ्मुखाः।
साहसैः पातिता भीता वज्राग्निकाष्ठपीडिताः३८।
सिंहव्याघ्रहता मर्त्या व्याघ्रैर्वा जलजंतुभिः।
जलस्थलस्थिताः प्रेताः वृक्षपर्वतपातिताः३९।
पशुपक्षिहता ये च कारागारे गरे मृताः।
आत्मघातमृता ये च श्राद्धादिकर्मवर्जिताः४०।
गूढकर्ममृता धूर्ता गुरुविप्रनृपद्विषः।
पाषंडाः कौलिकाः क्रूरा गरदाः कूटसाक्षिणः४१।
आशौचान्नस्य भोक्तारः प्रेतभोग्या न संशयः।
ममायमिति भाषंतो नेतुं तं च न शक्नुमः४२।
आदित्य इव दुष्प्रेक्ष्यः किंवा कस्य प्रभावतः।
मुनय ऊचुः-
अनेन भक्षितं प्रेताः पक्वं चामलकीफलम्४३।
तत्संगं यांति तस्यैव फलानि प्रचुराणि च।
तेनैव कारणेनायं दुष्प्रेक्ष्यो भवतां ध्रुवम्४४।
वृक्षाग्रपतितस्याथ प्राणः स्नेहान्न च त्यजेत्।
नायं चारेण सूर्यस्य न चान्ये पापकारिणः४५।
धात्रीभक्षणमात्रेण पापात्पूतो व्रजेद्दिवम्।
प्रेता ऊचुः-
पृच्छामो वो ह्यविज्ञानान्न वयं निंदकाः क्वचित्४६।
विष्णुलोकाद्विमानं तु यावन्नैवात्र गच्छति।
उच्यतां मुनिशार्दूला वो द्रुतं मनसि स्थितम्४७।
यावद्द्विजा न घोषंति वेदमंत्रादिकल्पितम्।
घोष्यंते यत्र वेदाश्च मंत्राणि विविधानि च४८।
पुराणस्मृतयो यत्र क्षणं स्थातुं न शक्नुमः।
यज्ञहोमजपस्थानदेवतार्चनकर्मणाम्४९।
पुरतो वै न तिष्ठामस्तस्माद्वृत्तं समुच्यताम्।
किं वै कृत्वा प्रेतयोनिं लभंते हि नरा द्विजाः५० 1.60.50।
श्रोतुमिच्छामहे सम्यक्कथं वै विकृतं वपुः।
द्विजा ऊचुः-
शीतवातातपक्लेशैः क्षुत्पिपासाविशेषकैः५१।
अन्यैरपि च दुःखैर्ये पीडिताः कूटसाक्षिणः।
वधबंधप्रमीताश्च प्रेतास्ते निरयं गताः५२।
छिद्रान्वेषपरा ये च द्विजानां कर्मघातिनः।
तथैव च गुरूणां च ते प्रेताश्चापुनर्भवाः५३।
दीयमाने द्विजाग्र्ये तु दातारं प्रतिविध्यति।
चिरं प्रेतत्वमाश्रित्य नरकान्न निवर्तते५४।
परस्य वाऽत्मनो वा गां कृत्वा पीडनवाहने।
न पालयंति ये मूढास्ते प्रेताः कर्मजा भुवि५५।
हीनप्रतिज्ञाश्चासत्यास्तथा भग्नव्रता नराः।
नलिनीदलभुक्ताश्च ते प्रेताः कर्मजा भुवि५६।
विक्रीणन्ति सुतां शुद्धां स्त्रियं साध्वीमकंटकाम्।
पितृव्यमातुलादेश्च ते प्रेताः कर्मजा भुवि५७।
एते चान्ये च बहवः प्रेता जाताः स्वकर्मभिः।
प्रेता ऊचुः-
न भवंति कथं प्रेताः कर्मणा केन वा द्विजाः५८।
हिताय वदनस्तूर्णं सर्वलोकहितं परम्।
द्विजा ऊचुः-
येन चैव कृतं स्नानं जले तीर्थस्य धीमता५९।
नमस्कृतं परं लिगं न प्रेतो जायते नरः।
एकादश्यामुपोष्यैव द्वादश्यां च विशेषतः६०।
पूजयित्वा हरिं मर्त्याः प्रेतत्वं न व्रजंति वै।
वेदाक्षरप्रसूतैश्च स्तोत्रमंत्रादिभिस्तथा६१।
देवानां पूजने रक्ता न वै प्रेता भवंति ते।
श्रुत्वा पौराणिकं वाक्यं दिव्यं च धर्मसंहितम्६२।
पाठयित्वा पठित्वा च पिशाचत्वं न गच्छति।
व्रतैश्च विविधैः पूताः पद्माक्षधारणैस्तथा६३।
जप्त्वा पद्माक्षमालायां प्रेतत्वं नैव गच्छति।
धात्रीफलद्रवैः स्नात्वा नित्यं तद्भक्षणे रताः६४।
तेन विष्णुं सुसंपूज्य न गछंति पिशाचताम्।
प्रेता ऊचुः-
सतां संदर्शनात्पुण्यमिति पौराणिका विदुः६५।
तस्माद्वो दर्शनं जातं हितं नः कर्तुमर्हथ।
प्रेतभावाद्यथामुक्तिः सर्वेषां नो भविष्यति६६।
व्रतोपदेशकं धीरा युष्माकं शरणागताः।
ततो दयालवः सर्वे तानूचुर्द्विजसत्तमाः६७।
धात्रीणां भक्षणं शीघ्रं कुर्वतां मुक्तिहेतवे।
प्रेता ऊचुः।
धात्रीणां दर्शने विप्रा वयं स्थातुं न शक्नुमः६८।
कथं तेषां फलानां च शक्ता वै भक्षणेधुना।
द्विजा ऊचुः-
अस्माकं वचनेनात्र धात्रीणां भक्षणं शिवम्६९।
फलिष्यति परं लोकं तस्माद्गंतुं समर्हथ।
अथ तेभ्यो वरं लब्ध्वा धात्रीवृक्षं पिशाचकैः७०।
समारुह्य फलं प्राप्य भक्षितं लीलया तदा।
ततो देवालयात्तूर्णं रथं पीनसुशोभनम्७१।
आगतं तं समारुह्य सचांडालपिशाचकाः।
गतास्ते त्रिदिवं पुत्र व्रतैर्यज्ञैः सुदुर्लभम्७२।
स्कंद उवाच-।
धात्रीभक्षणमात्रेण पुण्यं लब्ध्वा दिवं गताः।
तद्भक्षिणः कथं स्वर्गं न गच्छंति नरादयः७३।
ईश्वर उवाच-
पूर्वं ते ज्ञानलोपाच्च न जानंति हिताहितम्।
उच्छिष्टं श्वभिरुत्स्पृष्टं श्लेष्ममूत्रं शकृत्तु वा७४।
मत्वा च मोहिताः श्रेष्ठं प्रेतादंति सदैव हि।
शकृच्छौचजलं वांतं बलिसूकरकुक्कुटैः७५।
मृतके सूतके जप्यं न त्यक्तं येन केनचित्।
तस्यान्नं च जलं प्रेताः खादंति तु सदैव हि७६।
दुर्दांता गृहिणी यस्य शुचिसंयमवर्जिता।
गुरुनिःसारिता दुष्टा संति प्रेताश्च तत्र वै७७।
अपुङ्गवाः कुलैर्जात्या बलोत्साहविवर्जिताः।
बधिराश्च कृशा दीनाः पिशाचाः कर्मजातयः७८।
क्षणं च मंगलं नास्ति दुःखैर्देहयुता भृशम्।
तेनैव विकृताकाराः सर्वभोगविवर्जिताः७९।
नग्नका रोगसंतप्ता मृता रूक्षा मलीमसाः।
एते चान्ये च दुःखार्ताः सदैव प्रेतजातयः८०।
तेन कर्मविपाकेन जायंते काममीदृशाः।
पितृमातृगुरूणां च देवनिंदापराश्च ये८१।
पाषंडाः कौलिकाः पापास्ते प्रेताः कर्मजा भुवि।
गलपाशैर्जलैः शस्त्रैर्गरलैरात्मघातकाः८२।
इहलोके च ते प्रेताश्चांडालादिषु संभवाः।
अंत्यजाः पतिताश्चैव पापरोगमृताश्च ये८३।
अंत्यजैर्घातिता युद्धे ते प्रेता निश्चिता भुवि।
महापातकसंयुक्ता विवाहे च बहिष्कृताः८४।
शौर्यात्साहसिका ये च ते प्रेताः कर्मजा भुवि।
राजद्रोहकरा ये च पितॄणां द्रोहचिंतकाः८५।
ध्यानाध्ययनहीनाश्च व्रतैर्देवार्चनादिभिः।
अमंत्राः स्नानहीनाश्च गुरुस्त्रीगमने रताः८६।
तथैव चांत्यजस्त्रीषु दुर्गतासु च संगताः।
मृताः क्रूरोपवासेन म्लेच्छदेशस्थिता मृताः८७।
म्लेच्छभाषायुताशुद्धास्तथाम्लेच्छोपजीविनः।
अनुवर्तंति ये म्लेच्छान्स्त्रीधनैरुपजीवकाः८८।
स्त्रियो यैश्च न रक्ष्यंते ते प्रेता नात्र संशयः।
क्षुधासंतप्तदेहं तु श्रांतं विप्रं गृहागतम्८९।
गुणपुण्यातिथिं त्यक्त्वा पिशाचत्वं व्रजंति ते।
विक्रीणंति च वै गाश्च म्लेच्छेषु च गवाशिषु९०।
प्रेतलोके सुखं स्थित्वा ते च यांत्यपुनर्भवम्।
अशौचाभ्यंतरे ये च जाताश्च पशवो मृताः९१।
चिरं प्रेताः पिशाचाश्च मृता जाताः पुनः पुनः।
जातकर्ममुखैश्चैव संस्कारैर्ये विविर्जिताः९२।
एकैकस्मिश्च संस्कारे प्रेतत्वं परिहीयते।
स्नानसंध्यासुरार्चाभिर्वेदयज्ञव्रताक्षरैः९३।
आजन्मवर्जिताः पापास्ते प्रेताश्चापुनर्भवाः।
भोजनोच्छिष्टपात्राणि यानि देहमलानि च९४।
निपातयंति ये तीर्थे ते प्रेता नात्र संशयः।
दानमानार्चनैर्नैव यैर्विप्रा भुवि तर्पिताः९५।
पितरो गुरवश्चैव प्रेतास्ते कर्मजा भृशम्।
पतिं त्यक्त्वा च या नार्यो वसंति चेतरैर्जनैः९६।
प्रेतलोके चिरं स्थित्वा जायंते चांत्ययोनिषु।
पतिं च वंचयित्वा या विषयेंद्रियमोहिताः९७।
मिष्टं चादंति याः पापास्तास्तु प्रेताश्चिरं भुवि।
विण्मूत्रभक्षका ये च ब्रह्मस्व भक्षणे रताः९८।
अभक्ष्यभक्षकाश्चान्ये ते प्रेताश्चापुनर्भवाः।
बलाद्ये परवस्तूनि गृह्णंति न ददत्यपि९९।
अतिथीनवमन्यंते प्रेता निरयमास्थिताः।
तस्मादामलकीं भुक्त्वा स्नात्वा तस्य द्रवेण च १०० 1.60.100।
सर्वपापाद्विनिर्मुक्तो विष्णुलोके महीयते।
तस्मात्सर्वप्रयत्नेन सेवयामलकीं शिवाम् १०१।
य इदं शृणुयान्नित्यं पुण्याख्यानमिदं शुभम्।
सर्वपाप प्रपूतात्मा विष्णुलोके महीयते १०२।
श्रावयेत्सततं लोके वैष्णवेषु विशेषतः।
स याति विष्णुसायुज्यमिति पौराणिका विदुः १०३।
स्कंद उवाच-
महीरुह फलं ज्ञातं प्रपूतं द्विविधं प्रभो।
इदानीं श्रोतुमिच्छामि पत्रं पुष्पं सुमोक्षदम् १०४।
ईश्वर उवाच-
सर्वेभ्यः पत्रपुष्पेभ्यः सत्तमा तुलसी शिवा।
सर्वकामप्रदा शुद्धा वैष्णवी विष्णुसुप्रिया १०५।
भुक्तिमुक्तिप्रदा मुख्या सर्वलोकपरा शुभा।
यामाश्रित्य गताः स्वर्गमक्षयं मुनिसत्तमाः १०६।
हितार्थं सर्वलोकानां विष्णुनारोपिता पुरा।
तुलसीपत्रपुष्पं च सर्वधर्मप्रतिष्ठितम् १०७।
यथा विष्णोः प्रियालक्ष्मीर्यथाहं प्रिय एव च।
तथेयं तुलसीदेवी चतुर्थो नोपपद्यते १०८।
तुलसीपत्रमेकं तु शतहेमफलप्रदम्।
नान्यैः पुष्पैस्तथापत्रैर्नान्यैर्गंधानुलेपनैः १०९।
तुष्यते दैत्यहा विष्णुस्तुलस्याश्च दलैर्विना।
अनेन पूजितो येन हरिर्नित्यं पराशया ११०।
तेन दत्तं हुतं ज्ञातं कृतं यज्ञव्रतादिकम्।
जन्मजन्मनि भासित्वं सुखं भाग्यं यशः श्रियं १११।
कुलं शीलं कलत्रं च पुत्रं दुहितरं तथा।
धनं राज्यमरोगत्वं ज्ञानं विज्ञानमेव च ११२।
वेदवेदांगशास्त्रं च पुराणागमसंहिताः।
सर्वं करगतं मन्ये तुलस्याभ्यर्चने हरेः ११३।
यथा गंगा पवित्रांगी सुरलोके विमोक्षदा।
यथा भागीरथी पुण्या तथैवं तुलसी शिवा ११४।
किं च गंगाजले नैव किंच पुष्करसेवया।
तुलसीदलमिश्रेण जलेनैव प्रमोद्यते ११५।
माधवः संमुखो यस्य जन्मजन्मसुधीमतः।
तस्य श्रद्धा भवेछ्रुत्वा तुलस्या हरिमर्चितुम् ११६।
यो मंजरीदलैरेव तुलस्या विष्णुमर्चयेत्।
तस्य पुण्यफलं स्कन्द कथितुं नैव शक्यते ११७।
तत्र केशवसान्निध्यं यत्रास्ति तुलसीवनम्।
तत्र ब्रह्मा च कमला सर्वदेवगणैः सह ११८।
तस्मात्तां संनिकृष्टे तु सदा देवीं प्रपूजयेत्।
स्तोत्रमंत्रादिकं यद्वा सर्वमानंत्यमश्नुते ११९।
ये च प्रेताश्च कूश्मांडाः पिशाचा ब्रह्मराक्षसाः।
भूतदैत्यादयस्तत्र पलायंते सदैव हि १२०।
अलक्ष्मीर्नाशिनी घूर्णा या डाकिन्यादि मातरः।
सर्वाः संकोचितां यांति दृष्ट्वा तु तुलसीदलं १२१।
ब्रह्महत्यादयः पापव्याधयः पापसंभवाः।
कुमंत्रिणा कृता ये च सर्वे नश्यंति तत्र वै १२२।
भूतले वापि तं येन हर्यर्थं तुलसीवनम्।
कृतं क्रतुशतं तेन विधिवत्प्रियदक्षिणम् १२३।
हरिलिंगेषु चान्येषु सालग्रामशिलासु च।
तुलसीग्रहणं कृत्वा विष्णोः सायुज्यमाव्रजेत् १२४।
नंदंति पुरुषास्तस्य माधवार्थे क्षितौ तु यः।
तुलसीं रोपयेद्धीरः स याति माधवालयम् १२५।
पूजयित्वा हरिं देवं निर्माल्यं तुलसीदलम्।
धारयेद्यः स्वशीर्षे तु पापात्पूतो दिवं व्रजेत्१२६।
पूजने कीर्त्तने ध्याने रोपणे धारणे कलौ।
तुलसी दहते पापं र्स्वर्गं मोक्षं ददाति च १२७।
उपदेशं दिशेदस्याः स्वयमाचरते पुनः १२८।
स याति परमं स्थानं माधवस्य निकेतनम्।
हरेः प्रियकरं यच्च तन्मे प्रियतरं भवेत् १२९।
सर्वेषामपि देवानां देवीनां च समंततः।
श्राद्धेषु यज्ञकार्येषु पर्णमेकं षडानन १३०।
तस्मात्सर्वप्रयत्नेन तुलसीसेवनं कुरु।
तुलसी सेविता येन तेन सर्वं तु सेवितम् १३१।
गुरुं विप्रं देवतीर्थं तस्मात्सेवय षण्मुख।
शिखायां तुलसीं कृत्वा यस्तु प्राणान्परित्यजेत् १३२।
दुष्कृतौघाद्विनिर्मुक्तः स्वर्गमेति निरामयम्।
राजसूयादिभिर्यज्ञैर्व्रतैश्च विविधैर्यमैः १३३।
या गतिः प्राप्यते धीरैः तुलसीसेविनां भवेत्।
तुलसीदलेन चैकेन पूजयित्वा हरिं नरः १३४।
वैष्णवत्वमवाप्नोति किमन्यैः शास्त्रविस्तरैः।
न पिबेत्स पयो मातुस्तुलस्याः कोटिसंख्यकैः १३५।
अर्चितः केशवो येन शाखामृदुलपल्लवैः।
भावयेत्पुरुषान्मर्त्यः शतशोथ सहस्रशः १३६।
पूजयित्वा हरिं नित्यं कोमलैस्तुलसीदलैः।
प्रधानतो गुणास्तात तुलस्या गदिता मया १३७।
निखिलं पुरुकालेन गुणं वक्तुं न शक्नुमः।
यस्त्विदं शृणुयान्नित्यमाख्यानं पुण्यसंचयम् १३८।
पूर्वजन्मकृतात्पापान्मुच्यते जन्मबंधनात्।
सकृत्पठनमात्रेण वह्निष्टोमफलं लभेत् १३९।
न तस्य व्याधयः पुत्र मूर्खत्वं न कदाचन।
सर्वदा जयमाप्नोति न गच्छेत्स पराजयं १४०।
लेखस्तिष्ठेद्गृहे यस्य तस्य लक्ष्मीः प्रवर्तते।
न चाधयो न च प्रेता न शोको नावमानना १४१।
न तिष्ठंति क्षणं तत्र यत्रेयं वर्तते लिपिः १४२।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तुलसीमाहात्म्यं नाम षष्टितमोऽध्यायः ६०।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 61
एकषष्टितमोऽध्यायः 1.61
द्विजाऊचुः-
तुलसीपुष्पमाहात्म्यं श्रुतं त्वत्तो हरेः शुभम्।
तस्या स्तोत्रं कृतं पुण्यं श्रोतुमिच्छामहे वयम् १।
व्यास उवाच-
पुरा स्कंदपुराणे च यन्मया कीर्तितं द्विजाः।
कथयामि पुराणं च पुरतो मोक्षहेतवे २।
शतानंद मुनेः शिष्याः सर्वे ते संशितव्रताः।
प्रणिपत्य गुरुं विप्राः पप्रच्छुः पुण्यतो हितम् ३।
पूर्वं ब्रह्ममुखान्नाथ यच्छ्रुतं तुलसीस्तवम्।
तद्वयं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर ४।
शतानंद उवाच-
नामोच्चारे कृते तस्याः प्रीणात्यसुरदर्पहा।
पापानि विलयं यांति पुण्यं भवति चाक्षयम् ५।
सा कथं तुलसी लोकैः पूज्यते वंद्यते नहि।
दर्शनादेव यस्यास्तु दानं कोटिगवां भवेत् ६।
धन्यास्ते मानवा लोके यद्गृहे विद्यते कलौ।
सालग्रामशिलार्थं तु तुलसी प्रत्यहं क्षितौ ७।
तुलसीं ये विचिन्वंति धन्यास्ते करपल्लवाः।
केशवार्थं कलौ ये च रोपयंतीह भूतले ८।
किं करिष्यति संरुष्टो यमोपि सह किंकरैः।
तुलसीदलेन देवेशः पूजितो येन दुःखहा ९।
तीर्थयात्रादिगमनैः फलैः सिध्यति किन्नरः।
स्नाने दाने तथा ध्याने प्राशने केशवार्चने १०।
तुलसी दहते पापं कीर्तने रोपणे कलौ।
तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ११।
केशवार्थं चिनोमि त्वां वरदा भव शोभने।
त्वदंगसंभवैर्नित्यं पूजयामि यथाहरिम् १२।
तथा कुरु पवित्रांगि कलौ मलविनाशिनि।
मंत्रेणानेन यः कुर्याद्विचित्य तुलसीदलम् १३।
पूजनं वासुदेवस्य लक्षकोटिगुणं भवेत्।
प्रभावं तव देवेशि गायंति सुरसत्तमाः १४।
मुनयः सिद्धगंधर्वाः पाताले नागराट्स्वयम्।
न ते प्रभावं जानंति देवताः केशवादृते १५।
गुणानां परिमाणं तु कल्पकोटिशतैरपि।
कृष्णानंदात्समुद्भूता क्षीरोदमथनोद्यमे १६।
उत्तमांगे पुरा येन तुलसी विष्णुना धृता।
प्राप्यैतानि त्वया देवि विष्णोरंगानि सर्वशः १७।
पवित्रता त्वया प्राप्ता तुलसीं त्वां नमाम्यहम्।
त्वदंगसंभवैः पत्रैः पूजयामि यथा हरिम् १८।
तथा कुरुष्व मेऽविघ्नं यतो यामि परां गतिम्।
रोपिता गोमतीतीरे स्वयं कृष्णेन पालिता १९।
जगद्धिताय तुलसी गोपीनां हितहेतवे।
वृंदावने विचरता सेविता विष्णुना स्वयम् २०।
गोकुलस्य विवृद्ध्यर्थं कंसस्य निधनाय च।
वसिष्ठवचनात्पूर्वं रामेण सरयूतटे २१।
राक्षसानां वधार्थाय रोपिता त्वं जगत्प्रिये।
रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् २२।
वियोगे वासुदेवस्य ध्यात्वा त्वां जनकात्मजा।
अशोकवनमध्ये तु प्रियेण सह संगता २३।
शङ्करार्थं पुरा देवि पार्वत्या त्वं हिमालये।
रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् २४।
सर्वाभिर्देवपत्नीभिः किन्नरैश्चापि नंदने।
दुःस्वप्ननाशनार्थाय सेविता त्वं नमोस्तु ते २५।
धर्मारण्ये गयायां च सेविता पितृभिः स्वयम्।
सेविता तुलसी पुण्या आत्मनो हितमिच्छता २६।
रोपिता रामचंद्रेण सेविता लक्ष्मणेन च।
पालिता सीतया भक्त्या तुलसी दंडके वने २७।
त्रैलोक्यव्यापिनी गंगा यथा शास्त्रेषु गीयते।
तथैव तुलसी देवी दृश्यते सचराचरे २८।
ऋश्यमूके च वसता कपिराजेन सेविता।
तुलसी वालिनाशाय तारासंगम हेतवे २९।
प्रणम्य तुलसीदेवीं सागरोत्क्रमणं कृतम्।
कृतकार्यः प्रहृष्टश्च हनूमान्पुनरागतः ३०।
तुलसीग्रहणं कृत्वा विमुक्तो याति पातकैः।
अथवा मुनिशार्दूल ब्रह्महत्यां व्यपोहति ३१।
तुलसीपत्रगलितं यस्तोयं शिरसा वहेत्।
गंगास्नानमवाप्नोति दशधेनुफलप्रदम् ३२।
प्रसीद देवि देवेशि प्रसीद हरिवल्लभे।
क्षीरोदमथनोद्भूते तुलसि त्वां नमाम्यहम् ३३।
द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्।
द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः ३४।
यत्पापं यौवने बाल्ये कौमारे वार्द्धके कृतम्।
तत्सर्वं विलयं याति तुलसीस्तव पाठतः ३५।
प्रीतिमायाति देवेशस्तुष्टो लक्ष्मीं प्रयच्छति।
कुरुते शत्रुनाशं च सुखं विद्यां प्रयच्छति३६।
तुलसीनाममात्रेण देवा यच्छंति वांछितम्।
गर्ह्याणमपि देवेशो मुक्तिं यच्छति देहिनाम् ३७।
तुलसी स्तवसंतुष्टा सुखं वृद्धिं ददाति च।
उद्गतं हेलया विद्धि पापं यमपथे स्थितम् ३८।
यस्मिन्गृहे च लिखितो विद्यते तुलसीस्तवः।
नाशुभं विद्यते तस्य शुभमाप्नोति निश्चितम् ३९।
सर्वं च मंगलं तस्य नास्ति किंचिदमंगलम्।
सुभिक्षं सर्वदा तस्य धनं धान्यं च पुष्कलम् ४०।
निश्चला केशवे भक्तिर्न वियोगश्च वैष्णवैः।
जीवति व्याधिनिर्मुक्तो नाधर्मे जायते मतिः ४१।
द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्।
तीर्थकोटिसहस्रैस्तु यत्फलं लक्षकोटिभिः ४२।
तत्फलं समवाप्नोति पठित्वा तुलसीस्तवम् ४३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तुलसीस्तवमाहात्म्यं नामैकषष्टितमोऽध्यायः ६१।
।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 62
द्विषष्टितमोऽध्यायः 1.62
द्विजाऊचुः-
मज्जनादखिलं पापं क्षयं यांति सुनिश्चितम्।
महापातकमन्यच्च तदादेशं वदस्व नः१।
पापात्पूतोऽक्षयं नाकमश्नुते दिवि शक्रवत्।
सुरयोनेर्न हानिः स्यादुपदेशं वदस्व नः२।
अत्र भोग्यं परं सर्वं मृते स्वर्गे सुरोत्तमः।
कलिपापहतानां च स्वर्गसोपानमुच्यते३।
व्यास उवाच-
गतिं चिंतयतां विप्रास्तूर्णं सामान्यजन्मनाम्।
स्त्रीपुंसामीक्षणाद्यस्माद्गंगा पापं व्यपोहति४।
गंगेति स्मरणादेव क्षयं याति च पातकम्।
कीर्तनादतिपापानि दर्शनाद्गुरुकल्मषम्५।
स्नानात्पानाच्च जाह्नव्यां पितॄणां तर्पणात्तथा।
महापातकवृंदानि क्षयं यांति दिनेदिने६।
अग्निना दह्यते तूलं तृणं शुष्कं क्षणाद्यथा।
तथा गंगाजलस्पर्शात्पुंसां पापं दहेत्क्षणात्७।
संप्राप्नोत्यक्षयं स्वर्गं गंगास्नानेन केशवम्।
यशो राज्यं लभेत्पुण्यें स्वर्गमंते परां गतिम्८।
पितॄनुद्दिश्य गंगायां यस्तु पिंडं प्रयच्छति।
विधिना वाक्यपूर्वेण तस्य पुण्यफलं शृणु९।
अन्नैकेन तु साहस्रं वर्षं पूज्यः सुरालये।
तिलेन द्विगुणं विद्धि तथा मेध्यफलेन च१०।
गव्येन विधिना विप्राः स्वर्गस्यांतो न विद्यते।
एवं पिंडप्रदानेन नित्यं क्रतुशतं भवेत्११।
पितरो निरयस्था ये धन्यास्ते मर्त्यवासिनः।
धनपुत्रयुतारोग्यं सुखसंमानपूजिताः१२।
रसातलगता ये च ये च कीटा महीतले।
स्थावरे पक्षिसंघादौ ते मर्त्या धनिनो नृपाः१३।
तत्तत्पुत्रैश्च पौत्रैश्च गोत्रैर्दौहित्रकैस्तथा।
जामातृभागिनेयैश्च सुहृन्मित्रैः प्रियाप्रियैः१४।
प्रदीयते जलं पिंडं यथोपकरणान्वितम्।
गंगातोयेषु तीरेषु तेषां स्वर्गोऽक्षयो भवेत्१५।
पिंडादूर्ध्वं स्थिता ये च पितरो मातृगोत्रजाः।
भवंति सुखिनः सर्वे मर्त्याश्शतसहस्रशः१६।
स्वर्गे तस्य स्थिताः सत्वा अधःस्था मध्यवासिनः।
नित्यं वांञ्छंति सद्गंगां गच्छंतु सुरनिम्नगाम्१७।
एको गच्छति गंगां यः पूयंते तस्य पूरुषाः।
एतदेव महापुण्यं तरते तारयत्यपि१८।
गंगा कृत्स्नगुणं वक्तुं न शक्तश्चतुराननः।
अतः किंचिद्वदाम्यत्र भागीरथ्या द्विजा गुणम्१९।
मुनयः सिद्धगंधर्वा ये चान्ये सुरसत्तमाः।
गंगातीरे तपस्तप्त्वा स्वर्गलोकेऽच्युताभवन्२०।
दिव्येन वपुषा सर्वे कामगेन रथेन च।
अद्यापि न निवर्तंते रत्नपूर्णक्षयेषु वै२१।
प्रासादा यत्र सौवर्णास्सर्वलोकोर्ध्वगाश्शिवाः।
इष्टद्रव्यैः सुसंपूर्णाः स्त्रियो यत्र मनोरमाः२२।
पारिजातः समाः पुष्पवृक्षाः कल्पद्रुमोपमाः।
गंगातीरे तपस्तप्त्वा तत्रैश्वर्यं लभंति हि२३।
तपोभिर्बहुभिर्यज्ञैर्व्रतैर्नानाविधैस्तथा।
पुरुदानैर्गतिर्या च गंगां संसेवतां च सा२४।
जारजं पतितं दुष्टमंत्यजं गुरुघातिनम्।
सर्वद्रोहेण संयुक्तं सर्वपातकसंयुतम्२५।
त्यजंति पितरं पुत्राः प्रियं पत्न्यः सुहृद्गणाः।
अन्ये च बांधवाः सर्वे गंगा तु न परित्यजेत्२६।
यथा माता स्वयं जन्ममलशौचं च कारयेत्।
क्रोडीकृत्य तथा तेषां गंगा प्रक्षालयेन्मलम्२७।
भवंति ते सुविख्याता भोग्यालंकारपूजिताः।
दर्शने क्रियते गंगा सकृद्भक्त्या नरैस्तु यैः२८।
तेषां कुलानां लक्षं तु भवात्तारयते शिवा।
स्मृतार्ति हर्त्री यैर्ध्याता संस्तुता साधुमोदिता२९।
गंगा तारयते नॄणामुभौ वंशौ भवार्णवात्।
संक्रांतिषु व्यतीपाते ग्रहणे चंद्रसूर्ययोः३०।
पुण्ये स्नात्वा तु गंगायां कुलकोटिं समुद्धरेत्।
शुक्लपक्षे दिवामर्त्या गंगायामुत्तरायणे३१।
धन्या देहं विमुंचंति हृदिस्थे च जनार्दने।
अनेन विधिना यस्तु भागीरथ्या जले शुभे३२।
प्राणांस्त्यक्त्वा व्रजेत्स्वर्गं पुनरावृत्तिवर्जितम्।
यो गंगानुगतो नित्यं सर्वदेवानुगो हि सः३३।
सर्वदेवमयो विष्णुर्गंगा विष्णुमयी यतः।
गंगायां पिंडदानेन पितॄणां वै तिलोदकैः३४।
नरकस्था दिवं यांति स्वर्गस्था मोक्षमाप्नुयुः।
परदारपरद्रव्य बाधा द्रोहपरस्य च३५।
गतिर्मनुष्यमात्रस्य गंगैव परमा गतिः।
वेदशास्त्रविहीनस्य गुरुनिंदापरस्य च३६।
समयाचारहीनस्य नास्ति गंगासमा गतिः।
किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः३७।
स्वर्गमोक्षप्रदा गंगा सुखसौभाग्यपूजिता।
नियमैः परमैर्नित्यं किं योगैश्चित्तरोधकैः३८।
भुक्तिमुक्तिप्रदा गंगा सुखमोक्षाग्रतः स्थिता।
अनेकजन्मसंघात पापं पुंसां विनश्यति३९।
स्नानमात्रेण गंगायां सद्यः स्यात्पुण्यभाङ्नरः।
प्रभासे गोसहस्रस्य राहुग्रस्ते दिवाकरे४०।
लभते यत्फलं दाने गंगास्नानाद्दिनेदिने।
दृष्ट्वा तु हरते पापं स्पृष्ट्वा तु लभते दिवम्४१।
प्रसंगादपि सा गंगा मोक्षदा त्ववगाहिता।
सर्वेन्द्रियाणां चापल्यं वासनाशक्तिसंभवम्४२।
निर्घृणत्वं ततो गंगा दर्शनात्प्रविनश्यति।
परद्रव्याभिकांक्षित्वं परदाराभिलाषिता४३।
परधर्मे रुचिश्चैव दर्शनादेव नश्यति।
यदृच्छालाभ संतोषस्स्वधर्मेषु प्रवर्तते४४।
सर्वभूतसमत्वं च गङ्गायां मज्जनाद्भवेत्।
यस्तु गंगां समाश्रित्य सुखं तिष्ठति मानवः४५।
जीवन्मुक्तस्स एवेह सर्वेषामुत्तमोत्तमः।
गंगां संश्रित्य यस्तिष्ठेत्तस्य कार्यं न विद्यते४६।
कृतकृत्यस्स वै मुक्तो जीवन्मुक्तश्च मानवः।
यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम्४७।
गंगायां तु कृतं नित्यं कोटिकोटि गुणं भवेत्।
अन्यस्थाने कृतं पापं गंगातीरे विनश्यति४८।
गंगातीरे कृतं पापं गंगास्नानेन नश्यति।
आत्मनो जन्मनक्षत्रे जाह्नवीसंगते दिने४९।
नरः स्नात्वा तु गंगायां स्वकुलं च समुद्धरेत्।
आदरेण यथा स्तौति धनवंतं सदा नरः५० 1.62.50।
सकृद्गंगां तथा स्तुत्वा भवेत्स्वर्गस्य भाजनम्।
अश्रद्धयापि गंगायां योसौ नामानुकीर्तनं५१।
करोति पुण्यवाहिन्यास्स वै स्वर्गस्य भाजनम्।
क्षितौ भावयतो मर्त्यान्नागांस्तारयतेप्यधः५२।
दिवि तारयते देवान्गंगा त्रिपथगा स्मृता।
ज्ञानतोज्ञानतो वापि कामतोऽकामतोपि वा५३।
गंगायां च मृतो मर्त्यः स्वर्गं मोक्षं च विंदति।
या गतिर्योगयुक्तस्य सत्वस्थस्य मनीषिणः५४।
सा गतिस्त्यजतः प्राणान्गंगायां तु शरीरिणः।
चांद्रायणसहस्राणि यश्चरेत्कायशोधनम्५५।
पानं कुर्याद्यथेच्छं च गंगांभः स विशिष्यते।
तावत्प्रभावस्तीर्थानां देवानां तु विशेषतः५६।
तावत्प्रभावो वेदानां यावन्नाप्नोति जाह्नवीम्।
तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्५७।
दिविभुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि।
विष्णुपादाब्जसंभूते गंगे त्रिपथगामिनि५८।
धर्मद्रवेति विख्याते पापं मे हर जाह्नवि।
विष्णुपादप्रसूतासि वैष्णवी विष्णुपूजिता५९।
त्राहि मामेनसस्तस्मादाजन्ममरणांतिकात्।
श्रद्धया धर्मसंपूर्णे श्रीमता रजसा च ते६०।
अमृतेन महादेवि भागीरथि पुनीहि मां।
त्रिभिः श्लोकवरैरेभिर्यः स्नायाज्जाह्नवी जले६१।
जन्मकोटिकृतात्पापान्मुच्यते नात्र संशयः।
मूलमंत्रं प्रवक्ष्यामि जाह्नव्या हरभाषितम्६२।
सकृज्जपान्नरः पूतो विष्णुदेहे प्रतिष्ठति।
मंत्रश्चायं-
ॐनमो गंगायै विश्वरूपिण्यै नारायण्यै नमोनमः६३।
जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः।
सर्वपापविनिर्मुक्तो गंगास्नानं विना नरः६४।
गंगाजलोर्मिनिर्धूत पवनं स्पृशते यदि।
स पूतः कल्मषाद्घोरात्स्वर्गं चाक्षयमश्नुते६५।
यावदस्थि मनुष्यस्य गंगातोये प्रतिष्ठति।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते६६।
पित्रोर्बंधुजनानां च अनाथानां गुरोरपि।
गंगायामस्थिपातेन नरः स्वर्गान्न हीयते६७।
गंगां प्रतिवहेद्यस्तु पितॄणामस्थिखंडकम्।
पदेपदेश्वमेधस्य फलं प्राप्नोति मानवः६८।
धन्या जानपदा ये च पशवः पक्षिकीटकाः।
स्थावरा जंगमाश्चान्ये गंगातीरसमाश्रिताः६९।
क्रोशांतर मृता ये च जाह्नव्या द्विजसत्तमाः।
मानवा देवतास्संति इतरे मानवा भुवि७०।
गंगास्नानाय संगच्छन्पथि संम्रियते यदि।
स च स्वर्गमवाप्नोति गंगास्नानफलं लभेत्७१।
गंगाजले प्रयास्यंति ते जीवाः पथि ये मृताः।
कीटाः पंतंगाश्शलभाः पादाघातेन गच्छतां७२।
ये वदंति समुद्देशं गंगां प्रति जनं द्विजाः।
ते च यांति परं पुण्यं गंगास्नानफलं नराः७३।
जाह्नवीं ये च निंदंति पाषण्डैर्हतचेतसः।
ते यांति नरकं घोरं पुनरावृत्तिदुर्लभम्७४।
दुस्थोवापि स्मरन्नित्यं गंगेति परिकीर्तयन्।
पठन्स्वर्गमवाप्नोति किमन्यैर्बहुभाषितैः७५।
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति७६।
अंधाश्च पंगवस्ते च वृथाभव समुद्भवाः।
गर्भपाताद्विपद्यंते ये गंगां न गता नराः७७।
न कीर्तयंति ये गंगां जडतुल्या नराधमाः।
परान्नोपदिशंति स्म वातूलाश्चित्तविभ्रमाः७८।
न पठंति जना ये च तेषां शास्त्रं विनिष्फलम्।
गंगापुण्यफलं विप्राः कुधियः पतिताधमाः७९।
पाठयंति जना ये च श्रद्धया निपठंति च।
गच्छंति ते दिवं धीरास्तारयंति पितॄन्गुरून्८०।
पाथेयकं गच्छतां यो वसु शक्त्या प्रयच्छति।
भागीरथ्या लभेत्स्नानं यः परान्नेन गच्छति८१।
कर्तुः स्नानफलं विद्याद्द्विगुणं प्रेरकस्य च।
इच्छयानिच्छया चापि प्रेरणेनान्यसेवया८२।
जाह्नवीं यो गतः पुण्यां स गच्छेन्निर्जरालयम्।
द्विजा ऊचुः-
गंगायाः कीर्तनं व्यास श्रुतं त्वत्तो विनिर्मलम्८३।
गंगा कस्मात्किमाकारा कुतः सा ह्यतिपावनी।
व्यास उवाच-
शृणुध्वं कथयाम्यद्य कथां पुण्यां पुरातनीं८४।
यां श्रुत्वा मोक्षमार्गं च प्राप्नोति नरसत्तमः।
ब्रह्मलोकं पुरा गत्वा नारदो मुनिपुंगवः८५।
नत्वा विधिं च पप्रच्छ पूतं त्रैलोक्यपावनम्।
किं सृष्टं च त्वया तात संमतं शंभुकृष्णयोः८६।
सर्वलोकहितार्थाय भुवःस्थाने समीहितम्।
देवी वा देवता का वा सर्वासामुत्तमोत्तमा८७।
यां समासाद्य देवाश्च दैत्यमानुषपन्नगाः।
अंडजाः स्वेदजा वृक्षा ये चान्य उद्भिज्जादयः८८।
सर्वे यांति शिवं ब्रह्मन्समग्रं विभवं ध्रुवम्।
ब्रह्मोवाच-
सृजता च पुरा प्रोक्ता माया प्रकृतिरूपिणी८९।
आद्या भव स्वलोकानां त्वत्तो भवं सृजाम्यहम्।
एतच्छ्रुत्वा परा सा च सप्तधा चाभवत्तदा९०।
गायत्रीवाक्च स्वर्लक्ष्मीस्सर्वसस्य वसुप्रदा।
ज्ञानविद्या उमादेवी शक्तिबीजा तपस्विनी९१।
वर्णिका धर्मद्रवा च एतास्सप्त प्रकीर्तिताः।
गायत्रीप्रभवा वेदा वेदात्सर्वं स्थितं जगत्९२।
स्वस्ति स्वाहा स्वधा दीक्षा एता गायत्रिजा स्मृताः।
उच्चारयेत्सदा यज्ञे गायत्रीं मातृकादिभिः९३।
क्रतौ देवाः स्वधां प्राप्य भवेयुरजरामराः।
ततस्सुधारसं देवा मुमुचुर्धरणीतले९४।
अथ सस्यवती पृथ्वी ओषधीनां परा शुभा।
फलमूलैरसैर्भक्ष्यैर्जनाः सुस्थतराभवन्९५।
भारती सर्वलोकानां चानने मानसे स्थिता।
तथैव सर्वशास्त्रेषु धर्मोद्देशं करोति सा९६।
विज्ञानं कलहं शोकं मोहामोहं शिवाशिवम्।
तया विना जगत्सर्वं यात्यतत्त्वमिति स्मृतम्९७।
कमलासंभवश्चैव वस्त्रभूषणसंचयः।
सुखं राज्यं त्रिलोके तु ततः सा हरिवल्लभा९८।
उमया हेतुना शंभोर्ज्ञानं लोकेषु संततम्।
ज्ञानमाता च सा ज्ञेया शंभोरर्धाङ्गवासिनी९९।
वर्णिकाशक्तिरत्युग्रा सर्वलोकप्रमोहिनी।
सर्वलोकेषु लोकानां स्थितिसंहारकारिणी१०० 1.62.100
देव्या च निहतौ पूर्वमसुरौ मधुकैटभौ।
रुरुश्चापि हतो घोरः सर्वलोकपरिश्रुतः१०१।
सर्वदेवैकजेतारं सा जघ्ने महिषासुरम्।
निहता लीलया देव्या येऽसुरा दैत्यपुंगवाः१०२।
एवं बलानि दैत्यानां निहत्य सर्वदा तया।
पालितं मोदितं चैव कृत्स्नमेतज्जगत्त्रयम्१०३।
धर्मद्रवस्वरूपा च सर्वधर्मप्रतिष्ठिता।
महतीं तां समालोक्य मया कमंडलौ धृता१०४।
विष्णुपादाब्जसम्भूता शंभुना शिरसा धृता।
अस्माभिश्च त्रिभिर्युक्ता ब्रह्मविष्णुमहेश्वरैः१०५।
धर्मद्रवा परिख्याता जलरूपा कमंडलौ।
बलियज्ञेषु संभूता विष्णुना प्रभविष्णुना१०६।
छद्मना छलितः पूर्वं बलिर्बलवतां वरः।
ततः पादद्वयेनैव क्रांतं सर्वं महीतलम्१०७।
नभः पादश्च ब्रह्माण्डं भित्वा मम पुरः स्थितः।
मया संपूजितः पादः कमण्डलुजलेन वै१०८।
प्रक्षाल्यैवार्चितात्पादाद्धेमकूटेऽपतज्जलम्।
तत्कूटाच्छंकरं प्राप्य भ्रमते सा जटास्थिता१०९।
ततो भगीरथेनैव समाराध्य शिवं भुवि।
आनीयाराधितो नित्यं तपसा गजपुंगवः११०।
तेन भित्वा नगं वीर्यात्त्रिभिर्दंतैः कृतं बिलम्।
ततस्त्रिबिलगा यस्मात्त्रिस्रोता लोकविश्रुता१११।
हरिब्रह्महरयोगात्पूता लोकस्य पावनी।
समासाद्य च तां देवीं सर्वधर्मफलं लभेत्११२।
पाठयज्ञपरैः सर्वैर्मंत्र होम सुरार्चनैः।
सा गतिर्न भवेज्जंतोर्गंगा संसेवया च या११३।
धर्मस्य साधनोपायो ह्यतः परो न विद्यते।
त्रैलोक्यपुण्यसंयोगात्तस्मात्तां व्रज नारद११४।
गंगातोयास्थिसंयोगात्सुतास्ते सगरस्य च।
स्वर्गताः पितृभिश्चैव स्वपूर्वापरजैः सह११५।
ततो ब्रह्ममुखाच्छ्रुत्वा नारदो मुनिपुंगवः।
गंगाद्वारे तपः कृत्वा ब्रह्मणा सदृशोभवत्११६।
सर्वत्र सुलभा गंगा त्रिषुस्थानेषु दुर्लभा।
गंगाद्वारे प्रयागे च गंगासागरसंगमे११७।
त्रिरात्रेणैकरात्रेण नरो याति परां गतिम्।
तस्मात्सर्वप्रयत्नेन सद्यो मुक्तिं विचिंतयेत्११८।
ततो गच्छत धर्मज्ञाः शिवां भागीरथीमिह।
अचिरेणैव कालेन स्वर्गं मोक्षं प्रगच्छथ११९।
विशेषात्कलिकाले च गंगा मोक्षप्रदा नृणां।
कृच्छ्राच्च क्षीणसत्वानामनंतः पुण्यसंभवः१२०।
ततस्ते ब्राह्मणा हृष्टाः श्रुत्वा व्यासाद्गिरं शुभाम्।
गंगायां तु तपस्तप्त्वा मोक्षमार्गं ययुस्तदा१२१।
य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम्।
सर्वं तरति दुःखौघ गंगास्नानफलं लभेत्१२२।
सकृदुच्चारिते चैव सर्वयज्ञफलं लभेत्।
दानं जप्यं तथा ध्यानं स्तोत्रं मंत्रं सुरार्चनम्१२३।
तत्रैव कारयेद्यस्तु स चानंतफलं लभेत्।
तस्मात्तत्रैव कर्त्तव्यं जपहोमादिकं नरैः१२४।
अनंतं च फलं प्रोक्तं जन्मजन्मसु लभ्यते१२५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गंगामाहात्म्यंनाम।
द्विषष्टितमोऽध्यायः६२।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 63
पुलस्त्य उवाच-
एतस्मिन्नंतरे पूर्वं व्यासशिष्यो महामुनिः।
नमस्कृत्य गुरुं भीष्म संजयः परिपृच्छति१।
देवानां पूजनोपायं क्रमं ब्रूहि सुनिश्चितम्।
अग्रे पूज्यतमः कोसौ को मध्यो नित्यपूजने२।
अंते च पूजा कस्यैव कस्य को वा प्रभावकः।
किंवा कं च फलं ब्रह्मन्पूजयित्वा लभेन्नरः३।
व्यास उवाच-
गणेशं पूजयेदग्रे त्वविघ्नार्थं परे त्विह।
विनायकत्वमाप्नोति यथा गौरीसुतो हि सः४।
पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ।
सर्वलोकधरौ शूरौ देवौ स्कंदगणाधिपौ५।
तौ च दृष्ट्वा नगसुता सिध्यर्थं पर्यभाषत।
इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदान्वितैः६।
महाबुद्धीति विख्यातं सुधया परिनिर्मितम्।
गुणं चास्य प्रवक्ष्यामि शृणुतं तु समाहितौ७।
अस्यैवाघ्राणमात्रेण अमरत्वं लभेद्ध्रुवम्।
सर्वशास्त्रार्थतत्त्वज्ञः सर्वशस्त्रास्त्रकोविदः८।
निपुणः सर्वतंत्रेषु लेखकश्चित्रकृत्सुधीः।
ज्ञानविज्ञानतत्त्वज्ञः सर्वज्ञो नात्र संशयः९।
पुत्रौ धर्मादधिकतां प्राप्य सिद्धिशतं व्रजेत्।
यस्तस्य वै प्रदास्यामि पितुस्ते संमतं त्विदम्१०।
श्रुत्वा मातृमुखादेवं वचः परमकोविदः।
स्कंदस्तीर्थं ययौ सद्यः सर्वं त्रिभुवनस्थितं११।
बर्हिणं स्वं समारुह्य त्वभिषेकः कृतः क्षणात्।
पितरौ प्रदक्षिणं कृत्वा लंबोदरधरस्सुधीः१२।
तत एव मुदायुक्तः पित्रोरेवाग्रत स्थितः।
पुरतश्च तथा स्कंदो मे देहीति ब्रुवन्स्थितः१३।
ततस्तु तौ समीक्ष्याथ पार्वती विस्मिताब्रवीत्।
सर्वतीर्थाभिषेकैस्तु सर्वदेवैर्न तैस्तथा१४।
सर्वयज्ञव्रतैर्मंत्रैर्योगैरन्यैर्यमैस्तथा।
पित्रोरर्चाकृतः कोपि कलां नार्हति षोडशीम्१५।
तस्मात्सुतशतादेषोऽधिकः शतगुणैरपि।
अतो ददामि हेरम्बे मोदकं देवनिर्मितम्१६।
अस्यैव कारणादस्य अग्रे पूजा मखेषु च।
वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च १७।
पार्वत्या सह भूतेशो ददौ तस्मै वरं महत्।
अस्यैव पूजनादग्रे देवास्तुष्टा भवंतु च१८।
सर्वासामपि देवीनां पितॄणां च समंततः।
तपो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे१९।
ततः सर्वेषु यज्ञेषु पूजयेद्गणपं द्विजः।
कोटिकोटिगुणं तेषु देवदेवी वचो यथा२०।
दत्वा सर्वगुणं पुण्यं देवदेव्या तथा मुदा।
कृतं गणाधिपत्यं च सर्वदेवाग्रतस्तदा२१।
तस्मात्प्राज्येषु यज्ञेषु स्तोत्रेषु नित्यपूजने।
गणेशं पूजयित्वा तु सर्वसिद्धिं लभेन्नरः२२।
एवं ज्ञात्वा तु देवैस्तु दयितप्राप्ति काम्यया।
पूजितश्चाथसर्वैस्तु स्वर्गमोक्षार्थतो ध्रुवम्२३।
नक्ताहारश्चतुर्थ्यां तु पूजयित्वा गणाधिपं।
लिंगे वा प्रतिमा चित्रे देवः पूज्यो भवेद्यदि२४।
गणाधिप नमस्तुभ्यं सर्वविघ्नप्रशांतिद।
उमानंदप्रद प्राज्ञ त्राहि मां भवसागरात्२५।
हरानंदकरध्यान ज्ञानविज्ञानद प्रभो।
विघ्नराज नमस्तुभ्यं प्रसन्नो भव सर्वदा२६।
कृतोपवासो गणपं पूजयेद्यो नरो मुदा।
सर्वपापविनिर्मुक्तः सुरलोके महीयते२७।
स्तोत्रं तस्य प्रवक्ष्यामि नामद्वादशकं शुभं।
ॐनमो गणपतये मंत्र एष उदाहृतः२८।
गणपतिर्विघ्नराजो लंबतुंडो गजाननः।
द्वैमातुरश्च हेरम्ब एकदंतो गणाधिपः२९।
विनायकश्चारुकर्णः पशुपालो भवात्मजः।
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्३०।
विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत्क्वचित्।
महाप्रेताश्शमं यांति पीड्यते व्याधिभिर्न च।
सर्वपापाद्विनिर्मुक्तो ह्यक्षयं स्वर्गमश्नुते३१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गणपतिस्तोत्रं नाम।
त्रिषष्टितमोऽध्यायः६३।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 64
व्यास उवाच-
पुनरन्यत्प्रवक्ष्यामि स्तोत्रं गणाधिपस्य च।
सर्वसिद्धिकरं पूतं सर्वाभीष्टफलप्रदं१।
एकदंतं महाकायं तप्तकांचनसन्निभम्।
लंबोदरं विशालाक्षं वंदेहं गणनायकं २।
मुंजकृष्णाजिनधरं नागयज्ञोपवीतकम्।
बालेंदुकलिकामौलिं वंदेहं गणनायकं३।
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्।
मूषकोत्तममारुह्य देवासुरमहाहवे४।
योद्धुकामं महाबाहुं वंदेहं गणनायकम्।
अंबिकाहृदयानंदं मातृकापरिवेष्टितम्५।
भक्तिप्रियं मदोन्मत्तं वंदेहं गणनायकम्।
चित्ररत्नविचित्रांगं चित्रमालाविभूषणम्६।
कामरूपधरं देवं वंदेहं गणनायकम्।
गजवक्त्रं सुरश्रेष्ठं चारुकर्णविभूषितम्७।
पाशांकुशधरं देवं वंदेहं गणनायकम्।
यक्षकिन्नरगंधर्वैः सिद्धविद्याधरैस्सदा८।
स्तूयमानं महादेहं वंदेहं गणनायकम्।
गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः९।
सर्वसिद्धिमवाप्नोति रुद्रलोके महीयते।
न निःस्वतां तथाभ्येति सप्तजन्मसु मानवः१०।
य इदं पठते नित्यं महाराजो भवेन्नरः।
वश्यं करोति त्रैलोक्यं पठनाच्छ्रवणादपि।
स्तोत्रं परं महापुण्यं गणपस्य महात्मनः११।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गणपतिस्तोत्रं नाम-चतुष्षष्टितमोऽध्यायः६४।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 65
व्यास उवाच-।
नांदीमुखेषु सर्वेषु पूजयेद्यो गणाधिपम्।
तस्य सर्वो भवेद्वश्यः पुण्यं भवति चाक्षयम्१।
गणानां त्वेति मंत्रेण सर्वयज्ञघटेषु च।
सर्वसिद्धिमवाप्नोति स्वर्गं मोक्षं लभेन्नरः२।
मृण्मये प्रतिमायां च चित्रे चाथ दृषण्मये।
द्वारदारुणि पात्रे च हेरंबं लेखयेद्बुधः३।
अन्यस्मिन्नपि देशे तु सततं दृष्टिगोचरे।
स्थापयित्वा तु हेरंबं शक्त्या यः पूजयेद्बुधः४।
तस्य कार्याणि सिद्ध्यंति दयितानि समंततः।
न विघ्नं जायते किंचित्त्रैलोक्यं वशमानयेत्५।
विद्यार्थी लभते विद्यां वेदशास्त्रसमुद्भवाम्।
अन्यां च शिल्पिविद्यां च विजयां स्वर्गदायिनीम्६।
धनार्थी विपुलं वित्तं कन्यां साध्वीं मनोरमाम्।
ऐश्वर्यं धर्मसाध्यं च तनयं कुलमोक्षदम्७।
न रोगैः पीड्यते कश्चिन्न ग्रहैः प्रेतयोनिभिः।
शृंगिभिर्नापि रक्षोभिर्विद्युद्भिर्वनतस्करैः८।
न राजा कुप्यति गृहे न च मारी प्रवर्तते।
न दौर्भिक्ष्यं न दौर्बल्यं पूजयित्वा विनायकम्९।
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नछिदे तस्मै गणाधिपतये नमः१०।
मंत्रश्चायं ॐ नमो गणपतये।
नारायणप्रियैः पुष्पैरन्यैश्चापि सुगंधिभिः।
मोदकैः फलमूलैश्च द्रव्यैः कालोद्भवैस्तथा११।
दधिदुग्धैः प्रियैर्वाद्यैरपि धूपसुगंधिभिः।
पूजयेद्गणपं यस्तु सर्वसिद्धिमवाप्नुयात्१२।
विशेषात्तस्य लिंगे तु यो ददाति वसुप्रियम्।
पूजोपकरणं वस्त्रं सर्वं लक्षगुणं भवेत्१३।
देशे च भारते वर्षे वनिता पूर्वसन्निधौ।
लौहित्यदक्षिणे तीरे लिंगरूपो विनायकः१४।
हरगौरीसमादेशाद्देवानां संमतेन च।
स्थितो लोकप्रशांत्यर्थं सर्वविघ्नविनाशनात्१५।
पूजयित्वा तु तं देवं शक्तितो द्रव्यसंचयैः।
विनायकत्वमाप्नोति वेदशास्त्रार्थपारगः१६।
सकृत्प्रदक्षिणं कृत्वा दृष्ट्वा स्पृष्ट्वा तु मानवः।
अक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते१७।
संसर्गिणां च म्लेछानां गत्यर्थं सुतपस्विनाम्।
पुत्रार्थं सर्वलोकानां तत्र शंभुर्विनायकः१८।
कृत्वाभिषेकं लौहित्ये स्पृशेद्यस्तु गणाधिपम्।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः१९।
न वैधव्यं न कार्पण्यं न शोकं न तु मत्सरम्।
विनायकं समासाद्य जन्मजन्मनि संलभेत्२०।
पुनः सिद्धिः पुनर्भोग्यं पुनः कीर्तिः पुनर्बलम्।
पूजयित्वा तु गणपं नरस्य नात्र संशयः२१।
अस्य पूजामकृत्वा च सर्वाभीष्टं विनश्यति।
तत्र देवाश्च सुप्रीता ब्रह्मविष्णुहरादयः२२।
मघोनो गणपस्याथ पूजाविरहितस्य च।
अथासुरैर्महावीर्यैर्हिरण्याक्षमुखै रणे२३।
मघवा तु जितो वीर्याद्धिरण्याक्षेण वै तदा।
ततस्सुराश्च निर्वीर्या यावद्वर्षशतं पुरा२४।
दैवासुरे महायुद्धे सुराणां च पराजयः।
ततो देवाधिदेवे तु शिवे देवैर्निवेदितम्२५।
भगवन्नसुरैर्नो हि जितं राज्यं गता मखाः।
एतस्मिन्नंतरे शंभुर्देवान्वचनमब्रवीत्२६।
हेरंबाय वरो दत्त उमया प्रीतया मया।
पूजया ते परा सिद्धिर्देवादीनां भवत्विति२७।
अवजानाति यो मोहात्पुरुषस्तु महोत्सवे।
न भवेत्तस्य सिद्धिश्च रणे चापि पराजयः२८।
महामखेन युष्माभिः पूजा गणपतेः कृता।
हेलया न कृता मोहात्तस्मात्प्राप्तः पराजयः२९।
शीघ्रं गच्छत वै पुण्यां गणपस्य महात्मनः।
पूजां कुरुत धर्मज्ञा जयस्तूर्णं भविष्यति३०।
ततो हरमुखाच्छ्रुत्वा वचः क्षेमपरं हितम्।
प्रहृष्टा विबुधास्सर्वे गणपस्य पुरः स्थिताः३१।
देवा ऊचुः-।
गणाधिप नमस्तुभ्यं सर्वदेवैकपालक।
स्वर्गभोगप्रद प्रीत्या हेरंब त्वां नताः स्म ह३२।
जयदं सर्वयुद्धेषु सिद्धिदं सर्वकर्मसु।
महामायं महाकायं हेरंब त्वां नताः स्म ह३३।
एकदंतं महाप्राज्ञं लंबतुंडं विनायकम्।
देवं महर्षिदेवानांमिंद्रस्य च नताः स्म ह३४।
यत्ते पुरार्चनं यज्ञे न कृतं तत्क्षमस्व नः।
सुराणां च गिरः श्रुत्वा गणपो वाक्यमब्रवीत्३५।
युष्माभिर्व्रियतां देवा वरो मत्तो हि वांच्छितः।
ततः शक्रादयः सर्वे बृहस्पतिपुरोगमाः३६।
ऊचुर्गणपतिं देवा जयोस्माकं भवत्विति।
देवानां वचनं श्रुत्वा गणेशो वाक्यमब्रवीत्३७।
बाढमेव सुरश्रेष्ठा जयो वो भवतु द्रुतम्।
ततो देवगणास्सर्वे हर्षनिर्भरमानसाः३८।
गणेशं पूजयामासुर्गंधसारैस्तु मण्डनैः।
दिव्यधूपैः सुवस्त्रैश्च कुसुमैर्नन्दनोद्भवैः३९।
पारिजातादिभिः पुष्पैरन्यैर्देवमनोहरैः।
पूजितो गणपो देवैरुवाच सुरसत्तमान्४०।
गच्छध्वं विबुधा देवं विष्णुमद्भुतसाहसम्।
स विधास्यति वः कामं वांच्छितं च ततः सुराः४१।
स्वंस्वं रथं समारुह्य गतास्ते हरिमव्ययम्।
पीतांबरं नमस्कृत्य ऊचुर्देवगणा मुदा४२।
हरात्मजं तु संप्राप्य पूजयित्वा गणाधिपम्।
आगतास्त्वत्सकाशं वै महात्मन्नद्य केशव४३।
एतच्छ्रुत्वा तु देवानां वचनं हरिरव्ययः।
यथातथ्यमुवाचेदं हनिष्ये दैत्यपुंगवान्४४।
श्रुत्वा वागमृतं देवा नारायणमुखाच्च्युतम्।
हृष्टाश्च सुमुदाविष्टा द्रव्यैरिष्टैः समर्चयन्४५।
पुनर्विष्णुरुवाचेदं देवानिंद्रपुरोगमान्।
स्वंस्वं बलं समाहृत्य सज्जी भवत विज्वराः४६।
हरिष्ये तान्दुराचारान्बलं चैव समंततः।
अस्त्रवृंदं तु संगृह्य यूयं तिष्ठत निर्भयाः४७।
माधवस्य वचः श्रुत्वा प्रगताः सुरपुंगवाः।
विमानानि समारुह्य सर्वे दिव्यास्त्रधारिणः४८।
देवानां हर्षवाक्यानि दैत्यचारैः श्रुतानि वै।
राजानं कथयामासुर्हिरण्याक्षं महाबलम्४९।
श्रुत्वा दैत्यपतिस्तत्र चुकोपाति महाबलः।
सचिवांस्तु समाहूय क्रुद्धो वचनमब्रवीत्५० 1.65.50।
अधुनेंद्रादिदेवाश्च निखिलाः क्रूरबुद्धयः।
माधवं च परीप्सन्तः शंभौ सर्वं न्यवेदयन्५१।
कथं जयं च लप्स्यामो दैत्यवृंदेतिदारुणे।
त्रिपुरारिरुवाचेदं गणेशं यजतामराः५२।
पूजयित्वा तु तं देवं जेष्यथासुरदानवान्।
ततो देवगणैर्हृष्टैः पूजितो गणनायकः५३।
गणाधिपेन तुष्टेन क्रूरो दत्तो वरो महान्।
जेष्यथाद्यासुरान्सर्वांस्ततो देवा मुदान्विताः५४।
हरिं निवेदयामासुरस्मद्वधपरीप्सवः।
हरेर्बाढमुपश्रुत्य रथिनः शस्त्रपाणयः५५।
युद्धार्थमधितिष्ठंति निर्जरास्त्वभयामयि।
यस्य या शक्तिरस्तीह देवाञ्जेतुं वदत्वलम्५६।
ततो राज्ञोवचः श्रुत्वा मधुर्वचनमब्रवीत्।
जेष्यामि च हरिं राजन्सहायं मे नियोजय५७।
जिते नारायणे देवाः सभयास्त्रिदशा ध्रुवम्।
तस्मान्नारायणोऽस्माकं भागः सर्वपुरंजयः५८।
ततो धुंधुश्च सुंदश्च कालकेयो महाबलः।
सहायश्च मधोस्तस्य जेष्यामो माधवं नृप५९।
सर्वदैत्यबले मुख्याश्चत्वारो दृढविक्रमाः।
कालमृत्युसमा वीराः सर्वास्त्रविधिपारगाः६०।
बलस्तत्राब्रवीद्वाक्यं यस्मिन्जय उपस्थितः।
तं च जेष्यामि जिष्णुं च प्रतिज्ञा मे दृढा नृप६१।
नमुचिश्च मुचिश्चैव भ्रातरौ बलदर्पितौ।
ऊचतुस्तौ नृपं ह्यावां जेष्यावो वै बलाद्बलौ६२।
जम्भश्चैवाब्रवीद्वाक्यमिंद्रमिंद्रपुरोगमान्।
जेष्यामि नात्र संदेहो दैत्या भवत विज्वराः६३।
त्रिपुरश्चाब्रवीद्वाक्यं जेष्यामि च विनायकम्।
तावदूचेऽथ सेनानीर्मयो देवांतको बली६४।
कुबेरं प्रतिरक्षोभिः सर्वांश्चैव हिरण्यकान्।
एतस्मिन्नंतरे तत्र नारदो मुनिसत्तमः६५।
गत्वोवाच हिरण्याक्षं जिष्णुदूतोहमागतः।
राज्यं त्यज स्ववाचा नः प्राणेषु यदि ते हितम्६६।
न चेद्युध्यस्व मामद्य न वा गच्छ रसातलम्।
ततः कोपादुवाचेदं नारदं मुनिसत्तमम्६७।
अहिंस्यस्त्वं ब्राह्माणाद्य गच्छ तूर्णं ममाग्रतः।
देवानां च विपत्तिं च कदनं निधनं पुरः६८।
पश्य विप्र क्षणेनांतं प्राप्तं हरिहरादिकम्।
एवमुक्त्वा स दैत्येंद्रो बलाध्यक्षमुवाच ह६९।
सज्जीकृत्य बलं सर्वान्रथांश्चानयत द्रुतम्।
दैत्यराजवचः श्रुत्वा बलाध्यक्षः समंततः७०।
बलान्याहूय सहसा संत्रस्तास्तूर्णमागताः।
कोटिकोटिसहस्राणि अक्षौहिण्यो बलानि च७१।
एकैकस्य च वीरस्य वाहनानि महांति च।
स्यंदनानि विचित्राणि गजोष्ट्राश्वखरानपि७२।
सिंहव्याघ्रलुलायांश्च समारुह्य ययुस्तदा।
वाद्यैः सर्वैश्च भूयिष्ठैः सिंहनादैर्भयानकैः७३।
दिशस्तु पूरयामासुस्सिन्धुवेलाचला धराः।
सर्वलोकाश्च वित्रेसुः समुद्राश्च चकंपिरे७४।
देवदुंदुभयो नेदुः सर्वदेवैः समीरिताः।
वाद्यैश्च विविधैरन्यैर्वायुपूर्णैर्घनस्वनैः७५।
सर्वलोकाभयत्रस्ता ये च त्रैलोक्यवासिनः।
भ्रष्टकामागताकाशं घोरं तीव्रं महाहवम्७६।
परिघैः पाशशूलैश्च खड्गयष्टिपरश्वधैः।
शरैश्च निशितैर्घोरैर्जघ्नुरन्योन्यमाहवे७७।
शस्त्रास्त्रैर्बहुधामुक्तैर्दिशः सर्वा निरंतरम्।
विगृहेषु धरण्यां च पर्वतेषु जलेषु च७८।
देवस्थाने तथाकाशे पर्वताग्रेषु सानुषु।
गह्वरेषु महारण्ये तयोर्युद्धमवर्तत७९।
पुष्कलादि घनानां च वर्षधारा जलं यथा।
पतंत्यस्त्राणि सैन्येषु शतशोथ सहस्रशः८०।
केचित्पेतुः पृथिव्यां तु शरैः संभिन्नविग्रहाः।
शक्तिभिर्मुसलैश्चान्ये छत्रशूलपरश्वधैः८१।
पतिताः संमुखे शूरा युद्धेषु न्यायवर्तिनः।
गच्छंति सुरसद्मानि स्वाम्यर्थे ये त्वभीरवः८२।
ये चान्ये कातराः पापा हंतारो विमुखान्रणे।
अन्यायैर्ये च योद्धारस्ते यान्ति यममंदिरं८३।
त्रिदिवस्था गजारोहाः सैन्धवस्थास्तथापरान्।
रथस्थांश्च रथारोहाः पदगांश्च पदातयः८४।
परस्परं विनिघ्नंति शूरा युद्धाभिकांक्षिणः।
मुदिताः सत्वसंपन्ना धर्मिष्ठा बलसंवृताः८५।
केषांचिद्वाहवश्छिन्ना मुसलैर्भिन्नमस्तकाः।
केशाश्शिरांसि वस्त्राणि निपेतुर्धरणीतले८६।
मध्यच्छिन्नास्तथा भिन्नाः पेतुरुर्व्यां महाबलाः।
खड्गपातैस्तथा चोग्रैश्छ्रिन्नभिन्नाः परश्वधैः८७।
गामेव पतिता धीरा दिव्यालंकारभूषिताः।
प्रदीप्तोभूद्धरादेशो वीरैर्नागैर्हयै रथैः८८।
विविधाभरणैर्नष्टैः पताकाभिश्च केतुभिः।
ततो वसुंधरा सर्वा सशैलवनकानना८९।
रुधिरौघप्लुता तत्र विबुधासुरयोर्युधि।
क्रव्यादैर्बहुभिस्तत्र खादितो द्रव्यसंचयः९०।
लोहितं प्रचुरं पीतं रक्षोभिश्च वृकादिभिः।
अन्यैर्महागणैरेव क्षतजं पवनान्वितम्९१।
खादितं प्रीतिमद्भिश्च फेरुगृध्रगणैर्मुदा।
एतस्मिन्नंतरे सूरिः सुरपूज्यो बृहस्पतिः९२।
मृतसंजीवनीविद्यां सुराणां संजजाप ह।
विशल्यकरणीं दिव्यां ब्रह्मविद्यां महाबलां९३।
ततो धन्वंतरिर्विद्वान्सुरवैद्यो मनोजवः।
औषधैस्तत्प्रयोगैश्च रणे पर्यटते मुदा९४।
तत्र देवाश्च जीवंति ये मृताश्च महाहवे।
अव्रणा बलसंपन्नाः प्रयुध्यंति भृशं पुनः९५।
एवं शतसहस्रं तु गणं दैत्यस्य चोद्धतम्।
पतितं पुण्ययोगाच्च शरैर्निर्भिन्नकंधरम्९६।
ततस्तु जयशब्देन नंदंति सिद्धचारणाः।
ऋषयः खेचराश्चान्ये ये चैवाप्सरसां गणाः९७।
गीतिं गायंति गंधर्वाः शशंसुः परमर्षयः।
अथ क्रुद्धो महातेजा दैत्यमुख्यो महाबलः९८।
कालकेय इति ख्यातः सेनानीर्दैत्यपस्य च।
स्यन्दनस्थो महावीर्यो धनुरादाय तत्र च९९।
जघान सुरसंघांस्तान्नर्तयामास भूतले।
निरंतरशरौघेण च्छादितं गगनं तदा१०० 1.65.100।
निपतंति शराः सैन्ये कोटिकोटि सहस्रशः।
निपतंति ततो देवाः संयुगेष्वनिवर्तिनः१०१।
रुधिरोद्गारिणस्सर्वे सिद्धगंधर्वकिन्नराः।
विशिखैः पीडिता देवा निपेतुर्धरणीतले१०२।
केचिच्छरशतैर्भिन्नास्सहस्रैरयुतैस्तथा।
पेतुरुर्व्यां महावीर्या ये रणे सुरपुंगवाः१०३।
व्यथिताश्चाभवन्सर्वे स्यंदनस्था दिवौकसः।
शरैः प्रव्यथितास्ते तु स्थातुं शक्ता न संमुखे१०४।
तेनावगाहितं सैन्यं गजेनेव सरोवनम्।
शरैस्तस्यार्दिता देवा वज्रानलसमप्रभैः१०५।
न शेकुः समरे स्थातुं मघवंतं ययुस्तदा।
चित्ररथ इति ख्यातो देवश्शस्त्रभृतां वरः१०६।
ययौ स्यंदनमारुह्य युद्धं प्रति धनुर्धरः।
अब्रवीद्वचनं सोपि सेनान्यं तु महासुरम्१०७।
यथा हंसि महाशूर सुरसेनां मुदान्वितः।
स त्वं प्रशंसनीयश्च शूरोसि सुरसंमतः१०८।
हिरण्याक्षप्रियं कर्म कृतं युद्धे त्वयाधुना।
इदानीं मम बाणैश्च गच्छस्व यममंदिरम्१०९।
ततश्च कालकेयस्तु स्मितो वचनमब्रवीत्।
पुरैव विजितो देव गणः सर्वः प्रलीलया११०।
इदानीं तु स्थितं युद्धे बलं सर्वं तु हेलया।
यदि ते निधने प्रीतिरस्तीह सुरपुंगव१११।
एभिस्त्वां निशितैर्बाणैर्नयामि यममंदिरम्।
इत्युक्त्वा परमक्रुद्धो बाणमंतकसन्निभम्११२।
जघान समरे वीरस्त्रिभिश्चिच्छेद सोंबरे।
पुनर्बाणांश्च समरे योजयित्वा द्रुतं रुषा११३।
जघान प्रचुरान्दैत्यांस्तांश्चकर्त्त स लाघवात्।
ततोन्योन्यं शरैस्तीक्ष्णैः कालानलसमप्रभैः११४।
युद्धे धनुष्मतां श्रेष्ठश्चिच्छेद भुवि वेगतः।
तद्युद्धमभवद्देवदैत्ययोर्धर्मतो भृशम्११५।
द्रष्टुकामागताः पार्श्वमृषि देवाः सुरोरगाः।
एवं शतसहस्राणि बाणानां विधृतानि च११६।
अन्योन्यं समरे वीरौ विजयाय विरेजतुः।
अथ क्रुद्धो महातेजा गंधर्वाणां पतिस्तदा११७।
त्रिभिर्बिभेद बाणैश्च ललाटे हृदि पंचभिः।
सप्तभिर्जठरे नाभौ बस्तौ तस्य स पंचभिः११८।
शरैः संपातितो दैत्यो मुग्धः कश्मलतां गतः।
शिथिलीकृतचापश्च लेभे संज्ञां चिराद्बली११९।
मधुसंज्ञं त्रिभिर्बाणैस्स बिभेद सुरोत्तमम्।
चकर्त्त धनुरस्त्रैश्च दैत्यराजस्य पश्यतः१२०।
ततो बाणसहस्रैस्तु कालांतकसमप्रभैः।
बिभेद दैत्यसिंहं तु सुराणामुत्तमो बली१२१।
हतचेताः स दैत्येंद्रो बहुशोणितसंस्रवः।
विह्वलो बहुबाणार्तः शूलं जग्राह दानवः१२२।
शूलहस्तस्य तस्यैव चतुर्भिस्तुरगान्शरैः।
हत्वा च पातयामास त्रिभिर्यंतारमेव च१२३।
जघान शूलमुर्वीष्ठस्ततो गंधर्वसत्तमम्।
विचकर्त्त त्रिभिर्बाणैः शूलं चित्ररथो बली१२४।
शूलं च नष्टकं दृष्ट्वा हतभोगमिवोरगम्।
गृहीत्वा मुद्गरं घोरं प्रदुद्राव सुरं बली१२५।
स मुद्गरं समायातं दैत्यसेनाधिपं तदा।
विचकर्त्त शिरो देहादर्धचंद्रेण संभ्रमात्१२६।
स पपात महीपृष्ठे संचचाल वसुंधरा।
ततो दैत्यगणाः सर्वे विमुखा विप्रदुद्रुवुः१२७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे कालकेयवधोनाम पंचषष्टितमोऽध्यायः६५।
।
।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 66
व्यास उवाच-
भ्रातरं निहतं दृष्ट्वा कालेयो नाम दानवः।
चित्ररथं प्रदुद्राव धृत्वा बाणं सकार्मुकम्१।
दृष्ट्वासुरं विधावंतं कालमृत्युसमप्रभम्।
अरौत्सीत्तं महावीर्यो जयंतः पाकशासनिः२।
अब्रवीच्च महातेजा दैतेयं सुरसत्तमः।
तथ्यं धर्माभिसंयुक्तं लोकद्वयहितं ध्रुवम्३।
शस्त्राभिघातदुःखार्तं कश्मलं चान्यसंयुतम्।
प्रभग्नं च निरस्तं च यो हंति स च बालिशः४।
सुचिरं रौरवं भुक्त्वा तस्य दासो भवेच्चिरम्।
तस्मान्मामुं प्रयुध्यस्व युद्धधर्मस्थितो भव५।
जयंतमब्रवीद्वाक्यं कालेयः क्रोधमूर्च्छितः।
निहत्य भ्रातृहंतारमथ त्वांहन्मि सांप्रतम्६।
ततस्तं चासुरश्रेष्ठं कालानलसमप्रभम्।
जयंतो निशितैर्बाणैर्जघान सुरसत्तमः७।
निचकर्त्त शरान्सोपि त्रिभिर्विव्याध चासुरः।
यथावृष्टिगणं प्राप्य नदी गैरिकवाहिनी८।
तथा तौ च महावीर्यौ न क्षीणौ न च कातरौ।
न शर्म परिलेभाते परस्परजयैषिणौ९।
अथ तस्य च दैत्यस्य धनुश्चिच्छेद चेषुणा।
यंतारं पंचभिर्बाणैः पातयामास भूतले१०।
अष्टाभिर्निशितैर्बाणैश्चतुरोश्वानपातयात्।
शक्तिं संगृह्य भूमिष्ठः कुमारं च जघान ह११।
गदया पीडितं साश्वं सवरूथं सकूबरम्।
पातयित्वा धरण्यां च सिंहनादं ननाद ह१२।
लाघवात्स धरां गत्वा गदापाणिरुपस्थितः।
वज्रपाताद्यथा शब्दो लोकानां दुःसहो भवेत्१३।
तथा तयोर्गदापाते शब्दः स्यात्तु मुहुर्मुहुः।
एवं तयोर्गदायुद्धं यावदब्दचतुष्टयम्१४।
प्रभग्ने ते गदे खस्थौ खड्गचर्मधरावुभौ।
तदा पदातिनोर्युद्धमद्भुतं लोमहर्षणं१५।
दृष्ट्वा च विस्मयं जग्मुर्देवासुरमहोरगाः।
खड्गपातैर्मुहूर्तांते तयोश्छिन्ने तु वर्मणी१६।
अभवत्खड्गयुद्धं च तयोर्युद्धातिशीलिनोः।
दधार चिकुरे तस्य जयंतो भीमविक्रमः१७।
शिरश्छित्वास्य खड्गेन पातयामास भूतले।
ततस्तु जयशब्देन देवाः सर्वे ननंदिरे१८।
प्रभग्ना दैत्यसंघाश्च दिशः सर्वाः प्रदुद्रुवुः१९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे कालेयवधोनाम षट्षष्टितमोऽध्यायः६६।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 67
व्यास उवाच-
एतच्छ्रुत्वा तु दैत्येंद्रो हिरण्याक्षो महाबलः।
सरोषश्चातिताम्राक्षो ह्यसुरानादिदेश ह१।
स्वयं गच्छामि युद्धाय देवानां विजिघांसया।
नागच्छंति न युद्ध्यंते तेन मार्गाद्विशन्त्वितः२।
एतच्छ्रुत्वा तु वचनं शेषा दैत्यगणाधिपाः।
युद्धाय प्रययुः सर्वे शूलपाशातिपंडिताः३।
अधिकं पूर्वसैन्याश्च तथा शतगुणैरपि।
निरंतरं तथाकाशं प्रययुर्युद्धकांक्षिणः४।
ततो रुद्रास्स साध्याश्च विश्वे च वसवस्तथा।
स्कंदश्च गणपश्चैव विष्णुजिष्णुपुरोगमाः५।
सर्वे योद्धुं गतास्ते च हृष्टा रणसमुत्सुकाः।
एतस्मिन्नंतरे युद्धं देवदानवयोरपि६।
न भूतं न श्रुतं पूर्वं सर्वलोकभयंकरम्।
शस्त्रास्त्रैबर्हुधा युक्तं शिशिरेणेव काननम्७।
धरां स्वर्गौक आकाशं संरुध्य युद्धमाबभौ।
अन्योन्यं जघ्नुराकाशे तथान्योन्यं महीतले८।
शक्तिभिर्मुसलैर्भल्लैर्बहुभिः शरवृष्टिभिः।
दारुणैः खड्गपातैश्च तथा चक्रपरःश्वधैः९।
अन्यायुधैश्च विविधैर्निर्जघ्नुस्ते परस्परम्।
अभवन्घोररूपाणि धराकाशे व्ययानि च१०।
शस्त्रैः शरैरसृक्पातैः कंकवायसजंबुकैः।
यथा मुसलधाराभिर्घना वर्षंति लोहितम्११।
तथैव क्षतजैः स्रस्तैः स्वाङ्गाच्च देवदानवाः।
केचित्पतंति मुह्यंति स्खलंति च हसंति च१२।
मुंचंति चार्तनादांश्च सिंहनादं मुहुर्मुहुः।
केषांचिद्बाहवश्छिन्नाश्छिन्नपादास्तथापरे१३।
छिन्नपार्श्वोदराः केचिन्निपेतुः शतशो भुवि।
कोटिकोटिसहस्राणि गजवाज्यसुराणि च१४।
अपतन्धरणीपृष्ठे रक्तौघे बहुधा भुवि।
ततस्तु धरणीपृष्ठे त्वभवल्लोहितार्णवः१५।
विपरीतास्ततो नद्यः सद्यस्तत्र विसुस्रुवुः।
तृणकाष्ठपरास्तत्र शक्तयो दारुसंचयाः१६।
मुद्गरा मुसलाः शूला मकराद्या भवंति च।
जयंतिका ध्वजा मीनाः कमठाश्चर्मकायकाः१७।
शरादिभिर्महोष्ट्रैश्च निरुद्धाः प्रचुरैस्तथा।
केशचामरशैवालाः संपूर्णास्तास्ततःस्ततः१८।
पतद्भिश्च तथान्यैश्च विविधैः क्षतजार्णवः।
तदा वसुंधरा सर्वा सशैलवनकानना१९।
रुधिरौघा महाघोरा सर्वलोकभयंकरा।
स्कंदस्य शक्तिपातेन गता दैत्या यमक्षयम्२०।
पर्शुना परमेणैव अग्निनाग्निशिखैः शरैः।
वरुणस्य च पाशेन बद्धा मग्ना यमक्षये२१।
येषां पुत्रैश्च पौत्रैश्च पुरोगैः सचिवैस्तथा।
निपातिताश्च दैतेयाः शरशक्त्यृष्टिवृष्टिभिः२२।
ग्रहैश्च श्वसनैरेव यक्षगंधर्वकिन्नरैः।
महत्या गदया चैव कुबेरेण च धीमता२३।
घनानां निकरैर्वज्रैस्तुषारैर्विधुनेरितैः।
पन्नगानां विषैर्घोरैर्दैत्याः पेतुर्धरातले२४।
अन्यैश्च विविधैर्देवैः कोटिकोटिसहस्रशः।
पातिताः प्रययुस्सर्वे धरण्यां तु गतासवः२५।
देहांस्त्यक्त्वा दिवं यांति केचिच्च यममंदिरम्।
केचिद्गच्छंति पातालं पुण्यापुण्यप्रयोगतः२६।
एतस्मिन्नंतरे वेदाञ्जजल्पुः परमर्षयः।
स्वस्त्यस्तु ब्राह्मणेभ्यश्च गोभ्यः स्त्रीभ्यस्तपस्विषु२७।
प्रयुध्यमानेष्वन्येषु सांप्रतं सर्वजंतुषु।
विबुधैरर्दिता दैत्याः शेषाः पर्वतमाश्रिताः२८।
प्रजग्मुश्च दिशः सर्वाः कातरा रणभीरवः।
दैत्यव्यूहे प्रभग्ने च बलो नाम महाबलः२९।
अर्दयामास देवांश्च संयम्याग्निसमैः शरैः।
तस्य बाणार्दिता देवा बहवो बलदर्पिताः३०।
पतिता धरणीपृष्ठे केचिद्भग्ना रणाजिरे।
दृष्ट्वा तस्य महत्कर्म दारुणं लोकभीषणम्३१।
शशंसुर्ऋषयो देवास्तत्र शिष्टाः प्रचुक्रुशुः।
अथ क्रुद्धो महातेजाश्शतक्रतुररिंदमः३२।
जघान शरसंदोहैर्बलं बलवतां वरम्।
सोपि क्रुद्धो बलो युद्धे तथा शक्रं ससंभ्रमः३३।
रुधिरेणावसिक्तांगौ प्रसृतेन महाबलौ।
तौ यथा माधवे मासि पुष्पितौ किंशुकद्रुमौ३४।
चक्राणि च सहस्राणि शूलानि मुसलानि च।
निचखान रणे शक्रे चपले चासुरोत्तमः३५।
तानि चक्राणि शूलानि निचकर्त्त शरोत्तमैः।
सुरराट्सहसा भ्रांतो लीलया समरे बली३६।
स च दैत्यो महातेजाः शक्त्या चैव पुरंदरम्।
निजघान तदा तूर्णं गजस्थं च स्तनांतरे३७।
तया विनिहतः शक्रः प्रचचाल गजोपरि।
लब्धसंज्ञो बलं जिष्णुर्बिभेद दनुजं क्षणात्३८।
रथसंस्थस्य हस्तौ च धनुश्चिच्छेद चेषुणा।
चर्मतीक्ष्णं ध्वजं तस्य शरेणैकेन वीरहा३९।
चतुर्भिर्निशितैर्बाणैर्विव्याध चतुरो हयान्।
शरेणैकेन सूतस्य शिरश्चिच्छेद तत्क्षणात्४०।
छिन्नधन्वा हतरथो हताश्वो हतसारथिः।
निपत्य मूर्च्छितः पृथ्व्यां मुहूर्तान्मृत्युमाप सः४१।
अथ क्रुद्धो महादैत्यो नमुचिः सुरदर्पहा।
गदामादाय सहसा स जघान महागजम्४२।
यथा मेरुगिरेः शृंगे वज्रपातो भवेद्ध्रुवम्।
तथैव च महाशब्दो ह्यभवल्लोमहर्षणः४३।
प्रहारेणार्दितः पद्मी संचचाल स विह्वलः।
रुधिरेणावसिक्तांगो विमुखो वेदनातुरः४४।
शतक्रतुं विधावंति शतशोथ सहस्रशः।
अर्धचंद्रैक्षुःरप्रैश्च चिच्छेद पाकशासनः४५।
जंतुभिस्तस्य मायाभिरर्दितास्सुरपुंगवाः।
भूमौ निपतिताः केचित्केचित्सुप्ता रथोपरि४६।
दृष्ट्वा तस्य महत्कर्म माधवो विशिखांस्तथा।
जंतुभूतान्स चक्रेण चिच्छेद देहलग्नकान्४७।
ततो जिष्णुस्त्रिभिर्बाणैः पातयामास भूतले।
पृथिव्यां पतितो दैत्यो मूर्च्छितस्खलितः पुनः४८।
दधार मुद्गरं घोरं शक्रं हंतुं समुद्यतः।
ततो जघान मघवा कुलिशेन महासुरम्४९।
स पपात महीपृष्ठे क्षतवक्षा महाबलः।
साधुसाध्विति देवाश्च सिद्धाश्चैव महर्षयः५० 1.67.50
अपूजयंस्तदा शक्रं बहुभिः पुष्पवृष्टिभिः।
ततो दैत्यगणाः सर्वे भीतास्तत्र प्रदुद्रुवुः।
गीतं गायंति गंधर्वा ननृतुश्चाप्सरोगणाः५१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे बलनमुचिवधोनाम सप्तषष्टितमोऽध्यायः६७।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 68
व्यास उवाच-
बलं च निहतं दृष्ट्वा नमुचिं च स्वकाग्रजम्।
मुचिस्तत्राब्रवीद्वाक्यं ज्येष्ठो मे सूदितस्त्वया१।
परोक्षेणाधुना त्वां च शरैर्नेष्यामि भास्करिम्।
तमब्रवीन्महातेजाः शक्रः सर्वसुरार्चितः२।
भ्रातुस्ते धर्मपंथानमिदानीं लप्स्यसे ध्रुवम्।
वह्नेरुष्णमविज्ञाय प्रमोहाच्छलभा यथा३।
सहसा प्रविशंत्यग्निं तथा मां योद्धुमिच्छसि।
एवं ब्रुवाणमिन्द्रं च जघान विशिखैस्त्रिभिः४।
स चिच्छेद त्रिभिर्बाणैः शक्रः परपुरंजयः।
ततो जघान दशभिरिंद्रमैरावणं त्रिभिः५।
सप्तभिर्मातलिं छित्वा नादैरुच्चैर्ननाद ह।
शक्रं प्रति पुनर्दैत्यो भ्रामयामास संभ्रमात्६।
आयसीं तां गदां कोपान्महाबलपराक्रमः।
ततस्तु लाघवाच्छक्रो जघान कुलिशेन हि७।
भिदुरस्यावपातेन गतासुर्निपपात ह।
दनुजस्य प्रपातेन संचचाल वसुंधरा८।
देवाः प्रचक्रुर्नृत्यानि दानवा विप्रदुद्रुवुः९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मुचिवधोनामाष्टषष्टितमोऽध्यायः६८।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 69
व्यास उवाच-
तारेयो बलसंपन्नः शक्रतुल्यपराक्रमः।
जघान विशिखैस्स्कन्दं पितृघातिनमाहवे१।
ततस्स्कन्दो महाबाहुर्हरितुल्यपराक्रमः।
विचकर्त शरांस्तांस्तान्निर्बिभेद शरोत्तमैः२।
स दैत्यस्सहसा स्कंदं छादयामास मार्गणैः।
असंभ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा३।
तारेयोग्निशरैः स्कंदं जघान रणमूर्धनि।
विशिखं भिदुरप्रख्यं चखान हरनंदने४।
वैश्वानरेण सेनानीस्तत्र संपर्यवारयत्।
रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति५।
तन्निरस्तं कृतं तेन बाणेनास्फालितेन च।
अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं६।
भूधरा विटपास्सिंहास्तथा सर्पादयः शराः।
धावंति पार्वतीपुत्रं कोटिकोटिसहस्रशः७।
छित्वा तांस्तुशरान्स्कंदो बिभेद दैत्यपुंगवं।
आपादं शीर्षपर्यंतं शरैरग्न्यर्कसन्निभैः८।
स्वर्णपुंखाः शरा लग्ना देहे दैत्यपतेर्भृशं।
रेजुस्ते स्वर्णशकला यथा कृष्णशिलोच्चये९।
तस्य देहात्ततश्चैव बहु सुस्राव शोणितं।
यथा च माधवे मासि पुरुपुष्पश्शमी तरुः१०।
स्यंदनाधश्चराश्वाश्च शिश्यिरे भूमिलग्नकाः।
अथ क्रुद्धो महादैत्यः शूलं भीमं च दारुणं११।
धृत्वा तं प्रतिचिक्षेप कालमृत्युसमप्रभं।
पार्वतीनंदनेनापि शूलं पाशुपतेन ह१२।
क्षिप्तं तेन कृतं दग्धं मुहूर्तेन रणाजिरे।
पुनः शक्तिं मुमोचाथ ब्रह्मदत्तान्तु दानवः१३।
शूलं प्रतिजघानाथ शतकूटसमप्रभम्।
ततोऽस्त्रे वज्रसंकाशे जघटाते वियत्यपि१४।
तयोस्सवीर्ययोरस्त्रे धरण्यां प्रणिपेततुः।
ततो दैत्यपतिः स्कंदं शरैरग्निशिखोपमैः१५।
अर्दयामास सहसा घनधारेव पर्वतं।
तांस्तु च्छित्वा महाबाहुः सेनानीश्चापमस्य वै१६।
विचकर्तार्धचंद्रेण तथा यंतुः शिरोमहत्।
तथाश्वान्बहुभिर्बाणैः पातयामास भूतले१७।
गृहीत्वा मुसलं वेगात्स दुद्राव स्थले गुहं।
जघान तेन दैत्येन्द्रः शिखिनं शिखिवाहनं१८।
ततो मोहं गतो बर्ही प्रचकंपे मुहुर्मुहुः।
ततः स्कंदः पुनस्तं च जघानासुरपुंगवं१९।
प्रचिच्छेदासिना वेगान्मुसलं चातिदारुणं।
तारेयः शक्तिमादाय जघान क्रौंचदारणम्२०।
सोपि शक्तिं मुमोचाथ अमोघां दुष्टघातिनीम्।
ततः संदह्य सा शक्तिर्विश्वप्रलयकारिणी२१।
यमदंडसमानं च भित्वा पुनर्गुहं गता।
स गतासुः पपातोर्व्यां चालयंश्च वसुंधरां२२।
पुष्पधूपादिभिः स्कंदः सर्वदेवैः प्रपूजितः२३।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तारेयवधोनामैकोनसप्ततितमोऽध्यायः६९।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 70
व्यास उवाच-
ततो देवांतको दैत्यो व्यनदत्समरं प्रति।
रणं चकार धर्मेण संदष्टौष्ठपुटो बली१।
स गत्वा चाब्रवीद्वाक्यं सर्वलोकविगर्हितं।
न जानासि महद्धर्मं दुष्ट मोहाद्यथाक्रमम्२।
पापपुण्यप्रयोगेण निग्रहानुग्रहे प्रभुः।
अहं च निर्मितो धात्रा करोमि तव शासनम्३।
न जानासि यतो धर्मं कालमृत्यु पुरःसरः।
न रोगो न जरा कालो न मृत्युर्न च किंकरः४।
धर्मात्प्रचलितः कर्मी कष्टं याति दिवानिशम्।
उक्तं वसुं महावीर्यं यमं धर्मैकसाक्षिकम्५।
स जघान त्रिभिर्बाणैः कालमृत्युसमप्रभैः।
प्रचिच्छेद स धर्मात्मा ते त्वन्यैर्विशिखैस्त्रिभिः६।
ततस्तूच्चैः शरैः प्राज्यैर्युगांतानलसप्रभैः।
निजघान यमं संख्ये स चिच्छेद शरैः शरान्७।
एतस्मिन्नंतरे क्रुद्धौ परस्परजयैषिणौ।
जघ्नतुः समरेन्योन्यं महाबलपराक्रमौ८।
अहोरात्रं तयोर्युद्धमवर्त्तत सुदारुणम्।
एतस्मिन्नन्तरे क्रुद्धः शक्त्या प्रशमनं रुषा९।
बिभेद दैत्यशार्दूलो ह्यहंकारयुतो बली।
तामेवाथ रुषा धर्मो गृहीत्वा शक्तिकां द्रुतं१०।
निजघान तयैवामुंस्तनयोरंतरे भृशम्।
स विह्वलित सर्वांगो मुखादागतशोणितः११।
ततः क्रुद्धो महातेजा धृत्वा दंडं सुदारुणम्।
अमोघं पातयामास तस्य दैत्यस्य विग्रहे१२।
साश्वं रथं तथा सूतं योद्धारं शस्त्रसंचयम्।
चकार भस्मसात्तं च शमनः क्रोधमूर्च्छितः१३।
पतिते च तथा दैत्ये दुर्धर्षो नाम दानवः।
शमनं शूलहस्तस्तु प्रदुद्राव जिघांसया१४।
शूलहस्तं समायांतं बडवानलसन्निभम्।
आससाद रणे मृत्युः शक्तिहस्तोतिनिर्भयः१५।
स च दृष्ट्वाऽसुरो मृत्युं शूलेनैव जघान ह।
शक्तिं चैव ततो मृत्युः प्रचिक्षेप रणाजिरे१६।
संदह्य सहसा शूलं वह्निकूटसमप्रभम्।
दैत्यस्य हृदयं भित्वा गता सा च धरातलम्१७।
सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहः।
अथान्यो दुर्मुखो मृत्युं कृष्टचापो महाबलः१८।
खड्गचर्मधरः कालो रथ एव गतोभवत्।
दृष्ट्वा तं विशिखैः प्राज्यैर्जघान स यमं रणे१९।
स चाप्लत्य रथाद्देवो ह्यसिना च सकुंडलम्।
शिरश्चिच्छेद सहसा पातयित्वा च भूतले२०।
हतशेषं बलं सर्वं प्रदुद्राव दिशो दश२१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवांतकर्दुर्धर्षदुर्मुखवधोनाम सप्ततिमोऽध्यायः७०।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 71
व्यास उवाच-
अथान्यो नमुचिः क्रुद्धः स्यंदनस्थो दिवौकसः।
विशिखैरर्दयामस घोरैराशीविषोपमैः१।
ततस्तु संयुगे देवाः सिद्धकिन्नरपन्नगाः।
न शक्नुवंति बाणानां वेगं सोढुं समंततः२।
रथमुच्चैश्श्रवोश्वेन युक्तं मातलिनेरितम्।
पुरुहूतः समास्थाय प्रागमत्तं महाबलम्३।
दृष्ट्वा शक्रं महावीर्यं नमुचिर्दैत्यपुंगवः।
अब्रवीद्वासवं संख्ये वचनं सानुगं तदा४।
प्राकृतं निर्जरं हत्वा न यशोस्ति न च प्रियम्।
न लाभकृतकं वापि न जयस्तु पुरष्टुत५।
तस्मात्वयि हतेत्रैव सर्वं भवति शाश्वतम्।
देवराज्यं प्रलप्स्यामि सुखं भोग्यं सुरालये६।
तमब्रवीन्महातेजाः शक्रः परपुरंजयः।
शूरता वाक्यमात्रेण सर्वत्र सुलभा भवेत्७।
महापराक्रमं यद्वा अस्ति ते दानवाधम।
दर्शयस्वाहवे वीर्यं पुरं नेष्यामि भास्करेः८।
एतच्छ्रुत्वा महातेजाश्चुकोप दैत्यपुंगवः।
पंचभिर्निशितैर्बाणैर्जघान सुरसत्तमम्९।
तांस्तु चिच्छेद मघवा क्षुरप्रैः पंचभिर्द्रुतम्।
जग्मतुस्तौ महावीर्यौ समरे विषयैषिणौ१०।
अन्योन्यं सहसा वेगाच्छरैश्चिच्छिदतुः शरान्।
बिभिदातेथ गात्राणि विशिखैर्भिदुरोपमैः११।
अत्यपूर्वं कृतं कर्म ताभ्यामेव रणे भृशम्।
लाघवं शरसंधान ग्रहमोक्षं सुदुर्लभम्१२।
दृष्ट्वा तु विस्मयं जग्मुर्देवासुरगणास्तदा।
एतस्मिन्नंतरे दैत्यो मायास्संप्रमुमोच ह१३।
विशिखाः शतशस्तत्र विनिश्चेरुस्समंततः।
शक्रः कोपात्पुनः शीघ्रं धनुरुद्यम्य वीर्यवान्१४।
जघान विशिखैरुग्रैः सर्वगात्रेषु संज्वलन्।
ततो मार्गणसाहस्रैरष्टभिस्त्वधिकं तथा१५।
बिभिदाते ततोन्योन्यं चिच्छिदाते परस्परम्।
शरैर्निरंतराकाशं ददृशुस्तत्र संयुगे१६।
निपतंति धरापृष्ठे खड्गपातैः सहस्रशः।
एवं सुदीर्घकाले तु गते तस्मिन्महाहवे१७।
मायास्त्रं दर्शयामास क्रूरकृन्नमुचिस्तदा।
तामसं त्रिषुलोकेषु कृतं स्यात्तु निरंतरम्१८।
परस्परं न पश्यंति देवासुरगणा भृशम्।
सूर्यचंद्रग्रहाणां च वह्नीनां च दिवौकसाम्१९।
तस्मिंस्तमसि दुष्पारे गभस्तिर्नैव दृश्यते।
दैत्यस्य च ततस्तूर्णं शरैरग्निशिखोपमैः२०।
विभग्नाः सर्वदेवाश्च शक्रश्चरणसंमुखे।
शरैर्विभिन्नदेहास्तु निपेतुर्धरणीतले२१।
प्रभग्नाश्चापरे शूरास्संयांति च दिशो दश।
कूटं तस्य परिज्ञाय सर्वदेवार्चितो हरिः२२।
सौम्यमस्त्रं मुमोचाथ दिवि सूर्यशतप्रभम्।
विलंबितं समालोक्य शक्त्या च बहुघंटया२३।
जघानोरसि दैत्यस्य स पपात व्यथान्वितः।
चिरात्संलभ्य संज्ञां च दैतेयः क्रोधमूर्च्छितः२४।
गत्वा वेगात्सुरश्रेष्ठमैरावतं दधार ह।
त्रासयामास सुतरामिंद्रस्य द्विरदं रुषा२५।
धृत्वा स तु गजं सेंद्रं मुमोच धरणीतले।
ततो भूमिगतः शक्रः कश्मलं च क्षणं गतः२६।
अवप्लुत्य स दैत्येंद्रो गजदंतांतरस्थितः।
शक्रं ग्रहीतुकामस्य वधार्थं यूथपस्य सः२७।
असिनाऽसुरमुख्यस्य शिरश्छित्वा न्यपातयत्।
सर्वे प्रजहृषुर्देवा गंधर्वा ललितं जगुः।
मुदितास्ते च मुनयः स्तुवंति सुरसत्तमम्२८।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे द्वितीय नमुचिवधोनामैकसप्ततितमोऽध्यायः७१।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 72
व्यास उवाच-
दिव्यं रथं समास्थाय धनुर्हस्तो बलैर्युतः।
गत्वा च माधवं संख्ये देवासुरगणाग्रतः१।
क्रोधेन महताविष्टो मधुर्निर्जरमर्दनः।
अब्रवीत्परुषं वाक्यमव्ययं हरिमीश्वरम्२।
नारायण न जानासि युद्धधर्ममितः कथम्।
अन्यायाद्दुर्वधोपायं कृत्वा नष्टो न शोचसि३।
अनेन पंकयोगेन व्यवहारा कृतस्य च।
सुरत्वं चोपनष्टं स्यादन्यसृष्टिं करोम्यहम्४।
त्वामेव निहनिष्यामि सह देवगणैरिह।
इत्युक्त्वा धनुरादाय जघान विशिखैर्विभुम्५।
माधवस्तान्बिभेदाथ शरैर्वज्रसमप्रभैः।
बहुभिस्सर्वगात्रेषु जघान च मधुं ततः६।
मायया छादितः सोभूद्दैत्यस्तं सुरसत्तमाः।
ये वै शूराश्च रुद्राद्यास्त्रिदशास्सत्त्वधारिणः७।
देव्यो नानाविधाश्चापि सायुधा वाहनान्विताः।
सेनान्यो गणपा देवा लोकेश हरविष्णवः८।
अन्ये ग्रहादयो देवाः सर्वे युध्यन्ति संगताः।
विनष्टाश्च तदा देवा मधोर्वै मायया ध्रुवम्९।
संमुखे विमुखे चैव शरशक्त्यृष्टिवृष्टिभिः।
पतंति सहसा देवा भूमौ शस्त्राभिपीडिताः१०।
एतस्मिन्नंतरे विष्णुर्गृहीत्वा च सुदर्शनम्।
असुरान्मायया देवान्जघान रणमूर्धनि११।
अथ तेषां शिरांस्येष छित्वा चैव सहस्रशः।
पातयामास देवेशो दैत्यानां च सुरात्मनाम्१२।
एवमन्यान्विभुर्दैत्यान्द्रावयामास संगरात्।
तं दृष्ट्वा मुनयो देवाः सर्वे विस्मयमाययुः१३।
कर्णे कर्णे प्रजल्पंते देवा मुनिगणास्तथा।
सदा देवैकगोप्ता च हरिरव्यय ईश्वरः१४।
सर्वसाक्षी त्वयं देवो दैत्यजिष्णुर्युगे युगे।
कथं हंति सुरान्सर्वान्कल्पांत इह जायते१५।
एतस्मिन्नंतरे दूरे मधुर्मायां प्रयोजिता।
हररूपधरो भूत्वा अब्रवीद्धरिमव्ययम्१६।
दैत्यानामग्रतः पाप रणे देवान्समंततः।
हत्वा किं ते शिवं चाद्य धर्मकीर्ति यशो गुणाः१७।
महतोन्मत्तभावेन न जानासि परान्स्वकान्।
अतस्त्वां निशितैर्बाणैर्नयामि यमसादनम्१८।
एवमुक्त्वा शरैरुग्रैर्जघान केशवं रणे।
निचकर्त शरांस्तांस्तु माधवो वाक्यमब्रवीत्१९।
जानामि त्वां रणे दैत्यं हररूपधरं प्रियम्।
शूरं शूरविकर्माणं मधुं मायानियोजितम्२०।
मिथ्यालोकं प्रदास्यामि पातयित्वा रणाजिरे।
एतस्मिन्नंतरे तीक्ष्णैः शरैर्विव्याध संयुगे२१।
जटिलं वृषकेतुं च वृषभस्थं महेश्वरम्।
तयोर्युद्धमतीवासीद्देवदानवयोस्तदा२२।
परस्परं भिंदतोश्च प्राप्तान्प्राप्तान्शरान्शरैः।
क्षुरप्रेण धनुस्तस्य चिच्छेद हरिरव्ययः२३।
ततश्च पातयामास घोटकं वृषरूपिणम्।
स दैत्यश्शूलहस्तोथ प्रदुद्राव जगत्पतिम्२४।
भ्रामयित्वा ततः शूलं जघान परमेश्वरम्।
त्रिभिश्चिच्छेद बाणैश्च शूलं कालानलप्रभम्२५।
ततः क्रूरो महाबाहुर्मधुर्मायातिमायिकः।
देवीरूपं समास्थाय सिंहस्थः प्रययौ हरिः२६।
शरैर्बहुविधैर्विष्णुं जघानैवाब्रवीद्वचः।
स्वामी तु मे सुरश्रेष्ठ त्वयैव पातितो युधि२७।
अहं त्वां च हनिष्यामि सुतौ स्कंदविनायकौ।
उक्तवंतं च दैतेयं जघान बहुमार्गणैः२८।
स पपात महीपृष्ठे गतासुर्लोहितोद्गिरः।
पितरौ निहतौ दृष्ट्वा मायाबद्धो महाबलः२९।
स्कंदः शक्तिं समादाय प्रायाद्योधयितुं हरिम्।
ततो धाताऽब्रवीद्वाक्यं स्कंदं मोहप्रपीडितम्३०।
पश्य ते पितरौ दूरे पश्यंतौ युद्धमीदृशम्।
अंतरिक्षे भ्रमंतौ च संस्थितौ लोकसाक्षिणौ३१।
एतच्छ्रुत्वा ततो दृष्ट्वा तत्रैवांतरधीयत।
ततो धुंधुश्च सुंधुश्च भ्रातरावतिदर्पितौ३२।
वधं प्रति हरेर्युद्धे पेततुर्गरुडोपरि।
खड्गहस्तं च धुंधुं च सगदं सुंधुमेव च३३।
चिच्छेद नंदकेनैकं गदया सादयत्परम्।
पेततुस्तौ धरापृष्ठे प्रवीरौ क्षतविक्षतौ३४।
मधुस्तदागतस्तूर्णमंतर्धानं तमोवृतः।
पातयामास विष्णौ च मायया शतपर्वतान्३५।
ततस्तान्पर्वतांश्छित्वा तमसोऽन्तर्गतो युधि।
क्रोधात्सुदर्शनेनैव शिरश्छित्वा निपातितः३६।
ततो ब्रह्मादिभिर्देवैश्शंभुना त्रिदशैरपि।
मधुसूदन इतिख्यातिर्विष्णोर्लोकेषु कारिता३७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मधुवधोनामद्विसप्ततितमोऽध्यायः७२।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 73
व्यास उवाच-
ततो वृत्रो महातेजा दैत्यानां प्रवरो युधि।
दिग्गजाढ्यं गजारूढः प्राद्रवद्बलसूदनम्१।
आगच्छंतं ततो वृत्रं शरैः कालानलप्रभैः।
विव्याध सर्वगात्रेषु द्विरदस्थो महाहवे२।
ततो वृत्रस्तु शीर्षं च जिष्णोरेव पतत्रिणा।
विव्याध सहसा तेन स चचाल महाबलः३।
आत्मानं च समाश्वास्य धनुरुद्यम्य वीर्यवान्।
ववर्ष शरवर्षेण तस्य दैत्यस्य विग्रहे४।
शरांश्छित्वा बिभेदाशु शरैराशीविषोपमैः।
शतक्रतुं महावीर्यः सर्वदेवाधिपं युधि५।
ततः शरसहस्रैस्तु दैत्यं विव्याध देवराट्।
परस्परं शरा यांति यथा सप्ताश्व रश्मयः६।
एवं शरसहस्रैस्तु बिभिदाते परस्परम्।
मनोजवसमाः शीघ्रा गाढाः शिखरिणो यथा७।
बडवानलसंस्पर्शाः खगा वज्रारभेदकाः।
तयोर्धनुष्मतोर्युद्धे शरास्तुल्यगुणान्विताः८।
एवं क्रमेण युद्धे च अहोरात्रमवर्तत।
महेंद्रो द्विरदं तस्य शूलेनैव जघान ह९।
स निपत्य महीपृष्ठे लाघवात्स्वरथं ययौ।
रथस्थस्तस्य देवस्य शक्त्या चैरावणं दृढम्१०।
बिभेद लाघवेनाशु वज्रेणेव महागिरिं।
शुशुभे कंपमानस्तु सेंद्रः स च महागजः११।
ततः शक्तिं समादाय आविध्य मघवाऽसुरम्।
बिभेदोरसि दैत्यस्य स पपात रथोपरि१२।
क्षणात्संज्ञां समालंब्य स विनद्य पतत्त्रिणा।
बिभेद समरे शक्रं स ततः कश्मलं गतः१३।
इंद्रः संज्ञां पुनः प्राप्य जघान विशिखैः शितैः।
शतकोटिसमैर्बाणैरर्दितो व्यथयान्वितः१४।
ततो वृत्रो महाशूलं प्राक्षिपन्निर्जरेश्वरे।
शांभवास्त्रेण देवेशो वैष्णवास्त्रं मुमोच ह१५।
उभयोरंबरे चास्त्रे वह्निकूटसमप्रभे।
अन्योन्यं जघ्नतुस्तत्र स्फुलिगानि विमुंचती१६।
स्पर्शने च स्फुलिंगानामुभयोः सेनयोर्भटाः।
न शक्ताः संमुखे स्थातुं शलभा ज्वलने यथा१७।
दग्धाः पेतुः पृथिव्यां च दिशस्सर्वाः प्रदुद्रुवुः।
देवदानवयोर्वीराः शून्यस्तत्राभवद्रणः१८।
अस्त्रं निरस्तकं दृष्ट्वा स दैत्यः क्रोधमूर्च्छितः।
मायया शैलसंदोहमस्त्रं शक्रे मुमोच ह१९।
बाणौघैः शैलसंघातं प्रचिच्छेद रणे हरिः।
अघोरं प्रासृजद्दैत्यः पुरुहूते महाबले२०।
कोटिकोटिसहस्राणि जंतूनां प्रवराणि च।
सिंहशार्दूलभल्लूक वृक व्याघ्र महागजाः२१।
दंदशूकादयः सत्वाः प्रधावंति सुरेश्वरं।
क्षुरप्रैरर्धचंद्रैश्च भल्लैः शिलीमुखैस्तथा२२।
असंप्राप्तान्प्रचिच्छेद मघवा परवीरहा।
ततो वृत्रो महाबाहुर्धनुरुद्यम्य वीर्यवान्२३।
बिभेद शरसाहस्रैर्वज्रकल्पैः शतक्रतुं।
छित्वा क्षुरप्रैश्शक्रश्च धनुस्तस्य चकर्त च२४।
सूतं चाश्वान्पृथिव्यां च पातयामास तत्क्षणात्।
सकंटकांगदां भीमां संपूज्यासुरसत्तमः२५।
जघान पद्मिनः शीर्षे मोहाद्दंती क्षितिं ययौ।
सगदः सर्वदेवेशो धरणीं समुपस्थितः२६।
ततस्तयोर्गदायुद्धमवर्तत मुहुर्मुहुः।
तयोः प्रहरतोः शब्दो गदापातोद्भवो ध्रुवं२७।
आवर्तं परिवर्तं च चक्रतुस्तौ पुनः पुनः।
अध ऊर्ध्वं प्रहारं च पार्श्वयोरतिभीषणं२८।
बभूवैवं तयोर्युद्धं लोकालोकभयंकरं।
दृष्ट्वा देवगणाः सिद्धा दानवा विस्मयं गताः२९।
युद्ध्यमानौ तु तौ वीरौ मृत्युसंशयमागतौ।
देवदानववीराश्च द्रष्टुं नैव तदीशिरे३०।
ईशब्रह्मादयः खे तु स्थिता द्रष्टुं तदद्भुतं।
तयोर्हुंकारशब्देन गदापातस्वनेन च३१।
ऊर्ध्वोर्ध्वमगमच्छब्दो ह्यशनेश्चोपजायते।
भग्ने गदे द्वयोरेव करः संपुटितस्तयोः३२।
एवं चैवार्धयामेन तयोरस्त्रे निपेततुः।
एतस्मिंन्नन्तरे वीरौ खड्गचर्मधरौ तदा३३।
प्रतियोद्धुं महाघोरमाहवे संप्रचेरतुः।
निस्त्रिंशौ विद्युदुल्काभौ तयोर्गात्रे च चर्मणी३४।
दृश्येते सर्वलोकैश्च लाघवं विस्मयं गतैः।
चिच्छिदाते तयोरेव चर्मणी बहुवर्णके३५।
भीष्मकं बलयुद्धं च तयोरेवं प्रवर्तते।
मंडलं चक्रधन्वं च लाघवं च परिप्लुतं३६।
वृत्रवासवयोर्युद्धं वृत्रवासवयोरिव।
केशान्वृत्रस्य उत्प्लुत्य संप्रधृत्यासिना द्रुतं३७।
शिरश्चिच्छेद सहसा मघवा रणमूर्धनि।
जयशब्दस्ततस्त्वासीद्देवानां च समंततः३८।
प्रोत्फुल्लहृदया देवा मघवंतमपूजयन्।
देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः३९।
गीतं गायंति गंधर्वा मुनयः स्तुतिपाठकाः।
भीताः पलायिताः सर्वे दैत्यास्त्यक्तायुधा दिशः४०।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे वृत्रासुरवधोनाम त्रिसप्ततितमोऽध्यायः७३।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 74
व्यास उवाच-
चतुर्भिस्तुरगैर्जुष्टं रथं सूर्यसमप्रभं।
त्रैपुरिः संरुरोहाथाब्रवीद्वाक्यं गणाधिपं१।
पिता मे निहतः पित्रा तव यस्माद्गणाधिप।
तस्मात्त्वामद्य विशिखैर्नयामि यमसादनं२।
ततस्तमब्रवीद्देवो गणेशस्त्रिपुरात्मजं।
तव तातेन दुष्टेन सुराणामहितं पुरा३।
कृतं कर्ममहत्पापं श्रुतं नो जनकेन हि।
पापकर्मरतं दुष्टं ज्ञात्वा ज्ञानबलेन च४।
अवधीत्तं शरैकेन पितरं ते बलेन च।
पंकात्प्रतारितो मोहात्प्रेषितो यममंदिरं५।
त्वां चाहं तत्पथं दैत्य प्रेषयामि क्षणादिह।
उक्तवंतं महाप्राज्ञं सुराणां च गणाधिपं६।
विव्याध दशभिस्तीक्ष्णैः कालानलसमप्रभैः।
ततः शरसहस्रैस्तु दैत्यं विव्याध साहसात्७।
यमदंडसमैर्बाणैः क्षुरप्रैश्च शिलीमुखैः।
कंकपत्रैर्महातीक्ष्णैर्वज्रानलसमप्रभैः८।
विचकर्त शरांश्चास्य लंबोदरः सुरार्चितः।
पुनर्विव्याध विशिखैः सहसाभि दुरोपमैः९।
शरैरर्दितसर्वांगो मूर्च्छितस्त्वपतद्भुवि।
ततो भद्रश्च सौभद्रो भीषणो निर्जरांतकः१०।
स्वां स्वां गदां समादाय दुद्रुवुस्तं विनायकम्।
युगपत्ते गदापातैर्निजघ्नुर्गणनायकम्११।
लाघवात्तु वृथा कृत्वा गदास्तेषां महाबलः।
भद्रकस्य तु शीर्षे चाहनत्परशुना तदा१२।
सौभद्रस्योत्तमांगं च असिनाग्रे निपातितम्।
भीषणस्य कुठारेण खड्गेन निर्जरांतकम्१३।
पातयित्वा च हेरम्बो महागिरिसमांस्तदा।
चतुरो गणमुख्यांश्च अन्यांश्चापातयद्द्विषः१४।
ततः संज्ञां समालभ्य त्रैपुरिश्चासुरोत्तमः।
समारुह्य रथं स्वं च जघान सुरसत्तमम्१५।
विशिखैरर्धचंद्रैश्च क्षुरप्रैर्भल्लकैस्तथा।
तांस्तु चिच्छेद धर्मात्मा पुनर्विव्याध तं शरैः१६।
चतुर्भिः सैंधवांश्चैव शरैकेन च सारथिम्।
शरैः संपातयामास धरण्यां गणनायकान्१७।
लाघवात्तु रथं चान्यं गत्वा त्रिपुरनंदनः।
विशिखैर्वज्रसंकाशैः संबिभेद गणाधिपम्१८।
रुधिरेणावसिक्तांगो रुषा घोर यमप्रभः।
ललाटे च त्रिभिर्बाणैस्सप्तभिश्च स्तनांतरे१९।
चतुर्भिर्नाभिदेशे च पंचभिर्मुष्टिमस्तके।
संबिभेद महाक्रोधो बलिनं शंभुनंदनः२०।
शरैरर्दितसर्वांगः स दैत्यो रणमूर्धनि।
कश्मलं परमं गत्वा संपपात रथोपरि२१।
ततः सूतेन धीरेण अपनीतो रणाजिरात्।
विमुखं नाहनच्छूरो विनायकः सुरार्चितः२२।
चिरात्संज्ञां समालभ्य यंतारं चाब्रवीद्वचः।
गच्छ सूत रणे भीरुं विनायकं हरात्मजम्२३।
ततो यंताब्रवीद्वाक्यं सत्यं पथ्यं च कोमलम्।
हरात्मजशरान्सोढुं कस्समर्थो रणाजिरे२४।
तस्मान्मोहगतस्त्वं च मयानीतः प्रभासुत।
एतज्ज्ञात्वा त्विदानीं भो यद्युक्तं तद्विधीयताम्२५।
एतस्मिन्नंतरे राज्ञा प्रेरितः कविसत्तमः।
औषधादिप्रयोगेण गजः संज्ञामबोधयत्२६।
अकारयच्छतगुण प्राणं च जयमादिशत्।
प्राग्जलं मंत्रितं दत्वा रुरोधास्याङ्गकव्रणान्२७।
स गजो दशनैरेव स्फोटयामास वै गिरिम्।
एवं शतसहस्राणि सैन्यानि सैन्यपालकान्२८।
पातयामास समितौ गजः परमदुर्जयः।
स दैत्यस्तस्य पृष्ठस्थः शरैः कालानलप्रभैः२९।
हत्वा त्वपातयच्चोर्व्यां मुख्यमुख्यान्सुराधिपान्।
शरैस्तस्य तदा देवा यमदंडसमप्रभैः३०।
निपतंति महावीर्या रुधिरौघपरिप्लुताः।
यस्मिन्यस्मिंश्च मार्गे तु स दैत्यः सगजो गतः३१।
तत्र तत्र चकाराशु भीषणं संचितं शरैः।
गजेन पातिताः केचिद्गजारोहेण चापरे३२।
वेगेन भ्रमणेनैव सुराः केचित्प्रतापिताः।
एवं सुरगणाध्यक्षाः शस्त्रास्त्रैर्विविधैश्च तम्३३।
सगजं युद्धनिर्भीता निजघ्नुर्बहुभिः शरैः।
तथापि तद्गजं योद्धुं न शक्तास्ते महाबलाः३४।
क्षिप्रं तांस्तु गजो दंतैस्त्रैपुरोऽपातयच्छरैः।
न गता ये धरण्यां च देवा जर्जरविग्रहाः३५।
शरण्यं गणपं जग्मुर्भीतास्ते वेदनातुराः।
देवानां कदनं दृष्ट्वा गणाधीशः प्रतापवान्३६।
स गजं ताडयामास वज्रानलसमैः शरैः।
स गजो वेगसंरुद्धः शरेण च समुत्थितः३७।
अथोतौ द्वौ शरैरेव बिभिदाते परस्परम्।
उभौ तौ नर्दमानौ च अन्योन्यं जयमैच्छताम्३८।
शोणितैर्लिप्तसर्वांगौ वीरमुख्यौ सुरासुरौ।
अथाखुं स गजो मत्तो बिभेद दशनैः स्वकैः३९।
आखुनाभिद्रुतो नागो घोरयुद्धं तयोः परम्।
अधोर्ध्वं संविभागे च चतुर्भिर्युद्धमद्भुतम्४०।
सशब्दं तुमुलं युद्धं सर्वलोकभयंकरम्।
दशनैर्दशनैरेव शरैरेव शरोत्तमैः४१।
तद्घोरमभवद्युद्धं देवदानवसंगरे।
आखुको भेदयांचक्रे महानांगं महाबलम्४२।
पर्शुना पृष्ठवंशाग्रे स्थित्वा तेनाहनत्पुनः।
दैत्यस्य दशनद्वारे हृदिस्कंधेथ लाघवात्४३।
सगजः स पपातोर्व्यां गतासुर्लोहितं वमन्।
शशंसुर्मुनयो देवास्साधुसाध्विति चाब्रुवत्४४।
अत्रान्येस्त्रैरमोघैश्च दैत्यानाजघ्नुराहवे।
यावत्तु सेनयोर्नैव जययुद्धं समापयेत्४५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे त्रैपुरिविमर्दोनाम चतुस्सप्ततितमोऽध्यायः७४।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 75
व्यास उवाच-।
श्रुत्वा महेश्वराद्वाक्यं देवाः शक्रपुरोगमाः।
दुद्रुवुर्दैत्यसंघांस्तान्सर्वे सर्वान्समंततः१।
आजगाम महाबाहुः कुंभो नाम महासुरः।
नैर्ऋतो यक्षराजानं गदया चाहनद्भृशम्२।
गुह्यकेशो गदापातैर्जघान भृशमुत्तमम्।
ततोन्योन्यं गदायुद्धमभवद्भीषणं तयोः३।
चक्रबंधं महाबंधं पुरोवध्यनिबंधनम्।
प्राचुरं भीषणं यानं स्फोटतैलाभिवास्तिकम्४।
तेन कृत्वा महायुद्धमवसाने धनेश्वरः।
पातयामास तं स्फोटं तस्य कुंभस्य चोरसि५।
भग्नदंष्ट्रस्ततः कुंभो निपपात महीतले।
स्यंदनस्थो महावीर्यो जंभो हरिहयं तदा६।
जघानशरसंघैश्च तथैवैरावणं भृशम्।
वासवो भिदुरेणैव संबिभेदासुरोत्तमम्७।
स पपात धरापृष्ठे गतासुर्लोहितोक्षितः।
तथारण्यं सुघोरं च अघोरं घोरमेव च८।
चतुरो गणमुख्यांश्च शक्त्या बिभेद संयुगे।
सेनान्यश्चैव प्रत्येकं पातयामास लाघवात्९।
सौरभं शरसंघैश्च जयंतो वशमानयत्।
शक्तिहस्तं च संह्रादं यमदंडं नरांतकम्१०।
हत्वा च पातयामास स भस्मीकृतविग्रहः।
कालश्च खड्गपातेन पातयामास बाभ्रवम्११।
शक्त्या मृत्युर्बिभेदाश्वं तथा निर्घृणकं रणे।
अग्निना दह्यमानाश्च सप्तैते च महाबलाः१२।
भद्रबाहुर्महाबाहुः सुगंधो गंध एव च।
भौरिको वल्लिको भीम एते सेनाग्रगामिनः१३।
रणे संदग्धदेहाश्च पेतुरुर्व्यां गतासवः।
पाशबद्धा महावीर्या वरुणस्य महात्मनः१४।
पेतुरुर्व्यां महासत्वाः शूराः शूरभयानकाः।
शूरस्य रश्मिजालेन निहताः पञ्चदानवाः१५।
तुरुतुंबुरुदुर्मेधस्साधका साधकाभिधाः।
क्रूर क्रौंच रणेशान मोदसंमोद षण्मुखाः१६।
शरैर्निपातिता दैत्याः संयुगे मातरिश्वना।
नैर्ऋतो गदया भीमं पातयामास भूतले१७।
शूलपातैश्च रुद्राणां शतशो दैत्यदानवाः।
निपेतुः संयुगे भीताः संमुखा रणपंडिताः१८।
वसूनां शरपातैश्च शूराणां रश्मिमालिनाम्।
मेघानां करकाभिश्च वज्रपातैस्सुदारुणैः१९।
निपातिता रणे दैत्याः शतशो बलशालिनः।
कुबेरस्य गदापातैर्निपतंति सहस्रशः२०।
शक्रस्य भिदुरेणैव भेदिता दैत्यपुंगवाः।
असंख्याताः पतंत्युर्व्यां स्कंदशक्त्या तथा हताः२१।
गणेशपर्शुपातेन पतंति मुख्यमुख्यकाः।
वैकुंठकरमुक्तेन चक्रेण तीव्रकर्मणा२२।
दैत्यानां प्रवराणां च शिरांसि निपतंति कौ।
शमनो यमदंडेन कोटिकोटिसहस्रशः२३।
अपातयत्तदा भूम्यां कालः खड्गेन दानवान्।
मृत्युश्शक्त्या तथा दैत्यान्पाशी पाशेन चापरान्२४।
पातेन तक्षकादीनां सुधांशोः शिशिरेण च।
अश्वारोही खरोमन्योहनिपाशस्तथा गजान्२५।
परिघेण गजं कुंभे दैत्यानां नाशयत्ततः।
एवमश्वान्गजांश्चैव लाघवात्स न्यपातयत्२६।
एवं सिद्धैश्च गंधर्वैरप्सरोभिर्महाबलैः।
अन्याभिर्देवताभिश्च समातृगणनायकैः२७।
निपातिता महोघोरा ये ते प्रलयदानवाः।
शरैश्च खड्गपातैश्च शूलशक्तिपरश्वधैः२८।
यष्टिपरिघकुंतैश्च पातयंत्यसुरान्सुराः।
एवं संक्षीयमाणेषु दैत्यराट्समपद्यत२९।
आदित्यरथसंकाशं रथरत्नविभूषितम्।
शातकुंभमयं दिव्यं घंटाचामरभूषितम्३०।
पताकाध्वजसंपूर्णं रम्यं शक्ररथोपमम्।
समारुह्य महावीरो हिरण्याक्षोऽसुराधिपः३१।
जघान शरजालैश्च दुर्निवार्यः सुरासुरैः।
ससैन्यानि गजान्वीरो रथांश्च सह सैंधवान्३२।
पातयामास भूमौ च शतशोथ सहस्रशः।
एवं चरन्स वृंदेषु निखिलेषु दिवौकसाम्३३।
पातयामास दैत्येंद्रः शरौघान्मृत्युसन्निभान्।
क्रमेण समरे चाथ देवसैन्यान्यमंथत३४।
यथा पुष्करिणीवृंदे गजः कंजवनं शितैः।
शरपातैरथो वेगात्सिंहनादैः पुनः पुनः३५।
धरण्यां पतिता वेगात्तदा दैत्येश्वरस्य च।
दशभिश्च सुतीक्ष्णाग्रैर्जयंतं स जघान ह३६।
रेमंतं पंचभिर्बाणैः शक्रं पंचदशेन तु।
चित्ररथं विंशतिभिःपंचविंशतिभिर्गुहम्३७।
हेरंबं त्रिशरेणैव चत्वारिंशच्छरैर्यमम्।
तथैव कालं मृत्युं च पाणिना द्विगुणेन च३८।
गुह्यकेशं जगत्प्राणं दशभिर्दशभिः शरैः।
षडिभश्च सप्तभिश्चैव रुद्रान्सर्वान्पृथक्पृथक्३९।
वसून्सर्वांश्च सशरैः सिद्धगंधर्वपन्नगान्।
दशाष्टदशभिः षडिभर्युद्धे देवान्भिनत्त्यसौ४०।
ओजौघादतिवीर्यात्तु शीघ्रलाघवर्दशनान्।
आपत्प्राप्ताः सुरा भीत्या प्रतिकर्तुं न चेश्वराः४१।
महेशशूलसंकाशैः शरैर्मर्मविभेदिभिः।
ताडिता निर्जरा युद्धे मूर्च्छिता धरणीं ययुः४२।
तस्यैव संमुखे स्थातुं न शेकुः प्रवरास्सुराः।
ततो देवा विनिर्धूतास्त्रिदिवेशेन संयुताः४३।
शरण्यं ते हरिं तत्र शरणं ताडिता ययुः।
एतस्मिन्नंतरे विष्णुः प्राह जिष्णुं खगेश्वरम्४४।
अधुना गच्छ दैत्यस्य संमुखं रणमूर्धनि।
नाशाय सततस्तूर्णं गतस्तस्यांतिकं जवात्४५।
सरथं मार्गणैर्भित्वा विष्णुमारोधयज्जवम्।
रथस्य संमुखे दैत्य उवाच विष्णुमव्ययम्४६।
अन्य सृष्टिं करोम्यद्य हत्वा त्वां च सनिर्ज्जरम्।
ततो विष्णुरुवाचेदं गर्जंतं दैत्यपुंगवम्४७।
शक्तस्त्वं स्पर्द्धने पाप यदि युद्धे स्थिरो भव।
ततः शरशतैरेव जघान विष्णुमव्ययम्४८।
असंभ्रांतः स चिच्छेद यमदंडनिभान्शरान्।
पुनः शरसहस्राणि प्रेरयामास तं रणे४९।
तांश्च छित्वा शरैः शौरिस्तं च विव्याध मार्गणैः।
प्रगौरवादहार्याभैः संस्पर्शाद्बाडवानलैः५०।
शरैश्च भेदकैस्तीक्ष्णैः खगमैश्च मनोजवैः।
लाघवात्केशवास्त्रस्य तूलशुष्कतृणोपमैः५१।
हैमैः शरसहस्रैस्तु ताडितो दैत्यपुंगवः।
बाधयाभ्यर्दितः क्रुद्धो धृत्वा शिखरिणं रणे५२।
जघान माधवं वेगाद्धिरण्याक्षो महाबलः।
तं च संचूर्णयामास गदया लीलया हरिः५३।
एवं पर्वतसाहस्रं पातितं तु क्रमेण हि।
तथैव लाघवाच्चूर्णं हरिणा दानवारिणा५४।
पुनर्बाहुसहस्राणि कृत्वासौ दानवोत्तमः।
शरैः शक्तिभिरत्युग्रैः शूलैः परशुकादिभिः५५।
ववर्ष बहुभिर्विष्णुं क्रोधाविष्टेन चेतसा।
तांस्तु तेनैव प्रहितांश्चिच्छेद सुरसत्तमः५६।
शरैर्दीप्तैर्महाघोरैरसुराणां भयंकरैः।
विव्याध सर्वगात्रेषु शंभुशूलोपमैश्शरैः५७।
दानवाधिपतिः संख्ये ह्यव्ययो हरिरीश्वरः।
स च कश्मलतां गत्वा सर्वशक्तिमनुत्तमाम्५८।
कालजिह्वोपमां घोरामष्टघंटासमन्विताम्।
हरेरुरसि पीने च विद्रुत्या पातयद्द्रुतम्५९।
शुशुभे स सुरश्रेष्ठस्तडित्त्वत्सान्द्रमेघवत्।
ततश्च चुक्रुशुर्दैत्या जयेति साधुवादिनः६०।
ततश्चक्रं दैत्यसैन्ये दानवारिर्व्यसर्जयत्।
तेषां शिरांसि संच्छिद्य माधवं पुनरागमत्६१।
स दैत्यं शक्तिपातेन पातयामास वै रणे।
चिरात्संज्ञां समालंब्य वह्निबाणेन केशवम्६२।
निजघान रणे क्रुद्धो हरिः कौबेरमाक्षिपत्।
ततो मुमोच मायास्त्रं चासुरं चातिदारुणम्६३।
सिंहव्याघ्रलुलायांश्च तद्वद्द्विप सरीसृपान्।
जघान समरे विष्णुं हिरण्याक्षः प्रतापवान्६४।
ततो मायास्त्रसंभूतान्शस्त्रास्त्रौघान्रणे हरिः।
प्रचिच्छेद शरैरेव शूलेनैवमताडयत्६५।
स विह्वलित सर्वांगस्तत्क्षणं लोहितोक्षितः।
विचकर्ष हरन्विष्णुरसृग्विप्लुतविग्रहः६६।
तच्छूलं च त्रिभिर्बाणैः प्रविव्याध सुराधिपः।
वरूथं सध्वजं केतुं रथं चैवातपत्रकम्६७।
यंतारं च प्रचिच्छेद दशभिश्च हरिः शरैः।
पातिते च रथे दैत्यः संप्लुत्याथ रथं परम्६८।
आरुरोह स दैत्येंद्रः संमुखं चाकरोद्बली।
ततो युद्धं महाघोरमभवल्लोमहर्षणम्६९।
हिरण्याक्षस्य च हरेर्लोकविस्मापनं महत्।
अस्त्रयुद्धं तथान्योन्यं कृतप्रतिकृतं च तत्७०।
ततो नियुद्धे सततं दिव्यवर्षशतं गतम्।
ततो दैत्यो महासत्वो ववृधे वामनो यथा७१।
मुखेन जग्राह रुषा त्रैलोक्यं सचराचरम्।
भूमंडलं समुद्धृत्य विवेश च रसातलम्७२।
शेषाश्च विविशुर्दैत्यास्तमनु प्रीतिसंयुताः।
ततो विष्णुर्महातेजा ज्ञात्वा दैत्यबलं महत्७३।
दधार रूपं वाराहं दैत्यराजजिघांसया।
धृत्वा क्रोडतनुं विष्णुर्विवेश तमनुद्रुतम्७४।
तत्र गत्वा रसामूले रसातलगतां महीम्।
दृष्ट्वा स्वदंष्ट्रयोर्दध्रे लोकाधारां वसुंधराम्७५।
तां धृत्वा गच्छतस्तस्य विष्णोरमिततेजसः।
समाजगाम दैत्येंद्रो धृष्टं वाग्भिस्तुदन्ननु७६।
मायाक्रोडतनुर्विष्णुर्दुर्वचांसि सहन्रुषा।
जलोपरि दधारेमां धरां भूधर एव च७७।
तस्यां न्यस्य स्वसत्वं च स चकार तदाचलाम्।
ततः पश्चात्स संलग्नो दैत्यराट्समुपस्थितः७८।
क्रोधेन महताविष्टो जघान गदया हरिम्।
मायया सूकरो विष्णुस्तां गदां समवंचयत्७९।
योगयुक्तो यथा मृत्युं कौमोदक्याहनच्च तम्।
ततः पुना रुषाविष्टो हिरण्याक्षो महाबलः८०।
मुष्टिना प्राहरद्देवं दक्षिणे तु भुजे प्रभोः।
एवं युद्धं महाघोरं सव्यासव्यं गतागतम्८१।
परिभ्रमणविक्षेपं कृतानुकरणं तथा।
ततो ब्रह्मादयो देवा युद्धं पश्यंति खे स्थिताः८२।
स्वस्ति प्रजाभ्यो देवेभ्य ऋषिभ्यश्चेति चाब्रुवन्।
ऊचुश्च देवदेवेशं विष्णुं वाराहरूपिणम्८३।
मा क्रीड बालवद्देव जह्यमुं देवकंटकम्।
ततो विष्णुर्महातेजा मायावाराहरूपधृत्८४।
ब्रह्माद्यनुमतिं प्राप्य चक्रं प्राक्षिपदुल्बणम्।
सहस्रसूर्यसंकाशं सहस्रारं महाप्रभम्८५।
दैत्यांतकरणं रौद्रं प्रलयाग्निसमप्रभम्।
तच्चक्रं विष्णुना मुक्तं हिरण्याक्षं महाबलम्८६।
चकार भस्मसात्सद्यो ब्रह्मादीनां च पश्यताम्।
दैत्यांतकरणं रौद्रं चक्रं चागमदच्युतम्८७।
ततो ब्रह्मादयो देवाः शक्रमुख्याश्च लोकपाः।
दृष्ट्वा च विजयं विष्णोः स्तुवंति स्म समागताः८८।
देवा ऊचुः-।
नताः स्म विष्णुं जगदादिभूतं सुरासुरेंद्रं जगतां प्रपालकम्।
यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वै शरणं गताः स्मः८९।
नमोनमो मत्स्यवपुर्द्धराय नमोस्तु ते कच्छपरूपधारिणे।
नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः९०।
नमोस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने।
प्रलंबहंत्रे शितिवाससे नमो नमोस्तु बुद्धाय च दैत्यमोहिने९१।
म्लेच्छांतकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय।
जगद्धितार्थं च युगेयुगे भवान्बिभर्ति रूपं त्वसुराभवाय९२।
निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः।
यश्चेंद्रमुख्यान्किललोकपालान्संहेलया चैव तिरश्चकार९३।
स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद।
त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव९४।
पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि।
त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चांतकाले९५।
अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश।
यत्किंच भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम्९६।
सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किंचित्।
अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम्९७।
ततो भवंतं कतमोपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः।
ऋते भवत्पादपरायणं जनं तेनागता स्मश्शरणं शरण्यम्९८।
व्यास उवाच-।
ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः।
तुष्टोस्मि देवा भद्रं वो युष्मत्स्तोत्रेण सांप्रतम्९९।
य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात्।
न तस्य दुर्लभं देवास्त्रिषुलोकेषु किंचन१००।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्।
तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः१०१।
सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्।
अतः परं महाज्ञानं न भूतं न भविष्यति१०२।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवासुरसंग्रामसमाप्तौ विजयस्तोत्रंनाम पंचसप्ततितमोऽध्यायः७५।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 76
संजय उवाच-।
येऽसुराश्च मृता युद्धे संमुखे विमुखेऽपि वा।
गतिं तेषामहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः१।
असंख्याता इमे दैत्यास्त्रैलोक्ये सचराचरे।
अद्याप्यासन्गताः कुत्र एतन्मे शंस भो गुरो२।
व्यास उवाच-।
ये मृतास्संमुखे शूरा दैत्यानां प्रवरा रणे।
स्वयं प्राप्य च देवत्वं भोग्यमश्नंति शाश्वतम्३।
प्रासादा यत्र सौवर्णा नानारत्नाविभूषिताः।
सर्वकामप्रदा वृक्षाः स्वर्णदीतोय संयुताः४।
पद्मोत्पलसुकल्हारैर्गंधाढ्यैरन्यपुष्पकैः।
दधिदुग्धाज्यखंडैश्च युता पुष्करिणी शुभा५।
अतीवरूपसंपन्नाः सदैव नवयौवनाः।
तत्र राज्यं प्रकुर्वंति तथैव वसुधातले६।
एवं जन्माष्टकं प्राप्य धनिनोऽध्यक्षमंत्रिणः।
अर्धसंमुखगात्रेण दिवमश्नंति शाश्वतम्७।
विमुखाः कातरा भीता ये च मायाविनो रणे।
ते यांति निरयं घोरं ये च देवद्विजद्विषः८।
पतितं मूर्च्छितं भग्नमन्ययोद्धारमाहवे।
हंतारो निरयं यांति ते च म्लेच्छाः कुवाचकाः९।
परन्यासापहर्तारो विमुखास्संति तत्त्वतः।
रात्रौ वा विपिने नष्टे चोरास्साहसकारिणः१०।
सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मघातकाः।
कुवाचकाः परे म्लेच्छा एते ये कूटयोनयः११।
तेषां पैशाचिकी भाषा लोकाचारो न विद्यते।
नास्ति शौचं तपो ज्ञानं न देवपितृतर्पणम्१२।
दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनम्।
पितॄणां च न शुश्रूषा द्विजदेवतपस्विनाम्१३।
ज्ञानलोपादतस्तेषां मलशौचं न विद्यते।
मातरं भगिनीं चान्यां गृहिणीं कामयंति च१४।
सर्वो विपर्ययो लोकात्सदाचारो मलीमसः।
तार्क्ष्यस्योद्ववनानां च अन्येषां गोत्रवासिनाम्१५।
कुलजातास्सदा दैत्या येषां पुण्यमकारणम्।
दुर्गतिं च मृता यांति द्विजस्त्रीशिशुघातिनः१६।
गवाशिनो दुरात्मानो ह्यभक्ष्यभक्षणे रताः।
कीटयोनिं व्रजंत्येते तरवश्च पिपीलिकाः१७।
न मंत्रेषु न देवेषु कल्पंते ते सुरद्विषः।
अग्रजः सहजस्तेषां सदृङ्नो ग्राम्यवृत्तयः१८।
लोमकेशप्रणेतारः क्रव्यभक्षरता भुवि।
साहसं च व्रतं दानं स्नानं यज्ञादिकं च यत्१९।
मत्स्यमांसादिषु प्रीता मृषावचनभाषिणः।
सदाकामास्सदा लोभास्सदा क्रोधमदान्विताः२०।
वधबंधरतोद्वेगा द्यूतसंगीतसंप्रियाः।
कुभृत्याः कुजनप्रीताः पूतिगंधरता नराः२१।
न देवेषु न विज्ञेषु न धर्मश्रवणेषु च।
स्तोत्रमंत्रादिके पुण्ये यथाकार्येष्वनिश्चयाः२२।
बहुरोगाधिरोषाश्च बहुरूपपरिच्छदाः।
नरजातिषु दैत्यानां चिह्नान्येतानि भूतले२३।
न जानंति परं लोकं न गुरुं स्वं न चापरं।
गर्भपूरणमिच्छंति नातिथिं न गुरून्द्विजान्२४।
न देवं न सुतं गोत्रं न मित्रं न च बान्धवं।
स्वप्ने दानं न जानंति भक्षणान्न परिच्छदं२५।
गोपायंति धनं यस्मात्ते यक्षा नररूपिणः।
प्राणांतेपि धनं किचिन्न दिशंति च राजनि२६।
ते यक्षा दुर्गतिस्थाश्च परार्थे भारवाहकाः।
प्रेतानां लक्षणं यद्वा सर्वलोकविगर्हितं२७।
स्त्रीणां च पुरुषाणां च शृणुष्वैकमना मम।
मलपंकधरा नित्यं सत्यशौचविवर्जिताः२८।
दंतकुंतलवस्त्राणां वपुषो मलसंचयाः।
गृहपीठादिपात्राणां सकृच्छौचं न रोचते२९।
न पश्यंति सुखं स्त्रीणां विशंति कानने द्रुतं।
विघसोच्छिष्टपूतीनां भक्षणेभिरता भुवि३०।
अन्नपानं च शयनमन्धकारेषु रोचते।
कदाचित्स्वस्थता नास्ति क्वचिद्वा शुचितातनौ३१।
लक्षणं नरलोकेषु प्रेतानामीदृशं किल।
हिताहितं न जानंति मित्रामित्रं गुणागुणम्३२।
पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनं।
अरिमित्रमुदासीनं न विंदंति स्वभावतः३३।
मर्त्यस्थाः पशवस्ते च ज्ञायंते बुद्धिसंमतैः।
बुद्ध्या नानात्वभावाश्च भ्रमंति च मृषा भुवि३४।
यक्षरूपा नरास्ते च सर्वकर्मबहिष्कृताः।
एषां भेदं प्रवक्ष्यामि लक्षणं धरणीतले३५।
विजाता मर्त्यलोकेषु पापस्यैवानुरूपतः।
मलीमस भुविप्रस्थं नागरं छद्मरूपिणं३६।
विघसादिप्रभोक्तारं काकमाहुर्मनीषिणः।
अभक्ष्ये निरतः पापः कुकुरः पूतिसंप्रियः३७।
प्रवृत्तस्सर्वगृह्येषु भक्ष्याभक्ष्यसजीवनः।
भूम्यां पश्वादियोनीनां कुलेषु प्राप्तसंभवाः३८।
शुनो विगृह्य हस्तेन म्लेच्छानां भक्षणप्रियाः।
विशेषात्सूकराणां च तथा च रणयोधिनां३९।
पोषणे भक्षणे प्रीताः पूतिगर्ह्येष्वसाधुषु।
पर्वतेकरणाद्वह्नेः काष्ठसंचयसंग्रहे४०।
विज्ञेयास्ते सदा म्लेच्छाः क्षत्रियाणां भयाकुलाः।
लोकानां नष्टधर्मे च सदा शौचविवर्जिते४१।
कुलीनानां तदा म्लेच्छा भविष्यंति च दस्यवः।
तेषां संसर्गतोन्ये च संबंधादन्नभोजनात्४२।
मैथुनात्तस्य योषासु तद्भावं तु व्रजंति ते।
तस्मिन्काले जनास्सर्वे दुःखरोगप्रतापिताः४३।
दुर्भिक्षान्न परामूढाः सदा राजप्रपीडिताः।
तत्रासत्येरता मर्त्याः सर्वशौचविवर्जिताः४४।
न श्रूयंते जनैरेव पुराणागमसंहिताः।
मद्यमांसप्रियाः पापास्सर्वभक्षास्सुदारुणाः४५।
दारुणाचारनिरता नित्यं छलपरायणाः।
न पुष्णंति सुतास्तातं प्रसुवं च गुरूनपि४६।
न शुश्रूषंति वै भृत्याः स्वामिनं गुणशालिनम्।
भर्तारं न स्त्रियः काश्चिच्छ्वशुरौ च स्वमातरः४७।
नित्यकष्टा नरास्तत्र कलहश्च गृहे गृहे।
नृपा म्लेच्छाः सुरापाश्च तथा मंत्रिपुरोहिताः४८।
मनुष्यैश्च बलिस्तेषां मत्स्यैर्मांसैर्निरामिषः।
पाषंडायासयोगेभ्यः प्रधाना गुणवार्तयोः४९।
धनिकैः कोकिलैर्मंदैर्व्याप्तं तैस्तु महीतलम्।
ततोन्योन्यं प्रिया मूढा वने वा नगरेषु च५० 1.76.50।
भक्ष्याभक्ष्यं समश्नंति मत्स्यमांसादिकं नराः।
वने द्विजातयश्चान्ये भुंजते चानुपापकम्५१।
भक्तिमंतं पशुं चान्यत्सर्वे यांत्यपुनर्भवम्।
पातयंति पितॄन्पापाः सर्वे ते पूर्वदेवकाः५२।
पिशाचा राक्षसा ये च मुर्त्यका गुह्यका ध्रुवम्।
एते चाविनयप्रीता न देवा न च मानुषाः५३।
संजय उवाच-।
कथं च मर्त्यभावेषु लक्षंजानंतितात्त्विकाः।
एतं मे संशयं नाथ दूरीकुरु ततस्ततः५४।
व्यास उवाच-।
कृतपापानुरूपास्तु द्विजातिष्वन्यजातिषु।
असुरा राक्षसाः प्रेताः स्वभावं न त्यजंति ते५५।
जाता ये चासुरा मर्त्ये सदाते कलहोत्सुकाः।
कुहकाः कच्चराः क्रूराः विज्ञेया राक्षसाभुवि५६।
जनोद्विग्नादिकं दानं तथा देवार्चनं भुवि।
उग्रभावाद्धनं लब्ध्वा राज्यं भुञ्जंति शाश्वतम्५७।
जयं शौर्यादिकं पुण्यं पुनःपापक्षयं व्रजेत्।
एवमुर्व्यां तथा नाके नागलोके यमालये५८।
उग्रेण तपसा कश्चित्सुरत्वं लभते दिवि।
वासुदेवं समाराध्य प्रह्लादः सुरपूजितः५९।
हरं तथान्धको दैत्यः स्तुत्वा तत्सभ्यकोऽभवत्।
तस्यैव गणमुख्यत्वं लेभे भृंगी महाबलः६०।
एते चान्ये च बहवो बलिरिंद्रो भविष्यति।
गच्छंति सद्गतिं तात इहामुत्र च सर्वदा६१।
केचिद्दैत्यकुले जाताः पृथिव्यां सुरसत्तमाः।
भावयंति पितॄन्सर्वान्शतशोथ सहस्रशः६२।
एकेनापि सुपुत्रेण कुलत्राणं च धीमता।
एकोपि वैष्णवः पुत्रः कुलकोटिं समुद्धरेत्६३।
जितेंद्रियोपि धर्मात्मा द्विजदेवार्चने रतः।
क्षये धर्मे कलौ शेषे पुरे जनपदेषु च६४।
एको रक्षति धर्मात्मा पुरे ग्रामं जनं कुलम्।
विज्ञातृमेदुरं चासीद्ब्राह्मणानां पुरं महत्६५।
तत्र सर्वे द्विजाः शश्वत्संध्योपासनतत्पराः।
वेदपाठरता धीरा देवातिथिद्विजार्चकाः६६।
यज्ञव्रताग्निकर्माणः षट्कर्मपरिनिश्चयाः।
अतिकृच्छ्रे च तेषां वै न पापे वर्तते मनः६७।
कुर्वंति सततं वीरा व्रतं यज्ञं सनातनम्।
कदाचिद्दैवयोगाच्च गृहस्थश्च स कोविदः६८।
वह्नौ जुहोति विप्रर्षि राज्यं मंत्रेण मंत्रवित्।
तस्मिन्काले च तस्यैव मूत्रकृच्छ्रं सुदारुणम्६९।
तत्प्रोज्झितुं गतः सोपि रक्षार्थं स्थाप्य चेटिकाम्।
तस्यास्त्वनवधानेन शुना चाज्यं च भक्षितम्७०।
भिया तया ततः पात्रं स्वीयमूत्रेण संभृतम्।
असंलक्ष्या जुहोदग्नौ स विप्रस्त्वरया ततः७१।
आश्चर्यं च ततो वह्नौ लक्षितं तेन तत्क्षणात्।
कूटं हेममयं साक्षात्स्वर्णं जांबूनदप्रभं७२।
गृहीत्वा तन्मुदा विप्रः पापयोगं चकार ह।
पप्रच्छ विस्मयाद्दासीं कथमेतद्वद प्रिये७३।
मुदा तत्र यथावृत्तं कथितं तु तया द्विज।
ततो नित्यं यथाकालं तच्च तस्य प्रवर्तते७४।
समृद्धिरद्भुता गेहे लोकविस्मयकारिणी।
ततः परस्पराच्छ्रुत्वा सर्वैरेव च तत्पुरे७५।
कृतं कर्म दुराचारं श्रुत्वा लोभादसाधुभिः।
गुरुलोभाच्च सुमहत्स्वांते पंकं विशत्यपि७६।
पंकादेव भयान्मोहान्मतिभ्रंशोऽभवत्ततः।
अथ किल्बिषकूटेन दग्धमेव पुरं च तत्७७।
स्त्रियो दुष्टा जना दुष्टाः सर्वे पापबलात्तदा।
वृद्धो ज्ञाता द्विजस्तत्र तत्कार्ये न मतिं दधौ७८।
तस्य भार्या तदा साध्वी पुरुदुःखेन संयुता।
भर्तारं कृच्छ्रसन्तप्ता पुरकार्यं जगाद सा७९।
ब्राह्मण्युवाच-।
कष्टं मे वर्तते नाथ दृष्ट्वा त्वां दुःखसंयुतम्।
ग्रामाचारमिमं यद्वाप्यऽपरं कर्तुमर्हसि८०।
ततस्तत्र स दोषज्ञः स्मित्वा वचनमब्रवीत्।
यस्तु जीवति पापेन त्यक्त्वा धर्मं परं हितम्८१।
स वैधेयो महाभागे प्रगच्छत्यपुनर्भवम्।
एते विप्रा दुराचाराः सदारास्सपरिच्छदाः८२।
अतिपातकयोगाच्च महापातकसंमताः।
सह पापेन महता प्रयास्यंति रसातलम्८३।
अंतेऽपुनर्भवं प्राप्यापराधांतो न विद्यते।
अहमेकोत्र तिष्ठामि स्वपुण्यपरिरक्षणात्८४।
ततस्सा तमुवाचेदं लोकहास्यवचस्तव।
वक्तुमर्हसि नश्चाग्रे न पुरोऽन्यस्य कस्यचित्८५।
द्विज उवाच-।
यदि यास्यामि चान्यत्र इतोऽहं तत्क्षणात्प्रिये।
सवित्तैः स्वजनैरेव पुरीयास्यत्यथोगतिम्८६।
इत्युक्त्वा परमप्रीतः संगृह्य च धनं स्वकम्।
क्षिप्रं स च तया सार्धं ययौ सीमांतरं द्विजः८७।
स्थित्वाऽपश्यत्पुरी तावत्स्थिरा तिष्ठति पूर्ववत्।
सा चाह तं पतिं साध्वी पुरी चेयं न नश्यति८८।
विमृश्यतामुवाचेदं विप्रवर्यस्सुविस्मितः।
किं नु तिष्ठति तत्रैव द्रव्यमस्मद्गृहाद्बहिः८९।
विचार्य सा धवं प्राह मया भ्रांत्या उपानहौ।
नानीते तिष्ठतस्तत्र धारयिष्यामि किं नु वै९०।
एवमुक्त्वा पतिं साध्वी गृहीत्वा ते उपागता।
पत्युरभ्याशतो दृष्टं पुरं निर्व्यथनं गतम्९१।
ततो विप्रादयो वर्णाः कच्चराः पुरवासिनः।
तिष्ठंति नरके घोरे दुःखिताश्चापुनर्भवे९२।
कृच्छाद्यमपुरं यांति नास्ति तेषां च निष्कृतिः।
पूतिगंधं ततो मेध्यं वर्जनीयं प्रकीर्तितम्९३।
पूर्ववद्भक्षणे प्रीतो ह्यद्यपापं करोति च।
स्तेयशीलो निशाचारी बुधैर्ज्ञेयस्स वंचकः९४।
अबुधः सर्वकार्येषु अज्ञातः सर्वकर्मसु।
समयाचारहीनस्तु पशुरेव स बालिशः९५।
एवमुष्ट्रादयस्संति भक्षादि नकुलादयः।
हिंस्रो ज्ञातिजनोद्वेगरिते युद्धे च कातरः९६।
विघसादिप्रियो नित्यं नरः श्वा कीर्तितो बुधैः।
चौर्यकर्मरतो नित्यं बहुमित्रप्रवंचकः९७।
मिथुने कलहो नित्यं मर्त्यस्तु परिकीर्तितः।
प्रकृत्या चपलो नित्यं सदा भोजनचंचलः९८।
प्लवगः काननप्रीतो नरः शाखामृगो भुवि।
सूचको भाषया बुध्या स्वजनेऽन्यजनेषु च९९।
उद्वेगजनकत्वाच्च स पुमानुरगः स्मृतः।
बलवान्क्रांतशीलश्च सततं चानपत्रपः१०० 1.76.100।
पूतिमांसप्रियो भोगी नृसिंहस्समुदाहृतः।
तत्स्वनादेव सीदंति भीता अन्ये वृकादयः१०१।
द्विरदादि नरा ये च ज्ञायंते दूरदर्शिनः।
एवमादि क्रमेणैव विजानीयान्नरेषु च१०२।
सुराणां लक्षणं ब्रूमो नररूपं व्यवस्थितम्।
द्विजदेवातिथीनां च गुरुसाधुतपस्विनाम्१०३।
पूजातपोरतोनित्यं धर्मशास्त्रेषु नीतिषु।
क्षमाशीलो जितक्रोधः सत्यवादी जितेंद्रिंयः१०४।
दयालुर्दयितो लोके रूपवान्मधुरस्वरः।
वागीशः सर्वकार्येषु गुणी दक्षो महाबलः१०५।
साक्षरश्चापि विद्वांश्च गीतनृत्यार्थतत्त्ववित्।
आत्मविद्यादिकार्येषु सर्वतंत्रीस्वरेषु च१०६।
हविष्येषु च सर्वेषु गव्येषु च निरामिषे।
सद्योगास्वादद्रव्ये च प्रत्यग्रे चातिशोभने१०७।
गंधमाल्येषु वस्त्रेषु शास्त्रेष्वाभरणेषु च।
संप्रीतश्चातिथौ दाने पार्वणादिषु कर्मसु१०८।
स्नानदानादिभिः कार्ये व्रतैर्यज्ञैः सुरार्चनैः।
कालो गच्छति पाठैश्च न क्लीबं वासरं भवेत्१०९।
अयमेव मनुष्याणां सदाचारो निरंतरम्।
देववन्मानवाचारो गीयते मुनिसत्तमैः११०।
किंतु सत्त्वाधिको देवो मनुष्यो भीत एव च।
गंभीरः सर्वदा देवः सदैव मानवो मृदुः१११।
द्वयोस्तुत्या च संप्रीतिर्न दैत्यादौ भवेत्किल।
प्रीतिभावं परं सौख्यं सौहृदं सुकृतं शुभम्११२।
दैवमानुषयोरेव दैत्यराक्षसयोस्तथा।
प्रेतादीनां च प्रेतेषु पशौ प्रीतिः पशोरपि११३।
काकादयः स्वजातौ च तथान्ये च स्वजातिषु।
प्रीता भवंति चाप्रीता विद्या तेषां च लक्षणम्११४।
एवं पुण्यविशेषेण सविशेषा सुजातिषु।
प्रियाप्रियं विजानीयात्पुण्यापुण्यं गुणागुणम्११५।
दंपत्योर्न सुखं किंचिज्जातिभेदान्नृणां भुवि।
स्वजातिषु भवेत्प्रीतिर्मुक्तो वा निरयेपि वा११६।
अतिपुण्याल्लभेदायुः शोभनाः पुण्यकारिणः।
पापात्मानो लभंतेऽन्तं ये च दैत्यादयो नराः११७।
कृते जाताः सुरा भूमौ न दैत्याश्चान्यजातयः।
त्रेतायामेकपादं च द्विपदं द्वापरे युगे११८।
संध्यायां च कलेरेव सर्वपादं च संकुलम्।
देवादीनां भवेज्जातं भारतं यत्प्रवर्तितम्११९।
ये ते दुर्योधनस्यैव योधाः सैन्यादयस्तथा।
ते च दैत्यादयः सर्वे ये च कर्णादयो भुवि१२०।
गांगेयो वसुमुख्यश्च द्रोणो देवमुनिः प्रभुः।
अश्वत्थामा हरः साक्षाद्धरिर्नंदकुलोद्भवः१२१।
पंचेंद्राः पांडवा जाता विदुरो धर्म एव च।
गांधारी द्रौपदी कुंती चैता देव्यो धरातले१२२।
देवदैत्याः कलेर्मध्ये दैत्याश्शेषे च मानवाः।
उत्पत्स्यंते सदा प्रेताः क्रव्यादाः पशुपक्षिणः१२३।
तेषां च कुलटा दासी नित्यकष्टा यवीयसी।
नित्यं द्वंद्वेषु संप्रीत्या तेषामाचारभाषिणी१२४।
किल्बिषेषु च सर्वेषु कलहेऽन्यायकर्मणि।
रता दैत्यादयो ये ते सर्वे निरयगामिनः१२५।
वैशंपायन उवाच-।
दैत्यादीनां मृषाभावात्सुरत्वं न सुरालयम्।
कथं भोग्यं कथं सौख्यमारोग्यं बलसंचयम्१२६।
राज्यमायुस्तथा कीर्तिरभीष्टं दयितं बलम्।
नीतिविद्यादिकं भाव्यं जन्मवृद्धं सनातनम्१२७।
दानाध्ययनकर्माणि यज्ञादि च कथं प्रभो।
एतदाप्ताय शिष्याय मह्यं भो वक्तुमर्हसि१२८।
व्यास उवाच-।
दैत्यानां साहसादेव तपो भवति निश्चितम्।
व्रतं यज्ञादिकं चैव संप्रीतिः स्वजनस्य च१२९।
यो दांतो विगुणैर्मुक्तो नीतिशास्रार्थतत्त्वगः।
एतैश्च विविधैः पूतः स भवेत्सुरलक्षणः१३०।
पुराणागमकर्माणि नाकेष्वत्र च वै द्विज।
स्वयमाचरते पुण्यं स धरोद्धरणक्षमः१३१।
विशेषाद्वैष्णवं दृष्ट्वा प्रीयते पूजयेच्च यः।
विमुक्तस्सर्वपापेभ्यस्स धरोद्धरणक्षमः१३२।
षट्कर्मनिरतो विप्रस्सर्वयज्ञरतस्सदा।
धर्माख्यानप्रियो नित्यं स धरोद्धरणक्षमः१३३।
विश्वासघातिनो ये च कृतघ्ना व्रतलोपिनः।
द्विजदेवेषु विद्विष्टाः शातयंति धरां नराः१३४।
ये च मद्यरताः पापा द्यूतकर्मरतास्तथा।
पाषंडपतितालापाः शातयंति धरां नराः१३५।
सुकर्मरहिता ये च नित्योद्वेगाश्च निर्भयाः।
स्मृतिशास्त्रार्थकोद्विग्नाश्शातयंति धरां नराः१३६।
निजवृत्तिं परित्यज्य कुर्वंति चाधमां च ये।
गुरुनिंदारता द्वेषाच्छातयंति धरां नराः१३७।
दातारं ये रोधयंति पातके प्रेरयंति च।
दीनानाथान्पीडयंति शातयंति धरां नराः१३८।
एते चान्ये च बहवः पापकर्मकृतो नराः।
पुरुषान्पातयित्वा तु शातयंति धरां नराः१३९।
य इदं शृणुयाद्रम्यं गुह्याद्गुह्यं परं हितम्।
न तस्य दुर्गतिर्दुःखं दौर्भाग्यं दीनता भुवि१४०।
न दैत्यादौ भवेज्जन्म स्वर्लोके शाश्वतं सुखम्।
नाकाले मरणं तस्य न च पापैः प्रलिप्यते१४१।
इह सर्वजनाध्यक्षस्त्रिदिवे त्रिदिवेश्वरः।
कल्पंकल्पं दिवं भुक्त्वा मोक्षमार्गं व्रजत्यसौ१४२।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पुण्यव्यक्तिर्नाम षट्सप्ततितमोऽध्यायः७६।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 77
वैशंपायन उवाच-
प्रभवत्ययमाकाशे नित्यं द्विजवर प्रभो।
कोऽयं को वा प्रभावोस्य कुत्र जातो घृणीश्वरः१।
किं करोति हि कार्यं वै यतो रश्मिमयो भृशम्।
देवैर्मुनिवरैस्सिद्धैश्चारणैर्दैत्यराक्षसैः२।
निखिलैर्मानुषैः पूज्यः सदैव ब्राह्मणादिभिः।
व्यास उवाच-।
परमं ब्रह्मणस्तेजो ब्रह्मदेहाद्विनिस्सृतम्३।
साक्षाद्ब्रह्ममयं विद्धि धर्मकामार्थमोक्षदम्।
मयूखैर्निर्मलैः कूटमतिचंडं सुदुःसहम्४।
दृष्ट्वा प्रदुद्रुवुर्लोकाः करैश्चंडैः प्रपीडिताः।
ततश्च सागराः सर्वे वरनद्यो नदादयः५।
शुष्यंति जंतवस्तत्र म्रियंते चातुरा जनाः।
अथ शक्रादयो देवा ब्रह्माणं समुपागताः६।
इममर्थं तदा प्रोचुर्देवांश्च विधिरब्रवीत्।
आदिर्ब्रह्मतनोर्देवाः सत्त्वगो जनकः प्रभुः७।
अयं रजोमयः साक्षात्सुधांशुस्तनुमध्यगः।
एताभ्यां पालिता लोकास्त्रैलोक्ये सचराचराः८।
दिव्योपपादका देवा ये वात्रैव जरायुजाः।
अंडजाः स्वेदजाश्चैव ये वात्रैवोद्भिज्जादयः९।
सूर्यस्यास्य प्रभावं तु वक्तुमेव न शक्नुमः।
अनेन रक्षिता लोका जनिताः पालिता ध्रुवम्१०।
अस्यैव सदृशो नास्ति सर्वेषां परिरक्षणात्।
यं च दृष्ट्वाप्युषःकाले पापराशिः प्रलीयते११।
तमाराध्य जना मोक्षं साधयंति द्विजातयः।
संध्योपासनकाले तु विप्रा ब्रह्मविदः किल१२।
उद्बाहवो भवंत्येव ते च देवप्रपूजिताः।
अस्यैव मंडलस्थां च देवीं संध्यास्वरूपिणीं१३।
समुपास्य द्विजास्सर्वे लभंते स्वर्गमोक्षकौ।
धरायां पतितोच्छिष्टाः पूतास्ते चास्य रश्मिभिः१४।
संध्योपासनमात्रेण कल्मषात्पूततां व्रजेत्।
दृष्ट्वा चांडालकं गोघ्नं पतितं कुष्ठसंगतम्१५।
महापातकसंकीर्णमुपपातकसंवृतम्।
पश्यंति ये नरास्सूरं ते पूता गुरुकिल्बिषात्१६।
अस्योपासनमात्रेण सर्वरोगात्प्रमुच्यते।
नांधत्वं न च दारिद्र्यं दुःखं न च शोच्यताम्१७।
लभते च इहामुत्र समुपास्य विरोचनम्।
अदृष्टा नैव लोकैश्च देवा हरिहरादयः१८।
ध्यानरूपप्रगम्यास्ते दृष्टो देवो ह्ययं स्मृतः।
देवा ऊचुः।
अस्तु प्रसादनाराध्यश्चास्तूपासनपूजनम्१९।
अस्यैव दर्शनं ब्रह्मन्प्रलयानलसंमितम्।
सर्वे नरादयस्सत्वा मृतावस्थां गता भुवि२०।
अस्य तेजःप्रभावेण प्रणष्टास्सागरादयः।
न समर्था वयं सोढुं कथमन्ये पृथग्जनाः२१।
तस्मात्तवप्रसादाच्च पूजयामो यथा रविम्।
यजंति च नरा भक्त्या तदुपायो विधीयताम्२२।
देवानां वचनं श्रुत्वा गतो ब्रह्मखगेश्वरम्।
गत्वा स्तोतुं समारेभे सर्वलोकहिताय वै२३।
देवत्वं सर्वलोकस्य चक्षुर्भूतो निरामयः।
ब्रह्मरूपधरः साक्षाद्दुष्प्रेक्ष्यः प्रलयानलः२४।
सर्वदेवस्थितस्त्वं हि सदा वायुसखस्तनौ।
अन्नादिपाचनं त्वत्तो जीवनं च भवेद्ध्रुवम्२५।
उत्पत्तिप्रलयौ देव त्वमेको भुवनेश्वरः।
त्वदृते सर्वलोकानां दिनैकं नास्ति जीवनम्२६।
प्रभुस्त्वं सर्वलोकानां त्राता गोप्ता पिता प्रसूः।
चराचराणां सर्वेषां त्वत्प्रसादाद्धृतं जगत्२७।
देवेषु त्वत्समो नास्ति भगवंस्त्वखिलेषु च।
सर्वत्र तेऽस्ति सद्भावस्त्वयैव धारितं जगत्२८।
रूपगंधादिकारी त्वं रसानां स्वादुता त्वया।
एवं विश्वेश्वरः सूरो निखिलस्थितिकारकः२९।
तीर्थानां पुण्यक्षेत्राणां मखानां जगतः प्रभो।
त्वमेकः प्रयतो हेतुस्सर्वसाक्षी गुणाकरः३०।
सर्वज्ञः सर्वकर्ता च हर्ता पाता सदोत्सुकः।
ध्वांतपंकामयघ्नश्च दारिद्र्यदुःखनाशनः३१।
प्रेत्येह च परो बंधुः सर्वज्ञः सर्वलोचनः।
त्वदृते सर्वलोकानामुपकारी न विद्यते३२।
आदित्य उवाच-।
पितामह महाप्राज्ञ विश्वेंद्र विश्वभावक।
ब्रूहि शीघ्रं परं यत्ते करिष्यामि मतं विधे३३।
ब्रह्मोवाच-।
मयूखस्त्वतिचंडश्च लोकानामतिदुःसहः।
यथैव मृदुतामेति तथा कुरु सुरेश्वर३४।
आदित्य उवाच-।
किरणाः कोटिकोटिर्मे लोकनाशकराः पराः।
न चाभीष्टकरा लोके प्रयोगाच्छिन्धि तान्प्रभो३५।
ततो विरिंचिना तूर्णं रविवाक्यवशाद्ध्रुवं।
आहूय विश्वकर्माणं कृत्वा वज्रमयीं भ्रमि३६।
चिच्छेद च रवेर्भानून्प्रलयानलसन्निभान्।
तैरेव रचितं तत्र विष्णोश्चक्रं सुदर्शनम्३७।
अमोघं यमदंडं च शूलं पशुपतेस्तथा।
कालस्य च परः खड्गश्शक्तिर्गुरुप्रमोदिनी३८।
चंडिकायाः परं शस्त्रं विचित्रं शूलकं तथा।
चक्रे ब्रह्माज्ञया शीघ्रं तेनैव विश्वकर्मणा३९।
सहस्रकिरणं शिष्टमन्यच्चैव प्रशातितम्।
अजनोपायभावेन पुनश्च कश्यपान्मुने४०।
अदितेर्गर्भसंजात आदित्य इति वै स्मृतः।
अयं चरति विश्वांते मेरुशृंगं भ्रमत्यपि४१।
सदोर्ध्वं दिनरात्रं च धरण्या लक्षयोजने।
ग्रहाश्चंद्रादयस्तत्र चरंति विधिनोदिताः४२।
सूरः संचरते मासान्द्वादशद्वादशात्मकः।
संक्रमादस्य संक्रांतिः सर्वैरेव प्रतीयते४३।
तासु यद्वा फलं ब्रूमो लोकानां निखिलं मुने।
धनुर्मिथुनमीनेषु कन्यायां षडशीतयः४४।
वृषवृश्चिककुंभेषु सिंहे विष्णुपदी स्मृता।
तर्पणं चाक्षयं विद्धि दानं देवार्चनं तथा४५।
षडशीतिसहस्राणि षडशीतौ फलं भवेत्।
विष्णुपद्यां तु लक्षं तु अयने कोटिकोटकं४६।
विष्णुपद्यां तु यद्दानमक्षयं परिकीर्तितं।
दातुर्वदामि सान्निध्यं सदा जन्मनिजन्मनि४७।
शीते तूलपटीदानान्न दुःखं जायते तनौ।
तुलादाने तल्पदाने द्वयोरेवाक्षयं फलं४८।
सर्वोपकरणां शय्यां यो ददाति विमत्सरः।
वर्णमुख्याय विप्राय स राजपदवीं लभेत्४९।
तथैवाग्निं जलं दत्वा नदीतीरे पथिप्रगे।
दत्वा च तैलतांबूलमूर्व्या अधिपतिर्भवेत्५० 1.77.50
सत्यभावाद्द्विजं नत्वा धनी चाक्षयतां व्रजेत्।
माघे मास्यसिते पक्षे पंचदश्यामहर्मुखे५१।
पितॄंस्तिलजलैरेव तर्पयित्वाक्षयो दिवि।
सुलक्षणां च गां दत्वा हेमशृंगां मणिप्रभाम्५२।
रौप्यखुरप्रदेशां च तथा कांस्यसुदोहनाम्।
एतां दत्वा द्विजाग्र्याय सार्वभौमो भवेन्नृपः५३।
दत्वान्नाभरणं राजा मंडलेशो धनीश्वरः।
तिलधेनुं तु यो दद्यात्सर्वोपस्करणान्विताम्५४।
सप्तजन्मार्जितात्पापान्मुक्तो नाकेऽक्षयो भवेत्।
भोज्यान्नं ब्राह्मणे दत्वा अक्षयं स्वर्गमश्नुते५५।
धान्यं वस्त्रं तथा भृत्यं गृहपीठादिकं च यत्।
यो ददाति द्विजाग्र्याय तं च लक्ष्मीर्न मुंचति५६।
यत्किंचिद्दीयते दानं स्वल्पं वा यदि वा बहु।
अक्षयं परलोकेषु युगाद्यासु तथैव च५७।
यद्वा देवार्चनं स्तोत्रं धर्माख्यानप्रतिश्रवः।
पुनाति सर्वपापेभ्यो दिवि पूज्यो भवत्यसौ५८।
तृतीया माघमासस्य सिता मन्वंतरा स्मृता।
तस्यां यद्दीयते दानं सर्वमक्षयमुच्यते५९।
धनं भोग्यं तथा राज्यं नाकं कल्पांतरस्थितम्।
तस्माद्दानं सतां पूजा प्रेत्यानंतफलप्रदा६०।
मन्वंतरा तु माघे स्यात्सप्तमी या शितीतरा।
तिथिः पुण्यतमा प्रोक्ता पुराणैरभिरक्षिता६१।
माघमासे सिते पक्षे सप्तमी कोटिभास्करा।
तामुपोष्य नरः पुण्यां मुच्यते नात्र संशयः६२।
सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी।
अरुणोदयवेलायां तस्यां स्नानं महाफलम्६३।
यच्च तत्र कृतं पापं मया सप्तसु जन्मसु।
तन्मे रोगं च शोकं च भास्करी हंतु सप्तमी६४।
जननी सर्वभूतानां सप्तमी सप्तसप्तिके।
सप्तम्यामुदिते देवि नमस्ते रविमंडले६५।
अर्कपत्रं यवाः पुष्पं सुगंधं बदरीफलम्।
तत्पत्रे ताम्रपात्रे वा युक्तमानीय तण्डुलम्६६।
यज्ञसूत्रं ससिंदूरं दत्वा चार्घं सुशोभनम्।
सर्वपापं क्षयं याति सप्तजन्मकृतं च यत्६७।
नरकैः पीड्यते तावद्रोगैः पापैश्च दुःखदैः।
हविष्यं भोजयेदन्नं शुद्धमातपतंडुलैः६८।
वर्जयेच्च शिलाघृष्टं शृंगबेरं तु शाककम्।
कोरदूषकपत्रं च रंभाच्छागीघृतं तथा६९।
केशकीटादिकं वर्ज्यमुष्णोदस्नानमेव च।
अल्पबीजादिकं सर्वं व्रते सूरस्य वर्जयेत्७०।
अन्यच्च नाचरेत्तत्र धर्मचिंतां विना व्रती।
सौरव्रतं महापुण्यं पुराणैरभिनंदितम्७१।
वर्षकोटिसहस्राणि वर्षकोटिशतानि च।
आदित्यस्य समं भोग्यं लभते दिवि शाश्वतम्७२।
एवं स्वर्गक्षयादेव राजा भूमौ महाधनी।
मर्त्यलोके पुराभ्यासात्करोति भास्करव्रतम्७३।
तथा स्वयं सुखं भोग्यं लभते दिवि शाश्वतम्।
आरोग्यं संपदं जन्मी भास्करस्य प्रसादतः७४।
रविवारे भवेद्या च सप्तमी माघशुक्लके।
महाजयेति विख्याता अन्यत्र विजया स्मृता७५।
विजया कोटिलक्षं स्यादनंतं स्यान्महाजया।
तत्रैकेन व्रतेनैव मुच्यते जन्मबंधनात्७६।
अश्वरत्नं सुवर्णं च रक्तवस्त्रं च धान्यकम्।
ददाति भास्कर प्रीत्या स्वर्ग मर्त्यपतिः क्रमात्७७।
एषां भेदं प्रवक्ष्यमि शृणु विप्र यथार्थवत्।
उत्तमाभरणैर्युक्तं सद्वाहं यो ददाति ह७८।
समुद्रैस्सप्तभिर्जुष्टां भूमिमेत्यारिवर्जिताम्।
लभेद्भवांतरे मर्त्यमेकेनैकाधिपो भवेत्७९।
अश्वहीनं च पत्रांगं वृषभैर्वाप्यलंकृतम्।
हेममाषं द्विमाषं वा दक्षिणा विहिता बुधैः८०।
रत्नभांडं महार्थं च हैमैरेव कृतं च यत्।
स्वर्णं वा केवलं दत्वा त्रिविष्टपधनेश्वरः८१।
रक्तवस्त्रं च धान्यं च शक्तितो यः प्रयच्छति।
स्वर्गोर्व्योरीशतामेति न तं लक्ष्मीर्विमुंचति८२।
अरोगी सुप्रसन्नात्मा दस्युजेता प्रतापवान्।
यावत्प्रभासते भानुस्तावत्पूज्यतमो हि सः८३।
माघादौ द्वादशींमायां सप्तमीं कारयेत्स तु।
इहाभीष्टफलं भुक्त्वा सुरैश्चैव प्रपूज्यते८४।
अर्काङ्गसप्तमी व्रतं कृत्वा च विधिवद्बुधः।
पापात्पूत इहाभीष्टं संप्राप्य मुक्तिमाप्नुयात्८५।
लक्षणं च प्रवक्ष्यामि मासि मासि च यो विधिः।
व्रतस्यास्य प्रसादाच्च सुराणामर्चितो दिवि८६।
शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे।
पुंनामधेयनक्षत्रे गृह्णीयात्सप्तमीव्रतम्८७।
हस्तो मैत्रं तथा पुष्यः श्रवो मृग पुनर्वसु।
पुंनामधेय नक्षत्राण्येतान्याहुर्मनीषिणः८८।
पंचम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम्।
सप्तम्यामुपवासं च अष्टम्यां पारणं भवेत्८९।
अर्काग्रं शुचिगोमयं सुमरिचं तोयं फलं चाश्नुते ।
मूलं नक्तमुपोषणं च विधिवत्कृत्वैकभक्तं तथा।
क्षीरं वाप्यशनं घृताक्तमिति च प्रोक्ताः क्रमेणामुना।
कृत्वा वासरसप्तमीं दिनकृतः प्राप्नोत्यभीष्टं फलं९०।
अर्काग्रं ग्रामात्पूर्वोत्तरदिग्गतार्कविटपस्य शाखाग्रस्थितं।
विशिष्टं सूक्ष्मपत्रद्वयं सतोयं दन्तैरस्पृष्टं पातव्यं।
शुचिगोमयं भूमावपतितं मद्याङ्गुष्ठाभ्यां पलमात्रं दन्तैरस्पृष्टं सतोयं पातव्यम्।
सुमरिचमव्रणमपुरातनं स्थूलमवशुष्कमेकं दन्तैरस्पृष्टं सतोयं पातव्यम्।
तोयं ब्रह्मपित्रङ्गुलीमूलप्रसरं पातव्यम्फलं खर्जूरनारिकेलानामन्यतमं दंतैरस्पृष्टं पातव्यं घृताक्तमिति चाहारं मयूरडिंभपरिमाणं।
घृतमपि तत्परिमाणम्९१।
आत्मनो द्विगुणां छायां यदा कुर्वीत भास्करः।
तदा नक्तं विजानीयान्न नक्तं निशिभोजनं९२।
प्रथमं पूजयेद्देवं फलपुष्पादिमंत्रकैः।
अन्नदानं ततः कुर्याद्विध्युक्तपरिमाणकं९३।
ततो ध्यानम्-।
सर्वलक्षणसंपूर्णं सर्वाभरणभूषितं।
द्विभुजं रक्तवर्णं च रक्तपंकजधृत्करं९४।
तेजोबिंबं बहुजलमध्यस्थं सपरिच्छदं।
पद्मासनगतं देवं रक्तगंधानुलेपनं९५।
आदित्यं चिंतयेद्देवं पूजाकाले विशेषतः।
अथ मंत्रश्चायं-।
भास्कराय विद्महे सहस्ररश्मये धीमहि तन्नः सूर्यः प्रचोदयात्९६।
जप्य एष परः प्रोक्तःसप्तम्यां विजयावहः।
करवीरैः करंजैश्च रक्तकुंकुमसन्निभैः९७।
पश्चाच्च पारणा कार्या तथाष्टम्यां विशेषतः।
अष्टम्यामेव कर्तव्यं नवम्यां नैव पारणं९८।
व्रते फलं न चाप्नोति नवम्यां पारणे कृते।
पारणं त्वपराह्णे तु कटुतिक्ताम्लवर्जितं९९।
तंडुलं शोधयेद्यत्नात्तृणबीजादिकं त्यजेत्।
मुद्ग माष तिलादीनि घृतं च परिवर्जयेत्१०० 1.77.100
ब्राह्मणान्भोजयेद्भक्त्या शक्तः क्षीरादिहव्यकैः।
यथाशक्त्यन्नपानैश्च व्यंजनैश्च निरामिषैः१०१।
विप्राय दक्षिणां दद्याद्विभज्य चानुरूपतः।
इमामनंतफलदां यः कुर्यात्सप्तमीं नरः१०२।
सर्वपापप्रशमनीं धनपुत्रविवर्धनीम्।
मासि मासि द्विजश्रेष्ठ व्रतं कृत्वार्कतुष्टये१०३।
यः कुर्यात्पारणं भक्त्या सूर्यलोकं स गच्छति।
कल्पकोटिं वसेत्स्वर्गे ततो याति परां गतिं१०४।
इदमेव परं गुह्यं भाषितं शंभुना पुरा।
श्रवणात्सततं तस्य व्रतस्य परिपालनात्।
श्रावयेद्वापि लोकस्य फलं तुल्यं प्रकीर्तितं१०५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे अर्काङ्गसप्तमीव्रतंनाम।
सप्तसप्ततितमोऽध्यायः७७।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 78
वैशम्पायन उवाच-
भगवंस्त्वत्प्रसादाच्च श्रुतं मे पावनं व्रतं।
अपरं श्रोतुमिच्छामि ब्रध्नस्य च प्रियं च यत्१।
व्यास उवाच-
कैलासशिखरे रम्ये सुखासीनं महेश्वरं।
प्रणम्य शिरसा भूमौ स्कंदो वचनमब्रवीत्२।
अर्काङ्गाख्यविधिस्त्वत्तो मयैवं विस्तराच्छ्रुतः।
वारादेर्यत्फलं नाथ श्रोतुमिच्छामि तत्त्वतः३।
ईश्वर उवाच-
रक्तपुष्पै रवेर्वारे त्वर्घ्यं दद्याद्व्रती नरः।
नक्ताहारं हविष्यान्नं कृत्वा स्वर्गान्न हीयते४।
सप्तम्याश्च सदाचारं सर्वमेवार्कवासरे।
कुर्वतः प्रीतिमाप्नोति सगणः परमेश्वरः५।
शूरस्य सदृशं याति तिथिवारस्य पालनात्।
एकेन गाणपत्यस्य यावत्सूरो नभस्तले६।
सर्वकामप्रदं पुण्यमैश्वर्यं रोगनाशनम्।
स्वर्गदं मोक्षदं पुण्यं रवेर्वारे व्रतं हितम्७।
रविवारेण संक्रांत्या सप्तम्या तद्दिने शिवे।
व्रतपूजादिकं चाप्यं सर्वं चाक्षयतां व्रजेत्८।
आदित्यवासरे शुभ्रे ग्रहाधिपप्रपूजनम्।
प्राणादहतवक्त्रेण निःसार्य मंडले न्यसेत्९।
द्विभुजं रक्तपद्मस्थं सुगलं रक्तवाससं।
सर्वरक्ताभरणं ध्यात्वा हस्ताभ्यां पुष्पं विधृतसंघ्रायैशान्यां क्षिपेत्१०।
आदित्याय विद्महे भास्कराय धीमहि।
तन्नो भानुः प्रचोदयात्११।
ततो गुरूपदिष्टेन विधिना च विलेपनम्।
विलेपनांते सद्धूपं धूपांते च प्रदीपकम्१२।
प्रदीपांते च नैवेद्यं ततो वारि निवेदयेत्।
ततो जप्यं स्तुतिं मुद्रां नमस्कारं तु कारयेत्१३।
अंजलि प्रथमा मुद्रा द्वितीया धेनुका स्मृता।
एवं यः पूजयेदर्कं रविसायुज्यमाव्रजेत्१४।
मम ब्रह्मवधं घोरं कपालं करलग्नकम्।
रवेस्तस्यप्रसादात्तु मुक्तं वाराणसीतटे१५।
रवेः परतरं दैवं त्रैलोक्ये तु न विद्यते।
यस्य प्रसादतो घोरान्मुक्तोहं गुरुकिल्बिषात्१६।
स्कंद उवाच-।
श्रुत्वा त्वत्तो गिरं नाथ विस्मयो मेऽभवत्प्रभो।
त्वदन्योस्ति न को देवः कथं ब्रह्मवधं त्वयि१७।
त्वं च ज्ञानीश्वरो योगी लोके भोक्ताऽक्षरोऽव्ययः।
देवानां गुरुरेकस्त्वं व्याप्तरूपी महेश्वरः१८।
सर्वज्ञो वरदो नित्यं सर्वेषां प्राणिनां प्रभुः।
दुष्कृतं ते कुतो नाथ तथा क्रोधो विशेषतः१९।
शिव उवाच-
लोकानां च हितार्थाय पृथग्भूता युगे युगे।
सर्वं कुर्मो वयं पुत्र ब्रह्मविष्णुमहेश्वराः२०।
नास्माकं बंधमोक्षौ च नाकार्यं कार्यमेव वा।
तथा लोकस्य रक्षार्थं चरामो विधिपूर्वकम्२१।
सर्वं च परमं चैव सर्वविघ्नविनाशनम्।
सर्वरोगप्रशमनं सर्वार्थप्रतिसाधकम्२२।
एकोसौ बहुधा भूत्वा कालभेदादनिंदितः।
मासे मासे तु तपति एको द्वादशतां व्रजेत्२३।
मित्रो मार्गशिरे मासि पौषे विष्णुः सनातनः।
वरुणो माघमासे तु सूर्यो वै फाल्गुने तथा२४।
चैत्रे मासि तपेद्भानुर्वैशाखे तापनः स्मृतः।
ज्येष्ठमासे तपेदिंद्र आषाढे तपते रविः२५।
गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा।
हिरण्यरेताश्वयुजि कार्तिके तु दिवाकरः२६।
इत्येते द्वादशादित्या मासि मासि प्रकीर्तिताः।
उरुरूपा महातेजा युगांतानलवर्चसः२७।
य इदं पठते नित्यं तस्य पापं न विद्यते।
न रोगो न च दारिद्र्यं नावमानो भवेत्क्वचित्२८।
अक्षयं लभते स्वर्गं सुखं राज्यं यशः क्रमात्।
महामंत्रं प्रवक्ष्यामि सर्वप्रीतिकरं परम्२९।
ऊँ नमः सहस्रबाहवे आदित्याय नमोनमः।
नमस्ते पद्महस्ताय वरुणाय नमोनमः३०।
नमस्तिमिरनाशाय श्रीसूर्याय नमोनमः।
नमः सहस्रजिह्वाय भानवे च नमोनमः३१।
त्वं च ब्रह्मा त्वं च विष्णू रुद्रस्त्वं च नमोनमः।
त्वमग्निः सर्वभूतेषु वायुस्त्वं च नमोनमः३२।
सर्वगः सर्वभूतेषु नहि किंचित्त्वया विना।
चराचरे जगत्यस्मिन्सर्वदेहे व्यवस्थितः३३।
इति जप्त्वा लभेत्कामं स्वर्गभोग्यादिकं क्रमात्।
आदित्यो भास्करः सूर्यो अर्को भानुर्दिवाकरः३४।
सुवर्णरेता मित्रश्च पूषा त्वष्टा च ते दश।
स्वयंभूस्तिमिराशश्च द्वादशः परिकीर्तितः३५।
नामान्येतानि सूर्यस्य शुचिर्यस्तु पठेन्नरः।
सर्वपापाच्च रोगाच्च मुक्तो याति परां गतिम्३६।
पुनरन्यत्प्रवक्ष्यामि भास्करस्य महात्मनः।
रक्ताख्याये रक्तनिभास्सिंदूरारुणविग्रहाः३७।
यानि नामानि मुख्यानि तच्छृणुष्व षडानन।
तपनस्तापनश्चैव कर्त्ता हर्त्ता ग्रहेश्वरः३८।
लोकसाक्षी त्रिलोकेषु व्योमाधिपो दिवाकरः।
अग्निगर्भो महाविप्रः स्वर्गः सप्ताश्ववाहनः३९।
पद्महस्तस्तमोभेदी ऋग्वेदो यजुस्सामगः।
कालप्रियं पुंडरीकं मूलस्थानं च भावितम्४०।
यः स्मरेच्च सदा भक्त्या तस्य रोगभयं कुतः।
शृणु कार्तिक यत्नेन सर्वपापहरं शुभम्४१।
न संदेहो मनाक्कार्य आदित्यस्य महामते।
ऊँ इंद्राय नमः ऊँ विष्णवे नमः४२।
एष जप्यश्च होमश्च संध्योपासनमेव च।
सर्वशांतिकरश्चैव सर्वविघ्नविनाशनः४३।
नाशयेत्सर्वरोगांश्च लूताविस्फोटकादिकान्।
कामलादिकरोगांश्च ये रोगाश्चैव दारुणाः४४।
एकाहिकं त्र्यहिकं च ज्वरं चातुर्थिकं तथा।
कुष्ठं रोगं क्षयं रोगं कुक्षिरोगं ज्वरं तथा४५।
अश्मरीमूत्रंकृच्छ्रांश्च नानारोगामयांस्तथा।
ये वातप्रभवा रोगा ये रोगा गर्भसंभवाः४६।
मर्दयन्तो महारोगा मर्दिता वेदनात्मकाः।
विलयं यांति ते सर्व आदित्योच्चारणेन तु४७।
रक्ष मां देवदेवेश ग्रहरोगभयेषु च।
प्रशमं यांति ते सर्वे कीर्तिते तु दिवाकरे४८।
मूलमंत्रं प्रवक्ष्यामि सर्वकामार्थसाधकम्।
भुक्तिमुक्तिप्रदं नित्यं भास्करस्य महात्मनः४९।
मंत्रश्चायं ॐ ह्रां ह्रीं सः सूर्याय नमः।
अनेन मंत्रेण सदा सर्वसिद्धिर्भवेद्ध्रुवं५० 1.78.50।
व्याधयो वै न बाधंते न चानिष्टं भयं भवेत्।
सूर्यावर्तोदकं यस्तु गृहीत्वा तु क्रमेण तु५१।
तस्य प्राशनमात्रेण नरो रोगात्प्रमुच्यते।
न दातव्यं न ख्यातव्यं जप्तव्यं च प्रयत्नतः५२।
अभक्तेष्वनपत्येषु पाषण्डलौकिकेषु च।
कटुतैलसमायुक्तं नस्ये पाने च दापयेत्५३।
सूर्यावर्तजलं पुत्र सर्वरोगाद्विमुच्यते।
मूलमंत्रस्तु जप्तव्यः संध्यायां होमकर्मसु५४।
जप्यमाने तु नश्यंति रोगाः क्रूरग्रहास्तथा।
किमन्यैर्बहुभिः शास्त्रैर्मंत्रैर्वा बहुविस्तरैः५५।
सर्वशांतिरियं वत्स सर्वार्थप्रतिसाधिका।
नास्तिकाय न दातव्या देवब्राह्मणनिंदके५६।
गुरुभक्ताय दातव्या नान्येभ्योपि कदाचन।
प्रातरुत्थाय यो नित्यं कीर्तयिष्यति मानवः५७।
गोघ्नः कृतघ्नकश्चैव मुच्यते सर्वपातकैः।
शरीरारोग्यकृच्चैव धनवृद्धियशस्करः५८।
जायते नात्र संदेहो यस्य तुष्येद्दिवाकरः।
एककालं द्विकालं वा त्रिकालं नित्यमेव च५९।
यः पठेद्रविसान्निध्ये सोऽभीष्टं फलमाप्नुयात्।
पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत्६०।
विद्यार्थी लभते विद्यां धनार्थी लभते धनं।
शृणुयात्संयुतो भक्त्या शुद्धाचारसमन्वितः६१।
सर्वपापविनिर्मुक्तस्सूर्यलोकं व्रजत्यपि।
भास्करस्य व्रते यच्च व्रताचारमखेषु च६२।
पुण्यस्थानेषु तीर्थेषु पठेत्कोटिगुणं भवेत्।
ग्रहे भोज्येषु पूजायां ब्रह्मभोज्ये द्विजाग्रतः६३।
य इदं पठते विप्रस्तस्यानंतफलं भवेत्।
तपस्विनां च विप्राणां देवानामग्रतः सुधीः६४।
यः पठेत्पाठयेद्वापि सुरलोके महीयते६५।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सूर्यशांतिर्नामाष्टसप्ततितमोऽध्यायः७८।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 79
व्यास उवाच-
मध्यदेशे स्वराट् सम्राट् भद्रेश्वर इति श्रुतः।
तपोभिर्बहुभिः पूतो व्रतैर्नानाविधैरपि१।
देवांस्तु पूजयेन्नित्यं सुभावेन सदा खलु।
तस्य सव्येऽभवत्कुष्ठं करे श्वेतमजायत२।
ततो भिषक्प्रयोगाच्च लक्षणं दृश्यते पुरा।
आहूय द्विजमुख्यांश्च मंत्रिणः सोब्रवीद्वचः३।
राजोवाच-।
किल्बिषं मे करे विप्रा दुःसहं लोकगर्हितं।
तस्मात्पुण्यं महाक्षेत्रं यत्र त्यक्ष्यामि विग्रहं४।
आज्ञापयत धर्मज्ञाः परलोकहिताय वै।
वंशहीनस्य मे वीराः प्रेत्यामुत्र हितं च यत्५।
तद्ब्रूत सुप्रसन्ना म उद्दिष्टं यत्करोम्यहं।
द्विजा ऊचुः।
परित्यक्ते त्वया राष्ट्रे धर्मशीलेन धीमता६।
नष्टं जगदिदं राजंस्तस्मान्नो वक्तुमर्हसि।
अयमस्य प्रतीकारो ह्यस्माभिरवगम्यते७।
सूरं मंत्रैर्महादेवं यत्नादाराधय प्रभो।
राजोवाच-
केनोपायेन विप्रेंद्रास्तोषयिष्यामि भास्करं८।
अमेध्येनाथ कुष्ठेन लोकानां गर्हितेन च।
अदृश्यः सर्वभूतानां गर्हितोस्मि द्विजातयः९।
किं करिष्यामि राज्यं च किं स्यादाराधनेन तु।
द्विजा ऊचुः-।
अत्र स्थित्वा स्वराज्ये तु समुपास्य विरोचनं१०।
प्रमुच्य किल्विषाद्घोरात्स्वर्गं मोक्षं च लप्स्यसे।
एतच्छ्रुत्वा तु राजेंद्रः प्रणिपत्य द्विजोत्तमान्११।
आकार्षीत्तस्य सूर्यस्य परमाराधनं च यत्।
नित्यपूजां तथा मंत्रैरुपहारैर्विलेपनैः१२।
फलैर्नानाविधैरर्घैरक्षतातप तंडुलैः।
जपापुष्पार्कपर्णैश्च करवीरकरंजकैः१३।
रक्तकुंकुमसिन्दूरैस्तथा वासंतिकादिभिः।
सुगंधकदलीपत्रैस्तत्फलैः सुमनोहरैः१४।
अर्घ्यमौदुंबरे कृत्वा सदा सूर्याय पार्थिवः।
आदित्यसंमुखो दत्ते सदा मंत्रिपुरोहितैः१५।
महिषीभिस्तथा चार्घो भोगिनीभिः समंततः।
सर्वैरंतःपुरस्थैश्च सपत्नीकैश्च रक्षिभिः१६।
चेटवर्गैस्तथान्यैश्च दीयतेऽर्घो दिनेदिने।
अर्कशांतिभिरत्युग्रैः स्तोत्रमंत्रादिभिः परैः१७।
मूलमंत्रान्यमंत्रैश्च यजंति स्म दिवाकरं।
तथार्कांगव्रतं चान्यत्कृतं तैः सुसमाहितैः१८।
क्रमात्समांसमासाद्य रोगस्यांतं गतो नृपः।
बाधिते चामये घोरे स राजा निखिलं जगत्१९।
नियम्य कारयामास कल्ये च याजनव्रतम्।
एवमेव जपापुष्पं सुगंधं कदलीफलम्२०।
बाणैर्जायाभिरालभ्यमर्कपर्णान्यपुष्पकं।
एवमेव महापुण्यं कृत्वा सर्वजनप्रियं२१।
हविष्यान्नो निराहारो जनो यजति भास्करम्।
एवमेव त्रिभिर्वर्गैरर्चितस्तैर्विभाकरः२२।
संतुष्टो भूपमागम्य कृपया चाब्रवीद्वचः।
वरं वरय चाभीष्टं यस्ते मनसि वर्तते२३।
सर्वेषां वो हितार्थाय सानुगः पुरवासिनाम्।
राजोवाच-।
यदीच्छसि वरं दातुं सर्वलोचनमत्प्रियम्२४।
सर्वेषां नः परं स्वर्गं त्वत्सकाशे भवत्विति।
सूर्य उवाच-।
अमात्यास्ते द्विजा विप्राः सदारास्सपरिच्छदाः२५।
नवीनयौवनाः शुद्धा यावदाभूतसंप्लवम्।
तिष्ठंतु मत्पुरे रम्ये सर्वभोगैर्निरामयाः२६।
सुरद्रुमैः सुसंपूर्णैः प्रासादैर्द्रुमकल्पकैः।
प्रमदाभिर्महाभाग नृत्यगीतादिभिः परैः२७।
पंचकल्पांतरे राजा मन्वादौ त्वं भविष्यसि।
अमी ते मनुजा भूप पुरस्थाश्च पुरोधसः२८।
तथा जनपदस्थाश्च विद्वांसो धनिनो नराः।
तत्र मत्तो वरं लब्ध्वा सुखं स्वर्गमवाप्स्यथ२९।
एवमुक्त्वा जगच्चक्षुस्तत्रैवांतरधीयत।
ततो भद्रेश्वरो राजा सपुरो दिवि मोदते३०।
तत्र कीटादयो ये च ते पीताः ससुतादयः।
स्वर्गे देवद्रुमे भोग्यं कुर्वंति महदद्भुतम्३१।
एवमेव नृपा विप्रा मुनयश्शंसितव्रताः।
ये च क्षत्रादयो वर्णास्सूर स्वर्गं ययुर्द्रुतम्३२।
कैश्चिदभ्यर्थितं वित्तं पुत्रदारास्तथापरैः।
सुखं स्वर्गं तथारोग्यं भास्करस्य प्रसादतः३३।
पुण्यकूटमिदं भद्रं यः पठेन्मानवः शुचिः।
सर्वपापक्षयस्तस्य रुद्रवत्पूजितो भुवि३४।
सर्वसाक्षी भवेत्स्वर्गे वरदो भास्करप्रियः।
शृणोति संयतो मर्त्यः सोभीष्टं फलमाप्नुयात्३५।
पारगः सर्वपापानां भास्करस्यैव संसदि।
वावदूको भवेन्नित्यं श्रवणात्पुण्यवान्धनी३६।
इदं गुह्यातिगुह्यं च भास्करेण प्रचारितं।
इदं यमाय कथितं क्षितौ व्यासेन कीर्तितम्३७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे भद्रेश्वराख्यानं नामैकोनाशीतितमोऽध्यायः७९।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 80
वैशंपायन उवाच-
श्रुतो ग्रहेश्वरस्यैष प्रभावस्त्वत्प्रसादतः।
रव्यादीनां ग्रहाणां च साधनं नो वद द्विज१।
के ते रव्यादयस्तेषां कथं तोषः कथं प्रियम्।
काले देशे तु संप्राप्ते दर्शनं तच्छिवाशिवम्२।
व्यास उवाच-।
ग्रहादयो ये लोके तु भुंजंति पुण्यपातकम्।
शिवाशिवं च कुर्वंति विश्वकर्मक्षयाय वै३।
सूरः कालोंतको ज्ञेयो जनेषु च ग्रहेषु च।
तिग्मसौम्याच्च योगात्स निग्रहानुग्रहे प्रभुः४।
ग्रहभावाच्च तस्यैव संतोषं निगदाम्यहम्।
उदुम्बरपलाशाभ्यां पल्लवाभ्यां जुहोति यः५।
आकृष्णेनेति मंत्रेण मूलकेनाथ शांतये।
जुहुयादाज्ययुक्ताभ्यामभीष्टफलहेतवे६।
शांतये सर्वरोगाणां वधबंधविमोचने।
एकैकेन तु मंत्रेण होतव्यं च शतंशतम्७।
शितं चच्छागलं दद्यात्सूरायादित्यवासरे।
भोजयेद्ब्राह्मणान्शक्त्या हव्यकव्यैर्मनोहरैः८।
सप्तम्यां च सिते पक्षे पंचदश्यां तथैव च।
रोगाद्विमुच्यते रोगी न रोगात्कृच्छ्रमेष्यति९।
परमं चामरं सत्वमाब्रह्मस्तंबमात्रके।
ब्रह्मांडे चाणुमात्रे च सूरः संभावयिष्यते१०।
संहारांतं क्रमात्सर्वमुत्पत्तिस्थितिकारणात्।
प्राणसर्गे जनानां स पाता विश्वचरस्तनौ११।
मृत्युकाले तनोर्मध्यात्प्राणेन सह गच्छति।
शीर्षान्तस्थः सदा चंद्रो द्विरष्टकलया युतः१२।
अहर्निशं सुधावृष्टिं देहे वर्षत्यधोमुखः।
जंतवस्तेन जीवंति महासत्वानुमात्रकाः१३।
उर्व्यां सस्यानि पुष्णाति तथा स्थावरजंगमान्।
एताभ्यां पुष्पवद्भ्यां च धारितं जनितं जगत्१४।
तयोराराधनात्पुष्टिः सदा पुण्यापरार्धिका।
साधयेत्सर्वकार्याणि साधकः सर्वदा शुचिः१५।
न पूजयति यो मोहात्सुधांशुं मानवाधमः।
आयुस्तस्य क्षयं याति नरकं चाधिगच्छति१६।
निष्कलंक कलाधार गंगाधर शिरोमणे।
द्वितीयायां जगन्नाथ तुभ्यं चंद्र नमोस्तु ते१७।
तिथिमन्यामनुप्राप्य नमस्कारं विधोरपि।
प्रकरोति नरो यस्तु सोभीष्टं फलमाप्नुयात्१८।
अत्रिनेत्रोद्भव श्रीमन्क्षीरोद मथनोद्भव।
महेशमुकटावास तुभ्यं चंद्र नमोस्तुते१९।
दिव्यरूप नमस्तुभ्यं सुधाकर जगत्पते।
शुक्लपक्षे तथा कृष्णे त्रियामायां विदुर्बुधाः२०।
ऊँ ह्रां ह्रीं सोमाय नमः इति जप्यमंत्रः।
प्रभाते जपनीयः-।
एवं यः पूजयेत्सोमं श्रावयेच्च शृणोति वा।
स पीयूषसमो लोके भवेज्जन्मनि जन्मनि२१।
एवं सहस्रनाम्ना यः स्तौति पूजयते भुवि।
सोऽक्षयं लभते स्वर्गं पुनरावृत्तिदुर्लभम्२२।
इति सोमपूजा-।
पित्तले भाजने कांस्ये दधिपूर्णे घृते शिवे।
न्यूनोऽधिकस्तु विभवाच्छ्रुत्वा कर्मविमत्सरः२३।
स्वर्णे वा राजते वारे सौम्ये कृष्णभवे बुधम्।
संस्थाप्य सर्वसंस्थाने दद्याद्बहुसुताय च२४।
परं भवति सौभाग्यं पीयूषादधिकं भृशम्।
स्त्रीणां च पुरुषाणां च न दौर्भाग्यं कदाचन२५।
रूपसौभाग्यकामोहं दधिपूर्णं च भाजनम्।
ददामि कांस्यपात्रस्थं देहि सौभाग्यरूपकम्२६।
द्विजाय वाक्यपूर्वेण दद्याद्विमत्सरो नरः।
शक्तितो दक्षिणा देया तथा वस्त्रादिकं नवम्२७।
भोज्यान्नं सर्वसम्पूर्णं तांबूलं सुमनोहरम्।
पुष्पमालादिकं दद्याद्रूपसौभाग्यहेतवे२८।
एवं यः कुरुते दानं सोमोद्दिष्टं द्विजातये।
स्वर्लोके नरलोके वा रूपसौभाग्यभुग्भवेत्२९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे सोमार्चनं।
नामाशीतितमोऽध्यायः८०।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 81
वैशंपायन उवाच-।
उद्भवं लोहितांगस्य संतोषं तु जनेषु च।
प्रभावं वैभवं तेजः श्रोतुमिच्छामि तत्त्वतः१।
व्यास उवाच-।
हरांशसंभवो देवः कुजातः पृथिवीसुतः।
सत्त्वस्थस्सत्वसंपूर्णश्शूरः शक्तिधरो भुवि२।
तीक्ष्णः क्रूरग्रहो देवो लोहितांगः प्रतापवान्।
कुमारो रूपसंपन्नो विद्युत्पातमयः प्रभुः३।
अनेन भर्जिता दैत्याः क्रव्यादाय सुरद्विषः।
दशायोगाच्च मनुजा उद्भिज्जाः पशुपक्षिणः४।
वैशंपायन उवाच-।
शंभोरेष कथं जातः कथं जातो महीसुतः।
ग्रहो देवः कथं क्रूर एतदिच्छामि वेदितुम्५।
कथमस्य भवेत्तुष्टिः सर्वलोकेषु सर्वदा।
गुरो मय्याप्तभावे तु वद निस्संशयं मुखात्६।
व्यास उवाच-।
हिरण्याक्षकुले धीमानसुराणां च पार्थिवः।
अंधकेति समाख्यातो दैत्यः सर्वसुरांतकृत्७।
जातो विष्णुवरादेव जातो विष्णुपराक्रमः।
तेनैव निर्जिता देवास्सेन्द्राः क्रतुभुजः क्रमात्८।
ततो देवा विधिं गत्वा वचनं चेदमब्रुवन्।
अन्धकेनैव चास्माकं हृतं राज्यं सुखं मखः९।
तस्मात्तस्य वधोपाय उच्यतां तद्विधीयताम्।
अथ धाताऽब्रवीद्वाक्यं देवानस्य च नैधनम्१०।
नास्ति विष्णुवरादेव पीयूषस्य च भक्षणात्।
किंतु तस्यासुरत्वस्य यथा परिभवो ध्रुवम्११।
कुर्वे लोकहितार्थाय श्रद्धां कामसमन्विताम्।
विचिकित्सा तु तत्रैव सर्वास्त्रीरतिगच्छति१२।
त्यक्त्वैकां पार्वतीं दुर्गां न तस्य मानसं स्थिरम्।
ततः क्रुद्धो जगत्स्वामी तं च वैरूप्यतां नयेत्१३।
ततोऽसुरत्वं संत्यज्य गणस्तस्य भविष्यति।
एवमुक्त्वा प्रजाध्यक्षः श्रद्धां कामसमन्विताम्१४।
विचिकित्सां स्वमायां च प्रेषयामास तं प्रति।
ततो विचेष्टितः कामाद्योषान्वेषणतत्परः१५।
स्वदारान्परयोषां च नापश्यद्विचिकित्सया।
ततो मायाप्रयुक्तोसौ त्रैलोक्यं विचचार ह१६।
दृष्टं च हिमवत्पृष्ठे स्त्रीरत्नं चातिशोभनं।
दृष्ट्वा च पार्वतीं दैत्यः कामस्य वशगोऽभवत्१७।
ज्ञानलोपात्ततो दुर्गां ग्रहीतुं तां स चेच्छति।
उमा च कोटवीरूपं कृत्वा देहस्य चात्मनः१८।
ईश्वरस्यांतिकस्था च ग्रहीतुं तां ससार सः।
ततः कामविचेताश्च उन्मत्तीकृतचेतनः१९।
न जहाति शिवां धात्रीं पार्वतीं दैत्यपुंगवः।
ततो ध्यानात्समागम्य मिलितः पार्वतीं धवः२०।
दृष्ट्वा तं च स दैत्येन्द्रः प्रगतस्तु स्वमालयम्।
सज्जीकृत्य स्वयोधांश्च शंभुं जेतुं समुत्सुकः२१।
गौरीमेव समानेतुं काममोहादचेतनः।
एतच्छ्रुत्वा तु त्रिदशा गत्वा तं नंदिनेरिताः२२।
अकुर्वंश्च महद्युद्धं घोरं लोकभयंकरम्।
दैत्यान्रणे मृतांस्तत्र दैत्याचार्यो ह्यजीवयत्२३।
एतद्वृत्तं तु कैलासे सर्वे चैव न्यवेदयन्।
क्रोधाच्छंभुस्तदा वाक्यं नंदिनं निजगाद ह२४।
गच्छ दैत्यालयं वीर द्रुतमेव ममाज्ञया।
पश्यतां सर्वदैत्यानां दैत्येंद्रस्य च संसदि२५।
गृहीत्वा चिकुरेऽत्यर्थं भार्गवं तं दुरात्मकम्।
लब्ध्वा चास्मत्सकाशं वै विह्वलं चानय क्षणात्२६।
ततो नंदीश्वरः श्रीमान्पार्वतीपतिनेरितः।
काव्यं तं कुंतले धृत्वा दैत्यानां पुरतो बलात्२७।
आनयंतं च तं दैत्या जघ्नुः प्रहरणैः शरैः।
न शेकुस्ते रुजां कर्तुं नंदिनो बलशालिनः२८।
देवानामग्रतो नंदी गृहीत्वा तं च कुंतले।
हरस्य पुरतो हृष्टः सह तेन समाययौ२९।
गृहीत्वा भार्गवं शंभुरसुराणां गुरुं रुषा।
अगिलद्रौद्रमूर्तोऽसौ कालांतकसमः प्रभुः३०।
ततो दैत्यपतिः क्रुद्धः सर्वसैन्यवृतो बली।
दुद्राव शंकरं तत्र घोरैः प्रहरणादिभिः३१।
त्रिदशाश्च तथा क्रुद्धास्ततो विद्याधरादयः।
प्रययुः समरं तत्र दैत्यानां च भृशं रुषा३२।
एतस्मिन्नंतरे घोरं युद्धं भीष्मं समुत्थितम्।
देवदानवयोरेवं सर्वलोकभयंकरम्३३।
ततः प्रत्ययितास्त्रैश्च देवा निघ्नंति दानवान्।
दनुजा निर्जरांस्तत्र विनिघ्नंति महाहवे३४।
शातकुंभमयाङ्गैस्ते शरैर्वज्रसमानकैः।
बिभिदू रत्नपुंखैश्च परस्परजयैषिणः३५।
दीपयंति भृशं कांतैस्तद्गात्राणि नभांसि च।
वीर्यवंतो महादैत्या न मोघैरस्त्रसंचयैः३६।
हत्वा च पातयामासुः काश्यपाः सुरसत्तमाः।
जगद्व्याप्तं महासैन्यं बलायुधसुसंवृतम्३७।
नीतं क्षयं सुरैः सर्वैः शस्त्रैः प्रत्ययितैः क्षणात्।
स्वयं च युध्यमानेन महादेवेन यत्नतः३८।
शूलोद्धृतोपि सुचिरमविनष्टोऽथ नम्रधीः।
अन्धको गणतां नीत्वा कृतो भृंगीरिटिर्द्विज३९।
ततो देवान्समाभाष्य शुक्रमुद्गीर्णवान्शिवः।
भूमौ निपतितो गर्भस्ततो भौम इति स्मृतः४०।
शुक्रश्शिवं समाभाष्य गतो दैत्यान्मुदान्वितः।
एवं भौमस्समुत्पन्नो हरांशो भूसमुद्भवः४१।
तस्य पूजा चतुर्थ्यां तु भौमवारे च सुव्रतैः।
दशाद्यरिष्टे च तथा गोचरेऽनिष्टराशिगे४२।
त्रिकोणे मंडले चैव रक्तपुष्पानुलेपनैः।
एवं वै पूजितो भौमः प्रयच्छति मतिं धनम्४३।
पुत्रान्सुखंयशश्चैवकिंभूयःश्रोतुमिच्छसि।
व्यास उवाच-।
एतद्वः कथितं शिष्या धर्माख्यानं शुभावहम्४४।
यच्छ्रुत्वा न पुनर्भूयो जायते म्रियतेपि वा।
द्विजातीनां पुण्यदं च संसेव्यं च शुभेप्सुभिः४५।
यथासुखं च गच्छध्वं कृतकृत्या ममाज्ञया।
ब्रह्मोवाच-।
एवं विश्राव्य भगवान्व्यासः सत्यवतीसुतः४६।
निर्णीय धर्मं विविधं शम्याप्रासमगात्सुत।
त्वमपि श्रद्धया वत्स ज्ञात्वा तत्त्वं यथासुखम्४७।
विहरस्व यथाकालं गायमानो हरिं मुदा।
लोकान्धर्मं चोपदिशन्प्रीणयन्जगतां गुरुम्४८।
पुलस्त्य उवाच-।
इत्युक्तः प्रययौ भूप नारदो गंधमादनम्।
नारायणं मुनिवरं द्रष्टुं बदरिकाश्रमे४९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे भौमोत्पत्तिपूजनं नामैकाशीतितमोऽध्यायः८१।
।
।
खण्डः १ (सृष्टिखण्डम्) — Adhyāya 82
भीष्म उवाच-
श्रुतं सूर्यस्य चंद्रस्य भौमस्यापि प्रपूजनं।
बुधस्य सोमसूनोश्च पूजनं कथयाधुना१।
पुलस्त्य उवाच-।
तारागर्भसमुद्भूतो बुधश्चंद्रकुमारकः।
सौम्यः क्रूरो ग्रहो ज्ञेयः शुभाशुभप्रदो नृणां२।
शराकारं मंडलं तु बुधस्य परिकीर्तितं।
हरिन्मणिसमैर्वर्णैश्चूर्णैः कुर्यात्तु मंडलं३।
पूजयेत्तत्र गंधाद्यैः पुष्पैर्धूपैस्सुशोभनैः।
दानं च विधिवत्कुर्याद्दशारिष्टे च गोचरे४।
कर्पूराश्चैव मुद्गाश्च हरिद्वस्त्रं हरिन्मणिः।
सुवर्णं च यथाशक्ति दद्याद्बोधनतुष्टये५।
सोमपुत्र महाप्राज्ञ वेदवेदांगपारग।
नमस्ते ग्रहमध्यस्थ प्रसन्नो भव मे सदा६।
इति स्तुत्वा महाराज बुधं भक्त्या समाहितः।
प्राप्नुयान्निखिलान्कामान्सोमसूनुप्रसादतः७।
गुरोश्च पूजनं प्रोक्तं पट्टसाकारमंडले।
पीतवर्णैः सुनिष्पन्नैश्चूर्णैराजन्सुशोभनैः८।
पीतैर्गंधयुतैः पुष्पैर्वस्त्रैर्हेम्ना च पूजयेत्।
दशागोचरयोर्दौष्ट्ये दानं दद्याच्च शक्तितः९।
चणकद्विदलं चैव पीतवस्त्रं सुवर्णकं।
पुष्यरागं तु विप्राय दद्याच्चारिष्टशांतये१०।
बृहस्पते सुराचार्य सर्वशास्त्रविशारद।
दानेनानेन संतुष्टो भव सौम्यो ममाधुना११।
एवं कृते तु राजेंद्र स्वानुकूलो भवेद्गुरुः।
सर्वान्कामानवाप्नोति नरो गुरुसमर्चनात्१२।
भार्गवस्यापि वक्ष्यामि पूजनं नृपतेधुना।
यत्कृत्वा सर्वकामाप्तिः सम्यक्पुंसां प्रजायते१३।
पंचकोणं समुद्दिष्टं मंडलं भार्गवस्य तु।
चूर्णकैः श्वेतवर्णैश्च विधिना सुधिया कृतं१४।
श्वेतगंधैश्च पुष्पैश्च वस्त्रैश्चापि सितैस्तथा।
पूजयेद्भार्गवं भक्त्या नरः श्रद्धासमन्वितः१५।
रौप्यं च दक्षिणादानं यथाशक्ति प्रकीर्तितं।
दशाद्यरिष्टे चोत्पन्ने सितमश्वं प्रदापयेत्१६।
तंडुलाः श्वेतवस्त्रं च रौप्यं चंदनमेव च।
कर्पूरं च सुगंधाढ्यं देयं दानं द्विजातये१७।
भृगुपुत्र महाभाग दानवानां पुरोहित।
दानेनानेन संतुष्टो भव सर्वासुरार्चित१८।
इति मंत्रं समुच्चार्य दद्याद्दानं यथोदितं।
तस्य तुष्टो भवत्याशु भार्गवः कुरुनंदन१९।
शनैश्चरस्य पूजार्थं मंडलं च नराकृति।
कृत्वा चूर्णैः कृष्णवर्णैः पूजयेत्तत्र भक्तितः२०।
कृष्णैर्गन्धैश्च पुष्पैश्च वस्त्रैश्चापि तथाविधैः।
लोहं च दक्षिणादानं पिण्याकं च तिलस्य च२१।
दानं शनैश्चरारिष्टे कृष्णां गां कृष्णवस्त्रकं।
सुवर्णं च यथाशक्ति दद्यान्नीलमणिं तथा२२।
सूर्यसूनो महाभाग छायापुत्र महाबल।
अधोदृष्टे भव शने प्रसन्नोऽस्मात्प्रदानतः२३।
एवं स्तुत्वा शनिं भक्त्या यश्च दद्याद्द्विजातये।
स्वानुकूलो भवेत्तस्य शनिः पापे च गोचरे२४।
राहोर्वर्णादिकं सर्वं शनिवन्मंडलं तथा।
सूर्याकारं समुद्दिष्टं तत्र पूजार्कसूनुवत्२५।
गोमेदं सर्षपाश्चैव तिला माषाश्च कृष्णकाः।
महिषी च तथा च्छागो दानं राहोः प्रकीर्तितम्२६।
सिंहिकासुत दैत्येंद्र राहो चंद्रार्कमर्दन।
भव तुष्टो महाभाग दानेनानेन सुव्रत२७।
केतोर्मंडलकं कुर्याद्ध्वजाकृतिसुशोभनम्।
शनिवत्सकलं ज्ञेयं पूजावर्णादिकं नृप२८।
सप्तधान्यं समुद्दिष्टं सस्वर्णं केतुदानकम्।
एवं कृते स्वानुकूलौ भवेतां च नृणां नृप२९।
प्रदद्यातां धनं पुत्रान्सुखं सौभाग्यमेव च।
आकृष्णेति रवेर्मंत्र इमं देवास्तथा विधोः३०।
अग्निर्मूर्धेति भौमस्य मंत्रो जप्येर्हणे तथा।
उद्बुध्यस्वेतींदुसूनोर्बृहस्पते गुरोस्तथा३१।
अन्नात्परीति शुक्रस्य शन्नोदेवीरयं शनेः।
कया न इति राहोश्च केतोः केतुमिति स्मृतः३२।
एते मंत्रास्समुद्दिष्टा ग्रहणां पूजने जपे।
एवं कृते नृपश्रेष्ठानुकूला अखिला ग्रहाः३३।
भवंति पुंसां सततं यच्छंति च सुसंपदः।
एतन्महाराज मया समस्तं तुभ्यं समुद्दिष्टमिहक्रमेण३४।
श्रुत्वा नरः सर्वश्रुतार्थसारमेतीश्वरस्यैव च सन्निधानम्।
इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात्३५।
इदं च देवेष्वमृताय कल्पते पुण्यावहं पातकिनां च पुंसाम्।
इति पठति यशस्यं यः शृणोतीह भक्त्या मधुमुरनकारेरर्चनं वाथ पश्येत्३६।
मतिमपि च जनानां यो ददातींद्रलोके विधिशिवविबुधेन्द्रैः पूज्यते कल्पमेकम्।
य इदं शृणुयान्नित्यमृषीणां चरितं शुभम्३७।
विमुक्तस्सर्वपापेभ्यः स्वर्गलोके महीयते।
तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च३८।
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे।
सर्वेषामेव दानानामिदमेवैकमुत्तमम्३९।
अभयं सर्वभूतानां नास्ति दानमतः परम्।
दानं प्रधानं शूद्रस्य त्वित्याह भगवान्प्रभुः४०।
दानेन सर्वकामाप्तिस्तस्य संजायते तपः।
पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम्४१।
पुराणमेतत्कथितं तीर्थश्राद्धानुवर्णनम्।
शृणोति यः पठेद्वापि श्रीमान्संजायते नरः४२।
सर्वपापविनिर्मुक्तः सलक्ष्मीकं हरिं लभेत्।
इदं महाराज अगादि तुभ्यं पुण्यं महापातकनाशनं च४३।
ब्रह्मार्करुद्रैश्च सुपूजितं च श्रोतव्यमेतत्प्रवदंति तज्ज्ञाः।
सृष्टिखंडमिदं राजन्मया तुभ्यं प्रकीर्तितम्४४।
पुराणस्यादिभूतं च नवधा सृष्टि पौष्करम्।
द्विजेभ्यः श्रावयेद्विद्वान्यश्च वै शृणुयात्पठेत्।
कल्पकोटिशतं साग्रं ब्रह्मलोके स मोदते४५।
इति श्रीपाद्मपुराणे सृष्टिखंडे पुराणावतारे ग्रहार्चनवर्णनंनाम द्व्यशीतितमोऽध्यायः८२।
सृष्टिखंडं समाप्तम्।
शुभं भवतु।
खण्डः २ (भूमिखण्डः) — Adhyāya 1
ॐ श्रीगणेशाय नमः
ऋषय ऊचुः-
शृणु सूत महाभाग सर्वतत्त्वार्थकोविद ।
संदेहमागतं विद्वन्दारुणं बुद्धिनाशनम् १।
केचित्पठंति प्रह्लादं पुराणेषु द्विजोत्तमाः ।
पंचवर्षान्वितेनापि केशवः परितोषितः २।
देवासुरे कथं प्राप्ते हरिणा सह युध्यति ।
निहतो वासुदेवेन प्रविष्टो वैष्णवीं तनुम् ३।
सूत उवाच-
कश्यपेन पुरा ज्ञातं कृतं व्यासेन धीमता ।
ब्रह्मणा कथितं पूर्वं व्यासस्याग्रे स्वयं प्रभोः ४।
तमेवं हि प्रवक्ष्यामि भवतामग्रतो द्विजाः ।
संदेहकारणं जातं छिन्नं देवेन वेधसा ५ ।
व्यास उवाचः-
शृणु सूत महाभाग ब्रह्मणा परिभाषितम् ।
प्रह्लादस्य यथा जन्म पुराणेप्यन्यथा श्रुतम् ६ ।
जातमात्रः सर्वसुखं वैष्णवं मार्गमाश्रितः ।
महाभागवतश्रेष्ठः प्रह्लादो देवपूजितः ७।
विष्णुना सह युद्धाय सपुत्रः संगरंगतः ।
निहतो वासुदेवेन प्रविष्टो वैष्णवीं तनुम् ८।
सृष्टिभावं शृणुष्व त्वमस्यैव च महात्मनः ।
संगरं प्राप्य पुत्राद्यैर्विष्णुना सह वीर्यवान् ९।
प्रविष्टो वैष्णवं तेजः संप्राप्य स्वेन तेजसा ।
पुराकल्पे महाभाग यथा जातः स वीर्यवान् १०।
वृत्तांतं तस्य वीरस्य प्रवक्ष्यामि समासतः ।
पश्चिमे सागरस्यांते द्वारका नाम वै पुरी ११।
सर्वऋद्धिसमायुक्ता सर्वसिद्धिसमन्विता ।
तस्यामास्ते सदा देवो योगज्ञो योगवित्तमः १२।
शिवशर्मेति विख्यातो वेदशास्त्रार्थकोविदः ।
तस्यापि पंचपुत्रास्तु बभूवुः शास्त्रकोविदाः १३।
यज्ञशर्मा वेदशर्मा धर्मशर्मा तथैव च ।
विष्णुशर्मा महाभागो नूनं तत्कर्मकोविदः १४।
पंचमः सोमशर्मेति पितृभक्तिपरायणः ।
पितृभक्तिं विना चैव धर्ममन्यं द्विजोत्तमाः १५।
न विदंति महात्मानस्तद्भावेन तु भाविताः ।
तेषां तु भक्तिं संपश्यञ्छिवशर्मा द्विजोत्तमः १६।
चिंतयामास मेधावी निष्कर्षिष्ये सुरोत्तमान् ।
पितृभक्तेषु यो भावो नैतेषां मनसि स्थितः १७।
यथा जानाम्यहं चाथ करिष्ये बुद्धिपूर्वकम् ।
विष्णोश्चैव प्रसादात्स सर्वसिद्धिर्बभूव ह १८।
सद्भावं चिंतयामास अंजनार्थं द्विजोत्तमाः ।
उपायं ब्राह्मणश्रेष्ठस्तपसस्तेजसः किल १९।
चकार सोप्युपायज्ञो मायया ब्रह्मवित्तमः ।
तेषामग्रे ततो व्याजं शिवशर्मा व्यदर्शयत् २०।
महता ज्वररोगेण मृता माता विदर्शिता ।
तैस्तु दृष्टा मृता माता पितरं वाक्यमब्रुवन् २१।
ययावयं महाभाग गर्भोदरे प्रवर्द्धिताः ।
कलेवरं परित्यज्य स्वयमेव गता क्षयम् २२।
अपहाय गता सेयं स्वर्गे तात किमुच्यते ।
शिवशर्मोपरिभवं पुत्रं भक्तिपरायणम् २३।
यज्ञशर्माणमाहूय इत्युवाच द्विजोत्तमः ।
शिवशर्मोवाच-
अनेनापि सुतीक्ष्णेन शस्त्रेण निशितेन वै २४।
विच्छिद्यांगानि सर्वाणि यत्र तत्र क्षिपस्व ह ।
तत्कृतं तेन पुत्रेण यथादेशः श्रुतः पितुः २५।
समायातः पुनः पश्चात्पितरं वाक्यमब्रवीत् ।
यथादिष्टं त्वया तात तत्सर्वं कृतवानहम् २६।
समादिश ममान्यच्च कार्यकारणमद्य च ।
तच्च सर्वं करिष्यामि दुर्जयं दुर्लभं पितः २७।
तमाज्ञाय महाभागं पितृभक्तं स च द्विजः ।
निश्चयं परमं ज्ञात्वा द्वितीयस्य विचिंतयन् २८।
वेदशर्माणमाहूय गच्छ त्वं मम शासनात् ।
स्त्रिया विना न शक्नोमि स्थातुं कंदर्पमोहितः २९।
मायया दर्शिता नारी सर्वसौभाग्यसंपदा ।
एनामानय वत्स त्वं ममार्थे कृतनिश्चयः ३०।
एवमुक्तस्तथा प्राह करिष्ये तव सुप्रियम् ।
पितरं तं नमस्कृत्य तामुवाच गतस्ततः ३१।
त्वां देवि याचते तातः कामबाणप्रपीडितः ।
अतस्त्वं जरया युक्ते प्रसादसुमुखी भव ३२।
भज त्वं चारुसर्वांगि पितरं मम सुंदरि ।
एवमाकर्णितं तस्य मायया वेदशर्मणः ३३।
स्त्र्युवाच-
जरया पीडितस्यापि नैवेच्छामि कदाचन ।
सश्लेष्ममुखरोगस्य व्याधिग्रस्तस्य सांप्रतम् ३४।
शिथिलस्यापि चार्तस्य तस्य वृद्धस्य संगमम् ।
भवंतं रंतुमिच्छामि करिष्ये तव सुप्रियम् ३५।
भवंतं रूपसौभाग्यैर्गुणरत्नैरलंकृतम् ।
दिव्यलक्षणसंपन्नं दिव्यरूपं महौजसम् ३६।
किं करिष्यसि तातेन वृद्धेन शृणु मानद ।
ममांगभोगभावेन सर्वं प्राप्स्यसि दुर्लभम् ३७।
यद्यत्त्वमिच्छसे विप्र तद्ददामि न संशयः ।
एतद्वाक्यं महच्छ्रुत्वा अप्रियं पापसंकुलम् ३८।
वेदशर्मोवाच-
अधर्मयुक्तं ते वाक्यमयुक्तं पापमिश्रितम् ।
नेदृशं मां वदेर्देवि पितृभक्तिमनागसम् ३९।
पितुरर्थं समायातस्त्वामहं प्रार्थये शुभे ।
अन्यदेवं न वक्तव्यं भज त्वं पितरं मम ४०।
यद्यत्त्वमिच्छसे देवि त्रैलोक्ये सचराचरम् ।
तत्तद्दद्मि न संदेहो देवराज्याधिकं शुभे ४१।
स्त्र्युवाच-
एवं समर्थो दातुं मे पितुरर्थे यदा भवान् ।
तदा मे दर्शयाद्यैव सेंद्रास्त्वं समहेश्वरान् ४२।
दातुमेवं समर्थोसि दुर्लभं सांप्रतं किल ।
किं ते बलं महाभाग दर्शयस्व त्वमात्मनः ४३।
वेदशर्मोवाच-
पश्य पश्य बलं देवि प्रभावं तपसो मम ।
मयाहूताः समायाता इंद्राद्याः सुरसत्तमाः ४४।
वेदशर्माणमूचुस्ते किं कुर्मो हि द्विजोत्तम ।
यमेवमिच्छसे विप्र तं ददामो न संशयः ४५।
वेदशर्मोवाच-
यदि देवाः प्रसान्ना मे प्रसादसुमुखा यदि ।
ददंतु विमलां भक्तिं पादयोः पितुरेव मे ४६।
एवमस्तु सुराः सर्वे यथायातास्तथा गताः ।
तमुवाच तथा दृष्ट्वा दृष्टं ते तपसो बलम् ४७।
देवैस्तु नास्ति मे कार्यं यदि दातुमिहेच्छसि ।
यन्मां नयसि गुर्वर्थं तत्कुरुष्व मम प्रियम् ४८।
देहि त्वं स्वं शिरो विप्र स्वहस्तेन निकृत्य वै ।
वेदशर्मोवाच-
धन्योहमद्य संजातो मुक्तश्चैव ऋणत्रयात् ४९।
स्वशिरो देवि दास्यामि गृह्यतां गृह्यतां शुभे ।
शितेन तीक्ष्णधारेण शस्त्रेण द्विजसत्तमः ५०।
निकृत्य स्वं शिरश्चाथ दत्तं तस्यै प्रहस्य च ।
रुधिरेण प्लुतं सा च परिगृह्य गता मुनिम् ५१।
स्त्र्युवाच-
तवार्थे प्रेषितं विप्र पुत्रेण वेदशर्मणा ।
एतच्छिरः संगृहाण निकृत्तं चात्मनात्मनः ५२।
उत्तमांगं प्रदत्तं मे पितृभक्तेन तेन ते ।
तवार्थे द्विजशार्दूल मामेवं परिभुंक्ष्व वै ५३।
तस्य तैर्भ्रातृभिर्दृष्टं साहसं वेदशर्मणः ।
वेपितांगत्वमापन्नास्ते बभूवुः परस्परम् ५४।
मृता नो धर्मसाध्वी सा माता सत्यसमाधिना ।
अयमेव महाभागः पितुरर्थे मृतः शुभः ५५।
धन्योयं धन्यतां प्राप्तः पितुरर्थे कृतं शुभम् ।
एवं संभाषितं तैस्तु भ्रातृभिः पुण्यचारिभिः ५६।
समाकर्ण्य द्विजो वाक्यं ज्ञात्वा भक्तिपरायणम् ।
निकृत्तं च शिरस्तेन पुत्रेण वेदशर्मणा ५७।
धर्मशर्माणमाहाथ शिर एतत्प्रगृह्यताम् ५८।
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मचरिते प्रथमोऽध्यायः १।
।
।
खण्डः २ (भूमिखण्डः) — Adhyāya 2
सूत उवाच-
तदादाय महात्माऽसौ निर्जगाम त्वरान्वितः ।
पितृभक्त्या तपोभिश्च सत्यार्जवबलेन सः १।
धर्ममाकृष्टवांश्चैव धर्मशर्मा ततस्तदा ।
समाकृष्टस्तु वै धर्मस्तपसा तस्य धीमतः २।
धर्मशर्माणमायातं इदं वचनमब्रवीत् ।
कस्मात्त्वया समाहूतो धर्मशर्मन्समागतः ३।
तन्मे कथय कार्यं त्वं तत्करोमि न संशयः ।
धर्मशर्मोवाच-
यद्यस्ति गुरुशुश्रूषा यदि निष्ठाऽचलं तपः ४।
तेन सत्येन मे धर्म वेदशर्मा स जीवतु ।
धर्म उवाच-
दमशौचेन सत्येन तपसा तव सुव्रत ५।
पितृभक्त्या तव भ्राता वेदशर्मा महाभुजः ।
पुनरेव महात्मासौ जीवनं च लभिष्यति ६।
तपसानेन तुष्टोस्मि पितृभक्त्या महामते ।
वरं वरय भद्रं ते दुर्लभं धर्मवित्तमैः ७।
एवमाकर्णितं तेन सुवाक्यं धर्मशर्मणा ।
वैवस्वतं महात्मानं समुवाच महायशाः ८।
देहि मे त्वचलां भक्तिं पितुः पादार्हणे पुनः ।
धर्मे रतिं तथा मोक्षं सुप्रसन्नो यदा मम ९।
तमुवाच ततो धर्मो मत्प्रसादाद्भविष्यति ।
एवमुक्ते महावाक्ये वेदशर्मा तदोत्थितः १०।
प्रसुप्तवन्महाप्राज्ञो धर्मशर्माणमब्रवीत् ।
क्व सा देवी गता भ्रातः क्व स तातो भवेदिति ११।
समासेन समाख्यातं यथा पित्रा नियोजितः ।
समाज्ञाय ततो हृष्टो धर्मशर्मा तमब्रवीत् १२।
ममाद्यैव महाभाग शिरसा जीवितेन च ।
संमुखी भव वै भ्रातः कोन्यो मे त्वादृशो भुवि १३।
भ्रातरं चैवमाभाष्य उत्सुकः पितरं प्रति ।
गमनाय मतिं चक्रे भ्रात्रा च धर्मशर्मणा १४।
द्वावेतौ तु गतौ तत्र पितरं हृष्टमानसौ ।
द्वाभ्यां तत्र समास्थाय शिवशर्माणमुत्तमम् १५।
धर्मशर्मा तदोवाच पितरं दीप्तिसंयुतम् ।
ममाद्यैव महाभाग तपसा जीवितेन च १६।
वेदशर्मा समानीतस्तं पुत्रं प्रगृहाण भोः ।
शिवशर्मा ततो हृष्टो भक्तिं विज्ञाय तस्य च १७।
न किंचिदब्रवीत्तं तु पुनश्चिंतामुपेयिवान् ।
पुरतो विनयेनापि वर्तमानं महामतिम् १८।
विष्णुशर्माणमाभाषीद्वत्स मे वचनं कुरु ।
इंद्रलोकं व्रजस्वाद्य तस्मादानय चामृतम् १९।
अनया कान्तया सार्द्धं स्थातुमिच्छामि सांप्रतम् ।
सागराद्यत्समुत्पन्नममृतं व्याधिनाशनम् २०।
साधुनेच्छति मामेषा यथैनां तु लभाम्यहम् ।
तथा कुरुष्व शीघ्रं त्वमन्यथान्यं प्रयास्यति २१।
वृद्धं ज्ञात्वावमन्येत इयं बाला सुरूपिणी ।
अद्य देव्यानया सार्द्धं प्रियया भुवनत्रये २२।
निर्दोषो व्याधिनिर्मुक्तो यथा तात भवाम्यहम् ।
तथा कुरुष्व मे वत्स मद्भक्तोसि यदा भुवि २३।
एवमाकर्ण्य तद्वाक्यं पितुस्तस्य महात्मनः ।
विष्णुशर्मा तदोवाच पितरं दीप्ततेजसम् २४।
सर्वमेतत्करिष्यामि भवतः सुखमुत्तमम् ।
एवमाभाष्य धर्मात्मा विष्णुशर्मा महामतिः २५।
पितरं तं नमस्कृत्य पुनः कृत्वा प्रदक्षिणम् ।
बलेन महता सोपि तपसा नियमेन च २६।
अंतरिक्षगतश्चासीद्गच्छमानस्य धीमतः ।
स महावायुवेगेन ऐंद्रं संप्रतिगच्छति २७।
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मचरिते द्वितीयोऽध्यायः २।
खण्डः २ (भूमिखण्डः) — Adhyāya 3
सूत उवाच-
प्रस्थितस्तेन मार्गेण प्रविष्टो गगनांतरे ।
स दृष्टो देवदेवेन सहस्राक्षेण धीमता १।
उद्यमं तस्य वै ज्ञात्वा चक्रे विघ्नं सुराधिराट् ।
मेनिकांतामुवाचेदं गच्छ त्वं मम शासनात् २।
समाचरस्वास्य शीघ्रं गत्वा विघ्नं सुमध्यमे ।
अस्यैव विप्रवर्यस्य पुत्रस्य शिवशर्मणः ३।
तथा कुरुष्व भद्रं ते यथा नायाति मे गृहम् ।
एवमाकर्ण्य तद्वाक्यं मेनिका प्रस्थिता त्वरात् ४।
सूत उवाच-
रूपौदार्यगुणोपेता सर्वालंकारभूषिता ।
नंदनस्य वनस्यांते दोलायां समुपस्थिता ५।
सुस्वरेण प्रगायंती गीतं वीणास्वरोपमम् ।
तेन दृष्टा विशालाक्षी चतुरा चारुलोचना ६।
व्यवसायं ततो ज्ञात्वा तस्या विघ्नमनुत्तमम् ।
इंद्रेण प्रेषिता चैषा न च भद्रकरा भवेत् ७।
एवं ज्ञात्वा जगामाथ सत्वरेण द्विजोत्तमः ।
तया दृष्टस्तथा पृष्टः क्व यास्यसि महामते ८।
विष्णुशर्मा तदोवाच मेनिकां कामचारिणीम् ।
इंद्रलोकं प्रयास्यामि पितुरर्थे त्वरान्वितः ९।
मेनिका विष्णुशर्माणं प्रत्युवाच प्रियं पुनः ।
कामबाणैः प्रभिन्नाहं त्वामद्य शरणं गता १०।
रक्षस्व द्विजशार्दूल यदि धर्ममिहेच्छसि ।
यावद्धि त्वं मया दृष्टः कामाकुलितचेतसा ११।
कामानलेन संदग्धा तावदेव न संशयः ।
संभ्रांता कामसंतप्ता प्रसादसुमुखो भव १२।
विष्णुशर्मोवाच-
चरित्रं देवदेवस्य विदितं मे वरानने ।
भवत्याश्चप्रजानामिनाहंचैतादृशःशुभे १३।
भवत्यास्तेजसा रूपैरन्ये मुह्यंति शोभने ।
विश्वामित्रादयो देवि पुत्रोहं शिवशर्मणः १४।
योगसिद्धिं गतस्यापि तपः सिद्धस्य चाबले ।
कामादयो महादोषा आदावेव विनिर्जिताः १५।
अन्यं भज विशालाक्षि इंद्रलोकं व्रजाम्यहम् ।
एवमुक्त्वा जगामाथ त्वरितो द्विजसत्तमः १६।
निष्फला मेनका जाता पृष्टा देवेन वज्रिणा ।
विभीषां दर्शयामास नानारूपां पुनः पुनः १७।
यथानलेन संदग्धास्तृणानां संचया द्विजाः ।
भस्मीभूता भवंत्येव तथा तास्ता विभीषिकाः १८।
विप्रस्य तेजसा तस्य पितृभक्तस्य सत्तमाः ।
प्रलयं गतास्तु घोरास्ता दारुणा भीषिका द्विजाः १९।
स विघ्नान्दर्शयामास सहस्राक्षः पुनः पुनः ।
तेजसाऽनाशयद्विप्रः स्वकीयेन महायशाः २०।
एवं विघ्नान्बहूंस्तस्य इंद्रस्यापि महात्मनः ।
नाशयामास मेधावी तपसस्तेजसापि वा २१।
नष्टेषु तेषु विघ्नेषु दारुणेषु महत्सु च ।
ज्ञात्वा तस्य कृतान्विघ्नान्दारुणान्भीषणाकृतीन् २२।
अथ क्रुद्धो महातेजा विष्णुशर्मा द्विजोत्तमः ।
इंद्रं प्रति महाभागो रागरक्तांतलोचनः २३।
इंद्र लोकादहं चेंद्रं पातयिष्यामि नान्यथा ।
निजधर्मे रतस्याद्य यो विघ्नं तु समाचरेत् २४।
तस्य दंडं प्रदास्यामि यो वै हन्यात्स हन्यते ।
एवमन्यं करिष्यामि देवानां पालकं पुनः २५।
एवं समुद्यतो विप्र इंद्रनाशाय सत्तमः ।
तावदेव समायातो देवेंद्रः पाकशासनः २६।
भो भो विप्र महाप्राज्ञ तपसा नियमेन च ।
दमेन सत्यशौचाभ्यां त्वत्समो नास्ति चापरः २७।
अनया पितृभक्त्या ते जितोहं दैवतैः सह ।
ममापराधं त्वं सर्वं क्षंतुमर्हसि सत्तम २८।
वरं वरय भद्रं ते दुर्लभं च ददाम्यहम् ।
विष्णुशर्मा तदोवाच देवराजं तथागतम् २९।
विप्रतेजो महेंद्रेद्रं असह्यं देवदैवतैः ।
पितृभक्तस्य देवेश दुःसहं सर्वथा विभो ३०।
तेजोभंगो न कर्त्तव्यो ब्राह्मणानां महात्मनाम् ।
पुत्रपौत्रैः समस्तैस्तु ब्रह्मविष्णुहरान्पुनः ३१।
नाशयंते न संदेहो यदि रुष्टा द्विजोत्तमाः ।
नागच्छेद्यद्भवानद्य तदा राज्यमनुत्तमम् ३२।
आत्मतपः प्रभावेण अन्यस्मै त्वं महात्मने ।
दातुकामस्तु संजातो रोषपूर्णेन चक्षुषा ३३।
भवानद्य समायातो वरं दातुमिहेच्छसि ।
अमृतं देहि देवेंद्र पितृभक्तिं तथाचलाम् ३४।
एवंविधं वरं देहि यदि तुष्टोसि शत्रुहन् ।
एवं ददामि पुण्यं ते वरं चामृतसंयुतम् ३५।
एवमाभाष्य तं विप्रममृतं दत्तवान्स्वयम् ।
सकुंभं दत्तवांस्तस्मै प्रीयमाणेन चात्मना ३६।
अचला ते भवेद्विप्र भक्तिः पितरि सर्वदा ।
एवमाभाष्य तं विप्रं विसृज्य च सहस्रदृक् ३७।
प्रसन्नोभूच्च तद्दृष्ट्वा विप्रतेजः सुदुःसहम् ।
विष्णुशर्मा ततो गत्वा पितरं वाक्यमब्रवीत् ३८।
तात इंद्रात्समानीतममृतं व्याधिनाशनम् ।
अनेनापि महाभाग नीरुजो भव सर्वदा ३९।
अमृतेन त्वमद्यैव परां तृप्तिमवाप्नुहि ।
एतद्वाक्यं महच्छ्रुत्वा शिवशर्मा सुतस्य हि ४०।
सुतान्सर्वान्समाहूय प्रीयमाणेन चेतसा ।
पितृभक्ताः सुता यूयं मद्वाक्यपरिपालकाः ४१।
वरं वृणुध्वं सुप्रीताः पुत्रका दुर्लभं भुवि ।
एवमाभाषितं तस्य शुश्रुवुः सर्वसंमताः ४२।
ते सर्वे तु समालोच्य पितरं प्रत्यथाब्रुवन् ।
अस्माकं जीवताम्माता गता या यममंदिरम् ४३।
नीरुजा भवनाद्देवी प्रसादात्तव सुव्रता ।
भवान्पिता इयं माता जन्मजन्मांतरे पितः ४४।
वयं सुता भवेमेति सर्वे पुण्यकृतस्तथा ।
शिवशर्मोवाच-
अद्यैवापि मृता माता भवतां पुत्रवत्सला ४५।
जीवमाना सुहृष्टा सा एष्यते नात्र संशयः ।
एवमुक्ते शुभे वाक्ये ऋषिणा शिवशर्मणा ४६।
तेषां माता समायाता प्रहृष्टा वाक्यमब्रवीत् ।
एतदर्थं समुत्पन्नं सुवीर्यं तनयं सुतम् ४७।
नराः सत्पुत्रमिच्छंति कुलवंशप्रभावकम् ।
स्त्रियो लोके महाभागाः सुपुण्याः पुण्यवत्सलाः ४८।
सुतमिच्छंति सर्वत्र पुण्यांगं पुण्यसाधकम् ।
कुक्षिं यस्या गतो गर्भः सुपुण्यः परिवर्त्तते ४९।
पुण्यान्पुत्रान्प्रसूयेत सा नारी पुण्यभागिनी ।
कुलाचारं कुलाधारं पितृमातृप्रतारकम् ५०।
विना पुण्यैः कथं नारी संप्राप्नोति सुतोत्तमम् ।
न जाने कीदृशैः पुण्यैरेष भर्ता सुपुण्यभाक् ५१।
संजातो धर्मवीर्योपि धर्मात्मा धर्मवत्सलः ।
यस्य वीर्यान्मया प्राप्ता यूयं पुत्रास्ततोधिकाः ५२।
एवं पुण्यप्रभावोयं भवंतः पुण्यवत्सलाः ।
मम पुत्रास्तु संजाताः पितृभक्तिपरायणाः ५३।
अहो लोकेषु पुण्यैश्च सुपुत्रः परिलभ्यते ।
एकैकशोधिकाः पंच मया प्राप्ता महाशयाः ५४।
यज्वानः पुण्यशीलाश्च तपस्तेजः पराक्रमाः ।
एवं संवर्धितास्ते तु तया मात्रा पुनः पुनः ५५।
हर्षेण महताविष्टाः प्रणेमुर्मातरं सुताः ।
पुत्रा ऊचुः-
सुपुण्यैः प्राप्यते माता सन्माता सुपिता किल ५६।
भवती पुण्यकृन्माता नो भाग्यैस्तु प्रवर्तिता ।
यस्या गर्भोदरं प्राप्य सुपुण्यैश्च प्रवर्द्धिताः ५७।
जन्मजन्मनि त्वं माता पिता चैव भविष्यथः ।
पितोवाच-
शृणुध्वं मामकाः पुत्राः सुवरं पुण्यदायकम् ५८।
मयि तुष्टे सुता भोगा ननु भुंजंतु चाक्षयान् ।
पुत्रा ऊचुः-
यदि तात प्रसन्नोसि वरं दातुमिहेच्छसि ५९।
अस्मान्प्रेषय गोलोकं वैष्णवं दाहवर्जितम् ।
पितोवाच-
गच्छध्वं वैष्णवं लोकं यूयं विगतकल्मषाः ६०।
मत्प्रसादात्तपोभिश्च पितृभक्त्यानया स्वया ।
एवमुक्ते तु तेनापि सुवाक्ये ऋषिणा ततः ६१।
शंखचक्रगदापाणिर्गरुडारूढ आगतः ।
सपुत्रं शिवशर्माणमित्युवाच पुनः पुनः ६२।
सपुत्रेण त्वयाद्यैव जितो भक्त्यास्मि वै द्विज ।
पुत्रैः सार्द्धं समागच्छ चतुर्भिः पुण्यकारिभिः ६३।
अनया भार्यया सार्द्धं पुण्यया पतिकाम्यया ।
शिवशर्मोवाच-
अमी गच्छंतु पुत्रा मे वैष्णवं लोकमुत्तमम् ६४।
कंचित्कालं तु नेष्यामि भूमौ वै भार्यया सह ।
अनेनापि सुपुत्रेण अंत्येन सोमशर्मणा ६५।
एवमुक्ते शुभे वाक्ये ऋषिणा सत्यभाषिणा ।
तानुवाचाथ देवेशः सुपुत्राञ्छिवशर्मणः ६६।
गच्छंतु मोक्षदं लोकं दाहप्रलयवर्जितम् ।
एवमुक्ते ततो विप्राश्चत्वारः सत्यचेतसः ६७।
विष्णुरूपधराः सर्वे बभूवुस्तत्क्षणादपि ।
इंद्रनीलसमावर्णैः शंखचक्रगदाधराः ६८।
सर्वाभरणसौभाग्या विष्णुरूपा महौजसः ।
हारकंकणशोभाढ्या रत्नमालाभिशोभिताः ६९।
सूर्यतेजःप्रतीकाशास्तेजोज्वालाभिरावृताः ।
प्रविष्टा वैष्णवं कायं पश्यतः शिवशर्मणः ७०।
दीपं दीपा यथा यांति तद्वल्लीना महामते ।
गतास्ते वैष्णवं धाम पितृभक्त्या द्विजोत्तमाः ७१।
प्रभावं तु प्रवक्ष्यामि सुसत्यं सोमशर्मणः ७२।
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मोपाख्याने तृतीयोऽध्यायः ३।
खण्डः २ (भूमिखण्डः) — Adhyāya 4
सूत उवाच-
गतेषु तेषु गोलोकं वैष्णवं तमसः परम् ।
शिवशर्मा महाप्राज्ञः कनिष्ठं वाक्यमब्रवीत् १।
ब्राह्मण उवाच-
सोमशर्मन्महाप्राज्ञ त्वं पितुर्भक्तितत्परः ।
अमृतस्य महाकुंभं रक्ष दत्तं मयाधुना २।
तीर्थयात्रां प्रयास्यामि अनया भार्यया सह ।
एवमस्तु महाभाग करिष्ये रक्षणं शुभम् ३।
कुंभं दत्वा स मेधावी तस्य हस्ते महात्मनः ।
दशवर्षप्रमाणं तु तपस्तेपे निरंतरम् ४।
कुंभं रक्षति धर्मात्मा दिवारात्रमतंद्रितः ।
पुनः स हि समायातः शिवशर्मा महायशाः ५।
मायां कृत्वा महाप्राज्ञो भार्यया सह तं सुतम् ।
कुष्ठरोगातुरो भूत्वा तस्य भार्या च तादृशी ६।
मांसपिंडोपमौ जातौ द्वावेतौ मायया कृतौ ।
संनिधिं तस्य घोरस्य विप्रस्य सोमशर्मणः ७।
समागतौ हि तौ दृष्ट्वा सर्वतो हि सुदुःखितौ ।
कृपया परयाविष्टः सोमशर्मा महायशाः ८।
तयोः पादं नमस्कृत्य भक्त्या नमितकंधरः ।
भवादृशौ न पश्यामि तपसाभिसमन्वितम् ९।
गुणव्रातैः सुपुण्यैश्च किमिदं वर्तितं त्वयि ।
दासवद्देवताः सर्वा वर्तंते सर्वदा तव १०।
आदेशं प्राप्य विप्रेंद्र आकृष्टास्तेजसा तव ।
तवांगे केन पापेन गदोयं वेदनान्वितः ११।
संजातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम् ।
इयं पुण्यवती माता महापुण्या पतिव्रता १२।
या हि भर्तृप्रसादेन त्रैलोक्यं कर्तुमिच्छति ।
सा कथं दुःखमाप्नोति किं नास्ति तपसः फलम् १३।
रागद्वेषौ परित्यज्य विविधेनापि कर्मणा ।
या च शुश्रूषते कांतं देववद्गुरुवत्सला १४।
सा कथं दुःखमाप्नोति कुष्ठरोगं सुदुःखदम् ।
शिवशर्मोवाच-
मा शुचस्त्वं महाभाग भुज्यते कर्मजं फलम् १५।
नरेण कर्मयुक्तेन पापपुण्यमयेन हि ।
शोधनं च कुरुष्व त्वमुभयो रोगयुक्तयोः १६।
शुश्रूषणं महाभाग यदि पुण्यमिहेच्छसि ।
एवमुक्ते शुभे वाक्ये सोमशर्मा महायशाः १७।
शुश्रूषां वा करिष्यामि युवयोः पुण्ययुक्तयोः ।
मया पापेन दुष्टेन कृपणेन द्विजोत्तम १८।
किं कर्तव्यमिहाद्यैव यो गुरुं न हि पूजयेत् ।
एवमाभाष्य दुःखाद्वा तयोर्दुःखेन दुःखितः १९।
श्लेष्ममूत्रपुरीषं च उभयोः पर्यशोधयत् ।
पादप्रक्षालनं चक्रे अंगसंवाहनं तथा २०।
स्नानस्थानादिकं सोपि तयोर्भक्त्यान्वितः स्वयम् ।
द्वावेतौ हि गुरू विप्रः सोमशर्मा महायशाः २१।
तीर्थं नयति धर्मात्मा स्कंधमारोप्य सत्तमः ।
द्वावेतौ हि स्वहस्तेन स्नापयित्वा तु मंगलैः २२।
सुमंत्रैर्वेदविच्चैव स्नानस्य विधिपूर्वकम् ।
तर्पणं च पितॄणां तु देवतानां तु पूजनम् २३।
द्वाभ्यामपि स धर्मात्मा स कारयति नित्यशः ।
स्वयं होमं ददात्यग्नौ पचत्यन्नमनुत्तमम् २४।
संज्ञापयति सुप्रीतौ द्वावेतौ च महागुरू ।
शय्यासने च तौ विप्रः प्रस्वापयति नित्यशः २५।
वस्त्रपुष्पादिकं सर्वं ताभ्यां नित्यं प्रयच्छति ।
तांबूलं बहुगंधाढ्यमुभयोरर्पयेत्स तु २६।
सोमशर्मा महाभागस्ताभ्यामपि च पूरयेत् ।
मूलं पयः सुभक्ष्याद्यं नित्यमेव ददात्यसौ २७।
तयोस्तु वांछितं नित्यं सोमशर्मा महायशाः ।
अनेन क्रमयोगेन नित्यमेव प्रसादयेत् २८।
सोमशर्मा सुधर्मात्मा पितरौ परिपूजयेत् ।
सोमशर्माणमाहूय पिता कुत्सति निष्ठुरः २९।
निंदितैर्निष्ठुरैर्वाक्यैस्ताडयेन्मुनिसन्निधौ ।
कृतकार्ये कृते पुण्ये नित्यमेव सुते पुनः ३०।
न कृतं शोभनं मह्यं त्वयैव कुलपांसन ।
एवं नानाविधैर्वाक्यैर्निष्ठुरैर्दुःखदायकैः ३१।
अताडयद्दंडघातैः शिवशर्मा सदातुरः ।
एवं कृतेपि धर्मात्मा नैव कुप्यति कर्हिचित् ३२।
मनसा वचसा चैव कर्मणा त्रिविधेन च ।
संतुष्टः सर्वदा सोपि पितरं परिपूजयेत् ३३।
तद्वत्स सोमशर्मा वै मातरं च दिनेदिने ।
यज्ज्ञात्वा शिवशर्मा च चरितं स्वीयमीक्षते ३४।
अमृतं मत्कृते चापि आनीतं विष्णुशर्मणा ।
पुण्ययुक्तः स धर्मात्मा पितृभक्तिपरः सदा ३५।
एवं बहुतिथे काले शतसंख्ये गते सति ।
शिवशर्मा पितस्यैव भक्तिं दृष्ट्वा विचिंत्य वै ३६।
मया वै पूर्वमित्युक्तं सुपुत्रं यज्ञसंज्ञकम् ।
मातृखंडानिमान्पुत्र यत्र तत्र क्षिपस्व हि ३७।
मद्वाक्यं पालितं तेन कृता न मातरि कृपा ।
एतत्स्वल्पतरं दुःखं निर्जीवे घातमिच्छतः ३८।
साहसं तु कृतं तेन पुत्रेण वेदशर्मणा ।
अस्याधिकमहं मन्ये यतोऽयं चलते न च ३९।
निमेषमात्रमेवापि साहसं कारयेत्पुनः ।
अपरं सत्यसंपन्नं प्रभावं तपसः पुनः ४०।
नित्यं समाराधनेपि अधिकं चास्य दृश्यते ।
तस्मादस्य परीक्षा च समये तपसः कृता ४१।
भक्तिभावात्तथा सत्यान्नैव पुत्रः प्रणश्यति ।
मायया च निजांगेऽपि कुष्ठरोगो निदर्शितः ४२।
श्लेष्ममूत्रमलानां च घृणां नैव करोति च ।
व्रणान्विशोधयेन्नित्यं स्वहस्तेन महायशाः ४३।
पादसंवाहनं दद्याच्छौचं चैव महामतिः ।
दुःसहं वचनं मह्यं दारुणं सहते सदा ४४।
भर्त्सने ताडने चैव सदाभीष्टप्रवाचकः ।
एवं दुःखसमाचारो मम पुत्रो महामतिः ४५।
दुःखानां सागरं मन्ये बहुक्लेशैस्तु क्लेशितः ।
अपनेष्याम्यहं दुःखं विष्णोश्चैव प्रसादतः ४६।
विचार्य मनसा विप्रः शिवशर्मा महामतिः ।
पुनर्मायां चकाराथ कुंभादपहृतं पयः ४७।
पश्चात्तं च समाहूय सोमशर्माणमब्रवीत् ।
तव हस्ते मया दत्तममृतं व्याधिनाशनम् ४८।
तन्मे शीघ्रं प्रयच्छस्व यथा पानं करोम्यहम् ।
येन नीरुग्भवाम्यद्य प्रसादाद्विष्णुशर्मणः ४९।
एवमुक्ते तदा वाक्ये ऋषिणा शिवशर्मणा ।
समुत्थाय त्वरायुक्तः सोमशर्मा कमंडलुम् ५०।
तं च रिक्तं ततो दृष्ट्वा ह्यमृतेन विना कृतम् ।
कस्य पापस्य वै कर्म केन मे विप्रियं कृतम् ५१।
इति चिंतापरो भूत्वा सोमशर्मा सुदुःखितः ।
पितुरग्रे च वृत्तांतं कथयिष्याम्यहं यदा ५२।
ततः कोपं प्रयास्येत गुरुर्मे व्याधिपीडितः ।
सुचिरं चिंतयित्वा तु सोमशर्मा महामतिः ५३।
यदि मे सत्यमस्तीति गुरुशुश्रूषणं यदि ।
तपस्तप्तं मयापूर्वं निर्व्यलीकेन चेतसा ५४।
दमशौचादिभिः सत्यं धर्ममेव प्रपालितम् ।
तदा घटोऽमृतयुतो भवत्वेष न संशयः ५५।
यावदेव महाभागश्चिंतयित्वा विलोकयेत् ।
तावच्चामृतपूर्णस्तु पुनरेवाभवद्घटः ५६।
तं दृष्ट्वा हर्षसंयुक्तः सोमशर्मा महायशाः ।
गत्वा गुरुं नमस्कृत्य कुंभमादाय सत्वरम् ५७।
गृहाण त्वं पितश्चेमं पयः कुंभं समागतम् ।
पानं कुरु महाभाग गदान्मुक्तो भवाचिरम् ५८।
एतद्वाक्यं महापुण्यं सत्यधर्मार्थकं पुनः ।
शिवशर्मा सुतस्यापि श्रुत्वा च मधुराक्षरम् ५९।
हर्षेण महताविष्ट इदं वचनमब्रवीत् ६०।
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मोपाख्याने चतुर्थोऽध्यायः ४।
खण्डः २ (भूमिखण्डः) — Adhyāya 5
शिवशर्मोवाच-
तपसा दमशौचाभ्यांगुरुशुश्रूषया तथा ।
भक्त्याभावेन तुष्टोस्मि तवाद्य चसुपुत्रक १।
त्यजामि वैकृतं रूपं मत्तः सुखमवाप्नुहि ।
एवमुक्वा सुतं विप्रो दर्शयामास तां तनुम् २।
यथापूर्वं स्थितौ तौ तु तथा स दृष्टवान्गुरू ।
दीप्तिमंतौ महात्मानौ सूर्यबिंबोपमावुभौ ३।
ननाम पादौ सद्भक्त्या उभयोस्तु महात्मनोः ।
ततः सुतं समामंत्र्य हर्षेण महतान्वितः ४।
विष्णोः प्रसादाद्धर्मात्मा भार्यया सह केशवम् ।
जगाम निजपुण्यैश्च योगाभ्यासेन सत्तमः ५।
प्रविष्टो वैष्णवं धाम स मुनिर्दुर्लभं पदम् ।
नत्वन्यैः प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम् ६।
विष्णोस्तु चिंतनैर्न्यासध्यानज्ञानैः स्तवैस्तथा ।
न दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः ७।
समाधिज्ञानयोगेन दृश्यते परमं पदम् ।
महायोगैर्यथा विप्रः प्रविष्टो वैष्णवीं तनुम् ८।
सूत उवाच-
ततस्तत्र तपस्तेपे सोमशर्मा महाद्युतिः ।
अश्मलोष्टसमं मेने कांचनंभूषणं पुनः ९।
जिताहारः स धर्मात्मा निद्रया परिवर्जितः ।
स सर्वान्विषयांस्त्यक्त्वा एकांतमपि सेवते १०।
योगासनसमारूढो निराशो निःपरिग्रहः ।
तस्य वेला सुसंप्राप्ता मृत्युकालस्य वै तदा ११।
आगता दानवा विप्रं सोमशर्माणमंतिके ।
मृत्युकाले तु संप्राप्ते प्राणयात्रा प्रवर्तिनः १२।
शालिग्रामे महाक्षेत्रे ऋषीणां मानवर्द्धने ।
केचिद्वदंति वै दैत्याः केचिद्वदंति दानवाः १३।
एवंविधो महाशब्दः कर्णरंध्रं गतस्तदा ।
तस्यैव विप्रवर्यस्य सुचिरात्सोमशर्मणः १४।
ज्ञानध्यानविलग्नस्य प्रविष्टं दैत्यजं भयम् ।
तेन ध्यानेन तस्यापि दैत्यभीत्यैव वै तदा १५।
सत्वरं चैव तत्प्राणा गतास्तस्य महात्मनः ।
दैत्यभयेन संयुक्तः स हि मृत्युवशं गतः १६।
तस्माद्दैत्यगृहे जातो हिरण्यकशिपोः सुतः ।
देवासुरे महायुद्धे निहतश्चक्रपाणिना १७।
युद्ध्यमानेन तेनापि प्रह्लादेन महात्मना ।
सुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितम् १८।
योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनः ।
सस्मार पूर्वकं सर्वं चरितं शिवशर्मणः १९।
प्रागहं सोमशर्माख्यः प्रविष्टो दानवीं तनुम् ।
अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम् २०।
प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकम् ।
समरे म्रियमाणेन प्रह्लादेन महात्मना २१।
एवं चिंता कृता पूर्वं श्रूयतां द्विजसत्तमाः ।
एवं तु च समाख्यातं सर्वसंदेहनाशनम् २२।
सूत उवाच-
प्रह्लादे निहते संख्ये देवदेवेन चक्रिणा ।
रुरुदे कमला सा तु हतपुत्रा च कामिनी २३।
प्रह्लादस्य तु या माता हिरण्यकशिपोः प्रिया ।
प्रह्लादस्य महाशोकैर्दिवारात्रौ प्रशोचति २४।
पतिव्रता महाभागा कमला नाम तत्प्रिया ।
रोदमानां दिवारात्रौ नारदस्तामुवाच ह २५।
मा शुचस्त्वं महाभागे पुत्रार्थं पुण्यभागिनि ।
निहतो वासुदेवेन तव पुत्रः समेष्यति २६।
भूयः स्वलक्षणोपेतस्त्वत्सुतश्च महामतिः ।
प्रह्लादेति च वै नाम पुनरस्य भविष्यति २७।
विहीनश्चासुरैर्भावैर्देवत्वेन समन्वितः ।
इंद्रत्वे मोदते भद्रे सर्वदेवैर्नमस्कृतः २८।
सुखीभवमहाभागेतेनपुत्रेणवैसदा ।
न प्रकाश्या त्वया देवि सुवार्तेयं च कस्यचित् २९।
कर्त्तव्यमज्ञानभावैः सुगोप्यं कुरु त्वं सदा ।
एवमुक्त्वा गतो विप्रो नारदो मुनिसत्तमः ३०।
कमलायाश्चोदरे तु जन्मा स्यानुत्तमं पुनः ।
प्रह्लादेति च वै नाम तस्याख्यानं महात्मनः ३१।
बाल्यं भावं गतो विप्राः कृष्णमेव व्यचिंतयत् ।
नरसिंहप्रसादेन देवराजो भवेद्दिवि ३२।
देवत्वं लभ्य चैवासावैंद्रं पदमनुत्तमम् ।
मोक्षं यास्यति ज्ञानात्मा वैष्णवं धाम चोत्तमम् ३३।
असंख्याता महाभागाः सृष्टेर्भावा ह्यनेकशः ।
मोह एवं न कर्त्तव्यो ज्ञानवद्भिर्महात्मभिः ३४।
एतद्वः सर्वमाख्यातं यथापृष्टं द्विजोत्तमाः ।
अन्यं पृच्छ महाभाग संदेहं ते भिनद्म्यहम् ३५।
विजयं देवतानां तु दानवानां महत्क्षयम् ।
कृतं हि देवदेवेन स्थापितं भुवनत्रयम् ३६।
ऋषय ऊचुः-
इन्द्रत्वं कस्य संजातं देवानां शब्दधारकम् ।
केन दत्तं त्वमाचक्ष्व विस्तराद्द्विजसत्तम ३७।
सूत उवाच-
विस्तरेण प्रवक्ष्यामि इन्द्रत्वे येन सत्तमः ।
प्राप्त एष महाभागो यथा पुण्यतमेन च ३८।
हतेषु तेषु दैत्येषु समस्तेषुमहाहवे ।
अतिनष्टेषु पापेषु गोविंदेन महात्मना ३९।
ततो देवाः सगंधर्वा नागा विद्याधरास्तथा ।
संप्रोचुर्माधवं सर्वे बद्धप्रांजलयस्ततः ४०।
भगवन्देवदेवेश हृषीकेश नमोस्तु ते ।
विज्ञापयामहे त्वां वै तत्सर्वमवधार्यताम् ४१।
शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशव ।
राजानं पुण्यधर्माणं त्वमिंद्रं लोकशासनम् ४२।
त्रैलोक्यस्य प्रजा देव यमाश्रित्य सुखं लभेत् ।
वासुदेव उवाच-
मम लोके महाभागा वैष्णवेन समन्वितः ४३।
तेजसा ब्राह्मणश्रेष्ठश्चिरकालं निवासितः ।
तस्य कालः प्रपूर्णश्च मम लोके महात्मनः ४४।
वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमाः ।
तेजसा वैष्णवेनैव भवतां पालको हि सः ४५।
भविष्यति स धर्मात्मा स च धर्मानुरंजकः ।
पालको धारकश्चैव स च ब्राह्मणसत्तमः ४६।
भविष्यति स धर्मात्मा भवतां त्राणकारणात् ।
अदित्यास्तनयश्चैव सुव्रताख्यो महामनाः ४७।
महाबलो महावीर्यः स व इंद्रो भविष्यति ।
सूत उवाच-
एवं वरान्स देवेशो दत्वा देवेभ्य उत्तमम् ४८।
देवा विजयिनः सर्वे विष्णुना सह सत्तमाः ।
कश्यपं पितरं दृष्टुं मातरं च ततो गताः ४९।
प्रणेमुस्ते महात्मान उभावेतौ सुखासनौ ।
ऊचुः प्रांजलयः सर्वे हर्षेण महतान्विताः ५०।
युवयोश्च प्रसादेन देवत्वं हि गता वयम् ।
हर्षेण महताविष्टो देवान्वाक्यमुवाच सः ५१।
कश्यप उवाच-
यूयं वै सत्यधर्मेण वर्तमानाः सदैव हि ।
आवयोश्च प्रसादेन तपसश्च प्रभावतः ५२।
प्राप्तवंतो भवंतस्तु देवत्वं चाक्षयं पदम् ।
वरमेव ददाम्येषां बहुप्रीतिसमन्विताः ५३।
अमरा निर्जराश्चैव अक्षयाश्च भविष्यथ ।
सर्वकामसमृद्धार्थाः सर्वसिद्धिसमन्विताः ५४।
देवा नागाश्च गंधर्वा मत्प्रसादान्महासुराः ।
विष्णुरुवाच-
वरं वरय भद्रं ते देवमातर्यशस्विनि ५५।
मनसा चेप्सितं सर्वं तत्ते दद्मि सुनिश्चितम् ।
अदितिरुवाच-
पूर्वं पुत्रवती भूता प्रसादात्तव माधव ५६।
अमरा निर्जराः सर्वे अक्षयाः पुण्यवत्सलाः ।
अमी पुत्रा मया लब्धाः श्रूयतां मधुसूदन ५७।
सुतरां त्वं च गोविंद सर्वकामसमृद्धिदः ।
मम गर्भे वसंश्चैव भवांश्च मम नंदनः ५८।
त्वया पुत्रेण नित्यं च यथा नंदामि केशव ।
एवं महोदयं नाथ पूरयस्व मनोरथम् ५९।
वासुदेव उवाच-
भवत्या देवकार्यार्थं गंतव्यं मानुषीं तनुम् ।
तदाहं तव गर्भे वै वासं यास्यामि निश्चितम् ६०।
युगे द्वादशके प्राप्ते भूभारहरणाय वै ।
जमदग्निसुतो देवि रामो नाम द्विजोत्तमः ६१।
प्रतापतेजसायुक्तः सर्वक्षत्रवधाय च ।
तव पुत्रो भविष्यामि सर्वशस्त्रभृतां वरः ६२।
सप्तविंशतिके प्राप्ते त्रेताख्ये तु तथा युगे ।
रामो नाम भविष्यामि तव पुत्रः पतिव्रते ६३।
पुनः पुत्रो भविष्यामि तवैव शृणु पुण्यधेः ।
अष्टाविंशतिके प्राप्ते द्वापरांते युगे तदा ६४।
सर्वदैत्यविनाशार्थे भूभारहरणाय च ।
वासुदेवाख्यस्ते पुत्रो भविष्यामि न संशयः ६५।
इदानीं कुरु कल्याणि मद्वाक्यं धर्मसंयुतम् ।
सर्वलक्षणसंपन्नं सत्यधर्मसमन्वितम् ६६।
सर्वज्ञं सर्वदे देवि पुत्रमुत्पाद्य सुंदरम् ।
इंद्रत्वं तस्य दास्यामि इंद्रः सोपि भविष्यति ६७।
एवं संभाषितं श्रुत्वा महाहर्षसमन्विता ।
देवदेवप्रसादेन इंद्रः पुत्रो भविष्यति ६८।
एवमस्तु महाभाग तव वाक्यं करोम्यहम् ।
ततस्ता देवताः सर्वा जग्मुः स्वस्थानमेव हि ६९।
हरिणा सह ते सर्वे निरातंका मुदान्विताः ।
सूत उवाच-
अदितिः कश्यपं प्राह ऋतुं प्राप्य मनस्विनी ७०।
भगवन्दीयतां पुत्रः सुरेंद्रपदभोजकः ।
चिंतयित्वा क्षणं विप्रस्तामुवाच मनस्विनीम् ७१।
एवमस्तु महाभागे तव पुत्रो भविष्यति ।
त्रैलोक्यस्यापि कर्ता स यज्ञभोक्ता स एव च ७२।
तस्याः शिरसि सन्यस्य स्वहस्तं च द्विजोत्तमः ।
तपश्चचार तेजस्वी सत्यधर्मसमन्वितः ७३।
सुव्रतो नाम तेजस्वी विष्णुलोके वसेत्सदा ।
तस्य पुण्यक्षये जाते विष्णुलोकाद्द्विजोत्तमाः ७४।
पतनं कर्मवशतस्ततस्तस्य द्विजोत्तमाः ।
पुण्यगर्भं गतो विप्र अदित्यास्तु महातपाः ७५।
इंद्रत्वं भोक्तुकामार्थं सत्यपुण्येन कर्मणा ।
गर्भं दधार सा देवी पुण्येन तपसा किल ७६।
तपस्तेपे निरालस्या वनवासं गता सती।
दिव्यं वर्षशतं यातं तपंत्यां देवमातरि ७७।
तपंत्यथ तपस्तीव्रं दुष्करं देवतासुरैः ।
ततः सा तपसा तेन तेजसा च प्रभान्विता ७८।
सूर्यतेजः प्रतीकाशा द्वितीय इव भास्करः ।
शुशुभे सा यथा दीप्ता परमं ध्यानमास्थिता ७९।
रूपेणाधिकतां याता तपसस्तेजसा तदा ।
तपोध्यानपरा सा च वायुभक्षा तपस्विनी ८०।
अधिकं शुशुभे देवी दक्षस्य तनया तदा ।
सिद्धाश्च ऋषयः सर्वे देवाश्चापि महौजसः ८१।
स्तुवंति तां महाभागां रक्षंति च सुतत्पराः ।
पूर्णे वर्षशते तस्या विष्णुस्तत्र समागतः ८२।
तामुवाच महाभागामदितिं तपसान्विताम् ।
देवि गर्भः सुसंपूर्णः सूतिकालः प्रवर्तते ८३।
तवैव तपसा पुष्टस्तेजसा च प्रवर्द्धितः ।
अद्यैव गर्भमेतं त्वं मुंच मुंच यशस्विनि ८४।
एवमाभाष्य देवेशः स जगाम स्वकं गृहम् ।
असूत पुत्रं सा देवी काले प्राप्ते महोदये ८५।
सा पुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम् ।
सुभगं चारुसर्वांगं सर्वलक्षणसंयुतम् ८६।
चतुर्बाहुं महाकायं लोकपालं सुरेश्वरम् ।
तेजोज्वालासमाकीर्णं चक्रपद्मसुहस्तकम् ८७।
चंद्रबिंबानुकारेण वदनेन महामतिः ।
राजमानं महाप्राज्ञं तेजसा वैष्णवेन च ८८।
अन्यैश्च लक्षणैर्दिव्यैर्दिव्यभावैरलंकृतम् ।
सर्वलक्षणसंपूर्णं चंद्रास्यं कमलेक्षणम् ८९।
आजग्मुस्ते त्रयो देवा ऋषयो वेदपारगाः ।
गंधर्वाश्च ततो नागाः सिद्धाविद्याधरास्तथा ९०।
ऋषयः सप्त ते दिव्याः पूर्वापरमहौजसः ।
अन्ये च मुनयः पुण्याः पुण्यमंगलदायिनः ९१।
आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाः ।
तस्मिञ्जाते महाभागे भगवंतो महौजसि ९२।
आजग्मुर्देवताः सर्वे पर्वतास्तु तपस्विनः ।
क्षीराद्याः सागराः सर्वे नद्यश्चैव तथामलाः ९३।
प्रीतिमंतस्ततः सर्वे ये चान्ये हि चराचराः ।
मंगलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वराः ९४।
ननृतुश्चाप्सराः संघा गंधर्वा ललितं जगुः ।
वेदमंत्रैस्ततो देवा ब्राह्मणा वेदपारगाः ९५।
स्तुवंति तं महात्मानं सुतं वै कश्यपस्य च ।
ब्रह्मा विष्णुश्च रुद्रश्च वेदाश्चैव समागताः ९६।
सांगोपांगैश्च संयुक्तास्तस्मिञ्जाते महौजसि ।
त्रैलोक्ये यानि सत्वानि पुण्ययुक्तानि सत्तम ९७।
समागतानि तत्रैव तस्मिञ्जाते महौजसि ।
मंगलं चक्रिरे सर्वे गीतपुण्यैर्महोत्सवैः ९८।
हर्षेण निर्भराः सर्वे पूजयंतो महौजसः ।
ब्रह्माद्याश्च त्रयो देवाः कश्यपोथ बृहस्पतिः ९९।
चक्रिरे नामकर्माणि तस्यैव हि महात्मनः ।
वसुदत्तेति विख्यातो वसुदेति पुनस्तव १००।
आखंडलेति तन्नाम मरुत्वान्नाम ते पुनः ।
मघवांश्च बिडौजास्त्वं पाकशासन इत्यपि १०१।
शक्रश्चैव हि विख्यात इंद्रश्चैवेति ते सुतः ।
इत्येतानि च नामानि तस्यैव च महात्मनः १०२।
चक्रुश्च देवताः सर्वाः संतुष्टा हृष्टमानसाः ।
स्नानं तु कारयामासुः संस्काराणि महासुरः १०३।
विश्वकर्माणमाहूय ददुराभरणानि च ।
तानि पुण्यानि दिव्यानि तस्मै ते तु महात्मने १०४।
जाते तस्मिन्महाभागे देवराजे महात्मनि ।
एवं मुदं ततः प्रापुः सर्वे देवा महौजसः १०५।
पुण्ये तिथौ तथा ऋक्षे सुमुहूर्ते महात्मभिः ।
इंद्रत्वे स्थापितो देवैरभिषिक्तः सुमंगलैः १०६।
प्राप्तमैंद्रपदं तेन प्रसादात्तस्य चक्रिणः ।
तपश्चकार तेजस्वी वसुदत्तः सुरेश्वरः १०७।
उग्रेण तेजसा युक्तो वज्रपाशांकुशायुधः १०८।
सूत उवाच-
उग्रं समस्तं तपसः प्रभावं विलोक्य शुक्रो निजगाद गाथाम् ।
लोकेषु कोन्यो न भविष्यतीति यथा हि चायं च सुदर्शनीयः १०९।
विष्णोः प्रसादान्न परो महात्मा संप्राप्तमैश्वर्यमिहैव दिव्यम् ११०।
अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः १११।
इति श्रीपद्मपुराणे भूमिखंडे देवासुरे इंद्राभिषेकोनाम पंचमोऽध्यायः ५।
खण्डः २ (भूमिखण्डः) — Adhyāya 6
सूत उवाच-
कश्यपस्य च भार्यान्या दनुर्नाम तपस्विनी ।
पुत्रशोकेन संतप्ता संप्राप्ता दितिमंदिरम् १।
रोदमाना प्रणम्यैव पादपद्मयुगं तदा ।
दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत् २।
दितिरुवाच-
तवैव हि महाभागे किमिदं रोदकारणम् ।
पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवंति वै ३।
भवती शतपुत्राणां गुणिनामपि भामिनि ।
माता त्वमसि कल्याणि शुंभादीनां महात्मनाम् ४।
कस्माद्दुःखं त्वया प्राप्तमेतन्मे कारणं वद ।
हिरण्यकशिपू राजा हिरण्याक्षो महाबलः ५।
यस्याः पुत्रौ महात्मानौ महाबलपराक्रमौ ।
कस्माद्दुःखं महज्जातं तस्माच्चैव सखे वद ६।
आख्याहि कारणं सर्वं यस्माद्रोदिषि सांप्रतम् ।
एवमाभाष्य तां देवीं विरराम मनस्विनी ७।
दनुरुवाच-
पश्य पश्य महाभागे सपत्न्याश्च मनोरथम् ।
परिपूर्णं कृतं तेन देवदेवेन चक्रिणा ८।
यथापूर्वं वरो दत्तो ह्यदित्यै देवि विष्णुना ।
तथेदानीं च पुत्राय तस्या दत्तो वरो महान् ९।
कश्यपाद्विश्रुतो जातस्त्रैलोक्यपालकः सुतः ।
इंद्रत्वं तस्य वै दत्तं तव पुत्राद्विहृत्य च १०।
मनोरथैस्तु संपूर्णा अदितिः सुखवर्द्धिनी ।
कनीयान्वसुदत्तश्च तस्याः पुत्रश्च संप्रति ११।
ऐंद्रं पदं सुदुष्प्राप्यं देवैः सार्द्धं भुनक्ति च ।
दितिरुवाच-
कस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः १२।
अन्ये च दानवा दैत्यास्तेजोभ्रष्टाः कथं सखे ।
तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि १३।
तामाभाष्य दितिर्वाक्यं विरराम सुदुःखिता ।
दनुरुवाच-
देवाश्च दानवाः सर्वे सक्रोधाः संगरं गताः १४।
तत्र युद्धं महज्जातं दैत्यसंक्षयकारकम् ।
देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः १५।
तथैव तव पुत्रास्ते देवदेवेन चक्रिणा ।
वने गतान्यथा सिंहो द्रावयेत्स्वेन तेजसा १६।
तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना ।
कालनेमिमुखं सैन्यं दुर्जयं ससुरासुरैः १७।
नाशितं मर्दितं सर्वं द्रावितं विकलीकृतम् ।
स्वैरर्चिभिर्यथा वह्निस्तृणानि ज्वालयेद्वने १८।
तथा दैत्यगणान्सर्वान्निर्दहत्येव केशवः ।
मम पुत्रा मृता देवि बहुशस्तव नंदनाः १९।
वह्निं प्राप्य यथा सर्वे शलभा यांति संक्षयम् ।
तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः २०।
एवमेतं हि वृत्तांतं दितिः शुश्राव दारुणम् ।
दितिरुवाच-
वज्रपातोपमं भद्रे वदस्येवं कथं मम २१।
एवमाभाष्य तां देवी मूर्च्छिता निपपात ह ।
हा हा कष्टमिदं जातं बहुदुःखं प्रतापकम् २२।
रुरोद करुणं साथ पुत्रशोकसुपीडिता ।
तां दृष्ट्वा स मुनिश्रेष्ठ उवाच वचनं शुभम् २३।
मा रोदिषि च भद्रं ते नैवं शोचंति त्वद्विधाः ।
सत्ववंतो महाभागे लोभमोहेन वर्जिताः २४।
कस्य पुत्रा हि संसारे कस्य देवी सुबांधवाः ।
नास्तिकस्येह केनापि तत्सर्वं श्रूयतां प्रिये २५।
दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः ।
भवतीनामहं भर्ता कामनापूरकः शुभे २६।
योजकः पालकश्चैव रक्षकोस्मि वरानने ।
कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः २७।
तव पुत्रा महाभागे सत्यधर्मविवर्जिताः ।
तेन दोषेण ते सर्वे तव दोषेण वै शुभे २८।
निहता वासुदेवेन दैवतैस्तु निपातिताः ।
तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः २९।
शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति ।
तस्माच्छोकं परित्यज विघ्नरूपं वरानने ३०।
आत्मदोषप्रभावेण दानवा मरणं गताः ।
देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा ३१।
एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति ।
एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम् ३२।
विषादाच्च निवृत्तोसौ विरराम महामतिः ३३।
इति श्रीपद्मपुराणे भूमिखंडे देवासुरे दितिविलापोनाम षष्ठोऽध्यायः ६।
खण्डः २ (भूमिखण्डः) — Adhyāya 7
दितिरुवाच-
सत्यमुक्तं त्वया नाथ सर्वमेव न संशयः ।
भर्तृस्नेहं परित्यज्य गता सापत्न्यजं द्विज १।
अभिमानेन दुःखेन मानभंगेन सत्तम ।
महादुःखेन संतप्ता करिष्ये प्राणमोचनम् २।
कश्यप उवाच-
श्रूयतामभिधास्यामि यथा शांतिर्भविष्यति ।
न कः कस्य भवेत्पुत्रो न माता न पिता शुभे ३।
न भ्राता बांधवः कस्य न च स्वजनबांधवाः ।
एवं संसारसंबंधो मायामोहसमन्वितः ४।
स्वयमेव पिता देवि स्वयं माताथ बांधवाः ।
स्वयं स्वजनवर्गश्च स्वयं धर्मः सनातनः ५।
आचारेण नरो देवि सुखित्वमुपजायते ।
अनाचारेण पापेन नाशं याति तथा ध्रुवम् ६।
क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः ।
कर्मणा सत्यहीनेन महापापेन मोहतः ७।
रिपुत्वे वर्त्तते मर्त्यः प्राणिनां नित्यसंस्थितः ।
रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः ८।
मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे ।
तदा तस्य भवंत्येव मित्राः सर्वत्र भामिनि ९।
कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितम् ।
यादृशं तु भवत्येव तादृशं फलमश्नुते १०।
तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह ।
कर्मणस्तस्य तत्प्राप्तं फलं भुंक्ष्व सुसंस्थितम् ११।
तव पुत्रा महाभागे तपः शांति विवर्जिताः ।
तेन पापेन ते सर्वे पतिता वै महत्पदात् १२।
एवं ज्ञात्वा शमं गच्छ मुंच दुःखं सुखं तथा ।
कस्य पुत्राश्च मित्राणि कस्य स्वजन बांधवाः १३।
आत्मकर्मानुसारेण सुखं जीवंति जंतवः ।
परार्थे चिंतनं देवि तत्त्वज्ञानेन पंडिताः १४।
न कुर्वंति महात्मानो व्यर्थमेव न संशयः ।
पंचभूतात्मकं कायं केवलं संधिजर्जरम् १५।
आत्ममित्रं कृतं तेन सर्वं देवि सुखाशया ।
आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः १६।
सर्वसिद्धिस्तु सर्वात्मा सात्विकः सर्वसिद्धिदः ।
एवं सर्वमयो देवि भ्रमत्येको निरञ्जनः १७।
भ्रमता निर्जने येन मूर्तिमंतो द्विजोत्तमाः ।
चत्वारो दर्शिताः पुण्या मूर्तिमंतो महौजसः १८।
पंचमः श्वसनश्चैव पूर्वाणां मित्रमेव च ।
अथो आत्मा समायातो ज्ञानसाहाय्यमेव वा १९।
स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत् ।
ज्ञान पश्य अमी पंच मंत्रयंतः परस्परम् २०।
एतान्गत्वाब्रवीहि त्वं यूयं क इति पृच्छ ह ।
ज्ञानं वाक्यं परं श्रुत्वा सार्थं तस्य महात्मनः २१।
तदाहात्मानमाराध्यमेतैः किं ते प्रयोजनम् ।
तत्त्वतो ब्रूहि मे देव सदा शुद्धोसि सर्वदा २२।
आत्मोवाच-
एते पंच महाभागा रूपवंतो मनस्विनः ।
गत्वा संदर्शयाम्येनानाभाष्ये ज्ञान श्रूयताम् २३।
भव्यानेतान्प्रवक्ष्यामि पंचमीं गतिमागतान् ।
दूतत्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि २४।
ज्ञानमुवाच-
त्वमात्मञ्छृणु मे वाक्यं सत्यं सत्यं वदाम्यहम् ।
एतेषां संगतिस्तात कार्या नैव त्वया कदा २५।
पंचानामपि शुद्धात्मन्न कार्यं शुभमिच्छता ।
भवतः संगतिं मोह इच्छत्येष महामते २६।
आत्मोवाच-
एतेषां संगतिं ज्ञान कस्माद्वारयते भवान् ।
तन्मे त्वं कारणं ब्रूहि याथातथ्येन पंडित २७।
ज्ञानमुवाच-
एतेषां संगमात्रात्तु महद्दुःखं भविष्यति ।
दुःखमूला हि पंचैव शोकसंतापकारकाः २८।
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव ।
ज्ञानमाभाष्य स ह्यात्मा ध्यानेन सह संगतः २९।
कश्यप उवाच-
ततः पंचैव ते तत्राद्राक्षुरात्मानमेव तम् ।
बुद्धिमूचुः समाहूय संगच्छात्मानमेव हि ३०।
दूतत्वं कुरु कल्याणि अस्माकमात्मना सह ।
पंचतत्त्वा महात्मानो विश्वस्यधारकाः शुभाः ३१।
भवतो मैत्रमिच्छंति इत्याभाष्य महामतिम् ।
गत्वा बुद्धे त्वया कार्यं कर्तव्यं न इतो व्रज ३२।
एवमस्तु महाभागा करिष्ये कार्यमुत्तमम् ।
एवमाभाषितं तेषां गत्वाऽहात्मानमेव तम् ३३।
अहं बुद्धिर्महाभाग भवंतं समुपागता ।
दूतत्वे महतां पार्श्वात्तेषां त्वं वचनं शृणु ३४।
भवन्मैत्रीं समिच्छंति अक्षयां पंच आत्मकाः ।
कुरु मैत्रीं महाप्राज्ञ जहि ध्यानं सुदूरतः ३५।
ध्यानमुवाच-
न कर्तव्यं त्वया चात्मन्नैतेषां वै समागमम् ।
एषां संसर्गमात्रेण महद्दुःखं भविष्यति ३६।
मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यति ।
एवमेव न कर्तव्यं तेषां चैव समागमम् ३७।
गर्भवासं नयिष्यंति भवंतं नान्यथा विभो ।
ज्ञानेनैव मया हीनो अज्ञानं यास्यसि ध्रुवम् ३८।
एवमुक्त्वा तमात्मानं विरराम महामतिम् ।
ततस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितः ३९।
ज्ञानध्यानौ महात्मानौ मंत्रिणौ मम शोभनौ ।
तत्र यानं न मे युक्तं तद्बुद्धे किं करोम्यहम् ४०।
एवं श्रुत्वा ततो बुद्धिस्तेषां पार्श्वे यशस्विनी ।
समाचष्ट समग्रं तत्कथनं ज्ञानध्यानयोः ४१।
ततस्ते पंचकाः सर्वे आत्मानं प्रतिजग्मिरे ।
मैत्रीमेव प्रतीच्छामो भवतो नित्यमेव हि ४२।
यस्माच्छुद्धोसि लोकेश तस्मात्त्वां समुपागताः ।
स्वयमेव विचार्यैव उत्तरं नः प्रदीयताम् ४३।
आत्मोवाच-
यूयं पंचैव संप्राप्ता मम मैत्रं समिच्छथ ।
स्वीयं गुणं प्रभावं च कथयंतु ममाग्रतः ४४।
भूमिरुवाच-
सर्वकार्यस्य संस्थानं चर्ममांससमन्वितम् ।
अस्थिमूलदृढत्वं मे नखलोमसमन्वितम् ४५।
प्रभावो हि महाप्राज्ञ कायमध्ये ममैव हि ।
नासिकागमनो गंधस्स मे भृत्यो महामनाः ४६।
आकाश उवाच-
अहमाकाशकः प्राप्तो मम काये प्रभावकम् ।
श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणम् ४७।
बाह्यांतरावकाशश्च शून्यस्थाने वसाम्यहम् ।
तत्रामात्यौ तु कर्णौ मे श्रवणार्थं प्रतिष्ठितौ ४८।
वायुरुवाच-
पंचरूपेण तिष्ठामि करोम्येवं शुभाशुभम् ।
चर्मकायेस्थितोमात्यः स्पर्शं संश्रयते गुणम् ४९।
तेज उवाच-
काये संस्थः सदा नित्यं पाकयोगं करोम्यहम् ।
सबाह्याभ्यंतरं सर्वं द्रव्याद्रव्यं प्रदर्शये ५०।
शुक्रं मज्जा तथा लाला एवं त्वक्संधिसंस्थितम् ।
रुधिरं प्रेषयाम्येव कायमध्ये स्थितोस्म्यहम् ५१।
तत्र नेत्रावमात्यौ मे द्रव्यलब्धिप्रसाधकौ ।
एवं मयात्मव्यापारस्तवाग्रे कथितः परः ५२।
जलमुवाचः-
सुतोषयाम्यहं नित्यममृतेन कलेवरम् ।
एवं मे तत्र व्यापारः कायपत्तनके प्रिये ५३।
अमात्यं रसनां विद्धि रसास्वादकरीं पराम् ।
नासिकोवाच-
सुगंधेन परां पुष्टिं कायस्यापि करोम्यहम् ५४।
दुर्गंधं तु परित्यज्य काये गंधं प्रदर्शये ।
बुद्धियुक्ता महाभाग तस्याभावेन भाविता ५५।
स्वामिकार्याय कायेस्मिन्नहं तिष्ठामि निश्चला ।
गंधं मम गुणं विद्धि द्विविधं यत्प्रवर्तितम् ५६।
श्रवणावूचतुः-
कार्याकार्यादिकं शब्दं लोकैरुक्तं शुभाशुभम् ।
शृणुयावः स्वकायस्थौ सत्यासत्ये प्रियाप्रिये ५७।
शब्दो हि मे गुणः प्रोक्तो मम व्यापारमेव हि ।
योजयामि न संदेहो यदा बुद्धिः प्रपूरयेत् ५८।
त्वगुवाच-
पंचरूपात्मको वायुः शरीरेस्मिन्व्यवस्थितः ५९।
सबाह्याभ्यंतरे चेष्टां तेषां जानामि तत्त्वतः ।
शीतोष्णमातपं वर्षं वायोः स्फुरणमेव च ६०।
सर्वं जानामि संस्पर्शं संगश्लेषादिकं नृणाम् ।
स्पर्श एव गुणो मह्यमेतत्सत्यं वदाम्यहम् ६१।
एवं हि ते समाख्यातो मया व्यापार एव हि ।
नेत्रे ऊचतुः-।
संसारे यानि रूपाणि भव्याभव्यानि सत्तम ६२।
यदा प्रेरयते बुद्धिस्तदा पश्याव नान्यथा ।
वसावः कायमध्ये वै रूपं गुणमिहावयोः ६३।
एवं व्यापारसंबंधः कायमध्ये महामते ।
जिह्वोवाच-।
बुद्धियुक्ता अहं तात रसभेदान्विचारये ६४।
क्षारमम्लादिकं सर्वं नीरसं स्वादु चिंतये ।
व्यापारेण अनेनापि नित्ययुक्ता वसाम्यहम् ६५।
इन्द्रियाणां हि सर्वेषां बुद्धिरेषा प्रणायकः ।
एवं पंच समायातानींद्रियाणि प्रिये शृणु ६६।
स्वीयानि यानि कर्माणि कथयंति पुनः पुनः ।
अथ बुद्धिः समायाता तमुवाच महामतिम् ६७।
मद्विहीनो यदा कायस्तदा नश्यति नान्यथा ।
तस्मात्त्वं मां समास्थाय वर्त्तयस्व महामते ६८।
अथ कर्म समायातमात्मानमिदमब्रवीत् ।
अहं कर्म महाप्राज्ञ तव पार्श्वं समागतम् ६९।
त्वां प्रेषयाम्यहं तेन पथा येनेह गच्छसि ।
एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान्प्रति ७०।
यूयं पंचात्मकैर्युक्ताः सर्वसाधारणाः किल ।
कस्मान्मैत्रं समिच्छंति तत्र पंचात्मकं प्रति ७१।
ब्रुवंतु कारणं सर्वे ममाग्रे सर्वमेव तत् ।
पंचात्मका ऊचुः-।
अस्मत्संगप्रसंगेन पिंडमेव प्रजायते ७२।
तस्मिन्पिंडे महाबुद्धे भवान्वसति सुव्रतः ।
तिष्ठामो हि वयं सर्वे प्रसादात्तव तत्र हि ७३।
एतस्मात्कारणान्मैत्रमिच्छामस्तव नित्यशः ।
आत्मोवाच-
एवमस्तु महाभागा भवतां प्रियमेव च ७४।
करिष्ये नात्र संदेहो मैत्रं हि प्रीतिकारणात् ।
वार्यमाणो महाभागो ज्ञानेनापि महात्मना ७५।
ध्यानेन च महात्मासौ तेषां संगतिमागतः ।
स तैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा ७६।
पंचतत्त्वसमायुक्तः कायित्वं गतवान्प्रभुः ।
यदा गर्भं समायातो विष्ठामूत्रसमाकुले ७७।
दुर्गंधे पिच्छिलावर्ते पतितस्तैः स संयुतः ।
अंगेन व्याकुलीभूतः पंचात्मकानुवाच सः ७८।
भोभोः पंचात्मकाः सर्वे शृणुध्वं वचनं मम ।
भवतां संप्रसंगेन महादुःखेन मोहितः ७९।
तत्रास्मिन्पिच्छिले घोरे पतितो हि महाभये ।
पंचात्मका ऊचुः-
तावत्संस्थीयतां राजन्यावद्गर्भः प्रपूरयेत् ८०।
पश्चान्निर्गमनं ते वै भविष्यति न संशयः ।
अस्माकं हि भवान्स्वामी कायदेशे व्यवस्थितः ८१।
राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यति ।
तेषां तद्वचनं श्रुत्वा आत्मा दुःखेन पीडितः ८२।
गंतुमिच्छन्नसौ तस्मात्पलायनपरोभवत् ८३।
इति श्रीपद्मपुराणे भूमिखंडे देवासुरेशरीरकथनंनाम सप्तमोऽध्यायः ७।
खण्डः २ (भूमिखण्डः) — Adhyāya 8
कश्यप उवाच-
स गर्भे व्याकुलो जातः खिद्यमानो दिने दिने ।
दुःखाक्रांतो हि धर्मात्मा सर्वपीडाभिपीडितः १।
अधोमुखस्तु गर्भस्थो मोहजालेन बंधितः ।
आधिव्याधिसमाक्रांतो हाहाभूतो विचेतनः २।
दुःखेन महताविष्टो ज्ञानमाह प्रपीडितः ।
आत्मोवाच-
तव वाक्यं महाप्राज्ञ न कृतं तु मया तदा ३।
ध्यानेन वार्यमाणोपि पतितो मोहसंकटे ।
तस्माद्रक्ष महाप्राज्ञ गर्भवासात्सुदारुणात् ४।
ज्ञानमुवाच-
मया त्वं वारितो ह्यात्मन्कृतं वाक्यं न चैव मे ।
पंचात्मकैर्महाक्रूरैः पातितो गर्भसंकटे ५।
इदानीं गच्छ त्वं ध्यानं तस्मात्संप्राप्स्यसे सुखम् ।
गर्भवासाद्भविष्यस्ते मोक्ष एव न संशयः ६।
तस्य तद्वचनं श्रुत्वा ज्ञात्वा ज्ञानस्य तत्त्वताम् ।
ध्यानमाहूय प्रोवाच श्रूयतां वचनं मम ७।
त्वामहं शरणं प्राप्तो ध्यान मां रक्ष नित्यशः ।
एवमस्तु महाप्राज्ञ ध्यानमाह महामतिम् ८।
एतद्वाक्यं ततः श्रुत्वा आत्मा वै ध्यानमागतः ।
ध्यानेन हि समं गर्भे संस्थितो मोहवर्जितः ९।
यदा ध्यानं गतो ह्यात्मा विस्मृतं गर्भजं भयम् ।
स द्वाभ्यां सहितस्तत्र आत्मा मोह विना कृतः १०।
चिंतयन्नेव वै नित्यमात्मकं सुखमेव हि ।
इतो निष्क्रांतमात्रस्तु त्यजे पंचात्मकं वपुः ११।
एवं चिंतयते नित्यं गर्भवासगतः प्रभुः ।
सूतिकाले तु संप्राप्ते प्राजापत्ये वरानने १२।
वायुना चलितो गर्भः प्राणेनापि बलीयसा ।
योनिर्विकासमायाति चतुर्विंशांगुलं तदा १३।
पंचविंशांगुलो गर्भस्तेन पीडा विजायते ।
एवं संपीड्यमानस्तु मूर्च्छया मूर्च्छितः प्रिये १४।
पतितो भूमिभागे तु ज्ञानध्यानसमन्वितः ।
प्राजापत्येन दिव्येन वायुना स पृथक्कृतः १५।
भूमिसंस्पर्शमात्रेण ज्ञानध्याने तु विस्मृते ।
संसारबंधसंदिग्ध आत्मा प्रियतया स्थितः १६।
गुणदोषसमाक्रांतो महामोहसमन्वितः ।
खाद्यं पानादिकं सर्वमिच्छत्येव दिनेदिने १७।
एवं संपुष्यमाणस्तु आत्मा पंचात्मकैः सह ।
व्यापितो हींद्रियैः सर्वैर्विषयैः पापकारिभिः १८।
बांधवानां समोहेन भार्यादीनां तथैव च ।
आकुलव्याकुलो देवि जायते च दिनेदिने १९।
महामोहेन संदिग्धो मोहजालगतः प्रभुः ।
कैवर्तेन यथा बद्धः शकुलो जालबंधनैः २०।
चलितुं नैव शक्तोस्ति तथात्मासीत्प्रबंधितः ।
मोहजालैस्तु तैः सर्वैर्दृढबंधैस्तु बंधितः २१।
एवमादिप्रपंचेन व्यापितो व्यापकेन हि ।
ज्ञानविज्ञानविभ्रष्टो रागद्वेषादिभिर्हतः २२।
कामेन पीड्यमानस्तु क्रोधेनैव तथैव वा ।
प्रकृत्या कर्मणाबद्धो महामूढो व्यजायत २३।
सूत उवाच-
एवं मूढो यदात्मासौ कामक्रोधवशंगतः ।
लोभरागादिभिः सर्वैर्व्यापृतस्तैर्दुरात्मभिः २४।
इयं भार्या ह्ययं पुत्र इदं मित्रमिदं गृहम् ।
एवं संसारजालेन महामोहेन बंधितः २५।
पुत्रशोकादिभिर्दुःखैर्विविधैराकुलस्तदा ।
जरयाव्याधिभिश्चैव संग्रस्तश्चाधिभिस्तथा २६।
एवमात्मा संप्रतप्तो दुःखमोहैः सुदारुणैः ।
अभिमानैर्मानभंगैर्नानादुःखैश्च खंडितः २७।
वृद्धत्वेन तथा देवि शबलत्वेन पीडितः ।
दुःखं चिंतयते नित्यं हाहाभूतो विचेतनः २८।
रात्रौ स्वप्नान्प्रपश्येत दिवा चैतन्यवर्जितः ।
वैकल्येन तथांगानां व्याप्तो देवि दिनेदिने २९।
संसारे भ्रममाणेन वैराग्यं तत्र दर्शितम् ।
निःशंकं बंधुहीनं च प्रशांतं तुष्टमेव च ३०।
तमुवाच तदात्मा वै कामक्रोधविवर्जितम् ।
को भवान्नग्नरूपेण कथं मित्रैर्न लज्जसे ३१।
यत्र लोकाः स्त्रियो वृद्धा युवत्यो मातरस्तथा ।
एतासां हि गतो मध्ये न बिभेषि अनावृतः ३२।
वीतराग उवाच-
को ह्यत्र नग्नो दृश्येत न नग्नोस्मीति वै कदा ।
सुसंबद्धस्त्वमेवापि परिधान समन्वितः ३३।
न नग्नोस्मि कदा दिव्यभवान्नग्नः प्रदृश्यते ।
इंद्रियार्थवशेवर्ती मर्यादापरिवर्जितः ३४।
आत्मोवाच-
पुरुषस्य का हि मर्यादा तामाचक्ष्व च सुव्रत ।
विस्तरेण महाप्राज्ञ यदि जानासि निश्चितम् ३५।
वीतरागो महाप्राज्ञस्तमुवाच महामतिः ।
सुस्थैर्यं भजते चित्तं सुखदुःखेषु नित्यदा ३६।
क्लेशितं सर्वभावैश्च तेषुतेषु परित्यजेत् ।
अथ लज्जां प्रवक्ष्यामि मनो या निर्विशत्यलम् ३७।
मयाद्यैवं न कर्तव्यं नग्नः स्थानविवर्जितः ।
पश्चात्तापे सुसंलीनः सा लज्जा परिकथ्यते ३८।
कस्य लज्जा प्रकर्तव्या द्वितीयो नास्ति सर्वदा ।
एकश्च पुरुषो दिव्यः कस्य किंचिन्न नाशयेत् ३९।
अथ लोकान्प्रवक्ष्यामि ये त्वया परिकीर्तिताः ।
यथा कुलालकश्चक्रे मृत्पिंडं च निधापयेत् ४०।
भ्रामयित्वा तु सूत्रेण नानाभेदान्प्रकाशयेत् ।
भांडानां तु सहस्राणि स्वेच्छया मतिसंस्थितः ४१।
तथायं सृजते धाता नानारूपाणि नान्यथा ।
पश्चाद्विनाशमायांति येनकेनापि हेतुना ४२।
सर्वदैव स्थिता ये च ये लोकाश्च सनातनाः ।
तेषां लज्जा प्रकर्तव्या नावर्तंते हि ते भुवि ४३।
आकाशवायुतेजांसि पृथ्वी चापश्च पंचमः ।
अमी लोकाः प्रकाशंते ये च सर्वत्र संस्थिताः ४४।
सत्त्वानामंगदेशेषु पंचैतेषु सुसंस्थिताः ।
सर्वत्रैव च वर्तंते कस्य लज्जा विधीयते ४५।
स्त्रीणां रूपं प्रवक्ष्यामि श्रूयतां तात सांप्रतम् ।
यथाघटसहस्रेषुसोदकेषुविराजते ४६।
एकश्चंद्रो हि सर्वत्र भवांस्तद्वद्विराजते ।
गतो जंतुसहस्रेषु मोहचक्रे महात्मवान् ४७।
स्थावरेषु च सर्वेषु जंगमेषु तथा भवान् ।
योनिद्वारेण पापेन मायामोहमयेन वै ४८।
कुचाभ्यां च नितंबाभ्यां वयसा च विराजते ।
हृन्मांसस्याधिका वृद्धिर्दृष्टा चात्र न संशयः ४९।
पतनाय च लोकानां मोहरूपं विदर्शितम् ।
नभवत्येव सा नारी या त्वया परिकीर्तिता ५०।
लीलया कुरुते धाता विनोदाय सदात्मनः ।
यथा नार्यास्तथा पुंसो जीवः सर्वत्र संस्थितः ५१।
कुचयोनिविहीना ये जीवन्मुक्ताः सदैव हि ।
नरस्तु पुरुषः प्रोक्तो नारी प्रकृतिरुच्यते ५२।
रमते तेन वै सार्द्धं न मुक्ता हि कदाचन ।
भवान्प्रकृतिसंयुक्तः पुरुषेषु प्रदृश्यते ५३।
कः कस्य कुरुते लज्जामेवं ज्ञात्वा सुखं व्रज ।
वृद्धां स्त्रियं प्रवक्ष्यामि सदावृद्धां वरानने ५४।
त्वचा जर्जरतां याता यस्याप्यंगे वरानने ।
श्वेतैश्चैव तथाकेशैः पलितैश्च समाकुला ५५।
बलहीनाथ दीनापि व्यापिता वलिना तदा ।
नेयं वृद्धा भवेन्नारी परं वृद्धा च कथ्यते ५६।
एतस्या लक्षणं प्रोक्तं युवतीं प्रवदाम्यहम् ।
ज्ञानेन वर्द्धते नित्यं जीवपार्श्वे समाश्रिता ५७।
सुमतिर्नाम संप्रोक्ता सा वृद्धा युवतीति च ।
नारी पुरुषलोकेषु सर्वदैव प्रतिष्ठिता ५८।
लज्जा तस्याः प्रकर्तव्या अन्यच्चैव वदाम्यहम् ।
मातरं वै प्रवक्ष्यामि या त्वया परिकीर्तिता ५९।
प्राणिनामंगदेशेषु सदैव चेतना स्थिता ।
परज्ञानप्रदा या च सा प्रज्ञा परिकथ्यते ६०।
प्रज्ञा माता समाख्याता प्राणिनां पालनाय सा ।
संस्थिता सर्वलोकेषु पोषणाय हिताय वा ६१।
सुमतिर्नाम या प्रोक्ता सा माता परिकथ्यते ।
संसारद्वारमार्गाणि यानि रूपाणि नित्यशः ६२।
भवंति मातरो ह्येता बहुदुःखप्रदर्शिकाः ।
मातृरूपं समाख्यातमन्यत्किं ते वदाम्यहम् ६३।
आत्मोवाच-
भवान्को हि समायातो मम संतापनाशकः ।
विस्तरेण समाख्याहि स्वरूपमात्मनः स्वयम् ६४।
वीतराग उवाच-
यस्मात्कामानि वर्तंते निराशाः सर्व एव ते ।
यं दुष्टत्वान्न पश्यंति कर्माण्येतानि नान्यथा ६५।
यत्समीपं हि नायाति आशा चैव कदाचन ।
क्रोधो लोभस्तथा मोहो यद्भयात्प्रलयं गताः ६६।
वीतरागोस्मि भद्रं ते विवेको मम बांधवः ।
आत्मोवाच-
कीदृशोऽसौ तव भ्राता विवेको नाम नामतः ६७।
तस्य त्वं लक्षणं ब्रूहि भ्रातुरात्मन एव च ।
वीतराग उवाच-
तस्यैव लक्षणं रूपं न वदामि तवाग्रतः ६८।
भ्रातुस्तस्य महाभाग आह्वानं च करोम्यहम् ।
भोभो विवेक मे भ्रातरावयोस्त्वं वचः शृणु ६९।
एह्येहि सुमहाभाग मम स्नेहान्महामते ।
कश्यप उवाच-
शांतिक्षमाभ्यां संयुक्तो भार्याभ्यां च समागतः ७०।
सर्वदृक्सर्वगो व्यापी सर्वतत्त्वपरायणः ।
संदेहानां च सर्वेषां यो रिपुर्ज्ञानवत्सलः ७१।
धारणा धीश्च द्वे पुत्र्यौ तस्यैव हि महात्मनः ।
तस्य योगः सुतो ज्येष्ठो मोक्षो यस्य महागुरुः ७२।
निर्मलो निरहंकारो निराशो निष्परिग्रहः ।
सर्ववेलाप्रसन्नात्मा गतद्वंद्वो महामतिः ७३।
स विवेकः समायातो गुणरत्नैर्विभूषितः ।
यस्यामात्यौ महात्मानौ धर्मसत्यौ महामती ७४।
क्षमाशांतिसमायुक्तः स विवेकः समागतः ।
वीतरागमुवाचेदमाहूतोहं समागतः ७५।
तद्भ्रातः कारणं सर्वं कथ्यतां हि ममाग्रतः ।
यमाश्रित्य त्वयाद्यैव कृतमाह्वानमेव मे ७६।
वीतराग उवाच-
पुमान्स्थितो यः पुरतो महापाशैर्नियंत्रितः ।
मोहस्य बाणैः संभ्रांतः संसारस्य च बंधनैः ७७।
सर्वस्य व्यापकः स्वामी अयमात्मा ममैव च ।
पंचतत्त्वैः समाविष्टो ज्ञानध्यानविवर्जितः ७८।
पृच्छतामेनमात्मानं भवांस्तत्त्वेषु पंडितः ।
वीतरागवचः श्रुत्वा विवेको वाक्यमब्रवीत् ७९।
विवेक उवाच-
सुखेन स्थीयते देव भवता विश्वनायक ।
आगते त्वयि संसारे किं किं भुक्तं सुखं स्वयम् ८०।
आत्मोवाच-
गर्भवासो महद्दुःखमसह्यं दारुणं मया ।
भुक्तमेव महाप्राज्ञ ज्ञानहीनेन वै सदा ८१।
देहेपि ज्ञानविभ्रष्टः सोहं जातो ह्यनेकधा ।
बाल्यावस्थां गतेनाथ कृत्याकृत्यं कृतं मया ८२।
तारुण्येन कृता क्रीडा भुक्ता भार्या ह्यनेकशः ।
वार्धकं प्राप्य संतप्तः पुत्रशोकादिभिस्तथा ८३।
भार्यादीनां वियोगैस्तु दग्धोस्म्यहमहर्निशम् ।
दुःखैरनेकसंवर्णैः संतप्तोस्मि दिनेदिने ८४।
दिवारात्रौ महाप्राज्ञ न विंदामि सुखं क्वचित् ।
एवं दुःखै सुसंतप्तः किं करोमि महामते ८५।
तमुपायं वदस्वैव सुखं विंदामि येन वै ।
अस्मात्संसारजालौघान्मोचयाद्य सुबंधनात् ८६।
विवेक उवाच-
भवाञ्छुद्धोसि निर्द्वन्द्वो ह्यपापोसि जगत्पते ।
एनं गच्छ महात्मानं वीतरागं सुखप्रदम् ८७।
निःसंशयं त्वया दृष्टं नग्नमाचारवर्जितम् ।
सुखप्रदर्शको ह्येष सर्वसंतापनाशकः ८८।
एवमाकर्ण्य शुद्धात्मा वीतरागं गतः पुनः ।
तमुवाच श्वसन्दीनः श्रूयतां वचनं मम ८९।
सुखं विंदामि येनाहं तं मार्गं मम दर्शय ।
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव ९०।
पुनर्गच्छ विवेकं हि सुखवार्ता कृता त्वया ।
सुखमार्गस्य वै वक्ता तव एष भविष्यति ९१।
वीतरागेण पुण्येन प्रेषितो गतवान्प्रभुः ।
तमुवाच महात्मानं विवेकं शुद्धसत्तमम् ९२।
सुखं मे दर्शय त्वं हि वीतरागेण प्रेषितः ।
भवच्छरणमापन्नो रक्ष संसारदारुणात् ९३।
विवेक उवाच-
ज्ञानं गच्छमहाप्राज्ञ स ते सर्वं वदिष्यति ।
आत्मा तथोक्तः संप्राप्तो यत्र ज्ञानं प्रतिष्ठितम् ९४।
भोभो ज्ञान महातेजः सर्वभावप्रदर्शक ।
शरणं त्वामहं प्राप्तः सुखमार्गं प्रदर्शय ९५।
ज्ञानमुवाच-
भृत्योहं तव लोकेश त्वं मां वेत्सि न सुव्रत ।
मया ध्यानेन वै पूर्वं वारितस्त्वं पुनःपुनः ९६।
पंचात्मकानां संगेन आपदं प्राप्तवान्भवान् ।
ध्यानं गच्छ महाप्राज्ञ स ते दाता सुखस्य च ९७।
ज्ञानेन प्रेषितो ह्यात्मा ध्यानमाश्रित्य संस्थितः ।
सुखमत्यंतसिद्धं च ध्यानं मे दर्शयस्व ह ९८।
भवच्छरणमायातं मामेवं परिरक्षय ।
एवं संभाषितं तस्य ध्यानमाकर्ण्य तद्वचः ९९।
समुवाच पुनश्चापि तमात्मानं प्रहृष्टवान् ।
नैव त्याज्योस्म्यहं तात सर्वकर्मसुनिश्चितः १००।
त्वयैव वीतरागेण विवेकेन सदैव हि ।
ध्यानयुक्तो भवस्व त्वमात्मानमवलोकय १०१।
आत्मवांस्त्वं स्थिरो भूत्वा निरातंको विकल्पितः ।
यथा दीपो निवातस्थः कज्जलं वमते स्थिरः १०२।
तथा दोषान्प्रज्वलित्वा निर्वाणं हि प्रयास्यति ।
एकांतस्थो निराहारो मिताशी भव सर्वदा १०३।
निर्द्वंद्वः शब्दसंहीनो निश्चलो ह्यासने स्थितः ।
आत्मानमात्मना ध्यायन्ममैव स्थिरबुद्धिना १०४।
प्राप्स्यसे परमं स्थानं तद्विष्णोः परमं पदम् १०५।
इति श्रीपद्मपुराणे भूमिखंडेऽध्यात्मवर्णनेऽष्टमोऽध्यायः ८।
खण्डः २ (भूमिखण्डः) — Adhyāya 9
नवमोऽध्यायः
कश्यप उवाच-
एवं संबोधितस्तत्र आत्मा ध्यानादिकैस्तदा ।
त्यक्तुकामः स तत्कार्यं पंचात्मकं स बुद्धिमान् १।
निमित्तान्येव पश्यैव प्राप्य तांस्तान्प्रयाति सः ।
विहाय कायं निर्लक्ष्यं पतितं नैव पश्यति २।
सहवर्द्धितयोर्नास्ति संबंधः प्राण देहयोः ।
धनपुत्रकलत्रैश्च संबंधः केन हेतुना ३।
एवं ज्ञात्वा शमं गच्छ क्लैब्यं मा भज सुप्रिये ।
अयमेव परं ब्रह्म अयमेव सनातनः ४।
अयमात्मस्वरूपेण दैत्य देवेषु संस्थितः ।
अयं ब्रह्मा अयं रुद्रो ह्ययं विष्णुः सनातनः ५।
अयं सृजति विश्वानि अयं पालयते प्रजाः ।
संहरत्येष धर्मात्मा धर्मरूपी जनार्दनः ६।
अनेनोत्पादिता देवा दानवाश्चैव सुप्रिय ।
देवाश्चाधर्मनिर्मुक्ता धर्महीनाः सुतास्तव ७।
धर्मोयं माधवस्यांगं सर्वदैवैश्च पालितम् ।
धर्मं च चिंतयेद्देवि धर्मं चैव तु पालयेत् ८।
तस्य विष्णुः स धर्मात्मा सर्वदैव प्रसादवान् ।
धर्मेण वर्तिता देवाः सत्येन तपसा किल ९।
येषां विष्णुः प्रसन्नो वै धर्मस्तैरिह पालितः ।
विष्णोः कायमिदं धर्मं सत्यं हृदयमेव च १०।
यस्तौ पालयते नित्यं तस्य विष्णुः प्रसीदति ।
दूषयेद्यः सत्यधर्मौ पापमेव प्रपालयेत् ११।
तस्य विष्णुः प्रकुप्येत नाशयेदतिवीर्यवान् ।
वैष्णवैः पालितं धर्मं तपः सत्येन संस्थितैः १२।
तेषां प्रसन्नो धर्मात्मा रक्षामेवं करोति च ।
तव पुत्रा दनोः पुत्राः सैंहिकेयास्तथैव च १३।
अधर्मेणापि पापेन वर्तिताः पापचेतसः ।
सूदिता वासुदेवेन समरे चक्रपाणिना १४।
योसावात्मा मयोक्तः पूर्वमेव तवाग्रतः ।
सोयं विष्णुर्न संदेहो धर्मात्मा सर्वपालकः १५।
दैत्यकायेषु यः स्वस्थः पापमेव समास्थितः ।
जघ्निवान्दानवान्देवि स च क्रुद्धो महामतिः १६।
स बाह्याभ्यंतरे भूत्वा तव पुत्रा निपातिताः ।
येन चोत्पादिता देवि तेनैव विनिपातिताः १७।
नैषां मोहस्तु कर्तव्यो भवत्या वचनं शृणु ।
पापेन वर्तते योसौ स एव निधनं व्रजेत् १८।
तस्मान्मोहं परित्यज्य सदाधर्मं समाश्रय ।
दितिरुवाच-
एवमस्तु महाभाग करिष्ये वचनं तव १९।
कश्यपं च मुनिश्रेष्ठमेवमाभाष्य दुःखिता ।
संबोधिता सा मुनिना दुःखं संत्यज्य संस्थिता २०।
इति श्रीपद्मपुराणे भूमिखंडे देवासुरे दितिसंबोधनं नाम नवमोऽध्यायः ९।
खण्डः २ (भूमिखण्डः) — Adhyāya 10
ऋषय ऊचुः-
ततस्ते दानवाः सर्वे हिरण्यकशिपूत्तराः ।
युद्धाद्भग्नास्तु किं कुर्युर्व्यवसायं महामते १।
विस्तरेणापि नो ब्रूहि तेषां वृत्तमनुत्तमम् ।
श्रोतुमिच्छामहे सर्वे त्वत्तो वै सांप्रतं द्विज २।
सूत उवाच-
भग्ना रणात्तु ते सर्वे बलहीनास्तु वै तदा ।
गतदर्पाः सुदुःखार्ता दैत्यास्ते पितरं गताः ३।
भक्त्या प्रणम्य ते सर्वे समूचुः कश्यपं तदा ।
दानवा ऊचुः-
भवद्वीर्यात्समुत्पत्तिरस्माकं द्विजसत्तम ४।
देवतानां महाभाग दानवानां तथैव च ।
वयं च दानवाः सर्वे बलवीर्यपराक्रमाः ५।
उपायज्ञाः सुधीराश्च उद्यमेन समन्विताः ।
वयं तु बहवस्तात देवास्त्वल्पास्तथैव च ६।
कथं जयंति ते सर्वे वयं भग्ना महाहवात् ।
तत्किं वै कारणं तात बलतेजः समन्विताः ७।
मत्तनागसहस्राणामेकैकस्य महामते ।
बलमस्ति च दैत्यस्य नास्ति देवेषु तादृशम् ८।
जयश्च दृश्यते तात देवेष्वेव महाहवे ।
तत्सर्वं कथयस्वैव संशयंछेत्तुमर्हसि ९।
कश्यप उवाच-
शृणुध्वं पुत्रकाः सर्वे जयस्यापि च कारणम् ।
यस्माद्धि देवताः सर्वे समरे जयिनोऽभवन् १०।
वीर्यनिर्वापकस्तातो माताक्षेत्रमिदं सदा ।
धारणे पालने चैव पोषणे च यथैव हि ११।
किं कुर्याद्विषमार्थे तु पिता पुत्रे च वै तथा ।
अत्र प्रधानं कर्मैव मामेवं बुद्धिराश्रिता १२।
द्वैविध्यं कर्मसंबंधं पापपुण्यसमुद्भवम् ।
सत्यमेव समाश्रित्य क्रियते धर्म उत्तमः १३।
तपोध्यानसमायुक्तं तारणाय हि तं सुताः ।
पतनाय पातकं प्रोक्तं सर्वदैव न संशयः १४।
बलेन परिवारेण आभिजात्येन पुत्रकाः ।
पुण्यहीनस्य पुंसो वै तद्बलं विकलायते १५।
उन्नता गिरिदुर्गेषु वृक्षाः संति सुपुत्रकाः ।
पतंति वातवेगेन समूलास्तु घनास्तथा १६।
सत्यधर्मविहीनास्ते तथायांति यमक्षयम् ।
साधारणः प्राणिनां च धर्म एष सुपुत्रकाः १७।
येन संतरते जंतुरिह चैव परत्र च ।
तद्युष्माभिः परित्यक्तं सत्यं धर्मसमन्वितम् १८।
अधर्ममास्थितं पुत्रा युष्माभिः सत्यवर्जितैः ।
सत्यधर्मतपोभ्रष्टाः पतिता दुःखसागरे १९।
देवाश्च सत्यसंपन्नाः श्रेयसा च समन्विताः ।
तपः शांतिदमोपेताः सुपुण्या पापवर्जिताः २०।
यत्र सत्यं च धर्मश्च तपः पुण्यं तथैव च ।
यत्र विष्णुर्हृषीकेशो जयस्तत्र प्रदृश्यते २१।
तेषां सहायः संभूतो वासुदेवः सनातनः ।
तस्माज्जयंति ते देवाः सत्यधर्मसमन्विताः २२।
सहायेन बलेनैव पौरुषेण तथैव च ।
भवंतः किल वै पुत्रास्तपः सत्यविवर्जिताः २३।
यस्य विष्णुः सहायश्च तपश्चैव बलं तथा ।
तस्यैव च जयो दृष्ट इति धर्मविदो विदुः २४।
यूयं धर्मविहीनास्तु तपः सत्यविवर्जिताः ।
ऐंद्रं पदं बलेनैव प्राप्तवंतश्च पूर्वतः २५।
तपो विना महाप्राज्ञा धर्मेण यशसा विना ।
बलदर्पगुणैः पुत्रा न प्राप्यमैन्द्रकं पदम् २६।
प्राप्याप्यैंद्रं पदं पुत्रास्ततो भ्रष्टा भवंति हि ।
तस्माद्यूयं प्रकुर्वंतु तपः पुत्राः समन्विताः २७।
अविरोधेन संयुक्ता ज्ञानध्यानसमन्विताः ।
वैरं चैव न कर्तव्यं केशवेन समं कदा २८।
एवंविधा यदा पुत्रा यूयं धन्या भविष्यथ ।
परां सिद्धिं तदा सर्वे प्रयास्यथ न संशयः २९।
एवं संभाषितास्ते तु कश्यपेन महात्मना ।
समाकर्ण्य पितुर्वाक्यं दानवास्ते महौजसः ३०।
प्रणम्य कश्यपं भक्त्या समुत्थाय त्वरान्विताः ।
सुमंत्रं चक्रिरे दैत्याः परस्परसमाहिताः ३१।
हिरण्यकशिपू राजा तानुवाचाथ दानवान् ।
तपश्चैव करिष्यामो दुष्करं सर्वदायकम् ३२।
हिरण्याक्षस्तदोवाच करिष्ये दारुणं तपः ।
ततो बलेन त्रैलोक्यं ग्रहीष्ये नात्र संशयः ३३।
रणे निर्जित्य गोविंदं तमिमं पापचेतसम् ।
व्यापाद्य देवताः सर्वाः पदमैंद्रं व्रजाम्यहम् ३४।
बलिरुवाच-
एवं न युज्यते कर्तुं युष्माभिर्दितिजेश्वराः ।
विष्णुना सह यद्वैरं तद्वैरं नाशकारणम् ३५।
दानधर्मैस्तथा पुण्यैस्तपोभिर्यज्ञयाजनैः ।
तमाराध्य हृषीकेशं सुखं गच्छंति मानवाः ३६।
हिरण्यकशिपुरुवाच-
अहमेवं न करिष्ये हरेराराधनं कदा ।
स्वभावं तु परित्यज्य शत्रुसेवा प्रचर्यते ३७।
मरणादधिकं तं तु मानयंति हि पंडिताः ।
विष्णोः सेवा न वै कार्या मया चान्यैश्च दानवैः ३८।
तमुवाच महात्मानं बलिः पितामहं पुनः ।
धर्मशास्त्रेषु यद्दृष्टं मुनिभिस्तत्त्ववेदिभिः ३९।
राजनीतियुतं मंत्रं शत्रोश्चैव प्रधानतः ।
हीनमात्मानमाज्ञाय रिपुं तं बलिनं तथा ४०।
तस्य पार्श्वे प्रगत्वैव जयकालं प्रतीक्षयेत् ।
दीपच्छायां समाश्रित्य तमो वसति सर्वदा ४१।
स्नेहं दशागतं प्रेक्ष्य दीपस्यापि महाबलम् ।
प्रकाशं याति वेगेन तमश्च वर्द्धते पुनः ४२।
तथा प्रसादयेच्छन्नः स्नेहं निर्दिश्य तत्त्वतः ।
स्नेहं कृत्वासुरैः सार्द्धं धर्मभावैः सुरद्विषः ४३।
पूर्वमुक्तं सुमंत्रं तु मुनिना कश्यपेन हि ।
तेन मंत्रेण राजेंद्र कुरु कार्यं स्वमात्मवान् ४४।
तस्य तद्वचनं श्रुत्वा प्राह दैत्यः प्रतापवान् ।
पौत्र नैवं करिष्येहं मानभंगं तथात्मनः ४५।
अन्ये च बांधवाः सर्वे तमूचुर्नयपंडितम् ।
बलिनोक्तं च यत्पुण्यं देवतानां प्रियंकरम् ४६।
शक्रमानकरं प्रोक्तं दानवानां भयंकरम् ।
करिष्यामो वयं सर्वे तप एवमनुत्तमम् ४७।
तपसा निर्जित्य देवान्हरिष्यामः स्वकं पदम् ।
एवमामंत्र्य ते सर्वे निराकृत्य बलिं तदा ४८।
विष्णोः सार्द्धं महावैरं हृदि कृत्वा महासुराः ।
तपश्चक्रुस्ततः सर्वे गिरिदुर्गेषु सानुषु ४९।
एवं ते दानवाः सर्वे त्यक्तरागाः सुनिश्चिताः ।
कामक्रोधविहीनाश्च निराहारा जितक्लमाः ५०।
इति श्रीपद्मपुराणे भूमिखंडे दैत्यतपश्चर्यावर्णनंनाम दशमोऽध्यायः १०।
खण्डः २ (भूमिखण्डः) — Adhyāya 11
ऋषय ऊचुः-
सर्वज्ञेन त्वया प्रोक्तं दैत्यदानवसंगरम् ।
इदानीं श्रोतुमिच्छामः सुव्रतस्य महात्मनः १।
कस्य पुत्रो महाप्राज्ञः कस्य गोत्रसमुद्भवः ।
किं तपस्तस्य विप्रस्य कथमाराधितो हरिः २।
सूत उवाच-
कथा प्रज्ञाप्रभावेण पूर्वमेव यथा श्रुता ।
तथा विप्राः प्रवक्ष्यामि सुव्रतस्य महात्मनः ३।
चरितं पावनं दिव्यं वैष्णवं श्रेयआवहम् ।
भवतामग्रतः सर्वं विष्णोश्चैव प्रसादतः ४।
पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशने ।
रेवातीरे सुपुण्ये च तीर्थे वामनसंज्ञके ५।
कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमः ।
स तु पुत्रविहीनस्तु बहुदुःखसमन्वितः ६।
दारिद्रेण स दुःखेन सर्वदैवप्रपीडितः ।
पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत् ७।
एकदा तु प्रिया तस्य सुमना नाम सुव्रता ।
भर्तारं चिंतयोपेतमधोमुखमलक्षयत् ८।
समालोक्य तदा कांतं तमुवाच तपस्विनी ।
दुःखजालैरसंख्यैस्तु तव चित्तं प्रधर्षितम् ९।
व्यामोहेन प्रमूढोसि त्यज चिंतां महामते ।
मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज १०।
नास्ति चिंतासमं दुःखं कायशोषणमेव हि ।
यश्चिंतां त्यज्य वर्तेत स सुखेन प्रमोदते ११।
चिंतायाः कारणं विप्र कथयस्व ममाग्रतः ।
प्रियावाक्यं समाकर्ण्य सोमशर्माब्रवीत्प्रियाम् १२।
सोमशर्मोवाच-।
इच्छया चिंतितं भद्रे चिंता दुःखस्य कारणम् ।
तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् १३।
न जाने केन पापेन धनहीनोस्मि सुव्रते ।
तथा पुत्रविहीनश्च एतद्दुःखस्य कारणम् १४।
सुमनोवाच-
श्रूयतामभिधास्यामि सर्वसंदेहनाशनम् ।
स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् १५।
लोभः पापस्य बीजं हि मोहो मूलं च तस्य हि ।
असत्यं तस्य वै स्कंधो माया शाखा सुविस्तरा १६ ।
दंभकौटिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा ।
अनृतं तस्य सौगंधं फलमज्ञानमेव च १७।
छद्मपाखंडशौर्येर्ष्याः क्रूराः कूटाश्च पापिनः ।
पक्षिणो मोहवृक्षस्य मायाशाखा समाश्रिताः १८।
अज्ञानं सुफलं तस्य रसोऽधर्मः फलस्य हि ।
तृष्णोदकेन संवृद्धाऽश्रद्धा तस्य द्रवः प्रिय १९।
अधर्मः सुरसस्तस्य उत्कटो मधुरायते ।
यादृशैश्च फलैश्चैव सुफलो लोभपादपः २०।
अस्यच्छायां समाश्रित्य यो नरः परितुष्यते ।
फलानि तस्य चाश्नाति सुपक्वानि दिनेदिने २१।
फलानां तु रसेनापि अधर्मेण तु पालितः ।
स संतुष्टो भवेन्मर्त्यः पतनायाभिगच्छति २२।
तस्माच्चिंतां परित्यज्य पुमाँल्लोभं न कारयेत् ।
धनपुत्रकलत्राणां चिंतामेकां न कारयेत् २३।
यो हि विद्वान्भवेत्कांत मूर्खाणां पथमेति हि ।
मूर्खश्चिंतयते नित्यं कथमर्थं ममैव हि २४।
सुभार्यामिह विंदामि कथं पुत्रानहं लभे ।
एवं चिंतयते नित्यं दिवारात्रौ विमोहितः २५।
क्षणमेकं प्रपश्येत चिंतामध्ये महत्सुखम् ।
पुनश्चैतन्यमायाति महादुःखेन पीड्यते २६।
चिंतामोहौ परित्यज्य अनुवर्तस्व च द्विज ।
संसारे नास्ति संबंधः केन सार्धं महामते १७।
मित्राश्च बांधवाः पुत्राः पितृमातृसभृत्यकाः ।
संबंधिनो भवंत्येव कलत्राणि तथैव च २८।
सोमशर्मोवाच-
संबंधः कीदृशो भद्रे तथा विस्तरतो वद ।
येन संबंधिनः सर्वे धनपुत्रादिबांधवाः २९।
सुमनोवाच-
ऋणसंबंधिनः केचित्केचिन्न्यासापहारकाः ।
लाभप्रदा भवंत्येके उदासीनास्तथापरे ३०।
भेदैश्चतुर्भिर्जायंते पुत्रमित्रस्त्रियस्तथा ।
भार्या पिता च माता च भृत्याः स्वजनबांधवाः ३१।
स्वेनस्वेन हि जायंते संबंधेन महीतले ।
न्यासापहारभावेन यस्य येन कृतं भुवि ३२।
न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि ।
येनैवापह्रतं न्यासं तस्य गेहे न संशयः ३३।
न्यासापहरणाद्दुःखं स दत्वा दारुणं गतः ।
न्यासस्वामी सुपुत्रोभून्न्यासापहारकस्य च ३४।
गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः ।
भक्तिं तु दर्शयंस्तस्य पुत्रो भूत्वा दिनेदिने ३५।
प्रियवाङ्मधुरो रोगी बहुस्नेहं विदर्शयन् ।
स्वीयं द्रव्यं समुद्गृह्य प्रीतिमुत्पाद्य चोत्तमाम् ३६।
यथा येन प्रदत्तं स्यान्न्यासस्य हरणात्पुरा ।
दुःखमेव महाभाग दारुणं प्राणनाशनम् ३७।
तादृशं तस्य सौहृद्यात्पुत्रो भूत्वा महागुणैः ।
अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति ३८।
दुःखं दत्वा प्रयात्येवं भूत्वाभूत्वा पुनःपुनः ।
यदा हा पुत्रपुत्रेति प्रलापं हि करोति सः ३९।
तदा हास्यं करोत्येव कस्य पुत्रो हि कः पिता ।
अनेनापहृतं न्यासं मदीयस्योपकारणम् ४०।
द्रव्यापहरणेनापि न मे प्राणा गताः किल ।
दुःखेन महता चैव असह्येन च वै पुरा ४१।
तथा दुःखं प्रदत्वाहं द्रव्यमुद्गृह्य चोत्तमम् ।
गंतास्मि सुभृशं चाद्य कस्याहं सुत ईदृशः ४२।
न चैष मे पिता पुत्रः पूर्वमेव न कस्यचित् ।
पिशाचत्वं मया दत्तमस्यैवेति दुरात्मनः ४३।
एवमुक्त्वा प्रयात्येवं तं प्रहस्य पुनःपुनः ।
प्रयात्यनेन मार्गेण दुःखं दत्वा सुदारुणम् ४४।
एवं न्यासं समुद्धर्तुः पुत्राः कांत भवंति वै ।
संसारे दुःखबहुला दृश्यंते यत्रतत्र च ४५।
ऋणसंबंधिनः पुत्रान्प्रवक्ष्यामि तवाग्रतः ४६।
इति श्रीपद्मपुराणे भूमिखंडे सुव्रतोपाख्याने एकादशोऽध्यायः ११।
खण्डः २ (भूमिखण्डः) — Adhyāya 12
सुमनोवाच-
ऋणसंबंधिनं पुत्रं प्रवक्ष्यामि तवाग्रतः ।
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल १।
अर्थदाता सुतो भूत्वा भ्राता चाथ पिता प्रिया ।
मित्ररूपेण वर्त्तेत अतिदुष्टः सदैव सः २।
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः ।
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ३।
मिष्टंमिष्टं समश्नाति भोगान्भुंजति नित्यशः ।
द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ४।
गृहद्रव्यं बलाद्भुंक्ते वार्यमाणः स कुप्यति ।
पितरं मातरं चैव कुत्सते च दिनेदिने ५।
द्रावकस्त्रासकश्चैव बहुनिष्ठुरजल्पकः ।
एवं भुक्त्वाथ तद्द्रव्यं सुखेन परितिष्ठति ६।
जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णाति दारुणः ।
पुनर्विवाहसंबंधान्नानाभेदैरनेकधा ७।
एवं संजायते द्रव्यमेवमेतद्ददात्यपि ।
गृहक्षेत्रादिकं सर्वं ममैव हि न संशयः ८।
पितरं मातरं चैव हिनस्त्येव दिनेदिने ।
सुखंडैर्मुशलैश्चैव सर्वघातैः सुदारुणैः ९।
मृते तु तस्मिन्पितरि मातर्येवातिनिष्ठुरः ।
निःस्नेहो निष्ठुरश्चश्चैव जायते नात्र संशयः १०।
श्राद्धकर्माणि दानानि न करोति कदैव सः ।
एवंविधाश्च वै पुत्राः प्रभवंति महीतले ११।
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजपुंगव ।
बाल्ये वयसि संप्राप्ते रिपुत्वे वर्तते सदा १२।
पितरं मातरं चैव क्रीडमानो हि ताडयेत् ।
ताडयित्वा प्रयात्येव प्रहस्यैव पुनःपुनः १३।
पुनरायाति संत्रस्तः पितरं मातरं प्रति ।
सक्रोधो वर्तते नित्यं कुत्सते च पुनःपुनः १४।
एवं संवर्तते नित्यं वैरकर्मणि सर्वदा ।
पितरं मारयित्वा च मातरं च ततः पुनः १५।
प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः ।
अथातः संप्रवक्ष्यामि यस्माल्लभ्यं भवेत्प्रियम् १६।
जातमात्रः प्रियं कुर्याद्बाल्ये लालनक्रीडनैः ।
वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनन्तरम् १७।
भक्त्या संतोषयेन्नित्यं तावुभौ परितोषयेत् ।
स्नेहेन वचसा चैव प्रियसंभाषणेन च १८।
मृते गुरौ समाज्ञाय स्नेहेन रुदते पुनः ।
श्राद्धकर्माणि सर्वाणि पिंडदानादिकां क्रियाम् १९।
करोत्येव सुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति ।
ऋणत्रयान्वितः स्नेहाद्भुंजापयति नित्यशः २०।
यस्माल्लभ्यं भवेत्कांत प्रयच्छति न संशयः ।
पुत्रो भूत्वा महाप्राज्ञ अनेन विधिना किल २१।
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय सांप्रतम् ।
उदासीनेन भावेन सदैव परिवर्तते २२।
ददाति नैव गृह्णाति न च कुप्यति तुष्यति ।
नो वा ददाति संत्यज्य उदासीनो द्विजोत्तम २३।
तवाग्रे कथितं सर्वं पुत्राणां गतिरीदृशी ।
यथा पुत्रस्तथा भार्या पिता माताथ बांधवाः २४।
भृत्याश्चान्ये समाख्याताः पशवस्तुरगास्तथा ।
गजा महिष्यो दासाश्च ऋणसंबंधिनस्त्वमी २५।
गृहीतं न ऋणं तेन आवाभ्यां तु न कस्यचित् ।
न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि २६।
धारयावो न कस्यापि ऋणं कांत शृणुष्वहि ।
न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् २७।
आवाभ्यां हि न विप्रेंद्र न त्यक्तं हि तथापते ।
एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थकीम् २८।
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः ।
हृतं न चैव कस्यापि नैव दत्तं त्वया पुनः २९।
कथं हि धनमायाति विस्मयं व्रज माधव ।
प्राप्तव्यमेव यत्रैव भवेद्द्रव्यं द्विजोत्तम ३०।
अनायासेन हस्ते हि तस्यैव परिजायते ।
यत्नेन महता चैव द्रव्यं रक्षति मानवः ३१।
व्रजमानो व्रजत्येव धनं तत्रैव तिष्ठति ।
एवं ज्ञात्वा शमं गच्छ जहि चिंतामनर्थकीम् ३२।
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः ।
कः कस्य नास्ति संसारे असंबंधाद्द्विजोत्तम ३३।
महामोहेन संमूढा मानवाः पापचेतसः ।
इदं गृहमयं पुत्र इमा नार्यो ममैव हि ३४।
अनृतं दृश्यते कांत संसारस्य हि बंधनम् ।
एवं संबोधितो देव्या भार्यया प्रियया तदा ३५।
पुनः प्राह प्रियां भार्यां सुमनां ज्ञानवादिनीम् ।
सोमशर्मोवाच-
सत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम् ३६।
तथापि वंशमिच्छंति साधवः सत्यपंडिताः ।
यथा पुत्रस्य मे चिंता धनस्य च तथा प्रिये ३७।
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम् ।
सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् ३८।
सत्पुत्रेण महाभाग पिता माता च जंतवः ।
एकः पुत्रो वरो विद्वान्बहुभिर्निर्गुणैस्तु किम् ३९।
एकस्तारयते वंशमन्ये संतापकारकाः ।
पूर्वमेव मया प्रोक्तमन्ये संबंधगामिनः ४०।
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम् ।
सुगर्भः प्राप्यते पुण्यैस्तस्मात्पुण्यं समाचर ४१।
जातस्य मृतिरेवास्ति जन्म एव मृतस्य च ।
सुजन्म प्राप्यते पुण्यैर्मरणं तु तथैव च ४२।
सुखं धनचयः कांत भुज्यते पुण्यकर्मभिः ।
सोमशर्मोवाच-
पुण्यस्याचरणं ब्रूहि तथा जन्मान्यपि प्रिये ४३।
सुपुण्यः कीदृशो भद्रे वद पुण्यस्य लक्षणम् ।
सुमनोवाच-
आदौ पुण्यं प्रवक्ष्यामि यथा पुण्यं श्रुतं मया ४४।
पुरुषो वाथवा नारी यथा नित्यं च वर्तते ।
यथा पुण्यैः समाप्नोति कीर्तिं पुत्रान्प्रियान्धनम् ४५।
पुण्यस्य लक्षणं कांत सर्वमेव वदाम्यहम् ।
ब्रह्मचर्येण सत्येन मखपंचकवर्तनैः ४६।
दानेन नियमैश्चापि क्षमाशौचेन वल्लभ ।
अहिंसया सुशक्त्या च अस्तेयेनापि वर्तनैः ४७।
एतैर्दशभिरंगैस्तु धर्ममेवं प्रपूरयेत् ।
संपूर्णो जायते धर्मो ग्रासैर्भोगो यथोदरे ४८।
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा ।
तस्य धर्मः प्रसन्नात्मा पुण्यमेवं तु प्रापयेत् ४९।
यं यं चिंतयते प्राज्ञस्तं तं प्राप्नोति दुर्लभम् ।
सोमशर्मोवाच-
कीदृङ्मूर्तिस्तु धर्मस्य कान्यंगानि च भामिनि ५०।
प्रीत्या कथय मे कांते श्रोतुं श्रद्धा प्रवर्तते ।
सुमनोवाच-
लोके धर्मस्य वै मूर्तिः कैर्दृष्टा न द्विजोत्तम ५१।
अदृश्यवर्त्मा सत्यात्मा न दृष्टो देवदानवैः ।
अत्रिवंशे समुत्पन्नो अनसूयात्मजो द्विजः ५२।
तेन दृष्टो महाधर्मो दत्तात्रेयेण वै सदा ।
द्वावेतौ तु महात्मानौ कुर्वाणौ तप उत्तमम् ५३।
धर्मेण वर्तमानौ तौ तपसा च बलेन च ।
इंद्राधिकेन रूपेण प्रशस्तेन भविष्यतः ५४।
दशवर्षसहस्रं तौ यावत्तु वनसंस्थितौ ।
वायुभक्षौ निराहारौ संजातौ शुभदर्शनौ ५५।
दशवर्षसहस्रं तु तावत्कालं तपोर्जितम् ।
सुसाध्यमानयोश्चैव तत्र धर्मः प्रदृश्यते ५६।
पंचाग्निः साध्यते द्वाभ्यां तावत्कालं द्विजोत्तम ।
त्रिकालं साधितं तावन्निराहारं कृतं तथा ५७।
जलमध्ये स्थितौ तावद्दत्तात्रेयो यतिस्तथा ।
दुर्वासास्तु मुनिश्रेष्ठस्तपसा चैव कर्षितः ५८।
धर्मं प्रति स धर्मात्मा चुक्रोध मुनिपुंगवः ।
क्रुद्धे सति महाभाग तस्मिन्मुनिवरे तदा ५९।
अथ धर्मः समायातः स्वरूपेण च वै तदा ।
ब्रह्मचर्यादिभिर्युक्तस्तपोभिश्च स बुद्धिमान् ६०।
सत्यं ब्राह्मणरूपेण ब्रह्मचर्यं तथैव च ।
तपस्तु द्विजवर्योस्ति दमः प्राज्ञो द्विजोत्तमः ६१।
नियमस्तु महाप्राज्ञो दानमेव तथैव च ।
अग्निहोत्रिस्वरूपेण ह्यात्रेयं हि समागताः ६२।
क्षमा शांतिस्तथा लज्जा चाहिंसा च ह्यकल्पना ।
एताः सर्वाः समायाताः स्त्रीरूपास्तु द्विजोत्तम ६३।
बुद्धिः प्रज्ञा दया श्रद्धा मेधा सत्कृति शांतयः ।
पंचयज्ञास्तथा पुण्याः सांगा वेदास्तु ते तदा ६४।
स्वस्वरूपधराश्चैव ते सर्वे सिद्धिमागताः ।
अग्न्याधानादयः पुण्या अश्वमेधादयस्तथा ६५।
रूपलावण्यसंयुक्ताः सर्वाभरणभूषिताः ।
दिव्यमाल्यांबरधरा दिव्यगंधानुलेपनाः ६६।
किरीटकुंडलोपेता दिव्याभरणभूषिताः ।
दीप्तिमंतः सुरूपास्ते तेजोज्वालाभिरावृताः ६७।
एवं धर्मः समायातः परिवारसमन्वितः ।
यत्र तिष्ठति दुर्वासाः क्रोधनः कालवत्तथा ६८।
धर्म उवाच-
कस्मात्कोपः कृतो विप्र भवांस्तपस्समन्वितः ।
क्रोधो हि नाशयेच्छ्रेयस्तप एव न संशयः ६९।
सर्वनाशकरस्तस्मात्क्रोधं तत्र विवर्जयेत् ।
स्वस्थो भव द्विजश्रेष्ठ उत्कृष्टं तपसः फलम् ७०।
दुर्वासा उवाच-
भवान्को हि समायात एतैर्द्विजवरैः सह ।
सप्त नार्यः प्रतिष्ठंति सुरूपाः समलंकृताः ७१।
कथयस्व ममाग्रे त्वं विस्तरेण महामते ।
धर्म उवाच-
अयं ब्राह्मणरूपेण सर्वतेजः समन्वितः ७२।
दंडहस्तः सुप्रसन्नः कमंडलुधरस्तथा ।
तवाग्रे ब्रह्मचर्योयं सोयं पश्य समागतः ७३।
अन्यं पश्यस्व वै त्वं च दीप्तिमंतं द्विजोत्तम ।
कपिलं पिंगलाक्षं च सत्यमेनं द्विजोत्तम ७४।
तादृशं पश्य धर्मात्मन्वैश्वदेवसमप्रभम् ।
यत्तपो हि त्वया विप्र सर्वदेवसमाश्रितम् ७५।
एतं पश्य महाभाग तव पार्श्वसमागतम् ।
प्रसन्नवाग्दीप्तियुक्तः सर्वजीवदयापरः ७६।
दम एव तथायं ते यः पोषयति सर्वदा ।
जटिलः कर्कशः पिंगो ह्यतितीव्रो महाप्रभुः ७७।
नाशको हि स पापानां खड्गहस्तो द्विजोत्तम ।
अभिशांतो महापुण्यो नित्यक्रियासमन्वितः ७८।
नियमस्तु समायातस्तव पार्श्वे द्विजोत्तम ।
अनिर्मुक्तो महादीप्तः शुद्धस्फटिकसन्निभः ७९।
पयःकमंडलुकरो दंतकाष्ठधरो द्विजः ।
शौच एष समायातो भवतः सन्निधाविह ८०।
अतिसाध्वी महाभागा सत्यभूषणभूषिता ।
सर्वभूषणशोभांगी शुश्रूषेयं समागता ८१।
अतिधीरा प्रसन्नांगी गौरी प्रहसितानना ।
पद्महस्ता इयं धात्री पद्मनेत्रा सुपद्मिनी ८२।
दिव्यैराभरणैर्युक्ता क्षमा प्राप्ता द्विजोत्तम ।
अतिशांता सुप्रतिष्ठा बहुमंगलसंयुता ८३।
दिव्यरत्नकृता शोभा दिव्याभरणभूषिता ।
तव शांतिर्महाप्राज्ञ ज्ञानरूपा समागता ८४।
परोपकारकरणा बहुसत्यसमाकुला ।
मितभाषा सदैवासौ अकल्पा ते समागता ८५।
प्रसन्ना सा क्षमायुक्ता सर्वाभरणभूषिता ।
पद्मासना सुरूपा सा श्यामवर्णा यशस्विनी ८६।
अहिंसेयं महाभागा भवंतं तु समागता ।
तप्तकांचनवर्णांगी रक्तांबरविलासिनी ८७।
सुप्रसन्ना सुमंत्रा च यत्र तत्र न पश्यति ।
ज्ञानभावसमाक्रांता पुण्यहस्ता तपस्विनी ८८।
मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी ।
इयं श्रद्धा महाभाग पश्य पश्य समागता ८९।
बहुबुद्धिसमाक्रांता बहुज्ञानसमाकुला ।
सुभोगासक्तरूपा सा सुस्थिता चारुमंगला ९०।
सर्वेष्टध्यानसंयुक्ता लोकमाता यशस्विनी ।
सर्वाभरणशोभाढ्या पीनश्रोणि पयोधरा ९१।
गौरवर्णा समायाता माल्यवस्त्रविभूषिता ।
इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता ९२।
हंसचंद्रप्रतीकाशा मुक्ताहारविलंबिनी ।
सर्वाभरणसंभूषा सुप्रसन्ना मनस्विनी ९३।
श्वेतवस्त्रेण संवीता शतपत्रं शयेकृतम् ।
पुस्तककरा पंकजस्था राजमाना सदैव हि ९४।
एषा प्रज्ञा महाभाग भाग्यवंतं समागता ।
लाक्षारससमावर्णा सुप्रसन्ना सदैव हि ९५।
पीतपुष्पकृतामाला हारकेयूरभूषणा ।
मुद्रिका कंकणोपेता कर्णकुंडलमंडिता ९६।
पीतेन वाससा देवी सदैव परिराजते ।
त्रैलोक्यस्योपकाराय पोषणायाद्वितीयका ९७।
यस्याः शीलं द्विजश्रेष्ठ सदैव परिकीर्तितम् ।
सेयं दया सु संप्राप्ता तव पार्श्वे द्विजोत्तम ९८।
इयं वृद्धा महाप्राज्ञ भावभार्या तपस्विनी ।
मम माता द्विजश्रेष्ठ धर्मोहं तव सुव्रत ९९।
इति ज्ञात्वा शमं गच्छ मामेवं परिपालय ।
दुर्वासा उवाच-
यदि धर्मः समायातो मत्समीपं तु सांप्रतम् १००।
एतन्मे कारणं ब्रूहि किं ते धर्म करोम्यहम् ।
धर्म उवाच-
कस्मात्क्रुद्धोसि विप्रेन्द्र किमेतैर्विप्रियं कृतम् १०१।
तन्मे त्वं कारणं ब्रूहि दुर्वासो यदि मन्यसे ।
दुर्वासा उवाच-
येनाहं कुपितो देव तदिदं कारणं शृणु १०२।
दमशौचैः सुसंक्लेशैः शोधितं कायमात्मनः ।
लक्षवर्षप्रमाणं वै तपश्चर्या मया कृता १०३।
एवं पश्यसि मामेवं दया तेन प्रवर्तते ।
तस्मात्क्रुद्धोस्मि तेद्यैव शापमेवं ददाम्यहम् १०४।
एवं श्रुत्वा तदा तस्य तमुवाच महामतिः ।
धर्म उवाच-
मयि नष्टे महाप्राज्ञ लोको नाशं समेष्यति १०५।
दुःखमूलमहं तात निकर्शामि भृशं द्विज ।
सौख्यं पश्चादहं दद्मि यदि सत्यं न मुंचति १०६।
पापोयं सुखमूलस्तु पुण्यं दुःखेन लभ्यते ।
पुण्यमेवं प्रकुर्वाणः प्राणी प्राणान्विमुंचति १०७।
महत्सौख्यं ददाम्येवं परत्र च न संशयः ।
दुर्वासा उवाच-
सुखं येनाप्यते तेन परं दुःखं प्रपद्यते १०८।
तत्तु मर्त्यः परित्यज्य अन्येनापि प्रभुज्यते ।
तत्सुखं को विजानाति निश्चयं नैव पश्यति १०९।
तच्छ्रेयो नैव पश्यामि अन्याय्यं हि कृतं तव ।
येन कायेन क्रियते भुज्यते नैव तत्सुखम् ११०।
अन्येन क्रियते क्लेशमन्येनापि प्रभुज्यते ।
तत्सुखं को विजानाति चान्यायं धर्ममेव वा १११।
अन्येन क्रियते क्लेशमन्येनापि सुखं पुनः ।
भुनक्ति पुरुषो धर्म तत्सर्वं श्रेयसा युतम् ११२।
पुण्यं चैव अनेनापि अनेन फलमश्नुते ।
क्रियमाणं पुनः पुण्यमन्येन परिभुज्यते ११३।
तत्सर्वं हि सुखं प्रोक्तं यत्तथा यस्य लक्षणम् ।
धर्मशास्त्रोदितं चैव कृतं सर्वत्र नान्यथा ११४।
येन कायेन कुर्वंति तेन दुःखं सहन्ति ते ।
परत्र तेन भुंजंति अनेनापि तथैव च ११५।
इति ज्ञात्वा स धर्मात्मा भवान्समवलोकयेत् ।
यथा चौरा महापापाः स्वकायेन सहंति ते ११६।
दुःखेन दारुणं तीव्रं तथा सुखं कथं नहि ।
धर्म उवाच-
येन कायेन पापाश्च संचरन्ति हि पातकम् ११७।
तेन पीडां सहंत्येव पातकस्य हि तत्फलम् ।
दंडमेकं परं दृष्टं धर्मशास्त्रेषु पंडितैः ११८।
तं धर्मपूर्वकं विद्धि एतैर्न्यायैस्त्वमेव हि ।
दुर्वासा उवाच-
एवं न्यायं न मन्येहं तथैव शृणु धर्मराट् ११९।
शापत्रयं प्रदास्यामि क्रुद्धोहं तव नान्यथा ।
धर्म उवाच-
यदा क्रुद्धो महाप्राज्ञ मामेव हि क्षमस्व च १२०।
नैव क्षमसि विप्रेंद्र दासीपुत्रं हि मां कुरु ।
राजानं तु प्रकर्तव्यं चांडालं च महामुने १२१।
प्रसादसुमुखो विप्र प्रणतस्य सदैव हि ।
दुर्वासाश्च ततः क्रुद्धो धर्मं चैव शशाप ह १२२।
दुर्वासा उवाच-।
राजा भव त्वं धर्माद्य दासीपुत्रश्च नान्यथा ।
गच्छ चांडालयोनिं च धर्म त्वं स्वेच्छया व्रज १२३।
एवं शापत्रयं दत्त्वा गतोसौ द्विजसत्तमः ।
अनेनापि प्रसंगेन दृष्टो धर्मः पुरा किल १२४।
सोमशर्मोवाच-।
धर्मस्तु कीदृशो जातस्तेन शप्तो महात्मना ।
तद्रूपं तस्य मे ब्रूहि यदि जानासि भामिनि १२५।
सुमनोवाच-।
भरतानां कुले जातो धर्मो भूत्वा युधिष्ठिरः ।
विदुरो दासीपुत्रस्तु अन्यं चैव वदाम्यहम् १२६।
यदा राजा हरिश्चंद्रो विश्वामित्रेण कर्षितः ।
तदा चांडालतां प्राप्तः स हि धर्मो महामतिः १२७।
एवं कर्मफलं भुक्तं धर्मेणापि महात्मना ।
दुर्वाससो हि शापाद्वै सत्यमुक्तं तवाग्रतः १२८।
इति श्रीपद्मपुराणे भूमिखंडे सोमशर्माख्याने सोमशर्म-सुमनासंवादे द्वादशोऽध्यायः १२।
खण्डः २ (भूमिखण्डः) — Adhyāya 13
सोमशर्मोवाच-
लक्षणं ब्रह्मचर्यस्य तन्मे विस्तरतो वद ।
कीदृशं ब्रह्मचर्यं च यदि जानासि भामिनि १।
नित्यं सत्ये रतिर्यस्य पुण्यात्मा तुष्टितां व्रजेत् ।
ऋतौ प्राप्ते व्रजेन्नारीं स्वीयां दोषविवर्जितः २।
स्वकुलस्य सदाचारं कदानैव विमुंचति ।
एतदेव समाख्यातं गृहस्थस्य द्विजोत्तम ३।
ब्रह्मचर्यं मया प्रोक्तं गृहिणामुत्तमं किल ।
यतीनां तु प्रवक्ष्यामि तन्मे निगदतः शृणु ४।
दमसत्यसमायुक्तः पापाद्भीतस्तु सर्वदा ।
भार्यासंगं वर्जयित्वा ध्यानज्ञानप्रतिष्ठितः ५।
यतीनां ब्रह्मचर्यं च समाख्यातं तवाग्रतः ।
तप एव प्रवक्ष्यामि तन्मेनिगदतः शृणु ६।
आचारेण प्रवर्तेत कामक्रोधविवर्जितः ।
प्राणिनामुपकाराय संस्थितउद्यमावृतः ७।
तप एवं समाख्यातं सत्यमेवं वदाम्यहम् ।
परद्रव्येष्वलोलुप्त्वं परस्त्रीषु तथैव च ८।
दृष्ट्वा मतिर्न यस्य स्यात्स सत्यः परिकीर्तितः ।
दानमेव प्रवक्ष्यामि येन जीवंति मानवाः ९।
आत्मसौख्यं प्रतीच्छेद्यः स इहैव परत्र वा ।
अन्नस्यापि महादानं सुखस्यैव ध्रुवस्य वा १०।
ग्रासमात्रं तथा देयं क्षुधार्ताय न संशयः ।
दत्ते सति महत्पुण्यममृतं सोश्नुते सदा ११।
दिनेदिने प्रदातव्यं यथाविभवसंभवम् ।
तृणं शय्यां च वचनं गृहच्छायां सुशीतलाम् १२।
भूमिमापस्तथा चान्नं प्रियवाक्यमनुत्तमम् ।
आसनं वचनालापं कौटिल्येन विवर्जितम् १३।
आत्मनो जीवनार्थाय नित्यमेव करोति यः ।
देवान्पितॄन्समभ्यर्च्य एवं दानं ददाति यः १४।
इहैव मोदते सो वै परत्र हि तथैव च ।
अवंध्यं दिवसं यो वै दानाध्ययनकर्मभिः १५।
प्रकुर्यान्मानुषो भूत्वा स देवो नात्र संशयः ।
नियमं च प्रवक्ष्यामि धर्मसाधनमुत्तमम् १६।
देवानां ब्राह्मणानां च पूजास्वभिरतो हि यः ।
नित्यं नियमसंयुक्तो दानव्रतेषु सुव्रत १७।
उपकारेषु पुण्येषु नियमोऽयं प्रकीर्तितः ।
क्षमारूपं प्रवक्ष्यामि श्रूयतां द्विजसत्तम १८।
पराक्रोशं हि संश्रुत्य ताडिते सति केनचित् ।
क्रोधं न चैव गच्छेत्तु ताडितो न हि ताडयेत् १९।
सहिष्णुः स्यात्स धर्मात्मा नहि रागं प्रयाति च ।
समश्नाति परं सौख्यमिह चामुत्र वापि च २०।
एवं क्षमा समाख्याता शौचमेवं वदाम्यहम् ।
सबाह्याभ्यंतरे यो वै शुद्धो रागविवर्जितः २१।
स्नानाचमनकैरेव व्यवहारेण वर्तते ।
शौचमेवं समाख्यातमहिंसां तु वदाम्यहम् २२।
तृणमपि विना कार्यञ्छेत्तव्यं न विजानता ।
अहिंसानिरतो भूयाद्यथात्मनि तथापरे २३।
शांतिमेव प्रक्ष्यामि शांत्या सुखं समश्नुते ।
शांतिरेव प्रकर्तव्या क्लेशान्नैव परित्यजेत् २४।
भूतवैरं विसृज्यैव मन एवं प्रकारयेत् ।
एवं शांतिः समाख्याता अस्तेयं तु वदाम्यहम् २५।
परस्वं नैव हर्तव्यं परजाया तथैव च ।
मनोभिर्वचनैः कायैर्मन एवं प्रकारयेत् २६।
दममेव प्रवक्ष्यामि तवाग्रे द्विजसत्तम ।
दमनादिंद्रियाणां वै मनसोपि विकारिणः २७।
औद्धत्यं नाशयेत्तेषां स चैतन्यो वशी तदा ।
शुश्रूषां तु प्रवक्ष्यामि धर्मशास्त्रेषु यादृशी २८।
पूर्वाचार्यैर्यथा प्रोक्ता तामेवं प्रवदाम्यहम् ।
वाचा देहेन मनसा गुरुकार्यं प्रसाधयेत् २९।
जायतेऽनुग्रहो यत्र शुश्रूषा सा निगद्यते ।
सांगो धर्मः समाख्यातस्तवाग्रे द्विजसत्तम ३०।
अन्यच्च ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पते ।
ईदृशे चापि धर्मे तु वर्तते यो नरः सदा ३१।
संसारे तस्य संभूतिः पुनरेव न जायते ।
स्वर्गं गच्छति धर्मेण सत्यंसत्यं वदाम्यहम् ३२।
एवं ज्ञात्वा महाप्राज्ञ धर्ममेव व्रजस्व हि ।
सर्वं हि प्राप्यते कांत यदसाध्यं महीतले ३३।
धर्मप्रसादतस्तस्मात्कुरु वाक्यं ममैव हि ।
भार्यायास्तुवचः श्रुत्वा सोमशर्मा सुबुद्धिमान् ३४।
पुनः प्रोवाच तां भार्यां सुमनां धर्मवादिनीम् ३५।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने त्रयोदशोऽध्यायः १३।
खण्डः २ (भूमिखण्डः) — Adhyāya 14
सोमशर्मोवाच-
एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमम् ।
कथं जानासि भद्रे त्वं कस्माच्चैव त्वया श्रुतम् १।
सुमनोवाच-।
भार्गवाणां कुले जातः पिता मम महामते ।
च्यवनो नाम विख्यातः सर्वज्ञानविशारदः २।
तस्याहं प्रिय कन्या वै प्राणादपि च वल्लभा ।
यत्रयत्र व्रजत्येष तीर्थारामेषु सुव्रत ३।
सभासु च मुनीनां तु देवतायतनेषु च ।
तेन सार्द्धं व्रजाम्येका क्रीडमाना सदैव हि ४।
कौशिकान्वयसंभूतो वेदशर्मा महामतिः ।
पितुर्मम सखा दैवादटमानः समागतः ५।
दुःखेन महताविष्टश्चिंतयानो मुहुर्मुहुः ।
समागतं महात्मानं तमुवाच पिता मम ६।
भवंतं दुःखसंतप्तमिति जानामि सुव्रत ।
कस्माद्दुःखी भवाञ्जातस्तस्मात्त्वं कारणं वद ७।
एतद्वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः ।
तमुवाच महात्मानं पितरं मम सुव्रतः ८।
वेदशर्मा महाप्राज्ञ सर्वदुःखस्य कारणम् ।
मम भार्या महासाध्वी पातिव्रत्यपरायणा ९।
अपुत्रा सा हि संजाता मम वंशो न विद्यते ।
एतत्ते कारणं प्रोक्तं प्रश्नितोस्मि यतस्त्वया १०।
एतस्मिन्नंतरे प्राप्तः कश्चित्सिद्धः समागतः ।
मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा ११।
द्वाभ्यामपि च सिद्धोसौ पूजितो भक्तिपूर्वकैः ।
उपहारैस्स भोज्यान्नैर्वचनैर्मधुराक्षरैः १२।
द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया ।
उभौ तौ प्राह धर्मात्मा ससखं पितरं मम १३।
धर्मस्य कारणं सर्वं मयोक्तं ते तथा किल ।
धर्मेण प्राप्यते पुत्रो धनं धान्यं तथा स्त्रियः १४।
ततस्तेन कृतं धर्मं संपूर्णं वेदशर्मणा ।
तस्माद्धर्मात्सुसंजातं महत्सौख्यं सपुत्रकम् १५।
तेन संगप्रसंगेन ममैष मतिनिश्चयः ।
यथा कांत तव प्रोक्तं मयैव च परं शुभम् १६।
तस्माच्छ्रुतं महासिद्धात्सर्वसंदेहनाशनम् ।
विप्रधर्मं समाश्रित्य अनुवर्त्तस्व सर्वदा १७।
सोमशर्मोवाच-
धर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे ।
उभयोर्लक्षणं कांते तत्सर्वं हि वदस्व मे १८।
सुमनोवाच-
सत्य शौच क्षमा शांति तीर्थपुण्यादिकैस्तथा ।
धर्मश्च पालितो येन तस्य मृत्युं वदाम्यहम् १९।
रोगो न जायते तस्य न च पीडा कलेवरे ।
न श्रमो वै न च ग्लानिर्न च स्वेदो भ्रमस्तथा २०।
दिव्यरूपधरा भूत्वा गंधर्वा ब्राह्मणास्तथा ।
वेदपाठसमायुक्ता गीतज्ञानविशारदाः २१।
तस्य पार्श्वं समायांति स्तुतिं कुर्वंति चातुलाम् ।
स्वस्थो हि आसने युक्तो देवपूजारतः किल २२।
तीर्थं च लभते प्राज्ञः स्नानार्थं धर्मतत्परः ।
अग्न्यागारे च गोस्थाने देवतायतनेषु च २३।
आरामे च तडागे च यत्राश्वत्थो वटस्तथा ।
ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षं च तथा पुनः २४।
अश्वस्थानं समाश्रित्य गजस्थानगतो नरः ।
अशोकं चूतवृक्षं च समाश्रित्य यदास्थितः २५।
संनिधौ ब्राह्मणानां च राजवेश्मगतोथवा ।
रणभूमिं समाश्रित्य पूर्वं यत्र मृतो भवेत् २६।
मृत्युस्थानानि पुण्यानि केवलं धर्मकारणम् ।
गोग्रहं तु सुसंप्राप्य तथा चामरकंटकम् २७।
शुद्धधर्मकरो नित्यं धर्मतो धर्मवत्सलः ।
एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः २८।
मातरं पश्यते पुण्यं पितरं च नरोत्तमः ।
भ्रातरं श्रेयसा युक्तमन्यं स्वजनबांधवम् २९।
बंदीजनैस्तथा पुण्यैः स्तूयमानं पुनःपुनः ।
पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः ३०।
गीतं गायंति गंधर्वाः स्तुवंतिस्तावकाः स्तवैः ।
मंत्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत् ३१।
पितास्वजनवर्गाश्च धर्मात्मानं महामतिम् ।
एवं दूताः समाख्याताः पुण्यस्थानानि ते विभो ३२।
प्रत्यक्षान्पश्यते दूतान्हास्यस्नेहसमाविलान् ।
न च स्वप्नेन मोहेन क्लेदयुक्तेन नैव सः ३३।
धर्मराजो महाप्राज्ञो भवंतं तु समाह्वयेत् ।
एह्येहि त्वं महाभाग यत्र धर्मः स तिष्ठति ३४।
तस्य मोहो न च भ्रांतिर्न ग्लानिः स्मृतिविभ्रमः ।
जायते नात्र संदेहः प्रसन्नात्मा स तिष्ठति ३५।
ज्ञानविज्ञानसंपन्नः स्मरन्देवं जनार्दनम् ।
तैः सार्द्धं तु प्रयात्येवं संतुष्टो हृष्टमानसः ३६।
एकत्वं जायते तत्र त्यजतः स्वंकलेवरम् ।
दशमद्वारमाश्रित्य आत्मा तस्य स गच्छति ३७।
शिबिका तस्य आयाति हंसयानं मनोहरम् ।
विमानमेव चायाति हयो वा गज उत्तमः ३८।
छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा ।
वीज्यमानः स पुण्यात्मा पुण्यैरेवं समंततः ३९।
गीयमानस्तु धर्मात्मा स्तूयमानस्तु पंडितैः ।
बंदिभिश्चारणैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः ४०।
साधुभिः स्तूयमानस्तु सर्वसौख्यसमन्वितः ।
यथादानप्रभावेण फलमाप्नोति तत्र सः ४१।
आरामवाटिकामध्ये स प्रयाति सुखेन वै ।
अप्सरोभिः समाकीर्णो दिव्याभिर्मंगलैर्युतः ४२।
देवैः संस्तूयमानस्तु धर्मराजं प्रपश्यति ।
देवाश्च धर्मसंयुक्ता जग्मुः संमुखमेव तम् ४३।
एह्येहि वै महाभाग भुंक्ष्व भोगान्मनोनुगान् ।
एवं स पश्यते धर्मं सौम्यरूपं महामतिम् ४४।
स्वस्य पुण्यप्रभावेण भुंक्ते च स्वर्गमेव सः ।
भोगक्षयात्सधर्मात्मा पुनर्जन्म प्रयाति वै ४५।
निजधर्मप्रसादात्स कुलं पुण्यं प्रयाति वै ।
ब्राह्मणस्य सुपुण्यस्य क्षत्रियस्य तथैव च ४६।
धनाढ्यस्य सुपुण्यस्य वैश्यस्यैव महामते ।
धर्मेण मोदते तत्र पुनः पुण्यं करोति सः ४७।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने चतुर्दशोऽध्यायः १४।
खण्डः २ (भूमिखण्डः) — Adhyāya 15
सोमशर्मोवाच-
पापिनां मरणं भद्रे कीदृशैर्लक्षणैर्युतम् ।
तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भामिनि १।
सुमनोवाच-
श्रूयतामभिधास्यामि तस्मात्सिद्धाच्छ्रुतं मया ।
पापिनां मरणे कांत यादृशं लिंगमेव च २।
महापातकिनां चैव स्थानं चेष्टां वदाम्यहम् ।
विण्मूत्रामेध्यसंयुक्तां भूमिं पापसमन्विताम् ३।
सतां प्राप्य सुदुष्टात्मा प्राणान्दुःखेन मुंचति ।
चांडालभूमिं संप्राप्य मरणं याति दुःस्थितः ४।
गर्दभाचरितां भूमिं वेश्यागेहं समाश्रितः ।
कल्पपालगृहं गत्वा निधनायोपगच्छति ५।
अस्थिचर्मनखैः पूर्णमाश्रितं पापकिल्बिषैः ।
तां प्राप्य च स दुष्टात्मा मृत्युं याति सुनिश्चितम् ६।
अन्यां पापसमाचारां प्राप्य मृत्युं स गच्छति ।
अथ चेष्टां प्रवक्ष्यामि दूतानां तु तमिच्छताम् ७।
भैरवान्दारुणान्घोरानतिकृष्णान्महोदरान् ।
पिंगाक्षान्पीतनीलांश्च अतिश्वेतान्महोदरान् ८।
अत्युच्चान्विकरालांश्च शुष्कमांसवसोपमान् ।
रौद्रदंष्ट्रान्करालांश्च सिंहास्यान्सर्पहस्तकान् ९।
सतान्दृष्ट्वा प्रकंपेत खिद्यते च मुहुर्मुहुः ।
शिवासंनादवद्घोरान्महारावान्महामते १०।
मुंचंति दूतकाः सर्वे कर्णमूले तु तस्य हि ।
गले पाशैः प्रबद्ध्वा ते कटिं बद्ध्वा तथोदरे ११।
समाधृष्य निपात्यंते हाहेति वदते मुहुः ।
म्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहम् १२।
परद्रव्यापहरणं परभार्याविडंबनम् ।
ऋणं परस्य सर्वस्वं गृहीतं यत्तु पापिभिः १३।
पुनर्नैव प्रदत्तं हि लोभास्वादविमोहतः ।
अन्यदेवं महापापं कुप्रतिग्रहमेव च १४।
कंठमायांति ते सर्वे म्रियमाणस्य तस्य च ।
यानिकानि च पापानि पूर्वमेव कृतानि च १५।
आयांति कंठमूलं ते महापापस्य नान्यथा ।
दुःखमुत्पादयंत्येते कफबंधेन दारुणम् १६।
पीडाभिर्दारुणाभिस्तु कंठो घुरघुरायते ।
रोदते कंपतेऽत्यर्थं मातरं पितरं पुनः १७।
स्मरते भ्रातरं तत्र भार्यां पुत्रान्पुनःपुनः ।
पुनर्विस्मरणं याति महापापेन मोहितः १८।
तस्य प्राणान गच्छंति बहुपीडासमाकुलाः ।
पतते कंपते चैव मूर्च्छते च पुनःपुनः १९।
एवं पीडासमायुक्तो दुःखं भुंक्तेति मोहितः ।
तस्य प्राणाः सुदुःखेन महाकष्टैः प्रचालिताः २०।
अपानमार्गमाश्रित्य शृणु कांत प्रयांति ते ।
एवं प्राणी महामुग्धो लोभमोहसमन्वितः २१।
नीयते यमदूतैस्तु तस्य दुःखं वदाम्यहम् २२।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने पापमरणविवक्षानामपंचदशोऽध्यायः १५।
खण्डः २ (भूमिखण्डः) — Adhyāya 16
सुमनोवाच-
अंगारसंचये मार्गे घृष्यमाणो हि नीयते ।
दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः १।
यत्रातपो महातीव्रो द्वादशादित्यतापितः ।
नीयते तेन मार्गेण संतप्तः सूर्यरश्मिभिः २।
पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मतिः ।
नीयते तेन मार्गेण क्षुधातृष्णाप्रपीडितः ३।
स दूतैर्हन्यमानस्तु गदाखड्गैः परश्वधैः ।
कशाभिस्ताड्यमानस्तु निंद्यमानस्तु दूतकैः ४।
ततः शीतमये मार्गे वायुना सेव्यते पुनः ।
तेन शीतेन दुःखी स भूत्वा याति न संशयः ५।
आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयते ।
एवं पापी स दुष्टात्मा देवब्राह्मणनिंदकः ६।
सर्वपापसमाचारो नीयते यमकिंकरैः ।
यमं पश्यति दुष्टात्मा कृष्णांजनचयोपमम् ७।
तमुग्रं दारुणं भीमं भीमदूतैः समावृतम् ।
सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ८।
आरूढं महिषं देवं धर्मराजं द्विजोत्तम ।
दंष्ट्राकरालमत्युग्रं तस्यास्यं कालसंनिभम् ९।
पीतवासं गदाहस्तं रक्तगंधानुलेपनम् ।
रक्तमाल्यकृताभूषं गदाहस्तं भयंकरम् १०।
एवंविधं महाकायं यमं पश्यति दुर्मतिः ।
तं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतम् ११।
यमः पश्यति तं दुष्टं पापिष्ठं धर्मकंटकम् ।
शासयेत्तु महादुःखैः पीडाभिर्दारुमुद्गलैः १२।
यावद्युगसहस्रांतं तावत्कालं प्रपच्यते ।
नानाविधे च नरके पच्यते च पुनः पुनः १३।
नारकीं याति वै योनिं कृमिकोटिषु पापकृत् ।
अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः १४।
मरणं च स पापात्मा एवं याति सुनिश्चितम् ।
एवं पापस्य संयोगं भुंक्ते चैव सु दुर्मतिः १५।
पुनर्जन्म प्रवक्ष्यामि यासु योनिषु याति च ।
शुनां योनिशतं प्राप्य भुंक्ते वै पातकं पुनः १६।
व्याघ्रो भवति दुष्टात्मा रासभीं याति वै पुनः ।
मार्जार शूकरीं योनिं सर्पयोनिं तथैव च १७।
नानाभेदासु सर्वासु तिर्यक्षु च पुनः पुनः ।
पापपक्षिषु संयाति अन्यासु महतीषु च १८।
चांडाल भिल्लयोनिं च पुलिंदीं याति पापकृत् ।
एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि १९।
मरणे शृणु कांत त्वं चेष्टां तेषां सुदारुणाम् ।
पापपुण्यसमाचारस्तवाग्रे कथितो मया २०।
अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद २१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायामैंद्रे सुमनोपाख्याने पापपुण्यविवक्षानाम षोडशोऽध्यायः १६।
खण्डः २ (भूमिखण्डः) — Adhyāya 17
सोमशर्मोवाच-
सर्वं देवि समाख्यातं धर्मसंस्थानमुत्तमम् ।
कथं पुत्रमहं विंद्यां सर्वज्ञं गुणसंयुतम् १।
वद त्वं मे महाभागे यदि जानासि सुव्रते ।
दानधर्मादिकं भद्रे परत्रेह न संशयः २।
सुमनोवाच-
वसिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिम् ।
तस्मात्प्राप्स्यसि वै पुत्रं धर्मज्ञं धर्मवत्सलम् ३।
सूत उवाच-
एवमुक्ते तया वाक्ये सोमशर्मा द्विजोत्तमः ।
एवं करिष्ये कल्याणि तव वाक्यं न संशयः ४।
एवमुक्त्वा जगामाशु सोमशर्मा द्विजोत्तमः ।
वसिष्ठं सर्ववेत्तारं दिव्यं तं तपतां वरम् ५।
गंगातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम् ।
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् ६।
राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमम् ।
भक्त्या प्रणम्य विप्रेशं दंडवच्च पुनः पुनः ७।
तमुवाच महातेजा ब्रह्मसूनुरकल्मषः ।
उपाविशासने पुण्ये सुखेन सुमहामते ८।
एवमुक्त्वा स योगींद्रः पुनः प्राह तपोधनम् ।
गृहे पुत्रेषु ते वत्स दारभृत्येषु सर्वदा ९।
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु ।
निरामयोसि चांगेषु धर्मं पालयसे सदा १०।
एवमुक्त्वा महाप्राज्ञः पुनः प्राह सुशर्मणम् ।
किं करोमि प्रियं कार्यं सुप्रियं ते द्विजोत्तम ११।
एवं संभाषितं विप्रं विरराम स कुंभजः ।
तस्मिन्नुक्ते महाभागे वसिष्ठे मुनिपुंगवे १२।
स होवाच महात्मानं वसिष्ठं तपतां वरम् ।
भगवञ्छ्रूयतां वाक्यं सुप्रसन्नेन चेतसा १३।
यदि मे सुप्रियं कार्यं त्वयैव मुनिपुंगव ।
मम प्रश्नार्थसंदेहं विच्छेदय द्विजोत्तम १४।
दारिद्र्यं केन पापेन पुत्रसौख्यं कथं नहि ।
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे १५।
महामोहेन संमुग्धः प्रियया बोधितो द्विज ।
तयाहं प्रेषितस्तात तव पार्श्वं समातुरः १६।
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् ।
मुक्तिदाता भवस्व त्वं ममसंसारबंधनात् १७।
वसिष्ठ उवाच-
पुत्रा मित्राण्यथ भ्राता अन्ये स्वजनबांधवाः ।
पंचभेदास्तु संभेदात्पुरुषस्य भवंति ते १८।
ते ते सुमनया प्रोक्ताः पूर्वमेव तवाग्रतः ।
ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम १९।
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् ।
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा २०।
शुद्धिविज्ञानसंपन्नस्तपस्वी वाग्विदां वरः ।
सर्वकर्मसुसंधीरो वेदाध्ययनतत्परः २१।
स सर्वशास्त्रवेत्ता च देवब्राह्मणपूजकः ।
याजकः सर्वयज्ञानां दाता त्यागी प्रियंवदः २२।
विष्णुध्यानपरो नित्यं शांतो दांतः सुहृत्सदा ।
पितृमातृपरोनित्यं सर्वस्वजनवत्सलः २३।
कुलस्य तारको विद्वान्कुलस्य परिपोषकः ।
एवं गुणैश्च संयुक्तः सपुत्रः सुखदायकः २४।
अन्ये संबंधसंयुक्ताः शोकसंतापदायकाः ।
एतादृशेन किं कार्यं फलहीनेन तेन च २५।
आयांति यांति ते सर्वे तापं दत्वा सुदारुणम् ।
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम २६।
पूर्वजन्मकृतं पुण्यं यत्त्वया परिपालितम् ।
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः २७।
वसिष्ठ उवाच-
भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा ।
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः २८।
एकभार्या सदा द्वेषी बहुपुत्रो ह्यदत्तवान् ।
धर्मं नैव विजानासि सत्यं नैव परिश्रुतम् २९।
दानं नैव त्वया दत्तं शास्त्रं नैव प्रतिश्रुतम् ।
कृता नैव त्वया तीर्थे यात्रा चैव महामते ३०।
एवं कृतं त्वया विप्र कृषिमार्गं पुनः पुनः ।
पशूनां पालनं सर्व गवां चैव द्विजोत्तम ३१।
महिषीणां तथाऽश्वानां पालनं च पुनः पुनः ।
एवं पू र्वंकृतं कर्म त्वयैव द्विजसत्तम ३२।
विपुलं च धनं तद्वल्लोभेन परिसंचितम् ।
तस्य व्ययं सुपुण्येन न कृतं तु त्वया कदा ३३।
पात्रे दानं न दत्तं तु दृष्ट्वा दुर्बलमेव च ।
कृपां कृत्वा न दत्तं तु भवता धनमेव च ३४।
गोमहिष्यादिकं सर्वं पशूनां संचितं त्वया ।
विक्रीय च धनं विप्र संचितं विपुलं त्वया ३५।
तक्रं घृतं तथा क्षीरं विक्रयित्वा ततो दधि ।
दुष्कालं चिंतितं विप्र मोहितो विष्णुमायया ३६।
कृतं महार्घमेवात्र अन्नं ब्राह्मणसत्तम ।
निर्दयेन त्वया दानं न दत्तं तु कदाचन ३७।
देवानां पूजनं विप्र भवता न कृतं कदा ।
प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं न च समर्पितम् ३८।
श्राद्धंकालंतुसंप्राप्यश्रद्धयानकृतंत्वया ।
भार्या वदति ते साध्वी दिनमेनं समागतम् ३९।
श्वशुरस्य श्राद्धकालः श्वश्र्वाश्चैव महामते ।
त्वं श्रुत्वा तद्वचस्तस्या गृहं त्यक्त्वा पलायसे ४०।
धर्ममार्गं न दृष्टं ते श्रुतं नैव कदा त्वया ।
लोभो मातापिता भ्राता लोभः स्वजनबांधवाः ४१।
पालितं लोभमेवैकं त्यक्त्वा धर्मं सदैव हि ।
तस्माद्दुःखी भवाञ्जातो दरिद्रेणातिपीडितः ४२।
दिनेदिने महातृष्णा हृदये ते प्रवर्द्धते ।
यदायदा गृहे द्रव्यं वृद्धिमायाति ते तदा ४३।
तृष्णया दह्यमानस्तु तया त्वं वह्निरूपया ।
रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिंतसि ४४।
दिनं प्राप्य महामोहैर्व्यापितोसि सदैव हि ।
सहस्रं लक्षं मे कोटिः कदा अर्बुदमेव च ४५।
भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे ।
एवं सहस्रं लक्षं च कोटिरर्बुदमेव च ४६।
खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति ।
तव कायं परित्यज्य वृद्धिमायाति सर्वदा ४७।
नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया ।
खनितं भूमिमध्ये तु क्षिप्तं पुत्रानजानते ४८।
अन्यमेवमुपायं तु द्रव्यागमनकारणात् ।
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान् ४९।
खनित्रमंजनं वादं धातुवादमतः परम् ।
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः ५०।
स्पर्शंचिंतयसेनित्यंकल्पान्सिद्धिप्रदायकान् ।
प्रवेशं विवराणां तु चिंतमानः सु पृच्छसि ५१।
तृष्णानलेन दग्धेन सुखं नैव प्रगच्छसि ।
तृष्णानलेन संदीप्तो हाहाभूतो विचेतनः ५२।
एवं मुग्धोसि विप्रेंद्र गतस्त्वं कालवश्यताम् ।
दारापुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया ५३।
कथितं नैव वृत्तांतं प्राणांस्त्यक्त्वा गतो यमम् ।
एवं सर्वं मया ख्यातं वृत्तांतं तव पूर्वकम् ५४।
अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान् ।
संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि ५५।
सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा ।
संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति ५६।
धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम् ।
स भुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान् ५७।
विना विष्णोः प्रसादेन दारापुत्रान्न चाप्नुयात् ।
सुजन्म च कुलं विप्र तद्विष्णोः परमं पदम् ५८।
इति श्रीपद्मपुराणेभूमिखंडेएंद्रे सुमनोपाख्यानेसप्तदशोऽध्यायः १७।
खण्डः २ (भूमिखण्डः) — Adhyāya 18
सोमशर्मोवाच-
पूर्वजन्मकृतं पापं त्वयाख्यातं च मे मुने ।
शूद्रत्वेन तु विप्रेन्द्र मयैव परिवर्जितम् १।
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम ।
तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपंडित २।
वसिष्ठ उवाच-।
यत्त्वया चेष्टितं पूर्वं कर्मधर्माश्रितंद्विज ।
तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे ३।
ब्राह्मणः कश्चिदनघः सदाचारः सुपंडितः ।
विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः ४।
यात्राव्याजेन तीर्थानां भ्रमत्येकः समेदिनीम् ।
अटमानः समायातस्तव गेहं महामतिः ५।
याचितं स्थानमेकं वै वासार्थं द्विजसत्तम ।
तवैव भार्यया दत्तं त्वया च सह पुत्रकैः ६।
एयतामेयतां ब्रह्मन्सुखेन सुगृहे मम ।
वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः ७।
सुखेन स्थीयतामत्र गृहोयं तव सुव्रत ।
अद्य धन्योस्म्यहं पुण्यमद्य तीर्थमहं गतः ८।
अद्य तीर्थफलं प्राप्तं तवांघ्रिद्वयदर्शनात् ।
गवां स्थानं वरं पुण्यं निवासाय निवेदितम् ९।
अंगसंवाहनं कृत्वा पादौ चैव प्रमर्दितौ ।
क्षालितौ चपुनस्तोयैः स्नातः पादोदकेन हि १०।
सद्यो घृतं दधिक्षीरमन्नं तक्रं प्रदत्तवान् ।
तस्मै च ब्राह्मणायैव भवानित्थं महात्मने ११।
एवं संतोषितो विप्रस्त्वया च सह भार्यया ।
पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपंडितः १२।
अथ प्रभाते संप्राप्ते दिने पुण्ये सुभाग्यदे ।
आषाढस्य तु शुद्धस्यैकादशी पापनाशनी १३।
तस्मिन्दिने सुसंप्राप्ता सर्वपातकनाशिनी ।
यस्यां देवो हृषीकेशो योगनिद्रां प्रगच्छति १४।
तां प्राप्य च ततो लोकास्तत्यजुर्बुद्धिपंडिताः ।
गृहस्य सर्वकर्माणि विष्णुध्यानरता द्विज १५।
उत्सवं परमं चक्रुर्गीतमंगलवादनैः ।
स्तुवंति ब्राह्मणाः सर्वे वेदैः स्तोत्रैः सुमंगलैः १६।
एवं महोत्सवं प्राप्य स च ब्राह्मणसत्तमः ।
तस्मिन्दिने स्थितस्तत्र संप्राप्तं समुपोषणम् १७।
एकादश्यास्तु माहात्म्यं पठितं ब्राह्मणेन वै ।
भार्या पुत्रैः सुतैः सार्द्धं श्रुतं धर्ममनुत्तमम् १८।
श्रुते तस्मिन्महापुण्ये भार्या पुत्रैस्तु प्रेरितः ।
संसर्गादस्य विप्रस्य व्रतमेतत्समाचर १९।
तदाकर्ण्य महद्वाक्यं सर्वपुण्यप्रदायकम् ।
व्रतमेतं करिष्यामि इति निश्चितमानसः २०।
भार्या पुत्रैः समं गत्वा नद्यां स्नानं कृतं त्वया ।
हृष्टेन मनसा विप्र पूजितो मधुसूदनः २१।
सर्वोपहारैः पुण्यैश्च गंधधूपादिभिस्तथा ।
रात्रौ जागरणं कृत्वा नृत्यगीतादिभिस्तथा २२।
ब्राह्मणस्य प्रसंगेन नद्यां स्नानं पुनः कृतम् ।
पूजितो देवदेवेशः पुष्पधूपादिमंगलैः २३।
भक्त्या प्रणम्य गोविंदं स्नापयित्वा पुनः पुनः ।
निर्वापं तादृशं दत्तं ब्राह्मणाय महात्मने २४।
भक्त्या प्रणम्य तं विप्रं दत्ता तस्मै सुदक्षिणा ।
कृतवान्पारणं विप्र पुत्रैर्भार्यादिभिः समम् २५।
प्रेषितो भक्तिपूर्वेण सद्भावेन त्वयैव सः ।
एवं व्रतं समाचीर्णं त्वया वै द्विजसत्तम २६।
संगत्या ब्राह्मणस्यैव विष्णोश्चैव प्रसादतः ।
भवान्ब्राह्मणतां प्राप्तः सत्यधर्मसमन्वितः २७।
तस्य व्रतस्य भावेन त्वया प्राप्तं महत्कुलम् ।
भूसुराणां महाप्राज्ञं सत्यधर्मसमाविलम् २८।
तस्मै तु ब्राह्मणायैव वैष्णवाय महात्मने ।
श्रद्धया सत्यभावेन दत्तमन्नं सुसंस्कृतम् २९।
तस्य दानस्य भावेन मिष्टान्नमुपतिष्ठति ।
महामोहैः प्रमुग्धो हि तृष्णया व्यापितं मनः ३०।
पूर्वजन्मनि ते विप्र अर्थमेव प्रसंचितम् ।
न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया ३१।
दारेषु पुत्रलोभेन म्रियमाणेन वै तदा ।
तस्य पापस्य भावेन दारिद्रं त्वामुपाविशत् ३२।
पुत्रलोभं परित्यज्य स्नेहं त्यक्त्वा प्रदूरतः ।
अपुत्रवान्भवाञ्जातस्तस्य पापस्य वै फलम् ३३।
सुपुत्रं च कुलं विप्र धनधान्यवरस्त्रियः ।
सुजन्ममरणं चैव सुभोगाः सुखमेव च ३४।
राज्यं स्वर्गश्च मोक्षश्च यद्यद्दुर्लभमेव च ।
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः ३५।
तस्मादाराध्य गोविन्दं नारायणमनामयम् ।
प्राप्स्यसि त्वं परं स्थानं तद्विष्णोः परमं पदम् ३६।
सुपुत्र त्वं धनं धान्यं सुभोगान्सुखमेव च ।
पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् ३७।
तन्मया कथितं विप्र तवाग्रे परिनिष्ठितम् ।
एवं ज्ञात्वा महाभाग नारायणपरो भव ३८।
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि ।
हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र ३९।
आमंत्र्य विप्रं स जगाम गेहं तां प्राप्य भार्यां सुमनां प्रहर्षः ।
सर्वं हि वृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तव प्रसादात् ४०।
भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहं परिनाशितं मे ।
आराधयिष्ये मधुसूदनं हि यास्यामि मोक्षं परमं पदं तत् ४१।
आकर्ण्य वाक्यं परमं महांतं सुमंगलं मंगलदायकं हि ।
हर्षेण युक्ता तमुवाच कांतं पुण्योसि विप्रेण विबोधितोऽसि ४२।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे-।
ऐंद्रे सुमनोपाख्याने अष्टादशोऽध्यायः १८।
खण्डः २ (भूमिखण्डः) — Adhyāya 19
सूत उवाच-
सोमशर्मा महाप्राज्ञः सुमनया सह सत्तमः ।
कपिलासंगमे पुण्ये रेवातीरे सुपुण्यदे १।
स्नात्वा तत्र स मेधावी तर्पयित्वा सुरान्पितॄन् ।
तपस्तेपे सुशांतात्मा जपन्नारायणं शिवम् २।
द्वादशाक्षरमंत्रेण ध्यानयुक्तो महामनाः ।
तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः ३।
आसने शयने याने स्वप्ने पश्यति केशवम् ।
सदैव निश्चलो भूत्वा कामक्रोधविवर्जितः ४।
सा च साध्वी महाभागा पतिव्रतपरायणा ।
सुमना कांतमेवापि शुश्रूषति तपोन्वितम् ५।
ध्यायमानस्य तस्यापि विघ्नैः संदर्शितं भयम् ।
सर्पा विषोल्बणाः कृष्णास्तत्र यांति महात्मनः ६।
पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः ।
सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे ७।
वेताला राक्षसा भूताः कूष्मांडाः प्रेतभैरवाः ।
भयं विदर्शयंत्येते दारुणं प्राणनाशनम् ८।
नानाविधा महाभीमाः सिंहास्तत्र समागताः ।
दंष्ट्राकरालवक्त्राश्च जगर्जुश्चातिभैरवम् ९।
विष्णोर्ध्यानात्स धर्मात्मा न चचाल महामतिः ।
महाविघ्नैः सुसंरूढैश्चालितो मुनिपुंगवः १०।
एवं न चलते ध्यानात्सोमशर्मा द्विजोत्तमः ।
झंझावातैश्च शीतेन महावृष्ट्या सुपीडितः ११।
भंभारावमहाभीमः सिंहस्तत्र समागतः ।
तं दृष्ट्वा भयवित्रस्तः सस्मार नृहरिं द्विजः १२।
इंद्रनीलप्रतीकाशं पीतवस्त्रं महौजसम् ।
शंखचक्रधरं देवं गदापंकजधारिणम् १३।
महामौक्तिकहारेण इंदुवर्णानुकारिणा ।
कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम् १४।
श्रीवत्सांकेन दिव्येन हृदयं यस्य राजते ।
सर्वाभरणशोभांगं शतपत्रनिभेक्षणम् १५।
सुस्मितास्यं सुप्रसन्नं रत्नदामाभिशोभितम् ।
भ्राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम् १६।
त्वमेव शरणं कृष्ण शरणागतवत्सल ।
नमोस्तु देवदेवाय किं मे भयं करिष्यति १७।
यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः ।
शरणं तस्य प्रविष्टोस्मि क्वास्ते भयं ममैव हि १८।
यस्माद्भयाः प्रवर्तंते कृत्यादिक महाबलाः ।
सर्वभयप्रहर्तारं तमस्मि शरणं गतः १९।
पातकानां तु सर्वेषां दानवानां महाभयम् ।
रक्षको विष्णुभक्तानां तमस्मि शरणं गतः २०।
वृंदारकाणां सर्वेषां दानवानां महात्मनाम् ।
यो गतिः कृष्णभक्तानां तमस्मि शरणं गतः २१।
अभयो भयनाशाय पापनाशाय ज्ञानवान् ।
एकश्चेंद्रस्वरूपेण तमस्मि शरणं गतः २२।
व्याधीनां नाशकायैव य औषधस्वरूपवान् ।
निरामयो निरानंदस्तमस्मि शरणंगतः २३।
अचलश्चालयेल्लोकानपापो ज्ञानमेव च ।
तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति २४।
साधूनां चापि सर्वेषां पालको यो ह्यनामयः ।
पाति विश्वं च विश्वात्मा तमस्मि शरणंगतः २५।
यो मे मृगेंद्ररूपेण भयं दर्शयतेग्रतः ।
तमहं शरणं प्राप्तो नरसिंहं नमाम्यहम् २६।
मदमत्तो महाकायो वनहस्ती समागतः ।
गजलीलागतिं देवं शरणागतवत्सलम् २७।
गजास्यं ज्ञानसंपन्नं सपाशांकुशधारिणम् ।
कालास्यं गजतुंडं च शरणं सुगतोस्म्यहम् २८।
हिरण्याक्षप्रहर्तारं वाराहं शरणंगतः ।
वामनं तं प्रपन्नोस्मि शरणागतवत्सलम् २९।
ह्रस्वास्तु वामनाः कुब्जाः प्रेताः कूष्मांडकादयः ।
मृत्युरूपधराः सर्वे दर्शयंति भयं मम ३०।
अमृतं तं प्रपन्नोस्मि किं भयं मे करिष्यति ।
ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः ३१।
शरणं तं प्रपन्नोस्मि भयं किं मे करिष्यति ।
अभयो यो हि जगतो भीतिघ्नो भीतिदायकः ३२।
भयरूपं प्रपन्नोस्मि भयं किं मे करिष्यति ।
तारकः सर्वलोकानां नाशकः सर्वपापिनाम् ३३।
तमहं शरणं प्राप्तो धर्मरूपं जनार्दनम् ।
सुरारणं यो हि रणे वपुर्द्धारयतेऽद्भुतम् ३४।
शरणं तस्य गंतास्मि सदागतिरयं मम ।
झंझावातो महाचंडो वपुर्दूयति मे भृशम् ३५।
शरणं तं प्रपन्नोस्मि सदागतिरयं मम ।
अतिशीतं चातिवर्षा आतपस्तापदायकः ३६।
एषां रूपेण यो देवस्तस्याहं शरणं गतः ।
कालरूपा अमी प्राप्ता भयदा मम चालकाः ३७।
एषां शरणं प्रपन्नोस्मि हरेः स्वरूपिणां सदा ३८।
यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपम् ।
वदंति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ३९।
इति ध्यायन्स्तुवन्नित्यं केशवं क्लेशनाशनम् ।
भक्त्या तेन समानीतस्तदात्महृदये हरिः ४०।
उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः ।
आविर्भूय हृषीकेशस्तमुवाच प्रहृष्टवान् ४१।
सोमशर्मन्महाप्राज्ञ श्रूयतां भार्यया सह ।
वासुदेवोस्मि विप्रेंद्र वरं याचय सुव्रत ४२।
तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयम् ।
दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयम् ४३।
सर्वाभरणशोभांगं सर्वायुधसमन्वितम् ।
दिव्यलक्षणसंपन्नं पुंडरीकनिभेक्षणम् ४४।
पीतेन वाससा युक्तं राजमानं सुरेश्वरम् ।
वैनतेयसमारूढं शंखचक्रगदाधरम् ४५।
ब्रह्मादीनां सुधातारं जगतोस्य महायशाः ।
विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुम् ४६।
हर्षेण महताविष्टो दंडवत्प्रणिपत्य तम् ।
श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम् ४७।
बद्धांजलिपुटोभूत्वा तया सुमनया सह ।
जयजयेत्युवाचैनं जयमाधवमानद ४८।
जय योगीश योगीन्द्र जय नागांगशायन ।
यज्ञांग जय यज्ञेश जय शाश्वतसर्वग ४९।
जय सर्वेश्वरानंत यज्ञरूप नमोऽस्तु ते ।
जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक ५०।
जय सर्वदसर्वज्ञ जय त्वं सर्वभावन ।
जय जीवस्वरूपेश महाजीव नमोस्तुते ५१।
जय प्रज्ञादप्रज्ञांग जय प्राणप्रदायक ।
जय पापघ्न पुण्येश जय पुण्यपते हरे ५२।
जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः ।
जय पद्मपलाशाक्ष पद्मनाभाय ते नमः ५३।
जय गोविंदगोपाल जय शंखधरामल ।
जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः ५४।
जय विक्रमशोभांग जय विक्रमनायक ।
जय लक्ष्मीविलासांग नमो वेदमयाय ते ५५।
जय विक्रमशोभांग जय उद्यमदायक ।
जय उद्यमकालाय उद्यमाय नमोनमः ५६।
जय उद्यमशक्ताय उद्यमत्रयधारक ।
युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः ५७।
नमो हिरण्यरेताय तस्मै ते जायते नमः ।
अतितेजःस्वरूपाय सर्वतेजोमयाय च ५८।
दैत्यतेजोविनाशाय पापतेजोहराय च ।
गोब्राह्मणहितार्थाय नमोस्तु परमात्मने ५९।
नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते ।
नमः कव्यवहायैव स्वधारूपाय ते नमः ६०।
स्वाहारूपाय यज्ञाय पावनाय नमोनमः ।
नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे ६१।
सदसच्चोदनायैव नमो विज्ञानशालिने ।
नमो वेदस्वरूपाय पावनाय नमोनमः ६२।
नमोस्तु हरिकेशाय सर्वक्लेशहराय ते ।
केशवाय परायैव नमस्ते विश्वधारिणे ६३।
नमः कृपाकरायैव नमो हर्षमयाय ते ।
अनंताय नमो नित्यं शुद्धाय क्लेशनाशिने ६४।
आनंदाय नमो नित्यं शुद्धाय केवलाय ते ।
रुद्रैर्नमितपादाय विरंचिनमिताय ते ६५।
सुरासुरेंद्रनमित पादपद्माय ते नमः ।
नमोनमः परेशाय अजितायामृतात्मने ६६।
क्षीरसागरवासाय नमः पद्माप्रियाय ते ।
ॐकाराय च शुद्धाय अचलाय नमोनमः ६७।
व्यापिने व्यापकायैव सर्वव्यसनहारिणे ।
नमोनमो वराहाय महाकूर्माय ते नमः ६८।
नमो वामनरूपाय नृसिंहाय महात्मने ।
नमो रामाय दिव्याय सर्वक्षत्रवधाय च ६९।
सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः ।
नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने ७०।
नमः कपिलविप्राय हयग्रीवाय ते नमः ।
नमो व्यासस्वरूपाय नमः सर्वमयाय ते ७१।
एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनम् ।
गुणानां तु परं पारं ब्रह्मा वेत्ति न पावन ७२।
न चैव स्तोतुं सर्वज्ञस्तथा रुद्र सःहस्रदृक् ।
वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो ७३।
निर्गुणं सगुणं स्तोत्रं मयैव तव केशव ।
क्षमशब्दापशब्दं मे तव दासोस्मि सुव्रत ७४।
जन्मजन्मनि लोकेश दयां मे कुरु पावन ७५।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां एंद्रे सुमनोपाख्याने एकोनविंशोऽध्यायः १९।
।
।
खण्डः २ (भूमिखण्डः) — Adhyāya 20
हरिरुवाच-
तपसानेन पुण्येन सत्येनानेन ते द्विज ।
स्तोत्रेण पावनेनापि तुष्टोस्मि व्रियतां वरः १।
वरं दद्मि महाभाग यत्ते मनसि वर्तते ।
यंयमिच्छसि कामं त्वं तंतं ते पूरयाम्यहम् २।
सोमशर्मोवाच-
प्रथमं देहि मे कृष्ण वरमेकं सुवाञ्छितम् ।
सुप्रसन्नेन मनसा यद्यस्ति सुदया मम ३।
जन्मजन्मांतरं प्राप्य तव भक्तिं करोम्यहम् ।
दर्शयस्व परं स्थानमचलं मोक्षदायकम् ४।
स्ववंशतारकं पुत्रं दिव्यलक्षणसंयुतम् ।
विष्णुभक्तिपरं नित्यं मम वंशप्रधारकम् ५।
सर्वज्ञं सर्वदं दांतं तपस्तेजः समन्वितम् ।
देवब्राह्मणलोकानां पालकं पूजकं सदा ६।
देवमित्रं पुण्यभावं दातारं ज्ञानपंडितम् ।
देहि मे ईदृशं पुत्रं दारिद्रं हर केशव ७।
भवत्वेवं न संदेहो वरमेनं वृणोम्यहम् ।
हरिरुवाच-
एवमस्तु द्विजश्रेष्ठ भविष्यति न संशयः ८।
मत्प्रसादात्सुपुत्रस्तु तव वंश प्रतारकः ।
भोक्ष्यसि त्वं वरान्भोगान्दिव्यांश्च मानुषानिह ९।
समालोक्य परं सौख्यं पुत्रसंभवजं शुभम् ।
यावज्जीवसि विप्र त्वं तावद्दुःखं न पश्यसि १०।
दाता भोक्ता गुणग्राही भविष्यसि न संशयः ।
सुतीर्थे मरणं चापि यास्यसि त्वं परां गतिम् ११।
एवं वरं हरिर्दत्त्वा सप्रियाय द्विजाय सः ।
अंतर्धानं गतो देवः स्वप्नवत्परिदृश्यते १२।
तदा सुमनया युक्तः सोमशर्मा द्विजोत्तमः ।
सुतीर्थे पावने तस्मिन्रेवातीरे सुपुण्यदे १३।
अमरकंटके विप्रो दानं पुण्यं करोति सः ।
गते बहुतरे काले तस्य वै सोमशर्मणः १४।
कपिलारेवयोः संगे स्नानं कृत्वा स निर्गतः ।
दृष्टवान्पुरतो विप्रः श्वेतमेकं हि कुंजरम् १५।
सुप्रभं सुंदरं दिव्यं सुमदं चारुलक्षणम् ।
नानाभरणशोभांगं बहुलक्ष्म्या समन्वितम् १६।
सिंदूरैः कुंकुमैस्तस्य कुंभस्थले विराजिते ।
कर्णनीलोत्पलयुतं पताकादंडसंयुतम् १७।
नागोपरिस्थितो दिव्यः पुरुषो दृढसुप्रभः ।
दिव्यलक्षणसंपन्नः सर्वाभरणभूषितः १८।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ।
सुसौम्यं सोमवत्पूर्णच्छत्रचामरसंयुतम् १९।
नागारूढं प्रयांतं तं पुनः पश्यति सत्तमः ।
सिद्धचारणगंधर्वैः स्तूयमानं सुमंगलम् २०।
सगजं सुंदरं दृष्ट्वा पुरुषं दिव्यलक्षणम् ।
व्यतर्कयत्सोमशर्मा विस्मयाविष्टमानसः २१।
कोऽयं प्रयाति दिव्यांगः पंथानं प्राप्य सुव्रतः ।
एवं चिंतयतस्तस्य यावद्गृहं समाप्तवान् २२।
प्रविशंतं गृहद्वारं देवरूपं मनोहरम् ।
हर्षेण महताविष्टः सोमशर्मा द्विजोत्तमः २३।
स्वगृहं प्रति धर्मात्मा त्वरमाणः प्रयाति च ।
गृहद्वारं गतो यावत्तावत्तं तु न पश्यति २४।
पतितान्येव पुष्पाणि सौहृद्यानि महामतिः ।
दिव्यानि वासयुक्तानि प्रांगणे द्विजसत्तमः २५।
चंदनैः कुंकुमैः पुण्यैः सुगंधैस्तु विलेपितम् ।
स्वकीयं प्रांगणे दृष्ट्वा दूर्वाक्षतसमन्वितम् २६।
स एवं विस्मयाविष्टश्चिंतयानः पुनः पुनः ।
ददर्श सुमनां प्राज्ञो दिव्यमंगलसंपदम् २७।
सोमशर्मोवाच-
केन दत्तानि दिव्यानि एतान्याभरणानि च ।
शृंगारंरूपसौभाग्यं वस्त्रालंकारभूषणम् २८।
तन्मे त्वं कारणं भद्रे कथयस्वाविशंकिता ।
एवं संभाष्यतां भार्यां विरराम द्विजोत्तमः २९।
सुमनोवाच-
शृणु कांत समायातः कश्चिद्देववरोत्तमः ।
श्वेतनागसमारूढो दिव्याभरणभूषितः ३०।
दिव्यगंधानुलिप्तांगो दिव्याश्चर्यसमन्वितः ।
न जाने को हि देवोसौ विप्रगंधर्वसेवितः ३१।
स्तूयमानः समायातो देवगंधर्वचारणैः ।
योषितः पुण्यरूपाढ्या रूपशृंगारसंयुताः ३२।
सर्वाभरणशोभाढ्याः सर्वाः पूर्णमनोरथाः ।
ताभिः सह समक्षं मे पुरुषेण महात्मना ३३।
चतुष्कं पूरितं रत्नैः सर्वशोभासमन्वितम् ।
तत्राहमासने पुण्ये स्थापिता ब्राह्मणैः किल ३४।
वस्त्रालंकारभूषां मे ददुस्ते सर्व एव हि ।
वेदमंगलगीतैस्तु शास्त्रगीतैश्च पुण्यदैः ३५।
अभिषिक्तास्मि तैः सर्वैरंतर्धानं पुनर्गताः ।
मामेवं परितः सर्वे पुनरूचुर्द्विजोत्तम ३६।
तव गेहं वयं सर्वे वसिष्यामः सदैव हि ।
शुचिर्भव सुकल्याणि भर्त्रा सार्द्धं सदैव हि ३७।
एवमुक्त्वा गताः सर्वे एवं दृष्टं मयैव हि ।
तया यत्कथितं वृत्तं समाकर्ण्य महामतिः ३८।
पुनश्चिंतां प्रपन्नोऽसौ किमिदं देवनिर्मितम् ।
विचिन्तयित्वाथ तदा सोमशर्मा महामतिः ३९।
ब्रह्मकर्मणि संयुक्तः साधर्म्यं धर्ममुत्तमम् ।
तस्माद्गर्भं महाभागा दधार व्रतशालिनी ४०।
तेन गर्भेण सा देवी अधिकं शुशुभे तदा ।
संदीप्तपुत्रसंयुक्त तेजोज्वालासमन्विता ४१।
सा हि जज्ञे च तपसा तनयं देवसन्निभम् ।
अंतरिक्षे ततो नेदुर्देवदुंदुभयस्तदा ४२।
शंखान्दध्मुर्महादेवा गंधर्वा ललितं जगुः ।
अप्सरसस्तथा सर्वा ननृतुस्तास्तदा किल ४३।
अथ ब्रह्मासुरैः सार्द्धं समायातो द्विजोत्तमः ।
चकार नाम तस्यैव सुव्रतेति समाहितः ४४।
नाम कृत्वा ततो देवा जग्मुः सर्वे महौजसः ।
गतेषु तेषु देवेषु सोमशर्मासु तस्य च ४५।
जातकर्मादिकं कर्म चकार द्विजसत्तमः ।
जाते पुत्रे महाभागे सुव्रते देवनिर्मिते ४६।
तस्य गेहे महालक्ष्मीर्धनधान्यसमाकुला ।
गजाश्वमहिषी गावः कांचनं रत्नमेव च ४७।
यथा कुबेरभवनं शुशुभे धनसंचयैः ।
तत्सोमशर्मणो गेहं तथैव परिराजते ४८।
ध्यानपुण्यादिकं कर्म चका रद्विजसत्तमः ।
तीर्थयात्रां गतो विप्रो नानापुण्यसमाकुलः ४९।
अन्यानि यानि पुण्यानि दानानि द्विजसत्तमः ।
चकार तत्र मेधावी ज्ञानपुण्य समन्वितः ५०।
एवं साधयते धर्मं पालयेच्च पुनःपुनः ।
पुत्रस्य जातकर्मादि कर्माणि द्विजसत्तमः ५१।
विवाहं कारयामास हर्षेण महता किल ।
पुत्रस्य पुत्राः संजाताः सगुणा लक्षणान्विताः ५२।
सत्यधर्मतपोपेता दानधर्मरताः सदा ।
स तेषां पुण्यकर्माणि सोमशर्मा चकार ह ५३।
पौत्राणां तु महाभागस्तेषां सुखेन मोदते ।
सर्वं सौख्यं च संभुज्य जरारोगविवर्जितः ५४।
पंचविंशाब्दिको यद्वत्तद्वत्कायं तु तस्य हि ।
सूर्यतेजः प्रतीकाशः सोमशर्मा महामतिः ५५।
सा चापि शुशुभे देवी सुमना पुण्यमंगलैः ।
पुत्रपौत्रैर्महाभागा दानव्रतैश्च संयमैः ५६।
अतिभाति विशालाक्षी पुण्यैः पतिव्रतादिभिः ।
तारुण्येन समायुक्ता यथा षोडशवार्षिकी ५७।
मोदमानौ महात्मानौ दंपती चारुमंगलौ ।
हर्षेण च समायुक्तौ पुण्यात्मानौ महोदयौ ५८।
एवं तयोस्तु वृत्तांतं पुण्याचारसमन्वितम् ।
सुव्रतस्य प्रवक्ष्यामि व्रतचर्यां द्विजोत्तमाः ५९।
यथा तेन समाराध्य नारायणमनामयम् ६०।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे एन्द्रे सुमनोपाख्याने सुव्रतोत्पत्तिर्नाम विंशोऽध्यायः २०।
।
।
खण्डः २ (भूमिखण्डः) — Adhyāya 21
सूत उवाच-
एकदा व्यास देवोऽसौ ब्रह्माणं जगतः पतिम् ।
सुव्रताख्यानकं सर्वं पप्रच्छातीव विस्मितः १।
व्यास उवाच-
लोकात्मँल्लोकविन्यास देवदेव महाप्रभो ।
सुव्रतस्याथ चरितं श्रोतुमिच्छामि सांप्रतम् २।
ब्रह्मोवाच-
पाराशर्यमहाभाग श्रूयतां पुण्यमुत्तमम् ।
सुव्रतस्य सुविप्रस्य तपश्चर्यासमन्वितम् ३।
सुव्रतो नाम मेधावी बाल्यादपि स चिंतयन् ।
गर्भे नारायणं देवं दृष्टवान्पुरुषोत्तमम् ४।
स पूर्वकर्माभ्यासेन हरेर्ध्यानं गतस्तदा ।
शंखचक्रधरं देवं पद्मनाभं सुपुण्यदम् ५।
ध्यायते चिंतयेत्सो हि गीते ज्ञाने प्रपाठने ।
एवं देवं हरिं ध्यायन्सदैव द्विजसत्तमः ६।
क्रीडत्येवं सदा डिंभैः सार्द्धं च बालकोत्तमः ।
बालकानां स्वकं नाम हरेश्चैव महात्मनः ७।
चकार स हि मेधावी पुण्यात्मा पुण्यवत्सलः ।
समाह्वयति वै मित्रं हरेर्नाम्ना महामतिः ८।
भोभोः केशव एह्येहि एहि माधवचक्रधृक् ।
क्रीडस्व च मया सार्धं त्वमेव पुरुषोत्तम ९।
सममेवं प्रगंतव्यमावाभ्यां मधुसूदन ।
एवमेव समाह्वानं नामभिश्च हरेर्द्विजः १०।
क्रीडने पठने हास्ये शयने गीतप्रेक्षणे ।
याने च ह्यासने ध्याने मंत्रे ज्ञाने सुकर्मसु ११।
पश्यत्येवं वदत्येवं जगन्नाथं जनार्दनम् ।
स ध्यायते तमेकं हि विश्वनाथं महेश्वरम् १२।
तृणे काष्ठे च पाषाणे शुष्के सार्द्रे हि केशवम् ।
पश्यत्येवं स धर्मात्मा गोविंदं कमलेक्षणम् १३।
आकाशे भूमिमध्ये तु पर्वतेषु वनेषु च ।
जले स्थले च पाषाणे जीवेष्वेव महामतिः १४।
नृसिंहं पश्यते विप्रः सुव्रतः सुमनासुतः ।
बालक्रीडां समासाद्य रमत्येवं दिनेदिने १५।
गीतैश्च गायते कृष्णं सुरागैर्मधुराक्षरैः ।
तालैर्लयसमायुक्तैः सुस्वरैर्मूर्च्छनान्वितैः १६।
सुव्रत उवाच-
ध्यायंति वेदविदुषः सततं सुरारिं यस्यांगमध्ये सकलं हि विश्वम् ।
योगेश्वरं सकलपापविनाशनं च व्रजामि शरणं मधुसूदनस्य १७।
लोकेषु यो हि सकलेष्वनुवर्तते यो लोकाश्च यस्मिन्निवसंति सर्वे ।
दोषैर्विहीनमखिलैः परमेश्वरं तं तस्यैव पादयुगलं सततं नमामि १८।
नारायणं गुणनिधानमनंतवीर्यं वेदांतशुद्धमतयः प्रपठंति नित्यम् ।
संसारसागरमनंतमगाधदुर्गमुत्तारणार्थमखिलं शरणं प्रपद्ये १९।
योगींद्र मानससरोवरराजहंसं शुद्धं प्रभावमखिलं सततं हि यस्य ।
तस्यैव पादयुगलं विमलं विशालं दीनस्य मेऽसुररिपो कुरु तस्य रक्षाम् २०।
ध्यायेऽखिलस्य भुवनं स्वपतिं च देवं दुःखांधकारदलनार्थमिहैव चंद्रम् ।
लोकस्य पालनकृते परिणीतधर्मं सत्यान्वितं सकललोकगुरुं सुरेशम् २१।
गायाम्यहं सुरसगीतकतालमानैः श्रीरंगमेकमनिशं भुवनस्य देवम् ।
अज्ञाननाशकमलं च दिनेशतुल्यमानंदकंदमखिलं महिमा समेतम् २२।
संपूर्णमेवममृतस्यकलानिधानं तं गीतकौशलमनन्यरसैः प्रगाये ।
युक्तं स्वयोगकरणैः परमार्थदृष्टिं विश्वं स पश्यति चराचरमेव नित्यम् २३।
पश्यंति नैव यमिहाथ सुपापलोकास्तं केशवं शरणमेवमुपैति नित्यम् २४।
कराभ्यां वाद्यमानस्तु तालं तालसमन्वितम् ।
गीतेनगायते कृष्णं बालकैः सह मोदते २५।
एवं क्रीडारतो नित्यं बालभावेन वै तदा ।
सुव्रतः सुमनापुत्रो विष्णुध्यानपरायणः २६।
क्रीडमानं प्राह माता सुव्रतं चारुलक्षणम् ।
भोजनं कुरु मे वत्स क्षुधा त्वां परिपीडयेत् २७।
तामुवाच पुनः प्राज्ञः सुमना मातरं पुनः ।
महामृतेन तृप्तोस्मि हरिध्यानरसेन वै २८।
भोजनासनमारूढो मिष्टमन्नं प्रपश्यति ।
इदमन्नं स्वयं विष्णुरात्मा ह्यन्नं समाश्रितः २९।
आत्मरूपेण यो विष्णुरनेनान्नेन तृप्यतु ।
क्षीरसागरसंवासो यस्यैव परिसंस्थितः ३०।
जलेनानेन पुण्येन तृप्तिमायातु केशवः ।
तांबूलचंदनैर्गंधैरेभिः पुष्पैर्मनोहरैः ३१।
आत्मस्वरूपेण तृप्तस्तृप्तिमायातु केशवः ।
शयने याति धर्मात्मा तदा कृष्णं प्रचिंतयेत् ३२।
योगनिद्रान्वितं कृष्णं तमहं शरणं गतः ।
भोजनाच्छादनेष्वेवमासने शयने द्विजः ३३।
चिंतयेद्वासुदेवं तं तस्मै सर्वं प्रकल्पयेत् ।
तारुण्यं प्राप्य धर्मात्मा कामभोगान्विहाय वै ३४।
स युक्तः केशवध्याने वैडूर्यपर्वतोत्तमे ।
यत्र सिद्धेश्वरं लिंगं वैष्णवं पापनाशनम् ३५।
रुद्रमोंकारसंज्ञं च ध्यात्वा चैव महेश्वरम् ।
ब्रह्मणा वर्द्धितं देवं नर्मदादक्षिणे तटे ३६।
सिद्धेश्वरं समाश्रित्य तपोभावं व्यचिंतयत् ३७।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने एकविंशोऽध्यायः २१।
।
खण्डः २ (भूमिखण्डः) — Adhyāya 22
व्यास उवाच-
प्रश्नमेकं महाभाग करिष्ये सांप्रतं वद ।
त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रतीश्वरम् १।
पूर्वाभ्यासेन संध्यायन्नारायणमनामयम् ।
कस्यां ज्ञात्यां समुत्पन्नः सुव्रतः पूर्वजन्मनि २।
तन्मे त्वं सांप्रतं ब्रूहि कथमाराधितो हरिः ।
अनेनापि स देवेश कोयं पुण्यसमाविलः ३।
ब्रह्मोवाच-
वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले ।
तत्र राजा महातेजा ऋतध्वजसुतो बली ४।
तस्यात्मजो महाप्राज्ञो रुक्मभूषणविश्रुतः ।
संध्यावली तस्य भार्या धर्मपत्नी यशस्विनी ५।
तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं ततः ।
तस्य धर्मांगदं नाम चकार नृपनंदनः ६।
सर्वलक्षणसंपन्नः पितृभक्तिपरायणः ।
रुक्मांगदस्य तनयो योयं भगवतां वरः ७।
पितुः सौख्याय येनापि मोहिन्यै तु शिरो ददे ।
वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य हि ८।
सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम् ।
नीतस्तु सर्वधर्मज्ञो वैष्णवः सात्वतां वरः ९।
धर्मांगदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः ।
तत्रस्थो वै महाप्राज्ञो धर्मोसौ धर्मभूषणः १०।
दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुंजति ।
पूर्णे युगसहस्रांते धर्मो वै धर्मभूषणः ११।
तस्मात्पदात्परिभ्रष्टो विष्णोश्चैव प्रसादतः ।
सुव्रतो नाम मेधावी सुमनानंदवर्द्धनः १२।
सोमशर्मस्य तनयः श्रेष्ठो भगवतां वरः ।
तपश्चचार मेधावी विष्णुध्यानपरोभवत् १३।
कामक्रोधादिकान्दोषान्परित्यज्य द्विजोत्तमः ।
संयम्यचैन्द्रियं वर्गं तपस्तेपे निरंतरम् १४।
वैडूर्यपर्वतश्रेष्ठे सिद्धेश्वरस्य सन्निधौ ।
एकीकृत्य मनश्चायं संयोज्य विष्णुना सह १५।
एवं वर्षशतं स्थित्वा ध्यानेनास्य महात्मनः ।
सुप्रसन्नो जगन्नाथः शंखचक्रगदाधरः १६।
तस्मै वरं ददावन्यं सलक्ष्म्या सह केशवः ।
भोभोः सुव्रत धर्मात्मन्बुध्यस्व विबुधांवर १७।
वरं वरय भद्रं ते कृष्णोऽहं ते समागतः ।
एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम् १८।
हर्षेण महताविष्टो दृष्ट्वा देवं जनार्दनम् ।
बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा १९।
सुव्रत उवाच-
संसारसागरमतीव महासुदुःखजालोर्मिभिर्विविधमोहचयैस्तरंगैः ।
संपूर्णमस्ति निजदोषगुणैस्तु प्राप्तस्तस्मात्समुद्धर जनार्दनमाशुदीनम् २०।
कर्मांबुदे महति गर्जतिवर्षतीव विद्युल्लतोल्लसतिपातकसंचयैर्मे ।
मोहांधकारपटलैर्मम नास्ति दृष्टिर्दीनस्य तस्य मधुसूदन देहि हस्तम् २१।
संसारकाननघनं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहैः ।
संदीप्तमस्ति करुणाबहुवह्नितेजः संतप्यमानमनिशं परिपाहि कृष्ण २२।
संसारवृक्षमतिजीर्णमपीह उच्चं मायासुकंदकरुणा बहुदुःखशाखम् ।
जायादिसंगच्छदनं फलितं मुरारे तत्राधिरूढपतितं भगवन्हि रक्ष २३।
दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैर्वियोगमरणांतिक सन्निभैश्च ।
दग्धोस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानांबुदैः समभिषिंच सदैव मां त्वम् २४।
घोरांधकारपटले महतीव गर्ते संसारनाम्निपतितं सततं हि कृष्ण ।
त्वं सत्कृपो मम हि दीनभयातुरस्य तस्माद्विरज्यशरणं तव आगतोस्मि २५।
त्वामेव ये नियतमानसभावयुक्ता ध्यायंति ज्ञानमनसा पदवीं लभंते ।
नत्वैव पादयुगलं च महासुपुण्यं यद्देवकिन्नरगणाः परिचिंतयंति २६।
नान्यं वदामि न भजामि न चिंतयामि त्वत्पादपद्मयुगलं सततं नमामि ।
कामं त्वमेव मम पूरय मेद्य कृष्ण दूरेण यातु मम पातकसंचयस्ते २७।
दासोस्मि देव तव किंकरजन्मजन्म त्वत्पादपद्मयुगलं सततं स्मरामि २८।
यदि कृष्ण प्रसन्नोसि देहि मे सुवरं प्रभो ।
मन्मातापितरौ कृष्ण सकायौ मंदिरे नय २९।
आत्मनश्च महादेव मयासह न संशयः ।
श्रीकृष्ण उवाच-
एवं ते परमं कार्यं भविष्यति न संशयः ३०।
तस्य तुष्टो हृषीकेशो भक्त्या तस्य प्रतोषितः ।
प्रयातौ वैष्णवं लोकं दाहप्रलयवर्जितौ ३१।
सुव्रतेन समं तौ द्वौ सुमना सोमशर्मकौ ।
यावत्कल्पद्वयं प्राप्तं तावत्स सुव्रतो द्विजः ३२।
बुभुजे बुभुजे दिव्याँल्लोकांश्चैव महामते ।
देवकार्यार्थमत्रैव काश्यपस्य गृहं पुनः ३३।
अवतीर्णो महाप्राज्ञो वचनात्तस्य चक्रिणः ।
ऐंद्रं पदं हि यो भुंक्ते विष्णोश्चैव प्रसादतः ३४।
वसुदत्तेति विख्यातः सर्वदेवैर्नमस्कृतः ।
ऐंद्रं पदं हि यो भुंक्ते सांप्रतं वासवो दिवि ३५।
एतत्ते सर्वमाख्यातं सृष्टिसंबंधकारणम् ।
अन्यदेवं प्रवक्ष्यामि यदेव परिपृच्छसि ३६।
व्यास उवाच-
धर्माङ्गदो महाप्राज्ञो रुक्माङ्गदसुतो बली ।
आद्ये कृतयुगे जातः सृष्टिकाले स वासवः ३७।
तत्कथं देवदेवेश अन्यो धर्माङ्गदो भुवि ।
अन्यो रुक्मांङ्गदो राजा किं चायं त्रिदशाधिपः ३८।
एतन्मे संशयं जातं तद्भवान्वक्तुमर्हति ।
ब्रह्मोवाच-
हंत ते कथयिष्यामि सर्वसंदेहनाशनम् ३९।
देवस्य लीलासृष्ट्यर्थे वर्तते द्विजसत्तम ।
यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा ४०।
संवत्सराश्च मनवस्तथा यांति युगाः पुनः ।
पश्चात्कल्पः समायाति व्रजाम्येवं जनार्दनम् ४१।
अहमेव महाप्राज्ञ मयि यांति चराचराः ।
पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि ४२।
पुनरहं पुनर्वेदाः पुनस्ते देवता द्विजाः ।
तथा भूपाश्च ते सर्वे स्वचरित्रसमाविलाः ४३।
प्रभवंति महाभाग विद्वांस्तत्र न मुह्यति ।
पूर्वकल्पे महाभागो यथा रुक्मांगदो नृपः ४४।
तथा धर्मांगदश्चायं संजातः ख्यातिमान्द्विजः ।
रामादयो महाप्राज्ञा ययातिर्नहुषस्तथा ४५।
मन्वादयो महात्मानः प्रभवंति लयंति च ।
ऐंद्रं पदं प्रभुंजंति राजानो धर्मतत्पराः ४६।
यथा धर्मांगदो वीरः प्रभुंजति महत्पदम् ।
एवं वेदाश्च देवाश्च पुराणाः स्मृतिपूर्वकाः ४७।
एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम ।
चरितं सुव्रतस्याथ पुण्यं सुगतिदायकम् ४८।
अव्यक्तं तु महाभाग प्रब्रवीमि तवाग्रतः ४९।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुव्रतोपाख्यानंनाम द्वाविंशोऽध्यायः २२।
।
।
खण्डः २ (भूमिखण्डः) — Adhyāya 23
ऋषय ऊचुः-
विचित्रेयं कथा पुण्या धन्या यशोविधायिनी ।
सर्वपापहरा प्रोक्ता भवता वदतां वर १।
सृष्टिसंबंधमेतन्नस्तद्भवान्वक्तुमर्हति ।
पूर्वमेव यथासृष्टिर्विस्तरात्सूतनंदन २।
सूत उवाच-
विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणम् ।
श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत् ३।
हिरण्यकश्यपेनापि व्यापितं भुवनत्रयम् ।
तपसाराध्य प्रबह्माणं वरं प्राप्तं सुदुर्लभम् ४।
तस्माद्देवान्महाभागादमरत्वं तथैव च ।
देवाँल्लोकान्स संव्याप्य प्रभुत्वं स्वयमर्जितम् ५।
ततो देवाः सगंधर्वा मुनयो वेदपारगाः ।
नागाश्च किन्नराः सिद्धा यक्षाश्चैव तथापरे ६।
ब्रह्माणं तु पुरस्कृत्य जग्मुर्नारायणं प्रभुम् ।
क्षीरसागरसंसुप्तं योगनिद्रां गतं प्रभुम् ७।
तं संबोध्य महास्तोत्रैर्देवाः प्रांजलयस्तथा ।
संबुद्धे सति देवेशे वृत्तं तस्य दुरात्मनः ८।
आचचक्षुर्महाप्राज्ञ समाकर्ण्य जगत्पतिः ।
नृसिंहरूपमास्थाय हिरण्यकशिपुं व्यहन् ९।
पुनर्वाराहरूपेण हिरण्याक्षो महाबलः ।
उद्धृता वसुधा पुण्या असुरो घातितस्तदा १०।
अन्यांश्चघातयामास दानवान्घोरदर्शनान् ।
एवं चैतेषु नष्टेषु दानवेषु महत्सु च ११।
अन्येषु तेषु नष्टेषु दितिपुत्रेषु वै तदा ।
पुनः स्थानेषु प्राप्तेषु देवेषु च महत्सु च १२।
यज्ञेष्वेव प्रवृत्तेषु सर्वेषु धर्मकर्मसु ।
सुस्थेषु सर्वलोकेषु सा दितिर्दुःखपीडिता १३।
पुत्रशोकेन संतप्ता हाहाभूता विचेतना ।
भर्तारं सूर्यसंकाशं तपस्तेजः समन्वितम् १४।
दातारं च महात्मानं भर्तारं कश्यपं तदा ।
भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम् १५।
भगवन्नष्टपुत्राहं कृता देवेन चक्रिणा ।
दैतेया दानवाः सर्वे देवैश्चैव निपातिताः १६।
पुत्रशोकानलेनाहं संतप्ता मुनिसत्तम ।
ममानंदकरं पुत्रं सर्वतेजोहरं विभो १७।
सुबलं चारुसर्वांगं देवराजसमप्रभम् ।
बुद्धिमंतं सुसर्वज्ञं ज्ञातारं सर्वपंडितम् १८।
तपस्तेजः समायुक्तं सबलं चारुलक्षणम् ।
ब्रह्मण्यं ज्ञानवेत्तारं देवब्राह्मणपूजकम् १९।
जेतारं सर्वलोकानां ममानंदकरं द्विज ।
सर्वलक्षणसंपन्नं पुत्रं मे देहि त्वं विभो २०।
एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम् ।
कृपाविष्टमनास्तुष्टो दुःखिताया द्विजोत्तम २१।
तामुवाच महाभाग कृपणां दीनमानसाम् ।
तस्याः शिरसि संन्यस्य स्वहस्तं भावतत्परः २२।
भविष्यति महाभागे यादृशो वांछितः सुतः ।
एवमुक्त्वा जगामासौ मेरुं गिरिवरोत्तमम् २३।
तपस्तेपे निरालंबः साधयन्परमव्रतः ।
एतस्मिन्नंतरे सा तु दधार गर्भमुत्तमम् २४।
सा दितिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी ।
शतवर्षप्रमाणं सा शुचि स्वांता बभूव ह २५।
तया वै जनितः पुत्रो ब्रह्मतेजः समन्वितः ।
अथ कश्यप आयातो हर्षेण महतान्वितः २६।
चकार नाम मेधावी तस्य पुत्रस्य सत्तमः ।
बलमित्यब्रवीत्पुत्रं नामतः सदृशो महान् २७।
एवं नाम चकाराथ व्रतबंधं चकार सः ।
प्राह पुत्र महाभाग ब्रह्मचर्यं प्रसाधय २८।
एवमेवं करिष्यामि तव वाक्यं द्विजोत्तम ।
वेदस्याध्ययनं कुर्यां ब्रह्मचर्येण सत्तम २९।
एवं वर्षशतं साग्रं गतं तस्य तपस्यतः ।
मातुः समक्षमायातस्तपस्तेजः समन्वितः ३०।
तपोवीर्यमयं दिव्यं ब्रह्मचर्यं महात्मनः ।
दितिः पश्यति पुत्रस्य हर्षेण महतान्विता ३१।
तमुवाच महात्मानं बलं पुत्रं तपस्विनम् ।
मेधाविनं महात्मानं प्रज्ञाज्ञानविशारदम् ३२।
त्वयि जीवति मेधाविन्प्रजीवंति सुता मम ।
हिरण्यकशिपाद्यास्ते ये हताश्चक्रपाणिना ३३।
वैरं साधय मे वत्स जहि देवान्रिपून्रणे ।
सा दनुस्तमुवाचेदं बलं पुत्रं महाबलम् ३४।
आदाविंद्रं हि देवेंद्रं द्रुतं सूदय पुत्रक ।
पश्चाद्देवा निपात्यंतां ततो गरुडवाहनः ३५।
तयोराकर्ण्य सा देवी अदितिः पतिदेवता ।
दुःखेन महताविष्टा पुत्रमिंद्रमभाषत ३६।
दितिपुत्रो महाकायो वर्द्धते ब्रह्मतेजसा ।
देवानां हि वधार्थाय तपस्तेपे निरंजने ३७।
एवं जानीहि देवेश यदि क्षेममिहेच्छसि ।
एवमाकर्ण्य तद्वाक्यं स मातुः पाकशासनः ३८।
चिंतामवाप दुःखेन महतीं देवराट्तदा ।
महाभयेन संत्रस्तश्चिंतयामास वै ततः ३९।
कथमेनं हनिष्यामि देवधर्मविदूषकम् ।
इति निश्चित्य देवेशो बलस्य निधनं प्रति ४०।
एकदा हि बलः सोपि संध्यार्थं सिंधुमाश्रितः ।
कृष्णाजिनेन दिव्येन दंडकाष्ठेन राजितः ४१।
अमलेनापि पुण्येन ब्रह्मचर्येण तेन सः ।
सागरस्योपकंठे तं संध्यासनमुपागतम् ४२।
जपमानं सुशांतं तं ददृशे पाकशासनः ।
वज्रेण तेन दिव्येन ताडितो दितिनंदनः ४३।
बलं निपतितं दृष्ट्वा गतसत्वं गतं भुवि ।
हर्षेण महताविष्टो देवराण्मुमुदे तदा ४४।
एवं निपात्य तं दैत्यं दितिनंदनमेव च ।
राज्यं चकार धर्मात्मा सुखेन पाकशासनः ४५।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे बलदैत्यवधोनाम त्रयोविंशोऽध्यायः २३।
खण्डः २ (भूमिखण्डः) — Adhyāya 24
सूत उवाच-
हतं श्रुत्वा दितिः पुत्रं सुबलं बलमेव च ।
रुदितं करुणं कृत्वा हा हा कष्टं भृशं मम १।
एवं सुकरुणं कृत्वा बहुकालं तपस्विनी ।
सा गता कश्यपं कांतं तमुवाच यशस्विनी २।
तव पुत्रो महापाप इंद्रः सुरगणेश्वरः ।
सागरोपगतं दृष्ट्वा बलं मे ब्रह्मलक्षणम् ३।
वज्रेण घातयामास संध्यामास्यंतमेव हि ।
एवं श्रुत्वा ततः क्रुद्धो मरीचितनयस्तदा ४।
क्रोधेन महताविष्टः प्रजज्वालेव वह्निना ।
अवलुंच्य जटामेकां शुच्यग्नौ स द्विजोत्तमः ५।
इंद्रस्यैव वधार्थाय पुत्रमुत्पादयाम्यहम् ।
तस्मात्कुंडात्समुत्पन्नो हुताशनमुखादपि ६।
कृष्णांजनचयोपेतः पिंगाक्षो भीषणाकृतिः ।
दंष्ट्राकरालवक्त्रांतो जगतां भयदायकः ७।
महाचर्वरिको घोरः खड्गचर्मधरस्तथा ।
सर्वांगतेजसा दीप्तो महामेघोपमो बली ८।
उवाच कश्यपं विप्रमादेशो मम दीयताम् ।
कस्मादुत्पादितो विप्र भवता कारणं वद ९।
तमहं साधयिष्यामि प्रसादात्तव सुव्रत ।
कश्यप उवाच-
अस्या मनोरथं पुत्र पूरयस्व ममैव हि १०।
अदित्यास्त्वं महाप्राज्ञ जहि इंद्रं दुरात्मकम् ।
निहते देवराजे हि ऐंद्रं पदं प्रभुंक्ष्व च ११।
एवं तेन समादिष्टः कश्यपेन महात्मना ।
वृत्रस्तु उद्यमं चक्रे तस्येंद्रस्य वधाय च १२।
धनुर्वेदस्य चाभ्यासं स चक्रे पौरुषान्वितः ।
बलं वीर्यं तथा क्षात्रं तेजो धैर्यसमन्वितम् १३।
दृष्ट्वा हि तस्य दैत्यस्य सहस्राक्षो भयातुरः ।
उपायं चिंतितं तस्य वृत्रस्यापि दुरात्मनः १४।
वधार्थं देवदेवेन समाहूय महामुनीन् ।
सप्तर्षीन्प्रेषयामास वृत्रं दैत्येश्वरं प्रति १५।
भवंतस्तत्र गच्छंतु यत्र वृत्रः स तिष्ठति ।
संधिं कुर्वंतु वै तेन सार्द्धं मम मुनीश्वराः १६।
एवं तेन समादिष्टा मुनयः सप्त ते तदा ।
वृत्रासुरं ततः प्रोचुः सहस्राक्ष प्रचालिताः १७।
सख्यं कर्तुं प्रयच्छेत्स क्रियतां दैत्यसत्तम ।
ऋषयः सप्ततत्त्वज्ञा ऊचुर्वृत्रं महाबलम् १८।
सहस्राक्षो महाप्राज्ञो भवता सह सत्तम ।
मैत्रमिच्छति वै कर्तुं तत्कथं न करोषि किम् १९।
अर्धमैंद्रं पदं वीर सत्वं भुंक्ष्व सुखेन वै ।
वर्तंत्वर्द्धेन इंद्रस्तु असुरा देवतास्तथा २०।
सुखं वर्तंतु ते सर्वे वैरं चैव विसृज्य वै ।
वृत्र उवाच-
यदि सत्येन देवेंद्रो मैत्रमिच्छति सत्तमः २१।
सत्यमाश्रित्य चैवाहं करिष्ये नात्र संशयः ।
छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत् २२।
तदा किं क्रियते विप्रा इत्यर्थे प्रत्ययं हि किम् ।
ऋषयस्त्विंद्रमाचख्युरित्यर्थं प्रत्ययं वद २३।
तन्नस्त्वं सत्यतां ब्रूहि यदि सख्यमिहेच्छसि ।
इंद्र उवाच-
यद्यऽसत्येन वर्तामि भवद्भिः सह छद्मना २४।
ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः ।
छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत् २५।
ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः ।
इत्युवाच महाप्राज्ञ त्वामेवं स पुरंदरः २६।
एतेन प्रत्ययेनापि सख्यं कुरु महामते ।
वृत्र उवाच-
भवतां शिष्टमार्गेण सत्येनानेन तस्य च २७।
मैत्रमेवं करिष्यामि तेन सार्द्धं द्विजोत्तमाः ।
वृत्रमिंद्रस्यसंस्थानं नीतं ब्राह्मणपुङ्गवैः २८।
इन्द्रस्तमागतं दृष्ट्वा वृत्रं मित्रार्थमुद्यतः ।
सिंहासनात्समुत्थाय अर्घमादाय सत्वरः २९।
ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तम ।
अर्धं भुंक्ष्व महाप्राज्ञ ऐंद्रमेतन्महत्पदम् ३०।
वर्तितव्यं सुखेनापि आवाभ्यां दैत्यसत्तम ।
एवं विश्वासयन्दैत्यं वृत्र मैत्रेण वै तदा ३१।
गतेषु तेषु विप्रेषु स्वस्थानं द्विजसत्तम ।
छिद्रं पश्यति दुष्टात्मा वृत्रस्यापि सदैव हि ३२।
सावधानत्वमिंद्रोपि दिवारात्रौ प्रचिंतयेत् ।
तस्यच्छिद्रं न पश्येत वृत्रस्यापि महात्मनः ३३।
उपायं चिंतयामास तस्यैव वधहेतवे ।
रंभा संप्रेषिता तेन मोहयस्व महासुरम् ३४।
येनकेनाप्युपायेन यथा हत्वा लभे सुखम् ।
तथा कुरुष्व कल्याणि संमोहाय सुरद्विषः ३५।
वनं पुण्यं महादिव्यं पुण्यपादपसेवितम् ।
बहुवृक्षफलोपेतं मृगपक्षिसमाकुलम् ३६।
विमानमंदिरैर्दिव्यैः सर्वत्र परिशोभितम् ।
दिव्यगंधर्वसंगीतं भ्रमराकुलितं सदा ३७।
कोकिलानां रुतैः पुण्यैः सर्वत्र मधुरायतैः ।
शिखिसारंगनादैश्च सर्वत्र सुसमाकुलम् ३८।
दिव्यैस्तु चंदनैर्वृक्षैः सर्वत्र समलंकृतम् ।
वापीकुंडतडागैश्च जलपूर्णैर्मनोहरैः ३९।
कमलैः शतपत्रैश्च पुष्पितैः समलंकृतम् ।
देवगंधर्वसंसिद्धैश्चारणैश्चैव किन्नरैः ४०।
मुनिभिः शुशुभे दिव्यैर्दिव्योद्यानवरेण च ।
अप्सरोगणसंकीर्णं नानाकौतुकमंगलैः ४१।
हेमप्रासादसंबाधं दंडच्छत्रैश्च चामरैः ।
कलशैश्च पताकाभिः सर्वत्रसमलंकृतम् ४२।
वेदध्वनिसमाकीर्णं गीतध्वनिसमाकुलम् ।
एवं नंदनमासाद्य सा रंभा चारुहासिनी ४३।
अप्सरोभिः समं तत्र क्रीडत्येवं विलासिनी ।
सूत उवाच-
एकदा तु स वृत्रो वै कालाकृष्टो गतो वनम् ४४।
कतिभिर्दानवैः सार्द्धं मुदया परया युतः ।
अलक्ष्ये भ्रमते पार्श्वं तस्यैव च महात्मनः ४५।
देवराजोपि विप्रेंद्रश्छिद्रान्वेषी द्विषां किल ।
स हि वृत्रो महाप्राज्ञो विश्वस्तः सर्वकर्मसु ४६।
इंद्रं मित्रं परं जानन्भयं चक्रे न तस्य सः ।
भ्रममाणो वनं पश्येत्सर्वत्र परमं शुभम् ४७।
सुरम्यं कौतुकवनं वनितागणसंकुलम् ।
चंदनस्यापि वृक्षस्य छायां शीतां सुपुण्यदाम् ४८।
समाश्रित्य विशालाक्षी रंभा तत्र प्रदीव्यति ।
सखीभिस्तु महाभागा दोलारूढा यशस्विनी ४९।
गायते सुस्वरं गीतं सर्वविश्वप्रमोहनम् ।
तत्र वृत्रः समायातः कामाकुलितमानसः ५०।
दोलारूढां समालोक्य रंभां चारुसुलोचनाम् ५१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वृत्रवंचनंनाम चतुर्विंशोऽध्यायः २४।
।
खण्डः २ (भूमिखण्डः) — Adhyāya 25
सूत उवाच-
इयं हि का गायति चारुलोचना विलासभावैः परिविश्वमेव ।
अतीव बाला शुशुभे मनोहरा संपूर्णभावैः परिमोहयेज्जनम् १।
दृष्ट्वा स रंभां कमलायताक्षीं पीनस्तनीं चर्चितकुंकुमांगीम् ।
पद्माननां कामगृहं ममैषा नो वा रतिश्चारुमनोहरेयम् २।
संपूर्णभावां परिरूपयुक्तां कामांगशीलामतिशीलभावाम् ।
यास्याम्यहं वश्यमिहैव अस्या मनोभवेनाद्य इहैव प्रेषितः ३।
इतीव दैत्यः सुविचिंतयान्वितः कामेन मुग्धो बहुकालनोदितः ।
समातुरस्तत्र जगाम सत्वरमुवाच तां दीनमनाः सुलोचनाम् ४।
कस्यासि वा सुंदरि केन प्रेषिता किं नाम ते पुण्यतमं वदस्व मे ।
तवैव रूपेण महातितेजसा मुग्धोस्मि बाले मम वश्यतां व्रज ५।
एवमुक्ता विशालाक्षी वृत्रं कामाकुलं प्रति ।
अहं रंभा महाभाग क्रीडार्थं वनमुत्तमम् ६।
सखीसार्धं समायाता नंदनं वनमुत्तमम् ।
त्वं तु को वा किमर्थं हि मम पार्श्वं समागतः ७।
वृत्र उवाच-
श्रूयतामभिधास्यामि योहं बाले समागतः ।
हुताशनात्समुत्पन्नः कश्यपस्य सुतः शुभे ८।
सखाहं देवदेवस्य इंद्र स्यापि वरानने ।
ऐंद्रं पदं वरारोहे अर्धं मे भुक्तिमागतम् ९।
अहं वृत्रः कथं देवि मामेवं न तु विंदसि ।
त्रैलोक्यं वशमायातं यस्यैव वरवर्णिनि १०।
अहं शरणमायातः कामाद्रक्ष वरानने ।
भजस्व मां विशालाक्षि कामेनाकुलितं प्रिये ११।
रंभोवाच-
वशगा हं तवैवाद्य भविष्यामि न संशयः ।
यं यं वदाम्यहं वीर तं तं कार्यं त्वयैव हि १२।
एवमस्तु महाभागे तं तं सर्वं करोम्यहम् ।
एवं संबंधकं कृत्वा तया सह महाबलः १३।
तस्मिन्वने महापुण्ये रेमे दानवसत्तमः ।
तस्या गीतेन नृत्येन हास्येन ललितेन च १४।
अतिमुग्धो महादैत्यः स तस्याः सुरतेन च ।
तमुवाच महाभागं वृत्रं दानवसत्तमम् १५।
सुरापानं कुरुष्वेह पिबस्व मधुमाधवीम् ।
तामुवाच विशालाक्षीं रंभां शशिनिभाननाम् १६।
पुत्रोहं ब्राह्मणस्यापि वेदवेदांगपारगः ।
सुरापानं कथं भद्रे करिष्यमि विनिंदितम् १७।
तया तु रंभया देव्या प्रीत्या दत्ता सुरा हठात् ।
तस्या दाक्षिण्यभावेन सुरापानं कृतं तदा १८।
अतीवमुग्धं सुरया ज्ञानभ्रष्टो यदाभवत् ।
तदंतरे सुरेंद्रेण वज्रेण निहतस्तदा १९।
ब्रह्महत्यादिकैः पापैः स लिप्तो वृत्रहा ततः ।
ब्राह्मणास्तु ततः प्रोचुरिंद्र पापं कृतं त्वया २०।
अस्माद्वाक्यात्तु विश्वस्तो वृत्रो नाम महाबलः ।
हतो विश्वासभावेन एवं पापं त्वया कृतम् २१।
इंद्र उवाच-
येन केनाप्युपायेन हंतव्योरिः सदैव हि ।
देवब्राह्मणहंतारं यज्ञानां धर्मकंटकम् २२।
निहतं दानवं दुष्टं त्रैलोक्यस्यापि नायकम् ।
तदर्थं कुपिता यूयमेतन्न्यायस्य लक्षणम् २३।
विचारमेवं कर्त्तव्यं भवद्भिर्द्विजसत्तमाः ।
पश्चात्कोपं प्रकर्त्तव्यमन्यायं मम चिंत्यताम् २४।
एवं संबोधिता विप्रा इंद्रेणापि महात्मना ।
ब्रह्मादिभिः सुरैः सर्वैर्बोधितास्ते च सत्तमाः २५।
जग्मुः स्वस्थानमेवं हि निहते धर्मकंटके २६।
इति श्रीपद्मपुराणे भूमिखंडे वृत्रासुरवधोनाम पंचविंशोऽध्यायः २५।
खण्डः २ (भूमिखण्डः) — Adhyāya 26
सूत उवाच-
तं पुत्रं निहतं श्रुत्वा सा दितिर्दुःखपीडिता ।
पुत्रशोकेन तेनैव संदग्धा द्विजसत्तमाः १।
पुनरूचे महात्मानं कश्यपं मुनिपुंगवम् ।
इंद्रस्यापि सुदुष्टस्य वधार्थं द्विजसत्तम २।
ब्रह्मतेजोमयं तीव्रं दुःसहं सर्वदैवतैः ।
पुत्रैकं दीयतां कांत सुप्रियाहं यदा विभो ३।
कश्यप उवाच-
निहतौ बलवृत्रौ च मम पुत्रौ महाबलौ ।
अघमाश्रित्य देवेन इंद्रेणापि दुरात्मना ४।
तस्यैव च वधार्थाय पुत्रमेकं ददाम्यहम् ।
वर्षाणां तु शतैकं त्वं शुचिर्भव यशस्विनि ५।
एवमुक्त्वा स योगींद्रो हस्तं शिरसि वै तदा ।
दत्त्वादित्या सहैवासौ गतो मेरुं तपोवनम् ६।
तपस्तताप सा देवी तपोवननिवासिनी ।
शुचिष्मती सदा भूत्वा पुत्रार्था द्विजसत्तम ७।
ततो देवः सहस्राक्षो ज्ञात्वा उद्यममेव च ।
दित्याश्चैव महाभाग अंतरप्रेक्षकोऽभवत् ८।
पंचविंशाब्दिको भूत्वा देवराड्दैवतोपमः ।
ब्राह्मणस्य च रूपेण तस्याश्चांतिकमागतः ९।
स तां प्रणम्य धर्मात्मा मातरं तपसान्विताम् ।
तयोक्तस्तु सहस्राक्षो भवान्को द्विजसत्तम १०।
तामुवाच सहस्राक्षः पुत्रोऽहं तव शोभने ।
ब्राह्मणो वेदविद्वांश्च धर्मं जानामि भामिनि ११।
तपसस्तव साहाय्यं करिष्ये नात्र संशयः ।
शुश्रूषति स तां देवीं मातरं तपसान्विताम् १२।
तमिंद्रं सा न जानाति आगतं दुष्टकारिणम् ।
धर्मपुत्रं विजानाति शुश्रूषंतं दिने दिने १३।
अंगं संवाहयेद्देव्याः पादौ प्रक्षालयेत्ततः ।
पत्रं मूलं फलं तत्र वल्कलाजिनमेव च १४।
ददात्येवं स धर्मात्मा तस्यै दित्यै सदैव हि ।
भक्त्या संतोषिता तस्य संतुष्टा तमभाषत १५।
पुत्रे जाते महापुण्ये इंद्रे च निहते सति ।
कुरु राज्यं महाभाग पुत्रेण मम दैवकम् १६।
एवमस्तु महाभागे ते प्रसादाद्भविष्यति ।
तस्याश्चैवांतरं प्रेप्सुरभवत्पाकशासनः १७।
ऊने वर्षशते चास्या ददर्शांतरमच्युतः ।
अकृत्वा पादयोः शौचं दितिः शयनमाविशत् १८।
शय्यांते सा शिरः कृत्वा मुक्तकेशातिविह्वला ।
निद्रामाहारयामास तस्याः कुक्षिं प्रविश्य ह १९।
वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृंतत ।
वज्रेण तीक्ष्णधारेण रुरोद उदरे स्थितः २०।
स गर्भस्तत्र विप्रेंद्रा इंद्रहस्तगतेन वै ।
रोदमानं महागर्भं तमुवाच पुनः पुनः २१।
शतक्रतुर्महातेजा मा रोदीरित्यभाषत ।
सप्तधा कृतवाञ्छक्रस्तं गर्भं दितिजं पुनः २२।
एकैकं सप्तधा च्छित्त्वा रुदमानं स देवराट् ।
एवं वै मरुतो जातास्ते तु देवा महौजसः २३।
यथा इंद्रेण ते प्रोक्ता बभूवुर्नामभिस्ततः ।
अतिवीर्य महाकायास्तीव्र तेजः पराक्रमाः २४।
एकोना वै बभूवुस्ते पंचाशन्मरुतस्ततः ।
मरुतो नाम ते ख्याता इंद्रमेव समाश्रिताः २५।
भूतानामेव सर्वेषां रोचयंति गणं महत् ।
निकायेषु निकायेषु हरिः प्रादात्प्रजापतिः २६।
क्रमशस्तानि राज्यानि पृथुपूर्वाणि तानि वै ।
स देवः पुरुषः कृष्णः सर्वव्यापी जगद्गुरुः २७।
तपोजिष्णुर्महातेजाः सर्व एकः प्रजापतिः ।
पर्जन्यः पावकः पुण्यः सर्वात्मा सर्व एव हि २८।
तस्य सर्वमिदं पुण्यं जगत्स्थावरजंगमम् ।
भूतसर्गमिमं सम्यग्जानतो द्विजसत्तम २९।
नावृत्तिभयमस्तीह परलोकभयं कुतः ।
इमां सृष्टिं महापुण्यां सर्वपापहरां शुभाम् ३०।
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ।
स हि धन्यश्च पुण्यश्च स हि सत्यसमन्वितः ३१।
यः शृणोति इमां सृष्टिं स याति परमां गतिम् ।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ३२।
इति श्रीपद्मपुराणे भूमिखंडे मरुदुत्पत्तिर्नाम षड्विंशोऽध्यायः २६।
खण्डः २ (भूमिखण्डः) — Adhyāya 27
सूत उवाच-
स प्रभुः सर्वलोकेशो ह्यभिषिच्य ततो नृपम् ।
पृथुं वेनस्य तनयं सर्वराज्ये महाप्रभुम् १।
महाबाहुं महाकायं यथेंद्रं च सुरेश्वरम् ।
क्रमेणापि ततो ब्रह्मा राज्यानि च विचार्य वै २।
यद्यस्यापि भवेद्योग्यं दातुं तदुपचक्रमे ।
वृक्षाणां ब्राह्मणानां च ग्रहर्क्षाणां तथैव च ३।
सोमं राज्ये सोभ्यषिंचत्तपसां च महामतिः ।
धर्माणां धर्मयज्ञानां पुण्यानां पुण्यतेजसाम् ४।
अपां मध्ये तथा देवं तीर्थानां हि तथैव च ।
वरुणं सोभिषिच्यैव रत्नानां च द्विजोत्तम ५।
अन्येषां सर्वयक्षाणां राज्ये वैश्रवणं पुनः ।
विष्णुमेव महाप्राज्ञमादित्यानां पितामहः ६।
राज्ये संस्थापयामास जनता हितहेतवे ।
सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम् ७।
समर्थं सर्वधर्मज्ञं प्रजापतिगणेश्वरम् ।
प्रह्रादं सर्वधर्मज्ञं स हि राज्ये न्यरूपयत् ८।
दैत्यानां दानवानां च विष्णुतेजः समन्वितम् ।
यमं वैवस्वतं धर्मं पैत्र्ये राज्येभिषिच्य च ९।
यक्षराक्षसभूतानां पिशाचोरगसर्पिणाम् ।
योगिनीनां च सर्वासां वैतालानां महात्मनाम् १०।
कंकालानां हि सर्वेषां कूष्मांडानां तथैव च ।
पार्थिवानां च सर्वेषां गिरिशं शूलपाणिनम् ११।
पर्वतानां हि सर्वेषां हिमवंतं महागिरिम् ।
नदीनां च तडागानां वापिकानां तथैव च १२।
कुंडानां कूपराज्ये हि दिव्येषु च सुरेश्वरः ।
सागरं स्थापितं पुण्यं सर्वतीर्थमनुत्तमम् १३।
गंधर्वाणां तु सर्वेषां राज्ये पुण्ये तथैव च ।
चित्ररथं ततो ब्रह्मा अभिषिच्य सुरेश्वरः १४।
नागानां पुण्यवीर्याणां वासुकिं च चतुर्मुखः ।
सर्पाणां तु तथा राज्ये अभिषिच्य स तक्षकम् १५।
वारणानां ततो राज्ये ऐरावणमसिंचत ।
अश्वानां चैव सर्वेषामुच्चैःश्रवसमेव च १६।
पक्षिणां चैव सर्वेषां वैनतेयमथापि सः ।
मृगाणां च ततो राज्ये ब्रह्मा सिंहमथादिशत् १७।
गोवृषं तु गवां मध्ये अभिषिच्य प्रजापतिः ।
वनस्पतीनां सर्वेषां प्लक्षमेव पितामहः १८।
एवं राज्यानि सर्वाणि संस्थाप्य च पितामहः ।
दिशापालांस्ततो ब्रह्मा स्थापयामास सत्तमः १९।
वैराजस्य तथा पुत्रं पूर्वस्यां दिशि सत्तमः ।
सुधन्वानं दिशःपालं राजानं सोभ्यषिंचत २०।
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः ।
पुत्रं शंखपदं नाम राजानं सोभ्यषिंचत २१।
पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापतेः ।
पुत्रं च पुष्करं नाम सोऽभ्यषिंचत्प्रजापतिः २२।
उत्तरस्यां दिशि ब्रह्म नलकूबरमेव च ।
एवं चैवाभ्यषिंचच्च दिक्पालान्समहौजसः २३।
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते २४।
पृथुश्चैवं महाभागः सोभिषिक्तो नराधिपः ।
राजसूयादिभिः सर्वैरभिषिक्तो महामखैः २५।
विधिना वेददृष्टेन राजराज्ये महीपतिः ।
चाक्षुषे नाम्नि संपुण्ये अतीते च महौजसि २६।
मन्वंतरे महाभाग देवपुण्यहितैषिणि ।
ततो वैवस्वतायैव मनवे राज्यमादिशत् २७।
विस्तरं चापि व्याख्यास्ये पृथोश्चैव महात्मनः ।
यदि मामेव विप्रेन्द्र शुश्रूषसि अतंद्रितः २८।
एतदेवमधिष्ठानं महत्पुण्यं प्रकीर्तितम् ।
सर्वेष्वेव पुराणेषु एतद्धि निश्चितं सदा २९।
पुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् ।
धन्यं पवित्रमायुष्यं पुत्रदं वृद्धिदायकम् ३०।
यः शृणोति नरो भक्त्या भावध्यानसमन्वितः ।
अश्वमेधफलं तस्य जायते नात्र संशयः ३१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे
राज्याभिषेकोनाम सप्तविंशोऽध्यायः २७।
खण्डः २ (भूमिखण्डः) — Adhyāya 28
अष्टाविंशतितमोऽध्यायः
ऋषय ऊचुः-
विस्तरेण समाख्याहि जन्म तस्य महात्मनः ।
पृथोश्चैव महाभाग श्रोतुकामा वयं पुनः १।
राज्ञा तेन यथा दुग्धा इयं धात्री महात्मना ।
पुनर्देवैश्च पितृभिर्मुनिभस्तत्त्ववेदिभिः २।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ।
शैलैश्चैव पिशाचैश्च गंधर्वैः पुण्यकर्मभिः ३।
ब्राह्मणैश्च तथा सिद्धै राक्षसैर्भीमविक्रमैः ।
पूर्वमेव यथा दुग्धा अन्यैश्च सुमहात्मभिः ४।
तेषामेव हि सर्वेषां विशेषं पात्रधारणम् ।
क्षीरस्यापि विधिं ब्रूहि विशेषं च महामते ५।
वेनस्यापि नृपस्यैव पाणिरेव महात्मनः ।
ऋषिभिर्मथितः पूर्वं स कस्मादिह कारणात् ६।
क्रुद्धश्चैव महापुण्यैः सूतपुत्र वदस्व नः ।
विचित्रेयं कथा पुण्या सर्वपापप्रणाशिनी ७।
श्रोतुकामा महाभाग तृप्तिर्नैव प्रजायते ।
सूत उवाच-
वैन्यस्य हि पृथोश्चैव तस्य विस्तरमेव च ८।
जन्मवीर्यं तथा क्षेत्रं पौरुषं द्विजसत्तमाः ।
प्रवक्ष्यामि यथा सर्वं चरित्रं तस्य धीमतः ९।
शुश्रूषध्वं महाभागा मामेवं द्विजसत्तमाः ।
अभक्ताय न वक्तव्यमश्रद्धाय शठाय च १०।
सुमूर्खाय सुमोहाय कुशिष्याय तथैव च ।
श्रद्धाहीनाय कूटाय सर्वनाशाय मा द्विजाः ११।
अन्यथा पठते यो हि निरयं च प्रयाति हि ।
भवंतो भावसंयुक्ताः सत्यधर्मपरायणाः १२।
भवतामग्रतः सर्वं चरित्रं पापनाशनम् ।
संप्रवक्ष्याम्यशेषेण शृणुध्वं द्विजसत्तमाः १३।
स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च संमितम् ।
रहस्यमृषिभिः प्रोक्तं प्रवक्ष्यामि द्विजोत्तमाः १४।
यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य विस्तरम् ।
ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताकृतम् १५।
सप्तजन्मार्जितं पापं श्रुतमात्रेण नश्यति ।
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत् १६।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ।
एवं फलं समाप्नोति पठनाच्छ्रवणादपि १७।
पृथोर्जन्मचरित्रं च पवित्रं पापनाशनम् ।
धर्मगोप्ता महाप्राज्ञो वेदशास्त्रार्थकोविदः १८।
अत्रिवंशसमुत्पन्नः पूर्वमत्रिसमः प्रभुः ।
स्रष्टा सर्वस्य धर्मस्य अंगो नाम प्रजापतिः १९।
य आसीत्तस्य पुत्रो वै वेनो नाम प्रजापतिः ।
धर्ममेवं परित्यज्य सर्वदैव प्रवर्तते २०।
मृत्योः कन्या महाभागा सुनीथा नाम नामतः ।
तां तु अंगो महाभागः सुनीथामुपयेमिवान् २१।
तस्यामुत्पादयामास वेनं धर्मप्रणाशनम् ।
मातामहस्य दोषेण वेनः कालात्मजात्मजः २२।
निजधर्मं परित्यज्य अधर्मनिरतोभवत् ।
कामाल्लोभान्महामोहात्पापमेव समाचरत् २३।
वेदाचारमयं धर्मं परित्यज्य नराधिपः ।
अन्ववर्तत पापेन मदमत्सरमोहितः २४।
वेदाध्यायं विना लोके प्रावर्तंत तदा जनाः ।
निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रजापतौ २५।
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ।
इत्युवाच स दुष्टात्मा ब्राह्मणान्प्रति नित्यशः २६।
नाध्येतव्यं न होतव्यं न देयं दानमेव च ।
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः २७।
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ।
अहमिज्यश्च यष्टा च यज्ञश्चेति पुनः पुनः २८।
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि ।
इत्यब्रवीत्सदा वेनो ह्यहं विष्णुः सनातनः २९।
अहं ब्रह्मा अहं रुद्रो मित्र इंद्रः सदागतिः ।
अहमेव प्रभोक्ता च हव्यं कव्यं न संशयः ३०।
अथ ते मुनयः क्रुद्धा वेनं प्रति महाबलाः ।
ऊचुस्ते संगताः सर्वे राजानं पापचेतनम् ३१।
ऋषय ऊचुः-
राजा हि पृथिवीनाथः प्रजां पालयते सदा ।
धर्ममूर्तिः स राजेंद्र तस्माद्धर्मं हि रक्षयेत् ३२।
वयं दीक्षां प्रवेक्ष्यामो यज्ञे द्वादशवार्षिकीम् ।
अधर्मं कुरु मा यागे नैष धर्मः सतां गतिः ३३।
कुरु धर्मं महाराज सत्यं पुण्यं समाचर ।
प्रजाहं पालयिष्यामि इति ते समयः कृतः ३४।
तांस्तथाब्रुवतः सर्वान्महर्षीनब्रवीत्तदा ।
वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थकम् ३५।
वेन उवाच-
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ।
श्रुतवीर्यतपः सत्ये मया वा कः समो भुवि ३६।
प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।
संमूढा न विदुर्नूनं भवंतो मां विचेतसः ३७।
इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा ।
द्यां भुवं चैव रुंधेयं नात्र कार्या विचारणा ३८।
यदा न शक्यते मोहादवलेपाच्च पार्थिव ।
अपनेतुं तदा वेनं ततः क्रुद्धा महर्षयः ३९।
विस्फुरंतं तदा वेनं बलाद्गृह्य ततो रुषा ।
वेनस्य तस्य सव्योरुं ममंथुर्जातमन्यवः ४०।
कृष्णांजनचयोपेतमतिह्रस्वं विलक्षणम् ।
दीर्घास्यं च विरूपाक्षं नीलकंचुकवर्चसम् ४१।
लंबोदरं व्यूढकर्णमतिभीतं दुरोदरम् ।
ददृशुस्ते महात्मानो निषीदेत्यब्रुवंस्ततः ४२।
तेषां तद्वचनं श्रुत्वा निषसाद भयातुरः ।
पर्वतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः ४३।
निषादाश्च किराताश्च भिल्लानाहलकास्तथा ।
भ्रमराश्च पुलिंदाश्च ये चान्ये म्लेच्छजातयः ४४।
पापाचारास्तु ते सर्वे तस्मादंगात्प्रजज्ञिरे ।
अथ ते ऋषयः सर्वे प्रसन्नमनसस्ततः ४५।
गतकल्मषमेवं तं जातं वेनं नृपोत्तमम् ।
ममंथुर्दक्षिणं पाणिं तस्यैव च महात्मनः ४६।
मथिते तस्य पाणौ तु संजातं स्वेदमेव हि ।
पुनर्ममंथुस्ते विप्रा दक्षिणं पाणिमेव च ४७।
सुकरात्पुरुषो जज्ञे द्वादशादित्यसन्निभः ।
तप्तकांचनवर्णांगो दिव्यमाल्यांबरावृतः ४८।
दिव्याभरणशोभांगो दिव्यगंधानुलेपनः ।
मुकुटेनार्कवर्णेन कुंडलाभ्यां विराजते ४९।
महाकायो महाबाहू रूपेणाप्रतिमो भुवि ।
खड्गबाणधरो धन्वी कवची च महाप्रभुः ५०।
सर्वलक्षणसंपन्नः सर्वालंकारभूषणः ।
तेजसा रूपभावेन सुवर्णैश्च महामतिः ५१।
दिवि इंद्रो यथा भाति भुवि वेनात्मजस्तथा ।
तस्मिञ्जाते महाभागे देवाश्च ऋषयोमलाः ५२।
उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति ।
दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्ज्वलः ५३।
आद्यमाजगवं नाम धनुर्गृह्य महावरम् ।
शरान्दिव्यांश्च रक्षार्थे कवचं च महाप्रभम् ५४।
जाते सति महाभागे पृथौ वीरे महात्मनि ।
संप्रह्रष्टानि भूतानि समस्तानि द्विजोत्तम ५५।
सर्वतीर्थानि तोयानि पुण्यानि विविधानि च ।
तस्याभिषेके विप्रेंद्राः सर्व एव प्रतस्थिरे ५६।
पितामहाद्या देवास्तु भूतानि विविधानि च ।
स्थावराणि चराण्येव अभ्यषिंचन्नराधिपम् ५७।
महावीरं प्रजापालं पृथुमेव द्विजोत्तम ।
पृथुर्वैन्यो राजराज्ये अभिगम्य चराचरैः ५८।
देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः ।
राज्ञां समधिराज्ये वै पृथुर्वैन्यः प्रतापवान् ५९।
तस्य पित्रा प्रजाः सर्वाः कदा नैवानुरंजिताः ।
तेनानुरंजिताः सर्वा मुमुदिरे सुखेन वै ६०।
अनुरागात्तस्य वीरस्य नाम राजेत्यजायत ।
प्रयातस्य सुवीरस्य समुद्रस्य द्विजोत्तम ६१।
आपस्तस्तंभिरे सर्वा भयात्तस्य महात्मनः ।
दुर्गं मार्गं विलोप्यैव सुमार्गं पर्वता ददुः ६२।
ध्वजभंगं न चक्रुस्ते गिरयः सर्व एव ते ।
अकृष्टपच्या पृथिवी सर्वत्र कामधेनवः ६३।
पर्जन्यः कामवर्षी च वेदयज्ञान्महोत्सवान् ।
कुर्वंति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे ६४।
सर्वकामफला वृक्षास्तस्मिञ्छासति पार्थिवे ।
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ६५।
सर्वे सुखेन जीवंति लोका धर्मपरायणाः ।
तस्मिञ्छासति दुर्धर्षे राजराजे महात्मनि ६६।
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।
सूत सूत्यां समुत्पन्नः सौम्येहनि महात्मनि ६७।
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
पृथोःस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ६८।
सूतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः ।
शिखासूत्रेण संयुक्तो वेदाध्ययनतत्परः ६९।
सर्वशास्त्रार्थवेत्तासावग्निहोत्रमुपासते ।
दानाध्ययनसंपन्नो ब्रह्माचारपरायणः ७०।
देवानां ब्राह्मणानां च पूजनाभिरतः सदा ।
याचकस्तावकैः पुण्यैर्वेदमंत्रैर्यजेत्किल ७१।
ब्रह्माचारपरो नित्यं संबंधं ब्राह्मणैः सह ।
एवं स मागधो जज्ञे वेदाध्ययनवर्जितः ७२।
बंदिनश्चारणाः सर्वे ब्रह्माचारविवर्जिताः ।
ज्ञेयास्ते च महाभागाः स्तावकाः प्रभवंति ते ७३।
स्तवनार्थमुभौ सृष्टौ निपुणौ सूतमागधौ ।
तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः ७४।
कर्मैतदनुरूपं च यादृशोयं नराधिपः ।
तावूचतुस्तदा सर्वांस्तानृषीन्बंदिमागधौ ७५।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ।
न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ७६।
कर्मणा येन कुर्यावः स्तोत्रमस्य महात्मनः ।
जानीवस्तन्न विप्रेंद्रा अविज्ञातगुणस्य हि ७७।
भविष्यैस्तैर्गुणैः पुण्यैः स्तोतव्योयं नरोत्तमः ।
कृतवान्यानि कर्माणि पृथुरेव महायशाः ७८।
ऊचुस्ते मुनयः सर्वे गुणान्दिव्यान्महात्मनः ।
सत्यवाञ्ज्ञानसंपन्नो बुद्धिमान्ख्यातविक्रमः ७९।
सदा शूरो गुणग्राही पुण्यवांस्त्यागवान्गुणी ।
धार्मिकः सत्यवादी च यज्ञानां याजकोत्तमः ८०।
प्रियवाक्सत्यवादी च धान्यवान्धनवान्गुणी ।
गुणज्ञः सगुणग्राही धर्मज्ञः सत्यवत्सलः ८१।
सर्वगः सर्ववेत्ता च ब्रह्मण्यो वेदवित्सुधीः ।
प्रज्ञावान्सुस्वरश्चैव वेदवेदांगपारगः ८२।
धाता गोप्ता प्रजानां स विजयी समरांगणे ।
राजसूयादिकानां तु यज्ञानां राजसत्तमः ८३।
आहर्ता भूतले चैकः सर्वधर्मसमन्वितः ।
एते गुणा अस्य चांगे भविष्यंति महात्मनः ८४।
ऋषिभिस्तौ नियुक्तौ तु कुर्वाणौ सूतमागधौ ।
गुणैश्चैव भविष्यैश्च स्तोत्रं तस्य महात्मनः ८५।
तदा प्रभृति वै लोकास्तवैस्तुष्टा महामते ।
पुरतश्च भविष्यंति दातारः स्तावनैर्गुणैः ८६।
ततः प्रभृति लोकेस्मिन्स्तवेषु द्विजसत्तमाः ।
आशीर्वादाः प्रयुज्यंते तेषां द्रविणमुत्तमम् ८७।
सूताय मागधायैव बंदिने च महोदयम् ।
चारणाय ततः प्रादात्तैलंगं देशमुत्तमम् ८८।
पृथुः प्रसादाद्धर्मात्मा हैहयं देशमेव च ।
रेवातीरे पुरं कृत्वा स्वनाम्ना नृपनंदनः ८९।
ब्राह्मणेभ्यो द्विजश्रेष्ठ यजन्दाता पृथुः पुरा ।
सर्वज्ञं सर्वदातारं धर्मवीर्यं नरोत्तमम् ९०।
तं ददृशुः प्रजाः सर्वा मुनयश्च तपोमलाः ।
ऊचुः परस्परं पुण्या एष राजा महामतिः ९१।
देवादीनां वृत्तिदाता अस्माकं च विशेषतः ।
प्रजानां पालकश्चैव वृत्तिदो हि भविष्यति ९२।
इयं धात्री महाप्राज्ञा उप्तं बीजं पुरा किल ।
जीवनार्थं प्रजाभिस्तु ग्रासयित्वा स्थिराभवत् ९३।
ततः पृथुं द्विजश्रेष्ठ प्रजाः समभिदुद्रुवुः ।
विधत्स्वेति सुवृत्तिं नो मुनीनां वचनं तदा ९४।
ग्रासयित्वा तदान्नानि पृथ्वी जाता सुनिश्चला ।
भयं प्रजानां सुमहत्स दृष्ट्वा राजसत्तमः ९५।
महर्षिवचनात्सोपि प्रगृह्य सशरं धनुः ।
अभ्यधावत वेगेन पृथ्वीं क्रुद्धो नराधिपः ९६।
कौंजरं रूपमास्थाय भयात्तस्य तु मेदिनी ।
वनेषु दुर्गदेशेषु गुप्ता भूत्वा चचार सा ९७।
न पश्यति महाप्राज्ञः कुरूपं द्विजसत्तमाः ।
आचचक्षुर्महाप्राज्ञं कुंजरं रूपमास्थिता ९८।
ततः कुंजररूपांतामभिदुद्राव पार्थिवः ।
ताड्यमाना च सा तेन निशितैर्मार्गणैस्ततः ९९।
हरिरूपं समास्थाय पलायनपराभवत् ।
हरेरूपं समास्थाय अभिदुद्राव पार्थिवः १००।
सोतिक्रुद्धो महाप्राज्ञो रोषारुणसुलोचनः ।
सुबाणैर्निशितैस्तीक्ष्णैराजघान स मेदिनीम् १०१।
आकुलव्याकुला जाता बाणाघातहता तदा ।
माहिषं रूपमास्थाय पलायनपराभवत् १०२।
अभ्यधावत वेगेन बाणपाणिर्धनुर्धरः ।
सा गौर्भूत्वा द्विजश्रेष्ठा स्वर्गमेव गता ध्रुवम् १०३।
ब्रह्मणः शरणं प्राप्ता विष्णोश्चैव महात्मनः ।
रुद्रादीनां च देवानां त्राणस्थानं न विंदति १०४।
अलभंती भृशं त्राणं वैन्यमेवान्वविंदत ।
तस्य पार्श्वं पुनः प्राप्ता बाणघातसमाकुला १०५।
बद्धांजलिपुटाभूत्वा तं पृथुं वाक्यमब्रवीत् ।
त्राहित्राहीति राजेंद्र सा राजानमभाषत १०६।
अहं धात्री महाभाग सर्वाधारा वसुंधरा ।
निहतायां मयि नृप निहतं लोकसप्तकम् १०७।
कृतांजलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा ।
उवाच चैनं राजानमवध्या स्त्री सदा नृप १०८।
स्त्रीणां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः ।
गवां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः १०९।
मया विना महाराज कथं धारयसे प्रजाः ।
अहं यदास्थिरा राजंस्तदा लोकाश्चराचराः ११०।
स्थिरत्वं यांति ते सर्वे स्थिरीभूता यदा ह्यहम् ।
मां विना तु इमे लोका विनश्येयुश्चराचराः १११।
ततः प्रजा विनश्येयुर्मम नाशे समागते ।
कथं धारयिता चासि प्रजा राजन्मया विना ११२।
मयि लोकाः स्थिरा राजन्मयेदं धार्यते जगत् ।
मद्विनाशे विनश्येयुः प्रजाः सर्वा न संशयः ११३।
न मामर्हसि वै हंतुं श्रेयश्चेत्त्वं चिकीर्षसि ।
प्रजानां पृथिवीपाल शृणु देव वचो मम ११४।
उपायैश्च महाभाग सुसिद्धिं यांत्युपक्रमाः ।
समालोक्य ह्युपायं त्वं प्रजा येन धरिष्यति ११५।
मां हत्वा त्वं महाराज धारणे पालने सदा ।
पोषणे च महाप्राज्ञ मद्विना हि कथं नृप ११६।
धरिष्यसि प्रजां चेमां कोपं यच्छ त्वमात्मनः ।
अन्नमयी भविष्यामि धरिष्यामि प्रजामिमाम् ११७।
अहं नारी अवध्या च प्रायश्चित्ती भविष्यसि ।
अवध्यां तु स्त्रियं प्राहुस्तिर्यग्योनिगतामपि ११८।
विचार्यैवं महाराज न धर्मं त्यक्तुमर्हसि ।
एवं नानाविधैर्वाक्यैरुक्तो धात्र्या नराधिपः ११९।
कोपमेनं महाराज त्यज दारुणमेव हि ।
प्रसन्ने त्वयि राजेंद्र तदा स्वस्था भवाम्यहम् १२०।
एवमुक्तस्तया राजा पृथुर्वैन्यः प्रजापतिः ।
तामुवाच महाभागां धरित्रीं द्विजसत्तमाः १२१।
इति श्रीपद्मपुराणे भूमिखंडे पृथूपाख्यानेऽष्टाविंशोऽध्यायः २८।
खण्डः २ (भूमिखण्डः) — Adhyāya 29
पृथुरुवाच-
हते चैव महापापे एकस्मिन्पापचारिणि ।
लोकाः सुखेन जीवंति साधवः पुण्यदर्शिनः १।
तस्मादेकं प्रहर्तव्यं पापिष्ठं पापचेतनम् ।
तस्मात्त्वां हि हनिष्यामि सर्वसत्त्वप्रणाशिनीम् २।
त्वया बीजानि सर्वाणि लुप्तान्येतानि सांप्रतम् ।
ग्रासं कृत्वा स्थिरीभूत्वा प्रजां हत्वा क्व यास्यसि ३।
हते पापे दुराचारे सुखं जीवंतिसाधवः ।
तस्मात्पापं प्रहंतव्यं सत्यमेवं न संशयः ४।
पालितव्यं प्रयत्नेन यस्माद्धर्मः प्रवर्द्धते ।
भवत्या तु महत्पापं प्रजासंक्षयकारकम् ५।
एकस्यार्थेन यो हन्यादात्मनो वा परस्य वा ।
लोकोपतापकं हत्वा न भवेत्तस्य पातकम् ६।
सुखमेष्यंति बहवो यस्मिंस्तु निहते शुभे ।
वसुधे निहते दुष्टे पातकं नोपपातकम् ७।
प्रजानिमित्तं त्वामेव हनिष्यामि न संशयः ।
यदि मे पुण्यसंयुक्तं वचनं न करिष्यति ८।
जगतोऽस्य हितार्थाय साधु चैव वसुंधरे ।
हनिष्ये त्वां शितैर्बाणैर्मद्वाक्यात्तु पराङ्मुखीम् ९।
स्वीयेन तेजसा चैव पुण्यां त्रैलोक्यवासिनीम् ।
प्रजां चैव धरिष्यामि धर्मेणापि न संशयः १०।
मच्छासनं समास्थाय धर्मयुक्तं वसुंधरे ।
इमाः प्रजा आज्ञया मे संजीवय सदैव हि ११।
एवं मे शासनं भद्रे अद्य यर्हि करिष्यसि ।
ततः प्रीतोऽस्मि ते नित्यं गोपायिष्यामि सर्वदा १२।
त्वामेव हि न संदेह अन्ये चैव नृपोत्तमाः ।
धेनुरूपेण सा पृथ्वी बाणांचितकलेवरा १३।
उवाचेदं पृथुं वैन्यं धर्माधारं महामतिम् ।
धरण्युवाच-।
तवादेशं महाराज सत्यपुण्यार्थसंयुतम् १४।
प्रजानिमित्तमत्यर्थं विधास्यामि न संशयः ।
उद्यमेनापि पुण्येन उपायेन नरेश्वर १५।
समारंभाः प्रसिद्ध्यंति पुण्याश्चैवाप्युपक्रमाः ।
उपायं पश्य राजेंद्र येन त्वं सत्यवान्भवेः १६।
धारयेथाः प्रजाश्चेमा येन सर्वाः प्रवर्द्धये ।
संलग्नाश्चोत्तमा बाणा ममांगे ते शिलाशिताः १७।
समुद्धर स्वयं राजंश्छल्यंति भृशमेव ते ।
समां कुरु महाराज तिष्ठेन्मयि यथा पयः १८।
सूत उवाच-।
धनुषोग्रेण ताञ्छैलान्नानारूपान्गुरूंस्तथा ।
उत्सारयंस्ततः सर्वां समरूपां चकार सः १९।
तदाप्रभृति ते शैला वृद्धिमापुर्द्विजोत्तमाः ।
तस्या अंगात्स्वयं बाणान्स्वकीयान्नृपनंदनः २०।
समुद्धृत्य ततो वैन्यः प्रीतेन मनसा तदा ।
गर्ताश्च कंदराश्चैव बाणाघातैः समीकृताः २१।
एवं पृथ्वद्यंसमां सर्वां चकार पुण्यवर्द्धनः ।
समीकृत्य महाभागो वत्सं तस्या व्यकल्पयत् २२।
मनुं स्वायंभुवं पूर्वं परिचिंत्य पुनः पुनः ।
अतीतेष्वथ सर्वेषु मन्वंतरेषु सत्तमाः २३।
विषमत्वं गता भूमिः पंथा नासीच्च कुत्रचित् ।
समानि विषमाण्येवं स्वयमासन्द्विजोत्तमाः २४।
पूर्वं मनोश्चाक्षुषस्य प्राप्ते चैवांतरे तदा ।
जाते पूर्वविसर्गे च विषमे च धरातले २५।
ग्रामाणां च पुराणां च पत्तनानां तथैव च ।
देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते २६।
कृषिर्नैव न वाणिज्यं न गोरक्षा प्रवर्तते ।
नानृतं भाषते कश्चिन्न लोभो न च मत्सरः २७।
नाभिमानं च वै पापं न करोति कदा किल ।
वैवस्वतस्य संप्राप्ते अंतरे द्विजसत्तम २८।
वैन्यस्य संभवात्पूर्वं प्रजानामेव संभवः ।
इमाः प्रजा द्विजाः सर्वा निवासं समरोचयन् २९।
क्वचिद्भूमौ गिरौ क्वापि नदीतीरेषु वै तदा ।
कुंजेषु सर्वतीर्थेषु सागरस्य तटेषु च ३०।
निवासं चक्रिरे सर्वाः प्रजाः पुण्येन वै तदा ।
तासामाहारः संजातः फलमूलमधुस्तथा ३१।
महता कृच्छ्रेण तासामाहारश्च द्विजोत्तमाः ।
पृथुर्वैन्यः समालोक्य प्रजानां कष्टमेव हि ३२।
स्वायंभुवो मनुर्वत्सः कल्पितस्तेन भूभुजा ।
स्वपाणिः कल्पितस्तेन पात्रमेवं महामते ३३।
स पृथुः पुरुषव्याघ्रो दुदोह वसुधां तदा ।
सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितम् ३४।
तेन पुण्येन चान्नेन सुधाकल्पेन ताः प्रजाः ।
तृप्तिं नयंति देवान्वै प्रजाः पितॄंस्तथापरान् ३५।
प्रसादात्तस्य वैन्यस्य सुखं जीवंति ताः प्रजाः ।
देवेभ्यश्च पितृभ्यश्च दत्वा चान्नं प्रजास्ततः ३६।
ब्राह्मणेभ्यो विशेषेणअतिथिभ्यस्तथैव च ।
पश्चाद्भुंजंति पुण्यास्ताः प्रजाः सर्वा द्विजोत्तमाः ३७।
यज्ञैश्चान्ये यजंत्येव तर्पयंति जनार्दनम् ।
तेन चान्नेन देवेशं तृप्तिं गच्छंति देवताः ३८।
पुनर्वर्षति पर्जन्यः प्रेषितो माधवेन च ।
तस्मात्पुण्या महौषध्यः संभवंति सुपुण्यदाः ३९।
सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रजापतिः ।
तेनान्नेन प्रजाः सर्वा वर्तंतेऽद्यापि नित्यशः ४०।
ऋषिभिश्चैव मिलितैर्दुग्धा चेयं वसुंधरा ।
पुनर्विप्रैर्महाभाग्यैः सत्यवद्भिः सुरैस्तथा ४१।
सोमो वत्सस्वरूपोभूद्दोग्धा देवगुरुः स्वयम् ।
ऊर्जं क्षीरं पयः कल्पं येन जीवंति चामराः ४२।
तेषां सत्येन पुण्येन सर्वे जीवंति जंतवः ।
सत्यपुण्ये प्रवर्तंते ऋषिदुग्धा वसुंधरा ४३।
अथातः संप्रवक्ष्यामि यथा दुग्धा इयं धरा ।
पितृभिश्च पुरा वत्स विधिना येन वै तदा ४४।
सुपात्रं राजतं कृत्वा स्वधा क्षीरं सुधान्वितम् ।
परिकल्प्य यमं वत्सं दोग्धा चांतक एव सः ४५।
नागैः सर्पैस्ततो दुग्धा तक्षकं वत्समेव च ।
अलाबुपात्रमादाय विषं क्षीरं द्विजोत्तमाः ४६।
नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान् ।
सर्पा नागा द्विजश्रेष्ठास्तेन वर्तंति चातुलाः ४७।
नागा वर्तंति तेनापि ह्यत्युग्रेण द्विजोत्तमाः ।
विषेण घोररूपेण सर्पाश्चैव भयानकाः ४८।
तेनैव वर्तयंत्युग्रा महाकाया महाबलाः ।
तदाहारास्तदाचारास्तद्वीर्यास्तत्पराक्रमाः ४९।
अथातः संप्रवक्ष्यामि यथा दुग्धा वसुंधरा ।
असुरैर्दानवैः सर्वैः कल्पयित्वा द्विजोत्तमाः ५०।
पात्रमत्रान्नसदृशमायसं सर्वकामिकम् ।
क्षीरं मायामयं कृत्वा सर्वारातिविनाशनम् ५१।
तेषामभूत्स वै वत्सो विरोचनः प्रतापवान् ।
ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः ५२।
तया हि मायया दैत्याः प्रवर्त्तंते महाबलाः ।
महाप्रज्ञा महाकाया महातेजः पराक्रमाः ५३।
तद्बलं पौरुषं तेषां तेन जीवंति दानवाः ।
तयैते माययाद्यापि सर्वमाया द्विजोत्तमाः ५४।
प्रवर्तंते मितप्रज्ञास्ते तदेषामिदं बलम् ।
तथा तु दुग्धा यक्षैः सा सर्वाधारासु मेदिनी ५५।
इति शुश्रुम विप्रेंद्राः पुराकल्पे महात्मभिः ।
अंतर्धानमयं क्षीरमयस्पात्रे सुविस्तरे ५६।
वैश्रवणो महाप्राज्ञस्तदा वत्सः प्रकल्पितः ।
मणिधरस्य पिता पुण्यः प्राज्ञो बुद्धिमतां वरः ५७।
दोग्धा रजतनाभस्तु तस्याश्चासीन्महामतिः ।
सर्वज्ञः सर्वधर्मज्ञो यक्षराजसुतो बली ५८।
अष्टबाहुर्महातेजा द्विशीर्षः सुमहातपाः ।
यक्षावर्तंत तेनापि सर्वदैव द्विजोत्तमाः ५९।
पुनर्दुग्धा इयं पृथ्वी राक्षसैश्च महाबलैः ।
तथा चैषा पिशाचैश्च सातुरैर्दग्धवारिभिः ६०।
उत्प्लुतं नृकपालं तं शावपात्रमयः कृतम् ।
सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः ६१।
दोग्धा रजतनाभस्तु तेषामासीन्महाबलः ।
सुमाली नाम वत्सश्च शोणितं क्षीरमेव च ६२।
रक्षांसि यातुधानाश्च पिशाचाश्च महाबलाः ।
यक्षास्तेन च जीवंति भूतसङ्घाश्च दारुणाः ६३।
गंधर्वैरप्सरोभिश्च पुनर्दुग्धा वसुंधरा ।
कृत्वा वत्सं सुविद्वांसं तैश्च चित्ररथं पुनः ६४।
दुदुहुः पद्मपात्रे तु गांधर्वं गीतसंकुलम् ।
सुरुचिर्नाम गंधर्वस्तेषामासीन्महामतिः ६५।
दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमाः ।
शुचिगीतं महात्मानः सुक्षीरं दुदुहुस्तदा ६६।
गंधर्वास्तेन जीवंति अन्याश्चाप्सरसस्तथा ।
पर्वतैश्च महापुण्यैर्दुग्धा चेयं वसुंधरा ६७।
रत्नानि विविधान्येव ओषधीश्चामृतोपमाः ।
वत्सश्चैव महाभागो हिमवान्परिकल्पितः ६८।
मेरुर्दोग्धा च संजातः पात्रं कृत्वा तु शैलजम् ।
तेन क्षीरेण संवृद्धाः शैलाः सर्वे महौजसः ६९।
पुनर्दुग्धा महावृक्षैः पुण्यैः कल्पद्रुमादिभिः ।
पालाशं पात्रामानिन्युश्छिन्नदग्धप्ररोहणम् ७०।
शालो दुदोह पुष्पांगः प्लक्षो वत्सोऽभवत्तदा ।
गुह्यकैश्चारणैः सिद्धैर्विद्याधरगणैस्तदा ७१।
दुग्धा चेयं सर्वधात्री सर्वकामप्रदायिनी ।
यं यमिच्छंति ये लोकाः पात्रवत्सविशेषणैः ७२।
तैस्तैस्तेषां ददात्येव क्षीरं सद्भावमीदृशम् ।
इयं धात्री विधात्री तु इयं श्रेष्ठा वसुंधरा ७३।
सर्वकामदुघा धेनुरियं पुण्यैरलंकृता ।
इयं ज्येष्ठा प्रतिष्ठा तु इयं सृष्टिरियं प्रजा ७४।
पावनी पुण्यदा पुण्या सर्वसस्य प्ररोहिणी ।
चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ७५।
महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा ।
सर्वकामदुघा दोग्ध्री सर्वबीजप्ररोहिणी ७६।
सर्वेषां श्रेयसां माता सर्वलोकधरा इयम् ।
पंचानामपि भूतानां प्रकाशो रूपमेव च ७७।
असीदियं समुद्रांता मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता ७८।
तेनेयं मेदिनी नाम प्रोच्यते ब्रह्मवादिभिः ।
ततोभ्युपगमात्प्राज्ञ पृथोर्वैन्यस्य सत्तमाः ७९।
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ।
तेन राज्ञा द्विजश्रेष्ठाः पालितेयं वसुंधरा ८०।
ग्रामाधारं गृहाणां च पुरपत्तनमालिनी ।
सस्याकरवती स्फीता सर्वतीर्थमयी द्विजाः ८१।
एवं वसुमती देवी सर्वलोकमयी सदा ।
एवं प्रभावो राजेंद्रः पुराणे परिपठ्यते ८२।
पृथुर्वैन्यो महाभागः सर्वकर्मप्रकाशकः ।
यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः ८३।
नमस्कार्यास्त्रयो देवा देवाद्यैर्ब्रह्मवादिभिः ।
ब्राह्मणैर्ऋषिभिः सर्वैर्नमस्कार्यो नृपोत्तमः ८४।
वर्णानामाश्रमाणां यः स्थापकः सर्वलोकधृक् ।
पार्थिवैश्च महाभागैः पार्थिवत्वमिहेप्सुभिः ८५।
आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् ।
धनुर्वेदार्थिभिर्योधैः सदैव जयकांक्षिभिः ८६।
नमस्कार्यो महाराजो वृत्तिदाता महीभृताम् ।
एवं पात्रविशेषाश्च मया ख्याता द्विजोत्तमाः ८७।
वत्सानां सुविशेषाश्च दोग्धॄणां भवदग्रतः ।
क्षीरस्यापि विशेषं तु यथोद्दिष्टं हि भूभुजा ८८।
समाख्यातं तथाग्रे च भवतां वै यथार्थतः ।
धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम् ८९।
पृथोर्वैन्यस्य चरितं यः शृणोति द्विजोत्तमाः ।
तस्य भागीरथी स्नानमहन्यहनि जायते ९०।
सर्वपापविशुद्धात्मा विष्णुलोकं प्रयाति सः ९१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे
पृथूपाख्याने एकोनत्रिंशोऽध्यायः २९।
खण्डः २ (भूमिखण्डः) — Adhyāya 30
ऋषय ऊचुः-
योऽसौ वेनस्त्वयाख्यातः पापाचारेण वर्तितः ।
तस्य पापस्य का वृत्तिः किं फलं प्राप्तवान्द्विज १।
चरित्रं तस्य वेनस्य समाख्याहि यथा पुरा ।
विस्तरेण विदां श्रेष्ठ त्वं न एतन्महामते २।
सूत उवाच-
चरित्रं तस्य वेनस्य वैन्यस्यापि महात्मनः ।
प्रवक्ष्यामि सुपुण्यं च यथान्यायं श्रुतं पुरा ३।
जाते पुत्रे महाभागस्तस्मिन्पृथौ महात्मनि ।
विमलत्वं गतो राजा धर्मत्वं गतवान्पुनः ४।
महापापानि सर्वाणि अर्जितानि नराधमैः ।
तीर्थसंगप्रसंगेन तेषां पापं प्रयाति च ५।
सतां संगात्प्रजायेत पुण्यमेव न संशयः ।
पापानां तु प्रसंगेन पापमेव प्रजायते ६।
संभाषाद्दर्शनात्स्पर्शादासनाद्भोजनात्किल ।
पापिनां संगमाच्चैव किल्बिषं परिसंचरेत् ७।
तथा पुण्यात्मकानां च पुण्यमेव प्रसंचरेत् ।
महातीर्थप्रसंगेन पापाः शुध्यंति नान्यथा ८।
पुण्यां गतिं प्रयान्त्येते निर्द्धूताशेष कल्मषाः ।
ऋषय ऊचुः-
तत्कथं यांति ते पापाः परां सिद्धिं द्विजोत्तम ९।
तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते १०।
सूत उवाच-
लुब्धकाश्च महापापाः संजाता दासधीवराः ।
रेवा च यमुना गंगास्तासामंभसि संस्थिताः ११।
ज्ञानतोऽज्ञानतः स्नात्वा संक्रीडंति च वै जले ।
महानद्याः प्रसंगेन ते यांति परमां गतिम् १२।
दासत्वं पापसंघातं परित्यज्य व्रजंति ते ।
पुण्यतोयप्रसंगाच्च ह्याप्लुताः सर्व एव ते १३।
महानद्याः प्रसंगाच्च अन्यासां नैव सत्तमाः ।
महापुण्यजनस्यापि पापं नश्यति पापिनाम् १४।
प्रसंगाद्दर्शनात्स्पर्शान्नात्र कार्या विचारणा ।
अत्रार्थे श्रूयते विप्रा इतिहासोऽघनाशनः १५।
तं वो अद्य प्रवक्ष्यामि बहुपुण्यप्रदायकम् ।
कश्चिदस्ति मृगव्याधः सुलोभाख्यो महावने १६।
श्वभिर्वागुरिजालैश्च धनुर्बाणैस्तथैव च ।
मृगान्घातयते नित्यं पिशितास्वादलंपटः १७।
एकदा तु सुदुष्टात्मा बाणपाणिर्धनुर्धरः ।
श्वभिः परिवृतो दुर्गं वनं विंध्यस्य वै गतः १८।
मृगान्रुरून्वराहांश्च भीतान्सूदितवान्बहून् ।
रेवातीरं समासाद्य कश्चिच्छफरघातकः १९।
शफरान्सूदयित्वा स निर्जगाम बहिर्जलात् ।
मृगव्याधस्य लोभस्य भयत्रस्ता ततो मृगी २०।
जीवत्राणपरा सार्ता भीता चलितचेतना ।
त्वरमाणा पलायंती रेवातीरं समाश्रिता २१।
श्वभिश्च चालिता सा तु बाणघातक्षतातुरा ।
श्वसनस्यापि वेगेन सुलभो मृगघातकः २२।
पृष्ठ एव समायाति पुरतो याति सा मृगी ।
दृष्टवांस्तां शफरहा बाणपाणिः समुद्यतः २३।
धनुरानम्य वेगेन अनुरुध्य च तां मृगीम् ।
तावल्लुब्धक लोभाख्यः श्वभिः सार्द्धं समागतः २४।
न हंतव्या मदीयेयं मृगयां मे समागता ।
तस्य वाक्यं समाकर्ण्य मीनहा मांसलंपटः २५।
बाणं मुमोच दुष्टात्मा तामुद्दिश्य महाबलः ।
निहता मृगलुब्धेन बाणेन निशितेन च २६।
प्रमृता सा मृगी तत्र बाणाभ्यां पापचेतसोः ।
श्वभिर्दंतैः समाक्रांता त्वरमाणा पपात सा २७।
शिखराच्च ह्रदे पुण्ये रेवायाः पापनाशने ।
श्वानश्च त्वरमाणास्ते पतिता विमले ह्रदे २८।
मृगव्याधो वदत्येव धीवरं क्रोधमूर्च्छितः ।
मदीयेयं मृगी दुष्ट कस्माद्बाणैर्हता त्वया २९।
तमुवाच पुनः सोऽपि मीनहा मृगघातकम् ।
मदीयेयं न संदेहो अवलिप्त प्रभाषसे ३०।
युध्यमानौ ततस्तौ तु द्वावेतौ तु परस्परम् ।
क्रोधलोभान्महाभागौ पतितौ विमले जले ३१।
तस्मिन्काले महापर्व वर्तते गतिदायकम् ।
अमावास्या समायोगं महापुण्यफलप्रदम् ३२।
वेलायां पतिताः सर्वे पर्वणस्तस्य सत्तम ।
जपध्यानविहीनास्ते भावसत्यविवर्जिताः ३३।
तीर्थस्नानप्रसंगेन मृगी श्वा च स लुब्धकः ।
सर्वपापविनिर्मुक्तास्ते गताः परमां गतिम् ३४।
तीर्थानां च प्रभावेण सतां संगाद्द्विजोत्तमाः ।
नाशयेत्पापिनां पापं दहेदग्निरिवेंधनम् ३५।
सूत उवाच-
तेषामेवं हि संसर्गादृषीणां च महात्मनाम् ।
संभाषाद्दर्शनान्नष्टं स्पर्शाच्चैव नृपस्य च ३६।
वेनस्य कल्मषं नष्टं सतां संगात्पुरा किल ।
अत्युग्रपुण्यसंसर्गात्पापं नश्यति पापिनाम् ३७।
अत्युग्रपापिनां संगात्पापमेव प्रसंचरेत् ।
मातामहस्य दोषेण संलिप्तो वेन एव सः ३८।
ऋषय ऊचुः-
मातामहस्य को दोषस्तं नो विस्तरतो वद ।
स मृत्युः स च वै कालः स यमो धर्म एव च ३९।
न हिंसको हि कस्यापि पदे तस्मिन्प्रतिष्ठितः ।
चराचराश्च ये लोकाः स्वकर्मवशवर्तिनः ४०।
जीवंति च म्रियंते च भुंजंत्येवं स्वकर्मभिः ।
पापाः पश्यंति तं घोरं तेषां कर्मविपाकतः ४१।
निरयेषु च सर्वेषु कर्मणैवं सुपुण्यवान् ।
योजयेत्ताडयेत्सूत यम एष दिनेदिने ४२।
सर्वेष्वेव सुपुण्येषु कर्मस्वेवं सपुण्यवान् ।
योजयत्येव धर्मात्मा तस्य दोषो न दृश्यते ४३।
स मृत्योः केन दोषेण पापी वेनस्त्वजायत ।
सूत उवाच-
स मृत्युः शासको नित्यं पापानां दुष्टचेतसाम् ४४।
वर्तते कालरूपेण तेषां कर्म विमृश्यति ।
दुष्कृतं कर्म यस्यापि कर्मणा तेन घातयेत् ४५।
तस्य पापं विदित्वाऽसौ नयत्येवं हि तं यमः ।
सुकृतात्मा लभेत्स्वर्गं कर्मणा सुकृतेन वै ४६।
योजयत्येष तान्सर्वान्मृत्युरेव सुदूतकैः ।
महता सौख्यभावेन गीतमंगलकारिणा ४७।
दानभोगादिभिश्चैव योजयेच्च कृतात्मकान् ।
पीडाभिर्विविधाभिश्च क्लेशैः काष्ठैश्च दारुणैः ४८।
त्रासयेत्ताडयेद्विप्रान्स क्रोधो मृत्युरेव तान् ।
कर्मण्येवं हि तस्यापि व्यापारः परिवर्तते ४९।
मृत्योश्चापि महाभाग लोभात्पुण्यात्प्रजायते ।
सुनीथा नाम वै कन्या संजातैषा महात्मनः ५०।
पितुःकर्म विमृश्यैव क्रीडमाना सदैव सा ।
प्रजानां शास्ति कर्तारं पुण्यपापनिरीक्षणम् ५१।
सा तु कन्या महाभागा सुनीथा नाम तस्य सा ।
रममाणा वनं प्राप्ता सखीभिः परिवारिता ५२।
तत्रापश्यन्महाभागं गंधर्वतनयं वरम् ।
गीतकोलाहलस्यापि सुशंखं नाम सा तदा ५३।
ददर्श चारुसर्वांगं तप्यंतं सुमहत्तपः ।
गीतविद्यासु सिद्ध्यर्थं ध्यायमानं सरस्वतीम् ५४।
तस्योपघातमेवासौ सा चकार दिने दिने ।
सुशंखः क्षमते नित्यं गच्छगच्छेति सोऽब्रवीत् ५५।
प्रेषिता नैव गच्छेत्सा विघ्नमेव समाचरेत् ।
तेनाप्युक्ता सा हि क्रुद्धा ताडयत्तपसि स्थितम् ५६।
तामुवाच ततः क्रुद्धः सुशंखः क्रोधमूर्च्छितः ।
दुष्टे पापसमाचारे कस्माद्विघ्नस्त्वया कृतः ५७।
ताडनात्ताडनं दुष्टे न कुर्वंति महाजनाः ।
आक्रुष्टा नैव कुप्यंति इति धर्मस्य संस्थितिः ५८।
त्वयाहं घातितः पापे निर्दोषस्तपसान्वितः ।
एवमुक्त्वा स धर्मात्मा सुनीथां पापचारिणीम् ५९।
विरराम महाक्रोधाज्ज्ञात्वा नारीं निवर्तितः ।
ततः सा पापमोहाद्वा बाल्याद्वा तमिहैव च ६०।
समुवाच महात्मानं सुशंखं तपसि स्थितम् ।
त्रैलोक्यवासिनां तातो ममैव परिघातकः ६१।
असतो घातयेन्नित्यं सत्यान्स परिपालयेत् ।
नैव दोषो भवेत्तस्य महापुण्येन वर्तयेत् ६२।
एवमुक्त्वा गता सा तु पितरं वाक्यमब्रवीत् ।
मया हि ताडितस्तात गंधर्वतनयो वने ६३।
तपस्तपन्सदैकांते कामक्रोधविवर्जितः ।
स मामुवाच धर्मात्मा क्रोधरागसमन्वितः ६४।
ताडयेन्नैव ताडंतं क्रोशंतं नैव क्रोशयेत् ।
इत्युवाच स मां तात तन्मे त्वं कारणं वद ६५।
एवमुक्तः स वै मृत्युः सुनीथां द्विजसत्तमाः ।
किंचिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः ६६।
वनं प्राप्ता पुनः सा हि सुशंखो यत्र संस्थितः ।
कराघातैस्ततो दौष्ट्याद्घातितस्तपतां वरः ६७।
सुशंखस्ताडितो विप्रा मृत्योश्चैव हि कन्यया ।
ततः क्रुद्धो महातेजाः शशाप तनुमध्यमाम् ६८।
निर्दोषो हि यतो दुष्टे त्वयैव परिताडितः ।
अहमत्र वने संस्थस्तस्माच्छापं ददाम्यहम् ६९।
गार्हस्थ्यं च समास्थाय सह भर्त्रा यदा शृणु ।
पापाचारमयः पुत्रो देवब्राह्मणनिंदकः ७०।
सर्वपापरतो दुष्टे तव गर्भे भविष्यति ।
एवं शप्त्वा गतः सोपि तप एव समाश्रितः ७१।
गते तस्मिन्महाभागे सा सुनीथा गृहं गता ।
समाचष्ट महात्मानं पितरं तप्तमानसा ७२।
यथा शप्ता तदा तेन गंधर्वतनयेन सा ।
तत्सर्वं संश्रुतं तेन मृत्युना परिभाषितम् ७३।
कस्मात्कृतस्त्वयाघातस्तपति दोषवर्जिते ।
युक्तं नैव कृतं पुत्रि सत्यस्यैव हि ताडनम् ७४।
एवमाभाष्य धर्मात्मा मृत्युः परमदुःखितः ।
बभूव स हि तत्तस्यादिष्टमेवं विचिंतयन् ७५।
सूत उवाच-
अत्रिपुत्रो महातेजा अंगो नाम प्रतापवान् ।
एकदा तु गतो विप्रा नंदनं प्रति स द्विजः ७६।
तत्र दृष्ट्वा देवराजं तमिंद्रं पाकशासनम् ।
अप्सरसां गणैर्युक्तं गंधर्वैः किन्नरैस्तथा ७७।
गीयमानं गीतगैश्च सुस्वरैः सप्तकैस्तथा ।
वीज्यमानं सुगंधैश्च व्यजनैः सर्व एव सः ७८।
योषिद्भी रूपयुक्ताभिश्चामरैर्हंसगामिभिः ।
छत्रेण हंसवर्णेन चंद्रबिंबानुकारिणा ७९।
राजमानं सहस्राक्षं सर्वाभरणभूषितम् ।
कामक्रीडागतं देवं दृष्टवानमितौजसम् ८०।
तस्य पार्श्वे महाभागां पौलोमीं चारुमंगलाम् ।
रूपेण तेजसा चैव तपसा च यशस्विनीम् ८१।
सौभाग्येन विराजंतीं पातिव्रत्येन तां सतीम् ।
तया सह सहस्राक्षः स रेमे नंदने वने ८२।
तस्य लीलां समालोक्य अंगश्चैव द्विजोत्तमः ।
धन्यो वै देवराजोऽयमीदृशैः परिवारितः ८३।
अहोऽस्य तपसो वीर्यं येन प्राप्तं महत्पदम् ।
यदा ममेदृशः पुत्रः सर्वलोकप्रधारकः ८४।
भवेत्तदा महत्सौख्यं प्राप्स्यामीह न संशयः ।
इति चिंतापरो भूत्वा त्वरमाणो गृहागतः ८५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने त्रिंशोऽध्यायः ३०।
खण्डः २ (भूमिखण्डः) — Adhyāya 31
सूत उवाच-
अथ त्वंगो महातेजा दृष्ट्वा इंद्रस्य संपदम् ।
भोगं चैव विलासं च लीलां तस्य महात्मनः १।
कथं मे इंद्र सदृशः पुत्रः स्याद्धर्मसंयुतः ।
चिंतयित्वा क्षणं चैव अंगो धर्मभृतां वरः २।
स्वकं गेहं समायातः स त्वंगः सत्यतत्परः ।
अत्रिं पप्रच्छ पितरं प्रणतो नम्रकंधरः ३।
कोऽयं पुण्यः समाचारैरिंद्रत्वं भुंजते महत् ।
कस्य पुण्यस्य वै पुष्टिः किं कृतं कर्म कीदृशम् ४।
कीदृशं तप एतस्य कमाराधितवान्पुरा ।
एतन्मे विस्तरेण त्वं ब्रूहि सत्यवतां वर ५।
अत्रिरुवाच-
साधुसाधु महाभाग यद्येवं पृच्छसे मयि ।
चरित्रमिंद्रस्य वत्स तन्मे निगदतः शृणु ६।
सुव्रतो नाम मेधावी पुरा ब्राह्मणसत्तमः ।
तेन कृष्णो हृषीकेशस्तपसा चैव तोषितः ७।
पुण्यगर्भं पुनः प्राप्तो ह्यदित्याः कश्यपात्किल ।
विष्णोश्चैव प्रसादेन सुरराजो बभूव ह ८।
अंग उवाच-
कथमिंद्रसमः पुत्रो मम स्यात्पुत्रवत्सल ।
तदुपायं समाचक्ष्व भवाञ्ज्ञानवतां वरः ९।
अत्रिरुवाच-
समासेनैव तस्यैव सुव्रतस्य महात्मनः ।
चरित्रमखिलं पुण्यं निशामय महामते १०।
यथा सुव्रत मेधावी पुराराधितवान्हरिम् ।
तस्य भावं च भक्तिं च ध्यानं चैव महात्मनः ११।
समालोक्य जगन्नाथो दत्तवान्वै महत्पदम् ।
स ऐंद्रं सर्वभोगाढ्यं त्रैलोक्यं सचराचरम् १२।
विष्णोश्चैव प्रसादाच्च पदं भुंक्ते त्रिलोकधृक् ।
एवं ते सर्वमाख्यातमिंद्रस्यापि विचेष्टितम् १३।
भक्त्या तुष्यति गोविंदो भावध्यानेन सत्तम ।
सर्वं ददाति तुष्टात्मा भक्त्या संतोषितो हरिः १४।
तस्मादाराध्य गोविंदं सर्वदं सर्वसंभवम् ।
सर्वज्ञं सर्ववेत्तारं सर्वेषां पुरुषं वरम् १५।
तस्मात्प्राप्स्यसि सर्वं त्वं यद्यदिच्छसि नंदन १६।
सुखस्य दाता परमार्थदाता मोक्षस्य दाता जगतां हि नाथः ।
तस्मात्तमाराधय गच्छ पुत्र संप्राप्स्यसे इंद्रसमं हि पुत्रम् १७।
आकर्ण्य वाक्यं परमार्थयुक्तमुक्तं महात्मा ऋषिणा हि तेन ।
संगृह्य तत्त्वं वचनस्य तस्य प्रणम्य तं शाश्वतमभ्ययात्सः १८।
आमंत्र्य चांगः पितरं महात्मा ब्रह्मात्मजं ब्रह्मसमानमेव ।
संप्राप्तवान्मेरुगिरेस्तु शृंगं तं कांचनै रत्नमयैः समेतम् १९।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे।
वेनोपाख्याने एकत्रिंशोऽध्यायः ३१
।
खण्डः २ (भूमिखण्डः) — Adhyāya 32
सूत उवाच-
नानारत्नैः सुदीप्तांगो हाटकेनापि सर्वतः ।
राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः १।
छायामशोकां संप्राप्य शीतलां सुखदायिनीम् ।
ध्यायंति योगिनः सर्वे उपविष्टा दृढासने २।
क्वचित्तपंति मुनयः क्वचिद्गायंति किन्नराः ।
संतुष्टा ऋषिगंधर्वा वीणातालकराविलाः ३।
तालमानलये लीनाः स्वरैः सप्तभिरन्वितैः ।
मूर्च्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोहरम् ४।
तस्मिन्वै पर्वतश्रेष्ठे चंदनच्छायसंश्रिताः ।
गंधर्वा गीततत्वज्ञा गीतं गायंति तत्पराः ५।
नृत्यंति योषितस्तत्र देवानां पर्वत्तोत्तमे ।
पापहा पुण्यदो दिव्यः सुश्रेयसां प्रदायकः ६।
वेदध्वनिः समधुरः श्रूयते पर्वतोत्तमे ।
चंदनाशोकपुन्नागैः शालैस्तालैस्तमालकैः ७।
वटैस्तु मेघसंकाशै राजते पर्वतोत्तमः ।
संतानकैः कल्पवृक्षै रंभापादपसंकुलैः ८।
नगेंद्रो भाति सर्वत्र नाकवृक्षैः सुपुष्पितैः ।
नानाधातुसमाकीर्णो नानारत्नचयो गिरिः ९।
नानाकौतुकसंयुक्तो नानामंगलसंयुतः ।
वेदवृंदैः सुसंजुष्टो ह्यप्सरोगणसंकुलः १०।
ऋषिभिर्मुनिभिः सिद्धैर्गंधर्वैःपरिभातिसः ।
गजैश्चाचलसंकाशैः सिंहनादैर्विराजते ११।
शरभैर्मत्तशार्दूलैर्मृगधूर्तैरलंकृतः ।
वापीकूपतडागैश्च संपूर्णैर्विमलोदकैः १२।
हंसकारंडवाकीर्णैः सर्वत्र परिशोभते ।
कनकोत्पलैश्च श्वेतैश्च रक्तोत्पलैर्विराजते १३।
नदीस्रवणसंघातैर्विमलैश्चोदकैस्तथा ।
शालतालैश्च रूपैश्च सगजैः स्फाटिकैस्तथा १४।
विस्तीर्णैः कांचनैर्दिव्यैः सूर्यवह्निसमप्रभैः ।
शिलातलैश्च संपूर्णः शैलराजो विराजते १५।
विमानैर्देवतानां च प्रासादैः पर्वतोत्तमैः ।
हंसचंद्रप्रतीकाशैर्हेमदंडैरलंकृतः १६।
कलशैश्चामरैर्युक्तैः प्रासादैः परिशोभितः ।
नानागुणप्रमुदित देववृंदैश्च शोभितः १७।
देववृंदैरनेकैश्च गंधर्वैश्चारणैस्तथा ।
सर्वत्र राजते पुण्यो मेरुर्गिरिवरोत्तमः १८।
तस्माद्गंगामहापुण्या पुण्यतोया महानदी ।
प्रसूता पुण्यतीर्थाढ्या हंसपद्मैः समाकुला १९।
मुनिभिः सेव्यमाना सा ऋषिसंघैर्महानदी ।
एवंगुणं गिरिश्रेष्ठं पुण्यकौतुकमंगलम् २०।
अंगश्चात्रिसुतः पुण्यः प्रविवेश महामुनिः ।
गंगातीरे सुपुण्ये च एकांते चारुकंदरे २१।
तत्रोपविश्य मेधावी कामक्रोधविवर्जितः ।
सर्वेंद्रियाणि संयम्य हृषीकेशं मनोगतम् २२।
ध्यायमानः स धर्मात्मा कृष्णं क्लेशापहं प्रभुम् ।
आसने शयने याने ध्याने च मधुसूदनम् २३।
नित्यं पश्यति युक्तात्मा योगयुक्तो जितेंद्रियः ।
चराचरेषु जीवेषु तेषु पश्यति केशवम् २४।
आर्द्रेषु चैव शुष्केषु सर्वेष्वन्येषु स द्विजः ।
एवं वर्षशतं जातं तप्यमानस्य तस्य च २५।
समालोक्य जगन्नाथश्चक्रपाणिर्द्विजोत्तमम् ।
बहुविघ्नान्सुघोरांश्च दर्शयत्येव नित्यशः २६।
तेजसा तस्य देवस्य नृसिंहस्य महात्मनः ।
निरातंकः स धर्मात्मा दहत्यग्निरिवेंधनम् २७।
नियमैः संयमैश्चान्यैरुपवासैर्द्विजोत्तमः ।
क्षीयमाणस्तु संजातो दीप्यमानः स्वतेजसा २८।
सूर्यपावकसंकाशस्त्वंग एवं प्रदृश्यते ।
एवं तपःसु निरतं ध्यायमानं जनार्दनम् २९।
आविर्भूयाब्रवीद्देवो वरं वरय मानद ।
तं च दृष्ट्वा हृषीकेशमंगः परम निर्वृतः ३०।
तुष्टाव प्रणतो भूत्वा वासुदेवं प्रसन्नधीः ३१।
अंग उवाच-
त्वं गतिः सर्वभूतानां भूतभावन पावन ।
भूतात्मा सर्वभूतेश नमस्तुभ्यं गुणात्मने ३२।
गुणरूपाय गुह्याय गुणातीताय ते नमः ।
गुणाय गुणकर्त्रे च गुणाढ्याय गुणात्मने ३३।
भवाय भवकर्त्रे च भक्तानां भवहारिणे ।
भवोद्भवाय गुह्याय नमो भवविनाशिने ३४।
यज्ञाय यज्ञरूपाय यज्ञेशाय नमोनमः ।
यज्ञकर्मप्रसंगाय नमः शंखधराय च ३५।
नमोनमो हिरण्याय नमो रथांगधारिणे ।
सत्याय सत्यभावाय सर्वसत्यमयाय च ३६।
धर्माय धर्मकर्त्रे च सर्वकर्त्रे च ते नमः ।
धर्मांगाय सुवीराय धर्माधाराय ते नमः ३७।
नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने ।
मायामोहविनाशाय सर्वमायाकराय ते ३८।
मायाधराय मूर्ताय त्वमूर्ताय नमोनमः ।
सर्वमूर्तिधरायैव शंकराय नमोनमः ३९।
ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे ।
नमस्ते सर्वधाम्ने च नमो धामधराय च ४०।
श्रीमते श्रीनिवासाय श्रीधराय नमोनमः ।
क्षीरसागरवासाय चामृताय च ते नमः ४१।
महौषधाय घोराय महाप्रज्ञापराय च ।
अक्रूराय प्रमेध्याय मेध्यानां पतये नमः ४२।
अनंताय ह्यशेषाय चानघाय नमोनमः ।
आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः ४३।
हुताय हुतभोक्त्रे च हवीरूपाय ते नमः ।
बुद्धाय बुधरूपाय सदाबुद्धाय ते नमः ४४।
नमो हव्यायकव्याय स्वधाकाराय ते नमः ।
स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने ४५।
व्यासाय वासवायैव वसुरूपाय ते नमः ।
वासुदेवाय विश्वाय वह्निरूपाय ते नमः ।
हरये केवलायैव वामनाय नमोनमः ४६।
नमो नृसिंहदेवाय सत्वपालाय ते नमः ४७।
नमो गोविंदगोपाय नम एकाक्षराय च ।
नमः सर्वाक्षरायैव हंसरूपाय ते नमः ४८।
त्रितत्त्वाय नमस्तुभ्यं पंचतत्त्वाय ते नमः ।
पंचविंशतितत्त्वाय तत्त्वाधाराय वै नमः ४९।
कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः ।
नमः पद्मपलाशाय आनंदाय पराय च ५०।
नमो विश्वंभरायैव पापनाशाय वै नमः ।
नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः ५१।
नमोनमः शाश्वतअव्ययाय नमोनमः संघ नभोमयाय ।
श्रीपद्मनाभाय महेश्वराय नमामि ते केशवपादपद्मम् ५२।
आनंदकंद कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम् ।
पादौ नमामि तव केशव जन्मजन्म कृपां कुरुष्व मम शांतिद शंखपाणे ५३।
संसारदारुणहुताशनतापदग्धं पुत्रादिबंधुमरणैर्बहुशोकतापैः ।
ज्ञानांबुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूपभवस्व नाथ ५४।
एवं स्तोत्रं समाकर्ण्य त्वंगस्यापि महात्मनः ।
दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम् ५५।
शंखचक्रगदापाणिं पद्महस्तं महाप्रभुम् ।
वैनतेयसमारूढमात्मरूपं प्रदर्शितम् ५६।
सर्वाभरणशोभांगं हारकंकणकुंडलैः ।
राजमानं परं दिव्यं निर्मलं वनमालया ५७।
अंगस्याग्रे हृषीकेशः शोभमान महत्प्रभः ।
श्रीवत्सांकेन पुण्येन कौस्तुभेन जनार्दनः ५८।
दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः ।
स उवाच महात्मानं तमंगमृषिसत्तमम् ५९।
भो भो विप्र महाभाग श्रूयतां वचनं शुभम् ।
मेघगंभीरघोषेण समाभाष्य द्विजोत्तमम् ६०।
तपसानेन तुष्टोस्मि वरं वरय शोभनम् ।
तुष्यमाणं हृषीकेशं तं दृष्ट्वा कमलापतिम् ६१।
दीप्यमानं विराजंतं विश्वरूपं जनेश्वरम् ।
पादांबुजद्वयं तस्य प्रणम्य च पुनःपुनः ६२।
हर्षेण महताविष्टस्तमुवाच जनार्दनम् ।
दासोहं तव देवेश शंखचक्रगदाधर ६३।
वरं मे दातुकामोसि देहि त्वं वंशजं सुतम् ।
दिवि शक्रो यथाऽभाति सर्वतेजः समन्वितः ६४।
तादृशं देहि मे पुत्रं सर्वलोकस्य रक्षकम् ।
सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपंडितम् ६५।
दातारं ज्ञानसंपन्नं धर्मतेजः समन्वितम् ।
त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम् ६६।
यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम् ।
ब्रह्मण्यं वेदविद्वांसं सत्यसंधं जितेंद्रियम् ६७।
अजितं सर्वजेतारं विष्णुं तेजःसमप्रभम् ।
वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम् ६८।
शांतं तु तपसोपेतं सर्वशास्त्रविशारदम् ।
वेदज्ञं योगिनां श्रेष्ठं भवतो गुणसंनिभम् ६९।
ईदृशं देहि मे पुत्रं दातुकामो यदा वरम् ।
श्रीवासुदेव उवाच-
एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति ७०।
अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते ।
तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति ७१।
उद्धरिष्यति यः सत्यैः पितरं च पितामहम् ।
भवान्यास्यति मे स्थानं तद्विष्णोः परमं पदम् ७२।
इत्युक्त्वा देवदेवेशस्तमंगं प्रति स द्विज ।
कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय ७३।
तस्यामुत्पादय सुतं शुभं पुण्यावह प्रियम् ।
स भविष्यति धर्मात्मा मत्प्रसादान्महामते ७४।
सर्वज्ञः सर्ववेत्ता च यादृशो वांछितस्त्वया ।
एवं वरं ततो दत्वा अंतर्धानं गतो हरिः ७५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने अंगवरप्रदानं ।
नाम द्वात्रिंशोऽध्यायः ३२।
खण्डः २ (भूमिखण्डः) — Adhyāya 33
ऋषय ऊचुः-
शप्ता गंधर्वपुत्रेण सुशंखेन महात्मना ।
तस्य शापात्कथं जाता किं किं कर्म कृतं तया १।
सा लेभे कीदृशं पुत्रं तस्य शापाद्द्विजोत्तम ।
सुनीथायाश्च चरितं त्वं नो विस्तरतो वद २।
सूत उवाच-
सुशंखेनापि तेनैव सा शप्ता तनुमध्यमा ।
पितुः स्थानं गता सा तु सुनीथा दुःखपीडिता ३।
पितरं चात्मनश्चैव चरितं च प्रकाशितम् ।
श्रुतवान्सोपि धर्मात्मा मृत्युः सत्यवतां वर ४।
तामुवाच सुनीथां तु सुतां शप्तां महात्मना ।
भवत्या दुष्कृतं पापं धर्म तेजः प्रणाशनम् ५।
कस्मात्कृतं महाभागे सुशांतस्य हि ताडनम् ।
विरुद्धं सर्वलोकस्य भवत्या परिकल्पितम् ६।
कामक्रोधविहीनं तं सुशांतं धर्मवत्सलम् ।
तपोमार्गे विलीनं च परब्रह्मणि संस्थितम् ७।
तमेवघातयेद्यो वै तस्य पापं शृणुष्व हि ।
पापात्मा जायते पुत्रः किल्बिषं लभते बहु ८।
ताडंतं ताडयेद्यो वै क्रोशंतं क्रोशयेत्पुनः ।
तस्य पापं स वै भुंक्ते ताडितस्य न संशयः ९।
स वै शांतः स जितात्मा ताडयंतं न ताडयेत् ।
निर्दोषं प्रति येनापि ताडनं च कृतं सुते १०।
पश्चान्मोहेन पापेन निर्दोषेऽपि च ताडयेत् ।
निर्दोषं प्रति येनापि हृद्रोगः क्रियते वृथा ११।
निर्दोषं ताडयेत्पश्चान्मोहात्पापेन केनचित् ।
स पापी पापमाप्नोति निर्दोषस्य शरीरजम् १२।
निर्दोषो घातयेत्तं वै ताडंतं पापचेतसम् ।
पुनरुत्थाय वेगेन साहसात्पापचेतनम् १३।
पापकर्तुश्च यत्पापं निर्दोषं प्रति गच्छति ।
ताडनं नैव तस्माद्वै कार्यं दोषवतोऽपि च १४।
दुष्कृतं च महत्पुत्रि त्वयैव परिपालितम् ।
शप्ता तेनापि याद्यैव तस्मात्पुण्यं समाचर १५।
सतां संगं समासाद्य सदैव परिवर्तय ।
योगध्यानेन ज्ञानेन परिवर्तय नंदिनि १६।
सतां संगो महापुण्यो बहुश्रेयो विधायकः ।
बाले पश्य सुदृष्टांतं सतां संगस्य यद्गुणम् १७।
अपां संस्पर्शनात्पानात्स्नानात्तत्र महाधियः ।
मुनयः सिद्धिमायांति बाह्याभ्यंतरक्षालिताः १८।
शुचिष्मंतो भवंत्येते लोकाः सर्वे चराचराः ।
आपः शांताः सुशीताश्च मृदुगात्राः प्रियंकराः १९।
निर्मला रसवत्यश्च पुण्यवीर्या मलापहाः ।
तथा संतस्त्वया ज्ञेया निषेव्याश्च प्रयत्नतः २०।
यथा वह्निप्रसंगाच्च मलं त्यजति कांचनम् ।
तथा सतां हि संसर्गात्पापं त्यजति मानवः २१।
सत्यवह्निः प्रदीप्तश्च प्रज्वलेत्पुण्यतेजसा ।
सत्येन दीप्ततेजास्तु ज्ञानेनापि सुनिर्मलः २२।
अत्युष्णो ध्यानभावेन अस्पृश्यः पापजैर्नरैः ।
सत्यवह्नेः प्रसंगाच्च पापं सर्वं विनश्यति २३।
तस्मात्सत्यस्य संसर्गः कर्तव्यः सर्वथा त्वया ।
पापभारं परित्यज्य पुण्यमेवं समाश्रय २४।
सूत उवाच-
एवं पित्रा सुनीथा सा दुःखिता प्रतिबोधिता ।
नमस्कृत्य पितुः पादौ गता सा निर्जनं वनम् २५।
कामं क्रोधं परित्यज्य बाल्यभावं तपस्विनी ।
मोहद्रोहौ च मायां च त्यक्त्वा एकांतमास्थिता २६।
तस्याः सख्यः समाजग्मुः क्रीडार्थं लीलयान्विताः ।
तां ददृशुर्विशालाक्ष्यः सुनीथां दुःखभागिनीम् २७।
ध्यायंतीं चिंतयानां तामूचुश्चिंतापरायणाः ।
कस्माच्चिंतसि भद्रे त्वमनया चिंतयान्विता २८।
तन्नो वै कारणं ब्रूहि चिंतादुःखप्रदायिनी ।
एकैव सार्थकी चिंता धर्मस्यार्थे विचिंत्यते २९।
द्वितीया सार्थका चिंता योगिनां धर्मनंदिनी ।
अन्या निरर्थिका चिंता तां नैव परिकल्पयेत् ३०।
कायनाशकरी चिंता बल तेजः प्रणाशिनी ।
नाशयेत्सर्वसौख्यं तु रूपहानिं निदर्शयेत् ३१।
तृष्णां मोहं तथा लोभमेतांश्चिंता हि प्रापयेत् ।
पापमुत्पादयेच्चिंता चिंतिता च दिने दिने ३२।
चिंताव्याधिप्रकाशाय नरकाय प्रकल्पयेत् ।
तस्माच्चिंतां परित्यज्य चानुवर्तस्व शोभने ३३।
अर्जितं कर्मणा पूर्वं स्वयमेव नरेण तु ।
तदेव भुंक्तेऽसौ जंतुर्ज्ञानवान्न विचिंतयेत् ३४।
तस्माच्चिंतां परित्यज्य सुखदुःखादिकं वद ।
तासां तद्वचनं श्रुत्वा सुनीथा वाक्यमब्रवीत् ३५।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने
सुनीथाचरितं नाम त्रयस्त्रिंशोऽध्यायः ३३।
खण्डः २ (भूमिखण्डः) — Adhyāya 34
सूत उवाच-
यथा शप्ता वने पूर्वं सुशंखेन महात्मना ।
तासु सर्वं समाख्यातं सखीष्वेव विचेष्टितम् १।
आत्मनश्च महाभागा दुःखेनातिप्रपीडिता ।
सुनीथोवाच-
अन्यच्चैव प्रवक्ष्यामि सख्यः शृण्वंतु सांप्रतम् २।
मदीयरूपसंपत्ति वयः सगुणसंपदः ।
विलोक्य तातश्चिंतात्मा संजातो मम कारणात् ३।
देवेभ्यो दातुकामोऽसौ मुनिभ्यस्तु महायशाः ।
मां च हस्ते विगृह्यैव सर्वान्वाक्यमुदाहरत् ४।
गुणयुक्ता सुता बाला ममेयं चारुलोचना ।
दातुकामोस्मि भद्रं वो गुणिने सुमहात्मने ५।
मृत्योर्वाक्यं ततो देवा ऋषयः शुश्रुवुस्तदा ।
तमूचुर्भाषमाणं ते देवा इंद्र पुरोगमाः ६।
तव कन्या गुणाढ्येयं शीलानां परमो निधिः ।
दोषेणैकेन संदुष्टा ऋषिशापेन तेन वै ७।
अस्यामुत्पत्स्यते पुत्रो यस्य वीर्यात्पुमान्किल ।
भविता स महापापी पुण्यवंशविनाशकः ८।
गंगातोयेन संपूर्णः कुंभ एव प्रदृश्यते ।
सुरायाबिन्दुनालिप्तो मद्यकुम्भः प्रजायते ९।
पापस्य पापसंसर्गात्कुलं पापि प्रजायते ।
आरनालस्य वै बिंदुः क्षीरमध्ये प्रयाति चेत् १०।
पश्चान्नाशयते क्षीरमात्मरूपं प्रकाशयेत् ।
तद्वद्विनाशयेद्वंशं पापः पुत्रो न संशयः ११।
अनेनापि हि दोषेण तवेयं पापभागिनी ।
अन्यस्मै दीयतां गच्छ देवैरुक्तः पिता मम १२।
देवैश्चापि सगंधर्वैर्ऋषिभिश्च महात्मभिः ।
तैश्चापि संपरित्यक्तः पिता मे दुःखपीडितः १३।
ममान्ये चापि स्वीकारं न कुर्वंति हि सज्जनाः ।
एवं पापमयं कर्म मया चैव पुरा कृतम् १४।
संतप्ता दुःखशोकेन वनमेव समाश्रिता ।
तप एव चरिष्यामि करिष्ये कायशोषणम् १५।
भवतीभिः सुपृष्टाहं कार्यकारणमेव हि ।
मम चिंतानुगं कर्म मया तद्वः प्रकाशितम् १६।
एवमुक्त्वा सुनीथा सा मृत्योः कन्या यशस्विनी ।
विरराम च दुःखार्ता किंचिन्नोवाच वै पुनः १७।
सख्य ऊचुः-
दुःखमेव महाभागे त्यज कायविनाशनम् ।
नास्ति कस्य कुले दोषो देवैः पापं समाश्रितम् १८।
जिह्ममुक्तं पुरा तेन ब्रह्मणा हरसंनिधौ ।
देवैश्चापि स हि त्यक्तो ब्रह्माऽपूज्यतमोऽभवत् १९।
ब्रह्महत्या प्रयुक्तोऽसौ देवराजोपि पश्य भोः ।
देवैः सार्धं महाभागस्त्रैलोक्यं परिभुंजति २०।
गौतमस्य प्रियां भार्यामहल्यां गतवान्पुरा ।
परदाराभिगामी स देवत्वे परिवर्त्तते २१।
ब्रह्महत्योपमं कर्म दारुणं कृतवान्हरः ।
ब्रह्मणस्तु कपालेन चाद्यापि परिवर्तते २२।
देवानमंतितं देवमृषयो वेदपारगाः ।
आदित्यः कुष्ठसंयुक्तस्त्रैलोक्यं च प्रकाशयेत् २३।
लोकानमंतितं देवं देवाद्याः सचराचराः ।
कृष्णो भुंक्ते महाशापं भार्गवेण कृतं पुरा २४।
गुरुभार्यांगतश्चंद्रः क्षयी तेन प्रजायते ।
भविष्यति महातेजा राजराजः प्रतापवान् २५।
पांडुपुत्रो महाप्राज्ञो धर्मात्मा स युधिष्ठिरः ।
गुरोश्चैव वधार्थाय अनृतं स वदिष्यति २६।
एतेष्वेव महत्पापं वर्तते च महत्सु च ।
वैगुण्यं कस्य वै नास्ति कस्य नास्ति च लांछनम् २७।
भवती स्वल्पदोषेण विलिप्तासि वरानने ।
उपकारं करिष्यामस्तवैव वरवर्णिनि २८।
तवांगे ये गुणाः संति सत्यस्त्रीणां यथा शुभे ।
अन्यत्रापि न पश्यामस्तान्गुणांश्चारुलोचने २९।
रूपमेव गुणः स्त्रीणां प्रथमं भूषणं शुभे ।
शीलमेव द्वितीयं च तृतीयं सत्यमेव च ३०।
आर्जवत्वं चतुर्थं च पंचमं धर्ममेव हि ।
मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने ३१।
शुद्धत्वं सप्तमं बाले अंतर्बाह्येषु योषितम् ।
अष्टमं हि पितुर्भावः शुश्रूषा नवमं किल ३२।
सहिष्णुर्दशमं प्रोक्तं रतिश्चैकादशं तथा ।
पातिव्रत्यं ततः प्रोक्तं द्वादशं वरवर्णिनि ३३।
तैस्त्वं संभूषिता बाले मा बिभेषि वरानने ।
येनोपायेन ते भर्ता भविष्यति सुधर्मधृक् ३४।
तमुपायं प्रपश्यामस्तवार्थं वयमेव हि ।
तामूचुस्ता वराः सख्यो मा त्वं वै साहसं कुरु ३५।
सूत उवाच-
एवमुक्ता सुनीथा सा पुनरूचे सखीस्तु ताः ।
कथयध्वं ममोपायं येन भर्ता भविष्यति ३६।
तामूचुस्ता वरा नार्यो रंभाद्याश्चारुलोचनाः ।
रूपमाधुर्यसंयुक्ता भवती भूतिवर्द्धनी ३७।
ब्रह्मशापेन संभीता वयमत्र समागताः ।
तां प्रोचुश्च विशालाक्षीं मृत्योः कन्यां सुलोचनाम् ३८।
विद्यामेकां प्रदास्यामः पुरुषाणां प्रमोहिनीम् ।
सर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीम् ३९।
विद्याबलं ततो दद्युस्तस्यैताः सुखदायकम् ।
यं यं मोहयितुं भद्रे इच्छस्येवं सुरादिकम् ४०।
तं तं सद्यो मोहय वा इत्युक्ता सा तथाऽकरोत् ।
विद्यायां हि सुसिद्धायां सा सुनीथा सुनंदिता ४१।
भ्रमत्येवं सखीभिस्तु पुरुषान्सा विपश्यति ।
अटमानागता पुण्यं नंदनं वनमुत्तमम् ४२।
गंगातीरे ततो दृष्ट्वा ब्राह्मणं रूपसंयुतम् ।
सर्वलक्षणसंपन्नं सूर्यतेजः समप्रभम् ४३।
रूपेणाप्रतिमं लोके द्वितीयमिव मन्मथम् ।
देवरूपं महाभागं भाग्यवंतं सुभाग्यदम् ४४।
अनौपम्यं महात्मानं विष्णुतेजः समप्रभम् ।
वैष्णवं सर्वपापघ्नं विष्णुतुल्यपराक्रमम् ४५।
कामक्रोधविहीनं तमत्रिवंशविभूषणम् ४६।
दृष्ट्वा सुरूपं तपसां स्वरूपं दिव्यप्रभावं परितप्यमानम् ।
पप्रच्छ रंभां सुसखीं सरागा कोयं दिविष्ठः प्रवरो महात्मा ४७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने चतुस्त्रिंशोऽध्यायः ३४।
खण्डः २ (भूमिखण्डः) — Adhyāya 35
रंभोवाच-
ब्रह्मा अव्यक्तसंभूतस्तस्माज्जज्ञे प्रजापतिः ।
अत्रिर्नाम स धर्मात्मा तस्य पुत्रो महामनाः १।
अंगो नाम अयं भद्रे नंदनं वनमागतः ।
इंद्रस्य संपदं दृष्ट्वा लीलातेजसमुत्तमाम् २।
कृता स्पृहा अनेनापि इंद्रस्य सदृशे पदे ।
ईदृशो हि यदा पुत्रो मम स्याद्धर्मसंयुतः ३।
सुश्रेयो मे भवेज्जन्म यशः कीर्ति समन्वितम् ।
आराधितो हृषीकेशस्तपोभिर्नियमैस्तथा ४।
सुप्रसन्ने हृषीकेशे वरं याचितवानयम् ।
इंद्रस्य सदृशं पुत्रं विष्णुतेजः पराक्रमम् ५।
वैष्णवं सर्वपापघ्नं देहि मे मधुसूदन ।
दत्तवान्स तदा पुत्रमीदृशं सर्वधारकम् ६।
तदाप्रभृति विप्रेंद्रः पुण्यां कन्यां प्रपश्यति ।
यथा त्वं चारुसर्वांगी तथायं परिपश्यति ७।
एनं गच्छ वरारोहे अस्मात्पुत्रो भविष्यति ।
पुण्यात्मा पुण्यधर्मज्ञो विष्णुतेजः पराक्रमः ८।
एतत्ते सर्वमाख्यातं तथाहं पृच्छिता त्वया ।
अयं भर्ता भवत्यर्हो भवेदेव न संशयः ९।
सुशंखस्यापि यः शापो वृथा सोऽपि भविष्यति ।
अस्माज्जाते महाभागे पुत्रे धर्मप्रचारिणि १०।
भविष्यसि सुखी भद्रे सत्यं सत्यं वदाम्यहम् ।
सुक्षेत्रे कृषिकारस्तु बीजं वपति तत्परः ११।
स तथा भुंजते देवि यथा बीजं तथा फलम् ।
अन्यथा नैव जायेत तत्सर्वं सदृशं भवेत् १२।
अयमेष महाभागस्तपस्वी पुण्यवीर्यवान् ।
अस्य वीर्यात्समुत्पन्नो अस्यैवगुणसंपदा १३।
युक्तः पुत्रो महातेजाःसर्वदेहभृतां वरः ।
भविष्यति महाभाग्यो युक्तात्मा योगतत्ववित् १४।
एवं हि वाक्यं तु निशम्य बाला रंभाप्रियोक्तं शिवदायकं तत् ।
विचिंत्य बुद्ध्येह सुनीथया तदा तत्त्वार्थमेतत्परिसत्यमेव हि १५।
इति श्रीपद्मपुराणे भूमिखंडेवेनोपाख्याने पंचत्रिंशोऽध्यायः ३५।
खण्डः २ (भूमिखण्डः) — Adhyāya 36
सुनीथोवाच-
सत्यमुक्तं त्वया भद्रे एवमेतत्करोम्यहम् ।
अनया विद्यया विप्रं मोहयिष्यामि नान्यथा १।
साहाय्यं देहि मे पुण्यं येन गच्छामि सांप्रतम् ।
एवमुक्ता तया रंभा तामुवाच मनस्विनीम् २।
कीदृग्ददामि साहाय्यं तत्त्वं कथय भामिनि ।
दूतत्वं गच्छ मे भद्रे एतं प्रति सुसांप्रतम् ३।
एवमुक्तं तया तां तु रंभां प्रति सुलोचनाम् ।
एवमेव प्रतिज्ञातं रंभया देवयोषिता ४।
करिष्ये तव साहाय्यमादेशो मम दीयताम् ।
सद्भावेन विशालाक्षी रूपयौवनशालिनी ५।
मायया दिव्यरूपा सा संबभूव वरानना ।
रूपेणाप्रतिमालोके मोहयंती जगत्त्रयम् ६।
मेरोश्चैव महापुण्ये शिखरे चारुकंदरे ।
नानाधातुसमाकीर्णे नानारत्नोपशोभिते ७।
देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते ।
देववृंदसमाकीर्णे गंधर्वाप्सरसेविते ८।
मनोहरे सुरम्ये च शीतच्छायासमाकुले ।
चंदनानामशोकानां तरूणां चारुहासिनी ९।
दोलायां सा समारूढा सर्वशृङ्गारशोभिता ।
कौशेयेन सुनीलेन राजमाना वरानना १०।
बंधूकपुष्पवर्णेन कंचुकेन द्विजोत्तम ।
सर्वांगसुंदरी बाला वीणातालकराविला ११।
गायमाना वरं गीतं सुस्वरं विश्वमोहनम् ।
ताभिः परिवृता बाला सखीभिः सुमनोहरा १२।
अंगस्तु कंदरे पुण्ये एकांते ध्यानमास्थितः ।
कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम् १३।
स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम् ।
तालमानक्रियोपेतं सर्वसत्वविकर्षणम् १४।
ध्यानाच्चचाल तेजस्वी मायागीतेन मोहितः ।
समुत्थायासनात्तूर्णं वीक्षमाणो मुहुर्मुहुः १५।
जगाम तत्र वेगेन मायाचलितमानसः ।
दोलासंस्थां विलोक्यैव वीणादंडकराविलाम् १६।
हसमानां सुगायंतीं पूर्णचंद्रनिभाननाम् ।
मोहितस्तेन गीतेन रूपेणापि महायशाः १७।
तस्या लावण्यभावेन मन्मथस्य शराहतः ।
आकुलव्याकुलज्ञान ऋषिपुत्रो द्विजोत्तमः १८।
प्रलपत्यतिमोहेन जृंभते च पुनः पुनः ।
स्वेदः कंपोथ संतापस्तस्याजायत तत्क्षणात् १९।
मुह्यन्निव महामोहैर्ग्लानश्चलितमानसः ।
वेपमानस्ततस्त्वंगो दूयमानः समागतः २०।
तामालोक्य विशालाक्षीं मृत्युकन्यां यशस्विनीम् ।
अथोवाच महात्मा स सुनीथां चारुहासिनीम् २१।
का त्वं कस्य वरारोहे सखीभिः परिवारिता ।
केन कार्येण संप्राप्ता केन त्वं प्रेषिता वनम् २२।
तवांगं सुंदरं सर्वमत्र भाति महावने ।
समाचक्ष्व ममाद्यैव प्रसादसुमुखी भव २३।
मायामोहेन संमुग्धस्तस्याः कर्म न विंदति ।
मार्गणैर्मन्मथस्यापि परिविद्धो महामुनिः २४।
एवंविधं महद्वाक्यं समाकर्ण्य महामतेः ।
नोवाच किंचित्सा विप्रं समालोक्य सखीमुखम् २५।
रंभां च प्रेरयामास सुनीथा संज्ञया सखीम् ।
समुवाच ततो रंभा सादरं तं द्विजं प्रति २६।
इयं कन्या महाभागा मृत्योश्चापि महात्मनः ।
सुनीथाख्या प्रसिद्धेयं सर्वलक्षणसंपदा २७।
पतिमन्विच्छती बाला धर्मवंतं तपोनिधिम् ।
शांतं दांतं महाप्राज्ञं वेदविद्याविशारदम् २८।
एवंविधं महद्वाक्यं समाकर्ण्य महामुनिः ।
तामुवाच ततस्त्वंगो रंभामप्सरसां वराम् २९।
मया चाराधितो विष्णुः सर्वविश्वमयो हरिः ।
तेन दत्तो वरो मह्यं पुत्राख्यः सर्वसिद्धिदः ३०।
तन्निमित्तमहं भद्रे सुतार्थं नित्यमेव च ।
कस्यचित्पुण्यवीर्यस्य कन्यामेकां प्रचिंतये ३१।
सदैवाहं न पश्यामि सुभार्यां सत्यमीदृशीम् ।
इयं धर्मस्य वै कन्या धर्माचारा वरानना ३२।
मामेवं हि भजत्वेषा यदि कान्तमिहेच्छति ।
यं यमिच्छेदियं बाला तं ददामि न संशयः ३३।
अदेयं देयमित्याह अस्याः संगमकारणात् ।
एकमेवं त्वया देयं श्रूयतां द्विजसत्तम ३४।
रंभोवाच-
विप्रेंद्र त्वं शृणुष्वेह प्रतिज्ञां वच्मि सांप्रतम् ।
एषा नैव त्वया त्याज्या धर्मपत्नी तवैव हि ३५।
अस्या दोषो गुणो नैव ग्राह्य एव त्वया कदा ।
इत्यर्थे प्रत्ययं विप्र प्रत्यक्षं परिदर्शय ३६।
स्वहस्तं देहि विप्रेंद्र सत्यप्रत्ययकारकम् ।
एवमस्तु मया दत्तो ह्यस्या हस्तो न संशयः ३७।
सूत उवाच-
एवं संबधिकं कृत्वा सत्यप्रत्ययकारकम् ।
गांधर्वेण विवाहेन सुनीथामुपयेमिवान् ३८।
तस्मै दत्वा सुनीथां तां रंभा हृष्टेन चेतसा ।
सा तां चामंत्रयित्वा वै गता गेहं स्वकं पुनः ३९।
प्रहृष्टचेतसः सख्यः स्वस्थानं परिजग्मिरे ।
गतासु तासु सर्वासु सखीषु द्विजसत्तमः ४०।
रेमे त्वंगस्तया सार्धं प्रियया भार्यया सह ।
तस्यामुत्पाद्य तनयं सर्वलक्षणसंयुतम् ४१।
चकार नाम तस्यैव वेनाख्यं तनयस्य हि ।
ववृधे स महातेजाः सुनीथातनयस्तदा ४२।
वेदशास्त्रमधीत्यैव धनुर्वेदं गुणान्वितम् ।
सर्वासामपि मेधावी विद्यानां पारमेयिवान् ४३।
अंगस्य तनयो वेनः शिष्टाचारेण वर्तते ।
स वेनो ब्राह्मणश्रेष्ठः क्षत्त्राचारपरोऽभवत् ४४।
दिवि चेंद्रो यथा भाति सर्वतेजःसमन्वितः ।
भात्येवं तु महाप्राज्ञः स्वबलेन पराक्रमैः ४५।
चाक्षुषस्यांतरे प्राप्ते वैवस्वतसमागते ।
प्रजापालं विना लोके प्रजाः सीदंति सर्वदा ४६।
ऋषयो धर्मतत्त्वज्ञाः प्रजाहेतोस्तपोधनाः ।
व्यचिंतयन्महीपालं धर्मज्ञं सत्यपंडितम् ४७।
तं वेनमेव ददृशुः संपन्नं लक्षणैर्युतम् ।
प्राजापत्ये पदे पुण्ये अभ्यषिंचन्द्विजोत्तमाः ४८।
अभिषिक्ते महाभागे त्वंगपुत्रे तदा नृपे ।
ते प्रजापतयः सर्वे जग्मुश्चैव तपोवनम् ४९।
गतेषु तेषु सर्वेषु वेनो राज्यमकारयत् ।
सूत उवाच-
सा सुनीथा सुतं दृष्ट्वा सर्वराज्यप्रसाधकम् ५०।
विशंकते प्रभावेण शापात्तस्य महात्मनः ।
मम पुत्रो महाभागो धर्मत्राता भविष्यति ५१।
इत्येवं चिंतयेन्नित्यं पूर्वपापाद्विशंकिता ।
धर्मांगानि सुपुण्यानि सुताग्रे परिदर्शयेत् ५२।
सत्यभावादि कान्पुण्यान्गुणान्सा वै प्रकाशयेत् ।
इत्युवाच सुतं सा हि अहं धर्मसुता सुत ५३।
पिता ते धर्मतत्त्वज्ञस्तस्माद्धर्मं समाचर ।
इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सती ५४।
मातापित्रोस्तयोर्वाक्यं प्रजायुक्तं प्रपालयेत् ।
एवं वेनः प्रजापालः संजातःक्षितिमंडले ५५।
सुखेन जीवते लोकःप्रजाधर्मेणरंजिताः ।
एवं राज्यप्रभावं तु वेनस्यापि महात्मनः ५६।
धर्मभावाः प्रवर्तंते तस्मिञ्छासति पार्थिवे ५७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने षट्त्रिंशोऽध्यायः ३६
खण्डः २ (भूमिखण्डः) — Adhyāya 37
सप्तत्रिंशोऽध्यायः 2.37
ऋषय ऊचुः-
एवं वेनस्य चैवासीत्सृष्टिरेव महात्मनः ।
धर्माचारं परित्यज्य कथं पापमतिर्भवेत् १।
सूत उवाच-
ज्ञानविज्ञानसंपन्ना मुनयस्तत्त्ववेदिनः ।
शुभाशुभं वदंत्येवं तन्न स्यादिह चान्यथा २।
तप्यमानेन तेनापि सुशंखेन महात्मना ।
दत्तः शापः कथं विप्रा न यथावच्च जायते ३।
वेनस्य पातकाचारं सर्वमेव वदाम्यहम् ।
तस्मिञ्छासति धर्मज्ञे प्रजापाले महात्मनि ४।
पुरुषः कश्चिदायातश्छद्म लिंगधरस्तदा ।
नग्नरूपो महाकायः शिरोमुंडो महाप्रभः ५।
मार्जनीं शिखिपत्राणां कक्षायां स हि धारयन् ।
गृहीतं पानपात्रं तु नालिकेरमयं करे ६।
पठमानो ह्यसच्छास्त्रं वेदधर्मविदूषकम् ।
यत्र वेनो महाराजस्तत्रायातस्त्वरान्वितः ७।
सभायां तस्य वेनस्य प्रविवेश स पापवान् ।
तं दृष्ट्वा समनुप्राप्तं वेनः प्रश्नं तदाकरोत् ८।
भवान्को हि समायात ईदृग्रूपधरो मम ।
सभायां वर्तमानस्य पुरः कस्मात्समागतः ९।
को वेषः किं नु ते नाम को धर्मः कर्म ते वद ।
को वेदस्ते क आचारः किं तपः का प्रभावना १०।
किं ज्ञानं कः प्रभावस्ते किं सत्यं धर्मलक्षणम् ।
तत्त्वं सर्वं समाचक्ष्व ममाग्रे सत्यमेव च ११।
श्रुत्वा वेनस्य तद्वाक्यं पापो वाक्यमुदाहरत् ।
पातक उवाच-
करोष्येवं वृथा राज्यं महामूढो न संशयः १२।
अहं धर्मस्य सर्वस्वमहं पूज्यतमोसुरैः ।
अहं ज्ञानमहं सत्यमहं धाता सनातनः १३।
अहं धर्मं अहं मोक्षः सर्वदेवमयो ह्यहम् ।
ब्रह्मदेहात्समुद्भूतः सत्यसंधोऽस्मि नान्यथा १४।
जिनरूपं विजानीहि सत्यधर्मकलेवरम् ।
मामेव हि प्रधावंति योगिनो ज्ञानतत्पराः १५।
वेन उवाच-
तवैव कीदृशं कर्म किं ते दर्शनमेव च ।
किमाचारो वदस्वैहि इत्युक्तं तेन भूभुजा १६।
पातक उवाच-
अर्हंतो देवता यत्र निर्ग्रंथो दृश्यते गुरुः ।
दया चैव परो धर्मस्तत्र मोक्षः प्रदृश्यते १७।
दर्शनेस्मिन्न संदेह आचारान्प्रवदाम्यहम् ।
यजनं याजनं नास्ति वेदाध्ययनमेव च १८।
नास्ति संध्या तपो दानं स्वधास्वाहाविवर्जितम् ।
हव्यकव्यादिकं नास्ति नैव यज्ञादिका क्रिया १९।
पितॄणां तर्पणं नास्ति नातिथिर्वैश्वदेविकम् ।
क्षपणस्य वरा पूजा अर्हतो ध्यानमुत्तमम् २०।
अयं धर्मसमाचारो जैनमार्गे प्रदृश्यते ।
एतत्ते सर्वमाख्यातं निजधर्मस्यलक्षणम् २१।
वेन उवाच-
वेदप्रोक्तो यथा धर्मो यत्र यज्ञादिकाः क्रियाः ।
पितॄणां तर्पणं श्राद्धं वैश्वदेवं न दृश्यते २२।
न दानं तप एवास्ति क्वास्ते धर्मस्य लक्षणम् ।
वद सत्यं ममाग्रे तु दयाधर्मं च कीदृशम् २३।
पातक उवाच-
पंचतत्त्वप्रवृद्धोयं प्राणिनां काय एव च ।
आत्मा वायुस्वरूपोयं तेषां नास्ति प्रसंगता २४।
यथा जलेषु भूतानामपिसंगमवेहि तत् ।
जायते बुद्बुदाकारं तद्वद्भूतसमागमः २५।
पृथ्वीभावो रजःस्थस्तु चापस्तत्रैव संस्थिताः ।
ज्योतिस्तत्र प्रदृश्येत सुवायुर्वर्तते त्रिषु २६।
आकाशमावृणोत्पश्चाद्बुद्बुदत्वं प्रजायते ।
अप्सुमध्ये प्रभात्येव सुतेजो वर्तुलं वरम् २७।
क्षणमात्रं प्रदृश्येत क्षणान्नैव च दृश्यते ।
तद्वद्भूतसमायोगः सर्वत्र परिदृश्यते २८।
अंतकाले प्रयात्यात्मा पंच पंचसु यांति ते ।
मोहमुग्धास्ततो मर्त्या वर्तंते च परस्परम् २९।
श्राद्धं कुर्वंति मोहेन क्षयाहे पितृतर्पणम् ।
क्वास्ते मृतः समश्नाति कीदृशोऽसौ नृपोत्तम ३०।
किं ज्ञानं कीदृशं कायं केन दृष्टं वदस्व नः ।
मिष्टान्नं भोजयित्वा च तृप्ता यांति च ब्राह्मणाः ३१।
कस्य श्राद्धं प्रदीयेत सा तु श्रद्धा निरर्थिका ।
अन्यदेवं प्रवक्ष्यामि वेदानां कर्म दारुणम् ३२।
यदातिथिर्गृहे याति महोक्षं पचते द्विजः ।
अजं वा राजराजेंद्र अतिथिं परिभोजयेत् ३३।
अश्वमेधमखे अश्वं गोमेधे वृषमेव च ।
नरमेधे नरं राजन्वाजपेये तथा ह्यजान् ३४।
राजसूये महाराज प्राणिनां घातनं बहु ।
पुंडरीके गजं हन्याद्गजमेधेऽथ कुंजरम् ३५।
सौत्रामण्यां पशुं मेध्यं मेषमेव प्रदृश्यते ।
नानारूपेषु सर्वेषु श्रूयतां नृपनंदन ३६।
नानाजातिविशेषाणां पशूनां घातनं स्मृतम् ।
यच्चापि दीयते दानं किं तद्दानस्य लक्षणम् ३७।
ज्ञेयं तदन्नमुच्छिष्टं क्रियते भूरिभोजनम् ।
अत्यंतदोषहीनांस्तान्हिंसंति यन्महामखे ३८।
तत्र किं दृश्यते धर्मः किं फलं तत्र भूपते ।
पशूनां मारणं यत्र निर्दिष्टं वेदपंडितैः ३९।
तस्माद्विनष्टधर्मं च न पुण्यं मोक्षदायकम् ।
दयां विना हि यो धर्मः स धर्मो विफलायते ४०।
जीवानां पालनं यत्र तत्र धर्मो न संशयः ।
स्वाहाकारः स्वधाकारस्तपः सत्यं नृपोत्तम ४१।
दयाहीनं चापलं स्यान्नास्ति धर्मस्तु तत्र हि ।
एते वेदा न वेदाः स्युर्दया यत्र न विद्यते ४२।
दयादानपरो नित्यं जीवमेव प्ररक्षयेत् ।
चांडालोऽप्यथ शूद्रो वा स वै ब्राह्मण उच्यते ४३।
ब्राह्मणो निर्दयो यो वै पशुघातपरायणः ।
स वै सुनिर्दयः पापी कठिनः क्रूरचेतनः ४४।
वंचकैः कथितो वेदो यो वेदो ज्ञानवर्जितः ।
यत्र ज्ञानं भवेन्नित्यं तत्र वेदः प्रतिष्ठति ४५।
दयाहीनेषु वेदेषु विप्रेषु च महामते ।
नास्ति सत्यं क्रिया तत्र वेदविप्रेषु वै तदा ४६।
वेदा न वेदा राजेंद्र ब्राह्मणाः सत्यवर्जिताः ।
दानस्यापि फलं नास्ति तस्माद्दानं न दीयते ४७।
यथा श्राद्धस्य वै चिह्नं तथा दानस्य लक्षणम् ।
जिनस्यापि च यद्धर्मं भुक्तिमुक्तिप्रदायकम् ४८।
तवाग्रेऽहं प्रवक्ष्यामि बहुपुण्यप्रदायकम् ।
आदौ दया प्रकर्तव्या शांतभूतेन चेतसा ४९।
आराधयेद्धृदा देवं जिनं येन चराचरम् ।
मनसा शुद्धभावेन जिनमेकं प्रपूजयेत् ५०।
नमस्कारः प्रकर्तव्यस्तस्य देवस्य नान्यथा ।
मातापित्रोस्तु वै पादौ कदा नैव प्रवंदयेत् ५१।
अन्येषामपि का वार्ता श्रूयतां राजसत्तम ।
वेन उवाच-
एते विप्राश्च आचार्या गंगाद्याः सरितस्तथा ५२।
वदंति पुण्यतीर्थानि बहुपुण्यप्रदानि च ।
तत्किं वदस्व सत्यं मे यदि धर्ममिहेच्छसि ५३।
पातक उवाच-
आकाशाद्वै महाराज मेघा वर्षंति वै जलम् ।
भूमौ हि पर्वतेष्वेवं सर्वत्र पतिते जलम् ५४।
स आप्लाव्य ततस्तिष्ठेद्दयां सर्वत्र भावयेत् ।
नद्यः पापप्रवाहास्तु तासु तीर्थं श्रुतं कथम् ५५।
जलाशया महाराज तडागाः सागरास्तथा ।
पृथिव्याधारकाश्चैव गिरयो अश्मराशयः ५६।
नास्त्येतेषु च वै तीर्थं जलैर्जलदमुत्तमम् ।
स्नाने यदा महत्पुण्यं कस्मान्मत्स्येषु वै नहि ५७।
दृष्टा स्नानेन वै सिद्धिर्मीनाः शुद्ध्यंति नान्यथा ।
यत्र जिनस्तत्र तीर्थं तत्र धर्मः सनातनः ५८।
तपोदानादिकं सर्वं पुण्यं तत्र प्रतिष्ठितम् ५९।
एको जिनः सर्वमयो नृपेंद्र नास्त्येव धर्मं परमं हि तीर्थम् ।
अयं तु लाभः परमस्तु तस्माद्ध्य्यास्व नित्यं सुसुखो भविष्यसि ६०।
विनिंद्य धर्मं सकलं सवेदं दानं सपुण्यं परयज्ञरूपम् ।
पापस्वभावैर्बहुबोधितो नृपस्त्वंगस्य पुत्रो भुवि तेन पापिना ६१।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने सप्तत्रिंशोऽध्यायः ३७।
खण्डः २ (भूमिखण्डः) — Adhyāya 38
सूत उवाच-
एवं संबोधितो वेनः पापभावं गतः किल ।
पुरुषेण तेन जैनेन महापापेन मोहितः १।
नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः ।
वेदधर्मं परित्यज्य सत्यधर्मादिकां क्रियाम् २।
सुयज्ञानां निवृत्तिः स्याद्वेदानां हितथैव च ।
पुण्यशास्त्रमयो धर्मस्तदा नैव प्रवर्तितः ३।
सर्वपापमयो लोकः संजातस्तस्य शासनात् ।
नैव यागाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमम् ४।
न दानाध्ययनं विप्रास्तस्मिञ्छासति पार्थिवे ।
एवं धर्मप्रलोपोभून्महत्पापं प्रवर्तितम् ५।
अंगेन वार्यमाणस्तु अन्यथा कुरुते भृशम् ।
न ननाम पितुः पादौ मातुश्चैव दुरात्मवान् ६।
सनकस्यापि विप्रस्य अहमेकः प्रतापवान् ।
पित्रा निवार्यमाणश्च मात्रा चैव दुरात्मवान् ७।
न करोति शुभं पुण्यं तीर्थदानादिकं कदा ।
आत्मभावानुरूपं च बहुकालं महायशाः ८।
पुनः सर्वैर्विचार्यैवं कस्मात्पापी व्यजायत ।
अंगप्रजापतेः पुत्रो वंशलाञ्छनमागतः ९।
पुनः पप्रच्छ धर्मात्मा सुतां मृत्योर्महात्मनः ।
कस्य दोषात्समुत्पन्नो वद सत्यं मम प्रिये १०।
सुनीथोवाच-
पूर्वमेव स्ववृत्तांतमात्मपुण्यं च नंदिनी ।
समाचष्ट च अंगाय मम दोषान्महामते ११।
बाल्ये कृतं मया पापं सुशंखस्य महात्मनः ।
तपसि संस्थितस्यापि नान्यत्किंचित्कृतं मया १२।
शप्ताहं कुप्यता तेन दुष्टा ते संततिर्भवेत् ।
इति जाने महाभाग तेनायं दुष्टतां गतः १३।
समाकर्ण्य महातेजास्तया सह वनं ययौ ।
गते तस्मिन्महाभागे सभार्ये च वने तदा १४।
सप्तैते ऋषयस्तत्र वेनपार्श्वं गतास्तथा ।
समाहूय ततः प्रोचुरंगस्य तनयं प्रति १५।
ऋषय ऊचुः-
मा वेन साहसं कार्षीःप्रजापालो भवानिह ।
त्वया सर्वमिदं लोकं त्रैलोक्यं सचराचरम् १६।
धर्मे चैव महाभाग सकलं हि प्रतिष्ठितम् ।
पापकर्मपरित्यज्य पुण्यं कर्म समाचर १७।
एवमुक्तेषु तेष्वेव प्रहसन्वाक्यमब्रवीत् ।
वेन उवाच-
अहमेव परो धर्मोऽहमेवार्हः सनातनः १८।
अहं धाता अहं गोप्ता अहं वेदार्थ एव च ।
अहं धर्मो महापुण्यो जैनधर्मः सनातनः १९।
मामेव कर्मणा विप्रा भजध्वं धर्मरूपिणम् ।
ऋषय उचुः-
ब्राह्मणाः क्षत्त्रिया वैश्यास्त्रयोवर्णा द्विजातयः २०।
सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी ।
वेदाचारेण वर्तंते तेन जीवंति जंतवः २१।
ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च ।
पश्चाद्राजा पृथिव्याश्च संजातः कृतविक्रमः २२।
राजपुण्येन राजेंद्र सुखं जीवंति वै द्विजाः ।
राज्ञः पापेन नश्यंति तस्मात्पुण्यं समाचर २३।
समादृतस्त्वया धर्मः कृतश्चापि नराधिप ।
त्रेतायुगस्य कर्मापि द्वापरस्य तथा नहि २४।
कलेश्चैव प्रवेशं तु वर्त्तयिष्यंति मानवाः ।
जैनधर्मं समाश्रित्य सर्वे पापप्रमोहिताः २५।
वेदाचारं परित्यज्य पापं यास्यंति मानवाः ।
पापस्य मूलमेवं वै जैनधर्मं न संशयः २६।
अनेन मुग्धा राजेंद्र महामोहेन पातिताः ।
मानवाः पापसंघातास्तेषां नाशाय नान्यथा २७।
भविष्यत्येव गोविंदः सर्वपापापहारकः ।
स्वेच्छारूपं समासाद्य संहरिष्यति पातकात् २८।
पापेषु संगतेष्वेवं म्लेच्छनाशाय वै पुनः ।
कल्किरेव स्वयं देवो भविष्यति न संशयः २९।
व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय ।
वर्तयस्व हि सत्येन प्रजापालो भवस्व हि ३०।
वेन उवाच-
अहं ज्ञानवतां श्रेष्ठः सर्वं ज्ञातं मया इह ।
योऽन्यथा वर्तते चैव स दंड्यो भवति ध्रुवम् ३१।
अत्यर्थं भाषमाणं तं राजानं पापचेतनम् ।
कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः ३२।
कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु ।
ब्रह्मशापभयात्तेषां वल्मीकं प्रविवेश ह ३३।
अथ ते मुनयः क्रुद्धा वेनं पश्यंति सर्वतः ।
ज्ञात्वा प्रनष्टं भूपं तं वल्मीकस्थं सुसांप्रतम् ३४।
बलादानिन्युस्तं विप्राः क्रूरं तं पापचेतनम् ।
दृष्ट्वा च पापकर्माणं मुनयः सुसमाहिताः ३५।
सव्यं पाणिं ममंथुस्ते भूपस्य जातमन्यवः ।
तस्माज्जातो महाह्रस्वो नीलवर्णो भयंकरः ३६।
बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्द्धरः ।
सर्वेषामेव पापानां निषादानां बभूव ह ३७।
धाता पालयिता राजा म्लेच्छानां तु विशेषतः ।
तं दृष्ट्वा पापकर्माणमृषयस्तु महामते ३८।
ममंथुर्दक्षिणं पाणिं वेनस्यापि महात्मनः ।
तस्माज्जातो महात्मा स येन दुग्धा वसुंधरा ३९।
पृथुर्नाम महाप्राज्ञो राजराजो महाबलः ।
तस्य पुण्यप्रसादाच्च वेनो धर्मार्थकोविदः ४०।
चक्रवर्तिपदं भुक्त्वा प्रसादात्तस्य चक्रिणः ।
जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम् ४१।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्यानेऽष्टत्रिंशोऽध्यायः ३८।
खण्डः २ (भूमिखण्डः) — Adhyāya 39
ऋषय ऊचुः-
कथं वेनो गतः स्वर्गं पापं त्यक्त्वा प्रदूरतः ।
तन्नो विस्तरतोऽत्रापि वद सत्यवतां वर १।
सूतउवाच-
ऋषीणां पुण्यसंसर्गात्संवादाच्च द्विजोत्तम ।
कायस्य मथनात्पापो बहिस्तस्य विनिर्गतः २।
पश्चाद्वेनः स पुण्यात्मा ज्ञानं लेभे च शाश्वतम् ।
रेवाया दक्षिणे कूले तपश्चचार स द्विजाः ३।
तृणबिन्दोर्ऋषेश्चैव आश्रमे पापनाशने ।
वर्षाणां तु शतं साग्रं कामक्रोधविवर्जितः ४।
तस्योग्रतपसादेवः शंखचक्रगदाधरः ।
प्रसन्नोभून्महाभागा निष्पापस्य नृपस्य वै ५।
उवाच च प्रसन्नोऽस्मि व्रियतां वरउत्तमः ।
वेन उवाच-
यदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम् ६।
अनेनापि शरीरेण गंतुमिच्छामि त्वत्पदम् ।
पित्रा सार्धं महाभाग मात्रा चैव सुरेश्वर ।
तवैव तेजसा देव तद्विष्णोः परमं पदम् ७।
श्रीवासुदेव उवाच-
क्वगतोऽसौ महामोहो येन त्वं मोहितो नृप ।
लोभेन मोहयुक्तेन तमोमार्गे निपातितः ८।
वेन उवाच-
यन्मे पूर्वकृतं पापं तेनाहं मोहितो विभो ।
अतो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणात् ९।
प्रजप्तव्यमथो पठ्यं तद्वदानुग्रहाद्विभो ।
भगवानुवाच-
साधु भूप महाभाग पापं ते नाशमागतम् १०।
शुद्धोसि तपसा च त्वं ततः पुण्यं वदाम्यहम् ।
पुरा वै ब्रह्मणा तात पृष्टोहं भवता यथा ११।
तस्मै यदुदितं वत्स तत्ते सर्वं वदाम्यहम् ।
एकदा ब्रह्मणा ध्यानस्थितेन नाभिपंकजे १२।
प्रादुरास तदा तस्य वरदानाय सुव्रत ।
तेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम् १३।
वासुदेवाभिधानं च सुगतिप्रदमिच्छता ।
स्तोत्राणां परमं तस्मै वासुदेवाभिधं महत् १४।
सर्वसौख्यप्रदं नॄणां पठतां जपतां सदा ।
उपादिशं महाभाग विष्णुप्रीतिकरं परम् १५।
विष्णुरुवाच-
एतत्सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिना ।
अतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः १६।
वसंति यत्र भूतानि वसत्येषु च यो विभुः ।
स वासुदेवो विज्ञेयो विद्वद्भिरहमादरात् १७।
संकर्षति प्रजाश्चांते ह्यव्यक्ताय यतो विभुः ।
ततः संकर्षणो नाम्ना विज्ञेयः शरणागतैः १८।
इंगिते कामरूपोहं बहु स्यामिति काम्यया ।
प्रद्युम्नोहं बुधैस्तस्माद्विज्ञेयोस्मि सुतार्थिभिः १९।
अत्र लोके विना चेशौ सर्वेशौ हरकेशवौ ।
निरुद्धोहं योगबलान्न केनातोनिरुद्धवत् २०।
विश्वाख्योहं प्रतिजगज्ज्ञानविज्ञानसंयुतः ।
अहमित्यभिमानी च जाग्रच्चिंतासमाकुलः २१।
तैजसोहं जगच्चेष्टामयश्चेंद्रियरूपवान् ।
ज्ञानकर्मसमुद्रिक्तः स्वप्नावस्थां गतो ह्यहम् २२।
प्राज्ञोहमधिदैवात्मा विश्वाधिष्ठानगोचरः ।
सुषुप्तावास्थितो लोकादुदासीनो विकल्पितः २३।
तुरीयोऽहं निर्विकारी गुणावस्थाविवर्जितः ।
निर्लिप्तः साक्षिवद्विश्व प्रतिबिंबित विग्रहः २४।
चिदाभासश्चिदानंदश्चिन्मयश्चित्स्वरूपवान् ।
नित्योक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम् २५।
भगवानुवाच-
इत्युक्त्वांतर्दधे विष्णुः स्वरूपं ब्रह्मणे पुरा ।
सोपि ज्ञात्वा जगद्व्याप्तिं कृतात्मा समभूत्क्षणात् २६।
राजंस्त्वमपि शुद्धात्मा पृथोर्जन्मन एव च ।
तथाप्याराधय विभुं स्तोत्रेणानेन सुव्रत २७।
तुष्टो विष्णुस्तमभ्याह वरं वरय मानद ।
वेन उवाच-
सुगतिं देहि मे विष्णो दुष्कृतात्तारयस्व माम् २८।
शरणं त्वां प्रपन्नोस्मि कारणं वद सद्गतेः ।
विष्णुरुवाच-
पूर्वमेव महाभाग त्वंगेनापि महात्मना २९।
अहमाराधितस्तेन तस्मै दत्तो वरो मया ।
प्रयास्यसि महाभाग वैष्णवं लोकमुत्तमम् ३०।
कर्मणा स्वेन विप्रेंद्र पुण्येन नृपनंदन ।
आत्मार्थे त्वं महाभाग वरमेव प्रयाचय ३१।
शृणु वेन महाभाग वृत्तांतं पूर्वसंभवम् ।
तव मात्रे पुरा दत्तः शापः क्रुद्धेन भूपते ३२।
सुशंखेन सुनीथायै बाल्ये पूर्वं महात्मना ।
ततस्त्वंगे वरो दत्तो मयैव विदितात्मना ३३।
त्वां समुद्धर्त्तुकामेन सुपुत्रस्ते भविष्यति ।
एवमुक्त्वा तु पितरं तवाहं गुणवत्सल ३४।
भवदंगात्समुद्भूतः करिष्ये लोकपालनम् ।
दिवींद्रो हि यथा भाति तथाहं भूतले स्थितः ३५।
आत्मा वै जायते पुत्र इति सत्यवती श्रुतिः ।
अतस्त्वं सुगतिं वत्स लभिष्यसि वरान्मम ३६।
गत्यर्थमात्मनो राजन्दानमेकं समाचर ।
यस्त्वां पातकरूपोऽहं सुनीथायाः परंतप ३७।
अब्रुवन्नग्नरूपेण कर्तुं त्वां तु विधर्मगम् ।
अन्यथा तु सुशंखस्य वाक्यमेवान्यथा भवेत् ३८।
अतो विधिर्निषेधश्च ह्यहमेव नृपोत्तम ।
कर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रहः ३९।
दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम् ।
तस्माद्दानं ददस्व त्वं दानात्पुण्यं प्रवर्तते ४०।
दानेन नश्यते पापं तस्माद्दानं ददस्व हि ।
अश्वमेधादिभिर्यज्ञैर्यजस्व नृपसत्तम ४१।
भूमिदानादिकं दानं ब्राह्मणेभ्यो ददस्व वै ।
सुदानात्प्राप्यते भोगः सुदानात्प्राप्यते यशः ४२।
सुदानाज्जायते कीर्तिः सुदानात्प्राप्यते सुखम् ।
दानेन स्वर्गमाप्नोति फलं तत्र भुनक्ति च ४३।
दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सत्तम ।
काले प्राप्ते व्रजेत्तीर्थं पुण्यस्यापि फलं त्विदम् ४४।
पात्रभूताय विप्राय श्रद्धापूतेन चेतसा ।
यो ददाति महादानं मयि भावं निवेश्य च ४५।
तस्याहं सकलं दद्मि मनसा यंयमिच्छति ।
वेन उवाच-
कालं दानस्य मे ब्रूहि कीदृक्कालस्य लक्षणम् ४६।
तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणम् ।
दानस्यापि जगन्नाथ विधिं विस्तरतो वद ४७।
प्रसादसुमुखो भूत्वा दया मे यदि वर्त्तते ।
श्रीकृष्ण उवाच-।
दानकालं प्रवक्ष्यामि नित्यं नैमित्तिकं नृप ४८।
काम्यं चान्यं महाराज चतुर्थप्रापकं पुनः ।
सूर्योदयस्य वेलायां पापं नश्यति सर्वतः ४९।
अंधकाराधिका घोरा नराणां नाशकारकाः ।
दिवि सूर्यो ममांशोऽयं तेजसां कल्पितो निधिः ५०।
तस्यैव तेजसा दग्धा भस्मतां यांति किल्बिषाः ।
उदयंतं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि ५१।
तस्य किं कथ्यते भूप नित्यं पुण्यविवर्द्धनम् ।
संप्राप्तायां सुवेलायां तस्यां पुण्यकरो नरः ५२।
स्नात्वाभ्यर्च्य पितॄन्देवान्दानदाता भवेत्पुनः ।
यथाशक्तिप्रभावेन श्रद्धापूतेन चेतसा ५३।
अन्नं पयः फलं पुष्पं वस्त्रं तांबूलभूषणम् ।
हेमरत्नादिकं चैव तस्य पुण्यमनंतकम् ५४।
मध्याह्ने तु ततो राजन्नपराह्णे तथैव च ।
मामुद्दिश्य च यो दद्यात्तस्य पुण्यमनंतकम् ५५।
खाद्यपानादिकं मिष्ट लेपनं गंधकुंकुमम् ।
कर्पूरादिकमेवापि वस्त्रालंकारसंयुतम् ५६।
अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकम् ।
नित्यकालो मया ख्यातो दानपूजार्थिनां शुभः ५७।
अथातः संप्रवक्ष्यामि नैमित्तिकमनुत्तमम् ।
त्रिकालेष्वपि दातव्यं दानमेव न संशयः ५८।
शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छता ।
यस्मिन्काले प्रदत्तं हि किंचिद्दानं नराधिप ५९।
तत्प्रभावान्महाप्राज्ञो बहुसामर्थ्यसंयुतः ।
धनाढ्यो गुणवान्प्राज्ञः पंडितोऽपि विचक्षणः ६०।
पक्षं मासं दिनं यावन्न दत्तं वै यदाशनम् ।
तमेव वारयाम्येव भक्ष्याच्चैव नरोत्तमम् ६१।
स्वमलं भक्षितं चैव अदत्वा दानमुत्तमम् ।
उत्पादयाम्यहं रोगं सर्वभोगनिवारणम् ६२।
तेषां कायेष्वसंतुष्टो बहुपीडाप्रदायकम् ।
मंदानलेन संयुक्तं ज्वरसंतापकारकम् ६३।
त्रिकालेषु न दत्तं यैर्ब्राह्मणेषु सुरेषु च ।
स्वयमश्नाति मिष्टं तु तेन पापं महत्कृतम् ६४।
प्रायश्चित्तेन रौद्रेण तमेवं परिशोधयेत् ।
उपवासैर्महाराज कायशोषकरादिकैः ६५।
चर्मकारो यथा चर्म कुंडस्थोपरि निर्घृणः ।
शोधयेच्च कषायैश्च तच्चर्मस्फोटयेद्यथा ६६।
तथाहं पापकर्तारं शोधयामि न संशयः ।
औषधीनां सुयोगाच्च कषायैः कटुकैर्ध्रुवम् ६७।
उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथा ।
अन्ये भुंजन्ति तस्योग्र भोगान्पुण्यान्मनोनुगान् ६८।
किं करोति समर्थश्च न दत्तं दानमुत्तमम् ।
महता पापरूपेण तमेवं परितापये ६९।
नित्यकालस्य यद्दानमात्मार्थं पापिभिर्यथा ।
न दत्तं राजराजेंद्र श्रद्धापूतेन चेतसा ७०।
तथा ताञ्जारयाम्येतानुपायैर्दारुणैः किल ।
वासुदेव उवाच-
नैमित्तिकं तथा कालं पुण्यं चैव तवाग्रतः ७१।
प्रवक्ष्यामि नरश्रेष्ठ सुबुद्ध्या शृणु तत्परः ।
अमावास्या महाराज पौर्णमासी तथैव च ७२।
यदा भवति संक्रांतिर्व्यतीपातो नरेश्वर ।
वैधृतिश्च यदा प्रोक्ता यदा एकादशी भवेत् ७३।
महामाघी तथाषाढी वैशाखी कार्तिकी तथा ।
अमासोमसमायोगे मन्वादिषु युगादिषु ७४।
गजच्छाया तथा प्रोक्ता पितृक्षया तथैव च ।
एते नैमित्तिकाः ख्यातास्तवाग्रे नृपसत्तम ७५।
एतेषु दीयते दानं तस्य दानस्य यत्फलम् ।
तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपसत्तम ७६।
मामुद्दिश्य नरो भक्त्या ब्राह्मणाय प्रयच्छति ।
तस्याहं निर्विकल्पेन प्रयच्छामि न संशयः ७७।
गृहं सौख्यं महाराज स्वर्गमोक्षादिकं बहु ।
काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम् ७८।
व्रतानामेव सर्वेषां देवादीनां तथैव च ।
दानस्य पुण्यकालं तु संप्रोक्तं द्विजसत्तमैः ७९।
आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृप ।
मखानामेव सर्वेषां वैवाहिकमनुत्तमम् ८०।
पुत्रस्य जातमात्रस्य चौलमौंज्यादिकं तथा ।
प्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि ८१।
वापीकूपतडागानां गृहवास्तुमयं नृप ।
तदाभ्युदयिकं प्रोक्तं मातॄणां यत्र पूजनम् ८२।
तस्मिन्काले ददेद्दानं सर्वसिद्धिप्रदायकम् ।
आभ्युदयिक एवायं कालः प्रोक्तो नृपोत्तम ८३।
अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणम् ।
मृत्युकाले च संप्राप्ते क्षयं ज्ञात्वा नरोत्तम ८४।
तत्र दानं प्रदातव्यं यममार्गसुखप्रदम् ।
नित्यनैमित्तिकाः कालाः काम्याभ्युदयिकास्तथा ८५।
अंत्यःकालो महाराज समाख्यातस्तवाग्रतः ।
एते कालाः समाख्याताः स्वकर्मफलदायकाः ८६।
तीर्थस्य लक्षणं राजन्प्रवक्ष्यामि तवाग्रतः ।
सुतीर्थानामियं गंगा भाति पुण्या सरस्वती ८७।
रेवा च यमुना तापी तथा चर्मण्वती नदी ।
सरयूर्घर्घरा वेणा सर्वपापप्रणाशिनी ८८।
कावेरी कपिला चान्या विशाला विश्वतारणी ।
गोदावरी समाख्याता तुंगभद्रा नरोत्तम ८९।
पापानां भीतिदा नित्यं भीमरथ्या प्रपठ्यते ।
देविका कृष्णगंगा च अन्याः सरिद्वरोत्तमाः ९०।
एतासां पुण्यकालेषु संति तीर्थान्यनेकशः ।
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः ९१।
तत्र तत्र प्रकर्तव्याः स्नानदानादिकाः क्रियाः ।
यदा न ज्ञायते नाम तासां तीर्थस्य सत्तमाः ९२।
नामोच्चारं प्रकुर्वीत विष्णुतीर्थमिदं नृप ।
तीर्थस्य देवता तद्वदहमेव न संशयः ९३।
मामेवमुच्चरेद्यो वै तीर्थे देवेषु साधकः ।
तस्य पुण्यफलं जातं मन्नाम्ना नृपनंदन ९४।
अज्ञातानां सुतीर्थानां देवानां नृपसत्तम ।
स्नाने दाने महाराज मन्नाम हि समुच्चरेत् ९५।
तीर्थानामेव राजेंद्र धात्रा धात्र्य इमाः कृताः ।
सिंधवः सर्वपुण्यानां सर्वस्थाः क्षितिमंडले ९६।
यत्रतत्र प्रकर्त्तव्यं स्नानदानादिकं नृप ।
अक्षयं फलमाप्नोति सुतीर्थानां प्रसादतः ९७।
तीर्थरूपा महापुण्याः सागरा सप्त एव च ।
मानसाद्यास्तथा राजन्सरस्यश्च प्रकीर्तिताः ९८।
निर्झराः पल्वलाः प्रोक्तास्तीर्थरूपा न संशयः ।
स्वल्पा नद्यो महाराज तासु तीर्थं प्रतिष्ठितम् ९९।
खातेष्वेवं च सर्वेषु वर्जयित्वा च कूपकम् ।
पर्वतास्तीर्थरूपाश्च मेर्वाद्याश्च महीतले १००।
यज्ञभूमिश्च यज्ञश्च अग्निहोत्रे यथा स्थितः ।
श्राद्धभूमिस्तथा शुद्धा देवशाला तथा पुनः १०१।
होमशाला तथा प्रोक्ता वेदाध्ययनवेश्म च ।
गृहेषु पुण्यसंयुक्तं गोस्थानं वरमुत्तमम् १०२।
सोमपायी भवेद्यत्र तीर्थं तत्र प्रतिष्ठितम् ।
आरामो यत्र वै पुण्यो अश्वत्थो यत्र तिष्ठति १०३।
ब्रह्मवृक्षो भवेद्यत्र वटवृक्षस्तथैव च ।
अन्ये च वन्यसंस्थाने तत्र तीर्थं प्रतिष्ठितम् १०४।
एते तीर्थाः समाख्याताः पितामाता तथैव च ।
पुराणं पठ्यते यत्र गुरुर्यत्र स्वयं स्थितः १०५।
सुभार्या तिष्ठते यत्र तत्र तीर्थं न संशयः ।
सुपुत्रस्तिष्ठते यत्र तत्र तीर्थं न संशयः १०६।
एते तीर्थाः समाख्याता राजवेश्म तथैव च ।
वेन उवाच-
पात्रस्य लक्षणं ब्रूहि यस्मै देयं सुरोत्तम १०७।
प्रसादसुमुखो भूत्वा कृपया मम माधव ।
वासुदेव उवाच-
शृणु राजन्महाप्राज्ञ पात्रस्यापि सुलक्षणम् १०८।
यस्मै देयं सुदानं च श्रद्धापूतैर्महात्मभिः ।
ब्राह्मणं सुकुलोपेतं वेदाध्ययनतत्परम् १०९।
शांतं दांतं तपोयुक्तं शुक्लमेव विशेषतः ।
प्रज्ञावंतं ज्ञानवंतं देवपूजनतत्परम् ११०।
सत्यवंतं महापुण्यं वैष्णवं ज्ञानपंडितम् ।
धर्मज्ञं मुक्तलौल्यं च पाखंडैस्तु विवर्जितम् १११।
एवं पात्रं समाख्यातमन्यदेवं वदाम्यहम् ।
एवमेतैर्गुणैर्युक्तं स्वसृपुत्रं नरोत्तमम् ११२।
एतं पात्रं विजानीहि दुहितुस्तनयं ततः ।
जामातरं महाराज भावैरेतैश्च संयुतम् ११३।
गुरुं च दीक्षितं चैव पात्रभूतं नरोत्तम ।
एतान्येव सुपात्राणि दानयोग्यानि सत्तम ११४।
वेदाचारसमोपेतस्तृप्तिं नैव च गच्छति ।
वर्जयेत्किल तं विप्रं तथा काणं सुधूर्तकम् ११५।
अतिकृष्णं महाराज कपिलं परिवर्जयेत् ।
कर्कटाक्षं सुनीलं च श्यावदन्तं विवर्जयेत् ११६।
नीलदंतं तथा राजन्पीतदंतं तथैव च ।
गोघ्नं सुकृष्णदंतं च बर्बरं चातिपांशुलम् ११७।
हीनांगमधिकांगं च कुष्ठिनं कुनखं तथा ।
दुश्चर्माणं महाराज खल्वाटं परिवर्जयेत् ११८।
अन्यायेषु रता यस्य जाया विप्रस्य कस्य च ।
तस्मै दानं न दातव्यं यदि ब्रह्मसमो भवेत् ११९।
स्त्रीजिताय न दातव्यं शाखारंडे महामते ।
व्याधिताय न दातव्यं मृतभोजिषु भूपते १२०।
चोराय च न दातव्यं स यद्यत्रिसमो भवेत् ।
अतृप्ताय न दातव्यं शावं तु परिवर्जयेत् १२१।
अतिस्तब्धाय नो देयं शठाय च विशेषतः ।
वेदशास्त्रसमायुक्तः सदाचारेण वर्जितः १२२।
श्राद्धे दाने च राजेंद्र नैव युक्तः कदा भवेत् ।
अथ दानं प्रवक्ष्यामि सफलं पुण्यदायकम् १२३।
कालतीर्थसुपात्राणां श्रद्धा योगात्प्रजायते ।
नास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखम् १२४।
नास्ति श्रद्धासमं तीर्थं संसारे प्राणिनां नृप ।
श्रद्धाभावेन संयुक्तो मामेवं परिसंस्मरेत् १२५।
पात्रहस्ते प्रदातव्यं स्वल्पमेव नृपोत्तम ।
एवंविधस्य दानस्य विधियुक्तस्य यत्फलम् १२६।
अनंतं तदवाप्नोति मत्प्रसादात्सुखी भवेत् १२७।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने एकोनचत्वारिंशोऽध्यायः ३९।
खण्डः २ (भूमिखण्डः) — Adhyāya 40
वेन उवाच-
नित्यदानफलं देव त्वत्तः पूर्वं मया श्रुतम् ।
नैमित्तिकस्य दानस्य दत्तस्यापि हि यत्फलम् १।
तत्फलं मे समाचक्ष्व त्वत्प्रसादात्प्रयत्नतः ।
महातृप्तिं न गच्छामि श्रोतुं श्रद्धा प्रवर्तते २।
विष्णुरुवाच-
नैमित्तिकं प्रवक्ष्यामि दानमेव नृपोत्तम ।
महापर्वणि संप्राप्ते येन दानानि श्रद्धया ३।
सत्पात्रेभ्यः प्रदत्तानि तस्य पुण्यफलं शृणु ।
गजं रथं प्रदत्ते यो ह्यश्वं चापि नृपोत्तम ४।
स च भृत्यैस्तु संयुक्तः पुण्यदेशे नृपोत्तमः ।
जायते हि महाराज मत्प्रसादान्न संशयः ५।
राजा भवति धर्मात्मा ज्ञानवान्बलवान्सुधीः ।
अजेयः सर्वभूतानां महातेजाः प्रजायते ६।
महापर्वणि संप्राप्ते भूमिदानं ददाति यः ।
गोदानं वा महाराज सर्वभोगपतिर्भवेत् ७।
ब्राह्मणाय सुपुण्याय दानं दद्यात्प्रयत्नतः ।
महादानानि यो दद्यात्तीर्थे पर्वणि पात्रवित् ८।
तेषां चिह्नं प्रवक्ष्यामि भूपतित्वं प्रजायते ।
तीर्थे पर्वणि संप्राप्ते गुप्तदानं ददाति यः ९।
निधीनामाशुसंप्राप्तिरक्षरा परिजायते ।
महापर्वणि संप्राप्ते तीर्थेषु ब्राह्मणाय च १०।
सुचैलं च महादानं कांचनेन समन्वितम् ।
पुण्यं फलं प्रवक्ष्यामि तस्य दानस्य भूपते ११।
जायंते बहवः पुत्राः सुगुणा वेदपारगाः ।
आयुष्मंतः प्रजावंतो यशः पुण्यसमन्विताः १२।
विपुलाश्चैव जायंते स्फीता लक्ष्मीर्महामते ।
सौख्यं च लभते पुण्यं धर्मवान्परिजायते १३।
महापर्वणि संप्राप्ते तीर्थे गत्वा प्रयत्नतः ।
कपिलां कांचनीं दद्याद्ब्राह्मणाय महात्मने १४।
तस्य पुण्यं प्रवक्ष्यामि दानस्य च महामते ।
कपिलादो महाराज सर्वसौख्यान्प्रभुंजति १५।
यावद्ब्रह्मा प्रजीवेत्स तावत्तिष्ठति तत्र सः ।
महापर्वणि संप्राप्ते अलंकृत्य च गां तदा १६।
कांचनेनापि संयुक्तां वस्त्रालंकारभूषणैः ।
तस्य दानस्य राजेंद्र फलभोगं वदाम्यहम् १७।
विपुला जायते लक्ष्मीर्दानभोगसमाकुला ।
सर्वविद्यापतिर्भूत्वा विष्णुभक्तो भवेत्किल १८।
विष्णुलोके वसेन्मर्त्यो यावत्तिष्ठति मेदिनी ।
तीर्थं गत्वा तु यो दद्याद्ब्राह्मणाय विभूषणम् १९।
भुक्त्वा तु विपुलान्भोगानिन्द्रेण क्रीडते सह ।
महापर्वणि संप्राप्ते वस्त्रं च द्विजपुंगवे २०।
दत्त्वान्नं भूमिसंयुक्तं पात्रे श्रद्धासमन्वितः ।
मोदते स तु वैकुंठे विष्णुतुल्यपराक्रमः २१।
सवस्त्रं कांचनं दत्त्वा द्विजाय परिशांतये ।
स्वेच्छया अग्निसदृशो वैकुंठे स वसेत्सुखी २२।
सुवर्णस्य सुकुंभं च घृतेन परिपूरयेत् ।
पिधानं रौप्यं कर्तव्यं वस्त्रहारैरलंकृतम् २३।
पुष्पमालान्वितं कुर्याद्ब्रह्मसूत्रेण शोभितम् ।
प्रतिष्ठितं वेदमंत्रैस्तं संपूज्य महामते २४।
उपचारैः पवित्रैश्च षोडशैः परिपूजयेत् ।
स्वलंकृत्य ततो दद्याद्ब्राह्मणाय महात्मने २५।
षोडशैव ततो गावः सवस्त्राः कांस्यदोहनाः ।
कुंभयुक्ताश्च चत्वारो दक्षिणां च सकांचनाम् २६।
तथा द्वादशका गावो वस्त्रालंकारभूषणाः ।
पृथग्भूताय विप्राय दातव्या नात्र संशयः २७।
एवमादीनि दानानि अन्यानि नृपनंदन ।
तीर्थकालं सुसंप्राप्य विप्रावसथमेव च २८।
श्रद्धाभावेन दातव्यं बहुपुण्यकरं भवेत् ।
विष्णुरुवाच-।
विष्णुमुद्दिश्य यद्दानं कामनापरिकल्पितम् २९।
तस्य दानस्य भावेन भावनापरिभावितः ।
तादृक्फलं समश्नाति मानुषो नात्र संशयः ३०।
अभ्युदयं प्रवक्ष्यामि यज्ञादिषु प्रवर्तते ।
तेन दानेन तस्यापि श्रद्धया च द्विजोत्तम ३१।
प्रज्ञावृद्धिं समाप्नोति न च दुःखं प्रविंदति ।
भोगान्भुनक्ति धर्मात्मा जीवमानस्तु सांप्रतम् ३२।
ऐंद्रांस्तु भुंक्ते भोगान्स दाता दिव्यां गतिं गतः ।
स्वकुलं नयते स्वर्गं कल्पानां च सहस्रकम् ३३।
एवमाभ्युदयं प्रोक्तं प्राप्तं तेषु वदाम्यहम् ।
कायस्य च क्षयं ज्ञात्वा जरया परिपीडितः ३४।
दानं तेन प्रदातव्यमाशां कस्य न कारयेत् ।
मृते च मयि मे पुत्रा अन्ये स्वजनबांधवाः ३५।
कथमेते भविष्यंति मां विना सुहृदो मम ।
तेषां मोहात्प्रमुग्धो वै न ददाति स किंचन ३६।
मृत्युं प्रयाति मोहात्मा रुदंति मित्रबांधवाः ।
दुःखेन पीडिताः सर्वे मायामोहेन पीडिताः ३७।
संकल्पयंति दानानि मोक्षं वै चिंतयंति च ।
तस्मिन्मृते महाराज मायामोहे गते सति ३८।
विस्मरंति च दानानि लोभात्मानो ददंति न ।
योऽसौ मृतो महाराज यमपंथं सुदुःखितः ३९।
तृषाक्षुधासमाक्रांतो बहुदुःखैः प्रपीडितः ।
तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः ४०।
कस्य पुत्राश्च पौत्राश्च कस्य भार्या नृपोत्तम ।
संसारे नास्ति कः कस्य तस्माद्दानं प्रदीयते ४१।
ज्ञानवता प्रदातव्यं स्वयमेव न संशयः ।
अन्नं पानं च तांबूलमुदकं कांचनं तथा ४२।
युग्मं वस्त्रं च छत्रं च स्वयमेव न संशयः ।
जलपात्राण्यनेकानि सोदकानि नृपोत्तम ४३।
वाहनानि विचित्राणि यानान्येव महामते ।
नानागंधान्सकर्पूरं यमपंथ सुखप्रदे ४४।
उपानहौ प्रदातव्ये यदीच्छेद्विपुलं सुखम् ।
एतैर्दानैर्महाराज यमपंथं सुखेन वै ४५।
प्रयाति मानवो राजन्यमदूतैरलंकृतम् ४६।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने चत्वारिंशोऽध्यायः ४०।
खण्डः २ (भूमिखण्डः) — Adhyāya 41
एकचत्वारिंशोऽध्यायः 2.41
वेन उवाच-
पुत्रो भार्या कथं तीर्थं पितामाता कथं वद ।
गुरुश्चैव कथं तीर्थं तन्मे विस्तरतो वद १।
श्रीविष्णुरुवाच-
अस्ति वाराणसी रम्या गंगायुक्ता महापुरी ।
तस्यां वसति वैश्यैकः कृकलो नाम नामतः २।
तस्य भार्या महासाध्वी पतिव्रतपरायणा ।
धर्माचारपरा नित्यं सा वै पतिपरायणा ३।
सुकला नाम पुण्यांगी सुपुत्रा चारुमंगला ।
सत्यंवदा सदा शुद्धा प्रियाकारा प्रियप्रिया ४।
एवंगुणैः समायुक्ता सुभगा चारुकारिणी ।
स वैश्य उत्तमो नाना धर्मज्ञो ज्ञानवान्गुणी ५।
पुराणे श्रौतधर्मे च सदा श्रवणतत्परः ।
तीर्थयात्राप्रसंगेन बहुपुण्यप्रदायकम् ६।
श्रद्धया निर्गतो यात्रां तीर्थानां पुण्यमंगलाम् ।
ब्राह्मणानां प्रसंगेन सार्थवाहेन तेन च ७।
प्रस्थितो धर्ममार्गं तु तमुवाच पतिव्रता ।
पतिस्नेहेन संमुग्धा भर्तारं वाक्यमब्रवीत् ८।
सुकलोवाच-
अहं ते धर्मतः पत्नी सहपुण्यकरा प्रिय ।
पतिमार्गं प्रतीक्ष्याहं पतिदेवं यजाम्यहम् ९।
कदा नैव मया त्याज्यं सामीप्यं ते द्विजोत्तम ।
तवच्छायां समाश्रित्य करिष्ये धर्ममुत्तमम् १०।
पतिव्रताख्यं पापघ्नं नारीणां गतिदायकम् ।
पुण्यस्त्री कथ्यते लोके या स्यात्पतिपरायणा ११।
युवतीनां पृथक्तीर्थं विना भर्तुर्न शोभते ।
सुखदं नास्ति वै लोके स्वर्गमोक्षप्रदायकम् १२।
सव्यं पादं च भर्तुश्च प्रयागं विद्धि सत्तम ।
वामं च पुष्करं तस्य या नारी परिकल्पयेत् १३।
तस्य पादोदकस्नानात्तत्पुण्यं परि जायते ।
प्रयागपुष्करसमं स्नानं स्त्रीणां न संशयः १४।
सर्वतीर्थमयो भर्ता सर्वपुण्यमयः पतिः ।
मखानां यजनात्पुण्यं यद्वै भवति दीक्षिते १५।
तत्फलं समवाप्नोति सेवया भर्तुरेव हि ।
गयादीनां सुतीर्थानां यात्रां कृत्वा हि यद्भवेत् १६।
तत्फलं समवाप्नोति भर्तुः शुश्रूषणादपि ।
समासेन प्रवक्ष्यामि तन्मे निगदतः शृणु १७।
नास्त्यासां हि पृथग्धर्मः पतिशुश्रूषणं विना ।
तस्मात्कांतसहायं ते कुर्वाणा सुखदायिनी १८।
तवच्छायां समाश्रित्य आगमिष्यामि नान्यथा ।
विष्णुरुवाच-
रूपं शीलं गुणं भक्तिं समालोक्य वयस्तथा १९।
सौकुमार्यं विचार्यैवं कृकलः स पुनःपुनः ।
यद्येवं हि नयिष्यामि दुर्गमार्गं सुदुःखदम् २०।
रूपनाशो भवेच्चास्याः शीतातपविलोडनात् ।
पद्मगर्भप्रतीकाशमस्याश्चांगं प्रवर्णकम् २१।
झंझावातेन शीतेन कृष्णवर्णं भविष्यति ।
पंथाः कर्कश सुग्रावा पादौचास्याः सुकोमलौ २२।
एष्यते वेदनां तीव्रामथो गंतुं न च क्षमा ।
क्षुत्तृष्णाभिपरीतांगी कीदृशीयं भविष्यति २३।
वामांगी मम च स्थानं सुखस्थानं वरानना ।
मम प्राणप्रिया नित्यं नित्यं धर्मस्य चाश्रयः २४।
नाशमेति यदा बाला मम नाशो भवेदिह ।
इयं मे जीविका नित्यमियं प्राणस्य चेश्वरी २५।
न नयिष्ये वनं तीर्थमेकश्चैवाप्यहं व्रजे ।
चिंतयित्वा क्षणं नूनं कृकलेन महात्मना २६।
तस्य चित्तानुगो भावस्तया ज्ञातो नृपोत्तम ।
पुनरूचे महाभागा भर्त्तारं प्रस्थितं तदा २७।
अनघा नैव वै त्याज्या पुरुषैः शृणु सत्तम ।
मूलमेवं हि धर्मस्य पुरुषस्य महामते २८।
एवं ज्ञात्वा महाभाग मामेवं नय सांप्रतम् ।
विष्णुरुवाच-
श्रुत्वा सर्वं हि तेनापि प्रियाया भाषितं बहु २९।
प्रहस्यैव वचो ब्रूते तामेवं कृकलः पुनः ।
नैव त्याज्या भवेद्भार्या प्राप्ता धर्मेण वै प्रिये ३०।
येन भार्या परित्यक्ता सुनीता धर्मचारिणी ।
दशांगधर्मस्तेनापि परित्यक्तो वरानने ३१।
तस्मात्त्वामेव भद्रं ते नैव त्यक्ष्ये कदा प्रिये ।
विष्णुरुवाच-
एवमाभाष्य तां भार्यां संबोध्य च पुनःपुनः ३२।
तस्या अज्ञातमात्रेण ससार्थेन समं गतः ।
गते तस्मिन्महाभागे कृकले पुण्यकर्मणि ३३।
देवकर्मसुवेलायां काले पुण्ये शुभानना ।
नैव पश्यति भर्तारं कृकलं निजमंदिरे ३४।
समुत्थाय त्वरायुक्ता रुदमाना सुदुःखिता ।
वयस्यान्पृच्छते भर्तुर्दुःखशोकाधिपीडिता ३५।
युष्माभिर्वा महाभागा दृष्टोऽसौ कृकलो मम ।
प्राणेश्वरो गतः क्वापि भवंतो मम बांधवाः ३६।
यदि दृष्टो महाभागाः कृकलो मम सांप्रतम् ।
भर्तारं पुण्यकर्तारं सर्वज्ञं सत्यपंडितम् ३७।
कथयंतु महात्मानं यदि दृष्टो महामतिः ।
तस्यास्तद्भाषितं श्रुत्वा तामूचुस्ते महामतिम् ३८।
धर्मयात्राप्रसंगेन नाथस्ते कृकलः शुभे ।
तीर्थयात्रां चकारासौ कस्माच्छोचसि सुव्रते ३९।
साधयित्वा महातीर्थं पुनरेष्यति शोभने ।
एवमाश्वासिता सा च पुरुषैराप्तकारिभिः ४०।
पुनर्गेहं गता राजन्सुकला चारुभाषिणी ।
रुरोद करुणं दुःखं सुकलापि परायणा ४१।
यावदायाति मे भर्त्ता भूमौ स्वप्स्यामि संस्तरे ।
घृतं तैलं न भोक्ष्येऽहं दधिक्षीरं तथैव च ४२।
लवणं च परित्यक्तं तथा तांबूलमेव च ।
मधुरं च तथा राजंस्त्यक्तं गुडादिकं तथा ४३।
एकाहारा निराहारा तावत्स्थास्ये न संशयः ।
यावच्चागमनं भर्तुः पुनरेव भविष्यति ४४।
एवं दुःखान्विता भूत्वा एकवेणीधरा पुनः ।
एककंचुकसंवीता मलिना च बभूव सा ४५।
मलिनेनापि वस्त्रेण एकेनैव स्थिता पुनः ।
हाहाकारं प्रमुंचंती निःश्वसंती सुदुःखिता ४६।
वियोगानलसंदग्धा कृष्णांगी मलधारिणी ।
एवं दुःखसमाचारा सुकृशा विह्वला तदा ४७।
रोदमाना दिवारात्रौ निद्रा लेभे न वै निशि ।
क्षुधां न विंदते राजन्दुःखेन विदलीकृता ४८।
अथ सख्यः समायाताः पप्रच्छुः सुकलां तदा ।
सुकले चारुसर्वांगि कस्माद्रोदिषि संप्रति ४९।
ततस्त्वं कारणं ब्रूहि दुःखस्यास्य वरानने ।
सुकलोवाच-
स मां त्यक्त्वा गतो भर्ता धर्मार्थं धर्मतत्परः ५०।
तीर्थयात्राप्रसंगेन अटते मेदिनीं ततः ।
मां त्यक्त्वा स गतः स्वामी निर्दोषां पापवर्जिताम् ५१।
अहं साध्वी समाचारा सदा पुण्या पतिव्रता ।
मां त्यक्त्वा स गतो भर्ता तीर्थ साधनतत्परः ५२।
तेनाहं दुःखिता सख्यो वियोगेनाति पीडिता ।
जीवनाशो वरं श्रेष्ठो वरं वै विषभक्षणम् ५३।
वरमग्निप्रवेशश्च वरं कायविनाशनम् ।
नारीं प्रियां परित्यज्य भर्ता याति सुनिष्ठुरः ५४।
भर्तृत्यागो वरं नैव प्राणत्यागो वरं सखि ।
वियोगं न समर्थाहं सहितुं नित्यदारुणम् ५५।
तेनाहं दुःखिता सख्यो वियोगेनापि नित्यशः ।
सख्य ऊचुः-
तीर्थयात्रां गतो भर्ता पुनरेष्यति ते पतिः ५६।
वृथा शोषयसे कायं वृथाशोकं करोषि वै ।
वृथा त्वं तप्यसे बाले वृथा भोगान्परित्यजेः ५७।
पिबस्व पानं भुंक्ष्व त्वं स्वप्रदत्तं हि पूर्वकम् ।
कस्य भर्ता सुताः कस्य कस्य स्वजनबांधवाः ५८।
कः कस्य नास्ति संसारे संबंधः केन चैव हि ।
भक्ष्यते भुज्यते बाले संसारस्य हि तत्फलम् ५९।
मृते प्राणिनि कोऽश्नाति को हि पश्यति तत्फलम् ।
पीयते भुज्यते बाले एतत्संसारतः फलम् ६०।
सुकलोवाच-
भवतीभिः प्रयुक्तं यत्तन्न स्याद्वेदसंमतम् ।
यातु भर्तुः पृथग्भूता तिष्ठत्येका सदैव हि ६१।
पापभूता भवेन्नारी तां न मन्यंति सज्जनाः ।
भर्तुः सार्धं सदा सख्यो दृष्टो वेदेषु सर्वदा ६२।
संबंधः पुण्यसंसर्गाज्जायते नात्र संशयः ।
नारीणां च सदा तीर्थं भर्ता शास्त्रेषु पठ्यते ६३।
तमेवावाहयेन्नित्यं वाचा कायेन कर्मभिः ।
मनसा पूजयेन्नित्यं भावसत्येन तत्परा ६४।
भर्तुः पार्श्वं महातीर्थं दक्षिणांगं सदैव हि ।
तमाश्रित्य यदा नारी गृहस्था परिवर्त्तयेत् ६५।
यजते दानपुण्यैश्च तस्य दानस्य यत्फलम् ।
वाराणस्यां च गंगायां यत्फलं न च पुष्करे ६६।
द्वारकायां न चावन्त्यां केदारे शशिभूषणे ।
लभते नैव सा नारी यजमाना सदा किल ६७।
तादृशं फलमेवं सा न प्राप्नोति कदा सखि ।
सुमुखं पुत्रसौभाग्यं स्नानं दानं च भूषणम् ६८।
वस्त्रालंकारसौभाग्यं रूपं तेजः फलं सदा ।
यशः कीर्तिमवाप्नोति गुणं च वरवर्णिनी ६९।
भर्तुः प्रसादात्सर्वं च लभते नात्र संशयः ।
विद्यमाने यदा कांते अन्यं धर्मं करोति या ७०।
निष्फलं जायते तस्याः पुंश्चली परिकथ्यते ।
नारीणां यौवनं रूपमवतारं स्मृतं ध्रुवम् ७१।
एकस्यापि हि भर्तुश्च तस्यार्थे भूमिमंडले ।
सुपुत्रा सुयशा नारी परिकथ्येत वै सदा ७२।
तुष्टे भर्तरि संसारे दृश्या नारी न संशयः ।
पतिहीना भवेन्नारी भवेत्सा भूमिमंडले ७३।
कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुता भुवि ।
सुदौर्भाग्यं महद्दुःखं संसारे परिभुज्यते ७४।
पापभागा भवेत्सा च दुःखाचारा सदैव हि ।
तुष्टे भर्तरि तस्यास्तु तुष्टाः सर्वाश्च देवताः ७५।
तुष्टे भर्तरि तुष्यंति ऋषयो देवमानवाः ।
भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह ७६।
भर्ता तीर्थश्च पुण्यश्च नारीणां नृपनंदन ।
शृंगारं भूषणं रूपं वर्णं सौगंधमेव च ७७।
कृत्वा सा तिष्ठते नित्यं वर्जयित्वा सुपर्वसु ।
शृंगारैर्भूषणैः सा तु शुशुभे सा यदा पतिः ७८।
पत्याविना भवत्येवं क्षीरं सर्पमुखे यथा ।
भर्तुरर्थे महाभागा सुव्रता चारुमंगला ७९।
गते भर्तरि या नारी शृंगारं कुरुते यदि ।
रूपं वर्णं च तत्सर्वं शवरूपेण जायते ८०।
वदंति भूतले लोकाः पुंश्चलीयं न संशयः ।
तस्माद्भर्तुर्वियुक्ता या नार्याः शृणुत भूतले ८१।
इच्छंत्या वै महासौख्यं भवितव्यं कदाचन ।
सुजायायाः परो धर्मो भर्ता शास्त्रेषु गीयते ८२।
तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल ।
एवं धर्मं विजानामि कथं भर्ता परित्यजेत् ८३।
इत्यर्थे श्रूयते सख्य इतिहासः पुरातनः ।
सुदेवायाश्च चरितं सुपुण्यं पापनाशनम् ८४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित एकचत्वारिंशोऽध्यायः ४१।
खण्डः २ (भूमिखण्डः) — Adhyāya 42
द्विचत्वारिंशत्तमोऽध्यायः
सख्य ऊचुः-
सुदेवा का त्वया प्रोक्ता किमाचारा वदस्व नः ।
त्वया प्रोक्तं महाभागे वद नः सत्यमेव च १।
सुकलोवाच-
अयोध्यायां महाराजः स आसीद्धर्मकोविदः ।
मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः २।
इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकः ।
तस्य भार्या सदा पुण्या पतिव्रतपरायणा ३।
तया सार्द्धं यजेद्यज्ञं तीर्थानि विविधानि च ।
वेदराजस्य वीरस्य काशीशस्य महात्मनः ४।
सुदेवा नाम वै कन्या सत्याचारपरायणा ।
उपयेमे महाराज इक्ष्वाकुस्तां महीपतिः ५।
सुदेवा चारुसर्वांगी सत्यव्रतपरायणा ।
तया सार्द्धं स वै राजा जनानां पुण्यनायकः ६।
स रेमे नृपशार्दूलो नित्यं च प्रियया तया ।
एकदा तु महाराजस्तया सार्द्धं वनं ययौ ७।
गंगारण्यं समासाद्य मृगयां क्रीडते सदा ।
सिंहान्हत्वा वराहांश्च गजांश्च महिषांस्तथा ८।
क्रीडमानस्य तस्याग्रे वराहश्च समागतः ।
बहुशूकरयूथेन पुत्रपौत्रैरलंकृतः ९।
एका च शूकरी तस्य प्रियापार्श्वे प्रतिष्ठिता ।
वराहैः शूकरैस्तस्य तमेव परिवारिता १०।
दृष्ट्वा च राजराजेंद्रं दुर्जयं मृगयारतम् ।
पर्वताधारमाश्रित्य भार्यया सह शूकरः ११।
तिष्ठत्येकः सुवीर्येण पुत्रान्पौत्रान्गुरूञ्छिशून् ।
ज्ञात्वा तेषां महाराज मृगाणां कदनं महत् १२।
तानुवाच सुतान्पौत्रान्भार्यां तां च स शूकरः ।
कोशलाधिपतिर्वीरो मनुपुत्रो महाबलः १३।
क्रीडते मृगयां कांते मृगान्संहरते बहून् ।
स मां दृष्ट्वा महाराज एष्यते नात्र संशयः १४।
अन्येषां लुब्धकानां मे नास्ति प्राणभयं ध्रुवम् ।
ममरूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति १५।
हर्षेण महताविष्टो बाणपाणिर्धनुर्द्धरः ।
श्वभिर्युक्तो महातेजा लुब्धकैः परिवारितः १६।
प्रिये करिष्यते घातं ममाप्येवं न संशयः १७।
शूकर्युवाच-
यदायदा पश्यसि लुब्धकान्बहून्महावने कांत समायुधान्बहून् ।
एतैस्तु पुत्रैर्ममपौत्रकैः समं दूरं नु भो यासि पलायमानः १८।
त्यक्त्वा सुधैर्यं बलपौरुषं महन्महाभयेनापि विषण्णचेतनः ।
दृष्ट्वा नृपेंद्रं पुरुषोत्तमोत्तमं करोषि किं कांत वदस्वकारणम् १९।
तस्यास्तु वाक्यं सनिशम्य कोल उवाच तां शूकरराजउत्तरम् ।
यदर्थभीतोस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूर निशम्यशूकरान् २०।
सुलुब्धकाः पापकराः शठाः प्रिये कुर्वंति पापं गिरिदुर्गकंदरे ।
सदैव दुष्टा बहुपापचिंतका जाताश्च सर्वे परिपापिनां कुले २१।
तेषां हि हस्तान्मरणाद्बिभेमि मृतोपि यास्यामि पुनश्च पापम् ।
दूरं गिरिं पर्वतकंदरं च व्रजामि कांते अपमृत्युभीतः २२।
अयं हि पुण्यो नरनाथ आगतो विश्वाधिकः केशवरूप भूपः ।
युद्धं करिष्ये समरे महात्मना सार्द्धं प्रिये पौरुषविक्रमेण २३।
जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्याम् ।
तेनाहतो वीरवरेण संगरे यास्यामि लोकं मधुसूदनस्य २४।
ममांगभूतेन पलेनमेदसा तृप्तिं परां यास्यति भूमिनाथः ।
तृप्ता भविष्यंति सुलोकदेवता अस्मादयंचागतो वज्रपाणिः २५।
अस्यैव हस्तान्मरणं यदाभवेल्लाभश्च मे सुंदरि कीर्तिरुत्तमा ।
तस्माद्यशो भूमितले जगत्त्रये व्रजामि लोकं मधुसूदनस्य २६।
नैवं भीतोस्मि क्षुब्धोस्मि गतोऽहं गिरिसानुषु ।
पापाद्भीतो गतः कांतेधर्मं दृष्ट्वा स्थितोह्यहम् २७।
न जाने पातकं पूर्वमन्यजन्मनि चार्जितम् ।
येनाहं शौकरीं योनिं गतोऽहं पापसंचयात् २८।
क्षालयिष्याम्यहं घोरं पूर्वपातकसंचयम् ।
बाणोदकैर्महाघोरैः सुतीक्ष्णैर्निशितैः शतैः २९।
पुत्रान्पौत्रांस्तु वाराहि कन्यां कुटुंबबालकम् ।
गिरिं गच्छ गृहीत्वा तु मम मोहमिमं त्यज ३०।
ममस्नेहं परित्यज्य हरिरेष समागतः ।
अस्य हस्तात्प्रयास्यामि तद्विष्णोः परमं पदम् ३१।
दैवेनापि ममाद्यैव स्वर्गद्वारमनुत्तमम् ।
उद्घाटितकपाटं तु यास्यामि सुमहादिवम् ३२।
सुकलोवाच-
तच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनः ।
उवाच तत्प्रिया सख्यः सीदमानांतरा तदा ३३।
शूकर्युवाच-
यस्मिन्यूथे भवान्स्वामी पुत्रपौत्रैरलंकृतः ।
मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबांधवैः ३४।
त्वयैवालंकृतो यूथो भवता परिशोभते ।
त्वां विनायं महाभाग कीदृग्यूथो भविष्यति ३५।
तवैव स्वबलेनापि गर्जमानाश्च शूकराः ।
विचरंति गिरौ कांत तनया मम बालकाः ३६।
कंदान्मूलान्सुभक्षंति निर्भयास्तव तेजसा ।
दुर्गेषु वनकुंजेषु ग्रामेषु नगरेषु च ३७।
न कुर्वंति भयं तीव्रं सिंहानामिह पर्वते ।
मनुष्याणां महाबाहो पालितास्तव तेजसा ३८।
त्वया त्यक्ता अमी सर्वे बालका मम दारकाः ।
दीनाश्चैवाकुलाश्चैव भविष्यंति विचेतनाः ३९।
नित्यमेव सुखं वर्त्म गत्वा पश्यंति बालकाः ।
पतिहीना यथा नारी शोभते नैव शोभना ४०।
अलंकृता यथा दिव्यैरलंकारैः सकांचनैः ।
परिच्छदै रत्नवस्त्रैः पितृमातृसहोदरैः ४१।
श्वश्रूश्वशुरकैश्चान्यैः पतिहीना न भाति सा ।
चंद्रहीना यथा रात्री पुत्रहीनं यथा कुलम् ४२।
दीपहीनं यथा गेहं नैव भाति कदाचन ।
त्वां विनायं तथा यूथो नैव शोभेत मानद ४३।
आचारेण विना मर्त्यो ज्ञानहीनो यतिर्यथा ।
मंत्रहीनो यथा राजा तथायं नैव शोभते ४४।
कैवर्तेन विना नौर्वा संपूर्णा परिसागरे ।
न भात्येवं यथा सार्थः सार्थवाहेन वै विना ४५।
सेनाध्यक्षेण च विना यथा सैन्यं न भाति च ।
त्वां विना वै तथा सैन्यं शूकराणां महामते ४६।
दीनो भविष्यति तथा वेदहीनो यथा द्विजः ।
मयि भारं कुटुंबस्य विनिवेश्य प्रगच्छसि ४७।
मरणं सुलभं ज्ञात्वा का प्रतिज्ञा तवेदृशी ।
त्वां विनाहं न शक्नोमि धर्तुं प्राणान्प्रियेश्वर ४८।
त्वयैव सहिता स्वर्गं भूमिं वाथ महामते ।
नरकं वापि भोक्ष्यामि सत्यंसत्यं वदाम्यहम् ४९।
त्वं वा पुत्रांस्तुपौत्रांस्तु गृहीत्वा यूथमुत्तमम् ।
आवां व्रजाव यूथेश दुर्गमेवं सुकंदरम् ५०।
जीवितव्यं परित्यज्य रणाय परिगम्यते ।
तत्र को दृश्यते लाभो मरणे वद सांप्रतम् ५१।
वाराह उवाच-
वीराणां त्वं न जानासि सुधर्मं शृणु सांप्रतम् ।
युद्धार्थिना हि वीरेण वीरं गत्वा प्रयाचितम् ५२।
देहि मे योधनं संख्ये युद्धार्थ्यहं समागतः ।
परेण याचितं युद्धं न ददाति यदा नरः ५३।
कामाल्लोभाद्भयाद्वापि मोहाद्वा शृणु वल्लभे ।
कुंभीपाके तु नरके वसेद्युगसहस्रकम् ५४।
क्षत्रियाणां परो धर्मो युद्धं देयं न संशयः ।
तद्युद्धं दीयमानेन रणभूमिगतेन वै ५५।
निर्जितं तु परं तत्र यशःकीर्त्तिं प्रभुंजते ।
स वा हतो युध्यमानः पौरुषेणातिनिर्भयः ५६।
वीरलोकमवाप्नोति दिव्यान्भोगान्प्रभुंजते ।
यावद्वर्षसहस्राणां विंशत्येकां प्रिये शृणु ५७।
वीरलोके वसेत्तावद्देवाचारैर्महीयते ।
मनुपुत्रः समायात अयं वीरो न संशयः ५८।
संग्रामं याचमानस्तु युद्धं देयं मया ध्रुवम् ।
युद्धातिथिः समायातो विष्णुरूपः सनातनः ५९।
सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभे ।
शूकर्युवाच-
यदा युद्धं त्वया देयं राज्ञे चैव महात्मने ६०।
ततोऽहं पौरुषं कांत पश्यामि तव कीदृशम् ।
एवमुक्त्वा प्रियान्पुत्रान्समाहूय त्वरान्विता ६१।
उवाच पुत्रका यूयं शृणुध्वं वचनं मम ।
युद्धातिथिः समायातो विष्णुरूपः सनातनः ६२।
मया तत्र प्रगंतव्यं यत्रायं हि गमिष्यति ।
यावत्तिष्ठति वै नाथो भवतां प्रतिपालकः ६३।
यूयं गच्छत वै दूरं दुर्गं गिरिगुहामुखम् ।
सुखं जीवत मे वत्सा वर्जयित्वा सुलुब्धकान् ६४।
मया तत्रैव गंतव्यं यत्रैष हि गमिष्यति ।
भवतां श्रेष्ठोऽयं भ्राता यूथरक्षां करिष्यति ६५।
एते पितृव्यकाः सर्वे भवतां त्राणकारकाः ।
दूरं प्रयात वै सर्वे मां विहाय सुपुत्रकाः ६६।
पुत्रा ऊचुः-
अयं हि पर्वतश्रेष्ठो बहुमूलफलोदकः ।
भयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै ६७।
युवाभ्यां हि अकस्माद्वै इदमुक्तं भयंकरम् ।
तन्नो हि कारणं मातर्वद सत्यमिहैव हि ६८।
शूकर्युवाच-।
अयं राजा महारौद्रः कालरूपः समागतः ।
क्रीडते मृगया लुब्धो मृगान्हत्वा बहून्वने ६९।
इक्ष्वाकुर्नाम दुर्धर्षो मनुपुत्रो महाबलः ।
संहरिष्यति कालोऽयं दूरं यात सुपुत्रकाः ७०।
पुत्रा ऊचुः-।
मातरं पितरं त्यक्त्वा यः प्रयाति स पापधीः ।
महारौद्रं सुघोरं तु नरकं प्रतिपद्यते ७१।
मातुः पुण्यं पयः पीत्वा पुष्टो भवति निर्घृणः ।
मातरं पितरं त्यक्त्वा यः प्रयाति सुदुर्बलः ७२।
पूयं नरकमेतीह कृमिदुर्गंधसंकुलम् ।
मातुस्तस्मान्न यास्यामो गुरुं त्यक्त्वा इहैव च ७३।
एवं विषादः संजातस्तेषां धर्मार्थसंयुतः ।
व्यूहं कृत्वा स्थिताः सर्वे बलतेजः समाकुलाः ७४।
साहसोत्साहसंपन्नाः पश्यंति नृपनंदनम् ।
नदंतः पौरुषैर्युक्ताः क्रीडमाना वने तदा ७५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे द्विचत्वारिंशत्तमोऽध्यायः ४२।
खण्डः २ (भूमिखण्डः) — Adhyāya 43
त्रयश्चत्वारिंशत्तमोऽध्यायः 2.43
सुकलोवाच-
एवं ते शूकराः सर्वे युद्धाय समुपस्थिताः ।
पुरः स्थितस्य ते राज्ञो ह्यवतस्थुश्च लुब्धकाः १।
महावराहो राजेंद्र गिरिसानुं समाश्रितः ।
महता यूथभावेन व्यूहं कृत्वा प्रतिष्ठति २।
कपिलः स्थूलपीनांगो महादंष्ट्रो महामुखः ।
दुःसहः शूकरो राजन्गर्जते चातिभैरवम् ३।
तानपश्यन्महाराजः शालतालवनाश्रयान् ।
तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान् ४।
गृह्यतां शूर वाराहो विध्यतां बलदर्पितः ।
एवमाभाष्य तान्वीरो मनुपुत्रः प्रतापवान् ५।
अथ ते लुब्धकाः सर्वे मृगया मदमोहिताः ।
संनद्धा दंशिताः सर्वे श्वभिः सार्द्धं प्रजग्मिरे ६।
हर्षेण महताविष्टो राजराजो महाबलः ।
अश्वारूढः सुसैन्येन चतुरंगेण संयतः ७।
गंगातीरं समायातो मेरौ गिरिवरोत्तमे ।
रत्नधातुसमाकीर्णे नानावृक्षैरलंकृते ८।
सुकलोवाच-
यो बलधाम मरीचिचयकरनिकरमयप्रोत्तुंगोऽत्युच्चम् ।
गगनमेव संप्राप्तो नाना नगाचरितशोभो गिरिराजो भाति ९।
योजनबहलविमल गंगाप्रवाह समुच्चरत्तीरवीचीतरंगभंगैर्मुक्ताफलसदृशैर्निर्मलांबुकणैः ।
सर्वत्र प्रक्षालित धवलतलशिलातलोगिरींद्र सुःश्रियायुक्तः १०।
देवैश्चारणकिन्नरैः परिवृतो गंधर्वविद्याधरैः सिद्धैरप्सरसांगणैर्मुनिजनैर्नागेंद्र विद्याधरैः ।
श्रीखंडैर्बहुचंदनैस्ससरलैः शालैस्तमालैर्गिरी रुद्रा क्षैर्वरसिद्धिदायकघनैः कल्पद्रुमैः शोभते ११।
नानाधातुविचित्रो वै नानारत्नविचित्रितैः ।
विमानैः कांचनैर्दंडैः कलत्रैरुपशोभते १२।
नालिकेरवनैर्दिव्यैः पूगवृक्षैर्विराजते ।
दिव्यपुन्नागबकुलैः कदलीखंडमंडितैः १३।
पुष्पकैश्चंपकैरद्रि पाःटलैः केतकैस्तथा ।
नानावल्लीवितानैश्च पुष्पितैः पद्मकैस्तथा १४।
नानावर्णैः सुपुष्पैश्च नानावृक्षैरलंकृतः ।
दिव्यवृक्षैः समाकीर्णः स्फाटिकस्य शिलातलैः १५।
योगियोगीन्द्र संसिद्धैः कंदरांतर्निवासिभिः ।
निर्झरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः १६।
नदीप्रवाहसंह्रष्टैः संगमैरुपशोभते ।
ह्रदैश्च पल्वलैः कुंडैर्निर्मलोदकधारिभिः १७।
गिरिराजो विभात्येकः सानुभिः सह संस्थितैः ।
शरभैश्चैव शार्दूलैर्मृगयूथैरलंकृतः १८।
महामत्तैश्च मातंगैर्महिषैरुरुभिः सदा ।
अनेकैर्दिव्यभावैश्च गिरिराजो विभाति सः १९।
अयोध्याधिपतिर्वीर इक्ष्वाकुर्मनुनंदनः ।
तया सुभार्यया युक्तश्चतुरंगबलेन च २०।
पुरतो लुब्धका यांति शूराः श्वानश्च शीघ्रगाः ।
यत्रास्ते शूकरः शूरो भार्यया सहितो बली २१।
बहुभिः शूकरैर्गुप्तो गुरुभिः शिशुभिस्ततः ।
मेरुभूमिं समाश्रित्य गंगातीरं समंततः २२।
सुकलोवाच-।
तामुवाच वराहस्तु सुप्रियां हर्षसंयुतः ।
प्रिये पश्य समायातः कोशलाधिपतिर्बली २३।
मामुद्दिश्य महाप्राज्ञो मृगयां क्रीडते नृपः ।
युद्धमेव करिष्यामि सुरासुरप्रहर्षकम् २४।
अथ भूपो महातेजा बाणपाणिर्धनुर्धरः ।
सुदेवां सत्यधर्मांगीं तामुवाच प्रहर्षितः २५।
पश्य प्रिये महाकोलं गर्जमानं महाबलम् ।
परिवारसमायुक्तं दुःसहं मृगघातिभिः २६।
अद्यैवाहं हनिष्यामि सुबाणैर्निशितैः प्रिये ।
मामेव हि महाशूरो युद्धाय समुपाश्रयेत् २७।
एवमुक्त्वा प्रियो भार्यां लुब्धकान्वाक्यमब्रवीत् ।
यथा शूरो महाशूराः प्रेषयध्वं हि शूकरम् २८।
अथ ते प्रेषिताः शूरा बलतेजः पराक्रमाः ।
गर्जमानाः प्रधावंति बलतेजः पराक्रमाः २९।
कोलं प्रतिगताः सर्वे वायुवेगेन सांप्रतम् ।
विध्यंति बाणजालैस्ते निशितैर्वनचारकाः ३०।
नाना शस्त्रैरथास्त्रैश्च वाराहं वीररूपिणम् ३१।
सुकलोवाच-
पतंति बाणतोमरा विमुक्ता लुब्धकैः शरा घनागिरिंप्रवर्षिणो यथातथा धरांतरे ।
हतो दृढप्रहारिभिः स निर्जितस्ततस्तथा शतैस्तु यूथपालकः स कोलः संगरंगतः ३२।
स्वपुत्रपौत्रबांधवैः परांश्च संहरेत्स वै पतंति ते स्वदंष्ट्रया हताहवेऽवलुब्धकाः ।
पतंति पादहस्तकाः स्थितस्य वेगभ्रामणैः सलुब्धगर्जमेवतं वराहोऽपश्यदागतम् ३३।
स्वतेजसा विनाशितं मुखाग्रदंष्ट्रया हतं ।
गतः स यत्र भूपतिः स वांछतेनसंगरम् ३४।
इक्ष्वाकुनाथं सुमहत्प्रसह्य संत्रास्य क्रुद्धः स हि शूकरेशः ।
युद्धं वने वांछति तेन सार्द्धमिक्ष्वाकुणा संगरहर्षयुक्तः ३५।
वाराहः पुनरेव युद्धकुशलः संवांछते संगरं तुंडाग्रेण सुतीक्ष्णदंतनखरैः क्रुद्धो धरां क्षोभयन् ।
हुंकारोच्चारगर्वात्प्रहरति विमलं भूपतिं तं च राजञ्ज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमांचितः ३६।
दृष्ट्वा शूकरपौरुषं यमतुलं मेने पतिर्वावराड्देवारिं मनसा विचिन्त्य सहसा वाराहरूपेण वै ।
संप्रेक्ष्यैव महाबलं बहुतरं युक्तं त्वरेर्वारणं सैन्यं कोलविनाशनाय सहसा संगृह्य संगृह्यताम् ३७।
प्रेषिताश्च वारणा रथाश्च वेगवत्तराः सुबाणखड्गधारिणो भुशुंडिभिश्च मुद्गरैः ।
सपाशपाणिलुब्धका नदंति तत्र तत्परा निवारितो न तिष्ठतो हयागजाश्च यद्गताः ३८।
क्वचित्क्वचिन्न दृश्यते क्वचित्क्वचित्प्रदृश्यते क्वचिद्भयं प्रदर्शयेत्क्वचिद्धयान्प्रमर्दयेत् ३९।
मर्दयित्वा भटान्वीरान्वाराहो रणदुर्जयः ।
शब्दं चकारदुर्धषं क्रोधारुणविलोचनः ४०।
कोशलाधिपतिर्वीरस्तं दृष्ट्वा रणदुर्जयम् ।
युध्यमानं महाकायं मुचंतं मेघवत्स्वनम् ४१।
गर्जतिसमरं विचरति विलसति वीरान्स्वतेजसा धीरः ।
तडिदिव मुखेषु दंष्ट्रा तस्य विभात्युल्लसत्येव ४२।
मनुपुत्रस्तथा दृष्ट्वा कोलं च निशितैः शरैः ।
प्रतिभिन्नमेकैकं शस्त्राहतं च बंधुभिः ४३।
नरपतिरुवाच सैन्याः किमिह न गृह्णंतु ओजसा शूराः ।
युध्यध्वं तत्र निशितैर्बाणैस्तीक्ष्णैरनेनापि ४४।
समाकर्ण्य ततो वाक्यं क्रुद्धस्यापि महात्मनः ।
ततस्ते सैनिकाः सर्वे युद्धाय समुपस्थिताः ४५।
अनेकैर्भटसाहस्रैर्वने तं समरे स्थितम् ।
दिक्षु सर्वासु संहत्य बिभिदुः शूकरं रणे ४६।
विद्धश्च कैश्चित्तदा बाणजालैः सुयोधैश्च संग्रामभूमौ विशालैः ।
क्वचिच्चक्रघातैः क्वचिद्वज्रपातैर्हतं दुर्जयं संगरे तं महांतैः ४७।
ततः पौरुषैः क्रोधयुक्तः स कोलः सुविच्छिद्य पाशान्रणे प्रस्थितः सः ।
महाशूकरैः सार्धमेव प्रयातस्ततः शोणितस्यापि धाराभिषिक्तः ४८।
करोति प्रहारं च तुंडेन वीरहयानां द्विपानां च चिच्छेद वीरः ।
स्वदंष्ट्राग्रभागेन तीक्ष्णेन वीरान्पदातीन्हि संपातयेद्रोषभावैः ४९।
जघानास्य शुंडं गजस्यापि रुष्टो भटान्हतान्पादनखैस्तु हृष्टः ५०।
ततस्ते शूकराः सर्वे लुब्धकाश्च परस्परम् ।
युयुधुः संगरं कृत्वा क्रोधारुणविलोचनाः ५१।
लुब्धकैश्च हताः कोलाः कोलैश्चापि सुलुब्धकाः ।
निहताः पतिता भूमौ क्षतजेनापि सारुणाः ५२।
जीवं त्यक्त्वा हताः कोलैर्लुब्धकाः पतिता रणे ।
मृताश्च शूकरास्तत्र श्वानः प्राणांश्च तत्यजुः ५३।
यत्रयत्र मृता भूमौ पतिता मृगघातकाः ।
बहवः शूकरा राज्ञा खड्गपातैर्निपातिताः ५४।
कति नष्टा हताः कोला भीता दुर्गेषु संस्थिताः ।
कुंजेषु कंदरांतेषु गुहांतेषु नृपोत्तम ५५।
लुब्धकाश्च मृताः केचिच्छिन्ना दंष्ट्राग्रसूकरैः ।
प्राणांस्त्यक्त्वा गताः स्वर्गं खंडशो विदलीकृताः ५६।
वागुराः पाशजालाश्च कुटकाः पंजरास्तथा ।
नाड्यश्च पतिता भूमौ यत्रतत्र समंततः ५७।
एको दयितया सार्धं वाराहः परितिष्ठति ।
पौत्रकैः पंचसप्तभिर्युद्धार्थं बलदर्पितः ५८।
तमुवाच तदा कांतं शूकरं शूकरी पुनः ।
गच्छ कांत मयासार्द्धमेभिस्तु बालकैः सह ५९।
प्राह प्रीतो वराहस्तां विवस्तां सुप्रियामिति ।
क्व गच्छामि प्रभग्नोहं स्थानं नास्ति महीतले ६०।
मयि नष्टे महाभागे कोलयूथं विनंक्ष्यति ।
द्वयोश्च सिंहयोर्मध्ये जलं पिबति शूकरः ६१।
द्वयोः शूकरयोर्मध्ये सिंहो नैव पिबत्यपः ।
एवं शूकरजातीषु दृश्यते बलमुत्तमम् ६२।
तदहं नाशयाम्येव यदा भग्नो व्रजाम्यहम् ।
जाने धर्मं महाभागे बहुश्रेयोविधायकम् ६३।
कस्माल्लोभाद्भयाद्वापि युध्यमानः प्रणश्यति ।
रणतीर्थं परित्यज्य सस्यात्पापी न संशयः ६४।
निशितं शस्त्रसंव्यूहं दृष्ट्वा हर्षं प्रगच्छति ।
अवगाह्यामरीं सिंधुं तीर्थपारं प्रगच्छति ६५।
स याति वैष्णवं लोकं पुरुषांश्च समुद्धरेत् ।
समायांतं च तदहं कथं भग्नो व्रजामि वै ६६।
योधनं शस्त्रसंकीर्णं प्रवीरानन्ददायकम् ।
दृष्ट्वा प्रयाति संहृष्टस्तस्य पुण्यफलं शृणु ६७।
पदेपदे महत्स्नानं भागीरथ्याः प्रजायते ।
रणाद्भग्नो गृहं याति यो लोभाच्च प्रिये शृणु ६८।
मातृदोषं प्रकाशेत स्त्रीजातः परिकथ्यते ।
अत्र यज्ञाश्च तीर्थाश्च अत्र देवा महौजसः ६९।
पश्यंति कौतुकं कांते मुनयः सिद्धचारणाः ।
त्रैलोक्यं वर्तते तत्र यत्र वीरप्रकाशनम् ७०।
समराद्भग्नं प्रपश्यंति सर्वे त्रैलोक्यवासिनः ।
शपंति निर्घृणं पापं प्रहसन्ति पुनःपुनः ७१।
दुर्गतिं दर्शयेत्तस्य धर्मराजो न संशयः ।
सम्मुखः समरे युद्धे स्वशिरः शोणितं पिबेत् ७२।
अश्वमेधफलं भुंक्ते इंद्रलोकं प्रगच्छति ।
यदा जयति संग्रामे शत्रूञ्छूरो वरानने ७३।
तदा प्रभुंजते लक्ष्मीं नानाभोगान्न संशयः ।
यदा तत्र त्यजेत्प्राणान्सम्मुखः सन्निराश्रयः ७४।
स गच्छेत्परमं स्थानं देवकन्यां प्रभुंजते ।
एवं धर्मं विजानामि कथं भग्नो व्रजाम्यहम् ७५।
अनेन समरे युद्धं करिष्ये नात्र संशयः ।
मनोः पुत्रेण धीरेण राज्ञा इक्ष्वाकुणा सह ७६।
डिंभान्गृहीत्वा याहि त्वं सुखं जीव वरानने ।
तस्य श्रुत्वा वचः प्राह बद्धाहं तव बंधनैः ७७।
स्नेहमानरसाख्यैश्च रतिक्रीडनकैः प्रिय ।
पुरतस्ते सुतैः सार्द्धं प्राणांस्त्यक्ष्यामि मानद ७८।
एवमेतौ सुसंभाष्य परस्परहितैषिणौ ।
युद्धाय निश्चितौ भूत्वा समालोकयतो रिपून् ७९।
कोशलाधिपतिं वीरं तमिक्ष्वाकुं महामतिम् ८०।
यथैव मेघः परिगर्जते दिवि प्रावृट्सुकालेषु तडित्प्रकाशैः ।
तथैव संगर्जति कांतया समं समाह्वयेद्राजवरं खुराग्रैः ८१।
तं गर्जमानं ददृशे महात्मा वाराहमेकं पुरुषार्थयुक्तम् ।
ससार अश्वस्य जवेनयुक्तः ससम्मुखं तस्य नृवीरधीरः ८२।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे त्रयश्चत्वारिंशत्तमोऽध्यायः ४३।
खण्डः २ (भूमिखण्डः) — Adhyāya 44
चतुश्चत्वारिंशत्तमोऽध्यायः
सुकलोवाच-
स्वसैन्यं दुर्धरं दृष्ट्वा निर्जितं दुर्धरेण तम् ।
चुकोप भूपतिः क्रूरं दुःसहं शूकरं प्रति १।
धनुरादाय वेगेन बाणं कालानलोपमम् ।
तस्याभिमुखमेवासौ हयेनाभिससार सः २।
स यदा नृपतिं हयपृष्ठगतं वरपौरुषयुक्तममित्रहणम् ।
परिपश्यति शूकरयूथपतिः प्रगतोभिमुखं रणभूमितले ३।
निशितेन शरेण हतो हि यदा नृपतेर्हयपादतले प्रगतः ।
तमिहैव विलंघ्य च वेगमनाः प्रखरेण जवेन च कोलवरः ४।
व्यथितस्तुरगः सकिरिःकिटिना न हि याति क्षितौ स हि विद्धगतिः ।
तुरगः पतितो भुवि तुंडहतो लघुस्यंदनमेव गतो नृपतिः ५।
स हि गर्जति शूकरजातिरवैरथसंस्थितकोशल येन जवैः ।
गदया निहतः किल भूपतिना रणमध्यगतः स हि यूथपतिः ६।
परित्यज्य तनुं च स्वकां हि तदा गत एव हरेर्गृहमेव वरम् ७।
कृत्वा हि युद्धं समरे हितेन राज्ञा समं शूकरराजराजः ।
पपात भूमौ च हतो यदा तु ववर्षिरे देववराः सुपुष्पैः ८।
तस्योर्ध्वगः पुष्पचयः सुजातः संतानकानामिव सौरभश्च ।
सकुंकुमैश्चंदनवृष्टिमेव कुर्वंति देवाः परितुष्यमाणाः ९।
विमृश्यमानः स हि तेन राज्ञा चतुर्भुजः सोपि बभूव राजन् ।
दिव्यांबरोभूषणदिव्यरूपः स्वतेजसा भाति दिवाकरो यथा १०।
दिव्येन यानेन दिवं गतो यदा सुपूज्यमानः सुरराजदेवैः ।
गंधर्वराजः स बभूव भूयः पूर्वं स्वकं कायमिहैव हित्वा ११।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
चतुश्चत्वारिंशत्तमोऽध्यायः ४४।
खण्डः २ (भूमिखण्डः) — Adhyāya 45
पंचचत्वारिंशत्तमोऽध्यायः
सुकलोवाच-
अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरे ।
शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः १।
चतुरश्च ततो डिंभान्कृत्वा स्थित्वा च शूकरी ।
कुटुंबेन समं कांतं हतं दृष्ट्वा महाहवे २।
भर्तुर्मे चिंतितं प्राप्तमृषिदेवैश्च पूजितः ।
गतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा ३।
अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठति ।
तया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिंतितम् ४।
यदा जीवंति मे बालाश्चत्वारो वंशधारकाः ।
भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः ५।
केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम् ।
इति चिंतापरा भूत्वा दृष्ट्वा पर्वतसंकटम् ६।
तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते ।
तया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिंतितम् ७।
तानुवाच महाराज पुत्रान्प्रति सुमोहितान् ।
यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः ८।
तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम् ।
संत्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम् ९।
पितृवैरं करिष्यामि साधयिष्ये रणे रिपून् ।
गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकंदरम् १०।
पितरं मातरं त्यक्त्वा यो याति हि स पापधीः ।
नरकं च प्रयात्येव कृमिकोटिसमाकुलम् ११।
तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुत ।
संयास्यामि महापापा त्रयो गच्छंतु मे सुताः १२।
कनीयसस्त्रयस्त्वेव गता गिरिवनांतरम् ।
तौ जग्मतू रणभुवं तेषामेव सुपश्यताम् १३।
तेजसा सुबलेनापि गर्जंतौ च पुनःपुनः ।
अथ ते लुब्धकाः शूराः संप्राप्ता वातरंहसः १४।
पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृप ।
तिष्ठतः स्म पथं रुद्ध्वा द्वावेतौ जननीसुतौ १५।
लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धराः ।
प्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः १६।
मातरं पृष्ठतः कृत्वा तनयो युध्यते स तैः ।
दंष्ट्रया निहताः केचित्केचित्तुंडेन घातिताः १७।
संजघान खुराग्रैश्च शूराश्च पतिता रणे ।
युयुधे शूकरः संख्ये दृष्टो राज्ञा महात्मना १८।
पितुः सकाशाच्छूरोयमिति ज्ञात्वा ससम्मुखः ।
बाणपाणिर्महातेजा मनुसूनुः प्रतापवान् १९।
निशितेनापि बाणेन अर्द्धचंद्रानुकारिणा ।
राज्ञा हतः पपातोर्व्यां विद्धोरस्को महात्मना २०।
ममार सहसा भूमौ पपात स हि शूकरः ।
पुत्रमोहं परं प्राप्ता तस्योपरि गता स्वयम् २१।
तया च निहताः शूरास्तुंडघातैर्महीतले ।
निपेतुर्लुब्धकाः शूराः कतिनष्टा मृता नृप २२।
द्रावयंती महत्सैन्यं दंष्ट्रया सूकरी ततः ।
यथा कृत्या समुद्भूता महाभयविधायिका २३।
तमुवाच ततो राज्ञी देवराजसुतोपमम् ।
अनया निहतं राजन्महत्सैन्यं तवैव हि २४।
कस्मादुपेक्षसे कांत तन्मे त्वं कारणं वद ।
तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् २५।
महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किल ।
तस्मान्न घातयेन्नारीं प्रेषयेहं न कंचन २६।
अस्या वधनिमित्तार्थे पापाद्बिभेमि सुंदरि ।
एवमुक्त्वा तदा राजा विरराम महीपतिः २७।
लुब्धको झार्झरो नाम ददृशे स तु सूकरीम् ।
कुर्वंतीं कदनं तेषां दुःसहां सुभटैरपि २८।
आविव्याध सुवेगेन बाणेन निशितेन हि ।
संलग्नेन तु बाणेन शोणितेन परिप्लुता २९।
शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला ।
तुंडेनापि हतः संख्ये झार्झरः स तया पुनः ३०।
पतमानेन तेनापि झार्झरेण तदा हता ।
खड्गेन निशितेनापि पपात विदलीकृता ३१।
श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुता ।
दुःखेन महताविष्टा जीवमाना महीतले ३२।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचचत्वारिंशोऽध्यायः ४५।
खण्डः २ (भूमिखण्डः) — Adhyāya 46
षट्चत्वारिंशोऽध्यायः
सुकलोवाच-
श्वसंतीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम् ।
सुदेवावकृपयाविष्टा गत्वा तां दुःखितां प्रति १।
अभिषिच्य मुखं तस्याः शीतलेनोदकेन च ।
पुनः सर्वांगमेवापि दुःखितां रणशालिनीम् २।
पुण्येन शीततोयेन सा उवाचाभिषिंचतीम् ।
उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियाम् ३।
सुखं भवतु ते देवि अभिषिक्ता त्वया यदि ।
संपर्काद्दर्शनात्तेद्य गतो मे पापसंचयः ४।
तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम् ।
चित्रमेतन्मया दृष्टं कृतं तेऽनामयं वचः ५।
पशुजातिमतीचेयं सौष्ठवं भाषते स्फुटम् ।
स्वरव्यंजनसंपन्नं संस्कृतमुत्तमं मम ६।
हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम् ।
तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ७।
पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत् ।
पशुयोनिगता चेयं यथा वै मानुषो वदेत् ८।
तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः ।
अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ९।
तामुवाच ततो राजा सुदेवां सुप्रियां तदा ।
पृच्छ चैनां शुभां कांते का चेयं तु भविष्यति १०।
श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च सूकरीम् ।
का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ११।
पशुयोनिगता त्वं वै भाषसे मानुषं वचः ।
सौष्ठवं ज्ञानसंपन्नं वद मे पूर्वचेष्टितम् १२।
भर्तुश्चापि महाराज भटस्यास्य महात्मनः ।
कोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः १३।
आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद ।
एवमुक्त्वा महाभागा विरराम नृपप्रिया १४।
शूकर्युवाच-
यदि पृच्छसि मां भद्रे ममास्य च महात्मनः ।
तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् १५।
अयमेष महाप्राज्ञो गंधर्वो गीतपंडितः ।
रंगविद्याधरो नाम सर्वशास्त्रार्थकोविदः १६।
मेरुं गिरिवरश्रेष्ठं चारुकंदरनिर्झरम् ।
तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः १७।
तपश्चचार तेजस्वी निर्व्यलीकेन चेतसा ।
विद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो १८।
तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदा ।
स्वरतालसमोपेतं सुस्वरं चारुहासिनि १९।
गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसः ।
गायंतं तमुवाचेदं गीतविद्याधरं प्रति २०।
भवद्गीतेन दिव्येन देवा मुह्यंति नान्यथा ।
सुस्वरेण सुपुण्येन तालमानेन पंडित २१।
लययुक्तेन भावेन मूर्च्छना सहितेन च ।
मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत २२।
इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत् ।
गीतविद्याधर उवाच-
आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम् २३।
दुःखं ददे न कस्यापि सुखदो नृषु सर्वदा ।
गीतेनानेन दिव्येन सर्वास्तुष्यंति देवताः २४।
शंभुश्चापि समानीतो गीतध्वनिरतो द्विज ।
गीतं सर्वरसं प्रोक्तं गीतमानंददायकम् २५।
शृंगाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताः ।
शोभामायांति गीतेन वेदाश्चत्वार उत्तमाः २६।
गीतेन देवताः सर्वास्तोषमायांति नान्यथा ।
तदेवं निन्दसे गीतं मामेवं परिचालयेः २७।
अन्यायोऽयं महाभाग तवैव इह दृश्यते ।
पुलस्त्य उवाच-
सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम् २८।
शृणु त्वं मामकं वाक्यं मानं त्यज महामते ।
नाहं गीतं प्रकुत्सामि गीतं वंदामि नान्यथा २९।
विद्याश्चतुर्दशैवैता एकीभावेन भावदाः ।
प्राणिनां सिद्धिमायांति मनसा निश्चलेन च ३०।
तपश्च तद्वन्मंत्राश्च सुसिद्ध्यंत्येकचिंतया ।
हृषीकाणां महावर्गश्चपलो मम संमतः ३१।
विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः ।
चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः ३२।
यत्र शब्दं न रूपं च युवती नैव तिष्ठति ।
मुनयस्तत्र गच्छंति तपःसिद्ध्यर्थमेव हि ३३।
अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः ।
न पश्येम वयं वीर तिष्ठामो वनसंस्थिताः ३४।
अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहे ।
गीतविधाधर उवाच-
इंद्रियाणां बलं वर्गं जितं येन महात्मना ३५।
स जयी कथ्यते योगी स च वीरः ससाधकः ।
शब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते ३६।
चलते नैव यो ध्यानात्स धीरस्तपसाधकः ।
भवांस्तु तेजसा हीन इंद्रियैर्विजितो यतः ३७।
स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणे ।
वर्जयंति वनं सर्वे हीनवीर्या न संशयः ३८।
अयं साधारणो विप्र वनदेशो न संशयः ।
देवानां सर्वजीवानां यथा मम तथा तव ३९।
कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम् ।
यूयं गच्छंतु तिष्ठंतु यद्भव्यं तत्तु नान्यथा ४०।
एवमाभाष्य तं विप्रं गीतविद्याधरस्तदा ।
समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम् ४१।
चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत् ।
क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः ४२।
तपश्चचार धर्मात्मा योगासनगतः सदा ।
कामं क्रोधं परित्यज्य मोहं लोभं तथैव च ४३।
सर्वेन्द्रियाणि संयम्य मनसा सममेव च ।
एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ४४।
सुकलोवाच-
गते तस्मिन्महाभागे पुलस्त्ये मुनिपुंगवे ।
कालादिष्टेन तेनापि गीतविद्याधरेण च ४५।
चिंतितं सुचिरं कालं न दृष्टोयं भयान्मम ।
क्व गतस्तिष्ठते वापि कुरुते किं कथं च सः ४६।
ज्ञात्वा पद्मात्मजसुतमेकांतवनशालिनम् ।
गतो वराहरूपेण तस्याश्रममनुत्तमम् ४७।
आसनस्थं महात्मानं तेजोज्वालासमाविलम् ।
दृष्ट्वा चकार वै क्षोभं तस्य विप्रस्य भामिनि ४८।
धर्षयेन्नियतं विप्रं तुंडाग्रेण कुचेष्टया ।
पशुं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम् ४९।
मूत्रयेत्पुरतः कृत्वा विष्ठां च कुरुते ततः ।
नृत्यते क्रीडते तत्र पतति प्रोच्चलेत्पुनः ५०।
पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपते ।
एकदा तु तथायाते तेन रूपेण वै पुनः ५१।
अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदा ।
रोदनं च कृतं तत्र गीतं गायति सुस्वरम् ५२।
तथा तमागतं विप्रो गीतविद्याधरं नृप ।
चेष्टितं तस्य वै दृष्ट्वा घोणिरेष भवेन्नहि ५३।
ज्ञात्वा तस्य तु वृत्तांतं मामेवं परिचालयेत् ।
पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः ५४।
एवं ज्ञात्वा महात्मानं गंधर्वाधममेव हि ।
चुकोप मुनिशार्दूलस्तं शशाप महामतिः ५५।
यस्माच्छूकररूपेण मामेवं परिचालयेः ।
तस्माद्व्रज महापाप पापयोनिं तु शौकरीम् ५६।
शप्तस्तेनापि विप्रेण गतो देवं पुरंदरम् ।
तमुवाच महात्मानं कंपमानो वरानने ५७।
शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मया ।
तप एव हि कुर्वन्सन्दारुणं मुनिपुंगवः ५८।
तस्मात्तपःप्रभावात्तु चालितः क्षोभितो मया ।
शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ५९।
पशुयोनिं गतं शक्र मामेवं परिरक्षय ।
ज्ञात्वा तस्य स वृत्तांतं गीतविद्याधरस्य च ६०।
तेन सार्धंगतश्चेंद्रस्तं मुनिं पर्यभाषत ।
दीयतामनुग्रहो नाथ सिद्धिज्ञोसि द्विजोत्तम ६१।
क्षम्यतां मुनिवर्यास्मिन्क्रियतां शापमोक्षणम् ।
इति संप्रार्थितो विप्रो महेंद्रेणाह हृष्टधीः ६२।
पुलस्त्य उवाच-
वचनात्तव देवेश क्षंतव्यं च मयापि हि ।
भविष्यति महाराज मनुपुत्रो महाबलः ६३।
इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः ।
तस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति ६४।
तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयः ।
एतत्ते सर्ववृत्तांतं शूकरस्य निवेदितम् ६५।
आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हि ।
मया च पातकं घोरं कृतं यत्पापया पुरा ६६।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
षट्चत्वारिंशोऽध्यायः ४६।
वराहोपरि टिप्पणी
खण्डः २ (भूमिखण्डः) — Adhyāya 47
सप्तचत्वारिंशोऽध्यायः
सुकलोवाच-
सुदेवा चारुसर्वांगी तामुवाचाथ सूकरीम् ।
पशुयोनिं गता त्वं हि कथं वदसि संस्कृतम् १।
एवंविधं महाज्ञानं कस्माद्भूतं वदस्व मे ।
कथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे २।
शूकर्युवाच-
पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनि ।
निहता खड्गबाणैश्च पतिता रणमूर्धनि ३।
मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वरानने ।
त्वयाभिषिक्ता येनाहं पुण्यहस्तेन सुंदरि ४।
पुण्योदकेन शीतेन तव हस्तगतेन वै ।
अभिषिक्ते हि मे काये मोहो नष्टो विहाय माम् ५।
यथा विनाशं तेजोभिरंधकारः प्रयाति सः ।
तथा तवाभिषेकेण मम पापं गतं शुभे ६।
प्रसादात्तव चार्वंगि लब्धं ज्ञानं पुरातनम् ।
पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ७।
श्रूयतामभिधास्यामि पूर्वं वृत्तांतमात्मनः ।
यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ८।
कलिंगाख्ये महादेशे श्रीपुरंनाम पत्तनम् ।
सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितम् ९।
वसति स्म द्विजः कोपि वसुदत्त इति श्रुतः ।
ब्रह्माचारपरोनित्यं सत्यधर्मपरायणः १०।
वेदवेत्ता ज्ञानवेत्ता शुचिमान्गुणवान्धनी ।
धनधान्यसमाकीर्णः पुत्रपौत्रैरलंकृतः ११।
तस्याहं तनया भद्रे सोदरैः स्वजनबांधवैः ।
अलंकारैस्तु शृंगारैर्भूषितास्मि वरानने १२।
सुदेवानाम मे तातश्चकार स महामतिः ।
तस्याहं दयिता नित्यं पितुश्चापि महामते १३।
रूपेणाप्रतिमा जाता संसारे नास्ति तादृशी ।
रूपयौवनगर्वेण मत्ताहं चारुहासिनी १४।
अहं कन्या सुरूपा वै सर्वालंकारशोभिता ।
मां च दृष्ट्वा ततो लोकाः सर्वे स्वजनवर्गकाः १५।
मामेवं याचमानास्ते विवाहार्थे वरानने ।
याचिताहं द्विजैः सर्वैर्न ददाति पिता मम १६।
स्नेहाच्चैव महाभागे मुमोह स महामतिः ।
न दत्ताहं तदा तेन पित्रा चैव महात्मना १७।
संप्राप्तं यौवनं बाले मयि भावसमन्वितम् ।
रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता १८।
पितरं मे उवाचाथ कस्मात्कन्या न दीयते ।
त्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने १९।
देहि कन्यां महाभाग संप्राप्ता यौवनं त्वियम् ।
वसुदत्तो द्विजश्रेष्ठः प्रत्युवाच द्विजोत्तमः २०।
मातरं मे महाभागे श्रूयतां वचनं मम ।
महामोहेनमुग्धोऽस्मि सुताया वरवर्णिनि २१।
यो मे गृहस्थो विप्रो वै भविष्यति शुभे शृणु ।
तस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः २२।
मम प्राणप्रिया चैषा सुदेवा नात्र संशयः ।
एवमूचे मदर्थे स वसुदत्तः पिता मम २३।
कौशिकस्य कुले जातः सर्वविद्याविशारदः ।
ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाञ्छुचिः २४।
वेदाध्ययनसंपन्नं पठमानं हि सुस्वरम् ।
भिक्षार्थं द्वारमायांतं पितृमातृविवर्जितम् २५।
तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिः ।
तं प्रोवाच पिता एवं को भवान्वै भविष्यति २६।
किं ते नाम कुलं गोत्रमाचारं वद सांप्रतम् ।
समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः २७।
कौशिकस्यान्वये जातो वेदवेदांगपारगः ।
शिवशर्मेति मे नाम पितृमातृविवर्जितः २८।
संति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः ।
एवं कुलं समाख्यातमाचारः कुलसंभवः २९।
एवं सर्वं समाख्यातं पितरं शिवशर्मणा ।
शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते ३०।
पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा ।
पितृगेहे वसाम्येका तेन सार्धं महात्मना ३१।
नैव शुश्रूषितो भर्ता मया स पापया तदा ।
पितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता ३२।
अंगसंवाहनं तस्य न कृतं हि मया कदा ।
रतिभावेन स्नेहेन वचनेन मया शुभे ३३।
क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मया ।
पुंश्चलीनां प्रसंगेन तद्भावं हि गता शुभे ३४।
मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च ।
न करोम्यहमेवापि यत्रयत्र व्रजाम्यहम् ३५।
एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम ।
स्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः ३६।
न किंचिद्वक्ति मां सोपि क्षमते दुष्कृतं मम ।
वार्यमाणा कुटुंबेन अहमेवं सुपापिनी ३७।
तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः ।
पितामाता च मे सर्वे मम पापेन दुःखिताः ३८।
भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिः ।
तं देशं ग्राममेनं च परित्यज्य गतस्ततः ३९।
गते भर्तरि मे तातः संजातश्चिंतयान्वितः ।
मम दुःखेन दुःखात्मा यथा रोगेण पीडितः ४०।
मम माता उवाचैनं भर्तारं दुःखपीडितम् ।
कस्माच्चिंतयसे कांत वद दुःखं ममाग्रतः ४१।
वसुदत्त उवाचैनां मातरं मम नंदने ।
सुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे ४२।
इयं पापसमाचारा निर्घृणा पापचारिणी ।
अनया हि परित्यक्तः शिवशर्मा महामतिः ४३।
समस्तस्य कुटुंबस्य दाक्षिण्येन महामतिः ।
ममायं स द्विजः कांते सुदेवां नैव भाषते ४४।
वसते सौम्यभावेन नैव निंदति कुत्सति ।
सुदेवां पापसंचारां स वै पंडितबुद्धिमान् ४५।
भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी ।
अहमेनां परित्यज्य व्रजामि गृहवासिनि ४६।
ब्राह्मण्युवाच-
अद्य ज्ञातं त्वया कांत सुताया गुणदूषणम् ।
तव मोहेन स्नेहेन नष्टेयं शृणु सांप्रतम् ४७।
तावद्विलाडयेत्पुत्रं यावत्स्यात्पंचवार्षिकः ।
शिक्षाबुद्ध्या सदा कांत पुनर्मोहेन पोषयेत् ४८।
स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयः ।
गुणेषु योजयेत्कांत सद्विद्यासु च तं सुतम् ४९।
गुणशिक्षार्थंनिर्मोहः पिता भवति सर्वदा ।
पालने पोषणे कांत संमोहः परिजायते ५०।
सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिने ।
काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत् ५१।
यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः ।
अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः ५२।
नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च ।
माता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत् ५३।
गुरुश्च ताडयेच्छिष्यं ततः सिध्यंति नान्यथा ।
भार्यां च ताडयेत्कांत अमात्यं नृपतिस्तथा ५४।
हयं च ताडयेद्धीरो गजं मात्रो दिनेदिने ।
शिक्षाबुद्ध्या प्रसिध्यंति ताडनात्पालनाद्विभो ५५।
त्वयेयं नाशिता नाथ सर्वदैव न संशयः ।
सार्धं सुब्राह्मणेनापि भवता शिवशर्मणा ५६।
निरंकुशा कृता गेहे तेन नष्टा महामते ।
तावद्धि धारयेत्कन्यां गृहे कांतवचः शृणु ५७।
अष्टवर्षान्विता यावत्प्रबलां नैव धारयेत् ।
पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वती ५८।
उभाभ्यामपि तत्पापं पितृभ्यामपि विंदति ।
तस्मान्न धार्यते कन्या समर्था निजमंदिरे ५९।
यस्य दत्ता भवेत्सा च तस्य गेहे प्रपोषयेत् ।
तत्रस्था साधयेत्कांतं सगुणं भक्तिपूर्वकम् ६०।
कुलस्य जायते कीर्तिः पिता सुखेन जीवति ।
तत्रस्था कुरुते पापं तत्पापं भुंजते पतिः ६१।
तत्रस्था वर्द्धते नित्यं पुत्रैः पौत्रैः सदैव सा ।
पिता कीर्तिमवाप्नोति सुतायाः सुगुणैः प्रिय ६२।
तस्मान्न धारयेत्कांत गेहे पुत्रीं सभर्तृकाम् ।
इत्यर्थे श्रूयते कांत इतिहासो भविष्यति ६३।
अष्टविंशतिके प्राप्ते युगे द्वापरके महान् ।
उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो ६४।
चरित्रं ते प्रवक्ष्यमि शृणुष्वैकमना द्विज ६५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
सप्तचत्वारिंशोऽध्यायः ४७।
खण्डः २ (भूमिखण्डः) — Adhyāya 48
ब्राह्मण्युवाच-
माथुरे विषये रम्ये मथुरायां नृपोत्तमः ।
उग्रसेनेति विख्यातो यादवः परवीरहा १।
सर्वधर्मार्थतत्त्वज्ञो वेदज्ञः श्रुतवान्बली ।
दाता भोक्ता गुणग्राही सद्गुणान्वेत्ति भूपतिः २।
राज्यं चकार मेधावी प्रजा धर्मेण पालयेत् ।
एवं स च महातेजा उग्रसेनः प्रतापवान् ३।
वैदर्भे विषये पुण्ये सत्यकेतुः प्रतापवान् ।
तस्य कन्या महाभागा पद्माक्षी कमलानना ४।
नाम्ना पद्मावती नाम सत्यधर्मपरायणा ।
सा तु स्त्रीणां गुणैर्युक्ता द्वितीयेव समुद्रजा ५।
वैदर्भी शुशुभे राजन्स्वगुणैः सत्यकारणैः ।
माथुर उग्रसेनस्तु उपयेमे सुलोचनाम् ६।
तया सह महाभाग सुखं रेमे प्रतापवान् ।
अतिप्रीतो गुणैस्तस्यास्तया सह सुखीभवेत् ७।
तस्याः स्नेहेन प्रीत्या च संमुग्धो माथुरेश्वरः ।
पद्मावती महाभागा तस्य प्राणप्रियाभवत् ८।
तया विना न बुभुजे तया सह प्रक्रीडयेत् ।
तया विना न सेवेत परमं सुखमेव सः ९।
एवं प्रीतिकरौ जातौ परस्परमनुत्तमौ ।
स्नेहवंतौ द्विजश्रेष्ठ सुखसंप्रीतिदायकौ १०।
सत्यकेतुश्च राजेंद्रः सस्मार स पद्मावतीम् ।
स्वसुतां तां महाभागो माता तस्याः सुदुःखिता ११।
स दूतान्प्रेषयामास वैदर्भो मथुरां प्रति ।
उग्रसेनं नृवीरेंद्रं सादरेण द्विजोत्तम १२।
उग्रसेनं महाराजं स दूतो वाक्यमब्रवीत् ।
विदर्भाधिपतिर्वीरो भक्त्या स्नेहेन नंदयन् १३।
आत्मनः कुशलं ब्रूते भवतां परिपृच्छति ।
सत्यकेतुर्महाराज त्वामेवं परिपृष्टवान् १४।
दर्शनाय प्रेषयस्व सुतां पद्मावतीं मम ।
यदि त्वं मन्यसे नाथ प्रीतिस्नेहं हितस्य च १५।
प्रेषयस्व महाभागां प्रियां प्रीतिकरां तव ।
औत्कण्ठ्येन महाराज स सोत्कंठेन वर्तते १६।
समाकर्ण्य ततो वाक्यमुग्रसेनो नृपोत्तमः ।
प्रीत्या स्नेहेन तस्यापि सत्यकेतोर्महात्मनः १७।
दाक्षिण्येन च विप्रेंद्र प्रेषयामास भूपतिः ।
पद्मावतीं प्रियां भार्यामुग्रसेनः प्रतापवान् १८।
प्रेषितानेन राजेंद्र गता पद्मावती स्वकम् ।
पूर्वं गृहं सती सा तु महाहर्षेण संकुला १९।
पितृपूर्वं कुटुंबं तु ददृशे चारुमंगला ।
पितुः पादौ ननामाथ शिरसा सत्यतत्परा २०।
आगतायां महाराजा पद्मावत्यां द्विजोत्तम ।
हर्षेण महताविष्टो विदर्भाधिपतिर्नृपः २१।
वर्द्धिता दानमानैश्च वस्त्रालंकारभूषणैः ।
पद्मावती सुखेनापि पितुर्गेहे प्रवर्तते २२।
सखीभिः सहिता सा तु निःशंका परिवर्तते ।
रमते सा तदा तत्र यथापूर्वं तथैव च २३।
गृहे वने तडागेषु प्रासादे च तथैव सा ।
पुनर्बालेव भूता सा निर्लज्जा संप्रवर्तते २४।
निःशंका वर्तते विप्र सखीभिः सह सर्वदा ।
पतिव्रता महाभागा हर्षेण महतान्विता २५।
सुखं तु पितृगेहस्य दुर्लभं श्वशुरे गृहे ।
एवं ज्ञात्वा तदा रेमे कदा ईदृग्भविष्यति २६।
अनेन मोहभावेन क्रीडालुब्धा वरानना ।
सखीभिः सहिता नित्यं वनेषूपवने तदा २७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रेऽष्टचत्वारिंशोऽध्यायः ४८।
खण्डः २ (भूमिखण्डः) — Adhyāya 49
ब्राह्मण्युवाच-
एकदा तु महाभाग गता सा पर्वतोत्तमे ।
रमणीयं वनं दृष्ट्वा कदलीखंडमंडितम् १।
शालैस्तालैस्तमालैश्च नालिकेरैस्तथोत्कटैः ।
पूगीफलैर्मातुलिगैर्नारंगैश्चारुजंबुकैः २।
चंपकैः पाटलैः पुण्यैः पुष्पितैः कुटकैर्वटैः ।
अशोकबकुलोपेतं नानावृक्षैरलंकृतम् ३।
पर्वतं पुण्यवंतं तं पुष्पितैश्च नगोत्तमैः ।
सर्वत्र दृश्यते रम्यो नानाधातुसमाकुलः ४।
तडागं सर्वतोभद्रं पुण्यतोयेन पूरितम् ।
कमलैः पुष्पितैश्चान्यैः सुगंधैः कनकोत्पलैः ५।
श्वेतोत्पलैर्विभासंतं रक्तोत्पलसुपुष्पितैः ।
नीलोत्पलैश्च कह्लारैर्हंसैश्च जलकुक्कुटैः ६।
पक्षिभिर्जलजैश्चान्यैर्नानाधातुसमाकुलः ।
तडागं सर्वतः शुभ्रं नानापक्षिगणैर्युतम् ७।
कोकिलानां रुतैः पुण्यैः सुस्वरैः परिशोभितः ।
मधुराणां तथा शब्दैः सर्वत्र मधुरायते ८।
षट्पदानां सुनादेन सर्वत्र परिशोभते ।
एवंविधं गिरिं रम्यं तदेव वनमुत्तमम् ९।
तडागं सर्वतोभद्रं ददृशे नृपनंदिनी ।
वैदर्भी क्रीडमाना सा सखीभिः सहिता तदा १०।
समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम् ।
चापल्येन प्रभावेण स्त्रीभावेन च लीलया ११।
पद्मावती सरस्तीरे सखीभिः सहिता तदा ।
जलक्रीडा समालीना हसते गायते पुनः १२।
रममाणा च सा तस्मिंस्तस्मिन्सरसि भामिनी ।
एवं विप्र तदा सा तु सुखेन परिवर्तयेत् १३।
विष्णुरुवाच-
गोभिलो नाम वै दैत्यो भृत्यो वैश्रवणस्य च ।
दिव्येनापि विमानेन सर्वभोगपरिप्लुतः १४।
याति चाकाशमार्गेण गोभिलो दैत्यसत्तमः ।
तेन दृष्टा विशालाक्षी वैदर्भी निर्भया तदा १५।
सर्वयोषिद्वरा सा हि उग्रसेनस्य वै प्रिया ।
रूपेणाप्रतिमा लोके सर्वांगेषु विराजते १६।
रतिर्वै मन्मथस्यापि किं वापीयं हरिप्रिया ।
किं वापि पार्वती देवी शची किं वा भविष्यति १७।
यादृशी दृश्यते चेयं नारीणां प्रवरोत्तमा ।
अन्यापि ईदृशी नास्ति द्वितीया क्षितिमंडले १८।
नक्षत्रेषु यथा चंद्रः संपूर्णो भाति शोभनः ।
गुणरूपकलाभिस्तु तथा भाति वरानना १९।
पुष्करेषु यथा हंसस्तथेयं चारुहासिनी ।
अहो रूपमहोभाव अस्यास्तु परिदृश्यते २०।
का कस्य शोभना बाला चारुवृत्तपयोधरा ।
व्यमृशद्गोभिलो दैत्यः पद्मावतीं वराननाम् २१।
चिंतयित्वा क्षणं विप्र का कस्यापि भविष्यति ।
ज्ञानेन महता ज्ञात्वा वैदर्भीति न संशयः २२।
दयिता उग्रसेनस्य पतिव्रतपरायणा ।
आत्मबलेन तिष्ठंती दुष्प्राप्या पुरुषैरपि २३।
उग्रसेनो महामूर्खः प्रेषिता येन वै वरा ।
पितुर्गेहमियं बाला स तु भाग्येन वर्जितः २४।
अनया विना स जीवेच्च कथं कूटमतिः सदा ।
किं वा नपुंसको राजा एनां यो हि परित्यजेत् २५।
तां दृष्ट्वा स तु कामात्मा संजातस्तत्क्षणादपि ।
इयं पतिव्रता बाला दुष्प्राप्या पुरुषैरपि २६।
कथं भोक्ष्याम्यहं गत्वा कामो मामति पीडयेत् ।
अभुक्त्वैनां यदा यास्ये तत्स्यान्मृत्युर्ममैव हि २७।
अद्यैव हि न संदेहो यतः कामो महाबलः ।
इति चिंतापरो भूत्वा गोभिलो मनसैक्षत २८।
कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः ।
यादृशस्तूग्रसेनश्च सांगोपांगो महानृपः २९।
गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया ।
यथावस्त्रो यथावेशो वयसा च तथा पुनः ३०।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ।
सर्वाभरणशोभांगो यादृशो माथुरेश्वरः ३१।
भूत्वाथ तादृशो दैत्य उग्रसेनमयस्तदा ।
मायया परया युक्तो रूपलावण्यसंपदा ३२।
पर्वताग्रे अशोकस्यच्छायामाश्रित्य संस्थितः ।
शिलातलस्थो दुष्टात्मा वीणादंडेन वीरकः ३३।
सुस्वरं गायमानस्तु गीतं विश्वप्रमोहनम् ।
तालमानक्रियोपेतं सप्तस्वरविभूषितम् ३४।
गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः ।
पर्वताग्रे स्थितो विप्र हर्षेण महतान्वितः ३५।
सखीमध्यगता सा तु पद्मावती वरानना ।
शुश्रुवे सुस्वरं गीतं तालमानलयान्वितम् ३६।
कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम् ।
गीतं हि सत्क्रियोपेतं सर्वभावसमन्वितम् ३७।
सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा ।
अशोकच्छायामाश्रित्य विमले सुशिलातले ३८।
ददर्श भूपवेषेण गोभिलं दानवाधमम् ।
पुष्पमालांबरधरं दिव्यगंधानुलेपनम् ३९।
सर्वाभरणशोभांगं पद्मावती पतिव्रता ।
मथुरेशः समायातः कदा धर्मपरायणः ४०।
मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः ।
यावद्धि चिंतयेत्सा च तावत्पापेन तेन सा ४१।
समाहूता तुरीभूय एहि त्वं हि प्रिये मम ।
चकिताशंकितासाचकथंभर्त्तासमागतः ४२।
लज्जिता दुःखिता जाता अधःकृत्वा ततो मुखम् ।
अहं पापा दुराचारा निःशंका परिवर्तिता ४३।
कोपमेवं महाभागः करिष्यति न संशयः ।
यावद्धि चिंतयेत्सा च तावत्तेनापि पापिना ४४।
समाहूता तुरीभूय एह्येहि त्वं मम प्रिये ।
त्वया विना कृतो देवि प्राणान्धर्तुं वरानने ४५।
न हि शक्नोम्यहं कांते जीवितं प्रियमेव च ।
तव स्नेहेन लुब्धोस्मि त्वां त्यक्त्वा नोत्सहे भृशम् ४६।
ब्राह्मण्युवाच-
एवमुक्ता गतापश्यत्सुमुखं लज्जयान्विता ।
समालिंग्य ततो दैत्यः सतीं पद्मावतीं तदा ४७।
एकांतं तु समानीता सुभुक्ता इच्छया ततः ।
दैत्येन गोभिलेनापि सत्यकेतोः सुता तदा ४८।
सुकलोवाच-
मुष्कस्थानेस्य संकेतं नाविंदत वरानना ।
स्ववस्त्रं सा परिगृह्य शंकिता दुःखिता ह्यभूत् ४९।
सा सक्रोधा वचः प्राह गोभिलं दानवाधमम् ।
कस्त्वं पापसमाचारो निर्घृणो दानवाकृतिः ५०।
शप्तुकामा समुद्युक्ता दुःखेनाकुलितेक्षणा ।
वेपमाना तदा राजन्दुःखभारेण पीडिता ५१।
मम कांतच्छलेनैव त्वयागत्य दुरात्मवन् ।
नाशितं धर्ममेवाग्र्यं पातिव्रत्यमनुत्तमम् ५२।
सुस्वरं रुदितं कृत्वा मम जन्म त्वया हृतम् ।
पश्य मे बलमत्रैव शापं दास्ये सुदारुणम् ५३।
एवं संभाषमाणा तं शप्तुकामा तु गोभिलम् ५४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
एकोनपंचाशत्तमोऽध्यायः ४९।
खण्डः २ (भूमिखण्डः) — Adhyāya 50
सुकलोवाच-
तस्यास्तु वचनं श्रुत्वा गोभिलो वाक्यमब्रवीत् ।
भवती शप्तुकामासि कस्मान्मे कारणं वद १।
केन दोषेण लिप्तोस्मि यस्मात्त्वं शप्तुमुद्यता ।
गोभिलो नाम दैत्योस्मि पौलस्त्यस्य भटः शुभे २।
दैत्याचारेण वर्तामि जाने विद्यामनुत्तमाम् ।
वेदशास्त्रार्थवेत्तास्मि कलासु निपुणः पुनः ३।
एवं सर्वं विजानामि दैत्याचारं शृणुष्व मे ।
परस्वं परदारांश्च बलाद्भुंजामि नान्यथा ४।
वयं दैत्याः समाकर्ण्य दैत्याचारेण सांप्रतम् ।
वर्त्तामो ज्ञानिभावेन सत्यं सत्यं वदाम्यहम् ५।
ब्राह्मणानां हि च्छिद्राणि विपश्यामो दिने दिने ।
तेषां हि तपसो नाशं विघ्नैः कुर्मो न संशयः ६।
छिद्रं प्राप्य वयं देवि नाशयामो न संशयः ।
ब्राह्मणाञ्छ्रूयतां भद्रे देवयज्ञं वरानने ७।
नाशयामो वयं यज्ञान्धर्मयज्ञं न संशयः ।
सुब्राह्मणान्परित्यज्य देवं नारायणं प्रभुम् ८।
पतिव्रतां महाभागां सुमतिं भर्तृतत्पराम् ।
दूरेणापि परित्यज्य तिष्ठामो नात्र संशयः ९।
तेजो देवि सुविप्रस्य हरेश्चैव महात्मनः ।
नार्याः पतिव्रतायाश्च सोढुं दैत्याश्च न क्षमाः १०।
पतिव्रताभयेनापि विष्णोः सुब्राह्मणस्य च ।
नश्यंति दानवाः सर्वे दूरं राक्षसपुंगवाः ११।
अहं दानवधर्मेण विचरामि महीतलम् ।
कस्मात्त्वं शप्तुकामासि मम दोषो विचार्यताम् १२।
पद्मावत्युवाच-
मम धर्मः सुकायश्च त्वयैव परिनाशितः ।
अहं पतिव्रता साध्वी पतिकामा तपस्विनी १३।
स्वमार्गे संस्थिता पाप मायया परिनाशिता ।
तस्मात्त्वामप्यहं दुष्ट आधक्ष्यामि न संशयः १४।
गोभिल उवाच-
धर्ममेव प्रवक्ष्यामि भवती यदि मन्यते ।
अग्निचिद्ब्राह्मणस्यापि श्रूयतां नृपनंदिनी १५।
जुह्वन्देवं द्विकालं यो न त्यजेदग्निमंदिरम् ।
स चाग्निहोत्री भवति यजत्येव दिनेदिने १६।
अन्यच्चैवं प्रवक्ष्यामि भृत्यधर्मं वरानने ।
मनसा कर्मणा वाचा विशुद्धो योऽपि नित्यशः १७।
नित्यमादेशकारी यः पश्चात्तिष्ठति चाग्रतः ।
स भृत्यः कथ्यते देवि पुण्यभागी न संशयः १८।
यः पुत्रो गुणवाञ्ज्ञाता पितरं पालयेच्छुभः ।
मातरं च विशेषेण मनसा काय कर्मभिः १९।
तस्य भागीरथी स्नानमहन्यहनि जायते ।
अन्यथा कुरुते यो हि स पापीयान्न संशयः २०।
अन्यच्चैवं प्रवक्ष्यामि पतिव्रतमनुत्तमम् ।
वाचा सुमनसा चैव कर्मणा शृणु भामिनि २१।
शुश्रूषां कुरुते या हि भर्तुश्चैव दिन दिने ।
तुष्टे भर्त्तरि या प्रीता न त्यजेत्क्रोधनं पुनः २२।
तस्य दोषं न गृह्णाति ताडिता तुष्यते पुनः ।
भर्त्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा २३।
सा चापि कथ्यते नारी पतिव्रतपरायणा ।
पतितोपि पितापुत्रैर्बहुदोषसमन्वितः २४।
कस्मादपि च न त्याज्यः कुष्ठितः क्रुधितोऽपि वा ।
एवं पुत्राः शुश्रूषंति पितरं मातरं किल २५।
ते यांति परमं लोकं तद्विष्णोः परमं पदम् ।
एवं हि स्वामिनं ये वै उपाचरंति भृत्यकाः २६।
पत्युर्लोकं प्रयांत्येते प्रसादात्स्वामिनस्तदा ।
अग्निं नैव त्यजेद्विप्रो ब्रह्मलोकं प्रयाति सः २७।
अग्नित्यागकरो विप्रो वृषलीपतिरुच्यते ।
स्वामिद्रोही भवेद्भृत्यः स्वामित्यागान्न संशयः २८।
अग्निं च पितरं चैव न त्यजेत्स्वामिनं शुभे ।
सदा विप्रः सुतो भृत्यः सत्यं सत्यं वदाम्यहम् २९।
परित्यज्य प्रगच्छंति ते यांति नरकार्णवम् ।
पतितं व्याधितं देवि विकलं कुष्ठिनं तथा ३०।
सर्वकर्मविहीनं च गतवित्तादिसंचयम् ।
भर्तारं न त्यजेन्नारी यदि श्रेय इहेच्छति ३१।
त्यक्त्वा कांतं व्रजेन्नारी अन्यत्कार्यमिहेच्छति ।
सा मता पुंश्चली लोके सर्वधर्मबहिष्कृता ३२।
गते भर्तरि या ग्रामं भोगं शृंगारमेव च ।
लौल्याच्च कुरुते नारी पुंश्चली वदते जनः ३३।
एवं धर्मं विजानामि वेदशास्त्रैश्च संमतम् ।
दानवा राक्षसाः प्रेता धात्रा सृष्टा यदादितः ३४।
तत्रेह कारणं सर्वं प्रवक्ष्यामि न संशयः ।
ब्राह्मणा दानवाश्चैव पिशाचाश्चैव राक्षसाः ३५।
धर्मार्थं सकलं प्रोक्तमधीतं तैस्तु सुंदरि ।
विंदंति सकलं सर्वे आचरंति न दानवाः ३६।
विधिहीनं प्रकुर्वंति दानवा ज्ञानवर्जिताः ।
अन्यायेन व्रजंत्येते मानवा विधिवर्जिताः ३७।
तेषां शासनहेत्वर्थं कृता एतेपि नान्यथा ।
विधिहीनं प्रकुर्वंति ये हि धर्मं नराधमाः ३८।
तान्वयं शासयामो वै दंडेन महता किल ।
भवत्या दारुणं कर्म कृतमेव सुनिर्घृणम् ३९।
गार्हस्थ्यं च परित्यज्य अत्रायाता किमर्थतः ।
वदस्येवं मुखेनापि अहं हि पतिदेवता ४०।
कर्मणा नास्ति तद्दृष्टं पतिदैवत्यमेव ते ।
भर्तारं तं परित्यज्य किमर्थं त्वमिहागता ४१।
शृंगारं भूषणं वेषं कृत्वा तिष्ठसि निर्घृणा ।
किमर्थं हि कृतं पापे कस्यहेतोर्वदस्व मे ४२।
निःशंका वर्त्तसे चापि प्रमत्ता गिरिकानने ।
मया त्वं साधिता पापा दंडेन महता शृणु ४३।
अधर्मचारिणी दुष्टा पतिं त्यक्त्वा समागता ।
क्वास्ते तत्पतिदेवत्वं दर्शय त्वं ममाग्रतः ४४।
भवती पुंश्चली नाम यया त्यक्तः स्वकः पतिः ।
पृथक्छय्या यदा नारी तदा सा पुंश्चली मता ४५।
योजनानां शतैकस्य सोन्तरेण प्रवर्त्तते ।
क्वास्ति ते पतिदैवत्यं पुंश्चल्याचारचारिणी ४६।
निर्लज्जे निर्घृणे दुष्टे किं मे वदसि संमुखी ।
तपसः क्वास्ति ते भावः क्व तेजोबलमेव च ४७।
दर्शयस्व ममाद्यैव बलवीर्यपराक्रमम् ।
पद्मावत्युवाच-
स्नेहेनापि समानीता श्रूयतामसुराधम ४८।
भर्तुर्गेहादहं पित्रा क्वास्ते तत्र च पातकम् ।
नैव कामान्न लोभाच्च न मोहान्न च मत्सरात् ४९।
आगताहं पतिं त्यक्त्वा पतिभावेन संस्थिता ।
भर्तृरूपच्छलेनापि त्वयैव परिवंचिता ५०।
भवंतं माथुरं ज्ञात्वा गताहं सम्मुखं तव ।
मायाविनं यदा जाने त्वामेवं दानवाधम ५१।
एकेन हुंकृतेनैव भस्मीभूतं करोम्यहम् ।
गोभिल उवाच-
चक्षुर्हीना न पश्यंति मानवाः शृणु सांप्रतम् ५२।
धर्मनेत्रविहीना त्वं कथं जानासि मामिह ।
यदा ते भाव उत्पन्नः पितुर्गेहं प्रति शृणु ५३।
पतिध्यानं परित्यज्य मुक्ता ध्यानेन त्वं तदा ।
ज्ञाननेत्रं तदा नष्टं स्फुटं च हृदये तव ५४।
कथं मां त्वं विजानासि ज्ञानचक्षुर्हता भुवि ।
कस्या माता पिता भ्राता कस्याः स्वजनबांधवाः ५५।
सर्वस्थाने पतिर्ह्येको भार्यायास्तु न संशयः ।
इत्युक्त्वा हि प्रहस्यैव गोभिलो दानवाधमः ५६।
न भयं विद्यते तेऽद्य ममापि शृणु पुंश्चलि ।
किं भवेत्तव शापेन वृथैव परिकंपसे ५७।
ममगेहं समाश्रित्य भुंक्ष्व भोगान्मनोऽनुगान् ।
पद्मावत्युवाच-
गच्छ पापसमाचार किं त्वं वदसि निर्घृणः ५८।
सतीभावेन संस्थास्मि पतिव्रतपरायणा ।
धक्ष्यामि त्वां महापाप यद्येवं तु वदिष्यसि ५९।
एवमुक्त्वा तथैकांते निषसाद महीतले ।
दुःखेन महताविष्टां तामुवाच स गोभिलः ६०।
तवोदरे मया न्यस्तं स्ववीर्यं सुकृतं शुभे ।
तस्मादुत्पत्स्यते पुत्रस्त्रैलोक्यक्षोभकारकः ६१।
एवमुक्त्वा जगामाथ गोभिलो दानवस्तदा ।
गते तस्मिन्दुराचारे दानवे पापचारिणी ६२।
दुःखेन महताविष्टा नृपकन्या रुरोद ह ६३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचाशत्तमोऽध्यायः ५०।
खण्डः २ (भूमिखण्डः) — Adhyāya 51
ब्राह्मण्युवाच-
गते तस्मिन्दुराचारे गोभिले पापचेतसि ।
पद्मावती रुरोदाथ दुःखेन महतान्विता १।
तस्यास्तु रुदितं श्रुत्वा सख्यः सर्वा द्विजोत्तम ।
पप्रच्छुस्तां राजकन्यां ताः सर्वाश्च वराननाः २।
कस्माद्रोदिषि भद्रं ते कथयस्व हि चेष्टितम् ।
क्व गतोऽसौ महाराजो माथुराधिपतिस्तव ३।
येन त्वं हि समाहूता प्रियेत्युक्त्वा वदस्व नः ।
ता उवाच सुदुःखेन रोदमाना पुनः पुनः ४।
तया आवेदितं सर्वं यज्जातं दोषसंभवम् ।
ताभिर्नीता पितुर्गेहं वेपमाना सुदुःखिता ५।
मातुः समक्षं तस्यास्तु आचचक्षुस्तदा स्त्रियः ।
समाकर्ण्य ततो देवी गता सा भर्तृमंदिरम् ६।
भर्तारं श्रावयामास सुतावृत्तांतमेव हि ।
समाकर्ण्य ततो राजा महादुःखी अजायत ७।
यानाच्छादनकं दत्वा परिवारसमन्विताम् ।
मथुरां प्रेषयामास गता सा प्रियमंदिरम् ८।
सुतादोषं समाच्छाद्य पितामाता द्विजोत्तम ।
उग्रसेनस्तु धर्मात्मा पद्मावतीं समागताम् ९।
स दृष्ट्वा मुमुदे चाशु उवाचेदं वचः पुनः ।
त्वया विना न शक्तोस्मि जीवितुं हि वरानने १०।
बहुप्रभासि मे प्रीता गुणशीलैस्तु सर्वदा ।
भक्त्या सत्येन ते कांते पतिदैवत्यकैर्गुणैः ११।
समाभाष्य प्रियां भार्यां पद्मावतीं नरेश्वरः ।
तया सार्धं स वै रेमे उग्रसेनो नृपोत्तमः १२।
ववृधे दारुणो गर्भः सर्वलोकभयप्रदः ।
पद्मावती विजानाति तस्य गर्भस्य कारणम् १३।
स्वोदरे वर्द्धमानस्य चिंतयंती दिवानिशम् ।
अनेन किमु जातेन लोकनाशकरेण वै १४।
अनेनापि न मे कार्यं दुष्टपुत्रेण सांप्रतम् ।
औषधीं पृच्छते सा तु गर्भपातस्य सर्वतः १५।
नारी महौषधीं सा हि विंदंती च दिने दिने ।
गर्भस्य पातनायैव उपाया बहुशः कृताः १६।
ववृधे दारुणो गर्भः सर्वलोकभयंकरः ।
तामुवाच ततो गर्भः पद्मावतीं च मातरम् १७।
कस्मात्त्वं व्यथसे मातरौषधीभिर्दिनेदिने ।
पुण्येन वर्द्धते चायुः पापेनाल्पं तु जीवितम् १८।
आत्मकर्मविपाकेन जीवंति च म्रियंति च ।
आमगर्भाः प्रयांत्यन्ये अपक्वास्तु महीतले १९।
जातमात्रा म्रियंतेऽन्ये कति ते यौवनान्विताः ।
बाला वृद्धाश्च तरुणा आयुषोवशतां गताः २०।
सर्वे कर्मविपाकेन जीवंति च म्रियंति च ।
ओषध्यो मंत्रदेवाश्च निमित्ताः स्युर्न संशयः २१।
मामेव हि न जानासि भवती यादृशो ह्यहम् ।
दृष्टः श्रुतस्त्वया पूर्वं कालनेमिर्महाबलः २२।
दानवानां महावीर्यस्त्रैलोक्यस्य भयप्रदः ।
देवासुरे महायुद्धे हतोहं विष्णुना पुरा २३।
साधयितुं च तद्वैरमागतोऽस्मि तवोदरम् ।
साहसं च श्रमं मातर्मा कुरुष्व दिन दिने २४।
एवमुक्त्वा द्विजश्रेष्ठ मातरं विरराम सः ।
मातोद्यमं परित्यज्य महादुःखादभूत्तदा २५।
दशाब्दाश्च गता यावत्तावद्वृद्धिमवाप्तवान् ।
पश्चाज्जज्ञे महातेजाः कंसोभूत्स महाबलः २६।
येन संत्रासिता लोकास्त्रैलोक्यस्य निवासिनः ।
यो हतो वासुदेवेन गतो मोक्षं न संशयः २७।
एवं श्रुतं मया कांत भविष्यं तु भविष्यति ।
पुराणेष्वेव सर्वेषु निश्चितं कथितं तव २८।
पितृगेहेस्थिता कन्या नाशमेवं प्रयाति सा ।
गृहावासाय मे कांत कन्या मोहं न कारयेत् २९।
इमां दुष्टां महापापां परित्यज्य स्थिरो भव ।
प्राप्तव्यं तु महापापं दुःखं दारुणमेव च ३०।
लोके श्रेयःकरं कांत तद्भुंक्ष्व त्वं मया सह ।
शूकर्युवाच-
एतद्वाक्यं सुमंत्रं तु श्रुत्वा स हि द्विजोत्तमः ३१।
त्यागे मतिं चकारासौ समाहूता ह्यहं तदा ।
सकलं वस्त्रशृंगारं मम दत्तं शुभे शृणु ३२।
तवैव दुर्नयैर्विप्रः शिवशर्मा द्विजोत्तमः ।
गतो वै मतिमान्दुष्टे कुलदुष्टप्रचारिणि ३३।
यत्र ते तिष्ठते भर्ता तत्र गच्छ न संशयः ।
तव यद्रोचते स्थानं यथादिष्टं तथा कुरु ३४।
एवमुक्त्वा महाभागे पितृमातृकुटुंबकैः ।
परित्यक्ता गता शीघ्रं निर्लज्जाहं वरानने ३५।
न लभाम्यहमेवापि वासस्थानं सुखं शुभे ।
भर्त्सयंति च मां लोकाः पुंश्चलीयं समागता ३६।
अटमाना गता देशात्कुलमानेन वर्जिता ।
देशे गुर्जरके पुण्ये सौराष्ट्रे शिवमंदिरे ३७।
वनस्थलेति विख्यातं नगरं वृद्धिसंकुलम् ।
अतीव पीडिता देवि क्षुधयाहं तदा शृणु ३८।
कर्परं हि करे गृह्य भिक्षार्थमुपचक्रमे ।
गृहिणां द्वारदेशेषु प्रविशामि सुदुःखिता ३९।
मम रूपं विपश्यंति लोकाः कुत्संति भामिनि ।
न ददंते च मे भिक्षां पापा चेयं समागता ४०।
एवं दुःखसमाहारा दारिद्र्यपरिपीडिता ।
अटंत्या च मया दृष्टं गृहमेकमनुत्तमम् ४१।
तुंगप्राकारसंवेष्टं वेदशालासमन्वितम् ।
वेदध्वनिसमाकीर्णं बहुविप्रसमाकुलम् ४२।
धनधान्यसमाकीर्णं दासीदासैरलंकृतम् ।
प्रविवेश गृहं रम्यं लक्ष्मीमुदितमेव तत् ४३।
तद्गृहं सर्वतोभद्रं तस्यैव शिवशर्मणः ।
भिक्षां देहीत्युवाचाथ सुदेवा दुःखपीडिता ४४।
शिवशर्माथ शुश्राव भिक्षाशब्दं द्विजोत्तमः ।
मंगलां नाम वै भार्यां लक्ष्मीरूपां वराननाम् ४५।
तां हसन्प्राह धर्मात्मा शिवशर्मा महामतिः ।
इयं हि दुर्बला प्राप्ता भिक्षार्थं द्वारमागता ४६।
समाहूय प्रिये चैनां देहि त्वं भोजनं शुभे ।
कृपया परयाविष्टा ज्ञात्वा मां तु समागताम् ४७।
प्रोवाच मंगला कांतं दास्यामि प्रिय भोजनम् ।
एवमुक्त्वा च भर्तारं मंगला मंगलान्विता ४८।
पुनर्मां भोजयामास मिष्टान्नेन सुदुर्बलाम् ।
मामुवाच स धर्मात्मा शिवशर्मा महामुनिः ४९।
का त्वमत्र समायाता कस्य वा भ्रमसे जगत् ।
केन कार्येण सर्वत्र कथयस्व ममाग्रतः ५०।
एवमाकर्ण्य तद्वाक्यं भर्तुश्चैव महात्मनः ।
स्वरेण लक्षितः कांतो मया वै पापया तदा ५१।
व्रीडयाधोमुखीजाता दृष्टो भर्ता यदा मया ।
मंगला चारुसर्वांगी भर्तारमिदमब्रवीत् ५२।
का चेयं हि समाचक्ष्व त्वां दृष्ट्वा हि विलज्जति ।
कथयस्व प्रसादेन का च एषा भविष्यति ५३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे
एकपंचाशत्तमोऽध्यायः ५१।
खण्डः २ (भूमिखण्डः) — Adhyāya 52
शिवशर्मोवाच-।
मंगले श्रूयतां वाक्यं यदि पृच्छसि सांप्रतम् ।
यदर्थं हि त्वया पृष्टं तन्निबोध वरानने १।
इयं हि सांप्रतं प्राप्ता वराकी भिक्षुरूपिणी ।
वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने २।
सुदेवा नाम भद्रेयं मम जाया प्रिया सदा ।
केनापि कारणेनैव देशं त्यक्त्वा समागता ३।
ममदुःखेन दग्धेयं वियोगेन वरानने ।
मां ज्ञात्वा तु समायाता भिक्षुरूपेण ते गृहम् ४।
एवं ज्ञात्वा त्वया भद्रे आतिथ्यं परिशोभितम् ।
कर्त्तव्यं न च संदेह इच्छंत्या मम सुप्रियम् ५।
भर्तुर्वाक्यं निशम्यैव मंगला पतिदेवता ।
हर्षेण महताविष्टा स्वयमेव सुमंगला ६।
स्नानाच्छादन भोज्यं च मम चक्रे वरानने ।
रत्नकांचनयुक्तैश्चाभरणैश्च पतिव्रता ७।
अहं हि भूषिता भद्रे तयैव पतिकाम्यया ।
तयाहं भूषिता देवि मानस्नानैश्च भोजनैः ८।
भर्त्राहं मानिता देवि जातं दुःखमनंतकम् ।
ममोरसि महातीव्रं सर्वप्राणविनाशनम् ९।
तस्या मानो मया दृष्टो दुःखमात्मगतं तथा ।
चिंता मे दारुणा जाता यया प्राणा व्रजंति मे १०।
कदापि वचनं दत्तं न मया पापया शुभम् ।
अस्यैव विप्रवर्यस्य आचरंत्या च दुष्कृतम् ११।
पादप्रक्षालनं नैव अंगसंवाहनं नहि ।
एकांतं न मया दत्तं तस्यैव हि महात्मनः १२।
संभाषां कथमस्यैव करिष्ये पापनिश्चया ।
रात्रौ चैव तदा तत्र पतिता दुःखसागरे १३।
एवं हि चिंतमानायाः स्फुटितं हृदयं मम ।
गताः प्राणास्तदा कायं परित्यज्य वरानने १४।
तत्र दूताः समायाता धर्मराजस्य वै तदा ।
वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः १५।
तैस्तु बद्धा महाभागे शृंखलैर्दृढबंधनैः ।
नीता यमपुरं तैस्तु रुदमाना सुदुःखिता १६।
मुद्गरैस्ताड्यमानाहं दुर्गमार्गेण पीडिता ।
भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता १७।
दृष्टाहं यमराजेन सक्रोधेन महात्मना ।
अंगारसंचये क्षिप्ता क्षिप्ता नरकसंचये १८।
लोहस्य पुरुषं कृत्वा अग्निना परितापितः ।
ममोरसि समुत्क्षिप्तो निजभर्तुश्च वंचनात् १९।
नानापीडातिसंतप्ता नरकाग्निप्रतापिता ।
तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि २०।
असिपत्रैश्च संच्छिन्ना जलमंत्रेण वाहिता ।
कूटशाल्मलिवृक्षेषु क्षिप्ता तेन महात्मना २१।
पूयशोणितविष्ठायां पतिता कृमिसंकुले ।
सर्वेषु नरकेष्वेवं क्षिप्ताहं नृपनंदिनि २२।
पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना ।
करपत्रैः पाटिताहं शक्तिभिस्ताडिता भृशम् २३।
अन्येष्वेव नरकेषु पातिता नृपनंदिनि ।
योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसंकटे २४।
धर्मराजेन तेनाहं नरकेषु निपातिता ।
वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणम् २५।
गताहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गता ।
सकुक्कुटीं च मार्जारीमाखुयोनिं गता ह्यहम् २६।
एवं योनिविशेषेषु पापयोनिषु तेन च ।
क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु २७।
तेनैवाहं कृता भूमौ शूकरी नृपनंदिनि ।
तवहस्ते महाभागे संति तीर्थान्यनेकशः २८।
तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि ।
मम पापं गतं देवि प्रसादात्तव सुंदरि २९।
तवैव तेजःपुण्येन जातं ज्ञानं वरानने ।
इदानीं मामुद्धरस्व पतितां नरकसंकटे ३०।
यदा नोद्धरसे देवि पुनर्यास्यामि दारुणम् ।
नरकं च महाभागे त्राहि मां दुःखभागिनीम् ३१।
गताहं पापभावेन दीनाहं च निराश्रया ।
सुदेवोवाच-
किं कृतं हि मया भद्रे सुकृतं पुण्यसंभवम् ३२।
येनाहमुद्धरे त्वां वै तन्मे त्वं वद सांप्रतम् ।
शूकर्युवाच-
अयं राजा महाभाग इक्ष्वाकुर्मनुनंदनः ३३।
विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा ।
पतिव्रता महाभागा पतिव्रतपरायणा ३४।
त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया ।
देवि सर्वमयी नित्यं सर्वदेवमयी सदा ३५।
महापतिव्रता लोक एका त्वं नृपतेः प्रिया ।
यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम् ३६।
एकस्य दिवसस्यापि पुण्यं देहि वरानने ।
पति शुश्रूषितस्यापि यदि मे कुरुषे प्रियम् ३७।
मम माता पिता त्वं वै त्वं मे गुरुः सनातनः ।
अहं पापा दुराचारा असत्या ज्ञानवर्जिता ३८।
मामुद्धर महाभागे भीताहं यमताडनैः ।
सुकलोवाच-
एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा ३९।
किं करोमि महाराज एषा किं वदते पशुः ।
इक्ष्वाकुरुवाच-
एनां दुःखां वराकीं वै पापयोनिं गतां शुभे ४० ।
समुद्धरस्व पुण्यैस्त्वं महच्छ्रेयो भविष्यति ।
एवमुक्ता वरा नारी सुदेवा चारुमंगला ४१।
उवाचैकाब्दपुण्यं ते मया दत्तं वरानने ।
एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात् ४२।
रूपयौवनसंपन्ना दिव्यमालाविभूषिता ।
दिव्यदेहा च संभूता तेजोज्वालासमावृता ४३।
सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता ।
संजाता दिव्यरूपा सा दिव्यगंधानुलेपना ४४।
दिव्यं विमानमारूढा अंतरिक्षं गता सती ।
तामुवाच ततो राज्ञीं प्रणतानतकंधरा ४५।
स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुंदरि ।
व्रजामि पातकान्मुक्ता स्वर्गं पुण्यतमं शुभम् ४६।
प्रणम्यैवं गता स्वर्गं सुदेवा शृणु सत्तम ।
एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् ४७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सुदेवास्वर्गारोहणंनाम द्विपंचाशत्तमोऽध्यायः ५२।
खण्डः २ (भूमिखण्डः) — Adhyāya 53
सुकलोवाच-
एवं धर्मं श्रुतं पूर्वं पुराणेषु तदा मया ।
पतिहीना कथं भोगं करिष्ये पापनिश्चया १।
कांतेन तु विना तेन जीवं काये न धारये ।
विष्णुरुवाच-
एवमुक्त्वा परं धर्मं पतिव्रतमनुत्तमम् २।
तास्तु सख्यो वरा नार्यो हर्षेण महतान्विताः ।
श्रुत्वा धर्मं परं पुण्यं नारीणां गतिदायकम् ३।
स्तुवंति तां महाभागां सुकलां धर्मवत्सलाम् ।
ब्राह्मणाश्च सुराः सर्वे पुण्यस्त्रियो नरोत्तम ४।
तस्या ध्यानं प्रकुर्वंति पतिकामप्रभावतः ।
अत्यर्थं दृढतामिंद्र सुःविचिंत्य सुरेश्वरः ५।
सुकलायाः परं भावं सुविचार्यामरेश्वरः ।
चालये धैर्यमस्याश्च पतिस्नेहं न संशयः ६।
सस्मार मन्मथं देवं त्वरमाणः सुराधिपः ।
पुष्पचापं स संगृह्य मीनकेतुः समागतः ७।
प्रियया च तया युक्तो रत्या दृष्टमहाबलः ।
बद्धांजलिपुटो भूत्वा सहस्राक्षमुवाच सः ८।
कस्मादहं त्वया नाथ अधुना संस्मृतो विभो ।
आदेशो दीयतां मेद्य सर्वभावेन मानद ९।
इंद्र उवाच-
सुकलेयं महाभागा पतिव्रतपरायणा ।
शृणुष्व कामदेव त्वं कुरु साहाय्यमुत्तमम् १०।
निष्कर्षय महाभागां सुकलां पुण्यमंगलाम् ।
तच्छ्रुत्वा वचनं तस्य शक्रस्य तमथाब्रवीत् ११।
एवमस्तु सहस्राक्ष करिष्यामि न संशयः ।
साहाय्यं देवदेवेश तव कौतुककारणात् १२।
एवमुक्त्वा महातेजाः कंदर्पो मुनिदुर्जयः ।
देवाञ्जेतुं समर्थोऽहं समुनीनृषिसत्तमान् १३।
किं पुनः कामिनीं देव यस्या अंगे न वै बलम् ।
कामिनीनामहं देव अंगेषु निवसाम्यहम् १४।
भाले कुचेषु नेत्रेषु कचाग्रेषु च सर्वदा ।
नाभौ कट्यां पृष्ठदेशे जघने योनिमंडले १५।
अधरे दंतभागेषु कक्षायां हि न संशयः ।
अंगेष्वेवं प्रत्यंगेषु सर्वत्र निवसाम्यहम् १६।
नारी मम गृहं देव सदा तत्र वसाम्यहम् ।
तत्रस्थः पुरुषान्सर्वान्मारयामि न संशयः १७।
स्वभावेनाबलादेव संतप्ता मम मार्गणैः ।
पितरं मातरं दृष्ट्वा अन्यं स्वजनबांधवम् १८।
सुरूपं सगुणं देव मम बाणा हता सती ।
चलते नात्र संदेहो विपाकं नैव चिंतयेत् १९।
योनिः स्पंदेत नारीणां स्तनाग्रौ च सुरेश्वर ।
नास्ति धैर्यं सुरेशान सुकलां नाशयाम्यहम् २०।
इंद्र उवाच-
पुरुषोहं भविष्यामि रूपवान्गुणवान्धनी ।
कौतुकार्थमिमां नारीं चालयामि मनोभव २१।
नैव कामान्न संत्रासान्न वा लोभान्न कारणात् ।
न वै मोहान्न वै क्रोधात्सत्यं सत्यं रतिप्रिय २२।
कथं मे दृश्यते तस्या महत्सत्यं पतिव्रतम् ।
निष्कर्षिष्य इतो गत्वा भवन्मोहोत्र कारणम् २३।
एवं कामं च संदिश्य जगाम सुरराट्स्वयम् ।
आत्मविकृतिसंभूतो रूपवान्गुणवान्स्वयम् २४।
सर्वाभरणशोभांगः सर्वभोगसमन्वितः ।
भोगलीलासमाकीर्णः सर्वदौदार्यसंयुतः २५।
यत्र सा तिष्ठते देवी कृकलस्य प्रिया नृप ।
आत्मलीलां स्वरूपं च गुणं भावं प्रदर्शयेत् २६।
नैव पश्यति सा तं तु पुरुषं रूपसंपदम् ।
यत्रयत्र व्रजेत्सा हि तत्र तां पश्यते नृप २७।
साभिलाषेण मनसा तामेवं परिपश्यति ।
कामचेष्टां सहस्राक्षोऽदर्शयत्सर्वभावकैः २८।
चतुष्पथे पथे तीर्थे यत्र देवी प्रयाति सा ।
तत्रतत्र सहस्राक्षस्तामेव परिपश्यति २९।
इंद्रेण प्रेषिता दूती सुकलां प्रति सा गता ।
सुकलां सुमहाभागां प्रत्युवाच प्रहस्य वै ३०।
अहो सत्यमहोधैर्यमहो कांतिरहो क्षमा ।
अस्या रूपेण संसारे नास्ति नारी वरानना ३१।
का त्वं भवसि कल्याणि कस्य भार्या भविष्यसि ।
यस्य त्वं सगुणा भार्या स धन्यः पुण्यभाग्भुवि ३२।
तस्यास्तु वचनं श्रुत्वा तामुवाच मनस्विनी ।
वैश्यजात्यां समुत्पन्नो धर्मात्मा सत्यवत्सलः ३३।
तस्याहं हि प्रिया भार्या सत्यसंधस्य धीमतः ।
कृकलस्यापि वैश्यस्य सत्यमेव वदामि ते ३४।
मम भर्ता स धर्मात्मा तीर्थयात्रां गतः सुधीः ।
तस्मिन्गते महाभागे मम भर्तरि संप्रति ३५।
अतिक्रांताः शृणुष्व त्वं त्रयश्चैवापि वत्सराः ।
ततोहं दुःखिता जाता विना तेन महात्मना ३६।
एतत्ते सर्वमाख्यातमात्मवृत्तांतमेव ते ।
भवती पृच्छते मां का भविष्यति वदस्व मे ३७।
सुकलाया वचः श्रुत्वा दूत्या आभाषितं पुनः ।
मामेवं पृच्छसे भद्रे तत्ते सर्वं वदाम्यहम् ३८।
अहं तवांतिकं प्राप्ता कार्यार्थं वरवर्णिनि ।
श्रूयतामभिधास्यामि श्रुत्वा चैवाव धार्यताम् ३९।
गतस्ते निर्घृणो भर्ता त्वां त्यक्त्वा तु वरानने ।
किं करिष्यसि तेनापि प्रियाघातकरेण च ४०।
यस्त्वां त्यक्त्वा गतः पापी साध्व्याचारसमन्विताम् ।
किं वा स ते गतो बाले तत्र जीवति वै मृतः ४१।
किं करिष्यति तेनैवं भवती खिद्यते वृथा ।
कस्मान्नाशयते चांगं दिव्यं हेमसमप्रभम् ४२।
बाल्ये वयसि संप्राप्ते मानवो न च विंदति ।
एकं सुखं महाभागे बालक्रीडां विना शुभे ४३।
वार्द्धके दुःखसंप्राप्तिर्जरा कायं प्रहिंसयेत् ।
तारुण्ये भुज्यते भोगः सुखात्सर्वो वरानने ४४।
यावत्तिष्ठति तारुण्यं तावद्भुंजंति मानवाः ।
सुखभोगादिकं सर्वं स्वेच्छया रमते नरः ४५।
यावत्तिष्ठति तारुण्यं तावद्भोगान्प्रभुंजते ।
वयस्यपि गते भद्रे तारुण्ये किं करिष्यति ४६।
संप्राप्ते वार्द्धके देवि किंचित्कार्यं न सिध्यति ।
स्थविरश्चिंतयेन्नित्यं सुखकार्यं न गच्छति ४७।
वयस्यपि गते बाले क्रियते सेतुबंधनम् ।
तादृशोयं भवेत्कायस्तारुण्ये तु गते शुभे ४८।
तस्माद्भुंक्ष्व सुखेनापि पिबस्व मधुमाधवीम् ।
कामाबाणा दहंत्यंगं तवेमे चारुलोचने ४९।
अयमेकः समायातः पुरुषो रूपवान्गुणी ।
अयं हि पुरुषव्याघ्रः सर्वज्ञो गुणवान्धनी ५०।
तवार्थे नित्यसंयुक्तः स्नेहेन वरवर्णिनि ।
सुकलोवाच-
बाल्यं नास्त्यपि जीवस्य तारुण्यं नास्ति जीविते ५१।
वृद्धत्वं नास्ति चैवास्य स्वयंसिद्धः सुसिद्धिदः ।
अमरो निर्जरो व्यापी सुसिद्धः सर्ववित्तमः ५२।
अकामः कामदो लोके आत्मरूपेण वर्तते ।
यथा गेहस्य संस्थानं तथा कायस्य दृश्यते ५३।
यथा वार्द्धकिना कायस्तथा सूत्रेण मंदिरम् ।
अनेककाष्ठसंघातैर्नाना दारुसमुच्चयैः ५४।
मृत्तिकयोदकेनापि समंतात्परिणामयेत् ।
लिपितं लेपकैः काष्ठं चित्रं भवति चित्रकैः ५५।
प्रथमं रूपमायाति गृहं सूत्रेण सूत्रितम् ।
पुष्णंति च स्वयं तत्तु लेपनाद्वै दिने दिने ५६।
वायुनांदोलितं नित्यं गृहं च मलिनायते ।
मध्यमो वर्तुतः कालो गृहस्य परिकथ्यते ५७।
रूपहानिर्भवेत्तस्य गृहस्वामी विलेपयेत् ।
स्वेच्छया च गृहस्वामी रूपवत्त्वं नयेद्गृहम् ५८।
तारुण्यं तस्य गेहस्य दूतिके परिकथ्यते ।
काष्ठसंघैश्च जीर्णत्वं बहुकालैः प्रयाति सः ५९।
स्थानभ्रष्टाः प्रजायंते मूलाग्रे प्रचलंति ते ।
न सहेल्लेपनाभारमाधारेण प्रतिष्ठति ६०।
एतद्गृहस्य वार्द्धक्यं कथितं शृणु दूतिके ।
पतमानं गृहं दृष्ट्वा गृहस्वामी परित्यजेत् ६१।
गृहमन्यं प्रवेशाय प्रयात्येव हि सत्वरम् ।
तथा बाल्यं च तारुण्यं नृणां वृद्धत्वमेव च ६२।
स बाल्ये बालरूपश्च ज्ञानहीनं प्रकारयेत् ।
चित्रयेत्कायमेवापि वस्त्रालंकारभूषणैः ६३।
लेपनैश्चंदनैश्चान्यैस्तांबूलप्रभवादिभिः ।
कायस्तरुणतां याति अतिरूपो विजायते ६४।
बाह्याभ्यंतरमेवापि रसैः सर्वैः प्रपोषयेत् ।
तेन पोषणभावेन परिपुष्टः प्रजायते ६५।
जायते मांसवृद्धिस्तु रसैश्चापि नवोत्तमा ।
यांति विस्तरतां राजन्नंगान्याप्यायितान्यपि ६६।
प्रत्यंगानि रसैश्चैव स्वंस्वं रूपं प्रयांति वै ।
दंताधरौ स्तनौ बाहू कटिपृष्ठमुरू उभे ६७।
हस्तपादतलौ तद्वद्वृद्धित्वं प्रतिपेदिरे ।
उभाभ्यामपि तान्येव वृद्धिमायांति तानि वै ६८।
अंगानि रसमांसाभ्यां सुरूपाणि भवंति ते ।
तैः स्वरूपैर्भवेन्मर्त्यो रसबद्धश्च दूतिके ६९।
सुरूपः कथ्यते मर्त्यो लोके केन प्रियो भवेत् ।
विष्ठामूत्रस्य वै कोशः काय एष च दूतिके ७०।
अपवित्रशरीरोयं सदा स्रवति निर्घृणः ।
तस्य किं वर्ण्यते रूपं जलबुद्बुदवच्छुभे ७१।
यावत्पंचाशद्वर्षाणि तावत्तिष्ठति वै दृढः ।
पश्चाच्च जायते हानिस्तस्यैवापि दिनेदिने ७२।
दंताः शिथिलतां यांति तथा लालायते मुखम् ।
चक्षुर्भ्यामपि पश्येन्न कर्णाभ्यां न शृणोति च ७३।
गतिं कर्तुं न शक्नोति हस्तपादैश्च दूतिके ।
अक्षमो जायते कायो जराकालेन पीडितः ७४।
तद्रसः शोषमायाति जराग्नितापशोषितः ।
अक्षमो जायते दूति केन रूपत्वमिष्यते ७५।
यथा जीर्णं गृहं याति क्षयमेवं न संशयः ।
तथा संक्षयमायाति वार्द्धके तु कलेवरम् ७६।
ममरूपं समायातं वर्णस्येवं दिने दिने ।
केनाहं रूपसंयुक्ता केन रूपत्वमिष्यते ७७।
यथा जीर्णं गृहं याति केनासौ पुरुषो बली ।
यस्यार्थमागता दूति भवती केन शंसति ७८।
किमु चैव त्वया दृष्टं ममांगे वद सांप्रतम् ।
तस्यांगादिह हीनं च दूति नास्त्यधिकं तथा ७९।
यथा त्वं च तथासौवै तथाहं नात्र संशयः ।
कस्य रूपं न विद्येत रूपवान्नास्ति भूतले ८०।
उच्छ्रायाः पतनांताश्च नगास्तु गिरयः शुभे ।
कालेन पीडिता यांति तद्वद्भूताश्च नान्यथा ८१।
अरूपो रूपवान्दिव्य आत्मा सर्वगतः शुचिः ।
स्थावरेष्वेव सर्वेषु जंगमेषु च दूतिके ८२।
एको निवसते शुद्धो घटेष्वेकं यथोदकम् ।
घटनाशात्प्रयात्येकमेकत्वं त्वं न बुध्यसे ८३।
पिंडनाशादयं चात्मा एकरूपो विजायते ।
एकं रूपं मया दृष्टं संसारे वसता सदा ८४।
एवं वद स्वतं ज्ञात्वा यस्यार्थमिह चागता ।
दर्शयस्व अपूर्वं मे यदि भोक्तुमिहेच्छसि ८५।
व्याधिना पीड्यमानस्य कफेनापि वृतस्य च ।
अंगाद्विचलते शोणः स्थानभ्रष्टोभिजायते ८६।
अंगसंधिषु सर्वासु पलत्वं चांतरं गतः ।
एकतो नाशमायाति स्वं हि रूपं परित्यजेत् ८७।
विष्ठात्वं जायते शीघ्रं कृमिभिश्च भवेत्किल ।
तद्वद्दुःखकरं वापि निजरूपं परित्यजेत् ८८।
श्रूयतां जायते पश्चात्कृमिदुर्गंधसंकुलम् ।
जायंते तत्र वै यूकाः कृमयो वा न संशयः ८९।
सकृमिः कुरुते स्फोटं कंडूं च परिदारुणाम् ।
व्यथामुत्पादयेद्यूका सर्वांगं परिचालयेत् ९०।
नखाग्रैर्घृष्यमाणा सा कंडूः शांता प्रजायते ।
तद्वत्तैश्च शृणुष्वैव सुरतस्य न संशयः ९१।
भुंजत्येव रसान्मर्त्यः सुभिक्षान्पिबते पुनः ।
वायुना तेन प्राणेन पाकस्थानं प्रणीयते ९२।
यद्भक्तं प्राणिभिर्दूति पाकस्थानं गतं पुनः ।
सर्वं तत्पिहितं तत्र वायुर्वै पातयेन्मलम् ९३।
सारभूतो रसस्तत्र तद्रक्तश्च प्रजायते ।
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च ९४।
आकृष्टः स समानेन नीतस्तेनापि वायुना ।
स्थानं न लभते वीर्यं चंचलत्वेन वर्तते ९५।
प्राणिनां हि कपालेषु कृमयः संति पंच वै ।
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः ९६।
कनिष्ठांगुलिमानेन रक्तपुच्छाश्च दूतिके ।
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः ९७।
तेषां नामापि भद्रे त्वं मत्तो निगदितं शृणु ।
पिंगली शृंखली नाम द्वौ कृमी कर्णमूलयोः ९८।
चपलः पिप्पलश्चैव द्वावेतौ नासिकाग्रयोः ।
शृंगली जंगली चान्यौ नेत्रयोरंतरस्थितौ ९९।
कृमीणां शतपंचाशत्तादृग्भूता न संशयः ।
भालांतेवस्थिताः सर्वे राजिकायाः प्रमाणतः १००।
कपालरोगिणः सर्वे विकुर्वंति न संशयः ।
केशद्वयं मुखे तस्य विद्यते शृणु दूतिके १०१।
प्राणिनां संक्षयं विद्धि तत्क्षणे हि न संशयः ।
स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे १०२।
तद्वीर्यं रसरूपेण पतते नात्र संशयः ।
मुखेन पिबते वीर्यं तेन मत्तः प्रजायते १०३।
तालुमध्यप्रदेशे च चंचलत्वेन वर्तते ।
इडा च पिंगला नाडी सुषुम्णाख्या च संस्थिता १०४।
सुबलेनापि तस्यैव नाडिका जालपंजरे ।
कामकंडूर्भवेद्दूति सर्वेषां प्राणिनां किल १०५।
पुंसश्च स्फुरते लिंगं नार्या योनिश्च दूतिके ।
स्त्रीपुंसौ संप्रमत्तौ तु व्रजतः संगमं ततः १०६।
कायेन कायसंघृष्टिर्मैथुनेन हि जायते ।
क्षणमात्रं सुखं काये पुनः कंडूश्च तादृशी १०७।
सर्वत्र दृश्यते दूति भाव एवंविधः किल ।
व्रज त्वमात्मनः स्थानं नैवास्त्यत्र अपूर्वता १०८।
अपूर्वं नास्ति मे किंचित्करोम्येव न संशयः १०९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे
त्रिपंचाशत्तमोऽध्यायः ५३।
खण्डः २ (भूमिखण्डः) — Adhyāya 54
विष्णुरुवाच-
एवमुक्ता गता दूती तया सुकलया तदा ।
समासेन सुसंप्रोक्तमवधार्य पुरंदरः १।
तदर्थं भाषितं तस्याः सत्यधर्मसमन्वितम् ।
आलोच्य साहसं धैर्यं ज्ञानमेव पुरंदरः २।
ईदृशं हि वदेत्का हि नारी भूत्वा महीतले ।
योगरूपं सुसंशिष्टं न्यायोदैः क्षालितं वचः ३।
पवित्रेयं महाभागा सत्यरूपा न संशयः ।
त्रैलोक्यस्य समस्तस्य धुरं धर्तुं भवेत्क्षमा ४।
एतदर्थं विचार्यैव जिष्णुः कंदर्पमब्रवीत् ।
त्वया सह गमिष्यामि द्रष्टुं तां कृकलप्रियाम् ५।
प्रत्युवाच सहस्राक्षं मन्मथो बलदर्पितः ।
गम्यतां तत्र देवेश यत्रास्ते सा पतिव्रता ६।
मानं वीर्यं बलं धैर्यं तस्याः सत्यं पतिव्रतम् ।
गत्वाहं नाशयिष्यामि कियन्मात्रा सुरेश्वर ७।
समाकर्ण्य सहस्राक्षो वचनं मन्मथस्य च ।
भो भोनंग शृणुष्व त्वमधिकं भाषितं मुधा ८।
सुदृढा सत्यवीर्येण सुस्थिरा धर्मकर्मभिः ।
सुकलेयमजेया वै तत्र ते पौरुषं नहि ९।
इत्याकर्ण्य ततः क्रुद्धो मन्मथस्त्विन्द्रमब्रवीत् ।
ऋषीणां देवतानां च बलं मया प्रणाशितम् १०।
अस्या बलं कियन्मात्रं भवता मम कथ्यते ।
पश्यतस्तव देवेश नाशयिष्यामि तां स्त्रियम् ११।
नवनीतं यथा चाग्नेस्तेजो दृष्ट्वा द्रवं व्रजेत् ।
तथेमां द्रावयिष्यामि स्वेन रूपेण तेजसा १२।
गच्छ तत्र महत्कार्यमुपस्थं सांप्रतं ध्रुवम् ।
कस्मात्कुत्ससि मे तेजस्त्रैलोक्यस्य विनाशनम् १३।
विष्णुरुवाच-
आकर्ण्य वाक्यं तु मनोभवस्य एतामसाध्यां तव कामजाने ।
धैर्यं समुद्यम्य च पुण्यदेहां पुण्येन पुण्यां बहुपुण्यचाराम् १४।
पश्यामि ते पौरुषमुग्रवीर्यमितो हि गत्वा तु धनुष्मता वै ।
तेनापि सार्धं प्रजगाम भूयो रत्या च दूत्या च पतिव्रतां ताम् १५।
एकां सुपुण्यां स्वगृहस्थितां तां ध्यानेन पत्युश्चरणे नियुक्ताम् ।
यथा सुयोगी प्रविधाय चित्तं विकल्पहीनं न च कल्पयेत १६।
अत्यद्भुतं रूपमनंततेजोयुतं चकाराथ सतीप्रमोहम् ।
नीलांचितं भोगयुतं महात्मा झषध्वजश्चैव पुरंदरश्च १७।
दृष्ट्वा सुलीलं पुरुषं महांतं चरंतमेवं परिकामभावम् ।
जाया हि वैश्यस्य महात्मनस्तु मेने न सा रूपयुतं गुणज्ञम् १८।
अंभो यथा पद्मदले गतं वै प्रयाति मुक्ताफलकस्य कीर्तिम् ।
तद्वत्स्वभावः परिसत्ययुक्तो जज्ञे च तस्यास्तु पतिव्रतायाः १९।
अनेन दूती परिप्रेषिता पुरा यामां युवत्या ह गुणज्ञमेनम् ।
लीलास्वरूपं बहुधात्मभावं ममैष सर्वं परिदर्शयेच्च २०।
ममैव कालं प्रबलं विचिंत्यागतो हि मे कांतगुणैश्च सत्खलः ।
रत्यासमेतस्तु कथं च जीवेत्सत्याश्मभारेण प्रमर्दितश्च २१।
ममापि भावं परिगृह्य कांतो जीवेत्कियान्वापि सुबुद्धियुक्तः ।
शून्यो हि कायो मम चास्ति सद्यश्चेष्टाविहीनो मृतकल्प एव २२।
कायस्य ग्रामस्य प्रजाः प्रनष्टाः सुविक्रियाख्यं परिगृह्य कर्म ।
ममाधिकेनापि समं सुकांतं स ऊर्द्ध्वशोभामनयच्च कामः २३।
यदामृतो बलवान्हर्षयुक्तः स्वयंदृशा वै परिनृत्यमानः ।
तथा अनेनापि प्रभाषयेद्भुतं यो मां हि वाञ्छत्यपि भोक्तुकामः २४।
एवं विचार्यैव तदा महासती सत्याख्यरज्ज्वा दृढबद्धचेतना ।
गृहं स्वकीयं प्रविवेश सा तदा तत्तस्यभावं नियमेन वेत्तुम् २५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे- चतुःपंचाशत्तमोऽध्यायः ५४।